3. Padma Purāṇa (part 3 of 5)
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 7
शौनक उवाच-
कथयस्व महाप्राज्ञ गोलोकं याति कर्मणा ।
सुमते दुस्तरात्केन जनः संसारसागरात् ।
राधायाश्चाष्टमी सूत तस्या माहात्म्यमुत्तमम् १।
सूत उवाच-
ब्रह्माणं नारदोऽपृच्छत्पुरा चैतन्महामुने ।
तच्छृणुष्व समासेन पृष्टवान्स इति द्विज २।
नारद उवाच-
पितामह महाप्राज्ञ सर्वशास्त्रविदां वर ।
राधाजन्माष्टमी तात कथयस्व ममाग्रतः ३।
तस्याः पुण्यफलं किंवा कृतं केन पुरा विभो ।
अकुर्वतां जनानां हि किल्बिषं किं भवेद्द्विज ४।
केनैव तु विधानेन कर्त्तव्यं तद्व्रतं कदा ।
कस्माज्जाता च सा राधा तन्मे कथय मूलतः ५।
ब्रह्मोवाच-
राधाजन्माष्टमीं वत्स शृणुष्व सुसमाहितः ।
कथयामि समासेन समग्रं हरिणा विना ६।
कथितुं तत्फलं पुण्यं न शक्नोत्यपि नारद ।
कोटिजन्मार्जितं पापं ब्रह्महत्यादिकं महत् ७।
कुर्वंति ये सकृद्भक्त्या तेषां नश्यति तत्क्षणात् ।
एकादश्याः सहस्रेण यत्फलं लभते नरः ८।
राधाजन्माष्टमी पुण्यं तस्माच्छतगुणाधिकम् ।
मेरुतुल्यसुवर्णानि दत्वा यत्फलमाप्यते ९।
सकृद्राधाष्टमीं कृत्वा तस्माच्छतगुणाधिकम् ।
कन्यादानसहस्रेण यत्पुण्यं प्राप्यते जनैः १०।
वृषभानुसुताष्टम्या तत्फलं प्राप्यते जनैः ।
गंगादिषु च तीर्थेषु स्नात्वा तु यत्फलं लभेत् ११।
कृष्णप्राणप्रियाष्टम्याः फलं प्राप्नोति मानवः ।
एतद्व्रतं तु यः पापी हेलया श्रद्धयापि वा १२।
करोति विष्णुसदनं गच्छेत्कोटिकुलान्वितः ।
पुरा कृतयुगे वत्स वरनारी सुशोभना १३।
सुमध्या हरिणीनेत्रा शुभांगी चारुहासिनी ।
सुकेशी चारुकर्णी च नाम्ना लीलावती स्मृता १४।
तया बहूनि पापानि कृतानि सुदृढानि च ।
एकदा साधनाकांक्षी निःसृत्य पुरतः स्वतः १५।
गतान्यनगरं तत्र दृष्ट्वा सुज्ञ जनान्बहून् ।
राधाष्टमीव्रतपरान्सुंदरे देवतालये १६।
गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः ।
भक्तिभावैः पूजयंतो राधाया मूर्तिमुत्तमाम् १७।
केचिद्गायंति नृत्यंति पठंति स्तवमुत्तमम् ।
तालवेणुमृदंगांश्च वादयंति च के मुदा १८।
तांस्तांस्तथाविधान्दृष्ट्वा कौतूहलसमन्विता ।
जगाम तत्समीपं सा पप्रच्छ विनयान्विता १९।
भोभोः पुण्यात्मानो यूयं किं कुर्वंतो मुदान्विताः ।
कथयध्वं पुण्यवंतो मां चैव विनयान्विताम् २०।
तस्यास्तु वचनं श्रुत्वा परकार्यहितेरताः ।
आरेभिरे तदा वक्तुं वैष्णवा व्रततत्पराः २१।
राधाव्रतिन ऊचुः-
भाद्रे मासि सिताष्टम्यां जाता श्रीराधिका यतः ।
अष्टमी साद्य संप्राप्ता तां कुर्वाम प्रयत्नतः २२।
गोघातजनितं पापं स्तेयजं ब्रह्मघातजम् ।
परस्त्रीहरणाच्चैव तथा च गुरुतल्पजम् २३।
विश्वासघातजं चैव स्त्रीहत्याजनितं तथा ।
एतानि नाशयत्याशु कृता या चाष्टमी नृणाम् २४।
तेषां च वचनं श्रुत्वा सर्वपातकनाशनम् ।
करिष्याम्यहमित्येव परामृष्य पुनः पुनः २५।
तत्रैव व्रतिभिः सार्द्धं कृत्वा सा व्रतमुत्तमम् ।
दैवात्सा पंचतां याता सर्पघातेन निर्मला २६।
ततो यमाज्ञया दूताः पाशमुद्गरपाणयः ।
आगतास्तां समानेतुं बबंधुरतिकृच्छ्रतः २७।
यदा नेतुं मनश्चक्रुर्यमस्य सदनं प्रति ।
तदागता विष्णुदूताः शंखचक्रगदाधराः २८।
हिरण्मयं विमानं च राजहंसयुतं शुभम् ।
छेदनं चक्रधाराभिः पाशं कृत्वा त्वरान्विताः २९।
रथे चारोपयामासुस्तां नारीं गतकिल्बिषाम् ।
निन्युर्विष्णुपुरं ते च गोलोकाख्यं मनोहरम् ३०।
कृष्णेन राधया तत्र स्थिता व्रतप्रसादतः ।
राधाष्टमीव्रतं तात यो न कुर्य्याच्च मूढधीः ३१।
नरकान्निष्कृतिर्नास्ति कोटिकल्पशतैरपि ।
स्त्रियश्च या न कुर्वंति व्रतमेतच्छुभप्रदम् ३२।
राधाविष्णोः प्रीतिकरं सर्वपापप्रणाशनम् ।
अंते यमपुरीं गत्वा पतंति नरके चिरम् ३३।
कदाचिज्जन्मचासाद्य पृथिव्यां विधवा ध्रुवम् ।
एकदा पृथिवी वत्स दुष्टसंघैश्च ताडिता ३४।
गौर्भूत्वा च भृशं दीना चाययौ सा ममांतिकम् ।
निवेदयामास दुःखं रुदंती च पुनः पुनः ३५।
तद्वाक्यं च समाकर्ण्य गतोऽहं विष्णुसंनिधिम् ।
कृष्णे निवेदितश्चाशु पृथिव्या दुःखसंचयः ३६।
तेनोक्तं गच्छ भो ब्रह्मन्देवैः सार्द्धं च भूतले ।
अहं तत्रापि गच्छामि पश्चान्ममगणैः सह ३७।
तच्छ्रुत्वा सहितो दैवैरागतः पृथिवीतलम् ।
ततः कृष्णः समाहूय राधां प्राणगरीयसीम् ३८।
उवाच वचनं देवि गच्छेहं पृथिवीतलम् ।
पृथिवीभारनाशाय गच्छ त्वं मर्त्त्यमंडलम् ३९।
इति श्रुत्वापि सा राधाप्यागता पृथिवीं ततः ।
भाद्रे मासि सिते पक्षे अष्टमीसंज्ञिके तिथौ ४०।
वृषभानो र्यज्ञभूमौ जाता सा राधिका दिवा ।
यज्ञार्थं शोधितायां च दृष्टा सा दिव्यरूपिणी ४१।
राजानं दमना भूत्वा तां प्राप्य निजमंदिरम् ।
दत्तवान्महिषीं नीत्वा सा च तां पर्यपालयत् ४२।
इति ते कथितं वत्स त्वया पृष्टं च यद्वचः ।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ४३।
सूत उवाच-
य इदं शृणुयाद्भक्त्या चतुर्वर्गफलप्रदम् ।
सर्वपापविनिर्मुक्तश्चांतेयातिहरेर्गृहम् ४४।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे ब्रह्मनारदसंवादे श्रीराधाष्टमीमाहात्म्यंनाम सप्तमोऽध्यायः ७।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 8
शौनक उवाच-
समुद्रमथनं सूत पुरा कस्मात्कृतं गुरो ।।
हृदये कौतुकं जातं श्रोतुं मे वद चामरैः ॥१।
सूत उवाच-
ब्रह्मन्वच्मि समासेन सिंधोर्मथनकारणम् ।।
दुर्वाससेंद्र संवादमितिहासं शृणुष्व तत् ॥२।
महातपा महातेजा दुर्वासा ईश्वरांशजः ।।
ब्रह्मर्षिः प्रययौ स्वर्गमिन्द्रं द्रष्टुं स चैकदा ॥३।
तस्मिन्ददर्श काले तं गजारूढंv शचीपतिम् ।।
दृष्ट्वा स्रजं पारिजातां ददौ तस्मै महामुनिः ॥४।
गृहीत्वा तां स्रजं चेंद्रो विन्यस्य गजमूर्द्धनि ।।
देवराट्प्रययौ ब्रह्मन्ससैन्यो नंदनं प्रति ५।
हस्ती चादाय तां मालां छित्त्वा तु धरणीतले ।।
चिक्षेप च महाक्रुद्धस्तमित्याह महामुनिः ॥६।
त्रैलोक्यैकश्रियायुक्तो यस्मात्त्वमवमन्यसे ।।
तव त्रैलोक्यश्रीर्नष्टा भवत्येव न संशयः ॥७।
ततः शक्रो जगामाशु सुप्तश्च स्वपुरं पुनः ।।
ददर्श जगतां माता चांतर्द्धानं गता स्वयम् ॥८।
नष्टमंतर्द्धानवत्यां तदा तस्यां जगत्त्रयम् ।।
क्षुत्पिपासान्विताः सर्वे चुक्रुशुर्वै निरंतरम् ॥९।
न ववर्षुर्वारिवाहाः शुष्काश्चैव जलाशयाः ।।
सर्वे ते शाखिनः शुष्काः फलपुष्पविवर्जिताः ॥१०।
क्षुत्पिपासार्दिताः सर्वे ब्रह्मणः सन्निधिं ययुः ।।
तं सर्वे कथयामासुः दुःखशोकं पितामहम् ॥११।
देवानां वचनं श्रुत्वा धाता देवगणैः सह ।।
भृग्वादिमुनिभिश्चैव प्रययौ क्षीरसागरम् ॥१२।
विष्णुं समर्चयामास क्षीराब्धेरुत्तरे तटे ।।
मंत्रमष्टाक्षरं वेधा जपन्ध्यायन्जगत्पतिम् ॥१३।
ततः प्रसन्नो भगवान्सर्वेषां च दिवौकसाम् ।।
वैनतेयं समारुह्य चागतः सदयः प्रभुः ॥१४।
पीतवस्त्रं चतुर्बाहुं शंखचक्रगदाधरम् ।।
दृष्ट्वा तं जगतामीशं पुंडरीकनिभेक्षणम् ॥१५।
विष्णुं भवोदधेः पोतं वनमालाविभूषितम् ।।
श्रीवत्सकौस्तुभोरस्कमानंदाश्रुपरिप्लुताः ॥१६।
तुष्टुवुर्जयशब्देन नमश्चक्रुर्निरंतरम् ।।
श्रीभगवानुवाच-
वरं वृणीध्वं भो देवाः कस्माद्यूयं समागताः ।।
वरदोऽस्मि तद्वदत वो ददामि च नान्यथा ॥१७।
देवा ऊचुः-
कृपालो ब्रह्मशापेन संपद्धीनं जगत्त्रयम् ।।
क्षुत्पिपासार्दितं नाथ सदेवासुरमानुषम् ॥१८।
रक्ष सर्वानिमाँल्लोकान्याताः स्म शरणं तव ।।
श्रीभगवानुवाच-
इंदिरा ब्रह्मशापेन चान्तर्द्धानं गता सुराः १९।
यस्याः कटाक्षमात्रेण जगदैश्वर्यसंयुतम् ।।
तदा यूयं सुराः सर्वे चोत्पाट्य स्वर्णपर्वतम्॥ २०।
मंदरं घर्घरं कृत्वा सर्पराजेन वेष्टितम् ।।
कुरुध्वं मथनं देवाः सदैत्याः क्षीरसागरम् ॥२१।
तस्मादुत्पत्स्यते लक्ष्मीर्जगन्माता च भोः सुराः ।।
तया हृष्टा महाभागा भविष्यथ न संशयः॥ २२।
धारयाम्यहमेवाद्रिं कूर्मरूपेण सर्वतः ।।
इत्युक्त्वा भगवान्विष्णुरंतर्द्धानं जगाम सः ।।
जग्मुः सुरासुराः सर्वे समुद्रमथनं द्विज॥ २३।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे समुद्रमथनोद्योगोनामाष्टमोऽध्यायः ८।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 9
सूत उवाच-
ततोऽमरगणास्ते च सगंधर्वाः सदानवा ।
उत्पाट्य मंदरं शैलं चिक्षिपुः पयसां निधौ १।
ततः सनातनः श्रीमान्दयालुर्जगदीश्वरः ।
अधारयद्गिरेर्मूलं कूर्मरूपेण पृष्ठतः २।
अनंतं तत्र संवेष्ट्य ममंथुर्दुग्धसागरम् ।
एकादश्यां मथ्यमाने चोद्भूतं प्रथमं द्विज ३।
कालकूटविषं ते तु दृष्ट्वा सर्वे प्रदुद्रुवुः ।
ततस्तान्विद्रुतान्दृष्ट्वा शंकरश्चोक्तवानिदम् ४।
भोभोऽमरगणा यूयं विषं कुरुतमादरम् ।
वारयिष्याम्यहं तूर्णं कालकूटं महाविषम् ५।
इत्युक्त्वा पार्वतीनाथो ध्यायन्नारायणं हृदि ।
महामंत्रं समुच्चार्य विषमादद्भयंकरम् ६।
महामंत्रप्रभावेण विषं जीर्णं गतं महत् ।
अच्युतानंतगोविंद इति नामत्रयं हरेः ७।
योजपेत्प्रयतो भक्त्या प्रणवाद्यं नमोंऽतिकम् ।
विषभोगाग्निजं तस्य नास्ति मृत्योर्भयं तथा ८।
ततो हृष्टमना देवा ममंथुः क्षीरसागरम् ।
ततोऽलक्ष्मीः समुत्पन्ना कालास्या रक्तलोचना ९।
रूक्षपिंगलकेशा च जरतीं बिभ्रती तनुम् ।
सा च ज्येष्ठाब्रवीद्देवान्किंकर्तव्यं मयेति वै १०।
देवास्तथाब्रुवंस्तां च देवीं दुःखस्यभाजनम् ।
येषां नॄणां गृहे देवी कलहः संप्रवर्तते ११।
तत्र स्थानं प्रयच्छामो वस ज्येष्ठे शुभान्विता ।
निष्ठुरं वचनं ये च वदंति येऽनृतं नराः १२।
संध्यायां ये हि चाश्नंति दुःखदा तिष्ठ तद्गृहे ।
कपालकेशभस्मास्थि तुषांगाराणि यत्र तु १३।
स्थानं ज्येष्ठे तत्र तव भविष्यति न संशयः ।
अकृत्वा पादयोर्धौतं ये चाश्नंति नराधमाः १४।
तद्गृहे सर्वदा तिष्ठ दुःखदारिद्रदायिनी ।
वालुकालवणांगारैः कुर्वंति दंतधावनम् १५।
तेषां गेहे सदा तिष्ठ दुःखदा कलिना सह ।
छत्राकं श्रीफलं शिष्टं ये खादंति नराधमाः १६।
गेहे तेषां तव स्थानं ज्येष्ठे कलुषदायिनि ।
तिलपिष्टमलाबुं ये गृंजनं पोतिकादलम् १७।
कलं बुकं पलांडुं ये चाश्नंति पापबुद्धयः ।
तेषां गृहे तव स्थानं भविष्यति न संशयः १८।
गुरु देवातिथीनां च यज्ञदानविवर्जितम् ।
यत्रवेदध्वनिर्नास्ति तत्र तिष्ठ सदाऽशुभे १९।
दंपत्योः कलहो यत्र पितृदेवार्चनं न वै ।
दुरोदररता यत्र तत्र तिष्ठ सदाशुभे २०।
परदाररता यत्र परद्रव्यापहारिणः ।
विप्रसज्जनवृद्धानां यत्र पूजा न विद्यते ।
तत्र स्थाने सदा तिष्ठ पापदारिद्र्यदायिनी २१।
इत्यादिश्य सुरा ज्येष्ठां सर्वेषां कलिवल्लभाम् ।
क्षीराब्धेर्मथनं चक्रुः पुनस्ते सुसमाहिताः २२।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे समुद्रमथनंनाम नवमोऽध्यायः ९।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 10
सूत उवाच-
ऐरावतस्ततो जज्ञे तथैवोच्चैःश्रवा हयः ।
धन्वंतरिः पारिजातः सुरभिश्चाप्सरोदयः १।
ततः प्रभातसमये द्वादश्यामुदिते रवौ ।
उत्पन्ना श्रीर्महालक्ष्मीः सर्वलक्षणशोभिता २।
ददृशुस्तां महादेवीं मातरं धर्मदेवताः ।
प्रहृष्टाः सर्वजंतूनां श्रीकृष्णहृदयालयाम् ३।
लक्ष्मीभ्राता शीतरश्मिर्जातश्च सुधया ततः ।
उत्पन्ना सा हरेर्जाया तुलसी लोकपावनी ४।
तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः ।
समेत्य मातरं स्तुत्वा जेपुः श्रीसूक्तमुत्तमम् ५।
ततः प्रसन्ना सा देवी सर्वान्देवानुवाच ह ।
वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाः ६।
देवा ऊचुः-
प्रसीद कमले देवि सर्वमातर्हरिप्रिये ।
त्वया विना जगच्छून्यं कुरु प्राणप्ररक्षणम् ७।
इत्युक्ता सा महालक्ष्मीः प्राह नारायणप्रिया ।
इदानीं सर्वजंतूनां प्राणरक्षां करोम्यहम् ८।
ततो नारायणः श्रीमाञ्छंखचक्रगदाधरः ।
आविर्बभूव सहसा दयालुर्जगदीश्वरः ९।
ततस्ते तुष्टुवुर्देवाः प्रणम्य जगतां पतिम् ।
कृतांजलिपुटाः प्रोचुः हर्षगद्गदभाषिणः १०।
गृहाण मातरं विष्णो महिषीं वल्लभां तव ।
संसाररक्षणार्थाय लक्ष्मीमनपगामिनीम् ।
यावत्प्रतिज्ञां नो चक्रे तावत्प्राहेंदिरा हरिम् ११।
लक्ष्मीरुवाच-
अविवाह्य कथं ज्येष्ठामलक्ष्मीं मधुसूदन ।
तस्याः कनिष्ठां मां नाथ विवाहं कर्तुमिच्छसि ।
ज्येष्ठायां च स्थितायां वै कनिष्ठा परिणीयते १२।
सूत उवाच-
इति श्रुत्वा ततो विष्णुर्ददौ चोद्दालकाय च ।
वेदवाक्यानुरूपेण ह्यलक्ष्मीं निर्जरैः सह १३।
ततो नारायणः श्रीमान्लक्ष्मीमंगीचकार ह ।
ततः सुरगणाः सर्वे नमश्चक्रुः पुनःपुनः १४।
अथ ते चासुरान्सर्वान्जघ्नुः सर्वे बलाधिकाः ।
सर्वे ते क्रंदमानाश्च गताश्चैव दिशो दश १५।
सुधां तत्खादितुं चक्रुर्देवाः पंक्तिं यथाक्रमम् ।
श्रीविष्णोराज्ञया सर्वे चोचुश्चैव परस्परम् १६।
त्वं च देहि त्वं च देहि त्वं च देहीति चाब्रुवन् ।
न शक्तोऽस्मि न शक्तोऽस्मि न शक्तोऽस्मीति चाब्रुवन् १७।
ततो विष्णुः समुत्तस्थौ स्त्रीरूपं च दधार ह ।
चकार स्वर्णपात्रे तत्पीयूषपरिवेषणम् १८।
पीयूषभक्षणं राहुर्यावत्कुर्याद्द्विजोत्तम ।
चंद्रसूर्यौ चोक्तवंतौ राक्षसोऽसौ छलागतः १९।
ततः क्रुद्धो जगन्नाथो जघान स्वर्णपात्रतः ।
शिरस्तस्य पपातोर्व्यां केतुर्नाम्ना बभूव ह २०।
राहुकेतू ततस्तूर्णं गतौ तौ भयविह्वलौ ।
इदानीं तद्दिने प्राप्ते चंद्रसूर्यौ स युध्यति २१।
कुर्याद्ग्रासं सैंहिकेयस्तत्क्षणं दुर्लभं भवेत् ।
सर्वं गंगासमं तोयं वेदव्याससमा द्विजाः २२।
स्नानं वायसतीर्थे यो गंगास्नानफलं लभेत् ।
दानमक्षयपुण्यं स्यात्कोटिजन्मार्जितं तथा २३।
पापं नश्येत्समूलं च किं पुनः क्रतुकोटिभिः ।
विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमाप्यते २४।
मोक्षार्थी लभते मोक्षं मंत्रसिद्धिर्भवेद्ध्रुवम् ।
इति ते कथितं विप्र समुद्रमथनं तु तत् २५।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकादिकसंवादे समुद्रमथनंनाम दशमोऽध्यायः १०।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 11
शौनक उवाच-
इदानीं श्रोतुमिच्छामि कथयस्व यथार्थतः ।
हरिस्वरूपिणा साक्षाद्वेदव्यासेन शासित १।
निरहंकार हे सूत लोकानुग्रहकारक ।
केन स्यात्सुभगा नारी पापिनी च सुदुर्भगा २।
पतिप्रियांग केन स्याद्रूपिता चक्षुषोः सुधा ।
केन वा जायते लक्ष्मीस्तन्मे ब्रूहि तपोधन ३।
सूत उवाच-
यदि पुण्यमिदं विप्र वृत्तं परमदुर्लभम् ।
शृणुष्व भोः समासेन कथयामि विधानतः ४।
आसीद्भद्रश्रवा राजा युगे द्वापरसंज्ञके ।
सौराष्ट्रदेशवासी च वेदवेदांगपारगः ५।
भार्या तस्य च संजाता नाम्ना सुरतिचंद्रिका ।
तस्यां बभूवुः श्रीराज्ञः सप्तपुत्रा मनोरमाः ६।
ततोऽभिजाता दुहिता सुंदरी सत्यवादिनी ।
श्यामबाला च विप्रेंद्र नाम्ना प्रीतिकरी पितुः ७।
अथैकदा श्यामबाला सुवर्णसिकतासु च ।
गूढैर्मनोहरै रत्नैः सखिभिः क्रीडितुं मुदा ८।
जगाम नीपवृक्षस्य तलं परमदुर्लभम् ।
एतस्मिन्नंतरे विप्र लक्ष्मीः संसारतारिणी ९।
लोकानां नीतिदा साथ समायाता स्वयं पुरः ।
धृत्वा च ब्राह्मणीरूपं पलितांगी च भूसुर १०।
अखिलानां च लोकानां शास्तू राज्ञः क्षयं विना ।
केषां क्षुद्रतराणां हि गृहे गच्छामि सांप्रतम् ११।
इति संचिंत्य मनसा गता राजनिकेतनम् ।
सुवर्णभित्तिभिर्युक्तं पताकाभिरलंकृतम् १२।
सिंहद्वारमतिक्रम्य प्राह दौवारिकीं ततः ।
द्वारं जहि हि भो द्वारि नियुक्ते शुभलक्षणे १३।
यामि वेगेन पश्यामि राज्ञीं सुरतिचंद्रिकाम् ।
तच्छ्रुत्वा वचनं तस्या रत्नदंडकरा च सा ।
कोकिलावाक्यवन्मुक्तं परमं हर्षमाययौ १४।
द्वारनियुक्तोवाच-
किं नाम वहसे वृद्धे कः पतिस्तावकः पुनः ।
आगतासि कथं किं ते कार्य्यं राज्ञ्याश्च दर्शने ।
कस्मात्किं ब्रूहि विप्रे त्वं श्रोतुं कौतुहलं हि मे १५।
वृद्धोवाच-
शृणु पोष्ये महाराज पत्न्या दंडकरे यदा ।
श्रोतुं कौतूहलं तेऽस्ति मदागमनकारणम् १६।
प्रसिद्धा कमला नाम्ना चाहं प्राणेश्वरो मम ।
भुवनेश इति ख्यातो नाम्ना द्वारवतीपुरी १७।
तस्यां वै वर्त्तते पोष्ये मम प्राणेश्वरस्ततः ।
आगताहं रत्नवेत्रकरे शृणु सकौतुकम् १८।
ममागमनकार्यं हि वच्मीदानीं तवाग्रतः ।
पुरासीद्वैश्यकुलजा राज्ञी तव च दुःखिनी १९।
एकस्मिन्दिवसे पोष्ये पतिना कलहः कृतः ।
तया नार्या च दुःखिन्या ततो वै भर्तृपीडिता २०।
बहिर्भूय द्रुतं गेहाद्रुदंती च पुनः पुनः ।
तस्याश्च रोदनं श्रुत्वा चागताहं समीपतः २१।
अपृच्छं सर्ववृत्तांतं कथितो वै यथार्थतः ।
तया ततो व्रतवरमुपदेशं ददाम्यहम् २२।
ममोपदेशतः सा वै चक्रे व्रतवरं मुदा ।
तस्य प्रसादाद्भो द्वाःस्थे संजाता सुखिता च सा २३।
कदाचिद्वैश्यकुलजा पत्या मृत्योर्वशं गता ।
समानेतुं ततस्तौ तु विहिताखिलघातकौ २४।
किंकरान्प्रेषयामास चंडाद्यान्धर्मराट्प्रभुः ।
यमाज्ञया समायाता यमदूता भयंकराः २५।
बद्ध्वा तौ चर्मपाशेन लोहमुद्गरपाणयः ।
उद्यमं चक्रिरे गंतुं यमस्य शरणं प्रति २६।
अत्रांतरे च लक्ष्म्यास्ते दूता विष्णुपरायणाः ।
समानेतुं समायाताः शंखचक्रगदाधराः २७।
दृष्ट्वा तथाविधांस्तांश्च यमदूताः पलायिताः ।
लक्ष्मीदूता महात्मानः स्वप्रकाशादयस्तथा २८।
पाशं छित्त्वा समारोप्य राजहंसयुते रथे ।
जग्मुर्लक्ष्मीपुरं सर्वे सहसाकाशवर्त्मना २९।
यावद्वारं व्रतवरं कृत्वा वैश्या च सा तदा ।
तावत्कल्पसहस्राणि तस्थतुः कमलापुरे ३०।
पुण्यशेषस्य भोगार्थं जातौ राजान्वयेऽधुना ।
व्रतं च विस्मृतौ द्वाःस्थे राजसंपत्तिगर्वितौ ।
तस्माच्च तव तस्यापि चोपदेशार्थमागता ३१।
द्वाःस्थोवाच-
केनैव तु विधानेन वृद्धे व्रतवरं कृतम् ।
कस्मिन्मासे व्रतं श्रेष्ठं देवता का च पूज्यते ३२।
एतन्मे पृच्छतो मातर्यथावद्वक्तुमर्हसि ।
कमलोवाच-
कार्त्तिके च व्यतिक्रांते मार्गशीर्षे समागते ।
तस्मिन्मासे च भो पोष्ये वासरे गुरुसंज्ञके ३३।
ततः पूर्वाह्णसमये सकलैर्व्रतिभिर्वृता ।
नारायणेन सहितां लक्ष्मीं संपूजयेत्ततः ३४।
मिष्टैः पायसयुक्तैश्च भुक्तैश्च खंडमिश्रितैः ।
लक्ष्मीं संतोषयेत्प्रेष्ये ततः संप्रार्थयेदिदम् ३५।
त्रैलोक्यपूजिते देवि कमले विष्णुवल्लभे ।
यथा त्वमचला कृष्णे तथा भव मयि स्थिता ३६।
ईश्वरी कमले देवि शरणं च भवानघे ।
नानोपहारद्रव्यैश्च लक्ष्मीमाज्ञाप्य तोषयेत् ३७।
शास्त्रैश्च पूजयेद्देवीं महोत्सवसमन्विताम् ।
ततो नैवेद्यशेषांश्च दत्वा ब्राह्मणसत्तमम् ३८।
आत्मानं स्वपतिं पुत्रान्पोष्येऽन्यानपि सेवकान् ।
द्वितीये तु गुरोर्वारे विशेषं शृणु सुंदरि ३९।
चित्रधूलीप्रशस्तैश्च भ्राष्ट्रैर्गोधूमनिर्मितैः ।
तोषयेत्कमलादेव्याः कुर्य्याद्वै भक्तिभावतः ४०।
तृतीये खंडसंयुक्तं दध्योदननिवेदनम् ।
शामाक शालि कासारैश्चतुर्थे पूजयेन्मुदा ४१।
लक्ष्मीदेवीं प्रयत्नेन रत्नदंडकरे ततः ।
लक्ष्मीदेवी प्रीतये तु ब्राह्मणान्पूजयेद्धनैः ४२।
वस्त्रालंकारभोज्यैश्च फलैर्नानाविधैस्तथा ।
पोष्योवाच-
अत्रैव तिष्ठ भो वृद्धे राज्ञीं सुरतिचंद्रिकाम् ४३।
विज्ञाप्य त्वां नयिष्यामि मा क्रोधं कुरु सत्तमे ।
इत्युक्त्वा सा तु चार्वंगी गता राज्ञीसमीपतः ४४।
शिरस्यंजलिमाधाय पोष्या ब्रह्मन्समूलतः ।
आरभ्य सांगपर्यंतं यदूचे कमलालया ४५।
तत्सर्वं कथयामास राज्ञीं सुरतिचंद्रिकाम् ।
द्वारपालीवचः श्रुत्वा राज्ञी सुरतिचंद्रिका ४६।
जगाम ब्राह्मणीपार्श्वं सगर्वा प्राह सुंदर ।
राज्ञ्युवाच-
वृद्धे ब्राह्मणि किं वृत्तं चोपदेशार्थमागता ४७।
कथयस्व चिरं मह्यं भयं त्यक्त्वा यथासुखम् ।
ब्राह्मण्युवाच-
तवानीतिमहं दृष्ट्वा गंतुमिच्छामि चंचला ४८।
कथयिष्यामि किं दुष्टे व्रतं परमदुर्लभम् ।
इंदिरावासरे चाद्य चांडालेन करोषि यत् ४९।
तद्दृष्टं मयि का दुष्टे तद्गेहे गर्वितेऽधुना ।
तच्छ्रुत्वा ब्राह्मणीवाक्यं क्रोधसंरक्तलोचना ५०।
जरंतीं ब्राह्मणीं चैव प्रहारं च चकार सा ।
ततः सा कमला वृद्धा क्रंदमाना पलायिता ५१।
क्रीडमाना ततः श्यामा ब्राह्मणीक्रन्दनध्वनिम् ।
आगतास्याः समीपं तु श्रुत्वा बाला तपोधना ५२।
श्यामाबालोवाच-
वृद्धे व्यथेदृशी केन दत्ता तुभ्यं वदस्व मे ।
तस्या वचनमाकर्ण्य शोकगद्गदया गिरा ५३।
कमला कथितं सर्वं वृत्तांतं द्विजसत्तम ।
श्यामाबाला ततः श्रुत्वा व्रतं परमदुर्ल्लभम् ५४।
शास्त्रोक्तविधिना चक्रे सश्रद्धं च सभक्तितः ।
त्रिवारे परिपूर्णे तु तुर्यवारे समागते ५५।
विवाहकर्मसंसिद्धं द्विजलक्ष्मीप्रसादतः ।
श्रीसिद्धेश्वरदेवस्य नृपतेर्भूपतेजसः ५६।
मालाधरो नाम सुतो गृहीत्वा तां गृहं गतः ।
अथ तस्यां गतायां तु ब्रह्मन्शृणुष्व कौतुकम् ५७।
राज्ञीगृहे च सर्वाणि स्थितानि सुबहूनि च ।
द्रव्याणि केन नीतानि न ज्ञातान्यपि भूसुर ५८।
निर्वित्ता बुद्धिहीना सा चान्नवस्त्रविवर्जिता ।
उपविष्टा च केनापि गंतुं च दुहितुर्गृहम् ५९।
प्रेषयामास भर्त्तारं किंचित्प्रार्थनहेतवे ।
तस्य मालाधरस्यापि ग्रामे च सरसीतटे ६०।
कालेन कियता विप्र प्रविवेश च कष्टतः ।
तस्माज्जलं समानेतुं तस्या दास्यः समागताः ।
तं दृष्ट्वा दुःखिनां श्रेष्ठं पप्रच्छुः सानुकंपिताः ६१।
दास्य ऊचुः-
कस्त्वं कुतः समायातो मांसरक्तविवर्ज्जितः ।
रूक्षांगो रूक्षकेशश्च तत्सर्वं कथयस्व नः ६२।
दरिद्र उवाच-
श्यामाबालापिता चाहं सौराष्ट्रनगरागतः ।
कथयध्वं च भो दास्यः श्यामाबालासमीपतः ६३।
तच्छ्रुत्वा वचनं तस्य कौतूहलसमन्विताः ।
परस्परमुखाः सर्वा जहसुः स्वपुरं गताः ६४।
श्यामाबाला च कथितं सर्वं वृत्तं च भो द्विज ।
श्रुत्वैतद्वचनं तासां प्रेषयामास सेवकान् ६५।
पुष्पतैलं दिव्यवस्त्रं चंदनं पर्णवीटिकाम् ।
घोटकं च तथा दत्वा पितरं प्रति सुंदरी ६६।
गत्वाथ सर्वे ते भृत्याः कृत्वा सुवेषमुत्तमम् ।
श्यामाबालागृहं निन्युर्देवराजगृहोपमम् ६७।
श्यामाबाला ततश्चैव पितरं दुखिनां वरम् ।
श्याल्यन्नं सघृतं चैव भोजयामास यत्नतः ६८।
तुर्येषु समतीतेषु दिवसेषु तपोधन ।
प्रेषयामास तं दत्वा गुप्तपात्रस्थितं धनम् ६९।
ततः प्रविश्य स्वगृहे धनं पात्रान्तरस्थितम् ।
ददर्शांगारनिचयं रुरोद भृशदुःखितः ७०।
दुहितुः सदनं यातुं निःससार गृहागतः ।
तत्रैव सरसीकूले प्रविवेश च दुःखिनी ७१।
तथैनां च समानीतां यथा स्याः प्राणवल्लभाम् ।
तथैव पूजयामास मातृस्नेहात्पतिव्रता ७२।
एतस्मिन्समये विप्र लक्ष्मीवासरमुत्तमम् ।
श्यामाबाला कारयितुं मनश्चक्रे च मातरम् ७३।
तस्या माता दरिद्राणि भुक्त्वा वैकांतिकेपि च ।
शावकानां तु चोच्छिष्टं लक्ष्मीकोपसमन्विता ७४।
इंदिरायास्तृतीयानि वासराणि गतान्यपि ।
चतुर्थवासरे तां तत्कारयामास सा दृढम् ७५।
आगता नगरं सा वै राज्ञी सुरतिचंद्रिका ।
दृष्ट्वा गृहं तथा दिव्यमिंदिरायाः प्रसादतः ७६।
श्यामाबाला च विप्रेंद्र कदाचित्समये पुनः ।
मातुर्गृहं गता चाथ ऐश्वर्यस्य दिदृक्षया ७७।
श्यामाबालां ततो दूराद्दृष्ट्वा संकुपिता च सा ।
न पश्यामि मुखं तस्या इत्युक्त्वालक्षिता स्थिता ७८।
गत्वा गृहांतरालं च गृहीत्वा सैंधवं च सा ।
आगता स्वगृहं किंचित्तूष्णीं लक्ष्मीसमाश्रितम् ७९।
राजा स्वामी च पप्रच्छ तां साध्वीं पतिदेवताम् ।
किमानीतं त्वया कांते कथयस्व ममाग्रतः ८०।
कांतोवाच-
राज्यसारं समानीतं दर्शयिष्यामि भोजने ।
इत्युक्त्वा सा तदा पाकं कृत्वा च लवणं विना ८१।
अन्नादिकं ततो दत्वा मालाधराय भूभुजे ।
ततो मालाधरो राजा व्यंजनं लवणवर्जितम् ८२।
भुक्त्वा वैगुण्यतां प्राप्तो राज्यसारं ददौ च सा ।
तदा हृष्टमना राजा भोजनं कृतवान्द्विज ८३।
प्रशशंस च तां नारीं धन्याधन्या इति ब्रुवन् ।
एतद्व्रतं च या नारी न करोति महादरात् ८४।
जन्मजन्मनि सा नारी दरिद्रा दुर्भगा भवेत् ।
इदं या शृणुयाद्भक्त्या पठेद्यो वा समाहितः ८५।
सर्वपापैर्विनिर्मुक्तो लक्ष्मीलोकं लभेच्च सः ।
इमां व्रतकथां या तु न श्रुत्वा क्रियते व्रतम् ।
तस्या व्रतफलं चैव नश्यत्येव न संशयः ८६।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे एकादशोऽध्यायः ११।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 12
शौनक उवाच-
केन पुण्येन भो सूत चान्येन गतपातकः ।
नरो याति हरेः स्थानं तद्वदस्वानुकंपया १।
सूत उवाच-
ब्राह्मणस्य धनैः प्राणान्प्राणैर्वापि द्विजोत्तम ।
रक्षां करोति यो मर्त्यो विष्णुलोकं स गच्छति २।
पुरा राजा दीननाथो द्वापरे संज्ञके युगे ।
आसीदपुत्रो बलवान्वैष्णवः स तु याजकः ३।
एकदा गालवं राजा पप्रच्छ विनयान्वितः ।
केन पुण्येन जायेत पुत्रो वै करुणार्णव ४।
वदस्व मुनिशार्दूल करिष्यामि तवाज्ञया ।
येषां नृणां नास्ति सुतो जीवनं हि निरर्थकम् ५।
गालव उवाच-
राजन्शृणुष्वावहितो यत्पृष्टोऽस्मि तवाग्रतः ।
कथयामि समासेन पुत्रस्योद्भवकारणम् ६।
क्रतुं च नरमेधाख्यं कुरुष्व राजसत्तम ।
तदा ते संततिः स्याद्वै सर्वलक्षणसंयुता ७।
राजोवाच-
नरमेधं महायज्ञं यज्ञानां प्रवरं द्विज ।
कीदृशं नरमानीय करिष्यामि गुरो वद ८।
गालव उवाच-
सुंदरांगः सुवदनः समस्तशास्त्रविद्भवेत् ।
सत्कुले यदि जातः स तदा यज्ञाय कल्पते ९।
अंगहीनः कृष्णवर्णो मूर्खो योग्यो भवेन्नहि ।
इत्युक्ते गालवे विप्र स राजा मनुजेश्वरः १०।
प्रेषयामास दूतांश्च कथयित्वा मुनेर्वचः ।
द्रविणं बहु दत्वा च गालवप्रमुखान्द्विजान् ११।
यज्ञार्थे वरयामास समस्तशास्त्रपारगान् ।
ततो राजाज्ञया दूताः देशं देशं मुदा गताः १२।
ग्रामे ग्रामे द्विजश्रेष्ठ पत्तनेऽपि समाहिताः ।
कुत्रापि न प्राप्तवंतो गता जनपदं ततः १३।
नाम्ना दशपुरं विप्र प्रकीर्णं गुणिभिर्द्विजैः ।
यत्र नारीः सुकेशीश्च मृगशावक चक्षुषः १४।
दृष्ट्वा मुह्यंति पुरुषाश्चंद्रमुख्यश्च ता यतः ।
तस्मिन्पुरे मनोरम्ये कृष्णदेव इति द्विजः १५।
आसीत्पुत्रैस्त्रिभिः सार्द्धं भार्यया च सुशीलया ।
वैष्णवः प्रियवादी च विष्णुपूजारतः सदा १६।
साग्निकः पितृभक्तश्च वैष्णवानां प्रियंकरः ।
प्रार्थनां चक्रुरथ ते राज्ञो दूता द्विजोत्तमम् १७।
पुत्रं देहीति देहीति वद ब्राह्मणसत्तम ।
नास्ति राज्ञो द्विजश्रेष्ठ पुत्रः संतापनाशनः १८।
तदर्थं नरमेधाख्ये यज्ञेभव स दीक्षितः ।
नेष्यामस्तव पुत्रं वै बलिं दातुं महाक्रतौ १९।
सुवर्णानां चतुर्लक्षं ब्रह्मन्नय समाहितः ।
सुखेन यदि दातव्यो नो पुत्रः पुत्रलालसात् २०।
तदा बलेन नेष्यामो राजाज्ञाकारिणो वयम् ।
दूतानां वचनं श्रुत्वा ब्राह्मणौ शोकविह्वलौ २१।
अभूतां विगतप्राणाविव संशयमानसौ ।
किं धनेन सुवर्णेन जीवनेनापि सद्मना ।
प्रोवाचेदं वचः सोऽपि ब्राह्मणो राजपूरुषान् २२।
ब्राह्मण उवाच-
यदि दूताः समानेतुं पुत्रं शोकतमोपहम् ।
आगता निश्चितं यूयं शृणुध्वं वचनं मम २३।
स्थित्वा पृथिव्यां को भ्रष्टां राजाज्ञां कर्तुमिच्छति ।
पुत्रं हित्वा किंतु यूयं वृद्धं मां नयत द्विजम् २४।
इति तस्य वचः श्रुत्वा दूताः क्रोधसमन्विताः ।
बलात्कारेण तद्गेहे सुवर्णानि च तत्यजुः २५।
यदा नेतुं मनश्चक्रुस्तत्पुत्रं किल ते क्रुधा ।
बद्धांजलिपुटोभूत्वा रुदन्प्रोवोच स द्विजः २६।
पुत्राणां ज्येष्ठपुत्रं मे हित्वान्यं पुत्रमुत्तमम् ।
नयतेति वचो वक्तुं वक्त्रेनायाति हे जनाः २७।
द्विजस्य वचनं श्रुत्वा ब्राह्मणीं रुदतीं सतीम् ।
प्रोचुर्दूताः कनीयांसं पुत्रं देहीति सत्तम २८।
तेषामिति वचः श्रुत्वा ब्राह्मणी भूमितस्तदा ।
पपात वात्यया सार्द्धं रंभेव भृशदुःखिनी २९।
मुद्गरं सा समादाय मौलौ चाताडयद्बलात् ।
कनिष्ठं मत्सुतं दूता नापि दास्यामि सर्वथा ३०।
एतस्मिन्समये विप्र विप्रस्य मध्यमः सुतः ।
प्रोवाच विनयाविष्टः प्रणम्य पितरौ रुदन् ३१।
माता यदि विषं दद्यात्पित्रा विक्रीयते सुतः ।
राजा हरति सर्वस्वं कस्तत्र पालको भवेत् ३२।
इत्युक्त्वा तत्सुतो मूर्ध्ना प्रणम्य पितरौ सह ।
दूतैर्जगाम त्वरितै राज्ञोऽस्य दीक्षितस्य च ३३।
अथ तौ ब्राह्मणौ पुत्रविच्छेदक्लिष्टमानसौ ।
रुदित्वा च रुदित्वा च अंधभावं प्रजग्मतुः ३४।
अथ ते पथ्यगच्छंत विश्वामित्रमुनेः किल ।
आश्रमं शिष्ययुक्तं च सेवितं मृगशावकैः ३५।
स मुनी राजपुरुषान्दृष्ट्वा पप्रच्छ सादरम् ।
के यूयं हो कुत्र गता यथाका वृत्तिरुच्यताम् ३६।
राजदूता ऊचुः-
शृणुष्वावहितो विप्र राज्ञः पुत्रो न जायते ।
तदर्थं नरमेधाख्ये यज्ञे राजा सुदीक्षितः ३७।
नयामस्तत्र बल्यर्थमिमं ब्राह्मणपुत्रकम् ।
इति तेषां वचः श्रुत्वा स विप्रः सदयोऽभवत् ३८।
प्राणा ममापि गच्छंतु सुखी भवतु बालकः ।
बालकार्थे द्विजार्थे च स्वाम्यर्थे ये जना इह ३९।
त्यजन्ति तृणवत्प्राणांस्तेषां लोकाः सनातनाः ।
विमृश्येति मुनिः स्वांते स प्रोवाच द्विजर्षभः ४०।
यज्ञे बलिं समादातुमिमं ब्राह्मणबालकम् ।
हित्वा मां नयथाथाशु ह्ययं बालक उत्तमः ४१।
संसारे जन्मसंप्राप्य न लब्धं सुखमत्र च ।
अनेन बालकेनापि मरिष्यति कथं त्वयम् ४२।
आगतेऽस्मिन्गृहाद्दूताः पितरावस्य दुःखितौ ।
हतभाग्यौ गतो नूनं यमस्येव गृहं प्रति ४३।
एवं तस्य वचः श्रुत्वा दूताः प्रोचुरथ द्विजम् ।
भूपालस्य विनाज्ञां वै दीननाथस्य भूसुर ४४।
नेतुं त्वां पलितं प्राज्ञ नेष्यामो हि कथं वयम् ।
एवमुक्त्वा च ते दूता जग्मू राज्ञः पुरीं तदा ४५।
स मुनिर्दूतसंघैश्च गतवान्यज्ञमंदिरम् ।
राजानं कथयामासुर्दूता विप्रस्य चेष्टितम् ४६।
तच्छ्रुत्वाशंकितमनाः प्रोवाचेदं वचः स तम् ।
मुने यद्यपि मे यज्ञे कृते पुत्रो भविष्यति ४७।
बलिं विनापि भो ब्रह्मन्तदा विप्रसुतं नय ४८।
मुनिरुवाच-
यज्ञे त्वया कृते राजन्महापुत्रो भविष्यति ।
अत्र ते संशयो मा भूदमोघमपि दर्शनम् ४९।
इति तस्य वचः श्रुत्वा राजात्यंतसहर्षकः ।
चक्रे पूर्णाहुतिं यज्ञे समस्तैर्मुनिभिः सह ५०।
अथातः स मुनिः श्रेष्ठो ब्राह्मणस्य सुतं च तम् ।
गृह्य दशपुरं नाम नगरं गतवांस्तदा ५१।
भवनं तस्य गत्वा च उक्तवान्वचनं मुनिः ।
गृहे त्वं तिष्ठसे विप्र तिष्ठामि मृतवन्मुने ५२।
राजा बलेन मे पुत्रं नीतवान्किं करोम्यहम् ।
पुत्रे गते च भो विप्र दंपत्योरावयोः पुनः ५३।
गतानि चांधभावं वै क्रंदनैर्लोचनान्यपि ।
अथासौ मुनिशार्दूलः पुत्रं पश्य नयेति च ५४।
उक्तवांस्तौ यदा विप्र ब्राह्मणौ जातहर्षकौ ।
पुत्रायाकारणं कृत्वा गतावेतौ बहिः क्षणात् ५५।
मुनेर्वचनसिद्धित्वात्तत्क्षणं लोचनं तयोः ।
आलोकं तु गतं तूर्णं पुत्रस्य दर्शनादपि ५६।
पुत्रस्य मुखपद्मं तौ लोचनैरलिसंनिभैः ।
पीत्वा मुनिं चिरंतं च नमस्कृत्य पुनः पुनः ५७।
प्रोचतुर्वचनं विप्रा ब्राह्मणौ प्रियवादिनौ ।
अहो मुने जीवदानमावयोः सुकृतं किल ५८।
तयोरेव वचः श्रुत्वा स मुनिः करुणार्णवः ।
दत्वाशिषं च तौ विप्र जगाम निजमाश्रमम् ५९।
मुनिः करगतं चैव कृत्वा विष्णोः परं पदम् ।
तपस्तेपे महाभागो दैवतैरपि दुर्ल्लभम् ६०।
किंचित्काले गते विप्र तस्य राज्ञोऽभवत्सुतः ।
सुंदरो राजयोग्यश्च इंदुःक्षीरनिधाविव ।
पुत्रोत्सवे सोऽपि विप्र राजा दत्वा धनानि वै ६१।
बुभुजे देववद्भूम्यां विशोको जातकौतुकः ।
विप्रान्पालयते यस्तु प्राणान्दत्वा धनान्यपि ६२।
स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम् ।
पठंति येऽत्र भक्त्या च शृण्वंति विप्रतः कथाम् ६३।
आख्यानं श्लोकमेकं वा गच्छंति विष्णुमंदिरम् ६४।
इति श्रीपाद्मे महापुराणे सूतशौनकसंवादे ब्रह्मखंडे ब्राह्मणपालनंनाम द्वादशोऽध्यायः १२।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 13
शौनक उवाच-
कृष्णजन्माष्टमी सूत तस्या माहात्म्यमुत्तमम् ।
कथयस्व महाप्राज्ञ चोद्धरस्व महार्णवात् १।
सूत उवाच-
कृष्णजन्माष्टमीं ब्रह्मन्भक्त्या करोति यो नरः ।
अंते विष्णुपुरं याति कुलकोटियुतो द्विज २।
अष्टमी बुधवारे च सोमे चैव द्विजोत्तम ।
रोहिणीऋक्षसंयुक्ता कुलकोटिविमुक्तिदा ३।
महापातकसंयुक्तः करोति व्रतमुत्तमम् ।
सर्वपापविनिर्मुक्तश्चांते याति हरेर्गृहम् ४।
कृष्णजन्माष्टमीं ब्रह्मन्न करोति नराधमः ।
इह दुःखमवाप्नोति स प्रेत्य नरकं व्रजेत् ५।
न करोति च या नारी कृष्णजन्माष्टमीव्रतम् ।
वर्षे वर्षे तु सा मूढा नरकं याति दारुणम् ६।
जन्माष्टमीदिने यो वै नरोऽश्नाति विमूढधीः ।
महानरकमश्नाति सत्यं सत्यं वदाम्यहम् ७।
दिलीपेन पुरा पृष्टो वसिष्ठो मुनिसत्तमः ।
तच्छृणुष्व महाप्राज्ञ सर्वपातकनाशनम् ८।
दिलीप उवाच-
भाद्रे मास्यसिताष्टम्यां यस्यां जातो जनार्द्दनः ।
तदहं श्रोतुमिच्छामि कथयस्व महामुने ९।
कथं वा भगवान्जातः शंखचक्रगदाधरः ।
देवकीजठरे विष्णुः किं कर्तुं केन हेतुना १०।
वसिष्ठ उवाच-
शृणु राजन्प्रवक्ष्यामि कस्माज्जातो जनार्द्दनः ।
पृथिव्यां त्रिदिवं त्यक्त्वा भवते कथयाम्यहम् ११।
पुरा वसुंधरा ह्यासीत्कंसादिनृपपीडिता ।
स्वाधिकारप्रमत्तेन कंसदूतेन ताडिता १२।
क्रंदती क्रंदती सा तु ययौ घूर्णितलोचना ।
यत्र तिष्ठति देवेश उमाकांतो वृषध्वजः १३।
कंसेन ताडिता नाथ इति तस्मै निवेदितुम् ।
बाष्पवारीणि वर्षंति विवर्णा साविमानिता १४।
क्रंदंतीं तां समालोक्य कोपेन स्फुरिताधरः ।
उमयासहितः सर्वैर्देववृंदैरनुव्रतः १५।
आजगाम महादेवो विधातृभवनं रुषा ।
गत्वा चोवाच ब्रह्माणं कंसध्वंसनहेतवे १६।
उपायः सृज्यतां ब्रह्मन्भवता विष्णुना सह ।
ऐश्वरं तद्वचः श्रुत्वा गंतुं प्राह कृतात्मभूः १७।
क्षीरोदे यत्र वैकुंठः सुप्तोऽस्ति भुजगोपरि ।
हंसपृष्ठं समारुह्य हरेरंतिकमाययौ १८।
तत्र गत्वा च तं धाता देववृंदैर्हरादिभिः ।
संयुक्तः स्तूयते वाग्भिः कोमलं वाग्विदांवरः १९।
नमः कमलनेत्राय हरये परमात्मने ।
जगतः पालयित्रे च लक्ष्मीकांत नमोऽस्तु ते २०।
इति तेभ्यः स्तुतिं श्रुत्वा प्रत्युवाच जनार्द्दनः ।
देवान्क्लिष्टमुखान्सर्वान्भवद्भिरागतं कथम् २१।
ब्रह्मोवाच-।
शृणु देव जगन्नाथ यस्मादस्माकमागतम् ।
कथयामि सुरश्रेष्ठ तदहं लोकभावन २२।
शूलिदत्तवरोन्मत्तः कंसो राजा दुरासदः ।
वसुधा ताडिता तेन करघातेन पीडिता २३।
वरं दत्वा पुराप्यग्रे मायया तु प्रवंचितः ।
भागिनेयं विना शंभो मरणं भविता न मे २४।
तस्माद्गच्छ स्वयं देव कंसं हंतुं दुरासदम् ।
देवकीजठरे जन्म लब्ध्वा गत्वा च गोकुलम् २५।
ब्रह्मणा प्रेरितो देवः प्रत्युवाच च शूलिनम् ।
पार्वतीं देहि देवेश अब्दं स्थित्वा गमिष्यति २६।
उमया रक्षया सार्द्धं शंखचक्रगदाधरः ।
उद्दिश्य मथुरां चक्रे प्रयाणं कमलासनः २७।
देवकीजठरे जन्म लेभे तत्र गदाधरः ।
यशोदाकुक्षिमध्यास्ते शर्वाणी मृगलोचना २८।
नवमासांश्च विश्रम्य कुक्षौ नवदिनांतकान् ।
भाद्रे मास्यसिते पक्षे चाष्टमीसंज्ञका तिथिः २९।
रोहिणीतारकायुक्ता रजनीघनघोषिता ।
तस्यां जातो जगन्नाथः कंसारिर्वसुदेवजः ३०।
वैराटी नंदपत्नी च यशोदाऽजीजनत्सुताम् ।
पुत्रं पद्मकरं पद्मनाभं पद्मदलेक्षणम् ३१।
तदा हर्षितुमारेभे दृष्ट्वा ह्यानकदुंदुभिः ।
कंसासुरभयत्रस्ता प्रोवाच देवकी तदा ३२।
वैराटीं गच्छ भो नाथ सुतं प्रत्यर्पितं किल ।
पुत्रं दत्वा यशोदायै सुतां तस्याः समानय ३३।
तस्या वचः समाकर्ण्य वसुदेवोऽपि दुःखितः ।
अंके कुमारमादाय वैराट्यभिमुखंययौ ३४।
यमुनाजलसंपूर्णा तत्पथे मध्यवर्त्मनि ।
आसीद्घोरा महादीर्घा गम्भीरोदकपूरभाक् ३५।
एवं दृष्ट्वा तटे स्थित्वा यमुनामवलोकयन् ।
वसुदेवोऽपि दुःखार्तो विललापातिचिंतया ३६।
किं करोमि क्व गच्छामि विधिनापि हि वंचितः ।
कथमत्र गमिष्यामि वैराटीं नंदमंदिरम् ३७।
हरिणा तत्र सानंदं मायया वंचितः पिता ।
क्षणमात्रं तटे स्थित्वा यमुनामवलोकयन् ३८।
तेन दृष्टा पुनः सापि क्षणाज्जानुवहाभवत् ।
तां दृष्ट्वा हृष्ट उत्तस्थौ प्रस्थानमकरोद्यथा ३९।
मायां कृत्वा जगन्नाथः पितुरंकाज्जलेऽपतत् ।
तं पुत्रं पतितं दृष्ट्वा हाहाकृत्वा सुदुःखितः ४०।
महोपायं पुनः कर्तुं विधिना तेन वंचितः ।
त्राहि मां जगतां नाथ सुतं रक्ष सुरोत्तम ४१।
जनकक्रंदितं दृष्ट्वा कंसारिः कृपया मुहुः ।
जलक्रीडां समाचर्य पितुःक्रोडमगात्पुनः ४२।
यथा तेन यदुश्रेष्ठो जगाम नंदमंदिरम् ।
सुतं दत्त्वा यशोदायै सुतां तस्याः समानयत् ४३।
निजागारं ततः प्राप्य पत्न्यै प्रत्यर्पिता सुता ।
देवकी च प्रसूतेति वार्ता प्राप्ता सुरारिणा ४४।
आनेतुं प्रस्थिता दूताः सुतं दुहितरं तदा ।
आगत्य कंसदूतास्ते सुतां नेतुं प्रचक्रमुः ४५।
बलादेनां समाकृष्य देवकी वसुदेवयोः ।
कंसदूतैर्गृहीत्वा सा अर्पिता तु सुरारये ४६।
स धृत्वा तां महाराजः सभयोऽभूद्दुरासदः ।
शुद्धकांचनवर्णाभां पूर्णेंदुसदृशाननाम् ४७।
कंसो हसंतीं तां दृष्ट्वा विद्युत्स्फुरितलोचनाम् ।
आदिदेशासुरश्रेष्ठो जहि नीत्वा शिलोपरि ४८।
आज्ञां लब्ध्वाऽसुरास्ते वै निष्पेष्टुं तां प्रवर्तिताः ।
विद्युच्छीघ्रतया गौरी जगाम शंकरांतिकम् ४९।
गौर्युवाच-
शृणु राजन्प्रवक्ष्यामि यत्रास्ते शत्रुरुत्तमः ।
नंदस्य निलये गुप्तस्तव हंताऽसुरोत्तम ५०।
वसिष्ठ उवाच-
एवमुक्त्वा तु सा देवी जगाम निजमंदिरम् ।
श्रुत्वा वाक्यं ततो देव्याः कंसो राजा सुदुःखितः ५१।
भगिनीं पूतनामाह गच्छ त्वं नंदमंदिरम् ।
छद्मना तं सुतं हत्वा गच्छ ते वांच्छितं बहु ५२।
दास्यामि शत्रुं हंतुं मे व्रज शीघ्रतरं शुभे ।
आज्ञां प्राप्य राक्षसी सा गोकुलाभिमुखं गता ५३।
मायया सुंदरी रूपा प्रविष्टा तत्र गोकुले ।
पयोधरे गरं सा तु धृत्वा हंतुमुपागता ५४।
पशुपानां गृहद्वारि प्रविष्टालक्षितेति च ।
गत्वांतरुत्थाप्य शिशुं स्तनं दत्वापसद्गतिम् ५५।
ततस्तु शकटं क्षिप्त्वा तृणावर्तादिमर्दनम् ।
कालीयदमनं कृत्वा गतो मधुपुरीं ततः ५६।
गत्वा कंसो हतः क्रूरः कंसमल्लानजीजयत् ।
एतत्ते कथितं राजन्विष्णोर्जन्मदिनव्रतम् ५७।
श्रुत्वा पापानि नश्यंति कुर्यात्किं वा भविष्यति ।
य इदं कुरुते मर्त्यो या च नारी हरेर्व्रतम् ५८।
ऐश्वर्यमतुलं प्राप्य जन्मन्यत्र यथेप्सितम् ।
पूर्वविद्धा न कर्त्तव्या तृतीयाषष्ठिरेव च ५९।
अष्टम्येकादशीभूता धर्मकामार्थवांच्छुभिः ।
वर्जयित्वा प्रयत्नेन सप्तमीसंयुताष्टमी ६०।
विना ऋक्षेऽपि कर्तव्या नवमीसंयुताष्टमी ।
उदये चाष्टमी किंचित्सकला नवमी यदि ६१।
मुहूर्तरोहिणीयुक्ता संपूर्णा चाष्टमी भवेत् ।
अष्टमी बुधवारेण रोहिणीसहिता यदि ६२।
सोमेनैव भवेद्राजन्किंकृतैर्व्रतकोटिभिः ।
नवम्यामुदयात्किंचित्सोमे सापि बुधेऽपि च ६३।
अपि वर्षशतेनापि लभ्यते वा न लभ्यते ।
विना ऋक्षं न कर्तव्या नवमीसंयुताष्टमी ६४।
कार्याविद्धापि सप्तम्यां रोहिणीसंयुताष्टमी ।
कलाकाष्ठामुहूर्तेऽपि यदा कृष्णाष्टमीतिथिः ६५।
नवम्यां सैव वा ग्राह्या सप्तमीसंयुता न हि ।
किं पुनर्बुधवारेण सोमेनापि विशेषतः ६६।
किं पुर्नर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा ।
पलवेधेन राजेंद्र सप्तम्या अष्टमीं त्यजेत् ६७।
सुरायाबिंदुनास्पृष्टं गंगांभः कलशं यथा ।
दिलीप उवाच-
केन चादौ कृतं चेदं केन वा तत्प्रकाशितम् ।
किं पुण्यं किं फलं देव कथयस्व महामुने ६८।
वसिष्ठ उवाच-
चित्रसेनो महाराजा महापापपरो महान् ।
अगम्यागमनं कृत्वा स्वर्णस्तेयं द्विजस्य च ६९।
सुरायां च सदा तृप्तो वृथामांसे सदा रतः ।
एवं पापसमायुक्तो नित्यं प्राणिवधे रतः ७०।
चांडालैः पतितैः सार्द्धमालापं सर्वदाकरोत् ।
एतदेवं विधो राजा मृगयायां मनो दधे ७१।
अरण्ये द्वीपिनं ज्ञात्वा वेष्टयित्वा च सर्वतः ।
सावधानं भटान्सर्वान्वाक्यमेतदुवाच ह ७२।
अहमेव निहन्म्येनं योऽन्योस्मिन्प्रहरिष्यति ।
स वध्यो नात्र संदेहो व्याघ्रो राज्ञः पथा ययौ ७३।
सलज्जोऽपि ततो राजा व्याघ्रं पश्चाज्जगाम ह ।
अनेकक्लेशदुःखेन व्याघ्रं हंतुं समाहितः ७४।
क्षुत्पिपासाकुलक्लेशः संध्यायां यमुनातटे ।
अष्टमीरोहिणीयुक्ता तद्दिनं जन्मवासरम् ७५।
श्वःकन्या यमुनायां वै व्रतं चक्रुर्नराधिप ।
नानोपहारैर्द्रव्यैश्च धूपदीपैः सुशोभनैः ७६।
गंधपुष्पं तथा द्रव्यं कुंकुमादिमनोहरम् ।
अन्नं बहुगुणं दृष्ट्वा भोक्तुं तन्मानसंकुलम् ७७।
राजोवाच-
अन्नाभावान्ममाद्याशु प्राणा यास्यंति निश्चितम् ।
स्त्रिय ऊचुः-
जन्माष्टम्यां हरे राजन्न भोक्तव्यं त्वयानघ ७८।
गृध्रमांसं खरं काकं गोमांसमन्नमेव च ।
भुक्तवान्नात्र संदेहो यो भुंक्ते कृष्णजन्मनि ७९।
किं किं छिद्रं न संजातं संसारे वसतां नृणाम् ।
येन देहेस्थिते प्राणे जयंती न कृता नृप ८०।
तत्राकृतोपवासस्य शासनं यममंदिरम् ।
यद्दत्तं पितरो नित्यं न गृह्णंति यथाविधि ८१।
पितरः पातिताः सर्वे जयंत्यां भोजने कृते ।
इति श्रुत्वा ततो राजा व्रतं चक्रे नराधिप ८२।
किंचित्पुष्पं कियद्गंधं वस्त्रं चानीय हर्षितः ।
एतद्व्रतं समायुक्तं तिथिभांते च पारणम् ।
व्रतस्यास्य प्रभावेण चित्रसेनो हरेर्गृहम् ८३।
दिव्यं विमानमारुह्य गतवान्पितृभिः सह ।
यत्फलं मथुरां गत्वा दृष्ट्वा कृष्णमुखांबुजम् ८४।
तत्फलं प्राप्यते पुंसाकृष्णजन्माष्टमीव्रतात् ।
यत्फलं द्वारकां गत्वा दृष्टे विश्वेश्वरे हरौ ।
तत्फलं प्राप्यते दीनैः कृत्वा जन्माष्टमीव्रतम् ८५।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे हरिजन्माष्टमीव्रतमाहात्म्यंनाम त्रयोदशोऽध्यायः १३।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 14
शौनक उवाच।
कथयस्व महाप्राज्ञ ब्राह्मणस्य कृपार्णव ।
माहात्म्यं सर्ववर्णानां श्रेष्ठस्य कृपया च मे १।
सूत उवाच।
ब्राह्मणः सर्ववर्णानां गुरुरेव द्विजोत्तम ।
सर्वामराश्रयो ज्ञेयः साक्षान्नारायणः प्रभुः २।
कुर्यात्प्रणामं यो विप्रं हरिबुद्ध्या तु भूसुरम् ।
भक्त्या तस्य द्विजश्रेष्ठ वर्द्धते संपदादिकम् ३।
न नमेद्ब्राह्मणं दृष्ट्वा हेलयापि च गर्वितः ।
छेदनं तु तस्य शिरः कर्तुमिच्छेत्सदा हरिः ४।
कृतापराधं विप्रं ये द्विषंति पापबुद्धयः ।
हरिं द्विषंति ते ज्ञेया निरयं यांति दारुणम् ५।
यः कर्तुं प्रार्थनां विप्रं पश्येत्क्रोधेन चागतम् ।
कृतांतश्चक्षुषोस्तस्य तप्तसूचीं ददाति वै ६।
कुरुते भूसुरं मूढो भर्त्सनं यो नराधमः ।
यमदूता मुखे तस्य तप्तलोहं ददंति च ७।
येषां निकेतने भुंक्ते क्ष्मासुरो वै तपोधनः ।
सुपर्वाणैः स्वयं कृष्णो भुंक्ते तेषां निकेतने ८।
नश्यंति सर्वपापानि द्विजहत्यादिकानि च ।
कणमात्रं भजेद्यस्तु विप्रांघ्रिसलिलं नरः ९।
यो नरश्चरणौधौतं कुर्याद्धस्तेन भक्तितः ।
द्विजातेर्वच्मि सत्यं ते स मुक्तः सर्वपातकैः १०।
पुत्रहीना च या नारी मृतवत्सा च यांगना ।
सपुत्रा जीववत्सा सा द्विजपद्मांघ्रिसेवनात् ११।
ब्रह्मांडे यानि तीर्थानि तानि तीर्थानि सागरे ।
उदधौ यानि तीर्थानि तिष्ठंति द्विजपादयोः ।
द्विजांघ्रिसलिलैर्नित्यं सेचितं यस्य मस्तकम् १२।
स स्नातः सर्वतीर्थेषु स मुक्तः सर्वपातकैः ।
शृणु शौनक वक्ष्यामि माहात्म्यं पापनाशनम् १३।
विप्रपादोदकस्याहमितिहासं तपोधन ।
आसीत्पुरा द्विजश्रेष्ठ वैश्यवृत्तिपरायणः १४।
शूद्रो भीमो द्वापरे च ब्रह्महत्यासहस्रकृत् ।
निष्ठुरः सर्वदा तुष्टः समहान्वैश्यया पुनः १५।
शूद्राचारपरिभ्रष्टो भीमोऽसौ गुरुतल्पगः ।
प्रत्येकं वच्मि किं तस्य दस्योः संख्या न विद्यते १६।
पापानां मुनिशार्दूल भीमस्य दुष्टचेतसः ।
एकदा स गतः कश्चिद्ब्राह्मणस्य निवेशनम् १७।
गत्वा तं तस्य गेहात्तु द्रव्यं नेतुं मनो दधे ।
तत्रोवास ब्राह्मणस्य बहिर्द्वारसमीपतः १८।
दैन्ययुक्तं वचः प्राह क्ष्मासुरं स तपोधनम् ।
भो स्वामिन्शृणु मे वाक्यं दयालुरिव मन्यते १९।
क्षुधार्तोऽहं देहि चान्नं प्राणा यास्यंति मे द्रुतम् २०।
ब्राह्मण उवाच-
क्षुधार्त्त शृणु मे कश्चिद्वाक्यं कर्तुं न विद्यते ।
पाकं मे तंडुलानि त्वं नीत्वा भुंक्ष्व यथासुखम् २१।
नास्ति मे जनको माता नास्ति सूनुः सहोदरः ।
नास्ति जाया मातृबंधुर्मृताः सर्वे विहाय माम् २२।
तिष्ठाम्येको गृहेऽकर्मा भाग्यहीनोतिथे हरिः ।
एको मे वसतौ चास्ति न जाने तद्विना किल २३।
भीम उवाच।मम कश्चिद्द्विजश्रेष्ठ नास्ति सेवां तवापि च ।
शूद्रोऽहं निलये जात्या कृत्वा स्थास्यामि ते सदा २४।
सूत उवाच।इति तस्य वचः श्रुत्वा सानंदः क्ष्मासुरस्तदा ।
पाकं विधाय तूर्णं स ददावन्नं तपोधन २५।
सोऽपि हर्षसमायुक्तस्तस्थौ तत्र द्विजालये ।
सेवां कुर्वन्स्नेहयुक्तां भूसुरस्य मनोहराम् २६।
अद्य श्वो वा हनिष्यामि द्रव्यमस्य ममापि च ।
नेतुं यदा करिष्यामि नेष्यामि नात्र संशयः २७।
परामृश्य च हृद्यंतः कृत्वा तस्य क्रियां वदेत् ।
पादधौतादिकं चासौ शिरसा गतपातकः २८।
आचम्यांघ्रिजलं दध्रेच्छद्मना प्रतिदिनं द्विजः ।
एकदा हारकः कश्चिद्द्रव्यं नेतुं समागतः २९।
उत्पाट्य रात्रावररं गतोऽसौ तद्गृहांतरम् ।
दृष्ट्वा भीमं प्रहारार्थं दंडहस्तः समागतः ३०।
हारको मस्तकं तस्य छित्त्वा तूर्णं पलायितः ।
अथ तस्य भटा विष्णोः शंखचक्रगदाधराः ३१।
समायातास्तथा नेतुं भीमं तं वीतकिल्बिषम् ।
स्यंदनं चागतं दिव्यं राजहंसयुतं द्विज ३२।
तत्रारूढो ययौ विष्णोर्भवनं दुर्लभं किल ।
माहात्म्यं भूमिदेवस्य मया ते तत्प्रकीर्तितम् ।
शृणुयाद्यो नरो भक्त्या तस्य पातकनाशनम् ३३।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे ब्राह्मणमाहात्म्यंनाम चतुर्दशोऽध्यायः १४।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 15
शौनक उवाच।
कथयस्व महाभाग माहात्म्यं पापनाशनम् ।
एकादश्याः फलं किं वा किल्बिषं स्यादकुर्वतः १।
सूत उवाच।
एकादश्यास्तु माहात्म्यं किमहं वच्मि सांप्रतम् ।
श्रुत्वा चैकादशीनाम यमदूताश्च शंकिताः २।
भवंति नात्र संदेहो सर्वप्राणिभयंकराः ।
व्रतानां चैव सर्वेषां श्रेष्ठां चैकादशीं शुभाम् ३।
उपोष्य जागृयाद्विष्णोः कुर्य्याच्च मंडनं महत् ।
तुलसीदलैस्तु यो मर्त्यो हरिपूजां करोति वै ४।
दलेनैकेन लभते कोटियज्ञफलं द्विज ।
अगम्यागमने चैव यत्पापं समुदाहृतम् ५।
तत्पापं याति विलयं चैकादश्यामुपोषणात् ।
घृतपूर्णं प्रदीपं यो दद्याद्विष्णुदिने द्विज ६।
अंते विष्णुपुरं याति तमो हत्वा स्वतेजसा ।
धन्या जनपदास्ते वै धन्यः स च महीपतिः ७।
हरेर्दिने यस्य राज्ये चैकादश्या महोत्सवः ।
नारायणस्य शयने पार्श्वस्य परिवर्त्तने ८।
विशेषेण प्रबोधिन्या निराहारा भवंति ये ।
मदंति कं नानयध्वंप्राणिनःपुण्यभागिनः ९।
अहर्निशं पितृपतिः समादिशति दूतकान् ।
एकादशी जगन्नाथ वल्लभा पुण्यवर्धिनी १०।
विष्णुर्देहं दोहत्येव तस्यामन्नस्य भक्षणे ।
तेषां धिग्जीवनं संपत्धिक्सौंदर्यं च वर्तनम् ११।
येऽन्नमश्नंति पापिष्ठाश्चैकादश्यां हि विड्भुजः ।
एकादश्यां द्विजश्रेष्ठ भुक्तिमाश्रित्य केवलम् १२।
बहूनि विविधान्येव तिष्ठंति दुरितानि च ।
अमावास्यां यथा स्त्रीणां संगमे कलुषं महत् १३।
एकादश्यां तथैवान्नभक्षणे वृजिनं भवेत् ।
रोगिणश्च तथा खंज काससोदरकुष्ठकाः १४।
भवंति प्राणिनस्ते वै तस्यामन्नस्य भक्षणे ।
ग्रामशूकरतां यांति दारिद्र्यं च प्रयांति वै १५।
राजबद्धा द्विजश्रेष्ठ तस्यामन्नस्य भक्षणे ।
संसारे यानि पापानि तानि विप्र हरेर्दिने १६।
भुक्तिमाश्रित्य तिष्ठंति जलभक्षणमाज्ञया ।
कुर्वतां सर्वपापानि नरकान्निष्कृतिर्भवेत् १७।
न निष्कृतिर्भवेन्नॄणां भुंजतां च हरेर्दिने ।
नरा यावंति चान्नानि भुंजते च हरेर्दिने १८।
प्रत्यन्नं च ब्रह्महत्याकोटिजं वृजिनं भवेत् ।
पुनर्वच्मि पुनर्वच्मि श्रूयतां श्रूयतां नराः १९।
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने ।
गंगादिषु च तीर्थेषु स्नात्वा यत्फलमाप्यते २०।
चंद्रसूर्योपरागे च चैकादश्यामुपोषितः ।
अर्चित्वोत्पलमालाभिस्तस्यां च कमलापतिम् २१।
विधिवत्पारणं कृत्वा न मातुर्गर्भभाजनम् ।
एकादश्यां हरेर्गेहे करोति मंडनं द्विज २२।
परमां गतिमासाद्य तिष्ठेद्विष्णुनिकेतने ।
एकादशीं समासाद्य निराहारा भवंति ये २३।
तेषां विष्णुपुरे शश्वन्निवासोऽपि न संशयः ।
तुलसीभक्तिसंलीनं मनो येषां विराजते २४।
ते यांति परमं विष्णोः स्थानमेव न संशयः ।
परद्रव्येष्वभिरुचिर्येषां चैव न विद्यते २५।
संतुष्टमनसो येऽपि तेषां विष्णुपुरं ध्रुवम् ।
दुर्भिक्षकालमासाद्य प्राणिभ्यो ये नरोत्तमाः २६।
ददत्यन्नं हरेः सद्म तेषां चैव न संशयः ।
गवां द्विजानां त्राणाय स्वामिनो योषितस्तथा २७।
प्राणान्मुंचंति ये मर्त्त्यास्तेषां विष्णुपुरं ध्रुवम् ।
प्राणिभिर्दशमीविद्धा न चोपोष्या कदाचन २८।
परिहार्यं द्विजश्रेष्ठ दुर्जनस्यांतिकं यथा ।
अरुणोदयवेलायां दशमी संगता यदि २९।
तत्रोपोष्या द्वादशी स्यात्त्रयोदश्यां तु पारणम् ।
दशमीशेषसंयुक्तो यदि स्यादरुणोदयः ३०।
वैष्णवेन न कर्त्तव्यं तद्दिनैकादशीव्रतम् ।
चतस्रो घटिकाः प्रातररुणोदय उच्यते ३१।
यतीनां स्नानकालोयं गंगांभः सदृशः स्मृतः ।
अरुणोदयकाले तु दशमी यदि दृश्यते ३२।
न तत्रैकादशी कार्या धर्मकामार्थनाशिनी ।
स्वल्पां च दशमीविद्धां त्यजेदेकादशीं बुधः ३३।
सुराबिंदोस्तु संपर्कात्घृतकुंभं त्यजेद्यथा ।
संपूर्णैकादशी यत्र द्वादश्यां पुनरेव सा ३४।
उत्तरा यतिभिः कार्या पूर्वामुपवसेद्गृही ।
एकादशीकला यत्र द्वादशीपरतो न चेत् ३५।
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ।
एकादशी विलुप्ता चेत्परतो द्वादशीयुता ३६।
उपोष्या द्वादशी पूर्णा यदीच्छेत्परमां गतिम् ।
संपूर्णैऽकादशी यत्र प्रभाते पुनरेव सा ३७।
सर्वैरेवोत्तरा कार्या परतो द्वादशी यदि ।
एकादशीव्रते येषां मनः संलीयते नृणाम् ३८।
तेषां स्वर्गो हि वासोऽथ यांति ते सदनं हरेः ।
एकादश्याः परं नास्ति परलोकस्य साधनम् ३९।
बहुपापसमायुक्तः करोति हरिवासरम् ।
सर्वपापविनिर्मुक्तः स याति हरिमंदिरम् ४०।
पतिसहिता या योषित्करोति हरिवासरम् ।
सुपुत्रा स्वामिसुभगा याति प्रेत्य हरेर्गृहम् ४१।
यो यच्छति हरेरग्रे प्रदीपं भक्तिभावतः ।
हरेर्द्दिने र्द्विजश्रेष्ठ पुण्यसंख्या न विद्यते ४२।
यांगना भर्तृसहिता कुरुते जागरं हरेः ।
हरेर्निकेतने तिष्ठेच्चिरं पत्या सह द्विज ४३।
यत्किञ्चिद्धरये वस्तु भक्त्या यच्छति यो द्विज ।
हरेर्दिने तस्य पुण्यमक्षयं चैव सर्वदा ४४।
पुरासीद्वल्लभो नाम्ना नगरे कांचनाह्वये ।
धनेन पुष्कलेनापि राजते स धनेश्वरः ४५।
तस्य प्रिया महारूपा नाम्ना हेमप्रभा द्विज ।
गरीयान्मुखरस्तत्र बाधते च कलेर्गुणः ४६।
सा सदा कलहं कुर्यात्पत्या सह तपोधन ।
शश्वद्गुरुजनान्कामं भर्त्सनान्नीचभाषया ४७।
पाकपात्रे सदाश्नीयात्गुप्ता सैकांतिकेमला ।
उच्छिष्टं गुरुजनेभ्यश्च दद्याद्वै प्रतिवासरम् ४८।
जारे सदा स्थितं चित्तमहं साध्वीति सा वदेत् ।
स्वामिनः कलहैर्ब्रह्मन्मनोद्वेगकरा सदा ४९।
एकदा चागतां दृष्ट्वा चकार भर्त्सनां च ताम् ।
भर्त्ता तस्याः प्रहारं च सर्वपापयुतां द्विज ५०।
सैव रोषसमायुक्ता गता शून्यगृहे तु वै ।
सुप्ताऽज्ञाता स्थिता कस्मिन्जलान्नं न चखाद ह ५१।
दैवात्तत्र दिने विष्णोः पार्श्वस्य परिवर्त्तनम् ।
एकादशीव्रतं विप्र सर्वपापप्रणाशनम् ५२।
ततः प्रभाते रजनी द्वादशी श्रवणान्विता ।
आगता तत्र सा नारी रोषनिर्भरमानसा ५३।
निराहारौ कृतौ द्वौ च निर्मला सा बभूव ह ।
रात्रौ च पंचतां याता जयंतीवासरे द्विज ५४।
यमाज्ञया ततो दूता आगतास्तां तथाविधाम् ।
नेतुं भयंकरास्ते च पाशमुद्गरपाणयः ५५।
बद्ध्वा नेतुं मनश्चक्रे कृतांतसदनं यदा ।
तदागता विष्णुदूताः शंखचक्रगदाधराः ५६।
छित्त्वा पाशं ततो दिव्ये स्यंदने तां गतैनसम् ।
ते वै चारोहयामासु निर्मलां भवनं हरेः ५७।
गता तैर्वेष्टिता साथ दुर्ल्लभं निर्जरैः शुभम् ।
विष्णोर्दिवसमाहात्म्यं कथितं ते द्विजर्षभ ५८।
अनिच्छयापि यः कुर्यात्स याति हरिमंदिरम् ।
एकादश्यादिने मर्त्यो दीपं दातुं हरेर्गृहे ५९।
गच्छेत्प्रतिपदं सोऽपि चाश्वमेधफलाधिकम् ।
शृण्वंति च पुराणानि पठंति च हरेर्दिने ।
प्रत्यक्षरं लभंते ते कपिलादानजं फलम् ६०।
इति श्रीपाद्मे महापुराणे सूतशौनकसंवादे ब्रह्मखंडे हरिवासरमाहात्म्यकथनंनाम पंचदशोऽध्यायः १५।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 16
शौनक उवाच ।
कर्मणा केन भोः सूत चैनसां संक्षयो भवेत् ।
श्रीहरेश्च कृपा भूयात्तद्वदस्वानुकंपया १।
सूत उवाच ।
शृणु शौनक वक्ष्यामि शृण्वतां पापनाशनम् ।
येन विष्णोः कृपा स्याद्वै वृजिनक्षयकारिणी २।
पौर्णमास्यां तु यो विप्र भक्तिभावसमन्वितः ।
कुर्य्यान्नानाविधानेन सपर्य्यां श्रीजगद्विभोः ३।
कलुषं तस्य नश्येत कोटिजन्मार्जितं मुने ।
तस्मिन्श्रीरमणस्यास्य कृपा जाता भवेद्ध्रुवम् ४।
द्वादश्यामन्नदानं यो भक्त्या कुर्याद्द्विजातये ।
तस्य नश्यंति पापानि तमांसी वारुणोदये ५।
यो नरः श्रीहरिं कुर्यात्स्नपनं पयसा द्विज ।
तत्प्रीतिः श्रीहरेः सद्यो द्वादश्यां शर्करादिभिः ६।
मंत्रं विना तु यो विप्र दद्याच्छ्रीहरये किल ।
पाषाणसदृशं पुष्पं दाता याति अधोगतिम् ७।
क्ष्मासुराय च मूर्खाय पाषाणसदृशं तु यत् ।
दद्याद्दानं नरो यो वै तस्य पुण्यं न विद्यते ८।
विद्याहीनो द्विजो मोहाद्दानं गृह्णाति मूढधीः ।
कालानलं यथा जीर्णं तेन स निरयं व्रजेत् ९।
यथा दारुमयो हस्ती मृगश्चित्रमयो यथा ।
विद्याहीनो द्विजो विप्र त्रयस्ते नामधारकाः १०।
यथाध्वनिस्थितं वारि पवनार्केण शुद्ध्यति ।
भक्त्या तु पार्षदं दृष्ट्वा तस्य नश्यति कल्मषम् ११।
यो नरश्चाश्विने मासि सघृतान्पूर्णिमा दिने ।
दद्याच्छ्रीहरये लाजान्क्रीडार्थं तु वराटिकाम् १२।
भक्त्या याति हरेः स्थानं पुनरावृत्तिवर्जितः ।
न दद्याद्यो नरो मोहात्तस्मिन्न तुष्टिदो हरिः १३।
वराटिकां यावतीं यो हरये पौर्णिमादिने ।
तावद्दिनं हरेः स्थानं चाश्विने संवसेद्ध्रुवम् १४।
करवीरपुरे ह्यासीत्पुरा शूद्रोऽपि निर्द्दयः ।
कालद्विजो द्विजश्रेष्ठ नाम्ना पापी भयंकरः १५।
स्वकार्यनिरतः सोऽपि स्वामिकार्यप्रणाशकः ।
एकदा पंचतां यातो यमदूता भयंकराः १६।
आगतास्तं समानेतुं यमस्यतु निकेतनम् ।
बद्ध्वा निन्युश्च तं दृष्ट्वा पृष्टवान्सचिवं यमः १७।
यम उवाच ।
अस्य किं विद्यतेऽमात्य कर्मापि च शुभाशुभम् ।
कथयस्व समूलं तु चित्रगुप्त विचक्षण १८।
चित्रगुप्त उवाच।
असौ पापी दुराचारः स्वामिकार्यप्रणाशकः ।
नास्ति पुण्यं चाणुमात्रं नरके परिपच्यताम् १९।
शतमन्वन्तरं राजन्नागयोनौ च निष्ठुरः ।
पाषाणे जन्म चासाद्य गृहे स्थातुं निरंतरम् २०।
सूत उवाच ।
तावत्कालं ततो विप्र निरये स पपात ह ।
ततोऽप्यश्मगृहे नागयोनौ जातः सुदुःखितः २१।
एकदा चाश्विने मासि पौर्णमासीदिने द्विज ।
लाजान्वराटिका नागो बिलात्प्राक्षेपयद्बहिः २२।
पतिता सा हरेरग्रे पापमस्य स्वयं हरिः ।
तूर्णं तु नाशयामास दयालुर्दुःखनाशकः २३।
कदाचित्प्राप्तकालस्तु पंचत्वं स जगाम ह ।
यमदूतास्तमानेतुं चागता बहुशो द्विज २४।
बद्ध्वा नेतुं यदा चक्रुर्यमस्य सदनं प्रति ।
तदागता विष्णुदूताः शंखचक्रगदाधराः २५।
पाशं छित्त्वा रथे दिव्ये तमाशुगतकिल्बिषम् ।
तत्र चारोपयामासुः यमदूताः पलायिताः २६।
ततो निकेतनं विष्णोर्नागस्तैर्वेष्टितो ययौ ।
तत्र तस्थौ हरेरग्रे पुनरावर्त्तिवर्जितः २७।
भक्त्या यो हरये दद्याल्लाजांश्च सघृतान्द्विज ।
वराटिकां तस्य पुण्यं न जाने किं भवेद्ध्रुवम् २८।
य इमं शृणुयाद्विप्र चाध्यायं पापनाशनम् ।
तस्य नश्यंति पापानि श्रीहरेः कृपयापि च २९।
इति श्रीपाद्मेमहापुराणे ब्रह्मखंडे सूतशौनकसंवादे षोडशोऽध्यायः १६।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 17
शौनक उवाच।
विष्णुपादोदकस्यापि माहात्म्यं पापनाशनम् ।
कथयस्व महाप्राज्ञ समूलं मे कृपार्णव १।
सूत उवाच।
समस्तपातकध्वंसि विष्णुपादोदकं शुभम् ।
कणमात्रं वहेद्यस्तु सर्वतीर्थफलं लभेत् २।
विष्णुपादोदकं ब्रह्मन्स्पर्शतः पापनाशनम् ।
अकालमरणं नास्ति गंगास्नानफलं लभेत् ३।
विष्णुपादोदकं पापी यः पिबेत्तस्य किल्बिषम् ।
शरीरस्थं क्षयं याति कृतं ब्रह्मन्न संशयः ४।
तुलसीपर्णसंयुक्तं विष्णुपादोदकं द्विज ।
यो वहेच्छिरसा भक्त्या चांते याति हरेर्गृहम् ५।
मेरुतुल्यसुवर्णानि दत्त्वा यत्फलमाप्यते ।
हरिपादोदकं स्पृष्ट्वा प्राप्यते तत्फलं नरैः ६।
धेनुकोटिसहस्राणि यत्फलं लभते नरैः ।
दत्वा पादोदकं स्पृष्ट्वा तत्फलं प्राप्यते ध्रुवम् ७।
यज्ञकोटिसहस्राणि कृत्वा यत्फलमाप्यते ।
हरिपादोदकं स्पृष्ट्वा तस्मात्कोटिगुणं नरैः ८।
कोटिकन्याप्रदानेन यत्फलं लभ्यते जनैः ।
विष्णुपादोदकं स्पृष्ट्वा फलं तस्माद्द्विजाधिकम् ९।
दंतिकोटिप्रदानेन सप्तिकोटिप्रदानतः ।
यत्फलं लभते मर्त्यः स्पृष्ट्वा पादोदकं हरेः १०।
दत्वा मर्त्यः सप्तद्वीपां ससस्यां यत्फलं लभेत् ।
विष्णुपादोदकं स्पृष्ट्वा तस्माद्विप्राधिकं लभेत् ११।
शृणु विप्र प्रवक्ष्यामि संक्षेपेणाधिकं किमु ।
विष्णुपादोदकं स्पृष्ट्वा पापी याति हरेर्गृहम् १२।
शौनक उवाच।
स्पृष्ट्वा पीत्वा पुरा केन प्राणिना प्रापि वै गृहम् ।
कथयस्व हरेः सूत मम त्वं चानुकंपया १३।
सूत उवाच।
पुरा त्रेतायुगे पापी नाम्ना विप्रः सुदर्शनः ।
जनार्द्दनदिने नित्यमश्नीयात्स द्विजोत्तम १४।
शास्त्रनिंदाकरो नित्यं व्रतनिंदाकरः सदा ।
असावन्यं न जानाति केवलं स्वोदरं विना १५।
एकदा प्राप्तकालस्तु निधनं प्राप्तवान्द्विज ।
यमदूताः समायाता बद्ध्वा नीतो यमालयम् १६।
तं दृष्ट्वा यमुनाभ्राता पप्रच्छ सचिवं रुषा ।
भोऽमात्य चास्य यत्पुण्यं पापं वद समूलतः १७।
असौ विप्रो महापापी क्रूरकर्म्मेव दृश्यते १८।
चित्रगुप्त उवाच।
आकर्णय चास्य पापं पुण्यं नास्त्यणुमात्रकम् ।
वासरेऽपि हरेर्नित्यमकरोद्भोजनं विभो १९।
वासरे कमलाभर्तुश्चाश्नीयाद्यो नराधमः ।
पुरीषं सोऽश्नीयाद्राजन्निरयं याति दारुणम् २०।
मन्वंतरशतं देहि स्थानं तु निरयेऽप्यमुम् ।
ग्रामक्रोडस्य योनौ हि ततो जन्म भविष्यति २१।
सूत उवाच।
यमाज्ञया ततो विप्र तस्य दूतैर्भयंकरैः ।
पातितस्तु पुरीषे वै मन्वंतरशताधिकम् २२।
ततो मुक्तोऽभवच्चासौ पृथिव्यां ग्रामसूकरः ।
चिरं नरकमश्नीयाद्धरिवासरभोजनात् २३।
ततो विप्र प्राप्तकालः पंचत्वं स जगाम ह ।
काकयोनौ पुनर्जन्म लेभेऽसौ विड्भुजः सदा २४।
एकस्मिन्दिवसे विप्र श्रीहरेश्चरणोदकम् ।
द्वारदेशेस्थितं पीत्वा सर्वपापविवर्जितः २५।
तस्मिन्नेव दिने काकः पतितः शबरस्य च ।
काले मृत्युदशां प्राप्तो व्याधेन वायसोपि च २६।
आगते स्यंदने दिव्ये राजहंसयुते शुभे ।
आरुह्य बलिभुग्विप्र ययौ स हरिमंदिरम् २७।
पादोदकस्य माहात्म्यं कथितं पापनाशनम् ।
यः शृणोति नरः पापी तस्य पापं विनश्यति २८।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे चरणोदकमाहात्म्ये सप्तदशोऽध्यायः १७।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 18
शौनक उवाच।
अगम्यागमनं सूत कुर्याद्यो वै विमोहितः ।
तस्य शुद्धिर्भवेत्केन कथयस्व समूलतः १।
सूत उवाच।
अभिगच्छति चांडालीं श्वपाकीं यो द्विजोत्तमः ।
उपवासत्रयं कुर्यात्प्राजापत्यं चरेत्ततः २।
सशिखं वपनं चैव दद्याद्गोद्वयमेव च ।
यथार्थदक्षिणां दत्वा शुद्धिमाप्नोति स द्विजः ३।
क्षत्त्रियो वापि चांडालीं वैश्यो वा यदि गच्छति ।
प्राजापत्यं सकृच्छ्रं च दद्याद्गोमिथुनद्वयम् ४।
अनुगच्छति शूद्रो हि श्वपाकीं च तपोधन ।
चतुर्गोमिथुनं दद्यात्प्राजापत्यं व्रतं चरेत् ५।
मातरं यदि वा गच्छेद्भगिनीं स्वसुतामपि ।
वधूं च मोहितो गच्छंस्त्रीणि कृच्छ्राण्यथाचरेत् ६।
चांद्रायणत्रयं कृत्वा दद्याद्गोमिथुनत्रयम् ।
सशिखं वपनं कृत्वा पंचगव्यं पिबेत्ततः ७।
हुते ह्यग्नौ तथाप्यत्र शुद्ध्यत्येवं तपोधन ।
पितृदारान्द्विजश्रेष्ठ मातुश्च भगिनीं तथा ८।
गुरुपत्नीं मातुलानीं भ्रातुर्भार्यां स्वगोत्रजाम् ।
यदि गच्छति मोहेन प्राजापत्यद्वयं चरेत् ९।
चांद्रायणत्रयं ब्रह्मन्पंचगोमिथुनानि च ।
विप्रेभ्यो दक्षिणां दद्याच्छुध्यते नात्र संशयः १०।
गां च गच्छति यो मूढ उपवासत्रयं चरेत् ।
धेनुं दत्त्वा तथा चान्नं शुद्ध्यत्यत्र न संशयः ११।
वेश्यां खरीं शूकरीं च कपिं तुं महिषीं द्विज ।
आकंठतः समाक्षिप्य गोमयोदककर्द्दमे १२।
तत्र तिष्ठेन्निराहारो त्रिरात्रेणैव शुद्ध्यति ।
सशिखं वपनं कृत्वा त्रिरात्रमुपवासयेत् १३।
एकरात्रं जले स्थित्वा शुद्ध्यत्येव न संशयः ।
ब्राह्मणीं तु यदा गच्छेत्यो नरः काममोहितः १४।
प्राजापत्यत्रयं कुर्य्याच्चांद्रायणत्रयं तथा ।
गोत्रयं तु तथा दद्याच्छुद्ध्यत्येव तपोधन १५।
ब्राह्मणी पंचगव्यं तु पंचरात्रं पिबेद्द्विज ।
गोद्वयं दक्षिणां दद्याच्छुध्यत्यत्र न संशयः १६।
परांगनां यदागच्छेत्कृच्छ्रं सांतपनं चरेत् ।
यथार्गला तथा योषित्तस्मात्तां परिवर्जयेत् १७।
वर्णबाह्यां तथा नीचामनुगच्छेत्सकृन्नरः ।
प्राजापत्यं चरेत्कृच्छ्रं शुद्ध्यत्येव न संशयः १८।
अंगारसदृशी योषित्सर्पिः कुंभसमः पुमान् ।
तस्याः परिसरे ब्रह्मन्न स्थातव्यं कदाचन १९।
जारेण जनयेद्गर्भं या च नारी कुलांतका ।
त्याज्या सा सर्वथा ब्रंह्मस्तत्र दोषो न विद्यते २०।
या च नारी गृहाद्गच्छेत्त्यक्त्वा बंधून्स्वकानपि ।
नष्टा सा च कुलभ्रष्टा न तस्याः संगमः पुनः २१।
या च नारी यदा गच्छेन्मोहिता परपूरुषम् ।
प्राजापत्यं चरेत्कृच्छ्रं पंचगव्यं पिबेत्ततः २२।
गोद्वयं तु ततो दद्याच्छुध्यत्येव न संशयः ।
ब्राह्मणी बालिशा ब्रह्मन्मोहिता परपूरुषम् २३।
यदा गच्छेत्तदा त्याज्या जनैर्दोषो न विद्यते ।
यो गच्छेद्ब्राह्मणीं विप्र भूसुरः काममोहितः ।
गो तिलांश्च तदा दद्याच्छुद्ध्यत्यत्र न संशयः २४।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे अष्टादशोऽध्यायः १८।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 19
शौनक उवाच।
अज्ञानात्प्राश्य विण्मूत्रं सुरां संस्पृश्य वा पुनः ।
यथा शुद्धिर्भवेत्तेषां कथयामि शृणु द्विज १।
प्राजापत्यद्वयं कुर्य्यात्तीर्थाभिगमनं मुने ।
वृषैकादशगोदानं सशिखं वपनं ततः २।
गत्वा चतुष्पथं सर्वं प्राजापत्यव्रतं तथा ।
गोद्वयं तु ततो दद्यात्पंचगव्यं पिबेत्ततः ३।
ब्राह्मणान्भोजयित्वा तु शुद्ध्यत्यत्र न संशयः ।
चांडालान्नं जलं चैव ज्ञानतोऽपि विपत्तिषु ४।
यदि भुङ्क्ते नरः कश्चित्कृच्छ्रं चांद्रायणं चरेत् ।
सशिखं वपनं कृत्वा पंचगव्यं ततः पिबेत् ५।
एकद्वित्रिचतुर्गावो देयाद्विप्रेष्वनुक्रमात् ।
वृषलान्नं सूतकान्नं अभोज्यान्नं जलं च वै ६।
शूद्रोच्छिष्टं यदा भुंक्ते ज्ञानतो वा विपत्तिषु ।
प्राजापत्यद्वयं कुर्याच्चांद्रायणत्रयं तथा ७।
गोद्वयं तु ततो दद्यात्पंचगव्यं पिबेद्द्विज ।
हुत्वा ह्यग्नौ बहून्विप्रान्भोज्यशुद्धो भवेद्ध्रुवम् ८।
आखुनकुलमार्ज्जारैरन्नं चेद्भक्षितं द्विज ।
तिलदर्भोदकैः प्रोक्ष्य शुद्ध्यत्येव न संशयः ९।
पलांडुं लशुनं शिग्रुमलाबुं गृंजनं पलम् ।
भुंक्ते यो वै नरो ब्रह्मन्व्रतं चांद्रायणं चरेत् १०।
मद्यमांसप्रियं शूद्रं नीचकर्म्मानुवर्त्तनैः ।
तं शूद्रं वर्जयेद्विप्र श्वपाकमिव दूरतः ११।
द्विजसेवानुरक्ता ये मद्यमांसविवर्जिताः ।
दान स्वकर्म्मनिरतास्ते ज्ञेया वृषलोत्तमाः १२।
अज्ञानाद्भुंजते विप्र सूतके मृतके यदि ।
गायत्रीदशभिर्विप्रः सहस्रैश्च शुचिर्भवेत् १३।
सहस्रैः क्षत्रियश्चैव वैश्यः पंचसहस्रकैः ।
पंचगव्यैर्भवेच्छुद्धो वृषलोऽपि तपोधन १४।
आज्यं तु तोयं नीचस्य भांडस्थं दधि यः पिबेत् ।
अज्ञानतोऽपि यो वर्णः प्राजापत्यव्रतं चरेत् १५।
दानं बहुतरं दद्याच्छुद्धो ह्यग्नौ यथाविधि ।
शूद्राणां नोपवासोऽपि दानेनैव विशुद्ध्यति १६।
सशिखं वपनं कुर्यादहोरात्रोपवासतः ।
नीचैर्दंडादिभिश्चैव ताडितो यो नरो द्विज १७।
प्राज्ञापत्यव्रतं कुर्य्याच्चांद्रायणव्रतं तु वा ।
सशिखं वपनं चैव पंचगव्यं पिबेत्ततः १८।
गोद्वयं तु ततो दद्यादग्नौ चान्नादिकं हुतम् ।
मद्यपानं गृहे विप्र ज्ञानतोऽपि यदृच्छया १९।
यदि भुंक्ते नरः कश्चित्पात्यः सोऽपि कुलान्नरः ।
गोबीजहंता यो विप्रच्छेदकश्च दलस्य च २०।
स्वर्णस्तेयी भवेत्कृच्छ्रं प्राजापत्यत्रयं चरेत् ।
सशिखं वपनं कृत्वा पंचगव्यं तथा पिबेत् २१।
यथाविधिहुतं चाग्नौ दद्याद्धेनुत्रयं तथा ।
तस्य भुक्तं जलं चैव ग्राह्यं स्याद्वै तपोधन २२।
प्रातस्त्र्यहं तु चाश्नीयात्र्यहं सायमयाचितम् ।
त्र्यहं चैव तु नाश्नीयात्प्राजापत्यमिदं व्रतम् २३।
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ।
दिनद्वयं पिबेद्विप्र चैकरात्रमुपोषितः ।
सर्वपापहरं कृच्छ्रं मुने सांतपनं स्मृतम् २४।
ग्रासं त्र्यहं तु चैकैकं प्रातःसायमयाचितम् ।
अद्यात्त्र्यहं चोपवसेदतिकृच्छ्रमिदं व्रतम् २५।
प्रतित्र्यहं पिबेदुष्णं जलं क्षीरं घृतं द्विज ।
सकृत्स्नायी तप्तकृच्छ्रं स्मृतं पापहरं मुने २६।
अभोजनं द्वादशाहं कृच्छ्रोऽयं पापनाशनः ।
पराको नाम विज्ञेयः प्रसिद्धश्च तपोधन २७।
एकैकं वर्द्धयेत्पिंडं शुक्ले कृष्णे च ह्रासयेत् ।
इंदुक्षये न भुंजीत चांद्रायणव्रतं स्मृतम् २८।
अश्नीयाच्चतुरः प्रातः पिंडान्विप्र समाहितः ।
चतुरोऽस्तमिते चार्के शिशुचांद्रायणं स्मृतम् २९।
कूष्मांडघाती या नारी पंचगव्यं पिबेत्त्र्यहम् ।
कूष्मांडपंचकं दद्यात्ससुवर्णं सवस्त्रकम् ।
तस्या वारि तथा भक्तं ग्राह्यं स्याद्वै तपोधन ३०।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे एकोनविंशोऽध्यायः १९।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 20
शौनक उवाच।
सुकृतं किं तथा प्राह कृत्वा संसारसागरात् ।
तरिष्यंति कलौ सूत तमोन्धकूपमंडुकाः १।
सूत उवाच।
राधाकृष्णप्रिये चौर्जे प्रातःस्नानं समाचरेत् ।
राधादामोदरं भक्त्या कुर्यात्पूजां समाहिता २।
त्यक्त्वामिषादिकं ब्रह्मन्पतिसेवापरायणा ।
सा याति श्रीहरेः स्थानं गोलोकाख्यं सुदुर्ल्लभम् ३।
राधादामोदराभ्यां या धूपदीपं तु कार्तिके ।
दद्यात्सा भवनं विष्णोर्याति वै त्यक्तपातकाः ४।
योषिद्या कार्त्तिके विप्र दद्याद्वस्त्रं निकेतने ।
राधादामोदराभ्यां तु वसेत्सा श्रीहरेश्चिरम् ५।
राधादामोदराभ्यां सा पुष्पं माल्यं सुवासितम् ।
कार्तिके मासि सा दद्याद्याति वैकुंठमंदिरम् ६।
गंधं या चापि नैवेद्यं दद्याद्वै शर्करादिकम् ।
राधादामोदराभ्यां सा गच्छेद्वै विष्णुमंदिरम् ७।
यत्किंचिद्यच्छति ब्रह्मन्कार्तिके च द्विजातये ।
राधादामोदरप्रीत्यै तस्याः पुण्याक्षयं भवेत् ८।
या नारी कार्तिके भक्त्या राधादामोदरं द्विज ।
प्रातः सपर्यां सा याति न कुर्य्यान्निरयं चिरम् ९।
कदाचिज्जन्मभूमौ सा विधवा प्रति जन्मनि ।
भवेच्चासाद्य पूर्व्वं वै चाप्रिया स्वामिनोऽपि च १०।
पुरा त्रेतायुगे विप्र वृषलो नाम शंकरः ।
सौराष्ट्रदेशवासी च तस्य जाया कलिप्रिया ११।
जाराकांक्षी सदा नाम्ना तृणवन्मन्यते पतिम् ।
असौ पतिर्न मे योग्यो मे स्वामी परपूरुषः १२।
इति मत्वा सदा तस्मै चोच्छिष्टं तु ददाति वै ।
नीचसंगान्महामूढा मद्यमांसं चखाद ह १३।
स्वामिनो भर्त्सनां नित्यं कुर्यात्कामं तु निष्ठुरा ।
पादरज्जुर्भवेच्चासौ कस्माद्वै न मृतोऽपि च १४।
मृते तस्मिन्नहं भोगं करिष्यामि यदृच्छया ।
विचार्येति हृदा मूढा जारेणैकेन सा तदा १५।
अन्यदेशं गमिष्यावः संकेतमकरोद्द्विज ।
सुप्तस्य स्वामिनो रात्रौ चासिना तद्गलं द्विज १६।
छित्त्वा जारकृते सापि संकेतस्य स्थलं गता ।
आगतं जारपुरुषं द्वीपिना भक्षितं द्विज १७।
दृष्ट्वा सा रोदनं कृत्वा मूर्च्छिता निपपात ह ।
चिरादाश्वस्य सा मूढा करुणं विललाप ह १८।
कलिप्रियोवाच।
स्वकीयं स्वामिनं हत्वा चागता परपूरुषम् ।
तं जारं स्वामिनं दैवात्शार्दूलो भक्षयन्मम ।
किं करोमि क्व गच्छामि विधात्रा वंचितास्म्यहम् १९।
सूत उवाच।
ततः कलिप्रिया ब्रह्मनागता स्वगृहं प्रति ।
लपने स्वामिनो दत्वा मुखं च विललाप सा २०।
कलिप्रियोवाच।
हा नाथ किं कृतं कर्म्म मया हंतातिदारुणम् ।
कं लोकं वा गमिष्यामि वद स्वामिन्मनाग्गिरम् २१।
भर्त्सनां तु यथाकामं कुर्य्याच्चाहं सुनिंदिता ।
किंचिन्न वदसि स्वामिन्नेनो यन्मे न विद्यते २२।
सूत उवाच।
ननाम चरणे तस्य गतान्यनगरं प्रति ।
तत्र प्रविष्टा सा योषिद्दृष्ट्वा पुण्यजनान्बहून् २३।
ऊर्जे स्नानपरान्प्रातर्नर्मदायां च वैष्णवान् ।
तत्र नद्यां स्त्रियश्चापि राधादामोदरं द्विज २४।
सपर्यां च कृतां चैव शंखनादैर्महोत्सवैः ।
गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः २५।
मुखवासैर्भक्तियुक्ता दृष्ट्वा सा विनयान्विता ।
पप्रच्छ ब्रूत यूयं मे किमेतत्क्रियते स्त्रियः २६।
स्त्रिय ऊचुः -
सर्वमासोत्तमे चोर्जे राधादामोदरौ शुभौ ।
पूजां कृत्वा वयं मातः सर्वपापहरां शुभाम् २७।
कोटिजन्मार्जितं पापं नष्टं प्राप्तं निकेतनम् ।
सपर्य्यामामिषं त्यक्त्वा कृत्वा सा च हरेर्द्दिने २८।
निधनत्वं पौर्णमास्यां गता सा निर्मला द्विज ।
किंकराश्चागतास्तूर्णं यमस्य निलयं प्रति २९।
नेतुं तां क्रोधसंयुक्ता बबंधुश्चर्मरज्जुभिः ।
तदागता विष्णुदूता विमानं स्वर्णनिर्मितम् ३०।
शंखचक्रगदापद्मधारिणो वनमालिनः ।
निजघ्नुश्चक्रधाराभिर्यमदूताः पलायिताः ३१।
राजहंसयुते विप्र विमाने स्वर्णनिर्मिते ।
आरूढा सा गता तैस्तु वेष्टिता विष्णुमंदिरम् ३२।
तत्र तस्थौ चिरं भोगं कृत्वा सा वै यथेप्सितम् ।
या कुर्यात्कार्त्तिके विप्र राधादामोदरार्चनम् ३३।
याति पूजा त्यक्तपापाद्गोलोकाख्यं मनोहरम् ।
य इदं शृणुयाद्भक्त्या या च नारी समाहिता ।
कोटिजन्मार्जितं पापं तस्य तस्या विनश्यति ३४।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे राधादामोदरपूजामाहात्म्यकथनंनाम विंशतितमोऽध्यायः २०।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 21
शौनक उवाच।
कथयस्व मुने सूत सर्वमासोत्तमस्य च ।
कार्तिकस्य विधिं सम्यङ्नियमान्वक्तुमर्हसि १।
सूत उवाच।
आश्विनस्य द्विजश्रेष्ठ पौर्णमास्यां समाहितः ।
कार्तिकस्य व्रतं कुर्याद्यावदुद्बोधिनी भवेत् २।
दिवा विप्र नरः कुर्यान्मलमूत्रमुदङ्मुखः ।
भवेन्मौनी च सर्वज्ञ रात्रौ चेद्दक्षिणामुखः ३।
पथ्यंभसि च गोष्ठेषु श्मशाने वल्मिके द्विज ।
कुर्यादुत्सर्जनं नैव व्रती मूत्रपुरीषयोः ४।
अत्युत्तमेषु स्थानेषु मलमूत्रं न कारयेत् ।
शुद्धां मृदं गृहीत्वाथ वामं प्रक्षालयेत्करम् ५।
अद्भिर्मृदापि शुद्ध्यर्थं पूर्वं विंशतिसंख्यया ।
एका लिंगे गुदे पंच तथा वामकरे दश ६।
उभयोर्दश दातव्या पादयोश्च त्रिभिस्त्रिभिः ।
मुखशुद्धिं ततः कुर्य्यात्संकल्पं स्नपनस्य च ७।
हृदि दामोदरं ध्यात्वा इमं मंत्रं ततो वदेत् ।
कार्तिकेहं करिष्यामि प्रातःस्नानं जनार्द्दन ८।
दामोदरस्य प्रीत्यर्थं राधया पापनाशनं ।
नमः पंकजनाभाय श्रीकृष्णजलशायिने ९।
नमस्ते राधया सार्द्धं गृहाणार्घं प्रसीद मे ।
स्नानं कुर्य्यात्ततो विप्र तिलकं तु यथाविधि १०।
ऊर्ध्वपुंड्रविहीनस्तु किंचित्कर्मकरोति यः ।
निष्फलं कर्म तत्सर्वं सत्यमेतन्मयोच्यते ११।
यच्छरीरं मनुष्याणामूर्ध्वपुंड्रं विना कृतम् ।
तद्दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् १२।
ऊर्ध्वपुंड्रं मृदा शुभ्रं ललाटे यस्य दृश्यते ।
चांडालोऽपि विशुद्धात्मा पूज्य एव न संशयः ।
अच्छिद्रमूर्ध्वपुंड्रं तु ये कुर्वंति नराधमाः १३।
तेषां ललाटे सततं शुनःपादो न संशयः ।
प्रातःकालोदितं कर्म्म समाप्य हरिवल्लभाम् १४।
पूजयेद्भक्तितो विप्र तुलसीं पापनाशिनीम् ।
पौराणीं तु कथां श्रुत्वा श्रीहरेः स्थिरमानसः १५।
ततो विप्रं व्रती भक्त्या पूजयेत्तं यथाविधि ।
परासनं परान्नं च परशय्यां परांगनाम् १६।
सर्वदा वर्जयेद्विप्र कार्त्तिके च विशेषतः ।
सौवीरकं तथा माषानामिषं च तथा मधु १७।
राजमाषादिकं नित्यं वर्जयेत्कार्तिके व्रती ।
जंबीरमामिषं चूर्णमन्नं पर्य्युषितं द्विज १८।
धान्ये मसूरिका प्रोक्ता गवां दुग्धमनामिषम् ।
लवणं भूमिजं विप्र प्राण्यङ्गमामिषं खलु १९।
द्विजक्रीता रसाः सर्वे जलं चाल्पसरः स्थितम् ।
ब्रह्मचर्यं तुर्यकाले पत्रावल्यां च भोजनम् २०।
कुर्याद्वै द्विजशार्दूल तैलाभ्यंगं च वर्जयेत् ।
छत्राकं नालिकं हिंगुं पलांडुं पूतिकादलम् २१।
लशुनं मूलकं शिग्रुं तथैव तुंबिकाफलम् ।
कपित्थं चैव वृंताकं कूष्मांडं कांस्यभोजनम् २२।
द्विपाचितं सूतिकान्नं मत्स्यं शय्यां रजस्वलाम् ।
द्विस्त्रिश्चान्नं स्त्रियः संगं वर्जयेत्कार्तिकव्रती २३।
धात्रीफलं गृही विप्र रवौ तत्सर्वदा त्यजेत् ।
कूष्मांडे धनहानिः स्यात्बृहत्यां न स्मरेद्धरिम् २४।
पटोले तु न वृद्धिः स्याद्बलहानिश्च मूलके ।
कलंकी जायते बिल्वे तिर्यग्योनिश्च निंबुके २५।
ताले शरीरनाशः स्यान्नारिकेले च मूर्खता ।
तुंबी गोमांसतुल्या स्याद्गोवधं स्यात्कलिंदके २६।
शिंबी पापकरा प्रोक्ता पूतिका ब्रह्मघातिका ।
वार्ताक्यां सुतनाशः स्याच्चिररोगी च माषके २७।
मांसे च बहुपापं स्याद्वर्जयेत्प्रतिपदादिषु ।
यत्किंचिद्वर्जयेद्योऽन्नं श्रीहरे प्रीतये द्विज २८।
तत्पुनर्भूसुरे दत्वा व्रतांते तस्य भोजनम् ।
कार्तिकव्रतिनं विप्र यथोक्तकारिणं नरम् २९।
यमदूताः पलायंते सिंहं दृष्ट्वा यथा गजाः ।
श्रेष्ठं विष्णुव्रतं विप्र तत्तुल्या न शतं मखाः ३०।
कृत्वा क्रतुं व्रजेत्स्वर्गं वैकुंठं कार्तिकव्रती ।
यत्किंचिद्दुष्कृतं विप्र मनोवाक्कायकर्मजम् ३१।
दृष्ट्वा तु विलयं याति कार्तिकव्रतिनं क्षणात् ।
कार्त्तिकव्रतिनः पुण्यं ब्रह्मा चैव चतुर्मुखः ३२।
न समर्थो भवेद्वक्तुं यथोक्तव्रतकारिणः ।
यत्कृत्वा कलुषं सर्वं व्रजेद्विप्र दशो दिशः ३३।
क्व गच्छामि क्व तिष्ठामि कार्त्तिकव्रतिनो भयात् ।
पौर्णमास्यां यथाशक्ति चान्नवस्त्रादिकं द्विज ३४।
दद्याद्वै श्रीहरेः प्रीत्यै ब्राह्मणानपि भोजयेत् ।
रात्रौ जागरणं कुर्यान्नृत्यगीतादिभिर्व्रती ।
य इदं शृणुयाद्भक्त्या तस्य पापं प्रणश्यति ३५।
इति श्रीपाद्मे महापुराणे सूतशौनकसंवादे ब्रह्मखंडे एकविंशोऽध्यायः २१।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 22
शौनकउवाच।
माहात्म्यं ब्रूहि सर्वज्ञ शृण्वतां पापनाशनम् ।
सर्वप्राणिहितार्थाय तुलस्या अनुकंपया १।
सूत उवाच।
तुलस्याः परिसरे यस्य काननं तिष्ठति द्विज ।
गृहस्य तीर्थरूपत्वान्नायांति यमकिंकराः २।
तुलस्याः काननं विप्र सर्वपापहरं शुभम् ।
रोपयंति नराः श्रेष्ठास्ते न पश्यंति भास्करिम् ३।
रोपणं पालनं सेवां दर्शनं स्पर्शनं तु यः ।
कुर्य्यात्तस्य प्रणष्टं स्यात्सर्वपापं द्विजोत्तम ४।
कोमलैस्तुलसीपत्रैरर्चयंति हरिं तु ये ।
कालस्य सदनं विप्र ते न यांति महाशयाः ५।
गंगाद्याः सरितः श्रेष्ठा विष्णु ब्रह्म महेश्वराः ।
देवैस्तीर्थैः पुष्कराद्यैस्तिष्ठंति तुलसीदले ६।
यो युक्तस्तुलसीपत्रैः पापी प्राणान्विमुञ्चति ।
विष्णोर्निकेतनं याति सत्यमेतन्मयोदितम् ७।
तुलसीमृत्तिकालिप्तो युक्तः पापशतैरपि ।
विमुंचति नरः प्राणान्स याति हरिमन्दिरम् ८।
यो नरो धारयेद्विप्र तुलसीकाष्ठचंदनम् ।
तस्याङ्गं न स्पृशेत्पापं स याति परमं पदम् ९।
तुलसीकाष्ठमालां तु कण्ठस्थां वहते तु यः ।
अप्यशौचोप्यनाचारो भक्त्या याति हरेर्गृहम् १०।
धात्रीफलकृतामाला तुलसीकाष्ठसंभवा ।
दृश्यते यस्य देहे तु स वै भागवतो नरः ११।
तुलसीदलजां मालां कण्ठस्थां वहते तु यः ।
विष्णूच्छिष्टां विशेषेण स नमस्यो दिवौकसाम् १२।
यः पुनस्तुलसीमालां कण्ठे कृत्वा जनार्दनम् ।
पूजयेत्पुण्यमाप्नोति प्रतिपुष्पं गवायुतम् १३।
धारयन्ति न ये मालां हैतुकाः पापबुद्धयः ।
नरकान्न निवर्तंते दग्धाः कोपाग्निना हरेः १४।
न जह्यात्तुलसीमालां धात्रीमालां विशेषतः ।
महापातकसंहर्त्रीं धर्मकामार्थदायिनीम् १५।
स्पृशेच्च यानि लोमानि धात्रीमाला कलौ नृणाम् ।
तावद्वर्षसहस्राणि वसते केशवालये १६।
निवेद्य केशवे मालां तुलसीकाष्ठसंभवाम् ।
वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् १७।
तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः ।
दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम् १८।
तुलस्या विपिने धात्र्याश्छायासु यो नरोत्तमः ।
पिण्डं ददाति पितरो मुक्तिं यान्ति द्विजोत्तम १९।
पाणौ मूर्ध्नि गले चैव कर्णयोश्च मुखे द्विज ।
धात्रीफलं यस्तु धत्ते स विज्ञेयो हरिः स्वयम् २०।
धात्रीपत्रैः फलैर्विप्र श्रीहरिं चार्चयेद्द्विज ।
कोटिजन्मार्जितं पापं पूजया नश्यति सकृत् २१।
यज्ञादेवाश्च मुनयस्तीर्थानि कार्तिके द्विज ।
धात्रीवृक्षं समाश्रित्य तिष्ठन्ति कार्तिके सदा २२।
धात्रीपत्रं कार्तिके च द्वादश्यां तुलसीदलम् ।
चिनोति यो नरो गच्छेन्निरयं यातनामयम् २३।
धात्रीछायासु यो विप्र चान्नं भुनक्ति कार्तिके ।
अन्नसंसर्गजं पापमावर्षं तस्य नश्यति २४।
तुलसीवनमध्ये च धात्रीमूले च कार्तिके ।
कुर्याद्धर्यर्चनं विप्र वैकुण्ठं याति स ध्रुवम् २५।
तुलसीमूलदेशेऽपि स्थितं वारि द्विजोत्तम ।
गृह्णाति मस्तके भक्त्या पापी याति हरेर्गृहम् २६।
तुलसीपत्रगलितं यस्तोयं शिरसावहेत् ।
सर्वतीर्थेषु स स्नातश्चांते याति हरेर्गृहम् २७।
पुरा कश्चिद्द्विजश्रेष्ठो द्वापरेऽभून्महामुने ।
स्नात्वैकदा तुलस्यै स वनं दत्वा गृहं गतः २८।
आदित्यो वर्चसा नाम्ना मार्त्तंड इव पुण्यतः ।
तृषार्तो भक्षकः कश्चिदागतो बहुकल्मषः २९।
तुलस्यामूलतस्तोयं पीत्वा चासौ हतांहसः ।
त्वरयाप्यागतो व्याधो नाम्ना यश्चासिमर्द्दनः ३०।
उवाच भुक्तं चान्नं च भुक्त्वा भग्नं गतः किमु ।
कृत्वा मे पाकभांडस्थं चागतो हिंसकस्य ते ३१।
विव्याध तं गतप्राणं नेतुं वै शमनाज्ञया ।
आगताः किंकराः क्रुद्धाः पाशमुद्गरपाणयः ३२।
बद्ध्वा नेतुं मनश्चक्रुरागता विष्णुकिंकराः ।
तदा छित्त्वा चर्मपाशं स्यंदने तं मनोहरे ३३।
तूर्णमारोहयामासुः पप्रच्छुर्विनयान्विताः ।
तेऽपि पुण्येन भोः संतः केन वै नीयतेऽप्यसौ ३४।
ऊचुस्तेऽसौ पुरा राजा पुण्यं बहुतरं कृतम् ।
अकरोद्धरणं कांचित्सुंदरीं चांगनामयम् ३५।
अनेन चांहसा राजा गतो वै शमनक्षयम् ।
तत्रक्लेशं तु युष्माभिर्दत्तं वै शमनाज्ञया ३६।
ताम्रमय्यास्त्रियासार्द्धं क्रीडां सुप्त्वा चकार सः ।
तप्तायां लोहशय्यायां वैक्लव्यं कर्मणा नृप ३७।
तप्तायोभीषणं तप्तं लोहस्तंभं यमाज्ञया ।
ततः स्थितः समालिंग्य भुक्त्वा दुःखं चिरं नृपः ३८।
सिक्तः क्षारांबुधाराभिरन्यैर्वै शमनालये ।
ततो नरकशेषे च पापयोनौ मुहुर्मुहुः ३९।
जन्मासाद्य चिरं दुःखमनुभूतं स्वकर्मणा ।
तुलसीमूलकं वारि पीत्वा याति हरेर्गृहम् ४०।
इदानीं तद्वचः श्रुत्वा गतादूता यथागताः ।
तेन सार्द्धं विष्णुदूता गता वैकुंठमंदिरम् ४१।
माहात्म्यं कथितं ब्रह्मन्तुलस्याः पापनाशनम् ।
कुर्वंति सेवां ये भक्त्या न जाने किं भवेन्मुने ४२।
इति श्रीपाद्मेमहापुराणे ब्रह्मखण्डे सूतशौनकसंवादे तुलस्या माहात्म्यंनाम द्वाविंशोऽध्यायः २२।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 23
शौनक उवाच।
कथयस्व मुने सूत माहात्म्यं कलुषक्षयम् ।
शेषपंचदिनस्यापि कार्त्तिकस्यानुकंपया १।
सूत उवाच।
शृणु शौनक यत्पृष्टं माहात्म्यं पापनाशनम् ।
वक्ष्याम्यहं वै चोर्जस्य शेषपंचदिनस्य च २।
व्रतानां मुनिशार्दूल प्रवरं विष्णुपंचकम् ।
तस्मिन्यः पूजयेद्भक्त्या श्रीहरिं राधया सह ३।
गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः ।
स याति विष्णुसदनं सर्वपापविवर्जितः ४।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः ।
न प्राप्नोति परं स्थानमकृत्वा विष्णुपंचकम् ५।
सर्वपापहरं पुण्यं विख्यातं विष्णुपंचकम् ।
तत्र स्नानं तु यः कुर्यात्सर्वतीर्थफलं लभेत् ६।
श्रीहरेः पुरतो विप्र तुलस्याश्च समीपतः ।
प्रदीपं सर्पिषा पूर्णं दद्याद्यो भक्तिभावतः ७।
नभसि श्रीहरेः प्रीत्यै याति स विष्णुमंदिरम् ।
पापी याति हरेर्धाम सत्यमेतन्मयोदितम् ८।
स्नापयेच्चाच्युतं भक्त्या मधुक्षीरघृतादिभिः ।
दद्यात्किं नो हरिः प्रीतस्तस्मै साधुजनाय वै ९।
नैवेद्यं देवदेवेशं परमान्नं निवेदयेत् ।
तस्य पुण्यं प्रसंख्यातुं न शक्तो वै चतुर्मुखः १०।
अर्चयित्वा हृषीकेशमेकादश्यां समाहितः ।
निष्प्राप्य गोमयं सम्यक्मंत्रवत्समुपासते ११।
गोमूत्रं मंत्रवद्भूयो द्वादश्यां प्राशयेद्व्रती ।
क्षीरं तथा त्रयोदश्यां चतुर्दश्यां तथा दधि १२।
संप्राप्य पापशुद्ध्यर्थं लंघयित्वा चतुर्दिनम् ।
पंचमे तु दिने स्नात्वा विधिवत्पूज्य केशवम् १३।
भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ।
ततो नक्तं समश्नीयात्पंचगव्यं सुमंत्रितम् १४।
एवं कर्तुमशक्तो यः फलमूलं च भोजनम् ।
कुर्याद्धविष्यं वा विप्र यथोक्तविधिना ह वै १५।
श्रीहरेः पंचकं विप्र कुर्याद्यस्तुलसीदलैः ।
पूजयेत्तं स विज्ञेयः स्वयं नारायणः प्रभुः १६।
पुरा त्रेतायुगे शूद्रो दस्युवृत्तिपरायणः ।
नाम्ना दंडकरो नित्यं धर्मनिंदां करोति यः १७।
असत्यभाषी मित्रघ्नो वेश्याविभ्रम लोलुपः ।
ब्रह्मस्वहारी क्रूरश्च परस्त्रीगमने रतः १८।
शरणागतहंता च पाखंडजनसंगभाक् ।
गोमांसाशी सुरापश्च परनिंदाकरः सदा १९।
विश्वासघाती ज्ञातीनां वृत्तिच्छेदी द्विजोत्तम ।
दुष्टं सर्वे समालोक्य तादृशं तद्गृहे द्विजः २०।
आगता ज्ञातयः क्रुद्धास्तस्य पापपरायणम् ।
ज्ञातय ऊचुः।
रे रे मूढ दुराचार विनाशं प्रतिनीयते ।
या प्रतिष्ठार्जिता पूर्वैरस्माकं निर्मलेऽन्वये २१।
इति क्रुद्धा द्विजश्रेष्ठ अपकीर्तिभयादपि ।
पापिनां प्रवरं सर्वे तत्यजुस्तं कुलादरम् २२।
ततो गतो महारण्यं विनष्टाखिल वैभवः ।
कुर्यात्स दस्युभिः सार्द्धं दस्युकर्म निरंतरम् २३।
पथि प्रगच्छतां तेषां भयाद्विप्र न खादितुम् ।
प्राप्तं किंचित्क्षुधार्त्तास्ते गताश्चान्य स्थलं प्रति २४।
तत्र प्रविष्टास्ते सर्वे दृष्ट्वा पुण्यजनान्बहून् ।
धात्रीमूले स्थितान्ब्रह्मन्वैष्णवान्द्विजसत्तमान् २५।
सर्वे ते दस्यवो विप्र गता दंडकरोऽपि सः ।
तेषां परिसरं गत्वा प्रणामं वै चकार ह २६।
दंडकर उवाच।
क्षुधार्तोऽहं द्विजश्रेष्ठाः प्राणा यास्यंति मे ध्रुवम् ।
ददध्वं खादितुं किंचिद्युष्माकं शरणं गतः २७।
आकर्ण्य वचनं तस्य चोचुस्ते धर्मतत्पराः ।
सर्वपापहरे त्वं च विख्याते विष्णुपंचके २८।
कथमन्नं खादितुं ते वांछा त्वद्य हरेर्दिने ।
विशेषं ते ब्रूहि संज्ञा काते भवति सांप्रतम् २९।
स उवाच मुदा विप्रा नाम्ना दंडकरोप्यहम् ।
सर्वपापसमायुक्तश्चोद्धारो मे कथं भवेत् ३०।
ऊचुस्ते वै व्रतं श्रेष्ठं कुरुष्व विष्णुपंचकम् ।
विप्राणामाज्ञया विप्र चकार विष्णुपंचकम् ३१।
स प्रेत्य च हरेः स्थानमारुह्य स्यंदने वरे ।
आसाद्य श्रीहरेरूपं तस्थौ जन्मविवर्जितः ३२।
य इदं शृणुयाद्भक्त्या चाख्यानं पापनाशनम् ।
कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ३३।
इति श्रीपाद्मेमहापुराणे ब्रह्मखण्डे सूतशौनकसंवादे विष्णुपंचकमाहात्म्यंनाम त्रयोविंशोऽध्यायः २३।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 24
शौनक उवाच।
विदुषांवर तत्त्वज्ञ कथयस्व महामते ।
इदानीं मम दानानां माहात्म्यं क्रमतो मुने १।
सूत उवाच।
क्षितिदानं मुनिश्रेष्ठ दानानामुत्तमं मतम् ।
येन कृतं वै तद्दानं सर्वदानफलं मतम् २।
क्षितिं ससस्यां यो दद्याद्ब्राह्मणाय द्विजोत्तम ।
विष्णुलोके सुखं भुंक्ते यावदिंद्राश्चतुर्दश ३।
पृथिव्यां जन्म चासाद्य सार्वभौमस्ततो नृपः ।
महीं सर्वां चिरं भुक्त्वा व्रजेद्वै श्रीहरेर्गृहम् ४।
गोचर्ममात्रां भूमिं यः प्रयच्छति द्विजातये ।
स गच्छति हरेर्गेहं सर्वपापविवर्जितः ५।
शतं गावो वृषश्चैको यत्र तिष्ठंत्ययंत्रिताः ।
गोचर्ममात्रां तां भूमिं प्रवदंति महर्षयः ६।
भूमिनेता भूमिदाता द्वौ चापि स्वर्गगामिनौ ।
ग्राह्या भूमिर्द्विजैः प्राज्ञैस्त्यक्त्वा दानशतान्यपि ७।
अज्ञानी भूसुरो यस्तु त्यजेद्भूमिं विमोहितः ।
प्रतिजन्मन्यसौ विप्रो भवेच्चात्यंत दुःखभाक् ८।
अन्यतो यः समासाद्य दद्याद्भूमिं द्विजातये ।
तस्मै विप्र जगन्नाथो ददाति परमं पदम् ९।
स्वदत्तां परदत्तां च मेदिनीं यो हरेद्द्विज ।
युक्तः कोटिकुलैर्याति नरकं चातिदारुणम् १०।
हरेद्यो वै महीं विप्र देवब्राह्मणयोरपि ।
न दृष्टा निष्कृतिस्तस्य कोटिकल्पशतैर्मुने ११।
भूमिं यो परदत्तां च रक्षति क्ष्मापतिर्द्विज ।
पुण्यं कोटिगुणं स्याद्वै तस्य दानं जनादपि १२।
सप्तद्वीपां महीं दत्त्वा यत्पुण्यं प्राप्यते द्विज ।
तत्पुण्यं प्राप्नुयान्मर्त्यो धेनुं यच्छन्द्विजातये १३।
ददाति वृषभं यस्तु दरिद्राय कुटुंबिने ।
सर्वपापविनिर्मुक्तो शिवलोकं स गच्छति १४।
तिलप्रमाणं स्वर्णं यो ब्राह्मणाय प्रयच्छति ।
हरेर्निकेतनं याति युक्तः कोटिकुलैरपि १५।
यो दद्याद्रजतं विप्र साधवे भूसुराय वै ।
प्राप्नोति चंद्रलोकं च पिबेत्तत्रामृतं सदा १६।
प्रवालं मौक्तिकं चैव हीरकं च मणिं तथा ।
यो ददाति द्विजश्रेष्ठ स्वर्गलोकं स गच्छति १७।
तुलापुरुषदानेन यत्पुण्यं लभते जनः ।
शालग्रामशिलां दत्त्वा तस्मात्कोटिगुणं लभेत् १८।
सप्तद्वीपां क्षितिं दत्वा सशैलवनकाननाम् ।
यत्पुण्यं लभते तद्वै शालग्रामशिलाप्रदः १९।
शालग्रामशिलां यो वै दद्याद्भूमिसुराय च ।
तेन विप्र प्रदत्तानि भुवनानि चतुर्दश २०।
तुलापुरुषदानं यः करोति द्विजपुंगव ।
जनन्याश्चोदरे तस्य पुनर्जन्म न विद्यते २१।
सालंकारां द्विजश्रेष्ठ कन्यां यच्छति यो नरः ।
स गच्छेद्ब्रह्मसदनं पुनर्जन्म न विद्यते २२।
कन्याविक्रयिणो नास्ति नरकान्निष्कृतिः पुनः ।
कन्यादानकृतो नास्ति स्वर्गादागमनं पुनः २३।
उपानहौ वातपत्रं यो ददाति द्विजातये ।
प्रेत्य चेंद्रपुरं गत्वा वसेत्कल्पचतुष्टयम् २४।
वस्त्रं यच्छति यो दिव्यं साधवे वै द्विजायते ।
स्वर्गे दिव्यांबरधरश्चिरं तिष्ठेद्द्विजोत्तम २५।
धेनुं पुरातनीं यच्छेद्वस्त्रं च जरितं द्विज ।
नूत्नां रजोवतीं कन्यां स गच्छेन्निरयं तथा २६।
कन्याविक्रयिणो ब्रह्मन्न पश्येल्लपनं बुधः ।
दृष्ट्वा चाज्ञानतो वापि कुर्य्यान्मार्तंड दर्शनम् २७।
फलदाता नरो गच्छेत्त्रिदिवं च द्विजोत्तम ।
भुंक्ते कल्पसहस्राणि फलं तत्रामृतोपमम् २८।
शाकं यच्छति यो मर्त्यो शिवस्यभवनं द्विज ।
याति कल्पद्वयं भुंक्ते दुर्ल्लभं पायसं सुरैः २९।
घृतदो दधिदश्चैव तक्रदो दुग्धदस्तथा ।
विष्णोर्निकेतनं गत्वा सुधापानं करोति सः ३०।
गंधदः पुष्पदश्चैव मर्त्यो याति सुरालयम् ।
तिष्ठेद्युगसहस्राणि गंधपुष्पविभूषितः ३१।
शय्यादानं दानसारं ब्राह्मणाय ददाति यः ।
स याति ब्रह्मसदनं पर्य्यंके शेरते चिरम् ३२।
पीठदाता दीपदाता सर्वदुष्कृतवर्जितः ।
स्वर्गे सिंहासने तिष्ठेज्ज्वलद्दीपावलीवृतः ३३।
तांबूलं यो नरो दद्याद्भूमिं भुंक्तेऽखिलां सुखम् ।
स्वर्गे देवांगनाक्रोडे सुप्तस्तांबूलमत्ति वै ३४।
विद्यादानं दानवरं करोति यो नरोत्तमः ।
प्रेत्य स सन्निधिं विष्णोस्तिष्ठेद्युगशतत्रयम् ३५।
प्राप्य ज्ञानं ततस्तत्र दुर्ल्लभं वै द्विजर्षभ ।
दुर्ल्लभं मोक्षमाप्नोति श्रीहरेः कृपया द्विज ३६।
अनाथं दुःखितं विप्रं पाठयेद्वै नरोत्तमः ।
श्रीहरेर्भवनं याति पुनर्जन्मविवर्जितः ३७।
यो नरः पुस्तकं दद्याद्भक्तिश्रद्धासमन्वितः ।
प्रतिवर्णं लभेत्पुण्यं कपिलाकोटिदानजम् ३८।
मधुदो गुडदश्चैव मर्त्यो यातीक्षुसागरम् ।
लवणप्रदो नरो याति वारुणं लोकमेव च ३९।
सर्वेषामेव दानानामन्नं वारि द्विजोत्तम ।
तत्त्वज्ञैर्मुनिभिः सर्वैः प्रवरं वै प्रकीर्त्तितम् ४०।
अन्नं वारि द्विजश्रेष्ठ येन दत्तं महीतले ।
तेन दत्तानि दानानि सर्वाणि च द्विजर्षभ ४१।
अन्नदो यो नरो विप्र प्राणदश्च प्रकीर्त्तितः ।
तस्मात्समस्तदानानामन्नदो लभते फलम् ४२।
यथाचान्नं तथा वारि द्वे तुल्ये च प्रकीर्त्तिते ।
वारिणा च विना चान्नं सिद्धं न स्याद्द्विजोत्तम ४३।
क्षुधा तृषा द्विज व्याघ्र द्वे च तुल्ये प्रकीर्त्तिते ।
अतश्चान्नं च तोयं च श्रेष्ठं प्रोक्तं बुधैरपि ४४।
अन्नदानं क्षितौ ब्रह्मन्ये कुर्वंति नरोत्तमाः ।
सर्वपापविनिर्मुक्ता गच्छंति हरिमंदिरम् ४५।
यावंत्यन्नानि भो विप्र यच्छति क्षितिमंडले ।
ब्रह्महत्याश्च तावंत्यो नश्यंत्येव तपोधन ४६।
यच्छतां चान्नदानानि शरीराणि च पातकम् ।
गात्राणि गृह्णतां त्यक्त्वा सहसा यांति शौनक ४७।
अतः पापिष्ठ चान्नानि न गृह्णंति मनीषिणः ।
गृह्णंति मोहाद्ये मूढा भवंति पापभागिनः ४८।
कुर्याद्भूमिष्ठमुदकं चैकं भो द्विजसत्तम ।
सर्वपापैर्विनिर्मुक्तो व्रजेत्स हरिमंदिरम् ४९।
प्रयत्नेन द्विजश्रेष्ठ कर्त्तव्यो धनसंचयः ।
संचितं च धनं ब्रह्मन्दानकर्मणि विक्षिपेत् ५०।
रणंति ये च कार्पण्याद्धनं ते चातिदुःखिनः ।
अंते सर्वधनं त्यक्वा निःस्वा गच्छंति भो मुने ५१।
मानवा ये सदा दानं दत्त्वा दत्त्वा दरिद्रति ।
दरिद्रास्तेन विज्ञेया नरलोके महेश्वराः ५२।
परलोके द्विजव्याघ्र साधुसंयमवर्जिते ।
निर्दये बंधुहीने च न दत्तं नोपतिष्ठते ५३।
स्थिते धने नरो यो वै नाश्नाति न ददाति सः ।
दरिद्र इव विज्ञेयः प्रेत्य निश्वासमुत्सृजेत् ५४।
तपसोऽपि वरं दानं प्रोक्तं च तत्त्वदर्शिभिः ।
अतो यत्नाद्द्विजश्रेष्ठ दानकर्म समाचरेत् ५५।
दाता दानं न दद्याद्वै समुत्सृज्य द्विजातये ।
स याति निरयं घोरं सर्वजंतुभयावहम् ५६।
दानं दाता प्रतिग्राही न स्मरेच्च न याचते ।
निरये चोभयोर्वासो यावच्चंद्र दिवाकरौ ५७।
ब्रह्महत्यादि पापानि यानि वै द्विजसत्तम ।
तानि दानेन हन्यंते तस्माद्दानं समाचरेत् ५८।
इति श्रीपाद्मेमहापुराणे ब्रह्मखंडे सूतशौनकसंवादे चतुर्विंशतितमोऽध्यायः २४।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 25
शौनक उवाच।
श्रीपदं विष्णुचरितं सर्वोपद्रवनाशनम् ।
सर्वपापक्षयकरं दुष्टग्रहनिवारणम् १।
विष्णुसान्निध्यदं चैव चतुर्वर्गफलप्रदम् ।
यः शृणोति नरो भक्त्या चांते याति हरेर्गृहम् २।
नामोच्चारणमाहात्म्यं श्रूयते महदद्भुतम् ।
यदुच्चारणमात्रेण नरो यायात्परं पदम् ३।
तद्वदस्वाधुना सूत विधानं नामकीर्तने ।
सूत उवाच।
शृणु शौनक वक्ष्यामि संवादं मोक्षसाधनम् ४।
नारदः पृष्टवान्पूर्वं कुमारं तद्वदामि ते ।
एकदा यमुनातीरे निविष्टं शांतमानसम् ५।
सनत्कुमारं पप्रच्छ नारदो रचिताञ्जलि ।
श्रुत्वा नानाविधान्धर्मान्धर्मव्यतिकरांस्तथा ६।
श्रीनारद उवाच।
योऽसौ भगवता प्रोक्तो धर्मव्यतिकरो नृणाम् ।
कथं तस्य विनाशः स्यादुच्यतां भगवत्प्रिय ७।
श्रीसनत्कुमार उवाच।
शृणु नारद गोविंद प्रिय गोविंदधर्मवित् ।
यत्पृष्टं लोकनिर्मुक्तिकारणं तमसः परम् ८।
सर्वाचारविवर्जिताः शठधियो व्रात्या जगद्वञ्चकाः ।
दंभाहंकृतिपानपैशुनपराः पापाश्च ये निष्ठुराः ९।
ये चान्ये धनदारपुत्रनिरताः सर्वेऽधमास्तेऽपि हि ।
श्रीगोविंदपदारविंदशरणाः शुद्धा भवंति द्विज १०।
तमपि देवकरं करुणाकरस्थविरजंगममुक्तिकरं परम् ।
अतिचरंत्यपराधपरा जना य इह तान्वपति ध्रुवनाम हि ११।
सर्वापराधकृदपि मुच्यते हरिसंश्रयः ।
हरेरप्यपराधान्यः कुर्याद्द्विपदपांसनः १२।
नामाश्रयः कदाचित्स्यात्तरत्येव स नामतः ।
नाम्नो हि सर्वसुहृदो ह्यपराधात्पतत्यधः १३।
श्रीनारद उवाच।
के तेऽपराधा विप्रेंद्र नाम्नो भगवतः कृताः ।
विनिघ्नंति नृणां कृत्यं प्राकृतं ह्यानयंति च १४।
श्रीसनत्कुमार उवाच।
सतां निंदा नाम्नः परममपराधं वितनुते ।
यतः ख्यातिं यांतं कथमु सहते तद्विगर्हाम् ।
शुभस्य* श्रीविष्णोर्य इह गुणनामादिसकलं ।
धियाभिन्नं पश्येत्स खलु हरिनामाहितकरः १५ *[कहीं-(शिवस्य)]।
गुरोरवज्ञा श्रुतिशास्त्रनिंदनं तथार्थवादो हरिनाम्नि कल्पनम् ।
नामापराधस्य हि पापबुद्धिर्न विद्यते तस्य यमैर्हि शुद्धिः १६।
धर्मव्रतत्याग हुतादि सर्वशुभक्रिया साम्यमपि प्रमादः ।
अश्रद्दधानो विमुखोऽप्यशृण्वन्यश्चोपदेशः शिवनामापराधः १७।
श्रुत्वापि नाममाहात्म्यं यः प्रीतिरहितोऽधमः ।
अहं ममादि परमो नाम्नि सोऽप्यपराधकृत् १८।
एवं नारद शंकरेण कृपया मह्यं मुनीनां परं ।
प्रोक्तं नामसुखावहं भगवतो वर्ज्यं सदा यत्नतः ।
ये ज्ञात्वापि न वर्जयंति सहसा नाम्नोऽपराधान्दश ।
क्रुद्धा मातरमप्यभोजनपराः खिद्यंति ते बालवत् १९।
अपराधविमुक्तो हि नाम्नि जप्तं सदा चर ।
नाम्नैव तव देवर्षे सर्वं सेत्स्यति नान्यतः २०।
श्रीनारद उवाच।
सनत्कुमार प्रिय साहसानां विवेकवैराग्यविवर्जितानाम् ।
देहप्रियार्थात्मपरायणानां मुक्तापराधाः प्रभवंति नः कथम् २१।
श्रीसनत्कुमार उवाच।
जाते नामापराधे तु प्रमादे तु कथंचन ।
सदा संकीर्तयन्नाम तदेकशरणो भवेत् २२।
नामापराधयुक्तानां नामान्येव हरंत्यघम् ।
अविश्रांति प्रयुक्तानि तान्येवार्थ कराणि यत् २३।
नामैकं यस्य चिह्नं स्मरणपथगतं श्रोत्रमूलं गतं वा ।
शुद्धं वाऽशुद्धवर्णं व्यवहितरहितं तारयत्येव सत्यम् ।
तच्चेद्देहद्रविणजनितालोभपाखण्ड मध्ये ।
निक्षिप्तं स्यान्न फलजनकं शीघ्रमेवात्र विप्र २४।
इदं रहस्यं परमं पुरा नारद शंकरात् ।
श्रुतं सर्वाशुभहरमपराधनिवारकम् २५।
विदुर्विष्ण्वभिधानं ये ह्यपराधपरा नराः ।
तेषामपि भवेन्मुक्तिः पठनादेव नारद २६।
नाम्नो माहात्म्यमखिलं पुराणे परिगीयते ।
ततः पुराणमखिलं श्रोतुमर्हसि मानद २७।
पुराणश्रवणे श्रद्धा यस्य स्याद्भ्रातरन्वहम् ।
तस्य साक्षात्प्रसन्नः स्याच्छिवो विष्णुश्च सानुगः २८।
यत्स्नात्वा पुष्करे तीर्थे प्रयागे सिंधुसंगमे ।
तत्फलं द्विगुणं तस्य श्रद्धया वै शृणोति यः २९।
ये पठंति पुराणानि शृण्वंति च समाहिताः ।
प्रत्यक्षरं लभंत्येते कपिलादानजं फलम् ३०।
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ३१।
ये शृण्वंति पुराणानि कोटिजन्मार्जितं खलु ।
पापजालं तु ते हत्वा गच्छंति हरिमंदिरम् ३२।
पुराणवाचकं विप्रं पूजयेद्भक्तिभावतः ।
गोभूहिरण्यवस्त्रैश्च गंधपुष्पादिभिर्मुने ३३।
कांस्यैर्विनिर्मितं पात्रं जलपात्रं मुदान्वितः ।
कर्णकुंडलकं चैव मुद्रिकां स्वर्णनिर्मिताम् ३४।
आसनं तु तथा दद्यात्पुष्पमाल्यं तपोधन ।
वित्तशाठ्यं न कुर्वीत दानं हीनफलं यतः ३५।
पुराणं वाचयेद्विप्र सर्वकामार्थसिद्धये ।
सुवर्णं रजतं वस्त्रं पुष्पमाल्यं तु चंदनम् ३६।
दद्याद्यो पुस्तकं भक्त्या सगच्छेद्धरिमंदिरम् ।
कुर्वंति विधिनानेन संपूर्णं पुस्तकं च ये ।
तेषां नामानि लिंपेत चित्रगुप्तोऽर्चनाद्द्विज ३७।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे।
पंचविंशतितमोऽध्यायः २५।
खण्डः ४ (ब्रह्मखण्डः) — Adhyāya 26
शौनक उवाच।
श्रोतुमिच्छामि ते प्राज्ञ कथयस्व समूलकम् ।
प्रतिज्ञापालने पुण्यं खंडने किं च किल्बिषम् १।
अनृते शपथे किं वा सत्ये किंचिद्भवेन्मुने ।
दक्षिणं किंकरं दत्वा कृपां कृत्वा कृपार्णव २।
सूत उवाच।
शृणुष्व मुनिशार्दूल कथयामि समूलतः ।
वैष्णवानां त्वमग्र्योऽसि सर्वलोकहिते रतः ३।
धेनूनां तु शतं दत्त्वा यत्फलं लभते नरः ।
तस्मात्कोटिगुणं पुण्यं प्रतिज्ञापालने द्विज ४।
प्रतिज्ञाखंडनान्मूढो निरयं याति दारुणम् ।
शतमन्वंतरं यावत्पच्यते नात्र संशयः ५।
ततोऽत्र जन्म चासाद्य निर्धनस्य निकेतने ।
अन्नवस्त्रैर्विहीनः स्या क्लेशी चापि स्वकर्मणा ६।
सत्येन शपथं कुर्याद्देवाग्निगुरुसन्निधौ ।
तावद्दहति वै गात्रं विष्णोर्वंशो न लुप्यते ७।
मिथ्यायां शपथे विप्र किमहं वच्मि सांप्रतम् ।
शतमन्वंतरं विप्र निरयं मिथ्यया किमु ८।
निर्माल्यं श्रीहरेः स्पृष्ट्वा सत्येन मुनिपुंगव ।
गृहीत्वा पुरुषान्सप्त पच्यते निरये चिरम् ९।
कदाचिज्जन्म संप्राप्य कुष्ठी च प्रतिजन्मनि ।
सत्येनैवं भवेद्विप्र अनृते वै किमुच्यते १०।
यो मर्त्यो दक्षिणं दत्वा करं तत्प्रतिपाल्यते ।
तस्य प्राप्तिर्भवेत्कृष्णः सत्यं सत्यं वदाम्यहम् ११।
करं दत्त्वा तु यो मर्त्यो वचनस्य च पालनम् ।
तावन्न कुर्यात्पितरः प्राप्नुवंति च यातनाम् १२।
स्वयं तु मुनिशार्दूल निरयं चातिदारुणम् ।
उद्धारं कोटिपुरुषैर्मृतो याति न संशयः १३।
शौनक उवाच।
कृष्णप्राप्तिः पुरा कस्य करस्य प्रतिपालनात् ।
दक्षिणस्य मुने ब्रूहि श्रोतुमिच्छामि सादरात् १४।
सूत उवाच।
पुरा किंचित्पुरे शूद्रो नाम्नासीद्वीरविक्रमः ।
बह्वाशी पृथुलांगश्च बहुवक्तातिसुंदरः १५।
धनवान्पुत्रवान्सभ्यो विद्वान्सर्वजनप्रियः ।
विप्राणामतिथीनां च पूजकः सर्वदैव तु १६।
पितृभक्तो द्विजश्रेष्ठ प्रतिज्ञापालकः सदा ।
वाचां गुरुजनानां च पालको हरिसेवकः १७।
एकदा सुंदरो गेहं श्वपचस्तस्य छद्मना ।
प्राप्तो धृत्वा ब्राह्मणस्य रूपं वै तरुणः सुधीः १८।
ब्राह्मण उवाच।
शृणु मे वचनं धीर मम जाया मृता शुभा ।
किं करोमि क्व गच्छामि कथयाद्यानुकंपया १९।
विवाहं यो जनः कुर्याद्ब्राह्मणं च विशेषतः ।
किं च दानैः किं च तीर्थैः किं यज्ञैर्व्रतकोटिभिः २०।
इति श्रुत्वा त्वसौ विप्रं चोक्तवान्वीरविक्रमः ।
शृणु मे वचनं ब्रह्मन्बालास्ति मम कन्यका २१।
यदिच्छा ते भवेद्विप्र दास्यामि विधिपूर्वकम् ।
नय मे दक्षिणं हस्तं दास्यामि चान्यथा नहि २२।
तस्यैतद्वचनं श्रुत्वा जग्राह दक्षिणं करम् ।
श्वपचो हर्षयुक्तो वै प्रोवाच वचनं त्विति २३।
ब्राह्मण उवाच।
कृत्वा शुभ क्षणं मह्यं देहि कन्यां शुभान्विताम् ।
विलंबे बहुविघ्नं स्यादिति शास्त्रेषु निश्चितम् २४।
वीरविक्रम उवाच।
तुभ्यं श्वः कन्यकां ब्रह्मन्दास्यामि नास्ति चान्यथा ।
दक्षिणं च करं दत्वा न कुर्यात्पुरुषाधमः २५।
सूत उवाच।
ब्राह्मणं कृष्णशर्माणं चाहूयाकथयन्मुने ।
पुरोहितमिदं सर्वं प्रोवाच संविदं द्विज २६।
कथं विप्राय ते कन्यां शूद्राय दातुमिच्छसि ।
अज्ञातायाकुलीनाय न ददस्व विशेषतः २७।
ऊचुस्तज्जातयः सर्वे जनकाद्यास्तपोधन ।
अस्माकं वचनं तात शृणुष्व वीरविक्रम २८।
न ज्ञायते कुलं यस्य देशगोत्रधनं तथा ।
शीलं वयस्तस्य कन्या स्वजनैर्न च दीयते २९।
स उवाच द्विजश्रेष्ठ दत्तं मे दक्षिणं करम् ।
कदाचिदन्यथाकर्तुं न शक्नोमि च सर्वथा ३०।
इत्युक्त्वा तान्स विप्राय कन्यां दातुं प्रचक्रमे ।
दृष्ट्वेति ज्ञातयः सर्वे विस्मयमद्भुतं ययुः ३१।
सत्यं तद्वचनं श्रुत्वा शंखचक्रगदाधरः ।
आविर्बभूव सहसा चारुह्य गरुडं मुने ३२।
श्रीभगवानुवाच।
धन्यं ते च कुलं धर्मोधन्यस्ते जननी पिता ।
धन्यं ते वचनं सत्यं धन्यं ते दक्षिणं करम् ३३।
धन्यं कर्म्म च ते जन्म त्रैलोक्ये नैव विद्यते ।
एवं ते कर्मणा साधो चोद्धारं कुरुषे कुलम् ३४।
सूत उवाच।
एवं ब्रुवति श्रीकृष्णे विमानं स्वर्णनिर्मितम् ।
आगतं हरिगणैर्युक्तं सर्वत्र गरुडध्वजम् ३५।
सर्वं तस्य कुलं ब्रह्मन्स श्वपाकपुरोहितम् ।
रथे चारोपयामास शंखपद्मधरः स्वयं ३६।
गृहीत्वा तान्हरिः सर्वान्गतो वैकुंठमंदिरम् ।
तत्र तस्थौ चिरं ते च कृत्वा भोगं सुदुर्ल्लभम् ३७।
वचनं लंघयेद्यस्तु यस्तु वा दक्षिणं करम् ।
सकुलो निरयं याति सत्यं सत्यं वदाम्यहम् ३८।
तस्यान्नं तु जलं ब्रह्मन्न ग्राह्यं पितृदैवतैः ।
त्यक्त्वा धर्मो गृहं तस्य भीत्या याति द्विजोत्तम ३९।
दत्वाशां यो जनः कुर्यान्नैराश्यं चैव मूढधीः ।
स स्वकान्कोटिपुरुषान्गृहीत्वा नरकं व्रजेत् ४०।
वचनं लंघयेद्यस्तु धर्मस्तस्य विलंघति ।
नृपाग्नितस्करैर्विप्र सत्यं सत्यं सुनिश्चितम् ४१।
स्वर्गोत्तरमिमं सम्यक्श्रुत्वा स्वर्गोत्तरं व्रजेत् ।
जीवन्मुक्तस्त्विहामुत्र कृष्णाख्यं धाम चोत्तमम् ४२।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे षडिंवशतितमोऽध्यायः २६।
इति स्वर्गोत्तरापरनामकं ब्रह्मखण्डं संपूर्णम् ।
इति श्रीपाद्मे महापुराणे चतुर्थं ब्रह्मखण्डं समाप्तम्।
खण्डः ५ (पातालखण्डः) — Adhyāya 1
श्रीगणेशाय नमः।
श्रीकुलदेवतायै नमः।
श्रीगुरुचरणारविंदाभ्यां नमः ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवींसरस्वतीं व्यासं ततो जयमुदीरयेत् १।
ऋषय ऊचुः।
श्रुतं सर्वं महाभाग स्वर्गखंडं मनोहरम् ।
त्वत्तोऽधुना वदायुष्मञ्छ्रीरामचरितं हि नः २।
सूत उवाच।
अथैकदा धराधारं पृष्टवान्भुजगेश्वरम् ।
वात्स्यायनो मुनिवरः कथामेतां सुनिर्मलाम् ३।
श्रीवात्स्यायन उवाच।
शेषाशेष कथास्त्वत्तो जगत्सर्गलयादिकाः ।
भूगोलश्च खगोलश्च ज्योतिश्चक्रविनिर्णयः ४।
महत्तत्त्वादिसृष्टीनां पृथक्तत्त्वविनिर्णयः ।
नानाराजचरित्राणि कथितानि त्वयानघ ५।
सूर्यवंशभवानां च राज्ञां चारित्रमद्भुतम् ।
तत्रानेकमहापापहरा रामकृता कथा ६।
तस्य वीरस्य रामस्य हयमेधकथा श्रुता ।
संक्षेपतो मया त्वत्तस्तामिच्छामि सविस्तराम् ७।
या श्रुता संस्मृता चोक्ता महापातकहारिणी ।
चिंतितार्थप्रदात्री च भक्तचित्तप्रतोषदा ८।
शेष उवाच।
धन्योसि द्विजवर्य त्वं यस्य ते मतिरीदृशी ।
रघुवीरपदद्वंद्व मकरंद स्पृहावती ९।
वदंति मुनयः सर्वे साधूनां संगमं वरम् ।
यस्मात्पापक्षयकरी रघुनाथकथा भवेत् १०।
त्वया मेऽनुग्रहः सृष्टो यद्रामः स्मारितः पुनः ।
सुरासुरकिरीटौघ मणिनीराजितांघ्रिकः ११।
रावणारिकथा वार्द्धौ मशको मादृशः कियान् ।
यत्र ब्रह्मादयो देवा मोहिता न विदंत्यपि १२।
तथापि भो मया तुभ्यं वक्तव्यं स्वीयशक्तितः ।
पक्षिणः स्वगतिं श्रित्वा खे गच्छंति सुविस्तरे १३।
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
येषां वै यादृशी बुद्धिस्ते वदंत्येव तादृशम् १४।
रघुनाथसतीकीर्तिर्मद्बुद्धिं निर्मलीमसाम् ।
करिष्यति स्वसंपर्कात्कनकं त्वनलो यथा १५।
सूत उवाच।
इत्युक्त्वा तं मुनिवरं ध्यानस्तिमितलोचनः ।
ज्ञानेनालोकयांचक्रे कथां लोकोत्तरां शुभाम् १६।
गद्गदस्वरसंयुक्तो महाहर्षांकितांगकः ।
कथयामास विशदां कथां दाशरथेः पुनः १७।
शेष उवाच।
लंकेश्वरे विनिहते देवदानवदुःखदे ।
अप्सरोगणवक्त्राब्जचंद्रमः कांतिहर्तरि १८।
सुराः सर्वे सुखं प्रापुरिंद्र प्रभृतयस्तदा ।
सुखं प्राप्ताः स्तुतिं चक्रुर्दासवत्प्रणतिं गताः १९।
लंकायां च प्रतिष्ठाप्य धर्मयुक्तं बिभीषणम् ।
सीतयासहितो रामः पुष्पकं समुपाश्रितः २०।
सुग्रीवहनुमत्सीतालक्ष्मणैः संयुतस्तदा ।
बिभीषणोऽपि सचिवैरन्वगाद्विरहोत्सुकः २१।
लंकां स पश्यन्बहुधा भग्नप्राकारतोरणाम् ।
दृष्ट्वाऽशोकवनं तत्र सीतास्थानं मुमूर्च्छ ह २२।
शिंशपांस्तत्र वृक्षांश्च पुष्पितान्कोरकैर्युतान् ।
राक्षसीभिः समाकीर्णान्मृताभिर्हनुमद्भयात् २३।
इत्थं सर्वं विलोक्याशु रामः प्रायात्पुरीं प्रति ।
ब्रह्मादिदेवैः सहितः स्वीयस्वीयविमानकैः २४।
देवदुंदुभिनिर्घोषाञ्छृण्वञ्छ्रोत्रसुखावहान् ।
तथैवाप्सरसां नृत्यैः पूज्यमानो रघूत्तमः २५।
सीतायै दर्शयन्मार्गे तीर्थान्याश्रमवंति च ।
मुनींश्च मुनिपुत्रांश्च मुनिपत्नीः पतिव्रताः २६।
यत्रयत्र कृतावासाः पूर्वं रामेण धीमता ।
तान्सर्वान्दर्शयामास लक्ष्मणेन समन्वितः २७।
इत्येवं दर्शयंस्तस्यै रामोऽद्राक्षीत्स्वकां पुरीम् ।
तस्याः पुनः समीपे तु नंदिग्रामं ददर्श ह २८।
यत्र वै भरतो राजा पालयन्धर्ममास्थितः ।
भ्रातुर्वियोगजनितं दुःखचिह्नं वहन्बहु २९।
गर्तशायी ब्रह्मचारी जटावल्कलसंयुतः ।
कृशांगयष्टिर्दुःखार्तः कुर्वन्रामकथां मुहुः ३०।
यवान्नमपि नो भुंक्ते जलं पिबति नो मुहुः ।
उद्यंतं सवितारं यो नमस्कृत्य ब्रवीति च ३१।
जगन्नेत्रसुरस्वामिन्हर मे दुष्कृतं महत् ।
मदर्थे रामचंद्रोऽपि जगत्पूज्यो वनं ययौ ३२।
सीतया सुकुमारांग्या सेव्यमानोऽटवीं गतः ।
या सीता पुष्पपर्यंके वृंतमासाद्य दुःखिता ३३।
या सीता रविसंतापं कदापि प्राप नो सती ।
मदर्थे जानकी सा च प्रत्यरण्यं भ्रमत्यहो ३४।
या सीता राजवृंदैश्च न दृष्टा नयनैः कदा ।
सा सीता दृश्यते नूनं किरातैः कालरूपिभिः ३५।
या सीता मधुरं त्वन्नं भोजिता न बुभुक्षति ।
सा सीताद्य वनस्थानि फलानि प्रार्थयत्यहो ३६।
इत्येवमन्वहं सूर्यमुपस्थाय वदत्यदः ।
प्रातःप्रातर्महाराजो भरतो रामवल्लभः ३७।
यश्चोच्यमानः सचिवैः समदुःखसुखैर्बुधैः ।
नीतिज्ञैः शास्त्रनिपुणैरिति प्रोवाच तान्नृपः ३८।
अमात्या दुर्भगं मां किं प्रब्रूत पुरुषाधमम् ।
मदर्थे मेऽग्रजो रामो वनं प्राप्यावसीदति ३९।
दुर्भगस्य मम प्रस्वाः पापमार्जनमादरात् ।
करोमि रामचंद्रांघ्रिं स्मारं स्मारं सुमंत्रिणः ४०।
धन्या सुमित्रा सुतरां वीरसूः स्वपतिप्रिया ।
यस्यास्तनूजो रामस्य चरणौ सेवतेऽन्वहम् ४१।
यत्र ग्रामे स्थितो नूनं भरतो भ्रातृवत्सलः ।
विलापं प्रकरोत्युच्चैस्तं ग्रामं स ददर्श ह ४२।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथस्य भरतावासनंदिग्रामदर्शनोनाम प्रथमोऽध्यायः १।
खण्डः ५ (पातालखण्डः) — Adhyāya 2
शेष उवाच।
अथ तद्दर्शनोत्कण्ठा विह्वलीकृतचेतसा ।
पुनः पुनः स्मृतो भ्राता भरतो धार्मिकाग्रणीः १।
उवाच च हनूमंतं बलवंतं समीरजम् ।
प्रस्फुरद्दशनव्याज चन्द्रकांतिहतांधकः २।
शृणु वीर हनूमंस्त्वं मद्गिरं भ्रातृनोदिताम् ।
चिरंतनवियोगेन गद्गदीकृतविह्वलाम् ३।
गच्छ तं भ्रातरं वीर समीरणतनूद्भव ।
मद्वियोगकृशां यष्टिं वपुषो बिभ्रतं हठात् ४।
यो वल्कलं परीधत्ते जटां धत्ते शिरोरुहे ।
फलानां भक्षणमपि न कुर्याद्विरहातुरः ५।
परस्त्री यस्य मातेव लोष्टवत्कांचनं पुनः ।
प्रजाः पुत्रानिवोद्रक्षेद्बांधवो मम धर्मवित् ६।
मद्वियोगजदुःखाग्निज्वालादग्धकलेवरम् ।
मदागमनसंदेश पयोवृष्ट्याशु सिंचतम् ७।
सीतया सहितं रामं लक्ष्मणेन समन्वितम् ।
सुग्रीवादिकपींद्रैश्च रक्षोभिः सबिभीषणैः ८।
प्राप्तं निवेदय सुखात्पुष्पकासनसंस्थितम् ।
येन मे सोऽनुजः शीघ्रं सुखमेति मदागमात् ९।
इति श्रुत्वा ततो वाक्यं रघुवीरस्य धीमतः ।
जगाम भरतावासं नंदिग्रामं निदेशकृत् १०।
गत्वा स नंदिग्रामं तु मंत्रिवृद्धैः सुसंयतम् ।
भरतं भ्रातृविरहक्लिन्नं धीमान्ददर्श ह ११।
कथयंतं मंत्रिवृद्धान्रामचंद्रकथानकम् ।
तदीय पदापाथोज मकरंदसुनिर्भरः १२।
नमश्चकार भरतं धर्मं मूर्तियुतं किल ।
विधात्रा सकलांशेन सत्त्वेनैव विनिर्मितम् १३।
तं दृष्ट्वा भरतः शीघ्रं प्रत्युत्थाय कृतांजलि ।
स्वागतं चेति होवाच रामस्य कुशलं वद १४।
इत्येवं वदतस्तस्य भुजो दक्षिणतोऽस्फुरत् ।
हृदयाच्च गतः शोको हर्षास्रैः पूरिताननः १५।
विलोक्य तादृशं भूपं प्रत्युवाच कपीश्वरः ।
निकटे हि पुरः प्राप्तं विद्धि रामं सलक्ष्मणम् १६।
रामागमनसंदेशामृतसिक्तकलेवरः ।
प्रापयद्धर्षपूरं हि सहस्रास्यो न वेद्म्यहम् १७।
जगाद मम तन्नास्ति यत्तुभ्यं दीयते मया ।
दासोऽस्मि जन्मपर्यंतं रामसंदेशहारकः १८।
वसिष्ठोऽपि गृहीत्वार्घ्यं मंत्रिवृद्धाः सुहर्षिताः ।
जग्मुस्ते रामचंद्रं च हनुमद्दर्शिताध्वना १९।
दृष्ट्वा दूरात्समायांतं रामचंद्रं मनोरमम् ।
पुष्पकासनमध्यस्थं ससीतं सहलक्ष्मणम् २०।
रामोऽपि दृष्ट्वा भरतं पादचारेण संगतम् ।
जटावल्कलकौपीन परिधानसमन्वितम् २१।
अमात्यान्भ्रातृवेषेण समवेषाञ्जटाधरान् ।
नित्यं तपः क्लिष्टतया कृशरूपान्ददर्श ह २२।
रामोऽपि चिंतयामास दृष्ट्वा वै तादृशं नृपम् ।
अहो दशरथस्यायं राजराजस्य धीमतः २३।
पुत्रः पदातिरायाति जटावल्कलवेषभृत् ।
न दुःखं तादृशं मेऽन्यद्वनमध्यगतस्य हि २४।
यादृशं मद्वियोगेन चैतस्य परिवर्त्तते ।
अहो पश्यत मे भ्राता प्राणात्प्रियतमः सखा २५।
श्रुत्वा मां निकटे प्राप्तं मंत्रिवृद्धैः सुहर्षितैः ।
द्रष्टुं मां भरतोऽभ्येति वसिष्ठेन समन्वितः २६।
इति ब्रुवन्नरपतिः पुष्पकान्नभसोंऽगणात् ।
बिभीषणहनूमद्भ्यां लक्ष्मणेन कृतादरः २७।
यानादवतताराशु विरहात्क्लिन्नमानसः ।
भ्रातर्भ्रातः पुनर्भ्रातर्भ्रातर्भ्रातर्वदन्मुहुः २८।
दृष्ट्वा समुत्तीर्णमिमं रामचंद्रं सुरैर्युतम् ।
भरतो भ्रातृविरहक्लिन्नं धीमान्ददर्श ह ।
हर्षाश्रूणि प्रमुंचंश्च दंडवत्प्रणनाम ह २९।
रघुनाथोऽपि तं दृष्ट्वा दंडवत्पतितं भुवि ।
उत्थाप्य जगृहे दोर्भ्यां हर्षालोकसमन्वितः ३०।
उत्थापितोऽपि हि भृशं नोदतिष्ठद्रुदन्मुहुः ।
रामचंद्रपदांभोजग्रहणासक्तबाहुभृत् ३१।
भरत उवाच।
दुराचारस्य दुष्टस्य पापिनो मे कृपां कुरु ।
रामचंद्र महाबाहो कारुण्यात्करुणानिधे ३२।
यस्ते विदेहजा पाणिस्पर्शं क्रूरममन्यत ।
स एव चरणो राम वने बभ्राम मत्कृते ३३।
इत्युक्त्वाश्रुमुखो दीनः परिरभ्य पुनः पुनः ।
प्रांजलिः पुरतस्तस्थौ हर्षविह्वलिताननः ३४।
रघुनाथस्तमनुजं परिष्वज्य कृपानिधिः ।
प्रणम्य च महामंत्रिमुख्यानापृच्छ्य सादरम् ३५।
भरतेन समं भ्रात्रा पुष्पकासनमास्थितः ।
सीतां ददर्श भरतो भ्रातृपत्नीमनिंदिताम् ३६।
अनसूयामिवात्रेः किं लोपामुद्रां घटोद्भुवः ।
पतिव्रतां जनकजाममन्यतननाम च ३७।
मातः क्षमस्व यदघं मया कृतमबुद्धिना ।
त्वत्सदृश्यः पतिपराः सर्वेषां साधुकारिकाः ३८।
जानक्यापि महाभागा देवरं वीक्ष्य सादरम् ।
आशीर्भिरभियुज्याथ समपृच्छदनामयम् ३९।
विमानवरमारूढास्ते सर्वे नभसोंऽगणे ।
क्षणादालोकयांचक्रे निकटे स्वपितुः पुरीम् ४०।
इति श्रीपद्मपुराणे पातालखंडे रामाश्वमेधे शेषवात्स्यायनसंवादे रामराजधानीदर्शनोनाम द्वितीयोऽध्यायः २।
।
।
खण्डः ५ (पातालखण्डः) — Adhyāya 3
शेष उवाच।
दृष्ट्वा रामो राजधानीं निजलोकनिवासिनीम् ।
जहर्ष मतिमान्वीरश्चिरदर्शनलालसः १।
भरतोऽपि स्वकं मित्रं सुमुखं नगरं प्रति ।
प्रेषयामास सचिवं नगरोत्सवसिद्धये २।
भरत उवाच।
कुर्वंतु लोकास्त्वरितं रघुनाथागमोत्सवम् ।
मंदिरे मंदिरे रम्यं कृतकौतुकचित्रकम् ३।
विपांसुका राजमार्गाश्चंदनद्रवसिंचिताः ।
प्रसूनभरसंकॢप्ता हृष्टपुष्टजनावृताः ४।
विचित्रवर्णध्वजभा चित्रिताखिलस्वांगणाः ।
मेघागमे धनुरिव पश्यंत्वेव वलीमुखाः ५।
प्रतिगेहं तु लोकानां कारयंत्वगरूक्षणम् ।
यद्धूमं वीक्ष्य शिखिनो नृत्यं कुर्वंतु लीलया ६।
हस्तिनो मम शैलाभानाधोरणसुयंत्रितान् ।
विचित्रयंतु बहुशो गैरिकाद्युपधातुभिः ७।
वाजिनश्चित्रिता भूयः सुशोभंतु मनोजवाः ।
यद्वेगवीक्षणादेव गर्वं त्यजति स्वर्हयः ८।
कन्याः सहस्रशो रम्याः सर्वाभरणभूषिताः ।
गजोपरि समारूढा मुक्ताभिर्विकिरंतु च ९।
ब्राह्मण्यः पात्रहस्ताश्च दूर्वाहारिद्रसंयुताः ।
सुवासिन्यो महाराजं रामं नीराजयंतु ताः १०।
कौसल्यापुत्रसंयोगसंदेश विधुरा सती ।
हर्षं प्राप्नोतु सुकृशा तदीक्षणसुलालसा ११।
इत्येवमादिरचनाः पुरशोभाविधायिकाः ।
करोतु जनता हृष्टा रामस्यागमनं प्रति १२।
शेष उवाच।
इति श्रुत्वा ततो वाक्यं सुमुखो मंत्रवित्तमः ।
प्रययौ नगरीं कर्तुं कृतकौतुकतोरणाम् १३।
गत्वाथ नगरीं तां वै मंत्री तु सुमुखाभिधः ।
ख्यापयामास लोकानां रामागममहोत्सवम् १४।
लोकाः श्रुत्वा पुरीं प्राप्तं रघुनाथं सुहर्षिताः ।
पूर्वं तदीय विरहत्यक्तभोगसुखादयः १५।
ब्राह्मणा वेदसंपन्नाः पवित्रा दर्भपाणयः ।
धौतोत्तरीयवलिता जग्मुः श्रीरघुनायकम् १६।
क्षत्रिया ये शूरतमा धनुर्बाणधरा वराः ।
संग्रामे बहुशो वीरा जेतारो ययुरप्यमुम् १७।
वैश्या धनसमृद्धाश्च मुद्राशोभितपाणयः ।
शुभ्रवस्त्रपरीधाना अभिजग्मुर्नरेश्वरम् १८।
शूद्रा द्विजेषु ये भक्ताः स्वीयाचारसुनिष्ठिताः ।
वेदाचाररता ये वै तेऽपिजग्मुः पुरीपतिम् १९।
ये ये वृत्तिकरा लोकाः स्वे स्वे कर्मण्यधिष्ठिताः ।
स्वकं वस्तु समादाय ययुः श्रीरामभूपतिम् २०।
इत्थं भूपतिसंदेशात्प्रमोदाप्लवसंयुताः ।
नाना कौतुकसंयुक्ता आजग्मुर्मनुजेश्वरम् २१।
शेष उवाच।
रघुनाथोऽपि सकलैर्दैवतैः स्वस्वयानगैः ।
परीतः प्रविवेशोच्चैः पुरीं रचितमोहनाम् २२।
प्लवंगाः प्लवनैर्युक्ता आकाशपथचारिणः ।
स्वस्वशोभापरीतांगाश्चानुजग्मुः पुरोत्तमम् २३।
पुष्पकादवरुह्याशु नरयानमथारुहत् ।
सीतया सहितो रामः परिवारसमावृतः २४।
अयोध्यां प्रविवेशाथ कृतकौतुकतोरणाम् ।
हृष्टपुष्टजनाकीर्णामुत्सवैः परीभूषिताम् २५।
वीणापणवभेर्यादिवादित्रैराहतैर्भृशम् ।
शोभमानः स्तूयमानः सूतमागधबंदिभिः २६।
जय राघवरामेति जय सूर्यकुलांगद ।
जय दाशरथे देव जयताल्लोकनायकः २७।
इति शृण्वञ्छुभां वाचं पौराणां हर्षितांगिनाम् ।
रामदर्शनसंजात पुलकोद्भेद शोभिनाम् २८।
प्रविवेश वरं मार्गं रथ्याचत्वरभूषितम् ।
चंदनोदकसंसिक्तं पुष्पपल्लवसंयुतम् २९।
तदा पौरांगनाः काश्चिद्गवाक्षबिलमाश्रिताः ।
रघुनाथस्वरूपेक्षा जातकामा अथाब्रुवन् ३०।
पौरांगना ऊचुः।
धन्या अभूवन्बत भिल्लकन्या वनेषु या राममुखारविंदम् ।
स्वलोचनेंदीवरकैरथापिबन्स्वभाग्यसंजातमहोदया इमाः ३१।
धन्यं मुखं पश्यत वीरधाम्नः श्रीरामदेवस्य सरोजनेत्रम् ।
यद्दर्शनं धातृमुखाः सुरा अपि प्रापुर्महद्भाग्ययुता वयंत्वहो ३२।
एतन्मुखं पश्यत चारुहासं किरीटसंशोभिनिजोत्तमांगम् ।
बंधूकधिक्कारलसच्छविप्रदं दंतच्छदं बिभ्रतमुच्चनासम् ३३।
इति गदितवतीस्ताः स्नेहभारेण रामा नलिनदलसदृक्षैर्नेत्रपातैर्निरीक्ष्य ।
निखिलगुरुरनूनप्रेमभारं नृलोकं जननिगृहमियेष प्रोषितांगेन हृष्टः ३४।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथस्य पुरप्रवेशनं नाम तृतीयोऽध्यायः ३।
खण्डः ५ (पातालखण्डः) — Adhyāya 4
वात्स्यायन उवाच।
भुजगाधीश्वरेशान धराभारधरक्षम ।
शृण्वेकं संशयं मह्यं कृपया कथयस्व तम् १।
रघुनाथस्य गमनं वनं प्रति यदा ह्यभूत् ।
तदा प्रभृति देहेन स्थिता शून्येन चेतसा २।
तद्विप्रयोगविधुरा कृशदेहातिदुःखिता ।
सुमुखान्मंत्रिणः श्रुत्वा रघुनाथं समागतम् ३।
कथं जहर्ष किमभूत्कीदृशं तत्र चिह्नितम् ।
रामचंद्रस्य संदेशहर्तारं किमुवाच सा ४।
एतन्मे संशयं छिंधि रघुनाथगुणोदयम् ।
यथावच्छृण्वते मह्यं कथयस्व प्रसादतः ५।
शेष उवाच ।
साधुपृष्टं महाभाग द्विजवर्यपुरस्कृत ।
तन्मे निगदतः साक्षाच्छृणुष्वैकमनाः किल ६।
सा वै तद्वदनांभोज च्युतं रामागमामृतम् ।
पीत्वा पीत्वा बभूवाहो स्थगितांगेन विह्वला ७।
किं मे स्वप्नो विमूढायाः किं वा भ्रमकरं वचः ।
ममवै मंदभाग्यायाः कथं रामेक्षणं पुनः ८।
बहुना तपसा कृत्वा प्राप्तोऽयं वै सुतः शिशुः ।
केनचिन्मम पापेन विप्रयोगं गतः पुनः ९।
सुमंत्रिन्कुशली रामः सीतालक्ष्मणसंयुतः ।
कथं मां स्मरते वीरो वनचारी सुदुःखिताम् १०।
इति सा विललापोच्चै रघुनाथस्मृतिं गता ।
न निवेद निजं किंचित्परकीयं विमोहिता ।
सुमुखोऽपि तथा दृष्ट्वा दुःखितां मातरं भृशम् ११।
वीजयामास वासोग्रैः संज्ञामाप च सा पुनः ।
उवाच जननीं सौम्यं वचोहर्षकरं मुहुः १२।
रघुनाथागमस्मार हृष्टां तां व्यदधात्पुनः ।
मातर्विद्धि गृहं प्राप्तं रघुनाथं सलक्ष्मणम् १३।
सीतया सहितं पश्य चाशीर्भिरभियुंक्ष्व च ।
इति तथ्यं वचः श्रुत्वा सुमुखेन प्रभाषितम् १४।
यादृशं हर्षमापेदे तादृशं वेद्म्यहं नहि ।
उत्थाय चाजिरे प्राप्ता रोमांचिततनूरुहा १५।
हर्षविह्वलितांग्यश्रु मुंचंती राममैक्षत ।
तावत्स रामो राजेंद्रो नरयानमधिश्रितः १६।
प्राप्तः स्वमातुर्भवनं कैकेय्याः सुनयः पुरः ।
कैकेय्यपि त्रपाभारनम्रा रामं पुरःस्थितम् १७।
नोवाच किंचिन्महतीं चिंतां प्राप्तवती मुहुः ।
सूर्यवंशध्वजो रामो मातरं वीक्ष्य लज्जिताम् १८।
उवाच सांत्वयंस्तां च वाक्यैर्विनयमिश्रितैः ।
श्रीराम उवाच।
मातर्मया वनं गत्वा सर्वमाचरितं तथा १९।
अधुना करवै किं वा त्वदाज्ञातो जनन्यहो ।
मया न्यूनं कृतं नास्ति कथं मां नेक्ष्यसे पुनः २०।
आशीर्भिरभिनंद्यैनं भरतं मां च वीक्षय ।
इति श्रुत्वापि तद्वाक्यं सा नम्रवदनानघ २१।
शनैः शनैः प्रत्युवाच राम गच्छ स्वमालयम् ।
रामोऽपि श्रुत्वा वचनं जनन्याः पुरुषोत्तमः २२।
नमस्कृत्य ययौ गेहं सुमित्रायाः कृपानिधिः ।
सुमित्रा पुत्रसहितं रामं दृष्ट्वा महामनाः २३।
चिरंजीव चिरंजीव ह्याशीर्भिरिति चाभ्यधात् ।
मातुश्च रामभद्रोऽपि चरणौ प्रणिपत्य च २४।
परिष्वज्य मुदायुक्तो जगाद वचनं पुनः ।
रत्नगर्भे मम भ्रात्रा केनापि न कृतं तथा २५।
यथायमकरोद्धीमान्ममदुःखापनोदनम् २६।
रावणेन हृता सीता मया यत्प्राप्यते पुनः ।
मातस्तत्सर्वमाविद्धि लक्ष्मणस्य विचेष्टितम् २७।
दत्तामाशिषमागृह्य शिरसायं सुमित्रया ।
निजमातुश्च भवनं प्रययौ विबुधैर्वृतः २८।
मातरं वीक्ष्य हृषितां निजदर्शनलालसाम् ।
स्वयानादवरुह्याशु चरणावग्रहीद्धरिः २९।
माता तद्दर्शनोत्कंठा विह्वलीकृतमानसा ।
परिष्वज्य परिष्वज्य रामं मुदमवाप सा ३०।
शरीरे रोमहर्षोऽभूद्गद्गदा वागभूत्तदा ।
हर्षाश्रूणि तु सोष्णानि प्रवाहं प्रापुरापदात् ३१।
जननीं वीक्ष्य विनयी ताटंकद्वयवर्जिताम् ।
कराकल्प पदाकल्परहितां बिभ्रतीं तनुम् ३२।
किंचित्स्वदर्शनाद्धृष्टां कृशांगीं तां स शोकभाक् ।
दुःखस्य समयो नायमिति मत्वा जगाद ताम् ३३।
श्रीराम उवाच।
मातर्मया त्वच्चरणौ चिरकालं न सेवितौ ।
ततः क्षमस्वापराधं भाग्यहीनस्य वै मम ३४।
ये पुत्रा मातापित्रोर्न शुश्रूषायां समुत्सुकाः ।
ते मंतव्याः परा मातः कीटका रेतसो भवाः ३५।
किं कुर्वे जनकाज्ञातो गतो वै दंडकं वनम् ।
तत्रापि त्वत्कृपापांगात्तीर्णोऽस्मि दुःखसागरम् ३६।
रावणेन हृता सीता लंकायां गमिता पुनः ।
त्वत्कृपातो मया लब्धा तं हत्वा राक्षसेश्वरम् ३७।
सीतेयं त्वच्चरणयोः पतिता वै पतिव्रता ।
संभावयाशु चकितां त्वत्पादार्पितमानसाम् ३८।
इति श्रुत्वा तु तद्वाक्यं पादयोः पतितां स्नुषाम् ।
आशीर्भिरभियुज्यैनां बभाषे तां पतिव्रताम् ३९।
सीते स्वपतिना सार्द्धं चिरं विलस भामिनि ।
पुत्रौ प्रसूय च कुलं स्वकं पावय पावने ४०।
त्वत्सदृश्यः पतिपराः पतिदुःखसुखानुगाः ।
भवंति दुःखभागिन्यो न हि सत्यं जगत्त्रये ४१।
विदेहपुत्रि स्वकुलं त्वया पावितमात्मना ।
रामपादाब्जयुगलमनुयांत्या महावनम् ४२।
किं चित्रं यत्पुमांसस्तु वैरिकोटिप्रभंजनाः ।
येषां गेहे सती भार्या स्वपतिप्रियवाञ्छिका ४३।
इत्युक्त्वा रघुनाथस्य भार्यामंचितलोचनाम् ।
तूष्णीं बभूव हृषिता प्रहृष्टस्वतनूरुहा ४४।
अथ भ्रातास्य भरतः पित्रा दत्तं निजं महत् ।
राज्यं निवेदयामास रामचंद्राय धीमते ४५।
मंत्रिणस्ते प्रहृष्टांगा दैवज्ञान्मंत्रकोविदान् ।
आहूय सुमुहूर्तंते पप्रच्छुः परमादरात् ४६।
शुभे मुहूर्ते सुदिने शुभनक्षत्रसंयुते ।
अभिषेकं महाराज्ये कारयामासुरुद्यताः ४७।
सप्तद्वीपवतीं पृथ्वीं व्याघ्रचर्मणि सुंदरे ।
लिखित्वोपरि राजेंद्रो महाराजोधितस्थिवान् ४८।
तद्दिनादेव साधूनां मनांसि प्रमुदं ययुः ।
दुष्टानां चेतसो ग्लानिरभवत्परतापिनाम् ४९।
स्त्रियस्तु पतिभक्त्या च पतिव्रतपरायणाः ।
मनसापि कदा पापं नाचरंति जना मुने ५०।
दैत्यादेवास्तथा नागा यक्षासुरमहोरगाः ।
सर्वे न्यायपथे स्थित्वा रामाज्ञां शिरसा दधुः ५१।
परोपकरणेयुक्ताः स्वधर्मसुखनिर्वृताः ।
विद्याविनोदगमिता दिनरात्रिक्षणाः शुभाः ५२।
वातोऽपि मार्गसंस्थानां बलान्नाहरते महान् ।
वासांस्यपि तु सूक्ष्माणि तत्र चौरकथा नहि ५३।
धनदो ह्यर्थिनां रामः कारुण्यश्च कृपानिधिः ।
भ्रातृभिः सहितो नित्यं गुरुदेवस्तुतिं व्यधात् ५४।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुवरस्य राज्याभिषेकोनाम चतुर्थोऽध्यायः ४।
खण्डः ५ (पातालखण्डः) — Adhyāya 5
शेष उवाच।
अथाभिषिक्तं रामं तु तुष्टुवुः प्रणताः सुराः ।
रावणाभिधदैत्येंद्र वधहर्षितमानसाः १।
देवा ऊचुः।
जय दाशरथे सुरार्तिहञ्जयजय दानववंशदाहक ।
जय देववरांगनागणग्रहणव्यग्रकरारिदारक २।
तवयद्दनुजेंद्र नाशनं कवयो वर्णयितुं समुत्सुकाः ।
प्रलये जगतांततीः पुनर्ग्रससे त्वं भुवनेशलीलया ३।
जय जन्मजरादिदुःखकैः परिमुक्तप्रबलोद्धरोद्धर ।
जय धर्मकरान्वयांबुधौ कृतजन्मन्नजरामराच्युत ४।
तव देववरस्य नामभिर्बहुपापा अपि ते पवित्रिताः ।
किमु साधुद्विजवर्यपूर्वकाः सुतनुं मानुषतामुपागताः ५।
हरविरिंचिनुतं तव पादयोर्युगलमीप्सितकामसमृद्धिदम् ।
हृदि पवित्रयवादिकचिह्नितैः सुरचितं मनसा स्पृहयामहे ६।
यदि भवान्न दधात्यभयं भुवो मदनमूर्ति तिरस्करकांतिभृत् ।
सुरगणा हि कथं सुखिनः पुनर्ननुभवंति घृणामय पावन ७।
यदा यदास्मान्दनुजाहि दुःखदास्तदा तदा त्वं भुवि जन्मभाग्भवेः ।
अजोऽव्ययोऽपीशवरोऽपि सन्विभो स्वभावमास्थाय निजं निजार्चितः ८।
मृतसुधासदृशैरघनाशनैः सुचरितैरवकीर्य महीतलम् ।
अमनुजैर्गुणशंसिभिरीडितः प्रविश चाशु पुनर्हि स्वकं पदम् ९।
अनादिराद्योजररूपधारी हारी किरीटी मकरध्वजाभः ।
जयं करोतु प्रसभं हतारिः स्मरारि संसेवितपादपद्मः १०।
इत्युक्त्वा ते सुराः सर्वे ब्रह्मेंद्रप्रमुखा मुहुः ।
प्रणेमुररिनाशेन प्रीणिता रघुनायकम् ११।
इति स्तुत्यातिसंहृष्टो रघुनाथो महायशाः ।
प्रोवाच तान्सुरान्वीक्ष्य प्रणतान्नतकंधरान् १२।
श्रीराम उवाच।
सुरा वृणुत मे यूयं वरं किंचित्सुदुर्ल्लभम् ।
यं कोऽपि देवो दनुजो न यक्षः प्राप सादरः १३।
सुरा ऊचुः।
स्वामिन्भगवतः सर्वं प्राप्तमस्माभिरुत्तमम् ।
यदयं निहतः शत्रुरस्माकं तु दशाननः १४।
यदायदाऽसुरोऽस्माकं बाधां परिदधाति भोः ।
तदा तदेति कर्तव्यमेतावद्वैरिनाशनम् १५।
तथेत्युक्त्वा पुनर्वीरः प्रोवाच रघुनंदनः ।
श्रीराम उवाच।
सुराः शृणुत मद्वाक्यमादरेण समन्विताः १६।
भवत्कृतं मदीयैर्वैगुणैर्ग्रथितमद्भुतम् ।
स्तोत्रं पठिष्यति मुहुः प्रातर्निशि सकृन्नरः १७।
तस्य वैरि पराभूतिर्न भविष्यति दारुणा ।
न च दारिद्र्यसंयोगो न च व्याधिपराभवौ १८।
मदीयचरणद्वंद्वे भक्तिस्तेषां तु भूयसी ।
भविष्यति मुदायुक्ते स्वांते पुंसां तु पाठतः १९।
इत्युक्त्वा सोऽभवत्तूष्णीं नरदेवशिरोमणिः ।
सुराः सर्वे प्रहृष्टास्ते ययुर्लोकं स्वकं स्वकम् २०।
रघुनाथोऽपि भ्रातॄंस्तान्पालयंस्तातवद्बुधान् ।
प्रजाः पुत्रानिव स्वीयाल्लाँलयँल्लोकनायकः २१।
यस्मिञ्छासति लोकानां नाकालमरणं नृणाम् ।
न रोगादि पराभूतिर्गृहेषु च महीयसी २२।
नेतिः कदापि द्दश्येत वैरिजं भयमेव च ।
वृक्षाः सदैव फलिनो मही भूयिष्ठधान्यका २३।
पुत्रपौत्रपरीवार सनाथी कृतजीवनाः ।
कांता संयोगजसुखैर्निरस्तविरहक्लमाः २४।
नित्यं श्रीरघुनाथस्य पादपद्मकथोत्सुकाः ।
कदापि परनिंदासु वाचस्तेषां भवंति न २५।
कारवोऽपि कदा पापं नाचरंति मनस्यहो ।
रघुनाथकराघातदुःखशंकाभिशंसिनः २६।
सीतापतिमुखालोक निश्चलीभूतलोचनाः ।
लोका बभूवुः सततं कारुण्यपरिपूरिताः २७।
राज्यं प्राप्तमसापत्नं समृद्धबलवाहनम् ।
ऋषिभिर्हृष्टपुष्टैश्च रम्यं हाटकभूषणैः २८।
संपुष्टमिष्टापूर्तानां धर्माणां नित्यकर्तृभिः ।
सदा संपन्नसस्यं च सुवसुक्षेत्रसंयुतम् २९।
सुदेशं सुप्रजं स्वस्थं सुतृणं बहुगोधनम् ।
देवतायतनानां च राजिभिः परिराजितम् ३०।
सुपूर्णा यत्र वै ग्रामाः सुवित्तर्द्धिविराजिताः ।
सुपुष्पकृत्रिमोद्यानाः सुस्वादुफलपादपाः ३१।
सपद्मिनीककासारा यत्र राजंति भूमयः ।
सदंभा निम्नगा यत्र न यत्र जनता क्वचित् ३२।
कुलान्येव कुलीनानां वर्णानां नाधनानि च ।
विभ्रमो यत्र नारीषु न विद्वत्सु च कर्हिचित् ३३।
नद्यः कुटिलगामिन्यो न यत्र विषये प्रजाः ।
तमोयुक्ताः क्षपा यत्र बहुलेषु न मानवाः ३४।
रजोयुजः स्त्रियो यत्र नाधर्मबहुला नराः ।
धनैरनंधो यत्रास्ति जनो नैव च भोजने ३५।
अनयः स्यंदनो यत्र न च वैराजपूरुषः ।
दंडः परशुकुद्दालवालव्यजनराजिषु ३६।
आतपत्रेषु नान्यत्र क्वचित्क्रोधोपरोधजः ।
अन्यत्राक्षिकवृंदेभ्यः क्वचिन्न परिदेवनम् ३७।
आक्षिका एव दृश्यंते यत्र पाशकपाणयः ।
जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः ३८।
कठोरहृदया यत्र सीमंतिन्यो न मानवाः ।
औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे ३९।
वेधो यत्र सुरत्नेषु शूलं मूर्तिकरेषु वै ।
कंपः सात्विकभावोत्थो न भयात्क्वापि कस्यचित् ४०।
संज्वरः कामजो यत्र दारिद्र्यकलुषस्य च ।
दुर्ल्लभत्वं सदैवस्य सुकृतेन च वस्तुनः ४१।
इभा एव प्रमत्ता वै युद्धे वीच्यो जलाशये ।
दानहानिर्गजेष्वेव तीक्ष्णा एव हि कंटकाः ४२।
बाणेषु गुणविश्लेषो बंधोक्तिः पुस्तके दृढा ।
स्नेहत्यागः खलेष्वेव न च वै स्वजने जने ४३।
तं देशं पालयामास लालयँल्लालिताः प्रजाः ।
धर्मं संस्थापयन्देशे दुष्टे दंडधरोपमः ४४।
एवं पालयतो देशं धर्मेण धरणीतलम् ।
सहस्रं च व्यतीयुर्वै वर्षाण्येकादश प्रभोः ४५।
तत्र नीचजनाच्छ्रुत्वा सीताया अपमानताम् ।
स्वां च निंदां रजकतस्तां तत्याज रघूद्वहः ४६।
पृथ्वीं पालयमानस्य धर्मेण नृपतेस्तदा ।
सीतां विरहितामेकां निदेशेन सुरक्षिताम् ४७।
कदाचित्संसदो मध्ये ह्यासीनस्य महामतेः ।
आजगाम मुनिश्रेष्ठः कुंभोत्पत्तिर्मुनिर्महान् ४८।
गृहीत्वार्घ्यं समुत्तस्थौ वसिष्ठेन समन्वितः ।
जनताभिर्महाराजो वार्धिशोषकमागतम् ४९।
स्वागतेन सुसंभाव्य पप्रच्छ तमनामयम् ।
सुखोपविष्टं विश्रांतं बभाषे रघुनंदनः ५०।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे अगस्त्यसमागमोनाम पंचमोऽध्यायः ५।
खण्डः ५ (पातालखण्डः) — Adhyāya 6
शेष उवाच।
इत्थं स्वागतसंतुष्टं ब्रह्मचर्यतपोनिधिम् ।
उवाच मतिमान्वीरः सर्वलोकगुरुर्मुनिम् १।
स्वागतं ते महाभाग कुंभयोने तपोनिधे ।
त्वद्दर्शनेन सर्वे वै पाविताः सकुटुंबकाः २।
कच्चिन्मतिस्ते वेदेषु शास्त्रेषु परिवर्तते ।
त्वत्तपोविघ्नकर्ता वै नास्ति भूमंडले क्वचित् ३।
लोपामुद्रा महाभाग या च ते धर्मचारिणी ।
यस्याः पतिव्रता धर्मात्सर्वं भवति शोभनम् ४।
अपि शंस महाभाग धर्ममूर्ते कृपानिधे ।
अलोलुपस्य किं कार्यं करवाणि मुनीश्वर ५।
त्वत्तपोयोगतः सर्वं भवति स्वेच्छया बहु ।
तथापि मयि कृत्वैव कृपां शंश मुनीश्वरः ६।
शेष उवाच।
