Books / Padma Purāṇa — Sanskrit Text

2. Padma Purāṇa (part 2 of 5)

खण्डः २ (भूमिखण्डः) — Adhyāya 55

विष्णुरुवाच-

भावं विदित्वा सुरराट्च तस्याः प्रोवाच कामं पुरतः स्थितं सः ।

न चास्ति शक्या स्मर ते जयाय सत्यात्मकध्यान सुदंशिता सती १।

धर्माख्य चापं स्वकरे गृहीत्वा ज्ञानाभिधानं वरमेव बाणम् ।

योद्धुं रणे संप्रति संस्थिता सती वीरो यथा दर्पितवीर्यभावः २।

जिगीषयेयं पुरुषार्थमेव त्वमात्मनः कुरुषे पौरुषं तु ।

त्वामद्य जेतुं समरे समर्था यद्भाव्यमेवं तदिहैव चिंत्यम् ३।

दग्धोसि पूर्वं त्वमिहैव शंभुना महात्मना तेन समं विरोधम् ।

कृत्वा फलं तस्य विकर्मणश्च जातोस्यनंगः स्मर सत्यमेव ४।

यथा त्वया कर्म कृतं पुरा स्मर फलं तु प्राप्तं तु तथैव तीव्रम् ।

सुकुत्सितां योनिमवाप्स्यसि ध्रुवं साध्व्यानया सार्धमिहैव कथ्यसे ५।

ये ज्ञानवंतः पुरुषा जगत्त्रये वैरं प्रकुर्वन्ति महात्मभिः समम् ।

भुंजन्ति ते दुष्कृतमेवतत्फलं दुःखान्वितं रूपविनाशनं च ६।

व्याघुष्य आवां तु व्रजाव काम एनां परित्यज्य सतीं प्रयुज्य ।

सत्याः प्रसंगेन पुरा मया तु लब्धं फलं पापमयं त्वसह्यम् ७।

त्वमेव जानासि चरित्रमेतच्छप्तोस्मि तेनापि च गौतमेन ।

जातश्च मेषवृषणः सदा ह्यहं भवान्गतो मां तु विहाय तत्र ८।

तेजः प्रभावो ह्यतुलः सतीनां धाता समर्थः सहितुं न सूर्यः ।

सुकुत्सितं रूपमिदं तु रक्षेत्पुरानुसूया मुनिना हि शप्तम् ९।

निरुध्य सूर्यं परिवेगवंतमुद्यंतमेवं प्रभया सुदीप्तम् ।

भर्तुश्च मृत्युं परिबाधमानं मांडव्यशापस्य च कौंडिनस्य १०।

अत्रेः प्रिया सत्यपतिव्रता तया स्वपुत्रतां देवत्रयं हि नीतम् ।

न किं पुरा मन्मथ ते श्रुतं सदा संस्कारयुक्ताः प्रभवंति सत्यः ११।

सावित्रीनाम्नी द्युमत्सेनपुत्री नीतं प्रियं सा पुनरानिनाय ।

यमादिहैवाश्वपतेः सुपुत्रं सती त्वमेवं परिसंश्रुतं च १२।

अग्नेः शिखां कः परिसंस्पृशेद्वै तरेद्धिकः सागरमेव मूढः ।

गले तु बद्धासु शिलां भुजाभ्यां को वा सतीं वश्यति वीतरागाम् १३।

उक्ते तु वाक्ये बहुनीतियुक्ते इंद्रेण कामस्य सुशिक्षणार्थम् ।

आकर्ण्य वाक्यं मकरध्वजस्तु उवाच देवेंद्रमथैनमेव १४।

काम उवाच-

तवातिदेशादहमागतो वै धैर्यं सुहृत्त्वं पुरुषार्थमेव ।

त्यक्त्वा तदर्थं परिभाषसे मां निःसत्वरूपं बहुभीतियुक्तम् १५।

व्याबुद्धि यास्यामि यदा सुरेशस्याल्लोकमध्ये मम कीर्तिनाशः ।

ऊढिंकरोमानविहीन एव सर्वे वदिष्यंत्यनया जितं माम् १६।

ये वै जिता देवगणाश्च दानवाः पूर्वं मुनींद्रास्तपसः प्रयुक्ताः ।

हास्यं करिष्यंति ममापि सद्यो नार्या जितो मन्मथ एष भीमः १७।

तस्मात्प्रयास्यामि त्वयैव सार्धमस्या बलं मानमतः सुरेश ।

तेजश्च धैर्यं परिणाशयिष्ये कस्माद्भवानत्र बिभेति शक्र १८।

संबोध्य चैवं स सुराधिनाथं चापं गृहीतं सशरं सुपुष्पम् ।

उवाच क्रीडां पुरतः स्थितां तां विधाय मायां भवती प्रयातु १९।

वैश्यस्य भार्यां सुकलां सुपुण्यां सत्येस्थितां धर्मविदां गुणज्ञाम् ।

इतो हि गत्वा कुरु कार्यमुक्तं साहाय्यरूपं च प्रिये सखे शृणु २०।

क्रीडां समाभाष्य ततो मनोभवस्त्वंते स्थितां प्रीतिमथाह्वयत्पुनः ।

कार्यं भवत्या ममकार्यमुत्तममे तां सुस्नेहैः परिभावयत्वम् २१।

इंद्रं हि दृष्ट्वा सुकला यथा भवेत्स्नेहानुगा चारुविलोचनेयम् ।

तैस्तैः प्रभावैर्गुणवाक्ययुक्तैर्नयस्व वश्यं च प्रिये सखे शृणु २२।

भो भोः सखे साधय गच्छ शीघ्रं मायामयं नंदनरूपयुक्तम् ।

पुष्पोपयुक्तं च फलप्रधानं घुष्टं रुतैः कोकिलषट्पदानाम् २३।

आहूय वीरं मकरंदमेव रसायनं स्वादुगुणैरुपेतम् ।

सहानिलाद्यैर्निजकर्मयुक्तैः संप्रेषयित्वा पुनरेव कामम् २४।

एवं समादिश्य महत्ससैन्यं त्रैलोक्यसंमोहकरं तु कामः ।

चक्रे प्रयाणं सुरराजसार्धं संमोहनायैव महासतीं ताम् २५।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे

पंचपंचाशत्तमोऽध्यायः ५५।

खण्डः २ (भूमिखण्डः) — Adhyāya 56

विष्णुरुवाच-

तस्याः सत्यविनाशाय मन्मथः ससुराधिपः ।

प्रस्थितः सुकलां तर्हि सत्यो धर्ममथाब्रवीत् १।

पश्य धर्म महाप्राज्ञ मन्मथस्य विचेष्टितम् ।

तवार्थमात्मनश्चैव पुण्यस्यापि महात्मनः २।

विसृजामि महास्थानं वास्तुरूपं सुखोदयम् ।

सत्याख्यं च सुप्रियाख्यं सुदेवाख्यं गृहोत्तमम् ३।

तमेव नाशयेद्गत्वा काम एष प्रमत्तधीः ।

रिपुरूपः सुदुष्टात्मा अस्माकं हि न संशयः ४।

पतिस्तपोधनो विप्रः सुसती या पतिव्रता ।

सुसत्यो भूपतिर्धर्मममगेहानसंशयः ५।

यत्राहं वृद्धिसंपुष्टस्तत्र वासो हि ते भवेत् ।

तत्र पुण्यं समायाति श्रद्धया सह क्रीडते ६।

क्षमा शांत्या समायुक्ता आयाति मम मंदिरम् ।

यथा सत्यो दमश्चैव दया सौहृदमेव च ७।

प्रज्ञायुक्तः स निर्लोभो यत्राहं तत्र संस्थितः ।

शुचिः स्वभावस्तत्रैव अमी च मम बांधवाः ८।

अस्तेयमप्यहिंसा च तितिक्षा वृद्धिरेव च ।

मम गेहे समायाता धन्यतां शृणु धर्मराट् ९।

गुरूणां चापि शुश्रूषा विष्णुर्लक्ष्म्या समावृतः ।

मद्गेहं तु समायांति देवाश्चाग्निपुरोगमाः १०।

मोक्षमार्गं प्रकाशेद्यो ज्ञानोदीप्त्या समन्वितः ।

एतैः सार्धं वसाम्येव सतीषु धर्मवत्सु च ११।

साधुष्वेतेषु सर्वेषु गृहरूपेषु मे सदा ।

उक्तेनापि कुटुंबेन वसाम्येव त्वया सह १२।

ससत्वाः साधुरूपास्ते वेधसा मे गृहीकृताः ।

संचरामि महाभाग स्वच्छंदेन च लीलया १३।

ईश्वरश्च जगत्स्वामी त्रिनेत्रो वृषवाहनः ।

मम गेहे स्वरूपेण वर्तते शिवया युतः १४।

तदिदं संसृतेः सारं गृहरूपं महेश्वरम् ।

सदनं शंकरेत्याख्यं नाशितं मन्मथेन वै १५।

विश्वामित्रं महात्मानं तपंतं तप उत्तमम् ।

मेनकां हि समाश्रित्य कामोयं जितवान्पुरा १६।

सती पतिव्रताहल्या गौतमस्य प्रिया शुभा ।

सुसत्याच्चालिता तेन मन्मथेन दुरात्मना १७।

मुनयः सत्यधर्मज्ञा नानास्त्रियः पतिव्रताः ।

मद्गृहास्ता इमाः सर्वा दीपिताः कामवह्निना १८।

दुर्धरो दुःसहो व्यापी योतिसत्येषु निष्ठुरः ।

मामेवं पश्यते नित्यं क्व सत्यः परितिष्ठति १९।

समां ज्ञात्वा समायाति बाणपाणिर्धनुर्धरः ।

नाशयेन्मद्गृहं पापो वीतिहोत्रैश्च नामकैः २०।

पापलेशाश्च ये क्रूरा अन्ये पाखंडसंश्रयाः ।

ते तु बुद्ध्याऽहिताः सर्वे सत्यगेहं विशंति हि २१।

सेनाध्यक्षैरसत्यैस्तु छद्मना तेन साधितः ।

पातयेदर्दयेद्गेहं पापः शस्त्रैर्दुरात्मभिः २२।

मामेवं ताडयेत्पापो महाबल मनोभवः ।

अस्य धाम्ना प्रदग्धोहं शून्यतां हि व्रजामि वै २३।

नूतनं गृहमिच्छामि स्त्रियाख्यं पतिभूपतिम् ।

कृकलस्यापि पुण्यस्य प्रियेयं शिवमंगला २४।

तद्गृहं सुकलाख्यं मे दग्धुं पापः समुद्यतः ।

अयमेष सहस्राक्षः कामेन सहितो बली २५।

कामस्य कारणात्कस्मात्पूर्ववृत्तं न विंदति ।

अहल्यायाः प्रसंगेन मेषोपस्थो व्यजायत २६।

पौरुषं हि मुनेर्दृष्ट्वा सत्याश्चैव प्रधषर्णात् ।

नष्टः कामस्य दोषेण सुरराट्तत्र संस्थितः २७।

भुक्तवान्दारुणं शापं दुःखेन महतान्वितः ।

कृकलस्य प्रियामेनां सुकलां पुण्यचारिणीम् २८।

एष हंतुं सहस्राक्ष उद्यतः कामसंयुतः ।

यथा चेंद्रेण नायाति काम एष तथा कुरु २९।

धर्मराज महाप्राज्ञ भवान्मतिमतां वरः ।

धर्मराज उवाच-

ऊनं तेजः करिष्यामि कामस्य मरणं तथा ३०।

एकोपायो मया दृष्टस्तमिहैव प्रपश्यतु ।

प्रज्ञा चैषा महाप्राज्ञा शकुनीरूपचारिणी ३१।

भर्तुरागमनं पुण्यं शब्देनाख्यातु खे यतः ।

शकुनस्य प्रभावेण भर्तुश्चागमनेन च ३२।

दुष्टैर्नष्टा न भूयेत स्वस्थचित्ता न संशयः ।

प्रज्ञा संप्रेषिता तेन गता सा सुकलागृहम् ३३।

प्रकुर्वती महच्छब्दं दृष्टदेवेव सा बभौ ।

पूजिता मानिता प्रज्ञा धूपदीपादिभिस्तदा ३४।

ब्राह्मणं सुकलापृच्छत्किमेषा च वदेन्मम ।

ब्राह्मण उवाच-

भर्तुश्चागमनं ब्रूते तवैव सुभगे स्थिरा ३५।

दिनसप्तकमध्ये स आगमिष्यति नान्यथा ३६।

इत्येवमाकर्ण्यसुमंगलं वचः प्रहर्षयुक्ता सहसा बभूव ।

धर्मज्ञमेकं सगुणं हि कांतं शकुनात्प्रदिष्टं हि समागतं तम् ३७।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे षट्पंचाशत्तमोऽध्यायः ५६।

खण्डः २ (भूमिखण्डः) — Adhyāya 57

विष्णुरुवाच-

क्रीडा सतीरूप धरा प्रभूत्वा गेहं गता चारु पतिव्रतायाः ।

तामागतां सत्यस्वरूपयुक्ता सा सादरं वाक्यमुवाच धन्या १।

वाक्यैः सुपुण्यैः परिपूजिता सा उवाच क्रीडा सुकलां विहस्य ।

मायानुगं विश्वविमोहनं सती प्रत्युत्तरं सत्यप्रमेयुक्तम् २।

ममापि भर्ता प्रबलो गुणज्ञो धीरः सविद्यो महिमाप्रयुक्तः ।

त्यक्त्वा गतः पापतरांसुपुण्यो मामेव नाथः शृणु पुण्यकीर्तिः ३।

वाक्यैस्तु पुण्यैरबलास्वभावादाकर्ण्य सर्वं सुकला समुक्तम् ।

संशुद्धभावां च विचिंत्य चाह कस्माद्गतः सुंदरि तेऽद्य नाथः ४।

विहाय ते रूपमतीव सत्यमाचक्ष्व सर्वं भवती सुभर्तुः ।

ध्यानोपयुक्ता सकलं करोति सखीस्वरूपा गृहमागता मे ५।

क्रीडा बभाषे शृणु सत्यमेतं चरित्रभावं मम भर्त्तुरस्य ।

अहं प्रिये यस्य सदैव युक्ता यमिच्छते तं प्रतिसांत्वयामि ६।

कर्तुः सुपुण्यं वचनं सुभर्तुर्ध्यानोपयुक्ता सकलं करोमि ।

एकांतशीला सगुणानुरूपा शुश्रूषयैकस्तमिहैव देवि ७।

मम पूर्व विपाकोऽयं संप्रत्येव प्रवर्तते ।

यतस्त्यक्त्वा गतो भर्त्ता मामेवं मंदभागिनीम् ८।

सखे न धारये जीवं स्वकीय कायमेव च ।

पत्याहीनाः कथं नार्यः सुजीवंति च निर्घृणाः ९।

रूपशृंगारसौभाग्यं सुखं संपच्च नान्यथा ।

नारीणां हि महाभागो भर्ता शास्त्रेषु गीयते १०।

तया सर्वं समाकर्ण्य यदुक्तं क्रीडया तदा ।

सत्यभावं विदित्वा सा मेने संभाषितं तदा ११।

विश्वस्ता सा महाभागा सुकला पतिदेवता ।

तामुवाच पुनः सर्वमात्मचेष्टानुगं वचः १२।

समासेन समाख्यातं पूर्ववृत्तांतमात्मनः ।

यथा भर्ता गतो यात्रां पुण्यसाधनतत्परः १३।

आत्मदुःखं सुसत्यं च तप एव मनस्विनि ।

बोधिता क्रीडया सा तु समाश्वास्य पतिव्रता १४।

सूत उवाच-

एकदा तु तया प्रोक्तं क्रीडया सुकलां प्रति ।

सखे पश्य वनं सौम्यं दिव्यवृक्षैरलंकृतम् १५।

तत्र तीर्थं परं पुण्यमस्ति पातकनाशनम् ।

नानावल्लीवितानैश्च सुपुष्पैः परिशोभितम् १६।

आवाभ्यामपि गंतव्यं पुण्यहेतोर्वरानने ।

समाकर्ण्य तया सार्द्धं सुकला मायया तदा १७।

प्रविवेश वनं दिव्यं नंदनोपममेव सा ।

सर्वर्तुकुसुमोपेतं कोकिलाशतनादितम् १८।

गीयमानं सुमधुरैर्नादैर्मधुकरैरपि ।

कूजद्भिः पक्षिभिः पुण्यैः पुण्यध्वनिसमाकुलम् १९।

चंदनादिकवृक्षैश्च सौरभैश्च विराजितम् ।

सर्वभोगैः सुसंपूर्णं माधव्या माधवेन वै २०।

रचितं मोहनायैव सुकलायाश्च कारणात् ।

तया सार्धं प्रविष्टा सा तद्वनं सर्वभावनम् २१।

ददर्श सौख्यदं पुण्यं मायाभावं न विंदति ।

वीक्षमाणा वनं दिव्यं तया सह जनेश्वर २२।

शक्रोपि चाभ्ययात्तत्र देवमूर्तिविराजितः ।

तया दूत्या समं प्राप्तः कामस्तत्र समागतः २३।

सर्वभोगपतिर्भूत्वा कामलीलासमाकुलः ।

काममाह समाभाष्य एषा सा सुकुला गता २४।

प्रहरस्व महाभाग क्रीडायाः पुरतः स्थिताम् ।

मायां कृत्वा समानीता क्रीडया तव संनिधौ २५।

पौरुषं दर्शयाद्यैव यद्यस्ति कुरु निश्चितम् ।

काम उवाच-

आत्मरूपं दर्शयस्व चतुरं लीलयान्वितम् २६।

येनाहं प्रहराम्येतां पंचबाणैः सहस्रदृक् ।

इंद्र उवाच-

क्वास्ते ते पौरुषं मूढ येन लोकं विडंबसे २७।

ममाधारपरोभूत्वा योद्धुमिच्छसि सांप्रतम् ।

काम उवाच-

तेनापि देवदेवेन महादेवेन शूलिना २८।

पूर्वमेव हृतं रूपं ममकायो न विद्यते ।

इच्छाम्यहं यदा नारीं हंतुं शृणुष्व सांप्रतम् २९।

पुंसां कायं समाश्रित्य आत्मरूपं प्रदर्शये ।

पुमांसं वा सहस्राक्ष नार्याः कार्यं समाश्रये ३०।

पूर्वदृष्टा यदा नारी तामेव परिचिंतयेत् ।

चिंत्यमानस्य पुंसस्तु नार्यारूपं पुनःपुनः ३१।

अदृष्टं तु समाश्रित्य पुंसमुन्मादयाम्यहम् ।

तथाप्युन्मादयाम्येवं नारीरूपं न संशयः ३२।

संस्मरणात्स्मरो नाम मम जातं सुरेश्वर ।

तां दृष्ट्वा तादृशोरंग वस्तुरूपं समाश्रये ३३।

आत्मतेजः प्रकाशेन बाध्यबाधकतां व्रजेत् ।

नारीरूपं समाश्रित्य धीरं पुरुषं प्रमोहयेत् ३४।

पुरुषं तु समाश्रित्य भावयामि सुयोषितम् ।

रूपहीनोस्मि हे इंद्र अस्मद्रूपं समाश्रयेत् ३५।

तवरूपं समाश्रित्य तां साधये यथेप्सिताम् ।

एवमुक्त्वा स देवेंद्रं कायं तस्य महात्मनः ३६।

सखासौ माधवस्यापि समाश्रित्य सुमायुधः ३७।

तामेव हंतुं कुसुमायुधोपि साध्वीं सुपुण्यां कृकलस्य भार्याम् ।

समुत्सुकस्तिष्ठति बाणलक्षं तस्याश्च कायं नयनैर्विलोक्य ३८।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे सप्तपंचाशत्तमोऽध्यायः ५७ ।

खण्डः २ (भूमिखण्डः) — Adhyāya 58

विष्णुरुवाच-

क्रीडाप्रयुक्तासु वनं प्रविष्टा वैश्यस्य भार्या सुकला सुतन्वी ।

ददर्श सर्वं गहनं मनोरमं तामेव पप्रच्छ सखीं सती सा १।

अरण्यमेतत्प्रवरं सुपुण्यं दिव्यं सखे कस्य मनोभिरामम् ।

सिद्धंसुकामैः प्रवरैः समस्तैः पप्रच्छ हर्षात्सुकला सखीं ताम् २।

क्रीडोवाच-

एतद्वनं दिव्यगुणैः प्रयुक्तं सिद्धस्वभावैः परिभावनेन ।

पुष्पाकुलं कामफलोपयुक्तं विपश्य सर्वं मकरध्वजस्य ३।

एवं वाक्यं ततः श्रुत्वा हर्षेण महतान्विता ।

समालोक्य महद्वृत्तं कामस्य च दुरात्मनः ४।

वायुना नीयमानं तं समाघ्राति न सौरभम् ।

वाति वायुः स्वभावेन सौरभेण समन्वितः ५।

तद्बाणो विशतेनासां यथा तथा सुलीलया ।

सा गंधं नैव गृह्णाति पुष्पाणां च वरानना ६।

न चास्वादयते सा तु सुरसान्सा महासती ।

स सखा कामदेवस्य रममाणो विनिर्जितः ७।

लज्जितः पराङ्मुखो भूत्वा भूं पपात लवच्छदैः ।

फलेभ्यो हि सुपक्वेभ्यः पुष्पमंजरिसंस्कृतः ८।

लवरूपोपतद्भूमौ रसस्त्वेष तया जितः ।

मकरंदः सुदीनात्मा फलाद्भूमिं ततः पुनः ९।

भक्ष्यते मक्षिकाभिश्च यथामृतो रणे तथा ।

मक्षिकाभक्ष्यमाणस्तु प्रवाहेन प्रयाति सः १०।

मंदंमंदं प्रयात्येव तं हसंति च पक्षिणः ।

नानारुतैः प्रचलंति सुखमानंदनिर्भरैः ११।

प्रीत्या शकुनयस्तत्र वनमध्यनगस्थिताः ।

सुकलया जितो ह्येष निम्नं पंथानमाश्रितः १२।

प्रीत्या समेता रतिः कामभार्या गत्वाब्रवीत्सा सुकलां विहस्य ।

स्वस्त्यस्तु ते स्वागतमेव भद्रे रमस्व प्रीत्या नयनाभिरामम् १३।

ते रूपमिष्टममलमिंद्रस्यापि महात्मनः ।

यदेष्टं ते तदा ब्रूहि समानेष्ये न संशयः १४।

सूत उवाच-

वदंत्यौ ते स्त्रियौ दृष्ट्वा श्रुत्वोवाच सुभाषितम् ।

रतिं प्रतिगृहीत्वा मे गतो भर्त्ता महामतिः १५।

यत्र मे तिष्ठते भर्त्ता तत्राहं पतिसंयुता ।

तत्र कामश्च मे प्रीतिरयं कायो निराश्रयः १६।

द्वे अप्युक्तं समाकर्ण्य रतिप्रीती विलज्जिते ।

व्रीडमाने गते ते द्वे यत्र कामो महाबलः १७।

ऊचतुस्तं महावीरमिंद्रकाय समाश्रितम् ।

चापमाकर्षमाणं तं नेत्रलक्ष्यं महाबलम् १८।

दुर्जयेयं महाप्राज्ञ त्यज पौरुषमात्मनः ।

पतिकामा महाभागा पतिव्रता सदैव सा १९।

काम उवाच-

अनया लोक्यते रूपमिंद्रस्यास्य महात्मनः ।

यदि देवि तदा चाहं हनिष्यामि न संशयः २०।

अथ वेषधरो देवो महारूपः सुराधिपः ।

स तयानुगतस्तूर्णं परया लीलया तदा २१।

सर्वभोगसमाकीर्णः सर्वाभरणशोभितः ।

दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः २२।

तया रत्या समायातो यत्रास्ते पतिदेवता ।

प्रत्युवाच महाभागां सुकलां सत्यचारिणीम् २३।

पूर्वं दूती समक्षं ते प्रीत्या च प्रहिता मया ।

कस्मान्न मन्यसे भद्रे भजंतं त्वामिहागतम् २४।

सुकलोवाच-

रक्षायुक्तास्मि भद्रं ते भर्तुः पुत्रैर्महात्मभिः ।

एकाकिनीसहायैश्च नैव कस्य भयं मम २५।

शूरैश्च पुरुषाकारैः सर्वत्र परिरक्षिता ।

नाति प्रस्तावये वक्तुं व्यग्रा कर्मणि तस्य च २६।

यावत्प्रस्यंदते नेत्रं तावत्कालं महामते ।

भवान्न लज्जते कस्माद्रममाणो मया सह २७।

भवान्को हि समायातो निर्भयो मरणादपि ।

इंद्र उवाच-

त्वामेवं हि प्रपश्यामि वनमध्ये समागताम् २८।

समाख्यातास्त्वया शूरा भर्तुश्च तनयाः पुनः ।

कथं पश्याम्यहं तावद्दर्शयस्व ममाग्रतः २९।

सुकलोवाच-

सनिजसकलवर्गस्याधिपत्ये निवेश्य धृतिमतिगतिबुद्ध्य्ख्यैस्तु संन्यस्य सत्यम् ।

अचलसकलधर्मो नित्ययुक्तो महात्मा मदनसबलधर्मात्मा सदामां जुगोप ३०।

मामेवं परिरक्षते दमगुणैः शौचैस्तु धर्मः सदा सत्यं पश्य समागतं मम पुरः शांतिक्षमाभ्यांयुतम् ।

बोधश्चातिमहाबलः पृथुयशा यो मां न मुंचेत्कदा बद्धाहं दृढबंधनैः स्वगुणजैः सांनिध्यमेवं गतः ३१।

रक्षायुक्ताः कृताः सर्वे सत्याद्या मम सांप्रतम् ।

धर्मलाभादिकाः सर्वे दमबुद्धिपराक्रमाः ३२।

मामेवं हि प्ररक्षंति किं मां प्रार्थयसे बलात् ।

को भवान्निर्भयो भूत्वा दूत्या सार्धं समागतः ३३।

सत्यं धर्मस्तथा पुण्यं ज्ञानाद्याः प्रबलास्तथा ।

मम भर्तुः सहायाश्च ते मां रक्षंति वेश्मनि ३४।

अहं रक्षायुता नित्यं दमशांतिपरायणा ।

न मां जेतुं समर्थश्च अपि साक्षाच्छचीपतिः ३५।

यदि वा मन्मथो वापि समागच्छति वीर्यवान् ।

दंशिताहं सदा सत्यं सत्यकेनैव नान्यथा ३६।

निरर्थकास्तस्य बाणा भविष्यंति न संशयः ।

त्वामेवं हि हनिष्यंति धर्मादयो महाभटाः ३७।

दूरं गच्छ पलायत्वमत्र मा तिष्ठ सांप्रतम् ।

वार्यमाणो यदा तिष्ठेर्भस्मीभूतो भविष्यसि ३८।

भर्त्रा विना निरीक्षेत मम रूपं यदा भवान् ।

यथा दारु दहेदग्निस्तथा धक्ष्यामि नान्यथा ३९।

एवं श्रुत्वा सहस्राक्षो मन्मथस्यापि सम्मुखम् ।

पश्य पौरुषमेतस्या युध्यस्व निजपौरुषैः ४०।

यथागतास्तथा सर्वे महाशापभयातुराः ।

स्वंस्वं स्थानं महाराज इंद्राद्याः प्रययुस्तदा ४१।

गतेषु तेषु सर्वेषु सुकला सा पतिव्रता ।

स्वगृहं पुण्यसंयुक्ता पतिध्यानेन चागता ४२।

स्वगृहं पुण्यसंयुक्तं सर्वतीर्थमयं तदा ।

सर्वयज्ञमयं राजन्संप्राप्ता पतिदेवता ४३।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रेष्टपंचाशत्तमोऽध्यायः ५८ ।

खण्डः २ (भूमिखण्डः) — Adhyāya 59

विष्णुरुवाच-

कृकलः सर्वतीर्थानि साधयित्वा गृहं प्रति ।

प्रस्थितः सार्थवाहेन महानंदसमन्वितः १।

एवं चिंतयते नित्यं संसारः सफलो मम ।

तृप्ताः स्वर्गं प्रयास्यंति पितरो मम नान्यथा २।

तावत्प्रत्यक्षरूपेण बद्ध्वा तस्य पितामहान् ।

पुरतस्तस्य संब्रूते नहि ते पुण्यमुत्तमम् ३।

दिव्यरूपो महाकायः कृकलं वाक्यमब्रवीत् ।

तव तीर्थफलं नास्ति श्रममेव वृथा कृथाः ४।

स्वयं संतोषमाप्नोषि नहि ते पुण्यमुत्तमम् ।

एवं श्रुत्वा ततो वैश्यः कृकलो दुःखपीडितः ५।

भवान्कः संवदस्येवं कस्माद्बद्धाः पितामहाः ।

केन दोषप्रभावेण तन्मेत्वं कारणं वद ६।

कस्मात्तीर्थफलं नास्ति मम यात्रा कथं नहि ।

सर्वमेव समाचक्ष्व यदि जानासि संस्फुटम् ७।

धर्म उवाच-

पूतां पुण्यतमां स्वीयां भार्यां त्यक्त्वा प्रयाति यः ।

तस्य पुण्यफलं सर्वं वृथा भवति नान्यथा ८।

धर्माचारपरां पुण्यां साधुव्रतपरायणाम् ।

पतिव्रतरतां भार्यां सुगुणां पुण्यवत्सलाम् ९।

तामेवापि परित्यज्य धर्मकार्यं प्रयाति यः ।

वृथा तस्य कृतः सर्वो धर्मो भवति नान्यथा १०।

सर्वाचारपरा भव्या धर्मसाधनतत्परा ।

पतिव्रतरता नित्यं सर्वदा ज्ञानवत्सला ११।

एवं गुणा भवेद्भार्या यस्य पुण्या महासती ।

तस्य गेहे सदा देवास्तिष्ठंति च महौजसः १२।

पितरो गेहमध्यस्थाः श्रेयो वांछंति तस्य च ।

गंगाद्याः पुण्यनद्यश्च सागरास्तत्र नान्यथा १३।

पुण्या सती यस्य गेहे वर्तते सत्यतत्परा ।

तत्र यज्ञाश्च गावश्च ऋषयस्तत्र नान्यथा १४।

तत्र सर्वाणि तीर्थानि पुण्यानि विविधानि च ।

भार्यायोगेन तिष्ठंति सर्वाण्येतानि नान्यथा १५।

पुण्यभार्याप्रयोगेण गार्हस्थ्यं संप्रजायते ।

गार्हस्थ्यात्परमो धर्मो द्वितीयो नास्ति भूतले १६।

गृहस्थस्य गृहः पुण्यः सत्यपुण्यसमन्वितः ।

सर्वतीर्थमयो वैश्य सर्वदेवसमन्वितः १७।

गार्हस्थ्यं च समाश्रित्य सर्वे जीवंति जंतवः ।

तादृशं नैव पश्यामि अन्यमाश्रममुत्तमम् १८।

मंत्राग्निहोत्रं देवाश्च सर्वे धर्माः सनातनाः ।

दानाचाराः प्रवर्तंते यस्य पुंसश्च वै गृहे १९।

एवं यो भार्यया हीनस्तस्यगेहं वनायते ।

यज्ञाश्च वै न सिध्यंति दानानि विविधानि च २०।

भार्याहीनस्य पुंसोपि न सिध्यति महाव्रतम् ।

धर्मकर्माणि सर्वाणि पुण्यानि विविधानि च २१।

नास्ति भार्यासमं तीर्थं धर्मसाधनहेतवे ।

शृणुष्व त्वं गृहस्थस्य नान्यो धर्मो जगत्त्रये २२।

यत्र भार्या गृहं तत्र पुरुषस्यापि नान्यथा ।

ग्रामे वाप्यथवारण्ये सर्वधर्मस्य साधनम् २३।

नास्ति भार्यासमं तीर्थं नास्ति भार्यासमं सुखम् ।

नास्ति भार्यासमं पुण्यं तारणाय हिताय च २४।

धर्मयुक्तां सतीं भार्यां त्यक्त्वा यासि नराधम ।

गृहं धर्मं परित्यज्य क्वास्ते धर्मस्य ते फलम् २५।

तया विना यदा तीर्थे श्राद्धदानं कृतं त्वया ।

तेन दोषेण वै बद्धास्तव पूर्वपितामहाः २६।

भवांश्चौरो ह्यमी चौरा यैस्तु भुक्तं सुलोलुपैः ।

त्वया दत्तस्य श्राद्धस्य अन्नमेवं तया विना २७।

सुपुत्रः श्रद्धया युक्तः श्राद्धदानं ददाति यः ।

भार्या दत्तेन पिंडेन तस्य पुण्यं वदाम्यहम् २८।

यथाऽमृतस्य पानेन नृणां तृप्तिर्हि जायते ।

तथा पितॄणां श्राद्धेन सत्यंसत्यं वदाम्यहम् २९।

गार्हस्थ्यस्य च धर्मस्य भार्या भवति स्वामिनी ।

त्वयैषा वंचिता मूढ चौरकर्मकृतं वृथा ३०।

अमी पितामहाश्चौरा यैर्भुक्तं तु तया विना ।

भार्या पचति चेदन्नं स्वहस्तेनामृतोपमम् ३१।

तदन्नमेवभुंजंति पितरो हृष्टमानसाः ।

तेनैव तृप्तिमायांति संतुष्टाश्च भवंति ते ३२।

तस्माद्भार्यां विना धर्मः पुरुषस्य न सिध्यति ।

नास्ति भार्यासमं तीर्थं पुंसां सुगतिदायकम् ३३।

भार्यां विना च यो धर्मः स एव विफलो भवेत् ३४।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे एकोनषष्टितमोऽध्यायः ५९ ।

खण्डः २ (भूमिखण्डः) — Adhyāya 60

कृकल उवाच-

कथं मे जायते सिद्धिः कथं पितृविमोचनम् ।

एतन्मे विस्तरेणापि धर्मराज वदाधुना १।

धर्म उवाच-

गच्छ गेहं महाभाग त्वां विना दुःखमाचरत् ।

संबोधय त्वं सुकलां स्वपत्नीं धर्मचारिणीम् २।

श्राद्धदानं गृहं गत्वा तस्या हस्तेन वै कुरु ।

स्मृत्वा पुण्यानि तीर्थानि यजस्व त्वं सुरोत्तमान् ३।

तीर्थयात्राकृता सिद्धिस्तव चैव भविष्यति ।

भार्यां विना तु यो लोके धर्मं साधितुमिच्छति ४।

स गार्हस्थ्यं विलोप्यैव एकाकी विचरेद्वनम् ।

विफलो जायते लोके तं न मन्यंति देवताः ५।

यज्ञाः सिद्धिं तदायांति यदा स्याद्गृहिणी गृहे ।

एकाकी स समर्थो न धर्मार्थसाधनाय च ६।

विष्णुरुवाच-

एवमुक्त्वा च तं वैश्यं गतो धर्मो यथागतम् ।

कृकलोपि स धर्मात्मा स्वगृहं प्रतिप्रस्थितः ७।

स्वगृहं प्राप्य मेधावी दृष्ट्वा तां च पतिव्रताम् ।

सार्थवाहेन तेनापि स्वस्थानं प्राप्य बुद्धिमान् ८।

तया समागतं दृष्ट्वा भर्तारं धर्मकोविदम् ।

कृतं सुमंगलं पुण्यं भर्तुरागमने तदा ९।

समाचष्ट स धर्मात्मा धर्मस्यापि विचेष्टितम् ।

समाकर्ण्य महाभागा भर्तुर्वाक्यं मुदावहम् १०।

धर्मवाक्यं प्रशस्याथ अनुमेने च तं तथा ।

विष्णुरुवाच-

अथो स कृकलो वैश्यस्तया सार्धं सुपुण्यकम् ११।

चकार श्रद्धया श्राद्धं देवतागृहसंस्थितः ।

पितरो देव गंधर्वा विमानैश्च समागताः १२।

तुष्टुवुस्तौ महात्मानौ दंपती मुनयस्तथा ।

अहं चापि तथा ब्रह्मा देव्यायुक्तो महेश्वरः १३।

सर्वे देवाः सगंधर्वा विमानैश्च समागताः ।

अहमेव ततो ब्रह्मा देव्यायुक्तो महेश्वरः १४।

सर्वे देवाः सगंधर्वास्तस्याः सत्येन तोषिताः ।

ऊचुश्च तौ महात्मानौ धर्मज्ञौ सत्यपंडितौ १५।

भार्यया सह भद्रं ते वरं वरय सुव्रत ।

कृकल उवाच-

कस्य पुण्यप्रसंगेन तपसश्च सुरोत्तमाः १६।

सभार्याय वरं दातुं भवंतो हि समागताः ।

इंद्र उवाच-

एषा सती महाभागा सुकला चारुमंगला १७।

अस्याः सत्येन तुष्टाः स्म दातुकामा वरं तव ।

समासेन तु तत्प्रोक्तं पूर्ववृत्तांतमेव च १८।

तस्याश्चरितमाहात्म्यं श्रुत्वा भर्ता स हर्षितः ।

तया सह स धर्मात्मा हर्षव्याकुललोचनः १९।

ननाम देवताः सर्वा उवाच च पुनः पुनः ।

यदि तुष्टा महाभागा त्रयो देवाः सनातनाः २०।

अन्ये च ऋषयः पुण्याः कृपां कृत्वा ममोपरि ।

जन्मजन्मनि देवानां भक्तिमेवं करोम्यहम् २१।

धर्मसत्यरतिः स्यान्मे भवतां हि प्रसादतः ।

पश्चाद्धि वैष्णवं लोकं सभार्यश्च पितामहैः २२।

गंतुमिच्छाम्यहं देवा यदि तुष्टा महौजसः ।

देवा ऊचुः-

एवमस्तु महाभाग सर्वमेव भविष्यति २३।

पुष्पवृष्टिं ततश्चक्रुस्तयोरुपरि भूपते ।

जगुर्गीतं महापुण्यं ललितं सुस्वरं ततः २४।

गंधर्वा गीततत्त्वज्ञा ननृतुश्चाप्सरोगणाः ।

ततो देवाः सगंधर्वाः स्वंस्वं स्थानं नृपोत्तम २५।

वरं दत्वा प्रजग्मुस्ते स्तूयमानाः पतिव्रताम् ।

नारीतीर्थं समाख्यातमन्यत्किंचिद्वदामि ते २६।

एतत्ते सर्वमाख्यातं पुण्याख्यानमनुत्तमम् ।

यः शृणोति नरो राजन्सर्वपापैः प्रमुच्यते २७।

श्रद्धया शृणुते नारी सुकलाख्यानमुत्तमम् ।

सौभाग्येन तु सत्येन पुत्रपौत्रैर्न मुच्यते २८।

मोदते धनधान्येन सहभर्त्रा सुखी भवेत् ।

पतिव्रता भवेत्सा च जन्मजन्मनि नान्यथा २९।

ब्राह्मणो वेदविद्वांश्च क्षत्रियो विजयी भवेत् ।

धनधान्यं भवेच्चैव वैश्यगेहे न संशयः ३०।

धर्मज्ञो जायते राजन्सदाचारः सुखी भवेत् ।

शूद्र सुःखमवाप्नोति पुत्रपौत्रैः प्रवर्धते ३१।

विपुला जायते लक्ष्मीर्धनधान्यैरलंकृता ३२।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे षष्टितमोऽध्यायः ६० ।

खण्डः २ (भूमिखण्डः) — Adhyāya 61

वेन उवाच-

भार्यातीर्थं समाख्यातं सर्वतीर्थोत्तमोत्तमम् ।

पितृतीर्थं समाख्याहि पुत्राणां तारणं परम् १।

विष्णुरुवाच-

कुरुक्षेत्रे महाक्षेत्रे कुंडलो नाम ब्राह्मणः ।

सुकर्मा नाम सत्पुत्रः कुंडलस्य महात्मनः २।

गुरू तस्य महावृद्धौ धर्मज्ञौ शास्त्रकोविदौ ।

द्वावेतौ तु महात्मानौ जरया परिपीडितौ ३।

तयोः शुश्रूषणं चक्रे भक्त्या च परया ततः ।

धर्मज्ञो भावसंयुक्तो अहर्निशमनारतम् ४।

तस्माद्वेदानधीते स पितुः शास्त्राण्यनेकशः ।

सर्वाचारपरो दक्षो धर्मज्ञो ज्ञानवत्सलः ५।

अंगसंवाहनं चक्रे गुर्वोश्च स्वयमेव सः ।

पादप्रक्षालनं चैव स्नानभोजनकीं क्रियाम् ६।

भक्त्या चैव स्वभावेन तद्ध्याने तन्मयो भवेत् ।

मातापित्रोश्च राजेंद्र उपचर्यां प्रकारयेत् ७।

सूत उवाच-

तद्वर्तमानकाले तु बभूव नृपसत्तम ।

पिप्पलो नाम वै विप्रः कश्यपस्य महात्मनः ८।

तपस्तेपे निराहारो जितात्मा जितमत्सरः ।

दयादानदमोपेतः कामं क्रोधं विजित्य सः ९।

दशारण्यगतो धीमाञ्ज्ञानशांतिपरायणः ।

सर्वेंद्रियाणि संयम्य तपस्तेपे महामनाः १०।

तपःप्रभावतस्तस्य जंतवो गतविग्रहाः ।

वसंति सुयुगे तत्र एकोदरगता इव ११।

तत्तपस्तस्य मुनयो दृष्ट्वा विस्मयमाययुः ।

नेदृशं केनचित्तप्तं यथासौ तप्यते मुनिः १२।

देवाश्च इंद्रप्रमुखाः परं विस्मयमाययुः ।

अहो अस्य तपस्तीव्रं शमश्चेंद्रियसंयमः १३।

निर्विकारो निरुद्वेगः कामक्रोधविवर्जितः ।

शीतवातातपसहो धराधर इवस्थितः १४।

विषये विमुखो धीरो मनसोतीतसंग्रहम् ।

न शृणोति यथा शब्दं कस्यचिद्द्विजसत्तमः १५।

संस्थानं तादृशं गत्वा स्थित्वा एकाग्रमानसः ।

ब्रह्मध्यानमयो भूत्वा सानंदमुखपंकजः १६।

अश्मकाष्ठमयो भूत्वा निश्चेष्टो गिरिवत्स्थितः ।

स्थाणुवद्दृश्यते चासौ सुस्थिरो धर्मवत्सलः १७।

तपःक्लिष्टशरीरोति श्रद्धावाननसूयकः ।

एवं वर्षसहस्रैकं संजातं तस्य धीमतः १८।

पिपीलिकाभिर्बह्वीभिः कृतं मृद्भारसंचयम् ।

तस्योपरि महाकायं वल्मीकं निजमंदिरम् १९।

वल्मीकोदरमध्यस्थो जडीभूत इवस्थितः ।

स एवं पिप्पलो विप्रस्तपते सुमहत्तपः २०।

कृष्णसर्पैस्तु सर्वत्र वेष्टितो द्विजसत्तमः ।

तमुग्रतेजसं विप्रं प्रदशंति विषोल्बणाः २१।

संप्राप्य गात्रमर्माणि विषं तस्य न भेदयेत् ।

तेजसा तस्य विप्रस्य नागाः शांतिमथागमन् २२।

तस्य कायात्समुद्भूता अर्चिषो दीप्ततेजसः ।

नानारूपाः सुबहुशो दृश्यंते च पृथक्पृथक् २३।

यथा वह्नेः खरतरास्तथाविधा नरोत्तम ।

यथामेघोदरे सूर्यः प्रविष्टो भाति रश्मिभिः २४।

वल्मीकस्थस्तथाविप्रः पिप्पलो भाति तेजसा ।

सर्पा दशंति विप्रं तं सक्रोधा दशनैरपि २५।

न भिंदंति च दंष्ट्राग्राच्चर्म भित्त्वा नृपोत्तम ।

एवं वर्षसहस्रैकं तप आचरतस्ततः २६।

गतं तु राजराजेंद्र मुनेस्तस्य महात्मनः ।

त्रिकालं साध्यमानस्य शीतवर्षातपान्वितः २७।

गतः कालो महाराज पिप्पलस्य महात्मनः ।

तद्वच्च वायुभक्षं तु कृतं तेन महात्मना २८।

त्रीणि वर्षसहस्राणि गतानि तस्य तप्यतः ।

तस्य मूर्ध्नि ततो देवैः पुष्पवृष्टिः कृता पुरा २९।

ब्रह्मज्ञोसि महाभाग धर्मज्ञोसि न संशयः ।

सर्वज्ञानमयोऽसि त्वं संजातः स्वेनकर्मणा ३०।

यं यं त्वं वांछसे कामं तं तं प्राप्स्यसि नान्यथा ।

सर्वकामप्रसिद्धस्त्वं स्वत एव भविष्यसि ३१।

समाकर्ण्य महद्वाक्यं पिप्पलोपि महामनाः ।

प्रणम्य देवताः सर्वा भक्त्या नमितकंधरः ३२।

हर्षेण महताविष्टो वचनं प्रत्युवाच सः ।

इदं विश्वं जगत्सर्वं ममवश्यं यथा भवेत् ३३।

तथा कुरुध्वं देवेंद्रा विद्याधरो भवाम्यहम् ।

एवमुक्त्वा स मेधावी विरराम नृपोत्तम ३४।

एवमस्त्विति ते प्रोचुर्द्विजश्रेष्ठं सुरास्तदा ।

दत्वा वरं महाभाग जग्मुस्तस्मै महात्मने ३५।

गतेषु तेषु देवेषु पिप्पलो द्विजसत्तमः ।

ब्रह्मण्यं साधयेन्नित्यं विश्ववश्यं प्रचिंतयेत् ३६।

तदाप्रभृति राजेंद्र पिप्पलो द्विजसत्तमः ।

विद्याधरपदं लब्ध्वा कामगामी महीयते ३७।

एवं स पिप्पलो विप्रो विद्याधरपदं गतः ।

संजातो देवलोकेशः सर्वशास्त्रविशारदः ३८।

एकदा तु महातेजाः पिप्पलः पर्यचिंतयत् ।

विश्ववश्यं भवेत्सर्वं मम दत्तो वरोत्तमः ३९।

तदर्थं प्रत्ययं कर्तुमुद्यतो द्विजपुंगवः ।

यं यं चिंतयते कर्तुं तं तं हि वशमानयेत् ४०।

एवं स प्रत्यये जाते मनसा पर्यकल्पयत् ।

द्वितीयो नास्ति वै लोके मत्समः पुरुषोत्तमः ४१।

सूत उवाच-

एवं हि कल्पमानस्य पिप्पलस्य महात्मनः ।

ज्ञात्वा मानसिकं भावं सारसस्तमुवाच ह ४२।

सरस्तीरगतो राजन्सुस्वरं व्यंजनान्वितम् ।

स्वनं सौष्ठवसंयुक्तमुक्तवान्पिप्पलं प्रति ४३।

कस्मादुद्वहसे गर्वमेवं त्वं परमात्मकम् ।

सर्ववश्यात्मिकीं सिद्धिं नाहं मन्ये तवैव हि ४४।

वश्यावश्यमिदं कर्म अर्वाचीनं प्रशस्यते ।

पराचीनं न जानासि पिप्पल त्वं हि मूढधीः ४५।

वर्षाणां तु सहस्राणि यावत्त्रीणि त्वया तपः ।

समाचीर्णं ततो गर्वं कुरुषे किं मुधा द्विज ४६।

कुंडलस्य सुतो धीरः सुकर्मानाम यः सुधीः ।

वश्यावश्यं जगत्सर्वं तस्यासीच्छृणु सांप्रतम् ४७।

अर्वाचीनं पराचीनं स वै जानाति बुद्धिमान् ।

लोके नास्ति महाज्ञानी तत्समः शृणु पिप्पल ४८।

न कुंडलस्य पुत्रेण सदृशस्त्वं सुकर्मणा ।

न दत्तं तेन वै दानं न ज्ञानं परिचिंतितम् ४९।

हुतयज्ञादिकं कर्म न कृतं तेन वै कदा ।

न गतस्तीर्थयात्रायां न च वह्नेरुपासनम् ५०।

स कदा कृतवान्विप्र धर्मसेवार्थमुत्तमम् ।

स्वच्छंदचारी ज्ञानात्मा पितृमातृसुहृत्सदा ५१।

वेदाध्ययनसंपन्नः सर्वशास्त्रार्थकोविदः ।

यादृशं तस्य वै ज्ञानं बालस्यापि सुकर्मणः ५२।

तादृशं नास्ति ते ज्ञानं वृथा त्वं गर्वमुद्वहेः ।

पिप्पल उवाच-

को भवान्पक्षिरूपेण मामेवं परिकुत्सयेत् ५३।

कस्मान्निंदसि मे ज्ञानं पराचीनं तु कीदृशम् ।

तन्मे विस्तरतो ब्रूहि त्वयि ज्ञानं कथं भवेत् ५४।

अर्वाचीनगतिं सर्वां पराचीनस्य सांप्रतम् ।

वद त्वमंडजश्रेष्ठ ज्ञानपूर्वं सुविस्तरम् ५५।

किं वा ब्रह्मा च विष्णुश्च किं वा रुद्रो भविष्यसि ।

सारस उवाच-

नास्ति ते तपसो भावः फलं नास्ति च तस्य तु ५६।

त्वया न परितप्तस्य तपसः सांप्रतं शृणु ।

कुंडलस्यापि पुत्रस्य बालस्यापि यथा गुणः ५७।

तथा ते नास्ति वै ज्ञानं परिज्ञातं न तत्पदम् ।

इतो गत्वापि पृच्छ त्वं मम रूपं द्विजोत्तम ५८।

स वदिष्यति धर्मात्मा सर्वं ज्ञानं तवैव हि ।

विष्णुरुवाच-

एवमाकर्ण्य तत्सर्वं सारसेन प्रभाषितम् ५९।

निर्जगाम स वेगेन दशारण्यं महाश्रमम् ६०।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने एकषष्टितमोऽध्यायः ६१।

खण्डः २ (भूमिखण्डः) — Adhyāya 62

विष्णुरुवाच-

कुंडलस्याश्रमं गत्वा सत्यधर्म समाकुलम् ।

सुकर्माणं ततो दृष्ट्वा पितृमातृपरायणम् १।

शुश्रूषंतं महात्मानं गुरूसत्यपराक्रमम् ।

महारूपं महातेजं महाज्ञानसमाकुलम् २।

मातापित्रोः पदांते तमुपविष्टं ददर्श सः ।

महाभक्त्यान्वितं शांतं सर्वज्ञानमहानिधिम् ३।

कुंडलस्यापि पुत्रेण सुकर्मणा महात्मना ।

आगतं पिप्पलं दृष्ट्वा द्वारदेशे महामतिम् ४।

आसनात्तूर्णमुत्थाय अभ्युत्थानं कृतं पुनः ।

आगच्छ त्वं महाभाग विद्याधर महामते ५।

आसनं पाद्यमर्घं च ददौ तस्मै महामतिः ।

निर्विघ्नोऽसि महाप्राज्ञ कुशलेन प्रवर्त्तसे ६।

निरामयं च पप्रच्छ पिप्पलं तं समागतम् ।

यस्मादागमनं तेद्य तत्सर्वं प्रवदाम्यहम् ७।

वर्षाणां च सहस्राणि त्रीणि यावत्त्वया तपः ।

तप्तमेव महाभाग सुरेभ्यः प्राप्तवान्वरम् ८।

वश्यत्वं च त्वया प्राप्तं कामचारस्तथैव च ।

तेन मत्तो न जानासि गर्वमुद्वहसे वृथा ९।

दृष्ट्वा ते चेष्टितं सर्वं सारसेन महात्मना ।

ममाभिधानं कथितं मम ज्ञानमनुत्तमम् १०।

पिप्पल उवाच-

योसौ मां सारसो विप्र सरित्तीरे प्रयुक्तवान् ।

सर्वं ज्ञानं वदेन्मां हि स तु कः प्रभुरीश्वरः ११।

सुकर्मोवाच-

भवंतमुक्तवान्यो वै सरित्तीरे तु सारसः ।

ब्रह्माणं त्वं महाज्ञानं तं विद्धि परमेश्वरम् १२।

अन्यत्किं पृच्छसे ब्रूहि तमेवं प्रवदाम्यहम् ।

विष्णुरुवाच-

एवमुक्तः स धर्मात्मा सुकर्मा नृपनंदन १३।

पिप्पल उवाच-

त्वयि वश्यं जगत्सर्वमिति शुश्रुम भूतले ।

तन्मे त्वं कौतुकं विप्र दर्शयस्व प्रयत्नतः १४।

पश्य कौतुकमेवाद्य त्वं वश्यावश्यकारणम् ।

तमुवाच स धर्मात्मा सुकर्मा पिप्पलं प्रति १५।

अथ सस्मार वै देवान्सुकर्मा प्रत्ययाय वै ।

इंद्राद्या लोकपालाश्च देवाश्चाग्निपुरोगमाः १६।

समागताः समाहूता नाना विद्याधरास्तथा ।

सुकर्माणं ततः प्रोचुर्देवाश्चाग्निपुरोगमाः १७।

कस्मात्स्मृतास्त्वया विप्र ततोर्थकारणं वद ।

सुकर्मोवाच-

अयमेष सुसंप्राप्तो विद्याधरो हि पिप्पलः १८।

मामेवं भाषते विप्र वश्यावश्यत्वकारणम् ।

प्रत्ययार्थं समाहूता अस्यैव च महात्मनः १९।

स्वंस्वं स्थानं प्रगच्छध्वमित्युवाच सुरान्प्रति ।

तमूचुस्ते ततो देवाः सुकर्माणं महामतिम् २०।

अस्माकं दर्शनं व्रिप्र न मोघं जायते वरम् ।

वरं वरय भद्रं ते मनसा यद्धिरोचते २१।

तत्ते दद्मो न संदेहस्त्वेवमूचुः सुरोत्तमाः ।

भक्त्या प्रणम्य तान्देवान्ययाचे स द्विजोत्तमः २२।

अचलां दत्त देवेंद्रा सुःभक्तिं भावसंयुताम् ।

मातापित्रोश्च मे नित्यं तद्वै वरमनुत्तमम् २३।

पिता मे वैष्णवं लोकं प्रयात्वेतद्वरोत्तमम् ।

तद्वन्माता च देवेशा वरमन्यं न याचये २४।

देवा ऊचुः-

पितृभक्तोसि विप्रेंद्र भक्त्या तव वयं द्विज ।

सुकर्मञ्छ्रूयतां वाक्यं प्रीत्या युक्ता सदैव ते २५।

एवमुक्त्वा गता देवाः स्वर्लोकं नृपनंदन ।

सर्वमैश्वर्यमेतेन तस्याग्रे परिदर्शितम् २६।

दृष्टं तु पिप्पलेनापि कौतुकं च महाद्भुतम् ।

तमुवाच स धर्मात्मा पिप्पलं कुंडलात्मजम् २७।

अर्वाचीनं त्विदं रूपं पराचीनं च कीदृशम् ।

प्रभावमुभयोश्चैव वदस्व वदतां वर २८।

सुकर्मोवाच-

पराचीनस्य रूपस्य लिंगमेव वदामि ते ।

येनलोकाः प्रमोदंते इंद्राद्याः सचराचराः २९।

अयमेव जगन्नाथः सर्वगो व्यापकः प्रभुः ।

अस्य रूपं न दृष्टं हि केनाप्येव हि योगिना ३०।

श्रुतिरेव वदत्येवं तं वक्तुं शंकितेव सा ।

अपाणिपादनासश्च अकर्णो मुखवर्जितः ३१।

सर्वं पश्यति वै कर्म कृतं त्रैलोक्यवासिनाम् ।

तेषामुक्तमकर्णश्च स शृणोति सुसाक्ष्यदः ३२।

गतिहीनो व्रजेत्सोपि स हि सर्वत्र दृश्यते ।

पाणिहीनोपि गृह्णाति पादहीनः प्रधावति ३३।

सर्वत्र दृश्यते विप्र व्यापकः पादवर्जितः ।

यं न पश्यंति देवेंद्रा मुनयस्तत्त्वदर्शिनः ३४।

स च पश्यति तान्सर्वान्सत्यासत्यपदे स्थितान् ।

व्यापकं विमलं सिद्धं सिद्धिदं सर्वनायकम् ३५।

यं जानाति महायोगी व्यासो धर्मार्थकोविदः ।

तेजोमूर्तिः स चाकाशमेकवर्णमनंतकम् ३६।

तदेतन्निर्मलं रूपं श्रुतिराख्याति निश्चितम् ।

व्यासश्चैव हि जानाति मार्कंडेयश्च तत्पदम् ३७।

अर्वाचीनं प्रवक्ष्यामि शृणुष्वैकाग्रमानसः ।

यदा संहृत्य भूतात्मा स्वयमेकः प्रगच्छति ३८।

अप्सु शय्यां समास्थाय शेषभोगासनस्थितः ।

तमाश्रित्य स्वपित्येको बहुकालं जनार्दनः ३९।

जलांधकारसंतप्तो मार्कंडेयो महामुनिः ।

स्थानमिच्छन्स योगात्मा निर्विण्णो भ्रमणेन सः ४०।

भ्रममाणः स ददृशे शेषपर्यंकशायिनम् ।

सूर्यकोटिप्रतीकाशं दिव्याभरणभूषितम् ४१।

दिव्यमाल्यांबरधरं सर्वव्यापिनमीश्वरम् ।

योगनिद्रा गतं कांतं शंखचक्रगदाधरम् ४२।

एका नारी महाभागा कृष्णांजनचयोपमा ।

दंष्ट्राकरालवदना भीमरूपा द्विजोत्तम ४३।

तयोक्तोसौ मुनिश्रेष्ठो मा भैरिति महामुनिः ।

पद्मपत्रं सुविस्तीर्णं पंचयोजनमायतम् ४४।

तस्मिन्पत्रे महादेव्या मार्कण्डेयो निवेशितः ।

केशवे सति सुप्तेपि नास्त्यत्र च भयं तव ४५।

तामुवाच स योगींद्र का त्वं भवसि भामिनि ।

अस्मिन्विनिर्जिते चैका भवती परिबृंहिता ४६।

पृष्टैवं मुनिना देवी सादरं प्राह भूसुर ।

नागभोगांकपर्यंके स यः स्वपिति केशवः ४७।

अस्याहं वैष्णवी शक्तिः कालरात्रिरिहोच्यते ।

मामेवं विद्धि विप्रेंद्र सर्वमायासमन्विताम् ४८।

महामाया पुराणेषु जगन्मोहाय कथ्यते ।

इत्युक्त्वा सा गता देवी अंतर्धानं हि पिप्पलः ४९।

देव्यामनुगतायां तु मार्कंडेयस्य पश्यतः ।

तस्य नाभ्यां समुत्पन्नं पंकजं हाटकप्रभम् ५०।

तस्माज्जज्ञे महातेजा ब्रह्मा लोकपितामहः ।

तस्माद्विजज्ञिरे लोकाः सर्वे स्थावरजंगमाः ५१।

इंद्राद्या लोकपालाश्च देवाश्चाग्निपुरोगमाः ।

अर्वाचीनं स्वरूपं तु दर्शितं हि मया नृप ५२।

अर्वाचीनस्वरूपोयं पराचीनो निराश्रयः ।

यदा स दर्शयेत्कायं कायरूपा भवंति ते ५३।

ब्रह्माद्याः सर्वलोकाश्च अर्वाचीना हि पिप्पल ।

अर्वाचीना अमी लोका ये भवंति जगत्त्रये ५४।

पराचीनः स भूतात्मा यं सुपश्यंति योगिनः ।

मोक्षरूपं परं स्थानं परब्रह्मस्वरूपकम् ५५।

अव्यक्तमक्षरं हंसं शुद्धं सिद्धिसमन्वितम् ।

पराचीनस्य यद्रूपं विद्याधर तवाग्रतः ५६।

सर्वमेव मया ख्यातमन्यत्किं ते वदाम्यहम् ।

पिप्पल उवाच-

कस्मादेतन्महाज्ञानमुद्भूतं तव सुव्रत ५७।

अर्वाचीनगतिं विद्वान्पराचीनगतिं तथा ।

त्रैलोक्यस्य परं ज्ञानं त्वय्येवं परिवर्तते ५८।

तपसो नैव पश्यामि परां निष्ठां हि सुव्रत ।

यजनंयाजनंतीर्थंतपोवाकृतवानसि ५९।

तत्प्रभावं वदस्वैवं केन ज्ञानं तवाखिलम् ।

सुकर्मोवाच-

तप एव न जानामि न कृतं कायशोषणम् ६०।

यजनं याजनं वापि न जाने तीर्थसाधनम् ।

न मया साधितं ध्यानं पुण्यकालं सुकर्मजम् ६१।

स्फुटमेकं प्रजानामि पितृमातृप्रपूजनम् ।

उभयोरपि हस्तेन मातापित्रोस्तु नित्यशः ६२।

पादप्रक्षालनं पुण्यं स्वयमेव करोम्यहम् ।

अंगसंवाहनं स्नानं भोजनादिकमेव च ६३।

त्रिकालेध्यानसंलीनः साधयामि दिनेदिने ।

पादोदकं तयोश्चैव मातापित्रोर्दिनेदिने ६४।

भक्तिभावेन विंदामि पूजयामि सुभावतः ।

गुरू मे जीवमानौ तु यावत्कालं हि पिप्पल ६५।

तावत्कालं हि मे लाभो ह्यतुलश्च प्रजायते ।

त्रिकालं पूजयाम्येतौ शुद्धभावेन चेतसा ६६।

स्वच्छंदलीलासंचारी वर्ताम्येव हि पिप्पल ।

किं मे चान्येन तपसा किं मे कायस्य शोषणैः ६७।

किं मे सुतीर्थयात्राभिरन्यैः पुण्यैश्च सांप्रतम् ।

मखानामेव सर्वेषां यत्फलं प्राप्यते द्विज ६८।

तत्फलं तु मया दृष्टं पितुः शुश्रूषणादपि ।

मातुः शुश्रूषणं तद्वत्पुत्राणां गतिदायकम् ६९।

सर्वकर्मसुसर्वस्वं सारभूतं जगत्रये ।

पुत्रस्य जायते लोको मातुः शुश्रूषणादपि ७०।

पितुः शुश्रूषणे तद्वन्महत्पुण्यं प्रजायते ।

तत्र गंगा गयातीर्थं तत्र पुष्करमेव च ७१।

यत्र मातापिता तिष्ठेत्पुत्रस्यापि न संशयः ।

अन्यानि तत्र तीर्थानि पुण्यानि विविधानि च ७२।

भवंत्येतानि पुत्रस्य पितुः शुश्रूषणादपि ।

पितुः शुश्रूषणात्तस्य दानस्य तपसः फलम् ७३।

सत्पुत्रस्य भवेद्विप्र अन्य धर्मः श्रमायते ।

पितुः शुश्रूषणात्पुण्यं पुत्रः प्राप्नोत्यनुत्तमम् ७४।

स्वकर्मणस्तु सर्वस्वमिहैव च परत्र च ।

जीवमानौ गुरूत्वेतौ स्वमातापितरौ तथा ७५।

शुश्रूषते सुतो भूत्वा तस्य पुण्यफलं शृणु ।

देवास्तस्यापि तुष्यंति ऋषयः पुण्यवत्सलाः ७६।

त्रयोलोकास्तु तुष्यंति पितुः शुश्रूषणादिह ।

मातापित्रोस्तु यः पादौ नित्यमेव हि क्षालयेत् ७७।

तस्य भागीरथीस्नानमहन्यहनि जायते ।

पुण्यैर्मिष्टान्नपानैर्यः पितरं मातरं तथा ७८।

भक्त्या भोजयते नित्यं तस्य पुण्यं वदाम्यहम् ।

अश्वमेधस्य यज्ञस्य फलं पुत्रस्य जायते ७९।

तांबूलैश्छादनैश्चैव पानैश्चाशनकैस्तथा ।

भक्त्या चान्नेन पुण्येन गुरू येनाभिपूजितौ ८०।

सर्वज्ञानी भवेत्सोपि यशःकीर्तिमवाप्नुयात् ।

मातरं पितरं दृष्ट्वा हर्षात्संभाषयेत्सुतः ८१।

निधयस्तस्य संतुष्टास्तस्य गेहे वसंति ते ।

गावः सौहृद्यमायांति पुत्रस्य सुखदाः सदा ८२।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातृपितृतीर्थ-।

माहात्म्ये द्विषष्टितमोऽध्यायः ६२ ।

खण्डः २ (भूमिखण्डः) — Adhyāya 63

सुकर्मोवाच-

तयोश्चापि द्विजश्रेष्ठ मातापित्रोश्च स्नातयोः ।

पुत्रस्यापि हि सर्वांगे पतंत्यंबुकणा यदा १।

सर्वतीर्थसमं स्नानं पुत्रस्यापि सुजायते ।

पतितं विकलं वृद्धमशक्तं सर्वकर्मसु २।

व्याधितं कुष्ठिनं तातं मातरं च तथाविधाम् ।

उपाचरति यः पुत्रस्तस्य पुण्यं वदाम्यहम् ३।

विष्णुस्तस्य प्रसन्नात्मा जायते नात्र संशयः ।

प्रयाति वैष्णवं लोकं यदप्राप्यं हि योगिभिः ४।

पितरौ विकलौ दीनौ वृद्धावेतौ गुरू सुतः ।

महागदेन संप्राप्तौ परित्यजति पापधीः ५।

पुत्रो नरकमाप्नोति दारुणं कृमिसंकुलम् ।

वृद्धाभ्यां च समाहूतो गुरूभ्यामिह सांप्रतम् ६।

न प्रयाति सुतो भूत्वा तस्य पापं वदाम्यहम् ।

विष्ठाशी जायते मूढो ग्रामघ्रोणी न संशयः ७।

यावज्जन्मसहस्रं तु पुनः श्वा चाभिजायते ।

पुत्रगेहेस्थितौ वृद्धौ माता च जनकस्तथा ८।

अभोजयित्वा तावन्नं स्वयमत्ति च यः सुतः ।

मूत्रं विष्ठां स भुंजीत यावज्जन्मसहस्रकम् ९।

कृष्णसर्पो भवेत्पापी यावज्जन्मशतद्वयम् ।

मातरंपितरं वृद्धमवज्ञाय प्रवर्त्तते १०।

ग्राहोपि जायते दुष्टो जन्मकोटिशतैरपि ।

तावेतौ कुत्सते पुत्रः कटुकैर्वचनैरपि ११।

स च पापी भवेद्व्याघ्रः पश्चादृक्षः प्रजायते ।

मातरंपितरं पुत्रो यो न मन्येत दुष्टधीः १२।

कुंभीपाके वसेत्तावद्यावद्युगसहस्रकम् ।

नास्ति मातृसमं तीर्थं पुत्राणां च पितुः समम् १३।

तारणाय हितायैव इहैव च परत्र च ।

तस्मादहं महाप्राज्ञ पितृदेवं प्रपूजये १४।

मातृदेवं सर्वदेव योगयोगी तथाभवम् ।

मातृपितृप्रसादेन संजातं ज्ञानमुत्तमम् १५।

त्रिलोकीयं समस्ता तु संयाता मम वश्यताम् ।

अर्वाचीनगतिं जाने देवस्यास्य महात्मनः १६।

वासुदेवस्य तस्यैव पराचीनां महामते ।

सर्वं ज्ञानं समुद्भूतं पितृमातृप्रसादतः १७।

को न पूजयते विद्वान्पितरं मातरं तथा ।

सांगोपांगैरधीतैस्तैः श्रुतिशास्त्रसमन्वितैः १८।

वेदैरपि च किं विप्रा पिता येन न पूजितः ।

माता न पूजिता येन तस्य वेदा निरर्थकाः १९।

यज्ञैश्च तपसा विप्र किं दानैः किं च पूजनैः ।

प्रयाति तस्य वैफल्यं न माता येन पूजिता २०।

न पिता पूजितो येन जीवमानो गृहे स्थितः ।

एष पुत्रस्य वै धर्मस्तथा तीर्थं नरेष्विह २१।

एष पुत्रस्य वै मोक्षस्तथा जन्मफलं शुभम् ।

एष पुत्रस्य वै यज्ञो दानमेव न संशयः २२।

पितरं पूजयेन्नित्यं भक्त्या भावेन तत्परः ।

तस्य जातं समस्तं तद्यदुक्तं पूर्वमेव हि २३।

दानस्यापि फलं तेन तीर्थस्यापि न संशयः ।

यज्ञस्यापि फलं प्राप्तं माता येनाप्युपासिता २४।

पिता येन सुभक्त्या च नित्यमेवाप्युपासितः ।

तस्य सर्वा सुसंसिद्धा यज्ञाद्याः पुण्यदाः क्रियाः २५।

एतदर्थं समाज्ञातं धर्मशास्त्रं श्रुतं मया ।

पितृभक्तिपरो नित्यं भवेत्पुत्रो हि पिप्पल २६।

तुष्टे पितरि संप्राप्तं यदुराज्ञा पुरा सुखम् ।

रुष्टे पितरि च प्राप्तं महत्पापं पुरा शृणु २७।

रुरुणा पौरवेणापि पित्रा शप्तेन भूतले ।

एवं ज्ञानं मया चाप्तं द्वावेतौ यदुपासितौ २८।

एतयोश्च प्रसादेन प्राप्तं फलमनुत्तमम् २९।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थ-माहात्म्ये त्रिषष्टितमोऽध्यायः ६३ ।

खण्डः २ (भूमिखण्डः) — Adhyāya 64

पिप्पलउवाच-

पितुःप्रसादभावाद्वै यदुना सुखमुत्तमम् ।

कथं प्राप्तं सुभुक्तं च तन्मे विस्तरतो वद १।

कस्मात्पापप्रभावं च रुरुर्भुंक्ते द्विजोत्तम ।

सकलं विस्तरेणापि वद मे कुंडलात्मज २।

सुकर्मोवाच-

श्रूयतामभिधास्यामि चरित्रं पापनाशनम् ।

नहुषस्य सुपुण्यस्य ययातेश्च महात्मनः ३।

सोमवंशात्प्रभूतो हि नहुषो मेदिनीपतिः ।

दानधर्माननेकांश्च चका रह्यतुलानपि ४।

मखानामश्वमेधानामियाज शतमुत्तमम् ।

वाजपेयशतं चापि अन्यान्यज्ञाननेकधा ५।

आत्मनः पुण्यभावेन इंद्रलोकमवाप सः ।

पुत्रं धर्मगुणोपेतं प्रजापालं चकार सः ६।

ययातिं सत्यसंपन्नं धर्मवीर्यं महामतिम् ।

एंद्रं पदं गतो राजा तस्य पुत्रः पदे स्वके ७।

ययातिः सत्यसंपन्नः प्रजा धर्मेण पालयेत् ।

स्वयमेव प्रपश्येत्स प्रजाकर्माणि तान्यपि ८।

याजयामास धर्मज्ञः श्रुत्वा धर्ममनुत्तमम् ।

यज्ञतीर्थादिकं सर्वं दानपुण्यं चकार सः ९।

राज्यं चकार मेधावी सत्यधर्मेण वै तदा ।

यावदशीतिसहस्राणि वर्षाणां नृपनंदनः १०।

तावत्कालं गतं तस्य ययातेस्तु महात्मनः ।

तस्य पुत्राश्च चत्वारस्तद्वीर्यबलविक्रमाः ११।

तेषां नामानि वक्ष्यामि शृणुष्वैकाग्रमानसः ।

तस्यासीज्ज्येष्ठपुत्रस्तु रुरुर्नाम महाबलः १२।

पुरुर्नाम द्वितीयोऽभूत्कुरुश्चान्यस्तृतीयकः ।

यदुर्नाम स धर्मात्मा चतुर्थो नृपतेः सुतः १३।

एवं चत्वारः पुत्राश्च ययातेस्तु महात्मनः ।

तेजसा पौरुषेणापि पितृतुल्यपराक्रमाः १४।

एवं राज्यं कृतं तेन धर्मेणापि ययातिना ।

तस्य कीर्तिर्यशो भावस्त्रैलोक्ये प्रचुरोभवत् १५।

विष्णुरुवाच-

एकदा तु द्विजश्रेष्ठो नारदो ब्रह्मनंदनः ।

एंद्रं लोकं गतो राजन्द्रष्टुं चैव पुरंदरम् १६।

सहस्राक्षस्ततोपश्यद्धुताशनसमप्रभम् ।

देवो विप्रं समायांतं सर्वज्ञं ज्ञानपंडितम् १७।

पूजितं मधुपर्काद्यैर्भक्त्या नमितकंधरः ।

निवेश्य चासने पुण्ये पप्रच्छ मुनिपुंगवम् १८।

इंद्र उवाच-

कस्मादागमनं तेद्य किमर्थमिह चागतः ।

किं ते हि सुप्रियं विप्र करोम्यद्य महामुने १९।

नारद उवाच-

देवराज कृतं सर्वं भक्त्या यच्च प्रभाषितम् ।

संतुष्टोस्मि महाप्राज्ञ प्रश्नोत्तरं वदाम्यहम् २०।

महीलोकात्सुसंप्राप्तः सांप्रतं तव मंदिरम् ।

त्वामन्वेष्टुं समायातो दृष्ट्वा नाहुषमेव च २१।

इंद्र उवाच-

सत्यधर्मेण को राजा प्रजाः पालयते सदा ।

सर्वधर्मसमायुक्तः श्रुतवाञ्ज्ञानवान्गुणी २२।

पृथिव्यामस्ति को राजा वेदज्ञो ब्राह्मणप्रियः ।

ब्रह्मण्यो वेदविच्छूरो यज्वा दाता सुभक्तिमान् २३।

नारद उवाच-

एभिर्गुणैस्तु संयुक्तो नहुषस्यात्मजो बली ।

यस्य सत्येन वीर्येण सर्वे लोकाः प्रतिष्ठिताः २४।

भवादृशो हि भूर्लोके ययातिर्नहुषात्मजः ।

भवान्स्वर्गे स चैवास्ति भूतले भूतिवर्धनः २५।

पितुः श्रेष्ठो महाराज ह्यश्वमेधशतं तथा ।

वाजपेयशतं चक्रे ययातिः पृथिवीपतिः २६।

दत्तान्यनेकरूपाणि दानानि तेन भक्तितः ।

गवां लक्षसहस्राणि गवां कोटिशतानि च २७।

कोटिहोमांश्चकाराथ लक्षहोमांस्तथैव च ।

भूमिदानादि दानानि ब्राह्मणेभ्योददाच्च यः २८।

सर्वं येन स्वरूपं हि धर्मस्य परिपालितम् ।

एवं गुणैः समायुक्तो ययातिर्नहुषात्मजः २९।

वर्षाणां तु सहस्राणि अशीतिर्नृपसत्तमः ।

राज्यं चकार सत्येन यथा दिवि भवानिह ३०।

सुकर्मोवाच-

एवमाकर्ण्य देवेंद्रो नारदात्स मुनीश्वरात् ।

समालोच्य स मेधावी संभीतो धर्मपालनात् ३१।

शतयज्ञप्रभावेण नहुषो हि पुरा मम ।

एंद्रं पदं गतो वीरो देवराजोभवत्पुरा ३२।

शची बुद्धिप्रभावेण पदभ्रष्टो व्यजायत ।

तादृशोयं महाराजः पितुस्तुल्यपराक्रमः ३३।

प्राप्स्यते नात्र संदेहः पदमैंद्रं न संशयः ।

येन केनाप्युपायेन तं भूपं दिवमानये ३४।

इत्येवं चिंतयामास तस्माद्भीतः सुरेश्वरः ।

भूपालस्य नृपश्रेष्ठ ययातेः सुमहद्भयात् ३५।

तमानेतुं ततो दूतं प्रेषयामास देवराट् ।

नहुषस्य विमानं तु सर्वकामसमन्वितम् ३६।

सारथिं मातलिं नाम विमानेन समन्वितम् ।

गतो हि मातलिस्तत्र यत्रास्ते नहुषात्मजः ३७।

प्रहितः सुरराजेन समानेतुं महामतिम् ।

सभायां वर्त्तमानस्तु यथा इंद्र प्रःशोभते ३८।

तथा ययातिर्धर्मात्मा स्वसभायां विराजते ।

तमुवाच महात्मानं राजानं सत्यभूषणम् ३९।

सारथिर्देवराजस्य शृणु राजन्वचो मम ।

प्रहितो देवराजेन सकाशं तव सांप्रतम् ४०।

यद्ब्रूते देवराजस्तु तत्सर्वं सुमनाः कुरु ।

आगंतव्यं त्वया देव एंद्रं लोकं हि नान्यथा ४१।

पुत्रे राज्यं विसृज्यैव कृत्वा चांतेष्टिमुत्तमाम् ।

इलो राजा महातेजा वसते नहुषात्मज ४२।

पुरूरवा महावीर्यो विप्रचित्तिर्महामनाः ।

शिबिर्वसति तत्रैव मनुरिक्ष्वाकु भूपतिः ४३।

सगरो नाम मेधावी नहुषश्च पिता तव ।

ऋतवीर्यः कृतज्ञश्च शंतनुश्च महामनाः ४४।

भरतो युवनाश्वश्च कार्तवीर्यो नरेश्वरः ।

यज्ञानाहृत्य बहुधा मोदंते दिवि भूभृतः ४५।

अन्ये चैव तु राजानो यज्ञकर्मसु तत्पराः ।

सर्वे ते दिवि चेंद्रेण मोदंते स्वेन कर्मणा ४६।

त्वं पुनः सर्वधर्मज्ञः सर्वधर्मेषु संस्थितः ।

शक्रेण सह मोदस्व स्वर्गलोके महीपते ४७।

ययातिरुवाच-

किं मया तत्कृतं कर्म येन मय्यर्थिता तव ।

इंद्रस्य देवराजस्य तत्सर्वं मे वदस्व च ४८।

मातलिरुवाच- मातलि उपरि टिप्पणी

यदशीतिसहस्राणि वर्षाणां हि त्वया नृप ।

दानपुण्यादिकं कर्म यज्ञैस्तु परिसाधितम् ४९।

दिवं गच्छ महाराज कर्मणा स्वेन भूपते ।

सखित्वं देवराजेन कुरु गच्छ सुरालयम् ५०।

पंचात्मकं शरीरं च भूमौ त्यज महामते ।

दिव्यरूपं समास्थाय भुंक्ष्व भोगान्मनोनुगान् ५१।

यथायथा कृता भूमौ यज्ञा दानं तपश्च ते ।

तथातथा स्वर्गभोगाः प्रार्थयंते नरेश्वर ५२।

ययातिरुवाच-

येन कायेन सिध्येत सुकृतं दुष्कृतं भुवि ।

मातले तत्कथं त्यक्त्वा गच्छेल्लोकमुपार्जितम् ५३।

मातलिरुवाच-

यत्रैवोपार्जितं कायं पंचात्मकमिदं नृप ।

तत्तत्रैव परित्यज्य दिव्येनैव व्रजंति तम् ५४।

इतरे मानवाः सर्वे पापपुण्यप्रसाधकाः ।

तेऽपि कायं परित्यज्य अधऊर्ध्वं व्रजंति वै ५५।

ययातिरुवाच-

पंचात्मकेन कायेन सुकृतं दुष्कृतं नराः ।

उत्पाद्यैव प्रयांत्येव अधऊर्ध्वं तु मातले ५६।

को विशेषो हि धर्मज्ञ भूमौ कायं परित्यजेत् ।

पापपुण्यप्रभावाद्वै कायस्य पतनं भवेत् ५७।

दृष्टांतो दृश्यते सूत प्रत्यक्षं मर्त्यमंडले ।

विशेषं नैव पश्यामि पापपुण्यस्य चाधिकम् ५८।

सत्यधर्मादिकं कर्म येन कायेन मानवः ।

समर्जयति वै मर्त्यस्तं कस्माद्विप्रसर्जयेत् ५९।

आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि ।

कायं मित्रं परित्यज्य आत्मा याति सुनिश्चितः ६०।

मातलिरुवाच-

सत्यमुक्तं त्वया राजन्कायं त्यक्त्वा प्रयाति सः ।

संबंधो नास्ति तेनापि समं कायेन चात्मनः ६१।

यस्मात्पंचत्वरूपोऽयं संधिजर्जरितः सदा ।

जरया पीड्यमानस्तु व्याधिभिर्दूषितः सदा ६२।

जरादोषैः प्रभग्नोऽसौ अत्र स्थातुं स नेच्छति ।

आकुलव्याकुलो भूत्वा जीवस्त्यक्त्वा प्रयाति सः ६३।

सत्येन धर्मपुण्यैश्च दानैर्नियमसंयमैः ।

अश्वमेधादिभिर्यज्ञैस्तीर्थैः संयमनैस्तथा ६४।

सुपुण्यैः सुकृतैश्चान्यैर्जरा नैव प्रधार्यते ।

पातकैश्च महाराज द्रवते कायमेव सा ६५।

ययातिरुवाच-

कस्माज्जरा समुत्पन्ना कस्मात्कायं प्रपीडयेत् ।

मम विस्तरतस्त्वं च वक्तुमर्हसि सत्तम ६६।

मातलिरुवाच-

हंत ते वर्णयिष्यामि जरायाः परिकारणम् ।

यस्माच्चेयं समुद्भूता कायमध्ये नृपोत्तम ६७।

पंचभूतात्मकः कायो विषयैः पंचभिः श्रितः ।

यदात्मा त्यजते राजन्स कायः परिधक्ष्यते ६८।

वह्निना दीप्यमानस्तु सरसो ज्वलते नृप ।

तस्माद्विजायते धूमो धूमान्मेघाश्च जज्ञिरे ६९।

मेघादापः प्रवर्तंते अद्भ्यः पृथ्वी प्रकल्पते ।

जलमायाति साध्वी सा यथा नारी रजस्वला ७०।

तस्मात्प्रजायते गंधो गंधाद्रसो नृपोत्तम ।

रसात्प्रभवते चान्नमन्नाच्छुक्रं न संशयः ७१।

शुक्राद्धि जायते कायः कुरूपः काय एव च ।

यथा पृथ्वी सृजेद्गंधान्रसैश्चरति भूतले ७२।

तथा कायश्चरेन्नित्यं रसाधारो हि सर्वशः ।

गंधश्च जायते तस्माद्गंधाद्रसो भवेत्पुनः ७३।

तस्माज्जज्ञे महावह्निर्दृष्टांतं पश्य भूपते ।

यथा काष्ठाद्भवेद्वह्निः पुनः काष्ठं प्रकाशयेत् ७४।

कायमध्ये रसादग्निस्तद्वदेव प्रजायते ।

तत्र संचरते नित्यं कायं पुष्णाति भूपते ७५।

यावद्रसस्य चाधिक्यं तावज्जीवः प्रशांतिमान् ।

चरित्वा तादृशं वह्निः क्षुधारूपेण वर्तते ७६।

अन्नमिच्छत्यसौ तीव्रः पयसा च समन्वितम् ।

प्रदानं लभते चान्नमुदकं चापि भूपते ७७।

शोणितं चरते वह्निस्तद्वद्वीर्यं न संशयः ।

यक्ष्मरोगो भवेत्तस्मात्सर्वकायप्रणाशकः ७८।

रसाधिक्यं भवेद्राजन्नथ वह्निः प्रशाम्यति ।

रसेन पीड्यमानस्तु ज्वररूपोभिजायते ७९।

ग्रीवा पृष्ठं कटिं पायुं सर्वास्वेव तु संधिषु ।

आरुध्य तिष्ठते वह्निः काये वह्निः प्रवर्तते ८०।

तस्याऽधिक्यं चरेन्नित्यं कायं पुष्णाति सर्वतः ।

रसस्तु बंधमायाति बलरूपो भवेत्तदा ८१।

अतिरिक्तो बलेनैव वीर्यान्मर्माणि चालयेत् ।

तेनैव जायते कामः शल्यरूपो भवेन्नृप ८२।

सकामाग्निः समाख्यातो बलनाशकरो नृप ।

मैथुनस्य प्रसंगेन विनाशत्वं कलेवरे ८३।

नारीं च संश्रयेत्प्राणी पीडितः कामवह्निना ।

मैथुनस्य प्रसंगेन मूर्छितः कामकर्शितः ८४।

तेजोहीनो भवेत्कायो बलहानिश्च जायते ।

बलहीनो यदा स्याद्वै दुर्बलो वह्निनेरितः ८५।

स वह्निः प्रचरेत्काये शोणितं शुक्रमेव च ।

शुक्रशोणितयोर्नाशाच्छून्यदेहोभिजायते ८६।

अतीव जायते वायुः प्रचंडो दारुणाकृतिः ।

विवर्णो दुःखसंतप्तः शून्यबुद्धिस्ततो भवेत् ८७।

दृष्टा श्रुता तु या नारी तच्चित्तो भ्रमते सदा ।

तृप्तिर्न जायते काये लोलुपे चित्तवर्त्मनि ८८।

विरूपश्च सुरूपश्च ध्यानान्मध्ये प्रजायते ।

बलहीनो यदा कामी मांसशोणितसंक्षयात् ८९।

पलितं जायते काये नाशिते कामवह्निना ।

तस्मात्संजायते कामी वृद्धो भूत्वा दिनेदिने ९०।

सुरते चिंतते नारीं यथा वार्द्धुषिको नरः ।

तथातथा भवेद्धानिस्तेजसोऽस्य नरेश्वर ९१।

तस्मात्प्रजायते कायो नाशरूपं समृच्छति ।

अग्निः प्रजायते भूयो जरारूपो न संशयः ९२।

प्राणिनां क्षयरूपेण ज्वरो भवति दारुणः ।

स्थावरा जंगमाः सर्वे ज्वरेण परिपीडिताः ९३।

नाशमायांति ते सर्वे बहुपीडा प्रपीडिताः ।

एतत्ते सर्वमाख्यातमन्यत्किं ते वदाम्यहम् ९४।

एवमुक्तो महाराजो मातलिं वाक्यमब्रवीत् ९५।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थमाहात्म्ये चतुःषष्टितमोऽध्यायः ६४।

खण्डः २ (भूमिखण्डः) — Adhyāya 65

ययातिरुवाच-

धर्मस्य रक्षकः कायो मातले चात्मना सह ।

नाकमेष न प्रयाति तन्मे त्वं कारणं वद १।

मातलिरुवाच-

पंचानामपि भूतानां संगतिर्नास्ति भूपते ।

आत्मना सह वर्तंते संगत्या नैव पंच ते २।

सर्वेषां तत्र संघातः कायग्रामे प्रवर्तते ।

जरया पीडिताः सर्वेः स्वंस्वं स्थानं प्रयांति ते ३।

यथा रसाधिका पृथ्वी महाराज प्रकल्पिता ।

रसैः क्लिन्ना ततः पृथ्वी मृदुत्वं याति भूपते ४।

भिद्यते पिपीलिकाभिर्मूषिकाभिस्तथैव च ।

छिद्राण्येव प्रजायंते वल्मीकाश्च महोदराः ५।

तद्वत्काये प्रजायंते गंडमाला विचार्चिकाः ।

कृमिभिर्भिद्यमानश्च काय एष नरोत्तम ६।

गुल्मास्तत्र प्रजायंते सद्यः पीडाकरास्तदा ।

एभिर्दोषैः समायुक्तः कायोयं नहुषात्मज ।

कथं प्राणसमायोगाद्दिवं याति नरेश्वर ७।

काये पार्थिवभागोऽयं समानार्थं प्रतिष्ठितः ।

न कायः स्वर्गमायाति यथा पृथ्वी तथास्थितः ८।

एतत्ते सर्वमाख्यातं दोषौघैः पार्थिवस्य यः ९।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थ-।

माहात्म्ये पंचषष्टितमोऽध्यायः ६५ ।

खण्डः २ (भूमिखण्डः) — Adhyāya 66

ययातिरुवाच-

पापात्पतति कायोयं धर्माच्च शृणु मातले ।

विशेषं न च पश्यामि पुण्यस्यापि महीतले १।

पुनः प्रजायते कायो यथा हि पतनं पुरा ।

कथमुत्पद्यते देहस्तन्मे विस्तरतो वद २।

मातलिरुवाच-

अथ नारकिणां पुंसामधर्मादेव केवलात् ।

क्षणमात्रेण भूतेभ्यः शरीरमुपजायते ३।

तद्वद्धर्मेण चैकेन देवानामौपपादिकम् ।

सद्यः प्रजायते दिव्यं शरीरं भूतसारतः ४।

कर्मणा व्यतिमिश्रेण यच्छरीरं महात्मनाम् ।

तद्रूपपरिणामेन विज्ञेयं हि चतुर्विधम् ५।

उद्भिज्जाः स्थावरा ज्ञेयास्तृणगुल्मादि रूपिणः ।

कृमिकीटपतंगाद्याः स्वेदजानामदेहिनः ६।

अंडजाः पक्षिणः सर्वे सर्पा नक्राश्च भूपते ।

जरायुजाश्च विज्ञेया मानुषाश्च चतुष्पदाः ७।

तत्र सिक्ता जलैर्भूमिर्रक्ते उष्मविपाचिता ।

वायुना धम्यमाना च क्षेत्रे बीजं प्रपद्यते ८।

यथा उप्तानि बीजानि संसिक्तान्यंभसा पुनः ।

उपगम्य मृदुत्वं च मूलभावं व्रजंति च ९।

तन्मूलादंकुरोत्पत्तिरंकुरात्पर्णसंभवः ।

पर्णान्नालं ततः कांडं कांडाच्च प्रभवः पुनः १०।

प्रभवाच्च भवेत्क्षीरं क्षीरात्तंदुलसंभवः ।

तंदुलाच्च ततः पक्वा भवंत्योषधयस्तथा ११।

यवाद्याः शालिपर्यंताः श्रेष्ठाः सप्तदश स्मृताः ।

ओषध्यः फलसाराढ्याः शेषा क्षुद्रा प्रःकीर्तिताः १२।

एता लूना मर्दिताश्च मुनिभिः पूर्वसंस्कृताः ।

शूर्पोलूखलपात्राद्यैः स्थालिकोदकवह्निभिः १३।

षड्विधा हि स्वभेदेन परिणामं व्रजंति ताः ।

अन्योन्यरससंयोगादनेकस्वादतां गताः १४।

भक्ष्यं भोज्यं पेयलेह्यं चोष्यं खाद्यं च भूपते ।

तासां भेदाः षडंगाश्च मधुराद्याश्च षड्गुणाः १५।

तदन्नं पिंडकवलैर्ग्रासैर्भुक्तं च देहिभिः ।

अन्नमूलाशये सर्वप्राणान्स्थापयति क्रमात् १६।

अपक्वं भुक्तमाहारं स वायुः कुरुते द्विधा ।

संप्रविश्यान्नमध्ये च पक्वं कृत्वा पृथग्गुणम् १७।

अग्नेरूर्ध्वं जलं स्थाप्य तदन्नं च जलोपरि ।

जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः १८।

वायुना धम्यमानोग्निरत्युष्णं कुरुते जलम् ।

तदन्नमुष्णयोगेन समंतात्पच्यते पुनः १९।

द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसः ।

मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्व्रजेत् २०।

कर्णाक्षि नासिका जिह्वा दंतोष्ठ प्रजनं गुदा ।

मलान्स्रवेदथ स्वेदो विण्मूत्रं द्वादश स्मृताः २१।

हृत्पद्मे प्रतिबद्धाश्च सर्वनाड्यः समंततः ।

तासां मुखेषु तं सूक्ष्मं प्राणः स्थापयते रसम् २२।

रसेन तेन ता नाडीः प्राणः पूरयते पुनः ।

संतर्पयंति ता नाड्यः पूर्णा देहं समंततः २३।

ततः स नाडीमध्यस्थः शारीरेणोष्मणा रसः ।

पच्यते पच्यमानश्च भवेत्पाकद्वयं पुनः २४।

त्वङ्मांसास्थि मज्जा मेदो रुधिरं च प्रजायते ।

रक्ताल्लोमानि मांसं च केशाः स्नायुश्च मांसतः २५।

स्नायोर्मज्जा तथास्थीनि वसा मज्जास्थिसंभवा ।

मज्जाकारेण वैकल्यं शुक्रं च प्रसवात्मकम् २६।

इति द्वादश शान्तस्य परिणामाः प्रकीर्तिताः ।

शुक्रं तस्य परीणामः शुक्राद्देहस्य संभवः २७।

ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम् ।

तदा तद्वायुसंसृष्टं स्त्रीरक्तेनैकतां व्रजेत् २८।

विसर्गकाले शुक्रस्य जीवः कारणसंयुतः ।

नित्यं प्रविशते योनिं कर्मभिः स्वैर्नियंत्रितः २९।

शुक्रस्य सह रक्तस्य एकाहात्कललं भवेत् ।

पंचरात्रेण कलले बुद्बुदत्वं ततो भवेत् ३०।

मांसत्वं मासमात्रेण पंचधा जायते पुनः ।

ग्रीवा शिरश्च स्कंधश्च पृष्ठवंशस्तथोदरम् ३१।

पाणीपादौ तथा पार्श्वौ कटिर्गात्रं तथैव च ।

मासद्वयेन पर्वाणि क्रमशः संभवंति च ३२।

त्रिभिर्मासैः प्रजायंते शतशोंकुरसंधयः ।

मासैश्चतुर्भिर्जायंते अंगुल्यादि यथाक्रमम् ३३।

मुखं नासा च कर्णौ च मासैर्जायंति पंचभिः ।

दंतपंक्तिस्तथा जिह्वा जायते तु नखाः पुनः ३४।

कर्णयोश्च भवेच्छिद्रं षण्मासाभ्यंतरे पुनः ।

पायुर्मेढ्रमुपस्थं च शिश्नश्चाप्युपजायते ३५।

संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः ।

अंगप्रत्यंगसंपूर्णं शिरः केशसमन्वितम् ३६।

विभक्तावयवस्पष्टं पुनर्मासाष्टमे भवेत् ।

पंचात्मक समायुक्तः परिपक्वः स तिष्ठति ३७।

मातुराहारवीर्येण षड्विधेन रसेन च ।

नाभिसूत्रनिबद्धेन वर्द्धते स दिनेदिने ३८।

ततः स्मृतिं लभेज्जीवः संपूर्णोस्मिञ्छरीरके ।

सुखं दुःखं विजानाति निद्रां स्वप्नं पुराकृतम् ३९।

मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ।

नानायोनिसहस्राणि मया दृष्टान्यनेकधा ४०।

अधुना जातमात्रोहं प्राप्तसंस्कार एव च ।

ततः श्रेयः करिष्यामि येन गर्भे न संभवः ४१।

गर्भस्थश्चिंतयत्येवमहं गर्भाद्विनिःसृतः ।

अध्येष्यामि परं ज्ञानं संसारविनिवर्तकम् ४२।

अवश्यं गर्भदुःखेन महता परिपीडितः ।

जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयेत् ४३।

यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति ।

तथा जरायुणा देही दुःखं तिष्ठति दुःखितः ४४।

पतितः सागरे यद्वद्दुःखमास्ते समाकुलः ।

गर्भोदकेन सिक्तांगस्तथास्ते व्याकुलात्मकः ४५।

लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना ।

गर्भकुंभे तथाक्षिप्तः पच्यते जठराग्निना ४६।

सूचीभिरग्निवर्णाभिर्भिन्नगात्रो निरंतरम् ।

यद्दुःखं जायते तस्य तद्गर्भेष्टगुणं भवेत् ४७।

गर्भवासात्परं वासं कष्टं नैवास्ति कुत्रचित् ।

देहिनां दुःखमतुलं सुघोरमपि संकटम् ४८।

इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम् ।

चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः ४९।

गर्भात्कोटिगुणापीडा योनियंत्रनिपीडनात् ।

संमूर्च्छितस्य जायेत जायमानस्य देहिनः ५०।

इक्षुवत्पीड्यमानस्य पापमुद्गरपेषणात् ।

गर्भान्निष्क्रममाणस्य प्रबलैः सूतिवायुभिः ५१।

जायते सुमहद्दुःखं परित्राणं न विंदति ।

यंत्रेण पीड्यमानाः स्युर्निःसाराश्च यथेक्षवः ५२।

तथा शरीरं योनिस्थं पात्यते यंत्रपीडनात् ।

अस्थिमद्वर्तुलाकारं स्नायुबंधनवेष्टितम् ५३।

रक्तमांसवसालिप्तं विण्मूत्रद्रव्यभाजनम् ।

केशलोमनखच्छन्नं रोगायतनमुत्तमम् ५४।

वदनैकमहाद्वारं गवाक्षाष्टकभूषितम् ।

ओष्ठद्वयकपाटं तु दंतजिह्वागलान्वितम् ५५।

नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम् ।

जराशोकसमाविष्टं कालवक्त्रानलेस्थितम् ५६।

कामक्रोधसमाक्रांतं श्वसनैश्चोपमर्दितम् ।

भोगतृष्णातुरं गूढं रागद्वेष वशानुगम् ५७।

सवर्णितांगप्रत्यंगं जरायु परिवेष्टितम् ।

संकटेनाविविक्तेन योनिमार्गेण निर्गतम् ५८।

विण्मूत्ररक्तसिक्तांगं षट्कौशिकसमुद्भवम् ।

अस्थिपंजरसंघातं ज्ञेयमस्मिन्कलेवरे ५९।

शतत्रयं शताधिकं पंचपेशी शतानि च ।

सार्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः ६०।

शरीरं स्थूलसूक्ष्माभिर्दृश्यादृश्याभिरंततः ।

एताभिर्मांसनाडीभिः कोटिभिस्तत्समन्वितम् ६१।

प्रस्वेदमशुचिं ताभिरंतरस्थं च तेन हि ।

द्वात्रिंशद्दशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः ६२।

पित्तस्य कुडवं ज्ञेयं कफस्यार्धाढकं तथा ।

वसायाश्च पलाः पंच तदर्धं फलकस्य च ६३।

पंचार्बुद पला ज्ञेयाः पलानि दश मेदसः ।

पलत्रयं महारक्तं मज्जा रक्ताच्चतुर्गुणा ६४।

शुक्रार्धकुडवं ज्ञेयं तदर्धं देहिनां बलम् ।

मांसस्य चैकं पिंडेन पलसाहस्रमुच्यते ६५।

रक्तं पलशतं ज्ञेयं विण्मूत्रं चाप्रमाणतः ।

इति देहगृहे राजन्वासः स्यान्नित्यमात्मनः ६६।

अशुद्धं च विशुद्धस्य कर्मबंधविनिर्मितम् ।

शुक्रशोणितसंयोगाद्देहः संजायते क्वचित् ६७।

नित्यं विण्मूत्रसंयुक्तस्तेनायमशुचिः स्मृतः ।

यथा वै विष्ठया पूर्णः शुचिः सांतर्बहिर्घटः ६८।

शौचेन शोध्यमानोपि देहोयमशुचिर्भवेत् ।

यं प्राप्यातिपवित्राणि पंचगव्य हवींषि च ६९।

अशुचित्वं प्रयांत्याशु देहोयमशुचिस्ततः ।

हृद्यान्यप्यन्नपानानि यं प्राप्य सुरभीणि च ७०।

अशुचित्वं प्रयांत्याशु कोऽन्य स्यादशुचिस्ततः ।

हे जनाः किं न पश्यध्वं यन्निर्याति दिनेदिने ७१।

देहानुगो मलः पूतिस्तदाधारः कथं शुचिः ।

देहः संशोध्यमानोपि पंचगव्यकुशांबुभिः ७२।

घृष्यमाण इवांगारो निर्मलत्वं न गच्छति ।

स्रोतांसि यस्य सततं प्रवहंति गिरेरिव ७३।

कफमूत्राद्यमशुचिः स देहः शुध्यते कथम् ।

सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ७४।

शुचिरेकप्रदेशोपि शुचिर्न स्यादृतेऽपि वा ।

दिवा वा यदि वा रात्रौ मृत्तोयैः शोध्यते करः ७५।

तथापि शुचिभाङ्नस्यान्न विरज्यंति ते नराः ।

कायोयमग्र्यधूपाद्यैर्यत्नेनापि सुसंस्कृतः ७६।

न जहाति स्वभावं हि श्वपुच्छमिव नामितम् ।

तथा जात्यैव कृष्णोर्णा न शुक्ला जातु जायते ७७।

संशोध्यमानापि तथा भवेन्मूर्तिर्न निर्मला ।

जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि मलं स्वकम् ७८।

न विरज्यति लोकोऽयं पीडयन्नपि नासिकाम् ।

अहो मोहस्य माहात्म्यं येन व्यामोहितं जगत् ७९।

जिघ्रन्पश्यन्स्वकान्दोषान्कायस्य न विरज्यते ।

स्वदेहस्य विगंधेन विरज्येत न यो नरः ८०।

विरागकारणं तस्य किमन्यदुपदिश्यते ।

सर्वमेव जगत्पूतं देहमेवाशुचिः परम् ८१।

यन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेत् ।

गंधलेपापनोदाय शौचं देहस्य कीर्तितम् ८२।

द्वयस्यापगमात्पश्चाद्भावशुद्ध्या विशुद्ध्यति ।

गंगातोयेन सर्वेण मृद्भारैर्गात्रलेपनैः ८३।

मर्त्यो दुर्गंधदेहोसौ भावदुष्टो न शुध्यति ।

तीर्थस्नानैस्तपोभिश्च दुष्टात्मा न च शुध्यति ८४।

स्वमूर्तिः क्षालिता तीर्थे न शुद्धिमधिगच्छति ।

अंतर्भावप्रदुष्टस्य विशतोपि हुताशनम् ८५।

न स्वर्गो नापवर्गश्च देहनिर्दहनं परम् ।

भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु ८६।

अन्यथा लिंग्यते कांता भावेन दुहितान्यथा ।

मनसा भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु ८७।

अन्यथैव सती पुत्रं चिंतयेदन्यथा पतिम् ।

यथायथा स्वभावस्य महाभाग उदाहृतम् ८८।

परिष्वक्तोपि यद्भार्यां भावहीनां न कारयेत् ।

नाद्याद्विविधमन्नाद्यं रस्यानि सुरभीणि च ८९।

अभावेन नरस्तस्माद्भावः सर्वत्र कारणम् ।

चित्तं शोधय यत्नेन किमन्यैर्बाह्यशोधनैः ९०।

भावतः शुचिशुद्धात्मा स्वर्गं मोक्षं च विंदति ।

ज्ञानामलांभसा पुंसः सवैराग्यमृदापुनः ९१।

अविद्या रागविण्मूत्र लेपो नश्येद्विशोधनैः ।

एवमेतच्छरीरं हि निसर्गादशुचिं विदुः ९२।

विद्यादसार निःसारं कदलीसारसन्निभम् ।

ज्ञात्वैवं दोषवद्देहं यः प्राज्ञः शिथिली भवेत् ९३।

सोतिक्रामति संसारं दृढग्राहोवतिष्ठति ।

एवमेतन्महाकष्टं जन्मदुःखं प्रकीर्तितम् ९४।

पुंसामज्ञानदोषेण नानाकर्मवशेन च ।

गर्भस्थस्य मतिर्यासीत्सा जातस्य प्रणश्यति ९५।

सुमूर्च्छितस्य दुःखेन योनियंत्रनिपीडनात् ।

बाह्येन वायुना चास्य मोहसंगेन देहिनाम् ९६।

स्पृष्टमात्रस्य घोरेण ज्वरः समुपजायते ।

तेन ज्वरेण महता महामोहः प्रजायते ९७।

संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः ।

स्मृतिभ्रंशात्ततस्तस्य पूर्वकर्मवशेन च ९८।

रतिः संजायते तस्य जंतोस्तत्रैव जन्मनि ।

रक्तो मूढश्च लोकोयमकार्ये संप्रवर्त्तते ९९।

न चात्मानं विजानाति न परं न च दैवतम् ।

न शृणोति परं श्रेयः सचक्षुरपि नेक्षते १००।

समे पथि शनैर्गच्छन्स्खलतीव पदेपदे ।

सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि १०१।

संसारे क्लिश्यते तेन नरो लोभवशानुगः ।

गर्भस्मृतेरभावे च शास्त्रमुक्तं शिवेन च १०२।

तद्दुःखकथनार्थाय स्वर्गमोक्षप्रसाधकम् ।

येन तस्मिञ्छिवे ज्ञाते धर्मकामार्थसाधने १०३।

न कुर्वंत्यात्मनः श्रेयस्तदत्र महदद्भुतम् ।

अव्यक्तेंद्रियबुद्धित्वाद्बाल्येदुःखं महत्पुनः १०४।

इच्छन्नपि न शक्नोति वक्तुं कर्तुं न सत्कृती ।

दंतजन्ममहद्दुःखं लौल्येन वायुना तथा १०५।

बालरोगैश्च विविधैः पीडाबालग्रहैरपि ।

तृड्बुभुक्षा परीतांगः क्वचित्तिष्ठति गच्छति १०६।

विण्मूत्रभक्षणाद्यं च मोहाद्बालः समाचरेत् ।

कौमारः कर्णवेधेन मातापित्रोश्च ताडनैः १०७।

अक्षराध्ययनाद्यैश्च दुःखं गुर्वादिशासनात् ।

प्रमत्तेंद्रियवृत्तेश्च कामरागप्रपीडिनः १०८।

रोगार्दितस्य सततं कुतः सौख्यं हि यौवने ।

ईर्ष्यासु महद्दुःखं मोहाद्दुःखं प्रजायते १०९।

तत्रस्यात्कुपितस्यैव रागो दुःखाय केवलम् ।

रात्रौ न विंदते निद्रा कामाग्नि परिखेदितः ११०।

दिवा वापि कुतः सौख्यमर्थोपार्जनचिंतया ।

स्त्रीष्वायासितदेहस्य ये पुंसः शुक्रबिंदवः १११।

न ते सुखाय मंतव्याः स्वेदजा इव बिंदवः ।

कृमिभिस्ताड्यमानस्य कुष्ठिनः पामरस्य च ११२।

कंडूयनाग्नितापेन यत्सुखं स्त्रीषु तद्विदुः ।

यादृशं मन्यते सौख्यमर्थोपार्जनचिंतया ११३।

तादृशं स्त्रीषु मंतव्यमधिकं नैव विद्यते ।

मर्त्यस्य वेदना सैव यां विना चित्तनिर्वृतिः ११४।

ततोन्योन्यं पुरा प्राप्तमंते सैवान्यथा भवेत् ।

तदेवं जरया ग्रस्तमामया व्यपिनप्रियम् ११५।

अपूर्ववत्समात्मानं जरया परिपीडितम् ।

यः पश्यन्न विरज्येत कोन्यस्तस्मादचेतनः ११६।

जराभिभूतोपि जंतुः पत्नीपुत्रादिबांधवैः ।

अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते ११७।

न धर्ममर्थं कामं च मोक्षं च जरयायुतः ।

शक्तः साधयितुं तस्माद्युवा धर्मं समाचरेत् ११८।

वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते ।

वातादीनां समूहेन देहोयं परिकीर्तितः ११९।

तस्माद्व्याधिमयं ज्ञेयं शरीरमिदमात्मनः ।

वाताद्यव्यतिरिक्तत्वाद्व्याधीनां पंजरस्य च १२०।

रोगैर्नानाविधैर्याति देही दुःखान्यनेकधा ।

तानि च स्वात्मवेद्यानि किमन्यत्कथयाम्यहम् १२१।

एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्ठितम् ।

तत्रैकः कालसंयुक्तः शेषाश्चागंतवः स्मृताः १२२।

ये त्विहागंतवः प्रोक्तास्ते प्रशाम्यंति भेषजैः ।

जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति १२३।

यदि वापमृत्युर्न स्याद्विषास्वादादशंकितः ।

न चात्ति पुरुषस्तस्मादपमृत्योर्बिभेति सः १२४।

विविधा व्याधयस्तत्र सर्पाद्याः प्राणिनस्तथा ।

विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम् १२५।

पीडितं सर्वरोगाद्यैरपि धन्वंतरिः स्वयम् ।

स्वस्थीकर्तुं न शक्नोति कालप्राप्तं न चान्यथा १२६।

नौषधं न तपो दानं न माता न च बांधवाः ।

शक्नुवंति परित्रातुं नरं कालेन पीडितम् १२७।

रसायन तपो जाप्ययोगसिद्धैर्महात्मभिः ।

अवांतरितशांतिः स्यात्कालमृत्युमवाप्नुयात् १२८।

जायते योनिकीटेषु मृतः कर्मवशात्पुनः ।

देहभेदेन यः पश्येद्वियोगं कर्मसंक्षयात् १२९।

मरणं तद्विनिर्दिष्टं न नाशः परमार्थतः ।

महातमः प्रविष्टस्य छिद्यमानेषु मर्मसु १३०।

यद्दुःखं मरणे जंतोर्न तस्येहोपमा क्वचित् ।

हा तात मातः कांतेति क्रंदत्येवं सुदुःखितः १३१।

मंडूक इव सर्पेण ग्रस्यते मृत्युना जगत् ।

बांधवैः स परित्यक्तः प्रियैश्च परिवारितः १३२।

निःश्वसन्दीर्घमुष्णं च मुखेन परिशुष्यता ।

खट्वायां परिवृत्तो हि मुह्यते च मुहुर्मुहुः १३३।

संमूढः क्षिपतेत्यर्थं हस्तपादावितस्ततः ।

खट्वातो वांछते भूमिं भूमेः खट्वां पुनर्महीम् १३४।

विवशस्त्यक्तलज्जश्च मूत्रविष्ठानुलेपितः ।

याचमानश्च सलिलं शुष्ककंठोष्ठतालुकः १३५।

चिंतयानः स्ववित्तानि कस्यैतानि मृते मयि ।

यमदूतैर्नीयमानः कालपाशेन कर्षितः १३६।

म्रियते पश्यतामेवं गलो घुरुघुरायते ।

जीवस्तृणजलौकेव देहाद्देहं विशेत्क्रमात् १३७।

प्राप्नोत्युत्तरमंगं च देहं त्यजति पूर्वकम् ।

मरणात्प्रार्थनाद्दुःखमधिकं हि विवेकिनाम् १३८।

क्षणिकं मरणे दुःखमनंतं प्रार्थनाकृतम् ।

जगतां पतिरर्थित्वाद्विष्णुर्वामनतां गतः १३९।

अधिकः कोपरस्तस्माद्यो न यास्यति लाघवम् ।

ज्ञातं मयेदमधुना मृत्योर्भवति यद्गुरुः १४०।

न परं प्रार्थयेद्भूयस्तृष्णालाघवकारणम् ।

आदौ दुःखं तथा मध्ये दुःखमंते च दारुणम् १४१।

निसर्गात्सर्वभूतानामिति दुःख परंपरा ।

वर्तमानान्यतीतानि दुःखान्येतानि यानि तु १४२।

न नरः शोचयेज्जन्म न विरज्यति तेन वै ।

अत्याहारान्महद्दुःखमल्पाहारात्तदंतरम् १४३।

त्रुटते भोजने कंठो भोजने च कुतः सुखम् ।

क्षुधा हि सर्वरोगाणां व्याधिः श्रेष्ठतमः स्मृतः १४४।

सच्छांतौषधलेपेन क्षणमात्रं प्रशाम्यति ।

क्षुद्व्याधि वेदना तीव्रा निःशेषबलकृंतनी १४५।

तयाभिभूतो म्रियते यथान्यैर्व्याधिभिर्नरः ।

तद्रसेपि हि किं सौख्यं जिह्वाग्रपरिवर्तिनि १४६।

तत्क्षणादर्धकालेन कंठं प्राप्य निवर्तते ।

इति क्षुद्व्याधितप्तानामन्नमोषधवत्स्मृतम् १४७।

न तत्सुखाय मंतव्यं परमार्थेन पंडितैः ।

मृतोपमश्च यः शेते सर्वकार्यविवर्जितः १४८।

तत्रापि च कुतः सौख्यं तमसा चोदितात्मनः ।

प्रबोधेपि कुतः सौख्यं कार्येषूपहतात्मनः १४९।

कृषिवाणिज्यसेवाद्य गोरक्षादि परश्रमैः ।

प्रातर्मूत्रपुरीषाभ्यां मध्याह्ने क्षुत्पिपासया १५०।

तृप्ताः काम्येन बाध्यंते निद्रया निशि जंतवः ।

अर्थस्योपार्जने दुःखं दुःखमर्जितरक्षणे १५१।

नाशे दुःखं व्यये दुःखमर्थस्यैव कुतः सुखम् ।

चौरेभ्यः सलिलेभ्योग्नेः स्वजनात्पार्थिवादपि १५२।

भयमर्थवतां नित्यं मृत्योर्देहभृतामिव ।

खे यथा पक्षिभिर्मांसं भक्ष्यते श्वापदैर्भुवि १५३।

जले च भक्ष्यते मत्स्यैस्तथा सर्वत्र वित्तवान् ।

विमोहयंति संपत्सु वारयंति विपत्सु च १५४।

खेदयंत्यर्जने काले कदार्थाः स्युः सुखावहाः ।

प्रागर्थपतिरुद्विग्नः पश्चात्सर्वार्थनिःस्पृहः १५५।

तयोरर्थपतिर्दुःखी सुखी मन्येर्विरक्तधीः ।

वसंतग्रीष्मतापेन दारुणं वर्षपर्वसु १५६।

वातातपेन वृष्ट्या च कालेप्येवं कुतः सुखम् ।

विवाहविस्तरे दुःखं तद्गर्भोद्वहने पुनः १५७।

सूतिवैषम्यदुःखैश्च दुखं विष्ठादिकर्मभिः ।

दन्ताक्षिरोगे पुत्रस्य हा कष्टं किं करोम्यहम् १५८।

गावो नष्टाः कृषिर्भग्ना भार्या च प्रपलायिता ।

अमी प्राघूर्णिकाः प्राप्ता भयं मे शंसिनो गृहान् १५९।

बालापत्या च मे भार्या कः करिष्यति रंधनम् ।

विवाहकाले कन्यायाः कीदृशश्च वरो भवेत् १६०।

एतच्चिंताभिभूतानां कुतः सौख्यं कुटुंबिनाम् १६१।

कुटुंबचिंताकुलितस्य पुंसः श्रुतं च शीलं च गुणाश्च सर्वे ।

अपक्वकुंभे निहिता इवापः प्रयांति देहेन समं विनाशनम् १६२।

राज्येपि हि कुतः सौख्यं संधिविग्रहचिंतया ।

पुत्रादपि भयं यत्र तत्र सौख्यं हि कीदृशम् १६३।

स्वजातीयाद्भयं प्रायः सर्वेषामेव देहिनाम् ।

एकद्रव्याभिलाषित्वाच्छुनामिव परस्परम् १६४।

न प्रविश्य वनं कश्चिन्नृपः ख्यातोस्ति भूतले ।

निखिलं यस्तिरस्कृत्य सुखं तिष्ठति निर्भयः १६५।

युद्धे बाहुसहस्रं हि पातयामास भूतले ।

श्रीमतः कार्तवीर्यस्य ऋषिपुत्रः प्रतापवान् १६६।

ऋषिपुत्रस्य रामस्य रामो दशरथात्मजः ।

जघान वीर्यमतुलमूर्ध्वगं सुमहात्मनः १६७।

जरासंधेन रामस्य तेजसा नाशितं यशः ।

जरासंधस्य भीमेन तस्यापि पवनात्मजः १६८।

हनुमानपि सूर्येण विक्षिप्तः पतितः क्षितौ ।

निवातकवचान्सर्वदानवान्बलदर्पितान् १६९।

हतवानर्जुनः श्रीमान्गोपालैः स विनिर्जितः ।

सूर्यः प्रतापयुक्तोऽपि मेघैः संछाद्यते क्वचित् १७०।

क्षिप्यते वायुना मेघो वायोर्वीर्यं नगैर्जितम् ।

दह्यंते वह्निना शैलाः स वह्निः शाम्यते जलैः १७१।

तज्जलं शोष्यते सूर्यैस्ते सूर्याः सह वारिणा ।

त्रैलोक्येन समस्ताश्च नश्यंति ब्रह्मणो दिने १७२।

ब्रह्मापि त्रिदशैः सार्धमुपसंह्रियते पुनः ।

परार्धद्वयकालांते शिवेन परमात्मना १७३।

एवं नैवास्ति संसारे यच्च सर्वोत्तमं बलम् ।

विहायैकं जगन्नाथं परमात्मानमव्ययम् १७४।

ज्ञात्वा सातिशयं सर्वमतिमानं विवर्जयेत् ।

एवंभूते जगत्यस्मिन्कः सुरः पंडितोपि वा १७५।

न ह्यस्ति सर्ववित्कश्चिन्न वा मूर्खोपि सर्वतः ।

यावद्यस्तु विजानाति तावत्तत्र स पंडितः १७६।

समाधाने तु सर्वत्र प्रभावः सदृशः स्मृतः ।

वित्तस्यातिशयत्वेन प्रभावः कस्यचित्क्वचित् १७७।

दानवैर्निर्जिता देवास्ते दैवैर्निजिताः पुनः ।

इत्यन्योन्यं श्रितो लोको भाग्यैर्जयपराजयैः १७८।

एवं वस्त्रयुगं राज्ञां प्रस्थमात्रांबुभोजनम् ।

यानं शय्यासनं चैव शेषं दुःखाय केवलम् १७९।

सप्तमे चापि भवने खट्वामात्र परिग्रहः ।

उदकुंभसहस्रेभ्यः क्लेशायास प्रविस्तरः १८०।

प्रत्यूषे तूर्यनिर्घोषः समं पुरनिवासिभिः ।

राज्येभिमानमात्रं हि ममेदं वाद्यते गृहे १८१।

सर्वमाभरणं भारः सर्वमालेपनं मलम् ।

सर्वं प्रलपितं गीतं नृत्यमुन्मत्तचेष्टितम् १८२।

इत्येवं राज्यसंभोगैः कुतः सौख्यं विचारतः ।

नृपाणां विग्रहे चिंता वान्योन्यविजिगीषया १८३।

प्रायेण श्रीमदालेपान्नहुषाद्या महानृपाः ।

स्वर्गं प्राप्ता निपतिताः कः श्रिया विंदते सुखम् १८४।

स्वर्गेपि च कुतः सौख्यं दृष्ट्वा दीप्तां परश्रियम् ।

उपर्युपरि देवानामन्योन्यातिशयस्थिताम् १८५।

नरैः पुण्यफलं स्वर्गे मूलच्छेदेन भुज्यते ।

न चान्यत्क्रियते कर्म सोऽत्र दोषः सुदारुणः १८६।

छिन्नमूलतरुर्यद्वद्दिवसैः पतति क्षितौ ।

पुण्यस्य संक्षयात्तद्वन्निपतंति दिवौकसः १८७।

सुखाभिलाषनिष्ठानां सुखभोगादि संप्लवैः ।

अकस्मात्पतितं दुःखं कष्टं स्वर्गेदिवौकसाम् १८८।

इति स्वर्गेऽपि देवानां नास्ति सौख्यं विचारतः ।

क्षयश्च विषयासिद्धौ स्वर्गे भोगाय कर्मणाम् १८९।

तत्र दुःखं महत्कष्टं नरकाग्निषु देहिनाम् ।

घोरैश्च विविधैर्भावैर्वाङ्मनः काय संभवैः १९०।

कुठारच्छेदनं तीव्रं वल्कलानां च तक्षणम् ।

पर्णशाखाफलानां च पातश्चंडेन वायुना १९१।

उन्मूलनान्नदीभिश्च गजैरन्यैश्च देहिभिः ।

दावाग्निहिमशोषैश्च दुःखं स्थावरजातिषु १९२।

तद्वद्भुजंगसर्पाणां क्रोधे दुःखं च दारुणम् ।

दुष्टानां घातनं लोके पाशेन च निबंधनम् १९३।

अकस्माज्जन्ममरणं कीटानां च मुहुर्मुहुः ।

सरीसृपनिकायानामेवं दुःखान्यनेकधा १९४।

पशूनामात्मशमनं दंडताडनमेव च ।

नासावेधेन संत्रासः प्रतोदेन सुताडनम् १९५।

वेत्रकाष्ठादिनिगडैरंकुशेनांगबंधनम् ।

भावेन मनसा क्लेशैर्भिक्षा युवादिपीडनम् १९६।

आत्मयूथवियोगैश्च बलान्नयनबंधने ।

पशूनां संति कायानामेवं दुःखान्यनेकशः १९७।

वर्षाशीतातपाद्दुःखं सुकष्टं ग्रहपक्षिणाम् ।

क्लेशमानाति कायानामेवं दुःखान्यनेकधा १९८।

गर्भवासे महद्दुःखं जन्मदुःखं तथा नृणाम् ।

सुबाल्यदुःखं चाज्ञानं कौमारे गुरुशासनम् १९९।

यौवने कामरागाभ्यां दुःखं चैवेर्ष्यया पुनः ।

कृषिवाणिज्यसेवाद्यैर्गोरक्षादिक कर्मभिः २००।

वृद्धभावे च जरया व्याधिभिश्च प्रपीडनात् ।

मरणे च महद्दुःखं प्रार्थनायां ततोधिकम् २०१।

राजाग्निजलदाघातचौरशत्रु भयं महत् ।

अर्थस्यार्जनरक्षायां भयं नाशे व्यये पुनः २०२।

कार्पण्यं मत्सरो दम्भो धनाधिक्ये भयं महत् ।

अकार्ये संप्रवृत्तिश्च दुःखानि धनिनां सदा २०३।

भृत्यवृत्तिः कुसीदं च दासत्वं परतंत्रता ।

इष्टानिष्टाभियोगश्च संयोगाश्च सहस्रशः २०४।

दुर्भिक्षं दुर्भगत्वं च मूर्खत्वं च दरिद्रता ।

अधरोत्तरभागश्च नारकं राजविक्रमम् २०५।

अन्योन्याभिभवं दुःखमन्यांन्यतो भयं महत् ।

अन्योन्याच्च प्रकोपश्च राज्ञो दुःखं महीभृताम् २०६।

अनित्यतात्र भावानां कृतकाम्यस्य देहिनः ।

अन्योन्य मर्मभेदाच्च अन्योन्य करपीडनात् २०७।

लुब्धाश्च पापभेदेन अन्योन्यस्य च भक्षणम् ।

इत्येवमादिभिर्दुःखैर्यस्माद्भीतं चराचरम् २०८।

निरयादि मनुष्यांतं तस्मात्सर्वं त्यजेद्बुधः ।

स्कंधात्स्कंधेन यन्भारं विश्रामं मन्यते यथा २०९।

तद्वत्सर्वमिदं लोके दुःखं दुःखेन शाम्यति ।

अन्योन्यातिशयोपेताः सर्वदा भोगसंप्लवाः २१०।

धर्मक्षयाच्च देवानां दिवि दुःखमवस्थितम् ।

नानायोनिसहस्रेषु संभवः पुण्यसंक्षयात् २११।

रोगाश्च विविधाकारा देवलोकेऽपि संस्मृताः ।

यज्ञस्य हि शिरश्छिन्नमश्विभ्यां संधितं पुनः २१२।

तेन दोषेण यज्ञस्य शिरोरोगः सदैव हि ।

मार्तंडभानोः कुष्ठं च वरुणस्य जलोदरम् २१३।

पूष्णोदशनवैकल्यं भुजस्तंभः शचीपतेः ।

सुमहान्क्षयरोगश्च सोमस्य परिकीर्तितः २१४।

ज्वरश्च सुमहानासीद्दक्षस्यापि प्रजापतेः ।

कल्पेकल्पे च देवानां महतामपि संक्षयः २१५।

परार्धद्वयकालांते ब्रह्मणश्चाप्यनित्यता ।

दक्षस्य दुहितां पौत्रीं ब्रह्मा कामितवान्पुनः २१६।

क्रोधेन च जयां देवीं योगज्ञां शप्तवान्प्रभुः ।

कामक्रोधौ स्थितौ यत्र तत्र दोषास्तदात्मकाः २१७।

दुःखानि च समस्तानि संस्थितानि न संशयः ।

विशीर्णजन्ममरणं सर्वाशित्वं हविर्भुजः २१८।

स्त्रीवधः कामसक्तिश्च सारथ्यं पांडवे बले ।

रुद्रेण त्रिपुरं दग्धं दक्षयज्ञो विनाशितः २१९।

स्कंदस्य जन्म वै शुक्रात्क्रीडादीनां सहस्रशः ।

एवं त्रयोपि रागाद्यैर्दोषैर्देवाः समन्विताः २२०।

एभ्यः परः प्रभुः शांतः परिपूर्णः स मुक्तिदः ।

एवमेतज्जगत्सर्वमन्योन्यातिशये स्थितम् २२१।

दुःखैराकुलितं ज्ञात्वा निर्वेदं परमं व्रजेत् ।

निर्वेदाच्च विरागः स्याद्विरागाज्ज्ञानसंभवः २२२।

ज्ञानेन तत्परं ज्ञानं शिवं मुक्तिमवाप्नुयात् ।

समस्तदुःखनिर्मुक्त स्वस्थात्मा स सुखी तदा २२३।

सर्वज्ञः परिपूर्णश्च मुक्त इत्यभिधीयते ।

मातलिरुवाच-

एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् २२४।

धर्माधर्मविवेको हि सर्वज्ञानसमुद्भवः ।

इंद्रलोके प्रगंतव्यं देवराजस्य शासनात् २२५।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृमातृतीर्थमाहात्म्ये षट्षष्टितमोऽध्यायः ६६ ।

खण्डः २ (भूमिखण्डः) — Adhyāya 67

ययातिरुवाच-

अस्मद्भाग्यप्रसंगेन भवतो दर्शनं मम ।

संजातं शक्रसंवाह एतच्छ्रेयो ममातुलम् १।

मानवा मर्त्यलोके च पापं कुर्वंति दारुणम् ।

तेषां कर्मविपाकं च मातले वद सांप्रतम् २।

मातलिरुवाच-

श्रूयतामभिधास्यामि पापाचारस्य लक्षणम् ।

श्रुते सति महज्ज्ञानमत्रलोके प्रजायते ३।

वेदनिंदां प्रकुर्वंति ब्रह्माचारस्य कुत्सनम् ।

महापातकमेवापि ज्ञातव्यं ज्ञानपंडितैः ४।

साधूनामपि सर्वेषां यः पीडां हि समाचरेत् ।

महापातकमेवापि प्रायश्चित्ते न हि व्रजेत् ५।

कुलाचारं परित्यज्य अन्याचारं व्रजंति च ।

एतच्च पातकं घोरं कथितं कृत्यवेदिभिः ६।

मातापित्रोश्च यो निंदां ताडनं भगिनीषु च ।

पितृस्वसृनिंदनं च तदेव पातकं ध्रुवम् ७।

संप्राप्ते श्राद्धकालेपि पंचक्रोशांतरेस्थितम् ।

जामातरं परित्यज्य तथा च दुहितुः सुतम् ८।

स्वसारं चैव स्वस्रीयं परित्यज्य प्रवर्तते ।

कामात्क्रोधाद्भयाद्वापि अन्यं भोजयते यदा ९।

पितरो नैव भुंजंति देवाश्चैव न भुंजते ।

एतच्च पातकं तस्य पितृघातसमं कृतम् १०।

दानकालेपि संप्राप्ते आगते ब्राह्मणे किल ।

भूरिदानं परित्यज्य कतिभ्यो हि प्रदीयते ११।

एकस्मै दीयते दानमन्येभ्योपि न दीयते ।

एतच्च पातकं घोरं दानभ्रंशकरं स्मृतम् १२।

यजमानगृहे सेवा संस्थितान्ब्राह्मणान्निजान् ।

परित्यज्य हि यद्दानं न दानस्य च लक्षणम् १३।

समाश्रितं हि यं विप्रं धर्माचारसमन्वितम् ।

सर्वोपायैः सुपुष्येत्तं सुदानैर्बहुभिर्नृप १४।

न गणयेन्मूर्खं विद्वांसं पोष्यो विप्रः सदा भवेत् ।

सर्वैः पुण्यैः समायुक्तं सुदानैर्बहुभिर्नृप १५।

तं समभ्यर्च्य विद्वांसं प्राप्तं विप्रं सदार्हयेत् ।

तं हि त्यक्त्वा ददेद्दानमन्यस्मै ब्राह्मणाय वै १६।

दत्तं हुतं भवेत्तस्य निष्फलं नात्र संशयः ।

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चापि चतुर्थकः १७।

पुण्यकालेषु सर्वेषु संश्रितं पूजयेद्द्विजम् ।

मूर्खं वापि हि विद्वांसं तस्य पुण्यफलं शृणु १८।

अश्वमेधस्य यज्ञस्य फलं तस्य प्रजायते ।

कस्माद्धिकारणाद्राजञ्छक्यं प्राप्य न कारयेत् १९।

अन्यो विप्रः समायातस्तत्कालं श्राद्धकर्मणि ।

उभौ तौ पूजयेत्तत्र भोजनाच्छादनैस्ततः २०।

तांबूलदक्षिणाभिश्च पितरस्तस्य हर्षिताः ।

श्राद्धभुक्ताय दातव्यं सदा दानं च दक्षिणा २१।

न ददेच्छ्राद्धकर्ता यो गोहत्यादि समं भवेत् ।

द्वावेतौ पूजयेत्तस्माच्छ्रद्धया नृपसत्तम २२।

निर्द्धनत्व प्रभावाद्वै तमेकं हि प्रपूजयेत् ।

व्यतीपातेपि संप्राप्ते वैधृतौ च नृपोत्तम २३।

अमावास्यां तथा राजन्क्षयाहे परपक्षके ।

श्राद्धमेवं प्रकर्तव्यं ब्राह्मणादि त्रिवर्णकैः २४।

यज्ञे तथा महाराज ऋत्विजश्च प्रकारयेत् ।

तथा विप्राः प्रकर्तव्याः श्राद्धदानाय सर्वदा २५।

अविज्ञातः प्रकर्तव्यो ब्राह्मणो नैव जानता ।

यस्यापि ज्ञायते वंशः कुलं त्रिपुरुषं तथा २६।

आचारश्च तथा राजंस्तं विप्रं सन्निमंत्रयेत् ।

कुलं न ज्ञायते यस्य आचारेण विचारयेत् २७।

श्राद्धदाने प्रकर्तव्ये विशुद्धो मूर्ख एव हि ।

अविज्ञातो भवेद्विप्रो वेदवेदांगपारगः २८।

श्राद्धदानं प्रकर्तव्यं तस्माद्विप्रं निमंत्रयेत् ।

आतिथ्यं तु प्रकर्तव्यमपूर्वं नृपसत्तम २९।

अन्यथा कुरुते पापी स याति नरकं ध्रुवम् ।

तस्माद्विप्रः प्रकर्तव्यो दाने श्राद्धे च पर्वसु ३०।

आदौ परीक्षयेद्विप्रं श्राद्धे दाने प्रकारयेत् ।

नाश्नंति तस्य वै गेहे पितरो विप्रवर्जिताः ३१।

शापं दत्त्वा ततो यांति श्राद्धाद्विप्रविवर्जितात् ।

महापापी भवेत्सोपि ब्रह्मणः सदृशो यदि ३२।

पैत्राचारं परित्यज्य यो वर्तेत नरोत्तम ।

महापापी स विज्ञेयः सर्वधर्मबहिष्कृतः ३३।

ये त्यजंति शिवाचारं वैष्णवं भोगदायकम् ।

निंदंति ब्राह्मणं धर्मं विज्ञेयाः पापवर्द्धनाः ३४।

ये त्यजंति शिवाचारं शिवभक्तान्द्विषंति च ।

हरिं निंदंति ये पापा ब्रह्मद्वेषकराः सदा ३५।

आचारनिंदका ये ते महापातककृत्तमाः ।

आद्यं पूज्यं परं ज्ञानं पुण्यं भागवतं तथा ३६।

वैष्णवं हरिवंशं वा मत्स्यं वा कूर्ममेव च ।

पाद्मं वा ये पूजयंति तेषां श्रेयो वदाम्यहम् ३७।

प्रत्यक्षं तेन वै देवः पूजितो मधुसूदनः ।

तस्मात्प्रपूजयेज्ज्ञानं वैष्णवं विष्णुवल्लभम् ३८।

देवस्थाने च नित्यं वै वैष्णवं पुस्तकं नृप ।

तस्मिन्प्रपूजिते विप्र पूजितः कमलापतिः ३९।

असंपूज्य हरेर्ज्ञानं ये गायंति लिखंति च ।

अज्ञाय तत्प्रयच्छंति शृण्वंत्युच्चारयंति च ४०।

विक्रीडंति च लोभेन कुज्ञान नियमेन च ।

असंस्कृतप्रदेशेषु यथेष्टं स्थापयंति च ४१।

हरिज्ञानं यथाक्षेमं प्रत्यक्षाच्च प्रकाशयेत् ।

अधीते च समर्थश्च यः प्रमादं करोति च ४२।

अशुचिश्चाशुचौ स्थाने यः प्रवक्ति शृणोति च ।

इति सर्वं समासेन ज्ञाननिंदा समं स्मृतम् ४३।

गुरुपूजामकृत्वैव यः शास्त्रं श्रोतुमिच्छति ।

न करोति च शुश्रूषामाज्ञाभंगं च भावतः ४४।

नाभिनंदति तद्वाक्यमुत्तरं संप्रयच्छति ।

गुरुकर्मणि साध्ये च तदुपेक्षां करोति च ४५।

गुरुमार्तमशक्तं च विदेशं प्रस्थितं तथा ।

अरिभिः परिभूतं वा यः संत्यजति पापकृत् ४६।

पठमानं पुराणं तु तस्य पापं वदाम्यहम् ।

कुंभीपाके वसेत्तावद्यावदिंद्राश्चतुर्दश ४७।

पठमानं गुरुं यो हि उपेक्षयति पापधीः ।

तस्यापि पातकं घोरं चिरं नरकदायकम् ४८।

भार्यापुत्रेषु मित्रेषु यश्चावज्ञां करोति च ।

इत्येतत्पातकं ज्ञेयं गुरुनिन्दासमं महत् ४९।

ब्रह्महा स्वर्णस्तेयी च सुरापी गुरुतल्पगः ।

महापातकिनश्चैते तत्संयोगी च पंचमः ५०।

क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणस्य विशेषतः ।

मर्मातिकृन्तको यश्च ब्रह्मघ्नः स प्रकीर्तितः ५१।

ब्राह्मणं यः समाहूय याचमानमकिंचनम् ।

पश्चान्नास्तीति यो ब्रूयात्स च वै ब्रह्महा नृप ५२।

यस्तु विद्याभिमानेन निस्तेजयति वै द्विजम् ।

उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः ५३।

मिथ्यागुणैरथात्मानं नयत्युत्कर्षतां पुनः ।

गुरुं विरोधयेद्यस्तु स च वै ब्रह्महा स्मृतः ५४।

क्षुत्तृषातप्तदेहानामन्नभोजनमिच्छताम् ।

यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम् ५५।

पिशुनः सर्वलोकानां रंध्रान्वेषणतत्परः ।

उद्वेजनकरः क्रूरः स च वै ब्रह्महा स्मृतः ५६।

देवद्विज गवां भूमिं पूर्वदत्तां हरेत्तु यः ।

प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम् ५७।

द्विजवित्तापहरणं न्यासेन समुपार्जितम् ।

ब्रह्महत्यासमं ज्ञेयं तस्य पातकमुत्तमम् ५८।

अग्निहोत्रं परित्यज्य पंचयज्ञीयकर्मणि ।

मातापित्रोर्गुरूणां च कूटसाक्ष्यं च यश्चरेत् ५९।

अप्रियं शिवभक्तानामभक्ष्याणां च भक्षणम् ।

वने निरपराधानां प्राणिनां च प्रमारणम् ६०।

गवां गोष्ठे वने चाग्नेः पुरे ग्रामे च दीपनम् ।

इति पापानि घोराणि सुरापानसमानि तु ६१।

दीनसर्वस्वहरणं परस्त्रीगजवाजिनाम् ।

गोभूरजतवस्त्राणामोषधीनां रसस्य च ६२।

चंदनागुरुकर्पूर कस्तूरी पट्ट वाससाम् ।

परन्यासापहरणं रुक्मस्तेयसमं स्मृतम् ६३।

कन्याया वरयोग्याया अदानं सदृशे वरे ।

पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ६४।

कुमारीसाहसं घोरमंत्यजस्त्रीनिषेवणम् ।

सवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम् ६५।

महापातकतुल्यानि पापान्युक्तानि यानि तु ।

तानि पातकसंज्ञानि तन्न्यूनमुपपातकम् ६६।

द्विजायार्थं प्रतिज्ञाय न प्रयच्छति यः पुनः ।

तत्र विस्मरते विप्रस्तुल्यं तदुपपातकम् ६७।

द्विजद्रव्यापहरणं मर्यादाया व्यतिक्रमम् ।

अतिमानातिकोपश्च दांभिकत्वं कृतघ्नता ६८।

अन्यत्र विषयासक्तिः कार्पर्ण्यं शाठ्यमत्सरम् ।

परदाराभिगमनं साध्वीकन्याभिदूषणम् ६९।

परिवित्तिः परिवेत्ता यया च परिविद्यते ।

तयोर्दानं च कन्यायास्तयोरेव च याजनम् ७०।

पुत्रमित्रकलत्राणामभावे स्वामिनस्तथा ।

भार्याणां च परित्यागः साधूनां च तपस्विनाम् ७१।

गवां क्षत्रियवैश्यानां स्त्रीशूद्राणां च घातनम् ।

शिवायतनवृक्षाणां पुण्याराम विनाशनम् ७२।

यः पीडामाश्रमस्थानामाचरेदल्पिकामपि ।

तद्भृत्यपरिवर्गस्य पशुधान्यवनस्य च ७३।

कर्ष धान्य पशुस्तेयमयाज्यानां च याजनम् ।

यज्ञारामतडागानां दारापत्यस्य विक्रयः ७४।

तीर्थयात्रोपवासानां व्रतानां च सुकर्मणाम् ।

स्त्रीधनान्युपजीवंति स्त्रीभगात्यंतजीविता ७५।

स्वधर्मं विक्रयेद्यस्तु अधर्मं वर्णते नरः ।

परदोषप्रवादी च परच्छिद्रावलोककः ७६।

परद्रव्याभिलाषी च परदारावलोककः ।

एते गोघ्नसमानाश्च ज्ञातव्या नृपनंदन ७७।

यः कर्ता सर्वशास्त्राणां गोहर्ता गोश्च विक्रयी ।

निर्दयोऽतीव भृत्येषु पशूनां दमकश्च यः ७८।

मिथ्या प्रवदते वाचमाकर्णयति यः परैः ।

स्वामिद्रोही गुरुद्रोही मायावी चपलः शठः ७९।

यो भार्यापुत्रमित्राणि बालवृद्धकृशातुरान् ।

भृत्यानतिथिबंधूंश्च त्यक्त्वाश्नाति बुभुक्षितान् ८०।

ये तु मृष्टं समश्नंति नो वांच्छंतं ददंति च ।

पृथक्पाकी स विज्ञेयो ब्रह्मवादिषु गर्हितः ८१।

नियमान्स्वयमादाय ये त्यजंत्यजितेंद्रियाः ।

प्रव्रज्यागमिता यैश्च संयुक्ता ये च मद्यपैः ८२।

ये चापि क्षयरोगार्तां गां पिपासा क्षुधातुराम् ।

न पालयंति यत्नेन ते गोघ्ना नारकाः स्मृताः ८३।

सर्वपापरता ये च चतुष्पात्क्षेत्रभेदकाः ।

साधून्विप्रान्गुरूंश्चैव यश्च गां हि प्रताडयेत् ८४।

ये ताडयंत्यदोषां च नारीं साधुपदेस्थिताम् ।

आलस्यबद्धसर्वांगो यः स्वपिति मुहुर्मुहुः ८५।

दुर्बलांश्च न पुष्णंति नष्टान्नान्वेषयंति च ।

पीडयंत्यतिभारेण सक्षतान्वाहयंति च ८६।

सर्वपापरता ये च संयुक्ता ये च भुंजते ।

भग्नांगीं क्षतरोगार्तां गोरूपां च क्षुधातुराम् ८७।

न पालयंति यत्नेन ते जना नारकाः स्मृताः ।

वृषाणां वृषणौ ये च पापिष्ठा घातयंति च ८८।

बाधयंति च गोवत्सान्महानारकिणो नराः ।

आशया समनुप्राप्तं क्षुत्तृषाश्रमपीडितम् ८९।

ये चातिथिं न मन्यंते ते वै निरयगामिनः ।

अनाथं विकलं दीनं बालं वृद्धं भृशातुरम् ९०।

नानुकंपंति ये मूढास्ते यांति नरकार्णवम् ।

अजाविको माहिषिको यः शूद्रा वृषलीपतिः ९१।

शूद्रो विप्रस्य क्षत्रस्य य आचारेण वर्तते ।

शिल्पिनः कारवो वैद्यास्तथा देवलका नराः ९२।

भृतकामात्यकर्माणः सर्वे निरयगामिनः ।

यश्चोदितमतिक्रम्य स्वेच्छया आहरेत्करम् ९३।

नरकेषु स पच्येत यश्च दंडं वृथा नयेत् ।

उत्कोचकैरधिकृतैस्तस्करैश्च प्रपीड्यते ९४।

यस्य राज्ञः प्रजा राज्ये पच्यते नरकेषु सः ।

ये द्विजाः प्रतिगृह्णंति नृपस्य पापवर्तिनः ९५।

प्रयांति तेपि घोरेषु नरकेषु न संशयः ।

पारदारिकचौराणां यत्पापं पार्थिवस्य च ९६।

भवत्यरक्षतो घोरो राज्ञस्तस्य परिग्रहः ।

अचौरं चौरवद्यश्च चौरं चाचौरवत्पुनः ९७।

अविचार्य नृपः कुर्यात्सोऽपि वै नरकं व्रजेत् ।

घृततैलान्नपानादि मधुमांस सुरासवम् ९८।

गुडेक्षुक्षीरशाकादि दधिमूलफलानि च ।

तृणकाष्ठं पुष्पपत्रं कांस्यभाजनमेव च ९९।

उपानच्छत्रकटक शिबिकामासनं मृदु ।

ताम्रं सीसं त्रपुकांस्यं शंखाद्यं च जलोद्भवम् १००।

वादित्रं वेणुवंशाद्यं गृहोपस्करणानि च ।

ऊर्णाकार्पासकौशेय रंगपद्मोद्भवानि च १०१।

तूलं सूक्ष्माणिवस्त्राणि ये लोभेन हरंति च ।

एवमादीनि चान्यानि द्रव्याणि विविधानि च १०२।

नरकेषु द्रुतं गच्छेदपहृत्याल्पकान्यपि ।

यद्वा तद्वा परद्रव्यमपि सर्षपमात्रकम् १०३।

अपहृत्य नरो याति नरके नात्र संशयः ।

बह्वल्पकाद्यपि तथा परस्य ममताकृतम् १०४।

अपहृत्य नरो याति नरके नात्र संशयः ।

एवमाद्यैर्नरः पापैरुत्क्रांतिसमनंतरम् १०५।

शरीरघातनार्थाय पूर्वाकारमवाप्नुयात् ।

यमलोकं व्रजंत्येते शरीरस्था यमाज्ञया १०६।

यमदूतैर्महाघोरैर्नीयमानाः सुदुःखिताः ।

देवतिर्यङ्मनुष्याणामधर्मनियतात्मनाम् १०७।

धर्मराजः स्मृतः शास्ता सुघोरैर्विविधैर्वधैः ।

विनयाचारयुक्तानां प्रमादान्मलिनात्मनाम् १०८।

प्रायश्चित्तैर्गुरुः शास्ता न च तैरीक्ष्यते यमः ।

पारदारिकचौराणामन्यायव्यवहारिणाम् १०९।

नृपतिः शासकः प्रोक्तः प्रच्छन्नानां च धर्मराट् ।

तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत् ११०।

नाभुक्तस्यान्यथा नाशः कल्पकोटिशतैरपि ।

यः करोति स्वयं कर्म कारयेद्वानुमोदयेत् १११।

कायेन मनसा वाचा तस्य चाधोगतिः फलम् ।

इति संक्षेपतः प्रोक्ताः पापभेदास्त्रिधाधुना ११२।

कथ्यंते गतयश्चित्रा नराणां पापकर्मणाम् ।

एतत्ते नृपते धर्म फलं प्रोक्तं सुविस्तरात् ११३।

अन्यत्किंते प्रवक्ष्यामि तन्मे ब्रूहि नरोत्तम ।

अधर्मस्य फलं प्रोक्तं धर्मस्यापि वदाम्यहम् ११४।

इत्युक्त्वा मातलिस्तत्र राजानं सर्ववत्सलम् ।

तस्मिन्धर्मप्रसंगेन इत्याख्यातं महात्मना ११५।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरित्रे सप्तषष्टितमोऽध्यायः ६७।