इत्युक्तो लोकगुरुणा राजराजेन धीमता ।
उवाच रामं लोकेशं विनीततरभाषया ७।
अगस्त्य उवाच।
स्वामिंस्तव सुदुर्दर्शं दर्शनं दैवतैरपि ।
मत्वा समागतं विद्धि राजराज कृपानिधे ८।
हतस्त्वया रावणाख्यस्त्वसुरो लोककंटकः ।
दिष्ट्याद्य देवाः सुखिनो दिष्ट्या राजा बिभीषणः ९।
राम त्वद्दर्शनान्मेऽद्य गतं वै दुष्कृतं किल ।
संपूर्णो मे मनःकोश आनंदेन सुरोत्तम १०।
इत्युक्त्वा स बभूवाशु तूष्णीं कुंभसमुद्भवः ।
रामसंदर्शनाह्लादविह्वलीकृतमानसः ११।
रामः पप्रच्छ तं भूयो मुनिं ज्ञानविशारदम् ।
लोकातीतं भवद्भावि सर्वं जानासि सर्वतः १२।
मुने कथय मे सर्वं पृच्छतो हि सुविस्तरम् ।
कोऽसौ मया हतो यो हि रावणो विबुधार्दनः १३।
कुंभकर्णोऽपि कस्त्वेष का जातिर्वै दुरात्मनः ।
देवो दैत्यः पिशाचो वा राक्षसो वा महामुने १४।
सर्वमाख्याहि सर्वज्ञ सर्वं जानासि विस्तरात् ।
अतः कथय मे सर्वं कृपां कृत्वा ममोपरि १५।
इति श्रुत्वा ततो वाक्यं कुंभजन्मा तपोनिधिः ।
यत्पृष्टं रघुराजेन प्रवक्तुं तत्प्रचक्रमे १६।
राजन्सृष्टिकरो ब्रह्मा पुलस्त्यस्तत्सुतोऽभवत् ।
ततस्तु विश्रवा जज्ञे वेदविद्याविशारदः १७।
तस्य पत्नीद्वयं जातं पातिव्रत्यचरित्रभृत् ।
एका मंदाकिनी नाम्नी द्वितीया कैकसी स्मृता १८।
पूर्वस्यां धनदो जज्ञे लोकपालविलासभृत् ।
योऽसौ शिवप्रसादेन लंकावासमचीकरत् १९।
विद्युन्मालिसुतायां तु पुत्रत्रयमभून्महत् ।
रावणः कुंभकर्णश्च तथा पुण्यो बिभीषणः २०।
राक्षस्युदरजन्मत्वात्संध्यासमयसंभवात् ।
द्वयोरधर्मनिपुणा मतिरासीन्महामते २१।
एकदा तु विमानेन पुष्पकेण सुशोभिना ।
कांचनीयोपकल्पेन किंकिणीजालमालिना २२।
आरुह्य पितरौ द्रष्टुं प्रायाच्छोभासमन्वितः ।
स्वगणैः संस्तुतो भूत्वा नानारत्नविभूषणैः २३।
आगत्य पित्रोश्चरणे पतित्वा चिरमात्मजः ।
हर्षविह्वलितात्मा च रोमांचिततनूरुहः २४।
उवाच मेऽद्य सुदिनं महाभाग्यफलोदयः ।
यन्मे युष्मत्पदौ दृष्टौ महापुण्यददर्शनौ २५।
इत्यादिभिः स्तुतिपदैः स्तुत्वागान्मंदिरं स्वकम् ।
पितरावपि संहृष्टौ पुत्रस्नेहाद्बभूवतुः २६।
तं दृष्ट्वा रावणो धीमाञ्जगाद निजमातरम् ।
कोऽयं पुमान्सुरो वाथ यक्षो वाथ नरोत्तमः २७।
योऽसौ मम पितुःपादौ सन्निषेव्य गतः पुनः ।
महाभाग्यनिधिः स्वीयैर्गणैः सुपरिवारितः २८।
केनेदं तपसा लब्धं विमानं वायुवेगधृक् ।
उद्यानारामलीलादि विलासस्थानमुत्तमम् २९।
शेष उवाच।
इति वाक्यं समाकर्ण्य जननी रोषविक्लवा ।
उवाच पुत्रं विमनाः किंचिन्नेत्रविकारिणी ३०।
रे पुत्र शृणु मद्वाक्यं बहुशिक्षासमन्वितम् ।
एतस्य जन्मकर्मादि विचारचतुराधिकम् ३१।
सपत्न्या मम कुक्षिस्थं विधानं समुपस्थितम् ।
येन स्वमातुर्विमलं कुलमुज्ज्वलितं महत् ३२।
त्वं तु मत्कुक्षिजः कीटः पापः स्वोदरपूरकः ।
यथा खरः स्वकं भारं जानाति न च तद्गुणम् ३३।
तथा त्वं लक्ष्यसेऽज्ञानी शयनासनभोगवान् ।
सुप्तो गतः क्वचिद्भ्रष्ट इत्येव तव संभवः ३४।
अनेन तपसा लब्धं शिवसंतोषकारिणा ।
लंकावासो मनोवेगं विमानं राज्यसंपदः ३५।
सुधन्या जननी त्वस्य सुभाग्या सुमहोदया ।
यस्याः पुत्रो निजगुणैर्लब्धवान्महतां पदम् ३६।
इति क्रुधा भाषितमार्तया तया मात्रा स्वयाऽकर्ण्य दुरात्मसत्तमः ।
रोषं विधायात्मगतं पुनर्वचो जगाद तां निश्चयभृत्तपः प्रति ३७।
रावण उवाच।
जनन्याकर्णय वचो मम गर्वसमन्वितम् ।
रत्नगर्भा त्वमेवासि यस्याः पुत्रास्त्रयो वयम् ३८।
कोऽसौ कीटः स धनदः क्व तपः स्वल्पकं पुनः ।
कालं का किंतु तद्राज्यं स्वल्पसेवकसंयुतम् ३९।
मातः शृणु ममोत्साहात्प्रतिज्ञां करुणान्विते ।
न केनापि कृतां कर्त्रा महाभाग्ये हि कैकसि ४०।
यद्यहं भुवनं सर्वं वशेन स्थापयामि वै ।
तपोभिर्दुष्कृतैः कृत्वा ब्रह्मसंतोषकारकैः ४१।
अन्नोदके सदा त्यक्त्वा निद्रां क्रीडां तथा पुनः ।
चेत्तदा पितृलोकस्य घातात्पापं भवेन्मम ४२।
कुंभकर्णोऽपि कृतवान्विभीषणसमन्वितः ।
रावणेन सहभ्रात्रेत्युक्त्वागाद्गिरिकाननम् ४३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रावणोत्पत्तिर्नाम षष्ठोऽध्यायः ६।
खण्डः ५ (पातालखण्डः) — Adhyāya 7
अगस्त्य उवाच।
अथोग्रं स तपो दैत्यो दशवर्षसहस्रकम् ।
चकार भानुमक्ष्णा च पश्यन्नूर्ध्वपदे स्थितः १।
कुंभकर्णोऽपि कृतवांस्तपः परमदुश्चरम् ।
विभीषणस्तु धर्मात्मा चचार परमं तपः २।
तदा प्रसन्नो भगवान्देवदेवः प्रजापतिः ।
देवदानवयक्षादि मुकुटैः परिसेवितः ३।
ददौ राज्यं च सुमहद्भुवनत्रयभास्वरम् ।
वपुश्च कृतवान्रम्यं देवदानवसेवितम् ४।
तदा संतापितो भ्राता धनदो धर्मबुद्धिमान् ।
विमानं तु ततो नीतं लंका च नगरी हठात् ५।
भुवनं तापितं सर्वं देवाश्चैव दिवो गताः ।
हतवान्ब्राह्मणकुलं मुनीनां मूलकृंतनः ६।
तदातिदुःखिता देवाः सेंद्रा ब्रह्माणमाययुः ।
स्तुतिं चक्रुर्महात्मानो दंडवत्प्रणतिं गताः ७।
ते तुष्टुवुः सुराः सर्वे वाग्भिरर्थ्याभिरादृताः ।
ततः प्रसन्नो भगवान्किंकरोमीति चाब्रवीत् ८।
ततो निवेदयांचक्रुर्ब्रह्मणे विबुधाः पुरः ।
दशग्रीवाच्च संकष्टं तथा निजपराभवम् ९।
क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह ।
तस्य शैलस्य पार्श्वे तु वैचित्र्येण समाकुलाः १०।
स्थिताः संतुष्टुवुर्देवाः शंभुं शक्रपुरोगमाः ।
नमो भवाय शर्वाय नीलग्रीवाय ते नमः ११।
नमः स्थूलाय सूक्ष्माय बहुरूपाय ते नमः ।
इति सर्वमुखेनोक्तां वाणीमाकर्ण्य शंकरः १२।
प्रोवाच नंदिनं देवा नानयेति ममांतिकम् ।
एतस्मिन्नंतरे देवा आहूता नंदिना च ते १३।
प्रविश्यांतःपुरे देवा ददृशुर्विस्मितेक्षणाः ।
ब्रह्मागत्य ददर्शाथ शंकरं लोकशंकरम् १४।
गणकोटिसहस्रैस्तु सेवितं मोदशालिभिः ।
नग्नैर्विरूपैः कुटिलैर्धूसरैर्विकटैस्तथा १५।
प्रणिपत्याग्रतः स्थित्वा सह देवैः पितामहः ।
उवाच देवदेवेशं पश्यावस्थां दिवौकसाम् १६।
कृपां कुरु महादेव शरणागतवत्सल ।
दुष्टदैत्यवधार्थं त्वं समुद्योगं विधेहि भोः १७।
सोऽपि तद्वचनं श्रुत्वा दैन्यशोकसमन्वितम् ।
त्रिदशैः सहितैः सर्वैराजगाम हरेः पदम् १८।
तुष्टुवुर्मुनयः सर्वे ससुरोरगकिन्नराः ।
जय माधव देवेश जय भक्तजनार्तिहन् १९।
विलोकय महादेव लोकयस्व स्वसेवकान् ।
इत्युच्चैर्जगदुः सर्वे देवाः शर्वपुरोगमाः २०।
इत्युक्तमाकर्ण्य सुराधिनाथो दृष्ट्वा सुरार्तिं परिचिंत्य विष्णुः ।
जगाद देवाञ्जलदोच्चया गिरा दुःखं तु तेषां प्रशमं नयन्निव २१।
भो ब्रह्मशर्वेंद्र पुरोगमामराः शृण्वंतु वाचं भवतां हितेरताम् ।
जाने दशग्रीवकृतं भयं वस्तन्नाशयाम्यद्य कृतावतारः २२।
पुरी त्वयोध्या रविवंशजातैर्नृपैर्महादानमखादिसत्क्रियैः ।
प्रपालिता भूतलमंडनीया विराजते राजतभूमिभागैः २३।
तस्यां दशरथो राजा निरपत्यः श्रियान्वितः ।
पालयत्यधुना राज्यं दिक्चक्रजयवान्विभुः २४।
स तु वंद्यादृष्यशृंगात्प्रार्थितात्पुत्रकाम्यया ।
पुत्रेष्ट्यां विधिना यज्वा महाबलसमन्वितः २५।
ततोऽहं प्रार्थितः पूर्वं तपसा तेन भोः सुराः ।
पत्नीषु तिसृषु प्रीत्या चतुर्धापि भवत्कृते २६।
राम लक्ष्मण शत्रुघ्न भरताख्या समन्वितः ।
कर्तास्मि रावणोद्धारं समूल बलवाहनम् २७।
भवंतोऽपि स्वकैरंशैरवतीर्य चरंत्विह ।
ऋक्षवानररूपेण सर्वत्र पृथिवीतले २८।
इत्युक्त्वा विररामाशु नभसीरितवाङ्मुने ।
देवाः श्रुत्वा महद्वाक्यं सर्वे संहृष्टमानसाः २९।
ते चक्रुर्गदितं यादृग्देवदेवेन धीमता ।
स्वैःस्वैरंशैर्मही पूर्णा ऋक्षवानररूपिभिः ३०।
योऽसौ विष्णुर्महादेवो देवानां दुःखनाशकः ।
सत्वमेव महाराज भगवान्कृतविग्रहः ३१।
भरतोऽयं लक्ष्मणश्च शत्रुघ्नश्च महामते ।
तावकांशाद्दशग्रीवो जनितश्च सुरार्द्दनः ३२।
पूर्ववैरानुबंधेन जानकीं हृतवान्पुनः ।
स त्वया निहतो दैत्यो ब्रह्मराक्षसजातिमान् ३३।
पुलस्त्यपुत्रो दैत्येंद्र सर्वलोकैककंटकः ।
पातितः पृथिवी सर्वा सुखमापमहेश्वर ३४।
ब्राह्मणानां सुखं त्वद्य मुनीनां तापसं बलम् ।
शिवानि सर्वतीर्थानि सर्वे यज्ञाः सुसंहिताः ३५।
त्वयि राज्ञि जगत्सर्वं सदेवासुरमानुषम् ।
सुखं प्रपेदे विश्वात्मञ्जगद्योने नरोत्तम ३६।
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वयानघ ।
उत्पत्तिश्च विपत्तिश्च मया मत्यनुसारतः ३७।
इत्थं निशम्य दितिजेंद्र कुलानुकारिवार्तां महापुरुष ईश्वरईशिता च ।
संरुद्धबाष्पगलदश्रुमुखारविंदो भूमौ पपात सदसि प्रथितप्रभावः ३८।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रावणोत्पत्तिविपत्तिकथनंनाम सप्तमोऽध्यायः ७।
खण्डः ५ (पातालखण्डः) — Adhyāya 8
शेष उवाच।
वात्स्यायनमुनिश्रेष्ठ कथा पापप्रणाशिनी ।
ब्रह्मण्यदेवदेवस्य सर्वधर्मैकरक्षितुः १।
राजानं मूर्च्छितं दृष्ट्वा कुंभजन्मा तपोनिधिः ।
शनैःशनैः करेणाशु पस्पर्शाश्रु जगाद च २।
भो रामाश्वसिहि क्षिप्रं किमर्थमवसीदसि ।
भवान्दैत्यकुलच्छेत्ता महाविष्णुः सनातनः ३।
भूतं भव्यं भवच्चैव जगत्स्थास्नु चरिष्णु च ।
त्वदृते नास्ति संचारी किमर्थमिह मूर्च्छितः ४।
श्रुत्वा वाक्यं महाराजः कुंभजन्मसमीरितम् ।
उत्तस्थौ विगलन्नेत्र बाष्पपूरितसन्मुखः ५।
उवाच दीनदीनं च विस्पष्टाक्षरविस्तरम् ।
त्रपाभर नमन्मूर्तिर्ब्रह्मद्रोहपराङ्मुखः ६।
श्रीराम उवाच।
अहो मे पश्यता ज्ञानं विमूढस्य दुरात्मनः ।
यद्ब्राह्मणकुले रूढं हतवान्कामलोलुपः ७।
महिलार्थे त्वहं विप्रं वेदशास्त्रविवेकवान् ।
हतवान्वाडवकुलं बुद्धिहीनोति दुर्मतिः ८।
इक्ष्वाकूणां कुले जातु ब्राह्मणो न दुरुक्तिभाक् ।
ईदृशं कुर्वता कर्म मयैतत्सुकलंकितम् ९।
ये ब्राह्मणास्तु पूजार्हा दानसम्मानभोजनैः ।
ते मया निहता विप्राः शरसंघातसंहितैः १०।
काँल्लोकान्नु गमिष्यामि कुंभीपाकोऽपि दुःसहः ।
न तादृशं तीर्थमस्ति यन्मां पावयितुं क्षमम् ११।
न यज्ञो न तपो दानं न वा चैव व्रतादिकम् ।
यत्तु वै ब्राह्मणद्रोग्धुर्ममपावनतारकम् १२।
यैः कोपितं ब्रह्मकुलं नरैर्निरयगामिभिः ।
ते नरा बहुशो दुःखं भोक्ष्यंति निरयं गताः १३।
वेदा मूलं तु धर्माणां वर्णाश्रमविवेकिनाम् ।
तन्मूलं ब्राह्मणकुलं सर्ववेदैकशाखिनः १४।
मूलच्छेत्तुर्ममौद्धत्यात्को लोकोनु भविष्यति ।
किमद्यकरणीयं वै येन मे हि शिवं भवेत् १५।
शेष उवाच।
विलपंतं भृशं रामं राजेंद्रं रघुपुंगवम् ।
मायामनुष्यवपुषं कुंभजन्माब्रवीद्वचः १६।
अगस्त्य उवाच।
मा विषादं महाधीर कुरु राजन्महामते ।
न ते ब्राह्मणहत्या स्याद्दुष्टानां नाशमिच्छतः १७।
त्वं पुराणः पुमान्साक्षादीश्वरः प्रकृतेः परः ।
कर्ता हर्ताऽविता साक्षी निर्गुणः स्वेच्छया गुणी १८।
सुरापो ब्रह्महत्याकृत्स्वर्णस्तेयी महाघकृत् ।
सर्वे त्वन्नामवादेन पूताः शीघ्रं भवंति हि १९।
इयं देवी जनकजा महाविद्या महामते ।
यस्याः स्मरणमात्रेण मुक्ता यास्यंति सद्गतिम् २०।
रावणोऽपि न वै दैत्यो वैकुंठे तव सेवकः ।
ऋषीणां शापतोऽवाप्तो दैत्यत्वं दनुजांतक २१।
तस्यानुग्रहकर्ता त्वं न तु हंता द्विजन्मनः ।
एवं संचिंत्य मा भूयो निजं शोचितुमर्हसि २२।
इति श्रुत्वा ततो वाक्यं रामः परपुरंजयः ।
उवाच मधुरं वाक्यं गद्गदस्वरभाषितम् २३।
श्रीराम उवाच।
पातकं द्विविधं प्रोक्तं ज्ञाताज्ञातविभेदतः ।
ज्ञातं यद्बुद्धिपूर्वं हि अज्ञातं तद्विवर्जितम् २४।
बुद्धिपूर्वं कृतं कर्म भोगेनैव विनश्यति ।
नश्येदनुशयादन्यदिदं शास्त्रविनिश्चितम् २५।
कुर्वतो बुद्धिपूर्वं मे ब्रह्महत्यां सुनिंदिताम् ।
न मे दुःखापनोदाय साधुवादः सुसंमतः २६।
प्रब्रूहि तादृशं मह्यं यादृशं पापदाहकम् ।
व्रतं दानं मखं किंचित्तीर्थमाराधनं महत् २७।
येन मे विमला कीर्तिर्लोकान्वै पावयिष्यति ।
पापाचाराप्तकालुष्यान्ब्रह्महत्याहतप्रभान् २८।
शेष उवाच।
इत्युक्तवंतं तं रामं जगाद स तपोनिधिः ।
सुरासुरनमन्मौलि मणिनीराजितांघ्रिकम् २९।
शृणु राम महावीर लोकानुग्रहकारक ।
विप्रहत्यापनोदाय तव यद्वचनं ब्रुवे ३०।
सर्वं स पापं तरति योऽश्वमेधं यजेत वै ।
तस्मात्त्वं यज विश्वात्मन्वाजिमेधेन शोभिना ३१।
सप्ततंतुर्महीभर्त्रा त्वया साध्यो मनीषिणा ।
महासमृद्धियुक्तेन महाबलसुशालिना ३२।
स वाजिमेधो विप्राणां हत्यायाः पापनोदनः ।
कृतवान्यं महाराजो दिलीपस्तव पूर्वजः ३३।
शतक्रतुः शतं कृत्वा क्रतूनां पुरुषर्षभः ।
पदमापामरावत्यां देवदैत्यसुसेवितम् ३४।
मनुश्च सगरो राजा मरुत्तो नहुषात्मजः ।
एते ते पूर्वजाः सर्वे यज्ञं कृत्वा पदं गताः ३५।
तस्मात्त्वं कुरु राजेंद्र समर्थोऽसि समंततः ।
भ्रातरो लोकपालाभा वर्तंते तव भावुकाः ३६।
इत्युक्तमाकर्ण्य मुनेः स भाग्यवान् रघूत्तमो ब्राह्मणघातभीतः ।
पप्रच्छ यागे सुमतिं चिकीर्षन्विधिं पुरावित्परिगीयमानः ३७।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघनाथस्यागस्त्योपदेशोनामाष्टमोऽध्यायः ८।
खण्डः ५ (पातालखण्डः) — Adhyāya 9
श्रीराम उवाच।
कीदृशोऽश्वस्तत्र भाव्यः को विधिस्तत्र पूजने ।
कथं वा शक्यते कर्तुं के जेयास्तत्र वैरिणः १।
अगस्त्य उवाच।
गंगाजलसमानेन वर्णेन वपुषा शुभः ।
कर्णे श्यामो मुखे रक्तः पीतः पुच्छे सुलक्षितः २।
मनोवेगः सर्वगतिरुच्चैःश्रवस्समप्रभः ।
वाजिमेधे हयः प्रोक्तः शुभलक्षणलक्षितः ३।
वैशाखपूर्णमास्यां तु पूजयित्वा यथाविधि ।
पत्रं लिखित्वा भाले तु स्वनामबलचिह्नितम् ४।
मोचनीयः प्रयत्नेन रक्षकैः परिरक्षितः ।
यत्र गच्छति यज्ञाश्वस्तत्र गच्छेत्सुरक्षकः ५।
यस्तंबलान्निबध्नाति स्ववीर्यबलदर्पितः ।
तस्मात्प्रसभमानेयः परिरक्षाकरैर्हयः ६।
कर्त्रा तावत्सुविधिना स्थातव्यं नियमादिह ।
मृगशृंगधरो भूत्वा ब्रह्मचर्यसमन्वितः ७।
व्रतं पालयमानस्य यावद्वर्षमतिक्रमेत् ।
तावद्दीनांधकृपणाः परितोष्या धनादिभिः ८।
अन्नं तु बहुशो देयं धनं वा भूरि मारिष ।
यद्यत्प्रार्थयते धीमांस्तत्तदेव ददाति हि ९।
एवं प्रकुर्वतः कर्म यज्ञः संपूर्णतां गतः ।
करोति सर्वपापानां नाशनं रिपुनाशन १०।
तस्माद्भवान्समर्थोऽस्ति करणे पालनेऽर्चने ।
कृत्वा कीर्तिं सुविमलां पावयान्याञ्जनान्नृप ११।
श्रीराम उवाच।
विलोकय द्विजश्रेष्ठ वाजिशालां ममाधुना ।
तादृशाः संति नो वाश्वाः शुभलक्षणलक्षिताः १२।
इति श्रुत्वा तु तद्वाक्यमगस्त्यः करुणाकरः ।
उत्तस्थौ वीक्षमाणोऽयं यागार्हान्वाजिनः शुभान् १३।
गत्वाथ तत्र शालायां रामचंद्रसमन्वितः ।
ददर्शाश्वान्विचित्रांगान्मनोवेगान्महाबलान् १४।
अवनितलगताः किं वाजिराजस्य वंश्याः किमथ रघुपतीनामेकतः कीर्तिपिंडाः ।
किमिदममृतराशिर्वाहरूपेण सिंधोर्मुनिरिति मनसोंतर्विस्मयं प्राप पश्यन् १५।
एकतः शोणदेहानां वाजिनां पंक्तिरुत्तमा ।
एकतः श्यामकर्णाश्च कस्तूरीकांतिसप्रभाः १६।
एकतः कनकाभाश्च त्वन्यतो नीलवर्णिनः ।
एकतः शबलैर्वर्णैर्विशिष्टैर्वाजिभिर्वृताः १७।
एवं पश्यन्मुनिः सर्वान्कौतुकाविष्टमानसः ।
ययावन्यत्र तान्द्रष्टुं यागयोग्यान्हयान्मुनिः १८।
ददर्श तत्र शतशो बद्धांस्तादृशवर्णकान् ।
दृष्ट्वा विस्मयमापेदे स मुनिर्हर्षितांगकः १९।
एकतः श्यामकर्णांश्च सर्वांगैः क्षीरसन्निभान् ।
पीतपुच्छान्मुखे रक्ताञ्छुभलक्षणलक्षितान् २०।
निरीक्ष्य परितोऽनघान्विमलनीरधारानिभान्मनोजवनशोभितान्विमलकीर्तिपुंजप्रभान् ।
पयोनिधिविशोषको मुनिरुवाचसीतापतिं विचित्रहयदर्शनाद्धृषितनेत्रवक्त्रप्रभः २१।
अगस्त्य उवाच।
हयमेधक्रतौ योग्यान्वाहांस्ते बहुशः शुभान् ।
पश्यतो नेत्रयोर्मेऽद्य तृप्तिर्नास्ति रघूत्तम २२।
रामचंद्र महाभाग सुरासुरनमस्कृत ।
यज्ञं कुरु महाराज हयमेधं सुविस्तरम् २३।
सुरपतिरिव सर्वान्यज्ञसंघान्करिष्यंस्तपन इव सुपर्वारातितोयं विशोष्यन् ।
हतरिपुगणमुख्यं सांपरायं विजित्य क्षितितलसुखभोगं कुर्विदं भूरिभाग २४।
इत्येवं वाक्यवादेन परितुष्टाखिलेंद्रियः ।
सर्वान्वै यज्ञसंभारानाजहार मनोहरान् २५।
मुन्यन्वितो महाराजः सरयूतीरमागतः ।
सुवर्णलांगलैर्भूमिं विचकर्ष महीयसीम् २६।
विलिख्य भूमिं बहुशश्चतुर्योजनसंमिताम् ।
मंडपान्रचयामास यज्ञार्थं स नरोत्तमः २७।
कुंडं तु विधिवत्कृत्वा योनिमेखलयान्वितम् ।
अनेकरत्नरचितं सर्वशोभासमन्वितम् २८।
मुनीश्वरो महाभागो वसिष्ठः सुमहातपाः ।
सर्वं तत्कारयामास वेदशास्त्रविधिश्रितम् २९।
प्रेषितास्तेन मुनिना शिष्या मुनिवराश्रमान् ।
कथयामासुरुद्युक्तं हयमेधे रघूत्तमम् ३०।
आकारितास्तदा सर्वे ऋषयस्तपतां वराः ।
आजग्मुः परमेशस्य दर्शने त्वतिलालसाः ३१।
नारदोसितनामा च पर्वतः कपिलो मुनिः ।
जातूकर्ण्योंऽगिरा व्यास आर्ष्टिषेणोऽत्रिरासुरिः ३२।
हारीतो याज्ञवल्क्यश्च संवर्तः शुकसंज्ञितः ।
इत्येवमादयो राम हयमेधवरं ययुः ३३।
तान्सर्वान्पूजयामास रघुराजो महामनाः ।
प्रत्युत्थानाभिवादाभ्यामर्घ्यविष्टरकादिभिः ३४।
गां हिरण्यं ददौ तेभ्यः प्रायशो दृष्टविक्रमः ।
महद्भाग्यं त्वद्यमेऽस्ति यद्यूयं दर्शनं गताः ३५।
शेष उवाच।
एवं समाकुले ब्रह्मन्नृषिवर्य समागमे ।
धर्मवार्ता बभूवाहो वर्णाश्रमसुसंमता ३६।
वात्स्यायन उवाच।
का धर्मवार्ता तत्रासीत्किं वा कथितमद्भुतम् ।
साधवः सर्वलोकानां कारुण्यात्किमुताब्रुवन् ३७।
शेष उवाच।
तान्समेतान्मुनीन्दृष्ट्वा रामो दाशरथिर्महान् ।
पप्रच्छ सर्वधर्मांश्च सर्ववर्णाश्रमोचितान् ३८।
ते तु पृष्टा हि रामेण धर्मान्प्रोचुर्महागुणान् ।
तान्प्रवक्ष्यामि ते सर्वान्यथाविधि शृणुष्व तान् ३९।
ऋषय ऊचुः।
ब्राह्मणेन सदा कार्यं यजनाध्ययनादिकम् ।
वेदान्पठित्वा विरजो नैव गार्हस्थ्यमाविशेत् ४०।
ब्राह्मणेन सदा त्याज्यं नीचसेवानुजीवनम् ।
आपद्गतोऽपि जीवेत न श्ववृत्त्या कदाचन ४१।
ऋतुकालाभिगमनं धर्मोऽयं गृहिणः परः ।
स्त्रीणां वरमनुस्मृत्याऽपत्यकामोथवा भवेत् ४२।
दिवाभिगमनं पुंसामनायुष्यकरं मतम् ।
श्राद्धाहः सर्वपर्वाणि यतस्त्याज्यानि धीमता ४३।
तत्र गच्छेत्स्त्रियं मोहाद्धर्मात्प्रच्यवते परात् ।
ऋतुकालाभिगामी यः स्वदारनिरतश्च यः ४४।
सर्वदा ब्रह्मचारी ह विज्ञेयः स गृहाश्रमी ।
ऋतुः षोडशयामिन्यश्चतस्रस्ता सुगर्हिताः ४५।
पुत्रदास्तासु या युग्मा अयुग्माः कन्यकाप्रदाः ।
त्यक्त्वा चंद्रमसं दुष्टं मघां मूलं विहाय च ४६।
शुचिः सन्निर्विशेत्पत्नीं पुंनामर्क्षे विशेषतः ।
शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधनम् ४७।
आर्षे विवाहे गोद्वंद्वं यदुक्तं तत्प्रशस्यते ।
शुल्कमण्वपि कन्यायाः कन्याक्रेतुस्तु पापकृत् ४८।
वाणिज्यं नृपतेः सेवा वेदानध्ययनं तथा ।
कुविवाहः क्रियालोपः कुलपातनहेतवः ४९।
अन्नोदक पयो मूलफलैर्वापि गृहाश्रमी ।
गोदानेन तु यत्पुण्यं पात्राय विधिपूर्वकम् ५०।
अनर्चितोऽतिथिर्गेहाद्भग्नाशो यस्य गच्छति ।
आजन्मसंचितात्पुण्यात्क्षणात्स हि बहिर्भवेत् ५१।
पितृदेवमनुष्येभ्यो दत्त्वाश्नीतामृतं गृही ।
स्वार्थं पचत्यघं भुंक्ते केवलं स्वोदरंभरिः ५२।
षष्ठ्यष्टम्योर्विशेत्पापं तैले मांसे सदैव हि ।
चतुर्दश्यां तथामायां त्यजेत क्षुरमंगनाम् ५३।
रजस्वलां न सेवेत नाश्नीयात्सह भार्यया ।
एकवासा न भुंजीत न भुंजीतोत्कटासने ५४।
नाश्नंतीं स्त्रियमीक्षेत तेजःकामो नरोत्तमः ।
मुखेनोपधमेन्नाग्निं नग्नां नेक्षेत योषितम् ५५।
नांघ्री प्रतापयेदग्नौ न वस्त्वशुचि निक्षिपेत् ।
प्राणिहिंसां न कुर्वीत नाश्नीयात्संध्ययोर्द्वयोः ५६।
नाचक्षीत धयंतीं गां नेंद्रचापं प्रदर्शयेत् ।
न दिवोद्गतसारं च भक्षयेद्दधिनो निशि ५७।
स्त्रीं धर्मिणीं नाभिवादेन्नाद्यादातृप्ति रात्रिषु ।
तौर्यत्रिकप्रियो न स्यात्कांस्ये पादौ न धावयेत् ५८।
न धारयेदन्यभुक्तं वासश्चोपानहावपि ।
न भिन्नभाजनेऽश्नीयान्नाश्नीतान्नं विदूषितम् ५९।
संविशेन्नार्द्रचरणो नोच्छिष्टः क्वचिदाव्रजेत् ।
शयानो वा न चाश्नीयान्नोच्छिष्टः संस्पृशेच्छिरः ६०।
न मनुष्यस्तुतिं कुर्यान्नात्मानमवमानयेत् ।
अभ्युद्यतं न प्रणमेत्परमर्माणि नो वदेत् ६१।
एवं गार्हस्थ्यमाश्रित्य वानप्रस्थाश्रमं व्रजेत् ।
सस्त्रीको वा गतस्त्रीको विरज्येत ततः परम् ६२।
इत्येवमादयो धर्मा गदिता ऋषिभिस्तदा ।
श्रुता रामेण महता सर्वलोकहितैषिणा ६३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सर्वधर्मोपदेशोनाम नवमोऽध्यायः ९।
खण्डः ५ (पातालखण्डः) — Adhyāya 10
शेष उवाच।
इत्थं संशृण्वतो धर्मान्वसंतः समुपस्थितः ।
यत्र यज्ञ क्रियादीनां प्रारंभः सुमहात्मनाम् १।
दृष्ट्वा तं समयं धीमान्वसिष्ठः कलशोद्भवः ।
रामचंद्रं महाराजं प्रत्युवाच यथोचितम् २।
वसिष्ठ उवाच।
रामचंद्र महाबाहो समयः पर्यभूत्तव ।
हयो यत्र प्रमुच्येत यज्ञार्थं परिपूजितः ३।
सामग्री क्रियतां तत्र आहूयंतां द्विजोत्तमाः ।
करोतु पूजां भगवान्ब्राह्मणानां यथोचिताम् ४।
दीनांधकृपणानां च दानं स्वांते समुत्थितम् ।
ददातु विधिवत्तेषां प्रतिपूज्याधिमान्य च ५।
भवान्कनकसत्पत्न्या दीक्षितोऽत्र व्रतं चर ।
भूमिशायी ब्रह्मचारी वसुभोगविवर्जितः ६।
मृगशृंगधरः कट्यां मेखलाजिनदंडभृत् ।
करोतु यज्ञसंभारं सर्वद्रव्यसमन्वितम् ७।
इति श्रुत्वा महद्वाक्यं वसिष्ठस्य यथार्थकम् ।
उवाच लक्ष्मणं धीमान्नानार्थपरिबृंहितम् ८।
श्रीराम उवाच।
शृणु लक्ष्मण मद्वाक्यं श्रुत्वा तत्कुरु सत्वरम् ।
हयमानय यत्नेन वाजिमेधक्रियोचितम् ९।
शेष उवाच।
श्रुत्वा वाक्यं रघुपतेः शत्रुजिल्लक्ष्मणस्तदा ।
सेनापतिमुवाचेदं वचो विविधवर्णनम् १०।
लक्ष्मण उवाच।
वीराकर्णय मे वचः सुमधुरं श्रुत्वा त्वरातः पुनः ।
कार्यं तत्क्षितिपालमौलिमुकुटैर्घृष्टांघ्रि रामाज्ञया ।
सेनां कालबलप्रभंजनबलप्रोद्यत्समर्थांगिनीं ।
सज्जां सद्रथहस्तिपत्तिसुहयारोहैर्विधे ह्यन्विताम् ११।
सज्जीयतां वायुजवास्तुरंगास्तरंगमाला ललितांघ्रिपाताः ।
सदश्वचारैर्बहुशस्त्रधारिभिः संरोहिता वैरिबलप्रहारिभिः १२।
संलक्ष्यतां हस्तिनः पर्वताभा आधोरणैः प्रासकुंताग्रहस्तैः ।
शूरैः सास्त्रैर्भूरिदानोपहाराः क्षीबाणस्ते सर्वशस्त्रास्त्रपूर्णाः १३।
विततबहुसमृद्धिभ्राजमाना रथा मे पवनजवनवेगैर्वाजिभिर्युज्यमानाः ।
विविधरिपुविनाशस्मारकैरायुधास्त्रैर्भृतवलभिविभागानीयतां सूतवृंदैः १४।
पत्तयः शतशो मह्यमायांत्वस्त्राग्न्यपाणयः ।
हयमेधार्हवाहस्य रक्षणे विततोद्यमाः १५।
इत्याकर्ण्य वचस्तस्य लक्ष्मणस्य महात्मनः ।
सेनानी कालजिन्नामा कारयामास सज्जताम् १६।
दशध्रुवकमंडितो लघुसुरोमशोभान्वितो विविक्तगलशुक्तिभृद्विततकंठको शेमणिः मुखे विशदकांतिधृत्त्वसितकांतिभृत्कर्णयोर्व्यराजत तदाह यो धृतकराग्ररश्मिच्छटः १७।
कलासंशोभितमुखः स्फुरद्रत्नविशोभितः ।
मुक्ताफलानां मालाभिः शोभितो निर्ययौ हयः १८।
श्वेतातपत्ररचितः सितचामरशोभितः ।
बहुशोभापरीतांगो निर्ययौ हयराट्ततः १९।
अग्रतो मध्यतश्चैके पृष्ठतः सैनिकास्तथा ।
देवा हरिं यथापूर्वं सेवंते सेवनोचितम् २०।
अथ सैन्यं समाहूय सर्वमाज्ञापयत्तदा ।
हस्त्यश्वरथपादातवृन्दैः सुबहुसंकुलम् २१।
ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः ।
ततो दुंदुभिनादोऽभूत्तस्मिन्पुरवरे तदा २२।
तन्निनादेन शूराणां प्रियेण महता तदा ।
कंपंति गिरिशृंगाणि प्रासादा विचलंति च २३।
हेषारवो महानासीद्वाजिनां मुह्यतां नृप ।
रथांगघातसंघुष्टा धरा संचलतीव सा २४।
चलितैर्गजयूथैश्च पृथ्वी रुद्धा समंततः ।
रजस्तु प्रचलत्तत्र जनांतर्द्धानमादधात् २५।
निर्जगाम महासैन्यं छत्रैः संछाद्य भास्करम् ।
सेनान्याकालजिन्नाम्ना प्रेरितं जनसंकुलम् २६।
गर्जंतस्तलवीराग्र्याः कुर्वंतो रणसंभ्रमम् ।
रघुनाथस्य यागाय सज्जास्ते प्रययुर्मुदा २७।
मृगमदमयमंगेष्वंगरागं दधानाः कुसुमविमलमालाशोभितस्वोत्तमांगाः ।
मुकुटकटकभूषाभूषितांगाः समस्ताः प्रययुरवनिनाथप्रेरितास्तेऽपि सर्वे २८।
इत्येवं ते महाराजं ययुः सेनाचरा वराः ।
धनुर्धराः पाशधराः खड्गधाराः स्फुटक्रमाः २९।
एवं शनैःशनैः प्राप्तो मंडपं यागचिह्नितम् ।
हयः खुरक्षततलां भूमिं कुर्वन्नभः प्लवन् ३०।
रामो दृष्ट्वा हरिं प्राप्तं बहुसंतुष्टमानसः ।
वसिष्ठं प्रेरयामास क्रियाकर्तव्यतां प्रति ३१।
वसिष्ठो राममाहूय स्वर्णपत्नीसमन्वितम् ।
प्रयोगं कारयामास ब्रह्महत्यापनोदनम् ३२।
ब्रह्मचर्यव्रतधरो मृगशृंगपरिग्रहः ।
तत्कर्म कारयामास रामः परपुरंजयः ३३।
प्रारेभे यागकर्मार्थं कुंडं मण्डपसंमितम् ।
तत्राचार्योभवद्धीमान्वेदशास्त्रविचारवित् ३४।
वसिष्ठो रघुनाथस्य कुलपूर्वगुरुर्मुनिः ।
ब्रह्मंस्तत्राचरद्ब्रह्मकर्मागस्त्यस्तपोनिधिः ३५।
वाल्मीकिर्मुनिरध्वर्युर्मुनिः कण्वस्तु द्वारपः ।
अष्टौ द्वाराणि तत्रासन्सतोरण शुभानि वै ३६।
द्वारि द्वारि द्वयं विप्र ब्राह्मणस्याधिमंत्रवित् ।
पूर्वद्वारि मुनिश्रेष्ठौ देवलासित संज्ञितौ ३७।
दक्षिणद्वारि भूमानौ कश्यपात्री तपोनिधी ।
पश्चिमद्वारि ऋषभौ जातूकर्ण्योऽथ जाजलिः ३८।
उत्तरद्वारि तु मुनी द्वौ द्वितैकत तापसौ ।
एवं द्वारविधिं कृत्वा वसिष्ठः कलशोद्भवः ३९।
हयवर्यस्य सत्पूजां कर्तुमारभत द्विज ।
सुवासिन्यः स्त्रियस्तत्र वासोलंकारभूषिताः ४०।
हरिद्राक्षतगंधाद्यैः पूजयामासुरर्चितम् ।
नीराजनं ततः कृत्वा धूपयित्वागुरूक्षणैः ४१।
वर्धापनं ततो वेश्याश्चक्रुस्ता वाडवाज्ञया ।
एवं संपूज्य विमले भाले चंदनचर्चिते ४२।
कुंकुमादिकगंधाढ्ये सर्वशोभासमन्विते ।
बबंध भास्वरं पत्रं तप्तहाटकनिर्मितम् ४३।
तत्रालिखद्दाशरथेः प्रतापबलमूर्जितम् ।
सूर्यवंशध्वजो धन्वी धनुर्दीक्षा गुरुर्गुरुः ४४।
यं देवाः सासुराः सर्वे नमंति मणिमौलिभिः ।
तस्यात्मजो वीरबलदर्पहारी रघूद्वहः ४५।
रामचंद्रो महाभागः सर्वशूरशिरोमणिः ।
तन्माता कोसलनृपपत्नीगर्भसमुद्भवा ४६।
तस्याः कुक्षिभवं रत्नं रामः शत्रुक्षयंकरः ।
करोति हयमेधं वै ब्राह्मणेन सुशिक्षितः ४७।
रावणाभिधविप्रेंद्र वधपापापनुत्तये ।
मोचितस्तेन वाहानां मुख्योऽसौ वाजिनां वरः ४८।
महाबलपरीवार परिखाभिः सुरक्षितः ।
तद्रक्षकोऽस्ति तद्भ्राता शत्रुघ्नो लवणांतकः ४९।
हस्त्यश्वरथपादात सेनासंघसमन्वितः ।
यस्य राज्ञ इति श्रेष्ठो मानः स्यात्स्वबलोन्मदात् ५०।
वयं धनुर्धराः शूराः श्रेष्ठा वयमिहोत्कटाः ।
ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम् ५१।
मनोवेगं कामजवं सर्वगत्यधिभास्वरम् ।
ततो मोचयिता भ्राता शत्रुघ्नो लीलया हयम् ५२।
शरासनविनिर्मुक्त वत्सदंतैः शिखाशितैः ५३।
इत्येवमादि विलिलेख महामुनींद्रः ।
श्रीरामचंद्र भुजवीर्यलसत्प्रतापम् ।
शोभानिधानमतिचंचलवायुवेगं ।
पातालभूतलविशेषगतिं मुमोच ५४।
शत्रुघ्नमादिदेशाथ रामः शस्त्रभृतां वरः ।
याहि वाहस्य रक्षार्थं पृष्ठतः स्वैरगामिनः ५५।
शत्रुघ्न गच्छ वाहस्य मार्गं भद्रं भवेत्तव ।
भवेतां शत्रुविजयौ रिपुकर्षण ते भुजौ ५६।
ये योद्धारः प्रतिरणगतास्ते त्वया वारणीया-।
वाहं रक्ष स्वकगुणगणैः संयुतः सन्महोर्व्याम् ।
सुप्तान्भ्रष्टान्विगतवसनान्भीतभीतांस्तु नम्रां-।
स्तान्मा हन्याः सुकृतकृतिनो येन शंसंति कर्म ५७।
विरथा भयसंत्रस्ता ये वदंति वयं तव ।
ते त्वया न हि हंतव्याः शत्रुघ्न सुकृतैषिणा ५८।
यो हन्याद्विमदं मत्तं सुप्तं मग्नं भयातुरम् ।
तावकोऽहं ब्रुवाणं च स व्रजत्यधमां गतिम् ५९।
परस्वे चित्तवृत्तिं त्वं मा कृथाः पारदारिके ।
नीचे रतिं न कुर्वीथाः सर्वसद्गुणपूरितः ६०।
वृद्धानां प्रेरणं पूर्वं मा कुर्वीथा रणं जय ।
पूज्यपूजातिक्रमं त्वं मा विधेहि दयान्वितः ६१।
गां विप्रं च नमस्कुर्या वैष्णवं धर्मसंयुतम् ।
अभिवाद्य यतो गच्छेस्तत्र सिद्धिमवाप्नुयाः ६२।
विष्णुः सर्वेश्वरः साक्षी सर्वव्यापकदेहभृत् ।
ये तदीया महाबाहो तद्रूपा विचरंति हि ६३।
ये स्मरंति महाविष्णुं सर्वभूतहृदि स्थितम् ।
ते मंतव्या महाविष्णु समरूपा रघूद्वह ६४।
यस्य स्वीयो न पारक्यो यस्य मित्रसमो रिपुः ।
ते वैष्णवाः क्षणादेव पापिनं पावयंति हि ६५।
येषां प्रियं भागवतं येषां वै ब्राह्मणाः प्रियाः ।
वैकुंठात्प्रेषितास्तेऽत्र लोकपावनहेतवे ६६।
येषां वक्त्रे हरेर्नाम हृदि विष्णुः सनातनः ।
उदरे विष्णुनैवेद्यः स श्वपाकोऽपि वैष्णवः ६७।
येषां वेदाः प्रियतमा न च संसारजं सुखम् ।
स्वधर्मनिरता ये च तान्नमस्कुर्विहान्वितान् ६८।
शिवे विष्णौ न वा भेदो न च ब्रह्ममहेशयोः ।
तेषां पादरजः पूतं वहाम्यघविनाशनम् ६९।
गौरी गंगा महालक्ष्मीर्यस्य नास्ति पृथक्तया ।
ते मंतव्या नराः सर्वे स्वर्गलोकादिहागताः ७०।
शरणागतरक्षी च मानदानपरायणः ।
यथाशक्ति हरेः प्रीत्यै स ज्ञेयो वैष्णवोत्तमः ७१।
यस्य नाम महापापराशिं दहति सत्वरम् ।
तदीय चरणद्वंद्वे भक्तिर्यस्य स वैष्णवः ७२।
इंद्रियाणि वशे येषां मनोऽपि हरिचिंतकम् ।
तान्नमस्कृत्य पूयात्सह्या जन्ममरणांतिकात् ७३।
परस्त्रियं त्वं करवालवत्त्यजन्भवेर्यशोभूषणभूतिभूमिः ।
एवं ममादेशमथाचरंश्च लभेः परं धाम सुयोगमीड्यम् ७४।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नशिक्षाकथनंनाम दशमोऽध्यायः १० ।
खण्डः ५ (पातालखण्डः) — Adhyāya 11
शेष उवाच।
एवमाज्ञाप्य भगवान्रामश्चामित्रकर्षणः ।
वीरानालोकयन्भूयो जगाद शुभया गिरा १।
शत्रुघ्नस्य मम भ्रातुर्वाजिरक्षाकरस्य वै ।
को गंता पृष्ठतो रक्षंस्तन्निदेशप्रपालकः २।
यः सर्ववीरान्प्रतिमुख्यमागतान्विनिर्जयेन्मर्मभिदस्त्रसंघैः ।
गृह्णात्वसौ मे करवीटकं तद्भूमौ यशः स्वं प्रथयन्सुविस्तरम् ३।
इत्युक्तवति रामे तु पुष्कलो भरतात्मजः ।
जग्राह वीटकं तस्माद्रघुराजकरांबुजात् ४।
स्वामिन्गच्छामि शत्रुघ्न पृष्ठरक्षाकरोऽन्वहम् ।
सन्नद्धः सर्वशस्त्रास्त्र चापबाणधरः प्रभो ५।
सर्वमद्य क्षितितलं त्वत्प्रतापो विजेष्यते ।
एते निमित्तभूता वै रामचंद्र महामते ६।
भवत्कृपातः सकलं ससुरासुरमानुषम् ।
उपस्थितं प्रयुद्धाय तन्निषेधे क्षमो ह्यहम् ७।
सर्वं स्वामी ज्ञास्यति यन्ममविक्रम दर्शनात् ।
एष गंतास्मि शत्रुघ्न पृष्ठरक्षाप्रकारकः ८।
एवं ब्रुवंतं भरतात्मजं स प्रस्तूय साध्वित्यनुमोदमानः ।
शशंस सर्वान्कपिवीरमुख्यान्प्रभंजनोद्भूतमुखान्हरिः प्रभुः ९।
भो हनूमन्महावीर शृणु मद्वाक्यमादृतः ।
त्वत्प्रसादान्मया प्राप्तमिदं राज्यमकंटकम् १०।
सीतया मम संयोगे यो भवाञ्जलधिं तरेः ।
चरितं तद्धरे वेद्मि सर्वं तव कपीश्वर ११।
त्वं गच्छ मम सैन्यस्य पालकः सन्ममाज्ञया ।
शत्रुघ्नः सोदरो मह्यं पालनीयस्त्वहं यथा १२।
यत्र यत्र मतिभ्रंशः शत्रुघ्नस्य प्रजायते ।
तत्र तत्र प्रबोद्धव्यो भ्राता मम महामते १३।
इति श्रुत्वा महद्वाक्यं रामचंद्रस्य धीमतः ।
शिरसा तत्समाधाय प्रणाममकरोत्तदा १४।
अथादिशन्महाराजो जांबवंतं कपीश्वरम् ।
रघुनाथस्य सेवायै कपिषूत्तमतेजसम् १५।
अंगदो गवयो मैंदस्तथा दधिमुखः कपिः ।
सुग्रीवः प्लवगाधीशः शतवल्यक्षिकौ कपी १६।
नीलो नलो मनोवेगोऽधिगंता वानरांगजः ।
इत्येवमादयो यूयं सज्जीभूता भवंतु भोः १७।
सर्वैर्गजैः सदश्वैश्च तप्तहाटकभूषणैः ।
कवचैः सशिरस्त्राणैर्भूषितायां तु सत्वराः १८।
शेष उवाच।
सुमंत्रमाहूय सुमंत्रिणं तदा जगाद रामो बलवीर्यशोभनः ।
अमात्यमौले वद केऽत्र योज्या नरा हयं पालयितुं समर्थाः १९।
तदुक्तमेवमाकर्ण्य जगाद परवीरहा ।
हयस्य रक्षणे योग्यान्बलिनोऽत्र नराधिपान् २०।
रघुनाथ शृणुष्वैतान्नववीरान्सुसंहितान् ।
धनुर्धरान्महाविद्यान्सर्वशस्त्रास्त्रकोविदान् २१।
प्रतापाग्र्यं नीलरत्नं तथा लक्ष्मीनिधिं नृपम् ।
रिपुतापं चोग्रहयं तथा शस्त्रविदं नृपम् २२।
राजन्योऽसौ नीलरत्नो महावीरो रथाग्रणीः ।
स एव लक्षं रक्षेत लक्षं युध्येत निर्भयः २३।
अक्षौहिणीभिर्दशभिर्यातु वाहस्य रक्षणे ।
दंशितैस्स शिरस्त्राणैर्मम बाहुभिरुद्धतैः २४।
प्रतापाग्र्यो यो ह्ययं च रिपुगर्वमशातयत् ।
सव्यापसव्यबाणानां मोक्ता सर्वास्त्रवित्तमः २५।
एषोऽक्षौहिणिविंशत्या यातु यज्ञहयावने ।
सन्नद्धो रिपुनाशाय युवाको दंडदंडभृत् २६।
तथा लक्ष्मीनिधिस्त्वेष यातु राजन्यसत्तमः ।
यस्तपोभिः शतधृतिं प्रसाद्यास्त्राणि चाभ्यसत् २७।
ब्रह्मास्त्रं पाशुपत्यास्त्रं गारुडं नागसंज्ञितम् ।
मायूरं नाकुलं रौद्रं वैष्णवं मेघसंज्ञितम् २८।
वज्रं पार्वतसंज्ञं च तथा वायव्यसंज्ञितम् ।
इत्यादिकानामस्त्राणां संप्रयोगविसर्गवित् २९।
स एष निजसैन्यानामक्षौहिण्यैकया युतः ।
प्रयातु शूरमुकुटः सर्ववैरिप्रभंजनः ३०।
रिपुतापोऽयमेवाद्य गच्छत्वग्र्यो धनुर्भृताम् ।
सर्वशस्त्रास्त्रकुशलो रिपुवंशदवानलः ३१।
गच्छतात्सेनया बह्व्या चतुरंगसमेतया ।
शत्रुघ्नाज्ञां शिरस्येते दधत्वद्य बलोत्कटाः ३२।
उग्राश्वोऽपि महाराजा तथा शस्त्रविदेष च ।
सर्वे यांतु सुसंनद्धास्तव वाहस्य पालकाः ३३।
इति भाषितमाकर्ण्य मंत्रिणः प्रजहर्ष च ।
आज्ञापयामास च तान्सुमंत्रकथितान्भटान् ३४।
तेऽनुज्ञां रघुनाथस्य प्राप्य मोदं प्रपेदिरे ।
चिरकालं सांपरायं वांच्छंतो युद्धदुर्मदाः ३५।
सन्नद्धाः कवचाद्यैश्च तथा शस्त्रास्त्रवर्तनैः ।
ययुः शत्रुघ्नसंवासं सीतापति प्रणोदिताः ३६।
शेष उवाच।
अथोक्त ऋषिणा रामो विधिना पूजयत्क्रमात् ।
आचार्यादीनृषीन्सर्वान्यथोक्तवरदक्षिणैः ३७।
आचार्याय ददौ रामो हस्तिनं षष्टिहायनम् ।
हयमेकं मनोवेगं रत्नमालाविभूषितम् ३८।
पौरटं रथमेकं च मणिरत्नविभूषितम् ।
चतुर्भिर्वाजिभिर्युक्तं सर्वोपस्करसंयुतम् ३९।
मणिलक्षं तु प्रत्यक्षं मुक्ताफलतुलाशतम् ।
विद्रुमस्य तुलानां तु सहस्रं स्फुटतेजसाम् ४०।
ग्राममेकं सुसंपन्नं नानाजनसमाकुलम् ।
विचित्रसस्यनिष्पन्नं विविधैर्मंदिरैर्वृतम् ४१।
ब्रह्मणेऽपि तथैवादाद्धोत्रेऽप्यध्वर्यवे ददौ ।
ऋत्विग्भ्यो भूरिशो दत्त्वा प्रणनाम रघूत्तमः ४२।
सर्वे ते विविधा वाग्भिराशीर्भिरभिपूजिताः ।
चिरंजीव महाराज रामचन्द्र रघूद्वह ४३।
कन्यादानं भूमिदानं गजदानं तथैव च ।
अश्वदानं स्वर्णदानं तिलदानं समौक्तिकम् ४४।
अन्नदानं पयोदानमभयं दानमुत्तमम् ।
रत्नदानानि सर्वाणि विप्रेभ्यश्चादिशन्महान् ४५।
देहि देहि धनं देहि मानेति ब्रूहि कस्यचित् ।
ददात्वन्नं ददात्वन्नं सर्वभोगसमन्वितम् ४६।
इत्थं प्रावर्तत मखो रघुनाथस्य धीमतः ।
सदक्षिणो द्विजवरैः पूर्णः सर्वशुभक्रियः ४७।
अथ रामानुजो गत्वा मातरं प्रणनाम ह ।
आज्ञापयाश्वरक्षार्थमेष गच्छामि शोभने ४८।
त्वत्कृपातो रिपुकुलं जित्वा शोभासमन्वितः ।
आयास्यामि महाराजैर्हयवर्यसमन्वितः ४९।
मातोवाच ।
पुत्र गच्छ महावीर शिवाः पंथान एव ते ।
सर्वान्रिपुगणाञ्जित्वा पुनरागच्छ सन्मते ५०।
पुष्कलं पालय निजभ्रातृजं धर्मवित्तमम् ।
महाबलिनमद्यापि बालकं लीलयायुतम् ५१।
पुत्रागच्छसि चेद्युक्तः पुष्कलेन शुभान्वितः ।
तदा मम प्रमोदः स्यादन्यथा शोकभागहम् ५२।
इति संभाष्यमाणां स्वां मातरं प्रत्युवाच सः ।
त्वदीयचरणद्वंद्वं स्मरन्प्राप्स्यामि शोभनम् ५३।
पुष्कलं पालयित्वाहं निजांगमिव शोभने ।
स्वनामसदृशं कृत्वा पुनरेष्यामि मोदवान् ५४।
इत्युक्त्वा प्रययौ वीरो रामं स मखमंडपे ।
आसीनं मुनिवर्याग्र्यैर्यज्ञवेषधरं वरम् ५५।
उवाच मतिमान्वीरः सर्वशोभासमन्वितः ।
रामाज्ञापय रक्षार्थं हयस्यानुज्ञया तव ५६।
रघुनाथोऽपि तच्छ्रुत्वा भद्रमस्त्विति चाब्रवीत् ।
बालं स्त्रियं प्रमत्तं त्वं मा हन्याः शस्त्रवर्जितम् ५७।
तदा लक्ष्मीनिधिर्भ्राता जानक्या जनकात्मजः ।
प्रहस्य किंचिन्नयने नर्तयन्राममब्रवीत् ५८।
लक्ष्मीनिधिरुवाच।
रामचंद्र महाबाहो सर्वधर्मपरायण ।
शत्रुघ्नं शिक्षय तथा यथा लोकोत्तरो भवेत् ५९।
कुलोचितं कर्म कुर्वन्नग्रजाचरितं तथा ।
गच्छेत्स परमं धाम तेजोबलसमन्वितम् ६०।
त्वया प्रोक्तं महाराज ब्राह्मणं नावमानयेत् ।
पित्रा तव हतो विप्रः पितृभक्तिपरायणः ६१।
त्वयापि सुमहत्कर्म कृतं लोकविगर्हितम् ।
अवध्यां महिलां यस्त्वं हतवान्नियतं ततः ६२।
अग्रजोऽस्य महाराज कृतवान्यं पराक्रमम् ।
सनकेन कृतः पूर्वं राक्षस्याः कर्णकर्तनम् ६३।
एवं करिष्यति नृपः शत्रुघ्नः शिक्षया तव ।
यदि नायं तथा कुर्यात्कुलस्यासदृशं भवेत् ६४।
इत्युक्तवंतं तं रामः प्रत्युवाच हसन्निव ।
मेघगंभीरया वाचा सर्ववाक्यविशारदः ६५।
शृण्वंतु योगिनः शांताः समदुःखसुखाः पुनः ।
जानंत्यपारसंसारनिस्तारतरणादिकम् ६६।
ये शूराः समहेष्वासाः सर्वशस्त्रास्त्रकोविदाः ।
ते च जानंति युद्धस्य वार्त्तां न तु भवादृशाः ६७।
परोपतापिनो ये वै ये चोत्पथविसारिणः ।
ते हंतव्या नृपैः सर्वैः सर्वलोकहितैषिभिः ६८।
इत्युक्तमाकर्ण्य सभासदस्ते सर्वे स्मितं चक्रुररिंदमस्य ।
कुंभोद्भवः पूजितमेनमश्वं विमोचयामास सुशोभितं हि ६९।
इमं मंत्रं समुच्चार्य वसिष्ठः कलशोद्भवः ।
कराग्रेण स्पृशन्नश्वं मुमोच जयकांक्षया ७०।
वाजिन्गच्छ यथालीलं सर्वत्र धरणीतले ।
यागार्थे मोचितो येन पुनरागच्छ सत्वरः ७१।
अश्वस्तु मोचितः सर्वैर्भटैः शस्त्रास्त्रकोविदैः ।
परीतः प्रययौ प्राचीं दिशं वायुजवान्वितः ७२।
प्रचचार बलं सर्वं कंपयद्धरणीतलम् ।
शेषोऽपि किंचिन्न तया फणया धृतवान्भुवम् ७३।
दिशः प्रसेदुः परितः क्ष्मातलं शोभयान्वितम् ।
वायवस्तं तु शत्रुघ्नं पृष्ठतो मंदगामिनः ७४।
शत्रुघ्नस्य प्रयाणायाभ्युद्य तस्य भुजोऽस्फुरत् ।
दक्षिणः शुभमाशंसी जयाय च बभूव ह ७५।
पुष्कलः स्वगृहं रम्यं प्रविवेश समृद्धिमत् ।
वितर्दिभिर्वलक्षाभिः शोभितं रत्नवेदिकम् ७६।
तत्रापश्यन्निजां भार्यां पतिव्रतपरायणाम् ।
किंचित्स्वदर्शनाद्धृष्टां भर्तृदर्शनलालसाम् ७७।
मुखारविंदेन च नागवल्लीदलं सुकर्पूरयुतं च चर्वती ।
नासाफलं तोयभवं महाधनं बाह्वोर्मृणालीसदृशोः सुकंकणे ७८।
कुचौ तु मालूरफलोपमौ वरौ नितंबबिंबं वरनीवि शोभितम् ।
पादौ तुलाकोटिधरौ सुकोमलौ दधत्यहो एक्षत सत्पतिं स्वकम् ७९।
परिरभ्य प्रियां धीरो गद्गदस्वरभाषिणीम् ।
तदुरोजपरीरंभनिर्भरीकृतदेहकाम् ८०।
उवाच भद्रे गच्छामि शत्रुघ्नपृष्ठरक्षकः ।
रामाज्ञया याज्ञमश्वं पालयन्रथसंयुतः ८१।
त्वया मे मातरः पूज्याः पादसंवाहनादिमिः ।
तदुच्छिष्टं हि भुंजाना तत्कर्मकरणादरा ८२।
सर्वाः पतिव्रता नार्यो लोपामुद्रादिकाः शुभाः ।
नावमान्यास्त्वया भीरु स्वतपोबलशोभिताः ८३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे हयमोचन-पुष्कलभार्यासमागमोनाम एकादशोऽध्यायः ११ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 12
शेष उवाच।
इत्युक्तवंतं स्वपतिं वीक्ष्य प्रेम्णा सुनिर्भरम् ।
प्रत्युवाच हसंतीव किंचिद्गद्गदभाषिणी १।
नाथ ते विजयोभूयात्सर्वत्र रणमंडले ।
शत्रुघ्नाज्ञा प्रकर्तव्या हयरक्षा यथा भवेत् २।
स्मरणीया हि सर्वत्र सेविका त्वत्पदानुगा ।
कदापि मानसं नाथ त्वत्तो नान्यत्र गच्छति ३।
परमायोधने कांत स्मर्तव्याहं न जातुचित् ।
सत्यां मयि तव स्वांते युद्धे 3विजयसंशयः ४।
पद्मनेत्र तथा कार्यमूर्मिलाद्या यथा मम ।
हास्यं नैव प्रकुर्वंति मां वीक्ष्य करताडनैः ५।
इयं पत्नी महाभीरोः संग्रामे प्रपलायितुः ।
कातरा यर्हि युद्ध्यंति शूराणां समयः कुतः ६।
इत्येवं न हसंत्युच्चैर्यथा मे देवरांगनाः ।
तथा कार्यं महाबाहो रामस्य हयरक्षणे ७।
योद्धा त्वमादौ सर्वत्र परे ये तव पृष्ठतः ।
धनुष्टंकारबधिराः क्रियंतां बलिनः परे ८।
तवप्रोद्यत्करांभोज करवालभिया बलम् ।
परेषां भवतात्क्षिप्रमन्योन्य भयव्याकुलम् ९।
कुलं महदलं कार्यं परान्विजयता त्वया ।
गच्छ स्वामिन्महाबाहो तव श्रेयो भवत्विह १०।
इदं धनुर्गृहाणाशु महद्गुणविभूषितम् ।
यस्य गर्जितमाकर्ण्य वैरिवृंदं भयातुरम् ११।
इमौ ते त्विषुधी वीर बध्येतां शं यथा भवेत् ।
वैरिकोटिविनिष्पेष बाणकोटि सुपूरितौ १२।
कवचं त्विदमाधेहि शरीरे कामसुंदरे ।
वज्रप्रभा महादीप्ति हतसंतमसंदृढम् १३।
शिरस्त्राणं निजोत्तंसे कुरु कांत मनोरमम् ।
इमेव तंसे विशदे मणिरत्नविभूषिते १४।
इति सुविमलवाचं वीरपुत्रीं प्रपश्यन् ।
नयनकमलदृष्ट्या वीक्षमाणस्तंदंगम् ।
अधिगतपरिमोदो भारतिः शत्रुजेता ।
रणकरणसमर्थस्तां जगादातिधीरः १५।
पुष्कल उवाच।
कांते यत्त्वं वदसि मां तथा सर्वं चराम्यहम् ।
वीरपत्नी भवेत्कीर्तिस्तव कांतिमतीप्सिता १६।
इति कांतिमतीदत्तं कवचं मुकुटं वरम् ।
धनुर्महेषुधीखड्गं सर्वं जग्राह वीर्यवान् १७।
परिधाय च तत्सर्वं बहुशो भासमन्वितः ।
शुशुभेऽतीव सुभटः सर्वशस्त्रास्त्रकोविदः १८।
तमस्त्रशस्त्रशोभाढ्यं वीरमालाविभूषितम् ।
कुंकुमागुरुकस्तूरी चंदनादिकचर्चितम् १९।
नानाकुसुममालाभिराजानुपरिशोभितम् ।
नीराजयामास मुहुस्तत्र कांतिमती सती २०।
नीराजयित्वा बहुशः किरंती मौक्तिकैर्मुहुः ।
गलदश्रुचलन्नेत्रा परिरेभे पतिं निजम् २१।
दृढं सपरिरभ्यैतां चिरमाश्वासयत्तदा ।
वीरपत्नि कांतिमति विरहं मा कृथा मम २२।
एष गच्छामि सविधे तव भामे पतिव्रते ।
इत्युक्त्वा तां निजां पत्नीं रथमारुरुहे वरम् २३।
तं प्रयांतं पतिं श्रेष्ठं नयनैर्निमिषोज्झितैः ।
विलोकयामास तदा पतिव्रतपरायणा २४।
स ययौ जनकं द्रष्टुं जननीं प्रेमविह्वलाम् ।
गत्वा पितरमंबां च ववंदे शिरसा मुदा २५।
माता पुत्रं परिष्वज्य स्वांकमारोपयत्तदा ।
मुंचंती बाष्पनिचयं स्वस्त्यस्त्विति जगाद सा २६।
पितरं प्राह भरतं रामो यज्ञकरः परः ।
पालनीयो लक्ष्मणेन भवद्भिश्च महात्मभिः २७।
आज्ञप्तोऽसौ जनन्या च पित्रा हृषितया गिरा ।
ययौ शत्रुघ्नकटकं महावीरविभूषितम् २८।
रथिभिः पत्तिभिर्वीरैः सदश्वैः सादिभिर्वृतः ।
ययौ मुदा रघूत्तंस महायज्ञहयाग्रणीः २९।
गच्छन्पांचालदेशांश्च कुरूंश्चैवोत्तरान्कुरून् ।
दशार्णाञ्छ्रीविशालांश्च सर्वशोभासमन्वितः ३०।
तत्र तत्रोपशृण्वानो रघुवीरयशोऽखिलम् ।
रावणासुरघातेन भक्तरक्षाविधायकम् ३१।
पुनश्च हयमेधादि कार्यमारभ्य पावनम् ।
यशो वितन्वन्भुवने लोकान्रामोऽविता भयात् ३२।
तेभ्यस्तुष्टो ददौ हारान्रत्नानि विविधानि च ।
महाधनानि वासांसि शत्रुघ्नः प्रवरो महान् ३३।
सुमतिर्नाम तेजस्वी सर्वविद्याविशारदः ।
रघुनाथस्य सचिवः शत्रुघ्नानुचरो वरः ३४।
ययौ तेन महावीरो ग्रामाञ्जनपदान्बहून् ।
रघुनाथप्रतापेन न कोपि हृतवान्हयम् ३५।
देशाधिपाये बहवो महाबलपराक्रमाः ।
हस्त्यश्वरथपादात चतुरंगसमन्विताः ३६।
संपदो बहुशो नीत्वा मुक्तामाणिक्यसंयुताः ।
शत्रुघ्नं हयरक्षार्थमागतं प्रणता मुहुः ३७।
इदं राज्यं धनं सर्वं सपुत्रपशुबांधवम् ।
रामचंद्रस्य सर्वं हि न मदीयं रघूद्वह ३८।
एवं तदुक्तमाकर्ण्य शत्रुघ्नः परवीरहा ।
आज्ञां स्वां तत्र संज्ञाप्य ययौ तैः सहितः पथि ३९।
एवं क्रमेण संप्राप्तः शत्रुघ्नो हयसंयुतः ।
अहिच्छत्रां पुरीं ब्रह्मन्नानाजनसमाकुलाम् ४०।
ब्रह्मद्विजसमाकीर्णां नानारत्नविभूषिताम् ।
सौवर्णैः स्फाटिकैर्हर्म्यैर्गोपुरैः समलंकृताम् ४१।
यत्र रंभा तिरस्कारकारिण्यः कमलाननाः ।
दृश्यंते सर्वहर्म्येषु ललना लीलयान्विताः ४२।
यत्र स्वाचारललिताः सर्वभोगैकभोगिनः ।
धनदानुचरायद्वत्तथा लीलासमन्विताः ४३।
यत्र वीरा धनुर्हस्ताःशरसंधानकोविदाः ।
कुर्वंति तत्र राजानं सुहृष्टं सुमदाभिधम् ४४।
एवंविधं ददर्शासौ नगरं दूरतः प्रभुः ।
पार्श्वे तस्य पुरश्रेष्ठमुद्यानं शोभयान्वितम् ४५।
पुन्नागैर्नागचंपैश्च तिलकैर्देवदारुभिः ।
अशोकैः पाटलैश्चूतैर्मंदारैःकोविदारकैः ४६।
आम्रजंबुकदंबैश्च प्रियालपनसैस्तथा ।
शालैस्तालैस्तमालैश्च मल्लिकाजातियूथिभिः ४७।
नीपैः कदंबैर्बकुलैश्चंपकैर्मदनादिभिः ।
शोभितं सददर्शाथशत्रुघ्नःपरवीरहा ४८।
हयोगतस्तद्वनमध्यदेशे ।
तमालतालादि सुशोभिते वै ।
ययौ ततः पृष्ठत एव वीरो ।
धनुर्धरैः सेवितपादपद्मः ४९।
ददर्श त रचितं देवायतनमद्भुतम् ।
इंद्रनीलैश्च वैडूर्यैस्तथा मारकतैरपि ५०।
शोभितं सुरसेवार्हं कैलासप्रस्थसन्निभम् ।
जातरूपमयैः स्तंभैःशोभितं सद्मनां वरम् ५१।
दृष्ट्वातद्रघुनाथस्य भ्राता देवालयं वरम् ।
पप्रच्छ सुमतिं स्वीयं मंत्रिणं वदतांवरम् ५२।
शत्रुघ्न उवाच।
वदामात्य वरेदं किं कस्यदेवस्य केतनम् ।
का देवता पूज्यतेऽत्र कस्य हेतोः स्थितानघ ५३।
एवमाकर्ण्य यथावदिहसर्वशः ५४।
कामाक्षायाः परं स्थानं विद्धि विश्वैकशर्मदम् ।
यस्या दर्शनमात्रेण सर्वसिद्धिः प्रजापते ५५।
देवासुरास्तु यां स्तुत्वा नत्वा प्राप्ताखिलां श्रियम् ।
धर्मार्थकाममोक्षाणां दात्री भक्तानुकंपिनी ५६।
याचिता सुमदेनात्राहिच्छत्रा पतिना पुरा ।
स्थिता करोति सकलं भक्तानां दुःखहारिणी ५७।
तां नमस्कुरु शत्रुघ्न सर्ववीर शिरोमणे ।
नत्वाशु सिद्धिं प्राप्नोषि ससुरासुरदुर्ल्लभाम् ५८।
इति श्रुत्वाथ तद्वाक्यं शत्रुघ्नः शत्रुतापनः ।
पप्रच्छ सकलां वार्तां भवान्याः पुरुषर्षभः ५९।
शत्रुघ्न उवाच।
कोऽहिच्छत्रापती राजा सुमदः किं तपः कृतम् ।
येनेयं सर्वलोकानां माता तुष्टात्र संस्थिता ६०।
वद सर्वं महामात्य नानार्थपरिबृंहितम् ।
यथावत्त्वं हि जानासि तस्माद्वद महामते ६१।
सुमतिरुवाच।
हेमकूटो गिरिः पूतः सर्वदेवोपशोभितः ।
तत्रास्ति तीर्थं विमलमृषिवृंदसुसेवितम् ६२।
सुमदो हि तपस्तेपे हतमातृपितृप्रजः ।
अरिभिः सर्वसामंतैर्जगाम तपसे हि तम् ६३।
वर्षाणि त्रीणि सपदा त्वेकेन मनसा स्मरन् ।
जगतां मातरं दध्यौ नासाग्रस्तिमितेक्षणः ६४।
वर्षाणि त्रीणि शुष्काणां पर्णानां भक्षणं चरन् ।
चकार परमुग्रं स तपः परमदुश्चरम् ६५।
अब्दानि त्रीणि सलिले शीतकाले ममज्ज सः ।
ग्रीष्मे चचार पंचाग्नीन्प्रावृट्सु जलदोन्मुखः ६६।
त्रीणि वर्षाणि पवनं संरुध्य स्वांतगोचरम् ।
भवानीं संस्मरन्धीरो न च किंचन पश्यति ६७।
वर्षे तु द्वादशेऽतीते दृष्ट्वैतत्परमं तपः ।
विभाव्य मनसातीव शक्रः पस्पर्ध तं भयात् ६८।
आदिदेश सकामं तु परिवारपरीवृतम् ।
अप्सरोभिः सुसंयुक्तं ब्रह्मेंद्रादिजयोद्यतम् ६९।
गच्छ कामसखे मह्यं प्रियमाचर मोहन ।
सुमदस्य तपोविघ्नं समाचर यथा भवेत् ७०।
इति श्रुत्वा महद्वाक्यं तुरासाहः स्वयंप्रभुः ।
उवाच विश्वविजये प्रौढगर्वो रघूद्वह ७१।
काम उवाच।
स्वामिन्कोऽसौ हि सुमदः किं तपः स्वल्पकं पुनः ।
ब्रह्मादीनां तपोभंगं करोम्यस्य तु का कथा ७२।
मद्बाणबलनिर्भिन्नश्चंद्रस्तारां गतः पुरा ।
त्वमप्यहल्यां गतवान्विश्वामित्रस्तु मेनिकाम् ७३।
चिंतां मा कुरु देवेंद्र सेवके मयि संस्थिते ।
एष गच्छामि सुमदं देवान्पालय मारिष ७४।
एवमुक्त्वा कामदेवो हेमकूटं गिरिं ययौ ।
वसंतेन युतः सख्या तथैवाप्सरसांगणैः ७५।
वसंतस्तत्र सकलान्वृक्षान्पुष्पफलैर्युतान् ।
कोकिलान्षट्पदश्रेण्या घुष्टानाशु चकार ह ७६।
वायुः सुशीतलो वाति दक्षिणां दिशमाश्रितः ।
कृतमालासरित्तीर लवंगकुसुमान्वितः ७७।
एवंविधे वने वृत्ते रंभानामाप्सरोवरा ।
सखीभिः संवृता तत्र जगाम सुमदांतिकम् ७८।
तत्रारभत गानं सा किन्नरस्वरशोभना ।
मृदंगपणवानेकवाद्यभेदविशारदा ७९।
तद्गानमाकर्ण्य नराधिपोऽसौ ।
वसंतमालोक्य मनोहरं च ।
तथान्यपुष्टारटितं मनोरमं ।
चकार चक्षुः परिवर्तनं बुधः ८०।
तं प्रबुद्धं नृपं वीक्ष्य कामः पुष्पायुधस्त्वरन् ।
चकार सत्वरं सज्यं धनुस्तत्पृष्ठतोऽनघ ८१।
एकाप्सरास्तत्र नृपस्य पादयोः ।
संवाहनं नर्तितनेत्रपल्लवा ।
चकार चान्या तु कटाक्षमोक्षणं ।
चकार काचिद्भृशमंगचेष्टितम् ८२।
अप्सरोभिस्तथाकीर्णः कामविह्वलमानसः ।
चिंतयामास मतिमाञ्जितेंद्रियशिरोमणिः ८३।
एता मे तपसो विघ्नकारिण्योऽप्सरसां वराः ।
शक्रेण प्रेषिताः सर्वाः करिष्यंति यथातथम् ८४।
इति संचिंत्य सुतपास्ता उवाच वरांगनाः ।
का यूयं कुत्र संस्थाः किं भवतीनां चिकीर्षितम् ८५।
अत्यद्भुतं जातमहो यद्भवत्योऽक्षिगोचराः ।
यास्तपोभिः सुदुष्प्राप्यास्ता मे तपस आगताः ८६।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे कामाक्षोपाख्यानं नाम द्वादशोऽध्यायः १२ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 13
शेष उवाच।
इति वाक्यं समाकर्ण्य सुमदस्य तपोनिधेः ।
जगदुः कामसेनास्तं रंभाद्यप्सरसो मुदा १।
त्वत्तपोभिर्वयं कांत प्राप्ताः सर्ववरांगनाः ।
तासां यौवनसर्वस्वं भुंक्ष्व त्यज तपःफलम् २।
इयं घृताची सुभगा चंपकाभशरीरभृत् ।
कर्पूरगंधललितं भुनक्तु त्वन्मुखामृतम् ३।
एतां महाभाग सुशोभिविभ्रमां ।
मनोहरांगीं घनपीनसत्कुचाम् ।
कांतोपभुंक्ष्वाशु निजोग्रपुण्यतः ।
प्राप्तां पुनस्त्वं त्यज दुःखजातम् ४।
मामप्यनर्घ्याभरणोपशोभितां ।
मंदारमालापरिशोभिवक्षसम् ।
नानारताख्यानविचारचंचुरां ।
दृढं यथा स्यात्परिरंभणं कुरु ५।
पिबामृतं मामकवक्त्रनिर्गतं ।
विमानमारुह्य वरं मया सह ।
सुमेरुशृंगं बहुपुण्यसेवितं ।
संप्राप्य भोगं कुरु सत्तपः फलम् ६।
तिलोत्तमा यौवनरूपशोभिता ।
गृह्णातु ते मूर्धनि तापवारणम् ।
सुचामरौ संततधारयांकितौ ।
गंगाप्रवाहाविव सुंदरोत्तम ७।
शृणुष्व भोः कामकथां मनोहरां ।
पिबामृतं देवगणादिवांछितम् ।
उद्यानमासाद्य च नंदनाभिधं ।
वरांगनाभिर्विहरं कुरु प्रभो ८।
इत्युक्तमाकर्ण्य महामतिर्नृपो ।
विचारयामास कुतो ह्युपस्थिताः ।
मया सुसृष्टास्तपसा सुरांगनाः ।
प्रत्यूह एवात्र विधेयमेष किम् ९।
इति चिंतातुरो राजा स्वांते संचिंतयन्सुधीः ।
जगाद मतिमान्वीरः सुमदो देवताङ्गनाः १०।
यूयं तु ममचित्तस्था जगन्मातृस्वरूपकाः ।
मया संचिंत्यते या हि सापि त्वद्रूपिणी मता ११।
इदं तुच्छं स्वर्गसुखं त्वयोक्तं सविकल्पकम् ।
मत्स्वामिनी मया भक्त्या सेविता दास्यते वरम् १२।
यत्कृपातो विधिः सत्यलोकं प्राप्तो महानभूत् ।
सा मे दास्यति सर्वं हि भक्तदुःखांतकारिणी १३।
किं नंदनं किं तु गिरिः कनकेन सुमण्डितः ।
किं सुधा स्वल्पपुण्येन प्राप्या दानवदुःखदा १४।
इति वाक्यं समाकर्ण्य कामस्तु विविधैः शरैः ।
प्राहरन्नरदेवस्य कर्तुं किंचिन्न वै प्रभुः १५।
कटाक्षैर्नूपुरारावैः परिरंभैर्विलोकनैः ।
न तस्य चित्तं विभ्रांतं कर्तुं शक्ता वरांगनाः १६।
गत्वा यथागतं शक्रं जगदुर्धीरधीर्नृपः ।
तच्छ्रुत्वा मघवा भीतः सेवामारभतात्मनः १७।
अथ निश्चितमालोक्य पादपद्मे स्वकेंऽबिका ।
जितेंद्रियं महाराजं प्रत्यक्षाभूत्सुतोषिता १८।
पंचास्यपृष्ठललिता पाशांकुशधरावरा ।
धनुर्बाणधरा माता जगत्पावनपावनी १९।
तां वीक्ष्य मातरं धीमान्सूर्यकोटिसमप्रभाम् ।
धनुर्बाणसृणीपाशान्दधानां हर्षमाप्तवान् २०।
शिरसा बहुशो नत्वा मातरं भक्तिभाविताम् ।
हसंतीं निजदेहेषु स्पृशंतीं पाणिना मुहुः २१।
तुष्टाव भक्त्युत्कलितचित्तवृत्तिर्महामतिः ।
गद्गदस्वरसंयुक्तः कंटकांगोपशोभितः २२।
जय देवि महादेवि भक्तवृंदैकसेविते ।
ब्रह्मरुद्रादिदेवेंद्र सेवितांघ्रियुगेऽनघे २३।
मातस्तव कलाविद्धमेतद्भाति चराचरम् ।
त्वदृते नास्ति सर्वं तन्मातर्भद्रे नमोस्तु ते २४।
मही त्वयाऽधारशक्त्या स्थापिता चलतीह न ।
सपर्वतवनोद्यान दिग्गजैरुपशोभिता २५।
सूर्यस्तपति खे तीक्ष्णैरंशुभिः प्रतपन्महीम् ।
त्वच्छक्त्या वसुधासंस्थं रसं गृह्णन्विमुंचति २६।
अंतर्बहिः स्थितो वह्निर्लोकानां प्रकरोतु शम् ।
त्वत्प्रतापान्महादेवि सुरासुरनमस्कृते २७।
त्वं विद्या त्वं महामाया विष्णोर्लोकैकपालिनः ।
स्वशक्त्या सृजसीदं त्वं पालयस्यपि मोहिनि २८।
त्वत्तः सर्वे सुराः प्राप्य सिद्धिं सुखमयंति वै ।
मां पालय कृपानाथे वंदिते भक्तवल्लभे २९।
रक्ष मां सेवकं मातस्त्वदीयचरणारणम् ।
कुरु मे वांछितां सिद्धिं महापुरुषपूर्वजे ३०।
सुमतिरुवाच।
एवं तुष्टा जगन्माता वृणीष्व वरमुत्तमम् ।
उवाच भक्तं सुमदं तपसा कृशदेहिनम् ३१।
इत्येतद्वाक्यमाकर्ण्य प्रहृष्टः सुमदो नृपः ।
वव्रे निजं हृतं राज्यं हतदुर्जनकंटकम् ३२।
महेशीचरणद्वंद्वे भक्तिमव्यभिचारिणीम् ।
प्रांते मुक्तिं तु संसारवारिधेस्तारिणीं पुनः ३३।
कामाक्षोवाच।
राज्यं प्राप्नुहि सुमद सर्वत्रहतकंटकम् ।
महिलारत्नसंजुष्टपादपद्मद्वयो भव ३४।
ततवैरिपराभूतिर्माभूयात्सुमदाभिध ।
यदा तु रावणं हत्वा रघुनाथो महायशाः ३५।
करिष्यत्यश्वमेधं हि सर्वसंभारशोभितम् ।
तस्य भ्राता महावीरः शत्रुघ्नः परवीरहा ३६।
पालयन्हयमायास्यत्यत्र वीरादिभिर्वृतः ।
तस्मै सर्वं समर्प्य त्वं राज्यमृद्धं धनादिकम् ३७।
पालयिष्यसि योधैः स्वैर्धनुर्धारिभिरुद्भटैः ।
ततः पृथिव्यां सर्वत्र भ्रमिष्यसि महामते ३८।
ततो रामं नमस्कृत्य ब्रह्मेंद्रेशादिसेवितम् ।
मुक्तिं प्राप्स्यसि दुष्प्रापां योगिभिर्यमसाधनैः ३९।
तावत्कालमिहस्थास्ये यावद्रामहयागमः ।
पश्चात्त्वां तु समुद्धृत्य गंतास्मि परमं पदम् ४०।
इत्युक्त्वांतर्दधे देवी सुरासुरनमस्कृता ।
सुमदोऽप्यहिच्छत्रायां शत्रून्हत्वा नृपोऽभवत् ४१।
एष राजा समर्थोऽपि बलवाहनसंयुतः ।
न ग्रहीष्यति ते वाहं महामायासुशिक्षितः ४२।
श्रुत्वा प्राप्तं पुरी पार्श्वे हयमेधहयोत्तमम् ।
त्वां च सर्वैर्महाराजैः सेवितांघ्रिं महामतिम् ४३।
सर्वं दास्यति सर्वज्ञ राजा सुमदनामधृक् ।
अधुनातन्महाराज रामचंद्र प्रतापतः ४४।
शेष उवाच।
इति वृत्तं समाकर्ण्य सुमदस्य महायशाः ।
साधुसाध्विति चोवाच जहर्ष मतिमान्बली ४५।
अहिच्छत्रापतिः सर्वैः स्वगणैः परिवारितः ।
सभायां सुखमास्ते यो बहुराजन्यसेवितः ४६।
ब्राह्मणा वेदविदुषो वैश्या धनसमृद्धयः ।
राजानं पर्युपासंते सुमदंशो भयान्वितम् ४७।
वेदविद्याविनोदेन न्यायिनो ब्राह्मणा वराः ।
आशीर्वदंति तं भूपं सर्वलोकैकरक्षकम् ४८।
एतस्मिन्समये कश्चिदागत्य नृपतिं जगौ ।
स्वामिन्न जाने कस्यास्ति हयः पत्रधरोंऽतिके ४९।
तच्छ्रुत्वा सेवकं श्रेष्ठं प्रेषयामास सत्वरः ।
जानीहि कस्य राज्ञोऽयमश्वो मम पुरांतिके ५०।
गत्वाथ सेवकस्तत्र ज्ञात्वा वृत्तांतमादितः ।
निवेदयामास नृपं महाराजन्यसेवितम् ५१।
स श्रुत्वा रघुनाथस्य हयं नित्यमनुस्मरन् ।
आज्ञापयामास जनं सर्वं राजाविशारदः ५२।
लोका मदीयाः सर्वे ये धनधान्यसमाकुलाः ।
तोरणादीनि गेहेषु मंगलानि सृजंत्विह ५३।
कन्याः सहस्रशो रम्याः सर्वाभरणभूषिताः ।
गजोपरिसमारूढा यांतु शत्रुघ्नसंमुखम् ५४।
इत्यादिसर्वमाज्ञाप्य ययौ राजा स्वयं ततः ।
पुत्रपौत्रमहिष्यादिपरिवारसमावृतः ५५।
शत्रुघ्नः सुमहामात्यैः सुभटैः पुष्कलादिभिः ।
संयुतो भूपतिं वीरं ददर्श सुमदाभिधम् ५६।
हस्तिभिः सादिसंयुक्तैः पत्तिभिः परतापनैः ।
वाजिभिर्भूषितैर्वीरैः संयुतं वीरशोभितम् ५७।
अथागत्य महाराजः शत्रुघ्नं नतवान्मुदा ।
धन्योऽस्मि कृतकृत्योऽस्मि सत्कृतं च कृतं वपुः ५८।
इदं राज्यं गृहाणाशु महाराजोपशोभितम् ।
महामाणिक्यमुक्तादि महाधनसुपूरितम् ५९।
स्वामिंश्चिरं प्रतीक्षेऽहं हयस्यागमनं प्रति ।
कामाक्षाकथितं पूर्वं जातं संप्रति तत्तथा ६०।
विलोकय पुरं मह्यं कृतार्थान्कुरु मानवान् ।
पावयास्मत्कुलं सर्वं रामानुज महीपते ६१।
इत्युक्त्वारोहयामास कुंजरं चंद्रसुप्रभम् ।
पुष्कलं च महावीरं तथा स्वयमथारुहत् ६२।
भेरीपणवतूर्याणां वीणादीनां स्वनस्तदा ।
व्याप्नोति स्म महाराज सुमदेन प्रणोदितः ६३।
कन्याः समागत्य महानरेंद्रं -।
शत्रुघ्नमिंद्रादिकसेवितांघ्रिम् ।
करिस्थिता मौक्तिकवृंदसंघै-।
र्वर्धापयामासुरिनप्रयुक्ताः ६४।
शनैःशनैः समागत्य पुरीमध्ये जनैर्मुदा ।
वर्धापितो गृहं प्राप तोरणादिकभूषितम् ६५।
हयरत्नेन संयुक्तस्तथा वीरैः सुशोभितः ।
राज्ञा पुरस्कृतो राजा शत्रुघ्नः प्राप मंदिरम् ६६।
अर्घादिभिः पूजयित्वा रघुनाथानुजं तदा ।
सर्वं समर्पयामास रामचंद्राय धीमते ६७।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नाहिच्छत्रापुरीप्रवेशोनाम त्रयोदशोऽध्यायः १३ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 14
शेष उवाच।
अथ स्वागतसंतुष्टं शत्रुघ्नं प्राह भूमिपः ।
रघुनाथकथां श्रेष्ठां शुश्रूषुः पुरुषर्षभः १।
सुमद उवाच।
कच्चिदास्ते सुखं रामः सर्वलोकशिरोमणिः ।
भक्तरक्षावतारोऽयं ममानुग्रहकारकः २।
धन्या लोका इमे पुर्यां रघुनाथमुखांबुजम् ।
ये पिबंत्यनिशं चाक्षिपुटकैः परिमोदिताः ३।
अर्थजातं मदीयं च नितरां पुरुषर्षभ ।
कृतार्थं कुलभूम्यादि वस्तुजातं महामते ४।
कामाक्षया प्रसादो मे कृतः पूर्वं दयार्द्रया ।
रघुनाथमुखांभोजं द्रक्ष्येद्य सकुटुंबकः ५।
इत्युक्तवति वीरे तु सुमदे पार्थिवोत्तमे ।
सर्वं तत्कथयामास रघुनाथगुणोदयम् ६।
त्रिरात्रं तत्र संस्थित्य रघुनाथानुजः परम् ।
गंतुं चकार धिषणां राज्ञा सह महामतिः ७।
तज्ज्ञात्वा सुमदः शीघ्रं पुत्रं राज्येऽभ्यषेचयत् ।
शत्रुघ्नेन महाराज्ञा पुष्कलेनानुमोदितः ८।
वासांसि बहुरत्नानि धनानि विविधानि च ।
शत्रुघ्नसेवकेभ्योऽसौ प्रादात्तत्र महामतिः ९।
ततो गमनमारेभे मंत्रिभिर्बहुवित्तमैः ।
पत्तिभिर्वाजिभिर्नागैः सदश्वैरथ कोटिभिः १०।
शत्रुघ्नः सहितस्तेन सुमदेन धनुर्भृता ।
जगाम मार्गे विहसन्रघुनाथप्रतापभृत् ११।
पयोष्णीतीरमासाद्य जगाम स हयोत्तमः ।
पृष्ठतोऽनुययुः सर्वे योधा वै हयरक्षिणः १२।
आश्रमान्विविधान्पश्यन्नृषीणां सुतपोभृताम् ।
तत्रतत्र विशृण्वानो रघुनाथगुणोदयम् १३।
एष धीमान्हरिर्याति हरिणा परिरक्षितः ।
हरिभिर्हरिभक्तैश्च हरिवर्यानुगैर्मुहुः १४।
इति शृण्वञ्छुभा वाचो मुनीनां परितः प्रभुः ।
तुतोष भक्त्युत्कलितचित्तवृत्तिभृतां महान् १५।
ददर्श चाश्रमं शुद्धं जनजंतुसमाकुलम् ।
वेदध्वनिहताशेषा मंगलं शृण्वतां नृणाम् १६।
अग्निहोत्रहविर्धूम पवित्रितनभोखिलम् ।
मुनिवर्यकृतानेक यागयूपसुशोभितम् १७।
यत्र गावस्तु हरिणा पाल्यंते पालनोचिताः ।
मूषका न खनंत्यस्मिन्बिडालस्य भयाद्बिलम् १८।
मयूरैर्नकुलैः सार्द्धं क्रीडंति फणिनोनिशम् ।
गजैः सिंहैर्नित्यमत्र स्थीयते मित्रतां गतैः १९।
एणास्तत्रत्य नीवारभक्षणेषु कृतादराः ।
न भयं कुर्वते कालाद्रक्षिता मुनिवृंदकैः २०।
गावः कुंभसमोधस्का नंदिनी समविग्रहाः ।
कुर्वंति चरणोत्थेन रजसेलां पवित्रिताम् २१।
मुनिवर्याः समित्पाणि पद्मैर्धर्मक्रियोचिताम् ।
दृष्ट्वा पप्रच्छसुमतिं सर्वज्ञं राम मंत्रिणम् २२।
शत्रुघ्न उवाच।
सुमते कस्य संस्थानं मुनेर्भाति पुरोगतम् ।
निर्वैरिजंतु संसेव्यं मुनिवृंदसमाकुलम् २३।
श्रोष्यामि मुनिवार्तां च विदधामि पवित्रताम् ।
निजं वपुस्तदीयाभिर्वार्ताभिर्वर्णनादिभिः २४।
इति श्रुत्वा महद्वाक्यं शत्रुघ्नस्य महात्मनः ।
कथयामास सचिवो रघुनाथस्य धीमतः २५।
सुमतिरुवाच।
च्यवनस्याश्रमं विद्धि महातापसशोभितम् ।
निर्वैरिजंतुसंकीर्णं मुनिपत्नीभिरावृतम् २६।
योऽसौ महामुनिः स्वर्गवैद्ययोर्भागमादधात् ।
स्वायंभुवमहायज्ञे शक्रमानविभेदनः २७।
महामुनेः प्रभावोऽयं न केनापि समाप्यते ।
तपोबलसमृद्धस्य वेदमूर्तिधरस्य ह २८।
श्रुत्वा रामानुजो वार्तां च्यवनस्य महामुनेः ।
सर्वं पप्रच्छ सुमतिं शक्रमानादिभंजनम् २९।
शत्रुघ्न उवाच।
कदासौ दस्रयोर्भागं चकार सुरपंक्तिषु ।
किं कृतं देवराजेन स्वायंभुव महामखे ३०।
सुमतिरुवाच।
ब्रह्मवंशेऽतिविख्यातो मुनिर्भृगुरिति श्रुतः ।
कदाचिद्गतवान्सायं समिदाहरणं प्रति ३१।
तदा मखविनाशाय दमनो राक्षसो बली ।
आगत्योच्चैर्जगादेदं महाभयकरं वचः ३२।
कुत्रास्ति मुनिबंधुः स कुत्र तन्महिलानघा ।
पुनः पुनरुवाचेदं वचो रोषसमाकुलः ३३।
तदाहुतवहो ज्ञात्वा राक्षसाद्भयमागतम् ।
दर्शयामास तज्जायामंतर्वत्नीमनिंदिताम् ३४।
जहार राक्षसस्तां तु रुदंतीं कुररीमिव ।
भृगो रक्षपते रक्ष रक्ष नाथ तपोनिधे ३५।
एवं वदंतीमार्तां तां गृहीत्वा निरगाद्बहिः ।
दुष्टो वाक्यप्रहारेण बोधयन्स भृगोः सतीम् ३६।
ततो महाभयत्रस्तो गर्भश्चोदरमध्यतः ।
पपात प्रज्वलन्नेत्रो वैश्वानर इवांगजः ३७।
तेनोक्तं मा व्रजाशु त्वं भस्मी भव सुदुर्मते ।
न हि साध्वी परामर्शं कृत्वा श्रेयोऽधियास्यसि ३८।
इत्युक्तः स पपाताशु भस्मीभूतकलेवरः ।
माता तदार्भकं नीत्वा जगामाश्रममुन्मनाः ३९।
भृगुर्वह्निकृतं सर्वं ज्ञात्वा कोपसमाकुलः ।
शशाप सर्वभक्षस्त्वं भव दुष्टारिसूचक ४०।
तदा शप्तोऽतिदुःखार्तो जग्राहांघ्र्याशुशुक्षणिः ।
कुरु मेऽनुग्रहं स्वामिन्कृपार्णव महामते ४१।
मयानृतं वचोभीत्या कथितं न गुरुद्रुहा ।
तस्मान्ममोपरि कृपां कुरु धर्मशिरोमणे ४२।
तदानुग्रहमाधाच्च सर्वभक्षो भवाञ्छुचिः ।
इत्युक्तवान्हुतभुजं दयार्द्रो मुनितापसः ४३।
गर्भाच्च्युतस्य पुत्रस्य जातकर्मादिकं शुचिः ।
चकार विधिवद्विप्रो दर्भपाणिः सुमंगलः ४४।
च्यवनाच्च्यवनं प्राहुः पुत्रं सर्वे तपस्विनः ।
शनैःशनैः स ववृधे शुक्ले प्रतिपदिंदुवत् ४५।
स जगाम तपः कर्तुं रेवां लोकैकपावनीम् ।
शिष्यैः परिवृतः सर्वैस्तपोबलसमन्वितैः ४६।
गत्वा तत्र तपस्तेपे वर्षाणामयुतं महान् ।
अंसयोः किंशुकौ जातौ वल्मीकोपरिशोभितौ ४७।
मृगा आगत्य तस्यांगे कंडूं विदधुरुत्सुकाः ।
न किंचित्स हि जानाति दुर्वारतपसावृतः ४८।
कदाचिन्मनुरुद्युक्तस्तीर्थयात्रां प्रति प्रभुः ।
सकुटुंबो ययौ रेवां महाबलसमावृतः ४९।
तत्र स्नात्वा महानद्यां संतर्प्य पितृदेवताः ।
दानानि ब्राह्मणेभ्यश्च प्रादाद्विष्णुप्रतुष्टये ५०।
तत्कन्या विचरंती सा वनमध्ये इतस्ततः ।
सखीभिः सहिता रम्या तप्तहाटकभूषणा ५१।
तत्र दृष्ट्वाथ वल्मीकं महातरुसुशोभितम् ।
निमेषोन्मेषरहितं तेजः किंचिद्ददर्श सा ५२।
गत्वा तत्र शलाकाभिरतुदद्रुधिरं स्रवत् ।
दृष्ट्वा राज्ञांगजा खेदं प्राप्तवत्यतिदुःखिता ५३।
न जनन्यै तथा पित्रे शशंसाघेन विप्लुता ।
स्वयमेवात्मनात्मानं सा शुशोच भयातुरा ५४।
तदा भूश्चलिता राजन्दिवश्चोल्का पपात ह ।
धूम्रा दिशो भवन्सर्वाः सूर्यश्च परिवेषितः ५५।
तदा राज्ञो हया नष्टा हस्तिनो बहवो मृताः ।
धनं नष्टं रत्नयुतं कलहोभून्मिथस्तदा ५६।
तदालोक्य नृपो भीतः किंचिदुद्विग्नमानसः ।
जनानपृच्छत्केनापि मुनये त्वपराधितम् ५७।
पारंपर्येण तज्ज्ञात्वा स्वपुत्र्याः परिचेष्टितम् ।
ययौ सुदुःखितस्तत्र समृद्धबलवाहनः ५८।
तं वै तपोनिधिं वीक्ष्य महता तपसायुतम् ।
स्तुत्वा प्रसादयामास मुनिवर्य दयां कुरु ५९।
तस्मै तुष्टो जगादायं मुनिवर्यो महातपाः ।
तवात्मजाकृतं सर्वमुत्पाताद्यमवेहि तत् ६०।
तव पुत्र्या महाराज चक्षुर्विस्फोटनं कृतम् ।
बहुसुस्राव रुधिरं जानती त्वामुवाच न ६१।
तस्मादियं महाभूप मह्यं देया यथाविधि ।
ततश्चोत्पातशमनं भविष्यति न संशयः ६२।
तच्छ्रुत्वा दुःखितो राजा प्रज्ञाचाक्षुष आत्मजाम् ।
ददौ कुलवयोरूप शीललक्षणसंयुताम् ६३।
दत्ता यदा नृपेणेयं कन्या कमललोचना ।
तदोत्पाताः शमं याताः सर्वे मुनिरुषोद्गताः ६४।
राजा दत्त्वात्मजां तस्मै मुनये तपसांनिधे ।
प्राप स्वां नगरीं भूयो दुःखितोऽयं दयायुतः ६५।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे।
च्यवनोपाख्यानंनाम चतुर्दशोऽध्यायः १४ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 15
सुमतिरुवाच।
अथर्षिः स्वाश्रमं गत्वा मानव्या सह भार्यया ।
मुदं प्राप हताशेष पातको योगयुक्तया १।
सा मानवी तं वरमात्मनः पतिं ।
नेत्रेणहीनं जरसा गतौजसम् ।
सिषेव एनं हरिमेधसोत्तमं ।
निजेष्टदात्रीं कुलदेवतां यथा २।
शूश्रूषती स्वं पतिमिंगितज्ञा ।
महानुभावं तपसां निधिं प्रियम् ।
परां मुदं प्राप सती मनोहरा ।
शची यथा शक्रनिषेवणोद्यता ३।
चरणौ सेवते तन्वी सर्वलक्षणलक्षिता ।
राजपुत्री सुंदरांगी फलमूलोदकाशना ४।
नित्यं तद्वाक्यकरणे तत्परा पूजने रता ।
कालक्षेपं प्रकुरुते सर्वभूतहिते रता ५।
विसृज्य कामं दंभं च द्वेषं लोभमघं मदम् ।
अप्रमत्तोद्यता नित्यं च्यवनं समतोषयत् ६।
एवं तस्य प्रकुर्वाणा सेवां वाक्कायकर्मभिः ।
सहस्राब्दं महाराज सा च कामं मनस्यधात् ७।
कदाचिद्देवभिषजावागतावाश्रमे मुनेः ।
स्वागतेन सुसंभाव्य तयोः पूजां चकार सा ८।
शर्यातिकन्याकृतपूजनार्घ-।
पाद्यादिना तोषितचित्तवृत्ती ।
तावूचतुः स्नेहवशेन सुंदरौ ।
वरं वृणुष्वेति मनोहरांगीम् ९।
तुष्टौ तौ वीक्ष्य भिषजौ देवानां वरयाचने ।
मतिं चकार नृपतेः पुत्री मतिमतां वरा १०।
पत्यभिप्रायमालक्ष्य वाचमूचे नृपात्मजा ।
दत्तं मे चक्षुषी पत्युर्यदि तुष्टौ युवां सुरौ ११।
इत्येतद्वचनं श्रुत्वा सुकन्या या मनोहरम् ।
सतीत्वं च विलोक्येदमूचतुर्भिषजां वरौ १२।
त्वत्पतिर्यदि देवानां भागं यज्ञे दधात्यसौ ।
आवयोरधुना कुर्वश्चक्षुषोः स्फुटदर्शनम् १३।
च्यवनोऽप्योमिति प्राह भागदाने वरौजसोः ।
तदा हृष्टावश्विनौ तमूचतुस्तपतां वरम् १४।
निमज्जतां भवानस्मिन्ह्रदे सिद्धविनिर्मिते ।
इत्युक्तो जरयाग्रस्त देहो धमनिसंततः १५।
ह्रदं प्रवेशितोऽश्विभ्यां स्वयं चामज्जतां ह्रदे ।
पुरुषास्त्रय उत्तस्थुरपीच्या वनिताप्रियाः १६।
रुक्मस्रजः कुंडलिनस्तुल्यरूपाः सुवाससः ।
तान्निरीक्ष्य वरारोहा सुरूपान्सूर्यवर्चसः १७।
अजानती पतिं साध्वी ह्यश्विनौ शरणं ययौ ।
दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ १८।
ऋषिमामंत्र्य ययतुर्विमानेन त्रिविष्टपम् ।
यक्ष्यमाणे क्रतौ स्वीयभागकार्याशयायुतौ १९।
कालेन भूयसा क्षामां कर्शितां व्रतचर्यया ।
प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत् २०।
तुष्टोऽहमद्य तव भामिनि मानदायाः ।
शुश्रूषया परमया हृदि चैकभक्त्या ।
यो देहिनामयमतीव सुहृत्स्वदेहो ।
नावेक्षितः समुचितः क्षपितुं मदर्थे २१।
ये मे स्वधर्मनिरतस्य तपः समाधि-।
विद्यात्मयोगविजिता भगवत्प्रसादाः ।
तानेव ते मदनुसेवनयाऽविरुद्धान् ।
दृष्टिं प्रपश्य वितराम्यभयानशोकान् २२।
अन्ये पुनर्भगवतो भ्रुव उद्विजृंभ-।
विस्रंसितार्थरचनाः किमुरुक्रमस्य ।
सिद्धासि भुंक्ष्व विभवान्निजधर्मदोहान् ।
दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः २३।
एवं ब्रुवाणमबलाखिलयोगमाया ।
विद्याविचक्षणमवेक्ष्य गताधिरासीत् ।
संप्रश्रयप्रणयविह्वलया गिरेषद् ।
व्रीडाविलोकविलसद्धसिताननाह २४।
सुकन्योवाच।
राद्धं बत द्विजवृषैतदमोघयोग-।
मायाधिपे त्वयि विभो तदवैमि भर्तः ।
यस्तेऽभ्यधायि समयः सकृदंगसंगो ।
भूयाद्गरीयसि गुणः प्रसवः सतीनाम् २५।
तत्रेति कृत्यमुपशिक्ष्य यथोपदेशं ।
येनैष कर्शिततमोति रिरंसयात्मा ।
सिध्येत ते कृतमनोभव धर्षिताया ।
दीनस्तदीशभवनं सदृशं विचक्ष्व २६।
सुमतिरुवाच।
प्रियायाः प्रियमन्विच्छंश्च्यवनो योगमास्थितः ।
विमानं कामगं राजंस्तर्ह्येवाविरचीकरत् २७।
सर्वकामदुघं रम्यं सर्वरत्नसमन्वितम् ।
सर्वार्थोपचयोदर्कं मणिस्तंभैरुपस्कृतम् २८।
दिव्योपस्तरणोपेतं सर्वकालसुखावहम् ।
पट्टिकाभिः पताकाभिर्विचित्राभिरलंकृतम् २९।
स्रग्भिर्विचित्रमालाभिर्मंजुसिंजत्षडंघ्रिभिः ।
दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम् ३०।
उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक् ।
कॢप्तैः कशिपुभिः कांतं पर्यंकव्यजनादिभिः ३१।
तत्रतत्र विनिक्षिप्त नानाशिल्पोपशोभितम् ।
महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ३२।
द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटकम् ।
शिखरेष्विंद्रनीलेषु हेमकुंभैरधिश्रितम् ३३।
चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः ।
जुष्टं विचित्रवैतानैर्मुक्ताहारावलंबितैः ३४।
हंसपारावतव्रातैस्तत्र तत्र निकूजितम् ।
कृत्रिमान्मन्यमानैस्तानधिरुह्याधिरुह्य च ३५।
विहारस्थानविश्राम संवेश प्रांगणाजिरैः ।
यथोपजोषं रचितैर्विस्मापनमिवात्मनः ३६।
एवं गृहं प्रपश्यंतीं नातिप्रीतेन चेतसा ।
सर्वभूताशयाभिज्ञः स्वयं प्रोवाच तां प्रति ३७।
निमज्ज्यास्मिन्ह्रदे भीरु विमानमिदमारुह ।
सुभ्रूर्भर्तुः समादाय वचः कुवलयेक्षणा ३८।
सरजो बिभ्रती वासो वेणीभूतांश्च मूर्द्धजान् ।
अंगं च मलपंकेन संछन्नं शबलस्तनम् ३९।
आविवेश सरस्तत्र मुदा शिवजलाशयम् ।
सांतःसरसि वेश्मस्थाः शतानि दशकन्यकाः ४०।
सर्वाः किशोरवयसो ददर्शोत्पलगंधयः ।
तां दृष्ट्वा शीघ्रमुत्थाय प्रोचुः प्रांजलयः स्त्रियः ४१।
वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम् ।
स्नानेन ता महार्हेण स्नापयित्वा मनस्विनीम् ४२।
दुकूले निर्मले नूत्ने ददुरस्यै च मानद ।
भूषणानि परार्घ्यानि वरीयांसि द्युमंति च ४३।
अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् ।
अथादर्शे स्वमात्मानं स्रग्विणं विरजोंबरम् ४४।
ताभिः कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् ।
हारेण च महार्हेण रुचकेन च भूषितम् ४५।
निष्कग्रीवं वलयिनं क्वणत्कांचननूपुरम् ।
श्रोण्योरध्यस्तया कांच्या कांचन्या बहुरत्नया ४६।
सुभ्रुवा सुदता शुक्लस्निग्धापांगेन चक्षुषा ।
पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम् ४७।
यदा सस्मार दयितमृषीणां वल्लभं पतिम् ।
तत्र चास्ते सहस्त्रीभिर्यत्रास्ते स मुनीश्वरः ४८।
भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा ।
निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत ४९।
सतां कृत मलस्नानां विभ्राजंतीमपूर्ववत् ।
आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम् ५०।
विद्याधरी सहस्रेण सेव्यमानां सुवाससम् ।
जातभावो विमानं तदारोहयदमित्रहन् ५१।
तस्मिन्नलुप्तमहिमा प्रिययानुषक्तो ।
विद्याधरीभिरुपचीर्णवपुर्विमाने ।
बभ्राज उत्कचकुमुद्गणवानपीच्य ।
स्ताराभिरावृत इवोडुपतिर्नभःस्थः ५२।
तेनाष्टलोकपविहारकुलाचलेंद्र -।
द्रोणीष्वनंगसखमारुतसौभगासु ।
सिद्धैर्नुतोद्युधुनिपातशिवस्वनासु ।
रेमे चिरं धनदवल्ललनावरूथी ५३।
वैश्रंभके सुरवने नंदने पुष्पभद्रके ।
मानसे चैत्ररथ्ये च सरे मे रामया रतः ५४।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे।
च्यवनस्य तपोभोगवर्णनं नाम पंचदशोऽध्यायः १५ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 16
सुमतिरुवाच।
एवं तया क्रीडमानः सर्वत्र धरणीतले ।
नाबुध्यत गतानब्दाञ्छतसंख्या परीमितान् १।
ततो ज्ञात्वाथव तद्विप्रः स्वकालपरिवर्तिनीम् ।
मनोरथैश्च संपूर्णां स्वस्यप्रियतमां वराम् २।
न्यवर्तताश्रमं श्रेष्ठं पयोष्णीतीरसंस्थितम् ।
निर्वैरजं तु जनतासंकुलं मृगसेवितम् ३।
तत्रावसत्स सुतपाः शिष्यैर्वेदसमन्वितैः ।
सेवितांघ्रियुगो नित्यं तताप परमं तपः ४।
कदाचिदथ शर्यातिर्यष्टुमैच्छत देवताः ।
तदा च्यवनमानेतुं प्रेषयामास सेवकान् ५।
तैराहूतो द्विजवरस्तत्रागच्छन्महातपाः ।
सुकन्यया धर्मपत्न्या स्वाचार परिनिष्ठया ६।
आगतं तं मुनिवरं पत्न्या पुत्र्या महायशाः ।
ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम् ७।
राजा दुहितरं प्राह कृतपादाभिवंदनाम् ।
आशिषो न प्रयुंजानो नातिप्रीतमना इव ८।
चिकीर्षितं ते किमिदं पतिस्त्वया ।
प्रलंभितो लोकनमस्कृतो मुनिः ।
त्वया जराग्रस्तमसंमतं पतिं ।
विहाय जारं भजसेऽमुमध्वगम् ९।
कथं मतिस्तेऽवगतान्यथासतां कुलप्रसूतेः कुलदूषणं त्विदम् ।
बिभर्षि जारं यदपत्रपाकुलं पितुः स्वभर्तुश्च नयस्यधस्तमाम् १०।
एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता ।
उवाच तात जामाता तवैष भृगुनंदनः ११।
शशंस पित्रे तत्सर्वं वयोरूपाभिलंभनम् ।
विस्मितः परमप्रीतस्तनयां परिषस्वजे १२।
सोमेनायाजयद्वीरं ग्रहं सोमस्य चाग्रहीत् ।
असोमपोरप्यश्विनोश्च्यवनः स्वेन तेजसा १३।
ग्रहं तु ग्राहयामास तपोबलसमन्वितः ।
वज्रं गृहीत्वा शक्रस्तु हंतुं ब्राह्मणसत्तमम् १४।
अपंक्तिपावनौ देवौ कुर्वाणं पंक्तिगोचरौ ।
शक्रं वज्रधरं दृष्ट्वा मुनिः स्वहननोद्यतम् १५।
हुंकारमकरोद्धीमान्स्तंभयामास तद्भुजम् ।
इंद्रः स्तब्धभुजस्तत्र दृष्टः सर्वैश्च मानवैः १६।
कोपेन श्वसमानोऽहिर्यथा मंत्रनियंत्रितः ।
तुष्टाव स मुनिं शक्रः स्तब्धबाहुस्तपोनिधिम् १७।
अश्विभ्यां भागदानं च कुर्वंतं निर्भयांतरम् ।
कथयामास भोः स्वामिन्दीयतामश्विनोर्बलि १८।
मया न वार्यते तात क्षमस्वाघं महत्कृतम् ।
इत्युक्तः स मुनिः कोपं जहौ तूर्णं कृपानिधिः १९।
इंद्रो मुक्तभुजोऽप्यासीत्तदानीं पुरुषर्षभ ।
एतद्वीक्ष्य जनाः सर्वे कौतुकाविष्टमानसाः २०।
शशंसुर्ब्राह्मणबलं ते तु देवादिदुर्ल्लभम् ।
ततो राजा बहुधनं ब्राह्मणेभ्योऽददन्महान् २१।
चक्रे चावभृथस्नानं यागांते शत्रुतापनः ।
त्वया पृष्टं यदाचक्ष्व च्यवनस्य महोदयम् २२।
स मया कथितः सर्वस्तपोयोगसमन्वितः ।
नमस्कृत्वा तपोमूर्तिमिमं प्राप्य जयाशिषः २३।
प्रेषय त्वं सपत्नीकं रामयज्ञे मनोरमे ।
शेष उवाच।
एवं तु कुर्वतोर्वार्तां हयः प्रापाश्रमं प्रति २४।
विदधद्वायुवेगेन पृथ्वीं खुरविलक्षिताम् ।
दूर्वांकुरान्मुखाग्रेण चरंस्तत्र महाश्रमे २५।
मुनयो यावदादाय दर्भान्स्नातुं गता नदीम् ।
शत्रुघ्नः शत्रुसेनायास्तापनः शूरसंमतः २६।
तावत्प्राप मुनेर्वासं च्यवनस्यातिशोभितम् ।
गत्वा तदाश्रमे वीरो ददर्श च्यवनं मुनिम् २७।
सुकन्यायाः समीपस्थं तपोमूर्तिमिवस्थितम् ।
ववंदे चरणौ तस्य स्वाभिधां समुदाहरन् २८।
शत्रुघ्नोहं रघुपतेर्भ्राता वाहस्य पालकः २९।
नमस्करोमि युष्मभ्यं महापापोपशांतये ।
इति वाक्यं समाकर्ण्य जगाद मुनिसत्तमः ३०।
शत्रुघ्न तव कल्याणं भूयान्नरवरर्षभ ।
यज्ञं पालयमानस्य कीर्तिस्ते विपुला भवेत् ३१।
चित्रं पश्यत भो विप्रा रामोऽपि मखकारकः ।
यन्नामस्मरणादीनि कुर्वंति पापनाशनम् ३२।
महापातकसंयुक्ताः परदाररता नराः ।
यन्नामस्मरणोद्युक्ता मुक्ता यांति परां गतिम् ३३।
पादपद्मसमुत्थेन रेणुना ग्रावमूर्तिभृत् ।
तत्क्षणाद्गौतमार्धांगी जाता मोहनरूपधृक् ३४।
मामकीयस्य रूपस्य ध्यानेन प्रेमनिर्भरा ।
सर्वपातकराशिं सा दग्ध्वा प्राप्ता सुरूपताम् ३५।
दैत्या यस्य मनोहारिरूपं प्रधनमण्डले ।
पश्यंतः प्रापुरेतस्य रूपं विकृतिवर्जितम् ३६।
योगिनो ध्याननिष्ठा ये यं ध्यात्वा योगमास्थिताः ।
संसारभयनिर्मुक्ताः प्रयाताः परमं पदम् ३७।
धन्योऽहमद्य रामस्य मुखं द्रक्ष्यामि शोभनम् ।
पयोजदलनेत्रांतं सुनसं सुभ्रुसून्नतम् ३८।
सा जिह्वा रघुनाथस्य नामकीर्तनमादरात् ।
करोति विपरीता या फणिनो रसना समा ३९।
अद्य प्राप्तं तपःपुण्यमद्य पूर्णा मनोरथाः ।
यद्द्रक्ष्ये रामचंद्रस्य मुखं ब्रह्मादिदुर्ल्लभम् ४०।
तत्पादरेणुना स्वांगं पवित्रं विदधाम्यहम् ।
विचित्रतरवार्ताभिः पावये रसनां स्वकाम् ४१।
इत्यादि रामचरणस्मरणप्रबुद्ध-
प्रेमव्रजप्रसृतगद्गदवागुदश्रुः ।
श्रीरामचंद्र रघुपुंगवधर्ममूर्ते
भक्तानुकंपकसमुद्धर संसृतेर्माम् ४२।
जल्पन्नश्रुकलापूर्णो मुनीनां पुरतस्तदा ।
नाज्ञासीत्तत्र पारक्यं निजं ध्यानेन संस्थितः ४३।
शत्रुघ्नस्तं मुनिं प्राह स्वामिन्नो मखसत्तमः ।
क्रियतां भवता पादरजसा सुपवित्रितः ४४।
महद्भाग्यं रघुपतेर्यद्युष्मन्मानसांतरे ।
तिष्ठत्यसौ महाबाहुः सर्वलोकसुपूजितः ४५।
इत्युक्तः सपरीवारः सर्वाग्निपरिसंवृतः ।
जगाम च्यवनस्तत्र प्रमोदह्रदसंप्लुतः ४६।
हनूमांस्तं पदायांतं रामभक्तमवेक्ष्य ह ।
शत्रुघ्नं निजगादासौ वचो विनयसंयुतः ४७।
स्वामिन्कथयसि त्वं चेन्महापुरुषसुंदरम् ।
रामभक्तं मुनिवरं नयामि स्वपुरीमहम् ४८।
इति श्रुत्वा महद्वाक्यं कपिवीरस्य शत्रुहा ।
आदिदेश हनूमंतं गच्छ प्रापयतं मुनिम् ४९।
हनूमांस्तं मुनिं स्वीये पृष्ठ आरोप्य वेगवान् ।
सकुटुंबं निनायाशु वायुः ख इव सर्वगः ५०।
आगतं तं मुनिं दृष्ट्वा रामो मतिमतां वरः ।
अर्घ्यपाद्यादिकं चक्रे प्रीतः प्रणयविह्वलः ५१।
धन्योऽस्मि मुनिवर्यस्य दर्शनेन तवाधुना ।
पवित्रितो मखो मह्यं सर्वसंभारसंभृतः ५२।
इति वाक्यं समाकर्ण्य च्यवनो मुनिसत्तमः ।
उवाच प्रेमनिर्भिन्न पुलकांगोऽतिनिर्वृतः ५३।
स्वामिन्ब्रह्मण्यदेवस्य तव वाडवपूजनम् ।
युक्तमेव महाराज धर्ममार्गं प्ररक्षितुः ५४।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे च्यवनाश्रमे हयगमनोनाम षोडशोऽध्यायः १६ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 17
शेष उवाच।
शत्रुघ्नश्च्यवनस्याथ दृष्ट्वाऽचिंत्यं तपोबलम् ।
प्रशशंस तपो ब्राह्मं सर्वलोकैकवंदितम् १।
अहो पश्यत योगस्य सिद्धिं ब्राह्मणसत्तमे ।
यः क्षणादेव दुष्प्रापं तद्विमानमचीकरत् २।
क्व भोगसिद्धिर्महती मुनीनाममलात्मनाम् ।
क्व तपोबलहीनानां भोगेच्छा मनुजात्मनाम् ३।
इति स्वगतमाशंसञ्छत्रुघ्नश्च्यवनाश्रमे ।
क्षणं स्थित्वा जलं पीत्वा सुखसंभोगमाप्तवान् ४।
हयस्तस्याः पयोष्ण्याख्या नद्याः पुण्यजलात्मनः ।
पयः पीत्वा ययौ मार्गे वायुवेगगतिर्महान् ५।
योधास्तन्निर्गमं दृष्ट्वा पृष्ठतोऽनुययुस्तदा ।
हस्तिभिः पत्तिभिः केचिद्रथैः केचन वाजिभिः ६।
शत्रुघ्नोऽमात्यवर्येण सुमत्याख्येन संयुतः ।
पृष्ठतोऽनुजगामाशु रथेन हयशोभिना ७।
गच्छन्वाजीपुरं प्राप्तो विमलाख्यस्य भूपतेः ।
रत्नातटाख्यं च जनैर्हृष्टपुष्टैः समाकुलम् ८।
स सेवकादुपश्रुत्य रघुनाथ हयोत्तमम् ।
पुरोंतिके हि संप्राप्तं सर्वयोधसमन्वितम् ९।
तदा गजानां सप्तत्या चंद्रवर्णसमानया ।
अश्वानामयुतैः सार्धं रथानां कांचनत्विषाम् १०।
सहस्रेण च संयुक्तः शत्रुघ्नं प्रति जग्मिवान् ।
शत्रुघ्नं स नमस्कृत्य सर्वान्प्राप्तान्महारथान् ११।
वसुकोशं धनं सर्वं राज्यं तस्मै निवेद्य च ।
किं करोमीति राजा तं जगाद पुरतः स्थितः १२।
राजापि तं स्वीयपदे प्रणम्रं ।
दोर्भ्यां दृढं संपरिषस्वजे महान् ।
जगाम साकं तनये स्वराज्यं ।
निक्षिप्य सर्वं बहुधन्विभिर्वृतः १३।
रामचंद्राभिधां श्रुत्वा सर्वश्रुतिमनोहराम् ।
सर्वे प्रणम्य तं वाहं ददुर्वसुमहाधनम् १४।
राजानं पूजयित्वा तु शत्रुघ्नः परया मुदा ।
सेनया सहितोऽगच्छद्वाजिनः पृष्ठतस्तदा १५।
एवं स गच्छंस्तन्मार्गे पर्वताग्र्यं ददर्श ह ।
स्फाटिकैः कानकै रौप्यै राजितं प्रस्थराजिभिः १६।
जलनिर्झरसंह्रादं नानाधातुकभूतलम् ।
गैरिकादिकसद्धातु लाक्षारंगविराजितम् १७।
यत्र सिद्धांगनाः सिद्धैः संक्रीडंत्यकुतोभयाः ।
गंधर्वाप्सरसो नागा यत्र क्रीडंति लीलया १८।
गंगातरंगसंस्पर्श शीतवायुनिषेवितम् ।
वीणारणद्धंसशुकक्वणसुंदरशोभितम् १९।
पर्वतं वीक्ष्य शत्रुघ्न उवाच सुमतिं त्विदम् ।
तद्दर्शनसमुद्भूत विस्मयाविष्टमानसः २०।
कोऽयं महागिरिवरो विस्मापयति मे मनः ।
महारजतसत्प्रस्थो मार्गे राजति मेऽद्भुतः २१।
अत्र किं देवतावासो देवानां क्रीडनस्थलम् ।
यदेतन्मनसः क्षोभं करोति श्रीसमुच्चयैः २२।
इति वाक्यं समाकर्ण्य जगाद सुमतिस्तदा ।
वक्ष्यमाणगुणागार रामचंद्र पदाब्जधीः २३।
नीलोऽयं पर्वतो राजन्पुरतो भाति भूमिप ।
मनोहरैर्महाशृङ्गैः स्फाटिकाग्रैः समंततः २४।
एनं पश्यंति नो पापाः परदाररता नराः ।
विष्णोर्गुणगणान्ये वै न मन्यंते नराधमाः २५।
श्रुतिस्मृतिसमुत्थं ये धर्मं सद्भिः सुसाधितम् ।
न मन्यंते स्वबुद्धिस्थ हेतुवादविचारणाः २६।
नीलीविक्रयकर्तारो लाक्षाविक्रयकारकाः ।
यो ब्राह्मणो घृतादीनि विक्रीणाति सुरापकः २७।
कन्यां रूपेण संपन्नां न दद्यात्कुलशीलिने ।
विक्रीणाति द्रव्यलोभात्पिता पापेन मोहितः २८।
पत्नीं दूषयते यस्तु कुलशीलवतीं नरः ।
स्वयमेवात्ति मधुरं बंधुभ्यो न ददाति यः २९।
भोजने ब्राह्मणार्थे च पाकभेदं करोति यः ।
कृसरं पायसं वापि नार्थिनं दापयेत्कुधीः ३०।
अतिथीनवमन्यंते सूर्यतापादितापितान् ।
अंतरिक्षभुजो ये च ये च विश्वासघातकाः ३१।
न पश्यंति महाराज रघुनाथ पराङ्मुखाः ।
असौ पुण्यो गिरिवरः पुरुषोत्तम शोभितः ३२।
पवित्रयति सर्वान्नो दर्शनेन मनोहरः ।
अत्र तिष्ठति देवानां मुकुटैरर्चितांघ्रिकः ३३।
पुण्यवद्भिर्दर्शनार्हः पुण्यदः पुरुषोत्तमः ।
श्रुतयो नेतिनेतीति ब्रुवाणा न विदंति यम् ३४।
यत्पादरज इंद्रादिदेवैर्मृग्यं सुदुर्ल्लभम् ।
वेदांतादिभिरन्यूनैर्वाक्यैर्विदंति यं बुधाः ३५।
सोऽत्र श्रीमान्नीलशैले वसते पुरुषोत्तमः ।
आरुह्य तं नमस्कृत्य संपूज्य सुकृतादिना ३६।
नैवेद्यं भक्षयित्वा वै भूप भूयाच्चतुर्भुजः ।
अत्राप्युदाहरंतीममितिहासं पुरातनम् ३७।
तं शृणुष्व महाराज सर्वाश्चर्यसमन्वितम् ।
रत्नग्रीवस्य नृपतेर्यद्वृत्तं सकुटुंबिनः ३८।
चतुर्भुजादिकं प्राप्तं देवदानवदुर्लभम् ।
आसीत्कांची महाराज पुरी लोकेषु विश्रुता ३९।
महाजनपरीवारसमृद्धबलवाहना ।
यस्यां वसंति विप्राग्र्याः षट्कर्मनिरता भृशम् ४०।
सर्वभूतहिते युक्ता रामभक्तिषु लालसाः ।
क्षत्रिया रणकर्तारः संग्रामेऽप्यपलायिनः ४१।
परदार परद्रव्य परद्रोहपराङ्मुखाः ।
वैश्याः कुसीदकृष्यादिवाणिज्यशुभवृत्तयः ४२।
कुर्वन्ति रघुनाथस्य पदाम्भोजे रतिं सदा ।
शूद्रा ब्राह्मणसेवाभिर्गतरात्रिदिनान्तराः ४३।
कुर्वंति कथनं रामरामेति रसनाग्रतः ।
प्राकृताः केऽपि नो पापं कुर्वंति मनसात्र वै ४४।
दानं दया दमः सत्यं तत्र तिष्ठंति नित्यशः ।
वदते न पराबाधं वाक्यं कोऽपि नरोऽनघः ४५।
न पारक्ये धने लोभं कुर्वंति न हि पातकम् ।
एवं प्रजा महाराज रत्नग्रीवेण पाल्यते ४६।
षष्ठांशं तत्र गृह्णाति नान्यं लोभविवर्जितः ।
एवं पालयमानस्य प्रजाधर्मेण भूपतेः ४७।
गतानि बहुवर्षाणि सर्वभोगविलासिनः ।
विशालाक्षीं महाराज एकदा ह्यूचिवानिदम् ४८।
पतिव्रतां धर्मपत्नीं पतिव्रतपरायणाम् ।
पुत्रा जाता विशालाक्षि प्रजारक्षा धुरंधराः ४९।
परीवारो महान्मह्यं वर्तते विगतज्वरः ।
हस्तिनो मम शैलाभा वाजिनः पवनोपमाः ५०।
रथाश्च सुहयैर्युक्ता वर्तंते मम नित्यशः ।
महाविष्णुप्रसादेन किंचिन्न्यूनं ममास्ति न ५१।
एवं मनोरथस्त्वेकस्तिष्ठते मानसे मम ।
परं तीर्थं मया नाद्य कृतं परमशोभने ५२।
गर्भवासविरामाय क्षमं गोविंदशोभितम् ।
वृद्धो जातोऽस्म्यहं तावद्वलीपलितदेहवान् ५३।
करिष्यामि मनोहारि तीर्थसेवनमादृतः ।
यो नरो जन्मपर्यंतं स्वोदरस्य प्रपूरकः ५४।
न करोति हरेः पूजां स नरो गोवृषः स्मृतः ।
तस्माद्गच्छामि भो भद्रे तीर्थयात्रां प्रति प्रिये ५५।
सकुटुंबः सुते न्यस्य धुरं राज्यस्य निर्भृताम् ।
इति व्यवस्य संध्यायां हरिं ध्यायन्निशांतरे ५६।
अद्राक्षीत्स्वप्नमप्येकं ब्राह्मणं तापसं वरम् ।
प्रातरुत्थाय राजासौ कृत्वा संध्यादिकाः क्रियाः ५७।
सभां मंत्रिजनैः सार्द्धं सुखमासेदिवान्महान् ।
तावद्विप्रं ददर्शाथ तापसं कृशदेहिनम् ५८।
जटावल्कलकौपीनधारिणं दंडपाणिनम् ।
अनेकतीर्थसेवाभिः कृतपुण्यकलेवरम् ५९।
राजा तं वीक्ष्य शिरसा प्रणनाम महाभुजः ।
अर्घ्यपाद्यादिकं चक्रे प्रहृष्टात्मा महीपतिः ६०।
सुखोपविष्टं विश्रांतं पप्रच्छ विदितं द्विजम् ।
स्वामिंस्त्वद्दर्शनान्मेऽद्य गतं देहस्य पातकम् ६१।
महांतः कृपणान्पातुं यांति तद्गेहमादरात् ।
तस्मात्कथय भो विप्र वृद्धस्य मम संप्रति ६२।
को देवो गर्भनाशाय किं तीर्थं च क्षमं भवेत् ।
यूयं सर्वगताः श्रेष्ठाः समाधिध्यानतत्पराः ६३।
सर्वतीर्थावगाहेन कृतपुण्यात्मनोऽमलाः ।
यथावच्छृण्वते मह्यं श्रद्दधानाय विस्तरात् ६४।
कथयस्व प्रसादेन सर्वतीर्थविचक्षण ।
ब्राह्मण उवाच।
शृणु राजेंद्र वक्ष्यामि यत्पृष्टं तीर्थसेवनम् ६५।
कस्य देवस्य कृपया गर्भनिर्वारणं भवेत् ।
सेव्यः श्रीरामचंद्रोऽसौ संसारज्वरनाशकः ६६।
पूज्यः स एव भगवान्पुरुषोत्तमसंज्ञकः ।
नाना पुर्यो मया दृष्टाः सर्वपापक्षयंकराः ६७।
अयोध्या सरयूस्तापी तथा द्वारं हरेः परम् ।
अवंती विमला कांची रेवा सागरगामिनी ६८।
गोकर्णं हाटकाख्यं च हत्याकोटिविनाशनम् ।
मल्लिकाख्यो महाशैलो मोक्षदः पश्यतां नृणाम् ६९।
यत्रांगेषु नृणां तोयं श्यामं वा निर्मलं भवेत् ।
पातकस्यापहारीदं मया दृष्टं तु तीर्थकम् ७०।
मया द्वारवती दृष्टा सुरासुर निषेविता ।
गोमती यत्र वहति साक्षाद्ब्रह्मजला शुभा ७१।
यत्र स्वापो लयः प्रोक्तो मृतिर्मोक्ष इति श्रुतिः ।
यस्यां संवसतां नॄणां न कलि प्रभवेत्क्वचित् ७२।
चक्रांका यत्र पाषाणा मानवा अपि चक्रिणः ।
पशवः कीटपक्ष्याद्याः सर्वे चक्रशरीरिणः ७३।
त्रिविक्रमो वसेद्यस्यां सर्वलोकैकपालकः ।
सा पुरी तु महापुण्यैर्मया दृग्गोचरीकृता ७४।
कुरुक्षेत्रं मया दृष्टं सर्वहत्यापनोदनम् ।
स्यमंतपंचकं यत्र महापातकनाशनम् ७५।
वाराणसी मया दृष्टा विश्वनाथकृतालया ।
यत्रोपदिशते मंत्रं तारकं ब्रह्मसंज्ञितम् ७६।
यस्यां मृताः कीटपतंगभृंगाः
पश्वादयो वा सुरयोनयो वा ।
स्वकर्मसंभोगसुखं विहाय
गच्छंति कैलासमतीतदुःखाः ७७।
मणिकर्णिर्यत्र तीर्थं यस्यामुत्तरवाहिनी ।
करोति संसृतेर्बंधच्छेदं पापकृतामपि ७८।
कपर्दिनः कुंडलिनः सर्पभूषाधरावराः ।
गजचर्मपरीधाना वसंति गतदुःखकाः ७९।
कालभैरवनामात्र करोति यमशासनम् ।
न करोति नृणां वार्तां यमो दंडधरः प्रभुः ८०।
एतादृशी मया दृष्टा काशी विश्वेश्वरांकिता ।
अनेकान्यपि तीर्थानि मया दृष्टानि भूमिप ८१।
परमेकं महच्चित्रं यद्दृष्टं नीलपर्वते ।
पुरुषोत्तमसान्निध्ये तन्न क्वाप्यक्षिगोचरम् ८२।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे ब्राह्मणसमागमोनामसप्तदशोऽध्यायः १७।
खण्डः ५ (पातालखण्डः) — Adhyāya 18
ब्राह्मण उवाच।
राजंस्त्वं शृणु यद्वृत्तं नीले पर्वतसत्तमे ।
यच्छ्रद्दधानाः पुरुषा यांति ब्रह्म सनातनम् १।
मया पर्यटता तत्र गतं नीलाभिधे गिरौ ।
गंगासागरतोयेन क्षालितप्रांगणे मुहुः २।
तत्र भिल्ला मया दृष्टाः पर्वताग्रे धनुर्भृतः ।
चतुर्भुजा मूलफलैर्भक्ष्यैर्निर्वाहितक्लमाः ३।
तदा मे मनसि क्षिप्रं संशयः सुमहानभूत् ।
चतुर्भुजाः किमेते वै धनुर्बाणधरा नराः ४।
वैकुंठवासिनां रूपं दृश्यते विजितात्मनाम् ।
कथमेतैरुपालब्धं ब्रह्माद्यैरपि दुर्ल्लभम् ५।
शंखचक्रगदाशार्ङ्गपद्मोल्लसितपाणयः ।
वनमालापरीतांगा विष्णुभक्ता इवांतिके ६।
संशयाविष्टचित्तेन मया पृष्टं तदा नृप ।
यूयं के बत युष्माभिर्लब्धं चातुर्भुजं कथम् ७।
तदा तैर्बहु हास्यं तु कृत्वा मां प्रतिभाषितम् ।
ब्राह्मणोऽयं न जानाति पिंडमाहात्म्यमद्भुतम् ८।
इति श्रुत्वाऽवदं चाहं कः पिंडः कस्य दीयते ।
तन्मम ब्रूत धर्मिष्ठाश्चतुर्भुजशरीरिणः ९।
तदा मद्वाक्यमाकर्ण्य कथितं तैर्महात्मभिः ।
सर्वं तत्र तु यद्वृत्तं चतुर्भुजभवादिकम् १०।
किराता ऊचुः।
शृणु ब्राह्मण वृत्तांतमस्माकं पृथुकः शिशुः ।
नित्यं जंबूफलादीनि भक्षयन्क्रीडया चरन् ११।
एकदा रममाणस्तु गिरिशृंगं मनोरमम् ।
समारुरोह शिशुभिः समंतात्परिवारितः १२।
तदा तत्र ददर्शाहं देवायतनमद्भुतम् ।
गारुत्मतादिमणिभिः खचितं स्वर्णभित्तिकम् १३।
स्वकांत्यातिमिरश्रेणीं दारयद्रविवद्भृशम् ।
दृष्ट्वा विस्मयमापेदे किमिदं कस्य वै गृहम् १४।
गत्वा विलोकयामीति किमिदं महतां पदम् ।
इति संचिंत्य गेहांतर्जगाम बहुभाग्यतः १५।
ददर्श तत्र देवेशं सुरासुरनमस्कृतम् ।
किरीटहारकेयूरग्रैवेयाद्यैर्विराजितम् १६।
मनोहरावतंसौ च धारयंतं सुनिर्मलौ ।
पादपद्मे तुलसिका गंधमत्तषडंघ्रिके १७।
शंखचक्रगदाशार्ङ्ग पद्माद्यैर्मूर्तिसंयुतैः ।
उपासितांघ्रिं श्रीमूर्तिं नारदाद्यैः सुसेवितम् १८।
केचिद्गायंति नृत्यंति हसंति परमाद्भुतम् ।
प्रीणयंति महाराजं सर्वलोकैकवंदितम् १९।
हरिं वीक्ष्य मदीयोर्भस्तत्र संजग्मिवान्मुने ।
देवास्तत्र विधायोच्चैः पूजां धूपादिसंयताम् २०।
नैवेद्यं श्रीप्रियस्यार्थे कृत्वा नीराजनं ततः ।
जग्मुः स्वं स्वं गृहं राजन्कृपां पश्यंत आदरात् २१।
महाभाग्यवशात्तेन प्राप्तं नैवेद्यसिक्थकम् ।
पतितं ब्रह्मदेवाद्यैर्दुर्ल्लभं सुरमानुषैः २२।
तद्भक्षणं च कृत्वाथो श्रीमूर्तिमवलोक्य च ।
चतुर्भुजत्वमाप्तं वै पृथुकेन सुशोभिना २३।
तदास्माभिर्गृहं प्राप्तो बालको वीक्षितो मुहुः ।
चतुर्भुजत्वं संप्राप्तः शंखचक्रादिधारकः २४।
अस्माभिः पृष्टमेतस्य किमेतज्जातमद्भुतम् ।
तदा प्रोवाच नः सर्वान्बालकः परमाद्भुतम् २५।
शिखराग्रे गतः पूर्वं तत्र दृष्टः सुरेश्वरः ।
तत्र नैवेद्यसिक्थं तु मया प्राप्तं मनोहरम् २६।
तस्य भक्षणमात्रेण कारणेन तु सांप्रतम् ।
चतुर्भुजत्वं संप्राप्तो विस्मयेन समन्वितः २७।
तच्छ्रुत्वा तु वचस्तस्य सद्यः संप्राप्तविस्मयैः ।
अस्माभिरप्यसौ दृष्टो देवः परमदुर्ल्लभः २८।
अन्नादिकं तत्र भुक्तं सर्वस्वादसमन्वितम् ।
वयं चतुर्भुजा जाता देवस्य कृपया पुनः ।
गत्वा त्वमपि देवस्य दर्शनं कुरु सत्तम २९।
भुक्त्वा तत्रान्नसिक्थं तु भव विप्र चतुर्भुजः ।
त्वया पृष्टं यदाश्चर्यं तदुक्तं वाडवर्षभ ३०।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे ब्राह्मणोपदेशोनामाष्टादशोऽध्यायः १८ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 19
ब्राह्मण उवाच।
इति श्रुत्वा तु तद्वाक्यं भिल्लानामहमद्भुतम् ।
अत्याश्चर्यमिदं मत्वा प्रहृष्टोऽभवमित्युत १।
गंगासागरसंयोगे स्नात्वा पुण्यकलेवरः ।
शृंगमारुरुहे तत्र मणिमाणिक्यचित्रितम् २।
तत्रापश्यं महाराज देवं देवादिवंदितम् ।
नमस्कृत्वा कृतार्थोऽहं जातोन्नप्राशनेन च ३।
चतुर्भुजत्वं संप्राप्तः शंखचक्रादिचिह्नितम् ।
पुरुषोत्तमदर्शनेन न पुनर्गर्भमाविशम् ४।
राजंस्त्वमपि तत्राशु गच्छ नीलाभिधं गिरिम् ।
कृतार्थं कुरु चात्मानं गर्भदुःखविवर्जितम् ५।
इत्याकर्ण्य वचस्तस्य वाडवाग्र्यस्य धीमतः ।
पप्रच्छ हृष्टगात्रस्तु तीर्थयात्राविधिं मुनिम् ६।
राजोवाच।
साधु विप्राग्र्य हे साधो त्वया प्रोक्तं ममानघ ।
पुरुषोत्तममाहात्म्यं शृण्वतां पापनाशनम् ७।
ब्रूहि तत्तीर्थयात्रायां विधिं श्रुतिसमन्वितम् ।
विधिना केन संपूर्ण फलप्राप्तिर्नृणां भवेत् ८।
ब्राह्मण उवाच।
शृणु राजन्प्रवक्ष्यामि तीर्थयात्राविधिं शुभम् ।
येन संप्राप्यते देवः सुरासुरनमस्कृतः ९।
वलीपलितदेहो वा यौवनेनान्वितोऽपि वा ।
ज्ञात्वा मृत्युमनिस्तीर्यं हरिं शरणमाव्रजेत् १०।
तत्कीर्तने तच्छ्रवणे वंदने तस्य पूजने ।
मतिरेव प्रकर्तव्या नान्यत्र वनितादिषु ११।
सर्वं नश्वरमालोक्य क्षणस्थायि सुदुःखदम् ।
जन्ममृत्युजरातीतं भक्तिवल्लभमच्युतम् १२।
क्रोधात्कामाद्भयाद्द्वेषाल्लोभाद्दंभान्नरः पुनः ।
यथाकथंचिद्विभजन्न स दुःखं समश्नुते १३।
स हरिर्जायते साधुसंगमात्पापवर्जितात् ।
येषां कृपातः पुरुषा भवंत्यसुखवर्जिताः १४।
ते साधवः शांतरागाः कामलोभविवर्जिताः ।
ब्रुवंति यन्महाराज तत्संसारनिवर्तकम् १५।
तीर्थेषु लभ्यते साधू रामचंद्र परायणः ।
यद्दर्शनं नृणां पापराशिदाहाशुशुक्षणिः १६।
तस्मात्तीर्थेषु गंतव्यं नरैः संसारभीरुभिः ।
पुण्योदकेषु सततं साधुश्रेणिविराजिषु १७।
तानि तीर्थानि विधिना दृष्टानि प्रहरंत्यघम् ।
तं विधिं नृपशार्दूल कुरुष्व श्रुतिगोचरम् १८।
विरागं जनयेत्पूर्वं कलत्रादि कुटुंबके ।
असत्यभूतं तज्ज्ञात्वा हरिं तु मनसा स्मरेत् १९।
क्रोशमात्रं ततो गत्वा रामरामेति च ब्रुवन् ।
तत्र तीर्थादिषु स्नात्वा क्षौरं कुर्याद्विधानवित् २०।
मनुष्याणां च पापानि तीर्थानि प्रति गच्छताम् ।
केशानाश्रित्य तिष्ठंति तस्माद्वपनमाचरेत् २१।
ततो दंडं तु निर्ग्रन्थिं कमंडलुमथाजिनम् ।
बिभृयाल्लोभनिर्मुक्तस्तीर्थवेषधरो नरः २२।
विधिना गच्छतां नॄणां फलावाप्तिर्विशेषतः ।
तस्मात्सर्वप्रयत्नेन तीर्थयात्राविधिं चरेत् २३।
यस्य हस्तौ च पादौ च मनश्चैव सुसंहितम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते २४।
हरेकृष्ण हरेकृष्ण भक्तवत्सल गोपते ।
शरण्य भगवन्विष्णो मां पाहि बहुसंसृतेः २५।
इति ब्रुवन्रसनया मनसा च हरिं स्मरन् ।
पादचारी गतिं कुर्यात्तीर्थं प्रति महोदयः २६।
यानेन गच्छन्पुरुषः समभागफलं लभेत् ।
उपानद्भ्यां चतुर्थांशं गोयाने गोवधादिकम् २७।
व्यवहर्ता तृतीयांशं सेवयाष्टमभागभाक् ।
अनिच्छया व्रजंस्तत्र तीर्थमर्धफलं लभेत् २८।
यथायथं प्रकर्तव्या तीर्थानामभियात्रिका ।
पापक्षयो भवत्येव विधिदृष्ट्या विशेषतः २९।
तत्र साधून्नमस्कुर्यात्पादवंदनसेवनैः ।
तद्द्वारा हरिभक्तिर्हि प्राप्यते पुरुषोत्तमे ३०।
इति तीर्थविधिः प्रोक्तः समासेन न विस्तरात् ।
एवं विधिं समाश्रित्य गच्छ त्वं पुरुषोत्तमम् ३१।
तुभ्यं तुष्टो महाराज दास्यते भक्तिमच्युतः ।
यथा संसारनिर्वाहः क्षणादेव भविष्यति ३२।
तीर्थयात्राविधिं श्रुत्वा सर्वपातकनाशनम् ।
मुच्यते सर्वपापेभ्य उग्रेभ्यः पुरुषर्षभ ३३।
सुमतिरुवाच ।
इति वाक्यं समाकर्ण्य ववंदे चरणौ महान् ।
तत्तीर्थदर्शनौत्सुक्य विह्वलीकृतमानसः ३४।
आदिदेश निजामात्यं मंत्रवित्तममुत्तमम् ।
तीर्थयात्रेच्छया सर्वान्सह नेतुं मनो दधत् ३५।
मंत्रिन्पौरजनान्सर्वानादिश त्वं ममाज्ञया ।
पुरुषोत्तमपादाब्जदर्शनप्रीतिहेतवे ३६।
ये मदीये पुरे लोका ये च मद्वाक्यकारकाः ।
सर्वे निर्यांतु मत्पुर्या मया सह नरोत्तमाः ३७।
ये तु मद्वाक्यमुल्लंघ्य स्थास्यंति पुरुषा गृहे ।
ते दंड्या यमदंडेन पापिनोऽधर्महेतवः ३८।
किं तेन सुतवृंदेन बांधवैः किं सुदुर्नयैः ।
यैर्नदृष्टः स्वचक्षुर्भ्यां पुण्यदः पुरुषोत्तमः ३९।
सूकरीयूथवत्तेषां प्रसूतिर्विट्प्रभक्षिका ।
येषां पुत्राश्च पौत्रा वा हरिं न शरणं गताः ४०।
यो देवो नाममात्रेण सर्वान्पावयितुं क्षमः ।
तं नमस्कुरुत क्षिप्रं मदीयाः प्रकृतिव्रजाः ४१।
इति वाक्यं मनोहारि भगवद्गुणगुंफितम् ।
प्रजहर्ष महामात्य उत्तमः सत्यनामधृक् ४२।
हस्तिनं वरमारोप्य पटहेन व्यघोषयत् ।
यदादिष्टं नृपेणेह तीर्थयात्रां समिच्छता ४३।
गच्छंतु त्वरिता लोका राज्ञा सह महागिरिम् ।
दृश्यतां पापसंहारी पुरुषोत्तमनामधृक् ४४।
क्रियतां सर्वसंसारसागरो गोष्पदं पुनः ।
भूष्यतां शंखचक्रादिचिह्नैः स्वस्व तनुर्नरैः ४५।
इत्यादिघोषयामास राज्ञादिष्टं यदद्भुतम् ।
सचिवो रघुनाथांघ्रि ध्याननिर्वारितश्रमः ४६।
तच्छ्रुत्वा ताः प्रजाः सर्वा आनंदरससंप्लुताः ।
मनो दधुः स्वनिस्तारे पुरुषोत्तमदर्शनात् ४७।
निर्ययुर्ब्राह्मणास्तत्र शिष्यैः सह सुवेषिणः ।
आशिषं वरदानाढ्यां ददतो भूमिपं प्रति ४८।
क्षत्त्रिया धन्विनो वीरा वैश्या वस्तुक्रयाञ्चिताः ।
शूद्राः संसारनिस्तारहर्षित स्वीयविग्रहाः ४९।
रजकाश्चर्मकाः क्षौद्राः किराता भित्तिकारकाः ।
सूचीवृत्त्या च जीवंतस्तांबूलक्रयकारकाः ५०।
तालवाद्यधरा ये च ये च रंगोपजीविनः ।
तैलविक्रयिणश्चैव वस्त्रविक्रयिणस्तथा ५१।
सूता वदंतः पौराणीं वार्तां हर्षसमन्विताः ।
मागधा बंदिनस्तत्र निर्गता भूमिपाज्ञया ५२।
भिषग्वृत्त्या च जीवंतस्तथा पाशककोविदाः ।
पाकस्वादुरसाभिज्ञा हास्यवाक्यानुरंजकाः ५३।
ऐंद्रजालिकविद्याध्रास्तथा वार्तासुकोविदाः ।
प्रशंसंतो महाराजं निर्ययुः पुरमध्यतः ५४।
राजापि तत्र निर्वर्त्य प्रातःसंध्यादिकाः क्रियाः ।
ब्राह्मणं तापसश्रेष्ठमानिनाय सुनिर्मलम् ५५।
तदाज्ञया महाराजो निर्जगाम पुराद्बहिः ।
लोकैरनुगतो राजा बभौ चंद्र इवोडुभिः ५६।
क्रोशमात्रं स गत्वाथ क्षौरं कृत्वा विधानतः ।
दंडं कमंडलुं बिभ्रन्मृगचर्म तथा शुभम् ५७।
शुभवेषेण संयुक्तो हरिध्यानपरायणः ।
कामक्रोधादिरहितं मनो बिभ्रन्महायशाः ५८।
तदा दुंदुभयो भेर्य आनकाः पणवास्तथा ।
शंखवीणादिकाश्चैवाध्मातास्तद्वादकैर्मुहुः ५९।
जय देवेश दुःखघ्न पुरुषोत्तमसंज्ञित ।
दर्शयस्व तनुं मह्यं वदंतो निर्ययुर्जनाः ६०।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रत्नग्रीवस्य तीर्थप्रयाणंनामैकोनविंशोऽध्यायः १९ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 20
सुमतिरुवाच।
अथ प्रयाते भूपाले सर्वलोकसमन्विते ।
महाभागैर्वैष्णवैश्च गायकैः कृष्णकीर्तनम् १।
शुश्रावासौ महाराजो मार्गे गोविंदकीर्तनम् ।
जय माधव भक्तानां शरण्य पुरुषोत्तम २।
मार्गे तीर्थान्यनेकानि कुर्वन्पश्यन्महोदयम् ।
तापसब्राह्मणात्तेषां महिमानमथा शृणोत् ३।
विचित्रविष्णुवार्ताभिर्विनोदितमना नृपः ।
मार्गेमार्गे महाविष्णुं गापयामास गायकान् ४।
दीनांधकृपणानां च पंगूनां वासनोचितम् ।
दानं ददौ महाराजो बुद्धिमान्विजितेंद्रियः ५।
अनेकतीर्थविरजमात्मानं भव्यतां गतम् ।
कुर्वन्ययौ स्वीयलोकैर्हरिध्यानपरायणः ६।
नृपो गच्छन्ददर्शाग्रे नदीं पापप्रणाशिनीम् ।
चक्रांकितग्रावयुतां मुनिमानस निर्मलाम् ७।
अनेकमुनिवृंदानां बहुश्रेणिविराजिताम् ।
सारसादिपतत्रीणां कूजितैरुपशोभिताम् ८।
दृष्ट्वा पप्रच्छ विप्राग्र्यं तापसं धर्मकोविदम् ।
अनेकतीर्थमाहात्म्य विशेषज्ञानजृंभितम् ९।
स्वामिन्केयं नदी पुण्या मुनिवृन्दनिषेविता ।
करोति मम चित्तस्य प्रमोदभरनिर्भरम् १०।
इति श्रुत्वा वचस्तस्य राजराजस्य धीमतः ।
वक्तुं प्रचक्रमे विद्वांस्तीर्थमाहात्म्यमुत्तमम् ११।
ब्राह्मण उवाच।
गंडकीयं नदी राजन्सुरासुरनिषेविता ।
पुण्योदकपरीवाह हतपातकसंचया १२।
दर्शनान्मानसं पापं स्पर्शनात्कर्मजं दहेत् ।
वाचिकं स्वीय तोयस्य पानतः पापसंचयम् १३।
पुरा दृष्ट्वा प्रजानाथः प्रजाः सर्वा विपावनीः ।
स्वगंडविप्रुषोनेक पापघ्नीं सृष्टवानिमाम् १४।
एनां नदीं ये पुण्योदां स्पृशंति सुतरंगिणीम् ।
ते गर्भभाजो नैव स्युरपि पापकृतो नराः १५।
अस्यां भवा ये चाश्मानश्चक्रचिह्नैरलंकृताः ।
ते साक्षाद्भगवंतो हि स्वस्वरूपधराः पराः १६।
शिलां संपूजयेद्यस्तु नित्यं चक्रयुतां नरः ।
न जातु स जनन्या वै जठरं समुपाविशेत् १७।
पूजयेद्यो नरो धीमाञ्छालग्रामशिलां वराम् ।
तेनाचारवता भाव्यं दंभलोभवियोगिना १८।
परदार परद्रव्यविमुखेन नरेण हि ।
पूजनीयः प्रयत्नेन शालग्रामः सचक्रकः १९।
द्वारवत्यां भवं चक्रं शिला वै गंडकीभवा ।
पुंसां क्षणाद्धरत्येव पापं जन्मशतार्जितम् २०।
अपि पापसहस्राणां कर्ता तावन्नरो भवेत् ।
शालग्रामशिलातोयं पीत्वा पूतो भवेत्क्षणात् २१।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वेदपथि स्थितः ।
शालग्रामं पूजयित्वा गृहस्थो मोक्षमाप्नुयात् २२।
न जातु चित्स्त्रिया कार्यं शालग्रामस्य पूजनम् ।
भर्तृहीनाथ सुभगा स्वर्गलोकहितैषिणी २३।
मोहात्स्पृष्ट्वापि महिला जन्मशीलगुणान्विता ।
हित्वा पुण्यसमूहं सा सत्वरं नरकं व्रजेत् २४।
स्त्रीपाणिमुक्तपुष्पाणि शालग्रामशिलोपरि ।
पवेरधिकपातानि वदंति ब्राह्मणोत्तमाः २५।
चंदनं विषसंकाशं कुसुमं वज्रसंनिभम् ।
नैवेद्यं कालकूटाभं भवेद्भगवतः कृतम् २६।
तस्मात्सर्वात्मना त्याज्यं स्त्रिया स्पर्शः शिलोपरि ।
कुर्वती याति नरकं यावदिंद्राश्चतुर्दश २७।
अपि पापसमाचारो ब्रह्महत्यायुतोऽपि वा ।
शालग्रामशिलातोयं पीत्वा याति परां गतिम् २८।
तुलसीचंदनं वारि शंखो घंटाथ चक्रकम् ।
शिला ताम्रस्य पात्रं तु विष्णोर्नामपदामृतम् २९।
पदामृतं तु नवभिः पापराशिप्रदाहकम् ।
वदंति मुनयः शांताः सर्वशास्त्रार्थकोविदाः ३०।
सर्वतीर्थपरिस्नानात्सर्वक्रतुसमर्चनात् ।
पुण्यं भवति यद्राजन्बिंदौ बिंदौ तदद्भुतम् ३१।
शालग्रामशिला यत्र पूज्यते पुरुषोत्तमैः ।
तत्र योजनमात्रं तु तीर्थकोटिसमन्वितम् ३२।
शालग्रामाः समाः पूज्याः समेषु द्वितयं नहि ।
विषमा एव संपूज्या विषमेषु त्रयं नहि ३३।
द्वारावती भवं चक्रं तथा वै गंडकीभवम् ।
उभयोः संगमो यत्र तत्र गंगा समुद्रगा ३४।
रूक्षाः कुर्वंति पुरुषा नायुः श्रीबलवर्जितान् ।
तस्मात्स्निग्धा मनोहारि रूपिण्यो ददति श्रियम् ३५।
आयुष्कामो नरो यस्तु धनकामो हि यः पुमान् ।
पूजयन्सर्वमाप्नोति पारलौकिकमैहिकम् ३६।
प्राणांतकाले पुंसस्तु भवेद्भाग्यवतो नृप ।
वाचि नाम हरेः पुण्यं शिला हृदि तदंतिके ३७।
गच्छत्सु प्राणमार्गेषु यस्य विश्रंभतोऽपि चेत् ।
शालग्रामशिला स्फूर्तिस्तस्य मुक्तिर्न संशयः ३८।
पुरा भगवता प्रोक्तमंबरीषाय धीमते ।
ब्राह्मणा न्यासिनः स्निग्धाः शालग्रामशिलास्तथा ३९।
स्वरूपत्रितयं मह्यमेतद्धि क्षितिमंडले ।
पापिनां पापनिर्हारं कर्तुं धृतमुदं च ता ४०।
निंदंति पापिनो ये वा शालग्रामशिलां सकृत् ।
कुंभीपाके पचंत्याशु यावदाभूतसंप्लवम् ४१।
पूजां समुद्यतं कर्तुं यो वारयति मूढधीः ।
तस्य मातापिताबंधुवर्गा नरकभागिनः ४२।
यो वा कथयति प्रेष्ठं शालग्रामार्चनं कुरु ।
सकृतार्थो नयत्याशु वैकुंठं स्वस्य पूर्वजान् ४३।
अत्रैवोदाहरंतीममितिहासं पुरातनम् ।
मुनयो वीतरागाश्च कामक्रोधविवर्जिताः ४४।
पुरा कीकटसंज्ञे वै देशे धर्मविवर्जिते ।
आसीत्पुल्कसजातीयो नरः शबरसंज्ञितः ४५।
नित्यं जंतुवधोद्युक्तः शरासनधरो मुहुः ।
तीर्थं प्रति यियासूनां बलाद्धरति जीवितम् ४६।
अनेकप्राणिहत्याकृत्परस्वे निरतः सदा ।
सदा रागादिसंयुक्तः कामक्रोधादिसंयुतः ४७।
विचरत्यनिशं भीमे वने प्राणिवधंकरः ।
विषसंसक्तबाणाग्र रूढचापगुणोद्धुरः ४८।
सैकदा पर्यटन्व्याधः प्राणिमात्रभयंकरः ।
कालं प्राप्तं न जानाति समीपेऽप्युग्रमानसः ४९।
यमदूतास्तु संप्राप्ताः पाशमुद्गरपाणयः ।
ताम्रकेशा दीर्घनखा लंबदंष्ट्रा भयानकाः ५०।
श्यामा लोहस्यनिगडान्बिभ्रतो मोहकारकाः ।
बध्नंतु पापिनं ह्येनं प्राणिमात्रभयंकरम् ५१।
कदाचिन्मनसा नायं प्राणिमात्रोपकारकः ।
परदार परद्रव्य परद्रोहपरायणः ५२।
एतस्य जिह्वां महतीमहं निष्कासयाम्यतः ।
एको वदति चैतस्य चक्षुरुत्पाटयाम्यहम् ५३।
एको वदति चैतस्य करौ कृंतामि पापिनः ।
अन्यो वदत्यहं कर्णौ कर्तयामि दुरात्मनः ५४।
एवं वदंतः सुभृशं दन्तैर्दन्तनिपीडकाः ।
आगत्य तं दुरात्मानं सायुधास्तस्थुरुन्मदाः ५५।
एको दूतस्तदा सर्परूपं धृत्वादशत्पदे ।
स दष्टमात्रः सहसा गतासुः पर्यजायत ५६।
तदा तं लोहपाशेन बद्ध्वा ते यमकिंकराः ।
कशाभिस्ताडयामासुर्मुद्गरैः प्राहरन्क्रुधा ५७।
अहो दुष्ट दुरात्मंस्त्वं कदाचिन्नाचरः शुभम् ।
मनसापि यतस्त्वां वै क्षेप्स्यामो रौरवेषु च ५८।
त्वङ्मांसं वायसा रौद्रा भक्षयिष्यंति वै क्रुधा ।
आजन्मतस्तु भवता न कृतं हरिसेवनम् ५९।
त्वया कलत्रपुत्राद्या द्रोहं कृत्वा सुपोषिताः ।
न कदाचित्स्मृतो देवः पापहारी जनार्दनः ६०।
तस्मात्त्वां लोहशंकौ वा कुंभीपाके च रौरवे ।
धर्मराजाज्ञया सर्वे नेष्यामो बहुताडनैः ६१।
एवमुक्त्वा यदानेतुं समैच्छन्यमकिंकराः ।
तावत्प्राप्तो महाविष्णुचरणाब्जपरायणः ६२।
यमदूतास्तदा दृष्टा वैष्णवेन महात्मना ।
पाशमुद्गरदंडादिदुष्टायुधधरा गणाः ६३।
पुल्कसं लोहनिगडैर्बद्ध्वा यातुं समुद्यताः ।
बन्ध बन्ध ग्रसच्छिन्धि भिन्धि भिन्धीति वादिनः ६४।
तदा कृपालुस्तं प्रेक्ष्य पद्मनाभपरायणः ।
अत्यंतकृपयायुक्तं चेतस्तत्र तदाकरोत् ६५।
असौ महादुष्ट पीडां मा यातु मम सन्निधौ ।
मोचयाम्यहमद्यैव यमदूतेभ्य एव च ६६।
इति कृत्वा मतिं तस्मिन्कृपायुक्तो मुनीश्वरः ।
शालग्रामशिलां हस्ते गृहीत्वास्य गतोंऽतिके ६७।
तस्य पादोदकं पुण्यं तुलसीदलमिश्रितम् ।
मुखे विनिक्षिपन्कर्णे रामनाम जजाप ह ६८।
तुलसीं मस्तके तस्य धारयामास वैष्णवः ।
शिलां हृदि महाविष्णोर्धृत्वा प्राह स वैष्णवः ६९।
गच्छंतु यमदूता वै यातनासु परायणाः ।
शालग्रामशिलास्पर्शो दहतात्पातकं महत् ७०।
इत्युक्तवति तस्मिन्वै गणा विष्णोर्महाद्भुताः ।
आययुस्तस्य सविधे शिलास्पर्शाद्गतांहसः ७१।
पीतवस्त्राः शंखचक्रगदापद्मविराजिताः ।
आगत्य मोचयामासुर्लोहपाशाद्दुरासदात् ७२।
मोचयित्वा महापापकारकं पुल्कसं नरम् ।
ऊचुः किमर्थं बद्धोऽयं वैष्णवः पूज्यदेहभृत् ७३।
कस्याज्ञाकारका यूयं यदधर्मप्रकारकाः ।
मुंचंतु वैष्णवं त्वेनं किमर्थं विधृतो ह्ययम् ७४।
इति वाक्यं समाकर्ण्य जगदुर्यमकिंकराः ।
धर्मराजाज्ञया प्राप्ता नेतुं पापिनमुद्यताः ७५।
नासौ कदाचिन्मनसा प्राणिमात्रोपकारकः ।
प्राणिहत्या महापापकारी दुष्टशरीरभृत् ७६।
नॄन्बहूंस्तीर्थयात्रायां गच्छतोऽसौ व्यलुंठयत् ।
परदाररतो नित्यं सर्वपापाधिकारकः ७७।
तस्मान्नेतुं वयं प्राप्ताः पापिनं पुल्कसं नरम् ।
भवद्भिर्मोचितः कस्मादकस्मादागतैर्भटैः ७८।
विष्णुदूता ऊचुः।
ब्रह्महत्यादिकं पापं प्राणिकोटिवधोद्भवम् ।
शालग्रामशिलास्पर्शः सर्वं दहति तत्क्षणात् ७९।
रामेति नाम यच्छ्रोत्रे विश्रंभादागतं यदि ।
करोति पापसंदाहं तूलं वह्निकणो यथा ८०।
तुलसी मस्तके यस्य शिला हृदि मनोहरा ।
मुखे कर्णेऽथवा राम नाम मुक्तस्तदैव सः ८१।
तस्मादनेन तुलसी मस्तके विधृता पुरा ।
श्रावितं रामनामाशु शिला हृदि सुधारिता ८२।
तस्मात्पापसमूहोऽस्य दग्धः पुण्यकलेवरः ।
यास्यते परमं स्थानं पापिनां यत्सुदुर्ल्लभम् ८३।
वर्षायुतं तत्र भुक्त्वा भोगान्सर्वमनोहरान् ।
भारते जन्म संप्राप्य समाराध्य जगद्गुरुम् ८४।
प्राप्स्यते परमं स्थानं सुरासुरसुदुर्ल्लभम् ।
न ज्ञातो महिमा सम्यक्छिलायाः परमेष्ठिनः ८५।
दृष्टा स्पृष्टार्चिता वापि सर्वपापहरा क्षणात् ।
इत्युक्त्वा विरताः सर्वे महाविष्णोर्गणा मुदा ८६।
याम्यास्ते किंकरा राज्ञे कथयामासुरद्भुतम् ।
वैष्णवो हर्षमापेदे रघुनाथपरायणः ८७।
मुक्तोऽसौ यमपाशाच्च गमिष्यति परं पदम् ।
तदाजगाम विमलं किंकिणीजालमंडितम् ८८।
विमानं देवलोकात्तु मनोहारि महाद्भुतम् ।
तत्रारुह्य गतः स्वर्गं महापुण्यैर्निषेवितम् ८९।
भोगान्भुक्त्वा स विपुलानाजगाम महीतलम् ।
काश्यां जन्म समासाद्य शुचिवाडवसत्कुले ९०।
आराध्य जगतामीशं गतवान्परमं पदम् ।
स पापी साधुसंगत्या शालग्रामशिलां स्पृशन् ९१।
महापीडाविनिर्मुक्तो गतवान्परमं पदम् ।
मया तेऽभिहितं राजन्गंडकीचरितं महत् ९२।
श्रुत्वा विमुच्यते पापैर्भुक्तिं मुक्तिं च विंदति ९३।
इति श्रीपद्मपुराणे पातालखंडे रामाश्वमेधे शेषवात्स्यायनसंवादे गंडकीमाहात्म्यंनाम विंशोऽध्यायः २० ।
खण्डः ५ (पातालखण्डः) — Adhyāya 21
सुमतिरुवाच।
एतन्माहात्म्यमतुलं गंडक्याः कर्णगोचरम् ।
कृत्वा कृतार्थमात्मानममन्यत नृपोत्तमः १।
स्नात्वा तीर्थे पितॄन्सर्वान्संतर्प्य जहृषे महान् ।
शालग्रामशिलापूजां कुर्वन्वाडववाक्यतः २।
चतुर्विंशच्छिलास्तत्र गृहीत्वा स नृपोत्तमः ।
पूजयामास प्रेम्णा च चंदनाद्युपचारकैः ३।
तत्र दानानि दत्त्वा च दीनांधेभ्यो विशेषतः ।
गंतुं प्रचक्रमे राजा पुरुषोत्तममंदिरम् ४।
एवं क्रमेण संप्राप्तो गंगासागरसंगमम् ।
कृत्वाक्षिगोचरं तं च ब्राह्मणं पृष्टवान्मुदा ५।
स्वामिन्वद कियद्दूरे नीलाख्यः पर्वतो महान् ।
पुरुषोत्तमसंवासः सुरासुरनमस्कृतः ६।
तदा श्रुत्वा महद्वाक्यं रत्नग्रीवस्य भूपतेः ।
उवाच विस्मयाविष्टो राजानं प्रति सादरम् ७।
राजन्नेतत्स्थलं नीलपर्वतस्य नमस्कृतम् ।
किमर्थं दृश्यते नैव महापुण्यफलप्रदम् ८।
पुनःपुनरुवाचेदं स्थलं नीलस्य भूभृतः ।
कथं न दृश्यते राजन्पुरुषोत्तमवासभृत् ९।
अत्र स्नातं मया सम्यगत्र भिल्लाक्षिगोचराः ।
अनेनैव पथा राजन्नारूढं पर्वतोपरि १०।
इति तद्वाक्यमाकर्ण्य विव्यथे मानसे नृपः ।
नीलभूधरदर्शाय कुर्वन्नुत्कंठितं मनः ११।
उवाच तत्कथं विप्र दृश्येत पुरुषोत्तमः ।
कथं वा दृश्यते नीलस्तदुपायं वदस्व नः १२।
तदा वाक्यं समाकर्ण्य रत्नग्रीवस्य भूपतेः ।
तापसो ब्राह्मणो वाक्यमुवाच नृप विस्मितः १३।
गंगासागरसंयोगे स्नात्वास्माभिर्महीपते ।
स्थातव्यं तावदेवात्र यावन्नीलो न दृश्यते १४।
गीयते पापहा देवः पुरुषोत्तमसंज्ञितः ।
करिष्यते कृपामाशु भक्तवत्सलनामधृक् १५।
त्यजत्यसौ न वै भक्तान्देवदेवशिरोमणिः ।
अनेके रक्षिता भक्तास्तद्गायस्व महामते १६।
इति वाक्यं समाकर्ण्य राजा व्यथितचेतसा ।
स्नात्वा गंगाब्धिसंयोगे ततोनशनमादधात् १७।
करिष्यति कृपां यर्हि दर्शने पुरुषोत्तमः ।
पूजां कृत्वाशनं कुर्यामन्यथानशनं व्रतम् १८।
इति कृत्वा स नियमं गंगासागररोधसि ।
गायन्हरिगुणग्राममुपवासमथाचरत् १९।
राजोवाच।
जय दीनदयाकरप्रभो जय दुःखापह मङ्गलाह्वय ।
जय भक्तजनार्तिनाशन कृतवर्ष्मञ्जयदुष्टघातक २०।
अंबरीषमथ वीक्ष्य दुःखितं विप्रशापहतसर्वमङ्गलम् ।
धारयन्निजकरे सुदर्शनं संररक्ष जठराधिवासतः २१।
दैत्यराज पितृकारितव्यथः शूलपाशजलवह्निपातनैः ।
श्रीनृसिंहतनुधारिणा त्वया रक्षितः सपदि पश्यतः पितुः २२।
ग्राहवक्त्रपतितांघ्रिमुद्भटं वारणेंद्रमतिदुःखपीडितम् ।
वीक्ष्य साधुकरुणार्द्रमानसस्त्वं गरुत्मति कृतारुहक्रियः २३।
त्यक्तपक्षिपतिरात्तचक्रको वेगकंपयुतमालिकांबरः ।
गीयसे सुभिरमुष्य न क्रतो मोचकः सपदि तद्विनाशकः २४।
यत्रयत्र तव सेवकार्दनं तत्र तत्र बत देहधारिणा ।
पाल्यते च भवता निजः प्रभो पापहारिचरितैर्मनोहरैः २५।
दीननाथ सुरमौलिहीरकाघृष्टपादतल भक्तवल्लभ ।
पापकोटिपरिदाहक प्रभो दर्शयस्व निजदर्शनं मम २६।
पापकृद्यदि जनोयमागतो मानसे तव तथा हि दर्शय ।
तावका वयमघौघनाशनं विस्मृतं नहि सुरासुरार्चित २७।
ये वदंति तव नाम निर्मलं ते तरंति सकलाघसागरम् ।
संस्मृतिर्यदि कृता तदा मया प्राप्यतां सकलदुःखवारक २८।
सुमतिरुवाच।
एवं गायन्गुणान्रात्रौ दिवा वापि महीपतिः ।
क्षणमात्रं न विश्रांतो निद्रामाप न वै सुखम् २९।
गायन्गच्छन्गृणंस्तिष्ठन्वदत्येतदहर्निशम् ।
दर्शयस्व कृपानाथ स्वतनुं पुरुषोत्तम ३०।
एवं राज्ञः पंचदिनं गतं गंगाब्धिसंगमे ।
तदा कृपाब्धिः कृपया चिंतयामास गोपतिः ३१।
असौ राजा मदीयेन गानेन विगताघकः ।
पश्य तान्मामकीं प्रेष्ठां सुरासुरनमस्कृताम् ३२।
इति संचिंत्य भगवान्कृपापूरितमानसः ।
संन्यासिवेषमास्थाय ययौ राज्ञोंऽतिकं विभुः ३३।
तत्र गत्वा महाराज त्रिदंडियतिवेषधृक् ।
भक्तानुकंपया प्राप्तो वीक्षितस्तापसेन हि ३४।
ॐनमो विष्णवेत्युक्त्वा नमश्चक्रे नृपोत्तमः ।
अर्घ्यपाद्यासनैः पूजां चकार हरिमानसः ३५।
उवाच भाग्यमतुलं यद्भवानक्षिगोचरः ।
अतः परं दास्यते मे गोविंदो निजदर्शनम् ३६।
इति श्रुत्वा तु तद्वाक्यं संन्यासी निजगाद तम् ।
राजञ्छृणुष्व कथितं मम वाक्यविनिःसृतम् ३७।
अहं ज्ञानेन जानामि भूतं भव्यं भवच्च यत् ।
तस्मादहं ब्रुवे किंचिच्छृणुष्वैकाग्रमानसः ३८।
श्वो मध्याह्ने हरिर्दाता दर्शनं ब्रह्मदुर्ल्लभम् ।
पंचभिः स्वजनैः साकं यास्यसे परमं पदम् ३९।
त्वममात्यश्च महिला तव तापस वाडवः ।
पुरे तव करंबाख्यः साधुश्च तं तु वायकः ४०।
एतैः पंचभिरेतस्मिन्नीले पर्वतसत्तमे ।
यास्यसे ब्रह्मदेवेंद्र वंदितं सुरपूजितम् ४१।
इत्युक्त्वाऽदृश्यतां प्राप्तो यतिः क्वापि न दृश्यते ।
तदाकर्ण्य नृपो हर्षं प्राप चाशु सविस्मयम् ४२।
राजोवाच।
स्वामिन्कोऽसौ समागत्य संन्यासी मां यदूचिवान् ।
न दृश्यते पुनः कुत्र गतोऽसौ चित्तहर्षदः ४३।
तापस उवाच।
राजंस्तव महाप्रेम्णा कृष्टचित्तः समभ्यगात् ।
पुरुषोत्तमनामायं सर्वपापप्रणाशनः ४४।
श्वोमध्याह्ने तव पुरो भविष्यति महान्गिरिः ।
तमारुह्य हरिं दृष्ट्वा कृतार्थस्त्वं भविष्यसि ४५।
इतिवाक्यसुधापूर नाशितस्वांत संज्वरः ।
हर्षं यमाप स नृपो ब्रह्मापि न हि वेत्ति तम् ४६।
तदा दुंदुभयो नेदुर्वीणापणवगोमुखाः ।
महानंदस्तदा ह्यासीद्राजराजस्य चेतसि ४७।
गायन्हरिं क्षणं तिष्ठन्हसञ्जल्पन्ब्रुवन्नमन् ।
आनंदं प्राप सुघनं सर्वसंतापनाशनम् ४८।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे संन्यासिदर्शनंनाम एकविंशोऽध्यायः २१ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 22
सुमतिरुवाच।
अथ सर्वं दिनं नीत्वा हरिस्मरणकीर्तनैः ।
रात्रौ सुष्वाप गंगाया रोधस्युरुफलप्रदे १।
ददर्श स्वप्नमध्ये तु स स्वात्मानं चतुर्भुजम् ।
शंखचक्रगदापद्मशार्ङ्गकोदंडधारिणम् २।
नृत्यंतं पुरुषोत्तमस्य पुरतः शर्वादि देवैः सह ।
श्रीमद्भिः स्वतनूयुतैररिगदांबूत्थाब्जहेत्यादिभिः ।
विष्वक्सेनवरैर्गणैः सुतनुभिः श्रीशंसदोपासितं ।
दृष्ट्वा विस्मयमाप लोकविषयं हर्षं तथात्यद्भुतम् ३।
ददतं मनसोऽभीष्टं पुरुषोत्तमसंज्ञितम् ।
आत्मानं च कृपापात्रममन्यत महामतिः ४।
इत्येवं स्वप्नविषये ददर्श नृपसत्तमः ।
प्रातः प्रबुद्धो विप्राय जगाद स्वप्नमीक्षितम् ५।
तच्छ्रुत्वा वाडवो धीमान्कथयामास विस्मितः ।
राजंस्त्वयासौ दृष्टो यः पुरुषोत्तमसंज्ञितः ६।
दास्यते शंखचक्रादिचिह्नितां स्वतनुं हरिः ।
इति श्रुत्वा तु तद्वाक्यं रत्नग्रीवो महामनाः ७।
दापयामास दानानि दीनानां मानसोचितम् ।
स्नात्वा गंगाब्धिसंयोगे तर्पयित्वा पितॄन्सुरान् ८।
गायन्हरिगुणग्रामं प्रत्यैक्षत च दर्शनम् ।
ततो मध्याह्नसमये दिविदुंदुभयो मुहुः ९।
जघ्नुः सुरकराघात बहुशब्दसुशब्दिताः ।
अकस्मात्पुष्पवृष्टिश्च बभूव नृपमस्तके १०।
धन्योसि नृपवर्यस्त्वं नीलं पश्याक्षिगोचरम् ११।
शृणोतीति यदा वाक्यं नृपो देवप्रणोदितम् ।
तदा स सूर्यकोटीनामधिकांति धरोद्भुतः १२।
राज्ञोऽक्षिगोचरो जातो नीलनामा महागिरिः ।
राजतैः कानकैः शृंगैः समंतात्परिराजितः १३।
किमग्निः प्रज्वलत्येष द्वितीयः किमु भास्करः ।
किमयं वैद्युतः पुंजो ह्यकस्मात्स्थिरकांतिधृक् १४।
तापस ब्राह्मणो दृष्ट्वा नीलप्रस्थं सुशोभितम् ।
राज्ञे निवेदयामास एष पुण्यो महागिरिः १५।
तच्छ्रुत्वा नृपतिश्रेष्ठः शिरसा प्रणनाम ह ।
धन्योऽस्मि कृतकृत्योऽस्मि नीलो मे दृष्टिगोचरः १६।
अमात्यो राजपत्नी च करम्बस्तंतुवायकः ।
नीलदर्शनसंहृष्टा बभूवुः पुरुषर्षभ १७।
पंचैते विजये काले नीलपर्वतमारुहन् ।
महादुंदुभिनिर्घोषाञ्च्छृण्वन्तो ह्यमरैः कृतान् १८।
तस्योपरितने शृंगे चित्रपादपराजिते ।
ददर्श हाटकाबद्धं देवालयमनुत्तमम् १९।
ब्रह्मागत्य सदा पूजां करोति परमेष्ठिनः ।
नैवेद्यं कुरुते यत्र हरिसंतोषकारकम् २०।
दृष्ट्वाथ तत्र विमलं देवायतनमुत्तमम् ।
प्रविवेश परीवारैः पंचभिः सह संवृतः २१।
तत्र दृष्ट्वा जातरूपे महामणिविचित्रिते ।
सिंहासने विराजंतं चतुर्भुजमनोहरम् २२।
चंड प्रचंड विजय जयादिभिरुपासितम् ।
प्रणनाम सपत्नीको राजा सेवकसंयुतः २३।
प्रणम्य परमात्मानं महाराजः सुरोत्तमम् ।
स्नापयामास विधिवद्वेदोक्तैः स्नानमंत्रकैः २४।
अर्घ्यपाद्यादिकं चक्रे प्रीतेन मनसा नृपः ।
चंदनेन विलिप्यैनं सुवस्त्रे विनिवेद्य च २५।
धूपमारार्तिकं कृत्वा सर्वस्वादुमनोहरम् ।
नैवेद्यं भगवन्मूर्त्यै न्यवेदयदथो नृपः २६।
प्रणम्य च स्तुतिं चक्रे तापसब्राह्मणेन च ।
यथामतिगुणग्रामगुंफितस्तोत्रसंचयैः २७।
राजोवाच।
एकस्त्वं पुरुषः साक्षाद्भगवान्प्रकृतेः परः ।
कार्यकारणतो भिन्नो महत्तत्त्वादिपूजितः २८।
त्वन्नाभिकमलाज्जज्ञे ब्रह्मा सृष्टिविचक्षणः ।
तथा संहारकर्ता च रुद्रस्त्वन्नेत्रसंभवः २९।
त्वयाज्ञप्तः करोत्यस्य विश्वस्य परिचेष्टितम् ।
त्वत्तो जातं पुराणाद्यज्जगत्स्थास्नु चरिष्णु च ३०।
चेतनाशक्तिमाविश्य त्वमेनं चेतयस्यहो ।
तव जन्म तु नास्त्येव नांतस्तव जगत्पते ।
वृद्धिक्षयपरीणामास्त्वयि संत्येव नो विभो ३१।
तथापि भक्तरक्षार्थं धर्मस्थापनहेतवे ।
करोषि जन्मकर्माणि ह्यनुरूपगुणानि च ३२।
त्वया मात्स्यं वपुर्धृत्वा शंखस्तु निहतोसुरः ।
वेदाः सुरक्षिता ब्रह्मन्महापुरुषपूर्वज ३३।
शेषो न वेत्ति महि ते भारत्यपि महेश्वरी ।
किमुतान्ये महाविष्णो मादृशास्तु कुबुद्धयः ३४।
मनसा त्वां न चाप्नोति वागियं परमेश्वरी ।
तस्मादहं कथं त्वां वै स्तोतुं स्यामीश्वरः प्रभो ३५।
इति स्तुत्वा स शिरसा प्रणाममकरोन्मुहुः ।
गद्गदस्वरसंयुक्तो रोमहर्षांकितांगकः ३६।
इति स्तुत्या प्रहृष्टात्मा भगवान्पुरुषोत्तमः ।
उवाच वचनं सत्यं राजानं प्रति सार्थकम् ३७।
श्रीभगवानुवाच।
तव स्तुत्या प्रहर्षोऽभून्मम राजन्महामते ।
जानीहि त्वं महाराज मां च प्रकृतितः परम् ३८।
नैवेद्यभक्षणं त्वं हि शीघ्रं कुरु मनोहरम् ।
चतुर्भुजत्वमाप्तः सन्गंतासि परमं पदम् ३९।
त्वत्कृत्स्तुतिरत्नेन यो मां स्तोष्यति मानवः ।
तस्यापि दर्शनं दास्ये भुक्तिमुक्तिवरप्रदम् ४०।
इत्येवं वचनं राजा श्रुत्वा भगवतोदितम् ।
नैवेद्यभक्षणं चक्रे चतुर्भिः सह सेवकैः ४१।
ततो विमानं संप्राप्तं किंकिणीजालमंडितम् ।
अप्सरोवृंदसंसेव्यं सर्वभोगसमन्वितम् ४२।
पुरुषोत्तमसंज्ञं च पश्यन्राजा स धार्मिकः ।
ववंदे चरणौ तस्य कृपापात्रकृतात्मकः ४३।
तदाज्ञया विमाने स आरुह्य महिलायुतः ।
जगाम पश्यतस्तस्य दिवि वैकुंठमद्भुतम् ४४।
मंत्री धर्मपरो राज्ञः सर्वधर्मविदुत्तमः ।
ययौ साकं विमानेन ललनावृन्दसेवितः ४५।
तापसब्राह्मणस्तत्र सर्वतीर्थावगाहकः ।
चतुर्भुजत्वं संप्राप्तो ययौ देवैर्विमानिभिः ४६।
करंबोऽपि महाराज गानपुण्येन दर्शनम् ।
प्राप्तो ययौ सुरावासं सर्वदेवादिदुर्ल्लभम् ४७।
सर्वे प्रचलिता विष्णुलोकं परममद्भुतम् ।
चतुर्भुजाः शंखचक्रगदापाथोजधारिणः ४८।
सर्वे मेघश्रियः शुद्धा लसदंभोजपाणयः ।
हारकेयूरकटकैर्भूषितांगा ययुर्दिवम् ४९।
तद्विमानावलीर्दृष्ट्वा लोकैः प्रकृतिभिस्तदा ।
दुंदुभीनां तु निर्घोषस्तैः कृतः कर्णगोचरः ५०।
तदैको ब्राह्मणो ह्यासीद्विष्णुपादाब्जवल्लभः ।
गतस्तद्विरहाकृष्टचेता जातश्चतुर्भुजः ५१।
तच्चित्रं वीक्ष्य लोकास्ते प्रशंसंतो महोदयम् ।
गंगासागरसंयोगे स्नात्वाऽगुस्तं पुरं प्रति ५२।
अहो भाग्यं भूमिपते रत्नग्रीवस्य सन्मतेः ।
जगामानेन देहेन तद्विष्णोः परमं पदम् ५३।
राजन्नसौ नीलगिरिः पुरुषोत्तमसत्कृतः ।
यं वीक्ष्यैव व्रजंत्यद्धा वैकुंठं परमायनम् ५४।
एतन्नीलस्य माहात्म्यं यः शृणोति स भाग्यवान् ।
यः श्रावयति लोकान्वै तौ गच्छेतां परं पदम् ५५।
एतच्छ्रुत्वा तु दुःस्वप्नो नश्यति स्मृतिमात्रतः ।
प्रांते संसारनिस्तारं ददाति पुरुषोत्तमः ५६।
योऽसौ नीलाधिवासी च स रामः पुरुषोत्तमः ।
सीतासाक्षान्महालक्ष्मीः सर्वकारणकारणम् ५७।
हयमेधं चरित्वा स लोकान्वै पावयिष्यति ।
यन्नामब्रह्महत्यायाः प्रायश्चित्ते प्रदिश्यते ५८।
इदानीं त्वद्धयः प्राप्तो नीलेपर्वतसत्तमे ।
पुरुषोत्तमदेवं त्वं नमस्कुरु महामते ५९।
तत्र निष्पापिनो भूत्वा यास्यामः परमं पदम् ।
यस्य प्रसादाद्बहवो निस्तीर्णा भवसागरात् ६०।
एवं प्रवदतस्तस्य प्राप्तोऽश्वो नीलपर्वतम् ।
वायुवेगेन पृथिवीं कुर्वन्संक्षुण्णमंडलाम् ६१।
तदा राजापि तत्पृष्ठचारी नीलाभिधं गिरिम् ।
प्राप्तो गंगाब्धिसंयोगे स्नात्वागात्पुरुषोत्तमम् ६२।
स्तुत्वा नत्वा च देवेशं सुरासुरनमस्कृतम् ।
जातं कृतार्थमात्मानममन्यत स शत्रुहा ६३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे नीलगिरिमहिमवर्णनंनाम द्वाविंशोऽध्यायः २२ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 23
शेष उवाच।
क्षणं स्थित्वा तृणान्यत्त्वा ययौ वाजी मनोजवः ।
वीरश्रेणीवृतः पत्रं भाले धृत्वा सचामरः १।
शत्रुघ्नेन सुवीरेण लक्ष्मीनिधि नृपेण च ।
पुष्कलेनोग्रवाहेन प्रतापाग्र्येण रक्षितः २।
ययौ पुरीं स चक्रांकां सुबाहुपरिरक्षिताम् ।
अनेकवीरकोटीभी रक्षितोऽनुगतः प्रभो ३।
तदा पुत्रोस्य दमनो मृगयामास्थितो महान् ।
ददर्शाश्वं भालपत्रं चंदनादिकचर्चितम् ४।
विलोक्य सेवकं प्राह कस्याश्वो मेऽक्षिगोचरः ।
भाले पत्रं धृतं किं नु चामरं किंतु शोभनम् ५।
इति राज्ञोवचः श्रुत्वा सेवकः प्रययौ ततः ।
यत्रासौ वर्तते वाजी भालपत्रः सुशोभनः ६।
गृहीत्वा तं केशसंघे रत्नमालाविभूषितम् ।
निनाय चाग्रे भूपस्य सुबाहुकुलधारिणः ७।
स पत्रं वाचयामास सुंदराक्षरशोभितम् ।
अयोध्याधिपतिश्चासीद्राजा दशरथो बली ८।
तस्यात्मजो रामभद्रः सर्वशूरशिरोमणिः ।
नान्योस्ति तत्समः पृथ्व्यां धनुर्धरणविक्रमः ९।
तेनासौ मोचितो वाजी चंदनादिकचर्चितः ।
तं पालयति धर्मात्मा शत्रुघ्नः परवीरहा १०।
ये च शूरा वयं वीरा धनुर्हस्ता इमे वयम् ।
ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम् ११।
तं च मोक्ष्यति शत्रुघ्नः सर्ववीरशिरोमणिः ।
अन्यथा पादयोस्तस्य प्रणतिं यांतु धन्विनः १२।
इत्यभिप्रायमालोक्य जगाद नृपनंदनः ।
राम एव धनुर्धारी न वयं क्षत्त्रियाः स्मृताः १३।
ताते मेऽवस्थिते पृथ्व्यां कोऽयं गर्वो महान्भुवि ।
प्राप्नोतु गर्वस्य फलं मम निर्मुक्तसायकैः १४।
अद्य मे निशिता बाणाः शत्रुघ्नं किंशुकं यथा ।
पुष्पितं विदधत्वद्धा क्षतावृतशरीरकम् १५।
दारयंतु कपोलांश्च सायका मम दंतिनाम् ।
अश्वान्पश्यंतु शतशो रुधिरौघपरिप्लुतान् १६।
पिबंतु योगिनीसंघा रुधिराणि नृमस्तकैः ।
शिवा भवंतु संतुष्टा मद्वैरिक्रव्यभक्षणैः १७।
पश्यंतु सुभटास्तस्य मम बाहुबलं महत् ।
कोदंडदंडनिर्मुक्ताः शरकोटीर्विमुंचतः १८।
इत्थमुक्त्वा महीपस्य तनुजो दमनाभिधः ।
स्वपुरं प्रेषयित्वा तं प्रहृष्टोऽभवदुद्भटः १९।
सेनापतिमुवाचेदं सज्जीकुरु महामते ।
सेनां परिमितां मह्यं वैरिवृंदनिवारणे २०।
सज्जां सेनां विधायाशु संमुखो रणमंडले ।
स्थितवान्या वदत्युग्रस्तावत्प्राप्ता हयानुगाः २१।
क्वासौ हयो महाराज्ञो भालपत्रेण चिह्नितः ।
पप्रच्छुस्ते तु चान्योन्यमतिव्याकुलिता मुहुः २२।
तावद्ददर्श पुरतः प्रतापाग्र्यः परंतपः ।
सज्जीभूतं तु कटकं वीरशब्दनिनादितम् २३।
तत्रावदञ्जनाः केचिन्नीतोऽश्वोऽनेन भूपते ।
अन्यथा संमुखस्तिष्ठेत्कथं वीरो बलानुगः २४।
इत्याकर्ण्य प्रतापाग्र्यः प्रेषयामास सेवकम् ।
स गत्वा तत्र पप्रच्छ कुत्राश्वो रामभूपतेः २५।
केन नीतः कुतो नीतो रामं जानाति नो कुधीः ।
यं शक्रप्रमुखा देवा बलिमादाय सन्नताः २६।
तस्य वै धर्मराजस्य कुपितं तु बलं महत् ।
सर्वथा हि ग्रसिष्येत प्रणतिं चेन्न यास्यति २७।
इत्थमुक्तं समाकर्ण्य तदा राजसुतो बली ।
तं वै धिक्कारयामास वाग्जालेन सुदुर्मनाः २८।
मयानीतो यज्ञहयः पत्रचिह्नाद्यलंकृतः ।
ये शूरास्ते तु मां जित्वा मोचयंतु बलादिह २९।
सेवकस्तद्वचः श्रुत्वा रोषपूर्णो हसन्ययौ ।
राज्ञे निवेदयामास यथावदुपवर्णितम् ३०।
तच्छ्रुत्वा रोषताम्राक्षः प्रतापाग्र्यो महाबलः ।
ययौ योद्धुं राजपुत्रं महावीरपुरस्कृतम् ३१।
रथेन कनकांगेन चतुर्वाजिसुशोभिना ।
सुकूबरेण सर्वास्त्रपूरितेन ययौ बली ३२।
धनुष्टंकारयामास महाबलसमन्वितः ।
पुनःपुनर्जहासोच्चैः कोपादुद्गमिताश्रुकः ३३।
अश्ववाहा गजारूढाः खड्गोल्लसितपाणयः ।
अन्वयुस्ते प्रतापाग्र्यं रोषपूर्णाकुलेक्षणम् ३४।
हस्तिनः पत्तयश्चैव कोटिशः प्रधनोद्यताः ।
चिरकालमभीप्संतो रणं वीरेणकारितम् ३५।
तदोद्यतं समाज्ञाय रिपुसैन्यं नृपात्मजः ।
प्रत्युज्जगाम वीराग्र्यो महाबलपरीवृतः ३६।
सन्नद्धः कवची खड्गी शरासनधरो युवा ।
लीलयैव ययौ योद्धुं मृगराड्गजतामिव ३७।
तदा योधाः प्रकुपिताः परस्परवधैषिणः ।
छिंधि भिंधीति भाषंतो रणकार्यविशारदाः ३८।
पत्तयः पत्तिसंघेन गजारूढाश्च सादिभिः ।
रथारूढा रथस्थैश्च वाहारूढाश्वसंस्थितैः ३९।
गजा भिन्ना द्विधा जाता हयाश्च द्विदलीकृताः ।
अनेकनरमस्तिष्कैर्मेदिनीपूरिता ह्यभूत् ४०।
तदा प्रकुपितो राजा प्रतापाग्र्यो महाबलः ।
स्वसैन्यकदनोद्युक्तं राजपुत्रं समीक्ष्य च ४१।
उवाच सारथिं तत्र प्रापयाश्वान्यतो मम ।
सैन्यस्य कदनासक्तो राजपुत्रो महारथः ४२।
अथ वीरशिरोरत्न नमितांघ्रिर्नृपात्मजः ।
ययौ संमुखमेवास्य प्रतापाग्र्यस्य वीर्यवान् ४३।
सारथिः प्रापयामास प्रतापाग्र्यस्य वाजिनः ।
यत्रासौ दमनो वीरः सर्वशूरशिरोमणिः ४४।
गत्वा तमाह्वयामास राजपुत्रं रणोद्यतम् ।
रथे पुरटनिर्णिक्ते तिष्ठन्कोदंडदंडभृत् ४५।
रे राजपुत्र क शिशो त्वया बद्धोऽश्वसत्तमः ।
न ज्ञातोसि महाराजः सर्ववीरेंद्र सेवितः ४६।
यस्य प्रतापं दैत्येंद्रो न शक्तः सोढुमद्भुतम् ।
तस्य त्वं वाजिनं नीत्वा गतोऽसि पुटभेदनम् ४७।
मां जानीहि पुरः प्राप्तं कालरूपं तु वैरिणम् ।
मुंचाश्वमर्भ गच्छाशु बालक्रीडनकं कुरु ४८।
कस्यात्मजस्त्वं कुत्रत्यः कथं नोऽदीर्घदर्शिना ।
धृतोऽश्वस्त्वथ संजाता घृणा मम शिशो त्वयि ४९।
इत्थमाकर्ण्य दमनः स्मितं चक्रे महामनाः ।
उवाच च प्रतापाग्र्यं तृणीकुर्वंश्च तद्बलम् ५०।
दमन उवाच।
मया बद्धो बलादश्वो नीतः स्वपुटभेदनम् ।
नार्पयिष्येऽद्य सप्राणः कुरु युद्धं महाबल ५१।
त्वया यदुक्तं बालस्त्वं गत्वा क्रीडनकं कुरु ।
तन्मे पश्य महाराज क्रीडनं रणमूर्धनि ५२।
शेष उवाच।
इत्युक्त्वा सगुणं चापं विधाय सुभुजां गजः ।
शराणां शतमाधत्त प्रतापाग्र्यस्य वक्षसि ५३।
संधाय बाणशतकं शंखं दध्मौ प्रतापवान् ।
तेन शंखनिनादेन कातराणां भयं ह्यभूत् ५४।
ताडयामास हृदये बाणानां शतकेन सः ।
प्रतापाग्र्यः प्रचिच्छेद लघुहस्तः सुपर्वणः ५५।
स बाणच्छेदनं दृष्ट्वा कुपितो व्यसृजच्छरान् ।
कंकपक्षान्वितांस्तीक्ष्णभल्लान्राजात्मजो बली ५६।
आकाशे भुवि मध्ये च बाणा ददृशिरेऽञ्चिताः ।
स्वनामचिह्नितास्तीक्ष्णधारापातसुशोभिताः ५७।
शरास्तद्बाहु हृदये लग्ना वह्निकणान्बहून् ।
सृजंतः कुर्वते सैन्यदाहनं तदभून्महत् ५८।
प्रतापाग्र्यः प्रकुपितस्तिष्ठतिष्ठेति च ब्रुवन् ।
शरेण दशसंख्येन ताडयामास मूर्धनि ५९।
ते बाणा राजपुत्रस्य ललाटे परिनिष्ठिताः ।
विराजंते स्म च मुने दशशाखास्तरोरिव ६०।
तेन बाणप्रहारेण विव्यथेन महामनाः ।
यष्टिकाप्रहतो यद्वत्कुंजरः सप्तवर्षकः ६१।
बाणान्धनुषि संधाय मुमोच त्रिशताञ्छुभान् ।
सुवर्णपुंखरचितान्महाकालानलोपमान् ६२।
ते बाणास्तु प्रतापाग्र्य वक्षो भित्त्वा गता ह्यधः ।
शोणिताक्ता यथा रामचंद्र भक्ति पराङ्मुखाः ६३।
प्रतापाग्र्यः प्रकुपितः शरान्मुंचन्सहस्रशः ।
अकरोद्विरथं सूनुं सुबाहोस्तत्क्षणाद्द्रुतम् ६४।
चतुर्भिश्च तुरो वाहान्द्वाभ्यां ध्वजमशातयत् ।
एकेन सारथेः कायाच्छिरो मह्यामपातयत् ६५।
चतुर्भिस्ताडयामास तं सूनुं नृपतेः पुनः ।
तत्क्षणाच्चापमेकेन गुणयुक्तं तु चिच्छिदे ६६।
सोऽन्यरथं समारुह्य हयरत्नसुशोभितम् ।
धनुः करे समादाय सज्यं चक्रे महामनाः ६७।
प्रत्युवाच प्रतापाग्र्यं त्वया विक्रांतमद्भुतम् ।
पश्येदानीं पराक्रांतिं धनुषो मम सद्भट ६८।
एवमुक्त्वा तु दमनो बाणान्दश समाददे ।
चतुर्भिश्चतुरो वाहान्निनाय यमसादनम् ६९।
चतुर्भिस्तिलशः कृत्तो रथश्चक्रसमन्वितः ।
एकेन हृदि विव्याध बाणेनैकेन सारथिम् ७०।
जगर्ज शंखमापूर्य शंखशब्दसमन्वितः ।
तत्कर्म पूजयामास साधु वीर महाबल ७१।
इति विक्रांतमालोक्य प्रतापाग्र्यो रुषान्वितः ।
अन्यं रथं समास्थाय ययौ योद्धुं नृपात्मजम् ७२।
उवाच वीर पश्य त्वं मम विक्रांतमद्भुतम् ।
इत्युक्त्वाशु मुमोचौघाञ्छराणां शितपर्वणाम् ७३।
शराः सर्वत्र दृश्यंते कुंजरेषु हयेषु च ।
परब्रह्मेव सर्वत्र व्याप्ताश्चांतरगोचराः ७४।
तं राजपुत्रं शितबाणकोटिभि -।
र्व्याप्तं विधायाशु जगर्ज विक्रमी ।
संहर्षयन्स्वीयगणान्परान्महान् ।
कुर्वन्हृदा शून्यतमान्गतासुकान् ७५।
स राजपुत्रः शितसायकव्रजैः ।
संपूर्णमात्मानमवेक्ष्य रोषितः ।
जग्राह शस्त्राणि दुरंतविक्रमो ।
धनुश्च धुन्वन्भुजदंडयोर्महान् ७६।
चकर्त सर्वाण्यस्त्राणि शस्त्राणि च महाबलः ।
रोषताम्रेक्षणो मुंचञ्छरान्वैरिविदारिणः ७७।
तच्छस्त्रजालं निर्धूय राजपुत्रो जगाद तम् ।
क्षमस्वैकं प्रहारं मे यदि शूरोसि मारिष ७८।
यद्यनेन भवंतं वै रथाच्चेत्पातयामि न ।
प्रतिज्ञां शृणु मे वीर मम गर्वेण निर्मिताम् ७९।
वेदं निंदंति ये मत्ता हेतुवादविचक्षणाः ।
तेषां पापं ममैवास्तु नरकार्णवमज्जकम् ८०।
इत्युक्त्वा बाणमासाद्य कोदंडे कालसन्निभम् ।
ज्वालामालाकुलं तीक्ष्णं निषंगादुद्धृतं वरम् ८१।
स मुक्तो नृपवर्येण हृदि लक्ष्यीकृतः शरः ।
जगाम तरसा तं वै कालानलसमप्रभः ८२।
प्रतापाग्र्यः शरं दृष्ट्वा स्वपातनसमुद्यतम् ।
बाणान्धनुष्यथाधत्त शरच्छेदायवै शितान् ८३।
स बाणः सर्वबाणांस्तांश्छिंदन्मध्यत एव हि ।
जगाम वै प्रतापाग्र्यहृदयं धैर्यसंयुतम् ८४।
संलग्नो हृदि नालीकः प्रविवेश तदंतरम् ।
राजाकृतप्रहारस्तु पपात धरणीतले ८५।
मूर्च्छितं चेतनाहीनं रथोपस्थाद्गतं भुवि ।
सारथिस्तं समादायापोवाह रणमंडलात् ८६।
हाहाकारोमहानासीद्बलं भग्नं गतं ततः ।
यत्र शत्रुघ्ननामासौ वीरकोटिपरीवृतः ८७।
राजात्मजो जयं प्राप्य प्रतापाग्र्यं विजित्य सः ।
प्रतीक्षां तु चकारास्य शत्रुघ्नस्य च भूपतेः ८८।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे राजपुत्रयुद्धकथनंनाम त्रयोविंशोऽध्यायः २३ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 24
शेष उवाच।
शत्रुघ्नस्तु क्रुधाविष्टो दंतान्दंतैर्विनिष्पिषन् ।
हस्तौ धुन्वंल्लेलिहानमधरं जिह्वया सकृत् १।
पुनः पुनस्तान्पप्रच्छ केनाश्वो नीयते मम ।
प्रतापाग्र्यः केन जितः सर्वशूरशिरोमणिः २।
सेवकास्ते तदा प्रोचुर्दमनोनाम शत्रुहन् ।
सुबाहुजः प्रतापाग्र्यं जितवान्हयमाहरत् ३।
इति श्रुत्वा हयं नीतं दमनेन स्ववैरिणा ।
आजगाम स वेगेन यत्राभूद्रणमंडलम् ४।
तत्रापश्यत्स शत्रुघ्नो गजान्दीर्णकपोलकान् ।
पर्वतानिव रक्तोदे मज्जमानान्मदोद्धतान् ५।
हयास्तत्र निजारोहकर्तृभिः सहिताः क्षताः ।
मृता वीरेण ददृशे शत्रुघ्नेन सुकोपिना ६।
नरान्रथान्गजान्भग्नान्वीक्षमाणः स शत्रुहा ।
अतीव चुक्रुधे यद्वत्प्रलये प्रलयार्णवः ७।
पुरतो दमनं वीक्ष्य हयनेतारमुद्भटम् ।
प्रतापाग्र्यस्य जेतारं तृणीकृत्य निजं बलम् ८।
तदा राजा प्रत्युवाच योधान्कोपाकुलेक्षणः ।
कोऽसौ दमन जेताऽत्र सर्वशस्त्रास्त्रधारकः ९।
यो वै राजसुतं वीरं रणकर्मविशारदम् ।
जेष्यत्यस्त्रेण निर्भीतः सज्जीभूतो भवत्वयम् १०।
इति वाक्यं समाकर्ण्य पुष्कलः परवीरहा ।
दमनं जेतुमुद्युक्तो जगाद वचनं त्विदम् ११।
स्वामिन्क्वायं दमनकः क्व तेऽपरिमितं बलम् ।
जेष्येऽहं त्वत्प्रतापेन गच्छाम्येष महामते १२।
सेवके मयि युद्धाय स्थिते कैर्नीयते हयः ।
रघुनाथप्रतापोऽयं सर्वं कृत्यं करिष्यति १३।
स्वामिञ्छृणु प्रतिज्ञां मे तव मोदप्रदायिनीम् ।
विजेष्ये दमनं युद्धे रणकर्मविचक्षणम् १४।
रामचंद्रपदांभोजमध्वास्वादवियोगिनाम् ।
यदघं तु भवेत्तन्मे दमनं न जयेयदि १५।
पुत्रो यो मातृपादान्यत्तीर्थं मत्वा तया सह ।
विरुद्ध्येत्तत्तमो मह्यं न जयेदमनं यदि १६।
अद्य मद्बाणनिर्भिन्न महोरस्को नृपांगजः ।
अलंकरोतु प्रधने भूतलं शयनेन हि १७।
शेष उवाच।
इति प्रतिज्ञामाकर्ण्य पुष्कलस्य रघूद्वहः ।
जहर्ष चित्ते तेजस्वी निदिदेश रणं प्रति १८।
आज्ञप्तोऽसौ ययौ सैन्यैर्बहुभिः परिवारितः ।
यत्रास्ते दमनो राजपुत्रः शूरकुलोद्भवः १९।
दमनोऽपि तमाज्ञाय ह्यागतं रणमंडले ।
प्रत्युज्जगाम वीराग्र्यः स्वसैन्यपरिवारितः २०।
अन्योन्यं तौ संमिलितौ रथस्थौ रथशोभिनौ ।
समरे शक्रदैत्यौ किं युद्धार्थं रणमागतौ २१।
उवाच पुष्कलस्तं वै राजपुत्रं महाबलम् ।
राजपुत्र दमनक मां जानीहि समागतम् २२।
स प्रतिज्ञं तु युद्धाय भरतात्मजमुद्भटम् ।
पुष्कलेन स्वनाम्ना च लक्षितं विद्धिसत्तम २३।
रघुनाथपदांभोज नित्यसेवामधुव्रतम् ।
त्वां जेष्ये शस्त्रसंघेनसज्जीभव महामते २४।
इति वाक्यं समाकर्ण्य दमनः परवीरहा ।
प्रत्युवाच हसन्वाग्मी निर्भयोद्दृष्टविक्रमः २५।
सुबाहुपुत्रं दमनं पितृभक्ति हृताघकम् ।
विद्धि मामश्वनेतारं शत्रुघ्नस्य महीपतेः २६।
जयो दैवविसृष्टोऽयं यस्य चालंकरिष्यति ।
स प्राप्नोति निरीक्षस्व बलं मे रणमूर्धनि २७।
इत्युक्त्वा स शरं चापं विधायाकर्णपूरितम् ।
मुमोच बाणान्निशितान्वैरिप्राणापहारिणः २८।
ते बाणास्त्वाविलीभूताश्छादयामासुरंबरम् ।
सूर्यभानुप्रभा यत्र बाणच्छायानिवारिता २९।
गजानां कटभित्त्योघे लग्ना सायकसंततिः ।
अलंकरोति धातूनां रागा इव विचित्रिताः ३०।
पतितास्तत्र दृश्यंते नरा वाहा गजा रथाः ।
शरव्रातेन नृपतेः सुतेन परिताडिताः ३१।
तद्विक्रांतं समालोक्य पुष्कलः परवीरहा ।
शराणां छायया व्याप्तं रणमंडलमीक्ष्य च ३२।
शरासने समाधत्त बाणं वह्न्यभिमंत्रितम् ।
आचम्य सम्यग्विधिवन्मोचयामास सायकम् ३३।
ततोऽग्निप्रादुरभवत्तत्र संग्राममूर्धनि ।
ज्वालाभिर्विलिहन्व्योम प्रलयाग्निरिवोत्थितः ३४।
ततोऽस्य सैन्यं निर्दग्धं त्रासं प्राप्तं रणांगणे ।
पलायनपरं जातं वह्निज्वालाभिपीडितम् ३५।
छत्राणि तु प्रदग्धानि चंद्राकाराणि धन्विनाम् ।
दृश्यंते जातरूपाभ कांतिधारीणि तत्र ह ३६।
हया दग्धाः पलायंते केसरेषु च वैरिणाम् ।
रथा अपि गता दाहं सुकूबरसमन्विताः ३७।
मणिमाणिक्यरत्नानि वहंतः करभास्ततः ।
पलायंते दहनभू ज्वालामालाभिपीडिताः ३८।
कुत्रचिद्दंतिनो नष्टाः कुत्रचिद्धयसादिनः ।
कुत्रचित्पत्तयो नष्टा वह्निदग्धकलेवराः ३९।
शराः सर्वे नृपसुतप्रमुक्ताः प्रलयं गताः ।
आशुशुक्षणिकीलाभिर्भस्मीभूताः समंततः ४०।
तदा स्वसैन्ये दग्धे च दमनो रोषपूरितः ।
सर्वास्त्रवित्तच्छांत्यर्थं वारुणास्त्रमथा ददे ४१।
वारुणं वह्निशांत्यर्थं मुक्तं तेन महीभृता ।
आप्लावयद्बलं तस्य रथवाजिसमाकुलम् ४२।
रथा विप्लावितास्तोये दृश्यंते परिपंथिनाम् ।
गजाश्चापि परिप्लुष्टाः स्वीयाः शांतिमुपागताः ४३।
वह्निश्च शांतिमगमदग्न्यस्त्र परिमोचितः ।
शांतिमाप बलं स्वीयं वह्निज्वालाभिपीडितम् ४४।
कंपिताः शीततोयेन सीत्कुर्वंति च वैरिणः ।
करकावृष्टिभिः क्षिप्ता वायुना च प्रपीडिताः ४५।
तदा स्वबलमालोक्य तोयपूरेण पीडितम् ।
कंपितं क्षुभितं नष्टं वारुणेन विनिर्हृतम् ४६।
तदातिकोपताम्राक्षः पुष्कलो भरतात्मजः ।
वायव्यास्त्रं समाधत्त धनुष्येकं महाशरम् ४७।
ततो वायुर्महानासीद्वायव्यास्त्रप्रचोदितः ।
नाशयामास वेगेन घनानीकमुपस्थितम् ४८।
वायुना स्फालिता नागाः परस्परसमाहताः ।
अश्वाश्च संहतान्योन्यं स्वस्वारोहसमन्विताः ४९।
नराः प्रभंजनोद्धूता मुक्तकेशा निरोजसः ।
पतंतोऽत्र समीक्ष्यंते वेताला इव भूगताः ५०।
वायुना स्वबलं सर्वं परिभूतं विलोक्य सः ।
राजपुत्रः पर्वतास्त्रं धनुष्येवं समादधे ५१।
तदा तु पर्वताः पेतुर्मस्तकोपरि युध्यताम् ।
वायुः संच्छादितस्तैस्तु न प्रचक्राम कुत्रचित् ५२।
पुष्कलो वज्रसंज्ञं तु समाधत्त शरासने ।
वज्रेण कृत्तास्ते सर्वे जाताश्च तिलशः क्षणात् ५३।
वज्रं नगान्रजः शेषान्कृत्वा बाणाभिमंत्रितम् ।
राजपुत्रोरसि प्रोच्चैः पपात स्वनवद्भृशम् ५४।
सत्वाकुलितचेतस्को हृदि विद्धः क्षतो भृशम् ।
विव्यथे बलवान्वीरः कश्मलं परमाप सः ५५।
तं वै कश्मलितं दृष्ट्वा सारथिर्नयकोविदः ।
अपोवाह रणात्तस्मात्क्रोशमात्रं नरेंद्रजम् ५६।
ततो योधा राजसूनोः प्रणष्टाः प्रपलायिताः ।
गत्वा पुरीं समाचख्युः कश्मलस्थं नृपात्मजम् ५७।
पुष्कलो जयमाप्यैवं रणमूर्धनि धर्मवित् ।
न प्रहर्तुं पुनः शक्तो रघुनाथवचः स्मरन् ५८।
ततो दुंदुभिनिर्घोषो जयशब्दो महानभूत् ।
साधुसाध्विति वाचश्च प्रावर्तंत मनोहराः ५९।
हर्षं प्राप स शत्रुघ्नो जयिनं वीक्ष्य पुष्कलम् ।
प्रशशंस सुमत्यादि मंत्रिभिः परिवारितः ६०।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे पुष्कलविजयोनाम चतुर्विंशतितमोऽध्यायः २४ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 25
शेष उवाच।
अथ वीक्ष्य भटान्निजान्नृपो रुधिरौघेण परिप्लुतांगकान् ।
सुखमाप न वै शुशोच तान्परिपप्रच्छ सुतस्य चेष्टितम् १।
गदताखिलकर्म तस्य वै स कथं चाहरदश्ववर्यकम् ।
कथयंतु पुनः कियद्बलं बत वीराः कति योद्धुमागताः २।
अथ शत्रुबलोन्मुखः कथं मम वीरो दमनो रणं व्यधात् ।
विजयं च विधाय दुर्जयं किल वीरं बत कोऽप्यशातयत् ३।
इत्याकर्ण्य वचो राज्ञः प्रत्यूचुस्तेऽस्य सेवकाः ।
क्षतजेन परिक्लिन्न गात्रवस्त्रादिधारिणः ४।
राजन्नश्वं समालोक्य पत्रचिह्नाद्यलंकृतम् ।
ग्राहयामास गर्वेण तृणीकृत्य रघूत्तमम् ५।
ततो हयानुगः प्राप्तः स्वल्पसैन्यसमावृतः ।
तेन साकमभूद्युद्धं तुमुलं रोमहर्षणम् ६।
तं मूर्च्छितं ततः कृत्वा तव पुत्रः स्वसायकैः ।
यावत्तिष्ठत्यथायातः शत्रुघ्नः स्वबलैर्वृतः ७।
ततो युद्धं महदभूच्छस्त्रास्त्रपरिबृंहितम् ।
बहुशो जयमापेदे तव पुत्रो महाबलः ८।
इदानीं तेन मुक्त्वास्त्रं शत्रुघ्नभ्रातृसूनुना ।
मूर्च्छितः प्रधने राजन्कृतो वीरः सुतस्तव ९।
इति वाक्यं समाकर्ण्य रोषशोकसमन्वितः ।
स्थगितांग इवासीत्स समुद्र इव पर्वणि १०।
उवाच सेनाधिपतिं रोषप्रस्फुरिताधरः ।
दन्तैर्दताँल्लिहन्नोष्ठं जिह्वया शोककर्शितः ११।
सेनापते कुरुष्वारान्मम सेनां तु सज्जिताम् ।
योत्स्ये रामस्य सुभटैर्ममपुत्रोपघातकैः १२।
अद्याहं मम पुत्रस्य दुःखदं निशितैः शरैः ।
पातयिष्ये यदि ह्येनं रक्षितापि महेश्वरः १३।
सेनापतिरिदं वाक्यं प्रोक्तं सुभुजभूपतेः ।
निशम्य च तथा कृत्वा सज्जीभूतो भवत्स्वयम् १४।
राज्ञे निवेदयामास ससज्जां चतुरंगिणीम् ।
सेनां कालबलप्रख्यां हतदुर्जनकोटिकाम् १५।
श्रुत्वा सेनापतेर्वाक्यं सुबाहुः परवीरहा ।
निर्जगाम ततो यत्र शत्रुघ्नः स्वसुतार्दनः १६।
कुंजरैश्च मदोन्मत्तैर्हयैश्चापि मनोजवैः ।
रथैश्च सर्वशस्त्रास्त्रपूरितै रिपुजेतृभिः १७।
भूश्चकंपे तदा तत्र सैन्यभारेण भूरिणा ।
संमर्दः सुमहानासीत्तत्र सैन्ये विसर्पति १८।
राजानं निर्गतं दृष्ट्वा रथेन कनकांगिना ।
शत्रुघ्नबलमुद्युक्तं सर्ववैरिप्रहारकम् १९।
सुकेतुस्तस्य वै भ्राता गदायुद्धविशारदः ।
रथेनाश्वा जगामायं सर्वशस्त्रास्त्रपूरितः २०।
चित्रांगस्तु सुतो राज्ञः सर्वयुद्धविचक्षणः ।
जगाम स्वरथेनाशु शत्रुघ्नबलमुन्मदम् २१।
तस्यानुजो विचित्राख्यो विचित्ररणकोविदः ।
ययौ रथेन हैमेन भ्रातृदुःखेन पीडितः २२।
अन्ये शूरा महेष्वासाः सर्वशस्त्रास्त्रकोविदाः ।
ययुर्नृपसमादिष्टाः प्रधनं वीरपूरितम् २३।
राजा सुबाहुः संरोषादागतः प्रधनांगणे ।
विलोकयामास सुतं मूर्च्छितं शरपीडितम् २४।
रथोपस्थस्थितं मूढं स्वसुतं दमनाभिधम् ।
वीक्ष्य दुःखं मुहुः प्राप वीजयामास पल्लवैः २५।
जलेन सिक्तः संस्पृष्टो राज्ञा कोमलपाणिना ।
संज्ञामाप शनैर्वीरो दमनः परमास्त्रवित् २६।
उत्थितः क्व धनुर्मेऽस्ति क्व पुष्कल इतो गतः ।
संसज्य समरं त्यक्त्वा मद्बाणव्रणपीडितः २७।
इति वाक्यं समाकर्ण्य सुबाहुः पुत्रभाषितम् ।
परमं हर्षमापेदे परिरभ्य सुतं स्वकम् २८।
दमनो वीक्ष्य जनकं नृपं नम्रशिरोधरः ।
पपात पादयोर्भक्त्या क्षतदेहोऽस्त्रराजिभिः २९।
स्वसुतं रथसंस्थं तु विधाय नृपतिः पुनः ।
जगाद सेनाधिपतिं रणकर्मविशारदः ३०।
व्यूहं रचय संग्रामे क्रौंचाख्यं रिपुदुर्जयम् ।
यमाविश्य जये सैन्यं शत्रुघ्नस्य महीपतेः ३१।
तद्वाक्यमाकर्ण्य सुबाहुभूपतेः ।
क्रौंचाख्यसद्व्यूहविशेषमादधात् ।
यन्नो विशंते सहसा रिपोर्गणा ।
महाबलाः शस्त्रसमूहधारिणः ३२।
मुखे सुकेतुस्तस्यासीद्गले चित्रांगसंज्ञकः ।
पक्षयो राजपुत्रौ द्वौ पुच्छे राजा प्रतिष्ठितः ३३।
मध्ये सैन्यं महत्तस्य चतुरंगैस्तु शोभितम् ।
कृत्वा न्यवेदयद्राज्ञे क्रौंचव्यूहं विचित्रितम् ३४।
राजा दृष्ट्वा सुसन्नद्धं क्रौंचव्यूहं सुनिर्मितम् ।
रणाय स्वमतिं चक्रे शत्रुघ्नकटके स्थितैः ३५।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सुबाहुसैन्यसमागमोनाम पंचविंशोऽध्यायः २५ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 26
शेष उवाच।
शत्रुघ्नस्तद्बलं दृष्ट्वा भीषणाकृतिमेघवत् ।
हस्त्यश्वरथपादातैर्बहुभिः परिवारितम् १।
सुमतिं प्रत्युवाचेदं वचोगंभीरशब्दयुक् ।
नानावाक्यविचारज्ञैः पंडितैः परिसेवितः २।
शत्रुघ्न उवाच।
सुमते कस्य नगरं प्राप्तो मे हयसत्तमः ।
बलमेतन्निरीक्षेहं पयोदधितरंगवत् ३।
कस्यैतद्बलमुद्धर्षं चतुरंगसमन्वितम् ।
पुरतो भाति युद्धाय समुपस्थितमादरात् ४।
एतत्सर्वं समाचक्ष्व यथावत्पृच्छतो मम ।
यज्ज्ञात्वा युद्धसंस्थायै निर्दिशामि स्वकान्भटान् ५।
इति वाक्यं समाकर्ण्य सुमतिः शुभबुद्धिमान् ।
उवाच वचनं प्रीतः शत्रुघ्नं वैरितापनम् ६।
सुमतिरुवाच।
चक्रांका नगरी राजन्वर्तते सविधे शुभा ।
यस्यां संति नराः पापरहिता विष्णुभक्तितः ७।
तस्याः पुर्याः पतिरयं सुबाहुर्धर्मवित्तमः ।
तवायं पुरतो भाति पुत्रपौत्रसमावृतः ८।
स्वदारनिरतो नित्यं परदारपराङ्मुखः ।
विष्णोः कथास्य कर्णस्थाना परार्थप्रकाशिनी ९।
परस्वं न समादत्ते षष्ठांशादधिकं नृपः ।
ब्राह्मणा विष्णुभक्त्यैव पूज्यंते तेन धर्मिणा १०।
नित्यं सेवारतो विष्णुपादपद्ममधुव्रतः ।
एष स्वधर्मनिरतः परधर्मपराङ्मुखः ११।
एतस्य बलतुल्यं हि न वीराणां बलं क्वचित् ।
पुत्रस्य पतनं श्रुत्वा रोषशोकसमाकुलः १२।
चतुरंगसमेतोऽयं युद्धाय समुपस्थितः ।
तवापि वीरा बहवो लक्ष्मीनिधिमुखा अमून् १३।
जेष्यंति शस्त्रसंघेन निर्दिशाशु परं हि तान् ।
शत्रुघ्नस्तद्वचः श्रुत्वा प्रोवाच स्वभटान्वरान् १४।
रणप्राप्तिभवोद्धर्षपूरपूरितमानसान् ।
क्रौंचव्यूहोऽद्य रचितः सुबाहुपरिसैनिकैः १५।
मुखपक्षस्थिता योधास्तान्को भेत्स्यति शस्त्रवित् ।
यस्य भेदे निजा शक्तिर्यो वीर विजयोद्यतः १६।
स गृह्णातु मदीयाद्धि पाणिपद्माच्च वीटकम् ।
तदा लक्ष्मीनिधिर्वीरो जग्राह क्रौंचभेदने १७।
सर्वशस्त्रास्त्रविद्वीरैर्बहुभिः परिवारितः ।
उवाच वचनं राजन्यास्येऽहं क्रौंचभेदने १८।
भार्गवः पूर्वमेवासीत्क्रौंचभेत्ता तथा ह्यहम् ।
तथान्यं वीरमावोचत्कोऽस्य सार्धं गमिष्यति १९।
पुष्कलः पृष्ठतस्तस्य यातुं चक्रे मतिं ततः ।
रिपुतापो नीलरत्न उग्राश्वो वीरमर्दनः २०।
सर्वे शत्रुघ्नसंदेशाद्ययुस्तत्क्रौंचभेदने ।
शत्रुघ्नोऽपि रथस्थश्च सर्वायुधधरः परः २१।
पृष्ठतोऽस्य परीयाय बहुभिः सैनिकैर्वृतः ।
तदा प्रचलितौ दृष्टावन्योन्यबलवारिधी २२।
प्रलयं कर्तुमुद्युक्तौ जगतः सुतरंगिणौ ।
तदा भेर्यः समाजघ्नुरुभयोः सेनयोर्दृढाः २३।
रणभेर्यः शंखनादाः श्रूयंते तत्र तत्र ह ।
हेषंते वाजिनस्तत्र गर्जंति द्विरदा भृशम् २४।
हुं हुं कुर्वंति वीराग्र्या नदंति रथनेमयः ।
तत्र प्रकुपिताः शूराः सुबाहुबलदर्पिताः २५।
छिंधि भिंधीति भाषंतो दृश्यंते बहवो रणे ।
एवंभूते रणोद्युक्ते सैन्ये शत्रुघ्नवैरिणोः २६।
मुखसंस्थं सुकेतुं तं लक्ष्मीनिधिरुवाच ह ।
लक्ष्मीनिधिरुवाच।
जनकस्य सुतं विद्धि लक्ष्मीनिधिरिति स्मृतम् २७।
सर्वशस्त्रास्त्रकुशलं सर्वयुद्धविशारदम् ।
मुंचाश्वं रामचंद्रस्य सर्वदानवदंशितुः २८।
नोचेन्मद्बाणनिर्भिन्नो यास्यसे यमसादनम् ।
इति ब्रुवंतं वीराग्र्यं सुकेतुः सहसा त्वरन् २९।
सज्यं चापं विधायाशु बाणान्मुंचन्स्थिरोऽभवत् ।
ते बाणाः शितपर्वाणः स्वर्णपुंखाः समंततः ३०।
दृश्यंते व्यापिनस्तत्र रणमध्ये सुदुर्भराः ।
तद्बाणजालं तरसा निहत्य ।
लक्ष्मीनिधिश्चापमथा ततज्यम् ।
विधाय तस्योरसि बाणषट्कं ।
मुमोच तीक्ष्णं शितपर्वशोभितम् ३१।
तद्बाणाः सुभुजभ्रातुर्हृदयं संविदार्य च ।
गतास्ते भुवि दृश्यंते रुधिराक्ता मलीमसाः ३२।
तद्बाणभिन्नहृदयः सुकेतुः कोपपूरितः ।
जघानशरविंशत्या तीक्ष्णया नतपर्वया ३३।
उभौ बाणविभिन्नांगावुभौ क्षतजविप्लुतौ ।
सैनिकैः परिदृश्यंते किंशुकाविव पुष्पितौ ३४।
मुंचंतौ बाणकोटीश्च संदधंतौ त्वरा शरान् ।
न केनापि विलक्ष्येते लघुहस्तौ महाबलौ ३५।
कुंडलीकृत सच्चापौ वर्षंतौ बाणधारया ।
नवांबुदाविव दिवि शक्रनिर्देशकारिणौ ३६।
तयोर्बाणा गजान्वाहान्नराञ्छूरान्विमस्तकान् ।
कुर्वंतः केवलं दृष्टा न च संधानमोक्षयोः ३७।
पृथिवी सुभटैः पूर्णा सकिरीटैः सकुंडलैः ।
धनुर्बाणकरै रोषसंदष्टाधरयुग्मकैः ३८।
तयोः प्रयुद्ध्यतोर्दर्पात्सर्वशस्त्रास्त्रवेदिनोः ।
युद्धं समभवद्घोरं देवविस्मापनं महत् ३९।
संमर्दोऽभवदत्यंतं वीरकोटिविदारणः ।
न केनचित्क्वचिद्दृष्टं शरजालांतरेंऽबरम् ४०।
तस्मिंस्तु समये लक्ष्मीनिधिर्वीरोऽरिमर्दनः ।
बाणांश्चापे समाधत्त वसुसंख्यान्दृढाञ्छितान् ४१।
चतुर्भिस्तुरगान्वीरः सुकेतोरनयत्क्षयम् ।
एकेन ध्वजमत्युग्रं चिच्छेद तरसा हसन् ४२।
एकेन सारथेः कायाच्छिरोभूमावपातयत् ।
एकेन चापं सगुणमच्छिनद्रोषपूरितः ४३।
एकेन हृदि विव्याध सुकेतोर्वेगवान्नृपः ।
तत्कर्माद्भुतमुद्वीक्ष्य वीरा विस्मयमाययुः ४४।
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
महतीं स गदां धृत्वा योद्घुकामोऽभ्युपेयिवान् ४५।
तमायांतं समालक्ष्य गदायुद्धविशारदम् ।
महत्या गदया युक्तं रथादवततार सः ४६।
गदामादाय महतीं सर्वायसविनिर्मिताम् ।
जातरूपविचित्रांगीं सर्वशोभापुरस्कृताम् ४७।
लक्ष्मीनिधिर्भृशं क्रुद्धः सुकेतोर्वक्षसि त्वरन् ।
ताडयामास हृदये गदां वज्राग्निसन्निभाम् ४८।
गदया ताडितो वीरो नाकंपत महामुने ।
मदोन्मत्तो यथा दंती बालेन स्रग्भिराहतः ४९।
उवाच तं स वीराग्र्यो नृपं लक्ष्मीनिधिं तदा ।
सहस्वैकं प्रहारं मे यदि शूरः परंतप ५०।
इत्युक्त्वा ताडयामास ललाटे गदया भृशम् ।
गदया ताडितो भालेऽसृग्वमन्कुपितो भृशम् ५१।
मूर्ध्नि तं ताडयामास गदया कालरूपया ।
सुकेतुरपि तं स्कंधे ताडयामास धर्मवित् ५२।
एवं भृशं प्रकुपितौ गदायुद्धविशारदौ ।
गदायुद्धं प्रकुर्वाणौ परस्परजयैषिणौ ५३।
अन्योन्याघातविमतौ परस्परवधोद्यतौ ।
न कोपि तत्र हीयेत न को जीयेत संयुगे ५४।
मूर्ध्नि भाले तथा स्कंधे हृदि गात्रेषु सर्वतः ।
रुधिरौघ परिक्लिन्नौ महाबलपराक्रमौ ५५।
तदा लक्ष्मीनिधिः क्रुद्धो गदामुद्यम्य वेगवान् ।
जगाम प्रबलं हंतुं हृदि राजानुजं बली ५६।
तमायांतमथालोक्य स्वगदां महतीं दधत् ।
ययौ तं तरसा हंतुं राजभ्राता बलाद्बलम् ५७।
गदां तेन विनिक्षिप्तां स्वकरे धृतवानयम् ।
तयैव गदया तस्य हृदि जघ्ने महाबलः ५८।
स्वगदां तेन वै नीतां दृष्ट्वा लक्ष्मीनिधिर्नृपः ।
बाहुयुद्धेन तं योद्धुमियेष बलवत्तमम् ५९।
तदा राजानुजः क्रुद्धो बाहुभ्यामुपगृह्य तम् ।
युयुधे सर्वयुद्धस्य ज्ञातावीरेषु सत्तमः ६०।
तदा लक्ष्मीनिधिस्तस्य हृदि जघ्ने स्वमुष्टिना ।
तदा सोपि शिरस्येनं मुष्टिमुद्यम्य चाहनत् ६१।
मुष्टिभिर्वज्रसंकाशैस्तलस्फोटैश्च दारुणैः ।
अन्योन्यं जघ्नतुः क्रुद्धौ संदष्टाधरपल्लवौ ६२।
मुष्टी मुष्टि दंता दंति कचा कचि नखा नखि ।
उभयोरभवद्युद्धं तुमुलं रोमहर्षणम् ६३।
तदा प्रकुपितो भ्राता नृपतेश्च रणे नृपम् ।
गृहीत्वा भ्रामयित्वाथ पातयामास भूतले ६४।
लक्ष्मीनिधिः करे गृह्य तं नृपानुजमुच्चकैः ।
भ्रामयित्वा शतगुणं गजोपस्थे जघान तम् ६५।
स तदा पतितो भूमौ संज्ञां प्राप्य क्षणादनु ।
तथैव भ्रामयामास व्योम्नि वेगेन विक्रमी ६६।
एवं प्रयुध्यमानौ तौ बाहुयुद्धं गतौ पुनः ।
पादे पादं करे पाणिं हृदि हृद्वदने मुखम् ६७।
एवं परस्परं श्लिष्टौ परस्परवधैषिणौ ।
उभावपि पराक्रांतावुभावपि मुमूर्च्छतुः ६८।
तद्दृष्ट्वा विस्मयं प्राप्ताः प्रशशंसुः सहस्रशः ।
धन्यो लक्ष्मीनिधिर्भूपो धन्यो राजानुजो बली ६९।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे गदायुद्धंनाम षड्विंशतितमोऽध्यायः २६ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 27
शेष उवाच।
चित्रांगः क्रौंचकंठस्थो रथस्थो वीरशोभितः ।
गाहयामास तत्सैन्यं वाराह इव वारिधिम् १।
धनुर्विस्फार्य सुदृढं मेघनादनिनादितम् ।
मुमोच बाणान्निशितान्वैरिकोटिविदाहकान् २।
तद्बाणभिन्नसर्वांगाः शेरते सुभटा भृशम् ।
सकिरीटतनुत्राणाः सन्दष्टदशनच्छदाः ३।
एवं प्रवृत्ते संग्रामे ययौ योद्धुं स पुष्कलः ।
मणिचित्रितमादाय चापं वैरिप्रतापनम् ४।
तयोः संगतयोरूपं दृश्यतेऽतिमनोहरम् ।
पुरा तारकसंग्रामे स्कंदतारकयोर्यथा ५।
विस्फारयन्धनुः शीघ्रं सव्यसाची तु पुष्कलः ।
ताडयामास तं क्षिप्रं शरैः सन्नतपर्वभिः ६।
चित्रांगोऽपि रुषाक्रांतः शरासन इषूञ्छितान् ।
दधद्व्यमुंचद्बहुशो रणमंडलमूर्धनि ७।
नादानं न च संधानं न मोचनमथापि वा ।
दृष्टं तावेव संदृष्टौ कुंडलीकृतचापिनौ ८।
तदासौ पुष्कलः क्रुद्धः शराणां शतकेन तम् ।
विव्याध वक्षःस्थलके महायोद्धारमुद्भटम् ९।
चित्रांगस्ताञ्शरान्सर्वांश्चिच्छेद तिलशः क्षणात् ।
ताडयामास चांगेषु पुष्कलं शितसायकैः १०।
पुष्कलस्तद्रथं दिव्यं भ्रामकास्त्रेण शोभिना ।
नभसि भ्रामयामास तदद्भुतमिवाभवत् ११।
भ्रांत्वा मुहूर्तमात्रं तु सरथो हयसंयुतः ।
स्थितिर्लेभेतिकष्टेन संधृतो रणमंडले १२।
स चास्य विक्रमं दृष्ट्वा चित्रांगः कुपितो भृशम् ।
उवाच पुष्कलं धीमान्सर्वास्त्रेषु विशारदः १३।
चित्रांग उवाच।
त्वया साधुकृतं कर्म सुभटैर्युधिसंमतम् ।
मद्रथो वाजिसंयुक्तो भ्रामितो नभसि क्षणम् १४।
पराक्रमं समीक्षस्व ममापि सुभटेरितम् ।
आकाशचारी तु भवान्भवत्वमरपूजितः १५।
इत्युक्त्वा स मुमोचास्त्रं रणे परमदारुणम् ।
धनुषा परमास्त्रज्ञः सर्वधर्मविदुत्तमः १६।
तेन बाणेन संविद्धः खे बभ्राम पतंगवत् ।
सरथः सहयः संख्ये सध्वजश्च ससारथिः १७।
भ्रांत्वा सरथवर्यस्तु नभसि त्वरयान्वितः ।
यावत्स्थितिं न लभते तावन्मुक्तोऽपरः शरः १८।
पुनश्च परिबभ्राम रथः सूतसमन्वितः ।
तत्कर्मवीक्ष्य पुत्रस्य राज्ञो विस्मयमाप सः १९।
कथंचित्स्थितिमप्याप पुष्कलः परवीरहा ।
रथं जघान बाणैश्च ससूतहयमस्य च २०।
सभग्नस्यंदनो वीरः पुनरन्यं समाश्रितः ।
सोऽपि भग्नः शरैराशु पुष्कलेन रणांगणे २१।
पुनरन्यं समास्थाय यावदायाति संमुखम् ।
तावद्बभंज निशितैः सायकैस्तद्रथं पुनः २२।
एवं दश रथा भग्ना नृपतेरात्मजस्य हि ।
पुष्कलेन तु वीरेण महासंयुगशालिना २३।
तदा चित्रांगकः संख्ये रथे स्थित्वा विचित्रिते ।
आजगाम ह वेगेन पुष्कलं प्रति योधितुम् २४।
पुष्कलं पंचभिर्बाणैस्ताडयामास संयुगे ।
तैर्बाणैर्निहतोऽत्यतं विव्यथे भरतात्मजः २५।
सक्रुद्धश्चापमुद्यम्य बाणान्दश शितान्महान् ।
मुमोच हृदये तस्य स्वर्णपुंखसुशोभितान् २६।
ते बाणाः पपुरेतस्य रुधिरं बहुदारुणाः ।
पीत्वा पेतुः क्षितौ कूटसाक्षिणः पूर्वजा इव २७।
तदा चित्रांगकः क्रुद्धो भल्लान्पंच समाददे ।
मुमोच भाले पुत्रस्य भरतस्य महौजसः २८।
तैर्भल्लैराहतः क्रुद्धः शरासनवरे शरम् ।
दधत्प्रतिज्ञामकरोच्चित्रांगनिधनं प्रति २९।
शृणु वीर मम क्षिप्रं प्रतिज्ञां त्वद्वधाश्रिताम् ।
तज्ज्ञात्वा सावधानेन योद्धव्यं च त्वयात्र हि ३०।
बाणेनानेन चेत्त्वां वै न कुर्यां प्राणवर्जितम् ।
सतीं संदूष्य वनितां शीलाचारसुशोभिताम् ३१।
यो लोकः प्राप्यते लोकैर्यमस्य वशवर्तिभिः ।
स लोको मम वै भूयात्सत्यं मम प्रतिश्रुतम् ३२।
इति श्रेष्ठं वचः श्रुत्वा जहास परवीरहा ।
उवाच मतिमान्वीरः पुष्कलं वचनं शुभम् ३३।
मृत्युर्वै प्राणिनां भाव्यः सर्वत्रैव च सर्वदा ।
तस्मान्मे निधने दुःखं नास्ति शूरशिरोमणे ३४।
प्रतिज्ञा या कृता वीर त्वया वीरत्वशालिना ।
सा सत्यैव पुनर्मेऽद्य श्रूयतां व्याहृतं महत् ३५।
त्वद्बाणं मद्वधोद्युक्तं न च्छिंद्यां यदि चेदहम् ।
तदा प्रतिज्ञां शृणु मे सर्ववीराभिमानिनः ३६।
तीर्थं जिगमिषोर्यो वै कुर्यात्स्वांतविखंडनम् ।
एकादशीव्रतादन्यज्जानाति व्रतमुच्चकैः ३७।
तस्य पापं ममैवास्तु प्रतिज्ञापरिघातिनः ।
इति वाक्यमुदीर्यैव तूष्णींभूतो धनुर्दधे ३८।
तदानेन निषंगात्स्वादुद्धृत्य सायकं वरम् ।
कथयामास विशदं वाक्यं शत्रुवधावहम् ३९।
पुष्कल उवाच।
यदि रामांघ्रियुगुलं निष्कापट्येन चेतसा ।
उपासितं मया तर्हि मम वाक्यमृतं भवेत् ४०।
यदि स्वमहिलां भुक्त्वा नान्यां जानामिचेतसा ।
तेन सत्येन मे वाक्यं सत्यं भवतु संगरे ४१।
इति वाक्यमुदीर्याशु बाणं धनुषि संधितम् ।
कालानलोपमं वीरशिरश्छेदनमाक्षिपत् ४२।
तं बाणं मुक्तमालोक्य स तु राजसुतो बली ।
बाणं शरासने धत्त तीक्ष्णं कालानलोपमम् ४३।
तेन बाणेन संछिन्नो बाणः स्ववधउद्यतः ।
हाहाकारो महानासीच्छिन्ने तस्मिञ्छरे तदा ४४।
परार्धं पतितं भूमौ पूर्वार्धं फलसंयुतम् ।
शिरोधरां चकर्ताशु पद्मनालमिव क्षणात् ४५।
तदा भूमौ पतंतं तु दृष्ट्वा तत्तस्यसैनिकाः ।
हाहाकृत्वा भृशं सर्वे पलायनपरागताः ४६।
पृथ्व्यां तन्मस्तकं श्रेष्ठं सकिरीटं सकुंडलम् ।
शुशुभेऽतीव पतितं चंद्रबिंबं दिवो यथा ४७।
तं वीक्ष्य पतितं वीरः पुष्कलो भरतात्मजः ।
व्यगाहत व्यूहमिमं सर्ववीरैकशोभितम् ४८।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे चित्रांगवधोनाम सप्तविंशतितमोऽध्यायः २७ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 28
शेष उवाच।
अथ पुत्रं समालोक्य पतितं व्यसुमुद्धतम् ।
विललाप भृशं राजा सुतदुःखेन दुःखितः १।
मूर्ध्नि संताडयामास पाणिभ्यामतिदुःखितः ।
कम्पमानो भृशं चाश्रूण्यमुञ्चन्नयनाब्जयोः २।
गृहीत्वा पतितं वक्त्रं चंद्रबिंबमनोरमम् ।
पुष्कलेषु क्षतासृग्भिः क्लिन्नं कुंडलशोभितम् ३।
कुटिलभ्रूयुगं श्रेष्ठं संदष्टाधरपल्लवम् ।
स चुंबन्मुखपद्मेन विलपन्निदमब्रवीत् ४।
हा पुत्र वीर कथमुत्सुकचेतसं मां ।
किं नेक्षसे विशदनेत्रयुगेन शूर ।
किं मद्विनोदकथयारहितस्त्वमेव ।
रोषोदधिप्लुतमनाः किल लक्ष्यसे च ५।
वद पुत्र कथं मां त्वं प्रब्रूषे न हसन्पुनः ।
अमृतैर्मधुरास्वादैर्विनोदयसि पुत्रक ६।
शत्रुघ्नाश्वं गृहाण त्वं सितचामरशोभितम् ।
स्वर्णपत्रेण शोभाढ्यं त्यज निद्रां महामते ७।
एष प्रतापविशदः प्रतापाग्र्यः परंतपः ।
धनुर्बिभ्रत्पुरो भाति पुष्कलः परवीरहा ८।
एनं वारय सत्तीक्ष्णैर्बाणैः कोदंडनिर्गतैः ।
कथं त्वं रणमध्ये वै शेते वीरविमोहितः ९।
हस्तिनः पत्तयश्चैव रथारूढा भयार्दिताः ।
शरणं त्वां समायांति तानीक्षस्व महामते १०।
पुत्र त्वया विना सोढुं कथं शक्तो रणांगणे ।
शत्रुघ्नसायकांस्तीक्ष्णांश्चंडकोदंडनिर्गतान् ११।
अतो मां तु त्वया हीनं को वा पालयितुं क्षमः ।
यदि त्यक्ष्यसि निद्रा त्वं जयायाहं क्षमस्तदा १२।
इत्थं विलप्य सुभृशं तताड हृदयं स्वकम् ।
बहुशः पाणिना राजा पुत्रदुःखेन दुःखितः १३।
तदा विचित्र दमनौ स्व स्व स्यंदनसंस्थितौ ।
पितुश्चरणयोर्नत्वा ऊचतुः समयोचितम् १४।
राजन्नस्मासु जीवत्सु किं दुःखं हृदि तद्वद ।
वीराणां प्रधने मृत्युर्वांच्छितो जायते महान् १५।
धन्योऽयं बत चित्रांगो यो वीर भुवि शोभते ।
सकिरीटस्तु संदष्टदंतच्छदयुगः प्रभुः १६।
कथयाशु किमद्यैव कुर्वस्ते कार्यमीप्सितम् ।
शत्रुघ्नवाहिनीं सर्वां हन्व आवामनाथिनीम् १७।
अद्यैव पुष्कलं भ्रातुर्वधकारिणमाहवे ।
पातयावो रथाच्छित्त्वा शिरोमुकुटमंडितम् १८।
त्यज शोकं सुदुःखार्तः कथं भासि महामते ।
आज्ञापयावां मानार्ह कुरु युद्धे मतिं तथा १९।
इति वाक्यं समाकर्ण्य पुत्रयोर्वीरमानिनोः ।
शोकं त्यक्त्वा महाराजो युद्धाय मतिमादधात् २०।
तावपि प्रतियोद्धारं वांच्छंतौ रणदुर्मदौ ।
जग्मतुः कटके शत्रोरनंतभटपूरिते २१।
रिपुतापेन दमनो नीलरत्नेन चेतरः ।
युयुधाते रणे वीरौ प्रावृषीव बलाहकौ २२।
राजा कनकसन्नद्धे रथे मणिविचित्रिते ।
रत्नकूबरशोभाढ्ये तिष्ठंश्चापधरो बली २३।
ययौ योद्धुं तु शत्रुघ्नं वीरकोटभिरावृतम् ।
तृणीकुर्वन्महावीरान्धनुर्विद्याविशारदान् २४।
तं योद्धुमागतं दृष्ट्वा सुबाहुं रोषपूरितम् ।
पुत्रनाशेन कुर्वंतं सर्वसैन्यवधादिकम् २५।
शत्रुघ्नपार्श्वसंचारी हनूमांस्तमुपाद्रवत् ।
नखायुधो महानादं कुर्वन्मेघ इवाहवे २६।
सुबाहुस्तं हनूमंतमागच्छंतं महारवम् ।
उवाच प्रहसन्वाक्यं रोषपूरितलोचनः २७।
क्व गतः पुष्कलो हत्वा मत्पुत्रं रणमंडले ।
पातयाम्यद्य तस्याशु शिरो ज्वलितकुंडलम् २८।
क्व शत्रुघ्नो वाहपालः क्व च रामः कुतो भटाः ।
प्राणहंतारमायांतं पश्यंतु प्रधने तु माम् २९।
इति तद्वाक्यमाकर्ण्य हनूमान्निजगाद तम् ।
शत्रुघ्नो लवणच्छेत्ता वर्तते सैन्यपालकः ३०।
स कथं प्रधने युध्येत्सेवकेऽग्रे स्थिते नृप ।
मां विजित्य रणे तं च त्वं गंतासि नरर्षभ ३१।
इत्युक्तवंतं तरसा विव्याध दशसायकैः ।
हृदि वानरमत्युग्रं पर्वताग्र्यमिवस्थितम् ३२।
सबाणानागतांस्तांश्च गृहीत्वा करसंपुटे ।
चूर्णयामास तिलशः शितान्वैरिविदारणान् ३३।
चूर्णयित्वा शरांस्तांस्तु निनदन्घनगर्जितैः ।
पुच्छेनावेष्ट्य तस्योच्चै रथं निन्ये महाबलः ३४।
तदा तं नृपवर्योऽसावाकाशे स्थित एव सः ।
लांगूलं ताडयामास शिताग्रैः सायकैर्मुहुः ३५।
स ताडितस्तु पुच्छाग्रे शरैः सन्नतपर्वभिः ।
मुमोच तद्रथं दिव्यं कनकेन विचित्रितम् ३६।
स मुक्तस्तेन तरसा शरैस्तीक्ष्णैर्जघान तम् ।
हनूमंतं कपिवरं रोषसंपूरितेक्षणः ३७।
हनूमान्बाणविच्छिन्नः सर्वत्ररुधिराप्लुतः ।
महारोषं समाधत्त नृपोपरि कपीश्वरः ३८।
गृहीत्वा तस्य दंष्ट्राभी रथं हयसमन्वितम् ।
चूर्णयामस वेगेन तदद्भुतमिवाभवत् ३९।
स्वरथं भज्यमानं तु दृष्ट्वा राजा त्वरन्बली ।
अन्यं रथं समास्थाय युयुधे तं महाबलम् ४०।
पुच्छे मुखेऽथोरसि च भुजे चरणयोर्नृपः ।
जघान शरसंधानकोविदः परमास्त्रवित् ४१।
तदा क्रुद्धः कपिवरस्ताडयामास वक्षसि ।
पादेनोत्प्लुत्य वेगेन राज्ञः सुभटशोभिनः ४२।
स पदा प्रहतो भूमौ पपात किल मूर्च्छितः ।
मुखाद्वमन्नसृक्चोष्णं श्वासपूरप्रवेपितः ४३।
तदा प्रकुपितोऽत्यंतं हनूमान्प्रधनांगणे ।
अश्वान्वीरान्गजांश्चापि चूर्णयामास वेगतः ४४।
तदा सुकेतुस्तद्भ्राता तथा लक्ष्मीनिधिर्नृपः ।
उभावपि सुसन्नद्धौ युद्धाय समुपस्थितौ ४५।
राजानं मूर्च्छितं दृष्ट्वा प्रपलाय्य गता नराः ।
इतस्ततो बाणसंघैः क्षताः पुष्कलवर्षितैः ४६।
तद्भज्यमानं स्वबलं वीक्ष्य राजात्मजो बली ।
दमनः स्तंभयामास सेतुर्वार्धिमिवोच्चलम् ४७।
तदा तु मूर्च्छितो राजा स्वप्नमेकं ददर्श ह ।
रणमध्ये कपिवरप्रपदाघातताडितः ४८।
रामचंद्रस्त्वयोध्यायां सरयूतीरमंडपे ।
ब्राह्मणैर्याज्ञिकश्रेष्ठैर्बहुभिः परिवारितः ४९।
तत्र ब्रह्मादयो देवास्तत्र ब्रह्मांडकोटयः ।
कृतप्राञ्जलयस्तं वै स्तुवंति स्तुतिभिर्मुहुः ५०।
रामं श्यामं सुनयनं मृगशृंगपरिग्रहम् ।
गायंति नारदाद्याश्च वीणोल्लसितपाणयः ५१।
नृत्यंत्यप्सरसस्तत्र घृताची मेनकादयः ।
वेदा मूर्तिधरा भूत्वा उपतिष्ठंति राघवम् ५२।
यच्च किंचिद्वस्तुजातं सर्वशोभासमन्वितम् ।
तस्य दातारमखिलं भक्तानां भोगदायकम् ५३।
इत्येवमादिसंपश्यञ्जाग्रत्संज्ञामवाप सः ।
ब्रह्मशापहतज्ञानः किं दृष्टमिति वै वदन् ५४।
उत्थाय प्रययौ पद्भ्यां शत्रुघ्नचरणं प्रति ।
भृत्यकोटिपरीवारो रथकोटिपरीवृतः ५५।
सुकेतुं तु समाहूय विचित्रं दमनं तथा ।
युद्धं कर्तुं समुद्युक्तान्वारयामास धर्मवित् ५६।
उवाच तान्महाराजो धर्मात्मा धर्मसंयुतः ।
भ्रातःपुत्रौ शृणुत मे वाक्यं धर्मसमन्वितम् ५७।
मा युद्धं कुरुत क्षिप्रमनयस्तु महानभूत् ।
यद्रामचंद्रवाहं त्वमगृह्णाद्दमनोर्ज्जितम् ५८।
एष रामः परंब्रह्म कार्यकारणतः परम् ।
चराचरजगत्स्वामी न मानुषवपुर्धरः ५९।
एतद्धि ब्रह्मविज्ञानमधुना ज्ञातवानहम् ।
पुरासितांगशापेन हृतज्ञानधनोऽनघाः ६०।
अहं पुरा तीर्थयात्रां गतस्तत्त्वविवित्सया ।
तत्रानेके मया दृष्टा मुनयो धर्मवित्तमाः ६१।
असितांगं मुनिमहं गतवाञ्ज्ञातुमिच्छया ।
तदा प्रोवाच मां विप्रः कृपां कृत्वा ममोपरि ६२।
योऽसावयोध्याधिपतिः स परब्रह्मशब्दितः ।
तस्य या जानकी देवी साक्षात्सा चिन्मयी स्मृता ६३।
एनं तु योगिनः साक्षादुपासते यमादिभिः ।
दुस्तरा पारसंसारवारिधिं संतितीर्षवः ६४।
स्मृतमात्रो महापापहारी स गरुडध्वजः ।
य एनं सेवते विद्वान्स संसारं तरिष्यति ६५।
तदाहमहसं विप्रं कोऽयं रामस्तु मानुषः ।
केयं सा जानकी देवी हर्षशोकसमाकुला ६६।
अजन्मनः कथं जन्म अकर्तुः कृत्यमत्र किम् ।
जन्मदुःखजरातीतं कथयस्व मुने मम ६७।
इत्युक्तवंतं मां क्रुद्धः शशाप स मुनीश्वरः ।
अज्ञात्वा तत्स्वरूपं त्वं प्रतिब्रूषे ममाधम ६८।
एनं निंदसि रामं त्वं मानुषोऽयमिदं हसन् ।
तस्मात्त्वं तत्त्वसंमूढो भविष्यस्युदरंभरिः ६९।
तदाहं तस्य चरणावगृह्णं सदया युतः ।
दृष्ट्वा मे विनयं मां तु प्रावोचत्करुणानिधिः ७०।
त्वं रामस्य मखे विघ्नं करिष्यसि यदा नृप ।
तदा हनूमानंघ्रिं त्वां ताडयिष्यति वेगतः ७१।
तदा त्वं ज्ञास्यसे राजन्नान्यथा स्वमनीषया ।
पुराहमुक्तस्तेनैवं तद्दृष्टमधुना मया ७२।
यदा मां हनुमान्क्रुद्धस्ताडयामास वक्षसि ।
तदाऽदर्शं रमानाथं पूर्णब्रह्मस्वरूपिणम् ७३।
तस्मादश्वं तु शोभाढ्यमानयंतु महाबलाः ।
धनानि चैव वासांसि राज्यं चेदं समर्पये ७४।
रामं दृष्ट्वा कृतार्थः स्यामहं यज्ञेति पुण्यदे ।
आनयंतु हयं मह्यं रोचते तु तदर्पणम् ७५।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सुबाहुपराजयोनाम अष्टाविंशतितमोऽध्यायः२८ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 29
शेष उवाच।
ते तु तातवचः श्रुत्वा हर्षिताः संप्रहारिणः ।
तथेत्यूचुर्महाराजं रामदर्शनलालसम् १।
पुत्रा ऊचुः।
राजन्भवत्पदांभोजान्नान्यं जानीमहे वयम् ।
यत्तव स्वांततो जातं तद्भवत्वद्य वेगतः २।
अश्वोऽयं नीयतां तत्र सितचामरभूषितः ।
रत्नमालातिशोभाढ्यश्चंदनादिकचर्चितः ३।
राज्यमाज्ञाफलं स्वामिन्कोशा बहुसमृद्धयः ।
वासांसि सुमहार्हाणि सूक्ष्माणि सुगुणानि च ४।
चंदनं चंद्रकं चैव वाजिनः सुमनोहराः ।
हस्तिनस्तु मदोद्धूता रथाः कांचनकूबराः ५।
विचित्रतरवर्णादि नानाभूषणभूषिताः ।
दास्यः शतसहस्रं च दासाश्च सुमनोरमाः ६।
मणयः सूर्यसंकाशा रत्नानि विविधानि च ।
मुक्ताफलानि शुभ्राणि गजकुंभभवानि च ७।
विद्रुमाः शतसाहस्रा यद्यद्वस्तुमहोदयम् ।
तत्सर्वं रामचंद्राय देहि राजन्महामते ८।
सुतानस्मान्किंकरान्नः सर्वानर्पय भूपते ।
कथं न कुरुषेराजंस्तदधीनं नृपासनम् ९।
शेष उवाच।
इति पुत्रवचः श्रुत्वा हर्षितोऽभून्महीपतिः ।
उवाच च सुतान्वीरान्स्ववाक्यकरणोद्यतान् १०।
राजोवाच।
आनयंतु हयं सर्वे सन्नद्धाः शस्त्रपाणयः ।
नानारथपरीवारास्ततो यास्ये नृपं प्रति ११।
शेष उवाच।
इति राज्ञोवचः श्रुत्वा विचित्रो दमनस्तथा ।
सुकेतुः समरे शूरा जग्मुस्तस्याज्ञयोद्यताः १२।
ते गत्वाथ पुरीं शूरा वाजिनं सुमनोरमम् ।
सितचामरसंयुक्तं स्वर्णपत्राद्यलंकृतम् १३।
रत्नमालाविभूषाढ्यं चित्रपत्रेणशोभितम् ।
विचित्रमणिभूषाढ्यं मुक्ताजालस्वलंकृतम् १४।
रज्ज्वा धृतं महावीरैः पूर्वतः पृष्ठतो भटैः ।
महाशस्त्रास्त्रसंयुक्तैः सर्वशोभासमन्वितैः १५।
सितातपत्रमस्योच्चैर्भाति मूर्धनि वाजिनः ।
सुचामरद्वयं यस्य ध्रियते पुरतो मुहुः १६।
कृष्णागर्वादिधूपैश्च धूपितं वायुवेगिनम् ।
राज्ञः पुरो निनायाश्वं हयमेधस्य सत्क्रतोः १७।
तमानीतं हयं दृष्ट्वा रत्नमालाविभूषितम् ।
मनोजवं कामरूपं जहर्ष मतिमान्नृपः १८।
जगाम पद्भ्यां शत्रुघ्नं राजचिह्नाद्यलंकृतः ।
स्वपुत्रपौत्रैः संयुक्तो राजा परमधार्मिकः १९।
ययौ कर्तुं धनानां स सद्व्ययं चलगामिनाम् ।
एतद्विनश्वरं मत्वा दुःखदं सक्तचेतसाम् २०।
शत्रुघ्नं स ददर्शाथ सितच्छत्रेण शोभितम् ।
चामरैर्वीज्यमानञ्च सेवकैः पुरतः स्थितैः २१।
सुमतिं परिपृच्छंतं रामचंद्रकथानकम् ।
भयवार्ताविनिर्मुक्तं वीरशोभास्वलंकृतम् २२।
वीरैः कोटिभिराकीर्णं वाजिपालनकांक्षिभिः ।
वानराणां सहस्रैश्च समंतात्परिवारितम् २३।
दृष्ट्वा शत्रुघ्नचरणौ प्रणनाम सपुत्रकः ।
धन्योऽहमिति संहृष्टो वदन्रामैकमानसः २४।
शत्रुघ्नस्तं प्रणयिनं दृष्ट्वा राजानमुद्भटम् ।
उत्थायासनतः सर्वैर्भटैर्दोर्भ्यां स सस्वजे २५।
दृढं संपूज्य राजा तं शत्रुघ्नं परवीरहा ।
उवाच हर्षमापन्नो गद्गदस्वरया गिरा २६।
सुबाहुरुवाच।
अद्य धन्योस्मि ससुतः सकुटुंबः सवाहनः ।
यद्युष्मच्चरणौ द्रक्ष्ये नृपकोटिभिरीडितौ २७।
अज्ञानिना सुतेनायं गृहीतो वाजिनां वरः ।
दमनेनानयं त्वस्य क्षमस्व करुणानिधे २८।
न जानाति रघूत्तंसं सर्वदेवाधिदैवतम् ।
लीलया विश्वस्रष्टारं हंतारमपि पालकम् २९।
इदं राज्यं समृद्धांगं समृद्धबलवाहनम् ।
इमे कोशा धनैः पूर्णा इमे पुत्रा इमे वयम् ३०।
सर्वे वयं रामनाथास्त्वदाज्ञा प्रतिपालकाः ।
गृहाण सर्वं सफलं न मेऽस्ति क्वचिदुन्मतम् ३१।
क्वासौ हनूमान्रामस्य चरणांभोजषट्पदः ।
यत्प्रसादादहं प्राप्स्ये राजराजस्य दर्शनम् ३२।
साधूनां संगमे किं किं प्राप्यते न महीतले ।
यत्प्रसादादहं मूढो ब्रह्मशापमतीतरम् ३३।
दृष्ट्वा त्वद्य महाराजं पद्मपत्रनिभेक्षणम् ।
प्राप्स्यामि जन्मनः सर्वं फलं दुर्लभमत्र च ३४।
मम तावद्गतं चायुर्बहुरामवियोगिनः ।
स्वल्पमुर्वरितं तत्र कथं द्रक्ष्ये रघूत्तमम् ३५।
मह्यं दर्शयतं रामं यज्ञकर्मविचक्षणम् ।
यदंघ्रिरजसापूता शिलाभूता मुनिप्रिया ३६।
काकः परं पदं प्राप्तो यद्बाणस्पर्शनात्खगः ।
अनेके यस्य वक्त्राब्जं वीक्ष्य संख्ये पदं गताः ३७।
ये त्वस्य रघुनाथस्य नाम गृह्णंति सादराः ।
ते यांति परमं स्थानं योगिभिर्यद्विचिंत्यते ३८।
धन्यायोध्याभवा लोका ये राममुखपंजम् ।
स्वलोचनपुटैः पीत्वा सुखं यांति महोदयम् ३९।
इति संभाष्य नृपतिं वाहं राज्यं धनानि च ।
सर्वं समर्प्य चावोचत्किंकरोस्मि महीपते ४०।
इति वाक्यं समाकर्ण्य राज्ञः परपुरंजयः ।
प्रत्युवाचेति तं भूपं वाग्मी वाक्यविशारदः ४१।
शत्रुघ्न उवाच।
कथं राजन्निदं ब्रूषे त्वं वृद्धो मम पूजितः ।
सर्वं त्वदीयं त्वद्राज्यं दमनो विदधात्वयम् ४२।
क्षत्त्रियाणामिदं कृत्यं यत्संग्रामविधायकम् ।
सर्वं राज्यं धनं चेदं प्रतियातु ममाज्ञया ४३।
यथा मे रघुनाथस्तु पूज्यो वाङ्मनसा सदा ।
तथा त्वमपि मत्पूज्यो भविष्यसि महीपते ४४।
भवान्सज्जो भवत्वद्य हयस्यानुगमं प्रति ।
सन्नद्धः कवची खड्गी गजाश्वरथसंयुतः ४५।
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतिः ।
पुत्रं राज्येऽभिषेच्यैव शत्रुघ्नेन सुपूजितः ४६।
महारथैः परिवृतो निजं पुत्रं रणांगणे ।
पुष्कलेन हतं भूपः संस्कृत्य विधिपूर्वकम् ४७।
क्षणं शुशोच तत्त्वज्ञो लोकदृष्ट्या महारथः ।
ज्ञानेनानाशयच्छोकं रघुनाथमनुस्मरन् ४८।
सज्जीभूतो रथे तिष्ठन्महासैन्यसमावृतः ।
आजगाम स शत्रुघ्नं महारथिपुरस्कृतः ४९।
राजा तमागतं दृष्ट्वा सर्वसैन्यसमन्वितम् ।
गंतुं चकार धिषणां हयवर्यस्य पालने ५०।
सोऽश्वो विमोचितस्तेन भाले पत्रेण चिह्नितः ।
वामावर्तं भ्रमन्प्रायात्पौर्वाञ्जनपदान्बहून् ५१।
तत्रतत्रत्य भूपालैर्महाशूराभिपूजितैः ।
प्रणतिः क्रियते तस्य न कोपि तमगृह्णत ५२।
केचिद्वासांसि चित्राणि केचिद्राज्यं स्वकं महत् ।
केचिद्धनं जनं केचिदानीय प्रणमंति तम् ५३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नस्य सुबाहुना सह निर्याणंनाम एकोनत्रिंशत्तमोऽध्यायः २९ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 30
शेष उवाच।
अथ तेजःपुरं प्राप्तस्तुरगः पत्रशोभितः ।
यस्यां पालयते राजा प्रजाः सत्येन सत्यवान् १।
अथ कोटिपरीवारो रघुनाथानुजस्ततः ।
हयानुगो ययौ तस्य पुरतः पुरधर्षणः २।
तद्दृष्ट्वा नगरं रम्यं चित्रप्राकारशोभितम् ।
कांचनैः कलशैस्तत्र परितः प्रतिभासितम् ३।
देवायतनसाहस्रैः सर्वतश्च विराजितम् ।
यतीनां तु मठास्तत्र शोभंते यतिपूरिताः ४।
वहत्यत्र महादेवी शिखिलोचनमूर्धगा ।
हंसकारंडवाकीर्णामुनिवृंदनिषेविता ५।
ब्राह्मणानां प्रत्यगारमग्निहोत्रभवः पुनः ।
धूमस्तत्र पुनात्यंग पातकाप्लुतमानसान् ६।
उवाच सुमतिं राजा शत्रुघ्नः शत्रुतापनः ।
तत्पुरप्रेक्षणोद्भूतहर्षविस्मितमानसः ७।
शत्रुघ्न उवाच।
मंत्रिन्कथय कस्येदं पुरं मे दृष्टिगोचरम् ।
करोति मानसाह्लादं धर्मेण प्रतिपालितम् ८।
शेष उवाच।
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतेः ।
उवाच सुमतिः सर्वं यथातथमनुद्धतम् ९।
सुमतिरुवाच।
शृणुष्वावहितः स्वामिन्वैष्णवस्य कथाः शुभाः ।
याः श्रुत्वा मुच्यते पापाद्ब्रह्महत्यासमादपि १०।
जीवन्मुक्तो वरीवर्ति रामांघ्र्यंबुजषट्पदः ।
सत्यवान्यज्ञयज्ञांग ज्ञाता कर्ताऽविता महान् ११।
धेनुं प्रसाद्य बहुभिर्व्रतैर्यं प्राप तत्पिता ।
ऋतंभराख्यो जगति ख्यातः परमधार्मिकः १२।
गौः प्रसन्ना ददौ पुत्रमनेकगुणसंस्कृतम् ।
सत्यवंतं सुशोभाढ्यं तं जानीहि नृपोत्तमम् १३।
शत्रुघ्न उवाच।
को वा ऋतंभरो राजा किमर्थं धेनुपूजनम् ।
कथं प्राप्तः सुतस्तस्य वैष्णवो विष्णुसेवकः १४।
सर्वमेतत्समाचक्ष्व वैष्णवस्य कथानकम् ।
श्रुतं हरति जंतूनां महापातकपर्वतम् १५।
शेष उवाच।
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महार्थकम् ।
कथयामास विशदं तदुत्पत्तिकथानकम् १६।
ऋतंभरो नरपतिरनपत्यः पुराऽभवत् ।
कलत्राणि बहून्यस्य न पुत्रं प्राप तेषु वै १७।
तदा जाबालिनामानं मुनिं दैवादुपागतम् ।
प्रपच्छ कुशलोद्युक्तः सपुत्रोत्पत्तिकारणम् १८।
ऋतंभर उवाच।
स्वामिन्वंध्यस्य मे ब्रूहि पुत्रोत्पत्तिकरं वचः ।
यत्कृत्वा जायतेऽपत्यं मम वंशधरं वरम् १९।
तज्ज्ञात्वा भवतो भव्यं प्रकुर्यां निश्चितं वचः ।
दानं व्रतं वा तीर्थं वा मखं वा मुनिसत्तम २०।
इति राज्ञोवचः श्रुत्वा जगाद मुनिसत्तमः ।
सुतोत्पत्तिकरं वाक्यं प्रणतस्य सुतार्थिनः २१।
अपत्यप्राप्तिकामस्य संत्युपायास्त्रयः प्रभो ।
विष्णोः प्रसादो गोश्चापि शिवस्याप्यथवा पुनः २२।
तस्मात्त्वं कुरु वै पूजां धेनोर्देवतनोर्नृप ।
यस्याः पुच्छे मुखे शृंगे पृष्ठे देवाः प्रतिष्ठिताः २३।
सा तुष्टा दास्यति क्षिप्रं वांछितं धर्मसंयुतम् ।
एवं विदित्वा गोपूजां विधेहि त्वमृतंभर २४।
यो वै नित्यं पूजयति गां गेहे यवसादिभिः ।
तस्य देवाश्च पितरो नित्यं तृप्ता भवंति हि २५।
यो वै गवाह्निकं दद्यान्नियमेन शुभव्रतः ।
तेन सत्येन तस्य स्युः सर्वे पूर्णा मनोरथाः २६।
तृषिता गौर्गृहे बद्धा गेहे कन्या रजस्वला ।
देवता च सनिर्माल्या हंति पुण्यं पुराकृतम् २७।
यो वै गां प्रतिषिद्ध्येत चरंतीं स्वं तृणं नरः ।
तस्य पूर्वे च पितरः कंपंते पतनोन्मुखाः २८।
यो वै यष्ट्या ताडयति धेनुं मर्त्यो विमूढधीः ।
धर्मराजस्य नगरं स याति करवर्जितः २९।
यो वै दंशान्वारयति तस्य पूर्वे ह्यधोगताः ।
नृत्यंति मत्सुतो ह्यस्मांस्तारयिष्यति भाग्यवान् ३०।
अत्रैवोदाहरंतीममितिहासं पुरातनम् ।
जनकस्य पुरावृत्तं धर्मराजपुरेऽद्भुतम् ३१।
एकदा जनको राजा योगेनासून्समत्यजत् ।
तदा विमानं संप्राप्तं किंकिणीजालभूषितम् ३२।
तदारुह्य गतो राजा सेवकैरूढदेहवान् ।
मार्गे जगाम धर्मस्य संयमिन्याः पुरोंऽतिके ३३।
तदा नरककोटीषु पीड्यंते पापकारिणः ।
जनकस्यांगपवनं प्राप्य सौख्यं प्रपेदिरे ३४।
निरये दाहजापीडा जातैषां सुखकारिणी ।
महादुःखं तदा नष्टं जनकस्यांगवायुना ३५।
तदा तं निर्गतं दृष्ट्वा जंतवः पापपीडिताः ।
अत्यंतं चुक्रुशुर्भीतास्तद्वियोगमनिच्छवः ३६।
ऊचुस्ते करुणां वाचं मा गच्छ सुकृतिन्नितः ।
त्वदंगवायुसंस्पर्शात्सुखिनः स्यामपीडिताः ३७।
इति वाक्यं समाकर्ण्य राजा परमधार्मिकः ।
मानसे चिंतयामास करुणापूरपूरितः ३८।
चेन्मत्तः प्राणिनां सौख्यं भवेदिह तदा पुनः ।
अत्रैव च पुरे स्थास्ये स्वर्ग एष मनोरमः ३९।
एवं कृत्वा नृपस्तस्थौ तत्रैव निरयाग्रतः ।
विदधत्प्राणिनां सौख्यमनुकंपितमानसः ४०।
तत्र धर्मस्तु संप्राप्तो निरयद्वारि दुःखदे ।
कारयन्यातनास्तीव्रा नानापातककारिणाम् ४१।
तदा ददर्श राजानं जनकं द्वारिसंस्थितम् ।
विमानेन महापुण्यकारिणं दययायुतम् ४२।
तमुवाच प्रेतपतिर्जनकं सहसन्गिरा ।
राजन्कुतस्त्वं संप्राप्तः सर्वधर्मशिरोमणिः ४३।
एतत्स्थानं पातकिनां दुष्टानां प्राणघातिनाम् ।
नायांति पुरुषा भूप त्वादृशाः पुण्यकारिणः ४४।
अत्रायांति नरास्ते वै ये परद्रोहतत्पराः ।
परापवादनिरताः परद्रव्यपरायणाः ४५।
यो वै कलत्रं धर्मिष्ठं निजसेवापरायणम् ।
अपराधादृते जह्यात्सनरोऽत्र समाव्रजेत् ४६।
मित्रं वञ्चयते यस्तु धनलोभेन लोभितः ।
आगत्यात्र नरः पीडां मत्तः प्राप्नोति दारुणाम् ४७।
यो रामं मनसा वाचा कर्मणा दंभतोऽपि वा ।
द्वेषाद्वाचोपहासाद्वा न स्मरत्येव मूढधीः ४८।
तं बध्नामि पुनस्त्वेषु निक्षिप्य श्रपयामि च ।
यैः स्मृतो न रमानाथो नरकक्लेशवारकः ४९।
तावत्पापं मनुष्याणामंगेषु नृप तिष्ठति ।
यावद्रामं न रसना गृणाति कलि दुर्मतेः ५०।
महापापकरा राजन्ये भवंति महामते ।
तानानयंति मद्भृत्यास्त्वादृशान्द्रष्टुमक्षमाः ५१।
तस्माद्गच्छ महाराज भुंक्ष्व भोगाननेकशः ।
विमानवरमारुह्य भुंक्ष्व पुण्यमुपार्जितम् ५२।
इति वाक्यं समाकर्ण्यध र्मराजस्य तत्पतेः ।
उवाच धर्मराजानं करुणापूरपूरितः ५३।
जनक उवाच।
अहं गच्छामि नो नाथ जीवानामनुकम्पया ।
मदंगवायुना ह्येते सुखं प्राप्ताः स्म संस्थिताः ५४।
एतान्मुंचसि चेद्राजन्सर्वान्वै निरयस्थितान् ।
ततो गच्छामि सुखितः स्वर्गं पुण्यजनाश्रितम् ५५।
जाबालिरुवाच।
इति वाक्यमथाश्रुत्य जनकं प्रत्युवाच सः ।
प्रत्येकं निर्दिशञ्जीवान्निरयस्थाननेकशः ५६।
धर्म उवाच।
अयं मित्र कलत्रं वै विश्वस्तमनुजग्मिवान् ।
तस्मादेनं लोहशंकौ वर्षायुतमपीपचम् ५७।
पश्चादेनं सूकराणां योनौ निक्षिप्य दोषिणम् ।
मानुषेष्ववतार्योऽयं षंढचिह्नेन चिह्नितः ५८।
अनेन परदाराश्च बलादालिगिता मुहुः ।
तस्मादयं पच्यतेऽत्र रौरवे शतहायनम् ५९।
अयं तु परकीयं स्वं मुषित्वा बुभुजे कुधीः ।
तस्मादस्य करौ छित्त्वा पचेयं पूयशोणिते ६०।
अयं सायंतने प्राप्तमतिथिं क्षुधयार्दितम् ।
वाण्यापि नाकरोत्तस्य पूजनं स्वागतं न च ६१।
तस्मादयं पातनीयस्तामिस्रेंधनपूरिते ।
भ्रमरैः पीडितो यातु यातनां शतहायनम् ६२।
अयं तावत्परस्योच्चैर्निंदां कुर्वन्नलज्जितः ।
अयमप्यशृणोत्कर्णौ प्रेरयन्बहुशस्तु ताम् ६३।
तस्मादिमावंधकूपे पतितौ दुःखदुःखितौ ।
अयं मित्रध्रुगुद्विग्नः पच्यते रौरवे भृशम् ६४।
तस्मादेतान्पापभोगान्कारयित्वा विमोचये ।
त्वं गच्छ नरशार्दूल पुण्यराशिविधायकः ६५।
जाबालिरुवाच।
एवं स निर्दिशञ्जीवांस्तूष्णीमासाघकारिणः ।
प्रोवाच रामभक्तोऽसौ करुणापूरितेक्षणः ६६।
जनक उवाच।
कथं निरयनिर्मुक्तिर्जीवानां दुःखिनां भवेत् ।
तदाशु कथय त्वं वै यत्कृत्वा सुखमाप्नुयुः ६७।
धर्म उवाच।
नैभिराराधितो विष्णुर्नैभिस्तस्य कथाः श्रुताः ।
कथं निरयनिर्मुक्तिर्भवेद्वै पापकारिणाम् ६८।
यदि त्वं मोचयस्येतान्महापापकरानपि ।
तर्ह्यर्पय महाराज पुण्यं तत्कथयामि यत् ६९।
एकदा प्रातरुत्थाय शुद्धभावेन चेतसा ।
ध्यातः श्रीरघुनाथोऽसौ महापापहराभिधः ७०।
रामरामेति यच्चोक्तं त्वया शुद्धेन चेतसा ।
तत्पुण्यमर्पयैतेभ्यो येन स्यान्निरयाच्च्युतिः ७१।
जाबालिरुवाच।
एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य धीमतः ।
पुण्यं ददौ महाराज आजन्मसमुपार्जितम् ७२।
यदा जन्मकृतैः पुण्यै रघुनाथार्चनोद्भवैः ।
एतेषां निरयान्मुक्तिर्भवत्वत्र मनोरमा ७३।
एवं कथयतस्तस्य जीवा निरयसंस्थिताः ।
तत्क्षणान्निरयान्मुक्ता जाता दिव्यवपुर्धराः ७४।
ऊचुस्ते जनकं राजंस्त्वत्प्रसादाद्वयं क्षणात् ।
दुःखदान्निरयान्मुक्ता यास्यामः परमं पदम् ७५।
तान्दृष्ट्वा सूर्यसंकाशान्नरान्निरयनिःसृतान् ।
तुतोष चित्ते सुभृशं सर्वभूतदयापरः ७६।
ते सर्वे प्रययुर्लोकं दिवं देवैरलंकृतम् ।
जनकं तु प्रशंसंतो महाराजं दयानिधिम् ७७।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवदाख्याने जनकेन नरकस्थप्राणिमोचनंनाम त्रिंशोऽध्यायः ३० ।
खण्डः ५ (पातालखण्डः) — Adhyāya 31
जाबालिरुवाच।
अथ तेषु प्रयातेषु नरकस्थेषु वै नृषु ।
राजा पप्रच्छ कीनाशं सर्वधर्मविदांवरम् १।
राजोवाच।
धर्मराज त्वया प्रोक्तं यत्पातककरा नराः ।
आयांति तव संस्थानं न च धर्मकथारताः २।
मदागमनमत्राभूत्केनपापेन धार्मिक ।
तद्वै कथय सर्वं मे पापकारणमादितः ३।
इति श्रुत्वा तु तद्वाक्यं धर्मराजः परंतप ।
कथयामास तस्यैवं यमपुर्यागमं तदा ४।
धर्मराज उवाच।
राजंस्तव महत्पुण्यं नैतादृक्कस्य भूतले ।
रघुनाथपदद्वंद्वमकरंद मधुव्रत ५।
त्वत्कीर्ति स्वर्धुनी सर्वान्पापिनो मलसंयुतान् ।
पुनाति परमाह्लादकारिणी दुष्टतारिणी ६।
तथापि पापलेशस्ते वर्तते नृपसत्तम ।
येन संयमिनीपार्श्वमागतः पुण्यपूरितः ७।
एकदा तु चरंतीं गां वारयामास वै भवान् ।
तेन पापविपाकेन निरयद्वारदर्शनम् ८।
इदानीं पापनिर्मुक्तो बहुपुण्यसमन्वितः ।
भुंक्ष्व भोगान्सुविपुलान्निजपुण्यार्जितान्बहून् ९।
एतेषां करुणावार्धी रघुनाथो सुखं हरन् ।
संयमिन्या महामार्गे प्रेरयामास वैष्णवम् १०।
नागमिष्यो यदि त्वं वै मार्गेणानेन सुव्रत ।
अभविष्यत्कथं तेषां निरयात्परिमोचनम् ११।
त्वादृशाः परदुःखेन दुःखिताः करुणालयाः ।
प्राणिनां दुःखविच्छेदं कुर्वंत्येव महामते १२।
जाबालिरुवाच।
एवं वदंतं शमनं प्रणम्य स दिवंगतः ।
दिव्येन सुविमानेन अप्सरोगणशोभिना १३।
तस्माद्गावोऽनिशं पूज्या मनसापि न गर्हयेत् ।
गर्हयन्निरयं याति यावदिंद्राश्चतुर्दश १४।
तस्मात्त्वं नृपतिश्रेष्ठ गोपूजां वै समाचर ।
सा तुष्टा दास्यति क्षिप्रं पुत्रं धर्मपरायणम् १५।
सुमतिरुवाच।
तच्छ्रुत्वा धेनुपूजां स पप्रच्छ कथमादरात् ।
पूजनीया प्रयत्नेन कीदृशं कुरुते नरम् १६।
जाबालि कथयामास धेनुपूजां यथाविधि ।
प्रत्यहं विपिनं गच्छेच्चारणार्थं व्रती तु गोः १७।
गवे यवांस्तु संभोज्य गोमयस्थान्समाहरेत् ।
भक्षणीया यवास्ते तु पुत्रकामेन भूपते १८।
सा यदा पिबते तोयं तदा पेयं जलं शुचि ।
सोच्चैः स्थाने यदा तिष्ठेत्तदानीं चासनस्थितः १९।
दंशान्निवारयेन्नित्यं यवसं स्वयमाहरेत् ।
एवं प्रकुर्वतः पुत्रं दास्यते धर्मतत्परम् २०।
सुमतिरुवाच।
इति वाक्यं समाकर्ण्य पुत्रकाम ऋतंभरः ।
व्रतं चकार धर्मात्मा धेनुपूजां समाचरन् २१।
प्रत्यहं कुरुते गां वै यवसाद्येन तोषिताम् ।
दंशान्न्यवारयद्धीमान्यवभक्षकृतादरः २२।
एवं धेनुं पूजयतो गतास्तु दिवसा घनाः ।
वनमध्ये तृणादींश्च चरंतीमकुतोभयाम् २३।
एकदा नृपतिस्तस्य वनस्य श्रीनिरीक्षणे ।
न्यस्तदृष्टिः सपरितो बभ्राम स कुतूहली २४।
तदागत्याहनद्गां वै पंचास्यः काननांतरात् ।
क्रोशंतीं बहुधा दीनां सिंहभारेणदुःखिताम् २५।
तदा नृपः समागत्य विलोक्य निजमातरम् ।
सिंहेन निहतां पश्यन्रुरोदातीव विह्वलः २६।
स दुःखितः समागत्य जाबालिमुनिसत्तमम् ।
निष्कृतिं तस्य पप्रच्छ गोवधस्य प्रमादतः २७।
ऋतंभर उवाच।
स्वामिंस्त्वदाज्ञया धेनुं पालयन्वनमास्थितः ।
कुतोप्यागत्य तां सिंहो जघानादृष्टिगोचरः २८।
तस्य पापस्य निष्कृत्यै किं करोमि त्वदाज्ञया ।
कथं वा व्रतसंपूर्तिर्मम पुत्रप्रदायिनी २९।
इत्युक्तवंतं तं भूपं जगाद मुनिसत्तमः ।
संत्युपाया महीपाल पापस्यास्यापनुत्तये ३०।
ब्रह्मघ्नस्य कृतघ्नस्य सुरापस्य महामते ।
प्रायश्चित्तानि वर्तंते सर्वपापहराणि च ३१।
कृच्छ्रैश्चांद्रायणैर्दानैर्व्रतैः सनियमैर्यमैः ।
पापानि प्रलयं यांति नियमादनुतिष्ठतः ३२।
द्वयोश्च निष्कृतिर्नास्ति पापपुंजकृतोस्तयोः ।
मत्या गोवधकर्तुश्च नारायणविनिंदितुः ३३।
गवां यो मनसा दुःखं वांच्छत्यधमसत्तमः ।
स याति निरयस्थानं यावदिंद्राश्चतुर्दश ३४।
योऽपि देवं हरिं निंदेत्सकृद्दुर्भाग्यवान्नरः ।
स चापि नरकं पश्येत्पुत्रपौत्रपरीवृतः ३५।
तस्माज्ज्ञात्वा हरिं निंदन्गोषु दुःखं समाचरन् ।
कदापि नरकान्मुक्तिं न प्राप्नोति नरेश्वर ३६।
अज्ञानप्राप्तगोहत्या प्रायश्चित्तं तु विद्यते ।
रामभक्तं तु धीमंतं याहि त्वमृतुपर्णकम् ३७।
स वै समदृशः सर्वाञ्छत्रून्मित्राणि पश्यति ।
तुभ्यं कथिष्यति क्षिप्रं गोवधस्यास्य निष्कृतिम् ३८।
तस्य देशांस्त्वमाक्रामंस्तेन निर्वासितः पुरा ।
वैरिभावं परित्यज्य गच्छ त्वमृतुपर्णकम् ३९।
स यद्वदिष्यति क्षिप्रं तत्कुरुष्व समाहितः ।
यथा त्वत्कृतपापस्य निष्कृतिर्हि भविष्यति ४०।
स तु तद्वचनं श्रुत्वा जगाम ऋतुपर्णकम् ।
रामभक्तं रिपौ मित्रे समदृष्ट्या समंजसम् ४१।
स तस्मै कथयामास यज्जातं गोवधादिकम् ।
तस्य पापस्य निष्कृत्यै ह्युपायं सोऽप्यचिंतयत् ४२।
क्षणं ध्यात्वाथ तं राजा ऋतुपर्ण ऋतंभरम् ।
उवाच प्रहसन्वाक्यं बुद्धिमान्धर्मकोविदः ४३।
कोऽहं राजन्मुनीनां वै पुरतः शास्त्रवेदिनाम् ।
तान्हित्वा किं तु मां प्राप्तो मूर्खंपंडितमानिनम् ४४।
तव मय्यस्ति चेच्छ्रद्धा तदा किंचिद्ब्रवीम्यहम् ।
शृणुष्व नरशार्दूल गदितं मम सादरः ४५।
भज श्रीरघुनाथं त्वं कर्मणा मनसा गिरा ।
नैष्कापट्येन लोकेशं तोषयस्व महामते ४६।
स तुष्टो दास्यते सर्वं त्वद्धृदिस्थं मनोरथम् ।
अज्ञानकृत गोहत्यापापनाशं करिष्यति ४७।
रामं स्मरंस्त्वं धर्मात्मन्धेनुं पालय सत्तम ।
दत्त्वा द्विजाय कनकं पापनिष्कृतिमाप्स्यसि ४८।
सुमतिरुवाच।
एतच्छ्रुत्वा तु तद्वाक्यमृतंभरनृपस्तदा ।
विधाय रामस्मरणं पूतात्मा व्रतमाचरत् ४९।
पूर्ववत्पालयन्धेनुं जगाम विपिनं महत् ।
रामनामस्मरन्नित्यं सर्वभूतहिते रतः ५०।
तस्मै तुष्टा तु सुरभिः प्रोवाच परितोषिता ।
राजन्वरय मत्तो वै वरं हृत्स्थं मनोरथम् ५१।
तदा प्रोवाच वै राजा पुत्रं देहि मनोरमम् ।
रामभक्तं पितृरतं स्वधर्मप्रतिपालकम् ५२।
तुष्टा दत्त्वा वरं सापि तस्मै राज्ञे सुतार्थिने ।
जगामादर्शनं देवी कामधेनुः कृपावती ५३।
स काले प्राप्तवान्पुत्रं वैष्णवं रामसेवकम् ।
सत्यवत्संज्ञयायुक्तमकरोत्तत्र तत्पिता ५४।
सत्यवंतं सुतं लब्ध्वा पितृभक्तिपरं महान् ।
परमं हर्षमापेदे शक्रतुल्यपराक्रमम् ५५।
स राजा धार्मिकं पुत्रं प्राप्य हर्षेणनिर्भरः ।
राज्यं तस्मिन्महन्न्यस्य जगाम तपसे वनम् ५६।
तत्राराध्य हृषीकेशं भक्तियुक्तेन चेतसा ।
निर्धूतपापः सतनुरगाद्धरिपदं नृपः ५७।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवदा-।
ख्याने धेनुव्रतवर्णनंनाम एकत्रिंशोऽध्यायः ३१ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 32
सुमतिरुवाच।
असावपि नृपः सौम्य सत्यवान्नाम विश्रुतः ।
निजधर्मेण लोकेशं रघुनाथमतोषयत् १।
अस्मै तुष्टो रमानाथो ददौ भक्तिमचंचलाम् ।
निजांघ्रिपद्मे यजतां दुर्लभां पुण्यकोटिभिः २।
नित्यं श्रीरघुनाथस्य कथानकमनातुरः ।
कुरुते सर्वलोकानां पावनं कृपयायुतः ३।
यो न पूजयते देवं रघुनाथं रमापतिम् ।
स तेन ताड्यते दंडैर्यमस्यापि भयावहैः ४।
अष्टमाद्वत्सरादूर्ध्वमशीतिवत्सरो भवेत् ।
तावदेकादशी सर्वैर्मानुषैः कारिताऽमुना ५।
तुलसी वल्लभा यस्य कदाचिद्यच्छिरोधराम् ।
न मुंचति रमानाथ पादपद्मस्रगुत्तमा ६।
ऋषीणामपि पूज्योयमितरेषां कथं नहि ।
रघुनाथस्मृतिप्रीतिर्धूतपाप्मा हताशुभः ७।
ज्ञात्वायं रामचंद्रस्य वाजिनं परमाद्भुतम् ।
आगत्य तुभ्यं संदास्यत्येतद्राज्यमकंटकम् ८।
त्वया यद्गदितं राजंस्तत्ते कथितमुत्तमम् ।
पुनः किं पृच्छसे स्वामिन्नाज्ञापय करोमि तत् ९।
शेष उवाच।
गतोऽश्वस्तत्पुरांतस्तु नानाश्चर्यसमन्वितः ।
तं दृष्ट्वा जनताः सर्वा राज्ञे गत्वा न्यवेदयन् १०।
जनता ऊचुः।
कोऽप्यश्वः सितवर्णेन गंगाजलसमेन वै ।
भाले सौवर्णपत्रेण राजमानः समागतः ११।
तच्छ्रुत्वा वचनं रम्यं जनानां हृद्यमीरितम् ।
ताः प्रत्याह हसन्भूपो ज्ञायतां कस्य वै हयः १२।
ताश्चैनं कथयामासुः शत्रुघ्नेन प्रपालितः ।
आयात्यश्वो महीभर्तू रामस्य पुरमध्यतः १३।
रामस्य नाम स श्रुत्वा द्व्यक्षरं सुमनोरमम् ।
जहर्ष चित्ते सुभृशं गद्गदस्वरचिन्हितः १४।
मयायोध्यापतिर्नित्यं यो रामश्चिन्त्यते हृदि ।
तस्याश्वः सहशत्रुघ्नः समायातः पुरं मम १५।
हनूमांस्तत्र रामांघ्रिसेवाकर्ता भविष्यति ।
कदाचिदपि यो रामं न विस्मरति मानसे १६।
गच्छामि यत्र शत्रुघ्नो यत्र मारुतनंदनः ।
अन्येऽपि यत्र पुरुषा रामपादाब्जसेवकाः १७।
अमात्यमादिदेशाथ सर्वं राजधनं महत् ।
गृहीत्वा तु मया सार्द्धमागच्छ त्वरया युतः १८।
यास्येऽहं रघुनाथस्य हयं पालयितुं वरम् ।
कर्तुं च रामपादाब्जपरिचर्यां सुदुर्लभाम् १९।
इत्युक्त्वा निर्जगामाथ शत्रुघ्नं प्रति सैनिकैः ।
तावत्पुरीमथ प्राप्तो रामभ्राता ससैनिकः २०।
वीरा गर्जंति प्रबला रथाः सुनिनदंति च ।
जयशंखस्वनास्तत्र वेणुनादाश्च सर्वतः २१।
आगत्य सत्यवान्राजा मंत्रिभिः सुसमन्वितः ।
चरणे प्रणिपत्यास्मै राज्यं प्रादान्महाधनम् २२।
शत्रुघ्नस्तं तु राजानं ज्ञात्वा राममनुव्रतम् ।
तद्राज्यं तस्य पुत्राय रुक्मनाम्ने ददौ महत् २३।
हनूमंतं परीरभ्य सुबाहुं रामसेवकम् ।
अन्यान्वै रामभक्तांश्च परिरभ्य महायशाः २४।
कृतार्थमिव चात्मानं मेने सत्यसमन्वितः ।
ननंद चेतसि तदा शत्रुघ्नेन समन्वितः २५।
हयस्तावद्गतो दूरं वीरैः सुपरिरक्षितः ।
शत्रुघ्नस्तेन भूपेन ययौ वीरसमन्वितः २६।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवत्समागमोनाम द्वात्रिंशोऽध्यायः ३२ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 33
शेष उवाच।
गच्छत्सु रथिवर्येषु शत्रुघ्नादिषु भूरिषु ।
महाराजेषु सर्वेषु रथकोटियुतेषु च १।
अकस्मादभवन्मार्गे तमः परमदारुणम् ।
यस्मिन्स्वीयो न पारक्यो लक्ष्यते ज्ञातिभिर्नरैः २।
रजसा व्यावृतं व्योम विद्युत्स्तनितसंकुलम् ।
एतादृशे तु संमर्दे महाभयकरे ततः ३।
मेघा वर्षंति रुधिरं पूयामेध्यादिकं बहु ।
अत्याकुला बभूवुस्ते वीराः परमवैरिणः ४।
आकुलीकृतलोके तु किमिदं किमिति स्थितिः ।
तमोव्याप्तानि लोकानां चक्षूंषि प्रथितौजसाम् ५।
जहाराश्वं रावणस्य सुहृत्पातालसंस्थितः ।
विद्युन्मालीति विख्यातो राक्षसश्रेणिसंवृतः ६।
कामगे सुविमाने तु सर्वायसनिषेविणि ।
आरूढोऽश्वं तु वीराणां भयं कुर्वञ्जहार ह ७।
मुहूर्तात्तत्तमो नष्टमाकाशं विमलं बभौ ।
वीराः शत्रुघ्नमुख्यास्ते प्रोचुः कुत्र हयोऽस्ति सः ८।
ते सर्वे हयराजं तु लोकयंतः परस्परम् ।
ददृशुर्न यदा वाहं हाहाकारस्तदाभवत् ९।
कुत्राश्वो हयमेधस्य केन नीतः कुबुद्धिना ।
इति वाचमवोचंस्ते तावत्स दनुजेश्वरः १०।
ददृशे सुभटैः सर्वै रथस्थैः शौर्यशोभितैः ।
विमानवरमारूढै राक्षसाग्र्यैः समावृतः ११।
दुमुर्खा विकरालास्या लंबदंष्ट्रा भयानकाः ।
राक्षसास्तत्र दृश्यंते सैन्यग्रासाय चोद्यताः १२।
तदा तं वेदयामासुः शत्रुघ्नं नृवरोत्तमम् ।
हयो नीतो न जानीमः खे विमानविलासिना १३।
तमसा व्याकुलान्कृत्वा वीरानस्मान्समाययौ ।
जग्राह नृपशार्दूल हयं कुरु यथोचितम् १४।
शत्रुघ्नस्तद्वचः श्रुत्वा महारोषसमावृतः ।
कोऽस्त्येष राक्षसो यो मे हयं जग्राह वीर्यवान् १५।
विमानं तत्पतत्वद्य मद्बाणव्रजनिर्हतम् ।
पतत्वद्य शिरस्तस्य क्षुरप्रैर्मम वैरिणः १६।
सज्जीयंतां रथाः सर्वैर्महाशस्त्रास्त्रपूरिताः ।
यांतु तं प्रतिसंहर्तुं योद्धारो वाजिहारिणम् १७।
इत्युक्त्वा रोषताम्राक्ष उवाच निजमंत्रिणम् ।
नयानयविदं शूरं युद्धकार्यविशारदम् १८।
शत्रुघ्न उवाच।
मंत्रिन्कथय के योज्या राक्षसस्य वधोद्यताः ।
महाशस्त्रा महाशूराः परमास्त्रविदुत्तमाः १९।
कथयाशु विचार्यैवं तत्करोमि भवद्वचः ।
वीरान्कथय तस्यैवं योग्यान्सर्वास्त्रकोविदान् २०।
एतच्छ्रुत्वा तु सचिवः प्राह वाक्यं यथोचितम् ।
वीरान्रणवरे योग्यान्दर्शयंस्तरसा नतान् २१।
सुमतिरुवाच।
जेतुं गच्छतु तद्रक्षः समरे विजयोद्यतः ।
महाशस्त्रास्त्रसंयुक्तः पुष्कलः परतापनः २२।
तथा लक्ष्मीनिधिर्यातु शस्त्रसंघसमन्वितः ।
करोतु तस्य यानस्य भंगं तीक्ष्णैः स्वसायकैः २३।
हनूमान्धृष्टकर्मात्र राक्षसैर्योधितुं क्षमः ।
करोतु मुखपुच्छाभ्यां ताडनं रक्षसां प्रभो २४।
वानरा अपि ये वीरा रणकर्मविशारदाः ।
गच्छंतु तेऽखिला योद्धुं तववाक्यप्रणोदिताः २५।
सुमदश्च सुबाहुश्च प्रतापाग्र्यश्च सत्तमाः ।
गच्छंतु सायकैस्तीक्ष्णैस्तान्योद्धुं राक्षसाधमान् २६।
भवानपि महाशस्त्रपरिवारो रथे स्थितः ।
करोतु युद्धे विजयं राक्षसं हंतुमुद्यतः २७।
एतन्मम मतं राजन्ये योधास्तत्प्रमर्दनाः ।
ते गच्छंतु रणे शूराः किमन्यैर्बहुभिर्भटैः २८।
इत्युक्तवति वीराग्र्येऽमात्ये सुमतिसंज्ञिके ।
शत्रुघ्नः कथयामास वीरान्संग्रामकोविदान् २९।
भो वीराः पुष्कलाद्या ये सर्वशस्त्रास्त्रकोविदाः ।
ते वदंतु प्रतिज्ञां वै मत्पुरो राक्षसार्दने ३०।
कृत्वा प्रतिज्ञां विपुलां स्वपराक्रमशोभिनीम् ।
गच्छंतु रणमध्ये हि भवंतो बलसंयुताः ३१।
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महाबलाः ।
स्वां स्वां प्रतिज्ञां महतीं चक्रुस्ते तेजसान्विताः ३२।
तत्रादौ पुष्कलो वीरः श्रुत्वा वाक्यं महीपतेः ।
परमोत्साहसंपन्नः प्रतिज्ञामूचिवानिमाम् ३३।
पुष्कल उवाच।
शृणुष्व नृपशार्दूल मत्प्रतिज्ञां पराक्रमात् ।
विहितां सर्वलोकानां शृण्वतां परमाद्भुताम् ३४।
चेन्न कुर्यां क्षुरप्राग्रैस्तीक्ष्णैः कोदंडनिर्गतैः ।
दैत्यं मूर्च्छासमाक्रांतं कीर्णकेशाकुलाननम् ३५।
कन्या स्वभोक्तुर्यत्पापं यत्पापं देवनिंदने ।
तत्पापं मम वै भूयाच्चेत्कुर्यां स्ववचोऽनृतम् ३६।
यदिमद्बाणनिर्भिन्नाः सैनिकाः सुमहाबलाः ।
न पतंति महाराज प्रतिज्ञां तत्र मे शृणु ३७।
विष्ण्वीशयोर्विभेदं यः शिवशक्त्योः करोत्यपि ।
तत्पापं मम वै भूयाच्चेन्न कुर्यामृतं वचः ३८।
सर्वं मद्वाक्यमित्युक्तं रघुनाथपदांबुजे ।
भक्तिर्मे निश्चला यास्ति सैव सत्यं करिष्यति ३९।
पुष्कलस्य प्रतिज्ञां तां श्रुत्वा लक्ष्मीनिधिर्नृपः ।
प्रतिज्ञां व्यदधात्सत्यां स्वपराक्रमशोभिताम् ४०।
लक्ष्मीनिधिरुवाच।
वेदानां निंदनं श्रुत्वा आस्ते यो मौनिवन्नरः ।
मानसे रोचयेद्यस्तु सर्वधर्मबहिष्कृतः ४१।
ब्राह्मणो यो दुराचारो रसलाक्षादिविक्रयी ।
विक्रीणाति च गां मूढो धनलोभेन मोहितः ४२।
म्लेच्छकूपोदकं पीत्वा प्रायश्चित्तं तु नाचरेत् ।
तत्पापं मम वै भूयाद्विमुखश्चेद्भवाम्यहम् ४३।
तत्प्रतिज्ञामथाश्रुत्य हनूमान्रणकोविदः ।
रामांघ्रिस्मरणं कृत्वा प्रोवाच वचनं शुभम् ४४।
मत्स्वामीहृदये नित्यं ध्येयो वै योगिभिर्मुहुः ।
यं देवाः सासुराः सर्वे नमंति मणिमौलिभिः ४५।
रामः श्रीमानयोध्यायाः पतिर्लोकेशपूजितः ।
तं स्मृत्वा यद्ब्रुवे वाक्यं तद्वै सत्यं भवष्यिति ४६।
राजन्कोयं लघुर्दैत्यो दुर्बलः कामगे स्थितः ।
कथयाशु मया कार्यमेकेन विनिपातनम् ४७।
मेरुं देवेंद्रसहितं लांगूलाग्रेण तोलये ।
जलधिं शोषये सर्वं सांवर्तं वा पिबाम्यहम् ४८।
राज्ञः श्रीरघुनाथस्य जानक्याः कृपया मम ।
तन्नास्ति भूतले राजन्यदसाध्यं कदा भवेत् ४९।
एतद्वाक्यं मया प्रोक्तमनृतं स्याद्यदि प्रभो ।
तदैव रघुनाथस्य भक्तिदूरो भवाम्यहम् ५०।
यः शूद्रः कपिलां गां वै पयोबुद्ध्यानुपालयेत् ।
तस्य पापं ममैवास्तु चेत्कुर्यामनृतं वचः ५१।
ब्राह्मणीं गच्छते मोहाच्छूद्रः कामविमोहितः ।
तस्य पापं ममैवास्तु चेत्कुर्यामनृतं वचः ५२।
यद्घ्राणान्नरकं गच्छेत्स्पर्शनाच्चापि रौरवम् ।
तां पिबेन्मदिरां यो वा जिह्वास्वादेन लोलुपः ५३।
तस्य यज्जायते पापं तन्ममैवास्तु निश्चितम् ।
चेन्न कुर्यां प्रतिज्ञातं सत्यं रामकृपाबलात् ५४।
एवमुक्ते महावीरैर्योद्धारस्तरसा युताः ।
चक्रुः प्रतिज्ञां महतीं स्वपराक्रमशालिनीम् ५५।
शत्रुघ्नोऽपि व्यधात्तत्र प्रतिज्ञां पश्यतां नृणाम् ।
साधुसाधु प्रशंसन्वै तान्वीरान्युद्धकोविदान् ५६।
कथयामि पुरो वः स्वां प्रतिज्ञां सत्त्वशोभिताम् ।
तच्छृण्वंतु महाभागा युद्धोत्साहसमन्विताः ५७।
चेत्तस्य शिर आहत्य पातयामि न सायकैः ।
विमानाच्च कबंधाच्च भिन्नं छिन्नं च भूतले ५८।
यत्पापं कूटसाक्ष्येण यत्पापं स्वर्णचौर्यतः ।
यत्पापं ब्रह्मनिंदायां तन्ममास्त्वद्य निश्चयात् ५९।
इति शत्रुघ्नसद्वाक्यं श्रुत्वा ते वीरपूजिताः ।
धन्योसि राघवभ्रातः कस्त्वदन्यो परो भवेत् ६०।
त्वया वै निहतो दैत्यो देवदानवदुःखदः ।
लवणो नाम लोकेश मधुपुत्रो महाबलः ६१।
कोयं वै राक्षसो दुष्टः क्व चास्य बलमल्पकम् ।
करिष्यसि क्षणादेव तस्य नाशं महामते ६२।
इत्युक्त्वा ते महावीराः सज्जीभूता रणांगणे ।
प्रतिज्ञां स्वामृतां कर्तुं ययुस्ते राक्षसं मुदा ६३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे वीरप्रतिज्ञाकथनंनाम त्रयस्त्रिंशत्तमोऽध्यायः ३३ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 34
शेष उवाच।
रथैः सदश्वैः शोभाढ्यैः सर्वशस्त्रास्त्रपूरितैः ।
नानारत्नसमायुक्तैर्ययुस्ते राक्षसाधमम् १।
तान्दृष्ट्वा कामगे याने स्थितः प्रोवाच राक्षसः ।
मेघगंभीरया वाचा तर्जयन्निव भूरिशः २।
मायां तु सुभटा योद्धुं गच्छंतु निजमंदिरम् ।
मा त्यजंतु स्वकान्प्राणान्न मोक्ष्ये वाजिनं वरम् ३।
विद्युन्मालीति विख्यातो रावणस्य सुहृत्सखा ।
मत्सख्युः प्रेतभूतस्य निष्कृतिं कर्तुमेयिवान् ४।
क्वासौ रामो य आहत्य सखायं रावणं गतः ।
तस्य भ्रातापि कुत्रास्ते सर्वशूरशिरोमणिः ५।
तं हत्वा निष्कृतिं तस्य प्राप्स्ये रामस्य चानुजम् ।
पिबन्रुधिरमुद्भूतं कंठनालस्य बुद्बुदैः ६।
इति वाक्यं समाकर्ण्य योधानां प्रवरोत्तमः ।
पुष्कलो निजगादैनं वीर्यशौर्यसमन्वितम् ७।
पुष्कल उवाच।
विकत्थनं न कुर्वंति संग्रामे सुभटा नराः ।
पराक्रमं दर्शयंति निजशस्त्रास्त्रवर्षणैः ८।
रावणो निहतो येन ससुहृत्स्वजनैर्वृतः ।
तस्य वाजिनमाहृत्य कुत्र गंतासि दुर्मद ९।
पतिष्यसि त्वं शत्रुघ्नबाणैः कोदंडनिर्गतैः ।
त्वामत्स्यंति शिवा भूमौ पतितं प्राणवर्जितम् १०।
मा गर्ज दुष्ट रामस्य सेवके मयि संस्थिते ।
गर्जंति सुभटा युद्धे शत्रुं जित्वा महोदयात् ११।
शेष उवाच।
एवं ब्रुवंतं तं वीरं पुष्कलं रणदुर्मदम् ।
जघान शक्त्या सुभृशं हृदि राक्षससत्तमः १२।
आयांतीं तां महाशक्तिमायसीं कांचनाश्रिताम् ।
चिच्छेद त्रिभिरत्युग्रैः शितैर्बाणैः स पुष्कलः १३।
सा त्रिधा ह्यपतद्भूमौ विशिखैर्निष्प्रभीकृता ।
पतंती विरराजासौ विष्णोः शक्तित्रयीव किम् १४।
तां छिन्नां शक्तिकां दृष्ट्वा राक्षसः परतापनः ।
जग्राह शूलं तरसा त्रिशिखं लोहनिर्मितम् १५।
तीक्ष्णाग्रं ज्वलनप्रख्यं राक्षसेंद्रो व्यमोचयत् ।
आयांतं तिलशश्चक्रे बाणैः पुष्कलसंज्ञितः १६।
छित्त्वा त्रिशूलं तरसा राघवस्य हि सेवकः ।
पुष्कलश्चाप आधत्त बाणांस्तीक्ष्णान्मनोजवान् १७।
ते बाणा हृदि तस्याशु लग्ना रागं बतासृजन् ।
वैष्णवस्य यथा स्वांते गुणा विष्णोर्मनोहराः १८।
तद्बाणवेधदुःखार्तो विद्युन्माली सुदुर्मदः ।
जग्राह मुद्गरं घोरं पुष्कलं हंतुमुद्यतः १९।
मुद्गरः प्रहितस्तेन विद्युन्माल्यभिधेन हि ।
हृदि लग्नोसृजच्छीघ्रं कश्मलं तदकारयत् २०।
मुद्गरप्रहतो वीरः कंपमानः सवेपथुः ।
पपात स्यंदनोपस्थे पुष्कलः शत्रुतापनः २१।
उग्रदंष्ट्रोऽथ तद्भ्राता लक्ष्मीनिधिमयोधयत् ।
शस्त्रास्त्रैर्बहुधा मुक्तैर्वीरप्राणहृतिंकरैः २२।
पुष्कलस्तत्क्षणात्प्राप्य संज्ञां राक्षसमब्रवीत् ।
धन्योसि राक्षसश्रेष्ठ महीयांस्ते पराक्रमः २३।
पश्येदानीं ममाप्युच्चैः प्रतिज्ञां शूरमानिताम् ।
विमानात्पातयाम्यद्य भूमौ त्वां शितसायकैः २४।
इत्युक्त्वा निशितं बाणं समगृह्णाद्दुरासदम् ।
ज्वलंतमग्नितेजस्कं महौदार्यसमन्वितम् २५।
स यावत्तत्प्रतीकर्तुं विधत्ते स्वपराक्रमम् ।
तावद्धृदिगतोऽत्युग्रस्तीक्ष्णधारः ससायकः २६।
तेन बाणेन विभ्रांतो भ्रमच्चित्तः स राक्षसः ।
पपात कामगोपस्थाद्भूमौ विगतचेतनः २७।
उग्रदंष्ट्रेण वै दृष्टः पतमानो निजाग्रजः ।
गृहीत्वा तं विमानांतर्निनाय रिपुशंकितः २८।
प्राह चारिं महारोषात्पुष्कलं बलिनां वरम् ।
मद्भ्रातरं पातयित्वा कुत्र यास्यसि दुर्मते २९।
मां वै युधि विनिर्जित्य गंतासि जयमुत्तमम् ।
स्थिते मयि तव स्वांते जयाशा विनिवर्त्य ताम् ३०।
एवं ब्रुवंतं तरसा जघान दशभिः शरैः ।
हृदये तस्य दुष्टस्य रोषपूरितलोचनः ३१।
स ताडितो दशशरैः पुष्कलेन महात्मना ।
चुक्रोध हृदि दुर्बुद्धिस्तं हंतुमुपचक्रमे ३२।
दंतान्निष्पिष्य सक्रोधो मुष्टिमुद्यम्य चाहनत् ।
व्यनदद्वज्रनिर्घातपातशंकां सृजन्हृदि ३३।
मुष्टिनाभिहतो वीरः पुष्कलः परमास्त्रवित् ।
नाकंपत विनिष्पेषं वांछंस्तस्य दुरात्मनः ३४।
वत्सदंतान्महातीक्ष्णान्मुमोच हृदि सायकान् ।
तैर्बाणैर्व्यथितो दैत्यस्त्रिशूलं तु समाददे ३५।
जाज्वल्यमानं त्रिशिखं ज्वालामालातिभीषणम् ।
लग्नं हृदि महावीर पुष्कलस्य तु दारुणम् ३६।
मूर्च्छितस्तेन शूलेन निहतो धन्विसत्तमः ।
कश्मलं परमं प्राप्तः पपात स्यंदनोपरि ३७।
मूर्च्छां प्राप्तं तमाज्ञाय हनूमान्पवनात्मजः ।
कोपव्याकुलितस्वांतो बभाषे तं तु राक्षसम् ३८।
कुत्र गच्छसि दुर्बुद्धे मयि योद्धरि संस्थिते ।
त्वां हन्मि चरणाघातैर्वाजिहर्तारमागतम् ३९।
एवमुक्त्वा महादैत्याञ्जघान परसैनिकान् ।
विमानस्थान्नखाग्रेण दारयन्नभसि स्थितः ४०।
लांगूलेनाहताः केचित्केचित्पादतला हताः ।
बाहुभ्यां दारिताः केचित्पवनस्य तनूभुवा ४१।
नश्यंति केचिन्निहताः केचिन्मूर्च्छंति संहताः ।
पलायंते पदाघातभयपीडाहतास्ततः ४२।
अनेके निहतास्तत्र राक्षसाश्चातिदारुणाः ।
छिन्ना भिन्ना द्विधा जाताः पवनस्य सुतेन वै ४३।
कामगंतुविमानं तद्भिन्नप्राकारतोरणम् ।
हाहा कुर्वद्भिरसुरैः समंतात्परिवारितम् ४४।
हनूमति महाशूरे क्षणं भूमौ क्षणं दिवि ।
इतस्ततः प्रदृश्येत कामयानं दुरासदम् ४५।
यत्रयत्र विमानं तत्तत्रतत्र समीरजः ।
प्रहरन्नेव दृश्येत कामरूपधरः कपिः ४६।
एवं तदाकुलीभूते विमानस्थे महाजने ।
उग्रदंष्ट्रस्तु दैत्येंद्रो हनूमंतमुपेयिवान् ४७।
कपे त्वया महत्कर्म कृतं यद्भटपातनम् ।
क्षणं तिष्ठसि चेत्कुर्वे तव प्राणवियोजनम् ४८।
एवमुक्त्वा हनूमंतं प्रजघान स दुर्मतिः ।
त्रिशूलेन सुतीक्ष्णेन ज्वलत्पावककांतिना ४९।
तदागतं त्रिशूलं च मुखे जग्राह वीर्यवान् ।
चूर्णयामास सकलं सर्वलोहविनिर्मितम् ५०।
चूर्णयित्वा त्रिशूलं तदायसं दैत्यमोचितम् ।
जघान तं चपेटाभिर्बह्वीभिर्हनुमान्बली ५१।
स आहतः कपीन्द्रेण चपेटाभिरितस्ततः ।
व्यथितो व्यसृजन्मायां सर्वलोकभयंकरीम् ५२।
तदा तमोभवत्तीव्रं यत्र को वा न लक्ष्यते ।
यत्र स्वीयो न पारक्यो विदामास जनान्बहून् ५३।
शिलाः पर्वतशृंगाभाः पतंति सुभटोपरि ।
ताभिर्हतास्तु ते सर्वे व्याकुला अथ जज्ञिरे ५४।
विद्युतो विलसंत्यत्र गर्जंति जलदा घनम् ।
वर्षंति पूयरुधिरं मुंचंति समलं जलम् ५५।
आकाशात्पतमानानि कबंधानि बहूनि च ।
दृश्यंते छिन्नशीर्षाणि सकुंडलयुतानि च ५६।
नग्ना विरूपाः सुभृशं कीर्णकेशाः सुदुर्मुखाः ।
दृश्यंते सर्वतो दैत्या दारुणा भयकारिणः ५७।
तदा व्याकुलिता लोकाः परस्परभयाकुलाः ।
पलायनपरा जाता महोत्पातममंसत ५८।
तदा शत्रुघ्न आयातो रथे स्थित्वा महायशाः ।
श्रीरामस्मरणं कृत्वा चापे संधाय सायकान् ५९।
तां मायां स विधूयाथ मोहनास्त्रेण वीर्यवान् ।
शरधाराः किरन्व्योम्नि ववर्ष समरेसुरम् ६०।
तदादिशः प्रसेदुस्ता रविस्त्वपरिवेषवान् ।
मेघा यथागतं याता विद्युतः शांतिमागताः ६१।
तदा विमानं पुरतो दृश्यते राक्षसैर्युतम् ।
छिंधि भिंधीति भाषाभिर्व्याकुलं सुतरां महत् ६२।
बाणाश्च शतसाहस्राः स्वर्णपुंखैश्च शोभिताः ।
पेतुर्विमाने नभसि स्थिते कामगमे मुहुः ६३।
तदा भग्नं विमानं हि दृश्यते न तदुच्चकैः ।
स्वपुरी खण्डमेकत्र भग्नांगमिव भूतले ६४।
तदा प्रकुपितो दैत्यो बाणान्धनुषि संदधे ।
तैर्बाणैर्विकिरन्रामभ्रातरं चाभिगर्जितः ६५।
ते बाणाः शतशस्तस्य लग्ना वपुषि भूरिशः ।
शोभामापुः शोणितौघान्वहंतस्तीक्ष्णवक्त्रिणः ६६।
शत्रुघ्नः परया शक्त्या संयुक्तो वायुदैवतम् ।
अस्त्रं धनुषि चाधत्त राक्षसानां प्रकम्पनम् ६७।
तेनास्त्रेण विमानात्खात्पतन्तो मुक्तमूर्धजाः ।
दृश्यंते भूतवेतालसंघा इव नभश्चराः ६८।
तदस्त्रं रघुनाथस्य भ्रात्रा मुक्तं विलोक्य सः ।
अस्त्रं च पाशुपत्यं स चापे धाद्दनुजात्मजः ६९।
ततः प्रवृत्ता वेताला भूताः प्रेतनिशाचराः ।
कपालकर्तरीयुक्ताः पिबन्तः शोणितं बहु ७०।
ते वै शत्रुघ्नवीराणां रुधिराणि पपुर्मुदा ।
जीवतामपि दुर्वाराः कर्तरीपाणिशोभिताः ७१।
तदस्त्रं व्याप्नुवद्दृष्ट्वा सर्ववीरप्रभंजनम् ।
मुमोच तन्निरासाय चास्त्रं नारायणाभिधम् ७२।
नारायणास्त्रं तान्सर्वान्वारयामास तत्क्षणात् ।
ते सर्वे विलयं प्रापुर्निशाचरप्रणोदिताः ७३।
तदा क्रुद्धो निशाचारी विद्युन्माली समाददे ।
त्रिशूलं निशितं घोरं शत्रुघ्नं हंतुमुल्बणम् ७४।
शूलहस्तं समायांतं विद्युन्मालिनमाहवे ।
सायकैः प्राहरत्तस्य भुजे त्वर्धशशिप्रभैः ७५।
तैर्बाणैश्छिन्नहस्तः स शिरसा हंतुमुद्यतः ।
हतोसि याहि शत्रुघ्न कस्त्वां त्राता भविष्यति ७६।
इति ब्रुवाणं तरसा चिच्छेद शितसायकैः ।
मस्तकं तस्य बलिनः शूरस्य सह कुंडलम् ७७।
तं छिन्नशिरसं दृष्ट्वा उग्रदंष्ट्रः प्रतापवान् ।
मुष्टिना हंतुमारेभे शत्रुघ्नं शूरसेवितम् ७८।
शत्रुघ्नस्तु क्षुरप्रेण सायकेनाच्छिनच्छिरः ।
प्रधावतो रणे वीरान्सर्वशस्त्रास्त्रकोविदान् ७९।
हतशेषा ययुः सर्वे राक्षसा नाथवर्जिताः ।
शत्रुघ्नं प्रणिपत्याथ ददुर्वाजिनमाहृतम् ८०।
ततो वीणानिनादाश्च शंखनादाः समंततः ।
श्रूयंते शूरवीराणां जयनादा मनोहराः ८१।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे विद्युन्मालिनामराक्षसपराजयोनाम चतुस्त्रिंशत्तमोऽध्यायः ३४ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 35
शेष उवाच।
प्राप्य तं वाजिनं राजा शत्रुघ्नो राक्षसैर्हृतम् ।
अत्यंतं हर्षमापेदे पुष्कलेन समन्वितः १।
रुधिरैः सिक्तगात्रास्ते योधा लक्ष्मीनिधिस्तथा ।
रणोत्साहेन संयुक्तं प्रशशंसुर्महानृपम् २।
हते तस्मिन्महादैत्ये विद्युन्मालिनि दुर्जये ।
सुराः सर्वे भयं त्यक्त्वा सुखमापुर्मुनेमहत् ३।
नद्यस्तु विमला जाता रविस्तु विमलोऽभवत् ।
वाता ववुः सुगंधोद सिक्ता विमलशुष्मिणः ४।
सन्नद्धास्ते महावीरा रथस्था विमलांगकाः ।
राजानमूचुस्ते सर्वे जयलक्ष्म्या समन्विताः ५।
वीरा ऊचुः।
दिष्ट्या हतस्त्वया दैत्यो विद्युन्माली महामते ।
यद्भयात्त्रासमापन्नाः सुराः स्वर्गान्निराकृताः ६।
दिष्ट्या प्राप्तो महावाजी रघुनाथस्य शोभनः ।
दिष्ट्या गंतासि सर्वत्र जयं तु क्षितिमंडले ७।
स्वामिन्मुंचत्विमं वाहं मनोवेगं मनोरमम् ।
समयस्य विलंबो मा भवत्वत्र महामते ८।
शेष उवाच।
इति श्रुत्वा तु तद्वाक्यं वीराणां समयोचितम् ।
साधु साधु प्रशस्यैतान्मुमोच हयसत्तमम् ९।
स मुक्तश्चोत्तरामाशां बभ्रामाथ सुरक्षितः ।
रथपत्तिहयश्रेष्ठैः सर्वशस्त्रास्त्रकोविदैः १०।
तत्र यद्वृत्तमेतस्य शत्रुघ्नस्य मनोहरम् ।
वात्स्यायन शृणुष्वैतत्पापराशिप्रदाहकम् ११।
रेवातीरमथ प्राप्तो मुनिवृंदनिषेवितम् ।
नीलरत्नसमूहस्य रसः किं तु पयो मिषात् १२।
तांस्तान्मुनिवरान्सर्वान्प्रणमञ्छूरसेवितः ।
जगाम हयरत्नस्य पृष्ठतः कामगामिनः १३।
गच्छंस्तत्राश्रमं जीर्णं पलाशपर्णनिर्मितम् ।
रेवायाजलकल्लोलैः सिक्तं पापहराश्रयम् १४।
तं दृष्ट्वा सुमतिं प्राह सर्वज्ञं नयकोविदम् ।
शत्रुघ्नः सर्वधर्मार्थकर्मकर्तव्यकोविदः १५।
राजोवाच।
मंत्रिन्कथय कस्यायमाश्रमः पुण्यदर्शनः ।
विचारचतुरश्रेष्ठ वदैतन्मम पृच्छतः १६।
शेष उवाच।
इति वाक्यं समाकर्ण्य सुमतिः प्राह तं नृपम् ।
विशद स्मेरया वाचा दर्शयन्नात्मसौहृदम् १७।
सुमतिरुवाच।
एनं दृष्ट्वा महाराज धूतपापा वयं खलु ।
भविष्यामो मुनिश्रेष्ठं सर्वशास्त्रपरायणम् १८।
तस्मान्नत्वा तमापृच्छ सर्वं ते कथयिष्यति ।
रघुनाथपदांभोजमकरंदाति लोलुपः १९।
नाम्ना त्वारण्यकं ख्यातं रघुनाथांघ्रिसेवकम् ।
अत्युग्रतपसा पूर्णं सर्वशास्त्रार्थकोविदम् २०।
इति श्रुत्वा तु तद्वाक्यं धर्मार्थपरिबृंहितम् ।
जगाम तमथो द्रष्टुं स्वल्पसेवकसंयुतः २१।
हनूमान्पुष्कलो वीरः सुमतिर्मंत्रिसत्तमः ।
लक्ष्मीनिधिः प्रतापाग्र्यः सुबाहुः सुमदस्तथा २२।
एतैः परिवृतो राजा शत्रुघ्नः प्रापदाश्रमम् ।
नमस्कर्तुं द्विजवरमारण्यकमुदारधीः २३।
गत्वा तं तापसश्रेष्ठं नमस्कारमथाकरोत् ।
सर्वैस्तैः सहितो वीरैर्विनयानतकंधरैः २४।
तान्दृष्ट्वा सन्नतान्सर्वाञ्छत्रुघ्नप्रमुखान्नृपान् ।
अर्घ्यपाद्यादिकं चक्रे फलमूलादिभिस्तदा २५।
उवाच तान्नृपान्सर्वान्भवंतः कुत्र संगताः ।
कथमत्र समायातास्तत्सर्वं वदतानघाः २६।
तच्छ्रुत्वा वाक्यमेतस्य मुनिवर्यस्य वाडव ।
सुमतिः कथयामास वाक्यं वादविचक्षणः २७।
सुमतिरुवाच।
रघुवंशनृपस्यायमश्वो वै पाल्यतेऽखिलैः ।
यागं करिष्यते वीरः सर्वसंभारसंभृतम् २८।
तच्छ्रुत्वा वचनं तेषां जगाद मुनिसत्तमः ।
दंतकांत्याखिलं घोरं तमोनिर्वारयन्निव २९।
आरण्यक उवाच।
किं यागैर्विविधैरन्यैः सर्वसंभारसंभृतैः ।
स्वल्पपुण्यप्रदैर्नूनं क्षयिष्णुपददातृभिः ३०।
मूढो लोको हरिं त्यक्त्वा करोत्यन्यसमर्चनम् ।
रघुवीरं रमानाथं स्थिरैश्वर्यपदप्रदम् ३१।
यो नरैः स्मृतमात्रोपि हरते पापपर्वतम् ।
तं मुक्त्वा क्लिश्यते मूढो यागयोगव्रतादिभिः ३२।
अहो पश्यत मूढत्वं लोकानामतिवंचितम् ।
सुलभं रामभजनं मुक्त्वा दुर्ल्लभमाचरेत् ३३।
सकामैर्योगिभिर्वापि चिंत्यते कामवर्जितैः ।
अपवर्गप्रदं नॄणां स्मृतमात्राखिलाघहम् ३४।
पुराहं तत्त्ववित्सायां ज्ञानिनं सुविचारयन् ।
अगमं बहुतीर्थानि तत्त्वं कोपि न मेऽदिशत् ३५।
तदैकं हि महद्भाग्यात्प्राप्तं वै लोमशं मुनिम् ।
स्वर्गलोकात्समायातं तीर्थयात्राचिकीर्षया ३६।
तमहं प्रणिपत्याथ पर्यपृच्छं महामुनिम् ।
महायुषं महायोगिसंसेवितपदद्वयम् ३७।
स्वामिन्मयाद्य मानुष्यं प्राप्तमद्भुतदुर्ल्लभम् ।
संसारघोरजलधिं किं कर्तव्यं तितीर्षुणा ३८।
विचार्य कथय त्वं तद्व्रतं दानं जपो मखः ।
देवो वा विद्यते यो वै संसृत्यंभोधितारकः ३९।
यज्ज्ञात्वा संसृतिं घोरां तरामि त्वत्कृपाब्धितः ।
तन्मे कथय योगेश सर्वशास्त्रार्थपारग ४०।
इति मद्वाक्यमाकर्ण्य जगाद मुनिसत्तमः ।
शृणुष्वैकमना विप्र श्रद्धया परया युतः ४१।
संति दानानि तीर्थानि व्रतानि नियमा यमाः ।
योगा यज्ञास्तथानेके वर्तंते स्वर्गदायकाः ४२।
परं गुह्यं प्रवक्ष्यामि सर्वपापप्रणाशनम् ।
तच्छृणुष्व महाभाग संसारांभोधितारकम् ४३।
नास्तिकाय न वक्तव्यं न चाऽश्रद्धालवे पुनः ।
निंदकाय शठायापि न देयं भक्तिवैरिणे ४४।
रामभक्ताय शांताय कामक्रोधवियोगिने ।
वक्तव्यं सर्वदुःखस्य नाशकारकमुत्तमम् ४५।
रामान्नास्ति परो देवो रामान्नास्ति परं व्रतम् ।
न हि रामात्परो योगो न हि रामात्परो मखः ४६।
तं स्मृत्वा चैव जप्त्वा च पूजयित्वा नरः परम् ।
प्राप्नोति परमामृद्धिमैहिकामुष्मिकीं तथा ४७।
संस्मृतो मनसा ध्यातः सर्वकामफलप्रदः ।
ददाति परमां भक्तिं संसारांभोधितारिणीम् ४८।
श्वपाकोपि हि संस्मृत्य रामं याति परां गतिम् ।
ये वेदशास्त्रनिरतास्त्वादृशास्तत्र किं पुनः ४९।
सर्वेषां वेदशास्त्राणां रहस्यं ते प्रकाशितम् ।
समाचर तथा त्वं वै यथा स्यात्ते मनीषितम् ५०।
एको देवो रामचंद्रो व्रतमेकं तदर्चनम् ।
मंत्रोऽप्येकश्च तन्नाम शास्त्रं तद्ध्येव तत्स्तुतिः ५१।
तस्मात्सर्वात्मना रामचंद्रं भजमनोहरम् ।
यथा गोष्पदवत्तुच्छो भवेत्संसारसागरः ५२।
श्रुत्वा मया तु तद्वाक्यं पुनः प्रश्नमकारिषम् ।
कथं वा ध्यायते देवः कथं वा पूज्यते नरैः ५३।
कथयस्व महाबुद्धे सर्वज्ञ मम विस्तरात् ।
यज्ज्ञात्वाहं कृतार्थः स्यां त्रिलोक्यां मुनिसत्तम ५४।
एतच्छ्रुत्वा तु मद्वाक्यं विचार्य स तु लोमशः ।
कथयामास मे सर्वं रामध्यानपुरःसरम् ५५।
शृणु विप्रेंद्र वक्ष्यामि यत्पृष्टं तु त्वयानघ ।
यथा तुष्येद्रमानाथः संसारज्वरदाहकः ५६।
अयोध्यानगरे रम्ये चित्रमंडपशोभिते ।
ध्यायेत्कल्पतरोर्मूले सर्वकामसमृद्धिदे ५७।
महामरकतस्वर्णनीलरत्नादिशोभितम् ।
सिंहासनं चित्तहरं कांत्या तामिस्रनाशनम् ५८।
तस्योपरि समासीनं रघुराजं मनोरमम् ।
दूर्वादलश्यामतनुं देवदेवेंद्रपूजितम् ५९।
राकायां पूर्णशीतांशुकांतिधिक्कारिवक्त्रिणम् ।
अष्टमीचंद्रशकलसमभालाधिधारिणम् ६०।
नीलकुंतलशोभाढ्यं किरीटमणिरंजितम् ।
मकराकारसौंदर्यकुंडलाभ्यां विराजितम् ६१।
विद्रुमच्छवि सत्कांतिरदच्छदविराजितम् ।
तारापतिकराकार द्विजराजि सुशोभितम् ६२।
जपापुष्पाभया माध्व्या जिह्वया शोभिताननम् ।
यस्यां वसंति निगमा ऋगाद्याः शास्त्रसंयुताः ६३।
कंबुकांतिधरग्रीवा शोभया समलंकृतम् ।
सिंहवदुच्चकौ स्कन्धौ मांसलौ बिभ्रतं वरम् ६४।
बाहू दधानं दीर्घांगौ केयूरकटकांकितौ ।
मुद्रिकाहीरशोभाभिर्भूषितौ जानुलंबिनौ ६५।
वक्षो दधानं विपुलं लक्ष्मीवासेन शोभितम् ।
श्रीवत्सादिविचित्रांकैरंकितं सुमनोहरम् ६६।
महोदरं महानाभिं शुभकट्याविराजितम् ।
कांच्या वै मणिमत्या च विशेषेण श्रियान्वितम् ६७।
ऊरुभ्यां विमलाभ्यां वै जानुभ्यां शोभितं श्रिया ।
चरणाभ्यां वज्ररेखा यवांकुशसुरेखया ६८।
युताभ्यां योगिध्येयाभ्यां कोमलाभ्यां विराजितम् ।
ध्यात्वा स्मृत्वा च संसारसागरं त्वं तरिष्यसि ६९।
तमेव पूजयन्नित्यं चंदनादिभिरिच्छया ।
प्राप्नोति परमामृद्धिमैहिकामुष्मिकीं पराम् ७०।
त्वया पृष्टं महाराज रामस्य ध्यानमुत्तमम् ।
तत्ते कथितमेतद्वै संसारजलधिं तर ७१।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे आरण्यकोपाख्याने लोमशारण्यकसंवादोनाम पंचत्रिंशत्तमोऽध्यायः ३५ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 36
शेषउवाच।
एतच्छ्रुत्वा तु विप्रेन्द्रो लोमशात्परमं महत् ।।
पुनः पप्रच्छ तमृषिं सर्वज्ञं योगिनां वरम् ॥१।
आरण्यक उवाच।
मुनिश्रेष्ठ वदैतन्मे पृच्छामि त्वां महामते ।।
गुरवः कृपया युक्ता भाषंते सेवकेऽखिलम् ॥२।
कोऽसौ रामो महाभाग यो नित्यं ध्यायते त्वया ।।
तस्य कानि चरित्राणि वदस्व त्वं द्विजर्षभ ॥३।
किमर्थमवतीर्णोऽसौ कस्मान्मानुषतां गतः ।।
तत्सर्वं कथयाशु त्वं मम संशयनुत्तये ॥४।
शेष उवाच।
इति वाक्यं समाकर्ण्य मुनेः परमशोभनम् ।।
लोमशः कथयामास रामचारित्रमद्भुतम् ॥५।
लोकान्निरयसंमग्नाञ्ज्ञात्वा योगेश्वरेश्वरः ।।
कीर्तिं प्रथयितुं लोके यया घोरं तरिष्यति ॥६।
एवं ज्ञात्वा दयावार्धिः परमेशो मनोहरः ।।
अवतारं चकारात्र चतुर्धा सश्रियान्वितः ॥७।
पुरा त्रेतायुगे प्राप्ते पूर्णांशो रघुनन्दनः ।।
सूर्यवंशे समुत्पन्नो रामो राजीवलोचनः ॥८।
स रामो लक्ष्मणसखः काकपक्षधरो युवा ।।
तातस्य वचनात्तौ तु विश्वामित्रमनुव्रतौ ॥९।
यज्ञसंरक्षणार्थाय राज्ञा दत्तौ कुमारकौ ।।
दांतौ धनुर्धरौ वीरौ विश्वामित्रमनुव्रतौ ॥१०।
पथि प्रव्रजतोस्तत्र ताटका नाम राक्षसी ।।
संगता च वने घोरे तयोर्वै विघ्नकारणात् ॥११।
ऋषेरनुज्ञया रामस्ताटकां यमयातनाम् ।।
प्रावेशयद्धनुर्वेदविद्याभ्यासेन राघवः ॥१२।
यस्य पादतलस्पर्शाच्छिला वासवयोगजा ।।
अहल्या गौतमवधूः पुनर्जाता स्वरूपिणी ॥१३।
विश्वामित्रस्य यज्ञे तु सुप्रवृत्ते रघूत्तमः ।।
मारीचं च सुबाहुं च जघान परमेषुभिः ॥१४।
ईश्वरस्य धनुर्भग्नं जनकस्य गृहे स्थितम् ।।
रामः पंचदशे वर्षे षड्वर्षामथ मैथिलीम् ॥१५।
उपयेमे विवाहेन रम्यां सीतामयोनिजाम् ।।
कृतकृत्यस्तदा जातः सीतां संप्राप्य राघवः ॥१६।
ततो द्वादश वर्षाणि रेमे रामस्तया सह ।।
सप्तविंशतिमे वर्षे यौवराज्यमकल्पयत् ॥१७।
राजानमथ कैकेयी वरद्वयमयाचत ।।
तयोरेकेन रामस्तु ससीतः सह लक्ष्मणः ॥१८।
जटाधरः प्रव्रजतुवर्षाणीह चतुर्दश ।।
भरतस्तु द्वितीयेन यौवराज्याधिपोऽस्तु मे ॥१९।
जानकी लक्ष्मणसखं रामं प्राव्राजयन्नृपः ।।
त्रिरात्रमुदकाहारश्चतुर्थेऽह्नि फलाशनः ॥२०।
पंचमे चित्रकूटे तु रामस्थानमकल्पयत् ।।
अथ त्रयोदशे वर्षे पंचवट्यां महामुने ॥२१।
रामो विरूपयामास शूर्पणखां निशाचरीम् ।।
वने विचरतस्तस्य जानक्या सहितस्य च ॥२२।
आगतो राक्षसस्तां तु हर्तुं पापविपाकतः ।।
ततो माघासिताष्टम्यां मुहूर्ते वृंदसंज्ञिते ॥२३।
राघवाभ्यां विना सीतां जहार दशकंधरः ।।
तेनैवं ह्रियमाणा सा चक्रंद कुररी यथा ॥२४।
रामरामेति मां रक्ष रक्ष मां रक्षसा हृताम् ।।
यथा श्येनः क्षुधाक्रांतः क्रंदंतीं वर्तिकां नयेत् ॥२५।
तथा कामवशं प्राप्तो रावणो जनकात्मजाम् ।।
नयत्येवं जनकजां जटायुः पक्षिराट्तदा ॥२६।
युयुधे राक्षसेंद्रेण स रावणहतोऽपतत् ।।
मार्गशुक्लनवम्यां तु वसंतीं रावणालये ॥२७।
संपातिर्दशमे मास आचख्यौ वानरेषु ताम् ।।
एकादश्यां महेंद्राद्रे पुःप्लुवे शतयोजनम् ॥२८।
हनूमान्निशि तस्यां तु लंकायां पर्यकालयत् ।।
तद्रात्रिशेषे सीताया दर्शनं हि हनूमतः ॥२९।
द्वादश्यां शिंशपावृक्षे हनूमान्पर्यवस्थितः ।।
तस्यां निशायां जानक्या विश्वासाय च संकथा ॥३०।
अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्तत ।।
ब्रह्मास्त्रेण चतुर्दश्यां बद्धः शक्रजिता कपिः ॥३१।
वह्निना पुच्छयुक्तेन लंकाया दहनं कृतम् ।।
पूर्णिमायां महेंद्राद्रौ पुनरागमनं कपेः ॥३२।
मार्गासितप्रतिपदः पंचभिः पथिवासरैः ।।
पुनरागत्य षष्ठेऽह्नि ध्वस्तं मधुवनं किल ॥३३।
सप्तम्यां प्रत्यभिज्ञानदानं सर्वनिवेदनम् ।।
अष्टम्युत्तरफल्गुन्यां मुहूर्ते विजयाभिधे ॥३४।
मध्यं प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य च ।।
रामः कृत्वा प्रतिज्ञां तु प्रयातो दक्षिणां दिशम् ॥३५।
तीर्त्वाहं सागरमपि हनिष्ये राक्षसेश्वरम् ।।
दक्षिणाशां प्रयातस्य सुग्रीवोऽप्यभवत्सखा ॥३६।
वासरैः सप्तभिः सिंधोः स्कंधावारनिवेशनम् ।।
पौषशुक्लप्रतिपदस्तृतीयायावदंबुधेः ॥३७।
उपस्थानं ससैन्यस्य राघवस्य बभूव ह ।।
बिभीषणश्चतुर्थ्यां तु रामेण सह संगतः ॥३८।
समुद्रतरणार्थाय पंचम्यां मंत्र उद्यतः ।।
प्रायोपवेशनं चक्रे रामो दिनचतुष्टयम् ॥३९।
समुद्रवरलाभश्च सहोपायप्रदर्शनम् ।।
ततो दशम्यामारंभस्त्रयोदश्यां समापनम् ॥४०।
चतुर्दश्यां सुवेलाद्रौ रामः सैन्यं न्यवेशयत् ।।
पौर्णमास्यां द्वितीयां तं त्रिदिनैः सैन्यतारणम् ॥४१।
तीर्त्वा तोयनिधिं रामो वानरेश्वरसैन्यवान् ।।
रुरोध च पुरीं लंकां सीतार्थं सह लक्ष्मणः ॥४२।
तृतीयादि दशम्यंतं निवेशश्च दिनाष्टकम् ।।
शुकसारणयोस्तत्र प्राप्तिरेकादशे दिने ॥४३।
पौषासिताख्यद्वादश्यां सैन्यसंख्यानमेव च ।।
शार्दूलेन कपींद्राणां सहसारोपवर्णनम् ॥४४।
त्रयोदश्या अमावास्यां लंकायां दिवसैस्त्रिभिः ।।
रावणः सैन्यसंख्यानं रणोत्साहं तदाकरोत् ॥४५।
प्रययावंगदो दौत्यं माघशुक्लाद्यवासरे ।।
सीतायाश्च ततो भर्तुर्मायामूर्द्धादिदर्शनम् ॥४६।
माघद्वितीयादि दिनैः सप्तभिर्यावदष्टमी ।।
रक्षसां वानराणां च युद्धमासीच्च संकुलम् ॥४७।
माघशुक्लनवम्यां तु रात्राविंद्रजिता रणे ।।
रामलक्ष्मणयोर्नागपाशबंधः कृतः किल ॥४८।
आकुलेषु कपीशेषु निरुत्साहेषु सर्वशः ।।
नागपाशविमोक्षार्थं दशम्यां पवनोऽजपत् ॥४९।
कर्णे स्वरूपं रामस्य गरुडागमनं ततः ।।
एकादश्यां च द्वादश्यां धूम्राक्षस्य वधः कृतः ॥५०।
त्रयोदश्यां तु तेनैव निहतः कंपनो रणे ।।
माघशुक्लचतुर्दश्या यावत्कृष्णादिवासरम् ॥५१।
त्रिदिनेन प्रहस्तस्य नीलेन विहितो वधः ।।
माघकृष्णद्वितीयायाश्चतुर्थ्यं तं त्रिभिर्दिनैः ॥५२।
रामेण तुमुले युद्धे रावणो द्रावितो रणात् ।।
पंचम्या अष्टमीयावद्रावणेन प्रबोधितः ॥५३।
कुंभकर्णस्तदा चक्रेऽभ्यवहारं चतुर्दिनम् ।।
कुंभकर्णो दिनैः षड्भिर्नवम्यास्तु चतुर्दशीम् ॥५४।
रामेण निहतो युद्धे बहुवानरभक्षकः ।।
अमावास्यादिने शोकादवहारो बभूव ह ॥५५।
फाल्गुनादिप्रतिपदश्चतुर्थ्यंतं चतुर्दिनैः ।।
बिसतंतुप्रभृतयो निहताः पंचराक्षसाः ॥५६।
पंचम्याः सप्तमी यावदतिकायवधस्तथा ।।
अष्टम्याद्वादशी यावन्निहतौ दिनपंचकात् ॥५७।
निकुंभकुंभावूर्ध्वं तु मकराक्षस्त्रिभिर्दिनैः ।।
फाल्गुनासितद्वितीयायां दिने शक्रजिता जितम् ॥५८।
तृतीयादिसप्तम्यंतं दिनपंचकमेव च ।।
ओषध्यानयनव्यग्रादवहारो बभूव ह ॥५९।
ततस्त्रयोदशीयावद्दिनैः पंचभिरिंद्रजित् ।।
लक्ष्मणेन हतो युद्धे विख्यातबलपौरुषः ॥६०।
चतुर्दश्यां दशग्रीवो दीक्षां प्रापावहारतः ।।
अमावास्यादिने प्रायाद्युद्धाय दशकंधरः ॥६१।
चैत्रशुक्लप्रतिपदः पंचमीदिनपंचकैः ।।
रावणे युद्ध्यमाने तु प्रचुरो रक्षसां वधः ॥६२।
चैत्रषष्ठ्याष्टमी यावन्महापार्श्वादि मारणम् ।।
चैत्रशुक्लनवम्यां तु सौमित्रेः शक्तिभेदनम् ॥६३।
कोपाविष्टेन रामेण द्रावितो दशकंधरः ।।
द्रोणाद्रिरांजनेयेन लक्ष्मणार्थमुपाहृतः ॥६४।
दशम्यामवहारोभूद्रात्रौ युद्धे तु रक्षसाम् ।।
एकादश्यां तु रामाय रथं मातलिसारथिः ॥६५।
प्रेरितो वासवेनाजावर्पयामास भक्तितः ।।
कोपवानथ द्वादश्या यावत्कृष्णचतुर्दशी ॥६६।
अष्टादशदिनै रामो रावणं द्वैरथेऽवधीत् ।।
संग्रामे तुमुले जाते रामो जयमवाप्तवान् ॥६७।
माघशुक्लद्वितीयायाश्चैत्रकृष्ण चतुर्दशीम् ।।
सप्ताशीतिदिनेष्वेव मध्यं पंचदशाहकम् ॥६८।
युद्धावहारः संग्रामो द्वासप्तति दिनान्यभूत् ।।
संस्कारो रावणादीनाममावस्या दिनेऽभवत् ॥६९।
वैशाखादि तिथौ राम उवास रणभूमिषु ।।
अभिषिक्तो द्वितीयायां लंकाराज्ये विभीषणः ॥७०।
सीताशुद्धिस्तृतीयायां देवेभ्यो वरलंभनम् ।।
हत्वा चिरेण लंकेशं लक्ष्मणाग्रज एव सः ॥७१।
गृहीत्वा जानकीं पुण्यां दुःखितां राक्षसेन तु ।।
आदाय परया प्रीत्या जानकीं स न्यवर्तत ॥७२।
वैशाखस्य चतुर्थ्यां तु रामः पुष्पकमाश्रितः ।।
विहायसा निवृत्तस्तु भूयोऽयोध्यां पुरीं प्रति ॥७३।
पूर्णे चतुर्दशे वर्षे पंचम्यां माधवस्य तु ।।
भरद्वाजाश्रमे रामः सगणः समुपाविशत् ॥७४।
नंदिग्रामे तु षष्ठ्यां स भरतेन समागतः ।।
सप्तम्यामभिषिक्तोऽसावयोध्यायां रघूद्वहः ॥७५।
दशैकाधिकमासांस्तुचतुर्दशाहानि मैथिली ।।
उवास राम रहिता रावणस्य निवेशने ॥७६।
द्विचत्वारिंशक वर्षे रामो राज्यमकारयत् ।।
सीतायाश्च त्रयस्त्रिंशद्वत्सराश्च तदाभवन् ॥७७।
स चतुर्दशवर्षांते प्रविश्य च पुरीं प्रभुः ।।
अयोध्यां मुदितो रामो हत्वा रावणमाहवे ॥७८।
भ्रातृभिः सहितस्तत्र रामो राज्यमथाकरोत् ।।
राज्यं प्रकुर्वतस्तस्य पुरोधा वदतां वरः ॥७९।
अगस्त्यः कुंभसंभूतिस्तमागंता रघोः पतिम् ।।
तद्वाक्याद्रघुनाथोऽसौ करिष्यति हयक्रतुम् ॥८०।
तस्यागमिष्यति हयो ह्याश्रमे तव सुव्रत ।।
तस्य योधाः प्रमुदिता आयास्यंति तवाश्रमम् ॥८१।
तेषामग्रे रामकथाः करिष्यसि मनोहराः ।।
तैः साकं त्वमयोध्यायां गंतासि वै द्विजर्षभ ॥८२।
दृष्ट्वा राममयोध्यायां पद्मपत्रनिभेक्षणम् ।।
तत्क्षणादेव संसारवार्धिनिस्तारवान्भव ॥८३।
इत्युक्त्वा मां मुनिवरो लोमशः सर्वबुद्धिमान् ।।
उवाच ते किं प्रष्टव्यं तदाहमवदं हि तम् ॥८४।
ज्ञातं त्वत्कृपया सर्वं रामचारित्रमद्भुतम् ।।
त्वत्प्रसादादवाप्स्येऽहं रामस्य चरणांबुजम् ॥८५।
मया नमस्कृतः पश्चाज्जगाम स मुनीश्वरः ।।
तत्प्रसादान्मयावाप्तं रामस्य चरणार्चनम् ॥८६।
सोऽहं स्मरामि रामस्य चरणावन्वहं मुहुः ।।
गायामि तस्य चरितं मुहुर्मुहुरतंद्रितः ॥८७।
पावयामि जनानन्यान्गानेन स्वांतहारिणा ।।
हृष्यामि तन्मुनेर्वाक्यं स्मारंस्मारं तदीक्षया ॥८८।
धन्योऽहं कृतकृत्योऽहं सभाग्योऽहं महीतले ।।
रामचंद्र पदांभोज दिदृक्षा मे भविष्यति ॥८९।
तस्मात्सर्वात्मना रामो भजनीयो मनोहरः ।।
वंदनीयो हि सर्वेषां संसाराब्धितितीर्षया ॥९०।
तस्माद्यूयं किमर्थं वै प्राप्ताः को वानराधिपः ।।
यागं करोति धर्मात्मा हयमेधं महाक्रतुम् ॥९१।
तत्सर्वं कथयंत्वत्र यां तु वाहस्य पालने ।।
स्मरंतु रघुनाथांघ्रिं स्मृत्वा स्मृत्वा पुनः पुनः ॥९२।
इति वाक्यं समाकर्ण्य मुनेर्विस्मयमागताः ।।
रघुनाथं स्मरंतस्ते प्रोचुरारण्यकं मुनिम् ॥९३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे लोमशारण्यकसंवादे रामचरित्रकथनंनाम षट्त्रिंशत्तमोऽध्यायः ३६ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 37
शेष उवाच।
ते पृष्टा मुनिवर्येण रामचारित्रमद्भुतम् ।
धन्यं सभाग्यं मन्वानाः प्रोचुरात्मानमादरात् १।
जना ऊचुः।
पवित्रिता वयं सर्वे दर्शनेन तवाधुना ।
यद्रामकथयास्मान्वै पावयस्यधुना जनान् २।
शृणुष्व वचनं तथ्यं भवान्ब्रह्मर्षिसत्तमः ।
त्वया पृष्टं यदस्मभ्यं सर्वं तत्कथयाम वै ३।
अगस्त्यवाक्याच्छ्रीरामो विप्रहत्यापनुत्तये ।
यागं करोति सुमहान्सर्वसंभारसंभृतम् ४।
तं पालयानाः सर्वे वै त्वदाश्रममुपागताः ।
अश्वेन सहिता विप्र तज्जानीहि महामते ५।
इति वाक्यं समाकर्ण्य मनोहारि रसायनम् ।
अत्यंतं हर्षमापेदे ब्राह्मणो रामभक्तिमान् ६।
अद्य मे फलितो वृक्षो मनोरथश्रियान्वितः ।
अद्य मे जननी धन्या जातं मां सुषुवे तु या ७।
अद्य राज्यं मया प्राप्तं कंटकेन विवर्जितम् ।
अद्य कोशाः सुसंपन्ना अद्य देवाः सुतोषिताः ८।
अग्निहोत्रफलं त्वद्य प्राप्तं मे हविषा हुतम् ।
यद्द्रक्ष्ये रामचंद्रस्य चरणांभोरुहोर्युगम् ९।
यो नित्यं ध्यायते स्वांते अयोध्यायाः पतिः प्रभुः ।
स मे दृग्गोचरो नूनं भविष्यति मनोहरः १०।
हनूमान्मां समालिंग्य प्रक्ष्यते कुशलं मम ।
भक्तिं मे महतीं दृष्ट्वा तोषं प्राप्स्यति सत्तमः ११।
इति वाक्यं समाकर्ण्य हनूमान्कपिसत्तमः ।
जग्राह पादयुगलं मुनेरारण्यकस्य हि १२।
स्वामिन्हनूमान्विप्रर्षे सेवकोऽहं पुरःस्थितः ।
जानीहि रामदासस्य रेणुकल्पं मुनीश्वर १३।
इत्युक्तवति तस्मिन्वै मुनिः परमहर्षितः ।
आलिलिंग हनूमंतं रामभक्त्या सुशोभितम् १४।
उभौ प्रेमविनिर्भिन्नावुभावपि सुधाप्लुतौ ।
स्थगितौ चित्रलिखिताविव तत्र बभूवतुः १५।
उपविष्टौ कथास्तत्र चक्रतुः सुमनोहराः ।
रघुनाथपदांभोजप्रीतिनिर्भरमानसौ १६।
हनूमांस्तमुवाचेदं वचो विविधशोभनम् ।
आरण्यकं मुनिवरं रामांघ्रिध्याननिर्भृतम् १७।
स्वामिन्नयं दशरथकुलहीरांकुरो महान् ।
रामभ्राता महाशूरः शत्रुघ्नः प्रणमत्यसौ १८।
लवणो येन निहतः सर्वलोकभयंकरः ।
कृताश्च सुखिनः सर्वे मुनयः सुतपोधनाः १९।
एष पुष्कलनामा त्वां नमत्युद्भटसेवितः ।
येनाधुना महावीरा जिताः समरमंडले २०।
जानीह्येनं बहुगुणं रामामात्यं महाबलम् ।
प्राणप्रियं रघुपतेः सर्वज्ञं धर्मकोविदम् २१।
सुबाहुरयमत्युग्रो वैरिवंशदवानलः ।
रामपादाब्जरोलंबो नमति त्वां महायशाः २२।
सुमदोऽप्येष पार्वत्या दत्तरामांघ्रिसेवया ।
प्राप्तोऽधुनासौ संसारवार्धिनिस्तरणं महत् २३।
सत्यवानयमश्वं यः प्राप्तमाश्रुत्य सेवकात् ।
राज्यं निवेदयामास स त्वां प्रणमति क्षितौ २४।
इति वाक्यं समाकर्ण्य समालिंग्य समादरात् ।
चकारारण्यक ऋषिः स्वागतं फलकादिना २५।
ते हृष्टास्तत्र वसतिं चक्रुर्मुनिवराश्रमे ।
प्रातर्नित्यक्रियां कृत्वा रेवायां ते महोद्यमाः २६।
नरयानमथारोप्य सेवकैः सहितं मुनिम् ।
शत्रुघ्नः प्रापयामासायोध्यां रामकृतालयाम् २७।
स दूरान्नगरीं दृष्ट्वा सूर्यवंशनृपोषिताम् ।
पदातिरभवद्वेगाद्रघुनाथदिदृक्षया २८।
संप्राप्य नगरीं रम्यामयोध्यां जनशोभिताम् ।
मनोरथसहस्रेण संरूढो रामदर्शने २९।
ददर्श तत्र सरयूतीरे मंडपशोभिते ।
रामं दूर्वादलश्यामं कंजकांतिविलोचनम् ३०।
मृगशृंगं कटौ रम्यं धारयंतं श्रियान्वितम् ।
ऋषिवृंदैर्व्यासमुख्यैर्वृतं शूरैः सुसेवितम् ३१।
भरतेन सुमित्रायास्तनूजेन परीवृतम् ।
ददतं दीनसंधेभ्यो दानानि प्रार्थितानि तम् ३२।
विलोक्यारण्यकाख्योऽसौ कृतार्थ इत्यमन्यत ।
मल्लोचने पद्मदलसमाने रामलोकके ३३।
अद्य मे सर्वशास्त्रस्य ज्ञातृत्वं बहुसार्थकम् ।
येन श्रीराममाज्ञाय प्राप्तोऽयोध्यापुरीमिमाम् ३४।
इत्येवमादिवचनानि बहूनि हृष्टो ।
रामांघ्रिदर्शनसुहर्षित गात्रशोभी ।
प्रायाद्रमेश्वरसमीपमगम्यमन्यै-।
र्योगेश्वरैरपि विचारपरैः सुदूरम् ३५।
धन्योऽहमद्य रामस्य चरणावक्षिगोचरौ ।
करिष्यामि वचो रम्यं वदन्राममवेक्षयन् ३६।
रामोऽपि वाडवश्रेष्ठं ज्वलंतं स्वेन तेजसा ।
तपोमूर्तिधरं वीक्ष्य प्रत्युत्थानमथाकरोत् ३७।
रामचंद्रस्तस्य पादौ सुचिरं नतवान्महान् ।
ब्रह्मण्यदेवपावित्र्यं कृतमद्यतनोर्मम ३८।
इति वाक्यं वदंस्तस्य पादयोः पतितः प्रभुः ।
सुरासुरनमन्मौलिमणिनीराजितांघ्रिकः ३९।
प्रणतं तं नृपश्रेष्ठं वाडवेंद्रो महातपाः ।
गृहीत्वा भुजयोर्मध्यमालिलिंग प्रियं प्रभुम् ४०।
कौसल्यातनयस्तं वा उच्चैर्मणिमयासने ।
संस्थाप्य च पदोर्युग्मं जलेनाक्षालयत्प्रभुः ४१।
पादावनेजनोदं तु मस्तकेऽधाद्धरिः स्वयम् ।
पवित्रितोऽद्य सगणः सकुटुंब इति ब्रुवन् ४२।
चंदनेन विलिप्याथ गां च प्रादात्पयस्विनीम् ।
उवाच च वचो रम्यं देवदेवेंद्र सेवितः ४३।
स्वामिन्मखो मया वाजिमेधसंज्ञः क्रियेत ह ।
सोयं त्वच्चरणा यातादद्यपूर्णो भविष्यति ४४।
अद्य मे ब्रह्महत्योत्थ पापहानिं करिष्यति ।
अश्वमेधः क्रतुर्युष्मच्चरणेन पवित्रितः ४५।
इति वाक्यं ब्रुवाणं तं राजराजेंद्रसेवितम् ।
आरण्यक उवाचेदं हसन्माध्व्या गिरा मुनिः ४६।
स्वामिंस्तव तु युक्तं हि वचो ब्रह्मण्यभूमिप ।
त्वन्मूर्तयो महाराज ब्राह्मणा वेदपारगाः ४७।
त्वं यदा ब्रह्मपूजादि शुभं कर्म करिष्यसि ।
ततोऽखिला नृपा विप्रं पूजयिष्यंति भूमिप ४८।
त्वयोक्तं यन्महाराज विप्रहत्यापनुत्तये ।
यागं करोमि विमलं तत्तु हास्यकरं वचः ४९।
त्वन्नामस्मरणान्मूढः सर्वशास्त्रविवर्जितः ।
सर्वपापाब्धिमुत्तीर्य स गच्छेत्परमं पदम् ५०।
सर्ववेदेतिहासानां सारार्थोऽयमिति स्फुटम् ।
यद्रामनामस्मरणं क्रियते पापतारकम् ५१।
तावद्गर्जंति पापानि ब्रह्महत्यासमानि च ।
न यावत्प्रोच्यते नाम रामचंद्र तव स्फुटम् ५२।
त्वन्नामगर्जनं श्रुत्वा महापातककुंजराः ।
पलायंते महाराज कुत्रचित्स्थानलिप्सया ५३।
तस्मात्तव कथं हत्या महापुण्यददर्शन ।
राम त्वत्सुकथां श्रुत्वा पूतः सद्यो भविष्यति ५४।
मया पूर्वं कृतयुगे गंगायास्तीरवासिनाम् ।
ऋषीणां मुखतो वाक्यं श्रुतमेतत्पुराविदाम् ५५।
तावत्पापभियः पुंसां कातराणां सुपापिनाम् ।
यावन्न वदते वाचा रामनाममनोहरम् ५६।
तस्माद्धन्योऽहमधुना मम संसृतिनाशनम् ।
सांप्रतं सुलभं रामचंद्र त्वद्दर्शनादभूत् ५७।
इत्युक्तवंतं स मुनिं पूजयामास तत्र वै ।
सर्वे मुनिजनाः साधु साधु वाक्यमिति ब्रुवन् ५८।
शेष उवाच।
अत्याश्चर्यमभूत्तत्र तन्मे निगदतः शृणु ।
वात्स्यायनमुनिश्रेष्ठ रामभक्तिपरायण ५९।
रामं दृष्ट्वा महाराजं यादृशं ध्यानगोचरम् ।
अत्यंतं हर्षमापन्नो जगाद स मुनीश्वरान् ६०।
मुनीश्वराः संशृणुत मद्वाक्यं सुमनोहरम् ।
मादृशः को न भूलोके भविष्यति सुभाग्यवान् ६१।
नास्ति मत्सदृशः कोपि न जातो न भविष्यति ।
यद्रामभद्रो मां नत्वा स्वागतं परिपृष्टवान् ६२।
यत्पादपंकजरजः श्रुतिमृग्यं सदैव हि ।
सोऽद्य मत्पादयोः पाथः पीत्वा पूतममन्यत ६३।
एवं प्रवदतस्तस्य ब्रह्मस्फोटोऽभवत्तदा ।
निर्गतं तद्भवं तेजो विवेश रघुनायके ६४।
पश्यतां सर्वलोकानां सरयूतीरमंडपे ।
सायुज्यमुक्तिं संप्राप दुर्ल्लभां योगिभिर्जनैः ६५।
दिवि तूर्यनिनादोऽभूद्वीणानादोऽभवत्तदा ।
पुष्पवृष्टिः पपाताग्रे पश्यतां चित्रमद्भुतम् ६६।
मुनयोऽप्येतदीक्षित्वा प्रशंसंतो मुनीश्वरम् ।
कृतार्थोयं मुनिश्रेष्ठो यद्रामवपुषीक्षितः ६७।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे आरण्यकमुनेर्विष्णुलोकगमनंनाम सप्तत्रिंशत्तमोऽध्यायः ३७ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 38
सूत उवाच।
एतदाख्यानकं श्रुत्वा वात्स्यायन उदारधीः ।
परमं हर्षमापेदे जगाद च फणीश्वरम् १।
वात्स्यायन उवाच।
कथां संशृण्वते मह्यं तृप्तिर्नास्ति फणीश्वर ।
रघुनाथस्य भक्तार्तिहारिकीर्तिकरस्य वै २।
धन्य आरण्यको नाम मुनिर्वेदधरः परः ।
रघुनाथं समालोक्य देहं तत्याज नश्वरम् ३।
ततो राज्ञो हयः कुत्र गतः केन नियंत्रितः ।
कथं तत्र रमानाथ कीर्तिर्जाता फणीश्वर ४।
सर्वं कथय मे तथ्यं सर्वज्ञोऽस्ति यतो भवान् ।
धराधरवपुर्धारी साक्षात्तस्य स्वरूपधृक् ५।
व्यास उवाच।
इति वाक्यं समाकर्ण्य प्रहृष्टेनांतरात्मना ।
उवाच रामचारित्रं तत्तद्गुणकथोदयम् ६।
शेष उवाच।
साधु पृच्छसि विप्रर्षे रघुनाथगुणान्मुहुः ।
श्रुता न श्रुतवत्कृत्वा तेषु लोलुपतां दधत् ७।
ततो निरगमद्वाहः सैनिकैर्बहुभिवृतः ।
रेवातीरे मनोज्ञे तु मुनिवृंदनिषेविते ८।
सेनाचरास्ततः सर्वे यत्र वाहस्ततस्ततः ।
प्रसर्पंति निरीक्षंतस्तन्मार्गं रणकोविदाः ९।
वाजी गतोऽथ रेवाया ह्रदेऽगाधजलान्विते ।
भाले स्वर्णभवं पत्रं धारयन्पूजितांगकः १०।
ततो जले ममज्जासौ रामचंद्र हयो वरः ।
तदा सर्वे महाशूरास्तत्र विस्मयमागताः ११।
तैः परस्परमेवोचे कथं हयसमागमः ।
कोऽत्र गंता जले वाहमानेतुं तं महोदयम् १२।
इति यावत्समुद्विग्ना मंत्रयंते परस्परम् ।
तावद्वीरशतैः सार्धमाजगाम रघोः पतिः १३।
तान्सर्वान्विमनस्कान्स दृष्ट्वा शत्रुघ्नसंज्ञितः ।
पप्रच्छ मेघगंभीरवाचा वीरशिरोमणिः १४।
किं स्थितं निखिलैरद्य युष्माभिः संघशो जले ।
कुत्राश्वो रघुनाथस्य स्वर्णपत्रेण शोभितः १५।
जले किं विनिमग्नोऽसौ हृतो वा केन मानिना ।
तन्मे कथयत क्षिप्रं कथं यूयं विमोहिताः १६।
शेष उवाच।
इति वाक्यं समाकर्ण्य राज्ञो रघुवरस्य हि ।
कथयामासुस्ते सर्वं वीराः शूरशिरोमणिम् १७।
जना ऊचुः।
स्वामिन्वयं न जानीमो मुहूर्तमभवज्जले ।
निममज्ज ततो नायाद्धयस्तव मनोहरः १८।
त्वमेव तत्र गत्वेमं वाहमानय वेगतः ।
अस्माभिस्तत्र गंतव्यं त्वया सार्द्धं महामते १९।
इति श्रुत्वा वचस्तेषां सैनिकानां रघूद्वहः ।
खेदं प्राप जनान्पश्यञ्जलसंतरणोद्यतान् २०।
उवाच मंत्रिमुख्यं स किं कर्तव्यमतः परम् ।
कथं वाहस्य संप्राप्तिर्भविष्यति वदस्व तत् २१।
के तत्र शूराः संयोज्या जलेऽन्वेषयितुं हयम् ।
को वा नयिष्यते वाहं केनोपायेन तद्वद २२।
इति राज्ञोवचः श्रुत्वा सुमतिर्मंत्रिसत्तमः ।
उवाच समये योग्यं शत्रुघ्नं हर्षयन्निव २३।
स्वामिन्नस्ति तव श्रीमञ्छक्तिरद्भुतकर्मणः ।
पातालगमने शक्तिर्जलमध्यादिह स्फुटम् २४।
अन्यच्च पुष्कलस्यापि शक्तिरस्ति महात्मनः ।
हनूमतोऽपि रामस्य पादसेवापरस्य च २५।
तस्माद्यूयं त्रयो गत्वा हयमानयत ध्रुवम् ।
यतो भवेद्वाहमेधो रघुनाथस्य धीमतः २६।
शेष उवाच।
इति वाक्यं समाश्रुत्य शत्रुघ्नः परवीरहा ।
स्वयं विवेश तोयांतर्हनुमत्पुष्कलान्वितः २७।
यावज्जलं विवेशासौ तावत्पुरमदृश्यत ।
अनेकोद्यानशोभाढ्यममेयं पुटभेदनम् २८।
तत्र माणिक्यरचिते स्तंभे स्वर्णमये हयम् ।
बद्धं ददर्श रामस्य स्वर्णपत्रसुशोभितम् २९।
स्त्रियस्तत्र मनोहारि रूपधारिण्य उत्तमाः ।
सेवंते सुंदरीमेकां पर्यंके सुखमास्थिताम् ३०।
तान्दृष्ट्वा ताः स्त्रियः सर्वाः प्रावोचन्स्वामिनीं प्रति ।
एतेऽल्पवर्ष्मवयसो मांसपुष्टकलेवराः ३१।
भविष्यंति तव श्रेष्ठमाहारस्य फलं महत् ।
एतेषां शोणितं स्वादु पुरुषाणां गतायुषाम् ३२।
एतद्वचः समाकर्ण्य सेवकीनां वरांगना ।
जहास किंचिद्वदनं नर्तयंती भ्रुवानघा ३३।
तावत्त्रयस्ते संप्राप्ताः सन्नाहश्री विशोभिताः ।
शिरस्त्राणानि दधतः शौर्यवीर्यसमन्विताः ३४।
ता दृष्ट्वा महिलास्तत्र सौंदर्यश्रीसमन्विताः ।
प्रोचुस्ते विस्मयं विप्र किमिदं दृश्यते महत् ३५।
नमश्चक्रुर्महात्मानः सर्वे देववरांगनाः ।
किरीटमणिविद्योतद्योतितांघ्रियुगास्ततः ३६।
सा तान्पप्रच्छ पुरुषान्सर्वश्रेष्ठा तु भामिनी ।
के यूयमत्र संप्राप्ताः कथं चापधरा नराः ३७।
मत्स्थलं सर्वदेवानामगम्यं मोहनं महत् ।
अत्र प्राप्तस्य तु क्वापि निवृत्तिर्न भवत्युत ३८।
अश्वोऽयं कस्य राज्ञो वै कथं चामरवीजितः ।
स्वर्णपत्रेण शोभाढ्यः कथयंतु ममाग्रतः ३९।
शेष उवाच।
इति तस्या वचः श्रुत्वा मोहनाचारसंयुतम् ।
हनूमांस्तां प्रत्युवाच गतभीः प्रहसन्निव ४०।
वयं वै किंकरा राज्ञस्त्रैलोक्यस्य शिखामणेः ।
त्रिलोकीयं प्रणमते सर्वदेवशिरोमणिम् ४१।
रामभद्रस्य जानीहि हयमेधप्रवर्तितुः ।
प्रमुंच वाहमस्माकं कथं बद्धो वराङ्गने ४२।
वयं सर्वास्त्रकुशलाः सर्वशस्त्रास्त्रकोविदाः ।
नयिष्यामो बलाद्वाहं हत्वा तत्प्रतिरोधकान् ४३।
इति वाक्यं समाकर्ण्य प्लवङ्गस्य वराङ्गना ।
विवरस्था प्रत्युवाच हसंती वाक्यकोविदा ४४।
मयानीतमिमं वाहं न कोमोचयितुं क्षमः ।
वर्षायुतेन निशितैर्बाणकोटिभिरुच्छिखैः ४५।
परं रामस्य पादाब्जसैवकी कर्मकारिणी ।
न ग्रहीष्यामि तद्वाहं राजराजस्य धीमतः ४६।
महान विनयो जातो मम नेत्र्याः सुवाजिनः ।
क्षमताद्रामचंद्रस्तच्छरण्यो भक्तवत्सलः ४७।
यूयं क्लिष्टास्तत्पुरुषा हयार्थं तस्य रक्षितुः ।
याचध्वं वरमप्राप्यं देवानामपि सत्तमाः ४८।
यथा मेमीवमत्युग्रं क्षमेत पुरुषोत्तमः ।
व्रीडां त्यक्त्वाखिलां यूयं वृणुध्वं वरमुत्तमम् ४९।
तस्या वचः परं श्रुत्वा हनूमान्नि जगाद ताम् ।
रघुनाथप्रसादेन सर्वमस्माकमूर्जितम् ५०।
तथापि याचे वरमेकमुत्तमं ।
विधेहि तन्मे मनसः समीहितम् ।
भवे भवे नो रघुनायकः पति -।
र्वयं च तत्कर्मकराश्च किंकराः ५१।
एतद्वचनमाकर्ण्य प्लवगस्य तदांगना ।
उवाच वाक्यं मधुरं प्रहस्य गुणपूजितम् ५२।
भवद्भिः प्रार्थितं यद्वै दुर्ल्लभं सर्वदैवतैः ।
तद्भविष्यत्यसंदेहः सेवकास्तद्रघोः पतेः ५३।
अथापि वरमेकं वै दास्यामि कृतहेलना ।
रघुनाथस्य तुष्ट्यर्थं तदृतं मे भवेद्वचः ५४।
अग्रे वीरमणिर्भूपो महावीरसमन्वितः ।
ग्रहीष्यति भवद्वाहं शिवेन परिरक्षितः ५५।
तज्जयार्थे महास्त्रं मे गृह्णीत सुमहाबलाः ।
द्वैरथे स तु योद्धव्यः शत्रुघ्नेन त्वया महान् ५६।
इदमस्त्रं यदा त्वं तु क्षेपयिष्यसि संगरे ।
अनेन पूतो रामस्य स्वरूपं ज्ञास्यते पुनः ५७।
ज्ञात्वा तं वाजिनं दत्वा चरणे प्रपतिष्यति ।
तस्माद्गृह्णीध्वमस्त्रं तन्मम वैरिविदारणम् ५८।
तच्छ्रुत्वा रघुनाथस्य भ्राता जग्राह चास्त्रकम् ।
उदङ्मुखः पवित्रांगो योगिन्या दत्तमद्भुतम् ५९।
तत्प्राप्यास्त्रं महातेजा बभूव रिपुकर्शनः ।
दुष्प्रधर्ष्यो दुराराध्यो वैरिवारणसत्सृणिः ६०।
तां नत्वा राघवश्रेष्ठः शत्रुघ्नो हयसत्तमम् ।
गृहीत्वागाज्जलात्तस्माद्रेवातीरे सुखोचिते ६१।
तं दृष्ट्वा सैनिकाः सर्वे प्रहृष्टांगा मुदान्विताः ।
साधुसाधु प्रशंसंतः पप्रच्छुर्हयनिर्गमम् ६२।
हनूमान्कथयामास हयस्यागमनं महत् ।
वरप्राप्तिं च ताभ्यो वै तेऽपि श्रुत्वा मुदं गताः ६३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नस्य योगिनीदर्शनजलमध्याद्वाहप्राप्तिर्नाम अष्टत्रिंशत्तमोऽध्यायः ३८ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 39
शेष उवाच।
निनदत्सुमृदंगेषु वीणानादेषु सर्वतः ।
मुक्तो वाहस्ततो देव पुरं देवविनिर्मितम् १।
यत्र स्फाटिक कुड्यानां रचनाभिर्गृहा नृणाम् ।
हसंति विंध्यं विमलं पर्वतं नागसेवितम् २।
राजतानि गृहाण्यत्र दृश्यंते प्रकृतेरपि ।
विचित्रमणिसन्नद्धा नानामाणिक्यगोपुराः ३।
पद्मिन्यो यत्र लोकानां गेहे गेहे मनोहराः ।
हरंति चित्तानि नृणां मुखपद्मकलेक्षिताः ४।
पद्मरागमणिर्यत्र गेहे गेहे सुभूमिषु ।
बद्धः संलक्ष्यते विप्र तदोष्ठस्पर्धया नु किम् ५।
क्रीडाशैलाः प्रत्यगारं नीलरत्नविनिर्मिताः ।
कुर्वंति शंकां मेघस्य मयूराणां कलापिनाम् ६।
हंसा यत्र नृणां गेहे स्फाटिकेषु नियंत्रिताः ।
कुर्वंति मेघान्नो भीतिं मानसं न स्मरंति च ७।
निरंतरं शिवस्थाने ध्वस्तं चंद्रिकया तमः ।
शुक्लकृष्णविभेदो न पक्षयोस्तत्र वै नृणाम् ८।
तत्र वीरमणी राजा धार्मिकेष्वग्रणीर्महान् ।
राज्यं करोति विपुलं सर्वभोगसमन्वितम् ९।
तस्य पुत्रो महाशूरो नाम्ना रुक्मांगदो बली ।
वनिताभिर्गतो रम्यदेहाभिः क्रीडितुं वनम् १०।
तासां मंजीरसंरावः कंकणानां रवस्तथा ।
मनो हरति कामस्य किमन्यस्य कथात्र भोः ११।
वनं जगाम सुमहत्सुपुष्पनगसंयुतम् ।
सदाशिवकृतस्थानमृतुषट्कैर्विराजितम् १२।
चंपका यत्र बहुशः फुल्लकोरकशोभिताः ।
कुर्वंति कामिनां तत्र हृच्छयार्तिं विलोकिताः १३।
चूताः फलादिभिर्नम्रा मंजरीकोटिसंयुताः ।
नागाः पुन्नागवृक्षाश्च शालास्तालास्तमालकाः १४।
कोकिलानां समारावा यत्र च श्रुतिगोचराः ।
सदा मधुपझंकार गतनिद्राः सुमल्लिकाः १५।
दाडिमानां समूहाश्च कर्णिकारैः समन्विताः ।
केतकीकानकीवन्यवृक्षराजिविराजिताः १६।
तस्मिन्वने प्रमदसंयुतचित्तवृत्तिर्गायन्कलं मधुरवाग्विचिकीर्षयोच्चैः ।
उद्यत्कुचाभिरभितो वनिताभिरागाच्छोभानिधान वपुरुद्गतभीर्विवेश १७।
काश्चित्तं नृत्यविद्याभिस्तोषयंति स्म शोभनम् ।
काश्चिद्गानकलाभिश्च काश्चिद्वाक्चतुरोचितैः १८।
भ्रूसंज्ञया पराः काश्चित्तोषयामासुरुन्मदाः ।
परिरंभणचातुर्यैस्तं हृष्टं विदधुः स्त्रियः १९।
ताभिः पुष्पोच्चयं कृत्वा भूषयामास ताः स्त्रियः ।
वाण्या कोमलया शंसन्रेमे कामवपुर्धरः २०।
एवं प्रवृत्ते समये राजराजस्य धीमतः ।
प्रायात्तद्वनदेशं स हयः परमशोभनः २१।
तं स्वर्णपत्ररचितैकललाटदेशं ।
गंगासमं घुसृणकुंकुम पिंजरांगम् ।
गत्यासमं पवनवेगतिरस्करिण्या ।
दृष्ट्वा स्त्रियः परमकौतुकधामदेहम् २२।
ऊचुः पतिं कमलमध्यपिशंगवर्णा -।
स्ताम्राधरप्रतिभयाहतविद्रुमाभाः ।
दंतव्रजप्रमितहास्यसुशोभिवक्त्राः ।
कामस्य बाणनयनादिविमोहनाभाः २३।
स्त्रिय ऊचुः।
कांतकोयं महानर्वास्वर्णपत्रैकशोभितः ।
कस्य वा भाति शोभाढ्यो गृहाण स्वबलादिमम् २४।
शेष उवाच।
तदुक्तं वच आकर्ण्य लीलाललितलोचनः ।
जग्राह हयमेकेन करपद्मेन लीलया २५।
वाचयित्वा स्वर्णपत्रं स्पष्टवर्णसमन्वितम् ।
जहास महिलामध्ये जगाद वचनं पुनः २६।
रुक्मांगद उवाच।
पृथिव्यां नास्ति मे पित्रा समः शौर्येण च श्रिया ।
तस्मिन्कथं विधत्ते स उत्सेकं रामभूमिपः २७।
यस्य रक्षां प्रकुरुते सदा रुद्रः पिनाकधृक् ।
यं देवा दानवा यक्षा नमंति मणिमौलिभिः २८।
कुरुताद्वाजिमेधं वै जनको मे महाबलः ।
या त्वेष वाजिशालायां बध्नंतु मम वै भटाः २९।
इति वाक्यं समाकर्ण्य महिलास्ता मनोहराः ।
प्रहर्षवदना जाताः कांतं तु परिरेभिरे ३०।
गृहीत्वा च हयं पुत्रो राज्ञो वीरमणेर्महान् ।
पुरं पत्नीसमायुक्तो महोत्साहमवीविशत् ३१।
मृदंगध्वनिषु प्रोच्चैराहतेषु समंततः ।
बंदिभिः संस्तुतः प्रागात्स्वपितुर्मंदिरं महत् ३२।
तस्मै स कथयामास हयं नीतं रघोः पतेः ।
वाजिमेधाय निर्मुक्तं स्वच्छंदगतिमद्भुतम् ३३।
रक्षितं शत्रुसूदेन महाबलसमेतिना ।
तच्छ्रुत्वा वचनं तस्य नृपो वीरमणिर्महान् ३४।
नातिप्रशंसयामास तत्कर्म सुमहामतिः ।
नीत्वा पुनः समायांतं चौरस्येव विचेष्टितम् ३५।
कथयामास जामात्रे शिवायाद्भुतकर्मणे ।
अर्धांगनाधरायांगभूषाय चंद्रधारिणे ३६।
तेन संमंत्रयामास नृपो वीरमणिर्महान् ।
पुत्रसृष्टं महत्कर्म विनिंद्यं महतां मतः ३७।
शिव उवाच।
राजन्पुत्रेण भवतः कृतं कर्म महाद्भुतम् ।
यो जहार महावाहंरामचंद्रस्य धीमतः ३८।
अद्य युद्धं महद्भाति सुरासुरविमोहनम् ।
शत्रुघ्नेन महाराज्ञा वीरकोट्येकरक्षिणा ३९।
मया यो ध्रियते स्वांते जिह्वया प्रोच्यते हि यः ।
तस्य रामस्ययज्ञांगं जहार तव पुत्रकः ४०।
परमत्र महाँल्लाभो भविष्यतितरां रणे ।
यद्रामचरणांभोजं द्रक्ष्यामः स्वीयसेवितम् ४१।
अत्र यत्नो महान्कार्यो हयस्य परिरक्षणे ।
नयिष्यंति बलाद्वाहं मया रक्षितमप्यमुम् ४२।
तस्मादिमं महाराज राज्येन सह सन्नतः ।
वाजिनं भोजनं दत्वा प्रेक्षस्वांघ्रियुगं ततः ४३।
इति वाक्यं समाकर्ण्य शिवस्य स नृपोत्तमः ।
उवाच तं सुरेंद्रादिवंद्यपादांबुजद्वयम् ४४।
वीरमणिरुवाच।
क्षत्रियाणामयं धर्मो यत्प्रतापस्य रक्षणम् ।
तदसौ क्रांतुमुद्युक्तः क्रतुना हयसंज्ञिना ४५।
तस्माद्रक्ष्यः स्वप्रतापो येनकेनापि मानिना ।
यावच्छक्यं कर्म कृत्वा शरीरव्ययकारिणा ४६।
सर्वं कृतं सुतेनेदं गृहीतोऽश्व पुनर्यतः ।
कोपितं रामभूपालं समयार्हं कुरु प्रभो ४७।
क्षत्त्रियाणामिदं कर्म कर्तव्यार्हं भवेन्नहि ।
यदकस्माद्रिपोः पादौ प्रणमेद्भयविह्वलः ४८।
रिपवो विहसंत्येनं कातरोऽयं नृपाधमः ।
क्षुद्रः प्राकृतवन्नीचो नतवान्भयविह्वलः ४९।
तस्माद्भवान्यथायोग्यं योद्धव्ये समुपस्थिते ।
यद्विधेयं विचार्यैव कर्तव्यं भक्तरक्षणम् ५०।
शेष उवाच।
इति वाक्यं समाकर्ण्य चंद्रचूडोवदद्वचः ।
प्रहसन्मेघगंभीरवाण्या संमोहयन्मनः ५१।
यदि देवास्त्रयस्त्रिंशत्कोटयः समुपस्थिताः ।
तथापि त्वत्तः केनाश्वो गृह्यते मम रक्षितुः ५२।
यदि रामः समागत्य स्वात्मानं दर्शयिष्यति ।
तदाहं चरणौ तस्य प्रणमामि सुकोमलौ ५३।
स्वामिना न हि योद्धव्यं महान नय उच्यते ।
अन्ये वीरास्तृणप्रायाः किंचित्कर्तुं न वै क्षमाः ५४।
तस्माद्युद्ध्यस्व राजेंद्र रक्षके मयि सुस्थिते ।
को गृह्णाति बलाद्वाहं त्रिलोकी यदि संगता ५५।
शेष उवाच।
एतद्वचः परं श्रुत्वा चंद्रचूडस्य भूमिपः ।
जहर्ष मानसेऽत्यंतं युद्धकर्मणि कौतुकी ५६।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे वीरमणिपुत्रेण हयग्रहणंनाम एकोनचत्वारिंशत्तमोऽध्यायः ३९ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 40
शेष उवाच।
सेनाचरा महाराज्ञो महाबलसमन्विताः ।
समागतास्तं पश्यंतो हयं रामस्य भूपतेः १।
क्वा सावश्वः केन नीतः कथं वा दृश्यते न सः ।
को गंता यमपुर्यां वै वाहं हृत्वा सुमंदधीः २।
विलोकयंतस्तन्मार्गं यावत्सेनाचरा रघोः ।
तावत्प्राप्तो महाराजो महासैन्यपरीवृतः ३।
पप्रच्छ सेवकान्सर्वान्कुत्राश्वो मम सांप्रतम् ।
न दृश्यते कथं वाहः स्वर्णपत्रसुशोभितः ४।
इति तद्वचनं श्रुत्वा सेवकास्ते हयानुगाः ।
प्रोचुर्नाथ मनोवेगो वाहः केनापि कानने ५।
हृतो न लक्ष्यते तस्मादस्माभिर्मार्गकोविदैः ।
तदत्र यत्नः कर्तव्यो हयप्राप्तिं प्रति प्रभो ६।
तेषां वचनमाकर्ण्य पप्रच्छ सुमतिं नृपः ।
शत्रुघ्नः शत्रुसंहारकारीमोहनरूपधृक् ७।
शत्रुघ्न उवाच।
कोऽत्र राजा निवसति कथं वाहस्य संगमः ।
कियद्बलं भूमिपतेर्येन मेऽद्य हृतो हयः ८।
सुमतिरुवाच।
राजन्देवपुरं ह्येतद्देवेनैव विनिर्मितम् ।
कैलासमिव दुर्गम्यं वैरिसंघैः सुसंहतैः ९।
अस्मिन्वीरमणी राजा महाशूरः प्रतापवान् ।
राज्यं करोति धर्मेण शिवेन परिरक्षितः १०।
योऽसौ प्रलयकारी स आस्ते भक्त्या वशीकृतः ।
चंद्रचूडः स्वभक्तस्य पक्षपातं सृजन्सदा ११।
तस्मादत्र महद्युद्धं गृहीतश्चेद्भविष्यति ।
यत्ताः संतः प्रकुर्वंतु रक्षणं कटकस्य हि १२।
एवं श्रुत्वा स शत्रुघ्नः सर्वभूपशिरोमणिः ।
सैन्यव्यूहं रचित्वासौ तिष्ठति स्म महायशाः १३।
अथ तं सुखमासीनं मंत्रयंतं सुमंत्रिणा ।
आजगाम स देवर्षिर्युद्धकौतुकसंयुतः १४।
तमागतं मुनिं दृष्ट्वा शत्रुघ्नस्तपसां निधिम् ।
अभ्युत्थायासने स्थाप्य मधुपर्कमथार्पयत् १५।
स्वागतेन च संतुष्टं नारदं मुनिसत्तमम् ।
उवाच प्रीणयन्वाचा वाक्यवादविशारदः १६।
शत्रुघ्न उवाच।
मदीयोऽश्व कुत्र विप्र कथयस्व महामते ।
न लक्ष्यते गतिस्तस्य सेवकैर्मम कोविदैः १७।
शंस तं येन वा नीतं क्षत्त्रियेण च मानिना ।
कथमत्र हयप्राप्तिर्भविष्यति तपोधन १८।
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य स नारदः ।
उवाच वीणां रणयन्गायन्रामकथां मुहुः १९।
नारद उवाच।
एतद्देवपुरं राजन्भूपो वीरमणिर्महान् ।
तत्पुत्रेण वनस्थेन गृहीतस्तव वाजिराट् २०।
तत्र युद्धं महत्तेऽद्य भविष्यति सुदारुणम् ।
अत्र वीराः पतिष्यंति बलशौर्यसमन्विताः २१।
तस्मादत्र महायत्नात्स्थातव्यं ते महाबल ।
रचय व्यूहरचनां दुर्गमां परसैनिकैः २२।
जयस्ते भविता राजन्कृच्छ्रेणास्मान्नृपोत्तमात् ।
रामं को नु पराजीयाद्भुवने सकले ह्यपि २३।
इत्युक्त्वांतर्दधे विप्रो नभसि स्थितवांस्ततः ।
युद्धं सुदारुणं द्रक्ष्यन्देवदानवयोरिव २४।
शेष उवाच।
अथ राजा वीरमणिः सर्वशूरशिरोमणिः ।
पटहं घोषितुं स्वीये पुरमध्ये महारवम् २५।
आह्वयामास सेनान्यं रिपुवीरं महोन्नतम् ।
कथयामास च क्षिप्रं मेघगंभीरया गिरा २६।
वीरमणिरुवाच।
सेनानीः पटहस्याज्ञां देहि मे शोभने पुरे ।
तच्छ्रुत्वा मे सुसन्नद्धाः शत्रुघ्नं प्रति यांतु ते २७।
इति वाक्यं समाकर्ण्य राज्ञो वीरमणेस्तदा ।
कारयामास पटहं महारवनिनादितम् २८।
गेहे गेहे च रथ्यायां श्रूयते पटहध्वनिः ।
शत्रुघ्नं यांतु ये सर्वे वीरा राजपुरे स्थिताः २९।
ये वै राज्ञः समुल्लंघ्य शासनं वीरमानिनः ।
पुत्रा वा भ्रातरो वापि ते वध्याः स्युर्नृपाज्ञया ३०।
शृण्वंतु वीराः पुनरप्याह ते पटहे रवम् ।
श्रुत्वा विधीयतामाशु कर्तव्यं मा विलंबितम् ३१।
शेष उवाच।
इति पटहरवं स्वकर्णगोचरं ।
नरवरवीरवरा ययुर्नृपोत्तमम् ।
कनककवचभूषितस्वदेहाः ।
समरमहोत्सव हृष्टचित्तकोशाः ३२।
केचिद्ययुः शिरस्त्राणं धृत्वा शिरसि शोभनम् ।
कवचेन सुशोभाढ्याः शतकोटिसुशोभिताः ३३।
रथेन हययुग्मेन मणिकांचनशोभिना ।
ययुस्ते राजसंदेशान्नृवरालयमुन्मदाः ३४।
केचिन्मतंगजैर्मत्तैः केचिद्वाहैः सुशोभनैः ।
ययुर्नपगृहं सर्वे राजसंदेशकारकाः ३५।
विविक्तस्वर्णकवचशिरस्त्राणसुशोभितः ।
रुक्मांगदोऽपि च निजे रथे तिष्ठन्मनोजवे ३६।
शुभांगदोऽनुजस्तस्य महारत्नमयं दधत् ।
कवचं वपुषि श्रेष्ठं निजं प्रायाद्रणोत्सवे ३७।
राजभ्राता वीरसिंहः सर्वशस्त्रास्त्रकोविदः ।
ययौ नृपाज्ञया तत्र शासनं भूमिपस्य हि ३८।
जामेयस्तस्य राज्ञोऽपि बलमित्र इति स्मृतः ।
सन्नद्धः कवची खड्गी जगाम नृपमंदिरम् ३९।
सेनानी रिपुवारोऽपि सेनां तां चतुरंगिणीम् ।
सज्जां विधाय भूपाय न्यवेदयदथो महान् ४०।
अथ राजा वीरमणिः सर्वशस्त्रास्त्रपूरितम् ।
मणिसृष्टोच्चचक्रोच्चमारोहत्स्यंदनोत्तमम् ४१।
ततो वीरार्णवे शंखनिनादश्च समंततः ।
श्रूयते कातरान्वीरान्प्रेरयन्निव संगरे ४२।
भेर्यः समंततो जघ्नुः शुभवादकवादिताः ।
अनीकान्यत्र तस्यासन्संग्रामाय प्रतस्थुषः ४३।
सर्वे कृतस्वस्त्ययनाः सर्वाभरणभूषिताः ।
सर्वशस्त्रास्त्रसंपूर्णा ययुः समरमण्डलम् ४४।
भेरीशंखनिनादेन पूरिताश्च नगा गुहाः ।
आकारितुं गतः किं नु तद्रवः स्वर्गसंस्थितान् ४५।
तस्मिन्कोलाहले वृत्ते राजा वीरमणिर्महान् ।
रणोत्साहेन संयुक्तो ययौ प्रधनमंडलम् ४६।
आगत्य संस्थितस्तावद्रथपत्तिसमाकुलम् ।
समुद्र इव तत्स्थानात्प्लावितुं पुरुषानयात् ४७।
तदागतं बलं दृष्ट्वा रथिभिः शस्त्रकोविदैः ।
कोलाहलीकृतं सर्वमुवाच सुमतिं नृपः ४८।
शत्रुघ्न उवाच।
समागतो वीरमणिर्मम वाजिधरो बली ।
योद्धुं मां महता भूयः सैन्येन चतुरंगिणा ४९।
कथं युद्धं प्रकर्तव्यं के योत्स्यंति बलोत्कटाः ।
तान्सर्वान्दिश मे वीरान्यथा स्याज्जय ईप्सितः ५०।
सुमतिरुवाच।
स्वामिन्नसौ महाराजो महासैन्यपरीवृतः ।
समागतः स युद्धार्थं शिवभक्तिसमन्वितः ५१।
सांप्रतं युद्ध्यतां वीरः पुष्कलः परमास्त्रवित् ।
अन्येपि नीलरत्नाद्या योद्धारो युद्धकोविदाः ५२।
शिवेन सह योद्धव्यं राज्ञा वा भवतानघ ।
द्वंद्वयुद्धेन जेतव्यो महाबलपराक्रमः ५३।
अनेन विधिना राजञ्जयस्तेऽत्र भविष्यति ।
पश्चाद्यद्रोचते स्वामिंस्तत्कुरुष्व महामते ५४।
शेष उवाच।
इति वाक्यं समाकर्ण्य शत्रुघ्नः परवीरहा ।
सुभटानादिदेशाथ युद्धाय कृतनिश्चयः ५५।
सर्वैः ससैन्यैर्युद्धार्थं राजभिः शस्त्रकोविदैः ।
यथा स्यान्मे जयः क्षिप्रं यतितव्यं तथा पुनः ५६।
जयार्थं राघवस्यैव श्रुत्वा ते रणकोविदाः ।
महोत्साहेन संयुक्ता ययुर्योद्धुं तु सैनिकैः ५७।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे वीर-।
मणिना सह युद्धनिश्चयोनाम चत्वारिंशत्तमोऽध्यायः ४० ।
खण्डः ५ (पातालखण्डः) — Adhyāya 41
शेष उवाच
युद्धाय ते सुसंनद्धाः शत्रुघ्नस्य महाबलाः ।
ययुर्वीरमणेः सैन्यमध्ये शौर्यसमन्विताः॥ १
शरान्विमुंचमानास्ते भिंदंतः सैनिकान्बहून् ।
व्यदृश्यंत रणांतःस्थाः शरासनधरा नराः॥ २
अनेके निहतास्तत्र गजा मणिमया रथाः ।
भग्ना वाहसमेताश्च दृश्यंते रणमंडले॥ ३
विहितं कदनं तेषां श्रुत्वा रुक्मांगदो बली ।
रथे मणिमये तिष्ठन्ययौ योद्धुं ससैनिकान् ॥४
शरासने शरान्धास्यन्निषुधी अक्षयौ दधत् ।
शोणनेत्रांतरो भीमो महाकोपसमन्वितः॥ ५
अनेकबाणसंविग्नान्कुर्वञ्छूरान्सहस्रशः ।
हाहाकारं कारयंस्तद्ययौ रुक्मांगदो बली॥ ६
राजपुत्रः स्वसदृशं बलेन यशसा श्रिया ।
आह्वयामास शत्रुघ्नं भारतिं पुष्कलं बली॥ ७
रुक्मांगद उवाच
आगच्छ वीरकर्मा त्वं महाबलपराक्रम ।
मया योद्धुं तु बलिना राजपुत्रेण भास्वता ॥८
किमन्यैस्त्रासितैर्वीर निहतैः कोटिभिर्नरैः ।
मया समं महायुद्धं विधाय जयमाप्नुहि ॥९
इत्युक्तवं तं तरसा प्रहसन्पुष्कलो बली ।
जघान विपुले मध्ये वक्षसस्तीक्ष्णपर्वभिः ॥१०
तदमृष्यन्राजपुत्रो महाचापे दधच्छरान् ।
जघान दशभिर्वीरं पुष्कलं वक्षसोंऽतरे ॥११
उभौ समरसंरब्धावुभावपि जयैषिणौ ।
रेजाते समरे तौ हि कुमारतारकौ यथा ॥१२
बाणान्धनुषि संधाय दशसंख्यान्महाशितान् ।
अकरोत्पुष्कलो वीरो विरथं राजपुत्रकम् ॥१३
चतुर्भिश्चतुरोवाहान्द्वाभ्यां सूतमपातयत् ।
एकेन ध्वजमेतस्य द्वाभ्यां स्यंदनरक्षकौ ॥१४
एकेन हृदि विव्याध राजपुत्रस्य वेगवान् ।
तदद्भुतं कर्म दृष्ट्वा सर्वे वीराः प्रतोषिताः ॥१५
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
अत्यंतं कोपमापन्नः स्यंदनं परमाविशत् ॥१६
स स्थित्वा स्यंदनवरे हयरत्नेन भूषिते ।
शरासनं महद्धृत्वा सुदृढं गुणपूरितम् ॥१७
उवाच पुष्कलं वीरं रुक्मांगद इदं वचः ।
महत्पराक्रमं कृत्वा क्व यास्यसि परंतप ॥१८
पश्य मेऽद्यपराक्रांतिं यद्बलेन विनिर्मिताम् ।
यत्नात्तिष्ठस्व भो वीर नयामि त्वद्रथं नभः ॥१९
इत्युक्त्वा शरमत्युग्रं दधार स्वशरासने ।
मंत्रयित्वा ततश्चास्त्रं भ्रामकं पौष्कले रथे ॥२०
मुमोच निशितं बाणं स्वर्णपंखैकशोभितम् ।
तेन बाणेन नीतोऽस्य रथो योजनमात्रकम् ॥२१
धृतः कृच्छ्रेण सूतेन रथो बभ्राम भूतले ।
कृच्छ्रेण प्राप्य स्वस्थानं पुष्कलः परमास्त्रवित् ॥२२
जगाद वचनं तं वै बाणं बिभ्रच्छरासने ।
स्वर्गं प्राप्नुहि वीराग्र्य सर्वदेवैश्च सेवितम् ॥२३
त्वादृशाः पृथिवीयोग्या न भवंति नृपोत्तम ।
शतक्रतुसभायोग्यास्तद्गच्छ त्वं सुरालयम् ॥२४
इत्युक्त्वा स मुमोचास्त्रमाकाशप्रापकं महत् ।
तेन बाणेन सरथो ययौ खमनुलोमतः ॥२५
सर्वांल्लोकानतिक्रामन्ययौ सूर्यस्य मंडलम् ।
तज्ज्वालया रथो दग्धो हयसूतसमन्वितः ॥२६
तत्करैर्दग्धभूयिष्ठ कलेवरः सुदुःखितः ।
पपात चंद्रचूडं स धृत्वा हृद्यसुखार्दनम् ॥२७
भूमौ निपतितस्तत्र करदग्धकलेवरः ।
अत्यंतं दुःखमापन्नो मुमूर्च्छ रणमंडले ॥२८
तस्मिन्निपतिते भूमौ मूर्च्छिते राजपुत्रके ।
हाहाकारो महानासीत्तत्र संग्राममूर्धनि ॥२९
वैरिणो जयलक्ष्मीं ते प्रापुः पुष्कलमुख्यकाः ।
पलायनपरा जाता वैरिणो हयरक्षकाः ॥३०
तदा पुत्रस्य वै मूर्च्छां दृष्ट्वा वीरमणिर्नृपः ।
प्रायात्समरमध्यस्थं पुष्कलं कोपपूरितः ॥३१
तदा भूमिश्चचालेयं सपर्वतवनोत्तमा ।
शूरा वै हर्षमापन्नाः कातरा भयपीडिताः ॥३२
चापं महद्दधानः स इषुधी अक्षयावपि ।
रोषान्निःश्वासमामुंचन्नाह्वयामास वैरिणम् ॥३३
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रुक्मांगदपराजय पुष्कलविजयोनाम एकचत्वारिंशत्तमोऽध्यायः ४१
खण्डः ५ (पातालखण्डः) — Adhyāya 42
शेष उवाच।
आह्वयंतं महासैन्यवारिधौ पुष्कलं नृपम् ।
समालक्ष्य कपींद्रोऽपि हनूमांस्तमधावत १।
लांगूलमुद्यम्य विशालदेहं ।
सरावमातत्य पयोदघोषम् ।
रणस्थितान्वीरवरान्कपींद्रो ।
जगाम तं वीरमणिं नृपेन्द्रम् २।
आयांतं तं हनूमंतं वीक्ष्य पुष्कल उद्भटः ।
विलोकयामासदृशा वैरिक्रोध सुशोणया ३।
जगाद तं हनूमंतं पुष्कलः परमास्त्रवित् ।
मेघगंभीरया वाचा नादयन्रणमंडलम् ४।
पुष्कल उवाच।
कथं त्वं समरे योद्धुमागतोसि महाकपे ।
कियद्बलं स्वल्पमेतद्राज्ञो वीरमणेर्महत् ५।
यत्र त्रिजगती सर्वा संमुखे समुपागता ।
तत्र त्वं लीलया योद्धुं यातुमिच्छसि वा न वा ६।
कोयं राजा वीरमणिः कियद्बलमथाल्पकम् ।
अत्रागमनमत्युग्रं तव वीर न भाव्यते ७।
रघुनाथकृपापांगादहं निस्तीर्य दुस्तरम् ।
क्षणान्निर्यामि कीशेंद्र मा चित्तं कुरु संगरे ८।
त्वया राक्षसपाथोधिस्तीर्णो रामकृपाव्रजात् ।
तथा रामं सुसंस्मृत्य निस्तरिष्यामि दुस्तरम् ९।
ये केचिद्दुस्तरं प्राप्य रघुनाथं स्मरंति च ।
तेषां दुःखोदधिः शुष्को भविष्यति न संशयः १०।
तस्माद्व्रज महावीर शत्रुघ्नसविधे बलिन् ।
एष आयामि निर्जित्य भूपं वीरमणिं क्षणात् ११।
शेष उवाच।
इति धीरां समाकर्ण्य वाणीं पुष्कलभाषिताम् ।
जगाद वचनं भूयः पुष्कलं परवीरहा १२।
हनुमानुवाच।
पुत्र मा साहसं कार्षीर्भूपं वीरमणिं प्रति ।
एष दाता शरण्यश्च बलशौर्यसमन्वितः १३।