खण्डः २ (भूमिखण्डः) — Adhyāya 68

ययातिरुवाच-

अधर्मस्य फलं सूत श्रुतं सर्वं मया विभो ।

धर्मस्यापि फलं ब्रूहि श्रोतुं कौतूहलं मम १।

मातलिरुवाच-

अथ पापैरिमे यांति यमलोकं चतुर्विधाः ।

संत्रासजननं घोरं विवशाः सर्वदेहिनः २।

गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः ।

पुंस्त्रीनपुंसकैर्वृद्धैर्यातव्यं जंतुभिस्ततः ३।

शुभाशुभफलं तत्र देहिनां प्रविचार्यते ।

चित्रगुप्तादिभिः सर्वैर्मध्यस्थैः सर्वदर्शिभिः ४।

न तेत्र प्राणिनः संति ये न यांति यमक्षयम् ।

अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचारितम् ५।

ये तत्र शुभकर्माणः सौम्यचित्तादयान्विताः ।

ते नरा यांति सौम्येन पथा यमनिकेतनम् ६।

यः प्रदद्याच्च विप्राणामुपानत्काष्ठपादुके ।

स विमानेन महता सुखं याति यमालयम् ७।

छत्रदानेन गच्छंति पथा साभ्रेण देहिनः ।

दिव्यवस्त्रपरीधाना यांति वस्त्रप्रदायिनः ८।

शिबिकायाः प्रदानेन विमानेन सुखं व्रजेत् ।

सुखासनप्रदानेन सुखं यांति यमालयम् ९।

आरामकर्ता छायासु शीतलासु सुखं व्रजेत् ।

यांति पुष्पकयानेन पुष्पारामप्रदायिनः १०।

देवायतनकर्ता च यतीनामाश्रमस्य च ।

अनाथमंडपानां च क्रीडन्याति गृहोत्तमैः ११।

देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकः १२।

विप्रेषु दीनेषु गुणान्वितेषु यच्छ्रद्धया स्वल्पमपि प्रदत्तम् ।

तत्सर्वकामान्समुपैति लोके श्राद्धे च दानं प्रवदंति संतः १३।

श्रद्धादानेन विज्ञेयमपि वालाग्रमात्रकम् ।

यत्पात्रादि चतुष्टयं श्रद्धा तेषु सदा मम १४।

श्रद्धीयते सदा तस्माच्छ्रद्धायास्तत्फलं भवेत् ।

गुणान्वितेषु दीनेषु यच्छत्यावसथान्यपि १५।

स प्रयाति सर्वकामं स्थानं पैतामहं नृप ।

श्रद्धयायेन विप्राय दत्तं काकिणिमात्रकम् १६।

सस्याद्दिव्यतिथिर्भूप देवानां कीर्तिवर्धनः ।

तस्माच्छ्रद्धान्वितैर्देयं तत्फलं भवति ध्रुवम् १७।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरित्रेऽष्टषष्टितमोऽध्यायः ६८।

खण्डः २ (भूमिखण्डः) — Adhyāya 69

मातलिरुवाच-

अथ धर्माः शिवेनोक्ताः शिवधर्मागमोत्तमाः ।

ज्ञेया बहुविधास्ते च कर्मयोगप्रभेदतः १।

हिंसादिदोषनिर्मुक्ताः क्लेशायासविवर्जिताः ।

सर्वभूतहिताः शुद्धाः सूक्ष्मायासा महत्फलाः २।

अनंतशाखाकलिताः शिवमूलैकसंश्रिताः ।

ज्ञानध्यानसुपुष्पाढ्याः शिवधर्माः सनातनाः ३।

धारयंति शिवं यस्माद्धार्यते शिवभाषितैः ।

शिवधर्माः स्मृतास्तस्मात्संसारार्णवतारकाः ४।

तथाऽहि सा क्षमा सत्यं ह्रीः श्रद्धेन्द्रियसंयमः ।

दानमिज्यातपोदानं दशकं धर्मसाधनम् ५।

अथ व्यस्तैः समस्तैर्वा शिवधर्मैरनुष्ठितैः ।

शिवैकरस्य संप्राप्तैर्गतिरेकैव कल्पिता ६।

यथा भूः सर्वभूतानां स्थानं साधारणं स्मृतम् ।

तत्तथा शिवभक्तानां तुल्यं शिवपुरंस्मृतम् ७।

यथेह सर्वभूतानां भोगाः सातिशयाः स्मृताः ।

नानापुण्यविशेषेण भोगाः शिवपुरे तथा ८।

शुभाशुभफलं चापि भुज्यते सर्वदेहिभिः ।

शिवधर्मस्य चैकस्य फलं तत्रोपभुज्यते ९।

यस्य यादृग्भवेत्पुण्यं श्रद्धापात्रविशेषतः ।

भोगाः शिवपुरे तस्य ज्ञेयाः सातिशयाः शुभाः १०।

स्थानप्राप्तिः परं तुल्या भोगाः शांतिमयाः स्थिताः ।

कुर्यात्पुण्यं महत्तस्मान्महाभोगजिगीषया ११।

सर्वातिशयमेवैकं भावितं च सुरोत्तमैः ।

आत्मभोगाधिपत्यं स्याच्छिवः सर्वजगत्पतिः १२।

केचित्तत्रैव मुच्यंते ज्ञानयोगरता नराः ।

आवर्तंते पुनश्चान्ये संसारे भोगतत्पराः १३।

तस्माद्विमुक्तिमिच्छंस्तु भोगासक्तिं च वर्जयेत् ।

विरक्तः शांतचित्तात्मा शिवज्ञानमवाप्नुयात् १४।

ये चापीशान्यहृदया यजंतीशं प्रसंगतः ।

तेषामपि ददातीशः स्थानं भावानुरूपतः १५।

तत्रार्चयंति ये रुद्रं सकृदुच्छिन्नकल्मषाः ।

तेषां पिशाचलोकेषु भोगानीशः प्रयच्छति १६।

संतप्ता दुःखभारेण म्रियंते सर्वदेहिनः ।

अन्नदः पुण्यदः प्रोक्तः प्राणदश्चापि सर्वदः १७।

तस्मादन्नप्रदानेन सर्वदानफलं लभेत् ।

त्रैलोक्ये यानि रत्नानि भोगस्त्रीवाहनानि च १८।

अन्नदानप्रदः सर्वमिहामुत्र फलं लभेत् ।

यस्यान्नपानपुष्टांगः कुरुते पुण्यसंचयम् १९।

अन्नप्रदातुस्तस्यार्धं कर्तुश्चार्धं न संशयः ।

धर्मार्थकाममोक्षाणां देहः परमसाधनम् २०।

स्थितिस्तस्यान्नपानाभ्यामतस्तत्सर्वसाधनम् ।

अन्नं प्रजापतिः साक्षादन्नं विष्णुः शिवः स्वयम् २१।

तस्मादन्नसमं दानं न भूतं न भविष्यति ।

त्रयाणामपि लोकानामुदकं जीवनं स्मृतम् २२।

पवित्रमुदकं दिव्यं शुद्धं सर्वरसायनम् ।

अन्नपानाश्व गो वस्त्र शय्या सूत्रासनानि च २३।

प्रेतलोके प्रशस्तानि दानान्यष्टौ विशेषतः ।

एवं दानविशेषेण धर्मराजपुरं नरः २४।

यस्माद्याति सुखेनैव तस्माद्धर्मं समाचरेत् ।

ये पुनः क्रूरकर्माणः पापादानविवर्जिताः २५।

भुंजते दारुणं दुःखं नरके नृपनंदन ।

तथा सुखं प्रभुंजंति दानकर्तार एव तु २६।

तेषां तु संभवेत्सौख्यं कर्मयोगरतात्मनाम् ।

अप्रमेयगुणैर्दिव्यैर्विमानैः सर्वकामकैः २७।

असंख्यैस्तत्पुरं व्याप्तं प्राणिनामुपकारकैः ।

सहस्रसोमदिव्यं वा सूर्यतेजः समप्रभम् २८।

रुद्रलोकमिति प्रोक्तमशेषगुणसंयुतम् ।

सर्वेषां शिवभक्तानां तत्पुरं परिकीर्तितम् २९।

रुद्रक्षेत्रे मृतानां च जंगमस्थावरात्मनाम् ।

अप्येकदिवसं भक्त्या यः पूजयति शंकरम् ३०।

सोपि याति शिवस्थानं किं पुनर्बहुशोर्चयन् ।

वैष्णवा विष्णुभक्ताश्च विष्णुध्यानपरायणाः ३१।

तेपि गच्छंति वैकुंठे समीपं देवचक्रिणः ।

ब्रह्मवादी च धर्मात्मा ब्रह्मलोकं प्रयाति सः ३२।

पुण्यकर्ता सुपुण्येन पुण्यलोकं प्रयाति च ।

तस्मादीशे सदा भक्तिं भावयेदात्मनात्मनि ३३।

हरौ वापि महाराज युक्तात्मा ज्ञानवान्स्वयम् ।

तस्मात्सर्वविचारेण भावदोषविचारतः ३४।

एवं विष्णुप्रभावेण विशिष्टेनापि कर्मणा ।

नरः स्थानमवाप्येतदेशभावानुरूपतः ३५।

इत्येतदपरं प्रोक्तं श्रीमच्छिवपुरं महत् ।

देहिनां कर्मनिष्ठानां पुनरावर्त्तकं स्मृतम् ३६।

ऊर्ध्वं शिवपुराज्ज्ञेयं वैष्णवं लोकमुत्तमम् ।

वैष्णवा मानवा यांति विष्णुध्यानपरायणाः ३७।

ब्राह्मणा ब्रह्मलोकं तु सदाचारा नरोत्तमाः ।

प्रयांति यज्विनः सर्वे पुरीं तां तत्त्वकोविदाः ३८।

ऐंद्रं लोकं तथा यांति क्षत्रिया युद्धशालिनः ।

अन्ये च पुण्यकर्त्तारः पुण्यलोकान्प्रयांति ते ३९।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थे ययातिचरिते एकोनसप्ततितमोऽध्यायः ६९।

खण्डः २ (भूमिखण्डः) — Adhyāya 70

मातलिरुवाच-

यमपीडां प्रवक्ष्यामि महातीव्रां सुदारुणाम् ।

भुंजंति पापिनः सर्वे क्रूरास्ते ब्रह्मघातकाः १।

क्वचित्पापाः प्रपच्यंते तीव्रेण करिषाग्निना ।

क्वचित्सिंहैर्वृकैर्व्याघ्रैर्दंशैः कीटैश्च दारुणैः २।

क्वचिन्महाजलौकोभिः क्वचिदाजगरैः पुनः ।

मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्बणैः ३।

मत्तमातंगयूथैश्च बलोत्कृष्टैः प्रमाथिभिः ।

पंथानमुल्लिखद्भिश्च तीक्ष्णशृंगमहावृषैः ४।

महाशृंगैश्च महिषैर्दुष्टगात्रप्रबाधकैः ।

डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ५।

व्याधिभिश्च महाघोरैः पीड्यमाना व्रजंति ते ।

महातुलां समारूढा दह्यमाना दवानले ६।

महावेगप्रधूतास्ते महाचंडेन वायुना ।

महापाषाणवर्षेण भिद्यमानाश्च सर्वतः ७।

पतद्भिर्वज्रनिर्घोषैरुल्कापातैश्च दारुणैः ।

प्रदीप्तांगारवर्षेण हन्यमाना व्रजंति ते ८।

महता पांसुवर्षेण पूर्यमाणा यमं गताः ।

ये नराः पापकर्माणः पापं भुंजंति दारुणम् ९।

एवं पापविशेषेण पापिष्ठाः पापकारकाः ।

नरकं प्रतिभुंजंति बहुपीडासमाकुलम् १०।

एतत्ते सर्वमाख्यातं विवेकं पुण्यपापयोः ।

अन्यत्किं ते प्रवक्ष्यामि धर्मशास्त्रमनुत्तमम् ११।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरिते सप्ततितमोऽध्यायः ७०।

खण्डः २ (भूमिखण्डः) — Adhyāya 71

ययातिरुवाच-

यत्त्वया सर्वमाख्यातं धर्माधर्ममनुत्तमम् ।

शृण्वतोऽथ मम श्रद्धा पुनरेव प्रवर्तते १।

देवानां लोकसंस्थानां वद संख्याः प्रकीर्तिताः ।

यस्य पुण्यप्रसंगेन येन प्राप्तं च मातले २।

मातलिरुवाच-

योगयुक्तं प्रवक्ष्यामि तपसा यदुपार्जितम् ।

देवानां लोकसंस्थानं सुखभोगप्रदायकम् ३।

धर्मभावं प्रवक्ष्यामि आयासैरर्जितं पृथक् ।

उपरिष्टाच्च लोकानां स्वरूपं चाप्यनुक्रमात् ४।

तत्राष्टगुणमैश्वर्यं पार्थिवं पिशिताशिनाम् ।

तस्मात्सद्यो गतानां च नराणां तत्समं स्मृतम् ५।

रक्षसां षोडशगुणं पार्थिवानां च तद्विधम् ।

एवं निरवशेषं च यच्छेषं कुलतेजसाम् ६।

गंधर्वाणां च वायव्यं याक्षं च सकलं स्मृतम् ।

पांचभौतिकमिंद्रस्य चत्वारिंशद्गुणं महत् ७।

सोमस्य मानसं दिव्यं विश्वेशं पांचभौतिकम् ।

सौम्यं प्रजापतीशानामहंकारगुणाधिकम् ८।

चतुष्षष्टिगुणं ब्राह्मं बौधमैश्वर्यमुत्तमम् ।

विष्णोः प्राधानिकं तंत्रमैश्वर्यं ब्रह्मणः पदम् ९।

श्रीमच्छिवपुरे दिव्ये ऐश्वर्यं सर्वकामिकम् ।

अनंतगुणमैश्वर्यं शिवस्यात्मगुणं महत् १०।

आदिमध्यांतरहितं विशुद्धं तत्त्वलक्षणम् ।

सर्वावभासकं सूक्ष्ममनौपम्यं परात्परम् ११।

सुसंपूर्णं जगद्वेषं पशुपाशाविमोक्षणम् ।

यो यत्स्थानमनुप्राप्तस्तस्य भोगस्तदात्मकः १२।

विमानं तत्समानं च भवेदीशप्रसादतः ।

नानारूपाणि ताराणां दृश्यंते कोटयस्त्विमा १३।

अष्टविंशतिरेवं ते संदीप्ताः सुकृतात्मनाम् ।

ये कुर्वंति नमस्कारमीश्वराय क्वचित्क्वचित् १४।

संपर्कात्कौतुकाल्लोभात्तद्विमानं लभंति ते ।

नामसंकीर्तनाद्वापि प्रसंगेन शिवस्य यः १५।

कुर्याद्वापि नमस्कारं न तस्य विलयो भवेत् ।

इत्येता गतयस्तत्र महत्यः शिवकर्मणि १६।

कर्मणाभ्यंतरेणापि पुंसामीशानभावतः ।

प्रसंगेनापि ये कुर्युः शंकरस्मरणं नराः १७।

तैर्लभ्यं त्वतुलं सौख्यं किं पुनस्तत्परायणैः ।

विष्णुचिंतां प्रकुर्वंति ध्यानेन गतमानसाः १८।

ते यांति परमं स्थानं तद्विष्णोः परमं पदम् ।

शैवं च वैष्णवं रूपमेकरूपं नरोत्तम १९।

द्वयोश्च अंतरं नास्ति एकरूपमहात्मनोः ।

शिवाय विष्णुरूपाय शिवरूपाय विष्णवे २०।

शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः ।

एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः २१।

त्रयाणामंतरं नास्ति गुणभेदाः प्रकीर्तिताः ।

शिवभक्तोसि राजेंद्र तथा भागवतोसि वै २२।

तेन देवाः प्रसन्नास्ते ब्रह्मविष्णुमहेश्वराः ।

सुप्रीता वरदा राजन्कर्मणस्तव सुव्रत २३।

इंद्रादेशात्समायातः सन्निधौ तव मानद ।

ऐंद्रमेनं पदं याहि पश्चाद्ब्राह्मं महेश्वरम् २४।

वैष्णवं च प्रयाहि त्वं दाहप्रलयवर्जितम् ।

अनेनापि विमानेन दिव्येन सर्वगामिना २५।

दिव्यमूर्तिरतो भुंक्ष्व दिव्यभोगान्मनोरमान् ।

समारुह्य विमानं त्वं पुष्पकं सुखगामिनम् २६।

सुकर्मोवाच-

एवमुक्त्वा द्विजश्रेष्ठ मौनवान्मातलिस्तदा ।

राजानं धर्मतत्त्वज्ञं ययातिं नहुषात्मजम् २७।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकसप्ततितमोऽध्यायः ७१।

खण्डः २ (भूमिखण्डः) — Adhyāya 72

पिप्पल उवाच-

मातलेश्च वचः श्रुत्वा स राजा नहुषात्मजः ।

किं चकार महाप्राज्ञस्तन्मे विस्तरतो वद १।

सर्वपुण्यमयी पुण्या कथेयं पापनाशिनी ।

श्रोतुमिच्छाम्यहं प्राज्ञ नैव तृप्यामि सर्वदा २।

सुकर्मोवाच-

सर्वधर्मभृतां श्रेष्ठो ययातिर्नृपसत्तमः ।

तमुवाचागतं दूतं मातलिं शक्रसारथिम् ३।

ययातिरुवाच-

शरीरं नैव त्यक्ष्यामि गमिष्ये न दिवं पुनः ।

शरीरेण विना दूत पार्थिवेन न संशयः ४।

यद्यप्येवं महादोषाः कायस्यैव प्रकीर्तिताः ।

पूर्वं चापि समाख्यातं त्वया सर्वं गुणागुणम् ५।

नाहं त्यक्ष्ये शरीरं वै नागमिष्ये दिवं पुनः ।

इत्याचक्ष्व इतो गत्वा देवदेवं पुरंदरम् ६।

एकाकिना हि जीवेन कायेनापि महामते ।

नैव सिद्धिं प्रयात्येवं सांसारिकमिहैव हि ७।

नैव प्राणं विना कायो जीवः कायं विना नहि ।

उभयोश्चापि मित्रत्वं नयिष्ये नाशमिंद्र न ८।

यस्य प्रसादभावाद्वै सुखमश्नाति केवलम् ।

शरीरस्याप्ययं प्राणो भोगानन्यान्मनोनुगान् ९।

एवं ज्ञात्वा स्वर्गभोग्यं न भोज्यं देवदूतक ।

संभवंति महादुष्टा व्याधयो दुःखदायकाः १०।

मातले किल्बिषाच्चैव जरादोषात्प्रजायते ।

पश्य मे पुण्यसंयुक्तं कायं षोडशवार्षिकम् ११।

जन्मप्रभृति मे कायः शतार्धाब्दं प्रयाति च ।

तथापि नूतनो भावः कायस्यापि प्रजायते १२।

मम कालो गतो दूत अब्दा प्रनंत्यमनुत्तमम् ।

यथा षोडशवर्षस्य कायः पुंसः प्रशोभते १३।

तथा मे शोभते देहो बलवीर्यसमन्वितः ।

नैव ग्लानिर्न मे हानिर्न श्रमो व्याधयो जरा १४।

मातले मम कायेपि धर्मोत्साहेन वर्द्धते ।

सर्वामृतमयं दिव्यमौषधं परमौषधम् १५।

पापव्याधिप्रणाशार्थं धर्माख्यं हि कृतम्पुरा ।

तेन मे शोधितः कायो गतदोषस्तु जायते १६।

हृषीकेशस्य संध्यानं नामोच्चारणमुत्तमम् ।

एतद्रसायनं दूत नित्यमेवं करोम्यहम् १७।

तेन मे व्याधयो दोषाः पापाद्याः प्रलयं गताः ।

विद्यमाने हि संसारे कृष्णनाम्नि महौषधे १८।

मानवा मरणं यांति पापव्याधि प्रपीडिताः ।

न पिबंति महामूढाः कृष्ण नाम रसायनम् १९।

तेन ध्यानेन ज्ञानेन पूजाभावेन मातले ।

सत्येन दानपुण्येन मम कायो निरामयः २०।

पापर्द्धेरामयाः पीडाः प्रभवंति शरीरिणः ।

पीडाभ्यो जायते मृत्युः प्राणिनां नात्र संशयः २१।

तस्माद्धर्मः प्रकर्तव्यः पुण्यसत्याश्रयैर्नरैः ।

पंचभूतात्मकः कायः शिरासंधिविजर्जरः २२।

एवं संधीकृतो मर्त्यो हेमकारीव टंकणैः ।

तत्र भाति महानग्निर्द्धातुरेव चरः सदा २३।

शतखंडमये विप्र यः संधत्ते सबुद्धिमान् ।

हरेर्नाम्ना च दिव्येन सौभाग्येनापि पिप्पल २४।

पंचात्मका हि ये खंडाः शतसंधिविजर्जराः ।

तेन संधारिताः सर्वे कायो धातुसमो भवेत् २५।

हरेः पूजोपचारेण ध्यानेन नियमेन च ।

सत्यभावेन दानेन नूत्नः कायो विजायते २६।

दोषा नश्यंति कायस्य व्याधयः शृणु मातले ।

बाह्याभ्यंतरशौचं हि दुर्गंधिर्नैव जायते २७।

शुचिस्ततो भवेत्सूत प्रसादात्तस्य चक्रिणः ।

नाहं स्वर्गं गमिष्यामि स्वर्गमत्र करोम्यहम् २८।

तपसा चैव भावेन स्वधर्मेण महीतलम् ।

स्वर्गरूपं करिष्यामि प्रसादात्तस्य चक्रिणः २९।

एवं ज्ञात्वा प्रयाहि त्वं कथयस्व पुरंदरम् ।

सुकर्मोवाच-

समाकर्ण्य ततः सूतो नृपतेः परिभाषितम् ३०।

आशीर्भिरभिनंद्याथ आमंत्र्य नृपतिं गतः ।

सर्वं निवेदयामास इंद्राय च महात्मने ३१।

समाकर्ण्य सहस्राक्षो ययातेस्तु महात्मनः ।

तस्याथ चिंतयामासानयनार्थं दिवं प्रति ३२।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरिते द्विसप्ततितमोऽध्यायः ७२।

खण्डः २ (भूमिखण्डः) — Adhyāya 73

पिप्पल उवाच-

गते तस्मिन्महाभागे दूत इंद्रस्य वै पुनः ।

किं चकार स धर्मात्मा ययातिर्नहुषात्मजः १।

सुकर्मोवाच-

तस्मिन्गते देववरस्य दूते स चिंतयामास नरेंद्रसूनुः ।

आहूय दूतान्प्रवरान्स सत्वरं धर्मार्थयुक्तं वच आदिदेश २।

गच्छंतु दूताः प्रवराः पुरोत्तमे देशेषु द्वीपेष्वखिलेषु लोके ।

कुर्वंतु वाक्यं मम धर्मयुक्तं व्रजंतु लोकाः सुपथा हरेश्च ३।

भावैः सुपुण्यैरमृतोपमानैर्ध्यानैश्च ज्ञानैर्यजनैस्तपोभिः ।

यज्ञैश्च दानैर्मधुसूदनैकमर्चंतु लोका विषयान्विहाय ४।

सर्वत्र पश्यंत्वसुरारिमेकं शुष्केषु चार्द्रेष्वपि स्थावरेषु ।

अभ्रेषु भूमौ सचराचरेषु स्वीयेषु कायेष्वपि जीवरूपम् ५।

देवं तमुद्दिश्य ददंतु दानमातिथ्यभावैः परिपैत्रिकैश्च ।

नारायणं देववरं यजध्वं दोषैर्विमुक्ता अचिराद्भविष्यथ ६।

यो मामकं वाक्यमिहैव मानवो लोभाद्विमोहादपि नैव कारयेत् ।

स शास्यतां यास्यति निर्घृणो ध्रुवं ममापि चौरो हि यथा निकृष्टः ७।

आकर्ण्य वाक्यं नृपतेश्च दूताःसंहृष्टभावाः सकलां च पृथ्वीम् ।

आचख्युरेवं नृपतेः प्रणीतमादेशभावं सकलं प्रजासु ८।

विप्रादिमर्त्या अमृतं सुपुण्यमानीतमेवं भुवि तेन राज्ञा ।

पिबंतु पुण्यं परिवैष्णवाख्यं दोषैर्विहीनं परिणाममिष्टम् ९।

श्रीकेशवं क्लेशहरं वरेण्यमानंदरूपं परमार्थमेवम् ।

नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः १०।

सखड्गपाणिं मधुसूदनाख्यं तं श्रीनिवासं सगुणं सुरेशम् ।

नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः ११।

श्रीपद्मनाथं कमलेक्षणं च आधाररूपं जगतां महेशम् ।

नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः १२।

पापापहं व्याधिविनाशरूपमानंददं दानवदैत्यनाशनम् ।

नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः १३।

यज्ञांगरूपं चरथांगपाणिं पुण्याकरं सौख्यमनंतरूपम् ।

नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः १४।

विश्वाधिवासं विमलं विरामं रामाभिधानं रमणं मुरारिम् ।

नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः १५।

आदित्यरूपं तमसां विनाशं बंधस्यनाशं मतिपंकजानाम् ।

नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबंतु लोकाः १६।

नामामृतं सत्यमिदं सुपुण्यमधीत्य यो मानव विष्णुभक्तः ।

प्रभातकाले नियतो महात्मा स याति मुक्तिं न हि कारणं च १७।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरिते त्रिसप्ततितमोऽध्यायः ७३।

खण्डः २ (भूमिखण्डः) — Adhyāya 74

सुकर्मोवाच-

दूतास्तु ग्रामेषु वदंति सर्वे द्वीपेषु देशेष्वथ पत्तनेषु ।

लोकाः शृणुध्वं नृपतेस्तदाज्ञां सर्वप्रभावैर्हरिमर्चयंतु १।

दानैश्च यज्ञैर्बहुभिस्तपोभिर्धर्माभिलाषैर्यजनैर्मनोभिः ।

ध्यायंतु लोका मधुसूदनं तु आदेशमेवं नृपतेस्तु तस्य २।

एवं सुघुष्टं सकलं तु पुण्यमाकर्ण्य तं भूमितलेषु लोकैः ।

तदाप्रभृत्येव यजंति विष्णुं ध्यायंति गायंति जपंति मर्त्याः ३।

वेदप्रणीतैश्च सुसूक्तमंत्रैः स्तोत्रैः सुपुण्यैरमृतोपमानैः ।

श्रीकेशवं तद्गतमानसास्ते व्रतोपवासैर्नियमैश्च दानैः ४।

विहाय दोषान्निजकायचित्तवागुद्भवान्प्रेमरताः समस्ताः ।

लक्ष्मीनिवासं जगतां निवासं श्रीवासुदेवं परिपूजयंति ५।

इत्याज्ञातस्य भूपस्य वर्तते क्षितिमंडले ।

वैष्णवेनापि भावेन जनाः सर्वे जयंति ते ६।

नामभिः कर्मभिर्विष्णुं यजंते ज्ञानकोविदाः ।

तद्ध्यानास्तद्व्यवसिता विष्णुपूजापरायणाः ७।

यावद्भूमंडलं सर्वं यावत्तपति भास्करः ।

तावद्धि मानवा लोकाः सर्वे भागवता बभुः ८।

विष्णोर्ध्यानप्रभावेण पूजास्तोत्रेण नामतः ।

आधिव्याधिविहीनास्ते संजाता मानवास्तदा ९।

वीतशोकाश्च पुण्याश्च सर्वे चैव तपोधनाः ।

संजाता वैष्णवा विप्र प्रसादात्तस्य चक्रिणः १०।

आमयैश्च विहीनास्ते दोषैरोषैश्च वर्जिताः ।

सर्वैश्वर्यसमापन्नाः सर्वरोगविवर्जिताः ११।

प्रसादात्तस्य देवस्य संजाता मानवास्तदा ।

अमराः निर्जराः सर्वे धनधान्यसमन्विताः १२।

मर्त्या विष्णुप्रसादेन पुत्रपौत्रैरलंकृताः ।

तेषामेव महाभाग गृहद्वारेषु नित्यदा १३।

कल्पद्रुमाः सुपुण्यास्ते सर्वकामफलप्रदाः ।

सर्वकामदुघा गावः सचिंतामणयस्तथा १४।

संति तेषां गृहे पुण्याः सर्वकामप्रदायकाः ।

अमरा मानवा जाताः पुत्रपौत्रैरलंकृताः १५।

सर्वदोषविहीनास्ते विष्णोश्चैव प्रसादतः ।

सर्वसौभाग्यसंपन्नाः पुण्यमंगलसंयुताः १६।

सुपुण्या दानसंपन्ना ज्ञानध्यानपरायणाः ।

न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् १७।

तस्मिञ्शासति धर्मज्ञे ययातौ नृपतौ तदा ।

वैष्णवा मानवाः सर्वे विष्णुव्रतपरायणाः १८।

तद्ध्यानास्तद्गताः सर्वे संजाता भावतत्पराः ।

तेषां गृहाणि दिव्यानि पुण्यानि द्विजसत्तम १९।

पताकाभिः सुशुक्लाभिः शंखयुक्तानि तानि वै ।

गदांकितध्वजाभिश्च नित्यं चक्रांकितानि च २०।

पद्मांकितानि भासंते विमानप्रतिमानि च ।

गृहाणि भित्तिभागेषु चित्रितानि सुचित्रकैः २१।

सर्वत्र गृहद्वारेषु पुण्यस्थानेषु सत्तमाः ।

वनानि संति दिव्यानि शाद्वलानि शुभानि च २२।

तुलस्या च द्विजश्रेष्ठ तेषु केशवमंदिरैः ।

भासंते पुण्यदिव्यानि गृहाणि प्राणिनां सदा २३।

सर्वत्र वैष्णवो भावो मंगलो बहु दृश्यते ।

शंखशब्दाश्च भूलोके मिथः स्फोटरवैः सखे २४।

श्रूयंते तत्र विप्रेंद्र दोषपापविनाशकाः ।

शंखस्वस्तिकपद्मानि गृहद्वारेषु भित्तिषु २५।

विष्णुभक्त्या च नारीभिर्लिखितानि द्विजोत्तम ।

गीतरागसुवर्णैश्च मूर्च्छना तानसुस्वरैः २६।

गायंति केशवं लोका विष्णुध्यानपरायणाः २७।

हरिं मुरारिं प्रवदंति केशवं प्रीत्या जितं माधवमेव चान्ये ।

श्रीनारसिंहं कमलेक्षणं तं गोविंदमेकं कमलापतिं च २८।

कृष्णं शरण्यं शरणं जपंति रामं च जप्यैः परिपूजयंति ।

दंडप्रणामैः प्रणमंति विष्णुं तद्ध्यानयुक्ताः परवैष्णवास्ते २९।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे चतुःसप्ततितमोऽध्यायः ७४।

खण्डः २ (भूमिखण्डः) — Adhyāya 75

सुकर्मोवाच-

विष्णुं कृष्णं हरिं रामं मुकुंदं मधुसूदनम् ।

नारायणं विष्णुरूपं नारसिंहं तमच्युतम् १।

केशवं पद्मनाभं च वासुदेवं च वामनम् ।

वाराहं कमठं मत्स्यं हृषीकेशं सुराधिपम् २।

विश्वेशं विश्वरूपं च अनंतमनघं शुचिम् ।

पुरुषं पुष्कराक्षं च श्रीधरं श्रीपतिं हरिम् ३।

श्रीनिवासं पीतवासं माधवं मोक्षदं प्रभुम् ।

इत्येवं हि समुच्चारं नामभिर्मानवाः सदा ४।

प्रकुर्वंति नराः सर्वे बालवृद्धाः कुमारिकाः ।

स्त्रियो हरिं सुगायंति गृहकर्मरताः सदा ५।

आसने शयने याने ध्याने वचसि माधवम् ।

क्रीडमानास्तथा बाला गोविंदं प्रणमंति ते ६।

दिवारात्रौ सुमधुरं ब्रुवंति हरिनाम च ।

विष्णूच्चारो हि सर्वत्र श्रूयते द्विजसत्तम ७।

वैष्णवेन प्रभावेण मर्त्या वर्तंति भूतले ।

प्रासादकलशाग्रेषु देवतायतनेषु च ८।

यथा सूर्यस्य बिंबानि तथा चक्राणि भांति च ।

वैकुंठे दृश्यते भावस्तद्भावं जगतीतले ९।

तेन राज्ञा कृतं विप्र पुण्यं चापि महात्मना ।

विष्णुलोकस्य समतां तथानीतं महीतलम् १०।

नहुषस्यापि पुत्रेण वैष्णवेन ययातिना ।

उभयोर्लोकयोर्भावमेकीभूतं महीतलम् ११।

भूतलस्यापि विष्णोश्च अंतरं नैव दृश्यते ।

विष्णूच्चारं तु वैकुंठे यथा कुर्वंति वैष्णवाः १२।

भूतले तादृशोच्चारं प्रकुर्वंति च मानवाः ।

उभयोर्लोकयोर्विप्र एकभावः प्रदृश्यते १३।

जरारोगभयं नास्ति मृत्युहीना नरा बभुः ।

दानभोगप्रभावश्च अधिको दृश्यते भुवि १४।

पुत्राणां तु सुखं पुण्यमधिकं पौत्रजं नराः ।

प्रभुंजंति सुखेनापि मानवा भुवि सत्तम १५।

विष्णोः प्रसाददानेन उपदेशेन तस्य च ।

सर्वव्याधिविनिर्मुक्ता मानवा वैष्णवाः सदा १६।

स्वर्गलोकप्रभावो हि कृतो राज्ञा महीतले ।

पंचविंशप्रमाणेन वर्षाणि नृपसत्तम १७।

गदैर्हीना नराः सर्वे ज्ञानध्यानपरायणाः ।

यज्ञदानपराः सर्वे दयाभावाश्च मानवाः १८।

उपकाररताः पुण्या धन्यास्ते कीर्तिभाजनाः ।

सर्वे धर्मपरा विप्र विष्णुध्यानपरायणाः १९।

राज्ञा तेनोपदिष्टास्ते संजाता वैष्णवा भुवि ।

विष्णुरुवाच-

श्रूयतां नृपशार्दूल चरित्रं तस्य भूपतेः २०।

सर्वधर्मपरो नित्यं विष्णुभक्तश्च नाहुषिः ।

अब्दानां तत्र लक्षं हि तस्याप्येवं गतं भुवि २१।

नूतनो दृश्यते कायः पंचविंशाब्दिको यथा ।

पंचविंशाब्दिको भाति रूपेण वयसा तदा २२।

प्रबलः प्रौढिसंपन्नः प्रसादात्तस्य चक्रिणः ।

मानुषा भुवमास्थाय यमं नैव प्रयांति ते २३।

रागद्वेषविनिर्मुक्ताः क्लेशपाशविवर्जिताः ।

सुखिनो दानपुण्यैश्च सर्वधर्मपरायणाः २४।

विस्तारं तेजनाः सर्वे संतत्यापि गता नृप ।

यथा दूर्वावटाश्चैव विस्तारं यांति भूतले २५।

यथा ते मानवाः सर्वे पुत्रपौत्रैः प्रविस्तृताः ।

मृत्युदोषविहीनास्ते चिरं जीवंति वै जनाः २६।

स्थिरकायाश्च सुखिनो जरारोगविवर्जिताः ।

पंचविंशाब्दिकाः सर्वे नरा दृश्यंति भूतले २७।

सत्याचारपराः सर्वे विष्णुध्यानपरायणाः ।

एवं सर्वे च मर्त्यास्ते प्रसादात्तस्य चक्रिणः २८।

संजाता मानवाः सर्वे दानभोगपरायणाः ।

मृतो न श्रूयते लोके मर्त्यः कोपि नरोत्तम २९।

शोकं नैव प्रपश्यंति दोषं नैव प्रयांति ते ।

यद्रूपं स्वर्गलोकस्य तद्रूपं भूतलस्य च ३०।

संजातं मानवश्रेष्ठ प्रसादात्तस्य चक्रिणः ।

विभ्रष्टा यमदूतास्ते विष्णुदूतैश्च ताडिताः ३१।

रुदमाना गताः सर्वे धर्मराजं परस्परम् ।

तत्सर्वं कथितं दूतैश्चेष्टितं भूपतेस्तु तैः ३२।

अमृत्युभूतलं जातं दानभोगेन भास्करे ।

नहुषस्यात्मजेनापि कृतं देवययातिना ३३।

विष्णुभक्तेन पुण्येन स्वर्गरूपं प्रदर्शितम् ।

एवमाकर्णितं सर्वं धर्मराजेन वै तदा ३४।

धर्मराजस्तदा तत्र दूतेभ्यः श्रुतविस्तरः ।

चिंतयामास सर्वार्थं श्रुत्वैवंनृपचेष्टितम् ३५।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे पंचसप्ततितमोऽध्यायः ७५।

खण्डः २ (भूमिखण्डः) — Adhyāya 76

सुकर्मोवाच-

सौरिर्दूतैस्तथा सर्वैः सह स्वर्गं जगाम सः ।

द्रष्टुं तत्र सहस्राक्षं देववृंदैः समावृतम् १।

धर्मराजं समायांतं ददर्श सुरराट्तदा ।

समुत्थाय त्वरायुक्तो दत्वा चार्घमनुत्तमम् २।

पप्रच्छागमनं तस्य कथयस्व ममाग्रतः ।

समाकर्ण्य महद्वाक्यं देवराजस्य भाषितम् ३।

धर्मराजोऽब्रवीत्सर्वं ययातेश्चरितं महत् ।

धर्मराज उवाच-

श्रूयतां देवदेवेश यस्मादागमनं मम ४।

कथयाम्यहमत्रापि येनाहमागतस्तव ।

नहुषस्यात्मजेनापि वैष्णवेन महात्मना ५।

वैष्णवाश्च कृता मर्त्या ये वसंति महीतले ।

वैकुंठस्य समं रूपं मर्त्यलोकस्य वै कृतम् ६।

अमरा मानवा जाता जरारोगविवर्जिताः ।

पापमेव न कुर्वंति असत्यं न वदंति ते ७।

कामक्रोधविहीनास्ते लोभमोहविवर्जिताः ।

दानशीला महात्मानः सर्वे धर्मपरायणाः ८।

सर्वधर्मैः समर्चंति नारायणमनामयम् ।

तेन वैष्णवधर्मेण मानवा जगतीतले ९।

निरामया वीतशोकाः सर्वे च स्थिरयौवनाः ।

दूर्वा वटा यथा देव विस्तारं यांति भूतले १०।

तथा ते विस्तरं प्राप्ताः पुत्रपौत्रैः प्रपौत्रकैः ।

तेषां पुत्रैः प्रपौत्रैश्च वंशाद्वंशांतरं गताः ११।

एवं हि वैष्णवः सर्वो जरामृत्युविवर्जितः ।

मर्त्यलोकः कृतस्तेन नहुषस्यात्मजेन वै १२।

पदभ्रष्टोस्मि संजातो व्यापारेण विवर्जितः ।

एतत्सर्वं समाख्यातं मम कर्मविनाशनम् १३।

एवं ज्ञात्वा सहस्राक्ष लोकस्यास्य हितं कुरु ।

एतत्ते सर्वमाख्यातं यथापृष्टोस्मि वै त्वया १४।

एतस्मात्कारणादिंद्र आगतस्तव सन्निधौ ।

इंद्र उवाच-

पूर्वमेव मया दूत आगमाय महात्मनः १५।

प्रेषितो धर्मराजेंद्र दूतेनास्यापि भाषितम् ।

नाहं स्वर्गसुखस्यार्थी नागमिष्ये दिवं पुनः १६।

स्वर्गरूपं करिष्यामि सर्वं तद्भूमिमंडलम् ।

इत्याचचक्षे भूपालः प्रजापाल्यं करोति सः १७।

तस्य धर्मप्रभावेण भीतस्तिष्ठामि सर्वदा ।

धर्म उवाच-

येनकेनाप्युपायेन तमानय सुभूपतिम् १८।

देवराज महाभाग यदीच्छसि मम प्रियम् ।

इत्याकर्ण्य वचस्तस्य धर्मस्यापि सुराधिपः १९।

चिंतयामास मेधावी सर्वतत्वेन भूपते ।

कामदेवं समाहूय गंधर्वांश्च पुरंदरः २०।

मकरंदं रतिं देव आनिनाय महामनाः ।

तथा कुरुत वै यूयं यथाऽगच्छति भूपतिः २१।

यूयं गच्छन्तु भूर्लोकं मयादिष्टा न संशयः ।

काम उवाच-

युवयोस्तु प्रियं पुण्यं करिष्यामि न संशयः २२।

राजानं पश्य मां चैव स्थितं चैव समा युधि ।

तथेत्युक्त्वा गताः सर्वे यत्र राजा स नाहुषिः २३।

नटरूपेण ते सर्वे कामाद्याः कर्मणा द्विज ।

आशीर्भिरभिनंद्यैव ते च ऊचुः सुनाटकम् २४।

तेषां तद्वचनं श्रुत्वा ययातिः पृथिवीपतिः ।

सभां चकार मेधावी देवरूपां सुपंडितैः २५।

समायातः स्वयं भूपो ज्ञानविज्ञानकोविदः ।

तेषां तु नाटकं राजा पश्यमानः स नाहुषिः २६।

चरितं वामनस्यापि उत्पत्तिं विप्ररूपिणः ।

रूपेणाप्रतिमा लोके सुस्वरं गीतमुत्तमम् २७।

गायमाना जरा राजन्नार्यारूपेण वै तदा ।

तस्या गीतविलासेन हास्येन ललितेन च २८।

मधुरालापतस्तस्य कंदर्पस्य च मायया ।

मोहितस्तेन भावेन दिव्येन चरितेन च २९।

बलेश्चैव यथारूपं विंध्यावल्या यथा पुरा ।

वामनस्य यथारूपं चक्रे मारोथ तादृशम् ३०।

सूत्रधारः स्वयं कामो वसंतः पारिपार्श्वकः ।

नटीवेषधरा जाता सा रतिर्हृष्टवल्लभा ३१।

नेपथ्यांतश्चरी राजन्सा तस्मिन्नृत्यकर्मणि ।

मकरंदो महाप्राज्ञः क्षोभयामास भूपतिम् ३२।

यथायथा पश्यति नृत्यमुत्तमं गीतं समाकर्णति स क्षितीशः ।

तथातथा मोहितवान्स भूपतिं नटीप्रणीतेन महानुभावः ३३।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थे ययातिचरित्रे षट्सप्ततितमोऽध्यायः ७६।

खण्डः २ (भूमिखण्डः) — Adhyāya 77

सुकर्मोवाच-

कामस्य गीतलास्येन हास्येन ललितेन च ।

मोहितो राजराजेंद्रो नटरूपेण पिप्पल १।

कृत्वा मूत्रं पुरीषं च स राजा नहुषात्मजः ।

अकृत्वा पादयोः शौचमासने उपविष्टवान् २।

तदंतरं तु संप्राप्य संचचार जरा नृपम् ।

कामेनापि नृपश्रेष्ठ इंद्रकार्यं कृतं हितम् ३।

निवृत्ते नाटके तस्मिन्गतेषु तेषु भूपतिः ।

जराभिभूतो धर्मात्मा कामसंसक्तमानसः ४।

मोहितः काममोहेन विह्वलो विकलेंद्रियः ।

अतीव मुग्धो धर्मात्मा विषयैश्चापवाहितः ५।

एकदा तु गतो राजा मृगया व्यसनातुरः ।

वने च क्रीडते सोपि मोहरागवशं गतः ६।

सरसं क्रीडमानस्य नृपतेश्च महात्मनः ।

मृगश्चैकः समायातश्चतुःशृंगो ह्यनौपमः ७।

सर्वांगसुंदरो राजन्हेमरूपतनूरुहः ।

रत्नज्योतिः सुचित्रांगो दर्शनीयो मनोहरः ८।

अभ्यधावत्स वेगेन बाणपाणिर्धनुर्द्धरः ।

इत्यमन्यत मेधावी कोपि दैत्यः समागतः ९।

मृगेण च स तेनापि दूरमाकर्षितो नृपः ।

गतः सरथवेगेन श्रमेण परिखेदितः १०।

वीक्षमाणस्य तस्यापि मृगश्चांतरधीयत ।

स पश्यति वनं तत्र नंदंनोपममद्भुतम् ११।

चारुवृक्षसमाकीर्णं भूतपंचकशोभितम् ।

गुरुभिश्चंदनैः पुण्यैः कदलीखंडमंडितैः १२।

बकुलाशोकपुंनागैर्नालिकेरैश्च तिंदुकैः ।

पूगीफलैश्च खर्जूरैः कुमुदैः सप्तपर्णकैः १३।

पुष्पितैः कर्णिकारैश्च नानावृक्षैः सदाफलैः ।

पुष्पितामोदसंयुक्तैः केतकैः पाटलैस्ततः १४।

वीक्षमाणो महाराज ददर्श सर उत्तमम् ।

पुण्योदकेन संपूर्णं विस्तीर्णं पंचयोजनम् १५।

हंसकारंडवाकीर्णं जलपक्षिविनादितम् ।

कमलैश्चापि मुदितं श्वेतोत्पलविराजितम् १६।

रक्तोत्पलैः शोभमानं हाटकोत्पलमंडितम् ।

नीलोत्पलैः प्रकाशितं कल्हारैरतिशोभितम् १७।

मत्तैर्मधुकरैश्चपि सर्वत्र परिनादितम् ।

एवं सर्वगुणोपेतं ददर्श सर उत्तमम् १८।

पंचयोजनविस्तीर्णं दशयोजनदीर्घकम् ।

तडागं सर्वतोभद्रं दिव्यभावैरलंकृतम् १९।

रथवेगेन संखिन्नः किंचिच्छ्रमनिपीडितः ।

निषसाद तटे तस्य चूतच्छायां सुशीतलाम् २०।

स्नात्वा पीत्वा जलं शीतं पद्मसौगंध्यवासितम् ।

सर्वश्रमोपशमनममृतोपममेव तत् २१।

वृक्षच्छाये ततस्तस्मिन्नुपविष्टेन भूभृता ।

गीतध्वनिः समाकर्णि गीयमानो यथा तथा २२।

यथा स्त्री गायते दिव्या तथायं श्रूयते ध्वनिः ।

गीतप्रियो महाराज एव चिंतां परां गतः २३।

चिंताकुलस्तु धर्मात्मा यावच्चिंतयते क्षणम् ।

तावन्नारी वरा काचित्पीनश्रोणी पयोधरा २४।

नृपतेः पश्यतस्तस्य वने तस्मिन्समागता ।

सर्वाभरणशोभांगी शीललक्षणसंपदा २५।

तस्मिन्वने समायाता नृपतेः पुरतः स्थिता ।

तामुवाच महाराजः का हि कस्य भविष्यसि २६।

किमर्थं हि समायाता तन्मे त्वं कारणं वद ।

पृष्टा सती तदा तेन न किंचिदपि पिप्पल २७।

शुभाशुभं च भूपालं प्रत्यवोचद्वरानना ।

प्रहस्यैव गता शीघ्रं वीणादंडकराऽबला २८।

विस्मयेनापि राजेंद्रो महता व्यापितस्तदा ।

मया संभाषिता चेयं मां न ब्रूते स्म सोत्तरम् २९।

पुनश्चिंतां समापेदे ययातिः पृथिवीपतिः ।

यो वै मृगो मया दृष्टश्चतुःशृंगः सुवर्णकः ३०।

तस्मान्नारी समुद्भूता तत्सत्यं प्रतिभाति मे ।

मायारूपमिदं सत्यं दानवानां भविष्यति ३१।

चिंतयित्वा क्षणं राजा ययातिर्नहुषात्मजः ।

यावच्चिंतयते राजा तावन्नारी महावने ३२।

अंतर्धानं गता विप्र प्रहस्य नृपनंदनम् ।

एतस्मिन्नंतरे गीतं सुस्वरं पुनरेव तत् ३३।

शुश्रुवे परमं दिव्यं मूर्छनातानसंयुतम् ।

जगाम सत्वरं राजा यत्र गीतध्वनिर्महान् ३४।

जलांते पुष्करं चैव सहस्रदलमुत्तमम् ।

तस्योपरि वरा नारी शीलरूपगुणान्विता ३५।

दिव्यलक्षणसंपन्ना दिव्याभरणभूषिता ।

दिव्यैर्भावैः प्रभात्येका वीणादंडकराविला ३६।

गायंती सुस्वरं गीतं तालमानलयान्वितम् ।

तेन गीतप्रभावेण मोहयंती चराचरान् ३७।

देवान्मुनिगणान्सर्वान्दैत्यान्गंधर्वकिन्नरान् ।

तां दृष्ट्वा स विशालाक्षीं रूपतेजोपशालिनीम् ३८।

संसारे नास्ति चैवान्या नारीदृशी चराचरे ।

पुरा नटो जरायुक्तो नृपतेः कायमेव हि ३९।

संचारितो महाकामस्तदासौ प्रकटोभवत् ।

घृतं स्पृष्ट्वा यथा वह्नी रश्मिवान्संप्रजायते ४०।

तां च दृष्ट्वा तथा कामस्तत्कायात्प्रकटोऽभवत् ।

मन्मथाविष्टचित्तोसौ तां दृष्ट्वा चारुलोचनाम् ४१।

ईदृग्रूपा न दृष्टा मे युवती विश्वमोहिनी ।

चिंतयित्वा क्षणं राजा कामसंसक्तमानसः ४२।

तस्याः सविरहेणापि लुब्धोभून्नृपतिस्तदा ।

कामाग्निना दह्यमानः कामज्वरेणपीडितः ४३।

कथं स्यान्मम चैवेयं कथं भावो भविष्यति ।

यदा मां गूहते बाला पद्मास्या पद्मलोचना ४४।

यदीयं प्राप्यते तर्हि सफलं जीवितं भवेत् ।

एवं विचिंत्य धर्मात्मा ययातिः पृथिवीपतिः ४५।

तामुवाच वरारोहां का त्वं कस्यापि वा शुभे ।

पूर्वं दृष्टा तु या नारी सा दृष्टा पुनरेव च ४६।

तां पप्रच्छ स धर्मात्मा का चेयं तव पार्श्वगा ।

सर्वं कथय कल्याणि अहं हि नहुषात्मजः ४७।

सोमवंशप्रसूतोहं सप्तद्वीपाधिपः शुभे ।

ययातिर्नाम मे देवि ख्यातोहं भुवनत्रये ४८।

तव संगमने चेतो भावमेवं प्रवांछते ।

देहि मे संगमं भद्रे कुरु सुप्रियमेव हि ४९।

यं यं हि वांछसे भद्रे तद्ददामि न संशयः ।

दुर्जयेनापि कामेन हतोहं वरवर्णिनि ५०।

तस्मात्त्राहि सुदीनं मां प्रपन्नं शरणं तव ।

राज्यं च सकलामुर्वीं शरीरमपि चात्मनः ५१।

संगमे तव दास्यामि त्रैलोक्यमिदमेव ते ।

तस्य राज्ञो वचः श्रुत्वा सा स्त्री पद्मनिभानना ५२।

विशालां स्वसखीं प्राह ब्रूहि राजानमागतम् ।

नाम चोत्पत्तिस्थानं च पितरं मातरं शुभे ५३।

ममापि भावमेकाग्रमस्याग्रे च निवेदय ।

तस्याश्च वांछितं ज्ञात्वा विशाला भूपतिं तदा ५४।

उवाच मधुरालापैः श्रूयतां नृपनंदन ।

विशालोवाच-

काम एष पुरा दग्धो देवदेवेन शंभुना ५५।

रुरोद सा रतिर्दुःखाद्भर्त्राहीनापि सुस्वरम् ।

अस्मिन्सरसि राजेंद्र सा रतिर्न्यवसत्तदा ५६।

तस्य प्रलापमेवं सा सुस्वरं करुणान्वितम् ।

समाकर्ण्य ततो देवाः कृपया परयान्विताः ५७।

संजाता राजराजेंद्र शंकरं वाक्यमब्रुवन् ।

जीवयस्व महादेव पुनरेव मनोभवम् ५८।

वराकीयं महाभाग भर्तृहीना हि कीदृशी ।

कामेनापि समायुक्तामस्मत्स्नेहात्कुरुष्व हि ५९।

तच्छ्रुत्वा च वचः प्राह जीवयामि मनोभवम् ।

कायेनापि विहीनोयं पंचबाणो मनोभवः ६०।

भविष्यति न संदेहो माधवस्य सखा पुनः ।

दिव्येनापि शरीरेण वर्तयिष्यति नान्यथा ६१।

महादेवप्रसादाच्च मीनकेतुः स जीवितः ।

आशीर्भिरभिनंद्यैवं देव्याः कामं नरोत्तम ६२।

गच्छ काम प्रवर्तस्व प्रियया सह नित्यशः ।

एवमाह महातेजाः स्थितिसंहारकारकः ६३।

पुनः कामः सरःप्राप्तो यत्रास्ते दुःखिता रतिः ।

इदं कामसरो राजन्रतिरत्र सुसंस्थिता ६४।

दग्धे सति महाभागे मन्मथे दुःखधर्षिता ।

रत्याः कोपात्समुत्पन्नः पावको दारुणाकृतिः ६५।

अतीवदग्धा तेनापि सा रतिर्मोहमूर्छिता ।

अश्रुपातं मुमोचाथ भर्तृहीना नरोत्तम ६६।

नेत्राभ्यां हि जले तस्याः पतिता अश्रुबिंदवः ।

तेभ्यो जातो महाशोकः सर्वसौख्यप्रणाशकः ६७।

जरा पश्चात्समुत्पन्ना अश्रुभ्यो नृपसत्तम ।

वियोगो नाम दुर्मेधास्तेभ्यो जज्ञे प्रणाशकः ६८।

दुःखसंतापकौ चोभौ जज्ञाते दारुणौ तदा ।

मूर्छा नाम ततो जज्ञे दारुणा सुखनाशिनी ६९।

शोकाज्जज्ञे महाराज कामज्वरोथ विभ्रमः ।

प्रलापो विह्वलश्चैव उन्मादो मृत्युरेव च ७०।

तस्याश्च अश्रुबिंदुभ्यो जज्ञिरे विश्वनाशकाः ।

रत्याः पार्श्वे समुत्पन्नाः सर्वे तापांगधारिणः ७१।

मूर्तिमंतो महाराज सद्भावगुणसंयुताः ।

काम एष समायातः केनाप्युक्तं तदा नृप ७२।

महानंदेन संयुक्ता दृष्ट्वा कामं समागतम् ।

नेत्राभ्यामश्रुपूर्णाभ्यां पतिता अश्रुबिन्दवः ७३।

अप्सु मध्ये महाराज चापल्याज्जज्ञिरे प्रजाः ।

प्रीतिर्नाम तदा जज्ञे ख्यातिर्लज्जा नरोत्तम ७४।

तेभ्यो जज्ञे महानंद शांतिश्चान्या नृपोत्तम ।

जज्ञाते द्वे शुभे कन्ये सुखसंभोगदायिके ७५।

लीलाक्रीडा मनोभाव संयोगस्तु महान्नृप ।

रत्यास्तु वामनेत्राद्वै आनंदादश्रुबिंदवः ७६।

जलांते पतिता राजंस्तस्माज्जज्ञे सुपंकजम् ।

तस्मात्सुपंकजाज्जाता इयं नारी वरानना ७७।

अश्रुबिंदुमती नाम रतिपुत्री नरोत्तम ।

तस्याः प्रीत्या सुखं कृत्वा नित्यं वर्त्ते समीपगा ७८।

सखीभावस्वभावेन संहृष्टा सर्वदा शुभा ।

विशाला नाम मे ख्यातं वरुणस्य सुता नृप ७९।

अस्याश्चांते प्रवर्तामि स्नेहात्स्निग्धास्मि सर्वदा ।

एतत्ते सर्वमाख्यातमस्याश्चात्मन एव ते ८०।

तपश्चचार राजेंद्र पतिकामा वरानना ।

राजोवाच-

सर्वमेव त्वयाख्यातं मया ज्ञातं शुभे शृणु ८१।

मामेवं हि भजत्वेषा रतिपुत्री वरानना ।

यमेषा वांछते बाला तत्सर्वं तु ददाम्यहम् ८२।

तथा कुरुष्व कल्याणि यथा मे वश्यतां व्रजेत् ।

विशालोवाच-

अस्या व्रतं प्रवक्ष्यामि तदाकर्णय भूपते ८३।

पुरुषं यौवनोपेतं सर्वज्ञं वीरलक्षणम् ।

देवराजसमं राजन्धर्माचारसमन्वितम् ८४।

तेजस्विनं महाप्राज्ञं दातारं यज्विनां वरम् ।

गुणानां धर्मभावस्य ज्ञातारं पुण्यभाजनम् ८५।

लोक इंद्रसमं राजन्सुयज्ञैर्धर्मतत्परम् ।

सर्वैश्वर्यसमोपेतं नारायणमिवापरम् ८६।

देवानां सुप्रियं नित्यं ब्राह्मणानामतिप्रियम् ।

ब्रह्मण्यं वेदतत्त्वज्ञं त्रैलोक्ये ख्यातविक्रमम् ८७।

एवंगुणैः समुपेतं त्रैलोक्येन प्रपूजितम् ।

सुमतिं सुप्रियं कांतं मनसा वरमीप्सति ८८।

ययातिरुवाच-

एवं गुणैः समुपेतं विद्धि मामिह चागतम् ।

अस्यानुरूपो भर्त्ताहं सृष्टो धात्रा न संशयः ८९।

विशालोवाच-

भवंतं पुण्यसंवृद्धं जाने राजञ्जगत्त्रये ।

पूर्वोक्ता ये गुणाः सर्वे मयोक्ताः संति ते त्वयि ९०।

एकेनापि च दोषेण त्वामेषा हि न मन्यते ।

एष मे संशयो जातो भवान्विष्णुमयो नृप ९१।

ययातिरुवाच-

समाचक्ष्व महादोषं यमेषा नानुमन्यते ।

तत्त्वेन चारुसर्वांगी प्रसादसुमुखी भव ९२।

विशालोवाच-

आत्मदोषं न जानासि कस्मात्त्वं जगतीपते ।

जरया व्याप्तकायस्त्वमनेनेयं न मन्यते ९३।

एवं श्रुत्वा महद्वाक्यमप्रियं जगतीपतिः ।

दुःखेन महताविष्टस्तामुवाच पुनर्नृपः ९४।

जरादोषो न मे भद्रे संसर्गात्कस्यचित्कदा ।

समुद्भूतं ममांगे वै तं न जाने जरागमम् ९५।

यं यं हि वांछते चैषा त्रैलोक्ये दुर्लभं शुभे ।

तमस्यै दातुकामोहं व्रियतां वर उत्तमः ९६।

विशालोवाच-

जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत् ।

एतद्विनिश्चितं राजन्सत्यं सत्यं वदाम्यहम् ९७।

श्रुतिरेवं वदेद्राजन्पुत्रे भ्रातरि भृत्यके ।

जरा संक्राम्यते यस्य तस्यांगे परिसंचरेत् ९८।

तारुण्यं तस्य वै गृह्य तस्मै दत्वा जरां पुनः ।

उभयोः प्रीतिसंवादः सुरुच्या जायते शुभः ९९।

यथात्मदानपुण्यस्य कृपया यो ददाति च ।

फलं राजन्हि तत्तस्य जायते नात्र संशयः १००।

दुःखेनोपार्जितं पुण्यमन्यस्मै हि प्रदीयते ।

सुपुण्यं तद्भवेत्तस्य पुण्यस्य फलमश्नुते १०१।

पुत्राय दीयतां राजंस्तस्मात्तारुण्यमेव च ।

प्रगृह्यैव समागच्छ सुंदरत्वेन भूपते १०२।

यदा त्वमिच्छसे भोक्तुं तदा त्वं कुरुभूपते ।

एवमाभाष्य सा भूपं विशाला विरराम ह १०३।

सुकर्मोवाच-

एवमाकर्ण्य राजेंद्रो विशालामवदत्तदा ।

राजोवाच-

एवमस्तु महाभागे करिष्ये वचनं तव १०४।

कामासक्तः समूढस्तु ययातिः पृथिवीपतिः ।

गृहं गत्वा समाहूय सुतान्वाक्यमुवाच ह १०५।

तुरुं पूरुं कुरुं राजा यदुं च पितृवत्सलम् ।

कुरुध्वं पुत्रकाः सौख्यं यूयं हि मम शासनात् १०६।

पुत्रा ऊचुः-

पितृवाक्यं प्रकर्तव्यं पुत्रैश्चापि शुभाशुभम् ।

उच्यतां तात तच्छीघ्रं कृतं विद्धि न संशयः १०७।

एवमाकर्ण्यतद्वाक्यं पुत्राणां पृथिवीपतिः ।

आचचक्षे पुनस्तेषु हर्षेणाकुलमानसः १०८।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे सप्तसप्ततितमोऽध्यायः ७७।

खण्डः २ (भूमिखण्डः) — Adhyāya 78

ययातिरुवाच-

एकेन गृह्यतां पुत्रा जरा मे दुःखदायिनी ।

धीरेण भवतां मध्ये तारुण्यं मम दीयताम् १।

स्वकीयं हि महाभागाः स्वरूपमिदमुत्तमम् ।

संतप्तं मानसं मेद्य स्त्रियां सक्तं सुचंचलम् २।

भाजनस्था यथा आप आवर्त्तयति पावकः ।

तथा मे मानसं पुत्राः कामानलसुचालितम् ३।

एको गृह्णातु मे पुत्रा जरां दुःखप्रदायिनीम् ।

स्वकं ददातु तारुण्यं यथाकामं चराम्यहम् ४।

यो मे जरापसरणं करिष्यति सुतोत्तमः ।

स च मे भोक्ष्यते राज्यं धनुर्वंशं धरिष्यति ५।

तस्य सौख्यं सुसंपत्तिर्धनं धान्यं भविष्यति ।

विपुला संततिस्तस्य यशः कीर्तिर्भविष्यति ६।

पुत्रा ऊचुः-

भवान्धर्मपरो राजन्प्रजाः सत्येन पालकः ।

कस्मात्ते हीदृशो भावो जातः प्रकृतिचापलः ७।

राजोवाच-

आगता नर्तकाः पूर्वं पुरं मे हि प्रनर्तकाः ।

तेभ्यो मे कामसंमोहे जातो मोहश्च ईदृशः ८।

जरया व्यापितः कायो मन्मथाविष्टमानसः ।

संबभूव सुतश्रेष्ठाः कामेनाकुलव्याकुलः ९।

काचिद्दृष्टा मया नारी दिव्यरूपा वरानना ।

मया संभाषिता पुत्राः किंचिन्नोवाच मे सती १०।

विशालानाम तस्याश्च सखी चारुविचक्षणा ।

सा मामाह शुभं वाक्यं मम सौख्यप्रदायकम् ११।

जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत् ।

एवमंगीकृतं वाक्यं तयोक्तं गृहमागतः १२।

मया जरापनोदार्थं तदेवं समुदाहृतम् ।

एवं ज्ञात्वा प्रकर्तव्यं मत्सुखं हि सुपुत्रकाः १३।

तुरुरुवाच-

शरीरं प्राप्यते पुत्रैः पितुर्मातुः प्रसादतः ।

धर्मश्च क्रियते राजञ्शरीरेण विपश्चिता १४।

पित्रोः शुश्रूषणं कार्यं पुत्रैश्चापि विशेषतः ।

न च यौवनदानस्य कालोऽयं मे नराधिप १५।

प्रथमे वयसि भोक्तव्यं विषयं मानवैर्नृप ।

इदानीं तन्न कालोयं वर्तते तव सांप्रतम् १६।

जरां तात प्रदत्वा वै पुत्रे तात महद्गताम् ।

पश्चात्सुखं प्रभोक्तव्यं न तु स्यात्तव जीवितम् १७।

तस्माद्वाक्यं महाराज करिष्ये नैव ते पुनः ।

एवमाभाषत नृपं तुरुर्ज्येष्ठसुतस्तदा १८।

तुरोर्वाक्यं तु तच्छ्रुत्वा क्रुद्धो राजा बभूव सः ।

तुरुं शशाप धर्मात्मा क्रोधेनारुणलोचनः १९।

अपध्वस्तस्त्वयाऽदेशो ममायं पापचेतन ।

तस्मात्पापी भव स्वत्वं सर्वधर्मबहिष्कृतः २०।

शिखया त्वं विहीनश्च वेदशास्त्रविवर्जितः ।

सर्वाचारविहीनस्त्वं भविष्यसि न संशयः २१।

ब्रह्मघ्नस्त्वं देवदुष्टः सुरापः सत्यवर्जितः ।

चंडकर्मप्रकर्ता त्वं भविष्यसि नराधमः २२।

सुरालीनः क्षुधी पापी गोघ्नश्च त्वं भविष्यसि ।

दुश्चर्मा मुक्तकच्छश्च ब्रह्मद्वेष्टा निराकृतिः २३।

परदाराभिगामी त्वं महाचंडः प्रलंपटः ।

सर्वभक्षश्च दुर्मेधाः सदात्वं च भविष्यसि २४।

सगोत्रां रमसे नारीं सर्वधर्मप्रणाशकः ।

पुण्यज्ञानविहीनात्मा कुष्ठवांश्च भविष्यसि २५।

तव पुत्राश्च पौत्राश्च भविष्यंति न संशयः ।

ईदृशाः सर्वपुण्यघ्ना म्लेच्छाः सुकलुषीकृताः २६।

एवं तुरुं सुशप्त्वैव यदुं पुत्रमथाब्रवीत् ।

जरां वै धारयस्वेह भुंक्ष्व राज्यमकंटकम् २७।

बद्धाञ्जलिपुटो भूत्वा यदू राजानमब्रवीत् ।

यदुरुवाच-

जराभारं न शक्नोमि वोढुं तात कृपां कुरु २८।

शीतमध्वा कदन्नं च वयोतीताश्च योषितः ।

मनसः प्रातिकूल्यं च जरायाः पंचहेतवः २९।

जरादुःखं न शक्नोमि नवे वयसि भूपते ।

कः समर्थो हि वै धर्तुं क्षमस्व त्वं ममाधुना ३०।

यदुं क्रुद्धो महाराजः शशाप द्विजनंदन ।

राज्यार्हो न च ते वंशः कदाचिद्वै भविष्यति ३१।

बलतेजः क्षमाहीनः क्षात्रधर्मविवर्जितः ।

भविष्यति न संदेहो मच्छासनपराङ्मुखः ३२।

यदुरुवाच-

निर्दोषोहं महाराज कस्माच्छप्तस्त्वयाधुना ।

कृपां कुरुष्व दीनस्य प्रसादसुमुखो भव ३३।

राजोवाच-

महादेवः कुले ते वै स्वांशेनापि हि पुत्रक ।

करिष्यति विसृष्टिं च तदा पूतं कुलं तव ३४।

यदुरुवाच-

अहं पुत्रो महाराज निर्दोषः शापितस्त्वया ।

अनुग्रहो दीयतां मे यदि मे वर्त्तते दया ३५।

राजोवाच-

यो भवेज्ज्येष्ठपुत्रस्तु पितुर्दुःखापहारकः ।

राज्यदायं सुभुंक्ते च भारवोढा भवेत्स हि ३६।

त्वया धर्मं न प्रवृत्तमभाष्योसि न संशयः ।

भवता नाशिताज्ञा मे महादंडेन घातिनः ३७।

तस्मादनुग्रहो नास्ति यथेष्टं च तथा कुरु ।

यदुरुवाच-

यस्मान्मे नाशितं राज्यं कुलं रूपं त्वया नृप ३८।

तस्माद्दुष्टो भविष्यामि तव वंशपतिर्नृप ।

तव वंशे भविष्यंति नानाभेदास्तु क्षत्त्रियाः ३९।

तेषां ग्रामान्सुदेशांश्च स्त्रियो रत्नानि यानि वै ।

भोक्ष्यंति च न संदेहो अतिचंडा महाबलाः ४०।

मम वंशात्समुत्पन्नास्तुरुष्का म्लेच्छरूपिणः ।

त्वया ये नाशिताः सर्वे शप्ताः शापैः सुदारुणैः ४१।

एवं बभाषे राजानं यदुः क्रुद्धो नृपोत्तम ।

अथ क्रुद्धो महाराजः पुनश्चैवं शशाप ह ४२।

मत्प्रजानाशकाः सर्वे वंशजास्ते शृणुष्व हि ।

यावच्चंद्रश्च सूर्यश्च पृथ्वी नक्षत्रतारकाः ४३।

तावन्म्लेच्छाः प्रपक्ष्यंते कुंभीपाके चरौ रवे ।

कुरुं दृष्ट्वा ततो बालं क्रीडमानं सुलक्षणम् ४४।

समाह्वयति तं राजा न सुतं नृपनंदनम् ।

शिशुं ज्ञात्वा परित्यक्तः सकुरुस्तेन वै तदा ४५।

शर्मिष्ठायाः सुतं पुण्यं तं पूरुं जगदीश्वरः ।

समाहूय बभाषे च जरा मे गृह्यतां पुनः ४६।

भुंक्ष्व राज्यं मया दत्तं सुपुण्यं हतकंटकम् ।

पूरुरुवाच-

राज्यं देवे न भोक्तव्यं पित्रा भुक्तं यथा तव ४७।

त्वदादेशं करिष्यामि जरा मे दीयतां नृप ।

तारुण्येन ममाद्यैव भूत्वा सुंदररूपदृक् ४८।

भुंक्ष्व भोगान्सुकर्माणि विषयासक्तचेतसा ।

यावदिच्छा महाभाग विहरस्व तया सह ४९।

यावज्जीवाम्यहं तात जरां तावद्धराम्यहम् ।

एवमुक्तस्तु तेनापि पूरुणा जगतीपतिः ५०।

हर्षेण महताविष्टस्तं पुत्रं प्रत्युवाच सः ।

यस्माद्वत्स ममाज्ञा वै न हता कृतवानिह ५१।

तस्मादहं विधास्यामि बहुसौख्यप्रदायकम् ।

यस्माज्जरागृहीता मे दत्तं तारुण्यकं स्वकम् ५२।

तेन राज्यं प्रभुंक्ष्व त्वं मया दत्तं महामते ।

एवमुक्तः सुपूरुश्च तेन राज्ञा महीपते ५३।

तारुण्यंदत्तवानस्मै जग्राहास्माज्जरां नृप ।

ततः कृते विनिमये वयसोस्तातपुत्रयोः ५४।

तस्माद्वृद्धतरः पूरुः सर्वांगेषु व्यदृश्यत ।

नूतनत्वं गतो राजा यथा षोडशवार्षिकः ५५।

रूपेण महताविष्टो द्वितीय इव मन्मथः ।

धनूराज्यं च छत्रं च व्यजनं चासनं गजम् ५६।

कोशं देशं बलं सर्वं चामरं स्यंदनं तथा ।

ददौ तस्य महाराजः पूरोश्चैव महात्मनः ५७।

कामासक्तश्च धर्मात्मा तां नारीमनुचिंतयन् ।

तत्सरः सागरप्रख्यंकामाख्यं नहुषात्मजः ५८।

अश्रुबिंदुमती यत्र जगाम लघुविक्रमः ।

तां दृष्ट्वा तु विशालाक्षीं चारुपीनपयोधराम् ५९।

विशालां च महाराजः कंदर्पाकृष्टमानसः ।

राजोवाच-

आगतोऽस्मि महाभागे विशाले चारुलोचने ६०।

जरात्यागःकृतो भद्रे तारुण्येन समन्वितः ।

युवा भूत्वा समायातो भवत्वेषा ममाधुना ६१।

यंयं हि वांछते चैषा तंतं दद्मि न संशयः ।

विशालोवाच-

यदा भवान्समायातो जरां दुष्टां विहाय च ६२।

दोषेणैकेनलिप्तोसि भवंतं नैव मन्यते ।

राजोवाच-

मम दोषं वदस्व त्वं यदि जानासि निश्चितम् ६३।

तं तु दोषं परित्यक्ष्येगुणरूपंनसंशयः ६४।

इति श्रीपद्मपुराणेभूमिखंडेवेनोपाख्यानेमातापितृतीर्थवर्णने ययातिचरितेऽष्टसप्ततितमोऽध्यायः ७८।

खण्डः २ (भूमिखण्डः) — Adhyāya 79

विशालोवाच-

शर्मिष्ठा यस्य वै भार्या देवयानी वरानना ।

सौभाग्यं तत्र वै दृष्टमन्यथा नास्ति भूपते १।

तत्कथं त्वं महाभाग अस्याः कार्यवशो भवेः ।

सपत्नजेन भावेन भवान्भर्ता प्रतिष्ठितः २।

ससर्पोसि महाराज भूतले चंदनं यथा ।

सर्पैश्च वेष्टितो राजन्महाचंदन एव हि ३।

तथा त्वं वेष्टितः सर्पैः सपत्नीनामसंज्ञकैः ।

वरमग्निप्रवेशश्च शिखाग्रात्पतनं वरम् ४।

रूपतेजः समायुक्तं सपत्नीसहितं प्रियम् ।

न वरं तादृशं कांतं सपत्नीविषसंयुतम् ५।

तस्मान्न मन्यते कांतं भवंतं गुणसागरम् ।

राजोवाच-

देवयान्या न मे कार्यं शर्मिष्ठया वरानने ६।

इत्यर्थं पश्य मे कोशं सत्वधर्मसमन्वितम् ।

अश्रुबिंदुमत्युवाच-

अहं राज्यस्य भोक्त्री च तव कायस्य भूपते ७।

यद्यद्वदाम्यहं भूप तत्तत्कार्यं त्वया ध्रुवम् ।

इत्यर्थे मम देहि स्वं करं त्वं धर्मवत्सल ८।

बहुधर्मसमोपेतं चारुलक्षणसंयुतम् ।

राजोवाच-

अन्य भार्यां न विंदामि त्वां विना वरवर्णिनि ९।

राज्यं च सकलामुर्वीं मम कायं वरानने ।

सकोशं भुंक्ष्व चार्वंगि एष दत्तः करस्तव १०।

यदेव भाषसे भद्रे तदेवं तु करोम्यहम् ।

अश्रुबिंदुमत्युवाच-

अनेनापि महाभाग तव भार्या भवाम्यहम् ११।

एवमाकर्ण्य राजेंद्रो हर्षव्याकुललोचनः ।

गांधर्वेण विवाहेन ययातिः पृथिवीपतिः १२।

उपयेमे सुतां पुण्यां मन्मथस्य नरोत्तम ।

तया सार्द्धं महात्मा वै रमते नृपनंदनः १३।

सागरस्य च तीरेषु वनेषूपवनेषु च ।

पर्वतेषु च रम्येषु सरित्सु च तया सह १४।

रमते राजराजेंद्रस्तारुण्येन महीपतिः ।

एवं विंशत्सहस्राणि गतानि निरतस्य च १५।

भूपस्य तस्य राजेंद्र ययातेस्तु महात्मनः ।

विष्णुरुवाच-

एवं तया महाराजो ययातिर्मोहितस्तदा १६।

कंदर्पस्य प्रपंचेन इंद्रस्यार्थे महामते ।

सुकर्मोवाच-

एवं पिप्पल राजासौ ययातिः पृथिवीपतिः १७।

तस्या मोहनकामेन रतेन ललितेन च ।

न जानाति दिनं रात्रिं मुग्धः कामस्य कन्यया १८।

एकदा मोहितं भूपं ययातिं कामनंदिनी ।

उवाच प्रणतं नम्रं वशगं चारुलोचना १९।

अश्रुबिंदुमत्युवाच-

संजातं दोहदं कांत तन्मे कुरु मनोरथम् ।

अश्वमेधमखश्रेष्ठं यजस्व पृथिवीपते २०।

राजोवाच-

एवमस्तु महाभागे करोमि तव सुप्रियम् ।

समाहूय सुतश्रेष्ठं राज्यभोगे विनिःस्पृहम् २१।

समाहूतः समायातो भक्त्यानमितकंधरः ।

बद्धांजलिपुटो भूत्वा प्रणाममकरोत्तदा २२।

तस्याः पादौ ननामाथ भक्त्या नमितकंधरः ।

आदेशो दीयतां राजन्येनाहूतः समागतः २३।

किं करोमि महाभाग दासस्ते प्रणतोस्मि च ।

राजोवाच-

अश्वमेधस्य यज्ञस्य संभारं कुरु पुत्रक २४।

समाहूय द्विजान्पुण्यानृत्विजो भूमिपालकान् ।

एवमुक्तो महातेजाः पूरुः परमधार्मिकः २५।

सर्वं चकार संपूर्णं यथोक्तं तु महात्मना ।

तया सार्धं स जग्राह सुदीक्षां कामकन्यया २६।

अश्वमेधयज्ञवाटे दत्वा दानान्यनेकधा ।

ब्राह्मणेभ्यो महाराज भूरिदानमनंतकम् २७।

दीनेषु च विशेषेण ययातिः पृथिवीपतिः ।

यज्ञांते च महाराजस्तामुवाच वराननाम् २८।

अन्यत्ते सुप्रियं बाले किं करोमि वदस्व मे ।

तत्सर्वं देवि कर्तास्मि साध्यासाध्यं वरानने २९।

सुकर्मोवाच-

इत्युक्ता तेन सा राज्ञा भूपालं प्रत्युवाच ह ।

जातो मे दोहदो राजंस्तत्कुरुष्व ममानघ ३०।

इंद्रलोकं ब्रह्मलोकं शिवलोकं तथैव च ।

विष्णुलोकं महाराज द्रष्टुमिच्छामि सुप्रियम् ३१।

दर्शयस्व महाभाग यदहं सुप्रिया तव ।

एवमुक्तस्तयाराजातामुवाचससुप्रियाम् ३२।

साधुसाधुवरारोहेपुण्यमेवप्रभाषसे ।

स्त्रीस्वभावाच्चचापल्यात्कौतुकाच्चवरानने ३३।

यत्तवोक्तं महाभागे तदसाध्यं विभाति मे ।

तत्साध्यं पुण्यदानेन यज्ञेन तपसापि च ३४।

अन्यथा न भवेत्साध्यं यत्त्वयोक्तं वरानने ।

असाध्यं तु भवत्या वै भाषितं पुण्यमिश्रितम् ३५।

मर्त्यलोकाच्छरीरेण अनेनापि च मानवः ।

श्रुतो दृष्टो न मेद्यापि गतः स्वर्गं सुपुण्यकृत् ३६।

ततोऽसाध्यं वरारोहे यत्त्वया भाषितं मम ।

अन्यदेव करिष्यामि प्रियं ते तद्वद प्रिये ३७।

देव्युवाच-

अन्यैश्च मानुषै राजन्न साध्यं स्यान्न संशयः ।

त्वयि साध्यं महाराज सत्यंसत्यं वदाम्यहम् ३८।

तपसा यशसा क्षात्रै र्दानैर्यज्ञैश्च भूपते ।

नास्ति भवादृशश्चान्यो मर्त्यलोके च मानवः ३९।

क्षात्रं बलं सुतेजश्च त्वयि सर्वं प्रतिष्ठितम् ।

तस्मादेवं प्रकर्तव्यं मत्प्रियं नहुषात्मज ४०।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकोनाशीतितमोऽध्यायः ७९।

खण्डः २ (भूमिखण्डः) — Adhyāya 80

पिप्पल उवाच-

कामकन्यां यदा राजा उपयेमे द्विजोत्तम ।

किं चक्राते तदा ते द्वे पूर्वभार्ये सुपुण्यके १।

देवयानी महाभागा शर्मिष्ठा वार्षपर्वणी ।

तयोश्चरित्रं तत्सर्वं कथयस्व ममाग्रतः २।

सुकर्मोवाच-

यदानीता कामकन्या स्वगृहं तेन भूभुजा ।

अत्यर्थं स्पर्धते सा तु देवयानी मनस्विनी ३।

तस्यार्थे तु सुतौ शप्तौ क्रोधेनाकुलितात्मना ।

शर्मिष्ठां च समाहूय शब्दं चक्रे यशस्विनी ४।

रूपेण तेजसा दानैः सत्यपुण्यव्रतैस्तथा ।

शर्मिष्ठा देवयानी च स्पर्धेते स्म तया सह ५।

दुष्टभावं तयोश्चापि साऽज्ञासीत्कामजा तदा ।

राज्ञे सर्वं तया विप्र कथितं तत्क्षणादिह ६।

अथ क्रुद्धो महाराजः समाहूयाब्रवीद्यदुम् ।

शर्मिष्ठा वध्यतां गत्वा शुक्रपुत्री तथा पुनः ७।

सुप्रियं कुरु मे वत्स यदि श्रेयो हि मन्यसे ।

एवमाकर्ण्य तत्तस्य पितुर्वाक्यं यदुस्तदा ८।

प्रत्युवाच नृपेंद्रं तं पितरं प्रति मानद ।

नाहं तु घातये तात मातरौ दोषवर्जिते ९।

मातृघाते महादोषः कथितो वेदपंडितैः ।

तस्माद्घातं महाराज एतयोर्न करोम्यहम् १०।

दोषाणां तु सहस्रेण माता लिप्ता यदा भवेत् ।

भगिनी च महाराज दुहिता च तथा पुनः ११।

पुत्रैर्वा भ्रातृभिश्चैव नैव वध्या भवेत्कदा ।

एवं ज्ञात्वा महाराज मातरौ नैव घातये १२।

यदोर्वाक्यं तदा श्रुत्वा राजा क्रुद्धो बभूव ह ।

शशाप तं सुतं पश्चाद्ययातिः पृथिवीपतिः १३।

यस्मादाज्ञाहता त्वद्य त्वया पापि समोपि हि ।

मातुरंशं भजस्व त्वं मच्छापकलुषीकृतः १४।

एवमुक्त्वा यदुं पुत्रं ययातिः पृथिवीपतिः ।

पुत्रं शप्त्वा महाराजस्तया सार्द्धं महायशाः १५।

रमते सुखभोगेन विष्णोर्ध्यानेन तत्परः ।

अश्रुबिंदुमतीसा च तेन सार्द्धं सुलोचना १६।

बुभुजे चारुसर्वांगी पुण्यान्भोगान्मनोनुगान् ।

एवं कालो गतस्तस्य ययातेस्तु महात्मनः १७।

अक्षया निर्जराः सर्वा अपरास्तु प्रजास्तथा ।

सर्वे लोका महाभाग विष्णुध्यानपरायणाः १८।

तपसा सत्यभावेन विष्णोर्ध्यानेन पिप्पल ।

सर्वे लोका महाभाग सुखिनः साधुसेवकाः १९।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रेऽशीतितमोऽध्यायः ८०।

खण्डः २ (भूमिखण्डः) — Adhyāya 81

सुकर्मोवाच-

यथेंद्रोसौ महाप्राज्ञः सदा भीतो महात्मनः ।

ययातेर्विक्रमं दृष्ट्वा दानपुण्यादिकं बहु १।

मेनकां प्रेषयामास अप्सरां दूतकर्मणि ।

गच्छ भद्रे महाभागे ममादेशं वदस्व हि २।

कामकन्यामितो गत्वा देवराजवचो वद ।

येनकेनाप्युपायेन राजानं त्वमिहानय ३।

एवं श्रुत्वा गता सा च मेनका तत्र प्रेषिता ।

समाचष्ट तु तत्सर्वं देवराजस्य भाषितम् ४।

एवमुक्ता गता सा च मेनका तत्प्रचोदिता ।

गतायां मेनकायां तु रतिपुत्री मनस्विनी ५।

राजानं धर्मसंकेतं प्रत्युवाच यशस्विनी ।

राजंस्त्वयाहमानीता सत्यवाक्येन वै पुरा ६।

स्वकरश्चांतरे दत्तो भवनं च समाहृता ।

यद्यद्वदाम्यहं राजंस्तत्तत्कार्यं हि वै त्वया ७।

तदेवं हि त्वया वीर न कृतं भाषितं मम ।

त्वामेवं तु परित्यक्ष्ये यास्यामि पितृमंदिरम् ८।

राजोवाच-

यथोक्तं हि त्वया भद्रे तत्ते कर्त्ता न संशयः ।

असाध्यं तु परित्यज्य साध्यं देवि वदस्व मे ९।

अश्रुबिंदुमत्युवाच-

एतदर्थे महीकांत भवानिह मया वृतः ।

सर्वलक्षणसंपन्नः सर्वधर्मसमन्वितः १०।

सर्वं साध्यमिति ज्ञात्वा सर्वधर्तारमेव च ।

कर्त्तारं सर्वधर्माणां स्रष्टारं पुण्यकर्मणाम् ११।

त्रैलोक्यसाधकं ज्ञात्वा त्रैलोक्येऽप्रतिमं च वै ।

विष्णुभक्तमहं जाने वैष्णवानां महावरम् १२।

इत्याशया मया भर्त्ता भवानंगीकृतः पुरा ।

यस्य विष्णुप्रसादोऽस्ति स सर्वत्र परिव्रजेत् १३।

दुर्लभं नास्ति राजेंद्र त्रैलोक्ये सचराचरे ।

सर्वेष्वेव सुलोकेषु विद्यते तव सुव्रत १४।

विष्णोश्चैव प्रसादेन गगने गतिरुत्तमा ।

मर्त्यलोकं समासाद्य त्वयैव वसुधाधिप १५।

जरापलितहीनास्तु मृत्युहीना जनाः कृताः ।

गृहद्वारेषु सर्वेषु मर्त्यानां च नरर्षभ १६।

कल्पद्रुमा अनेकाश्च त्वयैव परिकल्पिताः ।

येषां गृहेषु मर्त्यानां मुनयः कामधेनवः १७।

त्वयैव प्रेषिता राजन्स्थिरीभूताः सदा कृताः ।

सुखिनः सर्वकामैश्च मानवाश्च त्वया कृताः १८।

गृहैकमध्ये साहस्रं कुलीनानां प्रदृश्यते ।

एवं वंशविवृद्धिश्च मानवानां त्वया कृता १९।

यमस्यापि विरोधेन इंद्रस्य च नरोत्तम ।

व्याधिपापविहीनस्तु मर्त्यलोकस्त्वया कृतः २०।

स्वतेजसाहंकारेण स्वर्गरूपं तु भूतलम् ।

दर्शितं हि महाराज त्वत्समो नास्ति भूपतिः २१।

नरो नैव प्रसूतो हि नोत्पत्स्यति भवादृशः ।

भवंतमित्यहं जाने सर्वधर्मप्रभाकरम् २२।

तस्मान्मया कृतो भर्ता वदस्वैवं ममाग्रतः ।

नर्ममुक्त्वा नृपेंद्र त्वं वद सत्यं ममाग्रतः २३।

यदि ते सत्यमस्तीह धर्ममस्ति नराधिप ।

देवलोकेषु मे नास्ति गगने गतिरुत्तमा २४।

सत्यं त्यक्त्वा यदा च त्वं नैव स्वर्गं गमिष्यसि ।

तदा कूटं तव वचो भविष्यति न संशयः २५।

पूर्वंकृतं हि यच्छ्रेयो भस्मीभूतं भविष्यति ।

राजोवाच-

सत्यमुक्तं त्वया भद्रे साध्यासाध्यं न चास्ति मे २६।

सर्वंसाध्यं सुलोकं मे सुप्रसादाज्जगत्पते ।

स्वर्गं देवि यतो नैमि तत्र मे कारणं शृणु २७।

आगंतुं तु न दास्यंति लोके मर्त्ये च देवताः ।

ततो मे मानवाः सर्वे प्रजाः सर्वा वरानने २८।

मृत्युयुक्ता भविष्यंति मया हीना न संशयः ।

गंतुं स्वर्गं न वाञ्छामि सत्यमुक्तं वरानने २९।

देव्युवाच-।

लोकान्दृष्ट्वा महाराज आगमिष्यसि वै पुनः ।

पूरयस्व ममाद्यत्वं जातां श्रद्धां महातुलाम् ३०।

राजोवाच-।

सर्वमेवं करिष्यामि यत्त्वयोक्तं न संशयः ।

समालोक्य महातेजा ययातिर्नहुषात्मजः ३१।

एवमुक्त्वा प्रियां राजा चिंतयामास वै तदा ।

अंतर्जलचरो मत्स्यः सोपि जाले न बध्यते ३२।

मरुत्समानवेगोपि मृगः प्राप्नोति बंधनम् ।

योजनानां सहस्रस्थमामिषं वीक्षते खगः ३३।

सकंठलग्नपाशं च न पश्येद्दैवमोहितः ।

कालः समविषमकृत्कालः सन्मानहानिदः ३४।

परिभावकरः कालो यत्रकुत्रापि तिष्ठतः ।

नरं करोति दातारं याचितारं च वै पुनः ३५।

भूतानि स्थावरादीनि दिवि वा यदि वा भुवि ।

सर्वं कलयते कालः कालो ह्येक इदं जगत् ३६।

अनादिनिधनो धाता जगतः कारणं परम् ।

लोकान्कालः स पचति वृक्षे फलमिवाहितम् ३७।

न मंत्रा न तपो दानं न मित्राणि न बांधवाः ।

शक्नुवंति परित्रातुं नरं कालेन पीडितम् ३८।

त्रयः कालकृताः पाशाः शक्यंते नातिवर्तितुम् ।

विवाहो जन्ममरणं यदा यत्र तु येन च ३९।

यथा जलधरा व्योम्नि भ्राम्यंते मातरिश्वना ।

तथेदं कर्मयुक्तेन कालेन भ्राम्यते जगत् ४०।

सुकर्मोवाच-।

कालोऽयं कर्मयुक्तस्तु यो नरैः समुपासितः ।

कालस्तु प्रेरयेत्कर्म न तं कालः करोति सः ४१।

उपद्रवा घातदोषाः सर्पाश्च व्याधयस्ततः ।

सर्वे कर्मनियुक्तास्ते प्रचरंति च मानुषे ४२।

सुखस्य हेतवो ये च उपायाः पुण्यमिश्रिताः ।

ते सर्वे कर्मसंयुक्ता न पश्येयुः शुभाशुभम् ४३।

कर्मदा यदि वा लोके कर्मसंबधि बांधवाः ।

कर्माणि चोदयंतीह पुरुषं सुखदुःखयोः ४४।

सुवर्णं रजतं वापि यथा रूपं विनिश्चितम् ।

तथा निबध्यते जंतुः स्वकर्मणि वशानुगः ४५।

पंचैतानीह सृज्यंते गर्भस्थस्यैव देहिनः ।

आयुः कर्म च वित्तं च विद्यानिधनमेव च ४६।

यथा मृत्पिंडतः कर्ता कुरुते यद्यदिच्छति ।

तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ४७।

देवत्वमथ मानुष्यं पशुत्वं पक्षिता तथा ।

तिर्यक्त्वं स्थावरत्वं च प्राप्यते च स्वकर्मभिः ४८।

स एव तत्तथा भुंक्ते नित्यं विहितमात्मना ।

आत्मना विहितं दुःखं चात्मना विहितं सुखम् ४९।

गर्भशय्यामुपादाय भुंजते पूर्वदैहिकम् ।

संत्यजंति स्वकं कर्म न क्वचित्पुरुषा भुवि ५०।

बलेन प्रज्ञया वापि समर्थाः कर्तुमन्यथा ।

सुकृतान्युपभुंजंति दुःखानि च सुखानि च ५१।

हेतुं प्राप्य नरो नित्यं कर्मबंधैस्तु बध्यते ।

यथा धेनुसहस्रेषु वत्सो विंदति मातरम् ५२।

तथा शुभाशुभं कर्म कर्तारमनुगच्छति ।

उपभोगादृते यस्य नाश एव न विद्यते ५३।

प्राक्तनं बंधनं कर्म कोन्यथा कर्तुमर्हति ।

सुशीघ्रमपि धावंतं विधानमनुधावति ५४।

शेते सह शयानेन पुरा कर्म यथाकृतम् ।

उपतिष्ठति तिष्ठंतं गच्छंतमनुगच्छति ५५।

करोति कुर्वतः कर्मच्छायेवानु विधीयते ।

यथा छायातपौ नित्यं सुसंबद्धौ परस्परम् ५६।

तद्वत्कर्म च कर्ता च सुसंबद्धौ परस्परम् ।

ग्रहा रोगा विषाः सर्पाः शाकिन्यो राक्षसास्तथा ५७।

पीडयंति नरं पश्चात्पीडितं पूर्वकर्मणा ।

येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव वा ५८।

स तत्र बद्ध्वा रज्ज्वा वै बलाद्दैवेन नीयते ।

दैवः प्रभुर्हि भूतानां सुखदुःखोपपादने ५९।

अन्यथा चिंत्यते कर्म जाग्रता स्वपतापि वा ।

अन्यथा स तथा प्राज्ञ दैव एवं जिघांसति ६०।

शस्त्राग्नि विष दुर्गेभ्यो रक्षितव्यं च रक्षति ।

अरक्षितं भवेत्सत्यं तदेवं दैवरक्षितम् ६१।

दैवेन नाशितं यत्तु तस्य रक्षा न दृश्यते ।

यथा पृथिव्यां बीजानि उप्तानि च धनानि च ६२।

तथैवात्मनि कर्माणि तिष्ठंति प्रभवंति च ।

तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति ६३।

कर्मक्षयात्तथा जंतुः शरीरान्नाशमृच्छति ।

कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतः ६४।

विविधाः प्राणिनस्तस्य मृत्यो रोगाश्च हेतवः ।

तथा मम विपाकोयं पूर्वं कृतस्य नान्यथा ६५।

संप्राप्तो नात्र संदेहः स्त्रीरूपोऽयं न संशयः ।

क्व मे गेहं समायाता नाटका नटनर्तकाः ६६।

तेषां संगप्रसंगेन जरा देहं समाश्रिता ।

सर्वं कर्मकृतं मन्ये यन्मे संभावितं ध्रुवम् ६७।

तस्मात्कर्मप्रधानं च उपायाश्च निरर्थकाः ।

पुरा वै देवराजेन मदर्थे दूतसत्तमः ६८।

प्रेषितो मातलिर्नाम न कृतं तस्य तद्वचः ।

तस्य कर्मविपाकोऽयं दृश्यते सांप्रतं मम ६९।

इति चिंतापरो भूत्वा दुःखेन महतान्वितः ।

यद्यस्याहि वचः प्रीत्या न करोमि हि सर्वथा ७०।

सत्यधर्मावुभावेतौ यास्यतस्तौ न संशयः ।

सदृशं च समायातं यद्दृष्टं मम कर्मणा ७१।

भविष्यति न संदेहो दैवो हि दुरतिक्रमः ।

एवं चिंतापरो भूत्वा ययातिः पृथिवीपतिः ७२।

कृष्णं क्लेशापहं देवं जगाम शरणं हरिम् ।

ध्यात्वा नत्वा ततः स्तुत्वा मनसा मधुसूदनम् ७३।

त्राहि मां शरणं प्राप्तस्त्वामहं कमलाप्रिय ७४।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकाशीतितमोऽध्यायः ८१।

खण्डः २ (भूमिखण्डः) — Adhyāya 82

सुकर्मोवाच-

एवं चिंतयते यावद्राजा परमधार्मिकः ।

तावत्प्रोवाच सा देवी रतिपुत्री वरानना १।

किमु चिंतयसे राजंस्त्वमिहैव महामते ।

प्रायेणापि स्त्रियः सर्वाश्चपलाः स्युर्न संशयः २।

नाहं चापल्यभावेन त्वामेवं प्रविचालये ।

नाहं हि कारयाम्यद्य भवत्पार्श्वं नृपोत्तम ३।

अन्यस्त्रियो यथा लोके चपलत्वाद्वदंति च ।

अकार्यं राजराजेंद्र लोभान्मोहाच्च लंपटाः ४।

लोकानां दर्शनायैव जाता श्रद्धा ममोरसि ।

देवानां दर्शनं पुण्यं दुर्लभं हि सुमानुषैः ५।

तेषां च दर्शनं राजन्कारयामि वदस्व मे ।

दोषं पापकरं यत्तु मत्संगादिह चेद्भवेत् ६।

एवं चिंतयसे दुःखं यथान्यः प्राकृतो जनः ।

महाभयाद्यथाभीतो मोहगर्ते गतो यथा ७।

त्यज चिंतां महाराज न गंतव्यं त्वया दिवि ।

येन ते जायते दुःखं तन्न कार्यं मया कदा ८।

एवमुक्तस्तथा राजा तामुवाच वराननाम् ।

चिंतितं यन्मया देवि तच्छृणुष्व हि सांप्रतम् ९।

मानभंगो मया दृष्टो नैव स्वस्य मनःप्रिये ।

मयि स्वर्गं गते कांते प्रजा दीना भविष्यति १०।

त्रासयिष्यति दुष्टात्मा यमस्तु व्याधिभिः प्रजाः ।

त्वया सार्धं प्रयास्यामि स्वर्गलोकं वरानने ११।

एवमाभाष्य तां राजा समाहूय सुतोत्तमम् ।

पूरुं तं सर्वधर्मज्ञं जरायुक्तं महामतिम् १२।

एह्येहि सर्वधर्मज्ञ धर्मं जानासि निश्चितम् ।

ममाज्ञया हि धर्मात्मन्धर्मः संपालितस्त्वया १३।

जरा मे दीयतां तात तारुण्यं गृह्यतां पुनः ।

राज्यं कुरु ममेदं त्वं सकोशबलवाहनम् १४।

आसमुद्रां प्रभुंक्ष्व त्वं रत्नपूर्णां वसुंधराम् ।

मया दत्तां महाभाग सग्रामवनपत्तनाम् १५।

प्रजानां पालनं पुण्यं कर्तव्यं च सदानघ ।

दुष्टानां शासनं नित्यं साधूनां परिपालनम् १६।

कर्तव्यं च त्वया वत्स धर्मशास्त्रप्रमाणतः ।

ब्राह्मणानां महाभाग विधिनापि स्वकर्मणा १७।

भक्त्या च पालनं कार्यं यस्मात्पूज्या जगत्त्रये ।

पंचमे सप्तमे घस्रे कोशं पश्य विपश्चितः १८।

बलं च नित्यं संपूज्यं प्रसादधनभोजनैः ।

चारचक्षुर्भवस्व त्वं नित्यं दानपरो भव १९।

भव स्वनियतो मंत्रे सदा गोप्यः सुपंडितैः ।

नियतात्मा भव स्वत्वं मा गच्छ मृगयां सुत २०।

विश्वासः कस्य नो कार्यः स्त्रीषु कोशे महाबले ।

पात्राणां त्वं तु सर्वेषां कलानां कुरु संग्रहम् २१।

यज यज्ञैर्हृषीकेशं पुण्यात्मा भव सर्वदा ।

प्रजानां कंटकान्सर्वान्मर्दयस्व दिने दिने २२।

प्रजानां वांछितं सर्वमर्पयस्व दिने दिने ।

प्रजासौख्यं प्रकर्तव्यं प्रजाः पोषय पुत्रक २३।

स्वको वंशः प्रकर्तव्यः परदारेषु मा कृथाः ।

मतिं दुष्टां परस्वेषु पूर्वानन्वेहि सर्वदा २४।

वेदानां हि सदा चिंता शास्त्राणां हि च सर्वदा ।

कुरुष्वैवं सदा वत्स शस्त्राभ्यासरतो भव २५।

संतुष्टः सर्वदा वत्स स्वशय्या निरतो भव ।

गजस्य वाजिनोभ्यासं स्यंदनस्य च सर्वदा २६।

एवमादिश्य तं पुत्रमाशीर्भिरभिनंद्य च ।

स्वहस्तेन च संस्थाप्य करे दत्तं स्वमायुधम् २७।

स्वां जरां तु समागृह्य दत्त्वा तारुण्यमस्य च ।

गंतुकामस्ततः स्वर्गं ययातिः पृथिवीपतिः २८।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे द्व्यशीतितमोऽध्यायः ८२।

खण्डः २ (भूमिखण्डः) — Adhyāya 83

सुकर्मोवाच-

समाहूय प्रजाः सर्वा द्वीपानां वसुधाधिपः ।

हर्षेण महताविष्ट इदं वचनमब्रवीत् १।

इंद्रलोकं ब्रह्मलोकं रुद्रलोकमतः परम् ।

वैष्णवं सर्वपापघ्नं प्राणिनां गतिदायकम् २।

व्रजाम्यहं न संदेहो ह्यनया सह सत्तमाः ।

ब्राह्मणाः क्षत्रिया वैश्याः सशूद्रा श्च प्रजा मम ३।

सुखेनापि सकुटुंबैः स्थातव्यं तु महीतले ।

पूरुरेष महाभागो भवतां पालकस्त्विह ४।

स्थापितोस्ति मया लोका राजा धीरः सदंडकः ।

एवमुक्तास्तु ताः सर्वाः प्रजा राजानमब्रुवन् ५।

श्रूयते सर्ववेदेषु पुराणेषु नृपोत्तम ।

धर्म एवं यतो लोके न दृष्टः केन वै पुरा ६।

दृष्टोस्माभिरसौ धर्मो दशांगः सत्यवल्लभः ।

सोमवंशसमुत्पन्नो नहुषस्य महागृहे ७।

हस्तपादमुखैर्युक्तः सर्वाचारप्रचारकः ।

ज्ञानविज्ञानसंपन्नः पुण्यानां च महानिधिः ८।

गुणानां हि महाराज आकरः सत्यपंडितः ।

कुर्वंति च महाधर्मं सत्यवंतो महौजसः ९।

तं धर्मं दृष्टवंतः स्म भवंतं कामरूपिणम् ।

भवंतं कामकर्तारमीदृशं सत्यवादिनम् १०।

कर्मणा त्रिविधेनापि वयं त्यक्तुं न शक्नुमः ।

यत्र त्वं तत्र गच्छामः सुसुखं पुण्यमेव च ११।

नरकेपि भवान्यत्र वयं तत्र न संशयः ।

किं दारैर्धनभोगैश्च किं जीवैर्जीवितेन च १२।

त्वां विनासुमहाराज तेन नास्त्यत्र कारणम् ।

त्वयैव सह राजेंद्र वयं यास्याम नान्यथा १३।

एवं श्रुत्वा वचस्तासां प्रजानां पृथिवीपतिः ।

हर्षेण महताविष्टः प्रजावाक्यमुवाच ह १४।

आगच्छंतु मया सार्द्धं सर्वे लोकाः सुपुण्यकाः ।

नृपो रथं समारुह्य तया वै कामकन्यया १५।

रथेन हंसवर्णेन चंद्रबिंबानुकारिणा ।

चामरैर्व्यजनैश्चापि वीज्यमानो गतव्यथः १६।

केतुना तेन पुण्येन शुभ्रेणापि महीयसा ।

शोभमानो यथा देवो देवराजः पुरंदरः १७।

ऋषिभिः स्तूयमानस्तु बंदिभिश्चारणैस्तथा ।

प्रजाभिः स्तूयमानश्च ययातिर्नहुषात्मजः १८।

प्रजाः सर्वास्ततो यानैः समायाता नरेश्वरम् ।

गजैरश्वै रथैश्चान्यैः प्रस्थिताश्च दिवं प्रति १९।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये पृथग्जनाः ।

सर्वे च वैष्णवा लोका विष्णुध्यानपरायणाः २०।

तेषां तु केतवः शुक्ला हेमदंडैरलंकृताः ।

शंखचक्रांकिताः सर्वे सदंडाः सपताकिनः २१।

प्रजावृंदेषु भासंते पताका मारुतेरिताः ।

दिव्यमालाधरास्सर्वे शोभितास्तुलसीदलैः २२।

दिव्यचंदनदिग्धांगा दिव्यगंधानुलेपनाः ।

दिव्यवस्त्रकृता शोभा दिव्याभरणभूषिताः २३।

सर्वे लोकाः सुरूपास्ते राजानमुपजग्मिरे ।

प्रजाशतसहस्राणि लक्षकोटिशतानि च २४।

अर्वखर्वसहस्राणि ते जनाः प्रतिजग्मिरे ।

ते तु राज्ञा समं सर्वे वैष्णवाः पुण्यकारिणः २५।

विष्णुध्यानपराः सर्वे जपदानपरायणाः ।

सुकर्मोवाच-

एवं ते प्रस्थिताः सर्वे हर्षेण महतान्विताः २६।

पूरुं पुत्रं महाराज स्वराज्ये परिषिच्य तम् ।

ऐंद्रं लोकं जगामाथ ययातिः पृथिवीपतिः २७।

तेजसा तस्य पुण्येन धर्मेण तपसा तदा ।

ते जनाः प्रस्थिताः सर्वे वैष्णवं लोकमुत्तमम् २८।

ततो देवाः सगंधर्वाः किन्नराश्चारणास्तथा ।

सहिता देवराजेन आगताः संमुखं तदा २९।

तस्यैवापि नृपेंद्रस्य पूजयंतो नृपोत्तम ।

इंद्र उवाच-

स्वागतं ते महाराज मम गेहं समाविश ३०।

अत्र भोगान्प्रभुंक्ष्व त्वं दिव्यान्कामान्मनोऽनुगान् ।

राजोवाच-

सहस्राक्ष महाप्राज्ञ तव पादांबुजद्वयम् ३१।

नमस्करोम्यहं देव ब्रह्मलोकं व्रजाम्यहम् ।

देवैः संस्तूयमानश्च ब्रह्मलोकं जगाम ह ३२।

पद्मयोनिर्महातेजाः सार्धं मुनिवरैस्तदा ।

आतिथ्यं च चकारास्य पाद्यार्घादि सुविष्टरैः ३३।

उवाच विष्णुलोकं हि प्रयाहि त्वं स्वकर्मणा ।

एवमाभाषिते धात्रा जगाम शिवमंदिरम् ३४।

चक्रे आतिथ्यपूजां च उमया सह शंकरः ।

तस्यै वापि नृपेंद्रस्य राजानमिदमब्रवीत् ३५।

कृष्णभक्तोसि राजेंद्र ममापि सुप्रियो भवान् ।

ततो ययाते राजेंद्र वस त्वं मम मंदिरम् ३६।

सर्वान्भोगान्प्रभुंक्ष्व त्वं दुःखप्राप्यान्हि मानुषैः ।

अंतरं नास्ति राजेंद्र मम विष्णोर्न संशयः ३७।

योसौ विष्णुस्वरूपेण स वै रुद्रो न संशयः ।

यो रुद्रो विद्यते राजन्स च विष्णुः सनातनः ३८।

उभयोरंतरं नास्ति तस्माच्चैव वदाम्यहम् ।

विष्णुभक्तस्यपुण्यस्यस्थानमेवददाम्यहम् ३९।

तस्मादत्र महाराज स्थातव्यं हि त्वयानघ ।

एवमुक्तः शिवेनापि ययातिर्हरिवल्लभः ४०।

भक्त्या प्रणम्य देवेशं शंकरं नतकंधरः ।

एतत्सर्वं महादेव त्वयोक्तमिह सांप्रतम् ४१।

युवयोरंतरं नास्ति एका मूर्तिर्द्विधाभवत् ।

वैष्णवं गंतुमिच्छामि पादौ तव नमाम्यहम् ४२।

एवमस्तु महाराज गच्छ लोकं तु वैष्णवम् ।

समादिष्टः शिवेनापि प्रतस्थे वसुधाधिपः ४३।

पृथ्वीशस्तैर्महापुण्यैर्वैष्णवैर्विष्णुवल्लभैः ।

नृत्यमानैस्ततस्तैस्तु पुरतस्तस्य भूपतेः ४४।

शंखशब्दैः सुपापघ्नैः सिंहनादैः सुपुष्कलैः ।

जगाम निःस्वनै राजा पूज्यमानः सुचारणैः ४५।

सुस्वरैर्गीयमानस्तु पाठकैः शास्त्रकोविदैः ।

गायंति पुरतस्तस्य गंधर्वा गीततत्पराः ४६।

ऋषिभिः स्तूयमानश्च देववृंदैः समन्वितैः ।

अप्सरोभिः सुरूपाभिः सेव्यमानः स नाहुषिः ४७।

गंधर्वैः किन्नरैः सिद्धैश्चारणैः पुण्यमंगलैः ।

साध्यैर्विद्याधरै राजा मरुद्भिर्वसुभिस्तथा ४८।

रुद्रैश्चादित्यवर्गैश्च लोकपालैर्दिगीश्वरैः ।

स्तूयमानो महाराजस्त्रैलोक्येन समंततः ४९।

ददृशे वैष्णवं लोकमनौपम्यमनामयम् ।

विमानैः कांचनै राजन्सर्वशोभासमाविलैः ५०।

हंसकुंदेंदुधवलैर्विमानैरुपशोभितैः ।

प्रासादैः शतभौमैश्च मेरुमंदरसंनिभैः ५१।

शिखरैरुल्लिखद्भिश्च स्वर्व्योमहाटकान्वितैः ।

जाज्वल्यमानैः कलशैः शोभते सुपुरोत्तमम् ५२।

तारागणैर्यथाकाशं तेजः श्रिया प्रकाशते ।

प्रज्वलत्तेजोज्वालाभिर्लोचनैरिव लोकते ५३।

नानारत्नैर्हरेर्लोकः प्रहसद्दशनैरिव ।

समाह्वयति तान्पुण्यान्वैष्णवान्विष्णुवल्लभान् ५४।

ध्वज व्याजेन राजेंद्र चलिताग्रैः सुपल्लवैः ।

श्वसनांदोलितैस्तैश्च ध्वजाग्रैश्च मनोहरैः ५५।

हेमदंडैश्च घंटाभिः सर्वत्रसमलंकृतम् ।

सूर्यतेजः प्रकाशैश्च गोपुराट्टालकैस्ततः ५६।

गवाक्षैर्जालमालैश्च वातायनमनोहरैः ।

प्रतोलीनां प्रकाशैश्च प्राकारैर्हेमरूपकैः ५७।

तोरणैः सुपताकाभिर्नानाशब्दैः सुमंगलैः ।

कलशाग्रैश्चक्रबिंबै रविबिंबसमप्रभैः ५८।

सुभोगैः शतकक्षैश्च निर्जलांबुदसन्निभैः ।

दंडच्छत्रसमाकीर्णैः कलशैरुपशोभितैः ५९।

प्रावृट्कालांबुदाकारैर्मदिरैरुपशोभितैः ।

कलशैः शोभमानैस्तैर्ऋक्षैर्द्यौरिव भूतलम् ६०।

दंडजालपताकाभिर्ऋक्षजालसमप्रभैः ।

तादृशैः स्फाटिकाकारैः कांतिशंखेंदुसन्निभैः ६१।

हेमप्रासादसंबाधैर्नानाधातुमयैस्ततः ।

विमानैरर्बुदसंख्यैः शतकोटिसहस्रकैः ६२।

सर्वभोगयुतैश्चैव शोभते हरिपत्तनम् ।

यैः समाराधितो देवः शंखचक्रगदाधरः ६३।

ते प्रसादात्तस्य तेषु निवसंति गृहेषु च ।

सर्वपुण्येषु दिव्येषु भोगाढ्येषु च मानवाः ६४।

वैष्णवाः पुण्यकर्माणो निर्धूताशेषकल्मषाः ।

एवंविधैर्गृहैः पुण्यैः शोभितं विष्णुमंदिरम् ६५।

नानावृक्षैः समाकीर्णं वनैश्चंदनशोभितैः ।

सर्वकामफलै राजन्सर्वत्र समलंकृतम् ६६।

वापीकुंडतडागैश्च सारसैरुपशोभितैः ।

हंसकारंडवाकीर्णैः कल्हारैरुपशोभितैः ६७।

शतपत्रैर्महापद्मैः पद्मोत्पलविराजितैः ।

कनकोत्पलवर्णैश्च सरोभिश्च विराजते ६८।

वैकुंठं सर्वशोभाढ्यं देवोद्यानैरलंकृतम् ।

दिव्यशोभासमाकीर्णं वैष्णवैरुपशोभितम् ६९।

वैकुंठं ददृशे राजा मोक्षस्थानमनुत्तमम् ।

देववृंदैः समाकीर्णं ययातिर्नहुषात्मजः ७०।

प्रविवेश पुरं रम्यं सर्वदाहविवर्जितम् ।

ददृशे सर्वक्लेशघ्नं नारायणमनामयम् ७१।

विमानैरुपशोभंतं सर्वाभरणशालिनम् ।

पीतवासं जगन्नाथं श्रीवत्सांकं महाद्युतिम् ७२।

वैनतेयसमारूढं श्रियायुक्तं परात्परम् ।

सर्वेषां देवलोकानां यो गतिः परमेश्वरः ७३।

परमानंदरूपेण कैवल्येन विराजते ।

सेव्यमानं महालोकैःसुपुण्यैर्वैष्णवैर्हरिम् ७४।

देववृंदैः समाकीर्णं गंधर्वगणसेवितम् ।

अप्सरोभिर्महात्मानं दुःखक्लेशापहं हरिम् ७५।

नारायणं ननामाथ स्वपत्न्या सह भूपतिः ।

प्रणेमुर्मानवाः सर्वे वैष्णवा मधुसूदनम् ७६।

गता ये वैष्णवाः सर्वे सह राज्ञा महामते ।

पादांबुजद्वयं तस्य नेमुर्भक्त्या महामते ७७।

प्रणमंतं महात्मानं राजानं दीप्ततेजसम् ।

तमुवाच हृषीकेशस्तुष्टोऽहं तव सुव्रत ७८।

वरं वरय राजेंद्र यत्ते मनसि वर्तते ।

तत्ते ददाम्यसंदेहं मद्भक्तोसि महामते ७९।

राजोवाच

यदि त्वं देवदेवेश तुष्टोसि मधुसूदन ।

दासत्वं देहि सततमात्मनश्च जगत्पते ८०।

विष्णुरुवाच-

एवमस्तु महाभाग मम भक्तो न संशयः ।

लोके मम महाराज स्थातव्यमनया सह ८१।

एवमुक्तो महाराजो ययातिः पृथिवीपतिः ।

प्रसादात्तस्य देवस्य विष्णुलोकं प्रसाधितम् ८२।

निवसत्येष भूपालो वैष्णवं लोकमुत्तमम् ८३।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरित्रे ययातेः स्वर्गारोहणं नाम त्र्यशीतितमोऽध्यायः ८३।

खण्डः २ (भूमिखण्डः) — Adhyāya 84

सुकर्मोवाच-

एतत्ते सर्वमाख्यातं चरित्रं पापनाशनम् ।

पुत्राणां तारकं दिव्यं बहुपुण्यप्रदायकम् १।

प्रत्यक्षं दृश्यते लोके ययातिचरितं श्रुतम् ।

पूरुणाप्तं महद्राज्यं दुर्गतिं गतवांस्तुरुः २।

पितृप्रसादात्कोपाच्च यथा जातं तथा पुनः ।

पुत्राणां तारकं पुण्यं यशस्यं धनधान्यदम् ३।

शापयुक्ताविमौ चोभौ तुरुश्च यदुरेव च ।

पितृमातृसमं नास्ति अभीष्टफलदायकम् ४।

साभिलाषेण भावेन पिता पुत्रं समाह्वयेत् ।

माता च पुत्रपुत्रेति तस्य पुण्यफलं शृणु ५।

समाहूतो यथा पुत्रः प्रयाति मातरं प्रति ।

यो याति हर्षसंयुक्तो गंगास्नानफलं लभेत् ६।

पादप्रक्षालनं यस्तु कुरुते च महायशाः ।

सर्वतीर्थफलं भुंक्ते प्रसादात्तु तयोः सुतः ७।

अंगसंवाहनाच्चान्यदश्वमेधफलं लभेत् ।

भोजनाच्छादनस्नानैर्गुरुं यः पोषयेत्सुतः ८।

पृथ्वीदानसमं पुण्यं तत्पुत्रे हि प्रजायते ।

सर्वतीर्थमयी गंगा तथा माता न संशयः ९।

बहुपुण्यमयः सिंधुर्यथा लोके प्रतिष्ठितः ।

अस्मिल्लोँके पिता तद्वत्पुराणकवयो विदुः १०।

सुकर्मोवाच-

भ्रंशते क्रोशते यस्तु पितरं मातरं पुनः ।

स पुत्रो नरकं याति रौरवाख्यं न संशयः ११।

मातरं पितरं वृद्धौ गृहस्थो यो न पोषयेत् ।

स पुत्रो नरकं याति वेदनां प्राप्नुयाद्ध्रुवम् १२।

कुत्सते पापकर्ता यो गुरुं पुत्रः सुदुर्मतिः ।

निष्कृतिर्नैव दृष्टा वै पुराणैः कविभिः कदा १३।

एवंज्ञात्वाह्यहंविप्रपूजयामिदिनेदिने ।

मातरं पितरं नित्यं भक्त्या नमितकंधरः १४।

कृत्याकृत्यं वदेच्चैव समाहूय गुरुर्मम ।

तत्करोम्यविचारेण शक्त्या स्वस्य च पिप्पल १५।

तेन मे परमं ज्ञानं संजातं गतिदायकम् ।

एतयोश्च प्रसादेन संसारे परिवर्तते १६।

यच्चकिंचित्प्रकुर्वंति मानवा भुवि संस्थिताः ।

गृहस्थस्तदहं जाने यच्च स्वर्गे प्रवर्तते १७।

नागानां च इहस्थोपि चारं जानामि पिप्पल ।

एतयोश्च प्रसादाच्च त्रैलोक्यं मम वश्यताम् १८।

गतं विद्याधरश्रेष्ठ भवानर्चतु माधवम् ।

विष्णुरुवाच-

एवं संचोदितस्तेन पिप्पलो हि स्वकर्मणा १९।

आनम्य तं द्विजश्रेष्ठं लज्जितोऽपि दिवं ययौ ।

सुकर्मासोऽपि धर्मात्मा गुरुं शुश्रूषते नृप २०।

एतत्ते सर्वमाख्यातं पितृतीर्थानुगं मया ।

अन्यत्किं ते प्रवक्ष्यामि वद वेन महामते २१।

इति श्रीपद्मपुराणे भूमिखंडेवेनोपाख्याने मातापितृतीर्थमाहात्म्यवर्णनंनाम चतुरशीतितमोऽध्यायः ८४।

खण्डः २ (भूमिखण्डः) — Adhyāya 85

वेन उवाच-

भगवन्देवदेवेश प्रसादाच्च मम त्वया ।

भार्यातीर्थं समाख्यातं पितृतीर्थमनुत्तमम् १।

मातृतीर्थं हृषीकेश बहुपुण्यप्रदायकम् ।

प्रसादसुमुखो भूत्वा गुरुतीर्थं वदस्व मे २।

श्रीभगवानुवाच-

कथयिष्याम्यहं राजन्गुरुतीर्थमनुत्तमम् ।

सर्वपापहरं प्रोक्तं शिष्याणां गतिदायकम् ३।

शिष्याणां परमं पुण्यं धर्मरूपं सनातनम् ।

परं तीर्थं परं ज्ञानं प्रत्यक्षफलदायकम् ४।

यस्यप्रसादाद्राजेंद्र इहैव फलमश्नुते ।

परलोके सुखं भुंक्ते यशः कीर्तिमवाप्नुयात् ५।

प्रसादाद्यस्य राजेंद्र गुरोश्चैव महात्मनः ।

प्रत्यक्षं दृश्यते शिष्यैस्त्रैलोक्यं सचराचरम् ६।

व्यवहारं च लोकानामाचारं नृपनंदन ।

विज्ञानं विंदते शिष्यो मोक्षं चैव प्रयाति च ७।

सर्वेषामेव लोकानां यथा सूर्यः प्रकाशकः ।

गुरुः प्रकाशकस्तद्वच्छिष्याणां गतिरुत्तमा ८।

रात्रावेव प्रकाशेच्च सोमो राजा नृपोत्तम ।

तेजसा साधयेत्सर्वमधिकारं चराचरम् ९।

गृहेप्रकाशयेद्दीपः समूहं नृपसत्तम ।

तेजसा नाशयेत्सर्वमंधकारघनाविलम् १०।

अज्ञानतमसा व्याप्तं शिष्यं द्योतयते गुरुः ।

शिष्यप्रकाशउद्द्योतैरुपदेशैर्महामते ११।

दिवाप्रकाशकः सूर्यः शशीरात्रौ प्रकाशकः ।

गृहप्रकाशको दीपस्तमोनाशकरः सदा १२।

रात्रौ दिवा गृहस्यांते गुरुः शिष्यं सदैव हि ।

अज्ञानाख्यं तमस्तस्य गुरुः सर्वं प्रणाशयेत् १३।

तस्माद्गुरुः परं तीर्थं शिष्याणामवनीपते ।

एवं ज्ञात्वा ततः शिष्यः सर्वदा तं प्रपूजयेत् १४।

गुरुं पुण्यमयं ज्ञात्वा त्रिविधेनापि कर्मणा ।

इत्यर्थे श्रूयते विप्र इतिहासः पुरातनः १५।

सर्वपापहरः प्रोक्तश्च्यवनस्य महात्मनः ।

भार्गवस्य कुले जातश्च्यवनो मुनिसत्तमः १६।

तस्य चिंता समुत्पन्ना एकदा तु नृपोत्तम ।

कदाहं ज्ञानसंपन्नो भविष्यामि महीतले १७।

दिवारात्रौप्रचिंतेत्स ज्ञानार्थी मुनिसत्तमः ।

एवं तु चिंतमानस्य मतिरासीन्महात्मनः १८।

तीर्थयात्रां प्रयास्यामि अभीष्टफलदायिनीम् ।

गृहक्षेत्रादिसंत्यज्य भार्यां पुत्रं धनं ततः १९।

तीर्थयात्राप्रसंगेन अटते मेदिनीं तदा ।

लोमानुलोमयात्रां स गंगायाः कृतवान्नृप २०।

स तद्वन्नर्मदायाश्च सरस्वत्या मुनीश्वरः ।

गोदावर्यादिसर्वासां नदीनां सागरस्य च २१।

अन्येषां सर्वतीर्थानां क्षेत्राणां च नृपोत्तम ।

देवानां पुण्यलिगानां यात्राव्याजेन सोऽभ्रमत् २२।

भ्रममाणस्य तस्यापि तीर्थेषु परमेषु च ।

भ्रममाणः समायातः क्षेत्राणामुत्तमं तदा ।

कायश्च निर्मलो जातः सूर्यतेजः समप्रभः २३।

च्यवनः काशते दीप्त्या पूतात्मानेन कर्मणा २४।

नर्मदा दक्षिणे कूले नाम्ना अमरकंटकम् ।

ददर्श सुमहालिगं सर्वेषां गतिदायकम् २५।

नत्वा स्तुत्वा तु संपूज्य सिद्धनाथं महेश्वरम् ।

ज्वालेश्वरं ततो दृष्ट्वा दृष्ट्वा चाप्यमरेश्वरम् २६।

ब्रह्मेशं कपिलेशं च मार्कंडेश्वरमुत्तमम् ।

एवं यात्रां ततः कृत्वा ॐकारं समुपागतः २७ **।

वटच्छायां समाश्रित्य शीतलां श्रमनाशिनीम् ।

सुखेन संस्थितो विप्रश्च्यवनो भृगुनंदनः २८।

तत्र स्वनं स शुश्राव समुक्तं पक्षिणा तदा ।

दिव्यभाषा समायुक्तं ज्ञानविज्ञानसंयुतम् २९।

शुकश्च एकस्तत्रास्ते बहुकालप्रजीवकः ।

कुंजलोनाम धर्मात्मा चतुःपुत्रः सभार्यकः ३०।

आसंस्तस्य हि पुत्राश्च चत्वारः पितृनंदनाः ।

तेषां नामानि राजेंद्र कथयिष्ये तवाग्रतः ३१।

ज्येष्ठस्तु उज्ज्वलो नाम द्वितीयस्तु समुज्ज्वलः ।

तृतीयो विज्वलोनाम चतुर्थश्च कपिंजलः ३२।

एवं पुत्रास्तु चत्वारः कुंजलस्य महामते ।

शुकस्य तस्य पुण्यस्य पितृमातृपरायणाः ३३।

भ्रमंति गिरिकुंजेषु द्वीपेषु च समाहिताः ।

भोजनार्थं तु संक्षुब्धाः क्षुधया परिपीडिताः ३४।

स्वोदरस्थां क्षुधां सौम्य फलैरमृतसन्निभैः ।

अमृतस्वादुतोयेन शमयंति नृपोत्तम ३५।

फलं पक्वं रसालं तु आहारार्थं सुपुत्रकाः ।

दत्वा फलानि दंपत्योर्निक्षिपंति प्रयत्नतः ३६।

मातुरर्थे महाभागा भक्तिभावसमन्विताः ।

तुष्टा आहारमुत्पाद्य भक्षयंति पठंति च ३७।

तत्र क्रीडारताः सर्वे विलसंति रमंति च ।

संध्याकालं समाज्ञाय पितुरंतिकमुत्तमम् ३८।

आयांति भक्ष्यमादाय गुर्वर्थं तु प्रयत्नतः ।

पश्यतस्तस्य विप्रस्य च्यवनस्य महात्मनः ३९।

आगतास्त्वंडजाः सर्वे पितुर्नीडं सुशोभनम् ।

पितरं मातरं चोभौ प्रणेमुस्ते महामते ४०।

ताभ्यां भक्ष्यं समासाद्य उपतस्थुस्तयोः पुरः ।

सर्वे संभाषिताः पित्रा मानितास्ते सुतोत्तमाः ४१।

मात्रा च कृपया राजन्वचनैः प्रीतिसंमितैः ।

पक्षवातेन शीतेन मातापित्रोश्च ते तदा ४२।

तेषामाप्यायनं तौ द्वौ चक्राते पक्षिणौ नृप ।

आशीर्भिरभिनंद्यैव द्वाभ्यामपि सुपुत्रकान् ४३।

तैश्च दत्तं सुसंपुष्टमाहारममृतोपमम् ।

तावेव हि सुसंप्रीतिं चक्राते द्विजसत्तम ४४।

पिबतो निर्मलं तोयं तीर्थकोटिसमुद्भवम् ।

स्वस्थानं तु समाश्रित्य सुखसंतुष्टमानसौ ४५।

चक्राते च कथां दिव्यां सुपुण्यां पापनाशिनीम् ।

विष्णुरुवाच-

पित्रा तु कुंजलेनापि पृष्ट उज्ज्वल आत्मजः ४६।

क्वगतोऽस्यद्य पुत्र त्वं किमपूर्वं त्वया पुनः ।

तत्र दृष्टं श्रुतं पुण्यं तन्मे कथय नंदन ४७।

कुंजलस्य पितुर्वाक्यं समाकर्ण्य स उज्ज्वलः ।

पितरं प्रत्युवाचाथ भक्त्या नमितकंधरः ४८।

प्रणाममकरोन्मूर्ध्ना कथां चक्रे मनोहराम् ।

उज्ज्वल उवाच-

प्लक्षद्वीपं महाभाग नित्यमेव व्रजाम्यहम् ४९।

महता उद्यमेनापि आहारार्थं महामते ।

प्लक्षेद्वीपे महाराज संति देशा अनेकशः ५०।

पर्वताः सरिदुद्यान वनानि च सरांसि च ।

ग्रामाश्च पत्तनाश्चान्ये सुप्रजाभिः प्रमोदिताः ५१।

सदा सुखेन संतुष्टा लोका हृष्टा वसंति ते ।

दानपुण्यजपोपेताः श्रद्धाभावसमन्विताः ५२।

प्लक्षद्वीपे महाराज आसीत्पुण्यमतिः सदा ।

दिवोदासस्तु धर्मात्मा तत्सुतासीदनूपमा ५३।

गुणरूपसमायुक्ता सुशीला चारुमंगला ।

दिव्यादेवीति विख्याता रूपेणाप्रतिमा भुवि ५४।

पित्रा विलोकिता सा तु रूपतारुण्यमंगला ।

प्रथमे वयसि सा च वर्त्तते चारुमंगला ५५।

स तां दृष्ट्वा दिवोदासो दिव्यां देवीं सुतां तदा ।

कस्मै प्रदीयते कन्या सुवराय महात्मने ५६।

इति चिंतापरो भूत्वा समालोक्य नरोत्तमः ।

रूपदेशस्य राजानं समालोक्य महीपतिः ५७।

चित्रसेनं महात्मानं समाहूय नरोत्तमः ।

कन्यां ददौ महात्मासौ चित्रसेनाय धीमते ५८।

तस्या विवाहकाले तु संप्राप्ते समये नृप ।

मृतोसौ चित्रसेनस्तु कालधर्मेण वै किल ५९।

दिवोदासस्तु धर्मात्मा चिंतयामास भूपतिः ।

सुब्राह्मणान्समाहूय पप्रच्छ नृपनंदनः ६०।

अस्या विवाहकाले तु चित्रसेनो दिवं गतः ।

अस्यास्तु कीदृशं कर्म भविष्यति वदंतु मे ६१।

ब्राह्मणा ऊचुः-

विवाहो दृश्यते राजन्कन्यायास्तु विधानतः ।

पतिर्मृत्युं प्रयात्यस्या नोचेत्संगं करोति च ६२।

महाधिव्याधिना ग्रस्तस्त्यागं कृत्वा प्रयाति च ।

प्रव्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते ६३।

अनुद्वाहितायाः कन्याया उद्वाहः क्रियते बुधैः ।

न स्याद्रजस्वला यावदन्यः पतिर्विधीयते ६४।

विवाहं तु विधानेन पिता कुर्यान्न संशयः ।

एवं राजन्समादिष्टं धर्मशास्त्रं बुधैर्जनैः ६५।

विवाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाः ।

दिवोदासस्तु धर्मात्मा द्विजवाक्यप्रणोदितः ६६।

विवाहार्थं महाराज उद्यमं कृतवान्नृप ।

पुनर्दत्ता तु दानेन दिव्यादेवी द्विजोत्तम ६७।

रूपसेनाय पुण्याय तस्मै राज्ञे महात्मने ।

मृत्युधर्मं गतो राजा विवाहे तु महीपतिः ६८।

यदा यदा महाभाग दिव्यादेव्याश्च भूपतिः ।

भर्ता च म्रियते काले प्राप्ते लग्नस्य सर्वदा ६९।

एकविंशतिभर्तारः काले काले मृताः पितः ।

ततो राजा महादुःखी संजातः ख्यातविक्रमः ७०।

समालोच्य समाहूय समामंत्र्य स मंत्रिभिः ।

स्वयंवरे महाबुद्धिं चकार पृथिवीपतिः ७१।

प्लक्षद्वीपस्य राजानः समाहूता महात्मना ।

स्वयंवरार्थमाहूतास्तथा ते धर्मतत्पराः ७२।

तस्यास्तु रूपसंमुग्धा राजानो मृत्युनोदिताः ।

संग्रामं चक्रिरे मूढास्ते मृताः समरांगणे ७३।

एवं तात क्षयो जातः क्षत्रियाणां महात्मनाम् ।

दिव्यादेवी सुदुःखार्ता गता सा वनकंदरम् ७४।

रुरोद करुणं बाला दिव्यादेवी मनस्विनी ।

एवं तात मया दृष्टमपूर्वं तत्र वै तदा ७५।

तन्मे सुविस्तरं तात तस्याः कथय कारणम् ७६।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे।