त्वं बालः स्थविरो भूपोऽखिलशस्त्रास्त्रवित्तमः ।
अनेके विजिताः संख्ये वीराः शौर्यसुशोभिनः १४।
जानीहि पार्श्वे तस्य त्वं रक्षितारं सदाशिवम् ।
भक्त्या वशीकृतं स्थाणुं सोमं चैतत्पुरिस्थितम् १५।
तस्मादहमनेनैव योत्स्ये भूपेन पुष्कल ।
अन्यान्वीरान्विजित्वा त्वं कीर्तिमाप्नुहि पुष्कलाम् १६।
पुष्कल उवाच।
शिवो भक्त्या वशीकृत्य स्वपुरे स्थापितोऽमुना ।
परमस्याशु हृदयेन तिष्ठति महेश्वरः १७।
सदाशिवोयमाराध्य परमं स्थानमागतः ।
स रामो मन्मनस्त्यक्त्वा न क्वापि परिगच्छति १८।
यत्र रामस्तत्र विश्वं सर्वं स्थास्नु चरिष्णु च ।
तस्मादहं जयिष्यामि रणे वीरमणिं नृपम् १९।
व्रज त्वं समरे योद्धुमन्यान्मानिवरान्नृपान् ।
वीरसिंहमुखान्कीश मच्चिंतां मा कुरु प्रभो २०।
वाचमित्थं समाकर्ण्य हनूमान्धीरसेविताम् ।
जगाम समरे योद्धुं वीरसिंहं नृपानुजम् २१।
लक्ष्मीनिधिः सुतेनास्य शुभांगदसुसंज्ञिना ।
द्वैरथेन प्रयुयुधे महाशस्त्रास्त्रवेदिना २२।
बलमित्रेण सुमदः स्वप्रतापबलोर्जितः ।
योद्धुं सशस्त्रः संग्रामं विचचार नृपात्मजः २३।
आह्वयंतं नृपं दृष्ट्वा द्वैरथे युद्धकोविदः ।
पुष्कलो रुक्मखचिते रथे तिष्ठन्ययौ हि तम् २४।
राजा तमागतं दृष्ट्वा पुष्कलं युद्धकोविदम् ।
उवाच निर्भिया वाण्या रणमध्ये सुभाषितः २५।
वीरमणिरुवाच।
बालमायाहि मां क्रुद्धं संग्रामे चंडकोपनम् ।
गच्छ प्राणपरीप्सायै मा युद्धं कुरु मे सह २६।
त्वादृशान्बालकान्भूपा मादृशाः कृपयंति हि ।
प्रहरंति न चैतान्वै तस्माद्गच्छ रणाद्बहिः २७।
यावत्त्वं न मया दृष्टश्चक्षुर्भ्यां तावदुन्मनाः ।
सांप्रतं त्वां प्रहर्तुं न मनः समभिकांक्षति २८।
यत्त्वया मत्सुतो बाणैर्भिन्नो मूर्च्छीकृतः पुनः ।
सर्वं मया क्षांतमद्य तवबालधियो महत् २९।
इति वाक्यं समाकर्ण्य पुष्कलो निजगाद तम् ।
पुष्कल उवाच।
बालोऽहं त्वं महावृद्धः सर्वशस्त्रास्त्रकोविदः ३०।
क्षत्रियाणां मतं चैव ये बलाधिक्यसंयुताः ।
त एव वृद्धा भूपाग्र्य न वयोवृद्धतां गताः ३१।
मया ते मूर्च्छितः पुत्रः सशौर्यबलदर्पितः ।
इदानीं त्वामहं शस्त्रैः पातयिष्यामि संगरे ३२।
तस्मात्त्वं यत्नतस्तिष्ठ राजन्संग्राममूर्धनि ।
रामभक्तं न मां कश्चिज्जयतींद्रपदे स्थितः ३३।
इत्थं भाषितमाश्रुत्य पुष्कलस्य नृपाग्रणीः ।
जहास बालं संवीक्ष्य कोपं च व्यदधात्पुनः ३४।
तं वै कुपितमालक्ष्य भरतात्मज उन्मदः ।
जघान शरविंशत्या राजानं हृदि तीक्ष्णया ३५।
राजा तानागतान्दृष्ट्वा बाणांस्तेन विमोचितान् ।
चिच्छेद परमक्रुद्धः शरैस्तीक्ष्णैरनेकधा ३६।
तद्बाणच्छेदनं दृष्ट्वा भारतिः परवीरहा ।
चुकोप हृदयेऽत्यंतं राजानं च त्रिभिः शरैः ३७।
विव्याध भाले भूपाल पुत्रः पुष्कलसंज्ञकः ।
तत्र लग्ना विरेजुस्ते त्रिकूटशिखराणि किम् ३८।
तैर्बाणैर्व्यथितो राजा जघान नवभिः शरैः ।
हृदये पुष्कलं वीरं महाकोपसमन्वितः ।
तैर्वत्सदन्तैर्बह्वस्रं पीतं रामानुजाङ्गजम् ३९।
सर्पा आशीविषा यद्वत्क्रुद्धास्तद्वपुषि स्थिताः ।
परमं कोपमापन्नः पुष्कलो भूमिपं पुनः ४०।
बाणानां शतकेनाशु बिभेद शितपर्वणाम् ।
तैर्बाणैः कवचं भिन्नं किरीटः सशिरस्त्रकः ४१।
रथो धनुर्महत्सज्यं छिन्नं कोपपरिप्लवात् ।
क्षतजेन परिप्लुष्टो बाणभिन्नकलेवरः ४२।
अन्यं स्यंदनमारुह्य जगाम भरतात्मजम् ।
धन्योसि वीर रामस्य चरणाब्जमधुव्रत ४३।
महत्कृतं कर्म तेऽद्य यदहं विरथीकृतः ।
प्राणान्रक्षस्व भो वीर सांप्रतं मयि युद्ध्यति ४४।
सुलभा न तव प्राणाः कालरूपे मयि स्थिते ।
इत्युक्त्वा व्यहनद्बाणैरसंख्यैः शस्त्रकोविदः ४५।
भूमौ दिशि च तद्बाणा नान्यद्दृश्येत तत्र ह ।
अनेके गजसाहस्रा भिन्ना अश्वाः समंततः ४६।
रथारथियुतास्तेन छिन्ना भिन्ना द्विधाकृताः ।
शोणितौघा सरित्तत्र प्रसुस्राव रणांगणे ४७।
यत्रोन्मदा हि मातंगा दृश्यंते शैलशृंगवत् ।
केशाः शैवाललक्ष्यास्ते मुहुः प्राणिशिरः स्थिताः ४८।
अनेके पाणयश्छिन्ना वीराणां मुद्रिकाश्रियः ।
दृश्यंते अहिवत्तत्र चंदनादिकरूषिताः ४९।
शिरांसि च भटाग्र्याणां कच्छपाभां वहंति वै ।
मांसानि पंका यत्रासन्वीराणां महतां ततः ५०।
एवं व्यतिकरे वृत्ते योगिन्यः शतशो रणे ।
पपुः पात्रेण रुधिरं प्राणिनां रणपातिनाम् ५१।
मांसानि बुभुजुस्ता वै हर्षकौतुकसंयुताः ।
पीत्वा तु शोणितं तत्र भक्षित्वा मांसमुन्मदाः ५२।
ननृतुर्जहसुः प्रोच्चैरुज्जगुः प्रधनांगणे ।
पिशाचास्तत्र समरे प्राणिनां मस्तकानि वै ५३।
धृत्वा कराभ्यां मत्तांगास्तालवद्वादनोद्यताः ।
शिवास्तत्र महामांसं पतितानां रणांगणे ५४।
भक्षित्वा व्यनदन्मत्ताः कातराणां भयप्रदाः ।
कातरास्त्राः समापन्ना गताः कुंजरकोटरे ५५।
भक्षिता योगिनीभिस्ते पापिनां क्वापि न स्थितिः ।
एतत्कदनमालक्ष्य स्वसैन्यस्य रथाग्रणीः ५६।
पुष्कलोऽपि चकारात्र कदनं रणमंडले ।
भिद्यंते गजशीर्षाणि पतंति मौक्तिकानि तु ५७।
दृश्यते लोमभिः पूर्णा ताम्रपर्णीव तन्नदी ।
पुष्कलप्रहिता बाणा नृणामंगेषु संगताः ।
कुर्वंति प्राणविच्छेदं वीराणामपि सर्वतः ५८।
सर्वे रुधिरसिक्तांगाः सर्वे च्छिन्ननिजांगकाः ।
दृश्यंते किंशुका यद्वत्सुभटाः प्रधनांगणे ५९।
एतस्मिन्समये क्रुद्धः समाभाष्य महीपतिम् ।
जघान बहुबाणैस्तं रोषपूरपरिप्लुतः ६०।
तद्बाणवेधभिन्नांगो विशीर्णकवचो नृपः ।
महाबलं तं मन्वानः प्राहरच्छरकोटिभिः ६१।
तैर्बाणैः कवचान्मुक्तं सुस्राव बहुशोणितम् ।
वपुर्बभूव रुचिरं शरपंजरगोचरम् ६२।
शरपंजरमध्यस्थो विह्वलीकृतमानसः ।
शरान्नेतुं च संधातुं न क्षमः स च भारतिः ६३।
रामं स्मृत्वा धनुर्धृत्वा करे सज्जं महद्दृढम् ।
मुमोच बाणान्निशितान्वैरिवृंदनिवारणान् ६४।
तैर्बाणैः शरजालं तद्विधूय मुनिपुंगव ।
शंखं प्रध्माय समरे जगाद गतभीर्नृपम् ६५।
पुष्कल उवाच।
त्वया कृतं महत्कर्म यन्मां बाणस्य पंजरे ।
गोचरं कृतवान्वीर वीरतापनमुद्भटम् ६६।
वृद्धत्वान्मम मान्योसि सांप्रतं रणमंडले ।
पश्यमेऽद्य पराक्रांतं राजन्वीरमणे महत् ६७।
बाणत्रयेण भो वीर मूर्च्छितं करवै नहि ।
तर्हि प्रतिज्ञां शृणु वै सर्ववीरविमोहिनीम् ६८।
गंगां प्राप्यापि यो वै तां निंदित्वा पापहारिणीम् ।
न मज्जति महापापो महामूढविचेष्टितः ६९।
तस्य पापं ममैवास्तु चेन्न त्वां रणमंडले ।
पातये मूर्च्छया वीर सन्नद्धो भव भूपते ७०।
इति वाक्यं समाकर्ण्य पुष्कलस्य नृपोत्तमः ।
चुकोप भृशमुद्विग्नः संदधे निशिताञ्छरान् ७१।
ते शरा हृदयं भित्त्वा गतास्ते भारतेर्महत् ।
पेतुः क्षितावधो यद्वद्रामभक्तिपराङ्मुखाः ७२।
ततः शरं मुमोचास्मै निशितं वह्निसप्रभम् ।
लक्षीकृत्य महद्वक्षः कपाटतटविस्तृतम् ७३।
स बाणो भूमिपतिना द्विधा छिन्नः शरेण हि ।
पपात रथमध्ये स रविमंडलवज्ज्वलन् ७४।
अपरं बाणमाधत्त मातृभक्तिभवं ततः ।
निधाय पुण्यं सोऽप्येष चिच्छेद महता पुनः ७५।
तदा खिन्नः स हृदये किंकर्तव्यमिति स्मरन् ।
रामं हृदि निजार्तिघ्नं मुमोच परमास्त्रवित् ७६।
स बाणस्तस्य हृदये लग्न आशीविषोपमः ।
मूर्च्छामप्रापयत्तं वै ज्वलन्सूर्यसमप्रभः ७७।
ततो हाहाकृतं सर्वं पलायनपरायणम् ।
राज्ञि संमूर्च्छिते जाते पुष्कलो जयमाप्तवान् ७८।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे वीरमणेः पराभवोनाम द्विचत्वारिंशत्तमोऽध्यायः ४२ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 43
शेष उवाच
हनूमान्वीरसिंहं तु समागत्याब्रवीद्वचः ।
तिष्ठ यासि कुतो वीर जेष्यामि त्वां क्षणादिह ॥१
एवमुक्तं समाकर्ण्य प्लवगस्य वचो महत् ।
कोपपूरपरिप्लुष्टः कार्मुकं जलदस्वनम् ॥२
विनद्य घोरान्निशितान्बाणान्मुंचन्बभौ रणे ।
आषाढे जलदस्येव धारासारे मनोहरः ॥३
तान्दृष्ट्वा निशितान्बाणान्स्वदेहे सुविलग्नकान् ।
चुकोप हृदयेऽत्यतं हनूमानंजनी सुतः ॥४
मुष्टिना ताडयामास हृदये वज्रसारिणा ।
समुष्टिना हतो वीरः पपात धरणीतले ॥५
मूर्च्छितं तं समालोक्य पितृव्यं स शुभांगदः ।
रुक्मांगदोऽपि संमूर्च्छां त्यक्त्वागाद्रणमंडलम् ॥६
बाणान्समभिवर्षंतौ मेघाविव महास्वनौ ।
कुर्वंतौ कदनं घोरं प्लवंगं प्रति जग्मतुः ॥७
तौ दृष्ट्वा समरे वीरौ समायातौ कपीश्वरः ।
लांगूलेन च संवेष्ट्य सरथौ चापधारकौ ॥८
स्फोटयामास भूदेशे तत्क्षणान्मूर्च्छितावुभौ ।
निश्चेष्टौ समभूतां तौ रुधिरारक्तदेहकौ ॥९
बलमित्रश्चिरं युद्धं विधाय सुमदेन हि ।
मूर्च्छामप्रापयत्तं वै बाणैः सुशितपर्वभिः ॥१०
पुष्कलेन क्षणान्नीतो मूर्च्छां चैतन्यवर्जिताम् ।
जयमाप्तं तु कटकं शत्रुघ्नस्य भटार्दनम् ॥११
एतस्मिन्समये सांबः स्यंदनं वरमास्थितः ।
विस्फारयन्धनुर्दिव्यमुपाधावद्भटानिमान् ॥१२
जटाजूटांतरगतां चंद्ररेखां वहन्महान् ।
सर्पाभूषां मनःस्पर्शां दधदाजगवं धनुः ॥१३
मूर्च्छितान्स्वजनान्दृष्ट्वा भक्तार्तिघ्नो महेश्वरः ।
योद्धुं प्रायान्महासैन्यैः शत्रुघ्नस्य भटानिमान् ॥१४
सगणः सपरीवारः कंपयन्पृथिवीतलम् ।
भक्तरक्षार्थमागच्छंस्त्रिपुरं तु पुरा यथा ॥१५
कोपाच्छोणतरे नेत्रे वहन्प्रलयकारकः ।
पश्यन्वीरान्बहुमतीन्पिनाकी देववंदितः ॥१६
तमागतं महेशानं वीक्ष्य रामानुजो बली ।
जगाम समरे योद्धुं सर्वदेवशिरोमणिम् ॥१७
अथागतं तु शत्रुघ्नं रुद्रो वीक्ष्य पिनाकधृक् ।
उवाच परमापन्नः कोपं सगुणचापधृक् ॥१८
पुष्कलेन महत्कर्म कृतं रामांघ्रिसेविना ।
मद्भक्तं यो रणे हत्वा गतः समरमंडलम् ॥१९
अद्य क्वास्ति परो वीरः पुष्कलः परमास्त्रवित् ।
तं हत्वा सुखमाप्स्यामि समरे भक्तपीडनम् ॥२०
शेष उवाच
इत्युक्त्वा वीरभद्रं स प्रेषयामास पुष्कलम् ।
याहि त्वं समरे योद्धुं पुष्कलं सेवकार्दनम् ॥२१
नंदिनं प्रेषयामास हनूमंतं महाबलम् ।
कुशध्वजं प्रचंडं तु भृंगिणं च सुबाहुकम् ॥२२
सुमदं चंडनामानं गणं स्वीयं समादिशत् ।
पुष्कलस्तु समायांतं वीरभद्रं महागणम् ॥२३
महारुद्रस्य संवीक्ष्य योद्धुं प्रायान्महामनाः ।
पुष्कलः पंचभिर्बाणैस्ताडयामास संयुगे ॥२४
तैर्बाणैः क्षतगात्रस्तु त्रिशूलं स समादिशत् ।
स त्रिशूलं क्षणाच्छित्त्वा व्यगर्जत महाबलः ॥२५
छिन्नं स्वीयं त्रिशूलं वै वीक्ष्य रुद्रानुगो बली ।
खट्वांगेन जघानाशु मस्तके भारतिं द्विज ॥२६
खट्वांगाभिहतः सोऽथ मुमूर्च्छ क्षणमुद्भटः ।
विहाय मूर्च्छां सद्वीरः पुष्कलः परमास्त्रवित् ॥२७
शरैश्चिच्छेद खट्वांगं करस्थं तस्य तत्क्षणात् ।
वीरभद्रः स्वकेच्छिन्ने खट्वांगे करसंस्थिते ॥२८
परमक्रोधमापन्नो बभंज रथिनो रथम् ।
भंक्त्वा रथं तु वीरस्य पदातिं च विधाय सः ॥२९
बाहुयुद्धेन युयुधे पुष्कलेन महात्मना ।
स पुष्कलो रथं त्यक्त्वा चूर्णितं तेन वेगतः ॥३०
मुष्टिना ताडयामास वीरभद्रं महाबलः ।
अन्योन्यं मुष्टिभिर्घ्नंतावूरुभिर्जानुभिस्तथा ॥३१
परस्परवधोद्युक्तौ परस्परजयैषिणौ ।
एवं चतुर्दिनमभूद्रात्रिं दिवमपीशयोः ॥३२
न कोपि तत्र हीयेत न जीयेत महाबलः ।
पंचमे तु दिने वृत्ते वीरभद्रो महाबलः ॥३३
गृहीत्वा नभ उड्डीनो महावीरं तु पुष्कलम् ।
तत्र युद्धं तयोरासीद्देवासुरविमोहनम् ॥३४
मुष्टिना चरणाघातैर्बाहुभिः सुखुरैर्महत् ।
तदात्यंतं प्रकुपितः पुष्कलो वीरभद्रकम् ॥३५
गृहीत्वा कंठदेशे तु ताडयामास भूतले ।
तत्प्रहारेण व्यथितो वीरभद्रो महाबलः ॥३६
गृहीत्वा पुष्कलं पादे जघानास्फालयन्मुहुः ।
ताडयित्वा महीदेशे पुष्कलं सुमहाबलः ॥३७
त्रिशूलेन चकर्ताशु शिरो ज्वलितकुंडलम् ।
जगर्ज पुष्कलं हत्वा वीरभद्रो महाबलः ॥३८
गर्जता तेन शार्वेण प्रापितास्त्रा समुद्भटाः ।
हाहाकारो महानासीत्पुष्कले पतिते रणे ॥३९
त्रासं प्रापुर्जनाः सर्वे रणमध्ये सुकोविदाः ।
ते शशंशुश्च शत्रुघ्नं पुष्कलं पतितं रणे ॥४०
निहतं वीरभद्रेण महेश्वरगणेन वै ।
इत्याश्रुत्य महावीरः पुष्कलस्य वधं तदा ॥४१
दुःखं प्राप्तो रणेऽत्यतं कंपमानः शुचा महान् ।
तं दुःखितं च शत्रुघ्नं ज्ञात्वा रुद्रो ऽब्रवीद्वचः ॥४२
शत्रुघ्नं समरे वीरं शोचंतं पुष्कले हते ।
रे शत्रुघ्न रणे शोकं मा कृथाः सुमहाबल ॥४३
वीराणां रणमध्ये तु पातनं कीर्तये स्मृतम् ।
धन्यो वीरः पुष्कलाख्यो यश्च वै दिनपंचकम् ॥४४
युयुधे वीरभद्रेण महाप्रलयकारिणा ।
येन क्षणाद्विनिहतो दक्षो मदपमानकृत् ॥४५
क्षणाद्विनिहता येन दैत्यास्त्रिपुरसैनिकाः ।
तस्माद्युद्ध्स्व राजेंद्र शोकं त्यक्त्वा महाबल ॥४६
यत्नात्तिष्ठाद्य वीराग्र्य मयि योद्धरि संस्थिते ।
शोकं संत्यज्य शत्रुघ्नो वीरश्चुक्रोध शंकरम् ॥४७
आत्तसज्जधनुर्बाणैः प्रचच्छाद महेश्वरम् ।
ते बाणाः सुरशीर्षण्य वपुषं क्षतविक्षतम् ॥४८
अकुर्वत महच्चित्रं भक्तरक्षार्थमागतम् ।
ते बाणाः शंकरस्यापि बाणा नभसि संस्थिताः ॥४९
व्याप्यैतत्सकलं विश्वं चित्रकारि मुनेरपि ।
तद्बाणयोर्युद्धबलं वीक्ष्य सर्वत्र मेनिरे ॥५०
प्रलयं लोकसंहारकारकं सर्वमोहकम् ।
आकाशे तु विमानानि संश्रित्य स्वपुरस्थिताः ॥५१
विलोकयितुमागत्य प्रशंसंति तयोर्भृशम् ।
अयं लोकत्रयस्यास्य प्रलयोत्पत्तिकारकः ॥५२
असावपि महाराज रामचंद्रस्य चानुजः ।
किमिदं भविता को वा जेष्यति क्षितिमंडले ॥५३
पराजयं वा को वीरः प्राप्स्यते रणमूर्धनि ।
एवमेकादशाहानि वृत्तं युद्धं परस्परम् ॥५४
द्वादशे दिवसे प्राप्ते मुमोचास्त्रं नराधिपः ।
ब्रह्मसंज्ञं महादेवं हंतुं क्रोधसमन्वितः ॥५५
सविज्ञाय महास्त्रं तन्मुक्तं शत्रुघ्नवैरिणा ।
हसन्नप्यपिबत्तेन मुक्तं ब्रह्मशिरो महत् ॥५६
अत्यंतं विस्मयं प्राप्य किं कर्तव्यमतः परम् ।
एवं विचारयुक्तस्य हृदये ज्वलनोपमम् ॥५७
शरं वै निचखानाशु देवदेव शिरोमणिः ।
तेन बाणेन शत्रुघ्नो मूर्च्छितो रणमंडले ॥५८
हाहाभूतमभूत्सर्वं कटकं भटसेवितम् ।
वीराः सर्वे रुद्रगणैः पातिताः पृथिवीतले ॥५९
सुबाहुसुमदोन्मुख्याः स्वबाहुबलदर्पिताः ।
पतितं मूर्च्छया वीक्ष्य शत्रुघ्नं शरपीडितम् ॥६०
पुष्कलं तु रथे स्थाप्य सेवकैः परिरक्षितुम् ।
हनूमानागतो योद्धुं शिवं संहारकारकम् ॥६१
श्रीरामस्मरणं योधान्स्वीयान्विप्र प्रहर्षितान् ।
प्रकुर्वन्रोषितस्तीव्रं लांगूलं च प्रकंपयन् ॥६२
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे पुष्कलशत्रुघ्नपराजयोनाम त्रिचत्वारिंशत्तमोऽध्यायः ४३
खण्डः ५ (पातालखण्डः) — Adhyāya 44
शेष उवाच।
आगत्य सविधे रुद्रं समरांगणमूर्धनि ।
जगाद हनुमान्वीरः संजिहीर्षुः सुराधिपम् १।
हनूमानुवाच।
त्वं यदाचरसे रुद्र धर्मस्य प्रतिकूलनम् ।
तस्मात्त्वां शास्तुमिच्छामि रामभक्तवधोद्यतम् २।
मया पुरा श्रुतं देव ऋषिभिर्बहुधोदितम् ।
रघुनाथपदस्मारी नित्यं रुद्रः पिनाकभृत् ३।
तत्सर्वं तु मृषा जातं शत्रुघ्नं प्रति युध्यतः ।
पुष्कलो मे हतः शूरः शत्रुघ्नोऽपि विमूर्च्छितः ४।
तस्मात्त्वां पातयाम्यद्य त्रैलोक्यप्रलयोद्यतम् ।
यत्नात्तिष्ठस्व भोः शर्व रामभक्तिपराङ्मुखः ५।
शेष उवाच।
इत्युक्तवंतं प्लवगं प्रोवाच स महेश्वरः ।
धन्योऽसि वीरवर्यस्त्वं भवान्वदति नो मृषा ६।
मत्स्वामी रामचंद्रोऽयं सुरासुरनमस्कृतः ।
तदश्वमानयामास शत्रुघ्नः परवीरहा ७।
तद्रक्षार्थं समायातस्तद्भक्त्या तु वशीकृतः ।
यथाकथंचिद्भक्तोऽसौ रक्ष्यः स्वात्मा इति स्थितिः ८।
रघुनाथः कृपां कृत्वा विलोकय तु निस्त्रपम् ।
मां स्वभक्त सुदुःखेन किंचित्कोपं दधन्महान् ९।
शेष उवाच।
एवं वदति चंडीशे हनूमान्कुपितो भृशम् ।
शिलामादाय महतीं ताडयामास तद्रथम् १०।
शिलया ताडितस्तस्य रथः शकलतां गतः ।
ससूतः सहयः केतुपताकाभिः समन्वितः ११।
नभःस्था देवताः सर्वाः प्रशशंसुः कपीश्वरम् ।
धन्योसि प्लवगाधीश महत्कर्म त्वया कृतम् १२।
श्रीशिवं विरथं दृष्ट्वा नंदी तं समुपाद्रवत् ।
उवाच श्रीमहादेवं मत्पृष्ठं गम्यतामिति १३।
वृषस्थितं तु भूतेशं हनूमान्कुपितो भृशम् ।
शिलामुत्पाट्य तरसा प्राहनद्धृदये तदा १४।
तदाहतो भूतपतिः शूलं तीक्ष्णं समाददे ।
जाज्वल्यमानं त्रिशिखं वह्निज्वालासमप्रभम् १५।
आयातं तन्महद्दृष्ट्वा शूलं प्रज्वलनप्रभम् ।
हस्ते गृहीत्वा तरसा बभंज तिलशः क्षणात् १६।
भग्ने त्रिशूले तरसा कपीन्द्रेण क्षणाच्छिवः ।
शक्तिं करे समाधत्त सर्वलोहविनिर्मिताम् १७।
सा शक्तिः शिवनिर्मुक्ता हृदये तस्य धीमतः ।
लग्ना क्षणादभूत्तत्र विक्लवः प्लवगाधिपः १८।
क्षणाच्च तद्व्यथां तीर्त्वा गृहीत्वा वृक्षमुल्बणम् ।
ताडयामास हृदये महाव्यालविभूषिते १९।
ताडितास्तेन वीरेण फणीन्द्रास्त्रा समागताः ।
इतस्ततस्ते तं मुक्त्वा गताः पातालमुज्जवाः २०।
शिवस्तस्मिन्नगे मुक्ते वक्षसि स्वे निरीक्ष्य च ।
कुपितो व्यदधाद्घोरं मुसलं करयुग्मके २१।
हतोसि गच्छ संग्रामात्पलाय्य प्लवगाधम ।
एष ते प्राणहंताहं मुसलेन क्षणादिह २२।
मुसलं वीक्ष्य निर्मुक्तं शिवेन कुपितेन वै ।
कीशस्तद्वंचयामास महावेगाद्धरिं स्मरन् २३।
मुसलं तत्पपाताधः शिवमुक्तं महायसम् ।
विदार्य पृथिवीं सर्वां जगाम च रसातलम् २४।
तदा प्रकुपितोऽत्यतं हनूमान्रामसेवकः ।
गृहीत्वा पर्वतं हस्ते ताडयामास वक्षसि २५।
स यावत्पर्वतं छेत्तुं मतिं चक्रे सतीपतिः ।
तावद्धतः कपींद्रेण शालेन बहुशाखिना २६।
तमपिच्छेत्तुमुद्युक्तो यावत्तावच्छिलाहतः ।
शिलास्ता भेदितुं स्वांतं चकार मृड उद्यतः २७।
तावद्वृष्टिं चकारायं शिलाभिर्नगपर्वतैः ।
लांगूलेन च संवेष्ट्य ताडयत्येष भूतपम् २८।
शिलाभिः पर्वतैर्वृक्षैः पुच्छास्फोटेन भूरिशः ।
नंदी प्राप्तो महात्रासं चंद्रोऽपि शकलीकृतः २९।
अत्यंतं विह्वलो जातो महेशानः प्रकोपनः ।
क्षणेक्षणे प्रहारेण विह्वलं कुर्वतं भृशम् ३०।
जगाद प्लवगाधीशं धन्योसि रघुपानुग ।
महत्कर्म कृतं तेऽद्य यत्तेहं सुप्रतोषितः ३१।
न दानेन न यज्ञेन नाल्पेन तपसा ह्यहम् ।
सुलभोऽस्मि महावेग तस्मात्प्रार्थय मे वरम् ३२।
शेष उवाच।
एवं ब्रुवंतं तं दृष्ट्वा हनूमान्निजगाद तम् ।
प्रहसन्निर्भिया वाण्या महेशानं सुतोषितम् ३३।
हनूमानुवाच।
रघुनाथप्रसादेन सर्वं मेऽस्ति महेश्वर ।
तथापि याचे हि वरं त्वत्तः समरतोषितात् ३४।
एष पुष्कलसंज्ञो नः समरे पतितो हतः ।
तथैव रामावरजः शत्रुघ्नो मूर्च्छितो रणे ३५।
अन्ये च वीरा बहवः पतिताः शरविक्षताः ।
मूर्च्छिताः पतिताः केचित्तान्रक्षस्व गणैः सह ३६।
यथा चैतान्महाभूता वेतालाश्च पिशाचकाः ।
न हरंति न खादंति श्वशृगालादयस्तथा ३७।
एतेषां वपुषो भेदो न भवेत्त्वं तथाचर ।
यावदिंद्रगणं जित्वा न यामि द्रोणपर्वतम् ३८।
तत्रस्था औषधीर्वापि नीत्वा संस्थापितान्भटान् ।
जीवयामि बलात्सर्वांस्तावत्त्वं रक्ष सर्वशः ३९।
एष गच्छामि तं नेतुं द्रोणं पर्वतसत्तमम् ।
यस्मिन्वसंत्योषधयः प्राणिसंजीवनंकराः ४०।
एतद्वचः समाकर्ण्य तथेति निजगाद तम् ।
याहि शीघ्रं नगं तं तु रक्षामि त्वद्भटान्मृतान् ४१।
तच्छ्रुत्वा वाक्यमीशस्य जगाम द्रोणपर्वतम् ।
द्वीपान्सर्वानतिक्रम्य जगाम क्षीरसागरम् ४२।
अत्र तु स्वगणैश्चायं रक्षति स्म शिवो महान् ।
श्मशानं तद्गणैः स्वीयैर्महाबलपराक्रमैः ४३।
हनूमान्द्रोणमासाद्य द्रोणंनाम महागिरिम् ।
लांगूले तं निधायाशु प्रतस्थे रणमंडलम् ४४।
तं नेतुमुद्यते विप्र चकंपे स च पर्वतः ।
कंपमानं तु तं दृष्ट्वा तत्पाला देवतागणाः ४५।
हाहेति कृत्वा प्रोचुस्ते किमिदं भविता गिरौ ।
को ह्येनं नयते वीरो महाबलपराक्रमः ४६।
एवं कृत्वा सुराः सर्वे संहता ददृशुः कपिम् ।
मुंचैनमिति तं प्रोच्य जघ्नुः शस्त्रास्त्रकोटिभिः ४७।
तान्सर्वान्निघ्नतो दृष्ट्वा हनूमान्कुपितो भृशम् ।
जघान तान्क्षणाद्वीरः शक्रः सर्वासुरान्यथा ४८।
केचित्पदाहतास्तत्र केचित्करविमर्दिताः ।
लांगूलेन हताः केचित्केचिच्छृंगेण चाहताः ४९।
सर्वे ते नाशमापन्नाः क्षणात्कीशेन ताडिताः ।
केचिन्निपतिता भूमौ रुधिरेण परिप्लुताः ५०।
केचित्कीशभयात्त्रस्ता जग्मुः शक्रं सुराधिपम् ।
क्षतेन च परिप्लुष्टा रुधिरक्षतदेहिनः ५१।
तान्दृष्ट्वा भयसंविग्नान्रुधिरेण परिप्लुतान् ।
सुराञ्जगाद विमनाः शक्रः सर्वसुरोत्तमः ५२।
कथं यूयं भयत्रस्ताः कथं रुधिरविप्लुताः ।
केन दैत्येन निहता राक्षसेनाधमेन वा ५३।
सर्वं शंसत मे तथ्यं यथा ज्ञात्वा व्रजामि तम् ।
निहत्य बद्ध्वा चायामि युष्मद्घातकमुन्मदम् ५४।
इति वाक्यं समाकर्ण्य तुरासाहं सुरोत्तमाः ।
जगदुर्दीनया वाचा सुरासुरनमस्कृतम् ५५।
देवा ऊचुः।
इहागत्य न जानीमः कश्चिद्वानररूपधृक् ।
नेतुं द्रोणं समुद्युक्तो लांगूले वेष्ट्य तं गिरिम् ५६।
गंतुं कृतमतिस्तावद्वयं सर्वे सुसंहताः ।
युद्धं चक्रुः सुसंनद्धाः सर्वशस्त्रास्त्रवर्षिणः ५७।
तेन सर्वे वयं युद्धे निर्जिता बलशालिना ।
अनेके निहतास्तत्र भूमौ पेतुः सुरोत्तमाः ५८।
वयं तु बहुभिः पुण्यैर्जीविता इह चागताः ।
शोणितेन सुसिक्तांगाः क्षतपीडासमन्विताः ५९।
एतद्वाक्यं समाकर्ण्य सुराणां स पुरंदरः ।
आदिदेश सुरान्सर्वान्महाबलसमन्वितान् ६०।
यात महाद्रोणगिरिं कपिं बद्धुं महाबलम् ।
बद्ध्वा नयत यूयं वै सुराणां रणपातकम् ६१।
इत्याज्ञप्ता ययुस्ते वै द्रोणं पर्वतसत्तमम् ।
यत्रास्ते बलवान्वीरो हनूमान्कपिसत्तमः ६२।
गत्वा ते प्राहरन्सर्वे हनूमंतं महाबलम् ।
हनूमता ते निहता मुष्टिभिः करताडनैः ६३।
पतितास्ते क्षणात्तत्र रुधिरक्षतविग्रहाः ।
अन्ये पलायनपरा जग्मुस्ते त्रिदिवेश्वरम् ६४।
तच्छ्रुत्वा कुपितः शक्रः सर्वानमरसत्तमान् ।
आदिदेश महावीरं वानरेंद्रं सुरोत्तमः ६५।
तदाज्ञप्ता ययुस्ते वै यत्र कीशेश्वरो बली ।
तान्सर्वानागतान्दृष्ट्वा जगाद कपिसत्तमः ६६।
मायां तु वीराः समरे संहर्तारं हि मां बलात् ।
नेष्यामि युष्मानधुना संयमिन्याः पुरोंऽतिके ६७।
इत्युक्ता अपि ते सर्वे सन्नद्धाः प्राहरन्कपिम् ।
शस्त्रास्त्रैर्बहुधा मुक्तैर्महाबलसमन्विताः ६८।
केचिच्छूलैः परशुभिः केचित्खड्गैश्च पट्टिशैः ।
मुसलैः शक्तिभिः केचित्क्रोधेन कलुषीकृताः ६९।
स आहतोऽमरवरैर्विविधैरायुधैर्बली ।
शिलाभिस्ताञ्जघानाशु सर्वानमरसत्तमान् ७०।
केचित्पलाय्य आहुस्ते गताः शक्रसमीपकम् ।
तदुक्तं वाक्यमाकर्ण्य भयं प्राप सुराधिपः ७१।
बृहस्पतिं सुराध्यक्षं मंत्रिणं स्वर्गवासिनाम् ।
पप्रच्छ सविधे गत्वा नत्वा सुरगुरुं वरम् ७२।
इंद्र उवाच।
कोऽसौ यो वानरो द्रोणं नेतुं स्वामिन्समागतः ।
येन मे निहता वीरा अमराः शस्त्रधारिणः ७३।
शेष उवाच।
एतच्छ्रुत्वा तु तद्वाक्यमुक्तमांगिरसो महान् ।
जगाद भयसंविग्नं तुरासाहं सुराधिपम् ७४।
बृहस्पतिरुवाच।
यो रावणमहन्संख्ये कुंभकर्णमदीदहत् ।
येन ते वैरिणः सर्वे हतास्तस्यैव सेवकः ७५।
येन लंका सत्रिकूटा निर्दग्धा पुच्छवह्निना ।
अक्षश्च निहतो येन हनूमंतमवेहि तम् ७६।
तेन सर्वे विनिहता द्रोणार्थमयमुद्यतः ।
हयमेधं महाराजः करोति बलिसत्तमः ७७।
तस्याश्वं शिवभक्तस्तु नृपो वीरमणिर्महान् ।
जहार तत्र समभूद्रणं सुरविमोहनम् ७८।
शिवेन निहताः संख्ये वीरा रामस्य भूरिशः ।
तान्वै जीवयितुं द्रोणं नेष्यत्येव महाबलः ७९।
नायं वर्षशतैर्जेयो भवता बलसंयुतः ।
तस्मात्प्रसादय कपिं देहि तत्रत्यमौषधम् ८०।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे द्रोणगिरौ देवानां पराजयोनाम चतुश्चत्वारिंशत्तमोऽध्यायः ४४ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 45
शेष उवाच
गुरुभाषितमाकर्ण्य वृषपर्वरिपुः स्वराट् ।
ज्ञात्वा रामस्य कार्यार्थमागतं पवनात्मजम् ॥१
भयं तत्याज मनसि वानरात्समुपस्थितम् ।
जहर्ष चित्ते च भृशं वाचस्पतिमुवाच ह ॥२
इंद्र उवाच
कथं कार्यं सुराधीश द्रोणोऽयं नीयते यदि ।
देवानां जीवनं भूयः कथं स्यादिति मे वद ॥३
इदानीं पवनोद्भूतं प्रसादय यथातथम् ।
रामः प्रीतिं परां याति देवानां च सुखं भवेत् ॥४
देवाधिपस्य वचनं श्रुत्वा वाचस्पतिस्तदा ।
शक्रं तु पुरतः कृत्वा सर्वदेवैः परीवृतम् ॥५
जगाम तत्र यत्रास्ते हनूमान्निर्भयः कपिः ।
गर्जति प्रसभं जित्वा सुरान्सर्वान्सुखासिनः ॥६
ते गत्वा सन्निधौ तस्य बृहस्पतिपुरोगमाः ।
पेतुस्ते चरणौ नत्वा समीरतनुजस्य हि ॥७
बृहस्पतिश्च तं वीरं जगाद प्रेरितोऽमुना ।
सुराधीशेन लोकस्य गुरुणा वदतां वरः ॥८
अजानद्भिः कृतं कर्म देवैस्तव पराक्रमम् ।
श्रीरामचरणस्य त्वं सेवकोऽसि महामते ॥९
किमर्थमयमारंभः कथमत्र समागमः ।
तत्करिष्यामहे सर्वे सन्नतास्तव भाषितम् ॥१०
रोषं त्यक्त्वा कृपां कृत्वा देवाधीशं विलोकय ।
पवनात्मज दैत्यानां भयंकरवपुर्दधत् ॥११
शेष उवाच
इत्थं भाषितमाकर्ण्य देवानां स गुरोर्वचः ।
उवाच देवान्सकलान्गुरुं चैव महयशाः ॥१२
राज्ञो वीरमणेः संख्ये हताः शर्वेण भूरिशः ।
भटास्तान्वै जीवयितुं द्रोणं नेष्यामि पर्वतम् ॥१३
तं ये निवारयिष्यंति स्ववीर्यबलदर्पिताः ।
तान्नेष्यामि क्षणादेव यमस्य सदनं प्रति ॥१४
तस्माद्वदत मे यूयं द्रोणं वाथ तदौषधम् ।
येन संजीवयिष्यामि मृतान्वीरान्रणांगणे ॥१५
शेष उवाच
इति वाक्यं समाकर्ण्य वायुसूनोर्महात्मनः ।
ते सर्वे प्रणतिं गत्वा ददुः संजीवनौषधम् ॥१६
ते प्रहृष्टा भयं त्यक्त्वा सुराः स्वर्गौकसः स्वयम् ।
ययुः सुरपतिं कृत्वा पुरः सौख्य समन्विताः ॥१७
हनुमान्भेषजं तत्तु समादायागतो रणम् ।
स्तुतः सर्वैः सुरगणैर्महाकर्मसमुत्सुकैः ॥१८
तमागतं हनूमंतं वीक्ष्य सर्वेऽपि वैरिणः ।
साधुसाधुप्रशंसंतमद्भुतं मेनिरे कपिम् ॥१९
कपिः समागत्य महामुदायुतः ।
पुरो भटं पुष्कलमागतं मृतम् ।
शिवेन संरक्षितमुग्रमंडले ।
श्रीरामचित्तं सविधे जगाम ह ॥२०
सुमतिं च समाहूय मंत्रिणं महतां मतम् ।
उवाच जीवयाम्यद्य सर्वान्वीरान्रणे मृतान् ॥२१
एवमुक्त्वा भेषजं तत्पुष्कलस्य महोरसि ।
शिरः कायेन संधाय जगाद वचनं शुभम् ॥२२
यद्यहं मनसा वाचा कर्मणा राघवं पतिम् ।
जानामि तर्हि एतेन भेषजेनाशु जीवतु ॥२३
इति वाक्यं यदा वक्ति तावत्पुष्कल उत्थितः ।
रणांगणेऽदशद्रोषाद्दंतान्वीरशिरोमणिः ॥२४
क्व गतो वीरभद्रोऽसौ मां संमूर्च्छ्य रणांगणे ।
सद्योऽहं पातयाम्येनं क्वास्ति मे धनुरुत्तमम् ॥२५
इति तं भाषमाणं वै प्राह वीरं कपींद्रकः ।
धन्योऽसि वीर यद्भूयो वदस्येनं रणांगणे ॥२६
त्वं हतो वीरभद्रेण रघुनाथप्रसादतः ।
पुनः संजीवितोऽस्येहि शत्रुघ्नं याम मूर्च्छितम् ॥२७
इत्युक्त्वा प्रययौ तत्र संग्रामवरमूर्धनि ।
श्वसन्नास्ते स शत्रुघ्नः शिवबाणप्रपीडितः ॥२८
तत्र गत्वा समीपं तच्छत्रुघ्नस्य महात्मनः ।
निधाय भेषजं तस्य वक्षसि श्वासमागते ॥२९
उवाच हनुमांस्तं वै जीव शत्रुघ्नसत्तम ।
मूर्च्छितोऽसि रणे कस्मान्महाबलपराक्रम ॥३०
यद्यहं ब्रह्मचर्यं च जन्मपर्यंतमुद्यतः ।
पालयामि तदा वीरः शत्रुघ्नो जीवतु क्षणात् ॥३१
उक्तमात्रेण तेनेदं जीवितः क्षणमात्रतः ।
क्व शिवः क्व शिवो यातो विहायरणमंडलम् ॥३२
अनेके निहताः संख्ये श्रीरुद्रेण पिनाकिना ।
ते सर्वे जीविता वीराः कपीन्द्रेण महात्मना ॥३३
तदा सर्वे सुसन्नद्धा रोषपूरितमानसाः ।
स्वेस्वे रथे स्थिताः शत्रून्प्रययुः क्षतविग्रहाः ॥३४
पुष्कलो वीरभद्रं तु चंडं चैव कुशध्वजः ।
नंदिनं हनुमान्वीरः शत्रुघ्नः संगरे शिवम् ॥३५
धनुर्विस्फारयंतं तं शत्रुघ्नं बलिनां वरम् ।
संग्रामे शिवमाहूय तिष्ठंतं प्रययौ नृपः ॥३६
राजा वीरमणिर्वीरः शत्रुघ्नः समरे बली ।
अन्योन्यं चक्रतुर्युद्धं मुनिविस्मयकारकम् ॥३७
राज्ञा च वीरमणिना रथा भग्नाः शताधिकाः ।
शत्रुघ्नस्य नरेंद्रस्य तिलशः क्षणतो द्विज ॥३८
तदा प्रकुपितोऽत्यंतं शत्रुघ्नो रणमंडले ।
आग्नेयास्त्रं मुमोचामुं दग्धुं सैन्यसमन्वितम् ॥३९
दाहकं तन्महद्दृष्ट्वा महास्त्रं शत्रुमोचितम् ।
अत्यंतं कुपितो राजा वारुणास्त्रं समाददे ॥४०
वारुणास्त्रेण शीतार्तं वीक्ष्य रामानुजो बली ।
वायव्यास्त्रं मुमोचास्मै तेन वायुर्महानभूत् ॥४१
वायुना संहता मेघा ययुस्ते सर्वतोदिशम् ।
इतस्ततो गताः सर्वे सैन्यं तत्सुखितं बभौ ॥४२
सैन्ये पवनपीडार्ते नृपो वीरमतिर्महान् ।
पर्वतास्त्रं रिपूद्धारि जग्राह च शरासने ॥४३
पर्वतैः स्तंभितो वायुर्न चासर्पत संगरे ।
तद्वीक्ष्य रामावरजो वज्रास्त्रं तु समाददे ॥४४
वज्रास्त्रेण हताः सर्वे नगास्तु तिलशः कृताः ।
चूर्णतां प्रापुरेतस्मिन्रणे वीरवरार्चिते ॥४५
वज्रास्त्रेण विदीर्णांगा वीराः शोणितशोभिताः ।
बभूवुः समरप्रांते चित्रं समभवद्रणम् ॥४६
तदा प्रकुपितोऽत्यंतं राजा वीरमणिर्महान् ।
ब्रह्मास्त्रं चाप आधत्त वैरिदाहकमद्भुतम् ॥४७
शत्रुघ्नः शरमादाय सस्मार सुमनोहरम् ।
अस्त्रं तद्योगिनीदत्तं सर्ववैरिविमोहनम् ॥४८
ब्रह्मास्त्रं तत्करभ्रष्टमागतं वैरिणं प्रति ।
तावच्छत्रुघ्ननाम्ना तु तन्मुक्तं मोहनास्त्रकम् ॥४९
मोहनास्त्रेण तद्ब्राह्मं द्विधाछिन्नं क्षणादिह ।
लग्नं राज्ञो हृदि क्षिप्रं मूर्च्छां संप्रापयन्नृपम् ॥५०
ते बाणाः शतशो मुक्ताः शत्रुघ्नेन महीभृता ।
सर्वेपि मूर्च्छिता वीरा गणा रुद्रस्य ये पुनः ॥५१
शिवस्य चरणोपस्थे मूढाः पेतुर्महीतले ।
तदा शिवः प्रकुपितो रथे तिष्ठन्ययौ नृपम् ॥५२
शिवेन सहसा योद्धुं समायातो रणांगणे ।
शत्रुघ्नः सज्जमात्तज्यं धनुः कृत्वा व्ययुद्ध्यत ॥५३
तयोः समभवद्युद्धं घोरं वैरिविदारणम् ।
शस्त्रास्त्रैर्बहुधामुक्तैरादीपित दिगंतरम् ॥५४
अस्त्रप्रत्यस्त्रसंघातैस्ताडनप्रतिताडनैः ।
देवानामपि दैत्यानां नैतादृग्रणमंडलम् ॥५५
तदा व्याकुलितोऽत्यंतं शत्रुघ्नः शिवसंगरे ।
सस्मार स्वामिनं तत्र पावनेरुपदेशतः ॥५६
हा नाथ भ्रातरत्युग्रः शिवः प्राणापहारणम् ।
करोति धनुरुद्यम्य त्रायस्व रणमंडले ॥५७
अनेके दुःखपाथोधिं तीर्णा राम तवाख्यया ।
मामप्युद्धर दुःखस्थं रामराम कृपानिधे ॥५८
इत्थं वक्ति यदा तावद्वीक्षितो रणमंडले ।
नीलोत्पलदलश्यामो रामो राजीवलोचनः ॥५९
मृगशृंगं कटौ धृत्वा दीक्षितं वपुरुद्वहन् ।
तं दृष्ट्वा विस्मयं प्राप शत्रुघ्नः समरांगणे ॥६०
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे श्रीरामसमागमोनाम पंचचत्वारिंशत्तमोऽध्यायः ४५
खण्डः ५ (पातालखण्डः) — Adhyāya 46
शेष उवाच।
आगतं वीक्ष्य श्रीरामं शत्रुघ्नः प्रणतार्तिहम् ।
भ्रातरं सकलाद्दुःखान्मुक्तोऽभूद्द्विजसत्तम १।
हनूमान्वीक्ष्य विभ्रांतो रामस्य चरणौ मुदा ।
ववंदे भक्तरक्षार्थमागतं निजगाद च २।
स्वामिंस्तवैतद्युक्तं तु स्वभक्तपरिपालनम् ।
यत्संग्रामे जितं सर्वं पाशबद्धममोचयः ३।
वयं त्विदानीं धन्या वै यद्द्रक्ष्यामो भवत्पदे ।
जेष्यामोऽरीन्क्षणादेव त्वत्कृपातो रघूद्वह ४।
शेष उवाच।
स्थाणुस्तदागतं रामं योगिनां ध्यानगोचरम् ।
पतित्वा पादयोर्विप्र जगाद प्रणताभयम् ५।
एकस्त्वं पुरुषः साक्षात्प्रकृतेः पर ईर्यसे ।
यः स्वांशकलया विश्वं सृजस्यवसि हंसि च ६।
अरूपस्त्वमशेषस्य जगतः कारणं परम् ।
एक एव त्रिधारूपं गृह्णासि कुहकान्वितः ७।
सृष्टौ विधातृरूपेण पालने स्वयमास च ।
प्रलये जगतः साक्षादहं शर्वाख्यतां गतः ८।
तव यत्परमेशस्य हयमेधक्रतुक्रिया ।
ब्रह्महत्यापनोदाय तद्विडंबनमद्भुतम् ९।
यत्पादशौचममलं गंगाख्यं शिरसोंऽतरा ।
वहामि पापशांत्यर्थं तस्य ते पातकं कुतः १०।
मया बह्वपकाराय कृतं कर्म तव स्फुटम् ।
क्षम्यतां तत्कृपालो हि भवतो व्यवधायकम् ११।
किं करोमि मया सत्यपालनार्थमिदं कृतम् ।
जानन्प्रभावं भवतो भक्तरक्षार्थमागतः १२।
असौ पुरा उज्जयिन्यां महाकालनिकेतने ।
स्नात्वा शिप्राख्य सरिति तपस्तेपे महाद्भुतम् १३।
ततः प्रसन्नो जातोऽहं जगाद भूमिपं प्रति ।
याचस्वेति महाराज स वव्रे राज्यमद्भुतम् १४।
मया प्रोक्तं देवपुरे तव राज्यं भविष्यति ।
यावद्रामहयः पुर्यामागमिष्यति याज्ञिकः १५।
तावत्प्रभृत्यहं स्थास्ये तव रक्षार्थमुद्यतः ।
एतद्दत्तवरो राम किं करोमि स्वसत्यतः १६।
घृणितोऽस्म्यधुना राज्ञा सपुत्रपशुबांधवः ।
हयं समर्प्यते पादसेवां राजा विधास्यति १७।
शेष उवाच।
इति वाक्यं समाकर्ण्य महेशस्य रघूत्तमः ।
उवाच धीरया वाचा कृपया पूर्णलोचनः १८।
राम उवाच।
देवानामयमेवास्ति धर्मो भक्तस्य पालनम् ।
त्वया साधुकृतं कर्म यद्भक्तो रक्षितोऽधुना १९।
ममासि हृदये शर्व भवतो हृदये त्वहम् ।
आवयोरंतरं नास्ति मूढाः पश्यंति दुर्धियः २०।
ये भेदं विदधत्यद्धा आवयोरेकरूपयोः ।
कुंभीपाकेषु पच्यंते नराः कल्पसहस्रकम् २१।
ये त्वद्भक्तास्त एवासन्मद्भक्ता धर्मसंयुताः ।
मद्भक्ता अपि भूयस्या भक्त्या तव नतिंकराः २२।
शेष उवाच।
इत्थं भाषितमाकर्ण्य शर्वो वीरमणिं नृपम् ।
मूर्च्छितं जीवयामास करस्पर्शादिना प्रभुः २३।
अन्यानपि सुतानस्य मूर्च्छिताञ्छरपीडितान् ।
जीवयामास स मृडः समर्थः प्रभुरीश्वरः २४।
सज्जं विधाय तं भूपं श्रीरामपदयोर्नतिम् ।
कारयामास भूतेशः पुत्रपौत्रैः परीवृतम् २५।
धन्यो राजा वीरमणिर्यो ददर्श रघूत्तमम् ।
योगिभिर्योगनिष्ठाभिर्दुष्प्रापमयुतायुतैः २६।
ते नत्वा रघुनाथं तं कृतार्थी कृतविग्रहाः ।
ब्रह्मादिभिः पूज्यतमा अभूवन्द्विजसत्तम २७।
शत्रुघ्न हनुमद्भ्यां च पुष्कलादिभिरुद्भटैः ।
परिष्टुताय रामाय ददौ राजा हयोत्तमम् २८।
राज्येन सहितं सर्वं सपुत्रपशुबांधवम् ।
शर्वेण प्रेरितः प्रादाद्भूपो वीरमणिस्तदा २९।
ततो रामो नुतः सर्वैर्वैरिभिर्निजसेवकैः ।
शत्रुघ्नादिभिरत्यंतमुत्सुकैश्च विशेषतः ३०।
रथे मणिमये तिष्ठन्बभूव स तिरोहितः ।
अंतर्हिते रामभद्रे सर्वे प्रापुः सुविस्मयम् ३१।
मा जानीहि मनुष्यं तं रामं लोकैकवंदितम् ।
जले स्थले च सर्वत्र वर्तते संस्थितः सदा ३२।
ततो वीरा अलं हृष्टा अन्योन्यं परिरेभिरे ।
तूर्यमंगलवादित्रैः सुमहानुत्सवोऽभवत् ३३।
ततो मुक्तो हयः सर्वैर्वीरैः शस्त्रास्त्रकोविदैः ।
सर्वैरनुगतः प्रीतैर्विस्मयेन समन्वितैः ३४।
शर्वः सत्यप्रतिज्ञश्च तमनुज्ञाप्य सेवकम् ।
श्रीरामं शरणं प्रोच्य याहि लोकैकदुर्ल्लभम् ३५।
स्वयमंतर्हितस्तत्र प्रलयोत्पत्तिकारकः ।
कैलासमगमच्छर्वः सेवकैः परिशोभितः ३६।
भूपो वीरमणिर्ध्यायञ्छ्रीरामचरणोदजम् ।
शत्रुघ्नेन ययौ साकं बलिना बलसंयुतः ३७।
एतद्रामस्य चरितं ये शृण्वंति नरोत्तमाः ।
तेषां संसारजं दुःखं न भविष्यति कर्हिचित् ३८।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे हयप्रस्थानंनाम षट्चत्वारिंशत्तमोऽध्यायः ४६ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 47
शेष उवाच।
हयो गतो हेमकूटं भारतांते ततो द्विज ।
अनेकभटसाहस्रै रक्षितो बद्धचामरः १।
यो वै विस्तरतो दैर्घ्याद्योजनानां समं ततः ।
अयुतेन सुशृङ्गैश्च राजतैः कांचनादिभिः २।
तत्रोद्यानं महच्छ्रेष्ठं पादपैः परिशोभितम् ।
शालैस्तालैस्तमालैश्च कर्णिकारैः समन्ततः ३।
हिंतालैर्नागपुन्नागैः कोविदारैः सबिल्वकैः ।
चम्पकैर्बकुलैर्मेघैर्मदनैः कुटजादिभिः ४।
जातिकाभिर्यूथिकाभिर्नवमालिकया तथा ।
आम्रैर्माधवद्राक्षाभिर्दाडिमैः शोभितं वनम् ५।
अनेकपक्षिसंघुष्टं भ्रमरैर्निनदीकृतम् ।
मयूरकेकारवितं सर्वर्तुसुखदं हयः ६।
प्रविवेश स शत्रुघ्नो मनोवेगसमन्वितः ।
स्वर्णपत्रं विशाले स्वे भाले बिभ्रन्मनोहरम् ७।
गच्छतस्तस्य वाहस्य हयमेधक्रतोस्तदा ।
अकस्मादभवच्चित्रं तच्छृणुष्व द्विजोत्तम ८।
गात्रस्तंभोऽभवत्तस्य न चचाल पथिस्थितः ।
हेमकूटइवाचाल्यो बभूव हयसत्तमः ९।
तदा तद्रक्षकाः सर्वे कशाघातान्वितेनिरे ।
तदाहतेऽपि न ययौ स्तब्धगात्रो हयोत्तमः १०।
शत्रुघ्नं सविधे गत्वा चुक्रुशुर्वाहरक्षकाः ।
स्वामिन्वयं न जानीमः किमभूद्धयसत्तमे ११।
गच्छतो वाहवर्यस्य मनोवेगस्य भूपते ।
आकस्मिकोऽभवत्तस्य गात्रस्तंभो महामते १२।
कशाभिस्ताडितोऽस्माभिः परं तत्र चचाल न ।
एवं विचार्य यत्कर्म तत्कुरुष्व नृपोत्तम १३।
तदा विस्मयमापन्नो भूपतिः सह सैनिकैः ।
जगाम सहितः सर्वैर्हयस्य महतोऽन्तिके १४।
पुष्कलो बाहुना धृत्वा चरणौ तस्य भूतलात् ।
उत्पाटयामास तदा परं नो चेलतुस्ततः १५।
बलेन बलिनाक्रांतो नाकम्पत हयस्तदा ।
हनूमांस्तं समुद्धर्तुं मतिं चक्रे महामनाः १६।
लांगूलेन समावेष्ट्य बलेन बलिनां वरः ।
आचकर्ष बलाद्वाहं न चचाल तथापि सः १७।
तदोवाच कपिश्रेष्ठो हनूमान्विस्मयान्वितः ।
शत्रुघ्नं बलिनां श्रेष्ठं वीराणां परिशृण्वताम् १८।
मया द्रोणो लांगुलेन लीलयोत्पाटितोऽधुना ।
परमत्र महाश्चर्यं कम्पते न हयोऽल्पकः १९।
दृष्टमत्र निदानं हि वीरैर्बलिभिरुद्धतैः ।
आकृष्टोऽपि न च स्थानाच्चचाल तिलमात्रतः २०।
कपिभाषितमाकर्ण्य शत्रुघ्नो विस्मयान्वितः ।
सुमतिं मंत्रिणां श्रेष्ठमुवाच वदतां वरः २१।
शत्रुघ्न उवाच।
मंत्रिन्किमभवद्वाहे स्तंभनं वपुषोऽनघ ।
कोऽत्रोपायो विधेयः स्याद्येन वाहगतिर्भवेत् २२।
सुमतिरुवाच।
स्वामिन्कश्चिन्मुनिर्मृग्योऽखिलज्ञानविचक्षणः ।
देशोद्भवमहं जाने प्रत्यक्षं न परोक्षजम् २३।
शेष उवाच।
इति वाक्यं समाकर्ण्य सुमतेर्धर्मकोविदः ।
अन्वेषयामास मुनिं सेवकैः सह शोभनम् २४।
ते सर्वे सर्वतो गत्वा मुनिं धर्मविदं भटाः ।
व्यालोकयंतः सर्वत्र न चापश्यन्मुनीश्वरम् २५।
एकस्त्वनुचरो विप्र गतो योजनमात्रतः ।
पूर्वस्यां दिशि चोद्युक्तः पश्यति स्म महाश्रमम् २६।
यत्र निर्वैरिणः सर्वे पशवो जनतास्तथा ।
गंगास्नानहताशेषकिल्बिषाः सुमनोहराः २७।
यत्र केचित्तपः श्रेष्ठं कुर्वंति स्म हुताशनैः ।
धूमैरधोमुखाः पत्रैर्वायुभिः स्वोदरंभराः २८।
यत्राग्निहोत्रजो धूमः पवित्रयति सर्वदा ।
अनेकमुनिसंहृष्टो मुक्तपत्रलतोत्तमः २९।
तमाश्रमं मुनेर्ज्ञात्वा शौनकस्य मनोहरम् ।
न्यवेदयन्नृपायासौ विस्मयाविष्टचेतसे ३०।
तच्छ्रुत्वा हर्षितोऽत्यंतं शत्रुघ्नः सह सेवकैः ।
हनूमत्पुष्कलाद्यैश्च सयुतोऽगात्तदाश्रमम् ३१।
तत्र वीक्ष्य मुनिश्रेष्ठं सम्यग्घुतहुताशनम् ।
प्रणम्य दंडवत्तस्य चरणौ पापहारिणौ ३२।
तमागतं नृपं ज्ञात्वा शत्रुघ्नं बलिनां वरम् ।
अर्घ्यपाद्यादिकं चक्रे प्रीतस्तद्दर्शनादभूत् ३३।
सुखोपविष्टं विश्रान्तं नृपं प्राह मुनीश्वरः ।
किमर्थमटनं देव महत्पर्यटनं तव ३४।
त्वादृशाः पृथिवीं सर्वां नृपा वै न भ्रमंति चेत् ।
तदा दुष्टजनाः साधून्बाधंते विगतज्वरान् ३५।
कथयस्व महीपाल शत्रुघ्न बलिनां वर ।
सर्वं शुभायनो भूयात्तव पर्यटनादिकम् ३६।
शेष उवाच।
इत्युक्तवंतं भूदेवं प्रत्युवाच महीश्वरः ।
गद्गद स्वरया वाण्या हर्षित स्वीयविग्रहः ३७।
शत्रुघ्न उवाच।
अकस्मादभवच्चित्रं रामाश्वस्य मनोहृतः ।
नातिदूरे त्वदावासात्तच्छृणुष्व विदांवर ३८।
उद्याने तव शोभाढ्ये यदृच्छातो हयो गतः ।
तत्प्रांते तस्य वाहस्य गात्रस्तंभोऽभवत्क्षणात् ३९।
तदा मे बलिनो वीराः पुष्कलाद्या मदोत्कटाः ।
बलादाचकृषुर्वाहं न चचाल तथाप्यसौ ४०।
अस्मानपारदुःखाब्धौ मग्नान्प्रतितरिः स्मृतः ।
दैवाद्दृष्टः सुभाग्यैस्त्वं कथयस्व निदानकम् ४१।
शेष उवाच।
एवं पृष्टो मुनिवरः क्षणं दध्यौ महामतिः ।
ततः कारणसंयुक्तं विचारेण दधद्धयम् ४२।
क्षणात्तज्ज्ञानतां प्राप्य विस्मयोत्फुल्ललोचनः ।
जगाद स महीपालं दुःखितं संशयान्वितम् ४३।
शौनक उवाच।
शृणु राजन्प्रवक्ष्यामि हयस्तंभस्य कारणम् ।
यच्छ्रुत्वा मुच्यते दुःखादतिचित्रकथानकम् ४४।
गौडदेशे महारण्ये कावेरीतीरभूषिते ।
वाडवः सात्वको नाम्ना चचार परमं तपः ४५।
एकाहं पयसः प्राशी दिनैकं वायुभक्षकः ।
दिनैकं तु निराहार एवं त्रिदिनमुन्नयेत् ४६।
एवं व्रते प्रवृत्तस्य कालः सर्वक्षयंकरः ।
जग्राह स्वस्य दंष्ट्रायां मृतिं प्राप महाव्रती ४७।
विमाने सर्वशोभाढ्ये सर्वरत्नविभूषिते ।
अप्सरोभिः सह क्रीडन्ययौ मेरोः शिखास्थितौ ४८।
जंबूनाममहावृक्षस्तत्र सेव्यरसोऽभवत् ।
नदी जांबवती संज्ञा स्वर्णद्रवसमन्विता ४९।
तस्यां मुनयइच्छाभिः क्रीडंते कुतुकान्विताः ।
अनेकतपसा पुण्याः सर्वसौख्यसमन्विताः ५०।
तत्रासौ स्वेच्छया क्रीडन्नप्सरोभिर्मुदान्वितः ।
प्रतीपमाचरत्तेषां स्वाभिमानमदोद्धतः ५१।
ततः शप्तः स मुनिभी राक्षसो भव दुर्मुखः ।
ततोऽतिदुःखितः प्राह मुनीन्विद्यातपोधनान् ५२।
अनुगृह्णंतु मां सर्वे विप्रा यूयं कृपालवः ।
तदा तैरनुगृहीतो यदा रामहयं भवान् ५३।
स्तंभयिष्यति वेगेन ततो रामकथाश्रुतिः ।
पश्चान्मुक्तिर्भवित्री ते शापादस्मात्सुदारुणात् ५४।
स प्रोक्तो मुनिभिर्देवो राक्षसत्वमितः प्रभो ।
स्तंभयामास रामाश्वं मोचयानघकीर्तनैः ५५।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे शापकीर्तनंनाम सप्तचत्वारिंशत्तमोऽध्यायः ४७ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 48
शेष उवाच।
इति प्रोक्तं तु मुनिना संश्रुत्य परवीरहा ।
विस्मयं मानयामास हृदि शौनकमब्रवीत् १।
शत्रुघ्न उवाच।
कर्मणो गहना वार्ता यया सात्वकनामधृत् ।
दिवं प्राप्तोऽपि महता कर्मणा राक्षसीकृतः २।
स्वामिन्वद महर्षे त्वं कर्मणां स्वगतिर्यथा ।
येन कर्मविपाकेन यादृशं नरकं भवेत् ३।
शौनक उवाच।
धन्योसि राघवश्रेष्ठ यत्ते मतिरियं शुभा ।
जानन्नपि हितार्थाय लोकानां त्वं ब्रवीषि भोः ४।
कथयामि विचित्राणां कर्मणां विविधा गतीः ।
ताः शृणुष्व महाराज यच्छ्रुत्वा मोक्षमाप्नुयात् ५।
परवित्तं परापत्यं कलत्रं पारकं च यः ।
बलात्कारेण गृह्णाति भोगबुद्ध्या च दुर्मतिः ६।
कालपाशेन संबद्धो यमदूतैर्महाबलैः ।
तामिस्रे पात्यते तावद्यावद्वर्षसहस्रकम् ७।
तत्र ताडनमुद्धूताः कुर्वंति यमकिंकराः ।
पापभोगेन संतप्तस्ततो योनिं तु शौकरीम् ८।
तत्र भुक्त्वा महादुःखं मानुषत्वं गमिष्यति ।
रोगादिचिह्नितं तत्र दुर्यशो ज्ञापकं स्वकम् ९।
भूतद्रोहं विधायैव केवलं स्वकुटुंबकम् ।
पुष्णाति पापनिरतः सोंऽधतामिस्रके पतेत् १०।
ये नरा इह जंतूनां वधं कुर्वंति वै मृषा ।
ते रौरवे निपात्यंते भिद्यंते रुरुभी रुषा ११।
यः स्वोदरार्थे भूतानां वधमाचरति स्फुटम् ।
महारौरवसंज्ञे तु पात्यते स यमाज्ञया १२।
यो वै निजं तु जनकं ब्राह्मणं द्वेष्टि पापकृत् ।
कालसूत्रे महादुष्टे योजनायुतविस्तृते १३।
यावंति पशुरोमाणि गवां द्वेषं करोति यः ।
तावद्वर्षसहस्राणि पच्यते यमकिंकरैः १४।
यो भूमौ भूपतिर्भूत्वा दंडायोग्यं तु दंडयेत् ।
करोति ब्राह्मणस्यापि देहदंडं च लोलुपः १५।
स सूकरमुखैर्दुष्टैः पीड्यते यमकिंकरैः ।
पश्चाद्दुष्टासु योनीषु जायते पापमुक्तये १६।
ब्राह्मणानां गवां ये तु द्रव्यं वृत्तं तथाल्पकम् ।
वृत्तिं वा गृह्णते मोहाल्लुंपंति स्वबलान्नराः १७।
ते परत्रांधकूपे च पात्यंते च महार्दिताः ।
योऽन्नं स्वयमुपाहृत्य मधुरं चात्तिलोलुपः १८।
न देवाय न सुहृदे ददाति रसनापरः ।
स पतत्येव नरके कृमिभोजनसंज्ञिते १९।
अनापदि नरो यस्तु हिरण्यादीन्यपाहरेत् ।
ब्रह्मस्वं वा महादुष्टे संदंशे नरके पतेत् २०।
यः स्वदेहं प्रपुष्णाति नान्यं जानाति मूढधीः ।
स पात्यते तैलतप्ते कुंभीपाकेऽतिदारुणे २१।
यो नागम्यां स्त्रियं मोहाद्योषिद्भावाच्च कामयेत् ।
तं तया किंकराः सूर्म्या परिरंभं च कुर्वते २२।
ये बलाद्वेदमर्यादां लुंपंति स्वबलोद्धताः ।
ते वैतरण्यां पतिता मांसशोणितभक्षकाः २३।
वृषलद्यं यः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत् ।
पूयोदे निपतत्येव महादुःखसमन्वितः २४।
ये दंभमाश्रयंते वै धूर्ता लोकस्य वंचने ।
वैशसे नरके मूढाः पतंति यमताडिताः २५।
ये सवर्णां स्त्रियं मूढा रेतः स्वं पाययंति च ।
रेतःकुल्यासु ते पापा रेतःपानेषु तत्पराः २६।
ये चौरा वह्निदा दुष्टा गरदा ग्रामलुंठकाः ।
सारमेयादने ते वै पात्यंते पातकान्विताः २७।
कूटसाक्ष्यं वदत्यद्धा पुरुषः पापसंभृतः ।
परकीयं तु द्रव्यं यो हरति प्रसभं बली २८।
सोऽवीचिनरके पापी अवाग्वक्त्रः पतत्यधः ।
तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्रजेत् २९।
यो नरो रसनास्वादात्सुरां पिबति मूढधीः ।
तं पाययंति लोहस्य रसं धर्मस्य किंकराः ३०।
यो गुरूनवमन्येत स्वविद्याचारदर्पितः ।
स मृतः पात्यते क्षारनरकेऽधोमुखः पुमान् ३१।
विश्वासघातं कुर्वंति ये नरा धर्मनिष्कृताः ।
शूलप्रोते च नरके पात्यंते बहुयातने ३२।
पिशुनो यो नरान्सर्वानुद्वेजयति वाक्यतः ।
दंदशूके च पतितो दंदशूकैः स दश्यते ३३।
एवं राजन्ननेके वै नरकाः पापकारिणाम् ।
पापं कृत्वा प्रयांत्येते पीडां यांति सुदारुणाम् ३४।
यैर्न श्रुता रामकथा न परोपकृतिः कृता ।
तेषां सर्वाणि दुःखानि भवंति नरकांतरे ३५।
अत्र यस्य सुखं स्वर्गे भूयात्तस्य इतीर्यते ।
ये दुःखिनो रोगयुता नरकादागताश्च ते ३६।
शेष उवाच।
एतच्छ्रुत्वा महीपालः कंपमानः क्षणे क्षणे ।
पप्रच्छ भूयस्तं विप्रं सर्वसंशयनुत्तये ३७।
तत्तत्पापस्य चिह्नानि कथयस्व महामुने ।
केन पापेन किं चिह्नं भूलोके उपजायते ३८।
इति श्रुत्वा तु तद्वाक्यं मुनिः प्रोवाच भूपतिम् ।
शृणु राजन्प्रवक्ष्यामि चिह्नानि पापकारिणाम् ३९।
शौनक उवाच।
सुरापः श्यामदंतश्च नरकांते प्रजायते ।
अभक्ष्यभक्षकारी च जायते गुल्मकोदरः ४०।
उदक्यावीक्षितं भुक्त्वा जायते कृमिलोदरः ।
श्वमार्जारादिसंस्पृष्टं भुक्त्वा दुर्गंधिमान्भवेत् ४१।
अनिवेद्य सुरादिभ्यो भुंजानो जायते नरः ।
उदरे रोगवान्दुःखी महारोगप्रपीडितः ४२।
परान्नविघ्नकरणादजीर्णमभिजायते ।
मंदोदराग्निर्भवति सति द्रव्ये कदन्नदः ४३।
विषदश्छर्दिरोगी स्यान्मार्गहा पादरोगवान् ।
पिशुनो नरकस्यांते जायते श्वासकासवान् ४४।
धूर्तोऽपस्माररोगी स्याच्छूली च परतापनः ।
दावाग्निदायकश्चैव रक्तातीसारवान्भवेत् ४५।
सुरालये जले वापि शकृत्क्षेपं करोति यः ।
गुदरोगो भवेत्तस्य पापरूपः सुदारुणः ४६।
गर्भपातनजा रोगाः क्षयमेहजलोदराः ।
प्रतिमा भंगकारी च अप्रतिष्ठश्च जायते ४७।
दुष्टवादी खंडितः स्यात्खल्वाटः परनिंदकः ।
सभायां पक्षपाती च जायते पक्षघातवान् ४८।
परोक्तहास्यकृत्काणः कुनखी विप्रहेमहृत् ।
तुंदीवरी ताम्रचौरः कांस्यहृत्पुंडरीकिकः ४९।
त्रपुहारी च पुरुषो जायते पिंगमूर्द्धजः ।
शीसहारी च पुरुषो जायते शीर्षरोगवान् ५०।
घृतचौरस्तु पुरुषो जायते नेत्ररोगवान् ।
लोहहारी च पुरुषो बर्बरांगः प्रजायते ५१।
चर्महारी च पुरुषो जायते मेदसा वृतः ।
मधुचौरस्तु पुरुषो जायते बस्तिगंधवान् ५२।
तैलचौर्येण भवति नरः कण्ड्वातिपीडितः ।
आमान्नहरणाच्चैव दंतहीनः प्रजायते ५३।
पक्वान्नहरणाच्चैव जिह्वारोगयुतो भवेत् ।
मातृगामी च पुरुषो जायते लिंगवर्जितः ५४।
गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते ।
भगिनीं चैव गमने पीतकुष्ठः प्रजायते ५५।
स्वसुतागमने चैव रक्तकुष्ठः प्रजायते ।
भ्रातृभार्याभिगमने गुल्मकुष्ठः प्रजायते ५६।
स्वामिगम्यादिगमने जायते दद्रुमंडलम् ।
विश्वस्तभार्यागमने गजचर्मा प्रजायते ५७।
पितृष्वस्रभिगमने दक्षिणांगे व्रणी भवेत् ।
मातुलान्यास्तु गमने वामांगे व्रणवान्भवेत् ५८।
पितृव्यपत्नीगमने कटौ कुष्ठः प्रजायते ।
मित्रभार्याभिगमने मृतभार्यः प्रजायते ५९।
स्वगोत्रस्त्रीप्रसंगेन जायते च भगंदरः ।
तपस्विनीप्रसंगेन प्रमेहो जायते नरे ६०।
श्रोत्रियस्त्रीप्रसंगेन जायते नासिकाव्रणी ।
दीक्षितस्त्रीप्रसंगेन जायते दुष्टरक्तसृक् ६१।
स्वजातिजायागमने जायते हृदयव्रणी ।
जात्युन्नतस्त्रीगमने जायते मस्तकव्रणी ६२।
पशुयोनौ च गमनान्मूत्रघातः प्रजायते ।
एते दोषा नराणां स्युर्नरकांते न संशयः ६३।
स्त्रीणामपि भवंत्येते तत्तत्पुरुषसंगमात् ।
एवं राजन्हि चिह्नानि कीर्तितानि सुपापिनाम् ६४।
दानपुण्यप्रसंगेन तीर्थादिक्रियया तथा ।
रामस्य चरितं श्रुत्वा तपसा वाक्षयं व्रजेत् ६५।
सर्वेषामेव पापानां हरिकीर्तिधुनी नृणाम् ।
क्षालयेत्पापिनां पंकं नात्र कार्या विचारणा ६६।
यो नावमन्येत हरिं तस्य यागाविधि श्रुताः ।
तीर्थान्यपि सुपुण्यानि पावितुं न क्षमाणि तम् ६७।
हसते कीर्त्यमानं यश्चरित्रं ज्ञानदुर्बलः ।
न तस्य नरकान्मुक्तिः कल्पांतेऽपि भविष्यति ६८।
या हि राजन्विमोक्षार्थं हयस्यानुचरैः सह ।
श्रावय श्रीशचरितं यतो वाहगतिर्भवेत् ६९।
शेष उवाच।
इति श्रुत्वा प्रहृष्टोऽभूच्छत्रुघ्नः परवीरहा ।
प्रणम्य तं परिक्रम्य ययौ सेवकसंयुतः ७०।
तत्र गत्वा स हनुमान्हयवर्यस्य पार्श्वतः ।
उवाच रामचरितं महादुर्गतिनाशकम् ७१।
याहि देव विमानं स्वं रामकीर्तनपुण्यतः ।
स्वैरं चर स्वलोके त्वं मुक्तो भव कुयोनितः ७२।
इति वाक्यं समाकर्ण्य शत्रुघ्नो यावदास्थितः ।
तावद्ददर्श विमलं देवं वैमानिकं वरम् ७३।
स उवाच विमुक्तोऽहं रामकीर्तनसंश्रुतेः ।
यामि स्वं भवनं राजन्नाज्ञापय महामते ७४।
इत्युक्त्वा प्रययौ देवो विमाने स्वे परिस्थितः ।
तदा विस्मयमापुस्ते शत्रुघ्नेन सहानुगाः ७५।
ततो वाहो विनिर्मुक्तो गात्रस्तंभाच्च भूतलात् ।
ययौ तद्विपिनं सर्वं भ्रमन्पक्षिसमाकुलम् ७६।
इति श्रीपद्मपुराणे पातालखंडे रामाश्वमेधे शेषवात्स्यायनसंवादे हयनिर्मुक्तिर्नामाष्टचत्वारिंशत्तमोऽध्यायः ४८ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 49
शेष उवाच।
मासाः सप्ताभवंस्तस्य हयवर्यस्य हेलया ।
चरतो भारतं वर्षमनेकनृपपूरितम् १।
स पूजितो भूपवरैः परीत्य वरभारतम् ।
परीवृतो वीरवरैः शत्रुघ्नादिभिरुद्भटैः २।
स बभ्राम बहून्देशान्हिमालयसमीपतः ।
न कोपि तं निजग्राह हयं रामबलं स्मरन् ३।
अंगवंगकलिंगानां राजभिः संस्तुतो हयः ।
जगाम राज्ञो नगरे सुरथस्य मनोहरे ४।
कुंडलं नाम नगरमदितेर्यत्र कुंडलम् ।
कर्णयोः पतितं भूमौ हर्षभयसुकंपयोः ५।
यत्र धर्मव्यतिक्रांतिं न करोति कदापिना ।
श्रीरामस्मरणं प्रेम्णा करोति जनतान्वहम् ६।
अश्वत्थानां तु यत्रार्चा तुलस्याः प्रत्यहं नृभिः ।
क्रियते रघुनाथस्य सेवकैः पापवर्जितैः ७।
यत्र देवालया रम्या राघवप्रतिमायुताः ।
पूज्यंते प्रत्यहं शुद्धचित्तैः कपटवर्जितैः ८।
वाचि नाम हरेर्यत्र न वै कलहसंकथा ।
हृदि ध्यानं तु तस्यैव न च कामफलस्मृतिः ९।
देवनं यत्र रामस्य वार्त्ताभिः पूतदेहिनाम् ।
न जातुचिन्नृणामस्ति सत्यव्यसनमानिनाम् १०।
तस्मिन्वसति धर्मात्मा सुरथः सत्यवान्बली ।
रघुनाथपदस्मारहृष्टचित्तः परोन्मदः ११।
किं वर्णयामि रामस्य सेवकं सुरथं वरम् ।
यस्याशेषगुणा भूमौ विस्तृताः पावयंत्यघम् १२।
सेवकास्तस्य भूपस्य पर्यटंतः कदाचन ।
अपश्यन्हयमेधस्य हयं चंदनचर्चितम् १३।
ते दृष्ट्वा विस्मयं प्राप्ता हयपत्रमलोकयन् ।
स्पष्टाक्षरसमायुक्तं चंदनादिकचर्चितम् १४।
ज्ञात्वा रामेण संमुक्तं हयं नेत्रमनोहरम् ।
हृष्टा राज्ञे सभास्थाय कथयामासुरुत्सुकाः १५।
स्वामिन्नयोध्यानगरीपतिस्तस्यास्तु राघवः ।
हयमेधक्रतोर्योग्यो हयो मुक्तः परिभ्रमन् १६।
स ते पुरस्य निकटे प्राप्तः सेवकसंयुतः ।
गृहाण त्वं महाराज हयं तं सुमनोहरम् १७।
शेष उवाच।
इति श्रुत्वा निजप्रोक्तं वाक्यं हर्षपरिप्लुतः ।
उवाच वीरान्बलिनो मेघगंभीरया गिरा १८।
सुरथ उवाच।
धन्या वयं राममुखं पश्यामः सह सेवकाः ।
ग्रहीष्यामि हयं तस्य भटकोटिपरीवृतम् १९।
तदा मोक्ष्यामि वाहं तं यदा रामः समाव्रजेत् ।
कृतार्थं मम भक्तस्य चिरं ध्यानरतस्य वै २०।
शेष उवाच।
इत्थमुक्त्वा महीपालः सेवकान्स्वयमादिशत् ।
गृह्णंतु वाहं प्रसभं मोच्यो नाश्वोऽक्षिगोचरः २१।
अनेन सुमहाँल्लाभो भविष्यति तु मे मतम् ।
यद्रामचरणौ प्रेक्षे ब्रह्मशक्रादिदुर्ल्लभौ २२।
स एव धन्यः स्वजनः पुत्रो वा बांधवोऽथवा ।
पशुर्वा वाहनं वापि रामाप्तिर्येन संभवेत् २३।
तस्माद्गृहीत्वा क्रत्वश्वं स्वर्णपत्रेण शोभितम् ।
बध्नंतु वाजिशालायां कामवेगं मनोरमम् २४।
इत्युक्तास्ते ततो गत्वा वाहं रामस्य शोभितम् ।
गृहीत्वा तरसा राज्ञे ददुः सर्वं शुभांगिनम् २५।
राजा प्राप्य मुदा चाश्वं रामस्य दनुजार्दनः ।
सेवकान्प्राह बलिनो धर्मकृत्यविचक्षणः २६।
वात्स्यायन महाबुद्धे शृणुष्वैकाग्रमानसः ।
न तस्य विषये कश्चित्परदाररतो नरः २७।
न परद्रव्यनिरतो न च कामेषु लंपटः ।
न जिह्वाभिरतोन्मार्गे कीर्त्तयेद्रामकीर्तनात् २८।
यः सेवकान्नृपो वक्ति यूयं सेवार्थमागताः ।
कथयंतु भवच्चेष्टां धर्मकर्मविशारदाः २९।
एकपत्नीव्रतधरा न परद्रव्यलोलुपाः ।
परापवादानिरता न च वेदोत्पथं गताः ३०।
श्रीरामस्मरणादीनि कुर्वंति प्रत्यहं भटाः ।
तानहं रामसेवार्थं रक्षाम्यंतक कोपवान् ३१।
एतद्विरुद्धधर्माणो ये नराः पापसंयुताः ।
तानहं विषये मह्यं वासयामि न दुर्मतीन् ३२।
तस्य देशे न पापिष्ठाः पापं कुर्वंति मानसे ।
हरिध्यानहताशेष पातकामोदसंयुताः ३३।
यदैवमभवद्देशो राजा धर्मेण संयुतः ।
तदा तत्स्था नराः सर्वे मृता गच्छंति निर्वृतिम् ३४।
यमानुचरनिर्वेशो नाभवत्सौरथे पुरे ।
तदा यमो मुनेरूपं धृत्वा प्रागान्महीश्वरम् ३५।
वल्कलांबरधारी च जटाशोभितशीर्षकः ।
सुरथं तु सभामध्ये ददर्श हरिसेवकम् ३६।
तुलसीमस्तके यस्य वाचि नाम हरेः परम् ।
धर्मकर्मरतां वार्त्तां श्रावयंतं निजाञ्जनान् ३७।
तदा मुनिं नृपो दृष्ट्वा तपोमूर्तिमिव स्थितम् ।
ववंदे चरणौ तस्य पाद्यादिकमथाकरोत् ३८।
सुखोपविष्टं विश्रांतं मुनिं प्राह नृपाग्रणीः ।
धन्यमद्य जनुर्मह्यं धन्यमद्य गृहं मम ३९।
कथाः कथयतान्मह्यं रामस्य विविधा वराः ।
याः शृण्वतां पापहानिर्भविष्यति पदे पदे ४०।
इत्थमुक्तं समाकर्ण्य जहास स मुनिर्भृशम् ।
दंतान्प्रदर्शयन्सर्वांस्तालास्फालितपाणिकः ४१।
हसंतं तं मुनिं प्राह हसने कारणं किमु ।
कथयस्व प्रसादेन यथा स्यान्मनसः सुखम् ४२।
ततो मुनिर्नृपं प्राह शृणु राजन्धियायुतः ।
यदहं तेऽभिधास्यामि स्मिते कारणमुत्तमम् ४३।
त्वया प्रोक्तं हरेः कीर्तिं कथयस्व ममाग्रतः ।
को हरिः कस्य वा कीर्तिः सर्वे कर्मवशा नराः ४४।
कर्मणा प्राप्यते स्वर्गः कर्मणा नरकं व्रजेत् ।
कर्मणैव भवेत्सर्वं पुत्रपौत्रादिकं बहु ४५।
शक्रः शतं क्रतूनां तु कृत्वागात्परमं पदम् ।
ब्रह्मापि कर्मणा लोकं प्राप्य सत्याख्यमद्भुतम् ४६।
अनेके कर्मणा सिद्धा मरुदादय ईशिनः ।
कुर्वन्ति भोगसौख्यं च अप्सरोगणसेविताः ४७।
तस्मात्कुरुष्व यज्ञादीन्यजस्व किल देवताः ।
यथा ते विमलाकीर्तिर्भविष्यति महीतले ४८।
इति श्रुत्वा तु तद्वाक्यं कोपक्षुभितमानसः ।
उवाच रामैकमना विप्रं कर्मविशारदम् ४९।
मा ब्रूहि कर्मणो वार्तां क्षयिष्णुफलदायिनीम् ।
गच्छ मन्नगरोपांताद्बहिर्लोकविगर्हितः ५०।
इंद्रः पतिष्यति क्षिप्रं पतिष्यत्यपि पद्मजः ।
न पतिष्यंति मनुजा रामस्य भजनोत्सुकाः ५१।
पश्य ध्रुवं च प्रह्लादं बिभीषणमथाद्भुतम् ।
ये चान्ये रामभक्ता वै कदापि न पतंति ते ५२।
ये रामनिंदका दुष्टास्तानि मे यमकिंकराः ।
ताडयिष्यंति लोहस्य मुद्गरैः पाशबन्धनैः ५३।
ब्राह्मणत्वाद्देहदंडं न कुर्यां ते द्विजाधम ।
गच्छ गच्छ मदालोकात्ताडयिष्यामि चान्यथा ५४।
इत्थमुक्तवति श्रेष्ठे भूपे सुरथसंज्ञिते ।
सेवका बाहुना धृत्वा निष्कासयितुमुद्यताः ५५।
तदा यमो निजं रूपं धृत्वा लोकैकवंदितम् ।
प्राह भूपं प्रतुष्टोऽस्मि याचस्व हरिसेवक ५६।
मया प्रलोभितो वाग्भिर्बह्वीभिरपि सुव्रत ।
चलितोसि न रामस्य सेवायाः साधुसेवितः ५७।
तदा प्रोवाच भूमीशो यमं दृष्ट्वा सुतोषितम् ।
उवाच यदि तुष्टोसि देहि मे वरमुत्तमम् ५८।
तावन्मम न वै मृत्युर्यावद्रामसमागमः ।
न भयं मे भवत्तो हि कदाचन हि धर्मराट् ५९।
तदोवाच यमो भूपमिदं तव भविष्यति ।
सर्वं त्वदीप्सितं तथ्यं करिष्यति रघोःपतिः ६०।
इत्युक्त्वांतर्हितो धर्मो जगाम स्वपुरं प्रति ।
प्रशस्य तस्य चरितं हरिभक्तिपरात्मनः ६१।
स राजा धार्मिको रामसेवकः परया मुदा ।
गृहीत्वाश्वं प्रत्युवाच सेवकान्हरिसेवकान् ६२।
मया गृहीतो वाहोऽसौ राघवस्य महीपतेः ।
सज्जी भवंतु सर्वत्र यूयं रणविशारदाः ६३।
इति प्रोक्तास्तु ते सर्वे भटा राज्ञो महाबलाः ।
सज्जीभूताः क्षणादेव सभायां जग्मुरुत्सुकाः ६४।
राज्ञो वीरा दशसुताश्चंपको मोहकस्तथा ।
रिपुंजयोऽतिदुर्वारः प्रतापीबलमोदकः ६५।
हर्यक्षः सहदेवश्च भूरिदेवः सुतापनः ।
इति राज्ञो दश सुताः सज्जीभूता रणांगणे ६६।
यातुमिच्छामकुर्वंस्ते महोत्साहसमन्विताः ।
राजापि स्वरथं चित्रं हेमशोभाविनिर्मितम् ६७।
आह्वयामास सुजवैर्वाजिभिः समलंकृतम् ।
रणोत्साहेन संयुक्तः सर्वसैन्यपरीवृतः ६८।
सभायां सेवकान्सर्वान्दिशन्नास्ते महीपतिः ६९।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सुरथराज्ञा हयग्रहणंनाम एकोनपंचाशत्तमोऽध्यायः ४९ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 50
शेष उवाच।
अथ रामानुजो वेगात्समागत्य स्वसेवकान् ।
पप्रच्छ कुत्र वाहोऽसौ याज्ञिकः सुमनोहरः १।
तदा ते वचनं प्रोचुः शत्रुघ्नं सुमहाबलाः ।
न जानीमो भटाः केचिद्धयं नीत्वा गताः पुरे २।
वयं च धिक्कृताः सर्वे बलिभी राजसेवकैः ।
अत्र प्रमाणं भगवानिति कर्तव्य तां प्रति ३।
तच्छ्रुत्वा वचनं तेषां शत्रुघ्नः कुपितो भृशम् ।
दशन्रोषात्स्वदशनाञ्जिह्वया लेलिहन्मुहुः ४।
उवाच वीरो मद्वाहं हृत्वा कुत्र गमिष्यसि ।
इदानीं पातये बाणैः पुरंजनसमन्वितम् ५।
इत्युक्त्वा सुमतिं प्राह कस्येदं पुटभेदनम् ।
को वर्ततेऽस्याधिपतिर्यो मे वाहमजीहरत् ६।
शेष उवाच।
इति वाक्यं समाकर्ण्य भूपतेः कोपसंयुतम् ।
जगाद मंत्री सुगिरा स्फुटाक्षरसमन्वितम् ७।
विद्धीदं कुंडलं नाम नगरं सुमनोहरम् ।
अस्मिन्वसति धर्मात्मा सुरथः क्षत्त्रियो बली ८।
नित्यं धर्मपरो रामचरणद्वंद्वसेवकः ।
मनसा कर्मणा वाचा हनूमानिव सेवकः ९।
चरितान्यस्य शतशो वर्तंते धर्मकारिणः ।
महाबलपरीवारः सुरथः सर्वशोभनः १०।
महद्युद्धं भवेदत्र हृतश्चेद्वाहसत्तमः ।
अनेके प्रपतिष्यंति वीरा रणविशारदाः ११।
एवमुक्तं समाश्रुत्य शत्रुघ्नः सचिवं प्रति ।
उवाच पुनरप्येवं वचनं वदतां वरः १२।
शत्रुघ्न उवाच।
कथमत्र प्रकर्तव्यं रामाश्वोऽनेन चेद्धृतः ।
नायाति योद्धुं प्रबलं कटकं वीरसेवितम् १३।
सुमतिरुवाच।
दूतः प्रेष्यो महाराज राजानं प्रति वाग्मिकः ।
यद्वाक्येन समायाति बलेन बलिनां वरः १४।
नोचेदज्ञानतो वाहो धृतः केनापि मानिना ।
अर्पयिष्यति नः साधुमश्वं क्रतुवरं शुभम् १५।
इति श्रुत्वातु तद्वाक्यं शत्रुघ्नो बुद्धिमान्बली ।
अंगदं प्रत्युवाचेदं वचनं विनयान्वितम् १६।
शत्रुघ्न उवाच।
याहि त्वं निकटस्थे वै सुरथस्य महापुरे ।
दूतत्वेन ततो गत्वा प्रब्रूहि नृपतिं प्रति १७।
त्वया धृतो रामवाहो ज्ञानतोऽज्ञानतोपि वा ।
अर्पयतु न वा यातु प्रधनं वीरसंयुतम् १८।
रामस्य दौत्यं लंकायां रावणं प्रति यत्कृतम् ।
तथैव कुरु भूयिष्ठ बलसंयुतबुद्धिमन् १९।
शेष उवाच।
एतच्छ्रुत्वांगदो वीर ओमिति प्रोच्य भूमिपम् ।
जगाम संसदो मध्ये वीरश्रेणिसमन्विते २०।
ददर्श सुरथं भूपं तुलसीमंजरीधरम् ।
रामभद्रं रसनया ब्रुवंतं सेवकान्निजान् २१।
राजापि दृष्ट्वा प्लवगं मनोहरवपुर्धरम् ।
शत्रुघ्नदूतं मत्वापि वालिजं प्रत्यभाषत २२।
सुरथ उवाच।
प्लवगाधिप कस्मात्त्वमागतोऽत्र कथं भवान् ।
ब्रूहि मे कारणं सर्वं यथा ज्ञात्वा करोमि तत् २३।
शेष उवाच।
इति संभाषमाणं तं प्रत्युवाच कपीश्वरः ।
विस्मयंश्चेतसि भृशं रामसेवाकरं नृपम् २४।
जानीहि मां नृपश्रेष्ठ वालिपुत्रं हरीश्वरम् ।
शत्रुघ्नेन च दूतत्वे प्रेषितो भवतोंऽतिकम् २५।
सेवकैः कैश्चिदागत्य धृतोऽश्वो मम सांप्रतम् ।
अज्ञानतो महान्याय्यं कुर्वद्भिः सहसा नृप २६।
तमश्वं सह राज्येन सहपुत्रैर्मुदान्वितः ।
शत्रुघ्नं याहि चरणे पतित्वाशु प्रदेहि च २७।
नोचेच्छत्रुघ्ननिर्मुक्तनाराचैः क्षतविग्रहः ।
पृथ्वीतलमलं कुर्वञ्छयिष्यसि विशीर्षकः २८।
येन लंकापतिर्नाशं प्रापितो लीलया क्षणात् ।
तस्याश्वं यागयोग्यं तु हृत्वा कुत्र गमिष्यसि २९।
शेष उवाच।
इत्यादिभाषमाणं तं प्रत्युवाच महीश्वरः ।
सर्वं तथ्यं ब्रवीषि त्वं नानृतं तव भाषितम् ३०।
परं शृणुष्व मद्वाक्यं शत्रुघ्नपदसेवक ।
मया धृतो महानश्वो रामचंद्रस्य धीमतः ३१।
न मोक्ष्ये सर्वथा वाहं शत्रुघ्नादिभयादहम् ।
चेद्रामः स्वयमागत्य दर्शनं दास्यते मम ३२।
तदाहं चरणौ नत्वा दास्यामि सुतसंयुतः ।
सर्वं राज्यं कुटुंबं च धनं धान्यं बलं बहु ३३।
क्षत्त्रियाणामयं धर्मः स्वामिनापि विरुद्ध्यते।
धर्मेण युद्धं तत्रापि रामदर्शनमिच्छता ३४।
शत्रुघ्नादीन्प्रवीरांस्तानधुनाहं क्षणादपि ।
जित्वा बध्नामि मद्गेहे नोचेद्रामः समाव्रजेत् ३५।
शेष उवाच।
इति श्रुत्वांगदो धीमाञ्जहास नृपतिं तदा ।
उवाच च महद्वाक्यं महाधैर्यसमन्वितम् ३६।
अंगद उवाच।
बुद्धिहीनः प्रवदसि वृद्धत्वात्सागता तव ।
यत्त्वं शत्रुघ्ननृपतिं धिक्करोषि धिया बली ३७।
यो मांधातृरिपुं दैत्यं लवणं लीलयावधीत् ।
येनानेके जिताः संख्ये वैरिणः प्रबलोद्धताः ३८।
विद्युन्माली हतो येन राक्षसः कामगे स्थितः ।
त्वं तं बध्नासि वीरेंद्रं मतिहीनः प्रभासि मे ३९।
भ्रातृजो यस्य सुबली पुष्कलः परमास्त्रवित् ।
येन रुद्रगणः संख्ये वीरभद्रः सुतोषितः ४०।
वर्णयामि किमेतस्य पराक्रांतिं बलोर्जिताम् ।
येन नास्ति समः पृथ्व्यां बलेन यशसा श्रिया ४१।
हनूमान्यस्य निकटे रघुनाथपदाब्जधीः ।
यस्यानेकानि कर्माणि भविष्यंति श्रुतानि ते ४२।
सत्रिकूटा राक्षसपूर्दग्धा येन क्षणाद्बलात् ।
अक्षो येन हतः पुत्रो राक्षसेंद्रस्य दुर्मतेः ४३।
द्रोणोनाम गिरिर्येन पुच्छाग्रेण सदैवतः ।
आनीतो जीवनार्थं तु सैनिकानां मुहुर्मुहुः ४४।
जानाति रामश्चारित्रं नान्यो जानाति मूढधीः ।
यं कपींद्रं मनाक्स्वान्तान्न विस्मरति सेवकम् ४५।
सुग्रीवाद्याः कपींद्रा ये पृथ्वीं सर्वां ग्रसंति ये ।
ते शत्रुघ्नं नृपं सर्वे सेवंते प्रेक्षणोत्सुकाः ४६।
कुशध्वजो नीलरत्नो रिपुतापो महास्त्रवित् ।
प्रतापाग्र्यः सुबाहुश्च विमलः सुमदस्तथा ४७।
राजा वीरमणिः सत्ययुतो रामस्य सेवकः ।
एतेऽन्येपि नृपा भूमेः पतयः पर्युपासते ४८।
तत्र त्वं वीर जलधौ मशकः को भवानिति ।
तज्ज्ञात्वा गच्छ शत्रुघ्नं कृपालुं पुत्रकैर्युतः ४९।
वाहं समर्प्य गंतासि रामं राजीवलोचनम् ।
दृष्ट्वा कृतार्थी कुरुषे स्वांगानि जनुषा सह ५०।
शेष उवाच।
राजा प्रोवाच तं दूतं प्रब्रुवंतमनेकधा ।
एतान्दर्शयसि क्षिप्रं सर्वे न ममगोचराः ५१।
यादृशं मद्बलं दूत तादृशं न हनूमतः ।
यो रामं पृष्ठतः कृत्वा प्रागाद्यागस्य पालने ५२।
यद्यहं मनसा वाचा कर्मणा कुतुकान्वितः ।
भजामि रामं तर्ह्याशु दर्शयिष्यति स्वां तनुम् ५३।
अन्यथा हनुमन्मुख्या वीरा बध्नंतु मां बलात् ।
गृह्णंतु वाहं तरसा रामभक्तिसमन्विताः ५४।
गच्छ त्वं नृप शत्रुघ्नं कथयस्व ममोदितम् ।
सज्जीभवंतु सुभटा एष यामि रणे बली ५५।
स विचार्य यथायुक्तं करिष्यति रणांगणे ।
मोचयंतु महावाहं न वामा मा ददंतु ते ५६।
शेष उवाच।
इति श्रुत्वास्मि तं कृत्वा ययौ वीरो यतो नृपः ।
गत्वा निवेदयामास यथोक्तं सुरथेन वै ५७।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सुरथदूतयोः संवादोनाम पंचाशत्तमोऽध्यायः ५०।
खण्डः ५ (पातालखण्डः) — Adhyāya 51
शेष उवाच।
तच्छ्रुत्वा भाषितं तस्य सुरथस्यांगदाननात् ।
सज्जीभूता रणे सर्वे रथस्था रणकोविदाः १।
पटहानां निनादोऽभूद्भेरीनादस्तथैव च ।
वीराणां गर्जनानादाः प्रादुर्भूता रणांगणे २।
रथचीत्कारशब्देन गजानां बृंहितेन च ।
व्याप्तं तत्सकलं विश्वं दिवं यातो महारवः ३।
रणोत्साहेन संयुक्ता वीरा रणविशारदाः ।
कुर्वंति विविधान्नादान्कातरस्य भयंकरान् ४।
एवं कोलाहले वृत्ते सुरथो नाम भूमिपः ।
स्वसुतैः सैनिकैश्चाथ वृतः प्रायाद्रणांगणे ५।
गजैरथैर्हयैः पत्तिव्रजैः पूर्णां तु मेदिनीम् ।
कुर्वन्समुद्रइव तां प्लावयन्ददृशे भटैः ६।
शंखनादेन संघुष्टं जयनादैस्तथैव च ।
वीक्ष्य तं प्रधनोद्युक्तं सुमतिं प्राह भूमिपः ७।
शत्रुघ्न उवाच।
एष राजा समायातो महासैन्यपरीवृतः ।
अत्र यत्कृत्यमस्माकं तद्वदस्व महामते ८।
सुमतिरुवाच।
योद्धव्यमत्र बहुभिर्वीरै रणविशारदैः ।
पुष्कलादिभिरत्युग्रैः सर्वशस्त्रास्त्रकोविदैः ९।
राज्ञा सह समीरस्य पुत्रः परमशौर्यवान् ।
युद्धं करोतु सुबलः परयुद्धविशारदः १०।
शेष उवाच।
इति ब्रूते महामात्यो यावत्तावन्नृपात्मजाः ।
रणांगणे धनूंष्यद्धा स्फारयामासुरुद्धताः ११।
तान्वीक्ष्य योधाः सुबलाः पुष्कलाद्या रणोत्कटाः ।
अभिजग्मुः स्यंदनैः स्वैर्धनुर्बाणकरा मताः १२।
चंपकेन महावीरः पुष्कलः परमास्त्रवित् ।
द्वैरथेनैव युयुधे महावीरेण शालिना १३।
मोहकं योधयामास जानकिः स कुशध्वजः ।
रिपुंजयेन विमलो दुर्वारेण सुबाहुकः १४।
प्रतापिना प्रतापाग्र्यो बलमोदेन चांगदः ।
हर्यक्षेण नीलरत्नः सहदेवेन सत्यवान् १५।
राजा वीरमणिर्भूरि देवेन युयुधे बली ।
असुतापेन चोग्राश्वो युयुधे बलसंयुतः १६।
द्वैरथं तु महद्युद्धमकुर्वन्युद्धकोविदाः ।
सर्वे शस्त्रास्त्रकुशलाः सर्वे युद्धविशारदाः १७।
एवं प्रवृत्ते संग्रामे सुरथस्य सुतैस्तदा ।
अत्यंतं कदनं तत्र बभूव मुनिसत्तम १८।
पुष्कलश्चंपकं प्राह किं नामासि नृपात्मज ।
धन्योसि यो मया सार्धं रणमध्यमुपेयिवान् १९।
इदानीं तिष्ठ किं यासि कथं ते जीवितं भवेत् ।
एहि युद्धं मया सार्धं सर्वशस्त्रास्त्रकोविद २०।
इत्यभिव्याहृतं तस्य श्रुत्वा राजात्मजो बली ।
जगाद पुष्कलं वीरो मेघगंभीरया गिरा २१।
चंपक उवाच।
न नाम्ना न कुलेनेदं युद्धमत्र भविष्यति ।
तथापि तव वक्ष्येऽहं स्वनामबलपूर्वकम् २२।
मम माता राघवेशो मत्पिता राघवः स्मृतः ।
मम बंधू रामचंद्र स्वःजनो मम राघवः २३।
मन्नाम रामदासश्च सदा रामस्य सेवकः ।
तारयिष्यति मां युद्धे रामो भक्तकृपाकरः २४।
लोकानां मतमास्थाय प्रब्रवीमि तवाधुना ।
सुरथस्य सुतश्चाहं माता वीरवतीमम २५।
मन्नामयो मधौ सर्वाञ्छोभनान्विदधाति वै ।
मधुपायंरसावा संत्यजंति मधुमोहिताः २६।
वर्णेन स्वर्णसदृशो मध्ये लिंगवपुर्धरः ।
तदाख्ययाभिधां वीर जानीहि मम मोहिनीम् २७।
युध्यस्व बाणैः प्रधनेन को जेतुं हि मां क्षमः ।
इदानीं दर्शयिष्यामि स्वपराक्रममद्भुतम् २८।
शेष उवाच।
इति श्रुत्वा महद्वाक्यं पुष्कलो हृदि तोषितः ।
तं दुर्जयं मन्यमानः शरान्मुंचन्रणेऽभवत् २९।
शरसंघं प्रमुंचंतं कोटिधा पुष्कलं ययौ ।
चंपकः कोपसंयुक्तो धनुः सज्यमथाकरोत् ३०।
मुमोच निशितान्बाणान्वैरिवृंदविदारणान् ।
स्वनामचिह्नितान्स्वर्णपुंखभागसमन्वितान् ३१।
तांश्चिच्छेद महावीरः पुष्कलः प्रधनांगणे ।
शरांधकारं सर्वत्र मुंचन्बाणाञ्छिलाशितान् ३२।
स्वबाणच्छेदनं दृष्ट्वा कृतं वीरेण चंपकः ।
आह्वयामास बलिनं पुष्कलं कोपपूरितः ३३।
मा प्रयाहि रणं त्यक्त्वेति ब्रुवन्समरे पुनः ।
पुष्कलं हृदये बाणैर्विव्याध दशभिस्त्वरन् ३४।
ते बाणाः पुष्कलस्याहो हृदये तीव्रवेगिनः ।
आगत्य सुभृशं लग्नाः शोणितं पपुरूर्जितम् ३५।
तैर्बाणैर्व्यथितो वीरः शरान्पंच समाददे ।
सुतीक्ष्णाग्रान्महाकोपाद्वारयन्पर्वतानिव ३६।
ते बाणास्तस्य बाणाश्च परस्परमथोर्जिताः ।
आकाशे रचिताश्छिन्नाः शतधा राजसूनुना ३७।
छित्त्वा बाणान्सुतीक्ष्णाग्रान्सुरथांगोद्भवो बली ।
बाणाञ्छतं समाधत्त पुष्कलं ताडितुं हृदि ३८।
ते बाणाः शतधाच्छिन्नाः पुष्कलेन महात्मना ।
अपतन्समरोपांते शरवेगप्रपीडिताः ३९।
तदा तत्सुमहत्कर्म दृष्ट्वा राज्ञः सुतो बली ।
सहस्रेण शराणां च ताडयन्वक्षसि स्फुटम् ४०।
तानप्याशु प्रचिच्छेद पुष्कलः परमास्त्रवित् ।
पुनरप्याशु स्वे चापे समाधत्तायुतं शरान् ४१।
तानप्याशु प्रचिच्छेद पुष्कलः परमास्त्रवित् ।
ततोऽत्यतं प्रकुपितः शरवृष्टिमथाकरोत् ४२।
शरवृष्टिं समायांतीं मत्वा चंपक वीरहा ।
साधुसाधुप्रशंसंतं पुष्कलं समताडयत् ४३।
पुष्कलश्चंपकं दृष्ट्वा महावीर्यसमन्वितम् ।
ब्रह्मणोऽस्त्रसमाधत्त स्वे चापे सर्वशस्त्रवित् ४४।
तेन मुक्तं महाशस्त्रं प्रजज्वाल दिशो दश ।
खं रोदसी व्याप्य विश्वं प्रलयं कर्तुमुद्यतम् ४५।
चंपको मुक्तमस्त्रं तद्दृष्ट्वा सर्वास्त्रकोविदः ।
तत्संहर्तुं तदेवास्त्रं मुमोच रिपुमुद्यतम् ४६।
द्वयोरेकतमं तेजः प्रलयं मेनिरे जनाः ।
संजहार तदास्त्रास्त्रमेकीभूतं परास्त्रकम् ४७।
तत्कर्मचाद्भुतं दृष्ट्वा पुष्कलस्तिष्ठतिष्ठ च ।
ब्रुवञ्छरानमोघांस्तु चंपकं स क्रुधाहनत् ४८।
चंपकस्ताञ्छरान्मुक्तानगणय्य महामनाः ।
रामास्त्रं प्रमुमोचाथ पुष्कलं प्रति दारुणम् ४९।
तन्मुक्तमस्त्रमालोक्य चंपकेन महात्मना ।
छेत्तुं यावन्मनश्चक्रे तावद्ग्रस्तः शरेण सः ५०।
बद्धश्चंपकवीरेण रथे स्वे स्थापितः पुनः ।
पुरं प्रेषयितुं तावन्मनश्चक्रे महामनाः ५१।
हाहाकारो महानासीद्बद्धे पुष्कलसंज्ञिके ।
शत्रुघ्नं प्रययुर्योधाः पलायनपरायणाः ५२।
भग्नांस्तान्वीक्ष्य शत्रुघ्नो हनूमंतमुवाच ह ।
केन वीरेण मे भग्नं बलं वीरैरलंकृतम् ५३।
तदोवाच महीनाथ पुष्कलं परवीरहा ।
बद्ध्वा नयति वीरोऽसौ चंपकः स्वपदोद्धुरः ५४।
तस्येदृग्वाक्यमाकर्ण्य शत्रुघ्नः कोपसंयुतः ।
उवाच पवनोद्भूतं मोचयाशु नृपात्मजात् ५५।
महाबलः सुतश्चास्य बद्ध्वा यः पुष्कलं भटम् ।
तस्मान्मोचय वीराग्र्य कथं तिष्ठसि चाहवे ५६।
एतद्वाक्यं समाकर्ण्य हनूमानोमिति ब्रुवन् ।
जगाम तं मोचयितुं पुष्कलं चंपकाद्भटात् ५७।
हनूमंतमथालोक्य तं मोचयितुमागतम् ।
बाणैः शतैश्च साहस्रैर्जघान परकोपनः ५८।
बाणांस्तान्स बभंजाशु मुक्तांस्तेन महात्मना ।
पुनरप्येनमेवाशु बाणान्मुंचन्महानभूत् ५९।
तान्सर्वांश्चूर्णयामास नाराचान्वैरिमोचितान् ।
शालं करे समाधृत्य जघान नृपनंदनम् ६०।
शालं तेन विनिर्मुक्तं तिलशः कृतवान्बली ।
गजो हनूमता मुक्तो नृपनंदन मस्तके ६१।
सोऽप्याहतश्चंपकेन मृतो भूमौ पपातसः ।
शिलाः संमोचयामास हनूमान्परमास्त्रवित् ६२।
चंपकस्ताः शिलाः सर्वाः क्षणाच्चूर्णितवान्भृशम् ।
बाणयंत्रिकया ब्रह्मन्महच्चित्रमभूदिदम् ६३।
स्वमुक्तास्ताः शिलाः सर्वाश्चूर्णिता वीक्ष्य मारुतिः ।
चुकोप हृदयेऽत्यतं बहुवीर्यमिति स्मरन् ६४।
आगत्य च करे धृत्वा नभस्युत्पतितः कपिः ।
तावद्ययौ नेत्रपथादुपरि क्षिप्रवेगवान् ६५।
चंपकस्तं हनूमंतं युयुधे नभसि स्थितः ।
बाहुयुद्धेन महता ताडितः कपिपुंगवः ६६।
चुकोप मानसे वीरो गर्वपर्वतदारुणः ।
पदा धृत्वा चंपकं तं ताडयामास भूतले ६७।
ताडितोऽसौ कपींद्रेण क्षणादुत्थाय वेगवान् ।
हनूमंतं तु लांगूले धृत्वा बभ्राम सर्वतः ६८।
कपींद्रस्तद्बलं वीक्ष्य हसन्पादेऽग्रहीत्पुनः ।
भ्रामयित्वा शतगुणं गजोपस्थे ह्यपातयत् ६९।
पपात भूमौ सुबलो राजसूनुः स चंपकः ।
मूर्च्छितो वीरभूषाढ्यमलंकुर्वन्रणांगणम् ७०।
तदा हाहेति वै लोकाश्चुक्रुशुश्चंपकानुगाः ।
पुष्कलं मोचयामास बद्धं चंपकपाशतः ७१।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधेपुष्कलमोचनं नामैकपंचाशत्तमोऽध्यायः ५१।
खण्डः ५ (पातालखण्डः) — Adhyāya 52
शेष उवाच।
चंपकं पतितं दृष्ट्वा सुरथः क्षत्रियो बली ।
पुत्रदुःखपरीतांगो जगाम स्यंदने स्थितः १।
कपींद्रमाजुहावाथ सुरथः कोपसंयुतः ।
निःश्वासवेगं संमुंचन्महाबलसमन्वितः २।
आह्वयानं नृपं दृष्ट्वा निजं वीरः कपीश्वरः ।
जगाम तं महावीरो महावेगसमन्वितः ३।
तमागतं हनूमंतं तृणीकुर्वं तमुद्भटान् ।
उवाच सुरथो राजा मेघगंभीरसुस्वरः ४।
सुरथ उवाच।
धन्योसि कपिवर्य त्वं महाबलपराक्रमः ।
येन राममहत्कृत्यं कृतं राक्षसके पुरे ५।
त्वं रामचरणस्यासि सेवको भक्तिसंयुतः ।
त्वया वीरेण मत्पुत्रः पातितश्चंपको बली ६।
इदानीं त्वां तु संबध्य गंतास्मि नगरेमम ।
यत्नात्तिष्ठ कपीशेशसत्यमुक्तं मया स्मृतम् ७।
इति भाषितमाकर्ण्य सुरथस्य कपीश्वरः ।
उवाच धीरया वाण्या रणे वीरैकभूषिते ८।
हनूमानुवाच।
त्वं रामचरणस्मारी वयं रामस्य सेवकाः ।
बध्नासि चेन्मां प्रसभं मोचयिष्यति मत्प्रभुः ९।
कुरु वीर भवत्स्वांतस्थितं सत्यं प्रतिश्रुतम् ।
रामं स्मरन्वै दुःखांतं याति वेदा वदंत्यदः १०।
शेष उवाच।
इति ब्रुवंतं सुरथः प्रशस्य पवनात्मजम् ।
विव्याध बाणैर्बहुभिः शितैः शाणेन दारुणैः ११।
तान्मुक्तानगणय्याथ बाणाञ्छोणितपातिनः ।
करे जग्राह कोदंडं सज्यं शरसमन्वितम् १२।
गृहीत्वा करयोश्चापं बभंज कुपितः कपिः ।
चीत्कुर्वंस्त्रासयन्वीरान्नखैर्दीर्णान्सृजन्भटान् १३।
तेन भग्नं धनुर्दृष्ट्वा स्वकीयं गुणसंयुतम् ।
अपरं धनुरादत्त महद्गुणविशोभितम् १४।
तच्चापि जगृहे रोषात्कपिश्चापं बभंज तत् ।
अन्यच्चापं समादत्त तद्बभंज महाबलः १५।
तस्मिंश्चापे प्रभग्नेऽपि सोऽन्यद्धनुरुपाददत् ।
सोपि चापं बभंजाशु महावेगसमन्वितः १६।
एवं राज्ञस्तु चापानामशीतिर्विदलीकृता ।
क्षणे क्षणे महारोषात्कुर्वन्नादाननेकधा १७।
तदात्यंतं प्रकुपितः शक्तिमुग्रामथाददे ।
शक्त्या स ताडितो वीरः पपात क्षणमुत्सुकः १८।
उत्थाय स्यंदनं राज्ञो जग्राह कुपितो भृशम् ।
उड्डीनस्तं गृहीत्वा तु समुद्रमतिवेगतः १९।
तमुड्डीनं समालक्ष्य सुरथः परवीरहा ।
ताडयामास परिघैर्हृदि मारुतिमुद्यतम् २०।
मुक्तस्तेन रथो दूराच्चूर्णीभूतोऽभवत्क्षणात् ।
सोऽन्यरथं समारुह्य ययौ वेगात्समीरजम् २१।
हनूमांस्तद्रथं पुच्छे संवेष्ट्य प्रधनांगणे ।
हयसारथिसंयुक्तं बभंज सपताकिनम् २२।
अन्यं रथं समास्थाय ययौ राजा महाबलः ।
बभंज तं रथं वेगान्मारुतिः कुपितांगकः २३।
भग्नं तं स्यंदनं वीक्ष्य सुरथोऽन्यसमाश्रितः ।
भग्नः स तेन सहसा हयसारथिसंयुतः २४।
एवमेकोनपंचाशद्रथा भग्ना हनूमता ।
तत्कर्म वीक्ष्य राजापि विसिस्माय ससैनिकः २५।
कुपितः प्राह कीशेंद्रं धन्योसि पवनात्मज ।
पराक्रमन्निदं कर्म न कर्ता न करिष्यति २६।
क्षणमेकं प्रतीक्षस्व यावत्सज्यं धनुस्त्वहम् ।
करोमि पवनोद्भूत रामपादाब्जषट्पद २७।
इत्युक्त्वा चापमात्तज्यं कृत्वा रोषपरिप्लुतः ।
अस्त्रं पाशुपतं नाम संदधे शर उल्बणे २८।
ततो भूताश्च वेतालाः पिशाचा योगिनीमुखाः ।
प्रादुर्बभूवुः सहसा भीषयंतः समीरजम् २९।
कपिः पाशुपतैरस्त्रैर्बद्धो लोकैरभीक्षितः ।
हाहेति च वदंत्येते यावत्तावत्समीरजः ३०।
स्मृत्वा रामं स्वमनसा त्रोटयामास तत्क्षणात् ।
स मुक्तगात्रः सहसा युयुधे सुरथं नृपम् ३१।
तं मुक्तगात्रं संवीक्ष्य सुरथः परमास्त्रवित् ।
महाबलं मन्यमानो ब्राह्ममस्त्रं समाददे ३२।
मारुतिर्ब्राह्ममस्त्रं तु निजगाल हसन्बली ।
तन्निगीर्णं नृपो दृष्ट्वा रामं सस्मार भूमिपः ३३।
स्मृत्वा दाशरथिं रामं रामास्त्रं स्वशरासने ।
संधाय तं जगादेदं बद्धोसि कपिपुंगव ३४।
श्रुत्वा तत्प्रक्रमेद्यावत्तावद्बद्धो रणांगणे ।
राज्ञा रामास्त्रतो वीरो हनूमान्रामसेवकः ३५।
उवाच भूपं हनुमान्किंकरोमि महीभुज ।
मत्स्वाम्यस्त्रेण संबद्धो नान्येन प्राकृतेन वै ३६।
तन्मानयामिभूपालनयस्वस्वपुरंप्रति ।
मोचयिष्यति मत्स्वामी आगत्य स दयानिधिः ३७।
बद्धे समीरजे क्रुद्धः पुष्कलो भूमिपं ययौ ।
तं पुष्कलं समायांतं विव्याध वसुभिः शरैः ३८।
अनेकबाणसाहस्रैर्निजघान नृपं बली ।
राज्ञानेके शरास्तस्य च्छिन्नाः प्रधनमंडले ३९।
एवं समरसंक्रुद्धे सुरथे पुष्कले तथा ।
बाणैर्व्याप्तं जगत्सर्वं स्थास्नुभूयश्चरिष्णु च ४०।
तेषां रणोद्यमं वीक्ष्य मुमुहुः सुरसैनिकाः ।
मानवानां तु का वार्ता क्षणात्त्रासं समीयुषाम् ४१।
अस्त्रप्रत्यस्त्रविगमैर्महामंत्रपरिस्तुतैः ।
बभूव तुमुलं युद्धं वीराणां रोमहर्षणम् ४२।
तदा प्रकुपितो राजा नाराचं तु समाददे ।
छिन्नः स तु क्रुधा मुक्तैर्वत्सदंतैः सभारतैः ४३।
छिन्ने तस्मिञ्छरे राजा कोपादन्यं समाददे ।
छिनत्ति यावत्स शरं तावल्लग्नो हृदि क्षतः ४४।
मूर्च्छां प्राप महातेजाः पुष्कलो महदद्भुतम् ।
युद्धं विधाय सुमहद्राज्ञा सह महामतिः ४५।
पुष्कले पतिते राजा शत्रुघ्नः शत्रुतापनः ।
सुरथं प्रति संक्रुद्धो जगाम स्यंदनस्थितः ४६।
उवाच सुरथं भूपं रामभ्राता महाबलः ।
त्वया महत्कृतं कर्म यद्बद्धः पवनात्मजः ४७।
पुष्कलोऽपि महावीरस्तथान्ये मम सैनिकाः ।
पातिताः प्रधने घोरे महाबलपराक्रमाः ४८।
इदानीं तिष्ठ मद्वीरान्पातयित्वा रणांगणे ।
कुत्र यास्यसि भूमीश सहस्व मम सायकान् ४९।
इत्थमाश्रुत्य वीरस्य भाषितं सुरथो बली ।
जगाद रामपादाब्जं दधच्चेतसि शोभनम् ५०।
मया ते पातिताः संख्ये वीरा मारुतजोन्मुखाः ।
इदानीं पातयिष्यामि त्वामपि प्रधनांगणे ५१।
स्मरस्व रामं यो वीरः स्वमागत्य प्ररक्षति ।
अन्यथा जीवितं नास्ति मत्पुरः शत्रुतापन ५२।
इत्युक्त्वा बाणसाहस्रैस्तं जघान महीपतिः ।
शत्रुघ्नं शरसंघातपंजरे न्यदधात्परम् ५३।
शत्रुघ्नः शरसंघातं मुंचंतं वह्निदैवतम् ।
अस्त्रं मुमोच दाहार्थं शराणां नतपर्वणाम् ५४।
तदस्त्रं मुक्तमालोक्य राजा वै सुरथो महान् ।
वारुणास्त्रेण शमयन्विव्याध शरकोटिभिः ५५।
तदा तद्योगिनीदत्तमस्त्रं धनुषि संदधे ।
मोहनं सर्ववीराणां निद्राप्रापकमद्भुतम् ५६।
तन्मोहनं महास्त्रं स वीक्ष्य राजा हरिंस्मरन् ।
जगाद शत्रुघ्नमयं सर्वशस्त्रास्त्रकोविदः ५७।
मोहितस्य मम श्रीमद्रामस्य स्मरणेन ह ।
नान्यन्मोहनमाभाति ममापि भयतापदम् ५८।
इत्युक्तवति वीरे तु मुमोच स महास्त्रकम् ।
तेन बाणेन संछिन्नं पपात रणमंडले ५९।
तन्मोहनं महास्त्रं तु निष्फलं वीक्ष्य भूमिपे ।
अत्यंतं विस्मयं प्राप्य बाणं धनुषि संदधे ६०।
लवणो येन निहतो महासुरविमर्दनः ।
तं बाणं चाप आधत्त घोरं कान्त्यानलप्रभम् ६१।
तं वीक्ष्य राजा प्रोवाच बाणोऽयमसतां हृदि ।
लगते रामभक्तस्य संमुखेऽपि न भात्यसौ ६२।
इत्येवं भाषमाणं तु बाणेनानेन शत्रुहा ।
विव्याध हृदये क्षिप्रं वह्निज्वालासमप्रभम् ६३।
तेन बाणेन दुःखार्तो महापीडासमन्वितः ।
रथोपस्थे क्षणं मूर्च्छामवाप परतापनः ६४।
स क्षणात्तां व्यथां तीर्त्वा जगाद रिपुमग्रतः ।
सहस्वैकं प्रहारं मे कुत्र यासि ममाग्रतः ६५।
एवमुक्त्वा महासंख्ये बाणमाधत्त सायके ।
ज्वालामालापरीतांगं स्वर्णपुंखसमन्वितम् ६६।
स बाणो धनुषो मुक्तः शत्रुघ्नेन पथिस्थितः ।
छिन्नोऽप्यग्रफलेनाशु हृदये समपद्यत ६७।
तेन बाणेन संमूर्छ्य पपात स्यंदनोपरि ।
ततो हाहाकृतं सैन्यं भग्नं सर्वं पराद्रवत् ६८।
सुरथो जयमापेदे संग्रामे रामसेवकः ।
दशवीरा दशसुतैर्मूर्च्छिताः पतिताः क्वचित् ६९।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सुरथविजयोनाम द्विपंचाशत्तमोऽध्यायः ५२।
खण्डः ५ (पातालखण्डः) — Adhyāya 53
सुग्रीवस्तु तत्कटकं भग्नं वीक्ष्य रणांगणे ।
स्वामिनं मूर्च्छितं वापि ययौ योद्धुं नृपं प्रति १।
आगच्छ भूप सर्वान्नो मूर्च्छयित्वा कुतो भवान् ।
गच्छति क्षिप्रं मां देहि युद्धं रणविशारद २।
एवमुक्त्वा नगं कंचिद्विशालं शाखया युतम् ।
उत्पाट्य प्राहरत्तस्य मस्तके बलसंयुतः ३।
तेन प्रहारेण महाबलो नृपः ।
संवीक्ष्यसु ग्रीवमथो स्वचापे ।
बाणान्समाधाय शितान्सरोषा ।
ज्जघान वक्षस्यतिपौरुषो बली ४।
तान्बाणान्व्यधमत्सर्वान्सुग्रीवः सहसा हसन् ।
ताडयामास हृदये सुरथं सुमहाबलः ५।
पर्वतैः शिखरैश्चैव नगैर्द्विरदवर्ष्मभिः ।
वेगात्संताडयामास दारयन्सुरथं नखैः ६।
तमप्याशु बबंधास्त्राद्रामसंज्ञात्सुदारुणात् ।
बद्धः कपिवरो मेने सुरथं रामसेवकम् ७।
गजो यथायसमयीं शृंखलां पादलंबिताम् ।
प्राप्य किंचिन्न वै कर्तुं शक्नोति स तथा ह्यभूत् ८।
जितं तेन महाराज्ञा सुरथेन सुपुत्रिणा ।
सर्वान्वीरान्रथे स्थाप्य ययौ स्वनगरं प्रति ९।
गत्वा सभायां सुमहान्बद्धं मारुतिमब्रवीत् ।
स्मर श्रीरघुनाथं त्वं दयालुं भक्तपालकम् १०।
यथा त्वां बंधनात्सद्यो मोचयिष्यति सुष्ठुधीः ।
नान्यथायुतवर्षेण मोचयिष्यामि बंधनात् ११।
इत्युक्तमाकर्ण्य समीरजस्तदा ।
सुबद्धमात्मानमवेक्ष्य वीरान् ।
संमूर्च्छिताञ्छत्रुशराभिघात -।
पीडायुतान्बंधनमुक्तये स्मरत् १२।
श्रीरामचंद्रं रघुवंशजातं सीतापतिं पंकजपत्रनेत्रम् ।
स्वमुक्तये बंधनतः कृपालुं सस्मार सर्वैः करणैर्विशोकैः १३।
हनूमानुवाच।
हा नाथ हा नरवरोत्तम हा दयालो ।
सीतापते रुचिरकुंतलशोभिवक्त्र ।
भक्तार्तिदाहक मनोहररूपधारिन् ।
मां बंधनात्सपदि मोचय मा विलंबम् १४।
संमोचितास्तु भवता गजपुंगवाद्याः ।
देवाश्च दानवकुलाग्नि सुदह्यमानाः ।
तत्सुंदरीशिरसिसंस्थितकेशबंधः ।
संमोचितस्तु करुणालय मां स्मरस्व १५।
त्वं यागकर्मनिरतोऽसि मुनीश्वरेंद्रै ।
र्धर्मं विचारयसि भूमिपतीड्यपाद ।
अत्राहमद्य सुरथेन विगाढपाश -।
बद्धोस्मि मोचय महापुरुषाशु देव १६।
नो मोचयस्यथ यदि स्मरणातिरेकात् ।
त्वं सर्वदेववरपूजितपादपद्म ।
लोको भवंतमिदमुल्लसितोऽहसिष्य -।
त्तस्माद्विलंबमिह माचर मोचयाशु १७।
इति श्रुत्वा जगन्नाथो रघुवीरः कृपानिधिः ।
भक्तं मोचयितुं प्रागात्पुष्पकेणाशुवेगिना १८।
लक्ष्मणेनानुगेनाथ भरतेन सुशोभितम् ।
मुनिवृंदैर्व्यासमुख्यैः समेतं ददृशे कपिः १९।
तमागतं निजं नाथं वीक्ष्य भूपं समब्रवीत् ।
पश्य राजन्निजं मोक्तुमायातं कृपया हरिम् २०।
अनेके मोचिताः पूर्वं स्मरणात्सेवका निजाः ।
तथा मां पाशतो बद्धं संमोचयितुमागतः २१।
श्रीरामभद्रमायांतं वीक्ष्यासौ सुरथः क्षणात् ।
नतीश्च शतशश्चक्रे भक्तिपूरपरिप्लुतः २२।
श्रीरामस्तं निजैर्दोर्भिः परिरेभे चतुर्भुजः ।
मूर्ध्नि सिंचन्नश्रुजलैर्हर्षाद्भक्तं स्वकं मुहुः २३।
उवाच धन्यदेहोऽसि महत्कर्म कृतं त्वया ।
कपीश्वरस्त्वया बद्धो हनूमान्सर्वतो बलः २४।
श्रीरामः कपिवर्यं तं मोचयामास बंधनात् ।
मूर्छितांस्तान्भटान्सर्वान्वीक्ष्य दृष्ट्या स्वजीवयत् २५।
ते मूर्च्छां तत्यजुर्दृष्टा रामेण सुरसेविना ।
उत्थिता ददृशुः श्रीमद्रामचंद्रं मनोरमम् २६।
प्रणतास्ते रघुपतिं तेन पृष्टा अनामयम् ।
सुखीभूता नृपं प्रोचुः सर्वं स्वकुशलं नृपाः २७।
सुरथो वीक्ष्य रामं च कृपार्थं सेवकात्मनः ।
आगतं सकलं राज्यं सहयं सुमुदार्पयत् २८।
अनेकवरिवस्याभिः श्रीरामं समतोषयत् ।
कथयामास मेऽन्याय्यं कृतं ते क्षम राघव ।
श्रीरामस्तमुवाचाथ कृतं ते वाहरक्षणम् २९।
क्षत्त्रियाणामयं धर्मः स्वामिना सह युद्ध्यते ।
त्वया साधुकृतं कर्म रणे वीराः प्रतोषिताः ३०।
इत्युक्तवंतं नृहरिं पूजयन्ससुतोऽभवत् ।
श्रीरामस्त्रिदिनं स्थित्वा ययौ तमनुमंत्र्य च ३१।
कामगेन विमानेन मुनिभिः सहितो महान् ।
तं दृष्ट्वा विस्मितास्तस्य कथाश्चक्रुर्मनोहराः ३२।
चंपकं स्वपुरे स्थाप्य सुरथः क्षत्रियो बली ।
शत्रुघ्नेन समं यातुं मनश्चक्रे महाबलः ३३।
शत्रुघ्नः स्वहयं प्राप्य भेरीनादानकारयत् ।
शंखनादान्बहुविधान्सर्वत्र समवादयत् ३४।
सुरथेन समं वीरो यज्ञवाहममूमुचत् ।
स बभ्रामापरान्देशान्न कोपि जगृहे बली ३५।
यत्रयत्र गतो वाहस्तत्रतत्र परिभ्रमन् ।
सैन्येन महता यातः शत्रुघ्नः सुरथेन च ३६।
कदाचिज्जाह्नवीतीरे वाल्मीकेराश्रमं वरम् ।
गतो मुनिवरैर्जुष्टं प्रातर्धूमेन चिह्नितम् ३७।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथसमागमोनाम त्रिपंचाशत्तमोऽध्यायः ५३।
खण्डः ५ (पातालखण्डः) — Adhyāya 54
शेष उवाच।
गतः प्रातःक्रियां कर्तुं समिधस्तत्क्रियार्हकाः ।
आनेतुं जानकीसूनुर्वृतो मुनिसुतैर्लवः १।
ददर्श तत्र यज्ञाश्वं स्वर्णपत्रेण चिह्नितम् ।
कुंकुमागरुकस्तूरी दिव्यगंधेन वासितम् २।
विलोक्य जातकुतुको मुनिपुत्रानुवाच सः ।
अर्वा कस्य मनोवेगः प्राप्तो दैवान्मदाश्रमम् ३।
आगच्छंतु मया सार्धं प्रेक्षंतां मा भयं कृथाः ।
इत्युक्त्वा स लवस्तूर्णं वाहस्य निकटे गतः ४।
स रराज समीपस्थो वाहस्य रघुवंशजः ।
धनुर्बाणधरः स्कंधे जयंत इव दुर्जयः ५।
गत्वा मुनिसुतैः सार्धं वाचयामास पत्रकम् ।
भालस्थितं स्पष्टवर्णराजिराजितमुत्तमम् ६।
विवस्वतो महान्वंशः सर्वलोकेषु विश्रुतः ।
यत्र कोपि पराबाधी न परद्रव्यलंपटः ७।
सूर्यवंशध्वजो धन्वी धनुर्दीक्षा गुरुर्गुरुः ।
यं देवाः सामराः सर्वे नमंति मणिमौलिभिः ८।
तस्यात्मजो वीर बलदर्पहारी रघूद्वहः ।
रामचंद्रो महाभागः सर्वशूरशिरोमणिः ९।
तन्माता कोशलनृपपुत्रीरत्नसमुद्भवा ।
तस्याः कुक्षिभवं रत्नं रामः शत्रुक्षयंकरः १०।
करोति हयमेधं स ब्राह्मणेन सुशिक्षितः ।
रावणाभिधविप्रेंद्र वधपापापनुत्तये ११।
मोचितस्तेन वाहानां मुख्योऽसौ याज्ञिको हयः ।
महाबलपरीवारो परिखाभिः सुरक्षितः १२।
तद्रक्षकोऽस्ति मद्भ्राता शत्रुघ्नो लवणांतकः ।
हस्त्यश्वरथपादातसंघसेनासमन्वितः १३।
यस्य राज्ञ इति श्रेष्ठो मानो जायेत्स्वकान्मदात् ।
शूरा वयं धनुर्धारि श्रेष्ठा वयमिहोत्कटाः १४।
ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम् ।
मनोवेगं कामजवं सर्वगत्याधिभास्वरम् १५।
ततो मोचयिता भ्राता शत्रुघ्नो लीलया हठात् ।
शरासनविनिर्मुक्त वत्सदंतकृतव्यथात् १६।
ये क्षत्रियाः क्षत्रियकन्यकायां ।
जाताश्च सत्क्षेत्रकुलेषु सत्सु ।
गृह्णंतु ते तद्विपरीतदेहा ।
नमंतु राज्यं रघवे निवेद्य १७।
इति संवाच्य कुपितो लवः शस्त्रधनुर्धरः ।
उवाच मुनिपुत्रांस्तान्रोषगद्गदभाषितः १८।
पश्यत क्षिप्रमेतस्य धृष्टत्वं क्षत्रियस्य वै ।
लिलेख यो भालपत्रे स्वप्रतापबलं नृपः १९।
कोऽसौ रामः कः शत्रुघ्नः कीटाः स्वल्पबलाश्रिताः ।
क्षत्रियाणां कुले जाता एते न वयमुत्तमाः २०।
एतस्य वीरसूर्माता जानकी न कुशप्रसूः ।
या रत्नं कुशसंज्ञं तु दधाराग्निमिवारणिः २१।
इदानीं क्षत्रियत्वादि दर्शयिष्यामि सर्वतः ।
यदि क्षत्रियभूरेष भविष्यति च शत्रुहा २२।
गृहीष्यति मया बद्धं वाहं यज्ञक्रियोचितम् ।
नोचेत्क्षत्रत्वमुन्मुच्य कुशस्य चरणार्चकः २३।
अधुना मद्धनुर्मुक्तैः शरैः सुप्तो भविष्यति ।
अन्ये ये च महावीरा रणमंडलभूषणाः २४।
इत्यादिवाक्यमुच्चार्य लवो जग्राह तं हयम् ।
तृणीकृत्य नृपान्सर्वांश्चापबाणधरो वरः २५।
तदा मुनिसुताः प्रोचुर्लवं हयजिहीर्षकम् ।
अयोध्यानृपती रामो महाबलपराक्रमः २६।
तस्य वाहं न गृह्णाति शक्रोऽपि स्वबलोद्धतः ।
मा गृहाण शृणुष्वेदं मद्वाक्यं हितसंयुतम् २७।
इत्युक्तं स श्रुतौ धृत्वा जगाद स द्विजात्मजान् ।
यूयं बलं न जानीथ क्षत्रियाणां द्विजोत्तमाः २८।
क्षत्रिया वीर्यशौंडीर्या द्विजा भोजनशालिनः ।
तस्माद्यूयं गृहे गत्वा भुंजंतु जननी हृतम् २९।
इत्युक्तास्तेऽभवंस्तूष्णीं प्रेक्षंतस्तत्पराक्रमम् ।
लवस्य मुनिपुत्रास्ते संतस्थुर्दूरतो बहिः ३०।
एवं व्यतिकरे वृत्ते सेवकास्तस्य भूपतेः ।
आयातास्तं हयं बद्धं दृष्ट्वा प्रोचुस्तदा लवम् ३१।
बबंध को हयमहो रुष्टः कस्य च धर्मराट् ।
को बाणव्रजमध्यस्थः प्राप्स्यते परमां व्यथाम् ३२।
तदा लवो जगादाशु मया बद्धोऽश्व उत्तमः ।
यो मोचयति तस्याशु रुष्टो भ्राता कुशो महान् ३३।
यमः करिष्यति किमु ह्यागतोऽपि स्वयं प्रभुः ।
नत्वा गमिष्यति क्षिप्रं शरवृष्ट्या सुतोषितः ३४।
शेष उवाच।
इति वाक्यं समाकर्ण्य बालोयमिति तेब्रुवन् ।
समागता मोचयितुं हयं बद्धं तु ये हरेः ३५।
तान्वैमोचयितुं प्राप्ताञ्छत्रुघ्नस्य च सेवकान् ।
कोदंडं करयोर्धृत्वा क्षुरप्रान्सममूमुचत् ३६।
ते छिन्नबाहवः शोकाच्छत्रुघ्नं प्रतिसंगताः ।
पृष्टास्ते जगदुः सर्वे लवात्स्वभुजकृंतनम् ३७।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे लवेन हयबंधनंनाम चतुःपंचाशत्तमोऽध्यायः ५४।
खण्डः ५ (पातालखण्डः) — Adhyāya 55
व्यास उवाच।
एतां श्रुत्वा कथां रम्यां लवस्य बलिनो मुनिः ।
संशयानः पर्यपृच्छन्नागं दशशताननम् १।
श्रीवात्स्यायन उवाच।
त्वयोक्तं तु पुरा रामः सीतामेकाकिनीं वने ।
रजकस्य दुरुक्त्यासौ तत्याज महि लोलुपः २।
जानक्यां क्व सुतौ जातौ क्व धनुर्धरतां गतौ ।
कथं च शिक्षिता विद्या यो रामहयमाहरत् ३।
व्यास उवाच।
इति श्रुत्वा मुनेर्वाक्यं शेषो नागो महामतिः ।
प्रशस्य विप्रं जगदे रामचारित्रमद्भुतम् ४।
शेष उवाच।
रामो राज्यमयोध्यायां भ्रातृभिः सहितोऽकरोत् ।
धर्मेण पालयन्सर्वं क्षितिखंडं स्वया स्त्रिया ५।
सीता दधार तद्वीर्यं मासाः पंचाभवंस्तदा ।
अत्यंतं शुशुभे देवी त्रयीव पुरुषं धरा ६।
कदाचित्समये रामः पप्रच्छ च विदेहजाम् ।
कीदृशो दोहदः साध्वि मया ते साध्यते हि सः ७।
रहस्येव तु सा पृष्टा त्रपमाणा पतिं सती ।
लज्जा गद्गद वाग्रामं निजगाद वचोऽमृतम् ८।
सीतोवाच।
त्वत्कृपातो मया सर्वं भुक्तं भोक्ष्यामि शोभनम् ।
न कश्चिन्मानसे कांत विषयो ह्यतिरिच्यते ९।
यस्याभवादृशः स्वामी देवसंस्तुतसत्पदः ।
तस्याः सर्वं वरीवर्ति न किंचिदवशिष्यते १०।
त्वमाग्रहात्पृच्छसि मां दोहदं मनसि स्थितम् ।
ब्रवीमि पुरतः सत्यं तव स्वामिन्मनोहर ११।
चिरं जातं मया सत्यो लोपामुद्रादिकाः स्त्रियः ।
दृष्ट्वा स्वामिन्मनो द्रष्टुं ता उत्सुकति सुंदरीः १२।
राज्यं प्राप्ता त्वया सार्द्धमनेकसुखमास्थिता ।
कृतघ्नाहं कदापीह ता नमस्कर्तुमानसा १३।
तत्र गत्वा तपःकोशान्वस्त्राद्यैः परिपूजये ।
रत्नानि चैव भास्वंति भूषा अपि समर्पये १४।
यथा मे तोषिताः सत्यो ददत्याशीर्मनोहराः ।
एष मे दोहदः कांत परिपूरय मानसः १५।
इत्थमाकर्ण्य वचनं सीतायाः सुमनोहरम् ।
जगाद परमप्रीतो रामचंद्रः प्रियां प्रति १६।
धन्यासि जानकी प्रातर्गमिष्यसि तपोधनाः ।
प्रेक्ष्यतास्तु कृतार्था त्वमागमिष्यसि मेंऽतिकम् १७।
इति रामवचः श्रुत्वा परमां प्रीतिमाप सा ।
प्रातर्मम भवत्यद्धा तापसीनां समीक्षणम् १८।
अथ तन्निशि रामेण चाराः कीर्तिं निजां श्रुताम् ।
प्रेक्षितुं प्रेषितास्ते तु निशीथे ह्यगमनञ्छनैः १९।
ते प्रत्यहं रामकथाः शृण्वंतः सुमनोहराः ।
तद्दिने गतवंतस्तु धनाढ्यस्य गृहं महत् २०।
दीपं वीक्ष्य प्रज्वलंतं वचनं वीक्ष्य मानुषम् ।
स्थितास्तत्र क्षणं चाराः समशृण्वन्यशो भृशम् २१।
तत्र काचन वामाक्षी बालकं प्रति हर्षिता ।
स्तनं धयंतं निजगौ वाक्यं तु सुमनोहरम् २२।
पिब पुत्र यथेष्टं त्वं स्तन्यं मम मनोहरम् ।
पश्चात्तव सुदुष्प्रापं भविष्यति ममात्मज २३।
एतत्पुर्याः पती रामो नीलोत्पलदलप्रभः ।
तत्पुरीस्थजनानां तु न भविष्यति वै जनुः २४।
जन्माभावात्कथं पानं स्तन्यस्य भुवि जायते ।
तस्मात्पिब मुहुः स्तन्यं दुर्ल्लभं हृदि मन्य च २५।
ये श्रीरामं स्मरिष्यंति ध्यायंति च वदंति ये ।
तेषामपि पयःपानं न भविष्यति जातुचित् २६।
इत्यादिवाक्यं संश्रुत्य श्रीरामयशसोऽमृतम् ।
हर्षिताः प्रययुर्गेहमन्यद्भाग्यवतो महत् २७।
तावदन्यश्चरस्तत्र मनोरममिदं गृहम् ।
मत्वा तिष्ठन्हि रामस्य क्षणं शुश्रूषया यशः २८।
तत्र काचिन्निजं कांतं पर्यंकोपरि सुस्थितम् ।
तांबूलं चर्वती दत्तं भर्त्तास्नेहेन सुंदरी २९।
कंकणस्वरशोभाढ्या कर्पूरागरुधूपिता ।
कांतं वीक्ष्य चलन्नेत्रा कामरूपमवोचत ३०।
नाथ त्वं तादृशो मह्यं भासि यादृग्रघोः पतिः ।
अत्यंतं सुंदरतरं वपुर्बिभ्रत्सुकोमलम् ३१।
पद्मप्रांतं नेत्रयुग्मं वक्षो मोहनविस्तृतम् ।
भुजौ च सांगदौ बिभ्रत्साक्षाद्राम इवासि मे ३२।
इति वाक्यं समाकर्ण्य कांतायाः सुमनोहरम् ।
उवाच नेत्रयोः प्रांतं नर्तयन्कामसुंदरः ३३।
शृणु कांते त्वया प्रोक्तं साध्व्या तु सुमनोहरम् ।
पतिव्रतानां तद्योग्यं स्वकांतो राम एव हि ३४।
परं क्वाहं मंदभाग्यः क्व रामो भाग्यवान्महान् ।
क्व चाहं कीटवत्तुच्छः क्व ब्रह्मादिसुरार्चितः ३५।
खद्योतः क्व नभोरत्नं शलभः क्व नु पामरः ।
गजारिः क्व मृगेंद्रोऽसौ शशकः क्व नु मंदधीः ३६।
क्व च सा जाह्नवी देवी क्व रथ्या जलमुत्पथम् ।
क्व मेरुः सुरसंवासः क्व गुंजापुंजकोल्पकः ३७।
तथाहं क्व क्व रामोऽसौ यत्पादरजसांगना ।
शिलीभूता क्षणाज्जाता ब्रह्ममोहनरूपधृक् ३८।
इति वाक्यं प्रब्रुवाणं परिरेभे निजं पतिम् ।
जातकामा हृतप्रेम्णा नर्तित भ्रू धनुर्धरा ३९।
इत्यादि वाक्यं संश्रुत्य गतश्चान्यनिवेशनम् ।
तावदन्यश्चरो वाक्यं शुश्राव यशसान्वितम् ४०।
काचित्पुष्पमयीं शय्यां चंदनं सह चंद्रकम् ।
सर्वं विधाय कामार्हं जगाद वचनं पतिम् ४१।
पते कुरुष्व भोगार्हे शयनं पुष्पमंचके ।
चंदनादिकलेपं च तथा भोगमनेकधा ४२।
त्वादृशा एव भोगार्हा न च रामपराङ्मुखाः ।
सर्वं रामकृपाप्राप्तमुपभुंक्ष्व यथातथम् ४३।
मत्सदृशी कामिनी ते चंदनं तापहारकम् ।
पर्यंकः पुष्परचितः सर्वं रामकृपाभवम् ४४।
ये रामं न भजिष्यंति ते नरा जठरं स्वयम् ।
न भर्तुं शक्नुवंत्येव वस्त्रभोगादि वर्जिताः ४५।
इति ब्रुवंतीं महिलां हर्षितः पतिरब्रवीत् ।
सर्वं तथ्यं ब्रवीषि त्वं मम रामकृपाभवम् ४६।
इत्येवं रामभद्रस्य यशः श्रुत्वा गतश्चरः ।
तावदन्यस्य वेश्मस्थश्चरोऽन्य शुश्रुवे वचः ४७।
काचित्कांतेन पर्यंके वीणावादनतत्परा ।
कांतेन रामसत्कीर्तिं गायमाना पतिं जगौ ४८।
स्वामिन्वयं धन्यतमा येषां पुर्याः पतिः प्रभुः ।
श्रीरामः स्वप्रजाः पुत्रानिव पाति च रक्षकः ४९।
यो महत्कर्मदुःसाध्यं कृतवान्सुलभं न तत् ।
समुद्रं यो निजग्राह सेतुं तत्र बबंध च ५०।
रावणं यो रिपुं हत्वा लंकां संभज्य वानरैः ।
जानकीमाजहारात्र महदाचारमाचरत् ५१।
इति प्रोक्तं समाकर्ण्य वचः सुमधुराक्षरम् ।
पतिः स्मितं चकारेमां वाक्यं पुनरथाब्रवीत् ५२।
मुग्धेनेदं महत्कर्म रामचंद्रस्य भामिनी ।
दशाननवधादीनि समुद्र दमनानि च ५३।
लीलयायोऽवनिं प्राप्तो ब्रह्मादिप्रार्थितो महान् ।
करोति सच्चरित्राणि महापापहराणि च ५४।
मा जानीहि नरं रामं कौसल्यानंददायकम् ।
सृजत्यवति हंत्येतद्विश्वं लीलात्तमानुषः ५५।
धन्या वयं ये रामस्य पश्यामो मुखपंकजम् ।
ब्रह्मादिसुरदुर्दर्शं महत्पुण्यकृतो वयम् ५६।
अशृणोद्रामचंद्रस्य चरित्रं श्रुतिसौख्यदम् ।
इत्यादिवाक्यं शुश्राव चारो द्वारिस्थितो मुहुः ५७।
अन्यो ह्यन्यं गृहं गत्वा तस्थौ श्रोतुं हरेर्यशः ।
तत्रापि रामभद्रस्य यशः शुश्राव शोभनम् ५८।
खेलंती स्वामिना सार्धं द्यूतेन सुमनोहरा ।
उवाच वाक्यं मधुरं नर्तयंतीव कंकणे ५९।
जितं मया कांत जवेन सर्वं ।
करिष्यसि त्वं किमु हारिमानसः ।
इत्यादि वाक्यं परिहासपूर्वकं ।
कृत्वा स्वकांतं परिषस्वजे मुदा ६०।
उवाच कांतश्चार्वंगि जितमेव सुशोभने ।
रामं मे स्मरतो नित्यं न कुत्रापि पराजयः ६१।
इदानीं त्वां तु जेष्यामि रामं स्मृत्वा मनोहरम् ।
देवा यथा पुरा स्मृत्वा दितिजानजयन्क्षणात् ६२।
एवमुक्त्वा पाशकानां परिवर्तनमाकरोत् ।
तावज्जयं प्रपेदेऽसौ हर्षितो वाक्यमब्रवीत् ६३।
मम प्रोक्तमृतं जातं जिता त्वं नवयौवना ।
रामस्मारी कदाप्येव न भवेद्रिपुतो भयी ६४।
इत्येवं तौ वदंतौ च परस्परमथोत्सुकौ ।
परिरभ्य दृढं प्रेम्णा ततश्चारो गतो गृहम् ६५।
एवं पंचमहाचारा राज्ञः संश्रुत्य वै यशः ।
परस्परं प्रशंसंतो गेहं स्वं स्वं ययुर्मुदा ६६।
एकः षष्ठश्चरः कारुगेहानालोक्य तत्र ह ।
जगाम श्रोतुकामोऽसौ यशो राज्ञो महीपतेः ६७।
रजकः क्रोधसंस्पृष्टो भार्यामन्यगृहोषिताम् ।
पदा संताडयामास धिक्कुर्वञ्छोणनेत्रवान् ६८।
गच्छ त्वं मद्गृहात्तस्य गेहं यत्रोषिता दिनम् ।
नाहं गृह्णामि भवतीं दुष्टां वचनलंघिनीम् ६९।
तदास्य माता प्रोवाच मा त्यजैनां गृहागताम् ।
अपराधेन रहितां दुष्टकर्मविवर्जिताम् ७०।
मातरं प्रत्युवाचाथ रजकः क्रोधसंयुतः ।
नाहं रामइव प्रेष्ठां गृह्णाम्यन्यगृहोषिताम् ७१।
स राजा यत्करोत्येव तत्सर्वं नीतिमद्भवेत् ।
अहं गृह्णामि नो भार्यां परवेश्मनि संस्थिताम् ७२।
पुनःपुनरुवाचेदं नाहं रामो महीश्वरः ।
यः परस्य गृहे संस्थां जानकीं वै ररक्ष सः ७३।
इति वाक्यं समाश्रुत्य चारः क्रोधपरिप्लुतः ।
खड्गं गृहीत्वा स्वकरे तं हंतुं विदधे मनः ७४।
स रामोक्तं च सस्मार न वध्यः कोपि मे जनः ।
इति ज्ञात्वा सरोषं तु संजहार महामनाः ७५।
तदा श्रुत्वा सुदुःखार्तः पंचचारा यतः स्थिताः ।
ततो गतः प्रकुपितो निःश्वसन्मुहुरुच्छ्वसन् ७६।
ते वै परस्परं तत्र मिलितास्तु समब्रुवन् ।
स्वश्रुतं रामचरितं सर्वलोकैकपूजितम् ७७।
ते तद्भाषितमाकर्ण्य परस्परममंत्रयन् ।
न वाच्यं रघुनाथाया वाच्यं दुष्टजनोदितम् ७८।
इति संमंत्र्य ते गेहं गत्वा सुषुपुरुत्सुकाः ।
प्राता राज्ञे प्रशंसाम इति बुद्ध्या व्यवस्थिताः ७९।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे चारनिरीक्षणंनाम पंचपंचाशत्तमोऽध्यायः ५५।
खण्डः ५ (पातालखण्डः) — Adhyāya 56
शेष उवाच।
प्रातर्नित्यं विधायासौ ब्राह्मणान्वेदवित्तमान् ।
हिरण्यदानैः संतर्प्य विधिवत्संसदं ययौ १।
लोकाः सर्वे नमस्कर्तुं रघुनाथं महीपतिम् ।
पुत्रवत्स्वप्रजाः सर्वाः पालयंतं ययुः सभाम् २।
लक्ष्मणेनातपत्रं तु धृतं मूर्धनि भूपतेः ।
तदा भरतशत्रुघ्नौ चामरद्वंद्व धारिणौ ३।
वसिष्ठप्रमुखास्तत्र मुनयः पर्युपासत ।
सुमंत्रप्रमुखास्तत्र मंत्रिणो न्यायकर्तृकाः ४।
एवं प्रवृत्ते समये षट्चारास्ते स्वलंकृताः ।
समाजग्मुर्नरपतिं नमस्कर्तुं सभास्थितम् ५।
तान्वक्तुकामान्संवीक्ष्य चारान्नृपतिसत्तमः ।
सभायामंतरावेश्म रहः प्राविशदुत्सुकः ६।
एकांते तांश्चरान्सर्वान्पप्रच्छ सुमतिर्नृपः ।
कथयंतु चरा मह्यं यथातथ्यमरिंदमाः ७।
लोका ब्रुवंति मां कीदृग्भार्याया मम कीदृशम् ।
मंत्रिणां कीदृशं लोका वदंति चरितं कथम् ८।
इति वाक्यं समाकर्ण्य चारा राममथाब्रुवन् ।
मेघगंभीरया वाचा पृच्छंतं रघुनायकम् ९।
चारा ऊचुः।
नाथ कीर्तिर्जनान्सर्वान्पावयत्यधुना भुवि ।
गृहेगृहे श्रुतास्माभिः पुरुषैः स्त्रीभिरीडिता १०।
विवस्वतो महान्वंशो भवता परमेष्ठिना ।
अलंकर्तुं गतं भूमौ कीर्तिर्विस्तारिता बहुः ११।
अनेके सगराद्याश्च कीर्तिमंतो महाबलाः ।
अभवंस्तादृशी कीर्तिस्तेषां नाभूद्यथा तव १२।
त्वया नाथेन सकलाः कृतार्थाश्च प्रजाः कृताः ।
यासां नाकालमरणं न च रागाद्युपद्रुतिः १३।
यादृशश्चंद्रमालोके यादृशी जाह्नवी सरित् ।
तादृक्तव च सत्कीर्तिः प्रकाशयति भूतलम् १४।
ब्रह्मादिका भवत्कीर्तिमाकर्ण्य त्रपिता भृशम् ।
नाथ सर्वत्र ते कीर्तिः पावयत्यधुना जनान् १५।
वयं धन्यतमाः सर्वे ये चारास्तव भूपते ।
क्षणेक्षणे तव मुखं लोकयाम मनोहरम् १६।
इत्यादिवाक्यं चाराणां पंचानां वीक्ष्य राघवः ।
षष्ठं पप्रच्छ चारं तं विलक्षणमुखांकितम् १७।
राम उवाच।
सत्यं वद महाबुद्धे यच्छ्रुतं लोकसंकरे ।
तादृक्प्रशंस मे सर्वमन्यथा पातकादिकृत् १८।
पुनः पुनश्च तं रामः पप्रच्छाशु सविस्तरम् ।
तथापि न ब्रवीत्येव रामं लौकिकभाषितम् १९।
तदा रामः प्रत्यवोचच्चारं मुखविलक्षितम् ।
शपामि त्वां तु सत्येन शंस सर्वं यथातथम् २०।
तदा रामं प्रत्युवाच चारो वाक्यं शनैः शनैः ।
अकथ्यमपि ते वाच्यं वाक्यं कारुजनोदितम् २१।
चार उवाच।
स्वामिन्सर्वत्र ते कीर्तिर्दशाननवधादिका ।
अन्यत्र राक्षसगृहे स्थितायास्ते स्त्रिया अहो २२।
कारुरेकस्तु रजको निशीथे महिलां स्वकाम् ।
अन्यगेहोषितां दृष्ट्वा धिक्कुर्वन्समताडयत् २३।
तन्माता प्रत्युवाचेमां कथं ताडयसेऽनघाम् ।
गृहाण मा कृथा निंदां स्त्रियं मद्वाक्यमाचर २४।
तदावोचत्स रजको नाहं रामो महीपतिः ।
यद्राक्षसगृहेध्युष्टां सीतामंगीचकार सः २५।
सर्वं राज्ञः कृतं कर्म नीतिमद्भवति प्रभो ।
अन्येषां पुण्यकर्तॄणामपि कृत्यमनीतिमत् २६।
पुनः पुनरुवाचासौ नाहं रामो महीपतिः ।
चुक्रुधे समये राजन्मया वाक्यं तव स्मृतम् २७।
तदानीं शिर आच्छिद्य पातयामि महीतले।
कृतः पुनर्विचारोमे क्व रामो रजकः क्व नु २८।
अयं दुष्टोऽनृतं वक्ति न हीदं तथ्यमुच्यते ।
आज्ञापयसि चेद्राम सांप्रतं मारयामि तम् २९।
अवाच्यमपि ते प्रोक्तं त्वदाग्रहत उन्नयम् ।
राजा प्रमाणमत्रेदं विचारयतु संगतम् ३०।
शेष उवाच।
इति वाक्यं समाकर्ण्य महावज्रनिभाक्षरम् ।
निःश्वसन्मुहुरुच्छ्वासमाचरन्मूर्च्छितोऽपतत् ३१।
तं मूर्च्छितं नृपं दृष्ट्वा चारा दुःखसमन्विताः ।
वीजयामासुर्वासोग्रैर्दुःखापनय हेतवे ३२।
स लब्धसंज्ञो नृपतिर्मुहूर्तेन जगाद तान् ।
गच्छंतु भरतं शीघ्रं प्रेषयंतु च मां प्रति ३३।
ते दुःखिताश्चरास्तूर्णं भरतस्य गृहं गताः ।
कथयामासु रामस्य संदेशं नयहारकाः ३४।
भरतो रामसंदेशं श्रुत्वा धीमान्ययौ सदः ।
रामं प्रति रहःसंस्थं श्रुत्वा तं त्वरया युतः ३५।
आगत्य तं प्रतीहारं प्रत्युवाच महामनाः ।
कुत्रास्ते रामभद्रोऽसौ मम भ्राता कृपानिधिः ३६।
तन्निर्दिष्टं गृहं वीरो ययौ रत्नमनोहरम् ।
रामं विलोक्य विक्लांतं भयमाप स मानसे ३७।
किं वासौ कुपितो रामः किं वा दुःखमिदं विभोः ।
तदा प्रोवाच नृपतिं निःश्वसंतं मुहुर्मुहुः ३८।
स्वामिन्सुखसमाराध्यं वक्त्रं ते कथमानतम् ।
अश्रुभिर्लक्ष्यते राहुग्रस्तदेहः शशीव ते ३९।
सर्वं मे कारणं तथ्यं ब्रूहि मां किं करोमि ते ।
त्यज दुःखं महाराज कथं दुःखस्य भाजनम् ४०।
एवं भ्रात्रा प्रोच्यमानो गद्गदस्वरया गिरा ।
प्रोवाच भ्रातरं वीरो रामचंद्रश्च धार्मिकः ४१।
शृणु भ्रातर्वचो मह्यं मम दुःखस्य कारणम् ।
तन्मार्जनं कुरुष्वाद्य भ्रातः प्रातर्महामते ४२।
वंशे वैवस्वते राजा न कश्चिदयशः क्षतः ।
मत्कीर्तिरद्य कलुषा गंगायमुनया गता ४३।
येषां यशो नृणां भूमौ तेषामेव सुजीवितम् ।
अपकीर्तिक्षतानां तु जीवितं मृतकैः समम् ४४।
येषां यशो भवेद्भूमौ तेषां लोकाः सनातनाः ।
अपकीर्त्युरगी दष्टास्तेषां भूयादधोगतिः ४५।
अद्य मे कलुषा कीर्तिः स्वर्धुनी लोकविश्रुता ।
तच्छृणुष्व वचो मेऽद्य रजकेन यथोदितम् ४६।
अस्मिन्पुरेऽद्य रजक उक्तवाञ्जानकीभवम् ।
किंचिद्वाच्यं ततो भ्रातः किं करोमि महीतले ४७।
किमात्मानं जहाम्यद्य किमेनां जानकीं स्त्रियम् ।
उभयोः किं मया कार्यं तत्तथ्यं ब्रूहि मे भवान् ४८।
इत्युक्त्वा निर्गलद्बाष्पो वेपथु क्षुभितांगकः ।
पपात भूमौ विरजो धार्मिकाणां शिरोमणिः ४९।
भ्रातरं पतितं दृष्ट्वा भरतो दुःखसंयुतः ।
संवीक्ष्य शनकै रामं प्राप्तसंज्ञं चकार सः ५०।
संज्ञां प्राप्तं तु संवीक्ष्य रामचंद्रं सुदुःखितम् ।
उवाच दुःखनाशाय वाक्यं तु सुमनोहरम् ५१।
कोऽयं वै रजकः किंतु वाच्यं वाक्यं यथाब्रवीत् ।
जिह्वाच्छेदं करिष्यामि जानकीवाच्यकारिणः ५२।
तदा रामोऽब्रवीद्वाक्यं रजकस्य मुखोद्गतम् ।
श्रुतं चारेण तत्सर्वं भरताय महात्मने ५३।
तच्छ्रुत्वा भरतः प्राह भ्रातरं दुःखशोकिनम् ।
जानकीवह्निशुद्धाभूल्लंकायां वीरपूजिता ५४।
ब्रह्माब्रवीदियं शुद्धा पिता दशरथस्तव ।
कथं सा रजकोक्तित्वाद्धातव्या लोकपूजिता ५५।
ब्रह्मादिसंस्तुता कीर्तिस्तवलोकान्पुनाति हि ।
सा कथं रजकोक्त्या वै कलुषाद्य भविष्यति ५६।
तस्मात्त्यज महादुःखं सीतावाच्यसमुद्भवम् ।
कुरु राज्यं तया सार्धमंतर्वत्न्या सुभाग्यया ५७।
त्वं कथं स्वशरीरं तु हातुमिच्छसि शोभनम् ।
वयं हताः स्म सर्वेऽद्य त्वां विना दुःखनाशकम् ५८।
क्षणं सीता न जीवेत त्वां विना सुमहोदया ।
तस्मात्पतिव्रता साकं भुनक्तु विपुलां श्रियम् ५९।
इति वाक्यं समाकर्ण्य भरतस्य च धार्मिकः ।
पुनरेव जगादेमं वाक्यं वाक्यविदां वरः ६०।
यत्त्वं कथयसि भ्रातस्तत्सर्वं धर्मसंयुतम् ।
परं यद्वच्म्यहं वाक्यं तत्कुरुष्व ममाज्ञया ६१।
जानाम्येनां वह्निशुद्धां पवित्रां लोकपूजिताम् ।
लोकापवादाद्भीतोऽहं त्यजामि स्वां तु जानकीम् ६२।
तस्मात्करे शितं धृत्वा करवालं सुदारुणम् ।
शिरश्छिंध्यथवा जायां जानकीं मुंच वै वने ६३।
इति वाक्यं समाकर्ण्य रामस्य भरतोऽपतत् ।
मूर्च्छितः सन्क्षितौ देहे कंपयुक्तः सबाष्पकः ६४।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे भरतवाक्यंनाम षट्पंचाशत्तमोऽध्यायः ५६।
खण्डः ५ (पातालखण्डः) — Adhyāya 57
वात्स्यायन उवाच।
जगत्पवित्रसत्कीर्ति जानक्या वाच्यवाचनम् ।
कथं समकरोत्स्वामी तन्मे कथय सुव्रत १।
यथा मे मनसः सौख्यं भविष्यति सुशोभनम् ।
तथा कुरुष्व शेषाद्य त्वन्मुखान्निःसृतामृतम् ।
पिबतस्तृप्तिरेव स्याद्यया संसृतिकृं तनम् २।
शेष उवाच।
मिथिलायां महापुर्यां जनको नाम भूपतिः ।
तस्यां करोति सद्राज्यं धर्मेणाराधयन्प्रजाः ३।
तस्य संकर्षतो भूमिं सीतया दीर्घमुख्यया ।
सीरध्वजस्य निरगात्कुमारी ह्यतिसुंदरी ४।
तदात्यंतं मुदं प्राप्तः सीरकेतुर्महीपतिः ।
सीता नामाकरोत्तस्या मोहिन्या जगतः श्रियः ५।
सैकदोद्यानविपिने खेलंती सुमनोहरा ।
अपश्यत्स्वमनःकांतं शुकशुक्योर्युगं वदत् ६।
अत्यंतं हर्षमापन्नमत्यंतं कामलोलुपम् ।
परस्परं भाषमाणं स्नेहेन शुभया गिरा ७।
रममाणं तदा युग्मं नभसि क्षिप्रवेगतः ।
समुत्पतन्नगोपस्थे स्थितं शब्दं चकार तत् ८।
रामो महीपतिर्भूमौ भविष्यति मनोहरः ।
तस्य सीतेति नाम्ना तु भविष्यति महेलिका ९।
स तया सह वर्षाणां सहस्राण्येकयुग्दश ।
राज्यं करिष्यते धीमान्कर्षन्भूमिपतीन्बली १०।
धन्या सा जानकी देवी धन्योऽसौ रामसंज्ञितः ।
यौ परस्परमापन्नौ पृथिव्यां रंस्यतो मुदा ११।
इति संभाष्यमाणं तु शुकयुग्मं तु मैथिली ।
ज्ञात्वेदं देवतायुग्मं वाणीं तस्य विलोक्य च १२।
मदीयास्तु कथा रम्याः कुरुते शुकयोर्युगम् ।
एतद्गृहीत्वा पृच्छामि सर्वं वाक्यं गतार्थकम् १३।
एवं विचार्य सा स्वीयाः सखीः प्रतिजगाद ह ।
गृह्णंतु शनकैरेतत्पक्षियुग्मं मनोहरम् १४।
सख्यस्तास्तद्गिरिं गत्वा गृह्णन्पक्षियुगं वरम् ।
निवेदयामासुरिदं स्वसख्याः प्रियकाम्यया १५।
बहुधा विविधाञ्छब्दान्कुर्वद्वीक्ष्य मनोहरम् ।
आश्वासयामास तदा पप्रच्छ तदिदं वचः १६।
सीतोवाच।
मा भैषातां युवां रम्यौ कौ वां कुत्र समागतौ ।
को रामः का च सा सीता तज्ज्ञानं तु कुतः स्मृतम् १७।
तत्सर्वं शंसतं क्षिप्रं मत्तो वां व्येतु यद्भयम् ।
इति पृष्टं तया पक्षियुगं सर्वमशंसत १८।
पक्षियुग्ममुवाच।
वाल्मीकिरास्ते सुमहानृषिर्धर्मविदुत्तमः ।
आवां तदाश्रमस्थाने सर्वदा सुमनोहरे १९।
सशिष्यान्गापयामास भावि रामायणं मुनिः ।
प्रत्यहं तत्पदस्मारी सर्वभूतहिते रतः २०।
तदावाभ्यां श्रुतं सर्वं भावि रामायणं महत् ।
मुहुर्मुहुर्गीयमानमायातं परिपाठतः २१।
शृण्वावां तेऽभिधास्यावो यो रामो या च जानकी ।
यद्यद्भविष्यते तस्या रामेण क्रीडितात्मना २२।
ऋष्यशृंगकृतेष्ट्यां च चतुर्धा त्वंगतो हरिः ।
प्रादुर्भविष्यति श्रीमान्सुरस्त्रीगीतसत्कथः २३।
स कौशिकेन मिथिलां प्राप्स्यते भ्रातृसंयुतः ।
धनुष्पाणिस्तदा दृष्ट्वा दुर्ग्राह्यमन्यभूभुजाम् २४।
धनुर्भंक्त्वा जनकजां प्राप्स्यते सुमनोहराम् ।
तया सह महद्राज्यं करिष्यति श्रुतं वरे २५।
एतदन्यच्च तत्रस्थैः श्रुतमस्माभिरुद्गतैः ।
कथितं तव चार्वंगि मुंचावां गंतुकामुकौ २६।
इति वाक्यं तयोर्धृत्वा श्रोत्रयोः सुमनोहरम् ।
पुनरेवजगादेदं वाक्यं पक्षियुगं प्रति २७।
स रामः कुत्र वर्तेत कस्य पुत्रः कथं तु ताम् ।
परिग्रहीष्यति वरः कीदृग्रूपधरो नरः २८।
मया पृष्टमिदं सर्वं कथयंतु यथातथम् ।
पश्चात्सर्वं करिष्यामि प्रियं युष्मन्मनोहरम् २९।
तच्छ्रुत्वा तां तु कामेन पीडितां वीक्ष्य सा शुकी ।
जानकीं हृदये ज्ञात्वा पपाठ पुरतस्ततः ३०।
सूर्यवंशध्वजो धीमान्राजा पंक्तिरथो बली ।
यं देवाः श्रित्य सर्वारीन्विजेष्यंति च सर्वशः ३१।
तस्य भार्यात्रयं भावि शक्रमोहनरूपधृक् ।
तस्मिन्नपत्य चातुष्कं भविष्यति बलोन्नतम् ३२।
सर्वेषामग्रजो रामो भरतस्तदनुस्मृतः ।
लक्ष्मणस्तदनु श्रीमाञ्छत्रुघ्नः सर्वतो बली ३३।
रघुनाथ इति ख्यातिं गमिष्यति महामनाः ।
तेषामनंतनामानि रामस्य बलिनः सखि ३४।
पद्मकोश इव शोभनं मुखं ।
पंकजाभनयने सुदीर्घके ।
उन्नता पृथुमनोहरा नसा ।
वल्गुसंगत मनोहरे भ्रुवौ ३५।
जानुलंबित मनोहरौ भुजौ ।
कंबुशोभिगलकोऽतिह्रस्वकः ।
सत्कपाटतलविस्तृतश्रिकं ।
वक्ष एतदमलं सलक्ष्मकम् ३६।
शोभनोरुकटिशोभया युतं ।
जानुयुग्मममलं स्वसेवितम् ।
पादपद्ममखिलैर्निजैः सदा ।
सेवितं रघुपतिं सुशोभनम् ३७।
एतद्रूपधरो रामो मया किं तु स वर्ण्यते ।
शताननोपि नो याति पक्षिणः किमु मादृशाः ३८।
यद्रूपं वीक्ष्य ललिता मनोहरवपुर्धरा ।
लक्ष्मीर्मुमोह भुविका वर्तते या न मोहति ३९।
महाबलो महावीर्यो महामोहनरूपधृक् ।
किं वर्णयामि श्रीरामं सर्वैश्वर्यगुणान्वितम् ४०।
धन्या सा जानकीदेवी महामोहनरूपधृक् ।
रंस्यते येन सहिता वर्षाणामयुतं मुदा ४१।
त्वं कासि किं तु नामासि बत सुंदरि यत्तु माम् ।
परिपृच्छसि वैदग्ध्याद्रामकीर्तनमादरात् ४२।
एतद्वाक्यं समाकर्ण्य जानकी पक्षिणोर्युगम् ।
उवाच जन्मललितं शंसंती स्वस्य मोहनम् ४३।
या त्वया जानकी प्रोक्ता साहं जनकपुत्रिका ।
स रामो मां यदाभ्येत्य प्राप्स्यते सुमनोहरः ४४।
तदा वां मोचयाम्यद्धानान्यथा वाक्यलोभिता ।
लालयामि सुखेनास्तां मद्गेहे मधुराक्षरौ ४५।
इत्युक्तं तत्समाकर्ण्य वेपतुर्भयतां गतौ ।
परस्परं प्रक्षुभितौ जानकीमित्यवोचताम् ४६।
वयं वै पक्षिणः साध्वि वनस्था वृक्षगोचराः ।
परिभ्रमाम सर्वत्र नो सुखं नो भवेद्गृहे ४७।
अंतर्वत्नी स्वके स्थाने गत्वा संसूय पुत्रकान् ।
त्वत्स्थानमागमिष्यामि सत्यं मे ह्युदितं वचः ४८।
एवं प्रोक्ता तया सा तु न मुमोच शुकीं स्वयम् ।
तदापतिस्तां प्रोवाच विनीतवदनुत्सुकः ४९।
सीते मुंच कथं भार्यां रक्षसे मे मनोहरीम् ।
आवां गच्छाव विपिने विचरावः सुखं वने ५०।
अंतर्वत्नी तु वर्तेत भार्या मम मनोरमा ।
तस्याः प्रसूतिं कृत्वा त्वामागमिष्यामि शोभने ५१।
इत्युक्ता निजगादेमं सुखं गच्छ महामते ।
एतां रक्षामि सुखिनीं मत्पार्श्वे प्रियकारिणीम् ५२।
इत्युक्तो दुःखितः पक्षी तामूचे करुणान्वितः ।
योगिभिः प्रोच्यते यद्वै तद्वचस्तथ्यमेव हि ५३।
न वक्तव्यं न वक्तव्यं मौनमाश्रित्य तिष्ठताम् ।
नोचेत्स वाक्यदोषेण प्राप्नोत्यालानमुन्मदः ५४।
वयं चेदत्र वाक्यं नाकरिष्याम नगोपरि ।
बंधनं कथमावां स्यात्तस्मान्मौनं समाचरेत् ५५।
इत्युक्त्वा तां प्रत्युवाच नाहं जीवामि सुंदरि ।
एतया भार्यया सीते तस्मान्मुंच मनोहरे ५६।
अनेकविधवाक्यैः सा बोधिता नामुचत्तदा ।
कुपिता दुःखिता भार्या शशाप जनकात्मजाम् ५७।
यथा त्वं पतिना सार्धं वियोजयसि मामितः ।
तथा त्वमपि रामेण वियुक्ता भव गर्भिणी ५८।
इत्युक्तवत्यां तस्यां तु दुःखितायां पुनः पुनः ।
प्राणा निरगमन्दुःखात्पतिदुःखेन पूरितात् ५९।
रामं रामं स्मरंत्याश्च वदंत्यांश्च पुनः पुनः ।
विमानमागतं सुष्ठु पक्षिणी स्वर्गता बभौ ६०।
तस्यां मृतायां दुःखार्तो भर्ता तस्याः स पक्षिराट् ।
परमं क्रोधमापन्नो जाह्नव्यां दुःखितोऽपतत् ६१।
तथा भवामि रामस्य नगरे जनपूरिते ।
मद्वाक्यादियमुद्विग्ना वियोगेन सुदुःखिता ६२।
इत्युक्त्वा स पपातोदे जाह्नव्या भ्रमशोभिते ।
दुःखितः कुपितो भीतस्तद्वियोगेन कंपितः ६३।
क्रुद्धत्वाद्दुःखितत्वाच्च सीताया अपमाननात् ।
अंत्यजत्वं परं प्राप्तो रजकः क्रोधनाभिधः ६४।
यः क्रोधाच्च स्वकान्प्राणान्महतां दुष्टमाचरन् ।
संत्यजेत्स मृतो याति अंत्यजत्वं द्विजोत्तमः ६५।
तज्जातं रजकोक्त्यासौ निंदिता च वियोगिता ।
रजकस्य च शापेन वियुक्ता सा वनं गता ६६।
एतत्ते कथितं विप्र यत्ते पृष्टं विदेहजाम् ।
पुनरत्र परं वृत्तं शृणुष्व निगदामि तत् ६७।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रजकप्राग्जन्मकथनंनाम सप्तपंचाशत्तमोऽध्यायः ५७।
खण्डः ५ (पातालखण्डः) — Adhyāya 58
शेष उवाच।
भरतं मूर्च्छितं दृष्ट्वा रघुनाथः सुदुःखितः ।
प्रतीहारमुवाचेदं शत्रुघ्नं प्रापयाशु माम् १।
तद्वाक्यं प्रोक्तमाकर्ण्य क्षणाच्छत्रुघ्नमानयत् ।
यत्र रामो निजभ्राता भरतेन सह स्थितः २।
भरतं मूर्च्छितं दृष्ट्वा रघुनाथं च दुःखितम् ।
प्रणम्य दुःखितोऽवोचत्किमिदं दारुणं महत् ३।
तदा रामोंऽत्यजप्रोक्तं वाक्यं लोकविगर्हितम् ।
तं प्रत्युवाच रामोऽसौ शत्रुघ्नं पदसेवकम् ४।
अधोमुखो दीनरवो गद्गदाक्षरवेपथुः ।
शृणु भ्रातर्वचो मेऽद्य कुरु तत्क्षिप्रमादरात् ५।
यथा स्याद्विमलाकीर्तिर्गंगेव पृथिवीं गता ।
सीताया वाच्यमतुलं लोके श्रुत्वांत्यजोदितम् ६।
हातुमिच्छामि देहं स्वमेनां वा जानकीं किल ।
इति वाक्यं समाकर्ण्य रामस्य किल शत्रुहा ७।
सवेपथुः पपातोर्व्यां दुःखितः परदारणः ।
संज्ञां प्राप्य मुहूर्तेन रघुनाथमवोचत ८।
शत्रुघ्न उवाच।
किमेतदुच्यते स्वामिञ्जानकीं प्रति दारुणम् ।
पाखंडैर्दुष्टचित्तैश्च सर्वधर्मबहिष्कृतैः ९।
निंदिता श्रुतिरग्राह्या भवति त्वग्र्यजन्मनाम् ।
जाह्नवी सर्वलोकानां पापघ्नी दुरितापहा १०।
निस्पृष्टा पापिभिः पुंभिः सा स्पर्शेनार्हिता सताम् ।
सूर्यो जगत्प्रकाशाय समुदेति जगत्यहो ११।
उलूकानां रुचिकरो न भवेत्तत्र का क्षतिः ।
तस्मात्त्वमेनां गृह्णीष्व मा त्यजानिंदितां स्त्रियम् १२।
श्रीरामभद्रकृपया कुरुष्व वचनं मम ।
एतच्छ्रुत्वा वचस्तस्य शत्रुघ्नस्य महात्मनः १३।
पुनःपुनर्जगादेदं यदुक्तं भरतं प्रति ।
तन्निशम्य वचो भ्रातुर्दुःखपूरपरिप्लुतः १४।
पपात मूर्च्छितो भूमौ छिन्नमूल इव द्रुमः ।
भ्रातरं पतितं वीक्ष्य शत्रुघ्नं दुःखितो भृशम् १५।
प्रतीहारमुवाचेदं लक्ष्मणं त्वानयांतिकम् ।
स लक्ष्मणगृहं गत्वा न्यवेदयदिदं वचः १६।
प्रतीहार उवाच।
स्वामिन्रामो भवंतं तु समाह्वयति वेगतः ।
स तच्छ्रुत्वा समाह्वानं रामचंद्रेण वेगतः १७।
जगाम तरसा तत्र यत्र स भ्रातृकोऽनघः ।
भरतं मूर्च्छितं दृष्ट्वा शत्रुघ्नमपि मूर्च्छितम् १८।
श्रीरामचंद्रं दुःखार्तं दुःखितो वाक्यमब्रवीत् ।
किमेतद्दारुणं राजन्दृश्यते मूर्च्छनादिकम् १९।
तदाशु शंस मां सर्वं कारणं मुख्यतोऽनघ ।
एवं वदंतं नृपतिर्वृत्तांतं सर्वमादितः २०।
शशंस लक्ष्मणं क्षिप्रं दुःखपूरपरिप्लुतम् ।
लक्ष्मणस्तद्वचः श्रुत्वा सीतायास्त्यागसंभवम् २१।
निःश्वसन्मुहुरुच्छ्वासं स्तब्धगात्र इवाभवत् ।
भ्रातरं स्तब्धगात्रं च कंपमानं मुहुर्मुहुः २२।
न किंचन वदन्तं तं वीक्ष्य शोकार्दितोऽब्रवीत् ।
किं करिष्याम्यहं भूमौ स्थित्वा दुर्यशसांकितः २३।
त्यजामीदं वपुः श्रीमल्लोकभीत्या च शोकवान् ।
सर्वदा भ्रातरो मह्यं मद्वाक्यकरणोत्सुकाः २४।
इदानीं तेपि दैवेन प्रतिकूलवचः कराः ।
कुत्र गच्छामि कं यामि हसिष्यंति नृपा भुवि २५।
दुर्यशो लांछितं मां वै कुष्ठिनं रूपवन्नराः ।
मनोर्वंशे पुरा भूपा जाता जाता गुणाधिकाः २६।
इदानीं मयि जाते तु विपरीतं बभूव तत् ।
इति संभाषमाणं तं रामभद्रं समीक्ष्य सः २७।
संस्तभ्याश्रूणि विपुलान्युवाच विकल स्वरः ।
स्वामिन्विषादं मा कार्षीः कथं तव मतिर्हृता २८।
सीतामनिंदितां को नु त्यजति श्रुतवान्भवान् ।
आकारयामि रजकं परिपृच्छामि तं प्रति २९।
कथं त्वयानिंदिता सा जानकी योषितां वरा ।
तव देशे बलात्कश्चिद्बाध्यते न जनोऽल्पकः ३०।
तस्मात्तस्य यथास्वांते प्रतीतिः स्यात्तथाचर ।
किमर्थं त्यज्यते भीरुः पतिव्रतपरायणा ३१।
मनसा वचसा नान्यं जानाति जनकात्मजा ।
तस्मादेनां गृहाण त्वमेतां मा त्यज जानकीम् ३२।
ममोपरि कृपां कृत्वा मदुक्तं संश्रयाशु तत् ।
एवं वदंतं प्रत्यूचे रामः शोकेन कर्षितः ३३।
लक्ष्मणं धर्मवाक्येन बोधयंस्त्यजनोद्यमः ३४।
राम उवाच।
कथं तु मां ब्रवीषि त्वं मा त्यजैनामनिंदिताम् ।
लोकापवादात्त्यक्ष्येऽहं जानन्नपि विपापिनीम् ३५।
स्वयशः कारणेऽहं स्वं देहं त्यक्ष्याम्यशोभनम् ।
त्वामपि भ्रातरं त्यक्ष्ये लोकवादाद्विगर्हितम् ३६।
किमुतान्ये गृहाः पुत्रा मित्राणि वसुशोभनम् ।
स्वयशःकारणे सर्वं त्यजामि किमु मैथिलीम् ३७।
न तथा मे प्रियो भ्राता न कलत्रं न बांधवाः ।
यथा मे विमलाकीर्तिर्वल्लभा लोकविश्रुता ३८।
इदानीं रजको नैव प्रष्टव्यो भवति ध्रुवम् ।
कालेन सर्वं भविता लोकचित्तस्य रंजनम् ३९।
आमयो यद्वदामस्तु न चिकित्स्यो भवेत्क्षितौ ।
सकालेन परीपाकाद्भेषजादेव नश्यति ४०।
तथा कालेन संभावि सांप्रतं मा विलंबय ।
त्यजैनां विपिने साध्वीं मां वा खड्गेन घातय ४१।
इत्युक्तं वाक्यमाकर्ण्य दुःखितोऽभूत्तदा महान् ।
चिंतयामास च स्वांते लक्ष्मणः शोककर्षितः ४२।
पित्राज्ञप्तो जामदग्न्यो मातरं चाप्यघातयत् ।
गुरोराज्ञा नैव लंघ्या युक्ताऽयुक्तापि सर्वथा ४३।
तस्मादेनां त्यजाम्येव रामस्य प्रियकाम्यया ।
इति संचिंत्य मनसि भ्रातरं प्रत्युवाच सः ४४।
लक्ष्मणउवाच।
अकृत्यमपि कार्यं वै गुर्वाज्ञां नैव लंघयेत् ।
तस्मात्कुर्वे भवद्वाक्यं यत्त्वं वदसि सुव्रत ४५।
इत्येवं भाषमाणं तं लक्ष्मणं प्रत्युवाच सः ।
साधुसाधु महाप्राज्ञ त्वया मे तोषितं मनः ४६।
अद्यैव रात्रौ जानक्या दोहदस्तापसी क्षणे ।
तन्मिषेण रथे स्थाप्य मोचयैनां महावने ४७।
इत्थं भाषितमाकर्ण्य विशुष्यद्वदनोऽभितः ।
रुदन्बाष्पकलां मुंचञ्जगाम स्वं निवेशनम् ४८।
सुमंत्रं तु समाहूय वचनं तमथाब्रवीत् ।
रथं मे कुरु सज्जं वै सदश्ववरभूषितम् ४९।
स तद्वाक्यं समाकर्ण्य रथमानीतवांस्तदा ।
आनीतं तं रथं दृष्ट्वा लक्ष्मणः शोककर्षितः ५०।
परमं दुःखमापन्नः संरुह्य स्यंदनं वरम् ।
निःश्वसञ्जानकीगेहं प्रतस्थे भ्रातृसेवकः ५१।
गत्वा चांतःपुरे भ्राता रामस्य मिथिलात्मजाम् ।
प्रत्यूचे निःश्वसन्वाक्यं दुःखपूरपरिप्लुतः ५२।
मातर्जानकि रामेण प्रेषितो भवनं तव ।
तापसीः प्रति याहि त्वं दोहदप्राप्तिहेतवे ५३।
इति वाक्यं समाकर्ण्य लक्ष्मणस्य विदेहजा ।
परमं हर्षमापन्ना लक्ष्मणं प्रत्यभाषत ५४।
जानक्युवाच।
धन्याहं मैथिली राज्ञी रामस्य चरणस्मरा ।
यस्या दोहदपूर्त्यर्थं प्रेषयामास लक्ष्मणम् ५५।
अद्याहं ता वनचरीस्तापसीः पतिदेवताः ।
नमस्कुर्यां च वासोभिः पूजयामि मनोहराः ५६।
इत्युक्त्वा रम्यवस्त्राणि महार्हाभरणानि च ।
मणीन्विमलमुक्ताश्च कर्पूरादिसुगंधिमत् ५७।
चंदनादिकवस्तूनि विचित्राणि सहस्रधा ।
जग्राह रघुनाथस्य पत्नी स्वप्रियकाम्यया ५८।
सीता गृहीत्वा सर्वाणि दासीनां करयोर्मुहुः ।
लक्ष्मणं प्रतिगच्छंती देहल्यां चास्खलत्तदा ५९।
अविचार्य तदौत्सुक्याल्लक्ष्मणं प्रियकारिणम् ।
उवाच कुत्र सरथो येन मां प्रापयिष्यसि ६०।
स निःश्वसन्रथं हैमं जानक्या सह निर्विशत् ।
सुमंत्रं प्रत्युवाचासौ चालयाश्वान्मनोजवान् ६१।
स सुयुक्तं रथं वाक्याल्लक्ष्मणस्य तु चाह्वयत् ।
अश्रुपूर्णमुखं पश्यँल्लक्ष्मणं स मुहुर्मुहुः ६२।
आहतास्तेन कशया वाहास्तस्यापतन्पथि ।
न चलंति यदा वाहास्तदा लक्ष्मणमब्रवीत् ६३।
सुमंत्र उवाच।
स्वामिंश्चलंति नो वाहा यत्नेन परिचालिताः ।
किं करोमि न जानेऽत्र कारणं वाहपातने ६४।
एवं ब्रुवंतं प्रत्यूचे लक्ष्मणो गद्गदस्वरः ।
सारथिं धैर्यमास्थाय ताडयैतान्कशादिभिः ६५।
एतच्छ्रुत्वोदितं यंता कथंचित्समचालयत् ।
तदा स्फुरद्दक्षनेत्रं जानक्या दुःखशंसकम् ६६।
तदैव हृदये शोकः समभूद्दुःखशंसकः ।
तदैव पक्षिणः पुण्याः कुर्वंति परिवर्तनम् ६७।
एवं वीक्ष्यैव वैदेही प्रत्युवाचाथ देवरम् ।
कथं मे तापसीक्षायै यातुमिच्छा रघूद्वह ६८।
रामे भूयाद्धि कल्याणं भरते वा तथानुजे ।
तत्प्रजासु च सर्वत्र मा भवंतु विपर्ययाः ६९।
एवं ब्रुवंतीं संवीक्ष्य जानकीं च स लक्ष्मणः ।
न किंचिदुक्तवान्रुद्ध कंठो बाष्पप्रपूरितः ७०।
सा गच्छंती मृगान्वामं परिवर्तनकारकान् ।
अपश्यद्दुःखसंघातकारकान्समभाषत ७१।
अद्य यन्मे मृगा वामं वर्तयंति तदिष्यते ।
श्रीरामचरणौ मुक्त्वा गच्छंत्यायुक्तमेव तत् ७२।
महिलानां परोधर्मः स्वभर्तृचरणार्चनम् ।
तन्मुक्त्वान्यत्र यांत्या मे यद्भवेद्युक्तमेव तत् ७३।
एवं पथि विचारं तु कुर्वंत्या परमार्थतः ।
जाह्नवी ददृशे देव्या मुनिवृंदैकसेविता ७४।
यस्यां जलस्य कल्लोला दृश्यंते दुग्धसंनिभाः ।
तरंगो दृश्यते यत्र स्वर्गसोपानमूर्तिभृत् ७५।
यस्या वारिकणस्पर्शान्महापातकसंचयः ।
पलायते न कुत्रापि स्थानमीक्षन्समंततः ७६।
गंगां प्राप्याथ सौमित्रिर्जानकीं स्यंदने स्थिताम् ।
उवाच निर्गलद्बाष्प एहि सीते रथाद्भुवि ७७।
सीता तद्वाक्यमाकर्ण्य क्षणादवततार सा ।
लक्ष्मणेन धृता बाहौ स्खलंती पथि कंटकैः ७८।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे जानक्या गंगादर्शनंनाम अष्टपंचाशत्तमोऽध्यायः ५८।
खण्डः ५ (पातालखण्डः) — Adhyāya 59
शेष उवाच।
अथ नावा समुत्तीर्य जाह्नवीं लक्ष्मणस्तदा ।
जानकीं परतस्तीरे हस्ते धृत्वा वनं ययौ १।
सा चलंती पथि तदा शुष्यद्वदनलक्षिता ।
कंटकक्षतसत्पादा स्खलंती च पदे पदे २।
लक्ष्मणस्तां महाघोरे विपिने दुःखदायिनि ।
प्रवेशयामास तदा राघवाज्ञाविधायकः ३।
यत्र वृक्षा महाघोरा बर्बूलाः खदिरा घनाः ।
श्लेष्मातकाश्चिंचिणीकाः शुष्का दावेन वह्निना ४।
कोटरस्था महासर्पाः फूत्कुर्वंति सुकोपिताः ।
घूका घूत्कुर्वते यत्र लोकचित्तभयंकराः ५।
व्याघ्राः सिंहाः सृगालाश्च द्वीपिनोऽतिभयंकराः ।
दृश्यंते यत्र सरला मनुष्यादाः सुकोपनाः ६।
महिषाः सूकरा दुष्टा दंष्ट्रा द्वयविलक्षिताः ।
कुर्वंति प्राणिनां तापं मानसस्य मदोद्धुराः ७।
ईदृग्वनं प्रपश्यंती भयेनोपगतज्वरा ।
कंटकैर्दष्टचरणा लक्ष्मणं वाक्यमब्रवीत् ८।
जानक्युवाच।
वीरर्षिमुनिसंसेव्या नाश्रमान्नेत्रसौख्यदान् ।
नाहं पश्यामि नो तेषां पत्नीश्च सुतपोधनाः ९।
पश्यामि केवलं घोरान्पक्षिणः शुष्कवृक्षकान् ।
दावानलेन तत्सर्वं दह्यमानमिदं वनम् १०।
त्वां च पश्यामि दुःखार्तमश्रुपूर्णाकुलेक्षणम् ।
शकुनेतरसाहस्रं भवेन्मम पदे पदे ११।
तन्मे कथय वीराग्र्य कथं मुक्ता महात्मना ।
रामेण दुष्टहृदया क्षिप्रं कथय मे हि तत् १२।
इति वाक्यं समाकर्ण्य लक्ष्मणः शोककर्शितः ।
संरुद्धबाष्पवदनो न किंचित्प्रोक्तवांस्तदा १३।
तदेव विपिनं घोरं गच्छंती लक्ष्मणान्विता ।
पुनरप्याह तं वीरं दुःखार्ता पश्यती मुखम् १४।
तदापि स न तां वक्ति किमपि प्रेक्षुलोलुपः ।
तदा सात्यंतनिर्बंधं चकार परिपृच्छती १५।
आग्रहेण यदा पृष्टो लक्ष्मणः सीतया तदा ।
रुद्धकंठो मुहुः शोचन्नवदत्त्यागसंभवम् १६।
तद्वाक्यं पविना तुल्यं निशम्य मुनिसत्तम ।
सुलताकृत्तमूलेव बभूवाकल्पवर्जिता १७।
तदैव पृथिवी तां न जग्राह तनयामिमाम् ।
रामो विपापिनीं सीतां न जह्यादिति शंकिनी १८।
पतितां तां तु वैदेहीं दृष्ट्वा सौमित्रिरुत्सुकः ।
पल्लवाग्र्यसमीरेण संज्ञितां तु चकार सः १९।
संज्ञां प्राप्ता ह्युवाचेदं मा हास्यं कुरु देवर ।
कथं मां पापरहितां त्यजते स रघूद्वहः २०।
एवं बहुविलप्याथ लक्ष्मणं दुःखसंयुतम् ।
संवीक्ष्यमू र्च्छिता भूमौ पपात परिदुःखिता २१।
मुहूर्तेनापि संज्ञां सा प्राप्य दुःखपरिप्लुता ।
जगाद रामचरणौ स्मंरती शोकविक्षता २२।
रघुनाथो महाबुद्धिस्त्यजते मां कथं महान् ।
यो मदर्थे पयोराशिं बद्धवान्वानरैर्युतः २३।
स कथं मां महावीरो निष्पापां रजकोक्तितः ।
त्यजिष्यति ममैवात्र दैवं तु प्रतिकूलितम् २४।
एवं वदन्ती पुनरपि मूर्च्छां प्राप्ता विदेहजा ।
मूर्च्छितां तां समीक्ष्याथ रुरोद विकृतस्वरः २५।
पुनः संज्ञामवाप्यैवं सौमित्रिं निजगाद सा ।
दुःखातुरं वीक्षमाणा रुद्धकंठं सुदुःखिता २६।
सौमित्रे गच्छ रामं त्वं धर्ममूर्तिं यशोनिधिम् ।
मद्वाक्यमेवैतद्ब्रूयाः समक्षं तपसां निधेः २७।
मां तत्याज भवान्यद्वै जानन्नपि विपापिनीम् ।
कुलस्य सदृशं किं वा शास्त्रज्ञानस्य तत्फलम् २८।
नित्यं तव पदे रक्तां त्वदुच्छिष्टभुजं हि माम् ।
भवांस्तत्याज तत्सर्वं मम दैवं तु कारणम् २९।
कल्याणं तव सर्वत्र भूयाद्वीरवरोत्तम ।
अहं तावद्वने त्वां हि स्मरंती प्राणधारिका ३०।
मनसा कर्मणा वाचा भवानेव ममोत्तमः ।
अन्ये तुच्छीकृताः सर्वे मनसा रघुवंशज ३१।
भवेभवे भवानेव पतिर्भूयान्महीश्वर ।
त्वत्पदस्मरणानेक हतपापा सतीश्वरी ३२।
श्वश्रूजनं ब्रूहि सर्वं मत्संदेशं रघूत्तम ।
त्यक्ता वने महाघोरे रामेण निरघा सती ३३।
स्मरामि चरणौ युष्मद्वने मृगगणैर्युते ।
अंतर्वत्नी वने त्यक्ता रामेण सुमहात्मना ३४।
सौमित्रे शृणु मद्वाक्यं भद्रं भूयाद्रघूत्तमे ।
इदानीं संत्यजे प्राणान्रामवीर्यं सुरक्षती ३५।
त्वं रामवचनं तथ्यं यत्करोषि शुभं तव ।
परतंत्त्रेण तत्कार्यं रामपादाब्जसेविना ३६।
गच्छ त्वं राम सविधे शिवाः पंथान एव ते ।
ममोपरि कृपा कार्या स्मर्तव्याहं कदा कदा ३७।
इत्युक्त्वा मूर्च्छिता भूमौ पपात पुरतस्तदा ।
लक्ष्मणो दुःखमापेदे वीक्ष्य मूर्च्छितजानकीम् ३८।
वीजयामास वासोग्रैः संज्ञां प्राप्तां प्रकृत्य च ।
सौमित्रिः सांत्वयामास वचनैर्मधुरैर्मुहुः ३९।
लक्ष्मण उवाच।
एष गच्छामि रामं वै गत्वा शंसामि सर्वशः ।
समीपे ते मुनेरस्ति वाल्मीकेराश्रमो महान् ४०।
इत्युक्त्वा तां परिक्रम्य दुःखितो बाष्पपूरितः ।
मुंचन्नश्रुकलां दुःखाद्ययौ रामं महीपतिम् ४१।
जानकी देवरं यांतं वीक्ष्य विस्मितलोचना ।
हसत्ययं महाभागो लक्ष्मणो देवरो मम ४२।
कथं मां प्राणतः प्रेष्ठां विपापां राघवोऽत्यजत् ।
इति संचिंतयंती सा तमैक्षदनिमेषणा ४३।
जाह्नवीं सर्वथोत्तीर्णां ज्ञात्वा सत्यं स्वहापनम् ।
पतिता प्राणसंदेहं प्राप्ता मूर्च्छां गता तदा ४४।
तदा हंसाः स्वपक्षाभ्यां जलमानीय सर्वतः ।
सिषिचुर्मधुरो वायुर्ववौ पुष्पसुगंधिमान् ४५।
करिणः पुष्करैः स्वीयैर्जलपूर्णैः समंततः ।
व्याप्तं शरीरं रजसा क्षालयंत इवागताः ४६।
मृगास्तदंतिकं प्राप्य संतस्थुर्विस्मितेक्षणाः ।
नगाः पुष्पयुता आसंस्तत्कालं मधुना विना ४७।
एतस्मिन्समये वृत्ते संज्ञां प्राप्य तदा सती ।
विललाप सुदुःखार्ता रामरामेति जल्पती ४८।
हा नाथ दीनबंधो हे करुणामयसंनिधे ।
अपराधादृते मां त्वं कथं त्यजसि वै वने ४९।
इत्येवमादिभाषंती विलपंती मुहुर्मुहुः ।
इतस्ततः प्रपश्यंती संमूर्च्छंती पुनःपुनः ५०।
तदा स्वशिष्यैर्भगवान्वाल्मीकिः संगतो वनम् ।
शुश्राव रुदितं तत्र करुणास्वरभाषितम् ५१।
शिष्यान्प्रति जगादाथ पश्यंतु वनमध्यतः ।
को रोदिति महाघोरे विपिने दुःखितस्वरः ५२।
ते प्रयुक्ताश्च मुनिना संजग्मुर्यत्र जानकी ।
रामरामेति भाषंती बाष्पपूरपरिप्लुता ५३।
तां दृष्ट्वा स्त्रियमौत्सुक्याद्वाल्मीकिं प्रत्यगुर्मुनिम् ।
श्रुत्वा तदीरितं वाक्यं जगामासौ ततो मुनिः ५४।
दृष्ट्वा तं तपसां राशिं जानकी पतिदेवता ।