च्यवनोपाख्याने पंचाशीतितमोऽध्यायः ८५।

** ओंकारेश्वरमन्दिरस्य विवरणम्(हिन्दी)

** ओंकारेश्वरमन्दिरस्य विवरणम् (हिन्दी)

*ओंकारोपरि टिप्पणी

*ओंकारोपरि टिप्पणी

कुञ्जलोपरि टिप्पणी

खण्डः २ (भूमिखण्डः) — Adhyāya 86

कुंजल उवाच-

तस्यास्तु चेष्टितं वत्स दिव्या देव्या वदाम्यहम् ।

पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु ॥१

अस्ति वाराणसी पुण्या नगरी पापनाशिनी ।

तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः ॥२

वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः ।

तस्य भार्या महाप्राज्ञ चित्रा नाम सुविश्रुता ॥३

कुलाचारं परित्यज्य अनाचारेण वर्तते ।

न मन्यते हि भर्तारं स्वैरवृत्त्या प्रवर्तते ॥४

धर्मपुण्यविहीना तु पापमेव समाचरेत् ।

भर्तारं कुत्सते नित्यं नित्यं च कलहप्रिया ॥५

नित्यं परगृहे वासो भ्रमते सा गृहे गृहे ।

परच्छिद्रं समापश्येत्सदा दुष्टा च प्राणिषु ॥६

साधुनिंदापरा दुष्टा सदा हास्यकरा च सा ।

अनाचारां महापापां ज्ञात्वा वीरेण निंदिता ॥७

स तां त्यक्त्वा महाप्राज्ञ उपयेमे महामतिः ।

अन्य वैश्यस्य वै कन्यां तया सह प्रवर्तते ॥८

धर्माचारेण पुण्यात्मा सत्यधर्ममतिः सदा ।

निरस्ता तेन सा चित्रा प्रचंडा भ्रमते महीम् ॥९

दुष्टानां संगतिं प्राप्ता नराणां पापिनां सदा ।

दूतीकर्म चकाराथ सा तेषां पापनिश्चया ॥१०

गृहभंगं चकाराथ साधूनां पापकारिणी ।

साध्वीं नारीं समाहूय पापवाक्यैः सुलोभयेत् ॥११

धर्मभंगं चकाराथ वाक्यैः प्रत्ययकारकैः ।

साधूनां सा स्त्रियं चित्रा अन्यस्मै प्रतिपादयेत् ॥१२

एवं गृहशतं भग्नं चित्रया पापनिश्चयात् ।

संग्रामं सा महादुष्टाऽकारयत्पतिपुत्रकैः ॥१३

मनांसि चालयेत्पापा पुरुषाणां स्त्रियः प्रति ।

अकारयच्च संग्रामं यमग्रामविवर्धनम् ॥१४

एवं गृहशतं भंक्त्वा पश्चात्सा निधनं गता।

शासिता यमराजेन बहुदंडैः सुनंदन ॥१५

अभोजयत्सुनरकान्रौरवांस्तरणेः सुतः ।

पाचिता रौरवे चित्रा चित्राः पीडाः प्रदर्शिताः ॥१६

यादृशं क्रियते कर्म तादृशं परिभुज्यते ।

तया गृहशतं भग्नं चित्रया पापनिश्चयात् ॥१७

तत्तत्कर्मविपाकोऽयं तया भुक्तो द्विजोत्तम ।

यस्माद्गृहशतं भग्नं तस्माद्दुःखं प्रभुंजति ॥१८

विवाहसमये प्राप्ते दैवं च पाकतां गतम् ।

प्राप्ते विवाहसमये भर्ता मृत्युं प्रयाति च ॥१९

यथा गृहशतं भग्नं तथा वरशतं मृतम् ।

स्वयंवरे तदा वत्स विवाहे चैकविंशतिः ॥२०

दिव्या देव्या मया ख्यातं यथा मे पृच्छितं त्वया ।

एतत्ते सर्वमाख्यातं तस्याः पूर्वविचेष्टितम् ॥२१

उज्ज्वल उवाच-

दिव्या देव्यास्त्वया ख्यातं यत्पूर्वं पूर्वचेष्टितम् ।

तथा पापं कृतं घोरं गृहभंगाख्यमेव च ॥२२

प्लक्षद्वीपस्य भूपस्य दिवोदासस्य वै सुता ।

केन पुण्यप्रभावेण तया प्राप्तं महाकुलम् ॥२३

एतन्मे संशयं तात तदेतत्प्रब्रवीतु मे ।

एवं पापसमाचारा कथं जाता नृपात्मजा ॥२४

कुंजल उवाच-

चित्रायाश्चेष्टितं पुण्यं तत्सर्वं प्रवदाम्यहम् ।

श्रूयतामुज्ज्वल सुत चित्रया यत्कृतं पुरा ॥२५

भ्रममाणो महाप्राज्ञः कश्चित्सिद्धः समागतः ।

कुचैलो वस्त्रहीनश्च संन्यासी स च दंडधृक् ॥२६

कौपीनेन समायुक्तः पाणिपात्रो दिगंबरः ।

गृहद्वारं समाश्रित्य चित्रायाः परिसंश्रितः ॥२७

स मौनी सर्वमुंडस्तु विजितात्मा जितेंद्रियः ।

निराहारो जिताहारः सर्वतत्त्वार्थदर्शकः ॥२८

दूराध्वानपरिश्रांत आतपाकुलमानसः ।

श्रमेण खिद्यमानश्च तृषाक्रांतः सुपुत्रक ॥२९

चित्रा द्वारं समाश्रित्य च्छायामाश्रित्य संस्थितः ।

तया दृष्टो महात्मा स चित्रया श्रमपीडितः ॥३०

सेवां चक्रे च चित्रा सा तस्यैव सुमहात्मनः ।

पादप्रक्षालनं कृत्वा दत्वा आसनमुत्तमम् ॥३१

आस्यतामासने तात सुखेनापि सुकोमले ।

क्षुधापनोदनार्थं हि भुज्यतामन्नमुत्तमम् ॥३२

स्वेच्छया परितुष्टश्च शीतलं सलिलं पिब ।

एवमुक्त्वा तथा कृत्वा देववत्पूज्य तं सुत ॥३३

अंगसंवाहनं कृत्वा नाशितश्रम एव च ।

तयोक्तो हि महात्मा स भुक्त्वा पीत्वा द्विजोत्तम ॥३४

एवं संतोषितः सिद्धस्तया तत्त्वार्थदर्शकः ।

संतुष्टः सर्वधर्मात्मा किंचित्कालं स्थिरोभवत् ॥३५

स्वेच्छया स गतो विप्रो महायोगी यथागतम् ।

गते तस्मिन्महाभागे सिद्धे चैव महात्मनि ॥३६

सा चित्रा मरणं प्राप्ता स्वकर्मवशमागता ।

शासिता धर्मराजेन महादंडैः सुदुःखदैः ॥३७

सा चित्रा नरकं प्राप्ता वेदना व्रातदायकम् ।

भुंक्ते दुःखं महाराज सा वै युगसहस्रकम् ॥३८

भोगांते तु पुनर्जन्म संप्राप्तं मानुषस्य च ।

पूर्वं संपूजितः सिद्धस्तया पुण्यवतां वरः ॥३९

तस्य कर्मविपाकोयं प्राप्ता पुण्यवतां कुले ।

क्षत्रियाणां महाराज्ञो दिवोदासस्य वै गृहे ॥४०

दिव्यादेवी च तन्नाम जातं तस्या नरोत्तम ।

सा हि दत्तवती चान्नं पानं पुण्यं महात्मने ॥४१

तस्य दानस्य सा भुंक्ते महत्पुण्यफलोदयम् ।

पिबते शीतलं तोयं मिष्टान्नं च भुनक्ति वै ॥४२

दिव्यान्भोगान्प्रभुंजाना वर्तते पितृमंदिरे ।

सिद्धस्यास्य प्रभावाच्च राजकन्या व्यजायत ॥४३

पापकर्मप्रभावाच्च गृहभंगान्महीपते ।

विधवात्वं भुंजते सा दिव्यादेवी सुपुत्रक ॥४४

एतत्ते सर्वमाख्यातं दिव्यादेव्या विचेष्टितम् ।

अन्यत्किन्ते प्रवक्ष्यामि यत्त्वं पृच्छसि मामिह ॥४५

उज्ज्वल उवाच-

कथं सा मुच्यते शोकान्महादुःखाद्वदस्व मे ।

सास्याच्च कीदृशी बाला महादुःखेन पीडिता ॥४६

तत्सुखं कीदृशं तस्माद्विपाकश्च भविष्यति ।

एतन्मे संशयं तात सांप्रतं छेत्तुमर्हसि ॥४७

कथं सा लभते मोक्षं तंचोपायं वदस्व मे ।

एकाकिनी महाभागा महारण्ये प्ररोदिति ॥४८

विष्णुरुवाच-

पुत्रवाक्यं महच्छ्रुत्वा क्षणमेकं विचिंत्य सः ।

प्रत्युवाच महाप्राज्ञः कुंजलः पुत्रकं प्रति ॥४९

शृणु वत्स महाभाग सत्यमेतद्वदाम्यहम् ।

पापयोनिं तु संप्राप्य पूर्वकर्मसमुद्भवाम् ॥५०

तिर्यक्त्वेन च मे ज्ञानं नष्टं संप्रति पुत्रक ।

अस्य वृक्षस्य संगाच्च प्रयतस्य महात्मनः ॥५१

रेवायाश्च प्रसादेन विष्णोश्चैव प्रसादतः ।

येन सा लभते ज्ञानं मोक्षस्थानं निवर्तते ॥५२

उपदेशं प्रवक्ष्यामि मोक्षमार्गमनुत्तमम् ।

यास्यते कल्मषान्मुक्ता यथा हेम हुताशनात् ॥५३

शुद्धं च जायते वत्स संगाद्वह्नेः स्वरूपवत् ।

हरेर्ध्यानान्महाप्राज्ञ शीघ्रं तस्य महात्मनः ॥५४

जपहोमव्रतात्पापं नाशं याति हि पापिनाम् ।

मदं त्यजेद्यथा नागो भयात्सिंहस्य सर्वदा ॥५५

नामोच्चारेण कृष्णस्य तत्प्रयाति हि किल्बिषम् ।

तेजसा वैनतेयस्य विषहीना इवोरगाः ॥५६

ब्रह्महत्यादिकाः पापाः प्रलयं यांति नान्यथा ।

नामोच्चारेण तस्यापि चक्रपाणेः प्रयांति ते ॥५७

यदा नामशतं पुण्यमघराशिविनाशनम् ।

सा जपेत स्थिरा भूत्वा कामक्रोधविवर्जिता ॥५८

सर्वेंद्रियाणि संयम्य आत्मज्ञानेन गोपयेत् ।

तस्य ध्यानप्रविष्टा सा एकभूता समाहिता ॥५९

सा जपेत्परमं ज्ञानं तदा मोक्षं प्रयाति च ।

तन्मनास्तत्पदे लीना योगयुक्ता यदा भवेत् ॥६०

उज्ज्वल उवाच-

वद तात परं ज्ञानं परमं मम सांप्रतम् ।

पश्चाद्ध्यान व्रतं पुण्यं नाम्नां शतमिहैव च ॥६१

कुंजल उवाच-

परं ज्ञानं प्रवक्ष्यामि यन्न दृष्टं तु केनचित् ।

श्रूयतां पुत्र कैवल्यं केवलं मलवर्जितम् ॥६२

सूत उवाच-

यथा दीपो निवातस्थो निश्चलो वायुवर्जितः।

प्रज्वलन्नाशयेत्सर्वमंधकारं महामते ॥६३

तद्वद्दोषविहीनात्मा भवत्येव निराश्रयः ।

निराशो निर्मलो वत्स न मित्रं न रिपुः कदा ॥६४

न शोको न च हर्षश्च न लोभो न च मत्सरः ।

एको विषादहर्षैश्च सुखदुःखैर्विमुच्यते ॥६५

विषयैश्चापि सर्वैश्च इंद्रियाणि स संहरेत् ।

तदा स केवलो जातः केवलत्वं प्रजायते ॥६६

अग्निकर्मप्रसंगेन दीपस्तैलं प्रशोषयेत् ।

वर्त्याधारेण राजेंद्र निःसंगो वायुवर्जितः ॥६७

कज्जलं वमते पश्चात्तैलस्यापि महामते ।

कृष्णासौ दृश्यते रेखा दीपस्याग्रे महामते ॥६८

स्वयमाकृष्यते तैलं तेजसा निर्मलो भवेत् ।

कायवर्तिस्थितस्तद्वत्कर्मतैलं प्रशोषयेत् ॥६९

विषयान्कज्जलीकृत्य प्रत्यक्षं संप्रदर्शयेत् ।

जनयेन्निर्मलोभूत्वा स्वयमेव प्रकाशयेत् ॥७०

क्रोधादिभिः क्लेशसंज्ञैर्वायुभिः परिवर्जितः ।

निःस्पृहो निश्चलो भूत्वा तेजसा स्वयमुज्ज्वलेत् ॥७१

त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थः स्वतेजसा ।

केवलज्ञानरूपोऽयं मया ते परिकीर्तितः ॥७२

ध्यानं तस्य प्रवक्ष्यामि द्विविधं तस्य चक्रिणः ।

केवलज्ञानरूपेण दृश्यते ज्ञानचक्षुषा ॥७३

योगयुक्ता महात्मानः परमार्थपरायणाः ।

यं पश्यंति विनिद्रास्तु यत्तपः सर्वदर्शकम् ॥७४

हस्तपादविहीनं च सर्वत्र परिगच्छति ।

सर्वं गृह्णाति त्रैलोक्यं स्थावरं जंगमं सुत ॥७५

नासामुखविहीनस्तु घ्राति जक्षिति पुत्रक ।

अकर्णः शृणुते सर्वं सर्वसाक्षी जगत्पतिः ॥७६

अरूपो रूपसंबद्धः पंचवर्गवशंगतः ।

सर्वलोकस्य यः प्राणः पूजितः स चराचरैः ॥७७

अजिह्वो वदते सर्वं वेदशास्त्रानुगं सुत ।

अत्वचः स्पर्शनं चापि सर्वेषामेव जायते ॥७८

सदानंदो विरक्तात्मा एकरूपो निराश्रयः ।

निर्जरो निर्ममो न्यायी सगुणो निर्ममोमलः ॥७९

अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः ।

तस्य धाता न चैवास्ति स वै सर्वमयो विभुः ॥८०

एवं सर्वमयं ध्यानं पश्यते यो महात्मनः ।

स याति परमं स्थानममूर्तममृतोपमम् ॥८१

द्वितीयं तु प्रवक्ष्यामि अस्य ध्यानं महात्मनः ।

मूर्ताकारं तु साकारं निराकारं निरामयम् ॥८२

ब्रह्माण्डं सर्वमतुलं वासितं यस्य वासना ।

स तस्माद्वासुदेवेति उच्यते मम नंदन ॥८३

वर्षमाणस्य मेघस्य यद्वर्णं तस्य तद्भवेत् ।

सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम् ॥८४

दक्षिणे शोभते शंखो हेमरत्नविभूषितः ।

सूर्यबिंबसमाकारं चक्रं पद्मप्रतिष्ठितम् ॥८५

कौमोदकी गदा तस्य महासुरविनाशिनी ।

वामे च शोभते वत्स हस्ते तस्य महात्मनः ॥८६

महापद्मं सुगंधाढ्यं तस्य दक्षिणहस्तगम् ।

शोभमानः सदैवास्ते सायुधः कमलाप्रियः ॥८७

कंबुग्रीवं वृत्तमास्यं पद्मपत्रनिभेक्षणम् ।

राजमानं हृषीकेशं दशनै रत्नसन्निभैः ॥८८

गुडाकेशाः सन्ति यस्य अधरो विद्रुमाकृतिः ।

शोभते पुंडरीकाक्षः किरीटेनापि पुत्रक ॥८९

विशालेनापि रूपेण केशवस्तु सुवर्चसा ।

कौस्तुभेनांकितेनैव राजमानो जनार्दनः ॥९०

सूर्यतेजः प्रतीकाश कुंडलाभ्यां प्रभाति च ।

श्रीवत्सांकेन पुण्येन सर्वदा राजते हरिः ॥९१

केयूरकंकणैर्हारैर्मौक्तिकैरृक्षसन्निभैः ।

वपुषा भ्राजमानस्तु विजयो जयतां वरः ॥९२

भ्राजते सोपि गोविंदो हेमवर्णेन वाससा ।

मुद्रिकारत्नयुक्ताभिरंगुलीभिर्विराजते ॥९३

सर्वायुधैः सुसंपूर्णैर्दिव्यैराभरणैर्हरिः ।

वैनतेयसमारूढो लोककर्ता जगत्पतिः ॥९४

एवंतं ध्यायते नित्यमनन्यमनसा नरः ।

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥९५

एतत्ते सर्वमाख्यातं ध्यानमेव जगत्पतेः ।

व्रतं चैव प्रवक्ष्यामि सर्वपापनिवारणम् ॥९६

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थवर्णने षडशीतितमोऽध्यायः ८६

कुञ्जलोपरि टिप्पणी

खण्डः २ (भूमिखण्डः) — Adhyāya 87

कुंजल उवाच-

व्रतभेदान्प्रवक्ष्यामि यैर्यैश्चाराधितो हरिः ।

जया च विजया चैव जयंती पापनाशिनी १।

त्रिस्पृशा वंजुली चान्या तिलदग्धा तथापरा ।

अखंडाचारकन्या च मनोरथा सुपुत्रक २।

एकादश्यास्तु भेदाश्च संति पुत्र अनेकधा ।

अशून्यशयनं चान्यज्जन्माष्टमी महाव्रतम् ३।

एतैर्व्रतैर्महापुण्यैः पापं दूरं प्रयाति च ।

प्राणिनां नात्र संदेहः सत्यं सत्यं वदाम्यहम् ४।

कुंजल उवाच-

स्तोत्रं तस्य प्रवक्ष्यामि पापराशिविनाशनम् ।

सुपुत्रशतनामाख्यं नराणां गतिदायकम् ५।

तस्य देवस्य कृष्णस्य शतनामाख्यमुत्तमम् ।

संप्रत्येव प्रवक्ष्यामि तच्छृणुष्व सुतोत्तम ६।

विष्णोर्नामशतस्यापि ऋषिं छंदो वदाम्यहम् ।

देवं चैव महाभाग सर्वपापविशोधनम् ७।

विष्णोर्नामशतस्यापि ऋषिर्ब्रह्मा प्रकीर्तितः ।

ॐकारो देवता प्रोक्तश्छंदोनुष्टुप्तथैव च ८।

सर्वकामिकसंसिद्ध्यै मोक्षे च विनियोगकः ।

अस्य विष्णोः शतनामस्तोत्रस्य ।

ब्रह्मा ऋषिः विष्णुर्देवता अनुष्टुप्छंदः ।

सर्वकामसमृद्ध्यर्थं सर्वपापक्षयार्थे विनियोगः ९।

नमाम्यहं हृषीकेशं केशवं मधुसूदनम् ।

सूदनं सर्वदैत्यानां नारायणमनामयम् १०।

जयंतं विजयं कृष्णमनंतं वामनं ततः ।

विष्णुं विश्वेश्वरं पुण्यं विश्वाधारं सुरार्चितम् ११।

अनघं त्वघहंतारं नरसिंहं श्रियः प्रियम् ।

श्रीपतिं श्रीधरं श्रीदं श्रीनिवासं महोदयम् १२।

श्रीरामं माधवं मोक्षं क्षमारूपं जनार्दनम् ।

सर्वज्ञं सर्ववेत्तारं सर्वदं सर्वनायकम् १३।

हरिं मुरारिं गोविंदं पद्मनाभं प्रजापतिम् ।

आनंदं ज्ञानसंपन्नं ज्ञानदं ज्ञाननायकम् १४।

अच्युतं सबलं चंद्रं चक्रपाणिं परावरम् ।

युगाधारं जगद्योनिं ब्रह्मरूपं महेश्वरम् १५।

मुकुंदं तं सुवैकुंठमेकरूपं जगत्पतिम् ।

वासुदेवं महात्मानं ब्रह्मण्यं ब्राह्मणप्रियम् १६।

गोप्रियं गोहितं यज्ञंयज्ञांगं यज्ञवर्द्धनम् ।

यज्ञस्यापि सुभोक्तारं वेदवेदांगपारगम् १७।

वेदज्ञं वेदरूपं तं विद्यावासं सुरेश्वरम् ।

अव्यक्तं तं महाहंसं शंखपाणिं पुरातनम् १८।

पुरुषं पुष्कराक्षं तु वाराहं धरणीधरम् ।

प्रद्युम्नं कामपालं च व्यासं व्यालं महेश्वरम् १९।

सर्वसौख्यं महासौख्यं मोक्षं च परमेश्वरम् ।

योगरूपं महाज्ञानं योगिनां गतिदं प्रियम् २०।

मुरारिं लोकपालं तं पद्महस्तं गदाधरम् ।

गुहावासं सर्ववासं पुण्यवासं महाभुजम् २१।

वृंदानाथं बृहत्कायं पावनं पापनाशनम् ।

गोपीनाथं गोपसखं गोपालं गोगणाश्रयम् २२।

परात्मानं पराधीशं कपिलं कार्यमानुषम् ।

नमामि निश्चलं नित्यं मनोवाक्कायकर्मभिः २३।

नाम्नां शतेनापि सुपुण्यकर्ता यः स्तौति कृष्णं मनसा स्थिरेण ।

स याति लोकं मधुसूदनस्य विहाय लोकानिह पुण्यपूतः २४।

नाम्नां शतं महापुण्यं सर्वपातकशोधनम् ।

जपेदनन्यमनसा ध्यायेद्ध्यानसमन्वितम् २५।

नित्यमेव नरः पुण्यैर्गंगास्नानफलं लभेत् ।

तस्मात्तु सुस्थिरो भूत्वा समाहितमना जपेत् २६।

त्रिकालं च जपेन्मर्त्यो नियतो नियमे स्थितः ।

अश्वमेधफलं तस्य जायते नात्र संशयः २७।

एकादश्यामुपोष्यैव पुरतो माधवस्य यः ।

जागरे प्रजपेन्मर्त्यस्तस्य पुण्यं वदाम्यहम् २८।

पुंडरीकस्य यज्ञस्य फलमाप्नोति मानवः ।

तुलसीसंनिधौ स्थित्वा मनसा यो जपेन्नरः २९।

राजसूयफलं भुंक्ते वर्षेणापि च मानवः ।

शालग्रामशिला यत्र यत्र द्वारावती शिला ३०।

उभयोः संनिधौ जाप्यं कर्तव्यं सुखमिच्छता ।

बहुसौख्यं प्रभुक्त्वैव कुलानां शतमेव च ३१।

एकेन चाधिकं मर्त्य आत्मना सह तारयेत् ।

कार्तिके स्नानकर्ता यः पूजयेन्मधुसूदनम् ३२।

यः पठेत्प्रयतः स्तोत्रं प्रयाति परमां गतिम् ।

माघस्नायी हरिं पूज्य भक्त्या च मधुसूदनम् ३३।

ध्यायेच्चैव हृषीकेशं जपेद्वाथ शृणोति वा ।

सुरापानादिकं पापं विहाय परमं पदम् ३४।

विना विघ्नं नरः पुत्र संप्रयाति जनार्दनम् ।

श्राद्धकाले हि यो मर्त्यो विप्राणां भुंजतां पुरः ३५।

यो जपेच्च शतं नाम्नां स्तोत्रं पातकनाशनम् ।

पितरस्तुष्टिमायांति तृप्ता यांति परां गतिं ३६।

ब्राह्मणो वेदविद्वान्स्यात्क्षत्रियो विंदते महीम् ।

धनऋद्धिं प्रभुंजीत वैश्यो जपति यः सदा ३७।

शूद्रः सुःखं प्रभुंक्ते च ब्राह्मणत्वं च गच्छति ।

प्राप्य जन्मांतरं वत्स वेदविद्यां प्रविंदति ३८।

सुखदं मोक्षदं स्तोत्रं जप्तव्यं च न संशयः ।

केशवस्य प्रसादेन सर्वसिद्धो भवेन्नरः ३९।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थवर्णने च्यवनचरित्रे सप्ताशीतितमोऽध्यायः ८७।

खण्डः २ (भूमिखण्डः) — Adhyāya 88

कुंजल उवाच-

व्रतं स्तोत्रं महाज्ञानं ध्यानं चैव सुपुत्रक ।

मयाख्यातं तवाग्रे वै विष्णोः पापप्रणाशनम् १।

एवं चतुष्टयं सा हि यदा पुण्यं समाचरेत् ।

प्रयाति वैष्णवं लोकं देवानामपि दुर्लभम् २।

इतो गत्वा व्रतं वत्स दिव्यां देवीं प्रबोधय ।

अशून्यशयनं नाम व्रतराजं वदस्व ताम् ३।

समुद्धर महापापाद्राजकन्यां यशस्विनीम् ।

त्वया पृष्टं मया ख्यातं पुण्यदं पापनाशनम् ४।

गच्छ गच्छ महाभाग इत्युक्त्वा विरराम सः ।

श्रीविष्णुरुवाच-

उज्ज्वलोप्येवमुक्तस्तु स पित्रा कुंजलेन हि ५।

प्रणम्य पादौ धर्मात्मा मातापित्रोर्महामतिः ।

जगाम त्वरितो राजन्प्लक्षद्वीपं स उज्ज्वलः ६।

तं गिरिं सर्वतोभद्रं नानाधातुसमाकुलम् ।

नानारत्नमयैस्तुंगैः शिखरैरुपशोभितम् ७।

नानाप्रवाहसंपूर्णैरुदकैरुज्ज्वलैर्नृप ।

नद्यः संति स्वच्छनीरास्तस्मिन्गिरिवरोत्तमे ८।

किन्नरास्तत्र गायंति गंधर्वाः सुस्वरैर्नृप ।

अप्सरोभिः समाकीर्णं देववृंदैरुपावृतम् ९।

सिद्धचारणसंघुष्टं मुनिवृंदैरलंकृतम् ।

नानापक्षिनिनादैश्च सर्वत्र परिनादितम् १०।

एवं गिरिं समासाद्य उज्ज्वलो लघुविक्रमः ।

सुस्वरेणापि सा कन्या गिरौ तस्मिन्प्ररोदिति ११।

रोरूयमाणां स प्राज्ञो वचनं चेदमब्रवीत् ।

का त्वं भवसि कल्याणि कस्माद्रोदिषि सांप्रतम् १२।

कमाश्रिता महाभागे केन ते विप्रियं कृतम् ।

समाचक्ष्व ममाद्यैव सर्वदुःखस्य कारणम् १३।

दिव्यादेव्युवाच-

विपाको हि महाभाग कर्मणां मम सांप्रतम् ।

इह तिष्ठामि दुःखेन वैधव्येन समन्विता १४।

भवान्को हि महाभाग कृपया मम पीडितः ।

पक्षिरूपधरो वत्स सोत्सवं परिभाषते १५।

एवमाकर्ण्य तत्सर्वं भाषितं राजकन्यया ।

अहं पक्षी महाभागे कृपया तव पीडितः १६।

पक्षिरूपधरो भद्रे नाहं सिद्धो न ज्ञानवान् ।

रुदमानां महालापैर्भवतीं दृष्टवानिह १७।

ततः पृच्छाम्यहं देवि वद मे कारणं त्विह ।

पितुर्गेहे यथावृत्तमात्मवृत्तांतमेव हि १८।

तया निवेदितं सर्वं यथासंख्येन दुःखदम् ।

समासेन समाकर्ण्य उज्ज्वलस्तु महमनाः १९।

तामुवाच महापक्षी दिव्यादेवीं सुदुःखिताम् ।

यथा विवाहकाले ते भर्तारो मरणं गताः २०।

स्वयंवरनिमित्तं ते क्षयं याताश्च क्षत्रियाः ।

एतत्ते चेष्टितं सर्वं मया पितरि भाषितम् २१।

अन्यजन्मकृतंकर्मतव पापं सुलोचने ।

मम पित्रा ममाग्रे तु कृपया परिभाषितम् २२।

तेन दोषेण संपुष्टा लिप्ता जाता वरानने ।

एतावत्कारणं सर्वं तातेन परिभाषितम् २३।

पूर्वकर्मविपाकं तु भुंक्ष्व त्वं च समाश्वस ।

एवं सा भाषितं तस्य श्रुत्वा कन्योज्ज्वलस्य तत् २४।

प्रत्युवाच महात्मानं ब्रुवंतं पक्षिणं पुनः ।

प्रणता दीनया वाचा कुरु पक्षिन्कृपां मम २५।

कथयस्व प्रसादेन तस्य पापस्य निष्कृतिम् ।

प्रायश्चित्तं सुपुण्यं च मम पातकशोधनम् २६।

येन व्रजाम्यहं पुण्यं विशुद्धाधौतकल्मषा ।

प्रायश्चित्तं महाभाग वद मे त्वं प्रसादतः २७।

उज्ज्वल उवाच-

तवार्थं तु महाभागे पितरं पृष्टवानहम् ।

समाख्यातमतः पित्रा प्रायश्चित्तमनुत्तमम् २८।

तत्त्वं कुरु महाभागे सर्वपातकशोधनम् ।

ध्यायस्व हि हृषीकेशं शतनामजपस्व च २९।

भव ज्ञानपरा नित्यं कुरु व्रतमनुत्तमम् ।

अशून्यशयनं पुण्यं व्रतं पापप्रणाशकम् ३०।

समाचष्ट स धर्मात्मा सर्वज्ञानप्रकाशकम् ।

ज्ञानं स्तोत्रं व्रतं ध्यानं विष्णोश्चैव महात्मनः ३१।

विष्णुरुवाच-

तस्मात्सा हि प्रजग्राह संस्थिता निर्जने वने ।

सर्वद्वंद्वविनिर्मुक्ता संजाता तपसि स्थिता ३२।

व्रतं चक्रे जिताहारा निराधारा सुदुःखिता ।

कामक्रोधविहीना सा वर्गं संयम्य नित्यशः ३३।

इंद्रियाणां महाराज महामोहं निरस्य सा ।

अब्दे चतुर्थके प्राप्ते सुप्रसन्नो जनार्दनः ३४।

तस्यै वरं दातुकामश्चायातो वरनायकः ।

तस्यै संदर्शयामास स्वरूपं वरदः प्रभुः ३५।

सूत उवाच-

इंद्रनीलघनश्यामं शंखचक्रगदाधरम् ।

सर्वाभरणशोभाढ्यं पद्महस्तं महेश्वरम् ३६।

बद्धांजलिपुटा भूत्वा वेपमाना निराश्रया ।

उवाच गद्गदैर्वाक्यैः प्रणता मधुसूदनम् ३७।

तेजसा तव दिव्येन स्थातुं शक्नोमि नैव हि ।

दिव्यरूपो भवेः कस्त्वं कृपया मम चाग्रतः ३८।

कथयस्व प्रसादेन किमत्र तव कारणम् ।

सर्वमेव प्रसादेन प्रब्रवीहि महामते ३९।

देवमेवं विजानामि तेजसा इंगितैस्तव ।

ज्ञानहीना जगन्नाथ न जाने रूपनामनी ४०।

किं ब्रह्मा वा भवान्विष्णुः किं वा शंकर एव हि ।

एवमुक्त्वा प्रणम्यैवं दंडवद्धरणीं गता ४१।

तामुवाच जगन्नाथः प्रणतां राजनंदिनीम् ।

श्रीभगवानुवाच-

त्रयाणामपि देवानामंतरं नास्ति शोभने ४२।

ब्रह्मा समर्चितो येन शंकरो वा वरानने ।

तेनाहमर्चितो नित्यं नात्र कार्या विचारणा ४३।

एतौ ममाभिन्नतरौ नित्यं चापि त्रिरूपवान् ।

अहं हि पूजितो यैश्च तावेतौ तैः सुपूजितौ ४४।

अहं देवो हृषीकेशः कृपया तव चागतः ।

स्तवेनानेन पुण्येन व्रतेन नियमेन च ४५।

संजाता कल्मषैर्हीना वरं वरय शोभने ।

दिव्यादेव्युवाच-

विजयस्व हृषीकेश कृष्णक्लेशापहारक ४६।

नमामि चरणद्वंद्वं मामुद्धर सुरेश्वर ।

वरं मे दातुकामोऽसि चक्रपाणे प्रसीद मे ४७।

आत्मपादयुगस्यापि भक्तिं देहि ममानघ ।

दर्शयस्व जगन्नाथ मोक्षमार्गं निरामयम् ४८।

दासत्वं देहि वैकुंठ यदि तुष्टो जनार्दन ।

श्रीभगवानुवाच-

एवमस्तु महाभागे गच्छ निर्धूतकल्मषा ४९ ।

वैष्णवं परमं लोकं दुर्लभं योगिभिः सदा ।

गच्छ गच्छ परं लोकं प्रसादान्मम सांप्रतम् ५०।

एवमुक्ते ततो वाक्ये माधवेन महात्मना ।

दिव्यादेवी अभूद्दिव्या सूर्यतेजः समप्रभा ५१।

पश्यतां सर्वलोकानां दिव्याभरणभूषिता ।

दिव्यमालान्विता सा च दिव्यहारविलंबिनी ५२।

गता सा वैष्णवं लोकं दाहप्रलयवर्जितम् ।

पुनः पक्षी समायातः स्वगृहं हर्षसंयुतः ५३।

तत्सर्वं कथयामास पितरं प्रति सत्तमः ५४।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रेऽष्टाशीतितमोऽध्यायः ८८।

खण्डः २ (भूमिखण्डः) — Adhyāya 89

विष्णुरुवाच-

कुंजलस्तु सुतं वाक्यं समुज्ज्वलमथाब्रवीत् ।

भवान्कथय भोः पुत्र किमपूर्वं तु दृष्टवान् १।

तन्मे कथय सुप्रीतः श्रोतुकामोऽस्मि सांप्रतम् ।

एवमादिश्य तं पुत्रं विरराम स कुंजलः २।

पितरं प्रत्युवाचाथ विनयावनतस्सुतः ।

समुज्ज्वल उवाच-

हिमवंतं नगश्रेष्ठं देववृंदसमन्वितम् ३।

आहारार्थं प्रगच्छामि भवतश्चात्मनः पितः ।

पश्यामि कौतुकं तत्र न दृष्टं न श्रुतं पुरा ४।

प्रदेशमृषिगणाकीर्णमप्सरोभिः प्रशोभितम् ।

बहुकौतुकशोभाढ्यं मंगल्यं मंगलैर्युतम् ५।

बहुपुण्यफलोपेतैर्वनैर्नानाविधैस्ततः ।

अनेककौतुकभरैर्मनसः परिमोहनम् ६।

तत्र दृष्टं मया तात अपूर्वं मानसांतिके ।

बहुहंसैः समाकीर्णो हंस एकः समागतः ७।

एवं कृष्णा महाभाग अन्ये तत्र समागताः ।

सितेतरैश्चंचुपादैरन्यतः शुक्लविग्रहाः ८।

तादृशास्ते च नीला वै अन्ये शुभ्रा महामते ।

चतस्रस्तत्र वै नार्यो रौद्राकारा विभीषणाः ९।

दंष्ट्राकरालसंक्रूरा ऊर्ध्वकेश्यो भयानकाः ।

पश्चात्तास्तु समायातास्तस्मिन्सरसि मानसे १०।

कृष्णा हंसास्तु संस्नाता मानसे तात मत्पुरः ।

विभ्रांताः परितश्चान्ये न स्नातास्तत्र मानसे ११।

जहसुस्ताः स्त्रियस्तात हास्यैरट्टाट्टदारुणैः ।

तस्मात्सराद्विनिष्क्रांतो हंस एको महातनुः १२।

पश्चात्त्रयो विनिष्क्रांतास्तैश्चाहं समुपेक्षितः ।

याता आकाशमार्गेण विवदंतः परस्परम् १३।

तास्तु स्त्रियो महाभीमाः समंतात्परिबभ्रमुः ।

विंध्यस्य शिखरे पुण्ये वृक्षच्छायासुपक्षिणः १४।

निषण्णास्तत्र ते सर्वे दग्धा दुःखैः सुदारुणैः ।

तेषां सुवीक्षमाणानां भिल्ल एकः समागतः १५।

मृगान्स पीडयित्वा तु बाणपाणिर्धनुर्द्धरः ।

शिलातलं समाश्रित्य निषसाद सुखेन वै १६।

पश्चाद्भिल्ली समायाता अन्नमादाय सोदकम् ।

स्वं प्रियं वीक्षते राज्ञा मुदितैर्लक्षणैर्युतम् १७।

अन्यादृशं समावीक्ष्य स्वकांतं तेजसावृतम् ।

दिव्यतेजः समाक्रांतं यथा सूर्यं दिविस्थितम् १८।

नरमन्यं परिज्ञाय तं परित्यज्य सा ययौ ।

व्याध उवाच-

एह्येहि त्वं प्रिये चात्र कस्मान्मां त्वं न पश्यसि १९।

क्षुधया पीड्यमानोहं त्वामहं चावलोकये ।

तस्य वाक्यं समाकर्ण्य शीघ्रं व्याधी समागता २०।

भर्तुः पार्श्वं समासाद्य विस्मिता साभवत्तदा ।

कोयं तेजः समाचारो देवोयं मां समाह्वयेत् २१।

तमुवाच ततो व्याधी भर्तारं दीप्ततेजसम् ।

अत्र किं ते कृतं वीर भवान्को दिव्यलक्षणः २२।

सूत उवाच-

एवमाभाषितो व्याध्या व्याधः प्रियामभाषत ।

अहं ते वल्लभः कांते भवती च मम प्रिया २३।

कस्मात्त्वं मां न जानासि कथं शंका प्रवर्तते ।

क्षुधया पीड्यमानेन पयश्चान्नं प्रतीक्ष्यते २४।

व्याध्युवाच-

बर्बरः कृष्णवर्णश्च रक्ताक्षः कृष्णकंचुकः ।

ईदृशश्चास्ति मे भर्ता सर्वसत्वभयंकरः २५।

भवान्को दिव्यदेहस्तु प्रियेत्युक्त्वा समाह्वयेत् ।

एष मे संशयो जातो वद सत्यं ममाग्रतः २६।

कुलं नाम स्वकं ग्रामं क्रीडां लिगं सुतं सुताम् ।

समाचष्ट प्रियाग्रे तु तस्याः प्रत्यय हेतवे २७।

प्रत्युवाच स्वभर्तारं सा व्याधी हृष्टमानसा ।

कस्मात्ते ईदृशः कायः श्वेतकंचुकधारकः २८।

कथं जातः समाचक्ष्व ममाश्चर्यं प्रवर्तते ।

एवं संपृच्छमानस्तु भार्यया मृगघातकः २९।

सूत उवाच-

प्रत्युवाच ततः श्रुत्वा तां प्रियां प्रश्रयान्विताम् ।

नर्मदा उत्तरे कूले संगमश्चास्ति सुव्रते ३०।

आतपेनाकुलो जीवो मम जातोति सुप्रिये ।

अस्मिन्वै संगमे कांते श्रमश्रांतो हि सत्वरः ३१।

गतः स्नात्वा जलं पीत्वा पश्चाच्चाहं समागतः ।

तदाप्रभृति मे काय ईदृशस्तेजसावृतः ३२।

संजातो वस्त्रसंयुक्तः कंचुकः शुभ्रतां गतः ।

पूर्वोक्तलिंगसंस्थानैः कुलैः स्थानेन वै तथा ३३।

स्वप्रियं लक्षयित्वा तु ज्ञात्वा पुण्यस्य संभवम् ।

प्रत्युवाचाथ भर्तारं संगमं मम दर्शय ३४।

तव पश्चात्प्रदास्यामि भोजनं पानसंयुतम् ।

इत्युक्तः प्रियया व्याधः सत्वरेण जगाम ह ३५।

संगमो दर्शितस्तेन ततोग्रे पापनाशनः ।

समुड्डीना महाभाग पक्षिणो लघुविक्रमाः ३६।

तया सार्द्धं ययुः सर्वे रेवासंगममुत्तमम् ।

तेषां तु वीक्षमाणानां पक्षिणां मम पश्यतः ३७।

तया हि स्नापितो भर्ता पुनः स्नाता हि सा स्वयम् ।

दिव्यदेहधरौ चोभौ दिव्यकांतिसमन्वितौ ३८।

संजातौ पक्षिणां श्रेष्ठ दिव्यवस्त्रानुलेपनौ ।

दिव्यमालांबरधरौ दिव्यगंधानुलेपनौ ३९।

वैष्णवं यानमासाद्य मुनिगंधर्वपूजितौ ।

गतौ तौ वैष्णवं लोकं वैष्णवैः परिपूजितौ ४०।

स्तूयमानौ महात्मानौ दंपती दृष्टवानहम् ।

व्रजंतौ स्वर्गमार्गेण कूजंते पक्षिणस्तथा ४१।

तीर्थराजं परं दृष्ट्वा हर्षव्यक्ताक्षरैस्तदा ।

चत्वारः कृष्णहंसास्ते संगमे पापनाशने ४२।

स्नात्वा वै भावशुद्धास्ते प्राप्ता उज्ज्वलतां पुनः ।

स्नात्वा पीत्वा जलं ते तु पुनर्बहिर्विनिर्गताः ४३।

तावत्यस्ताः स्त्रियः कृष्णा मृतास्तत्स्नानमात्रतः ।

क्रंदमाना विचेष्टंत्यो हाहाकार विकंपिताः ४४।

यमलोकं गतास्तास्तु तात दृष्टा मया तदा ।

उड्डीनास्तु ततो हंसाः स्वस्थानं प्रतिजग्मिरे ४५।

एवं तात मया दृष्टं प्रत्यक्षं कथितं तव ।

कृष्णपक्षा महाकाया धार्तराष्ट्रास्तु ताः स्त्रियः ४६।

कथयस्व प्रसादेन के भविष्यंति वै पितः ।

निर्गतान्मानसान्मध्याद्धार्तराष्ट्रान्वदस्व मे ४७।

के भविष्यंति ते तात कथय त्वं तु सांप्रतम् ।

कस्मात्सुकृष्णतां प्राप्ता हंसाः शुद्धाश्च ते पुनः ४८।

संजातास्तत्क्षणात्तात कस्मान्मृतास्तु ताः स्त्रियः ।

एवं मे संशयस्तात संजातो दारुणो हृदि ४९।

छेत्तुमर्हसि अद्यैव भवाञ्ज्ञानविचक्षणः ।

प्रसादसुमुखो भूत्वा प्रणतस्य सदैव मे ५०।

एवं संभाष्य पितरं विरराम समुज्ज्वलः ।

ततः प्रवक्तुमारेभे स शुकः कुंजलाभिधः ५१।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थवर्णने च्यवनचरित्रे एकोननवतितमोऽध्यायः ८९।

खण्डः २ (भूमिखण्डः) — Adhyāya 90

सूतउवाच-

एवमाकर्ण्य तत्सर्वं समुज्ज्वलस्य भाषितम् ।

कुंजलः स हि धर्मात्मा प्रत्युवाच सुतं प्रति १।

कुंजल उवाच-

संप्रवक्ष्याम्यहं तात श्रूयतां स्थिरमानसः ।

सर्वसंदेहविध्वंसं चरित्रं पापनाशनम् २।

इंद्रलोके प्रववृते संवादो देव कौतुकः ।

सभायां तस्य देवस्य इंद्रस्यापि महात्मनः ३।

देवं द्रष्टुं सहस्राक्षं नारदस्त्वरितं ययौ ।

समागतं सहस्राक्षः सूर्यतेजःसमप्रभम् ४।

तं दृष्ट्वा हर्षमायातः समुत्थाय महामतिः ।

ददावर्घं च पाद्यं च भक्त्या प्रणतमानसः ५।

बद्धांजलिपुटोभूत्वा प्रणाममकरोत्तदा ।

आसने कोमले पुण्ये विनिवेश्य द्विजोत्तमम् ६।

पप्रच्छ प्रणतो भूत्वा श्रद्धया परया युतः ।

कस्माच्चागमनं तेऽद्य कारणं वद सांप्रतम् ७।

इत्युक्तो देवराजेन प्रत्युवाच महामुनिः ।

भवंतं द्रष्टुमायातः पृथिव्यास्तु पुरंदरः ८।

स्नात्वा पुण्यप्रदेशेषु तीर्थेषु च सुश्रद्धया ।

देवान्पितॄन्समभ्यर्च्य दृष्ट्वा तीर्थान्यनेकशः ९।

एतत्ते सर्वमाख्यातं यत्त्वया पृच्छितं पुरा ।

देवेंद्र उवाच-

दृष्टानि पुण्यतीर्थानि सुक्षेत्राणि त्वया मुने १०।

किं तीर्थं प्राप्य मुच्येत ब्रह्मघ्नो ब्रह्महत्यया ।

सुरापोमुच्यतेपापाद्गोघ्नोहेमापहारकः ११।

स्वामिद्रोहान्महाभाग नारीहंता कथं सुखी ।

नारद उवाच-

यानि कानि च तीर्थानि गयादीनि सुरेश्वर १२।

तेषां नैव प्रजानामि विशेषं पापनाशनम् ।

सुपुण्यानि सुदिव्यानि पापघ्नानि समानि च १३।

सर्वाण्येव सुतीर्थानि जानाम्यहं पुरंदर ।

अविशेषं विशेषं वै नैव जानामि सांप्रतम् १४।

प्रत्ययं क्रियतां देव तीर्थानां गतिदायकम् ।

एवमाकर्ण्य तद्वाक्यं नारदस्य महात्मनः १५।

समाहूतानि चेंद्रेण तीर्थानि भूगतानि च ।

मूर्तिवर्तीनि दिव्यानि समायातानि शासनात् १६।

बद्धांजलीनि दिव्यानि भूषितानि सुभूषणैः ।

दिव्यांबराणि स्निग्धानि तेजोवंति च सुव्रत १७।

स्त्रीपुंसोश्च स्वरूपाणि कृतानि च विशेषतः ।

हेमचंदनकाशानि दिव्यरूपधराणि च १८।

मुक्ताफलस्यवर्णेन प्रभासंति नरेश्वर ।

तप्तकांचनवर्णानि सारुण्यानि च तत्र वै १९।

कति शुक्ल सुपीतानि प्रभावंति सभांतरे ।

कानि पद्मनिभान्येव मूर्तिवर्तीनि तानि तु २०।

सूर्यतेजः प्रकाशानि तडित्तेजः समानि च ।

पावकाभानि चान्यानि प्रभासंति सभांतरे २१।

सर्वाभरणशोभाढ्यैः प्रशोभंते नरेश्वर ।

हारकंकणकेयूरमालाभिस्तु सुचंदनैः २२।

दिव्यचंदनदिग्धानि सुरभीणि गुरूणि च ।

कमंडलुकराण्येव आयातानि सभांतरे २३।

गंगा च नर्मदा पुण्या चंद्रभागा सरस्वती ।

देविका बिंबिका कुब्जा कुंजला मंजुला श्रुता २४।

रंभा भानुमती पुण्या पारा चैव सुघर्घरा ।

शोणा च सिंधुसौवीरा कावेरी कपिला तथा २५।

कुमुदा वेदनदी पुण्या सुपुण्या च महेश्वरी ।

चर्मण्वती तथा ख्याता लोपा चान्या सुकौशिकी २६।

सुहंसी हंसपादा च हंसवेगा मनोरथा ।

सुरुथास्वारुणा वेणा भद्र वेणा सुपद्मिनी २७।

नाहलीसुमरी चान्या पुण्या चान्या पुलिंदिका ।

हेमा मनोरथा दिव्या चंद्रिका वेदसंक्रमा २८।

ज्वालाहुताशनी स्वाहा काला चैव कपिंजला ।

स्वधा च सुकला लिंगा गंभीरा भीमवाहिनी २९।

देवद्रीची वीरवाहा लक्षहोमा अघापहा ।

पाराशरी हेमगर्भा सुभद्रा वसुपुत्रिका ३०।

एता नद्यो महापुण्या मूर्तिमत्यो नरेश्वर ।

सर्वाभरणशोभाढ्याः कुंभहस्ताः सुपूजिताः ३१।

प्रयागः पुष्करश्चैव अर्घदीर्घो मनोरथा ।

वाराणसी महापुण्या ब्रह्महत्या व्यपोहिनी ३२।

द्वारावती प्रभासश्च अवंती नैमिषस्तथा ।

चंडकश्च महारत्नो महेश्वरकलेश्वरौ ३३।

कलिंजरो ब्रह्मक्षेत्रं माथुरो मानवाहकः ।

मायाकांती तथान्यानि दिव्यानि विविधानि च ३४।

अष्टषष्टिः सुतीर्थानि नदीनां शतकोटयः ।

गोदावरीमुखाः सर्वा समायातास्तदाज्ञया ३५।

द्वीपानां तु समस्तानि सुतीर्थानि महांति च ।

मूर्तिलिंगधराण्येव सहस्राक्षं सुरेश्वरम् ३६।

समाजग्मुः समस्तानि तदादेशकराणि च ।

प्रणेमुर्देवदेवेशं नतशीर्षाणि सर्वशः ३७।

सूत उवाच-

तैः प्रोक्तं तु महातीर्थैर्देवराजं यशस्विनम् ।

कस्मात्त्वया समाहूता देवदेव वदस्व नः ३८।

ब्रूहि नः कारणं सर्वं नमस्तुभ्यं सुराधिप ।

एवमाकर्ण्य तद्वाक्यं देवराजोभ्यभाषत ३९।

कः समर्थो महातीर्थो ब्रह्महत्यां व्यपोहितुम् ।

गोवधाख्यं महापापं स्त्रीवधाख्यमनुत्तमम् ४०।

स्वामिद्रोहाच्च संभूतं सुरापानाच्च दारुणम् ।

हेमस्तेयात्तथा जातं गुरुनिंदा समुद्भवम् ४१।

भ्रूणहत्यां महाघोरां नाशयेत्कः समर्थवान् ।

राजद्रोहान्महापापं बहुपीडाप्रदायकम् ४२।

मित्रद्रोहात्तथा चान्यदन्यद्विश्वासघातकम् ।

देवभेदं तथा चान्यं लिंगभेदमतः परम् ४३।

वृत्तिच्छेदं च विप्राणां गोप्रचारप्रणाशनम् ।

आगारदहनं चान्यद्गृहदीपनकं तथा ४४।

षोडशैते महापापा अगम्यागमनं तथा ।

स्वामित्यागात्समुद्भूतं रणस्थानात्पलायनात् ४५।

एतानि नाशयेत्को वै समर्थस्तीर्थउत्तमः ।

समर्थो भवतां मध्ये प्रायश्चित्तं विना ध्रुवम् ४६।

पश्यतां देवतानां च नारदस्य च पश्यतः ।

ब्रुवंतु सर्वे संचिंत्य विचार्यैवं सुनिश्चितम् ४७।

एवमुक्ते शुभे वाक्ये देवराज्ञामहात्मना ।

संमंत्र्य तीर्थराजेन प्रोचुः शक्रं सभागतम् ४८।

तीर्थान्यूचुः -

श्रूयतामभिधास्यामो देवराज नमोस्तु ते ।

संति वै सर्वतीर्थानि सर्वपापहराणि च ४९।

ब्रह्महत्यादिकान्यांश्च त्वया प्रोक्तान्सुरेश्वर ।

महाघोरान्सुदीप्तांश्च नाशितुं नैव शक्नुमः ५०।

प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम् ।

वाराणसी महाभाग समर्था पापनाशिनी ५१।

महापातकनाशार्थे चत्वारोमितविक्रमाः ।

उपपातकनाशार्थं चत्वारोमितविक्रमाः ५२।

सृष्टा धात्रा च देवेंद्र पुष्कराद्या महाबलाः ।

एवमाकर्ण्य तद्वाक्यं तीर्थानां सुरराट् ततः ५३।

हर्षेण महताविष्टस्तेषां स्तोत्रं चकार सः ५४।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये ।

च्यवनचरित्रे नवतितमोऽध्यायः ९०।

खण्डः २ (भूमिखण्डः) — Adhyāya 91

कुंजल उवाच-

ब्रह्महत्याभिभूतस्तु सहस्राक्षो यदा पुरा ।

गौतमस्य प्रियासंगादगम्यागमनं महत् १।

संजातं पातकं तस्य त्यक्तो देवैश्च ब्राह्मणैः ।

सहस्राक्षस्तपस्तेपे निरालंबो निराश्रयः २।

तपोंते देवताः सर्वा ऋषयो यक्षकिन्नराः ।

देवराजस्य पूजार्थमभिषेकं प्रचक्रिरे ३।

देशं मालवकं नीत्वा देवराजं सुतोत्तम ।

चक्रे स्नानं महाभाग कुंभैरुदकपूरितैः ४।

स्नापितुं प्रथमं नीतो वाराणस्यां स्वयं ततः ।

प्रयागे तु सहस्राक्ष अर्घतीर्थे ततः पुनः ५।

पुष्करेण महात्मासौ स्नापितः स्वयमेव हि ।

ब्रह्मादिभिः सुरैः सर्वैर्मुनिवृंदैर्द्विजोत्तम ६।

नागैर्वृक्षैर्नागसर्पैर्गंधर्वैस्तु सकिन्नरैः ।

स्नापितो देवराजस्तु वेदमंत्रैः सुसंस्कृतः ७।

मुनिभिः सर्वपापघ्नैस्तस्मिन्काले द्विजोत्तम ।

शुद्धे तस्मिन्महाभागे सहस्राक्षे महात्मनि ८।

ब्रह्महत्या गता तस्य अगम्यागमनं तथा ।

ब्रह्महत्या ततो नष्टा अगम्यागमनेन च ९।

पापेन तेन घोरेण सार्द्धमिंद्रस्य भूतले ।

सुप्रसन्नः सहस्राक्षस्तीर्थेभ्यो हि वरं ददौ १०।

भवंतस्तीर्थराजानो भविष्यथ न संशयः ।

मत्प्रसादात्पवित्राश्च यस्मादहं विमोक्षितः ११।

सुघोरात्किल्बिषादत्र युष्माभिर्विमलैरहम् ।

एवं तेभ्यो वरं दत्वा मालवाय वरं ददौ १२।

यस्मात्त्वया मलं मेऽद्य विधृतं श्रमदायकम् ।

तस्मात्त्वमन्नपानैश्च धनधान्यैरलंकृतः १३।

भविष्यसि न संदेहो मत्प्रसादान्न संशयः ।

सुदुःकालैर्विना त्वं तु भविष्यसि सुपुण्यवान् १४।

एवं तस्मै वरं दत्वा देवराजः पुरंदरः ।

क्षेत्राणि सर्वतीर्थानि देशो मालवकस्तथा १५।

आखंडलेन सार्द्धं ते स्वस्थानं प्रतिजग्मिरे ।

सूत उवाच-

तदाप्रभृति चत्वारः प्रयागः पुष्करस्तथा १६।

वाराणसी चार्घतीर्थं प्राप्ता राजत्वमुत्तमम् १७।

कुंजल उवाच-

अस्ति पंचालदेशेषु विदुरो नाम क्षत्रियः ।

तेन मोहप्रसंगेन ब्राह्मणो निहतः पुराः १८।

शिखासूत्रविहीनस्तु तिलकेन विवर्जितः ।

भिक्षार्थमटतेसोऽपि ब्रह्मघ्नोहं समागतः १९।

ब्रह्मघ्नाय सुरापाय भिक्षा चान्नं प्रदीयताम् ।

गृहेष्वेवं समस्तेषु भ्रमते याचते पुरा २०।

एवं सर्वेषु तीर्थेषु अटित्वैव समागतः ।

ब्रह्महत्या न तस्यापि प्रयाति द्विजसत्तम २१।

वृक्षच्छायां समाश्रित्यदह्यमानेन चेतसा ।

संस्थितो विदुरः पापो दुःखशोकसमन्वितः २२।

चंद्रशर्मा ततो विप्रो महामोहेन पीडितः ।

न्यवसन्मागधे देशे गुरुघातकरश्च सः २३।

स्वजनैर्बंधुवर्गैश्च परित्यक्तो दुरात्मवान् ।

स हि तत्र समायातो यत्रासौ विदुरः स्थितः २४।

शिखासूत्रविहीनस्तु विप्रलिंगैर्विवर्जितः ।

तदासौ पृच्छितस्तेन विदुरेण दुरात्मना २५।

भवान्को हि समायातोः दुर्भगो दग्धमानसः ।

विप्रलिंगविहीनस्तु कस्मात्त्वं भ्रमसे महीम् २६।

विदुरेणोक्तमात्रस्तु चंद्रशर्मा द्विजाधमः ।

आचष्टे सर्वमेवापि यथापूर्वकृतं स्वकम् २७।

पातकं च महाघोरं वसता च गुरोर्गृहे ।

महामोहगतेनापि क्रोधेनाकुलितेन च २८।

गुरोर्घातः कृतः पूर्वं तेन दग्धोस्मि सांप्रतम् ।

चंद्रशर्मा च वृत्तांतमुक्त्वा सर्वमपृच्छत २९।

भवान्को हि सुदुःखात्मा वृक्षच्छायां समाश्रितः ।

विदुरेण समासेन आत्मपापं निवेदितम् ३०।

अथ कश्चिद्द्विजः प्राप्तस्तृतीयः श्रमकर्षितः ।

वेदशर्मेति वै नाम बहुपातकसंचयः ३१।

द्वाभ्यामपि सुसंपृष्टः को भवान्दुःखिताकृतिः ।

कस्माद्भ्रमसि वै पृथ्वीं वद भावं त्वमात्मनः ३२।

वेदशर्मा ततः सर्वमात्मचेष्टितमेव च ।

कथयामास ताभ्यां वै ह्यगम्यागमनं कृतम् ३३।

धिक्कृतः सर्वलोकैश्च अन्यैः स्वजनबांधवैः ।

तेन पापेन संलिप्तो भ्रमाम्येवं महीमिमाम् ३४।

वंजुलो नाम वैश्योथ सुरापायी समागतः ।

स गोघ्नश्च विशेषेण तैश्च पृष्टो यथा पुरा ३५।

तेन आवेदितं सर्वं पातकं यत्पुराकृतम् ।

तैराकर्णितमन्यैश्च सर्वं तस्यप्रभाषितम् ३६।

एवं चत्वारःपापिष्ठा एकस्थानं समागताः ।

कः कस्यापि न संपर्कं भोजनाच्छादनेन च ३७।

करोति च महाभाग वार्तां चक्रुः परस्परम् ।

न विशंत्यासने चैके न स्वपंत्येकसंस्तरे ३८।

एवं दुःखसमाविष्टा नानातीर्थेषु वै गताः ।

तेषां तु पापका घोरा न नश्यंति च नंदन ३९।

सामर्थ्यं नास्ति तीर्थानां महापातकनाशने ।

विदुराद्यास्ततस्ते तु गताः कालंजरं गिरिम् ४०।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे एकनवतितमोऽध्यायः ९१।

खण्डः २ (भूमिखण्डः) — Adhyāya 92

कुंजल उवाच-

कालंजरं समासाद्य निवसंति सुदुःखिताः ।

महापापैस्तु संदग्धा हाहाभूता विचेतनाः १।

तत्र कश्चित्समायातःसिद्धश्चैव महायशाः ।

तेन पृष्टाः सुदुःखार्ता भवंतः केन दुःखिताः २।

स तैः प्रोक्तो महाप्राज्ञः सर्वज्ञानविशारदः ।

तेषां ज्ञात्वा महापापं कृपां चक्रे सुपुण्यभाक् ३।

सिद्ध उवाच-

अमासोमसमायोगे प्रयागः पुष्करश्च यः ।

अर्घतीर्थं तृतीयं तु वाराणसी चतुर्थका ४।

गच्छंतु तत्र वै यूयं चत्वारः पातकाविलाः ।

गंगांभसि यदा स्नातास्तदा मुक्ता भविष्यथ ५।

पातकेभ्यो न संदेहो निर्मलत्वं गमिष्यथ ।

आदिष्टास्तेन वै सर्वे प्रणेमुस्तं प्रयत्नतः ६।

कालंजरात्ततो जग्मुः सत्वरं पापपीडिताः ।

वाराणसीं समासाद्य स्नात्वा चै वद्विजोत्तमाः ७।

प्रयागं पुष्करं चैव अर्घतीर्थं तु सत्तम ।

अमासोमं सुसंप्राप्य जग्मुस्ते च महापुरीम् ८।

विदुरश्चंद्रशर्मा च वेदशर्मा तृतीयकः ।

वैश्यो वंजुलकश्चैव सुरापः पापचेतनः ९।

तस्मिन्पर्वणि संप्राप्ते स्नाता गंगांभसि द्विज ।

स्नानमात्रेण मुक्तास्तु गोवधाद्यैश्च किल्बिषैः १०।

ब्रह्महत्या गुरुहत्या सुरापानादि पातकैः ।

लिप्तानि तानि तीर्थानि परिभ्रमंति मेदिनीम् ११।

पुष्करो अर्धतीर्थस्तु प्रयागः पापनाशनः ।

वाराणसी चतुर्थी तु लिप्ता पापैर्द्विजोत्तम १२।

कृष्णत्वं पेदिरे सर्वे हंसरूपेण बभ्रमुः ।

सर्वेष्वेव सुतीर्थेषु स्नानं चक्रुर्द्विजोत्तमाः १३।

कृष्णत्वं नैव गच्छेत तेषां पापेन चागतम् ।

सुतीर्थेषु महाराज स्नाताः सर्वेषु वै पुनः १४।

यं यं तीर्थं प्रयांत्येते सर्वे तीर्था द्विजोत्तम ।

हंसरूपेण वै यांति तैः सार्द्धं तु सुदुःखिताः १५।

भार्याः पातकरूपाश्च भ्रमंति परितस्तथा ।

अष्टषष्टिसु तीर्थानि हंसरूपेण बभ्रमुः १६।

तैः सार्द्धं सु महाराज महातीर्थैः समं पुनः ।

मानसं चागतास्ते च पातकाकुलमानसाः १७।

तत्र स्नाता महाराज न जहाति च पातकः ।

लज्जयाविष्टमनसा मानसो हंसरूपधृक् १८।

संजातः कृष्णकायस्तु यं त्वं वै दृष्टवान्पुरा ।

रेवातीरं ततो जग्मुरुत्तरं पापनाशनम् १९।

कुब्जायाः संगमे ते तु सुरसिद्धनिषेविते ।

स्नानमात्रेण मुक्तास्ते पापेभ्यो द्विजसत्तम २०।

विहाय वर्णमेवैतं सुकृतं प्रतिजग्मिरे ।

यं यं तीर्थं प्रयांत्येते हंसाः स्नानं प्रचक्रमुः २१।

जहसुस्ताः स्त्रियो दृष्ट्वा पातकं नैव गच्छति ।

तोयानलेन कुब्जायाः पातकं वरमेव च २२।

भस्मावशेषं संजातं तदा मृतास्तु ताः स्त्रियः ।

ब्रह्महत्या गुरोर्हत्या सुरापानागमागमाः २३।

भस्मीभूतास्तु संजाता रेवायाः कुब्जया हताः ।

तास्तु हता महाभाग या मृतास्तु सरित्तटे २४।

अष्टषष्टि सुतीर्थानां हंसरूपेण तानि तु ।

सार्द्धं हंसः समायातो विद्धि तं त्वं तु मानसम् २५।

चत्वारः कृष्णहंसाश्च तेषां नामानि मे शृणु ।

प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम् २६।

वाराणसी चतुर्थी च चत्वारः पापनाशनाः ।

ब्रह्महत्याभिभूतानि चत्वारि परिबभ्रमुः २७।

तीर्थान्येतानि दुःखेन तीर्थेषु च महामते ।

न गतं पातकं घोरं तेषां तु भ्रमतां सुत २८।

कुब्जायाः संगमे शुद्धा विमुक्ताः किल्बिषात्किल ।

तीर्थानामेव सर्वेषां पुण्यानामिह संमतः २९।

राजा प्रयागः संजात इंद्रस्य पुरतः किल ।

तावद्गर्जंतु तीर्थानि यावद्रेवा न दृश्यते ३०।

ब्रह्महत्यादि पापानां विनाशाय प्रतिष्ठिता ।

कपिलासंगमे पुण्ये रेवायाः संगमे तथा ३१।

मेघनादसमायोगे तथा चैवोरुसंगमे ।

महापुण्या महाधन्या रेवा सर्वत्रदुर्लभा ३२।

सा च ॐकारे भृगुक्षेत्रे नर्मदाकुब्जसंगमे ।

दुःप्राप्या मानवै रेवा माहिष्मत्यां सुरोत्तमैः ३३।

विटंकासंगमे पुण्या श्रीकंठे मंगलेश्वरे ।

सर्वत्र दुर्लभा रेवा सुरपुण्यसमाकुला ३४।

तीर्थमाता महादेवी अघराशिविनाशिनी ।

उभयोः कूलयोर्मध्ये यत्र तत्र सुखी नरः ३५।

अश्वमेधफलं भुंक्ते स्नानेनैकेन मानवः ।

एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ३६।

सर्वपापापहं पुण्यं गतिदं चापिशृण्वताम् ।

एवमुक्त्वा महाप्राज्ञ तृतीयं पुत्रमब्रवीत् ३७।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे द्विनवतितमोऽध्यायः ९२।

खण्डः २ (भूमिखण्डः) — Adhyāya 93

कुंजल उवाच-

किं विज्वल त्वया दृष्टमपूर्वं भ्रमता महीम् ।

आश्चर्येण समायुक्तं तन्मे कथय सुव्रत १।

इतः प्रयासि कं देशमाहारार्थं तु सोद्यमी ।

यद्य दृष्टं त्वया चित्रं समाख्याहि सुतोत्तम २।

विज्वल उवाच-

अस्ति मेरुगिरेः पृष्ठे आनंदं नाम काननम् ।

दिव्यवृक्षैः समाकीर्णंफ लपुष्पमयैः सदा ३।

देववृंदैः समाकीर्णं मुनिसिद्धसमन्वितम् ।

अप्सरोभिः सुरूपाभिर्गंधर्वैः किन्नरोरगैः ४।

वापीकूपतडागैश्च नदीप्रस्रवणैस्तथा ।

आनंदकाननं पुण्यं दिव्यभावैः प्रभासते ५।

विमानैः कोटिसंख्याभिर्हंसकुंदेंदुसन्निभैः ।

गीतकोलाहलैः रम्यैर्मेघध्वनिनिनादितम् ६।

षट्पदानां निनादेन सर्वत्र मधुरायते ।

चंदनैश्चूतवृक्षैश्च चंपकैः पुष्पितैर्वृतम् ७।

नानावृक्षैः प्रभात्येवमानंदवनमुत्तमम् ।

नानापक्षिनिनादेन बहुकोलाहलान्वितम् ८।

एवमानंदनं दृष्टं मया तत्र सुशोभनम् ।

विमलं च सरस्तात शोभते सागरोपमम् ९।

संपूर्णं पुण्यतोयेन पद्मसौगंधिकैः शुभैः ।

जलजैस्तु समाकीर्णं हंसकारंडवान्वितम् १०।

एवमासीत्सरस्तस्य सुमध्ये काननस्य हि ।

देवगंधर्वसंबाधैर्मुनिवृंदैरलंकृतम् ११।

किंनरोरगगंधर्वैश्चारणैश्च सुशोभते ।

तत्राश्चर्यं मया दृष्टं वक्तुं तात न शक्यते १२।

विमानेनापि दिव्येन कलशैरुपशोभते ।

छत्रदंडपताकाभीराजमानेन सत्तम १३।

सर्वभोगाविलेनापि गीयमानेथ किन्नरैः ।

गंधर्वैरप्सरोभिश्च शोभमानोथ सुव्रत १४।

स्तूयमानो महासिद्धऋषिभिस्तत्त्ववेदिभिः ।

रूपेणाप्रतिमो लोके न दृष्टस्तादृशः क्वचित् १५।

सर्वाभरणशोभांगो दिव्यमालाविशोभितः ।

महारत्नकृतामाला यस्योरसि विराजते १६।

तत्समीपे स्थिता चैका नारी दृष्टा वरानना ।

हेमहारैश्च मुक्तानां वलयैः कंकणैर्युता १७।

दिव्यवस्त्रैश्च गंधैश्च चंदनैश्चारुलेपनैः ।

स्तूयमानो गीयमानः पुरुषस्तत्र चागतः १८।

रतिरूपा वरारोहा पीनश्रोणिपयोधरा ।

सर्वाभरणशोभांगी तादृशी रूपसंपदा १९।

द्वावेतौ तौ मया दृष्टौ विमानेनापि चागतौ ।

रूपलावण्यमाधुर्यौ सर्वशोभासमाविलौ २०।

समुत्तीर्णौ विमानात्तावागतौ सरसोन्तिके ।

स्नातौ तात महात्मानौ स्त्रीपुंसौ कमलेक्षणौ २१।

प्रगृह्य तौ महाशस्त्रौ दंपती तु परस्परम् ।

तादृशौ च शवौ तत्र पतितौ सरसस्तटे २२।

प्रभासे ते तदा तौ तु स्त्रीपुंसौ कमलेक्षणौ ।

रूपेणापि महाभाग तादृशावेव तौ शवौ २३।

देवरूपोपमस्तात यथा पुंसस्तथा शवः ।

यथारूपं हि तस्यापि तादृशस्तत्र दृश्यते २४।

यथारूपं तु भार्यायास्तथा शवो द्वितीयकः ।

स्त्रीशवस्य तु यन्मांसं शस्त्रेणोत्कृत्य सा ततः २५।

भक्षते तस्य मांसानि रक्ताप्लुतानि तानि तु ।

पुरुषो भक्षते तद्वच्छवमांसं समातुरः २६।

क्षुधया पीड्यमानौ तौ भक्षेते पिशितं तयोः ।

यावत्तृप्तिं समायातौ तावन्मांसं प्रभक्षितम् २७।

सरस्यथ जलं पीत्वा संजातौ सुखितौ पितः ।

कियत्कालं स्थितौ तत्र विमानेन गतौ पुनः २८।

अन्ये द्वे तु स्त्रियौ तात मया दृष्टे च तत्र वै ।

रूपसौभाग्यसंपन्ने ते स्त्रियौ चारुलक्षणे २९।

ताभ्यां प्रभक्षितं मांसं यदा तात महावने ।

प्रहसेते तदा ते द्वे हास्यैरट्टाट्टकैःपुनः ३०।

भक्षते च स्वमांसानि तावेतौ परिनित्यशः ।

कृत्वा स्नानादिकं मांसं पश्यतो मम तत्र हि ३१।

अन्ये स्त्रियौ महाभाग रौद्रा कारसमन्विते ।

दंष्ट्राकरालवदने तत्रैवाति विभीषणे ३२।

ऊचतुस्तौ तदा ते तु देहिदेहीति वै पुनः ।

एवं दृष्टं मया तात वसता वनसंनिधौ ३३।

नित्यमुत्कीर्य भक्ष्येते तौ द्वौ तु मांसमेव च ।

जायेते च सुसंपूर्णौ कायौ च शवयोः पुनः ३४।

नित्यमुत्तीर्य तावेवं ते चाप्यन्ये च वै पितः ।

कुर्वंति सदृशीं चेष्टां पूर्वोक्तां मम पश्यतः ३५।

एतदाश्चर्य संजातं दृष्टं तात मया तदा ।

भवता पृच्छितं तात दृष्टमाश्चर्यमेव च ३६।

मया ख्यातं तवाग्रे वै सर्वसंदेहकारणम् ।

कथयस्व प्रसादाच्च प्रीयमाणेन चेतसा ३७।

विमानेनागतो योसौ स्त्रिया सार्द्धं द्विजोत्तम ।

दिव्यरूपधरो यस्तु स कस्तु कमलेक्षणः ३८।

का च नारी महाभाग महामांसं प्रभक्षति ।

स कश्चाप्यागतस्तात सा चैवाभ्येत्य भक्षति ३९।

प्रहसेते तदा ते द्वे स्त्रियौ तात वदस्व नः ।

ऊचतुस्तौ तथा चान्ये देहिदेहीति वा पुनः ४०।

तेद्वेत्वं मे समाचक्ष्व महाभीषणके स्त्रियौ ।

एतन्मे संशयं तात छेत्तुमर्हसि सुव्रत ४१।

एवमुक्त्वा महाराज विरराम स चांडजः ।

एवं पृष्टस्तृतीयेन विज्वलेनात्मजेन सः ४२।

प्रोवाच सर्वं वृत्तांतं च्यवनस्यापि शृण्वतः ४३।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे त्रिनवतितमोऽध्यायः ९३।

खण्डः २ (भूमिखण्डः) — Adhyāya 94

कुंजल उवाच-

श्रूयतामभिधास्यामि तत्सर्वं कारणं सुत ।

यस्मात्तौ तादृशौ जातौ स्वमांसपरिभक्षकौ १।

सर्वत्र कारणं कर्म शुभाशुभं न संशयः ।

पुण्येन कर्मणा पुत्र नरः सौख्यं प्रभुंजति २।

दुष्कृतं भुंजते चात्र पापयुक्तेन कर्मणा ।

सूक्ष्मवर्त्मविचार्यैवं शास्त्रज्ञानेन चक्षुषा ३।

स्थूलधर्मं प्रदृष्ट्वैव सुविचार्य पुनः पुनः ।

समारभेन्नरः कर्म मनसा निपुणेन च ४।

समूर्तिकारकः शिल्पी रसमावर्त्तयेद्यथा ।

अग्नेश्च तेजसा पुत्र ज्वालाभिश्च समंततः ५।

द्रवीभूतो भवेद्धातुर्वह्निना तापितः शनैः ।

यादृशं वत्स भक्ष्यंतु रसपक्वं निषेच्यते ६।

तादृशं जायते वत्स रूपं चैव न संशयः ।

यादृशं क्रियते कर्म तादृशं परिभुज्यते ७।

कर्म एव प्रधानं यद्वर्षारूपेण वर्त्तते ।

क्षेत्रेषु यादृशं बीजं वपते कृषिकारकः ८।

तादृशं भुंजते तात फलमेव न संशयः ।

यादृशं क्रियते कर्म तादृशं परिभुज्यते ९।

विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ।

कर्म दायादका लोके कर्म संबंधिबांधवाः १०।

कर्माणि चोदयंतीह पुरुषं सुखदुःखयोः ।

सुवर्णं रजतं वापि यथारूपं निषिच्यते ११।

तथा निषिच्यते जंतुः पूर्वकर्मवशानुगः ।

पंचैतानीह दृश्यंते गर्भस्थस्यैव देहिनः १२।

आयुः कर्म च वित्तं च विद्यानि धनमेव च ।

यथा मृत्पिंडकं कर्त्ता कुरुते यद्यदिच्छति १३।

तथा कर्मकृतं चैव कर्त्तारं प्रतिपद्यते ।

देवत्वमथ मानुष्यं पशुत्वं पक्षितां तथा १४।

तिर्यक्त्वं स्थावरत्वं वा याति जंतुः स्वकर्मभिः ।

स एव तु तथा भुंक्ते नित्यं विहितमात्मनः १५।

आत्मना विहितं दुःखमात्मना विहितं सुखम् ।

गर्भशय्यामुपादाय भुंजते पूर्वदेहिकम् १६।

पूर्वदेहकृतं कर्म न कश्चित्पुरुषोत्तमः ।

बलेन प्रज्ञया वापि समर्थः कर्तुमन्यथा १७।

स्वकृतान्येव भुंजंति दुःखानि च सुखानि च ।

हेतुतः कारणैर्वापि सोहं कारेण बाध्यते १८।

यथा धेनुसहस्रेषु वत्सो विंदति मातरम् ।

तद्वच्छुभाशुभं कर्म कर्तारमनुगच्छति १९।

उपभोगादृते यस्य नाश एव न विद्यते ।

प्राक्तनं बंधनं कर्म कोन्यथाकर्तुमर्हति २०।

सुशीघ्रमनुधावंतं विधानमनुधावति ।

शोभते संनिपातेन यथाकर्म पुराकृतम् २१।

उपतिष्ठति तिष्ठंतं गच्छं तमनुगच्छति ।

करोति कुर्वतः कर्मच्छायेवानु विधीयते २२।

यथा छायातपौ नित्यं सुसंबद्धौ परस्परम् ।

उपसर्गा हि विषया उपसर्गा जरादयः २३।

पीडयंति नरं पश्चात्पीडितं पूर्वकर्मणा ।

येन यत्रोपभोक्तव्यं दुःखं वा सुखमेव च २४।

स तत्र बद्ध्वा रज्ज्वेव बलाद्दैवेन नीयते ।

दैवं प्राहुश्च भूतानां सुखदुःखोपपादनम् २५।

अन्यथा कर्मतच्चिंत्यं जाग्रतः स्वपतोपि वा ।

अन्यथा ह्युद्यते दैवं बध्यते च जिघांसति २६।

शस्त्राग्निविषदुर्गेभ्यो रक्षितव्यं सुरक्षति ।

यथा पृथिव्यां बीजानि वृक्षगुल्मतृणान्यपि २७।

तथैवात्मनि कर्माणि तिष्ठंति प्रभवंति च ।

तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति २८।

कर्मक्षयात्तथा जंतोः शरीरं नाशमृच्छति ।

कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतम् २९।

विविधाः प्राणिनां रोगाः स्मृतास्तेषां च हेतवः ।

तस्मात्तत्त्वप्रधानस्तु कर्म एव हि प्राणिनाम् ३०।

यत्पुरा क्रियते कर्म तदिहैव प्रभुज्यते ।

यत्त्वया दृष्टमेवापि पृच्छितं तात सांप्रतम् ३१।

तस्यार्थं तु मया प्रोक्तं भुंजाते तौ हि सांप्रतम् ।

आनंदे कानने दृष्टं तयोः कर्मसुदारुणम् ३२।

तयोश्चेष्टां प्रवक्ष्यामि शृणु वत्स प्रभाषतः ।

कर्मभूमिरियं तात अन्या भोगार्थभूमयः ३३।

सर्गादीनां महाप्राज्ञ तासु गत्वा सुभुंजति ।

सूत उवाच-

चौलदेशे महाप्राज्ञः सुबाहुर्नाम भूमिपः ३४।

रूपवान्गुणवान्धीरः पृथिव्यां नास्ति तादृशः ।

विष्णुभक्तो महाप्राज्ञो वैष्णवानां च सुप्रियः ३५।

कर्मणा त्रिविधेनापि प्रध्यायन्मधुसूदनम् ।

अश्वमेधादिकान्यज्ञान्यजेत सकलान्नृप ३६।

पुरोधास्तस्य चैवास्ति जैमिनिर्नाम ब्राह्मणः ।

स चाहूय सुबाहुं तमिदं वचनमब्रवीत् ३७।

राजन्देहि सुदानानि यैः सुखं तु प्रभुंज्यत ।

दानैस्तु तरते लोकान्दुर्गान्प्रेत्य गतो नरः ३८।

दानेन सुखमाप्नोति यशः प्राप्नोति शाश्वतम् ।

दानेन चातुला कीर्तिर्जायते मृत्युमंडले ३९।

यावत्कीर्तिः स्थिता चात्र तावत्कर्ता दिवं वसेत् ।

तद्दानं दुष्करं प्राहुर्दातुं नैव प्रशक्यते ४०।

तस्मात्सर्वप्रयत्नेन दातव्यं मानवैः सदा ।

सुबाहुरुवाच-

दानाच्च तपसो वापि द्वयोर्मध्ये सुदुष्करम् ४१।

किं वा महत्फलं प्रेत्य तन्मे ब्रूहि द्विजोत्तम ।

जैमिनिरुवाच-

दानान्न दुष्करतरं पृथिव्यामस्ति किंचन ४२।

राजन्प्रत्यक्षमेवैकं दृश्यते लोकसाक्षिकम् ।

परित्यज्य प्रियान्प्राणान्धनार्थं लोभमोहिताः ४३।

प्रविशंति नरा लोके समुद्रमटवीं तथा ।

सेवामन्ये प्रपद्यंतेऽश्ववृत्तिरिति या स्थिता ४४।

हिंसाप्रायां बहुक्लेशां कृषिं चैव तथा पुरा ।

तस्य दुःखार्जितस्यापि प्राणेभ्योपि गरीयसः ४५।

अर्थस्य पुरुषव्याघ्र परित्यागः सुदुष्करः ।

विशेषतो महाराज तस्य न्यायार्जितस्य च ४६।

श्रद्धया विधिवत्पात्रे दत्तस्यांतो न विद्यते ।

श्रद्धा धर्मसुता देवी पावनी विश्वतारिणी ४७।

सावित्री प्रसवित्री च संसारार्णवतारिणी ।

श्रद्धया साध्यते धर्मो महद्भिर्न्नार्थराशिभिः ४८।

निष्किंचनास्तु मुनयः श्रद्धाधर्मा दिवं गताः ।

संति दानान्यनेकानि नानाभेदैर्नृपोत्तम ४९।

अन्नदानात्परं नास्ति प्राणिनां गतिदायकम् ।

तस्मादन्नं प्रदातव्यं पयसा च समन्वितम् ५०।

मधुरेणापि पुण्येन वचसा च समन्वितम् ।

नास्त्यन्नात्तु परं दानमिहलोके परत्र च ५१।

तारणाय हितायैव सुखसंपत्तिहेतवे ।

श्रद्धया विधिवत्पात्रे निर्मलेनापि चेतसा ५२।

अन्नैकस्य प्रदानस्य फलं भुंक्ते भवेन्नरः ।

ग्रासाद्ग्रासं प्रदातव्यं मुष्टिप्रस्थं न संशयः ५३।

अक्षयं जायते तस्य दानस्यापि महाफलम् ।

न च प्रस्थं न वा मुष्टिं नरस्य हि न संभवेत् ५४।

अनास्तिक्यप्रभावेण पर्वणि प्राप्य मानवः ।

श्रद्धया ब्राह्मणं चैकं भक्त्या चैव प्रभोजयेत् ५५।

एकस्यापि प्रधानस्य अन्नस्यापि प्रजेश्वर ।

जन्मांतरं सुसंप्राप्य नित्यं चान्नं प्रभुंजति ५६।

पूर्वजन्मनि यद्दत्तं भक्त्या पात्रे सकृन्नरैः ।

जन्मांतरं सुसंप्राप्य नित्यमेव भुनक्ति च ५७।

अन्नदानं प्रयच्छंति ब्राह्मणेभ्यो हि नित्यशः ।

मिष्टान्नपानं भुंजंति ते नरा अन्नदायिनः ५८।

अन्नमेव वदंत्येत ऋषयो वेदपारगाः ।

प्राणभूतं न संदेहममृताद्धि समुद्भवम् ५९।

प्राणास्तेन प्रदत्ता हि येन चान्नं समर्पितम् ।

अन्नदानं महाराज देहि त्वं तु प्रयत्नतः ६०।

एवमाकर्ण्य वै राजा जैमिनेस्तु महात्मनः ।

पुनः पप्रच्छ तं विप्रं जैमिनिं ज्ञानपंडितम् ६१।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे चतुर्नवतितमोऽध्यायः ९४।

खण्डः २ (भूमिखण्डः) — Adhyāya 95

सुबाहुरुवाच-

स्वर्गस्य मे गुणान्ब्रूहि सांप्रतं द्विजसत्तम ।

एतत्सर्वं द्विजश्रेष्ठ करिष्यामि स्वभाविकम् १।

जैमिनिरुवाच-

नंदनादीनि रम्याणि दिव्यानि विविधानि च ।

तत्रोद्यानानि पुण्यानि सर्वकामयुतानि च २।

सर्वकामफलैर्वृक्षैः शोभनानि समंततः ।

विमानानि सुदिव्यानि सेवितान्यप्सरोगणैः ३।

सर्वत्रैव विचित्राणि कामगानि वशानि च ।

तरुणादित्यवर्णानि मुक्ताजालांतराणि च ४।

चंद्रमंडलशुभ्राणि हेमशय्यासनानि च ।

सर्वकामसमृद्धाश्च सर्वदुःखविवर्जिताः ५।

नराः सुकृतिनस्तेषु विचरंति यथा भुवि ।

न तत्र नास्तिका यांति न स्तेना नाजितेंद्रियाः ६।

न नृशंसा न पिशुना न कृतघ्ना न मानिनः ।

सत्यास्तपःस्थिताः शूरा दयावंतः क्षमापराः ७।

यज्वानो दानशीलाश्च तत्र गच्छंति ते नराः ।

न रोगो न जरामृत्युर्न शोको न हिमातपौ ८।

न तत्र क्षुत्पिपासा च कस्य ग्लानिर्न विद्यते ।

एते चान्ये च बहवो गुणाः स्वर्गस्य भूपते ९।

दोषास्तत्रैव ये संति ताञ्छृणुष्व च सांप्रतम् ।

शुभस्य कर्मणः कृत्स्नं फलं तत्रैव भुज्यते १०।

न चात्र क्रियते भूयः सोऽत्र दोषो महान्स्मृतः ।

असंतोषश्च भवति दृष्ट्वा दीप्तां परां श्रियम् ११।

सुखव्याप्तमनस्कानां सहसा पतनं तथा ।

इह यत्क्रियते कर्म फलं तत्रैव भुज्यते १२।

कर्मभूमिरियं राजन्फलभूमिरसौ स्मृता ।

सुबाहुरुवाच-

महांतस्तु इमे दोषास्त्वया स्वर्गस्य कीर्तिताः १३।

निर्दोषाः शाश्वता येन्ये तांस्त्वं लोकान्वद द्विज ।

जैमिनिरुवाच-

आब्रह्मसदनादेव दोषाः संति च वै नृप १४।

अतएव हि नेच्छंति स्वर्गप्राप्तिं मनीषिणः ।

आब्रह्मसदनादूर्ध्वं तद्विष्णोः परमं पदम् १५।

शुभं सनातनं ज्योतिः परंब्रह्मेति तद्विदुः ।

न तत्र मूढा गच्छंति पुरुषा विषयात्मकाः १६।

दंभमोहभयद्रोह क्रोधलोभैरभिद्रुताः ।

निर्ममा निरहंकारा निर्द्वंद्वास्संयतेंद्रियाः १७।

ध्यानयोगरताश्चैव तत्र गच्छंति साधवः ।

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि १८।

एवं स्वर्गगुणं श्रुत्वा सुबाहुः पृथिवीपतिः ।

तमुवाच महात्मानं जैमिनिं वदतांवरम् १९।

सुबाहुरुवाच-

नाहं स्वर्गं गमिष्यामि न चैवेच्छाम्यहं मुने ।

यस्माच्च पतनं प्रोक्तं तत्कर्म न करोम्यहम् २०।

दानमेकं महाभाग नाहं दास्येकदाध्रुवम् ।

दानाच्च फललोभाच्च तस्मात्पतति वै नरः २१।

इत्येवमुक्त्वा धर्मात्मा सुबाहुः पृथिवीपतिः ।

ध्यानयोगेन देवेशं यजिष्ये कमलाप्रियम् २२।

दाहप्रलयसंवर्जं विष्णुलोकं व्रजाम्यहम् ।

जैमिनिरुवाच-

सत्यमुक्तं त्वया भूप सर्वश्रेयः समाकुलम् २३।

राजानो धर्मशीलाश्च महायज्ञैर्यजंति ते ।

सर्वदानानि दीयंते यज्ञेषु नृपनंदन २४।

आदावन्नं तु यज्ञेषु वस्त्रं तांबूलमेव च ।

कांचनं भूमिदानं च गोदानं प्रददंति च २५।

सुयज्ञैर्वैष्णवं लोकं ते प्रयांति नरोत्तमाः ।

दानेन तृप्तिमायांति संतुष्टाः संति भूमिपाः २६।

तपस्विनो महात्मानो नित्यमेवं यजंति ते ।

सुभिक्षां याचयित्वा तु स्वस्थानं तु समागताः २७।

भिक्षार्थं तस्य भागानि प्रकुर्वंति च भूपते ।

ब्राह्मणाय विभागैकं गोग्रासं तु महामते २८।

सुपार्श्ववर्तिनां चैकं प्रयच्छंति तपोधनाः ।

तस्यान्नस्य प्रदानेन फलं भुंजंति मानवाः २९।

क्षुधातृषाविहीनास्ते विष्णुलोकं व्रजंति वै ।

तस्मात्त्वमपि राजेंद्र देहि न्यायार्जितं धनम् ३०।

दानाज्ज्ञानं ततः प्राप्य ज्ञानात्सिद्धिं प्रयास्यति ।

य इदं शृणुयान्मर्त्यः पुण्याख्यानमनुत्तमम् ३१।

तस्य सर्वार्थसिद्धिः स्यात्पापं सर्वं विलीयते ।

विमुक्तः सर्वपापेभ्यो विष्णुलोकं सगच्छति ३२।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे पंचनवतितमोऽध्यायः ९५।

खण्डः २ (भूमिखण्डः) — Adhyāya 96

सुबाहुरुवाच-

कीदृशैः कर्मभिः प्रेत्य गच्छंति नरकं नराः ।

स्वर्गं तु कीदृशैः प्रेत्य तन्मे त्वं वक्तुमर्हसि १।

जैमिनिरुवाच-

ब्राह्मण्यं पुण्यमुत्सृज्य ये द्विजा लोभमोहिताः ।

कुकर्माण्युपजीवंति ते वै निरयगामिनः २।

नास्तिका भिन्नमर्यादाः कंदर्पविषयोन्मुखाः ।

दांभिकाश्च कृतघ्नाश्च ते वै निरयगामिनः ३।

ब्राह्मणेभ्यः प्रतिश्रुत्य न प्रयच्छंति ये धनम् ।

ब्रह्मस्वानां च हर्तारो नरा निरयगामिनः ४।

पुरुषाः पिशुनाश्चैव मानिनोऽनृतवादिनः ।

असंबद्धप्रलापाश्च ते वै निरयगामिनः ५।

ये परस्वापहर्तारः परदूषणसूचकाः ।

परस्त्रीगामिनो ये च ते वै निरयगामिनः ६।

प्राणिनां प्राणहिंसायां ये नरा निरताः सदा ।

परनिंदारता ये वै ते वै निरयगामिनः ७।

सुकूपानां तडागानां प्रपानां च परंतप ।

सरसां चैव भेत्तारो नरा निरयगामिनः ८।

विपर्यस्यंति ये दाराञ्छिशून्भृत्यातिथींस्तथा ।

उत्सन्नपितृदेवेज्या नरा निरयगामिनः ९।

प्रव्रज्यादूषका राजन्ये चैवाश्रमदूषकाः ।

सखीनां दूषकाश्चैव ते वै निरयगामिनः १०।

आद्यं पुरुषमीशानं सर्वलोकमहेश्वरम् ।

न चिंतयंति ये विष्णुं ते वै निरयगामिनः ११।

प्रयाजानां मखानां च कन्यानां सुहृदां तथा ।

साधूनां च गुरूणां च दूषका निरयगामिनः १२।

काष्ठैर्वा शंकुभिर्वापि शून्यैरश्मभिरेव वा ।

ये मार्गानुपरुंधंति ते वै निरयगामिनः १३।

सर्वभूतेष्वविश्वस्ताः कामेनार्तास्तथैव च ।

सर्वभूतेषु जिह्माश्च ते वै निरयगामिनः १४।

आगतान्भोजनार्थं तु ब्राह्मणान्वृत्तिकर्शितान् ।

प्रतिषेधं च कुर्वंति ते वै निरयगामिनः १५।

क्षेत्रवृत्तिगृहच्छेदं प्रीतिच्छेदं च ये नराः ।

आशाच्छेदं प्रकुर्वंति ते वै निरयगामिनः १६।

शस्त्राणां चैव कर्त्तारः शल्यानां धनुषां तथा ।

विक्रेतारश्च राजेंद्र नरा निरयगामिनः १७।

अनाथं विक्लवं दीनं रोगार्त्तं वृद्धमेव च ।

नानुकंपंति ये मूढास्ते वै निरयगामिनः १८।

नियमान्पूर्वमादाय ये पश्चादजितेंद्रियाः ।

अतिक्रामंति चांचल्यात्ते वै निरयगामिनः १९।

इत्येते कथिता राजन्नरा निरयगामिनः ।

स्वर्गलोकस्य गंतारो ये जनास्तान्निबोध मे २०।

सत्येन तपसा क्षांत्या दानेनाध्ययनेन च ।

ये धर्ममनुवर्तंते ते नराः स्वर्गगामिनः २१।

ये च होमपरा ध्यानदेवतार्चनतत्पराः ।

आददाना महात्मानस्ते नराः स्वर्गगामिनः २२।

शुचयश्च शुचौ देशे वासुदेवपरायणाः ।

पठंति विष्णुं गायंति ते नराः स्वर्गगामिनः २३।

मातापित्रोश्च शुश्रूषां ये कुर्वंति सदादृताः ।

वर्जयंति दिवास्वप्नं ते नराः स्वर्गगामिनः २४।

सर्वहिंसानिवृत्ताश्च साधुसंगाश्च ये नराः ।

सर्वस्यापि हिते युक्तास्ते नराः स्वर्गगामिनः २५।

सर्वलोभनिवृत्ताश्च सर्वसाहाश्च ये नराः ।

सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः २६।

शुश्रूषाभिस्तपोभिश्च गुरूणां मानदा नराः ।

प्रतिग्रहनिवृत्ता ये ते नराः स्वर्गगामिनः २७।

सहस्रपरिवेष्टारस्तथैव च सहस्रदाः ।

त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः २८।

भयात्पापात्तपाच्छोकाद्दारिद्र्यव्याधिकर्शितान् ।

विमुंचंति च ये जंतूंस्ते नराः स्वर्गगामिनः २९।

आत्मस्वरूपवंतश्च यौवनस्थाश्च भारत ।

ये वै जितेंद्रिया धीरास्ते नराः स्वर्गगामिनः ३०।

सुवर्णस्य च दातारो गवां भूमेश्च भारत ।

अन्नानां वाससां चैव ते नराः स्वर्गगामिनः ३१।

ये याचिताः प्रहृष्यंति प्रियं दत्वा वदंति च ।

त्यक्तदानफलेच्छाश्च ते नराः स्वर्गगामिनः ३२।

निवेशनानां धान्यानां नराणां च परंतप ।

स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ३३।

द्विषतामपि ये दोषान्न वदंति कदाचन ।

कीर्तयंति गुणान्ये च ते नराः स्वर्गगामिनः ३४।

ये परेषां श्रियं दृष्ट्वा न वितप्यंति मत्सरात् ।

प्रहृष्टाश्चाभिनंदंति ते नराः स्वर्गगामिनः ३५।

प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च ।

आचरंति महात्मानस्ते नराः स्वर्गगामिनः ३६।

ये नराणां वचो वक्तुं न जानंति च विप्रियम् ।

प्रियवाक्यैकविज्ञातास्ते नराः स्वर्गगामिनः ३७।

ये नामभागान्कुर्वंति क्षुत्तृष्णा श्रमपीडिताः ।

हंतकारस्य कर्तारस्ते नराः स्वर्गगामिनः ३८।

वापीकूपतडागानां प्रपानां चैव वेश्मनाम् ।

आरामाणां च कर्तारस्ते नराः स्वर्गगामिनः ३९।

असत्येष्वपि ये सत्या ऋजवो नार्जवेष्वपि ।

रिपुष्वपिहिता ये च ते नराः स्वर्गगामिनः ४०।

यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः ।

सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः ४१।

कुर्वंत्यवंध्यं दिवसं धर्मेणैकेन सर्वदा ।

व्रतं गृह्णंति ये नित्यं ते नराः स्वर्गगामिनः ४२।

आक्रोशंतं स्तुवंतं च तुल्यं पश्यंति ये नराः ।

शांतात्मानो जितात्मानस्ते नराः स्वर्गगामिनः ४३।

ये चापि भयसंत्रस्तान्ब्राह्मणांश्च तथा स्त्रियः ।

सार्थान्वा परिरक्षंति ते नराः स्वर्गगामिनः ४४।

गंगायां पुष्करे तीर्थे गयायां च विशेषतः ।

पितृपिंडप्रदातारस्ते नराः स्वर्गगामिनः ४५।

न वशे चेंद्रियाणां च ये नराः संयमस्थिताः ।

त्यक्तलोभभयक्रोधास्ते नराः स्वर्गगामिनः ४६।

यूका मत्कुणदंशादीन्ये जंतूंस्तुदतस्तनुम् ।

पुत्रवत्परिरक्षंति ते नराः स्वर्गगामिनः ४७।

अज्ञानाच्च यथोक्तेन विधिना संचयंति च ।

सर्वद्वंद्वसहा लोके ते नराः स्वर्गगामिनः ४८।

ये पूताः परदारांश्च कर्मणा मनसा गिरा ।

रमयंति न सत्वस्थास्ते नराः स्वर्गगामिनः ४९।

निंदितानि न कुर्वंति कुर्वंति विहितानि च ।

आत्मशक्तिं विजानंति ते नराः स्वर्गगामिनः ५०।

एवं ते कथितं सर्वं मया तत्त्वेन पार्थिव ।

दुर्गतिः सद्गतिश्चैव प्राप्यते कर्मभिर्यथा ५१।

नरः परेषां प्रतिकूलमाचरन्प्रयाति घोरं नरकं सुदारुणम् ।

सदानुकूलस्य नरस्य जीविनः सुखावहा मुक्तिरदूरसंस्थिता ५२।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे षण्णवतितमोऽध्यायः ९६।

खण्डः २ (भूमिखण्डः) — Adhyāya 97

सप्तनवतितमोऽध्यायः ।

कुंजल उवाच-

एवमाकर्ण्य तां राजा मुनिना भाषितां तदा ।

धर्माधर्मगतिं सर्वां तं मुनिं समभाषत १।

सुबाहुरुवाच-

सोहं धर्मं करिष्यामि सोहं पुण्यं द्विजोत्तम ।

वासुदेवं जगद्योनिं यजिष्ये नितरां मुने २।

होमेन तु जपेनैव पूजयेन्मधुसूदनम् ।

यष्ट्वा यज्ञं तपस्तप्त्वा विष्णुलोकं स भूपतिः ३।

पूजितः सर्वकामैश्च प्राप्तवान्सत्वरं मुदा ।

गते तस्मिन्महालोके देवदेवं न पश्यति ४।

क्षुधा जाता महातीव्रा तृष्णा चाति प्रवर्तते ।

तयोश्चापि महाप्राज्ञ जीवपीडाकरा बहु ५।

राजापि प्रियया सार्द्धं क्षुधातृष्णाप्रपीडितः ।

न पश्यति हृषीकेशं दुःखेन महतान्वितः ६।

सूत उवाच-

एवं स दुःखितो राजा प्रियया सह सत्तम ।

आकुल व्याकुलो जातः पीडितः क्षुधया भृशम् ७।

इतश्चेतश्च वेगैश्च धावते वसुधाधिपः ।

सर्वाभरणशोभांगो वस्त्रचंदनभूषितः ८।

पुष्पमालाप्रशोभांगो हारकुंडलकंकणैः ।

रत्नदीप्तिप्रशोभांगः प्रययौ स महीपतिः ९।

एवं दुःखसमाचारः स्तूयमानश्च पाठकैः ।

दुःखशोकसमाविष्टः स्वप्रियां वाक्यमब्रवीत् १०।

विष्णुलोकमहं प्राप्तस्त्वया सह सुशोभने ।

ऋषिभिः स्तूयमानोपि विमानेनापि भामिनि ११।

कर्मणा केन मे चेयं क्षुधातीव प्रवर्द्धते ।

विष्णुलोकं च संप्राप्य न दृष्टो मधुसूदनः १२।

तत्किं हि कारणं भद्रे न भुनज्मि महत्फलम् ।

कर्मणाथ निजेनापि एतद्दुःखं प्रवर्त्तते १३।

सैवं श्रुत्वा च तद्वाक्यं राजानमिदमब्रवीत् १४।

भार्योवाच-

सत्यमुक्तं त्वया राजन्नास्ति धर्मस्य वै फलम् ।

वेदशास्त्रपुराणेषु ये पठंति च ब्राह्मणाः १५।

दुःखशोकौ विधूयेह सर्वदोषैः प्रमुच्यते ।

नामोच्चारेण देवस्य विष्णोश्चैव सुचक्रिणः १६।

पुण्यात्मानो महाभागा ध्यायमाना जनार्दनम् ।

त्वयैवाराधितो देवः शंखचक्रगदाधरः १७।

अन्नादिदानं विप्रेभ्यो न प्रदत्तं द्विजोदितम् ।

फलं तस्य प्रजानामि न दृष्टो मधुसूदनः १८।

क्षुधा मे बाधते राजंस्तृष्णा चैव प्रशोषयेत् ।

कुंजल उवाच-

एवमुक्तस्तु प्रियया राजा चिंताकुलेंद्रियः १९।

ततो दृष्ट्वा महापुण्यमाश्रमं श्रमनाशनम् ।

दिव्यवृक्षसमाकीर्णं तडागैरुपशोभितम् २०।

वापीकुंडतडागैश्च पुण्यतोयप्रपूरितैः ।

हंसकारंडवाकीर्णं कह्लारैरुपशोभितम् २१।

आश्रमः शोभते पुत्र मुनिभिस्तत्त्ववेदिभिः ।

दिव्यवृक्षसमाकीर्णं मृगव्रातैश्च शोभितम् २२।

नानापुष्पसमाकीर्णं हृद्यगंधसमाकुलम् ।

द्विजसिद्धैः समाकीर्णमृषिशिष्यैः समाकुलम् २३।

योगियोगेंद्र संघुष्टं देववृंदैरलंकृतम् ।

कदलीवनसंबाधैः सुफलैः परिशोभितम् २४।

नानावृक्षसमाकीर्णं सर्वकामसमन्वितम् ।

श्रीखंडैश्चारुगंधैश्च सुफलैः शोभितं सदा २५।

एवं पुण्यं समाकीर्णं ब्रह्मलक्ष्मसमायुतम् ।

स सुबाहुस्ततो राजा तया सुप्रियया सह २६।

प्रविवेश महापुण्यं तद्वनं सर्वकामदम् ।

भासमानो दिशः सर्वा यत्रास्ते सूर्यसंनिभः २७।

राजमानो महादीप्त्या परया सूर्यसंनिभः ।

योगासनसमारूढो योगपट्टेन संवृतः २८।

वामदेवऋषिश्रेष्ठो वैष्णवानां वरस्तथा ।

ध्यायमानो हृषीकेशं भुक्तिमुक्तिप्रदायकम् २९।

वामदेवं महात्मानं तं दृष्ट्वा मुनिसत्तमम् ।

त्वरं गत्वा प्रणम्यैव स राजा प्रियया सह ३०।

वामदेवस्ततो दृष्ट्वा प्रणतं राजसत्तमम् ।

आशीर्भिरभिनंद्यैव राजानं प्रिययान्वितम् ३१।

उपवेश्यासने पुण्ये सुबाहुं राजसत्तमम् ।

आसनादि ततः पाद्यैरर्घपूजादिभिस्तथा ३२।

मुनिना पूजितो भूपः प्रियया सह चागतः ।

अथ पप्रच्छ राजानं महाभागवतोत्तमम् ३३।

वामदेव उवाच-

त्वामहं विष्णुधर्मज्ञं विष्णुभक्तं नरोत्तमम् ।

जाने ज्ञानेन राजेंद्र दिव्येन चोलभूमिपम् ३४।

निरामयश्चागतोसि तार्क्ष्यया भार्यया सह ।

राजोवाच-

निरामयश्चागतोऽस्मि प्राप्तो विष्णोः परं पदम् ३५।

मया हि परया भक्त्या देवदेवो जनार्दनः ।

आराधितो जगन्नाथो भक्तिप्रीतः सुरेश्वरम् ३६।

कस्मात्पश्याम्यहं तात न देवं कमलापतिम् ।

क्षुधा मे बाधते तात तृष्णातीव सुदारुणा ३७।

ताभ्यां शांतिं न गच्छाव सुखं विंदाव नैव च ।

एतन्मेकारणं दुःखं संजातं मुनिसत्तम ३८।

तन्मे त्वं कारणं ब्रूहि प्रसादात्सुमुखो भव ।

वामदेव उवाच-

त्वं तु भक्तोसि राजेंद्र श्रीकृष्णस्य सदैव हि ३९।

आराधितस्त्वया भक्त्या परया मधुसूदनः ।

भक्त्योपचारैः स्नानाद्यैर्गंधपुष्पादिभिस्तथा ४०।

न पूजितोऽथ नैवेद्यैः फलैश्च जगतांपतिः ।

दशमीं प्राप्य राजेंद्र त्वयैव च सदा कृतम् ४१।

एकभक्तं न दत्तं तु ब्राह्मणाय सुभोजनम् ।

एकादशीं तु संप्राप्य न कृतं भोजनं त्वया ४२।

विष्णुमुद्दिश्य विप्राय न दत्तं भोजनं त्वया ।

अन्नं चामृतरूपेण पृथिव्यां संस्थितं सदा ४३।

अन्नदानं विशेषेण कदा दत्तं न हि त्वया ।

ओषध्यश्च महाराज नानाभेदास्तु ताः शृणु ४४।

कटु तिक्त कषायाश्च मधुराम्लाश्च क्षारकाः ।

हिंग्वाद्योपस्कराः सर्वे नानारूपाश्च भूपते ४५।

अमृताज्जज्ञिरे सर्वा ओषध्यः पुष्टिहेतवः ।

अन्नमेव सुसंस्कृत्य औषधव्यंजनान्वितम् ४६।

देवेभ्यो विष्णुरूपेभ्य इति संकल्प्य दीयते ।

पितृभ्यो विष्णुरूपेभ्यो हस्ते च ब्राह्मणस्य हि ४७।

अतिथिभ्यस्ततो दत्वा परिजनं प्रभोजयेत् ।

स्वयं तु भुंजते पश्चात्तदन्नममृतोपमम् ४८।

प्रेत्य दुःखं न चैवास्ति तस्य सौख्यं तु भूपते ।

ब्राह्मणाः पितरो देवाः क्षत्ररूपाश्च भूपते ४९।

यथा हि कर्षकः कश्चित्सुकृषिं कुरुते सदा ।

तद्वन्मर्त्यः कृषिं कुर्यात्क्षेत्रे विप्रास्यके नृप ५०।

स्वभावलांगलेनापि श्रद्धा शस्त्रेण भेदयेत् ।

वृषभौ तु मतौ नित्यं बुद्धिश्चैव तपस्तथा ५१।

सत्यज्ञानानुभावीशः शुद्धात्मा तु प्रतोदकः ।

विप्रनाम्नि महाक्षेत्रे नमस्कारैर्विसर्जयेत् ५२।

स्फोटयेत्कल्मषं नित्यं कृषिको हि यथा नृप ।

क्षेत्रस्य उद्यमे युक्तो विष्णुकामः प्रसादयेत् ५३।

तद्वद्वाक्यैः शुभैः पुण्यैर्विप्रांश्चापि प्रसादयेत् ।

पर्वतीर्थाप्तिकालश्च घनरूपोभिवर्षणे ५४।

वप्तुकामो भवेत्क्षेत्री ततः क्षेत्रे प्रवापयेत् ।

तद्वद्भूपप्रसन्नाय विप्राय परिदीयते ५५।

क्षेत्रस्य उप्तबीजस्य यथा क्षेत्री प्रभुंजति ।

फलमेव महाराज तथा दाता भुनक्ति च ५६।

प्रेत्य चात्रैव नित्यं च तृप्तो भवति नान्यथा ।

ब्राह्मणाः पितरो देवाः क्षेत्ररूपा न संशयः ५७।

मानवानां महाराज वापिताः प्रददंति च ।

फलमेवं न संदेहो यादृशं तादृशं ध्रुवम् ५८।

कटुकाद्धि न जायेत राजन्मधुर एव च ।

तद्वच्च मधुराख्याच्च न जायेत्कटुकः पुनः ५९।

यादृशं वपते बीजं तादृशं फलमश्नुते ।

न वापयति यः क्षेत्रं न स भुंजति तत्फलम् ६०।

तद्वद्विप्राश्च देवाश्च पितरः क्षेत्ररूपिणः ।

दर्शयंति फलं राजन्दत्तस्यापि न संशयः ६१।

यादृशं हि कृतं कर्म त्वयैव च शुभाशुभम् ।

तादृशं भुंक्ष्व वै राजन्नन्यथा तन्न जायते ६२।

न पुरा देवविप्रेभ्यः पितृभ्यश्च कदाचन ।

मिष्टान्नपानमेवापि दत्तं सुमनसा तदा ६३।

सुभोज्यैर्भोजनैर्मृष्टैर्मधुरैश्चोष्यपेयकैः ।

सुभक्ष्यैरात्मना भुक्तं कस्मै दत्तं न च त्वया ६४।

स्वशरीरं त्वया पुष्टमन्नैरमृतसन्निभैः ।

यस्मात्कृतं महाराज तस्मात्क्षुधा प्रवर्तते ६५।

कर्मैव कारणं राजन्नराणां सुखदुःखयोः ।

जन्ममृत्य्वोर्महाभाग भुंक्ष्व तत्कर्मणः फलम् ६६।

पूर्वेपि च महात्मानो दिवं प्राप्ताः स्वकर्मणा ।

पुनः प्रयाता भूर्लोकं कर्मणः क्षयकालतः ६७।

नलो भगीरथश्चैव विश्वामित्रो युधिष्ठिरः ।

कर्मणैव हि संप्राप्ताः स्वर्गं राजन्स्वकालतः ६८।

दिष्टं हि प्राक्तनं कर्म तेन दुःखं सुखं लभेत् ।

तदुल्लंघयितुं राजन्कः समर्थोपि हीश्वरः ६९।

अथ तस्मान्नृपश्रेष्ठ स्वर्गतस्यापि तेऽभवत् ।

क्षुत्तृष्णासंभवो वेगस्ततो दुष्टं हि कर्म ते ७०।

यदि ते क्षुत्प्रतीकारो ह्यभीष्टो नृपसत्तम ।

तद्गत्वा भुंक्ष्व कायं स्वमानंदारण्यसंस्थितम् ७१।

तव चेयं महाराज्ञी क्षुत्क्षामातीव दृश्यते ।

सुबाहुरुवाच-

कियत्कालमिदं कर्म कर्तव्यं प्रियया सह ७२।

तन्मे ब्रूहि महाभागानुग्रहो दृश्यते कदा ।

कस्य दानेन किं पुण्यं द्रव्यस्य मुनिसत्तम ७३।

तत्प्रब्रूहि महाप्राज्ञ यदि तुष्टोसि सांप्रतम् ।

वामदेव उवाच-

अन्नदानान्महासौख्यमुदकस्य महामते ७४।

भुंजंति मर्त्याः स्वर्गं वै पीड्यंते नैव पातकैः ।

यदा दानं न दत्तं तु भवेदपि हि मानवैः ७५।

मृत्युकालेपि संप्राप्ते दानं सर्वे ददंति च ।

आदावेव प्रदातव्यमन्नं चोदकसंयुतम् ७६।

सुच्छत्रोपानहौ दद्याज्जलपात्रं सुशोभनम् ।

भूमिं सुकांचनं धेनुमष्टौ दानानि योऽर्पयेत् ७७।

स्वर्गे न जायते तस्य क्षुधातृष्णादिसंभवः ।

क्षुधा न बाधते राजन्नन्नदानात्स तृप्तिमान् ७८।

तृष्णा तीव्रा नहि स्याद्वै तृप्तो भवति सर्वदा ।

पादुकायाः प्रदानेन च्छत्रदानेन भूपते ७९।

छायामाप्नोति दाता वै वाहनं च नृपोत्तम ।

उपानहप्रदानेन अन्यदेवं वदाम्यहम् ८०।

भूमिदानान्महाभाग सर्वकामानवाप्नुयात् ।

गोदानेन महाराज रसैः पुष्टो भवेत्सदा ८१।

सर्वान्भोगान्प्रभुंजानः स्वर्गलोके वसेन्नरः ।

तृप्तो भवति वै दाता गोदानेन न संशयः ८२।

नीरुजः सुखसंपन्नः संतुष्टस्तु धनान्वितः ।

कांचनेन सुवर्णस्तु जायते नात्र संशयः ८३।

श्रीमांश्च रूपवांस्त्यागी रत्नभोक्ता भवेन्नरः ।

मृत्युकाले तु संप्राप्ते तिलदानं प्रयच्छति ८४।

सर्वभोगपतिर्भूत्वा विष्णुलोकं प्रयाति सः ।

एवं दानविशेषेण प्राप्यते परमं सुखम् ८५।

गोदानं भूमिदानं तु अन्नोदके च वै त्वया ।

जीवमानेन राजेंद्र न दत्तं ब्राह्मणाय वै ८६।

मृत्युकालेपि नो दत्तं तस्मात्क्षुधा प्रवर्तते ।

एतत्ते कारणं प्रोक्तं जातं कर्मवशानुगम् ८७।

यादृशं तु कृतं कर्म तादृशं परिभुज्यते ।

सुबाहुरुवाच-

कथं क्षुधा प्रशांतिं मे प्रयाति मुनिसत्तम ८८।

अनया शोषितः कायो ह्यतीव परिदूयते ।

क्षुधां प्रति द्विजश्रेष्ठ प्रायश्चित्तं वदस्व नौः ८९।

कर्मणश्चास्यघोरस्य यथा शांतिर्भवेन्मम ।

वामदेव उवाच-

प्रायश्चित्तं न चैवास्ति ऋतेभोगान्नृपोत्तम ९०।

कर्मणोस्य फलं सर्वं भवान्स्वस्थः प्रभोक्ष्यति ।

यत्र ते पतितः कायः प्रियायाश्चैव भूपते ९१।

युवाभ्यां हि प्रगंतव्यमितश्चैव न संशयः ।

उभाभ्यामपि भोक्तव्यं कायमक्षयमेव तत् ९२।

स्वंस्वं राजन्न संदेहस्त्वया वै प्रियया सह ।

राजोवाच-

कियत्कालं प्रभोक्तव्यं मयैवं प्रियया सह ९३।

तदादिश महाभाग प्रमाणं तद्वचो मम ।

वामदेव उवाच-

वासुदेव महास्तोत्रं महापातकनाशनम् ९४।

यदा त्वं श्रोष्यसे पुण्यं तदा मोक्षं प्रयास्यसि ।

एतत्ते सर्वमाख्यातं गच्छ राजन्प्रभुंक्ष्वहि ९५।

एवं श्रुत्वा ततो राजा भार्यया सह वै पुनः ।

स्वशरीरस्य वै मांसं भक्षते प्रियया सह ९६।

नित्यमेव महाप्राज्ञ तद्वत्पूर्णं भवेद्वपुः ।

नित्यं प्रभक्षते राजा राज्ञी तस्य च पुत्रक ९७।

यथायथा च राजा च भक्षते च कलेवरम् ।

हसेते वै सदा नार्यौ तयोर्भावं वदाम्यहम् ९८।

प्रज्ञा सार्द्धं महासाध्वी चरित्रं तस्य भूपतेः ।

हास्यं हि कुरुते नित्यं तस्य श्रद्धानपायिनी ९९।

प्रज्ञया प्रेर्यमाणेन न दत्तं श्रद्धयान्वितम् ।

ब्राह्मणेभ्यः सुसंकल्प्य अन्नमुद्दिश्य वैष्णवे १००।

एवं स भक्षते मांसं स्वस्य कायस्य नित्यदा ।

योषिदप्यात्मकायं च रसैश्चामृतसन्निभैः १०१।

ततो वर्षशतांते तु वामदेवं महामुनिम् ।

स्मृत्वा स गर्हयामास आत्मानं प्रति सुव्रत १०२।

न दत्तं पितृदेवेभ्यो ब्राह्मणेभ्यः कदा मया ।

न दत्तमतिथिभ्यो हि वृद्धेभ्यश्च विशेषतः १०३।

दीनेभ्यो हि न दत्तं च कृपया चातुराय च ।

एवं स भुंक्ते स्वं मांसं गर्हयन्स्वीय कर्म च १०४।

एवं स्वमांसं भुंजानं सुबाहुं प्रियया सह ।

हसेते च तदा दृष्ट्वा प्रज्ञा श्रद्धा च द्वे स्त्रियौ १०५।

तस्य कर्मविपाकस्य शुभात्मा हसते नृप ।

मम संगप्रसंगेन न दत्तं पापचेतन १०६।

प्रज्ञा च वचनैस्तैस्तु राजानं हसते पुनः ।

क्वगतोसौ महामोहो येन त्वं मोहितो नृप १०७।

लोभेन मोहयुक्तेन तमोगर्ते निपात्यते ।

तत्रापतित्वा मामैव पतितं दुःखसंकटे १०८।

दानमार्गं परित्यज्य लोभमार्गं गतो नृप ।

भार्यया सह भुंक्ष्व त्वं व्यापितः क्षुधया भृशम् १०९।

एवं तं हसते प्रज्ञा सुबाहुं प्रिययान्वितम् ।

एतद्धि कारणं सर्वं तयोर्हासस्य पुत्रक ११०।

भक्ष्यमाणस्य भूपस्य देहं स्वं दुःखिते तदा ।

ऊचतुर्देहिदेहीति याच्यमानः सदैव हि १११।

क्षुधातृष्णामहाप्राज्ञ भीमरूपे भयानके ।

पयसा मिश्रितं भक्षं याचेते नृपतीश्वरम् ११२।

एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ।

अन्यत्किं ते प्रवक्ष्यामि तद्वदस्व महामते ११३।

विज्वल उवाच-

वासुदेवाभिधानं तत्स्तोत्रं कथय मे पितः ।

येन मोक्षं व्रजेद्राजा तद्विष्णोः परमं पदम् ११४।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे सप्तनवतितमोऽध्यायः ९७।

खण्डः २ (भूमिखण्डः) — Adhyāya 98

सूत उवाच-

एवमुक्ते शुभे वाक्ये विज्वलेन महात्मना ।।

कुंजलो वदतां श्रेष्ठः स्तोत्रं पुण्यमुदैरयत् १।

ध्यात्वा नत्वा हृषीकेशं सर्वक्लेशविनाशनम् ।।

सर्वश्रेयः प्रदातारं हरेः स्तोत्रमुदीरितम् २।

वासुदेवाभिधानं तत्सर्वश्रेयः प्रदायकम् ।।

मोक्षद्वारं सुखोपेतं शांतिदं पुष्टिवर्द्धनम् ३।

सर्वकामप्रदातारं ज्ञानदं ज्ञानवर्द्धनम् ।।

वासुदेवस्य यत्स्तोत्रं विज्वलाय प्रकाशितम् ४।

वासुदेवाभिधानं चाप्रमेयं पुण्यवर्द्धनम् ।।

सोऽवगम्य पितुः सर्वं विज्वलः पक्षिणांवरः ५।

तत्रगंतुंप्रचक्रामपितुःपृष्टंतदानृप ।।

एवं गंतुं कृतमतिं विज्वलं ज्ञानपारगम् ६।

उवाच पुत्रं धर्मात्मा उपकारसमुद्यतम् ७।

कुंजल उवाच-

पुत्र तस्य महज्जाने पातकं भूपतेः शृणु ।।

यतो गत्वा पठ स्वत्वं सुबाहोश्चोपशृण्वतः ८।

यथायथा श्रोष्यति स्तोत्रमुत्तमं तथा तथा ज्ञानमयो भविष्यति ।।

श्रीवासुदेवस्य न संशयो वै तस्य प्रसादात्सुशिवं मयोक्तम् ९।

आमंत्र्य स गुरुं पश्चादुड्डीय लघुविक्रमः ।।

आनंदकाननं पुण्यं संप्राप्तो विज्वलस्तदा १०।

वृक्षच्छायां समाश्रित्य उपविष्टो मुदान्वितः ।

समालोक्य स राजानं विमानेनागतं पुनः ११।

एष्यत्यसौ कदा राजा सुबाहुः प्रियया सह ।।

पातकान्मोचयिष्यामि स्तोत्रेणानेन वै कदा १२।

तावद्विमानः संप्राप्तः किंकिणीजालमंडितः ।।

घंटारवसमाकीर्णो वीणावेणुसमन्वितः १३।

गंधर्वस्वरसंघुष्टश्चाप्सरोभिः समन्वितः ।।

सर्वकामसमृद्धस्तु अन्नोदकविवर्जितः १४।

तस्मिन्याने स्थितो राजा सुबाहुः प्रियया सह ।।

समुत्तीर्णो विमानात्स सुतार्क्ष्य प्रियया सह १५।

शस्त्रमादाय तीक्ष्णं तु यावत्कृंतति तच्छवम् ।।

तावद्धि विज्वलेनापि समाह्वानं कृतं तदा १६।

भो भोः पुरुषशार्दूल देवोपम भवानिदम् ।।

करोति निर्घृणं कर्म नृशंसैर्न च शक्यते १७।

कर्तुं पुरुषशार्दूल कोऽयं विधिविपर्ययः ।।

दुष्कृतं साहसं कर्म निंद्यं लोकेषु सर्वदा १८।

वेदाचारविहीनं तु कस्मात्प्रारब्धवानि ह ।।

तन्मे त्वं कारणं सर्वं कथयस्व यथा तथा १९।

इत्येवं भाषितं तस्य विज्वलस्य महात्मनः ।।

समाकर्ण्य महाराजः स्वप्रियां वाक्यमब्रवीत् २०।

प्रिये वर्षशतं भुक्तं मयेदं पापकर्मणा ।।

कदा न भाषितं केन यथायं परिभाषते २१।

ममैवं पीड्यमानस्य क्षुधया हृदयं प्रिये ।।

निर्गतं चोत्सुकं कांते शांतिश्चित्ते प्रवर्तते २२।

यावदस्य श्रुतं वाक्यं सर्वदुःखस्य शांतिदम् ।।

तावच्चित्ते समाह्लादो वर्तते चारुहासिनि २३।

कोयं देवो नु गंधर्वः सहस्राक्षो भविष्यति ।।

मुनीनां स्याद्वचः सत्यं यदुक्तं मुनिना पुरा २४।

एवमाभाषितं श्रुत्वा प्रियस्यानंतरं प्रिया ।।

राजानं प्रत्युवाचाथ भार्या पतिपरायणा २५।

सत्यमुक्तं त्वया नाथ इदमाश्चर्यमुत्तमम् ।।

यथा ते वर्तते कांत मम चित्ते तथा पुनः २६।

पक्षिरूपधरः कोऽयं पृच्छते हितकारिवत् ।।

एवमाभाषितं श्रुत्वा प्रियायाः पृथिवीपतिः २७।

बद्धांजलिपुटोभूत्वा पक्षिणं वाक्यमब्रवीत् ।।

सुबाहुरुवाच-

स्वागतं ते महाप्राज्ञ पक्षिरूपधरः प्रभो २८।

शिरसा भार्यया सार्द्धं तव पादांबुजद्वयम् ।।

नमस्करोम्यहं पुण्यमस्तु नस्त्वत्प्रसादतः २९।

भवान्कः पक्षिरूपेण पुण्यमेवं प्रभाषते ।।

यादृशं क्रियतेकर्म पूर्वदेहेन सत्तम ३०।

सुकृतं दुष्कृतं वापि तदिहैव प्रभुज्यते ।।

अथ तेनात्मकं वृत्तं तस्याग्रे च निवेदितम् ३१।

यथोक्तं कुंजलेनापि पित्रा पूर्वं श्रुतं तथा ।।

कथयस्वात्मवृत्तांतं भवान्को मां प्रभाषते ३२।

सुबाहुं प्रत्युवाचेदं वाक्यं पक्षिवरस्तदा ।।

विज्वल उवाच-

शुकजात्यां समुत्पन्नः कुंजलोनाम मे पिता ३३।

तस्याहं विज्वलो नाम तृतीयस्तु सुतेष्वहम् ।।

नाहं देवो न गंधर्वो न च सिद्धो महाभुज ३४।

नित्यमेव प्रपश्यामि कर्म चैवं सुदारुणम् ।।

कियत्कालं महत्कर्म साहसाकारसंयुतम् ३५।

करिष्यसि महाराज तन्मे कथय सांप्रतम् ।।

सुबाहुरुवाच-

वासुदेवाभिधानं यत्पूर्वमुक्तं हि ब्राह्मणैः ३६।

श्रोष्याम्यहं यदा भद्र गतिं स्वां प्राप्नुयां तदा ।।

पुण्यात्मना भाषितं वै मुनिना संयतात्मना ३७।

तदाहं पातकान्मुक्तो भविष्यामि न संशयः ।।

विज्वल उवाच-

तवार्थे पृच्छितस्तातस्तेन मे कथितं च यत् ३८।

तत्तेद्याहं प्रवक्ष्यामि शाश्वतं शृणु सत्तम ३९।

ॐअस्य श्रीवासुदेवाभिधानस्य स्तोत्रस्य नारदऋषिरनुष्टुप्छंदः ।

ॐकारोदेवता सर्वपातकनाशनार्थे चतुर्वर्गसाधनार्थे च जपे विनियोगः ।

ॐनमो भगवते वासुदेवाय इति मंत्रः ।

पावनं परमं पुण्यं वेदज्ञं वेदमंदिरम् ।।

विद्याधारं भवाधारं प्रणवं वै नमाम्यहम् ४०।

निरावासं निराकारं सुप्रकाशं महोदयम् ।।

निर्गुणं गुणसंबद्धं नमामि प्रणवं परम् ४१।

महाकांतं महोत्साहं महामोहविनाशनम् ।।

आचिन्वंतं जगत्सर्वं गुणातीतं नमाम्यहम् ४२।

भाति सर्वत्र यो भूत्वा भूतानां भूतिवर्द्धनः। ।

अभयं भिक्षुसंबद्धं नमामि प्रणवं शिवम् ४३।

गायत्रीसाम गायंतं गीतं गीतप्रियं शुभम् ।।

गंधर्वगीतभोक्तारं प्रणवं प्रणमाम्यहम् ४४।

विचारं वेदरूपं तं यज्ञस्थं भक्तवत्सलम् ।।

योनिं सर्वस्य लोकस्य ॐकारं प्रणमाम्यहम् ४५।

तारकं सर्वभूतानां नौरूपेण विराजितम् ।।

संसारार्णवमग्नानां नमामि प्रणवं हरिम् ४६।

सर्वलोकेषु वसते एकरूपेण नैकधा ।।

धामकैवल्यरूपेण नमामि प्रणवं शिवम् ४७।

सूक्ष्मं सूक्ष्मतरं शुद्धं निर्गुणं गुणनायकम् ।।

वर्जितं प्राकृतैर्भावैर्वेदस्थानं नमाम्यहम् ४८।

देवदैत्यवियोगैश्च वर्जितं तुष्टिभिः सदा ।।

दैवैश्च योगिभिर्ध्येयं तमोंकारं नमाम्यहम् ४९।

व्यापकं विश्ववेत्तारं विज्ञानं परमं शुभम् ।।

शिवं शिवगुणं शांतं वंदे प्रणवमीश्वरम् ५०।

यस्य मायां प्रविष्टास्तु ब्रह्माद्याश्च सुरासुराः। ।

न विंदंति परं शुद्धं मोक्षद्वारं नमाम्यहम् ५१।

आनंदकंदाय विशुद्धबुद्धये शुद्धाय हंसाय परावराय। ।

नमोऽस्तु तस्मै गणनायकाय श्रीवासुदेवाय महाप्रभाय ५२।

श्रीपांचजन्येन विराजमानं रविप्रभेणापि सुदर्शनेन ।।

गदाब्जकेनापि विराजमानं प्रभुं सदैनं शरणं प्रपद्ये ५३।

यं वेदगुह्यं सगुणं गुणानामाधारभूतं सचराचरस्य ।।

यं सूर्यवैश्वानरतुल्यतेजसं तं वासुदेवं शरणं प्रपद्ये ५४।

क्षुधानिधानं विमलं सुरूपमानंदमानेन विराजमानम् ।

यं प्राप्य जीवंति सुरादिलोकास्तं वासुदेवं शरणं प्रपद्ये ५५।

तमोघनानां स्वकरैर्विनाशं करोति नित्यं परिकर्महेतुः ।।

उद्द्योतमानं रविदीप्ततेजसं तं वासुदेवं शरणं प्रपद्ये ५६।

यो भाति सर्वत्र रविप्रभावैः करोति शोषं च रसं ददाति ।।

यः प्राणिनामंतरगः स वायुस्तं वासुदेवं शरणं प्रपद्ये ५७।

स्वेच्छानुरूपेण स देवदेवो बिभर्ति लोकान्सकलान्महीपान् ।।

संतारणे नौरिव वर्तते यस्तं वासुदेवं शरणं प्रपद्ये ५८।

अंतर्गतो लोकमयः सदैव पचत्यसौ स्थावरजंगमानाम् ।।

स्वाहामुखो देवगणस्य हेतुस्तं वासुदेवं शरणं प्रपद्ये ५९।

रसैः सुपुण्यैः सकलैः सहैव पुष्णाति सौम्यो गुणदश्च लोके ।।

अन्नानि योनिर्मल तेजसैव तं वासुदेवं शरणं प्रपद्ये ६०।

अस्त्येव सर्वत्र विनाशहेतुः सर्वाश्रयः सर्वमयः स सर्वः ।।

विना हृषीकैर्विषयान्प्रभुंक्ते तं वासुदेवं शरणं प्रपद्ये ६१।

जीवस्वरूपेण बिभर्ति लोकांस्ततः स्वमूर्तान्सचराचरांश्च ।।

निष्केवलो ज्ञानमयः सुशुद्धस्तं वासुदेवं शरणं प्रपद्ये ६२।

दैत्यांतकं दुःखविनाशमूलं शांतं परं शक्तिमयं विशालम् ।।

यं प्राप्य देवा विनयं प्रयांति तं वासुदेवं शरणं प्रपद्ये ६३।

सुखं सुखांतं सुखदं सुरेशं ज्ञानार्णवं तं मुनिपं सुरेशम् ।।

सत्याश्रयं सत्यगुणोपविष्टं तं वासुदेवं शरणं प्रपद्ये ६४।

यज्ञांगरूपं परमार्थरूपं मायान्वितं मापतिमुग्रपुण्यम् ।।

विज्ञानमेकं जगतां निवासं तं वासुदेवं शरणं प्रपद्ये ६५।

अंभोधिमध्ये शयनं हितस्य नागांगभोगे शयनं विशाले ।।

श्रीपादपद्मद्वयमेव तस्य तद्वासुदेवस्य नमामि नित्यम् ६६।

पुण्यान्वितं शंकरमेव नित्यं तीर्थैरनेकैः परिसेव्यमानम् ।।

तत्पादपद्मद्वयमेव तस्य श्रीवासुदेवस्य अघापहं तत् ६७।

पादांबुजं रक्तमहोत्पलाभमंभोजसल्लिंगजयोपयुक्तम् ।।

अलंकृतं नूपुरमुद्रिकाभिः श्रीवासुदेवस्य नमामि नित्यम् ६८।

देवैः सुसिद्धैर्मुनिभिः सदैव नुतं सुभक्त्या उरगाधिपैश्च ।।

तत्पादपंकेरुहमेवपुण्यं श्रीवासुदेवस्य नमामि नित्यम् ६९।

यस्यापि पादांभसि मज्जमानाः पूता दिवं यांति विकल्मषास्ते ।।

मोक्षं लभंते मुनयः सुतुष्टास्तं वासुदेवं शरणं प्रपद्ये ७०।

पादोदकं तिष्ठति यत्र विष्णोर्गंगादितीर्थानि सदैव तत्र ।।

पिबंति येद्यापि सपापदेहास्ते यांति शुद्धाः सुगृहं मुरारेः ७१।

पादोदकेनाप्यभिषिच्यमाना उग्रैश्च पापैः परिलिप्तदेहाः ।।

ते यांति मुक्तिं परमेश्वरस्य तस्यैव पादौ सततं नमामि ७२।

नैवेद्यमात्रेण सुभक्षितेन सुचक्रिणस्तस्य महात्मनस्तु ।।

श्रीवाजपेयस्य फलं लभंते सर्वार्थयुक्ताश्च नरा भवंति ७३।

नारायणं तं नरकाधिनाशनं मायाविहीनं सकलं गुणज्ञम् ।।

यं ध्यायमानाः सुगतिं प्रयांति तं वासुदेवं शरणं प्रपद्ये ७४।

यो वंद्यस्त्वृषिसिद्धचारणगणैर्देवैः सदा पूज्यते ।।

यो विश्वस्य विसृष्टिहेतुकरणे ब्रह्मादिदेवप्रभुः ।।

यः संसारमहार्णवे निपतितस्योद्धारको वत्सल-।

स्तस्यैवापि नमाम्यहं सुचरणौ भक्त्या वरौ पावनौ ७५।

यो दृष्टो मखमंडपे सुरगणैः श्रीवामनः सामगः ।।

सामोद्गीतकुतूहलः सुरगणैस्त्रैलोक्य एकः प्रभुः । ।

कुर्वंतं नयनेक्षणैः शुभकरैर्निष्पापतां तद्बले-।

स्तस्याहं चरणारविंदयुगलं वंदे परं पावनम् ७६।

राजंतं द्विजमंडले मखमुखे ब्रह्मश्रियाशोभितं ।।

दिव्येनापि सुतेजसा करमयं यं चेंद्रनीलोपमम् ।

देवानां हितकाम्यया सुतनुजं वैरोचनस्यापि तं-।

याचंतं मम दीयतां त्रिपदकं वंदे प्रभुं वामनम् ७७।

तं द्रष्टुं रविमंडले मुनिगणैः संप्राप्तवंतं दिवं ।।

चंद्रार्कास्तमयांतरे किल पदा संच्छादयंतं तदा ।।

तस्यैवापि सुचक्रिणः सुरगणाः प्रापुर्लयं सांप्रतं-।

का ये विश्वविकोशकेतमतुलं नौमि प्रभोर्विक्रमम् ७८।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रेऽष्टनवतितमोऽध्यायः ९८।

खण्डः २ (भूमिखण्डः) — Adhyāya 99

विष्णुरुवाच-

स्तोत्रं पवित्रं परमं पुराणं पापापहं पुण्यमयं शिवं च ।

धन्यं सुसूक्तं परमं सुजाप्यं निशम्य राजा स सुखी बभूव १।

गतासु तृष्णा क्षुधया समेता देवोपमो भूमिपतिर्बभूव ।

भार्या च तस्यापि विभाति रूपैर्युक्तावुभौ पापविबंधमाप्तौ २।

देवः सुदेवैः परिवारितोसौ विप्रैः सुसिद्धैर्हरिभक्तियुक्तैः ।

आगत्य भूपं गतकल्मषं तं श्रीशंखचक्राब्जगदासिधर्ता ३।

श्रीनारदो भार्गव व्यास पुण्या समागतस्तत्र मृकंडसूनुः ।

वाल्मीकि नामा मुनिर्विष्णुभक्तः समागतो ब्रह्मसुतो वसिष्ठः ४।

गर्गो महात्मा हरिभक्तियुक्तो जाबालिरैभ्यावथ कश्यपश्च ।

आजग्मुरेते हरिणा समेता विष्णुप्रिया भागवतां वरिष्ठाः ५।

पुण्याः सुधन्या गतकल्मषास्ते हरेः सुपादांबुजभक्तियुक्ताः ।

श्रीवासुदेवं परिवार्य तस्थुः स्तुवंति भूपं विविधप्रकारैः ६।

देवाश्च सर्वे हुतभुङ्मुखाश्च ब्रह्मा हरिश्चापि सुदिव्यदेव्यः ।

गायंति दिव्यं मधुरं मनोहरं गंधर्वराजादिसुगायनाश्च ७।

सुवेद युक्तैः परमार्थसंमितैः स्तवैः सुपुण्यैर्मुनयः स्तुवंति ।

दृष्ट्वा पतिं भूपतिमेव देवो हरिर्बभाषे वचनं मनोहरम् ८।

वरं यथेष्टं वरयस्व भूपते ददाम्यहं ते परितोषितो यतः ।

हरेस्तु वाक्यं स निशम्य राजा दृष्ट्वा मुरारिं वदमानमग्रे ९।

नीलोत्पलाभं मुरघातिनं प्रभुं तं शंखचक्रासिगदाप्रधारिणम् ।

श्रियासमेतं परमेश्वरं तं रत्नोज्ज्वलं कंकणहारभूषितम् १०।

रविप्रभं देवगणैः सुसेवितं महार्घहाराभरणैः सुभूषितम् ।

सुदिव्यगंधैर्वरलेपनैर्हरिं सुभक्तिभावैरवनीं गतो नृपः ११।

दंडप्रणामैः सततं नमाम जयेति वाचाथ महानृपस्तदा ।

दासोस्मि भृत्योस्मि पुरः स ते सदा भक्तिं न जाने न च भावमुत्तमम् १२।

जायान्वितं मामिह चागतं हरे प्रपाहि वै त्वां शरणं प्रपन्नम् ।

धन्यास्तु ते माधव मानवा द्विजाः सदैव ते ध्यानमनोविलीनाः १३।

समुच्चरंतो भव माधवेति प्रयांति वैकुंठमितः सुनिर्मलाः ।

तवैव पादांबुजनिर्गतं पयः पुण्यं तथा ये शिरसा वहंति १४।

समस्ततीर्थोद्भव तोय आप्लुतास्ते मानवा यांति हरेः सुधाम १५।

नास्ति योगो न मे भक्तिर्ज्ञानं नास्ति न मे क्रिया ।

कस्य पुण्यस्य संगेन वरं मह्यं प्रयच्छसि १६।

हरिरुवाच-

वासुदेवाभिधानं यन्महापातकनाशनम् ।

भवता विज्वलात्पुण्याच्छ्रुतं राजन्विकल्मषः १७।

तेन त्वं मुक्तिभागी च संजातो नात्र संशयः ।

मम लोके प्रभुंक्ष्व त्वं दिव्यान्भोगान्मनोनुगान् १८।

राजोवाच-

यदिदेववरोदेयोममदीनस्यवैत्वया ।

विज्वलायप्रयच्छत्वंप्रथमंवरमुत्तमम् १९।

हरिरुवाच-

विज्वलस्य पिता पुण्यः कुंजलो ज्ञानमंडितः ।

वासुदेवमहास्तोत्रं नित्यं पठति भूपते २०।

पुत्रैः प्रियासमेतोऽसौ मम गेहं प्रयास्यति ।

एतत्तु जपते स्तोत्रं सदा दास्याम्यहं फलम् २१।

एवमुक्ते शुभे वाक्ये राजा केशवमब्रवीत् ।

इदं स्तोत्रं महापुण्यं सफलं कुरु केशव २२।

हरिरुवाच-।

कृते युगे महाराज यदा स्तोष्यंति मानवाः ।

तदा मोक्षं प्रयास्यंति तत्क्षणान्नात्र संशयः २३।

त्रेतायां मासमात्रेण षड्भिर्मासैस्तु द्वापरे ।

वर्षेणैकेन च कलौ ये जपंति च मानवाः २४।

स्वर्गं प्रयांति राजेंद्र वैष्णवं गतिदायकम् ।

त्रिकालमेककालं वा स्नातो जपति ब्राह्मणः २५।

यं यं तु वांछते कामं स स तस्य भविष्यति ।

क्षत्रियो जयमाप्नोति धनधान्यैरलंकृतः २६।

वैश्यो भविष्यति श्रीमान्सुखी शूद्रो भविष्यति ।

अंत्यजं श्रावयेद्योयं पापान्मुक्तो भविष्यति २७।

श्रावको नरकं घोरं कदाचिन्नैव पश्यति ।

मम स्तोत्रप्रसादाच्च सर्वसिद्धो भविष्यति २८।

ब्राह्मणैर्भोज्यमानैश्च श्राद्धकाले पठिष्यति ।

पितरो वैष्णवं लोकं तृप्ता यास्यंति भूपते २९।

तर्पणांते जपं कुर्याद्ब्राह्मणो वाथ क्षत्रियः ।

पिबंति चामृतं तस्य पितरो हृष्टमानसाः ३०।

होमेषु यज्ञमध्ये च भावाज्जपति मानवः ।

तत्र विघ्ना न जायंते सर्वसिद्धिर्भविष्यति ३१।

विषमे दुर्गसंस्थाने हिंस्रव्याघ्रस्य संकटे ।

चौराणां संकटे प्राप्ते तत्र स्तोत्रमुदीरयेत् ३२।

तत्र शांतिर्महाराज भविष्यति न संशयः ।

अन्येष्वेव सुभव्येषु राजद्वारे गते नरे ३३।

वासुदेवाभिधानस्य अयुतं जपते नरः ।

ब्रह्मचर्येण संस्नातः क्रोधलोभविवर्जितः ३४।

तिलतंडुलकैर्होमं दशांशमाज्यमिश्रितम् ।

वासुदेवं प्रपूज्यैव दद्यात्प्रयतमानसः ३५।

श्लोकं प्रति ततो देयं होमं ध्यानेन मानवैः ।

तेषां सुभृत्यवन्नित्यं पार्श्वं नैव त्यजाम्यहम् ३६।

कलौ युगे सुसंप्राप्ते स्तोत्रे दास्यं प्रयास्यति ।

वेदभंगप्रसंगेन यस्य कस्य न दीयते ३७।

सर्वकामसमृद्धार्थः स चैव हि भविष्यति ।

एवं हि सफलं स्तोत्रं मया भूप कृतं शृणु ३८।

ब्रह्मणा निर्मितं तेन जप्तं रुद्रेण वै पुरा ।

ब्रह्महत्याविनिर्मुक्त इंद्रो मुक्तश्च किल्बिषात् ३९।

देवाश्च ऋषयो गुह्याः सिद्धविद्याधरामराः ।

नागैस्तु पूजितं स्तोत्रमापुः सिद्धिं मनीप्सिताम् ४०।

पुण्यो धन्यः स वै दाता पुत्रवान्हि भविष्यति ।

जपिष्यति मम स्तोत्रं नात्र कार्या विचारणा ४१।

आगच्छ त्वं स्त्रिया सार्धं मम स्थानं नृपोत्तम ।

हस्तावलंबनं दत्तं हरिणा तस्य भूपतेः ४२।

नेदुर्दुंदुभयस्तत्र गंधर्वा ललितं जगुः ।

ननृतुश्चाप्सरः श्रेष्ठाः पुष्पवृष्टिं प्रचक्रिरे ४३।

देवाश्च ऋषयः सर्वे वेदस्तोत्रैः स्तुवंति ते ।

ततो दयितया सार्द्धं जगाम नृपतिर्हरिम् ४४।

तं स्तूयमानं सुरसिद्धसंघैः स विज्वलः पश्यति हृष्टमानसः ।

समागतस्तिष्ठति यत्र वै पिता माता च वेगेन महाप्रभावः ४५।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे नवनवतितमोऽध्यायः ९९।

खण्डः २ (भूमिखण्डः) — Adhyāya 100

विष्णुरुवाच-

नर्मदायास्तटे रम्ये वटे तिष्ठति वै पिता ।

विज्वलोऽपि समायातः पितरं प्रणिपत्य सः १।

वासुदेवाभिधानस्य स्तोत्रस्यापि महामतिः ।

समाचष्टे स धर्मात्मा महिमानं पितुः पुरः २।

यथा विष्णुः समागत्य ददौ तस्मै वरं शुभम् ।

तत्सर्वं कथयामास सुप्रसन्नेन चेतसा ३।

कुंजलोपि च वृत्तांतं समाकर्ण्य स भूपतेः ।

हर्षेण महताविष्टः पुत्रमालिंग्य विज्वलम् ४।

आह पुण्यं कृतं वत्स त्वया राज्ञे महात्मने ।

उपकारं महापुण्यं वासुदेवस्य कीर्तनात् ५।

एवमाभाष्य तं पुत्रमाशीर्भिरभिनंद्य च ।

पुत्रं देवसमोपेतं स्तुत्वा चैव पुनः पुनः ६।

स्थितः सरित्तटे रम्ये च्यवनस्योपपश्यतः ।

एतत्ते सर्वमाख्यातं तेषां वृत्तं महात्मनाम् ७।

वैष्णवानां महाराज अन्यत्किं ते वदाम्यहम् ।

वेन उवाच-

अमृतं शंखपात्रेण पानार्थं मम चार्पितम् ८।

तस्मात्कस्य न च श्रद्धा पातुं मर्त्यस्य भूतले ।

उत्तमं वैष्णवं ज्ञानं पानानामिह सर्वदा ९।

त्वयैवं कथ्यमानस्य पाने तृप्तिर्न जायते ।

श्रोतुं हि देवदेवेश मम श्रद्धा विवर्द्धते १०।

कथयस्व प्रसादान्मे कुंजलस्यापि चेष्टितम् ।

महात्मना किमुक्तं च चतुर्थं तनयं प्रति ११।

तत्त्वं सुविस्तरादेव कृपया कथयस्व मे ।

श्रीभगवानुवाच-

श्रूयतामभिधास्यामि चरित्रं कुंजलस्य च १२।

बहुश्रेयः समायुक्तं चरित्रं च्यवनस्य च ।

इदं पुण्यं नरश्रेष्ठ आख्यानं पापनाशनम् १३।

यः शृणोति नरो भक्त्या गोसहस्रफलं लभेत् १४।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे शततमोऽध्यायः १००।

खण्डः २ (भूमिखण्डः) — Adhyāya 101

सूत उवाच-

देवदेवो हृषीकेशस्त्वंगपुत्रं नृपोत्तमम् ।

समाचष्ट महाश्रेय आख्यानं पापनाशनम् १।

श्रूयतामभिधास्यामि चरित्रं श्रेयदायकम् ।

द्विजस्यापि च वृत्तांतं कुंजलस्य महात्मनः २।

विष्णुरुवाच-

कुंजलश्चापि धर्मात्मा चतुर्थं पुत्रमेव च ।

समाहूय मुदायुक्त उवाचैनं कपिंजलम् ३।

किं नु पुत्र त्वया दृष्टमपूर्वं कथयस्व मे ।

भोजनार्थं तु यासि त्वमितः कस्मिन्सुतोत्तम ४।

तदाचक्ष्व महाभाग यदि दृष्टं सुपुण्यदम् ।

कपिंजल उवाच-

यच्च तात त्वया पृष्टमपूर्वं प्रवदाम्यहम् ५।

यन्न दृष्टं श्रुतं केन कस्मान्नैव श्रुतं मया ।

तदिहैव प्रवक्ष्यामि श्रूयतामधुना पितः ६।

शृण्वंतु भ्रातरः सर्वे मातस्त्वं शृणु सांप्रतम् ।

कैलासः पर्वतश्रेष्ठो धवलश्चंद्र सन्निभः ७।

नानाधातुसमाकीर्णो नानावृक्षोपशोभितः ।

गंगाजलैः शुभैः पुण्यैः क्षालितः सर्वतः पितः ८।

नदीनां तु सहस्राणि दिव्यानि विविधानि च ।

यस्मात्तात प्रसूतानि जलानि विविधानि च ९।

तडागानि सहस्राणि सोदकानि महागिरौ ।

नद्यः संति विशालिन्यो हंससारससेविताः १०।

तस्मिञ्छिखरिणां श्रेष्ठे पुण्यदाः पापनाशनाः ।

वनानि विविधान्येव पुष्पितानि फलानि च ११।

नानावृक्षोपयुक्तानि हरितानि शुभानि च ।

किन्नराणां गणैर्युक्तश्चाप्सरोभिः समाकुलः १२।

गंधर्वचारणैः सिद्धैर्देववृंदैः सुशोभितः ।

दिव्यवृक्षवनोपेतो दिव्यभावैः समाकुलः १३।

दिव्यगंधैः सुशोभाढ्यैर्नानारत्नसमन्वितः ।

शिलाभिः स्फटिकस्यापि शुक्लाभिस्तु सुशोभनः १४।

सूर्यतेजोमयो राजंस्तेजोभिस्तु समाकुलः ।

चंदनैश्चारुगंधैश्च बकुलैर्नीलपुष्पकैः १५।

नानापुष्पमयैर्वृक्षैः सर्वत्र समलंकृतः ।

पक्षिणां सुनिनादैश्च दिव्यानां मधुरायते १६।

षट्पदानां निनादैश्च वृक्षौघैर्मधुरायते ।

रुतैश्च कोकिलानां तु शोभते स वनो गिरिः १७।

गणकोटिसमाकीर्णं तत्रास्ति शिवमंदिरम् ।

अंशुभिर्धवलं पुण्यं पुण्यराशिशिलोच्चयम् १८।

सिंहैश्च गर्जमानैश्च सैरिभैः कुंजरैस्ततः ।

दिग्गजानां सुघोषैश्च शब्दितं च समंततः १९।

नानामृगैः समाकीर्णं शाखामृगगणाकुलम् ।

मयूरकेकाघोषैश्च गुहासु च विनादितम् २०।

कंदरैर्लेपनैः कूटैः सानुभिश्च विराजितम् ।

नानाप्रस्रवणोपेतमोषधीभिर्विराजितम् २१।

दिव्यं दिव्यगुणं पुण्यं पुण्यधाम समाकुलम् ।

सेवितं पुण्यलोकैश्च पुण्यराशिं महागिरिम् २२।

पुलिंदभिल्लकोलैश्च सेवितं पर्वतोत्तमम् ।

विकटैः शिखरैः कोटैरद्रिराजः प्रकाशते २३।

अन्यैर्नानाविधैः पुण्यैः कौतुकैर्मंगलैः शुभैः ।

गंगोदकप्रवाहैश्च महाशब्दं प्रसुस्रुवे २४।

शंकरस्य गृहं तत्र कैलासं गतवानहम् ।

तत्राश्चर्यं मया दृष्टं यन्न दृष्टं कदा श्रुतम् २५।

श्रूयतामभिधास्यामि तात सर्वं मयोदितम् ।

शिखराद्गिरिराजस्य मेरोः पुण्यान्महोदयात् २६।

हिमक्षीरसुवर्णस्तु प्रवाहः पतते भुवि ।

गंगायाश्च महाभाग रंहसा घोषभूषितः २७।

कैलासस्य शिरः प्राप्य तत्र विस्तरतां गतः ।

दशयोजनमानेन तत्र गंगा ह्रदो महान् २८।

महातोयेन पुण्येन विमलेन विराजते ।

सर्वतोभद्रतां प्राप्तो महाहंसैः प्रशोभते २९।

सामोच्चारेण पुण्येन दिव्येन मधुरेण च ।

हंसास्तत्र प्रकूजंति सरस्तेन विराजते ३०।

तस्य तीरे शिलायां वै हिमकन्या महामते ।

आसीना मुक्तकेशांता रूपद्रविणशालिनी ३१।

दिव्यरूपसुसंपन्ना सगुणा दिव्यलक्षणा ।

दिव्यालंकारभूषा च तस्यास्तीरे विराजते ३२।

न जाने गिरिराजस्य तनया वा महोदधेः ।

नो वास्ति ब्रह्मणः पत्नी सा वा स्वाहा भविष्यति ३३।

इंद्राणी वा महाभागा रोहिणी वा भविष्यति ।

ईदृशी रूपसंपत्तिर्युवतीनां न दृश्यते ३४।

अन्यासां च सुदिव्यानां नारीणां तात सर्वथा ।

यादृशं रूपसंभावं गुणशीलं प्रदृश्यते ३५।

अप्सरसां कदा नास्ति तादृशं रूपलक्षणम् ।

यादृशं तु मया दृष्टं तदंगं विश्वमोहनम् ३६।

शिलापदे समासीना दुःखेनापि समाकुला ।

रुदते सुस्वरैर्बाला अनेकैः स्वजनैर्विना ३७।

अश्रूणि मुंचमाना सा मुक्ताभानि बहूनि च ।

निर्मलानि सरस्यत्र पतंत्येव महामते ३८।

बिंदवो मौक्तिकाभास्ते निपतंति महोदके ।

तेभ्यो भवंति पद्मानि हृद्यानि सुरभीणि तु ३९।

पद्मानि जज्ञिरे तेभ्यो नेत्राश्रुभ्यो महामते ।

गंगांभसि तरंत्येव असंख्यातानि तानि तु ४०।

पतितानि सुहृद्यानि रंहसा यानि तानि तु ।

गंगाप्रवाहमध्ये तु हंसवृंदैः सुसेविते ४१।

भागीरथ्याः प्रवाहस्तु तस्मात्स्थानाद्विनिर्गतः ।

कैलासशिखरं प्राप्य रत्नाख्यं चारुकंदरम् ४२।

वर्तते तोयपूर्णस्तु योजनद्वयविस्तृतः ।

हंसवृंदसमाकीर्णो जलपक्षि समाकुलः ४३।

नानावर्णविशेषाणि संति पद्मानि तत्र च ।

प्रवाहे निर्मले तात मुनिवृंदनिषेविते ४४।

अश्रुभ्यो यानि जातानि प्रभाते कमलानि तु ।

गंगोदकप्लुतान्येव सौरभाणि महांति च ४५।

प्रतरंति प्रवाहे तु निर्मले जलपूरिते ।

मध्ये मध्ये सुहंसैश्च जलपक्षिनिनादिते ४६।

सूत उवाच-

रत्नाख्ये तु गिरौ तस्मिन्रत्नेश्वरमहेश्वरः ।

देवदैत्यसुपूज्योपि तिष्ठते तात सर्वदा ४७।

तत्र दृष्टो मया तात कश्चित्पुण्यमयो मुनिः ।

जटाभारसमाक्रांतो निर्वासा दंडधारकः ४८।

निराधारो निराहारस्तपसातीव दुर्बलः ।

कृशांगोऽप्यस्थिसंघातस्त्वचामात्रेण वेष्टितः ४९।

भस्मोद्धूलितमात्राणि सर्वांगानि महात्मनः ।

शुष्कपत्राणि भक्षेत शीर्णानि पतितानि च ५०।

शिवभक्तिसमासीनो दुराधारो महातपाः ।

अश्रुभ्यो यानि जातानि पद्मानि सुरभीणि च ५१।

गंगातोयात्समानीय देवदेवं प्रपूजयेत् ।

रत्नेश्वरं महाभागो गीतनृत्यविशारदः ५२।

गायते नृत्यते तस्य द्वारस्थस्त्रिपुरद्विषः ।

मठमागत्य धर्मात्मा रोदते सुस्वरैरपि ५३।

एतद्दृष्टं मया तात अपूर्वं वदतांवर ।

कथयस्व प्रसादान्मे यदि त्वं वेत्सि कारणम् ५४।

सा का नारी महाभागा कस्मात्तात प्ररोदिति ।

कस्मात्स देवपुरुषो देवमर्चेन्महेश्वरम् ५५।

तन्मे त्वं विस्तराद्ब्रूहि सर्वसंदेहकारणम् ।

एवमुक्तो महाप्राज्ञः कुंजलोपि सुतेन हि ५६।

कपिंजलेन प्रोवाच विस्तराच्छृण्वतो मुनेः ५७।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे एकाधिकशततमोऽध्यायः १०१।

खण्डः २ (भूमिखण्डः) — Adhyāya 102

कुञ्जल उवाच-

सर्वं वत्स प्रवक्ष्यामि यत्त्वयोक्तं ममाधुना।

उभयोर्देवनं यत्तु यस्माज्जातं द्विजोत्तम।१।

एकदा तु महादेवी पार्वती प्रमदोत्तमा।

क्रीडमाना महात्मानमीश्वरं वाक्यमब्रवीत्।२।

ममोरसि महादेव जातं महत्सु दोहदम्।

दर्शयस्व ममाग्रे त्वं काननं काननोत्तमम्।३।

श्रीमहादेवउवाच-★

एवमस्तु महादेवि नन्दनं देवसङ्कुलम् ।

दर्शयिष्यामि ते पुण्यं द्विजसिद्धनिषेवितम्।४।

एवमाभाष्य तां देवीं तया सह गणैस्ततः ।

स गन्तुमुत्सुको देवो नन्दनं वनमेव तु।५।

सर्वगं सुन्दरं दिव्यपृष्ठमाभरणैर्युतम्।

घंटामालाभिसंयुक्तं किङ्किणीजालमालिनम्।६।

चामरैः पट्टसूत्रैश्च मुक्तामालासुशोभितम्।

हंसचंद्रप्रतीकाशं वृषभं चारुलक्षणम्।७।

समारूढो महादेवो गणकोटिसमावृतः।

नन्दिभृङ्गिमहाकालस्कन्दचण्डमनोहराः।८।

वीरभद्रो गणेशश्च पुष्पदन्तो मणीश्वरः ।

अतिबलःसुबलो नाम मेघनादो घटावहः।९।

घण्टाकर्णश्च कालिन्दः पुलिन्दो वीरबाहुकः।

केशरी किंकरो नाम चण्डहासः प्रजापतिः।१०।

एते चान्ये च बहवः सनकाद्यास्तपोबलाः।

गणैश्च कोटिसंख्यातैः सशिवः परिवारितः।११।

नन्दनं वनमेवापि सेवितं देवकिन्नरैः।

प्रविवेश महादेवो गणैर्देव्यासमन्वितः।१२।

दर्शयामास देवेशो गिरिजायै सुशोभनम् ।

नानापादपसम्पन्नं बहुपुष्पसमाकुलम् ।१३।

दिव्यं रम्भावनाकीर्णं पुष्पवद्भिस्तु चम्पकैः ।

मल्लिकाभिः सुपुष्पाभिर्मालतीजालसंकुलम् १४।

नित्यं पुष्पितशाखाभिः पाटलानां वनोत्तमैः।

राजमानं महावृक्षैश्चंदनैश्चारुगंधिभिः।१५।

देवदारुवनैर्जुष्टं तुंगवृक्षैः समाकुलम्।

सरलैर्नालिकेरैश्च तद्वत्पूगीफलद्रुमैः।१६।

खर्जूरपनसैर्दिव्यैः फलभारावनामितैः।

परिमलोद्गारसंयुक्तैर्गुरुवृक्षसमाकुलम्।१७।

अग्नितेजः समाभासैः सप्तपर्णैः सुशोभितम् ।

राजवृक्षैः कदंबैश्च पुष्पशोभान्वितं सदा।१८।

जंबूनिंबमहावृक्षैर्मातुलिगैः समाकुलम् ।

नारंगैः सिंधुवारैश्च प्रियालैः शालतिंदुकैः।१९।

उदुंबरैः कपित्थैश्च जंबूपादपशोभितम् ।

लकुचैः पुष्पसौगंधैः स्फुटनागैः समाकुलम्।२०।

चूतैश्च फलराजाद्यैर्नीलैश्चैव घनोपमैः ।

नीलैः शालवनैर्दिव्यैर्जालानां तु वनैस्ततः।२१।

तमालैस्तु विशालैश्च सेवितं तपनोपमैः ।

शोभितं नंदनं पुण्यं शिवेन परिदर्शितम्।२२।

शोभितं च द्रुमैश्चान्यैः सर्वैर्नीलवनोपमैः ।

सर्वकामफलोपेतैः कल्याणफलदायकैः।२३।

कल्पद्रुमैर्महापुण्यैः शोभितं नंदनं वनम् ।

नानापक्षिनिनादैश्च संकुलं मधुरस्वरैः।२४।

कोकिलानां रुतैः पुण्यैरुद्घुष्टं मधुकारिभिः ।

मकरंदविलुब्धानां पक्षिणां रुतनादितम्।२५।

नानवृक्षैः समाकीर्णं नानामृगगणायुतम् ।

वृक्षेभ्यो विविधैः पुष्पैस्सौगंधैः पतितैर्भुवि।२६।

सा च भू राजते पुत्र पूजिते वसुगंधिभिः ।

तत्र वाप्यो महापुण्याः पद्मसौगंधनिर्मलाः।२७।

तोयैस्ताः पूरिताः पुत्र हंसकारंडसेविताः।

तडागैः सागरप्रख्यैस्तोयसौगंधपूजितैः।२८।

नंदनं भाति सर्वत्र गणैरप्सरसां महत्।

विमानैः कलशैः शुभ्रैर्हेमदंडैः सुशोभनैः।२९।

नंदनो वनराजस्तु प्रासादैस्तु सुधान्वितैः।

यत्र तत्र प्रभात्येव किन्नराणां महागणैः।३०।

गंधर्वैरप्सरोभिश्च सुरूपाभिर्द्विजोत्तम ।

देवतानां विनोदैश्च मुनिवृंदैः सुयोगिभिः।३१।

सर्वत्र शुशुभे पुण्यसंस्थानं नंदनस्य च।३२।

एवं समालोक्य महानुभावो भवः सुदेव्यासहितो महात्मा।

श्रीनंदनं पुण्यवतां निवासं सुखाकरं शांतिगुणोपपन्नम्।३३।

आदित्यतेजः समतेजसां गणैः प्रभाति वै रश्मिभिर्जातरूपः।

पुष्पैः फलैः कामगुणोपपन्नः कल्पद्रुमो नंदनकाननेपि।३४।

एवंविधं पादपराजमेव संवीक्ष्य देवी च शिवं बभाषे।

अस्याभिधानं कथयस्व नाथ सर्वस्य पुण्यस्य नगस्य पुण्यम्।३५।

तेजस्विनां सूर्यवरः समंतात्स देव देवीं च शिवो बभाषे ।

शिव उवाच-

अस्य प्रतिष्ठा महती शुभाख्या देवेषु मुख्यो मधुसूदनश्च।३६।

नदीषु मुख्या सुरनिम्नगापि विसृष्टिकर्त्तापि यथैव धाता ।

सुखावहानां च यथा सुचंद्रो भूतेषु मुख्या च यथैव पृथ्वी।३७।

नगेंद्रराजो हि यथा नगानां जलाशयेष्वेव यथा समुद्रः ।

महौषधीनामिव देवि चान्नं महीधराणां हिमवान्यथैव।३८।

विद्यासु मध्ये च यथात्मविद्या लोकेषु सर्वेषु यथा नरेंद्रः।

तथैव मुख्यस्तरुराज एष सर्वातिथिर्देवपतेः प्रियोयम्।३९।

श्रीपार्वत्युवाच-

गुणान्नु शंभो मम कीर्त्तयस्व वृक्षाधिपस्यास्य शुभान्सुपुण्यान् ।

आकर्ण्य देवो वचनं बभाषे देव्यास्तु सर्वं सुतरोर्हि तस्य।४०।

यं यं कल्पयंति सुपुण्यदेवा देवोपमा देववराश्च कांते ।

तं तं हि तेभ्यः प्रददाति वृक्षः कल्पद्रुमो नाम वरिष्ठ एषः।४१।

अस्माच्च सर्वे प्रभवंति पुण्या दुःप्राप्यमत्रैव तपोधिकास्ते।

जीवाधिकं रत्नमयं सुदिव्यं देवास्तु भुंजंति महाप्रधानाः।४२।

शुश्राव देवी वचनं शिवस्य आश्चर्यभूतं मनसा विचिंत्य ।

तस्यानुमत्या परिकल्पितं च स्त्रीरत्नमेकं सुगुणं सुरूपम्।४३।

सर्वांगरूपां सगुणां सुरूपां तस्मात्सुवृक्षाद्गिरिजा प्रलेभे।

विश्वस्य मोहाय यथोपविष्टा साहाय्यरूपा मकरध्वजस्य।४४।

क्रीडानिधानं सुखसिद्धिरूपं सर्वोपपन्ना कमलायताक्षी ।

पद्मानना पद्मकरा सुपद्मा चामीकरस्यापि यथा सुमूर्तिः ।४५।

प्रभासु तद्वद्विमला सुतेजा लीला सुतेजाश्च सुकुंचितास्ते ।

प्रलंबकेशाः परिसूक्ष्मबद्धाः पुष्पैः सुगंधैः परिलेपिताश्च ।४६।

प्रबद्धकुंता दृढकेशबंधैर्विभाति सा रूपवरेण बाला।

सीमंतमार्गे च मुक्ताफलानां माला विभात्येव यथा तरूणाम्।४७।

सीमंतमूले तिलकं सुदेव्या यथोदितो दैत्यगुरुः सतेजाः ।

भालेषु पद्मे मृगनाभिपद्म समुत्थतेजः प्रकरैर्विभाति ।४८।

सीमंतमूले तिलकस्य तेजः प्रकाशयेद्रूपश्रियं सुलोके ।

केशेषु मुक्ताफलके च भाले तस्याः सुशोभां विकरोति नित्यम् ।४९।

यथा सुचंद्रः परिभाति भासा सा रम्यचेष्टेव विभाति तद्वत्।

संपूर्णचंद्रोपि यथा विभाति ज्योत्स्नावितानेन हिमांशुजालः ।५०।

तस्यास्तु वक्त्रं परिभाति तद्वच्छोभाकरं विश्वविशारदं च।

हिमांशुरेवापि कलंकयुक्तः संक्षीयते नित्यकलाविहीनः।५१।

संपूर्णमस्त्येव सदैव हृष्टं तस्यास्तु वक्त्रं परिनिष्कलंकम् ।

गंधं विकाशं कमले स्वकीयं ततः समालोक्य सुखं न लेभे ५२।

पद्मानना सर्वगुणोपपन्ना मदीयभावैःपरिनिर्मितेयम्।

गंधं स्वकीयं तु विपश्य पद्मं तस्या मुखाद्वाति जगत्समीरः ।५३।

लज्जाभियुक्तः सहसा बभूव जलं समाश्रित्य सदैव तिष्ठति ।

कतिमतिनियतबुद्ध्यासौ धियो वदंति सुमदननृपतेः कोशं समुद्र कलाभिः ।५४।

सुवरदशनरत्नैर्हास्यलीलाभियुक्ता अरुणअधरबिंबंशोभमानस्तु आस्यः ।५५।

सुभ्रूः सुनासिका तस्याः सुकर्णौ रत्नभूषितौ ।

हेमकांतिसमोपेतौ कपोलौ दीप्तिसंयुतौ ।५६।

रेखात्रयं प्रशोभेत ग्रीवायां परिसंस्थितम् ।

सौभाग्यशीलशृंगारैस्तिस्रो रेखा इहैव हि ।५७।

सुस्तनौ कठिनौ पीनौ वर्तुलाकारसन्निभौ ।

तस्याः कंदर्पकलशावभिषेकाय कल्पितौ।५८।

अंसावतीव शोभेते सुसमौ मानसान्वितौ।

सुभुजौ वर्तुलौ श्लक्ष्णौ सुवर्णौ लक्षणान्वितौ।५९।

सुसमौ करपद्मौ तु पद्मवर्णौ सुशीतलौ ।

दिव्यलक्षणसंपन्नौ पद्मस्वस्तिकसंयुतौ।६०।

सरलाः पद्मसंयुक्ता अंगुल्यस्तु नखान्विताः।

नखानि च सुतीक्ष्णानि जलबिंदुनिभानि च।६१।

पद्मगर्भप्रतीकाशो वर्णस्तदंगसंभवः ।

पद्मगंधा च सर्वांगे पद्मेव भाति भामिनी ।६२।

सर्वलक्षणसंपन्ना नगकन्या सुशोभना।

रक्तोत्पलनिभौ पादौ सुश्लक्ष्णौ चातिशोभनौ।६३।

रत्नज्योतिः समाकारा नखाः पादाग्रसंभवाः।

यथोद्दिष्टं च शास्त्रेषु तथा चांगेषु दृश्यते।६४।

सर्वाभरणशोभांगी हारकंकणनूपुरा।

मेखलाकटिसूत्रेण कांचीनादेन राजते।६५।

नीलेन पट्टवस्त्रेण परां शोभां गता शुभा ।

कंचुकेनापि दिव्येन सुरक्तेन गुणान्विता ।६६।

पार्वती कल्पिताद्भावाद्गुणं प्राप्ता महोदयम्।

कल्पद्रुमान्मुदं लेभे शंकरं वाक्यमब्रवीत् ।६७।

यथोक्तं तु त्वया देव तथा दृष्टो मया द्रुमः ।

यादृशं कल्प्यते भावस्तादृशं परिदृश्यते ।६८।

सूत उवाच-

अथ सा चारुसर्वांगी तयोः पार्श्वं समेत्य च ।

पादांबुजं ननामाथ सा भक्त्या भवयोस्तदा ।६९।

उवाच वचनं स्निग्धं हृद्यं हारि च सा तदा।

कस्मात्सृष्टा त्वया नाथ मातर्वद स्वकारणम्।७०।

श्रीदेव्युवाच-

वृक्षस्य कौतुकाद्भावान्मया वै प्रत्ययः कृतः ।

सद्यः प्राप्तं फलं भद्रे भवती रूपसंपदा ।७१।

अशोकसुंदरी नाम्ना लोके ख्यातिं प्रयास्यसि ।

सर्वसौभाग्यसंपन्ना मम पुत्री न संशयः ।७२।

सोमवंशेषु विख्यातो यथा देवः पुरंदरः ।

नहुषोनाम राजेंद्रस्तव नाथो भविष्यति ।७३।

एवं दत्वा वरं तस्यै जगाम गिरिजा गिरिम् ।

कैलासं शंकरेणापि मुदा परमया युता ।७४।

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे द्व्यधिकशततमोऽध्यायः ।१०२।

खण्डः २ (भूमिखण्डः) — Adhyāya 103

'कुञ्जल उवाच-

अशोकसुन्दरी जाता सर्वयोषिद्वरा तदा।

रेमे सुनन्दने पुण्ये सर्वकामगुणान्विते।१।

सुरूपाभिः सुकन्याभिर्देवानां चारुहासिनी ।

सर्वान्भोगान्प्रभुञ्जाना गीतनृत्यविचक्षणा।२।

विप्रचित्तेः सुतो हुण्डो रौद्रस्तीव्रश्च सर्वदा ।

स्वेच्छाचारो महाकामी नन्दनं प्रविवेश ह।३।

अशोकसुन्दरीं दृष्ट्वा सर्वालङ्कारसंयुताम् ।

तस्यास्तु दर्शनाद्दैत्यो विद्धः कामस्य मार्गणैः ।४।

तामुवाच महाकायः का त्वं कस्यासि वा शुभे ।

कस्मात्त्वं कारणाच्चात्र आगतासि वनोत्तमम् ।५।

'अशोकसुन्दर्युवाच-

शिवस्यापि सुपुण्यस्य सुताहं शृणु साम्प्रतम् ।

स्वसाहं कार्तिकेयस्य जननी गोत्रजापि मे ।६।

बालभावेन सम्प्राप्ता लीलया नन्दनं वनम् ।

भवान्कोहि किमर्थं तु मामेवं परिपृच्छति।७।

हुण्ड उवाच-

विप्रचित्तेः सुतश्चाहं गुणलक्षणसंयुतः।

हुण्डेति नाम्ना विख्यातो बलवीर्यमदोद्धतः।८।

दैत्यानामप्यहं श्रेष्ठो मत्समो नास्ति राक्षसः ।

देवेषु मर्त्यलोकेषु तपसा यशसा कुले।९।

अन्येषु नागलोकेषु धनभोगैर्वरानने ।

दर्शनात्ते विशालाक्षि हतः कन्दर्पमार्गणैः ।१०।

शरणं ते ह्यहं प्राप्तः प्रसादसुमुखी भव ।

भव स्ववल्लभा भार्या मम प्राणसमा प्रिया।११।

अशोकसुन्दर्युवाच-

श्रूयतामभिधास्यामि सर्वसंबंधकारणम्।

भवितव्या सुजातस्य लोके स्त्री पुरुषस्य हि।१२।

भवितव्यस्तथा भर्ता स्त्रिया यः सदृशो गुणैः ।

संसारे लोकमार्गोयं शृणु हुण्ड यथाविधि।१३।

अस्त्येव कारणं चात्र यथा तेन भवाम्यहम् ।

सुभार्या दैत्यराजेन्द्र शृणुष्व यतमानसः।१४।

वृक्षराजादहं जाता यदा काले महामते ।

शम्भोर्भावं सुसङ्गृह्य पार्वत्या कल्पिता ह्यहम्।१५।

देवस्यानुमते देव्या सृष्टो भर्ता ममैव हि ।

सोमवंशे महाप्राज्ञः स धर्मात्मा भविष्यति।१६।

जिष्णुर्जिष्णुसमो वीर्ये तेजसा पावकोपमः।

सर्वज्ञः सत्यसन्धश्च त्यागे वैश्रवणोपमः।१७।

यज्वा दानपतिः सोपि रूपेण मन्मथोपमः ।

नहुषोनाम धर्मात्मा गुणशील महानिधिः।१८।

देव्या देवेन मे दत्तःख्यातोभर्ताभविष्यति ।

तस्मात्सर्वगुणोपेतं पुत्रमाप्स्यामि सुन्दरम्।१९।

इन्द्रोपेन्द्र समं लोके ययातिं जनवल्लभम्।

लप्स्याम्यहं रणे धीरं तस्माच्छम्भोः प्रसादतः।२०।

अहं पतिव्रता वीर परभार्या विशेषतः।

अतस्त्वं सर्वथा हुण्ड त्यज भ्रान्तिमितोव्रज।२१।

प्रहस्यैव वचो ब्रूते अशोकसुन्दरीं प्रति।

'हुण्ड उवाच-

नैव युक्तं त्वया प्रोक्तं देव्या देवेन चैव हि।२२।

नहुषोनाम धर्मात्मा सोमवंशे भविष्यति।

भवती वयसा श्रेष्ठा कनिष्ठो न स युज्यते।२३।

कनिष्ठा स्त्री प्रशस्ता तु पुरुषो न प्रशस्यते ।

कदा स पुरुषो भद्रे तव भर्ता भविष्यति।२४।

तारुण्यं यौवनं चापि नाशमेवं प्रयास्यति।

यौवनस्य बलेनापि रूपवत्यः सदा स्त्रियः।२५।

पुरुषाणां वल्लभत्वं प्रयान्ति वरवर्णिनि ।

तारुण्यं हि महामूलं युवतीनां वरानने ।२६।

तस्या धारेण भुंजंति भोगान्कामान्मनोनुगान् ।

कदा सोभ्येष्यते भद्रे आयोः पुत्रः शृणुष्व मे २७।

यौवनं वर्ततेऽद्यैव वृथा चैव भविष्यति।

गर्भत्वं च शिशुत्वं च कौमारं च निशामय।२८।

कदासौ यौवनोपेतस्तव योग्यो भविष्यति ।

यौवनस्य प्रभावेन पिबस्व मधुमाधवीम्।२९।

मया सह विशालाक्षि रमस्व त्वं सुखेन वै।

हुण्डस्य वचनं श्रुत्वा शिवस्य तनया पुनः।३०।

उवाच दानवेन्द्रं तं साध्वसेन समन्विता।

अष्टाविञ्शतिके प्राप्ते द्वापराख्ये युगे तदा।३१।

शेषावतारो धर्मात्मा वसुदेवसुतो बलः।

रेवतस्य सुतां दिव्यां भार्यां स च करिष्यति।३२।

सापि जाता महाभाग कृताख्ये हि युगोत्तमे ।

युगत्रयप्रमाणेन सा हि ज्येष्ठा बलादपि।३३।

बलस्य सा प्रिया जाता रेवती प्राणसम्मिता।

भविष्यद्वापरे प्राप्त इह सा तु भविष्यति।३४।

मायावती पुरा जाता गन्धर्वतनया वरा ।

अपहृत्य नियम्यैव शम्बरो दानवोत्तमः।३५।

तस्या भर्ता समाख्यातो माधवस्य सुतो बली।

प्रद्युम्नो नाम वीरेशो यादवेश्वरनन्दनः।३६।

तस्मिन्युगे भविष्येत भाव्यं दृष्टं पुरातनैः।

व्यासादिभिर्महाभागैर्ज्ञानवद्भिर्महात्मभिः।३७।

एवं हि दृश्यते दैत्य वाक्यं देव्या तदोदितम्।

मां प्रति हि जगद्धात्र्या पुत्र्या हिमवतस्तदा।३८।

त्वं तु लोभेन कामेन लुब्धो वदसि दुष्कृतम् ।

किल्बिषेण समाजुष्टं वेदशास्त्रविवर्जितम्।३९।

यद्यस्यदिष्टमेवास्ति शुभं वाप्यशुभं दृढम् ।

पूर्वकर्मानुसारेण तत्तस्य परिजायते।४०।

देवानां ब्राह्मणानां च वदने यत्सुभाषितम्।

निःसरेद्यदि सत्यं तदन्यथा नैव जायते।४१।

मद्भाग्यादेवमाज्ञातं नहुषस्यापि तस्य च।

समायोगं विचार्यैवं देव्या प्रोक्तं शिवेन च।४२।

एवं ज्ञात्वा शमं गच्छ त्यज भ्रान्तिं मनःस्थिताम्।

नैव शक्तो भवान्दैत्य मे मनश्चालितुं ध्रुवम्।४३।

पतिव्रता दृढा चित्ते स को मे चालितुं क्षमः।

महाशापेन धक्ष्यामि इतो गच्छ महासुर।४४।

एवमाकर्ण्य तद्वाक्यं हुण्डो वै दानवो बली ।

मनसा चिन्तयामास कथं भार्या भवेदियम्।४५।

विचिन्त्य हुण्डो मायावी अन्तर्धानं समागतः ।

ततो निष्क्रम्य वेगेन तस्मात्स्थानाद्विहाय ताम्।

अन्यस्मिन्दिवसे प्राप्ते मायां कृत्वा तमोमयीम् ४६।

दिव्यं मायामयं रूपं कृत्वा नार्यास्तु दानवः ।

मायया कन्यका रूपो बभूव मम नन्दन।४७।

सा कन्यापि वरारोहा मायारूपागमत्ततः।

हास्यलीला समायुक्ता यत्रास्ते भवनन्दिनी४८।

उवाच वाक्यं स्निग्धेव अशोकसुन्दरीं प्रति ।

कासि कस्यासि सुभगे तिष्ठसि त्वं तपोवने।४९।

किमर्थं क्रियते बाले कामशोषणकं तपः।

तन्ममाचक्ष्व सुभगे किन्निमित्तं सुदुष्करम्।५०।

तन्निशम्य शुभं वाक्यं दानवेनापि भाषितम् ।

मायारूपेण छन्नेन साभिलाषेण सत्वरम्।५१।

आत्मसृष्टि सुवृत्तान्तं प्रवृत्तं तु यथा पुरा ।

तपसः कारणं सर्वं समाचष्ट सुदुःखिता।५२।

उपप्लवं तु तस्यापि दानवस्य दुरात्मनः।

मायारूपं न जानाति सौहृदात्कथितं तया।५३।

"हुण्ड उवाच-

पतिव्रतासि हे देवि साधुव्रतपरायणा।

साधुशीलसमाचारा साधुचारा महासती।५४।

अहं पतिव्रता भद्रे पतिव्रतपरायणा।

तपश्चरामि सुभगे भर्तुरर्थे महासती।५५।

मम भर्ता हतस्तेन हुंडेनापि दुरात्मना।

तस्य नाशाय वै घोरं तपस्यामि महत्तपः।५६।

एहि मे स्वाश्रमे पुण्ये गंगातीरे वसाम्यहम्।

अन्यैर्मनोहरैर्वाक्यैरुक्ता प्रत्ययकारकैः।५७।

हुंडेन सखिभावेन मोहिता शिवनंदिनी।

समाकृष्टा सुवेगेन महामोहेन मोहिता।५८।

आनीतात्मगृहं दिव्यमनौपम्यं सुशोभनम्।

मेरोस्तु शिखरे पुत्र वैडूर्याख्यं पुरोत्तमम्।५९।

अस्ति सर्वगुणोपेतं कांचनाख्यं महाशिवम्।

तुंगप्रासादसंबाधैः कलशैर्दंडचामरैः।६०।

नानवृक्षसमोपेतैर्वनैर्नीलैर्घनोपमैः।

वापीकूपतडागैश्च नदीभिस्तु जलाशयैः।६१।

शोभमानं महारत्नैः प्राकारैर्हेमसंयतैः।

सर्वकामसमृद्धार्थं सम्पूर्णं दानवस्य हि।६२।

ददृशे सा पुरं रम्यमशोकसुन्दरी तदा।

कस्य देवस्य संस्थानं कथयस्व सखे मम।६३।

सोवाच दानवेन्द्रस्य दृष्टपूर्वस्य वै त्वया।

तस्य स्थानं महाभागे सोऽहं दानवपुङ्गवः।६४।

मया त्वं तु समानीता मायया वरवर्णिनि ।

तामाभाष्य गृहं नीता शातकौम्भं सुशोभनम्।६५।

नानावेश्मैः समाजुष्टं कैलासशिखरोपमम्।

निवेश्य सुंदरीं तत्र दोलायां कामपीडितः।६६।

पुनः स्वरूपी दैत्येन्द्रः कामबाणप्रपीडितः।

करसम्पुटमाबध्य उवाच वचनं तदा।६७।

यं यं त्वं वाञ्छसे भद्रे तं तं दद्मि न संशयः।

भज मां त्वं विशालाक्षिभजन्तं कामपीडितम्।६८।

'श्रीदेव्युवाच-

नैव चालयितुं शक्तो भवान्मां दानवेश्वरः।

मनसापि न वै धार्यं मम मोहं समागतम्।६९।

भवादृशैर्महापापैर्देवैर्वा दानवाधमैः।

दुष्प्राप्याहं न संदेहो मा वदस्व पुनः पुनः।७०।

स्कन्दानुजा सा तपसाभियुक्ता जाज्वल्यमाना महता रुषा च।

संहर्तुकामा परि दानवं तं कालस्य जिह्वेव यथा स्फुरन्ती।७१।

पुनरुवाच सा देवी तमेवं दानवाधमम् ।

उग्रं कर्म कृतं पाप चात्मनाशनहेतवे।७२।

आत्मवञ्शस्य नाशाय स्वजनस्यास्य वै त्वया।

दीप्ता स्वगृहमानीता सुशिखा कृष्णवर्त्मनः।७३।

यथाऽशुभः कूटपक्षी सर्वशोकैः समुद्गतः।

गृहं तु विशते यस्य तस्य नाशं प्रयच्छति।७४।

स्वजनस्य च सर्वस्य सधनस्य कुलस्य च।

स द्विजो नाशमिच्छेत विशत्येव यदा गृहम्।७५।

तथा तेहं गृहं प्राप्ता तव नाशं समीहती ।

पुत्राणां धनधान्यस्य तव वंशस्य साम्प्रतम्।७६।

जीवं कुलं धनं धान्यं पुत्रपौत्रादिकं तव।

सर्वं ते नाशयित्वाहं यास्यामि च न संशयः।७७।

यथा त्वयाहमानीता चरन्ती परमं तपः ।

पतिकामा प्रवाञ्च्छन्ती नहुषं चायुनन्दनम्।७८।

तथा त्वां मम भर्ता च नाशयिष्यति दानव ।

मन्निमित्तउपायोऽयं दृष्टो देवेन वै पुरा।७९।

सत्येयं लौकिकी गाथा यां गायन्ति विदो जनाः।

प्रत्यक्षं दृश्यते लोके न विन्दन्ति कुबुद्धयः।८०।

येन यत्र प्रभोक्तव्यं यस्माद्दुःखसुखादिकम्।

स एव भुंजते तत्र तस्मादेव न संशयः।८१।

कर्मणोस्य फलं भुङ्क्ष्व स्वकीयस्य महीतले।

यास्यसे निरयस्थानं परदाराभिमर्शनात्।८२।

सुतीक्ष्णं हि सुधारं तु सुखड्गं च विघट्टति।

अङ्गुल्यग्रेण कोपाय तथा मां विद्धि साम्प्रतम्। ८३।

सिंहस्य सम्मुखं गत्वा क्रुद्धस्य गर्जितस्य च।

को लुनाति मुखात्केशान्साहसाकारसंयुतः।८४

सत्याचारां दमोपेतां नियतां तपसि स्थिताम्।

निधनं चेच्छते यो वै स वै मां भोक्तुमिच्छति। ८५।

समणिं कृष्णसर्पस्य जीवमानस्य साम्प्रतम् ।

गृहीतुमिच्छते सो हि यथा कालेन प्रेषितः।८६।

भवांस्तु प्रेषितो मूढ कालेन कालमोहितः ।

तदा ते ईदृशी जाता कुमतिः किं नपश्यसि।८७।

ऋते तु आयुपुत्रेण समालोकयते हि कः।

अन्यो हि निधनं याति ममरूपावलोकनात्।८८।

एवमाभाषयित्वा तं गङ्गातीरं गता सती ।

सशोका दुःखसंविग्ना नियतानि यमान्विता।८९।

पूर्वमाचरितं घोरं पतिकामनया तपः।

तव नाशार्थमिच्छंती चरिष्ये दारुणं पुनः।९०।

यदा त्वां निहतं दुष्टं नहुषेण महात्मना।

निििििशितैर्वज्रसङ्काशैर्बाणैराशीविषोपमैः।९१

रणे निपतितं पाप मुक्तकेशं सलोहितम् ।

गतासुं च प्रपश्यामि तदा यास्याम्यहं पतिम्।९२।

एवं सुनियमं कृत्वा गंगातीरमनुत्तमम्।

संस्थिता हुंडनाशाय निश्चला शिवनंदिनी।९३।

वह्नेर्यथादीप्तिमती शिखोज्ज्वला तेजोभियुक्ता प्रदहेत्सुलोकान्।

क्रोधेन दीप्ता विबुधेशपुत्री गङ्गातटे दुश्चरमाचरत्तपः।९४।

"कुञ्जल उवाच-

एवमुक्ता महाभाग शिवस्य तनया गता ।

गङ्गांभसि ततः स्नात्वा स्वपुरे काञ्चनाह्वये।९५।

तपश्चचार तन्वङ्गी हुण्डस्य वधहेतवे ।

अशोकसुन्दरी बाला सत्येन च समन्विता।९६।

हुण्डोपि दुःखितोभूतः शापदग्धेन चेतसा।

चिंतयामास सन्तप्त अतीव वचनानलैः।९७।

समाहूय अमात्यं तं कम्पनाख्यमथाब्रवीत् ।

समाचष्ट स वृत्तान्तं तस्याः शापोद्भवं महत्।९८।

शप्तोस्म्यशोकसुंदर्या शिवस्यापि सुकन्यया।

नहुषस्यापि मे भर्त्तुस्त्वं तु हस्तान्मरिष्यसि।९९।

नैव जातस्त्वसौ गर्भ आयोर्भार्या च गुर्विणी।

यथा सत्याद्व्यलीकस्तु तस्याः शापस्तथा कुरु। १००।

कम्पन उवाच-

अपहृत्य प्रियां तस्य आयोश्चापि समानय ।

अनेनापि प्रकारेण तव शत्रुर्न जायते।१०१।

नो वा प्रपातयस्व त्वं गर्भं तस्याः प्रभीषणैः ।

अनेनापि प्रकारेण तव शत्रुर्न जायते।१०२।

जन्मकालं प्रतीक्षस्व नहुषस्य दुरात्मनः ।

अपहृत्य समानीय जहि त्वं पापचेतनम्।१०३।

एवं समंत्र्य तेनापि कंपनेन स दानवः ।

अभूत्स उद्यमोपेतो नहुषस्य प्रणाशने।१०४।

'विष्णुरुवाच-

एलपुत्रो महाभाग आयुर्नाम क्षितीश्वरः।

सार्वभौमः स धर्मात्मा सत्यव्रतपरायणः।१०५।

इन्द्रोपेन्द्रसमो राजा तपसा यशसा बलैः।

दानयज्ञैः सुपुण्यैश्च सत्येन नियमेन च।१०६।

एकच्छत्रेण वै राज्यं चक्रे भूपतिसत्तमः।

पृथिव्यां सर्वधर्मज्ञः सोमवंशस्य भूषणम्।१०७।

पुत्रं न विंदते राजा तेन दुःखी व्यजायत।

चिंतयामास धर्मात्मा कथं मे जायते सुतः।१०८।

इति चिन्तां समापेदे आयुश्च पृथिवीपतिः।

पुत्रार्थं परमं यत्नमकरोत्सुसमाहितः।१०९।

अत्रिपुत्रो महात्मा वै दत्तात्रेयो महामुनिः।

क्रीडमानः स्त्रिया सार्द्धं मदिरारुणलोचनः।११०।

वारुण्या मत्त धर्मात्मा स्त्रीवृन्दैश्च समावृतः।

अङ्के युवतिमाधाय सर्वयोषिद्वरां शुभाम्।१११।

गायते नृत्यते विप्रः सुरां च पिबते भृशम्।

विना यज्ञोपवीतेन महायोगीश्वरोत्तमः।११२।

पुष्पमालाभिर्दिव्याभिर्मुक्ताहारपरिच्छदैः ।

चंदनागुरुदिग्धांगो राजमानो मुनीश्वरः।११३।

तस्याश्रमं नृपो गत्वा तं दृष्ट्वा द्विजसत्तमम् ।

प्रणाममकरोन्मूर्ध्ना दण्डवत्सुसमाहितः ।११४।

अत्रिपुत्रः स धर्मात्मा समालोक्य नृपोत्तमम्।

आगतं पुरतो भक्त्या अथ ध्यानं समास्थितः।११५।

एवं वर्षशतं प्राप्तं तस्य भूपस्य सत्तम।

निश्चलं शान्तिमापन्नं मानसं भक्तितत्परम्।११६।

समाहूय उवाचेदं किमर्थं क्लिश्यसे नृप।

ब्रह्माचारेण हीनोस्मि ब्रह्मत्वं नास्ति मे कदा।११७।

सुरामांसप्रलुब्धोऽस्मि स्त्रियासक्तः सदैव हि ।

वरदाने न मे शक्तिरन्यं शुश्रूष ब्राह्मणम्।११८।

"आयुरुवाच-

भवादृशो महाभाग नास्ति ब्राह्मणसत्तमः।

सर्वकामप्रदाता वै त्रैलोक्ये परमेश्वरः।११९।

अत्रिवंशे महाभाग गोविंदः परमेश्वरः।

ब्राह्मणस्य स्वरूपेण भवान्वै गरुडध्वजः।१२०।

नमोऽस्तु देवदेवेश नमोऽस्तु परमेश्वर।

त्वामहं शरणं प्राप्तः शरणागतवत्सल।१२१।

उद्धरस्व हृषीकेश मायां कृत्वा प्रतिष्ठसि ।

विश्वस्थानां प्रजानां तु विद्वांसंविश्वनायकम्।१२२।

जानाम्यहं जगन्नाथं भवन्तं मधुसूदनम्।

मामेव रक्ष गोविन्द विश्वरूप नमोस्तु ते।१२३।

"कुञ्जल उवाच-

गते बहुतिथे काले दत्तात्रेयो नृपोत्तमम्।

उवाच मत्तरूपेण कुरुष्व वचनं मम।१२४।

कपाले मे सुरां देहि पाचितं मांसभोजनम्।

एवमाकर्ण्य तद्वाक्यं स चायुः पृथिवीपतिः।१२५।

उत्सुकस्तु कपालेन सुरामाहृत्य वेगवान्।

पलं सुपाचितं चैव च्छित्त्वा हस्तेन सत्वरम् १२६।

नृपेन्द्रः प्रददौ चापि दत्तात्रेयाय सत्तम।

अथ प्रसन्नचेताः स संजातो मुनिपुङ्गवः।१२७।

दृष्ट्वा भक्तिं प्रभावं च गुरुशुश्रूषणं परम्।

समुवाच नृपेन्द्रं तमायुं प्रणतमानसम्।१२८।

वरं वरय भद्रं ते दुर्लभं भुवि भूपते।

सर्वमेव प्रदास्यामि यंयमिच्छसि साम्प्रतम्।१२९।

"राजोवाच-

भवान्दाता वरं सत्यं कृपया मुनिसत्तम।

पुत्रं देहि गुणोपेतं सर्वज्ञं गुणसंयुतम्।१३०।

देववीर्यं सुतेजं च अजेयं देवदानवैः।

क्षत्रियै राक्षसैर्घोरैर्दानवैः किन्नरैस्तथा।१३१।

देवब्राह्मणसम्भक्तः प्रजापालो विशेषतः।

यज्वा दानपतिः शूरः शरणागतवत्सलः।१३२।

दाता भोक्ता महात्मा च वेदशास्त्रेषु पण्डितः।

धनुर्वेदेषु निपुणः शास्त्रेषु च परायणः।१३३।

अनाहतमतिर्धीरः संग्रामेष्वपराजितः।

एवं गुणः सुरूपश्च यस्माद्वञ्शः प्रसूयते।१३४।

देहि पुत्रं महाभाग ममवंशप्रधारकम्।

यदि चापि वरो देयस्त्वया मे कृपया विभो।१३५।

"दत्तात्रेय उवाच-

एवमस्तु महाभाग तव पुत्रो भविष्यति।

गृहे वंशकरः पुण्यः सर्वजीवदयाकरः।१३६।

एभिर्गुणैस्तु संयुक्तो वैष्णवांशेन संयुतः ।

राजा च सार्वभौमश्च इन्द्रतुल्यो नरेश्वरः।१३७।

एवं खलु वरं दत्वा ददौ फलमनुत्तमम्।

भूपमाह महायोगी सुभार्यायै प्रदीयताम्।१३८।

एवमुक्त्वा विसृज्यैव तमायुं प्रणतं पुरः।

आशीर्भिरभिनन्द्यैव अन्तर्द्धानमधीयत।१३९।

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे त्र्यधिकशततमोऽध्यायः।१०३।

खण्डः २ (भूमिखण्डः) — Adhyāya 104

कुंजल उवाच-

गते तस्मिन्महाभागे दत्तात्रेये महामुनौ ।

आजगाम महाराज आयुश्च स्वपुरं प्रति १।

इंदुमत्या गृहं हृष्टः प्रविवेश श्रियान्वितम् ।

सर्वकामसमृद्धार्थमिंद्रस्य सदनोपमम् २।

राज्यं चक्रे स मेधावी यथा स्वर्गे पुरंदरः ।

स्वर्भानुसुतया सार्द्धमिंदुमत्या द्विजोत्तम ३।

सा च इंदुमती राज्ञी गर्भमाप फलाशनात् ।

दत्तात्रेयस्य वचनाद्दिव्यतेजः समन्वितम् ४।

इंदुमत्या महाभाग स्वप्नं दृष्टमनुत्तमम् ।

रात्रौ दिवान्वितं तात बहुमंगलदायकम् ५।

गृहांतरे विशंतं च पुरुषं सूर्यसन्निभम् ।

मुक्तामालान्वितं विप्रं श्वेतवस्त्रेणशोभितम् ६।

श्वेतपुष्पकृतामाला तस्य कंठे विराजते ।

सर्वाभरणशोभांगो दिव्यगंधानुलेपनः ७।

चतुर्भुजः शंखपाणिर्गदाचक्रासिधारकः ।

छत्रेण ध्रियमाणेन चंद्रबिंबानुकारिणा ८।

शोभमानो महातेजा दिव्याभरणभूषितः ।

हारकंकणकेयूर नूपुराभ्यां विराजितः ९।

चंद्रबिंबानुकाराभ्यां कुंडलाभ्यां विराजितः ।

एवंविधो महाप्राज्ञो नरः कश्चित्समागतः १०।

इंदुमतीं समाहूय स्नापिता पयसा तदा ।

शंखेन क्षीरपूर्णेन शशिवर्णेन भामिनी ११।

रत्नकांचनबद्धेन संपूर्णेन पुनः पुनः ।

श्वेतं नागं सुरूपं च सहस्रशिरसं वरम् १२।

महामणियुतं दीप्तं धामज्वालासमाकुलम् ।

क्षिप्तं तेन मुखप्रांते दत्तं मुक्ताफलं पुनः १३।

कंठे तस्याः स देवेश इंदुमत्या महायशाः ।

पद्मं हस्ते ततो दत्वा स्वस्थानं प्रति जग्मिवान् १४।

एवंविधं महास्वप्नं तया दृष्टं सुतोत्तमम् ।

समाचष्ट महाभागा आयुं भूमिपतीश्वरम् १५।

समाकर्ण्य महाराजश्चिंतयामास वै पुनः ।

समाहूय गुरुं पश्चात्कथितं स्वप्नमुत्तमम् १६।

शौनकं सुमहाभागं सर्वज्ञं ज्ञानिनां वरम् ।

राजोवाच-

अद्य रात्रौ महाभाग मम पत्न्या द्विजोत्तम १७।

विप्रो गेहं विशन्दृष्टः किमिदं स्वप्नकारणम् ।

शौनक उवाच-

वरो दत्तस्तु ते पूर्वं दत्तात्रेयेण धीमता १८।

आदिष्टं च फलं राज्ञां सुगुणं सुतहेतवे ।

तत्फलं किं कृतं राजन्कस्मै त्वया निवेदितम् १९।

सुभार्यायै मया दत्तमिति राज्ञोदितं वचः ।

श्रुत्वोवाच महाप्राज्ञः शौनको द्विजसत्तमः २०।

दत्तात्रेयप्रसादेन तव गेहे सुतोत्तमः ।

वैष्णवांशेन संयुक्तो भविष्यति न संशयः २१।

स्वप्नस्य कारणं राजन्नेतत्ते कथितं मया ।

इंद्रोपेंद्र समः पुत्रो दिव्यवीर्यो भविष्यति २२।

पुत्रस्ते सर्वधर्मात्मा सोमवंशस्य वर्द्धनः ।

धनुर्वेदे च वेदे च सगुणोसौ भविष्यति २३।

एवमुक्त्वा स राजानं शौनको गतवान्गृहम् ।

हर्षेण महताविष्टो राजाभूत्प्रियया सह २४।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे चतुरधिकशततमोऽध्यायः १०४।

खण्डः २ (भूमिखण्डः) — Adhyāya 105

कुञ्जल उवाच-

गता सा नन्दनवनं सखीभिः सह क्रीडितुम्।

तत्राकर्ण्य महद्वाक्यमप्रियं तु तदा पितुः।१।

चारणानां सुसिद्धानां भाषतां हर्षणेन तु।

आयोर्गेहे महावीर्यो विष्णुतुल्यपराक्रमः।२।

भविष्यति सुतश्रेष्ठो हुण्डस्यांतं करिष्यति ।

एवंविधं महद्वाक्यमप्रियं दुःखदायकम् ।३।

समाकर्ण्य समायाता पितुरग्रे निवेदितम् ।

समासेन तया तस्य पुरतो दुःखदायकम् ।४।

पितुरग्रे जगादाथ पिता श्रुत्वा स विस्मितः ।

शापमशोकसुंदर्याः सस्मार च पुराकृतम् ।५।

एतस्यार्थे तपस्तेपे सेयं चाशोकसुंदरी ।

गर्भस्य नाशनायैव इंदुमत्याः स दानवः ।६।

विचक्रे उद्यमं दुष्टः कालाकृष्टो दुरात्मवान् ।

छिद्रान्वेषी ततो भूत्वा इंदुमत्यास्तु नित्यशः ।७।

यदा पश्यति तां राज्ञीं रूपौदार्यगुणान्विताम् ।

दिव्यतेजः समायुक्तां रक्षितां विष्णुतेजसा ।८।

दिव्येन तेजसा युक्तां सूर्यबिंबोपमां तु ताम् ।

तस्याः पार्श्वे महाभाग रक्षणार्थं स्थितः सदा ।९।

दूरात्स दानवो दुष्टस्तस्याश्च बहुदर्शयन् ।

नानाविद्यां महोग्रां च भीषिकां सुविभीषिकाम् ।१०।

गर्भस्य तेजसा युक्ता रक्षिता विष्णुतेजसा ।

भयं न जायते तस्या मनस्येव कदापुनः ।११।

विफलो दानवो जात उद्यमश्च निरर्थकः ।

मनीप्सितं नैव जातं हुंडस्यापि दुरात्मनः ।१२।

एवं वर्षशतं पूर्णं पश्यमानस्य तस्य च ।

प्रसूता सा हि पुत्रं च स्वर्भानोस्तनया तदा ।१३।

रात्रावेव सुतश्रेष्ठ तस्याः पुत्रो व्यजायत ।

तेजसातीव भात्येष यथा सूर्यो नभस्तले ।१४।

सूत उवाच-

अथ दासी महादुष्टा काचित्सूतिगृहागता ।

अशौचाचारसंयुक्ता महामंगलवादिनी।१५।

तस्याः सर्वं समाज्ञाय स हुंडो दानवाधमः ।

दास्या अंगं प्रविश्यैव प्रविष्टश्चायुमन्दिरे ।१६।

महाजने प्रसुप्ते च निद्रयातीवमोहिते ।

तं पुत्रं देवगर्भाभमपहृत्य बहिर्गतः ।१७।

कांचनाख्यपुरे प्राप्तः स्वकीये दानवाधमः ।

समाहूय प्रियां भार्यां विपुलां वाक्यमब्रवीत् ।१८।

वधस्वैनं महापापं बालरूपं रिपुं मम ।

पश्चात्सूदस्य वै हस्ते भोजनार्थं प्रदीयताम् ।१९।

नानाभेदैर्विभेदैश्च पाचयस्व हि निर्घृणम् ।

सूदहस्तान्महाभागे पश्चाद्भोक्ष्ये न संशयः ।२०।

वाक्यमाकर्ण्य तद्भर्तुर्विपुला विस्मिताभवत् ।

कस्मान्निर्घृणतां याति भर्त्ता मम सुनिष्ठुरः ।२१।

सर्वलक्षणसंपन्नं देवगर्भोपमं सुतम् ।

कस्य कस्मात्प्रभक्ष्येत क्षमाहीनः सुनिर्घृणः ।२२।

इत्येवं चिंतयामास कारुण्येन समन्विता ।

पुनः पप्रच्छ भर्तारं कस्माद्भक्ष्यसि बालकम्।२३।

कस्माद्भवसि संक्रुद्धो अतीव निरपत्रपः ।

सर्वं मे कारणं ब्रूहि तत्त्वेन दनुजेश्वर।२४।

आत्मदोषं च वृत्तांतं समासेन निवेदितम् ।

शापमशोकसुंदर्या हुंडेनापि दुरात्मना।२५।

तया ज्ञातं तु तत्सर्वं कारणं दानवस्य वै ।

वध्योऽयं बालकः सत्यं नो वा भर्त्ता मरिष्यति ।२६।

इत्येवं प्रविचार्यैव विपुला क्रोधमूर्च्छिता ।

मेकलां तु समाहूय सैरंध्रीं वाक्यमब्रवीत्।२७।

जह्येनं बालकं दुष्टं मेकलेऽद्य महानसे ।

सूदहस्ते प्रदेहि त्वं हुण्डभोजनहेतवे।२८।

मेकला बालकं गृह्य सूदमाहूय चाब्रवीत् ।

राजादेशं कुरुष्वाद्य पचस्वैनं हि बालकम् ।२९।

एवमाकर्णितं तेन सूदेनापि महात्मना ।

आदाय बालकं हस्ताच्छस्त्रमुद्यम्य चोद्यतः ।३०।

एष वै देवदेवस्य दत्तात्रेयस्य तेजसा ।

रक्षितस्त्वायुपुत्रश्च स जहास पुनः पुनः ।३१।

हसंतं तं समालोक्य स सूदः कृपयान्वितः ।

सैरंध्री च कृपायुक्ता सूदं तं प्रत्यभाषत ।३२।

नैष वध्यस्त्वया सूद शिशुरेव महामते ।

दिव्यलक्षणसंपन्नः कस्य जातः सुसत्कुले ।३३।

सूद उवाच-

सत्यमुक्तं त्वया भद्रे वाक्यं वै कृपयान्वितम् ।

राजलक्षणसंपन्नो रूपवान्कस्य बालकः ।३४।

कस्माद्भोक्ष्यति दुष्टात्मा हुंडोऽयं दानवाधमः ।

येन वै रक्षितो वंशः पूर्वमेव सुकर्मणा ।३५।

आपत्स्वपि स जीवेत दुर्गेषु नान्यथा भवेत् ।

सिंधुवेगेन नीतस्तु वह्निमध्ये गतोऽथवा ।३६।

जीवतेनात्र संदेहो यश्च कर्मसहायवान् ।

तस्माद्धि क्रियते कर्म धर्मपुण्यसमन्वितम् ।३७।

आयुष्मंतो नरास्तेन प्रवदंति सुखं ततः ।

तारकं पालकं कर्म रक्षते जाग्रते हि तत् ।३८।

मुक्तिदं जायते नित्यं मैत्रस्थानप्रदायकम् ।

दानपुण्यान्वितं कर्म प्रियवाक्यसमन्वितम् ।३९।

उपकारयुतं यश्च करोति शुभकृत्तदा ।

तमेव रक्षते कर्म सर्वदैव न संशयः ।४०।

अन्ययोनिं प्रयाति स्म प्रेरितः स्वेन कर्मणा ।

किं करोति पिता माता अन्ये स्वजनबान्धवाः ।४१।

कर्मणा निहतो यस्तु न स्युस्तस्य च रक्षणे ।

सूत उवाच-

येनैव कर्मणा चैव रक्षितश्चायुनंदनः ।४२।

तस्मात्कृपान्वितो जातः सूदः कर्मवशानुगः ।

सैरंध्री च तथा जाता प्रेरिता तस्य कर्मणा ।४३।

द्वाभ्यामेव सुतश्चायो रक्षितश्चारुलक्षणः ।

रात्रावेव प्रणीतोऽसौ तस्माद्गेहान्महाश्रमे ।४४।

वशिष्ठस्याश्रमे पुण्ये सैरंध्र्या पुण्यकर्मणा ।

शुभे पर्णकुटीद्वारे तस्मिन्नेव महाश्रमे ।४५।

गता सा स्वगृहं पश्चान्निक्षिप्य बालकोत्तमम् ।

एणं निपात्य सूदेन पाचितं मांसमेव हि ।४६।

भोजयित्वा सुदैत्येंद्रो हुंडो हृष्टोभवत्तदा ।

शापमशोकसुंदर्या मोघं मेने तदासुरः ।४७।

हर्षेण महताविष्टः स हुंडो दानवेश्वरः ।

कुंजल उवाच-

प्रभाते विमले जाते वशिष्ठो मुनिसत्तमः ।४८।

बहिर्गतो हि धर्मात्मा कुटीद्वारात्प्रपश्यति ।

संपूर्णं बालकं दृष्ट्वा दिव्यलक्षणसंयुतम् ।४९।

संपूर्णेंदुप्रतीकाशं सुंदरं चारुलोचनम् ।

वशिष्ठ उवाच-

पश्यंतु मुनयः सर्वे यूयमागत्य बालकम् ।५०।

कस्य केन समानीतं रात्रौ द्वारांगणे मम ।

देवगंधर्वगर्भाभं राजलक्षणसंयुतम् ।५१।

कंदर्पकोटिसंकाशं पश्यंतु मुनयोऽमलम् ।

महाकौतुकसंयुक्ता हृष्टा द्विजवरास्ततः।५२।

समपश्यन्सुतं ते तु आयोश्चैव महात्मनः ।

वशिष्ठः स तु धर्मात्मा ज्ञानेनालोक्य बालकम्।५३।

आयुपुत्रं समाज्ञातं चरित्रेण समन्वितम् ।

वृत्तांतं तस्य दुष्टस्य हुण्डस्यापि दुरात्मनः।५४।

कृपया ब्रह्मपुत्रस्तु समुत्थाय सुबालकम् ।

कराभ्यामथ गृह्णाति यावद्द्विजो वरोत्तमः।५५।

तावत्पुष्पसुवृष्टिं च चक्रुर्देवाः सुतोपरि ।

ललितं सुस्वरं गीतं जगुर्गंधर्वकिन्नराः।५६।

ऋषयो वेदमंत्रैस्तु स्तुवंति नृपनंदनम् ।

वशिष्ठस्तं समालोक्य वरं वै दत्तवांस्तदा।५७।

नहुषेत्येव ते नाम ख्यातं लोके भविष्यति ।

हुषितो नैव तेनापि बालभावैर्नराधिप ।५८।

तस्मान्नहुष ते नाम देवपूज्यो भविष्यसि।

जातकर्मादिकं कर्म तस्य चक्रे द्विजोत्तमः।५९।

व्रतदानं विसर्गं च गुरुशिष्यादिलक्षणम्।

वेदं चाधीत्य संपूर्णं षडंगं सपदक्रमम्।६०।

सर्वाण्येव च शास्त्राणि अधीत्य द्विजसत्तमात्।

वशिष्ठाच्च धनुर्वेदं सरहस्यं महामतिः।६१।

शस्त्राण्यस्त्राणि दिव्यानि ग्राहमोक्षयुतानि च।

ज्ञानशास्त्रादिकं न्याय राजनीतिगुणादिकान्।६२।

वशिष्ठादायुपुत्रश्च शिष्यरूपेण भक्तिमान्।

एवं स सर्वनिष्पन्नो नाहुषश्चातिसुंदरः।६३।

वशिष्ठस्य प्रसादाच्च चापबाणधरोभवत्।६४।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे पंचोत्तरशततमोऽध्यायः ।१०५।

खण्डः २ (भूमिखण्डः) — Adhyāya 106

कुंजल उवाच-

आयुभार्या महाभागा स्वर्भानोस्तनया सुतम् ।

अपश्यंती सुबालं तं देवोपममनौपमम् १।

हाहाकारं महत्कृत्वा रुरोद वरवर्णिनी ।

केन मे लक्षणोपेतो हृतो बालः सुलक्षणः २।

तपसा दानयज्ञैश्च नियमैर्दुष्करैः सुतः ।

संप्राप्तो हि मया वत्स कष्टैश्च दारुणैः पुनः ३।

दत्तात्रेयेण पुण्येन संतुष्टेन महात्मना ।

दत्तः पुत्रो हृतः केन रुरोद करुणान्विता ४।

हा पुत्र वत्स मे तात हा बालगुणमंदिर ।

क्वासि केनापनीतोसि मम शब्दः प्रदीयताम् ५।

सोमवंशस्य सर्वस्य भूषणोसि न संशयः ।

केन त्वमपनीतोसि मम प्राणैः समन्वितः ६।

राजसुलक्षणैर्दिव्यैः संपूर्णः कमलेक्षणः ।

केनाद्यापहृतो वत्सः किं करोमि क्व याम्यहम् ७।

स्फुटं जानाम्यहं कर्म ह्यन्यजन्मनि यत्कृतम् ।

न्यासनाशः कृतः कस्य तस्मात्पुत्रो हृतो मम ८।

किं वा छलं कृतं कस्य पूर्वजन्मनि पापया ।

कर्मणस्तस्य वै दुःखमनुभुंजामि नान्यथा ९।

रत्नापहारिणी जाता पुत्ररत्नं हृतं मम ।

तस्माद्दैवेन मे दिव्य अनौपम्य गुणाकरः १०।

किं वा वितर्कितो विप्रः कर्मणस्तस्य वै फलम् ।

प्राप्तं मया न संदेहः पुत्रशोकान्वितं भृशम् ११।

किं वा शिशुविरोधश्च कृतो जन्मांतरे मया ।

तस्य पापस्य भुंजामि कर्मणः फलमीदृशम् १२।

याचमानस्य चैवाग्रे वैश्वदेवस्य कर्मणः ।

किं वापि नार्पितं चान्नं व्याहृतीभिर्हुतं द्विजैः १३।

एवं सुदेवमानाच्च स्वर्भानोस्तनया तदा ।

इंदुमती महाभाग शोकेन करुणाकुला १४।

पतिता मूर्च्छिता शोकाद्विह्वलत्वं गता सती ।

निःश्वासान्मुंचमाना सा वत्सहीना यथा हि गौः १५।

आयू राजा स शोकेन दुःखेन महतान्वितः ।

बालं श्रुत्वा हृतं तं तु धैर्यं तत्याज पार्थिवः १६।

तपसश्च फलं नास्ति नास्ति दानस्य वै फलम् ।

यस्मादेवं हृतः पुत्रस्तस्मान्नास्ति न संशयः १७।

दत्तात्रेयः प्रसादेन वरं मे दत्तवान्पुरा ।

अजेयं च जयोपेतं पुत्रं सर्वगुणान्वितम् १८।

तस्य वरप्रदानस्य कथं विघ्नो ह्यजायत ।

इति चिंतापरो राजा दुःखितः प्रारुदद्भृशम् १९।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने षडधिकशततमोऽध्यायः १०६।

खण्डः २ (भूमिखण्डः) — Adhyāya 107

कुंजल उवाच-

अथासौ नारदः स्वर्गादायुराजानमागतः ।

आगत्य कथयामास कस्माद्राजन्प्रशोचसे १।

पुत्रापहरणं तेऽद्य क्षेमं जातं महामते ।

देवादीनां महाराज एवं ज्ञात्वा तु मा शुचः २।

सर्वज्ञः सगुणो भूत्वा सर्वविज्ञानसंयुतः ।

सर्वकलाभिसंपूर्ण आगमिष्यति ते सुतः ३।

येनाप्यपहृतस्तेऽद्य बालो देवगुणोपमः ।

आत्मगेहे महाराज कालो नीतो न संशयः ४।

तस्याप्यंतं स वै कर्त्ता महावीर्यो महाबलः ।

स त्वामभ्येष्यते भूप शिवस्य सुतया सह ५।

इंद्रोपेंद्रसमः पुत्रो भविष्यति स्वतेजसा ।

इंद्रत्वं भोक्ष्यते सोऽपि निजैश्च पुण्यकर्मभिः ६।

एवमाभाष्य राजानमायुं देवर्षिसत्तमः ।

जगाम सहसा तस्य पश्यतः सानुगस्य ह ७।

गते तस्मिन्महाभागे नारदे देवसंमिते ।

आयुरागत्य तां राज्ञीं तत्सर्वं विन्यवेदयत् ८।

दत्तात्रेयेण यो दत्तः पुत्रो देववरोत्तमः ।

स वै राज्ञि कुशल्यास्ते विष्णोश्चैव प्रसादतः ९।

येनाप्यसौ हृतः पुत्रः सगुणो मे वरानने ।

शिरस्तस्य गृहीत्वा तु पुनरेवागमिष्यति १०।

इत्याह नारदो भद्रे मा कृथाः शोकमेव च ।

त्यज चैनं महामोहं कार्यधर्मविनाशनम् ११।

भर्तुर्वाक्यं निशम्यैवं राज्ञी इंदुमती ततः ।

हर्षेणापि समाविष्टा पुत्रस्यागमनं प्रति १२।

यथोक्तं देवऋषिणा तत्तथैव भविष्यति ।

दत्तात्रेयेण मे दत्तस्तनपो ह्यजरामरः १३।

भविष्यति न संदेहः प्रतिभात्येनमेव हि ।

इत्येवं चिंतयित्वा तु ननाम द्विजपुंगवम् १४।

नमोस्तु तस्मै परिसिद्धिदाय अत्रेः सुपुत्राय महात्मने च ।

यस्य प्रसादेन मया सुपुत्रः प्राप्तः सुधीरः सुगुणः सुपुण्यः १५।

एवमुक्त्वा तु सा देवी विरराम सुदुःखिता ।

आगमिष्यंतमाज्ञाय नहुषं तनयं पुनः १६।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने सप्तोत्तरशततमोऽध्यायः १०७।

खण्डः २ (भूमिखण्डः) — Adhyāya 108

कुंजल उवाच-

ब्रह्मपुत्रो महातेजा वशिष्ठस्तपतां वरः ।

नहुषं तं समाहूय इदं वचनमब्रवीत् १।

वनं गच्छ स्वशीघ्रेण वन्यमानय पुष्कलम् ।

समाकर्ण्य मुनेर्वाक्यं नहुषो वनमाययौ २।

तत्र किंचित्सुवृत्तांतं शुश्राव नहुषो बलः ।

अयमेष स धर्मात्मा नहुषो नाम वीर्यवान् ३।

आयोः पुत्रो महाप्राज्ञो बाल्यान्मात्रा वियोजितः ।

अस्यैवातिवियोगेन आयुभार्या प्ररोदिति ४।

अशोकसुंदरी तेपे तपः परमदुष्करम् ।

कदा पश्यति सा देवी पुत्रमिंदुमती शुभा ५।

नाहुषं नाम धर्मज्ञं हृतं पूर्वं तु दानवैः ।

तपस्तेपे निरालंबा शिवस्य तनया वरा ६।

अशोकसुंदरी बाला आयुपुत्रस्य कारणात् ।

अनेनापि कदा सा हि संगता तु भविष्यति ७।

एवं सांसारिकं वाक्यं दिवि चारणभाषितम् ।

शुश्राव स हि धर्मात्मा नहुषो विभ्रमान्वितः ८।

स गत्वा वन्यमादाय वशिष्ठस्याश्रमं प्रति ।

वन्यं निवेद्य धर्मात्मा वशिष्ठाय महात्मने ९।

बद्धांजलिपुटोभूत्वा भक्त्या नमितकंधरः ।

तमुवाच महाप्राज्ञं वशिष्ठं तपतां वरम् १०।

भगवञ्छ्रूयतां वाक्यमपूर्वं चारणेरितम् ।

एष वै नहुषो नाम्ना आयुपुत्रो वियोजितः ११।

मात्रा सह सुदुःखैस्तु इंदुमत्या हि दानवैः ।

शिवस्य तनया बाला तपस्तेपे सुदुश्चरम् १२।

निमित्तमस्य धीरस्य नहुषस्येति वै गुरो ।

एवमाभाषितं तैस्तु तत्सर्वं हि मया श्रुतम् १३।

कोसावायुः स धर्मात्मा कासा त्विंदुमती शुभा ।

अशोकसुंदरी कासा नहुषेति क उच्यते १४।

एतन्मे संशयं जातं तद्भवांश्छेत्तुमर्हति ।

अन्यः कोपि महाप्राज्ञः कुत्रासौ नहुषेति च १५।

तत्सर्वं तात मे ब्रूहि कारणांतरमेव हि ।

वशिष्ठ उवाच-

आयु राजा स धर्मात्मा सप्तद्वीपाधिपो बली १६।

भार्या इंदुमती तस्य सत्यरूपा यशस्विनी ।

तस्यामुत्पादितः पुत्रो भवान्वै गुणमंदिरम् १७।

आयुना राजराजेन सोमवंशस्य भूषणम् ।

हरस्य कन्या सुश्रोणी गुणरूपैरलंकृता १८।

अशोकसुंदरी नाम्ना सुभगा चारुहासिनी ।

तस्य हेतोस्तपस्तेपे निरालंबा तपोवने १९।

तस्या भर्ता भवान्सृष्टो धात्रा योगेन निश्चितः ।

गंगायास्तीरमाश्रित्य ध्यानयोग समाश्रिता २०।

हुंडश्च दानवेंद्रो यो दृष्ट्वा चैकाकिनीं सतीम् ।

तपसा प्रज्वलंतीं च सुभगां कमलेक्षणाम् २१।

रूपौदार्यगुणोपेतां कामबाणैः प्रपीडितः ।

तां बभाषेऽन्तिकं गत्वा मम भार्या भवेति च २२।

एवं सा तद्वचः श्रुत्वा तमुवाच तपस्विनी ।

मा हुंड साहसं कार्षीर्मा जल्पस्व पुनः पुनः २३।

अप्राप्याहं त्वया वीर परभार्या विशेषतः ।

दैवेन मे पुरा सृष्ट आयुपुत्रो महाबलः २४।

नहुषो नाम मेधावी भविष्यति न संशयः ।

देवदत्तो महातेजा अन्यथा त्वं करिष्यसि २५।

ततः शाप्रं पदास्यामि येन भस्मी भविष्यसि ।

एवमाकर्ण्य तद्वाक्यं कामबाणैः प्रपीडितः २६।

व्याजेनापि हृता तेन प्रणीता निजमंदिरे ।

ज्ञात्वा तया महाभाग शप्तोऽसौ दानवाधमः २७।

नहुषस्यैव हस्तेन तव मृत्युर्भविष्यति ।

अजाते त्वयि संजाता वदसे त्वं यथैव तत् २८।

स त्वमायुसुतो वीर हृतो हुंडेन पापिना ।

सूदेन रक्षितो दास्या प्रेषितो मम चाश्रमम् २९।

भवंतं वनमध्ये च दृष्ट्वा चारणकिन्नरैः ।

यत्तु वै श्रावितं वत्स मया ते कथितं पुनः ३०।

जहि तं पापकर्तारं हुंडाख्यं दानवाधमम् ।

नेत्राभ्यां हि प्रमुंचंतीमश्रूणि परिमार्जय ३१।

इतो गत्वा प्रपश्य त्वं गंगातीरं महाबलम् ।

निपात्य दानवेंद्रं तं कारागृहात्समानय ३२।

अशोकसुंदरी याहि तस्या भर्ता भवस्व हि ।

एतत्ते सर्वमाख्यातं प्रश्नस्यास्य हि कारणम् ३३।

आभाष्य नहुषं विप्रो विरराम महामतिः ३४।

आकर्ण्य सर्वं मुनिना प्रयुक्तमाश्चर्यभूतं स हि चिंत्यमानः ।

तस्यांतमेकः परिकर्तुकाम आयोः सुतः कोपमथो चकार ३५।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्यानेऽष्टोत्तरशततमोऽध्यायः १०८।

खण्डः २ (भूमिखण्डः) — Adhyāya 109

कुंजल उवाच-

प्रणिपत्य प्रसाद्यैव वशिष्ठं तपतां वरम् ।

आमंत्र्य निर्जगामाथ बाणपाणिर्धनुर्धरः १।

एणस्य मांसं सुविपाच्यभोजितं बालस्तया रक्षित एव बुद्ध्या ।

आयोः सुपुत्रः सगुणः सुरूपो देवोपमो देवगुणैश्च युक्तः २।

तेनैव मांसेन सुसंस्कृतेन मृष्टेन पक्वेन रसानुगेन ।

तमेव दैत्यं परिभाष्य सूदो दुष्टं सुहर्षेण व्यभोजयत्तदा ३।

बुभुजे दानवो मांसं रसस्वादुसमन्वितम् ।

हर्षेणापि समाविष्टो जगामाशोकसुंदरीम् ४।

तामुवाच ततस्तूर्णं कामोपहतचेतनः ।

आयुपुत्रो मया भद्रे भक्षितः पतिरेव ते ५।

मामेव भज चार्वंगि भुंक्ष्व भोगान्मनोनुगान् ।

किं करिष्यसि तेन त्वं मानुषेण गतायुषा ६।

प्रत्युवाच समाकर्ण्य शिवकन्या तपस्विनी ।

भर्ता मे दैवतैर्दत्तो अजरो दोषवर्जितः ७।

तस्य मृत्युर्न वै दृष्टो देवैरपि महात्मभिः ।

एवमाकर्ण्य तद्वाक्यं दानवो दुष्टचेष्टितः ८।

तामुवाच विशालाक्षीं प्रहस्यैव पुनः पुनः ।

अद्यैव भक्षितं मांसमायुपुत्रस्य सुंदरि ९।

जातमात्रस्य बालस्य नहुषस्य दुरात्मनः ।

एवमाकर्ण्य सा वाक्यं कोपं चक्रे सुदारुणम् १०।

प्रोवाच सत्यसंस्था सा तपसा भाविता पुनः ।

तप एव मया तप्तं मनसा नियमेन वै ।

आयुसुतश्चिरायुश्च सत्येनैव भविष्यति ११।

इतो गच्छ दुराचार यदि जीवितुमिच्छसि ।

अन्यथा त्वामहं शप्स्ये पुनरेव न संशयः १२।

एवमाकर्णितं तस्याः सूदेन नृपतिं प्रति ।

परित्यज्य महाराज एतामन्यां समाश्रय १३।

सूदेन प्रेषितो दैत्यः स हुंडः पापचेतनः ।

निर्जगाम त्वरायुक्तः स स्वां भार्यां प्रियां प्रति १४।

चेष्टितं नैव जानाति दास्या सूदेन यत्कृतम् ।

तस्यै निवेदितं सर्वं प्रियायै वृत्तमेव च १५।

सूत उवाच-

अशोकसुंदरी सा च महता तपसा किल ।

दुःखशोकेन संतप्ता कृशीभूता तपस्विनी १६।

चिंतयंती प्रियं कांतं तं ध्यायति पुनः पुनः ।

किं न कुर्वंति वै दैत्या उपायैर्विविधैरपि १७।

उपायज्ञाः सदा बुद्ध्या उद्यमेनापि सर्वदा ।

वर्तंते दनुजश्रेष्ठा नानाभावैश्च सर्वदा १८।

मायोपायेन योगेन हृताहं पापिना पुरा ।

तथा स घातितः पुत्र आयोश्चैव भविष्यति १९।

यं दृष्ट्वा दैवयोगेन भवितारमनामयम् ।

उद्यमेनापि पश्येत किं वा नश्यति वा न वा २०।

किं वा स उद्यमः श्रेष्ठः किं वा तत्कर्मजं फलम् ।

भाविभावः कथं नश्येत्ततो वेदः प्रतिष्ठति २१।

विशेषो भावितो देवैः स कथं चान्यथा भवेत् ।

एवमेवं महाभागा चिंतयंती पुनः पुनः २२।

किन्नरो विद्वरो नाम बृहद्वंशोमहातनुः ।

सनाभ्योर्धनरः कायः पक्षाभ्यां हि विवर्जितः २३।

द्विभुजो वंशहस्तस्तु हारकंकणशोभितः ।

दिव्यगंधानुलिप्तांगो भार्यया सह चागतः २४।

तामुवाच निरानंदां स सुतां शंकरस्यहि ।

किमर्थं चिंतसे देवि विद्वरं विद्धि चागतम् २५।

किन्नरं विष्णुभक्तं मां प्रेषितं देवसत्तमैः ।

दुःखमेवं न कर्तव्यं भवत्या नहुषं प्रति २६।

हुंडेन पापचारेण वधार्थं तस्य धीमतः ।

कृतमेवाखिलं कर्म हृतश्चायुसुतः शुभे २७।

स तु वै रक्षितो देवैरुपायैर्विविधैरपि ।

हुंड एवं विजानाति आयुपुत्रो हृतो मया २८।

भक्षितस्तु विशालाक्षि इति जानाति वै शुभे ।

भवतां श्रावयित्वा हि गतोसौ दानवोऽधमः २९।

स्वेनकर्मविपाकेन पुण्यस्यापि महायशाः ।

पूर्वजन्मार्जितेनैव तव भर्त्ता स जीवति ३०।

पुण्यस्यापि बलेनैव येषामायुर्विनिर्मितम् ।

स्वर्जितस्य महाभागे नाशमिच्छंति घातकाः ३१।

दुष्टात्मानो महापापाः परतेजोविदूषकाः ।

तेषां यशोविनाशार्थं प्रपंचंति दिने दिने ३२।

नानाविधैरुपायैस्ते विषशस्त्रादिभिस्ततः ।

हंतुमिच्छंति तं पुण्यं पुण्यकर्माभिरक्षितम् ३३।

पापिनश्चैव हुंडाद्या मोहनस्तंभनादिभिः ।

पीडयंति महापापा नानाभेदैर्बलाविलैः ३४।

सुकृतस्य प्रयोगेण पूर्वजन्मार्जितेन हि ।

पुण्यस्यापि महाभागे पुण्यवंतं सुरक्षितम् ३५।

वैफल्यं यांति तेषां वै उपायाः पापिनां शुभे ।

यंत्रतंत्राणि मंत्राश्च शस्त्राग्निविषबंधनाः ३६।

रक्षयंति महात्मानं देवपुण्यैः सुरक्षितम् ।

कर्तारो भस्मतां यांति स वै तिष्ठति पुण्यभाक् ३७।

आयुपुत्रस्य वीरस्य रक्षका देवताः शुभे ।

पुण्यस्य संचयं सर्वे तपसां निधिमेव तु ३८।

तस्माच्च रक्षितो वीरो नहुषो बलिनां वरः ।

सत्येन तपसा तेन पुण्यैश्च संयमैर्दमैः ३९।

मा कृथा दारुणं दुःखं मुंच शोकमकारणम् ।

स हि जीवति धर्मात्मा मात्रा पित्रा विना वने ४०।

तपोवनेव सत्येकस्तपस्वि परिपालितः ।

वेदवेदांगतत्त्वज्ञो धनुर्वेदस्य पारगः ४१।

यथा शशी विराजेत स्वकलाभिः स्वतेजसा ।

तथा विराजते सोऽपि स्वकलाभिः सुमध्यमे ४२।

विद्याभिस्तु महापुण्यैस्तपोभिर्यशसा तथा ।

राजते परवीरघ्नो रिपुहा सुरवल्लभः ४३।

हुंडं निहत्य दैत्येंद्रं त्वामेवं हि प्रलप्स्यते ।

त्वया सार्द्धं स्त्रिया चैव पृथिव्यामेकभूपतिः ४४।

भविष्यति महायोगी यथा स्वर्गे तु वासवः ।

त्वं तस्मात्प्राप्स्यसे भद्रे सुपुत्रं वासवोपमम् ४५।

ययातिं नामधर्मज्ञं प्रजापालनतत्परम् ।

तथा कन्याशतं चापि रूपौदार्यगुणान्वितम् ४६।

यासां पुण्यैर्महाराज इंद्रलोकं प्रयास्यति ।

इंद्रत्वं भोक्ष्यते देवि नहुषः पुण्यविक्रमः ४७।

ययातिर्नाम धर्मात्मा आत्मजस्ते भविष्यति ।

प्रजापालो महाराजः सर्वजीवदयापरः ४८।

तस्य पुत्रास्तु चत्वारो भविष्यंति महौजसः ।

बलवीर्यसमोपेता धनुर्वेदस्य पारगाः ४९।

प्रथमश्च तुरुर्नाम पुरुर्नाम द्वितीयकः ।

उरुर्नाम तृतीयश्च चतुर्थो वीर्यवान्यदुः ५०।

एवं पुत्रा महावीर्यास्तेजस्विनो महाबलाः ।

भविष्यंति महात्मानः सर्वतेजः समन्विताः ५१।

यदोश्चैव सुता वीराः सिंहतुल्यपराक्रमाः ।

तेषां नामानि भद्रं ते गदतः शृणु सांप्रतम् ५२।

भोजश्च भीमकश्चापि अंधकः कुञ्जरस्तथा ।

वृष्णिर्नाम सुधर्मात्मा सत्याधारो भविष्यति ५३।

षष्ठस्तु श्रुतसेनश्च श्रुताधारस्तु सप्तमः ।

कालदंष्ट्रो महावीर्यः समरे कालजिद्बली ५४।

यदोः पुत्रा महावीर्या यादवाख्या वरानने ।

तेषां तु पुत्राः पौत्रास्ते भविष्यंति सहस्रशः ५५।

एवं नहुषवंशो वै तव देवि भविष्यति ।

दुःखमेवं परित्यज्य सुखेनानुप्रवर्तय ५६।

समेष्यति महाप्राज्ञस्तव भर्ता शुभानने ।

निहत्य दानवं हुंडं त्वामेवं परिणेष्यति ५७।

दुःखजातानि सोष्णानि नेत्राभ्यां हि पतंति च ।

अश्रूणि चेंदुमत्याश्च संमार्जयति मानदः ५८।

आयोश्च दुःखमुद्धृत्य स्वकुलं तारयिष्यति ।

सुखिनं पितरं कृत्वा प्रजापालो भविष्यति ५९।

एतत्ते सर्वमाख्यातं देवानां कथनं शुभे ।

दुःखं शोकं परित्यज्य सुखेन परिवर्त्तय ६०।

अशोकसुंदर्युवाच-

कदा ह्येष्यति मे भर्त्ता विहितो दैवतैर्यदि ।

सत्यं वद स्वधर्मज्ञ मम सौख्यं विवर्द्धय ६१।

विद्वर उवाच-

अचिराद्द्रक्ष्यसि भर्तारं त्वमेवं शृणु सुंदरि ।

एवमुक्त्वा जगामाथ गंधर्वो विबुधालयम् ६२।

अशोकसुंदरी सा च तपस्तेपे हि तत्र वै ।

कामं क्रोधं परित्यज्य लोभं चापि शिवात्मजा ६३।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने नवाधिकशततमोऽध्यायः १०९।

खण्डः २ (भूमिखण्डः) — Adhyāya 110

कुंजल उवाच-

आमंत्र्य स मुनीन्सर्वान्वशिष्ठं तपतांवरम् ।

समुत्सुको गंतुकामो नहुषो दानवं प्रति १।

ततस्ते मुनयः सर्वे वशिष्ठाद्यास्तपोधनाः ।

आशीर्भिरभिनंद्यैनमायुपुत्रं महाबलम् २।

आकाशे देवताः सर्वा जघ्नुर्वै दुंदुभीन्मुदा ।

पुष्पवृष्टिं प्रचक्रुस्ते नहुषस्य च मूर्धनि ३।

अथ देवः सहस्राक्षः सुरैः सार्द्धं समागतः ।

ददौ शस्त्राणि चास्त्राणि सूर्यतेजोपमानि च ४।

देवेभ्यो नृपशार्दूलो जगृहे द्विजसत्तम ।

तानि दिव्यानि चास्त्राणि दिव्यरूपोपमोऽभवत् ५।

अथ ता देवताः सर्वाः सहस्राक्षमथाब्रुवन् ।

स्यंदनो दीयतामस्मै नहुषाय सुरेश्वर ६।

देवानां मतमाज्ञाय वज्रपाणिः स्वसारथिम् ।

आहूय मातलि तं तु आदिदेश ततो द्विज ७।

एनं गच्छ महात्मानमुह्यतां स्यंदनेन वै ।

सध्वजेन महाप्राज्ञमायुजं समरोद्यतम् ८।

स चोवाच सहस्राक्षं करिष्ये तवशासनम् ।

एवमुक्त्वा जगामाशु ह्यायुपुत्रं रणोद्यतम् ९।

राजानं प्रत्युवाचैव देवराजस्य भाषितम् ।

विजयी भव धर्मज्ञ रथेनानेन संगरे १०।

इत्युवाच सहस्राक्षस्त्वामेव नृपतीश्वर ।

जहि त्वं दानवं संख्ये तं हुंडं पापचेतनम् ११।

समाकर्ण्य स राजेंद्र सानंदपुलकोद्गमः ।

प्रसादाद्देवदेवस्य वशिष्ठस्य महात्मनः १२।

दानवं सूदयिष्यामि समरे पापचेतनम् ।

देवानां च विशेषेण मम मायापचारितम् १३।

एवमुक्ते महावाक्ये नहुषेण महात्मना ।

अथायातः स्वयं देवः शंखचक्रगदाधरः १४।

चक्राच्चक्रं समुत्पाट्य सूर्यबिंबोपमं महत् ।

ज्वलता तेजसा दीप्तं सुवृत्तारं शुभावहम् १५।

नहुषाय ददौ देवो हर्षेण महता किल ।

तस्मै शूलं ददौ शंभुः सुतीक्ष्णं तेजसान्वितम् १६।

तेन शूलवरेणासौ शोभते समरोद्यतः ।

द्वितीयः शंकरश्चासौ त्रिपुरघ्नो यथा प्रभुः १७।

ब्रह्मास्त्रं दत्तवान्ब्रह्मा वरुणः पाशमुत्तमम् ।

चंद्र तेजःप्रतीकाशं शंखं च नादमंगलम् १८।

वज्रमिंद्रस्तथा शक्तिं वायुश्चापं समार्गणम् ।

आग्नेयास्त्रं तथा वह्निर्ददौ तस्मै महात्मने १९।

शस्त्राण्यस्त्राणि दिव्यानि बहूनि विविधानि च ।

ददुर्देवा महात्मानस्तस्मै राज्ञे महौजसे २०।

कुंजल उवाच-

अथ आयुसुतो वीरो दैवतैः परिमानितः ।

आशीर्भिर्नंदितश्चापि मुनिभिस्तत्त्ववेदिभिः २१।

आरुरोह रथं दिव्यं भास्वरं रत्नमालिनम् ।

घंटारवैः प्रणदंतं क्षुद्रघंटासमाकुलम् २२।

रथेन तेन दिव्येन शुशुभे नृपनदंनः ।

दिविमार्गे यथा सूर्यस्तेजसा स्वेन वै किल २३।

प्रतपंस्तेजसा तद्वद्दैत्यानां मस्तकेषु सः ।

जगाम शीघ्रं वेगेन यथा वायुः सदागतिः २४।

यत्रासौ दानवः पापस्तिष्ठते स्वबलैर्युतः ।

तेन मातलिना सार्द्धं वाहकेन महात्मना २५।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने दशाधिकशततमोऽध्यायः ११०।

खण्डः २ (भूमिखण्डः) — Adhyāya 111

कुंजल उवाच-

निर्गच्छमाने समराय वीरे नहुषे हि तस्मिन्सुरराज तुल्ये ।

सकौतुका मंगलगीतयुक्ताः स्त्रियस्तु सर्वाः परिजग्मुरत्र १।

देवतानां वरा नार्यो रंभाद्यप्सरसस्तथा ।

किन्नर्यः कौतुकोत्सुक्यो जगुः स्वरेण सत्तम २।

गंधर्वाणां तथा नार्यो रूपालंकारसंयुताः ।

कौतुकाय गतास्तत्र यत्र राजा स तिष्ठति ३।

पुरं महोदयं नाम हुंडस्यापि दुरात्मनः ।

नंदनोपवनैर्दिव्यैः सर्वत्र समलंकृतम् ४।

सप्तकक्षान्वितैर्गेहैः कलशैरुपशोभितः ।

सपताकैर्महादंडैः शोभमानं पुरोत्तमम् ५।

कैलासशिखराकारैः सोन्नतैर्दिवमास्थितैः ।

सर्वश्रियान्वितैर्दिव्यैर्भ्राजमानं पुरोत्तमम् ६।

वनैश्चोपवनैर्दिव्यैस्तडागैः सागरोपमैः ।

जलपूर्णैः सुशोभैस्तु पद्मै रक्तोत्पलान्वितैः ७।

प्राकारैश्च महारत्नैरट्टालकशतैरपि ।

परिखाभिः सुपूर्णाभिर्जलैः स्वच्छैः प्रशोभितम् ८।

अन्यैश्चैव महारत्नैर्गजाश्वैश्च विराजितम् ।

सुनारीभिः समाकीर्णं पुरुषैश्च महाप्रभैः ९।

नानाप्रभावैर्दिव्यैश्च शोभमानं महोदयम् ।

राजश्रेष्ठो महावीरो नहुषो ददृशे पुरम् १०।

पुरप्रांते वनं दिव्यं दिव्यवृक्षैरलंकृतम् ।

तद्विवेश महावीरो नंदनं हि यथाऽमरः ११।

रथेन सह धर्मात्मा तेन मातलिना सह ।

प्रविष्टः स तु राजेंद्रो वनमध्ये सरित्तटे १२।

तत्र ता रूपसंयुक्ता दिव्या नार्यः समागताः ।

गंधर्वा गीततत्त्वज्ञा जगुर्गीतैर्नृपोत्तमम् १३।

सूताश्च मागधाः सर्वे तं स्तुवंति नृपोत्तमम् ।

राजानमायुपुत्रं तं भ्राजमानं यथा रविम् १४।

शुश्राव गीतं मधुरं नहुषः किन्नरेरितम् १५।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने एकादशाधिकशततमोऽध्यायः १११।

खण्डः २ (भूमिखण्डः) — Adhyāya 112

कुंजल उवाच-

तदेव गानं च सुरांगनाभिर्गीतं समाकर्ण्य च गीतकैर्ध्रुवैः ।

समाकुला चापि बभूव तत्र सा शंभुपुत्री परिचिंतयाना १।

आसनात्तूर्णमुत्थाय महोत्साहेन संयुता ।

तूर्णं गता वरारोहा तपोभावसमन्विता २।

तं दृष्ट्वा देवसंकाशं दिव्यरूपसमप्रभम् ।

दिव्यगंधानुलिप्तांगं दिव्यमालाभिशोभितम् ३।

दिव्यैराभरणैर्वस्त्रैः शोभितं नृपनंदनम् ।

दीप्तिमंतं यथा सूर्यं दिव्यलक्षणसंयुतम् ४।

किं वा देवो महाप्राज्ञो गंधर्वो वा भविष्यति ।

किं वा नागसुतः सोयं किंवा विद्याधरो भवेत् ५।

देवेषु नैव पश्यामि कुतो यक्षेषु जायते ।

अनया लीलया वीरः सहस्राक्षोपि जायते ६।

शंभुरेष भवेत्किंवा किंवा चायं मनोभवः ।

किंवा पितुः सखा मे स्यात्पौलस्त्योऽयं धनाधिपः ७।

एवं समा चिंतयती च यावत्तावत्त्वरं रूपगुणाधिपा सा ।

समेत्य रंभासु महासखीभिरुवाच तां शंभुसुतां प्रहस्य ८।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने द्वादशाधिकशततमोऽध्यायः ११२।

खण्डः २ (भूमिखण्डः) — Adhyāya 113

रंभोवाच-

तप एतत्परित्यज्य किंवा लोकयसे शुभे ।

तपसः क्षरणं स्याद्वै पुरुषस्यापि चिंतनात् १।

अशोकसुंदर्युवाच-

तपसि मे मनो लीनं नहुषस्यापि काम्यया ।

न मां चालयितुं शक्ता देवासुरमहोरगाः २।

एनं दृष्ट्वा महाभागे मे मनश्चलते भृशम् ।

रंतुमिच्छाम्यहं गत्वा एवमुत्सुकतां गतम् ३।

एवं विपर्ययश्चासीन्मनसो मे वरावने ।

तन्मे त्वं कारणं ब्रूहि यद्यस्ति ज्ञानमुत्तमम् ४।

आयुपुत्रस्य भार्याहं देवैः सृष्टा महात्मभिः ।

कस्मान्मे धावते चेत उत्सुकं रंतुमेव च ५।

रंभोवाच-

सर्वेष्वेव महाभागे देहरूपेषु भामिनि ।

वसत्यात्मा स्वयं ब्रह्मज्ञानरूपः सनातनः ६।

यद्यपि प्रक्रियाबद्धैरिंद्रियैरुपकारिभिः ।

मोहपाशमयैर्बद्धस्तथा सिद्धस्तु सर्वदा ७।

प्रकृतिं नैव जानाति ज्ञानविज्ञानकीं कलाम् ।

अयं शुद्धश्च धर्मज्ञ आत्मा वेत्ति च सुंदरि ८।

गच्छंत्यपि मनस्तापमेनं दृष्ट्वा महामतिम् ।

पापमेवं परित्यज्य सत्यमेवं प्रधावति ९।

भर्तायमायुपुत्रस्ते एतत्सत्यं न संशयः ।

अन्यं दृष्ट्वा विशंकेत पुरुषं पापलक्षणम् १०।

एवं विधिः कृतो देवैः सत्यपाशेन बंधितः ।

यदस्या आयुपुत्रोपि भर्तृत्वमुपयास्यति ११।

एवमाकर्णितं भद्रे आत्मना तं च सुंदरि ।

तद्भावसत्यसंबंधं परिगृह्य स्थितः स्वयम् १२।

अन्यं भावं न जानाति आयुपुत्रं च विंदति ।

प्रकृतिर्नैव ते देवि पतिं जानाति चागतम् १३।

एवं ज्ञात्वा प्रधानात्मा तवाद्यैव प्रधावति ।

आत्मा सर्वं प्रजानाति आत्मा देवः सनातनः १४।

अयमेष स वीरेंद्रो नहुषो नाम वीर्यवान् ।

तस्माद्गच्छति चेतस्ते सत्यं संबंधमिच्छते १५।

ज्ञात्वा चायोः सुतं भद्रे अन्यं चैव न गच्छति ।

एतत्ते सर्वमाख्यातं शाश्वतं त्वन्मनोगतम् १६।

हुंडं हत्वा महाघोरं समरे दानवाधमम् ।

त्वां नयिष्यति स्वस्थानमायोश्च गृहमुत्तमम् १७।

हृतो दैत्येन वीरेंद्रो निजपुण्येन शेषितः ।

बाल्यात्प्रभृति वीरेंद्रो वियुक्तः स्वजनेन वै १८।

पितृमातृविहीनस्तु गतो वृद्धिं महावने ।

यास्यत्येव पितुर्गेहं त्वयैव सह सांप्रतम् १९।

एवमाभाषितं श्रुत्वा रंभायाः शिवनंदिनी ।

हर्षेण महताविष्टा तामुवाच समुद्रजाम् २०।

अयमेव स सत्यात्मा मम भर्ता सुवीर्यवान् ।

मनो मे धावतेऽत्यर्थं शोकाकुलितविह्वलम् २१।

नास्ति चित्तसमो देवो जानाति सुविनिश्चितम् ।

सत्यमेतन्मया दृष्टं सुचित्रं चारुहासिनि २२।

मनोभवसमानं तु पुरुषं दिव्यलक्षणम् ।

न धावति महाचेत एनं दृष्ट्वा यथा सखि २३।

तथा न धावते भद्रे पुंसमन्यं न मन्यते ।

एनं गंतव्यमावाभ्यां सखीभिर्गृहमेव हि २४।

एवमाभाष्य सा रंभा गमनायोपचक्रमे ।

गमनायोत्सुकां ज्ञात्वा नहुषस्यांतिकं प्रति २५।

तामुवाच ततो रंभा कस्माद्देवि न गम्यते ।

सूत उवाच-

सख्या च रंभया सार्द्धं नहुषं वीरलक्षणम् २६।

तस्यांतिकं सुसंप्राप्य प्रेषयामास तां सखीम् ।

एनं गच्छ महाभागे नहुषं देवरूपिणम् २७।

कथयस्व कथामेतां तवार्थे आगता यतः ।

रंभोवाच-।

एवं सखि करिष्यामि सुप्रियं तव सुव्रते २८।

एवमुक्त्वा गता रंभा नहुषं राजनंदनम् ।

चापबाणधरं वीरं द्वितीयमिव वासवम् २९।

प्रत्युवाच गता रंभा सख्या वचनमुत्तमम् ।

आयुपुत्र महाभाग रंभाहंसमुपागता ३०।

शिवस्य कन्यया वीर तयाहं परिप्रेषिता ।

तवार्थं देवदेवेन देव्या देवेन वै पुरा ३१।

भार्यारूपं वरं श्रेष्ठं सृष्टं लोकेषु दुर्लभम् ।

दुष्प्राप्यं तु नरश्रेष्ठैर्देवै सेंद्रैस्तपोधनैः ३२।

गंधर्वैः पन्नगैः सिद्धैश्चारणैः पुण्यलक्षणैः ।

स्वयमेव समायातं तवार्थे शृणु सांप्रतम् ३३।

स्त्रीरत्नं तन्महाप्राज्ञ संपूर्णं पुण्यनिर्मितम् ।

अशोकसुंदरी नाम तवार्थं तपसि स्थिता ३४।

अत्यर्थं तु तपस्तप्तं भवंतमिच्छते सदा ।

एवं ज्ञात्वा महाभाग भजमानां भजस्व हि ३५।

त्वामृते सा वरारोहा पुरुषं नैव याचते ।

नहुषेण तयोक्तं तु श्रुत्वावधारितं वचः ३६।

प्रत्युत्तरं ददौ चाथ रंभे मे श्रूयतां वचः ।

तत्तु सर्वं विजानामि यत्त्वयोक्तं ममाग्रतः ३७।

ममाग्रे कथितं पूर्वं वशिष्ठेन महात्मना ।

सर्वमेव विजानामि अस्यास्तु तप उत्तमम् ३८।

श्रूयतां कारणं भद्रे यथासौख्यं भविष्यति ।

अहत्वा दानवं हुंडं न गच्छामि वरांगनाम् ३९।

सर्वमेतत्सुवृत्तांतमहं जाने तथैव हि ।

ममार्थे तव संभूतिस्तपश्च चरितं त्वया ४०।

मम भार्या न संदेहो भवती विधिना कृता ।

ममार्थे निश्चयं कृत्वा तप आचरितं त्वया ४१।

हृता तस्मात्सुपापेन भवती नियमान्विता ।

सूतिगृहादहं तेन दानवेनाधमेन वै ४२।

बालभावस्थितो देवि पितृमातृविना कृतः ।

तस्मात्तं तु हनिष्यामि हुंडं वै दानवाधमम् ४३।

पश्चात्त्वामुपनेष्येऽहं वशिष्ठस्याश्रमं प्रति ।

एवं कथय भद्रं ते रंभे मत्प्रियकारिणीम् ४४।

एवं विसर्जिता तेन सत्वरं सा गता पुनः ।

अशोकसुंदरीं देवीं कथयामास तस्य च ४५।

समासेन तथा सर्वं रंभा सा द्विजसत्तम ।

अशोकसुंदरी सा तु अवधार्य सुभाषितम् ४६।

नहुषस्य सुवीरस्य हर्षेण च समन्विता ।

तस्थौ तत्र तया सार्द्धं सुसख्या रंभया तदा ४७।

भर्तुश्च कीदृशं वीर्यमिति पश्यामि वै सदा ४८।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने त्रयोदशाधिकशततमोऽध्यायः ११३।

खण्डः २ (भूमिखण्डः) — Adhyāya 114

कुंजल उवाच-

अथ ते दानवाः सर्वे हुंडस्य परिचारकाः ।

नहुषस्यापि संवादं रंभया तु यथाश्रुतम् १।

आचचक्षुश्च दैत्येंद्रं हुंडं सर्वं सुभाषितम् ।

तमाकर्ण्य स चुक्रोध दूतं वाक्यमथाब्रवीत् २।

गच्छ वीर ममादेशाज्जानीहि पुरुषं हि तम् ।

संभाषते तया सार्द्धं पुरुषः शिवकन्यया ३।

स्वामिनिर्देशमाकर्ण्य जगाम लघुदानवः ।

विविक्ते नहुषं वीरमिदं वचनमब्रवीत् ४।

रथेन साश्वसूतेन दिव्येन परितिष्ठति ।

धनुषा दिव्यबाणैस्तु सभायां हि भयंकरः ५।

कस्य केन तु कार्येण प्रेषितः केन वैभवान् ।

अनया रंभया तेऽद्य अन्यया शिवकन्यया ६।

किमुक्तं तत्स्फुटं सर्वं कथयस्व ममाग्रतः ।

हुंडस्य देवमर्दस्य न बिभेति भवान्कथम् ७।

एतन्मे सर्वमाचक्ष्व यदि जीवितुमिच्छसि ।

सत्वरं गच्छ मा तिष्ठ दुःसहो दानवाधिपः ८।

नहुष उवाच-

योऽसावायुर्बली राजा सप्तद्वीपाधिपः प्रभुः ।

तस्य मां तनयं विद्धि सर्वदैत्यविनाशनम् ९।

नहुषं नाम विख्यातं देवब्राह्मणपूजकम् ।

हुंडेनापहृतं बाल्ये स्वामिना तव दानव १०।

सेयं कन्या शिवस्यापि दैत्येनापहृता पुरा ।

घोरं तपश्चरत्येषा हुंडस्यापि वधाय च ११।

योहमादौ हृतो बालस्त्वया यः सूतिकागृहात् ।

दास्या अपि करे दत्तः सूदस्यापि दुरात्मना १२।

वधार्थं श्रूयतां पाप सोहमद्य समागतः ।

अस्यापि हुंडदैत्यस्य दुष्टस्य पापकर्मणः १३।

अन्यांश्च दानवान्घोरान्नयिष्ये यमसादनम् ।

मामेवं विद्धि पापिष्ठ एवं कथय दानवम् १४।

एवमाकर्ण्य तत्सर्वं नहुषस्य महात्मनः ।

गत्वा हुंडं स दुष्टात्मा आचचक्षेऽस्य भाषितम् १५।

निशम्य तन्मुखात्तूर्णं चुक्रोध दितिजेश्वरः ।

कस्मात्सूदेन पापेन तया दास्या न घातितः १६।

सोयं वृद्धिं समायातो मया व्याधिरुपेक्षितः ।

अथैनं घातयिष्यामि अनया शिवकन्यया १७।

आयोः पुत्रं खलं युद्धे बाणैरेभिः शिलाशितैः ।

एवं सचिंतयित्वा तु सारथिं वाक्यमब्रवीत् १८।

स्यंदनं योजयस्व त्वं तुरगैः साधुभिः शिवैः ।

सेनाध्यक्षं समाहूय इत्युवाच समातुरः १९।

सज्जतां मम सैन्यं त्वं शूरान्नागान्प्रकल्पय ।

सारोहैस्तुरगान्योधान्पताकाच्छत्रचामरैः २०।

चतुरंगबलं मेऽद्य योजयस्व हि सत्वरम् ।

एवमाकर्ण्य तत्तस्य हुंडस्यापि ततो लघुः २१।

सेनाध्यक्षो महाप्राज्ञः सर्वं चक्रे यथाविधि ।

चतुरंगेन तेनासौ बलेन महता वृतः २२।

जगाम नहुषं वीरं चापबाणधरं रणे ।

इंद्रस्य स्यंदने युक्तं सर्वशस्त्रभृतां वरम् २३।

उद्यंतं समरे वीरं दुरापं देवदानवैः ।

पश्यंति गगने देवा विमानस्था महौजसः २४।

तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम् ।

सूत उवाच-

अथ ते दानवाः सर्वे ववृषुस्तं शरोत्तमैः २५।

खड्गैः पाशैर्महाशूलैः शक्तिभिस्तु परश्वधैः ।

युयुधुः संयुगे तेन नहुषेण महात्मना २६।

संरब्धा गर्जमानास्ते यथा मेघा गिरौ तथा ।

तद्विक्रमं समालोक्य आयुपुत्रः प्रतापवान् २७।

इंद्रायुधसमं चापं विस्फार्य स गुणस्वरम् ।

वज्रस्फोटसमः शब्दश्चापस्यापि महात्मनः २८।

नहुषेण कृतो विप्रा दानवानां भयप्रदः ।

महता तेन घोषेण दानवाः प्रचकंपिरे २९।

कश्मलाविष्टहृदया भग्नसत्वा महाहवे ३०।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने चतुर्दशाधिकशततमोऽध्यायः ११४।

खण्डः २ (भूमिखण्डः) — Adhyāya 115

कुंजल उवाच-

ततस्त्वसौ संयति राजमानः समुद्यतश्चापधरो महात्मा ।

यथैव कालः कुपितः सलोकान्संहर्तुमैच्छत्तु तथा सुदानवान् १।

महास्त्रजालै रवितेजतुल्यैः सुदीप्तिमद्भिर्निजघान दानवान् ।

वायुर्यथोन्मूलयतीह पादपांस्तथैव राजा निजघान दानवान् २।

वायुर्यथा मेघचयं च दिव्यं संचालयेत्स्वेन बलेन तेजसा ।

तथा स राजा असुरान्मदोत्कटाननाशयद्बाणवरैः सुतीक्ष्णैः ३।

न शेकुर्दानवाः सर्वे बाणवर्षं महात्मनः ।

मृताः केचिद्द्रुताः केचित्केचिन्नष्टा महाहवात् ४।

सूत उवाच-

महातेजं महाप्राज्ञं महादानवनाशनम् ।

चुक्रोध हुंडो दुष्टात्मा दृष्ट्वा तं नृपनंदनम् ५।

स्थितो गत्वेदमाभाष्य तिष्ठतिष्ठेति चाहवे ।

त्वामद्य च नयिष्यामि आयुपुत्र यमांतिकम् ६।

नहुष उवाच-

स्थितोस्मि समरे पश्य त्वामहं हंतुमागतः ।

अहं त्वां तु हनिष्यामि दानवं पापचेतनम् ७।

इत्युक्त्वा धनुरादाय बाणानग्निशिखोपमान् ।

छत्रेण ध्रियमाणेन शुशुभे सोऽपि संयुगे ८।

इंद्रस्य सारथिं दिव्यं मातलिं वाक्यमब्रवीत् ।

वाहयतु रथं मेऽद्य हुंडस्य सम्मुखं भवान् ९।

इत्युक्तस्तेन वीरेण मातलिर्लघुविक्रमः ।

तुरगांश्चोदयामास महावातजवोपमान् १०।

उत्पेतुश्च ततो वाहा हंसा इव यथांबरे ।

छत्रेण इंदुवर्णेन रथेनापि पताकिना ११।

नभस्तलं तु संप्राप्य यथा सूर्यो विराजते ।

आयुपुत्रस्तथा संख्ये तेजसा विक्रमेण तु १२।

अथ हुंडो रथस्थोऽपि राजमानः स्वतेजसा ।

सर्वायुधैश्च संयुक्तस्तद्वद्वीरव्रते स्थितः १३।

उभयोर्वीरयोर्युद्धं देवविस्मयकारकम् ।

तदा आसीन्महाप्राज्ञ दारुणं भीतिदायकम् १४।

सुबाणैर्निशितैस्तीक्ष्णैः कंकपत्रैः शिलीमुखैः ।

हुंडेन ताडितो राजा सुबाह्वोरंतरे तदा १५।

सुभाले पंचभिर्बाणैर्विद्धः क्रुद्धोऽभवत्तदा ।

सविद्धस्तु तदा बाणैरधिकं शुशुभे नृपः १६।

सारुणः करमालाभिरुदयंश्च दिवाकरः ।

रुधिरेण तु दिग्धांगो हेमबाणैस्तनुस्थितैः १७।

सूर्यवच्छोभते राजा पूर्वकालस्य चांबरे ।

दृष्ट्वा तु पौरुषं तस्य दानवं वाक्यमब्रवीत् १८।

तिष्ठतिष्ठ क्षणं दैत्य पश्य मे लाघवं पुनः ।

इत्युक्त्वा तु रणे दैत्यं जघान दशभिः शरैः १९।

मुखे भाले हतस्तेन मूर्च्छितो निपपात ह ।

पश्यामानैः सुरैर्दिव्यै रथोपरि महाबलः २०।

देवैश्च चारणैः सिद्धैः कृतः शब्दः सुहर्षजः ।

जयजयेति राजेंद्र शंखान्दध्मुः पुनः पुनः २१।

सकोलाहलशब्दस्तु तुमलो देवतेरितः ।

कर्णरंध्रमाविवेश हुंडस्य मूर्छितस्य च २२।

श्रुत्वा सधनुरादाय बाणमाशीविषोपमम् ।

स्थीयतां स्थीयतां युद्धे न मृतोस्मि त्वया हतः २३।

इत्युक्त्वा पुनरुत्थाय लाघवेन समन्वितः ।

एकविंशतिभिर्बाणैर्नहुषं चाहनत्पुनः २४।

एकेन मुष्टिमध्ये तु चतुर्भिर्बाहुमध्यतः ।

चतुर्भिश्च महाश्वांश्च छत्रमेकेन तेन वै २५।

पंचभिर्मातलिं विद्ध्वा रथनीडं तु सप्तभिः ।

ध्वजदंडं त्रिभिस्तीक्ष्णैर्दानवः शिखिपत्रिभिः २६।

आदानं तु निदानं तु लक्षमोक्षं दुरात्मनः ।

लाघवं तस्य संदृष्ट्वा देवता विस्मयंगताः २७।

तस्य पौरुषमापश्य स राजा दानवोत्तमम् ।

शूरोसि कृतविद्योसि धीरोसि रणपंडितः २८।

इत्युक्वा दानवं तं तु धनुर्विस्फार्य भूपतिः ।

मार्गणैर्दशभिस्तं तु विव्याध लघुविक्रमः २९।

त्रिभिर्ध्वजं प्रचिच्छेद स पपात धरातले ।

तुरगान्पातयामास चतुर्भिस्तस्य सायकैः ३०।

एकेन छत्रं तस्यापि चकर्त लघुविक्रमः ।

दशभिः सारथिस्तस्य प्रेषितो यममंदिरम् ३१।

दंशनं दशभिश्छित्त्वा शरैश्च विदलीकृतः ।

सर्वांगेषु च त्रिंशद्भिर्विव्याध दनुजेश्वरम् ३२।

हताश्वो विरथो जातो बाणपाणिर्धनुर्धरः ।

अभ्यधावत्स वेगेन वर्षयन्निशितैः शरैः ३३।

खड्गचर्मधरो दैत्यो राजानं तमधावत ।

धावमानस्य हुंडस्य खड्गं चिच्छेद भूपतिः ३४।

क्षुरप्रैर्निशितैर्बाणैश्चर्म चिच्छेद भूपतिः ।

अथ हुंडः स दुष्टात्मा समालोक्य समंततः ३५।

जग्राह मुद्गरं तूर्णं मुमोच लघुविक्रमः ।

वज्रवेगं समायांतं ददृशे नृपतिस्तदा ३६।

मुद्गरं स्वनवंतं चापातयदंबरात्ततः ।

दशभिर्निशितैर्बाणैः क्षुरप्रैश्च स्वविक्रमात् ३७।

मुद्गरं पतितं दृष्ट्वा दशखण्डमयं भुवि ।

गदामुद्यम्य वेगेन राजानमभ्यधावत ३८।

खड्गेन तीक्ष्णधारेण तस्य बाहुं विचिच्छिदे ।

सगदं पतितं भूमौ सांगदं कटकान्वितम् ३९।

महारावं ततः कृत्वा वज्रस्फोटसमं तदा ।

रुधिरेणापि दिग्धांगो धावमानो महाहवे ४०।

क्रोधेन महताविष्टो ग्रस्तुमिच्छति भूपतिम् ।

दुर्निवार्यः समायातः पार्श्वं तस्य च भूपतेः ४१।

नहुषेण महाशक्त्या ताडितो हृदि दानवः ।

पतितः सहसा भूमौ वज्राहत इवाचलः ४२।

तस्मिन्दैत्ये गते भूमावितरे दानवा गताः ।

विविशुः कति दुर्गेषु कति पातालमाश्रिताः ४३।

देवाः प्रहर्षमाजग्मुर्गंधर्वाः सिद्धचारणाः ।

हते तस्मिन्महापापे नहुषेण महात्मना ४४।

तस्मिन्हते दैत्यवरे महाहवे देवाश्च सर्वे प्रमुदं प्रलेभिरे ।

तां देवरूपां तपसा प्रवर्द्धितां स आयुपुत्रः प्रतिलभ्य हर्षितः ४५।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने पंचदशाधिकशततमोऽध्यायः ११५।

खण्डः २ (भूमिखण्डः) — Adhyāya 116

कुंजल उवाच-

अशोकसुंदरी पुण्या रंभया सह हर्षिता ।

नहुषं प्राप्य विक्रांतं तमुवाच तपस्विनी १।

अहं ते धर्मतः पत्नी देवैर्दिष्टा तपस्विनी ।

उद्वाहयस्व मां वीर यदि धर्ममिहेच्छसि २।

सदैव चिंत्यमाना च त्वामहं तपसि स्थिता ।

भवान्धर्मप्रसादेन मया प्राप्तो नृपोत्तम ३।

नहुष उवाच-

मदर्थे नियता भद्रे यदि त्वं तपसि स्थिता ।

गुरोर्वाक्यान्मुहूर्तेन तव भर्ता भवाम्यहम् ४।

अनया रंभया सार्द्धमावां गच्छाव भामिनि ।

समारोप्य रथे तां तु तां रंभां तु मनोरमाम् ५।

तेनैव रथवर्येण वशिष्ठस्याश्रमं प्रति ।

जगाम लघुवेगेन ताभ्यां सह महायशाः ६।

तमाश्रमगतं विप्रं समालोक्य प्रणम्य च ।

तया सार्द्धं महातेजा हर्षेण महतान्वितः ७।

यथा युद्धं रणे जातं निहतो दानवाधमः ।

निवेदयामास सर्वं वशिष्ठाय महात्मने ८।

वशिष्ठोऽपि समाकर्ण्य नहुषस्य विचेष्टितम् ।

हर्षेण महताविष्ट आशीर्भिरभिनंद्य तम् ९।

तिथौ लग्ने शुभे प्राप्ते तयोस्तु मुनिपुंगवः ।

विवाहं कारयामास अग्निब्राह्मणसन्निधौ १०।

आशीर्भिरभिनंद्यैव मिथुनं प्रेषितं पुनः ।

मातरं पितरं पश्य द्रुतं गत्वा महामते ११।

त्वां च दृष्ट्वा हि ते माता पितासौ तव सुव्रत ।

हर्षेण वृद्धिमाप्नोतु पर्वणीव तु सागरः १२।

एवं संप्रेषितो वीरो मुनिना ब्रह्मसूनुना ।

तेनैव रथवर्येण जगाम लघुविक्रमः १३।

नमस्कृत्य द्विजेंद्रं तं गतो मातलिना तदा ।

स्वपुरं पितरं द्रष्टुं तथैव च स्वमातरम् १४।

सूत उवाच-

अप्सरा मेनिका नाम प्रेषिता दैवतैस्ततः ।

आयोर्भार्या सुदुःखेन पतिता शोकसागरे १५।

तामुवाच महाभागां देवीमिंदुमतीं प्रति ।

मुंच शोकं महाभागे तनयं पश्य सस्नुषम् १६।

निहत्य दानवं पापं तव पुत्रापहारकम् ।

समायांतं सभायां च वीरश्रियासमन्वितम् १७।

सुवृत्तं संगरे तस्य नहुषेण यथा कृतम् ।

तस्यै निवेदयामास इंदुमत्यै च मेनिका १८।

मेनिकाया वचः श्रुत्वा हर्षेण महतान्विता ।

सखि सत्यं ब्रवीषि त्वमित्युवाच सगद्गदम् १९।

सामृतं सुप्रियं प्रोक्तं मनःप्रोत्साहकारकम् ।

जीवादिकं मया देयं त्वयि सर्वस्वमेव हि २०।

एवमाभाष्य तां देवी राजानमिदमब्रवीत् ।

तव पुत्रो महाबाहुः समायातो हि सांप्रतम् २१।

आख्याति च महाराज एषा मे वै वराप्सराः ।

भर्तारमेवमाभाष्य विरराम सुहर्षिता २२।

समाकर्ण्य नृपेंद्रस्तु तामुवाच प्रियां प्रति ।

पुरा प्रोक्तं महाभागे मुनिना नारदेन हि २३।

पुत्रं प्रति न कर्तव्यं दुःखं राजंस्त्वया कदा ।

तं निहत्य सुवीर्येण दानवं चैष्यते सुतः २४।

संजातं सत्यमेवं वै मुनिना भाषितं पुरा ।

अन्यथा वचनं तस्य कथं देवि भविष्यति २५।

दत्तात्रेयो मुनिश्रेष्ठः साक्षाद्देवो भविष्यति ।

शुश्रूषितस्त्वया देवि मया च तपसा पुरा २६।

पुत्ररत्नं तेन दत्तं वैष्णवांशप्रधारकम् ।

सदा हनिष्यति परं दानवं पापचेतनम् २७।

सर्वदैत्यप्रहर्ता च प्रजापालो महाबलः ।

दत्तात्रेयेण मे दत्तो वैष्णवांशः सुतोत्तमः २८।

एवं संभाष्य तां देवीं राजा चेंदुमतीं तदा ।

महोत्सवं ततश्चक्रे पुत्रस्यागमनं प्रति २९।

हर्षेण महताविष्टो विष्णुं सस्मार वै पुनः ३०।

सर्वोपपन्नं सुरवर्गयुक्तमानंदरूपं परमार्थमेकम् ।

क्लेशापहं सौख्यप्रदं नराणां सद्वैष्णवानामिह मोक्षदं परम् ३१।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने षोडशाधिकशततमोऽध्यायः ११६।

खण्डः २ (भूमिखण्डः) — Adhyāya 117

कुंजल उवाच-

नहुषः प्रियया सार्द्धं तया चैव सरंभया ।

ऐंद्रेणापि स दिव्येन स्यंदनेन वरेण च १।

नागाह्वयं पुरं प्राप्तः सर्वशोभासमन्वितम् ।

दिव्यैर्मंगलकैर्युक्तं भवनैरुपशोभितम् २।

हेमतोरणसंयुक्तं पताकाभिरलंकृतम् ।

नानावादित्रनादैश्च बंदिचारणशोभितम् ३।

देवरूपोपमैः पुण्यैः पुरुषैः समलंकृतम् ।

नारीभिर्दिव्यरूपाभिर्गजाश्वैः स्यंदनैस्तथा ४।

नानामंगलशब्दैश्च वेदध्वनिसमाकुलम् ।

गीतवादित्रशब्दैश्च वीणावेणुस्वनैस्ततः ५।

सर्वशोभासमाकीर्णं विवेश स पुरोत्तमम् ।

वेदमंगलघोषैश्च ब्राह्मणैश्चैव पूजितः ६।

ददृशे पितरं वीरो मातरं च सुपुण्यकाम् ।

हर्षेण महताविष्टः पितुः पादौ ननाम सः ७।

अशोकसुंदरी सा तु तयोः पादौ पुनः पुनः ।

ननाम भक्त्या भावेन उभयोः सा वरानना ८।

रंभा च सा ननामाथ प्रीतिं चैवाप्यदर्शयत् ।

नमस्कृत्वा समाभाष्य स्वगुरुं नृपनंदनः ९।

अनामयं च पप्रच्छ मातरं पितरं प्रति ।

एवमुक्तो महाभागः सानंदपुलकोद्गमः १०।

आयुरुवाच-

अद्यैव व्याधयो नष्टा दुःखशोकावुभौ गतौ ।

भवतो दर्शनात्पुत्र सुतुष्ट्या हृष्यते जगत् ११।

कृतकृत्योस्मि संजातस्त्वयि जाते महौजसि ।

स्ववंशोद्धरणं कृत्वा अहमेव समुद्धृतः १२।

इंदुमत्युवाच-

पर्वणि प्राप्य इंदोस्तु तेजो दृष्ट्वा महोदधिः ।

वृद्धिं याति महाभाग तथाहं तव दर्शनात् १३।

वर्द्धितास्मि सुहृष्टास्मि आनंदेन समाकुला ।

दर्शनात्ते महाप्राज्ञ धन्या जातास्मि मानद १४।

एवं संभाष्य तं पुत्रमालिंग्य तनयोत्तमम् ।

शिरश्चाघ्राय तस्यापि वत्सं धेनुर्यथा स्वकम् १५।

अभिनंद्य सुतं प्राप्तं नहुषं देवरूपिणम् ।

आशीर्भिश्चार्चयद्देवी पुण्या इंदुमती तदा १६।

सूत उवाच-

अथासौ मातरं पुण्यां देवीमिंदुमतीं सुतः ।

कथयामास वृत्तांतं यथाहरणमात्मनः १७।

स्वभार्यायास्तथोत्पत्तिं प्राप्तिं चैव महायशाः ।

हुंडेनापि यथा युद्धं हुंडस्यापि निपातनम् १८।

समासेन समस्तं तदाख्यातं स्वयमेव हि ।

मातापित्रोर्यथा वृत्तं तयोरानंददायकम् १९।

मातापितरावाकर्ण्य पुत्रस्य विक्रमोद्यमम् ।

हर्षेण महताविष्टौ संजातौ पूर्णमानसौ २०।

नहुषो धनुरादाय इंद्रस्य स्यंदनेन वै ।

जिगाय पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम् २१।

पित्रे समर्पयामास वसुपूर्णां वसुंधराम् ।

पितरं हर्षयन्नित्यं दानधर्मैः सुकर्मभिः २२।

पितरं याजयामास राजसूयादिभिस्तदा ।

महायज्ञैश्च दानैश्च व्रतैर्नियमसंयमैः २३।

सुदानैर्यशसा पुण्यैर्यज्ञैः पुण्यमहोदयैः ।

सुसंपूर्णौ कृतौ तौ तु पितरौ चायुसूनुना २४।

अथ देवाः समागत्य नागाह्वयं पुरोत्तमम् ।

अभ्यषिंचन्महात्मानं नहुषं वीरमर्दनम् २५।

मुनिभिश्च सुसिद्धैश्च आयुना तेन भूभुजा ।

अभिषिंच्य स्वराज्ये तं समेतं शिवकन्यया २६।

भार्यायुक्तः स्वकायेन आयु राजा महायशाः ।

दिवं जगाम धर्मात्मा देवैः सिद्धैः सुपूजितः २७।

ऐंद्रं पदं परित्यज्य ब्रह्मलोकं गतः पुनः ।

हरलोकं जगामाथ मुनिभिर्देवपूजितः २८।

स्वकर्मभिर्महाराजः पुत्रस्यापि सुतेजसा ।

हरेर्लोकं गतः पुण्यैर्निवसत्येष भूपतिः २९।

पुरुषैः पुण्यकर्माख्यैरीदृशं पुण्यमुत्तमम् ।

जनितव्यं महाभाग किमन्यैः शोककारकैः ३०।

यथा जातः स धर्मात्मा नहुषः पितृतारकः ।

कुलस्य धर्त्ता सर्वस्य नहुषो ज्ञानपंडितः ३१।

एतत्ते सर्वमाख्यातं चरित्रं तस्य भूपतेः ।

अन्यत्किं ते प्रवक्ष्यामि वद पुत्र कपिंजल ३२।

एवंविधं पुण्यमयं पवित्रं चरित्रमेतद्यशसा समेतम् ।

आयोः सुतस्यापि शृणोति मर्त्यो भोगान्स भुक्त्वैति पदं मुरारेः ३३।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने सप्तदशाधिकशततमोऽध्यायः ११७।

खण्डः २ (भूमिखण्डः) — Adhyāya 118

कपिंजल उवाच-

गंगामुखे पुरा तात रोदमाना वरांगना ।

नेत्राभ्यामश्रुबिंदूनि पतंति च महाजले १।

गंगामध्ये निमज्जंति भवंति कमलानि च ।

पुष्पाणि दिव्यरूपाणि सौगंधानि महांति च २।

तस्यास्तात सुनेत्राभ्यां किमर्थं प्रपतंति च ।

गंगोदके महाभाग निर्मला अश्रुबिंदवः ३।

अस्थिचर्मावशेषस्तु जटाचीरधरः पुनः ।

तानि सौगंधयुक्तानि पद्मानि विचिनोति सः ४।

हेमवर्णानि दिव्यानि नीत्वा शिवं समर्चयेत् ।

सा का नारी समाचक्ष्व स वा को हि महामते ५।

अर्चयित्वा शिवं सोथ कस्मात्पश्चात्प्रदेवति ।

एतन्मे सर्वमाचक्ष्व यद्यहं वल्लभस्तव ६।

कुंजल उवाच-

शृणु वत्स प्रवक्ष्यामि वृत्तांतं देवनिर्मितम् ।

चरित्रं सर्वपापघ्नं विष्णोश्चैव महात्मनः ७।

योसौ हुंडो महावीर्यो नहुषेण हतो रणे ।

तस्य पुत्रस्तु विख्यातो विहुंडस्तप आस्थितः ८।

निहतं पितरं श्रुत्वा सामात्यं सपरिच्छदम् ।

आयुपुत्रेण वीरेण नहुषेण बलीयसा ९।

तपस्तपति सक्रोधाद्देवान्हंतुं समुद्यतः ।

पौरुषं तस्य दुष्टस्य तपसा वर्द्धितस्य च १०।

जानंति देवताः सर्वा दुःसहं समरांगणे ।

हुंडात्मजो विहुंडस्तु त्रैलोक्यं हंतुमुद्यतः ११।

पितुर्वैरं करिष्यामि हनिष्ये मानवान्सुरान् ।

एवं समुद्यतः पापी देवब्राह्मणकंटकः १२।

उपद्रवं समारेभे प्रजाः पीडयते च सः ।

तस्यैव तेजसा दग्धा देवाश्चेंद्रपुरोगमाः १३।

शरणं देवदेवस्य जग्मुर्विष्णोर्महात्मनः ।

देवदेवं जगन्नाथं शंखचक्रगदाधरम् १४।

ऊचुश्च पाहि नो नित्यं विहुंडस्य महाभयात् ।

श्रीविष्णुरुवाच-

वर्द्धंतु देवताः सर्वाः सुसुखेन महेश्वराः १५।

विहुंडं नाशयिष्यामि पापिष्ठं देवकंटकम् ।

एवमाभाष्य तान्देवान्मायां कृत्वा जनार्दनः १६।

स्वयमेवस्थितस्तत्र नंदने सुमहायशाः ।

मायामयं चकाराथ स्त्रीरूपं च गुणान्वितम् १७।

विष्णुमाया महाभागा सर्वविश्वप्रमोहिनी ।

चकार रूपमतुलं विष्णोर्मायाप्रमोहिनी १८।

विहुंडस्य वधार्थाय रूपलावण्यशालिनी ।

कुंजल उवाच-

स देवानां वधार्थाय दिव्यमार्गं जगाम ह १९।

नंदनांते ततो मायामपश्यद्दितिजेश्वरः ।

तया विमोहितो दैत्यः कामबाणकृतांतरः २०।

आत्मनाशं न जानाति कालरूपां वरस्त्रियम् ।

तां दृष्ट्वा नवहेमाभां रूपद्रविणशालिनीम् २१।

लुब्धो विहुंडः पापात्मा तामुवाच वरांगनाम् ।

कासि कस्य वरारोहे ममचित्तप्रमाथिनि २२।

संगमं देहि मे भद्रे रक्षरक्ष वरानने ।

संगमात्तव देवेशि यद्यदिच्छसि सांप्रतम् २३।

तत्तद्दद्मि महाभागे दुर्लभं देवदानवैः ।

मायोवाच-

मामेव भोक्तुमिच्छा चेद्दायं मे देहि दानव २४।

सप्तकोटिमितैश्चैव पुष्पैः पूजय शंकरम् ।

कामोदसंभवैर्दिव्यैः सौगंधैर्देवदुर्लभैः २५।

तेषां पुष्पकृतां मालां मम कंठे तु दानव ।

आरोपय महाभाग एतद्दायं प्रदेहि मे २६।

तदाहं सुप्रिया भार्या भविष्यामि न संशयः ।

विहुंड उवाच-

एवं देवि करिष्यामि वरं दद्मि प्रयाचितम् २७।

वनानि यानि पुण्यानि दिव्यानि दितिजेश्वरः ।

बभ्राममन्मथाविष्टो न च पश्यति तं द्रुमम् २८।

कामोदकाख्यं पप्रच्छ यत्रतत्र गतः स्वयम् ।

कामोदाख्यद्रुमो नास्ति वदंत्येवं महाजनाः २९।

पृच्छमानः स दुष्टात्मा कामबाणैः प्रपीडितः ।

पप्रच्छ भार्गवं गत्वा भक्त्या नमित कंधरः ३०।

कामोदकं द्रुमं ब्रूहि कांतं पुष्पसमन्वितम् ।

शुक्र उवाच-

कामोदः पादपो नास्ति योषिदेवास्ति दानव ३१।

यदा सा हसते चैव प्रसंगेन प्रहर्षिता ।

तद्धासाज्जज्ञिरे दैत्य सुगंधीनि वराण्यपि ३२।

सुमान्येतानि दिव्यानि कामोदाया न संशयः ।

हृद्यानि पीतपुष्पाणि सौरभेण युतानि च ३३।

तेनाप्येकेन पुष्पेण यः समर्चति शंकरम् ।

तस्येप्सितं महाकामं संपूरयति शंकरः ३४।

अस्याश्च रोदनाद्दैत्य प्रभवंति न संशयः ।

तादृशान्येव पुष्पाणि लोहितानि महांति च ३५।

सौरभेण विना दैत्य तेषां स्पर्शं न कारयेत् ।

एवमाकर्णितं तेन वाक्यं शुक्रस्य भाषितम् ३६।

उवाच सा तु कुत्रास्ति कामोदा भृगुनंदन ।

शुक्र उवाच-

गंगाद्वारे महापुण्ये महापातकनाशने ३७।

कामोदाख्यं पुरं तत्र निर्मितं विश्वकर्मणा ।

कामोदपत्तने नारी दिव्यभोगैरलंकृता ३८।

तथा चाभरणैर्भाति सर्वदेवैः सुपूजिता ।

त्वया तत्रैव गंतव्यं पूजितव्या वराप्सराः ३९।

उपायेनापि पुण्येन तां प्रहासय दानव ।

एवमुक्त्वा तु योगींद्र सः शुक्रो दानवं प्रति ४०।

विरराम महातेजाः स्वकार्यायोद्यतोऽभवत् ४१।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्यानेऽष्टादशाधिकशततमोऽध्यायः ११८।

खण्डः २ (भूमिखण्डः) — Adhyāya 119

एकोनविंशत्यधिकशततमोऽध्यायः ।

कपिंजल उवाच-

यस्याः प्रहसनात्तात सुहृद्यानि भवंति वै ।

पुष्पाणि दिव्यगंधीनि दुर्लभानि सुरासुरैः १।

कस्मात्तु देवताः सर्वाः प्रवांछंति महामते ।

शंकरः सुखमायाति हास्यपुष्पैः सुपूजितः २।

को गुणस्तस्य पुष्पस्य तन्मे कथय विस्तरात् ।

कामोदा सा भवेत्का तु कस्य पुत्री वरांगना ३।

हास्यात्तस्या महाभाग सुपुष्पाणि भवंति च ।

को गुणस्तत्कथां ब्रूहि सकलां विस्तरेण च ४।

कुंजल उवाच-

पुरा देवैर्महादैत्यैः कृत्वा सौहार्दमुत्तमम् ।

ममंथुः सागरं क्षीरममृतार्थं समुद्यताः ५।

मथनाद्देवदैत्यानां कन्यारत्नचतुष्टयम् ।

वरुणेन दर्शितं पूर्वं सोमेनैव तथा पुनः ६।

पश्चात्संदर्शितं पुण्यममृतं कलशे स्थितम् ।

कन्या चतुष्टयं पूर्वं देवानां हितमिच्छति ७।

सुलक्ष्मीर्नाम सा चैका द्वितीया वारुणी तथा ।

ज्येष्ठा नाम तथा ख्याता कामोदान्या प्रचक्षते ८।

तासां मध्ये वरा श्रेष्ठा पूर्वं जाता महामते ।

तस्माज्ज्येष्ठेति विख्याता लोके पूज्या सदैव हि ९।

वारुणीपानरूपा च पयःफेनसमुद्भवा ।

अमृतस्य तरंगाच्च कामोदाख्या बभूव ह १०।

सोमो राजा तथा लक्ष्मीर्जज्ञाते अमृतादपि ।

त्रैलोक्यभूषणः सोमः संजातः शंकरप्रियः ११।

मृत्युरोगहरा जाता सुराणां वारुणी तथा ।

ज्येष्ठासु पुण्यदा जाता लोकानां हितमिच्छताम् १२।

अमृतादुत्थिता देवी कामोदा नाम पुण्यदा ।

विष्णोः प्रीत्यै भविष्ये तु वृक्षरूपं प्रयास्यति १३।

विष्णुप्रीतिकरी सा तु भविष्यति सदैव हि ।

तुलसी नाम सा पुण्या भविष्यति न संशयः १४।

तया सह जगन्नाथो रमिष्यति न संशयः ।

तुलस्याः पत्रमेकं यो नीत्वा कृष्णाय दास्यति १५।

मेने तस्योपकाराणां किमस्मै च ददाम्यहम् ।

इत्येवं चिंतयेन्नित्यं तस्य प्रीतिकरो भवेत् १६।

एवं कामोद नामासौ पूर्वं जाता समुद्रजा ।

यदा सा हसते देवी हर्षगद्गदभाषिणी १७।

सौहृद्यानि सुगंधीनि मुखात्तस्याः पतंति वै ।

अम्लानानि सुपुष्पाणि यो गृह्णाति समुद्यतः १८।

पूजयेच्छंकरं देवं ब्रह्माणं माधवं तथा ।

तस्य देवाः प्रतुष्यंति यदिच्छति ददंति तत् १९।

रोदित्येषा यदा सा च केन दुःखेन दुःखिता ।

नेत्राश्रुभ्यो हि तस्यास्तु प्रभवंति पतंति च २०।

तानि चैव महाभाग हृद्यानि सुमहांति च ।

सौरभेण विना तैस्तु यः पूजयति शंकरम् २१।

तस्य दुःखं च संतापो जायते नात्र संशयः ।

पुष्पैस्तु तादृशैर्देवान्सकृदर्चति पापधीः २२।

तस्य दुःखं प्रकुर्वंति देवास्तत्र न संशयः ।

एतत्ते सर्वमाख्यातं कामोदाख्यानमुत्तमम् २३।

अथ कृष्णो विचिंत्यैव दृष्ट्वा विक्रमसाहसम् ।

विहुंडस्यापि पापस्य उद्यमं साहसं तदा २४।

नारदं प्रेषयामास मोहयैनं दुरासदम् ।

नारदस्त्वथ संश्रुत्य वाक्यं विष्णोर्महात्मनः २५।

गच्छमानं दुरात्मानं कामोदां प्रति दानवम् ।

गत्वा तमाह दैत्येंद्रं नारदः प्रहसन्निव २६।

क्व यासि त्वं च दैत्येंद्र सत्वरं च समातुरः ।

सांप्रतं केन कार्येण कस्यार्थं केन नोदितः २७।

ब्रह्मात्मजं नमस्कृत्य प्रत्युवाच कृतांजलि ।

कामोदपुष्पार्थमहं प्रस्थितो द्विजसत्तम २८।

तमुवाच स धर्मात्मा पुष्पैः किं ते प्रयोजनम् ।

विप्रवर्यं पुनः प्राह कार्यकारणमात्मनः २९।

नंदनस्य वनोद्देशे काचिन्नारी वरानना ।

तस्या दर्शनमात्रेण गतोऽहं कामवश्यताम् ३०।

तया प्रोक्तोऽस्मि विप्रेंद्र पुष्पैः कामोदसंभवैः ।

पूजयस्व महादेवं पुष्पैस्तु सप्तकोटिभिः ३१।

ततस्ते सुप्रिया भार्या भविष्यामि न संशयः ।

तदर्थे प्रस्थितोऽस्म्यद्य कामोदाख्यं पुरं प्रति ३२।

तामहं कामयिष्यामि सिंधुजां शुणु सांप्रतम् ।

मनोल्लासैर्महाहासैर्हासयिष्याम्यहं पुनः ३३।

प्रीता सती महाभागा हसिष्यति पुनः पुनः ।

तद्धास्यं गद्गदं विप्र मम कार्यप्रवर्द्धनम् ३४।

तस्माद्धास्यात्पतिष्यंति दिव्यानि कुसुमानि च ।

तैस्तु देवमुमाकांतं पूजयिष्यामि सांप्रतम् ३५।

तेन पूजाप्रदानेन तुष्टो दास्यति मे फलम् ।

ईश्वरः सर्वभूतेशः शंकरो लोकभावनः ३६।

नारद उवाच-

तत्र दैत्य न गंतव्यं कामोदाख्ये पुरोत्तमे ।

विष्णुरस्ति सुमेधावी सर्वदैत्यक्षयावहः ३७।

येनोपायेन पुष्पाणि कामोदाख्यानि दानव ।

तव हस्ते प्रयास्यंति तमुपायं वदाम्यहम् ३८।

गंगातोयेषु दिव्यानि पतिष्यंति न संशयः ।

वाहितानि जलैर्दिव्यैरागमिष्यंति सांप्रतम् ३९।

तानि त्वं तु प्रतिगृहाण सुहृद्यानि महांति च ।

गृहीत्वा तानि पुष्पाणि साधयस्व मनीप्सितम् ४०।

नारदो दानवश्रेष्ठं मोहयित्वा ततः पुनः ।

ततश्च स तु धर्मात्मा चिंतयामास वै पुनः ४१।

कथमश्रूणि सा मुंचेत्केनोपायेन दुःखिता ।

चिंतयानस्य तस्यैवं क्षणं वै नारदस्य च ४२।

ततो बुद्धिः समुत्पन्ना कामोदाख्यं पुरं गतः ४३।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने एकोनविंशत्यधिकशततमोऽध्यायः ११९।

खण्डः २ (भूमिखण्डः) — Adhyāya 120

कुंजल उवाच-

कामोदाख्यं पुरं दिव्यं सर्वदेवसमाकुलम् ।

सर्वकामसमृद्ध्यर्थमपश्यन्नारदस्ततः १।

कामोदाया गृहं प्राप्य प्रविवेश द्विजोत्तमः ।

कामोदां तु ततो दृष्ट्वा सर्वकामसमाकुलाम् २।

तया संपूजितो विप्रः सुवाक्यैः स्वागतादिभिः ।

दिव्यासने समारूढस्तां पप्रच्छ द्विजोत्तमः ३।

सुखेन स्थीयते भद्रे विष्णुतेजः समुद्भवे ।

अनामयं च पप्रच्छ आशीर्भिरभिनंद्य ताम् ४।

कामोदोवाच-।

प्रसादाद्भवतां विष्णोः सुखेन वर्तयाम्यहम् ।

कथयस्व महाप्राज्ञ त्वं प्रश्नोत्तरकारणम् ५।

महामोहः समुत्पन्नो ममांगे मुनिपुंगव ।

व्यापकः सर्वलोकानां ममांगे मतिनाशकः ६।

तस्मान्निद्रा समुत्पन्ना यथा मर्त्येषु वर्तते ।

सुप्तया तु मया दृष्टः स्वप्नो वै दारुणो मुने ७।

केनाप्युक्तं समेत्यैव पुरतो द्विजसत्तम ।

अव्यक्तोऽसौ हृषीकेशः संसारं स गमिष्यति ८।

तदा प्रभृति दुःखेन व्यापिताहं महामते ।

तन्मे त्वं कारणं ब्रूहि भवाञ्ज्ञानवतां वरः ९।

नारद उवाच-

वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः ।

स्वप्नः प्रवर्तते भद्रे मानवेषु न संशयः १०।

न जायते च देवेषु स्वप्नो निद्रा च सुंदरि ।

आदित्योदयवेलायां दृश्यते स्वप्न उत्तमः ११।

सत्स्वप्नो मानवानां हि पुण्यस्य फलदायकः ।

अन्यदेवं प्रवक्ष्यामि स्वप्नस्य कारणं शुभे १२।

महावातांदोलनैश्च चलंत्यापो वरानने ।

त्रुटंत्यंबुकणाः सूक्ष्मास्तस्मादुदकसंचयात् १३।

बहिरेव पतंत्येते निर्मलांबुकणाः शुभे ।

पुनर्लयं प्रयांत्येते दृश्यादृश्या भवंति वै १४।

तद्वत्स्वप्नस्य वै भावः कथ्यते शृणु भामिनि ।

आत्मा शुद्धो विरक्तस्तु रागद्वेषविवर्जितः १५।

पंचभूतात्मकानां च मुषित्वैव सुनिश्चलः ।

षड्विंशतिसु तत्वानां मध्ये चैष विराजते १६।

शुद्धात्मा केवलो नित्यः प्रकृतेः संगतिं गतः ।

तद्भावैर्वायुरूपैश्च चलते स्थानतो यदा १७।

आत्मनस्तेजसश्चैव प्रतितेजः प्रजायते ।

अंतरात्मा शुभं नाम तस्य एव प्रकथ्यते १८।

पयसश्च यथा भिन्ना भवंत्यंबुकणाः शुभे ।

आत्मनस्तु तथा तेज अंतरात्मा प्रकथ्यते १९।

स हि पृथ्वी स वै वायुः स चाप्याकाश एव हि ।

स वै तोयं स दीप्येत एते पंच पुरा कृताः २०।

आत्मनस्तेजसो भूता मलरूपा महात्मनः ।

तस्यापि संगतिं प्राप्ता एकत्वं हि प्रयांति ते २१।

स्वात्मभावप्रदोषेण नाशयंति वरानने ।

तत्पिंडमन्यमिच्छंति वारं वारं वरानने २२।

तेषां क्रीडाविहारोयं सृष्टिसंबंधकारणम् ।

उदकस्य तरंगस्तु जायते च विलीयते २३।

पुनर्भूतिः पुनर्हानिस्तादृशस्य पुनः पुनः ।

अपां रूपस्य दृष्टांतं तद्वदेषां न संशयः २४।

आत्मा न नश्यते देवि तेजो वायुर्न नश्यति ।

न नश्यतो धराकाशौ न नश्यंत्याप एव च २५।

पंचैव आत्मना सार्द्धं प्रभवंति प्रयांति च ।

आत्मादयो ह्यमी भद्रे नित्यरूपा न संशयः २६।

पिंड एव प्रणश्येत तेषां संजात एव च ।

विषयाणां सुदोषैः स रागद्वेषादिभिर्हतः २७।

प्राणाः प्रयांति वै पिंडात्पंचपंचात्मका द्विज ।

पिंडांते वसते आत्मा प्रतिरूपस्तु तस्य च २८।

अंतरात्मा यथा चाग्नेः स्फुलिंगस्तु प्रकाशते ।

तथा प्रकाशमायाति दृश्यादृश्यः प्रजायते २९।

शुद्धात्मा च परं ब्रह्म सदा जागर्ति नित्यशः ।

अंतरात्मा प्रबद्धस्तु प्रकृतेश्च महागुणैः ३०।

अन्नाहारेण संपुष्टैरंतरात्मा सुखं व्रजेत् ।

सुसुखाज्जायते मोहस्तस्मान्मनः प्रमुह्यति ३१।

पश्चात्संजायते निद्रा तामसी लयवर्द्धिनी ।

नाडीमार्गेण यः सूर्यो मेरुमुल्लंघ्य गच्छति ३२।

तदा रात्रिः प्रजायेत यावन्नोदयते रविः ।

विषयांधकारैर्मुक्तस्तु अंतरात्मा प्रकाशते ३३।

भावैस्तत्त्वात्मकानां तु पंचतत्त्वैः प्रपोषितैः ।

पूर्वजन्मस्थितैः पिंडैरंतरात्मा प्रगृह्यते ३४।

स यास्यति च वै स्थानमुच्चावचं महामते ।

संसार अंतरात्मा वै दोषैर्बद्धः प्रणीयते ३५।

कायं रक्षति जीवात्मा पश्चात्तिष्ठति मध्यगः ।

उदानः स्फुरते तीव्रस्तस्माच्छब्दः प्रजायते ३६।

शुष्का भस्त्रा यथा श्वासं कुरुते वायुपूरिता ।

तद्वच्छब्दवशाच्छ्वासमुदानः कुरुते बलात् ३७।

आत्मनस्तु प्रभावेण उदानो बलवान्भवेत् ।

एवं कायः प्रमुग्धस्तु मृतकल्पः प्रजायते ३८।

ततो निद्रा महामाया तस्यांगेषु प्रयाति सा ।

हृदि कंठे तथा चास्ये नासिकाग्रे प्रतिष्ठति ३९।

बाहू संकुच्य संतिष्ठेद्धृद्गतो नाभिमंडले ।

आत्मनस्तु प्रभावाच्च उदानो नाम मारुतः ४०।

प्रजायते महातीव्रा बलरोधं करोति सः ।

यथा रज्ज्वा प्रबद्धस्तु दारु कीलधरः स्थितः ४१।

तथा चात्मासु संलग्नः प्राणवायुर्न संशयः ।

अंतरात्मप्रसक्तस्तु प्राणवायुः शुभानने ४२।

बुद्धिवद्रोहितो भद्रे अंतरात्मा प्रधावति ।

पूर्वजन्मार्जितान्वासान्स्मृत्वा तत्र प्रधावति ४३।

तत्र संस्थो महाप्राज्ञः स्वेच्छया रमते पुनः ।

एवं नानाविधान्स्वप्नानंतरात्मा प्रपश्यति ४४।

उत्तमांश्च विरुद्धांश्च कर्मयुक्तान्प्रपश्यति ।

गिरींस्तथा सुदुर्गांश्च उच्चावचान्प्रपश्यति ४५।

तदेव वातिकं विद्धि कफवत्तद्वदाम्यहम् ।

जलं नदीं तडागं च पयः स्थानानि पश्यति ४६।

अग्निं च पश्यते देवि बहुकांचनमुत्तमम् ।

तदेव पैत्तिकं विद्धि भाव्यं चैव वदाम्यहम् ४७।

प्रभाते दृश्यते स्वप्नो भव्यो वाभव्य एव च ।

कर्मयुक्तो वरारोहे लाभालाभप्रकाशकः ४८।

स्वप्नस्यापि अवस्था मे कथिता वरवर्णिनि ।

तद्भाव्यंचवरारोहेविष्णोश्चैवभविष्यति ४९।

तन्निमित्तं त्वया दृष्टो दुःस्वप्नः स तु प्रेक्षितः ५०।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने विंशाधिकशततमोऽध्यायः १२०।