नमोस्तु मुनये वेदमूर्तये व्रतवार्धये ५५।
इत्युक्तवंतीं तां सीतामाशीर्भिरभ्यनंदयत् ।
भर्त्रा सह चिरंजीव पुत्रौ प्राप्नुहि शोभनौ ५६।
कासि त्वं किं वने घोरे संगतासि किमीदृशी ।
सर्वं मे शंस जानीयां तव दुःखस्य कारणम् ५७।
सा तदा प्रत्युवाचेमं रामस्य महिला मुनिम् ।
निःश्वसंती करुणया गिरासंजातवेपथुः ५८।
शृणु मे वाक्यमर्थोक्तं सर्वदुःखस्य कारणम् ।
जानीहि मां भूमिपते रघुनाथस्य सेवकीम् ५९।
अपराधं विना त्यक्ता न जाने तत्र कारणम् ।
लक्ष्मणो मां विमुच्यात्र गतवान्राघवाज्ञया ६०।
इत्युक्त्वाश्रुकलापूर्णं बिभ्रतीं मुखपंकजम् ।
वाल्मीकिः सांत्वयन्प्राह जानकीं कमलेक्षणाम् ६१।
वाल्मीकिं मां विजानीहि पितुस्तव गुरुं मुनिम् ।
दुःखं मा कुरु वैदेहि ह्यागच्छ मम चाश्रमम् ६२।
भिन्नस्थाने पितुर्गेहं जानीहि पतिदेवते ।
ईदृशे कर्मणि मम रोषोस्त्वेव महीपतेः ६३।
एवं वचः समाकर्ण्य जानकी पतिदेवता ।
दुःखपूर्णाश्रुवदना किंचित्सुखमवाप सा ६४।
शेष उवाच।
वाल्मीकिः सांत्वयित्वैनां दुःखपूराकुलेक्षणाम् ।
निनाय स्वाश्रमं पुण्यं तापसीवृन्दपूरितम् ६५।
सा गच्छंती पृष्ठतोऽस्य वाल्मीकेस्तपसां निधेः ।
रराजेंदोः पृष्ठतो वै तारकेव मनोहरा ६६।
वाल्मीकिः प्राप्य च स्वीयमाश्रमं मुनिपूरितम् ।
तापसीः प्रतिसंचख्यौ जानकीं स्वाश्रमं गताम् ६७।
वैदेही तापसीः सर्वा नमश्चक्रे महामनाः ।
परस्परं प्रहृषिताः परिरंभं समाचरन् ६८।
वाल्मीकिर्निजशिष्यान्स प्रत्युवाच तपोनिधिः ।
रच्यतां बत जानक्याः पर्णशाला मनोरमा ६९।
इत्युक्तं वाक्यमाकर्ण्य वाल्मीकेः सुमनोरमम् ।
व्यरचन्पत्रकैः शालां दारुभिः सुमनोहराम् ७०।
तत्रावसद्धि वैदेही पतिव्रतपरायणा ।
वाल्मीकेः परिचर्यां च कुर्वंती फलभक्षिका ७१।
जपंती रामरामेति मनसा वचसा स्वयम् ।
निनाय दिवसांस्तत्र जानकी पतिदेवता ७२।
काले सासूत पूत्रौ द्वौ मनोहरवपुर्धरौ ।
रामचंद्र प्रतिनिधी ह्यश्विनाविव जानकी ७३।
तच्छ्रुत्वा तु मुनिर्हृष्टो जानक्याः पुत्रसंभवम् ।
चकार जातकर्मादि संस्कारान्मंत्रवित्तमः ७४।
कुशैर्लवैश्च वाल्मीकिर्मुनिः कर्माणि चाचरत् ।
तन्नाम्ना पुत्रयोराख्या कुशो लव इति स्फुटा ७५।
वाल्मीकिर्यत्र विरजा मंगलं तद्यथाचरत् ।
अत्यंतं हृष्टचित्ता सा बभूव कमलेक्षणा ७६।
तद्दिने लवणं हत्वा शत्रुघ्नः स्वल्पसैनिकः ।
आगमच्चाश्रमे चास्य वाल्मीकेर्निशि शोभने ७७।
तदा वाल्मीकिना शिष्टः शत्रुघ्नो रघुनायकम् ।
मा शंस जानकीपुत्रौ कथयिष्याम्यहं पुरः ७८।
जानकीपुत्रकौ तत्र ववृधाते मनोरमौ ।
कंदमूलफलैः पुष्टौ व्यदधादुन्मदौ वरौ ७९।
शुक्लप्रतिपदायाश्च शशीव सुमनोहरौ ।
कालेन संस्कृतौ जातावुपनीतौ मनोहरौ ८०।
उपनीयमुनिर्वेदं सांगमध्यापयत्सुतौ ।
सरहस्यं धनुर्वेदं रामायणमपाठयत् ८१।
वाल्मीकिना च धनुषी दत्ते स्वर्णसुभूषिते ।
अभेद्ये सगुणे श्रेष्ठे वैरिवृंदविदारणे ८२।
इषुधी बाणसंपूर्णौ अक्षये करवालके ।
चर्माण्यभेद्यानि ददौ जानक्यात्मजयोस्तदा ८३।
धनुर्धरौ धनुर्वेदपारगावाश्रमे मुदा ।
चरंतौ तत्र रेजाते अश्विनाविव शोभनौ ८४।
जानकी वीक्ष्य पुत्रौ द्वौ खड्गचर्मधरौ वरौ ।
परमं हर्षमापन्ना विरहोद्भवमत्यजत् ८५।
एष ते कथितो विप्र जानक्याः पुत्रसंभवः ।
अतः शृणुष्व यद्वृत्तं वीरबाहुविकृंतनम् ८६।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे कुशलवोत्पत्तिकथानकंनामैकोनषष्टितमोऽध्यायः ५९।
खण्डः ५ (पातालखण्डः) — Adhyāya 60
शेष उवाच।
शत्रुघ्नो निजवीराणां छिन्नान्बाहून्निरीक्षयन् ।
उवाच तान्सुकुपितो रोषसंदंशिताधरः १।
केन वीरेण वो बाहुकृंतनं समकारि भोः ।
तस्याहं बाहू कृंतामि देवगुप्तस्य वै भटाः २।
न जानाति महामूढो रामचंद्र बलं महत् ।
इदानीं दर्शयिष्यामि पराक्रांत्या बलं स्वकम् ३।
स कुत्र वर्तते वीरो हयः कुत्र मनोरमः ।
को वाऽगृह्णात्सुप्तसर्पान्मूढो ज्ञात्वा पराक्रमम् ४।
इति ते कथिता वीरा विस्मिता दुःखिता भृशम् ।
रामचंद्र प्रतिनिधिं बालकं समशंसत ५।
स श्रुत्वा रोषताम्राक्षो बालकेन हयग्रहम् ।
सेनान्यं वै कालजितमाज्ञापयद्युयुत्सुकः ६।
सेनानीः सकलां सेनां व्यूहयस्व ममाज्ञया ।
रिपुः संप्रति गंतव्यो महाबलपराक्रमः ७।
नायं बालो हरिर्नूनं भविष्यति हयंधरः ।
अथवा त्रिपुरारिः स्यान्नान्यथा मद्धयापहृत् ८।
अवश्यं कदनं भाविसैन्यस्य बलिनो महत् ।
स्वच्छंदचरितैः खेलन्नास्ते निर्भयधीः शिशुः ९।
तत्र गंतव्यमस्माभिः सन्नद्धै रिपुदुर्जयैः ।
एतन्निशम्य वचनं शत्रुघ्नस्य ससैन्यपः १०।
सज्जीचकार सेनां तां दुर्व्यूढां चतुरंगिणीम् ।
सज्जां तां शत्रुजिद्दृष्ट्वा चतुरंगयुतां वराम् ११।
आज्ञापयत्ततो गंतुं यत्र बालो हयंधरः ।
सा चचाल तदा सेना चतुरंगसमन्विता १२।
कंपयंती महीभागं त्रासयंती रिपून्बलात् ।
सेनानीस्तं ददर्शाथ बालकं रामरूपिणम् १३।
विचार्य रामप्रतिममब्रवीद्वचनं हितम् ।
बाल मुंच हयश्रेष्ठं रामस्य बलशालिनः १४।
सेनानीः कालजिन्नाम तस्य भूपस्य दुर्मदः ।
त्वां रामप्रतिमं दृष्ट्वा कृपा मे हृदि जायते १५।
अन्यथा तव मे दौस्थ्याज्जीवितं न भविष्यति ।
एतद्वाक्यं समाकर्ण्य शत्रुघ्नस्य भटस्य हि १६।
जहास किंचिदाकोपादुवाच च वचोद्भुतम् ।
गच्छ मुक्तोसि तं रामं कथयस्व हयग्रहम् १७।
त्वत्तो बिभेमि नो शूर वाक्येन नयशालिना ।
ममात्र गणना नास्ति त्वादृशाः कोटयो यदि १८।
मातृपादप्रसादेन तूलीभूता न संशयः ।
कालजित्तव यन्नाम मात्राकारि मनोज्ञया १९।
पक्वबिंबफलस्येव वर्णतो न च वीर्यतः ।
दर्शयस्वाधुना वीर्यं स्वनामबलचिह्नितः २०।
मां कालं तव संजित्य सत्यनामा भविष्यसि ।
शेष उवाच।
स वाक्यैः पविनातुल्यैर्भिन्नः सुभटशेखरः २१।
चुकोप हृदयेऽत्यतं जगाद वचनं पुनः ।
कस्मिन्कुले समुत्पत्तिः किं नामासि च बालक ।
त्वन्नाम नाभिजानामि कुलं शीलं वयस्तथा २२।
पादचारं रथस्थोऽहमधर्मेण कथं जये ।
तदात्यंतं प्रकुपितो जगाद वचनं पुनः २३।
कुलेन किं च शीलेन नाम्ना वा सुमनोहृदा ।
लवोऽहं लवतः सर्वाञ्जेष्यामि रिपुसैनिकान् २४।
इदानीं त्वामपि भटं करिष्ये पादचारिणम् ।
इत्थमुक्त्वा धनुः सज्यं चकार स लवो बली २५।
टंकारयामास तदा वीरानाकंपयन्हृदि ।
वाल्मीकिं प्रथमं स्मृत्वा जानकीं मातरं लवः २६।
मुमोच बाणान्निशितान्सद्यः प्राणापहारिणः ।
कालजित्स्वधनुः कृत्वा सज्यं कोपसमन्वितः २७।
ताडयामास जवनो लवं रणविशारदः ।
तद्बाणाञ्छतधा छित्त्वा क्षणाद्वेगात्कुशानुजः २८।
सेनान्यं विरथं चक्रे वसुभिः स्वशरोत्तमैः ।
विरथो गजमानीतमारुरोह भटैर्निजैः २९।
मदोन्मत्तं महावेगं सप्तधा प्रस्रवान्वितम् ।
गजारूढं तु तं दृष्ट्वा दशभिर्धनुषोगतैः ३०।
बाणैर्विव्याध विहसन्सर्वान्रिपुगणाञ्जयी ।
कालजित्तस्य वीर्यं तु दृष्ट्वा विस्मितमानसः ३१।
गदां मुमोच महतीं महायस विनिर्मिताम् ।
आपतंतीं गदां वेगाद्भारायुतविनिर्मिताम् ३२।
त्रिधा चिच्छेद तरसा क्षुरप्रैः सकुशानुजः ।
परिघं निशितं घोरं वैरिप्राणहरोदितम् ३३।
मुक्तं पुनस्तेन लवश्चिच्छेद तरसान्वितः ।
छित्त्वा तत्परिघं घोरं कोपादारक्तलोचनः ३४।
गजोपस्थे समारूढं मन्यमानश्चुकोप ह ।
तत्क्षणादच्छिनत्तस्य शुंडां खड्गेन दंतिनः ३५।
दंतयोश्चरणौ धृत्वा रुरोह गजमस्तके ।
मुकुटं शतधा कृत्वा कवचं तु सहस्रधा ३६।
केशेष्वाकृष्य सेनान्यं पातयामास भूतले ।
पातितः स गजोपस्थात्सेनानीः कुपितः पुनः ३७।
हृदये ताडयामास मुष्टिना वज्रमुष्टिना ।
स आहतो मुष्टिभिस्तु क्षुरप्रान्निशिताञ्छरान् ३८।
मुमोच हृदये क्षिप्रं कुंडलीकृतधन्ववान् ।
स रराज रणोपांते कुंडलीकृत चापवान् ३९।
शिरस्त्रं कवचं बिभ्रदभेद्यं शरकोटिभिः ।
स विद्धः सायकैस्तीक्ष्णैस्तं हंतुं खड्गमाददे ४०।
दशन्रोषात्स्वदशनान्निःश्वसन्नुच्छ्वसन्मुहुः ।
खड्गहस्तं समायांतं शूरं सेनापतिं लवः ४१।
चिच्छेद भुजमध्यं तु स खड्गः पाणिरापतत् ।
छिन्नं खड्गधरं हस्तं वीक्ष्य कोपाच्चमूपतिः ४२।
वामेन गदया हंतुं प्रचक्राम भुजेन तम् ।
सोऽपि च्छिन्नो भुजस्तस्य सांगदस्तीक्ष्णसायकैः ४३।
तदा प्रकुपितो वीरः पादाभ्यामहनल्लवम् ।
लवः पादाहतस्तस्य न चचाल रणांगणे ४४।
स्रजाहतो द्विप इव चरणच्छेदनं व्यधात् ।
तदापि तं मौलिनासौ प्रहर्तुमुपचक्रमे ४५।
तदा लवश्चमूनाथं मन्यमानोऽधिपौरुषम् ।
करवालं समादाय करे कालानलोपमम् ४६।
अच्छिनच्छिर एतस्य महामुकुटशोभितम् ।
हाहाकारो महानासीच्चमूनाथे निपातिते ४७।
सैनिकाः परिसंक्रुद्धा लवं हंतुं समागताः ।
लवस्तान्स्वशराघातैः पलायनपरान्व्यधात् ४८।
छिन्नाभिन्नांगकाः केचिद्गता केचिद्रणांगणात् ।
स निवार्याखिलान्योधान्विजगाह चमूं मुदा ४९।
वाराह इव निःश्वस्य प्रलये सुमहार्णवम् ।
गजा भिन्ना द्विधा जाता मौक्तिकैः पूरिता मही ५०।
दुर्गमाभूद्भटाग्र्याणां पर्वतैर्व्यापृता यथा ।
अश्वाः कनकपल्याणा रुचिरारत्नराजिताः ५१।
अपतन्रुधिराप्लुष्टे ह्रदे बल सुशोभिताः ।
रथिनः करमध्यस्थ धनुर्दंडसुशोभिनः ५२।
रथोपस्थे निपतिताः स्वर्गगा इव वै सुराः ।
संदष्टौष्ठपुटा वक्त्र भ्रमल्लक्ष्मीविलक्षिताः ५३।
पतितास्तत्र दृश्यंते वीरा रणविशारदाः ।
सुस्राव शोणितसरिद्धयमस्तककच्छपा ५४।
महाप्रवाहललिता वैरिणां भयकारिका ।
केषांचिद्बाहविश्छिन्नाः केषां पादा विकर्तिता ५५।
केषां कर्णाश्च नासाश्च केषां कवचकुंडले ।
एवं तु कदनं जातं सेनान्यां पतिते रणे ५६।
सर्वे निपतिता वीरा न केचिज्जीवितास्ततः ।
लवो जयं रणे प्राप्य वैरिवृंदं विजित्य च ५७।
अन्यागमनशंकायां मनः कुर्वन्नवैक्षत ।
केचिदुर्वरिता युद्धाद्भाग्येन न रणे मृताः ५८।
शत्रुघ्नं सविधे जग्मुः शंसितुं वृत्तमद्भुतम् ।
गत्वा ते कथयामासुर्यथावृत्तं रणांगणे ५९।
कालजिन्निधनं बालाच्चित्रकारि रणोद्यमम् ।
तच्छ्रुत्वा विस्मयं प्राप्तः शत्रुघ्नस्तानुवाच ह ६०।
हसन्रोषाद्दशन्दंतान्बालग्राह हयं स्मरन् ।
रे वीराः किं मदोन्मत्ता यूयं किं वा छलग्रहाः ६१।
किं वा वैकल्यमायातं कालजिन्मरणं कथम् ।
यः संख्ये वैरिवृंदानां दारुणः समितिंजयः ६२।
तं कथं बालको जीयाद्यमस्यापि दुरासदम् ।
शत्रुघ्नवाक्यं संश्रुत्य वीराः प्रोचुरसृक्प्लुताः ६३।
नास्माकं मदमत्तादि न च्छलो न च देवनम् ।
कालजिन्मरणं सत्यं लवाज्जानीहि भूपते ६४।
बलं च कृत्स्नं मथितं बालेनातुलशौंडिना ।
अतः परं तु यत्कार्यं ये प्रेष्या नृवरोत्तमाः ६५।
बालं ज्ञात्वा भवान्नात्र करोतु बलसाहसम् ।
इति श्रुत्वा वचस्तेषां वीराणां शत्रुहा तदा ६६।
सुमतिं च मतिश्रेष्ठमुवाच रणकारणे ६७।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे कुशलवयुद्धे सैन्यपराजय कालजित्सेनानीमरणंनाम षष्टितमोऽध्यायः ६०।
खण्डः ५ (पातालखण्डः) — Adhyāya 61
शत्रुघ्न उवाच।
जानासि किं महामंत्रिन्को बालो हयमाहरत् ।
येन मे क्षपितं सर्वं बलं वारिधिसन्निभम् १।
सुमतिरुवाच।
स्वामिन्नयं मुनिश्रेष्ठ वाल्मीकेराश्रमो महान् ।
क्षत्त्रियाणामत्र वासो नास्त्येव परतापन २।
इंद्रो भविष्यति परममर्षी हयमाहरत् ।
पुरारिर्वान्यथा वाहं तव कः समुपाहरेत् ३।
कालजिद्येन नाशं वै प्राप्तः परमदारुणः ।
तं प्रति श्रीमहाराज गंता कः पुष्कलान्यतः ४।
त्वं च वीरैर्भटैः सर्वैराजभिः परिवारितः ।
तत्र गच्छस्व सैन्येन महता शत्रुकृंतन ५।
गत्वा स जीवितं वीरं बद्ध्वा तु कुतुकार्थिने ।
दर्शयिष्यामि रामाय मतं मे त्विदमादृतम् ६।
इति वाक्यं समाकर्ण्य वीरान्सर्वान्समादिशत् ।
सैन्येन महता यात यूयमायामि पृष्ठतः ७।
निर्दिष्टास्ते क्षणाद्वीरा जग्मुर्यत्र लवो बली ।
धनुर्विस्फारयंस्तत्र सुदृढं गुणपूरितम् ८।
आयातं तन्महद्दृष्ट्वा बलं वीरप्रपूरितम् ।
न किंचिन्मनसा बिभ्येलवेन बलशालिना ९।
लवः सिंह इवोत्तस्थौ मृगान्मत्वाऽखिलान्भटान् ।
धनुर्विस्फारयन्रोषाच्छरान्मुंचन्सहस्रशः १०।
ते शरैः पीड्यमानास्तु महारोषेण पूरिताः ।
वीरं बालं मन्यमानाः संमुखं प्राद्रवंस्तदा ११।
वीरान्सहस्रशो दृष्ट्वा भ्रमिभिः पर्यवस्थितान् ।
लवो जवेन संधाय शरान्रोषप्रपूरितः १२।
भ्रमिराद्या सहस्रेण द्वितीयायुतसंख्यया ।
तृतीयायुतयुग्मेन तुरीयायुतपंचभिः १३।
पंचमी लक्षयोधानां षष्ठी योधायुताधिकैः ।
सप्तमी लक्षयुग्मेन सप्तभिर्भ्रमिभिर्वृतः १४।
मध्ये लवो भ्रमिव्याप्तः स चरन्वह्निवत्तदा ।
दाहयामास सर्वान्वै सैनिकान्भ्रमिकारकान् १५।
काचित्खङ्गैः शरैः काचित्काचित्प्रासैश्च कुंतलैः ।
पट्टिशैः परिघैः सर्वा भ्रमिर्भग्ना महात्मना १६।
सप्तभिर्भ्रमिभिर्मुक्तो रराज स कुशानुजः ।
मेघवृंदविनिर्मुक्तः शशीव शरदागमे १७।
प्राहरत्सर्वथा योधान्भिंदन्गजकरान्बहून् ।
छिंदञ्छिरांसि वीराणां चक्रभ्रूणि महांति च १८।
अनेके पतिता वीरा लवबाणप्रपीडिताः ।
मुमुहुः समरेऽथान्ये नष्टा अन्ये सुकातराः १९।
पलायनपरं सैन्यं लवबाणप्रपीडितम् ।
वीक्ष्य वीरो रणे योद्धुं प्रायात्पुष्कलसंज्ञकः २०।
तिष्ठतिष्ठेति च वदन्रोषपूरितलोचनः ।
रथे सुहयशोभाढ्ये तिष्ठन्प्रायाल्लवं बली २१।
स लवं प्रत्युवाचाथ पुष्कलः परमास्त्रवित् ।
तिष्ठ दत्ते मया संख्ये रथे सुहयशोभिते २२।
पदातिना त्वया युद्धं करोमि किमथाहवे ।
तस्मात्तिष्ठ रथे पश्चाद्युद्ध्येऽहं भवता सह ।
एतद्वाक्यं निशम्यासौ लवः पुष्कलमब्रवीत् २३।
त्वया दत्ते रथे स्थित्वा युद्धं कुर्यामहं रणे ।
तदा मे पापमेव स्याज्जयः संदिग्ध एव हि २४।
न वयं ब्राह्मणा वीर प्रतिग्रहपरायणाः ।
वयं तु क्षत्रिया नित्यं दानकर्मक्रियारताः २५।
इदानीं त्वद्रथं कोपाद्भनज्मि प्रत्यहं भवान् ।
पादचारी भवत्येव पश्चाद्युद्धं करिष्यति २६।
पुष्कलो वाक्यमाकर्ण्य धर्मधैर्यसमन्वितम् ।
विसिस्माय चिरं चित्ते धनुः सज्यमथाकरोत् २७।
तमात्तधनुषं दृष्ट्वा लवः कोपसमन्वितः ।
चापं चिच्छेद पाणिस्थं शरसंधानमाचरन् २८।
स यावत्स गुणं चापं कुरुते तावदुद्धतः ।
रथभंगं चकारास्य समरे प्रहसन्बली २९।
भग्नं रथं स्वकं वीक्ष्य धनुश्छिन्नं महात्मना ।
महावीरं मन्यमानः पदातिः प्राद्रवद्रणे ३०।
उभौ धनुर्धरौ वीरावुभावपि शरोद्धतौ ।
उभौ क्षतजविप्लुष्टौ छिन्नसन्नाहितावुभौ ३१।
परस्परं बाणघातविशीर्णावपुलक्षितौ ।
जयाकांक्षां प्रकुर्वंतौ परस्परवधैषिणौ ३२।
जयंतकार्तिकेयौ वा पुरारिः पुरभिद्यथा ।
एवं परस्परं युद्धं प्रकुर्वाणौ रणांगणे ३३।
पुष्कलः प्रत्युवाचाथ बालं शूरशिरोमणे ।
त्वादृशो न मया दृष्टः कश्चिद्वीरशिरोमणिः ३४।
शिरस्ते पातयाम्यद्य बाणैः शितसुपर्वभिः ।
मा पलायस्व समरे प्राणान्रक्षस्व संयतः ३५।
एवमुक्त्वा लवं वीरं चकार शरपंजरे ।
पुष्कलस्य शरा भूमौ नभसि व्याप्य संस्थिताः ३६।
शरपंजरमध्यस्थो लवः पुष्कलमब्रवीत् ।
महत्कर्म कृतं वीर यन्मां बाणैरपीडयत् ३७।
इत्युक्त्वा बाणसंघातं प्रच्छिद्य वचनं पुनः ।
जगाद पुष्कलं वीरः शरसंधानकोविदः ३८।
पालयात्मानमाजिस्थं मच्छराघातपीडितः ।
पतिष्यसि महीपृष्ठे रुधिरेण परिप्लुतः ३९।
एवमुक्तं समाकर्ण्य पुष्कलः कोपसंयुतः ।
रणे संयोधयामास लवं वीरं महाबलम् ४०।
लवः प्रकुपितो बाणं तीक्ष्णं वैरिविदारणम् ।
जग्राह लवतः कोशादाशीविषमिव क्रुधा ४१।
जाज्वल्यमानः सशरश्चापमुक्तो लवस्य च ।
हृदयं भेत्तुमुद्युक्तश्छिन्नो भारतिनाशु सः ४२।
छिन्ने भारतिना संख्ये शरेण प्राणहारिणा ।
अत्यंतं कुपितो घोरं शरमन्यं समाददे ४३।
आकर्णाकृष्टचापेन स मुक्तो निशितः शरः ।
बिभेद हृदयं तस्य पुष्कलस्य महारणे ४४।
भिन्नो वक्षसि वीरेण सायकेनाशुगामिना ।
पपात धरणीपृष्ठे महाशूरशिरोमणिः ४५।
पतितं तं समालोक्य पुष्कलं पवनात्मजः ।
गृहीत्वा राघवभ्रात्रे ददौ मूर्च्छासमन्वितम् ४६।
मूर्च्छितं तं समालोक्य शोकविह्वलमानसः ।
हनूमंतं लवं हंतुं निदिदेश क्रुधान्वितः ४७।
हनूमान्क्रोधसंप्लुष्टो लवं संख्ये महाबलम् ।
विजेतुं तरसा प्रागाद्वृक्षमुद्यम्य शाल्मलिम् ४८।
वृक्षेण हतवान्मूर्ध्नि लवस्य हनुमान्बली ।
तमापतंतं तरसा चिच्छेद शतधा लवः ४९।
छिन्ने नगे पुनः कोपाद्वृक्षानुत्पाट्य मूलतः ।
ताडयामास हृदये मस्तके च महाबलः ५०।
यान्यान्वृक्षान्समाहृत्याताडयत्पवनात्मजः ।
तांस्तांश्चिच्छेद तरसा बलवान्नतपर्वभिः ५१।
तदा शिलाः समुत्पाट्य गंडशैलोपमाः कपिः ।
पातयामास शिरसि क्षिप्रवेगेन मारुतिः ५२।
स आहतः शिलासंघैः संख्ये कोदंडमुन्नयन् ।
बाणैस्ताश्चूर्णयामास यंत्रिकाभिर्यथा कणाः ५३।
तदात्यंतं प्रकुपितो मारुतिः पुच्छवेष्टनम् ।
चकार समरोपांते लवस्य बलिनः कृती ५४।
स्वं पुच्छेन समाविद्धं वीक्ष्य स्वांबां हृदि स्मरन् ।
मुष्टिना ताडयामास लांगूलं मारुतेर्बली ५५।
तन्मुष्टिघातव्यथितो मारुतिस्तममूमुचत् ।
स मुक्तः पुच्छतो युद्धे शरान्मुंचन्नभूद्बली ५६।
दुर्वारशरघातेन संपीडिततनुः कपिः ।
बाणवर्षं मन्यमानो दुःसहं समरे बहु ५७।
किंकर्तव्यमितोऽस्माभिः पलाय्य यदि गम्यते ।
तदा मे स्वामिनो लज्जा ताडयेद्बालकोऽत्र माम् ५८।
ब्रह्मदत्तवरत्वात्तु मूर्च्छा न मरणं नहि ।
दुःसहा बाणपीडात्र किं कर्तव्यं मयाधुना ५९।
शत्रुघ्नः समरे गत्वा जयं प्राप्नोतु बालकात् ।
अहं तावज्जयाकांक्षी शये कपटमूर्च्छया ६०।
इत्येवं मानसे कृत्वा पपात रणमंडले ।
पश्यतां सर्ववीराणां कपटेन विमूर्च्छितः ६१।
तं मूर्च्छितं समाज्ञाय हनूमंतं महाबलम् ।
जघान सर्वान्नृपतीञ्छरमोक्षविचक्षणः ६२।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे।
हनुमत्पतनंनामैकषष्टितमोऽध्यायः ६१।
खण्डः ५ (पातालखण्डः) — Adhyāya 62
शेष उवाच।
मूर्च्छितं मारुतिं श्रुत्वा शत्रुघ्नः शोकमाययौ ।
किंकर्तव्यं मया संख्ये बालकोऽयं महाबलः १।
स्वयं रथे हेममये तिष्ठन्वीरवरैः सह ।
योद्धुं प्रागाल्लवो यत्र विचित्ररणकोविदः २।
लवं ददर्श शिशुतां प्राप्तं राममिव क्षितौ ।
धनुर्बाणकरं वीरान्क्षिपंतं रणमूर्धनि ३।
विचारयामास तदा कोऽयं रामस्वरूपधृक् ।
नीलोत्पलदलश्यामं वपुर्बिभ्रन्मनोहरम् ४।
एष वै देहतनुजा सुतो भवति नान्यथा ।
अस्मान्विजित्य समरे यास्यते मृगराडिव ५।
अस्माकं नो जयो भाव्यः शक्त्या विरहितात्मनाम् ।
अशक्ताः किं करिष्यामः समरे रणकोविदाः ६।
इत्येवं स विचार्याथ बालकं तु वचोऽब्रवीत् ।
रणे कुतुककर्तारं वीरकोटिनिपातकम् ७।
कस्त्वं बाल रणेऽस्माकं वीरान्पातयसि क्षितौ ।
न जानीषे बलं राज्ञो रामस्य दनुजार्दिनः ८।
का ते माता पिता कस्ते सुभाग्यो जयमाप्तवान् ।
नाम किं विश्रुतं लोके जानीयां ते महाबल ९।
मुञ्च वाहः कथं बद्धः शिशुत्वात्तत्क्षमामि ते ।
आयाहि रामं वीक्षस्व दास्यते बहुलं तव १०।
इत्युक्तो बालको वीरो वचः शत्रुघ्नमावदत् ।
किं ते नाम्नाथ पित्रा वा कुलेन वयसा तथा ११।
युध्यस्व समरे वीर चेत्त्वं बलयुतो भवेः ।
कुशं वीरं नमस्कृत्य पादयोर्याहि नान्यथा १२।
भ्राता रामस्य वीरो भूर्नावयोर्बलिनां वरः ।
वाहं विमोचय बलाच्छक्तिस्ते विद्यते यदि १३।
इत्युक्त्वा शरसंधानं कृत्वा प्राहरदुद्भटः ।
हृदये मस्तके चैव भुजयो रणमंडले १४।
तदा प्रकुपितो राजा धनुः सज्यमथाकरोत् ।
नादयन्मेघगंभीरं त्रासयन्निव बालकम् १५।
बाणानपरिसंख्यातान्मुमोच बलिनां वरः ।
बालो बलेन चिच्छेद सर्वांस्तान्सायकव्रजान् १६।
लवस्यानेकधा मुक्तैर्बाणैर्व्याप्तं महीतलम् ।
व्यतीपाते प्रदत्तस्य दानस्येवाक्षयं गताः १७।
ते बाणा व्योमसकलं व्याप्नुवँल्लवसंधिताः ।
सूर्यमंडलमासाद्य प्रवर्तंते समंततः १८।
मारुतो नाविशद्यत्र बाणपंजरगोचरे ।
मनुष्याणां तु का वार्ता क्षणजीवितशंसिनाम् १९।
तद्बाणान्विस्तृतान्दृष्ट्वा शत्रुघ्नो विस्मयं गतः ।
अच्छिनच्छतसाहस्रं बाणमोचनकोविदः २०।
ताञ्छिन्नान्सायकान्सर्वान्स्वीयान्दृष्ट्वा कुशानुजः ।
धनुश्चिच्छेद तरसा शत्रुघ्नस्य महीपतेः २१।
सोऽन्यद्धनुरुपादाय यावन्मुंचति सायकान् ।
तावद्बभंज सरथं सायकैः शितपर्वभिः २२।
करस्थमच्छिनच्चापं सुदृढं गुणपूरितम् ।
तत्कर्मापूजयन्वीरा रणमंडलवर्तिनः २३।
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
अन्यं रथं समास्थाय ययौ योद्धुं लवं बलात् २४।
अनेकबाणनिर्भिन्नः स्रवद्रक्तकलेवरः ।
पुष्पितः किंशुक इव शुशुभे रणमध्यगः २५।
शत्रुघ्नबाणप्रहतः परं कोपमुपागमत् ।
बाणसंधानचतुरः कुंडलीकृत चापवान् २६।
विशीर्णकवचं देहं शिरोमुकुटवर्जितम् ।
स्रवद्रक्तपरिप्लुष्टं शत्रुघ्नस्य चकार सः २७।
तदा रामानुजः क्रुद्धो दशबाणाञ्छिताग्रकान् ।
मुमोच प्राणसंहारकारकान्कुपितो भृशम् २८।
स तांस्तांस्तिलशः कृत्वा बाणैर्निशितपर्वभिः ।
ताडयामास हृदये शत्रुघ्नस्याष्टभिः शरैः २९।
अत्यंतं बाणपीडार्तो लवं बलिनमुत्स्मरन् ।
दुःसहं मन्यमानस्तं शरान्मुंचन्नभूत्तदा ३०।
तदा लवेन तीक्ष्णेन हृदि भिन्नो विशालके ।
अर्धचंद्रसमानेन तीक्ष्णपर्वसुशोभिना ३१।
स विद्धो हृदि बाणेन पीडां प्राप्तः सुदारुणाम् ।
पपात स्यंदनोपस्थे धनुःपाणिः सुशोभितः ३२।
शत्रुघ्नं मूर्छितं दृष्ट्वा नृपाश्च सुरथादयः ।
दुद्रुवुर्लवमुद्युक्ता जयप्राप्त्यै रणे तदा ३३।
सुरथो विमलो वीरो राजा वीरमणिस्तथा ।
सुमदो रिपुतापाद्याः परिवव्रुश्च संयुगे ३४।
केचित्क्षुरप्रैर्मुसलैः केचिद्बाणैः सुदारुणैः ।
प्रासैः परशुभिः केचित्सर्वतः प्राहरन्नृपाः ३५।
तानधर्मेण युद्धोत्कान्दृष्ट्वा वीरशिरोमणिः ।
दशभिर्दशभिर्बाणैस्ताडयामास संयुगे ३६।
ते बाणवर्षविहता रणमध्ये सुकोपनाः ।
केचित्पलायिताः केचिन्मुमुहुर्युद्धमंडले ३७।
तावत्स राजा शत्रुघ्नो मूर्च्छां संत्यज्य संगरे ।
लवं प्रायान्महावीरं योद्धुं बलसमन्वितः ३८।
आगत्य तं लवं प्राह धन्योसि शिशुसन्निभः ।
न बालस्त्वं सुरः कश्चिच्छलितुं मां समागतः ३९।
केनापि नहि वीरेण पातितो रणमंडले ।
त्वयाहं प्रापितो मूर्च्छां समक्षं मम पश्यतः ४०।
इदानीं पश्य मे वीर्यं त्वां संख्ये पातयाम्यहम् ।
सहस्व बाणमेकं त्वं मापलायस्व बालक ४१।
इत्युक्त्वा समरे बालं शरमेकं समाददे ।
यमवक्त्रसमं घोरं लवणो येन घातितः ४२।
संधाय बाणं जाज्वल्यं हृदि भेत्तुं मनो दधत् ।
लवं वीरसहस्राणां वह्निवत्सर्वदाहकम् ४३।
तं बाणं प्रज्वलंतं स द्योतयंतं दिशो दश ।
दृष्ट्वा सस्मार बलिनं कुशं वैरिनिपातिनम् ४४।
यद्यस्मिन्समये वीरो भ्राता स्याद्बलवान्मम ।
तदा शत्रुघ्नवशता न मे स्याद्भयमुल्बणम् ४५।
एवं तर्कयतस्तस्य लवस्य च महात्मनः ।
हृदि लग्नो महाबाणो घोरः कालानलोपमः ४६।
मूर्च्छां प्राप तदा वीरो भूपसायकसंहतः ।
संगरे सर्ववीराणां शिरोभिः समलंकृते ४७।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे लवमूर्च्छानाम द्विषष्टितमोऽध्यायः ६२।
खण्डः ५ (पातालखण्डः) — Adhyāya 63
शेष उवाच।
लवं विमूर्च्छितं दृष्ट्वा बलिवैरिविदारणम् ।
शत्रुघ्नो जयमापेदे रणमूर्ध्नि महाबलः १।
लवं बालं रथे स्थाप्य शिरस्त्राणाद्यलंकृतम् ।
रामप्रतिनिधिं मूर्त्या ततो गंतुमियेष सः २।
स्वमित्रं शत्रुणा ग्रस्तमिति दुःखसमन्विताः ।
बालामात्रेऽस्य सीतायै त्वरिताः संन्यवेदयन् ३।
बाला ऊचुः।
मातर्जानकि ते पुत्रो बलाद्वाहमपाहरत् ।
कस्यचिद्भूपवर्यस्य बलयुक्तस्य मानिनः ४।
ततो युद्धमभूद्घोरं तस्य सैन्येन जानकि ।
तदा वीरेण पुत्रेण तव सर्वं निपातितम् ५।
पश्चादपि जयं प्राप्तः सुतस्तव मनोहरः ।
तं भूपं मूर्छितं कृत्वा जयमाप रणांगणे ६।
ततो मूर्च्छां विहायैष राजा परमदारुणः ।
संकुप्य पातयामास तव पुत्रं रणांगणे ७।
अस्माभिर्वारितः पूर्वं मा गृहाण हयोत्तमम् ।
अस्मान्सर्वांश्च धिक्कृत्य ब्राह्मणान्वेदपारगान् ८।
इति वाक्यं शिशूनां सा समाकर्ण्य सुदारुणम् ।
पपात भूतलोपस्थे दुःखयुक्ता रुरोद ह ९।
सीतोवाच।
कथं नृपो दयाहीनो बालेन सह युध्यति ।
अधर्मकृतदुर्बुद्धिर्यो मद्बालं न्यपातयत् १०।
लव वीरभवान्कुत्र वर्ततेऽति बलान्वितः ।
कथं त्वं निष्कृपस्याहो राज्ञोऽहार्षीद्धयोत्तमम् ११।
त्वं बालस्ते दुराक्रांताः सर्वशस्त्रविशारदाः ।
रथस्था विरथस्त्वं वै कथं युद्धं समं भवेत् १२।
ताताहं तु त्वया सार्द्धं रामत्यागासुखं जहौ ।
इदानीं रहिता युष्मत्कथं जीवामि कानने १३।
एहि मां मुंच यज्ञाश्वं गच्छत्वेष महीपतिः ।
मद्दुःखं नाभिजानासि मम दुःखप्रमार्जकः १४।
कुशो यद्यभविष्यत्स रणे वीरशिरोमणिः ।
अमोचयिष्यदधुना भवंतं भूपपार्श्वतः १५।
सोऽपि मद्दैवतो नास्ति समीपे किं करोम्यतः ।
दैवमेव ममाप्यत्र कारणं दुःखसंभवे १६।
एवमादि बहुश्रीमत्येषा वै विललाप ह ।
पादांगुष्ठेन लिखती भूमिं नेत्रद्वयाश्रुभिः १७।
बालान्प्रति जगादासौ पृथुकः स च भूपतिः ।
कथं मत्सुतमापात्य रणे कुत्र गमिष्यति १८।
इति वाक्यं वदत्येषा जानकी पतिदेवता ।
तावत्कुशस्तु संप्राप्त उज्जयिन्या महर्षिभिः १९।
माघासितचतुर्दश्यां महाकालं समर्च्य च ।
प्राप्य भूरिवरांस्तस्मादागमन्मातृसन्निधौ २०।
जानकीं विह्वलां दृष्ट्वा नेत्रोद्भूताश्रु विक्लवाम् ।
शोकविह्वलदीनांगीं बभाषे यावदुत्सुकः २१।
तदा स्वबाहुरवदत्स्फुरद्युद्धाभिशंसनः ।
हृदये चरणोत्साहो बभूवातिरथस्य हि २२।
स प्रत्युवाच जननीं दीनगद्गदभाषिणीम् ।
मातस्तव गतं दुःखं मयि पुत्र उपस्थिते २३।
मयि जीवति ते नेत्रादश्रूणि भुवि नो पतन् ।
प्रसूमुवाचाश्रुखिन्नां दीनगद्गदभाषिणीम् २४।
कुशो दुःखमितः सद्यो दुःखितां धीरमानसः ।
मम भ्राता लवः कुत्र वर्तते वैरिमर्दनः २५।
सदा मामागतं ज्ञात्वा प्रहर्षन्सन्निधावियात् ।
न दृश्यते कथं वीरः कुत्र रंतुं गतो बली २६।
केन वा सह बालत्वाद्गतो मां वै निरीक्षितुम् ।
किं त्वं रोदिषि मे मातर्लवः कुत्र स वर्तते २७।
तन्मे कथय सर्वं यत्तव दुःखस्य कारणम् ।
तच्छ्रुत्वा पुत्रवाक्यं सा दुःखिता कुशमब्रवीत् २८।
लवो धृतो नृपेणात्र केनचिद्धयरक्षिणा ।
बबंध बालको मेत्र हयं यागक्रियोचितम् २९।
तद्रक्षकान्बहूञ्जिग्ये एकोऽनेकान्रिपून्बली ।
राजा तं मूर्च्छितं कृत्वा बबंध रणमूर्धनि ३०।
बालका इति मामूचुः सहगंतार एव हि ।
ततोऽहं दुःखिता जाता निशम्य लवमाधृतम् ३१।
त्वं मोचय बलात्तस्मात्काले प्राप्तो नृपोत्तमात् ।
निशम्य मातुर्वचनं कुशः कोपसमन्वितः ।
जगाद तां दशन्नोष्ठं दंतैर्दंतान्विनिष्पिषन् ३२।
कुश उवाच।
मातर्जानीहि तं मुक्तं लवं पाशस्य बंधनात् ।
इदानीं हन्मि तं बाणैः समग्रबलवाहनम् ३३।
यदि देवोऽमरो वापि यदि शर्वः समागतः ।
तथापि मोचये तस्माद्बाणैर्निशितपर्वभिः ३४।
मा रोदिषि मातरिह वीराणां रणमूर्छितम् ।
कीर्तयेऽत्र भवत्येव पलायनमकीर्तये ३५।
देहि मे कवचं दिव्यं धनुर्गुणसमन्वितम् ।
शिरस्त्राणं च मे मातः करवालं तथाशितम् ३६।
इदानीं यामि समरे पातयामि बलं महत् ।
मोचयामि भ्रातरं स्वं रणमध्याद्विमूर्छितम् ३७।
न मोचयाम्यद्य पुत्रं तव मातर्महारणात् ।
तदा तौ मे भवत्पादौ संरुष्टौ भवतां क्षितौ ३८।
शेष उवाच।
इति वाक्येन संतुष्टा जानकी शुभलक्षणा ।
सर्वं प्रादादस्त्रवृंदं जयाशीर्भिर्नियुज्यतम् ३९।
प्रयाहि पुत्र संग्रामं लवं मोचय मूर्च्छितम् ।
इत्याज्ञप्तः कुशः संख्ये कवची कुंडली बली ४०।
मुकुटी करवाली च चर्मधारी धनुर्धरः ।
अक्षयाविषुधी कृत्वा स्कंधयोः सिंहवीर्ययोः ४१।
जगाम तरसा नत्वा मातृपादौ रथाग्रणीः ।
वेगेन यावद्युद्धाय गच्छति क्षिप्रमाहवे ४२।
तावद्ददर्श स्वलवं वैरिवृंदनिपातकम् ।
आयांतं तं कुशं वीरा ददृशुः सुमहाभटाः ४३।
कृतांतमिव संहर्तुं सर्वं विश्वमुपस्थितम् ।
लवो महाबलं दृष्ट्वा कुशं भ्रातरमागतम् ४४।
अत्यंतं वह्निवद्युद्धे दिदीपे वायुना समम् ।
रथादुन्मुच्य चात्मानं युद्धाय स विनिर्गतः ४५।
कुशः सर्वान्रणस्थान्वै वीरान्पूर्वदिशि क्षिपत् ।
पश्चिमायां दिशि लवः कोपात्सर्वान्समैरयत् ४६।
कुशबाणव्यथाव्याप्ता लवसायकपीडिताः ।
सैन्ये जना मुने सर्वे उत्कल्लोलांबुधिभ्रमाः ४७ उत्कल।
कुशेन च लवेनाथ शरव्रातैः प्रपीडितम् ।
न शर्म लेभे सकलं सैन्यं वीरप्रपूरितम् ४८।
इतस्ततः प्रभग्नं तद्बलं त्रस्तं पुनः पुनः ।
न कुत्रचिद्रणे स्थित्वा युद्धमैच्छद्बलान्वितः ४९।
एतस्मिन्समये राजा शत्रुघ्नः परतापनः ।
कुशं वीरं ययौ योद्धुं तादृशं लवसन्निभम् ५०।
कुशं दृष्ट्वा बलाक्रांतं राममूर्तिसमप्रभम् ।
रथे तिष्ठन्हेममये जगाद परवीरहा ५१।
शत्रुघ्न उवाच।
कोऽसि त्वं सन्निभो भ्रात्रा लवेन सुमहाबलः ।
किं नामासि महावीर कस्ते तातः क्व ते प्रसूः ५२।
कथं वने द्विजैर्जुष्टे तिष्ठसि त्वं नरर्षभ ।
सर्वं शंस यथायुध्ये त्वया सह महाबल ५३।
इति वाक्यं समाकर्ण्य कुशः प्रोवाच भूमिपम् ।
मेघगंभीरया वाचा नादयन्रणमंडलम् ५४।
केवलं सुषुवे सीता पतिव्रतपरायणा ।
वने वसावो वाल्मीकेश्चरणार्चनतत्परौ ५५।
मातृसेवासमुद्युक्तौ सर्वविद्याविशारदौ ।
कुशो लव इति प्रख्यामागतौ भूपतेऽनघ ५६।
कस्त्वं वीरो रणश्लाघी किमर्थं हयसत्तमः ।
मुक्तोऽस्ति समरे त्वद्य जेतासि बलसंयुतः ५७।
युध्यस्व त्वं मया सार्द्धं यदि वीरोऽसि भूमिप ।
इदानीं पातयिष्यामि भवंतं रणमूर्धनि ५८।
शत्रुघ्नस्तं सुतं ज्ञात्वा सीताया रामसंभवम् ।
विसिष्माय स्वयं चित्ते कोपाद्धनुरुपाददत् ५९।
तमात्तधनुषं दृष्ट्वा कुशः कोपसमन्वितः ।
विस्फारयामास धनुः स्वीयं सुदृढमुत्तमम् ६०।
मुमोच बाणान्निशिताञ्छत्रुघ्नः सर्वशस्त्रवित् ।
तांश्चिच्छेद कुशः सर्वांल्लीलया प्रहसन्रणे ६१।
बाणाश्च शतसाहस्राः कुशस्य च नृपस्य च ।
भुवनं व्याप्नुवन्सर्वं तच्चित्रमभवन्मुने ६२।
अग्न्यस्त्रेण कुशः सर्वान्ददाह तरसा बली ।
शमयामास तं भूपः पर्जन्यास्त्रेण वीर्यवान् ६३।
शमयामास तं भूपो वायव्येनातिविक्रमः ।
तदा वायुरभूत्तीव्रः सर्वतो रणमंडले ।
पर्वतास्त्रेण तं वायुं क्षोभयंतं समावृणोत् ६४।
वज्रास्त्रेण नृपः संख्ये चिच्छेद सनगोपलान् ।
तदा नारायणास्त्रं स मुमोच कुश उद्भटः ।
नारायणं तदा भूपं नाशकत्परिबाधितुम् ६५।
तदा प्रकुपितोऽत्यतं कुशः कोपपरायणः ।
उवाच भूपं शत्रुघ्नं महाबलपराक्रमम् ६६।
जानामि त्वां महावीरं संग्रामे जयकारिणम् ।
यत्त्वां नारायणास्त्रं मे न बबाधे भयानकम् ६७।
इदानीं पातयाम्यद्य भूमौ त्वां नृपते शरैः ।
त्रिभिश्चेन्नकरोम्येतत्प्रतिज्ञां तर्हि मे शृणु ६८।
यो मनुष्यवपुः प्राप्य दुर्लभं पुण्यकोटिभिः ।
तन्नाद्रियेत संमोहात्तस्य मेस्त्वत्र पातकम् ६९।
सावधानो भवानत्र भवतु प्रधनांगणे ।
पातयामि क्षितौ सद्य इत्युक्त्वा स्वशरासने ७०।
शरं संरोपयामास घोरं कालानलप्रभम् ।
लक्षीकृत्य रिपोर्वक्षो विपुलं कठिनं महत् ७१।
तं संधितं शरं दृष्ट्वा शत्रुघ्नः कोपमूर्च्छितः ।
मुमोच बाणान्निशितान्कुशत्वग्भेदकारकान् ७२।
स बाणो हृदयं तस्य भेत्तुं तत्प्रचचाल वै ।
घोररूपो वह्निसमआशीविषवदुच्छ्वसन् ७३।
स बाणो नृपवर्येण रामं स्मृत्वाशुलक्षितः ।
चिच्छेद कुशमुक्तं स सायकं शितपर्वकम् ७४।
तदात्यंतं प्रकुपितः कुशो बाणस्य कृंतनात् ।
अपरं सायकं चापे दधार शितपर्वकम् ७५।
स यावत्तदुरो भेत्तुं करोति च बलोद्धुरः ।
तं तावदच्छिनत्तस्य शरं कालानलप्रभम् ७६।
तदा कुशो मातृपादौ स्मृत्वा रोषसमन्वितः ।
तृतीयं चापके स्वीये दधार शरमद्भुतम् ७७।
शत्रुघ्नस्तमपि क्षिप्रं च्छेत्तुं बाणं समाददे ।
तावद्विद्धः शरेणासौ पपात धरणीतले ७८।
हाहाकारो महानासीच्छत्रुघ्ने विनिपातिते ।
जयमापकुशस्तत्र स्वबाहुबलदर्पितः ७९।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे।
शत्रुघ्नमूर्च्छने कुशजयोनाम त्रिषष्टितमोऽध्यायः ६३।
खण्डः ५ (पातालखण्डः) — Adhyāya 64
शेष उवाच।
शत्रुघ्नं पतितं वीक्ष्य सुरथः प्रवरो नृपः ।
प्रययौ मणिना सृष्टे रथे तिष्ठन्महाद्भुते १।
पुष्कलस्तु रणे पूर्वं पातितः स विचारयन् ।
लवं ययौ तदा योद्धुं महावीरबलोन्नतम् २।
सुरथः कुशमासाद्य बाणान्मुंचन्ननेकधा ।
व्यथयामास समरे महावीरशिरोमणिः ३।
सुरथं विरथं चक्रे बाणैर्दशभिरुच्छिखैः ।
धनुश्चिच्छेद तरसा सुदृढं गुणपूरितम् ४।
अस्त्रप्रत्यस्त्रसंहारैः क्षैपणैः प्रतिक्षेपणैः ।
अभवत्तुमुलं युद्धं वीराणां रोमहर्षणम् ५।
अत्यंतं समरोद्युक्ते सुरथे दुर्जये नृपे ।
कुशः संचिंतयामास किंकर्तव्यं रणे मया ६।
विचार्य निशितं घोरं सायकं समुपाददे ।
हननाय नृपस्यास्य महाबलसमन्वितः ७।
तमागतं शरं दृष्ट्वा कालानलसमप्रभम् ।
छेत्तुं मतिं चकाराशु तावल्लग्नो महाशरः ८।
मुमूर्च्छ समरे वीरो महावीरबलस्ततः ।
पपात स्यंदनोपस्थे सारथिस्तमुपाहरत् ९।
सुरथे पतिते दृष्ट्वा कुशं जयसमन्वितम् ।
त्रासयंतं वीरगणानियाय पवनात्मजः १०।
समीरसूनुं प्रबलमायांतं वीक्ष्य वानरम् ।
जहास दर्शयन्दंतान्कोपयन्निव तं क्रुधा ११।
उवाच च हनूमंतमेहि त्वं मम संमुखम् ।
भेत्स्ये बाणसहस्रेण मृतो यास्यसि यामिनीम् १२।
इत्युक्तो हनुमाञ्ज्ञात्वा रामसूनुं महाबलम् ।
स्वामिकार्यं प्रकर्तव्यमिति कृत्वा प्रधावितः १३।
शालमुत्पाट्य तरसा विशालं शतशाखिनम् ।
कुशं वक्षसि संलक्ष्य ययौ योद्धुं महाबलः १४।
शालहस्तं समायांतं हनूमंतं महाबलम् ।
त्रिभिः क्षुरप्रैर्विव्याध हृदि चंद्रोपमैर्बली १५।
स बाणविद्धस्तरसा कुशेन बलशालिना ।
शालेन हृदि संजघ्ने दंतान्निष्पिष्य मारुतिः १६।
शालाहतस्तदा बालः किंचिन्नाकंपत स्मयात् ।
तदा वीराः प्रशंसां तु प्रचक्रुस्तस्य बाल्यतः १७।
स शालेन हतो वीरः संहारास्त्रं समाददे ।
संहन्तुं वैरिणं कोपात्कुशः स परमास्त्रवित् १८।
संहारास्त्रं समालोक्य दुर्जयं कुशमोचितम् ।
दध्यौ रामं स्वमनसा भक्तविघ्नविनाशकम् १९।
तदा मुक्तं कुशेनाशु तदस्त्रं हृदि मारुतेः ।
लग्नं महाव्यथाकारि तेन मूर्च्छामितः पुनः २०।
मूर्च्छां प्राप्तं तु तं दृष्ट्वा प्लवंगं बलसंयुतः ।
विव्याध सायकैस्तीक्ष्णैः सैन्यं तत्सकलं महत् २१।
तस्य बाणायुतैर्भग्नं बलं सर्वं रणांगणे ।
पलायनपरं जातं चतुरंगसमन्वितम् २२।
तदा कपिपतिः कोपात्सुग्रीवो रक्षको महान् ।
अभ्यधावन्नगान्नैकानुत्पाट्य कुशमुद्भटम् २३।
कुशः सर्वान्प्रचिच्छेद लीलया प्रहसन्नगान् ।
पुनरप्यागतान्वृक्षांश्चिच्छेद तरसा बली २४।
अनेकबाणव्यथितः सुग्रीवः समरांगणे ।
जग्राह पर्वतं घोरं कुशमस्तकमध्यतः २५।
कुशस्तं नगमायांतं वीक्ष्य बाणैरनेकधा ।
निष्पिपेष चकाराशु महारुद्रांगयोग्यताम् २६।
सुग्रीवस्तन्महत्कर्म दृष्ट्वा बालेन निर्मितम् ।
जयाशाप्रतिनिर्वृत्तो बभूव समरांगणे २७।
रणमध्ये दुराक्रांतं कुशं लांगूलताडकम् ।
अत्यमर्षीरुषाक्रांतस्तं हंतुं नगमाददे २८।
आत्मानं हंतुमुद्युक्तं वीक्ष्य सुग्रीवमादरात् ।
ताडयामास बहुभिः सायकैः शितपर्वभिः २९।
स ताडितो बहुविधैः शरैः पीडासमन्वितः ।
कुशं हंतुं समारब्धो ययौ शालं समाददे ३०।
तदापि च कुशो वीरो वारुणास्त्रं समाददे ।
बबंध तं च पाशेन दृढेन स लवाग्रजः ३१।
स बद्धः पाशकैः स्निग्धैः कुशेन बलशालिना ।
पपात रणमध्ये वै महावीरैरलंकृते ३२।
सुग्रीवं पतितं दृष्ट्वा वीराः सर्वत्र दुद्रुवुः ।
जयमाप लवभ्राता महावीरशिरोमणिः ३३।
तावल्लवो भटाञ्जित्वा पुष्कलं चांगदं तथा ।
प्रतापाग्र्यं वीरमणिं तथान्यानपि भूभुजः ३४।
जयं प्राप्य रणे वीरो लवो भ्रातरमागमत् ।
संग्रामे जयकर्तारं वैरिकोटिनिपातकम् ३५।
परस्परं प्रहृषितौ परिरंभं प्रकुर्वतः ।
जयं प्राप्तौ तदा वार्तां मुने चक्रतुरुन्मदौ ३६।
लव उवाच।
भ्रातस्तव प्रसादेन निस्तीर्णो रणतोयधिः ।
इदानीं वीररणकं शोधयावः सुशोभितम् ३७।
इत्युक्त्वा त्वरितं वीरो जग्मतुस्तौ कुशीलवौ ।
राज्ञो मौलिमणिं चित्रं जग्राह कनकाचितम् ३८।
पुष्कलस्य लवो वीरो जग्राह मुकुटं शुभम् ।
अंगदे च महानर्घ्ये शत्रुघ्नस्यापरस्य च ३९।
गृहीत्वा शस्त्रसंघातं हनूमंतं कपीश्वरम् ।
सुग्रीवं सविधे गत्वा उभावपि बबंधतुः ४०।
पुच्छे वायुसुतस्यायं गृहीत्वा तु कुशानुजः ।
भ्रातरं प्रत्युवाचेदं नेष्यामि स्वकमंदिरम् ४१।
आवयोर्जननी प्रीत्यै गृहीत्वा पुच्छके त्वहम् ।
क्रीडार्थमृषिपुत्राणां कौतुकार्थं ममैव च ४२।
एतच्छ्रुत्वा ततो वाक्यमुवाच च कुशो लवम् ।
अहमेनं ग्रहीष्यामि वानरं बलिनं दृढम् ४३।
इत्येवं भाषमाणौ तौ बद्ध्वा तौ बलिनां वरौ ।
पुच्छयोर्बलिनौ धृत्वा जग्मतुः स्वाश्रमं प्रति ४४।
स्वाश्रमाय प्रगच्छंतौ वीक्ष्य तौ कपिसत्तमौ ।
कंपमानौ जगदतुरन्योन्यं भीतया गिरा ४५।
हनूमान्कपिराजानं प्रत्युवाच भयार्द्रधीः ।
एतौ रामसुतावस्मान्नेष्यतः स्वाश्रमं प्रति ४६।
मया पूर्वं कृतं कर्म जानकीं प्रतिगच्छता ।
तत्र मे जानकी देवी संमुखाभून्मनोहरा ४७।
सा मां द्रक्ष्यति वैदेही बद्धं पाशेन वैरिणा ।
तदा हसिष्यति वरा त्रपा मेऽत्र भविष्यति ४८।
मया किमत्र कर्तव्यं प्राणत्यागो भविष्यति ।
महद्दुःखं चापतितं स रामः किं करिष्यति ४९।
सुग्रीवस्तद्वचः श्रुत्वा ममाप्येवं महाकपे ।
नेष्यते यदि मामेवं निधनं तु भविष्यति ५०।
एवं कथयतोरेव ह्यन्योन्यं भयभीतयोः ।
कुशो लवश्च भवनं मातुः प्रापतुरोजसा ५१।
तावायातौ समीक्ष्यैव जहर्ष जननी तयोः ।
अन्योन्यं परमप्रीत्या परिरेभे निजौ सुतौ ५२।
ताभ्यां पुच्छगृहीतौ तौ वानरौ वीक्ष्य जानकी ।
हनूमंतं च सुग्रीवं सर्ववीरं कपीश्वरम् ५३।
जहास पाशबद्धौ तौ वीक्षमाणा वरांगना ।
उवाच च विमोक्षार्थं वदंती वचनं वरम् ५४।
पुत्रौ प्रमुंचतं कीशौ महावीरौ महाबलौ ।
ईक्षंतौ मां यदि स्फीतौ प्राणत्यागं करिष्यतः ५५।
अयं वै हनुमान्वीरो यो ददाह दनोः पुरीम् ।
अयमप्यृक्षराजो हि सर्ववानरभूमिपः ५६।
किमर्थं विधृतौ कुत्र किं वा कृतमनादरात् ।
पुच्छे युवाभ्यां विधृतौ स महान्विस्मयोऽस्ति मे ५७।
इति मातुर्वचः श्लक्ष्णं वीक्ष्यतां पुत्रकौ तदा ।
ऊचतुर्विनयश्रेष्ठौ महाबलसमन्वितौ ५८।
मातः कश्चन भूपालो रामो दाशरथिर्बली ।
तेन मुक्तो हयः स्वर्णभालपत्रः सुशोभितः ५९।
तत्रैवं लिखितं मातरेकवीराप्रसूर्मम ।
ये क्षत्रियास्ते गृह्णन्तु नोचेत्पादतलार्चकाः ६०।
तदा मया विचारो वै कृतः स्वांते पतिव्रते ।
भवती क्षत्रिया किं न वीरसूः किं न वा भवेत् ६१।
धार्ष्ट्यं तद्वीक्ष्य भूपस्य गृहीतोऽश्वो मया बलात् ।
जितं कुशेन वीरेण सैन्यं तत्पातितं रणे ६२।
मुकुटोऽयं भूमिपतेर्जानीहि पतिदेवते ।
अयमप्यन्यवीरस्य पुष्कलस्य महात्मनः ६३।
जानीहि मुकुटं त्वन्यं मणिमुक्ताविराजितम् ।
अश्वोऽयं मे मनोहारी कामयानो हि भूपतेः ६४।
आरोहणाय मद्भ्रातुर्जानीहि बलिनो वरे ।
इमौ कीशौ मया रंतुमानीतौ बलिनां वरौ ६५।
कौतुकार्थं तवैवैतौ संग्रामे युद्धकारकौ ।
इति वाक्यं समाकर्ण्य जानकी पतिदेवता ६६।
जगाद पुत्रौ तौ वीरौ मोचयेथां पुनः पुनः ।
सीतोवाच।
युवाभ्यामनयः सृष्टो हृतो रामहयो महान् ६७।
अनेके पातिता वीरा इमौ बद्धौ कपीश्वरौ ।
पितुस्तव हयो वीरो यागार्थं मोचितोऽमुना ६८।
तस्यापि हृतवंतौ किं वाजिनं मखसत्तमे ।
मुंचतं प्लवगावेतौ मुंचतं वाजिनां वरम् ६९।
क्षाम्यतां भूपतेर्भ्राता शत्रुघ्नः परकोपनः ।
जनन्यास्तद्वचः श्रुत्वा ऊचतुस्तां बलान्वितौ ७०।
क्षात्रधर्मेण तं भूपं जितवंतौ बलान्वितम् ।
नास्माकमनयोर्भावि क्षात्रधर्मेण युध्यताम् ७१।
वाल्मीकिना पुरा प्रोक्तमस्माकं पठतां पुरः ७२।
कण्वस्याश्रमकेवाहं धृत्वा यागक्रियोचितम् ।
तस्मात्सुतः स्वपित्रापि युध्येद्भ्रात्रापि चानुजः ७३।
गुरुणा शिष्य एवापि तस्मान्नो पापसंभवः ।
त्वदाज्ञातो ऽधुना चावां दास्यावो हयमुत्तमम् ७४।
मोक्ष्यावः कीशावेतौ हि करिष्यावो वचस्तव ।
इत्युक्त्वा मातरं वीरौ गतौ रणे कपीश्वरौ ७५।
अमुंचतां हयं चापि हयमेधक्रियोचितम् ।
सीतादेवी स्वपुत्राभ्यां श्रुत्वा सैन्यं निपातितम् ७६।
श्रीरामं मनसा ध्यात्वा भानुमैक्षत साक्षिणम् ।
यद्यहं मनसा वाचा कर्मणा रघुनायकम् ७७।
भजामि नान्यं मनसा तर्हि जीवेदयं नृपः ।
सैन्यं चापि महत्सर्वं यन्नाशितमिदं बलात् ७८।
पुत्राभ्यां तत्तु जीवेत मत्सत्याज्जगतांपते ।
इति यावद्वचो ब्रूते जानकीपतिदेवता ७९।
तावद्बलं च तत्सर्वं जीवितं रणमूर्द्धनि ८०।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे।
सैन्यजीवनंनाम चतुःषष्टितमोऽध्यायः ६४।
खण्डः ५ (पातालखण्डः) — Adhyāya 65
शेष उवाच।
क्षणान्मूर्च्छां जहौ वीरः शत्रुघ्नः समरांगणे ।
अन्येऽपि वीराबलिनो मूर्च्छां प्राप्ताः सुजीविताः १।
शत्रुघ्नो वाजिनां श्रेष्ठं ददर्श पुरतः स्थितम् ।
आत्मानं च शिरस्त्राणरहितं सैन्यजीवितम् २।
वीक्ष्य चित्रमिदं स्वांते चकारच जगाद ह ।
सुमतिं मंत्रिणां श्रेष्ठं मूर्च्छाविरहितं तदा ३।
कृपां कृत्वा हयं प्रादाद्बालो यज्ञस्य पूर्तये ।
गच्छाम रामं तरसा हयागमनकांक्षिणम् ४।
इत्युक्त्वा स रथे स्थित्वा हयमादाय वेगतः ।
ययौ तदाश्रमाद्दूरं भेरीशंखविवर्जितः ५।
तत्पृष्ठतो महासैन्यं चतुरंगसमन्वितम् ।
चचाल कुर्वन्संभग्नं स्वभारेण फणीश्वरम् ६।
जवेन जाह्नवीं तीर्त्वा कल्लोलजलशालिनीम् ।
जगाम विषये स्वीये स्वकीयजनशोभिते ७।
पुष्कलेन युतो राजा सुरथेन समन्वितः ।
रथे मणिमये तिष्ठन्महत्कोदंडधारकः ८।
हयं तं पुरतः कृत्वा रत्नमालाविभूषितम् ।
श्वेतातपत्रं तस्यैव मूर्ध्नि चामरभूषितम् ९।
अनेकरथसाहस्रैः परितो बलिभिर्नृपैः ।
उद्यत्कोदंडललितैर्वीरनादविभूषितैः १०।
क्रमेण नगरीं प्राप सूर्यवंशविभूषिताम् ।
अनेकैः केतुभिः श्रेष्ठैर्भूषितां दुर्गराजिताम् ११।
रामः श्रुत्वा हयं प्राप्तं शत्रुघ्नेन सहामुना ।
पुष्कलेन च वीरेण ययौ हर्षमनेकधा १२।
कटकं निर्दिदेशासौ चतुरंगं महाबलम् ।
लक्ष्मणं प्रेषयामास भ्रातरं बलिनां वरम् १३।
लक्ष्मणः सैन्यसहितो गत्वा भ्रातरमागतम् ।
परिरेभे मुदाक्रांतः क्षतशोभितगात्रकम् १४।
सर्वत्र कुशलं पृष्टो वार्तां चात्र चकार सः ।
परमं हर्षमापन्नः शत्रुघ्नः संगतो मुदा १५।
सौमित्रिः स्वरथे स्थित्वा भ्रात्रा सह महामनाः ।
सैन्येन महता वीरो ययौ स्वनगरीं प्रति १६।
सरयूः पुण्यसलिला पवित्रित जगत्त्रया ।
रामपादरजः पूता शरच्चंद्रसमप्रभा १७।
हंसकारंडवाकीर्णा चक्रवाकोपशोभिता ।
विचित्रतरवर्णैश्च पक्षिभिर्नादिता भृशम् १८।
मंडपास्तत्र बहुशो रामचंद्रेणकारिताः ।
ब्राह्मणानां वेदविदां पृथक्पाठनिनादकाः १९।
क्षत्रियास्तत्र बहवो धनुःपाणि सुशोभिताः ।
ज्याटंकारेण बहुना नादयंतो महीतलम् २०।
भुंजते ब्राह्मणा यत्र विचित्रान्नैर्मनोहरैः ।
परस्परं प्रपश्यंतो वार्तां चक्रुर्मनोहराम् २१।
पायसान्नानि शुभ्राणि चंद्रकांतिसमानि च ।
क्षीराज्यबहुयुक्तानि शर्करामिश्रितानि च २२।
अपूपास्तत्र बहुलाश्चंद्रबिंबसमाः श्रिया ।
कर्पूरादिसुगंधेन वासिताः सुमनोहराः २३।
फेनिकाघटकाः स्निग्धाः शतच्छिद्रा विरंध्रकाः ।
शष्कुल्यो मंडकामृष्टा मधुरान्नसमन्विताः २४।
भक्तं कुमुदसंकाशं मुद्गदालिविमिश्रितम् ।
सुगंधेन समायुक्तमत्यंतं प्रीतिदायकम् २५।
ओदनो दधिना युक्तो भीमसेनसमन्वितः ।
स्वादुपाककरैः सृष्टः पात्रे मुक्तः प्रवेषकैः २६।
तत्र केचिद्द्विजाः पात्रे निक्षिप्तं वीक्ष्य पायसम् ।
परस्परं ते प्रत्यूचुः किमिदं दृश्यतेऽद्भुतम् २७।
किं चंद्रबिंबं नभसः पतितं तमसो भयात् ।
अमृतं तु भवत्यत्र मृत्युनाशकमद्भुतम् २८।
तच्छ्रुत्वा रोषताम्राक्षः प्रोवाचान्यो द्विजोत्तमः ।
नभवत्येव चंद्रस्य बिंबं त्वमृतविप्लुतम् २९।
एकमिंदोर्वपुस्त्वेतद्दृश्यते सदृशं कथम् ।
ब्राह्मणानां सहस्रस्य पात्रे पात्रे पृथक्पृथक् ३०।
ततो जानीहि कुमुदं कर्पूरं वा भविष्यति ।
मा जानीहि मृगांकस्य बिंबं शुभ्रश्रियान्वितम् ३१।
तावदन्यो रुषाक्रांतो धुन्वन्स्वं मस्तकं तथा ।
न जानंति द्विजा मूढाः स्वादुज्ञाना विचक्षणाः ३२।
इदं तु क्षौद्रकंदस्यरसेन परिपाचितम् ।
जानीहि शतपत्रस्य पुष्पाणि मधुराणि च ३३।
एवं परस्परं विप्राः कंदमूलफलाशिनः ।
तर्कयंति मुने प्रीता रसज्ञानेऽतिलोलुपाः ३४।
तावदन्यो द्विजः प्राह क्षत्त्रियाणां वरं जनुः ।
भोक्ष्यंते तादृशं त्वन्नं महत्पुण्यैरुपस्कृतम् ३५।
तदा तं प्राब्रवीद्विप्रो दत्तस्य फलमीदृशम् ।
ये ददत्यग्रजन्मभ्यः प्राप्नुवंति त ईप्सितम् ३६।
यैरर्चितो नैव हरिर्नैवेद्यैर्विविधैर्मुहुः ।
तेषामेतादृशं भोज्यं न भवेदक्षिगोचरम् ३७।
यैर्नरैरग्रजन्मानो भोजिता विविधै रसैः ।
भुंजते ते स्वादुरसं पापिनां चक्षुरुज्झितम् ३८।
एवंविधैरसैर्मिष्टैर्भोजिता द्विजसत्तमाः ।
मंडपे विपठंतस्ते शब्दब्रह्मविचक्षणाः ३९।
नृत्यंत्येके हसन्त्येके नदन्त्येके प्रहर्षिताः ।
उत्सवो बहुरुद्भाति तत्र शत्रुघ्न आगमत् ४०।
रामः शत्रुघ्नमायांतं पुष्कलेन समन्वितम् ।
निरीक्ष्यमुदमुद्भूतां रक्षितुं नाशकत्तदा ४१।
यावदुत्तिष्ठते रामो भ्रातरं हयपालकम् ।
तावद्रामपदेलग्नः शत्रुघ्नो भ्रातृवत्सलः ४२।
पादयोः पतितं वीक्ष्य भ्रातरं विनयान्वितम् ।
परिरेभे दृढं प्रीतः क्षतसंशोभितांगकम् ४३।
अश्रूणि बहुधा मुंचन्हर्षाच्छिरसि राघवः ।
अत्यंतं परमां प्राप मुदं वचनदूरगाम् ४४।
पुष्कलं स्वीयपदयोर्नम्रं विनयविह्वलः ।
सुदृढं भुजयोर्मध्ये विनीयापीडयद्भृशम् ४५।
हनूमंतं तथा वीरं सुग्रीवं चांगदं तथा ।
लक्ष्मीनिधिं जनकजं प्रतापाग्र्यं रिपुंजयम् ४६।
सुबाहुं सुमदं वीरं विमलं नीलरत्नकम् ।
सत्यवंतं वीरमणिं सुरथं रामसेवकम् ४७।
अन्यानपि महाभागान्रघुनाथः स्वयं तदा ।
परिरेभे दृढं स्निग्धान्पादयोः प्रणतान्नृपान् ४८।
सुमतिः श्रीरघुपतिं भक्तानुग्रहकारकम् ।
परिरभ्य दृढं प्रीतः संमुखे तिष्ठदुन्नतः ४९।
तदा रामो निजामात्यं वीक्ष्य सान्निध्यमागतम् ।
उवाच परमप्रीत्या मंत्रिणं वदतां वरः ५०।
सुमते मंत्रिणां श्रेष्ठ शंश मे वाग्मिनां वर ।
क एते भूमिपाः सर्वे कथमत्र समागताः ५१।
कुत्रकुत्र हयः प्राप्तः केनकेन नियंत्रितः ।
कथं वै मोचितो भ्रात्रा महाबलसुशालिना ५२।
शेष उवाच।
इत्युक्तो मंत्रिणां श्रेष्ठः सुमतिः प्राह राघवम् ।
प्रहसन्मेघगंभीर नादेन च सुबुद्धिमान् ५३।
सुमतिरुवाच।
सर्वज्ञस्य पुरस्तेऽद्य मया कथमुदीर्यते ।
पृच्छसि त्वं लोकरीत्या सर्वं जानासि सर्वदृक् ५४।
तथापि तव निर्देशं शिरस्याधाय सर्वदा ।
ब्रवीमि तच्छृणुष्वाद्य सर्वराजशिरोमणे ५५।
त्वत्प्रसादादहो स्वामिन्सर्वत्र जगतीतले ।
परिबभ्राम ते वाहो भालपत्रसुशोभितः ५६।
न कश्चित्तं निजग्राह स्वनामबलदर्पितः ।
स्वं स्वं राज्यं समर्प्याथ प्रणेमुस्ते पदांबुजम् ५७।
को वा रावण दैत्येंद्र निहंतुर्वाजिसत्तमम् ।
गृह्णाति विजयाकांक्षी जरामरणवर्जितः ५८।
अहिच्छत्रां गतस्तावत्तव वाजी मनोरमः ।
तद्राजा सुमदः श्रुत्वा हयं प्राप्तं तव प्रभो ५९।
सपुत्रः प्रबलः सर्वसैन्येन बलिना वृतः ।
सर्वं समर्पयामास राज्यं निहतकंटकम् ६०।
यो राजा जगतां नेत्रीं मातरं जगदंबिकाम् ।
प्रसाद्य चिरमायुष्यं लेभे राज्यमकंटकम् ६१।
स एष त्वां प्रणमति सुमदः प्रभुसेवितम् ।
तं गृहाण कृपादृष्ट्या चिराद्दर्शनकांक्षकम् ६२।
ततः सुबाहुभूपस्य नगरे बलपूरिते ।
दमनस्तस्य वै पुत्रः प्रजग्राह हयोत्तमम् ६३।
तेन साकं महद्युद्धं बभूव दमनेन च ।
पुष्कलो जयमापेदे संमूर्छ्य सुभुजात्मजम् ६४।
ततः सुबाहुः संक्रुद्धो रणे पवनजं बलात् ।
युयुधे तव पादाब्जसेवकं बलिनां वरम् ६५।
तस्य पादाहतो ज्ञानं प्राप्य शापतिरस्कृतम् ।
तुभ्यं समर्प्य सकलं वाजिनः पालकोऽभवत् ६६।
एष त्वां सुभुजो राजा प्रणमत्युन्नतांगकः ।
कृपादृष्ट्याभिषिंच त्वं सुबाहुं नयकोविदम् ६७।
ततो मुक्तो हयो रेवाह्रदे स निममज्ज ह ।
तत्र प्राप्तं मोहनास्त्रं शत्रुघ्नेन बलीयसा ६८।
ततो देवपुरे प्रागाच्छिववासविभूषिते ।
तत्रत्यं तु विजानासि यतस्त्वं तत्र चागतः ६९।
विद्युन्माली हतो दैत्यः सत्यवान्संगतस्ततः ।
सुरथेन समं युद्धं जानासि त्वं महामते ७०।
ततः कुंडलकान्मुक्तो हयो बभ्राम सर्वतः ।
न कश्चित्तं निजग्राह स्ववीर्यबलदर्पितः ७१।
वाल्मीकेराश्रमे रम्ये हयः प्राप्तो मनोरमः ।
तत्र यत्कुतुकं जातं तच्छृणुष्व नरोत्तम ७२।
तत्रार्भस्तव सारूप्यं बिभ्रत्षोडशवार्षिकः ।
जग्राह वीक्ष्य पत्रांकं वाजिनं बलवत्तमः ७३।
तत्र कालजिता युद्धं महज्जातं नरोत्तम ।
निहतस्तेन वीरेण शितधारेण हेतिना ७४।
अनेके निहताः संख्ये पुष्कलाद्या महाबलाः ।
मूर्च्छितं चापि शत्रुघ्नं चक्रे वीरशिरोमणिः ७५।
तदा राजा महद्दुःखं विचार्य हृदिसंयुगे ।
कोपेन मूर्च्छितं चक्रे वीरो हि बलिनां वरः ७६।
स यावन्मूर्च्छितो राज्ञा तावदन्यः समागतः ।
तेनैतेन च संजीव्य नाशितं कटकं तव ७७।
सर्वेषां मूर्च्छितानां तु शस्त्राण्याभरणानि च ।
गृहीत्वा वानरौ बद्धौ जग्मतुः स्वाश्रमं प्रति ७८।
कृपां कृत्वा पुनस्तेन दत्तोऽश्वो यज्ञियो महान् ।
जीवनं प्रापितं सर्वं कटकं नष्टजीवितम् ७९।
वयं गृहीत्वा तं वाहं प्राप्तास्तव समीपतः ।
एतदेव मया ज्ञातं तदुक्तं ते पुरोवचः ८०।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे।
सुमतिनिवेदनंनाम पंचषष्टितमोऽध्यायः ६५।
खण्डः ५ (पातालखण्डः) — Adhyāya 66
शेष उवाच।
कथितौ वै सुमतिना वाल्मीकेराश्रमे शिशू ।
पुत्रौ स्वीयाविति ज्ञात्वा वाल्मीकिं प्रति संजगौ १।
श्रीराम उवाच।
कौ शिशू मम सारूप्यधारकौ बलिनां वरौ ।
किमर्थं तिष्ठतस्तत्र धनुर्विद्याविशारदौ २।
अमात्यकथितौ श्रुत्वा विस्मयो मम जायते ।
यौ शत्रुघ्नं हनूमंतं लीलयांग बबंधतुः ३।
तस्माच्छंस मुने सर्वं बालयोश्च विचेष्टितम् ।
यथा मे परमा प्रीतिर्भवत्येवमभीप्सिता ४।
इति तत्कथितं श्रुत्वा राजराजस्य धीमतः ।
उवाच परमं वाक्यं स्पष्टाक्षरसमन्वितम् ५।
वाल्मीकिरुवाच।
तवांतर्यामिणो नॄणां कथं ज्ञानं च नो भवेत् ।
तथापि कथयाम्यत्र तव संतोषहेतवे ६।
राजन्यौ बालकौ मह्यमाश्रमे बलिनां वरौ ।
त्वत्सारूप्यधरौ स्वांगमनोहरवपुर्धरौ ७।
त्वया यदा वने त्यक्ता जानकी वै निरागसी ।
अंतर्वत्नी वने घोरे विलपंती मुहुर्मुहुः ८।
कुररीमिव दुःखार्तां वीक्ष्याहं तव वल्लभाम् ।
जनकस्य सुतां पुण्यामाश्रमे त्वानयं तदा ९।
तस्याः पर्णकुटीरम्या रचिता मुनिपुत्रकैः ।
तस्यामसूत पुत्रौ द्वौ भासयंतौ दिशो दश १०।
तयोरकरवं नाम कुशो लव इति स्फुटम् ।
ववृधातेऽनिशं तत्र शुक्लपक्षे यथा शशी ११।
कालेनोपनयाद्यानि सर्वाणि कृतवानहम् ।
वेदान्सांगानहं सर्वान्ग्राहयामास भूपते १२।
सर्वाणि सरहस्यानि शृणुष्व मुखतो मम ।
आयुर्वेदं धनुर्विद्यां शस्त्रविद्यां तथैव च १३।
विद्यां जालंधरीं चाथ संगीतकुशलौ कृतौ ।
गंगाकूले गायमानौ लताकुंजवनेषु च १४।
चंचलौ चलचित्तौ तौ सर्वविद्याविशारदौ ।
तदाहमतिसंतोषं प्राप्तश्चाहं रघूत्तम १५।
दत्त्वा सर्वाणि चास्त्राणि मस्तके निहितः करः ।
अतीवगानकुशलौ दृष्ट्वा लोका विसिष्मिरे ।
षड्जमध्यमगांधारस्वरभेदविशारदौ १६।
तथाविधौ विलोक्याहं गापयामि मनोहरम् ।
भविष्यज्ञानयोगाच्च कृतं रामायणं शुभम् १७।
मृदंगपणवाद्यादि यंत्रवीणाविशारदौ ।
वनेवने च गायंतौ मृगपक्षिविमोहकौ १८।
अद्भुतं गीतमाधुर्यं तव रामकुमारयोः ।
श्रोतुं तौ वरुणो बाला वा निनाय विभावरीम् १९।
मनोहरवयोरूपौ गानविद्याब्धिपारगौ ।
कुमारौ जगदुस्तत्र लोकेशादेशतः कलम् २०।
परमं मधुरं रम्यं पवित्रं चरितं तव ।
शुश्राव वरुणः सार्द्धं कुटुंबेन च गायकैः २१।
शृण्वन्नैव गतस्तृप्तिं मित्रेण वरुणः सह ।
सुधातोऽपि परं स्वादुचरितं रघुनंदन २२।
गानानंदमहालोभ हृतप्राणेंद्रियक्रियः ।
प्रत्यागंतुं दिदेशासौ कुमारौ न हि तावकौ २३।
रमणीय महाभोगैर्लोभितावपि बालकौ ।
चलितौ न गुरोश्चात्ममातुः पादांबुजस्मृतेः २४।
अहं चापि गतः पश्चाद्वरुणालयमुत्तमम् ।
वरुणः प्रेमसहितः पूजां चक्रे मम प्रभो २५।
पृच्छते जन्मकर्मादि सर्वज्ञायापि बालयोः ।
वरुणायाब्रुवं सर्वं जन्मविद्याद्युपागमम् २६।
श्रुत्वा सीतासुतौ देवः स चक्रेंबरभूषणैः ।
देवदत्तमिति ग्राह्यमिति मद्वाक्यगौरवात् २७।
आहृतं राजपुत्राभ्यां यद्दत्तं वरुणेन तत् ।
प्रसन्नेन तयोर्वाद्यगानविद्यावयोगुणैः ।
ततो मामब्रवीत्सीतामुद्दिश्य वरुणः कृती २८।
सीतापति व्रताधुर्या रूपशीलवयोन्विता ।
वीरपुत्रा महाभागा त्यागं नार्हति कर्हिचित् २९।
महती हानिरेतस्यास्त्यागे हि रघुनंदन ।
सिद्धीनां परमासिद्धिरेषा ते ह्यनपायिनी ३०।
पामरैर्महिमानास्या ज्ञायते यदि दूषितैः ।
का हानिस्तावता राम पुण्यश्रवणकीर्तन ३१।
अस्मत्साक्षिकमेतस्याः पावनं चरितं सदा ।
सद्यस्ते सिद्धिमायांति ये सीतापदचिंतकाः ३२।
यस्याः संकल्पमात्रेण जन्मस्थितिलयादिकाः ।
भवंति जगतां नित्यं व्यापारा ऐश्वरा अमी ३३।
सीता मृत्युःसुधा चेयं तपत्येषा च वर्षति ।
स्वर्गो मोक्षस्तपो योगो दानं च तव जानकी ३४।
ब्रह्माणं शिवमन्यांश्च लोकपालान्मदादिकान् ।
करोत्येषा करोत्येव नान्या सीता तव प्रिया ३५।
त्वं पिता सर्वलोकानां सीता च जननीत्यतः ।
कुदृष्टिरत्र तु क्षेमयोग्या न तव कर्हिचित् ३६।
वेत्ति सीतां सदा शुद्धां सर्वज्ञो भगवान्स्वयम् ।
भवानपि सुतां भूमेः प्राणादपि गरीयसीम् ३७।
आदर्तव्या त्वया तस्मात्प्रिया शुद्धेति जानकी ।
न च शापपराभूतिः सीतायां त्वयि वा विभो ३८।
इमानि मम वाक्यानि वाच्यानि जगतां पतिम् ।
रामं प्रति त्वया साक्षाद्वाल्मीके मुनिसत्तम ३९।
इत्युक्तो वरुणेनाहं सीतासंग्रहकारणात् ।
एवमेव हि सर्वैश्च लोकपालैरपि प्रभो ४०।
श्रुतं रामायणोद्गानं पुत्राभ्यां ते सुरासुरैः ।
गंधर्वैरपि सर्वैश्च कौतुकाविष्टमानसैः ४१।
प्रसन्ना एव सर्वेऽपि प्रशशंसुः सुतौ च ते ।
त्रैलोक्यं मोहितं ताभ्यां रूपगानवयोगुणैः ४२।
दत्तं यल्लोकपालैस्तु सुताभ्यां स्वीकृतं हि तत् ।
ऋषिभिश्च वरा आभ्यामन्येभ्यः कीर्तिरेव च ४३।
एकरामं जगत्सर्वं पूर्वं मुनिविलोकितम् ।
त्रिराममधुना जांतं सुताभ्यां तेखिलेक्षितम् ४४।
एककामपरामूर्तिर्लोके पूर्वमवेक्षिता ।
कामैश्चतुर्भिरद्यायं जायते च यतस्ततः ४५।
सर्वत्रान्यत्र राजेंद्र रामपुत्रौ कुशीलवौ ।
गीयते अत्र संकोचः किं कृतो विदुषि त्वयि ४६।
कृतेषु तव सर्वेषु श्रूयते महती स्तुतिः ।
त्यागादन्यत्र सीतायाः पुण्यश्लोकशिरोमणे ४७।
त्वया त्रैलोक्यनाथेन गार्हस्थ्यमनुकुर्वता ।
अंगीकार्यौ सुतौ रामविद्याशीलगुणान्वितौ ४८।
न तौ स्वां मातरं हित्वा स्थास्यतोऽभवदंतिके ।
जनन्या सहितौ तस्मादाकार्यौ भवता सुतौ ४९।
दत्त एव तयेदानीं सेनासंजीवनात्पुनः ।
प्रत्ययः सर्वलोकानां पावनः पततामपि ५०।
नाज्ञातं तेन चास्माकं नामराणां च मानद ।
शुद्धौ तस्यास्तु लोकानां यन्नष्टं तदिह ध्रुवम् ५१।
शेष उवाच।
इति वाल्मीकिना रामः सर्वज्ञोऽप्यवबोधितः ।
स्तुत्वा नत्वा च वाल्मीकिं प्रत्युवाच स लक्ष्मणम् ५२।
गच्छ ताताधुना सीतामानेतुं धर्मचारिणीम् ।
सपुत्रां रथमास्थाय सुमंत्रसहितः सखे ५३।
श्रावयित्वा ममेमानि मुनेश्च वचनान्यपि ।
संबोध्य च पुरीमेतां सीतां प्रत्यानयाशु ताम् ५४।
लक्ष्मण उवाच।
यास्यामि तव संदेशात्सर्वेषां नः प्रभोर्विभो ।
देव्या यास्यति चेद्देव यात्रा मे सफला ततः ५५।
मयि सामाभ्यसूयैव पूर्वदोषवशात्सती ।
अनागतायां तस्यां तु क्षमस्वागंतुकं मम ५६।
इत्युक्त्वा लक्ष्मणो रामं रथे स्थित्वा नृपाज्ञया ।
सुमित्रमुनिशिष्याभ्यां युतोऽगाद्भूमिजाश्रमम् ५७।
कथं प्रसादनीया स्यात्सीता भगवती मया ।
पूर्वदोषं विजानंती रामाधीनस्य मे सदा ५८।
एवं संचिंतयन्नंतर्हर्षसंकोच मध्यगः ।
लक्ष्मणः प्राप सीताया आश्रमं श्रमनाशनम् ५९।
रथात्सोथावरुह्यारादश्रुरुद्धविलोचनः ।
आर्ये पूज्ये भगवति शुभे इति वदन्मुहुः ६०।
पपात पादयोस्तस्या वेपमानाखिलांगकः ।
उत्थापितस्तया देव्या प्रीतिविह्वलया स च ६१।
किमर्थमागतः सौम्य वनं मुनिजनप्रियम् ।
आस्ते स कुशली देवः कौसल्याशुक्तिमौक्तिकः ६२।
अरोषो मयि कश्चित्स कीर्त्या केवलयादृतः ।
कीर्त्यते सर्वलोकैश्च कल्याणगुणसागरः ६३।
अकीर्तिभीतिमापन्नस्त्यक्तुं मां त्वां नियुक्तवान् ।
यदि ततश्च लोकेषु कीर्तिस्तस्यामलाभवत् ६४।
मृत्वापि पतिसत्कीर्तिं कुर्वंत्या मे हि सुस्थिरा ।
पतिसामीप्यमेवाशु भूयादेव हि देवर ६५।
त्यक्तयापि मया तेन नासौ त्यक्तो मनागपि ।
फलं हि साधनायत्तं हेतुः फलवशो न तु ६६।
कौसल्याशल्यशून्यासौ कृपापूर्णा सदा मयि ।
आस्ते कुशलिनी यस्याः पुत्रस्त्रैलोक्यपालकः ६७।
सर्वे कुशलिनः संति भरताद्याश्च बांधवाः ।
सुमित्रा च महाभागा यस्याः प्राणादहं प्रिया ६८।
मद्वत्किं त्वमपि त्यक्तः सर्वलोकेषु कीर्तये ।
राज्ञः किं दुस्त्यजं तस्य स्वात्मापि यस्य न प्रियः ६९।
इत्येवं बहुधा पृष्टस्तया रामानुजः सताम् ।
उवाच कुशली देवः कुशलं त्वयि पृच्छति ७०।
कौसल्या च सुमित्रा च याश्चान्या राजयोषितः ।
पप्रच्छुः कुशलं देवि प्रीत्या त्वामाशिषा सह ७१।
कुशलप्रश्नपूर्वं हि तव पादाभिवंदनम् ।
निवेदयामि शत्रुघ्न भरताभ्यां कृतं शुभे ७२।
गुरुभिर्गुरुपत्नीभिः सर्वाभिरपि ते शुभे ।
दत्ताशीः कुशलप्रश्नः कृतश्च त्वयि जानकि ७३।
आकारयति देवस्त्वां निर्व्यलीकेन चात्मवान् ।
अलभ्यान्यरतिस्त्वत्तोऽन्यत्र सर्वत्र भामिनि ७४।
शून्या एव दिशः सर्वास्त्वां विना जनकात्मजे ।
पश्यन्रोदिति नाथो नो रोदयन्नितरानपि ७५।
यत्र देवि स्थितासि त्वं नित्यं स्मरति राघवः ।
अशून्यं तु तमेवासौ मन्यमानो विदेहजे ७६।
धन्योऽयमाश्रमो जातो वाल्मीकेर्यत्र जानकी ।
कालं क्षपति वार्ताभिर्मदीयाभिर्वदन्निति ७७।
उक्तवान्यद्रुदन्किंचित्स्वामी नस्त्वयि तच्छृणु ।
व्यक्तीभवति वक्तुर्यद्धृद्गतं तदसंशयम् ७८।
लोका वदंति मामेव सर्वेषामीश्वरेश्वरम् ।
अहं त्वदृष्टमेवैषां स्वतंत्रं कारणं ब्रुवे ७९।
अदृष्टमेव कार्येषु सर्वेशोऽप्यनुगच्छति ।
ईशनीयाः कुतो नैतदन्वीयुः सुखदुःखयोः ८०।
धनुर्भंगे मतिभ्रंशे कैकय्या मरणे पितुः ।
अरण्यगमने तत्र हरणे तव वारिधेः ८१।
तरणे रक्षसां भर्तुर्मारणेऽपि रणेरणे ।
सहायीभवने मह्यमृक्षवानररक्षसाम् ८२।
लाभे तव प्रतिज्ञायाः सत्यत्वे च सतीमणे ।
पुनः स्वबंधुसंबंधे राज्यप्राप्तौ च भामिनि ८३।
पुनः प्रियावियोगे च कारणं यदवारणम् ।
प्रसीदति तदेवाद्य संयोगे पुनरावयोः ८४।
वेदोऽन्यथा कृतो येन लोकोत्पत्ति लयौ यतः ।
लोकाननुगतस्तस्मात्कारणं प्रथमं त्वहम् ८५।
अदृष्टमनुवर्तंते लोकाः संप्रतिबोधकाः ।
भोगेन जीर्यतेऽदृष्टं तत्तद्भुक्तं त्वया वने ८६।
स्नेहोऽकारणकः सीते वर्धमानो मम त्वयि ।
लोकादृष्टे तिरस्कृत्य त्वामाह्वयत आदरात् ८७।
शङ्कितेनापि दोषेण स्नेहनैर्मल्यमज्जनम् ।
भवतीति स वै शुद्ध आस्वाद्यो विबुधैः सदा ८८।
स्नेहशुद्धिरियं भद्रे कृता मे त्वयि नान्यथा ।
मंतव्यं रक्षितोऽप्येष लोकः शिष्टानुवर्तिना ८९।
आवयोर्निंदया देवि सर्वावस्था सुशुद्धये ।
लोको नश्येद्धि संमूढश्चरितैर्महतामयम् ९०।
आवयोरुज्ज्वला कीर्तिरावयोरुज्ज्वलो रसः ।
आवयोरुज्ज्वलौ वंशावावयोरुज्ज्वलाः क्रियाः ९१।
भवेयुरावयोः कीर्तिर्गायका उज्ज्वला भुवि ।
आवयोर्भक्तिमंतो ये ते यांत्यंते भवांबुधेः ९२।
इत्युक्ता भवती तेन प्रीयमाणेन ते गुणैः ।
पत्युः पादांबुजे द्रष्टुं करोतु सदयं मनः ९३।
वासांसि रमणीयानि भूषणानि महांति च ।
अंगरागस्तथा गंधा मनोज्ञास्त्वयि योजिताः ९४।
रथो दास्यश्च रामेण प्रेषिता उत्सवायते ।
छत्रं च चामरे शुभ्रे गजा अश्वाश्च शोभने ९५।
स्तूयमाना द्विजश्रेष्ठैः सूतमागधबंदिभिः ।
वंद्यमाना पुरस्त्रीभिः सेव्यमाना च योद्धृभिः ९६।
पुष्पैः संछाद्यमाना च देवीदेवांगनादिभिः ।
धनानि ददती तेभ्यो द्विजातिभ्यो यथेप्सितम् ९७।
गजारूढौ कुमारौ च पुरस्कृत्य जनेश्वरी ।
मयानुगम्यमाना च गच्छायोध्यां निजां पुरीम् ९८।
त्वयि तत्र गतायां तु संगतायां प्रियेण ते ।
सर्वासां राजनारीणामागतानां च सर्वशः ९९।
सर्वासामृषिपत्नीनां कौसलानां तथैव च ।
मंगलैर्वाद्यगीताद्यैर्भवत्वद्य महोत्सवः १००।
शेष उवाच-।
इतिविज्ञापनां देवी श्रुत्वा सीता तमाह सा ।
नाहं कीर्तिकरी राज्ञो ह्यपकीर्तिः स्वयं त्वहम् १०१।
किं मया तस्य साध्यं स्याद्धर्मकामार्थशून्यया ।
सत्येवं भवतां भूपे को विश्वासो निरंकुशे १०२।
प्रत्यक्षा वा परोक्षा वा भर्तुर्दोषा मनःस्थिताः ।
न वाच्या जातु मादृश्या कल्याणकुलजातया १०३।
पाणिग्रहणकाले मे यद्रूपो हृदये स्थितः ।
तद्रूपो हृदयान्नासौ कदाचिदपसर्पति १०४।
लक्ष्मणेमौ कुमारौ मे तत्तेजोंशसमुद्भवौ ।
वंशांकुरौ महाशूरौ धनुर्विद्याविशारदौ १०५।
नीत्वा पितुः समीपं तु लालनीयौ प्रयत्नतः ।
तपसाराधयिष्यामि रामं काममिह स्थिता १०६।
वाच्यं त्वया महाभाग पूज्यपादाभिवंदनम् ।
सर्वेभ्यः कुशलं चापि गत्वेतो मदपेक्षया १०७।
पुत्रौ समादिशत्सीता गच्छतं पितुरंतिकम् ।
शुश्रूषणीय एवासौ भवद्भ्यां स्वपदप्रदः १०८।
आज्ञप्तावप्यनिच्छंतौ तौ कुमारौ कुशीलवौ ।
वाल्मीकिवचनात्तत्र जग्मतुश्च सलक्ष्मणौ १०९।
वाल्मीकेरेव पादाब्जसमीपं तत्सुतौ गतौ ।
लक्ष्मणोऽपि ववंदे तं गत्वा बालकसंयुतः ११०।
वाल्मीकिर्लक्ष्मणस्तौ तु कुमारौ मिलिता अमी ।
सभायां संस्थितं रामं ज्ञात्वा ते जग्मुरुत्सुकाः १११।
लक्ष्मणः प्रणिपत्याथ सीतावाक्यादिसर्वशः ।
कथयामास रामाय हर्षशोकयुतः सुधीः ११२।
सीतासंदेशवाक्येभ्यो रामो मूर्च्छां समन्वभूत् ।
संज्ञामवाप्य चोवाच लक्ष्मणं नयकोविदम् ११३।
गच्छ मित्र पुनस्तत्र यत्नेन महता च ताम् ।
शीघ्रमानय भद्रं ते मद्वाक्यानि निवेद्य च ११४।
अरण्ये किं तपस्यंत्या गतिरन्या विचिंतिता ।
श्रुता दृष्टाथ वा मत्तो यन्नागच्छसि जानकि ११५।
त्वदिच्छया त्वमेवेतो गतारण्यं मुनिप्रियम् ।
पूजिता मुनिपत्न्यस्ता दृष्टा मुनिगणास्त्वया ११६।
पूर्णो मनोरथस्तेऽद्य किं नागच्छसि भामिनि ।
न दोषं मयि पश्येस्त्वं स्वात्मेच्छाया विलोकनात् ११७।
गत्वा गत्वाथ वामोरु पतिरेव गतिः स्त्रियाः ।
निर्गुणोपि गुणांभोधिः किंपुनर्मनसेप्सितः ११८।
याया क्रियाकुलस्त्रीणां सासा पत्युः प्रतुष्टये ।
पूर्वमेवप्रतुष्टोऽहमिदानीं सुतरां त्वयि ११९।
यागो जपस्तपोदानं व्रतं तीर्थं दयादिकम् ।
देवाश्च मयि संतुष्टे तुष्टमेतदसंशयम् १२०।
शेष उवाच-।
इति संदेशमादाय सीतां प्रति जगत्पतेः ।
आह लक्ष्मण आत्मेशमानतः प्रणयाद्धरौ १२१।
सीतानयनमुद्दिश्य प्रसन्नस्त्वं यदूचिवान् ।
कथयिष्यामि तद्वाक्यं विनयेन समन्वितम् १२२।
इत्युक्त्वा पादयोर्नत्वा रघुनाथस्य लक्ष्मणः ।
जगाम त्वरितः सीतां रथे तिष्ठन्महाजवे १२३।
वाल्मीकिः श्रीयुतौ वीक्ष्य रामपुत्रौ महौजसौ ।
उवाच स्मितमाधाय मुखं कृत्वा मनोहरम् १२४।
युवां प्रगायतां पुत्रौ रामचारित्रमद्भुतम् ।
वीणां प्रवादयंतौ च कलगानेन शोभितम् १२५।
इत्यक्तौ तौ सुतौ रामचारित्रं बहुपुण्यदम् ।
अगायतां महाभागौ सुवाक्यपदचित्रितम् १२६।
यस्मिन्धर्मविधिः साक्षात्पातिव्रत्यं तु यत्स्थितम् ।
भ्रातृस्नेहो महान्यत्र गुरुभक्तिस्तथैव च १२७।
स्वामिसेवकयोर्यत्र नीतिर्मूर्तिमती किल ।
अधर्मकरशास्तिं वै यत्र साक्षाद्रघूद्वहात् १२८।
तद्गानेन जगद्व्याप्तं दिवि देवा अपि स्थिताः ।
किन्नरा अपि यद्गानं श्रुत्वा मूर्च्छामिताः क्षणात् १२९।
वीणायारणितं श्रुत्वा तालमानेन शोभितम् ।
निखिला परिषत्तत्र शालभं जीवचित्रिता १३०।
हर्षादश्रूणिमुंचंतो रामाद्या भूमिपास्तथा ।
तद्गानपंचमालापमोहिताश्चित्रितोपमाः १३१।
तत्र रामः सुतौ दृष्ट्वा महागानविमोहकौ ।
अदात्ताभ्यां सुवर्णस्य लक्षं लक्षं पृथक्पृथक् १३२।
तदा दानपरं दृष्ट्वा वाल्मीकिं मुनिसत्तमम् ।
अब्रूतां प्रहसंतौ तौ किंचिद्वक्रभ्रुवौ ततः १३३।
मुने महानयोनेन क्रियते भूमिपेन वै ।
यदावाभ्यां सुवर्णानि दातुमिच्छति लोभयन् १३४।
प्रतिग्रहो ब्राह्मणानां शस्यते नेतरेषु वै ।
प्रतिग्रहपरो राजा नरकायैव कल्पते १३५।
आवयोः कृपया मुक्तं राज्यं भुंक्ते महीपतिः ।
कथं दातुं सुवर्णानि वांछति श्रेयसांचितः १३६।
इत्युक्तवंतौ तौ दृष्ट्वा वाल्मीकिः कृपयायुतः ।
अशंसद्युष्मत्पितरं जानीथां नीतिवित्तमौ १३७।
इति श्रुत्वा मुनेर्वाक्यं बालकौ नृपपादयोः ।
लग्नौ विनयसंयुक्तौ मातृभक्त्यातिनिर्मलौ १३८।
रामो बालौ दृढं स्वांगे परिरभ्य मुदान्वितः ।
मेने स्त्रियास्तदा धर्मौ मूर्तिमंतावुपस्थितौ १३९।
सभापि रामसुतयोर्वीक्ष्य वक्त्रे मनोरमे ।
जानकीपतिभक्तित्वं सत्यं मेने मुनीश्वर १४०।
इति शेषमुखप्रोक्तं श्रुत्वा वात्स्यायनोऽब्रवीत् ।
रामायणं श्रोतुमनाः सर्वधर्मसमन्वितम् १४१।
वात्स्यायन उवाच।
कस्मिन्काले कृतं स्वामिन्रामायणमिदं महत् ।
कस्माच्चकार किन्तत्र वर्णनं तद्वदस्व मे १४२।
शेष उवाच-।
एकदा गतवान्विप्रो वाल्मीकिर्विपिनं महत् ।
यत्र तालास्तमालाश्च किंशुका यत्र पुष्पिताः १४३।
केतकी यत्र रजसा कुर्वती सौरभं वनम् ।
शशिप्रभेव महती दृश्यते शुभ्रकर्णभृत् ।
चंपकोबकुलश्चापि कोविदारः कुरंटकः १४४।
अनेके पुष्पिता यत्र पादपाः शोभने वने ।
कोकिलानां विरावेण षट्पदानां च शब्दितैः १४५।
संघुष्टं सर्वतो रम्यं मनोहरवयोन्वितम् ।
तत्र क्रौंचयुगं रम्यं कामबाणप्रपीडितम् १४६।
परस्परं प्रहृषितं रेमे स्निग्धतया स्थितम् ।
तदा व्याधः समागत्य तयोरेकं मनोहरम् १४७।
अवधीन्निर्दयः कश्चिन्मांसास्वादनलोलुपः ।
तदा क्रौंची व्याधहतं स्वपतिं वीक्ष्य दुःखिता १४८।
विललाप भृशं दुःखान्मुंचंती रावमुच्चकैः ।
तदा मुनिः प्रकुपितो निषादं क्रौंचघातकम् १४९।
शशाप वार्युपस्पृश्य सरितः पावनं शुभम् ।
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः १५०।
यत्क्रौंचपक्षिणोरेकमवधीः काममोहितम् ।
तदा प्रबंधं श्लोकस्य जातं मत्वा ह्यनुद्विजाः १५१।
ऊचुर्मुनिं प्रहृष्टास्ते शंसंतः साधुसाध्विति ।
स्वामिञ्छापोदिते वाक्ये भारतीश्लोकमातनोत् १५२।
अत्यंतं मोहनो जातः श्लोकोऽयं मुनिसत्तम ।
तदा मुनिः प्रहृष्टात्मा बभूव वाडवर्षभ ।
तस्मिन्काले समागत्य ब्रह्मा पुत्रैः समन्वितः १५३।
वचो जगाद वाल्मीकिं धन्योसि त्वं मुनीश्वर ।
भारती त्वन्मुखे स्थित्वा श्लोकत्वं समपद्यत १५४।
तस्माद्रामायणं रम्यं कुरुष्व मधुराक्षरम् ।
येन ते विमला कीर्तिराकल्पांतं भविष्यति १५५।
धन्या सैव मुखे वाणी रामनाम्ना समन्विता ।
अन्या कामकथा नॄणां जनयत्येव पातकम् १५६।
तस्मात्कुरुष्व रामस्य चरितं लोकविश्रुतम् ।
येन स्यात्पापिनां पापहानिरेव पदेपदे १५७।
इत्युक्त्वांतर्दधे स्रष्टा सर्वदेवैः समन्वितः ।
ततः सचिंतयामास कथं रामायणं भवेत् १५८।
तदा ध्यानपरो जातो नदीतीरे मनोरमे ।
तस्य चेतस्यथो रामः प्रादुर्भूतो मनोहरः १५९।
नीलोत्पलदलश्यामं रामं राजीवलोचनम् ।
निरीक्ष्य तस्य चरितं भूतंभाविभवच्च यत् १६०।
तदात्यंतं मुदं प्राप्तो रामायणमथासृजत् ।
मनोरमपदैर्युक्तं वृत्तैर्बहुविधैरपि १६१।
षट्कांडानि सुरम्याणि यत्र रामायणेऽनघ ।
बालमारण्यकं चान्यत्किष्किंधा सुंदरं तथा १६२।
युद्धमुत्तरमन्यच्च षडेतानि महामते ।
शृणुयाद्यो नरः पुण्यात्सर्वपापैः प्रमुच्यते १६३।
तत्र बाले तु संतुष्टः पुत्रेष्ट्या चतुरस्सुतान् ।
प्राप पंक्तिरथः साक्षाद्धरिं ब्रह्मसनातनम् १६४।
स कौशिकमखं गत्वा सीतामुद्वाह्य भार्गवम् ।
आगत्य पुरमुत्कृष्टो यौवराज्यप्रकल्पनम् १६५।
मातृवाक्याद्वनं प्रागाद्गंगामुत्तीर्य पर्वतम् ।
चित्रकूटं महिलया लक्ष्मणेन समन्वितः १६६।
भरतस्तं वने श्रुत्वा जगाम भ्रातरं नयी ।
तमप्राप्य स्वयं नंदिग्रामे वासमचीकरत् १६७।
बालमेतच्छृणुष्वान्यदारण्यकसमुद्भवम् ।
मुनीनामाश्रमे वासस्तत्र तत्रोपवर्णनम् १६८।
नासाच्छेदः शूर्पणख्याः खरदूषणनाशनम् ।
मायामारीचहननं दैत्याद्रामापहारणम् १६९।
वने विरहिणा भ्रांतं मनुष्यचरितं भृतम् ।
कबंधप्रेक्षणं तत्र पम्पायां गमनं तथा १७०।
हनूमता संगमनमित्येतद्वनसंज्ञितम् ।
अपरं च शृणु मुने संक्षिप्य कथयाम्यहम् १७१।
सप्ततालप्रभेदश्च वालेर्मारणमद्भुतम् ।
सुग्रीवे राज्यदानं च नगवर्णनमित्युत १७२।
लक्ष्मणात्कर्मसंदेशः सुग्रीवस्य विवासनम् ।
तथा सैन्यसमुद्देशः सीतान्वेषणमप्युत १७३।
संपातिप्रेक्षणं तत्र वारिधेर्लंघनं तथा ।
परतीरे कपिप्राप्तिः कैष्किंधं कांडमद्भुतम् १७४।
सुंदरं शृणु कांडं वै यत्र रामकथाद्भुता ।
प्रतिगेहे प्रति भ्रांतिः कपेश्चित्रस्य दर्शनम् १७५।
सीतासंदर्शनं तत्र जानक्याभाषणं तथा ।
वनभंगः प्रकुपितैर्बंधनं वानरस्य च १७६।
ततो लंकाप्रज्वलनं वानरैः संगतिस्ततः ।
रामाभिज्ञानदानं च सैन्यप्रस्थानमेव च १७७।
समुद्रे सेतुकरणं शुकसारणसंगतिः ।
इति सुंदरमाख्यातं युद्धे सीतासमागमः १७८।
उत्तरे ऋषिसंवादो यज्ञप्रारंभ एव च ।
तत्रानेका रामकथाः शृण्वतां पापनाशकाः १७९।
इति षट्कांडमाख्यातं ब्रह्महत्यापनोदनम् ।
संक्षेपतो मया तुभ्यमाख्यातं सुमनोहरम् १८०।
चतुर्विंशतिसाहस्रं षट्कांडपरिचिह्नितम् ।
तद्वै रामायणं प्रोक्तं महापातकनाशनम् १८१।
तच्छ्रुत्वा राघवः प्रीतः पुत्रावाधाय चासने ।
दृढं तौ परिरभ्याथ सीतां सस्मार वल्लभाम् १८२।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे।
रामायणगानंनाम षट्षष्टितमोऽध्यायः ६६।
खण्डः ५ (पातालखण्डः) — Adhyāya 67
सप्तषष्टितमोऽध्यायः 5.67
शेष उवाच।
अथ सौमित्रिरागत्य जानकीं नतवान्मुहुः ।
प्रेमगद्गदया शंसन्वाचं रामप्रणोदिताम् १।
सीता समागतं दृष्ट्वा लक्ष्मणं विनयान्वितम् ।
तन्मुखाद्रामसंदेशं श्रुत्वोवाच विलज्जिता २।
सौमित्रे कथमागच्छे रामत्यक्ता महावने ।
तिष्ठामि रामं स्मरन्ती वाल्मीकेराश्रमे त्वहम् ३।
तस्या मुखोदितं वाक्यं श्रुत्वा सौमित्रिरब्रवीत् ।
मातः पतिव्रते रामस्त्वामाकारयते मुहुः ४।
पतिव्रता पतिकृतं दोषं नानयते हृदि ।
तस्मादागच्छ हि मया स्थित्वा स्यंदन उत्तमे ५।
इत्यादि वचनं श्रुत्वा जानकी पतिदेवता ।
मनोरोषं परित्यज्य तस्थौ सौमित्रिणा रथे ६।
तापसीः सकला नत्वा मुनींश्च निगमोज्ज्वलान् ।
रामं स्मरंती मनसा रथे स्थित्वागमत्पुरीम् ७।
क्रमेण नगरीं प्राप्ता महार्हाभरणान्विता ।
सरयूं सरितं प्राप यत्र रामः स्वयं स्थितः ८।
रथादुत्तीर्य ललिता लक्ष्मणेन समन्विता ।
रामस्य पादयोर्लग्ना पतिव्रतपरायणा ९।
रामस्तामागतां दृष्ट्वा जानकीं प्रेमविह्वलाम् ।
साध्वि त्वया सहेदानीं कुर्वे यज्ञसमापनम् १०।
वाल्मीकिं सा नमस्कृत्य तथान्यान्विप्रसत्तमान् ।
जगाम मातृपदयोः सन्नतिं कर्तुमुत्सुका ११।
कौशल्या तामथायांतीं वीरसूं जानकीं प्रियाम् ।
आशीर्भिरभिसंयुज्य ययौ हर्षमनेकधा १२।
कैकेयीपदयोर्नम्रां वीक्ष्य वैदेहपुत्रिकाम् ।
भर्त्रा सह चिरं जीव सपुत्रेत्याशिषं व्यधात् १३।
सुमित्रा स्वपदेनम्रां वीक्ष्य वैदेहपुत्रिकाम् ।
आशिषं व्यदधात्तस्याः पुत्रपौत्रप्रदायिनीम् १४।
सीता ताः सर्वतो नत्वा रामचंद्र प्रिया सती ।
परमं हर्षमापन्ना बभूव किल वाडव १५।
समागतां वीक्ष्य पत्नीं रामचंद्रस्य कुंभजः ।
सुवर्णपत्नीं धिक्कृत्य तामधाद्धर्मचारिणीम् १६।
रामस्तदा यज्ञमध्ये शुशुभे सीतया सह ।
तारयानुगतो यद्वच्छशीव शरदुत्प्रभः १७।
प्रयोगमकरोत्तत्र काले प्राप्ते मनोरमे ।
वैदेह्या धर्मचारिण्या सर्वपापापनोदनम् १८।
सीतया सहितं रामं प्रसक्तं यज्ञकर्मणि ।
निरीक्ष्य जहृषुस्तत्र कौतुकेन समन्विताः १९।
वसिष्ठं प्राह सुमतिं रामस्तत्र क्रतौ वरे ।
किं कर्तव्यं मया स्वामिन्नतः परमवश्यकम् २०।
रामस्य वचनं श्रुत्वा गुरुः प्राह महामतिः ।
ब्राह्मणानां प्रकर्तव्या पूजा संतोषकारिका २१।
मरुत्तेन क्रतुः सृष्टः पूर्वं संभारसंभृतः ।
ब्राह्मणास्तत्र वित्ताद्यैस्तोषिता अभवंस्तदा २२।
अत्यंतं वित्तसंभारं नेतुं विप्राशकन्नहि ।
प्राक्षिपन्हिमवद्देशे वित्तभारासहा द्विजाः २३।
तस्मात्त्वमपि राजाग्र्य लक्ष्मीवान्नृपसत्तम ।
देहि दानादि विप्रेभ्यो यथा स्यात्प्रीतिरुत्तमा २४।
एतच्छ्रुत्वा स राजाग्र्यः पूज्यं मत्वा घटोद्भवम् ।
प्रथमं पूजयामास ब्रह्मपुत्रं तपोधनम् २५।
अनेकरत्नसंभारैः स्वर्णभारैरनेकधा ।
देशैर्जनैः परिवृतैरत्यंतप्रीतिदायकैः २६।
अगस्त्यं पूजयामास सपत्नीकं मनोरमम् ।
तथैव रत्नैः स्वर्णैश्च देशैश्च विविधैरपि २७।
व्यासं सत्यवतीपुत्रं तथैव समपूजयत् ।
च्यवनं भार्यया साकं सुरत्नैः समपूजयत् २८।
अन्यानपि मुनीन्सर्वानृत्विजस्तपसां निधीन् ।
पूजयामास रत्नौघैः स्वर्णभारैरनेकधा २९।
अदात्तदा क्रतौ रामो विप्रेभ्यो भूरिदक्षिणाम् ।
लक्षंलक्षं सुवर्णस्य प्रत्येकं त्वग्रजन्मने ३०।
दीनांधकृपणेभ्यश्च ददौ दानमनेकधा ।
यथासंतोषविहितैर्वित्तै रत्नैर्मनोहरैः ३१।
वासांसि च विचित्राणि भोजनानि मृदूनि च ।
तत्र प्रादाद्यथाशास्त्रं सर्वेषां प्रीतिदायकम् ३२।
हृष्टपुष्टजनाकीर्णं सर्वसत्त्वोपबृंहितम् ।
अत्यंतमभवद्धृष्टं पुरं पुंस्त्रीसमावृतम् ३३।
दानं ददंतं सर्वेषां वीक्ष्य कुंभोद्भवो मुनिः ।
अत्यंतपरमप्रीतिं ययौ क्रतुवरे द्विजः ३४।
तदाभिषेकस्नानार्थं पानीयममृतोपमम् ।
आनेतुं च चतुःषष्टि नृपान्सस्त्रीन्समाह्वयत् ३५।
रामस्तु सीतया सार्द्धमानेतुमुदकं ययौ ।
घटेन स्वर्णवर्णेन सर्वालंकारशोभया ३६।
सौमित्रिरप्यूर्मिलया मांडव्या भरतो नृपः ।
शत्रुघ्नः श्रुतकीर्त्या च कांतिमत्या च पुष्कलः ३७।
सुबाहुः सत्यवत्या च सत्यवान्वीरभूषया ।
सुमदस्तत्र सत्कीर्त्या राज्ञ्या च विमलो नृपः ३८।
राजावीरमणिस्तत्र श्रुतवत्या मनोज्ञया ।
लक्ष्मीनिधिः कोमलया रिपुतापोंगसेनया ३९।
विभीषणो महामूर्त्या प्रतापाग्र्यः प्रतीतया ।
उग्राश्वः कामगमया नीलरत्नोधिरम्यया ४०।
सुरथः सुमनोहार्या तथा मोहनया कपिः ।
इत्यादीन्नृपतीन्विप्रो वसिष्ठः प्राहिणोन्मुनिः ४१।
वसिष्ठः सरयूं गत्वा शिवपुण्यजलाप्लुताम् ।
उदकं मंत्रयामास वेदमंत्रेण मंत्रवित् ४२।
पयः पुनीह्यमुं वाहमुदकेन मनोहृता ।
यज्ञार्थं रामचंद्रस्य सर्वलोकैकरक्षितुः ४३।
उदकं तन्मुनिस्पृष्टं सर्वे रामादयो नृपाः ।
आजह्रुर्मंडपतले विप्रवर्यैरुपस्तुते ४४।
पयोभिर्निर्मलैः स्नाप्य वाजिनं क्षीरसन्निभम् ।
मंत्रेण मंत्रयामास राम हस्तेन कुंभजः ४५।
पुनीहि मां महावाह अस्मिन्ब्रह्मसमाकुले ।
त्वन्मेधेनाखिला देवाः प्रीणंतु परितोषिताः ४६।
इत्युक्त्वा स नृपो रामः सीतया सममस्पृशत् ।
तदा सर्वे द्विजाश्चित्रममन्यंत कुतूहलात् ४७।
परस्परमवोचंस्ते यन्नामस्मरणान्नराः ।
महापापात्प्रमुच्यंते स रामः किं वदत्यहो ४८।
इत्युक्तवति भूमीशे रामे कुंभोद्भवो मुनिः ।
करवालं चाभिमंत्र्य ददौ रामकरे मुनिः ४९।
करवाले धृते स्पृष्टे रामेण स हयः क्रतौ ।
पशुत्वं तु विहायाशु दिव्यरूपमपद्यत ५०।
विमानवरमारूढश्चाप्सरोभिः समंततः ।
चामरैर्वीज्यमानश्च वैजयंत्या विभूषितः ५१।
तदा तं वाजितां त्यक्त्वा दिव्यरूपधरं वरम् ।
वीक्ष्य लोकाः क्रतौ सर्वे विस्मयं प्राप्नुवंस्तदा ५२।
तदा रामः स्वयं जानञ्ज्ञापयन्सर्वतो नरान् ।
पप्रच्छ दिव्यरूपं तं सुरं परमधार्मिकः ५३।
कस्त्वं दिव्यवपुः प्राप्तः कस्मात्त्वं वाजितां गतः ।
कथं सुरस्त्रीसहितः किं चिकीर्षसि तद्वद ५४।
रामस्य वचनं श्रुत्वा देवः प्रोवाच भूमिपम् ।
हसन्मेघरवां वाणीमवदत्सुमनोहराम् ५५।
तवाज्ञातं न सर्वत्र बाह्याभ्यंतरचारिणः ।
तथापि पृच्छते तुभ्यं कथयामि यथातथम् ५६।
अहं पुराभवे राम द्विजः परमधार्मिकः ।
अचरं प्रतिकूलं वै वेदस्य रिपुतापन ५७।
कदाचिद्धुतपापायास्तीरेऽहं गतवान्पुरा ।
अनेकवृक्षललिते सर्वत्रसुमनोरमे ५८।
तत्र स्नात्वा पितॄंस्तृप्त्वा दानं दत्त्वा यथाविधि ।
ध्यानं तव महाबाहो कृतवान्वेदसंमितम् ५९।
तदा जनाः समायाता बहवस्तत्र भूपते ।
तेषां प्रवंचनार्थाय दंभमेनमकारिषम् ६०।
अनेकक्रतुसंभारैः पूर्णमजिरमुत्तमम् ।
वासोभिश्छादितं रम्यं चषालादियुतं महत् ६१।
अग्निहोत्रोद्भवोधूमः सर्वतो नभसोंगणम् ।
चकार रम्यमतुलं चित्रकारिवपुर्धरः ६२।
अनेकतिलकश्रीभिः शोभितांगो महत्तपाः ।
दर्भशोभः समित्पाणिर्दंभो मूर्तिधरः किमु ६३।
दुर्वासास्तत्र स्वच्छंदं पर्यटञ्जगतीतलम् ।
प्राप तत्र महातेजा धूतपापसरित्तटे ६४।
ददर्श मां दंभकरं मौनधारिणमग्रतः ।
अनर्घ्यकरमुन्मत्तमस्वागतवचः करम् ६५।
दृष्ट्वातीव क्रुधाक्रांतः समुद्र इव पर्वणि ।
शशापासौ मुनिस्तीव्रो दंभिनं मां महामतिः ६६।
दंभं करोषि चेत्तीरे सरितस्त्वं सुदुर्मते ।
तस्मात्प्राप्नुहि निर्वाच्यं पशुत्वं तापसाधम ६७।
शापं प्रदत्तं संश्रुत्य दुःखितोऽहं तदाभवम् ।
अग्राहिषं पदे तस्य मुनेर्दुर्वाससः किल ६८।
तदा मे कृतवान्राम द्विजोऽनुग्रहमुत्तमम् ।
वाजितां प्राप्नुहि मखे राजराजस्य तापस ६९।
पश्चात्तद्धस्तसंपर्काद्याहि तत्परमं पदम् ।
दिव्यं वपुर्मनोहारि धृत्वा दंभविवर्जितम् ७०।
तेन शापोपिसंदिष्टो ममानुग्रहतां गतः ।
यदहं तव हस्तस्य स्पर्शं प्राप्तो मनोरमम् ७१।
यदेव राम देवादिदुर्लभं बहुजन्मभिः ।
तत्तेऽहं करजस्पर्शं प्राप्तवानिह दुर्लभम् ७२।
आज्ञापय महाराज त्वत्प्रसादादहं महत् ।
गच्छामि शाश्वतं स्थानं तव दुःखादिवर्जितम् ७३।
न यत्र शोको न जरा न मृत्युः कालविभ्रमः ।
तत्स्थानं देव गच्छामि त्वत्प्रसादान्नराधिप ७४।
इत्युक्त्वा तं परिक्रम्य विमानवरमारुहत् ।
अनेकरत्नखचितं सर्वदेवाधिवंदितम् ७५।
गतोऽसौ शाश्वतस्थानं रामपादप्रसादतः ।
पुनरावृत्तिरहितं शोकमोहविवर्जितम् ७६।
तेन तत्कथितं श्रुत्वा रामं ज्ञात्वेतरे जनाः ।
विस्मयं प्रापिरे सर्वे परस्परमुदुन्मदाः ७७।
शृणु द्विजमहाबुद्धे दंभेनापि स्मृतो हरिः ।
ददाति मोक्षं सुतरां किं पुनर्दंभवर्जनात् ७८।
यथाकथंचिद्रामस्य कर्तव्यं स्मरणं परम् ।
येन प्राप्नोति परमं पदं देवादिदुर्लभम् ७९।
तच्चित्रं वीक्ष्य मुनयः कृतार्थं मेनिरे निजम् ।
यद्रामचरणप्रेक्षा करस्पर्शपवित्रितम् ८०।
गते तस्मिन्सुरे स्वर्गं हयरूपधरे पुरा ।
उवाच रामस्तपसां निधीन्वेदविदुत्तमान् ८१।
किं कर्तव्यं मयाब्रह्मन्हयो नष्टो गतः सुखम् ।
होमः कथं पुरोभावी सर्वदैवततर्पकः ८२।
यथा स्यात्सुरसंतृप्तिर्यथा मे मख उत्तमः ।
तथा कुर्वंतु मुनयो यथा मे स्याद्विधिश्रुतम् ८३।
इति वाक्यं समाश्रुत्य जगाद मुनिसत्तमः ।
वसिष्ठः सर्वदेवानां चित्ताभिज्ञानकोविदः ८४।
कर्पूरमाहर क्षिप्रं येन देवाः स्वयं पुरा ।
प्राप्य हव्यं ग्रहीष्यंति मद्वाक्यप्रेरिताधुना ८५।
इति वाक्यं समाकर्ण्य रामः क्षिप्रमुपाहरत् ।
कर्पूरं बहुदेवानां प्रीत्यर्थं बहुशोभनम् ८६।
तदा मुनिः प्रहृष्टात्मा देवानाह्वयदद्भुतान् ।
ते सर्वे तत्क्षणात्प्राप्ताः स्वपरीवारसंवृताः ८७।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे यज्ञप्रारंभोनाम सप्तषष्टितमोऽध्यायः ६७।
।
खण्डः ५ (पातालखण्डः) — Adhyāya 68
शेष उवाच-
परिस्वादन्क्रतौ तृप्तिं न प्राप सुरसंयुतः १।
नारायणो महादेवो ब्रह्मा तत्र चतुर्मुखः ।
वरुणश्च कुबेरश्च तथान्ये लोकपालकाः २।
तत्रास्वाद्य हविः स्निग्धं वसिष्ठेन परिष्कृतम् ।
तत्र पुनर्हि विप्रेंद्राः क्षुधार्ताइव भोजनात् ३।
सर्वान्देवांश्च संतर्प्य हविषा करुणानिधिः ।
वसिष्ठप्रेरितः सर्वमिति कर्तव्यमाचरत् ४।
ब्राह्मणादानसंतुष्टा हविस्तुष्टाः सुरावराः ।
तृप्ताः सर्वे स्वकं भागं गृहीत्वा स्वालयं ययुः ५।
ऋषिभ्यो होतृमुख्येभ्यः प्रादाद्राज्यं चतुर्दिशम् ।
संतुष्टास्ते द्विजाराममाशीर्भिरददुः शुभम् ६।
पूर्णाहुतिं ततः कृत्वा वसिष्ठः प्राह सुस्त्रियः ।
वर्धापयंतु भूमीशं यागपूर्तिकरं परम् ७।
तद्वाक्यं ताः स्त्रियः श्रुत्वा लाजैरवाकिरन्मुदा ।
लावण्यजितकंदर्पं महामणिविभूषितम् ८।
ततोऽवभृथस्नानार्थं प्रेरयामास भूमिपम् ।
ययौ रामः सहस्वीयैः सरयूतीरमुत्तमम् ९।
अनेकराजकोटीभिः परीतः पादचारिभिः ।
जगाम स सरिच्छ्रेष्ठां पक्षिवृंदसमाकुलाम् १०।
तारापतिरिव स्वाभिर्भार्याभिर्वृत उत्प्रभः ।
विरोचते तथा तद्वद्रामो राजगणैर्वृतः ११।
तदुत्सवं समाज्ञाय ययुर्लोकास्त्वरायुताः ।
सीतापतिमुखालोकनिश्चलीभूतलोचनाः १२।
राजेंद्रं सीतया साकं गच्छंतं सरितं प्रति ।
विलोक्य मुदिता लोकाश्चिरं दर्शनलालसाः १३।
अनेक नटगंधर्वा गायंतो यश उज्ज्वलम् ।
अनुजग्मुर्महीशानं सर्वलोकनमस्कृतम् १४।
नर्तक्यस्तत्र नृत्यंत्यः क्षोभयंत्यः पतेर्मनः ।
जलयंत्रैश्च सिंचंत्यो ययुः श्रीरामसेवनम् १५।
महाराजं विलिपंत्यो हरिद्रा कुंकुमादिभिः ।
परस्परं प्रलिपंत्यो मुदं प्रापुर्महत्तराम् १६।
कुचयुग्मोपरिन्यस्तमुक्ताहारसुशोभिताः ।
श्रवणद्वंद्वसंमृष्टस्वर्णकुंडललक्षिताः १७।
अनेकनरनारीभिः संकीर्णं मार्गमाचरन् ।
यथावत्सरितं प्राप शिवपुण्यजलाप्लुताम् १८।
तत्र गत्वा स वैदेह्या रामः कमललोचनः ।
प्रविवेश जलं पुण्यं वसिष्ठादिभिरन्वितः १९।
अनुप्रविविशुः सर्वे राजानो जनतास्तथा ।
तत्पादरजसा पूतजलं लोकैकवंदितम् २०।
परस्परं प्रसिंचंतो जलयंत्रैर्मनोरमैः ।
सुशोणनयनाः सर्वे हर्षं प्रापुर्मनोधिकम् २१।
स रामः सीतया सार्धं चिरं पुण्यजलप्लवे ।
क्रीडित्वा जलकल्लोलैर्निरगाद्धर्मसंयुतः २२।
दुकूलवासाः सकिरीटकुंडलः केयूरशोभावरकंकणान्वितः ।
कंदर्पकोटिश्रियमुद्वहन्नृपो राजाग्र्यवर्यैरुपसंस्तुतो बभौ २३।
सयागयूपं वरवर्णशोभितं कृत्वा सरित्तीरवरे महामनाः ।
त्रैलोक्यलोकश्रियमाप ह्यद्भुतामन्यैर्दुरापां नृपतिर्भुजैर्निजैः २४।
एवं जनकपुत्र्यासौ हयमेधत्रयं चरन् ।
त्रैलोक्ये कीर्तिमतुलां प्राप देवैः सुदुर्लभाम् २५।
एवं ते वर्णितं तात यत्पृष्टो रामसत्कथाम् ।
विस्तृतः कथितो मेधो भूयः किं पृच्छसे द्विज २६।
यः शृणोति हरेर्भक्त्या रामचंद्रस्य सन्मखम् ।
ब्रह्महत्यां क्षणात्तीर्त्वा ब्रह्मशाश्वतमाप्नुयात् २७।
अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात् ।
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बंधनात् २८।
यत्कथाश्रवणाद्दुष्टः श्वपचोऽपि परं पदम् ।
प्राप्नोति किमु विप्राग्र्यो रामभक्तिपरायणः २९।
रामं स्मृत्वा महाभागं पापिनः परमं पदम् ।
प्राप्नुयुः परमं स्वर्गं शक्रदेवादिदुर्लभम् ३०।
ते धन्या मानवा लोके ये स्मरंति रघूत्तमम् ।
ते क्षणात्संसृतिं तीर्त्वा गच्छंति सुखमव्ययम् ३१।
प्रत्येकमक्षरं ब्रह्महत्यावंशदवानलः ।
तं यः श्रावयते धीमांस्तं गुरुं संप्रपूजयेत् ३२।
श्रुत्वा कथां वाचकाय गवां द्वंद्वं प्रदापयेत् ।
सपत्नीकाय संपूज्य वस्त्रालंकारभोजनैः ३३।
कुंडलाभ्यां विराजंत्यौ मुद्रिकाभिरलंकृते ।
रामसीते स्वर्णमय्यौ प्रतिमे शोभने वरे ३४।
कृत्वा तु वाचकायैव दीयते भो द्विजोत्तम ।
तस्य देवाश्च पितरो वैकुंठं प्राप्नुयुस्तदा ३५।
त्वया पृष्टा रामकथा मया ते कथिता पुरा ।
किमन्यत्कथ्यतां ब्रह्मन्पुरतस्तव धीमतः ३६।
शृण्वंति ये कथामेतां ब्रह्महत्यौघनाशिनीम् ।
ते यांति परमं स्थानं यच्च देवैः सुदुर्लभम् ३७।
गोघ्नश्चापि सुतघ्नश्च सुरापो गुरुतल्पगः ।
क्षणात्पूतो भवत्येव नात्र संशयितुं क्षमम् ३८।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे श्रवणपठनपुण्यवर्णनं नामाष्टषष्टितमोऽध्यायः ६८।
इति रामाश्वमेधप्रकरणं समाप्तम् ।
खण्डः ५ (पातालखण्डः) — Adhyāya 69
ऋषय ऊचुः -
सम्यक्छ्रुतो महाभाग त्वत्तो रामाश्वमेधकः ।
इदानीं वद माहात्म्यं श्रीकृष्णस्य महात्मनः १।
सूत उवाच-।
शृण्वंतु मुनिशार्दूलाः श्रीकृष्णचरितामृतम् ।
शिवा पप्रच्छ भूतेशं यत्तद्वः कीर्तयाम्यहम् २।
एकदा पार्वती देवी शिवं संस्निग्धमानसा ।
प्रणयेन नमस्कृत्य प्रोवाच वचनं त्विदम् ३।
पार्वत्युवाच-।
अनंतकोटिब्रह्मांड तद्बाह्याभ्यंतरस्थितेः ।
विष्णोः स्थानं परं तेषां प्रधानं वरमुत्तमम् ४।
यत्परं नास्ति कृष्णस्य प्रियं स्थानं मनोरमम् ।
तत्सर्वं श्रोतुमिच्छामि कथयस्व महाप्रभो ५।
ईश्वर उवाच-।
गुह्याद्गुह्यतरं गुह्यं परमानंदकारकम् ।
अत्यद्भुतं रहःस्थानमानंदं परमं परम् ६।
दुर्लभानां च परमं दुर्लभं मोहनं परम् ।
सर्वशक्तिमयं देवि सर्वस्थानेषु गोपितम् ७।
सात्वतां स्थानमूर्द्धन्यं विष्णोरत्यंतदुर्लभम् ।
नित्यं वृंदावनं नाम ब्रह्मांडोपरि संस्थितम् ८।
पूर्णब्रह्मसुखैश्वर्यं नित्यमानंदमव्ययम् ।
वैकुंठादि तदंशांशं स्वयं वृंदावनं भुवि ९।
गोलोकैश्वर्यं यत्किंचिद्गोकुले तत्प्रतिष्ठितम् ।
वैकुंठवैभवं यद्वै द्वारिकायां प्रतिष्ठितम् १०।
यद्ब्रह्मपरमैश्वर्यं नित्यं वृंदावनाश्रयम् ।
कृष्णधामपरं तेषां वनमध्ये विशेषतः ११।
तस्मात्त्रैलोक्यमध्ये तु पृथ्वी धन्येति विश्रुता ।
यस्मान्माथुरकं नाम विष्णोरेकांतवल्लभम् १२।
स्वस्थानमधिकं नामधेयं माथुरमंडलम् ।
निगूढं विविधं स्थानं पुर्यभ्यंतरसंस्थितम् १३।
सहस्रपत्रकमलाकारं माथुरमंडलम् ।
विष्णुचक्रपरिभ्रामाद्धाम वैष्णवमद्भुतम् १४।
कर्णिकापर्णविस्तारं रहस्यद्रुममीरितम् ।
प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् १५।
भद्र श्री लोह भांडीर महाताल खदीरकाः ।
बकुलं कुमुदं काम्यं मधु वृंदावनं तथा १६।
द्वादशैतावती संख्या कालिंद्याः सप्त पश्चिमे ।
पूर्वे पंचवनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम् १७।
महारण्यं गोकुलाख्यं मधु वृंदावनं तथा ।
अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थलम् १८।
कदंबखंडनं नंदवनं नंदीश्वरं तथा ।
नंदनंदनखंडं च पलाशाशोककेतकी १९।
सुगंधमानसं कैलममृतं भोजनस्थलम् ।
सुखप्रसाधनं वत्सहरणं शेषशायिकम् २०।
श्यामपूर्वो दधिग्रामश्चक्रभानुपुरं तथा ।
संकेतं द्विपदं चैव बालक्रीडनधूसरम् २१।
कामद्रुमं सुललितमुत्सुकं चापि काननम् ।
नानाविधरसक्रीडा नानालीलारसस्थलम् २२।
नागविस्तारविष्टंभं रहस्यद्रुममीरितम् ।
सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् २३।
कर्णिकातन्महद्धाम गोविंदस्थानमुत्तमम् ।
तत्रोपरि स्वर्णपीठे मणिमंडपमंडितम् २४।
कर्णिकायां क्रमाद्दिक्षु विदिक्षु दलमीरितम् ।
यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् २५।
तस्मिन्दले महापीठं निगमागमदुर्गमम् ।
योगींद्रैरपि दुष्प्रापं सर्वात्मा यच्च गोकुलम् २६।
द्वितीयं दलमाग्नेय्यां तद्रहस्यदलं तथा ।
संकेतं द्विपदं चैव कुटीद्वौ तत्कुले स्थितौ २७।
पूर्वं दलं तृतीयं च प्रधानस्थानमुत्तमम् ।
गंगादिसर्वतीर्थानां स्पर्शाच्छतगुणं स्मृतम् २८।
चतुर्थं दलमैशान्यां सिद्धपीठेऽपि तत्पदम् ।
व्यायामनूतनागोपी तत्र कृष्णं पतिं लभेत् २९।
वस्त्रालंकारहरणं तद्दले समुदाहृतम् ।
उत्तरे पंचमं प्रोक्तं दलं सर्वदलोत्तमम् ३०।
द्वादशादित्यमत्रैव दलं च कर्णिकासमम् ।
वायव्यां तु दलं षष्ठं तत्र कालीह्रदः स्मृतः ३१।
दलोत्तमोत्तमं चैव प्रधानं स्थानमुच्यते ।
सर्वोत्तमदलं चैव पश्चिमे सप्तमं स्मृतम् ३२।
यज्ञपत्नीगणानां च तदीप्सितवरप्रदम् ।
अत्रासुरोऽपि निर्वाणं प्राप त्रिदशदुर्लभम् ३३।
ब्रह्ममोहनमत्रैव दलं ब्रह्मह्रदावहम् ।
नैर्ऋत्यां तु दलं प्रोक्तमष्टमं व्योमघातनम् ३४।
शंखचूडवधस्तत्र नानाकेलिरसस्थलम् ।
श्रुतमष्टदलं प्रोक्तं वृंदारण्यांतरस्थितम् ३५।
श्रीमद्वृंदावनं रम्यं यमुनायाः प्रदक्षिणम् ।
शिवलिंगमधिष्ठानं दृष्टं गोपीश्वराभिधम् ३६।
तद्बाह्ये षोडशदलं श्रियापूर्णं तमीश्वरम् ।
सर्वासु दिक्षु यत्प्रोक्तं प्रादक्षिण्याद्यथाक्रमम् ३७।
महत्पदं महद्धाम स्वधामाधावसंज्ञकम् ।
प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम् ३८।
तत्र गोवर्द्धनगिरौ रम्ये नित्यरसाश्रये ।
कर्णिकायां महालीला तल्लीला रसगह्वरौ ३९।
यत्र कृष्णो नित्यवृंदाकाननस्य पतिर्भवेत् ।
कृष्णो गोविंदतां प्राप्तः किमन्यैर्बहुभाषितैः ४०।
दलं तृतीयमाख्यातं सर्वश्रेष्ठोत्तमोत्तमम् ।
चतुर्थं दलमाख्यातं महाद्भुतरसस्थलम् ४१।
नंदीश्वरवनं रम्यं तत्र नंदालयः स्मृतः ।
कर्णिकादलमाहात्म्यं पंचमं दलमुच्यते ४२।
अधिष्ठाताऽत्र गोपालो धेनुपालनतत्परः ।
षष्ठं दलं यदाख्यातं तत्र नंदवनं स्मृतम् ४३।
सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्तितम् ।
तत्राष्टमं तालवनं तत्र धेनुवधः स्मृतः ४४।
नवमं कुमुदारण्यं दलं रम्यं प्रकीर्तितम् ।
कामारण्यं च दशमं प्रधानं सर्वकारणम् ४५।
ब्रह्मप्रसाधनं तत्र विष्णुच्छद्मप्रदर्शनम् ।
कृष्णक्रीडारसस्थानं प्रधानं दलमुच्यते ४६।
दलमेकादशं प्रोक्तं भक्तानुग्रहकारणम् ।
निर्माणं सेतुबंधस्य नानावनमयस्थलम् ४७।
भांडीरं द्वादशदलं वनं रम्यं मनोहरम् ।
कृष्णः क्रीडारतस्तत्र श्रीदामादिभिरावृतः ४८।
त्रयोदशं दलं श्रेष्ठं तत्र भद्रवनं(रं) स्मृतम् ।
चतुर्दशदलं प्रोक्तं सर्वसिद्धिप्रदस्थलम् ४९।
श्रीवनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम् ।
कृष्णक्रीडादलमयं श्रीकांतिकीर्तिवर्द्धनम् ५०।
दलं पंचदशं श्रेष्ठं तत्र लोहवनं स्मृतम् ।
कथितं षोडशदलं माहात्म्यं कर्णिकासमम् ५१।
महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमम् ।
बालक्रीडारतस्तत्र वत्सपालैः समावृतः ५२।
पूतनादिवधस्तत्र यमलार्जुनभंजनम् ।
अधिष्ठाता तत्र बालगोपालः पंचमाब्दिकः ५३।
नाम्ना दामोदरः प्रोक्तः प्रेमानंदरसार्णवः ।
दलं प्रसिद्धमाख्यातं सर्वश्रेष्ठदलोत्तमम् ५४।
कृष्णक्रीडा च किंजल्की विहारदलमुच्यते ।
सिद्धप्रधानकिंजल्क दलं च समुदाहृतम् ५५।
पार्वत्युवाच-।
वृंदारण्यस्य माहात्म्यं रहस्यं वा किमद्भुतम् ।
तदहं श्रोतुमिच्छामि कथयस्व महाप्रभो ५६।
ईश्वर उवाच-।
कथितं ते प्रियतमे गुह्याद्गुह्योत्तमोत्तमम् ।
रहस्यानां रहस्यं यद्दुर्लभानां च दुर्लभम् ५७।
त्रैलोक्यगोपितं देवि देवेश्वरसुपूजितम् ।
ब्रह्मादिवांछितं स्थानं सुरसिद्धादिसेवितम् ५८।
योगींद्रा हि सदा भक्त्या तस्य ध्यानैकतत्पराः ।
अप्सरोभिश्च गंधर्वैर्नृत्यगीतनिरंतरम् ५९।
श्रीमद्वृंदावनं रम्यं पूर्णानंदरसाश्रयम् ।
भूरिचिंतामणिस्तोयममृतं रसपूरितम् ६०।
वृक्षं गुरुद्रुमं तत्र सुरभीवृंदसेवितम् ।
स्त्रीं लक्ष्मीं पुरुषं विष्णुं तद्दशांशसमुद्भवम् ६१।
तत्र कैशोरवयसं नित्यमानंदविग्रहम् ।
गतिनाट्यं कलालापस्मितवक्त्रं निरंतरम् ६२।
शुद्धसत्वैः प्रेमपूर्णैर्वैष्णवैस्तद्वनाश्रितम् ।
पूर्णब्रह्मसुखेमग्नं स्फुरत्तन्मूर्तितन्मयम् ६३।
मत्तकोकिलभृंगाद्यैः कूजत्कलमनोहरम् ।
कपोलशुकसंगीतमुन्मत्तालि सहस्रकम् ६४।
भुजंगशत्रुनृत्याढ्यं सकलामोदविभ्रमम् ।
नानावर्णैश्च कुसुमैस्तद्रेणुपरिपूरितम् ६५।
पूर्णेंदुनित्याभ्युदयं सूर्यमंदांशुसेवितम् ।
अदुःखं दुःखविच्छेदं जरामरणवर्जितम् ६६।
अक्रोधं गतमात्सर्यमभिन्नमनहंकृतम् ।
पूर्णानंदामृतरसं पूर्णप्रेमसुखार्णवम् ६७।
गुणातीतं महद्धाम पूर्णप्रेमस्वरूपकम् ।
वृक्षादिपुलकैर्यत्र प्रेमानंदाश्रुवर्षितम् ६८।
किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते ।
गोविंदांघ्रिरजः स्पर्शान्नित्यं वृंदावनं भुवि ६९।
सहस्रदलपद्मस्य वृंदारण्यं वराटकम् ।
यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्त्रये ७०।
गुह्याद्गुह्यतरं रम्यं मध्ये वृंदावनं भुवि ।
अक्षरं परमानंदं गोविंदस्थानमव्ययम् ७१।
गोविंददेहतोऽभिन्नं पूर्णब्रह्मसुखाश्रयम् ।
मुक्तिस्तत्र रजःस्पर्शात्तन्माहात्म्यं किमुच्यते ७२।
तस्मात्सर्वात्मना देवि हृदिस्थं तद्वनं कुरु ।
वृंदावनविहारेषु कृष्णं कैशोरविग्रहम् ७३।
कालिंदी चाकरोद्यस्य कर्णिकायां प्रदक्षिणाम् ।
लीलानिर्वाणगंभीरं जलं सौरभमोहनम् ७४।
आनंदामृत तन्मिश्रमकरंदघनालयम् ।
पद्मोत्पलाद्यैः कुसुमैर्नानावर्णसमुज्जवलम् ७५।
चक्रवाकादिविहगैर्मंजुनानाकलस्वनैः ।
शोभमानं जलं रम्यं तरंगातिमनोरमम् ७६।
तस्योभयतटी रम्या शुद्धकांचननिर्मिता ।
गंगाकोटिगुणा प्रोक्ता यत्र स्पर्शवराटकः ७७।
कर्णिकायां कोटिगुणो यत्र क्रीडारतो हरिः ।
कालिंदीकर्णिका कृष्णमभिन्नमेकविग्रहम् ७८।
पार्वत्युवाच।
गोविंदस्य किमाश्चर्यं सौंदर्याकृतविग्रह ।
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ७९।
ईश्वर उवाच।
मध्ये वृंदावने रम्ये मंजुमंजीरशोभिते ।
योजनाश्रितसद्वृक्ष शाखापल्लवमंडिते ८०।
तन्मध्ये मंजुभवने योगपीठं समुज्जवलम् ।
तदष्टकोणनिर्माणं नानादीप्तिमनोहरम् ८१।
तस्योपरि च माणिक्यरत्नसिंहासनं शुभम् ।
तस्मिन्नष्टदलं पद्मं कर्णिकायां सुखाश्रयम् ८२।
गोविंदस्य परं स्थानं किमस्य महिमोच्यते ।
श्रीमद्गोविंदमंत्रस्थ बल्लवीवृंदसेवितम् ८३।
दिव्यव्रजवयोरूपं कृष्णं वृंदावनेश्वरम् ।
व्रजेंद्रं संततैश्वर्यं व्रजबालैकवल्लभम् ८४।
यौवनोद्भिन्नकैशोरं वयसाद्भुतविग्रहम् ।
अनादिमादिं सर्वेषां नंदगोपप्रियात्मजम् ८५।
श्रुतिमृग्यमजं नित्यं गोपीजनमनोहरम् ।
परंधाम परं रूपं द्विभुजं गोकुलेश्वरम् ८६।
बल्लवीनंदनं ध्यायेन्निर्गुणस्यैककारणम् ।
सुश्रीमंतं नवं स्वच्छं श्यामधाममनोहरम् ८७।
नवीननीरदश्रेणी सुस्निग्धं मंजुकुंडलम् ।
फुल्लेंदीवरसत्कांति सुखस्पर्शं सुखावहम् ८८।
दलितांजनपुंजाभ चिक्कणं श्याममोहनम् ।
सुस्निग्धनीलकुटिलाशेषसौरभकुंतलम् ८९।
तदूर्ध्वं दक्षिणे काले श्यामचूडामनोहरम् ।
नानावर्णोज्ज्वलं राजच्छिखंडिदलमंडितम् ९०।
मंदारमंजुगोपुच्छाचूडं चारुविभूषणम् ।
क्वचिद्बृहद्दलश्रेणी मुकुटेनाभिमंडितम् ९१।
अनेकमणिमाणिक्यकिरीटभूषणं क्वचित् ।
लोलालकवृतं राजत्कोटिचंद्रसमाननम् ९२।
कस्तूरीतिलकं भ्राजन्मंजुगोरोचनान्वितम् ।
नीलेंदीवरसुस्निग्ध सुदीर्घदललोचनम् ९३।
आनृत्यद्भ्रूलताश्लेषस्मितं साचि निरीक्षणम् ।
सुचारून्नतसौंदर्य नासाग्राति मनोहरम् ९४।
नासाग्रगजमुक्तांशु मुग्धीकृत जगत्त्रयम् ।
सिंदूरारुणसुस्निग्धाधरौष्ठसुमनोहरम् ९५।
नानावर्णोल्लसत्स्वर्णमकराकृतिकुंडलम् ।
तद्रश्मिपुंजसद्गंड मुकुराभलसद्द्युतिम् ९६।
कर्णोत्पलसुमंदारमकरोत्तंस भूषितम् ।
श्रीवत्सकौस्तुभोरस्कं मुक्ताहारस्फुरद्गलम् ९७।
विलसद्दिव्यमाणिक्यं मंजुकांचन मिश्रितम् ।
करे कंकणकेयूरं किंकिणीकटिशोभितम् ९८।
मंजुमंजीरसौंदर्य्यश्रीमदंघ्रि विराजितम् ।
कर्पूरागुरुकस्तूरीविलसच्चंदनादिकम् ९९।
गोरोचनादिसंमिश्र दिव्यांगरागचित्रितम् ।
स्निग्धपीतपटी राजत्प्रपदांदोलितांजनम् १००।
गंभीरनाभिकमलं रोमराजीनतस्रजम् ।
सुवृत्तजानुयुगलं पादपद्ममनोहरम् १०१।
ध्वजवज्रांकुशांभोज करांघ्रि तलशोभितम् ।
नखेंदु किरणश्रेणी पूर्णब्रह्मैककारणम् १०२।
केचिद्वदंति तस्यांशं ब्रह्मचिद्रूपमद्वयम् ।
तद्दशांशं महाविष्णुं प्रवदंति मनीषिणः १०३।
योगींद्रैः सनकाद्यैश्च तदेव हृदि चिंत्यते ।
त्रिभंगं ललिताशेष निर्माणसारनिर्मितम् १०४।
तिर्यग्ग्रीवजितानंतकोटिकंदर्पसुंदरम् ।
वामांसार्पित सद्गण्डस्फुरत्कांचनकुंडलम् १०५।
सहापांगेक्षणस्मेरं कोटिमन्मथसुंदरम् ।
कुंचिताधरविन्यस्त वंशीमंजुकलस्वनैः १०६।
जगत्त्रयं मोहयंतं मग्नं प्रेमसुधार्णवे ।
श्रीपार्वत्युवाच-।
परमं कारणं कृष्णं गोविंदाख्यं महत्पदम् १०७।
वृंदावनेश्वरं नित्यं निर्गुणस्यैककारणम् ।
तत्तद्रहस्यमाहात्म्यं किमाश्चर्यं च सुंदरम् १०८।
तद्ब्रूहि देवदेवेश श्रोतुमिच्छाम्यहं प्रभो ।
ईश्वर उवाच-।
यदंघ्रिनखचंद्रांशु महिमांतो न गम्यते १०९।
तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं मुदा शृणु ।
अनंतकोटिब्रह्मांडे अनंतत्रिगुणोच्छ्रये ११०।
तत्कलाकोटिकोट्यंशा ब्रह्मविष्णुमहेश्वराः ।
सृष्टिस्थित्यादिना युक्तास्तिष्ठंति तस्य वैभवाः १११।
तद्रूपकोटिकोट्यंशाः कलाः कंदर्पविग्रहाः ।
जगन्मोहं प्रकुर्वंति तदंडांतरसंस्थिताः ११२।
तद्देहविलसत्कांतिकोटिकोट्यंशको विभुः ।
तत्प्रकाशस्य कोट्यंश रश्मयो रविविग्रहाः ११३।
तस्य स्वदेहकिरणैः परानंद रसामृतैः ।
परमामोदचिद्रूपैर्निर्गुणस्यैककारणैः ११४।
तदंशकोटिकोट्यंशा जीवंति किरणात्मकाः ।
तदंघ्रिपंकजद्वंद्व नखचंद्र मणिप्रभाः ११५।
आहुः पूर्णब्रह्मणोऽपि कारणं वेददुर्गमम् ।
तदंशसौरभानंतकोट्यंशो विश्वमोहनः ११६।
तत्स्पर्शपुष्पगंधादि नानासौरभसंभवः ।
तत्प्रिया प्रकृतिस्त्वाद्या राधिका कृष्णवल्लभा ११७।
तत्कलाकोटिकोट्यंशा दुर्गाद्यास्त्रिगुणात्मिकाः ।
तस्या अंघ्रिरजः स्पर्शात्कोटिविष्णुः प्रजायते ११८।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये कृष्णचरित्रे।
एकोनसप्ततितमोऽध्यायः ६९।
खण्डः ५ (पातालखण्डः) — Adhyāya 70
पार्वत्युवाच-
यदाकर्णनमेतस्य ये वा पारिषदाः प्रभोः ।
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे १।
ईश्वर उवाच।
राधया सह गोविंदं स्वर्णसिंहासनेस्थितम् ।
पूर्वोक्तरूपलावण्यं दिव्यभूषांबरस्रजम् २।
त्रिभंगी मंजु सुस्निग्धं गोपीलोचनतारकम् ।
तद्बाह्ये योगपीठे च स्वर्णसिंहासनावृते ३।
प्रत्यंगरभसावेशाः प्रधानाः कृष्णवल्लभाः ।
ललिताद्याः प्रकृत्यंशा मूलप्रकृतिराधिका ४।
संमुखे ललिता देवी श्यामला वायुकोणके ।
उत्तरे श्रीमती धन्या ऐशान्यां श्रीहरिप्रिया ५।
विशाखा च तथा पूर्वे शैब्या चाग्नौ ततः परम् ।
पद्मा च दक्षिणे पश्चान्नैर्ऋते क्रमशः स्थिताः ६।
योगपीठे केसराग्रे चारु चंद्रावती प्रिया ।
अष्टौ प्रकृतयः पुण्याः प्रधानाः कृष्णवल्लभाः ७।
प्रधानप्रकृतिस्त्वाद्या राधा चंद्रावती समा ।
चंद्रावली चित्ररेखा चंद्रा मदनसुंदरी ८।
प्रिया च श्रीमधुमती चंद्ररेखा हरिप्रिया ।
षोडशाद्याः प्रकृतयः प्रधानाः कृष्णवल्लभाः ९।
वृंदावनेश्वरी राधा तथा चंद्रावली प्रिया ।
अभिन्नगुणलावण्य सौंदर्याश्चारुलोचनाः १०।
मनोहरा मुग्धवेषाः किशोरीवयसोज्ज्वलाः ।
अग्रेतनास्तथा चान्या गोपकन्याः सहस्रशः ११।
शुद्धकांचनपुंजाभाः सुप्रसन्नाः सुलोचनाः ।
तद्रूपहृदयारूढास्तदाश्लेष समुत्सुकाः १२।
श्यामामृतरसे मग्नाः स्फुरत्तद्भावमानसाः ।
नेत्रोत्पलार्चिते कृष्णपादाब्जेऽपितचेतसः १३।
श्रुतिकन्यास्ततो दक्षे सहस्रायुतसंयुताः ।
जगन्मुग्धीकृताकारा हृद्वर्तिकृष्णलालसाः १४।
नानासत्वस्वरालापमुग्धीकृतजगत्त्रयाः ।
तत्र गूढरहस्यानि गायंत्यः प्रेमविह्वलाः १५।
देवकन्यास्ततः सव्ये दिव्यवेषारसोज्ज्वलाः ।
नानावैदिग्ध्यनिपुणा दिव्यभावभरान्विताः १६।
सौंदर्यातिशयेनाढ्याः कटाक्षातिमनोहराः ।
निर्लज्जास्तत्र गोविंदे तदंगस्पर्शनोद्यताः १७।
तद्भावमग्नमनसः स्मितसाचि निरीक्षणाः ।
मंदिरस्य ततो बाह्ये प्रियया विशदावृते १८।
समानवेषवयसः समानबलपौरुषाः ।
समानगुणकर्माणः समानाभरणप्रियाः १९।
समानस्वरसंगीत वेणुवादनतत्पराः ।
श्रीदामा पश्चिमे द्वारे वसुदामा तथोत्तरे २०।
सुदामा च तथा पूर्वे किंकिणी चापि दक्षिणे ।
तद्बाह्ये स्वर्णपीठे च सुवर्णमंदिरावृते २१।
स्वर्णवेद्यंतरस्थे तु स्वर्णाभरणभूषिते ।
स्तोककृष्णं सुभद्राद्यैर्गोपालैरयुतायुतैः २२।
शृंगवीणावेणुवेत्रवयोवेषाकृतिस्वरैः ।
तद्गुणध्यानसंयुक्तैर्गायद्भिरपि विह्वलैः २३।
चित्रार्पितैश्चित्ररूपैः सदानंदाश्रुवर्षिभिः ।
पुलकाकुलसर्वांगैर्योगींद्रैरिव विस्मितैः २४।
क्षरत्ययोभिर्गोविंदैरसंख्यातैरुपावृतम् ।
तद्बाह्ये स्वर्णप्राकारे कोटिसूर्यसमुज्जवले २५।
चतुर्दिक्षुमहोद्यानं मंजुसौरभमोहिते ।
पश्चिमे संमुखे श्रीमत्पारिजातद्रुमाश्रये २६।
तदधस्तु स्वर्णपीठे स्वर्णमंडनमंडिते ।
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले २७।
तत्रोपरि परानंदं वासुदेवं जगत्प्रभुम् ।
त्रिगुणातीतचिद्रूपं सर्वकारणकारणम् २८।
इंद्रनीलघनश्यामं नीलकुंचितकुंतलम् ।
पद्मपत्रविशालाक्षं मकराकृतिकुंडलम् २९।
चतुर्भुजं तु चक्रासिगदाशंखांबुजायुधम् ।
आद्यंतरहितं नित्यं प्रधानं पुरुषोत्तमम् ३०।
ज्योतीरूपं महद्धाम पुराणं वनमालिनम् ।
पीतांबरधरं स्निग्धं दिव्यभूषणभूषितम् ३१।
दिव्यानुलेपनं राजच्चित्रितांग मनोहरम् ।
रुक्मिणी सत्यभामा च नाग्नजिती सुलक्षणा ३२।
मित्रविंदानुविंदा सुनंदा जांबवती प्रिया ।
सुशीला चाष्टमहिला वासुदेवप्रियास्ततः ३३।
उद्भ्राजिताः पारिषदा वृतयोर्भक्तितत्पराः ।
उत्तरे सुमहोद्याने हरिचंदनसंश्रये ३४।
तत्राधस्तु स्वर्णपीठे मणिमंडपमंडिते ।
तन्मध्ये हेमनिर्माणदले सिंहासनोज्जवले ३५।
तत्रैव सह रेवत्या संकर्षण हलायुधम् ।
ईश्वरस्य प्रियानंतमभिन्नगुणरूपिणम् ३६।
शुद्धस्फटिकसंकाशं रक्तांबुज दलेक्षणम् ।
नीलपट्टधरं स्निग्धं दिव्यभूषास्रगंबरम् ३७।
मधुपाने सदासक्तं मधुघूर्णितलोचनम् ।
प्रवीरदक्षिणेभागे मंजुनाभ्यंतरस्थिते ३८।
संतानवृक्षमूले तु मणिमंदिरमंडितम् ।
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले ३९।
प्रद्युम्नं च रती देवं तत्रोपरिसुखस्थितम् ।
जगन्मोहनसौंदर्य्यसारश्रेणीरसात्मकम् ४०।
असितांभोजपुंजाभमरविंददलेक्षणम् ।
दिव्यालंकारभूषाभिर्दिव्यगंधानुलेपनम् ४१।
जगन्मुग्धीकृताशेष सौंदर्याश्चर्यविग्रहम् ।
पूर्वोद्याने महारण्ये सुरद्रुम समाश्रये ४२।
तत्राधस्तु स्वर्णपीठे हेममंडपमंडिते ।
तस्य मध्ये स्थिरे राजद्दिव्यसिंहासनोज्ज्वले ४३।
दिव्योषयासमं श्रीमदनिरुद्धं जगत्पतिम् ।
सांद्रानंदघनश्यामं सुस्निग्धं नीलकुंतलम् ४४।
सुभ्रून्नतलताभंगीं सुकपोलं सुनासिकम् ।
सुग्रीवं सुंदरं वक्षो मनोहर मनोहरम् ४५।
किरीटिनं कुंडलिनं कंठभूषाविभूषितम् ।
मंजुमंजीरमाधुर्यादतिसौंदर्य विग्रहम् ४६।
प्रियभृत्यगणाराध्यं यत्र संगीतकप्रियम् ।
पूर्णब्रह्मसदानंदं शुद्धसत्वस्वरूपकम् ४७।
तस्योर्द्ध्वे चांतरिक्षे च विष्णुं सर्वेश्वरेश्वरम् ।
अनादिमादिचिद्रूपं चिदानंदं परं विभुम् ४८।
त्रिगुणातीतमव्यक्तं नित्यमक्षयमव्ययम् ।
समेघपुंजमाधुर्यसौंदर्यश्यामविग्रहम् ४९।
नीलकुंचितसुस्निग्ध केशपाशातिसुंदरम् ।
अरविंददलस्निग्ध सुदीर्घचारुलोचनम् ५०।
किरीटकुंडलोद्गंड शुद्धसत्वात्मभिर्वृतम् ।
आत्मारामैश्च चिद्रूपैस्तन्मूर्तिध्यानतत्परैः ५१।
हृदयारूढ तद्ध्य्नौर्नासाग्रन्यस्तलोचनैः ।
क्रियतेऽहैतुकीभक्तिः कायहृद्वृत्तिभाषितैः ५२।
तत्सव्ये यक्षगंधर्वसिद्धविद्याधरादिभिः ।
सुकांतैरप्सरःसंघैर्नृत्यसंगीततत्परैः ५३।
तदंगभजनं कामं वांछद्भिः कृष्णलालसैः ।
तदग्रे वैष्णवैः सर्वैश्चांतरिक्षे सुखासने ५४।
प्रह्लादनारदाद्यैश्च कुमारशुकवैष्णवैः ।
जनकाद्यैर्लसद्भावैर्हृद्बाह्य स्फूर्तितत्परैः ५५।
पुलकाकुलसर्वांगैः स्फुरत्प्रेमसमाकुलैः ।
रहस्यामृतसंसिक्तैरर्द्धयुग्माक्षरो मनुः ५६।
मंत्रचूडामणिः प्रोक्तः सर्वमंत्रैककारणम् ।
सर्वदेवस्य मंत्राणां कैशोरं मंत्रहेतुकम् ५७।
सर्वकैशोरमंत्राणां हेतुश्चूडामणिर्मनुः ।
जपं कुर्वंति मनसा पूर्णप्रेमसुखाश्रयाः ५८।
वांछंति तत्पदांभोजे निश्चलं प्रेमसाधनम् ।
तद्बाह्ये स्फटिकाद्युच्च प्रावारे सुमनोहरे ५९।
कुंकुमैः सितरक्ताद्यैश्चतुर्दिक्षु समाकुलैः ।
शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम् ६०।
शंखचक्रगदापद्मकिरीटादि विभूषितम् ।
रक्तं चतुर्भुजं पद्मशंखचक्रगदायुधम् ६१।
किरीटकुंडलोद्दीप्त द्वारपालकमुत्तरे ।
गौरं चतुर्भुजं विष्णुं शुखचक्रगदायुधम् ६२।
किरीटकुंडलाद्यैश्च शोभितं वनमालिनम् ।
पूर्वद्वारे द्वारपालं गौरं विष्णुं प्रकीर्तितम् ६३।
कृष्णवर्णं चतुर्बाहुं शंखचक्रादिभूषणम् ।
दक्षिणद्वारपालं तु श्रीविष्णुंकृष्णवर्णकम् ६४।
श्रीकृष्णचरितं ह्येतद्यः पठेत्प्रयतः शुचिः ।
शृणुयाद्वापि यो भक्त्या गोविंदे लभते रतिम् ६५।
इति श्रीपद्मपुराणे पातालखंडे कृष्णचरिते सप्ततितमोऽध्यायः ७०।
खण्डः ५ (पातालखण्डः) — Adhyāya 71
श्रीदेव्युवाच-
भगवन्सर्वभूतेश सर्वात्मन्सर्वसंभव ।
देवेश्वर महादेव सर्वज्ञ करुणाकर १।
त्वयानुकंपितैवाहं भूयोऽप्याहानुकंपया ।
त्रैलोक्यमोहना मंत्रास्त्वया मे कथिताः प्रभो २।
तेन देवेन गोपीभिर्महामोहनरूपिणा ।
केन केन विशेषण चिक्रीडे तद्वदस्व मे ३।
महादेव उवाच।
एकदा वादयन्वीणां नारदो मुनिपुंगवः ।
कृष्णावतारमाज्ञाय प्रययौ नंदगोकुलम् ४।
गत्वा तत्र महायोगमयेशं विभुमच्युतम् ।
बालनाट्यधरं देवदर्शनं नंदवेश्मनि ५।
सुकोमलपटास्तीर्णहेमपर्यंकिकोपरि ।
शयानं गोपकन्याभिः प्रेक्षमाणं सदा मुदम् ६।
अतीव सुकुमारांगं मुग्धं मुग्धविलोकनम् ।
विस्रस्तनीलकुटिलकुंतलावनिमंडलम् ७।
किंचित्स्मितांकुरव्यंजदेकद्विरदकुड्मलम् ।
स्वप्रभाभिर्भासयंतं समंताद्भवनोदरम् ८।
दिग्वाससं समालोक्य सोऽतिहर्षमवाप ह ।
संभाष्य गोपतिं नंदमाह सर्वप्रभुप्रियः ९।
नारायणपराणां तु जीवनं ह्यतिदुर्लभम् ।
अस्य प्रभावमतुलं न जानंतीह केचन १०।
भव ब्रह्मादयोऽप्यस्मिन्रतिं वांच्छन्ति शाश्वतीम् ।
चरितं चास्य बालस्य सर्वेषामेव हर्षणम् ११।
मुदा गायंति शृण्वंति चाभिनंदंति तादृशाः ।
अस्मिंस्तव सुतेऽचिंत्यप्रभावे स्निग्धमानसाः १२।
नराः संति न तेषां वै भवबाधा भविष्यति ।
मुंचेह परलोकेच्छाः सर्वा बल्लवसत्तम १३।
एकांतेनैकभावेन बालेऽस्मिन्प्रीतिमाचर ।
इत्युक्त्वा नंदभवनान्निष्क्रांतो मुनिपुंगवः १४।
तेनार्चितो विष्णुबुद्ध्या प्रणम्य च विसर्जितः ।
अथासौ चिंतयामास महाभागवतो मुनिः १५।
अस्य कांता भगवती लक्ष्मीर्नारायणे हरौ ।
विधाय गोपिकारूपं क्रीडार्थं शार्ङ्गधन्वनः १६।
अवश्यमवतीर्णा सा भविष्यति न संशयः ।
तामहं विचिनोम्यद्य गेहेगेहे व्रजौकसाम् १७।
विमृश्यैवं मुनिवरो गेहानि व्रजवासिनाम् ।
प्रविवेशातिथिर्भूत्वा विष्णुबुद्ध्या सुपूजितः १८।
सर्वेषां बल्लवादीनां रतिं नंदसुते पराम् ।
दृष्ट्वा मुनिवरः सर्वान्मनसा प्रणनाम ह १९।
गोपालानां गृहे बालां ददर्श श्वेतरूपिणीम् ।
स दृष्ट्वा तर्कयामास रमा ह्येषा न संशयः २०।
प्रविवेश ततो धीमान्नंदसख्युर्महात्मनः ।
कस्यचिद्गोपवर्य्यस्य भानुनाम्नो गृहं महत् २१।
अर्चितो विधिवत्तेन सोऽप्यपृच्छन्महामनाः ।
साधो त्वमसि विख्यातो धर्मनिष्ठतया भुवि २२।
तवाहं धनधान्यादि समृद्धिं संविभावये ।
कच्चित्ते योग्यः पुत्रोऽस्ति कन्या वा शुभलक्षणा २३।
यतस्ते कीर्तिरखिलं लोकं व्याप्य भविष्यति ।
इत्युक्तो मुनिवर्य्येण भानुरानीय पुत्रकम् २४।
महातेजस्विनं दृप्तं नारदायाभ्यवादयत् ।
दृष्ट्वा मुनिवरस्तं तु रूपेणाप्रतिमं भुवि २५।
पद्मपत्रविशालाक्षं सुग्रीवं सुंदरभ्रुवम् ।
चारुदंतं चारुकर्णं सर्वावयवसुंदरम् २६।
तं समाश्लिष्य बाहुभ्यां स्नेहाश्रूणि विमुच्य च ।
ततः स गद्गद प्राह प्रणयेन महामुनिः २७।
नारद उवाच-।
अयं शिशुस्ते भविता सुसखा रामकृष्णयोः ।
विहरिष्यति ताभ्यां च रात्रिंदिवमतंद्रितः २८।
तत आभाष्य तं गोपप्रवरं मुनिपुंगवः ।
यदा गंतुं मनश्चक्रे तत्रैवं भानुरब्रवीत् २९।
एकास्ति पुत्रिका देव देवपत्न्युपमा मम ।
कनीयसी शिशोरस्य जडांधबधिराकृतिः ३०।
उत्साहाद्वृद्धये याचे त्वां वरं भगवत्तम ।
प्रसन्नदृष्टिमात्रेण सुस्थिरां कुरु बालिकाम् ३१।
श्रुत्वैवं नारदो वाक्यं कौतुकाकृष्टमानसः ।
अथ प्रविश्य भवनं लुठंतीं भूतले सुताम् ३२।
उत्थाप्यांके निधायातिस्नेहविह्वलमानसः ।
भानुरप्याययौ भक्तिनम्रो मुनिवरांतिकम् ३३।
अथ भागवतश्रेष्ठः कृष्णस्यातिप्रियो मुनिः ।
दृष्ट्वा तस्याः परं रूपमदृष्टाश्रुतमद्भुतम् ३४।
अभूत्पूर्वसमं मुग्धो हरिप्रेमा महामुनिः ।
विगाह्य परमानंदसिंधुमेकरसायनम् ३५।
मुहूर्त्तद्वितयं तत्र मुनिरासीच्छिलोपमः ।
मुनींद्रः प्रतिबुद्धस्तु शनैरुन्मील्य लोचने ३६।
महाविस्मयमापन्नस्तूष्णीमेव स्थितोऽभवत् ।
अंतर्हृदि महाबुद्धिरेवमेवं व्यचिंतयत् ३७।
भ्रांतं सर्वेषु लोकेषु मया स्वच्छंदचारिणा ।
अस्या रूपेण सदृशी दृष्ट्वा नैव च कुत्रचित् ३८।
ब्रह्मलोके रुद्रलोक इंद्रलोके च मे गतिः ।
न कोपि शोभाकोट्यंशः कुत्राप्यस्या विलोकितः ३९।
महामाया भगवती दृष्टा शैलेंद्रनंदिनी ।
यस्या रूपेण सकलं मुह्यते सचराचरम् ४०।
साप्यस्याः सुकुमारांगी लक्ष्मीं नाप्नोति कर्हिचित् ।
लक्ष्मीः सरस्वती कांति विद्याद्याश्च वरस्त्रियः ४१।
छायामपि स्पृशंत्यस्याः कदाचिन्नैव दृश्यते ।
विष्णोर्यन्मोहिनीरूपं हरो येन विमोहितः ४२।
मया दृष्टं च तदपि कुतोऽस्यासदृशं भवेत् ।
ततोऽस्यास्तत्त्वमाज्ञातुं न मे शक्तिः कथंचन ४३।
अन्ये चापि न जानंति प्रायेणैनां हरेः प्रियाम् ।
अस्याः संदर्शनादेव गोविंदचरणांबुजे ४४।
या प्रेमर्द्धिरभूत्सा मे भूतपूर्वा न कर्हिचित् ।
एकांते नौमि भवतीं दर्शयित्वातिवैभवम् ४५।
कृष्णस्य संभवत्यस्या रूपं परमतुष्टये ।
विमृश्यैवं मुनिर्गोपप्रवरं प्रेष्य कुत्रचित् ४६।
निभृते परितुष्टाव बालिकां दिव्यरूपिणीम् ।
अपि देवि महायोगमायेश्वरि महाप्रभे ४७।
महामोहनदिव्यांगि महामाधुर्यवर्षिणि ।
महाद्भुतरसानंदशिथिलीकृतमानसे ४८।
महाभाग्येन केनापि गतासि मम दृक्पथम् ।
नित्यमंतर्मुखादृष्टिस्तव देवि विभाव्यते ४९।
अंतरेव महानंदपरितृप्तैव लक्ष्यसे ।
प्रसन्नं मधुरं सौम्यमिदं सुमुखमंडनम् ५०।
व्यनक्तिपरमाश्चर्यं कमप्यंतः सुखोदयम् ।
रजः संबंधिकलिका शक्तिस्तत्वातिशोभने ५१।
सृष्टिस्थितिसमाहाररूपिणी त्वमधिष्ठिता ।
तत्त्वं विशुद्धसत्वाशु शक्तिर्विद्यात्मिका परा ५२।
परमानंदसंदोहं दधती वैष्णवं परम् ।
का त्वयाश्चर्यविभवे ब्रह्मरुद्रादिदुर्गमे ५३।
योगींद्राणां ध्यानपथं न त्वं स्पृशसि कर्हिचित् ।
इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिस्तवेशितुः ५४।
तवांशमात्रमित्येवं मनीषा मे प्रवर्त्तते ।
मायाविभूतयोऽचिंत्यास्तन्मायार्भकमायिनः ५५।
परेशस्य महाविष्णोस्ताः सर्वास्ते कलाकलाः ।
आनंदरूपिणी शक्तिस्त्वमीश्वरि न संशयः ५६।
त्वया च क्रीडते कृष्णो नूनं वृंदावने वने ।
कौमारेणैव रूपेण त्वं विश्वस्य च मोहिनी ५७।
तारुण्यवयसा स्पृष्टं कीदृक्ते रूपमद्भुतम् ।
कीदृशं तव लावण्यं लीलाहासेक्षणान्वितम् ५८।
हरि मानुषलोभेन वपुराश्चर्यमंडितम् ।
द्रष्टुं तदहमिच्छामि रूपं ते हरिवल्लभे ५९।
येन नंदसुतः कृष्णो मोहं समुपयास्यति ।
इदानीं मम कारुण्यान्निजं रूपं महेश्वरि ६०।
प्रणताय प्रपन्नाय प्रकाशयितुमर्हसि ।
इत्युक्ता मुनिवर्य्येण तदनुव्रतचेतसा ६१।
महामाहेश्वरीं नत्वा महानंदमयीं पराम् ।
महाप्रेमतरोत्कंठा व्याकुलांगीं शुभेक्षणाम् ६२।
ईक्षमाणेन गोविंदमेवं वर्णयतास्थितम् ।
जयकृष्ण मनोहारिञ्जय वृंदावनप्रिय ६३।
जयभ्रूभंगललित जयवेणुरवाकुल ।
जय बर्हकृतोत्तंस जयगोपीविमोहन ६४।
जय कुंकुमलिप्तांग जय रत्नविभूषण ।
कदाहं त्वत्प्रसादेन अनया दिव्यरूपया ६५।
सहितं नवतारुण्य मनोहारि वपुःश्रिया ।
विलोकयिष्ये कैशोरे मोहनं त्वां जगत्पते ६६।
एवं कीर्त्तयतस्तस्य तत्क्षणादेव सा पुनः ।
बभूव दधती दिव्यं रूपमत्यंतमोहनम् ६७।
चतुर्दशाब्दवयसा संमितं ललितं परम् ।
समानवयसश्चान्यास्तदैव व्रजबालिकाः ६८।
आगत्य वेष्टयामासुर्दिव्यभूषांबरस्रजः ।
मुनींद्रः स तु निश्चेष्टो बभूवाश्चर्यमोहितः ६९।
बालायास्तास्तदा सख्यश्चरणांबुकणैर्मुनिम् ।
निषिच्य बोधयामासुरूचुश्च कृपयान्विताः ७०।
मुनिवर्य महाभाग महायोगेश्वरेश्वर ।
त्वयैव परया भक्त्या भगवान्हरिरीश्वरः ७१।
नूनमाराधितो देवो भक्तानां कामपूरकः ।
यदियंब्रह्मरुद्राद्यैर्देवैः सिद्धमुनीश्वरैः ७२।
महाभागवतैश्चान्यैर्दुर्दर्शा दुर्गमापि च ।
अत्यद्भुतवयोरूपमोहिनी हरिवल्लभा ७३।
केनाप्यचिंत्य भाग्येन तवदृष्टिपथं गता ।
उत्तिष्ठोत्तिष्ठ विप्रर्षे धैर्यमालंब्य सत्वरम् ७४।
एनां प्रदक्षिणीकृत्य नमस्कुरु पुनःपुनः ।
किं न पश्यसि चार्वंगीमत्यंतव्याकुलामिव ७५।
अस्मिन्नेव क्षणे नूनमंतर्धानं गमिष्यति ।
नानया सह संलापः कथंचित्ते भविष्यति ७६।
दर्शनं च पुनर्नास्याः प्राप्स्यसि ब्रह्मवित्तम ।
किंतु वृंदावने कापि भात्यशोकलता शुभा ७७।
सर्वकालेऽपि पुष्पाढ्या सर्वदिग्व्यापि सौरभा ।
गोवर्द्धनाददूरेण कुसुमाख्यसरस्तटे ७८।
तन्मूले ह्यर्द्धरात्रे च द्रक्ष्यस्यस्मानशेषतः ।
श्रुत्वैवं वचनं तासां स्नेहविह्वलचेतसाम् ७९।
यावत्प्रदक्षिणीकृत्य प्रणमेद्दंडवन्मुनिः ।
मुहूर्त्तद्वितयं बालां नानानिर्माणशोभनाम् ८०।
आहूय भानुं प्रोवाच नारदः सर्वशोभनाम् ।
एवं प्रभावा बालेयं न साध्या दैवतैरपि ८१।
किंतु यद्गृहमेतस्याः पदचिह्नविभूषितम् ।
तत्र नारायणो देवः स्वयं वसति माधवः ८२।
लक्ष्मीश्च वसते नित्यं सर्वाभिः सर्वसिद्धिभिः ।
अद्य एनां वरारोहां सर्वाभरणभूषणाम् ८३।
देवीमिव परां गेहे रक्ष यत्नेन सत्तम ।
इत्युक्त्वा मनसैवैनां महाभागवतोत्तमः ८४।
तद्रूपमेव संस्मृत्य प्रविष्टो गहनं वनम् ।
अशोकलतिकामूलमासाद्य मुनिसत्तमः ८५।
प्रतीक्षमाणो देवीं तां तत्रैवागमनं निशि ।
स्थितोऽत्र प्रेमविकलश्चिंतयन्कृष्णवल्लभाम् ८६।
अथ मध्यनिशाभागे युवत्यः परमाद्भुताः ।
पूर्वं दृष्ट्वास्तथान्याश्च विचित्राभरणस्रजः ८७।
दृष्ट्वा मनसि संभ्रांतो दंडवत्पतितो भुवि ।
परिवार्य मुनिं सर्वास्ताः प्रविविशुः शुभाः ८८।
प्रष्टुकामोऽपि स मुनिः किंचित्स्वाभिमतं प्रियम् ।
नाशकत्प्रेमलावण्यप्रियभाषाप्रधर्षितः ८९।
अथागता मुनिश्रेष्ठं कृतांजलिमवस्थितम् ।
भक्तिभारानतग्रीवं सविस्मयं ससंभ्रमम् ९०।
सुविनीततमं प्राह तत्रैव करुणान्विता ।
अशोकमालिनी नाम्ना अशोकवनदेवता ९१।
अशोकमालिन्युवाच।
अशोककलिकायां तु वसाम्यस्यां महामुने ।
रक्तांबरधरा नित्यं रक्तमालानुलेपना ९२।
रक्तसिंदूरकलिका रक्तोत्पलवतंसिनी ।
रक्तमाणिक्यकेयूर मुकुटादिविभूषिता ९३।
एकदा प्रियया सार्द्धं विहरंत्यो मधूत्सवे ।
तत्रैव मिलिता गोपबालिकाश्चित्रवाससः ९४।
अहं चाशोकमालाभिर्गोपवेषधरं हरिम् ।
रमारूपाश्च ताः सर्वा भक्त्या सम्यगपूजयम् ९५।
ततः प्रभृति चैतासां मध्ये तिष्ठामि सर्वदा ।
भूषाभिर्विविधाभिश्च तोषयित्वा रमापतिम् ९६।
परात्परमहं सर्वं विजानामीह सर्वतः ।
गोगोपगोपिकादीनां रहस्यं चापि वेद्म्यहम् ९७।
तव जिज्ञासितं सर्वं हृदि प्रत्यभिभाषितम् ।
तां देवीमद्भुताकारामद्भुतानंददायिनीम् ९८।
हरेः प्रियां हिरण्याभां हीरकोज्ज्वलमुद्रिकाम् ।
कथं पश्यामि लोलाक्षीं कथं वा तत्पदांबुजम् ९९।
आराध्यतेऽतिभक्त्येति त्वया ब्रह्मन्विमर्शितम् ।
तत्र ते कथयिष्यामि वृत्तांतं सुमहात्मनाम् १००।
मानसे सरसि स्थित्वा तपस्तीव्रमुपेयुषाम् ।
जपतां सिद्धमंत्रांश्च ध्यायतां हरिमीश्वरम् १०१।
मुनीनां कांक्षतां नित्यं तस्या एव पदांबुजम् ।
एकसप्ततिसाहस्रं संख्यातानां महौजसाम् १०२।
तत्तेऽहं कथयाम्यद्य तद्रहस्यं परं वने १०३।
इति श्रीपद्मपुराणे पातालखंडे श्रीराधाकृष्ण-।
माहात्म्ये एकसप्ततितमोऽध्यायः ७१।
खण्डः ५ (पातालखण्डः) — Adhyāya 72
ईश्वर उवाच-।
तदेकाग्रमना भूत्वा शृणु देवि वरानने ।
आसीदुग्रतपा नाम मुनिरेको दृढव्रतः १।
साग्निको ह्यग्निभक्षश्च चचारात्यद्भुतं तपः ।
जजाप परमं जाप्यं मंत्रं पंचदशाक्षरम् २।
काममंत्रेण पुटितं कामं कामवरप्रदात् ।
कृष्णायेति पदं स्वाहा सहितं सिद्धिदं परम् ३।
दध्यौ च श्यामलं कृष्णं रासोन्मत्तं वरोत्सुकम् ।
पीतपट्टधरं वेणुं करेणाधरमर्पितम् ४।
नवयौवनसंपन्नं कर्षंतं पाणिना प्रियाम् ।
एवं ध्यानपरः कल्पशतांते देहमुत्सृजन् ५।
सुनंद नाम गोपस्य कन्याभूत्स महामुनिः ।
सुनंदेति समाख्याता या वीणां बिभ्रती करे ६।
मुनिरन्यः सत्यतपा इति ख्यातो महाव्रतः ।
सशुष्कपत्रं भुंक्ते यः प्रजजाप परं मनुम् ७।
रत्यंतं कामबीजेन पुटितं च दशाक्षरम् ।
स प्रदध्यौ मुनिवरश्चित्रवेषधरं हरिम् ८।
धृत्वा रमाया दोर्वल्लीद्वितयं कंकणोज्ज्वलम् ।
नृत्यंतमुन्मदंतं च संश्लिष्यं तं मुहुर्मुहुः ९।
हसंतमुच्चैरानंदतरंगं जठरांबरे ।
दधतं वेणुमाजानु वैजयंत्या विराजितम् १०।
स्वेदांभः कणसंसिक्त ललाटवलिताननम् ।
त्यक्त्वा त्यक्त्वा स वै देहं तपसा च महामुनिः ११।
दशकल्पांतरे जातो ह्ययं नंदवनादिह ।
सुभद्र नाम्नो गोपस्य कन्या भद्रेति विश्रुता १२।
यस्याः पृष्ठतले दिव्यं व्यजनं परिदृश्यते ।
हरिधामाभिधानस्तु कश्चिदासीन्महामुनिः १३।
सोऽप्यतप्यत्तपः कृच्छ्रं नित्यं पत्रैकभोजनम् ।
आशुसिद्धिकरं मंत्रं विंशत्यर्णं प्रजप्तवान् १४।
अनंतरं कामबीजादध्यारूढं तदेव तु ।
माया तत्पुरतो व्योम हंसासृग्द्युतिचंद्रकम् १५।
ततो दशाक्षरं पश्चान्नमोयुक्तं स्मरादिकम् ।
दध्यौ वृंदावने रम्ये माधवीमंडपे प्रभुम् १६।
उत्तानशायिनं चारुपल्लवास्तरणोपरि ।
कयाचिदतिकामार्त्त बल्लव्या रक्तनेत्रया १७।
वक्षोजयुगमाच्छाद्य विपुलोरः स्थलं मुहुः ।
संचुंब्यमानगंडांतं तृप्यमानरदच्छदम् १८।
कलयंतं प्रियां दोर्भ्यां सहासं समुदाद्भुतम् ।
स मुनिश्च बहून्देहां स्त्यक्त्वा कल्पत्रयांतरे १९।
सारंगनाम्नो गोपस्य कन्याभूच्छुभलक्षणा ।
रंगवेणीति विख्याता निपुणा चित्रकर्मणि २०।
यस्या दंतेषु दृश्यंते चित्रिताः शोणबिंदवः ।
ब्रह्मवादी मुनिः कश्चिज्जाबालिरिति विश्रुतः २१।
सतपः सुरतो योगी विचरन्पृथिवीमिमाम् ।
स एकस्मिन्महारण्ये योजनायुतविस्तृते २२।
यदृच्छयागतोऽपश्यदेकां वापीं सुशोभनाम् ।
सर्वतः स्फाटिकाबंधतटां स्वादुजलान्विताम् २३।
विकासिकमलामोदवायुना परिशीलिताम् ।
तस्याः पश्चिमदिग्भागे मूले वटमहीरुहः २४।
अपश्यत्तापसीं कांचित्कुर्वंतीं दारुणं तपः ।
तारुण्यवयसायुक्तां रूपेणाति मनोहराम् २५।
चंद्रांशुं सदृशाभासां सर्वावयवशोभनाम् ।
कृत्वा कटितटे वामपाणिं दक्षिणतस्तदा २६।
ज्ञानमुद्रां च बिभ्राणामनिमेषविलोचनाम् ।
त्यक्ताहारविहारां च सुनिश्चलतयास्थिताम् २७।
जिज्ञासुस्तां मुनिवरस्तस्थौ तत्र शतं समाः ।
तदंते तां समुत्थाप्य चलितां विनयान्मुनिः २८।
अपृच्छत्का त्वमाश्चर्यरूपे किं वा चरिष्यसि ।
यदि योग्यं भवेत्तर्हि कृपया वक्तुमर्हसि २९।
अथाब्रवीच्छनैर्बाला तपसातीव कर्शिता ।
ब्रह्मविद्याहमतुला योगींद्रैर्या विमृग्यते ३०।
साहं हरिपदाम्भोजकाम्यया सुचिरं तपः ।
चराम्यस्मिन्वने घोरे ध्यायंती पुरुषोत्तमम् ३१।
ब्रह्मानंदेन पूर्णाहं तेनानंदेन तृप्तधीः ।
तथापि शून्यमात्मानं मन्ये कृष्णरतिं विना ३२।
इदानीमतिनिर्विण्णा देहस्यास्य विसर्ज्जनम् ।
कर्त्तुमिच्छामि पुण्यायां वापिकायामिहैव तु ३३।
तच्छ्रुत्वा वचनं तस्या मुनिरत्यंतविस्मितः ।
पतित्वा चरणे तस्याः कृष्णोपासाविधिं शुभम् ३४।
पप्रच्छ परमप्रीतस्त्यक्त्वाध्यात्मविरोचनम् ।
तयोक्तं मंत्रमाज्ञाय जगाम मानसं सरः ३५।
ततोऽतिदुश्चरं चक्रे तपो विस्मयकारकम् ।
एकपादस्थितः सूर्यं निर्निमेषं विलोकयन् ३६।
मंत्रं जजाप परमं पंचविंशतिवर्णकम् ।
दध्यौ परमभावेन कृष्णमानंदरूपिणम् ३७।
चरंतं व्रजवीथीषु विचित्रगतिलीलया ।
ललितैः पादविन्यासैः क्वणयंतं च नूपुरम् ३८।
चित्रकंदर्पचेष्टाभिः सस्मितापांगवीक्षितैः ।
संमोहनाख्यया वंश्या पंचमारुणचित्रया ३९।
बिंबौष्ठपुटचुंबिन्या कलालापैर्मनोज्ञया ।
हरंतं व्रजरामाणां मनांसि च वपूंषि च ४०।
श्लथन्नीवीभिरागत्य सहसालिंगितांगकम् ।
दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम् ४१।
श्यामलांगप्रभापूर्णैर्मोहयंतं जगत्त्रयम् ।
स एवं बहुदेवेन समुपास्य जगत्पतिम् ४२।
नवकल्पांतरे जाता गोकुले दिव्यरूपिणी ।
कन्या प्रचंडनाम्नस्तु गोपस्याति यशस्विनः ४३।
चित्रगंधेति विख्याता कुमारी च शुभानना ।
निजांगगंधैर्विविधैर्मोदयंती दिशो दश ४४।
तामेनां पश्य कल्याणीं वृंदशो मधुपायिनीम् ।
अंगेषु स्वपतिं कृत्वा रसावेशसमाकुलाम् ४५।
अस्याः स्तनपरिष्वंगे हारैः सर्वैर्विहन्यते ।
वक्षःस्थलात्प्रच्यवद्भिश्चित्रगंधादिसौरभैः ४६।
अपरे मुनिवर्यास्तु सततं पूतमानसाः ।
वायुभक्षास्तपस्तेपुर्जपंतः परमं मनुम् ४७।
स्मरः कृष्णाय कामार्ति कलादिवृत्तिशालिने ।
आग्नेयीसहितं कृत्वा मंत्रं पंचदशाक्षरम् ४८।
दध्युर्मुनिवराः कष्णमूर्तिं दिव्यविभूषणाम् ।
दिव्यचित्रदुकूलेन पूर्णपीनकटिस्थलाम् ४९।
मयूरपिच्छकैः कॢप्तचूडामुज्ज्वलकुंडलाम् ।
सव्यजंघांत आदाय दक्षिणं चरणांबुजम् ५०।
भ्रमंतीं संपुटीकृत्य चारुहस्तांबुजद्वयम् ।
कक्षदेशविनिक्षिप्तवेणुं परिचलत्पुटीम् ५१।
आनंदयंतीं गोपीनां नयनानि मनांसि च ।
परमाश्चर्यरूपेण प्रविष्टां रंगमंडपे ५२।
प्रसूनवर्षर्गोपीभिः पूर्यमाणां च सर्वतः ।
अथ कल्पांतरे देहं त्यक्त्वा जाता इहाधुना ५३।
यासां कर्णेषु दृश्यंते ताटंका रश्मिदीपिताः ।
रत्नमाल्यानि कंठेषु रत्नपुष्पाणि वेणिषु ५४।
मुनिः शुचिश्रवा नाम सुवर्णो नाम चापरः ।
कुशध्वजस्य ब्रह्मर्षेः पुत्रौ तौ वेदपारगौ ५५।
ऊर्ध्वपादौ तपो घोरं तेपतुस्त्र्यक्षरं मनुम् ।
ह्रीं हंस इति कृत्वैव जपंतौ यतमानसौ ५६।
ध्यायंतौ गोकुले कृष्णं बालकं दशवार्षिकम् ।
कंदर्पसमरूपेण तारुण्यललितेन च ५७।
पश्यंतीर्व्रजबिंबोष्ठीर्मोहयंतमनारतम् ।
तौ कल्पांते तनूं त्यक्त्वा लब्धवंतौ जनिं व्रजे ५८।
सुवीरनाम गोपस्य सुते परमशोभने ।
ययोर्हस्ते प्रदृश्येते सारिके शुभराविणी ५९।
जटिलो जंघपूतश्च घृताशी कर्बुरेव च ।
चत्वारो मुनयो धन्या इहामुत्र च निःस्पृहाः ६०।
केवलेनैकभावेन प्रपन्ना बल्लवीपतिम् ।
तेपुस्ते सलिले मग्ना जपंतो मनुमेव च ६१।
रमात्रयेण पुटितं स्मराद्यं तदशाक्षरम् ।
दध्युश्च गाढभावेन बल्लवीभिर्वने वने ६२।
भ्रमंतं नृत्यगीताद्यैर्मानयंतं मनोहरम् ।
चंदनालिप्तसर्वांगं जपापुष्पावतंसकम् ६३।
कल्हारमालयावीतं नीलपीतपटावृतम् ।
कल्पत्रयांते जातास्ते गोकुले शुभलक्षणाः ६४।
इमास्ताः पुरतो रम्या उपविष्टा नतभ्रुवः ।
यासां धर्मकृतान्येव वलयानि प्रकोष्ठके ६५।
विचित्राणि च रत्नाद्यैर्दिव्यमुक्ताफलादिभिः ।
मुनिर्दीर्घतपा नाम व्यासोऽभूत्पूर्वकल्पके ६६।
तत्पुत्रः शुक इत्येव मुनिः ख्यातो वरः सुधीः ।
सोऽपि बालो महाप्राज्ञः सदैवानुस्मरन्पदम् ६७।
विहाय पितृमात्रादि कृष्णं ध्यात्वा वनं गतः ।
स तत्र मानसैर्दिव्यैरुपचारैरहर्निशम् ६८।
अनाहारोऽर्चयद्विष्णुं गोपरूपिणमीश्वरम् ।
रमया पुटितं मंत्रं जपन्नष्टादशाक्षरम् ६९।
दध्यौ परमभावेन हरिं हैमतरोरधः ।
हैममंडपिकायां च हेमसिंहासनोपरि ७०।
आसीनं हेमहस्ताग्रैर्दधानं हेमवंशिकाम् ।
दक्षिणेन भ्रामयंतं पाणिना हेमपंकजम् ७१।
हेमवर्णेष्टप्रियया परिकॢप्तांगचित्रकम् ।
हसंतमतिहर्षेण पश्यंतं निजमाश्रमम् ७२।
हर्षाश्रुपूर्णः पुलकाचितांगः प्रसीदनाथेति वदन्नथोच्चैः ।
दंडप्रणामाय पपात भूमौ संवेपमानस्त्रिजगद्विधातुः ७३।
तं भक्तिकामं पतितं धरण्यामायासितोस्मीति वदंतमुच्चैः ।
दंडप्रणामस्य भुजौ गृहीत्वा पस्पर्श हर्षोपचितेक्षणेन ७४।
उवाच च प्रियारूपं लब्धवंतं शुकं हरिः ।
त्वं मे प्रियतमा भद्रे सदा तिष्ठ ममांतिके ७५।
मद्रूपं चिंतयंती च प्रेमास्पदमुपागता ।
द्वे च मुख्यतमे गोप्यौ समानवयसी शुभे ७६।
एकव्रते एकनिष्ठे एकनक्षत्रनामनी ।
तप्तजांबूनदप्रख्या तत्रैवान्या तडित्प्रभा ७७।
एकानिद्रा यमाणाक्षी परा सौम्यायतेक्षणा ।
सोऽर्चयत्परया भक्त्या ते हरेः सव्यदक्षिणे ७८।
स कल्पांते तनुं त्यक्त्वा गोकुलेऽभून्महात्मनः ।
उपनंदस्य दुहिता नीलोत्पलदलच्छविः ७९।
सेयं श्रीकृष्णवनिता पीतशाटीपरिच्छदा ।
रक्तचोलिकया पूर्णा शातकुंभघटस्तनी ८०।
दधाना रक्तसिंदूरं सर्वांगस्यावगुंठनम् ।
स्वर्णकुंडलविभ्राजद्गंडदेशां सुशोभनाम् ८१।
स्वर्णपंकजमालाढ्या कुंकुमालिप्तसुस्तनी ।
यस्या हस्ते चर्वणीयं दृश्यते हरिणार्पितम् ८२।
वेणुवाद्यातिनिपुणा केशवस्य निषेवणी ।
कृष्णेन परितुष्टेन कदाचिद्गीतकर्मणि ८३।
विन्यस्ता कंबुकंठेऽस्या भाति गुंजावलि शुभा ।
परोक्षेपि च कृष्णस्य कांतिभिश्च स्मरार्दिता ८४।
सखीभिर्वादयंतीभिर्गायंती सुस्वरं परम् ।
नर्त्तयेत्प्रियवेषेण वेषयित्वा वधूमिमाम् ८५।
वारंवारं च गोविंदं भावेनालिंग्य चुंबति ।
प्रियासौ सर्वगोपीनां कृष्णस्याप्यतिवल्लभा ८६।
श्वेतकेतोः सुतः कश्चिद्वेदवेदांगपारगः ।
सर्वमेव परित्यज्य प्रचंडं तप आस्थितः ८७।
मुरारेः सेवितपदां सुधामधुरनादिनीम् ।
गोविंदस्य प्रियां शक्तिं ब्रह्मरुद्रादिदुर्गमाम् ८८।
भजंतीमेकभावेन श्रियमेव मनोहराम् ।
ध्यायञ्जजाप सततं मंत्रमेकादशाक्षरम् ८९।
हसितं सकलं कृत्वा बतमायेषु योजयन् ।
कांत्यादिभिर्हसंतीभिर्वासयंत्यभितो जगत् ९०।
वसंते वसतेत्येवं मंत्रार्थं चिंतयन्सदा ।
सोऽपि कल्पद्वयेनैव सिद्धोऽत्र जनिमाप्तवान् ९१।
सेयं बालायते पुत्री कृशांगी कुड्मलस्तनी ।
मुक्तावलिलसत्कंठी शुद्धकौशेयवासिनी ९२।
मुक्ताच्छुरितमंजीरकंकणांगदमुद्रिका ।
बिभ्रती कुंडले दिव्ये अमृतस्राविणी शुभे ९३।
वृत्तकस्तूरिकावेणी मध्ये सिंदूरबिंदुवत् ।
दधाना चित्रकं भाले सार्द्धं चंदनचित्रकैः ९४।
या सैव दृश्यते शांता जपंती परमं पदम् ।
आसीच्चंद्रप्रभो नाम राजर्षिः प्रियदर्शनः ९५।
तस्य कृष्णप्रसादेन पुत्रोऽभून्मधुराकृतिः ।
चित्रध्वज इति ख्यातः कौमारावधि वैष्णवः ९६।
स राजा सुसुतं सौम्यं सुस्थिरं द्वादशाब्दिकम् ।
आदेशयद्द्विजान्मंत्रं परमष्टादशाक्षरम् ९७।
अभिषिच्यमानः स शिशुर्मंत्रामृतमयैर्जलैः ।
तत्क्षणे भूपतिं प्रेम्णा नत्वोदश्रुप्रकल्पितः ९८।
तस्मिन्दिने स वै बालः शुचिवस्त्रधरः शुचिः ।
हारनूपुरसूत्राद्यैर्ग्रैवेयांगदकंकणैः ९९।
विभूषितो हरेर्भक्तिमुपस्पृश्यामलाशयः ।
विष्णोरायतनं गत्वा स्थित्वैकाकी व्यचिंतयत् १००।
कथं भजामि तं भक्तं मोहनं गोपयोषिताम् ।
विक्रीडंतं सदा ताभिः कालिंदीपुलिने वने १०१।
इत्थमत्याकुलमतिश्चिंतयन्नेव बालकः ।
अथापपरमां विद्यां स्वप्नं च समवाप्यत १०२।
आसीत्कृष्णप्रतिकृतिः पुरतस्तस्य शोभना ।
शिलामयी स्वर्णपीठे सर्वलक्षणलक्षिता १०३।
साभूदिंदीवरश्यामा स्निग्धलावण्यशालिनी ।
त्रिभंगललिताकार शिखंडी पिच्छभूषणा १०४।
कूजयंती मुदा वेणुं कांचनीमधरेऽर्पिताम् ।
दक्षसव्यगताभ्यां च सुंदरीभ्यां निषेविताम् १०५।
वर्द्धयंतीं तयोः कामं चुंबनाश्लेषणादिभिः ।
दृष्ट्वा चित्रध्वजः कृष्णं तादृग्वेषविलासिनम् १०६।
अवनम्य शिरस्तस्मै पुरो लज्जितमानसः ।
अथोवाच हरिर्दक्षपार्श्वगां प्रेयसीं हसन् १०७।
सलज्जं परमं चैनं स्वशरीरासनागतम् ।
निर्मायात्मसमं दिव्यं युवतीरूपमद्भुतम् १०८।
चिंतयस्व शरीरेण ह्यभेदं मृगलोचने ।
अथो त्वदंगतेजोभिः स्पृष्टस्त्वद्रूपमाप्स्यति १०९।
ततः सा पद्मपत्राक्षी गत्वा चित्रध्वजांतिकम् ।
निजांगकैस्तदंगानामभेदं ध्यायती स्थिता ११०।
अथास्यास्त्वंगतेजांसि तदंगं पर्यपूरयन् ।
स्तनयोर्ज्योतिषा जातौ पीनौ चारुपयोधरौ १११।
नितंबज्योतिषा जातं श्रोणिबिंबं मनोहरम् ।
कुंतलज्योतिषा केशपाशोऽभूत्करयोः करौ ११२।
सर्वमेवं सुसंपन्नं भूषावासः स्रगादिकम् ।
कलासु कुशला जाता सौरभेनांतरात्मनि ११३।
दीपाद्दीपमिवालोक्य सुभगां भुवि कन्यकाम् ।
चित्रध्वजां त्रपाभंगि स्मितशोभां मनोहराम् ११४।
प्रेम्णा गृहीत्वा करयोः सा तामपहरन्मुदा ।
गोविंदवामपार्श्वस्थां प्रेयसीं परिरभ्य च ११५।
उवाच तव दासीयं नाम चास्याश्चकार य ।
सेवां चास्यै वद प्रीत्या यथाभिरुचितां प्रियाम् ११६।
अथ चित्रकलेत्येतन्नाम चात्ममतेन सा ।
चकार चाह सेवार्थं धृत्वा चापि विपंचिकाम् ११७।
सदा त्वं निकटे तिष्ठ गायस्व विविधैः स्वरैः ।
गुणात्मन्प्राणनाथस्य तवायं विहितो विधिः ११८।
अथ चित्रकला त्वाज्ञां गृहीत्वानम्य माधवम् ।
तत्प्रेयस्याश्च चरणं गृहीत्वा पादयो रजः ११९।
जगौ सुमधुरं गीतं तयोरानंदकारणम् ।
अथ प्रीत्योपगूढा सा कृष्णेनानंदमूर्तिना १२०।
यावत्सुखांबुधौ पूर्णा तावदेवाप्यबुध्यत ।
चित्रध्वजो महाप्रेमविह्वलः स्मरतत्परः १२१।
तमेव परमानंदं मुक्तकंठो रुरोद ह ।
तदारभ्य रुदन्नेव मुक्त्वा हरिविचारकम् १२२।
आभाषितोऽपि पित्राद्यैर्नैवावोचद्वचः क्वचित् ।
मासमात्रं गृहे स्थित्वा निशीथे कृष्णसंश्रयः १२३।
निर्गत्यारण्यमचरत्तपो वै मुनिदुष्करम् ।
कल्पांते देहमुत्सृज्य तपसैव महामुनिः १२४।
वीरगुप्ताभिधानस्य गोपस्य दुहिता शुभा ।
जाता चित्रकलेत्येव यस्याः स्कंधे मनोहरा १२५।
विपंची दृश्यते नित्यं सप्तस्वरविभूषिता ।
उपतिष्ठति वै वामे रत्नभृंगारमद्भुतम् १२६।
दधाना दक्षिणे हस्ते सा वै रत्नपतद्ग्रहम् ।
अयमासीत्पुरा सर्वं तापसैरभिवंदितः १२७।
मुनिः पुण्यश्रवा नाम काश्यपः सर्वधर्मवित् ।
पिता तस्याभवच्छैवः शतरुद्रीयमन्वहम् १२८।
प्रस्तुवन्देवदेवेशं विश्वेशं भक्तवत्सलम् ।
प्रसन्नो भगवांस्तस्य पार्वत्या सह शंकरः १२९।
चतुर्दश्यामर्द्धरात्रेः प्रत्यक्षः प्रददौ वरम् ।
त्वत्पुत्रो भविता कृष्णे भक्तिमान्बाल एव हि १३०।
उपनीयाष्टमे वर्षे तस्मै सिद्धमनुस्त्वयम् ।
उपदिशैकविंशत्या यो मया ते निगद्यते १३१।
गोपालविद्यानामायं मंत्रो वाक्सिद्धिदायकः ।
एतत्साधकजिह्वाग्रे लीलाचरितमद्भुतम् १३२।
अनंतमूर्तिरायाति स्वयमेव वरप्रदः ।
काममाया रमाकंठ सेंद्रा दामोदरोज्ज्वलाः १३३।
मध्ये दशाक्षरीं प्रोच्य पुनस्ता एव निर्दिशेत् ।
दशाक्षरोक्तऋष्यादिध्यानं चास्य ब्रवीम्यहम् १३४।
पूर्णामृतनिधेर्मध्ये द्वीपं ज्योतिर्मयं स्मरेत् ।
कालिंद्या वेष्टितं तत्र ध्यायेद्वृंदावने वने १३५।
सर्वर्तुकुसुमस्रावि द्रुमवल्लीभिरावृतम् ।
नटन्मत्तशिखिस्वानं गायत्कोकिलषट्पदम् १३६।
तस्य मध्ये वसत्येकः पारिजाततरुर्महान् ।
शाखोपशाखाविस्तारैः शतयोजनमुच्छ्रितः १३७।
तले तस्याथ विमले परितो धेनुमंडलम् ।
तदंतर्मंडलं गोपबालानां वेणुशृंगिणाम् १३८।
तदंतरे तु रुचिरं मंडलं व्रज सुभ्रुवाम् ।
नानोपायनपाणीनां मदविह्वलचेतसाम् १३९।
कृतांजलिपुटानां च मंडलं शुक्लवाससाम् ।
शुक्लाभरणभूषाणां प्रेमविह्वलितात्मनाम् १४०।
चिंतयेच्छ्रुतिकन्यानां गृह्णतीनां वचः प्रियम् ।
रत्नवेद्यां ततो ध्यायेद्दुकूलावरणं हरिम् १४१।
ऊरौ शयानं राधायाः कदलीकांडकोपरि ।
तद्वक्त्रं चंद्र सुस्मेरं वीक्षमाणं मनोहरम् १४२।
किंचित्कुंचितवामांघ्रिं वेणुयुक्तेन पाणिना ।
वामेनालिंग्य दयितां दक्षेण चिबुकं स्पृशन् १४३।
महामारकताभासं मौक्तिकच्छायमेव च ।
पुंडरीकविशालाक्षं पीतनिर्मलवाससम् १४४।
बर्हभारलसच्छीर्षं मुक्ताहारमनोहरम् ।
गंडप्रांतलसच्चारु मकराकृतिकुंडलम् १४५।
आपादतुलसीमालं कंकणांगदभूषणम् ।
नूपुरैर्मुद्रिकाभिश्च कांच्या च परिमंडितम् १४६।
सुकुमारतरं ध्यायेत्किशोरवयसान्वितम् ।
पूजा दशाक्षरोक्तैव वेदलक्षं पुरस्क्रिया १४७।
इत्युक्त्वांतर्दधे देवो देवी च गिरिजा सती ।
मुनिरागत्य पुत्राय तथैवोपदिदेश ह १४८।
पुण्यश्रवास्तु तन्मंत्र ग्रहणादेव केशवम् ।
वर्णयामास विविधैर्जित्वा सर्वान्मुनीन्स्वयम् १४९।
रूपलावण्यवैदग्ध्य सौंदर्याश्चर्यलक्षणम् ।
तदा हृष्टमना बालो निर्गत्य स्वगृहात्ततः १५०।
वायुभक्षस्तपस्तेपे कल्पानामयुतत्रयम् ।
तदंते गोकुले जाता नंदभ्रातुर्गृहे स्वयम् १५१।
लवंगा इति तन्नाम कृष्णेंगित निरीक्षणा ।
यस्या हस्ते प्रदृश्येत मुखमार्जनयंत्रकम् १५२।
इति ते कथिताः काश्चित्प्रधानाः कृष्णवल्लभाः १५३।
हरिविविधरसाद्यैर्युक्तमध्यायमेतद्व्रजवरतनयाभिश्चारुहासेक्षणाभिः ।
पठति य इह भक्त्या पाठयेद्वा मनुष्यो व्रजति भगवतः श्रीवासुदेवस्य धाम १५४।
इति श्रीपद्मपुराणे पातालखंडे श्रीकृष्णमाहात्म्ये द्विसप्ततितमोऽध्यायः ७२।
खण्डः ५ (पातालखण्डः) — Adhyāya 73
ईश्वर उवाच-।
यत्त्वया पृष्टमाश्चर्यं तन्मया भाषितं क्रमात् ।
यत्र मुह्यंति ब्रह्माद्यास्तत्र को वा न मुह्यति १।
तथापि ते प्रवक्ष्यामि यदुक्तं परमर्षिणा ।
महाराजमंबरीषं विष्णुभक्तं शिवान्वितम् २।
बदर्याश्रममासाद्य समासीनं जितेंद्रियम् ।
राजा प्रणम्य तुष्टाव विष्णुधर्मविवित्सया ३।
वेदव्यासं महाभागं सर्वज्ञं पुरुषोत्तमम् ।
मां त्वं संसारदुष्पारे परित्रातुमिहार्हसि ४।
विषयेषु विरक्तोऽस्मि नमस्तेभ्यो नमोखिलम् ।
यत्तत्पदमनुद्विग्नं सच्चिदानंदविग्रहम् ५।
परं ब्रह्म पराकाशमनाकाशमनामयम् ।
यत्साक्षात्कृत्य मुनयो भवांभोधिं तरंति हि ६।
तत्राहं मनसो नित्यं कथं गतिमवाप्नुयाम् ।
व्यास उवाच-।
अतिगोप्यं त्वया पृष्टं यन्मया न शुकं प्रति ७।
गदितं स्वसुतं किंतु त्वां वक्ष्यामि हरिप्रियम् ।
आसीदिदं परं विश्वं यद्रूपं यत्प्रतिष्ठितम् ८।
अव्याकृतमव्यथितं तदीश्वरमयं शृणु ।
मया कृतं तपः पूर्वं बहुवर्षसहस्रकम् ९।
फलमूलपलाशांबु वाय्वाहारनिषेविणा ।
ततो मामाहभगवान्स्वध्याननिरतं हरिः १०।
कस्मिन्नर्थे चिकीर्षाते विवित्सा वा महामते ।
प्रसन्नोऽस्मि वृणुष्व त्वं वरं च वरदर्षभात् ११।
मद्दर्शनांतः संसार इति सत्यं ब्रवीमि ते ।
ततोऽहमब्रुवं कृष्णं पुलकोत्फुल्लविग्रहः १२।
त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन ।
यत्तत्सत्यं परं ब्रह्म जगज्ज्योतिं जगत्पतिम् १३।
वदंति वेदशिरसश्चाक्षुषं नाथमद्भुतम् ।
श्रीभगवानुवाच-।
ब्रह्मणैवं पुरा पृष्टः प्रार्थितश्च यथा पुरा १४।
यदवोचमहं तस्मै तत्तुभ्यमपि कथ्यते ।
मामेके प्रकृतिं प्राहुः पुरुषं च तथेश्वरम् १५।
धर्ममेके धनं चैके मोक्षमेकेऽकुतोभयम् ।
शून्यमेके भावमेके शिवमेके सदाशिवम् १६।
अपरे वेदशिरसि स्थितमेकं सनातनम् ।
सद्भावं विक्रियाहीनं सच्चिदानंदविग्रहम् १७।
पश्याद्य दर्शयिष्यामि स्वरूपं वेदगोपितम् ।
ततोऽपश्यं भूपबालमहं कालांबुदप्रभम् १८।
गोपकन्यावृतं गोपं हसंतं गोपबालकैः ।
कदंबमूलआसीनं पीतवाससमद्भुतम् १९।
वनं वृंदावनं नाम नवपल्लवमंडितम् ।
कोकिलभ्रमरारावं मनोभव मनोहरम् २०।
नदीमपश्यं कालिंदीमिंदीवरदलप्रभाम् ।
गोवर्द्धनमथापश्यं कृष्णरामकरोद्धृतम् २१।
महेंद्रदर्पनाशाय गोगोपालसुखावहम् ।
गोपालमबलासंगमुदितं वेणुवादिनम् २२।
दृष्ट्वातिहृष्टो ह्यभवं सर्वभूषणभूषणम् ।
ततो मामाह भगवान्वृंदावनचरः स्वयम् २३।
यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ।
निष्कलं निष्क्रियं शांतं सच्चिदानंदविग्रहम् २४।
पूर्णं पद्मपलाशाक्षं नातः परतरं मम ।
इदमेववदंत्येतेवेदाःकारणकारणम् २५।
सत्यंनित्यंपरानंदंचिद्घनंशाश्वतंशिवम् ।
नित्यां मे मथुरां विद्धि वनं वृंदावनं तथा २६।
यमुनां गोपकन्याश्च तथा गोपालबालकाः ।
ममावतारो नित्योऽयमत्र मा संशयं कृथाः २७।
ममेष्टा हि सदा राधा सर्वज्ञोऽहं परात्परः ।
सर्वकामश्च सर्वेशः सर्वानंदः परात्परः २८।
मयि सर्वमिदं विश्वं भाति मायाविजृंभितम् ।
ततोऽहमब्रुवं देवं जगत्कारणकारणम् २९।
काश्च गोप्यस्तु के गोपा वृक्षोऽयं कीदृशो मतः ।
वनं किं कोकिलाद्याश्च नदी केयं गिरिश्च कः ३०।
कोऽसौ वेणुर्महाभागो लोकानंदैकभाजनम् ।
भगवानाह मां प्रीतः प्रसन्नवदनांबुजः ३१।
गोप्यस्तु श्रुतयो ज्ञेया ऋचो वै गोपकन्यकाः ।
देवकन्याश्च राजेंद्र तपोयुक्ता मुमुक्षवः ३२।
गोपाला मुनयः सर्वे वैकुंठानंदमूर्त्तयः ।
कल्पवृक्षः कदंबोऽयं परानंदैकभाजनम् ३३।
वनमानंदकाख्यं हि महापातकनाशनम् ।
सिद्धाश्च साध्या गंधर्वाः कोकिलाद्या न संशयः ३४।
केचिदानंदहृदयं साक्षाद्यमुनया तनुम् ।
अनादिर्हरिदासोऽयं भूधरो नात्र संशयः ३५।
वेणुर्यः शृणुतं विप्रं तवापि विदितं तथा ।
द्विज आसीच्छांतमनास्तपः शांतिपरायणः ३६।
नाम्ना देवव्रतोदांतः कर्मकांडविशारदः ।
स वैष्णवजनव्रातमध्यवर्त्ती क्रियापरः ३७।
स कदाचन शुश्राव यज्ञेशोऽस्तीति भूपते ।
तस्य गेहमथाभ्यागाद्द्विजो मद्गतनिश्चयः ३८।
स मद्भक्तः क्वचित्पूजां तुलसीदलवारिणा ।
कृतवांस्तद्गृहे किंचित्फलं मूलं न्यवेदयत् ३९।
स्नानवारिफलं किंचित्तस्मै मत्या ददौ सुधीः ।
अश्रद्धया स्मितं कृत्वा सोऽप्यगृह्णाद्द्विजन्मनः ४०।
तेन पापेन संजातं वेणुत्वमतिदारुणम् ।
तेन पुण्येन तस्याथ मदीय प्रियतां गतः ४१।
अमुना सोपि राजेंद्र केतुमानिव राजते ।
युगांते तद्विष्णुपरो भूत्वा ब्रह्म समाप्स्यति ४२।
अहो न जानंति नरा दुराशयाः पुरीं मदीयां परमां सनातनीम् ।
सुरेंद्र नागेंद्र मुनींद्र संस्तुतां मनोरमां तां मथुरां पुरातनीम् ४३।
काश्यादयो यद्यपि संति पुर्यस्तासां तु मध्ये मथुरैव धन्या ।
यज्जन्ममौंजीव्रतमृत्युदाहैर्नृणां चतुर्द्धा विदधाति मुक्तिम् ४४।
यदा विशुद्धास्तपआदिना जनाः शुभाशया ध्यानधना निरंतरम् ।
तदैव पश्यंति ममोत्तमां पुरीं न चान्यथा कल्पशतैर्द्विजोत्तमाः ४५।
मथुरावासिनो धन्या मान्या अपि दिवौकसाम् ।
अगण्यमहिमानस्ते सर्व एव चतुर्भुजाः ४६।
मथुरावासिनो ये तु दोषान्पश्यंति मानवाः ।
तेषु दोषं न पश्यंति जन्ममृत्युसहस्रजम् ४७।
अधना अपि ते धन्या मथुरां ये स्मरंति ते ।
यत्र भूतेश्वरो देवो मोक्षदः पापिनामपि ४८।
मम प्रियतमो नित्यं देवो भूतेश्वरः परः ।
यः कदापि मम प्रीत्यै न संत्यजति तां पुरीम् ४९।
भूतेश्वरं यो न नमेन्न पूजयेन्न वास्मरेद्दुश्चरितो मनुष्यः ।
नैनां स पश्येन्मथुरां मदीयां स्वयंप्रकाशां परदेवताख्याम् ५०।
न कथं मयि भक्तिं स लभते पापपूरुषः ।
यो मदीयं परं भक्तं शिवं संपूजयेन्नहि ५१।
मन्मायामोहितधियः प्रायस्ते मानवाधमाः ।
भूतेश्वरं न नमंति न स्मरंति स्तुवंति ये ५२।
बालकोऽपि ध्रुवो यत्र ममाराधनतत्परः ।
प्राप स्थानं परं शुद्धं यत्नयुक्तं पितामहैः ५३।
तां पुरीं प्राप्य मथुरां मदीयां सुरदुर्लभाम् ।
खंजो भूत्वांधको वापि प्राणानेव परित्यजेत् ५४।
वेदव्यासमहाभाग मा कृथाः संशयं क्वचित् ।
रहस्यं वेदशिरसां यन्मया ते प्रकाशितम् ५५।
इमं भगवता प्रोक्तमध्यायं यः पठेच्छुचिः ।
शृणुयाद्वापि यो भक्त्या मुक्तिस्तस्यापि शाश्वती ५६।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनादिमथुरामाहात्म्यकथनंनाम त्रिसप्ततितमोऽध्यायः ७३।
खण्डः ५ (पातालखण्डः) — Adhyāya 74
ईश्वर उवाच-।
एकदा रहसि श्रीमानुद्धवो भगवित्प्रियः ।
सनत्कुमारमेकांते ह्यपृच्छत्पार्षदः प्रभो १।
यत्र क्रीडति गोविंदो नित्यं नित्यसुरास्पदे ।
गोपांगनाभिर्यत्स्थानं कुत्र वा कीदृशं परम् २।
तत्तत्क्रीडनवृत्तांतमन्यद्यद्यत्तदद्भुतम् ।
ज्ञातं चेत्तव तत्कथ्यं स्नेहो मे यदि वर्त्तते ३।
सनत्कुमार उवाच-।
कदाचिद्यमुनाकूले कस्यापि च तरोस्तले ।
सुवृत्तेनोपविष्टेन भगवत्पार्षदेन वै ४।
यद्रहोऽनुभवस्तस्य पार्थेनापि महात्मना ।
दृष्टं कृतं च यद्यत्तत्प्रसंगात्कथितं मयि ५।
तत्तेऽहं कथयाम्येतच्छृणुष्वावहितः परम् ।
किंत्वेतद्यत्र कुत्रापि न प्रकाश्यं कदाचन ६।
अर्जुन उवाच-।
शंकराद्यैर्विरिंच्याद्यैरदृष्टमश्रुतं च यत् ।
सर्वमेतत्कृपांभोधे कृपया कथय प्रभो ७।
किं त्वया कथितं पूर्वमाभीर्यस्तव वल्लभाः ।
तास्ताः कतिविधा देव कति वा संख्यया पुनः ८।
नामानि कति वा तासां का वा कुत्र व्यवस्थिताः ।
तासां वा कति कर्माणि वयोवेषश्च कः प्रभो ९।
काभिः सार्द्धं क्व वा देव विहरिष्यसि भो रहः ।
नित्ये नित्यसुखे नित्यविभवे च वने वने १०।
तत्स्थानं कीदृशं कुत्र शाश्वतं परमं महत् ।
कृपा चेत्तादृशी तन्मे सर्वं वक्तुमिहार्हसि ११।
यदपृष्टं मयाप्येवमज्ञातं यद्रहस्तव ।
आर्तार्तिघ्न महाभाग सर्वं तत्कथयिष्यसि १२।
श्रीभगवानुवाच-।
तत्स्थानं वल्लभास्ता मे विहारस्तादृशो मम ।
अपि प्राणसमानानां सत्यं पुंसामगोचरः १३।
कथिते दृष्टुमुत्कंठा तव वत्स भविष्यति ।
ब्रह्मादीनामदृश्यं यत्किं तदन्य जनस्य वै १४।
तस्माद्विरम वत्सैतत्किं नु तेन विना तव ।
एवं भगवतस्तस्य श्रुत्वा वाक्यं सुदारुणम् १५।
दीनः पादांबुजद्वंद्वे दंडवत्पतितोऽर्जुनः ।
ततो विहस्य भगवान्दोर्भ्यामुत्थाप्य तं विभुः १६।
उवाच परमप्रेम्णा भक्ताय भक्तवत्सलः ।
तत्किं तत्कथनेनात्र द्रष्टव्यं चेत्त्वया हि यत् १७।
यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति ।
लयमेष्यति तां देवीं श्रीमत्त्रिपुरसुंदरीम् १८।
आराध्य परया भक्त्या तस्यै स्वं च निवेदय ।
तां विनैतत्पदं दातुं न शक्नोमि कदाचन १९।
श्रुत्वैतद्भगवद्वाक्यं पार्थो हर्षाकुलेक्षणः ।
श्रीमत्यास्त्रिपुरादेव्या ययौ श्रीपादुकातलम् २०।
तत्र गत्वा ददर्शैनां श्रीचिंतामणिवेदिकाम् ।
नानारत्नैर्विरचितैः सोपानैरतिशोभिताम् २१।
तत्र कल्पतरुं नाना पुष्पैः फलभवैर्नतम् ।
सर्वर्त्तुकोमलदलैः स्नवन्माध्वीकशीकरैः २२।
वर्षद्भिर्वायुनालोलैः पल्लवैरुज्ज्वलीकृतम् ।
शुकैश्च कोकिलगणैः सारिकाभिः कपोतकैः २३।
लीलाचकोरकै रम्यैः पक्षिभिश्च निनादितम् ।
यत्र गुंजद्भृंगराज कोलाहलसमाकुलम् २४।
मणिभिर्भास्वरैरुद्यद्दावानल मनोहरम् ।
श्रीरत्नमंदिरं दिव्यं तले तस्य महाद्भुतम् २५।
रत्नसिंहासनं तत्र महाहैमाभिमोहनम् ।
तत्र बालार्कसंकाशां नानालंकारभूषिताम् २६।
नवयौवनसंपन्नां सृणिपाशधनुः शरैः ।
राजच्चतुर्भुजलतां सुप्रसन्नां मनोहराम् २७।
ब्रह्मविष्णुमहेशादि किरीटमणिरश्मिभिः ।
विराजितपदांभोजामणिमादिभिरावृताम् २८।
प्रसन्नवदनां देवीं वरदां भक्तवत्सलाम् ।
अर्जुनोऽहमिति ज्ञातः प्रणम्य च पुनःपुनः २९।
विहितांजलिरेकांते स्थितो भक्तिभरान्वितः ।
सा तस्योपासितं ज्ञात्वा प्रसादं च कृपानिधिः ३०।
उवाच कृपया देवी तस्य स्मरणविह्वला ।
भगवत्युवाच-।
किं वा दानं त्वया वत्स कृतं पात्राय दुर्लभम् ३१।
इष्टं यज्ञेन केनात्र तपो वा किमनुष्ठितम् ।
भगवत्यमला भक्तिः का वा प्राक्समुपार्ज्जिता ३२।
किं वास्मिन्दुर्लभं लोके किं वा कर्म शुभं महत् ।
प्रसादस्त्वयि येनायं प्रपन्ने च मुदा किल ३३।
गूढातिगूढश्चानन्य लभ्यो भगवता कृतः ।
नैतादृङ्मर्त्यलोकानां न च भूतलवासिनाम् ३४।
स्वर्गिणां देवतादीनां तपस्वीश्वरयोगिनाम् ।
भक्तानां नैव सर्वेषां नैव नैव च नैव च ३५।
प्रसादस्तु कृतो वत्स तव विश्वात्मना यथा ।
तदेहि भज बुद्ध्वैव कुलकुंडं सरो मम ३६।
सर्वकामप्रदा देवी त्वनया सह गम्यताम् ।
तत्रैव विधिवत्स्नात्वा द्रुतमागम्यतामिह ३७।
तदैव तत्र गत्वा स स्नात्वा पार्थस्तथागतः ।
आगतं तं कृतस्नानं न्यासमुद्रार्पणादिकम् ३८।
कारयित्वा ततो देव्या तस्य वै दक्षिणश्रुतौ ।
सद्यः सिद्धिकरी बाला विद्यानिगदिता परा ३९।
हकारार्द्धपरा द्वीपा द्वितीया विश्वभूषिता ।
अनुष्ठानं च पूजां च जपं च लक्षसंख्यकम् ४०।
कोरकैः करवीराणां प्रयोगं च यथातथम् ।
निर्वर्त्य तमुवाचेदं कृपया परमेश्वरी ४१।
अनेनैव विधानेन क्रियतां मदुपासनम् ।
ततो मयि प्रसन्नायां तवानुग्रहकारणात् ४२।
ततस्तु तत्र पर्य्यंतेष्वधिकारो भविष्यति ।
इत्ययं नियमः पूर्वं स्वयं भगवता कृतः ४३।
श्रुत्वैवमर्जुनस्तेन वर्मणा तां समर्चयत् ।
ततः पूजां जपं चैव कृत्वा देवी प्रसादिता ४४।
कृत्वा ततः शुभं होमं स्नानं च विधिना ततः ।
कृतकृत्यमिवात्मानं प्राप्तप्रायमनोरथम् ४५।
करस्थां सर्वसिद्धिं च स पार्थः सममन्यत ।
अस्मिन्नवसरे देवी तमागत्य स्मितानना ४६।
उवाच गच्छ वत्स त्वमधुना तद्गृहांतरे ।
ततः ससंभ्रमः पार्थः समुत्थाय मुदान्वितः ४७।
असंख्यहर्षपूर्णात्मा दंडवत्तां ननाम ह ।
आज्ञप्तस्तु तया सार्द्धं देवी वयस्ययार्जुनः ४८।
गतो राधापतिस्थानं यत्सिद्धैरप्यगोचरम् ।
ततश्च स उपादिष्टो गोलोकादुपरिस्थितम् ४९।
स्थिरं वायुधृतं नित्यं सत्यं सर्वसुखास्पदम् ।
नित्यं वृंदावनं नाम नित्यरासमहोत्सवम् ५०।
अपश्यत्परमं गुह्यं पूर्णप्रेमरसात्मकम् ।
तस्या हि वचनादेव लोचनैर्वीक्ष्य तद्रहः ५१।
विवशः पतितस्तत्र विवृद्धप्रेमविह्वलः ।
ततः कृच्छ्राल्लब्धसंज्ञो दोर्भ्यामुत्थापितस्तया ५२।
सांत्वनावचनैस्तस्याः कथंचित्स्थैर्यमागतः ।
ततस्तपः किमन्यन्मे कर्त्तव्यं विद्यते वद ५३।
इति तद्दर्शनोत्कंठाभरेण तरलोऽभवत् ।
ततस्तया करे तस्य धृत्वा तत्पददक्षिणे ५४।
प्रतिपेदे सुदेशेन गत्वा चोक्तमिदं वचः ।
स्नानायैतच्छुभं पार्थ विश त्वं जलविस्तरम् ५५।
सहस्रदलपद्मस्थ संस्थानं मध्यकोरकम् ।
चतुःसरश्चतुर्धारमाश्चर्यकुलसंकुलम् ५६।
अस्यांतरे प्रविश्याथ विशेषमिह पश्यसि ।
एतस्य दक्षिणे देश एष चात्र सरोवरः ५७।
मधुमाध्वीकपानं यन्नाम्ना मलयनिर्झरः ।
एतच्च फुल्लमुद्यानं वसंते मदनोत्सवम् ५८।
कुरुते यत्र गोविंदो वसंतकुसुमोचितम् ।
यत्रावतारं कृष्णस्य स्तुवंत्येव दिवानिशम् ५९।
भवेद्यत्स्मरणादेव मुनेः स्वांते स्मरांकुरः ।
ततोऽस्मिन्सरसि स्नात्वा गत्वा पूर्वसरस्तटम् ६०।
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ।
ततस्तद्वचनं श्रुत्वा तस्मिन्सरसि तज्जले ६१।
कल्हारकुमुदांभोजरक्तनीलोत्पलच्युतैः ।
परागैरंजिते मंजुवासिते मधुबिंदुभिः ६२।
तुंदिले कलहंसादि नादैरांदोलिते ततः ।
रत्नाबद्धचतुस्तीरे मंदानिलतरंगिते ६३।
मग्ने जलांतः पार्थे तु तत्रैवांतर्दधेऽथ सा ।
उत्थाय परितो वीक्ष्य संभ्रांता चारुहासिनी ६४।
सद्यः शुद्धस्वर्णरश्मिगौरकांततनूलताम् ।
स्फुरत्किशोरवर्षीयां शारदेंदुनिभाननाम् ६५।
सुनीलकुटिलस्निग्धविलसद्रत्नकुंतलाम् ।
सिंदूरबिंदुकिरणप्रोज्ज्वलालकपट्टिकाम् ६६।
उन्मीलद्भ्रूलताभंगि जितस्मरशरासनाम् ।
घनश्यामलसल्लोल खेलल्लोचनखंजनाम् ६७।
मणिं कुंडलतेजोंशु विस्फुरद्गंडमण्डलाम् ।
मृणालकोमलभ्राजदाश्चर्यभुजवल्लरीम् ६८।
शरदंबुरुहां सर्वश्रीचौरपाणिपल्लवाम् ।
विदग्धरचितस्वर्णकटिसूत्रकृतांतराम् ६९।
कूजत्कांचीकलापांत विभ्राजज्जघनस्थलाम् ।
भ्राजद्दुकूलसंवीतनितंबोरुसुमंदिराम् ७०।
शिंजानमणिमंजीरसुचारुपदपंकजाम् ।
स्फुरद्विविधकंदर्पकलाकौशलशालिनीम् ७१।
सर्वलक्षणसंपन्नां सर्वाभरणभूषिताम् ।
आश्चर्यललनाश्रेष्ठामात्मानं सव्यलोकयत् ७२।
विसस्मार च यत्किंचित्पौर्वदेहिकमेव च ।
मायया गोपिकाप्राणनाथस्य तदनंतरम् ७३।
इति कर्त्तव्यतामूढा तस्थौ तत्र सुविस्मिता ।
अत्रांतरेंऽबरे धीर ध्वनिराकस्मिकोऽभवत् ७४।
अनेनैव पथा सुभ्रु गच्छ पूर्वसरोवरम् ।
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ७५।
तत्र संति हि सख्यस्ते मा सीद वरवर्णिनि ।
ता हि संपादयिष्यंति तत्रैव वरमीप्सितम् ७६।
इति दैवीं गिरं श्रुत्वा गत्वा पूर्वसरोऽथ सा ।
नानापूर्वप्रवाहं च नानापक्षिसमाकुलम् ७७।
स्फुरत्कैरवकह्लारकमलेंदीवरादिभिः ।
भ्राजितं पद्मरागैश्च पद्मसोपानसत्तटम् ७८।
विविधैः कुसुमोद्दामैर्मंजुकुंजलताद्रुमैः ।
विराजितचतुस्तीरमुपस्पृश्य स्थिता क्षणम् ७९।
तत्रांतरे क्वणत्कांची मंजुमंजीररंजितम् ।
किंकिणीनां झणत्कारं शुश्रावोत्कर्णसंपुटे ८०।
ततश्च प्रमदावृंदमाश्चर्ययुतयौवनम् ।
आश्चर्यालंकृतिन्यासमाश्चर्याकृतिभाषितम् ८१।
अद्भुतांगमपूर्वं सा पृथगाश्चर्यविभ्रमम् ।
चित्रसंभाषणं चित्रहसितालोकनादिकम् ८२।
मधुराद्भुतलावण्यं सर्वमाधुर्यसेवितम् ।
चिल्लावण्यगतानंतमाश्चर्याकुलसुंदरम् ८३।
आश्चर्यस्निग्धसौंदर्यमाश्चर्यानुग्रहादिकम् ।
सर्वाश्चर्यसमुदयमाश्चर्यालोकनादिकम् ८४।
दृष्ट्वा तत्परमाश्चर्यं चिंतयंती हृदा कियत् ।
पादांगुष्ठेना लिखंती भुवं नम्रानना स्थिता ८५।
ततस्तासां संभ्रमोऽभूद्दृष्टीनां च परस्परम् ।
केयं मदीयजातीया चिरेणानस्तकौतुका ८६।
इति सर्वाः समालोक्य ज्ञातव्येयमिति क्षणम् ।
आमंत्र्य मंत्रणाभिज्ञाः कौतुकाद्द्रष्टुमागताः ८७।
आगत्य तासामेकाथ नाम्ना प्रियमुदा मता ।
गिरा मधुरया प्रीत्या तामुवाच मनस्विनी ८८।
प्रियमुदोवाच-।
कासि त्वं कस्य कन्यासि कस्य त्वं प्राणवल्लभा ।
जाता कुत्रासि केनास्मिन्नानीता वा गता स्वयम् ८९।
एतच्च सर्वमस्माकं कथ्यतां चिंतया किमु ।
स्थानेऽस्मिन्परमानंदे कस्यापि दुःखमस्ति किम् ९०।
इति पृष्टा तया सा तु विनयावनतिं गता ।
उवाच सुस्वरं तासां मोहयंती मनांसि च ९१।
अर्जुन उवाच- ।
का वास्मि कस्य कन्या वा प्रजाता कस्य वल्लभा ।
आनीता केन वा चात्र किं वाथ स्वयमागता ९२।
एतत्किंचिन्न जानामि देवी जानातु तत्पुनः ।
कथितं श्रूयतां तन्मे मद्वाक्ये प्रत्ययो यदि ९३।
अस्यैव दक्षिणे पार्श्वे एकमस्ति सरोवरम् ।
तत्राहं स्नातुमायाता जाता तत्रैव संस्थिता ९४।
विषमोत्कंठिता पश्चात्पश्यंती परितो दिशम् ।
एकमाकाशसंभूतं ध्वनिमश्रौषमद्भुतम् ९५।
अनेनैव पथा सुभ्रु गच्छ पूर्वसरोवरम् ।
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ९६।
तत्र संति हि सख्यस्ते मा सीद वरवार्णिनि ।
ताहि संपादयिष्यंति तत्र ते वरमीप्सितम् ९७।
इत्याकर्ण्य वचस्तस्य तस्मादत्र समागता ।
विषादहर्षपूर्णात्मा चिंताकुलसमाकुला ९८।
आगतास्य जलं स्पृष्ट्वा नानाविधशुभध्वनिम् ।
अश्रौषं च ततः पश्चादपश्यं भवतीः पराः ९९।
एतन्मात्रं विजानामि कायेन मनसा गिरा ।
एतदेव मया देव्यः कथितं यदि रोचते १००।
का यूयं तनुजाः केषां क्व जाताः कस्य वल्लभाः ।
तच्छ्रुत्वा वचनं तस्याः सा वै प्रियमुदाब्रवीत् १०१।
अस्त्वेवं प्राणसख्यः स्म तस्यैव च वयं शुभे ।
वृंदावनकलानाथ विहारदारिकाः सुखम् १०२।
ता आत्ममुदितास्तेन व्रजबाला इहागताः ।
एताः श्रुतिगणाः ख्याता एताश्च मुनयस्तथा १०३।
वयं बल्लवबाला हि कथितास्ते स्वरूपतः ।
अत्र राधापतेरंगात्पूर्वायाः प्रेयसीतमाः १०४।
नित्या नित्यविहारिण्यो नित्यकेलि भुवश्चराः ।
एषा पूर्णरसा देवी एषा च रसमंथरा १०५।
एषा रसालया नाम एषा च रसवल्लरी ।
रसपीयूषधारेयमेषा रसतरंगिणी १०६।
रसकल्लोलिनी चैषा इयं च रसवापिका ।
अनंगसेना एषैव इयं चानंगमालिनी १०७।
मदयंती इयं बाला एषा च रसविह्वला ।
इयं च ललिता नाम इयं ललितयौवना १०८।
अनंगकुसुमा चैषा इयं मदनमंजरी ।
एषा कलावती नाम इयं रतिकला स्मृता १०९।
इयं कामकला नाम इयं हि कामदायिनी ।
रतिलोला इयं बाला इयं बाला रतोत्सुका ११०।
एषा चरति सर्वस्व रतिचिंतामणिस्त्वसौ ।
नित्यानंदाः काश्चिदेता नित्यप्रेमरसप्रदाः १११।
अतःपरं श्रुतिगणास्तासां काश्चिदिमाः शृणु ।
उद्गीतैषा सुगीतेयं कलगीता त्वियं प्रिया ११२।
एषा कलसुराख्याता बालेयं कलकंठिका ।
विपंचीयं क्रमपदा एषा बहुहुता मता ११३।
एषा बहुप्रयोगेयं ख्याता बहुकला बला ।
इयं कलावती ख्याता मता चैषा क्रियावती ११४।
अतःपरं मुनिगणास्तासां कतिपया इह ।
इयमुग्रतपा नाम एषा बहुगुणा स्मृता ११५।
एषा प्रियव्रता नाम सुव्रता च इयं मता ।
सुरेखेयं मता बाला सुपर्वेयं बहुप्रदा ११६।
रत्नरेखा त्वियं ख्याता मणिग्रीवा त्वसौ मता ।
सुपर्णा चेयमाकल्पा सुकल्पा रत्नमालिका ११७।
इयं सौदामिनी सुभ्रूरियं च कामदायिनी ।
एषा च भोगदाख्या ता इयं विश्वमता सती ११८।
एषा च धारिणी धात्री सुमेधा कांतिरप्यसौ ।
अपर्णेयं सुपर्णैषा मतैषा च सुलक्षणा ११९।
सुदतीयं गुणवती चैषासौ कलिनी मता ।
एषा सुलोचना ख्याता इयं च सुमनाः स्मृता १२०।
अश्रुता च सुशीला च रतिसुखप्रदायिनी ।
अतः परं गोपबाला वयमत्रागतास्तु याः १२१।
तासां च परिचीयंतां काश्चिदंबुरुहानने ।
असौ चंद्रावली चैषा चंद्रिकेयं शुभा मता १२२।
एषा चंद्रावली चंद्ररेखेयं चंद्रिकाप्यसौ ।
एषा ख्याता चंद्रमाला मता चंद्रालिकात्वियम् १२३।
एषा चंद्रप्रभा चंद्रकलेयमबला स्मृता ।
एषा वर्णावली वर्णमालेयं मणिमालिका १२४।
वर्णप्रभा समाख्याता सुप्रभेयं मणिप्रभा ।
इयं हारावली तारा मालिनीयं शुभा मता १२५।
मालतीयमियं यूथी वासंती नवमल्लिका ।
मल्लीयं नवमल्लीयमसौ शेफालिका मता १२६।
सौगंधिकेयं कस्तूरी पद्मिनीयं कुमुद्वती ।
एषैव हि रसोल्लासा चित्रवृंदा समा त्वियम् १२७।
रंभेयमुर्वशी चैषा सुरेखा स्वर्णरेखिका ।
एषा कांचनमालेयं सत्यसंततिका परा १२८।
एताः परिकृताः सर्वाः परिचेयाः परा अपि ।
सहितास्माभिरेताभिर्विहरिष्यसि भामिनि १२९।
एहि पूर्वसरस्तीरे तत्र त्वां विधिवत्सखि ।
स्नापयित्वाथ दास्यामि मंत्रं सिद्धिप्रदायकम् १३०।
इति तां सहसा नीत्वा स्नापयित्वा विधानतः ।
वृंदावनकलानाथ प्रेयस्या मंत्रमुत्तमम् १३१।
ग्राहयामास संक्षेपाद्दीक्षाविधिपुरस्सरम् ।
परं वरुणबीजस्य वह्निबीजपुरस्कृतम् १३२।
चतुर्थस्वरसंयुक्तं नादबिंदुविभूषितम् ।
पुटितं प्रणवाभ्यां च त्रैलोक्ये चातिदुर्ल्लभम् १३३।
मंत्रग्रहणमात्रेण सिद्धिः सर्वा प्रजायते ।
पुरश्चर्याविधिर्ध्यानं होमसंख्याजपस्य च १३४।
तप्तकांचनगौरांगीं नानालंकारभूषिताम् ।
आश्चर्यरूपलावण्यां सुप्रसन्नां वरप्रदाम् १३५।
कल्हारैः करवीराद्यैश्चंपकैः सरसीरुहैः ।
सुगंधकुसुमैरन्यैः सौगंधिकसमन्वितैः १३६।
पाद्यार्घ्याचमनीयैश्च धूपदीपैर्मनोहरैः ।
नैवेद्यैर्विविधैर्दिव्यैः सखीवृंदाहृतैर्मुदा १३७।
संपूज्य विधिवद्देवीं जप्त्वा लक्षमनुं ततः ।
हुत्वा च विधिना स्तुत्वा प्रणम्य दंडवद्भुवि १३८।
ततः सा संस्तुता देवी निमेषरहितांतरा ।
परिकल्प्य निजां छायां माययात्मसमीहया १३९।
पार्श्वेऽथ प्रेयसीं तत्र स्थापयित्वा बलादिव ।
सखीभिरावृता हृष्टा शुद्धैः पूजाजपादिभिः १४०।
स्तवैर्भक्त्या प्रणामैश्च कृपयाविरभूत्तदा ।
हेमचंपकवर्णाभा विचित्राभरणोज्ज्वला १४१।
अंगप्रत्यंगलावण्य लालित्य मधुराकृतिः ।
निष्कलंक शरत्पूर्णकलानाथ शुभानना १४२।
स्निग्धमुग्धस्मितालोक जगत्त्रयमनोहरा ।
निजया प्रभयात्यंतं द्योतयंती दिशो दश १४३।
अब्रवीदथ सा देवी वरदा भक्तवत्सला ।
देव्युवाच-।
मत्सखीनां वचः सत्यं तेन त्वं मे प्रिया सखी १४४।
समुत्तिष्ठ समागच्छ कामं ते साधयाम्यहम् ।
अर्जुनी सा वचो देव्याः श्रुत्वा चात्ममनीषितम् १४५।
पुलकांकुरमुग्धांगी बाष्पाकुलविलोचना ।
पपात चरणे देव्याः पुनश्च प्रेमविह्वला १४६।
ततः प्रियंवदां देवीं समुवाच सखीमिमाम् ।
पाणौ गृहीत्वा मत्संगे समाश्वास्य समानय १४७।
ततः प्रियंवदा देव्या आज्ञया जातसंभ्रमा ।
तां तथैव समादाय संगे देव्या जगाम ह १४८।
गत्वोत्तरसरस्तीरे स्नापयित्वा विधानतः ।
संकल्पादिकपूर्वं तु पूजयित्वा यथाविधि १४९।
श्रीगोकुलकलानाथमंत्रं तच्च सुसिद्धिदम् ।
ग्राहयामास तां देवी कृपया हरिवल्लभा १५०।
व्रतं गोकुलनाथाख्यं पूर्वं मोहनभूषितम् ।
सर्वसिद्धिप्रदं मंत्रं सर्वतंत्रेषु गोपितम् १५१।
गोविंदेरितविज्ञासौ ददौ भक्तिमचंचलाम् ।
ध्यानं च कथितं तस्यै मंत्रराजं च मोहनम् १५२।
उक्तं च मोहने तंत्रे स्मृतिरप्यस्य सिद्धिदा ।
नीलोत्पलदलश्यामं नानालंकारभूषितम् १५३।
कोटिकंदर्पलावण्यं ध्यायेद्रासरसाकुलम् ।
प्रियंवदामुवाचेदं रहस्यं पावनेच्छया १५४।
श्रीराधिकोवाच-।
अस्या यावद्भवेत्पूर्णं पुरश्चरणमुत्तमम् ।
तावद्धि पालयैनां त्वं सावधाना सहालिभिः १५५।
इत्युक्त्वा सा ययौ कृष्णपादांबुरुहसन्निधिम् ।
छायामात्मभवामात्मप्रेयसीनां निधाय च १५६।
तस्थौ तत्र यथापूर्वं राधिका कृष्णवल्लभा ।
अत्र प्रियंवदादेशात्पद्ममष्टदलं शुभम् १५७।
गोरोचनाभिर्निर्माय कुंकुमेनापि चंदनैः ।
एभिर्नानाविधैर्द्रव्यैः संमिश्रैः सिद्धिदायकम् १५८।
लिखित्वा यंत्रराजं च शुद्धं मंत्रं तमद्भुतम् ।
कृत्वा न्यासादिकं पाद्यमर्घ्यं चापि यथाविधि १५९।
नानर्तुसंभवैः पुष्पैः कुंकुमैरपि चंदनैः ।
धूपदीपैश्च नैवेद्यैस्तांबूलैर्मुखवासनैः १६०।
वासोलंकारमाल्यैश्च संपूज्य नंदनंदनम् ।
परिवारैः समं सर्वैः सायुधं च सवाहनम् १६१।
स्तुत्वा प्रणम्य विधिवच्चेतसा स्मरणं ययौ ।
ततो भक्तिवशो देवो यशोदानंदनः प्रभुः १६२।
स्मितावलोकितापांग तरंगिततरेंगितम् ।
उवाच राधिकां देवीं तामानय इहाशु च १६३।
आज्ञप्ता चैव सा देवी प्रस्थाप्य शारदां सखीम् ।
तामानिनाय सहसा पुरोवासुरसात्मनः १६४।
श्रीकृष्णस्य पुरस्तात्सा समेत्य प्रेमविह्वला ।
पपात कांचनीभूमौ पश्यंती सर्वमद्भुतम् १६५।
कृच्छ्रात्कथंचिदुत्थाय शनैरुन्मील्य लोचने ।
स्वेदांभः पुलकोत्कंप भावभाराकुलासती १६६।
ददर्श प्रथमं तत्र स्थलं चित्रं मनोरमम् ।
ततः कल्पतरुस्तत्र लसन्मरकतच्छदः १६७।
प्रवालपल्लवैर्युक्तः कोमलो हेमदंडकः ।
स्फटिकप्रवालमूलश्च कामदः कामसंपदाम् १६८।
प्रार्थकाभीष्टफलदस्तस्याधो रत्नमंदिरम् ।
रत्नसिंहासनं तत्र तत्राष्टदलपद्मकम् १६९।
शंखपद्मनिधी तत्र स व्यापसव्यसंस्थितौ ।
चतुर्दिक्षु यथा स्थानं सहिताः कामधेनवः १७०।
परितो नंदनोद्यानं मलयानिलसेवितम् ।
ऋतूनां चैव सर्वेषां कुसुमानां मनोहरैः १७१।
आमोदैर्वासितं सर्वं कालागुरुपराजितम् ।
मकरंदकणावृष्टिशीतलं सुमनोहरम् १७२।
मकरंदरसास्वाद मत्तानां भृंगयोषिताम् ।
वृंदशो झंकृतैः शश्वच्चैवं मुखरितांतरम् १७३।
कलकंठी कपोतानां सारिकाशुकयोषिताम् ।
अन्यासां पत्रिकांतानां कलनादैर्निनादितम् १७४।
नृत्यैर्मत्तमयूराणामाकुलं स्मरवर्द्धनम् ।
रसांबुसेकसंसृष्ट तमांजनतनुद्युतिम् १७५।
सुस्निग्धनीलकुटिल कषायावासिकुंतलम् ।
मदमत्तमयूराद्य शिखंडाबद्धचूडकम् १७६।
भृंगसेवितसव्योपक्रमपुष्पावतंसकम् ।
लोलालकालिविलसत्कपोलादर्शकाशितम् १७७।
विचित्रतिलकोद्दाम भालशोभाविराजितम् ।
तिलपुष्पपतंगेश चंचुमंजुलनासिकम् १७८।
चारुबिंबाधरं मंदस्मितदीपितमन्मथम् ।
वन्यप्रसूनसंकाश ग्रैवेयकमनोहरम् १७९।
मदोन्मत्तभ्रमद्भृंगी सहस्रकृतसेवया ।
सुरद्रुमस्रजाराजन्मुग्धपीनांसकद्वयम् १८०।
मुक्ताहारस्फुरद्वक्षः स्थलकौस्तुभभूषितम् ।
श्रीवत्सलक्षणं जानुलंबिबाहुमनोहरम् १८१।
गंभीरनाभिपंचास्य मध्यमध्यातिसुंदरम् ।
सुजातद्रुमसद्वृत्त मदूरजानुमंजुलम् १८२।
कंकणांगदमञ्जीरैर्भूषितं भूषणैः परैः ।
पीतांशुकलयाविष्ट नितंबघटनायकम् १८३।
लावण्यैरपि सौंदर्यजितकोटिमनोभवम् ।
वेणुप्रवर्त्तितैर्गीतरागैरपि मनोहरैः १८४।
मोहयंतं सुखांभोधौ मज्जयंतं जगत्त्रयम् ।
प्रत्यंगमदनावेशधरं रासरसालसम् १८५।
चामरं व्यजनं माल्यं गंधंचंदनमेव च ।
तांबूलं दर्पणं पानपात्रं चर्वितपात्रकम् १८६।
अन्यत्क्रीडाभवं यद्यत्तत्सर्वं च पृथक्पृथक् ।
रसालं विविधं यंत्रं कलयंतीभिरादरात् १८७।
यथास्थाननियुक्ताभिः पश्यंतीभिस्तदिंगितम् ।
तन्मुखांभोजदत्ताक्षि चंचलाभिरनुक्रमात् १८८।
श्रीमत्या राधिका देव्या वामभागे ससंभ्रमम् ।
आराधयंत्या तांबूलमर्पयंत्या शुचिस्मितम् १८९।
समालोक्यार्जुनी यासौ मदनावेशविह्वला ।
ततस्तां च तथा ज्ञात्वा हृषीकेशोऽपि सर्ववित् १९०।
तस्याः पाणिं गृहीत्वैव सर्वक्रीडावनांतरे ।
यथाकामं रहो रेमे महायोगेश्वरो विभुः १९१।
ततस्तस्याः स्कंधदेशे प्रदत्तभुजपल्लवः ।
आगत्य शारदां प्राह पश्चिमेऽस्मिन्सरोवरे १९२।
शीघ्रं स्नापय तन्वंगीं क्रीडाश्रांतां मृदुस्मिताम् ।
ततस्तां शारदा देवी तस्मिन्क्रीडासरोवरे १९३।
स्नानं कुर्वित्युवाचैनां सा च श्रांता तथाकरोत् ।
जलाभ्यंतरमाप्तासौ पुनरर्जुनतां गतः १९४।
उत्तस्थौ यत्र देवेशः श्रीमद्वैकुंठनायकः ।
दृष्ट्वा तमर्जुनं कृष्णो विषण्णं भग्नमानसम् १९५।
मायया पाणिना स्पृष्ट्वा प्रकृतं विदधे पुनः ।
श्रीकृष्ण उवाच-।
धनंजय त्वामाशंसे भवान्प्रियसखो मम १९६।
त्वत्समो नास्ति मे कोपि रहोवेत्ता जगत्त्रये ।
यद्रहस्यं त्वया पृष्टमनुभूतं च तत्पुनः १९७।
कथ्यते यदि तत्कस्मै शपसे मां तदार्जुन ।
सनत्कुमार उवाच-।
इति प्रसादमासाद्य शपथैर्जातनिर्णयः १९८।
ययौ हृष्टमनास्तस्मात्स्वधामाद्भुतसंस्मृतिः ।
इति ते कथितं सर्वं रहो यद्गोचरं मम १९९।
गोविंदस्य तथा चास्मै कथने शपथस्तव ।
ईश्वर उवाच-।
इति श्रुत्वा वचस्तस्य सिद्धिमौपगविर्गतः २००।
नरनारायणावासं वृंदारण्यमुपाव्रजत् ।
तत्रास्तेऽद्यापि कृष्णस्य नित्यलीलाविहारवित् २०१।
नारदेनापिपृष्टोऽहं नाब्रवं तद्रहस्यकम् ।
प्राप्तं तथापि तेनेदं प्रकृतित्वमुपेत्यच २०२।
तुभ्यं यत्तु मया प्रोक्तं रहस्यं स्नेहकारणात् ।
तन्नकस्मैचिदाख्येयं त्वया भद्रे स्वयोनिवत् २०३।
इमं श्रीभगवद्भक्तमहिमाध्यायमद्भुतम् ।
यः पठेच्छृणुयाद्वापि स रतिं विंदते हरौ २०४।
इति श्रीपद्मपुराणे पातालखंडे अर्जुन्यनुनयोनाम चतुःसप्ततितमोऽध्यायः ७४।
खण्डः ५ (पातालखण्डः) — Adhyāya 75
पार्वत्युवाच-।
वृंदावनरहस्यं च बहुधा कथितं विभो ।
केन पुण्यविशेषेण नारदः प्रकृतिं गतः १।
ईश्वर उवाच-
एकदाश्चर्यवृत्तांतं मया जिज्ञासितं पुरा ।
ब्रह्मणा कथितं गुह्यं श्रुतं कृष्णमुखांबुजात् २।
नारदः पृष्टवान्मह्यं तदाहं प्राप्तवानिदम् ।
अहं वक्तुं न शक्नोमि तन्माहात्म्यं कथंचन ३।
किं कुर्वे शपनं तस्य स्मृत्वा सीदामि मानसे ।
इति श्रुत्वा मम वचो दुर्मनाः सोऽभवद्यदा ४।
तदा ब्रह्माणमाहूय अहमादिष्टवान्प्रिये ।
त्वया यत्कथितं मह्यं नारदाय वदस्व तत् ५।
ब्रह्मा तदा ममवचो निशम्य सह नारदः ।
जगाम कृष्णसविधं नत्वा पृच्छत्तदेव तु ६।
ब्रह्मोवाच-
किमिदं द्वात्रिंशद्वनं वृंदारण्यं विशांपते ।
श्रोतुमिच्छामि भगवन्यदियोग्योऽस्मि मे वद ७।
श्रीभगवानुवाच-
इदं वृंदावनं रम्यं मम धामैव केवलम् ।
यत्रेमे पशवः साक्षाद्वृक्षाः कीटा नरामराः ८।
ये वसंति ममांत्ये ते मृता यांति ममांतिकम् ।
अत्र या गोपपत्न्यश्च निवसंति ममालये ९।
योगिन्यस्तास्तु एवं हि मम देवाः परायणाः ।
पंचयोजनमेवं हि वनं मे देवरूपकम् १०।
कालिंदीयं सुषुम्नाख्या परमामृतवाहिनी ।
यत्र देवाश्च भूतानि वर्त्तंते सूक्ष्मरूपतः ११।
सर्वतो व्यापकश्चाहं न त्यक्ष्यामि वनं क्वचित् ।
आविर्भावस्तिरोभावो भवेदत्र युगेयुगे १२।
तेजोमयमिदं स्थानमदृश्यं चर्मचक्षुषाम् ।
रहस्यं मे प्रभावं च पश्य वृंदावनं युगे १३।
ब्रह्मादीनां देवतानां न दृश्यं तत्कथंचन ।
ईश्वर उवाच-
तच्छ्रुत्वा नारदो नत्वा कृष्णं ब्रह्माणमेव च १४।
आजगाम ह भूर्लोके मिश्रकं नैमिषं वनम् ।
तत्रासौ सत्कृतश्चापि शौनकाद्यैर्मुनीश्वरैः १५।
पृष्टश्चाप्यागतो ब्रह्मन्कुतस्त्वमधुना वद ।
तच्छ्रुत्वा नारदः प्राह गोलोकादागतोऽस्म्यहम् १६।
श्रुत्वा कृष्णमुखांभोजाद्वृंदावनरहस्यकम् ।
नारद उवाच-
तत्र नानाविधाः प्रश्नाः कृताश्चैव पुनः पुनः १७।
समस्ता मनवस्तत्र योगाश्चैव मया श्रुताः ।
तानेव कथयिष्यामि यथाप्रश्नं च तत्त्वतः १८।
शौनकादय ऊचुः -
वृंदारण्यरहस्यं हि यदुक्तं ब्रह्मणा त्वयि ।
तदस्माकं समाचक्ष्व यद्यस्मासु कृपा तव १९।
नारद उवाच-
कदाचित्सरयूतीरे दृष्टोऽस्माभिश्च गौतमः ।
मनस्वी च महादुःखी चिंताकुलितचेतनः २०।
मां दृष्ट्वा गौतमो देवः पपात धरणीतले ।
उत्तिष्ठ वत्सवत्सेति तमुवाचाहमेव हि २१।
कथं भवान्मनस्वीति प्रोच्य तां यदि रोचते ।
गौतम उवाच-
श्रुतं तव मुखादेव कृष्णतत्त्वं च तादृशम् २२।
द्वारकाख्यं माथुराख्यं रहस्यं बहुशो मया ।
वृंदावनरहस्यं तु न श्रुतं त्वन्मुखांबुजात् २३।
यतो मे मनसः स्थैर्य्यं भविष्यति च सद्गुरो ।
नारद उवाच-
इदं तु परमं गुह्यं रहस्यातिरहस्यकम् २४।
पुरा मे ब्रह्मणा प्रोक्तं तादृग्वृंदावनोद्भवम् ।
रहस्यं वद देवेश वृंदारण्यस्य मे पितः २५।
इतिजिज्ञासितं श्रुत्वा क्षणं मौनी स चाभवत् ।
ततो माऽह महाविष्णुं गच्छ वत्स प्रभुं मम २६।
मयापि तत्र गंतव्यं त्वया सह न संशयः ।
इत्युक्त्वा मां गृहीत्वा च गतो विष्णोश्च धामनि २७।
महाविष्णौ च कथितं मयोक्तं यत्तदेव हि ।
तच्छ्रुत्वा च महाविष्णुः स्वयं भुवमथादिशत् २८।
त्वमेवादेशतो मह्यं नीत्वा वै नारदं मुनिम् ।
स्नानाय विनियुंक्ष्वामुं सरस्यमृतसंज्ञके २९।
महाविष्णुसमादिष्टः स्वयंभूर्मां तथाकरोत् ।
तत्रामृतसरश्चाहं प्रविश्य स्नानमाचरम् ३०।
तत्क्षणात्तत्सरः पारे योषितां सविधेऽभवम् ।
सर्वलक्षणसपन्ना योषिद्रूपातिविस्मिता ३१।
मां दृष्ट्वा ताः समायांतीमपृच्छंश्च मुहुर्मुहुः ।
स्त्रिय ऊचुः -
का त्वं कुतः समायाता कथयात्मविचेष्टितम् ३२।
तासां प्रियकथां श्रुत्वा मयोक्तं तन्निशामय ।
कुतः कोऽहं समायातः कथं वा योषिदाकृतिः ३३।
स्वप्नवद्दृश्यते सर्वं किं वा मुग्धोऽस्मि भूतले ।
तच्छ्रुत्वा मद्वचो देवी प्रोवाच मधुरस्वनैः ३४।
वृंदानाम्नी पुरी चेयं कृष्णचंद्रप्रिया सदा ।
अहं च ललितादेवी तुर्यातीता च निष्कला ३५।
इत्युक्त्वा च महादेवी करुणा सांद्रमानसा ।
मां प्रत्याह पुनर्देवी समागच्छ मया सह ३६।
अन्याश्च योषितः सर्वाः कृष्णपादपरायणाः ।
ताश्च मां प्रवदंत्येवं समागच्छानया सह ३७।
ततोनुकृष्णचंद्रस्य चतुर्दशाक्षरो मनुः ।
कृपया कथितस्तस्या देव्याश्चापि महात्मनः ३८।
तत्क्षणादेव तत्साम्यमलभं विविधोपमा ।
ताभिः सह गतास्तत्र यत्र कृष्णः सनातनः ३९।
केवलं सच्चिदानंदः स्वयंयोषिन्मयः प्रभुः ।
योषिदानंदहृदयो दृष्ट्वा मां प्राब्रवीन्मुहुः ४०।
समागच्छ प्रिये कांते भक्त्या मां परिरंभय ।
रेमे वर्षप्रमाणेन तत्र चैव द्विजोत्तम ४१।
तदोक्तं रमणेशेन तां देवीं राधिकां प्रति ।
इयं मे प्रकृतिस्तत्र चासीन्नारदरूपधृक् ४२।
नीत्वामृतसरो रम्यं स्नानार्थं संनियोजय ।
तया मे रमणस्यांते गदितं प्रियभाषितम् ४३।
अहं च ललितादेवी राधिकाया च गीयते ।
अहं च वासुदेवाख्यो नित्यं कामकलात्मकः ४४।
सत्यं योषित्स्वरूपोऽहं योषिच्चाहं सनातनी ।
अहं च ललितादेवी पुंरूपा कृष्णविग्रहा ४५।
आवयोरंतरं नास्ति सत्यंसत्यं हि नारद ।
एवं यो वेत्ति मे तत्त्वं समयं च तथा मनुम् ४६।
स समाचारसंकेतं ललिता वत्स मे प्रियः ।
इदं वृंदावनं नाम रहस्यं मम वै गृहम् ४७।
न प्रकाश्यं कदा कुत्र वक्तव्यं न पशौ क्वचित् ।
ततोऽनुराधिकादेवी मां नीत्वा तत्सरोवरे ४८।
स्थित्वा सा कृष्णचंद्रस्य चरणांते गता पुनः ।
ततो निमज्जनादेव नारदोऽहमुपागतः ४९।
वीणाहस्तो गानपरस्तद्रहस्यं मुहुर्मुदा ।
स्वयंभुवं नमस्कृत्य तत्रागां विष्णुपार्षदम् ५०।
स्वयंभुवा तथा दृष्टं नोक्तं किंचित्तदा पुनः ।
इति ते कथितं वत्स सुगोप्यं च मया त्वयि ५१।
त्वयापि कृष्णचंद्रस्य केवलं धामचित्कलम् ।
गोपनीयं प्रयत्नेन मातुर्जारइव प्रियम् ५२।
यथा प्रोक्तं मया शिष्ये गौतमे सरहस्यकम् ।
तथा भवत्सु कार्त्स्न्येन कथितं चातिगोपितम् ५३।
यत्र कुत्र कदाचित्तु प्रकाश्यं मुनिपुंगवाः ।
तदा शापो भवेद्विप्राः कृष्णचंद्रस्य निश्चितम् ५४।
इमं कृष्णस्य लीलाभिर्युतमध्यायमुत्तमम् ।
यः पठेच्छृणुयाद्वापि स याति परमं पदम् ५५।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये नारदीयानुनये पंचसप्ततितमोऽध्यायः ७५।
खण्डः ५ (पातालखण्डः) — Adhyāya 76
ईश्वर उवाच-।
अत्र शिशुपालं निहतं श्रुत्वा दंतवक्त्रः कृष्णेन योद्धुं मथुरामाजगाम १।
कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन सह मथुरामाययौ २।
अथ तं हत्वा यमुनामुत्तीर्य नंदव्रजं गत्वा पितरावभिवाद्याश्वास्य ताभ्यामालिंगितः सकल गोपवृद्धान्परिष्वज्य तानाश्वास्य बहुवस्त्राभरणादिभिस्तत्रस्थान्सर्वान्संतर्पयामास ३।
कालिंद्याः पुलिने रम्ये पुण्यवृक्षसमाकीर्णे गोपस्त्रीभिरहर्निशं क्रीडासुखेन त्रिरात्रं तत्र समुवास ४।
तत्र स्थले नंदगोपादयः सर्वे जनाः पुत्रदारसहिताः पशुपक्षिमृगादयोऽपि वासुदेवप्रसादेन दिव्यरूपधरा विमानसमारूढाः परमं लोकं वैकुंठमवापुः ५।
श्रीकृष्णस्तु नंदगोपव्रजौकसां सर्वेषां निरामयं स्वपदं दत्वा देवगणैः स्तूयमानः।
श्रीमतीं द्वारावतीं विवेश ६।
तत्र वसुदेवोग्रसेनसंकर्षणप्रद्युम्नानिरुद्धाक्रूरादिभिः प्रत्यहं संपूजितः षोडशसहस्राष्टाधिकमहिषीभिश्च विश्वरूपधरो दिव्यरत्नमय लतागृहांतरे-।
षु सुरतरुकुसुमार्चितश्लक्ष्णतरपर्यंकेषु रमयामास ७।
एवं हितार्थाय सर्वदेवानां समस्तभूभारविनाशाय यदुवंशेऽवतीर्य सकलराक्षसविनाशं कृतमहांतमुर्वीभारं नाशयित्वा नंदव्रजद्वारिकावासिनः स्थावरजंगमान्भवबंधनान्मोचयित्वा परमे शाश्वते योगिध्येये रम्ये धाम्नि संस्थाप्य नित्यं दिव्यमहिष्यादिभिः संसेव्यमानो वासुदेवोऽखिलेषूवाच ८।
असीदव्याकृतं ब्रह्मकरकाघृतयोरिव ।
प्रकृतिस्थो गुणान्मुक्तो द्रवीभूत्वा दिवं गतः ९।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमहात्म्ये पार्वती-शिवसंवादे षट्सप्ततितमोऽध्यायः ७६।
खण्डः ५ (पातालखण्डः) — Adhyāya 77
पार्वत्युवाच-
विस्तरेण समाचक्ष्व नामार्थपदगौरवम् ।
ईश्वरस्य स्वरूपं च तत्स्थानानां विभूतयः १।
तद्विष्णोः परमं धाम व्यूहभेदास्तथा हरेः ।
निर्वाणाख्याहि तत्त्वेन मम सर्वं सुरेश्वर २।
ईश्वर उवाच-
सारे वृंदावने कृष्णं गोपीकोटिभिरावृतम् ।
तत्र गंगा पराशक्तिस्तत्स्थमानंदकाननम् ३।
नाना सुकुसुमामोदसमीरसुरभीकृतम् ।
कलिंदतनया दिव्यतरंगरागशीतलम् ४।
सनकाद्यैर्भागवतैः संसृष्टं मुनिपुंगवैः ।
आह्लादिमधुरारावैर्गोवृंदैरभिमंडितम् ५।
रम्यस्रग्भूषणोपेतैर्नृत्यद्भिर्बालकैर्वृतम् ।
तत्र श्रीमान्कल्पतरुर्जांबूनदपरिच्छदः ६।
नानारत्नप्रवालाढ्यो नानामणिफलोज्ज्वलः ।
तस्य मूले रत्नवेदी रत्नदीधितिदीपिता ७।
तत्र त्रयीमयं रत्नसिंहासनमनुत्तमम् ।
तत्रासीनं जगन्नाथं त्रिगुणातीतमव्ययम् ८।
कोटिचंद्रप्रतीकाशं कोटिभास्करभास्वरम् ।
कोटिकंदर्पलावण्यं भासयन्तं दिशोदश ९।
त्रिनेत्रं द्विभुजं गौरं तप्तजांबूनदप्रभम् ।
श्लिष्यमाणमंगनाभिः सदामानं च सर्वशः १०।
ब्रह्माद्यैः सनकाद्यैश्च ध्येयं भक्तवशीकृतम् ।
सदाघूर्णितनेत्राभिर्नृत्यंतीभिर्महोत्सवैः ११।
चुंबंतीभिर्हसंतीभिः श्लिष्यंतीभिर्मुहुर्मुहुः ।
अवाप्तगोपीदेहाभिः श्रुतिभिः कोटिकोटिभिः १२।
तत्पादांबुजमाध्वीकचित्ताभिः परितो वृतम् ।
तासां तु मध्ये या देवी तप्तचामीकरप्रभा १३।
द्योतमाना दिशः सर्वाः कुर्वती विद्युदुज्ज्वलाः ।
प्रधानं या भगवती यया सर्वमिदं ततम् १४।
सृष्टिस्थित्यंतरूपा या विद्या विद्यात्रयीपरा ।
स्वरूपा शक्तिरुपा च मायारूपा च चिन्मयी १५।
ब्रह्मविष्णुशिवादीनां देहकारणकारणम् ।
चराचरं जगत्सर्वं यन्मायापरिरंभितम् १६।
वृंदावनेश्वरी नाम्ना राधा धात्रानुकारणात् ।
तामालिंग्य वसंतं तं मुदा वृंदावनेश्वरम् १७।
अन्योन्यचुंबनाश्लेष मदावेशविघूर्णितम् ।
ध्यायेदेवं कृष्णदेवं स च सिद्धिमवाप्नुयात् १८।
मंत्रराजमिमं गुह्यं तस्य मंत्रं च मंत्रवित् ।
यो जपेच्छृणुयाद्वापि स महात्मा सुदुर्ल्लभः १९।
राधिंका चित्ररेखा च चंद्रा मदनसुंदरी ।
श्रीप्रिया श्रीमधुमती शशिरेखा हरिप्रिया २०।
सुवर्णशोभा संमोहा प्रेमरोमांचराजिता ।
वैवर्ण्यस्वेदसंयुक्ता भावासक्ता प्रियंवदा २१।
सुवर्णमालिनी शांता सुरासरसिका तथा ।
सर्वस्त्री जीवना दीनवत्सला विमलाशया २२।
निपीतनामपीयूषा सा राधा परिकीर्तिता ।
सुदीर्घस्मितसंयुक्ता तप्तचामीकरप्रभा २३।
मूर्च्छत्प्रेमनदी राधा वरणा लोचनांजना ।
मायामात्सर्यसंयुक्ता दानसाम्राज्य जीवना २४।
सुरतोत्सव संग्रामा चित्ररेखा प्रकीर्तिता ।
गौरांगी नातिदीर्घा च सदा वादनतत्परा २५।
दैन्यानुरागनटना मूर्च्छारोमांचविह्वला ।
हरिदक्षिणपार्श्वस्था सर्वमंत्रप्रिया तथा २६।
अनंगलोभमाधुर्या चंद्रा सा परिकीर्तिता ।
सलीलमंथरगतिर्मंजुमुद्रित लोचना २७।
प्रेमधारोज्ज्वलाकीर्णा दलितांजन शोभना ।
कृष्णानुरागरसिका रासध्वनिसमुत्सुका २८।
अहंकारसमायुक्ता मुखनिंदितचंद्रमाः ।
मधुरालापचतुरा जितेंद्रियशिरोमणिः २९।
सुंदरस्मितसंयुक्ता सा वै मदनसुंदरी ।
विविक्तरासरसिका श्यामा श्याममनोहरा ३०।
प्रेम्णा प्रेमकटाक्षेण हरेश्चित्तविमोहनी ।
जितेंद्रिया जितक्रोधा सा प्रिया परिकीर्तिता ३१।
सुतप्तस्वर्णगौरांगी लीलागमनसुंदरी ।
स्मरोत्थ प्रेमरोमांच वैचित्रमधुराकृतिः ३२।
सुंदरस्मितसंयुक्त मुखनिंदितचंद्रमाः ।
मधुरालापचतुरा जितेंद्रियशिरोमणिः ३३।
कीर्तिता सा मधुमती प्रेमसाधनतत्परा ।
संमोहज्वररोमांच प्रेमधारा समन्विता ३४।
दानधूलिविनोदा च रासध्वनि महानटी ।
शशिरेखा च विज्ञेया गोपालप्रेयसी सदा ३५।
कृष्णात्मा सोत्तमा श्यामा मधुपिंगललोचना ।
तत्पादप्रेमसंमोहात्क्वचित्पुलकचुंबिता ३६।
शिवकुंडे शिवानंदा नंदिनी देहिकातटे ।
रुक्मिणी द्वारवत्यां तु राधा वृंदावने वने ३७।
देवकी मथुरायां तु जाता मे परमेश्वरी ।
चंद्रकूटे तथा सीता विंध्ये विंध्यनिवासिनी ३८।
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
वृंदावनाधिपत्यं च दत्तं तस्यै प्रसीदता ३९।
कृष्णेनान्यत्र देवी तु राधा वृंदावने वने ।
नित्यानंदतनुः शौरिर्योऽशरीरीति भाष्यते ४०।
वाय्वग्निनाकभूमीनामंगाधिष्ठितदेवता ।
निरूप्यते ब्रह्मणोऽपि तथा गोविंदविग्रहः ४१।
सेंद्रियोऽपि यथा सूर्यस्तेजसा नोपलक्ष्यते ।
तथा कांतियुतः कृष्णः कालं मोहयति ध्रुवम् ४२।
न तस्य प्राकृती मूर्तिर्मेदोमांसास्थिसंभवा ।
योगी चैवेश्वरश्चान्यः सर्वात्मा नित्यविग्रहः ४३।
काठिन्यं देवयोगेन करकाघृतयोरिव ।
कृष्णस्यामिततत्त्वस्य पादपृष्ठं न देवता ४४।
वृंदावनरजोवृंदे तत्र स्युर्विष्णुकोटयः ।
आनंदकिरणे वृंदव्याप्तविश्वकलानिधिः ४५।
गुणात्मतात्मनि यथा जीवास्तत्किरणांगकाः ।
भुजद्वयवृतः कृष्णो न कदाचिच्चतुर्भुजः ४६।
गोप्यैकया वृतस्तत्र परिक्रीडति सर्वदा ।
गोविंद एव पुरुषो ब्रह्माद्याः स्त्रिय एव च ४७।
तत एव स्वभावोयंऽप्रकृतेर्भाव ईश्वरः ।
पुरुषः प्रकृतिश्चाद्यौ राधावृंदावनेश्वरौ ४८।
प्रकृतेर्विकृतं सर्वं विना वृंदावनेश्वरम् ४९।
समुद्भवेनैव समुद्भवेदिदं भेदं गतं तस्य विनाशतो हि ।
स्वर्णस्य नाशो न हि विद्यते तथा मत्स्यादिनाशेऽपि न कृष्णविच्युतिः ५०।
त्रिगुणादिप्रपंचोऽयं वृंदावनविहारिणः ।
ऊर्म्मीवाब्धेस्तरंगस्य यथाब्धिर्नैव जायते ५१।
न राधिका समा नारी न कृष्णसदृशः पुमान् ।
वयः परं न कैशोरात्स्वभावः प्रकृतेः परः ५२।
ध्येयं कैशोरकं ध्येयं वनं वृंदावनं वनम् ।
श्याममेव परं रूपमादिदेवं परो रसः ५३।
बाल्यं पंचमवर्षांतं पौगंडं दशमावधि ।
अष्टपंचककैशोरं सीमा पंचदशावधि ५४।
यौवनोद्भिन्नकैशोरं नवयौवनमुच्यते ।
तद्वयस्तस्य सर्वस्वं प्रपंचमितरद्वयः ५५।
बाल्यपौगंडकैशोरं वयो वंदे मनोहरम् ।
बालगोपालगोपालं स्मरगोपालरूपिणम् ५६।
वंदे मदनगोपालं कैशोराकारमद्भुतम् ।
यमाहुर्यौवनोद्भिन्न श्रीमन्मदनमोहनम् ५७।
अखंडातुलपीयूष रसानंदमहार्णवम् ।
जयति श्रीपतेर्गूढं वपुः कैशोररूपिणः ५८।
एकमप्यव्ययं पूर्वं बल्लवीवृंदमध्यगम् ।
ध्यानगम्यं प्रपश्यंति रुचिभेदात्पृथग्धियः ५९।
यन्नखेंदुरुचिर्ब्रह्म ध्येयं ब्रह्मादिभिः सुरैः ।
गुणत्रयमतीतं तं वंदे वृंदावनेश्वरम् ६०।
वृंदावनपरित्यागो गोविंदस्य न विद्यते ।
अन्यत्र यद्वपुस्तत्तु कृत्रिमं तन्न संशयः ६१।
सुलभं व्रजनारीणां दुर्ल्लभं तन्मुमुक्षुणाम् ।
तं भजे नंदसूनुं यन्नखतेजः परं मनुः ६२।
पार्वत्युवाच।
भुक्तिमुक्तिस्पृहा यावत्पिशाची हृदि वर्त्तते ।
तावत्प्रेमसुखस्यात्र कथमभ्युदयो भवेत् ६३।
ईश्वर उवाच-
साधुपृष्टं त्वया भद्रे यन्मे मनसि वर्त्तते ।
तत्सर्वं कथयिष्यामि सावधाना निशामय ६४।
स्मृत्वा गुणान्स्मरन्नाम गानं वा मनरंजनम् ।
बोधयत्यात्मनात्मानं सततं प्रेम्णि लीयते ६५।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये पार्वतीशिवसंवादे श्रीकृष्णरूपवर्णनंनाम सप्तसप्ततितमोऽध्यायः ७७।
खण्डः ५ (पातालखण्डः) — Adhyāya 78
पार्वत्युवाच-
वैष्णवानां च यद्धर्मं सर्वं तथ्यं च मे वद ।
यत्कृत्वा मानवाः सर्वे भवांभोधिं तरंति हि १।
ईश्वर उवाच-
अथ द्वादशधा शुद्धिर्वैष्णवानामिहोच्यते ।
गृहोपलेपनं चैव तथानुगमनं हरेः २।
भक्त्या प्रदक्षिणा चैव पादयोः शोधनं पुनः ।
पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः ३।
करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते ।
तन्नामकीर्तनं चैव गुणानामपि कीर्त्तनम् ४।
भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते ।
तत्कथाश्रवणं चैव तस्योत्सवनिरीक्षणम् ५।
श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते ।
पादोदकं च निर्माल्यं मालानामपि धारणम् ६।
उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुरः ।
आघ्राणं तस्य पुष्पादेर्निर्माल्यस्य तथा प्रिये ७।
विशुद्धिः स्यादंतरस्य घ्राणस्यापि विधीयते ।
यत्र पुष्पादिकं यच्च कृष्णपादयुगार्पितम् ८।
तदेकं पावनं लोके तद्धि सर्वं विशोधयेत् ।
पूजा च पंचधा प्रोक्ता तासां भेदं शृणुष्व मे ९।
अभिगमनमुपादानं योगः स्वाध्याय एव च ।
इज्या पंचप्रकारार्चा क्रमेण कथयामि ते १०।
तत्वाभिगमनं नाम देवतास्थानमार्जनम् ।
उपलेपं च निर्माल्यदूरीकरणमेव च ११।
उपादानं नाम गंध पुष्पादिचयनं तथा ।
योगो नाम स्वदेवस्य स्वात्मनैवात्मभावना १२।
स्वाध्यायो नाम मंत्रार्थानुसंधापूर्वको जपः ।
सूक्तस्तोत्रादिपाठश्च हरेः संकीर्त्तनं तथा १३।
तत्त्वादिशास्त्राभ्यासश्च स्वाध्यायः परिकीर्तितः ।
इज्या नाम स्वदेवस्य पूजनं च यथार्थतः १४।
इति पंचप्रकारार्चा कथिता तव सुव्रते ।
सार्ष्टि सामीप्य सालोक्य सायुज्य सारूप्यदा क्रमात् १५।
प्रसंगात्कथयिष्यामि शालग्रामशिलार्चनम् ।
केशवादेश्चतुर्बाहोर्दक्षिणोर्ध्वकरक्रमात् १६।
शंखचक्रगदापद्मी केशवाख्यो गदाधरः ।
नारायणः पद्मगदाचक्रशंखायुधैः क्रमात् १७।
माधवश्चक्रशंखाभ्यां पद्मेन गदया भवेत् ।
गदाब्जशंखचक्री च गोविंदाख्यो गदाधरः १८।
पद्मशंखारि गदिने विष्णुरूपाय ते नमः ।
सशंखाब्ज गदाचक्र मधुसूदन मूर्तये १९।
नमो गदारिशंखाब्जयुक्तत्रिविक्रमाय च ।
सारिकौमोदकी पद्मशंख वामन मूर्त्तये २०।
चक्राब्जशंखगदिने नमः श्रीधरमूर्त्तये ।
हृषीकेशसारिगदाशंखपद्मिन्नमोस्तु ते २१।
साब्जशंखगदाचक्रपद्मनाभ स्वमूर्त्तये ।
दामोदरशंखगदाचक्रपद्मिन्नमोस्तु ते २२।
शंखाब्जचक्रगदिने नमः संकर्षणाय च ।
सारिशंखगदाब्जाय वासुदेव नमोस्तुते २३।
शंखचक्रगदाब्जाय धृत प्रद्युम्नमूर्त्तये ।
नमोऽनिरुद्धाय गदाशंखाब्जारिविधारिणे २४।
साब्जशंखगदाचक्रपुरुषोत्तममूर्त्तये ।
नमोऽधोक्षजरूपाय गदाशंखारि पद्मिने २५।
नृसिंहमूर्त्तये पद्मगदाशंखारिधारिणे ।
पद्मारिशंखगदिने नमोस्त्वच्युतमूर्त्तये २६।
सगदाब्जारिशंखाय नमः श्रीकृष्णमूर्त्तये ।
शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक् २७।
शुक्लाभरेखः शोभाढ्यः सदेवः श्रीगदाधरः ।
लग्नद्विचक्रो रक्ताभः पूर्वभागस्तु पुष्कलः २८।
संकर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः ।
सुदीर्घसुषिरच्छिद्रो ह्यनिरुद्धस्तु वर्त्तुलः २९।
नीलो द्वारे त्रिरेखश्च अथ नारायणोऽसितः ।
मध्ये गदाकृती रेखा नाभिपद्मं महोन्नतम् ३०।
पृथुचक्रो नृसिंहो यः कपिलो यस्त्रिबिंदुकः ।
अथवा पंचबिंदोस्तु पूजनं ब्रह्मचारिणः ३१।
वराहः स त्रिलिंगो यो विषमद्वयचक्रकः ।
नीलस्त्रिरेखः स्थूलोऽथ कूर्ममूर्तिः सबिंदुकः ३२।
कृष्णः सवर्तुलावर्त्त पांडुरो धृतपृष्ठकः ।
श्रीधरः पंचरेखश्च वनमाली गदांकितः ३३।
वामनो वर्तुलो नाम मध्यचक्रः सनीलकः ।
नानावर्णानेकमूर्ति नागभोगी त्वनंतकः ३४।
स्थूलो दामोदरो नीलो मध्ये चक्रः सनीलकः ।
संकर्षणद्वारकोव्यादथ ब्रह्मा सुलोहितः ३५।
सुदीर्घरेखासुषिर एकचक्रांबुजः पृथुः ।
पृथुचक्रः स्थूलछिद्रः कृष्णो बिंदुश्च बिंदुमान् ३६।
ह्यग्रीवोंऽकुशाकारः पंचरेखः सकौस्तुभः ।
वैकुंठो मल्लवद्भाति एकचक्रमयोसितः ३७।
मत्स्यो दीर्घांबुजाकारो दीर्घरेखश्च पांडुरः ।
रामचक्रो दक्षरेखो यः श्यामः स त्रिविक्रमः ३८।
शालग्रामद्वारकायां स्थिताय गदिने नमः ।
एकेन लक्षितो योव्याद्गदाधारी सुदर्शनः ३९।
लक्ष्मीनारायणो द्वाभ्यां त्रिभिश्चैव त्रिविक्रमः ।
चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पंचभिः ४०।
प्रद्युम्नः षड्भिरेवाव्यात्संकर्षणश्च सप्तभिः ।
पुरुषोत्तमोऽष्टभिश्च स्यान्नवव्यूहो नवो हितः ४१।
दशावतारो दशभिरनिरुद्धोऽवतादथ ।
द्वादशात्मा द्वादशभिरतऊर्द्ध्वमनंतकः ४२।
ब्रह्मा चतुर्मुखो दंडी कमंडलुस्रगुन्नतः ।
महेश्वरः पंचवक्त्रो दशबाहुर्वृषध्वजः ४३।
यथायुधस्तथागौरी चंडिका च सरस्वती ।
महालक्ष्मीर्मातरश्च पद्महस्तो दिवाकरः ४४।
गजास्यश्च गजस्कंधः षण्मुखोनेकधा गणाः ।
एते स्थिताः स्थापिता स्युः प्रसादेवाथ पूजिताः ४५।
धर्मार्थकाममोक्षा हि प्राप्यंते पुरुषेण च ४६।
इति श्रीपद्मपुराणे पातालखंडे शालग्रामनिर्णयोनामाष्टसप्ततितमोऽध्यायः ७८।
खण्डः ५ (पातालखण्डः) — Adhyāya 79
ईश्वर उवाच-
शालग्रामे मणौयंत्रे मंडले प्रतिमासु च ।
नित्यं तु श्रीहरेः पूजा केवले भवनेन तु १।
गंडक्यामेकदेशे तु शालग्रामस्थलं महत् ।
पाषाणं तद्भवं पातु शालग्राममिति स्थितम् २।
शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम् ।
किं पुनः पूजनं तत्र हरेः सांनिध्यकारणम् ३।
शालग्रामैकयजनाच्छतलिंगीफलं लभेत् ।
बहुभिर्जन्मभिः पुण्यैर्यदिकृष्णशिलां लभेत् ४।
गोष्पदेन च चिह्नेन जनुस्तेन समाप्यते ।
आदौ शिलां परीक्षेत स्निग्धां श्रेष्ठां च मेचकाम् ५।
आकृष्णा मध्यमा प्रोक्ता मिश्रा मिश्रफलप्रदा ।
सदा काष्ठे स्थितो वह्निर्मथनेन प्रकाश्यते ६।
यथा तथा हरिर्व्यापी शालग्रामे प्रतीयते ।
प्रत्यहं द्वादशशिलाः शालग्रामस्य योऽर्चयेत् ७।
द्वारवत्याः शिलायुक्ताः स वैकुंठे महीयते ।
शालग्रामशिलायां तु गह्वरं लक्षते नरः ८।
पितरस्तस्य तिष्ठंति तृप्ताः कल्पांतकं दिवि ।
वैकुंठभवनं तत्र यत्र द्वारावती शिला ९।
मृतो विष्णुपुरं याति तत्तीर्थं योजनत्रयम् ।
जपः पूजा च होमश्च सर्वं कोटिगुणं भवेत् १०।
मनस्कामसमाभीष्टं क्रोशमात्रं न संशयः ।
कीटकोऽपि मृतिं याति वैकुंठभवनं यतः ११।
शालग्रामशिलायां यो मूल्यमुद्घाटयेन्नरः ।
विक्रेता चानुमंता च यः परीक्षानुमोदकः १२।
सर्वे ते नरकं यांति यावत्सूर्यश्च संप्लवः ।
अतस्तद्वर्जयेद्देवि चक्रक्रयणविक्रयम् १३।
शालग्रामोद्भवो देवो यो देवो द्वारकोद्भवः ।
उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः १४।
द्वारकोद्भवचक्राढ्यो बहुचक्रेण चिह्नितः ।
चक्रासनशिलाकारचित्स्वरूपो निरंजनः १५।
नमोऽस्त्वोंकाररूपाय सदानंदस्वरूपिणे ।
शालग्राममहाभाग भक्तस्यानुग्रहं कुरु १६।
तवानुग्रहकामस्य ऋणग्रस्तस्य मे प्रभो ।
अतः परं प्रवक्ष्यामि तिलकस्य विधिं मुदा १७।
यच्छ्रुत्वा मानवाः सर्वे विष्णुसारूप्यमाप्नुयुः ।
ललाटे केशवं विद्यात्कंठे श्रीपुरुषोत्तमम् १८।
नाभौ नारायणं देवं वैकुंठं हृदये तथा ।
दामोदरं वामपार्श्वे दक्षिणे च त्रिविक्रमम् १९।
मूर्ध्नि चैव हृषीकेशं पद्मनाभं च पृष्ठतः ।
कर्णयोर्यमुनां गंगां बाह्वोः कृष्णं हरिं तथा २०।
यथास्थानेषु तुष्यंति देवता द्वादश स्मृताः ।
द्वादशैतानि नामानि कर्तव्ये तिलके पठेत् २१।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ।
ऊर्द्ध्वपुंड्रमूर्द्ध्वरेखं ललाटे यस्य दृश्यते २२।
चांडालोऽपि स शुद्धात्मा पूज्य एव न संशयः ।
यस्योर्द्ध्वपुंड्रं दृश्येत न ललाटे नरस्य हि २३।
तद्दर्शनं न कर्त्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् ।
त्रिपुंड्रं यस्य विप्रस्य ऊर्द्ध्वपुंड्रं न दृश्यते २४।
तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचैलं स्नानमाचरेत् ।
सांतरालं प्रकर्त्तव्यं पुंड्रं हरिपदाकृति २५।
निरंतरालं यः कुर्यादूर्द्ध्वपुंड्रं द्विजाधमः ।
ललाटे तस्य सततं शुनःपादो न संशयः २६।
नासादिकेशपर्यंतमूर्द्ध्वपुंड्रं सुशोभनम् ।
मध्ये छिद्रसमायुक्तं तं विद्याद्धरिमंदिरम् २७।
वामभागे स्थितो ब्रह्मा दक्षिणे तु सदाशिवः ।
मध्ये विष्णुं विजानीयात्तस्मान्मध्यं न लेपयेत् २८।
वीक्ष्यादर्शे जले वापि यो विदध्यात्प्रयत्नतः ।
ऊर्द्ध्वपुंड्रं महाभागः सयाति परमां गतिम् २९।
अग्निरापश्च वेदाश्च चंद्रादित्यौ तथानिलः ।
विप्राणां नित्यमेते हि कर्णे तिष्ठंति दक्षिणे ३०।
गंगा च दक्षिणे श्रोत्रे नासिकायां हुताशनः ।
उभयोरपि संस्पर्शात्तत्क्षणादेव शुध्यति ३१।
कृत्वा चैवोदकं शंखे वैष्णवानां महात्मनाम् ।
तुलसीमिश्रितं दद्यात्पिबेन्मूर्ध्नाभिवंदयेत् ३२।
प्राश्नीयात्प्रोक्षयेद्देहं पुत्रमित्रपरिग्रहम् ।
विष्णोः पादोदकं पीतं कोटिजन्माघनाशनम् ३३।
तदेवाष्टगुणं पापं भूमौ बिंदुनिपातनात् ।
जलशंखं करे कृत्वा स्तुत्वा नत्वा प्रदक्षिणम् ३४।
सततं धार्यते वारि तेनाप्तं जन्मनः फलम् ।
शंखो यस्य गृहे नास्ति घंटा वा गरुडान्विता ३५।
पुरतो वासुदेवस्य न स भागवतः कलौ ।
यानैर्वा पादुकाभिर्वा यानं भगवतो गृहे ३६।
देवोत्सवेष्वसेवा च अप्रणामस्तदग्रतः ।
उच्छिष्टे चैव चाशौचे भगवद्वंदनादिकम् ३७।
एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणम् ।
पादप्रसारणं चाग्रे तथा पर्यंकसेवनम् ३८।
शयनं भक्षणं चापि मिथ्याभाषणमेव च ।
उच्चैर्भाषामिथो जल्पो रोदनानि च विग्रहः ३९।
निग्रहानुग्रहौ चैव स्त्रीषु च क्रूरभाषणम् ।
केवलावरणं चैव परनिंदापरस्तुतिः ४०।
अश्लीलभाषणं चैव अधोवायुविमोक्षणम् ।
शक्तौ गौणोपचारश्च अनिवेदितभक्षणम् ४१।
तत्तत्कालोद्भवानां च फलादीनामनर्पणम् ।
विनियुक्तावशिष्टस्य प्रदानं व्यंजनस्य यत् ४२।
स्पष्टीकृत्याशनं चैव परनिंदा परस्तुतिः ।
गुरौ मौनं निजस्तोत्रं देवतानिंदनं तथा ४३।
अपराधास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः ४४।
अपराधसहस्राणि क्रियंतेऽहर्निशं मया ।
तवाहमिति मां मत्वा क्षमस्व मधुसूदन ४५।
इति मंत्रं समुच्चार्य प्रणमेद्दंडवद्भुवि ।
अपराधसहस्राणि क्षमते सर्वदा हरिः ४६।
सायंप्रातर्द्विजातीनां श्रुत्युक्तमशनं तथा ।
विष्णुभक्तावशिष्टस्य दिनपापात्प्रमुच्यते ४७।
अन्नं ब्रह्मा रसो विष्णुः खादयेन्मांसमुच्चरन् ।
एवं ज्ञात्वा तु यो भुंक्ते सोऽन्नदोषैर्न लिप्यते ४८।
अलाबुं वर्त्तुलाकारं मसूरं च सवल्कलम् ।
तालं शुक्लं च वृंताकं न खादेद्वैष्णवो नरः ४९।
वटाश्वत्थार्कपत्रेषु कुंभी तिंदुकपत्रयोः ।
कोविदारे कदंबे च न खादेद्वैष्णवो नरः ५०।
श्रावणे वर्जयेच्छाकं दधि भाद्रपदे त्यजेत् ।
आश्विने मासि दुग्धं च कार्त्तिके चामिषं त्यजेत् ५१।
दग्धमन्नं तु जंबीरं यद्विष्णोरनिवेदितम् ।
बीजपूरं च शाकं चप्रत्यक्षलवणं तथा ५२।
यदि दैवाच्च भुंजीत तदा तन्नाम संस्मरेत् ।
हैमंतिकं सिता स्विन्नं धान्यं मुद्गास्तिला यवाः ५३।
कलाप कंगु नीवाराः शाकं च हिलमोचिका ।
कालशाकं च वास्तूकं मूलकं रक्तकेतरत् ५४।
लवणे सिंधुसामुद्रे गव्ये च दधिसर्पिषी ।
पयोनुद्धृतसारं च पनसाम्रहरीतकी ५५।
पिप्पली जीरकं चैव नागरंगक तिंतिडी ।
कदलीलवली धात्री फलान्यगुडमैक्षवम् ५६।
अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते ।
तुलसीपत्रपुष्पाद्यैर्माल्यं वहति यो नरः ५७।
विष्णुं तमपि जानीयात्सत्यं सत्यं न संशयः ।
धात्रीवृक्षं समारोप्य विष्णुतुल्यो भवेन्नरः ५८।
कुरुक्षेत्रं विजानीयात्सार्द्धं हस्तशतत्रयम् ।
तुलसीकाष्ठघटितै रुद्राक्षाकारकारितैः ५९।
निर्मितां मालिकां कंठे निधायार्चनमारभेत् ।
तथामलकमालां च सम्यक्पुष्करमालिकाम् ६०।
कंठे मालां च यत्नेन धारयेद्विष्णुपूजकः ।
निर्माल्यं तुलसीमालां शिरस्यपि च धारयेत् ६१।
निर्माल्यचंदनेनांगमंकयेत्तस्य नामभिः ।
ललाटे च गदा धार्या मूर्ध्नि चापं शरस्तथा ६२।
नंदकं चैव हृन्मध्ये शंखं चक्रं भुजद्वये ।
शंखचक्रान्वितो विप्रः श्मशाने म्रियते यदि ६३।
प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य निश्चिता ।
यो धृत्वा तुलसीपत्रं शिरसा विष्णुतत्परः ६४।
करोति सर्वकार्याणि फलमाप्नोति चाक्षयम् ।
तुलसीकाष्ठमालाभिर्भूषितः कर्म आचरन् ६५।
पितॄणां देवतानां च कृतं कोटिगुणं भवेत् ।
निवेद्य केशवे मालां तुलसीकाष्ठनिर्मिताम् ६६।
वहते यो नरो भक्त्या तस्य नश्यति पातकम् ।
पाद्यादिभिरथाभ्यर्च्य इमं मंत्रमुदीरयेत् ६७।
या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुः पावनी ।
रोगाणामभिवंदिता निरसनी सिक्तांतकत्रासिनी ।
प्रत्यासत्ति विधायिनी भगवतः कृष्णस्य संरोपिता ।
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ६८।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये देवीश्वरसंवादे तिलकादिनिर्णयोनाम नवसप्ततितमोऽध्यायः ७९।
खण्डः ५ (पातालखण्डः) — Adhyāya 80
पार्वत्युवाच-
घोरे कलियुगे प्राप्ते विषयग्राहसंकुले ।
पुत्रदारधनाद्यार्तैस्तत्कथं धार्यते विभो १।
तदुपायं महादेव कथयस्व कृपानिधे ।
ईश्वर उवाच-
हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् २।
हरेराम हरेकृष्ण कृष्णकृष्णेति मंगलम् ।
एवं वदंति ये नित्यं न हि तान्बाधते कलि ३।
अंतरांतरकर्माणि कृत्वा नामानि च स्मरेत् ।
कृष्णकृष्णेति कृष्णेति कृष्णेत्याह पुनः पुनः ४।
मन्नाम चैव त्वन्नाम योजयित्वा व्यतिक्रमात् ।
सोऽपि पापात्प्रमुच्येत तूलराशेरिवानलः ५।
जयाद्येतत्त्वया वाप्यथवा श्रीशब्दपूर्वकम् ।
तच्च मे मंगलं नाम जपन्पापात्प्रमुच्यते ६।
दिवानिशि च संध्यायां सर्वकालेषु संस्मरेत् ।
अहर्निशं स्मरन्रामं कृष्णं पश्यति चक्षुषा ७।
अशुचिर्वा शुचिर्वापि सर्वकालेषु सर्वदा ।
नामसंस्मरणादेव संसारान्मुच्यते क्षणात् ८।
नानापराधयुक्तस्य नामापि च हरत्यघम् ।
यज्ञव्रततपोदानं सांगं नैव कलौ युगे ९।
गंगास्नानं हरेर्नाम निरपायमिदं द्वयम् १०।
हत्यायुतं पापसहस्रमुग्रं गुर्वंगनाकोटिनिषेवणं च ।
स्तेयान्यथान्यानि हरेः प्रियेण गोविंदनाम्ना न च संति भद्रे ११।
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुंडीकाक्षं स बाह्याभ्यंतरः शुचिः १२।
नामसंस्मरणादेव तथा तस्यार्थचिंतनात् ।
सौवर्णीं राजतीं वापि तथा पैष्टीं स्रगाकृतिम् १३।
पादयोश्चिह्नितां कृत्वा पूजां चैव समारभेत् ।
दक्षिणस्य पदोंगुष्ठमूले चक्रं बिभर्ति यः १४।
तत्र नम्रजनस्यापि संसारच्छेदनाय च ।
मध्यमांगुलिमूले तु धत्ते कमलमच्युतः १५।
ध्यातृचित्तद्विरेफाणां लोभनायातिशोभनम् ।
पद्मस्याधोध्वजं धत्ते सर्वानर्थजयध्वजम् १६।
कनिष्ठामूलतो वज्रं भक्तपापौघभेदनम् ।
पार्श्वमध्येंऽकुशं भक्तचित्ते रभसकारणम् १७।
भोगसंपन्मयं धत्ते यवमंगुष्ठपर्वणि ।
मूले गदां च पापाद्रिभेदनीं सर्वदेहिनाम् १८।
सर्वविद्याप्रकाशाय धत्ते स भगवानजः ।
पद्मादीन्यपि चिह्नानि तत्र दक्षेण यत्पुनः १९।
वामपादे वसेत्सोऽयं बिभर्त्ति करुणानिधिः ।
तस्माद्गोविंदमाहात्म्यमानंदरससुंदरम् २०।
शृणुयात्कीर्त्तयेन्नित्यं स निर्मुक्तो न संशयः ।
मासकृत्यं प्रवक्ष्यामि विष्णोः प्रीतिकरं परम् २१।
ज्येष्ठे तु स्नापनं कुर्याच्छ्रीविष्णोर्यत्नतः शुचिः ।
दैनंदिनं तु दुरितं पक्षमासर्त्तुवर्षजम् २२।
ब्रह्महत्यासहस्राणि ज्ञाता ज्ञातकृतानि च ।
स्वर्णस्तेयसुरापान गुरुतल्पायुतानि च २३।
कोटिकोटिसहस्राणि ह्युपपापानि यानि च ।
सर्वाण्यथ प्रणश्यंति पौर्णमास्यां तु वासरे २४।
आसिंचेदच्युतं मूर्ध्नि तदैतत्कलशोदकम् ।
पुरुषसूक्तेन मंत्रेण पावमानीभिरेव च २५।
नालिकेरोदकेनाथ तथा तालफलांबुना ।
रत्नोदकेन गंधेन तथा पुष्पोदकेन च २६।
पंचोपचारैराराध्य यथाविभवविस्तरैः ।
घं घंटायै नम इति घंटावाद्यं प्रदापयेत् २७।
पतितस्य महाध्वानन्यस्तपातकसंचये ।
पाहि मां पापिनं घोरसंसारार्णवपातिनम् २८।
य एवं कुरुते विद्वान्ब्राह्मणः श्रोत्रियः शुचिः ।
सर्वपापैः प्रमुच्येत विष्णुलोकं स गच्छति २९।
आषाढशुक्लैकादश्यां कुर्यात्स्वापमहोत्सवम् ।
आषाढे च रथं कुर्याच्छ्रावणे श्रवणाविधिम् ३०।
भाद्रे च जन्मदिवस उपवासपरो भवेत् ।
प्रसुप्तस्य परीवर्तमाश्विने मासि कारयेत् ३१।
उत्थानं श्रीहरेः कुर्यादन्यथा विष्णुद्रोहकृत् ।
शुभे चैवाश्विने मासि महामायां च पूजयेत् ३२।
सौवर्णीं राजतीं वापि विष्णुरूपां बलिं विना ।
हिंसाद्वेषौ न कर्तव्यौ धर्मात्मा विष्णुपूजकः ३३।
कार्तिके पुष्यमासे च कामतः पुण्यमाचरेत् ।
दामोदराय दीपं च प्रांशुस्थाने प्रदापयेत् ३४।
सप्तवर्तिप्रमाणेन दीपः स्याच्चतुरंगुलः ।
पक्षांते च प्रकर्तव्या दीपमालावलि शुभा ३५।
मार्गशीर्षे सिते पक्षे षष्ठ्यां च सितवस्त्रकैः ।
पूजयेज्जगदीशं च ब्रह्माणं च विशेषतः ३६।
पौषे पुष्पाभिषेकं च वर्जयेच्चंदनं श्लथम् ।
संक्रांत्यां माघमासे च साधिवासित तंडुलात् ३७।
नैवेद्यं विष्णवे दद्यादिमं मंत्रमुदीरयेत् ।
ब्राह्मणान्भोजयेद्भक्त्या देवदेवपुरः स्थितान् ३८।
अभ्यर्च्य भगवद्भक्तान्द्विजांश्च भगवद्धिया ।
एकस्मिन्भोजिते भक्ते कोटिर्भवति भोजिता ३९।
विप्रभोजनमात्रेण व्यंगं सांगं ध्रुवं भवेत् ।
पंचम्यां शुक्लपक्षे तु स्नापयित्वा च केशवम् ४०।
पूजयित्वा विधानेन चूतपल्लवसंयुतैः ।
फलचूर्णैश्च विविधैर्वासितैः पटसाधितैः ४१।
काननं रमणीयं च प्रदीप्तं दीपदीपितम् ।
द्राक्षेक्षु रंभा जंबीर नागरंगं च पूगकम् ४२।
नालिकेरं च धात्रीं च पनसं च हरीतकीम् ।
अन्यैश्च वृक्षखंडैश्च सर्वर्तुकुसुमान्वितैः ४३।
अन्यैश्च विविधैश्चैव फलपुष्पसमन्वितैः ।
वितानैः कुसुमोद्दामैर्वारिपूर्णघटैस्तथा ४४।
चूतशाखोपशाखाभिः शोभितं छत्रचामरैः ।
जयकृष्णेति संस्मृत्य प्रदक्षिणपुरस्सरम् ४५।
विशेषतः कलियुगे दोलोत्सवो विधीयते ।
फाल्गुने च चतुर्दश्यामष्टमे यामसंज्ञके ४६।
अथवा पौर्णमास्यां तु प्रतिपत्संधिसंज्ञके ।
पूजयेद्विधिवद्भक्त्या फल्गुचूर्णैश्चतुर्विधैः ४७।
सितरक्तैर्गौरपीतैः कर्पूरादि विमिश्रितैः ।
हरिद्रारागयोगाच्च रंगरूपैर्मनोहरैः ४८।
अन्यैर्वा रंगरूपैश्च प्रीणयेत्परमेश्वरम् ।
एकादश्यां समारभ्य पंचम्यां तं समापयेत् ४९।
पंचाहानि त्र्यहानि वा दोलोत्सवो विधीयते ।
दक्षिणाभिमुखं कृष्णं दोलमानं सकृन्नराः ५०।
दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः ।
निक्षिप्य जलपात्रे च मासि माधवसंज्ञके ५१।
सौवर्णपात्रे रौप्ये वा ताम्रे वाप्यथ मृण्मये ।
तोयस्थं योऽर्चयेद्देवं शालग्रामसमुद्भवम् ५२।
प्रतिमां वा महाभागे तस्य पुण्यं न गण्यते ।
दमनारोपणं कृत्वा श्रीविष्णौ च समर्पयेत् ५३।
वैशाखे श्रावणे भाद्रे कर्तव्यं वा तदर्पणम् ।
पूर्वेपूर्वे तु वातस्थे दमनादिषु कर्मसु ५४।
प्रकर्तव्यं विधानेन अन्यथा निष्फलं भवेत् ।
वैशाखे च तृतीयायां जलमध्ये विशेषतः ५५।
अथवा मंडले कुर्यान्मंडपे वा बृहद्वने ।
सुगंधचंदनेनांगं सुपुष्टं च दिनेदिने ५६।
यथाप्रयत्नतः कुर्यात्कृशांगस्येव पुष्टिदम् ।
चंदनागुरु ह्रीबेर कृष्णकुंकुम रोचना ५७।
जटामांसी मुरा चैव विष्णोर्गंधाष्टकं विदुः ।
तैस्तैर्गंधयुतैश्चापि विष्णोरंगानि लेपयेत् ५८।
धृष्टं च तुलसीकाष्ठं कर्पूरागुरुयोगतः ।
अथवा केसरैर्योज्यं हरिचंदनमुच्यते ५९।
यात्राकाले च ये कृष्णं भक्त्या पश्यंति मानवाः ।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ६०।
सुगंधमिश्रितैस्तोयैर्देवदेवं गलंति ये ।
अथवा पुष्पमध्ये तु स्थापयेज्जगदीश्वरम् ६१।
वृंदावनं तत्र गत्वा उपस्कृत्य फलानि च ।
विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः ६२।
नारिकेलफलं बीजकोशं चोद्धृत्य दापयेत् ।
घोंटाफलं च पनसं कोशमुद्धृत्य दापयेत् ६३।
दध्ना विमिश्रितं चान्नं घृतेनाप्लुत्य दापयेत् ।
पाचितं पिष्टकं पूपमष्टादशघृतेन च ६४।
तैलैश्च तिलसंमिश्रैः फलं पक्वं प्रदापयेत् ।
यद्यदेवात्मनः प्रीतं तत्तदीशाय दापयेत् ६५।
दत्वा नैवेद्यवस्त्रादि नाददीत कथंचन ।
त्यक्तं च विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः ६६।
इति ते कथितं किंचित्समासेन महेश्वरि ।
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ६७।
श्रीकृष्णरूपगुणवर्णन शास्त्रवर्गबोधाधिकार इह चेदलमन्यपाठैः ।
तत्प्रेमभावरसभक्तिविलास नामहारेषु चेत्खलु मनः किमु कामिनीभिः ६८।
तच्चेतसा प्रभजतां व्रजबालकेंद्रं वृंदावनक्षितितलं यमुनाजलं च ।
तल्लोकनाथपदपंकजधूलिमिश्रलिप्तं वपुः किल वृथागरुचंदनाद्यैः ६९।
इति श्रीपद्मपुराणे पातालखंडे उमामहेश्वरसंवादे वृंदावनमाहात्म्ये अशीतितमोऽध्यायः ८०।
खण्डः ५ (पातालखण्डः) — Adhyāya 81
ऋषय ऊचु-
सूत जीव चिरं साधो श्रीकृष्णचरितामृतम् ।
त्वया प्रकाशितं सर्वं भक्तानां भवतारणम् १।
श्रीकृष्णलीलां निखिलां ब्रूहि दैनंदिनीं प्रभो ।
ययाकर्णितया साधो कृष्णे भक्तिर्विवर्द्धते २।
गुरोः शिष्यस्य मंत्रस्य विधानं लक्षणं पृथक् ।
वदास्माकं महाभाग त्वं हि नः परमः सुहृत् ३।
सूत उवाच-
एकदा यमुनातीरे समासीनं जगद्गुरुम् ।
नारदः प्रणिपत्याह देवदेवं सदाशिवम् ४।
नारद उवाच-
देवदेव महादेव सर्वज्ञ जगदीश्वर ।
भगवद्धर्मतत्त्वज्ञ कृष्णमंत्रविदां वर ५।
कृष्णमंत्रा मया लब्धास्त्वत्तो ये च पितुः परे ।
ते सर्वे साधितास्तत्वान्मंत्रराजादयो मया ६।
बहुवर्षसहस्रैस्तु शाकमूलफलाशिना ।
शुष्कपर्णांबुवाय्वादि भोजिना च निराशिना ७।
स्त्रीणां संदर्शनालापवर्जिना भूमिशायिना ।
कामादिषड्गुणं जित्वा बाह्येंद्रियनियम्यता ८।
एवंकृतेऽपि नैवात्मा संतुष्टो मम शंकर ।
तद्ब्रूहि यत्प्रसिध्येत संस्काराद्यैर्विना प्रभो ९।
सकृदुच्चारणादेव ददाति फलमुत्तमम् ।
यदि योग्योऽस्मि देवेश तदा मे कृपया वद १०।
शिव उवाच-
साधु पृष्टं महाभाग त्वया लोकहितैषिणा ।
सुगोप्यमपि वक्ष्यामि मंत्रचिंतामणिं तव ११।
रहस्यानां रहस्यं यद्गुह्यानां गुह्यमुत्तमम् ।
न मया कथितं देव्यै नाग्रजेभ्यः पुरा तव १२।
वक्ष्यामि युगलं तुभ्यं कृष्णमंत्रमनुत्तमम् ।
मंत्रचिंतामणिर्नाम युगलं द्वयमेव च १३।
पर्याया अस्य मंत्रस्य तथा पंचपदीति च ।
गोपीजनपदं वल्लभां तं तु चरणानिति १४।
शरणं च प्रपद्ये च एष पंचपदात्मकः ।
मंत्रचिंतामणिः प्रोक्तः षोडशार्णो महामनुः १५।
नमो गोपीजनेत्युक्त्वा वल्लभाभ्यां वदेत्ततः ।
पदद्वयात्मको मंत्रो दशार्णः खलु कथ्यते १६।
एतां पंचपदीं जप्त्वा श्रद्धयाश्रद्धया सकृत् ।
कृष्णप्रियाणां सान्निध्यं गच्छत्येव न संशयः १७।
न पुरश्चरणप्रेक्षा नास्य न्यासविधिक्रमः ।
न देशकालनियमो नारिमित्रादिशोधनम् १८।
सर्वेऽधिकारिणश्चात्र चंडालांता मुनीश्वर ।
स्त्रियः शूद्रादयश्चापि जडमूकादि पंगवः १९।
अन्ये हूणाः किराताश्च पुलिंदाः पुष्कसास्तथा ।
आभीराय वनाः कंकाः खसाद्याः पापयोनयः २०।
दंभाहंकारपरमाः पापाः पैशुन्यतत्पराः ।
गोब्राह्मणादि हंतारो महोपपातकान्विताः २१।
ज्ञानवैराग्यरहिताः श्रवणादिविवर्जिताः ।
एते चान्ये च सर्वे स्युर्मनोरस्याधिकारिणः २२।
यदि भक्तिर्भवेदेषां कृष्णे सर्वेश्वरेश्वरे ।
तदाधिकारिणः सर्वे नान्यथा मुनिसत्तम २३।
याज्ञिको दाननिरतः सर्वतंत्रोपसेवकः ।
सत्यवादी यतिर्वापि वेदवेदांगपारगः २४।
ब्रह्मनिष्ठः कुलीनो वा तपस्वी व्रततत्परः ।
अत्राधिकारी न भवेत्कृष्णभक्तिविवर्जितः २५।
तस्मादकृष्णभक्ताय कृतघ्नाय न मानिने ।
न च श्रद्धाविहीनाय वक्तव्यं नास्तिकाय च २६।
न चाशुश्रूषवे वाच्यं नासंवत्सरसेविने ।
श्रीकृष्णेऽनन्यभक्ताय दंभलोभविवर्जिने २७।
कामक्रोधविमुक्ताय देयमेतत्प्रयत्नतः ।
ऋषिश्चैवाहमेतस्य गायत्रीछंद उच्यते २८।
देवता बल्लवीकांतो मंत्रस्य परिकीर्तितः ।
सप्रियस्य हरेर्दास्ये विनियोग उदाहृतः २९।
आचक्राद्यैस्तथा मंत्रैः पंचांगानि प्रकल्पयेत् ।
अथवापि स्वबीजेन करांगन्यासकौ चरेत् ३०।
मंत्रस्य प्रथमो वर्णो बिंदुना मूर्ध्निभूषितः ।
गमित्येवं भवेद्बीजं नमः शक्तिरिहोदिता ३१।
अंतिमार्णैर्दशांगानि तैरेव च तथार्चनम् ।
गंधपुष्पादिभिस्तच्च जलैरेवाप्यसंभवे ३२।
न्यासपूर्वविधानेन कर्तव्यं हरितुष्टये ।
अतएवास्य मंत्रस्य न्यासाद्यन्ये वदंति च ३३।
सकृदुच्चारणादेव कृतकृत्यत्वदायिनः ।
तथापि दशधा नित्यं जपाद्यर्थं प्रविन्यसेत् ३४।
अथ ध्यानं प्रवक्ष्यामि मंत्रस्यास्य द्विजोत्तम ।
पीतांबरं घनश्यामं द्विभुजं वनमालिनम् ३५।
बर्हिबर्हकृतोत्तंसं शशिकोटिनिभाननम् ।
घूर्णायमाननयनं कर्णिकारावतंसिनम् ३६।
अभितश्चंदनेनाथ मध्ये कुंकुमबिंदुना ।
रचितं तिलकं भाले बिभ्रतं मंडलाकृतिम् ३७।
तरुणादित्यसंकाशं कुंडलाभ्यां विराजितम् ।
घर्माम्बुकणिकाराजद्दर्पणाभकपोलकम् ३८।
प्रियास्य न्यस्तनयनं लीलापांगोन्नतभ्रुवम् ।
अग्रभागन्यस्तमुक्ता विस्फुरत्प्रोच्चनासिकम् ३९।
दशनज्योत्स्नया राजत्पक्वबिंबफलाधरम् ।
केयूरांगदसद्रत्नमुद्रिकाभिर्लसत्करम् ४०।
बिभ्रतं मुरलद्यं वामे पाणौ पद्मं तथैव च ।
कांचीदामस्फुरन्मध्यं नूपुराभ्यां लसत्पदम् ४१।
रतिकेलिरसावेश चपलं चपलेक्षणम् ।
हसंतं प्रियया सार्द्धं हासयंतं च तां मुहुः ४२।
इत्थं कल्पतरोर्मूले रत्नसिंहासनोपरि ।
वृंदारण्ये स्मरेत्कृष्णं संस्थितं प्रियया सह ४३।
वामपार्श्वे स्थितां तस्य राधिकां च स्मरेत्ततः ।
नीलचोलकसंवीतां तप्तहेमसमप्रभाम् ४४।
पट्टांचलेनावृतार्द्ध सुस्मेराननपंकजाम् ।
कांतवक्त्रे न्यस्तनेत्रां चकोरी चंचलेक्षणाम् ४५।
अंगुष्ठतर्जनीभ्यां च निजकांतमुखांबुजे ।
अर्पयंतीं पूगफलं पर्णचूर्णसमन्वितम् ४६।
मुक्ताहारस्फुरच्चारु पीनोन्नतपयोधराम् ।
क्षीणमध्यां पृथुश्रोणीं किंकिणीजालमंडिताम् ४७।
रत्नताटंककेयूरमुद्रा वलयधारिणीम् ।
रणत्कटकमंजीर रत्नपादांगुलीयकाम् ४८।
लावण्यसारमुग्धांगीं सर्वावयवसुंदरीम् ।
आनंदरससंमग्नां प्रसन्नां नवयौवनाम् ४९।
सख्यश्च तस्या विप्रेंद्र तत्समानवयोगुणाः ।
तत्सेवनपराभाव्याश्चामरव्यजनादिभिः ५०।
अथ तुभ्यं प्रवक्ष्यामि मंत्रार्थं शृणु नारद ।
बहिरंगैः प्रपंचस्य स्वांशैर्मायादि शक्तिभिः ५१।
अंतरंगैस्तथा नित्यविभूतैस्तैश्चिदादिभिः ।
गोपनादुच्यते गोपी राधिका कृष्णवल्लभा ।
देवी कृष्णमयी प्रोक्ता राधिका परदेवता ५२।
सर्वलक्ष्मीस्वरूपा सा कृष्णाह्लादस्वरूपिणी ।
ततः सा प्रोच्यते विप्र ह्लादिनीति मनीषिभिः ५३।
तत्कलाकोटिकोट्यंश दुर्गाद्यास्त्रिगुणात्मिकाः ।
सा तु साक्षान्महालक्ष्मीः कृष्णो नारायणः प्रभुः ५४।
नैतयोर्विद्यते भेदः स्वल्पोऽपि मुनिसत्तम ।
इयं दुर्गा हरी रुद्रः कृष्णः शक्र इयं शची ५५।
सावित्रीयं हरिर्ब्रह्मा धूमोर्णासौ यमो हरिः ।
बहुना किं मुनिश्रेष्ठ विना ताभ्यां न किंचन ५६।
चिदचिल्लक्षणं सर्वं राधाकृष्णमयं जगत् ।
इत्थं सर्वं तयोरेव विभूतिं विद्धि नारद ५७।
न शक्यते मया वक्तुं वर्षकोटिशतैरपि ।
त्रैलोक्ये पृथिवी मान्या जंबूद्वीपं ततोवरम् ५८।
तत्रापि भारतं वर्षं तत्रापि मथुरापुरी ।
तत्र वृंदावनं नाम तत्र गोपीकदंबकम् ५९।
तत्र राधासखीवर्गस्तत्रापि राधिका वरा ।
सांनिध्याधिक्यतस्तस्या आधिक्यं स्याद्यथोत्तरम् ६०।
पृथिवी प्रभृतीनां तु नान्यत्किंचिदिहोदितम् ।
सैषा हि राधिका गोपी जनस्तस्याः सखीगणः ६१।
तस्याः सखीसमूहस्य वल्लभौ प्राणनायकौ ।
राधाकृष्णौ तयोः पादाः शरणं स्यादिहाश्रये ६२।
प्रपद्ये गतवानस्मि जीवोऽहं भृशदुःखितः ।
सोऽहं यः शरणं प्राप्तो मम तस्य यदस्ति च ६३।
सर्वं ताभ्यां तदर्थं हि तद्भोग्यं न ह्यहं मम ।
इत्यसौ कथितो विप्र मंत्रस्यार्थः समासतः ६४।
युगलार्थस्तथा न्यासः प्रपत्तिः शरणागतिः ।
आत्मार्पणमिमे पंच पर्यायास्ते मयोदिताः ६५।
अयमेव चिंतनीयो दिवानक्तमतंद्रितैः ६६।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये एकाशीतितमोऽध्यायः ८१।
खण्डः ५ (पातालखण्डः) — Adhyāya 82
शिव उवाच-
अथ दीक्षाविधिं वक्ष्ये शृणु नारद तत्त्वतः ।
श्रवणादेव मुच्येत विना तस्य विधानतः १।
आविरंच्याज्जगत्सर्वं विज्ञाय नश्वरं बुधः ।
आध्यात्मिकादि त्रिविध दुःखमेवानुभूय च २।
अनित्यत्वाच्च सर्वेषां सुखानां मुनिसत्तम ।
दुःखपक्षे विनिक्षिप्य तानि तेभ्यो विवर्जितः ३।
विरज्य संसृतेर्हानौ साधनानि विचिंतयेत् ।
अनुत्तमसुखस्यापि संप्राप्तौ भृशनिर्वृतः ४।
नराणां दुष्करत्वं हि विज्ञाय च महामतिः ।
भृशमार्त्तस्ततो विप्र मां गुरुं शरणं व्रजेत् ५।
शांतो विमत्सरः कृष्णे भक्तोऽनन्यप्रयोजनः ।
अनन्यसाधनः श्रीमान्कामलोभविवर्जितः ६।
श्रीकृष्णरसतत्त्वज्ञः कृष्णमंत्रविदां वरः ।
कृष्णमंत्राश्रयो नित्यं मंत्रभक्तः सदा शुचिः ७।
सद्धर्मशासकोनित्यं सदाचारनियोजकः ।
संप्रदायी कृपापूर्णो विरागी गुरुरुच्यते ८।
एवमादिगुणः प्रायः शुश्रूषुर्गुरुपादयोः ।
गुरौ नितांतभक्तश्च मुमुक्षुः शिष्य उच्यते ९।
यत्साक्षात्सेवनं तस्य प्रेम्णा भागवतो भवेत् ।
स मोक्षः प्रोच्यते प्राज्ञैर्वेदवेदांगवेदिभिः १०।
आश्रित्य स्वगुरोः पादौ निजवृत्तं निवेदयेत् ।
स संदेहानपाकृत्य बोधयित्वा पुनः पुनः ११।
स्वपादप्रणतं शांतं शुश्रूषुं निजपादयोः ।
अतिहृष्टमनाः शिष्यं मनुमध्यापयेत्परम् १२।
चंदनेन मृदा वापि विलिखेद्बाहुमूलयोः ।
वामदक्षिणयोर्विप्र शंखचक्रे यथाक्रमम् १३।
ऊर्द्ध्वपुंड्रं ततः कुर्याद्भालादिषु विधानतः ।
ततोमंत्रद्वयं तस्य दक्षकर्णे विनिर्दिशेत् १४।
मंत्रार्थं च वदेत्तस्मै यथावदनुपूर्वशः ।
दासशब्दयुतं नाम धार्यं तस्य प्रयत्नतः १५।
ततोऽतिभक्त्या सस्नेहं वैष्णवान्भोजयेद्बुधः ।
श्रीगुरुं पूजयेच्चापि वस्त्रालंकरणादिभिः १६।
सर्वस्वं गुरवे दद्यात्तदर्द्धं वा महामुने ।
स्वदेहमपि निक्षिप्य गुरौ स्थेयमकिंचनैः १७।
य एतैः पंचभिर्विद्वान्संस्कारैः संस्कृतो भवेत् ।
दास्यभागी स कृष्णस्य नान्यथा कल्पकोटिभिः १८।
अंकनं चोर्द्ध्वपुंड्रश्च मंत्रो नामविधारणम् ।
पंचमो याग इत्युक्ताः संस्काराः पूर्वसूरिभिः १९।
अंकनं शंखचक्राद्यैः सच्छिद्रं पुंड्रमुच्यते ।
दासशब्दयुतं नाममंत्रो युगलसंज्ञकः २०।
गुरुवैष्णवयोः पूजा याग इत्यभिधीयते ।
एते परमसंस्कारा मया ते परिकीर्तिताः २१।
अथ तुभ्यं प्रपन्नानां धर्मान्वक्ष्यामि नारद ।
यानास्थाय गमिष्यंति हरिधाम नराः कलौ २२।
इत्थं गुरोर्लब्धमंत्रो गुरुभक्तिपरायणः ।
सेवमानो गुरुं नित्यं तत्कृपां भावयेत्सुधीः २३।
सतां धर्मां स्ततः शिक्षेत्प्रपन्नानां विशेषतः ।
स्वेष्टदेवधिया नित्यं वैष्णवान्परितोषयेत् २४।
ताडनं भर्त्सनं कामिभोग्यत्वेन यथा स्त्रियः ।
गृह्णंति वैष्णवानां च तत्तद्ग्राह्यं तथा बुधैः २५।
ऐहिक्यामुष्मिकी चिंता नैव कार्या कदाचन ।
ऐहिकं तु सदा भाव्यं पूर्वाचरितकर्मणा २६।
आमुष्मिकं तथा कृष्णः स्वयमेव करिष्यति ।
अतो हि तत्कृते त्याज्यः प्रयत्नः सर्वथा नरैः २७।
सर्वोपायपरित्यागः कृष्णीयात्मतयार्चनम् ।
सुचिरं प्रोषिते कांते यथा पतिपरायणा २८।
प्रियानुरागिणी दीना तस्यसंगैककांक्षिणी ।
तद्गुणान्भावयेन्नित्यं गायत्यपि शृणोति च २९।
श्रीकृष्णगुणलीलादि स्मरणादि तथाचरेत् ।
न पुनः साधनत्वेन कार्यं तत्तु कदाचन ३०।
चिरं प्रोष्यागतं कांतं प्राप्य कांतधिया यथा ।
चुंबंती वा श्लिष्यंतीव नेत्रांते न पिबंत्यपि ३१।
ब्रह्मानंदगतेवाशु सेवते परया मुदा ।
श्रीमदर्चावतारेण तथा परिचरेद्धरिम् ३२।
अनन्यशरणो नित्यं तथैवानन्यसाधनः ।
अनन्यसाधनार्थत्वात्स्यादनन्य प्रयोजनः ३३।
नान्यं च पूजयेद्देवं न नमेत्तं स्मरेन्न च ।
न च पश्येन्न गायेच्च न च निंदेत्कदाचन ३४।
नान्योच्छिष्टं च भुंजीत नान्यशेषं च धारयेत् ।
अवैष्णवानां संभाषा वंदनादि विवर्जयेत् ३५।
ईशवैष्णवयोर्निंदां शृणुयान्न कदाचन ।
कर्णौ पिधाय गंतव्यं शक्तौ दंडं समाचरेत् ३६।
आश्रित्य चातकीं वृत्तिं देहपातावधि द्विज ।
द्वयस्यार्थं भावयित्वा स्थेयमित्येव मे मतिः ३७।
सरः समुद्र नद्यादीन्विहाय चातको यथा ।
तृषितो म्रियते वापि याचते वा पयोधरम् ३८।
एवमेव प्रयत्नेन साधनानि विचिंतयेत् ।
स्वेष्टदेवःसदायाच्योगतिस्त्वंमेभवेरिति ३९।
स्वेष्टदेव तदीयानां गुरोरपि विशेषतः ।
आनुकूल्ये सदा स्थेयं प्रातिकूल्यं विवर्जयेत् ४०।
सकृत्प्रपन्नो वक्ष्यामि कल्याणगुणतां तयोः ।
विचिंत्य विश्वसेदेतौ मामिमावुद्धरिष्यतः ४१।
संसारसागरान्नाथ मित्र पुत्र गृहा कुलात् ।
गोप्तारौ मे युवामेव प्रपन्नभयभंजनौ ४२।
योहं ममास्ति यत्किंचिदिह लोके परत्र च ।
तत्सर्वं भवतोरद्य चरणेषु समर्चितम् ४३।
अहमस्म्यपराधानामालयस्त्यक्त साधनः ।
अगतिश्च ततो नाथौ भवंतावेव मे गतिः ४४।
तवास्मि राधिकाकांत कर्मणा मनसा गिरा ।
कृष्णकांते तवैवास्मि युवामेव गतिर्मम ४५।
शरणं वां प्रपन्नोऽस्मि करुणानिकराकरौ ।
प्रसादं कुरु तं दास्यं मयि दुष्टेऽपराधिनि ४६।
इत्येवं जपता नित्यं स्थातव्यं पद्यपंचकम् ।
अचिरादेव तद्दास्यमिच्छता मुनिसत्तम ४७।
बाह्यधर्मा मया ह्येते संक्षेपेणोपवर्णिताः ।
आंतरः परमो धर्मः प्रपन्नानामथोच्यते ४८।
कृष्णप्रिया सखीभावं समाश्रित्य प्रयत्नतः ।
तयोः सेवां प्रकुर्वीत दिवानक्तमतंद्रितः ४९।
उक्तो मंत्रस्तदंगानि तथा तस्याधिकारिणः ।
तद्धर्माश्च तथा तेभ्यः फलं मंत्रस्य नारद ५०।
अनुतिष्ठ त्वमप्येतत्तयोर्दास्यमवाप्स्यसि ।
स्वाधिकारक्षये विप्र संदेहो नात्र कश्चन ५१।
सकृन्मात्रप्रपन्नाय तवास्मीति च याचते ।
निजदास्यं हरिर्दद्यान्न मेऽत्रास्ति विचारणा ५२।
अत्र ते वर्णयिष्यामि रहस्यं परमाद्भुतम् ।
श्रुतपूर्वं मया कृष्णात्साक्षाद्भगवतः परम् ५३।
एष ते कथितो धर्म आंतरो मुनिसत्तम ।
गुह्यादेष गुह्यतमो गोपनीयः प्रयत्नतः ५४।
मंत्ररत्नमहं पूर्वं जपन्कैलासमूर्द्धनि ।
ध्यायन्नारायणं देवमवसं गहने वने ५५।
ततस्तु भगवांस्तुष्टः प्रादुरास ममाग्रतः ।
व्रियतां वर इत्युक्ते मयाप्युद्घाट्य लोचने ५६।
दृष्टो देवःप्रिया सार्द्धं संस्थितो गरुडोपरि ।
प्रणिपत्यावोचमहं वरदं कमलापतिम् ५७।
यद्रूपं ते कृपासिंधो परमानंददायकम् ।
सर्वानंदाश्रयं नित्यं मूर्तिमत्सर्वतोऽधिकम् ५८।
निर्गुणं निष्क्रियं शांतं यद्ब्रह्मेति विदुर्बुधाः ।
तदहं द्रष्टुमिच्छामि चक्षुर्भ्यां परमेश्वर ५९।
ततो मामाह भगवान्प्रपन्नं कमलापतिः ।
तदद्य द्रक्ष्यसे रूपं यत्ते मनसि कांक्षितम् ६०।
यमुना पश्चिमे तीरे गच्छ वृंदावनं मम ।
इत्युक्त्वांतर्दधे देवः प्रियासार्द्धं जगत्पतिः ६१।
अहमप्यागतस्तर्हि यमुनायास्तटं शुभम् ।
तत्र कृष्णमपश्यं च सर्वदेवेश्वरेश्वरम् ६२।
गोपवेषधरं कांतं किशोरवयसान्वितम् ।
प्रियास्कंधे सुविन्यस्त वामहस्तं मनोहरम् ६३।
हसंतं हासयतं तां मध्ये गोपीकदंबके ।
स्निग्धमेघसमाभासं कल्याणगुणमंदिरम् ६४।
प्रहस्य च ततः कृष्णो मामाहामृतभाषणः ।
अहं ते दर्शनं यातो ज्ञात्वा रुद्र तवेप्सितम् ६५।
यदद्य मे त्वया दृष्टमिदं रूपमलौकिकम् ।
घनीभूतामलप्रेम सच्चिदानंदविग्रहम् ६६।
नीरूपं निर्गुणं व्यापि क्रियाहीनं परात्परम् ।
वदंत्युपनिषत्संघा इदमेव ममानघम् ६७।
प्रकृत्युत्थगुणाभावादनंतत्वात्तथेश्वरम् ।
असिद्धत्वान्मद्गुणानां निर्गुणं मां वदंति हि ६८।
अदृश्यत्वान्ममैतस्य रूपस्य चर्मचक्षुषा ।
अरूपं मां वदंत्येते वेदाः सर्वे महेश्वर ६९।
व्यापकत्वाच्चिदंशेन ब्रह्मेति च विदुर्बुधाः ।
अकर्तृत्वात्प्रपंचस्य निष्क्रियं मां वदंति हि ७०।
मायागुणैर्यतोमेंऽशा कुर्वंति सर्जनादिकम् ।
न करोमि स्वयं किंचित्सृष्ट्यादिकमहं शिव ७१।
अहमासां महादेव गोपीनां प्रेमविह्वलः ।
क्रियांतरं न जानामि नात्मानमपि नारद ७२।
विहराम्यनया नित्यमस्याः प्रेमवशीकृतः ।
इमां तु मत्प्रियां विद्धि राधिकां परदेवताम् ७३।
अस्याश्च परितः पश्य सख्यः शतसहस्रशः ।
नित्याः सर्वा इमा रुद्र यथाहं नित्यविग्रहः ७४।
गोपा गावो गोपिकाश्च सदा वृंदावनं मम ।
सर्वमेतन्नित्यमेव चिदानंदरसात्मकम् ७५।
इदमानंदकंदाख्यं विद्धि वृंदावनं मम ।
यस्मिन्प्रवेशमात्रेण न पुनः संसृतिं विशेत् ७६।
मद्वनं प्राप्य यो मूढः पुनरन्यत्र गच्छति ।
स आत्महा भवेदेव सत्यं सत्यं मयोदितम् ७७।
वृंदावनं परित्यज्य नैव गच्छाम्यहं क्वचित् ।
निवसाम्यनया सार्द्धमहमत्रैव सर्वदा ७८।
इत्येवं सर्वमाख्यातं यत्ते रुद्र हृदि स्थितम् ।
कथयस्व ममेदानीं किमन्यच्छ्रोतुमिच्छसि ७९।
ततस्तमब्रवं देवमहं च मुनिसत्तम ।
ईदृशस्त्वं कथं लभ्यस्तमुपायं वदस्व मे ८०।
ततो मामाह भगवान्साधु रुद्र तवोदितम् ।
अतिगुह्यतमं ह्येतद्गोपनीयं प्रयत्नतः ८१।
सकृदावां प्रपन्नो यस्त्यक्तोपाय उपासते ।
गोपीभावेन देवेश स मामेति न चेतरः ८२।
सकृदावां प्रपन्नो वा मत्प्रियामेकिकामुत ।
सेवतेनन्यभावेन स मामेति न संशयः ८३।
यो मामेव प्रपन्नश्च मत्प्रियां न महेश्वर ।
न कदापि स चाप्नोति मामेवं ते मयोदितम् ८४।
सकृदेव प्रपन्नोयस्तवास्मीति वदेदपि ।
साधनेन विनाप्येव मामाप्नोति न संशयः ८५।
तस्मात्सर्वप्रयत्नेन मत्प्रियां शरणं व्रजेत् ।
आश्रित्य मत्प्रियां रुद्र मां वशीकर्त्तुमर्हसि ८६।
इदं रहस्यं परमं मया ते परिकीर्तितम् ।
त्वयाप्येतन्महादेव गोपनीयं प्रयत्नतः ८७।
त्वमप्येनां समाश्रित्य राधिकां मम वल्लभाम् ।
जपन्मे युगलं मंत्रं सदा तिष्ठ मदालये ८८।
शिव उवाच-।
इत्युक्त्वा दक्षिणे कर्णे मम कृष्णो दयानिधिः ।
उपदिश्य परं मंत्रं संस्कारांश्च विधाय हि ८९।
सगणोंऽतर्दधे विप्र तत्रैव मम पश्यतः ।
अहमप्यत्र तिष्ठामि तदारभ्य निरंतरम् ९०।
सर्वमेतन्मया तुभ्यं सांगमेव प्रकीर्त्तितम् ।
अधुना वद विप्रेंद्र किं भूयः श्रोतुमिच्छसि ९१।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये द्व्यशीतितमोऽध्यायः ८२।
खण्डः ५ (पातालखण्डः) — Adhyāya 83
नारद उवाच-
भगवन्सर्वमाख्यातं यद्यत्पृष्टं मया गुरो ।
अधुना श्रोतुमिच्छामि भावमार्गमनुत्तमम् १।
शिव उवाच-
साधु विप्र त्वया पृष्टं सर्वलोकहितैषिणा ।
रहस्यमपि वक्ष्यामि तन्मे निगदतः शृणु २।
दास्यः सखायः पितरौ प्रेयस्यश्च हरेरिह ।
सर्वे नित्या मुनिश्रेष्ठ वसंति गुणशालिनः ३।
यथा प्रकटलीलायां पुराणेषु प्रकीर्तिताः ।
तथा ते नित्यलीलायां संति वृंदावने भुवि ४।
गमनागमने नित्यं करोति वनगोष्ठयोः ।
गोचारणं वयस्यैश्च विनाऽसुरविघातनम् ५।
करकीयाभिमानिन्यस्तथा तस्य प्रिया जनाः ।
प्रच्छन्नेनैव भावेन रमयंति निजप्रियम् ६।
आत्मानं चिंतयेत्तत्र तासां मध्ये मनोरमाम् ।
रूपयौवनसंपन्नां किशोरीं प्रमदाकृतिम् ७।
नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् ।
प्रार्थितामपि कृष्णेन तत्र भोगपराङ्मुखीम् ८।
राधिकानुचरीं तत्र तत्सेवनपरायणाम् ।
कृष्णादप्यधिकं प्रेम राधिकायां प्रकुर्वतीम् ९।
प्रीत्यानुदिवसं यत्नात्तयोः संगमकारिणीम् ।
तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम् १०।
इत्यात्मानं विचिंत्यैव तत्र सेवां समाचरेत् ।
ब्राह्मं मुहूर्त्तमारभ्य यावत्स्यात्तु महानिशा ११।
नारद उवाच-
हरेर्दैनंदिनीं लीलां श्रोतुमिच्छामि तत्त्वतः ।
लीलामजानता सेव्यो मनसा तु कथं हरिः १२।
शिव उवाच-
नाहं जानामि तां लीलां हरेर्नारदतत्त्वतः ।
वृंदादेवीमितो गच्छ सा ते लीलां प्रवक्ष्यति १३।
अविदूर इतः स्थानात्केशीतीर्थसमीपतः ।
सखीसंघवृता सास्ते गोविंदपरिचारिका १४।
सूत उवाच-
इत्युक्तस्तं परिक्रम्य हृष्टो नत्वा पुनः पुनः ।
वृंदाश्रमं जगामाथ नारदो मुनिसत्तमः १५।
वृंदापि नारदं दृष्ट्वा प्रणम्य च पुनःपुनः ।
उवाच च मुनिश्रेष्ठ कथमत्रागतिस्तव १६।
नारद उवाच-
त्वत्तो वेदितुमिच्छामि नैत्यकं चरितं हरेः ।
तदादितो मम ब्रूहि यदि योग्योऽस्मि शोभने १७।
वृंदोवाच-
रहस्यमपिवक्ष्यामि कृष्णभक्तोसि नारद ।
न प्रकाश्यं त्वयाप्येतद्गुह्याद्गुह्यतरं महत् १८।
मध्ये वृंदावने रम्ये पंचाशत्कुंजमंडिते ।
कल्पवृक्षनिकुंजे तु दिव्यरत्नमये गृहे १९।
निद्रितौ तिष्ठतस्तल्पे निबिडालिंगितौ मिथः ।
मदाज्ञाकारिभिः पश्चात्पक्षिभिर्बोधितावपि २०।
गाढालिंगनजानंदमाप्तौ तद्भंगकातरौ ।
न मनः कुरुतस्तल्पात्समुत्थातुं मनागपि २१।
ततश्च सारिकासंघैः शुकाद्यैः परितो मुहुः ।
बोधितौ विविधैर्वाक्यैः स्वतल्पादुदतिष्ठताम् २२।
उपविष्टौ ततो दृष्ट्वा सख्यस्तल्पे मुदान्वितौ ।
प्रविश्य सेवां कुर्वंति तत्काले ह्युचितां तयोः २३।
पुनश्च सारिकावाक्यैस्तावुत्थाय स्वतल्पतः ।
गच्छतः स्वस्वभवनं भीत्युत्कंठाकुलौ ततः २४।
प्रातश्च बोधितो मात्रा तल्पादुत्थाय सत्वरः ।
कृत्वा कृष्णो दंतकाष्ठं बलदेवसमन्वितः २५।
मात्रानुमोदितो याति गोशालां सखिभिर्वृतः ।
राधापि बोधिता विप्र वयस्याभिः स्वतल्पतः २६।
उत्थाय दंतकाष्ठादि कृत्वाभ्यंगं समाचरेत् ।
स्नानवेदीं ततो गत्वा स्नापिता सा निजालिभिः २७।
भूषागृहे व्रजेत्तत्र वयस्या भूषयंत्यपि ।
भूषणैर्विविधैर्दिव्यैर्गंधमाल्यानुलेपनैः २८।
ततः सखीजनैस्तस्याः श्वश्रूं संप्रार्थ्य यत्नतः ।
कर्तुमाहूयतेस्वन्नं ससखी सा यशोदया २९।
नारद उवाच-
कथमाहूयते देवि पाकार्थं तु यशोदया ।
सतीषु पाककर्त्रीषु रोहिणीप्रमुखास्वपि ३०।
वृंदोवाच-
पूर्वं दुर्वाससा दत्तो वरस्तस्यै महामुने ।
इति कात्यायनी वक्त्राच्छ्रुतमासीन्मया पुरा ३१।
त्वया यत्पच्यते देवि तदन्नं मदनुग्रहात् ।
मिष्टं स्यादमृतस्पर्द्धि भोक्तुरायुष्करं तथा ३२।
इत्याह्वयति तां नित्यं यशोदा पुत्रवत्सला ।
आयुष्मान्मे भवेत्पुत्रः स्वादुलोभात्तथा सती ३३।
श्रुत्वानुमोदिता हृष्टा सापि नंदालयं व्रजेत् ।
ससखीप्रकरा तत्र गत्वा पाकं करोति च ३४।
कृष्णोऽपि दुग्ध्वा गाः काश्चिद्दोहयित्वा जनैः पराः ।
आगच्छति पितुर्वाक्यात्स्वगृहं सखिभिर्वृतः ३५।
अभ्यंगमर्दनं कृत्वा दासैः संस्नापितो मुदा ।
धौतवस्त्रधरः स्रग्वी चंदनाक्तकलेवरः ३६।
द्विफालबद्धचिकुरैर्ग्रीवा भालोपरिस्फुरन् ।
चंद्राकारस्फुरद्भालतिलकालकरंजितः ३७।
कंकणांगदकेयूर रत्नमुद्रा लसत्करः ।
मुक्ताहारस्फुरद्वक्षा मकराकृतिकुंडलः ३८।
मुहुराकारितो मात्रा प्रविशेद्भोजनालयम् ।
अवलंब्य करं सख्युर्बलदेवमनुव्रतः ३९।
भुंक्तेऽथ विविधान्नानि भ्रात्रा च सखिभिर्वृतः ।
हासयन्विविधैर्हास्यैः सखींस्तैर्हसति स्वयम् ४०।
इत्थं भुक्त्वा तथाचम्य दिव्यखट्वोपरि क्षणम् ।
विश्रम्य सेवकैर्दत्तं तांबूलं विभजन्नदन् ४१।
गोपवेषधरः कृष्णो धेनुवृंदपुरस्सरः ।
व्रजवासिजनैः प्रीत्या सर्वैरनुगतः पथि ४२।
पितरं मातरं नत्वा नेत्रांते नापितं गणम् ।
यथायोग्यं तथा चान्यान्विनिवर्त्य वनं व्रजेत् ४३।
वनं प्रविश्य सखिभिः क्रीडयित्वा क्षणं ततः ।
विहारैर्विविधैस्तत्र वने विक्रीडते मुदा ४४।
वंचयित्वा ततः सर्वान्द्वित्रैः प्रियसखैर्वृतः ।
संकेतकं व्रजेद्धर्षात्प्रियासंदर्शनोत्सुकः ४५।
सापि कृष्णं वनं यातं दृष्ट्वा स्वं गृहमागता ।
सूर्यादिपूजाव्याजेन कुसुमाहृतये तथा ४६।
वंचयित्वा गुरून्याति प्रियसंगेच्छया वनम् ।
इत्थं तौ बहुयत्नेन मिलित्वा कानने ततः ४७।
विहारैर्विविधैस्तत्र दिनं विक्रीडतो मुदा ।
दोलायां च समारूढौ सखिभिर्दोलितौ क्वचित् ४८।
क्वापि वेणुं करस्रस्तं प्रिययापह्नुतं हरिः ।
अन्वेषयन्नुपालब्धो विप्रलब्धप्रियागणैः ४९।
हसितैर्बहुधा ताभिर्हासितस्तत्र तिष्ठति ।
वसंतवायुना जुष्टं वनखण्डं मुदा क्वचित् ५०।
प्रविश्य चंदनांभोभिः कुंकुमादिजलैरपि ।
निषिंचतो यंत्रमुक्तैस्तत्पंकैर्लिंपतो मिथः ५१।
सख्योऽप्येवं निषिंचंति ताश्च तौ सिंचतः पुनः ।
वसंतवायुजुष्टेषु वनखंडेषु सर्वतः ५२।
तत्तत्कालोचितैर्नानाविहारैः सगणौ द्विज ।
श्रांतौ क्वचिद्वृक्षमूलमासाद्य मुनिसत्तम ५३।
उपविश्यासने दिव्ये मधुपानं प्रचक्रतुः ।
ततो मधुमदोन्मत्तौ निद्रया मीलितेक्षणौ ५४।
मिथः पाणी समालंब्य कामबाणवशं गतौ ।
रिरंसूविशतःकुञ्जंस्खलद्वाङ्मनसौपथि ५५।
क्रीडतश्च ततस्तत्र करिणीयूथपौ यथा ।
सख्योऽपि मधुभिर्मत्ता निद्रयापीडितेक्षणाः ५६।
अभितो मंजुकुंजेषु सर्वा एवापि शिश्यिरे ।
पृथगेकेन वपुषा कृष्णोऽपि युगपद्विभुः ५७।
सर्वासां संनिधिं गच्छेत्प्रियया प्रेरितो मुहुः ।
रमयित्वा च ताः सर्वाः करिणीर्गजराडिव ५८।
प्रियया च तथा ताभिः क्रीडार्थं च सरो व्रजेत् ।
जलसेकैर्मिथस्तत्र क्रीडतः सगणौ ततः ५९।
वासः स्रक्चंदनैर्दिव्यैर्भूषणैरपि भूषितौ ।
तत्रैव सरसस्तीरे दिव्यरत्नमये गृहे ६०।
प्रागेव फलमूलानि कल्पितानि मया मुने ।
हरिस्तु प्रथमं भुक्त्वा कांतया परिवेष्टितः ६१।
द्वित्राभिः सेवितो गच्छेच्छय्यां पुष्पविनिर्मिताम् ।
तांबूलैर्व्यजनैस्तत्र पादसंवाहनादिभिः ६२।
सेव्यमानो हसंस्ताभिर्मोदते प्रेयसीं स्मरन् ।
राधिकापि हरौ सुप्ते सगणा मुदितांतरा ६३।
अपि तत्र गतप्राणा तदुच्छिष्टं भुनक्ति च ।
किंचिदेव ततो भुक्त्वा व्रजेच्छय्यानिकेतनम् ६४।
द्रष्टुं कांतमुखांभोजं चकोरीव निशाकरम् ।
तांबूलचर्वितं तस्य तत्रत्याभिर्निवेदितम् ६५।
तांबूलान्यपि चाश्नाति विभजंती प्रियालिषु ।
कृष्णोऽपि तासां शुश्रूषुः स्वच्छंदं भाषितं मिथः ६६।
प्राप्तनिद्र इवाभाति विनिद्रोऽपि पटावृतः ।
ताश्च क्ष्वेली क्षणं कृत्वा कुतश्चिदनुमानतः ६७।
विदश्य रसनां दद्भिः पश्यंत्योऽन्योन्यमाननम् ।
विलीना इव लज्जाब्धौ क्षणमूचुर्न किंचन ६८।
क्षणादेव ततो वस्त्रं दूरीकृत्य तदंगतः ।
साधुनिद्रां गतोऽसीति हासयंत्यो हसंति च ६९।
एवं तैर्विविधैर्हास्यै रममाणौ गणैः सह ।
अनुभूय क्षणं निद्रा सुखं च मुनिसत्तम ७०।
उपविश्यासने दिव्ये सगणौ विस्तृते मुदा ।
पणीकृत्य मिथोहार चुंबाश्लेषपरिच्छदान् ७१।
अक्षै र्विक्रीडतः प्रेम्णा नर्मालापपुरस्सरम् ।
पराजितोऽपि प्रियया जितोहमिति वै ब्रुवन् ७२।
हारादिग्रहणे तस्याः प्रवृत्तस्ताड्यते तया ।
तयैवं ताडितः कृष्णः करेणास्य सरोरुहे ७३।
विषण्णमानसो भूत्वा गंतुं प्रकुरुते मतिम् ।
जितोऽस्मि चेत्त्वया देवि गृह्यतां यत्पणीकृतम् ७४।
चुंबनादि मया दत्तमित्युक्त्वा सा तथाचरेत् ।
कौटिल्यं तद्भ्रुवोर्द्रष्टुं श्रोतुं तद्भर्त्सनं वचः ७५।
ततः सारीशुकानां च श्रुत्वा वागाहवं मिथः ।
निर्गच्छतस्ततः स्थानाद्गंतुकामौ गृहं प्रति ७६।
कृष्णः कांतामनुज्ञाप्य गवामभिमुखं व्रजेत् ।
सा तु सूर्यगृहं गच्छेत्सखीमंडलसंयुता ७७।
कियद्दूरं ततो गत्वा परावृत्य हरिं पुनः ।
विप्रवेषं समास्थाय याति सूर्यगृहं प्रति ७८।
सूर्यं प्रपूजयेत्तत्र प्रार्थितस्तत्सखीजनैः ।
तदैव कल्पितैर्वेदैः परिहासविगर्भितैः ७९।
ततस्ता ज्ञापितं कांतं परिज्ञाय विचक्षणाः ।
आनंदसागरे मग्ना न विदुः स्वं न चापरम् ८०।
विहारैर्विविधैरेवं सार्द्धयामद्वयं मुने ।
नीत्वा गृहं व्रजेयुस्ताः स च कृष्णो गवां व्रजेत् ८१।
संगम्य स्वसखीन्कृष्णो गृहीत्वा गाः समंततः ।
आगच्छति व्रजं हर्षान्नादयन्मुरलद्यं मुने ८२।
ततो नंदादयः सर्वे श्रुत्वा वेणुरवं हरेः ।
गोधूलिपटलव्याप्तं दृष्ट्वा चापि नभस्तलम् ८३।
विसृज्य सर्वकर्माणि स्त्रियो बालादयोऽपि च ।
कृष्णस्याभिमुखं यांति तद्दर्शनसमुत्सुकाः ८४।
राजमार्गे व्रजद्वारि यत्र सर्वे व्रजौकसः ।
कृष्णोऽपि तान्समागम्य यथावदनुपूर्वशः ८५।
दर्शनस्पर्शनैर्वाचा स्मितपूर्वावलोकनैः ।
गोपवृद्धान्नमस्कारैः कायिकैर्वाचिकैरपि ८६।
अष्टांगपातैः पितरौ रोहिणीमपि नारद ।
नेत्रांतसूचितेनैव विनयेन प्रियां तथा ८७।
एवं तैस्तद्यथायोग्यं व्रजौकोभिः प्रपूजितः ।
गवालये तथा गाश्च संप्रवेश्य समंततः ८८।
पितृभ्यामर्थितो याति भ्रात्रा सह निजालयम् ।
स्नात्वा पीत्वा तत्र किंचिद्भुक्त्वा मात्रानुमोदितः ८९।
गवालयं पुनर्याति दोग्धुकामो गवां पयः ।
ताश्च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन ९०।
पित्रा सार्द्धं गृहं याति तत्र भावशतानुगः ।
तत्र पित्रा पितृव्यैश्च तत्पुत्रैश्च बलेन च ९१।
भुनक्ति विविधान्नानि चर्व्यचोष्यादिकानि च ।
तन्मतिः प्रार्थनात्पूर्वं राधिका च तदैव ह ९२।
प्रस्थापयेत्सखीद्वारा पक्वान्नानि तदालयम् ।
श्लाघयंश्च हरिस्तानि भुक्त्वा पित्रादिभिः सह ९३।
सभागृहं व्रजेत्तैश्च जुष्टं बंदिजनादिभिः ।
पक्वान्नानि गृहीत्वा याः सख्यस्तत्र पुरागताः ९४।
बहूनि च पुनस्तानि प्रदत्तानि यशोदया ।
सख्यस्तत्र तया दत्तं कृष्णोच्छिष्टं नयंति च ९५।
सर्वं ताभिः समानीय राधिकायै निवेद्यते ।
सापि भुक्त्वा सखीवर्गयुता तदनुपूर्वशः ९६।
सखीभिर्मंडिता तिष्ठेदभिसर्त्तुं समुद्यता ।
प्रस्थाप्यते मया काचिदित एव ततः सखी ९७।
तयाभिसारिता साथ यमुनायाः समीपतः ।
कल्पवृक्षनिकुंजेऽस्मिन्दिव्यरत्नमये गृहे ९८।
सितकृष्णनिशायोग्यवेषा याति सखीवृता ।
कृष्णोऽपि विविधं तत्र दृष्ट्वा कौतूहलं ततः ९९।
कात्यायन्या मनोज्ञानि श्रुत्वा संगीतकान्यपि ।
धनधान्यादिभिस्ताश्च प्रीणयित्वा विधानतः १००।
जनैराराधितो मात्रा याति सख्यानिकेतनम् ।
मातरि प्रस्थितायां च भोजयित्वा ततो गृहम् १०१।
संकेतकं कांतयात्र समागच्छेदलक्षितः ।
मिलित्वा तावुभावत्र क्रीडतो वनराजिषु १०२।
विहारैर्विविधै रासलास्यहासपुरस्सरैः ।
सार्द्धयामद्वयं नीत्वा रात्रेरेवं विहारतः १०३।
सुषुप्सू विशतः कुंजं पक्षिणीभिरलक्षितौ ।
एकांते कुसुमैः कॢप्ते केलितल्पे मनोहरे १०४।
सुप्ता वा तिष्ठतस्तत्र सेव्यमानौ निजालिभिः ।
इति ते सर्वमाख्यातं नैत्यकं चरितं हरेः १०५।
पापिनोऽपि विमुच्यंते श्रवणादस्य नारद ।
नारद उवाच-
धन्योऽस्म्यनुगृहीतोऽस्मि त्वया देवि न संशयः १०६।
हरेर्दैनंदिनीलीला यतो मेऽद्य प्रकाशिता ।
सूत उवाच-
इत्युक्त्वा तां परिक्रम्य तया चापि प्रपूजितः १०७।
अंतर्धानं गतो ब्रह्मन्नारदो मुनिसत्तमः ।
मयाप्येतच्चानुपूर्व्यात्सर्वमेव प्रकीर्तितम् १०८।
जपेन्नित्यं प्रयत्नेन मंत्रयुग्ममनुत्तमम् ।
कृष्णवक्त्रादिदं लब्धं पुरा रुद्रेण यत्नतः १०९।
तेनोक्तं नारदायापि नारदेन ममोदितम् ।
संस्कारांश्च विधायैव मयाप्येतत्तवोदितम् ११०।
त्वयाप्येतद्गोपनीयं रहस्यं परमाद्भुतम् ।
शौनक उवाच-
कृतकृत्योभवं साक्षात्त्वत्प्रसादादहं गुरो १११।
रहस्यानां रहस्यं यत्त्वया मह्यं प्रकाशितम् ।
सूत उवाच-
धर्मानेतानुपातिष्ठञ्जल्पन्मंत्रमहर्निशम् ११२।
अचिरादेव तद्दास्यमवाप्स्यसि न संशयः ।
मयापि गम्यते ब्रह्मन्नित्यमायतनं विभोः ११३।
गुरोर्गुरोर्भानुजायाः कूले गोपीश्वरस्य च ११४।
इदं चरित्रं परमं पवित्रं प्रोक्तं महेशेन महानुभावम् ।
शृण्वंति ये भक्तियुता मनुष्यास्ते यांति नित्यं पदमच्युतस्य ११५।
धन्यं यशस्यमायुष्यमारोग्याभीष्टसिद्धिदम् ।
स्वर्गापवर्गसंपत्तिकारणं पापनाशनम् ११६।
भक्त्या पठंति ये नित्यं मानवा विष्णुतत्पराः ।
न तेषां पुनरावृत्तिर्विष्णुलोकात्कथंचन ११७।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये त्र्यशीतितमोऽध्यायः ८३।
समाप्तं वृंदावनमाहात्म्यम् ।
खण्डः ५ (पातालखण्डः) — Adhyāya 84
ऋषय ऊचुः -
सूतसूत महाभाग रोमहर्षणनंदन ।
कथा रम्या त्वया प्रोक्ता लोकस्यानंददायिनी १।
श्रीकृष्णस्य महाभाग चरितं महदद्भुतम् ।
श्रुतं सर्वं त्वया प्रोक्तं निर्वृतिस्तेन चाभवत् २।
अहो श्रीकृष्णमाहात्म्यं भक्तानां गतिदायकम् ।
यतस्तेन महाभाग निर्वृतिं को न चाप्नुयात् ३।
अतः पुनरपि श्रीमत्कृष्णस्य चरितं महत् ।
श्रोतुमिच्छामहे चान्यद्व्रतदानार्हणादिकम् ४।
स्नानं वापि महाभाग यथा येन कृतं पुरा ।
तत्सर्वं विस्तराद्ब्रूहि यथा नो निर्वृतिर्भवेत् ५।
सूत उवाच-
साधु पृष्टं द्विजश्रेष्ठा लोकानां तारणं परम् ।
यूयं कृतार्थाः कृष्णस्य भक्त्या संपूर्णमानसाः ६।
श्रीकृष्णचरितं पुण्यं साधूनां हर्षदं परम् ।
प्रवक्ष्यामि द्विजश्रेष्ठा महदाख्यानमुत्तमम् ७।
एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः ।
मथुरायामंबरीषं कृष्णाराधनतत्परम् ८।
महाभागं व्रतपरं ददर्श मुनिसत्तमः ।
स आगतं मुनिवरं सत्कृत्य मुनिसत्तमः ९।
भवंत इव पप्रच्छ श्रद्धया हृष्टमानसः ।
अंबरीष उवाच-।
यन्मुने परमं ब्रह्म वेदवादिभिरुच्यते १०।
स देवः पुंडरीकाक्षः स्वयं नारायणः परः ।
योऽमूर्तो मूर्तिमानीशो व्यक्तोऽव्यक्तः सनातनः ११।
सर्वभूतमयोऽचिंत्यो ध्यातव्यः स कथं हरिः ।
यस्मिन्सर्वमिदं विश्वमोतं प्रोतं प्रतिष्ठितम् १२।
अव्यक्तमेकं परमं परमात्मेति विश्रुतम् ।
यतो जन्मादि जगतो यो निर्माय स्वयं भुवम् १३।
ददौ तस्मै च निगमानात्मन्येव व्यवस्थितान् ।
कथमाराध्यते सोऽयं समग्रपुरुषार्थदः १४।
योगिनामपि दुर्गम्यस्तदेतत्कृपया वद ।
अनाराधित गोविंदा न विदंति हितोदयम् १५।
न तपो यज्ञदानानां लभते फलमुत्तमम् ।
अनास्वादितगोविंदपदांबुजरसश्च यः १६।
मनोरथपथातीतं स्फीतं नाकलयेत्फलम् ।
हरेराराधनं हित्वा दुरितौघ निवारणम् १७।
नान्यत्पश्यामि जंतूनां प्रायश्चित्तं परं मुने ।
यद्भ्रूनर्तनवर्तिन्यः श्रूयंते सिद्धयोऽखिलाः १८।
कथमाराध्यतेसोऽयं केशवः क्लेशनाशनः ।
उपास्यते स भगवान्कथं नारायणो नरैः १९।
प्रीतश्च सर्वमेतन्मे हिताय जगतो वद ।
भक्तिप्रियोऽसौ भगवान्कया भक्त्या प्रसीदति २०।
कथं तस्मिन्भवेद्भक्तिः सर्वैराराध्यते कथम् ।
वैष्णवोसि हरेस्तस्य प्रियोऽसि परमार्थवित् २१।
तेन त्वामेव पृच्छामि ब्रह्मन्ब्रह्मविदुत्तम ।
श्रोतारमथ वक्तारं प्रष्टारं पुरुषं हरेः २२।
प्रश्नः पुनाति कृष्णस्य तदंघ्रिसलिलं यथा ।
दुर्ल्लभो मानुषो देहो देहिनां क्षणभंगुरः २३।
तत्रापि दुर्ल्लभं मन्ये वैकुंठप्रियदर्शनम् ।
संसारेस्मिन्क्षणार्धोऽपि सत्संगः शेवधिर्नृणाम् २४।
यस्मादवाप्यते सर्वं पुरुषार्थचतुष्टयम् ।
भगवन्भवतो यात्रा स्वस्तये सर्वदेहिनाम् २५।
बालानां तु यथा पित्रोरुत्तमश्लोकवर्त्मनाम् ।
भूतानां देवचरितं दुःखाय च सुखाय च २६।
सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ।
भजंति ये यथा देवान्देवा अपि तथैव तान् २७।
छायेव कर्मसचिवाः साधवो दीनवत्सलाः ।
तस्मात्त्वं भगवन्मह्यं वैष्णवं धर्ममादिश २८।
यस्योपदेशदानेन लभते वेदजं फलम् ।
नारद उवाच-
साधु पृष्टं महीपाल विष्णुभक्तिमता त्वया २९।
जानता परमं धर्ममेकं माधवसेवनम् ।
यस्मिन्नाराधिते विष्णौ विश्वमाराधितं भवेत् ३०।
तुष्टे चराचरं तुष्टं सर्वदेवमये हरौ ।
यस्य स्मरणमात्रेण महापातकसंहतिः ३१।
तत्क्षणान्नाशमायाति स सेव्यो हरिरेव हि ।
कोऽनु राजन्निंद्रियवान्मुकुंदचरणांबुजम् ३२।
न भजेत्सर्वतो मृत्युरुपास्यमृषिदैवतैः ।
श्रुतोऽनु पठितो ध्यात आदृतश्चानुमोदितः ३३।
सद्यः पुनाति सद्धर्मो वीरो विश्वद्रुहोऽपि हि ।
योयं कारणकार्यादि कारणस्यापि कारणम् ३४।
अनन्यकारणं योगी जगज्जीवो जगन्मयः ।
अणुर्बृहत्कृशः स्थूलो निर्गुणो गुणभृन्महान् ३५।
अजो जन्मलयातीतो ध्यातव्यः स हरिः सदा ।
सम्यगेतद्व्यवसितं भवता पुरुषर्षभ ३६।
यत्पृच्छसे भागवतान्धर्मांस्त्वं विश्वभावनान् ।
प्रसंगेन सतामात्ममनः श्रुति रसायनाः ३७।
भवंति कीर्तनीयस्य कथाः कृष्णस्य निर्मलाः ।
भावसाध्योह्ययं देवः स्वयं जानाति तद्भवान् ३८।
तथापि वक्ष्ये जगतो हिताय तव गौरवात् ।
यदाहुः परमं ब्रह्म प्रधानपुरुषात्परम् ३९।
यन्मायया ततं सर्वं सर्वं यच्छति सोऽच्युतः ।
पुत्रान्कलत्रं दीर्घायू राज्यं स्वर्गापवर्गकम् ४०।
स दद्यादीप्सितं सर्वं भक्त्या संपूजितोऽजितः ।
कर्मणा मनसा वाचा तत्परा ये हि मानवाः ४१।
तेषां व्रतानि वक्ष्यामि प्रीतये भूपसत्तम ।
अहिंसासत्यमस्तेयं ब्रह्मचर्यमकल्पता ४२।
एतानि मानसान्याहुर्व्रतानि हरितुष्टये ।
एकभक्तं तथा नक्तमुपवासमयाचितम् ४३।
इत्येवं कायिकं पुंसां व्रतमुक्तं नरेश्वर ।
वेदस्याध्ययनं विष्णोः कीर्तनं सत्यभाषणम् ४४।
अपैशुन्यमिदं राजन्वाचिकं व्रतमुत्तमम् ।
चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् ४५।
नाशौचं कीर्तने तस्य स पवित्रकरो यतः ।
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ४६।
विष्णुराराध्यते पंथा नान्यः संतोषकारणम् ।
पतिप्रियहिताभिश्च मनोवाक्कायसंयमैः ४७।
व्रतैराराध्यते स्त्रीभिर्वासुदेवो दयानिधिः ।
आगमोक्तेन मार्गेण स्त्रीशूद्रैरपिपूजनम् ४८।
कर्तव्यं कृष्णचंद्रस्य द्विजातिवररूपिणः ।
त्रयोवर्णास्तु वेदोक्तमार्गाराधनतत्पराः ४९।
स्त्रीशूद्रादय एव स्युर्नाम्नाऽराधनतत्पराः ।
न पूजनैर्न यजनैर्न व्रतैरपि माधवः ५०।
तुष्यते केवलं भक्तिप्रियोऽसौ समुदाहृतः ।
स्त्रीणां पतिव्रतानां तु पतिरेव हि दैवतम् ५१।
स तु पूज्यो विष्णुभक्त्या मनोवाक्कायकर्मभिः ।
कर्तव्यं श्रद्धया विष्णोश्चिंतयित्वा पतिं हृदि ५२।
शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् ।
सर्वेऽप्यागममार्गेण कुर्युर्वेदानुकारिणा ५३।
स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु ।
पतिप्रियरतानां च श्रुतिरेषा सनातनी ५४।
स्वकुलोचितधर्मेण यद्यस्य विहितं व्रतम् ।
तत्तदेवाचरेद्यस्तु तेन तुष्यति केशवः ५५।
हविषाग्नौ जले पुष्पैर्ध्यानेन हृदये हरिम् ।
यजंति सूरयो नित्यं जपेन रविमंडले ५६।
अहिंसा प्रथमं पुष्पं द्वितीयं करणग्रहः ।
तृतीयकं भूतदया चतुर्थं क्षांतिरेव च ५७।
शमस्तु पंचमं पुष्पं दमः षष्ठं च सप्तमम् ।
ध्यानं सत्यं चाष्टमं च ह्येतैस्तुष्यति केशवः ५८।
एतैरेवाष्टभिः पुष्पैस्तुष्यत्येवार्चितो हरिः ।
पुष्पांतराणि संत्येव बाह्यानि मनुजोत्तम ५९।
भक्त्या कृतानि यैर्विष्णुः पूजितः परितुष्यति ।
वारुणं सलिलं पुष्पं सौम्यं घृतपयोदधि ६०।
प्राजापत्यं तथान्नादि आग्नेयं धूपदीपकम् ।
फलपुष्पादिकं चैव वानस्पत्यं तु पंचमम् ६१।
पार्थिवं कुशमूलाद्यं वायव्यं गंधचंदनम् ।
श्रद्धाख्यं विष्णुपुष्पं च वाद्यं विष्णुपदं स्मृतम् ६२।
एभिस्तुपूजितः पुष्पैरपि विष्णुः प्रसीदति ।
सूर्योऽग्निर्ब्राह्मणोगावो वैष्णवः खं मरुज्जलम् ६३।
भूरात्मा सर्वभूतानि पूजास्थानानि वा हरेः ।
सूर्य्ये तु मंत्रजाप्येन हविषाग्नौ यजेत्ततः ६४।
आतिथ्येन तु विप्राग्र्ये गोषु ग्रासरसादिना ।
वैष्णवे बंधुसत्कृत्या हृदये ध्याननिष्ठया ६५।
वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः ।
स्थंडिले मंत्रहृदयैर्भोगैरात्मानमात्मनि ६६।
क्षेत्रज्ञं सर्वभूतेषु समत्वेनार्चयेद्विभुम् ।
धिष्ण्येष्वेतेषु तद्रूपं शंखचक्रगदांबुजैः ६७।
युक्तं चतुर्भुजं शांतं ध्यायन्नर्च्चेत्समाहितः ।
ब्राह्मणैः पूजितैरेव पूजितोऽयं न संशयः ६८।
निर्भर्त्सितैश्च तैर्भूप भवेन्निर्भर्त्सितो विभुः ।
निगमो धर्मशास्त्रं च यदाधारे प्रवर्तते ६९।
विप्रास्ते वैष्णवीमूर्तिः पावनी परमा मता ७०।
सर्वं शुभं जगति धर्मत एव लभ्यं धर्मो गतिर्निगमतो नृपधर्मशास्त्रात् ।
नूनं तयोरपि गतिर्भुवि भूमिदेवास्तैरर्चितैरिह जगत्पतिरर्चितः स्यात् ७१।
न यज्ञयोगैर्न तपोभिरन्यैर्न योगयुक्त्या न समर्चनेन ।
तथा विभुस्तुष्यति देवदेवो यथा मही दैवततोषणेन ७२।
ब्रह्मण्यो ब्रह्मविद्ब्रह्मा ब्रह्मवेदप्रवर्तकः ।
ब्राह्मणैरेव तुष्येत तोषितं ब्रह्मदैवतम् ७३।
नरकेऽपि चिरं मग्नाः पूर्वजा ये कुलद्वये ।
तदैव यांति ते स्वर्गं यदार्च्चति सुतो हरिम् ७४।
किं तेषां जीवितेनेह पशुवच्चेष्टितेन किम् ।
येषां न प्रवणं चित्तं वासुदेवे जगन्मये ७५।
ध्यानं तस्य प्रवक्ष्यामि यन्न दृष्टं तु केनचित् ।
श्रूयतां भूपकैवल्यं केवलं मलवर्जितम् ७६।
यथा दीपो निवातस्थो निश्चलो वायुवर्जितः ।
प्रज्वलन्नाशयेत्सर्वमंधकारं महामते ७७।
तद्वद्दोषविहीनात्मा भवत्येव निरामयः ।
निराशो निश्चलो वीरोनमित्रं न रिपुस्तथा ७८।
शोकहर्षौ विषादश्च न लोभो मत्सरो भ्रमः ।
संभ्रमालापमोहैश्च सुखदुःखैर्विमुच्यते ७९।
विषयैश्चापि सर्वैश्च इंद्रियाणां प्रमुच्यते ।
तदा स केवलज्ञानी कैवल्यत्वं प्रजायते ८०।
ज्वालाकर्मप्रसंगेन दीपस्तैलं प्रशोषयेत् ।
वर्त्याधारेण राजेंद्र निर्द्वन्द्वो वायुवर्जितः ८१।
कज्जलं वमते पश्चात्तैलस्यापि महामते ।
कृष्णा संदृश्यते रेखा दीपस्याग्रे महामते ८२।
स्वयमाकृष्य तत्तैलं तेजसा निर्मलोभवेत् ।
काये चांतः स्थितस्तद्वत्कर्मतैलं प्रशोषयेत् ८३।
विषयान्कज्जलं कृत्वा प्रत्यक्षान्संप्रदर्शयेत् ।
ज्वालावन्निर्मलो भूत्वा स्वयमेव प्रकाशयेत् ८४।
क्रोधलोभादिभिः संज्ञैर्वायुभिः परिवर्जितः ।
निःस्पृहो निश्चलो भूत्वा तेजश्च स्वयमुज्ज्वलेत् ८५।
त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थं स्वतेजसा ।
केवलज्ञानरूपोऽयं मया ते परिकीर्तितः ८६।
ध्यानं चैव प्रवक्ष्यामि द्विविधं तस्य चक्रिणः ।
केवलज्ञानरूपेण दृश्यते परचक्षुषा ८७।
योगयुक्ता महात्मानः परमार्थपरायणाः ।
यं न पश्यंति मुग्धास्तु सर्वज्ञं सर्वदर्शकम् ८८।
हस्तपादविहीनश्च सर्वत्र परिगच्छति ।
सर्वं गृह्णाति त्रैलोक्यं स्थावरं जंगमं पुनः ८९।
नासामुखविहीनस्तु घ्राति भक्षति भूपते ।
अकर्णः शृणुते सर्वं सर्वसाक्षी जगत्पतिः ९०।
अरूपो रूपसंबद्धः पंचवर्गवशं गतः ।
सर्वलोकस्य यः प्राणः पूज्यते सचराचरैः ९१।
अजिह्वो वदते सर्वं वेदशास्त्रानुगं तथा ।
अत्वचः स्पर्शमेवापि सर्वेषामेव विंदति ९२।
सदानंदो विविक्ताक्ष एकरूपो निराश्रयः ।
निर्गुणो निर्ममो व्यापी सगुणो निर्मलोऽनघः ९३।
अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः ।
तस्य माता न चैवास्ति स वै सर्वमयो विभुः ९४।
एवं सर्वमयं ध्यानं यश्च पश्यत्यनन्यधीः ।
स याति परमं स्थानममूर्त्तममृतोपमम् ९५।
द्वितीयं तु प्रवक्ष्यामि तच्छृणुष्व महामते ।
मूर्त्ताकारं तु साकारं निराकारं निरामयम् ९६।
ब्रह्मांडं सर्वमतुलं वासितं यस्य वासनात् ।
स तस्माद्वासुदेवस्तु प्रोच्यते नृपनंदन ९७।
वर्षमाणस्य मेघस्य यद्भासा तस्य तद्भवेत् ।
सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम् ९८।
दक्षिणे शोभते शंखो हेमरत्नविभूषितः ।
कौमोदकी गदा तस्य महासुरविनाशिनी ९९।
वामे च शोभते वीर हस्ते तस्य महात्मनः ।
महापद्मं सुगंधाढ्यं तस्य दक्षिणहस्तगम् १००।
शोभमानं सदैवास्ते सायुधं कमलश्रियम् ।
कंबुग्रीवं सुवृत्तास्यं पद्मपत्रनिभेक्षणम् १०१।
राजमानं हृषीकेशं दशनैः कुंदसंनिभैः ।
गुडाकेशस्य यस्यास्ते अधरो विद्रुमाकृतिः १०२।
शोभते पुंडरीकाक्षः किरीटेनापि भास्वता ।
विशालेनापि रूपेण केशवस्तु सुवक्षसा १०३।
कौस्तुभेनांकितेनैव राजमानो जनार्दनः ।
सूर्यतेजःप्रतीकाश कुंडलाभ्यां प्रभाति च १०४।
हरिः केयूरकंकणैर्हारैर्मौक्तिकैर्ऋक्षसन्निभैः १०५।
वपुषा भ्राजमानस्तु विजयो जयतां वरः ।
भ्राजतेसोऽपि गोविंदो हेमवर्णेन वाससा १०६।
मुद्रिकाभिस्तु युक्ताभिरंगुलीषु विराजते ।
सर्वायुधैः सुसंपूर्णैर्द्दिव्यैराभरणैर्हरिः १०७।
वैनतेयसमारूढो लोककर्त्ता जगत्पतिः ।
एवं यो ध्यायते नित्यमनन्यमनसा नरः १०८।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
एतत्ते सर्वमाख्यातं ध्यानभेदं जगत्पतेः १०९।
इति श्रीपद्मपुराणे पातालखंडे नारदांबरीषसंवादे वैशाखमासमाहात्म्ये भगवद्ध्य्नावर्णनं नाम चतुरशीतितमोऽध्यायः ८४।
खण्डः ५ (पातालखण्डः) — Adhyāya 85
अंबरीष उवाच-
साधुसाधु मुनिश्रेष्ठ लोकानुग्रहकारक ।
विष्णोर्ध्यानं त्वया प्रोक्तं सगुणं निर्गुणं च यत् १।
अधुना लक्षणं ब्रूहि भक्तेः साधु कृपाकर ।
यादृशी क्रियते येन यथा यत्र यदा तथा २।
सूत उवाच-
इत्युक्तमाकर्ण्य नृपोत्तमस्य मुनिः प्रहृष्टो निजगाद भूपम् ।
शृणुष्व राजन्निखिलाघहारिणीं भक्तिं हरेस्ते प्रवदामि सम्यक् ३।
अथ भक्तिं प्रवक्ष्यामि विविधां पापनाशिनीम् ।
विविधा भक्तिरुद्दिष्टा मनोवाक्कायसंभवा ४।
लौकिकी वैदिकी चापि भवेदाध्यात्मिकी तथा ।
ध्यानधारणया बुद्ध्या वेदानां स्मरणं हि यत् ५।
विष्णुप्रीतिकरी चैषा मानसी भक्तिरुच्यते ।
मंत्रवेदसमुच्चारैरविश्रांतविचिंतनैः ६।
जाप्यैश्चारण्यकैश्चैव वाचिकी भक्तिरुच्यते ।
व्रतोपवासनियमैः पञ्चेंद्रियजयेन च ७।
कायिकी सैव निर्दिष्टा भक्तिः सर्वार्थसाधिनी ।
भूषणैर्हेमरत्नांकैश्चित्राभिर्वाग्भिरेव च ८।
वासः प्रतिसरैः सूत्रैः पावकव्यजनोच्छ्रितैः ।
नृत्यवादित्रगीतैश्च सर्वबल्युपहारकैः ९।
भक्ष्यभोज्यान्नपानैश्च या पूजा क्रियते नरैः ।
नारायणं समुद्दिश्य भक्तिः सा लौकिकी मता १०।
कायिकी सैव निर्दिष्टा भक्तिः सर्वार्थसाधिकी ।
ऋग्यजुःसामजाप्यानि संहिताध्ययनानि च ११।
क्रियंते विष्णुमुद्दिश्य सा भक्तिर्वैदिकोच्यते ।
वेदमंत्रहविर्यागैः क्रियाया वैदिकी मता १२।
दर्शे च पौर्णमास्यां च कर्त्तव्यं चाग्निहोत्रकम् ।
प्राशनं दक्षिणादानं पुरोडाशं चरु क्रिया १३।
इष्टिर्धृतिः सोमपानं याज्ञियं कर्म सर्वशः ।
अग्निभूम्यनिलाकाश द्युति शंकर भास्करम् १४।
तमुद्दिश्यकृतं कर्म तत्सर्वं विष्णुदैवतम् ।
आध्यात्मिकीति विविधा ब्रह्मभक्तिस्थिता नृप १५।
सांख्याख्यां योगसंजातां शृणु भूप यथोदिताम् ।
चतुर्विंशति तत्त्वानि प्रधानादीनि संख्यया १६।
अचेतनानि भोग्यानि पुरुषः पंचविंशकः ।
चेतनः स समुद्दिष्टो कर्ता भोक्ता च कर्मणाम् १७।
आत्मा नित्योव्ययश्चैव अधिष्ठाता प्रयोजकः ।
पुरुषोऽव्यक्त नित्यः स्यात्कारणं च महेश्वरः १८।
तत्त्वसर्गो भावसर्गो भूतसर्गश्च तत्त्वतः ।
संख्यायाः परिसंख्यायाः प्रधानं च गुणात्मकम् १९।
ज्ञात्वा साधर्म्यवैधर्म्यं प्रधानं च विधर्मि च ।
कारणं ब्रह्मणश्चैव कामित्वमिदमुच्यते २०।
प्रयोज्यत्वं प्रधानस्य वैधर्म्यमिदमुच्यते ।
सर्वत्र कर्तृता ब्रह्म पुरुषस्याप्यकर्तृता २१।
अचेतनप्रधानेन समत्वमिदमुच्यते ।
तत्त्वांतरं च तत्त्वानां कार्यकारणमेव च २२।
प्रयोजनं प्रयोज्यत्वं ज्ञात्वा तत्त्वप्रसंख्यया ।
संख्यातमुच्यते प्राज्ञैर्विजयार्थविचिंतकैः २३।
इति मत्वास्य सद्भावं तत्त्वं संख्यां च तत्त्वतः ।
ब्रह्मतत्त्वाधिकं चापि भूततत्त्वं विदुर्बुधाः २४।
सांख्यैः कृता भक्तिरेषा भक्तिराध्यात्मिकी स्मृता ।
योगजामपि ते भूप शृणु भक्तिं वदाम्यहम् २५।
प्राणायामपरो नित्यं ध्यानवान्नियतेंद्रियः ।
भैक्ष्यभक्षव्रती चापि सर्वप्रत्याहृतेन्द्रियः २६।
धारणं हृदये कृत्वा ध्यायमानो महेश्वरम् ।
हृत्पद्मकर्णिकासीनं पीतवस्त्रं सुलोचनम् २७।
पश्यन्नुद्योतितमुखं ब्रह्मसूत्रकटीतटम् ।
श्वेतवर्णं चतुर्बाहुं वरदाभयहस्तकम् २८।
योगजा मानसीसिद्धिर्विष्णुभक्तिः परा स्मृता ।
य एवं भक्तिमान्देवं विष्णुभक्तिः स उच्यते २९।
एवं भक्तिः समुद्दिष्टा विविधा नृपनंदन ।
सात्विकी राजसी चैव तामसीभेदतस्त्विमाः ३०।
नानाप्रकारा विज्ञेया विष्णोरमिततेजसः ।
यथाग्निः सुसमृद्धार्च्चिः करोत्येधांसि भस्मसात् ३१।
पापानि भगवद्भक्तिस्तथा दहति तत्क्षणात् ३२।
यावज्जनो न शृणुते भुवि विष्णुभक्तिं साक्षात्सुधारसमशेषरसैकसारम् ।
तावज्जरामरणजन्मशताभिघातदुःखानि तानि लभते बहुदेहजानि ३३।
संकीर्तितश्चिंतितकीर्तिरंतः श्रुतानुभावो भगवाननंतः ।
समंततोऽघविनिहंति मेघं वायुर्यथाभानुरिवांधकारम् ३४।
न दान देवार्चन याग तीर्थ स्नान श्रुताचार तपः क्रियाभिः ।
तथा विशुद्धिं लभतेंऽतरात्मा यथा हृदिस्थे भगवत्यनंते ३५।
कथा विशुद्धा नरनाथ तथ्यास्ता एव पथ्या हरिनाथ तथ्याः ।
संकीर्तिता यत्र पवित्रमूर्तेः संश्रूयते च श्रुतसाधुकीर्तिः ३६।
धन्योसि धीरधरणीधर धर्मधुर्य्य ध्यानैकतान हृदयः पुरुषोत्तमस्य ।
यन्नैष्ठिकीमतिरसौ तव सौभगश्रीः श्रीकृष्णनाथसुकृतः श्रवणे प्रवृत्ता ३७।
अनाराध्य हरिं भक्त्या वरदं विष्णुमव्ययम् ।
कुतः श्रेयो भवेद्भूप पुरुषस्यात्ममानिनः ३८।
मायाजनिरमायोऽसौ भक्त्या राजन्नमायया ।
साध्यते साधुपुरुषः स्वयं जानाति तद्भवान् ३९।
न विद्यते ते नृप धर्मतत्त्वमज्ञातमेतद्विमलं पुनर्माम् ।
त्वं पृच्छसे तीर्थपदं प्रसंगात्कथारसं वैष्णव गौरवेण ४०।
नातः परं परमतोषविशेषपोषं पश्यामि पुण्यमुचितं च परस्परेण ।
संतः प्रसह्य यदनंतगुणाननंतश्रेयोनिधीनधिकभावभुजो भुजंति ४१।
ब्राह्मणाः सुरभी सत्य श्रद्धा याग तपांसि च ।
श्रुति स्मृति दया दीक्षा शांतयस्तनवो हरेः ४२।
आदित्यश्चंद्रमा वायुर्भूमिरापोंऽबरं दिशः ।
ब्रह्माविष्णुश्च रुद्रश्च सर्वभूतमयो विभुः ४३।
विश्वरूपः स्वयं चक्रे जगदेतच्चराचरम् ।
स्वयं ब्राह्मणमाविश्य सदान्नमुपभुंजते ४४।
ततस्तु तीर्थास्पदपादरेणून्धराधरात्मालय भूमिदेवान् ।
परात्मनः पूजय पुण्यलक्ष्मी सर्वस्वभूतानखिलात्मभूतान् ४५।
ब्राह्मणं विष्णुबुद्ध्य्या यो विद्वांसं साधु पश्यति ।
स एव वैष्णवो यश्च स्वस्वकर्मैकनिष्ठितः ४६।
किंचिदेतन्मयाप्रोक्तं रहस्यं समयो हि मे ।
स्नातुं गंतुं च गंगायां न कथावसरोऽधिकः ४७।
प्राप्तोऽयं माधवो मासः पुण्यो माधववल्लभः ।
तस्यापि सप्तमी शुक्ला गंगायामतिदुर्ल्लभा ४८।
वैशाख शुक्ल सप्तम्यां जाह्नवी जह्नुना पुरा ।
क्रोधात्पीता पुनस्त्यक्ता कर्णरंध्रात्तु दक्षिणात् ४९।
तस्यां समर्चयेद्देवीं गंगां गगनमेखलाम् ।
स्नात्वा सम्यग्विधानेन स धन्यः सुकृती नरः ५०।
तस्यां यस्तर्पयेद्देवान्पितॄन्मर्त्यो यथाविधि ।
साक्षात्पश्यति तं गंगा स्नातकं गतपापकम् ५१।
न माधव समो मासो न गंगा सदृशी नदी ।
दुर्ल्लभः खलु योगोऽयं हरिभक्त्यैव लभ्यते ५२।
विष्णुपादोदकोद्भूता ब्रह्मलोकादुपागता ।
त्रिभिः स्रोतोभिरश्रांता या पुनाति जगत्त्रयम् ५३।
स्वर्गारोहणनिःश्रेणी सततानंदकारिणी ।
अनेकदुरितोद्गारहारिणी दुर्गतारिणी ५४।
श्रीमहेशजटाजूटवासिनी दुःखनाशिनी ।
भजमानजनस्वांतकान्तकेलि विनाशिनी ५५।
सगरान्वयनिर्वाणकारिणी धर्मधारिणी ।
त्रिमार्गचारिणी देवी लोकालंकृतिकारिणी ५६।
दर्शन स्पर्शन स्नान कीर्त्तन ध्यान सेवनैः ।
पुण्यानपुण्यान्पुरुषान्पावयंती सहस्रशः ५७।
गंगा गंगेति गंगेति यैस्त्रिसंध्यमितीरितम् ।
सुदूरस्थैश्च तत्पापं हंति जन्मत्रयार्जितम् ५८।
योजनानां सहस्रेषु गंगां यः स्मरते नरः ।
अपि दुष्कृतकर्मासौ लभते परमां गतिम् ५९।
वैशाखे शुक्ल सप्तम्यां दुर्ल्लभा सा विशेषतः ।
प्राप्यते जगतीपाल हरि विप्र प्रसादतः ६०।
न माधवसमो मासो न माधवसमो विभुः ।
गतोहि दुरितांभोधौ मज्जमानजनस्य यः ६१।
दत्तं जप्तं हुतं स्नातं यद्भक्त्या मासि माधवे ।
तदक्षयं भवेद्भूप पुण्यं कोटिशताधिकम् ६२।
यथा देवेषु विश्वात्मा देवो नारायणो हरिः ।
यथा जप्येषु गायत्री सरितां जाह्नवी तथा ६३।
यथोमा सर्वनारीणां तपतां भास्करो यथा ।
आरोग्यलाभो लाभानां द्विपदां ब्राह्मणो यथा ६४।
परोपकारः पुण्यानां विद्यानां निगमो यथा ।
मंत्राणां प्रणवो यद्वद्ध्यानानामात्मचिंतनम् ६५।
सत्यं स्वधर्मवर्तित्वं तपसां च यथा वरम् ।
शौचानामर्थशौचं च दानानामभयं यथा ६६।
गुणानां च यथा लोभक्षयो मुख्यो गुणः स्मृतः ।
मासानां प्रवरो मासस्तथासौ माधवो मतः ६७।
तत्र यत्क्रियते श्राद्धं यज्ञ दानमुपोषणम् ।
तपोऽध्ययनपूजादि तदक्षयफलं स्मृतम् ६८।
वैशाखांतानि पापानि सूर्यांतानि तमांसि च ।
परापकारपैशुन्य प्रांतानि सुकृतानि च ६९।
कार्तिके मासि यत्किंचित्तुलासंस्थे दिवाकरे ।
स्नानदानादिकं राजंस्तत्परार्धगुणं भवेत् ७०।
तस्मात्सहस्रगुणितं माघे मकरगे रवौ ।
ततोऽपि शतसंख्यातं वैशाखेमेषगे रवौ ७१।
ते धन्यास्ते सुकृतिनो नरा वैशाख मासि ये ।
प्रातः स्नात्वा विधानेन पूजयंति मधुद्विषम् ७२।
प्रातःस्नानं च वैशाखे यज्ञदानमुपोषणम् ।
हविष्यं ब्रह्मचर्यं च महापातकनाशनम् ७३।
पुनः कलियुगे राजन्नेतद्गोप्यं भविष्यति ।
अश्वमेधादिकं यस्मान्माहात्म्यं माधवस्य यत् ७४।
अश्वमेधमखः पुण्यः कलौ नैव प्रवर्तते ।
एष माधवमासस्य हयमेध समो विधिः ७५।
अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदम् ।
न वेत्स्यंति कलौ पापा जना दुरितबुद्धयः ७६।
तस्मिन्भवैर्नरैः पापैर्गंतव्यं नरकार्णवे ।
अतस्तु विरलस्तस्य प्रचारो येन निर्मितः ७७।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये पंचाशीतितमोऽध्यायः ८५।
खण्डः ५ (पातालखण्डः) — Adhyāya 86
सूत उवाच-
इति तस्य वचः श्रुत्वा नारदस्य महात्मनः ।
अंबरीषश्च राजर्षिर्विस्मितो वाक्यमब्रवीत् १।
अंबरीष उवाच-
मार्गशीर्षादिकान्मासान्हित्वा पुण्यान्महामुने ।
सर्वमासाधिकं मासं वैशाखं किं प्रशंससि २।
सर्वेभ्योऽप्यधिकः कस्मान्माधवो माधवप्रियः ।
को विधिस्तत्र किं दानं किं तपः का च देवता ३।
त्वत्पादांभोजरजसा पावितस्य च मे मुने ।
उपदेशप्रसादेन प्रसादं कर्तुमर्हसि ४।
धर्मज्ञो धर्ममार्गाणामुद्धर्तासि महामुने ।
त्वमेकोऽखिलतत्त्वार्थवेत्ता धर्मोपदेशकः ५।
कर्तोपदेष्टा मंता वानुमंतापि प्रयोजकः ।
शास्त्रविद्भिर्मुनिवर स्मर्यंते समभागिनः ६।
व्रतसत्रतपोदानैर्यत्फलं समवाप्यते ।
धर्मोपदेशनेनैव तत्सर्वमुपलभ्यते ७।
तीर्थस्नानं तपोयज्ञकर्म यत्कुरुते मुने ।
अपि तत्फलभागीस्याद्यः प्रवर्तयिता भवेत् ८।
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ९।
तदर्हति भवान्धर्ममुपदेष्टुं तदद्भुतम् ।
दुर्ल्लभो गुरुसंबोधो देशकालोपपत्तयः १०।
न केचन तथा भावाश्चेतः शीतलयंतिनः ।
राज्यलाभादयोऽप्येते यथा तव समागमः ११।
सूत उवाच-।
अथ मंदमृदुस्मेरस्फुरद्दंतप्रभानुगः ।
अंबरीषं प्रत्युवाच नारदो मुनिसत्तमः १२।
नारद उवाच-।
शृणु राजन्प्रवक्ष्यामि हिताय जगतस्तव ।
विधिर्माधवमासस्य यच्छ्रुतो ब्रह्मणः पुरा १३।
दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता ।
मानुष्ये दुर्ल्लभे लोके स्वस्वधर्मप्रवर्त्तनम् १४।
ततोऽपि भक्तिर्भूपाल वासुदेवेऽतिदुर्ल्लभा ।
तत्रापि दुर्ल्लभो मासो माधवो माधवप्रियः १५।
तमवाप्य ततो मासं स्नानदानजपादिकम् ।
कुर्वंति विधिना ये तु धन्यास्ते कृतिनो नराः १६।
तेषां दर्शनमात्रेण पापिनोऽपि विकिल्बिषाः ।
भवंति भगवद्भावभाविता धर्मकांक्षिणः १७।
माधवे मासि यैः स्नातं प्रातर्नियमसंयुतैः ।
ते कोटिवर्षपर्यंतं क्रीडंते नंदने वने १८।
यथा न वारिधिसमो लोके कोऽपि जलाशयः ।
तथा मासो न वैशाखसदृशो माधवप्रियः १९।
तावत्पापानि तिष्ठंति मनुष्याणां कलेवरे ।
यावत्किलमलध्वंसी मासो नायाति माधवः २०।
अवशिष्टदिनान्येव पंचमासस्य तस्य वै ।
एकादशीं समारभ्य सर्वमाससमानि वै २१।
वैशाखे पूजितो देवो माधवो मधुहा तु यैः ।
नानोपचारै राजेंद्र तैः प्राप्तं जन्मनः फलम् २२।
किं किं न दुर्ल्लभतरं प्राप्यते मासि माधवे ।
स्नानेन परमेशस्य पूजनेन यथाविधि २३।
न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम् ।
यैर्हि नारायणो नैव ध्यातो निखिलपापहा २४।
तेषां जन्म नृणां लोके ज्ञातव्यं निष्फलं नृप ।
द्रव्येषु विद्यमानेषु कृपणो यो भवेन्नरः २५।
अदत्वा म्रियते यो हि तस्य द्रव्यं निरर्थकम् ।
तीर्थस्नानादि तपसा सत्कुले जन्म लभ्यते २६।
न दानेन विना भूप किंचिदप्युपतिष्ठति ।
वैशाखस्नानमाहात्म्यादपि पंचदिनात्मकात् २७।
सत्कुले प्राप्यते जन्म वैभवं विविधं तथा ।
सुपुत्रः सुकुलं भूप धनधान्यं वरस्त्रियः २८।
सुजन्ममरणं चापि सुभोगाः सुखमेव च ।
सदा दानेऽधिका प्रीतिरौदार्यं धैर्यमुत्तमम् २९।
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः ।
नारायणस्य जायंते सिद्धयो भूप वांच्छिताः ३०।
ऊर्जे मासि तपो मासि माधवे माधवप्रिये ।
स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम् ३१।
विशेषेण समभ्यर्च्य दत्वा दानानि शक्तितः ।
एहिकं सुखमासाद्य नरो हरिपदं व्रजेत् ३२।
अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन ।
सूर्योदये भूप यथा तमिस्रं वचः स्वयंभूरिदमादिशन्मे ३३।
चकार विष्णुर्विपुलप्रचारं मासस्य वै माधवसंज्ञकस्य ।
यमस्य गुप्तं वचसा विचिंत्य मनुष्यलोकं गमितं चकार ३४।
तस्मादस्मिन्समायाते माधवे मासि वैष्णवैः ।
स्नात्वा पुण्यजले तीर्थे गंगायाः पावने नृणाम् ३५।
रेवाया वा महाराज यामुने शारदेऽथवा ।
प्रातस्त्वनुदिते भानौ विधानेन नृपोत्तम ३६।
पूजयित्वा च देवेशं मुकुंदं मधुसूदनम् ।
पुत्रपौत्रधनैः श्रेयो वांच्छितानि सुखानि च ३७।
अनुभूय तपस्त्वंते स्वर्गमक्षयमाप्नुयात् ।
एवं ज्ञात्वा महाभाग मधुसूदनमर्चय ३८।
स्नात्वा सम्यग्विधानेन वैशाखे तु विशेषतः ।
देवमाराध्य गोविन्दं नारायणमनामयम् ३९।
प्राप्स्यसि त्वं सुखं पुत्रं धनानि च हरेः पदम् ।