खण्डः २ (भूमिखण्डः) — Adhyāya 121

कामोदोवाच-

न विदुर्देवताः सर्वा यस्यांतं रूपमेव च ।

यस्मिल्लीँनस्तु सर्वोयं स चैकात्मा प्रकथ्यते १।

यस्या मायाप्रपंचस्तु संसारः शृणु नारद ।

कस्मात्प्रयाति संसारं मम स्वामी जगत्पतिः २।

पापैश्चापि सुपुण्यैश्च नरोबद्धस्तु कर्मभिः ।

संसारं सरते विप्र हरिः कस्माद्व्रजेद्वद ३।

नारद उवाच-

शृणु देवि प्रवक्ष्यामि यत्कृतं तेन चक्रिणा ।

भृगोरग्रे प्रतिज्ञातं यज्ञरक्षां करोम्यहम् ४।

इंद्रस्य वचनात्सद्यो गतोऽसौ दानवैः सह ।

योद्धुं विहाय गोविंदो भृगोश्चैव मखोत्तमम् ५।

मखं त्यक्त्वा गते देवे पश्चात्तैर्दानवोत्तमैः ।

आगत्य ध्वंसितः सर्वः स यज्ञः पापचेतनैः ६।

हरिं क्रुद्धः स योगींद्रः शशाप भृगुरेव तम् ।

दशजन्मानि भुंक्ष्व त्वं मच्छापकलुषीकृतः ७।

कर्मणः स्वस्य संभोगं संभोक्ष्यति जनार्दनः ।

तन्निमित्तं त्वया देवि दुःस्वप्नः परिवीक्षितः ८।

इत्युक्त्वा तां गतो विप्रो ब्रह्मलोकं स नारदः ।

कृष्णस्यापि सुदुःखेन दुःखिता साभवत्तदा ९।

रुरोद करुणं बाला हाहेति वदती मुहुः ।

गङ्गातीरोपविष्टा सा जलांते शृणु नन्दन १०।

सुनेत्राभ्यां तथाश्रूणि दुःखेनापि प्रमुंचति ।

तान्यश्रूणि प्रमुक्तानि गंगातोये पतंत्यपि ११।

जले चैव निमज्जंति तस्याश्चाप्यश्रुबिंदवः ।

संभवंति पुनस्तात पद्मरूपाणि तानि च १२।

गंगातोये प्रफुल्लानि वाहितानि प्रयांति वै ।

ददृशे दानवश्रेष्ठो विष्णुमायाप्रमोहितः १३।

दुःखजानि न जानाति मुनिना कथितान्यपि ।

हर्षेण महताविष्टः परिजग्राह सोऽसुरः १४।

पद्मैस्तु पुष्पितैः सोपि पूजयेद्गिरिजाप्रियम् ।

सप्तकोटिभिर्दैत्येंद्रो विष्णुमायाप्रमोहितः १५।

अथ क्रुद्धा जगद्धात्री शंकरं वाक्यमब्रवीत् ।

पश्यैतस्य विकर्म त्वं दानवस्य महामते १६।

शोकोत्पन्नानि पद्मानि गंगातोयगतानि वै ।

अयमेष प्रगृह्णाति कामाकुलितचेतनः १७।

पूजयेच्चापि दुष्टात्मा शोकसंतापकारकैः ।

दुःखजैः शोकजैः पुष्पैस्तैः सुश्रेयः कथं भवेत् १८।

यादृशेनापि भावेन मामेव परिपूजयेत् ।

तादृशेनापि भावेन अस्य सिद्धिर्भविष्यति १९।

सत्यध्यानविहीनोयं कामोदा न्यस्तमानसः ।

संजातः पापचारित्रो जहि देवि स्वतेजसा २०।

एवमाकर्ण्य तद्वाक्यं शंभोश्चैव महात्मनः ।

अस्यैव संक्षयं शंभो करिष्ये तव शासनात् २१।

एवमुक्त्वा ततो देवी तस्यापि वधकांक्षया ।

वर्त्तते हि विहुंडस्य वधोपायं व्यचिंतयत् २२।

कृत्वा मायामयं रूपं ब्राह्मणस्य महात्मनः ।

पूजयेच्छंकरं नाथं सुपुष्पैः पारिजातजैः २३।

समेत्य दानवः पापो दिव्यां पूजां विनाशयेत् ।

कामाकुलः सुदुःखार्तस्तद्गतो भावतत्परः २४।

विष्णोश्चैव महामायां पूर्वदृष्टां स दानवः ।

सस्मार दानवः पापः कामबाणैः प्रपीडितः २५।

तस्याः स्मरणमात्रेण कंदर्पेण बलीयसा ।

विरहाकुलदुःखार्तो रोदते हि मुहुर्मुहुः २६।

कालाकृष्टः स दुष्टात्मा शोकजातानि तानि सः ।

परिगृह्य समायातः पूजनार्थी महेश्वरम् २७।

देव्या कृतां हि पूजां च सुपुष्पैः पारिजातजैः ।

तां निर्णाश्य सुलोभेन शोकजैः परिपूजयेत् २८।

नेत्राभ्यां तस्य दुष्टस्य बिंदवस्तेऽश्रुसंभवाः ।

अविरलास्ततो वत्स पतंति लिंगमस्तके २९।

देवी ब्राह्मणरूपेण तमुवाच महामते ।

को भवान्पूजयेद्देवं शोकाकुलमनाः सदा ३०।

पतंत्यश्रूणि देवस्य मस्तके शोकजानि ते ।

अपवित्राणि मे ब्रूहि एतमर्थं ममाग्रतः ३१।

विहुंड उवाच-

पूर्वं दृष्टा मया नारी सर्वसौभाग्यसंपदा ।

सर्वलक्षणसंपन्ना कामस्यायतनं महत् ३२।

तस्या मोहेन संदग्धः कामेनाकुलतां गतः ।

तया प्रोक्तं हि संभोगे देहि मे दायमुत्तमम् ३३।

कामोदसंभवैः पुष्पैः पूजयस्व महेश्वरम् ।

तेषां पुष्पकृतां मालां मम कंठे परिक्षिप ३४।

कोटिभिः सप्तसंख्यातैः पूजयस्व महेश्वरम् ।

तदर्थं पूजयाम्येव ईश्वरं फलदायकम् ३५।

कामोदसंभवैः पुष्पैर्दुर्लभैर्देवदानवैः ।

श्रीदेव्युवाच-

क्व ते भावः क्व ते ध्यानं क्व ते ज्ञानं दुरात्मनः ३६।

ईश्वरस्यापि संबंधो नास्ति किंचित्त्वयैव हि ।

कामोदाया वरं रूपं कीदृशं वद सांप्रतम् ३७।

क्व लब्धानि सुपुष्पाणि तस्या हास्योद्भवानि च ।

विहुंड उवाच-

भावं ध्यानं न जानामि न दृष्टा सा मया कदा ३८।

गंगातोयगतान्येव परिगृह्णामि नित्यशः ।

तैरहं पूजयाम्येकं शंकरं प्रवदाम्यहम् ३९।

ममाग्रे कथितं विप्र शुक्रेणापि महात्मना ।

वचनात्तस्य देवेशमर्चयामि दिनदिने ४०।

एतत्ते सर्वमाख्यातं यच्च पृष्टोस्मि सांप्रतम् ।

श्रीदेव्युवाच-

कामोदारोदनाज्जातैः पुष्पैस्तैर्दुःखसंभवैः ४१।

लिंगमर्चयसे दुष्ट प्रभाते नित्यमेव च ।

यादृशेनापि भावेन पुष्पैश्च यादृशैस्त्वया ४२।

अर्चितो देवदेवेशस्तादृशं फलमाप्नुहि ।

दिव्यपूजां विनाश्यैवं शोकपुष्पैः प्रपूजसि ४३।

असौ दोषस्तवैवाद्य समुत्पन्नः सुदारुणः ।

तस्माद्दण्डं प्रदास्यामि भुंक्ष्व स्वकर्मजं फलम् ४४।

तस्या वाक्यं समाकर्ण्य कालकृष्टो बभाष ताम् ।

रे रे दुष्ट दुराचार मम कर्मप्रदूषक ४५।

हन्मि त्वामिह खड्गेन अनेनापि न संशयः ।

इत्युक्त्वा ब्राह्मणं तं स निशितं खड्गमाददे ४६।

हंतुकामः स दुष्टात्मा अभ्यधावत दानवः ।

सा देवी विप्ररूपेण संक्रुद्धा परमेश्वरी ४७।

हन्मि त्वामिह खड्गेन अनेनापि न संशयः ।

स्वस्थानमागतं दृष्ट्वा हुंकारं विससर्ज ह ।

तेन हुंकारनादेन पतितो दानवाधमः ४८।

निश्चेष्टः कामरूपेण वज्राहत इवाचलः ।

पतिते दानवे तस्मिन्सर्वलोकविनाशके ४९।

लोकाः स्वास्थ्यं गताः सर्वे दुःखतापविवर्जिताः ।

एतस्मात्कारणाद्वत्स सा स्त्री वै परिदेवति ५०।

गंगातीरे वरारोहा दुःखव्याकुलमानसा ।

एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ५१।

विष्णुरुवाच-

एवमुक्त्वा सुपुत्रं तं कुंजलो अंडजेश्वरः ।

विरराम महाप्राज्ञः किञ्चिन्नोवाच भूपते ५२।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने एकविंशत्यधिकशततमोऽध्यायः १२१।

खण्डः २ (भूमिखण्डः) — Adhyāya 122

विष्णुरुवाच-

कुंजलो धर्मपक्षी स इत्युक्त्वा तान्सुतान्प्रति ।

विरराम महाप्राज्ञः किंचिन्नोवाच तान्प्रति १।

वटाधःस्थो द्विजश्रेष्ठस्तमुवाच महाशुकम् ।

को भवान्धर्मवक्ता हि पक्षिरूपेण वर्तते २।

किं वा देवोऽथ गंधर्वः किं वा विद्याधरो भवान् ।

कस्य शापादिमां प्राप्तो योनिं कीरस्य पातकीम् ३।

कस्मात्ते ईदृशं ज्ञानं वर्ततेऽतीद्रियं शुक ।

सुपुण्यस्य तु कस्यापि कस्य वै तपसः फलम् ४।

किं वा च्छन्नेन रूपेण अनेनापि महामते ।

कस्त्वं सिद्धोऽसि देवो वा तन्मे कथय कारणम् ५।

कुंजल उवाच-

भोः सिद्ध त्वामहं जाने कुलं ते गोत्रमुत्तमम् ।

विद्यां तपःप्रभावं च यस्माद्भ्रमसि मेदिनीम् ६।

सर्वं विप्र प्रवक्ष्यामि स्वागतं तव सुव्रत ।

उपविश्यासने पुण्ये छायामाश्रयशीतलाम् ७।

अव्यक्तप्रभवो ब्रह्मा तस्माज्जज्ञे प्रजापतिः ।

ब्राह्मणस्तु गुणैर्युक्तो भृगुर्ब्रह्मसमो द्विजः ८।

भार्गवो नाम तस्यासीत्सर्वधर्मार्थतत्ववित् ।

तस्यान्वये भवान्विप्र च्यवनः ख्यातिमान्भुवि ९।

नाहं देवो न गंधर्वो नाहं विद्याधरः पुनः ।

योहं विप्र प्रवक्ष्यामि तन्मे निगदतः शृणु १०।

कश्यपस्य कुले जातः कश्चिद्ब्राह्मणसत्तमः ।

वेदवेदांगतत्त्वज्ञः सर्वकर्मप्रकाशकः ११।

विद्याधरेति विख्यातः कुलशीलगुणैर्युतः ।

राजमानः श्रिया विप्र आचारैस्तपसा तदा १२।

संबभूवुः सुतास्तस्य विद्याधरस्य ते त्रयः ।

वसुशर्मा नामशर्मा धर्मशर्मा च ते त्रयः १३।

तेषामहं धर्मशर्मा कनिष्ठो गुणवर्जितः ।

वसुशर्मा मम भ्राता वेदशास्त्रार्थकोविदः १४।

आचारेण सुसंपन्नो विद्यादिसुगुणैः पुनः ।

नामशर्मा महाप्राज्ञस्तद्वच्चासीद्गुणाधिकः १५।

अहमेको महामूर्खः संजातः शृणु सत्तम ।

विद्यानामुत्तमं विप्र भावमर्थं शुभं कदा १६।

न शृणोमि न वै यामि गुरुगेहमनुत्तमम् ।

ततस्तु जनको मे तु मामेवं परिचिंतयेत् १७।

धर्मशर्मेति पुत्रस्य नामास्य तु निरर्थकम् ।

संजातः क्षितिमध्ये तु न विद्वान्मे गुणाकरः १८।

इति संचिंत्य धर्मात्मा मामुवाच सुदुःखितः ।

व्रज पुत्र गुरोर्गेहं विद्यार्थं परिसाधय १९।

एवमाकर्ण्य तत्तस्य पितुर्वाक्यं मयाशुभम् ।

नाहं तात गमिष्यामि गुरोर्गेहं सुदुःखदम् २०।

यत्र वै ताडनं नित्यं भ्रूभंगादि च क्रोशनम् ।

अन्नं न दृश्यते तत्र कर्मणा शृणुसत्तम २१।

दिवारात्रौ न निद्रास्ति नास्ति सुखस्य साधनम् ।

तस्माद्दुःखमयं तात न यास्ये गुरुमंदिरम् २२।

विद्याकार्यं करिष्ये न क्रीडार्थमहमुत्सुकः ।

भोक्ष्ये स्वप्स्ये प्रसादात्ते करिष्ये क्रीडनं पितः २३।

डिंभैः सार्द्धं सुखेनापि दिवारात्रमतंद्रितः ।

मामुवाच स धर्मात्मा मूढं ज्ञात्वा सुदुःखितः २४।

विद्याधर उवाच-

मा पुत्र साहसं कार्षीर्विद्यार्थमुद्यमं कुरु ।

विद्यया प्राप्यते सौख्यं यशः कीर्तिस्तथातुला २५।

ज्ञानं स्वर्गश्च मोक्षश्च तस्माद्विद्यां प्रसाधय ।

पूर्वं सुदुःखमूला तु पश्चाद्विद्या सुखप्रदा २६।

तस्मात्साधय पुत्र त्वं विद्यां गुरुगृहं व्रज ।

पितुर्वाक्यमकुर्वाणो अहमेवं दिनदिने २७।

यत्रयत्र स्थितो नित्यमर्थहानिं करोम्यहम् ।

उपहासः कृतो लोकैर्ममविप्र प्रकुत्सनम् २८।

मम लज्जा समुत्पन्ना जीवनाशकरी तदा ।

विद्यार्थमुद्यतो विप्र कं गुरुं प्रार्थयाम्यहम् २९।

इति चिंतापरो जातो दुःखशोकसमाकुलः ।

कथं विद्यामहं जाने कथं विंदाम्यहं गुणान् ३०।

कथं मे जायते स्वर्गः कथं मोक्षं व्रजाम्यहम् ।

इत्येवं चिंतयन्विप्र वार्द्धक्यमगमं पुनः ३१।

देवतायतने दुःखी उपविष्टस्त्वहं कदा ।

मद्भाग्यैः प्रेरितः कश्चित्सिद्ध एकः समागतः ३२।

निराश्रयो जिताहारः सदानंदस्तु निःस्पृहः ।

एकांतमास्थितो विप्र योगयुक्तो जितेंद्रियः ३३।

परब्रह्मणि संलीनो ज्ञानध्यानसमाधिमान् ।

तमहं संश्रितो विप्र ज्ञानरूपं महामतिम् ३४।

अहं शुद्धेन भावेन भक्त्या नमितकंधरः ।

नमस्कृत्य महात्मानं पुरतस्तस्य संस्थितः ३५।

दीनरूपो ह्यहं जातो मंदभाग्यस्तथा पुनः ।

तेनाहं पृच्छितो विप्र कस्माद्भवान्प्रशोचति ३६।

केनाभिप्रायभावेन दुःखमेव भुनक्ति वै ।

तेनेत्युक्तोस्मि विप्रेंद्र ज्ञानिना योगिना तदा ३७।

सुमूढेन मया तस्य पूर्ववृत्तांतमेव हि ।

तमेवं श्रावितं सर्वं सर्वज्ञत्वं कथं व्रजेत् ३८।

एतदर्थं महादुःखी भवान्मम गतिः सदा ।

स चोवाच महात्मा मे सर्वं ज्ञानस्य कारणम् ३९।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे द्वाविंशत्यधिकशततमोऽध्यायः १२२।

खण्डः २ (भूमिखण्डः) — Adhyāya 123

सिद्ध उवाच-

श्रूयतामभिधास्यामि ज्ञानरूपं तवाग्रतः ।

ज्ञानस्य नास्ति वै देहो हस्तौ पादौ च चक्षुषी १।

नासाकर्णौ न ज्ञानस्य नास्ति चैवास्थिसंग्रहः ।

केन दृष्टं तु वै ज्ञानं कानि लिंगानि तस्य वै २।

आकारैर्वर्जितं नित्यं सर्वं वेत्ति स सर्ववित् ।

दिवाप्रकाशकः सूर्यो रात्रौ प्रकाशयेच्छशी ३।

गृहं प्रकाशयेद्दीपो लोकमध्ये स्थिता अमी ।

तत्पदं केन वै धाम्ना दृश्यते शृणु सत्तम ४।

न विंदंति हि मूढास्ते मोहिता विष्णुमायया ।

कायमध्ये स्थितं ज्ञानं ध्यानदीप्तमनौपमम् ५।

तत्पदं तेन दृश्येत चंद्रसूर्यादिभिर्न च ।

हस्तपादौ विना ज्ञानमचक्षुः कर्णवर्जितम् ६।

तस्य सर्वत्र गतिरस्ति सर्वं गृह्णाति पश्यति ।

सर्वमाघ्राति विप्रेंद्र शृणोत्येवं न संशयः ७।

नास्ति ज्ञानसमो दीपः सर्वांधकारनाशने ।

स्वर्गे भूमौ च पाताले स्थाने स्थाने च दृश्यते ८।

कायमध्ये स्थितं ज्ञानं न विंदंति कुबुद्धयः ।

ज्ञानस्थानं प्रवक्ष्यामि यस्माज्ज्ञानं प्रजायते ९।

प्राणिनां हृदये नित्यं निहितं सर्वदा द्विज ।

कामादीन्सुमहाभोगान्महामोहादिकांस्तथा १०।

विवेकवह्निना सर्वान्दिधक्षति सदैव यः ।

सर्वशांतिमयोभूत्वा इंद्रियार्थं प्रमर्द्दयेत् ११।

ततस्तु जायते ज्ञानं सर्वतत्त्वार्थदर्शकम् ।

तत्त्वमूलमिदं ज्ञानं निर्मलं सर्वदर्शकम् १२।

तस्माच्छांतिं कुरुष्व त्वं सर्वसौख्यप्रवर्द्धिनीम् ।

समः शत्रौ च मित्रे च यथात्मनि तथापरे १३।

भव स्वनियतो नित्यं जिताहारो जितेंद्रियः ।

मैत्रं नैव प्रकर्तव्यं वैरं दूरे परित्यजेत् १४।

निःसंगो निःस्पृहो भूत्वा एकांतस्थानमाश्रितः ।

सर्वप्रकाशको ज्ञानी सर्वदर्शी भविष्यसि १५।

एकस्थानस्थितो वत्स त्रैलोक्ये यद्भविष्यति ।

वृत्तांतं वेत्स्यसि त्वं तु मत्प्रसादान्न संशयः १६।

कुंजल उवाच-

सिद्धेन तेन मे विप्र ज्ञानरूपं प्रकाशितम् ।

तस्य वाक्ये स्थितो नित्यं तद्भावेनापि भावितः १७।

त्रैलोक्ये वर्त्तते यद्यदेकस्थाने स्थितो ह्यहम् ।

तत्तदेव प्रजानामि प्रसादात्तस्य सद्गुरोः १८।

एतत्ते सर्वमाख्यातमात्मवृत्तांतमेव हि ।

अन्यत्किं ते प्रवक्ष्यामि तद्ब्रूहि द्विजसत्तम १९।

च्यवन उवाच-

कीरयोनिं कथं प्राप्तो भवाञ्ज्ञानवतां वरः ।

तन्मे त्वं कारणं ब्रूहि सर्वसंदेहनाशनम् २०।

कुंजल उवाच-

संसर्गाज्जायते पापं संसर्गात्पुण्यमेव हि ।

तस्माद्विवर्जयेच्छुद्धो भव्यं विरुद्धमेव च २१।

लुब्धकेनापि पापेन केनाप्येकः शुकः शिशुः ।

बंधयित्वा समानीतो विक्रयार्थं समुद्यतः २२।

चाटुकांर सुरूपं तं पटुवाक्यं समीक्ष्य च ।

गृहीतो ब्राह्मणैकेन मम प्रीत्या समर्पितः २३।

ज्ञानध्यानस्थितो नित्यमहमेव द्विजोत्तम ।

समे बालस्वभावेन कौतुकात्करसंस्थितः २४।

तस्य कौतुकवाक्यैर्वा मुग्धोऽहं द्विजसत्तम ।

शुकस्य पुत्ररूपस्य नित्यं तत्परमानसः २५।

मामेवं वदते सोपि ताततातेति आस्यताम् ।

स्नातुं गच्छ महाभाग देवमर्चय सांप्रतम् २६।

इत्यादिचाटुकैर्वाक्यैर्मामेवं परिभाषयेत् ।

तस्यवाक्यविनोदेन विस्मृतं ज्ञानमुत्तमम् २७।

पुष्पार्थं फलभोगार्थं गतोहं वनमेव च ।

नीतः शुको बिडालेन मम दुःखस्य हेतवे २८।

मम संसर्गिभिः सर्वैर्वयस्यैः साधुचारिभिः ।

बिडालेन हतः पक्षी तेनैव भक्षितो हि सः २९।

श्रुत्वा मृत्युं गतं विप्र शुकं तं चाटुकारकम् ।

महता दुःखभावेन असुखेनातिदुःखितः ३०।

तस्य दुःखेन मुग्धोस्मि तीव्रेणापि सुपीडितः ।

महता मोहजालेन बद्धोऽहं द्विजपुंगव ३१।

प्रालपं रामचंद्रेति शुकराजेति पंडित ।

श्लोकराजेति तं विप्र मोहाच्चलितमानसः ३२।

ततोऽहं दुःखसंतप्तः संजातः स्वेनकर्मणा ।

वियोगेनापि विप्रेंद्र शुकस्य शृणु सांप्रतम् ३३।

विस्मृतं तन्मया ज्ञानं सिद्धेनापि प्रकाशितम् ।

संस्मरञ्छोकसंतप्तस्तं शुकं चाटुकारकम् ३४।

वत्सवत्सेति नित्यं वै प्रलपञ्छृणु भार्गव ।

गद्यपद्यमयैर्वाक्यैः संस्कृताक्षरसंयुतैः ३५।

त्वां विना कश्च मां वत्स बोधयिष्यति सांप्रतम् ।

कथाभिस्तु विचित्राभिः पक्षिराजप्रसाद्य माम् ३६।

अस्मिन्सुनिर्जनोद्याने विहाय क्व गतो भवान् ।

केन दोषेण लिप्तोस्मि तन्मे कथय सांप्रतम् ३७।

एवंविधैरहं वाक्यैः करुणैस्तैस्तु मोहितः ।

एवमादि प्रलप्याहं शोकेनापि सुपीडितः ३८।

मृतोहं तेन मोहेन तद्भावेनापि मोहितः ।

मरणे यादृशो भावो मतिश्चासीच्च यादृशी ३९।

तादृशेनापि भावेन जातोऽहं द्विजसत्तम ।

गर्भवासो मया प्राप्तो ज्ञानस्मृतिविधायकः ४०।

स्मृतं पूर्वकृतं कर्म स्वयमेव विचेष्टितम् ।

मया पापेन मूढेन किं कृतं ह्यकृतात्मना ४१।

गर्भयोगसमारूढः पुनस्तं चिंतयाम्यहम् ।

तेन मे निर्मलं ज्ञानं जातं वै सर्वदर्शकम् ४२।

गुरोस्तस्य प्रसादाच्च प्राप्तं वै ज्ञानमुत्तमम् ।

तस्यवाक्योदकैः स्वच्छैः कायस्य मलमेव च ४३।

सबाह्याभ्यंतरं विप्र क्षालितं निर्मलं कृतम् ।

तिर्यक्त्वं च मया प्राप्तं शुकजातिसमुद्भवम् ४४।

शुकस्य ध्यानभावेन मरणे समुपस्थिते ।

तस्मिन्काले मृतो विप्र तद्भावेनापि भावितः ४५।

तादृशोऽस्मि पुनर्जातः शुकरूपो महीतले ।

मरणे यादृशो भावः प्राणिनां परिजायते ४६।

तादृशाः स्युस्तु सत्वास्ते तद्रूपास्तत्परायणाः ।

तद्गुणास्तत्स्वरूपास्ते भावभूता भवंति हि ४७।

मृत्यकालस्य विप्रेंद्र भावेनापि न संशयः ।

अतुलं प्राप्तवाञ्ज्ञानमहमत्र महामते ४८।

तेन सर्वं विपश्यामि यद्भूतं यद्भविष्यति ।

वर्तमानं महाप्राज्ञ ज्ञानेनापि महामते ४९।

सर्वं विदाम्यहं ह्यत्र संस्थितोपि न संशयः ।

तारणाय मनुष्याणां संसारे परिवर्तताम् ५०।

नास्ति तीर्थं गुरुसमं बंधच्छेदकरं द्विज ।

एतत्ते सर्वमाख्यातं शृणु भार्गवनंदन ५१।

यत्त्वया पृच्छितं विप्र तत्ते सर्वं प्रकाशितम् ।

स्थलजाच्चोदकात्सर्वं बाह्यं मलं प्रणश्यति ५२।

जन्मांतरकृतान्पापान्गुरुतीर्थं प्रणाशयेत् ।

संसारतारणायैव जंगमं तीर्थमुत्तमम् ५३।

विष्णुरुवाच-

शुक एवं महाप्राज्ञश्च्यवनाय महात्मने ।

तत्त्वं प्रकाशयित्वा तु विरराम नृपोत्तम ५४।

एतत्ते सर्वमाख्यातं जंगमं तीर्थमुत्तमम् ।

वरं वरय भद्रं ते यत्ते मनसि वर्त्तते ५५।

वेन उवाच-

नाहं राज्यस्य कामार्थी नान्यत्किंचित्प्रकामये ।

सदेहो गंतुमिच्छामि तव कायं जनार्दन ५६।

एवं वरमहं मन्ये यदि दातुमिहेच्छसि ।

विष्णुरुवाच-

यज त्वमश्वमेधेन राजसूयेन भूपते ५७।

गो भू स्वर्णाम्बुधान्यानां कुरु दानं महामते ।

दानान्नश्यति वै पापं ब्रह्मवध्यादिघोरकम् ५८।

चतुर्वर्गस्तु दानेन सिद्ध्यत्येव न संशयः ।

तस्माद्दानं प्रकर्तव्यं मामुद्दिश्य च भूपते ५९।

यादृशेनापि भावेन मामुद्दिश्य ददाति यः ।

तादृशं तस्य वै भावं सत्यमेवं करोम्यहम् ६०।

ऋषीणां दर्शनात्स्पर्शाद्भ्रष्टस्ते पापसंचयः ।

आगमिष्यसि यज्ञांते मम देहं न संशयः ६१।

एवमाभाष्य तं वेनमंतर्द्धानं गतो हरिः ६२।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्यसंपूर्तिवर्णने।

च्यवनचरित्रसमाप्तौ च त्रयोविंशत्यधिकशततमोऽध्यायः १२३।

खण्डः २ (भूमिखण्डः) — Adhyāya 124

सूत उवाच-

अंतर्द्धानं गते विष्णौ वेनो राजा महामतिः ।

क्व गतो देवदेवेश इति चिंतापरोऽभवत् १।

हर्षेण महताविष्टश्चिंतयित्वा नृपोत्तमः ।

समाहूय नृपश्रेष्ठं तं पृथुं मधुराक्षरैः २।

तमुवाच महात्मानं हर्षेण महता तदा ।

त्वया पुत्रेण भूर्लोके तारितोस्मि सुपातकात् ३।

नीत उज्ज्वलतां वत्स वंशो मे सांप्रतं पृथो ।

मया विनाशितो दोषैस्त्वया गुणैः प्रकाशितः ४।

यजेहमश्वमेधेन दास्ये दानान्यनेकशः ।

विष्णुलोकं व्रजाम्यद्य सकायस्ते प्रसादतः ५।

संभरस्व महाभाग संभारांस्त्वं नृपोत्तम ।

आमंत्रय महाभाग ब्राह्मणान्वेदपारगान् ६।

एवं पृथुः समादिष्टो वेनेनापि महात्मना ।

प्रत्युवाच महात्मा स वेनं पितरमादरात् ७।

कुरु राज्यं महाराज भुंक्ष्व भोगान्मनोनुगान् ।

दिव्यान्वा मानुषान्पुण्यान्यज्ञैर्यज जनार्दनम् ८।

एवमुक्त्वा प्रणम्यैव पितरं ज्ञानतत्परम् ।

धनुरादाय पृथ्वीशः सबाणं यत्नपूर्वकम् ९।

आदिदेश भटान्सर्वान्घोषध्वं भूतले मम ।

पापमेव न कर्तव्यं कर्मणा त्रिविधेन वै १०।

करिष्यंति च यत्पापं आज्ञां वेनस्य भूपतेः ।

उल्लंघ्य वध्यतां सो हि यास्यते नात्र संशयः ११।

दानमेव प्रदातव्यं यज्ञैश्चैव जनार्दनम् ।

यजध्वं मानवाः सर्वे तन्मनस्का विमत्सराः १२।

एवं शिक्षां प्रदत्वासौ राज्यं भृत्येषु वेनजः ।

निःक्षिप्य च गतो विप्रास्तपसोर्थे तपोवनम् १३।

सर्वान्दोषान्परित्यज्य संयम्य विषयेन्द्रियान् ।

शतवर्षप्रमाणं वै निराहारो बभूव ह १४।

तपसा तस्य वै तुष्टो ब्रह्मा पृथुमुवाच ह ।

तपस्तपसि कस्मात्त्वं तन्मे त्वं कारणं वद १५।

पृथुरुवाच-

वेन एष महाप्राज्ञः पिता मे कीर्तिवर्द्धनः ।

समाचरति यः पापमस्य राज्ये नराधमः १६।

शिरश्छेत्ता भवत्वेष तस्य देवो जनार्दनः ।

अदृष्टैश्च महाचक्रैर्हरिः शास्ता भवेत्स्वयम् १७।

मनसा कर्मणा वाचा कर्तुं वांछति पातकम् ।

तेषां शिरांसि त्रुट्यंतु फलं पक्वं यथा द्रुमात् १८।

एतदेव वरं मन्ये त्वत्तः शृणु सुरेश्वर ।

प्रजानां दोषभावेन न लिप्यति पिता मम १९।

तथा कुरुष्व देवेश वरं दातुं यदीच्छसि ।

ददस्व उत्तमं कामं चतुर्मुखनमोऽस्तु ते २०।

ब्रह्मोवाच-

एवमस्तु महाभाग पिता ते पूततां गतः ।

विष्णुना शासितो वत्स पुत्रेणापि त्वया पृथो २१।

एवं पृथुं समुद्दिश्य वरं दत्वा गतो विभुः ।

पृथुरेव समायातो राज्यकर्मणि संस्थितः २२।

वैन्यस्य राज्ये विप्रेन्द्राः पापं कश्चिन्न चाचरेत् ।

यस्तु चिंतयते पापं त्रिविधेनापि कर्मणा २३।

शिरश्छेदो भवेत्तस्य यथाचक्रैर्निकृंतितः ।

तदाप्रभृति वै पापं नैव कोपि समाचरेत् २४।

इत्याज्ञा वर्तते तस्य वैन्यस्यापि महात्मनः ।

सर्वलोकाः समाचारैः परिवर्तंति नित्यशः २५।

दानभोगैः प्रवर्तंते सर्वधर्मपरायणाः ।

सर्वसौख्यैः प्रवर्द्धंते प्रसादात्तस्य भूपतेः २६।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने चतुर्विंशत्यधिक शततमोऽध्यायः १२४।

खण्डः २ (भूमिखण्डः) — Adhyāya 125

सूत उवाच-

वेनस्याज्ञां सुसंप्राप्य पृथुः परमधार्मिकः ।

संबभ्रे सर्वसंभारान्नानापुण्यान्नृपात्मजः १।

निमंत्र्य ब्राह्मणान्सर्वान्नानादेशोद्भवानपि ।

अथ वेन इयाजासावश्वमेधेन भूपतिः २।

दानान्यदाद्ब्राह्मणेभ्यो नानारूपाण्यनेकशः ।

जगाम वैष्णवं लोकं सकायो जगतीपतिः ३।

विष्णुना सह धर्मात्मा नित्यमेव प्रवर्तते ।

एतद्वः सर्वमाख्यातं चरित्रं तस्य भूपतेः ४।

सर्वपापप्रशमनं सर्वदुःखविनाशनम् ।

पृथुरेव स धर्मात्मा राजा पृथ्वीं प्रशासति ५।

त्रैलोक्येन समं पृथ्वीं दुदोह नृपसत्तमः ।

प्रजास्तु रंजितास्तेन पुण्यधर्मानुकर्मभिः ६।

एतत्ते सर्वमाख्यातं भूमिखण्डमनुत्तमम् ।

प्रथमं सृष्टिखंडं तु द्वितीयं भूमिखंडकम् ७।

भूमिखंडस्यमाहात्म्यं कथयिष्याम्यहं पुनः ।

अस्य खंडस्य वै श्लोकं यः शृणोति नरोत्तमः ८।

दिनस्यैकस्य वै पापं तस्य चैव प्रणश्यति ।

यो नरो भावसंयुक्तोऽध्यायं संशृणुते सुधीः ९।

तस्य पुण्यं प्रवक्ष्यामि श्रूयतां द्विजसत्तमाः ।

दत्तस्य गोसहस्रस्य ब्राह्मणेभ्यः सुपर्वणि १०।

यत्फलं तत्प्रजायेत विष्णुस्तस्य प्रसीदति ।

अस्य पद्मपुराणस्य पठमानस्य नित्यशः ११।

कलौयुगे तु विघ्नाश्च न जायंते नरस्य वै ।

व्यास उवाच-

कस्मात्कलौ न जायंते शृण्वानस्य च पद्मज १२।

नरस्य पुण्ययुक्तस्य नाना विघ्नाः सुदारुणाः ।

ब्रह्मोवाच-

मखस्याप्यश्वमेधस्य यत्फलं परिकथ्यते १३।

तत्फलं दृश्यते तात पुराणे पद्मसंज्ञके ।

अश्वमेधमखः पुण्यः कलौ नैव प्रवर्तते १४।

पुराणं चापि यत्तद्वदश्वमेधसमं किल ।

अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदम् १५।

न भुंजंति नराः पापाः पापमार्गेषु संस्थिताः ।

पुराणस्यास्य पुण्यस्य पद्मसंज्ञस्य सत्तम १६।

अश्वमेधसमं पुण्यं न भुंजंति कलौ नराः ।

कलौ युगे नरैः पापैर्गंतव्यं नरकार्णवम् १७।

कस्माच्छ्रोष्यंति तत्पुण्यं चतुर्वर्गप्रसाधनम् ।

येन श्रुतमिदं पुण्यं पुराणं पद्मसंज्ञकम् १८।

सर्वं हि साधितं तेन चतुर्वर्गस्य साधनम् ।

अश्वमेधादयो यज्ञास्तस्मान्नष्टा महामते १९।

कलौ युगे गताः स्वर्गे सवेदाः सांगसस्वराः ।

यः कोपि सत्वसंपन्नः श्रद्धावान्भगवत्परः २०।

श्रोतुमिच्छति धर्मात्मा सपुत्रो भार्यया सह ।

श्रवणार्थं महाश्रद्धा पूर्वं तस्य प्रजायते २१।

शृण्वानस्य नरस्यापि महाविघ्नो न संचरेत् ।

अश्रद्धा जायते पूर्वं पाठकस्य नरस्य च २२।

लोभश्च जायते तस्य शृण्वानस्य द्विजोत्तम ।

प्रेषितो विष्णुदेवेन महामोहः स दारुणः २३।

अकरोत्स विनाशं तु शृण्वतश्चास्य नित्यशः ।

दूषकाः कुत्सकाः पापाः संभवंति दिने दिने २४।

ज्ञातव्यं तु सुबुद्धेन विघ्नरूपं ममाधुना ।

संजातं दृश्यते व्यास तथा होमं समाचरेत् २५।

वैष्णवैश्च महामंत्रैर्विष्णुसूक्तैः सुपुण्यदैः ।

विष्णोरराटमंत्रेण सहस्रशीर्षकेण च २६।

इदं विष्णु सुमंत्रेण आब्रह्मेण पुनः पुनः ।

त्र्यंबकेन च मंत्रेण होममेवं समाचरेत् २७।

बृहत्साम्ना सुमंत्रेण द्वादशाक्षरकेण च ।

यस्य देवस्य यो होमस्तस्य मंत्रेण होमयेत् २८।

अष्टोत्तरतिलाज्यैश्च पालाशैः समिधैरपि ।

ग्रहाणामपि कर्त्तव्यं स्थापनं पूजनं द्विज २९।

विघ्नेशं पूजयेत्तत्र शारदां च सुरेश्वरीम् ।

जातवेदां महामायां चंडिकां क्षेत्रनायकम् ३०।

तिलैश्च तंदुलैराज्यैस्तेषां मंत्रसमुद्यतैः ।

एवं होमः प्रकर्त्तव्यो ब्राह्मणेभ्यो ददेद्धनम् ३१।

यथासंभाविकां तात दक्षिणां धेनुसंयुताम् ।

ततो विघ्नाः प्रणश्यंति पुराणं सिद्धिमाप्नुयात् ३२।

एवं न कुरुते यो हि तस्य विघ्नं वदाम्यहम् ।

तस्यांगे जायते रोगो बहुपीडाप्रदायकः ३३।

भार्या शोकः पुत्रशोको धनहानिः प्रजायते ।

नानाविधान्महारोगान्भुंजते नात्र संशयः ३४।

यस्य गेहे नास्ति वित्तमुपवासं समाचरेत् ।

एकादशीं सुसंप्राप्य पूजयेन्मधुसूदनम् ३५।

षोडशैश्चोपचारैश्च भावयुक्तेन चेतसा ।

ब्राह्मणान्भोजयेत्पश्चाद्यथावित्तानुसारतः ३६।

केशवाय ततो दत्वा संकल्पं हविषान्वितम् ।

स्वयं कुर्यात्ततः प्राज्ञो भोजनं सह बांधवैः ३७।

पुत्रैस्तु भार्यया युक्तस्ततः सिद्धिमवाप्नुयात् ।

पुराणसंहितापूर्णा श्रोतव्या धर्मतत्परैः ३८।

चतुर्वर्गस्य वै सिद्धिर्जायते तस्य नान्यथा ।

सपादं लक्षमेकं तु ब्रह्माख्यं पुष्करं शृणु ३९।

कृते युगे तु निष्पापाः शृण्वंति मनुजा द्विज ।

लक्षस्यार्द्धं ततः कृत्स्नं पुराणं पद्मसंज्ञकम् ४०।

श्लोकानां तु सहस्राभ्यां द्वाभ्यामेव तथाधिकम् ।

त्रेतायुगे तथा प्राप्ते यदा श्रोष्यंति मानवाः ४१।

चतुर्वर्गफलं भुक्त्वा ते यास्यंति हरिं पुनः ।

द्वाविंशतिसहस्राणि संहितापद्मसंज्ञिता ४२।

द्वापरे कथिता विप्र ब्रह्मणा परमात्मना ।

द्वादशैव सहस्राणां पद्माख्या सा तु संहिता ४३।

कलौ युगे पठिष्यंति मानवा विष्णुतत्पराः ।

एकोर्थश्चैकभावश्च चतुर्ष्वपि प्रवर्तितः ४४।

संहितास्वेव विप्रेंद्र शेषाख्यानप्रविस्तरः ।

द्वादशैव सहस्राणि नाशं यास्यंति सत्तम ४५।

कलौ युगे तु संप्राप्ते प्रथमं हि भविष्यति ।

भूमिखंडं नरः श्रुत्वासर्वपापैः प्रमुच्यते ४६।

मुच्यते सर्वदुःखेभ्यः सर्वरोगैः प्रमुच्यते ।

अन्यत्सर्वं परित्यज्य जपं दानं तथा श्रुतम् ४७।

श्रोतव्यं हि प्रयत्नेन पद्माख्यं पापनाशनम् ।

प्रथमं सृष्टिखंडं तु द्वितीयं भूमिखंडकम् ४८।

तृतीयं स्वर्गखंडं च पातालं तु चतुर्थकम् ।

पंचमं चोत्तरं खंडं सर्वपापप्रणाशनम् ४९।

यः शृणोति नरो भक्त्या पंचखंडान्यनुक्रमात् ।

गोप्रदानसहस्रस्य मानवो लभते फलम् ५०।

महाभाग्येन लभ्यंते पंचखंडानि भूसुराः ।

श्रुतानि मोक्षदानि स्युः सत्यं सत्यं न संशयः ५१।

इति श्रीपद्मपुराणे भूमिखंडे पंचपंचाशत्सहस्रसंहितायां वेनोपाख्याने पंचविंशत्यधिकशततमोऽध्यायः १२५।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 1

नमामि गोविन्दपदारविंदं सदेंदिरावंदितमुत्तमाढ्यम् ।

जगज्जनानां हृदि संनिविष्टं महाजनैकायनमुत्तमोत्तमम् १।

एकदा मुनयः सर्वे ज्वलज्ज्वलनसन्निभाः ।

हिमवद्वासिनः सर्वे मुनयो वेदपारगाः २।

त्रिकालज्ञा महात्मानो नानापुण्यसमाश्रयाः ।

महेंद्राद्रिरता ये च ये च विंध्यनिवासिनः ३।

येऽर्बुदारण्यनिरताः पुष्करारण्यवासिनः ।

श्रीशैलनिरता ये च कुरुक्षेत्रनिवासिनः ४।

धर्म्मारण्यरता ये च दंडकारण्यवासिनः ।

जंबूमार्गरता ये च ये च सत्यनिवासिनः ५।

एते चान्ये च बहवः सशिष्या मुनयोऽमलाः ।

नैमिषं समुपायाताः शौनकं द्रष्टुमुत्सुकाः ६।

तं पूजयित्वा विधिवत्तेन ते च सुपूजिताः ।

आसनेषु विचित्रेषु बृस्यादिषु यथाक्रमम् ७।

शौनकेन प्रदत्तेषु आसीनास्ते तपोधनाः ।

कृष्णाश्रिताः कथाः पुण्याः परस्परमथाब्रुवन् ८।

कथांतेषु ततस्तेषां मुनीनां भावितात्मनाम् ।

आजगाम महातेजाः सूतस्तत्र महाद्युतिः ९।

व्यासशिष्यः पुराणज्ञो रोमहर्षणसंज्ञकः ।

तान्प्रणम्य यथान्यायं स तैश्चैवाभिपूजितः १०।

उपविष्टं यथायोग्यं शौनकाद्या महर्षयः ।

व्यासशिष्यं सुखासीनं सूतं वै रोमहर्षणम् ११।

तं पप्रच्छुर्महाभागाः शौनकाद्यास्तपोधनाः ।

ऋषय ऊचुः-।

पौराणिक महाबुद्धे रोमहर्षण सुव्रत १२।

त्वत्तः श्रुता महापुण्याः पुरा पौराणिकीः कथाः ।

सांप्रतं च प्रवृत्ताः स्म कथायां सक्षणा हरेः १३।

स वै पुंसां परोधर्मो यतो भक्तिरधोक्षजे ।

पुनः पुराणमाचक्ष्व हरिवार्ता समन्वितम् १४।

हरेरन्या कथा सूत श्मशानसदृशी स्मृता ।

हरिस्तीर्थस्वरूपेण स्वयं तिष्ठति तच्छ्रुतम् १५।

तीर्थानां पुण्यदातॄणां नामानि किल कीर्तय ।

कुत एतत्समुत्पन्नं केन वा परिपाल्यते १६।

कस्मिन्विलयमभ्येति जगदेतच्चराचरम् ।

क्षेत्राणि कानि पुण्यानि के च पूज्याः शिलोच्चयाः १७।

नद्यश्च काः पराः पुण्या नृणां पापहराः शुभाः ।

एतत्सर्वं महाभाग कथयस्व यथाक्रमम् १८।

सूत उवाच-।

साधुसाधु महाभागाः साधुपृष्टं तपोधनाः ।

तं प्रणम्य प्रवक्ष्यामि पुराणं पद्मसंज्ञकम् १९।

पाराशर्यं परमपुरुषं विश्ववेद्यैकयोनिं विद्याधारं विपुलमतिदं वेदवेदांतवेद्यम् ।

शश्वच्छांतं स्वमतिविषयं शुद्धतेजोविशालं वेदव्यासं विततयशसं सर्वदाहं नमामि २०।

नमो भगवते तस्मै व्यासायामिततेजसे ।

यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् २१।

प्रवक्ष्यामि महापुण्यं पुराणं पद्मसंज्ञितम् ।

सहस्रं पंचपंचाशत्षड्भिः खंडैः समन्वितम् २२।

तत्रादावादिखंडं स्याद्भूमिखंडं ततः परम् ।

ब्रह्मखंडं च तत्पश्चात्ततः पातालखंडकम् २३।

क्रियाखंडं ततः ख्यातमुत्तरं खंडमंतिमम् ।

एतदेव महापद्ममद्भुतं यन्मयं जगत् २४।

तद्वृत्तांताश्रयं तस्मात्पाद्ममित्युच्यते बुधैः ।

एतत्पुराणममलं विष्णुमाहात्म्यमुत्तमम् २५।

देवदेवोहरिर्यद्वै ब्रह्मणे प्रोक्तवान्पुरा ।

ब्रह्मा तन्नारदायाह नारदोऽस्मद्गुरोः पुरः २६।

व्यासः सर्वपुराणानि सेतिहासानि संहिताः ।

अध्यापयामास मुहुर्मामतिप्रियमात्मनः २७।

तत्तेऽहं संप्रवक्ष्यामि पुराणमतिदुर्लभम् ।

यच्छ्रुत्वा ब्रह्महत्यादि पापेभ्यो मुच्यते नरः २८।

सर्वतीर्थाभिषेकं च लभते शृणुते हि यः ।

श्रद्धया परया भक्त्या श्रुतमात्रेण मुक्तिदः २९।

अश्रद्धयापि शृणुते लभते पुण्यसंचयम् ।

तस्मात्सर्वप्रयत्नेन पद्मं श्रोत्रातिथी कुरु ३०।

तत्रादिखंडं वक्ष्यामि पुण्यं पापविनाशनम् ।

शृण्वंतु मुनयः सर्वे सशिष्यास्त्वत्र ये स्थिताः ३१।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रथमोऽध्यायः १।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 2

सूत उवाच-।

आदिसर्गमहं तावत्कथयामि द्विजोत्तमाः ।

ज्ञायते येन भगवान्परमात्मा सनातनः १।

सृष्टेषु प्रलयादूर्ध्वं नासीत्किंचिद्द्विजोत्तमाः ।

ब्रह्मसंज्ञमभूदेकं ज्योतिर्वै सर्वकारकम् २।

नित्यं निरंजनं शांतं निर्मलं नित्यनिर्मलम् ।

आनंदसागरंस्वच्छं यत्कांक्षंति मुमुक्षवः ३।

सर्वज्ञं ज्ञानरूपत्वादनंतमजमव्ययम् ।

अविनाशि सदास्वच्छमच्युतं व्यापकं महत् ४।

सर्गकाले तु संप्राप्ते ज्ञात्वा तं ज्ञानरूपकम् ।

आत्मलीनं विकारं च तत्स्रष्टुमुपचक्रमे ५।

तस्मात्प्रधानमुद्भूतं ततश्चापि महानभूत् ।

सात्विको राजसश्चैव तामसश्च त्रिधा महान् ६।

प्रधानेनावृतो ह्येव त्वचा बीजमिवावृतम् ।

वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ७।

त्रिविधोयमहंकारो महत्तत्वादजायत ।

यथा प्रधानेन महान्महता स तथा वृतः ८।

भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः ।

ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ९।

शब्दमात्रं तथाकाशं भूतादिः सममावृणोत् ।

शब्दमात्रं तथाकाशं स्पर्शमात्रं ससर्ज ह १०।

बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः ।

आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ११।

ततो वायुविकुर्वाणो रूपमात्रं ससर्ज ह ।

ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते १२।

स्पर्शमात्रस्तु वै वायू रूपमात्रं समावृणोत् ।

ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह १३।

संभवंति ततोंभांसि रसमात्राणि तानि तु ।

रसमात्राणिचांभांसि रूपमात्रं समावृणोत् १४।

विकुर्वाणानिचांभांसिगंधमात्रंससर्जिरे ।

तस्माज्जाता मही चेयं सर्वभूतगुणाधिका १५।

ससंघातो यतस्तस्मात्तस्य गंधो गुणो मतः ।

तस्मिंस्तस्मिंस्तु तन्मात्रात्तेन तन्मात्रता स्मृता १६।

तन्मात्राण्यविशेषाणि विशेषाः क्रमशो पराः ।

भूततन्मात्रसर्गोयमहंकारात्तु तामसात् १७।

कीर्तितस्तु समासेन मुनिवर्यास्तपोधनाः ।

तैजसानींद्रियाण्याहुर्देवा वैकारिका दश १८।

एकादशं मनश्चात्र कीर्तितं तत्त्वचिंतकैः ।

ज्ञानेंद्रियाणि पंचात्र पंचकर्मेंद्रियाणि च १९।

तानि वक्ष्यामि तेषां च कर्माणि कुलपावनाः ।

श्रवणं त्वक्चक्षुर्जिह्वा नासिका चैव पंचमी २०।

शब्दादिज्ञानसिद्ध्यर्थं बुद्धियुक्तानि पंच वै ।

पायूपस्थं हस्तपादौ कीर्तिता वाक्चपंचमी २१।

विसर्गानंदनादानगत्युक्तिकर्मतत्स्मृतम् ।

आकाशवायुतेजांसि सलिलं पृथिवी तथा २२।

शब्दादिभिर्गुणैर्विप्राः संयुक्ता उत्तरोत्तरैः ।

नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना २३।

नाशक्नुवन्प्रजाः स्रष्टुमसमागत्य कृत्स्नशः ।

समेत्यान्योन्यसंयोगं परस्परमथाश्रयात् २४।

एकसंघास्सलक्ष्याश्च संप्राप्यैक्यमशेषतः ।

पुरुषाधिष्ठितत्वाच्च प्रधानानुग्रहेण च २५।

महदादयो विशेषांता अंडमुत्पादयंति ते ।

तत्क्रमेण विवृद्धं तु जलबुद्बुदवत्सदा २६।

भूतेभ्योंडं महाप्राज्ञा वृद्धं तदुदकेशयम् ।

प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम् २७।

तत्राव्यक्तस्वरूपोसौ विष्णुर्विश्वेश्वरः प्रभुः ।

ब्रह्मरूपं समास्थाय स्वयमेव व्यवस्थितः २८।

स्वेदजांडमभूत्तस्य जरायुश्च महीधराः ।

गर्भोदकं समुद्राश्च तस्याभून्महदात्मनः २९।

साद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसंग्रहः ।

तस्मिन्नंडेभवत्सर्वं सदेवासुरमानुषम् ३०।

अनादिनिधनस्यैव विष्णोर्नाभेः समुत्थितम् ।

यत्पद्मं तद्धैममंडमभूच्छ्रीकेशवेच्छया ३१।

रजोगुणधरो देवः स्वयमेव हरिः परः ।

ब्रह्मरूपंसमास्थाय जगत्स्रष्टुं प्रवर्तते ३२।

सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना ।

नारसिंहादिरूपेण रुद्ररुपेण संहरेत् ३३।

सब्रह्मरूपं विसृजन्महात्मा जगत्समस्तं परिपातुमिच्छन् ।

रामादिरूपं स तु गृह्य याति बभूव रुद्रो जगदेतदत्तुम् ३४।

इति श्रीपाद्मेमहापुराणेस्वर्गखंडेद्वितीयोऽध्यायः २।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 3

ऋषय ऊचुः-।

नदीनां पर्वतानां च नामधेयानि सर्वशः ।

तथा जनपदानां च ये चान्ये भूमिमाश्रिताः १।

प्रमाणं च प्रमाणज्ञ पृथिव्याः किल सर्वतः ।

निखिलेन समाचक्ष्व काननानि च सत्तम २।

सूत उवाच-।

पंचेमानि महाप्राज्ञ महाभूतानि संग्रहात् ।

जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः ३।

भूमिरापस्तथा वायुरग्निराकाशमेव च ।

गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ४।

शब्दस्पर्शश्च रूपं च रसो गंधश्च पंचमः ।

भूमेरेतेगुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः ५।

चत्वारोप्सुगुणा विप्रा गंधस्तत्र न विद्यते ।

शब्दः स्पर्शश्च रूपं च तेजसोथ गुणास्त्रयः ६।

शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च ।

एते पंच गुणा विप्रा महाभूतेषु पंचसु ७।

वर्तंते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः ।

अन्योन्यं नातिवर्तंते साम्यं भवति वै तदा ८।

यदा तु विषमीभावमाविशंति परस्परम् ।

तदा देहैर्देहवंतो व्यतिरोहंति नान्यथा ९।

आनुपूर्व्या विनश्यंति जायंते चानुपूर्वशः ।

सर्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम् १०।

यत्रयत्र हि दृश्यंते धावंति पांचभौतिकाः ।

तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ११।

अचिंत्याः खलु ये भावास्तान्न तर्केण साधयेत् ।

सुदर्शनं प्रवक्ष्यामि द्वीपं तु मुनिपुंगवाः १२।

परिमंडलो महाभागा द्वीपोऽसौ चक्रसंस्थितः ।

नदीजलपरिच्छिन्नः पर्वतैश्चाब्धिसन्निभैः १३।

पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ।

वृक्षैः पुष्पफलोपेतैः संपन्नो धनधान्यवान् १४।

लवणेन समुद्रेण समंतात्परिवारितः ।

यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः १५।

एवं सुदर्शनो द्वीपो दृश्यते चक्रमंडलः ।

द्विरंशे पिप्पलस्तस्य द्विरंशे च शशो महान् १६।

सर्वौषधिं समादाय सर्वतः परिवारितः ।

आपस्ततोन्या विज्ञेयाः शेषः संक्षेप उच्यते १७।

ऋषय ऊचुः-।

उक्तो यस्य च संक्षेपो बुद्धिमन्विधिवत्त्वया ।

तत्त्वज्ञश्चासि सर्वस्य विस्तरं सूत नो वद १८।

यावान्भूम्यवकाशोयं दृश्यते शशलक्षणे ।

तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् १९।

एवं तैः किल पृष्टः स सूतो वाक्यमथाब्रवीत् ।

सूत उवाच-।

प्रागायता महाप्राज्ञाः षडेते रत्नपर्वताः २०।

अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ।

हिमवान्हिमकूटश्च निषधश्च नगोत्तमः २१।

नीलश्च वैडूर्यमयः श्वेतश्च शशिसन्निभः ।

सर्वधातुपिनद्धश्च शृंगवान्नामपर्वतः २२।

एते वै पर्वता विप्राः सिद्धचारणसेविताः ।

तेषामंतरविष्कुंभौ योजनानि सहस्रशः २३।

तत्र पुण्या जनपदास्तानि वर्षाणि सत्तमाः ।

वसंति तेषां सत्त्वानि नानाजातीनि सर्वशः २४।

इदं तु भारतं वर्षं ततो हैमवतं परम् ।

हेमकूटात्परं चैव हरिवर्षं प्रचक्षते २५।

दक्षिणेन तु नीलस्य निषधस्योत्तरेण च ।

प्रागायतो महाभागा माल्यवान्नाम पर्वतः २६।

ततः परं माल्यवतः पर्वतो गंधमादनः ।

परिमंडलस्तयोर्मध्ये मेरुः कनकपर्वतः २७।

आदित्यतरुणाभासो विधूम इव पावकः ।

योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः २८।

अधस्ताच्चतुरशीतिर्योजनानां द्विजोत्तमाः ।

ऊर्ध्वमधश्च तिर्यक्च लोकानावृत्य तिष्ठति २९।

तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः संस्थिता द्विजाः ।

भद्राश्वः केतुमालश्च जंबूद्वीपश्च सत्तमाः ३०।

उत्तराश्चैव कुरुवः कृतपुण्य प्रतिश्रयाः ।

विहंगसुमुखो यस्तु सुपार्श्वस्यात्मजः किल ३१।

स वै विचिंतयामास सौवर्णान्प्रेक्ष्य वायसान् ।

मेरुरुत्तममध्यानामधमानां च पक्षिणाम् ३२।

अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ।

तमादित्योनुपर्येति सततं ज्योतिषां वरः ३३।

चंद्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः ।

स पर्वतो महाप्राज्ञा दिव्यपुष्पसमन्वितः ३४।

भवनैरावृतैः सर्वैः र्जांबूनदमयैः शुभैः ।

तत्र देवगणा विप्रा गंधर्वासुरराक्षसाः ३५।

अप्सरोगणसंयुक्ताः शैले क्रीडंति सर्वदा ।

तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः ३६।

समेत्य विविधैर्यज्ञैर्यजंतेऽनेक दक्षिणैः ।

तुंबुरुर्नारदश्चैव विश्वावसुर्हाहा हूहूः ३७।

अभिगम्यामरश्रेष्ठं स्तुवंति विविधैः स्तवैः ।

सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः ३८।

तत्र गच्छंति भद्रं वः सदा पर्वणि पर्वणि ।

तस्यैव मूर्द्धन्युशना काव्यो दैत्यैर्महीयते ३९।

तस्य हैमानि रत्नानि तस्यैते रत्नपर्वताः ।

तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते ४०।

ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ।

पर्वतस्यांतरे दिव्यं सर्वर्तुकुसुमैश्चितम् ४१।

कर्णिकारवनं रम्यं शिलाजालसमुच्छ्रितम् ।

तत्र साक्षात्पशुपतिर्दिव्यभूतैः समावृतः ४२।

उमासहायोभगवान्रमते भूतभावनः ।

कर्णिकारमयीं मालां बिभ्रदापादलंबिनीम् ४३।

त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः ।

तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः ४४।

पश्यंति नहि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः ।

तस्य शैलस्य शिखरात्क्षीरधारा द्विजोत्तमाः ४५।

विश्वरूपात्परमिता भीमनिर्घातनिस्वना ।

पुण्यापुण्यतमैर्जुष्टा गंगा भागीरथी शुभा ४६।

प्लवंती च प्रवेगेन ह्रदे चंद्रमसः शुभे ।

तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ४७।

तां धारयामास तदा दुर्द्धरां पर्वतैरपि ।

शतं वर्षसहस्राणि शिरसैव पिनाकधृक् ४८।

मेरोस्तु पश्चिमे पार्श्वे केतुमालो द्विजोत्तमाः ।

जंबूखंडे तु तत्रैव महाजनपदो द्विजाः ४९।

आयुर्दशसहस्राणि वर्षाणां तत्र सत्तमाः ।

सुवर्णवर्णाश्च नरा स्त्रियश्चाप्सरसां समाः ५०।

अनामया वीतशोका नित्यं मुदितमानसाः ।

जायंते मानवास्तत्र निस्तप्तकनकप्रभाः ५१।

गंधमादनशृंगेषु कुबेरः सह राक्षसैः ।

संवृतोप्सरसां संघैर्मोदते गुह्यकाधिपः ५२।

गंधमादनपार्श्वे तु परे विगतपातकाः ।

एकादशसहस्राणि वर्षाणां परमायुषः ५३।

तत्र कृष्णा नरा विप्रास्तेजोयुक्ता महाबलाः ।

स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः ५४।

नीलोत्पलधरं श्वेतं श्वेताद्धैरण्यकं वरम् ।

वर्षमैरावतं विप्रा नानाजनपदावृतम् ५५।

धनुखंडेः महाभागा द्वे वर्षे दक्षिणोत्तरे ।

इलावृत्तं मध्यगं तु पंचवर्षाणि चैव हि ५६।

उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः ।

आयुः प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ५७।

समन्वितानि भूतानि तेषु सर्वेषु सत्तमाः ।

एवमेषा महाभागाः पर्वतैः पृथिवी चिता ५८।

हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः ।

तत्र वैश्रवणो देवो गुह्यकैः सह मोदते ५९।

अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति ।

हिरण्यशृंगः सुमहान्दिव्यो मणिमयो गिरिः ६०।

तस्य पार्श्वे महद्दिव्यं शुभ्रं कांचनवालुकम् ।

रम्यं विष्णुसरो नाम यत्र राजा भगीरथः ६१।

दृष्ट्वा भागीरथीं गंगामुवास बहुलाः समाः ।

यूपा मणिमयास्तत्र क्षेत्राश्चापि हिरण्मयाः ६२।

तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः ।

स्रष्टा भूतिपतिर्यत्र सर्वलोकैः सनातनः ६३।

उपास्यते तिग्मतेजा यत्र भूतः समंततः ।

नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पंचमः ६४।

तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता ।

ब्रह्मलोकादपाक्रांता सप्तधा प्रतिपद्यते ६५।

वटोदका सा नलिनी पार्वती च सरस्वती ।

जंबूनदी च सीता च गंगा सिंधुश्च सप्तमी ६६।

अचिंत्या दिव्यसंज्ञा सा प्रभावैश्च समन्विता ।

उपास्यते यत्र सत्रं सहस्रयुगपर्यये ६७।

दृश्यादृश्या च भवति तत्रतत्र सरस्वती ।

एता दिव्याः सप्तगंगास्त्रिषुलोकेषु विश्रुताः ६८।

रक्षांसि वै हिमवती हेमकूटे च गुह्यकाः ।

सर्पा नागाश्च निषधे गोकर्णं च तपोवनम् ६९।

देवासुराणां सर्वेषां श्वेतः पर्वतमुच्यते ।

गंधर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा ७०।

शृंगवांस्तु महाभागा देवानां प्रतिसंचरः ।

इत्येतानि महाभागाः सप्तवर्षाणि भागशः ७१।

भूतान्युपनिविष्टानि गतिमंति ध्रुवाणि च ।

तेषामृद्धिर्बहुविधा दृश्यते देवमानुषा ७२।

अशक्यं परिसंख्यातुं श्रद्धे या तु विभूषिता ।

यां तु पृच्छथ मां विप्रा दिव्यमेनां शशाकृतिम् ७३।

पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे ।

कर्णे तु नागद्वीपश्च काश्यपद्वीप एव च ७४।

कर्णद्वीपशिलो विप्राः श्रीमान्मलयपर्वतः ।

एतद्द्वितीयं द्वीपस्य दृश्यते शशिसंस्थितम् ७५।

इति श्रीपाद्मेमहापुराणे स्वर्गखंडे तृतीयोऽध्यायः ३।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 4

ऋषय ऊचुः-।

मेरोरथोत्तरं पश्चात्पूर्वमाचक्ष्व सूततः ।

निखिलेन महाबुद्ध माल्यवंतं च पर्वतम् १।

सूत उवाच-।

दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे ।

उत्तराः कुरवो विप्राः पुण्याः सिद्धनिषेविताः २।

तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः ।

पुष्पाणि च सुगंधीनि रसवंति फलानि च ३।

सर्वकामफलास्तत्र केचिद्वृत्या द्विजोत्तमाः ।

अपरे क्षीरिणो नाम वृक्षास्तत्र द्विजोत्तमाः ४।

प्रक्षरंति सदा क्षीरं तत्र सर्वेऽमृतोपमम् ।

वस्त्राणि च प्रसूयंते फलेष्वाभरणानि च ५।

सर्वा मणिमयी भूमिः सूक्ष्मकांचनवालुका ।

सर्वर्तुसुखसंस्पर्शा निष्फलाश्च तपोधनाः ६।

देवलोकच्युताः सर्वे जायंते तत्र मानवाः ।

शुक्लाभिजनसंपन्नाः सर्वसुप्रियदर्शनाः ७।

मिथुनानि च जायंते स्त्रियश्चाप्सरसोपमाः ।

तेषां ते क्षीरिणां क्षीरं पिबंत्यमृतसंनिभम् ८।

मिथुनं जायते काले समंताच्च प्रवर्द्धते ।

तुल्यरूपगुणोपेतं समवेशं तथैव च ९।

एकमेवानुरूपं च चक्रवाकसमं द्विजाः ।

निरामयाश्च ते लोका नित्यं मुदितमानसाः १०।

दशवर्षसहस्राणि दशवर्षशतानि च ।

जीवंति ते महाभागा न चान्योन्यं जहत्युत ११।

भारुंडा नाम शकुनास्तीक्ष्णतुंडा महाबलाः ।

तान्निर्हरंतीहमृतान्दरीषु प्रक्षिपंति च १२।

उत्तराःकुरवो विप्रा व्याख्यातास्ते समासतः ।

मेरुपार्श्वमहं पूर्वं प्रवक्ष्यामि यथातथम् १३।

तस्य मूर्द्धाभिषेकस्तु भद्राश्वस्य तपोधनाः ।

भद्रशालवनं यत्र कालाम्राश्च महाद्रुमाः १४।

कालाम्रास्तु महाभागा नित्यंपुष्पफलाः शुभाः ।

द्रुमाश्च योजनोत्सेधाः सिद्धचारणसेविताः १५।

तत्र ते पुरुषाः श्वेतास्तेजोयुक्तमहाबलाः ।

स्त्रियः कुमुदवर्णाश्च सुंदर्यः प्रियदर्शनाः १६।

चंद्रवर्णाश्चतुर्वर्णाः पूर्णचंद्रनिभाननाः ।

चंद्रशीतलगात्राश्च नृत्यगीतविशारदाः १७।

दशवर्षसहस्राणि तत्रायुर्द्विजसत्तमाः ।

कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः १८।

दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।

सुदर्शनो नाम महान्जंबूवृक्षः सनातनः १९।

सर्वकामफलः पुण्यः सिद्धचारणसेवितः ।

तस्य नाम्ना समाख्यातो जंबूद्वीपः सनातनः २०।

योजनानां सहस्रं च शतं च द्विजसत्तमाः ।

तथा माल्यवतः शृंगे पूर्वे पूर्वानुगांतकाः २१।

योजनानां सहस्राणि पंचाशन्माल्यवान्द्विजाः ।

महारजतसंकाशा जायंते तत्र मानवाः २२।

ब्रह्मलोकच्युताः सर्वे सर्वे च ब्रह्मवादिनः ।

तपस्तप्यंति ते दिव्यं भवंति ह्यूर्ध्वरेतसः २३।

रक्षणार्थं तु भूतानां प्रविशंति दिवाकरम् ।

षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च २४।

अरुणस्याग्रतो यांति परिवार्य दिवाकरम् ।

षष्टिवर्षसहस्राणि षष्टिरेव शतानि च २५।

आदित्यतापतप्तास्ते विशंति शशिमंडलम् २६।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुर्थोऽध्यायः ४।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 5

ऋषय ऊचुः-।

वर्षाणां चैव नामानि पर्वतानां च सत्तम ।

आचक्ष्व नो यथातत्वं ये च पर्वतवासिनः १।

सूत उवाच-।

दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु ।

वर्षं रमणकं नाम जायंते तत्र मानवाः २।

शुक्लाभिजनसंपन्नाः सर्वे ते प्रियदर्शनाः ।

निःसपत्नाश्च ते सर्वे जायंते तत्र मानवाः ३।

दशवर्षसहस्राणि शतानि दशपंच च ।

जीवंति ते महाभागा नित्यं मुदितमानसाः ४।

दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।

वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ५।

यत्र चायं महाप्राज्ञाः पक्षिराट्पतगोत्तमः ।

यज्ञानुगा विप्रवरा धन्विनः प्रियदर्शनाः ६।

महाबलास्तत्र जना विप्रा मुदितमानसाः ।

एकादशसहस्राणि वर्षाणां ते तपोधनाः ७।

आयुःप्रमाणं जीवंति शतानि दश पंच च ।

शृंगाणि च पवित्राणि त्रीण्येव द्विजपुंगवाः ८।

एकं मणिमयं तत्र तथैकं रुक्ममद्भुतम् ।

सर्वरत्नमयं चैकं भवनैरुपशोभितम् ९।

तत्र स्वयं प्रभादेवी नित्यं वसति शंडिनी ।

उत्तरेण तु शृंगस्य समुद्रांते द्विजोत्तमाः १०।

वर्षमैरावतं नाम तस्माच्छृंगवतः परम् ।

न तु तत्र सूर्यगतिर्जीर्यंते न च मानवाः ११।

चंद्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ।

पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः १२।

पद्मपत्रसुगंधाश्च जायंते तत्र मानवाः ।

अनिष्पन्ना नष्टगंधा निराहारा जितेंद्रियाः १३।

देवलोकच्युताः सर्वे तथा विरजसो द्विजाः ।

त्रयोदशसहस्राणि वर्षाणां ते द्विजोत्तमाः १४।

आयुःप्रमाणं जीवंति नरा धार्मिकपुंगवाः ।

क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः १५।

हरिस्तिष्ठति वैकुंठः शकटे कनकामये ।

अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् १६।

अग्निवर्णं महातेजो जांबूनदविभूषितम् ।

स प्रभुः सर्वभूतानां विभुश्च द्विजसत्तमाः १७।

संक्षेपे विस्तरे चैव कर्ता कारयिता तथा ।

पृथिव्यापस्तथाकाशं वायुस्तेजश्च सत्तमाः १८।

स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः १९।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे पंचमोऽध्यायः ५।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 6

ऋषय ऊचुः-।

यदिदं भारतं वर्षं पुण्यं पुण्यविधायकम् ।

तत्सर्वं नः समाचक्ष्व त्वं हि नो बुद्धिमान्मतः १।

सूत उवाच-।

अत्र ते कीर्त्तयिष्यामि वर्षं भारतमुत्तमम् ।

प्रिय मित्रस्य देवस्य मनोर्वैवस्वतस्य च २।

पृथोश्च प्राज्ञ वै न्यस्य तथैक्ष्वाकोर्महात्मनः ।

ययातेरंबरीषस्य मांधातुर्नहुषस्य च ३।

तथैव मुचुकुंदस्य कुबेरोशीनरस्य च ।

ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ४।

कुशिकस्यैव राजर्षेर्गाधेश्चैव महात्मनः ।

सोमस्य चैव राजर्षेर्दिलीपस्य तथैव च ५।

अन्येषां च महाभागाः क्षत्रियाणां बलीयसाम् ।

सर्वेषामेव भूतानां प्रियं भारतमुत्तमम् ६।

ततो वर्षं प्रवक्ष्यामि यथाश्रुतमहो द्विजाः ।

महेंद्रो मलयःसह्यः शुक्तिमानृक्षवानपि ७।

विंध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।

तेषां सहस्रशो विप्रा पर्वतास्ते समीपतः ८।

अविज्ञाताः सारवंतो विपुलाश्चित्रसानवः ।

अन्ये तु ये परिज्ञाता ह्रस्वा ह्रस्वोपजीविनः ९।

आर्यम्लेच्छसधर्माणस्ते मिश्राः पुरुषा द्विजाः ।

नदीं पिबंति विमलां गंगां सिंधुंसरस्वतीम् १०।

गोदावरीं नर्मदां च बहूदां च महानदीम् ।

शतद्रुं चंद्रभागां च यमुनां च महानदीम् ११।

दृषद्वतीं वितस्तां च विपापां स्वच्छवालुकाम् ।

नदीं वेत्रवतीं चैव कृष्णां वेणीं च निम्नगाम् १२।

इरावतीं वितस्तां च पयोष्णीं देविकामपि ।

वेदस्मृतिं वेदशिरां त्रिदिवां सिंधुला कृमिम् १३।

करीषिणीं चित्रवहां त्रिसेनां चैव निम्नगाम् ।

गोमतीं धूतपापां च चंदनां च महानदीम् १४।

कौशिकीं त्रिदिवां हृद्यां नाचितां रोहितारणीम् ।

रहस्यां शतकुंभां च सरयूं च द्विजोत्तमाः १५।

चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ।

शरावतीं पयोष्णीं च भीमां भीमरथीमपि १६।

कावेरीं चुलुकां चापि तापीं शतमलामपि ।

नीवारां महितां चापि सुप्रयोगां तथा नदीम् १७।

पवित्रां कृष्णलां सिंधुं वाजिनीं पुरमालिनीम् ।

पूर्वाभिरामां वीरां च भीमां मालावतीं तथा १८।

पलाशिनीं पापहरां महेंद्रां पटलावतीम् ।

करीषिणीमसिक्नीं च कुशचीरीं महानदीम् १९।

मरुतां प्रवरां मेनां हेमां घृतवतीं तथा ।

अनावतीमनुष्णां च सेव्यां कापीं च सत्तमाः २०।

सदावीरामधृष्यां च कुशचीरां महानदीम् ।

रथचित्रां ज्योतिरथां विश्वामित्रां कपिंजलाम् २१।

चंद्रावहफलद्यं चैव कुचीरामंबुवाहिनीम् ।

वैनदीं पिंगलां वेणां तुंगवेगां महानदीम् २२।

विदिशां कृष्णवेणां च ताम्रां च कपिलामपि ।

धेनुं सकामां वेदस्वां हविःस्रावां महापथाम् २३।

शिप्रां च पिच्छलां चैव भारद्वाजीं च निम्नगाम् ।

कौर्णिकीं निम्नगां शोणां बाहुदामथ चंद्रमाम् २४।

दुर्गामंतः शिलां चैव ब्रह्ममेध्यां दृषद्वतीम् ।

परोक्षामथ रोहीं च तथा जंबूनदीमपि २५।

सुनासां तमसां दासीं सामान्यां वरणामसिम् ।

नीलां धृतिकरीं चैव पर्णाशां च महानदीम् २६।

मानवीं वृषभां भासां ब्रह्ममेध्यां दृषद्वतीम् ।

एताश्चान्याश्च बहुला महानद्यो द्विजर्षभाः २७।

सदा निरामयां कृष्णां मंदगां मंदवाहिनीम् ।

ब्राह्मणीं च महागौरीं दुर्गामपि च सत्तमाः २८।

चित्रोत्पलां चित्ररथामतुलां रोहिणीं तथा ।

मंदाकिनीं वैतरणीं कोकां चापि महानदीम् २९।

शुक्तिमतीमनंगां च तथैव वृषसाह्वयाम् ।

लोहित्यां करतोयां च तथैव वृषकात्वयाम् ३०।

कुमारीमृषितुल्यां च मारिषां च सरस्वतीम् ।

मंदाकिनीं सुपुण्यां च सर्वां गंगां च सत्तमाः ३१।

विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः ।

तथा नद्यः सुप्रकाशाः शतशोथ सहस्रशः ३२।

इत्येता सरितो विप्राः समाख्याता यथास्मृति ।

अतऊर्द्ध्वं जनपदान्निबोध गदतो मम ३३।

तत्रेमे कुरुपांचालाः शाल्वमात्रेय जांगलाः ।

शूरसेनाः पुलिंदाश्च बौधामालास्तथैव च ३४।

मत्स्याः कुशट्टाः सौगंध्याः कुत्सपाः काशिकोशलाः ।

चेदिमत्स्यकरूषाश्च भोजाः सिंधुपुलिंदकाः ३५।

उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सह ।

पंचालाः कोशलाश्चैव नैकपृष्ठयुगंधराः ३६।

बोधा मद्राः कलिंगाश्च काशयो परकाशयः ।

जठराः कुकुराश्चैव सुदशार्णाः सुसत्तमाः ३७।

कुंतयोऽवंतयश्चैव तथैवापरकुंतयः ।

गोमंता मल्लकाः पुंड्राः विदर्भा नृपवाहिकाः ३८।

अश्मकाः सोत्तराश्चैव गोपराष्ट्राः कनीयसः ।

अधिराज्यकुशट्टाश्च मल्लराष्ट्राश्च केरलाः ३९।

मालवाश्चोपवास्याश्च चक्रावक्रालयाः शकाः ।

विदेहा मगधाः सद्मा मलजा विजयास्तथा ४०।

अंगा वंगाः कलिंगाश्च यकृल्लोमान एव च ।

मल्लाः सुदेष्णाः प्रह्लादा महिषाः शशकास्तथा ४१।

बाह्लिका वाटधानाश्च आभीराः कालतोयकाः ।

अपरांताः परांताश्च पंकलाश्चर्मचंडिकाः ४२।

अटवीशेखराश्चैव मेरुभूताश्च सत्तमाः ।

उपावृतानुपावृताः सुराष्ट्राः केकयास्तथा ४३।

कुट्टापरांता माहेयाः कक्षाः सामुद्र निष्कुटाः ।

अंधाश्च बहवो विप्रा अंतर्गिर्यस्तथैव च ४४।

बहिर्गिर्य्योंगमलदा मगधा मालवार्घटाः ।

सत्त्वतराः प्रावृषेयाः भार्गवाश्च द्विजर्षभाः ४५।

पुंड्रा भार्गाः किराताश्च सुदेष्णा भासुरास्तथा ।

शका निषादा निषधास्तथैवानर्त नैऋताः ४६।

पूर्णलाः पूतिमत्स्याश्च कुंतला कुशकास्तथा ।

तरिग्रहाश्शूरसेना ईजिकाः कल्पकारणाः ४७।

तिलभागामसाराश्च मधुमत्ताः ककुंदकाः ।

काश्मीराः सिंधुसौवीरा गांधारा दर्शकास्तथा ४८।

अभीसाराः कुद्रुताश्च सौरिला बाह्लिकास्तथा ।

दर्वी च मालवा दर्वा वातजामरथोरगाः ४९।

बलरट्टास्तथा विप्राः सुदामानः मुमल्लिकाः ।

बंधाकरीकषाश्चैव कुलिंदा गंधिकास्तथा ५०।

वनायवोदशाः पार्श्वरोमाणः कुशबिंदवः ।

काच्छा गोपालकच्छाश्च जांगलाः कुरुवर्णकाः ५१।

किराताबर्बराः सिद्धा वैदेहास्ताम्रलिप्तिकाः ।

औड्रम्लेच्छाः ससैरिंद्राः पार्वतीयाश्च सत्तमाः ५२।

अथापरे जनपदा दक्षिणा मुनिपुंगवाः ।

द्रविडाः केरलाः प्राच्या मूषिका बालमूषिकाः ५३।

कर्णाटका माहिषका विकंधा मूषिकास्तथा ।

झल्लिकाः कुंतलाश्चैव सौहृदानलकाननाः ५४।

कौक्कुटकास्तथा बोलाः कोकणा मणिवालकाः ।

समंगा कनकाश्चैव कुंकुरांगारमारिषाः ५५।

ध्वजिन्युत्सवसंकेतास्त्रिवर्गा माल्यसेनयः ।

व्यूढकाः कोरकाः प्रोष्टाः संगवेगधरास्तथा ५६।

तथैव विंद्यरुलिकाः पुलिंदा बल्वलैः सह ।

मालवा मलराश्चैव तथैवापरवर्तकाः ५७।

कुलिंदाः कालदाश्चैव चंडकाः कुरटास्तथा ।

मुशलास्तनवालाश्च सतीर्था पूतिसृंजयाः ५८।

अनिदायाः शिवाटाश्च तपनाः सूतपास्तथा ।

ऋषिकाश्च विदर्भाश्च स्तंगना परतंगकाः ५९।

उत्तराश्चापरेम्लेच्छा जना हि मुनिपुंगवाः ।

जवनाश्च सकांबोजा दारुणा म्लेच्छजातयः ६०।

सकृघृहाः कुलट्याश्च हूणा पारसिकैः सह ।

तथैव रमणाश्चान्यास्तथा च दशमालिकाः ६१।

क्षत्रियोपनिवेशाश्च वैश्यशूद्र कुलानि च ।

शूराभीराश्च दरदाः काश्मीराः पशुभिः सह ६२।

खांडीकाश्च तुषाराश्च पद्मगा गिरिगह्वराः ।

आद्रेयाः सभिरादाजास्तथैव स्तनपोषकाः ६३।

द्रोषकाश्च कलिंगाश्च किरातानां च जातयः ।

तोमरा हन्यमानाश्च तथैव करभंजकाः ६४।

एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च ।

उद्देशमात्रेण मया देशाः संकीर्तिता द्विजाः ।

यथागुणबलं चापि त्रिवर्गस्य महाफलम् ६५।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे षष्ठोऽध्यायः ६।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 7

ऋषय ऊचुः-।

भारतस्यास्य वर्षस्य तथा हैमवतस्य च ।

प्रमाणमायुषः सूत बलं चापि शुभाशुभम् १।

अनागतमतिक्रांतं वर्तमानं च सत्तम ।

आचक्ष्व नो विस्तरेण हरिवर्षं तथैव च २।

सूत उवाच-।

चत्वारि भारते वर्षे युगानि मुनिपुंगवाः ।

कृतं त्रेता द्वापरं च तिष्यं च द्विजसत्तमाः ३।

पूर्वे कृतयुगं नाम ततस्त्रेतायुगं द्विजाः ।

तत्पश्चाद्द्वापरं चाथ ततस्तिष्यः प्रवर्तते ४।

चत्वारि तु सहस्राणि वर्षाणां मुनिपुंगवाः ।

आयुः संख्या कृतयुगे संख्याता हि तपोधनाः ५।

तथा त्रीणि सहस्राणि त्रेतायामायुषो विदुः ।

द्वे सहस्रे द्वापरे तु भुवि तिष्ठंति सांप्रतम् ६।

तत्प्रमाणस्थितिर्ह्यस्ति तिष्ये तु मुनिपुंगवाः ।

गर्भस्थाश्च म्रियंतेऽत्र तथा जाता म्रियंति च ७।

महाबला महासत्त्वाः प्रज्ञागुणसमन्विताः ।

प्रजायंते च जाताश्च शतशोऽथ सहस्रशः ८।

द्विजाः कृतयुगे विप्रा बलिनः प्रियदर्शनाः ।

प्रजायंते च जाताश्च मुनयो वै तपोधनाः ९।

महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः ।

प्रियदर्शा वपुष्मंतो महावीर्य्या धनुर्धराः १०।

वीरा हि युधि जायंते क्षत्रियाः शूरसंमताः ।

त्रेतायां क्षत्रियास्तावत्सर्वे वै चक्रवर्तिनः ११।

सर्ववर्णाश्च जायंते सदैव द्वापरे युगे ।

महोत्साहा वीर्यवंतः परस्परवधैषिणः १२।

तेजसांधेनसंयुक्ताः क्रोधनाः पुरुषाः किल ।

लुब्धाश्चानृतकाश्चैव तिष्ये जायंति भो द्विजाः १३।

ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च ।

तिष्ये भवंति भूतानां रागो लोभश्च सत्तमाः १४।

संक्षेपो वर्त्तते विप्रा द्वापरे युगमध्यगे ।

गुणोत्तरं हैमवतं हरिवर्षं ततः परम् १५।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे सप्तमोऽध्यायः ७।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 8

ऋषय ऊचुः-।

जंबूखंडस्त्वया प्रोक्तो यथावदिह सत्तमः ।

विष्कंभस्य च प्रब्रूहि परिमाणं हि तत्त्वतः १।

समुद्रस्य प्रमाणं च सम्यगच्छिद्र दर्शनः ।

शाकद्वीपं च नो ब्रूहि कुशद्वीपं च धार्मिकम् २।

शाल्मलं चैव तत्त्वेन क्रौंचद्वीपं तथैव च ।

सूत उवाच-।

विप्राः सुबहवो द्वीपाः यैरिदं संततं जगत् ।

सप्तद्वीपान्प्रवक्ष्यामि शृणुध्वं द्विजपुंगवाः ३।

अष्टादशसहस्राणि योजनानि द्विजोत्तमाः ।

षट्शतानि च पूर्णानि विष्कंभो जंबुपर्वतः ४।

लवणस्य समुद्रस्य विष्कंभो द्विगुणः स्मृतः ।

नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ५।

नैकधातुविचित्रैश्च पर्वतैरुपशोभितः ।

सिद्धचारणसंकीर्णैः सागरः परिमंडलः ६।

शाकद्वीपं च वक्ष्यामि यथावदिह सत्तमाः ।

शृणुताद्य यथान्यायं ब्रुवतो मम धार्मिकाः ७।

जंबुद्वीपप्रमाणेन द्विगुणः स द्विजर्षभाः ।

विष्कंभेन महाभागाः सागरोऽपि विभागशः ८।

क्षीरोदो मुनिशार्दूला येन संपरिवारितः ।

तत्र पुण्याजनपदास्तत्र न म्रियते जनः ९।

कुत एव हि दुर्भिक्षं क्षमा तेजोयुता हि ते ।

शाकद्वीपस्य संक्षेपो यथावन्मुनिसत्तमाः ।

उक्त एष महाभागाः किमन्यत्कथयामि वः १०।

ऋषय ऊचुः-।

शाकद्वीपस्य संक्षेपो यथावदिह धार्मिक ।

उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः ११।

सूत उवाच-।

तथैव पर्वता विप्राः सप्तात्र मणिपर्वताः ।

रत्नाकरास्तथा नद्यस्तेषां नामानि वर्णये १२।

अतीवगुणवत्सर्वं तत्त्वं पृच्छथ धार्मिकाः ।

देवर्षिगंधर्वयुतः प्रथमो मेरुरुच्यते १३।

प्रागायतो महाभागा मलयोनाम पर्वतः ।

ततो मेघाः प्रवर्त्तंते प्रभवंति च सर्वशः १४।

ततः परेण मुनयो जलधारो महागिरिः ।

ततो नित्यमुपादत्ते वासवः परमं जलम् १५।

ततो वर्षं प्रभवति वर्षाकाले द्विजोत्तमाः ।

उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितम् १६।

रेवती दिवि नक्षत्रं पितामहकृतो विधिः ।

उत्तरेण तु विप्रेंद्राः श्यामो नाम महागिरिः १७।

नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः ।

यतः श्यामत्वमापन्नाः प्रजा मुदितमानसाः १८।

ऋषय ऊचुः-।

सुमहान्संशयोऽस्माकं प्राप्तोयं सूत यत्त्वया ।

प्रजाः कथं सूत सम्यक्संप्राप्ताः श्यामतामिह १९।

सूत उवाच-।

सर्वेष्वेव महाप्राज्ञा द्वीपेषु मुनिपुंगवाः ।

गौरः कृष्णश्च पतगस्तयोर्वर्णांतरे द्विजाः २०।

श्यामो यस्मात्प्रवृत्तो वै तस्मात्श्यामगिरिः स्मृतः ।

ततः परं मुनिश्रेष्ठा दुर्गशैलो महोदयः २१।

केशरी केशरयुतो यतो वातः प्रवर्त्तते ।

तेषां योजनविष्कंभो द्विगुणः प्रविभागशः २२।

वर्षाणि तेषु विप्रेंद्राः संप्रोक्तानि मनीषिभिः ।

महामेरुर्महाकाशो जलदः कुमुदोत्तरम् २३।

जलधारो महाप्राज्ञः सुकुमार इति स्मृतः ।

रेवतस्य तु कौमारः श्यामश्च मणिकांचनः २४।

केशरस्याथ मौदाकी परेण तु महान्पुमान् ।

परिवार्य्यं तु विप्रेंद्रा दैर्घ्यं ह्रस्वत्वमेव च २५।

जंबूद्वीपेन संख्यातस्तस्य मध्ये महाद्रुमः ।

शाको नाम महाप्राज्ञाः प्रजास्तस्य सहानुगाः २६।

तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः ।

तत्र गच्छंति सिद्धाश्च चारणा दैवतानि च २७।

धार्मिकाश्च प्रजाः सर्वाः चत्वारो गतमत्सराः ।

वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते २८।

दीर्घायुषो महाप्राज्ञा जरामृत्युविवर्जिताः ।

प्रजास्तत्र विवर्द्धंते वर्षास्विव समुद्रगाः २९।

नद्यः पुण्यजलास्तत्र गंगा च बहुधा गता ।

सुकुमारी कुमारी च शीता शीतोदका तथा ३०।

महानदी च भो विप्रास्तथा मणिजला नदी ।

इक्षुवर्द्धनिका चैव नदी मुनिवराः स्मृताः ३१।

ततः प्रवृत्ताः पुण्योदा नद्यः परमशोभनाः ।

सहस्राणां शतान्येव यतो वर्षति वासवः ३२।

न तासां नामधेयानि परिस्मर्तुं तथैव च ।

शक्यंते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः ३३।

ततः पुण्या जनपदाश्चत्वारो लोकविश्रुताः ।

मृगाश्च मशकाश्चैव मानसा मल्लकास्तथा ३४।

मृगाश्च ब्रह्मभूयिष्ठाः स्वकर्मनिरता द्विजाः ।

मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः ३५।

मानसाश्च महाभागा वैश्यधर्मोपजीविनः ।

सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ३६।

शूद्रास्तु मल्लका नित्यं पुरुषा धर्मशीलिनः ।

न तत्र राजा विप्रेंद्रा न दंडो न च दंडिकाः ३७।

स्वधर्मेणैव धर्मज्ञास्ते रक्षंति परस्परम् ।

एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम् ३८।

एतदेव च श्रोतव्यं शाकद्वीपे महौजसि ३९।

इति श्रीपाद्मे महापुराणे स्वर्गखंडेऽष्टमोऽध्यायः ८।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 9

सूत उवाच-।

उत्तरेषु च भो विप्रा द्वीपेषु श्रूयते कथा ।

एवं तत्र महाभागा ब्रुवतस्तन्निबोधत १।

घृततोयः समुद्रोथ दधिमंडोदकोपरः ।

सुरोदसागरश्चैव तथान्यो दुग्धसागरः २।

परस्परेण द्विगुणाः सर्वे द्वीपा द्विजर्षभाः ।

पर्वताश्च महाप्राज्ञाः समुद्रैः परिवारिताः ३।

गौरस्तु मध्यमे द्वीपे गिरिर्मनःशिलो महान् ।

पर्वतः पश्चिमे कृष्णो नारायणसखो द्विजाः ४।

तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः ।

प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधात्सुखम् ५।

शरद्वीपे कुशस्तंबो मध्ये जनपदस्य ह ।

संपूज्यते शाल्मलिश्च द्वीपे शाल्मलिके द्विजाः ६।

क्रौंचद्वीपे महाक्रौंचो गिरी रत्नचयाकरः ।

संपूज्यते भो विप्रेंद्राश्चातुर्वर्ण्येन नित्यदा ७।

गोमंतः पर्वतो विप्राः सुमहान्सर्वधातुकः ।

यत्र नित्यं निवसति श्रीमान्कमललोचनः ८।

मोक्षिभिः संगतो नित्यं प्रभुर्नारायणोहरिः ।

कुशद्वीपे तु विप्रेंद्राः पर्वतो विद्रुमैश्चितः ९।

सुनामा च सुदुर्धर्षो द्वितीयो हेमपर्वतः ।

द्युतिमान्नाम विप्रेंद्रास्तृतीयः कुमुदो गिरिः १०।

चतुर्थः पुष्पवान्नाम पंचमस्तु कुशेशयः ।

षष्टो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ११।

तेषामंतरविष्कंभो द्विगुणः प्रविभागशः ।

औद्भिदं प्रथमं वर्षं द्वितीयं रेणुमंडलम् १२।

तृतीयं सुरथं नाम चतुर्थं लंबनं स्मृतम् ।

धृतिमत्पंचमं वर्षं षष्ठं वर्षं प्रभाकरम् १३।

सप्तमं कापिलं वर्षं सप्तैते वर्षलंबकाः ।

एतेषु देवगंधर्वाः प्रजाश्च मुदिता द्विजाः ।

विहरंति रमंते च न तेषु म्रियते जनः १४।

न तेषु दस्यवः संति म्लेच्छजात्योऽपि वा द्विजाः ।

गौरप्रायो जनः सर्वः सुकुमारश्च सत्तमाः १५।

अवशिष्टेषु सर्वेषु वक्ष्यामि द्विजपुंगवाः ।

यथा श्रुतं महाप्राज्ञा वर्ण्यते शृणुत द्विजाः १६।

क्रौंचद्वीपे महाभागाः क्रौंचो नाम महागिरिः ।

क्रौंचात्परो वामनको वामनादंधकारकः १७।

अंधकारात्परो विप्रा मैनाकः पर्वतोत्तमः ।

मैनाकात्परतो विप्रा गोविंदो गिरिरुत्तमः १८।

गोविंदात्परतश्चैव पुंडरीको महागिरिः ।

पुंडरीकात्परश्चापि प्रोच्यते दुंदुभिस्वनः १९।

पुरस्ताद्द्विगुणस्तेषां विष्कंभो मुनिपुंगवाः ।

देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु २०।

क्रौंचस्य कुशलो देशो वामनस्य मनोनुगः ।

मनोनुगात्परो देश उष्णो नाम तपोधनाः २१।

उष्णात्परः प्रावरकः प्रावरादंधकारकः ।

अंधकारकदेशात्तु मुनिदेशः परः स्मृतः २२।

मुनिदेशात्परश्चैव प्रोच्यते दुंदुभिस्वनः ।

सिद्धचारणसंकीर्णो गौरः प्रायोजनः स्मृतः २३।

एते देशाः समाख्याता देवगंधर्वसेविताः ।

पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान् २४।

तत्र नित्यं प्रसरति स्वयं देवः प्रजापतिः ।

पर्युपासंति तं नित्यं देवाः सर्वे महर्षयः २५।

वाग्भिर्मनोनुकूलाभिः पूजयंति द्विजोत्तमाः ।

जंबूद्वीपात्प्रवर्त्तन्ते रत्नानि विविधानि च २६।

द्वीपेषु तेषु सर्वेषु प्रजानां मुनिसत्तमाः ।

विप्राणां ब्रह्मचर्येण सत्येन च दमेन च २७।

आरोग्यायुष्प्रमाणाभ्यां द्विगुणं द्विगुणं ततः ।

एते जनपदा विप्रा द्वीपेषु तेषु सत्तमाः २८।

उक्ता जनपदा येषु धर्मश्चैकः प्रवर्त्तते ।

ईश्वरो दंडमुद्यम्य स्वयमेव प्रजापतिः २९।

द्वीपानेतान्मुनिवरा रक्षंस्तिष्ठति सर्वदा ।

स राजा स शिवो विप्राः स पिता स पितामहः ३०।

गोपायति द्विजश्रेष्ठाः प्रजाः स द्विजपंडिताः ।

भोजनं चात्र विप्रेंद्राः प्रजाः स्वयमुपस्थितम् ३१।

सिद्धमेव महाभागा भुंजते तद्धि नित्यदा ।

ततः परं महाशैलो दृश्यते लोकसंस्थितिः ३२।

चतुरस्रो महाप्राज्ञः सर्वतः परिमंडलः ।

तत्र तिष्ठंति विप्रेंद्राश्चत्वारो लोकसंमताः ३३।

दिग्गजा हि मुनिश्रेष्ठा वामनैरावतां जनाः ।

सुप्रतीकस्तथा विप्राः प्रभिन्नकरटामुखाः ३४।

तस्याहं परिमाणं न संख्यातुमिहमुत्सहे ।

असंख्यातः सुनित्यं हि तिर्यगूर्द्ध्वमधस्तथा ३५।

तत्र वै वायवो वांति दिग्भ्यः सर्वाभ्य एव च ।

असंबंधा मुनिश्रेष्ठास्तान्निगृह्णंति ते द्विजाः ३६।

पुष्करैः पद्मसंकाशैर्विकर्षंति महाप्रभैः ।

शतधा पुनरेवाशु ते तान्मुंचंति नित्यशः ३७।

श्वसद्भिर्मुखनासाभ्यां दिग्गजैरिव मारुताः ।

आगच्छंति द्विजश्रेष्ठास्तत्र तिष्ठंति वै प्रजाः ३८।

यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत् ।

श्रुत्वेदं पृथिवीमानं पुण्यदं च मनोनुगम् ३९।

श्रीमांस्तरति विप्रेंद्राः सिद्धार्थः साधुसंमतः ।

आयुर्बलं च कीर्त्तिश्च तस्य तेजश्च वर्द्धते ४०।

यः शृणोति समाख्यातुं पर्वणीदं धृतव्रतः ।

प्रीयंते पितरस्तस्य तथैव च पितामहाः ४१।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे नवमोऽध्यायः ९।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 10

ऋषय ऊचुः-।

पृथिव्या हि परीमाणं संस्थानं सरितस्तथा ।

त्वत्तः श्रुत्वा महाभाग अमृतं पीतमेव च १।

तत्र भूमौ च तीर्थानि पावनानीति नः श्रुतम् ।

आचक्ष्व तानि सर्वाणि यथाफलकराणि च ।

सविशेषं महाप्राज्ञ श्रोतुमिच्छामहे तव २।

सूत उवाच-।

धन्यं पुण्यं महाख्यानं पृष्टमेव तपोधनाः ।

यथामति प्रवक्ष्यामि यथायोगं यथाश्रुतम् ३।

पुरातनं प्रवक्ष्यामि देवर्षेर्नारदस्य हि ।

युधिष्ठिरेण संवादं शृणु तद्द्विजसत्तमाः ४।

हृतराज्याः पांडुपुत्रा वने तस्मिन्महारथाः ।

न्यवसंति महाभागा द्रौपद्या सह पांडवाः ५।

अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् ।

दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ६।

स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुनंदनः ।

दिवि भाति हि दीप्तौजा देवैरिव शतक्रतुः ७।

यथा च देवान्सावित्री याज्ञसेनी तथा पतीन् ।

न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ८।

प्रतिगृह्य ततः पूजां नारदो भगवानृषिः ।

आश्वासयद्धर्म्मपुत्रं युक्तरूपप्रियेण च ९।

उवाच च महात्मानं धर्म्मराजं युधिष्ठिरम् ।

ब्रूहि धर्म्मभृतां श्रेष्ठ किं प्रार्थ्यं हि ददामि ते १०।

अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह ।

उवाच प्रांजलिर्वाक्यं नारदं देवसंमितम् ११।

त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते ।

कृतमित्येव मन्ये हि प्रसादात्तव सुव्रत १२।

यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ ।

संदेहं मे मुनिश्रेष्ठ हृत्स्थं त्वं छेत्तुमर्हसि १३।

प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः ।

किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि १४।

नारद उवाच-।

शृणु राजन्नवहितो दिलीपेन यथा पुरा ।

वसिष्ठस्य सकाशाद्वै सर्वमेतदुपश्रुतम् १५।

पुरा भागीरथीतीरे दिलीपो राजसत्तमः ।

धर्म्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा १६।

शुभेदेशे महाराजपुण्ये देवर्षिपूजिते ।

गंगाद्वारे महातेजा देवगंधर्वसेविते १७।

स पितॄंस्तर्पयामास देवांश्च परमद्युतिः ।

ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा १८।

कस्यचित्त्वथ कालस्य जपन्नेव महामनाः ।

ददर्श भूतसंकाशं वसिष्ठमृषिमुत्तमम् १९।

पुरोहितं स तं दृष्ट्वा दीप्यमानमिव श्रिया ।

प्रहर्षमतुलं लेभे विस्मयं परमं ययौ २०।

उपस्थितं महाराज पूजयामास भारत ।

स हि धर्म्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा २१।

शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः ।

नामसंकीर्त्तयामास तस्मिन्ब्रह्मर्षिसत्तमे २२।

दिलीपोऽहं तु भद्रं ते दासोस्मि तव सुव्रत ।

तव संदर्शनादेव मुक्तोहं सर्वकिल्बिषैः २३।

एवमुक्त्वा महाराज दिलीपो द्विपदां वरः ।

वाग्यतः प्रांजलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर २४।

तं दृष्ट्वा नियमेनाथ स्वाध्यायेन च कर्षितम् ।

दिलीपं नृपतिश्रेष्ठं मुनिः प्रीतमनाभवत् २५।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे दशमोऽध्यायः १०।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 11

वसिष्ठ उवाच-

अनेन तव धर्मज्ञ प्रश्रयेण दमेन च ।

सत्येन च महाभाग तुष्टोस्मि तव सर्वशः १।

यस्येदृशस्ते धर्मोयं पितरस्तारितास्त्वया ।

तेन पश्यसि मां पुत्र याज्यश्चासि ममानघ २।

प्रीतिर्मे वर्द्धते तेऽद्य ब्रूहि किं करवाणि ते ।

यद्वक्ष्यसि नरश्रेष्ठ तस्य दातास्मि तेनघ ३।

दिलीप उवाच-।

वेदवेदांगतत्त्वज्ञ सर्वलोकाभिपूजित ।

कृतमित्येव मन्ये हि यदहं दृष्टवान्प्रभुम् ४।

यदि त्वहमनुग्राह्यस्तव धर्म्मभृतां वर ।

प्रक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि ५।

अस्ति मे भगवन्कश्चित्तीर्थे यो धर्मसंशयः ।

तदहं श्रोतुमिच्छामि पृथक्संकीर्तनं त्वया ६।

प्रदक्षिणां यः पृथिवीं करोति द्विजसत्तम ।

किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन ७।

वसिष्ठ उवाच-।

कथयिष्यामि तदहमृषीणां मत्परायणम् ।

तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ८।

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।

विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ९।

प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः ।

अहंकारनिवृत्तश्च स तीर्थफलमश्नुते १०।

अकल्किको निराहारोऽलब्धाहारो जितेंद्रियः ।

विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते ११।

अक्रोधनश्च राजेंद्र सत्यशीलो दृढव्रतः ।

आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते १२।

ऋषिभिः क्रतवः प्रोक्ता देवेष्वपि यथाक्रमम् ।

फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः १३।

न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ।

बहूपकरणा यज्ञा नानासंभारविस्तराः १४।

प्राप्यंते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित् ।

न निर्धनैर्नरगणैरेकात्मभिरसाधनैः १५।

यो दरिद्रैरपि विधिः शक्यः प्राप्तुं जनेश्वर ।

तुल्यो यज्ञफलैः पुण्यैस्तं निबोध महीपते १६।

ऋषीणां परमं गुह्यमिदं धर्म्मभृतां वर ।

तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते १७।

अनुपोष्य त्रिरात्राणि तीर्थाभिगमनेन च ।

अदत्वा कांचनं गाश्च दरिद्रो नाम जायते १८।

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।

न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् १९।

नृलोके देवलोकस्य तीर्थं त्रैलोक्यविश्रुतम् ।

पुष्करं तीर्थमासाद्य देवदेवसमो भवेत् २०।

दशकोटिसहस्राणि तीर्थानां वै महीपते ।

सान्निध्यं पुष्करे येषां त्रिसंध्यं सूर्यवंशज २१।

आदित्या वसवो रुद्रा साध्याश्च समरुद्गणाः ।

गंधर्वाप्सरसश्चैव तत्र सन्निहिताः प्रभो २२।

यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा ।

दिव्ययोगा महाराज पुण्येन महता द्विजाः २३।

मनसाप्यभिकामस्य पुष्कराणि मनीषिणः ।

पूयंते सर्वपापानि नाकपृष्ठे च पूज्यते २४।

अस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः ।

उवास परमप्रीतो देवदानवसंमतः २५।

पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः ।

सिद्धिं परमिकां प्राप्ताः पुण्येन महतान्विताः २६।

तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः ।

अश्वमेधाद्दशगुणं प्रवदंति मनीषिणः २७।

अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः ।

तेनैति पूजिताँल्लोकान्ब्रह्मणः सदने स्थितान् २८।

सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृतांजलि ।

उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु पार्थिव २९।

जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा ।

पुष्करे गतमात्रस्य सर्वमेव प्रणश्यति ३०।

यथा सुराणां सर्वेषामादिस्तु मधुसूदनः ।

तथैव पुष्करो राजन्तीर्थानामादिरुच्यते ३१।

उष्ट्वा द्वादशवर्षाणि पुष्करे नियतः शुचिः ।

क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति ३२।

यस्तु वर्षशतं पूर्णमग्निहोत्रमुपाश्नुते ।

कार्तिकीं वा वसेदेकां पुष्करे सममेव तत् ३३।

दुष्करं पुष्करे गंतुं दुष्करं पुष्करे तपः ।

दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ३४।

त्रीणि शृंगाणि शुभ्राणि त्रीणि प्रस्रवणानि च ।

पुष्कराण्यादि तीर्थानि न विद्मस्तत्र कारणम् ३५।

उष्ट्वा द्वादशवर्षाणि नियतो नियताशनः ।

स मुक्तः सर्वपापेभ्यो सर्वक्रतुफलं लभेत् ३६।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे पुष्करतीर्थमाहात्म्य-।

वर्णनंनाम एकादशोऽध्यायः ११

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 12

वसिष्ठ उवाच-

प्रदक्षिणमुपावृत्तो जंबूमार्गे समाविशेत् ।

जंबूमार्गं समाविश्य पितृदेवर्षिपूजितम् १।

अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ।

तत्रोष्य रजनीः पंच षष्ठकालेश्नुवन्नरः २।

न दुर्गतिमवाप्नोति सिद्धिं चाप्नोत्यनुत्तमाम् ।

जंबुमार्गादुपावृत्तो गच्छेत्तु दुलिकाश्रमम् ३।

न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते ।

अगस्त्याश्रममासाद्य पितृदेवार्चने रतः ४।

त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ।

शाकवृत्तिः फलैर्वापि कौमारं विंदते परम् ५।

कन्याश्रमं समासाद्य श्रीपुष्टं लोकपूजितम् ।

धर्मारण्यं हि तत्पुण्यमाद्यं च पार्थिवर्षभ ६।

यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते ।

अर्चयित्वा पितॄन्देवान्प्रयतो नियताशनः ७।

सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।

प्रादक्षिण्यं ततः कृत्वा ययातिपतनं व्रजेत् ८।

हयमेधस्य यज्ञस्य फलमाप्नोति तत्र वै ।

महाकालमतो गच्छेन्नियतो नियताशनः ९।

कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ।

ततो गच्छेत धर्मज्ञ स्थानं तीर्थमुमापतेः १०।

नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ।

तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् ११।

महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् ।

समृद्धमसपत्नं तु श्रियायुक्तं नरोत्तम १२।

नर्मदां तु समासाद्य नदीं त्रैलोक्यविश्रुताम् ।

तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् १३।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्वादशोऽध्यायः १२

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 13

युधिष्ठिर उवाच-

वसिष्ठेन दिलीपाय कथितं तीर्थमुत्तमम् ।

नर्मदेति च विख्यातं पापपर्वतदारणम् १।

भूयश्च श्रोतुमिच्छामि तन्मे कथय नारद ।

नर्मदायाश्च माहात्म्यं वसिष्ठोक्तं द्विजोत्तम २।

कथमेषा महापुण्या नदी सर्वत्र विश्रुता ।

नर्मदानाम विख्याता तन्मम ब्रूहिनारद ३।

नारद उवाच-।

नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।

तारयेत्सर्वभूतानि स्थावराणि चराणि च ४।

नर्मदायास्तु माहात्म्यं वसिष्ठोक्तं मया श्रुतम् ।

तदेतद्धि महाराज सर्वं हि कथयामि ते ५।

पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती ।

ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्म्मदा ६।

त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् ।

सद्यः पुनाति गांगेयं दर्शनादेव नार्मदम् ७।

कलिंग देशे पश्चार्द्धे पर्वतेऽमरकंटके ।

पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ८।

सदेवासुरगंधर्वा ऋषयश्च तपोधनाः ।

तपस्तप्त्वा महाराज सिद्धिं च परमां गताः ९।

तत्र स्नात्वा महाराज नियमस्थो जितेंद्रियः ।

उपोष्य रजनीमेकां कुलानां तारयेच्छतम् १०।

जनेश्वरे नरः स्नात्वा पिंडं दत्वा यथाविधि ।

पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम् ११।

पर्वतस्य समंतात्तु रुद्रकोटिः प्रतिष्ठिता ।

स्नानं यः कुरुते तत्र गंधमाल्यानुलेपनम् १२।

प्रीता तस्य भवेत्सर्वा रुद्रकोटिर्न संशयः ।

पर्वते पश्चिमस्यांते स्वयं देवो महेश्वरः १३।

तत्र स्नात्वा शुचिर्भूत्वा ब्रह्मचारी जितेंद्रियः ।

पितृकार्यं तु कुर्वीत विधिदृष्टेन कर्मणा १४।

तिलोदकेन तत्रैव तर्पयेत्पितृदेवताः ।

आसप्तमं कुलं तस्य स्वर्गे तिष्ठति पांडव १५।

षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ।

अप्सरोगणसंकीर्णो दिव्यस्त्रीपरिवारितः १६।

दिव्यगंधानुलिप्तश्च दिव्यालंकारभूषितः ।

ततः स्वर्गात्परिभ्रष्टो जायते विपुले कुले १७।

धनवान्दानशीलश्च धार्मिकश्चैव जायते ।

पुनः स्मरति तत्तीर्थं गमनं तत्र कुर्वते १८।

तारयित्वा कुलशतं रुद्रलोकं स गच्छति ।

योजनानां शतं साग्रं श्रूयते सरिदुत्तमा १९।

विस्तारेण तु राजेन्द्र योजनद्वयमंतरम् ।

षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च २०।

पर्वतस्य समंतात्तु तिष्ठंत्यमरकंटके ।

ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेंद्रियः २१।

सर्वहिंसानिवृत्तश्च सर्वभूतहिते रतः ।

एवं सर्वसमाचारः क्षेत्रपालान्परिव्रजेत् २२।

तस्य पुण्यफलं राजन्शृणुष्वावहितो हि मे ।

शतं वर्षसहस्राणां स्वर्गे मोदेत पांडव २३।

अप्सरोगणसंकीर्णे दिव्यस्त्रीपरिचारिते ।

दिव्यगंधानुलिप्तश्च दिव्यालंकारभूषितः २४।

क्रीडते देवलोके तु दैवतैः सह मोदते ।

ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् २५।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 14

नारद उवाच-

नर्मदा तु नदीश्रेष्ठा पुण्या पुण्यतमा त्रिषु ।

मुनिभिस्तु महाभागैर्विभक्ता धर्मकांक्षिभिः १।

यज्ञोपवीतमात्राणि प्रविभक्तानि पांडव ।

तेषु स्नात्वा तु राजेंद्र सर्वपापैः प्रमुच्यते २।

जलेश्वरं च यत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।

तस्योत्पत्तिं कथयतः शृणु पांडवनंदन ३।

पुरा मुनिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः ।

स्तुवंति ते महात्मानं देवदेवं महेश्वरम् ४।

स्तुवमानास्तु संप्राप्ता यत्र देवो महेश्वरः ।

विज्ञापयंति देवेशं सेंद्राश्चैव मरुद्गणाः ।

भयोद्विग्नान्विरूपाक्ष परित्रायस्व नः प्रभो ५।

ईश्वर उवाच-।

स्वागतं तु मुनिश्रेष्ठाः किमर्थमिह चागताः ।

किं दुःखं कोऽनुसंतापः कुतो वा भयमागतम् ६।

कथयध्वं महाभागा एतदिच्छामि वेदितुम् ।

एवमुक्तास्तु रुद्रेणाकथयन्नमितव्रताः ७।

ऋषय ऊचुः-।

अपि घोरो महावीर्यो दानवो बलदर्पितः ।

बाणो नामेति विख्यातो यस्य वै त्रिपुरं पुरम् ८।

गगने तु वसद्दिव्यं भ्रमते तस्य तेजसा ।

तस्माद्भीता विरूपाक्ष त्वामेव शरणं गताः ९।

त्रायस्व महतो दुःखाद्देवत्वं हि परा गतिः ।

एवं प्रसादं देवेश सर्वेषां कर्तुमर्हसि १०।

येन देवाः सुप्रसन्नाः सुखमेधंति शंकर ।

परां निर्वृतिमायांति तत्प्रभो कर्तुमर्हसि ११।

देव उवाच-।

एतत्सर्वं करिष्यामि मा विषादं करिष्यथ ।

अचिरेणैव कालेन कुर्यां युष्मत्सुखावहम् १२।

आश्वासयित्वा तान्सर्वान्नर्मदातटमास्थितः ।

चिंतयामास सर्वेशस्तद्वधं प्रति पांडव १३।

कथं केन प्रकारेण हंतव्यस्त्रिपुरो मया ।

एवं संचिंत्य भगवान्नारदं स्मरते तदा ।

स्मरणादेव संप्राप्तो नारदः समुपस्थितः १४।

नारद उवाच-।

आज्ञापय महादेव किमर्थं संस्मृतो ह्यहम् ।

किं कार्यं तु मया देव कर्तव्यं कथयस्व मे १५।

ईश्वर उवाच-।

गच्छ नारद तत्रैव यत्र तत्त्रिपुरं पुरम् ।

बाणस्य दानवेन्द्रस्य शीघ्रं गच्छाथ तत्कुरु १६।

भर्तारो देवताभाश्च स्त्रियश्चाप्सरसोपमाः ।

तासां वै तेजसा विप्र भ्रमते त्रिपुरं दिवि १७।

तत्र गत्वा तु विप्रेंद्र मंत्रमन्यं प्रचोदय ।

देवस्य वचनं श्रुत्वा मुनिस्त्वरितविक्रमः १८।

स्त्रीणां हृदयनाशाय प्रविष्टस्तं पुरं प्रति ।

शोभते तत्पुरं दिव्यं नानारत्नोपशोभितम् १९।

शतयोजनविस्तीर्णं ततो द्विगुणमायतम् ।

ततः पश्यति तत्रैव बाणं तु बलदर्पितम् २०।

मालाकुंडलकेयूरैर्मुकुटेन विराजितम् ।

हाररत्नैश्च संछन्नं चंद्रकांतिविभूषितम् २१।

ललनास्तस्य रत्नाढ्याः नराः कनकमंडिताः ।

उत्थितो नारदं दृष्ट्वा दानवेंद्रो महाबलः २२।

बाण उवाच-।

स देवर्षिः स्वयं प्राप्तो मद्गृहं प्रति संप्रति ।

अर्घं पाद्यं यथान्यायं क्रियतां द्विजसत्तम २३।

चिरात्समागतो विप्र स्थीयतामिदमासनम् ।

एवं संभावयित्वा तु नारदं समुपस्थितम् २४।

तस्य भार्या महादेवी अनौपम्या तु नामतः २५।

अनौपम्योवाच-।

भगवन्मानुषे लोके देवास्तुष्यंति केन वै ।

व्रतेन नियमेनापि दानेन तपसाथवा २६।

नारद उवाच-।

तिलधेनुं च यो दद्याद्ब्राह्मणे वेदपारगे ।

ससागरा नवद्वीपा दत्ता भवति मेदिनी २७।

सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिकैः ।

मोदते चाक्षयं कालं सुचिरं कृतशासनः २८।

आम्रातककपित्थानि कदलीवनमेव च ।

कदंब चंपकाशोका अनेक विविधद्रुमाः २९।

अष्टमी च चतुर्थी च द्वादशी च तथा उभे ।

संक्रांतिर्विषुवं चैव दिनच्छिद्रमुखं तथा ३०।

पुण्यान्येतानि सर्वाणि उपवासंति याः स्त्रियः ।

तासां तु धर्म्मयुक्तानां स्वर्गे वासो न संशयः ३१।

कलिकालात्तु निर्मुक्ताः सर्वपापविवर्जिताः ।

उपवासरता नार्यो नोपसर्पंति तापसाः ३२।

एवं श्रुत्वा तु सुश्रोणि यथेष्टं कर्तुमर्हसि ।

नारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत् ३३।

प्रसादं कुरु विप्रेंद्र दानं गृह्ण यथेप्सितम् ।

सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च ३४।

तत्ते दास्याम्यहं विप्र यच्चान्यदपि दुर्ल्लभम् ।

प्रतिगृह्ण द्विजश्रेष्ठ प्रीयेतां हरिशंकरौ ३५।

नारद उवाच-।

अन्यस्मै दीयतां भद्रे क्षीणवृतिश्च यो द्विजः ।

वयं तु शीलसंपन्ना भक्तिस्तु क्रियते मया ३६।

एवं तासां मनो हृत्वा सर्वासामुपदिश्य वा ।

जगाम भरतश्रेष्ठ स्वकीयं स्थानकं पुनः ३७।

अत्राकृष्टमनास्तास्तु अन्यत्रगतमानसाः ।

पुरि छिद्रं समुत्पन्नं बाणस्य तु महात्मनः ३८।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुर्दशोऽध्यायः १४

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 15

नारद उवाच-

यन्मां पृच्छसि कौंतेय तन्निबोध च तच्छृणु ।

एतस्मिन्नंतरे रुद्रो नर्मदातटमास्थितः १।

नाम्ना हरेश्वरं स्थानं त्रिषु लोकेषु विश्रुतम् ।

तस्मिन्स्थाने महादेवश्चिंतयंस्त्रैपुरं वधम् २।

गां(गा?)डीवं मंदरं कृत्वा गुणं कृत्वा तु वासुकिम् ।

स्थानं कृत्वा तु वैशाखं विष्णुं कृत्वा शरोत्तमम् ३।

अग्रे चाग्निं प्रतिष्ठाप्य मुखे वायुः समर्पितः ।

हयाश्च चतुरो वेदाः सर्वदेवमयं रथम् ४।

चक्रगौ चाश्विनौ देवावक्षं चक्रधरः स्वयम् ।

स्वयमिंद्रश्च चापांते बाणे वैश्रवणः स्थितः ५।

यमस्तु दक्षिणे हस्ते वामे कालस्तु दारुणः ।

चक्राणामारके न्यस्ता गंधर्वा लोकविश्रुताः ६।

प्रजापती रथश्रेष्ठे ब्रह्मा चैव तु सारथिः ।

एवं कृत्वा तु देवेशः सर्वदेवमयं रथम् ७।

सोतिष्ठत्स्थाणुभूतो हि सहस्रं परिवत्सरान् ।

यदा त्रीणि समेतानि अंतरिक्षचराणि च ८।

त्रिपुराणि त्रिशल्येन तदा तानि बिभेद सः ।

शरः प्रचोदितस्तत्र रुद्रेण त्रिपुरं प्रति ९।

भ्रष्टतेजा स्त्रियो जाता बलं तेषां व्यशीर्यत ।

उत्पाताश्च पुरे तस्मिन्प्रादुर्भूता सहस्रशः १०।

त्रिपुरस्य विनाशाय कालरूपोभवत्तदा ।

अट्टहासं प्रमुंचंति रूपाः काष्ठमयास्तथा ११।

निमेषोन्मेषणं चैव कुर्वंति चित्रकर्मणा ।

स्वप्ने पश्यंति चात्मानं रक्तांबरविभूषितम् १२।

स्वप्ने पश्यंति ते चैवं विपरीतानि यानि तु ।

एतान्पश्यति उत्पातांस्तत्र स्थाने तु ये जनाः १३।

तेषां बलं च बुद्धिश्च हरक्रोधेन नाशितम् ।

संवर्तको नाम वायुर्युगांतप्रतिमो महान् १४।

समीरितोनलश्रेष्ठ उत्तमांगेषु बाधते ।

ज्वलंति पादपास्तत्र पतंति शिखराणि च १५।

सर्वं तद्व्याकुलीभूतं हाहाकारमचेतनम् ।

भग्नोद्यानानि सर्वाणि क्षिप्रं तु प्रज्वलंति च १६।

तेनैव दीपितं सर्वं ज्वलते विशिखैः शिखैः ।

द्रुमा आरामगंडानि गृहाणि विविधानि च १७।

दशदिक्षु प्रवृत्तोयं समिद्धो हव्यवाहनः ।

ततः शिलाः प्रमुंचंति दिशो दश विभागशः १८।

शिखासहस्रैरत्युग्रैः प्रज्वलंति हुताशनैः ।

सर्वं किंशुकसंप्रख्यं ज्वलितंदृश्यते पुरम् १९।

गृहाद्गृहांतरे नैव गंतुं धूमैश्च शक्यते ।

हरकोपानलादग्धं क्रंदमानं सुदुःखितम् २०।

प्रदीप्तं सर्वतो दिक्षु दह्यते त्रिपुरं पुरम् ।

प्रासादशिखराग्राणि विशीर्यंति सहस्रशः २१।

नानारत्नविचित्राणि विमानान्यप्यनेकधा ।

गृहाणि चैव रम्याणि दह्यंते दीप्तिवह्निना २२।

बाधंते द्रुमखंडेषु जनस्थाने तथैव च ।

देवागारेषु सर्वेषु प्रज्वलंते ज्वलंत्यपि २३।

सीदंति चानलस्पृष्टाः क्रंदंति विविधै स्वरैः ।

गिरिकूटनिभास्तत्र दृश्यंतेंऽगारराशयः २४।

स्तुवंति देवदेवेशं परित्रायस्व मां प्रभो ।

अन्योन्यं च परिष्वज्य हुताशनप्रपीडिताः २५।

दह्यंते दानवास्तत्र शतशोथ सहस्रशः ।

हंसकारंडवाकीर्णा नलिनी सह पंकजा २६।

दह्यंतेनलदग्धानि पुरोद्यानानि दीर्घिकाः ।

अम्लानैः पंकजैश्छन्ना विस्तीर्णा योजनैः शतैः २७।

गिरिकूटनिभास्तत्र प्रासादारत्नभूषिताः ।

पतंत्यनलनिर्दग्धा निस्तोया जलदा इव २८।

सह स्त्रीबालवृद्धेषु गोषु पक्षिषु वाजिषु ।

निर्दयो दहते वह्निर्हरकोपेन प्रेरितः २९।

सपत्नीकाश्चैव सुप्ताः संसुप्ता बहवो जनाः ।

पुत्रमालिंग्यते गाढं दह्यंते त्रिपुरारिणा ३०।

अथ तस्मिन्पुरे दीप्ते स्त्रियश्चाप्सरसोपमाः ।

अग्निज्वालाहतास्तत्र पतंति धरणीतले ३१।

काचिद्बाला विशालाक्षी मुक्तावलि विभूषिता ।

धूमेनाकुलिता सा तु प्रतिबुद्धा शिखार्द्दिता ३२।

सुतं संचिंत्यमाना सा पतिता धरणीतले ।

काचित्सुवर्णवर्णाभा नीलरत्नैर्विभूषिता ३३।

धूमेनाकुलिता सा तु पतिता धरणीतले ।

अन्या गृहीतहस्ता तु सखी दहति बालकैः ३४।

अनेन दिव्यरूपान्यादृष्टा मदविमोहिता ।

शिरसा प्रांजलिं कृत्वा विज्ञापयति पावकम् ३५।

यदि त्वमिच्छसे वैरं पुरुषेष्वपकारिषु ।

स्त्रियः किमपराध्यंते गृहपंजरकोकिलाः ३६।

पापनिर्दय निर्ल्लज्ज कस्ते कोपः स्त्रियोपरि ।

न दाक्षिण्यं न ते लज्जा न सत्यं शौचवर्जितः ३७।

अनेकरूपवर्णाढ्या उपलभ्या वदस्व ह ।

किं त्वया न श्रुतं लोके अवध्याः सर्वयोषितः ३८।

किं तु तुभ्यं गुणा ह्येते दहनस्त्र्यर्दनं प्रति ।

न कारुण्यं दया वापि दाक्षिण्यं वा स्त्रियोपरि ३९।

दयां कुर्वंति म्लेच्छापि दहनं प्रेक्ष्य योषितः ।

म्लेच्छानामपि कष्टोसि दुर्निवार्यो ह्यचेतनः ४०।

एते चैव गुणास्तुभ्यं दहनोत्सादनं प्रति ।

आसामपि दुराचार स्त्रीणां किं विनिपातसे ४१।

दुष्ट निर्घृण निर्लज्ज हुताश मंदभाग्यक ।

निराशस्त्वं दुराचार बालान्दहसि निर्दय ४२।

एवं प्रलपमानास्ता जल्पमाना बहुस्वरम् ।

अन्याः क्रोशंति संक्रुद्धा बालशोकेन मोहिताः ४३।

दहते निर्दयो वह्निः संक्रुद्धः सर्वशत्रुवत् ।

पुष्करिण्यां जले ज्वाला कूपेष्वपि तथैव च ४४।

अस्मान्संदह्य म्लेच्छ त्वं कां गतिं प्रापयिष्यसि ।

एवं प्रलपतां तासां वह्निर्वचनमब्रवीत् ४५।

वैश्वानर उवाच-।

स्ववशो नैव युष्माकं विनाशं तु करोम्यहम् ।

अहमादेशकर्ता वै नाहं कर्त्तास्म्यनुग्रहम् ४६।

अत्र क्रोधसमाविष्टो विचरामि यदृच्छया ।

ततो बाणो महातेजास्त्रिपुरं वीक्ष्य दीपितम् ४७।

आसनस्थोऽब्रवीदेवमहं देवैर्विनाशितः ।

अल्पसारैर्दुराचारैरीश्वरस्य निवेदितः ४८।

अपरीक्ष्य ह्यहं दग्धः शंकरेण महात्मना ।

नान्यः शत्रुस्तु मां हंतुं वर्ज्जयित्वा महेश्वरम् ४९।

उत्थितः शिरसा कृत्वा लिगं त्रिभुवनेश्वरम् ।

निर्गतः स पुरद्वारात्परित्यज्य सुहृत्स्वयम् ५०।

रत्नानि सुविचित्राणि स्त्रियो नानाविधास्तथा ।

गृहीत्वा शिरसा लिंगं न्यस्तं नगरमंडले ५१।

स्तुवते देवदेवेशं त्रैलोक्याधिपतिं शिवम् ।

हर त्वयाहं निर्दग्धो यदि वध्योसि शंकर ५२।

त्वत्प्रसादान्महादेव मा मे लिंगं विनश्यतु ।

अर्चितं हि महादेव भक्त्या परमया सदा ५३।

त्वया यद्यपि वध्योहं मा मे लिंगं विनश्यतु ।

प्राप्यमेतन्महादेव त्वत्पादग्रहणं मम ५४।

जन्मजन्म महादेव त्वत्पादनिरतो ह्यहम् ।

तोटकच्छंदसा देवं स्तुत्वा तु परमेश्वरम् ५५।

ॐशिवशंकरसर्वकराय नमो भवभीममहेशशिवाय नमः ।

कुसुमायुध देहविनाशकर त्रिपुरांतकरांधक चूर्णकर ५६।

प्रमदाप्रियकामविभक्त नमो हि नमः सुरसिद्धगणैर्नमितः ।

हयवानरसिंहगजेंद्रमुखैरति ह्रस्वसुदीर्घमुखैश्च गणैः ५७।

उपलब्धुमशक्यतरैरसुरैर्व्यथितो न शरीरशतैर्बहुभिः ।

प्रणतो भगवन्बहुभक्तिमता चलचंद्र कलाधर देव नमः ५८।

सहपुत्रकलत्रकलापधनैः सततं जय देहि अनुस्मरणम् ।

व्यथितोस्मि शरीरशतैर्बहुभिर्गमिताद्य महानरकस्य गतिः ५९।

न निवर्तति यन्ममपापगतिः शुचिकर्म्मविशुद्धमपि त्यजति ।

अनुकंपति दिग्भ्रमति भ्रमति भ्रम एष कुबुद्धि निवारयति ६०।

यः पठेत्तोटकं दिव्यं प्रयतः शुचिमानसः ।

बाणस्यैव यथारुद्रस्तस्यैव वरदो भवेत् ६१।

इमं स्तवं महादिव्यं श्रुत्वा देवो महेश्वरः ।

प्रसन्नस्तु तदा तस्य स्वयं देवो महेश्वरः ६२।

ईश्वर उवाच-।

न भेतव्यं त्वया वत्स सौवर्णे तिष्ठ दानव ।

पुत्रपौत्रसपत्नीनां भार्याभृत्यजनैः सह ६३।

अद्यप्रभृति बाण त्वमवध्यस्त्रिदशैरपि ।

भूयस्तस्य वरो दत्तो देवदेवेन पांडव ६४।

अक्षयश्चाव्ययो लोके विचचार ह निर्भयः ।

ततो निवारयामास रुद्र सप्तशिखं तथा ६५।

तृतीयं रक्षितं तस्य शंकरेण महात्मना ।

भ्रमते गगने नित्यं रुद्रतेजः प्रभावतः ६६।

एवं तु त्रिपुरं दग्धं शंकरेण महात्मना ।

ज्वालामालाप्रदीप्तं तु पतितं धरणीतले ६७।

एकं निपातितं तस्य श्रीशैले त्रिपुरांतके ।

द्वितीयं पातितं तत्र पर्वतेऽमरकंटके ६८।

दग्धे तु त्रिपुरे राजन्रुद्रकोटिः प्रतिष्ठिता ।

ज्वलंतं पातितं तत्र तेन ज्वालेश्वरः स्मृतः ६९।

ऊर्ध्वेन प्रस्थिता तस्य दिव्या ज्वाला दिवं गता ।

हाहाकारस्तदा जातो सदेवासुरकिंनरान् ७०।

तं शरं स्तंभयेद्रुद्रो माहेश्वरपुरोत्तमे ।

एवं व्रजेत यस्तस्मिन्पर्वतेऽमरकंटके ७१।

चतुर्द्दशभुवनानि सुभुक्त्वा पांडुनंदन ।

वर्षकोटिसहस्रं तु त्रिंशत्कोट्यस्तथा पराः ७२।

ततो महीतलं प्राप्य राजा भवति धार्मिकः ।

पृथिव्यामेकच्छत्रेण भुंक्ते नास्त्यत्र संशयः ७३।

एष पुण्यो महाराज सर्वतोऽमरकंटकः ।

चंद्र सूर्योपरागेषु गच्छेद्योऽमरकंटकम् ७४।

अश्वमेधाद्दशगुणं प्रवदंति मनीषिणः ।

स्वर्गलोकमवाप्नोति दृष्ट्वा तत्र महेश्वरम् ७५।

संनिहत्या गमिष्यंति राहुग्रस्ते दिवाकरे ।

तदेव निखिलं पुण्यं पर्वतेऽमरकंटके ७६।

पुंडरीकस्य यज्ञस्य फलं प्राप्नोति मानवः ।

तत्र ज्वालेश्वरो नाम पर्वतेऽमरकंटके ७७।

तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ।

ज्वालेश्वरे महाराज यस्तु प्राणान्परित्यजेत् ७८।

चंद्र सूर्योपरागे तु भक्त्यापि शृणु तत्फलम् ।

अमरा नाम देवास्ते पर्वतेऽमरकंटके ७९।

रुद्रलोकमवाप्नोति यावदाभूतसंप्लवम् ।

अमरेश्वरस्य देवस्य पर्वतस्य तटे जले ८०।

कोटिश ऋषिमुख्यास्ते तपस्तप्यंति सुव्रताः ।

समंताद्योजनं राजन्क्षेत्रं चामरकंटकम् ८१।

अकामो वा सकामो वा नर्मदायां शुभे जले ।

स्नात्वा मुच्येत पापेभ्यो रुद्रलोकं स गच्छति ८२।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे पंचदशोऽध्यायः १५

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 16

ऋषिरुवाच-

पृच्छंति ते महात्मानो नारदं हि महाजनाः

युधिष्ठिरपराः सर्वे ऋषयश्च तपोधनाः १

आख्याहि भगवंस्तथ्यं कावेरीसंगमे महत्

लोकानां च हितार्थाय अस्माकं च विवृद्धये २

सदा पापरता ये तु नरा दुष्कृतिकारिणः

मुच्यंते सर्वपापेभ्यो गच्छंति परमं पदम्

एतदिच्छामि विज्ञातुं भगवन्वक्तुमर्हसि ३

नारद उवाच-

शृणुध्वं सहिताः सर्वे युधिष्ठिरपुरोगमाः

अत्र कृत्वा महायज्ञं कुबेरः सत्यविक्रमः

इदं तीर्थमनुप्राप्य साम्राज्यादधिकोऽभवत् ४

सिद्धिं प्राप्तो महाराज तन्मे निगदतः शृणु

कावेरी नर्मदां यत्र संगता लोकविश्रुताम् ५

तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः

तपस्तप्यति यक्षेंद्रो दिव्यं वर्षशतं महत् ६

तस्य तुष्टो महादेवः प्रदद्याद्वरमुत्तमम्

भो भो यक्ष महासत्व वरं ब्रूहि यथेप्सितम्

ब्रूहि कार्यं यथेष्टं तु यद्वा मनसि वर्त्तते ७

कुबेर उवाच-

यदि तुष्टोसि देवेश यदि देयो वरो मम

आदिकृच्चैव सर्वेषां यक्षाणामधिपो भवेत् ८

कुबेरस्य वचः श्रुत्वा तुष्टो देवो महेश्वरः

एवमस्तु ततश्चोक्त्वा तत्रैवांतरधीयत ९

सोऽपि लब्धवरो यक्षः शीघ्रं यक्षकुलं गतः

पूजितः सर्वयक्षेंद्रैरभिषिक्तस्तु पार्थिवः १०

कावेरीसंगमं तत्र सर्वपापप्रणाशनम्

ये नरा नाभिजानंति वंचितास्ते न संशयः ११

तस्मात्सर्वप्रयत्नेन तत्र स्नायीत मानवः

कावेरी च महापुण्या नर्मदा च महानदी १२

तत्र स्नात्वा तु राजेंद्र अर्चयेद्वृषभध्वजम्

अश्वमेधफलं प्राप्य रुद्रलोके महीयते १३

अग्निप्रवेशं यः कुर्याद्यश्च कुर्य्यादनाशनम्

अनिवर्तिका गतिस्तस्य यथा मे शंकरोऽब्रवीत् १४

सेव्यमानो वरस्त्रीभिर्मोदते दिवि रुद्रवत्

षष्टिवर्षसहस्राणि षष्टिकोट्यस्तथापरे १५

मोदते रुद्रलोकस्थो यत्र यत्रैव गच्छति

पुण्यक्षयात्परिभ्रष्टो राजा भवति धार्मिकः १६

भोगवान्धर्मशीलश्च महांश्चैव कुलोद्भवः

तत्र पीत्वा जलं सम्यक्चांद्रायणफलं लभेत् १७

स्वर्गं गच्छंति ते मर्त्या ये पिबंति जलं शुभम्

गंगायमुनयोर्मध्ये यत्फलं यांति मानवाः १८

कावेरीसंगमे स्नात्वा तत्फलं तस्य जायते

एवं तु तस्य राजेंद्र कावेरीसंगमं महत्

पत्रेश्वरेति विख्यातं सर्वपापहरं परम् १९

इति श्रीपाद्मे महापुराणे स्वर्गखंडे षोडशोऽध्यायः १६

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 17

नारद उवाच-

उत्तरे नर्मदाकूले तीर्थं योजनविस्तृतम् ।

पत्रेश्वरेति विख्यातं सर्वपापहरं परम् १।

तत्र स्नात्वा नरो राजन्दैवतैः सह मोदते ।

पंचवर्षसहस्राणि क्रीडते कामरूपधृक् २।

गर्जनं तु ततो गच्छेद्यत्र मेघ उपस्थितः ।

इंद्रजिन्नाम संप्राप्तं तस्य तीर्थप्रभावतः ३।

मेघरावं ततो गच्छेद्यत्र मेघाभिगर्जितम् ।

मेघनादो गणस्तत्र वरसंपन्नतां गतः ४।

ततो गच्छेत राजेंद्र ब्रह्मावर्तमिति स्मृतम् ।

तत्र संनिहितो ब्रह्मा नित्यमेव युधिष्ठिर ५।

तत्र स्नात्वा तु राजेंद्र ब्रह्मलोके महीयते ।

ततोंऽगारेश्वरे तीर्थे नियतो नियमाशनः ६।

सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ।

ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम् ७।

तत्र स्नात्वा नरो राजन्गोप्रदानफलं लभेत् ।

कांचीतीर्थं ततो गच्छेद्देवर्षिगणसेवितम् ८।

तत्र स्नात्वा नरो राजन्गोलोकं समवाप्नुयात् ।

ततो गच्छेत्तु राजेंद्र कुंडलेश्वरमुत्तमम् ९।

तत्र संनिहितो रुद्रस्तिष्ठते उमया सह ।

तत्र स्नात्वा तु राजेंद्र अवध्यस्त्रिदशैरपि १०।

पिप्पलेश्वरं ततो गच्छेत्सर्वपापप्रणाशनम् ।

तत्र गत्वा तु राजेंद्र रुद्रलोके महीयते ११।

ततो गच्छेत्तु राजेंद्र विमलं विमलेश्वरम् ।

तत्र देवशिखा रम्या ईश्वरेण निपातिता १२।

तत्र प्राणान्परित्यज्य रुद्रलोकमवाप्नुयाम् ।

ततः पुष्करिणीं गच्छेत्तत्र स्नानं समाचरेत् १३।

स्नानमात्रे नरस्तत्र इंद्रस्यार्द्धासनं लभेत् ।

नर्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता १४।

तारयेत्सर्वभूतानि स्थावराणि चराणि च ।

सर्वदेवातिदेवेन ईश्वरेण महात्मना १५।

कथिता ऋषिसंघेभ्यो ह्यस्माकं च विशेषतः ।

मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी १६।

रुद्रदेहाद्विनिष्क्रांता लोकानां हितकाम्यया ।

सर्वपापहरा नित्यं सर्वप्राणिनमस्कृता १७।

संस्तुता देवगंधर्वैरप्सरोभिस्तथैव च ।

नमः पुण्यजले आद्ये नमः सागरगामिनि १८।

नमोस्तु ते ऋषिगणैः शंकरदेहनिःसृते ।

नमोस्तु ते धर्मवृते वरानने नमोस्तु ते देवगणैकवंदिते १९।

नमोस्तु ते सर्वपवित्रपावने नमोस्तु ते सर्वजगत्सुपूजिते ।

यश्चेदं पठते स्तोत्रं नित्यं शुद्धेन मानवः २०।

ब्राह्मणो वेदमाप्नोति क्षत्त्रियो विजयी भवेत् ।

वैश्यस्तु लभते लाभं शूद्रश्चैव शुभां गतिम् २१।

अन्नार्थी लभते ह्यन्नं स्मरणादेव नित्यशः ।

नर्मदां सेव्यते नित्यं स्वयं देवो महेश्वरः ।

तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी २२।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे सप्तदशोऽध्यायः १७

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 18

नारद उवाच-।

तदाप्रभृति ब्रह्माद्या ऋषयश्च तपोधनाः ।

सेवंते नर्मदां राजन्कामक्रोधविवर्जिताः १।

तस्मिन्निपति तं दृष्ट्वा शूलं देवस्य भूतले ।

तस्य पुण्यं समाख्यातं शंकरेण महात्मना २।

शूलभेदेति विख्यातं तीर्थं पुण्यतमं महत् ।

तत्र स्नात्वार्च्चयेद्देवं गोसहस्रफलं लभेत् ३।

त्रिरात्रं कारयेद्यस्तु तस्मिन्तीर्थे नराधिप ।

अर्चयित्वा महादेवं पुनर्जन्म न विद्यते ४।

भीमेश्वरं ततो गच्छेन्नर्मदेश्वरमुत्तमम् ।

आदित्येश्वरं महापुण्यं तथाऽज्यमधुना सह ५।

मल्लिकेश्वरमभ्यर्च्य पर्याप्तं जन्मनः फलम् ।

वरुणेश्वरं ततः पश्येन्नीराजेश्वरमुत्तमम् ६।

सर्वतीर्थफलं तस्य पंचायतनदर्शनात् ।

ततोगच्छेत राजेंद्र युद्धं वै यत्र साधितम् ७।

कोटितीर्थं तु विख्यातमसुरा यत्र योधिताः ।

यत्र ते निहता राजन्दानवा बलदर्पिताः ८।

तेषां शिरांसि गृह्यंते निहतास्ते समागताः ।

तैस्तु संस्थापितो देवः शूलपाणिर्महेश्वरः ९।

कोटिर्विनिहता तत्र तेन कोटीश्वरः स्मृतः ।

दर्शनात्तस्य तीर्थस्य सदेहः स्वर्गमावहेत् १०।

तदा इंद्रेण क्षुद्रत्वाद्वज्रकीलेन यंत्रितः ।

तदाप्रभृति लोकानां स्वर्गमत्वं निवारितम् ११।

सघृतं श्रीफलं दत्वा दत्वा चांते प्रदक्षिणम् ।

सर्वतः सह देवेन शिरसादाय धारयेत् ।

सर्वकामेन संपूर्णो राजा भवति पांडव १२।

मृतो रुद्रत्वमाप्नोति न चेह जायते पुनः ।

स्वर्गं गत्वा ततो राज्यं कृत्वागत्य ततो दिवम् १३।

महादेवं तथोपास्य त्रयोदश्यां हि मानवः ।

स्नातमात्रो नरस्तत्र सर्वयज्ञफलं लभेत् १४।

ततो गच्छेत राजेंद्र तीर्थं परमशोभनम् ।

नराणां पापनाशाय अगस्त्येश्वरमुत्तमम् १५।

तत्र स्नात्वा नरो राजन्मुच्यते ब्रह्महत्यया ।

कार्तिकस्य तु मासस्य कृष्णपक्षचतुर्दशी १६।

घृतेन स्नापयेद्देवं समाधिस्थो जितेंद्रियः ।

एकविंशकुलोपेतो न मुच्येदैश्वरात्पदात् १७।

धेनवोपानहंच्छत्रं तथा दद्याच्च कंबलम् ।

भोजनं चैव विप्राणां सर्वं कोटिगुणं भवेत् १८।

ततो गच्छेत राजेंद्र रविस्तवमनुत्तमम् ।

तत्र स्नात्वा नरो राजन्सिंहासनगतिर्भवेत् १९।

नर्मदा दक्षिणे कूले तीर्थं शक्रस्य विश्रुतम् ।

उपोष्य रजनीमेकां स्नानं तत्र समाचरेत् २०।

स्नानं कृत्वा यथान्यायमर्च्चयेत्तु जनार्दनम् ।

गोसहस्रफलं तस्य विष्णुलोकं स गच्छति २१।

ऋषितीर्थं ततो गच्छेत्सर्वपापहरं नृणाम् ।

स्नातमात्रो नरस्तत्र शिवलोके महीयते २२।

नारदस्य च तत्रैव तीर्थं परमशोभनम् ।

स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् २३।

देवतीर्थं ततो गच्छेद्ब्रह्मणा निर्मितं पुरा ।

तत्र स्नात्वा नरो राजन्ब्रह्मलोके महीयते २४।

अमरकंटकं ततो गच्छेदमरस्थापितं पुरा ।

स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् २५।

ततो गच्छेत राजेंद्र वामनेश्वरमुत्तमम् ।

तत्र वामनकं दृष्ट्वा मुच्यते ब्रह्महत्यया २६।

ऋषितीर्थं ततो गच्छेदीशानेशं पुमान्ध्रुवम् ।

वटेश्वरं ततो दृष्ट्वा पर्य्याप्तं जन्मनः फलम् २७।

भीमेश्वरं ततो गच्छेत्सर्वव्याधिविनाशनम् ।

स्नातमात्रो नरो राजन्सर्वदुःखात्प्रमुच्यते २८।

ततो गच्छेत राजेंद्र वारणेश्वरमुत्तमम् ।

तत्र स्नात्वा नरो राजन्सर्वदुःखात्प्रमुच्यते २९।

सोमतीर्थं ततो गच्छेत्पश्येच्चंद्रमनुत्तमम् ।

तत्र स्नात्वा नरो राजन्भक्त्या परमया युतः ३०।

तत्क्षणाद्दिव्यदेहस्थः शिववन्मोदते चिरम् ।

षष्टिवर्षसहस्राणि शिवलोके महीयते ३१।

ततो गच्छेत राजेंद्र पिंगलेश्वरमुत्तमम् ।

अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ३२।

तस्मिंस्तीर्थे तु राजेंद्र कपिलां यः प्रयच्छति ।

यावंति तस्या रोमाणि तत्प्रसूतकुलस्य च ३३।

तावद्वर्षसहस्राणि रुद्रलोके महीयते ।

यस्तुप्राणपरित्यागं तत्र कुर्य्यान्नराधिप ३४।

अक्षयं मोदते कालं यावच्चंद्रदिवाकरौ ।

नर्मदातटमाश्रित्य तिष्ठंति ये तु मानवाः ३५।

ते मृताः स्वर्गमायांति तथा सुकृतिनो यथा ।

सुरभिकेश्वरं गच्छेन्नारकं कोटिकेश्वरम् ३६।

गंगावतरणे तत्र दिने पुण्यो न संशयः ।

नंदितीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् ३७।

तुष्यते तं तु नंदीशः सोमलोके महीयते ।

ततो द्वीपेश्वरं गच्छेद्व्यासतीर्थं तपोवनम् ३८।

निवर्तिता पुरा तत्र व्यासभीता महानदी ।

हुंकारिता तु व्यासेन दक्षिणेन ततो गता ३९।

प्रदक्षिणं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।

व्यासस्तस्य भवेत्प्रीतो वांछितं लभते फलम् ४०।

सूत्रेण वेष्टयेद्यस्तु दीप्तं देवं सवेदिकम् ।

क्रीडते ह्यक्षयं कालं यथा रुद्रस्तथैव सः ४१।

ततो गच्छेत राजेंद्र एरंडीतीर्थमुत्तमम् ।

संगमे तु नरः स्नात्वा मुच्यते सर्वपातकैः ४२।

एरंडी त्रिषु लोकेषु विख्याता पापनाशिनी ।

अथवाश्वयुजे मासे शुक्लपक्षस्य चाष्टमी ४३।

शुचिर्भूत्वा नरः स्नात्वा सोपवासपरायणः ४४।

ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता ।

एरंडीसंगमे स्नात्वा भक्तिभावानुरंजितः ४५।

शुक्तिकां शिरसि स्थाप्य अवगाह्य च वै जलम् ।

नर्मदोदकसंमिश्रं मुच्यते सर्वकिल्बषैः ४६।

प्रदक्षिणं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।

प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ४७।

ततः सुवर्णतिलके स्नात्वा दत्वा च कांचनम् ।

कांचनेन विमानेन रुद्रलोके महीयते ४८।

ततः स्वर्गच्युतः कालाद्राजा भवति वीर्यवान् ।

ततो गच्छेत राजेंद्र इक्षुनद्यास्तु संगमम् ४९।

त्रैलोक्ये विश्रुतं दिव्यं तत्र संनिहितः शिवः ।

तत्र स्नात्वा नरो राजन्गाणपत्यमवाऽप्नुयात् ५०।

स्कंदतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् ।

आजन्मनः कृतं पापं स्नानमात्राद्व्यपोहति ५१।

आंगिरसं ततो गच्छेत्स्नानं तत्र समाचरेत् ।

गोसहस्रफलं तस्य रुद्रलोके महीयते ५२।

लांगलतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् ।

तत्र गत्वा तु राजेंद्र स्नानं तत्र समाचरेत् ५३।

सप्तजन्मकृतैः पापैर्मुच्यते नात्र संशयः ।

वटेश्वरं ततो गच्छेत्सर्वतीर्थमनुत्तमम् ५४।

तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ।

संगमेश्वरं ततो गच्छेत्सर्वपापहरं परम् ५५।

तत्र स्नात्वा नरो राज्यं लभते नात्र संशयः ।

भद्रतीर्थं समासाद्य दानं दद्यात्तु यो नरः ५६।

तस्य तीर्थप्रभावेण सर्वं कोटिगुणं भवेत् ।

अथ नारी भवेत्कापि तत्र स्नानं समाचरेत् ५७।

गौरीतुल्या भवेत्सा तु इंद्रं याति न संशयः ।

अंगारेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत् ५८।

स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ।

अंगारक्यां चतुर्थ्यां तु स्नानं तत्र समाचरेत् ५९।

अक्षयं मोदते कालं मुरारिकृतशासनः ।

अयोनिसंगमे स्नात्वा न पश्येद्योनिमंदिरम् ६०।

पांडवेश्वरकं गत्वा स्नानं तत्र समाचरेत् ।

अक्षयं मोदते कालमवध्यस्तु सुरासुरैः ६१।

विष्णुलोकं ततो गत्वा क्रीडाभोगसमन्वितः ।

तत्र भुक्त्वा महाभोगान्मर्त्ये राजाभिजायते ६२।

कंबोतिकेश्वरं गच्छेत्स्नानं तत्र समाचरेत् ।

उत्तरायणे तु संप्राप्ते यदिच्छेत्तस्य तद्भवेत् ६३।

चंद्रभागां ततो गच्छेत्स्नानं तत्र समाचरेत् ।

स्नातमात्रो नरस्तत्र सोमलोके महीयते ६४।

ततो गच्छेत राजेंद्र तीर्थं शक्रस्य विश्रुतम् ।

पूजितं देवराजेन देवैरपि नमस्कृतम् ६५।

तत्र स्नात्वा नरो राजन्दानं दत्वा च कांचनम् ।

अथवा नीलवर्णाभं वृषभं यः समुत्सृजेत् ६६।

वृषभस्य तु रोमाणि तत्प्रसूतिकुलेषु च ।

तावद्वर्षसहस्राणि नरो हरपुरे वसेत् ६७।

ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् ।

अश्वानां श्वेतवर्णानां सहस्रेषु नराधिप ६८।

स्वामी भवति मर्त्येषु तस्य तीर्थ प्रभावतः ।

ततो गच्छेत राजेंद्र ब्रह्मावर्त्तमनुत्तमम् ६९।

तत्र स्नात्वा नरो राजंस्तर्पयेत्पितृदेवताः ।

उपोष्य रजनीमेकां पिंडं दत्वा यथाविधि ७०।

कन्यागते यथाऽदित्ये अक्षयं संचितं भवेत् ।

ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम् ७१।

तत्र स्नात्वा नरो राजन्कपिलां यः प्रयच्छति ।

संपूर्णां पृथिवीं दत्वा यत्फलं तदवाप्नुयात् ७२।

नर्मदेश्वरं परं तीर्थं न भूतं न भविष्यति ।

तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ७३।

तत्र सर्वगतो राजा पृथिव्यामभिजायते ।

सर्वलक्षणसंपूर्णः सर्वव्याधिविवर्जितः ७४।

नार्मदीयोत्तरेकूले तीर्थं परमशोभनम् ।

आदित्यायतनं रम्यमीश्वरेण तु भावितम् ७५।

तत्र स्नात्वा तु राजेंद्र दानं दत्वा च शक्तितः ।

तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम् ७६।

दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मणः ।

मुच्यंते सर्वपापेभ्यः सूर्यलोकं प्रयांति च ७७।

माघमासे तु संप्राप्ते शुक्लपक्षस्य सप्तमीम् ।

वसेदायतने यस्तु निरात्मा यो जितेंद्रियः ७८।

न जायते व्याधितश्च कालेंधो बधिरस्तथा ।

सुभगो रूपसंपन्नः स्त्रीणां भवति वल्लभः ७९।

इदं तीर्थं महापुण्यं मार्कंडेयेन भाषितम् ।

ये प्रयांति न राजेंद्र वंचितास्ते न संशयः ८०।

मासेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत् ।

स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ८१।

मोदते सर्वलोकस्थो यावदिंद्राश्चतुर्दश ।

ततः समीपतः स्थित्वा नागेश्वरं तपोवनम् ८२।

तत्र स्नात्वा तु राजेंद्र शुचिर्भूत्वा समाहितः ।

बहुभिर्नागकन्याभिः क्रीडते कालमक्षयम् ८३।

कुबेरभवनं गच्छेत्कुबेरो यत्र संस्थितः ।

कालेश्वरं परं तीर्थं कुबेरो यत्र तोषितः ८४।

यत्र स्नात्वा तु राजेंद्र सर्वसंपदमाप्नुयात् ।

ततः पश्चिमतो गच्छेन्मरुतालयमुत्तमम् ८५।

तत्र स्नात्वा तु राजेंद्र शुचिर्भूत्वा समाहितः ।

कांचनं तु ततो दद्यादन्नशक्त्या तु बुद्धिमान् ८६।

पुष्पकेण विमानेन वायुलोकं स गच्छति ।

मम तीर्थं ततो गच्छेन्माघमासे युधिष्ठिर ८७।

कृष्णपक्षे चतुर्दश्यां स्नानं तत्र समाचरेत् ।

नक्तं भोज्यं ततः कुर्यान्न गच्छेद्योनिसंकटम् ८८।

अहल्यातीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् ।

स्नातमात्रो नरस्तत्र अप्सरोभिः प्रमोदते ८९।

पारमेश्वरे तपस्तप्त्वा अहल्या मुक्तिमागमत् ।

चैत्रमासे तु संप्राप्ते शुक्लपक्षे त्रयोदशी ९०।

कामदेवदिने तस्मिन्नहल्यां तु प्रपूजयेत् ।

यत्र तत्र समुत्पन्नो नरस्तत्र प्रियो भवेत् ९१।

स्त्रीवल्लभो भवेच्छ्रीमान्कामदेव इवापरः ।

अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ९२।

स्नातमात्रो नरस्तत्र गोसहस्र फलं लभेत् ।

सोमतीर्थं ततो गच्छेत्स्नानमात्रं समाचरेत् ९३।

स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ।

सोमग्रहे तु राजेंद्र पापक्षयकरं भवेत् ९४।

त्रैलोक्यविश्रुतं राजन्सोमतीर्थं महाफलम् ।

यस्तु चांद्रायणं कुर्यात्तस्मिंस्तीर्थे नराधिप ९५।

सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ।

अग्निप्रवेशे तु जलेप्यथवापि ह्यनाशने ९६।

सोमतीर्थे मृतो यस्तु नासौ मर्त्येभिजायते ।

स्तंभतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् ९७।

स्नातमात्रो नरस्तत्र सोमलोके महीयते ।

ततो गच्छेत राजेंद्र विष्णुतीर्थमनुत्तमम् ९८।

योधनीपुरविख्यातं विष्णुतीर्थमनुत्तमम् ।

असुरा योधितास्तत्र वासुदेवेन कोटिशः ९९।

तत्र तीर्थं समुत्पन्नं विष्णुः प्रीतो भवेदिह ।

अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति १००।

ततो गच्छेत्तु राजेंद्र तापसेश्वरमुत्तमम् ।

अमोहकमिति ख्यातं पितॄन्यस्तत्र तर्पयेत् १०१।

पौर्णमास्याममावास्यां श्राद्धं कुर्याद्यथाविधि ।

तत्र स्नात्वा नरो राजन्पितृपिंडं तु दापयेत् १०२।

गजरूपाः शिलास्तत्र तोयमध्ये प्रतिष्ठिताः ।

तस्मिंस्तु दापयेत्पिंडं वैशाखे तु विशेषतः १०३।

तृप्यंति पितरस्तावद्यावत्तिष्ठति मेदिनी ।

ततो गच्छेत राजेंद्र सिद्धेश्वरमनुत्तमम् १०४।

तत्र गत्वा तु राजेंद्र गणपत्यंतिकं व्रजेत् ।

ततो गच्छेत राजेंद्र लिंगो यत्र जनार्दनः १०५।

तत्र स्नात्वा तु राजेंद्र विष्णुलोके महीयते ।

नर्मदादक्षिणेकूले तीर्थं परमशोभनम् १०६।

कामदेवः स्वयं तत्र तपस्तप्यत्यसौ महान् ।

दिव्यं वर्षसहस्रं तु शंकरं पर्युपासते १०७।

समाधिपर्वदग्धस्तु शंकरेण महात्मना ।

श्वेतपर्वोपमश्चैव हुताशः शुक्लपर्वणि १०८।

एते दग्धास्तु ते सर्वे कुसुमेश्वरसंस्थिताः ।

दिव्यवर्षसहस्रेण तुष्टस्तेषां महेश्वरः १०९।

उमया सहितो रुद्रस्तेषां तुष्टो वरप्रदः ।

विमोक्षयित्वा तान्सर्वान्नर्म्मदातटमास्थितान् ११०।

तस्य तीर्थप्रभावेण पुनर्देवत्वमागतः ।

त्वत्प्रसादान्महादेव तीर्थं च भवतूत्तमम् १११।

अर्धयोजनविस्तीर्णं तीर्थं दिक्षु समंततः ।

तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ११२।

कुसुमायुधरूपेण रुद्रलोके महीयते ।

वैश्वानरे यमेनैव कामदेवेन वायवे ११३।

तपस्तप्त्वा तु राजेंद्र तत्रैव च पुरागतैः ।

अंधोनस्य समीपे तु नातिदूरे तु तस्य वै ११४।

स्नानं दानं च तत्रैव भोजनं पिंडपातनम् ।

अग्निवेशे जले वापि अथवापि अनाशने ११५।

अनिवर्तिका गतिस्तस्य मृतस्याप्यर्द्धयोजने ।

त्रैयंबकेण तोयेन स्नापयेन्नरपुंगवः ११६।

अंधोनमूले दत्वा तु पिंडं चैव यथाविधि ।

पितरस्तस्य तृप्यंति यावच्चंद्र दिवाकरौ ११७।

उत्तरायणे तु संप्राप्ते तत्र स्नानं करोति यः ।

पुरुषो वापि स्त्री वापि वसेदायतने शुचिः ११८।

सिद्धेश्वरस्य देवस्य प्रभाते पूजनान्नरः ।

स तां गतिमवाप्नोति न तां सर्वैर्महामखैः ११९।

यदा च तीर्थकालेन रूपवान्सुभगो भवेत् ।

मर्त्ये भवति राजासावासमुद्रांतगोचरे १२०।

क्षेत्रपालं न पश्येच्च दंडपालं महाबलम् ।

वृथा तस्य भवेद्यात्रा अदृष्ट्वा कर्णकुंडलम् १२१।

एतत्तीर्थफलं ज्ञात्वा सर्वेदेवाः समागताः ।

मुंचंति पुष्पवृष्टिं तु स्तुवंति कुसुमेश्वरम् १२२।

इति श्रीपाद्मेमहापुराणे स्वर्गखंडे अष्टादशोऽध्यायः १८।

इति श्रीपाद्मेमहापुराणे स्वर्गखंडे अष्टादशोऽध्यायः १८

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 19

नारद उवाच-

भार्गवेशं ततो गच्छेद्भक्त्या यत्र च विष्णुना ।

हुंकारितास्तु देवेन दानवाः प्रलयं गताः १।

तत्र स्नात्वा तु राजेंद्र सर्वपापैः प्रमुच्यते ।

शुक्लतीर्थस्य चोत्पत्तिं शृणु त्वं पांडुनंदन २।

हिमवच्छिखरे रम्ये नानाधातुविचित्रिते ।

तरुणादित्यसंकाशे तप्तकांचनसंनिभे ३।

वज्रस्फटिकसोपाने चित्रपट्टशिलातले ।

जांबूनदमये दिव्ये नाना पद्मोपशोभिते ४।

तत्रासीनं महादेवं सर्वज्ञं प्रभुमव्ययम् ।

लोकानुग्राहकं शांतं गणवृंदैः समावृतम् ५।

स्कंदनंदिमहाकालैर्वीरभद्र गणादिभिः ।

उमया सहितं देवं मार्कंडः परिपृच्छति ६।

देवदेव महादेव इन्द्र कामादि संस्तुत ।

संसारभवभीतोहं सुखोपायं ब्रवीहि मे ७।

भगवन्भूतभव्येश सर्वपापप्रणाशनम् ।

तीर्थानां परमं तीर्थं तद्वदस्व महेश्वर ८।

ईश्वर उवाच-

शृणुविप्र महाभाग सर्वशास्त्रविशारद ।

स्नानादि कुरु गच्छ त्वं ऋषिसंघैस्समावृतः ९।

मन्वत्रि याज्ञवल्क्याश्च काश्यपश्चैव अंगिराः ।

यमापस्तंब संवर्ताः कात्यायनबृहस्पती १०।

नारदो गौतमश्चैव पृच्छंति धर्मकांक्षिणः ।

गंगाकनखले पुण्या प्रयागं पुष्करं गया ११।

कुरुक्षेत्रं तु पुण्यं च राहुग्रस्ते दिवाकरे ।

दिवा वा यदि वा रात्रौ शुक्लतीर्थं महाफलम् १२।

दर्शनात्स्पर्शनाच्चैव स्नानाद्ध्यानात्तपोर्जनात् ।

होमाच्चैवोपवासाच्च शुक्लतीर्थफलं महत् १३।

शुक्लतीर्थं महापुण्यं नद्यां तु संव्यवस्थितम् ।

चाणिक्योनाम राजर्षिः सिद्धिं तत्र समागतः १४।

एतत्क्षेत्रं समुत्पन्नं योजनावृत्तिसंस्थितम् ।

शुक्लतीर्थं महापुण्यं सर्वपापप्रणाशनम् १५।

पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ।

अहमत्र ऋषिश्रेष्ठ तिष्ठामि ह्युमया सह १६।

वैशाखे विमले मासि कृष्णपक्षे चतुर्दशी ।

कैलासाच्चापि निर्गत्य तत्र संनिहितो ह्यहम् १७।

देवकिन्नरगंधर्वाः सिद्धविद्याधरास्तथा ।

गणाश्चाप्सरसो नागाः सर्वे देवाः समागताः १८।

गगनस्थास्तु तिष्ठंति विमानैः सर्वकामकैः ।

शुक्लतीर्थे तु राजेंद्र आगता धर्मकांक्षिणः १९।

रजकेन यथा वस्त्रं शुक्लं भवति वारिणा ।

आजन्मसंचितं पापं शुक्लतीर्थे व्यपोहति २०।

स्नानं दानं महापुण्यं मार्कंड ऋषिसत्तम ।

शुक्लतीर्थात्परं तीर्थं न भूतं न भविष्यति २१।

पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ।

अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति २२।

तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः ।

देवदानेन या पुष्टिर्न सा क्रतुशतैरपि २३।

कार्तिकस्य च मासस्य कृष्णपक्षे चतुर्दशी ।

घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम् २४।

एकविंशत्कुलोपेतो न च्यवेच्चैश्वरात्पदात् ।

शुक्लतीर्थं परं तीर्थमृषिसिद्धनिषेवितम् २५।

तत्र स्नात्वा ततो राजन्पुनर्जन्म न विद्यते ।

स्नात्वा वै शुक्लतीर्थेपि अर्चयेद्वृषभध्वजम् २६।

जागरं कारयेत्तत्र नृत्यगीतादिमंगलैः ।

प्रभाते शुक्लतीर्थे तु स्नानं वै देवतार्चनम् २७।

आचार्यं भोजयेत्पश्चाच्छिवव्रतपरः शुचिः ।

भोजनं च यथाशक्त्या वित्तशाठ्यं न कारयेत् २८।

प्रदक्षिणं ततः कृत्वा शनैर्देवांतिकं व्रजेत् ।

एवं वै कुरुते यस्तु तस्य पुण्यफलं शृणु २९।

दिव्ययानसमारूढस्तूयमानोऽप्सरोगणैः ।

शिवतुल्यबलोपेतस्तिष्ठत्याभूतसंप्लवम् ३०।

शुक्लतीर्थे तु या नारी ददाति कनकं शुभम् ।

घृतेन स्नापयेद्देवं कुमारं चाभिपूजयेत् ३१।

एवं या कुरुते भक्त्या तस्याः पुण्यफलं शृणु ।

मोदते देवलोकस्था यावदिंद्राश्चतुर्दश ३२।

अयने वा चतुर्दश्यां संक्रांतौ विषुवे तथा ।

स्नात्वा तु सोपवासः स निर्जितात्मा समाहितः ३३।

दानं दद्याद्यथाशक्त्या प्रीयेतां हरिशंकरौ ।

शुक्लतीर्थप्रभावेण सर्वं भवति चाक्षयम् ३४।

अनाथं दुर्गतं विप्रं नाथवंतमथापि वा ।

उद्वाहयति यस्तीर्थे तस्य पुण्यफलं शृणु ३५।

यावत्तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च ।

तावद्वर्षसहस्राणि शिवलोके महीयते ३६।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे ऊनविंशोध्यायः १९

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 20

नारद उवाच-

ततस्तु नरकं गच्छेत्स्नानं तत्र समाचरेत् ।

स्नातमात्रो नरस्तत्र नरकं तत्र पश्यति १।

अस्यतीर्थस्य माहात्म्यं शृणु त्वं पांडुनंदन ।

तस्मिंस्तीर्थे तु राजेंद्र यान्यस्थीनि विनिक्षिपेत् २।

विलयं यांति सर्वाणि रूपवान्जायते नरः ।

गोतीर्थं तु ततो गच्छेद्दृष्ट्वा पापात्प्रमुच्यते ३।

ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम् ।

तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ४।

ज्येष्ठमासे तु संप्राप्ते चतुर्दश्यां विशेषतः ।

तत्रोपोष्य नरो भक्त्या कपिलां यः प्रयच्छति ५।

घृतेन दीपं प्रज्वाल्य घृतेन स्नापयेच्छिवम् ।

सघृतं श्रीफलं दत्वा कृत्वा चांते प्रदक्षिणम् ६।

घंटाभरणसंयुक्तां कपिलां यः प्रयच्छति ।

शिवतुल्यो नरो भूत्वा न चेह जायते पुनः ७।

अंगारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः ।

स्नापयित्वा शिवं भक्त्या ब्राह्मणेभ्यस्तु भोजनम् ८।

अंगारकनवम्यां तु अमावस्यां तथैव च ।

स्नापयेत्तत्र यत्नेन रूपवान्सुभगो भवेत् ९।

घृतेन स्नापयेल्लिंगं पूजयेद्भक्तितो द्विजान् ।

पुष्पकेण विमानेन सहस्रैः परिवारितः १०।

शैवं पदमवाप्नोति नात्र चाभिगतं भवेत् ।

अक्षयं मोदते कालं यथा रुद्रस्तथैव च ११।

यदा तु कर्मसंयोगान्मर्त्यलोकमुपागतः ।

राजा भवति धर्मिष्ठो रूपवान्जायते बली १२।

ततो गच्छेत राजेंद्र ऋषितीर्थमनुत्तमम् ।

तृणबिंदुऋषिर्नाम शापदग्धो व्यवस्थितः १३।

तस्यतीर्थप्रभावेण पापमुक्तोऽभवद्द्विजः ।

ततो गच्छेत राजेंद्र गणेश्वरमनुत्तमम् १४।

श्रावणेमासि संप्राप्ते कृष्णपक्षे चतुर्दशीम् ।

स्नातमात्रो नरस्तत्र रुद्रलोके महीयते १५।

पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात् ।

गणेश्वरसमीपे तु गंगावदनमुत्तमम् १६।

अकामो वा सकामो वा तत्र स्नात्वा तु मानवः ।

आजन्मजनितैः पापैर्मुच्यते नात्र संशयः १७।

सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत् ।

पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात् १८।

प्रयागे यत्फलं दृष्टं शंकरेण महात्मना ।

तदेव निखिलं पुण्यं गंगाराह्वर्कसंगमे १९।

तस्यैवं पश्चिमे स्थाने समीपेनातिदूरतः ।

दशाश्वमेधिकं नाम त्रिषु लोकेषु विश्रुतम् २०।

उपोष्य रजनीमेकां मासि भाद्रपदे तथा ।

अमावस्यां नरः स्नात्वा व्रजेद्वै यत्र शंकरः २१।

सर्वदा पर्वदिवसे स्नानं तत्र समाचरेत् ।

पितॄणां तर्पणं कृत्वा अश्वमेधफलं लभेत् २२।

दशाश्वमेधात्पश्चिमतो भृगुर्ब्राह्मणसत्तमः ।

दिव्यं वर्षसहस्रं तु ईश्वरं पर्युपासत २३।

वल्मीकावस्थितश्चासौ दक्षिणं च निकेतनम् ।

आश्चर्यं च महज्जातमुमायाः शंकरस्य च २४।

गौरी तु पृच्छते देवं कोयमत्र तु संस्थितः ।

देवो वा दानवो वाथ कथयस्व महेश्वर २५।

ईश्वर उवाच-।

भृगुर्नाम द्विजश्रेष्ठ ऋषीणां प्रवरो मुनिः ।

ध्यायते मां समाधिस्थो वरं प्रार्थयते प्रिये २६।

तत्र प्रहसिता देवी ईश्वरं प्रत्यभाषत ।

धूमावर्तशिखा जाता ततोऽद्यापि न तुष्यसि ।

दुराराध्योऽसि तेन त्वं नात्र कार्या विचारणा २७।

देव उवाच-।

न ज्ञायसे महादेवि अयं क्रोधेन चेष्टितः ।

दर्शयामि यथातथ्यं प्रियं ते च करोम्यहम् २८।

स्मारितो देवदेवेन धर्मरूपो वृषस्तदा ।

स्मरणादेव देवस्य वृषः शीघ्रमुपस्थितः २९।

प्राहासौ मानुषीं वाचमादेशो दीयतां प्रभो ।

वल्मीकैश्छादितो विप्र एनं भूमौ निपातय ३०।

योगस्थस्तु ततो ध्यायंस्ततस्तेन निपातितः ।

तत्क्षणात्क्रोधसंतप्तो हस्तमुत्क्षिप्तवान्वृषम् ३१।

एवं संभाषमाणस्तु कुत्र गच्छसि भो वृष ।

अद्य त्वामथ पाप्मानं प्रत्यक्षं हन्म्यहं वृष ३२।

धर्षितस्तु तदा विप्रो ह्यंतरिक्षं गतं वृषम् ।

आकाशे प्रेक्षते भूय एतदद्भुतमुत्तमम् ३३।

ततः प्रहसिते रुद्रे ऋषिरग्रे व्यवस्थितः ।

तृतीयं लोचनं दृष्ट्वा वैलक्ष्यात्पतितो भुवि ३४।

प्रणम्य दंडवद्भूमौ स्तुवते परमेश्वरम् ।

प्रणिपत्य भूतनाथं भवोद्भवं त्वामहं दिव्यरूपम् ।

भवभीतो भुवनपते भूतं विज्ञापये किंचित् ३५।

त्वद्गुणनिकरान्वक्तुं कः शक्तो भवति मानुषो नाथ ।

वासुकिरयं हि कदाचिद्वदनसहस्रं भवेद्यस्य ३६।

भक्त्या तवापि शंकरभुवनपते त्वत्स्तुतौ तु मुखरस्य ।

वंद्य क्षमस्व भवन्प्रसीद मे तव चरणपतितस्य ३७।

सत्वं रजस्तमस्त्वं स्थित्युत्पत्तौ विनाशने देव ।

त्वां मुक्त्वा भुवनपते भुवनेश्वर नैव दैवतं किंचित् ३८।

यमनियमयज्ञदानैर्वेदाभ्यासावधारणोद्योगात् ।

त्वद्भक्तेः सर्वमिदं नार्हति कलासहस्रांशेन ३९।

उत्कृष्टरसरसायनखड्गांजनपादुकादि सिद्धिर्वा ।

चिह्नानि भवत्प्रणतानां दृश्यंत इह जन्मनि प्रकटम् ४०।

शाठ्येन नमति यद्यपि ददासि त्वं धर्ममिच्छतां देव ।

भक्तिर्भवच्छेदकरी मोक्षाय विनिर्मिता नाथ ४१।

परदारपरस्वरतं परिभवपरिदुःखशोकसंतप्तम् ।

परवदनवीक्षणपरं परमेश्वर मां परित्राहि ४२।

अलीकाभिमानदग्धं क्षणभंगुरविभवविलसितं देव ।

क्रूरं कुपथाभिमुखं पतितं मां त्राहि देवेश ४३।

दीनेंद्रियगणसार्थैर्बंधुजनैरेव पूरिता आशा ।

तुच्छा तथापि शंकर किं मूढं मां विडंबयसि ४४।

तृष्णां हरस्व शीघ्रं लक्ष्मीं मां देहि हृदयवासिनीं नित्याम् ।

छिंधि मदमोहपाशानुत्तारय मां महादेव ४५।

करुणाभ्युदयं नाम स्तोत्रमिदं सिद्धिदं दिव्यम् ।

यः पठति भक्तियुक्तस्तस्य तु तुष्येद्भृगोर्यथाहि शिवः ४६।

ईश्वर उवाच-।

अहं तुष्टोस्मि ते विप्र वरं प्रार्थय स्वेप्सितम् ।

उमया सहितो देवो वरं तस्य हि दापयेत् ४७।

भृगुरुवाच-।

यदि तुष्टोसि देवेश यदि देयो वरो मम ।

रुद्रवेदी भवेदेवमेतत्संपादयस्व मे ४८।

ईश्वर उवाच-।

एवं भवतु विप्रेंद्र क्रोधस्थानं भविष्यति ।

न पिता पुत्रयोश्चैव एकवाक्यं भविष्यति ४९।

तदाप्रभृति ब्रह्माद्याः सर्वे देवाः सकिन्नराः ।

उपासंतो भृगोस्तीर्थं तुष्टो यत्र महेश्वरः ५०।

दर्शनात्तस्य तीर्थस्य सद्यः पापात्प्रमुच्यते ।

अवशाः स्ववशाश्चापि म्रियंते तत्र जंतवः ५१।

गुह्यातिगुह्यस्य गतिस्तेषां निःसंशया भवेत् ।

एतत्क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ५२।

तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ।

औपानहं तदा छत्रं देयमन्नं च कांचनम् ५३।

भोजनं च यथाशक्त्या अक्षयं तस्य तद्भवेत् ।

सूर्योपरागे यो दद्याद्दानं चैव यथेच्छया ५४।

तीर्थस्नानं तु यद्दानमक्षयं तस्य तद्भवेत् ।

चंद्रसूर्योपरागेषु वृषोत्सर्गमनुत्तमम् ५५।

न जानंति नरा मूढा विष्णुमायाविमोहिताः ।

नर्मदायां स्थितं दिव्यं वृषतीर्थं नराधिप ५६।

भृगुतीर्थस्य माहात्म्यं यः शृणोति नरः सकृत् ।

विमुक्तः सर्वपापेभ्यो रुद्रलोकं स गच्छति ५७।

ततो गच्छेत राजेंद्र गौतमेश्वरमुत्तमम् ।

तत्र स्नात्वा नरो राजन्नुपवासपरायणः ५८।

कांचनेन विमानेन ब्रह्मलोके महीयते ।

धौतपापं ततो गच्छेद्धौतं यत्र वृषेण तु ५९।

नर्मदायां स्थितं राजन्सर्वपातकनाशनम् ।

तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ६०।

तस्मिन्तीर्थे महाराज प्राणत्यागं करोति यः ।

चतुर्भुजस्त्रिनेत्रस्तु रुद्रतुल्यबलो भवेत् ६१।

वसेत्कल्पायुतं साग्रं रुद्रतुल्यपराक्रमः ।

कालेन महता प्राप्तः पृथिव्यामेकराड्भवेत् ६२।

ततो गच्छेत राजेंद्र एरंडीतीर्थमुत्तमम् ।

प्रयागे यत्फलं दृष्टं मार्कंडेयेन भाषितम् ६३।

तत्फलं लभते राजन्स्नातमात्रस्तु मानवः ।

मासि भाद्रपदे चैव शुक्लपक्षस्य चाष्टमीम् ६४।

उपोष्य रजनीमेकां तत्र स्नानं समाचरेत् ।

यमदूतैर्न बाध्येत इंद्रलोकं स गच्छति ६५।

ततो गच्छेत राजेंद्र सिद्धो यत्र जनार्दनः ।

हिरण्यद्वीपविख्यातं सर्वपापप्रणाशनम् ६६।

तत्र स्नात्वा नरो राजन्धनवान्रूपवान्भवेत् ।

ततो गच्छेत राजेंद्र तीर्थं कनखलं महत् ६७।

गरुडेन तपस्तप्तं तस्मिंस्तीर्थे नराधिप ।

विख्यातं सर्वलोकेषु योगिनी तत्र तिष्ठति ६८।

क्रीडते योगिभिः सार्धं शिवेन सह नृत्यति ।

तत्र स्नात्वा नरो राजन्रुद्रलोके महीयते ६९।

ततो गच्छेत राजेंद्र ईशतीर्थमनुत्तमम् ।

ईशस्तत्र विनिर्मुक्तो गत ऊर्ध्वं न संशयः ७०।

ततो गच्छेत राजेंद्र सिद्धो यत्र जनार्दनः ।

वाराहं रूपमास्थाय अचिंत्यः परमेश्वरः ७१।

वराहतीर्थे नरः स्नात्वा द्वादश्यां तु विशेषतः ।

विष्णुलोकमवाप्नोति नरकं तु न गच्छति ७२।

ततो गच्छेत राजेंद्र सोमतीर्थमनुत्तमम् ।

पौर्णिमास्यां विशेषेण तत्र स्नानं समाचरेत् ७३।

प्रणिपत्य च ईशानं बलिस्तस्य प्रसीदति ।

हरिश्चन्द्रपुरं दिव्यमंतरिक्षे तु दृश्यते ७४।

चक्रध्वजे समावृत्ते सुप्ते नागारिकेतने ।

नर्मदातोयवेगेन रुरुकच्छोपसेवितम् ७५।

तस्मिन्स्थाने निवासं च विष्णुः शंकरमब्रवीत् ।

द्वीपेश्वरे नरः स्नात्वा लभेद्बहुसुवर्णकम् ७६।

ततो गच्छेत राजेंद्र रुद्रकन्यां तु संगमे ।

स्नातमात्रो नरस्तत्र देव्याः स्थानमवाप्नुयात् ७७।

देवतीर्थं ततो गच्छेत्सर्वदेवनमस्कृतम् ।

तत्र स्नात्वा तु राजेंद्र दैवतैः सह मोदते ७८।

ततो गच्छेत राजेंद्र शिखितीर्थमनुत्तमम् ।

तत्र वै दीयते दानं सर्वं कोटिगुणं भवेत् ७९।

अपरपक्षे अमावास्यां स्नानं तत्र समाचरेत् ।

ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता ८०।

भृगुतीर्थे तु राजेंद्र तीर्थकोटिर्व्यवस्थिता ।

अकामो वा सकामो वा तत्र स्नायीत मानवः ८१।

अश्वमेधमवाप्नोति दैवतैः सह मोदते ।

तत्र सिद्धमवाप्नोति भृगुस्तु मुनिपुंगवः ।

अवतारः कृतस्तेन शंकरेण महात्मना ८२।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे विंशतितमोऽध्यायः २०

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 21

नारद उवाच-

ततो गच्छेत राजेंद्र विहगेश्वरमुत्तमम् ।

दर्शनात्तस्यराजेंद्र मुच्यते सर्वपातकैः १।

ततो गच्छेत राजेन्द्र नर्मदेश्वरमुत्तमम् ।

तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते २।

अश्वतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् ।

सुभगो दर्शनीयश्च भोगवान्जायते नरः ३।

पितामहं ततो गच्छेद्ब्रह्मणा निर्मितं पुरा ।

तत्र स्नात्वा नरो भक्त्या पितृपिंडं तु दापयेत् ४।

तिलदर्भविमिश्रं तु उदकं तु प्रदापयेत् ।

तस्य तीर्थप्रभावेण सर्वं भवति चाक्षयम् ५।

सावित्री तीर्थमासाद्य यस्तु स्नानं समाचरेत् ।

विधूय सर्वपापानि ब्रह्मलोके महीयते ६।

मनोहरं च तत्रैव तीर्थं परमशोभनम् ।

तत्र स्नात्वा नरो राजन्पितृलोके महीयते ७।

ततो गच्छेत राजेंद्र मानसं तीर्थमुत्तमम् ।

तत्र स्नात्वा नरो राजन्रुद्रलोके महीयते ८।

ततो गच्छेत राजेंद्र क्रतुतीर्थमनुत्तमम् ।

विख्यातं सर्वलोकेषु सर्वपापप्रणाशनम् ९।

यान्यान्प्रार्थयते कामान्पशुपुत्रधनानि च ।

प्राप्नुयात्तानि सर्वाणि तत्र स्नात्वा नराधिप १०।

ततो गच्छेत राजेंद्र त्रिदशद्योति विश्रुतम् ।

तत्र ता ऋषिकन्यास्तु तपस्तप्यंति सुव्रताः ११।

भर्त्ता भवतु सर्वासामीश्वरः प्रभुरव्ययः ।

प्रीतस्तेषां महादेवश्चंडरूपधरो हरः १२।

विकृतानन बीभत्सस्तच्च तीर्थमुपागतः ।

तत्र कन्या महाराज वराय परमेश्वरः १३।

कन्याऋद्धिं च यः सेवेत्कन्यादानं प्रयच्छति ।

तीर्थं तत्र महाराज दशकन्येति विश्रुतम् १४।

तत्र स्नात्वार्च्चयेद्देवं सर्वपापैः प्रमुच्यते ।

ततो गच्छेत राजेंद्र स्वर्गबिंदुरिति श्रुतम् १५।

तत्र स्नात्वा नरो राजन्दुर्गतिं च न पश्यति ।

अप्सरेशं ततो गच्छेत्स्नानं तत्र समाचरेत् १६।

क्रीडते नागलोकस्थोऽप्सरोभिः सह मोदते ।

ततो गच्छेत राजेंद्र नरकं तीर्थमुत्तमम् १७।

तत्र स्नात्वार्च्चयेद्देवं नरकं च न गच्छति ।

भारभूतं ततो गच्छेदुपवासपरायणः १८।

एतत्तीर्थं समासाद्य अवतारं तु शांभवम् ।

अर्चयित्वा विरूपाक्षं रुद्रलोके महीयते १९।

तस्मिंस्तीर्थे नरः स्नात्वा भारभूते महात्मनः ।

यत्रतत्र मृतस्यापि ध्रुवं गाणेश्वरी गतिः २०।

कार्तिकस्य तु मासस्य अर्चयित्वा महेश्वरम् ।

अश्वमेधाच्छतगुणं प्रवदंति मनीषिणः २१।

दीपकानां शतं कृत्वा घृतपूर्णं तु दापयेत् ।

विमानैः सूर्यसंकाशैर्व्रजते यत्र शंकरः २२।

वृषभं यः प्रयच्छेत शंखकुंदेंदु संनिभम् ।

वृषयुक्तेन यानेन रुद्रलोकं स गच्छति २३।

चरुमेकं तु यो दद्यात्तस्मिंस्तीर्थे नराधिप ।

पायसं मधुसंयुक्तं भक्ष्याणि विविधानि च २४।

यथाशक्त्यनुराजेंद्र भोजयेत्सहदक्षिणम् ।

तस्यतीर्थप्रभावेण सर्वं कोटिगुणं भवेत् २५।

नर्मदाया जलं सिक्त्वा अर्चयित्वा वृषध्वजम् ।

दुर्गतिं च न पंश्यंति तस्य तीर्थप्रभावतः २६।

एतत्तीर्थं समासाद्य यस्तुप्राणान्परित्यजेत् ।

सर्वपापविशुद्धात्मा व्रजते यत्र शंकरः २७।

जलप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।

हंसयुक्तेन यानेन रुद्रलोकं स गच्छति २८।

यावच्चंद्रश्च सूर्यश्च हिमवांश्च महोदधिः ।

गंगाद्याः सरितो यावत्तावत्स्वर्गे महीयते २९।

अनाशनं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।

गर्भवासे तु राजेंद्र न पुनर्जायते नरः ३०।

ततो गच्छेत राजेंद्र अटवीतीर्थमुत्तमम् ।

तत्र स्नात्वा नरो राजन्निंद्रस्यार्द्धासनंलभेत् ३१।

शृंगतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् ।

तत्रापि स्नातमात्रस्य ध्रुवं गाणेश्वरी गतिः ३२।

एरंडीनर्मदायाश्च संगमं लोकविश्रुतम् ।

तत्र तीर्थं महापुण्यं सर्वपापप्रणाशनम् ३३।

उपवासपरो भूत्वा नित्यं ब्रह्मपरायणः ।

तत्र स्नात्वा तु राजेंद्र मुच्यते ब्रह्महत्यया ३४।

ततो गच्छेत राजेन्द्र नर्मदोदधिसंगमम् ।

जमदग्निरिति ख्यातं सिद्धो यत्र जनार्दनः ३५।

यत्रेष्ट्वा बहुभिर्यज्ञैरिंद्रो देवाधिपोभवत् ।

तत्र स्नात्वा नरो राजन्नर्मदोदधिसंगमे ३६।

त्रिगुणस्याश्वमेधस्य फलं प्राप्नोति मानवः ।

पश्चिमोदधिसायुज्यं मुक्तिद्वारविघाटनम् ३७।

तत्र देवाः सगंधर्वा ऋषयः सिद्धचारणाः ।

आराधयंति देवेशं त्रिसंध्यं विमलेश्वरम् ३८।

सर्वपापविशुद्धात्मा रुद्रलोके महीयते ।

विमलेश्वरपरं तीर्थं न भूतं न भविष्यति ३९।

तत्रोपवासं कृत्वा ये पश्यंति विमलेश्वरम् ।

सर्वपापविशुद्धात्मा रुद्रलोकं व्रजंति ते ४०।

ततो गच्छेत राजेंद्र केशिनीतीर्थमुत्तमम् ।

तत्र स्नात्वा नरो राजन्नुपवासपरायणः ४१।

उपोष्य रजनीमेकां नियतो नियताशनः ।

तत्र तीर्थप्रभावेण मुच्यते ब्रह्महत्यया ४२।

सर्वतीर्थाभिषेकं च यः पश्येत्सागरेश्वरम् ।

योजनाभ्यंतरे तिष्ठेदावर्ते संस्थितः शिवः ४३।

तं दृष्ट्वा सर्वतीर्थानि दृष्टानि स्युर्न संशयः ।

सर्वपापविनिर्मुक्तो यत्र रुद्र सः गच्छति ४४।

नर्मदासंगमं यावद्यावच्चामरकंटकम् ।

तत्रांतरे महाराजन्तीर्थकोट्योदकस्थिताः ४५।

तीर्थात्तीर्थाटनं चर्या ऋषिकोटिनिषेविता ।

अग्निहोत्रैश्च दिव्यांशैः सर्वैर्ज्ञानपरायणैः ४६।

सेवितास्तेन राजेंद्र ईप्सितार्थप्रदायिकाः ।

यश्चेदं वै पठेन्नित्यं शृणुयाद्वापि भक्तितः ४७।

तं तु तीर्थानि सर्वाणि अभिषिंचंति पांडव ।

नर्मदा च सदा प्रीता भवेद्वै नात्र संशयः ४८।

प्रीतस्तस्य भवेद्रुद्रो मार्कंडेयो महामुनिः ।

वंध्या च लभते पुत्रान्दुर्भगा सुभगाभवेत् ४९।

कुमारीं लभते भर्त्ता यच्च यो वाञ्छते फलम् ।

तदेव लभते सर्वं नात्र कार्या विचारणा ५०।

ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेत् ।

वैश्यस्तु लभते धान्यं शूद्रः प्राप्नोति सद्गतिम् ५१।

मूर्खस्तु लभते विद्यां त्रिसंध्यं यः पठेन्नरः ।

नरकं च न पश्येत वियोनिं च न गच्छति ५२।

इति श्रीपाद्मेमहापुराणे स्वर्गखंडे एकविंशोऽध्यायः २१।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 22

नारद उवाच-

एवं ते कथितं राजन्नर्मदातीर्थमुत्तमम् ।

पुरा गंधर्वकन्यानां शापजं भयमुल्बणम् १।

नाशितं तन्महाराज रेवाजलकणाग्निना ।

रेवाजलकणस्पर्शान्मुक्तो भवति मानवः २।

युधिष्ठिर उवाच-

भगवन्बहुकन्याभिः शापो लंभि कथं कुतः ।

कस्यापत्यानि तास्तासां नाम किं कीदृशं वयः ३।

कथं रेवाजलस्पर्शाद्विपाकाच्छापसंभवात् ।

विमुक्ताः कुत्र ताः सस्नुः सर्वं मे कथय प्रभो ४।

नर्मदातीर्थमाहात्म्यं चमत्कारकरं भवेत् ।

श्रवणादपि पापानां मलनाशनमुच्यते ५।

नर्मदानर्मदाशब्दो येन केनचिदुच्यते ।

तस्य स्याच्छाश्वती मुक्तिर्यावदाचंद्र तारकम् ६।

व्याहृतं भवता पूर्वं रेवामाहात्म्यमुत्तमम् ।

तथापि चरितं साधो यदेतत्तन्निगद्यताम् ७।

अथ चोत्तमवार्ताया सेवितव्या मनीषिभिः ।

अतः पृच्छामि विप्रेंद्र रेवामाहात्म्यमुत्तमम् ।

इतिहासं वद विभो कन्यानां चरितोज्ज्वलम् ८।

नारद उवाच-

श्रूयतां राजशार्दूल धर्मगर्भापरा कथा ।

यथारणिर्वह्निगर्भा धर्म्मस्तु ब्रह्मसूरिव ९।

गंधर्वः शुकसंगीतिस्तस्य कन्या प्रमोहिनी ।

सुशीलस्य सुशीला च सुस्वरा स्वरवेदिनः १०।

सुतारा चंद्रकांतस्य चंद्रिका सुप्रभस्य च ।

इमानि वरनामानि तासामप्सरसां नृप ११।

कुमार्यः पंच सर्वास्ता वयसा सुभगाः पुनः ।

भाषंते च मिथस्तास्तु भगिन्य इव सर्वदा १२।

चंद्रादिव विनिष्क्रांताश्चंद्रिका इव सोज्ज्वलाः ।

चंद्राननाः सुकेश्यश्च चंद्रकांताइवोज्ज्वलाः १३।

देवेष्वेता विलासिन्यः कौमुद्यः कैरवेष्विव ।

लावण्यपिंडसंभूता दिव्यरूपा मनोहराः १४।

उद्भिन्नकुचपद्मिन्यः केतक्य इव माधवे ।

उत्पन्नयौवनैः कांता वल्लीव नवपल्लवैः १५।

हेमगौराश्च हेमाभा हेमाभरणभूषिताः ।

हेमचंपकमालिन्यो हेमच्छविसुवाससः १६।

स्वरग्रामावलीहासु विविधा मूर्च्छनासु च ।

तालवाद्यविनोदेषु वेणुवीणाप्रवादने १७।

मृदंगनादसंभिन्नलास्यमध्यलयेषु च ।

चित्रादिषु विनोदेषु कलासु च विशारदाः १८।

एवंभूताश्च ताः कन्या मुमुहुः क्रीडनैर्वरैः ।

पितृभिर्लालिताः सर्वाश्चेरुश्च धनदालये १९।

कौतुकादेकदा पंच मिलित्वा मासि माधवे ।

कन्या मंदारपुष्पाणि विचिन्वंत्यो वनाद्वनम् २०।

गौरीं समाराधयितुं स्वरांगनाः कदाचिदच्छोदसरोवरं ययुः ।

हेमांबुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरोत्पलैः सह २१।

वैडूर्यशुद्धस्फटिकप्रकुट्टिमे स्नात्वा तु घट्टे परिधाय चांबरम् ।

मौनेन च स्थंडिलपिंडिकामयीं सुवर्णमुक्ताभरणां विनिर्ममुः २२।

समर्चितां चंदनगंधकुंकुमैरभ्यर्च्य गौरीं वरपंकजादिभिः ।

नानोपहारैः शुभभक्तिभाविता लास्यप्रयोगैर्ननृतुः कुमारिकाः २३।

गांधर्वमाश्रित्य परं स्वरं ततो गेयं स्वभावध्वनिभिः समूर्छनम् ।

एणीदृशस्ताः प्रजगुः कलाक्षरं तारप्रवृद्धं गतिभिश्च सुस्वरम् २४।

तस्मिन्सुभावे रसवर्षहर्षं कन्यास्वलं निर्भरचित्तवृत्तिषु ।

अच्छोदतीर्थे प्रवरे तदागतः स्नातुं मुनेर्वेदनिधेः सुतोग्रजः २५।

रूपेण निःसीमतरो वराननः प्रफुल्लपद्मायतलोचनो युवा ।

विस्तीर्णवक्षाः सुभुजोऽतिसुंदरः श्यामच्छविः कामइवापरो हि सः २६।

स ब्रह्मचारी सुशिखो हि शोभते दंडेन युक्तो धनुषेव मन्मथः ।

एणाजिनप्रावरणः समुद्रधृग्हेमाभमौंजीकटिमेखलः परः २७।

तं दृष्ट्वा ब्राह्मणं बालास्तास्तत्र सरसस्तटे ।

जहृषुः कौतुकाविष्टा अयं नो भवितातिथिः २८।

संत्यक्तगीतनृत्यास्तास्तस्यालोकनलालसाः ।

हरिण्यो लुब्धकेनेव विद्धाः कामेन सायकैः २९।

पश्यपश्येति जल्पंत्यो मुग्धाः पंच ससंभ्रमम् ।

तस्मिन्विप्रवरे यूनि कामदेवभ्रमं ययुः ३०।

पुनःपुनस्तमभ्यर्च्य नयनैः पंकजैरिव ।

पश्चाद्विचारमारब्धमप्सरोभिः परस्परम् ३१।

यद्ययं कामदेवो हि रतिहीनः कथं भवेत् ।

अथवाह्यश्विनौ देवौ तावुभौ युगचारिणौ ३२।

गंधर्वः किन्नरो वाथ सिद्धो वा कामरूपधृक् ।

ऋषिपुत्रोऽथवा कश्चित्कश्चिद्वा मनुजोत्तमः ३३।

अस्ति वा कश्चिदेवायं धात्रा सृष्टो हि नः कृते ।

यथाभाग्यवतामर्थे निधानं पूर्वकर्मभिः ३४।

तथास्माकं कुमारीणां गौर्यानीतो वरोत्तमः ।

करुणाजलकल्लोल लब्धाद्री र्कृ!तचित्तया ३५।

मया वृतस्त्वया चायं त्वया वृतस्तथानया ।

एवं पंचसुकन्यासु वदंतीषु नृपोत्तम ३६।

श्रुत्वा तद्वचनं तत्र कृतमाध्याह्निकक्रियः ।

चिंतयामास मेधावी किं कृत्वा सुकृतं भवेत् ३७।

गाधिसंभवपराशरादयः कंडुदेवलमुखाश्च ये द्विजाः ।

तेऽपि योगि बलिनो विमोहिताः लीलया तदबलाभिरद्भुतम् ३८।

योषितां नयनतीक्ष्णसायकैर्भ्रूलतासुदृढचापनिर्गतैः ।

धन्विना मकरकेतुना हतः कस्य नो पतति वामनो मृगः ३९।

तावदेव नयधीर्विराजते तावदेव जनताभयं भवेत् ।

तावदेव धृतचित्तता भृशं तावदेव गणना कुलस्य च ४०।

तावदेव तपसः प्रगल्भता तावदेव शमसेवनं नृणाम् ।

यावदेव ललनेक्षणा स वैर्माद्यते द्रुतमदैर्न पूरुषः ४१।

मोहयंति मदयंति रागिणं योषितः स्वललितैर्मनोहरैः ।

मोदयंति मदयंति मामिमा धर्मरक्षणपरं हि स्वैर्गुणैः ४२।

मांसरक्तमलमूत्रनिर्मिते योषितां वपुषि निर्गुणेऽशुचौ ।

कामिनस्तु परिकल्प्य चारुतामाविशंति सुविमूढचेतसः ४३।

दारुणा हि परिकीर्तितांगना साधुभिर्विमलबुद्धिभिर्बुधैः ।

यावदेव न समीपगा इमास्तावदेव हि गृहं व्रजाम्यहम् ४४।

समीपं तस्य यावन्न आगच्छंति वरस्त्रियः ।

वैष्णवेन प्रभावेण तावदंतर्दधे द्विजः ४५।

तस्य योगबलाद्भूप गतस्यादर्शनं तदा ।

दृष्ट्वा तदद्भुतं कर्म वैष्णवब्रह्मचारिणः ४६।

वित्रस्तनयना बाला कुरंग्य इव कातराः ।

संक्रांतनयनाः शून्या ददृशुस्ता दिशोदश ४७।

कन्या ऊचुः-।

इंद्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः ।

दृष्टोऽप्यदृष्टरूपोभूदित्यूचुस्ताः परस्परम् ४८।

व्याप्तं च हृदयं तासां तदैव विरहाग्निना ।

ज्वलद्दावानलेनेव सुस्निग्धं सर्वकाननम् ४९।

त्यजेंद्रजालिकां विद्यां कांत दर्शय सत्वरम् ।

आत्मानं न हि ते युक्तं प्राग्ग्रासे मक्षिकोपमम् ५०।

हा कष्टं दर्शितः कस्माद्धात्रा त्वं घटितः कुतः ।

ज्ञातं महानुसंतापहेतुर्नः स्वं विनिर्मितः ५१।

कच्चित्ते निर्दयं चेतः कच्चिदस्मासु नो मतिः ।

कच्चित्क्रूरोऽसि हे कांत कच्चिन्मुष्णासि नो मनः ५२।

कच्चिन्न प्रत्ययोस्मा सु कच्चिदस्मान्परीक्षसे ।

कच्चिन्निर्ममता शीलः कच्चिन्मायाविशारदः ५३।

कच्चिच्चित्ते प्रवेष्टुं च वेत्सि विज्ञानलाघवम् ।

कच्चिन्निष्क्रमणोपायं न जानासि कुतः पुनः ५४।

कच्चिद्विनापराधं तु किमस्मासु प्रकुप्यसे ।

कच्चिद्दुःखं न जानासि परेषां विप्रलंभनम् ५५।

त्वद्दर्शनं विना नष्टा हृदयेश्वर सांप्रतम् ।

न जीवामोऽथ जीवामः पुनस्त्वद्दर्शनाशया ५६।

वयं च नीयतां तत्र शीघ्रं यत्र गतो भवान् ।

त्वद्दर्शनहरो धाता व्यधान्मोदांकुरच्छिदाम् ५७।

सर्वथा दर्शनं देहि कारुण्यं भज सर्वथा ।

पर्य्यंतं न प्रपश्यंति कस्य चित्सुजना जनाः ५८।

इत्थं विलप्यताः कन्याः प्रतीक्ष्य च बहुक्षणम् ।

पितुर्भयाद्गृहं गंतुं शीघ्रमारेभिरे ततः ५९।

तत्प्रेमनिगडैर्बद्धा भृशं विरहविक्लवाः ।

कथंचिद्धैर्यमालंब्य ताः स्वंस्वं गृहमागताः ६०।

आगत्य पतिताः सर्वा मातॄणां तु समीपतः ।

किमेतन्मातृभिः पृष्टाः कुतः कालात्ययोऽभवत् ६१।

क्रीडंत्यः किन्नरीभिस्तु सार्द्धं संगतकं यदा ।

संस्थितास्तेन न ज्ञातो दिवसोऽच्छोदसरोवरे ६२।

पथि श्रांता वयं मातः संतापस्तेन नस्तनौ ।

मोहेन महता वक्तुं न केनाप्युत्सहामहे ६३।

इत्युक्त्वा लुठितास्तत्र मणिभूमौ कुमारिकाः ।

आकारं गोपयंत्यस्ता मुग्धा जल्पंति मातृभिः ६४।

काचिन्नर्तयति क्रीडामयूरं न मुदा तदा ।

न पाठयति तं कीरं पंजरेऽन्या कुतूहलात् ६५।

लालयेन्नकुलं नान्या नोल्लापयति सारिकाम् ।

अपरातीव संमुग्धा नैव खेलति सारसैः ६६।

भेजिरे न विनोदं ता रेमिरे नैव मंदिरे ।

ऊचिरे बांधवैर्नालं वीणावाद्यं न चक्रिरे ६७।

कल्पद्रुमप्रसूनं यत्सर्वं तच्चानलोपमम् ।

मंदारकुसुमामोदि न पपुर्मधुरं मधु ६८।

योगिन्य इव ताः कन्या नासाग्रन्यस्तलोचनाः ।

अलक्ष्यध्यानसंतानाः पुरुषोत्तममानसाः ६९।

चंद्रकांतमणिच्छन्ने स्रवद्वारिणि कंदरे ।

क्षणं वातायने स्थित्वा जलयंत्रगृहेक्षणम् ७०।

रचयंति क्षणं शय्यां दीर्घिकां भोजिनीदलैः ।

वीज्यमानाः सखीभिस्ताः शीतलैर्नलिनीदलैः ७१।

इत्थं युगसमां रात्रिमनयंस्ता वरस्त्रियः ।

कथंचिद्धारणं कृत्वा विह्वलाः सज्वरा इव ७२।

प्रातर्व्योममणिं दृष्ट्वा मन्यमानाः स्वजीवितम् ।

विज्ञाप्य मातरं स्वांस्वां गौरीं पूजयितुं गताः ७३।

स्नात्वा तेन विधानेन पुष्पैर्धूपैस्तथा पुनः ।

विधाय पूजनं देव्या गायंत्यस्तत्र ताः स्थिताः ७४।

एतस्मिन्नंतरे विप्रः स्नातुं सोऽपि समागतः ।

पितुराश्रमतस्तस्मादच्छोदेऽत्र सरोवरे ७५।

मित्रं दृष्ट्वैव रात्र्यंते पद्मिन्य इव कन्यकाः ।

तत्फुल्लनयना जातास्तं दृष्ट्वा ब्रह्मचारिणम् ७६।

गत्वा तत्रैव ताः कन्या समीपं ब्रह्मचारिणः ।

सव्यापसव्यबंधेन भुजपाशं च चक्रिरे ७७।

गतोऽसि प्रिय पूर्वेद्युर्गंतुमद्य न लभ्यते ।

वृतस्त्वं नूनमस्माभिर्नात्र तेऽस्ति विचारणा ७८।

इत्युक्तो ब्राह्मणः प्राह प्रहसन्बाहुपाशगः ।

युष्माभिरुच्यते भद्रमनुकूलं प्रियं वचः ७९।

प्रथमाश्रमनिष्ठस्य किंतु नश्येत मे व्रतम् ।

विद्याभ्यसनशीलस्य नाभूत्पारं गुरोः कुले ८०।

आश्रमे यत्र यो धर्मो रक्षणीयः सुपंडितैः ।

विवाहोऽयमतो मन्ये न धर्म इति कन्यकाः ८१।

आकर्ण्य विप्रवाक्यानि विप्रमूचुर्वरस्त्रियः ।

सकलध्वनिसोत्कंठ्यो कोकिलाइव माधवे ८२।

धर्मादर्थोऽर्थतः कामः कामात्सुखफलोदयः ।

इत्येवं निश्चयज्ञास्ते वर्णयंति विपश्चितः ८३।

सकामो धर्मबाहुल्यात्पुरतस्ते समुत्थितः ।

सेव्यतां विविधैर्भोगैः स्वच्छाभूमिरियं यतः ८४।

श्रुत्वा तद्वचनं तासां प्राह गंभीरया गिरा ।

तथ्यं वो वचनं किंतु ममाप्यावश्यकं व्रतम् ८५।

प्राप्यानुज्ञां गुरोः कुर्वे विवाहकर्म नान्यथा ।

इत्युक्ताः पुनरूचुस्ताः स्फुटं मूढोऽसि सुंदर ८६।

सिद्धौषधं ब्रह्मधिया रसायनं सिद्धिर्निधिः साधुकुला वरांगनाः ।

मंत्रस्तथा सिद्धरसश्च धर्मतो मुने निषेव्याः सुधिया समागताः ८७।

कार्यं नु दैवाद्यदि सिद्धिमागतं तस्मिन्नुपेक्षां न च यांति नीतिगाः ।

यस्मादुपेक्षा न पुनः फलप्रदा तस्मान्न दीर्घीकरणं प्रशस्यते ८८।

विषादप्यमृतं ग्राह्यममेध्यादपि कांचनम् ।

नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि ८९।

सांद्रानुरागाः कुलजन्मनिर्मलाः स्नेहार्द्रचित्ता सुगिरः स्वयंवराः ।

कन्या सुरूपाः खलु चारुयौवना धन्या लभंतेऽत्र नरास्तु नेतरे ९०।

क्व वयं सुरसुंदर्य्यः क्व भवांस्तापसो बटुः ।

दुर्घटस्य विधानेन मन्ये धातैव पंडितः ९१।

तस्मादस्मानिदानीं तु स्वीकुर्य्यात्मंगलं भवान् ।

गांधर्वेण विवाहेन अन्यथा नोपजीवनम् ९२।

श्रुत्वा वाक्यं ततः प्राह ब्राह्मणो धर्मवित्तमः ।

भो मृगाक्ष्यः कथं त्याज्यो धर्मो धर्मधनैर्नरैः ९३।

धर्मश्चार्थश्चकामश्च मोक्षश्चैतच्चतुष्टयम् ।

यथोक्तं फलदं ज्ञेयं विपरीतं तु निष्फलम् ९४।

नाकालेऽहं व्रती कुर्यामतो दारपरिग्रहम् ।

न क्रिया फलमाप्नोति क्रियाकालं न वेत्ति यः ९५।

यतो धर्मविचारेऽस्मिन्प्रसक्तं मम मानसम् ।

तस्माच्छृणुत हे कन्या न समीहे स्वयंवरम् ९६।

एवं ज्ञात्वाशयं तस्य समीक्ष्यैव परस्परम् ।

करात्करं विमुच्याथ जग्राहांघ्रिं प्रमोहिनी ९७।

भुजौ जगृहतुस्तस्य सुशीला सुस्वरा तथा ।

आलिलिंग सुतारा च वक्त्रं चुंबति चंद्रिका ९८।

तथापि निर्विकारोऽसौ प्रलयानलसन्निभः ।

शशाप ब्रह्मचारी ताः क्रोधेनात्यंतमूर्छितः ९९।

पिशाच्य इव मां लग्ना तत्पिशाच्यो भविष्यथ ।

एवं तेनाशु शप्तास्तास्तं त्यक्त्वा पुरतः स्थिताः १००।

किमेतच्चेष्टितं पापं ह्यनागसि विचेष्टया ।

प्रियंकृतोऽप्रियंकृत्वा धिक्त्वां धर्मकृतांतकम् १०१।

अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः ।

पुंसो लोकोभयोः सौख्यं नाशमेतीति नः श्रुतम् १०२।

तस्मात्त्वमपि नः शापात्पिशाचो भव सत्वरम् ।

इत्युक्त्वापि च ता बाला निःश्वसंत्यः क्रुधाकुलाः १०३।

तदेवान्योन्यसंरंभात्तस्मिन्सरसि पार्थिव ।

ताः कन्या ब्रह्मचारी च सर्वे पैशाच्यमागताः १०४।

स पिशाचः पिशाच्यस्ताः क्रंदमानाः सुदारुणम् ।

क्षपयंति विपाकांस्तान्पूर्वोपात्तस्य कर्म्मणः १०५।

स्वकाले प्रभवत्येव पूर्वोपात्तं शुभाशुभम् ।

स्वच्छायामिव दुर्वारं देवानामपि पार्थिव १०६।

क्रंदंति पितरस्तासां मातरस्तत्र तत्र च ।

भ्रातरश्चैव बालानां दैवं हि दुरतिक्रमम् १०७।

अतऊर्ध्वं पिशाचास्ते आहारार्थं सुदुःखिताः ।

इतस्ततश्च धावंतो वसंति सरसस्तटे १०८।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्वाविंशोध्यायः २२ ।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 23

नारद उवाच-

एवं बहुतिथे काले लोमशो मुनिसत्तमः ।

आगतश्च महाभागस्तत्र यादृच्छिको मुनि १।

तं दृष्ट्वा ब्राह्मणं सर्वे पिशाचाः क्षुत्समाकुलाः ।

धावंतो ह्यत्तुकामास्ते मिलित्वा यूथवर्तिनः २।

दह्यमानास्तु तीव्रेण तेजसा लोमशस्य तु ।

असमर्थाः पुरः स्थातुं ते सर्वे दूरतः स्थिताः ३।

तत्र पूर्वकर्मबलात्पिशाचः सह वै द्विजः ।

समीक्ष्य लोमशं राजन्साष्टांगं प्रणिपत्य च ४।

उवाच सूनृतां वाचं बद्ध्वा शिरसि चांजलिम् ।

महाभाग्योदये विप्र साधूनां संगतिर्भवेत् ५।

गंगादिपुण्यतीर्थेषु यो नरः स्नाति सर्वथा ।

यः करोति सतां संगं तयोः सत्संगमो वरः ६।

गुरूणां संगमो विप्र दृष्टादृष्टफलो भुवि ।

स्वर्गदो रोगहारी च किं तमोपहरो मतः ७।

इत्युक्त्वा कथयामास पूर्ववृत्तांतमद्भुतम् ।

इमा गंधर्वकन्यास्ता मुने सोऽहं द्विजात्मजः ८।

सर्वे पिशाचरूपेण मिथः शापविमोहिताः ।

दीनाननास्सुतिष्ठामस्तवाग्रे मुनिसत्तम ९।

त्वद्दर्शनेन बालानां निस्तारो नो भविष्यति ।

सूर्योदये तमस्तोमः किं नु लीयेत पुष्करे १०।

श्रुत्वैतल्लोमशो वाक्यं कृपार्द्रीकृतमानसः ।

प्रत्युवाच महातेजा दुःखितं तं मुनेः सुतम् ११।

मत्प्रसादाच्च सर्वेषां स्मृतिः सपदि जायताम् ।

धर्मे च वर्ततां येन मिथः शापो लयं व्रजेत् १२।

पिशाच उवाच-

महर्षे कथ्यतां धर्मो मुच्येम येन किल्बिषात् ।

नायं कालो विलंबस्य शापाग्निर्दारुणो यतः १३।

लोमश उवाच-

मया सार्द्धं प्रकुर्वंतु रेवास्नानं विधानतः ।

शापान्मोक्ष्यति वो रेवा नान्यथा निष्कृतिर्भवेत् १४।

शृणुष्वावहितो विप्र पापनाशो ध्रुवं नृणाम् ।

रेवास्नानेन जायेत इति मे निश्चिता मतिः १५।

सप्तजन्मकृतं पापं वर्तमानं च पातकम् ।

रेवास्नानं दहेत्सर्वं तूलराशिमिवानलः १६।

प्रायाश्चित्तं न पश्यंति यस्मिन्पापे पिशाचक ।

तत्सर्वं नर्मदातोये स्नानमात्रेण नश्यति १७।

ज्ञानकृन्नर्म्मदास्नानमतो मोक्षफला हि सा ।

हिमवत्पुण्यतीर्थानि सर्वपापहराणि वै १८।

इंद्रलोकप्रदं हीदं निर्मितं ब्रह्मवादिभिः ।

सर्वकामफला रेवा मोक्षदा परिकीर्तिता १९।

पापघ्नी पापहारिणी सर्वकामफलप्रदा ।

विष्णुलोकदआप्लावो नार्मदः पापनाशनः २०।

यामुनः सूर्यलोकाय भवेदाप्लाव उत्तमः ।

सारस्वतोघविध्वंसी ब्रह्मलोकफलप्रदः २१।

विशालफलदा प्रोक्ता विशाला हि पिशाचक ।

पापेंधनदवाग्निस्तु गर्भहेतुक्रियापहः २२।

विष्णुलोकाय मोक्षाय नार्मदः परिकीर्तितः ।

सरयूगंडकीसिंधुश्चंद्रभागा च कौशिकी २३।

तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका ।

कावेरी तुंगभद्रा च अन्याश्चापि समुद्रगाः २४।

तासु रेवा परा प्रोक्ता विष्णुलोकप्रदायिनी ।

रेवा तु प्राप्यते पुण्यैः पूर्वजन्मकृतैर्द्विज ।

अपुनर्भवदं तत्र मज्जनं मुनिपुत्रक २५।

गायंति देवाः सततं दिविष्ठा रेवा कदा दृष्टिगता हि नो भवेत् ।

स्नाता नरा यत्र न गर्भवेदनां पश्यंति तिष्ठंति च विष्णुसन्निधौ २६।

मज्जंति ये प्रत्यहमत्र मानवा रेवासुतो ये बहुपापकंचुकाः ।

मज्जंति ते नो निरयेषु धर्म्मतः स्वर्गे तु ते चारुचरंति देववत् २७।

तीव्रैर्व्रतैर्दानतपोभिरध्वरैः सार्धं विधात्रा तुलया धृता पुरा ।

रेवापिशाचाशु तयोर्द्वयोरभूद्रेवा वरा तत्र च मोक्षसाधिका २८।

नारद उवाच-

एतच्छ्रुत्वा वचस्तस्य लोमशस्य पिशाचकाः ।

तेन सार्द्धं ययुः शीघ्रं रेवामज्जनहेतवे २९।

ततो दैवात्समुत्पन्नो रेवारोधसि मारुतः ।

तेषां प्रवाहस्पृष्टानां गात्रे जलकणप्रदः ३०।

रेवाजलकणस्पर्शात्पैशाच्यात्ते विमोचिताः ।

तत्क्षणाद्दिव्यवपुषः प्रशशंसुश्च नर्मदाम् ३१।

ततो लोमशवाक्येन ताश्च गंधर्वकन्यकाः ।

परिणीताः सुखं तेन विप्रेण नर्मदातटे ३२।

उवास सुचिरं कालं स्नानपानावगाहनैः ।

अर्चित्वा नर्मदामत्र विष्णुलोकं गताश्च ते ३३।

एवं ते कथितो राजन्नर्मदागुणसंश्रयः ।

इतिहासो महापुण्यः श्रवणात्पापनाशनः ३४।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे त्रयोविंशोऽध्यायः २३ ।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 24

युधिष्ठिर उवाच-।

अथान्यानि तु तीर्थानि वसिष्ठोक्तानि मे वद ।

श्रुत्वा यानि च पापानि विलयं यांति नारद १।

नारद उवाच-।

शृणुष्वात्र हि तीर्थानि वसिष्ठोक्तानि पार्थिव ।

दक्षिणं सिंधुमासाद्य ब्रह्मचारी जितेंद्रियः २।

अग्निष्टोममवाप्नोति विमानं चाधिरोहति ।

चर्मण्वतीं समासाद्य नियतो नियताशनः ३।

रंतिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् ।

ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम् ४।

पृथिव्या यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर ।

तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतं ५।

तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ।

पिंगातीर्थमुपस्पृश्य ब्रह्मचारी नराधिप ६।

कपिलानां नरव्याघ्र शतस्य फलमाप्नुयात् ।

ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् ७।

यत्र सन्निहितो नित्यं स्वयमेव हुताशनः ।

देवतानां मुखं वीर अनलोऽनिलसारथिः ८।

तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः ।

अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ९।

ततो गत्वा सरस्वत्याः सागरस्य च संगमम् ।

गोसहस्रफलं प्राप्य स्वर्गलोके महीयते १०।

दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ ।

तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ११।

त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः ।

विराजति यथा सोमो वाजिमेधं च विंदति १२।

वरदानं ततो गच्छेत्तीर्थं भरतसत्तम ।

विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर १३।

वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् ।

ततो द्वारवतीं गच्छेन्नियतो नियताशनः १४।

पिंडारके नरः स्नात्वा लभेद्बहुसुवर्णकम् १५।

तस्मिंस्तीर्थे महाराज पद्मलक्षणलक्षिताः ।

अद्यापि मुद्रा दृश्यंते तदद्भुतमरिंदम १६।

त्रिशूलांकानि पद्मानि दृश्यंते कुरुनंदन ।

महादेवस्य सान्निध्यं तत्रैव भरतर्षभ १७।

सागरस्य च सिंधोश्च संगमं प्राप्य भारत ।

तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः १८।

तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ ।

प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा १९।

शंकुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर ।

अश्वमेधं दशगुणं प्रवदंति मनीषिणः २०।

प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ।

तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् २१।

तिमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् ।

यत्र शक्रादयो देवा उपासंते महेश्वरम् २२।

तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम् ।

जन्मप्रभृति पापानि कृतानि नुदते नरः २३।

तिमिरत्र नरश्रेष्ठ सर्वदेवैरभिष्टुतः ।

तत्र स्नात्वा नरश्रेष्ठ हयमेधमवाप्नुयात् २४।

जित्वा तत्र महाप्राज्ञ विष्णुना दितिनंदनम् ।

पुरा शौचं कृतं राजन्हत्वा दैवतकंटकान् २५।

thumb|400px|वसुधारा, स्वयम्भु

ततो गच्छेत धर्मज्ञ वसुधारामभिष्टुताम् ।

गमनादेव तस्यां हि हयमेधमवाप्नुयात् २६।

स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः ।

तर्पयित्वा पितॄन्देवान्विष्णुलोके महीयते २७।

तीर्थं चापि परं तत्र वसूनां भरतर्षभ ।

तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् २८।

सिंधुतममिति ख्यातं सर्वपापप्रणाशनम् ।

तत्र स्नात्वा नरश्रेष्ठ लभेद्बहुसुवर्णकम् २९।

ब्रह्मतुंगं समासाद्य शुचिः प्रयतमानसः ।

ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः ३०।

कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् ।

तत्र स्नात्वा नरश्रेष्ठ शक्रलोकमवाप्नुयात् ३१।

रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम् ।

स्नात्वा तत्र भवेद्विप्रो विमलश्चंद्रमा इव ३२।

अथ पंचनदं गत्वा नियतो नियताशनः ।

पंचयज्ञानवाप्नोति क्रमशो ये तु कीर्तिताः ३३।

ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम् ।

तत्र स्नात्वा न योन्यां वै नरो भरतसत्तम ३४।

देव्याः पुत्रो भवेद्राजन्तत्र कुंडलविग्रहः ।

गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् ३५।

गिरिकुंजं समासाद्य त्रिषु लोकेषु विश्रुतम् ।

पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ३६।

ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् ।

अद्यापि यत्र दृश्यंते मत्स्याः सौवर्णराजताः ३७।

तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात् ।

सर्वपापविशुद्धात्मा गच्छेत्परमिकां गतिम् ३८।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुर्विंशोऽध्यायः २४

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 25

नारदउवाच-।

वितस्तां च समासाद्य संतर्प्य पितृदेवताः ।

नरः फलमवाप्नोति वाजपेयस्य भारत १।

काश्मीरेष्वेव नागस्य भवनं तक्षकस्य च ।

वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम् २।

तत्र स्नात्वा नरो नूनं वाजपेयमवाप्नुयात् ।

सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ३।

ततो गच्छेत मलदं त्रिषु लोकेषु विश्रुतम् ।

पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि ४।

चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेत् ।

पितॄणामक्षयं दानं प्रवदंति मनीषिणः ५।

गवांशतसहस्रेण राजसूयशतेन च ।

अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः ६।

ततो निवृत्तो राजेंद्र रुद्रास्पदमथाविशेत् ।

अभिगम्य महादेवमश्वमेधफलं लभेत् ७।

मणिमंतं समासाद्य ब्रह्मचारी समाहितः ।

एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् ८।

अथ गच्छेत राजेंद्र देविकां लोकविश्रुताम् ।

प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ९।

त्रिशूलपाणेः स्थानं यत्त्रिषुलोकेषु विश्रुतम् ।

देविकायां नरः स्नात्वा अभ्यर्च्य च महेश्वरम् १०।

यथाशक्ति नरस्तत्र निवेद्य भरतर्षभ ।

सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ११।

कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसंमतम् ।

तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत १२।

यजनं याजनं गत्वा तथैव ब्रह्मवालकम् ।

पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः १३।

अर्द्धयोजनविस्तारां पंचयोजनमायताम् ।

एतावद्देविकामाहुः पुण्यां देवर्षिसंमताम् १४।

ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् ।

यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः १५।

दीर्घसत्रमुपासंते दीक्षिता नियतव्रताः ।

गमनादेव राजेंद्र दीर्घसत्रमरिंदम १६।

राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ।

ततो विनाशनं गच्छेन्नियतो नियताशनः १७।

गच्छंत्यंतर्हिता यत्र मेरुपृष्ठे सरस्वती ।

चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते १८।

स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत् ।

शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् १९।

नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् ।

शशयानं च राजेंद्र तीर्थमासाद्य दुर्लभम् २०।

शशरूपप्रतिच्छन्ना पुष्करा यत्र भारत ।

सरस्वत्यां महाभाग अनुसंवत्सरंहिते २१।

स्नायंते भरतश्रेष्ठ वृत्ता वै कार्त्तिकीं सदा ।

तत्र स्नात्वा नरव्याघ्र द्योतते शिववत्सदा २२।

गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ ।

कुमारकोटिमासाद्य नियतः कुरुनंदन २३।

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।

गवामयुतमाप्नोति कुलं चैव समुद्धरेत् २४।

ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहिताः ।

पुरा यत्र महाराज ऋषिकोटिः समाहिता २५।

वर्षेण च समाविष्टा देवदर्शनकांक्षया ।

अहंपूर्वमहंपूर्वं द्रक्ष्यामि वृषभध्वजम् २६।

एवं संप्रस्थिता राजनृषयः किलभारत ।

ततो योगीश्वरेणापि योगमास्थाय भूपते २७।

तेषां मन्युप्रशांत्यर्थमृषीणां भावितात्मनाम् ।

सृष्टा तु कोटिरुद्राणामृषीणामग्रतः स्थिता २८।

मया पूर्वं हरो दृष्टो इति ते मेनिरे पृथक् ।

तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम् २९।

भक्त्या परमया राजन्वरं तेषां प्रदत्तवान् ।

अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ३०।

तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः ।

अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ३१।

ततो गच्छेत राजेंद्र संगमं लोकविश्रुतम् ।

सरस्वत्यां महापुण्यमुपासीत जनार्दनम् ३२।

यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ।

अभिगच्छंति राजेंद्र चैत्रशुक्लचतुर्दशीम् ३३।

तत्र स्नात्वा नरव्याघ्र विंदेद्बहुसुवर्णकम् ।

सर्वपापविशुद्धात्मा शिवलोकं च गच्छति ३४।

ऋषीणां यत्र सत्राणि समाप्तानि नराधिप ।

तत्रावसानमासाद्य गोसहस्रफलं लभेत् ३५।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे पंचविंशोऽध्यायः २५

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 26

नारदउवाच-।

ततो गच्छेत राजेंद्र कुरुक्षेत्रमभिष्टुतम् ।

पापेभ्यो विप्रमुच्यंते तद्गताः सर्वजंतवः १।

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।

य एवं सततं ब्रूयात्सर्वपापैः प्रमुच्यते २।

तत्र मासं वसेद्धीरः सरस्वत्यां नराधिप ।

यत्र ब्रह्मादयो देवा यत्र ब्रह्मर्षिचारणाः ३।

गंधर्वाप्सरसो यक्षाः पन्नगाश्च महीपते ।

ब्रह्मक्षेत्रं महापुण्यमभिगच्छंति भारत ४।

मनसाप्यभिकामस्य कुरुक्षेत्रे युधिष्ठिर ।

पापानि विप्रणश्यंति ब्रह्मलोकं च गच्छति ५।

गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह ।

वाजपेयाश्वमेध्याभ्यां फलं प्राप्नोति मानवः ६।

ततो मत्तर्णकं राजन्द्वारपालं महाबलम् ।

यं वै समभिवाद्यैव गोसहस्रफलं लभेत् ७।

ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम् ।

सततं नाम राजेंद्र यत्र सन्निहितो हरिः ८।

तत्र स्नात्वा च दृष्ट्वा च त्रिलोकप्रभवं हरिम् ।

अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ९।

ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ।

अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः १०।

पृथिव्यां तीर्थमासाद्य गोसहस्रफलं लभेत् ।

ततः शाल्विकिनीं गत्वा तीर्थसेवी नराधिप ११।

दशाश्वमेधिके स्नात्वा तदेव लभते फलम् ।

सर्पनीविं समासाद्य नागानां तीर्थमुत्तमम् १२।

अग्निष्टोममवाप्नोति नागलोकं च गच्छति ।

ततो गच्छेत धर्मज्ञ द्वारपालमतर्णकम् १३।

तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ।

ततःपंचनदंगत्वानियतोनियताशनः १४।

कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ।

अश्विनीतीर्थमागम्य रूपवानभिजायते १५।

ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् ।

विष्णुर्वाराहरूपेण पुरा यत्र स्थितोऽभवत् १६।

तत्र स्थित्वा नरव्याघ्र अग्निष्टोमफलं लभेत् ।

ततो जयिन्यां राजेंद्र सोमतीर्थं समाविशेत् १७।

स्नात्वा फलमवाप्नोति राजसूयस्य मानवः ।

एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् १८।

कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह ।

पुंडरीकमवाप्नोति कृतशौचो भवेच्च सः १९।

ततो मुंजावटं नाम महादेवस्य धीमतः ।

तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात् २०।

तत्रैव च महाराज जयां लोकपरिश्रुताम् ।

स्नात्वाभिगम्य राजेंद्र सर्वकाममवाप्नुयात् २१।

कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ ।

प्रदक्षिणमुपावृत्य तीर्थसेवी समावृतः २२।

संस्मृते पुष्कराणां तु स्नात्वार्च्य पितृदेवताः ।

जामदग्न्येन रामेण आहूते वै महात्मना २३।

कृतकृत्यो भवेद्राजन्नश्वमेधं च विंदति ।

ततो रामह्रदं गच्छेत्तीर्थसेवी नराधिप २४।

यत्र रामेण राजेंद्र तरसा दीप्ततेजसा ।

क्षत्रमुत्सार्य वीर्येण ह्रदाः पंच निषेविताः ।

पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् २५।

पितरस्तर्पिताः सर्वे तथैव प्रपितामहाः ।

ततस्ते पितरः प्रीताः राममूचुर्महीपते २६।

रामराम महाभाग प्रीताः स्म तव भार्गव ।

अनया पितृभक्त्या च विक्रमेण च तेऽनघ २७।

वरं वृणीष्व भद्रं ते किमिच्छसि महामते ।

एवमुक्तः स राजेंद्र रामः प्रवदतां वरः २८।

अब्रवीत्प्रांजलिर्वाक्यं पितॄन्स गगने स्थितान् ।

भवंतो यदि मे प्रीता यद्यनुग्राह्यता मयि २९।

पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः ।

यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया ३०।

ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् ।

ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ३१।

एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा ।

प्रत्यूचुः परमप्रीता रामं तोषसमन्विताः ३२।

तपस्ते वर्द्धतां भूयः पितृभक्त्या विशेषतः ।

यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया ३३।

ततश्च पापान्मुक्तस्त्वं निहतास्ते स्वकर्म्मणा ।

ह्रदाश्च तव तीर्थत्वं गमिष्यंति न संशयः ३४।

ह्रदेष्वेतेषु यः स्नात्वा पितॄन्संतर्पयिष्यति ।

पितरस्तस्य वै प्रीता दास्यंति भुवि दुर्ल्लभम् ३५।

ईप्सितं मनसः कामं स्वर्गलोकं सशाश्वतम् ।

एवं दत्त्वा वरं राजन्रामस्य पितरस्तदा ।

आमंत्र्य भार्गवं प्रीतास्तत्रैवांतर्दधुस्ततः ३६।

एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः ।

स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः ३७।

राममभ्यर्च्य राजेंद्र लभेद्बहुसुवर्णकम् ।

वंशमूलं समासाद्य तीर्थसेवी कुरूद्वह ३८।

स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके ।

कायशोधनमासाद्य तीर्थं भरतसत्तम ३९।

शरीरशुद्धिमाप्नोति स्नातस्तस्मिन्न संशयः ।

शुद्धदेहस्तु संयाति शुभाँल्लोकाननुत्तमान् ४०।

ततो गच्छेत राजेंद्र तीर्थं त्रैलोक्यदुर्लभम् ।

लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ४१।

लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् ।

स्नात्वा तीर्थवरे राजन्लोकानुद्धरते स्वकान् ४२।

श्रीतीर्थं च समासाद्य विंदते श्रियमुत्तमाम् ।

कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः ४३।

तत्र स्नात्वार्चयित्वा च देवानिह पितॄंस्तथा ।

कपिलानां सहस्रस्य फलं विंदति मानवः ४४।

सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः ।

अर्चयित्वा पितॄन्देवानुपवासपरायणः ४५।

अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ।

गवांभवनमासाद्य तीर्थसेवी यथाक्रमम् ४६।

तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ।

गंगातीर्थं समासाद्य तीर्थसेवी नराधिप ४७।

केव्यास्तीर्थे नरः स्नात्वा लभते वीर्यमुत्तमम् (केव्या पाठभेदाः – कन्या, कोट्या, कोत्या, कोन्या)।

ततो गच्छेत राजेंद्र द्वारपालं लवर्णकम् ४८।

तस्य तीर्थे सरस्वत्यां यथेंद्रस्य महात्मनः ।

तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ४९।

ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप ।

ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ५०।

ततो गच्छेत धर्मज्ञ सुतीर्थकमनुत्तमम् ।

यत्र सन्निहिता नित्यं पितरो दैवतैः सह ५१।

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।

अश्वमेधमवाप्नोति पितृलोकं च गच्छति ५२।

ततोऽन्यतीर्थं धर्मज्ञ समासाद्य यथाक्रमम् ।

काशीश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम ५३।

सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ।

मातृतीर्थं च तत्रैव यत्र स्नातस्य पार्थिव ५४।

प्रजा विवर्द्धते राजन्स्वर्गतिं समवाप्नुयात् ।

ततः शीतवनं गच्छेन्नियतो नियताशनः ५५।

तीर्थं तत्र महाराज महदन्यत्र दुर्लभम् ।

पुनाति दर्शनादेव दंडेनैकं नराधिप ५६।

केशानावप्य वै तस्मिन्पूतो भवति भारत ।

तत्र तीर्थवरं चान्यत्स्नात लोकार्तिहं स्मृतम् ५७।

तत्र विप्रा नरव्याघ्र विद्वांसस्तत्र तत्पराः ।

गतिं गच्छंति परमां स्नात्वा भरतसत्तम ५८।

स्वर्णलोमापनयने तीर्थे भरतसत्तम ।

प्राणायामैर्निर्हरंति स्वलोमानि द्विजोत्तमाः ५९।

पूतात्मानश्च राजेन्द्र प्रयांति परमां गतिम् ।

दशाश्वमेधिके चैव तस्मिंस्तीर्थे महीपते ६०।

तत्र स्नात्वा नरव्याघ्र गच्छंति परमां गतिम् ।

ततो गच्छेत राजेंद्र मानुषं लोकविश्रुतम् ६१।

तत्र कृष्णामृगा राजन्व्याधेन शरपीडिताः ।

विगाह्य तस्मिन्सरसि मानुषत्वमुपागताः ६२।

तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी समाहितः ।

सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ६३।

मानुषस्य तु पूर्वेण क्रोशमात्रं महीपते ।

आपगा नाम विख्याता नदी सिद्धनिषेविता ६४।

श्यामाक भोजनं तत्र यः प्रयच्छति मानवः ।

देवान्पितॄन्समुद्दिश्य तस्य धर्मफलं महत् ६५।

एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ।

तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा ६६।

उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् ।

ततो गच्छेत धर्म्मज्ञ ब्रह्मणः स्थानमुत्तमम् ६७।

ब्रह्मानुस्वरमित्येवं प्रकाशं भुवि भारत ।

तत्र सप्तर्षिकुंडेषु स्नातस्य भरतर्षभ ६८।

केदारे चैव राजेंद्र कपिलस्य महात्मनः ।

ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः ६९।

सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ।

कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् ७०।

अंतर्धानमवाप्नोति तपसा दग्धकिल्बिषः ।

ततो गच्छेत राजेंद्र सर्वकं लोकविश्रुतम् ७१।

कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजं ।

लभते सर्वकामान्हि स्वर्गलोकं च गच्छति ।

तिस्रःकोट्यश्च तीर्थानां प्रवरं कुरुनंदन ७२।

रुद्रकोटी तथा कूपे ह्रदेषु च समंतकः ।

इलास्पदं च तत्रैव तीर्थं भरतसत्तम ७३।

तत्र स्नात्वार्चयित्वा च दैवतानि पितॄनपि ।

न दुर्गतिमवाप्नोति वाजपेयं च विंदति ७४।

किंदाने च नरः स्नात्वा किंजपे च महीपते ।

अप्रमेयमवाप्नोति दानं यज्ञं तथैव च ।

कलश्यां वार्य्युपस्पृश्य श्रद्दधानो जितेंद्रियः ७५।

अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ।

सरकस्य तु पूर्वेण नारदस्य महात्मनः ७६।

कुरुश्रेष्ठ शुभं तीर्थं रामजन्मेति विश्रुतम् ।

तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत ७७।

नारदेनाभ्यनुज्ञातो लोकानाप्नोति दुर्ल्लभान् ।

शुक्लपक्षे दशम्यां तु पुंडरीकं समाविशेत् ७८।

तत्र स्नात्वा नरो राजन्पुंडरीकफलं लभेत् ।

ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम् ७९।

तत्र वैतरणी पुण्या नदी पापप्रमोचनी ।

तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् ८०।

सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ।

ततो गच्छेत राजेंद्र फलकीवनमुत्तमम् ८१।

तत्र देवाः सदा राजन्फलकीवनमाश्रिताः ।

तपश्चरंति विपुलं बहुवर्षसहस्रकम् ८२।

दृषत्पाने नरः स्नात्वा तर्पयित्वा च देवताः ।

अग्निष्टोमातिरात्राभ्यां फलं विंदति मानवः ८३।

तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम ।

गोसहस्रस्य राजेंद्र फलमाप्नोति मानवः ८४।

पाणिख्याते नरः स्नात्वा तर्पयित्वा च देवताः ।

अवाप्नुते राजसूयमृषिलोकं च गच्छति ८५।

ततो गच्छेत धर्मज्ञ मिश्रकं लोकविश्रुतम् ।

तत्र तीर्थानि राजेंद्र मिश्रितानि महात्मना ८६।

व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् ।

सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ८७।

ततो व्यासवनं गच्छेन्नियतो नियताशनः ।

मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ८८।

गत्वा मधुवनीं चापि देव्याः स्थानं नरः शुचिः ।

तत्र स्नात्वार्चयेद्देवान्पितॄंश्च नियतः शुचिः ८९।

सदेव्या समनुज्ञातो गोसहस्रफलं लभेत् ।

कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत ९०।

स्नातो वै नियताहारः सर्वपापैः प्रमुच्यते ।

ततो व्यासस्थली नाम यत्र व्यासेन धीमता ९१।

पुत्रशोकाभितप्तेन देहत्यागाय निश्चयः ।

कृतो देवैश्च राजेंद्र पुनरुत्थापितस्तथा ९२।

अभिगम्य स्थलद्यं तस्य गोसहस्रफलं लभेत् ।

ऋणांतं कूपमासाद्य तिलप्रस्थं प्रदाय च ९३।

गच्छेत परमां सिद्धिमृणैर्मुक्तो नरेश्वर ।

वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ९४।

अहश्च सुदिनश्चैव द्वे तीर्थे नृप दुर्लभे ।

तयोः स्नात्वा नरः श्रेष्ठ सूर्यलोकमवाप्नुयात् ९५।

मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् ।

तत्र रुद्रपदे स्नात्वा समभ्यर्च्य च मानवः ९६।

शूलपाणिं महात्मानमश्वमेधफलं लभेत् ।

कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ९७।

अथ वामनकं गत्वा त्रिषु लोकेषु विश्रुतम् ।

तत्र विष्णुपदे स्नात्वा समभ्यर्च्य च वामनम् ९८।

सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् ।

कुलंपुने नरः स्नात्वा पुनाति स्वकुलं नरः ९९।

पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् ।

तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते १००।

अमराणां ह्रदे स्नात्वा समभ्यर्च्यामराधिपम् ।

अमराणां प्रभावेण स्वर्गलोके महीयते १०१।

शालिहोत्रस्य राजेंद्र शालिसूर्ये यथाविधि ।

स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् १०२।

श्रीकुंजं च सरस्वत्यां तीर्थं भरतसत्तम ।

तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् १०३।

ततो नैमिषिकुंजं च समासाद्य सुदुर्लभम् ।

ऋषयः किल राजेंद्र नैमिषेयास्तपोधनाः १०४।

तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रे गताः पुरा ।

ततः कुंजः सरस्वत्यां कृतो भरतसत्तम १०५।

ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् ।

तस्मिन्कुंजे नरः स्नात्वा गोसहस्रफलं लभेत् १०६।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे षड्विंशोऽध्यायः २६ ।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 27

नारद उवाच-।

ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम् ।

कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् १।

ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् ।

तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः २।

ब्राह्मणस्तु विशुद्धात्मा गच्छेत परमां गतिम् ।

ततो गच्छेन्नरव्याघ्र सोमतीर्थमनुत्तमम् ३।

तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् ।

सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप ४।

यत्र मंकणकः सिद्धो ब्रह्मर्षिर्लोकविश्रुतः ।

पुरा मंकणको राजन्कुशाग्रेणेति विश्रुतम् ५।

क्षतः किल करे राजन्तस्य शाकरसोऽस्रवत् ।

स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः ६।

ननर्त किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः ।

ततस्तस्मिन्प्रनृत्ते वै स्थावरं जंगमं च यत् ७।

प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ।

ब्रह्मादिभिस्ततो देवैर्ऋषिभिश्च तपोधनैः ८।

विज्ञप्तो वै ऋषेरर्थे महादेवो नराधिप ।

नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ९।

ततो देवो मुनिं दृष्ट्वा हर्षाविष्टेन चेतसा ।

नृत्यंतमब्रवीच्चैनं स्थिराणां हितकाम्यया १०।

अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् ।

हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव ११।

ऋषिरुवाच-।

तपस्विनो धर्म्मपथस्थितस्य द्विजसत्तम ।

किं न पश्यसि मे ब्रह्मन्क्षताच्छाकरसं सृतम् १२।

यं दृष्ट्वा संप्रनृत्तोऽहं हर्षेण महता वृतः ।

तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम् १३।

अहं तु विस्मयं विप्र न गच्छामीह पश्य माम् ।

एवमुक्त्वा नरश्रेष्ठ महादेवेन वै तदा १४।

अंगुल्यग्रेण राजेंद्र स्वांगुष्ठस्ताडितोऽनघ ।

तस्य भस्मक्षताद्राजन्निःसृतं हिमसंनिभम् १५।

यं दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ।

नान्यं देवादहं मन्ये रुद्रात्परतरं महत् १६।

सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ।

त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् १७।

त्वामेव भगवन्सर्वे प्रविशंति युगक्षये ।

देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया १८।

त्वयि सर्वेश दृश्यंते सुराः शक्रादयोऽनघ ।

सर्वस्त्वमसि लोकानां कर्ता कारयितान्वहम् १९।

त्वत्प्रसादात्सुराः सर्वे मोदंतीहाकुतोभयाः ।

एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत् २०।

त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै ।

ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् २१।

तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा ।

आश्रमे चेह वत्स्यामि त्वया सार्द्धं महामुने २२।

सप्तसारस्वते स्नात्वा अर्चयिष्यंति ये तु माम् ।

न तेषां दुर्लभं किंचिदिह लोके परत्र वा २३।

गच्छेत्सारस्वतं चापि लोकं नास्त्यत्र संशयः ।

एवमुक्त्वा महादेवस्तत्रैवांतरधीयत २४।

ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् ।

यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः २५।

कार्तिकेयश्च भगवांस्त्रिसंध्यां किल भारत ।

सान्निध्यमकरोत्तत्र भार्गवप्रियकाम्यया २६।

कपालमोचनं तीर्थं सर्वपापप्रणाशनम् ।

तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते २७।

अग्नितीर्थं ततो गच्छेत्स्नात्वा च भरतर्षभ ।

अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् २८।

विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम ।

तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते २९।

ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः ।

तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ३०।

पुनात्या सप्तमं चैव कुलं नास्त्यत्र संशयः ।

ततो गच्छेत राजेंद्र तीर्थं त्रैलोक्यविश्रुतम् ३१।

पृथूदकमिति ख्यातं कार्तिकेयस्य व्नृप ।

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ३२।

अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा ।

यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना ३३।

तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत ।

अश्वमेधफलं चापि लभते स्वर्गमेव च ३४।

पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् ।

सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ३५।

उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् ।

पृथूदके जप्यपरो नैव संसरणं लभेत् ३६।

गीतं सनत्कुमारेण व्यासेन च महात्मना ।

वेदे च नियतं राजन्नभिगच्छेत्पृथूदकम् ३७।

पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम ।

एतन्मेध्यं पवित्रं च पावनं च न संशयः ३८।

तत्र स्नात्वा दिवं यांति अपि पापकृतो जनाः ।

पृथूदके नरश्रेष्ठमाहुरेवं मनीषिणः ३९।

मधुस्रवं च तत्रैव तीर्थं भरतसत्तम ।

तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ४०।

ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् ।

सरस्वत्यारुणायाश्च संगमं लोकविश्रुतम् ४१।

त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया ।

अग्निष्टोमातिरात्राभ्यां फलं चैव समश्नुते ४२।

पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ।

अवकीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ४३।

विप्राणामनुकंपार्थं दर्भिणा निर्मितं पुरा ।

व्रतोपनयनाभ्यां चाप्युपवासेन वा द्विजः ४४।

क्रियामंत्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः ।

क्रियामंत्रविहीनोऽपि तत्र स्नात्वा नरर्षभ ४५।

चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातनम् ।

समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा ४६।

तत्र स्नात्वा नरव्याघ्र न दुर्गतिमवाप्नुयात् ।

फलानि गोसहस्राणां चतुर्णां विंदते च सः ४७।

ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् ।

साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ४८।

उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत् ।

दानं वाप्युपवासो वा सहस्रगुणितो भवेत् ४९।

ततो गच्छेत राजेंद्र रेणुकातीर्थमुत्तमम् ।

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ५०।

सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ।

विमोचन उपस्पृश्य जितमन्युर्जितेंद्रियः ५१।

प्रतिग्रहकृतैः पापैः सर्वैः संपरिमुच्यते ।

ततः पंचवटं गत्वा ब्रह्मचारी जितेंद्रियः ५२।

पुण्येन महता युक्तः स्वर्गलोके महीयते ।

यत्र योगीश्वरः स्थाणुः स्वयमेव वृषध्वजः ५३।

तमर्चयित्वा देवेशं गमनादेव सिध्यति ।

तैजसं वारुणं तीर्थं दीप्यते स्वेन तेजसा ५४।

यत्र ब्रह्मादिभिर्देवैर्ऋषिभिश्च तपोधनैः ।

सैनापत्ये च देवानामभिषिक्तो गुहस्तदा ५५।

तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह ।

कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेंद्रियः ५६।

सर्वपापविशुद्धात्मा रुद्रलोकं प्रपद्यते ।

स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः ५७।

अग्निष्टोममवाप्नोति ब्रह्मलोकं च गच्छति ।

ततो गच्छेदनरकं तीर्थसेवी नराधिप ५८।

तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ।

तत्र ब्रह्मा स्वयं नित्यं देवैस्सह महीयते ५९।

अध्यास्ते पुरुषव्याघ्र नारायणपरागमैः ।

सान्निध्यं चैव राजेंद्र रुद्रवेद्यां कुरुद्वह ६०।

अभिगम्य तु तां देवीं न दुर्गतिमवाप्नुयात् ।

तत्रैव च महाराज विश्वेश्वरमुमापतिम् ६१।

अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः ।

नारायणं चाभिगम्य पद्मनाभमरिंदम ६२।

शोभमानो महाराज विष्णुलोकं प्रपद्यते ।

तीर्थेषु सर्वदेवानां स्नातमात्रो नराधिप ६३।

सर्वदुःखपरित्यक्तो द्योतते शिववत्सदा ।

ततस्त्वस्थिपुरं गच्छेत्तीर्थसेवी नराधिप ६४।

पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः ।

अग्निष्टोमस्य यज्ञस्य फलमाप्नोति भारत ६५।

गंगाह्रदश्च तत्रैव कूपश्च भरतर्षभ ।

तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीयते ६६।

तत्र स्नात्वा नरो राजन्ब्रह्मलोके प्रपद्यते ।

आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ६७।

गतिं परामवाप्नोति कुलं चैव समुद्धरेत् ।

ततः स्थाणुवटं गछेत्त्रिषुलोकेषु विश्रुतम् ६८।

तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् ।

बदरीणां वनं गच्छेद्वसिष्ठस्याश्रमं ततः ६९।

बदरी भक्ष्यते यत्र त्रिरात्रोपोषितो नरः ।

सम्यग्द्वादशवर्षाणि बदरीं भक्षयेत्तु यः ७०।

त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप ।

इंद्रमार्गं समासाद्य तीर्थसेवी नराधिप ७१।

अहोरात्रोपवासेन स्वर्गलोके महीयते ।

एकरात्रं समासाद्य एकरात्रोषितो नरः ७२।

नियतः सत्यवादी च ब्रह्मलोके महीयते ।

तथा गछेच्च राजेंद्र तीर्थं त्रैलोक्यविश्रुतम् ७३।

आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः ।

तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् ७४।

आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ।

सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह ७५।

सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः ।

ततो गच्छेत धर्मज्ञ दधीचस्य नराधिप ७६।

तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् ।

यत्र सारस्वतो यातः सिद्धिं स तपसोनिधिः ७७।

तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ।

सारस्वतीं मतिं चैव लभते नात्र संशयः ७८।

ततः कन्याश्रमं गत्वा नियतो ब्रह्मचर्यया ।

त्रिरात्रमुषितो राजन्नुपवासपरायणः ७९।

लभेत्कन्याशतं दिव्यं बह्मलोकं च गच्छति ।

ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि ८०।

यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।

मासि मासि समेष्यंति पुण्येन महतान्विताः ८१।

सन्निहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे ।

अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ८२।

पृथिव्यां यानि तीर्थानि अंतरिक्षचराणि च ।

उदपानाश्च विप्राश्च पुण्यान्यायतनानि च ८३।

निःसंशयममावास्यां समेष्यंति नराधिप ।

मासिमासि नरव्याघ्र सन्निहित्यां जनेश्वर ८४।

तीर्थसन्नयनादेव सन्निहिती भुवि विश्रुता ।

तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते ८५।

अमावास्यां तथा चैव राहुग्रस्ते दिवाकरे ।

यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु ८६।

अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम् ।

स्नात एव तदाप्नोति श्राद्धं कृत्वा च मानवः ८७।

यत्किंचिद्दुष्कृतं कर्म्म स्त्रिया वा पुरुषस्य वा ।

स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः ८८।

पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति ।

अभिवाद्य ततो नाम्ना द्वारपालं मचक्रुकम् ८९।

गंगाह्रदश्च तत्रैव तीर्थं भरतसत्तम ।

तत्र स्नायीत धर्मज्ञ ब्रह्मचारी समाहितः ९०।

राजसूयाश्वमेधाभ्यां फलं विंदति मानवः ।

पृथिव्यां नैमिषं पुण्यमंतरिक्षे च पुष्करम् ९१।

त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ।

पांसवोऽपि कुरुक्षेत्रे वायुनाति समीरिताः ९२।

अपि दुष्कृतकर्म्माणं नयंति परमां गतिम् ।

दक्षिणेन सरस्वत्यामुत्तरेण सरस्वतीम् ९३।

ये वसंति कुरुक्षेत्रे ते वसंति त्रिविष्टपे ।

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ९४।

अप्येकां वाचमुत्मृज्य स्वर्गलोके महीयते ।

ब्रह्मवेद्यां कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् ९५।

तस्मिन्वसंति ये राजन्न ते शोच्याः कथंचन ।

तरंडकारंडकयोर्यदंतरं रामह्रदानां च मचक्रुकस्य च ।

एतत्कुरुक्षेत्र समंतपंचकं पितामहस्योत्तर वेदिरुच्यते ९६।

इति श्रीपाद्मेमहापुराणे स्वर्गखंडे सप्तविंशोऽध्यायः २७ ।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 28

नारद उवाच-।

ततो गच्छेत धर्म्मज्ञ धर्म्मतीर्थं पुरातनम् ।

यत्र धर्मो महाभागस्तप्तवानुत्तमं तपः १।

तेन तीर्थं कृतं पुण्यं स्वेन नाम्ना च चिह्नितम् ।

तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः २।

आसप्तमं कुलं चैव पुनीते नात्र संशयः ।

ततो गच्छेत धर्मज्ञ कलाप वनमुत्तमम् ३।

कृच्छ्रेण महता गत्वा तत्र स्नात्वा समाहितः ।

अग्निष्टोममवाप्नोति विष्णुलोकं च गच्छति ४।

सौगंधिकं वनं राजंस्ततो गच्छेत मानवः ।

यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ५।

सिद्धचारणगंधर्वाः किन्नराः स महोरगाः ।

तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ६।

ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी ।

प्लक्षादेवी स्मृता राजन्महा पुण्या सरस्वती ७।

तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले ।

अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् ८।

ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् ।

षड्गुणं यन्निपातेषु वल्मीकादिति निश्चयः ९।

कपिलानां सहस्रं च वाजिमेधं च विंदति ।

तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातनैः १०।

सुगंधां शतकुंभां च पंचयज्ञं च भारत ।

अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ११।

त्रिशूलपात्रं तत्रैव तीर्थमासाद्य दुर्लभम् ।

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः १२।

गाणपत्यं च लभते देहं त्यक्त्वा न संशयः ।

ततो राजगृहं गच्छेद्देव्याः स्थानं सुदुर्लभम् १३।

शाकंभरीति विख्याता त्रिषुलोकेषु विश्रुता ।

दिव्यं वर्षसहस्रं च शाकेन किल भारत १४।

आहारं सा कृतवती मासिमासि नराधिप ।

ऋषयोऽभ्यागतास्तत्र देव्या भक्तास्तपोधनाः १५।

आतिथ्यं च कृतं तेषां शाकेन किल भारत ।

ततः शाकंभरीत्येवं नाम तस्याः प्रतिष्ठितम् १६।

शाकंभरीं समासाद्य ब्रह्मचारी समाहितः ।

त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः १७।

शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम् ।

तत्फलं तस्य भवति देव्याश्छंदेन भारत १८।

ततो गच्छेत्सुवर्णाख्यं त्रिषुलोकेषु विश्रुतम् ।

यत्र कृष्णः प्रसादार्थं रुद्रमाराधयत्पुरा १९।

वरांश्च सुबहूँल्लेभे देवैरपि स दुर्ल्लभान् ।

उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत २०।

अपि चात्माप्रियतरो लोके कृष्ण भविष्यसि ।

त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः २१।

तत्राभिगम्य राजेंद्र पूजयित्वा वृषध्वजम् ।

अश्वमेधमवाप्नोति गाणपत्यं च विंदति २२।

धूमावतीं ततो गच्छेत्त्रिरात्रमुषितो नरः ।

मनसा प्रार्थितान्कामाँल्लभते नात्र संशयः २३।

देव्यास्तु दक्षिणार्धे नरथावर्त्तो नराधिप ।

तत्रागत्य तु धर्मज्ञ श्रद्दधानो जितेंद्रियः २४।

महादेवप्रसादेन गच्छेत परमां गतिम् ।

प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ २५।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 29

नारदउवाच-।

ततो गच्छेत राजेंद्र कालिंदीतीर्थमुत्तमम् ।

तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् १।

पुष्करे तु कुरुक्षेत्रे ब्रह्मावर्त्ते पृथूदके ।

अविमुक्ते सुवर्णाख्ये यत्फलं लभते नरः २।

तत्फलं समवाप्नोति यमुनायां नरोत्तम ।

स्वर्गभोगेतिरागो वै येषां मनसि वर्तते ३।

यमुनायां विशेषेण स्नानदानेन सत्तम ।

आयुरारोग्यसंपत्तौ रूपयौवनता गुणे ४।

येषां मनोरथस्तैस्तु न त्याज्यं यमुनाजलम् ।

ये बिभ्यति नरकादेर्दारिद्र्योऽत्र संति च ५।

सर्वथा तैः प्रयत्नेन तत्र कार्यं निमज्जनम् ।

दारिद्र्य पाप दौर्भाग्य पंक प्रक्षालनाय वै ६।

ऋते वै यामुनं तोयं न चान्योस्ति युधिष्ठिर ।

श्रद्धाहीनानि कर्माणि मतान्यर्धफलानि वै ।

फलं ददाति संपूर्णं यामुनं स्नानमात्रतः ७।

अकामो वा सकामो वा यामुने सलिले नृप ।

इहामुत्र च दुःखानि मज्जनान्नैव पश्यति ८।

पक्षद्वये यथा चंद्र क्षीःयते वर्द्धते तथा ।

पातकं नश्यते तत्र स्नानात्पुण्यं विवर्द्धते ९।

यथाब्धौ सुखमायांति रत्नानि विविधानि च ।

आयुर्वित्तं कलत्राणि संपदः संभवंति च १०।

कामधेनुर्यथा कामं चिंतामणिर्विचिंतितम् ।

ददाति यमुनास्नानं तद्वत्सर्वं मनोरथम् ११।

कृते तपः परं ज्ञानं त्रेतायां यजनं तथा ।

द्वापरे च कलौ दानं कालिंदी सर्वदा शुभा १२।

सर्वेषां सर्ववर्णानामाश्रमाणां च भूपते ।

यामुने मज्जनं धर्मं धाराभिः खलु वर्षति १३।

अस्मिन्वै भारते वर्षे कर्मभूमौ विशेषतः ।

कालिंद्यस्नायिनां नॄणां निष्फलं जन्मकीर्त्तितम् १४।

नैश्वर्यं गगने यद्वच्चांद्रे ऽमायां तु मंडले ।

तद्वन्न भाति सत्कर्म यमुनामज्जनं विना १५।

व्रतैर्दानैस्तपोभिश्च न तथा प्रीयते हरिः ।

तत्र मज्जनमात्रेण यथा प्रीणाति केशवः १६।

न समं विद्यते किंचित्तेजः सौरेण तेजसा ।

तद्वन्न यमुनास्नानं समानाः क्रतुजाः क्रियाः १७।

प्रीतये वासुदेवस्य सर्वपापापनुत्तये ।

कालिंद्या मज्जनं कुर्य्यात्स्वर्गलाभाय मानवः १८।

किं रक्षितेन देहेन सुपुष्टेन बलीयसा ।

अध्रुवेण सुदेहेन यमुना मज्जनं विना १९।

अस्थिस्तंभं स्नायुबंधं मांसक्षतज लेपनम् ।

चर्मावनद्ध दुर्गंधं पूर्णं मूत्रपुरीषयोः २०।

जराशोक विपद्व्याप्तं रोगमंदिरमातुरम् ।

रागमूलमनित्यं च सर्वदोषसमाश्रयम् २१।

परोपकारपापार्ति परद्रोहपरेर्षिकम् ।

लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणिकं तथा २२।

निष्ठुरं दुर्धरं दुष्टं दोषत्रयविदूषितम् ।

अशुचितापि दुर्गंधि तापत्रयविमोहितम् २३।

निसर्गतो ऽधर्मरतं तृष्णाशतसमाकुलम् ।

कामक्रोधमहालोभ नरकद्वारसंस्थितम् २४।

कृमिवर्चस्तु भस्मादि परिणामगुणावहम् ।

ईदृक्शरीरं व्यर्थं हि यमुनामज्जनं विना २५।

बुद्बुदा इव तोयेषु प्रत्यंडा इव पक्षिषु ।

जायंते मरणायैव यमुनास्नान वर्जिताः २६।

अवैष्णवो हतो विप्रो हतं श्राद्धमपिंडकम् ।

अब्रह्मण्यं हतं क्षत्रमनाचार हतं कुलम् २७।

सदंभश्च हतो धर्म्मः क्रोधेनैव हतं तपः ।

अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् २८।

परभक्त्या हता नारी ब्रह्मचारी स्त्रिया हतः ।

अदीप्तेऽग्नौ हतो होमो हता भक्तिः समायिका २९।

उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता ।

शूद्र भक्षो हतो योगः कृपणस्य हतं धनम् ३०।

अनभ्यासहता विद्या हतो बोधो विरोधकृत् ।

जीवितार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् ३१।

असत्या च हता वाणी तथा पैशुन्यवादिनी ।

षट्कर्णगो हतो मंत्रो व्यग्रचित्तो हतो जपः ३२।

हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः ।

अश्रद्धया हतं सर्वं यत्कृतं पारलौकिकम् ३३।

इह लोको हतो नॄणां दरिद्राणां यथा नृप ।

मनुष्याणां हतं जन्म कालिदीमज्जनं विना ३४।

उपपातक सर्वाणि पातकानि महांति च ।

भस्मी भवंति सर्वाणि यमुनामज्जनान्नृप ३५।

वेपंते सर्वपापानि यमुनायां गते नरे ।

नाशके सर्वपापानां यदि स्नास्यति वारिणि ३६।

पावका इव दीप्यंते यमुनायां नरोत्तमाः ।

विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चंद्रमाः ३७।

आर्द्र शुष्कलघुस्थूलं वाङ्मनः कर्मभिः कृतम् ।

तत्र स्नानं दहेत्पापं पावकः समिधो यथा ३८।

प्रामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यत् ।

स्नानमात्रेण नश्येत यमुनायां नृपोत्तम ३९।

निष्पापास्त्रिदिवं यांति पापिष्ठा यांति शुद्धताम् ।

संदेहो नात्र कर्तव्यः स्नाने वै यमुनाजले ४०।

सर्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ तथा नृप ।

सर्वेषां सर्वदा देवी यमुना पापनाशिका ४१।

एष एव परो मंत्र एतच्च परमं तपः ।

प्रायश्चित्तं परं चैव यमुनास्नानमुत्तमम् ४२।

नृणां जन्मांतराभ्यासात्कालिंदी मज्जने मतिः ।

अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप ४३।

संसारकर्दमालेप प्रक्षालन विशारदम् ।

पावनं पावनानां च यमुनास्नानमुत्तमम् ४४।

स्नातास्तत्र च ये राजन्सर्वकामफलप्रदे ।

शुभांश्च भुंजते भोगांश्चंद्र सूर्यग्रहोपमान् ४५।

यमुना मोक्षदा प्रोक्ता मथुरासंगता यदि ।

मथुरायां च कालिंदी पुण्याधिकविवर्द्धिनी ४६।

अन्यत्र यमुना पुण्या महापातकहारिणी ।

विष्णुभक्तिप्रदा देवी मथुरा संगता भवेत् ४७।

भक्तिभावेन संयुक्ता कालिंद्यां यदि मज्जयेत् ।

कल्पकोटिसहस्राणि वसते सन्निधौ हरेः ४८।

मुक्तिं प्रयांति मनुजाः नूनं सांख्येन वर्जिताः ।

पितरस्तस्य तृप्यंति तृप्ताः कल्पशतैर्दिवि ४९।

ये पिबंति नरा राजन्यमुनासलिलं शुभम् ।

पंचगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम् ५०।

कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् ।

तत्र दानं च होमश्च सर्वं कोटिगुणं भवेत् ५१।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे ऊनत्रिंशोऽध्यायः २९ ।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 30

नारद उवाच-।

अत्र ते वर्णयिष्यामि इतिहासं पुरातनम् ।

पुरा कृतयुगे राजन्निषधे नगरे वरे १।

आसीद्वैश्यः कुबेराभो नामतो हेमकुंडलः ।

कुलीनः सत्क्रियो देवद्विजपावकपूजकः २।

कृषिवाणिज्यकर्त्तासौ विविधक्रयविक्रयी ।

गोघोटकमहिष्यादि पशुपोषणतत्परः ३।

पयो दधीनि तक्राणि गोमयानि तृणानि च ।

काष्ठानि फलमूलानि लवणाद्रा र्!दिपिप्पली ४।

धान्यानि शाकतैलानि वस्त्राणि विविधानि च ।

धातूनिक्षुविकारांश्च विक्रीणीते स सर्वदा ५।

इत्थं नानाविधैर्वैश्य उपायैरपरैस्तथा ।

उपार्जयामास सदा अष्टौ हाटककोटयः ६।

एवं महाधनः सोथ हाकर्णपलितोभवत् ।

पश्चाद्विचार्य संसारक्षणिकत्वं स्वचेतसि ७।

तद्धनस्य षडंशेन धर्मकार्यं चकार सः ।

विष्णोरायतनं चक्रे गृहं चक्रे शिवस्य च ८।

तडागं खानयामास विपुलं सागरोपमम् ।

वाप्यश्च पुष्करिण्यश्च बहुधा तेन कारिताः ९।

वटाश्वत्थाम्रकंकोल जंबू निंबादि काननम् ।

स्वसत्वेन तदा चक्रे तथा पुष्पवनं शुभम् १०।

उदयास्तमनं यावदन्नपानं चकार सः ।

पुराद्बहिश्चतुर्दिक्षु प्रपां चक्रेऽतिशोभनाम् ११।

पुराणेषु प्रसिद्धानि यानि दानानि भूपते ।

ददौ तानि सधर्म्मात्मा नित्यं दानपरस्तदा १२।

यावज्जीवकृते पापे प्रायाश्चित्तमथाकरोत् ।

देवपूजापरो नित्यं नित्यं चातिथिपूजकः १३।

तस्येत्थं वर्त्तमानस्य संजातौ द्वौ सुतौ नृप ।

तौ सुप्रसिद्ध नामानौ श्रीकुंडल विकुंडलौ १४।

तयोर्मूर्ध्नि गृहं त्यक्त्वा जगाम तपसे वनम् ।

तत्राराध्य परं देवं गोविंदं वरदं प्रभुम् १५।

तपःक्लिष्ट शरीरोऽसौ वासुदेवमनाः सदा ।

प्राप्तः स वैष्णवं लोकं यत्र गत्वा न शोचति १६।

अथ तस्य सुतौ राजन्महामान समन्वितौ ।

तरुणौ रूपसंपन्नौ धनगर्वेण गर्वितौ १७।

दुःशीलौ व्यसनासक्तौ धर्मकर्माद्यदर्शकौ ।

न वाक्यं चागतौ मातुर्वृद्धानां वचनं तथा १८।

कुमार्गगौ दुरात्मानौ पितृमित्रनिषेधकौ ।

अधर्मनिरतौ दुष्टौ परदाराभिगामिनौ १९।

गीतवादित्रनिरतौ वीणावेणुविनोदिनौ ।

वारस्त्रीशतसंयुक्तौ गायंतौ चेरतुस्तदा २०।

चाटुकारजनैर्युक्तौ बिंबोष्ठीषु विशारदौ ।

सुवेषौ चारुवसनौ चारुचंदनरूषितौ २१।

तथा सुगंधिमालाढ्यौ कस्तूरीलक्ष्मलक्षितौ ।

नानालंकारशोभाढ्यौ मौक्तिकाहारहारिणौ २२।

गजवाजिरथौघेन क्रीडंतौ तावितस्तदा ।

मधुपानसमायुक्तौ परस्त्रीरतिमोहितौ २३।

नाशयंतौ पितृद्रव्यं सहस्रं ददतुः शतम् ।

तस्थतुः स्वगृहे रम्ये नित्यं भोगपरायणौ २४।

इत्थं तु तद्धनं ताभ्यां विनियुक्तमसद्व्ययैः ।

वारस्त्री विट शैलूष मल्ल चारण बंदिषु २५।

अपात्रे तद्धनं दत्तं क्षिप्तं बीजमिवोषरे ।

न सत्पात्रे च तद्दत्तं न ब्राह्मणमुखे हुतम् २६।

नार्चितो भूतभृद्विष्णुः सर्वपापप्रणाशनः ।

उभयोरेव तद्द्रव्यमचिरेण क्षयं ययौ २७।

ततस्तौ दुःखमापन्नौ कार्पण्यं परमं गतौ ।

शोचमानौ तु मुह्यंतौ क्षुत्पीडादुःखपीडितौ २८।

तयोस्तु तिष्ठतोर्गेहे नास्ति यद्भुज्यते तदा ।

स्वजनैर्बांधवैस्सर्वैः सेवकैरुपजीविभिः २९।

द्रव्याभावे परित्यक्तौ चिंत्यमानौ ततः पुरे ।

पश्चाच्चौर्य्यं समारब्धं ताभ्यां च नगरे नृप ३०।

राजतो लोकतो भीतौ स्वपुरान्निःसृतौ तदा ।

चक्रतुर्वनवासं तौ सर्वेषामुपपीडितौ ३१।

जघ्नतुः सततं मूढौ शितैर्बाणैर्विषार्पितैः ।

नानापक्षिवराहांश्च हरिणान्रोहितांस्तथा ३२।

शशकाञ्छल्लकान्गोधान्श्वापदांश्चेतरान्बहून् ।

महाबलौ भिल्लसंगावाखेटकभुजौ सदा ३३।

एवं मांसमयाहारौ पापाहारौ परंतप ।

कदाचिद्भूधरं प्राप्तो ह्येकोऽन्यश्च वनं गतः ३४।

शार्दूलेन हतो ज्येष्ठः कनिष्ठः सर्पदंशितः ।

एकस्मिन्दिवसे राजन्पापिष्ठौ निधनं गतौ ३५।

यमदूतैस्ततोबद्ध्वा पापैर्नीतौ यमालयम् ।

गत्वाभिजगदुःसर्वे ते दूताः पापिनावुभौ ३६।

धर्मराज नरावेतावानीतौ तव शासनात् ।

आज्ञां देहि स्वभृत्येषु प्रसीद करवाम किम् ३७।

आलोच्य चित्रगुप्तेन तदा दूताञ्जगौ यमः ।

एकस्तु नीयतां वीर निरयं तीव्रवेदनम् ३८।

अपरः स्थाप्यतां स्वर्गेयत्र भोगा ह्यनुत्तमाः ।

कृतांताज्ञां ततः श्रुत्वा दूतैश्च क्षिप्रकारिभिः ३९।

निक्षिप्तो रौरवे घोरे यो ज्येष्ठो हि नराधिप ।

तेषां दूतवरः कश्चिदुवाच मधुरं वचः ४०।

विकुंडल मया सार्द्धमेहि स्वर्गं ददामि ते ।

भुंक्ष्व भोगान्सुदिव्यांस्त्वमर्जितान्स्वेन कर्मणा ४१।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे त्रिंशोऽध्यायः ३०।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 31

नारदउवाच-

ततो हृष्टमनाः सोऽथ दूतं पप्रच्छ तं पथि ।

संदेहं हृदि कृत्वा तु विस्मयं परमं गतः ।

विचारयन्हृदि स्वर्गः कस्य हेतोः फलं मम १।

विकुंडल उवाच-

हे दूतवर पृच्छामि संशयं त्वामहं परम् ।

आवां जातौ कुले तुल्ये तुल्यं कर्म तथा कृतम् २।

दुर्मृत्युरपि तुल्योभूत्तुल्यो दृष्टो यमस्तथा ।

कथं स नरके क्षिप्तस्तुल्यकर्म्मा ममाग्रजः ३।

ममाभवत्कथं नाकमिति मे छिंधि संशयम् ।

देवदूत न पश्यामि मम स्वर्गस्य कारणम् ४।

देवदूत उवाच-

माता पिता सुतो जाया स्वसा भ्राता विकुंडल ।

जन्महेतोरियं संज्ञा जंतोः कर्म्मोपभुक्तये ५।

एकस्मिन्पादपे यद्वच्छकुनानां समागमः ।

यद्यत्समीहितं कर्म कुरुते पूर्वभावितः ६।

तस्य तस्य फलं भुंक्ते कर्म्मणः पुरुषः सदा ।

सत्यं वदामि ते प्रीत्या नरैः कर्म्म शुभाशुभम् ७।

स्वकृतं भुज्यते वैश्य कालेकाले पुनःपुनः ।

एकः करोति कर्माणि एकस्तत्फलमश्नुते ८।

अन्यो न लिप्यते वैश्य कर्मणान्यस्य कुत्रचित् ।

अपतन्नरके पापैस्तवभ्राता सुदारुणैः ।

त्वं च धर्मेण धर्मज्ञ स्वर्गं प्राप्नोषि शाश्वतम् ९।

विकुंडल उवाच-

आबाल्यान्मम पापेषु न पुण्येषु रतं मनः ।

अस्मिञ्जन्मनि हे दूत दुष्कृतं हि कृतं मया १०।

देवदूत न जानामि सुकृतं कर्म चात्मनः ।

यदि जानासि मत्पुण्यं तन्मे त्वं कृपया वद ११।

देवदूत उवाच-

शृणु वैश्य प्रवक्ष्यामि यत्त्वया पुण्यमर्जितम् ।

जानामि तदहं सर्वं न त्वं वेत्सि सुनिश्चितम् १२।

हरिमित्रसुतो विप्रः सुमित्रो वेदपारगः ।

आसीत्तस्याश्रमः पुण्यो यमुना दक्षिणेतटे १३।

तेन सख्यं वने तस्मिंस्तव जातं विशांवर ।

तत्संगेन त्वया स्नातं माघमासद्वयं तथा १४।

कालिंदी पुण्यपानीये सर्वपापहरे वरे ।

तत्तीर्थे लोकविख्याते नाम्ना पापप्रणाशने १५।

एकेन सर्वपापेभ्यो विमुक्तस्त्वं विशांपते ।

द्वितीयमाघपुण्येन प्राप्तः स्वर्गस्त्वयानघ १६।

त्वं तत्पुण्यप्रभावेण मोदस्व सततं दिवि ।

नरकेषु तव भ्राता महतीं पापयातनाम् १७।

छिद्यमानोऽसिपत्रैश्च भिद्यमानस्तु मुद्गरैः ।

चूर्ण्यमानः शिलापृष्ठे तप्तांगारेषु भर्जितः १८।

इति दूतवचः श्रुत्वा भ्रातृदुःखेन दुःखितः ।

पुलकांकित सर्वांगो दीनोऽसौ विनयान्वितः १९।

उवाच तं देवदूतं मधुरं निपुणं वचः ।

मैत्री सप्तपदी साधो सतां भवति सत्फला २०।

मित्रभावं विचिंत्य त्वं मामुपाकर्तुमर्हसि ।

ततो हि श्रोतुमिच्छामि सर्वज्ञस्त्वं मतो मम २१।

यमलोकं न पश्यंति कर्मणा केन मानवाः ।

गच्छंति निरयं येन तन्मे त्वं कृपया वद २२।

देवदूत उवाच-

सम्यक्पृष्टं त्वया वैश्य नष्टपापोऽसि सांप्रतम् ।

विशुद्धे हृदये पुंसां बुद्धिः श्रेयसि जायते २३।

यद्यप्यवसरोनास्ति मम सेवापरस्य वै ।

तथापि च तव स्नेहात्प्रवक्ष्यामि यथामति २४।

कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।

परपीडां न कुर्वंति न ते यांति यमालयम् २५।

न वेदैर्न च दानैश्च न तपोभिर्न चाध्वरैः ।

कथंचित्स्वर्गतिं यांति पुरुषाः प्राणिहिंसकाः २६।

अहिंसा परमो धर्मो ह्यहिंसैव परं तपः ।

अहिंसा परमं दानमित्याहुर्मुनयः सदा २७।

मशकान्सरीसृपान्दंशान्यूकाद्यान्मानवांस्तथा ।

आत्मौपम्येन पश्यंति मानवा ये दयालवः २८।

तप्तांगारमयस्कीलं मादंप्रेतरंगिणीम् ।

दुर्गतिं नैव गच्छंति कृतांतस्य च ते नराः २९।

भूतानि येऽत्र हिंसंति जलस्थलचराणि च ।

जीवनार्थं च ते यांति कालसूत्रं च दुर्गतिम् ३०।

श्वमांसभोजनास्तत्र पूयशोणितपायिनः ।

मज्जंतश्च वसापंके दष्टाः कीटैरधोमुखैः ३१।

परस्परं च खादंतो ध्वांते चान्योन्य घातिनः ।

वसंति कल्पानेकांस्ते रुदंतो दारुणं रवम् ३२।

कृमियोनि शतं गत्वा स्थावराः स्युश्चिरं तु ते ।

ततोच्छंति ते क्रूरास्तिर्यग्योनि शतेषु च ३३।

पश्चाद्भवंति जातांधाः काणाः कुब्जाश्च पंगवः ।

दरिद्राश्चांगहीनाश्च मानुषाः प्राणिहिंसकाः ३४।

तस्माद्वैश्य परत्रेह कर्मणा मनसा गिरा ।

लोकद्वयसुखप्रेप्सुर्धर्मज्ञो न तदाचरेत् ३५।

लोकद्वयेन विंदंति सुखानि प्राणिहिंसकाः ।

येन हिंसन्ति भूतानि न ते बिभ्यति कुत्रचित् ३६।

प्रविशंति यथा नद्यः समुद्रमृजुवक्रगाः ।

सर्वे धर्मा अहिंसायां प्रविशंति तथा दृढम् ३७।

स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।

अभयं येन भूतेभ्यो दत्तमत्र विंशांवर ३८।

ये नियोगांश्च शास्त्रोक्तान्धर्माधर्म विमिश्रितान् ।

पालयंतीह ये वैश्य न ते यांति यमालयम् ३९।

ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।

स्वधर्मनिरताः सर्वे नाकपृष्ठे वसंति ते ४०।

यथोक्तचारिणः सर्वे वर्णाश्रमसमन्विताः ।

नरा जितेंद्रिया यांति ब्रह्मलोकं तु शाश्वतम् ४१।

इष्टापूर्तरता ये च पंचयज्ञरताश्च ये ।

दयान्विताश्च ये नित्यं नेक्षंते ते यमालयम् ४२।

इंद्रियार्थनिवृत्ता ये समर्था वेदवादिनः ।

अग्निपूजारता नित्यं ते विप्राः स्वर्गगामिनः ४३।

अदीनवदनाः शूराः शत्रुभिः परिवेष्टिताः ।

आहवेषु विपन्ना ये तेषां मार्गो दिवाकरः ४४।

अनाथ स्त्री द्विजार्थे च शरणागतपालने ।

प्राणांस्त्यजंति ये वैश्य न च्यवंति दिवस्तु ते ४५।

पंग्वंधबालवृद्धांश्च रोग्यनाथदरिद्रितान् ।

ये पुष्णंति सदा वैश्य ते मोदंति सदा दिवि ४६।

गां दृष्ट्वा पंकनिर्मग्नां रोगमग्नं द्विजं तथा ।

उद्धरंति नरा ये च तेषां लोकोऽश्वमेधिनाम् ४७।

गोग्रासं ये प्रयच्छंति ये शुश्रूषंति गाः सदा ।

येनारोहंति गोपृष्ठे ते स्वर्लोकनिवासिनः ४८।

गर्तमात्रं तु ये चक्रुर्यत्र गौरतृषा भवेत् ।

यमलोकमदृष्ट्वैव ते यांति स्वर्गतिं नराः ४९।

अग्निपूजा देवपूजा गुरुपूजा रताश्च ये ।

द्विजपूजा रता नित्यं ते विप्राः स्वर्गगामिनः ५०।

वापीकूपतडागादौ धर्मस्यांतो न विद्यते ।

पिबंति स्वेच्छया यत्र जलस्थल चरास्तदा ५१।

नित्यं दानपरः सोऽत्र कथ्यते विबुधैरपि ।

यथायथा च पानीयं पिबंति प्राणिनो भृशम् ५२।

तथातथाऽक्षयः स्वर्गो धर्मबुद्ध्या विशां वर ।

प्राणिनां जीवनं वारि प्राणा वारिणि संस्थिताः ५३।

नित्यस्नानेन पूयंते येऽपि पातकिनो नराः ।

प्रातःस्नानं हरेद्वैश्य बाह्माभ्यंतरजं मलम् ५४।

प्रातःस्नानेन निष्पापो नरो न निरयं व्रजेत् ।

स्नानं विना तु यो भुंक्ते मलाशी स सदा नरः ५५।

अस्नायी यो नरस्तस्य विमुखा पितृदेवताः ।

स्नानहीनो नरः पापः स्नानहीनो नरोऽशुचिः ५६।

अस्नायी नरकं भुंक्ते पुंस्कीटादिषु जायते ।

ये पुनः स्रोतसि स्नानमाचरंतीह पर्वणि ५७।

ते नैव नरकं यांति न जायंते कुयोनिषु ।

दुःस्वप्ना दुष्टचिंताश्च वंध्या भवंति सर्वदा ५८।

प्रातःस्नानेन शुद्धानां पुरुषाणां विशांवर ।

तिलांश्च तिलपात्रांश्च तिलप्रस्थं यथाविधि ५९।

दत्त्वा प्रेतपतेर्भूमौ न व्रजंति नराः क्वचित् ।

पृथिवीं कांचनं गां च दत्वा दानानि षोडश ६०।

गत्वा न विनिवर्तंते स्वर्गलोकाद्विकुंडल ।

पुण्यासु तिथिषु प्राज्ञो व्यतीपाते च संक्रमे ६१।

स्नात्वा दत्त्वा च यत्किंचिन्नैव मज्जति दुर्गतौ ।

नैवाक्रामंति दातारो दारुणं रौरवं पथम् ।

इहलोके न जायंते कुले धनविवर्जिते ६२।

सत्यवादी सदा मौनी प्रियवादी च यो नरः ।

अक्रोधनः समाचारो नातिवाद्यनसूयकः ६३।

सदा दाक्षिण्यसंपन्नः सदा भूतदयान्वितः ।

गोप्ता च परमर्माणां वक्ता परगुणस्य च ६४।

परस्वं तृणमात्रं च मनसापि न यो हरेत् ।

न पश्यंति विशांश्रेष्ठ ह्येते नरकयातनाम् ६५।

परापवादी पाखंडः पापेभ्योऽपि मतोऽधिकः ।

पच्यते नरके तावद्यावदाभूतसंप्लवम् ६६।

वक्ता परुषवाक्यानां मंतव्यो नरकागतः ।

संदेहो न विशांश्रेष्ठ पुनर्याति च दुर्गतिम् ६७।

न तीर्थैर्न तपोभिश्च कृतघ्नस्यास्ति निष्कृतिः ।

सहते यातनां घोरां स नरो नरके चिरम् ६८।

पृथिव्यां यानि तीर्थानि तेषु मज्जति यो नरः ।

जितेंद्रियो जिताहारो न स याति यमालयम् ६९।

न तीर्थे पातकं कुर्यान्न च तीर्थोपजीवनम् ।

तीर्थे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः ७०।

दुर्जरं पातकं तीर्थे दुर्जरश्च प्रतिग्रहः ।

तीर्थे च दुर्जरं सर्वमेतत्किन्नरकं व्रजेत् ७१।

सकृद्गंगांभसि स्नातः पूतो गांगेयवारिणा ।

न नरो नरकं याति अपि पातकराशिकृत् ७२।

व्रतदानतपो यज्ञाः पवित्राणीतराणि च ।

गंगाबिंद्वभिषिक्तस्य न समा इति नः श्रुतम् ७३।

अन्यतीर्थसमां गंगां यो ब्रवीति नराधमः ।

स याति नरकं वैश्य दारुणं रौरवं महत् ७४।

धर्मद्रवं ह्यपां बीजं वैकुंठचरणच्युतम् ।

धृतं मूर्ध्नि महेशेन यद्गांगममलं जलम् ७५।

तद्ब्रह्मैव न संदेहो निर्गुणं प्रकृतेः परम् ।

तेन किं समतां गच्छेदपि ब्रह्मांडगोचरे ७६।

गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि ।

नरो न नरकं याति किं तया सदृशं भवेत् ।

नान्येन दह्यते सद्यः क्रिया नरकदायिनी ७७।

गंगांभसि प्रयत्नेन स्नातव्यं तेन मानवैः ।

प्रतिगृह निवृत्तो यः प्रतिग्रहक्षमोऽपि सन् ।

स द्विजो द्योतते वैश्य तारारूपश्चिरं दिवि ७८।

गामुद्धरंति ये पंकाद्ये रक्षंति च रोगिणः ।

म्रियंते गोगृहे ये च तेषां नभसि तारकाः ।

यमलोकं न पश्यंति प्राणायामपरायणाः ७९।

अपि दुष्कृतकर्माणस्तैरेव हतकिल्बिषाः ।

दिवसे दिवसे वैश्य प्राणायामास्तु षोडश ।

अपि ब्रह्महणं साक्षात्पुनंत्यहरहः कृताः ८०।

तपांसि यानि तप्यंते व्रतानि नियमाश्च ये ।

गोसहस्रप्रदानं च प्राणायामस्तु तत्समः ८१।

अब्बिंदुं यः कुशाग्रेण मासेमासे नरः पिबेत् ।

संवत्सरशतं साग्रं प्राणायामस्तु तत्समः ८२।

पातकं तु महद्यच्च तथा क्षुद्रोपपातकम् ।

प्राणायामैः क्षणात्सर्वं भस्मसात्कुरुते नरः ८३।

मातृवत्परदारान्ये मन्यंते वै नरोत्तमाः ।

न ते यांति नरश्रेष्ठ कदाचिद्यम यातनाम् ८४।

मनसापि परेषां यः कलत्राणि न सेवते ।

सह लोकद्वये नास्ति तेन वैश्य धरा धृता ८५।

तस्माद्धर्म्मान्वितैस्त्याज्यं परदारोपसेवनम् ।

नयंति परदारास्तु नरकानेकविंशतिम् ८६।

लोभो न जायते येषां परदारेषु मानसे ।

ते यांति देवलोकं तु न यमं वैश्यसत्तम ८७।

शश्वत्क्रोधनिदानेषु यः क्रोधेन न जीयते ।

जितस्वर्गः स मंतव्यः पुरुषोऽक्रोधनो भुवि ८८।

मातरं पितरं पुत्र आराधयति देववत् ।

अप्राप्ते वार्द्धके काले न याति च यमालयम् ८९।

पितुश्चाधिकभावेन येऽर्चयंति गुरुं नराः ।

भवंत्यतिथयो लोके ब्रह्मणस्ते विशांवर ९०।

इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणात् ।

शीलभंगे च नारीणां यमलोकः सुदारुणः ९१।

शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसंगविवर्जनात् ।

शीलेन हि परः स्वर्गः स्त्रीणां वैश्य न संशयः ९२।

शूद्रस्य पाकयज्ञेन निषिद्धाचरणेन च ।

दुर्गतिर्विहिता वैश्य तस्य सा नारकी गतिः ९३।

विचारयंति ये शास्त्रं वेदाभ्यासरताश्च ये ।

पुराणं संहितां ये च श्रावयंति पठंति च ९४।

व्याकुर्वंति स्मृतिर्ये च ये धर्मप्रतिबोधकाः ।

वेदांतेषु निषण्णा ये तैरियं जगती धृता ९५।

तत्तदभ्यासमाहात्म्यैः सर्वे ते हतकिल्बिषाः ।

गच्छंति ब्रह्मणो लोकं यत्र मोहो न विद्यते ९६।

ज्ञानमज्ञाय यो दद्याद्वेदशास्त्रसमुद्भवम् ।

अपि वेदास्तमर्चंति भवबंधविदारणम् ९७।

श्रूयतामद्भुतं ह्येतद्रहस्यं वैश्यसत्तम ।

सम्मतं धर्मराजस्य सर्वलोकामृतप्रदम् ९८।

न यमं यमलोकं च न भूतान्घोरदर्शनान् ।

पश्यंति वैष्णवा नूनं सत्यं सत्यं मयोदितम् ९९।

प्राहास्मान्यमुना भ्राता सदैव हि पुनःपुनः ।

भवद्भिर्वैष्णवास्त्याज्या न ते स्युर्ममगोचराः १००।

स्मरंति ये सकृद्भूताः प्रसंगेनापि केशवम् ।

ते विध्वस्ताखिलाघौघा यांति विष्णोः परं पदम् १०१।

दुराचारो दुष्कृतोऽपि सदाचाररतोऽपि यः ।

भवद्भिः स सदा त्याज्यो विष्णुं च भजते नरः १०२।

वैष्णवो यद्गृहे भुंक्ते येषां वैष्णवसंगतिः ।

तेऽपि वः परिवार्याः स्युस्तत्संगहतकिल्बिषाः १०३।

इत्थं वैश्यानुशास्त्यस्मान्देवो दंडधरः सदा ।

अतो नो वैष्णवा यांति राजधानीं यमस्य तु १०४।

विष्णुभक्तिं विना नॄणां पापिष्ठानां विशां वर ।

उपायो नास्ति नास्त्यन्यः संतर्तुं नरकांबुधिम् १०५।

श्वपाकमपि नेक्षेत लोकेष्टं वैश्य वैष्णवम् ।

वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् १०६।

एतावता लमघनिर्हरणाय पुंसां संकीर्तनं भगवतो गुणकर्मनाम्नाम् ।

विक्रुश्य पुत्र मघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् १०७।

नरके तु चिरं मग्नाः पूर्वे ये च कुलद्वये ।

तदैव यांति ते स्वर्गं यदार्चंति मुदा हरिम् १०८।

विष्णुभक्तस्य ये दासा वैष्णवान्न भुजश्च ये ।

ते तु क्रतुभुजां वैश्य गतिं यांति निराकुलाः १०९।

प्रार्थर्यद्वैष्णवस्यान्नं प्रयत्नेन विचक्षणः ।

सर्वपापविशुद्ध्यर्थं तदभावे जलं पिबेत् ११०।

गोविंदेति जपन्मंत्रं कुत्रचिन्म्रियते यदि ।

स नरो न यमं पश्येत्तं च नेक्षामहे वयम् १११।

सांगं समुद्रं सध्यानं सऋषिः छंददैवतम् ।

दीक्षयाविधिवन्मंत्रं जपेद्वै द्वादशाक्षरम् ११२।

अष्टाक्षरं च मंत्रेशं ये जपंति नरोत्तमाः ।

तान्दृष्ट्वा ब्रह्महा शुद्ध्यद्भ्राजते विष्णुवत्स्वयम् ११३।

शंखिनश्चक्रिणो भूत्वा ब्रह्माभ्यंतरगामिनः ।

वसंति वैष्णवे लोके विष्णुरूपेण ते नराः ११४।

हृदि सूर्ये जले वाथ प्रतिमा स्थंडिलेपि च ।

समभ्यर्च्य हरिं यांति नरास्तद्वैष्णवं पदम् ११५।

अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः ।

शालग्रामे मणौ चक्रे वज्रकीटविनिर्मिते ११६।

अधिष्ठानं हि तद्विष्णोः सर्वपापप्रणाशनम् ।

सर्वपुण्यप्रदं वैश्य सर्वेषामपि मुक्तिदम् ११७।

यः पूजयेद्धरिं चक्रे शालग्रामशिलोद्भवे ।

राजसूयसहस्रेण तेनेष्टं प्रतिवासरे ११८।

सदामनंति वेदांता ब्रह्मनिर्वाणमच्युतम् ।

तत्प्रसादो भवेन्नॄणां शालग्रामशिलार्चनात् ११९।

महाकाष्ठस्थितो वह्निर्मखस्थाने प्रकाशते ।

यथा तथा हरिर्व्यापी शालग्रामे प्रकाशते १२०।

अपि पापसमाचाराः कर्म्मण्यनधिकारिणः ।

शालग्रामार्चका वैश्य नैव यांति यमालयम् १२१।

न तथा रमते लक्ष्म्यां न तथा स्वपुरे हरिः ।

शालग्रामशिलाचक्रे यथा स रमते सदा १२२।

अग्निहोत्रं कृतं तेन दत्ता पृथ्वी ससागरा ।

येनार्चितो हरिश्चक्रे शालग्रामशिलोद्भवे १२३।

शिला द्वादश भो वैश्य शालग्रामशिलोद्भवाः ।

विधिवत्पूजिता येन तस्य पुण्यं वदामि ते १२४।

कोटिद्वादशलिंगैस्तु पूजितैः स्वर्णपंकजैः ।

यत्स्याद्द्वादशकालेषु दिनेनैकेन तद्भवेत् १२५।

यः पुनः पूजयेद्भक्त्या शालग्रामशिला शतम् ।

उषित्वा स हरेर्लोके चक्रवर्त्तीह जायते १२६।

कामैः क्रोधैः प्रलोभैश्च व्याप्तो यत्र नराधमः ।

सोऽपि याति हरेर्लोकं शालग्रामशिलार्चनात् १२७।

यः पूजयेच्च गोविंदं शालग्रामे मुदा नरः ।

आभूतसंप्लवं यावन्न स प्रच्यवते दिवः १२८।

विना तीर्थैर्विना दानैर्विना यज्ञैर्विना मतिम् ।

मुक्तिं यांति नरा वैश्य शालग्रामशिलार्चनात् १२९।

नरकं गर्भवासं च तिर्यक्त्वं कृमियोनिताम् ।

न याति वैश्य पापोऽपि शालग्रामशिलार्चकः १३०।

दीक्षाविधान मंत्रज्ञो यश्चक्रे बलिमाहरेत् ।

गंगा गोदावरी रेवा नद्यो मुक्तिप्रदाश्च याः १३१।

निवसंति हिताः सर्वाः शालग्रामशिला जले ।

नैवेद्यैर्विविधैः पुष्पैर्धूपदीपैर्विलेपनैः १३२।

गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनम् ।

कुरुते मानवो यस्तु कलौ भक्तिपरायणः १३३।

कल्पकोटिसहस्राणि रमते सन्निधौ हरेः ।

लिंगैस्तु कोटिभिर्दृष्टैर्यत्फलं पूजितैस्तु तैः १३४।

शालग्रामशिलायास्तु ह्येकेनाह्ना हि तत्फलम् ।

सकृदभ्यर्चिते लिंगे शालग्रामशिलोद्भवे १३५।

मुक्तिं प्रयांति मनुजा नूनं सांख्येन वर्जिताः ।

शालग्रामशिलारूपी यत्र तिष्ठति केशवः १३६।

तत्र देवाः सुरा यक्षा भुवनानि चतुर्दश ।

शालग्रामशिलायां तु यः श्राद्धं कुरुते नरः १३७।

पितरस्तस्य तिष्ठंति तृप्ताः कल्पशतं दिवि ।

ये पिबंति नरा नित्यं शालग्रामशिलाजलम् १३८।

पंचगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम् ।

कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् १३९।

तोयं यदि पिबेत्पुण्यं शालग्रामशिलांगजम् ।

शालग्राम शिला यत्र तत्तीर्थं योजनत्रयम् १४०।

तत्र दानं च होमं च सर्वं कोटिगुणं भवेत् ।

शालग्रामशिला तोयं यः पिबेद्बिंदुना समम् १४१।

मातृस्तन्यं पुनर्नैव स पिबेद्विष्णुभाङ्नरः ।

शालग्राम समीपे तु क्रोशमात्रं समंततः १४२।

कीटकोपि मृतो याति वैकुंठं भवनं परम् ।

शालग्रामशिलाचक्रं यो दद्याद्दानमुत्तमम् १४३।

भूचक्रं तेन दत्तं स्यात्सशैलवनकाननम् ।

शालग्रामशिलाया यो मूल्यमुत्पादयेन्नरः १४४।

विक्रेता चानुमंता यः परीक्षासु च मोदते ।

ते सर्वे नरकं यांति यावदाभूतसंप्लवम् १४५।

ततः संवर्जयेद्वैश्य चक्रस्य क्रयविक्रयम् ।

बहुनोक्तेन किं वैश्य कर्तव्यं पापभीरुणा १४६।

स्मरणं वासुदेवस्य सर्वपापहरं हरेः ।

तपस्तप्त्वा नरो घोरमरण्ये नियतेंद्रियः १४७।

यत्फलं समवाप्नोति तन्नत्वा गरुडध्वजम् ।

कृत्वापि बहुशः पापं नरो मोहसमन्वितः १४८।

न याति नरकं गत्वा सर्वपापहरं हरिम् ।

पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च १४९।

तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनात् ।

देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणाः १५०।

न तेषां यमसालोक्यं न ते स्युर्नरकौकसः ।

वैष्णवः पुरुषो वैश्य शिवनिंदां करोति यः १५१।

न विंदेद्वैष्णवं लोकं स याति नरकं महत् ।

उपोष्यैकादशीमेकां प्रसंगेनापि मानवः १५२।

न याति यातनां यामीमिति लोमशतः श्रुतम् ।

नेदृशं पावनं किंचित्त्रिषु लोकेषु विद्यते १५३।

उभयं पद्मनाभस्य दिनं पातकनाशनम् ।

तावत्पापानि देहेऽस्मिन्वसंतीह विशांवर १५४।

यावन्नोपवसेज्जंतुः पद्मनाभदिनं शुभम् ।

अश्वमेधसहस्राणि राजसूयशतानि च १५५।

एकादश्युपवासस्य कलां नार्हंति षोडशीम् ।

एकादशेंद्रियैः पापं यत्कृतं वैश्य मानवैः १५६।

एकादश्युपवासेन तत्सर्वं विलयं व्रजेत् ।

एकादशीसमं किंचित्पुण्यं लोके न विद्यते १५७।

व्याजेनापि कृता यैस्तु वशं यांति न भास्करेः ।

स्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी १५८।

सुकलत्रप्रदा ह्येषा जीवत्पुत्रप्रदायिनी ।

न गंगा न गया वैश्य न काशी न च पुष्करम् १५९।

न चापि वैष्णवं क्षेत्रं तुल्यं हरिदिनेन तु ।

यमुना चन्द्रभागा न तुल्या हरिदिनेन तु १६०।

अनायासेन येनात्र प्राप्यते वैष्णवं पदम् ।

रात्रौ जागरणं कृत्वा समुपोष्य हरेर्दिने १६१।

दश वै पैतृके पक्षे मातृके दश पूर्वजाः ।

प्रियाया दश ये वैश्य तानुद्धरति निश्चितम् १६२।

द्वंद्वसंग परित्यक्ता नागारि कृतकेतनाः ।

स्रग्विणः पीतवसनाः प्रयांति हरिमंदिरम् १६३।

बालत्वे यौवने वापि वार्द्धके वा विशांवर ।

उपोष्यैकादशीं नूनं नैति पापोऽतिदुर्गतिम् १६४।

उपोष्येह त्रिरात्राणि कृत्वा वा तीर्थमज्जनम् ।

दत्वा हेमतिलान्गाश्च स्वर्गं यांतीह मानवाः १६५।

तीर्थे स्नांति न ये वैश्य न दत्तं कांचनं च यैः ।

नैव तप्तं तपः किंचित्ते स्युः सर्वत्र दुःखिताः १६६।

संक्षिप्य कथितं धर्म्मं नरकस्य निरूपणम् ।

अद्रोहः सर्वभूतेषु वाङ्मनः काय कर्मभिः १६७।

इंद्रियाणां निरोधश्च दानं च हरिसेवनम् ।

वर्णाश्रमक्रियाणां च पालनं विधितः सदा १६८।

स्वर्गार्थी सर्वदा वैश्य तपोदानं न कीर्तयेत् ।

यथाशक्ति तथा दद्यादात्मनो हितकाम्यया १६९।

उपानद्वस्त्रमन्नानि पत्रं मूलं फलं जलम् ।

अवंध्यं दिवसं कार्य्यं दरिद्रेणापि वैश्यक १७०।

इहलोके परे चैव न दत्तं नोपतिष्ठते ।

दातारो नैव पश्यंति तां तां वै यमयातनाम् १७१।

दीर्घायुषो धनाढ्याश्च भवंतीह पुनःपुनः ।

किमत्र बहुनोक्तेन यांत्यधर्मेण दुर्गतिम् १७२।

आरोहंति दिवं धर्म्मे नराः सर्वत्र सर्वदा १७३।

तेन बालत्वमारभ्य कर्तव्यो धर्मसंग्रहः ।

इति ते कथितं सर्वं किमन्यच्छ्रोतुमिच्छसि १७४।

विकुंडल उवाच-

श्रुत्वा त्वद्वचनं सौम्य प्रसन्नं चित्तमेव मे ।

गंगोदं पापहं सद्यः पापहारि सतां वचः १७५।

उपकर्तुं प्रियं वक्तुं गुणो नैसर्गिकः सताम् ।

शीतांशुः क्रियते केन शीतलोऽमृतमंडलः १७६।

देवदूत ततो ब्रूहि कारुण्यान्मम पृच्छतः ।

नरकान्निष्कृतिः सद्यो भ्रातुर्मे जायते कथम् १७७।

इति तस्य वचः श्रुत्वा देवदूतो जगाद ह ।

ध्यानं दृष्ट्वा क्षणं ध्यात्वा तन्मैत्री रज्जुबन्धनः १७८।

यत्ते वैश्याष्टमे पुण्यं त्वया जन्मनि संचितम् ।

तद्भ्रात्रे दीयतां सर्वं स्वर्गं तस्य यदीच्छसि १७९।

विकुंडल उवाच-

किं तत्पुण्यं कथं जातं किं जन्म च पुरातनम् ।

तत्सर्वं कथ्यतां दूत ततो दास्यामि सत्वरम् १८०।

देवदूत उवाच-

शृणु वैश्य प्रवक्ष्यामि तत्पुण्यं च सहेतुकम् ।

पुरा मधुवने पुण्ये ऋषिरासीच्च शाकुनिः १८१।

तपोऽध्ययन संपन्नस्तेजसां ब्रह्मणा समः ।

जज्ञिरे तस्य रेवत्यां नव पुत्रा ग्रहा इव १८२।

ध्रुवः शीलो बुधस्तारो ज्योतिष्मानुत पंचमः ।

अग्निहोत्ररता ह्येते गृहधर्मेषु रेमिरे १८३।

निर्मोहो जितकामश्च ध्यानकोशो गुणाधिकः ।

एते गृहविरक्ताश्च चत्वारो द्विजसूनवः १८४।

चतुर्थाश्रममापन्नाः सर्वकामविनिस्पृहाः ।

ग्रामैकवासिनः सर्वे निःसंगा निष्परिग्रहाः १८५।

निराशा निष्प्रयत्नाश्च सम लोष्टाश्मकांचनाः ।

येनकेनचिदाच्छन्ना येनकेनचिदाशिताः १८६।

सायंग्रहास्तथा नित्यं विष्णुध्यानपरायणाः ।

जितनिद्रा जिताहारा वातशीतसहिष्णवः १८७।

पश्यंतो विष्णुरूपेण जगत्सर्वं चराचरम् ।

चरंति लीलया पृथ्वद्यंतेऽन्योन्यं मौनमास्थिताः १८८।

न कुर्वंति क्रियां कांचिदर्थमात्रं हि योगिनः ।

दृष्टज्ञाना असंदेहाश्चिद्विकार विशारदाः १८९।

एवं ते तव विप्रस्य पूर्वमष्टमजन्मनि ।

तिष्ठतो मध्यदेशेषु पुत्रदारकुटुंबिनः १९०।

गेहं तावकमाजग्मुर्मध्याह्ने क्षुत्पिपासिताः ।

वैश्वदेवांतरे काले त्वया दृष्टा गृहांगणे १९१।

सगद्गदं साश्रुनेत्रं सहर्षं च ससंभ्रमम् ।

दंडवत्प्रणिपातेन बहुमानपुरःसरम् १९२।

प्रणम्य चरणौ मूर्ध्ना कृत्वा पाणियुगाञ्जलिम् ।

तदाभिनन्दिताः सर्वे तया सूनृतया गिरा १९३।

अद्य मे सफलं जन्म जीवितं सफलं तथा ।

अद्य विष्णुः प्रसन्नो मे सनाथोऽद्यास्मि पावनः १९४।

धन्योऽस्म्यद्य गृहं धन्यं धन्या अद्य कुटुंबिनः ।

ममाद्य पितरो धन्या धन्या गावः श्रुतं धनम् १९५।

यद्दृष्टौ भवतां पादौ तापत्रयहरौ मया ।

भवतां दर्शनं यस्माद्धन्यस्यैव हरेरिव १९६।

एवं संपूज्य कृत्वा तु पादप्रक्षालनं तथा ।

धृतं मूर्ध्नि विशांश्रेष्ठ श्रद्धया परया तदा १९७।

यत्र पादोदकं वैश्य श्रद्धया शिरसा धृतम् ।

गंधपुष्पाक्षतैर्धूपैर्दीपैर्भावपुरःसरम् १९८।

संपूज्य सुंदरान्नेन भोजिता यतयस्तथा ।

तृप्ताः परमहंसास्ते विश्रांता मंदिरे निशि १९९।

ध्यायंतश्च परं ब्रह्म यज्ज्योतिर्ज्योतिषां मतम् ।

तेषामातिथ्यजं पुण्यं जातं यत्ते विशांवर २००।

न तद्वक्त्रसहस्रेण वक्तुं शक्नोम्यहं खलु ।

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां मतिजीविनः २०१।

मतिमत्सु सुराः श्रेष्ठा नरेषु ब्रह्मजातयः ।

ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः २०२।

कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ।

अतएव सुपूज्यास्ते तस्माच्छ्रेष्ठा जगत्त्रये २०३।

तत्संगतिर्विशांश्रेष्ठ महापातकनाशिनी ।

विश्रांता गृहिणो गेहे संतुष्टा ब्रह्मवेदिनः २०४।

आजन्मसंचितं पापं नाशयंतीक्षणेन वै ।

संचितं यद्गृहस्थस्य पापमामरणांतिकम् २०५।

विनिर्दहति तत्सर्वमेकरात्रोषितो यतिः ।

स्वभ्रात्रे देहि तत्पुण्यं नरकाद्येन मुच्यते २०६।

इति दूतवचः श्रुत्वा ददौ पुण्यं स सत्वरम् ।

हृष्टेन चेतसा भ्राता निरयात्सोऽपि निर्गतः २०७।

देवैस्तु पुष्पवर्षेण पूजितौ च दिवंगतौ ।

ताभ्यां संपूजितः सम्यग्गतो दूतो यथागतः २०८।

अखिलभुवनबोधं देवदूतस्यवाक्यं निगमवचनतुल्यं वैश्यपुत्रो निशम्य ।

स्वकृतसुकृतदानाद्भ्रातरं तारयित्वा सुरपतिवरलोकं तेन सार्द्धं जगाम २०९।

इतिहासमिमं राजन्यः पठेच्छृणुयादपि ।

स गोसहस्रदानस्य विशोको लभते फलम् २१०।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे एकत्रिंशोऽध्यायः ३१।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 32