देवदेवं नमस्कृत्य माधवं पापनाशनम् ४०।
प्रारभेत व्रतमिदं पौर्णमास्यां मधोर्नृप ।
यमैश्च नियमैर्युक्तः शक्त्या किंचित्प्रदाय च ४१।
हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रते स्थितः ।
कृच्छ्रादितपसा क्षामो ध्यायन्नारायणं हृदि ४२।
एवं प्राप्य च वैशाखीं दद्यान्मधुतिलादिकम् ।
भोजनं द्विजमुख्येभ्यो भक्त्या धेनुं सदक्षिणाम् ४३।
अच्छिद्रं प्रार्थयेच्चापि तस्य स्नानस्य भूसुरान् ।
यथा लक्ष्मीः प्रिया भूप माधवस्य जगत्पतेः ४४।
तथैव माधवो मासो मधुसूदनवल्लभः ।
एवं विधियुतो मर्त्यः स्नात्वा द्वादशवत्सरम् ४५।
उद्यापनं चरेच्छक्त्या मधुसूदनतुष्टये ।
इदं माधवमासस्य माहात्म्यं कथितं तव ४६।
यत्पुरा ब्रह्मणो वक्त्राच्छ्रुतमासीन्मया नृप ४७।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये षडशीतितमोऽध्यायः ८६।
खण्डः ५ (पातालखण्डः) — Adhyāya 87
सप्ताशीतितमोऽध्यायः ।
सूतउवाच-
इति तस्य वचः श्रुत्वा नारदस्य स भूपतिः ।
प्रणम्य विस्मितः प्राह चिन्तयन्मनसा हरिम् १।
अंबरीष उवाच-
कथमेतद्विमुह्यामः स्वल्पायासेन वै मुने ।
प्राप्यते स्नानमात्रेण फलं चैवातिदुर्ल्लभम् २।
नारद उवाच-
सत्यमुक्तं त्वया राजन्नल्पायासेन यन्महत् ।
फलं संप्राप्यते तत्र श्रद्धत्स्व विधिभाषितम् ३।
धर्मस्य गतयः सूक्ष्मा दुर्ज्ञेया हीश्वरैरपि ।
मुह्यंते चात्र विद्वांसोऽचिंत्यशक्ति हरेः कृतौ ४।
विश्वामित्रादयो राजन्धर्माधिक्येन बाहुजाः ।
ब्राह्मण्यं समुपायाताः सूक्ष्मा धर्मगतिस्त्वतः ५।
अजामिलोऽपि भूपाल दासीपतिरिति श्रुतः ।
धर्मपत्नीपरित्यागी नित्यं पापपथिस्थितः ६।
म्रियमाणः सुतस्नेहात्प्रोच्य नारायणेति च ।
तद्ध्याननामग्रहणात्पदं लेभे सुदुर्ल्लभम् ७।
अनिच्छयापि दहति स्पृष्टो हुतवहो यथा ।
तथा दहति गोविंद नामव्याजादपीरितम् ८।
कानीनस्य मुनेः पौत्रा भ्रातृजायाभिगामिनः ।
गोलकस्य च वै पंडोः पुत्राः कुंडाः स्वयं तथा ९।
ते पंचापि च भूपाल पांडवा द्रौपदीरताः ।
तेषां च पुण्यश्लोकत्वं सूक्ष्माधर्मगतिस्ततः १०।
विचित्राणि च कर्माणि विचित्रा भूतभावनाः ।
विचित्राणि च भूता निविचित्राः कर्मशक्तयः ११।
कदाचित्सुकृतं कर्म कूटस्थं यदवस्थितम् ।
केनचित्कर्मणा भूप शुभेन परिवर्धते १२।
फलं ददाति सुमहत्कस्मिन्नपि च जन्मनि ।
सूक्ष्मो धर्मोऽतिगहनो मीयते न यथा तथा १३।
नैतस्य फलदानस्य श्रूयते भूपनिश्चयः ।
यत्किंचित्सुकृतं कर्मच्छन्नं पापांतरैरपि १४।
तदागत्य कुतः क्वापि स्वं फलं च प्रयच्छति ।
कृतस्य नेह नाशोऽस्ति पुण्यस्य दुरितस्य च १५।
तथापि बहुभिः पुण्यैर्दुरितं याति दारुणम् ।
यदुक्तं भवता राजन्नायासाधिक्यतो भवेत् १६।
महत्पुण्यं च तत्रापि कारणं मे निशामय ।
स्वल्पायासमहायासौ यद्यल्पत्व महत्त्वयोः १७।
महापुण्यास्ततस्ते स्युः संततं कर्षकादयः ।
मंत्रोच्चारं च सिंहादेरायासं बहुलं त्वतः १८।
पंचगव्यं प्रशस्तं हि व्रतांगत्वेन नो भवेत् ।
इति कर्तव्यबाहुल्यं महत्त्वं च तदल्पता १९।
जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतांतरात् ।
इदमल्पं महच्चैतदिति नैव नियामकम् २०।
फलं यच्चोदितं शास्त्रे तदेव स्यान्महन्नृप ।
यथाल्पनाशो महता महन्नाशस्तथाल्पतः २१।
किं त्वल्पविस्फुलिंगेन तृणराशिः प्रदह्यते २२।
हत्यायुतं पापसहस्रमुग्रं गुर्वंगनाकोटिनिषेवणं च ।
स्तेयादि पापानि च कृष्णभक्तैरज्ञानजातानि लयं ह्रियंते २३।
विष्णुभक्तिमतावीर यत्किंचित्क्रियतेऽल्पकम् ।
सुकृतं साधुविदुषा तदक्षयफलं लभेत् २४।
संदेहो नात्र कर्त्तव्यो माधवेमासि माधवम् ।
समाराध्य नरो भक्त्या तत्तद्वांच्छितमाप्नुयात् २५।
अपत्यं द्रविणं रत्नं दाराहर्म्यं हया गजाः ।
सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः २६।
एवं शास्त्रोक्तविधिना स्वल्पेनापि न संशयः ।
पापस्य महतोऽपि स्यात्क्षयो वृद्धिः सुकर्मणः २७।
फलाधिक्यं भवेद्भूप त्वाधिक्याद्भावकर्मणोः ।
सूक्ष्मा धर्मस्य विज्ञेया गतिस्तु विविधैरपि २८।
प्रियो माधवमासोऽयं माधवस्य महात्मनः ।
एकोप्यनुष्ठितो लोकैः समग्रेप्सितदायकः २९।
पुण्येन गांगेन जलेन काले देशेऽपि यः स्नानपरोऽपि भूप ।
आजन्मतो भावहतोऽपि दाता न शुद्धिमेतीति मतं ममैतत् ३०।
गंगादितीर्थेषु वसंति जीवा देवालये पक्षिगणाश्च नित्यम् ।
विनाशमायांति कृतोपवासा भावोज्झिता नैव गतिं लभंते ३१।
भावं ततो हृत्कमले निधाय श्रीमाधवं माधवमासि भक्त्या ।
यजेत यः स्नानपरो विशुद्धः पुण्यं न शक्ता वयमस्य वक्तुम् ३२।
प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं स्वकाले ।
प्रविश्य दग्धः किल भावदुष्टो न स्वर्गमाप्नोति फलं न चान्यत् ३३।
श्रद्धत्स्वभूप तस्मात्त्वं माधवस्य फलं प्रति ।
स्वल्पं चापि शुभं कर्म विकर्मशतनाशनम् ३४।
यथा हरेर्नामभयेन भूप नश्यंति सर्वे दुरितस्य वृंदाः ।
नूनं रवौ मेषगते विभाते स्नानेन तीर्थे च हरिस्तवेन ३५।
तेजसा वैनतेयस्य पाप्मानः पन्नगा इव ।
विद्रवंति च वैशाखस्नानेनोषसि निश्चितम् ३६।
गंगायां नर्मदायां वा स्नात्वा मेषगते रवौ ।
पापप्रशमनस्तोत्रं यः पठेद्भक्तिभावतः ३७।
एककालं द्विकालं वा त्रिसंध्यमपि भूपते ।
स याति परमं स्थानं सर्वपापविवर्जितः ३८।
अंबरीष महत्पुण्यप्राप्तये कुरु वीक्षणम् ।
माधवेमासि वै स्नानं प्रातर्नियमसंस्थितः ३९।
यदानर्त्तपुरे प्रोक्तं वसतां वर्षकोटिभिः ।
तत्प्रातर्माधवे मासि स्नानेनैकेन लभ्यते ४०।
इहार्थे यत्पुरावृत्तं तदाकर्णय भूपते ।
भार्यया सह संवादं देवशर्मद्विजन्मनः ४१।
रेवातीरे सुपुण्ये च तीर्थे चामरकंटके ।
कौशिकस्य सुतो जातो देवशर्मा द्विजोत्तमः ४२।
धनपुत्रविहीनस्तु बहुदुःखसमन्वितः ।
दारिद्रेण सुदुःखेन सर्वदैवप्रपीडितः ४३।
पुत्रोपायं धनस्यापि दिवारात्रौ प्रचिंतयेत् ।
एकदा तु प्रिया तस्य सुमना नाम सुव्रता ४४।
भर्तारं चिंतयोपेतमधोमुखमलक्षयत् ।
समालोक्य तदा कांतं तमुवाच यशस्विनी ४५।
दुःखजालैरसंख्यैस्तु तव चित्तं प्रकर्षितम् ।
व्यामोहेन प्रमूढोसि त्यज चिंतां महामते ४६।
मम दुःखं समाचक्ष्व स्वस्थो भव सुखं व्रज ।
नास्ति चिंतासमं दुःखं कायशोषणमेव हि ४७।
तां संत्यज्य प्रवर्तेत स सुखेन प्रमोदते ।
चिंतायाः कारणं विप्र कथयस्व मम प्रभो ४८।
नारद उवाच-।
प्रियावाक्यं स संश्रुत्य देवशर्मा महामतिः ।
उवाच वचनं प्रीतो दुःखितोऽपि सतीसखः ४९।
देवशर्मोवाच-।
यत्त्वया चिंतितं भद्रे किंचिद्दुःखस्य कारणम् ।
तत्सर्वं तु प्रवक्ष्यामि श्रुत्वा चैवावधार्यताम् ५०।
न जाने केन पापेन धनहीनोऽस्मि सुव्रते ।
तथा पुत्रविहीनोऽस्मि एतद्दुःखस्य कारणम् ५१।
सुमनोवाच-।
श्रूयतामभिधास्यामि सर्वसंदेहनाशनम् ।
स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनम् ५२।
संतोष एव परमं पुण्यं सौख्यादिकारणम् ।
असंतोषः परं पापमित्याह भगवान्हरिः ५३।
लोभः पापस्य बीजोऽयं मोहो मूलं च तस्य वै ।
असत्यं तस्य हि स्कंधो महाशाखा सुविस्तरात् ५४।
मदकौटिल्य पत्राणि कुबुद्ध्या पुष्पितः सदा ।
अनृतं तस्य सौगंध्यमज्ञानं फलमेव च ५५।
कुड्यं पाषंडचौराश्च क्रूराः कूटाश्च पापिनः ।
पक्षिणो मोहवृक्षस्य महाशाखासमाश्रिताः ५६।
अज्ञानं सुफलं तस्य रसो धर्मं फलस्य हि ।
भावोदकेन संवृद्धिस्तस्य श्रद्धा क्रतु प्रिया ५७।
अधर्मेषु रसस्तस्य उत्क्लेदैर्मधुरायते ।
तादृशैश्च फलैश्चैवसफलो लोभपादपः ५८।
तस्यच्छायां समाश्रित्य यो नरः परिवर्तते ।
फलानि तस्य सोऽश्नाति स्वपक्वानि दिनेदिने ५९।
फलानां च रसेनापि अधर्मेण तु पोषितः ।
स संपुष्टो भवेन्मर्त्यः पतनाय प्रयच्छति ६०।
तस्माच्चिंतां परिश्रित्य स्वामि लोभं न कारयेत् ।
धनपुत्रकलत्राणां चिंतामेतां न कारयेत् ६१।
यो हि विद्वान्नचेत्कांत मूर्खाणां पथमेव हि ।
मृषा चिंतयते नित्यं दिवारात्रौ विमोहितः ६२।
शुभार्थं च प्रविंदामि कथं पुत्रानहं लभे ।
एवं चिंतयते नित्यं दिवारात्रौ विमोहितः ६३।
क्षणमेकं प्रपश्येत्स चिंतामध्ये महत्सुखम् ।
पुनश्चैतन्यमायाति महादुःखेन पीड्यते ६४।
चिंतामोहौ परित्यज्य अनुवर्तस्व तं द्विज ।
संसारे नास्ति संबंधः केन सार्धं महामते ६५।
मित्राश्च बांधवाः पुत्राः पितामाता सुतास्तथा ।
स्वसंबंधा भवंत्येते कलत्रादि तथैव च ६६।
देवशर्मोवाच-।
संबंधः कीदृशो भद्रे तन्मे विस्तरतो वद ।
येन जायंति ते सर्वे धनपुत्रादि बांधवाः ६७।
सुमनोवाच-।
भर्तः पंचविधाः पुत्रा जायंते तान्वदाम्यहम् ।
न्यासापहारकं चैकमृणसंबंधिनं परम् ६८।
रिपुं लभ्यमुदासीनमिति कांत भवंति ते ।
लक्षणानि प्रवक्ष्यामि तेषामीश पृथक्पृथक् ६९।
पुत्रा मित्राः प्रिया भार्या पिता माता च बांधवाः ।
स्वेनस्वेन हि जायंते संबंधेन महीतले ७०।
न्यासापहारभावेन यस्य येन हृतं भुवि ।
न्यासस्वामी भवेत्पुत्रो गुणवान्रूपवान्भुवि ७१।
येन ह्यपहृतं न्यासं तस्य गेहे न संशयः ।
न्यासापहारणं दुःखं स दत्त्वा दारुणं गतः ७२।
न्यासस्वामी सुपुत्रोऽभून्न्यासापहारकस्य च ।
गुणवान्रूपवांश्चैव सर्वलक्षणसंयुतः ७३।
भक्तिं च दर्शयेत्तस्य पुत्रो भूत्वा दिनेदिने ।
प्रियवाङ्मधुरोवाग्मी बहुस्नेहं विदर्शयेत् ७४।
स्वीयं द्रव्यं समुद्ग्राह्य प्रीतिमुत्पाद्य चातुलाम् ।
यथा तेन प्रदत्तं तन्न्यासापहरणात्परम् ७५।
दुःखमेवं महाभाग दारुणं प्राणनाशनम् ।
तादृशं तस्य सो दद्यात्पुत्रो भूत्वा महागुणः ७६।
अल्पायुषस्तथा भूत्वा मरणं चोपगच्छति ।
दुःखं दत्वा प्रयात्येवं प्रहृत्यैवं पुनःपुनः ७७।
यदाह पुत्रपुत्रेति प्रलापं हि करोति यः ।
तदा हास्यं करोत्येष कस्तु पुत्रो हि कस्य च ७८।
अनेनापहृतं न्यासं मदीयं पापचारिणा ।
द्रव्यापहारणेनापि मम प्राणागताः किल ७९।
दुःखेन महता चैव असह्येन च वै पुरा ।
तदा दुःखं मया दत्वाद्रव्यमुद्ग्राह्यमुत्तमम् ८०।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये सप्ताशीतितमोऽध्यायः ८७।
खण्डः ५ (पातालखण्डः) — Adhyāya 88
सुमनोवाच-
ऋणसंबंधिनं पुत्रं प्रवक्ष्यामि तवाग्रतः ।
ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल १।
अर्थदाता सुतो भूत्वा भ्रातावाथ पिता प्रिया ।
मित्ररूपेण वर्तेत अंतर्दुष्टः सदैव सः २।
गुणं नैव प्रपश्येत स क्रूरो निष्ठुराकृतिः ।
जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च ३।
मिष्टं मिष्टं समश्नाति भोगान्भुंजति नित्यशः ।
द्यूतकर्मरतो नित्यं चौरकर्मणि सस्पृहः ४।
गृहाद्द्रव्यं चोरयति वार्यमाणः स कुप्यति ।
पितरं मातरं चैव कुत्सते च दिनेदिने ७।
एवं संक्षीयते द्रव्यमेवमेतद्वदत्यपि ।
गृहं क्षेत्रादिकं सर्वं ममैव हि न संशयः ८।
पितरं मातरं चैव हिनस्त्येव दिने दिने ।
सुदंडैर्मुशलैश्चैव केशोत्पाटैश्च दारुणैः ९।
मृते तु तस्मिन्पितरि मातरि चातिनिष्ठुरः ।
निःस्नेहो निष्ठुरश्चैव जायते नात्र संशयः १०।
श्राद्धकार्याणि दानानि न करोति सदैव सः ।
एवंविधाः प्रियाः पुत्रा भवंति च महीपते ११।
रिपुं पुत्रं प्रवक्ष्यामि तवाग्रे द्विजसत्तम ।
बाल्येवयसि संप्राप्ते पुत्रत्वे वर्तते सदा १२।
पितरं मातरं चैव क्रीडमानो हि ताडयेत् ।
ताडयित्वा प्रयात्येवं प्रहस्यैवं पुनः पुनः १३।
पुनरायाति तं तत्र पितरं मातरं पुनः ।
सक्रोधो वर्तते नित्यं कुत्सते च दिनेदिने १४।
एवं संवर्तते नित्यं वैरकर्मणि संपदा ।
पितरं ताडयित्वा च मातरं च ततः पुनः १५।
प्रयात्येवं स दुष्टात्मा पूर्ववैरानुभावतः ।
अथातः संप्रवक्ष्यामि यथालभ्यं भवेत्प्रियम् १६।
जातमात्रं प्रियं कुर्याद्बाल्ये क्रीडनताडनैः ।
वयः प्राप्य प्रियं कुर्यान्मातृपित्रोरनंतरम् १७।
भक्त्या संतोषयेन्नित्यं तावुभौ परितोषयेत् ।
स्नेहेन वचसा चैव प्रियसंभाषणेन च १८।
मृतौ गुरू समाज्ञाय स्नेहेन रुदते पुनः ।
श्राद्धकर्माणि सर्वाणि पिंडदानादिकां क्रियाम् १९।
करोत्येवसुदुःखार्तस्तेभ्यो यात्रां प्रयच्छति ।
ऋणत्रयान्वितः स्नेहान्मोचयेद्यस्तु निश्चितः २०।
यस्माल्लभ्यं भवेत्कांत प्रयच्छति न संशयः ।
पुत्रो भूत्वा महाप्राज्ञ अनेनविधिना किल २१।
उदासीनं प्रवक्ष्यामि तवाग्रे प्रिय सांप्रतम् ।
उदासीनेन भावेन सदैव परिवर्तते २२।
ददाति नैव गृह्णाति न च कुप्यति तुष्यति ।
नो वा प्रयाति संत्यज्य उदासीनो द्विजोत्तम २३।
भृत्याश्चापि समाख्याताः पशवस्तुरगास्तथा ।
गजा महिष्यो दास्यश्च ऋणसंबंधिनस्त्वमी २४।
गृहीतमाययैकेन आवाभ्यां तु न कस्य हि ।
न्यासमेवं न कस्यापि कृतं वै पूर्वजन्मनि २५।
राधयामि न कस्यापि क्षणं कांत शृणुष्व हि ।
न वैरमस्ति केनापि पूर्वजन्मनि वै कृतम् २६।
आबाल्येन तु विप्रेंद्र न च त्यक्तो मया पतिः ।
एवं ज्ञात्वा शमं गच्छ त्यज चिंतामनर्थिकीम् २७।
हृतं नैव च कस्यापि नैव दत्तं त्वया पुनः ।
कथं ते धनमायाति विस्मयं व्रज मा विभो २८।
प्राप्तमेव हि यत्रैव रक्षितुश्च न तिष्ठति ।
एवं ज्ञात्वा शमं गच्छ त्यज चिंतामनर्थिकीम् २९।
कस्य पुत्राः प्रिया भार्या कस्य स्वजनबांधवाः ।
कः कस्य नास्ति संसारे न संबंधो द्विजोत्तम ३०।
मायामोहेन संमूढा मानवाः पापचेतनाः ।
इदं गृहमयं पुत्र इयं भार्या ममैव हि ३१।
अनृतं दृश्यते कांत संसारस्य हि बंधनम् ३२।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये अष्टाशीतितमोऽध्यायः ८८।
खण्डः ५ (पातालखण्डः) — Adhyāya 89
एकोननवतितमोऽध्यायः 5.89
नारद उवाच-
एवं संबोधितो विप्रो देवशर्मा द्विजोत्तमः ।
पुनः प्राह प्रियां भार्यां सहितां ज्ञानवादिनीम् १।
सत्यमुक्तं त्वया भद्रे सर्वसंदेहनाशनम् ।
तथा हि वंशमिच्छंति साधवः सत्यपंडिताः २।
यथा पुत्रस्य चिंता मे न धनस्य तथा प्रिये ।
येनकेनाप्युपायेन पुत्रमुत्पादयाम्यहम् ३।
सुमनोवाच-
पुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलम् ।
सुपुत्रेण महाभाग पितामाता प्रजीवतः ४।
एकः पुत्रो वरः कांत बहुभिर्निर्गुणैस्तु किम् ।
एकस्तारयते वंशमन्ये संतापकारकाः ५।
पूर्वमेव मया प्रोक्तमन्ये संबंधभागिनः ।
पुण्येन प्राप्यते पुत्रः पुण्येन प्राप्यते कुलम् ६।
सुगर्भः प्राप्यते पुण्यैर्दुर्मृत्युः पातकैस्तथा ।
सुखानां निचयं कांत सत्यमेव वदाम्यहम् ७।
ब्रह्मचर्येण सत्येन तपसा नित्यवर्तनैः ।
दानेन नियमैश्चापि क्षमा शौचेन वल्लभ ८।
अहिंसया च शक्त्या वाऽस्तेयेनापि प्रवर्तते ।
एतैर्दशभिरंगैश्च धर्ममेवं प्रसूयते ९।
संपूर्णो जायते धर्म अंगैर्गर्भो यथोदरे ।
धर्मं सृजति धर्मात्मा त्रिविधेनैव कर्मणा १०।
तस्य धर्मः प्रसन्नात्मा पुण्य सौख्यं प्रयच्छति ।
यंयं चिंतयते प्राज्ञस्तंतं प्राप्नोति दुर्लभम् ११।
देवशर्म्मोवाच-
सर्वं देवि समाख्यातं धर्माख्यं ज्ञानमुत्तमम् ।
कथं पुत्रमहं विंद्यां वैष्णवं गुणसंयुतम् १२।
वद त्वं मे महाभागे यदि जानासि सुव्रते ।
धर्ममार्गस्त्वया सर्व्वः पितुः प्राप्तः पुरानघे १३।
ममैतद्विदितं कांते भवती ब्रह्मवादिनी ।
च्यवनस्य प्रसादेन विष्णोस्तुष्टस्य ते पुरा १४।
सुमनोवाच-
वसिष्ठं गच्छ धर्मज्ञ तं प्रार्थय महामुनिम् ।
तस्मात्प्राप्स्यसि तं पुत्रं धर्मज्ञं धर्मवत्सलम् १५।
एवमुक्ते तया वाक्ये देवशर्मा द्विजोत्तमः ।
करिष्ये तव कल्याणि मतमेवं न संशयः १६।
एवमुक्त्वा जगामासौ देवशर्मा द्विजोत्तमः ।
वसिष्ठं सर्ववेत्तारं दीप्यंतं तपतां वरम् १७।
गंगातीरे स्थितं पुण्यमासनस्थं द्विजोत्तमम् ।
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम् १८।
राजमानं महात्मानं ब्रह्मसिंहं द्विजोत्तमम् ।
भक्त्या प्रणम्य स मुनिं दंडवत्तं पुनःपुनः १९।
तमुवाच महातेजा ब्रह्मसूनुरकल्मषम् ।
उपविशासने पुण्ये सुखेन सुमहामते २०।
नारद उवाच-
उपविष्टः स योगींद्र पुनः प्राह तपोधनम् ।
गृहे पुरुष ते वत्स दारभृत्येषु सर्वदा २१।
क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु ।
निरामयोऽसि चांगेषु धर्मं पालयसे सदा २२।
एवमुक्त्वा महाप्राज्ञः पुनः प्राह महीसुरम् ।
किं करोमि प्रियं कामं सुप्रियं ते द्विजोत्तम २३।
नारद उवाच-
एवं संभाष्य तं विप्रं विरराम शुभं वचः ।
ततो विप्रो महाभागो वसिष्ठं मुनिपुंगवम् २४।
स होवाच महात्मानं वसिष्ठं तपतां वरम् ।
भगवञ्छ्रूयतां वाक्यं विच्छेदय द्विजोत्तम २५।
दारिद्र्यं केन भावेन पुत्रसौख्यं कथं नहि ।
एतन्मे संशयं तात कस्मात्पापाद्वदस्व मे २६।
महामोहेन संमुग्धः प्रियया बोधितो द्विज ।
तयाहं प्रेषितस्तात तव पार्श्वं समागतः २७।
तत्सर्वं हि समाचक्ष्व सर्वसंदेहनाशकम् ।
मुक्तिदाता भव स्वत्वं ममसंसारबंधनात् २८।
वसिष्ठ उवाच-
पुत्रा मित्रास्तथा भ्राता अन्ये स्वजनबांधवाः ।
पंचभेदास्तु संबंधाः पुरुषस्य भवंति ते २९।
तेते सुमनसा प्रोक्ताः पूर्वमेव तवाग्रतः ।
ऋणसंबंधिनः सर्वे ते कुपुत्रा द्विजोत्तम ३०।
पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् ।
पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा ३१।
शुद्धिमाञ्ज्ञानसंपन्नस्तपस्वी वाग्विदां वरः ।
सर्वकर्मसुसंवीतो वेदाध्ययनतत्परः ३२।
सर्वशास्त्रप्रवेदी च देवब्राह्मणपूजकः ।
याज्ञिकः सर्वयज्ञानां दाता त्यागी प्रियंवदः ३३।
विष्णुध्यानपरो नित्यं शांतोदांतः सुहृत्सदा ।
पितृमातृपरो नित्यं सर्वस्वजनवत्सलः ३४।
कुलस्य तारको विद्वान्स्वकुलं परिपोषकः ।
एवंगुणैस्तु संयुक्तः सुपुत्रः सुखदायकः ३५।
अन्ये संबंधयुक्ताश्च शोकसंतापकारकाः ।
उदासीनेन किं कार्यं फलहीनेन तेऽनघ ३६।
आयांति यांति ते सर्वे दुःखं दत्वा सुदारुणम् ।
पुत्ररूपेण ते सर्वे संसारे द्विजसत्तम ३७।
पूर्वजन्मकृतं कर्म यत्त्वया परिपालितम् ।
तत्सर्वं हि प्रवक्ष्यामि श्रूयतामद्भुतं पुनः ३८।
भवाञ्छूद्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा ।
कृषिकर्त्ता ज्ञानहीनो महालोभेन संयुतः ३९।
एकभार्यः सदा द्वेषी बहुपुत्रो ह्यदत्तवान् ।
धर्मं नैव विजानासि सत्यं च परिनिष्ठितम् ४०।
दानं नैव त्वया दत्तं शास्त्रं नैव परिश्रुतम् ।
कृतं नैव त्वया तीर्थं न च यात्रा महामते ४१।
एवं कृतस्त्वया विप्र कृषिमार्गः पुनःपुनः ।
पशूनां पालनं पूर्वंग च्छंश्चैव द्विजोत्तम ४२।
महिषीणां तथाश्वीनां पालनं च पुनःपुनः ।
एवं पूर्वं कृतं कर्म त्वयैव च द्विजोत्तम ४३।
विपुलं तु धनं तद्वल्लोभेन परिसंचितम् ।
तस्य व्ययस्तु पुण्येन न कृतस्तु त्वया कदा ४४।
पात्रे दानं न दत्तं हि दृष्ट्वा वा दुर्बलं च तत् ।
कृषिं कृत्वा न दत्तं तु भवता धनमेव हि ४५।
गोमयं हि त्विदं सर्वं पशूनां संचयं च वै ।
विक्रयित्वा धनं विप्र संचितं विपुलं त्वया ४६।
तक्रं घृतं तथा क्षीरं विक्रीतं सततं दधि ।
दुष्कालश्चिंतितो विप्र मोहितो विष्णुमायया ४७।
कृत्वा महार्घमेवैतद्धनं ब्राह्मणसत्तम ।
निर्दयेन त्वया दानं न दत्तं तु तदा किल ४८।
देवानां पूजनं विप्र भवता न कृतं सदा ।
पर्वाणि प्राप्य विप्रेभ्यो द्रव्यं नैव समर्पितम् ४९।
श्राद्धकालं च संप्राप्य श्रद्धया न कृतं त्वया ।
भार्या वदति ते साध्वी दिनमध्ये समागते ५०।
श्वशुरश्राद्धकालश्च श्वश्र्वाश्चैव महामते ।
तच्छ्रुत्वा तद्वचस्तेषां गृहं त्यक्त्वा पलायसे ५१।
धर्ममार्गो न दृष्टो हि श्रुतो नैव कदा त्वया ।
लोभो मातापिता भ्राता लोभः स्वजनबांधवाः ५२।
पालितो लोभ एवैकस्त्यक्त्वा धर्मं सदैव हि ।
तस्माद्दुःखी भवाञ्जातो दारिद्रेणाति पीडितः ५३।
दिनेदिने महातृष्णा हृदये ते प्रवर्त्तते ।
यदायदा गृहे द्रव्यं वृद्धिमायाति ते सदा ५४।
तृष्णया दह्यमानस्तु तदा त्वं वह्निरूपया ।
रात्रौ वा त्वं प्रसुप्तस्तु लोभं चिंतयसेऽधिकम् ५५।
दिनं प्राप्य महामोहैर्व्यापितो हि सदैव हि ।
सहस्रं लक्षतः कोटिः कदावार्बुदमेव च ५६।
भविष्यति कदा खर्वो निखर्वश्चाथ मे गृहे ।
एवं सहस्रलक्षं च कोटिरर्बुदमेव च ५७।
खर्वो निखर्वः संजातस्तृष्णा नैव प्रगच्छति ।
एवं कालं परित्यज्य वृद्धिमायाति सर्वदा ५८।
नैव दत्तं हुतं विप्र भुक्तं नैव कदा त्वया ।
निश्चितं भूमिमध्ये तत्क्षिप्तं पुत्रानजानते ५९।
अन्यमेवमुपायं तु द्रव्यागमनकारणात् ।
कुरुषे सर्वदा विप्र लोकान्पृच्छसि बुद्धिमान् ६०।
खनित्रमंजनं वादं धातुवादमतःपरम् ।
पृच्छमानो भ्रमस्येकस्तृष्णया परिमोहितः ६१।
सर्वांश्चिंतयसे नित्यं कल्पान्सिद्धि प्रदायकान् ।
प्रवेशं चित्रवर्णानां चिंतामणिं च पृच्छसि ६२।
तृष्णानलेनदग्धोसि सुखं नैव प्रगच्छसि ।
तृष्णानलप्रदीप्तोसि हाहाभूतोऽप्रचेतनः ६३।
एवंभूतोसि विप्रेंद्र गतस्त्वं कालवश्यताम् ।
दारपुत्रेषु तद्द्रव्यं पृच्छमानेषु वै त्वया ६४।
कथितं नैव तद्दत्तं प्राणांस्त्यक्त्वा गतो यमम् ।
एवं सर्वंम याख्यातं वृत्तांतं तव पूर्वकम् ६५।
अनेन कर्मणा विप्र निर्धनोसि दरिद्रवान् ।
संसारे यस्य सत्पुत्रा भक्तिमंतः सदैव हि ६६।
सुशीला ज्ञानसंपन्नाः सत्यधर्मरताः सदा ।
संभवंति गृहे तस्य यस्य विष्णुः प्रसीदति ६७।
धनं धान्यं कलत्रं तु पुत्रपौत्रमनंतकम् ।
सभुंक्ते मर्त्यलोके वै यस्य विष्णुः प्रसन्नवान् ६८।
विना विष्णोः प्रसादेन दाराः पुत्रा भवंति न ।
सुजन्म च कुले विप्र तद्विष्णोः परमं पदम् ६९।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये देवशर्मोपाख्याने एकोननवतितमोऽध्यायः ८९।
खण्डः ५ (पातालखण्डः) — Adhyāya 90
देवशर्मोवाच-
पूर्वजन्मकृतं पापं त्वयाख्यातं ममैव तत् ।
शूद्रत्वेन हि विप्रेंद्र मयैवं धनमर्जितम् १।
विप्रत्वं हि मया प्राप्तं तत्कथं द्विजसत्तम ।
तत्सर्वं कारणं ब्रूहि ज्ञानविज्ञानपंडित २।
दुर्ल्लभं भारते वर्षे जन्म तस्मान्मनुष्यता ।
मानुष्ये ब्राह्मणत्वं च सुतरां सत्कुलोदितम् ३।
तत्रापीदृग्विधा भार्या सर्वज्ञा प्रियवादिनी ।
सती सर्वगुणोपेता दुर्लभा सा कुतोऽभवत् ४।
वसिष्ठ उवाच-।
यत्त्वया चेष्टितं पूर्वं धर्मकर्मकृतं द्विज ।
तदहं संप्रवक्ष्यामि श्रूयतां यदि मन्यसे ५।
ब्राह्मणैकः सुधर्मात्मा सदाचारः सुपंडितः ।
विष्णुभक्तस्तु धर्मात्मा नित्यं विष्णुपरायणः ६।
स्नानार्थमपि तीर्थानां भ्रमत्येकः स मेदिनीम् ।
अटमानः समायातस्तव गेहे महामतिः ७।
तस्य दर्शनमात्रेण समुत्पन्न सुधीस्तव ।
यतो धर्मगते गेहे सतामागमनं भवेत् ८।
किंकिं न लभ्यते विप्र विप्रवैष्णवसेवया ।
दुर्ल्लभं यच्च लोके स्यान्मोक्षस्थानमपि स्थिरम् ९।
याचितं स्थानमेकं वै वासार्थं तेन सत्तम ।
तवैव भार्यया दत्तं त्वया च सह पुत्रकैः १०।
एयतामेयतां ब्रह्मन्सुखेन च गृहे मम ।
वैष्णवं ब्राह्मणं पुण्यमित्युवाच पुनः पुनः ११।
सुखेन स्थीयतामत्र गृहोऽयं तव सुव्रत ।
अद्य धन्योऽस्म्यहं पुण्यो अद्य तीर्थमहं गतः १२।
अद्यतीर्थफलं प्राप्तं मया ते विप्र दर्शनात् ।
गवां स्थानं परं पुण्यं वासस्थानं प्रदर्शितम् १३।
अंगसंवाहनं सम्यक्पादौ चैव प्रमर्दितौ ।
क्षालितौ च पुनस्तोयैः स्नातः पादोदकेन हि १४।
सद्यो घृतं दधिक्षीरमन्यमन्यं प्रदत्तवान् ।
ब्राह्मणाय तदा तस्मै त्वं तथाऽदृष्टनोदितः १५।
एवं संतोषितो विप्रस्त्वयैव सह भार्यया ।
पुत्रैः सार्धं महाभागो वैष्णवो ज्ञानपंडितः १६।
अथ प्रभाते विमले स्नानार्थं मासि माधवे ।
गंगायां गच्छता तेन तुष्टेन दययाधिपम् १७।
वैशाखस्नानमाहात्म्यमुपदिष्टं तवाग्रतः ।
कारितस्तु यथान्यायं सभार्या तनयो भवान् १८।
यथा न वारिधि समो लोके कोपि जलाशयः ।
तथा मासो न वैशाखसदृशो माधवप्रियः १९।
तावत्पापानि तिष्ठंति निष्प्रत्यूहं कलेवरे ।
यावत्किल मलध्वंसी मासो नैति स माधवः २०।
तस्य वाक्यं समाकर्ण्य वैशाखे सेवनं कृतम् ।
तुष्टेन मनसा विप्र पूजितो मधुसूदनः २१।
अवशिष्टदिनान्येव पंचमासस्य तस्य वै ।
एकादशीं समारभ्य स्नानं च विधिवत्कृतम् २२।
ब्राह्मणस्य प्रसंगेन रेवां चानुदिने त्वया ।
प्रातःस्नानं कृतं विप्र वैशाखे मासि तावता २३।
पूजितो देवदेवेशो मधुहा परमेश्वरः ।
नैवाप्तः सकलो मासः स्नानार्थं तव पूर्वतः २४।
एवं स्नानं त्वया चीर्णमपि पंचदिनात्मकम् ।
तेन पुण्येन संगत्या ब्राह्मणस्य विशेषतः २५।
गोविंदस्य प्रसादेन त्वं तु ब्राह्मणतां गतः ।
त्वया तन्मासयोगेन प्राप्तमेतन्महत्कुलम् २६।
दुर्ल्लभं भूमिदेवानां सत्यधर्मसमन्वितम् ।
भार्यापि सुसती प्राप्ता साध्वी सर्वगुणान्विता २७।
च्यवनस्य गृहोत्पन्ना सर्वज्ञा ब्रह्मवादिनी ।
रूपमेव परं स्त्रीणां भूषणं च महामुने २८।
शीलमेव द्वितीयं च तृतीयं सत्यमेव च ।
सदार्यत्वं चतुर्थं तु पंचमं पुण्यमुत्तमम् २९।
मधुरत्वं तथा षष्ठं शुद्धत्वं सप्तमं महत् ।
बाह्यांतः सततं स्त्रीणां सर्वाभरणसप्तमम् ३०।
अष्टमं तु पतौ भावः शुश्रूषा नवमं किल ।
सहिष्णुता च दशमं रतिरेकादशं तथा ३१।
पतिव्रतत्वं विप्रेंद्र द्वादशं योषितां स्मृतम् ।
एतैः संभूषिता भार्या साध्वी ते ब्रह्मवादिनी ३२।
वैशाखस्नानयोगेन लब्धा पुण्येन सादरम् ।
किंकिं न दुर्ल्लभतरं प्राप्यते मासि माधवे ३३।
स्नानेन परमेशस्य पूजनेन यथाविधि ।
अथ मोहप्रमुग्धोसि तृष्णया व्यापितं मनः ३४।
पूर्वजन्मनि ते विप्र द्रव्यमेव प्रसंचितम् ।
न दत्तं ब्राह्मणेभ्यो हि दीनेष्वन्येषु वै त्वया ३५।
न बंधुवर्गो नो पुत्रदारेषु च कथंचन ।
म्रियमाणेन भवता लोभ एव हि चिंतितः ३६।
न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम् ।
न हि नारायणो देवो ध्यानेनाखिल पापहा ३७।
द्रव्येषु विद्यमानेषु कृपणो जायते नरः ।
अदत्वा म्रियते यस्तु ततो दुःखतरं नुकिम् ३८।
तीर्थस्नानादि तपसा कुले जन्मैव लभ्यते ।
नो दत्तेन विना विप्र किंचिदेवोपतिष्ठति ३९।
तस्य पापस्य भावेन दरिद्रत्वमुपागतम् ।
अपुत्रवान्भवाञ्जातः सततं दुःखपीडितः ४०।
वैशाखस्नानमाहात्म्यादपि पंचदिनात्मकात् ।
तदैव हरिपूजायाः संगत्या ब्राह्मणस्य च ४१।
लब्धं जन्म कुले विप्र विप्रत्वमपि दुर्ल्लभम् ।
सुपुत्रश्च कुलं विप्रं धनं धान्यं वरस्त्रियः ४२।
सुजन्ममरणं चैव सुभोगः सुखमेव च ।
सदा दानेऽधिकाबुद्धिरौदार्यं धैर्यमुत्तमम् ४३।
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः ।
नारायणस्य जायंते सिद्धयो विप्रवाञ्छिताः ४४।
ऊर्ज्जे मासि तपो मासि माधवे माधवप्रिये ।
स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनम् ४५।
विशेषेण समभ्यर्च्य दत्वा दानानि भक्तितः ।
एहिकं सुखमासाद्य जनो याति ततो हरिम् ४६।
अनेकजन्मार्जितपातकावली विलीयते माधवमज्जनेन ।
सूर्योदये विप्र यथा तमिस्रा वचः स्वयंभूरिदमादिदेश ४७।
चकार विष्णुर्विमलं विचारं मासं विधिं माधवमेकमादौ ।
यमस्य गुप्तं मनसा विचिंत्य मनुष्यलोकैर्गमितुं च नाके ४८।
तस्मादस्मिन्समायाते माधवे मासि माधवे ।
स्नात्वा पुण्यजले तीर्थे रवावनुदितेऽधुना ४९।
पूजयित्वा विधानेन मुकुंदं मधुसूदनम् ।
पुत्रपौत्रधनं श्रेयो वांछितानि सुखानि च ५०।
अनुभूय ततस्त्वंते स्वर्गमक्षयमाप्स्यसि ।
पूर्वजन्मकृतं सर्वं यत्त्वया परिचेष्टितम् ५१।
तन्मया कथितं विप्र तवाग्रे परिचेष्टितम् ।
एवं ज्ञात्वा महाभाग वैशाखे च विशेषतः ५२।
स्नात्वा सम्यग्विधानेन मधुसूदनमर्चय ।
देवमाराध्य गोविंदं नारायणमनामयम् ५३।
प्राप्स्यसि त्वं सुखं पुत्रं धनानि हरिमव्ययम् ५४।
नारद उवाच-
ब्रह्मात्मजेनापि महानुभावः स विप्रवर्यः परिबोधितो हि ।
हर्षेणयुक्तः स महानुभावो भक्त्या वसिष्ठं प्रणिपत्य तत्र ५५।
आमंत्र्य विप्रं स जगाम गेहं तां प्राह भार्यां सुमनां महर्षिः ।
सर्वं हिवृत्तं ममपूर्वचेष्टितं तेनैव विप्रेण तवप्रसादात् ५६।
भद्रे वसिष्ठेन विकाशनीतमद्यैव मोहः परिनाशितो मे ।
आराधयिष्येमधुसूदनंतुश्रीमाधवेमासिनिमज्ज्यभक्त्या ५७।
नारद उवाच-
आकर्ण्य वाक्यं परमं पवित्रं सुमंगलं मंगलहेतुमुच्चैः ।
हर्षेण युक्ता तमुवाच कांतं धन्योसि विप्रेण विबोधितस्त्वम् ५८।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये देवशर्मोपाख्याने नवतितमोऽध्यायः ९०।
खण्डः ५ (पातालखण्डः) — Adhyāya 91
नारद उवाच-।
देवशर्मा महाप्राज्ञः समं सुमनसा तया ।
तीर्थे कनखले पुण्ये गंगायामतिविश्रुते १।
वैशाखे विधिना स्नानं चक्रे मेषस्थिते रवौ ।
पूजयामास विधिवन्मधुसूदनमच्युतम् २।
यमैः सनियमैर्युक्तः शक्त्या किंचिद्ददौ ततः ।
हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रतस्थितः ३।
कृच्छ्रादि तपसा क्षामो ध्यायन्नारायणं हृदि ।
तत्र प्राप्य स वैशाखीं दत्वा मधुतिलादिकम् ४।
विप्रेभ्यो भोजनं दत्वा भक्त्या धेनुं सदक्षिणाम् ।
अच्छिद्रं प्रार्थयामास तत्र स्नानस्य भूसुरान् ५।
सापि साध्वी च सुश्रोणी पतिभक्तिपरायणा ।
पतिं शुश्रूषते नित्यं स्नात्वा संपूज्य केशवम् ६।
तौ दंपती ततो यातौ स्वगेहं साधुहर्षितम् ।
कृतकृत्यावथात्मानौ मन्यमानावसंशयम् ७।
तेन पुण्यप्रभावेण कालेन कियता किल ।
बभूवुरमितास्तस्य धनधान्यानि संपदः ८।
तनया विनयोपेताश्चत्वारः श्रुतिकोविदाः ।
धर्मज्ञा वैष्णवा नित्यं पितृमातृपरायणाः ९।
बभूवुरमितप्रज्ञाः पुरुषार्थाय बोधिताः ।
विख्याता विधितत्त्वज्ञा ब्रह्मज्ञा ब्रह्मतत्पराः १०।
समग्रगुणसंपन्नाः संप्रतिष्ठंति कीर्तयः ११।
तौ दंपती सुतसमग्रसमृद्धसौख्यं पुण्योदयं समुपयुज्य ततश्चिरेण ।
स्थानं परं परममीयतुरस्य भक्त्या श्रीमाधवे च सुकृतस्य नृपप्रसादात् १२।
यथैव माधवः साक्षाद्विद्यालक्ष्मी धवः स्मृतः ।
तथैव माधवो मासो मधुसूदनवल्लभः १३।
इदं माधवमाहात्म्यं किंचित्संक्षेपतोऽनघ ।
मया ते कथितं वीर यत्पुरा च पितुः श्रुतम् १४।
इति श्रीपद्मपुराणे पातालखंडे नारदांबरीषसंवादे वैशाखमासमाहात्म्ये एकनवतितमोऽध्यायः ९१।
खण्डः ५ (पातालखण्डः) — Adhyāya 92
सूत उवाच-।
इति तस्य वचः श्रुत्वा नारदस्य स भूपतिः ।
प्रणम्य विस्मितः प्राहचिंतयन्मनसा हरिम् १।
अंबरीष उवाच-।
कथमेतद्विमुह्यामः स्वल्पायासेन यन्मुने ।
शूद्रः पापसमाचारो लेभे ब्राह्मण्यमुत्तमम् २।
ब्राह्मण्यं दुर्ल्लभं तात सुकृतैर्विविधैरपि ।
कथं माधवमासस्य स्नानेनैवाप सोऽधमः ३।
न यज्ञदानैर्न तपोभिरुग्रैर्न पुण्यसंज्ञैरपरैरपीश ।
अस्मादृशो भूपतयोऽर्थवंतो न ते लभंतेऽवनिदैवतत्वम् ४।
स गाधिसूनुर्विविधं तपोऽपि चिरंविधायानिशमेव घोरम् ।
कृच्छ्रेण लेभे शतवर्षपूर्णैरहो कथंचिद्बहुभिः प्रयत्नैः ५।
कथं स वर्णाधम एष पापः स्वधर्महीनो धनवान दाता ।
पुण्यादनायासकृतादमुष्मादल्पादिहावाप स रामतत्त्वम् ६।
नारद उवाच-।
सत्यमुक्तं त्वया राजन्ब्राह्मण्यमतिदुर्ल्लभम् ।
तथापि गतयः सूक्ष्मा दुर्ज्ञेया धर्मतत्त्वतः ७।
विचित्राणि च कर्माणि विचित्रा भूतभावना ।
विचित्राणि च भूतानि विचित्राः कर्मशक्तयः ८।
कदाचित्सुकृतं कर्म कूटस्थं यदवापि तम् ।
केनचित्कर्मणा भूप शुभेन परिवर्धते ९।
फलं ददाति सुमहत्तस्मिन्नपि च जन्मनि ।
धर्मो गहनसूक्ष्मोऽयं नीयते न यथा तथा १०।
न तस्य फलदानस्य श्रूयते कालनिश्चयः ।
यत्किंचित्सुकृतं कर्मच्छन्नं पापांतरैरपि ११।
तदागत्य कुतः क्वापि सुफलं च प्रयच्छति ।
कृतस्य नेह नाशोस्ति पुण्यस्य दुरितस्य च १२।
तथापि बहुभिः पुण्यैर्दुरितं याति दारुणम् ।
यदुक्तं भवता राजन्नायासाधिक्यतो भवेत् १३।
तत्फलं तत्र तत्रापि शृणु सत्यं मयोदितम् ।
अनायासमहायासौ यद्यल्पत्व महत्त्वयोः १४।
महाव्रतास्ततस्ते स्युः सततं कर्मकादयः ।
सिंहव्याघ्रादिमूत्रादौ प्रयासा बहुलास्ततः १५।
पंचगव्यप्रशस्तत्वं व्रतमध्ये ततो भवेत् ।
इति कर्तव्यबाहुल्यं महत्त्वं चेत्तदल्पता १६।
जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतांतरात् ।
इदमल्पं महत्त्वं तदिति नैव नियामकः १७।
फलं यथोदितं शास्त्रे तदेव स्यान्महोदयम् ।
यथाल्पनाशो महता महन्नाशस्तथाल्पतः १८।
किंत्वल्पविस्फुलिंगेन तृणनाशः प्रदृश्यते ।
अजामिलोऽपि भूपाल दास्याः पतिरिति स्मृतः १९।
धर्मपत्नीपरित्यागी नित्यं पापपथिस्थितः ।
म्रियमाणः सुताह्वानं चक्रे नारायणेति च २०।
तथा यन्नामग्रहणात्पदं लेभे सुदुर्ल्लभम् ।
अनिच्छयापि दहति स्पृष्टो हुतवहो यथा २१।
तथा दहति गोविंदनामव्याजादपीरितम् २२।
हत्यायुतं शपनहा सहस्रमुग्रं गुर्वंगनाकोटिनिषेवणं च ।
स्तेयान्यशेषाणि हरेः प्रियेण गोविंदनाम्ना निहतानि सद्यः २३।
विष्णुभक्तिमयं वीर यत्किंचित्क्रियतेऽल्पकम् ।
सुकृतं साधु विदुषा तदक्षयफलं भवेत् २४।
संदेहो न च कर्तव्यो माधवे मासि माधवम् ।
समाराध्य जनो भक्त्या तत्तद्वांछितमाप्नुयात् २५।
अपत्यं द्रविणं दारा धरा हर्म्यं हया गजाः ।
सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः २६।
एवं शास्त्रोक्तविधिना स्वल्पेनापि न संशयः ।
पापस्य महतोऽपि स्यात्क्षयः सम्यग्विधानतः २७।
फलाधिक्यं भवेद्विद्वन्नाधिक्याद्भावकर्मणोः ।
सूक्ष्मा धर्मस्य गतयो दुर्ज्ञेया विबुधैरपि २८।
प्रियो माधवमासोऽयं माधवस्य महात्मनः ।
एकोऽपि त्रिषु लोकेषु समग्रेप्सितदायकः २९।
पुण्येन गांगेन जलेन काले देशे बुधः स्नानपरः कथंचित् ।
आजन्मनो भावहतोऽपि दाता न शुध्यतीत्येव मतं ममैतत् ३०।
प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं स्वकाले ।
प्रविश्य दग्धः किल भावदुष्टो न स्वर्गमाप्नोति फलं न चान्यत् ३१।
गंगादितीर्थेषु वसंति देवा देवालये यक्षगणाश्च नित्यम् ।
विनाशनं यांति कृतोपवासा भावोज्झितास्तेन फलं लभंते ३२।
भावं ततो हृत्कमले निधाय श्रीमाधवं माधवमासि भक्त्या ।
यजेत यः स्नानपरो विशुद्धः पुण्यं न शक्ता वयमस्य वक्तुम् ३३।
इहार्थेऽपि पुरावृत्तमाकर्णय महीपते ।
विचित्रं कथयिष्यामि फलं किमपि कर्मणाम् ३४।
तस्य माधवमासस्य प्रसादान्माधवस्य च ।
यथापि ब्राह्मणी काचित्स्वैरिण्याप शुभं फलम् ३५।
दिवोदासेति विख्यातः पुरा कांतीश्वरोऽभवत् ।
तस्यापत्यं महारत्नं नारीणामुत्तमं सदा ३६।
गुणरूपसमायुक्ता सुशीला चारुमंगला ।
दिव्यादेवीति विख्याता रूपेणाप्रतिमा भुवि ३७ (द्र. पद्मपुराण भूमिखण्ड, अध्यायः ८५.५४)।
पित्रा त्वालोकिता सा तु रूपलावण्यसंयुता ।
स तां दृष्ट्वा दिवोदासो दिव्यां देवीं सुतां तदा ३८।
कस्मै च दीयते कन्या सुवराय महात्मने ।
इति चिंतापरो भूत्वा समालोक्य नरोत्तमः ३९।
रूपदेशस्य राजानं सम्यग्ज्ञात्वा महीपतिः ।
चित्रसेनं महात्मानं समाहूय ततो नृपः ४०।
कन्यां ददौ दिवोदासश्चित्रसेनाय धीमते ।
तस्या विवाहकालस्य संप्राप्ते समये नृप ४१।
मृतोऽसौ चित्रसेनस्तु कालधर्मेण वै किल ।
दिवोदासश्च धर्मात्मा चिंतयामास भूपतिः ४२।
ब्राह्मणांश्च समाहूय पप्रच्छ नृपनंदन ।
अस्या विवाहकाले तु चित्रसेनो दिवं गतः ४३।
अस्यास्तु कीदृशं कर्म भविष्यति ब्रुवंतु मे ।
ब्राह्मण उवाच-।
विवाहो जायते राजन्कन्यायास्तु विधानतः ४४।
पतिर्मृत्युं प्रयात्येव यो वा त्यागं करोति च ।
महाधिव्याधिना भीतस्त्यागं कृत्वा प्रयाति च ४५।
प्रव्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते ।
तस्यां रजस्वलायां च अन्यः पतिर्विधीयते ४६।
विवाहं तु प्रधानेन पिता कुर्यान्न संशयः ।
एवं राजन्समादिष्टं धर्मशास्त्रे शुभैर्जनैः ४७।
विवाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाः ।
दिवोदासश्च धर्मात्मा ब्राह्मणैस्तु प्रणोदितः ४८।
विवाहार्थं महाराज मानसं कृतवान्नृप ।
पुनर्दत्ता प्रदानेन दिव्यादेवी नृपोत्तम ४९।
पुष्पसेनाय पुण्याय तस्मै राज्ञे महात्मने ।
मृत्युधर्मं गतो राजा विवाहसमयेऽपि सः ५०।
यदा यदा महाभागो दिव्यादेव्याश्च भूपतिः ।
करोति स पितोद्योगं विवाहस्यातिदुःखितः ५१।
भर्तापि म्रियते काले प्राप्तलग्नस्तदा तदा ।
एकविंशतिभर्तारः कालेकाले मृतास्ततः ५२।
ततो राजा महादुःखी संजातः ख्यातविक्रमः ।
समालोक्य तमाहूय मंत्रिभिः सह निश्चलः ५३।
स्वयंवरे महाबुद्धिं चकार पृथिवीपतिः ।
अथ तेन समाहूता राजानो विविधा नृपाः ५४।
स्वयंवरार्थं वै तस्या बहवो धर्मतत्पराः ।
तस्यास्तु रूपसंक्षुब्धा मृत्युना प्रेषिता नृपाः ५५।
संग्रामं चक्रिरे मूढा मृतास्तेऽथ परस्परम् ।
एवं तेषां क्षयो जातः क्षत्त्रियाणां नरेश्वर ५६।
दिव्यादेवी च दुःखार्ता रुरोद करुणं ततः ।
बालामालोक्य तां राजा रुदंतीं चातिदुःखिताम् ५७।
पुरोधसं च धर्मज्ञं ज्ञानवंतं तपस्विनम् ।
जातूकर्णं प्रणम्यादौ विनयान्वितकंधरः ५८।
दिवोदास उवाच-।
कथयस्व प्रसादेन किमेतस्याहि पातकम् ।
दिव्यादेव्यास्तु मे पुत्र्या यदेतच्चेष्टितं कृतम् ५९।
जातूकर्ण उवाच-।
तस्यास्तु चेष्टितं वीर दिव्यादेव्या वदाम्यहम् ।
पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु ६०।
आस्ते वाराणसी पुण्या नगरी पापनाशिनी ।
तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः ६१।
वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः ।
तस्य भार्या महाप्राज्ञ चित्रानाम सुविस्मृता ६२।
कुलाचारं परित्यज्य दुराचारेण वर्तते ।
न मन्यते हि भर्तारं रौद्रकृत्ये च वर्तते ६३।
पुण्यकार्यविहीना तु पापं चरति दुर्मतिः ।
भर्तारं भर्त्सते नित्यं स्वैरिणी कलहप्रिया ६४।
नित्यं परगृहे वास निरता भ्रमतेऽधिकम् ।
परच्छिद्रं समापश्येद्दुष्टाभूतेषु सर्वदा ६५।
साधुनिंदारता पापा बहुहास्यकरी सदा ।
कुसंगतिरता वाचा दुराचारजनप्रिया ६६।
धूर्ताधर्मजनद्वेषकरी चानृतभाषिणी ।
विज्ञायैवं सुवीरोऽस्या उपयेमे ततोऽपराम् ६७।
तया नवीनया वीरो भार्यया सहितोऽनिशम् ।
यथासुखं स बुभुजे विषयान्मनसः प्रियान् ६८।
धर्माचारेण पुण्यात्मा सत्यपुण्यमतिः सदा ।
सत्ययामितया सत्या सुमत्याराधितो बभौ ६९।
निरस्ता तेन सा चित्रा विचित्रा वरवर्णिनी ।
स्वैरिणी गुणसंसर्गधर्मविद्वेषिणी ततः ७०।
भ्रमते जारसंयुक्ता मुक्ताचारा गतत्रपा ।
सा पापरतसंयुक्ता रक्ता दूती विकर्मणि ७१।
कुशला कुट्टिनीकर्म कलासु त्वन्ययोषिताम् ।
गृहभंगमसौ चक्रे वक्रेण मनसा हिता ७२।
साध्वीं नारीं समाहूय पापवाक्यैश्च नोदयेत् ।
नर्मलोभकथाकेलि प्रत्ययोत्पत्तिहेतुभिः ७३।
मनांसि चालयेत्पापा पुरुषाणां च योषिताम् ।
साधूनां सा स्त्रियो भव्याः परेभ्यः प्रतिपादयेत् ७४।
कारयत्येव कपटं धर्मग्रामविवर्जनम् ।
एवं वर्षशतं भुक्त्वा पश्चाद्वेश्याविधिस्थिता ७५।
कालेन निधनं प्राप्ता सततं पापनिश्चया ।
जाता तव गृहे पुत्री दिव्यादेवीति सा सुता ७६।
सुंदरी रूपसंपन्ना पुरा दृष्टेन नोदिता ।
नारद उवाच-।
इति तस्य वचः श्रुत्वा दिवोदासोऽतिविस्मितः ।
उवाच राजा मधुरं जातूकर्णं मुनिं वचः ७७।
दिवोदास उवाच-।
यदीदृशी सा दुरितप्रचारा सदा दुराचाररता प्रयाता ।
कथं ममश्रीपतिदैवतस्य महाकुलीनस्य सुतानुरूपा ७८।
सुदुर्ल्लभं राजकुले विशाले लेभे च सा श्रीमतिजन्मधन्यम् ।
पुण्येन केनापि मुने पवित्रे चित्रा विचित्रेण च कर्मकर्त्री ७९।
नारद उवाच-।
इति तस्य वचः श्रुत्वा भूमिपस्य मुनिस्ततः ।
किञ्चिद्विहस्य तु प्राज्ञो वचः सूनृतमब्रवीत् ८०।
जातूकर्ण उवाच-।
चित्रा विचित्रसुरतैरथ वंचयंती प्रच्छन्नकामुकविटान्धनधीविहीनान् ।
वेश्या बभूव विषपानमितश्चरित्वा कालेन नागनगरे महति प्रसिद्धे ८१।
कोऽपि तत्र समायातः सायं विप्रः समार्दितः ।
अर्दमानो विशुद्धात्मा नगरे नागसंज्ञके ८२।
अपश्यन्नपरं स्थानं मूढश्चित्रागृहं ययौ ।
तया संमोहितोऽत्यर्थं वेश्यया दृष्टियोगतः ८३।
पादसंवाहनस्नानतांबूलासनभोजनैः ।
विलासैस्तोषितः सोऽपि खेदहीनोऽभवत्तदा ८४।
ततो विचित्रैः सुरतोपचारैरदृष्टबुद्ध्यैव तया स विप्रः ।
संसेवितोऽयं रजनीमशेषामवाहयद्भावविशेषलुब्धः ८५।
प्रातः प्रयाणाभिमुखः कथंचिदुवाच चित्रामनुरक्तचित्तः ।
संतोषितः स्वैश्चरितैः स्वकृत्यैर्वचस्तयाचैकधिया तदानीम् ८६।
ब्राह्मण उवाच-।
कार्यः प्रत्युपकारस्ते तोषितेन मया प्रिये ।
स्वदृढं च निजं दुःखं कथयाम्यविशेषतः ८७।
पुरा कथां हि वदतां विप्राणां नर्मदातटे ।
शुभं यत्सर्वपापघ्नं तदाकर्णय सादरम् ८८।
यो दिनत्रयमपि प्रयत्नतः स्नाति मेषउपयादि भास्करे ।
भास्करेऽनुदित एव माधवे मासि सोऽघनिचयैर्विमुच्यते ८९।
संपूर्णमपि वैशाखे यो बहिः स्नानमाचरेत् ।
विधिना माधवं देवमर्चयेत्सोपि पापहा ९०।
पुण्यतीर्थे विशेषेण स्नानदानक्रियादिभिः ।
महापापैर्विमुच्येत मानवो मासि माधवे ९१।
तावन्महापापचयः शरीरे शरीरिणस्तिष्ठति निर्विशंकः ।
यावन्मुदा चोषसि मेषराशिमुपागते मज्जति नो दिनेशे ९२।
एवमाकर्णितस्तेषां विप्राणां वदतां मया ।
अनेकदुरितांभोधि तरणे पोत उत्तमः ९३।
अदूरे शिवदेहा च वर्ततेऽसौ सरिद्वरा ।
तत्र स्नातुं गमिष्येऽहं तदाघौघवधाय च ९४।
यदि ते रोचते कांते विरक्तं वामनो भवेत् ।
तन्मया त्वं समागच्छ वैशाखस्नानहेतवे ९५।
अनित्यं जीवितमिदं यौवनं चातिसुंदरम् ।
हेतुर्नरकवासस्य दुर्वारश्च स नो भवेत् ९६।
आराधितस्त्वयाहं च पातितो दुरितार्णवे ।
महतामपि यत्सत्यं दुष्टस्थितशरीरिणाम् ९७।
किमत्र बहुनोक्तेन न विलंबोचितः क्षणः ।
उद्धरिष्येऽपि भवतीं विरक्तिर्यदि ते हृदि ९८।
चित्रोवाच-।
स्वामिन्न दृष्टयोगेन तव संगतिधर्मतः ।
ध्रुवं विरक्तं मच्चेतो निंद्यमेतद्भवं प्रति ९९।
नूनमेवं मया शास्त्रे श्रुतं यत्साधुसंगमः ।
अचिंत्यायै नमस्तस्यै ततो नियतायै पुनः १००।
जातूकर्ण उवाच-।
इति भाष्यततस्तेन समं चित्रा ययौ तदा ।
विद्यमानं धनं किंचिदादाय मुनिनोदिता १०१।
ततः परं सोऽपि पुनर्द्विजन्मा वैशाखमासे शिवदेहदेहम् ।
अवाप सस्नौ च दिनेशमस्यै स्नानाय सद्योऽथ ददौ दयालुः १०२।
हृदयालुरयं विप्रः स्नापयामास तां तदा ।
यथोचितविधानेन चित्रामुच्चित्रभाषिणीम् १०३।
वैशाखस्नानमाहात्म्यं तत्र शुश्राव सा मुदा ।
पठमानेषु विप्रेषु पुराणानि पृथक्पृथक् १०४।
यस्य श्रवणमात्रेण क्षीयते दुरितांधकः ।
यथा सूर्योदये नैव तिमिरौघः प्रणश्यति १०५।
सा शिवे शिवतनूजले पुनः स्नानतोऽजनिकरे विधानतः ।
स्नानतो विमलमानसोदया सूर्यकांतिरिव निर्मला बभौ १०६।
तत्र मज्जंति रेवायां सेवायां निरता हरेः ।
वैशाखे विविधा लोका लोकानंत्यमभीप्सवः १०७।
ये नर्मदायामिह शर्मदायामशुद्धकायानपि शोधयंति ।
विशेषतो माधवमासि मर्त्या भवंति मर्त्याधिपलोकलीलाः १०८।
आजन्मनोऽघस्मरणेन रेवा निहंति दृष्टा दशजन्मजं पुनः ।
स्नाता कथं चिच्छतयोनिजातं संसेविता यच्छति रुद्रलोकम् १०९।
सकलं माधवं मासं सा चित्रा नर्मदाजले ।
सस्नौ किंचिद्ददौ दानं शक्त्या विप्रेषु नित्यशः ११०।
सर्वपापहरं स्तोत्रं शृणोति श्रद्धया हरेः ।
विप्राणां तत्र पठतां संगादस्य द्विजन्मनः १११।
निमज्ज्य सा माधवमासि पूर्णे रेवाजले तत्र महीसुरेभ्यः ।
अच्छिद्रमासाद्य यथाविधानं तत्रापि चित्रापि चकार मासम् ११२।
कुटीरकं तं तु नवं विधाय सुदेवनामापि स भूमिदेवः ।
उवास रेवासलिले निमज्जंश्चित्रोपरोधादनिशं दयातः ११३।
अथ कालेन कियता कालधर्ममुपेयिवान् ।
विप्रस्तदनु सा चित्रा चिरेणैव मृता नृप ११४।
तेन माधवमासस्य सुकृतेन तदैव सा ।
पुत्री तवाभवन्नूनमदृष्ट्वा यमयातनाम् ११५।
तस्य कर्मविपाकोऽयं यदाप्तं भूपतेः कुलम् ।
वैष्णवं विशदं वीर दुष्प्राप्यं पापकर्मभिः ११६।
दिव्यादेवी वरं नाम जातं चास्यां नरोत्तम ।
यच्च दत्तवती चान्नं भोग्यसौख्यसुखानि च ११७।
ब्राह्मणाय पुरा तस्मै गणिकात्वेऽपि संगता ।
स्नात्वा च माधवे मासि किंचित्तत्रापि यद्ददौ ११८।
तस्य दानस्य सा भुंक्ते स्नानस्य च फलोदयम् ।
पिबते शीतलं तोयं मिष्टान्नं च तथानिशम् ११९।
दिव्यान्भोगान्प्रभुंजाना वर्तते च प्रभोर्गृहे ।
भुंजते विधिदत्तं च दुःखशोकादिपीडिता १२०।
यत्पुरा नरनारीणां गृहभंगरताऽभवत् ।
तस्यकर्मविपाकोऽयमस्याः किंचिदुपस्थितः १२१।
माधवस्नानमाहात्म्याद्विनैव यमयातनाम् ।
महापापापि ते वीर सुंदरी सा सुताभवत् १२२।
एतत्ते सर्वमाख्यातं तव पुत्र्या विचेष्टितम् ।
सर्वजन्मभवं वीर कर्म दुष्कर्मसंभवम् १२३।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये चित्रोपाख्याने द्विनवतितमोऽध्यायः ९२।
खण्डः ५ (पातालखण्डः) — Adhyāya 93
नारद उवाच-
जातूकर्णवचश्चित्रमेवमाकर्ण्य भूपतिः ।
तमुवाच नमस्कृत्य ज्ञानिनं मुनिमादरात् १।
दिवोदास उवाच-
कथमेषा विमुच्येत दुःखादस्मान्मुनेधुना ।
जातूकर्ण उवाच-।
कथयामि महत्पुण्यं येनेयं सुखिता भवेत् २।
अप्रकाशमपि प्रायः प्रवक्ष्यामि तवाग्रतः ।
स्वल्पमप्यद्भुतं कर्म विकर्मशतनाशनम् ३।
यथा हरेर्ध्यानबलेन पापं विनाशमायाति महत्समग्रम् ।
प्रातस्तदा माधवमासदानस्नानेन घोरं विलयं प्रयाति ४।
यथा हरेर्भीतिभयेन नागा नश्यंति सर्वे निचयास्तथैव ।
नूनं रवौ मेषगते विभाति स्नानेन तीर्थे च हरिस्तवेन ५।
तेजसा वैनतेयस्य पन्नगा इव पातकाः ।
विद्रवंति च वैशाखस्नानेनोषसि निश्चितम् ६।
तस्माद्देयापि भूपाल दिव्यादेवी पुनः स्वयम् ।
कृत्वा वैशाखश्रवणं श्रुत्वा पापहरं स्तवम् ७।
भवित्री भर्तुः संयोगसुखसंभोगभागिनी ।
सुदेवोऽपि स जातोस्ति पांड्यदेशाधिपो बली ८।
वैशाखमासि रेवायां स्नानपुण्येन भूपते ।
तस्मा एव सुतां देहि विशुद्धां स्नानतस्तथा ९।
माधवस्य पुनः स्तोत्रं श्रवणान्माधवस्य च ।
संदेहो नात्र कर्तव्यो विचित्रं पश्य भूपते १०।
इहामुत्रफलं तस्य समाख्यं पुण्यकर्मणः ।
नारद उवाच-
इत्याकर्ण्यैव मुदितो राजा तमखिलं ततः ११।
कारयामास तां पुत्रीं जातूकर्णोदितं विधिम् ।
वीरसेनेन तेनैव पांड्यदेशाधिपेन सा १२।
पुराजन्मैकसुहृदा दिव्यादेवी विवाहिता ।
बुभुजे भूरिविषयांश्चिरं सुचरितव्रता १३।
वीरेसेनेन सुहृदा पूर्वजन्मकृतेन च ।
एतत्ते किंचिदाख्यातमंबरीष समासतः १४।
वैशाखस्नानमाहात्म्यं किमन्यच्छ्रोतुमर्हसि १५।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये चित्रोपाख्याने।
त्रिनवतितमोऽध्यायः ९३।
खण्डः ५ (पातालखण्डः) — Adhyāya 94
अंबरीष उवाच-
पापप्रशमनं स्तोत्रं श्रोतुमिच्छामि तद्विभो ।
यस्य श्रवणमात्रेण पापराशिर्विलीयते १।
धन्योऽस्म्यनुगृहीतोऽस्मि श्रावितोऽस्मि शुभं विधिम् ।
विकर्मोपार्जितं यस्य श्रवणादेव हीयते २।
चित्रं किमत्र मधुसूदन दैवतस्य मासस्य पुण्यसवनैरिह माधवस्य ।
स्नानैरवश्यविहितैरघराशिनाशः स्याद्यस्य नामपठनादपि तस्य लोकः ३।
तदेव पुण्यं परमं पवित्रं हृद्यं च लोके सुकृतैकलभ्यम् ।
यदुच्यते केशवनामधेयं मन्ये मुने माधवमासि भव्यम् ४।
धन्यास्तु ते माधवमासि नाम स्मरंति येऽहो मधुसूदनस्य ।
तस्यैव मे किंचिदहो चरित्रं पुनः पवित्रं वद विश्वजन्यम् ५।
सूत उवाच-
वचः समाकर्ण्य हरिप्रियस्य प्रीतो मुनिस्तस्य नृपोत्तमस्य ।
स माधवस्नानसमुत्सुकोऽपि कथारसेनाह स माधवस्य ६।
नारद उवाच-
सत्यं महीपाल मिथो मुकुंदकथारसालापविधिर्विशुद्धः ।
त्वया समं माधवमासधर्मस्नानाधिकोऽयं हरिदैवतेन ७।
जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च ।
अहोरात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि ८।
किंचिद्वक्ष्यामि ते राजन्वैशाखस्नानजं फलम् ।
अस्मत्पितापि नो वक्तुमलं विस्तरतोऽखिलम् ९।
यत्र मज्जनमात्रेण प्रेता मुक्तिमुपागताः ।
माधवे मासि ते पापा नर्मदासलिले परे १०।
पुरातीर्थप्रसंगेन भ्रमन्कोपि महीसुरः ।
मुनिशर्मेति विख्यातो धर्मात्मा सत्यवाञ्छुचिः ११।
युक्तः शमदमाभ्यां च क्षांतिसंतोषसंयुतः ।
युक्तः स पितृकार्येषु श्रुतिस्मृतिविधानवान् १२।
युक्तो मधुरवाक्येषु संयुक्तो हरिपूजने ।
युक्तो वैष्णवसंसर्गे त्रिकालज्ञानवान्मुनिः १३।
स्वकर्मणि रतो धीरो हृदयालुः प्रियाप्रियः ।
दयालुरतिमेधावी तत्त्वविद्ब्राह्मणप्रियः १४।
माधवे मासि रेवायां स्नानार्थं प्रतिसंचरन् ।
अग्रतः पंचपुरुषान्ददर्शातीव दुःखितान् १५।
परस्परमसंसर्गकारिणः कृष्णविग्रहान् ।
वटच्छायामुपाश्रित्य समासीनानवस्थितान् १६।
पश्यंतो दिक्षु सर्वासु दुरितोद्विग्नचेतसः ।
तानालोक्य द्विजश्रेष्ठश्चिंतयामास विस्मितः १७।
अत्रैते के नरा भीता विपिने दीनचेष्टिताः ।
चौरा वा विकृताकारा दृश्यंते संगभागिनः १८।
परस्परं च भाषंतः कृशाः कृष्णवपुः श्रियः ।
यावदेवं स विप्राग्र्यो विचारयति धीरधीः १९।
तावदागम्यते सर्वे दूरस्था मुनिमादरात् ।
बद्धांजलिपुटा भूत्वा प्रणम्योचुरिति स्फुटम् २०।
पंचपुरुषा ऊचुः -
भव्यं भवंतं पुरुषोत्तमं वै विभ्राजमानं चरितेन मान्यम् ।
मन्यामहे विप्र दयालुमुख्यं वाचं समाकर्णय नोसि मैत्रः २१।
संतः प्रतिष्ठा दीनानां दैवादुद्भूतपापिनाम् ।
आर्तानामार्तिहंतारो दर्शनादेव साधवः २२।
अहं पांचालदेशीयः क्षत्रियो वीरवाहनः ।
ब्राह्मणं हतवान्मोहाच्छरेण शब्दवेधिना २३।
शिखासूत्रविहीनस्तु तिलकेन विवर्जितः ।
अटामि जगतीमेनां ब्रह्मघ्नोऽहमिति ब्रुवन् २४।
ब्रह्मघ्नायातिपापाय भिक्षा मह्यं प्रदीयताम् ।
एवं सर्वेषु तीर्थेषु भ्रमन्नत्रास्मि चागतः २५।
ब्रह्महत्या न मेद्यापि प्रयाति मुनिसत्तम ।
एवं मे वर्षमेकं हि व्यतीतं कुर्वतो विभो २६।
दह्यमानस्य पापेन शोकाकुलितचेतसः ।
चंद्रशर्मापरो विप्रो योयं संलक्ष्यते द्विज २७।
गुरुघाती स तु ब्रह्मन्मोहाकुलितमानसः ।
मोहाकुलितचित्तत्वाद्गुरुघातक उच्यते २८।
निवसन्मागधेदेशे संत्यक्तः स्वजनैस्ततः ।
दैवादसावपि मुने भ्रमन्निह समागतः २९।
शिखासूत्रविहीनस्तु विप्रलिंगविवर्जितः ।
मया पृष्टस्तु वृत्तांतं सत्यमेवावदद्द्विजः ३०।
वसता यद्गुरोर्गेहे क्रोधाकुलितचेतसा ।
महामोहगतेनापि यथा वै घातितो गुरुः ३१।
तेन पापेन दग्धोऽसौ वर्तते शोकपीडितः ।
तृतीयोऽयं पुनः स्वामिन्वेदशर्मासमाहितः ३२।
सुरापो ब्राह्मणो जातो मोहाद्वेश्याप्रसंगतः ।
पृष्टो मयायमपि मे यथावृत्तं तथाब्रवीत् ३३।
आत्मनश्चेष्टितं सर्वं मनस्तापेन पीडितः ।
निरस्तः सर्वलोकैश्च भार्याबंधुजनैरपि ३४।
तेन पापेन संलिप्तो भ्रमन्नत्रायमागतः ।
चतुर्थो विधुरो नाम वैश्योऽयं गुरुतल्पगः ३५।
मोहान्मासत्रयं यावद्वेश्याभूतां च मातरम् ।
बुभुजे स विदेहस्थां ज्ञाततत्त्वस्ततश्चरन् ३६।
दुःखितोऽभ्यागमद्भूमिं भ्रमन्निह मुने पुनः ।
पंचमोऽयं महापापी पापिसंसर्गकारकः ३७।
प्रत्यहं धनलोभेन स्तेयादिकृतवानघम् ।
वैश्योतिपातकैः क्रांतस्ततस्त्यक्तो जनैः स्वयम् ३८।
निर्विण्णमानसो दैवान्नंदनामेह संगतः ।
एवं पंचापि पापिष्ठाः स्थानमेकमुपागताः ३९।
कः कस्यापि न संपर्कं भोजनाच्छादनादिभिः ।
न करोति महाभाग विना वार्तां द्विजोत्तम ४०।
विशंत्येकासने नैव न स्वपंत्येकसंस्तरे ।
एवं दुःखसमाक्रांता नानातीर्थेषु वै गताः ४१।
नास्माकं पातकं घोरं प्रयाति मुनिसत्तम ।
दृष्ट्वा भवंतं दीप्यंतं प्रसन्नानि मनांसि नः ४२।
वदंति दुरितप्रांतं साधोस्ते पुण्यदर्शनात् ।
उपायं वद नः स्वामिन्यथा पापक्षयो हि नः ४३।
ज्ञायते करुणोऽस्माभिर्विप्र वेदार्थवित्प्रभो ।
आर्तानां मार्गमाणानां पश्चात्तापमुपेयुषाम् ४४।
मोहादवाप्तपापानां त्वमुद्धर्तासि निश्चितम् ।
नारद उवाच-
तेषामिति वचः श्रुत्वा मुनिशर्मा मुनिस्ततः ४५।
इदमाह विचार्येति करुणावरुणालयः ।
मुनिशर्मोवाच-
यूयमज्ञानतः प्राप्तपातकाः सत्यभाषिणः ४६।
अनुतापयुतास्तस्मादनुग्राह्या मयाधुना ।
शृणुध्वं मे वचः सत्यमूर्ध्वबाहुर्वदाम्यहम् ४७।
यन्मयांगिरसः पूर्वं श्रुतं मुनिसमागमे ।
दृष्टं वेदेषु शास्त्रेषु श्रुतं गुरुमुखात्तथा ४८।
विष्णुनाराधितेनादौ स्वयमुक्तं च तत्त्वतः ।
न तृप्तिरशनादन्या न गुरुर्जनकादपि ४९।
न पात्रमन्यद्विप्रेभ्यो न देवः केशवात्परः ।
न गंगया समं तीर्थं न दानं सुरभीसमम् ५०।
न गायत्र्या समं जाप्यं न द्वादश्यासमं व्रतम् ।
न भार्यया समं मित्रं न धर्मो दयया समः ५१।
न स्वातंत्र्यसमं सौख्यं गार्हस्थ्यान्नाश्रमो वरः ।
न सत्यात्परआचारो न संतोषात्परं सुखम् ५२।
न माधवसमो मासो महापापहरः परः ।
विधिनानुष्ठितो भक्त्या मधुसूदनवल्लभः ५३।
गंगादिषु च तीर्थेषु विशेषेण सुदुर्लभः ।
प्रायश्चित्तानि सर्वाणि द्वादशाब्दमुखानि च ५४।
तावद्गर्जंति पापानि यावन्नायाति माधवः ।
वैशाखमखिलं मासं यः स्नाति हरितत्परः ५५।
हरिपादसमुद्भूते सलिले विमलाशयः ।
स एव सर्वपापानां हंता दृष्टस्तु पापिभिः ५६।
निजपापौघनिष्कृत्यै वक्तव्यं तस्य किन्नरैः ५७।
मासे तु वै माधवसंज्ञकेऽस्मिन्यः स्नाति पापैः स विमुच्यते हि ।
मेषस्थिते संप्रति नर्मदायाः शर्मप्रदे वारिणि वारिताघे ५८।
दुर्लभा हि महानद्यो माधवे मासि सर्वशः ।
ततोऽपि दुर्लभा गंगा रेवा च यमुना तथा ५९।
एतासु तिसृषु प्रायः प्राप्यैकामपि सादरम् ।
यः स्नाति माधवे मासि विपापः स हरिं व्रजेत् ६०।
तस्मादहो सह मया सुकृतैकसारे वैशाखमासि च भवंत उपेत्य रेवाम् ।
मज्जंतु पातककृतो मुनिवृंदजुष्टे रेवाजले निखिलपापभयापहत्यै ६१।
एवमुक्तास्ततः सर्वे मुदिता मुनिना सह ।
जग्मुस्ते पापिनो रेवां शंसंतोऽद्भुतकारिणीम् ६२।
मुनिशर्मा ततो गच्छंस्तैस्तथानुगतो नरैः ।
ददर्श पथिसंत्रस्तान्पिशाचानष्ट भीषणान् ६३।
कुर्वंतो विविधाञ्छब्दान्भ्रमंतोऽपि ततस्ततः ।
ऊर्द्ध्वकेशोर्द्ध्वरक्तांश्च कृष्णदंतकृशोदरान् ६४।
अरण्ये कंटकाक्रांते वृक्षपानीयवर्जिते ।
सम्मुखं धावतो दृष्ट्वा भयसंविग्नमानसः ६५।
नमोनारायणायेति रक्षरक्षेति चाब्रवीत् ६६।
नारायणायेति नमोभिधानमाकर्ण्य धर्मैकनिधानमुच्चैः ।
भवांतरे ते मनसा पिशाचा ययुर्निजादृष्टवशेन लब्धाः ६७।
विनयान्वितमनसो मुनिशर्मा विलोक्य तान् ।
उवाच मधुराभाषी के यूयं विकृता नराः ६८।
किं वा केन कृतं कर्म येन प्राप्ता च वैकृतिः ।
कथमेवं विधाः सर्वे दुःखिनोऽतीव भीषणाः ६९।
प्रेता ऊचुः -
क्षुत्पिपासार्दिता नित्यं नानादुःखचयाकुलाः ।
कृतबुद्धे हृदि क्रूरा नष्टसंज्ञा विचेतसः ७०।
न जानीमो दिशः क्वापि मूढा मानवघातिनः ।
तदेतद्दुःखमाख्यातमेतदेवासुखं पुनः ७१।
प्रभातमिव संभाति भास्करोदयदर्शनात् ।
श्रुत्वा नारायणेत्युच्चैर्भाषितं तव कोमलम् ७२।
दृष्ट्वा च दर्शनं विप्र शुद्धभावं गता वयम् ।
दर्शनेनैव ते विप्र नामश्रवणतो हरेः ७३।
भवांतरमनुप्राप्ता वयं प्राप्ता दयालवः ।
विनाशयत्यपयशो बुद्धिं विशदयत्यपि ७४।
प्रतिष्ठापयति प्रायो नृणां वैष्णवदर्शनम् ।
अहं पर्युषितो नाम सूचकोऽयं द्वितीयकः ७५।
शीघ्रगो रोधकश्चान्यः पंचमोयं च लेखकः ।
षष्ठोयमिति वाग्दुष्टः सप्तमोयं विदैवतः ७६।
नित्यंयाजनकश्चायमष्टमः कष्टदायकः ।
मुनिशर्मोवाच-
प्रेतानां कर्मजातानां नामानि भवतां कुतः ७७।
किं तत्कारणमुद्दिश्य येन यूयं सनामकाः ।
प्रेता ऊचुः -
मया स्वादु सदा भुक्तं दत्तं पर्युषितं द्विजे ७८।
आज्ये सति निराज्यं च तेन पर्य्युषितोऽस्म्यहम् ।
मिथ्यामिथ्यापरच्छिद्र मर्म्मान्वेषी स्वभावतः ७९।
सूचयामास तेनासौ सूचकोऽशुचिरातुरः ।
शीघ्रं नश्यति विप्रेण याचितः क्षुभितेन वै ८०।
एतत्कारणमुद्दिश्य शीघ्रगो द्विजसत्तम ।
गृहोपरि सदा स्वादुभुक्तमेतेन पापिना ८१।
एकाकिना कुमनसा तेनासौ रोधकः स्मृतः ।
मौनेनापि स्थितो नित्यं पादेन लिखते महीम् ८२।
अस्माकमपि पापिष्ठो लेखको लोकसंगतः ।
गुणिनोयं गुणान्द्वेष्टि निर्गुणे च गुणज्ञताम् ८३।
असंज्ञे ज्ञानयोगी च वाग्दुष्टोसौ ततः स्मृतः ।
नास्तिक्यभावादनिशं पितृदैवत मानवान् ८४।
न मन्यते च सत्कर्म पापस्तेन विदैवतः ।
सदा याचनको मिथ्या मिथ्यादौर्गत्यदर्शकः ८५।
सभूतोद्वेजको लुब्धस्तेन याचनकस्त्वयम् ।
एभिः पूर्वकृतैः पापैर्भुक्त्वा नरकयातनाम् ८६।
प्रेतास्ते दर्शनादद्य पुनर्जाताः स्म सुस्थिताः ।
एतत्ते सर्वमाख्यातमात्मवृत्तांतसंभवम् ८७।
प्रश्नं च यदि ते श्रद्धा पृच्छान्यत्कथयामि ते ।
ब्राह्मण उवाच-
ये जीवा भुवि तिष्ठंति सर्वआहारमूलकाः ८८।
युष्माकमपि आहारं श्रोतुमिच्छामि तत्त्वतः ।
प्रेता ऊचुः -
शृणुष्वाहारमस्माकं सर्वसत्वविगर्हितम् ८९।
यं श्रुत्वा निंदसे ब्रह्मन्भूयोभूयश्च नित्यशः ।
श्लेष्ममूत्रपुरीषेण योषिदंगमलेन च ९०।
गृहाणित्यक्तशौचानि तानि भुंजंति तत्र वै ।
स्त्रीदग्धानि प्रकीर्णानि प्रकीर्णायस्कराणि च ९१।
कुत्सितानि मलेनापि प्रेता वै तत्र भुंजते ।
माधवं यत्र नार्चंति स्त्रीजितानि गृहाणि च ९२।
दया क्षांतिविहीनानि प्रेतास्तत्रैव भुंजते ।
यत्राभद्रा गृहे वाचः शौचहीनाश्च योषितः ९३।
कलहो यत्र सततं प्रेतास्ते तत्र भुंजते ।
न यत्र जामयो गेहे पूज्यंते न वराः स्त्रियः ९४।
यत्र दुर्जनसंसर्गस्तत्र भोक्ष्यामहे वयम् ।
न यत्र हरिसेवा वा न कथा यत्र वैष्णवी ९५।
न यत्र वैष्णवी प्रीतिः प्रेता वै तत्र भुंजते ।
येषामेवं गृहे प्रीता भुंजते तेऽपि सत्वरम् ९६।
प्रेता भवंति पापेन निजवंशविनाशकाः ।
तस्य मे जायते ब्रह्मन्वदतो भोजनं निजम् ९७।
अस्मात्पापतरं चान्यत्किंचिद्वक्तुं न शक्यते ।
निर्विण्णः प्रेतभावेन पृच्छामि त्वां दृढव्रतम् ९८।
यथा न जायते प्रेतो मुक्तिः प्रेतत्वतो यथा ।
ब्राह्मण उवाच-
एकादश्यादिभिः पुण्यैर्व्रतैरच्युतकीर्तनैः ९९।
देवतातिथिपूजाभिर्गुरुपूजादिभिस्तथा ।
आचारैः साधुचरितैः श्रुतिस्मृत्युदितैर्दिनैः १००।
एवं श्राद्धक्रियादानैर्यथाविधिविनिर्मितैः ।
दयादानदमक्षांतिशीलशिष्टाभिवादनैः १०१।
इत्येवमादिभिर्धर्मैः प्रेता न स्युः कुलेऽपि वै ।
गोविप्रतीर्थामरपर्वताग्र्य नदीनदाश्वत्थतरूननेकशः १०२।
यो वंदते बंधुजने विनीतः प्रेतो न लोके भवतीह नूनम् ।
क्रमादर्च्चयते युक्तो विशेषादपि मानवः १०३।
गंगादिपुण्यतीर्थेषु तस्य पुण्यमनंतकम् ।
नाहं वर्षसहस्रेषु वक्तुं शक्तः स्वयं विभुः १०४।
दर्शनादेव तस्यापि मुक्तः प्रेतत्वतो भवेत् ।
ऊर्जमूर्जस्वलं मासमथ दामोदरप्रियम् १०५।
तपसामुत्तमं मासं तपो माधववल्लभम् ।
वैशाखं माधवं मासं मधुसूदनदैवतम् १०६।
उत्तमं सर्वमासानां यमेकं मुनयो विदुः ।
येनैव साधनेन स्यात्सर्वं कृत्यं हि साधितम् १०७।
ब्रह्मविद्यामताभ्येति सा लक्ष्मीर्विश्वकारिणी ।
तस्या वासो यतो मासो माधवोऽसौ ततः स्मृतः १०८।
न माधवसमो देवो यथा देवेषु निश्चितम् ।
तथा मासेषु सर्वेषु न मासो माधवप्रियः १०९।
तस्य माधवमासस्य माहात्म्यमपि भक्तितः ।
श्रुत्वा विमुच्यते प्रेतयोनितः किं विधानतः ११०।
सतां संभाषणादेव पुण्यतीर्थनिषेवणात् ।
नारायणेति पठनात्तन्नामश्रवणादपि १११।
मुच्यते पातकैः सर्वैर्जनो भक्तिपरायणः ।
यतिष्ये तदहं प्रेता भवतामपि मुक्तये ११२।
परोपकारजं पुण्यं यतो न स्यान्मखैरपि ।
प्रेता यामि ततः स्नातुं रेवावारिणि माधवे ११३।
मासि मेषस्थिते भानावेतैरनुगतो नरैः ।
पंचैव ते पुनर्मोहाज्जातपातकसंचयाः ११४।
स्नातुमायांति वचसा ममैव करुणावतः ११५।
तावद्भवंतस्तु निदेशतो मे तिष्ठंतु तत्रैव वने विशोकाः ।
श्रीनर्मदावारिणि यावदेव गत्वा निजस्नानविधिं विहाय ११६।
निर्माय पुरुषानपि नाम तस्मात्कुशस्वरूपानिह नर्मदा के ।
विधानतो माधवमासि दीनान्निमज्जयामीति दया निबद्धः ११७।
एवं दिनत्रयेणैव मुक्तिर्वः प्रेतयोनितः ।
न दर्भबटुकस्नानमात्रेणैव न संशयः ११८।
नारद उवाच-
एवमुक्तस्ततस्तैस्तु प्रतीतैरपि पूजितः ।
मुनिशर्मा ययावेतैरनुयातस्तु पंचभिः ११९।
तत्र गत्वा ततः प्रातः स्नात्वा कृत्वा तथाविधिम् ।
स्नापयामास तान्प्रेतान्नामतो दर्भनिर्मितान् १२०।
स्मृताश्च मुनिना तीर्थे स्नापिता नामतस्तथा ।
प्रेताः पुण्यवता तेन सद्यो मुक्ता दिवं ययुः १२१।
ते पापिनः पंच यदैव रेवाजले निमग्ना वचसैव तस्य ।
श्रीमाधवे मासि विवर्णदेहाः सद्यः सुवर्णैकरुचो बभूवुः १२२।
पापप्रशमनं स्तोत्रं श्राविता मुनिशर्मणा ।
समक्षं सर्वलोकानां जातास्ते वरकांतयः १२३।
तत्रस्था मानवास्तांस्तु विरजान्स्नानमात्रतः ।
न स्पृशंति च राजेंद्र पापिसंसर्गशंकथा १२४।
मुनिशर्मानुरोधेन ततो धर्मप्रमाणतः ।
सद्यो दिव्याभवद्वाणी यदेते विगतैनसः १२५।
स्नातानां माधवेमासि मुकुंदहृदयात्मनाम् ।
पापप्रशमनं स्तोत्रं शृण्वतामिह सादरम् १२६।
चित्रं किमत्र या शुद्धिर्जायते पापसंचयात् ।
सर्वेषामेव पापानां प्रायश्चित्तमिदं परम् १२७।
यत्प्रातर्माधवे मासि भक्त्या तीर्थेऽवगाहनम् ।
यतः प्रेतास्तु ते पापाः स्नापिता नाममात्रतः १२८।
स्मृताः पुण्यवता तेन मोचिता मुनिशर्मणा १२९।
इत्येवमाकर्ण्य गिरं नभःस्थामत्यद्भुतामाशु ततो मनुष्याः ।
शशंसुरेतानपि पंचपुण्यान्वैशाखमासं च मुनिं च रेवाम् १३०।
अथ चाकर्ण्य भूपालः स्तवं दुरितनाशनम् ।
यदाकर्ण्य नरो भक्त्या मुच्यते पापराशिभिः १३१।
यस्य श्रवणमात्रेण पापिनः शुद्धिमागताः ।
अन्येऽपि बहवो मुक्ताः पापादज्ञानसंभवात् १३२।
परदार परद्रव्य जीवहिंसादिके यदा ।
प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा १३३।
विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः ।
नमामि विष्णुं चित्तस्थमहंकारगतं हरिम् १३४।
चित्तस्थमीशमव्यक्तमनंतमपराजितम् ।
विष्णुमीड्यमशेषाणामनादिनिधनं विभुम् १३५।
विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् ।
यच्चाहंकारको विष्णुर्यो विष्णुर्मयि संस्थितः १३६।
करोति कर्तृभूतोऽसौ स्थावरस्य चरस्य च ।
तत्पापं नाशमायाति तस्मिन्नेव हि चिंतिते १३७।
ध्यातो हरति यत्पापं स्वप्ने दृष्टस्तु भावनात् ।
तमुपेंद्रंमहं विष्णुं प्रणमामि नतिप्रियम् १३८।
जगत्यस्मिन्निरालंबे मधुसूदनमच्युतम् ।
हस्तावलंबनं स्तोत्रं विष्णुं वंदे परात्परम् १३९।
सर्वेश्वरेश्वरविभो परमात्मन्नधोक्षज ।
हृषीकेश हृषीकेश हृषीकेश नमोस्तु ते १४०।
नृसिंहानंत गोविंद भूतभावन केशव ।
दुरुक्तं दुष्कृतं ध्यातं शम पापं नमोस्तु ते १४१।
यन्मया चिंतितं दुष्टं स्वचित्तवशवर्तिना ।
अकार्य्यमघमत्युग्रं तच्छमं नय केशव १४२।
ब्रह्मण्यदेव गोविंद परमार्थपरायण ।
जगन्नाथ जगद्धातः पापं शमय मेऽच्युत १४३।
यच्चापराह्णे सायाह्ने मध्याह्ने च तथा निशि ।
कायेन मनसा वाचा कृतं पापमजानता १४४।
जानता च हृषीकेश पुंडरीकाक्ष माधव ।
नामत्रयोच्चारणतः सर्वे यांतु मम क्षयम् १४५।
शारीरं मे हृषीकेश पुंडरीकाक्ष मानसम् ।
पापं प्रशममायातु वाक्कृतं मम माधव १४६।
यद्भुंजानः पिबंस्तिष्ठन्स्वपञ्जाग्रद्यदास्थितः ।
अकार्षं पापमर्थार्थं कायेन मनसा गिरा १४७।
महदल्पमपि प्रायो दुर्योनि नरकावहम् ।
तत्पापं प्रशमं यातु वासुदेवस्य कीर्तनात् १४८।
परं ब्रह्म परं धाम पवित्रं परमं च यत् ।
तस्मिन्प्रकीर्तिते विष्णौ यत्पापं तत्प्रणश्यतु १४९।
यत्प्राप्य न निवर्त्तंते गंधस्पर्शादिवर्जिताः ।
सूरयस्तत्पदं विष्णोस्तत्सर्वं शमयत्वयम् १५०।
पापप्रशमनं स्तोत्रं यः पठेच्छृणुयान्नरः ।
शारीरैर्मानसैर्वाग्जैः कृतैः पापैः स मुच्यते १५१।
मुक्तः पापग्रहादिभ्यो याति विष्णोः परं पदम् ।
तस्मात्पापे कृतं जप्यं स्तोत्रं सर्वाघमर्दनम् १५२।
प्रायश्चित्तमघौघानां पठितव्यं नरोत्तमैः ।
प्रायश्चित्तैः स्तोत्रवरैर्व्रतैर्नश्यति पातकम् १५३।
ततः कार्याणि संसिद्ध्यै तानि वै भुक्तिमुक्तये ।
पूर्वजन्मार्जितं पापमैहिकं च नरेश्वर १५४।
स्तवस्य श्रवणादस्य सद्य एव विलीयते ।
पापद्रुमकुठारोऽयं पापेंधनदवानलः १५५।
पापराशितमः स्तोम भानुरेष स्तवो नृप ।
मया प्रकाशितस्तुभ्यं तथा लोकानुकंपया १५६।
स्तवो योऽयं मया प्राप्तो रहस्यं पितुरादरात् ।
इतिहासमिमं पुण्यं यः शृणोति नराधिप १५७।
तस्यापि पुण्यमाहात्म्यं वक्तुं शक्तः स्वयं हरिः ।
स्वस्ति तेस्तु महाराज गंगायामथ सत्वरम् १५८।
स्नातुं यामि समायातो मासोऽयं माधवो महान् १५९।
इति श्रीपद्मपुराणे पातालखंडे नारदांबरीषसंवादे वैशाखमाहात्म्ये प्रेतोपाख्याने पापप्रशमनंनाम चतुर्नवतितमोऽध्यायः ९४।
खण्डः ५ (पातालखण्डः) — Adhyāya 95
सूत उवाच-
यातुं तमुद्यतं नत्वा मुनिं राजा ततो मुदा ।
विधिं पप्रच्छ संक्षिप्तं स्नानदानक्रियोचितम् १।
अंबरीष उवाच-
मुने वैशाखमासेऽस्मिन्को विधिः किं तपोऽधिकम् ।
किं च दानं कथं स्नानं कथं केशवपूजनम् २।
कृपया वद विप्रर्षे सर्वज्ञस्त्वं हरिप्रियः ।
विशेषतोऽपि पूजाया विधिं तीर्थपदे वद ३।
नारद उवाच-।
मेषसंक्रमणे भानोर्माधवे मासि सत्तम ।
महानद्यां नदीतीरे नदे सरसि निर्झरे ४।
देवखातेऽथवा स्नायाद्यथाप्राप्ते जलाशये ।
दीर्घिका कूप वापीषु नियतात्मा हरिं स्मरन् ५।
मधुमासस्य शुक्लायामेकादश्यामुपोषितः ।
पंचदश्यां च वा वीर मेषसंक्रमणेऽपि वा ६।
वैशाखस्नाननियमं ब्राह्मणानामनुज्ञया ।
मधुसूदनमभ्यर्च्य कुर्यात्सुस्नानपूर्वकम् ७।
वैशाखं सकलं मासं मेषसंक्रमणे रवेः ।
प्रातः सनियमः स्नास्ये प्रीयतां मधुसूदनः ८।
मधुहंतुः प्रसादेन ब्राह्मणानामनुग्रहात् ।
निर्विघ्नमस्तु मे पुण्यंवैशाखस्नानमन्वहम् ९।
माधवे मेषगे भानौ मुरारे मधुसूदन ।
प्रातःस्नानेन मे नाथ यथोक्तफलदो भव १०।
यथा ते माधवो मासो वल्लभो मधुसूदन ।
प्रातःस्नानेन मे तस्मिन्फलदः पापहा भव ११।
एवमुच्चार्य तत्तीर्थे पादौ प्रक्षाल्य वाग्यतः ।
स्मरन्नारायणं देवं स्नानं कुर्याद्विधानतः १२।
तीर्थं प्रकल्पयेद्धीमान्मूलमंत्रमिमं पठन् ।
ॐनमोनारायणायमूलमंत्र उदाहृतः १३।
दर्भपाणिस्तु विधिवदाचांतः प्रणतो भुवि ।
चतुर्हस्तसमायुक्तं चतुरस्रं समंततः १४।
प्रकल्प्यावाहयेद्गंगां मंत्रेणानेन मानवः ।
विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता १५।
त्राहि नस्त्वेनसस्तस्मादाजन्ममरणांतिकात् ।
तिस्रःकोट्योर्द्धकोटी च तीर्थानां वायुरब्रवीत् १६।
दिवि भुव्यंतरिक्षे च तानि ते संति जाह्नवि ।
नंदिनीत्येव ते नाम वेदेषु नलिनीति च १७।
दक्षा पृथ्वी च विहगा विश्वगाथा शिवप्रिया ।
विद्याधरी महादेवी तथा लोकप्रसादिनी १८।
क्षेमंकरी जाह्नवी च शांता शांतिप्रदायिनी ।
एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् १९।
भवेत्संनिहिता तत्र गंगा त्रिपथगामिनी ।
सप्तवाराभि जप्तेन करसंपुटयोजिते २०।
मूर्ध्नि कृत्वा जलं भूपश्चतुर्वा पंच सप्त वा ।
स्नानं कृत्वा मृदा तद्वदामंत्र्य तु विधानतः २१।
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे ।
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् २२।
उद्धृतासि वराहेण विष्णुना शतबाहुना ।
नमस्ते सर्वलोकानां प्रभवारणि सुव्रते २३।
एवं स्नात्वा ततः पश्चादाचम्य तु विधानतः ।
उत्थाय वाससी शुक्ले शुद्धे तु परिधापयेत् २४।
ततस्तु तर्प्पणं कुर्य्यात्त्रैलोक्याप्यायनाय वै ।
ब्रह्माणं तर्प्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतिम् २५।
देवान्यक्षांस्तथा नागान्गंधर्वाप्सरसोसुरान् ।
क्रूरान्सर्पान्सुपर्णांश्च तरून्वै जंतुकान्खगान् २६।
विद्याधराञ्जलधरांस्तथैवाकाशगामिनः ।
निराधाराश्च ये जीवाः पापकर्मरताश्च ये २७।
तेषामाप्यायनार्थाय दीयते सलिलं मया ।
कृतोपवीती देवेषु निवीती च भवेन्नरः २८।
मनुष्यांस्तर्प्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा ।
सनकः सनंदनश्चैव तृतीयश्च सनातनः २९।
कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा ।
ते सर्वे तृप्तिमायांतु मद्दत्तेनांबुना सदा ३०।
मरीचिमत्र्यंगिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ३१।
देवब्रह्मऋषीन्सर्वांस्तर्पयेदक्षतोदकैः ।
अपसव्यं ततः कुर्यात्सव्यं जान्वाच्य भूतले ३२।
अग्निष्वात्तास्तथा सौम्या हविष्मंतस्तथोष्मपाः ।
कव्यानलान्बर्हिषदस्तथा वै चाज्यपाः पुनः ३३।
संतर्पयेत्पितॄन्भक्त्या सतिलोदकचंदनैः ।
यमाय धर्मराजाय मृत्यवे चांतकाय च ३४।
वैवस्वताय कालाय सर्वभूतक्षयाय च ।
उदुंबराय दध्नाय नीलाय परमेष्ठिने ३५।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः ।
दर्भपाणिस्तु विधिवत्पितॄन्संतर्पयेत्ततः ३६।
पित्रादीन्नामगोत्रेण तथा मातामहानपि ।
संतर्प्य विधिना सर्वानिमं मंत्रमुदीरयेत् ३७।
ये बांधवा बांधवा ये येऽन्यजन्मनि बांधवाः ।
ते तृप्तिमखिलां यांतु येऽस्मत्तस्तोयकांक्षिणः ३८।
आचम्य विधिवत्सम्यगालिखेत्पद्ममग्रतः ।
साक्षतैश्च सपुष्पैश्च सलिलारुणचंदनैः ३९।
अर्घं दद्यात्प्रयत्नेन सूर्य्यनामानुकीर्त्तनैः ।
नमस्ते विष्णुरूपाय नमस्ते ब्रह्मरूपिणे ४०।
सहस्ररश्मये सूर्य नमस्ते सर्वतेजसे ।
नमस्ते रुद्रवपुषे नमस्ते भक्तवत्सल ४१।
पद्मनाभ नमस्तेऽस्तु कुंडलांगदभूषित ।
नमस्ते सर्वलोकेश सुप्तानामुपबोधन ४२।
सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वदा ।
सत्यदेव नमस्तेऽस्तु प्रसीद मम भास्कर ४३।
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तु ते ।
एवं सूर्यं नमस्कृत्य सप्त कृत्वा प्रदक्षिणम् ४४।
द्विजं गां कांचनं स्पृष्ट्वा पश्चाच्च स्वगृहं व्रजेत् ।
आश्रमस्थांस्ततः पूज्य प्रतिमां चापि पूजयेत् ४५।
पूर्वं भक्त्यैव गोविंदं गृही च नियतात्मवान् ।
पूजयेद्भक्तितो राजन्नुभयत्र यथाविधि ४६।
विशेषादपि वैशाखे योऽर्चयेन्मधुसूदनम् ।
सर्वं संवत्सरं यावदर्चितस्तेन माधवः ४७।
माधवे मासि संप्राप्ते मेषस्थे कर्मसाक्षिणि ।
केशवप्रीतये कुर्यात्केशवव्रतसंचयम् ४८।
दद्यादनेकदानानि तिलाज्यप्रभृतीन्यपि ।
जन्मकोटिसमुद्भूत पातकांतकराणि च ४९।
जलान्नशर्कराधेनुतिलधेनुमुखानि च ।
वित्तमानेन देयानि दानानीप्सितसिद्धये ५०।
वैशाखं सकलं मासं नित्यस्नायी जितेंद्रियः ।
जपन्हविष्यं भुंजानः सर्वपापैः प्रमुच्यते ५१।
एकभुक्तमथो नक्तमयाचितमतंद्रितः ।
माधवे मासि यः कुर्याल्लभते सर्वमीप्सितम् ५२।
वैशाखे विधिना स्नानद्वयं नद्यादिके बहिः ।
हविष्यं ब्रह्मचर्यं च भूशय्या नियमस्थितिः ५३।
व्रतं दानं जपो होमो मधुसूदनपूजनम् ।
अपि जन्मसहस्रोत्थं पापं दहति दारुणम् ५४।
यथैव माधवो ध्यातो विनाशयति किल्बिषम् ।
तथैव माधवे स्नानं नियमेन विनिर्मितम् ५५।
तीर्थे चानुदिनं स्नानं तिलैश्च पितृतर्पणम् ।
दानं धर्मघटादीनां मधुसूदनपूजनम् ५६।
माधवे मासि कुर्वीत मधुसूदनतुष्टिदम् ।
तिलोदकसुवर्णान्न शर्करांबरभूषणम् ५७।
पादत्राणातपत्रांबु कुंभान्दद्याद्द्विजातिषु ।
त्रिसंध्यं पूजयेदीशं भक्तितो मधुसूदनम् ५८।
साक्षाद्विमलया लक्ष्म्या समुपेतं समाहितः ।
सुवर्णतिलपात्रैश्च ब्राह्मणाञ्छक्तितो बहून् ५९।
तर्पयेदुदपात्रैर्यो ब्रह्महत्यां व्यपोहति ।
वैशाखे मासि यः स्नात्वा प्रातर्नद्यां समाहितः ६०।
पूजयित्वा हरिं भक्त्या पुष्पैः कालोद्भवैः फलैः ।
पूजयेद्ब्राह्मणं शक्त्या पाखंडालापवर्जितः ६१।
तर्पयेद्वस्त्रगोदानै रत्नाद्यैर्धनसंचयैः ।
अन्यद्वित्तं यथाशक्ति स्तोकं स्तोकं समाचरेत् ६२।
पश्चाद्विनिःस्वः पुरुषो माधवे मासि माधवम् ।
पुष्पार्चनविधानेन पूजयेन्मधुसूदनम् ६३।
सर्वपापविनिर्मुक्तः पितॄणां तारयेच्छतम् ।
सजन्मशतसाहस्रं न शोकफलभाग्भवेत् ६४।
न च व्याधिभयं तस्य न दारिद्र्यं न बंधनम् ।
स विष्णुभक्तो जायेत धन्यो जन्मनिजन्मनि ६५।
यावद्युगसहस्राणि शतमष्टोत्तरं भवेत् ।
तावत्स्वर्गे वसेद्वीर भूपतिश्च पुनर्भवेत् ६६।
भूपतेर्विविधान्भोगान्भुक्त्वा चैव यथासुखम् ।
माधवस्य प्रसादेन माधवे लीयते ततः ६७।
शृणु राजन्प्रवक्ष्यामि समासान्माधवार्चनम् ।
वैदिकं तांत्रिकं वापि मिश्रकं पापनाशनम् ६८।
नह्यंतोऽनंतपारस्य नांतः पूजाविधेर्नृप ।
अथ संक्षिप्य चोच्येत यथावदनुपूर्वशः ६९।
वैदिकस्तांत्रिको मिश्रः श्रीविष्णोस्त्रिविधो मखः ।
त्रयाणामीप्सितेनैव विधिना हरिमर्चयेत् ७०।
वैदिको मिश्रको वापि विप्रादीनां विधीयते ।
तांत्रिको विष्णुभक्तस्य शूद्रस्यापि प्रकीर्तितः ७१।
यथा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः ।
यजेच्च विधिवद्विष्णुं ब्रह्मचारी समाहितः ७२।
अर्चयेत्स्थंडिलेऽग्नौ वा सूर्येऽप्सु हृदि वा द्विजे ।
द्रव्येण भक्तियुक्तेन स्वगुरुं तदनुज्ञया ७३।
पूर्वं स्नानं प्रकुर्वीत धौतदंतोंऽगशुद्धये ।
उभयोरपि च स्नानं मंत्रैर्मृद्ग्रहणादिना ७४।
संध्योपास्त्यादिकर्माणि वेदतंत्रोदितानि वै ।
पूजांते कल्पयेत्सम्यक्संकल्पं कर्मपावनम् ७५।
शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ७६।
चलाचलेति द्विविधा प्रतिष्ठा जीवमंदिरम् ।
उद्वासा वाहनेन स्तः स्थिरायां माधवार्चने ७७।
अस्थिरायां विकल्पः स्यात्स्थंडिले तु भवेद्द्वयम् ।
स्नापनं त्वविलेप्यायामन्यत्र परिमार्जनम् ७८।
द्रव्यैः प्रसिद्धैर्देवेज्या प्रतिमादिष्वमायिनः ।
भक्तस्य च यथालब्धैर्भक्तिभावेन चैव हि ७९।
स्नानालंकरणं श्रेष्ठमर्चायामेव भूपते ।
स्थंडिलेष्वपि विन्यासो वह्नावाज्यहुतं हविः ८०।
सूर्ये चाभ्यर्हणं श्रेष्ठं स्थंडिले सलिलादिभिः ।
श्रद्धयोपहृतं श्रेष्ठं हरौ भक्तेन वार्यपि ८१।
गंधो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः ।
शुचिः संभृतसंभारः प्राग्दर्भैः कल्पितासनः ८२।
आसीनः प्रागुदग्वक्त्रो ह्यर्चायामथ सम्मुखः ।
कृतन्यासः कृतन्यासां हर्यर्चां पाणिना स्पृशेत् ८३।
कलशं प्रोक्षणीयं च यथावदुपसाधयेत् ।
तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च ८४।
प्रोक्ष्य पात्राणि त्रीण्यद्भिस्तैस्तैर्द्रव्यैस्तु सादयेत् ।
पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दापयेत् ८५।
हृतशीर्ष्णा च शिखया गायत्र्या चाभिमंत्रयेत् ।
पिंडे वाय्वग्निसंसिद्धे हृत्पद्मस्थां परां विभोः ८६।
अण्वीं जीवकलां ध्यायेन्नादांते सिद्धिभाविताम् ।
तयात्मभूतया पिंडे व्याप्ते संपूज्य तन्मयः ८७।
आवाह्यार्चादिषु स्थाप्य न्यस्तां गां तां प्रपूजयेत् ।
पाद्यार्घ्यस्नानार्हणादीनुपचारान्प्रकल्पयेत् ८८।
धर्मादिभिश्च नवभिः कल्पयित्वासनं हरेः ।
पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् ८९।
उभाभ्यां वेदतंत्राभ्यां हरेरुभयसिद्धये ।
सुदर्शनं पांचजन्यं गदासीषु धनुर्हलम् ९०।
मुशलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ।
नंदं सुनंदं गरुडं प्रचंडं चंडमेव च ९१।
महाबलं बलं चैव कुमुदं कुमुदेक्षणम् ।
दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून्सुरान् ९२।
स्वेस्वे स्थानेष्वभिमुखान्पूजयेत्प्रोक्षणादिभिः ।
चंदनोशीरकर्पूर कुंकुमागुरुवासितैः ९३।
सलिलै स्नापयेन्मंत्रैर्नित्यं वा विभवे सति ।
स्वर्णघर्मानुवाकेन महापुरुषविद्यया ९४।
पौरुषेणापि सूक्तेन सामनीराजनादिभिः ।
वस्त्रोपवीताभरण पत्रस्रग्गंधलेपनैः ९५।
अलंकुर्वीत सप्रेम विष्णुभक्तो यथोचितम् ।
पाद्यमाचमनीयं च गंधं सुमनसोक्षतान् ९६।
गंधधूपोपहार्याणि दद्याद्वै श्रद्धयार्चकः ।
गुडपायससर्पींषि शष्कुल्यापूपमोदकान् ९७।
पायसं दधिसर्पिश्च नैवेद्यं स विकल्पयेत् ।
अभ्यंगोन्मर्दनादर्श दंतधावाभिषेचनम् ९८।
अन्नाद्यं नृत्यगीतानि सर्वाणि स्युरथान्वहम् ।
विधिना विहिते कुंडे मेखलावर्तवेदिभिः ९९।
अग्निमाधाय परितः समूहेत्पाणिनोदकम् ।
परिस्तीर्याथ पर्युक्ष्य दत्वा इध्मं यथाविधि १००।
प्रोक्षण्यासाद्य द्रव्याणि प्रोक्षण्यैवाज्यसेचनम् ।
तप्तजांबूनदप्रख्यं शंखचक्रगदांबुजैः १०१।
लसच्चतुर्भुजं शांतं पद्मकिंजल्कवाससम् ।
स्फुरत्किरीटकटककटिसूत्रवरांगदम् १०२।
श्रीवत्सवक्षसंभ्राजत्कौस्तुभं वनमालिनम् ।
ध्यायन्नभ्यर्च्य दारूणि हविषा सघृतानि च १०३।
प्रास्याज्यभागावाघारौ दत्वा चाज्यप्लुतं हविः ।
अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् १०४।
मूलमंत्रं जपेद्ब्रह्मन्स्मरन्नारायणात्मकम् ।
दत्वाचमनमुच्छिष्टं विष्वक्सेनाय कल्पयेत् १०५।
मुखवासं तु सुरभिं तांबूलाद्यमुपाहरेत् ।
उपगायन्गृणन्नित्यं कर्माण्यभिरवाक्षरैः १०६।
सत्कथां श्रावयञ्छृण्वन्मुहूर्तं क्षणिको भवेत् ।
स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि १०७।
स्तुत्वा प्रसीद भगवन्निति वंदेत दंडवत् ।
शिरस्तत्पादयोः कृत्वा बाहुभ्यां च परस्परम् १०८।
प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ।
इति शेषान्हरेर्दत्ताञ्छिरस्याधाय सादरम् १०९।
उद्वासयेच्चेदुद्वास्यं ज्योतिर्ज्योतिषि चात्मनः ।
अर्चादिषु पदं यत्र श्रद्धावांस्तत्र चार्चयेत् ११०।
सर्वभूतेष्वात्मनि च सर्वात्मानमवस्थितम् ।
एवं क्रियायोगपथैः पुमान्वैदिकतांत्रिकैः १११।
अर्च्चयेच्च यतः सिद्धिं हरेर्विंदत्यभीप्सिताम् ।
तामर्चां संप्रतिष्ठाप्य मंदिरं कारयेद्दृढम् ११२।
पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवादिकम् ।
पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् ११३।
क्षेत्रापणपुरग्रामान्दत्वा सायुज्यतामियात् ।
प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् ११४।
पूजादिना ब्रह्मलोकं त्रिभिस्तत्साम्यतामियात् ।
तमेव नैरपेक्षेण भक्तियोगेन विंदते ११५।
भक्तियोगं स लभते एवं यः पूजयेद्धरिम् ११६।
यत्कृष्णप्रणिपातधूलिधवलं तद्वर्ष्म तद्वच्छुभं ।
ते नेत्रे तपसार्जिते सुरुचिरे याभ्यां हरिर्दृश्यते ।
सा बुद्धिर्विमलेंदु शंखधवला या माधवव्यापिनी ।
सा जिह्वा मृदुभाषिणी नृप मुहुर्या स्तौति नारायणम् ११७।
मूलमंत्रेण कर्तव्यं स्त्रीशूद्रैरपि पूजनम् ।
श्रद्धया स्वगुरूद्दिष्टमार्गेणान्यैश्च वैष्णवः ११८।
इदं ते सर्वमाख्यातं पावनं माधवार्चनम् ।
विशेषान्माधवे मासि त्वमेतत्कुरु भूपते ११९।
सूत उवाच-
इत्येवमाकर्ण्य वचो विचित्रं पुण्यं पवित्रं विधिनंदनस्य ।
प्रणम्य बद्धांजलिराह राजा सकौतुकी भागवतप्रधानः १२०।
अंबरीष उवाच-
समस्तभूमीवलयेश्वरोऽहमव्याहताज्ञो विबुधप्रसेवी ।
गोविंदपादांबुजदत्तचित्तः स्वचित्तसंतोषितभूमिदेवः १२१।
विख्यातराजोचितवंशरत्नं निरंतरं धर्मरुचिर्यशस्वी ।
सौंदर्यशौर्योदयदानशीलः सुपुत्रवानस्मि जितारिवर्गः १२२।
केनापि पुण्येन पवित्रबुद्धिर्जातोहमीदृग्गुणसंतश्रीः ।
इयं पुनः श्रीरिव पुण्यमूर्तिर्लब्धा कुतः कांतिमती च कांता १२३।
इदं मे सुकृतं सर्वं पुराजन्मनि चेष्टितम् ।
समादिश मुने सम्यक्सर्वज्ञोसि दयानिधे १२४।
नारद उवाच-
इयं रूपवती नाम वेश्यासीदन्यजन्मनि ।
सांप्रतं तव भार्या या सत्याचारातिसुंदरी १२५।
वेश्याधर्मेण वर्तेत यथोद्दिष्टेन भाविनी ।
कुर्वती किल कर्माणि शुभानि द्विजशासनात् १२६।
देवदास इति ख्यातो हेमकारो भवानभूत् ।
पूर्वजन्मनि वै तस्या रुचेर्भर्ता भुजंगमः १२७।
इयं भवंतं भजते रुची रूपवती पुनः ।
व्ययार्थमयनं धर्मं स्थिता विज्ञानमुत्तमम् १२८।
आकर्ण्य चैकदा धर्मं वैशाखस्नानसंभवम् ।
चक्रे धर्मवती तोये स्नानं मेषगते रवौ १२९।
दानं दत्तवती दक्षा वेश्या रूपवती सदा ।
ब्राह्मणाय नमस्कारं भक्त्यादरपुरःसरम् १३०।
स तया देवदासस्त्वं बोधितः स्नेहयंत्रितः ।
कृतवान्बुद्धितः स्नानं माधवे मासि सादरम् १३१।
तत्र त्रेतायुगस्यादौ तृतीयामाप्यनिर्मलाम् ।
सुवर्णकारं सोवाच देवदासं तमादरात् १३२।
वेश्योवाच-
उत्तमं कुरु सौवर्णं मधुसूदनमच्युतम् ।
पूजयित्वा यवैर्देवमेतैः संतर्प्य चानलम् १३३।
ब्राह्मणाय च दास्यामि ब्राह्मणानामनुज्ञया ।
दानमेतत्पुराणेषु कथ्यते तत्र चाक्षयम् १३४।
अक्षयेति तृतीयासौ ब्राह्मणेभ्यः श्रुतं मया ।
शुक्ला वैशाखमासस्य तदक्षयफलप्रदम् १३५।
अस्यां दास्यामि तं हैमं मधुसूदनमव्ययम् ।
नारद उवाच-
इति तस्य वचः श्रुत्वा मधुरं हेमकारकः १३६।
चक्रे सुवर्णप्रतिमामच्युतस्यापि सुंदरीम् ।
सत्यभावेन धर्मार्थमिति चौर्यविवर्जितः १३७।
यथोद्दिष्टस्य चंद्रस्य प्रतिमां लक्षणान्विताम् ।
ददौ सा च विधानेन स्नात्वा विप्राय सुंदरीम् १३८।
पूजयित्वा ततस्तस्यामक्षयायां तिथौ नृप १३९।
कालेन कियता वेश्या सा मृता धर्मनिष्ठिता ।
देवदासोऽपि स ततो मृतः स्वीयायुषक्षये १४०।
तेन पुण्येन भूपाल हेमकारोऽन्य जन्मनि ।
स त्वं प्राप्तो महीं राजन्नशेषगुणसंयुतः १४१।
सापि रूपवती वेश्या तेन धर्मेण तेऽभवत् ।
नाम्ना कांतिमती कांता प्रणयेन परिप्लुता १४२।
विविधा वासना वीर कर्मणां पूर्वसंभवाः ।
विचित्रा गतयस्तात ज्ञायंते न बुधैरपि १४३।
तमेनं माधवं मासं प्रतिकार्यं न संशयः ।
गोपितं तेन देवेन ब्रह्मणा माधवेन च १४४।
असाधुसंगैरनवाप्तविद्यैरसंयतैराश्रमधर्महीनैः ।
अभूततीर्थैरकृतव्रतैस्तैर्न लभ्यते माधवमासधर्मः १४५।
गोविंदकेशवमुकुंदहरे मुरारे लक्ष्मीनिवास मधुसूदन कृष्ण विष्णो ।
वाणी वरा न वदने वसतीति येषां वैशाखमासनियमो भवते न तेषाम् १४६।
ये साधुसाधु वचनानि हिताधिकानि नाकर्णयंति च हरेश्चरितामृतानि ।
पश्यंति ये न कमलापतिकेतनानि वैशाखमासनियमं न हि ते लभंते १४७।
शुश्रूषिता न गुरवो न वराय कन्या दत्ता समाय समये समलंकृता यैः ।
अध्यापिता न तनया विनयादि धर्मं वैशाखमासनियमं न हि ते लभंते १४८।
सूत उवाच-
इत्येवमादिश्य मुनिर्नरेश मामंत्र्य तं मंत्रविदग्रगण्यः ।
स्नातुं ययौ माधवमासि गंगामभ्यर्चितस्तेन तदा स विप्राः १४९।
विधिं स राजापि ततश्चकार वैशाखमासस्य मुनिप्रणीतम् ।
पत्न्यासमं पुण्यधिया तमेव संचिंतयँल्लोकपवित्रकीर्तिः १५०।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये नारदांबरीष संवादे पंचनवतितमोऽध्यायः ९५।
खण्डः ५ (पातालखण्डः) — Adhyāya 96
ऋषय ऊचुः -
सूतसूतमहाप्राज्ञ जीवजीव शतंसमाः ।
यद्वयं पुण्यसमयं श्राविता जगतो हितम् १।
वद भूयोऽपि भूयिष्ठं पिबामस्तावकं वचः ।
पायंपायं न तृप्यामो वयं सूत तदुत्तमम् २।
सूत उवाच-
अत्राप्युदाहरंतीममितिहासं पुरातनम् ।
संवादमादिलोकस्य जगतां जगदीशितुः ३।
षट्सहस्राणिचोच्छ्रायो विस्तारेण पुनस्त्रयम् ।
एवं नवसहस्राणि योजनानां विधाय च ४।
वामया दंष्ट्रया गृह्य उद्धृतादौ वसुंधरा ।
दिव्यवर्षसहस्रं वै दंष्ट्रया धारिता मही ५।
धर्माख्यानप्रसंगेन सोवाच विनयाद्विभुम् ।
पृथिव्युवाच-
एते द्वादश मासा वै षष्टिर्दिनशतत्रयम् ६।
एषां किमुत्तमं पुण्यं प्रियं च तव केशव ।
पवित्रः कार्तिको मासस्तुलासंस्थे दिवाकरे ७।
मकरस्थे रवौ मासः पुराणे पावनः स्मृतः ।
मेषस्थे माधवो मासो भास्करे पठ्यते बुधैः ८।
मार्गशीर्षोऽपि मासानां पावनः परिकीर्तितः ।
एवं मासाः पवित्रास्ते वासराः केपि कीर्तिताः ९।
युगादयो युगांताश्च तथा कल्पादयोऽपि च ।
सर्वेभ्योऽप्यधिकं मासमेतेभ्यो वद पावनम् १०।
सर्वयज्ञमय श्रीमन्नेकं निश्चित्य मे वद ।
वराह उवाच-
विधिनाविधिनाचैव ये यजंति नराधमाः ११।
माधवे मासि मां भक्त्या तैश्च पूज्योऽस्म्यहं सदा ।
हिरण्याक्षो वरारोहे माधवे तु मधुर्हत १२।
आदिदैत्यावुभावेतौ हत्वा त्वं तु समुद्धृता ।
त्रेतायुगे त्रयी धर्मो ज्ञानवर्णव्यवस्थितिः १३।
माधवे मासि संभूता तेन मे माधवःप्रियः ।
त्रेतायुगं तृतीयायां शुक्लायां मासि माधवे १४।
प्रवृत्तं च त्रयी धर्माः प्रवृत्तास्ते प्रवर्द्धिताः ।
अक्षया सोच्यते लोके तृतीया हरिवल्लभा १५।
स्नाने दानार्चने श्राद्धे जपे पूर्वजतर्प्पणे ।
येऽर्चयंति यवैर्विष्णुं श्राद्धं कुर्वंति यत्नतः १६।
तेषां ददाम्यहं सर्वं यन्मनोऽभीष्टमुत्तमम् ।
ये ददंत्यपि दानानि धन्यास्ते धार्मिका नराः १७।
ये यजंति हरेर्नित्यमध्वरैर्विविधैरपि ।
माधवे यजते यो मां तेभ्यस्तदधिकं फलम् १८।
स्नानं दानं जपो होमस्तपो यज्ञ व्रतादिकम् ।
वैशाखे यत्कृतं देवि तस्य पुण्यफलं शृणु १९।
मन्वंतराणां कोट्यस्तु दशपंच च सप्त च ।
मत्सान्निध्यगतास्तेपि तिष्ठंति भयवर्जिताः २०।
यद्यपि स्युर्ग्रहाः सर्वे क्रूरा जन्मव्ययाष्टकाः ।
प्रातःस्नानेन वैशाखे सर्वे सौम्या भवंति ते २१।
वैशाखे मासि यो विप्रान्भोजयेद्भक्तितत्परः ।
सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसंख्यया २२।
यच्छंति तत्र मधुराधिकभोजनानि ये वायवाशन तिलोदक भोजनानि ।
छत्रांबराणि चरणोचितरक्षणानि धन्यास्त एव परितोषकराहि विष्णोः २३।
विशेषादिह दातव्यास्तिला मधुसमन्विताः ।
धर्माय बृहते दीर्घ दुरितक्षय हेतवे २४।
एवंकृते तु यत्पुण्यं प्राप्यते मनुजैश्च तैः ।
तत्कैर्गणयितुं शक्यं वर्षकोटिशतैरपि २५।
पुत्रपौत्रादिसंपत्ति दीर्घायूंषि यथेप्सितम् ।
इहाप्नोति परत्रापि मामेव प्रतिपद्यते २६।
अनेकजन्मार्जित पातकावली विलीयते माधव मज्जनेन ।
जनस्य तत्रोषसि पुण्यतीर्थे यथाविधानं श्रयते तथा वा २७।
यः परित्यज्य वैशाखं व्रतमन्यदुपाचरेत् ।
स करस्थं महारत्नं हित्वा लोष्टं हि याचते २८।
सूतउवाच-
एवं स भगवान्पूर्वमादिदेवो वदद्विभुः ।
माधवं मासमुद्दिश्य जगत्यां जगतीधरः २९।
किमत्र बहुनोक्तेन न तदस्ति महीसुराः ।
यदप्राप्यं भवेन्मासि माधवे माधवार्चनात् ३०।
शृणुध्वं च पुरावृत्तमिहार्थे परमाद्भुतम् ।
ब्राह्मणस्य च संवादं यमस्य च महात्मनः ३१।
मध्यदेशे महाग्रामो ब्राह्मणानां बभूव ह ।
गंगायमुनयोर्मध्ये यामुनस्य गिरेरधः ३२।
विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा ।
अथ प्राह यमः कंचित्पुरुषं कृष्णपिंगलम् ३३।
रक्ताक्षमूर्द्ध्वरोमाणं काकजंघाक्षिनासिकम् ।
गच्छ त्वं भो महाग्रामं गत्वा ब्राह्मणमानय ३४।
वसिष्ठगोत्रसंभूतं नामतो यज्ञदत्तकम् ।
शमे निविष्टं विद्वांसं यज्ञकर्मविशारदम् ३५।
नचान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः ।
सहितादृग्गुणस्तेन तुल्योऽध्ययन जन्मना ३६।
आकृत्या च तथा चिह्नैः समस्तेनैव सत्तमः ।
तमानय यथोद्दिष्टा पूजा कार्या हि तस्य मे ३७।
स गत्वा प्रतिकूलं तु चकार यमशासनम् ।
तमेव मानयामास प्रतिषिद्धो यमेन यः ३८।
तस्मै यमः समुत्थाय पूजां कृत्वा च धर्मवित् ।
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ३९।
सूत उवाच-
एवमुक्ते तु वचने धर्मराजेन स द्विजः ।
उवाच धर्मराजं तं निर्विण्णो गमनाय वै ४०।
ब्राह्मण उवाच-
कस्मादहमिहानीतः कस्मात्प्रेरयसे पुनः ।
गंतुं नैवोत्सहे तत्र मर्त्यलोकं पुनः प्रभो ४१।
यम उवाच-
इह क्षीणायुषां पुंसां वासः पुण्यवतां भवेत् ।
अयं वै धर्मराजस्य लोको धर्मः प्रकीर्तितः ४२।
सौख्यभूमिरियं सर्वा धर्मराजोऽहमीश्वरः ।
पुण्यापुण्यानुसारेण जंतूनां सुखदुःखदः ४३।
पापिनां यमरूपोऽस्मि नृणां निरयदायकः ।
तथा पुण्यवतां सौख्य स्वर्गदो धर्म मूर्तिमान् ४४।
गच्छ विप्र त्वमद्यैव निलयं स्वं यथागतः ।
अद्यापि दशवर्षाणामायुस्ते परिवर्तते ४५।
क्षये तवायुषः प्राप्तिर्लोकस्यास्य भविष्यति ।
प्रष्टव्यं च त्वया ह्यन्यत्पृच्छस्व प्रब्रवीमि ते ४६।
ब्राह्मण उवाच-
यत्कृत्वा सुमहत्पुण्यं स्वर्गः स्याद्ब्रूहि तन्मम ।
सर्वस्य हि प्रमाणंत्वं धर्माधर्मविनिश्चये ४७।
यदि देव मया सम्यग्गंतव्यं निजमंदिरे ।
तद्ब्रूहि कर्मणा केन पतंति नरके नराः ४८।
व्रजंति केन वै स्वर्गं तत्सर्वं कृपया वद ।
यम उवाच-
कर्मणा मनसा वाचा ये धर्मविमुखा नराः ४९।
विष्णुभक्तिविहीना ये ते वै निरयगामिनः ।
पश्यंति भेदबुद्ध्या ये ब्रह्माणं शंकरं हरिम् ५०।
विरक्ता विष्णुविद्यासु नरा निरयगामिनः ।
कुलदेशोचितं कर्म यस्त्यक्त्वान्यत्समाचरेत् ५१।
कामाद्वा यदि वा मोहात्स याति नरकं नरः ।
अयाज्ययाजकश्चैव याज्यानां च विवर्जकः ५२।
विरतो विष्णुविद्यासु स भुंक्ते नरकान्बहून् ।
अदत्वा पितृदेवेभ्यो विप्रेभ्यो मर्त्यबंधुषु ५३।
सधनो म्रियते पापः स याति नरकान्बहून् ।
सर्वाण्यन्नानि सिद्धानि पाकभेदं करोति यः ५४।
अवैश्वदेवं भुंजीत स याति नरकं चिरम् ।
बहुद्रोहेण भूतानां येऽजयंति धनं द्विज ५५।
धनवंतो निरयगा दांभिका दुःखभागिनः ।
नास्तिक्यादथ वा लोभान्मोहात्काले यथोदिते ५६।
भक्त्या न श्राद्धदा ये स्युः पच्यंते नरकेषु ते ।
दीयमानस्य वित्तस्य ब्राह्मणेभ्यस्तु पापकृत् ५७।
विघ्नमाचरते योऽसौ नरो निरयगो भवेत् ।
सामान्य दक्षिणां लब्ध्वा गृह्णात्येको विमोहतः ५८।
नास्तिक्यभावनिरतो नरः स्यान्नरकालये ।
असहिष्णुतया तस्य गुणानां कारणं भवेत् ५९।
महत्पापं समुत्पन्नं कारणं नरकस्य तत् ।
निर्दोषां सुहृदां भार्यां त्यजन्कालेन याति यः ६०।
न वहेत यशस्तेषां स नरो नरके पतेत् ।
अधर्मं धर्ममिति यो वदन्मोहवशं गतः ६१।
हैतुको नास्तिको यस्तु स नरो निरयालयः ।
मनसा योऽन्यभावेन वचसा चान्यथा वदेत् ६२।
हृदयं कलुषं कुर्यात्स नरो नरके वसेत् ।
अवमन्य च ये यांति भगवत्कीर्तनं नराः ६३।
ते यांति नरकं घोरं तेन पापेन कर्मणा ।
पश्यंतो भगवद्द्वारं नामशास्त्र परिच्छदम् ६४।
अकृत्वा तत्प्रणामादि ते यांति नरकौकसः ।
विनापराधेन नराः कृत्वा पत्न्यधिवेदनम् ६५।
त्यजंति सुकलत्रं ये ते यांति नरके नराः ।
न शृणोति गुरोर्वाक्यं धर्मशास्त्रं च यो नरः ६६।
परेषां चेतसः क्लेशकारी निरयगो भवेत् ।
पश्यतां बंधु बालानां प्रकर्षी मिष्टमश्नुते ६७।
स याति नरकं घोरं केवलोदरपूरकः ।
तुला मकर मेषेषु प्रातः स्नानं न यश्चरेत् ६८।
नद्यादिषु च नास्तिक्यस्तस्य स्यान्नरकालयः ।
वैष्णवं जनमालोक्य नाभ्युत्थानं करोति यः ६९।
प्रणयादरतो विप्र स नरो नरकातिथिः ।
काष्ठैर्वा शंकुभिर्वापि शूलैरश्मभिरेव च ७०।
ये मार्गांश्चैव रुंधंति ते वै निरयगामिनः ।
आद्यं पुरुषमीशानं सर्वलोकमहेश्वरम् ७१।
न चिन्तयंति ये विष्णुं ते वै निरयगामिनः ।
क्षेत्रवृत्ति गृहच्छेदं प्रीतिच्छेदं च ये नराः ७२।
आशाच्छेदं च कुर्वंति ते नरा नरकौकसः ।
आगतान्भोजनार्थं च ब्राह्मणान्वृत्तिकर्शितान् ७३।
यः परीक्षेत मूढात्मा स ज्ञेयो नरकातिथिः ।
अनाथं वैष्णवं दीनं रोगार्तं वृद्धमेव च ७४।
नानुकंपंति ये मूढास्ते वै निरयगामिनः ।
नियमांस्तु समादाय ये पश्चादजितेंद्रियाः ७५।
विलोपयंति तान्भूयस्ते वै निरयगामिनः ।
शृणु विप्र यथा यांति नराः स्वर्गं दयालवः ७६।
समासेनैव वक्ष्यामि किंचित्ते गौरवादहम् ।
येऽर्चयंति हरिं देवंजिष्णुं विष्णुं सनातनम् ७७।
नारायणमजं कृष्णं विष्वक्सेनं चतुर्भुजम् ।
ध्यायंति पुरुषं दिव्यमच्युतं ये स्मरंति च ७८।
लभंते तेऽच्युतस्थानं श्रुतिरेषा पुरातनी ।
इदमेवहि मांगल्यमिदमेव धनार्जनम् ७९।
जीवितस्य फलं चैतद्यद्दामोदरकीर्तनम् ।
कीर्तनाद्देवदेवस्य विष्णोरमिततेजसः ८०।
दुरितानि विलीयंते तमांसीव दिनोदये ।
गाथां गायंति ये नित्यं वैष्णवीं श्रद्धयान्विताः ८१।
स्वाध्यायनिरता नित्यं ते नराः स्वर्गगामिनः ।
सर्वान्क्लेशान्परित्यज्य विष्णुमेव स्तुवंति ये ८२।
स्वधर्मनिरता धीरास्ते नराः स्वर्गगामिनः ।
वासुदेवजपासक्तानपि पापकृतो जनान् ८३।
नोपसर्पन्ति तान्विप्र यमदूताश्च दारुणाः ।
नान्यत्पश्यन्ति जंतूनां विहाय हरिकीर्तनम् ८४।
सर्वपापप्रशमनं प्रायश्चित्तं द्विजोत्तम ।
ये याचिताः प्रहृष्यंति प्रियं दत्वा वदंति च ८५।
त्यक्तदानफला ये च ते नराःस्वर्गगामिनः ।
वर्जयंति दिवास्वापं नराः सर्वसहाश्च ये ८६।
पर्वण्याश्रयभूता ये ते मर्त्याः स्वर्गगामिनः ।
द्विषतामपि ये दोषान्न वदंति कदाचन ८७।
कीर्तयंति गुणांश्चैव ते नराः स्वर्गगामिनः ।
ये परेषां श्रियं दृष्ट्वा न वितप्यंति मत्सरात् ८८।
प्रहृष्टाश्चाभिनंदंति ते नराः स्वर्गगामिनः ।
प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च ८९।
आदरंति प्रतीता ये ते नराः स्वर्गगामिनः ।
यस्मिन्कस्मिन्कुले जाता दयावंतो यशस्विनः ९०।
सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः ।
ये पूताः परदारांश्च कर्मणा मनसा गिरा ९१।
रमयंति न सत्वस्थास्तेनराः स्वर्गगामिनः ।
सदा कर्मयथोक्तेन कुर्वंति विहितानि च ९२।
आत्मशक्तिं च विज्ञाय ते नराः स्वर्गगामिनः ।
मनो वाक्कायिके धर्मे श्रद्धां यः कुरुते सदा ९३।
साधूनां संमतो यश्च स भवेद्देवतातिथिः ।
वचोवेगं मनोवेगं यो वेगमुदरोद्भवम् ९४।
उपस्थवेगं सहते स स्वर्गी जायते नरः ।
येषां गुणेषु संतोषो वाणी येषां श्रुतं प्रति ९५।
परमार्थे मतिर्येषां ते शिष्टाः स्वर्गगामिनः ।
व्रतं रक्षंति ये कोपाच्छ्रियं रक्षंति मत्सरात् ९६।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ।
मतिं रक्षंति ये लोभान्मनो रक्षंति कामतः ९७।
धर्मं रक्षंति दुःसंगात्ते नराः स्वर्गगामिनः ।
एकादश्यां च विधिवदुपवासपरायणाः ९८।
शुक्लेऽसिते च ये विप्र ते नराः स्वर्गगामिनः ।
मातेव सर्वबालानामौषधं रोगिणा मिव ९९।
रक्षार्थं सर्वलोकानां निर्मितैकादशी तिथिः ।
एकादशी समं किंचित्पादत्राणं न विद्यते 5.96.१०० ।
तामुपोष्य विधानेन पुरुषाः स्वर्गगामिनः ।
एकादशेन्द्रियैः पापं यत्कृतं भवति द्विज १०१।
नरो निर्द्धूय तत्तूर्णं प्रीतः स्वर्गतिमान्भवेत् ।
अश्वमेधसहस्राणि राजसूयशतानि च १०२।
एकादश्युपवासस्य कलां नार्हंति षोडशीम् ।
एकतः क्रतवः सर्वे सर्वतीर्थतपांसि च १०३।
महादानादिदानानि व्रतं वैष्णवमेकतः ।
वैष्णवव्रतजो धर्मो धर्मो यज्ञादिसंभवः १०४।
एकत्र तुलितौ धात्रा तत्र पूर्वो भवेद्गुरुः ।
हरिवासर भक्तानामच्युतानंतभाषिणाम् १०५।
नाहं शास्ता विशेषेण तेभ्यो विप्र बिभेम्यहम् ।
येषां पुत्रश्च पौत्रश्च एकादश्यामुपोषितः १०६।
सहात्मना स पुरुषाञ्छतमुद्धरते बलात् ।
उपोषणं ततः कुर्यात्पक्षयोरुभयोरपि १०७।
एकादश्यां स पुरुषो भुक्तिमुक्त्येकभाजनम् ।
जया च विजया चैव जयंती पापनाशिनी १०८।
त्रिस्पृशा वंजुली चैव पक्षसंवर्धिनी वरा ।
तिलदुग्धा परा ज्ञेया अखंडद्वादशी तथा १०९।
मनोरथाख्या च परा भीमद्वादशिका तथा ।
इत्येवमादयो भेदा द्वादश्याः संत्यनेकशः ११०।
व्रतेष्वेतेषु ये शक्ता ज्ञेयास्ते ब्रह्मणि स्थिताः ।
श्रोतारो धर्मशास्त्राणां धर्मप्रत्यय संगताः १११।
प्रियंकराश्च बालानां स्वर्गलोकं व्रजंति ते ।
मासिमास्येकदिवसे दर्शे श्राद्धव्रता नराः ११२।
तृप्यंति पितरो येषां ते धन्याः स्वर्गगामिनः ।
भोजनेषूपपन्नेषु भोज्यं यच्छंति सादरात् ११३।
अभिन्नमुखरागेण शिष्टास्ते स्वर्गगामिनः ११४।
ये भक्तिमंतो मधुसूदनस्य नारायणस्याखिलनायकस्य ।
सत्येन हीना रजसापि युक्ता गच्छंति ते नाकमनंतपुण्याः ११५।
वितस्तां यमुनां सीतां पुण्यां गोदावरीं नदीम् ।
सेवंते ये शुभाचाराः स्नानदानपरायणाः ११६।
न ते पश्यंति पंथानं नरकस्य कदाचन ।
ये नर्मदायामिह शर्मदायां मज्जंति तुष्यंत्यपि दर्शनेन ११७।
विधूय पापानि महेशलोकं गच्छंति ते तत्र चिरं रमंते ११८।
स्नाताश्चर्मनदी तीरे त्रिरात्रं नियता नराः ।
व्यासाश्रमे विशेषेण ते नरा नाकिनः स्मृताः ११९।
गंगाजले प्रयागे च केदारे पुष्करे तथा ।
व्यासाश्रमे प्रभासे च मृतास्ते विष्णुगामिनः १२०।
द्वारवत्यां कुरुक्षेत्रे योगाभ्यासेन वा मृताः ।
हरिरित्यक्षरं वक्त्रे येषां ते न पुनर्भवाः १२१।
त्रिरात्रमपि ये विप्र द्वारवत्यां पुरि स्थिताः ।
मज्जंति गोमती तीरे धन्यास्ते केशवप्रियाः १२२।
नरनारायणावासे त्रिरात्रं ये समाश्रिताः ।
मर्त्यलोके च नंदायां धन्यास्ते केशवप्रियाः १२३।
षण्मासमुषिता विप्र पुरुषोत्तमसंनिधौ ।
ते नूनमच्युतात्मानो दृष्ट्वा स्युरघहारिणः १२४।
अनेक जन्मार्जितपुण्यतोये मज्जंति तोये मणिकर्णिकायाः ।
नमंति विश्वेशमवाप्यकाशीं ते वै मयापीह भवंति वंद्याः १२५।
पूजयित्वा हरिं ये तु भूमौ दर्भ तिलैः सह ।
तिलान्विकीर्य लोहं च दत्वा धेनुं पयस्विनीम् १२६।
ये मृता विधिवद्विप्र ते नराः स्वर्गगामिनः ।
उत्पाद्य पुत्रान्संस्थाप्य पितृपैतामहे पदे १२७।
निर्ममा निरहंकारा ये मृतास्तेऽपि नाकिनः ।
स्तैन्यान्निवृत्ताः सततं संतुष्टाः स्वधनेन च १२८।
स्वभाग्येनोपजीवंति ते नराः स्वर्गगामिनः ।
श्लक्ष्णां वाणीं निराबाधां मधुरोपाय वर्जिताम् १२९।
स्वागतेनाभिभाषंते ते नराः स्वर्गगामिनः ।
शुभानामशुभानां च कर्मणां फलसंचये १३०।
विपाकज्ञाश्च ये विप्र ते नराः स्वर्गगामिनः ।
धनधर्मप्रवृत्तानां धर्ममार्गानुयायिनाम् १३१।
प्रोत्साहं वर्धयंते ये मोदंते दिवि ते नराः ।
हेमंते वह्निदो यश्च तथा ग्रीष्मे जलप्रदः १३२।
वर्षा स्वाश्रमदाता च स स्वर्गे मोदते चिरम् ।
पुण्यकालेषु सर्वेषु नित्य नैमित्तिकादिषु १३३।
भक्त्या यः कुरुते श्राद्धं स नूनं सुरलोकभाक् १३४।
दानं दरिद्रस्य विभोः क्षमित्वं यूनां तपो ज्ञानवतां च मौनम् ।
इच्छानिवृत्तिश्च सुखोचितानां दया च भूतेषु दिवं नयंति १३५।
द्विविधः कर्मसंबंधः पापपुण्यसमुद्भवः ।
सत्यमेव समाश्रित्य क्रियते ह्यत्र निर्णयः १३६।
तपोध्यानसमायुक्तं तारणाय भवांबुधेः ।
पापं तु पतनायोक्तं सत्यमेव न संशयः १३७।
बलेन परिचारेण शौर्येणाभियुतस्य च ।
पुण्यहीनस्य वै पुंसस्तद्बलादिव लीयते १३८।
उन्नता गिरि दुर्गेषु वृक्षाः संति सुपुष्टकाः ।
पतंति वातवेगेन समूलास्तु घना अपि १३९।
सत्यधर्मविहीनास्ते तथा यांति यमालयम् ।
सामान्यं सर्वजंतूंनां बलं धर्मस्तु केवलः १४०।
येन संतरते जंतुरिहलोके परत्र च ।
मया सर्वमिदं सम्यक्स्वर्गमार्ग प्रदायकम् १४१।
समासेन समाख्यातं किं भूयः श्रोतुमिच्छसि १४२।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये षण्णवतितमोऽध्यायः ९६।
खण्डः ५ (पातालखण्डः) — Adhyāya 97
ब्राह्मण उवाच-
एतन्मूर्खोऽपि जानाति शुभकर्मकरः पुमान् ।
न याति नरकं स्वर्गं तथा पापक्रिया रतः १।
क्रतुभिर्विविधैरिष्टैर्व्रत दान जपादिभिः ।
सत्येनाचारकुशलैः स्वर्गसौख्यमवाप्यते २।
विद्याचारधनोपेतैर्ऋषिभिर्वेदपारगैः ।
प्राप्यते पुण्ययोगेन यज्ञैर्नाकस्ततः क्वचित् ३।
वित्तेन च विना दानं बहुदातुं न शक्यते ।
विद्यमान धनेनापि कुटुंबासक्तचेतसा ४।
अग्निहोत्रादयो धर्मा विशेषेण कलौ युगे ।
दुष्करा दानधर्मोऽपि दुष्करो भगवन्मतः ५।
अल्पायासेन धर्मेण लभ्यते धर्मसंचयः ।
तन्मे विशेषतो ब्रूहि धर्माधर्मप्रदर्शक ६।
तदेकं कथ्यतां धर्मं सर्वधर्मोत्तमोत्तमम् ।
कृतेनैकेन येनेह सर्वपापक्षयो भवेत् ७।
धनं धान्यं यशो धर्ममायुर्येनाभि वर्त्तते ।
मर्त्यलोकेऽपि सख्यं स्यात्स्वर्गो येनाक्षयो भवेत् ८।
साक्षान्नारायणो येन भक्तानामभयप्रदः ।
तुष्येदस्यप्रसादेन कामः करतले स्थितः ९।
सर्वयज्ञ तपोदानतीर्थसेवाधिकं फलम् ।
लभ्यते येन यद्यस्ति वैवस्वत तदादिश १०।
अनुग्राह्यो ह्यहं देव यदि धर्मोपदेशतः ।
सर्वधर्मक्रियासारं तदेकं कृपया वद ११।
पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा ।
तथा तथैव संस्मृत्य कथितानि मनीषिभिः १२।
कर्तुं तानि न शक्यंते देव प्रत्येकशो नरैः ।
सर्वपापहरं पुण्यमेकं चेदस्ति तद्वद १३।
सूत उवाच-।
इत्युक्त्वा ब्राह्मणश्रेष्ठो यमं धर्मस्वरूपिणम् ।
तुष्टाव प्रयतो भूत्वा सूक्ष्मधर्माभिकामुकः १४।
ब्राह्मण उवाच-
नमस्ते सर्वशमन नमस्ते जगतांपते ।
नमोऽस्तु देवरूपाय स्वर्गमार्गप्रदायिने १५।
धर्मशास्त्रस्वरूपाय धर्मराज नमोस्तुते ।
त्वया भूः पाल्यते देवाप्यंतरिक्षं च द्यौर्महः १६।
जनस्तपस्तथासत्यं सर्वस्वं पाल्यते त्वया ।
न त्वया रहितं किंचिज्जगत्स्थावर जंगमम् १७।
विद्यते त्वद्गृहीतं तु सद्यो नश्यति वै जगत् ।
त्वमात्मा सर्वभूतानां सतां सत्वस्वरूपवान् १८।
राजसानां रजस्त्वं च तामसानां तमस्तथा ।
चतुष्पदां भवान्देव चतुःशृंगस्त्रिलोचनः १९।
सप्तहस्तस्त्रिधा बद्धो वृषरूप नमोस्तु ते ।
सर्वयज्ञमयो धर्मस्त्वयि विग्रहविग्रहः २०।
साक्षाद्दृष्टोसि लोकेश देव तुभ्यं नमोनमः ।
हृदिस्थः सर्वभूतानां पुण्यपापेक्षिता भवान् २१।
तेन शास्ता च भूतानां दाता देव प्रशासिता ।
प्रवर्त्तको हि धर्मस्य देवदंडधरो भुवि २२।
सर्वधर्ममयं सारमेकं वद सुनिश्चितम् ।
यम उवाच-
परितुष्टोऽस्मि ते विप्र स्तोत्रेण च विशेषतः २३।
तथाप्यागम धर्मेण मान्योसि मम सत्तम ।
यन्न कस्यचिदाख्यातं तद्गोप्यं परमं मम २४।
सारमुद्धृत्य सर्वेषां यदेकं निश्चितं मया ।
महानिरयसंघातान्निर्वासनकरं परम् २५।
अनाख्येयमपि ब्रह्मन्वक्ष्ये विनयतोषितः २६।
स्युर्मोहाय चराचरस्य जगतस्ते ते पुराणागमास्तां तामेव हि देवतां परमिकां जल्पंतु कल्पे विधौ ।
सिद्धांते पुनरेक एव भगवान्विष्णुः समस्तागम-व्यापारेषु विवेकिनां व्यतिकरं नीतेषु निश्चीयते २७।
भवो ब्रह्मा च विष्णुश्च त्रयमेव त्रयी मता ।
दीपोऽग्निर्वर्तिस्नेहैस्तु यथा विप्र तथा हरिः २८।
समाराध्य हरिं भक्त्या गोलोकान्प्राप्नुयाच्छुभान् ।
आराधिते हरौ कामाः सर्वे करतले स्थिताः २९।
दानमेव परं श्रेष्ठं सर्वपुण्येषु वै द्विज ।
दानेन नश्यते पापं सर्वं दानेन लभ्यते ३०।
नित्यं नैमित्तिकं काम्यमन्यदभ्युदयात्मकम् ।
अन्यं च परमं दानमिति पंचविधं स्मृतम् ३१।
प्रातर्मध्यापराह्णेषु त्रिषु कालेषु यत्नतः ।
यत्किंचिदपि दातव्यं नित्यमेव प्रकीर्तितम् ३२।
शून्यं दिनं न कर्तव्यमात्मार्थं हितमिच्छताम् ।
यस्मिन्कुले तु दत्तं यत्तत्रतत्रोपतिष्ठति ३३।
यः स्वयं भक्षयेन्मोहाददत्वा बुद्धिवर्जितः ।
उत्पादयाम्यहं रोगं तस्य भोगनिवारणम् ३४।
तेषु कार्येषु संतुष्टं बहुपीडाप्रदायकम् ।
मंदानलेन संयुक्तं द्वारं संतापकारकम् ३५।
त्रिषु कालेषु नो दत्तं ब्राह्मणेषु सुरेषु यैः ।
स्वयं तु भुंजते मिष्टं पापं तैस्तु महत्कृतम् ३६।
प्रायश्चित्तेन रौद्रेण तानहं परिशोधये ।
उपवासैर्महीदेव कायशोषकरादिकैः ३७।
चर्मकारो यथा चर्मकुंडस्योपरि निर्घृणे ।
शोधयेच्च कशाद्यैश्च कुद्रव्यं स्फोटयेद्यथा ३८।
तथाहं पापकर्तारं शोधयामि न संशयः ।
औषधीनां सुयोगैश्च कषायैः कटुकैर्ध्रुवम् ३९।
उष्णोदकैश्च संतापैर्वैद्यरूपेण नान्यथा ।
अन्ये भुंजंति तस्याग्रे भोगानन्यान्मनोगतान् ४०।
किं करोमि समर्थश्च न दत्तं दानमुत्तमम् ।
महता रोगरूपेण तमेनं परिवारयेत् ४१।
नित्यकालस्य यद्दानमात्मानं पापिभिर्यथा ।
न दत्तं च महीदेव श्रद्धया निजशक्तितः ४२।
तथायातान्प्रधक्ष्येतानुपायैर्दारुणैः किल ।
नैमित्तिकं प्रवक्ष्यामि दानकालं तवाग्रतः ४३।
महापर्वणि संप्राप्ते तीर्थप्राप्तौ तथैव च ।
पितुः क्षयाहदिवसे वैशाखादिषु यत्नतः ४४।
मासेषु पुण्यकालेषु दानं नैमित्तिकं स्मृतम् ।
काम्यकालं प्रवक्ष्यामि यद्दानं फलदायकम् ४५।
व्रतादिकं समुद्दिश्य कामनाफलकल्पितम् ।
यत्कामं कथितं सम्यक्सर्वांगैरेव संगतम् ४६।
तस्य दानप्रभावेण भावनापरिभावितः ।
तादृक्फलं समश्नाति मानुषस्तत्प्रसादनात् ४७।
आभ्युदयं प्रवक्ष्यामि यच्च यज्ञादिषु स्मृतम् ।
जातकर्मादिकार्येषु मौञ्ज्याद्युद्वाहकर्मसु ४८।
प्रासादध्वजदेवानां प्रतिष्ठासु प्रयत्नतः ।
इत्यादिकं महीदेव दानमभ्युदयात्मकम् ४९।
प्रजावृद्धिकरं भोगयशःस्वर्गसुखप्रदम् ।
अंत्यं चैव प्रवक्ष्यामि शृणु दानं द्विजोत्तम ५०।
कामस्य संक्षयं ज्ञात्वा जरया परिपीडितः ।
दद्याद्दानानि यत्नेन कुर्यादाशां न कस्यचित् ५१।
मृते च मयि मे पुत्रा जायाबांधवसोदराः ।
कथमेते भविष्यंति मां विना सुहृदो मम ५२।
अहं वित्तविहीनो वा कथं जीवन्पुनस्तथा ।
भविष्यामीति विज्ञाय न ददाति हि किंचन ५३।
आशापाशशतैर्बद्धो भाग्यादेव कुमायया ।
मृत्युं प्रयाति मूढात्मा रुदंति च ततः सुताः ५४।
दुःखेन पीडिताः किचिंन्मोहेनाकुलचेतसः ।
स्वल्पमल्पं च वा दानं कथंचित्कल्पयंति ते ५५।
न तत्रास्मिन्गते काले महादुःखगते सति ।
विस्मरंति तदा दानं लोभाद्वा न ददत्यपि ५६।
मृतोऽयं च पिता ज्ञात्वा स्नेहपाशो निवर्त्तते ।
योऽसौ मृतो महीदेव मम पाशैर्नियंत्रितः ५७।
तृष्णा क्षुधा समाक्रांतो बहुदुःखैः प्रपीडितः ।
पच्यते नरके घोरे चिरकालं न संशयः ५८।
तस्माद्दानं प्रदातव्यं स्वयमेव न संशयः ।
कस्य पुत्राश्च पौत्राश्च कस्य भार्या धनं च वा ५९।
संसारे नास्तिकः कस्य स्वयं तस्मात्प्रदीयते ।
पानमन्नं च तांबूलमुदकं कांचनं तथा ६०।
वसनं गां च भूमिं च च्छत्रपात्राण्यनेकधा ।
फलानि भूमिदानानि विविधानि स्वशक्तितः ६१।
दातव्यानि महीदेव नात्र कार्या विचारणा ।
तीर्थानां लक्षणं विप्र प्रवक्ष्यामि तवाग्रतः ६२।
सुतीर्थानि इयं गंगा भाति पुण्या सरस्वती ।
रेवा च यमुना तापी नदी चर्मण्वती तथा ६३।
सरयू च वरा वेणी पूर्णा पापप्रणाशिनी ।
कावेरी कपिला चान्या विशल्या विश्वतारिणी ६४।
गोदावरी समाख्याता तुंगभद्रा च गंडकी ।
पापानां भीतिदा नित्यं नदी भीमरथी स्मृता ६५।
देविका कृष्णगंगा च अन्या याः सरितांवराः ।
एतास्तु पुण्यकालेषु संति तीर्थान्यनेकशः ६६।
ग्रामे वा यदि वारण्ये नद्यः सर्वत्र पावनाः ।
तत्र तत्रैव कर्त्तव्याः स्नानदानादिकाः क्रियाः ६७।
यदा न ज्ञायते नाम तस्य तीर्थस्य भो द्विज ।
तत्रेत्युच्चारणं कार्यं विष्णुतीर्थमिदं महत् ६८।
तीर्थस्य देवता विष्णुःस र्वत्रापि न संशयः ।
नारायणेति यन्नाम स्मरेत्तीर्थेषु साधकः ६९।
तस्य तीर्थफलं सम्यग्विष्णुनाम्नैव जायते ।
अज्ञातानां च तीर्थानां देवतानां न संशयः ७०।
विष्णुनाम्नैव नामानि मानवः परिकीर्तयेत् ।
सर्वास्तु सिद्धयः पुण्यास्तीर्थभूतास्तु सागरः ७१।
सरांसि मानसादीनि निर्झराः पल्वलादयः ।
स्वल्पा नद्योऽपि सर्वास्तास्तीर्थानि हरिनामतः ७२।
पर्वतास्तीर्थरूपाश्च यज्ञो यज्ञमही तथा ।
ब्राह्मणा यत्र विद्वांसः कौतुकेनाप्यवस्थिताः ७३।
तदेव तीर्थं सुमहत्सर्वपापहरं स्मृतम् ।
श्राद्धं च श्राद्धभूमिश्च देवशाला च होमभूः ७४।
यत्र वेदध्वनिः सम्यग्यत्र विष्णुकथाः शुभाः ।
स्वगृहं पुण्यसंयुक्तं गोस्थानमपि पावनम् ७५।
यत्राश्वत्थ तरु वने यत्रागारोपि पावनः ।
एवमादीनि तीर्थानि पिता माता तथैव च ७६।
पच्यते यत्र धर्मार्थं स्वयं तत्र गुरुः स्थितः ।
साध्वी यत्रास्ति वै भार्या तत्र तीर्थं न संशयः ७७।
यत्र धर्मरतिर्नित्यं विद्वान्पुत्रः प्रवर्तते ।
तत्र तस्य हि तत्तीर्थं तारणाय प्रतिष्ठितम् ७८।
इत्येवमादि तीर्थानि राजवेश्म तथैव च ।
एवमादिषु तीर्थेषु पर्वयोगाद्विशेषतः ७९।
अनाराध्य हृषीकेशं सर्वदं सर्वदेहिनाम् ।
कोपि क्वापि किमप्यत्र न लभेतेति निश्चितम् ८०।
अपत्यं द्रविणं दारास्तारहर्म्यं हया गजाः ।
सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः ८१।
नारायणः परो देवः सत्यरूपो जनार्दनः ।
त्रिधात्मानंसभगवान्ससर्जपरमेश्वरः ८२।
रजस्तमोभ्यांयुक्तोऽभूद्रजःसत्वाधिकंविभुः ।
ससर्जनाभिकमलेब्रह्माणंकमलासनम् ८३।
रजसा तमसा जुष्टं स रुद्रमसृजद्विभुः ।
सत्वं रजस्तमश्चैव त्रितयं चैतदुच्यते ८४।
सत्वेन मुच्यते जंतुः सत्वं नारायणात्मकम् ।
रजसा सत्वयुक्तेन भवेच्छ्रीमान्यशोधिकः ८५।
यद्वेदवाक्यं धर्मस्य समुद्दिश्योपसेवते ।
तद्रुद्रमिति विख्यातं विशिष्टं गदितं नृणाम् ८६।
तेन राजा भवेल्लोके रजसा तमसा पुनः ।
यद्धीनं रजसा धर्मं केवलं तामसं च यत् ८७।
तच्च दुर्गतिदं नॄणामिहलोके परत्र च ।
यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा स स्वयं हरः ८८।
देवास्त्रयोपि यज्ञेऽस्मिन्निज्या देवेषु नित्यशः ।
यो भेदं कुरुते तेषां त्रयाणां द्विजसत्तमः ८९।
स पापकारी पापात्मा अनिष्टां गतिमाप्नुयात् ।
विष्णुरेव परं ब्रह्म विष्णुरेव जगद्द्विज ९०।
तस्यायं माधवो मासः प्रियः सर्वेषु कर्मसु ।
कीर्त्यते हयमेधादि महाक्रतुफलप्रदः ९१।
तीर्थस्नान तपो दान जप यज्ञफलाधिकः ९२।
स्नानं विभाते नियमेन नद्यामनारतं मेषगते रवौ ये ।
कुर्वंति येऽस्मिन्नपि विप्रपूजां मद्दंडभाजो न हि ते भवंति ९३।
हत्वा हत्वा किंकरौघं पुरो मे लुप्त्वा लुप्त्वा चित्रगुप्तस्य लेख्यम् ।
स्नात्वा स्नात्वा माधवे मासि तीर्थे पूर्वान्पूर्वानुद्धरंतीह पापात् ९४।
इदं भयच्छेदकरं न तस्मात्प्रकाशनीयं परमं रहस्यम् ।
निर्वासहेतुर्नरकालयस्य ममाधिकारक्षयकारणं तत् ९५।
भागीरथीनर्मदा च यमुना च सरस्वती ।
विशोका च वितस्ता च विंध्यस्योत्तरतः स्थिताः ९६।
गोदावरी भीमरथी तुंगभद्रा च देविका ।
तापी पयोष्णी विंध्यस्य दक्षिणास्तु प्रकीर्तिताः ९७।
द्वादशैता महानद्यो नित्यं तेनावगाहिताः ।
वैशाखे विधिना स्नानं नद्यां यः प्रातराचरेत् ९८।
सर्वाः समुद्रगाः पुण्याः सर्वे पुण्या नगोत्तमाः ।
सर्वे चायतनाः पुण्याः सर्वे पुण्या वनाश्रयाः ९९।
तेनावगाहिता दृष्टाः प्रणता बहुसेविताः ।
स्नानमर्द्धोदिते सूर्ये वैशाखे नियतश्चरेत् १००।
तस्य पुण्यं महीदेव कश्चिद्वक्तुं न शक्यते ।
यदि वक्त्रसहस्राणां सहस्राणि भवंति हि १०१।
आयुश्च ब्रह्मणा स्वल्पं यदि स्याद्द्विजसत्तम ।
तदा माधवमासस्य फलं कथयितुं भवेत् १०२।
महानिरयकर्षाग्नि माधवो माधवो यथा ।
ब्रह्महत्यादिकं पापमगम्यागमनादिकम् १०३।
कामाकामकृतं पापमेति पातकमेव च ।
उपपापरहस्यं च संकरीकरणं परम् १०४।
जातिभ्रंशकरं घोरमपात्रीकरणं तथा ।
मलावहं प्रकीर्णं च वाङ्मनः काय संभवम् १०५।
माधवो निर्दहेन्मासो विधिना समुपासितः ।
कल्पकोटिसहस्राणि कल्पकोटि शतानि च १०६।
वसेद्विष्णुपुरे श्रीमान्माधवे योऽर्चयेद्धरिम् १०७।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये सप्तनवतितमोऽध्यायः ९७।
खण्डः ५ (पातालखण्डः) — Adhyāya 98
सूत उवाच-
एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य भूसुरः ।
पुनः पप्रच्छ मासस्य माधवस्य विधिं शुभम् १।
ब्राह्मण उवाच-
धर्मराज महाभाग सम्यग्गुह्यं प्रकाशितम् ।
माधवस्नानजं पुण्यं नराणां मुक्तिदं परम् २।
माधवं माधवे मासि स्नात्वा प्रातः समाहितः ।
कथं संपूजयेद्देवं कैः पुष्पैस्तद्विधिं वद ३।
धर्मराज उवाच-
सर्वेषां पत्रजातीनां तुलसी केशवप्रिया ।
पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा ४।
वासुदेवादयो देवा वसंति तुलसीदले ।
सर्वदा सर्वकालेषु तुलसी विष्णुवल्लभा ५।
त्यक्त्वा तु मालती पुष्पं मुक्त्वा च सरसीरुहम् ।
गृहीत्वा तुलसीपत्रं भक्त्या माधवमर्चयेत् ६।
तस्य पुण्यफलं वक्तुमलं शेषोऽपि नो भवेत् ।
अस्नात्वा तुलसीं छित्त्वा देवार्थं पितृकर्मणि ७।
तत्सर्वं निष्फलं याति पंचगव्येन शुध्यति ।
दारिद्र्यदुःखभोगादि पापानि सुबहून्यपि ८।
तुलसी हरते क्षिप्रं रोगानिव हरीतकी ।
तुलसी कृष्णगौराख्या तयाभ्यर्च्य मधुद्विषम् ९।
विशेषेण हरेर्भक्तो नरो नारायणो भवेत् ।
माधवं सकलं मासं तुलस्या योऽर्चयेद्यतः १०।
त्रिसंध्यं मधुहंतारं नास्ति तस्य पुनर्भवः ।
अलाभे पुष्पपत्राणामन्नाद्येनापि पूजयेत् ११।
शालितंडुल गोधूमैर्यवैर्वापि हरिं सदा ।
प्रातः स्नात्वा विधानेन माधवे माधवप्रिये १२।
पितृदेवमनुष्यांश्च तर्प्पयेत्सचराचरम् ।
योऽश्वत्थमूलं वै सिंचेत्तोयेन बहुना सदा १३।
कुर्यात्प्रदक्षिणां तं तु सर्वदेवमयं ततः ।
योऽश्वत्थमर्चयेद्देवमुदकेन समंततः ।
कुलानामयुतं तेन तारितं स्यान्नसंशयः १४।
अलक्ष्मीः कालकर्णी च दुःस्वप्नो दुर्विचिंतितम् ।
अश्वत्थ तर्प्पणात्तात सर्वदुःखं विलीयते १५।
तर्पिताः पितरस्तेन तेन विष्णुः समर्चितः ।
योऽश्वत्थमर्चयेद्वीरो ग्रहास्तेनैव पूजिताः १६।
श्वेताश्वपुष्पाणि तथा शमीं च हुताशनं चंदनमर्कबिंबम् ।
अश्वत्थवृक्षं च समालभेत ततश्च कुर्यान्निज जातिधर्मान् १७।
कंडूयनं च गोग्रासं स्नात्वा पिप्पलतर्प्पणम् ।
कृत्वा गोविंदपूजां च न स दुर्गतिमाप्नुयात् १८।
त्रयोदश्यां चतुर्दश्यां वैशाख्यां च दिनत्रयम् ।
सर्वाशक्तोपि विधिना नारी वा पुरुषोपि वा १९।
पूर्वोक्तनियमैर्युक्तः प्रातः स्नात्वा च शक्तितः ।
विमुक्तः पातकैः सर्वैः स्वर्गमक्षयमश्नुते २०।
वैशाख्यामपि शक्त्या वा भोजयेद्ब्राह्मणान्दश ।
त्रिरात्रमुत्थितः स्नात्वा सकृच्च प्रयतः शुचिः २१।
गौरान्वा यदि वा कृष्णांस्तिलान्क्षौद्रेण संयुतान् ।
दत्वा द्वादशविप्रेभ्यस्तेनैव स्वस्ति वाचयेत् २२।
प्रीयतां धर्मराजो मे पितॄन्देवांश्च तर्प्पयेत् ।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति २३।
अयुतायुतं च तिष्ठेत्स स्वर्गलोके यथासुखम् ।
मामेव तु न पश्येत्स पूजितोऽखिल दैवतैः २४।
पाकान्नोदक कुंभादि पितृदैवत तुष्टये ।
त्रयोदश्यां चतुर्दश्यां पूर्णायां च दिनत्रयम् २५।
यो दद्याद्भक्तितो विप्र महापापैः प्रमुच्यते ।
सुवर्णतिलपात्रैस्तु ब्राह्मणाञ्छक्तितोऽन्वहम् २६।
तर्प्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति ।
वैशाख्यां पौर्णमास्यां च सृष्टाः कमलयोनिना २७।
तिला देयाश्च भक्त्या च श्रेयः संतति हेतवे ।
इहार्थे च पुरावृत्तं तदाकर्णय सुव्रत २८।
फलं माधवमासस्य पूर्णायां परमाद्भुतम् ।
मेषसंक्रममारभ्य तिथयस्त्रिंशदुत्तमाः २९।
सर्वयज्ञाधिकाः पुण्याः पुराणेषु प्रकीर्तिताः ।
विशेषतोऽपि तास्तिस्रः पवित्राः पापिदुर्लभाः ३०।
ततोपि पूर्णिमा पुण्या माधवी माधवप्रिया ।
एषा वाराहकल्पादि तिथिराद्या महाफला ३१।
पुरा नारायणेनास्यामादिदैत्यौ विमोहितौ ।
हिरण्याक्ष मधू विप्र पृथिवी च समुद्धृता ३२।
त्रयोदश्यां चतुर्दश्यां पौर्णमास्यामयं विभुः ।
क्रमादेतत्त्रयं चक्रे शुक्लेऽस्मिन्मासि माधवे ३३।
ततः प्रभृति विप्रेंद्र विशेषादेव पूर्णिमा ।
कल्पादिः पावना ख्याता कर्मणः कल्पसाक्षिणी ३४।
येन स्नानं न वैशाखे प्रातर्नियमशालिना ।
किं तस्य जन्मना विप्र नूनमात्मापकारिणा ३५।
त्रयोदश्यां चतुर्दश्यां पौर्णमास्यां विशेषतः ।
अपिसम्यग्विधानेन नारी वा पुरुषोऽपि च ३६।
प्रातः स्नातः सनियमः सर्वपापैः प्रमुच्यते ।
स्नानदानार्चनश्राद्धक्रियापुण्यादिवर्जिता ३७।
यस्यातीता च वैशाखी स नूनं निरयालयः ।
न वेदेन समं शास्त्रं न तीर्थं गंगया समम् ३८।
न दानं जलगोतुल्यं न वैशाखी समा तिथिः ।
जलधेनुं च यो दद्याद्वैशाख्यां विष्णुतत्परः ३९।
त्रयाणामपि देवानां चतुर्थोऽयं विशेषतः ।
मातृहा पितृहा चैव भ्रूणहा गुरुतल्पगः ४०।
जलधेनुं समालोक्य मुच्यते सर्वपातकैः ।
दशपूर्वान्परान्वंश्यान्नरकात्तारयंतिते ४१।
जलधेनुं प्रयच्छंति वैशाख्यां विधिनात्र ये ।
शर्करा फल तांबूलमुपानत्करपत्रिकाः ४२।
प्रयच्छंति द्विजाग्र्येभ्यो धन्यास्ते चात्र कीर्तिताः ।
मणिकोदककुंभांश्च पक्वान्नं हैमदक्षिणाम् ४३।
यः प्रयच्छति वैशाख्यां सोऽश्वमेधफलं लभेत् ।
अत्राप्युदाहरंतीममितिहासं पुरातनम् ४४।
ब्राह्मणस्य च संवादं प्रेतैः सार्द्धं महावने ।
ब्राह्मणो धनशर्मासीन्मध्यदेशे पुरानघ ४५।
कुशाद्यर्थं वनं यातो ददर्शेदमथाद्भुतम् ।
भीतोऽपश्यदसौ प्रेतान्दुष्टांस्त्रीनति दारुणान् ४६।
ऊर्ध्वकेशान्सरक्ताक्षान्कृष्णदंतान्कृशोदरान् ।
कुर्वतो विविधा रावान्धावतोपि यतस्ततः ४७।
तान्दृष्ट्वा भयसंत्रस्तो ब्राह्मणो विद्रुतो जवात् ।
क्रंदमानास्ततस्तेपि तमेवानु ययुस्तदा ४८।
सधर्ष्यमाणस्तैः प्रेतैरुवाच मधुरं वचः ।
धनशर्मोवाच-
के यूयं वः कुतोऽवस्था जातेति निरयोचिता ४९।
भयार्त्तमनुकंप्यं मां दुःखितं त्रातुमर्हथ ।
वैष्णवं बहुभृत्यं च निःस्वं विप्रं वनागतम् ५०।
भवतामपि सश्रेयो नूनं दास्यति केशवः ।
ब्रह्मण्यो भगवान्विष्णुस्तुष्टोमय्यनुकंपया ५१।
अतसीपुष्पसंकाशो विष्णुः पीतांबरो हरिः ।
यस्य श्रवणमात्रेण नाम्नो याति महा तमः ५२।
अनादिनिधनो देवः शंख चक्र गदाधरः ।
अक्षयः पुंडरीकाक्षः प्रेतमोक्षप्रदायकः ५३।
यम उवाच-
नामश्रवण मात्रेण विष्णोस्ते परितोषिताः ।
पिशाचाः पुण्यभावस्था दया दाक्षिण्य यंत्रिताः ५४।
प्रीणितास्तस्यवचसा तदादिष्टेन नोदिताः ।
इदमूचुर्द्विजं प्रेताः क्षुत्तृष्णापूरपीडिताः ५५।
प्रेता ऊचु-
दर्शनेनैव ते विप्र नामश्रवणतो हरेः ।
भावमन्यमनुप्राप्ता वयं जाता दयालवः ५६।
अपाकरोति दुरितं श्रेयश्च योजयत्यपि ।
यशो विस्तारयत्याशु नूनं वैष्णवसंगमः ५७।
रसायनमयी शीता परमानंददायिनी ।
नानंदयति कं नाम वैष्णवामृतचंद्रिका ५८।
अयं कृतघ्न नामास्ति द्वितीयोऽयं विदैवतः ।
अवैशाखस्तृतीयोऽयं त्रयाणामपि पापकृत् ५९।
सदैवानुष्ठितानेन पापेनाति कृतघ्नता ।
तेनास्य कर्मजं नाम कृतघ्नाख्यं व्यवस्थितम् ६०।
सुदास इति नाम्नायं शूद्रो ऽभूत्पूर्वजन्मनि ।
कृतघ्नस्तेन पापेन प्राप्तोऽवस्थामिमां द्विज ६१।
अतिपापिनि धूर्ते च गुरुस्वाम्यहितेऽपि च ।
निष्कृतिर्विद्यते विप्र कृतघ्ने नास्ति निष्कृतिः ६२।
नानानिरयसंघातं शरीरैर्यातना क्षमैः ।
अनुभूयतांत्ववस्थामंत्यामेतां गतो द्विज ६३।
अनेनान्नं सदा भुक्तमकृत्वा देवतार्चनम् ।
अदत्वा गुरुविप्रेभ्यस्तेनैवायं विदैवतः ६४।
अयं दशसहस्राणां ग्रामाणामीश्वरो नृपः ।
हरिवीर इति ख्यातो नाम्नासीत्पूर्वजन्मनि ६५।
रोषाहंकारनास्तिक्यैर्गुर्वाज्ञालंघनोद्यतः ।
अकृत्वैव महायज्ञान्भुक्तवान्विप्र निंदकः ६६।
कर्मणा तेन पापेन महानरकसंकटम् ।
अनुभूय ततः प्रेतो जातो नाम्ना विदैवतः ६७।
अवैशाखस्तृतीयोऽहं त्रयाणामपि पापकृत् ।
तेन मे कर्मजं नाम ब्राह्मणोऽहं व्यवस्थितः ६८।
मध्यदेशे भवं नाम्ना गौतमो गोत्रतोऽप्यहम् ।
विप्रो वासपुरेवासी यज्वाऽऽसं पूर्वजन्मनि ६९।
मया केवलमेवैकं श्रौतमार्गानुसारिणा ।
उद्दिश्य माधवं देवं न स्नातं मासि माधवे ७०।
न दत्तं न हुतं किंचिद्वैशाख्यां चाविशेषतः ।
नार्चितो मधुहा तत्र तोषिता न मनीषिणः ७१।
मणिकोदककुंभैश्च न दानैः पितृदेवताः ।
तर्पिता न तिला दत्ताः सक्षौद्राः श्रोत्रियेषु च ७२।
न पुष्पफलतांबूल चंदन व्यजनांबरैः ।
विद्वांसो नार्चितास्तत्र पितृदैवततुष्टये ७३।
मया नैकापि वैशाखी पूर्णा पूर्णफल प्रदा ।
स्नानदानक्रियापूजा सुकृतैः परिपालिता ७४।
तेन मे वैदिकं कर्म सर्वं चैव तु निष्फलम् ।
ततोऽवैशाखनामाहं प्रेतो जातोऽस्मि सर्वतः ७५।
एतत्ते सर्वमाख्यातं त्रयाणामपि कारणम् ।
त्वं नो भव समुद्धर्ता पापाद्विप्रोसि वै यतः ७६।
विमुक्तं ब्रह्मतीर्थं च साधवः परमं यतः ।
तारयंति महापापान्निरयेभ्योऽपि संश्रितान् ७७।
गंगादि पुण्यतीर्थेषु यो नरः स्नाति सर्वदा ।
यः करोति सतां संगं तयोः सत्संगमो वरः ७८।
अथवा मम पुत्रोऽस्ति धनशर्मेति विश्रुतः ।
तं गत्वा बोधय स्वामिन्नस्मदर्थे कृतोद्यमः ७९।
कार्ये समुद्यमं कृत्वा परेषां समुपस्थिते ।
पुष्कलं फलमाप्नोति यज्ञदानक्रियाधिकम् ८०।
यम उवाच-
प्रेतवाक्यं तदाकर्ण्य धनशर्माति दुःखितः ।
स तं जनकमाज्ञाय पतितं निरये निजम् ८१।
आत्मानमभितो निंदन्निदं वचनमब्रवीत् ।
धनशर्मोवाच-
अहं तव सुतः स्वामिन्गौतमस्य निरर्थकः ८२।
यस्तु पुत्रो न निस्तारं पितुः कुर्यादतंद्रितः ।
आत्मानं पावयेन्नासावदाता द्रव्यवानिति ८३।
धर्मो हि गहनो ज्ञेयः प्रयत्नेनापि धीमता ।
यथा मम पिता च त्वमिमां प्राप्तोसि दुर्गतिम् ८४।
यदा च सुखसंतानं न मत्तः प्राप्तवानसि ।
लोकयोः सुखसंताने तथा स तनयो मतः ८५।
द्वौ गुरू पुरुषस्येह पिता माता च धर्मतः ।
तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात् ८६।
किं करोमि क्व गच्छामि कथं तातगतिस्तव ।
धर्मतत्त्वं न जानामि संश्रयामि भवद्वचः ८७।
प्रेत उवाच-
शृणु पुत्र वचः सत्यं भाविनोऽर्थस्य मे बलात् ।
अथ पुण्येन केनापि भवित्री सुगतिर्मम ८८।
मया श्रौतानि कर्माणि कुर्वता किल गर्वतः ।
अनादृतं गुरुवचो गुरुस्तत्रावमानितः ८९।
गुरूणामपमानेन प्रहर्षक्रोधविस्मयैः ।
पुण्यानि क्षयमायांति यशांसीव हि दुर्नयैः ९०।
पौराणिक विधानेन कर्म श्रौताविरोधि यत् ।
केवलं वैदिकं कर्म कृतमज्ञानतो मया ९१।
पापेंधन दवज्वाला पापद्रुमकुठारिका ।
कृता नैकापि वैशाखी विधिना पुत्र पूर्णिमा ९२।
अव्रता यस्य वैशाखी सोऽवैशाखो भवेन्नरः ।
दशजन्मानि च ततस्तिर्यग्योनिषु जायते ९३।
चिरं भुक्त्वा दुःखमंते प्रेतः पर्यायतो भवेत् ।
लभते मानुषं जन्म कथंचिदपि दुर्लभम् ९४।
उपायं ते वदिष्यामि प्रेतमोक्षकरं परम् ।
श्रुतवान्यदहंपूर्वजन्मनिस्वगुरोर्मुखात् ९५।
गच्छ पुत्र गृहं स्नात्वा यमुनायां विधानतः ।
अद्यतः सर्वगतिदा कल्पाद्या साप्युपागता ।
पश्चिमेऽहनि वैशाखी पितृदेवार्चने हिता ९६।
पानीयमप्यत्र तिलैर्विमिश्रं सहोदकुंभान्नफलानि भक्त्या ।
दद्यात्पितृभ्यो भवतीह दत्तं श्राद्धं सदा तेन समा सहस्रम् ९७।
वैशाख्यां पौर्णमास्यां यो भोजयेद्भूमिदेवताः ।
सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसंख्यया ९८।
वैशाख्यां विधिना स्नात्वा भोजयेद्ब्राह्मणान्दश ।
पायसं सर्वपापेभ्यो मुच्यते नात्र संशयः ९९।
गौरान्वा यदि वा कृष्णांस्तिलान्क्षौद्रेण संयुतान् ।
दत्वा दशभ्यो विप्रेभ्यस्तेनैव स्वस्ति वाचयेत् १००।
प्रीयतां धर्मराजेति पितॄन्देवांश्च तर्पयेत् ।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति १०१।
वैशाख्यां पौर्णमास्यां च सृष्टाः कमलयोनिना ।
तिला देयाश्च भक्त्या च स्पृश्याः सर्वांगतो द्विज १०२।
यस्तिलैर्यवसम्मिश्रैः स्नाति सर्वांगतस्तदा ।
तस्य ब्रह्मा च धर्मोऽत्र ददाति वरमीप्सितम् १०३।
प्रीतये धर्मराजस्य यो दद्यादुदकुंभकान् ।
सप्तसप्त कुलं तेन तारितं स्यान्न संशयः १०४।
त्रयोदश्यां चतुर्दश्यां पूर्णायां भक्तितत्परः ।
स्नात्वा जप्त्वा तथा हुत्वा दत्वा संपूज्य माधवम् १०५।
यत्फलं जायते पुत्र तदस्माकं प्रयच्छ भोः ।
नैतौ परिचितौ प्रेतौ हित्वा स्वर्गतिमाश्रये १०६।
एतयोरपिपापस्य ह्यं तोयं समुपस्थितः ।
यम उवाच-
तथेत्युक्त्वा गतः सर्वं ततश्चक्रे स वै द्विजः १०७।
प्रीतः परमया भक्त्या वैशाख्यां स्नानदानकृत् ।
स्नातः समुदितो भक्त्या प्राप्य माधवपूर्णिमाम् १०८।
दत्वा बहूनि दानानि तेभ्यः पुण्यं ददौ पृथक् ।
तत्क्षणादेव ते सर्वे विमानस्था दिवं ययुः १०९।
तत्पुण्यदानयोगेन मुदिता द्विजसत्तम ।
धनशर्मापि विप्रेंद्र श्रुःतिस्मृतिपुराणवित् ११० ।
भुक्त्वा भोगांश्चिरं कालं ब्रह्मलोकमवाप्तवान् ।
एषा पुण्यतमा तस्माद्वैशाखी विश्वपावनी १११।
कथ्यते तु मया विप्र समासेनातिगौरवात् ११२।
धन्यास्त एव कृतिनश्च त एव जाता लोके त एव पुरुषाः पुरुषार्थभाजः ।
ये माधवे मधुनिषूदनमर्चयंति प्रातर्निमज्ज्य नियमेन विशुद्धचित्ताः ११३।
यो माधवे मासि नरः प्रभाते स्नातः समाराधयते रमेशम् ।
यमैरुपेतो नियमैरशेषैर्वृतोऽपि नूनं स निहंति पापम् ११४।
तैरेवकालो विजितस्त एव नरेषु धन्या विगतैनसस्ते ।
त एव गर्भे न विशंति भूयो मज्जंति ये माधवमासि युक्ताः ११५।
स माधवो गर्जति यज्ञयोगात्तपः क्रिया दानविधान योगात् ।
यस्मिन्कृतं मासि कथंचिदल्पं पुण्यं पुनः स्यादिह कल्पतुल्यम् ११६।
मज्जतो हि मनुजस्य माधवे माधवार्चनकृते दिनोदये ।
तामसोपि जलबिंदुसंगमादंगमावहति पावनं यतः ११७।
तानि देहमधिरुह्य देहिनस्तावदेव विचरंत्यघानि च ।
यावदेति न स माधवाह्वयः श्रीरमारमणवल्लभो विराट् ११९।
मेरुमंदरतुल्यानि पापान्युग्राण्यनेकशः ।
दहते माधवो मासः स्नातो माधववल्लभः १२०।
इदं संक्षेपतः प्रोक्तं मया तेऽनुग्रहाद्द्विज ।
वैशाखस्नानमाहात्म्यं श्रोतुः पापक्षयं करम् १२१।
यस्तु श्रोष्यति भक्त्यैनमितिहासं मयोदितम् ।
सोऽपि पापविनिर्मुक्तो न मामालोकयिष्यति १२२।
ब्रह्महत्यादि पापानि बहुशोऽपि कृतान्यपि ।
वैशाखस्य विधानेन तानि नश्यंति निश्चितम् १२३।
त्रिंशत्पूर्वान्परांस्त्रिंशत्त्रिंशच्चैव परावरान् ।
वैशाखे विधिना स्नातो नरकादुद्धरेत्पितॄन् १२४।
एकतः सर्वतीर्थानि सर्वेयज्ञाः सदक्षिणाः ।
एकतो माधवो मासो नियमादनुपालितः १२५।
यतो भगवतस्तस्य हरेरुत्कृष्टकर्मणः ।
प्रियोऽसौ माधवोमासः सर्वेभ्यः प्रवरोऽधिकः १२६।
संशयं नो विधेहीति महीदेव कथंचन ।
वैशाखं प्रति वै मासं समासाद्यन्मयोदितम् १२७।
इहार्थे यत्पुरावृत्तं तदाकर्णय चाद्भुतम् ।
अनाख्येयमपीदं ते कथयिष्ये कथानकम् १२८।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये अष्टनवतितमोऽध्यायः ९८।
खण्डः ५ (पातालखण्डः) — Adhyāya 99
यम उवाच-
बभूव भूपतिः पूर्वं ख्यातो नाम्ना महीरथः ।
पूर्वपुण्यफलावाप्त प्रभूतैश्वर्यसंपदः १।
केवलं कामकलना ललना ललितस्थितः ।
तदेकव्यसनासक्तिर्न धर्मार्थ व्यवस्थितः २।
मंत्रिणि न्यस्य राज्यश्रीर्बुभुजे विषयान्नृपः ।
स कामिनी सहचरो राज्यकार्यपराङ्मुखः ३।
न प्रजा न धनं धर्मं नार्थं कार्यं च पश्यति ।
केवलं कामिनीकेलि कलनोचितवासनः ४।
अथ कालेन महता पुरोधास्तस्य कश्यपः ।
वचः प्रोवाच तं धर्म्यमिति चेतस्यचिंतयत् ५।
न वारयति यो मोहादधर्मान्नृपतिं गुरुः ।
सोपि तत्पापभुक्तस्माद्बोधनीयः पुरोधसा ६।
बोधितोऽप्यवजानाति स चेद्वाक्यं पुरोधसः ।
पुरोधास्तत्र निर्दोषो राजा स्यात्सर्वदोषभाक् ७।
शृणु राजन्मम गुरोर्वचो धर्मार्थसंहितम् ।
अभिन्नार्थमुपेतार्थमिच्छारागादि वर्जितम् ८।
अयमेव परो धर्मो यद्गुरोर्वचसि स्थितिः ।
गुर्वाज्ञायालवो राज्ञामायुः श्री सौख्यवर्द्धनः ९।
न विप्रास्तर्पिता दानैर्विष्णुर्नाराधितस्त्वया ।
न व्रतं न तपः किंचिन्न तीर्थं हि कृतं त्वया १०।
हरिनाम त्वया कामवशगेन न चिंतितम् ।
हा त्वया भीरुसंगत्या न विद्वत्संगतिः कृता ११।
स्मरचामरवाहिन्यो वल्लभाः कस्य न प्रियाः ।
किंतु ताः पवनोल्लोलकदलीदलवच्चलाः १२।
तरंगतरलैरर्थैर्भोगैर्भ्रूभंगभंगुरैः ।
मुहूर्तपेयैस्तारुण्यैर्न तृप्यंते महाशयाः १३।
किं विद्यया च तपसा किं त्यागेन नयेन वा ।
किं विविक्तेन मनसा स्त्रीभिर्यस्य हृतं मनः १४।
एक एव सुहृद्धर्मो निधनेष्वनुयाति यः ।
सर्वमन्यच्छरीरेण समं नाशं गमिष्यति १५।
धर्मं शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः ।
धर्मेण हि सहायेन तमस्तरति दुस्तरम् १६।
अनिलोल्लासितोत्ताल जलकल्लोल चंचलम् ।
किं न जानासि राजेंद्र नृणां जीवित विभ्रमम् १७।
विनयो रत्नमुकुटः सत्यधर्मौ च कुंडले ।
त्यागश्च कंकणो येषां किं तेषां जडमंडनैः १८।
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं भुवि ।