नारदउवाच-

ततो गच्छेत राजेंद्र सुगंधंलोकविश्रुतम् ।

सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते १।

रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप ।

तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते २।

गंगायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे ।

स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति ३।

तत्र कर्णह्रदे स्नात्वा देवमभ्यर्च्य शंकरम् ।

न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति ४।

ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम् ।

गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति ५।

अरुंधतीवटं गच्छेत्तीर्थसेवी नराधिप ।

सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः ६।

गोसहस्रफलं विंद्यात्स्वर्गलोकं च गच्छति ।

ब्रह्मावर्त्तं ततो गच्छेद्ब्रह्मचारी समाहितः ७।

अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ।

यमुनाप्रभवं गच्छेत्समुपस्पृश्य यामुनम् ८।

अश्वमेधफलं लब्ध्वा ब्रह्मलोके महीयते ।

दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् ९।

अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ।

सिंधोश्च प्रभवं गत्वा सिद्धगंधर्वसेवितम् १०।

तत्रोष्य रजनीः पंच दद्याद्बहुसुवर्णकम् ।

अथ देवीं समासाद्य नरः परमदुर्गमाम् ११।

अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् ।

ऋषिकुल्यां समासाद्य वसिष्ठं चैव भारत १२।

वसिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः ।

ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते १३।

यदि तत्र वसेन्मासं शाकाहारो नराधिप ।

भृगुतुंगं समासाद्य वाजिमेधफलं लभेत् १४।

गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते ।

कार्तिकमाघयोश्चैव तीर्थमासाद्य दुर्लभम् १५।

अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत् ।

ततः संध्यां समासाद्य विद्यातीर्थमनुत्तमम् १६।

उपस्पृशेत्स विद्यानां सर्वासां पारगो भवेत् ।

महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने १७।

एककालं निराहारो लोकान्संवसते शुभान् ।

षष्ठकालोपवासेन मासमुष्य महालये १८।

तीर्णस्तारयते जंतून्दशपूर्वान्दशापरान् ।

दृष्ट्वा माहेश्वरं पुण्यं परं सुरनमस्कृतम् १९।

कृतार्थः सर्वकृत्येषु न शोचेन्मरणं क्वचित् ।

सर्वपापविशुद्धात्मा विंद्याद्बहुसुवर्णकम् २०।

अथ वेतसिकां गच्छेत्पितामहनिषेविताम् ।

अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् २१।

अथ सुंदरिकां तीर्थं प्राप्य सिद्धनिषेविताम् ।

रूपस्य भागी भवति दृष्टमेतत्पुरातनैः २२।

ततो ब्राह्मणिकां गत्वा ब्रह्मचारी समाहितः ।

पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते २३।

ततश्च नैमिषं गच्छेत्पुण्यं द्विजनिषेवितम् ।

तत्र नित्यं निवसति ब्रह्मा देवगणैः सह २४।

नैमिषं प्रार्थयानस्य पापस्यार्द्धं प्रणश्यति ।

प्रविष्टमानस्तु नरः सर्वपापात्प्रमुच्यते २५।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 33

युधिष्ठिर उवाच-

वाराणस्याश्च माहात्म्यं संक्षेपात्कथितं त्वया ।

विस्तरेण मुने ब्रूहि तदा प्रीणाति मे मनः १।

नारद उवाच-।

अत्रेतिहासं वक्ष्यामि वाराणस्या गुणाश्रयम् ।

यस्य श्रवणमात्रेण मुच्यते ब्रह्महत्यया २।

मेरुशृंगे पुरा देवमीशानं त्रिपुरद्विषम् ।

देवासनगता देवी महादेवमपृच्छत ३।

देव्युवाच-।

देवदेव महादेव भक्तानामार्तिनाशन ।

कथं त्वां पुरुषो देवमचिरादेव पश्यति ४।

सांख्ययोगस्तथा ध्यानं कर्मयोगोऽथ वैदिकः ।

आयासबहुला लोके यानि चान्यानि शंकर ५।

येन विश्रांतचित्तानां योगिनां कर्मिणामपि ।

दृश्यो हि भगवान्सूक्ष्मः सर्वेषामथ देहिनाम् ६।

एतद्गुह्यतमं ज्ञानं गूढं शक्रादिसेवितम् ।

हिताय सर्वभूतानां ब्रूहि कामाग्निनाशनम् ७।

ईश्वर उवाच-।

अवाच्यमत्र विज्ञानं ज्ञानमज्ञैर्बहिष्कृतम् ।

वक्ष्ये तव यथातत्त्वं यदुक्तं परमर्षिभिः ८।

परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी ।

सर्वेषामेव भूतानां संसारार्णवतारिणी ९।

तत्र भक्त्या महादेवि मदीयं व्रतमास्थिताः ।

निवसंति महात्मानः परं नियममास्थिताः १०।

उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च यत् ।

ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ११।

स्थानांतर पवित्राणि तीर्थान्यायतनानि च ।

श्मशानसंस्थितान्येव दिव्यभूमिगतानि च १२।

भूर्लोके नैव संलग्नमंतरिक्षे ममालयम् ।

अमुक्तास्तत्र पश्यंति मुक्ताः पश्यंति चेतसा १३।

श्मशानमेतद्विख्यातमविमुक्तमिति श्रुतम् ।

कालो भूत्वा जगदिदं संहराम्यत्र सुंदरि १४।

देवीदं सर्वगुह्यानां स्थानं प्रियतरं मम ।

मद्भक्तास्तत्र गच्छंति मामेव प्रविशंति च १५।

दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ।

ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत् १६।

जन्मांतरसहस्रेषु यत्पापं पूर्वसंचितम् ।

अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् १७।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च वर्णसंकराः ।

स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः १८।

कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः ।

कालेन निधनं प्राप्ता अविमुक्ते वरानने १९।

चंद्रार्द्धमौलयस्त्र्यक्षा महावृषभवाहनाः ।

शिवे मम पुरे देवि जायंते तत्र मानवाः २०।

नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ।

ईश्वरानुगृहीता हि सर्वे यांति परां गतिम् २१।

मोक्षं सुदुर्ल्लभं मत्वा संसारं चातिभीषणम् ।

अश्मना चरणौ भंक्त्वा वाराणस्यां वसेन्नरः २२।

दुर्ल्लभा तपसा चापि मृतस्य परमेश्वरि ।

यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी २३।

प्रसादाज्जायते सम्यक्मम शैलेंद्रनंदिनि ।

अप्रवृद्धा न पश्यंति मम मायाविमोहिताः २४।

विण्मूत्ररेतसां मध्ये ते वसंति पुनः पुनः ।

हन्यमानोऽपि यो विद्वान्वसेद्विघ्नशतैरपि २५।

स याति परमं स्थानं यत्र गत्वा न शोचति ।

जन्ममृत्युजरामुक्तं परं यांति शिवालयम् २६।

अपुनर्मरणानां हि सा गतिर्मोक्षकांक्षिणाम् ।

यां प्राप्य कृतकृत्यः स्यादिति मन्यंति पंडिताः २७।

न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया ।

प्राप्यते गतिरुत्कृष्टा याविमुक्ते तु लभ्यते २८।

नानावर्णा विवर्णाश्च चांडालाद्या जुगुप्सिताः ।

किल्बिषैः पूर्णदेहाश्च विशिष्टैः पातकैस्तथा २९।

भेषजं परमं तेषामविमुक्तं विदुर्बुधाः ।

अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् ३०।

अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् ।

कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसंति ये ३१।

तेषां तत्परमं ज्ञानं ददाम्यंते परं पदम् ।

प्रयागं नैमिषारण्यं श्रीशैलोऽथ महाबलम् ३२।

केदारं भद्रकर्णं तु गया पुष्करमेव च ।

कुरुक्षेत्रं भद्रकोटिर्नर्मदाम्रातकेश्वरी ३३।

शालग्रामं च कुब्जाम्रं कोकामुखमनुत्तमम् ।

प्रभासं विजयेशानं गोकर्णं भद्रकर्णकम् ३४।

एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह ।

न यास्यंति परं तत्त्वं वाराणस्यां यथा मृताः ३५।

वाराणस्यां विशेषेण गंगा त्रिपथगामिनी ।

प्रविष्टा नाशयेत्पापं जन्मांतरशतैः कृतम् ३६।

अन्यत्र सुलभा गंगा श्राद्धं दानं तपो जपः ।

व्रतानि सर्वमेवैतद्वाराणस्यां सुदुर्ल्लभम् ३७।

जपेच्च जुहुयान्नित्यं ददात्यर्चयतेऽमरान् ।

वायुभक्षश्च सततं वाराणस्यां स्थितो नरः ३८।

यदि पापो यदि शठो यदि वा धार्मिको नरः ।

वाराणसीं समासाद्य पुनाति सकलं कुलम् ३९।

वाराणस्यां येऽर्चयंति महादेवं स्तुवंति वै ।

सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः ४०।

अन्यत्र योगज्ञानाभ्यां संन्यासादथवान्यतः ।

प्राप्यते तत्परं स्थानं सहस्रेणैव जन्मनाम् ४१।

ये भक्ता देवदेवेशि वाराणस्यां वसंति वै ।

ते विंदंति परं मोक्षमेकेनैव तु जन्मना ४२।

यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ।

अविमुक्तं तदासाद्य नान्यदिच्छेत्तपोवनम् ४३।

यतो मयाऽविमुक्तं तदविमुक्तं ततः स्मृतम् ।

तदेव गुह्यं गुह्यानामेतद्विज्ञानमुच्यते ४४।

ज्ञानाज्ञानाभिनिष्ठानां परमानंदमिच्छताम् ।

यागतिर्विदिता सुभ्रूः साविमुक्ते मृतस्य तु ४५।

यानि चैवाविमुक्तस्य देहे दृष्टानि कृत्स्नशः ।

पुरी वाराणसी तेभ्यः स्थानेभ्योऽप्यधिका शुभा ४६।

यत्र साक्षान्महादेवो देहांते स्वयमीश्वरः ।

व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तये ४७।

यत्तत्परतरं तत्त्वमविमुक्तमिति श्रुतम् ।

एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् ४८।

भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि ।

यथाविमुक्तमादित्ये वाराणस्यां व्यवस्थितम् ४९।

वरणायास्तथा चास्या मध्ये वाराणसीपुरी ।

तत्रैव संस्थितं तत्त्वं नित्यमेवंविमुक्तकम् ५०।

वाराणस्याः परं स्थानं न भूतं न भविष्यति ।

यत्र नारायणो देवो महादेवो दिवीश्वरः ५१।

तत्र देवाः सगंधर्वाः सयक्षोरगराक्षसाः ।

उपासते यं सततं देवदेवः पितामहः ५२।

महापातकिनो देवि ये तेभ्यः पापकृत्तमाः ।

वाराणसीं समासाद्य ते यांति परमां गतिम् ५३।

तस्मान्मुमुक्षुर्नियतो वसेद्वै मरणांतकम् ।

वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते ५४।

किंतु विघ्ना भविष्यंति पापोपहतचेतसः ।

ततो नैवाचरेत्पापं कायेन मनसा गिरा ५५।

एतद्रहस्यं देवानां पुराणानां च सुव्रते ।

अविमुक्ताश्रयं ज्ञानं न कश्चिद्वेत्ति तत्त्वतः ५६।

नारद उवाच-।

देवतानामृषीणां च शृण्वतां परमेष्ठिनाम् ।

देवदेवेन कथितं सर्वपापविनाशनम् ५७।

यथानारायणः श्रेष्ठो देवानां पुरुषोत्तमः ।

यथेश्वराणां गिरिशः स्थानानामेतदुत्तमम् ५८।

यैः समाराधितो रुद्रः पूर्वस्मिन्नेकजन्मनि ।

ते विदंति परं क्षेत्रमविमुक्तं शिवालयम् ५९।

कलिकल्मषसंभूता येषामुपहृता मतिः ।

न तेषां वेदितुं शक्यं स्थानं तत्परमेष्ठिनः ६०।

ये स्मरंति सदा कालं वदंति च पुरीमिमाम् ।

तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ६१।

यानि चेह प्रकुर्वंति पातकानि कृतालयाः ।

नाशयेत्तानि सर्वाणि देवः कालतनुः शिवः ६२।

आगच्छेत्तदिदं स्थानं सेवितं मोक्षकांक्षिभिः ।

मृतानां च पुनर्जन्म न भूयो भवसागरे ६३।

तस्मात्सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ।

योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः ६४।

न लोकवचनात्पित्रोर्न चैव गुरुवादतः ।

मतिर्न क्रमणीया स्यादविमुक्तगतिं प्रति ६५।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे त्रयस्त्रिंशोऽध्यायः ३३।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 34

नारद उवाच-

तत्रेदं विमलं लिगमोंकारंनाम शोभनम् ।

यस्य स्मरणमात्रेण मुच्यते सर्वपातकैः १।

एतत्परतरं ज्ञानं पंचायतनमुत्तमम् ।

सेवितं मुनिर्भिर्नित्यं वाराणस्यां विमोक्षणम् २।

तत्र साक्षान्महादेवः पंचायतनविग्रहः ।

रमते भगवान्रुद्रो जंतूनामपवर्गदः ३।

एतत्पाशुपतं ज्ञानं पंचायतनमुच्यते ।

तदेतद्विमलं लिगमोंकारं समुपस्थितम् ४।

शांत्यतीता तथा शांतिर्विद्या चैवापरा वरा ।

प्रतिष्ठा च निवृत्तिश्च पंचात्मं लिंगमैश्वरम् ५।

पंचानामपि लिंगानां ब्रह्मादीनां समाश्रयम् ।

ॐकारबोधकं लिंगं पंचायतनमुच्यते ६।

संस्मरेदीश्वरं लिंगं पंचायतनमव्ययम् ।

देहांते परमं ज्योतिरानंदं विशते बुधः ७।

तत्र देवर्षयः पूर्वं सिद्धाब्रह्मर्षयस्तथा ।

उपास्य देवमीशानमापुरंतः परं पदम् ८।

मत्स्योदर्यास्तटे पुण्ये स्थानं गुह्यतमं शुभम् ।

गोचर्ममात्रं राजेंद्र ॐकारेश्वरमुत्तमम् ९।

कृत्तिवासेश्वरं लिंगं मध्यमेश्वरमुत्तमम् ।

विश्वेश्वरं तथोंकारंकंदर्पेश्वरमेव च १०।

एतानि गुह्यलिंगानि वाराणस्यां युधिष्ठिर ।

न कश्चिदिह जानाति विना शंभोरनुग्रहात् ११।

कृत्तिवासेश्वरस्यैव माहात्म्यं शृणु पार्थिव ।

तस्मिन्स्थाने पुरा दैत्यो हस्ती भूत्वा शिवांतिकम् १२।

ब्राह्मणान्हंतुमायातो यत्र नित्यमुपासते ।

तेषां लिंगान्महादेवः प्रादुरासीत्त्रिलोचनः १३।

रक्षणार्थं महादेवो भक्तानां भक्तवत्सलः ।

हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः १४।

वासस्तस्याकरोत्कृत्तिं कृत्तिवासेश्वरस्ततः ।

तत्र सिद्धिं परां प्राप्ता मुनयो हि युधिष्ठिर १५।

तेनैव च शरीरेण प्राप्तास्तत्परमं पदम् ।

विद्याविद्येश्वरा रुद्राः शिवा ये च प्रकीर्त्तिताः १६।

कृत्तिवासेश्वरं लिंगं नित्यमाश्रित्य संस्थिताः ।

ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः १७।

कृत्तिवासं न मुंचंति कृतार्थास्ते न संशयः ।

जन्मांतरसहस्रेण मोक्षो यत्राप्यते न वा १८।

एकेन जन्मना मोक्षः कृत्तिवासेऽत्र लभ्यते ।

आलयं सर्वसिद्धानामेतत्स्थानं वदंति हि १९।

गोपितं देवदेवेन महादेवेन शंभुना ।

युगेयुगे ह्यत्र दांता ब्राह्मणा वेदपारगाः २०।

उपासंते महात्मानं जपंति शतरुद्रियम् ।

स्तुवंति सततं देवं त्र्यंबकं कृत्तिवाससम् ।

ध्यायंति हृदये देवं स्थाणुं सर्वांतरं शिवम् २१।

गायंति सिद्धाः किल गीतकानि वाराणसीं ये निवसंति विप्राः ।

तेषामथैकेन भवेद्विमुक्तिर्ये कृत्तिवासं शरणं प्रपन्नाः २२।

संप्राप्य लोके जगतामभीष्टं सुदुर्लभं विप्रकुलेषु जन्म ।

ध्याने समाधाय जपंति रुद्रं ध्यायंति चित्ते यतयो महेशम् २३।

आराधयंति प्रभुमीशितारं वाराणसीमध्यगता मुनींद्राः ।

यजंति यज्ञैरभिसंधिहीनाः स्तुवंति रुद्रं प्रणमंति शंभुम् २४।

नमो भवायामलयोगधाम्ने स्थाणुं प्रपद्ये गिरिशं पुराणम् ।

स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम् २५।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुस्त्रिंशोऽध्यायः ३४।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 35

नारद उवाच-

अथान्यत्तत्र वै लिंगं कपर्दीश्वरमुत्तमम् ।

स्नात्वा तत्र विधानेन तर्पयित्वा पितॄन्नृप १।

मुच्यते सर्वपापेभ्यो मुक्तिं भुक्तिं च विंदति ।

पिशाचमोचनं नाम तीर्थमन्यत्ततः स्थितम् २।

तत्राश्चर्यमयो देवो मुक्तिदः सर्वदोषहः ।

कश्चिद्दैत्यो जगामेदं शार्दूलो घोररूपधृक् ३।

मृगीमेकां भक्षयितुं कपर्दीश्वरमुत्तमम् ।

तत्र सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम् ४।

धावमाना सुसंभ्रांता व्याघ्रस्य वशमागता ।

तां विदार्य नखैस्तीक्ष्णैः शार्दूलः स महाबलः ५।

जगाम चान्यं विजनं देशं दृष्ट्वा मुनीश्वरान् ।

मृतमात्रा च सा बाला कपर्दीशाग्रतो मृगी ६।

अदृश्यत महाज्वाला व्योम्नि सूर्यसमप्रभा ।

त्रिनेत्रा नीलकंठा च शशांकांकित मूर्द्धजा ७।

वृषाधिरूढा पुरुषैस्तादृशैरेव संवृता ।

पुष्पवृष्टिं विमुंचंति खेचरास्तत्समंततः ८।

गणेश्वरी स्वयं भूत्वा न दृष्टा तत्क्षणात्ततः ।

दृष्ट्वा तदाश्चर्यवरं प्रशशंसुः सुरादयः ९।

तन्महेशस्य वै लिंगं कपर्दीश्वरमुत्तमम् ।

स्मृत्वैवाशेषपापौघात्क्षिप्रमस्य विमुंचति १०।

कामक्रोधादयो दोषा वाराणसी निवासिनाम् ।

विघ्नाः सर्वे विनश्यंति कपर्दीश्वरपूजनात् ११।

तस्मात्सदैव द्रष्टव्यं कपर्दीश्वरमुत्तमम् ।

पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैस्तवैः १२।

ध्यायतां चात्र नियतं योगिनां शांतचेतसाम् ।

जायते योगसिद्धिः स्यात्षण्मासेन न संशयः १३।

ब्रह्महत्यादयः पापा विनश्यंत्यस्य पूजनात् ।

पिशाचमोचने कुंडे स्नातः स्यात्प्रशमो यतः १४।

तस्मिन्क्षेत्रे पुरा विप्रस्तपस्वी संशितव्रतः ।

शंकुकर्ण इति ख्यातः पूजयामास शंकरम् १५।

जजाप रुद्रमनिशं प्रणवं ब्रह्मरूपिणम् ।

पुष्पधूपादिभिस्तोत्रैः नमस्कारैः प्रदक्षिणैः १६।

उपासीतात्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम् ।

कदाचिदागतं प्रेतं पश्यति स्म क्षुधान्वितम् १७।

अस्थिचर्म पिनद्धांगं निश्वसंतं मुहुर्मुहुः ।

तं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः १८।

प्रोवाच को भवान्कस्माद्देशाद्देशमिमं श्रितः ।

तस्मै पिशाचः क्षुधया पीड्यमानोऽब्रवीद्वचः १९।

पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः ।

पुत्रपौत्रादिभिर्युक्तः कुटुंबभरणोत्सुकः २०।

न पूजिता महादेवा गावोऽप्यतिथयस्तथा ।

न कदाचित्कृतं पुण्यमल्पं वानल्पमेव च २१।

एकदा भगवान्देवो वृषभेश्वरवाहनः ।

विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टो नमस्कृतः २२।

तदाचिरेण कालेन पंचत्वमहमागतः ।

न दृष्टं तन्महाघोरं यमस्य सदनं मुने २३।

पिपासयाधुनाक्रांतो न जानामि हिताहितम् ।

यदि कंचित्समुद्धर्तुमुपायं पश्यसि प्रभो २४।

कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः ।

इत्युक्तः शंकुकर्णोऽथ पिशाचमिदमब्रवीत् २५।

तादृशो नहि लोकेस्मिन्विद्यते पुण्यकृत्तमः ।

यत्त्वया भगवान्पूर्वं दृष्टो विश्वेश्वरः शिवः २६।

संस्पृष्टो वंदितो भूयः कोऽन्यस्त्वत्सदृशो भुवि ।

तेन कर्मविपाकेन देशमेतं समागतः २७।

स्नानं कुरुष्व शीघ्रं त्वमस्मिन्कुंडे समाहितः ।

येनेमां कुत्सितां योनिं क्षिप्रमेव प्रहास्यसि २८।

स एवमुक्तो मुनिना पिशाचो दयालुना देववरं त्रिनेत्रम् ।

स्मृत्वा कपर्दीश्वरमीशितारं चक्रे समाधाय मनोवगाहम् २९।

तदावगाढो मुनिसन्निधाने ममार दिव्याभरणोपपन्नः ।

अदृश्यतार्कप्रतिमो विमाने शशांकचिह्नीकृतचारुमौलि ३०।

विभाति रुद्रैः सहितो दिविष्ठैः समाभृतो योगिरिभरप्रमेयैः ।

स वालखिल्यादिभिरेष देवो यथोदये भानुरशेषदेवः ३१।

स्तुवंति सिद्धादि विदेवसंघा नृत्यंति दिव्याप्सरसोऽभिरामाः ।

मुंचंति वृष्टिं कुसुमांबुमिश्रां गंधर्वविद्याधरकिन्नराद्याः ३२।

संस्तूयमानोऽथ मुनींद्रसंघैरवाप्य बोधं भगवत्प्रसादात् ।

समाविशन्मंडलमेतदग्र्यं त्रयीमयं यत्र विभाति रुद्रः ३३।

दृष्ट्वा विमुक्तं स पिशाचभूतं मुनिः प्रहृष्टो मनसा महेशम् ।

विचिंत्य रुद्रं कविमेकमग्निं प्रणम्य तुष्टाव कपर्दिनं तम् ३४।

शंकुकर्ण उवाच-।

कपर्दिनं त्वां परतः परस्ताद्गोप्तारमेकं पुरुषं पुराणम् ।

व्रजामि योगेश्वरमीप्सितारमादित्यमग्निं कपिलाधिरूढम् ३५।

त्वां ब्रह्मसारं हृदि संनिविष्टं हिरण्मयं योगिनमादिमं तम् ।

व्रजामि रुद्रं शरणं दिविष्ठं महामुनिं ब्रह्ममयं पवित्रम् ३६।

सहस्रपादाक्षिशिरोभियुक्तं सहस्ररूपं तमसः परस्तात् ।

तं ब्रह्मपारं प्रणमामि शंभुं हिरण्यगर्भाधिपतिं त्रिनेत्रम् ३७।

यत्र प्रसूतिर्जगतो विनाशो येनावृतं सर्वमिदं शिवेन ।

तं ब्रह्मपारं भगवंतमीशं प्रणम्य नित्यं शरणं प्रपद्ये ३८।

अलिंगमालोकविहीनरूपं स्वयंप्रभुं चित्पतिमेकरूपम् ।

तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये न यतोऽन्यदस्ति ३९।

यं योगिनस्त्यक्तसबीजयोगा लब्ध्वा समाधिं परमात्मभूताः ।

पश्यंति देवं प्रणतोऽस्मि नित्यं तं ब्रह्मपारं परमस्वरूपम् ४०।

न यत्र नामादिविशेष कॢप्तिर्न संदृशे तिष्ठति यत्स्वरूपम् ।

तं ब्रह्मपारं प्रणतोऽस्मि नित्यं स्वयंभुवं त्वां शरणं प्रपद्ये ४१।

यद्वेदवादाभिरता विदेहं सब्रह्मविज्ञानमभेदमेकम् ।

पश्यंत्यनेकं भवतः स्वरूपं तं ब्रह्मपारं प्रणतोऽस्मि नित्यम् ४२।

यतः प्रधानं पुरुषः पुराणो बिभर्ति तेजः प्रणमंति देवाः ।

नमामि तं ज्योतिषि सन्निविष्टं कालं बृहंतं भवतः स्वरूपम् ४३।

व्रजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुराणम् ।

शिवं प्रपद्ये हरिमिंदुमौलिं पिनाकिनं त्वां शरणं व्रजामि ४४।

स्तुत्वैवं शंकुकर्णोऽपि भगवंतं कपर्दिनम् ।

पपात दंडवद्भूमौ प्रोच्चरन्प्रणवं परम् ४५।

तत्क्षणात्परमं लिंगं प्रादुर्भूतं शिवात्मकम् ।

ज्ञानमानंदमत्यंतं कोटिज्वालाग्निसन्निभम् ४६।

शंकुकर्णोऽथ मुक्तात्मा तदात्मा सर्वगोऽमलः ।

निलिल्ये विमले लिंगे तदद्भुतमिवाभवत् ४७।

एतद्रहस्यमाख्यातं माहात्म्यं ते कपर्द्दिनः ।

न कश्चिद्वेत्ति तमसा विद्वानप्यत्र मुह्यति ४८।

य इमां शृणुयान्नित्यं कथां पापप्रणाशिनीम् ।

त्यक्तपापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात् ४९।

पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम् ।

प्रातर्मध्याह्नसमये स योगं प्राप्नुयात्परम् ५०।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे वाराणसीमाहात्म्ये पंचत्रिंशोऽध्यायः ३५।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 36

नारद उवाच-

वाराणस्यां महाराज मध्यमेशं परात्परम् ।

तस्मिन्स्थाने महादेवो देव्या सह महेश्वरः १।

रमते भगवान्नित्यं रुद्रैश्च परिवारितः ।

तत्र पूर्वं हृषीकेशो विश्वात्मा देवकीसुतः २।

उवास वत्सरं कृष्णः सदा पाशुपतैर्युतः ।

भस्मोद्धूलितसर्वांगो रुद्राध्ययनतत्परः ३।

आराधयन्हरिः शंभुं कृत्वा पाशुपतंव्रतम् ।

तस्य ते बहवः शिष्याः ब्रह्मचर्यपरायणाः ४।

लब्ध्वा तद्वदनाज्ज्ञानं दृष्टवंतो महेश्वरम् ।

तस्य देवो महादेवः प्रत्यक्षं नीललोहितः ५।

ददौ कृष्णस्य भगवान्वरदो वरमुत्तमम् ।

येऽर्चयंति च गोविंदं मद्भक्ता विधिपूर्वकम् ६।

तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मयम् ।

नमस्योऽर्चयितव्यश्च ध्यातव्यो मत्परैर्जनैः ७।

भविष्यंति न संदेहो मत्प्रसादाद्द्विजातयः ।

येऽत्र द्रक्ष्यंति देवेशं स्नात्वा देवं पिनाकिनम् ८।

ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति ।

प्राणांस्त्यक्ष्यंति ये र्मत्याः पापकर्मरता अपि ९।

ते यांति तत्परं स्थानं नात्र कार्या विचारणा ।

धन्यास्तु खलु ते विज्ञा मंदाकिन्यां कृतोदकाः १०।

अर्चयित्वा महादेवं मध्यमेश्वरमीश्वरम् ।

ज्ञानं दानं तपः श्राद्धं पिंडनिर्वपणं त्विह ११।

एकैकशः कृतं कर्म पुनात्यासप्तमं कुलम् ।

सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे १२।

यत्फलं लभते मर्त्त्यस्तस्माद्दशगुणं त्विह ।

एवमुक्तं महाराज माहात्म्यं मध्यमेश्वरे ।

यः शृणोति परं भक्त्या स याति परमं पदम् १३।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे वाराणसीमाहात्म्ये षट्त्रिंशोऽध्यायः ३६।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 37

नारद उवाच-।

अन्यानि च महाराज तीर्थानि पावनानि तु ।

वाराणस्यां स्थितानीह संशृणुष्व युधिष्ठिर १।

प्रयागादधिकं तीर्थं प्रयागं परमं शुभम् ।

विश्वरूपं तथा तीर्थं तालतीर्थमनुत्तमम् २।

आकाशाख्यं महातीर्थं तीर्थं चैवार्षभं परम् ।

सुनीलं च महातीर्थं गौरीतीर्थमनुत्तमम् ३।

प्राजापत्यं तथा तीर्थं स्वर्गद्वारं तथैव च ।

जंबुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमम् ४।

गयातीर्थं परं तीर्थं तीर्थं चैव महानदी ।

नारायणपरं तीर्थं वायुतीर्थमनुत्तमम् ५।

ज्ञानतीर्थं परं गुह्यं वाराहं तीर्थमुत्तमम् ।

यमतीर्थं यथापुण्यं तीर्थं संमूर्तिकं शुभम् ६।

अग्नितीर्थं महाराज कलशेश्वरमुत्तमम् ।

नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च ७।

पर्वताख्यं महागुह्यं मणिकर्ण्यमनुत्तमम् ।

घटोत्कचं तीर्थवरं श्रीतीर्थं च पितामहम् ८।

गंगातीर्थं तु देवेशं ययातेस्तीर्थमुत्तमम् ।

कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमम् ९।

तत्र लिंगं पुराणीयं स्थातुं ब्रह्मा यथागतः ।

तदानीं स्थापयामास विष्णुस्तल्लिंगमैश्वरम् १०।

तत्र स्नात्वा समागम्य ब्रह्मा प्रोवाच तं हरिम् ।

मयानीतमिदं लिंगं कस्मात्स्थापितवानसि ११।

तमाह विष्णुस्त्वत्तोऽपि रुद्रे भक्तिर्दृढा मम ।

तस्मात्प्रतिष्ठितं लिगं नाम्ना तव भविष्यति १२।

भूतेश्वरं तथा तीर्थं तीर्थं धर्मसमुद्भवम् ।

गंधर्वतीर्थं सुशुभं वाह्नेयं तीर्थमुत्तमम् १३।

दौर्वासिकं व्योमतीर्थं चंद्रतीर्थं युधिष्ठिर ।

चिंतांगदेश्वरं तीर्थं पुण्यं विद्याधरेश्वरम् १४।

केदारतीर्थमुग्राख्यं कालंजरमनुत्तमम् ।

सारस्वतं प्रभासं च रुद्रकर्णह्रदं शुभम् १५।

कोकिलाख्यं महातीर्थं तीर्थं चैव महालयम् ।

हिरण्यगर्भं गोप्रेक्षं तीर्थं चैवमनुत्तमम् १६।

उपशांतं शिवं चैव व्याघ्रेश्वरमनुत्तमम् ।

त्रिलोचनं महातीर्थं लोकार्कं चोत्तराह्वयम् १७।

कपालमोचनं तीर्थं ब्रह्महत्याविनाशनम् ।

शुक्रेश्वरं महापुण्यमानंदपुरमुत्तमम् १८।

एवमादीनि तीर्थानि वाराणस्यां स्थितानि वै ।

न शक्यं विस्तराद्वक्तुं कल्पकोटिशतैरपि १९।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे वाराणसीमाहात्म्ये सप्तत्रिंशोऽध्यायः ३७।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 38

नारद उवाच-

वाराणस्याश्च माहात्म्यं तस्यां तीर्थानि च प्रभो ।

कथितानि समासेन तीर्थान्यन्यानि संशृणु १।

ततो गयां समासाद्य ब्रह्मचारी समाहितः ।

अश्वमेधमवाप्नोति गमनादेव भारत २।

यत्राक्षय्यवटो नाम त्रिषु लोकेषु विश्रुतः ।

पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो ३।

महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः ।

अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ४।

ततो ब्रह्मसरो गच्छेद्ब्रह्मारण्योपसेवितम् ।

पुंडरीकमवाप्नोति प्रभातमिव शर्वरी ५।

सरसि ब्रह्मणा तत्र यूपश्रेष्ठः समुच्छ्रितः ।

यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् ६।

ततो गच्छेत राजेंद्र धेनुकं लोकविश्रुतम् ।

एकारात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ७।

सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम् ।

तत्र चिह्नं महाराज अद्यापि हि न संशयः ८।

कपिला सहवत्सा वै पर्वते विचरत्युतः ।

सवत्सायाः पदान्यस्या दृश्यंतेऽद्यापि भारत ९।

तेषूपस्पृश्य राजेंद्र पदेषु नृपसत्तम ।

यत्किंचिदशुभं पापं तत्प्रणश्यति भारत १०।

ततो गृध्रवटं गच्छेत्स्थानं देवस्य शूलिनः ।

स्नायात्तु भस्मना तत्र संगम्य वृषभध्वजम् ११।

ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् ।

इतरेषां तु वर्णानां सर्वपापं प्रणश्यति १२।

गच्छेत तत उद्यंतं पर्वतं गीतनादितम् ।

सावित्रं तु पदं तत्र दृश्यते भरतर्षभ १३।

तत्र संध्यामुपासीत ब्राह्मणः संशितव्रतः ।

उपास्ताहि भवेत्संध्या तेन द्वादशवार्षिकी १४।

योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ ।

तत्राभिगम्य मुच्येत पुरुषो योनिसंकटात् १५।

शुक्लकृष्णावुभौ पक्षौ गयायां यो वसेन्नरः ।

पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः १६।

एष्टव्या बहवः पुत्रा यद्यप्येको गयां व्रजेत् ।

यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् १७।

ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप ।

अश्वमेधमवाप्नोति सिद्धिं च परमां व्रजेत् १८।

ततो गच्छेत राजेंद्र धर्मपृष्ठं समाहितः ।

यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर १९।

धर्म्मं तत्राभिसंगम्य वाजिमेधफलं लभेत् ।

ततो गच्छेत राजेंद्र ब्रह्मणस्तीर्थमुत्तमम् २०।

तत्राभिगम्य ब्रह्माणमर्चयेन्नियतव्रतः ।

राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत २१।

ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप ।

उपस्पृश्य ततस्तत्र कक्षीवानिव मोदते २२।

यक्षिण्या नैत्यकं तत्र प्रागग्निपुरुषः शुचिः ।

यक्षिण्यास्तु प्रसादेन मुच्यते ब्रह्महत्यया २३।

मणिनागं ततो गच्छेद्गोसहस्रफलं लभेत् ।

नैत्यकं भुंजते यस्तु मणिनागस्य मानवः २४।

दष्टस्याशीविषेणास्य न विषं क्रमते नृप ।

तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते २५।

ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप ।

अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् २६।

अभिगम्य श्रियं राजन्विंदते श्रियमुत्तमाम् ।

तत्रोदपानो धर्म्मज्ञ त्रिषु लोकेषु विश्रुतः २७।

तत्राभिषेकं कुर्वीत वाजिमेधमवाप्नुयात् ।

जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः २८।

तत्राभिषेकं कृत्वा च विष्णुलोकमवाप्नुयात् ।

ततोऽविनाशनं गच्छेत्सर्वपापप्रमोचनम् २९।

वाजिमेधमवाप्नोति सोमलोकं च गच्छति ।

गंडकीं च समासाद्य सर्वतीर्थजलोद्भवाम् ३०।

वाजपेयमवाप्नोति सूर्यलोकं च गच्छति ।

ततो ध्रुवस्य धर्मज्ञ समाविश्य तपोवनम् ३१।

गुह्यकेषु महाभाग मोदते नात्र संशयः ।

कर्मदां तु समासाद्य नदीं सिद्धनिषेविताम् ३२।

पुंडरीकमवाप्नोति सोमलोकं च गच्छति ।

ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् ३३।

अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ।

अथ माहेश्वरीं धारां समासाद्य नराधिप ३४।

अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ।

दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः ३५।

न दुर्गतिमवाप्नोति वाजपेयं च विंदति ।

अथ माहेशपदं गच्छेद्ब्रह्मचारी समाहितः ३६।

माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् ।

तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ ३७।

कूर्मरूपेण राजेंद्र असुरेण दुरात्मना ।

ह्रियमाणा हृता राजन्विष्णुना प्रभविष्णुना ३८।

तत्राभिषेकं कुर्वीत तीर्थकोट्यां नराधिप ।

पुंडरीकमवाप्नोति विष्णुलोकं च गच्छति ३९।

ततो गच्छेन्नरश्रेष्ठ स्थानं नारायणस्य च ।

सदा सन्निहितो यत्र हरिर्वसति भारत ४०।

यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।

आदित्यावसवोरुद्रा जनार्दनमुपासते ४१।

शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः ।

अभिगम्य त्रिलोकेशं वरदं विष्णुमच्युतम् ४२।

अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ।

तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः ४३।

समुद्रास्तत्रचत्वारः कूपे सन्निहिताः सदा ।

तत्रोपस्पृश्य राजेंद्र न दुर्गतिमवाप्नुयात् ४४।

अभिगम्य महादेवं वरदं विष्णुमव्ययम् ।

विराजते यथा सोम ऋणैर्मुक्तो युधिष्ठिर ४५।

जातिस्मरं उपस्पृश्य शुचिः प्रयतमानसः ।

जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः ४६।

वटेश्वरपुरं गत्वा अर्चयित्वा च केशवम् ।

ईप्सिताँल्लभते लोकानुपवासान्न संशयः ४७।

ततस्तु वामनं गत्वा सर्वपापप्रणाशनम् ।

अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात् ४८।

भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम् ।

कौशिकीं तत्र सेवेत महापातकनाशिनीम् ४९।

राजसूयस्य यज्ञस्य फलं प्राप्नोतिमानवः ।

ततो गच्छेत धर्मज्ञ चंपकारण्यमुत्तमम् ५०।

तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ।

अथ गोविंदमासाद्य तीर्थं परमसम्मतम् ५१।

उपोष्य रजनीमेकामग्निष्टोमफलं लभेत् ।

तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् ५२।

मित्रावरुणयोर्लोकान्प्राप्नुयाद्भरतर्षभ ।

त्रिरात्रोपोषितस्तत्र अग्निष्टोमफलं लभेत् ५३।

कन्यावसथमासाद्य नियतो नियताशनः (आवसथ्य)।

मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ ५४।

कन्यायां ये प्रयच्छंति दानमण्वपि भारत ।

तदक्षयमिति प्राहुरृषयः संशितव्रताः ५५।

निष्ठावासं समासाद्य त्रिषु लोकेषु विश्रुतम् ।

अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ५६।

ये तु दानं प्रयच्छंति निष्ठायाः संगमे नराः ।

ते यांति नरशार्दूल ब्रह्मलोकमनामयम् ५७।

तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः ।

तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ५८।

देवकूटं समासाद्य देवर्षिगणसेवितम् ।

अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ५९।

ततो गच्छेत राजेंद्र कौशिकस्य मुनेर्ह्रदम् ।

तत्र सिद्धिं परां प्राप विश्वामित्रोऽथ कौशिकः ६०।

यत्र मासं वसेद्धीरः कौशिक्यां भरतर्षभ ।

अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ६१।

सर्वतीर्थवरं चैव यो वसेत महाह्रदम् ।

न दुर्गतिमवाप्नोति विंद्याद्बहुसुवर्णकम् ६२।

कुमारमभिगम्याथ वीराश्रमनिवासिनम् ।

अश्वमेधमवाप्नोति शक्रलोकं स गच्छति ६३।

नंदिन्यां च समासाद्य कूपं त्रिदशसेवितम् ।

नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह ६४।

कालिकासंगमे स्नात्वा कौशिक्यारुणयोर्यतः ।

त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते ६५।

उर्वशीतीर्थमासाद्य तथा सोमाश्रमं बुधः ।

कुंभकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः ६६।

तथा कोकामुखे स्नात्वा ब्रह्मचारी समाहितः ।

जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातनैः ६७।

सकृन्नदीं समासाद्य कृतार्थो भवति द्विजः ।

सर्वपापविशुद्धात्मा स्वर्गलोकं च गच्छति ६८।

ऋषभद्वीपमासाद्य सेव्य क्रौंचनिषूदनम् ।

सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ६९।

औद्यानकं महाराज तीर्थं मुनिनिषेवितम् ।

तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते ७०।

ब्रह्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् ।

वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः ७१।

ततश्चंपां समासाद्य भागीरथ्यां कृतोदकः ।

दंडार्पणं समासाद्य गोसहस्रफलं लभेत् ७२।

लाविढिकां ततो गच्छेत्पुण्यां पुण्यनिषेविताम् ।

वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ७३।

इति श्रीपाद्मेमहापुराणे स्वर्गखंडे गयादितीर्थमाहात्म्यकथनंनाम अष्टत्रिंशोऽध्यायः ३८।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 39

नारद उवाच-

अथ संध्यां समासाद्य स विद्यांतीर्थमुत्तमम् ।

उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः १।

रामस्य च प्रसादेन तीर्थराजं कृतं पुरा ।

तल्लौहित्यं समासाद्य विंद्याद्बहुसुवर्णकम् २।

करतोयां समासाद्य त्रिरात्रोपोषितो नरः ।

अश्वमेधमवाप्नोति शक्रलोकं च गच्छति ३।

गंगायास्त्वथ राजेंद्र सागरस्य च संगमे ।

अश्वमेधं दशगुणं प्रवदंति मनीषणः ४।

गंगायास्तु परं द्वीपं प्राप्य यः स्नाति भारत ।

त्रिरात्रोपोषितो राजन्सर्वकाममवाप्नुयात् ५।

ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् ।

विरजं तीर्थमासाद्य विराजति यथा शशी ६।

प्रभावे च कुलं पूत्वा सर्वपापं व्यपोहति ।

गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नरः ७।

शोणस्य ज्योतिरथ्याश्च संगमे निवसञ्छुचिः ।

तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ८।

शोणस्य नर्मदायाश्च प्रभवे कुरुपुंगव ।

वंशगुल्ममुपस्पृश्य वाजिमेधफलं लभेत् ९।

ऋषभं तीर्थमासाद्य कोशलायां नराधिप ।

वाजिमेधमवाप्नोति त्रिरात्रोपोषितो नरः १०।

कोशलायां समासाद्य कालतीर्थमुपस्पृशेत् ।

वृषभैकादशगुणं लभते नात्र संशयः ११।

पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः ।

गोसहस्रफलं विंद्यात्कुलं चैव समुद्धरेत् १२।

ततो बदारिकातीर्थे स्नात्वा प्रयतमानसः ।

दीर्घायुष्यमवाप्नोति स्वर्गलोकं च गच्छति १३।

ततो महेंद्रमासाद्य जामदग्न्यनिषेवितम् ।

रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् १४।

मतंगस्य तु केदारं तत्रैव भरतर्षभ ।

तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् १५।

श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत् ।

अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति १६।

श्रीपर्वते महादेवो देव्या सह महाद्युतिः ।

न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः १७।

तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः ।

अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति १८।

ऋषभं पर्वतं गत्वा भांडेषु सुरपूजितम् ।

वाजपेयमवाप्नोति नाकपृष्ठे च मोदते १९।

ततो गच्छेत कावेरीं वृतामृप्सरसां गणैः ।

तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् २०।

तत्र तीर्थे समुद्रस्य कन्यातीर्थमुपस्पृशेत् ।

तत्रोपस्पृश्य राजेंद्र सर्वपापैः प्रमुच्यते २१।

अथ गोकमर्णमासाद्य त्रिषुलोकेषु विश्रुतम् ।

समुद्रमध्ये राजेंद्र सर्वलोकनमस्कृतम् २२।

यत्र ब्रह्मादयो देवा मुनयश्च तपोधनाः ।

भूतयक्षाः पिशाचाश्च किन्नराः समहोरगाः २३।

सिद्धचारणगंधर्वा मानुषाः पन्नगास्तथा ।

सरितः सागराः शैला उपासंते उमापतिम् २४।

तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः ।

दशाश्वमेधमाप्नोति गाणपत्यं च विंदति २५।

उपोष्य द्वादशरात्रं कृतार्थो जायते नरः ।

तस्मिन्नेव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् २६।

त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् ।

निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप २७।

गायत्रीं पठते यस्तु योनिसंकरजो द्विजः ।

गाथा वा गीतिका वाणी तस्य संपद्यते नृप २८।

अब्राह्मणस्य पठतः सावित्री तूपनश्यति ।

संवर्तस्य तु विप्रर्षे वापीमासाद्य दुर्ल्लभाम् २९।

रूपस्य भागी भवति सुभगश्चाभिजायते ।

ततो वेणां समासाद्य तर्पयेत्पितृदेवताः ३०।

मयूरहंससंयुक्तं विमानं लभते नरः ।

ततो गोदावरीं प्राप्य नित्यसिद्धनिषेविताम् ३१।

गवामयमवाप्नोति वायुलोकं च गच्छति ।

वेणायाः संगमे स्नात्वा वाजपेयफलं लभेत् ३२।

वरदासंगमं स्नात्वा गोसहस्रफलं लभेत् ।

ब्रह्मस्थूणां समासाद्य त्रिरात्रोपोषितो नरः ३३।

गोसहस्रफलं विंद्यात्स्वर्गलोकं च गच्छति ।

कुब्जावनं समासाद्य ब्रह्मचारी समाहितः ३४।

त्रिरात्रोपोषितः स्नात्वा गोसहस्रफलं लभेत् ।

ततो देवह्रदे स्नात्वा कृष्णवेणा जलोद्भवे ३५।

ज्योतिर्मात्र ह्रदे चैव तथा कन्याश्रमे नृप ।

यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः ३६।

अग्निष्टोमशतं विंद्याद्गमनादेव तत्र तु ।

सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् ३७।

जातिमात्र ह्रदे स्नात्वा भवेज्जातिस्मरो नरः ।

शरभंगाश्रमं गत्वा शुकस्य च महात्मनः ३८।

पितृदेवार्चनरतो गोसहस्रफलं लभेत् ।

दंडकारण्यमासाद्य महाराज उपस्पृशेत् ३९।

शरभंगाश्रमं गत्वा शुकस्य च महात्मनः ।

न दुर्गतिमवाप्नोति पुनाति स्वकुलं नरः ४०।

ततः सूर्यारकं गच्छेज्जमदग्निनिषेवितम् ।

रामतीर्थं नरः स्नात्वा विंद्याद्बहुसुवर्णकम् ४१।

सप्तगोदावरीं स्नात्वा नियतो नियताशनः ।

महापुण्यमवाप्नोति देवलोकं च गच्छति ४२।

ततो देवपथं गच्छेन्नियतो नियताशनः ।

देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः ४३।

तुंगकारण्यमासाद्य ब्रह्मचारी जितेंद्रियः ।

वेदानध्यापयत्तत्र मुनीन्सारस्वतः पुरा ४४।

तत्र वेदान्प्रणष्टांस्तु मुनेरांगिरसः सुतः ।

उपविष्टो महर्षीणामुत्तरीयेषु भारत ४५।

ॐकारेण यथान्यायं सम्यगुच्चारितेन ह ।

येन यत्पूर्वमभ्यस्तं तस्य तत्समुपस्थितम् ४६।

ऋषयस्तत्र देवाश्च वरुणोऽग्निप्रजापतिः ।

हरिर्नारायणो देवो महादेवस्तथैव च ४७।

पितामहश्च भगवान्देवैस्सह महाद्युतिः ।

भृगुं नियोजयामास याजनार्थे महाद्युतिम् ४८।

ततः स चक्रे भगवानृषीणां विधिवत्तदा ।

सर्वेषां पुनराधानं देवदृष्टेन कर्मणा ४९।

आज्यभागेन वै तत्र तर्पितास्तु यथाविधि ।

देवास्त्रिभुवनं याता ऋषयश्च यथासुखम् ५०।

तदरण्यं प्रविष्टस्य तुंगकं राजसत्तम ।

पापं विनश्यते सद्यः स्त्रिया वै पुरुषस्य वा ५१।

तत्र मासं वसेद्धीरो नियतो नियताशनः ।

ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं पुनः ५२।

मेधावनं समासाद्य पितृदेवांश्च तर्पयेत् ।

अग्निष्टोममवाप्नोति स्मृतिं मेधां च विंदति ५३।

तत्र कालंजरं गत्वा गोसहस्रफलं लभेत् ।

आत्मानं साधयेत्तत्र गिरौ कालंजरे नृप ५४।

स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः ।

ततो गिरिवरश्रेष्ठे चित्रकूटे विशांपते ५५।

मंदाकिनीं समासाद्य नदीं पापविमोचनीम् ।

अत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः ५६।

अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् ।

ततो गच्छेत राजेंद्र गुहस्थानमनुत्तमम् ५७।

यत्र देवो महासेनो नित्यं सन्निहितो नृप ।

पुमांस्तत्र नरःश्रेष्ठ गमनादेव सिध्यति ५८।

कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ।

प्रदक्षिणमुपावृत्य यशःस्थानं व्रजेन्नरः ५९।

अभिगम्य महादेवं विराजति यथा शशी ।

तत्र कूपो महाराज विश्रुतो भरतर्षभ ६०।

समुद्रा यत्र चत्वारो निवसंति युधिष्ठिर ।

ततोपस्पृश्य राजेंद्र कृत्वा चापि प्रदक्षिणम् ६१।

नियतात्मा नरः पूतो गच्छेत परमां गतिम् ।

ततो गच्छेत्कुरुश्रेष्ठ शृंगवेरपुरं महत् ६२।

यत्र तीर्णो महाप्राज्ञो रामो दाशरथिः पुरा ।

गंगायां तु नरः स्नात्वा ब्रह्मचारी जितेंद्रियः ६३।

विधूतपाप्मा भवति वाजपेयं च विंदति ।

ततो मुंजवटं गछेत्स्थानं देवस्य धीमतः ६४।

अभिगम्य महादेवमभ्यर्च्य च नराधिप ।

प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ६५।

ततो गच्छेत राजेंद्र प्रयागमृषिसंस्तुतम् ।

यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ६६।

लोकपालाश्च सिद्धाश्च निरताः पितरस्तथा ।

सनत्कुमारप्रमुखास्तथैव च महर्षयः ६७।

तथा नागाः सुपर्णाश्च सिद्धाः शुक्रधरास्तथा ।

सरितः सागराश्चैव गंधर्वाप्सरसस्तथा ६८।

हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ।

तत्र त्रीण्यपि कुंडानि तयोर्मध्येन जाह्नवी ६९।

प्रयागात्समतिक्रांता सर्वतीर्थपुरस्कृता ।

तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ७०।

यमुनागंगया सार्द्धं संगता लोकभाविनी ।

गंगायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् ७१।

प्रयागं जघनस्यांतमुपस्थमृषयो विदुः ।

प्रयागं सुप्रतिष्ठानं कंबलाश्वतरावुभौ ७२।

तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ।

तत्र वेदाश्च यज्ञाश्च मूर्त्तिमंतो युधिष्ठिर ७३।

प्रजापतिमुपासंत ऋषयश्च महानघाः ।

यजंते क्रतुभिर्देवांस्तथा चक्रधरा नृप ७४।

ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत ।

प्रयागं सर्वतीर्थेभ्यः प्रभावेणाधिकं प्रभो ७५।

श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि ।

मूर्धका नमनाद्वापि सर्वपापैः प्रमुच्यते ७६।

तत्राभिषेकं यः कुर्यात्संगमे संशितव्रतः ।

पुण्यं सुमहदाप्नोति राजसूयाश्वमेधयोः ७७।

एषा यजनभूमिर्हि देवानामपि तत्कथा ।

दत्तं तत्र स्वल्पमपि महद्भवति भारत ७८।

न देववचनात्तात न लोकवचनादपि ।

मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ७९।

दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः ।

येषां सान्निध्यमत्रैव कीर्त्तितं कुरुनंदन ८०।

चतुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत् ।

स्नातएवतदाप्नोतिगंगायामुनसंगमे ८१।

ततो भोगवती नाम वासुकेस्तीर्थमुत्तमम् ।

तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् ८२।

तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् ।

दशाश्वमेधिकं चैव गंगायां कुरुनंदन ८३।

कुरुक्षेत्रसमा गंगा यत्र तत्रावगाहिता ।

विशेषो वै कनखले प्रयागं परमं महत् ८४।

यद्यकार्यशतं कृत्वा कृतं गंगावसेवनम् ।

सर्वं तत्तस्य गंगापो दहत्यग्निरिवेंधनम् ८५।

सर्वं दहति गंगापस्तूलराशिमिवानलः ।

सर्वं कृतयुगे पुण्यं त्रेतायां पुष्करं स्मृतम् ८६।

द्वापरे तु कुरुक्षेत्रं गंगा कलियुगे स्मृता ।

पुष्करे तु तपस्तप्येद्दानं दद्यान्महालये ८७।

मलये त्वग्निमारोहेद्भृगुतुंगे त्वनाशनम् ।

पुष्करे तु कुरुक्षेत्रे गंगापो मध्यगेषु च ८८।

सद्यस्तारयते जंतुः सप्तसप्तावरांस्तथा ।

पुनाति कीर्त्तिता पापं दृष्ट्वा पुण्यं प्रयच्छति ८९।

अवगाढा च पीत्वा च पुनात्यासप्तमं कुलम् ।

यावदस्थि मनुष्यस्य गंगायाः स्पृशते जलम् ९०।

तावत्स पुरुषो राजन्स्वर्गलोके महीयते ।

यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च ९१।

उपास्य पुण्यं लब्ध्वा च भवति परलोकभाक् ।

न गंगा सदृशं तीर्थं न देवः केशवात्परः ९२।

ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः ।

यत्र गंगा महाराज स देशस्तत्र योजनम् ९३।

सिद्धक्षेत्रं च विज्ञेयं गंगातीरसमाश्रितम् ।

इदं सत्यं द्विजातीनां साधूनां मानसेषु च ९४।

मुक्तिं चैव जपेत्कर्णे शिष्टस्यानुगतस्य च ।

इदं धर्म्यमिदं मेध्यमिदं स्वर्ग्यमिदं सुखम् ९५।

इदं पुण्यतमं रम्यं पावनं धर्ममुत्तमम् ।

महीशीर्षमिदं गुह्यं सर्वपापप्रमोचनम् ९६।

अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात् ।

श्रीमत्स्वर्ग्यं महापुण्यं सपत्नशमनं शिवम् ९७।

मेधाजननमग्र्यं वै तीर्थवंशानुकीर्त्तनम् ।

अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ९८।

महीं विजयते राजा वैश्यो धनमवाप्नुयात् ।

शूद्रो यातीप्सितान्कामान्ब्राह्मणः पारगः पठन् ९९।

यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचि ।

जातिस्मरत्वमाप्नोति नाकपृष्ठे च मोदते १००।

गम्यान्यपि च तीर्थानि कीर्तितान्यगमान्यपि ।

मनसाप्यभिगच्छेत सर्वतीर्थमनीषया १०१।

एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः ।

ऋषिभिर्देवकल्पैश्च कृतानि सुकृतैषिभिः १०२।

एवं त्वमपि कौरव्य विधिनानेन सुव्रत ।

व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्द्धते १०३।

भावितैः करणैः पूर्वमास्तिक्याछ्रुतिदर्शनात् ।

प्राप्यंते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः १०४।

नाकृतो नाकृतात्मा च नाशुचिर्न च तस्करः ।

स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः १०५।

त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना ।

पितरस्तर्पितास्तात सर्वे च प्रपितामहाः ।

पितामहपुरोगाश्च देवाः सर्षिगणास्तथा १०६।

वसिष्ठ उवाच-

त्वं च धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः ।

दिलीपकीर्तिं महतीं प्राप्स्यसे भुवि शाश्वतीम् १०७।

नारद उवाच-

एवमुक्त्वाभ्यनुज्ञाप्य वसिष्ठो भगवानृषिः ।

प्रीतः प्रीतेनमनसा तत्रैवांतरधीयत १०८।

दिलीपः कुरुशार्दूल शास्त्रतत्त्वार्थदर्शनात् ।

वसिष्ठवचनाच्चैव पृथिवीमनुचक्रमे १०९।

एवमेषा महाभाग प्रतिष्ठाने प्रतिष्ठिता ।

तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी ११०।

अनेन विधिना यस्तु पृथिवीं पर्यटिष्यति ।

अश्वमेधशतं साग्रं फलं प्रेत्यैष भोक्ष्यते १११।

ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् ।

दिलीपः पार्थ नृपतिर्यथापूर्वमवाप्तवान् ११२।

नेता च त्वमृषीन्यस्मात्तस्मात्तेष्टगुणं फलम् ।

रक्षोगणविकीर्णानि तीर्थान्येतानि भारत ११३।

न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनंदन ।

इदं देवर्षिचरितं सर्वतीर्थानुसंश्रितम् ११४।

यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते ।

ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ कश्यपः ११५।

आत्रेयस्त्वथ कौंडिन्यो विश्वामित्रोऽथ गौतमः ।

असितो देवलश्चैव मार्कंडेयोऽथ गालवः ११६।

भरद्वाजस्य शिष्यश्च मुनिरुद्दालकस्तथा ।

शौनकः सह पुत्रेण व्यासश्च तपतां वरः ११७।

दुर्वासाश्च मुनिश्रेष्ठो जाबालिश्च महातपाः ।

एते ऋषिवराः सर्वे त्वत्प्रतीक्ष्यास्तपोधनाः ११८।

एभिः सह महाभाग तीर्थान्येतान्यनुव्रज ।

प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः ११९।

यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः ।

तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे १२०।

यथा भगीरथो राजा यथा रामश्च विश्रुतः ।

यथा वै वृत्रहा सर्वान्सपत्नानदहत् पुरा १२१।

त्रैलोक्यं पालयामास देवराट्विगतज्वरः ।

तथा शत्रुक्षयं कृत्वा त्वं प्रजाः पालयिष्यसि १२२।

स्वधर्मेणार्जितामुर्वीं प्राप्य राजीवलोचन ।

ख्यातिं यास्यसि वीर्येण कार्त्तवीर्यार्जुनो यथा १२३।

सूत उवाच-

एवमाभाष्य राजानं नारदो भगवानृषिः ।

अनुज्ञाप्य महाराजं तत्रैवांतरधीयत १२४।

युधिष्ठिरोऽपि धर्मात्मा ऋषिभिः सह सुव्रतः ।

जगामाखिलतीर्थानि सादरः पृथिवीपतिः १२५।

मयोक्तामृषयः सर्वे तीर्थयात्राश्रयां कथाम् ।

यः पठेच्छृणुयाद्वापि स मुक्तः सर्वपातकैः १२६।

मयोक्तमखिलं तत्त्वं किं भूयः श्रोतुमिच्छथ ।

ऋषीणां पुण्यकीर्तीनां नावक्तव्यं ममास्ति वै १२७।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे नानाविधतीर्थकथनं।

नाम नवत्रिंशोऽध्यायः ३९।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 40

सूत उवाच-

एवमुक्तानि तीर्थानि विष्णुदेहानि सुव्रताः ।

एषामन्यतमा संगान्मुक्तो भवति मानवः १।

तीर्थानुश्रवणं धन्यं धन्यं तीर्थनिषेवणम् ।

पापराशिनिपाताय नान्योपायः कलौयुगे २।

वासं कुर्यामहं तीर्थे तीर्थस्पर्शमहं तथा ।

एवं योऽनुदिनं ब्रूते स याति परमं महत् ३।

पापानि तस्य नश्यंति तीर्थालापनमात्रतः ।

तीर्थानि खलु धन्यानि धन्यसेव्यानि सुव्रताः ४।

तीर्थानां सेवनादेव सेवितो भवति प्रभुः ।

नारायणो जगत्कर्ता नास्ति तीर्थात्परं पदम् ५।

ब्राह्मणस्तुलसी चैव अश्वत्थस्तीर्थसंचयः ।

विष्णुश्च परमेशानः सेव्य एव सदा नृभिः ६।

ब्राह्मणानां विशेषेण सेवनं मुनिपुंगवाः ।

सर्वतीर्थावगाहादेरधिकं विदुरग्रजाः ७।

तस्माद्द्विजपदं साक्षात्सर्वतीर्थमयं शुभम् ।

भजेतानुदिनं विद्वांस्तत्र तीर्थाधिकं भवेत् ८।

अश्वत्थस्य तुलस्याश्च गवां कुर्यात्प्रदक्षिणम् ।

सर्वतीर्थफलंप्राप्य विष्णुलोके महीयते ९।

तस्माद्दुष्कृतकर्माणि नाशयेत्तीर्थसेवनात् ।

अन्यथा नरकं याति कर्म्मभोगाद्धि शाम्यति १०।

पापिनां नरके वासः सुकृती स्वर्गमश्नुते ।

तस्मात्पुण्यं निषेवेत तीर्थं खलु विचक्षणः ११।

ऋषय ऊचुः-

श्रुतानि किल तीर्थानि समाहात्म्यानि सुव्रत ।

इदानीं श्रोतुमिच्छामः प्रयागस्य विशेषकम् १२।

प्रयागं तु पुरा प्रोक्तं संक्षेपात्सूत यत्त्वया ।

विशेषाच्छ्रोतुमिच्छामः सूत नः कथ्यतामिति १३।

सूत उवाच-

साधु पृष्टं महाभागाः प्रयागं प्रति सुव्रताः ।

हंताहं तत्प्रवक्ष्यामि प्रयागस्योपवर्णनम् १४।

मार्कंडेयेन कथितं यत्पुरा पांडुसूनवे ।

भारते तु यदा वृत्ते प्राप्तराज्ये पृथासुते १५।

एतस्मिन्नंतरे राजा कुंतीपुत्रो युधिष्ठिरः ।

भ्रातृशोकेन संतप्तः चिंतयंस्तु पुनः पुनः १६।

आसीद्दुर्योधनो राजा एकादशचमूपतिः ।

अस्मान्संतप्य बहुशः सर्वे ते निधनं गताः १७।

वासुदेवं समाश्रित्य पंचशेषास्तु पांडवाः ।

कथं द्रोणं च भीष्मं च कर्णं चैव महाबलम् १८।

दुर्योधनं च राजानं भ्रातृपुत्रसमन्वितम् ।

राजानो निहताः सर्वे ये चान्ये शूरमानिनः १९।

विना राज्येन कर्तव्यं किं भोगैर्जीवितेनवा ।

धिक्कष्टमिति संचिंत्य राजा विह्वलतां गतः २०।

निश्चेष्टोऽथ निरुत्साहः किं चित्तिष्ठत्यधोमुखः ।

लब्धसंज्ञो यदा राजा चिंतयानः पुनः पुनः २१।

कं चरे विधिना योगं नियमं तीर्थमेव वा ।

येनाहं शीघ्रमामुच्ये महापातककिल्बिषात् २२।

यत्र स्नात्वा नरो याति विष्णुलोकमनुत्तमम् ।

कथं पृच्छामि वै कृष्णं येनेदं कारितं महत् २३।

धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतम् ।

व्यासं कथमहं पृच्छे यस्य गोत्रक्षयः कृतः २४।

एवं वैक्लव्यमापन्नो धर्मपुत्रो युधिष्ठिरः ।

रुदंतः पांडवाः सर्वे भ्रातृशोकपरिप्लुताः २५।

ये च तत्र महात्मानः समेताः पांडवाश्रिताः ।

कुंती च द्रौपदी चैव ये च तत्र समागताः २६।

भूमौ निपतिताः सर्वे रोदमानाः समंततः ।

वाराणस्यां तु मार्कंडस्तेन ज्ञातो युधिष्ठरः २७।

यथाविक्लवमापन्नो रोदमानः सुदुःखितः ।

अचिरेणैव कालेन मार्कंडस्तु महातपाः २८।

हस्तिनापुर संप्राप्तो राजद्वारे स तिष्ठति ।

द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथितवान्द्रुतम् २९।

त्वां द्रष्टुकामो मार्कंडो द्वारे तिष्ठत्यसौ मुनिः ।

त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परः ३०।

युधिष्ठिर उवाच-

स्वागतं ते महाप्राज्ञ स्वागतं ते महामुने ।

अद्य मे सफलं जन्म अद्य मे पावितं कुलम् ३१।

अद्य मे पितरस्तृप्तास्त्वयि दृष्टे महामुने ।

सिंहासन उपस्थाप्य पादशौचार्चनादिभिः ३२।

युधिष्ठिरो महात्मा वै पूजयामास तं मुनिम् ।

ततस्तमूचे मार्कण्डः पूजितोऽहं त्वया विभो ३३।

आख्याहि त्वरितो राजन्किमर्थं त्वरितं त्वया ।

केन वा विक्लवीभूतः कथयस्व ममाग्रतः ३४।

युधिष्ठिर उवाच-

अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने ।

एतत्सर्वं विदित्वा तु भगवानिह चागतः ३५।

मार्कंडेय उवाच-

शृणु राजन्महाबाहो यत्र धर्मो व्यवस्थितः ।

नैव दृष्टं रणे पापं युध्यमानस्य धीमतः ३६।

किं पुना राजधर्मेण क्षत्रियस्य विशेषतः ।

तदेवं हृदये कृत्वा तस्मात्पापं न चिंतयेत् ३७।

ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिम् ।

पृच्छामि त्वां मुनिश्रेष्ठ सदा त्रैकाल्यदर्शनम् ।

कथयस्व समासेन मुच्येऽहं येन किल्बिषात् ३८।

मार्कंडेय उवाच-

शृणु राजन्महाभाग यन्मां पृच्छसि भारत ।

एवं सांख्यं च योगं च तीर्थं चैव युधिष्ठिर ३९।

किं पुनर्ब्राह्मणैः पुण्यैः कीर्तितं वै पुरा विभो ।

प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्मणाम् ४०।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे चत्वारिंशोऽध्यायः ४०।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 41

युधिष्ठिर उवाच-

भगवञ्छ्रोतुमिच्छामि पुराकल्पे यथास्थितम् ।

कथं प्रयागगमनं नराणां तत्र कीदृशम् १।

मृतानां का गतिस्तत्र स्नातानां चैव किं फलम् ।

ये वसंति प्रयागे तु ब्रूहि तेषां च किं फलम् ।

एतन्मे सर्वमाख्याहि परं कौतूहलं हि मे २।

मार्कंडेय उवाच-

कथयिष्यामि ते वत्स नाथेष्टं यच्च यत्फलम् ।

पुरा ऋषीणां विप्राणां कथ्यमानं मया श्रुतम् ३।

आप्रयागात्प्रतिष्ठानाद्धर्मकी वासुकी ह्रदात् ।

कंबलाश्वतरौ नागौ नागाश्च बहुमूलिकाः ४।

एतत्प्रजापतिक्षेत्रं त्रिषु लोकेषु विश्रुतम् ।

अत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ५।

तत्र ब्रह्मादयो देवा रक्षां कुर्वंति संगताः ।

अन्ये च बहवस्तीर्थाः सर्वपापप्रणाशनाः ६।

न शक्याः कथितुं राजन्बहुवर्षशतैरपि ।

संक्षेपेण प्रवक्ष्यामि प्रयागस्य च कीर्त्तनम् ७।

षष्टिर्धनुः सहस्राणि परिरक्षंति जाह्नवीम् ।

यमुनां रक्षति सदा सविता सप्तवाहनः ८।

प्रयागं तु विशेषेण स्वयं रक्षति वासवः ।

मंडलं रक्षति हरिर्देवैः सह सुसंमतम् ९।

तं वटं रक्षते नित्यं शूलपाणिर्महेश्वरः ।

स्थानं रक्षति वै देवः सर्वपापहरं शुभम् १०।

अधर्मेण वृतो लोके नैव गच्छति तत्पदम् ।

स्वल्पमल्पतरं पापं यदा तस्य नराधिप ११।

प्रयागस्मरमाणस्य सर्वमायाति संक्षयम् ।

दर्शनात्तस्य तीर्थस्य नामसंकीर्तनादपि १२।

मृत्तिका लभनाद्वापि नरः पापाद्विमुच्यते ।

पंचकुंडानि राजेंद्र येषां मध्ये तु जाह्नवी १३।

प्रयागे तु प्रविष्टस्य पापं क्षरति तत्क्षणात् ।

योजनानां सहस्रेषु गंगां स्मरति यो नरः १४।

अपि दुष्कृतकर्मासौ लभते परमां गतिम् ।

कीर्तनान्मुच्यते पापैर्दृष्ट्वा भद्राणि पश्यति १५।

अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम् ।

सत्यवादी जितक्रोधो अहिंसां परमास्थितः १६।

धर्मानुसारी तत्त्वज्ञो गोब्राह्मणहिते रतः ।

गंगायमुनयोर्मध्ये स्नातो मुच्येत किल्बिषात् १७।

मनसा चिंतितान्कामान्सम्यक्प्राप्नोति पुष्कलान् ।

ततो गत्त्वा प्रयागं तु सर्वदेवाभिरक्षितम् १८।

ब्रह्मचारी वसेन्मासं पितृदेवांश्च तर्पयेत् ।

ईप्सिताँल्लभते कामान्यत्र तत्राभिजायते १९।

तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।

समागता महाभागा यमुना यत्र निम्नगाः २०।

तत्र सन्निहितो नित्यं साक्षाद्देवो महेश्वरः ।

दुष्प्रापं मानुषैः पुण्यं प्रयागं तु युधिष्ठिर २१।

देवदानवगंधर्वा ऋषयः सिद्धचारणाः ।

तत्रोपस्पृश्य राजेंद्र स्वर्गलोके महीयते २२।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे एकचत्वारिंशोऽध्यायः ४१।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 42

मार्कंडेय उवाच-

शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु ।

यं गत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः १।

आर्तानां च दरिद्राणां निश्चितव्यवसायिनाम् ।

स्थानं मुक्त्वा प्रयागं तु नाक्षयं तु कदाचन २।

गंगायमुनमासाद्य यस्तु प्राणान्परित्यजेत् ।

दीप्तकांचनवर्णाभे विमाने सूर्यवर्चसि ३।

गंधर्वाप्सरसां मध्ये स्वर्गे मोदति मानवः ।

ईप्सिताँल्लभतेकामान्वदंति ऋषिपुंगवाः ४।

सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः ।

वरांगना समाकीर्णैर्मोदते शुभलक्षणैः ५।

गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते ।

यावन्न स्मरते जन्म तावत्स्वर्गे महीयते ६।

तत्र स्वर्गात्परिभ्रष्टः क्षीणकर्म्मा दिवश्च्युतः ।

हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले ७।

तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति ।

देशस्थो यदि वारण्ये विदेशे यदि वा गृहे ८।

प्रयागं स्मरमात्रोपि यस्तु प्राणान्परित्यजेत् ।

स ब्रह्मलोकमाप्नोति वदंति ऋषिपुंगवाः ९।

सर्वकामफलावृत्ता मही यत्र हिरण्मयी ।

ऋषयो मुनयः सिद्धा यत्र लोके प्रगच्छति १०।

स्त्रीसहस्रा कुले रम्ये मंदाकिन्यास्तटे शुभे ।

मोदते ऋषिभिः सार्द्धं स्वकृतेनेह कर्मणा ११।

सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः ।

ततः स्वर्गात्परिभ्रष्टो जंबुद्वीपपतिर्भवेत् १२।

ततः शुभानि कर्माणि चिंतयानः पुनः पुनः ।

गुणवान्वित्तसंपन्नो भवतीह न संशयः १३।

कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः ।

गंगायमुनयोर्मध्ये यस्तु दानं प्रयच्छति १४।

सुवर्णंमणिमुक्तां वा यदि धान्यं प्रतिग्रहम् ।

स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा १५।

निष्फलं तस्य तत्तीर्थं यावत्तत्फलमश्नुते ।

एवं तीर्थेन गृह्णीयात् पुण्येष्वायतनेषु च १६।

निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत् ।

कपिलां पाटलावर्णां प्रयागे यः प्रयच्छति १७।

स्वर्णशृंगीं रौप्यखुरां चैलकंठीं पयस्विनीम् ।

प्रयागे श्रोत्रियं साधुं ग्राहयित्वा यथाविधि १८।

शुक्लांबरधरं शांतं धर्मज्ञं वेदपारगम् ।

सा गौस्तस्मै च दातव्या गंगायमुनसंगमे १९।

वासांसि च महार्हाणि रत्नानि विविधानि च ।

यावद्रोमाणि तस्या गोः संति गात्रेषु सत्तम २०।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।

यत्रासौ लभते जन्म सा गौस्तत्राभिजायते २१।

न च पश्यत्यसौ घोरं नरकं तेन कर्मणा ।

उत्तरान्स कुरून्प्राप्य मोदते कालमक्षयम् २२।

गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम् ।

पुत्रान्दारान्तथा भृत्यान्गौरेका प्रतितारयेत् २३।

तस्मात्सर्वेषु दानेषु गोदानं तु विशिष्यते ।

दुर्गमे विषमे घोरे महापातकसंभवे ।

गौरेव रक्षां कुरुते तस्माद्देया द्विजातये २४।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्विचत्वारिंशोऽध्यायः ४२।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 43

युधिष्ठिर उवाच-

यथा प्रयागस्य मुने माहात्म्यं कथितं त्वया ।

तथातथा प्रमुच्येऽहं सर्वपापैर्न संशयः १।

भगवन्केन विधिना गंतव्यं धर्मनिश्चयैः ।

प्रयागे यो विधिः प्रोक्तः तन्मे ब्रूहि महामुने २।

मार्कंडेय उवाच-

कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम् ।

यो गच्छेतकुरुश्रेष्ठ प्रयागं देवसंयुतम् ३।

बलीवर्दसमारूढः शृणु तस्यापि यत्फलम् ।

वसते नरके घोरे गवां क्रोधे सुदारुणे ४।

सलिलं च न गृह्णंति पितरस्तस्य देहिनः ।

यस्तु पुत्रांस्तथा बालान्स्नापयेत्पाययेत्तथा ५।

यथात्मनस्तथा सर्वान्दानं विप्रेषु दापयेत् ।

ऐश्वर्यलोभान्मोहाद्वा गच्छेद्यानेन यो नरः ६।

निष्फलं तस्य तत्तीर्थं तस्माद्यानं परित्यजेत् ।

गंगायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ७।

आर्षेण तु विधानेन यथाविभवसंभवम् ।

न पश्यति यमं घोरं नरकं तेन कर्मणा ८।

उत्तरान्स कुरून्गत्वा मोदते कालमक्षयम् ।

पुत्रांस्तु दाराँल्लभते धार्मिकान्नयसंयुतान् ९।

तत्र दानं प्रदातव्यं यथाविभवसंभवम् ।

तेन तीर्थफलैनैव वर्द्धते नात्र संशयः १०।

स्वर्गे तिष्ठति राजेंद्र यावदाभूतसंप्लवम् ।

वटमूलं समाश्रित्य यस्तु प्राणान्परित्यजेत् ११।

सर्वलोकानतिक्रम्य रुद्रलोकं च गच्छति ।

तत्र ते द्वादशादित्यास्तपंते रुद्रमाश्रिताः १२।

निर्दहंति जगत्सर्वं वटमूलं न दह्यते ।

नष्टचंद्रार्कपवनं यदा चैकार्णवं जगत् १३।

स्वपित्यत्रैव वै विष्णुर्जायमानः पुनः पुनः ।

देवदानवगंधर्व ऋषयः सिद्धचारणाः १४।

सदा सेवंति तत्तीर्थं गंगायमुनसंगमे ।

तत्र गच्छंति राजेंद्र प्रयागे संयुतं च यत् १५।

तत्र ब्रह्मादयो देवा दिशश्चैव दिगीश्वराः ।

लोकपालाश्च साध्याश्च पितरो लोकसंमताः १६।

सनत्कुमारप्रमुखास्तथैव परमर्षयः ।

अंगिरप्रमुखाश्चैव तथा ब्रह्मर्षयः परे १७।

तथा नागाश्च सिद्धाश्च सुपर्णाः खेचराश्च ये ।

सरितः सागराः शैला नागा विद्याधरास्तथा १८।

हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ।

गंगायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् १९।

प्रयागं राजशार्दूल त्रिषुलोकेषु विश्रुतम् ।

ततः पुण्यतमं नास्ति त्रिषुलोकेषु भारत २०।

श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि ।

मृत्तिका लंभनाद्वापि नरः पापात्प्रमुच्यते २१।

तत्राभिषेकं यः कुर्य्यात्संगमे संशितव्रतः ।

तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः २२।

न वेदवचनात्तात न लोकवचनादपि ।

मतिरुत्क्रमणीया ते प्रयागगमनं प्रति २३।

दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः ।

येषां सान्निध्यमत्रैव कीर्तनात्कुरुनंदन २४।

या गतिर्योगयुक्तस्य सदुत्थस्य मनीषिणः ।

सा गतिस्त्यजतः प्राणान्गंगायमुनसंगमे २५।

तेन जीवंति लोकेऽस्मिन्यत्र यत्र युधिष्ठिर ।

ये प्रयागं न संप्राप्तास्त्रिषु लोकेषु विश्रुतम् २६।

एवं दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम् ।

मुच्यते सर्वपापेभ्यः शशांक इव राहुणा २७।

कंबलाश्वतरौ नागौ यमुना दक्षिणे तटे ।

तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः २८।

तत्र गत्वा तु तत्स्थानं महादेवस्य धीमतः ।

नरस्तारयते सर्वान्दशातीतान्दशापरान् २९।

कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत् ।

स्वर्गलोकमवाप्नोति यावदाभूतसंप्लवम् ३०।

पूर्वपार्श्वे तु गंगायां त्रिषु लोकेषु भारत ।

कूपं चैव तु सामुद्रं प्रतिष्ठानं तु विश्रुतम् ३१।

ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति ।

सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ३२।

उत्तरेण प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः ।

हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ३३।

अश्वमेधफलं तस्मिन्स्नातमात्रस्य भारत ।

यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते ३४।

उर्वशीपुलिने रम्ये विपुले हंसपांडुरे ।

सलिलैस्तर्प्पयेद्यस्तु पितॄंस्तत्र विमत्सरः ३५।

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।

सेवते पितृभिः सार्द्धं स्वर्गलोकं नराधिप ३६।

पूज्यते सततं तत्र ऋषिगंधर्वकिन्नरैः ।

ततः स्वर्गपरिभ्रष्टः क्षीणकर्म्मा दिवश्च्युतः ३७।

उर्वशीसदृशीनां तु कन्यानां लभते शतम् ।

गवां शतसहस्राणां भोक्ता भवति भूमिप ३८।

कांचीनूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते ।

भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं लभते पुनः ३९।

कुशासनधरो नित्यं नियतः संयतेंद्रियः ।

एककालं तु भुंजानो मासं भोगपतिर्भवेत् ४०।

सुवर्णालंकृतानां तु नारीणां लभते शतम् ।

पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत् ४१।

दशग्रामसहस्राणां भोक्ता भवति भूमिपः ।

धनधान्यसमायुक्तो दाता भवति नित्यशः ४२।

स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं स्मरते पुनः ।

अथ तस्मिन्वटे रम्ये ब्रह्मचारी जितेंद्रियः ४३।

उपोष्य योगयुक्तश्च ब्रह्मज्ञानमवाप्नुयात् ।

कोटितीर्थं समासाद्य यस्तु प्राणान्परित्यजेत् ४४।

कोटिवर्षसहस्राणि स्वर्गलोके महीयते ।

ततः स्वर्गात्परिभ्रष्टः क्षीणकर्म्मा दिवश्च्युतः ४५।

सुवर्णमणिमुक्ताढ्ये कुले भवति रूपवान् ।

ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु ४६।

दशाश्वमेधकं तत्र तीर्थं तत्रापरं भवेत् ।

कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत् ४७।

धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः ।

चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम् ४८।

अहिंसायां तु यो धर्म्मो गमनादेव तद्भवेत् ।

कुरुक्षेत्रसमा गंगा यत्रतत्रावगाह्यते ४९।

कुरुक्षेत्राद्दशगुणा यत्र सिंध्वा समागता ।

यत्र गंगा महाभागा बहुतीर्थतपोधना ५०।

सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा ।

क्षितौ तारयते मर्त्यान्नागांस्तारयतेऽप्यधः ५१।

दिवि तारयते देवांस्तेन सा त्रिपथा स्मृता ।

यावदस्थीनि गंगायां तिष्ठंति तस्य देहिनः ५२।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।

तीर्थानां तु परं तीर्थं नदीनामुत्तमा नदी ५३।

मोक्षदा सर्वभूतानां महापातकिनामपि ।

सर्वत्र सुलभा गंगा त्रिषु स्थानेषु दुर्लभा ५४।

गंगाद्वारे प्रयागे च गंगासागरसंगमे ।

तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ५५।

सर्वेषां चैव भूतानां पापोपहतचेतसाम् ।

गतिमन्वेषमाणानां नास्ति गंगासमा गतिः ५६।

पवित्राणां पवित्रं या मंगलानां च मंगलम् ।

महेश्वरशिरोभ्रष्टा सर्वपापहरा शुभा ५७।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये त्रिचत्वारिंशोऽध्यायः ४३।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 44

मार्कंडेय उवाच-

शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु ।

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः १।

मानसं नाम तत्तीर्थं गंगायामुत्तरे तटे ।

त्रिरात्रोपोषितो भूत्वा सर्वान्कामानवाप्नुयात् २।

गोभूहिरण्यदानेन यत्फलं प्राप्नुयान्नरः ।

एतत्फलमवाप्नोति तत्तीर्थं स्मरते पुनः ३।

अकामो वा सकामो वा गंगायां यो विपद्यते ।

मृतस्तु भवति स्वर्गे नरकं न च पश्यति ४।

अप्सरोगणसंगीतैः सुप्तोऽसौ प्रतिबुध्यते ।

हंससारसयुक्तेन विमानेन स गच्छति ५।

बहुवर्षाणि राजेन्द्र षट्सहस्राणि भुंजते ।

ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ६।

सुवर्णमणिमुक्ताढ्ये जायते स महाकुले ।

षष्टितीर्थसहस्राणि षष्टितीर्थशतानि च ७।

माघेमासि गमिष्यंति गंगायमुनसंगमे ।

गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ८।

प्रयागे माघमासे तु त्र्यहंस्नानस्य तत्फलम् ।

गंगायमुनयोर्मध्ये पंचाग्निं यस्तु साधयेत् ९।

अहीनांगो ह्यरोगश्च पंचेन्द्रियसमन्वितः ।

यावंति रोमकूपाणि तस्य गात्रस्य देहिनः १०।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।

ततः स्वर्गात्परिभ्रष्टो जंबूद्वीपपतिर्भवेत् ११।

स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं भजते नरः ।

जलप्रवेशं यः कुर्यात्संगमे लोकविश्रुते १२।

राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः ।

सोमलोकमवाप्नोति सोमेन सह मोदते १३।

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।

स्वर्गलोकमवाप्नोति ऋषिगंधर्वसेवितः १४।

परिभ्रष्टस्तु राजेंद्र समृद्धे जायते कुले ।

अधःशिरास्तु यो ज्वालामूर्ध्वपादः पिबेन्नरः १५।

शतं वर्षसहस्राणि स्वर्गलोके महीयते ।

परिभ्रष्टस्तु राजेंद्र अग्निहोत्री भवेन्नरः १६।

भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते नरः ।

यस्तु देहं विकर्तित्वा शकुनिभ्यः प्रयच्छति १७।

विहंगैरुपभुक्तस्य शृणु तस्यापि यत्फलम् ।

शतं वर्षसहस्राणां सोमलोके महीयते १८।

ततः स्वर्गात्परिभ्रष्टो राजा भवति धार्मिकः ।

गुणवान्रूपसंपन्नो विद्वान्सुप्रियदेहवान् १९।

भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते पुनः ।

यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे २०।

ऋणप्रमोचनं नाम तीर्थं तत्परमं स्मृतम् ।

एकरात्रोषितो भूत्वा ऋणैः सर्वैः प्रमुच्यते २१।

सूर्यलोकमवाप्नोति अनृणी च सदा भवेत् २२।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये चतुश्चत्वारिंशोऽध्यायः ४४।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 45

युधिष्ठिर उवाच-

एतच्छ्रुत्वा प्रयागस्य यत्त्वया कीर्तनं कृतम् ।

विशुद्धमेतद्धृदयं प्रयागस्य च कीर्तनात् ।

अनाशकफलं ब्रूहि भगवंस्तत्र कीदृशम् १।

मार्कंडेय उवाच-

शृणु राजन्प्रयागे तु अनाशकफलं विभो ।

प्राप्नोति पुरुषो धीमान्श्रद्दधानश्च यादृशम् २।

अहीनांगो विरोगश्च पंचेंद्रियसमन्वितः ।

अश्वमेधफलं तस्य गच्छतस्तु पदे पदे ३।

कुलानि तारयेद्राजन्दशपूर्वान्दशापरान् ।

मुच्यते सर्वपापेभ्यो गच्छेत परमं पदम् ४।

युधिष्ठिर उवाच-

महाभागोसि धर्मज्ञ दानं वदसि मे प्रभो ।

अल्पेनैव प्रधानेन बहून्धर्मानवाप्नुयात् ५।

अश्वमेधस्तु बहुभिः सुकृतैः प्राप्यते इह ।

एतन्मे संशयं ब्रूहि परं कौतूहलं हि मे ६।

मार्कंडेय उवाच-

शृणु राजन्महावीर युदुक्तं पद्मयोनिना ।

ऋषीणां सन्निधौ पूर्वं कथ्यमानं मया श्रुतम् ७।

पंचयोजनविस्तीर्णं प्रयागस्य तु मंडलम् ।

प्रविशंस्तस्य तद्भूमावश्वमेधं पदे पदे ८।

व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्दश ।

नरस्तारयते सर्वान्यस्तु प्राणान्परित्यजेत् ९।

एवं ज्ञात्वा तु राजेंद्र सदा श्रद्धापरो भवेत् ।

अश्रद्दधानाः पुरुषाः पापोपहतचेतसः ।

न प्राप्नुवंति तत्स्थानं प्रयागं देवनिर्मितम् १०।

युधिष्ठिर उवाच-

स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः ।

कथं तीर्थफलं तेषां कथं पुण्यमवाप्नुयुः ११।

विक्रयं सर्वभांडानां कार्याकार्यमजानतः ।

प्रयागे का गतिस्तस्य एवं ब्रूहि महामुने १२।

मार्कंडेय उवाच-

शृणु राजन्महागुह्यं सर्वपापप्रणाशनम् ।

मासं वसंस्तु राजेंद्र प्रयागे नियतेंद्रियः १३।

मुच्यते सर्वपापेभ्यः यथादिष्टं स्वयंभुवा ।

शुचिस्तु प्रयतो भूत्वाऽहिंसकः श्रद्धयान्वितः १४।

मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम् ।

विश्रंभघातकानां तु प्रयागे शृणु तत्फलम् १५।

त्रिकालमेव स्नायीत आहारं भैक्ष्यमाचरेत् ।

त्रिभिर्मासैः प्रमुच्येत प्रयागात्तु न संशयः १६।

प्रज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत् ।

सर्वकामसमृद्धस्तु स्वर्गलोके महीयते १७।

स्थानं स लभते नित्यं धनधान्यसमाकुलम् ।

एवं ज्ञानेन संपूर्णः सदा भवति भोगवान् १८।

तारिताः पितरस्तेन नरकात्प्रपितामहाः ।

धर्मानुसारे तत्त्वज्ञ पृच्छतस्ते पुनः पुनः ।

त्वत्प्रियार्थं समाख्यातं गुह्यमेतत्सनातनम् १९।

युधिष्ठिर उवाच-

अद्य मे सफलं जन्म अद्य मे सफलं कुलम् ।

प्रीतोऽस्म्यनुगृहीतोऽस्मि दर्शनादेव तेऽद्य वै ।

त्वद्दर्शनात्तु धर्मात्मन्मुक्तोऽहं सर्वपातकैः २०।

मार्कंडेय उवाच-

दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम् ।

कीर्तनाद्वर्द्धते पुण्यं श्रुतं पापप्रणाशनम् २१।

युधिष्ठिर उवाच-

यमुनायां तु किं पुण्यं किं फलं तु महामुने ।

एतन्मे सर्वमाख्याहि यथादृष्टं यथाश्रुतम् २२।

मार्कंडेय उवाच-।

तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।

समागता महाभागा यमुना यत्र निम्नगा २३।

येनैव निःसृता गङ्गा तेनैव यमुना गता ।

योजनानां सहस्रेषु कीर्तनात्पापनाशिनी २४।

तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर ।

कीर्त्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति २५।

अवगाढा च पीत्वा च पुनात्यासप्तमं कुलम् ।

प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् २६

thumb|प्रयागे गङ्गा-यमुनयोः सङ्गमः.

अग्नितीर्थमिति ख्यातं यमुना दक्षिणे तटे ।

पश्चिमे धर्मराजस्य तीर्थं हरवरं स्मृतम् २७।

तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ।

एवं तीर्थसहस्राणि यमुना दक्षिणे तटे २८।

उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः ।

तीर्थं तु विरजं नाम यत्र देवाः सवासवाः २९।

उपासते स्म संध्यां तु नित्यकालं युधिष्ठिर ।

देवाः सेवंति तत्तीर्थं ये चान्ये विदुषो जनाः ३०।

श्रद्दधानपरो भूत्वा कुरु तीर्थाभिषेचनम् ।

अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः ३१।

तेषु स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ।

गंगा च यमुना चैव उभे तुल्यफले स्मृते ३२।

केवलं श्रेष्ठभावेन गंगा सर्वत्र पूज्यते ।

एवं कुरुष्व कौंतेय स्वर्गतीर्थाभिषेचनम् ३३।

यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ।

यस्त्विदं कल्य उत्थाय पठते च शृणोति वा ३४।

मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति ३५।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे यमुनामाहात्म्ये पंचचत्वारिंशोऽध्यायः ४५।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 46

युधिष्ठिर उवाच-

श्रुतं मे ब्रह्मणा प्रोक्तं पुराणे पुण्यसम्मितम् ।

तीर्थानां तु सहस्राणि शतानि नियुतानि च १।

सर्वे पुण्याः पवित्राश्च गतिश्च परमा स्मृता ।

पृथिव्यां नैमिषं पुण्यमंतरिक्षे च पुष्करम् २।

प्रयागमपि लोकानां कुरुक्षेत्रं विशिष्यते ।

सर्वाणि संपरित्यज्य कथमेकं प्रशंससि ३।

अप्रमाणमिदं प्रोक्तमश्रद्धेयमनुत्तमम् ।

गतिं च परमां दिव्यां भोगांश्चैव यथेप्सितान् ४।

किमर्थमल्पयोगेन बहुधर्मं प्रशंससि ।

एतं मे संशयं ब्रूहि यथादृष्टं यथाश्रुतम् ५।

मार्कंडेय उवाच-

अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि तद्भवेत् ।

नरस्य श्रद्दधानस्य पापोपहतचेतसः ६।

अश्रद्दधानो ह्यशुचिर्दुर्मतिस्त्यक्तमंगलः ।

एते पातकिनः सर्वे तेनेदं भाषितं मया ७।

शृणु प्रयागमाहात्म्यं यथादृष्टं यथाश्रुतम् ।

प्रत्यक्षं च परोक्षं च यथान्यत्संभविष्यति ८।

यथैवान्यन्मया दृष्टं पुरा राजन्यथाश्रुतम् ।

शास्त्रं प्रमाणं कृत्वा तु पूज्यते योगमात्मनः ९।

क्लिश्यते चापरस्तत्र नैव योगमवाप्नुयात् ।

जन्मांतरसहस्रेभ्यो योगो लभ्येत मानवैः १०।

यथायोगसहस्रेण योगो लभ्येत मानवैः ।

यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति ११।

तेन दानेन दत्तेन योगो लभ्येत मानवैः ।

प्रयागे तु मृतस्येदं सर्वं भवति नान्यथा १२।

प्रधानहेतुं वक्ष्यामि श्रद्दधत्सु च भारत ।

यथा सर्वेषु भूतेषु सर्वत्रैव तु दृश्यते १३।

ब्रह्म नैवास्ति वै किंचिद्यद्वक्तुं त्विदमुच्यते ।

यथा सर्वेषु भूतेषु ब्रह्म सर्वत्र पूज्यते १४।

एवं सर्वेषु लोकेषु प्रयागः पूज्यते बुधैः ।

पूज्यते तीर्थराजस्य सत्यमेतद्युधिष्ठिर १५।

ब्रह्मापि स्मरते नित्यं प्रयागं तीर्थमुत्तमम् ।

तीर्थराजमनुप्राप्य नैवान्यत्किंचिदिच्छति १६।

को हि देवत्वमासाद्य मानुषत्वं चिकीर्षति ।

अनेनैवानुमानेन त्वं ज्ञास्यसि युधिष्ठिर १७।

यथा पुण्यमपुण्यं वा तथैव कथितं मया ।

युधिष्ठिर उवाच-

श्रुतं तद्यत्त्वया प्रोक्तं विस्मितोऽहं पुनः पुनः १८।

कथं योगेन तत्प्राप्तिः स्वर्गलोकस्तु कर्मणा ।

तदा च लभते भोगान्गां च तत्कर्मणां फलम् १९।

तानि कर्माणि पृच्छामि पुनर्यैः प्राप्यते महीम् ।

मार्कंडेय उवाच-

शृणुराजन्महाबाहो यथोक्तकर्म्मणा मही २०।

गामग्निं ब्राह्मणं शास्त्रं कांचनं सलिलं स्त्रियः ।

मातरं पितरं चैव यो निंदति नराधिप २१।

नैतेषामूर्ध्वगमनमेवमाह प्रजापतिः ।

एवं योगस्य संप्राप्तिः स्थानं परमदुर्लभम् २२।

गच्छंति नरकं घोरं ये नराः पापकारिणः ।

हस्त्यश्वं गामनड्वाहं मणिमुक्तादि कांचनम् २३।

परोक्षं हरते यस्तु पश्चाद्दानं प्रयच्छति ।

न ते गच्छंति वै स्वर्गं दातारो यत्र भोगिनः २४।

अनेन कर्म्मणा युक्ताः पच्यंते नरकेऽधमाः ।

एवं योगं च धर्म्मं च दातारं च युधिष्ठिर २५।

यथा सत्यमसत्यं वा अस्ति नास्तीति यत्फलम् ।

निरुक्तं तु प्रवक्ष्यामि यथायं स्वयमाप्नुयात् २६।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये षट्चत्वारिंशोऽध्यायः ४६।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 47

मार्कंडेय उवाच-

शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु ।

नैमिषं पुष्करं चैव गोतीर्थं सिंधुसागरम् १।

कुरुक्षेत्रं गया चैव गंगासागरमेव च ।

एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः २।

दशतीर्थसहस्राणि त्रिंशत्कोट्यस्तथापरे ।

प्रयागे संस्थिता नित्यमेवमाहुर्मनीषिणः ३।

त्रीणि चाप्यग्निकुंडानि येषां मध्ये तु जाह्नवी ।

प्रयागादभिनिष्क्रांता सर्वतीर्थपुरस्कृता ४।

तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।

गंगायमुनया सार्धं संस्थिता लोकभाविनी ५।

गंगायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् ।

प्रयागं राजशार्दूल कलां नार्हंति षोडशीम् ६।

तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत् ।

दिव्यं भुव्यंतरिक्षे च तत्सर्वं जाह्नवि स्मृता ७।

प्रयागं समधिष्ठानं कंबलाश्वतरावुभौ ।

भोगवत्यथ या चैव वेदिरेषा प्रजापतेः ८।

तत्र देवाश्च यज्ञाश्च मूर्तिमंतो युधिष्ठिर ।

पूजयंति प्रयागं ते ऋषयश्च तपोधनाः ९।

यजंते क्रतुभिर्देवांस्तथा बहुधना नृपाः ।

ततः पुण्यतमो नास्ति त्रिषु लोकेषु भारत १०।

प्रभावात्सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो ।

दशतीर्थसहस्राणि तिस्रः कोट्यस्तथापरे ११।

यत्र गंगा महाभागा स देशस्तत्तपोवनम् ।

सिद्धक्षेत्रं तु तज्ज्ञेयं गंगातीरसमाश्रितम् १२।

इति सत्यं द्विजातीनां साधूनामात्मजस्य वा ।

सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा १३।

इदं धन्यमिदं स्वर्ग्यमिदं सेव्यमिदं शुभम् ।

इदं पुण्यमिदं रम्यं पावनं धर्ममुत्तमम् १४।

महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम् ।

अधीत्य च द्विजो ध्यायन्निर्मलत्वमवाप्नुयात् १५।

यश्चेदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः ।

जातिस्मरत्वं लभते नाकपृष्ठे च मोदते १६।

प्राप्यंते तानि तीर्थानि सद्भिः शिष्टार्थदर्शिभिः ।

स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव १७।

त्वया तु सम्यक्पृष्टेन कथितं तु मया विभो ।

पितरस्तारिताः सर्वे तारिताश्च पितामहाः १८।

प्रयागस्य तु सर्वे ते कलां नार्हंति षोडशीम् ।

एवं ज्ञानं च योगं च तीर्थं चैव युधिष्ठिर १९।

बहुक्लेशेन युज्यंते ततो यांति परां गतिम् ।

प्रयागस्मरणाल्लोकः स्वर्गलोकं च गच्छति २०।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये सप्तचत्वारिंशोऽध्यायः ४७।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 48

युधिष्ठिर उवाच-

कथा सर्वात्वियं प्रोक्ताप्रयागस्य महामुने ।

एवं मे सर्वमाख्याहि यथा च मम तारयेत् १।

मार्कंडेय उवाच-

शृणु राजन्प्रवक्ष्यामि प्रोक्तं सर्वमिदं जगत् ।

ब्रह्माविष्णुस्तथेशानो देवता प्रभुरव्ययः २।

ब्रह्मा सृजति भूतानि स्थावरं जंगमं च यत् ।

तान्येतानि परो लोके विष्णुः पालयति प्रजाः ३।

कल्पांते तत्समग्रं हि रुद्रः संहरते जगत् ।

न ददाति च नाध्येति न कदाचिद्विनश्यति ४।

ईश्वरः सर्वभूतानां यः पश्यति स पश्यति ।

उत्तरेण प्रतिष्ठानादिदानीं ब्रह्म तिष्ठति ५।

महेश्वरो वटे भूत्वा तिष्ठते परमेश्वरः ।

ततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः ६।

रक्षंति परमं नित्यं पापकर्मपरायणान् ।

ये तु चान्ये च तिष्ठंति न यांति परमां गतिम् ७।

युधिष्ठिर उवाच-

अप्याह मे यथातत्त्वं यथैषां तिष्ठते श्रुतम् ।

केन वा कारणेनैव तिष्ठंति लोकसंमताः ८।

मार्कंडेय उवाच-

प्रयागे निवसंत्येते ब्रह्मविष्णुमहेश्वराः ।

कारणं तु प्रवक्ष्यामि शृणु तत्त्वं युधिष्ठिर ९।

पंचयोजनविस्तीर्णं प्रयागस्य तु मंडलम् ।

तिष्ठंति रक्षणार्थाय पापकर्मनिवारणाः १०।

तस्मिंस्तु स्वल्पकं पापं नरके पातयिष्यति ।

एवं ब्रह्मा च विष्णुश्च प्रयागे समहेश्वरः ११।

सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले ।

तिष्ठंति ध्रियमाणाश्च यावदाभूतसंप्लवम् १२।

ये चान्ये बहवः सर्वे तिष्ठंति च युधिष्ठिर ।

पृथिवीस्थानमारभ्य निर्मितं दैवतैस्त्रिभिः १३।

प्रजापतेरिदं क्षेत्रं प्रयागमिति विश्रुतम् ।

एतत्पुण्यं पवित्रं च प्रयागं तु युधिष्ठिर १४।

स्वराज्यं कुरु राजेंद्र भ्रातृभिः सहितो भव १५।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये अष्टचत्वारिंशोऽध्यायः ४८।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 49

सूत उवाच-

भ्रातृभिः सहिताः सर्वे पांडवा धर्मनिश्चयाः ।

ब्राह्मणेभ्यो नमस्कृत्वागुरुदेवांस्त्वतर्पयन् १।

वासुदेवोऽपि तत्रैव क्षणेनाभ्यागतस्तदा ।

पांडवैः सहितैः सर्वैः पूज्यमानः स माधवः २।

कृष्णेन सहितैः सर्वैः पुनरेव महात्मभिः ।

अभिषिक्तः स्वराज्ये तु धर्मपुत्रो युधिष्ठिरः ३।

एतस्मिन्नंतरे चैव मार्कंडेयो महात्मवान् ।

ततः स्वस्तीति चोक्त्वा वै क्षणादाश्रममागतः ४।

युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितस्तु सः ।

महादानं ददौ चाथ धर्मपुत्रो युधिष्ठिरः ५।

यस्त्विदं कल्यमुत्थाय पठते वा शृणोति वा ।

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ६।

वासुदेव उवाच-

मम वाक्यं तु कर्तव्यं तव स्नेहाद्ब्रवीम्यहम् ।

नित्यं यज्ञरतो भूत्वा प्रयागे विगतज्वरः ७।

प्रयागं संस्मरन्नित्यं सहास्माभिर्युधिष्ठिर ।

स्वयं प्राप्स्यसि राजेंद्र स्वर्गलोकं तु शाश्वतम् ८।

प्रयागमनुगच्छेद्वा वसते वापि यो नरः ।

सर्वपापविशुद्धात्मा स्वर्गलोकं च गच्छति ९।

प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः १०।

अहंकारनिवृत्तश्च स तीर्थफलमश्नुते ।

अकोपनश्च राजेंद्र सत्यवादी दृढव्रतः ।

आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ११।

ऋषिभिः क्रतवः प्रोक्ता देवैश्चापि यथाक्रमम् ।

न हि शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते १२।

बहूपकरणो यज्ञो नानासंभारसंभ्रमः ।

प्राप्यते विविधैरर्थ्यैः समृद्धैर्वा नरैः क्वचित् १३।

यो दरिद्रैरपि बुधैः शक्यः प्राप्तुं नरेश्वर ।

ततो यज्ञफलैः पुण्यैस्तन्निबोध जनेश्वर १४।

ऋषीणां परमं गुह्यमिदं भरतसत्तम ।

तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते १५।

दशकोटिसहस्राणि त्रिंशत्कोट्यस्तथापरे ।

माघमासे तु गंगायां गमिष्यंति नरर्षभ १६।

स्वस्थो भव महाराज भुक्त्वा राज्यमकंटकम् ।

पुनर्द्रक्ष्यसि राजेंद्र यजमानो विशेषतः १७।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्यं।

नाम ऊनपंचाशत्तमोऽध्यायः ४९।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 50

ऋषय ऊचुः-

भवता कथितं सर्वं यत्किंचित्पृष्टमेव च ।

इदानीमपि पृच्छाम एकं वद महामते १।

एतेषां खलु तीर्थानां सेवनाद्यत्फलं लभेत् ।

सर्वेषां किल कृत्वैकं कर्म केन च लभ्यते २।

एतन्नो ब्रूहि सर्वज्ञ कर्मैवं यदि वर्तते ।

सूत उवाच-

कर्मयोगः किल प्रोक्तो वर्णानां द्विजपूर्वशः ३।

नानाविधो महाभागास्तत्र चैकं विशिष्यते ।

हरिभक्तिः कृता येन मनसा वचसा गिरा ४।

जितं तेन जितं तेन जितमेव न संशयः ।

हरिरेव समाराध्यः सर्वदेवेश्वरेश्वरः ५।

हरिनाममहामंत्रैर्नश्येत्पापपिशाचकम् ।

हरेः प्रदक्षिणं कृत्वा सकृदप्यमलाशयाः ६।

सर्वतीर्थसमाप्लावं लभंते यन्न संशयः ।

प्रतिमां च हरेर्दृष्ट्वा सर्वतीर्थफलं लभेत् ७।

विष्णुनामपरं जप्त्वा सर्वमंत्रफलं लभेत् ।

विष्णुप्रसादतुलसीमाघ्राय द्विजसत्तमाः ८।

प्रचंडं विकरालं तद्यमस्यास्यं न पश्यति ।

सकृत्प्रणामी कृष्णस्य मातुः स्तन्यं पिबेन्नहि ९।

हरिपादे मनो येषां तेभ्यो नित्यं नमोनमः ।

पुल्कसः श्वपचो वापि ये चान्ये म्लेच्छजातयः १०।

तेऽपि वंद्या महाभागा हरिपादैकसेवकाः ।

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ११।

हरौ भक्तिं विधायैव गर्भवासं न पश्यति ।

हरेरग्रे स्वनैरुच्चैर्नृत्यंस्तन्नामकृन्नरः १२।

पुनाति भुवनं विप्रा गंगादि सलिलं यथा ।

दर्शनात्स्पर्शनात्तस्य आलापादपि भक्तितः १३।

ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।

हरेः प्रदक्षिणं कुर्वन्नुच्चैस्तन्नामकृन्नरः १४।

करतालादिसंधानं सुस्वरं कलशब्दितम् ।

ब्रह्महत्यादिकं पापं तेनैव करतालितम् १५।

हरिभक्तिकथामुक्त्वा ख्यायिकां शृणुयाच्च यः ।

तस्य संदर्शनादेव पूतो भवति मानवः १६।

किं पुनस्तस्य पापानामाशंका मुनिपुंगवाः ।

तीर्थानां च परं तीर्थं कृष्णनाम महर्षयः १७।

तीर्थीकुर्वंति जगतीं गृहीतं कृष्णनाम यैः ।

तस्मान्मुनिवराः पुण्यं नातः परतरं विदुः १८।

विष्णुप्रसादनिर्माल्यं भुक्त्वा धृत्वा च मस्तके ।

विष्णुरेव भवेन्मर्त्यो यमशोकविनाशनः १९।

अर्चनीयो नमस्कार्यो हरिरेव न संशयः ।

ये महाविष्णुमव्यक्तं देवं वापि महेश्वरम् २०।

एकीभावेन पश्यंति न तेषां पुनरुद्भवः ।

तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् २१।

हरिं चैकं प्रपश्यध्वं पूजयध्वं तथैव हि ।

ये समानं प्रपश्यंति हरिं वै देवतांतरम् २२।

ते यांति नरकान्घोरांन्न तांस्तु गणयेद्धीरः ।

मूर्खं वा पंडितं वापि ब्राह्मणं केशवप्रियम् २३।

श्वपाकं वा मोचयति नारायणः स्वयं प्रभुः ।

नारायणात्परो नास्ति पापराशि दवानलः २४।

कृत्वापि पातकं घोरं कृष्णनाम्ना विमुच्यते ।

स्वयं नारायणो देवः स्वनाम्नि जगतां गुरुः २५।

आत्मनोऽभ्यधिकां शक्तिं स्थापयामास सुव्रताः ।

अत्र ये विवदंते वै आयासलघुदर्शनात् २६।

फलानां गौरवाच्चापि ते यांति नरकं बहु ।

तस्माद्धरौ भक्तिमान्स्याद्धरिनामपरायणः २७।

पूजकं पृष्ठतो रक्षेन्नामिनं वक्षसि प्रभुः ।

हरिनाममहावज्रं पापपर्वतदारणे २८।

तस्य पादौ तु सफलौ तदर्थं गतिशालिनौ ।

तावेव धन्यावाख्यातौ यौ तु पूजाकरौ करौ २९।

उत्तमांगमुत्तमांगं तद्धरौ नम्रमेव यत् ।

सा जिह्वा या हरिं स्तौति तन्मनस्तत्पदानुगम् ३०।

तानि लोमानि चोच्यंते यानि तन्नाम्नि चोत्थितम् ।

कुर्वंति तच्च नेत्रांबु यदच्युतप्रसंगतः ३१।

अहो लोका अतितरां दैवदोषेण वंचिताः ।

नामोच्चारणमात्रेण मुक्तिदं न भजंति वै ३२।

वंचितास्ते च कलुषाः स्त्रीणां संगप्रसंगतः ।

प्रतिष्ठंति च लोमानि येषां नो कृष्णशब्दने ३३।

ते मूर्खा ह्यकृतात्मानः पुत्रशोकादि विह्वलाः ।

रुदंति बहुलालापैर्न कृष्णाक्षरकीर्तने ३४।

जिह्वां लब्ध्वापि लोकेऽस्मिन्कृष्णनामजपेन्नहि ।

लब्ध्वापि मुक्तिसोपानं हेलयैव च्यवंति ते ३५।

तस्माद्यत्नेन वै विष्णुं कर्मयोगेन मानवः ।

कर्मयोगार्च्चितो विष्णुः प्रसीदत्येव नान्यथा ३६।

तीर्थादप्यधिकं तीर्थं विष्णोर्भजनमुच्यते ।

सर्वेषां खलु तीर्थानां स्नानपानावगाहनैः ३७।

यत्फलं लभते मर्त्यस्तत्फलं कृष्णसेवनात् ।

यजंते कर्मयोगेन धन्या एव नरा हरिम् ३८।

तस्माद्भजध्वं मुनयः कृष्णं परममंगलम् ३९।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे विष्णुभक्तिप्रशंसनं नाम पंचाशत्तमोऽध्यायः ५०।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 51

ऋषय ऊचु-

कर्मयोगः कथं सूत येन चाराधितो हरिः ।

प्रसीदति महाभाग वद नो वदतां वर १।

येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः ।

तद्वदाखिललोकानां रक्षणं धर्मसंग्रहम् २।

तं कर्मयोगं वद नः सूत मूर्तिमयस्तु यः ।

इति शुश्रूषवो विप्रा भवदग्रे व्यवस्थिताः ३।

सूत उवाच-

एवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः ।

ऋषिभिरग्निसंकाशैर्व्यासस्तानाह तच्छृणु ४।

व्यास उवाच-

शृणुध्वंमृषयः सर्वे वक्ष्यमाणं सनातनम् ।

कर्मयोगं ब्राह्मणानामात्यंतिकफलप्रदम् ५।

आम्नायसिद्धमखिलं ब्राह्मणार्थं प्रदर्शितम् ।

ऋषीणां शृण्वतां पूर्वं मनुराह प्रजापतिः ६।

सर्वव्याधिहरं पुण्यमृषिसंघैर्निषेवितम् ।

समाहितधियो यूयं शृणुध्वं गदतो मम ७।

कृतोपनयनो वेदानधीयीत द्विजोत्तमः ।

गर्भाष्टमेऽष्टमेवाब्दे स्वसूत्रोक्तविधानतः ८।

दंडी च मेखली सूत्री कृष्णाजिनधरो मुनिः ।

भिक्षाहारो गुरुहितो वीक्ष्यमाणो गुरोर्मुखम् ९।

कार्पासमुपवीतार्थं निर्मितं ब्रह्मणा पुरा ।

ब्राह्मणानां त्रिवृत्सूत्रं कौशं वा वस्त्रमेव वा १०।

सदोपवीती चैव स्यात्सदाबद्ध शिखो द्विजः ।

अन्यथा यत्कृतं कर्म्म तद्भवत्ययथाकृतम् ११।

वसेदविकृतं वासः कार्पासं वा कषायकम् ।

तदेव परिधानीयं शुक्लं तांतवमुत्तमम् १२।

उत्तरं तु समाम्नातं वासः कृष्णाजिनं शुभम् ।

अभावे गावयमपि रौरवं वा विधीयते १३।

उद्धृत्य दक्षिणं बाहुं सव्यबाहौ समर्पितम् ।

उपवीतं भवेन्नित्यं निवीतं कंठसज्जने १४।

सव्यबाहुं समुद्धृत्य दक्षिणे तु धृतं द्विजाः ।

प्राचीनावीतमित्युक्तं पित्र्येकर्मणि योजयेत् १५।

अग्न्यागारे गवां गोष्ठे होमे तप्ये तथैव च ।

स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ १६।

उपासने गुरूणां च संध्ययोः साधुसंगमे ।

उपवीती भवेन्नित्यं विधिरेष सनातनः १७।

मौंजी त्रिवृत्समां श्लिष्टां कुर्याद्विप्रस्य मेखलाम् ।

मुंजाभावे कुशेनाहुर्ग्रंथिनैकेन वा त्रिभिः १८।

धारयेद्वैणवपालाशौ दंडौ केशांतिकौ द्विजः ।

यज्ञार्हवृक्षजं वाथ सौम्यमव्रणमेव च १९।

सायंप्रातर्द्विजः संध्यामुपासीत समाहितः ।

कामाल्लोभाद्भयान्मोहात्त्यक्त्वैनां पतितो भवेत् २०।

अग्निकार्यं ततः कुर्यात्सायंप्रातः प्रसन्नधीः ।

स्नात्वा संतर्पयेद्देवानृषीन्पितृगणांस्तथा २१।

देवताभ्यर्चनं कुर्यात्पुष्पैः पत्रैर्यवांबुभिः ।

अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः २२।

असावहं भो नामेति सम्यक्प्रणतिपूर्वकम् ।

आयुरारोग्यसिद्ध्यर्थं तंद्रादिपरिवर्जितः २३।

आयुष्मान्भव सौम्येति वचो विप्रोऽभिवादने ।

आकारश्चास्य नाम्नोंऽते वाच्यः पूर्वाक्षरप्लुतः २४।

यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् ।

नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः २५।

व्यत्यस्तपाणिना कार्यं पादसंग्रहणं गुरोः ।

सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः २६।

लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा ।

अवाप्य प्रयतो ज्ञानं तं पूर्वमभिवादयेत् २७।

नोदकं धारयेद्भैक्ष्यं पुष्पाणि समिधस्तथा ।

एवंविधानि चान्यानि न देवार्थेषु कर्म्मसु २८।

ब्राह्मणं कुशलं पृच्छेत्क्षत्रबंधुमनामयम् ।

वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च २९।

उपाध्यायः पिता ज्येष्ठो भ्राता त्राता च भीतितः ।

मातुलः श्वशुरश्चैव मातामह पितामहौ ३०।

वर्णश्रेष्ठः पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः ।

माता मातामही गुर्वी पितुर्मातुश्च सोदराः ३१।

श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः ।

ज्ञेयस्तु गुरुवर्गोऽयं मातृतः पितृतो द्विजाः ३२।

अनुवर्तनमेतेषां मनोवाक्कायकर्मभिः ।

गुरून्दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलि ३३।

नैतैरुपविशेत्सार्द्धं विवदेन्नात्मकारणात् ।

जीवितार्थमपि द्वेषाद्गुरुभिर्नैव भाषणम् ३४।

उद्रिक्तोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ।

गुरूणामपि सर्वेषां पंच पूज्या विशेषतः ३५।

तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ।

यो भावयति या सूते येन विद्योपदिश्यते ३६।

ज्येष्ठो भ्राता च भर्ता च पंचैते गुरवः स्मृताः ।

आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः ३७।

पूजनीया विशेषेण पंचैते भूतिमिच्छता ।

यावत्पिता च माता च द्वावेतौ निर्विकारिणौ ३८।

तावत्सर्वं परित्यज्य पुत्रः स्यात्तत्परायणः ।

पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि ३९।

स पुत्रः सकलं धर्मं प्राप्नुयात्तेन कर्मणा ।

नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः ४०।

तयोः प्रत्युपकारोऽपि न कथंचन विद्यते ।

तयोर्नित्यं प्रियं कुर्यात्कर्मणा मनसा गिरा ४१।

न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत् ।

वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा ४२।

धर्मसारः समुद्दिष्टः प्रेत्यानंतफलप्रदः ।

सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया ४३।

शिष्यो विद्याफलं भुंक्ते प्रेत्य चापद्यते दिवि ।

यो भ्रातरं पितृसमं ज्येष्ठं मूढोऽवमन्यते ४४।

तेन दोषेण संप्रेत्य निरयं घोरमृच्छति ।

पुंसां वर्त्मनि सृष्टेन पूज्यो भर्ता तु सर्वदा ४५।

अपि मातरि लोकेऽस्मिन्नुपकाराद्धि गौरवम् ।

मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ४६।

असावहमिति ब्रूयात्प्रत्युत्थायाभिवादयेत् ।

अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ४७।

भो भवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ।

अभिवाद्यश्च पूज्यश्च शिरसानम्य एव च ४८।

ब्राह्मणक्षत्रियाद्यैश्च श्रीकामैः सादरं सदा ।

नाभिवाद्याश्च विप्रेण क्षत्रियाद्याः कथंचन ४९।

ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः ।

ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्यादिति श्रुतिः ५०।

सवर्णेन सवर्णानां कार्यमेवाभिवादनम् ।

गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ५१।

पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ।

विद्याकर्मवयोबंधुर्वित्तं भवति पंचमम् ५२।

मान्यस्थानानि पंचाहुः पूर्वं पूर्वं गुरूत्तरात् ।

पंचानां त्रिषु वर्णेषु भूयांसि बलवंति च ५३।

यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ।

पंथा देयो ब्राह्मणाय स्त्रियै राज्ञे विचक्षुषे ५४।

वृद्धाय भारभग्नाय रोगिणे दुर्बलाय च ।

भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम् ५५।

निवेद्य गुरुवेऽश्नीयाद्वाग्यतस्तदनुज्ञया ।

भवत्पूर्वं चरेद्भैक्ष्यमुपवीती द्विजोत्तमः ५६।

भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ।

मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ५७।

भिक्षेत भिक्षांप्रथमं याचैनं न विमानयेत् ।

सजातीयगृहेष्वेव सार्ववर्णिकमेव वा ५८।

भैक्ष्यस्याचरणं प्रोक्तं पतिता दिवि वर्जितम् ।

वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्मसु ५९।

ब्रह्मचार्य्याहरेद्भैक्ष्यं गृहेभ्यः प्रयतोऽन्वहम् ।

गुरोः कुले न भिक्षेत न ज्ञातिकुलबंधुषु ६०।

अलाभेत्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ।

सर्वं वा विचरेद्ग्रामं पूर्वोक्तानामसंभवे ६१।

नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन् ।

समाहृत्य तु भैक्ष्यान्नं यावदर्थममायया ६२।

भुंजीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ।

भैक्ष्येण वर्तयेन्नित्यं नैवेकान्नो भवेद्व्रती ६३।

भैक्ष्यैण वर्त्तिनो वृत्तिरुपवाससमा स्मृता ।

पूजयेदशनं नित्यमद्याच्चैनमकुत्सयन् ६४।

दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनंदेच्च सर्वशः ।

अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ६५।

अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ।

प्राङ्मुखोऽन्नानि भुंजीत सूर्याभिमुखमेव वा ६६।

नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः ।

प्रक्षाल्य पाणिपादौ च भुंजानो द्विरुपस्पृशेत् ६७।

शुद्धे देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् ६८।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे कर्मयोगकथनं नाम एकपंचाशत्तमोऽध्यायः ५१।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 52

व्यास उवाच-

भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे ।

ओष्ठावलोमकौ स्पृष्ट्वा वासो विपरिधाय च १।

रेतोमूत्रपुरीषाणामुत्सर्गेऽनृतभाषणे ।

ष्ठीवित्वाऽध्ययनारंभे कासश्वासागमे तथा २।

चत्वरं वा श्मशानं वा समाक्रम्य द्विजोत्तमः ।

संध्ययोरुभयोस्तद्वदाचांतोऽप्याचमेत्पुनः ३।

चंडालम्लेच्छसंभाषे स्त्रीशूद्रोच्छिष्टभाषणे ।

उच्छिष्टं पुरुषं दृष्ट्वा भोज्यं चापि तथाविधम् ४।

आचामेदश्रुपाते वा लोहितस्य तथैव च ।

भोजने संध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः ५।

आगतो वाचमेत्सुप्त्वा सकृत्सकृदथान्यतः ।

अग्नेर्गवामथालंभे स्पृष्ट्वा प्रयतमेव वा ६।

स्त्रीणामथात्मनः स्पर्शे नीलद्यं वा परिधाय च ।

उपस्पर्शेज्जलं वार्तं तृणं वा भूमिमेव च ७।

केशानां चात्मनः स्पर्शे वाससः स्खलितस्य च ।

अनुष्णाभिरकेशाभिरदुष्टाभिश्च धर्मतः ८।

शौचेऽप्सु सर्वदा चामेदासीनः प्रागुदङ्मुखः ।

शिरः प्रावृत्य कंठं वा मुक्तकेशशिखोऽपि वा ९।

अकृत्वा पादयोः शौचं मार्गतो न शुचिर्भवेत् ।

सोपानत्कोपानस्थो वा नोष्णीषी चाचमेद्बुधः १०।

न चैव वर्षधाराभिर्न तिष्ठन्नुद्धृतोदकैः ।

नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः ११।

न पादुकासनस्थो वा बहिर्जानुरथापि वा ।

न जल्पन्न हसन्प्रेक्षन्शयानस्तल्प एव च १२।

नाविक्षिताभिः फेनाद्यैरुपेताभिरथापि वा ।

शूद्राशुचिकरोन्मुक्तैर्नक्षाराभिस्तथैव च १३।

न चैवांगुलिभिः शब्दं न कुर्यान्नान्यमानसः ।

न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः १४।

न पाणिक्षुभिताभिर्वा न बहिर्गंध एव वा ।

हृद्गाभिः पूयते विप्रः कंठ्याभिः क्षत्रियः शुचिः १५।

प्राशिताभिस्तथा वैश्यः स्त्रीशूद्रौ स्पर्शतोंऽततः ।

अंगुष्ठमूलांतरतो रेखायां ब्राह्ममुच्यते १६।

अंतरांगुष्ठदेशिन्यैः पितॄणां तीर्थमुच्यते ।

कनिष्ठामूलतः पश्चात्प्राजापत्यं प्रचक्षते १७।

अंगुल्यग्रं स्मृतं दैवं तदेवार्षं प्रकीर्तितम् ।

मूलेन दैवमार्षं स्यादाग्नेयं मध्यतः स्मृतम् १८।

तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति ।

ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् १९।

होमयेद्वाथ दैवेन न तु पित्र्येण वै द्विजाः ।

त्रिःप्राश्नीयादपः पूर्वं ब्राह्मेण प्रयतस्ततः २०।

संमृज्यांगुष्ठमूलेन मुखं वै समुपस्पृशेत् ।

अंगुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः २१।

तर्जन्यंगुष्ठयोगेन स्पृशेन्नासापुटद्वयम् ।

कनिष्ठांगुष्ठयोगेन श्रवणे समुस्पृशेत् २२।

सर्वासामथयोगेन हृदयं तु तनवा ।

स्पृशेद्वै शिरसस्तद्वदंगुष्ठेनांसकद्वयम् २३।

त्रिःप्राश्नीयाद्यदंभस्तु प्रीतास्तेनास्य देवताः ।

ब्रह्माविष्णुर्महेशश्च भवंतीत्यनुशुश्रुम २४।

गंगा च यमुना चैव प्रीयेते परिमार्जनात् ।

संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ २५।

नासत्यदस्रौ प्रीयेते स्पृशेन्नासापुटद्वयम् ।

कर्णयोः स्पृष्टयोस्तद्वत्प्रीयेते चानिलानलौ २६।

संस्पृष्टे हृदये चास्य प्रीयंते सर्वदेवताः ।

मूर्ध्नि संस्पर्शनादेकः प्रीतः स पुरुषो भवेत् २७।

नोच्छिष्टं कुर्वते वक्त्रे विप्रुषोंगे लगंति याः ।

दंतवद्दंतलग्नेषु जिह्वास्पर्शे शुचिर्भवेत् २८।

स्पृशंति बिंदवः पादौ य आचामयतः परान् ।

भूमिपांशुसमा ज्ञेया न तैरस्पृश्यता भवेत् २९।

मधुपर्के च सोमे च तांबूलस्य च भक्षणे ।

फलमूले चेक्षुदंडेन दोषं प्राह वै मनुः ३०।

प्रचरंश्चान्नपानेषु द्रव्यहस्तो भवेन्नरः ।

भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् ३१।

तैजसं वै समादाय यद्युच्छिष्टो भवेद्द्विजः ।

भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् ३२।

यद्यद्द्रव्यं समादाय भवेदुच्छेषणान्वितः ।

अनिधायैव तद्द्रव्यं भूमौ त्वशुचितामियात् ३३।

वस्त्रादिषु विकल्पः स्यात्तत्संस्पृश्याचमेदिह ।

अरण्ये निर्जने रात्रौ चौरव्याघ्राकुले पथि ३४।

कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति ।

निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः ३५।

अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद्दक्षिणामुखः ।

अंतर्धाय महीं काष्टैः पत्रैर्लोष्टतृणेन वा ३६।

प्रावृत्य च शिरः कुर्याद्विण्मूत्रस्य विसर्जनम् ।

छायाकूपनदीगोष्ठचैत्यांभः पथि भस्मसु ३७।

अग्नौ चैव श्मशाने च विण्मूत्रं न समाचरेत् ।

न गोमयेन काष्ठे वा महावृक्षेऽथ शाद्वले ३८।

न तिष्ठन्न च निर्वासा न च पर्वतमंडले ।

न जीर्णदेवायतने वल्मीके न कदाचन ३९।

न ससत्वेषु गर्तेषु न गच्छन्न समाचरेत् ।

तुषांगारकपालेषु राजमार्गे तथैव च ४०।

न क्षेत्रे न बिले वापि न तीर्थे न चतुष्पथे ।

नोद्यानेऽपासमीपे वा नोषरे नगराशये ४१।

न सोपानत्पादुको वा छत्री वा नांतरिक्षके ।

न चैवाभिमुखः स्त्रीणां गुरुब्राह्मणयोर्गवाम् ४२।

न देवदेवालययोरपामपि कदाचन ।

न ज्योतींषि निरीक्षन्वानवाप्रतिमुखोथ वा ४३।

प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ।

आहृत्य मृत्तिकां कूलाल्लेपगंधापकर्षणीम् ४४।

कुर्यादतंद्रितः शौचं विशुद्धैरुद्धृतोदकैः ।

नाहरेन्मृतिकां विप्रः पांशुलां न सकर्दमाम् ४५।

न मार्गान्नोषराद्देशाच्छौचशिष्टां परस्य च ।

न देवायतनात्कूपाद्धाम्नो न च जलात्तथा ४६।

उपस्पृशेत्ततो नित्यं पूर्वोक्तेन विधानतः ४७।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे कर्मयोगकथने।

द्विपंचाशत्तमोऽध्यायः ५२।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 53

व्यास उवाच-

एवं दंडादिभिर्युक्तः शौचाचारसमन्वितः ।

आहूतोध्यापनं कुर्याद्वीक्ष्यमाणो गुरोर्मुखम् १।

नित्यमुद्यतपाणिः स्यात्साध्वाचारः सुसंयतः ।

आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः २।

प्रतिश्रवणसंभाषे शयानो न समाचरेत् ।

आसीनो न च भुंजानो न तिष्ठेन्न पराङ्मुखः ३।

नीचैः शय्यासनं चास्य सर्वदा गुरुसन्निधौ ।

गुरोस्तु चक्षुर्विषयेन यथेष्टासनो भवेत् ४।

नोदाहरेदस्य नाम परोक्षमपि केवलम् ।

न चैवास्यानुकुर्वीत गतिभाषणचेष्टितम् ५।

गुरोर्यत्र परीवादो निंदा वापि प्रवर्तते ।

कर्णौ तत्र पिधातव्यौ गंतव्यं वा ततोऽन्यतः ६।

दूरस्थो नार्चयेदेनं न क्रुद्धो नांतिके स्त्रियः ।

न चैवास्योत्तरं ब्रूयात्स्थितो नासीत सन्निधौ ७।

उदकुंभं कुशान्पुष्पं समिधोऽस्याहरेत्सदा ।

मार्जनं लेपनं नित्यमंगानां वै समाचरेत् ८।

नास्य निर्माल्यशयनं पादुकोपानहावपि ।

आक्रामेदासनं चास्य च्छायादीन्वा कदाचन ९।

साधयेद्दंतकाष्ठादींल्लब्धं चास्मै निवेदयेत् ।

अनापृच्छ्य न गंतव्यं भवेत्प्रियहिते रतः १०।

न पादौ सारयेदस्य सन्निधाने कदाचन ।

जृंभितं हसितं चैव कंठप्रावरणं तथा ११।

वर्जयेत्सन्निधौ नित्यमंगस्फोटनमेव च ।

यथाकालमधीयीत यावन्न विमना गुरुः १२।

आसीनोऽधो गुरोः पार्श्वे सेवां च सुसमाहितः ।

आसने शयने याने नैव तिष्ठेत्कदाचन १३।

धावंतमनुधावेत गच्छंतमनुगच्छति ।

गोश्वोष्ट्रयानप्रासादे तथाधोविष्टरेषु च १४।

आसीत गुरुणा सार्द्धं शिलाफलक नौषु च ।

जितेंद्रियः स्यात्सततं वश्यात्माक्रोधनः शुचिः १५।

प्रयुंजीत सदा वाचं मधुरां हितकारिणीम् ।

गंधमाल्यं रसं कल्पं शुक्तिं प्राणिविहिंसनम् १६।

अभ्यंजनांजनोन्मर्द्दच्छत्रधारणमेव च ।

कामं लोभं भयं निद्रां गीतवादित्रनर्तनम् १७।

आतर्जनं परीवादं स्त्रीप्रेक्षालंभनं तथा ।

परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् १८।

उदकुंभं सुमनसो गोशकृन्मृत्तिका कुशान् ।

आहरेद्यावदन्नानि भैक्ष्यं चाहरहश्चरेत् १९।

घृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत् ।

अनृत्यदर्शी सततं भवेद्गीतादि निस्पृहः २०।

नादित्यं वै समीहेत नाचरेद्दंतधावनम् ।

एकांतमशुचिस्त्रीभिः शूद्राद्यैरभिभाषणम् २१।

गुरूच्छिष्टं भेषजान्नं प्रयुंजीत न कामतः ।

मलापकर्षणं स्नानं नाचरेद्धि कदाचन २२।

न कुर्यान्मानसं विप्रो गुरोस्त्यागे कथंचन ।

मोहाद्वा यदि वा लोभात्त्यक्त्वा तु पतितो भवेत् २३।

लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा ।

आददीत यतो ज्ञानं तं न द्रुह्येत्कदाचन २४।

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।

उत्पथप्रतिपन्नस्य न मनुस्त्यागमब्रवीत् २५।

गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् ।

नत्वाभिसृष्टो गुरुणा स्वान्गुरूनभिवादयेत् २६।

विद्यागुरुष्वेतदेवं नित्यावृत्तिषु योगिषु ।

प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्सु च २७।

श्रेयः स्वगुरुवद्वृत्तिं नित्यमेव समाचरेत् ।

गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबंधुषु २८।

बालः संमानयेन्मान्याञ्छिष्टो वा यदि कर्म्मणि ।

अध्यापयन्गुरोः सूनुं गुरुवन्मानमर्हति २९।

उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजनः ।

न कुर्याद्गुरुपुत्रस्य पादयोः शौचमेव च ३०।

गुरुवत्प्रतिपूज्याश्च सवर्णा गुरुयोषितः ।

असवर्णाश्च संपूज्याः प्रत्युत्थानाभिवादनैः ३१।

अभ्यंजनं स्नापनं च गात्रोत्सादनमेव च ।

गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ३२।

गुरुपत्नी तु युवती नाभिवाद्या तु पादयोः ।

कुर्वीत वंदनं भूम्यामसावहमिति ब्रुवन् ३३।

विप्रोष्य पादग्रहणपूर्वकं चाभिवादनम् ।

गुरुदारेषु कुर्वीत सतां धर्म्ममनुस्मरन् ३४।

मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसा ।

संपूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया ३५।

भ्रातृभार्याश्च संग्राह्या सवर्णा हन्यहन्यपि ।

विप्रोष्य तूपसंग्राह्या ज्ञातिसंबंधियोषितः ३६।

पितुर्भगिन्या मातुश्च जायस्यां च स्वसर्यपि ।

मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी ३७।

एवमाचारसंपन्नमात्मवंतमदांभिकम् ।

वेदमध्यापयेद्धर्म्मं पुराणांगानि नित्यशः ३८।

संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् ।

हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः ३९।

आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।

शक्तोन्नदोंबुदः साधुरध्याप्यादश धर्मतः ४०।

कृतकंठस्तथाऽद्रोहः मेधावी गुरुकृन्नरः ।

आप्तः प्रियोऽथ विधिवत्षडध्याप्या द्विजातयः ४१।

एतेषु ब्राह्मणे दानमन्यत्र तु यथोचितम् ।

आचम्य संयतो नित्यमधीयीत उदङ्मुखः ४२।

उपसंगृह्य तत्पादौ वीक्ष्यमाणो गुरोर्मुखम् ।

अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चाऽरमेत् ४३।

प्राक्कूलान्पर्युपासीत पवित्रैश्चैव पावकः ।

प्राणायामैस्त्रिभिः पूतस्ततोंकारमर्हति ४४।

ब्राह्मणः प्रणवं कुर्यादंतेऽपि विधिवद्द्विजाः ।

कुर्यादध्यापनं नित्यं सब्रह्मांजलिपूर्वतः ४५।

सर्वेषामेव भूतानां वेदश्चक्षुः सनातनः ।

अधीयीताप्ययं नित्यं ब्राह्मण्याद्धीयतेऽन्यथा ४६।

अधीयीत ऋचो नित्यं क्षीराहुत्या सदेवताः ।

प्रीणाति तर्पयन्कालं कामैर्हूताः सदैवताः ४७।

यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः ।

सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् ४८।

अथर्वांगिरसो नित्यं मध्वा प्रीणाति देवताः ।

धर्मांगानि पुराणानि मांसैस्तर्पयतेसुरान् ४९।

प्रातश्च सायं प्रयतो नैत्यकं विधिमाश्रितः ।

गायत्रीं समधीयीत गत्वारण्यं समाहितः ५०।

सहस्रपरमां देवीं शतमध्यां दशावराम् ।

गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्तितः ५१।

गायत्रीं चैव वेदांश्च तुलया तोलयत्प्रभुः ।

एकतश्चतुरोवेदा गायत्रीं च तथैकतः ५२।

ॐकारमादितः कृत्वा व्याहृतीस्तदनंतरम् ।

ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ५३।

पुराकल्पे समुत्पन्ना भूर्भुवः स्वः सनातनाः ।

महाव्याहृतयस्तिस्रः सर्वाशुभनिबर्हणाः ५४।

प्रधानं पुरुषः कालो विष्णुब्रह्ममहेश्वराः ।

सत्वंरजस्तमस्तिस्रः क्रमाद्व्याहृतयः स्मृताः ५५।

ॐकारस्तत्परं ब्रह्म सावित्री स्यात्तदुत्तरम् ।

एष मंत्रो महायोगः सारात्सार उदाहृतः ५६।

योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमातरम् ।

विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ५७।

गायत्री वेदजननी गायत्री लोकपावनी ।

गायत्र्या न परं जप्यमेतद्विज्ञायमुच्यते ५८।

श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः ।

आषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम् ५९।

यत्सूर्ययाम्यगमनं मासान्विप्रोर्द्धपंचमान् ।

अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ६०।

पुष्ये तुच्छंदसां कुर्याद्बहिरुत्सर्जनं द्विजः ।

मासि शुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ६१।

छदांसि च द्विजोऽभ्यस्येच्छुक्लपक्षे तु वै द्विजः ।

वेदांगानि पुराणानि कृष्णपक्षेषु मानवः ६२।

इमान्नित्यमनध्यायानधीयानो विवर्जयेत् ।

अध्यापनं च कुर्वाणोऽभ्यस्यन्नपि प्रयत्नतः ६३।

कर्णश्रवेऽनिले रात्रौ दिवापांसुसमूहने ।

विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे ६४।

अकालिकमनध्यायमेतेष्वाह प्रजापतिः ।

एतानभ्युदिनान्विद्याद्यदा प्रादुष्कृताग्निषु ६५।

तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ।

निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ६६।

एतानकालिकान्विद्यादनध्यायानृतावपि ।

प्रादुष्कृतेष्वग्निषु च विद्युत्स्तनितनिस्वने ६७।

सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा ।

नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च ६८।

धर्मनैपुण्यकामानां पूतिगंधे च नित्यशः ।

अंतः शवगतेग्रामे वृषलस्य च सन्निधौ ६९।

अनध्यायोरुद्यमाने समये जलदस्य च ।

उदके चार्धरात्रे च विण्मूत्रं च विसर्जयन् ७०।

उच्छिष्टः श्राद्धभुक्चैव मनसापि न चिंतयेत् ।

प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य वेतनम् ७१।

त्र्यहं न कारयेद्ब्रह्म राज्ञो राहोश्च सूतके ।

यावदेकान्ननिष्ठा स्यात्स्नेहालोपश्च तिष्ठति ७२।

विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् ।

शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ७३।

नाधीयीतामिषं जग्ध्वा शूद्रश्राद्धान्नमेव च ।

नीहारे बाणशब्दे च संध्ययोरुभयोरपि ७४।

अमावास्या चतुर्दश्योः पौर्णमास्यष्टमीषु च ।

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ७५।

अष्टकासु अहोरात्रमृत्वंतासु च रात्रिषु ।

मार्गशीर्षे तथा पौषे माघमासे तथैव च ७६।

तिस्रोऽष्टकाः समाख्याता कृष्णपक्षेषु सूरिभिः ।

श्लेष्मातकस्य च्छायायां शाल्मलेर्मधुकस्य च ७७।

कदाचिदपि नाध्येयं कोविदारकपित्थयोः ।

समानविद्ये च मृते तथा सब्रह्मचारिणि ७८।

आचार्ये संस्थिते चापि त्रिरात्रं क्षपणं स्मृतम् ।

छिद्राण्येतानि विप्राणामनध्यायाः प्रकीर्तिताः ७९।

हिंसंति राक्षसास्तेषु तस्मादेतान्विवर्जयेत् ।

नैत्यकेनास्त्यनध्यायः संध्योपासनमेव च ८०।

उपाकर्म्मणि होमांते होममध्ये तथैव च ।

एकामृचमथैकं वा यजुः सामानि वा पुनः ८१।

नाष्टकाद्यास्वधीयीत मारुते चाभिधावति ।

अनध्यायस्तु नांगेषु नेतिहासपुराणयोः ८२।

न धर्मशास्त्रेष्वन्येषु सर्वाण्येतानि वर्जयेत् ।

एष धर्मः समासेन कीर्तितो ब्रह्मचारिणः ८३।

ब्रह्मणाऽभिहितः पूर्वमृषीणां भावितात्मनाम् ।

योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजः ८४।

स संमूढो न संभाष्यो वेदबाह्यो द्विजातिभिः ।

न वेदपाठमात्रेण संतुष्टो वै भवेद्द्विजः ८५।

पाठमात्रावसानस्तु पंके गौरिव सीदति ।

योऽधीत्य विधिवद्वेदं वेदार्थं न विचारयेत् ८६।

स संमूढः शूद्रकल्पः पात्रतां न प्रपद्यते ।

यदित्वात्यंतिकं वासं कर्तुमिच्छति वै गुरौ ८७।

युक्तः परिचरेदेनमाशरीरविमोक्षणम् ।

गत्वा वनं च विधिवज्जुहुयाज्जातवेदसम् ८८।

अधीयीत तथा नित्यं ब्रह्मनिष्ठः समाहितः ।

सावित्रीं शतरुद्रीयं वेदांतांश्च विशेषतः ।

अभ्यसेत्सततं युक्तो भिक्षाशनपरायणः ८९।

एतद्विधानं परमं पुराणं वेदागमे सम्यगिहोदितं वः ।

पुरा महर्षिप्रवराभिपृष्टः स्वायंभुवो यन्मनुराह देवः ९०।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे कर्मयोगकथनं नाम त्रिपंचाशत्तमोऽध्यायः ५३।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 54

व्यास उवाच-

वेदं वेदौ तथा वेदान्वेदांगानि तथा द्विजाः ।

अधीत्य चाधिगम्यार्थं ततः स्नायाद्द्विजोत्तमः १।

गुरवे तु धनं दत्वा स्नायीत तदनुज्ञया ।

तीर्णव्रतोथ युक्तात्मा शक्तो वा स्नातुमर्हति २।

वैणवीं धारयेद्यष्टिमंतर्वासस्तथोत्तरम् ।

यज्ञोपवीतद्वितयं सोदकं च कमंडलुम् ३।

छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ।

रौक्मे च कुंडले धार्ये कृत्तकेशनखः शुचिः ४।

अन्यत्र कांचनाद्विप्रो न रक्तां बिभृयात्स्रजम् ।

शुक्लांबरधरो नित्यं सुगंधः प्रियदर्शनः ५।

न जीर्ण मलवद्वासा भवेद्वै विभवे सति ।

न रक्तमुल्बणं चान्य धृतं वासो न कुंडलम् ६।

नोपानहौ स्रजं चाथ पादुके च प्रयोजयेत् ।

उपवीतमलंकारं दर्शयन्कृष्णमाजिनम् ७।

नापसव्यं परीदध्याद्वासो न विकृतं वसेत् ।

आहरेद्विधिवद्दारान्सदृशानात्मनः शुभान् ८।

रूपलक्षणसंयुक्तान्योनिदोषविवर्जितान् ।

अपितृगोत्रजभवामन्यमानुषगोत्रजाम् ९।

आहरेद्ब्राह्मणो भार्यां शीलशौचसमन्विताम् ।

ऋतुकालाभिगामी स्याद्यावत्पुत्रोभिजायते १०।

वर्जयेत्प्रतिषिद्धानि प्रयत्नेन दिनानि तु ।

षष्ठ्यष्टमीं पंचदशीं द्वादशीं च चतुर्दशीम् ११।

ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ।

आदधीत विवाहाग्निं जुहुयाज्जातवेदसम् १२।

एतानि स्नातको नित्यं पावनानि च पावयेत् ।

वेदोदितं स्वकं कर्म्म नित्यं कुर्यादतंद्रितः १३।

अकुर्वाणः पतत्याशु नरकानतिभीषणान् ।

अभ्यसेत्प्रयतो वेदं महायज्ञान्न हापयेत् १४।

कुर्याद्गृह्याणि कार्याणि संध्योपासनमेव च ।

सख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा १५।

दैवतान्यभिगच्छेत कुर्य्याद्भार्य्याभिपोषणम् ।

न धर्मं ख्यापयेद्विद्वान्न पापं गूहयेदपि १६।

कुर्वीतात्महितं नित्यं सर्वभूतानुकंपकः ।

वयसः कर्म्मणोऽर्थस्य श्रुतस्याभिजनस्य च १७।

देशवाग्बुद्धिसारूप्यमाचरन्विचरेत्सदा ।

श्रुतिस्मृत्युदितं सम्यक्साधुभिर्यश्च सेवितः १८।

तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित् ।

येनास्य पितरो याता येन याताः पितामहाः १९।

तेन यायात्सतां मार्गं तेन गच्छन्न दुष्यति ।

नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् २०।

सत्यवादी जितक्रोधो लोभमोहविवर्जितः ।

सावित्रीजाप निरतः श्राद्धकृन्मुच्यते गृही २१।

मातापित्रोर्हिते युक्तो ब्राह्मणस्य हिते रतः ।

दाता यज्वा देवभक्तो ब्रह्मलोके महीयते २२।

त्रिवर्गसेवी सततं देवानां च समर्चनम् ।

कुर्यादहरहर्नित्यं नमस्येत्प्रयतः सुरान् २३।

विभागशीलः सततं क्षमायुक्तो दयालुकः ।

गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् २४।

क्षमा दया च विज्ञानं सत्यं चैव दमः शमः ।

अध्यात्मनित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् २५।

एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः ।

यथाशक्ति चरन्धर्म्मं निंदितानि विवर्जयेत् २६।

विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् ।

गृहस्थो मुच्यते बंधान्नात्र कार्याविचारणा २७।

विगर्हित जय क्षेप हिंसा बंधवधात्मनाम् ।

अन्यमन्यु समुत्थानां दोषाणां मर्षणं क्षमा २८।

स्वदुःखेष्वेव कारुण्यं परदुःखेषु सौहृदम् ।

दयेति मुनयः प्राहुः साक्षाद्धर्मस्य साधनम् २९।

चतुर्दशानां विद्यानां धारणा हि परार्थतः ।

विज्ञानमिति तद्विद्याद्येन धर्मो विवर्धते ३०।

अधीत्य विधिवद्विद्यामर्थं चैवोपलभ्यते ।

धर्मकार्याणि कुर्वीत ह्येतद्विज्ञानमुच्यते ३१।

सत्येन लोकं जयति सत्यं तत्परमं पदम् ।

यथा भूता प्रमादं तु सत्यमाहुर्मनीषिणः ३२।

दमः शरीरोपरतिः शमः प्रज्ञाप्रसादतः ।

अध्यात्ममक्षरं विद्या यत्र गत्वा न शोचति ३३।

यया स देवोभगवान्विद्यया विद्यते परः ।

साक्षादेव हृषीकेशस्तज्ज्ञानमिति कीर्तितम् ३४।

तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः ।

महायज्ञपरो विप्रो लभते तदनुत्तमम् ३५।

धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् ।

नहि देहं विना विष्णुः पुरुषैर्विद्यतेपरः ३६।

नित्यं धर्मार्थकामेषु युज्येत नियतो द्विजः ।

न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ३७।

सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत् ।

धर्मो हि भगवान्देवो गतिः सर्वेषु जंतुषु ३८।

भूतानांप्रियकारीस्यान्नपरद्रो हकर्मधीः ।

न वेददेवतानिंदां कुर्य्यात्तैश्च न संवसेत् ३९।

यस्त्विमं नियतो मर्त्यो धर्माध्यायं पठेच्छुचिः ।

अध्यापयेच्छ्रावयेद्वा ब्रह्मलोके महीयते ४०।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुःपंचाशत्तमोऽध्यायः ५४।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 55

व्यास उवाच-

न हिंस्यात्सर्वभूतानि नानृतं वावदेत्क्वचित् ।

नाहितं नाप्रिंयं वाच्यं न स्तेनः स्यात्कदाचन १।

तृणं वा यदि वा शाकं मृदं वा जलमेव च ।

परस्यापहरञ्जंतुर्नरकं प्रतिपद्यते २।

न राज्ञः प्रतिगृह्णीयान्न शूद्रात्पतितादपि ।

न चान्यस्मादशक्तश्चेन्निंदितान्वर्जयेद्बुधः ३।

नित्यं याचनको न स्यात्पुनस्तं नैव याचयेत् ।

प्राणानपहरत्येवं याचकस्तस्य दुर्मतेः ४।

न देवद्रव्यहारी स्याद्विशेषेण द्विजोत्तमः ।

ब्रह्मस्वं वा नापहरेदापत्स्वपि कदाचन ५।

न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।

देवस्वं चापि यत्नेन सदा परिहरेत्ततः ६।

पुष्पं शाकोदकं काष्ठं तथा मूलं फलं तृणम् ।

अदत्तानि च न स्तेयं मनुः प्राह प्रजापतिः ७।

गृहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजः ।

नैकस्मादेव नियतमननुज्ञाय केवलम् ८।

तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद्बुधः ।

धर्मार्थं केवलं प्राहुरन्यथा पतितो भवेत् ९।

तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथिस्थितैः ।

क्षुधितैर्नान्यथा विप्रा धर्मादिभिरिति स्थितिः १०।

न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।

व्रतेन पापं व्यागुह्य कुर्वन्स्त्रीशूद्र दंभनम् ११।

प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।

छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति १२।

अलिंगी लिंगिवेषेण यो वृत्तिमुपतिष्ठति ।

सलिगिंनो हरेदेनस्तिर्यग्योनौ च जायते १३।

याचनं योनिसंबंधं सहवासं च भाषणम् ।

कुर्वाणः पतते नित्यं तस्माद्यत्नेन वर्जयेत् १४।

देवद्रोहं न कुर्वीत गुरुद्रोहं तथैव च ।

देवद्रोहाद्गुरुद्रोहः कोटिकोटिगुणाधिकः १५।

जनापवादो नास्तिक्यं तस्मात्कोटिगुणाधिकम् ।

गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया १६।

कुलान्यकुलतां यांति यानि हीनानि धर्म्मतः ।

कुविचारैः क्रियालोपैर्वेदानध्ययनेन च १७।

कुलान्यकुलतां यांति ब्राह्मणाऽतिक्रमेण च ।

अनृतात्पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात् १८।

अगोत्रधर्म्माचरणात्क्षिप्रं नश्यति वै कुलम् ।

अश्रोत्रियेषु दानाच्चा वृषलेषु तथैव च १९।

विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ।

अधार्मिकैर्वृते ग्रामे न व्याधिबहुले वसेत् २०।

शूद्रराज्ये च न वसेन्न पाखंडजनैर्वृते ।

हिमवद्विंध्ययोर्मध्यं पूर्वपश्चिमयोः शुभम् २१।

मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद्द्विजः ।

कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः २२।

पुण्या वा विश्रुता नद्यस्तत्र वा निवसेद्द्विजः ।

अर्धक्रोशं नदीकूलं वर्जयित्वा द्विजोत्तमः २३।

नान्यत्र निवसेत्पुण्यं नांत्यजग्रामसन्निधौ ।

न संवसेच्च पतितैर्न चांडालैर्न पुल्कसैः २४।

न मूर्खैर्नावलिप्तैश्च नान्यैर्जायावसायिभिः ।

एकशय्यासने पंक्तिर्भांडे पक्वान्नमिश्रणम् २५।

यजनाध्यापने योनिस्तथैव सहभोजनम् ।

सहाध्यायस्तु दशमः सहयाजनमेव च २६।

एकादश समुद्दिष्टा दोषाः सांकर्यसंस्थिताः ।

समीपे चाप्यवस्थानात्पापं संक्रमते नृणाम् २७।

तस्मात्सर्वप्रयत्नेन सांकर्य्यं परिवर्जयेत् ।

एकपंक्त्युपविष्टा ये न स्पृशंति परस्परम् २८।

भस्मना कृतमर्य्यादा न तेषां संकरो भवेत् ।

अग्निना भस्मना चैव सलिलेन विलेखतः २९।

द्वारेण स्तंभमार्गेण षड्भिः पंक्तिर्विभिद्यते ।

न कुर्याच्छुष्कवैराणि विवादं न च पैशुनम् ३०।

परक्षेत्रे गां चरंतीं न चाचक्षीत कर्हिचित् ।

न संवसेत्सूचकेन न कं वै मर्मणि स्पृशेत् ३१।

न सूर्यपरिवेषं वा नेंद्रचापं पराह्निकम् ।

परस्मै कथयेद्विद्वान्शशिनं वाथ कांचनम् ३२।

न कुर्याद्बहुभिः सार्द्धं विरोधं बंधुभिस्तथा ।

आत्मनः प्रतिकूलानि परेषां न समाचरेत् ३३।

तिथिं पक्षस्य न ब्रूयान्नक्षत्राणि न निर्दिशेत् ।

नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः ३४।

न देवगुरुविप्राणां दीयमानं तु वारयेत् ।

न चात्मानं प्रशंसेद्वा परनिंदां च वर्जयेत् ३५।

वेदनिंदां देवनिंदां प्रयत्नेन विवर्जयेत् ।

यस्तु देवानृषींश्चैव वेदान्वा निंदते द्विजः ३६।

न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ।

निंदयेद्वा गुरुं देवं वेदं वासोपबृंहणम् ३७।

कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ।

तूष्णीमासीत निंदायां न ब्रूयात्किंचिदुत्तरम् ३८।

कर्णौ पिधाय गंतव्यं न चैनमवलोकयेत् ।

वर्ज्जयेद्वै रहस्यानि परेषां गर्हणं बुधः ३९।

विवादं स्वजनैः सार्द्धं नकुर्य्याद्वै कदाचन ।

न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमः ४०।

सत्येन तुल्यो दोषः स्यादसत्याद्दोषवान्भवेत् ।

नृणां मिथ्याभिशस्तानां पतंत्यश्रूणि रोदनात् ४१।

तानि पुत्रान्पशून्घ्नंति तेषां मिथ्याभिशंसिनाम् ।

ब्रह्महत्या सुरापाने स्तेये गुर्वंगनागमे ४२।

दृष्टं वै शोधनं वृद्धैर्नास्ति मिथ्याभिशंसने ।

नेक्षेतोद्यंतमादित्यं शशिनं वाऽनिमित्ततः ४३।

नास्तं यांतं न वारिस्थं नोपस्पृष्टं न मध्यगम् ।

तिरोहितं समीक्षेत नादर्शाद्यनुगामिनम् ४४।

न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन ।

न च मूत्रं पुरीषं वा न च संसृष्टमैथुनम् ४५।

नाशुचिः सूर्यसोमादीन्ग्रहानालोकयेद्बुधः ।

नाभिभाषेत च परमुच्छिष्टो वावगुंठितः ४६।

न पश्येत्प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् ।

न तैलोदकयोश्छायां न पंक्तिं भोजने सति ४७।

न मुक्तबंधनं पश्येन्नोन्मत्तं गजमेव वा ।

नाश्नीयाद्भार्यया सार्द्धं नैनामीक्षेत चाश्नतीम् ४८।

क्षुवतीं जृंभमाणां वा नासनस्थां यथासुखम् ।

नोदके चात्मनो रूपं शुभं वाशुभमेव वा ४९।

न लंघयेच्च मतिमान्नाधितिष्ठेत्कदाचन ।

न शूद्राय मतिं दद्यात्कृसरं पायसं दधि ५०।

नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ।

न चैवास्मै व्रतं ब्रूयान्न च धर्मं वदेद्बुधः ५१।

न च क्रोधवशं गच्छेद्द्वेषं रागं च वर्जयेत् ।

लोभं दंभं तथा शाठ्यं ह्यसूयां ज्ञानकुत्सनम् ५२।

ईर्ष्यां मदं तथाशोकं मोहं च परिवर्जयेत् ।

न कुर्यात्कस्यचित्पीडां सुतं शिष्यं तु ताडयेत् ५३।

न हीनानुपसेवेत न च तृष्णामतिः क्वचित् ।

नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् ५४।

न विशिष्टमसत्कुर्यान्नात्मानं वासनाद्बुधः ।

न नखेन लिखेद्भूमिं गां च संवेशयन्नहि ५५।

न नदीषु नदीं ब्रूयात्पर्वतेषु च पर्वतान् ।

आवासे भोजने वापि न त्यजेत्सहयायिनम् ५६।

नावगाहेदपो नग्नो वह्निं नातिव्रजेत्तथा ।

शिरोभ्यंगावशिष्टेन तैलेनांगं न लेपयेत् ५७।

न सर्प शस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् ।

रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् ५८।

न पाणि पाद वाङ्नेत्र चापल्यं समुपाश्रयेत् ।

न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित् ५९।

न चांगनखवाद्यं वै कुर्यान्नांजलिना पिबेत् ।

नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन ६०।

न शातयेदिष्टिकाभिर्मूलानि च फलानि च ।

न म्लेच्छभाषणं शिक्षेन्नाकर्षेच्च पदासनम् ६१।

नखभेदनमास्फोटं छेदनं वा विलेखनम् ।

कुर्य्याद्विमर्द्दनं धीमान्नाकस्मादेव निष्फलम् ६२।

नोत्संगे भक्षयेद्भक्ष्यं वृथा चेष्टां न चाचरेत् ।

न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ६३।

न संहताभ्यां पाणिभ्यां कंडूयेदात्मनः शिरः ।

न लौकिकैस्तवैर्देवांस्तोषयेद्वाक्पतेरपि ६४।

नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत् ।

नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ६५।

न गच्छंस्तु पठेद्वापि न चैव स्वशिरः स्पृशेत् ।

न दंतैर्नखरोमाणि च्छिंद्यात्सुप्तं न बोधयेत् ६६।

नाबालातपमासेवेत्प्रेतधूमं विवर्जयेत् ।

नैव स्वप्याच्छून्यगेहे स्वयं नोपानहौ हरेत् ६७।

नाकारणाद्वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ।

न पादक्षालनं कुर्यात्पादेनैव कदाचन ६८।

नाग्नौ प्रतापयेत्पादौ न कांस्ये धावयेद्बुधः ।

नाभिप्रसारयेद्देवं ब्राह्मणान्गामथापि वा ६९।

वाय्वग्निनृपविप्रान्वा सूर्यं वा शशिनं प्रति ।

अशुद्धः शयनं पानं स्वाध्यायं स्नान भोजनम् ७०।

बहिर्निष्क्रमणं चैव न कुर्वीत कदाचन ।

स्वप्नमध्ययनं स्नानमुद्वर्तं भोजनं गतिम् ७१।

उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत् ।

न स्पृशेत्पाणिनोच्छिष्टो विप्रो गो ब्राह्मणानलान् ७२।

न चालनं पदा वापि न देवप्रतिमां स्पृशेत् ।

नाशुद्धोग्निं परिचरेन्न देवान्कीर्तयेदृषीन् ७३।

नावगाहेदगाधांबु धावयेन्नाऽनिमित्ततः ।

न वामहस्तेनोद्धृत्य पिबेद्वक्त्रेण वा जलम् ७४।

नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ।

अमेध्यालिप्तमर्हं वा लोहितं वा विषाणि वा ७५।

व्यतिक्रामेन्न स्रवंतीं नाप्सु मैथुनमाचरेत् ।

चैत्यवृक्षं न वै छिंद्यान्नाप्सु ष्ठीवनमाचरेत् ७६।

नास्थिभस्मकपालानि न केशान्न च कंटकान् ।

तुषांगारकरीषं वा नाधितिष्ठेत्कदाचन ७७।

न चाग्निं लंघयेद्धीमान्नोपदध्यादधः क्वचित् ।

न चैनं पादतः कुर्य्याच्छूर्पेण न धमेद्बुधः ७८।

न वृक्षमवरोहेत नावेक्षेताशुचिः क्वचित् ।

अग्नौ न च क्षिपेदग्निं नाद्भिः प्रशमयेत्तथा ७९।

सुहृन्मरणमात्रं वा स्वयं न श्रावयेत्परान् ।

अपण्यं कूटपण्यं वा विक्रयेन प्रयोजयेत् ८०।

न वह्निं मुखनिःश्वासैर्ज्वालयेन्नाशुचिर्बुधः ।

पुण्यस्थानोदकस्थाने सीमांतं वाहयेन्न तु ८१।

न भिंद्यात्पूर्वसमयमभ्युपेतं कदाचन ।

परस्परं पशून्व्याघ्रान्पक्षिणो न च योधयेत् ८२।

परबाधां न कुर्वीत जलवातातपादिभिः ।

कारयित्वा सुकर्माणि गुरून्पश्चान्न वंचयेत् ८३।

सायंप्रातर्गृहद्वारान्रक्षार्थं परिघट्टयेत् ।

बहिर्माल्यं सुगंधिं वा भार्यया सह भोजनम् ८४।

विगृह्य वादं कृत्वा वा प्रवेशं च विवर्जयेत् ।

नखादन्ब्राह्मणस्तिष्ठेन्न जल्पेद्वा हसेद्बुधः ८५।

स्वमग्निं चैव हस्तेन स्पृशेन्नाप्सुचिरं वसेत् ।

न पक्षकेणोपधमेन्न शूर्पेण च पाणिना ८६।

मुखेनाग्निं समिंधीत मुखादग्निरजायत ।

परस्त्रियं न भाषेत नायाज्यं याजयेद्बुधः ८७।

नैकश्चरेत्सदा विप्रः समुदायं च वर्जयेत् ।

न देवायतनं गच्छेत्कदाचिद्वाऽप्रदक्षिणम् ८८।

न पीडयेद्वा वस्त्राणि न देवायतने स्वपेत् ।

नैकोध्वानं प्रपद्येत नाधार्मिकजनै सह ८९।

न व्याधिदूषितैर्वापि न शूद्रैः पतितेन वा ।

नोपानद्वर्जितो वाथ जलादिरहितस्तथा ९०।

न वर्त्मनि चितिं वाममतिक्रामेत्क्वचिद्द्विजः ।

न निंदेद्योगिनः सिद्धान्व्रतिनो वा यतींस्तथा ९१।

देवतायतनं प्राज्ञा देवानां चैव सत्रिणाम् ।

नाक्रामेत्कामतश्छायां ब्राह्मणानां च गोरपि ९२।

स्वां तु नाक्रामयेच्छायां पतिताद्यैर्न रोगिभिः ।

नांगारभस्मकेशादिष्वधितिष्ठेत्कदाचन ९३।

वर्जयेन्मार्जनी रेणुं स्नानवस्त्र घटोदकम् ।

न भक्षयेदभक्ष्याणि नापेयं च पिबेद्द्विजः ९४।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे पंचपंचाशत्तमोऽध्यायः ५५।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 56

व्यास उवाच-

नाद्याच्छूद्रस्य विप्रोन्नं मोहाद्वा यदि कामतः ।

स शूद्रयोनिं व्रजति यस्तु भुंक्ते त्वनापदि १।

षण्मासान्यो द्विजो भुंक्ते शूद्रस्यान्नं विगर्हितम् ।

जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते २।

ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः ।

यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ३।

राजान्नं वर्तकान्नं च षंढान्नं चर्म्मकारिणाम् ।

गणान्नं गणिकान्नं च षडन्नं च विवर्जयेत् ४।

चक्रोपजीवि रजक तस्करध्वजिनां तथा ।

गांधर्वलोहकारान्नं मृतकान्नं विवर्जयेत् ५।

कुलाल चित्रकारान्नं वार्धुषेः पतितस्य च ।

पौनर्भवच्छत्रिकयोरभिशप्तस्य चैव हि ६।

सुवर्णकार शैलूष व्याध वंध्यातुरस्य च ।

चिकित्सकस्य चैवान्नं पुंश्चल्या दंडकस्य च ७।

स्तेन नास्तिकयोरन्नं देवतानिंदकस्य च ।

सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ८।

भार्य्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे ।

उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ९।

पापीयोन्नं च संघान्नं शस्त्राजीवस्य चैव हि ।

भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षतम् १०।

ब्रह्मद्विषः पापरुचेः श्राद्धान्नं मृतकस्य च ।

वृथापाकस्य चैवान्नं शावान्नं चातुरस्य च ११।

अप्रजानां तु नारीणां कृतघ्नस्य तथैव च ।

कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा १२।

शौंडान्नं घांटिकान्नं च भिषजामन्नमेव च ।

विद्वत्प्रजननस्यान्नं परिवेत्रन्नमेव च १३।

पुनर्भुवो विशेषेण तथैव दिधिषूपतेः ।

अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् १४।

गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् ।

दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् १५।

यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम् ।

अर्द्धका कुलं मित्रं च गोपालो वाहनापि तौ १६।

एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ।

कुशीलवः कुंभकश्च क्षेत्रकर्मक एव च १७।

एते शूद्रेषु भोज्यान्ना दृष्ट्वा स्वल्पगुणं बुधैः ।

पायसं स्नेहपक्वं च गोरसश्चैव सक्तवः १८।

पिण्याकं चैव तैलं च शूद्राद्ग्राह्यं द्विजातिभिः ।

वृंताकं नालिकाशाकं कुसुंभं भस्मकं तथा १९।

पलांडुं लशुनं शुक्तं निर्य्यासं चैव वर्जयेत् ।

छत्राकं विड्वराहं च स्विन्नं पीयूषमेव च २०।

विलयं विमुखं चैव कोरकाणि विवर्जयेत् ।

गृंजनं किंशुकं चैव कूष्मांडं च तथैव च २१।

उदुंबरमलाबुं च जग्ध्वा पतति वै द्विजः ।

तथा कृसरसंयावौ पायसापूपमेव च २२।

अनुपाकृत मांसं च देवान्नानि हवींषि च ।

यवागूं मातुलिगं च मत्स्यानप्यनुपाकृतान् २३।

नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् ।

पिण्याकं चोद्धृतस्नेहं देवधान्यं तथैव च २४।

रात्रौ च तिलसंबंधं प्रयत्नेन दधि त्यजेत् ।

नाश्नीयात्पयसा तक्रं नाभक्ष्यानुपयोजयेत् २५।

कृमिदुष्टं भावदुष्टं मृत्संसर्गं च वर्जयेत् ।

कृमिकीटावपन्नं च सुहृत्क्लेदं च नित्यशः २६।

श्वाघ्रातं च पुनः सिद्धं चंडालावेक्षितं तथा ।

उदक्यया च पतितैर्गवा संघ्रातमेव च २७।

असंगतं पर्य्युषितं पर्यस्तान्नं च नित्यशः ।

काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संगतम् २८।

मनुष्यैरप्यवघ्रातं कुष्ठिना स्पृष्टमेव च ।

न रजस्वलया दत्तं न पुंश्चल्या सरोगया २९।

मलवद्वाससा वापि परवासोथ वर्जयेत् ।

विवत्सायाश्च गोक्षीरं मेषस्यानिर्दशस्य च ३०।

आविकं संधिनीक्षीरमपेयं मनुरब्रवीत् ।

बलाकं हंसदात्यूहं कलविंकं शुकं तथा ३१।

कुरुरं च चकोरं च जालपादं च कोकिलम् ।

वायसान्खंजरीटांश्च श्येनं गृध्रं तथैव च ३२।

उलूकं चक्रवाकं च भासं पारावतं तथा ।

कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ३३।

सिंहं व्याघ्रं च मार्जारं श्वानं सूकरमेव च ।

शृगालं मर्कटं चैव गर्द्दभं न च भक्षयेत् ३४।

न भक्षयेत्सर्पमृगाञ्छिखिनोन्यान्वनेचरान् ।

जलेचरान्स्थलचरान्प्राणिनश्चेति धारणा ३५।

गोधा कूर्मः शशः खड्गः सल्लकश्चेति सत्तमाः ।

भक्ष्यान्पंचनखान्नित्यं मनुराह प्रजापतिः ३६।

मत्स्यान्सशल्कान्भुंजीत मांसं रौरवमेव च ।

निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यश्च नान्यथा ३७।

मयूरं तित्तिरं चैव कपोतं च कपिंजलम् ।

वार्ध्रीणसं बकं भक्ष्यं मीनं हंसं पराजितम् ३८।

शफरी सिंहतुंडं च तथा पाठीनरोहितौ ।

मत्स्याश्चैते समुद्दिष्टा भक्षणीया द्विजोत्तमाः ३९।

प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया ।

यथाविधि प्रयुक्तं च प्राणानामपि चात्यये ४०।

भक्षयेन्नैव मांसानि शेषभोजी न लिप्यते ।

औषधार्थमशक्तो वा नियोगाद्यज्ञकारणात् ४१।

आमंत्रितश्च यः श्राद्धे दैवे वा मांसमुत्सृजेत् ।

यावंति पशुरोमाणि तावन्नरकमृच्छति ४२।

अदेयं वाप्यपेयं वा तथैवास्पृश्यमेव वा ।

द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः ४३।

तस्मात्सर्वप्रयत्नेन मद्यं नित्यं विवर्जयेत् ।

पीत्वा पतति कर्म्मभ्यस्त्वसंभाष्यो भवेद्द्विजः ४४।

भक्षयित्वाप्यभक्ष्याणि पीत्वाऽपेयान्यपि द्विजः ।

नाधिकारी भवेत्तावद्यावत्तन्न जहात्यधः ४५।

तस्मात्परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः ।

अपेयानि च विप्रो वै तथा चेद्याति रौरवम् ४६।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे भक्ष्याभक्ष्यनियमो नाम षट्पंचाशत्तमोऽध्यायः ५६।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 57

व्यास उवाच-

अथातः संप्रवक्ष्यामि दानधर्म्ममनुत्तमम् ।

ब्रह्मणाभिहितं पूर्वमृषीणां ब्रह्मवादिनाम् १।

अर्थानामुचितं पात्रे श्रद्धया प्रतिपादनम् ।

दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम् २।

यो ददाति विशिष्टेभ्यः श्रद्धया परया युतः ।

तद्वै दत्तमहं मन्ये शेषं कस्यापि रक्षति ३।

नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते ।

चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् ४।

अहन्यहनि यत्किंचिद्दीयते नुपकारिणे ।

अनुद्दिश्यफलं तस्माद्ब्राह्मणाय तु नित्यकम् ५।

यत्तु पापोपशांत्यर्थं दीयते विदुषां करे ।

नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुत्तमम् ६।

अपत्यविजयैश्वर्य सुखार्थं यत्प्रदीयते ।

दानं तत्काम्यमाख्यातमृषिभिर्धर्मचिंतकैः ७।

यदीश्वरस्य प्रीत्यर्थं ब्रह्मवित्सु प्रदीयते ।

चेतसा धर्मयुक्तेन दानं तद्विमलं शिवम् ८।

दानधर्मं निषेवेत पात्रमासाद्य शक्तितः ।

उपास्यते तु तत्पात्रं यत्तारयति सर्वतः ९।

कुटुंबभुक्तिवसनाद्देयं यदतिरिच्यते ।

अन्यथा दीयते यद्वै न तद्दानं फलप्रदम् १०।

श्रोत्रियाय कुलीनाय विनीताय तपस्विने ।

व्रतस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम् ११।

यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिताग्नये ।

स याति परमं स्थानं यत्र गत्वा न शोचति १२।

इक्षुभिः संयुतां भूमिं यवगोधूमशालिनीम् ।

ददाति वेदविदुषे यः स भूयो न जायते १३।

गोचर्ममात्रामपि वा यो भूमिं संप्रयच्छति ।

ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते १४।

भूमिदानात्परं दानं विद्यते नेह किंचन ।

अन्नदानं तेन तुल्यं विद्यादानं ततोधिकम् १५।

यो ब्राह्मणाय शांताय शुचये धर्मशीलिने ।

ददाति विद्यां विधिना ब्रह्मलोके महीयते १६।

दद्यादहरहः स्वर्णं श्रद्धया ब्रह्मचारिणे ।

सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमाप्नुयात् १७।

गृहस्थायान्नदानेन फलमाप्नोति मानवः ।

अन्नमेवास्य दातव्यं दत्वाप्नोति परां गतिम् १८।

वैशाख्यां पूर्णमास्यां तु ब्राह्मणान्सप्त पंच वा ।

उपोष्य विधिना शांतः शुचिः प्रयतमानसः १९।

पूजयित्वा तिलैः कृष्णैर्मधुना च विशेषतः ।

प्रीयतां धर्मराजेति यदा मनसि वर्त्तते २०।

यावज्जीवं तु यत्पापं तत्क्षणादेव नश्यति ।

कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी २१।

ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ।

घृतान्नमुदकुंभं च वैशाख्यां तु विशेषतः २२।

निर्द्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् ।

सुवर्णतिलयुक्तैस्तु ब्राह्मणान्सप्त पंच वा २३।

तर्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति ।

माघमासे तमिस्रे तु द्वादश्यां समुपोषितः २४।

शुक्लांबरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम् ।

प्रदद्याद्ब्राह्मणेभ्यस्तु तिलानेव समाहितः २५।

जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः ।

अमावास्यामनुप्राप्य ब्राह्मणाय तपस्विने २६।

यत्किंचिद्देवदेवेशं दद्याच्चोद्दिश्य केशवम् ।

प्रीयतामीश्वरो विष्णुर्हृषीकेशः सनातनः २७।

सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ।

यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् २८।

आराधयेद्द्विजमुखेन तस्यास्ति पुनर्भवः ।

कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये २९।

स्नात्वाभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः ।

प्रीयतां मे महादेवो दद्याद्द्रव्यं स्वकीयकम् ३०।

सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम् ।

द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः ३१।

अमावास्यां तथा भक्तैः पूजनीयस्त्रिविक्रमः ।

एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् ३२।

अर्चयेद्ब्राह्मणमुखे स गच्छेत्परमं पदम् ।

एषा तिथिर्वैष्णवी स्याद्द्वादशी शुक्लपक्षतः ३३।

तस्यामाराधयेद्देवं प्रयत्नेन जनार्दनम् ।

यत्किंचिद्देवमीशानमुद्दिश्य ब्राह्मणे शुचौ ३४।

दीयते विष्णुमेवापि तदनंतफलं स्मृतम् ।

यो हि यां देवतामिच्छेत्समाराधयितुं नरः ३५।

ब्राह्मणान्पूजयेद्यत्नात्स तस्यास्तोषयेत्ततः ।

द्विजानां वपुरास्थाय नित्यं तिष्ठंति देवताः ३६।

पूज्यंते ब्राह्मणा लाभे प्रतिमादिषु तैः क्वचित् ।

प्रतिमादिषु यत्नेन तस्मात्फलमभीप्सता ३७।

द्विजेषु देवता नित्यं पूजनीया विशेषतः ।

विभूतिकामः सततं पूजयेद्धि पुरंदरम् ३८।

ब्रह्मवर्चसकामस्तु ब्रह्माणं ज्ञानकामुकः ।

आरोग्यकामोथ रविं धनकामो हुताशनम् ३९।

कर्म्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम् ।

भोगकामस्तु शशिनं बलकामः समीरणम् ४०।

मुमुक्षुः सर्वसंसारात्प्रयत्नेनार्चयेद्धरिम् ।

यस्तु योगं तथा मोक्षमन्विच्छेऽज्ज्ञानमैश्वरम् ४१।

अर्चयेत विरूपाक्षं प्रयत्नेन सुरेश्वरम् ।

ये वांच्छंति महाभोगान्ज्ञानानि च महेश्वरम् ४२।

ते पूजयंति भूतेशं केशवं चापि भोगिनः ।

वारिदस्तृप्तिमाप्नोति जलदानं ततोधिकम् ४३।

तैलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ।

भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः ४४।

गृहदाताग्र्यवेश्मानि रूप्यदो रूपमुत्तमम् ।

वासोदश्चंद्रसालोक्यमश्वदो यानमुत्तमम् ४५।

अन्नदाता श्रियं स्वेष्टां गोदो ब्राह्मणविष्टपम् ।

यानशय्याप्रदो भार्य्यामैश्वर्यमभयप्रदः ४६।

धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मशाश्वतम् ।

धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत् ४७।

वेदविद्याविशिष्टेषु प्रेत्य स्वर्गं समश्नुते ।

गवां चान्नप्रदानेन सर्वपापैः प्रमुच्यते ४८।

इंधनानां प्रदानेन दीप्ताग्निर्जायते नरः ।

फलमूलानि पानानि शाकानि विविधानि च ४९।

प्रदद्याद्ब्राह्मणेभ्यस्तु मुदायुक्तः सदा भवेत् ।

औषधं स्नेहमाहारं रोगिणो रोगशांतये ५०।

ददानो रोगरहितः सुखी दीर्घायुरेव च ।

असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ५१।

तीक्ष्णतापं च तरति छत्रोपानत्प्रदो नरः ।

यद्यदिष्टतमं लोके यच्चास्यापेक्षितं गृहे ५२।

तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ।

अयने विषुवे चैव ग्रहणे चंद्रसूर्ययोः ५३।

संक्रांत्यादिषु कालेषु दत्तं भवति चाक्षयम् ।

प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च ५४।

दत्वा चाक्षयमाप्नोति नदीप्रस्रवणेषु च ।

दानधर्मात्परो धर्मो भूतानां नेह विद्यते ५५।

तस्माद्विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः ।

स्वर्गाय भूतिकामेन तथा पापोपशांतये ५६।

मुमुक्षुणा तु दातव्यं ब्राह्मणेभ्यस्तथान्वहम् ।

दीयमानं तु यो मोहाद्गोविप्राग्निसुरेषु च ५७।

निवारयत्यधर्मात्मा तिर्यग्योनिं व्रजेत सः ।

यस्तु द्रव्यार्जनं कृत्वा नार्चयेद्ब्राह्मणान्सुरान् ५८।

सर्वस्वमपहृत्यैनं राजा राष्ट्रात्प्रवासयेत् ।

यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति ५९।

म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः ।

न तस्मात्प्रतिगृह्णीयुः न वसेयुश्च तेन हि ६०।

आज्ञायित्वा स्वकाद्राष्ट्राद्राजा तं विप्रवासयेत् ।

पश्चात्सद्भ्यो ददातीह स्वद्रव्यं धर्मसाधनम् ६१।

सपूर्वाभ्यधिकः पापी नरके पच्यते नरः ।

स्वाध्यायवंतो ये विप्रा विद्यावंतो जितेंद्रियाः ६२।

सत्यसंयमसंयुक्तास्तेभ्यो दद्याद्द्विजोत्तमाः ।

प्रभुक्तमपि विद्वांसं धार्मिकं भोजयेद्द्विजम् ६३।

न च मूर्खमवृत्तस्थं दशरात्रमुपोषितम् ।

सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति ६४।

स तेन कर्मणा पापी दहत्यासप्तमं कुलम् ।

यदि स्यादधिको विप्रः शीलविद्यादिभिः स्वयम् ६५।

तस्मै यत्नेन दातव्यमतिक्रम्य च सन्निधिम् ।

योर्चितं प्रतिगृह्णीयाद्दद्यादर्चितमेव च ६६।

तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ।

न वार्यपि प्रयच्छेत नास्तिके हैतुकेपि च ६७।

न पाखंडेषु सर्वेषु नावेदविदिधर्मवित् ।

रूप्यं चैव हिरण्यं च गामश्वं पृथिवीं तिलान् ६८।

अविद्वान्प्रतिगृह्णीयाद्भस्मी भवति काष्ठवत् ।

द्विजातिभ्यो धनं लिप्सेत्प्रशस्तेभ्यो द्विजोतमः ६९।

अपि राजन्यवैश्याभ्यां न तु शूद्रात्कथंचन ।

वृत्तिसंकोचमन्विच्छेन्नेहेत धनविस्तरम् ७०।

धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते ।

वेदानधीत्य सकलान्यज्ञांश्चावाप्य सर्वशः ७१।

न तां गतिमवाप्नोति संतोषाद्यामवाप्नुयात् ।

प्रतिग्रहरुचिर्न स्याच्छूद्रान्न तु समाहरेत् ७२।

स्थित्यर्थादधिकं गृह्णन्ब्राह्मणो यात्यधोगतिम् ।

यस्तु याति न संतोषं न स स्वर्गस्य भाजनम् ७३।

उद्वेजयति भूतानि यथा चौरस्तथैव सः ।

गुरुं भृत्यांश्चोज्जिहीर्षुस्तर्पयन्देवतातिथीन् ७४।

सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ।

एवं गृहस्थो युक्तात्मा देवतातिथिपूजकः ७५।

वर्तमानः संयतात्मा याति तत्परमं पदम् ।

पुत्रेषु भार्यां निक्षिप्य गत्वारण्यं तु तत्त्ववित् ७६।

एकाकी विचरेन्नित्यमुदासीनः समाहितः ।

एष वः कथितो धर्म्मो गृहस्थानां द्विजोत्तमाः ।

ज्ञात्वा तु तिष्ठेन्नियतं तथानुष्ठापयेद्द्विजान् ७७।

इति देवमनादिमेकमीशं गृहधर्मेण समर्चयेदजस्रम् ।

समतीत्य स सर्वभूतयोनिं प्रकृतिं याति परं न याति जन्म ७८।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे गृहस्थधर्मनिर्णयो नाम सप्तपंचाशत्तमोऽध्यायः ५७।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 58

व्यास उवाच-

एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः ।

वानप्रस्थाश्रमं गच्छेत्सदारः साग्निरेव च १।

निक्षिप्य भार्यां पुत्रेषु गच्छेद्वनमथापि वा ।

दृष्ट्वापत्यस्य वापत्यं जर्जरीकृतविग्रहः २।

शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे ।

गत्वारण्यं नियमवांस्तपः कुर्यात्समाहितः ३।

फलमूलानि पूतानि नित्यमाहारमाहरेत् ।

यदाहारो भवेत्तेन पूजयेत्पितृदेवताः ४।

पूजयेदतिथिं नित्यं स्नात्वा चाभ्यर्चयेत्सुरान् ।

गृहादादाय चाश्नीयादष्टौ ग्रासान्समाहितः ५।

जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत् ।

स्वाध्यायं सर्वथा कुर्यान्नियच्छेद्वाचमन्यतः ६।

अग्निहोत्रं च जुहुयात्पंचयज्ञान्समाचरेत् ।

उत्पन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा ७।

चीरवासा भवेन्नित्यं स्नायात्त्रिषवणं शुचिः ।

सर्वभूतानुकंपश्च प्रतिग्रहविवर्जितः ८।

दर्शेन पौर्णमासेन यजेत नियतं द्विजः ।

ऋत्विष्ट्याग्रयणे चैव चातुर्मास्यानि कारयेत् ९।

उत्तरायणं च क्रमशो दक्षिणायनमेव च ।

वासंतशारदैर्मेद्ध्यैरुत्पन्नैः स्वयमाहृतैः १०।

पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक् ।

देवताभ्यः पितृभ्यश्च दत्त्वा मेध्यतरं हविः ११।

शेषं समुपभुंजीत लवणं च स्वयंकृतम् ।

वर्ज्जयेन्मद्यमांसानि भौमानि कवकानि च १२।

भूस्तृणं शष्पकं चैव श्लेष्मातक फलानि च ।

न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् १३।

न ग्रामजातान्यार्तोपि पुष्पाणि च फलानि च ।

श्रावणेनैव विधिना वह्निं परिचरेत्सदा १४।

न द्रुह्येत्सर्वभूतानि निर्द्वंद्वो निर्भयो भवेत् ।

न नक्तं किंचिदश्नीयाद्रात्रौ ध्यानपरो भवेत् १५।

जितेंद्रियो जितक्रोधस्तत्त्वज्ञानविचिंतकः ।

ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् १६।

यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् ।

तद्व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः १७।

तत्र यो जायते गर्भो न स स्पृश्यो द्विजातिभिः ।

न हि वेदेधिकारोस्य तद्वंशेप्येवमेव हि १८।

भूमौ शयीत सततं सावित्रीजप्यतत्परः ।

शरण्यः सर्वभूतानां सद्विभागपरः सदा १९।

परिवादं मृषावादं निद्रालस्ये च वर्जयेत् ।

एकाग्निरनिकेतः स्यात्प्रोक्षितां भूमिमाश्रयेत् २०।

मृगैः सह चरेद्दांतस्तैः सहैव च संवसेत् ।

शिलायां शर्करायां वा शयीत सुसमाहितः २१।

सद्यः प्रक्षालको वा स्यान्माससंचयिकोपि वा ।

षण्मासनिचयो वापि समानिचय एव वा २२।

नक्तं चान्नं समश्नीयाद्दिवा चाहृत्य शक्तितः ।

चतुर्थकालको वा स्यात्किं वाप्यष्टमकालिकः २३।

चांद्रायणविधानैर्वा शुक्लेकृष्णे च वर्जयेत् ।

पक्षेपक्षे समश्नीयाद्यवागूं क्वथितां सकृत् २४।

पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा ।

स्वाभाविकैः स्वयंशीर्णैर्वैखानसमते स्थितः २५।

भूमौ वा परिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् ।

स्थानासनाभ्यां विहरेन्न क्वचिद्धैर्य्यमुत्सृजेत् २६।

ग्रीष्मे पंचतपाश्च स्याद्वर्षास्वभ्रावकाशिकः ।

आर्द्रवासाश्च हेमंते क्रमशो वर्द्धयेत्तपः २७।

उपस्पृशेत्त्रिषवणं पितृदेवांश्च तर्पयेत् ।

एकपादेन तिष्ठेत मरीचिं वा पिबेत्सदा २८।

पंचाग्निधूमगो वा स्यादूष्मगः सोमपोपि वा ।

पयः पिबेच्छुक्लपक्षे कृष्णपक्षे तु गोमयम् २९।

शीर्णपर्णाशनो वा स्यात्कृच्छ्रैर्वा वर्तयेत्सदा ।

योगाभ्यासरतश्च स्याद्रुद्राध्यायी भवेत्सदा ३०।

अथर्वशिरसोध्येता वेदांताभ्यासतत्परः ।

यमान्सेवेत सततं नियमांश्चाप्यतंद्रितः ३१।

अथ चाग्नीन्समारोप्य स्वात्मनि ध्यानतत्परः ३२।

अनग्निरनिकेतो वा मुनिर्मोक्षपरो भवेत् ।

तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ३३।

गृहमेधिषु चान्येषु द्विजेषु वनचारिषु ।

ग्रामादाहृत्य चाश्नीयादष्टौ ग्रासान्वने वसन् ३४।

प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ।

विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् ३५।

विद्याविशेषान्सावित्रीं रुद्राध्यायं तथैव च ।

महाप्रस्थानिकं वासौ कुर्य्यादनशनं तथा ।

अग्निप्रवेशमन्यद्वा ब्रह्मार्पणविधौ स्थितः ३६।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे वानप्रस्थाश्रमाचारधर्मो नामाष्टपंचाशत्तमोऽध्यायः ५८।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 59

व्यास उवाच-

एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः ।

चतुर्थं चायुषो भागं संन्यासेन नयेत्क्रमात् १।

अग्नीनात्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत् ।

योगाभ्यासरतः शांतो ब्रह्मविद्यापरायणः २।

यदा मनसि संपन्नं वैराग्यं सर्ववस्तुषु ।

तदा संन्यासमिच्छेच्च पतितः स्याद्विपर्यये ३।

प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा पुनः ।

दांतः शुक्लकषायोसौ ब्रह्माश्रममुपाश्रयेत् ४।

ज्ञानसंन्यासिनः केचिद्वेदसंन्यासिनोऽपरे ।

कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ५।

यः सर्वत्र विनिर्मुक्तो निर्द्वंद्वश्चैव निर्भयः ।

प्रोच्यते ज्ञानसंन्यासी आत्मन्येव व्यवस्थितः ६।

वेदमेवाभ्यसेन्नित्यं निराशीर्निष्परिग्रहः ।

प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेंद्रियः ७।

यस्त्वग्निमात्मसाकृत्वा ब्रह्मार्पणपरो द्विजः ।

ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः ८।

त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः ।

न तस्य विद्यते कार्यं न लिंगं वा विपश्चितः ९।

निर्ममो निर्भयः शांतो निर्द्वंद्वः पर्णभोजनः ।

जीर्णकौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः १०।

ब्रह्मचारी जिताहारो ग्रामादन्नं समाहरेत् ।

अध्यात्मरतिरासीत निरपेक्षो निराशिषः ११।

आत्मनैव सहायेन सुखार्थं विचरेदिह ।

नाभिनंदेत मरणं नाभिनंदेत जीवनम् १२।

कालमेव प्रतीक्षेत निर्देशं भृतको यथा ।

नाध्येतव्यं न वर्तव्यं श्रोतव्यं न कदाचन १३।

एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते ।

एकवासाथ वा विद्वान्कौपीनाच्छादनोपि वा १४।

मुंडी शिखी वाथ भवेत्त्रिदंडी निष्परिग्रहः ।

काषायवासाः सततं ध्यानयोगपरायणः १५।

ग्रामांते वृक्षमूले वा वसेद्देवालयेपि वा ।

समः शत्रौ तथा मित्रे तथा मानापमानयोः १६।

भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेत्क्वच्चित् ।

यस्तु मोहेन वान्यस्मादेकान्नादी भवेद्यतिः १७।

न तस्य निष्कृतिः काचिद्धर्मशास्त्रेषु दृश्यते ।

रागद्वेषवियुक्तात्मा समलोष्टाश्मकांचनः १८।

प्राणिहिंसानिवृत्तश्च मौनी स्यात्सर्वनिस्पृहः ।

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् १९।

सत्यपूतां वदेद्वाणीं मनःपूतं समाचरेत् ।

नैकत्र निवसेद्देशे वर्षाभ्योन्यत्र भिक्षुकः २०।

स्नात्वा शौचयुतो नित्यं कमंडलुकरः शुचिः ।

ब्रह्मचर्यरतो नित्यं वनवासरतो भवेत् २१।

मोक्षशास्त्रेषु निरतो ब्रह्मसूत्री जितेंद्रियः ।

दंभाहंकारनिर्मुक्तो निंदापैशुन्यवर्जितः २२।

आत्मज्ञानगुणोपेतो यदि मोक्षमवाप्नुयात् ।

अभ्यसेत्सततं देवं प्रणवाख्यं सनातनम् २३।

स्नात्वाचम्य विधानेन शुचिर्देवालयादिषु ।

यज्ञोपवीती शांतात्मा कुशपाणिः समाहितः २४।

धौतकाषायवसनो तस्मिञ्छन्नतनूरुहः ।

अधियज्ञं ब्रह्मजपेदाधिदैविकमेव च २५।

आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ।

पुत्रेषु चाथ निवसन्ब्रह्मचारी यतिर्मुनिः २६।

वेदमेवाभ्यसेन्नित्यं स याति परमां गतिम् ।

अहिंसासत्यमस्तेयं ब्रह्मचर्यं तपः परम् २७।

क्षमादया च संतोषो व्रतान्यस्य विशेषतः ।

वेदांतज्ञाननिष्ठो वा पंचयज्ञान्समाहितः २८।

कुर्य्यादहरहः स्नात्वा भिक्षार्थे नैव तेन हि ।

होममंत्रान्जपेन्नित्यं कालेकाले समाहितः २९।

स्वाध्यायं चान्वहं कुर्य्यात्सावित्रीं संध्ययोर्जपेत् ।

ध्यायीत सततं देवमेकांतं परमेश्वरम् ३०।

एकान्नं वर्जयेन्नित्यं कामं क्रोधं परिग्रहम् ।

एकवासा द्विवासा वा शिखी यज्ञोपवीतवान् ।

कमंडलुकरो विद्वांस्त्रिदंडो याति तत्परम् ३१।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे यतिधर्मनिरूपणं नामैकोनषष्टितमोऽध्यायः ५९।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 60

व्यास उवाच-

एवं त्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् ।

भैक्ष्येण वर्तनं प्रोक्तं फलमूलैरथापि वा १।

एककालं चरेद्भैक्ष्यं न प्रसज्येत विस्तरम् ।

भैक्ष्ये प्रसक्तो हि यतिर्विषयेष्वपि सज्जति २।

सप्तागारं चरेद्भैक्ष्यमलाभे न पुनश्चरेत् ।

गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः ३।

भिक्षेत्युक्त्वा सकृत्तूष्णीमादद्याद्वाग्यतः शुचिः ।

प्रक्ष्याल्य पाणी पादौ च समाचम्य यथाविधि ४।

आदित्यं दर्शयित्वान्नं भुंजीत प्राङ्मुखो नरः ।

हुत्वा प्राणाहुतीः पंच ग्रासानष्टौ समाहितः ५।

आचम्य देवं ब्रह्माणं ध्यायेत परमेश्वरम् ।

आलाबुदारुपात्रे च मृण्मयं वैणवं तथा ६।

चत्वारि यतिपात्राणि मनुराह प्रजापतिः ।

प्राग्रात्रे मध्यरात्रे च पररात्रे तथैव च ७।

संध्यासूक्तिविशेषेण चिंतयेन्नित्यमीश्वरम् ।

कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसंभवम् ८।

आत्मानं सर्वभूतानां परस्तात्तमसः स्थितम् ।

सर्वस्याधारमव्यक्तमानंदं ज्योतिरव्ययम् ९।

प्रधानपुरुषातीतमाकाशं दहनं शिवम् ।

तदंतं सर्वभावानामीश्वरं ब्रह्मरूपिणम् १०।

ॐकारांतेथवात्मानं समाप्य परमात्मनि ।

आकाशे देवमीशानं ध्यायीताकाशमध्यगम् ११।

कारणं सर्वभावानामानंदैकसमाश्रयम् ।

पुराणपुरुषं विष्णुं ध्यायन्मुच्येत बंधनात् १२।

यद्वा गुहादौ प्रकृतौ जगत्संमोहनालये ।

विचिंत्य परमं व्योम सर्वभूतैककारणम् १३।

जीवनं सर्वभूतानां यत्र लोकः प्रलीयते ।

आनंदं ब्रह्मणः सूक्ष्मं यत्पश्यंति मुमुक्षवः १४।

तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् ।

अनंतं सत्यमीशानं विचिंत्यासीत वाग्यतः १५।

गुह्याद्गुह्यतमं ज्ञानं यतीनामेतदीरितम् ।

योवतिष्ठेत्सदानेन सोश्नुते योगमैश्वरम् १६।

तस्माज्ज्ञानरतो नित्यमात्मविद्यापरायणः ।

ज्ञानं समभ्यसेद्ब्रह्म येन मुच्येत बंधनात् १७।

मत्वा पृथक्त्वमात्मानं सर्वस्मादेव केवलम् ।

आनंदमक्षरं ज्ञानं ध्यायेत च ततः परम् १८।

यस्माद्भवंति भूतानि यज्ज्ञात्वा नेह जायते ।

स तस्मादीश्वरो देवः परस्ताद्योधितिष्ठति १९।

यदंतरे तद्गमनं शाश्वतं शिवमव्ययम् ।

य इदं स्वपरोक्षस्तु स देवः स्यान्महेश्वरः २०।

व्रतानि यानि भिक्षूणां तथैवायं व्रतानि च ।

एकैकातिक्रमेणैव प्रायश्चित्तं विधीयते २१।

उपेत्य च स्त्रियं कामात्प्रायश्चित्तं समाहितः ।

प्राणायामसमायुक्तं कुर्य्यात्सांतपनं शुचिः २२।

ततश्चरेत नियमात्कृच्छ्रं संयतमानसः ।

पुनराश्रममागम्य चरेद्भिक्षुरतंद्रितः २३।

न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः ।

तथापि च न कर्तव्यः प्रसंगो ह्येष दारुणः २४।

एकरात्रोपवासश्च प्राणायामशतं तथा ।

उक्त्वानृतं प्रकर्तव्यं यतिना धर्मलिप्सुना २५।

परमापद्गतेनापि न कार्यं स्तेयमन्यतः ।

स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः २६।

हिंसा चैवापरा तृष्णा याच्ञात्मज्ञाननाशिका ।

यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः २७ द्रविण।

स तस्य हरते प्राणान्यो यस्य हरते धनम् ।

एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रतच्युतः २८।

भूयो निर्वेदमापन्नश्चरेद्भिक्षुरतंद्रितः ।

अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत् २९।

कुर्यात्कृच्छ्रातिकृच्छ्रं तु चांद्रायणमथापि वा ।

स्कंदेतेंद्रियदौर्बल्यात्स्त्रियं दृष्ट्वा यतिर्यदि ३०।

तेन धारयितव्या वै प्राणायामास्तु षोडश ।

दिवास्कंदे त्रिरात्रं स्यात्प्राणायामशतं बुधाः ३१।

एकान्ने मधुमांसे च नवश्राद्धे तथैव च ।

प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ३२।

ध्याननिष्ठस्य सततं नश्यते सर्वपातकम् ।

तस्मान्नारायणं ध्यात्वा तस्य ध्यानपरो भवेत् ३३।

यद्ब्रह्मणः परं ज्योतिः प्रविष्टाक्षरमव्ययम् ।

योंतरात्मा परं ब्रह्म स विज्ञेयो महेश्वरः ३४।

एष देवो महादेवः केवलः परमं शिवः ।

तदेवाक्षरमद्वैतं तदा नित्यं परं पदम् ३५।

तस्मान्महीयते देवे स्वधाम्नि ज्ञानसंज्ञिते ।

आत्मयोगात्परे तत्वे महादेवस्ततः स्मृतः ३६।

नान्यं देवं महादेवाद्व्यतिरिक्तं प्रपश्यति ।

तमेवात्मानमन्वेति यः स याति परं पदम् ३७।

मन्यंते ये स्वमात्मानं विभिन्नं परमेश्वरात् ।

न ते पश्यंति तं देवं वृथा तेषां परिश्रमः ३८।

एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् ।

स देवस्तु महादेवो नैतद्विज्ञाय बध्यते ३९।

तस्माद्यतेत नियतं यतिः संयतमानसः ।

ज्ञानयोगरतः शांतो महादेवपरायणः ४०।

एष वः कथितो विप्रा यतीनामाश्रमः शुभः ।

पितामहेन मुनिना विभुना पूर्वमीरितः ४१।

नापुत्रशिष्ययोगिभ्यो दद्यादेवमनुत्तमम् ।

ज्ञानं स्वयंभुवा प्रोक्तं यतिधर्म्माश्रयं शिवम् ४२।

इति यतिनियमानामेतदुक्तं विधानं सुरवरपरितोषे यद्भवेदेकहेतुः ।

न भवति पुनरेषामुद्भवो वा विनाशः प्रतिहितमनसो ये नित्यमेवाचरंति ४३।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे षष्टितमोऽध्यायः ६०।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 61

सूत उवाच-

एवमुक्ता पुरा विप्रा व्यासेनामिततेजसा ।

एतावदुक्त्वा भगवान्व्यासः सत्यवतीसुतः १।

समाश्वास्य मुनीन्सर्वान्जगाम च यथागतम् ।

भवद्भ्यस्तु मया प्रोक्तं वर्णाश्रमविधानकम् २।

एवं कृत्वा प्रियो विष्णोर्भवत्येव न चान्यथा ।

रहस्यं तत्र वक्ष्यामि शृणुत द्विजसत्तमाः ३।

ये चात्र कथिता धर्मा वर्णाश्रमनिबंधनाः ।

हरिभक्तिकलांशांश समाना न हि ते द्विजाः ४।

पुंसामेकेह वै साध्या हरिभक्तिः कलौ युगे ।

युगांतरेण धर्मा हि सेवितव्या नरेण हि ५।

कलौ नारायणं देवं यजते यः स धर्म्मभाक् ।

दामोदरं हृषीकेशं पुरुहूतं सनातनम् ६।

हृदि कृत्वा परं शांतं जितमेव जगत्त्रयम् ।

कलिकालोरगादंशात्किल्बिषात्कालकूटतः ७।

हरिभक्तिसुधां पीत्वा उल्लंघ्यो भवति द्विजः ।

किं जपैः श्रीहरेर्नाम गृहीतं यदि मानुषैः ८।

किं स्नानैर्विष्णुपादांबु मस्तके येन धार्यते ।

किं यज्ञेन हरेः पादपद्मं येन धृतं हृदि ९।

किं दानेन हरेः कर्म सभायां वै प्रकाशितम् ।

हरेर्गुणगणान्श्रुत्वा यः प्रहृष्येत्पुनः पुनः १०।

समाधिना प्रहृष्टस्य सा गतिः कृष्णचेतसः ।

तत्र विघ्नकराः प्रोक्ताः पाखंडालापपेशलाः ११।

नार्यस्तत्संगिनश्चापि हरिभक्तिविघातकाः ।

नारीणां नयनादेशः सुराणामपि दुर्जयः १२।

स येन विजितो लोके हरिभक्तः स उच्यते ।

माद्यंति मुनयोप्यत्र नारीचरितलोलुपाः १३।

हरिभक्तिः कुतः पुंसां नारीभक्तिजुषां द्विजाः ।

राक्षस्यः कामिनीवेषाश्चरंति जगति द्विजाः ।

नराणां बुद्धिकवलं कुर्वंति सततं हिताः १४।

तावद्विद्या प्रभवति तावज्ज्ञानं प्रवर्तते ।

तावत्सुनिर्मला मेधा सर्वशास्त्रविधारिणी १५।

तावज्जपस्तपस्तावत्तावतीर्थनिषेवणम् ।

तावच्च गुरुशुश्रूषा तावद्धि तरणे मतिः १६।

तावत्प्रबोधो भवति विवेकस्तावदेव हि ।

तावत्सतां संगरुचिस्तावत्पौराणलालसा १७।

यावत्सीमंतिनी लोलनयनांदोलनं नहि ।

जनोपरि पतेद्विप्राः सर्वधर्मविलोपनम् १८।

तत्र ये हरिपादाब्जमधुलेशप्रसादिताः ।

तेषां न नारीलोलाक्षिक्षेपणं हि प्रभुर्भवेत् १९।

जन्मजन्म हृषीकेश सेवनं यैः कृतं द्विजाः ।

द्विजे दत्तं हुतं वह्नौ विरतिस्तत्र तत्र हि २०।

नारीणां किल किं नाम सौंदर्य्यं परिचक्षते ।

भूषणानां च वस्त्राणां चाकचक्यं तदुच्यते २१।

स्नेहात्मज्ञानरहितं नारीरूपं कुतः स्मृतम् ।

पूयमूत्रपुरीषासृक्त्वङ्मेदोस्थिवसान्वितम् २२।

कलेवरं हि तन्नाम कुतः सौंदर्य्यमत्र हि ।

तदेवं पृथगाचिंत्य स्पृष्ट्वा स्नात्वा शुचिर्भवेत् २३।

तैः संहितं शंरीरं हि दृश्यते सुंदरं जनैः ।

अहोतिदुर्दशा नॄणां दुर्दैव घटिता द्विजाः २४।

कुचावृतेंगे पुरुषो नारी बुद्ध्वा प्रवर्त्तते ।

का नारी वा पुमान्को वा विचारे सति किंचन २५।

तस्मात्सर्वात्मना साधुर्नारीसंगं विवर्जयेत् ।

को नाम नारीमासाद्य सिद्धिं प्राप्नोति भूतले २६।

कामिनी कामिनीसंगि संगमित्यपि संत्यजेत् ।

तत्संगाद्रौरवमिति साक्षादेव प्रतीयते २७।

अज्ञानाल्लोलुपा लोकास्तत्र दैवेन वंचिताः ।

साक्षान्नरककुंडेस्मिन्नारीयोनौ पचेन्नरः २८।

यत एवागतः पृथ्व्यां तस्मिन्नेव पुना रमेत् ।

यतः प्रसरते नित्यं मूत्रं रेतो मलोत्थितम् २९।

तत्रैव रमते लोकः कस्तस्मादशुचिर्भवेत् ।

तत्रातिकष्टं लोकेस्मिन्नहो दैवविडंबना ३०।

पुनः पुना रमेत्तत्र अहो निस्त्रपता नृणाम् ।

तस्माद्विचारयेद्धीमान्नारीदोषगणान्बहून् ३१।

मैथुनाद्बलहानिः स्यान्निद्राति तरुणायते ।

निद्रयापहृतज्ञानः स्वल्पायुर्जायते नरः ३२।

तस्मात्प्रयत्नतो धीमान्नारीं मृत्युमिवात्मनः ।

पश्येद्गोविंदपादाब्जे मनो वै रमयेद्बुधः ३३।

इहामुत्र सुखं तद्धि गोविंदपदसेवनम् ।

विहाय को महामूढो नारीपादं हि सेवते ३४।

जनार्द्दनांघ्रिसेवा हि ह्यपुनर्भवदायिनी ।

नारीणां योनिसेवा हि योनिसंकटकारिणी ३५।

पुनःपुनः पतेद्योनौ यंत्रनिष्पाचितो यथा ।

पुनस्तामेवाभिलषेद्विद्यादस्य विडंबनम् ३६।

ऊर्ध्वबाहुरहं वच्मि शृणु मे परमं वचः ।

गोविंदे धेहि हृदयं न योनौ यातनाजुषि ३७।

नारीसंगं परित्यज्य यश्चापि परिवर्त्तते ।

पदेपदेश्वमेधस्य फलमाप्नोति मानवः ३८।

कुलांगना दैवयोगादूढा यदि नृणां सती ।

पुत्रमुत्पाद्य यस्तत्र तत्संगं परिवर्जयेत् ३९।

तस्य तुष्टो जगन्नाथो भवत्येव न संशयः ।

नारीसंगो हि धर्मज्ञैरसत्संगः प्रकीर्त्यते ४०।

तस्मिन्सति हरौ भक्तिः सुदृढा नैव जायते ।

सर्वसंगं परित्यज्य हरौ भक्तिं समाचरेत् ४१।

हरिभक्तिश्च लोकेत्र दुर्ल्लभा हि मता मम ।

हरौ यस्य भवेद्भक्तिः स कृतार्थो न संशयः ४२।

तत्तदेवाचरेत्कर्म हरिः प्रीणाति येन हि ।

तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् ४३।

हरौ भक्तिं विना नॄणां वृथा जन्म प्रकीर्तितम् ।

ब्रह्मेशादि सुरा यस्य यजंते प्रीतिहेतवे ४४।

नारायणमनाव्यक्तं न तं सेवेत को जनः ।

तस्य माता महाभागा पिता तस्य महाकृती ४५।

जनार्द्दनपदद्वंद्वं हृदये येन धार्यते ।

जनार्दनजगद्वंद्य शरणागतवत्सल ४६।

इतीरयंति ये मर्त्या न तेषां निरये गतिः ।

ब्राह्मणा हि विशेषेण प्रत्यक्षं हरिरूपिणः ४७।

पूजयेयुर्यथायोगं हरिस्तेषां प्रसीदति ।

विष्णुर्ब्राह्मणरूपेण विचरेत्पृथिवीमिमाम् ४८।

ब्राह्मणेन विना कर्म्म सिद्धिं प्राप्नोति नैव हि ।

द्विजपादांबुभक्त्या यैः पीत्वा शिरसि चार्पितम् ४९।

तर्पिता पितरस्तेन आत्मापि किल तारितः ।

ब्राह्मणानां मुखे येन दत्तं मधुरमर्चितम् ५०।

साक्षात्कृष्णमुखे दत्तं तद्वै भुंक्ते हरिः स्वयम् ।

अहोतिदुर्ल्लभा लोका प्रत्यक्षे केशवे द्विजे ५१।

प्रतिमादिषु सेवंते तदभावे हि तत्क्रिया ।

ब्राह्मणानामधिष्ठानात्पृथ्वी धन्येति गीयते ५२।

तेषां पाणौ च यद्दत्तं हरिपाणौ तदर्पितम् ।

तेभ्यः कृतान्नमस्कारात्तिरस्कारो हि पाप्मताम् ५३।

मुच्यते ब्रह्महत्यादि पापेभ्यो विप्रवंदनात् ।

तस्मात्सतां समाराध्यो ब्राह्मणो विष्णुबुद्धितः ५४।

क्षुधितस्य द्विजस्यास्ये यत्किंचिद्दीयते यदि ।

प्रेत्य पीपूषधाराभिः सिंचते कल्पकोटिकम् ५५।

द्विजतुंडं महाक्षेत्रमनूषरमकंटकम् ।

तत्र चेदुप्यते किंचित्कोटिकोटिफलं लभेत् ५६।

सघृतं भोजनं चास्मै दत्त्वा कल्पं स मोदते ।

नानासुमिष्टमन्नं यो ददाति द्विजतुष्टये ५७।

तस्य लोका महाभोगाः कोटिकल्पांतमुक्तिदाः ।

ब्राह्मणं च पुरस्कृत्य ब्राह्मणेनानुकीर्तितम् ५८।

पुराणं शृणुयान्नित्यं महापापदवानलम् ।

पुराणं सर्वतीर्थेषु तीर्थं चाधिकमुच्यते ५९।

यस्यैकपादश्रवणाद्धरिरेव प्रसीदति ।

यथा सूर्यवपुर्भूत्वा प्रकाशाय चरेद्धरिः ६०।

सर्वेषां जगतामेव हरिरालोकहेतवे ।

तथैवांतःप्रकाशाय पुराणावयवो हरिः ६१।

विचरेदिह भूतेषु पुराणं पावनं परम् ।

तस्माद्यदि हरेः प्रीतेरुत्पादे धीयते मतिः ६२।

श्रोतव्यमनिशं पुंभिः पुराणं कृष्णरूपिणम् ।

विष्णुभक्तेन शांतेन श्रोतव्यमपि दुर्लभम् ६३।

पुराणाख्यानममलममलीकरणं परम् ।

यस्मिन्वेदार्थमाहृत्य हरिणा व्यासरूपिणा ६४।

पुराणं निर्मितं विप्र तस्मात्तत्परमो भवेत् ।

पुराणे निश्चितो धर्मो धर्मश्च केशवः स्वयम् ६५।

तस्मात्कृते पुराणे हि श्रुते विष्णुर्भवेदिति ।

साक्षात्स्वयं हरिर्विप्रः पुराणं च तथाविधम् ६६।

एतयोः संगमासाद्य हरिरेव भेवन्नरः ।

तथा गंगांबुसेकेन नाशयेत्किल्बिषं स्वकम् ६७।

केशवो द्रवरूपेण पापात्तारयते महीम् ।

वैष्णवो विष्णुभजनस्याकांक्षी यदि वर्तते ६८।

गंगांबुसेकममलममलीकरणं चरेत् ।

विष्णुभक्तिप्रदा देवी गंगा भुवि च गीयते ६९।

विष्णुरूपा हि सा गंगा लोकविस्तारकारिणी ७०।

ब्राह्मणेषु पुराणेषु गंगायां गोषु पिप्पले ।

नारायणधिया पुंभिर्भक्तिः कार्या ह्यहैतुकी ७१।

प्रत्यक्षविष्णुरूपा हि तत्वज्ञैर्निश्चिता अमी ।

तस्मात्सततमभ्यर्च्या विष्णुभक्त्यभिलाषिणा ७२।

विष्णौ भक्तिं विना नॄणां निष्फलं जन्म उच्यते ।

कलिकालपयोराशिं पापग्राहसमाकुलम् ७३।

विषयामज्जनावर्तं दुर्बोधफेनिलं परम् ।

महादुष्टजनव्याल महाभीमं भयानकम् ७४।

दुस्तरं च तरंत्येव हरिभक्तितरि स्थिताः ।

तस्माद्यतेत वै लोको विष्णुभक्तिप्रसाधने ७५।

किं सुखं लभते जंतुरसद्वार्तावधारणे ।

हरेरद्भुतलीलस्य लीलाख्यानेन सज्जते ७६।

तद्विचित्रकथालोके नानाविषयमिश्रिताः ।

श्रोतव्या यदि वै नॄणां विषये सज्जते मनः ७७।

निर्वाणे यदि वा चित्तं श्रोतव्या तदपि द्विजाः ।

हेलया श्रवणाच्चापि तस्य तुष्टो भवेद्धरिः ७८।

निष्क्रियोपि हृषीकेशो नानाकर्म चकार सः ।

शुश्रूषूणां हितार्थाय भक्तानां भक्तवत्सलः ७९।

न लभ्यते कर्मणापि वाजपेयशतादिना ।

राजसूयायुतेनापि यथा भक्त्या स लभ्यते ८०।

यत्पदं चेतसा सेव्यं सद्भिराचरितं मुहुः ।

भवाब्धितरणे सारमाश्रयध्वं हरेः पदम् ८१।

रे रे विषयसंलुब्धाः पामरा निष्ठुरा नराः ।

रौरवे हि किमात्मानमात्मना पातयिष्यथ ८२।

विना गोविंदसौम्यांघ्रिसेवनं मा गमिष्यति ।

अनायासेन दुःखानां तरणं यदि वांछथ ८३।

भजध्वं कृष्णचरणावपुनर्भवकारणे ।

कुत एवागतो मर्त्यः कुत एव पुनर्व्रजेत् ८४।

एतद्विचार्य मतिमानाश्रयेद्धर्मसंग्रहम् ।

नानानरकसंपातादुत्थितो यदि पूरुषः ८५।

स्थावरादि तनुं लब्ध्वा यदि भाग्यवशात्पुनः ।

मानुष्यं लभते तत्र गर्भवासोतिदुःखदः ८६।

ततः कर्मवशाज्जंतुर्यदि वा जायते भुवि ।

बाल्यादिबहुदोषेण पीडितो भवति द्विजाः ८७।

पुनर्यौवनमासाद्य दारिद्र्येण प्रपीड्यते ।

रोगेण गुरुणा वापि अनावृष्ट्यादिना तथा ८८।

वार्द्धकेन लभेत्पीडामनिर्वाच्यामितस्ततः ।

मनसश्चलनाद्व्याधेस्ततो मरणमाप्नुयात् ८९।

न तस्मादधिकं दुःखं संसारेप्यनुभूयते ।

ततः कर्म्मवशाज्जंतुर्यमलोके प्रपीड्यते ९०।

तत्रातियातनां भुक्त्वा पुनरेव प्रजायते ।

जायते म्रियते जंतु म्रियते जायते पुनः ९१।

अनाराधित गोविंदचरणे त्वीदृशी दशा ।

अनायासेन मरणं विनायासेन जीवनम् ९२।

अनाराधितगोविंदचरणस्य न जायते ।

धनं यदि भवेद्गेहे रक्षणात्तस्य किं फलम् ९३।

यदासौ कृष्यते याम्यैर्दूतैः किं धनमन्वियात् ।

तस्माद्द्विजातिसत्कार्यं द्रविणं सर्वसौख्यदम् ९४।

दानं स्वर्गस्य सोपानं दानं किल्बिषनाशनम् ।

गोविंदभक्तिभजनं महापुण्यविवर्द्धनम् ९५।

बलं यदि भवेन्मर्त्ये न वृथा तद्व्ययं चरेत् ।

हरेरग्रे नृत्यगीतं कुर्यादेवमतंद्रितः ९६।

यत्किंचिद्विद्यते पुंसां तच्च कृष्णे समर्पयेत् ।

कृष्णार्पितं कुशलदमन्यार्पितमसौख्यदम् ९७।

चक्षुर्भ्यां श्रीहरेरेव प्रतिमादिनिरूपणम् ।

श्रोत्राभ्यां कलयेत्कृष्ण गुणनामान्यहर्निशम् ९८।

जिह्वया हरिपादांबु स्वादितव्यं विचक्षणैः ।

घ्राणेनाघ्राय गोविंदपादाब्जतुलसीदलम् ९९।

त्वचा स्पृष्ट्वा हरेर्भक्तं मनसाध्याय तत्पदम् ।

कृतार्थो जायते जंतुर्नात्र कार्या विचारणा १००।

तन्मना हि भवेत्प्राज्ञस्तथा स्यात्तद्गताशयः ।

तमेवांतेभ्येति लोको नात्र कार्या विचारणा १०१।

चेतसा चाप्यनुध्यातः स्वपदं यः प्रयच्छति ।

नारायणमनाद्यंतं न तं सेवेत को जनः १०२।

सतत नियतचित्तो विष्णुपादारविंदे वितरणमनुशक्ति प्रीतये तस्य कुर्यात् ।

नतिमतिरतिमस्यांघ्रिद्वये संविदध्यात्स हि खलु नरलोके पूज्यतामाप्नुयाच्च १०३।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे एकषष्टितमोऽध्यायः ६१।

खण्डः ३ (स्वर्गखण्डः) — Adhyāya 62

सूत उवाच-

एवं यन्महिमा लोके लोकनिस्तारकारणम् ।

तस्य विष्णोः परेशस्य नानाविग्रहधारिणः १।

एकं पुराणं रूपं वै तत्र पाद्मं परं महत् ।

ब्राह्मं मूर्धा हरेरेव हृदयं पद्मसंज्ञितम् २।

वैष्णवं दक्षिणो बाहुः शैवं वामो महेशितुः ।

ऊरू भागवतं प्रोक्तं नाभिः स्यान्नारदीयकम् ३।

मार्कंडेयं च दक्षांघ्रिर्वामो ह्याग्नेयमुच्यते ।

भविष्यं दक्षिणो जानुर्विष्णोरेव महात्मनः ४।

ब्रह्मवैवर्तसंज्ञं तु वामजानुरुदाहृतः ।

लैंगं ह गुल्फकं दक्षं वाराहं वामगुल्फकम् ५।

स्कांदं पुराणं लोमानि त्वगस्य वामनं स्मृतम् ।

कौर्मं पृष्ठं समाख्यातं मात्स्यं मेदः प्रकीर्तितम् ६।

मज्जा तु गारुडं प्रोक्तं ब्रह्मांडमस्थि गीयते ।

एवमेवाभवद्विष्णुः पुराणावयवो हरिः ७।

हृदयं तत्र वै पाद्मं यच्छ्रुत्वामृतमश्नुते ।

पाद्ममेतत्पुराणं तु स्वयं देवोभवद्धरिः ८।

यस्यैकाध्यायमध्याप्य सर्वैः पापैः प्रमुच्यते ।

तत्रादिमं स्वर्गमिदं सर्वपाद्मफलप्रदम् ९।

स्वर्गखंडं समाकर्ण्य महापातकिनोपि ये ।

मुच्यंते तेपि पापेभ्यस्त्वचो जीर्णाद्यथोरगाः १०।

अपि चेत्सुदुराचारः सर्वधर्म्मबहिष्कृतः ।

आदिस्वर्गं समाकर्ण्य यत्फलं समवाप्नुयात् ११।

आदिस्वर्गमिदं श्रुत्वा तत्फलं लभते नरः ।

माघेमासे प्रयागे तु स्नात्वा प्रतिदिनं नरः १२।

यथा पापात्प्रमुच्येत तथा हि श्रवणाद्भवेत् ।

दत्ता तेन स्वर्णतुला दत्ता चैव धराखिला १३।

कृतं वितरणं तेन द्ररिद्रे यत्कृतमृणम् ।

हरेर्नामसहस्राणि पठितानि ह्यभीक्ष्णशः १४।

सर्वेवे दास्तथाधीतास्तत्तत्कर्मकृतं तथा ।

अध्यापकाश्च बहवः स्थापिता वृत्तिदानतः १५।

अभयं भयलोकेभ्यो दत्तं तेन तथा द्विजाः ।

गुणवंतो ज्ञानवंतो धर्मवंतोनुमानिताः १६।

मेषकर्कटयोर्मध्ये तोयं दत्तं सुशीतलम् ।

ब्राह्मणार्थे गवार्थे च प्राणास्त्यक्ताश्च तेन हि १७।

अन्यानि च सुकर्माणि कृतानि तेन धीमता ।

येनादिखंडं सदसि श्रुतं संश्रावितं तथा १८।

स्वर्गखंडं समाधीत्य नानाभोगान्समश्नुते ।

अंतःपुरगनारीणां सुखसुप्तः प्रबुध्यते १९।

किंकिणीरवसन्नादैस्तथा मधुरभाषणैः ।

इंद्रस्यार्धासनं भुंक्ते इंद्रलोके वसेच्चिरम् २०।

ततः सूर्यस्य भवनं चंद्रलोकं ततो व्रजेत् ।

सप्तर्षिभवने भोगान्भुक्त्वा याति ततो ध्रुवम् २१।

ततश्च ब्रह्मणो लोकं प्राप्य तेजोमयं वपुः ।

तत्रैव ज्ञानमासाद्य निर्वाणं परमृच्छति २२।

सद्भिः सह वसेद्धीमान्सत्तीर्थे स्नानमाचरेत् ।

कुर्यादेव सदालापं सच्छास्त्रं शृणुयान्नरः २३।

तत्र पाद्मं महाशास्त्रं सर्वाम्नायफलप्रदम् ।

स्वर्गखंडं च तन्मध्ये महापुण्यफलप्रदम् २४।

भजध्वं गोविंदं नमत हरिमेकं सुरवरं गमिष्यध्वं लोकानतिविमलभोगानतितराम् ।

शृणुध्वं हे लोका वदत हरिनामैकमतुलं यदीच्छावीचीनां सुखतरणमिष्टानि लभत २५।

इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्विषष्टितमोऽध्यायः ६२।

संपूर्णमिदमादिखण्डापरनामकमादिस्वर्गखंडं स्वर्गखंडं वा ।

शुभमस्तु श्रीरस्तु ।

इति श्रीपाद्मे महापुराणे तृतीयं स्वर्गखण्डं समाप्तम्।

खण्डः ४ (ब्रह्मखण्ड) — Adhyāya 3

तृतीयोऽध्यायः

शौनकउवाच-

कार्त्तिकस्य च माहात्म्यं ब्रूहि सूत ममाग्रतः

तद्व्रतस्य फलं किं वा दोषं किं तदकुर्वतः १

सूत उवाच-

पुरैकदा मुनिश्रेष्ठ व्यासं सत्यवतीसुतम्

जैमिनिः पृष्टवानेतदारेभे कथितं मुनिः २

व्यास उवाच-

तिलतैलं मैथुनं यः शुभदे कार्त्तिके त्यजेत्

बहुजन्मकृतैःपापैर्मुक्तो याति हरेर्गृहम् ३

मत्स्यं च मैथुनं यो वै कार्त्तिके न परित्यजेत्

प्रतिजन्मनि संमूढः शूकरश्च भवेद्ध्रुवम् ४

कार्त्तिके तुलसीपत्रैः पूजयेद्वै जनार्दनम्

पत्रेपत्रेऽश्वमेधस्य फलं प्राप्नोति मानवः ५

कार्त्तिके मुनिपुष्पैर्यः पूजयेन्मधुसूदनम्

देवानां दुर्लभं मोक्षं प्राप्नोति कृपया हरेः ६

कार्त्तिके मुनिशाकं वै योऽश्नाति च नरोत्तमः

संवत्सरकृतं पापं शाकेनैकेन नश्यति ७

फलं तस्य नरोऽश्नाति चोर्जे यो वै हरिप्रिये

प्रदत्त्वा तु हरेर्ब्रह्मन्वृजिनं कोटिजन्मजम् ८

सुरसं सर्पिषायुक्तं दद्याद्यो हरयेपि च

सर्वपापैर्विनिर्मुक्तः स गच्छेद्धरिमंदिरम् ९

कार्तिके यो नरो दद्यादेकपद्मं हरावपि

अंते विष्णुपदं गच्छेत्सर्वपापविवर्जितः १०

प्रातःस्नानं नरो यो वै कार्तिके श्रीहरिप्रिये

करोतिसर्वतीर्थेषुयत्स्नात्वातत्फलंलभेत् ११

कार्तिके यो नरो दद्यात्प्रदीपं नभसि द्विजः

विप्रहत्यादिभिः पापैर्मुक्तो गच्छेद्धरेर्गृहम् १२

मुहूर्तमपि यो दद्यात्कार्त्तिके प्रीतये हरेः

दीपं नभसि विप्रेन्द्र तस्मिंस्तुष्टः सदा हरिः १३

यो दद्याच्च गृहे दीपं कृष्णस्य सघृतं द्विजः

कार्तिके चाश्वमेधस्य फलं स्याद्वै दिनेदिने १४

प्रदीपस्य च माहात्म्यं विशेषमुच्यते मया

निशामय द्विजश्रेष्ठ सेतिहासं समाहितः १५

पूर्वं त्रेतायुगे विप्रो वैकुंठो नामतः शुचिः

यस्य संगप्रभावेण मुक्तो भवति पातकी १६

एकदा कार्तिके सोऽपि प्रदीपं पुरतो हरेः

दत्वा गृहं गतो विप्रो घृतपूर्णं द्विजर्षभः १७

सर्पिस्तत्स्वादितुं चाखुरागतोऽपि प्रदीपतः

यावत्खादितुमारेभे बोधितोऽसौ प्रदीपकः १८

मूषकोऽग्निभयात्तत्र वेगेनापि पलायितः

आखोश्च सकलं पापं विनष्टं कृपया हरेः १९

सर्पेण दंशितश्चाखुः प्राणत्यागं चकार ह

ततो यमाज्ञया दूताः पाशमुद्गरपाणयः २०

आगतास्तं समानेतुं बबंधुश्चर्मरज्जुभिः

यावन्नेतुं मनश्चक्रुः शंखचक्रगदाधराः २१

आगता गरुडारूढा विष्णुदूताश्चतुर्भुजाः

विमानं गगने चैव राजहंसयुतं शुभम् २२

निर्मितं कनकैः शुद्धैः कामगं कृपया हरेः

पाशं छित्वा ततो दूताः प्रोचुस्ते यमकिंकरान् २३

विष्णुभक्तोऽप्यसौ मूढा व्यर्थं तु बंधनं कृतम्

गच्छध्वं शमनप्रेष्या यदि वांछास्ति जीवितुम् २४

श्रुत्वा प्रकंपितास्ते वै पृच्छंति विनयान्विताः

केन पुण्यप्रभावेण युष्माभिर्नीयते पुरम् २५

असौ विष्णोर्महापापी यूयं तद्वक्तुमर्हथ

विष्णुदूता ऊचुः-

पुरतो वासुदेवस्य प्रदीपबोधनं कृतम् २६

तेनैव कर्मणा दूता नयामो विष्णुमंदिरम्

अनिच्छयापि यः कुर्याद्विष्णोर्दीपस्य बोधनम् २७

कोटिजन्मार्जितं पापं त्यक्त्वा याति हरेर्गृहम्

भक्त्या प्रदीपं यो दद्यात्कार्तिके तु हरेर्दिनैः २८

तस्य पुण्यं समाख्यातुं न शक्तो हरिणा विना

घृतपूर्णप्रदीपं यो भक्त्या दद्याद्धरेर्गृहे २९

अश्वमेधसहस्रेण तस्य किं वा प्रयोजनम्

अश्वमेधप्रकर्ता यः स्वर्गं याति हरेर्दिने ३०

कार्तिके दीपदाता च स गच्छेद्धरिमंदिरम्

व्यास उवाच-

इति श्रुत्वा ततो दूता गतास्ते वै यथागताः ३१

विष्णुदूता रथे कृत्वा गतास्तं विष्णुमंदिरम्

विष्णुसान्निध्य एवास्य मन्वंतरशतं गतम् ३२

ततो मर्त्ये राजकन्या बभूव कृपया हरेः

पुत्रपौत्रसमायुक्ता चिरं भोगं चकार सा ३३

इतः पुनर्गता सा तु गोलोकं हरिसेवया

सूत उवाच-

भक्त्या शृणोति यो मर्त्यो दीपमाहात्म्यमुत्तमम् ३४

सर्वपापविनिर्मुक्तः स याति विष्णुमंदिरम् ३५

इति श्रीपाद्मे महापुराणे ब्रह्मखंडे दीपदानमाहात्म्यं

नाम तृतीयोऽध्यायः ३

खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 1

अथ श्रीपाद्मे महापुराणे चुतर्थं ब्रह्मखण्डं प्रारभ्यते

श्रीवेदव्यासाय नमः

शौनक उवाच-

कलौ समागते सूत प्राणिनां केन कर्मणा ।

उद्धारो वै भवेत्तस्मात्कथयस्व ममाग्रतः ॥ १ ॥

सूत उवाच-

साधुसाधु मुनिश्रेष्ठ पुण्यात्मनां वरो भवान् ।

सर्वेषां च जनानां च शुभवाञ्छो निरंतरम् २।

एतद्व्यासः पुरा विप्रः सर्वज्ञः सर्वपूजितः ।

पृष्टो जैमिनिना तं स यदाह शृणु वैष्णव ३।

दंडवत्प्रणिपत्यासौ व्यासं सर्वार्थपारगम् ।

गुरुं सत्यवतीसूनुं पप्रच्छ मुनिपुंगवः ४।

जैमिनिरुवाच-

कलौ नृणां भवेत्केन मोक्षो वै कथयस्व मे ।

अल्पेनापि च पुण्येन मर्त्याश्चाल्पायुषो यतः ५।

व्यास उवाच-

साधुसंगाद्भवेद्विप्र शास्त्राणां श्रवणं प्रभो ।

हरिभक्तिर्भवेत्तस्मात्ततो ज्ञानं ततो गतिः ६।

न रोचते कथा भूमौ पापिष्ठाय जनाय वै ।

वैष्णवी स तु विज्ञेयः पापिष्ठप्रवरो द्विजः ७।

श्रीकृष्णस्य कथां श्रुत्वाऽऽनंदी भवति वैष्णवः ।

असत्यां तां तु यो ब्रूयाज्ज्ञेयः स पापिनां गुरुः ८।

यस्मिन्यस्मिन्स्थले विप्र कृष्णस्य वर्तते कथा ।

तस्मात्तस्माज्जगन्नाथो याति त्यक्त्वा न कर्हिचित् ९।

कृष्णस्य यः कथारंभे कुर्याद्विघ्नं नराधमः ।

नरकान्निष्कृतिर्नास्ति मन्वंतरशतावधि १०।

ये पुराणकथां श्रुत्वा निंदंत्युपहसंति वै ।

तेषां करस्था नरका बहुक्लेशकराः सदा ११।

जन्मांतरार्जितं पापं तत्क्षणादेव नश्यति ।

श्रीकृष्णचरितं यो वै श्रोतुमिच्छां करोत्यपि १२।

भक्त्या यो वै नरः कुर्यात्श्रीकृष्णचरितं तथा ।

न जाने श्रवणे तस्य का गतिर्वा भविष्यति १३।

ब्रह्महत्यादिकं पापं अकालमरणं तथा ।

सुरापानं तथास्तेयं सर्वं नश्यति पापिनः १४।

पापं कृत्वा तु यो मर्त्यः पश्चात्पापं निवर्तयेत् ।

तस्य पापं व्रजेन्नाशमग्निना तूलराशिवत् १५।

श्रीकृष्णचरितं विप्र तिष्ठेद्वै पुस्तकं गृहे ।

तस्य गृहसमीपं हि नायांति यमकिंकराः १६।

जैमिनिरुवाच-

वदंति वैष्णवान्कांश्च वांच्छा ब्रूहि गुरो मम ।

इदानीं तान्समाज्ञातुं तेषां माहात्म्यमुत्तमम् १७।

व्यास उवाच-

यो नरो मस्तके भक्त्या वैष्णवांघ्रिजलं द्विज ।

करोति सेचनं पापी तीर्थस्नानेन तस्य किम् १८।

साधुसंगं तु यः कुर्य्यात्क्षणं वार्द्धक्षणं द्विज ।

तस्य नश्यंति पापानि ब्रह्महत्यामुखानि च १९।

यत्रयत्र कुले चैव एको भवति वैष्णवः ।

कुलं तस्य यदा पापैर्युक्तं तन्मोक्षगामि वै २०।

हिंसादंभकामक्रोधैर्वर्जिताश्चैव ये नराः ।

लोभमोहपरित्यक्ता ज्ञेयास्ते वैष्णवा द्विज २१।

पितृभक्ता दयायुक्ताः सर्वप्राणिहिते रताः ।

अमत्सरा वैष्णवा ये विज्ञेयाः सत्यभाषिणः २२।

विप्रभक्तिरता ये च परस्त्रीषु नपुंसकाः ।

एकादशीव्रतरता विज्ञेयास्ते च वैष्णवाः २३।

गायंति हरिनामानि तुलसीमाल्यधारकाः ।

हर्यंघ्रिसलिलैः सिक्ता विज्ञेयास्ते च वैष्णवाः २४।

श्रोत्रयोर्मस्तके येषां तुलस्याः पर्णमुत्तमम् ।

कर्हिचिद्दृश्यते विप्र विज्ञेयास्ते च वैष्णवाः २५।

पाखंडसंगरहिता विप्रद्वेषविवर्जिताः ।

सिंचेयुस्तुलसीं ये च ज्ञातव्या वैष्णवा नराः २६।

पूजयंति हरिं ये च तुलस्या चार्चयंति ये ।

कन्यादानरता ये च ये वै ह्यतिथिपूजकाः २७।

शृण्वंति विष्णुचरितं विज्ञेया वैष्णवा नराः ।

यस्य गृहे सुप्रतिष्ठेत्शालग्रामशिलापि च २८।

मार्जयंति हरेः स्थानं पितृयज्ञप्रवर्तकाः ।

जने दीने दयायुक्ता विज्ञेयास्ते च वैष्णवाः २९।

परस्वं ब्राह्मणद्रव्यं पश्यंति विषवच्च ये ।

हरिनैवेद्यं येऽश्नन्ति विज्ञेया वैष्णवा जनाः ३०।

वेदशास्त्रानुरक्ता ये तुलसीवनपालकाः ।

राधाष्टमीव्रतरता विज्ञेयास्ते च वैष्णवाः ३१।

श्रीकृष्णपुरतो ये च दीपं यच्छंति श्रद्धया ।

परनिंदां न कुर्वंति विज्ञेयास्ते च वैष्णवाः ३२।

सूत उवाच-

पृष्टो जैमिनिना व्यास इत्युक्तः स यथाक्रमम् ।

मयेदं कथ्यते ब्रह्मन्यत्प्रसंगाद्गुरोः श्रुतम् ३३।

अध्यायं श्रद्धया युक्तं ये शृण्वंति नरोत्तमाः ।

सर्वपापविनिर्मुक्ता यांति विष्णोः परं पदम् ३४।

इति श्रीपाद्मे महापुराणे ब्रह्मखंडे व्यासजैमिनिसंवादे प्रथमोऽध्यायः १।

खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 2

सूत उवाच-

शृणु शौनक वक्ष्यामि चान्यधर्म्मं पुरातनम् ।

व्यासजैमिनिसंवादं श्रोतॄणां पापनाशनम् १।

जैमिनिरुवाच-

कर्म्मणा हि गुरो केन मंदिरं जगतीपतेः ।

याति तत्कथयस्वाद्य नरः पापी च मे प्रभो २।

व्यास उवाच-

श्रीकृष्णमंदिरे यो वै लेपनं कुरुते नरः ।

सर्वपापविनिर्मुक्तः श्रांतो याति हरेर्गृहम् ३।

यश्चांबुलेपनं कुर्यात्संक्षेपाच्छृणु जैमिने ।

तस्यपुण्यमहं वच्मि मंदिरे जगतीपतेः ४।

तत्र यावंति पश्यंति रजांसि च द्विजोत्तम ।

तावत्कल्पसहस्राणि स वसेद्विष्णुमंदिरे ५।

पुरासीद्दंडको नाम्ना चौरो लोकभयप्रदः ।

ब्रह्मस्वहारी मित्रघ्नो युगे द्वापरसंज्ञके ६।

असत्यभाषी क्रूरश्च परस्त्रीगमने रतः ।

गोमांसाशी सुरापश्च पाखंडजनसंगभाक् ७।

वृत्तिच्छेदी द्विजातीनां न्यासापहारकस्तथा ।

शरणागतहंता च वेश्याविभ्रमलोलुपः ८।

एकदा स द्विजश्रेष्ठ कस्यचिद्विष्णुमंदिरम् ।

जगाम हरणार्थाय विष्णोर्द्रव्यं स मूढधीः ९।

अथ द्वारि प्रविश्यासावंघ्रिः कर्द्दमसंयुतः ।

प्रोच्छितः सकलं निम्ने भूमौ देवगृहस्य च १०।

तेनैव कर्म्मणा भूमिर्निम्नरिक्ता बभूव ह ।

लोहस्य च शलाकाभ्यां मुद्घाट्यत्वररंमुदा ११।

प्रविवेश हरेर्गेहं वितानवरशोभितम् ।

रत्नकांचनदीपाढ्यं परिध्वस्त महत्तमम् १२।

नानापुष्पसुगंधाढ्यं नानापात्रसमाकुलम् ।

सुवासितस्य तैलस्य गंधेन परिपूरितम् १३।

अनेनहारकेणाथ पर्य्यंके सुमनोहरे ।

शायितो राधया सार्द्धं दृष्टः पीतांबरोऽच्युतः १४।

प्रणम्य राधिकानाथं निष्पापः सोऽभवत्तदा ।

नेष्याम्यथ न नेष्यामि अनेन किं भवेन्मम १५।

सेवां कर्त्तुमशक्तोऽहं यतश्चौरोऽस्मि सर्वदा ।

द्रव्येण कार्यमस्तीति तन्नेतुं कृतवान्मनः १६।

पातयित्वांशुकं भूमौ कौशेयं कमलापतेः ।

बबंध वस्तुजातं च पाणौ कृत्वा सकंपितः १७।

विष्णोर्मायापतेश्चाथ तानि सर्वाणि जैमिने ।

कृत्वा शब्दं सुघोरं च पतितान्यथ तानि वै १८।

परित्यज्य सुनिद्रां च धावंत इति किन्वहो ।

आगता बहुशो लोकाश्चोरो द्रव्यं जवेन च १९।

त्यक्त्वा धनं च चौरोऽपि त्रस्तः किंचिज्जगाम ह ।

दंशितः कालसर्पेण मृतोऽसौ गतकिल्बिषः २०।

यमाज्ञया तस्य दूताः पाशमुद्गरपाणयः ।

आगतास्तं समानेतुं दंष्ट्रिणश्चर्मवाससः २१।

बबंधुश्चर्मपाशेन निन्युर्दुर्गमवर्त्मना ।

दृष्ट्वा तं शमनः क्रुद्धः पप्रच्छ सचिवं प्रति २२।

यम उवाच-

अनेन किं कृतं कर्म पापं वा पुण्यमेव वा ।

समूलं वद हे प्राज्ञ चित्रगुप्त ममाग्रतः २३।

चित्रगुप्त उवाच-

सृष्टानि यानि पापानि विधात्रा पृथिवीतले ।

कृतान्यनेन मूढेन सत्यमेतन्मयोदितम् २४।

किंत्वाकर्णय लोकेश सुकृतं चास्य वर्त्तते ।

मन्येऽहं यमुनाभ्रातः सर्वपापविलोपि तत् २५।

धर्मराज उवाच-

किं पुण्यं वर्त्ततेऽमात्य वद सारं ममांतिके ।

श्रुत्वैवं तद्विधास्यामि यत्र योग्यो भवेदसौ २६।

यमस्य वचनं श्रुत्वा सभयश्चित्रगुप्तकः ।

कृत्वा हस्तांजलिं प्राह चात्मनः स्वामिने द्विज २७।

चित्रगुप्त उवाच-

हरणार्थं हरेर्द्रव्यं गतोऽसौ पापिनां वरः ।

प्रोज्झितः कर्द्दमो राजन्पादयोर्द्वारतो हरेः २८।

बभूव लिप्ता सा भूमिर्बिलच्छिद्र विवर्जिता ।

तेन पुण्यप्रभावेण निर्गतं पातकं महत् ।

वैकुंठं प्रतियोग्योऽसौ निर्गतस्तव दंडतः २९।

व्यास उवाच-

श्रुत्वा स वचनं तस्य पीठं कनकनिर्मितम् ।

ददौ तस्मै चोपविष्टस्तत्र पूज्योयमेनसः ३०।

ननाम शिरसा तं वै प्रोवाच विनयान्वितः ।

यम उवाच-

पवित्रं मंदिरं मेऽद्य पादयोस्तद्धि रेणुभिः ३१।

कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ।

इदानीं गच्छ भो साधो हरेर्मंदिरमुत्तमम् ३२।

नानाभोगसमायुक्तं जन्ममृत्युनिवारणम् ।

व्यास उवाच-

इत्युक्त्वा धर्मराजोऽसौ स्यंदने स्वर्णनिर्मिते ३३।

राजहंसयुते दिव्ये तमारोप्य गतैनसम् ।

समस्तसुखदं स्थानं प्रेषयामास चक्रिणः ३४।

एवं प्रविष्टो वैकुंठे तत्र तस्थौ सुखं चिरम् ।

लेपनं ये प्रकुर्वंति भक्त्या तु हरिमंदिरम् ३५।

तेषां किं वा भविष्यति न जानेऽहं द्विजोत्तम ।

य इदं शृणुयाद्भक्त्या पठेद्यो वा समाहितः ३६।

कोटिजन्मार्जितं पापं नश्यत्येव न संशयः ३७।

इति श्रीपाद्मेमहापुराणे ब्रह्मखंडे हरिमंदिरलेपनमाहात्म्यं।

नाम द्वितीयोऽध्यायः २।

खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 3

शौनक उवाच-

कार्त्तिकस्य च माहात्म्यं ब्रूहि सूत ममाग्रतः ।

तद्व्रतस्य फलं किं वा दोषं किं तदकुर्वतः १।

सूत उवाच-

पुरैकदा मुनिश्रेष्ठ व्यासं सत्यवतीसुतम् ।

जैमिनिः पृष्टवानेतदारेभे कथितं मुनिः २।

व्यास उवाच-

तिलतैलं मैथुनं यः शुभदे कार्त्तिके त्यजेत् ।

बहुजन्मकृतैःपापैर्मुक्तो याति हरेर्गृहम् ३।

मत्स्यं च मैथुनं यो वै कार्त्तिके न परित्यजेत् ।

प्रतिजन्मनि संमूढः शूकरश्च भवेद्ध्रुवम् ४।

कार्त्तिके तुलसीपत्रैः पूजयेद्वै जनार्दनम् ।

पत्रेपत्रेऽश्वमेधस्य फलं प्राप्नोति मानवः ५।

कार्त्तिके मुनिपुष्पैर्यः पूजयेन्मधुसूदनम् ।

देवानां दुर्लभं मोक्षं प्राप्नोति कृपया हरेः ६।

कार्त्तिके मुनिशाकं वै योऽश्नाति च नरोत्तमः ।

संवत्सरकृतं पापं शाकेनैकेन नश्यति ७।

फलं तस्य नरोऽश्नाति चोर्जे यो वै हरिप्रिये ।

प्रदत्त्वा तु हरेर्ब्रह्मन्वृजिनं कोटिजन्मजम् ८।

सुरसं सर्पिषायुक्तं दद्याद्यो हरयेपि च ।

सर्वपापैर्विनिर्मुक्तः स गच्छेद्धरिमंदिरम् ९।

कार्तिके यो नरो दद्यादेकपद्मं हरावपि ।

अंते विष्णुपदं गच्छेत्सर्वपापविवर्जितः १०।

प्रातःस्नानं नरो यो वै कार्तिके श्रीहरिप्रिये ।

करोतिसर्वतीर्थेषुयत्स्नात्वातत्फलंलभेत् ११।

कार्तिके यो नरो दद्यात्प्रदीपं नभसि द्विजः ।

विप्रहत्यादिभिः पापैर्मुक्तो गच्छेद्धरेर्गृहम् १२।

मुहूर्तमपि यो दद्यात्कार्त्तिके प्रीतये हरेः ।

दीपं नभसि विप्रेन्द्र तस्मिंस्तुष्टः सदा हरिः १३।

यो दद्याच्च गृहे दीपं कृष्णस्य सघृतं द्विजः ।

कार्तिके चाश्वमेधस्य फलं स्याद्वै दिनेदिने १४।

प्रदीपस्य च माहात्म्यं विशेषमुच्यते मया ।

निशामय द्विजश्रेष्ठ सेतिहासं समाहितः १५।

पूर्वं त्रेतायुगे विप्रो वैकुंठो नामतः शुचिः ।

यस्य संगप्रभावेण मुक्तो भवति पातकी १६।

एकदा कार्तिके सोऽपि प्रदीपं पुरतो हरेः ।

दत्वा गृहं गतो विप्रो घृतपूर्णं द्विजर्षभः १७।

सर्पिस्तत्स्वादितु चाखुरागतोऽपि प्रदीपतः ।

यावत्खादितुमारेभे बोधितोऽसौ प्रदीपकः १८।

मूषकोऽग्निभयात्तत्र वेगेनापि पलायितः ।

आखोश्च सकलं पापं विनष्टं कृपया हरेः १९।

सर्पेण दंशितश्चाखुः प्राणत्यागं चकार ह ।

ततो यमाज्ञया दूताः पाशमुद्गरपाणयः २०।

आगतास्तं समानेतुं बबंधुश्चर्मरज्जुभिः ।

यावन्नेतुं मनश्चक्रुः शंखचक्रगदाधराः २१।

आगता गरुडारूढा विष्णुदूताश्चतुर्भुजाः ।

विमानं गगने चैव राजहंसयुतं शुभम् २२।

निर्मितं कनकैः शुद्धैः कामगं कृपया हरेः ।

पाशं छित्वा ततो दूताः प्रोचुस्ते यमकिंकरान् २३।

विष्णुभक्तोऽप्यसौ मूढा व्यर्थं तु बंधनं कृतम् ।

गच्छध्वं शमनप्रेष्या यदि वांछास्ति जीवितुम् २४।

श्रुत्वा प्रकंपितास्ते वै पृच्छंति विनयान्विताः ।

केन पुण्यप्रभावेण युष्माभिर्नीयते पुरम् २५।

असौ विष्णोर्महापापी यूयं तद्वक्तुमर्हथ ।

विष्णुदूता ऊचुः-

पुरतो वासुदेवस्य प्रदीपबोधनं कृतम् २६।

तेनैव कर्मणा दूता नयामो विष्णुमंदिरम् ।

अनिच्छयापि यः कुर्याद्विष्णोर्दीपस्य बोधनम् २७।

कोटिजन्मार्जितं पापं त्यक्त्वा याति हरेर्गृहम् ।

भक्त्या प्रदीपं यो दद्यात्कार्तिके तु हरेर्दिनैः २८।

तस्य पुण्यं समाख्यातुं न शक्तो हरिणा विना ।

घृतपूर्णप्रदीपं यो भक्त्या दद्याद्धरेर्गृहे २९।

अश्वमेधसहस्रेण तस्य किं वा प्रयोजनम् ।

अश्वमेधप्रकर्ता यः स्वर्गं याति हरेर्दिने ३०।

कार्तिके दीपदाता च स गच्छेद्धरिमंदिरम् ।

व्यास उवाच-

इति श्रुत्वा ततो दूता गतास्ते वै यथागताः ३१।

विष्णुदूता रथे कृत्वा गतास्तं विष्णुमंदिरम् ।

विष्णुसान्निध्य एवास्य मन्वंतरशतं गतम् ३२।

ततो मर्त्ये राजकन्या बभूव कृपया हरेः ।

पुत्रपौत्रसमायुक्ता चिरं भोगं चकार सा ३३।

इतः पुनर्गता सा तु गोलोकं हरिसेवया ।

सूत उवाच-

भक्त्या शृणोति यो मर्त्यो दीपमाहात्म्यमुत्तमम् ३४।

सर्वपापविनिर्मुक्तः स याति विष्णुमंदिरम् ३५।

इति श्रीपाद्मे महापुराणे ब्रह्मखंडे दीपदानमाहात्म्यं।

नाम तृतीयोऽध्यायः ३।

खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 4

शौनक उवाच-

जयंत्याः सूत माहात्म्यं कदा सा क्रियते जनैः ।

कथयस्व मयि त्वं वै पोतः संसारसागरे १।

सूत उवाच-

शृणु विप्र प्रवक्ष्यामि यत्पृष्टो मुनिसत्तम ।

पुरा ब्रह्मा नारदेन पृष्ट एतत्सुरालये २।

नारद उवाच-

जयंत्याश्चैव माहात्म्यं कथयस्व पितामह ।

यच्छ्रुत्वाहं गमिष्यामि तद्विष्णोः परमं पदम् ३।

ब्रह्मोवाच-

शृणुष्वावहितो विप्र तवाग्रे कथयाम्यहम् ।

जयंत्या उपवासेन विष्णुलोकं स गच्छति ४।

स्मरणात्कीर्तनात्पापं सप्तजन्मार्जितं मुने ।

जयंती दहते तच्च किं पुनः सोपवासकृत् ५।

जन्माष्टमी च नवमी चैत्रे मासि सिता शुभा ।

कृष्णा चतुर्दशी कुंभे मेषे शुक्ला चतुर्दशी ६।

दुर्गाष्टम्याश्विने शुक्ला द्वादशी श्रवणान्विता ।

महापुण्याश्च शुभदा जयंत्यः षट्प्रकीर्तिताः ७।

कृष्णजन्माष्टमी पूर्वा प्रसिद्धा पापनाशिनी ।

क्रतुकोटिसमा ह्येषा तीर्थानामयुतैः समा ८।

कर्ता गवां सहस्रं तु यो ददाति दिनेदिने ।

तत्फलं समवाप्नोति जयंत्यां समुपोषणे ९।

हेमभारसहस्रं तु कुरुक्षेत्रे रविग्रहे ।

तत्फलं समवाप्नोति जयंत्यां समुपोषणे १०।

कृष्णाजिनसहस्राणि तिलधेनुशतानि च ।

तत्फलं समवाप्नोति जयंत्यां समुपोषणे ११।

कन्याकोटिसहस्राणां दाने भवति यत्फलम् ।

तत्फलं समवाप्नोति जयंत्यां समुपोषणे १२।

ससागरामिमां पृथ्वीं दत्वा यल्लभते फलम् ।

तत्फलं समवाप्नोति जयंत्यां समुपोषणे १३।

वापीकूपतडागदि कर्तव्यं देवतालये ।

तत्फलं समवाप्नोति जयंत्यां समुपोषणे १४।

मातापित्रोर्गुरूणां च भक्तिं युक्तः करोति यः ।

तत्फलं समवाप्नोति जयंत्यां समुपोषणे १५।

आपदाहरणार्थाय तीर्थसेवाकृतात्मनाम् ।

सत्यव्रतानां यत्पुण्यं जयंत्यां समुपोषणे १६।

गंगायां नर्मदायां यत्पुण्यं सारस्वते जले ।

स्नात्वा पुण्यमवाप्नोति जयंत्यां समुपोषणे १७।

यत्पुण्यं श्राद्धकर्तॄणां पितॄणामिंदुसंक्षये ।

तत्फलं समवाप्नोति जयंत्यां समुपोषणे १८।

नारद उवाच-

केनकेन कृता पूर्वं कथयस्व पितामह ।

ब्रह्मोवाच-

कार्तवीर्येण कर्णेन कुमारेण च धीमता १९।

सगरेण दिलीपेन काकुस्थेन कृता पुरा ।

गौतमेन च गार्ग्येण जामदग्न्येन धीमता २०।

वाल्मीकिना कृता पूर्वं द्रौपदेयेन साधुना ।

ददाति वांछितान्कामान्भाद्रपस्य सिताष्टमी २१।

प्राजापत्यर्क्षसंयुक्ता विशेषेण मताष्टमी ।

वर्षेवर्षे प्रकर्तव्या प्रीत्यर्थे चक्रपाणिनः २२।

कोटिजन्मार्जितं पापं मुहूर्तेन विलीयते ।

रात्रौ जागरणं कृत्वा निष्ठापूर्वं जितेंद्रियः २३।

गंधपुष्पादिनैवेद्यैः पूजनीयः पृथक्पृथक् ।

एवं यः कुरुते विप्र जयंतीसमुपोषणम् २४।

कोटिजन्मार्जितं पापं ज्ञानतोऽज्ञानतः कृतम् २५।

प्रसादाद्देवकीसूनोर्यामार्द्धेन विलीयते ।

जयंतीतिथिसंप्राप्तौ भुंजते ये नराधमाः २६।

त्रैलोक्यसंभवं पापं भुंजते ते न संशयः ।

सागराद्यानि तीर्थानि मुक्तस्थानानि सर्वशः २७।

गृहे तिष्ठंति सर्वांगे जयंतीव्रतकारिणः ।

तस्य सर्वाणि तीर्थानि देहे तिष्ठंति देवताः २८।

करोति यो नरो भक्त्या जयंतीं कृष्णवल्लभाम् ।

न वेदेन पुराणेन मया दृष्टं महामुने २९।

तत्समं नाधिकं वापि कृष्णराधाष्टमीव्रतम् ।

न करोति नरो भक्त्या स भवेत्क्रूरराक्षसः ३०।

यो नरोऽश्नाति मूढात्मा जयंतीवासरे द्विज ।

महानरकमश्नाति यथा च हरिवासरे ३१।

अतीतमागतं यस्तु कुलमेकोत्तरं शतम् ।

पतेत्तु नरके घोरे जयंत्यां भोजनेन वै ३२।

जयंती बुधवारे च रोहिण्या सहिता यदा ।

भवेच्च मुनिशार्दूल किं कृतैर्व्रतकोटिभिः ३३।

कृते त्रेतायुगे चैव द्वापरे च कलौ युगे ।

कृता सम्यग्विधानेन जयंती पापनाशिनी ३४।

जागरे पद्मनाभस्य पुराणं पाठयेत्तु यः ।

आजन्मोपार्जितं पापं दहते तूलराशिवत् ३५।

यः शृणोति नरो भक्त्या पुराणं हरिवासरे ।

कोटिजन्मार्जितं तस्य पापं नश्यति तत्क्षणात् ३६।

वासरे पद्मनाभस्य पूजयेद्वाचकं मुने ।

कुलकोटिं समुद्धृत्य विष्णुलोके स पूज्यते ३७।

जयंत्यामुपवासेन यो नरोऽत्र पराङ्मुखः ।

सर्वधर्मविनिर्मुक्तो यात्यसौ नरकं ध्रुवम् ३८।

गंधपुष्पैश्च धूपैश्च घृतपूर्णप्रदीपकैः ।

पूजयेद्भक्तिभावैश्च दद्याद्विप्राय दक्षिणाम् ३९।

विधिनानेन यो विप्र जयंतीं प्रकरोति च ।

नरो वै तारयेद्भक्त्या पुरुषानेकविंशतिम् ४०।

न दौर्भाग्यं न वैधव्यं न भवेत्कलहो गृहे ।

संततेर्न विरोधं च न पश्यति धनक्षयम् ४१।

यान्यांश्चिकीर्षते कामान्जयंती समुपोषकः ।

तांस्तान्प्राप्नोति सकलान्विष्णुलोकं स गच्छति ४२।

विष्णुभक्तिपरा नित्यं जयंतीव्रत मानसाः ।

ते धन्यास्ते कुलीनास्ते ईश्वरास्ते च पंडिताः ४३।

यानि कानि च तीर्थानि व्रतानि नियमानि च ।

जयंतीवासरस्यैव कलां नार्हंति षोडशीम् ४४।

भाद्रे वै चोभये पक्षे यः करोति सभार्यकः ।

राधाकृष्णाष्टमीं वत्स प्राप्नोति हरिसन्निधिम् ४५।

व्रतं च पुण्यकारं च यः करोति सदा हरेः ।

स याति विष्णोर्वैकुंठं जयंतीसमुपोषकः ४६।

आचारहीनं कुलभ्रष्टं कीर्तिहीनं कुयोनिजम् ।

नाशयत्याशु पापं च जयंती हरिवल्लभा ४७।

मेरुतुल्यानि पापानि ब्रह्महत्यादिकानि च ।

स निर्दहति सर्वाणि जयंत्यां समुपोषकः ४८।

पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।

मोक्षार्थी लभते मोक्षं जयंत्यां समुपोषकः ४९।

जयंतीकरणे चित्तं येषां भवति तत्परम् ।

यमोऽपि शंकते नित्यं ते यांति परमां गतिम् ५०।

सूत उवाच-

कथयित्वा नारदं तु ययौ स च यथागतः ।

मयापि कथितं ब्रह्मन्यत्पृष्टोऽहं त्वया मुने ५१।

माहात्म्यं च जयंत्या ये शृण्वंति भक्तिभावतः ।

तेपि यांति परं धाम विमुक्ताः सर्वपातकैः ५२।

पुराणवाचकं ब्रह्मन्जयंतीव्रतिनं तथा ।

ये पश्यंति नराः पापास्ते यांति परमं पदम् ५३।

इति श्रीपाद्मे महापुराणे ब्रह्मखंडे ब्रह्मनारदसंवादे जयंतीव्रतमाहात्म्यंनाम चतुर्थोऽध्यायः ४।

खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 5

शौनक उवाच-

कथयस्व महाप्राज्ञ पुत्रहीनो जनो भवेत् ।

कर्मणा केन वै सूत पुत्रो भवति केन च १।

सूत उवाच-

एतत्पृष्टः पुरा ब्रह्मा नारदेन महात्मना ।

स यदाह तदा तं च शृणुष्व मुनिपुंगव २।

नारद उवाच-

पितामह महाप्राज्ञ सर्वतत्त्वार्थपारग ।

अपुत्रो वै भवेन्मर्त्यः कर्मणा केन पद्मज ३।

वंध्या स्त्री वा भवेत्केन वृजिनेन ममाग्रतः ।

कथय शृण्वतो वै मे सर्वप्राणिहिते रत ४।

दुहिता जायते केन कर्मणा वा नपुंसकः ।

मृतवत्सो भवेत्केन मृतवत्सातिदुःखिता ।

केन पुण्येन भो ब्रह्मन्पुनः पुत्रो भवेद्वद ५।

ब्रह्मोवाच-

कथयामि समासेन सावधानेन तच्छ्रणु ।

वृत्तांतं पृच्छसि त्वं वै शृण्वतां विस्मयप्रदम् ६।

पूर्वजन्मनि यो मर्त्यो वर्तनं ब्राह्मणस्य च ।

हरेद्वा हारयेदत्र पुत्रहीनो भवेत्किल ७।

इह जन्मनि यो मर्त्यः पुराणश्रवणं हि च ।

ससस्या भूमेर्दानं च कुर्याद्वै श्रद्धयान्वितः ८।

धेनुं बहुगुणां हैमीं बहुदुग्धां सदक्षिणाम् ।

सुवर्णप्रतिमां चैव तस्य पुत्रो भवेद्ध्रुवम् ९।

पूर्वजन्मनि या नारी परबालकघातनम् ।

करोति कपटेनैव बालहीना भवेद्ध्रुवम् १०।

सौवर्णप्रतिमादानं या नारी श्रद्धयान्विता ।

कुर्यात्पानं ब्राह्मणस्य भक्त्या वै चरणोदकम् ११।

पुराणश्रवणं चैव दद्याद्वै बहुदक्षिणाम् ।

बह्वपत्या जीववत्सा भवेन्नास्त्यत्र संशयः १२।

जले निमग्नं बालं यो दृष्ट्वा या न समुद्धरेत् ।

इह जन्मन्यपुत्रो वै साऽपुत्री च भवेद्ध्रुवम् १३।

वृषभं चैव कूष्मांडं ससुवर्णं सवस्त्रकम् ।

दद्याद्दानं ब्राह्मणस्य कुर्याद्बालव्रतं शुभम् १४।

गौरीं कन्यां तथा कुर्यात्पुराणश्रवणं हि यः ।

पुत्रो वै जायते तस्य सर्वपातकनाशनम् १५।

पूर्वजन्मनि यो मर्त्यो निराशं चातिथिं द्विज ।

कुर्यात्क्रोधेन दंडं च पुत्रहीनो भवेद्ध्रुवम् १६।

ब्राह्मणं चातिथिं चैव कुर्याद्भक्त्या प्रपूजनम् ।

अन्नदानं जलं चैव तथा देवालयं शुभम् १७।

पूर्वजन्मनि या नारी भ्रूणहत्यां च यो नरः ।

कुर्यात्सा मृतवत्सा च मृतवत्सो भवेद्ध्रुवम् १८।

या नारी स्वामिसहिता कुर्याच्च हरिवासरम् ।

सुपुत्रा भर्तृसुभगा भवेत्सा प्रतिजन्मनि १९।

यो नरो गोधनं कुर्याच्छूद्रः कुर्याद्विमोहितः ।

ब्राह्मणीहरणं वापि कर्मणा स नपुंसकः २०।

इदं तु वृजिनं कृत्वा पश्चात्पुण्यं करोति यः ।

इह पुण्यप्रभावेण दुहिता जायते द्विज २१।

आसीत्त्रेतायुगे राजा श्रीधरो नामतो द्विज ।

अपुत्रो धनवांस्तस्य जाया हेमप्रभावती २२।

व्यासं सकलशास्त्रज्ञं सर्वलोकहितैषिणम् ।

आगतं चैव पप्रच्छ चापुत्रोऽहं कथं द्विज २३।

उवाच नृपतेः श्रुत्वा वचनं विनयान्वितम् ।

राज्ञा दत्ते च पीठे च निर्मिते कनकादिभिः २४।

राजाराज्ञी तस्य पादौ धौतं कृत्वा च हर्षितौ ।

पीत्वा पादोदकं द्वौ च सर्वपातकनाशनम् २५।

व्यास उवाच-

राजन्शृणुष्व यत्पृष्टमपुत्रो येन कर्मणा ।

तवेयं राज्ञी चापुत्री चैकपत्नीव्रतस्तथा २६।

पूर्वजन्मनि चंद्रस्त्वं नाम्ना वरतनु स्मृतः ।

भार्या तवापि शुभ्रांगी नाम्ना वै शंकरी स्मृता २७।

एकदा पथियातौ च नीचपुत्रं जलेपि च ।

मग्नं दृष्ट्वा हेलया च गतौ स पंचतां गतः २८।

बहुपुण्यप्रभावेण राज्ञीराजा गतौ युवाम् ।

तेन कर्मविपाकेन युवायोर्न भवेत्सुतः २९।

राजोवाच-

इदानीं केन पुण्येन सुतो वै जायते प्रभो ।

अपुत्रस्य मनुष्याणां जीवनं हि निरर्थकम् ३०।

व्यास उवाच-

सवस्त्रं चैव कूष्मांडं वृषभं ससुवर्णकम् ।

देहि दानं ब्राह्मणस्य कुरु बालव्रतं तथा ३१।

गौरीं कन्यां तथा देहि पुराणश्रवणं कुरु ।

पुत्रो वै जायते तत्र सर्वपातकनाशनम् ३२।

ब्रह्मोवाच-

इति श्रुत्वा ततो राजा व्यासोक्तं दानमुत्तमम् ।

पुराणश्रवणं चैव चकार गतकिल्बिषः ३३।

ततः पुत्रो वर्षमध्ये बभूव सर्वपूजितः ।

अभूद्राजा सार्वभौमः सुंदरः कुलनायकः ३४।

सूत उवाच-

य इदं शृणुयाद्भक्त्या करोति दानमुत्तमम् ।

अपुत्रो लभते पुत्रं संक्षेपात्कथितं मया ३५।

भक्त्या श्रुत्वा तु या नारी कुर्याद्ब्राह्मणपूजनम् ।

सुपुत्रा सा भवेन्नित्यं शास्त्रोक्तविधिना द्विज ३६।

सुवर्णं रजतं वस्त्रं पुष्पमाल्यं च चंदनम् ।

यो दद्यात्पुस्तके भक्त्या सर्वपापप्रणाशनम् ३७।

पूर्वजन्मनि यो मूढो ब्रह्मबालकघातकः ।

तस्य क्रूरो भवेत्पुत्रः सप्तजन्मांतरैर्द्विजः ३८।

इति श्रीपाद्मे महापुराणे ब्रह्मखंडे ब्रह्मनारदसंवादे कर्मविपाककथनंनाम पंचमोऽध्यायः ५।

खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 6

शौनक उवाच-

केन पुण्येन भो सूत वैकुंठं समवाप्यते ।

तद्वदस्व शृण्वतो मे पोतो हि भवसागरे १।

सूत उवाच-

साधुसाधु मुनिश्रेष्ठ सर्वमंगलकारक ।

कथयामि समासेन शृण्वतां पापनाशनम् २।

विष्णवे ब्राह्मणायैव मृदावेश्मविनिर्मितम् ।

यो वै दद्याद्द्विजश्रेष्ठ तस्य पुण्यं निशामय ३।

विष्णुलोके च स विप्रः सर्वपापविवर्जितः ।

सौधवासी भवेन्नित्यं विष्णुलोके प्रपूज्यते ४।

विष्णवे सौधगेहं यो दद्याद्वै ब्राह्मणाय च ।

हरेर्न्निकेतनं प्राप्य स्वर्गवासी भवेद्ध्रुवम् ५।

अंते विष्णुपुरं गत्वा युक्तः कोटिकुलैर्द्विज ।

स्वर्णसौधे गृहे स्थित्वा कुर्याद्भोगं यथासुखम् ६।

ब्राह्मणस्थापने पुण्यं यद्वै भवति भो मुने ।

संख्यां कर्तुमशक्तस्तु तद्वेधाः सर्वकारकः ७।

गण्यंते रेणवश्चैव गण्यंते वृष्टिबिंदवः ।

न गण्यंते विधात्रापि ब्रह्मसंस्थापने फलम् ८।

नारदेन पुरा ब्रह्मा पृष्टः संसारसंभवः ।

वेधास्तं कथयामास तच्छृणुष्व महामुने ९।

पुरासीद्द्वापरे ब्रह्मन्वारनारी सुशोभना ।

सुकेशी हरिणीनेत्रा सुमध्या चारुहासिनी १०।

नाम्ना सा चंचलापांगी ययौ देशांतरं कदा ।

सर्वपापसमायुक्ता नरके पातयंति च ११।

संगेन सिंधुनाकांक्षी जनान्देवालयं गता ।

तत्र क्षणं सोपविष्टा तांबूलभक्षणं कृतम् १२।

शेषं चूर्णं सौधभित्तौ दत्वा निम्ने कुतूहलात् ।

ततो गता जारकांक्षी धनार्थं नगरं प्रति १३।

जारेण केनचित्सार्द्धं संकेतः सहसा कृतः ।

संकेतं तु गता वेश्या वनं रात्रौ विमोहिता १४।

संकेतं नागतो वैश्यो व्यशंकिष्टविलोकिता ।

कथं कांतो नागतो मे सर्पव्याघ्रैश्च भक्षितः १५।

संकेतनं कथं हित्वा गतः किं कामविह्वलः ।

अन्यया ज्ञातया सार्द्धमभिलाषी भवेत्किमु १६।

परामृष्यैतद्हृद्यंतः कोटपालभयाद्द्विज ।

नगरं नागता सा हि रुद्धे लोकपथे तमैः १७।

एतस्मिन्नंतरे व्याघ्रः कामरूपी बलात्क्षुधी ।

प्रेषितः कालदेवेनाग्रसदागत्य तां द्विज १८।

ततस्तु यमुनाभ्रातुर्दूतास्ते भीमवर्षिणः ।

आगता गिरिकूटांगा नेतुं तां पापकर्मणा १९।

वक्रपादा वक्रमुखा उन्नासा बहुदंष्ट्रिणः ।

चर्मरज्जूर्मुद्गरांश्च गृहीत्वा पांशुलां द्विज २०।

बंधयामासुरुन्मत्ता गणिकां चर्म्मरज्जुभिः ।

शंखचक्रगदापद्मधारिणो वनमालिनः २१।

प्रेषिता देवदेवेन तद्भक्तवत्सलेन च ।

कृष्णजीमूतसंकाशाः स्फुरद्वदनपंकजाः २२।

श्रेणीधराश्चारुनासा दिव्यकुंडलभूषिताः ।

ददृशुः पथि गच्छंतो विष्णोर्दूतामहात्मनः २३।

विष्णुदूता ऊचुः-

के यूयं विकृताकारा लक्ष्यंते कर्बुरा इव ।

इमां विष्णोः प्रियतमां नीत्वा क्व व्रजथोत्तमाम् ।

इदं वचनमाकर्ण्य तेषां ते तु द्रुतं ययुः २४।

अथ ते क्रोधसंपन्ना विष्णोर्दूता महाबलाः ।

जघ्नुस्ते संदेशहरान्यमस्य जगतः प्रभोः २५ ।

चक्रादिशस्त्रसंघैश्च सूर्यकोटिसमप्रभैः ।

कृतांतस्य भटाः सर्वे रुदंतस्ते पलायिताः २६।

यमं प्रोचुः सभीताश्च वृत्तांतं सकलं द्विज ।

यमोऽपि तत्कथां श्रुत्वा चित्रगुप्तमुवाच ह २७।

धर्म उवाच-

केन पुण्येन भो मंत्रिन्वेश्या मुक्तिं समागता ।

एतन्मे पृच्छत सर्वं कथयस्व यथार्हतः २८।

चित्रगुप्त उवाच-

तया पापान्यर्जितानि जन्मतः सुबहून्यपि ।

किंत्वाकर्णय लोकेश यदि स्यात्पुण्यमस्ति तत् २९।

गणिकैकदा धर्म्मराज सर्वालंकारभूषिता ।

कांचित्पुरीं जगामाशु जारकांक्षी धनार्थिनी ३०।

तत्र देवालये तस्मिन्स्थित्वा तांबूलभक्षणं ।

कृत्वा तच्छेषचूर्णं तु ददौ भित्तौ तु कौतुकात् ३१।

तेन पुण्यप्रभावेण गणिका गतपातका ।

वैकुंठं प्रति सा याति निर्गता तव दंडतः ३२।

सूत उवाच-

इति श्रुत्वा ततो दूता यमोऽपि वचनं द्विज ।

व्यापारे चान्यतश्चित्तं ददौ सा गणिकापि च ३३।

आरूढा स्यंदने दिव्ये राजहंसयुते तथा ।

विष्णुलोकं ययौ सा च वेष्टिता विष्णुकिंकरैः ३४।

श्रीविष्णोराज्ञया साथ कुलकोटियुतापि च ।

तस्थौ सौधगृहे विप्र नानाभोगं चकार ह ३५।

भक्त्या यो वै हरेर्गेहे दद्याच्चूर्णं प्रयत्नतः ।

पुण्यं किं वा भवेत्तस्य न जाने द्विजपुंगव ३६।

भक्त्याध्यायं पठेद्यो वै शृणोति सादरेण च ।

सर्वपापविनिर्मुक्तो यात्यसौ हरिमंदिरम् ३७।

इति श्रीपाद्मे महापुराणे ब्रह्मखंडे ब्रह्मनारदसंवादे षष्ठोऽध्यायः ६।