विमुखा बांधवा यांति धर्मस्तमनुगच्छति १९।
गम्यमानेषु सर्वेषु क्षीयमाणे तथायुषि ।
जीविते लुप्यमाने च किमुत्थाय न धावसि २०।
कुटुंबं पुत्रदारादि शरीरं द्रव्यसंचयः ।
पारक्यमध्रुवं किंतु स्वीये सुकृतदुष्कृते २१।
यदा सर्वं परित्यज्य गंतव्यमवशेन ते ।
अनर्थे किं प्रसक्तस्त्वं स्वधर्मं नानुतिष्ठसि २२।
अविश्राममनालंबमपाथेयमदेशिकम् ।
मृतः कांतारमध्वानं कथमेको गमिष्यसि २३।
न हि त्वां प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति ।
सुकृतं दुष्कृतं च त्वां यास्यंतमनुयास्यति २४।
श्रुतिस्मृत्युदितं कर्म कुलदेशोचितं हितम् ।
धर्ममूलं निषेवस्व सदाचारमतंद्रितः २५।
परित्यजेदर्थकामौ स्यातां चेद्धर्मवर्जितौ ।
धर्मेण प्राप्यते सर्वमर्थकामादिकं सुखम् २६।
इंद्रियाणां जयं योगं समातिष्ठेद्दिवानिशम् ।
जितेंद्रियो हि शक्नोति पथि स्थापयितुं प्रजाः २७।
अतिप्रगल्भ ललना कटाक्ष चपलाश्रियः ।
विनये प्रणिधानेन चिरं तिष्ठंति भूभुजाम् २८।
कामदर्पादिशीलानामविचारित कारिणाम् ।
आयुषा सह नश्यंति संपदो मूढचेतसाम् २९।
भूतिभिर्नष्टदृष्टाभिर्नृत्यंते न महाशयाः ।
नागताभिर्न याताभिर्नदीभिश्चीयतेंबुधिः ३०।
व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते ।
व्यसन्यधोधो व्रजति स्वर्गाम्यव्यसनी नृपः ३१।
व्यसनानि दुरंतानि कामजानि विशेषतः ।
त्यज तस्मान्महाराज कामं धर्मविरोधिनम् ३२।
जडानामविवेकानामसुराणां दुरात्मनाम् ।
भाग्यभोग्यानि राज्यानि संत्यनीतिमतामपि ३३।
नैव स्थिराणि तानीह दुरितैरनुसेवितैः ।
विलीयंते यथा वह्निसंसर्गेणेंधनानि च ३४।
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
न विचारपरं चेतो यस्यासौ मृत एव सः ३५।
उपदेष्टा श्रुतवतां गुरुरित्युच्यते यतः ।
किंतु त्वासन्नविपदामुपदेशाः शिरोरुहाः ३६।
विषयज्वरमुत्सृज्य समया स्वस्थया धिया ।
युक्त्या च व्यवहारिण्या स्वार्थः प्राज्ञेन साध्यते ३७।
अशुभाच्चलितं याति शुभं तस्मादपीतरम् ।
जंतोश्चित्तं च शिशुवत्तस्मात्तच्चालयेद्बलात् ३८।
उपधार्य मतिं राजन्वृद्धानां धर्मदर्शिनाम् ।
नियच्छेत्परया बुद्ध्या चित्तमुत्पथगामि यत् ३९।
न धनान्युपकुर्वंति न मित्राणि न बांधवाः ।
न हस्तपादचलनं न देशांतरसंगतम् ४०।
न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः ।
केवलं तन्मनस्कस्य जपेनासाद्यते पदम् ४१।
विषये वर्तमानस्य तस्माच्चित्तस्य संयमे ।
यत्नं कुर्याद्बुधो राजन्ध्रुवं यंतेव वाजिनाम् ४२।
तत्तत्कुर्याद्यतो राजन्भवता येन वंचितः ।
मुनिभिश्च फलैस्तैस्तैरतोप्याकर्णयाधुना ४३।
मुह्यतापि मनुष्येण प्रष्टव्याः सुहृदो बुधाः ।
ते च पृष्टा यथा ब्रूयुस्तत्कर्त्तव्यं यथोचितम् ४४।
सर्वोपायेन कर्त्तव्यो निग्रहः कामकोपयोः ।
श्रेयोऽर्थिना यतस्तौ हि श्रेयोघातार्थमुद्यतौ ४५।
कामो हि बलवान्राजञ्छरीरस्थो रिपुर्महान् ।
न तस्य वशगो भूयाज्जनः श्रेयोभिलाषुकः ४६।
यः कामो देवदेवेन पुरा तेनैव शूलिना ।
ललाटवह्निना दग्धः कृतोनंग इति स्थितिः ४७।
यदा वांछत्यसौ नारीं निहंतुं समनोभवः ।
पुंसां कायं समाश्रित्य स्वरूपं दर्शयत्यसौ ४८।
चिंत्यमानस्य वै पुंसो नार्या रूपं पुनःपुनः ।
तमदृष्टं समाश्रित्य नरमुन्मादयत्यसौ ४९।
तथैवोन्मादयत्येष योषिदंगं न संशयः ।
स्मरः संस्मरणान्नाम जातं तस्य ततो नृप ५०।
यादृशस्तादृशो रंगो वस्त्रं वीरसमाश्रयेत् ।
आत्मतेजः प्रकाशात्सोऽश्रुधारा पेयतां व्रजेत् ५१।
नार्यारूपं समारुह्य धीरं तमपि मोहयेत् ।
पुरुषं तु समाश्रित्य द्रावयत्येष योषितम् ५२।
स एव सहजो राजन्नशरीरी शरीरगः ।
शरीरकस्यापि विभो कथं पापं विधीयते ५३।
यं प्राप्यातिपवित्राणि पंचगव्यहवींषि च ।
अशुचित्वं क्षणं यांति कोऽन्य स्यादशुचिस्ततः ५४।
जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि मलं स्वकम् ।
न विरज्यति लोकोऽयं पीडयन्नपि नासिकाम् ५५।
हृद्यान्नमन्नपानानि यं प्राप्य सुरभीणि च ।
अशुचित्वं प्रयांत्याशु कोऽन्यस्यादशुचिस्ततः ५६।
यस्योदरगतं चान्नं स्वं हि रूपं परित्यजेत् ।
कृमिमिश्रममेध्यत्वं शीघ्रं प्रज्ञायते किल ५७।
तथापि देहे भूपाल निजरूपं परित्यजेत् ।
शुनतां याति वै पश्चात्कृमिदुर्गंधिसंकुले ५८।
जायंते तत्र वै यूकाः कृमयो वा न संशयः ।
सकृमिः कुरुते स्फोटं कंडूश्च परिदारुणः ५९।
व्यथामुत्पादयेद्भूयः सर्वांगं परिचालयेत् ।
नखाग्रैर्घृष्यमाणा सा कंडूः शांता प्रजायते ६०।
तद्वत्सुखं भवत्येव सुरतस्य न संशयः ।
भुंजत्येवं रसान्मर्त्यः सुभक्षान्पिबते पुनः ६१।
तत्रस्थं पचते वह्निरपाने पातयेन्मलम् ।
सारभूतो रसस्तत्र उद्रिक्तस्तु प्रजायते ६२।
निर्मलः शुद्धवीर्यस्तु ब्रह्मस्थानं प्रयाति च ।
आकृष्टः स समानेन नीतस्तेनापि वायुना ६३।
स्थानं न लभते वीर्यं चंचलत्वेन वर्तते ।
प्राणिनां हि कपालेषु कृमयः संति पंच वै ६४।
द्वावेतौ कर्णमूले तु नेत्रस्थाने ततः पुनः ।
कनिष्ठांगुलिमानेन रक्तपुच्छाश्च भूपते ६५।
नवनीतस्य वर्णेन कृष्णपुच्छा न संशयः ।
तेषां नामानि भद्रं ते मत्तो निगदतः शृणु ६६।
पिङ्गली शृंगली नाम द्वौ कृमी कर्णमूलयोः ।
शृंगली जंगली चान्यौ नेत्रयोरंतरस्थितौ ६७।
कृमीणां शतपंचाशत्तादृग्भूता न संशयः ।
ललाटांतः स्थिताः सर्वे राजिकायाः प्रमाणतः ६८।
कपालरोगिणः सर्वे कुर्वंति न संशयः ।
अन्यमेवं प्रवक्ष्यामि प्राजापत्यो महाकृमिः ६९।
सतंडुलप्रमाणेन तद्वद्वर्णेन संशयः ।
केशद्वयं मुखे तस्य विद्यते शृणु भूपते ७०।
प्राणिनां संक्षयाबुद्धिस्तत्क्षणाद्धि न संशयः ।
स्वस्थाने संस्थितस्यापि प्राजापत्यस्य वै मुखे ७१।
तद्वीर्यं रसरूपेण पतते नात्र संशयः ।
सुखेन पिबते वीर्यं तेन मत्तः प्रजायते ७२।
तालुस्थानं प्रभेद्यैव चंचलत्वेन वर्त्तते ।
इडा च पिंगला नाडी सुषुम्ना तत्र संस्थिताः ७३।
स्वबलेनापि तस्यैव कंपिता नाडिका क्षणम् ।
कामकंडूर्भवेद्राजन्सर्वेषां प्राणिनां किल ७४।
नरस्य स्फुटते लिगं नार्या योनिश्च भूपते ।
स्त्रीनरौ च प्रमत्तौ तौ गच्छतः संगमं ततः ७५।
कायेन कायं संघृष्य मैथुनेन हि जायते ।
क्षणमात्रं सुखं तत्र पुनः कंडूश्च तादृशी ७६।
सर्वत्र दृश्यते वीर भाव एवंविधः किल ।
विरसः परिपाकोऽयं विषयस्य न संशयः ७७।
धर्म एव पुनः श्रेयान्विधिना समनुष्ठितः ।
धैर्यमालंब्य च ततो धर्ममेव समाचर ७८।
श्वास एष चपलः क्षणमध्ये यो गतागत शतानि विधत्ते ।
जीवितं तनुभृतां तदधीनं कः समाचरति धर्मविलंबम् ७९।
दशमीमपि यातस्य चेतो नाद्यापि भूपते ।
विषयेभ्यो निषिद्धेभ्यो हाहा न विरमेच्चलम् ८०।
न जातुकामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ८१।
पुंश्चल्यापहृतं चित्तं कश्चान्यो मोचितुं क्षमः ।
आत्मारामेश्वरमृते भगवंतं च माधवम् ८२।
तस्मात्सर्वं निष्फलत्वं प्रयातं कामकश्मलात् ।
वयस्तेऽप्यधुना भूप समाचर हितं निजम् ८३।
वदाम्यहं तव नृपहितं सर्वोत्तमोत्तमम् ।
पुरोहितो यतस्तेऽहं सदसत्कर्मभागपि ८४।
एकतः सर्वपुण्यानि पापनाशाय पापिनाम् ।
एकतो माधवे मासो माधवस्यप्रियः सदा ८५।
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ।
महांति पातकान्येव कीर्तितानि मुनीश्वरैः ८६।
तत्र यन्मनसा काये व्रतेनापि कृतं नरैः ।
नाशयेन्माधवो मासः सर्वं पापतमो महत् ८७।
दिवाकर इव ध्वांतं नाशयेन्नृपसर्वशः ।
तथा श्री माधवोमासस्तमाचर विधानतः ८८।
आजन्मनोऽपि विहितानि महांति राजन्घोराणि तानि दुरितानि विहाय मर्त्याः ।
वैशाखमासविहिताचरणप्रभाव पुण्येन ते हरिपुरं मुदिता लभंते ८९।
यद्येकमपि वैशाखमाचरंति विधानतः ।
भावतः पापिनोऽप्यंते प्रयांति हरिमंदिरम् ९०।
तस्मात्त्वमपि राजेंद्र मासेऽस्मिन्माधवेधुना ।
प्रातःस्नात्वा विधानेन समर्चय मधुद्विषम् ९१।
तंडुलस्य यथा चर्म यथा ताम्रस्य कालिमा ।
नश्यंति क्रियया वीर पुरुषस्य तथा मलः ९२।
जीवस्य तंडुलस्येव सहजोऽपि मलो महान् ।
नश्यत्येव न संदेहस्तस्मात्कर्मोदितं कुरु ९३।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये नवनवतितमोऽध्यायः ९९।
खण्डः ५ (पातालखण्डः) — Adhyāya 100
श्रीराजोवाच-
क्षीरोदजलतुल्याभिः शीतलामलदृष्टिभिः ।
तथ्याभिश्च विचित्राभिस्त्वया गीर्भिः प्रबोधितः १।
असागरोत्थं पीयूषमद्रव्यं व्यसनौषधम् ।
त्वयाहं पायितः सौम्य भवरोगनिवारणम् २।
हर्षप्रदो नृणां पापहानिकृज्जीवनौषधम् ।
जरामृत्युहरो विप्र सद्भिः किल समागमः ३।
यानि यानि दुरापानि वांछितानि महीतले ।
प्राप्यंते तानि तान्येव साधूनामेव संगमात् ४।
यः स्नातः पापहरया साधुसंगम गंगया ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ५।
निमज्ज्योन्मज्जतान्नॄणां भवाब्धौ परमायनम् ।
संतो धर्मविदः शांता नौर्दृढे वाप्सुमज्जताम् ६।
यो मे भावःपुरा ह्यासीत्कामैकसुखलालसः ।
दर्शनाद्वचनात्तेऽद्य विपरीतोऽभवद्विभो ७।
एकजन्मसुखस्यार्थे सहस्राणि विलोपयेत् ।
प्राज्ञो जन्मसहस्राणि संचिनोत्येकजन्मना ८।
हाहा कामरसास्वाद सुखलालसचेतसा ।
मया मूढेन न कृतं किंचिदात्महितं द्विज ९।
अहो मे मनसो मोहो येनात्मा योषितां कृते ।
पातितो व्यसने घोरे दुःखोदर्के दुरत्यये १०।
भगवन्परितुष्टोऽस्मि बोधितो वचनेन ते ।
उपदेशप्रदानेन मामुद्धर्तुमिहार्हसि ११।
पुरा चरितपुण्योऽहं भवता बोधितोऽस्मि यत् ।
त्वत्पादरजसा वापि विशेषादपि पावितः १२।
विधिं माधवमासस्य ब्रूहि मे वदतां वर ।
सर्वपापक्षयकरो यस्त्वया परिकीर्तितः १३।
किं दानं तत्र किं स्नानं को देवो नियमास्तु के ।
एतदाचक्ष्व विप्रर्षे दुरितोत्तारणाय मे १४।
यम उवाच-
इत्येवमुक्तो भगवान्कश्यपः स दयानिधिः ।
प्रोवाच वचनं विप्र धर्म्यं विश्वहितं शुभम् १५।
कश्यप उवाच-
पूर्वापरसमाधान क्षमबुद्ध्या च ते नृप ।
पृष्टं प्राज्ञे न वक्तव्यं नाधमे पापमानसे १६।
पापप्रवृत्तस्य तथा दत्वा भूप शुभां मतिम् ।
विद्यादानफलं सम्यक्प्राप्यते नात्र संशयः १७।
नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः ।
जानन्नपि हि मेधावी जडवल्लोकमाचरेत् १८।
विदुषामपि शिष्याणां पुत्राणां च क्रियावताम् ।
अपृष्टमपि वक्तव्यं श्रेयः श्रद्धावतां हितम् १९।
सांप्रतं शुद्धहृदयो जातस्त्वं वचनान्मम ।
पुराचरितपुण्येन केनापि च महीपते २०।
पापावस्थं शरीरं तद्गतं तव ममाश्रयात् ।
श्रवणाद्धर्मशास्त्रस्य धर्मावस्थं तु तेऽभवत् २१।
पापावस्थमधर्माख्यं धर्मज्ञानविवर्जितम् ।
अपरं सद्व्रतं यद्धि विज्ञेयं तद्धि धार्मिकम् २२।
धर्माधर्मोपभोगाय तत्तृतीयमतींद्रियम् ।
तत्त्रिभेदं शरीरं हि धर्म्मविद्भिरिहोच्यते २३।
यावता धर्मभोगश्च मुक्तिश्चैतत्त्रिभेदकम् ।
पापावस्थं शरीरं तत्पापसंज्ञं तदुच्यते २४।
इदानीं गुरुभक्तिं च कुर्वतश्च वचो मम ।
शृण्वतो धर्मरूपं तु शरीरं ते व्यवस्थितम् २५।
तेनैव शुद्धिरमला जाता धर्मक्रियोचिता ।
दैवेन देहिनां नाम चेतांसि चरितानि च २६।
शरीराणि च पुष्यंति कालेकाले विपर्ययम् ।
सांप्रतं भवतश्चेतो नूनं धर्मे प्रवर्तते २७।
तेन त्वां कारयिष्यामि माधवस्नानमुत्तमम् ।
यम उवाच-।
ततस्तु कारितस्तेन कश्यपेन पुरोधसा २८।
स नृपो माधवे मासि स्नानं दानं च पूजनम् ।
यथादृष्टं पुरा शास्त्रे वैशाखस्नानजं विधिम् २९।
स मुनिः प्रत्युवाचासौ भूपाय च यथोदितम् ।
श्रावितः स्तोत्रसारं च पाठितो हरिमेधसः ३०।
श्रुते यस्मिन्नधीते च स सम्यक्फलमाप्नुयात् ३१।
स कारितस्तेन विशुद्धभावो राजापि चक्रे विधिवत्तदानीम् ।
श्रीमाधवेमासि विधानमीड्यं ततो यथाकर्णितमादरेण ३२।
प्रातःस्नानं च पाद्यं च ह्यर्घं च हरिपूजनम् ।
नैवेद्यं भक्तिभावेन चकार स नृपोत्तमः ३३।
दानं यथा नियमपालनमादरेण वैशाखमादिविदधाति विधानमेवम् ।
यो भक्तितोऽन्वहमसौ प्रतिवर्षमेवं कृत्वा प्रयाति हरिधाम महीसुराग्र्यः ३४।
अथेतरेषु मासेषु कामिनीकुचकेलिवान् ।
भोगैकलालसो भूयो भवत्येवं यथारुचि ३५।
न धर्मनियमं राजकार्येषु न विचारणम् ।
करोति कामवशगो हित्वा मासं स माधवम् ३६।
महतामपि विप्राग्र्य दुर्निवार्यो मनोभवः ।
शरीरसहजो नूनमनादिर्वासनाक्रमः ३७।
केशकज्जलशालिन्यो दुःस्पर्शा लोचनप्रियाः ।
यस्मादग्निशिखा नार्यो दहंति तृणवन्नरम् ३८।
घोरः शत्रुः शरीरस्थः पुंसां कामो यथोचितम् ।
मोहधूममयः पापो न केषामंधकारितम् ३९।
इति श्रीपद्मपुराणेपातालखंडे वैशाखमासमाहात्म्ये शततमोऽध्यायः १००।
खण्डः ५ (पातालखण्डः) — Adhyāya 101
यम उवाच-
अथ कालकटाक्षेण लक्षितो नृपतिस्तदा ।
मृतोऽतिरतिसेवोत्थ क्षयक्षीणकलेवरः १।
नीयमानो यमगणैस्ताड्यमानो मुहुर्मुहुः ।
क्रन्दमानो महारावान्स स्मरन्निजपातकम् २।
विष्णुदूतैः समागम्य ताडयित्वा ममानुगान् ।
धर्मवानयमित्युक्त्वा विमानमथ रोपितः ३।
नीतो हरिपुरं भूपः स्तूयमानोऽप्सरोगणैः ।
प्रातःस्नानेन वैशाखमासस्य क्षीणपातकः ४।
अथ धर्मविहीनोऽयमिति मत्वा च तैः पुनः ।
देवदूतैर्निदेशेन विष्णोर्भूमिपतिस्तदा ।
अदूरादेव निरयवर्त्मना स समाहितः ५।
स गच्छन्नपि शुश्राव जीवानां क्रंदतां पुनः ।
निरये पच्यमानानामारावं विविधं तदा ६।
पापिनां क्वथ्यमानानामाक्रंदमतिदारुणम् ।
श्रुत्वा विस्मयवान्विप्र राजाभूदतिदुःखितः ७।
प्रोवाच दूताः किमयमाक्रंदो दारुणः श्रुतः ।
पुनर्न श्रूयते तन्मे कारणं वक्तुमर्हथ ८।
दूता ऊचु-
जंतवस्त्यक्तमर्यादाः पापास्त्वाचारवर्जिताः ।
निरयेषु च घोरेषु तामिस्रादिषु पातिताः ९।
कृतपातकिनस्त्वत्र प्राणत्यागादनंतरम् ।
याम्यं पंथानमाश्रित्य दुःखमश्नंति दारुणम् १०।
यमस्य पुरुषैर्घोरैः कृष्यमाणा इतस्ततः ।
अंधकारे निपतिता भक्ष्यंते ह्यतिदारुणैः ११।
श्वभिः शृगालैः क्रव्यादैः काककंकबकादिभिः ।
अग्नितुंडैर्वृकव्याघ्रैर्भुजगैर्वृश्चिकादिभिः १२।
अग्निना दाह्यमानाश्च तुद्यमानाश्च कंटकैः ।
क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया १३।
क्षुधया बाध्यमानाश्च घोरैर्व्याधिगणैस्तथा ।
पूयशोणितगंधेन मूर्छ्यमानाः पदेपदे १४।
क्वाथ्यंते च क्वचित्तैलैस्ताड्यन्ते मुशलैः क्वचित् ।
आयसीषु प्रपच्यंते शिलासु क्वचिदेव च १५।
क्वचिद्वांतमथाश्नंति क्वचित्पूयमसृक्क्वचित् ।
क्वचिद्विष्ठां क्वचिन्मांसं पूतिगंधिषु दारुणम् १६।
कृमिभिर्भक्ष्यमाणाश्च वह्नितुंडैः क्वचित्क्वचित् ।
केशशोणितमांसासृग्वसास्थिनिकरेषु च १७।
अस्थिताः कुणपाः कीर्णाः कृमिभिर्भक्षिताः स्फुटम् ।
काककंकमहागृध्रवदनैर्ध्वंसितेषु च १८।
शिवदुर्गंधनीरंध्र संघट्टशतकोटिषु ।
करपत्रशिलापत्रतप्त निस्तैलकेषु च १९।
लोहतैलवसास्तंभ कूटशाल्मलसद्मसु ।
क्षुरकंटककीलोग्र ज्वालास्तंभविभातिषु २०।
तप्तं वैतरणीपूयपूरितेषु पृथक्पृथक् ।
असिपत्रवनोत्कृत्त नरनारीस्तनेषु च २१।
घोरांधकारग्रहणदारुणेषु मुहुर्मुहुः ।
पापच्यमानाः क्रंदंतो दारुणैर्विविधैर्वधैः २२।
कंठेषु बद्धपाशाश्च भुजगावेष्टिताः क्वचित् ।
पीड्यमानास्तथा यंत्रैः कृष्यमाणाश्च जानुभिः २३।
भग्नपृष्ठशिरोग्रीवाः स्तब्धकंठाः सुदारुणाः ।
कूटागारे भ्राम्यमाणाः शरीरैर्यातनाक्षमैः २४।
पीड्यंते पापिनो राजन्क्रंदमाना विकर्मिणः ।
सहितं विषयास्वादैः क्रंदनं तैर्विधीयते २५।
भुज्यते च कृतं पूर्वमेतत्सर्वैश्च जंतुभिः ।
परस्त्रीषु कृतः संगः प्रीतये दुःखदो हि सः २६।
मुहूर्तविषयास्वादो जातोऽनेकाब्ददुःखदः ।
वपुषस्तव राजेंद्र प्रातःस्नानस्य माधवे २७।
विधिना पावनस्यैते प्राप्य स्पर्शं च मारुतः ।
लब्धसौख्याः क्षणं जाता महसाप्यायितास्तव २८।
आक्रंदरहितास्तेन जातास्ते निरये स्थिताः ।
नामापि पुण्यशीलानां श्रुतं सौख्याय कीर्तितम् २९।
जायते तद्वपुस्पर्शवायुस्पर्शः सुखावहः ।
यम उवाच-
इति दूतवचः श्रुत्वा स राजा करुणानिधिः ३०।
प्रत्युवाच हतान्दूतान्विष्णोरद्भुतकर्मणः ।
कोमलं हृदयं नूनं साधूनां नवनीतवत् ३१।
वह्निसंतापसंतप्तं तद्यथा द्रवति स्फुटम् ।
राजोवाच-
नार्तं जंतुमहं हित्वा पीडितुं गंतुमुत्सहे ३२।
तं पापिष्ठं धिगार्तानामार्तिं शक्तो न हंति यः ।
मदंगसंगमोच्छिष्टवायुस्पर्शेन ते यदि ३३।
जंतवः सुखिनो जातास्तस्मात्तत्र नयंतु माम् ।
पवित्रयंति जननीमवनीमपि ते नराः ३४।
परतापच्छिदो ये तु चंदना इव चंदनम् ।
परोपकृतये ये तु पीड्यंते कृतिनो हि ते ३५।
संतस्त एव ये लोके परदुःखविदारणाः ।
आर्तानामार्तिनाशार्थं प्राणा येषां तृणोपमाः ३६।
तैरियं धार्यते भूमिर्नरैः परहितोद्यतैः ।
मनसो यत्सुखं नित्यं तत्स्वर्गो नरकोपमः ३७।
तस्मात्परसुखेनैव सुखिनः साधवः सदा ।
वरं निरयपातोऽत्र वरं प्राणवियोजनम् ३८।
न पुनः क्षणमार्तानामार्तिनाशमृते सुखम् ।
दूता ऊचु-
जंतवो निरये घोरे पच्यंते तेत्र पापिनः ३९।
स्वकर्मैवोपजीवंति मोहस्थानं न विद्यते ।
यैर्न दत्तं न च हुतं तीर्थे स्नानं न वा कृतम् ४०।
पुनर्नोपकृतं भक्त्या सुकृतं न कृतं परम् ।
नेष्टं न तप्तं नो जप्तं यैर्न हृष्टतया नृप ४१।
परस्मिन्निह घोरेषु पच्यंते निरयेषु ते ।
दुःशीला ये दुराचारा विहाराहारनिंदिताः ४२।
परापकारिणः पापकारिणो दुर्विहारिणः ।
विदारिणो हि मर्मोक्त्या पापाः परहृदां हि ये ४३।
निरये ते विपच्यंते ये परस्त्रीविहारिणः ।
एहि नूनं महीपाल गच्छामो हरिमंदिरम् ४४।
न ते पुण्यवता युक्तमिहस्था तु मतः परम् ।
राजोवाच-
यद्यहं सुकृती दूताः कस्मादस्मिन्महाभये ४५।
नारके पथि वा नीतः किं वा मे सुकृतं परम् ।
मयापि न कृतं तादृक्सुकृतं कामशालिना ४६।
कथं पुरि हरेर्गंता संशयानोऽहमस्मि वै ।
दूता ऊचु-
सुकृतं न कृतं सत्यं त्वया कामवशात्मना ४७।
नेष्टं यज्ञैर्न वा यज्ञावशिष्टं भवताशितम् ।
किंतु माधवमासे यद्विधिना वत्सरत्रयम् ४८।
प्रातः स्नात्वा गुरुवचः प्रेरितेन पुरा त्वया ।
भक्त्या संपूजितो विष्णुर्विश्वेशो मधुसूदनः ४९।
महापापातिपापौघ निहंता भक्तवत्सलः ।
सर्वधर्मैकसारेण तेनैकेन नरेश्वर ५०।
नीयते पुण्यभवनं पूज्यमानो मरुद्गणैः ।
महतामपि पापानां निहंता माधवोऽर्चितः ५१।
तथैव माधवो मासो मर्त्यानां विधिनोदितः ।
यथैव विस्फुलिंगेन ज्वाल्यते तृणसंचयः ५२।
प्रातःस्नानेन वैशाखे तथाघौघोऽपि दह्यते ।
तावद्वपुषि पापानि प्रभवंति महान्त्यपि ५३।
यावन्न माधवे मासि तीर्थे मज्जति चोषसि ।
वैशाखे मासि यो युक्तो यथोक्तनियमैर्नरः ५४।
हरिभक्त्यैव पापौघैर्मुक्तोऽच्युतगृहं व्रजेत् ।
आजन्मनो हि सुकृतं यत्त्वया न पुरा कृतम् ५५।
तेन त्वं निरयस्थानमार्गं नीतो नरेश्वर ।
अथ भूमिपते तूर्णमस्माभिस्तु मरुद्गणैः ५६।
स्तूयमानो विमानेन गच्छ गोविंदमंदिरम् ५७।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये ।
एकोत्तरशततमोऽध्यायः १०१।
खण्डः ५ (पातालखण्डः) — Adhyāya 102
यम उवाच-
ततस्तु करुणावार्धिस्तेषां शोकेन पीडितः ।
भूपतिः श्रीहरेर्दूतान्विनयेनाह वाडव १।
ऐश्वर्यस्याभिजात्यस्य गुणानां सुकृतस्य च ।
संतः फलं हि गण्यंते यद्भीतपरिरक्षणम् २।
यद्यस्ति सुकृतं किंचिन्मम तेनैव जंतवः ।
स्वर्गे गच्छंतु मुक्तौघाः स्थाने तेषां वसाम्यहम् ३।
एवं भूपवचः श्रुत्वा तस्य सत्यवतो हि ते ।
ध्यायंतः सत्यमौदार्यमब्रुवंस्ते वचो नृपम् ४।
दूता ऊचु-
अनेन तव कारुण्यकर्मणा वचसा नृप ।
बभूव वृद्धिर्धर्मस्य संचितस्य विशेषतः ५।
स्नानं दानं जपो होमस्तपो देवार्चनादिकम् ।
कृतं यन्माधवे मासि तदनंतफलं विदुः ६।
स्वर्गे यज्वा च दाता च क्रीडते त्रिदशैः सह ।
वापीषु हेमपद्मासु कल्पवृक्षतलेऽपि च ७।
गीयमानो मुदं याति गीर्वाणरमणीगणैः ।
जलान्नदानतो लोकं लभते वारुणं शुभम् ८।
कुलानि हेलया सप्त संतारयति गोप्रदः ।
हयं दत्वा रवेर्लोकं याति विद्याप्रदो नरः ९।
ब्रह्मलोकं तथा हेमदानाद्याति सुरालये ।
यो ददाति तथा कन्यां विष्णुलोकं स गच्छति १०।
माधवेमासि यः स्नात्वा दत्वा संपूज्य माधवम् ।
अवाप्य सकलान्कामान्प्रयाति पदमव्ययम् ११।
एकतोऽपि तपो दान क्रतु सुत्यादिकाः क्रियाः ।
एकतो विधिवन्मासो माधवश्चरितो महान् १२।
तस्य माधवमासस्य दिनैकस्यापि भूपते ।
कृतं यत्सुकृतं तत्ते सर्वदानाधिकं पुरा १३।
कारुण्येन दिनैकस्य पुण्यं देहि धरापते ।
निरये पच्यमानेभ्यो दुःखितेभ्यो दयानिधे १४।
न दयासदृशो धर्मो न दयासदृशं तपः ।
न दयासदृशं दानं न दयासदृशः सखा १५।
पुण्यदः पुण्यमाप्नोति नरो लक्षगुणं सदा ।
कारुण्येन विशेषात्ते धर्मवृद्धिस्ततो भवेत् १६।
दुःखितानां हि भूतानां दुःखोद्धर्त्ता नरो हि यः ।
स एव सुकृती लोके ज्ञेयो नारायणांशजः १७।
वैशाखे मासि पूर्णायां स्नानदानादिकं त्वया ।
यत्तीर्थे विहितं वीर सर्वाघविनिषूदनम् १८।
तदेभ्यो देहि विधिवत्कृत्वा साक्ष्ये हरिं प्रभुम् ।
त्रिवाचिकं च निरयाद्येनामी स्वर्गमाप्नुयुः १९।
कपोतार्थं स्वमांसानि कारुण्येन पुरा शिबिः ।
दत्वा दयानिधिः स्वर्गे राजते कीर्तिवारिधिः २०।
दधीचिरपि राजर्षिर्दत्वास्थि च यमात्मनः ।
त्रैलोक्यकौमुदीं कीर्तिं लब्धवान्स्वर्गमक्षयम् २१।
सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः ।
ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् २२।
न स्वर्गे नापवर्गेऽपि तत्सुखं लभते नरः ।
यदार्तजंतुनिर्व्वाणदानोत्थमिति नो मतिः २३।
सर्वेषु दातृजातेषु पुरा जातोसि भूपते ।
कर्मणानेन संख्यासु धीर धैर्यं नियोज्य च २४।
दृष्ट्वा तवधियं धर्म दया दानं सुनिश्चलम् ।
अस्माभिरपि तूत्साहः क्रियते धर्म्मवादिभिः २५।
यदि ते रोचते राजन्न विलंबतया ततः ।
तदेभ्यो देहि तत्पुण्यं यातनादुःखदाहकम् २६।
इत्युक्तः स तदा देवं कृत्वा साक्ष्ये गदाधरम् ।
तेभ्यस्त्रिवाचिकं पुण्यं दयावान्विधिना ददौ २७।
दत्ते माधवमासस्य तस्मिन्नेकदिनोद्भवे ।
स्वकृते जंतवो याम्ययातनापरिवर्जिताः २८।
विमानवरमारूढाः सर्वे ते त्रिदिवं ययुः ।
प्रणमंतः स्तुवंतश्च पश्यंतस्तं प्रहर्षिताः २९।
नृपेण दत्तं तदवाप्य पुण्यं वैशाखमासैकदिनाभिजातम् ।
सर्वे ययुस्ते नरकाद्विमुक्ता दिवं विमानाधिगता हि चित्रम् ३०।
नूनं विचित्रो भुवि भूतवर्गः संभूतभावो बहुधा विचित्रः ।
तथा विचित्रोऽखिलकर्मयोगस्तत्कर्मशक्तिप्रचयो विचित्रः ३१।
संस्तूयमानो मुनिदेवसंघैर्यस्तद्विशेषाधिकलब्धपुण्यः ।
परं पदं योगिवरैरलभ्यं ययौ जगन्नाथगणाभिवंद्यः ३२।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये ।
द्व्युत्तरशततमोऽध्यायः १०२।
खण्डः ५ (पातालखण्डः) — Adhyāya 103
यम उवाच-
एतन्माधवमासस्य समासात्किंचिदीरितम् ।
माहात्म्यं पूर्णिमायाश्च विशेषाद्द्विजसत्तम १।
वैशाखमासे मधुसूदनस्य प्रियं य एनं पठतीतिहासम् ।
स याति कृष्णालयमाशुपूतः कल्पाननेकानिह मोदते च २।
धन्यं यशस्यमायुष्यमिदं स्वस्त्ययनं महत् ।
स्वर्ग्यं श्रीदं सौमनस्यं प्रशस्यमघमर्षणम् ३।
इदं माधवमासस्य माहात्म्यं माधवप्रियम् ।
चरित्रं भूपतेस्तस्य संवादं चावयोरपि ४।
श्रुत्वा पठित्वा विधिवदनुमोद्य मनःप्रियम् ।
भवेद्भक्तिर्भगवति यया स्यात्पापसंक्षयः ५।
अथ गच्छ महीदेव देवलोकाद्यथेच्छया ।
निपात्य भुवि वैदेहं रुदंत्यद्यापि बांधवाः ६।
विलप्यमानैरपि बंधुभिस्तैर्न यावदग्नौ तव तच्छरीरम् ।
प्रक्षिप्यते हंत जवैर्न तावद्याहि स्वयं सुप्त इव प्रबुद्धः ७।
ममप्रसादादिह पुण्ययोगः श्रुतो यथावत्तमिमं विधेहि ।
विधानतो वै समये समंते समागमोंऽते भविता सुरैश्च ८।
सूत उवाच-
इति देववचः श्रुत्वा नत्वा धर्माधिपं ततः ।
पुनः पपात स इह परितुष्टमना द्विजः ९।
धर्मराजप्रसादेन ततस्तत्र महीतले ।
संसुप्तइव चोत्तस्थौ बंधुवर्गसमन्वितः १०।
विधिमेनं द्विजो भूमौ वर्षेवर्षे च स स्वयम् ।
स्वयं च कारयामास माधवस्नापनं जनम् ११।
यमब्राह्मणसंवादो मयायं परिकीर्तितः ।
तस्य माधवमासस्य पुण्यस्नानप्रसङ्गतः १२।
वैशाखमासे सततं हरिप्रिये स्नानं विदध्याच्च ददाति भक्त्या ।
दानं च होमं सुकृतं तथा बुधो हरेःपदं तस्य नदुर्ल्लभं कदा १३।
यःशृणोत्येकचित्तेनमाहात्म्यंमेषसूर्यजम् ।
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् १४।
ऋषय ऊचुः -
सूतसूत महाप्राज्ञ त्वयाऽतिकरुणात्मना ।
वैशाखमासमाहात्म्यं कीर्तितं पापनाशनम् १५।
नियमा मधुहन्तुर्ये माधवे कथितास्त्वया ।
पूजनं स्नानदानाद्यं श्रौतस्मार्तविधानतः १६।
यथा च माधवो देवः प्रीयते पापनाशनः ।
अधुना श्रोतुमिच्छामो ध्यानं तस्य महात्मनः १७।
कृष्णस्य भक्तवृन्दानां प्रियस्य भवतारणम् १८।
सूत उवाच-
शृणुध्वं मुनयः सर्वे कृष्णस्य जगदात्मनः ।
गोगोपगोपीप्राणस्य वृन्दावनचरस्य च १९।
एकदा नारदः पृष्टो गौतमेन द्विजोत्तमाः ।
स तस्मै प्राह यद्ध्यानं तद्वक्ष्ये पापनाशनम् २०।
नारद उवाच-
सुमप्रकरसौरभोद्गलितमाध्विकाद्युल्लसत्सुशाखिनवपल्लवप्रकरनम्र शोभायुतम् ।
प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितं स्मरेत सततं शिवं शितमतिः सुवृन्दावनम् २१।
विकाशि सुमनोरसास्वदनमंजुलैः संचरच्छिलीमुखमुखोद्गतैर्मुखरितान्तरं झंकृतैः ।
कपोतशुकसारिकापरभृतादिभिः पत्रिभिर्विराणितमितस्ततो भुजगशत्रुनृत्याकुलम् २२।
कलिन्ददुहितुश्च लल्लहरिविप्लुषां वाहिभिर्विनिद्र सरसीरुहोदररजश्च योद्धूसरैः ।
प्रदीपित मनोभवव्रजविलासिनी वाससां विलोलनपरैर्निषेवितमनारतं मारुतैः २३।
प्रवालनवपल्लवं मरकतच्छदं मौक्तिकप्रभाप्रकरकोरकं कमलरागनानाफलम् ।
स्थविष्ठमखिलर्तुभिः सततसेवितं कामदं तदन्तरपिकल्पकाङ्घ्रिपमुदञ्चितं चिन्तयेत् २४।
सुहेमशिखराचलेउदितभानुवद्भासुरामधोऽस्य कनकस्थलीममृतशीकरासारिणः ।
प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां स्मरेत्पुनरतन्द्रितो विगतषट्तरङ्गांबुधः २५।
तद्रत्नकुट्टिमनिविष्टमहिष्ठयोगपीठेऽष्टपत्रमरुणं कमलं विचिन्त्य ।
उद्यद्विरोचनसरोचिरमुष्यमध्ये संचिन्तयेत्सुखनिविष्टमथोमुकुन्दम् २६।
सुत्रामहेति दलिताञ्जनमेघपुञ्जप्रत्यग्रनीलजलजन्मसमानभासम् ।
सुस्निग्धनीलघनकुञ्चितकेशजालं राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् २७।
रोलम्बलालितसुरद्रुमसूनुसंपद्युक्तं समुत्कचनवोत्पलकर्णपूरम् ।
लोलालिभिः स्फुरितभालतलप्रदीप्तगोरोचनातिलकमुज्ज्वलचिल्लिचापम् २८।
आपूर्णशारदगताङ्क शशाङ्कबिम्बकान्ताननं कमलपत्रविशालनेत्रम् ।
रत्नस्फुरन्मकरकुण्डलरश्मिदीप्तगण्डस्थलीमुकुरमुन्नतचारुनासम् २९।
सिन्दूरसुन्दरतराधरमिन्दुकुन्दमन्दारमन्दहसितद्युतिदीपिताशम् ।
वन्यप्रवालकुसुमप्रचयावकॢप्तग्रैवेयकोज्ज्वलमनोहरकम्बुकण्ठम् ३०।
मत्तभ्रमद्भ्रमरघुष्टविलम्बमानं संतानकप्रसरदामपरिष्कृतांसम् ।
हारावलीभगणराजितपीवरोरुव्योमस्थलीलसितकौस्तुभभानुमन्तम् ३१।
श्रीवत्सलक्षणसुलक्षितमुन्नतांसमाजानुपीनपरिवृत्तसुजातबाहुम् ।
आबन्धुरोदरमुदारगभीरनाभिं भृङ्गाङ्गनानि करमंजुलरोमराजिम् ३२।
नानामणिप्रघटिताङ्गदकङ्कणोर्मि ग्रैवेयसारसननूपुरतुन्दबन्धम् ।
दिव्याङ्गरागपरिपिञ्जरिताङ्गयष्टिमापीतवस्त्रपरिवीतनितम्बबिम्बम् ३३।
चारूरुजानुमनुवृत्तमनोज्ञजङ्घं कान्तोन्नतप्रपदनिन्दित कूर्मकान्तिम् ।
माणिक्यदर्पणलसन्नखराजराजद्रक्ताङ्गुलिच्छदनुसुन्दरपादपद्मम् ३४।
मत्स्याङ्कुशारिदरकेतुयवाब्जवज्रैः संलक्षितारुणकराङ्घ्रितलाभिरामम् ।
लावण्यसारसमुदायविनिर्मिताङ्गं सौन्दर्यनिन्दितमनोभव देहकान्तिम् ३५।
आस्यारविन्दपरिपूरितवेणुरन्ध्रलोलत्कराङ्गुलिसमीरितदिव्यरागैः ।
शश्वद्भवैः कृतनिविष्टसमस्तजन्तुसंतानसंनतिमनन्तसुखाम्बुराशिम् ३६।
गोभिर्मुखाम्बुजविलीनविलोचनाभिरूधोभरस्खलितमन्थरमन्दगाभिः ।
दन्ताग्रदष्टपरिशिष्टतृणाङ्कुराभिरालम्बिवालधिलताभिरथाभिवीतम् ३७।
संप्रस्नुतस्तनविभूषणपूर्णनिश्चलास्याद्दृढक्षरितफेनिलदुग्धमुग्धैः ।
वेणुप्रवर्तितमनोहरमन्दगीतदत्तोच्चकर्णयुगलैरपितर्णकैश्च ३८।
प्रत्यग्रशृङ्गमृदुमस्तकसंप्रहारसंरम्भभावनविलोलखुराग्रपातैः ।
आमेदुरैर्बहुलसास्नगलैरुदग्रपुच्छैश्च वत्सतरवत्सतरीनिकायैः ३९।
हम्भारवक्षुभितदिग्वलयैर्महद्भिरध्युक्षभिः पृथुककुद्भरभारखिन्नैः ।
उत्तम्भितश्रुतिपुटीपरिपीतवंशध्वानामृतोद्धतविकासिविशालघोणैः ४०।
गोपैः समानगुणशीलवयोविलासवेशैश्च मूर्छितकलस्वनवेणुवीणैः ।
मन्दोच्चतारपटुगानपरैर्विलोलदोर्वल्लरीललितलास्यविधानदक्षैः ४१।
जङ्घान्तपीवरकटीरतटीनिबद्धव्यालोलकिङ्किणिघटारणितैरटद्भिः ।
मुग्धैस्तरक्षुनखकल्पितकान्तभूषैरव्यक्तमंजुवचनैः पृथुकैः परीतम् ४२।
अथ सुललितगोपसुन्दरीणां पृथुकबरीषनितम्बमन्थराणाम् ।
गुरुकुचभरभंगुरावलग्नत्रिवलिविजृम्भितरोमराजिभाजाम् ४३।
तदतिरुचिरचारुवेणुवाद्यामृतरसपल्लविताङ्गजाङ्घ्रिपस्य ।
मुकुलविमलरम्यरूढरोमोद्गमसमलंकृतगात्रवल्लरीणाम् ४४।
तदतिरुचिर मन्दहासचन्द्रातपपरिजृम्भितरागवारिराशेः ।
तरलतरतरङ्गभङ्गविप्रुट्प्रकरघनश्रमबिन्दुसंततानाम् ४५।
तदतिललितमन्दचिल्लिचापच्युतनिशितेक्षणमारबाणवृष्ट्या ।
दलितसकलमर्मविह्वलाङ्गप्रविसृतदुःसहवेपथुव्यथानाम् ४६।
तदतिरुचिरवेषरूपशोभामृतरसपानविधानलालसानाम् ।
प्रणयसलिलपूरवाहिनीनामलसविलोलविलोचनाम्बुजानाम् ४७।
विस्रंसत्कबरीकलापविगलत्फुल्लत्प्रसूनास्रवन् ।
माध्वीलम्पटचञ्चरीकघटयासंसेवितानां मुहुः ।
मारोन्मादमदस्खलन्मृदुगिरामालोलकाञ्च्युल्लस-।
न्नीवीविश्लथमानचीनसिचयान्तार्चिर्नितम्बत्विषाम् ४८।
स्खलितलसितपादाम्भोजमन्दाभिघातच्छुरितमणितुलाकोट्याकुलाशामुखानाम् ।
चलदधरदलानांकुड्मलापक्ष्मलाक्षि-
द्वयसरसिरुहाणामुल्लसत्कुण्डलानाम् ४९।
द्राघिष्ठश्वसनसमीरणाभितापप्रम्लानीभवदरुणौष्ठपल्लवानाम् ।
नानोपायनविलसत्कराम्बुजानामालीभिः सततनिषेवितं समन्तात् ५०।
तासामायतलोलनीलनयनव्याकोशलीनाम्बुज-
स्रग्भिः संपरिपूजिताखिलतनुं नानाविलासास्पदम् ।
तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादिनीं-
बिभ्राणं प्रणयान्मदाक्षिमधुहृन्मालां मनोहारिणीम् ५१।
गोपीगोपपशूनां बहिः स्मरेदग्रतोऽस्य गीर्वाणघटांवित्तार्थिनीं विरिञ्चित्रिनयनशतमन्युपूर्विकां स्तोत्रपराम् ५२।
तद्वद्दक्षिणतो मुनिनिकरं दृढधर्मवाञ्छया समाम्नायपरम् ।
योगीन्द्रानथ पृष्ठे मुमुक्षमाणान्समाधिना तु सनकाद्यान् ५३।
सव्ये सकान्तानथ यक्षसिद्धगन्धर्वविद्याधरचारणांश्च ।
सकिन्नरानप्सरसश्च मुख्याः कामार्थिनीर्नर्तनगीतवाद्यैः ५४।
शङ्खेन्दुकुन्दधवलं सकलागमज्ञं सौदामिनीततिपिशङ्गजटाकलापम् ।
तत्पादपङ्कजगताममलां च भक्तिं वाञ्छन्तमुज्झिततरान्यसमस्तसङ्गम् ५५।
नानाविध श्रुतिगुणान्वितसप्तरागग्रामत्रयीगतमनोहरमूर्छनाभिः ।
संप्रीणयन्तमुदिताभिरपि प्रभक्त्या संचिन्तयन्नभसि मां द्रुहिणप्रसूतम् ५६।
इति ध्यात्वाऽत्मानं पटुविशदधीर्नन्दतनयं नरो बुद्ध्यैवाऽर्घप्रभृतिभिरनिन्द्योपहृतिभिः ।
यजेद्भूयो भक्त्या स्ववपुषि बहिष्ठैश्च विभवैरिति प्रोक्तं सर्वं यदभिलषितं भूसुरवराः ५७।
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये त्र्युत्तरशततमोऽध्यायः १०३।
खण्डः ५ (पातालखण्डः) — Adhyāya 104
ऋषय ऊचुः -
भूयो वद महाभाग रामचारित्रमद्भुतम् ।
राममाहात्म्यसर्वस्वं भक्तानां प्रीतिदायकम् १।
सूत उवाच-
अश्वमेधं क्रतुवरं कृत्वा दाशरथिर्यथा २।
प्रवृत्तो लोककृत्येषु शास्त्रकृत्येषु कोविदः ।
अयोध्यां गंतुकामेन शंकरेण महात्मना ३।
पार्वत्या सह देवेन उषितः सरयूतटे ।
मुनयस्तं समभ्येत्य शंकरं विश्वरूपिणम् ४।
कश्यपाद्या महात्मानः पप्रच्छुरमितौजसम् ।
स्वागतं ते मुनिश्रेष्ठ सभार्यः कुत आगतः ५।
किमागमनकृत्यं ते कं देशं गंतुमुद्यतः ।
शंकर उवाच-
अहं शंभुरिति ख्यातो विप्रो हिमगिरिस्थितः ६।
द्रष्टुं च राघवं गच्छे मम कार्यं महत्ततः ।
मामाह्वयति राजासौ पुराणश्रवणे रतः ७।
आगच्छंतु भवंतोऽपि राघवः परितुष्यति ।
ततस्ते मुनयः शंभुर्ययू रामदिदृक्षया ८।
तानागतान्वसिष्ठस्तु ज्ञात्वा रामाय चोक्तवान् ।
ततः सत्वरमुत्थाय निर्ययौ स पुरोहितः ९।
अर्घ्यपाद्यादिकैस्सर्वान्पूजयामास तानृषीन् ।
गृहराजं ततः सर्वान्प्रावेशयदरिंदमः १०।
प्रत्येकमासनं दत्वा स्वागतोक्त्यासनस्थितान् ।
क्रमेण रघुशार्दूलः पूजयामास तानृषीन् ११।
वाचा मधुरया प्रीणन्निदमाहासनस्थितान् ।
श्रीराम उवाच-
अद्य मे सफलं जन्म प्राप्तमद्य तपः फलम् १२।
अद्याभ्यासस्य विद्यानां फलकालोऽयमागतः ।
अद्य मे पितरस्तुष्टा राज्यं च सफलं मम १३।
अद्य मे सफलं वृत्तमद्य मे सफलं श्रुतम् ।
एवं वदंतं राजानं ब्राह्मणाः कश्यपादयः १४।
ऊचुः प्रियतरं वाक्यं रामं राजीवलोचनम् ।
ऋषय ऊचुः
अयं शंभुर्द्विजः प्राप्तः सर्वशास्त्रविशारदः १५।
वेदवेदांगतत्त्वज्ञः सर्वभूतहिते रतः ।
कैलासवासी सततं तपसे कृतनिश्चयः १६।
ब्रह्मणा ब्रह्मवर्चस्के तुल्यो ब्रह्मविदां वरः ।
हरिणा ब्रह्मवात्सल्ये प्रसादे शंकरोपमः १७।
एवंविधो महातेजाः शंभुर्ब्राह्मणपुंगवः ।
अष्टादशपुराणज्ञो मीमांसा न्यायकोविदः १८।
त्वद्भाग्यगौरवादेव प्राप्तोऽयं मुनिसत्तमः ।
त्वयाहूतो मुनिवरः कैलासादागतः प्रभो १९।
अतः पृच्छ महाभाग पुराणाख्यानमुत्तमम् ।
श्रोतुकामा वयं प्राप्तास्त्वामद्य रघुनंदन २०।
अंतं गतस्य वेदानां सर्वशास्त्रार्थवेदिनः ।
पुंसोऽश्रुतपुराणस्य न सम्यग्याति दर्शनम् २१।
सूत उवाच-
एवमुक्तो रघुश्रेष्ठो मुनिभिस्तत्त्वदर्शिभिः ।
प्रहर्षमतुलं लेभे पुराणश्रवणोत्सुकः २२।
श्रीराम उवाच-
लिगार्चनप्रकारं च लिंगमाहात्म्यमेव च ।
महेशनाममाहात्म्यं पूजामाहात्म्यमेव च २३।
नमस्कारस्य माहात्म्यं दृष्टिमाहात्म्यमेव च ।
जलदानस्य माहात्म्यं धूपदानस्य सत्तम २४।
दीपगंधादिदानस्य पुष्पमाहात्म्यमेव च ।
नानाख्यानेतिहासानां कथां पापप्रणाशिनीम् २५।
धर्मार्थकाममोक्षांश्च तदुपायांश्च सुव्रत ।
तत्सर्वं श्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम २६।
शंभुरुवाच-
रामराम महाबाहो पुण्यवानसि राघव ।
राज्यासक्तस्य ते जाता पुराणश्रवणे रतिः २७।
स्यान्महत्सेवया राम पुण्यतीर्थनिषेवणात् ।
सा जिह्वा या शिवं गायेत्तच्चित्तं यत्तदर्प्पितम् २८।
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ।
सुजन्मदेहमत्यर्थं तदेवाशेषजन्मसु २९।
यदेवोत्पुलकोभासि हर नामानुकीर्तनात् ।
कृतार्थोऽसि महाराज तत्प्रश्नानुगता मतिः ३०।
अनंतरं समाजग्मुर्जांघिकाः सत्वरश्रमाः ।
तत्करात्पत्रिकां गृह्य पपाठ रघुसत्तमः ३१।
मनसाऽचिंतयद्रामः कथमेतदभूदिति ।
रामं शंभुस्तदा प्राह देव्या ब्राह्मणवेषवान् ३२।
किं चिंतयसि काकुत्स्थ मुनिष्वग्रे वसत्स्वपि ।
तद्वाक्यं राघवः श्रुत्वा पप्रच्छ मुनिपुंगवान् ३३।
श्रीरामउवाच-
विभीषणः कथमसौ बद्धः शृंखलया नृभिः ।
मत्स्थापितं शिवं लिगं दृष्ट्वा रामेश्वरं त्वहो ३४।
द्राविडैः कुटिलैर्दुष्टैरात्मना तद्विचार्यताम् ।
विचार्य मुनिवर्यास्ते नेशास्तज्ज्ञातुमल्पतः ३५।
न जानीम इति प्राहू रामं रामस्तदाब्रवीत् ।
पुराणं वीक्ष्य विधिना तत्सर्वं ब्रूत सत्तमाः ३६।
भवदज्ञानहेतुश्च विचार्यस्तदनंतरम् ।
किं किं पुराणं प्रेक्ष्यं स्याद्वर्जनीयं तथैव किम् ३७।
प्रशस्तः कीदृशः श्लोकस्तदन्यः कीदृशो भवेत् ।
कीदृशेषु च कार्येषु कीदृशः पूजकस्तथा ३८।
पूजा च कीदृशैर्भक्तैः कार्या निर्णयदर्शने ।
इति रामस्य वचनं श्रुत्वा ते द्विजसत्तमाः ३९।
प्रत्यूचुस्तं रघुश्रेष्ठं चिंताव्याकुलमानसम् ।
न वक्तारो वरं राम वीक्षतां तु पुराणवित् ४०।
तच्छ्रुत्वा राघवः शंभुं पप्रच्छ विनयान्वितः ।
सोपि तद्वाक्यमाकर्ण्य प्रत्युवाच महामतिः ४१।
शंभुरुवाच-
पुराणजीवी पूजार्हः स्वशाखाध्ययनः शुचिः ।
मीमांसातत्त्वविज्ञानः श्रोत्रियोऽनृतदूषकः ४२।
देवेषु च समस्तेषु समदृष्टिः शिवे रतः ।
शतरुद्रियजापी च साग्निकश्चातिवाचकः ४३।
यजुर्वेदी विशेषेण पूजयेत्पुस्तकं सुधीः ।
श्रीतालपत्रलिखितं देवलिप्यन्वितं शुभम् ४४।
बंधाद्यतिप्रपंचं यद्युगपत्प्रणवाक्षरम् ।
प्रागूर्द्ध्वंरेखयोः प्रांते प्रणवस्याग्रयोजिका ४५।
रेखा भवेदेवमेका अकारस्तस्य पार्श्वतः ।
शिरोभागमुपक्रम्य सकोणाधः प्रलंबिनी ४६।
आकारः स हि विज्ञेयः पट्टिकादक्षरेखया ।
वामे षड्वक्रबिंदूद्वा विकार इति कीर्तितः ४७।
तस्य वामशिरोरेखा लंबिन्या ई उदाहृतः ।
सर्वाक्षरे शिरोरेखा अवक्रा प्रणवं विना ४८।
तस्यां तु लंबरेखान्या तदंते च लवित्रवत् ।
उकारः स हि विख्यातो लवित्रद्वयतस्तदू ४९।
एवमन्यानि सर्वाणि अक्षराण्याह भारती ।
लिप्यानयैव लिखितं पुराणं तु प्रशस्यस्ते ५०।
ब्राह्मं पाद्मं वैष्णवं च मार्तंडं नारदेरितम् ।
मार्कंडेयमथाग्नेयं कौर्मं वामनमेव च ५१।
गारुडं लैंगमाख्यातं स्कांदं मात्स्यं नृसिंहकम् ।
तथैव गदितं राम पुराणं कापिलं तथा ५२।
वाराहं ब्रह्मवैवर्तं शकुनेषु प्रशस्यते ।
शैवं भागवतं दौर्गं भविष्योत्तरमेव च ५३।
भविष्यं चोपसंज्ञानि त्वन्यानि च विवर्जयेत् ।
विमुच्य पुस्तकं रत्नपीठे निक्षिप्य संस्कृतम् ५४।
धौतवस्त्रधरः स्नात्वा शुचिरक्रोधनोऽज्वरः ।
आदावात्मानमभ्यर्च्य कृत्वा संकल्पमेव च ५५।
अंकुशं चाक्षसूत्रं च पाशं पुस्तकमेव च ।
धारयंतीं सितां ध्यायेत्प्रसन्नास्यां सरस्वतीम् ५६।
गोक्षीरसदृशाकारं त्रिनेत्रं वृषवाहनम् ।
सहासवदनं शांतं शुक्लांबरधरं शिवम् ५७।
हरिणं चाभयं चोर्द्ध्वबाहुयुग्मं किरीटिनम् ।
व्याख्यामुद्रा चं दक्षेधो वामहस्ते वरप्रदम् ५८।
नानारत्नविभूषाढ्यं गिरिजार्द्धांबुजासनम् ।
बहुभिर्मुनिमुख्यैस्तु ध्यायमान पदांबुजम् ५९।
मूर्तिमद्भिस्तथा वेदैः स्तूयमानं पुराणकैः ।
अन्यैः समस्तलोकैश्च संसेवितपदांबुजम् ६० ।
ध्यात्वैवं पूजकः सम्यगादौ पूजां समारभेत् ।
आपो वा इदमित्येतत्कलशस्याभिमंत्रणम् ६१।
तज्जलं च गृहीत्वा च पात्रस्थमभिमंत्रयेत् ।
तत्सद्ब्रह्मेति मंत्रेण प्रशस्य प्रणवेन तु ६२।
आत्मानं सर्वपात्राणि तत आवाहयेदिति ।
यद्वागिति तृचेनैव भारती षोडशार्चनम् ६३।
पुरुषसूक्तेन वा कुर्याद्गायत्र्या वा समर्चयेत् ।
ॐ नमो भगवते अमुक पुराणेति पुराणमर्चयेत् ६४।
कांडादिति हि मंत्रेण दूर्वामानीय पूजयेत् ।
ॐ नमो भगवत्यै दूर्वायै इति ६५।
सलोकपाल पूजा स्यादथ कन्या समर्चनम् ।
वत्सरात्पंचकादूर्द्ध्वं दशवर्षादधः शुभाः ६६।
अनुत्पन्नऋतुर्वापि तां प्रयत्नेन पूजयेत् ।
गंधपुष्पाक्षतैर्धूपैर्दीपतांबूलभूषणैः ६७।
पाठयेदप्यमुं मंत्रं पूजकः कन्यकामिमाम् ६८।
सत्यं ब्रूहि प्रियं ब्रूहि भगवति सरस्वति नमस्ते नमस्त इति ६९।
गायत्र्यानुक्रमार्थात्तु दूर्वायुग्मं तु कारयेत् ।
सन्निधौ पुस्तकस्याधः सहस्रपरमेत्यृचा ७०।
दूर्वायुग्मत्रयं दद्यात्तस्या हस्ते विचक्षणः ।
सा प्रक्षिपेत्पुस्तसंधौ शलाकात्रयमन्वनु ७१।
विसृज्यतां पुनर्दद्याच्छिवाभ्यां नम इत्यथ ।
पत्रयोर्मध्यमः श्लोकः कार्यसिद्धेर्हि सूचकः ७२।
पूर्वपत्रे समाप्तिः स्याच्छ्लोकस्य यदि राघव ।
परपत्रे पठेच्छ्लोकं विविच्यार्थमुदीरयेत् ७३।
शनैःशनैः पठेत्प्राज्ञो व्याख्यासेच्च शनैःशनैः ।
त्वरेह न हि कर्तव्या कुप्यति त्वरया तु गीः ७४।
घटिकायास्तु पादः स्यादत्वरास्यात्ततोधिका ।
त्वरयेन्न च वक्तारं ज्ञातव्यांशमनुद्विजम् ७५।
विविच्य पाठं श्लोकस्य निश्चित्यार्थं च मानसे ।
प्रतीपं तन्न वक्तव्यं विविच्य रघुनंदन ७६।
यदि युक्तमयुक्तं वा श्लोकमन्यं पठेदसौ ।
पुस्तकस्थं च हित्वैव पूजकः स द्विजो यदि ७७।
तत्तथैव हि विज्ञेयं विसंवादो न शस्यते ।
दैवागतो हि स श्लोको दैवं हि बलवत्तरम् ७८।
उपश्रुतिषु यद्वच्च नापराधो द्विजस्य तु ।
विस्मयो न च कर्तव्यो दैवस्य कुटिला गतिः ७९।
यत्तत्पदविपर्यासे पत्रे चोपरिवारिणि ।
तमादेशं तिरस्कृत्य द्वितीयं तु पठेदतः ८०।
ततस्तृतीयं पाठ्यं स्यात्ततः कार्यं विवेचनम् ।
अविसर्गांतपूर्वास्ते पवर्गेतरपंचमाः ८१।
स्तुतिलिड्वर्जितः श्लोकः शकुनेषु प्रशस्यते ।
अध्यायादिः समाप्तिश्च वृथा पत्रं वृथा लिपिः ८२।
उक्तानुवचनं चैव द्व्युपस्तुतमथैव च ।
दग्धपत्रं नष्टलिपिः संदिग्धाक्षरमेव च ८३।
एतानि शकुने नित्यं वर्जनीयानि पंडितैः ।
प्रश्नो हि द्विविधो ज्ञेयो दीप्तशांत प्रभेदतः ८४।
शांतं च द्विविधं ज्ञेयमुत्पत्तिस्थितिवृद्धितः ।
तत्र शांतं प्रशस्तं स्याल्लक्षितं पूर्वलक्षणैः ८५।
कार्यभेदास्तु वर्ण्यंते केचिन्मर्त्योपयोगिनः ।
कस्यचित्कार्यमादाय कश्चित्प्रष्टा भवत्यपि ८६।
स करोति तदा प्रश्नं समेत्य स्मरतेऽत्र किम् ।
स पुनर्धार्य पत्रं तत्तस्मिन्पत्रं प्रशस्यते ८७।
अथवा तत्क्षमोपेतं वैराग्यं परमेव च ।
यतः कुतश्चिद्दृष्टस्तु स्तुतिपादकमेव च ८८।
परिहृत्य परं चापि तस्मिन्नर्थे शुभावहम् ।
मृतो गृह्णाति वागर्थमिति प्रश्नोऽशुभप्रदः ८९।
विवादे विजयप्रश्ने जयद्योतकमिष्यते ।
सृष्टिरप्यत्र शस्ता स्यात्क्रूरायां क्लेशतो जयः ९०।
प्रशांतायामुपायैस्तु मिश्रायां विड्वरो भवेत् ।
पुरादिवर्णनं यत्तु मध्यमं यदि चोत्तमम् ९१।
कलिसंभावनायास्तु शृंगारस्योपवर्णने ।
राज्यनिर्वाहचिंतायां राज्यलिंगंशुभावहम् ९२।
यस्यापि यादृशं योग्यं विचार्य तादृशं बुधैः ।
स्तुतिवैराग्ययोः कार्यं विलयः परिकीर्तितः ९३।
कार्याल्पसिद्धिः स्खलितेन च निर्वाहमृच्छति ।
तस्यान्यार्थस्यान्यभावो राम शांतिविचारणे ९४।
विसर्गांतश्च पूर्वार्द्ध विपर्यासो भविष्यतः ।
संकल्पितान्यथाभावो ह्यध्यायस्य समापने ९५।
कांडादेस्तु समाप्तौ तु स्यात्तत्कार्यविनाशनम् ।
तस्मादेतादृशे दोषे शकुनस्य विपर्ययः ९६।
क्षुते पुस्तकपाते च त्वाहते मस्तकादिषु ।
वक्ता वैमाननं याति ततः शकुननाशनम् ९७।
तस्मादेतादृशे दोषे शकुनं परिवर्जयेत् ।
उपमायां भवेद्राम कार्याभासो न वस्तुतः ९८।
संतानं भोन्यत्र चोक्ता सृष्टिर्मध्यफलप्रदा ।
स्तुतिः प्रशस्ता कुत्रापि गुणवत्कार्यनिर्णये ९९।
विवाहे चौषधे दाने व्यवहारे कृषौ तथा ।
यथार्था च स्तुती राम निर्वाहेऽपि न दूषणम् १००।
खण्डः ५ (पातालखण्डः) — Adhyāya 105
मुनय ऊचुः -
अतःपरं महाभागः किं चकार स राघवः ।
मुनयश्च महात्मानः किमकुर्वंस्ततः परम् १।
सूत उवाच-
रामचंद्रे सुखासीने विभीषणे कपीश्वरे ।
शंभुमूचुर्मुनिवराः कथां पुण्यां वदस्व नः २।
तेषामाकर्ण्य वचनं पार्वतीमाह शंकरः ।
इदं कस्यापि विप्रस्य गृहं परमशोभनम् ३।
रम्योपवनवापीभिर्वीरुद्भिरुपशोभितम् ।
कूजन्मधुकरश्रेण्या आहूतकुसुमायुधम् ४।
मध्याह्नसंध्यामारोढुमिव सूर्यः प्रवर्त्तते ।
छायावापीजलस्नातौ परिधाय सुवाससी ५।
मृगनाभिसमुद्घृष्टघनसारसुचंदनम् ।
आलिप्य सल्लकीदामदृढधम्मिल्लसंयुतौ ६।
अनल्पघनसारं तु तांबूलं प्रतिखादितम् ।
आस्वाद्य माद्यन्मुदितौ यत्र धारागृहे शुभे ७।
मयूरनादबहुले बहिर्मधुरगीतकैः ।
शय्यायामास्तृतायां च परस्परसुखस्थितौ ८।
विशालस्मितरक्तोष्ठमाननं चुंबितं यदि ।
संसारफलमाघ्रातमावयोस्तु भविष्यति ९।
इतीरितमथ श्रुत्वा कुपिता मुनयस्तु ते ।
उक्तं वा सुशुभं वाक्यमस्मासु किमिदं त्वया १०।
विप्रलापः प्रियासक्तेः कृतो नोस्मद्वचः कृतम् ।
अथ कोपपराच्छंभोराननात्परमाद्भुता ११।
ज्वाला विनिर्गता सापि करालवदनाभवत् ।
कस्यचित्तु मुनेर्भार्यामाससादाथ सत्वरम् १२।
पलायनपरा चासीद्रामं दृष्ट्वा च बिभ्यती ।
रामोऽपि ब्राह्मणीं शुद्धां मोचयामीत्यभाषत १३।
जगाम पुष्पकेणैव ब्रुवन्मुक्तिं पुनः पुनः ।
बाणं च धनुषा योक्तुं न च सस्मार राघवः १४।
शंभुरप्यतिपुण्यानि वनान्यायतनानि च ।
पुराणि च विचित्राणि दृष्ट्वा रामं न चास्मरत् १५।
क्षणेन च तदा प्राप्तो लोकालोकं महागिरिम् ।
दृष्ट्वाथ राघवः शैलं गृहमार्गसमाकुलम् १६।
विप्रयोषिन्महाभागा क्व गता वदत द्विजाः ।
इतो गतेति ते प्रोचुस्तमोभागं गिरेरिति १७।
रामो विवर्णवदनः कष्टमित्यभिचिंतयन् ।
अथ शंभुर्महातेजाः प्रकाशमतुलं ददौ १८।
तत्प्रकाशप्रभावेण रामः कृत्यां ययावनु ।
तमोमयी महाभूमिः सर्वजंतुविवर्जिता १९।
आब्रह्मांडकटाहांता शतयोजनकोटितः ।
महारजतभूमिश्च तमोमध्ये व्यवस्थिता २०।
तत्र नारायणपुरं सूर्यकोटिसमप्रभम् ।
स राम मुनिवर्यास्तु तं दृष्ट्वा विस्मयं ययुः २१।
किमेतदिति चाचिंत्य नः प्रवेशः कथं भवेत् ।
किमेष प्रलयाग्निः स्यान्मायया परमात्मनः २२।
किंवा नो मरणं त्वद्य उत श्रेयो भविष्यति ।
इति चिंताकुलेष्वेव स रामेषु मुनिष्वथ २३।
शंभुराह शृणुष्वाद्य राघवैतद्वदामि ते ।
प्रकल्पिता मया माया त्वत्कृते नैतदद्भुतम् २४।
नारायणीयमेतत्तु परमं धाम भास्वरम् ।
उष्णशीताद्यविच्छेद्यं ज्ञानगम्यं न चाक्षुषम् २५।
तत्तु पूजयतश्चोर्ध्वं पश्य ब्रह्मपुरोगमान् ।
दिक्षु सर्वासु च मुनीन्पश्य पूजयतोऽमलान् २६।
चतुरो निगमान्पश्य स्तुवतः परमं पदम् ।
योगिनः सनकाद्यास्तु योगमास्थाय यत्नतः २७।
ध्यायंति परमं तेजस्तदिदं पश्य राघव ।
अमुं च रोमशं पश्य प्रदक्षिणनमस्क्रियाः २८।
कुर्वाणं कोटिकोटीश्च वालखिल्यान्मुनीश्वरान् ।
लक्ष्म्यादिसर्ववनिता पूज्यमानं परं पदम् २९।
साकारं च निराकारं ब्रह्म यत्परिकीर्तितम् ।
अज्ञानिनो न पश्यंति पश्यंति ज्ञानचक्षुषः ३०।
शंभुवाक्यादतः सर्वे पूजयामासुरच्युतम् ।
गिरिकर्णीं च तुलसीं मल्लिकां मारुतं तथा ३१।
नीलोत्पलैरंबुजैश्च कृष्णास्फुटजलैरपि ।
पूजयंतो महात्मानो महात्मानं जनार्दनम् ३२।
नारदं खेऽथ ददृशुर्जटिलं सविपंचिकम् ।
नारायणपदाघोषं लंबकूर्चोपवीतिनम् ३३।
स चापि मनसा दध्यौ क एष इति नारदः ।
स पपात प्रभोः पादे शंभोरानंदनिर्भरः ३४।
शैवीं पंचाक्षरीं विद्यां जजाप मनसा मुनिः ।
धन्योऽस्म्यनुगृहीतोऽस्मि जन्माद्यसफलं मम ३५।
ब्रह्मादिवंद्यं चागम्यं ज्ञातवानस्मि ते पदम् ।
नारदं तमथ प्राह शंभुर्मैवं वदेति हि ३६।
यथा च मां न जानंति तथा मे कुरु वर्तनम् ।
गच्छ शीघ्रं हरिं ब्रूहि ममागमनमल्पतः ३७।
अथ स त्वरया गत्वा सर्वं व्यज्ञापयद्धरिम् ।
अथ सत्वरया विष्णोरादायार्घोदकं शुभम् ३८।
कमलासहितो योगी कोटिकोटिसमावृतः ।
निर्ययौ नारदं हस्ते गृहीत्वा गरुडध्वजः ३९।
नमोनमो नमोस्त्वस्मै शंकरायेत्युदीरयन् ।
अर्घपाद्यादिना सर्वान्पूजयामास केशवः ४०।
प्रावेशयदमेयात्मा नारायणपुरं शुभम् ।
गृहराजे ततः स्थित्वा नारायण उवाच ह ४१।
कथमेते समायाताः कोऽयं राजा महायशाः ।
अमानुषप्रवेशोऽयं ब्रह्माद्यैरप्यगोचरः ४२।
शंभुरुवाच-
मुनिवेषा यथा प्राप्ता वयमेते नृपस्तथा ।
तवांशो नृपतिश्चायं रामचंद्रः प्रतापवान् ४३।
एनां संवीक्षितुं पत्नीं तव केशव कांक्षति ।
नारायणस्तथेत्युक्त्वा प्रविशेत्याह राघवम् ४४।
अथ प्रविश्य भवनं लक्ष्मीं वीक्ष्य नमस्य च ।
विनयावनतो भूत्वा वाचमाह सुचारिणीम् ४५।
कृतार्थोऽस्मि न संदेहो वद त्वं किं तु मन्यसे ।
श्रीदेव्युवाच-
त्वं युवा कामकृष्टश्च रूपवानसि राघव ४६।
सीता सा चारुसर्वांगी तव पत्नी तया भवान् ।
वियुक्तोऽस्ति पुरा चासीदतीव विरहाकुलः ४७।
ममापि वद सर्वं तदथवा न च लप्स्यसि ।
सहासान्यथ वाक्यानि यूनां चित्तहराणि च ४८।
श्रुत्वा तु तानि सर्वाणि रामभद्रो यतात्मवान् ।
निर्गंतुं कांक्षते तत्र आनम्य तन्मुखांबुजम् ४९।
स्मरबाणेन पद्मेन संपीड्य रघुशेखरम् ।
अन्वेव निर्ययौ देवी पद्मा पद्मवनप्रिया ५०।
एकपत्नीव्रतं ज्ञात्वा रामं ते समुपागमन् ।
अथवेपितसर्वांगं स्खलत्पदगतिं नृपम् ५१।
शिवनारायणौ दृष्ट्वा विस्मयं परमं गतौ ।
अहोऽस्य द्रढिमाचित्ते मायिनोऽप्य वशात्मनः ५२।
धैर्यं पश्येह नियतं तेन रामः सुकीर्तिमान् ।
सर्वतः शिवमेवास्य नाशिवं विद्यते क्वचित् ५३।
अथ रामो वचः प्राह गच्छेहं भगवन्प्रभो ।
अनुज्ञातोऽथ हरिणा पुष्पकेण स राघवः ५४।
स मुनिः सहशंभुश्च सहनारायणो ययौ ।
लोकालोकं गतः शीघ्रं ततः स्वादूदधिं गतः ५५।
ततो द्वीपसमुद्रांश्च जंबूद्वीपं पुनर्गतः ।
भरद्वाजाश्रमपदे तस्थिवान्गौतमीतटे ५६।
अथ स्नात्वा महानद्यां भरद्वाजो मुनीश्वरः ।
शिष्यैः श्रीमान्परिवृतः पुष्पकं दृष्टवान्मुनिः ५७।
तत्र रामं महाबाहुं शिवनारायणावृषीन् ।
यथावत्पूजयित्वा तु तानुवाच महामुनिः ५८।
ममाश्रमपदे यूयं भोक्तुमर्हथ सत्तमाः ।
रामस्तु मन्वाक्येन तथेत्याह कथंचन ५९।
अथ स्नात्वा महानद्यां कृत्वा देवादितर्पणम् ।
भोक्तुकामं तदा रामं वसिष्ठो वाक्यमुक्तवान् ६०।
धर्मत्यागो भवेद्राम न श्राद्धं क्रियते यदि ।
श्रीराम उवाच-
अमायां ग्रहणे तीर्थे व्यतीपातेऽथ संक्रमे ६१।
व्यतीतं यदि चेच्छ्राद्धं भगवन्क्रियते पुनः ।
नित्यश्राद्धं पुनर्नैव कुर्यादिति वचस्तव ६२।
यथा ममैव मातॄणां मरणे समुपस्थिते ।
अशौचे च समायाते नित्यश्राद्धं न वै कृतम् ६३।
व्यतीपातादिकालेषु कृतं तु वचनात्तव ।
वसिष्ठ उवाच-
एते हि मुनयः सर्वे तथा शंभुरयं द्विजः ६४।
एतन्मुखादशेषेण निर्णयस्तु भविष्यति ।
सह सर्वे विनिश्चित्य मुनयः शंभुमब्रुवन् ६५।
वदास्माकमशेषं त्वं द्विजवर्य महानसि ।
शंभुरुवाच-
त्यक्तव्यं यच्च वै श्राद्धं पुनः कर्तव्यमेव च ६६।
सूतके समनुप्राप्ते विघ्नेषु च वदाम्यहम् ।
मासिकान्युदकुंभानि श्राद्धानि सकलानिच ६७।
प्रतिसांवत्सरं श्राद्धं सूतकानंतरं विदुः ।
त्यक्तान्यन्यानि यावंति सूतके विघ्नसंभवे ६८।
अनंतरं हि कार्याणि सर्वाणीति न संशयः ।
मासिकानि समस्तानि श्राद्धं प्रात्यब्दिकं तथा ६९।
सूतकानंतरं कार्यं विघ्नेऽन्यस्मिन्यतोन्यथा ।
एकादश्यां कृष्णपक्षे कर्तव्यं शुभमिच्छता ७०।
तत्र व्यतिक्रमे हेतावमायां क्रियते तु तत् ।
यथोत्तरदिनेष्वेव कर्तव्यं यद्यविघ्नतः ७१।
कृष्णपक्षे त्वमायां तु कर्तव्यं राम नो कृतम् ।
मृताहस्य यदा मासो न ज्ञायेत कथंचन ७२।
मार्गशीर्षेऽथवा माघे श्राद्धं तद्दिवसे स्मृतम् ।
यदा तु वासराज्ञानं मासस्य ज्ञानमेव च ७३।
अमायामेव तन्मासे श्राद्धं सांवत्सरं भवेत् ।
दिनमासापरिज्ञाने प्रोषितस्य मृतस्य च ७४।
तत्तिथ्यां तद्दिनं ग्राह्यं तत्र ज्ञानं यदा भवेत् ।
आश्विनामा च मार्गामा माघामा च दिनत्रयम् ७५।
तत्र वान्यतमं ग्राह्यं दिनमासाप्रतीतितः ।
वृद्धिसप्तमसीमंत प्रेतश्राद्धानुमासिकम् ७६।
नित्योदकुंभश्राद्धं च मासे स्युरधिकेऽपि च ।
ग्रहणे पुत्रजन्मादौ कर्मण्यपि च शांतिके ७७।
संकल्पिते च सर्वस्मिन्नधिमासो न दुष्यति ।
रोगी यदा मनुष्यः स्याच्छ्राद्धकर्मण्युपस्थिते ७८।
भार्यां वा भ्रातरं वापि शिष्यं वापि नियोजयेत् ।
तस्याभावे न हानिः स्यात्कर्मणः श्राद्धसंज्ञिनः ७९।
नित्यश्राद्धे यथाशक्ति भोक्तारं तु नियोजयेत् ।
अमावास्या मासिकं च मृताह व्यतिरेकि यत् ८०।
स्वयं कर्मण्यशक्तश्चेत्सुतं विप्रं नियोजयेत् ।
राजकार्यनियुक्तस्य दासग्रहणवर्तिनः ८१।
व्यसनेषु समस्तेषु श्राद्धं विप्रेण कारयेत् ।
प्रातःकाले तु न श्राद्धं प्रकुर्वंति द्विजोत्तमाः ८२।
नैमित्तिकेषु श्राद्धेषु न कालनियमः स्मृतः ८३।
गृहादिव्यतिरिक्तस्य प्रक्रमः कुतुपः स्मृतः ।
कुतुपादथवाप्यर्वागासन्नकुतुपो भवेत् ८४।
मासेमासे यथाश्राद्धेऽपराह्णस्पृग्विधीयते ।
अपराह्णव्यापिनी स्यादुभयत्र यदा त्वमा ८५।
क्षये पूर्वा तु कर्तव्या वृद्धौ साम्ये परा स्मृता ।
अमावास्या तु या हि स्यादपराह्णद्वये समा ८६।
क्षये पूर्वा परा वृद्धौ साम्येऽपि च परा भवेत् ।
क्षीणस्तु चंद्रमा यत्र तत्र श्राद्धं तु पार्वणम् ८७।
अमाष्टभागे सूक्ष्मोऽसौ भूताष्टांशे स नास्ति चेत् ।
मध्याह्नव्यापिनी सा स्यादेकोद्दिष्टे तिथिर्भवेत् ८८।
सायाह्नव्यापिनी या स्यात्पार्वणे सा तिथिर्भवेत् ।
अल्पापराह्णगा यामा ग्राह्या श्राद्धादिके भवेत् ८९।
मृताहे त्रिमुहूर्ता च सायंकाले तिथिर्भवेत् ।
परेह्यस्तंगता यत्र त्रिमुहूर्तं तु पूर्ववत् ९०।
तत्रापरेद्युः श्राद्धं स्याज्ज्येष्ठपुत्रस्य नाशनम् ।
अमाश्राद्धं यथा कुर्यान्मृताहे समुपस्थिते ९१।
मध्याह्नव्यापिनी तत्र ह्य द्विजस्य विधीयते ।
राम उवाच-
श्राद्धक्रममशेषेण मर्त्यकर्मक्रमं तथा ९२।
प्रासंगिकानां धर्माणां निर्णयं वक्तुमर्हसि ।
शंभुरुवाच-
श्राद्धस्य दिवसे प्राप्ते पूर्वेद्युर्नियमान्वितः ९३।
निमंत्रयीत विप्रेंद्रान्विप्रलक्षणसंयुतान् ।
एकभुक्तं ब्रह्मचर्यमंत्यजाद्यैरभाषणम् ९४।
दंतधावनमभ्यंग नखकेशनिकृंतनम् ।
कर्ता कुर्वीत पूर्वेद्युस्त्यक्त्वा चैव परेऽहनि ९५।
गृह्णीतनियमानुक्तान्सर्वमेतत्परित्यजेत् ।
त्रिकालं चैव पूजा चेत्प्रातर्देवं यजेत्स्वकम् ९६।
अरुणोदयवेलायां करोति यदि पूजनम् ।
अधःशायी तथा भूतः प्रातरुत्थाय कर्मवित् ९७।
प्रातस्त्यमपि यत्कर्म तत्कृत्वा स्नानपूर्वकम् ।
ऋणत्रयविनिर्मुक्तो यास्यति ब्रह्मतत्परम् ९८।
सूर्यस्योदयवेलायां शिवपूजां करोति यः ।
सूर्येणसम तेजस्वी शिवलोके महीयते ९९।
उदिते भास्करे पश्चाद्धटिकांतरपूजनम् ।
रुद्रेणसम तेजस्वी शिवलोके महीयते १००।
तृतीयघटिकायां तु शिवपूजां समाचरेत् ।
कुबेरसम तेजस्वी शिवलोके महीयते १०१।
तृतीयघटिकायां तु शिवपूजां समाचरेत् ।
कुबेरसम तेजस्वी शिवलोके महीयते १०२।
चतुर्थीपंचमीषष्ठीसप्तमी घटिकासु यः ।
शिवं पूजयते भक्त्या शिवलोके मरुत्समः १०३।
तत्काल एव क्रियते पूजा यत्कालनोदिता ।
यथा प्रतिज्ञमथवा गृहीत नियमो यजेत् १०४।
उपचारेषु शक्त्या वै नियमं परिपालयेत् ।
नियमातिक्रमे वापि यागश्च स्याद्विभोर्यदि १०५।
श्रीराम उवाच-
क्व पूजा देवदेवस्य शंकरस्यामितौजसः ।
स्मरणात्पापनाशस्य स्मरणान्मोक्षदस्य च १०६।
शिवस्य शिवरूपस्य शिवतत्त्वार्थवेदिनः ।
सोमस्य सोमभूषस्य सोमनेत्रस्य राजितुः १०७।
वेदमूर्तेरमूर्तेश्च वेदसारस्य वेदिनः ।
वेदवेदांगवित्तस्य वेद्यावेद्यस्य योगिनः १०८।
गोक्षीरसमदेहस्य गोक्षीरस्नानमोदिनः ।
गोपालिनस्त्रिनेत्रस्य त्रयीनेत्रस्य मायिनः १०९।
प्रश्नमध्ये तथा रामं शिवज्ञानमथादिशत् ।
स्थाणुभूतइवासीनो नासाग्रन्यस्तलोचनः ११०।
आनंदनिष्यंदविलोचनाश्रु प्रवाहसंस्पृष्टकपोलदेशः ।
दधार देवं गिरिशं हृदंबुजे गोक्षीरसुस्निग्धसुचारुगात्रम् १११।
प्रतिबिंबमथो गात्रे रामस्य समदृश्यत ।
दृष्ट्वैव बिंबितं शंभुं चतुर्बाहुं त्रिलोचनम् ११२।
विस्मयं परमं याताः सर्वे मुनिहरीश्वराः ।
शंभोर्वक्षःस्थितं रामं दृष्ट्वा दीप्ताकृतिं शुभम् ११३।
तूष्णीं बभूवुर्यामार्द्धमथ राममुदैक्षत ।
स्वप्रश्नमनुसंधाय प्राह सर्वं वदेति च ११४।
शंभुरुवाच-
अचले या सदा पूजा चले वापि यथेच्छया ।
लिंगसंपूजनं मुख्यमलाभे प्रतिमादिषु ११५।
अधिकारविशेषेण तत्रतत्रापि पूजनम् ।
विगुणं सगुणं वापि सफलं लिंगपूजनम् ११६।
प्रतिमादिकृतापूजा विगुणा सफला नहि ।
अचले वा चले वापि पूजा लिंगे प्रशस्यते ११७।
चलस्य पूजनं वक्ष्ये स्थापनोद्वासने तथा ।
ते उभेन विजानाति कश्चिन्मुनिरपि क्वचित् ११८।
स्थापयंति हृदब्जे वै गोपयंति यजंति च ।
उद्वासयंति देवेशं शंकरं योगिनः सदा ११९।
क्रिया चातीव होतॄणां वह्नौ देवं त्रियंबकम् ।
पूजकानामशेषाणां शिवलिंगे महेश्वरम् १२०।
लिंगस्य स्थापनं पूजा उद्वासनमथैव च ।
धारणं शंकरस्यैव लिंगमेव महेश्वरम् १२१।
सज्जिकं परमोत्कृष्टं स्वर्णं चैव विनिर्मितम् ।
राजतैर्वा दलैः कार्यं राजतैर्वैणवैस्तु यत् १२२।
लतासूत्रैरथो वापि रचितं दारुणाथवा ।
वस्त्रेण वाथ रचितं मृदाविरचितं भवेत् १२३।
तत्र संवेष्ट्य वस्त्रेण सुगंधेन समन्विते ।
धौतवस्त्रयुगे शुद्धे मृद्वासन समन्विते १२४।
शीतोष्णरहिते पादचतुष्टयसमन्विते ।
प्रावृतिच्छेदनोपेते क्रिमिकीटविवर्जिते १२५।
धौतेन मृदुवस्त्रेण सर्वतो वेष्ट्य तं शिवम् ।
विन्यस्य सज्जिकामध्ये प्रावृत्य च पुनर्विभुम् १२६।
एषा हि सज्जिका राम देवस्याग्रेति कीर्तिता ।
तस्य च स्थापनं पाठो रहस्ये च महेशितुः १२७।
अथवा भित्तिमूले स्याद्देववेद्यामथापि वा ।
सुरक्षिते तथा देशे रक्षकं च नियोजयेत् १२८।
प्राणादेरविनाभावं कुर्वीत नियमैः सह ।
एतद्धि राजसं प्रोक्तं स्थापनं परमात्मनः १२९।
सात्विकं स्वसमीपस्थं धारणं तामसं पुनः ।
धारणं गात्रसंस्पर्शमशेषदेहगोपनम् १३०।
मस्तके धारणं मुख्यं ब्रह्मणा च तथा कृतम् ।
विन्यस्य मुकुटस्यांते धारणं शुभमुच्यते १३१।
ललाटे धारणं शस्तं यथा लक्ष्म्या धृतं शुभम् ।
बाणेन च धृतं मूर्ध्नि दक्षिणोरसि वा पुनः १३२।
कर्णे च हरकर्णेन मुनिना परमर्षिणा ।
विनिर्भिद्य तथा गात्रं लोहस्थानं प्रकल्प्य च १३३।
धारयंति तथा लिंगं राक्षसाः केचिदुत्तमाः ।
अनिकेतन मर्त्यानामशक्तानां शिरोधृतिः १३४।
अधमाधममाख्यातं नीवीबंधादिधारणम् ।
तेषु तूच्छिष्टसंप्राप्तौ मस्तके धारणं भवेत् १३५।
अधमाधमवृत्तीनां सदा वै लिंगधारणम् ।
पापिनामपि चाश्चर्यं यमलोके न विद्यते १३६।
श्रीराम उवाच-
चित्रगुप्तेन लिखिता ललाटे या लिपिर्दृढा ।
तया तु लिप्या नियतं नरकं कथमन्यथा १३७।
करोति पूजनं शंभोः पापं नाशयते कथम् ।
शंभुरुवाच-
पापं नाशयते कृत्स्नमपि जन्मशतार्जितम् १३८।
भर्त्सनात्सर्वपापानां स्मरणाच्च महेशितुः ।
भस्मेति पदमाख्यातं तस्य धारणमुत्तमम् १३९।
यथाविधि ललाटे वै वह्निवीर्यप्रधारणात् ।
नाशयेल्लिखितां यामीं पटस्थामिव हव्यभुक् १४०।
कर्णोपरिकृतं पापं नष्टं स्यान्मुखधारणे ।
कंठे च धारणात्कंठभोगादिकृतपातकम् १४१।
बाह्वोर्बाहुकृतं पापं वक्षसि मनसा कृतम् ।
नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा १४२।
पार्श्वयोर्धारणाद्राम परस्त्र्यालिंगनादिजम् ।
तद्भस्मधारणं शस्तं सर्वत्रैव त्रिपुंड्रकम् १४३।
ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् ।
गुप्त्यै लोकत्रयाणां च धारणं तेन वै कृतम् १४४।
धृतं पंचदशस्थाने शुद्धं भस्माभिमंत्रितम् ।
कोष्ठयुग्मे बाहुयुग्मे कोष्ठोपरि युगे तथा १४५।
धारणं सर्वदेहानां पूजायै धर्मसंमतम् ।
भस्माशना भस्मशय्या भस्मोद्धूलितविग्रहाः १४६।
भस्मस्नानाः सदापापैर्मुच्यंते नात्र संशयः ।
आदौ ब्राह्मणदीक्षायां त्रियायुषमिति स्मृतम् १४७।
प्रसवे च मनुष्याणां भूतावेशेऽपि रक्षकम् ।
सर्पादिविषहान्यर्थं सर्वेषां साधनं त्विदम् १४८।
अपि वा वैष्णवो मर्त्य अथवापीतरो जनः ।
भस्मस्नायी भस्मयुक्तः कर्मस्वधिकरोति वै १४९।
श्रीराम उवाच-
भस्ममाहात्म्यमादौ मे भस्मायुष्यं हि कस्य वै ।
कथं हि रक्षते ह्येतत्सर्वमेतद्वदस्व मे १५०।
शंभुरुवाच-
आयुष्यवर्द्धने हेतुस्त्रिविधस्यापि देहिनः ।
पापघ्नं शीतमुष्णं च स्पर्शाच्छिवपदप्रदम् १५१।
अत्र ते कीर्तयिष्यामि चेतिहासं पुरातनम् ।
आसीद्वासिष्ठवंश्यस्तु धनंजय इति द्विजः १५२।
तस्य भार्याशतं चासीद्रूपलावण्यसंयुतम् ।
तासामेका तु सुषुवे शामाकाकरुणं मुने १५३।
भार्याणां संख्यया राम सुताश्चासंस्तपस्विनः ।
पित्रा विभागस्तेषां च विषमः परिकल्पितः १५४।
भ्रातॄणां च तदा ह्येव वैरबंधो महानभूत् ।
नराणामेकजातीनां वैरं नियतमेव तु १५५।
अथासौ करुणो गत्वा भवनाशिनिका तटे ।
नानामुनिगणैः सार्द्धं नरसिंहदिदृक्षया १५६।
नृसिंहदर्शनार्थं तु ब्राह्मणेन तु केनचित् ।
उत्कृष्टफलितंवीरमानीतं रूपगंधवत् १५७।
करुणस्तु तदादाय व्यजिघ्रत्फलमुत्तमम् ।
तत्रस्थिता द्विजगणाः शापेन तमयोजयन् १५८।
मक्षिका भव पापात्मन्वर्षाणां शतमप्यतः ।
शापावसानं भविता दधीचेन महात्मना १५९।
अथ मक्षिकतां प्राप्तो भार्यामिदमभाषत ।
मक्षिकात्वमहं प्राप्तो मां शुभे पालयस्व भोः १६०।
इत्युक्त्वा स तथा भूतो बभ्राम च ततस्ततः ।
अथैवंविधमाज्ञाय ज्ञातयः पापनिश्चयाः १६१।
तद्वधे यत्नमास्थाय तैलमध्ये ह्यपातयन् ।
मृतं पतिमथादाय दुःखिता सा कृशोदरी १६२।
तद्दुःखशमनार्थाय प्राह देवीत्वरुंधती ।
अमुं संजीवयाम्यद्य भस्मनैव शुचिस्मिते १६३।
अथाग्निहोत्रजं भस्म अरुंधत्यै न्यवेदयत् ।
मृत्युंजयेन मंत्रेण मृतजंतौ तथाक्षिपत् १६४।
मंदवायुं तथा चक्रे व्यजनेन शुचिस्मिता ।
उदतिष्ठत्ततो जंतुर्भस्मनोऽस्य प्रभावतः १६५।
ततो वर्षशते पूर्णे ज्ञातिरेको ह्यमारयत् ।
मृते भर्तरि सा साध्वी दुःखिता च शुचिस्मिता १६६।
दधीचं नाम विप्रेंद्रं महामाहेश्वरं मुनिम् ।
जगाम शरणं साध्वी प्राह विप्रस्तपोधनः १६७।
त्रियायुषा विहीनं तु जमदग्निं तपोनिधिम् ।
भस्मैव जीवयामास कश्यपं च तथाविधम् १६८।
देवानपि तथाभूतान्मामप्येतादृशं पुरा ।
तस्मात्तु भस्मना जंतुं जीवयामि तवानघे १६९।
इत्येवमुक्त्वा भगवान्दधीचो महेश्वरं वै शरणं जगाम ।
भस्माभिमंत्र्याथ करे गृहीत्वा संजीवयामास धवं सुसाध्व्याः १७०।
महेशस्य करस्पर्शाद्विशापः करुणोऽभवत् ।
स्वरूपं च ततो गत्वा स्वमाश्रमपदं ययौ १७१।
दधीचमपि सा साध्वी गृहमानीय भोजने ।
प्रार्थयामास विप्रर्षिं भुक्तवानथ स द्विजः १७२।
भुक्तवत्यथ विप्रेंद्रे कोटिशिष्याः समागताः ।
अथ देवाः समायाता भस्मोद्धूलितविग्रहाः १७३।
नमस्कृत्य दधीचं तु पप्रच्छुः शिवकांक्षया ।
देवा ऊचुः -
अस्माकं तु पुरा ज्ञानं नष्टमासीन्महामते १७४।
गौतमस्य तु भार्यां वै दृष्ट्वा कामातुरा वयम् ।
तथा च धर्षिता देवी विवाहकृतमंगला १७५।
तां वै कामयमानानां नष्टं ज्ञानमभूच्च नः ।
ततः सर्वे वयं भूता गता दुर्वाससं मुनिम् १७६।
स उवाचाधुना सर्वमपनेष्यामि वोमलम् ।
शतरुद्रियमंत्रेण मंत्रितं शंभुना स्वयम् १७७।
ममापि दत्तं तेनैव ब्रह्महत्यादिशांतये ।
इत्येवमुक्त्वा दुर्वासा दत्तवान्भस्मचोत्तमम् १७८।
अथ तद्वचनात्सर्वे वयं विकृतचेतनाः ।
शतरुद्रियमंत्रेण भस्मोद्धूलितविग्रहाः १७९।
निर्धूतपातकाः सर्वे संवृत्तास्तत्क्षणेन हि ।
आश्चर्यमेतज्जानीमो भस्मसामर्थ्यमीदृशम् १८०।
दधीच उवाच-
शैवस्य भस्मनः शक्तिं संक्षेपेण वदामि वः ।
विस्तरेण न शक्येत वक्तुं वर्षशतैरपि १८१।
अत्र वः कीर्तयिष्यामि पुरावृत्तं तु देवयोः ।
हरिशंकरयोः सर्वे ब्रह्महत्यादिनाशनम् १८२।
पुरा चैकार्णवे घोरे ब्रह्मणः प्रलये सति ।
महाविष्णुस्तु भगवाञ्छेते स्म प्रलयांभसि १८३।
तस्य पार्श्वद्वयं प्राप्य ब्रह्मांडानां शतद्वयम् ।
विंशतिः पादयोः पार्श्वे विंशतिर्मस्तकांतरे १८४।
नासामौक्तिकभावेन ब्रह्मांडमदधात्प्रभुः ।
तन्नाभिमंडले केचिल्लोमशाद्या मुनीश्वराः १८५।
तपस्तपंतः सुमहदीश्वरं पर्युपासते ।
अथ विष्णुर्महातेजाश्चिंतामाप सिसृक्षया १८६।
ध्यानयोगपरो भूत्वा न किंचित्पर्यपश्यत ।
अथ दुःखेन महता रुरोदोच्चैः पुनः पुनः १८७।
एतस्मिन्नंतरे दीप्तिः काचिल्लोकविलक्षणा ।
दृष्ट्वा च हरिणा भीत्या लोचने च निमीलिते १८८।
आगम्यमानो गोक्षीरसमतेजाः स गात्रवान् ।
संग्रथ्य कोटिब्रह्मांडदामयुग्मं करद्वये १८९।
दधानमुरसा धामकोटिब्रह्मांडकल्पितम् ।
ब्रह्मांडमेकं निपतदुत्पतच्च करद्वये १९०।
सर्वाभरणसंयुक्तं तथाभूतं तमव्ययम् ।
विष्णुस्तुष्टाव चादृष्ट्वा दर्शनाय च तस्य वै १९१।
विष्णुरुवाच-
नमस्ते देवदेवेश नमस्ते शाश्वताव्यय ।
न जानेऽहं भवंतं भोस्त्वं च वेत्सि नमोनमः १९२।
जानामि न च ते भावं दुर्निरीक्ष्या च ते द्युतिः ।
माणिक्यकुंडलं हेमदामजालविभूषितम् १९३।
रत्नांगुलीयं सुभगं बाहुकोष्ठविभूषणम् ।
तनुरक्तोत्तमाकीर्ण दीप्तायतविलोचनम् १९४।
बाणलोचनसंकाशं भाललोचनमव्ययम् ।
कंदर्पकार्मुकभ्रांतिजनक भ्रुवमीश्वरम् १९५।
स्निग्धाधोन्नतचार्वंग नासमच्छकपोलकम् ।
मंदस्मितं प्रसन्नास्यं विभुं बालेंदुदर्शनम् १९६।
विज्ञानरक्तवसनं वेदकल्पितभूषणम् ।
शरणं त्वां प्रपन्नोऽस्मि चक्षुर्मे दीयतां विभो १९७।
दीनांधकृपणाज्ञाननष्टस्य शरणं भव ।
अथ दिव्यं ददौ चक्षुः स्वात्मदर्शनशक्तिमत् १९८।
अथ दृष्ट्वा हरिः शंभुं त्रिनेत्रं पुरतः स्थितम् ।
को भवानित्युवाचाथ न जाने त्वां महायशः १९९।
प्रणामं केवलं कर्तुं शक्तोऽस्मि न हि वेदितुम् ।
सदाशिव उवाच-
तव ज्ञानं प्रदास्यामि कुरु स्नानं च वारुणम् २००।
भस्मस्नानं ततः पश्चात्ततो ज्ञानं वदाम्यहम् ।
श्रीभगवानुवाच-
मत्स्नानयोग्यं सलिलं न चतिष्ठति कुत्रचित् २०१।
इत्युक्तोथ निषण्णस्तु ब्रह्मांडासक्तविग्रहः ।
ऊरुदघ्नजले स्नातुं न योग्यमभवद्धरेः २०२।
शंभुर्जहास स्नानाय जलमत्यधिकं त्वहो ।
दधीच उवाच-
अथ देवः शिवो विष्णुं भालाक्षेण व्यलोकयत् २०३।
विलीनसूक्ष्मावयवं वामाक्षेण व्यलोकयत् ।
ततः सूक्ष्मतनुर्विष्णुः शीतदेहश्च शंभुना २०४।
उक्तश्च स्नाहि भो विष्णो ह्रद एष विकल्पितः ।
ततो ह्रदे हरिः स्नातुं हरांके कल्पिते तदा २०५।
प्रवेष्टुं न शशाकाथ गंभीरे तद्ध्रदस्य तु ।
हरिराह च नो पंथा ह्रदस्यास्य प्रवेशने २०६।
मार्गो मे दीयतां देव तमथो शंभुरब्रवीत् ।
कोटियोजनगंभीरं जलमेतन्महत्पुरा २०७।
निविष्टस्यैव भवत ऊरुदघ्नं जलं विभो ।
इदानीं तिष्ठतश्चापि न प्रवेशो ह्रदे कथम् २०८।
अष्टांगुलप्रमाणोऽयमूरुस्तस्मिन्ह्रदे च मे ।
पश्यामि प्रविश त्वं च पादस्पर्शं ददामि ते २०९।
वाक्यमेकं तु सोपानं वेदं मद्वाक्यनिस्सृतम् ।
हरिरुवाच-
शब्दारोहणसामर्थ्यं कस्यापीह न विद्यते २१०।
मूर्तस्य ग्रहणं शक्यं ग्रहणं वा कथं श्रुतेः ।
शंभुरुवाच-
पुंसः शक्तिर्न वस्तूनां धारणारोहणादिषु २११।
गृहाणेमं महावेदं जग्राह हरिरप्यथ ।
नम्रकरश्चाशक्तेर्हि पतन्निव जनार्द्दनः २१२।
न च शक्यं मया धर्तुमिति प्राह शिवं हरिः ।
शिवः प्रहस्य निपती पात्यतीव महाह्रदे २१३।
तत्सोपानमथारुह्य स्नातुमर्हसि केशव ।
दधीच उवाच-
वेदे सोपानभूते हि ऊरुदघ्नोपलब्धिनि २१४।
तत्र स्नात्वा स विधिना बहिरुत्तीर्य चोक्तवान् ।
स्नातोऽस्मि किमतः कार्यं शंभुराह हरिं ततः २१५।
ध्यायसे हृदये किं त्वं न च किंचिद्वदस्व मे ।
हरिर्न किंचिदित्याह तमथो शंभुरुक्तवान् २१६।
भस्मस्नानेन संशुद्धो वेत्स्यसे परमं शुभम् ।
दीक्षितस्य हि तच्छस्तं तद्रक्षां करवाण्यहम् २१७।
दधीच उवाच-
स्ववक्षः स्थितभस्मैकं नखेनादाय शंकरः ।
प्रणवेनाभिमंत्र्याथ गायत्र्या ब्रह्मभूतया २१८।
अंगुलिभ्यामुपादाय शिवः पंचाक्षरेण वै ।
हरिमस्तकगात्रेषु सर्वेष्वपि समाक्षिपत् २१९।
शांतदृष्ट्या निरीक्ष्याथ जीवेत्याह हरिं हरः ।
ध्यायस्व किं ते हृदये स च ध्यानपरोऽभवत् २२०।
अपश्यद्धृदये दीपं दीर्घाकारमतिप्रभम् ।
हरिराह शिवं साक्षाद्दीपो दृष्टो मयेति च २२१।
शिवः प्राह न ते ज्ञानं परिपक्वमथो हरे ।
भस्म भक्षय ते ज्ञानं समग्रं संभविष्यति २२२।
हरिरुवाच-
भक्षयिष्ये शुभं भस्म स्नातोऽहं भस्मना पुरा ।
दृष्ट्वेश्वरं भक्तिगम्यं भस्माभक्षयदच्युतः २२३।
तत्राश्चर्यमतीवासीत्पक्वबिंबसमद्युतिः ।
वासुदेवः शुद्धमुक्ताफलवर्णोऽभवत्क्षणात् २२४।
ततःप्रभृति शुक्लोऽसौ वासुदेवः प्रसन्नवान् ।
पुनर्ध्यानपरो भूत्वा दीपमध्ये च पूरुषम् २२५।
शुद्धस्फटिकसंकाशं त्रिनेत्रं द्विभुजं शिवम् ।
वरदं दक्षिणे हस्ते वामे चाभयदं विभुम् २२६।
पंचवर्षीयवपुषं शरच्चंद्रायुतद्युतिम् ।
माणिक्यकुंडलं हेम दामजालविभूषितम् २२७।
रत्नांगुलीयसुभगं बाहुकोष्ठसुभूषणम् ।
तनुरक्तोष्ठमाकर्ण दीर्घायतविलोचनम् २२८।
बाणलोचनसंकाशं भाललोचनमव्ययम् ।
कंदर्पकार्मुकभ्रांतिजनकभ्रुवमीश्वरम् २२९।
स्निग्धोन्नत सुचार्वंग नासमच्छकपोलकम् ।
मंदस्मितं प्रसन्नास्यं बालेंदुदर्शनं विभुम् २३०।
विज्ञानरक्तवसनं वेदकल्पितनूपुरम् ।
वामांगुलीयमध्यस्थमतिप्रणवमव्ययम् २३१।
दृष्टवानथ तं विष्णुः कृतकृत्योऽभवत्तदा ।
अथाह शंभुर्भो विष्णो हृदि दृष्टं त्वया किमु २३२।
हरिराह पुरा दृष्टः पुरुषः शांतविग्रहः ।
इत्युदीर्य महाविष्णुः शिवपादे पपात ह २३३।
हरिरुवाच-
न शक्तिं भस्मनो जाने प्रभावं वा कुतस्तव ।
नमस्तेऽस्तु नमस्तेऽस्तु त्वामेव शरणं गतः २३४।
सदाशिव उवाच-
वरं वृणु महाभाग मनसा यं त्वमिच्छसि ।
शिववाचमथाकर्ण्य हरिर्वव्रे वरोत्तमम् २३५।
हरिरुवाच-
त्वत्पादयुगले शंभो भक्तिरस्तु सदा मम ।
अथ दत्वा वरं शंभुरिदमाह वचो हरिम् २३६।
भस्मधारणसंपन्नो मम भक्तो भविष्यसि ।
दधीच उवाच-
इत्थमुक्तं महाज्ञानं भस्मसंभवमादितः २३७।
तस्माद्यूयं सुराः सर्वे धारयध्वं तदादरात् ।
विस्मयोत्फुल्लनयना देवाश्चासंस्तदस्त्विति २३८।
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम् ।
विमुक्तः सर्वपापेभ्यो यात्यसौ शांकरं पदम् २३९।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे भस्ममाहात्म्ये।
पंचोत्तरशततमोऽध्यायः १०५।
खण्डः ५ (पातालखण्डः) — Adhyāya 106
शुचिस्मितोवाच-
आयुष्यवर्द्धनं भस्माशनं दृष्टं महामुने ।
परलोकगतिं दातुं शक्तमेतं वदस्व मे १।
दधीच उवाच-
अत्र ते कथयिष्यामि इतिहासं पुरातनम् ।
चित्रगुप्तयमाभ्यां च यद्विख्यातं बभूव ह २।
मिथिलायां पुरा कश्चिच्छुनः पर्यटते क्षुधा ।
पुरा जन्मशतात्पूर्वं ब्राह्मणः पापनिश्चयः ३।
पूर्वेवयसि वेदाढ्यः शास्त्राढ्यश्च सुबुद्धिमान् ।
स स्नातुं जाह्नवीं गत्वा स्नानं कृत्वा पितॄनपि ४।
देवानृषीन्समभ्यर्च्य ययौ प्रात्तलिकापुरम् ।
प्रतिश्रयमथो चक्रे ब्राह्मणस्य निवेशने ५।
तत्रैका क्षत्रियसुता यौवनस्था हतप्रिया ।
भ्रष्टराज्या च षट्कोटि निष्कद्रव्येण संयुता ६।
भुक्त्वाथ शयितं विप्रं सर्वावयवसुंदरम् ।
रात्रौ चंद्रोदये शुद्धे ज्योत्स्नाहसितदिङ्मुखे ७।
ब्राह्मणाभ्याशमागत्य तमुदीक्ष्येदमब्रवीत् ।
कुतस्त्वमागतो विप्र कं वा देशं गमिष्यसि ८।
ब्राह्मण उवाच-
अकालचर्या सर्वेषां शंकामुत्पादयेद्ध्रुवम् ।
वयःस्थयोर्मिथोवादो रहस्ये हास्यमंदिरे ९।
क्षत्रियोवाच-
कथाप्रसंगे यात्रायां तीर्थे देशादि विप्लवे ।
दुर्भिक्षे ग्रामदहने रहोवादो न दूषितः १०।
प्रतिश्रयस्तु मद्गेहे भवतैव पुरा कृतः ।
मद्गेहवासिनी चाहं न शंका त्विह कस्यचित् ११।
ब्राह्मण उवाच-
तूष्णींभावो मया कार्यो गच्छ त्वं शीघ्रमग्रतः ।
इत्युक्ता ब्राह्मणेनासौ मनसेदमचिंतयत् १२।
अनेन संगमो मह्यं यथाभूयात्तथाविधि ।
रोदनं तु करिष्यामि तथा यास्यति सांत्वितुम् १३।
मां च सांत्वयितुं प्राप्तो मां समुत्थापयिष्यति ।
अहमुत्तिष्ठमानैव दोर्लताकंठसंगिनी १४।
कुचयुग्मेन तद्गात्रं स्पर्शयंती विमूर्च्छिता ।
गतभानां हि मां दृष्ट्वा निषण्णः स्वयमेव सः १५।
उत्संगे मामकं देहं निधास्यति द्विजाग्रणीः ।
अचेतनेव वसनमपास्य रुदतीव च १६।
सुस्निग्धं रोमरहितं पक्वाश्वत्थदलाकृति ।
दर्शयिष्यामि तत्स्थानं कामगेहं सुगंधि च १७।
मयैव विलुठंत्यांगे तस्य वस्त्रमपास्यते ।
विलुप्यमानसं तस्य करिष्ये स्ववशं द्विजम् १८।
अदृष्टौ यादृशं चित्तं दृष्टौ नैतादृशं भवेत् ।
दर्शने यादृशं चित्तं संलापे नैव तादृशम् १९।
संलापे यादृशं चित्तं हास्योक्तौ नैव तादृशम् ।
हास्योक्तौ यादृशं चित्तं स्पर्शने नैव तादृशम् २०।
स्पर्शने यादृशं चित्तं योनिदृष्टौ न तादृशम् ।
तद्दृष्टौ यादृशं चित्तं योनिस्पर्शे न तादृशम् २१।
बाहुमूलकुचद्वंद्व स्वयोनिस्पर्शदर्शनात् ।
कस्य न स्खलते चेतो रेतः स्कन्नं च नो भवेत् २२।
दधीच उवाच-
इति संचिंत्य मनसा क्षत्रिया गृहमभ्यगात् ।
स्वगृहद्वारमासाद्य मंदं मंदं रुरोद वै २३।
चिरं कालं च रुदितं ब्राह्मणः करुणानिधिः २४।
स्त्रीबालवृद्धातुर राजयोगिनां विषाग्नितोयाद्रि निपातनादिना ।
दुःखस्य चैवोद्धरणं प्रशस्यते कूपस्यदानेन समं वदंति २५।
इत्थं विचार्य विप्रोऽसौ शुचिर्भूतः प्रसन्नधीः ।
तस्याः समीपमगमत्तामुवाच ततो द्विजः २६।
अलं शोकेन महता इहामुत्र विरोधिना ।
शरीरशोषणं ह्येतच्चित्तविध्वंसनं तथा २७।
त्यज शोकमिमं बाले न चार्थः शोचितेन वै ।
शोकस्य कारणं किं वा येनेत्थं रुद्यते त्वया २८।
दधीच उवाच-
एवमुक्ता द्विजेनाथ न सा किंचिदुवाच ह ।
मूर्च्छितेवापतद्भूमौ तमदृष्ट्वेव वीक्षते २९।
तामथोत्थापयामास ब्राह्मणः परमार्थवित् ।
उत्थितोत्थापिता तेन निपपात पुनः पुनः ३०।
पतितां पतितां विप्रो निषद्योत्थाप्य तां पुनः ।
अंकमारोपयामास प्रममार्ज विलोचने ३१।
अथ सा मूर्च्छितेवाशु वसनं परिमुच्य तम् ।
दर्शयंती स्तनौ गुह्यं बाहुमूले विलोचने ३२।
आलंब्य कंठे बाहुभ्यां स्तनाभ्यामस्पृशद्द्विजम् ।
चंद्रातपश्च विशदो मंदमारुतसंभवः ३३।
अथ चिंतापरो विप्रो नैव कार्यमिदं मम ।
पितुर्वा मातुरुचितं पत्युर्वाथ गुरोस्तथा ३४।
असंबुद्धस्य मे सर्वं विपरीतं विभाति वै ।
अथ कामः समायातो रहस्ये स्थितयोस्तयोः ३५।
विव्याध निशितैर्बाणैर्द्विजं कामो दुरात्मवान् ।
स्मरबाणातुरो विप्रश्चिंतयामास कामुकः ३६।
इयं सुचारु सर्वांगी कामिनीव प्रदृश्यते ।
नोचेद्योनिमुखे ह्यस्याः कथं रोमांचसंभवः ३७।
तदेतस्याः कुचस्पर्शात्सर्वं व्यक्तं भविष्यति ।
इति संचिंत्य मनसा कुचौ योनिं द्विजोऽस्पृशत् ३८।
सापि मूर्च्छितरूपेव मंदस्मितमुखाभवत् ।
आलिलिंग द्विजं गाढमाननं च चुचुंब ह ३९।
तयोरथ समायोगो वर्षाणां शतमप्यभूत् ।
गते वर्षशते पश्चादेकस्मिन्दिवसे द्विजः ४०।
स्नातुं ययौ नदीं प्रातः सापि विप्रप्रसंगतः ।
स्नानं तत्र तथा चक्रे पुराणं श्रुतवानथ ४१।
कौर्मं समस्तपापानां नाशनं शिवभक्तिदम् ।
इदं च पद्यं शुश्राव पुराणज्ञेन भाषितम् ४२।
ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः ।
कौर्मं पुराणं श्रुत्वैव मुच्यते पातकात्ततः ४३।
श्रुत्वैतद्वचनं विप्रः पौराणिकमभाषत ।
मया कृतानां पापानां न च संख्यास्ति काचन ४४।
अशेषपापसंदोहनाशनं तदिहोच्यताम् ।
पौराणिक उवाच-
आराधय स्वदेवेशं शंकरं त्रिदशेश्वरम् ४५।
तस्य संपूजनाद्विप्र सर्वं पापं विनश्यति ।
पापमेव तमः प्रोक्तं ज्ञानदीपेन नश्यति ४६।
अथवा पूजया विप्र समस्ताघविनाशनम् ।
ज्ञानपूजाविहीनानां नरके पतनं ध्रुवम् ४७।
दधीच उवाच-
अथ द्विजो ह्यभिगतः शिवालयमनुत्तमम् ।
द्रोणपुष्पसहस्रेण पूजयामास शंकरम् ४८।
गृहं जगाम च ततो भोजनं कृतवानथ ।
विहाय क्षत्रियां विप्रो जगामेष्टां भुवं ततः ४९।
हविष्यमन्नमादाय भुक्त्यशक्तेः शिवालयम् ।
गत्वा दीपस्थिताज्येन भोजनं कृतवान्बहिः ५०।
अथ मृत्युवशं प्राप्तो यमलोकं जगाम वै ।
यम उवाच-
त्वया कृतानां पापानां केषांचिन्नाशनं पुरा ५१।
त्वयैकदिवसे पूजा शंकरस्य यतः कृता ।
तव पापसहस्रं च प्रणष्टं भवतो द्विज ५२।
स्थितानामपि पापानां फलं नरकपातनम् ।
वर्षकोटिद्वयं विप्र श्वानजन्मशतं पुनः ५३।
शिवदीपाज्यहरणात्फलं नरकसेवनम् ।
नरके च स्थितिस्तस्य शतवर्षं सुभीषणम् ५४।
कुंभीपाके च काष्ठत्वं भस्म भूत्वा पुनः पुनः ।
वर्षाणां दशकं त्वेवं कृमिभुक्तिः परं दश ५५।
पुनश्च दीपवर्तित्वं वर्षाणां च तथा दश ।
श्लेष्मामेध्यपुरीषेषु मूत्ररेतोह्रदेषु च ५६।
उन्मज्ज्य च निमज्ज्याथ श्लेष्मविण्मलभोजनम् ।
ततो नरकशेषेण श्वानजन्मशतं परम् ५७।
यमवाक्यमिति श्रुत्वा ब्राह्मणो निपपात च ।
अथ तस्य प्रिया भार्या पतिचिंतापराभवत् ५८।
एतस्मिन्नंतरे तस्याः समीपं नारदोऽभ्यगात् ।
नारदस्य पपातासौ पादयोरतिदुःखिता ५९।
तामुत्थाप्य मुनिः शुद्धां गतायुषमभाषत ।
अयि मुग्धे विशालाक्षि भर्तारं गंतुमर्हसि ६०।
भर्ता ते हि विशालाक्षि मृतो बंधुविवर्जितः ।
न रोदितव्यं ते भद्रे ज्वलनं प्रविशस्व भोः ६१।
ब्राह्मण्युवाच-
अशक्यं यदि वा शक्यं मया गंतुं मुने वद ।
अग्निप्रवेशकालो वै व्यतीतो न भवेद्यथा ६२।
नारद उवाच-
योजनानां शतं त्वेकमितः स्थानात्पुरं हितत् ।
श्वो दाहः किल विप्रस्य भविता गंतुमर्हसि ६३।
अव्ययोवाच-
दूरस्थितं कायनाथं गंतुमर्हामि हे मुने ।
तद्वचस्तु समाकर्ण्य नारदस्तामभाषत ६४।
विपंची नालसंस्था त्वं भव गच्छाम्यहं क्षणात् ।
इत्युदीर्य तदा गत्वा त्वरां चक्रे गतं च तत् ६५।
देशं नष्टद्विजस्थानं तामुवाचाव्ययां मुनिः ।
रोदनं नेह कर्तव्यं यदि तत्राग्निमेष्यसि ६६।
पापं यदि कृतं भद्रे परपूरुषसेवनम् ।
एतद्विशुद्धये पुत्रि प्रायश्चित्तं समाचर ६७।
तवोपपातकव्रात नाशो वह्निप्रवेशनात् ।
नान्यत्पश्यामि नारीणां सर्वपापोपशांतये ६८।
अग्निप्रवेशं मुक्त्वैकं प्रायश्चित्तं जगत्त्रये ।
दधीच उवाच-
अथ नारदवाक्येन नोदिता सा वचोऽब्रवीत् ६९।
अग्निप्रवेशे नारीणां किं कर्तव्यं महामुने ।
नारद उवाच-
स्नानं मंगलसंस्कारो भूषणांजनधारणम् ७०।
गंधपुष्पं तथा धूपं हरिद्राक्षतधारणम् ।
मंगलं च तथा सूत्रं पादालक्तकमेव च ७१।
शक्त्या दानं प्रियोक्तिश्च प्रसन्नास्यत्वमेव च ।
नानामंगलवाद्यानां श्रवणं गीतकस्य च ७२।
व्यभिचारकृते पापे तत्पापस्य प्रशांतये ।
अतीतं पातकं स्पृष्ट्वा प्रायश्चित्तं तदीरितम् ७३।
कुर्यादथ स्वकां भूषां विप्राय प्रतिपादयेत् ।
भूषाभावे स्वकीयेन प्रायश्चित्तं तु कारयेत् ७४।
नान्यथा तस्य पापस्य नाशनं वेति कुत्रचित् ।
अव्ययोवाच-
सर्वमेतत्करिष्यामि हरिद्रा मे न विद्यते ७५।
भूषणं किमुत ब्रह्मन्सर्वमेतत्प्रदीयताम् ।
नारद उवाच-
न ह्यस्ति किंचित्सौभाग्यद्रव्यमन्यत्त्वपेक्षया ७६।
दधीच उवाच-
अथ क्षणेनाभ्यगमत्कैलासं शिवमंदिरम् ।
गिरिजामथ दृष्ट्वासौ प्रणिपत्येदमब्रवीत् ७७।
हरिद्रा दीयतां मातर्भूषणानि च सूत्रकम् ।
पार्वत्युवाच-
विधवायै मया किंचिद्भूषणं दीयतां कथम् ७८।
मया दत्ते हि तस्मिन्वै वैधव्यं नोपपद्यते ।
नारद उवाच-
मातर्न विधवा यावद्धवांगं वर्तते स्त्रियः ७९।
आदाहात्सूतकं नास्ति तिष्ठेत्सौभाग्यमुत्तमम् ।
पार्वत्युवाच-
न चान्यदेहो मद्भूषां हरिद्रां धर्तुमर्हति ८०।
भूषणादौ मया दत्ते चिरंजीवितमिष्यते ।
दीयते हि जयंत्यैव सर्वमेतत्त्वयोदितम् ८१।
जयंतीं स जगामाथ तया दत्तमथाहरत् ।
स्नपंत्या अव्ययायास्तु हरिद्रां दत्तवान्मुनिः ८२।
ततः स सूक्ष्मवसनभूषणानि मुनिर्ददौ ।
आह चैनां तवांतेष्टिं कः करोति नियुंक्ष्व तम् ८३।
अव्ययोवाच-
त्वयैव मे समस्तानां क्रियाणां कारणं मुने ।
पितासि सर्वं कुर्वद्य नमस्ते मुनिसत्तम ८४।
दधीच उवाच-
अथ तं ब्राह्मणं दग्ध्वा नारदस्तामुवाच ह ।
अव्यये गच्छ दहनं प्रविश त्वं यदीच्छसि ८५।
अथ सा भूषिता साध्वी त्रिःप्रदक्षिणपूर्वकम् ।
नारदं तु नमस्कृत्य गौरांगीमर्पयन्मनः ८६।
सुसूक्ष्मं मंगलंसूत्रं हरिद्रामक्षतांस्तथा ।
कुसुमानि च वासांसि कस्तूरीचंदनं तथा ८७।
सौवर्णकंकतिकां च फलानि विविधानि च ।
स्वदक्षिणादिवस्त्रांतं स्पर्शयित्वा पृथक्पृथक् ८८।
पार्वतीप्रीतिकामा सा पुरंध्रीभ्योऽखिलं ददौ ।
ज्वालामालाभिराकाशं दहंतमिव चानलम् ८९।
त्रिःप्रदक्षिणमागत्य स्थित्वाग्नेः पुरतः सती ।
इदं प्राह तदा वाक्यं प्रांजलिः प्रहसन्मुखी ९०।
अव्ययोवाच-
इंद्रादयो दिशांपाला मातर्मेदिनि भास्कर ।
धर्मादयः सुराः सर्वे शृणुध्वं मम भाषितम् ९१।
पाणिपीडनमारभ्य चैतदंतमहर्निशम् ।
वाङ्मनःकर्मभिर्भर्ता सेवितो यदि भक्तितः ९२।
व्यभिचारो यथा न स्यादवस्थात्रितये मम ।
तेन सत्येन मे पत्या सार्द्धं यानं प्रयच्छत ९३।
इत्युक्त्वाथ स्वहस्ताग्रपुष्पकं द्रुतमाक्षिपत् ।
प्रविष्टा ज्वलनं दीप्तमथापश्यद्विमानकम् ९४।
सूर्येण सममुत्कृष्टमप्सरोगीतशोभितम् ।
आरुरोह विमानं सा भर्त्रा साकं दिवं ययौ ९५।
यमः प्राहाथ संपूज्य वनितां तां पतिव्रताम् ।
अक्षयः स्वर्ग एवेह न च पापं तवास्ति वै ९६।
कोटिद्वयसमास्तत्र नरके हंत पातकम् ।
मृष्टमेव न संदेहः किंतु पातकमेव च ९७।
एकं शिवस्य दीपाज्यभक्षणेन समर्जितम् ।
न वापि नरके पातः श्वानजन्मशतं भवेत् ९८।
अव्ययोवाच-
अग्निप्रवेशशुद्धानां पुनश्च नरकः कथम् ।
अग्निप्रवेशात्सर्वेषां पापानां नाशनं भवेत् ९९।
यम उवाच-
शिवद्रव्यापहारस्य पातकं नैव नश्यति ।
इत्थमाहपुरा शंभुरन्येषां नाशनं भवेत् १००।
अथ स श्वानतामाप्य शताब्दं स्यात्ततः परम् ।
दधीचमंदिरं प्राप्तो मृत्योरास्य गतो हि सः १०१।
तस्य भित्तिसमीपे तु भस्मास्ते ह्यभिमंत्रितम् ।
भस्मनि श्वा पपाताथ ममार च गतो यमम् १०२।
यमः संपूज्यावनतो भवान्पुण्यतमो मुनिः ।
मद्गेहे भवतः स्थानं न योग्यं गम्यतां बहिः १०३।
अथ गत्वा बहिस्तस्थौ सारमेयो यमोदितः ।
संतापावस्थितं तं च नारदो दृष्टवानमुम् १०४।
पप्रच्छ च किमर्थं त्वमिह तिष्ठसि दीप्तिमान् ।
शिवभस्मस्थितमृतं शैवं जाने महामते १०५।
शैवानां पापिनां चापि साहसेन तनुत्यजाम् ।
यमलोको न चास्तीति शिवाज्ञा शिवनोदिता १०६।
दधीच उवाच-
इत्थमाभाष्य तं श्वानं कैलासमगमन्मुनिः ।
दंडवत्प्रणिपत्येशं व्यज्ञापयदथो हरम् १०७।
देव कश्चिद्यमपुराद्बहिरास्ते स कुक्कुरः ।
भस्मन्येव मृतस्तद्वद्भवलोकं स चार्हति १०८।
अथ मुख्यगणाविष्टो वीरभद्रः शिवेरितः ।
आनयामास तं श्वानं दिव्यरूपधरं तदा १०९।
महेशपादप्रणतं देवायाथ व्यजिज्ञपत् ।
आह माहेश्वरो देवं गणमेनं कुरुष्व मे ११०।
तथेति च शिवः प्राह गणः श्वानमुखोऽभवत् ।
दधीच उवाच-।
अतुल्यं भस्ममाहात्म्यं मयोक्तं ते शुचिस्मिते १११।
इतः परं हि किं भूयः श्रोतुमिच्छसि सुव्रते ११२।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे विभूतिमाहात्म्ये षडुत्तरशततमोऽध्यायः १०६।
खण्डः ५ (पातालखण्डः) — Adhyāya 107
शुचिस्मितोवाच-
कश्यपं जमदग्निं च देवानां च पुरा कथम् ।
ररक्ष भस्म तद्ब्रह्मन्समाचक्ष्व मुने मम १।
दधीच उवाच-
कश्यपादियुता देवाः पूर्वमभ्यागमन्गिरिम् ।
शोकरं नाम विख्यातं गिरिमध्ये सुशोभनम् २।
नानाविहंगसंकीर्णं नानामुनिगणाश्रयम् ।
वासुदेवाश्रयं रम्यमप्सरोगणसेवितम् ३।
विचित्रवृक्षसंवीतं सर्वर्तुकुसुमोज्ज्वलम् ।
तथाविधं प्रविश्यैते गिरिं वयमथापरे ४।
स्तुवंतः केशवं तत्र गताः स्म गिरिशेश्वरम् ।
दृष्ट्वा तत्र महाज्वालां प्रविष्टाश्च वयं च ताम् ५।
मामेकं तु तिरस्कृत्य ह्यदहद्देवता मुनीन् ।
मां ददाह ततः पश्चाद्भस्मीभूता वयं शुभे ६।
अस्मानेतादृशान्दृष्ट्वा वीरभद्रः प्रतापवान् ।
केनापिकारणेनासौ गतवान्पर्वतं च तम् ७।
भस्मोद्धूलितसर्वांगो मस्तकस्थशिवः शुचिः ।
एकाकी निःस्पृहः शान्तो हाहाशब्दमथाशृणोत् ८।
अथ चिंतापरश्चासीन्म्रियमाण शवध्वनिः ।
शवानामिवगंधश्च दृश्यते तन्निरीक्षणे ९।
इति निश्चित्य मनसा जगामाग्निमतिप्रभम् ।
स वह्निर्वीरभद्रं च दग्धुमारब्धवानथ १०।
तृणाग्निरिव शांतोऽभूदासाद्य सलिलं यथा ।
ततोऽपरां महाज्वालां वीरभद्रस्तु दृष्टवान् ११।
खं गच्छंतीं महाकालो ज्वालां निपतितामपि ।
मनसा चिंतयच्चापि वीरभद्रः प्रतापवान् १२।
सर्वेषां नाशिनी ज्वाला प्राणिनां शतकोटिशः ।
तत्सर्वं रक्षणार्थं हि पिपासुश्चाप्यहं त्विमाम् १३।
प्राश्नामि महतीं ज्वालां सलिलं तृषितो यथा ।
एतस्मिन्नंतरे वीरं वागाह चाशरीरिणी १४।
भारत्युवाच-
वीर मा साहसं कार्षीः क्व तृषा क्वाशुशुक्षणिः ।
तृषितानां जलेनार्थो विपरीतो वनाग्निना १५।
निकामं योजनशिराः प्रणष्टो राक्षसेश्वरः ।
शतयोजनवक्त्रश्च शतबाहुस्तथापरः १६।
अगस्त्यश्च महाभागो निःशेषं पीतसागरः ।
एतानन्यानसंख्याताञ्ज्वालेयं तानमारयत् १७।
वीरभद्र उवाच-
भीषिकेयं महाज्वाला त्वदुक्ता न हि जायते ।
सरस्वति भवत्यां च ममरोषश्च जायते १८।
सर्वदेवार्चितपदं वीरभद्रमवेहि माम् ।
भारत्युवाच-
मयोक्तं हितभावेन न द्वेषान्नान्यतो मुने १९।
कोपमुत्सृज वीर त्वमात्मनोहितमाचर ।
इत्युक्त्वांतर्दधे देवी भारती वीरभीतितः २०।
अथ वीरो महाज्वालामपासील्लीलयैव तु ।
क्षणेन महती ज्वाला शतयोजनविस्तृता २१।
एकेन वीरभद्रेण पीता परमदुःसहा ।
अथ चेंद्रमुखानां च मुनीनां भस्मराशयः २२।
दृष्टा वै वीरभद्रेण आहूताश्च महात्मना ।
न चाब्रुवन्प्रतिवचो मृता मुनिदिवौकसः २३।
वीरभद्रस्तु विज्ञाय नाशं मुनिदिवौकसाम् ।
दध्यावमून्कथं सर्वाञ्जीवयाम्यद्य कोविदः २४।
ध्यानेन दृष्टवांश्चापि जीवितं भस्मदेहिनाम् ।
अथाचम्य मृतानां तु भस्मान्यथ च भस्मना २५।
मृत्युंजयेन मंत्रेण मंत्रितेन ह्यमंत्रयत् ।
अथोत्थिता मुनिवराः स्वं स्वं रूपमुपाश्रिताः २६।
अथ ते गतवंतश्च गिरिपार्श्वं महाप्रभम् ।
तत्रापि भक्षिताः सर्वे सर्पेणातिशरीरिणा २७।
अथ वीरो महासर्पसमीपमगमत्प्रभुः ।
वीरमागतमालोक्य भुजगो योद्धुमारभत् २८।
युयुधे वर्षमेकं तु नानारूपधरः फणी ।
अथ वीरः प्रगृह्यौष्ठयुगं करयुगेन च २९।
द्विधा चक्रे समस्तांगं देवांस्तत्र गतायुषः ।
दृष्ट्वाथ भस्मनैवैताञ्जीवयामास शंकरः ३०।
अथ देवाः समुनयो वीरभद्रं प्रणम्य तु ।
गतवंतो यथामार्गं ददृशू रक्ष आगतम् ३१।
पंचमेढ्रं महाकायं दोर्भिश्च दशभिर्युतम् ।
पंचपादसमोपेतं शिरोभिर्युतमष्टभिः ३२।
कांक्षमाणं महाहारं युध्यमानो हि वालिना ।
महावराहवपुषो वासुदेवस्य यद्बलम् ३३।
तादृशं द्विगुणीभूतं कपौ वालिनि निश्चितम् ।
तादृशं वानरश्रेष्ठं ससुग्रीवं सराक्षसः ३४।
मुष्टियुद्धे पंचपादैः सहसा हत्य वालिनम् ।
सुग्रीवं च कराभ्यां स हंतुमेव प्रचक्रमे ३५।
आस्ये निक्षिप्य सुग्रीवमग्रसत्कवलं यथा ।
वालिसुग्रीवग्रसनं दृष्ट्वा चिंतामवाप ह ३६।
कथमेनं हनिष्यामि रक्षयिष्ये कथं कपिम् ।
एवं हि चिंतयानं तं वानरं राक्षसेश्वरः ३७।
अग्रसीदेकयत्नेन तथाभूतं च राक्षसम् ।
दृष्ट्वा देवर्षयः सर्वे पलायनपरास्तथा ३८।
पलायमानांस्तान्दृष्ट्वा पंचमेढ्रः स राक्षसः ।
हस्तैः समस्तैस्तान्सर्वानादायाभक्षयत्तदा ३९।
वीरभद्रस्ततो दृष्ट्वा वानरर्षिसुरादनम् ।
पंचाशद्योजनशिलां करेणादाय तं रुषा ४०।
निजघान शिरोमध्ये मध्यमं पतितं शिरः ।
तत आदाय शैलस्य शृंगं तच्छतयोजनम् ४१।
स्थापयित्वा दृढतरं राक्षसेंद्रं तथाहरत् ।
राक्षसोऽथ बभाषे तं वीरभद्रं त्रिलोचनम् ४२।
मम बाहुबलं पश्य वीक्षितं त्वद्बलं मया ।
असिद्वयं तैलधौतं पंचाशद्योजनोन्नतम् ४३।
एकयोजनविस्तारं सुदृढं लक्षणान्वितम् ।
एकं गृहाणाभिमतं विशिष्टं तन्ममप्रियम् ४४।
वीरभद्रस्तथेत्युक्त्वा गृहीत्वासिं महाबलः ।
करेणाचालयत्तीक्ष्णं क्ष्वेलीं चक्रे ततः क्रुधा ४५।
गृहीतासिस्तथा क्ष्वेलद्यं चक्रे राक्षसपुंगवः ।
वीरभद्रं समभ्येत्य कंठं प्रतिसमर्पयत् ४६।
तद्गात्रं भिन्नमभवच्छोणितं निर्गतं बहु ।
राक्षसस्त्वेकहस्तेन पपौ तच्छोणितं ततः ४७।
वीरभद्रः कंठदेशे राक्षसं प्राहरद्रुषा ।
शिरोद्वयं तथाच्छिन्नं पतमानं ततोऽग्रहीत् ४८।
न्यभक्षयदमेयात्मा सिंहनादं चकार ह ।
तेन नादेन महता क्षुब्धमासीज्जगत्त्रयम् ४९।
अन्योन्यमसिघातेन भिन्नगात्रौ विकस्वरौ ।
किंशुकाविव दृश्येते पुष्पितौ रुधिरोक्षितौ ५०।
वर्षमेकं तु संयुध्य सासीदेवासुरौ तदा ।
अतःपरं वर्षमेकं गदायुद्धमभूत्तयोः ५१।
असिपुत्रिकया पश्चाद्वर्षमेकमभूद्रणः ।
पुनर्गृहीत्वासियुगं युयुधाते परस्परम् ५२।
शं ब्रुवाणो महाखड्गं दंष्ट्राकारो गणेश्वरः ।
सरोषरक्तनयनश्चालयित्वासिमग्रतः ५३।
तस्य कंठवनं सर्वं चिच्छेद कदलद्यं यथा ।
शिरांसि सर्वाण्यादाय बभक्ष भगनेत्रहा ५४।
तस्य गात्रं कररुहैर्विदार्याहृत्य देवताः ।
कपींद्रौ च तथा चान्या अद्राक्षीत्परमेश्वरीम् ५५।
एतद्युद्धं महाघोरं नारदो वीक्ष्य चाभ्यगात् ।
ब्रह्मणे वासुदेवाय शंकराय व्यजिज्ञपत् ५६।
मुनयो रक्षिता देवा वालिसुग्रीव वानरौ ।
एतौ संजीवयामास ब्रह्मविष्णुशिवात्मकः ५७।
रक्षसे शंभुना दत्तो वरः परमदारुणः ।
हिरण्यकशिपोराज्ये बलवानेक राक्षसः ५८।
देवैः सार्द्धं तु युयुधे वर्षाणां शतमद्भुतम् ।
पलायिताश्च बहुधा मृताश्च शतशोसुराः ५९।
शुक्रेण रक्षितः सोऽथ गुरुणाचिंतयत्त्विदम् ।
मृतोऽस्मि शतशः शुक्र जीवितोऽस्मि त्वयैव हि ६०।
अमृत्यवे त्वमेतस्मादुदरस्थमृताय च ।
अन्यथा मरणं मह्यं भविष्यति न संशयः ६१।
गुरो यमेन साकं मे युद्धमासीत्सुदारुणम् ।
मयासौ ग्रसितो युद्धे यमराजः प्रतापवान् ६२।
ममोदरं प्रविश्यासौ बिभेद च ननाद च ।
अहं मृतस्तदा चासं त्वया संजीवितः पुनः ६३।
तस्मादुदरसंस्थानां मरणाय तपे तपः ।
शुक्र उवाच-
एवमेतन्न संदेहो यथावत्त्वं समाचर ६४।
स्यमंतपंचकं तीर्थं तत्र त्वं तप्तुमर्हसि ।
राक्षस उवाच-
तपे महत्तपो घोरं यन्न चीर्णं सुरासुरैः ६५।
गुल्फप्रदेशे पादान्ते त्वयःपाशैः प्रबध्य च ।
अयःस्तंभयुगं कृत्वा अयःपट्टिकयान्वितम् ६६।
पट्टिकायां पादबंधं कृत्वाधः शीर्षतां तथा ।
विवृतास्यं तथा कल्पं कृत्वाधोमुखमुच्चकैः ६७।
स्तंभोत्तरेण ज्वालायां चक्रिकायामितस्ततः ।
अधःशिरास्तथा तिष्ठन्नुन्मील्यैव विलोचने ६८।
एवं तपश्चरिष्यामि वरदः कोपि मे भवेत् ।
ब्रह्मा वा वरदः सोऽस्तु शंकरो विष्णुरेव च ६९।
वरदे न तु मे भाव्यं यो वा कोवा वरप्रदः ।
इत्थमाभाष्य मुनिना गुरुणा भार्गवेण सः ७०।
तथातपच्च षण्मासं पुनरन्यच्चकार ह ।
नखाभ्यां स्वशिरश्छित्त्वा जुहावाग्नौ समंत्रकम् ७१।
नमो भद्राय मंत्रेण चत्वारि च शिरांसि सः ।
पंचमं तु शिरो हातुं यतमाने च राक्षसे ७२।
वह्निमध्यात्समुत्तस्थौ भगवानंबिकापतिः ।
शुद्धस्फटिकसंकाशो बालचन्द्र विभूषणः ७३।
अधःशिरस्कं तद्रक्ष इदमाह महेश्वरः ।
मा साहसं कृथा रक्षो वरदोऽस्मि वरं वृणु ७४।
राक्षस उवाच-
बहूनां च वराणां त्वं दाता नूनं महेश्वरः ।
हतशीर्षसमुत्पत्तिं ग्रस्तजीवमृतिं तथा ७५।
वराहवपुषो विष्णोरस्तु शक्तिश्चतुर्गुणा ।
मयि तेन हि रोषः स्यात्संनिधिस्तु सदा मम ७६।
त्वज्जटोत्पाटनेनैकः पुरुषः संभविष्यति ।
तेनैव मरणं नान्यैरिदमस्तु वृतं मम ७७।
भविष्यत्येवमेवैतदित्युक्त्वांतर्हितोहरः ।
एवंलब्धवरः पापी राक्षसो निहतस्त्वया ७८।
अथालिंग्य हरिर्वीरं शंकरश्च पितामहः ।
यथागतमथोजग्मुरथ देवादियोषितः ७९।
निपत्य दंडवद्भूमौ वीरभद्रमथाब्रुवन् ।
नमस्ते देवदेवेश नमस्ते करुणाकर ८०।
नमस्ते शाश्वतानंत नमस्ते वरदो भव ।
वीरभद्र उवाच-
भस्मना जीवयिष्यामि सुरान्समुनि वानरान् ८१।
भवतीभिः प्रतोष्टव्यं शोकः कार्यो न चाधुना ।
इत्युक्त्वा वीरभद्रस्तु भस्मनाजीवयत्सतान् ८२।
उत्थिता मुनिदेवाश्च वानरौ चोत्थितौ ततः ।
इदमूचुर्वचो हृष्टाः शिरःस्थांजलयो नमन् ८३।
त्वयात्र जीवितास्तात पिता त्वं धर्मतो हि नः ।
अस्माकं शरणं नित्यं भव शंकरसंभव ८४।
शिशूनां दुष्टचरितं दृष्ट्वा शिक्षेस्तथा च तान् ।
रक्षेः परकृता बाधा व्याधिभ्यश्च यथौरसान् ८५।
दक्षाध्वरे कृतागस्काः शिक्षिता भवतानघ ।
इदानीं रक्षितास्तात वयं शिशुवदेव ते ८६।
वीरभद्र उवाच-
सत्यमेतन्न संदेहो यत्र बाधा भवेत्तु वः ।
तत्र मां स्मरत क्षिप्रं बाधानाशं गमिष्यति ८७।
वीरभद्रं पदं येपि पठंत्यष्टशतं ततः ।
प्रणवादि नमोंऽतं च चतुर्थीसहितं तथा ८८।
तेषां राक्षसपीडानां नाशनं च भविष्यति ।
ब्रह्मराक्षसपीडासु पिशाचादिभयेषु च ८९।
नामानुस्मरणात्सर्वबाधानां च विनाशनम् ९०।
विद्युत्प्रभालोचनमुग्रमीशं बालेंदुदंष्ट्रारुणशोभिताधरम् ।
सुनीलगात्रं च जटाकृतस्रजं दधानमंगे भसितत्रिपुंड्रकम् ९१।
ब्रह्मराक्षसमुक्त्यर्थं स्मरणं त्विदमीरितम् ।
मंत्रे च वीरभद्रस्य सर्वमेतदुदीरितम् ९२।
दधीच उवाच-
अथैवं विदधे वीरो मुनिदेवास्तथागताः ।
एतत्त्रियायुषं प्रोक्तं भस्ममाहात्म्यमुत्तमम् ९३।
पठतः शृण्वतो वापि स्मरतोऽघविनाशनम् ।
शिवभक्तिप्रदं पुण्यमायुरारोग्यवर्द्धनम् ९४।
शुचिस्मितोवाच-।
अहं कृतार्था धन्या च नारीणामुत्तमास्म्यहम् ।
हतपापा तथा चास्मि नमस्ते मुनिपुंगव ९५।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे सप्तोत्तरशततमोऽध्यायः १०७।
खण्डः ५ (पातालखण्डः) — Adhyāya 108
श्रीराम उवाच-
भस्मोत्पत्तिं महाभाग भस्ममाहात्म्यमेव च ।
भस्मसंधारणे पुण्यं भस्मदाने च तद्वद १।
शंभुरुवाच-
भस्मोत्पत्तिं प्रवक्ष्यामि सर्वपापप्रणाशिनीम् ।
स्मरणात्कीर्तनाद्राम तां शृणुष्व नराधिप २।
य एकः शाश्वतो देवो ब्रह्मवंद्यः सदाशिवः ।
त्रिलोचनो गुणाधारो गुणातीतोऽक्षरोव्ययः ३।
सिसृक्षा तस्य जाताथ वीक्ष्यात्मस्थं गुणत्रयम् ।
वेदत्रयमिदं ज्ञेयं गुणत्रयमिदं हि यत् ४।
पृथक्कृत्वात्मनस्तात तत्रस्थानं विभज्य च ।
दक्षिणांगेसृजत्पुत्रं ब्रह्माणं वामतो हरिम् ५।
पृष्ठदेशे महेशानं त्रीन्पुत्रानसृजद्विभुः ।
जातमात्रास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ६।
इदमूचुर्वचः स्पष्टं को भवान्के वयंत्विति ।
तानाह च शिवः पुत्रान्यूयं पुत्रा अहं पिता ७।
इदं गुणत्रयं पुत्रा भजध्वं कर्महेतुकम् ।
पुत्रा ऊचुः -
कं वा गुणं को भजतां कियंतं कालमीश्वर ८।
कथं गुणनिवृत्तिश्च भवेदेतद्वदस्व नः ।
शिव उवाच-
यावज्ज्ञानं हि भवतां यावदायुरथापि वा ९।
धारणं तावदेवस्यादेकैकस्य गुणस्य च ।
सत्वं ब्रह्मा रजोविष्णुर्भजेन्महेश्वरस्तमः १०।
इत्युक्तमात्रे देवेशे ब्रह्मा सत्वमथाग्रहीत् ।
न च चालयितुं शक्तो धारणे किमु शक्तिमान् ११।
तं गुणं तु तिरस्कृत्य रजोगुणमथाग्रहीत् ।
न च चालयितुं शक्तो जग्राहाथ तमोगुणम् १२।
न च चालयितुं शक्तो निपपात रुरोद च ।
विष्णुश्च वामहस्तेन रजोगुणमधारयत् १३।
अंगुलीभ्यां महेशोऽपि तमोगुणमधारयत् ।
सत्वमेकोंगुलीभ्यां च सत्वं विष्णुमथादधात् १४।
ब्रह्माणं पादपीठे च दधार च ननर्त च १५।
नृत्यंतमत्यंतविलासरूपं गोक्षीररूपं तरुणं त्रिनेत्रम् ।
सर्वं दधानं कृतकौतुकं शिवं समीक्ष्य पुत्रान्वरदो बभाषे १६।
शिव उवाच-
प्रीतोऽस्मि तव पुत्राहं वरं वृणु यथेप्सितम् ।
अथाह पितरं पुत्रो वरमेनं ददस्व मे १७।
मामुद्दिश्य कृता पूजा तव पूजा भवेच्छिव ।
तिष्ठेर्मयि सदा त्वं च त्वमेवाहं च वाव्ययः १८।
शिव उवाच-
एवमेतन्महाभाग भविष्यति न संशयः ।
रक्तगौराविमौ पुत्रौ ब्रह्मविष्णू ममैव तु १९।
बाहुमूलस्थरोमौ च ममाकारौ तथानघौ ।
अथ ब्रह्माणमाहेदं भजत्वेकं गुणं भवान् २०।
ब्रह्मोवाच-
त्वन्निर्दिष्टं गुणमहं धर्तुं शक्तो न हीश्वर ।
धारयिष्ये रजो देव सत्वं भजतु वै हरिः २१।
अवशिष्टं गुणं चायमीश्वरो धारयिष्यति ।
शंभुरुवाच-
गुणानादायते देवा नशेकुर्नित्यधारणम् २२।
कर्तुं भरणशक्त्यर्थं शिवमित्यवदत्पुनः ।
गुणान्वयं सर्वकालं न च धारयितुं क्षमाः २३।
दीयतां भगवञ्छक्तिर्यदि भोस्त्वं वरप्रदः ।
अथ तद्वचनं श्रुत्वा शिवो वाक्यमभाषत २४।
शिव उवाच-
विद्याशक्तिः समस्तानां शक्तिरित्यभिधीयते ।
गुणत्रयाश्रया विद्या अविद्या च तदाश्रया २५।
गुणत्रयं च दग्ध्वैव तत्सारं धर्तुमर्हथ ।
यच्च किंचिद्भवेत्तत्र भवद्भिर्ध्रियतां हि तत् २६।
अथाहुस्तत्सुता वाक्यं न दाहो ज्वलनं विना ।
शिवः प्राह महेशस्य लोचने वह्निरस्ति वै २७।
गुणत्रयमिदं धेनुर्विद्या स्याद्गोमयं शुभम् ।
मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम् २८।
वत्सास्तु स्मृतयो यस्यास्तत्संभूतं तु गोमयम् ।
आगाव इति मंत्रेण धेनुं तत्राभिमंत्रयेत् २९।
गावो गावो गाव इति प्राशयेत्तु तृणं जलम् ।
उपोष्य च चतुर्द्दश्यां शुक्ले कृष्णेऽथवा व्रती ३०।
परेद्युः प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।
कृतस्नानो धौतवस्त्रो गोमयार्थं व्रजेत्तु गाम् ३१।
उत्थाप्य तां प्रयत्नेन गायत्र्या मूत्रमाहरेत् ।
सौवर्णे राजते ताम्रे धारयेन्मृन्मये घटे ३२।
पौष्करे वा पलाशे वा पात्रे गोशृंग एव वा ।
आदधीत हि गोमूत्रं गंधद्वारेति गोमयम् ३३।
अभूमिपातं गृह्णीयात्पात्रे पूर्वोदितेऽधिके ।
गोमयं शोधयेद्विद्वाञ्छ्रीर्मे भजतु मंत्रतः ३४।
अलक्ष्मीर्मयीति मंत्रेण गोमयस्यापमार्जनम् ।
सं त्वा सिंचामि मंत्रेण गोमूत्रं गोमये क्षिपेत् ३५।
पंचानां त्वेति मंत्रेण पिंडांश्चैव चतुर्द्दश ।
कुर्यात्संशोष्य किरणैस्तरणेराहरेत्तु तान् ३६।
निदध्यादथ पूर्वोक्तपात्रे गोमयपिंडकान् ।
स्वगृह्योक्तविधानेन प्रतिष्ठाप्याग्निमिंधयेत् ३७।
पिंडान्विनिक्षिपेत्तत्तदर्णदेवाय पिंडकान् ।
आघारावाज्यभागौ च प्रक्षिप्य द्वौ हुनेत्सुधीः ३८।
ततो निधनपतये त्रयोदशजयादयः ।
होतव्याः पंचब्रह्माणि नमो हिरण्यबाहवे ३९।
इति सर्वाहुतीर्हुत्वा चतुर्थ्यंतैस्तु मंत्रकैः ।
ततः शर्वाय रुद्राय यस्य वैकंकतीति च ४०।
एतैस्तु जुहुयाद्विद्वाननाज्ञातत्रयं तथा ।
व्याहृतीरथ हुत्वा तु ततः स्विष्टकृतं हुनेत् ४१।
इध्मशेषं तु निर्वर्त्य पूर्णपात्रोदकं ततः ।
पूर्णमासांतयजुषा जलेनान्येन बृंहयेत् ४२।
ब्राह्मणेष्वमृतमिति तज्जलं शिरसि क्षिपेत् ।
प्राच्यामिति दिशां लिंगैर्दिक्षु तोयं विनिक्षिपेत् ४३।
ब्रह्मणे दक्षिणां दत्वा शांते पुलकमाहरेत् ।
आहरिष्यामि देवानां सर्वेषां कर्मगुप्तये ४४।
जातवेदसमेने त्वां पुलाकं च्छादयाद्य मे ।
मंत्रेणानेन तं वह्निं पुलाके छादयेदथ ४५।
त्रिदिनं ज्वलनस्थित्यै छादनं पुलकैः स्मृतम् ।
ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुंजीत वाग्यतः ४६।
भस्माधिकमभीप्संस्तु ह्यधिकं गोमयं हरेत् ।
दिनत्रयेण यदि वा एकस्मिन्दिवसे बहु ४७।
तृतीये वा चतुर्थे वा प्रातःस्नात्वा सितांबरः ।
शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ४८।
शुक्लदंतो भस्मदिग्धो मंत्रेणानेन मंत्रवित् ।
तद्वेति चोच्चारयित्वा भस्मसत्यं न संत्यजेत् ४९।
तत आवाहनमुखा उपचारास्तु षोडश ।
कर्तव्या हुतदानेन ततोऽग्निमुपसंहरेत् ५०।
अग्ने भस्मेति मंत्रेण गृह्णीयाद्भस्म चोद्भवम् ।
अग्निरस्मीति मंत्रेण प्रमृज्य च ततः परम् ५१।
संयोज्य गंगासलिलैः कपिलापयसाथवा ।
चंद्रं कुंकुमकाश्मीरमुशीरं चंदनं तथा ५२।
अगुरुद्वितयं चैव चूर्णयित्वा तु सूक्ष्मतः ।
क्षिपेद्भस्मनि तच्चूर्णमोमिति ब्रह्ममंत्रतः ५३।
ततः पयः सेचने च गदितः कपिला मनुः ।
अमृतं देवि ते क्षीरं पवित्रमिह वर्द्धितम् ५४।
तवप्रसादान्मुच्यंते मनुजाः सर्वपाप्मनः ।
प्रणवेनावहेद्विद्वान्भस्मनो वटकानथ ५५।
अणोरणीयानिति हि मंत्रेण तु विचक्षणम् ।
शंभुरुवाच-
इत्थं तु भस्मसंपाद्य शुष्कमादाय मंत्रवित् ५६।
प्रणवेन विमृज्याथ सप्तप्रणवमंत्रितम् ।
ईशानेन शिरोदेशं मुखं तत्पुरुषेण च ५७।
उरोदेशमघोरेण गुह्यं वामेन मंत्रयेत् ।
सद्योजातेन वै पादौ सर्वांगं प्रणवेन तु ५८।
तत उद्धूल्य सर्वांगमापादतलमस्तकम् ।
तत आचम्य वसनं धौतं श्वेतं प्रधारयेत् ५९।
पुनराचम्य कर्म स्वं कर्तुमर्हति सर्वतः ।
ततो भस्मसमादाय प्रमृज्य प्रणवेन तु ६०।
त्रिनेत्रं त्रिगुणाधारं त्रयाणां जनकं विभुम् ।
स्मरन्नमः शिवायेति ललाटे तु त्रिपुंड्रकम् ६१।
नमः शिवाभ्यामित्युक्त्वा बाह्वोर्वापि त्रिपुंड्रकम् ।
अघोराय नम इति उभाभ्यां च प्रकोष्ठयोः ६२।
भीमायेति ततः पृष्ठे शिरोधि पश्चिमे तथा ।
नीलकंठाय शिरसि क्षिपेत्सर्वात्मने नमः ६३।
प्रक्षाल्याथ ततो हस्तौ कर्मानुष्ठानमाचरेत् ।
शिव उवाच-
यूयमेवं प्रकारेण भस्म कृत्वा प्रघृष्य च ६४।
गुणान्धारयितुं शक्तास्ततः स्रक्ष्यथ वै प्रजाः ।
शंभुरुवाच-
इत्थं शिवोदिता देवा ब्रह्मविष्णुमहेश्वराः ६५।
तथा कृत्वा च विधिना हमहमिकया तदा ।
अन्योन्यबोधनाशक्ताः प्रणम्य शिवमूचिरे ६६।
कं गुणं धारयेत्को वा शिवः प्राह सुतानथ ।
कर्मशक्तिं तथा ज्ञानं मुखरेण्वैव नश्यति ६७।
अल्पायुर्दृश्यते ब्रह्मा मनुभिश्चास्य जीवितम् ।
योऽहं ब्रह्मांडमालाभिर्भूषितो ब्रह्मगोपनम् ६८।
रजोगुणमवष्टभ्य न च जानासि मां तदा ।
ब्रह्माधिकबलो विष्णुरायुषि ब्रह्मणोऽधिकः ६९।
ब्रह्मांडमालाभरणे महेशस्य ममैव तु ।
चतुर्निःश्वासमात्रेण विष्णोरायुरुदाहृतम् ७०।
ब्रह्मणोऽधिकसत्वत्वात्सत्वमालंबतां हरिः ।
जानाति सर्वकालं मां क्वचिदेव न विस्मरेत् ७१।
सात्विकैकैव पूजास्य राजसी तामसी न तु ।
शांतं शिवं सत्वगुणं रजवक्त्रावमानतः ७२।
नभोनीलं तथा चैव गुणं शंभुस्तथाभजत् ।
सत्वं रजस्तमश्चापि दधार च पुरा किल ७३।
अतोऽस्य विविधा पूजा शंकरस्य विधीयते ।
रजश्च तमसायुक्तं दारुणं परिकीर्तितम् ७४।
दारुणापि ततः पूजा शंकरे गतिदा मता ।
रजश्च तमसायुक्तमलं शास्त्रप्रवर्तकम् ७५।
विच्छिन्नापि ततः पूजा शंकरे फलदा मता ।
तमश्च सत्वसंयुक्तं मिश्रकं च प्रवर्तकम् ७६।
मिश्रपूजा विफलदा शंकरे लोकशंकरे ।
यादृशं तादृशं वापि नियमेनार्चनं विभोः ७७।
शंकरस्याशुफलदं यादृशस्यापि देहिनः ।
शंभुरुवाच-
एतत्संक्षेपतः प्रोक्तं विधानं भस्मनोऽनघ ७८।
वक्तृश्रोतृजनानां च समस्ताघविनाशनम् ७९।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे भस्मोत्पत्तिविधानं नामाष्टोत्तरशततमोऽध्यायः १०८।
खण्डः ५ (पातालखण्डः) — Adhyāya 109
शंभुरुवाच-
अत्र ते कीर्तयिष्यामि कथां पापप्रणाशिनीम् ।
श्रुत्वा यां प्राप धर्मात्मा शिवभक्तिमनुत्तमाम् १।
इक्ष्वाकुर्नाम विप्रेंद्रो महाविद्यो महामतिः ।
बहुशास्त्रप्रवीणश्च नीतिशास्त्रविशारदः २।
न यष्टा न च दाता च न देवानां च पूजकः ।
न चाध्यापयिता वेदं न व्याख्याता श्रुतस्य च ३।
न पुराणेतिहासानां श्रुतीनामागमस्य वा ।
यत्नाद्भोक्ता तथा देहसंस्कारैकप्रवर्तकः ४।
तादृशस्य द्विजस्याथ समालक्ष्यायुरत्यगात् ।
लक्षांतरे तथैकस्मिन्वत्सरे मासि पंचमे ५।
तृतीय दिवसे रात्र्यां पुराणं श्रुतवानिदम् ।
स्वसंपादितवित्तस्य येन दानं न वै कृतम् ६।
दिनेदिने भुज्यमानं निःसारं स्यात्क्रमेण हि ।
वर्षाण्येव च तावंति नरके पच्यते ध्रुवम् ७।
कृमियोनिसहस्रं च अनुभूय ततः परम् ।
दरिद्रो व्याधितोऽबंधुर्दुष्टभार्यो बहुप्रजः ८।
दिनेदिने भिक्षितेन याचितेन च जीवनम् ।
यन्न क्वापि च बीजानां मग्नानामथ मार्गणात् ९।
लब्धेनजीवनं कर्म भृत्यानामथ जीवनम् ।
मध्ये श्रोत्रविहीनश्च नेत्रहीनः स्खलन्मलः १०।
एवं पुराणं श्रुत्वा साविक्ष्वाकुर्भृशदुःखितः ।
मनसा चिंतयच्चेदं स्मारं स्मारं द्विजाधमः ११।
रूपपुष्पैर्माहिष्मयी दुर्गापि फलवर्जिता ।
तथा पुराणरहिता विद्या नो गतिदर्शनी १२।
बहुशास्त्रं समभ्यस्य बहुवेदान्सविस्तरान् ।
पुंसोश्रुतपुराणस्य सम्यग्याति न दर्शनम् १३।
शंभुरुवाच-
एवं चिंतयतस्तस्य अकालमरणं त्वभूत् ।
यमलोकं गतश्चाथ यमेन परिभाषितः १४।
यम उवाच-
अनेकपापयुक्तोसि पुण्यं नैव महत्तव ।
न वेदाध्यापनात्प्राप्तं पापं च विदितं तव १५।
कोटिवर्षाणि नरके तवस्थितिरिति द्विज ।
आयुरस्ति तवात्यल्पं गम्यतां पौर्विकीं तनुम् १६।
कुरु पुण्यं हितं दानं देवतापूजनं जपम् ।
सांगमध्यापनं विप्र भोजनं भस्मधारणम् १७।
भज विश्वेश्वरं देवं देवदेवमुमापतिम् ।
तस्य प्रयत्नमात्रेण मम लोकं न गच्छसि १८।
यत्किंचित्प्रत्यहं पापिन्पुराणं शृणु सादरम् ।
ततस्तच्छ्रवणादेव नेक्षसे मम यातनाः १९।
यमस्य वचनं श्रुत्वा ब्राह्मणः स्वां ययौ तनुम् ।
अथेशपूजनकृते यत्नमास्थाय स द्विजः २०।
अगमन्मुनिवर्यं तु जाबालिशिवपूजकम् ।
तपः स्वाध्यायसंपन्नं श्रुतिस्मृतिविवेचकम् २१।
पुराणतत्त्ववेत्तारं लक्षशिष्यसमावृतम् ।
जराशिथिलसर्वांगं वेदवेदांगपारगम् २२।
द्रष्टुकामो ययौ शैलं मंदरं चारुकंदरम् ।
नानाविहंगसंपूर्णं नानापुष्पलतावृतम् २३।
सर्वर्तुकुसुमोपेतं नानागंधोपशोभितम् ।
किन्नराणां च मिथुनैर्गीतपूर्णमहागुहम् २४।
अनेकरूपलावण्य वनितोषितपादपम् ।
लंबमानविचित्राभिस्ताभिः शोभितपादपम् २५।
रतिश्रमप्रसुप्तानां बोधनादितषट्पदम् ।
कूजंति च पिकाः कामं वियुक्तानां युजे किल २६।
नानामुनिगणाकीर्णं प्रशांतमृगचारिणम् ।
अप्सरोगणसंकीर्णं गंधर्वगणसेवितम् २७।
नानासिद्धमुखोद्भूतगीतपूर्णवनांतरम् ।
विचित्रफलसंपूर्णं नानादेवालयान्वितम् २८।
प्रासादशतसंबाधं नानागृहसमन्वितम् ।
सिंहाननैर्गजमुखैरुलूकवदनैरथ २९।
अमुखैर्विमुखैरुग्रैरर्द्धवक्त्रैर्मृगीमुखैः ।
रुरुजंतुकगोधाहि वानरर्क्षमुखैरपि ३०।
व्याघ्रवृश्चिकभल्लूष्ट्रश्वानगर्दभतुंडकैः ।
समस्तजीववदनसदृशास्यैर्गणेश्वरैः ।
वल्लीमुखैर्वृक्षमुखैः शिलावक्त्रैरयोमुखैः ३१।
शंखमुक्तादिजलजवदनैरुपशोभितम् ।
अधिकांगैरनंगैश्च जटिलैः शिखिमुंडितैः ३२।
पत्रिवक्त्रैर्द्विषड्वक्त्रैस्त्रिविग्रहमुखैरपि ।
घंटास्यैः शूर्पवदनकर्णपादमुखैरपि ३३।
घंटामुखैर्वेणुमुखैः किंकिणीवदनैरपि ।
यादृग्वस्तु जगत्यस्ति तादृशास्यैरयोमुखैः ३४।
कैश्चिन्निभृतकंदर्परूपलावण्यकोमलैः ।
कोटिसूर्यप्रतीकाशैश्चंद्र कोटिसमप्रभैः ३५।
नानावर्णैर्विश्वमुखैर्विश्वरूपैश्चतुर्मुखैः ।
द्विमुखैः पंचवक्त्रैश्च त्रिमुखैः षण्मुखैरपि ३६।
एकानेकमुखैः शांतैः सर्वदा सुखिभिर्युतम् ।
नानाभोगसमृद्धैश्च रतिकामसमैरपि ३७।
लक्ष्मीनारायणमुखैरुमेशसमविग्रहैः ।
नानारूपधरैश्चान्यैः सेवितं मंदराचलम् ३८।
धेनवो यत्र वेदाश्च मीमांसावत्स संयुताः ।
धर्मादयः सवर्ष्माणः पुराणानि च कर्मणा ३९।
स्मृतीतिहासजातानि आगमाश्च शरीरिणः ।
स्थिताश्च मंदरे यत्र सशैलः पापनाशनः ४०।
तस्य मध्ये महापुण्यं पुरं परमशोभितम् ।
वापीतडागोपवनप्रासादशतशोभितम् ४१।
सप्तप्राकारपरिखं रत्नाट्टालकसंयुतम् ।
गोपुरैर्नवभिर्युक्तं विचित्रगृहसंयुतम् ४२।
यस्य चाप्रतिमं तेज उष्णशीतादिवर्जितम् ।
तन्मध्ये नगरी पुण्या तन्मध्ये च सभा शुभा ४३।
तस्यां भद्रासनं मध्ये वेदपादविचित्रितम् ।
सर्वोपनिषदाकॢप्तं पादपीठं सुशोभनम् ४४।
पुराणान्यागमास्तस्य स्वस्तीति शिवपादयोः ।
तत्रासीनो महायोगी गोक्षीरसदृशाकृतिः ४५।
मंदस्मितसुचार्वास्योद्व्यष्टवर्षवयाः प्रभुः ।
दधान उरसामालां मणिरुद्राक्षकल्पिताम् ४६।
बिभ्राण उपवीतं च कर्णिकारसमद्युतिः ।
सुरत्नकुंडलो देवः किरीटकनकांबरः ४७।
नानाभूषणसंयुक्तो नानागंधविलेपनः ।
वामांकन्यस्तगिरिजो वीक्षमाणस्तदाननम् ४८।
मुग्धां च सुमुखीं बालां नवयौवनशोभिताम् ।
भूषितां चारुसर्वांगीं बिभ्रतीं कनकांबुजम् ४९।
आलिंग्य वामेनकरेण देवीं दक्षेण तस्या मुखमुन्नमय्य ।
स्पृष्ट्वा शिरो वामकरेण तस्या दक्षेण कुर्वंस्तिलकं च देवः ५०।
भक्तिर्वीजयते देवं प्रणव व्यजनेन च ।
पूजाकांतापि कुसुमैर्मालां देवाय बिभ्रती ५१।
ज्ञप्तिर्विरक्तिर्वनिते बिभ्रत्यौ योगचामरे ।
समाधिः कार्यकर्तास्य धारणायोषिदस्य च ५२।
यमाश्चनियमाश्चैव किंकरास्तस्य कीर्तिताः ।
प्राणायामः पुरोधास्तु प्रत्याहारः सुवर्णधृक् ५३।
ध्यानं च द्रविणाध्यक्षः सत्यं सेनापतिस्तथा ।
ब्रह्मप्रभृतिकीटांताः पशवस्तत्पतिः शिवः ५४।
पशूनां पालको धर्मः स्यादधर्मश्च तस्करः ।
मायापाशेन ते बद्धा मोचनी काशिका मृतिः ५५।
नानाविधाश्च प्रमदा देवदेवमुमापतिम् ।
एतादृशमुमानाथं कोटिजंतुरनुस्मरेत् ५६।
इष्टान्भोगानवाप्याथ शिवलोके महीयते ।
ब्रह्मविष्णुमहेंद्राद्यास्तत्पुरद्वारपालकाः ५७।
लक्ष्मीसरस्वतीदेव्यौ देहल्याद्यर्च्चनेक्षितेः ।
नियुक्ते देवदेवस्य देवाश्च सुरयोषितः ५८।
दास्यो देवाः समस्ताश्च दासा यस्य महात्मनः ।
एतादृशमहाशैलमिक्ष्वाकुः संददर्श ह ५९।
मुनिं प्रणम्य जाबालिमिदमाह वचस्तदा ।
गंतुकामो महाशैलं शक्तोस्यस्मिन्न वा मुने ६०।
ममायुरल्पं कथितं यमेन ज्ञानिना पुरा ६१।
नरकश्च बहुःप्रोक्तः कथं श्रेयो भविष्यति ।
जाबालिरुवाच-
मयापि सर्वमेतत्ते ज्ञातं दिव्येन चक्षुषा ६२।
आयुर्दशदिनं ब्रह्मन्विद्वानपि न धर्मकृत् ।
न तपस्ते ह्यनभ्यासान्न च योगोऽल्पकालतः ६३।
न दानं द्रविणाभावादसामर्थ्यात्तथार्हणा ।
न यज्ञो न व्रतं पूर्तं न च पुण्यमनायुषः ६४।
न चाध्यापनतीर्थादि सेवाकालविरोधतः ।
तस्मात्तत्पापनाशाय प्रायश्चित्तं न विद्यते ६५।
गतिप्रदं तथा धर्मं गच्छ वा तिष्ठ वा मुने ।
इक्ष्वाकुरुवाच-।
यावज्जीवं प्रतिज्ञाय क्रियते यो वृषो द्विज ६६।
तेन पापपरीहारो भविष्यति सुनिश्चितम् ।
तं ब्रूहि येन धर्मेण मम पापं प्रणश्यति ६७।
केन वा पुण्ययोगेन स्वर्गतिश्च भविष्यति ।
शरणं भव विप्रर्षे नरकादतिबिभ्यतः ६८।
सर्वधर्मफलं प्राहुः शरणागतपालनम् ।
जाबालिरुवाच-
सत्यं स्वल्पेन कालेन न तादृग्लभ्यते वृषः ६९।
अमृतेत्वनृते शक्यं वक्तुं स्वप्नांतरेष्वपि ।
रहस्यमेकं किंचित्तु यस्य कस्यापि नोच्यते ७०।
इक्ष्वाकुरुवाच-
शरणं पालय मुने कालो मे निर्गमिष्यति ।
जाबालिरुवाच-
मम प्राणाधिकं विप्र रहस्यं श्रुतिचोदितम् ७१।
शिवलिंगार्चनं नाम ब्रह्मादिभिरनुष्ठितम् ।
समस्तपापशमनं सर्वोपद्रवनाशनम् ७२।
भुक्तिमुक्तिप्रदं तस्माच्छिवपूजां समाचर ।
नातिक्रामेद्यदि मुने शिवलिंगार्चनं शुभम् ७३।
यः शंभुपूजां विच्छिंद्यात्तेन च्छिन्नं हि मे शिरः ।
वरं शूलविनिक्षेपो वरं शाल्मलिकर्षणम् ७४।
वरं प्राणपरित्यागो नैव पूजाव्यतिक्रमः ।
वरं वह्निप्रपतनं वरं चाधःशिरः कृतम् ७५।
वरं स्वमलभुक्तिर्वा नेशपूजाव्यतिक्रमः ।
अपूजयित्वा चेशानं यो हि भुंक्ते नराधमः ७६।
पापानामन्नरूपाणां तस्य भोजनमुच्यते ।
अनुच्चार्य पदं शंभोर्भुङ्क्ते यदि च खादति ७७।
शिवेति मंगलं नाम यस्य वाचि प्रवर्तते ।
भस्मीभवंति तस्याशु महापातककोटयः ७८।
शिवं प्रदक्षिणीकृत्य यो नमस्यति मानवः ।
भूमेः प्रदक्षिणं कृत्वा यत्तत्पुण्यमवाप्नुयात् ७९।
प्रदक्षिणत्रयं कृत्वा नमस्कारं च पंचधा ।
पुनः प्रदक्षिणं कृत्वा नत्वा मुच्येत पातकैः ८०।
सर्ववाद्यानि यः कुर्यात्कारयेद्वा शिवालये ।
बलेन महता युक्तो वेदसेव्यत्र जायते ८१।
श्रावयेद्यः पुराणानि देवदेवं त्रिलोचनम् ।
सर्वपापविनिर्मुक्तो वसेच्छिवपुरे कृती ८२।
तं नित्यमादरेणेशो वक्ति वाक्यं प्रियं सदा ।
एतत्संक्षेपतः प्रोक्तमीशपूजनमुत्तमम् ८३।
अल्पायुश्च भवान्विप्र शिवपूजनमाचर ।
त्रिकालं वा द्विकालं वा एककालमथापि वा ८४।
यामं यामार्धमथवा शिवपूजनमाचर ।
वानप्रस्थाश्रमो भूत्वा वानप्रस्थकृताश्रयः ८५।
वानप्रस्थप्रसूनैश्च प्रातःपूजय शंकरम् ।
श्रीफलैः शतपत्रैश्च पद्मसौगंधिकैरपि ८६।
नीपैर्जपाभिः पुन्नागैः करवीरैश्च पाटलैः ।
तुलस्याच रविदलैरपराजितया तथा ८७।
अपामार्गदलै रुद्र जटादमनकेन च ।
सर्वैरेभिः समफलैर्बिल्वपत्रैश्च धूर्तकैः ८८।
द्रोणैः शिरीषैः शक्तैश्च दूर्वया कोरकैरपि ।
नंद्यावर्तैरक्षतैश्च तिलमिश्रैश्च केवलैः ८९।
अन्यैरपि यथाशक्ति प्रातः संपूजयेच्छिवम् ।
कर्णिकारैश्च सौवर्णर्दूवर्ययापि शिवार्चनम् ९०।
मुकुलैर्नार्चयेद्देवं चंपकैर्जलजं विना ।
जलजानां च सर्वेषां पत्राणामक्षतस्य च ९१।
कुशपुष्पस्य रजतसुवर्णकृतयोरपि ।
अन्यत्कृत्वा यथा यत्तु तैलपक्वं भवेन्नृप ९२।
न तत्पर्युषितं प्रोक्तमपूपादि गमिष्यति ।
उक्षितं यत्फलायुक्तं तैलक्षाराम्लजीरकैः ९३।
जले तत्प्रोक्षितं मूलफलशाकादिकं नृप ।
न च पर्युषितं प्रोक्तं गंगातोयं च सागरम् ९४।
महानदीजलं सर्वं केदारजलमेव च ।
ह्रदरूपेण यत्तीर्थं कूपतीर्थेन राघव ९५।
तडागवापीसरसां कूपेनापां च यद्भवेत् ।
तत्तीर्थतोयं सर्वं च न च पर्युषितं भवेत् ९६।
न रात्रौ जलमाहार्यं दिवा संपादयेज्जलम् ।
ससैकतं तथा धार्यं न च पर्युषितं हि तत् ९७।
एवं विदित्वा पूजां त्वं शिवलिंगे समाचर ।
शंभुरुवाच-
एवमुक्तोथ मुनिना इक्ष्वाकुर्ब्राह्मणप्रियः ९८।
शिवपूजापरो भूत्वा दिनाष्टकमतिष्ठत ।
नवमेऽथ दिने प्राप्ते प्रातःकाले कृतार्चनः ९९।
मरणावसरे प्राप्ते शिवपूजां विधाय सः ।
स्वान्प्राणानुपहाराय तत्याजैव महेशितुः १००।
मृतं तमथ विज्ञाय यमदूताः समागताः ।
यमलोकप्रापका ये यतमास्थाय तस्थिरे १०१।
शैवाश्चापि समायाता दूता वह्निमुखादयः ।
तेषामन्योन्यवादोभून्मामको मामकस्त्विति १०२।
अथ यामः पाशपाणिः शिवदूतमथार्दयत् ।
अथ वह्निमुखः क्रुद्धो यमदूतशतं ततः १०३।
महाकायस्तथा भूत्वा गृहीत्वा च करेण तत् ।
शिरांसि च तथैकेनापीड्य चिच्छेद शष्पवत् १०४।
मारयित्वा ततो दूतानादायेक्ष्वाकुमभ्यगात् ।
निवेदयामास च तं वीरभद्राय धीमते १०५।
स चापि शंकरायाथ तं प्राह च महेश्वरः ।
त्वयाष्टदिनपूजैव कृता कृष्णा दिने दिने १०६।
त्वमनिंदः पुरा मां च लिंगं शिश्नाग्रमित्युत ।
तेनैव पापयोगेन शिश्नवक्त्रो भविष्यसि १०७।
शिश्नाग्रे विवरं चक्रं जिह्वानासादिवर्जितः ।
पूर्वं मन्नामवक्तृत्वाद्वक्ता चापि भविष्यसि १०८।
अथेशवचनात्सोपि तथाभूतोभवत्क्षणात् ।
शंभुरुवाच-
य इदं शृणुयान्नित्यं पुराणाख्यानमुत्तमम् १०९।
विमुक्तपापबंधश्च शिवभक्तो भविष्यति ।
स याति च शिवस्थाने वक्ता चापि तथा भवेत् ११०।
यश्च वक्ति कथामेनां हरेण सदृशो भवेत् ।
उक्त्वा कथामिमां पूर्वमधीरो नाम भूमिपः १११।
स्वर्गं स गतवान्राजा कृतपापोथ भार्यया ११२।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे विभूतिमाहात्म्येन।
नवोत्तरशततमोऽध्यायः १०९ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 110
श्रीराम उवाच-
अयमग्निशिखो नाम वह्निः शिवगणश्च वै ।
स कथं तादृशो भूतस्तन्मे वद नमस्तव १।
शंभुरुवाच-
अयमासीत्पुरा कश्चित्क्षत्त्रियः क्रोधनः सदा ।
नष्टभार्यो नष्टसेनो नष्टराष्ट्रोतिदुःखितः २।
लब्ध्वा लुलाय द्वितयं कृषिं चक्रे सहात्मजैः ।
ऋणेन महता युक्तः पुनश्चातीव दुःखितः ३।
पुनश्च दुःखितो राजा सर्पेण सुतनाशनात् ।
तथाभूतो महीपालस्तत्याज कृषिमप्युत ४।
परित्यज्य सुतौ चापि त्यक्ताहारो रुरोद ह ।
सुतावथ समागम्य प्राहतुः पितरं त्विदम् ५।
किमर्थं रुद्यते तात नष्टो नायाति रोदनात् ।
शरीरशोषणायाथ शोकस्तेऽद्य भविष्यति ६।
शोकेन चक्षुषी नष्टे कंठो नष्टस्तथा तव ।
अनुष्ठानं तथा नष्टं किमर्थं परितप्यसे ७।
एको नष्टो न चायाति रक्ष पंचस्थितानसून् ।
बहूनां रक्षणं पुण्यमाश्रितानां विशेषतः ८।
अन्याश्रितममुं शत्रुं कथं शोचितुमर्हसि ।
पितोवाच-
पुत्रः शत्रुः कथं पुत्रौ युवां शत्रू तथा च मे ९।
अत्यंतसुखिनं पुत्रं कथं शत्रुमभाषतम् ।
सुतावूचतुः
जायमानो हरेद्भार्यां वर्द्धमानो हरेद्धनम् १०।
म्रियमाणस्तथा प्राणाञ्छत्रुत्वं किमतः परम् ।
यत्सुखं च त्वया प्रोक्तं स्पर्शनालिंगनादिभिः ११।
दुःखोदर्कमिदं राजन्सर्वमेतद्वदामि ते ।
प्रसूतिकाले पुत्रस्य भार्यानाशविचारणा १२।
जीवितायामथोपत्न्यामात्मनः सुखनाशनम् ।
योन्यशुद्धौ तु जातायां संयोगो नोपपद्यते १३।
आलिंगनपरे गाढं स्तन्येनांगं परिप्लुते ।
तथापि यदि संयोगः शिशुरोदनताः स्त्रियाः १४।
दृढं शिशुगतं चित्तं ततो वैरस्यमेव च ।
अथ चेत्पतितो डिंभो मध्ये मैथुनमुद्गतिः १५।
रतिमध्ये तु विच्छेदे दुःखं किंचिदसन्निभम् ।
सर्वकाले परिमिते कदाचिद्रतिसंभवः १६।
तत्काले भोजनं नास्ति स्वापो नास्ति च भार्यया ।
शिशूनां रक्षणे दुःखं व्याधितर्षग्रहादिभिः १७।
तन्मतं यत्सुखं चित्रं यथांकारोहणं पितुः ।
आलिंगनकृतं तात चुंबनादिकृतं तथा १८।
अत्यन्तमधुरोक्त्यादि यत्सुखानि नरेश्वर ।
रतिमध्ये विरामस्य कलां नार्हंति षोडशीम् १९।
अन्यान्यपि च दुःखानि संति पुत्रे सहस्रशः ।
अनेन त्वं किं क्रियसे इहामुत्र विरोधिना २०।
त्यज शोकमिदं तस्मादावां पुत्रौ स्थिताविह ।
श्रीराजोवाच-।
त्यजामि शोकं दुर्वारं सर्वकार्यविरोधिनम् २१।
आत्मनश्च हितं कार्यमिहामुत्र सुतौ मम ।
पुरोधसं तु गच्छामि मम पूर्वं महागुरुम् २२।
वसिष्ठं मुनिवर्यं च स दास्यति गतिं मम ।
एवमुक्त्वा गतो विप्रं वाराणस्यां स्थितं गुरुम् २३।
दंडवत्प्रणनामाथ मुनिना परिपूजितः ।
आलिंगितशिरो घ्रातो दत्तासनपरिग्रहः २४।
उक्तश्चागमनं किं ते किं कार्य्यं करवाणि वै ।
राजोवाच-
गतिं प्रयच्छ मे विप्र संसारतरणाय हि २५।
खिन्नोहं कर्मणा शश्वद्भवंतं शरणं गतः ।
वसिष्ठ उवाच-
गतिं पश्य महालिंगं विश्वेश्वरमिति स्थितम् २६।
एनं पूजय राजेंद्र देवदेवं पिनाकिनम् ।
यमाराध्य पुरा शक्तिररुंधत्याः सुतो मुनिः २७।
रक्षसा भक्षितश्चापि यमलोकं गतो न सः ।
किंचित्कालं गतः स्वर्गं ब्रह्मलोकमगादतः २८।
ब्रह्मलोकाद्विष्णुलोके क्रीडन्नास्ते सुतो मम ।
अमुं पश्य महाराज लुब्धकं वनचारिणम् २९।
पूजयंतं हि विश्वेशं पत्रमात्रै स्वसंभृतैः ।
शमीवृक्षस्य संभूतैस्तथा पूगप्रसूनकैः ३०।
कदंबकुसुमैरर्ककुसुमैर्यूथिकाभवैः ।
एतैरन्यैर्महेशानं पूजयंतं विलोकय ३१।
इतोर्द्धयाममात्रेण मरिष्यति तदद्भुतम् ।
अंतकाले समायाते लुब्धकोपि शिवाय वै ३२।
उपहारप्रदानाय दृष्टवान्पार्श्वतो घटम् ।
तं चूतफलसंपूर्णं शुनोच्छिष्टं विगर्हितम् ३३।
संकल्पितोपहारस्य ह्यभावाल्लुब्धकस्तथा ।
इदं जगौ शुभं वाक्यं लोकानां भक्तिसूचकम् ३४।
पुष्पाभावे हरिर्नेत्रं फलाभावेंगुलं रविः ।
लिंगविस्रंसनेकं च जमदग्नि ऋषिस्तथा ३५।
लिंगपीठविभेदे च गात्रं निर्भिद्य दत्तवान् ।
अन्यैर्माहैश्वरैरन्यत्साहसं परमं कृतम् ३६।
ममापि तत्तथा कार्य्यमन्यथा दोषभागहम् ।
एतस्मिन्नंतरे कश्चिदुन्मत्तः शिवमभ्यगात् ३७।
अथ लुब्धकृतां पूजामाहृत्याभक्षयत्क्षणात् ।
वमनं च तथा चक्रे शिवपीठेथ लुब्धकः ३८।
शिवापकारिणं चैनं हन्मि नो वेत्यचिंतयत् ।
अथ स्वात्मवधायैव यत्नमास्थाय शंकरः ३९।
उन्मत्तेन यथोद्भुक्ता शिवपूजा मया कृता ।
लिंगप्रावरणे ह्येषा तदहं मम देहिनः ४०।
प्रावृतिस्त्वगियं त्वद्य निर्म्मोक्तव्या मया द्रुतम् ।
पूजाविमोचनायैतत्फलहानेर्गलं त्यजेत् ४१।
इत्थं संकल्प्य स तथा तीक्ष्णस्वधितिनाद्भुतम् ।
चक्रे त्वचं दक्षपादं त्वचं च्छित्वा कटेरधः ४२।
वामपादं तथा चक्रे कटिपर्यंतमाशुच ।
हृष्टश्चावेपितश्चैव तत ऊर्ध्वमथाच्छिनत् ४३।
करांसोदरहृत्कंठत्वचं निर्भिद्य लुब्धकः ।
मस्तकस्य त्वचं चापि निर्बिभेद प्रहृष्टवान् ४४।
तयोरंतरतस्तस्माद्गात्रं निर्भिद्य वर्तुलम् ।
छित्त्वांगुलि समादाय देवायार्पितवांस्त्वचम् ४५।
आरादेव तथा दिव्यरूपः स्वक्षश्चतुर्भुजः ।
नानाभूषणसंयुक्तः स्थितो वियति शाङ्करः ४६।
अथ शैवाः समायाता दूताः शतसहस्रशः ।
विचित्रमुकुटाकाराः सर्वाभरणभूषिताः ४७।
त्रिशूलपाणयः सर्वे शुद्धस्फटिकसंनिभाः ।
चतुर्भुजाः सुरूपाश्च विमानवरसंस्थिताः ४८।
सर्वे सूर्यसमाः शांता रंभावत्प्रियया युताः ।
सूनुपत्नीबलोत्साह विलासस्त्रीशतान्विताः ४९।
तेजसा सूर्यसदृशाः पुष्पवृष्टिमवाकिरन् ।
तैराहूतो लुब्धकश्च नागच्छदवदच्च तान् ५०।
भार्याबंधुजनोपेतो गच्छेहमथवा न वा ।
शैवास्तद्वचनं श्रुत्वा वाक्यमेतदथोचिरे ५१।
येन पुण्यं कृतं पापं तेन भोग्यं हि तत्फलम् ।
लुब्धक उवाच-
अशौचानां च सर्वेषां धर्माणामेककर्तृकम् ५२।
माहेश्वराणां धर्माणां फलं च द्विबहुष्वपि ।
एतस्मिन्नंतरे प्राप्तो वीरभद्रः शतार्भकः ५३।
नानाकोटिगणोपेतो एहि लुब्धकबंधुयुक् ।
सर्वं त्वयोक्तं च तथा सभार्यो ज्ञातिबंधुयुक् ५४।
आरुह्येदं विमानं च शिवं गच्छ शिवं तु वः ।
अथ तद्वचनात्प्राप्तः शिवलोकं विमानगः ५५।
वसिष्ठ उवाच-
दृष्टवानसि सर्वं त्वमीशपूजां समाचर ।
विमुक्तपापबंधस्त्वं शिवलोकं गमिष्यसि ५६।
यदि राज्यं त्वया प्रार्थ्यं मार्जयेशां गणं नृप ।
गोमयोदकलेपं च नित्यमेव समाचर ५७।
एतावता भूमिराज्यं ध्रुवं तव भविष्यति ।
यावदायुश्च ते राज्यमंते शिवपदं भवेत् ५८।
नैतस्मिंस्तु भवेद्राज्यसंसिद्धिरनुमृत्युतः ।
अतो देहांतरं प्राप्य शिवसेवाप्रभावतः ५९।
भविष्यति च ते राज्यं शिवभक्तिः स्थिरा तथा ।
शंभुरुवाच-
अथ कृत्वा तथा पूजां मृतः स्वर्गं गतस्ततः ६०।
राजजन्मपुनः प्राप्य राज्यं चक्रे शिवेरतः ।
कदाचिदथ देवस्य गृहमभ्यगमन्नृपः ६१।
नानादीपसमोपेतं मणिभिर्नागराडिव ।
भटानामथ संमर्द एको दीपो पतन्नृपे ६२।
तदासौ कुपितो राजा दीपमादाय सत्वरम् ।
देवालयपुरे रम्ये न्यक्षिपत्कोपसंयुतः ६३।
दग्धं देवगृहं तेन एनश्च समपद्यत ।
अथ तेन पुनस्तत्र दग्धं वेश्मगृहादिकम् ६४।
निर्मापयामास नृपो महेशानमथायजत् ।
अथ मृत्युदिने प्राप्ते राजाराधितशंकरः ६५।
भस्मस्नायी भस्मशायी जपन्रुद्रं ममार ह ।
शिवलोकं गतः सोयं वीरभद्रेण भाषितः ६६।
भव त्वं गणशार्दूलो ममवै परिचारकः ।
शाङ्करान्मम निर्देशादानयस्व ममांतिकम् ६७।
शिरोहीनो भवांश्चापि ज्वालावक्त्रो भविष्यति ।
सतूवाच महात्मानं वीरभद्रं गणेश्वरम् ६८।
चक्षुः श्रोत्रं तथा जिह्वा नासिकास्यं शिरोगणः ।
एतैर्विना व्यवहृतिः कथं मे संभविष्यति ६९।
अभावे शिरसः किं वा मया पापं कृतं विभो ।
वीरभद्र उवाच-
त्वयैव स्वीकृता पूर्वं देवी परमसुंदरी ७०।
महेशभवनं नित्यं चार्तुवर्णकरंगकैः ।
स्वस्तिकं सर्वतोभद्रं नंद्यावर्तादिकं शुभम् ७१।
पद्ममुत्पलमांदोल पादो व्यजन चामरे ।
त्रिशूलं शंखचक्रे च गदाधनुरथैव च ७२।
त्रिशूलं डमरुंखड्गं वृषं भृंगिरिटिं शिवम् ।
तथाष्टपत्रं कमलमन्यद्यंत्रादिकं तथा ७३।
कल्पयंती प्रतिदिनं सेवते वृषभध्वजम् ।
कदाचिदथ सा वेश्या देवसद्मन्युपस्थिता ७४।
राज्ञः कारांकिकः कश्चिद्देववेश्म समाविशत् ।
अथ तां दृष्टवांस्तत्र स इदं वाक्यमुक्तवान् ७५।
काराङ्किक उवाच-
एकांतसंस्थिता वेश्या युवाहं स्थविरश्च न ।
स्थविरं व्याधितं षंढमशक्तं धनवर्जितम् ७६।
अदीर्घमेहनं दीनं पुरुषं योषिदुत्सृजेत् ।
अश्मश्रुलं मलच्छन्नं जडं दुर्गंधिदूषितम् ७७।
स्वल्पमव्यसनं नारी दूरतः परिवर्ज्जयेत् ।
तस्मान्मे दीयतां वेश्ये मैथुनं जीवयाशु माम् ७८।
वेश्योवाच-
नियतः सर्वजातीनामिहामुत्र सुखप्रदः ।
पातिव्रत्यं परो धर्म्मः स्त्रीणामिति हि शुश्रुम ७९।
यदधीना यदा वेश्या तदा नान्येन संगता ।
पतिव्रतेति विख्याता तस्मात्तं परिपालयेत् ८०।
कारांकिक उवाच-
यदि चैवं मृतिः शीघ्रं भविष्यति न संशयः ।
अथ राजांतिकं गत्वा राजानमिदमुक्तवान् ८१।
वेश्या वेश्यैव नो भार्या नेति वक्तुं च नोचितम् ।
इत्थं राजानमुक्त्वाथ मंडं चैवारनालजम् ८२।
किंचिदादाय तस्यास्तु मंदिरं गतवानयम् ।
निद्रावसरमालोक्य प्रसृज्यच करं ततः ८३।
वस्त्रस्य विवरे तत्र मंडं चिक्षेप दुष्टधीः ।
एवं कृत्वा ततो गत्वा राजानमिदमुक्तवान् ८४।
राजन्निर्गत्य गत्वाथ वेश्याग्र्यां तव योषितः ।
उत्थापयित्वा वेश्यां तां सर्वांगं द्रष्टुमर्हसि ८५।
उन्मुक्तबंधमथवा वसनं पश्य यत्नतः ।
वेश्यावेश्माथगतवान्राजा कारांकिकं वचः ८६।
इदमाह सनिद्रेयं पश्येमां यामि पश्यसि ।
स तूवाच नृपं तत्र न मे युक्तमिदं नृप ८७।
तन्मातरं वा पितरं दर्शनाय नियोजय ।
तद्दृष्टौ सर्वमेवेदं व्यक्तमाशु भविष्यति ८८।
आनीता ह्यथ राज्ञा तु माता वीक्षितुमुद्यता ।
वचनात्तु नृपस्यैव वस्त्रं शोधयतीव सा ८९।
तत्रस्थितं मंडमथ विज्ञायांबा ह्यमर्दयत् ।
मर्दनाद्वसनं क्लिन्नं किं तदित्याह पार्थिवः ९०।
न किंचिद्देव नो किंचिदिति वेश्याप्रसूरपि ।
बहुवाक्येन राजाथ वसनं वीक्ष्य शंकया ९१।
शुक्रक्लिन्नमिदं वासः प्राहैतत्पश्यतामिति ।
अथ दृष्ट्वा समीपस्थास्तथेत्यूचुर्वचो नृपम् ९२।
राजाथ स्वगृहं गत्वा दंडाध्यक्षमभाषत ।
इदानीमेव वेश्यायाः शिरश्छिंध्यविचारयन् ९३।
दर्शनीयं शिरस्तस्या घटिकाभ्यंतरे मम ।
दंडकश्च नृपोक्त्यास्यास्तथा कृत्वा ह्यदर्शयत् ९४।
वीरभद्र उवाच-
एवं कृतं त्वया पूर्वं प्राप्तं च फलमद्य ते ।
ज्वालयैव हि वक्ता त्वं श्रोता द्रष्टा च जिघ्रसि ९५।
रसं जानासि मतिमानतिक्रोधी भविष्यसि ।
शंभुरुवाच-
एवं ज्वालामुखो जातो राजा माहेश्वरोऽक्षमी ९६।
तस्मात्तु क्षमिणा भाव्यं परत्रेह सुखेप्सुना ।
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम् ९७।
विमुक्तपापबंधश्च शिवलोके भविष्यति ९८।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे शिवपूजामाहात्म्यकथनं।
नाम दशोत्तरशततमोऽध्यायः ११० ।
खण्डः ५ (पातालखण्डः) — Adhyāya 111
श्रीराम उवाच-
महेशनाममाहात्म्यं पूजामाहात्म्यमेव च ।
नमस्कारस्य माहात्म्यं दृष्टिमाहात्म्यमेव च १।
जलदानस्य माहात्म्यं धूपदानस्य सत्तम ।
दीपगंधादिदानस्य माहात्म्यं वद मे गुरो २।
शंभुरुवाच-
एकैकनाममाहात्म्यं विस्तरान्न हि शक्यते ।
संक्षेपेण च ते वच्मि शृणु राघव सादरम् ३।
पुरा त्रेतायुगे राजा विधृतो नाम वीर्यवान् ।
मृते पितरि बालोसौ भूमिराज्येभिषेचितः ४।
समानवयसः सर्वान्समीपस्थांश्चकार सः ।
ये वृद्धा ये च विद्वांसस्ते च तस्य न संमताः ५।
युवानः संमता दुष्टा अकार्यकरणास्तथा ।
सुस्त्र्यानयनदक्षाश्च चोरकर्मविशारदाः ६।
भांडवार्तारता लास्यनिपुणास्तस्य संमताः ।
वशीकरणमंत्रज्ञा वस्त्रौषधविदस्तथा ७।
गीतनर्तनशीलाश्च धूर्त्ता द्यूतविदः प्रियाः ।
पितृसंमतकर्तॄणां त्यागं चक्रे स पार्थिवः ८।
विचार्य स च तैः सार्द्धं दुष्टैः कार्यमकारयत् ।
एतादृशांस्तथा चान्यान्दुष्टान्सह युयोज ह ९।
एतदुक्तिमुपालंब्य शिष्टं सुहृदमत्यजत् ।
उरोमुष्टिं च फेत्कारं ये कुर्युस्तस्य ते प्रियाः १०।
भगलक्षणतत्त्वज्ञा रतितंत्रविशारदाः ।
राजनीतिविहीनं तद्राज्यं समभवत्तदा ११।
गजाश्वरथमुष्ट्राजं गोमहिष्यादिकं च यत् ।
तत्सर्वं नाशमापन्नमपहारायतस्ततः १२।
रत्नानि वसुधान्यानि न दृश्यंते पुरे तदा ।
अथ भूपांतरेणासौ निर्जितः प्रपलायितः १३।
महारण्यमथो गत्वा गिरिदुर्गमकल्पयत् ।
तत्र चाल्पपरीवारश्चोरवृत्तिं समाश्रितः १४।
सुवर्णवस्त्रधान्यादि रत्नगंधादिकं तथा ।
तत्रतत्र विनिर्दिश्य चोरानायानवंचकान् १५।
बंधाद्यकारयत्तैस्तु द्रव्याहरणकर्मणि ।
यदाहारो न विद्येत तदाहारमकल्पयत् १६।
गोमहिष्यादिमांसेन यद्यन्नं नोपलभ्यते ।
अश्वीय नरमांसेन भोजनं पर्य्यकल्पयत् १७।
एतादृशमभूद्वृत्तं संध्योपासादिवर्जितम् ।
एकस्तु सचिवस्तस्य सुरापो नाम राक्षसः १८।
नियुंक्ते सर्वकालं तमाहरप्रहरेति च ।
एवं रक्षोमते स्थित्वा नानादेशगतान्नरान् १९।
नृसहस्रपरीवारो ह्यादद्यादकृपालयः ।
स्वस्याभिमतयोषास्तु ज्ञात्वा ज्ञात्वा समाहरत् २०।
किंचित्कालं च ता भुक्त्वा तासां मांसमभक्षयत् ।
एवं हत्वा नरान्नारी राज्यं चक्रे सुदुःसहम् २१।
एवं वर्षसहस्रं तु राज्यं कृत्वा नराधमः ।
जराशिथिलसर्वांगो वलीपलितदूषितः २२।
निर्जीवमभवत्स्थानं समंताद्दशयोजनम् ।
अथ मृत्युदिनं प्राप्तं राज्ञस्तस्य महात्मनः २३।
मृत्युकालेथ संप्राप्ते स्नातं भूमिगतं नृपम् ।
तस्य चानुचराः सर्वे परिवार्योपतस्थिरे २४।
सुरापः सचिवः प्राह किं कार्यं मम चादिश ।
अथ राजा तथा शक्तो निर्गतायुस्तदार्दितः २५।
नाभेरधस्तु क्षीणासुः कथंचिद्वाक्यमुक्तवान् ।
त्वं सर्वकाले दैत्येंद्र प्रहरप्राहराहर २६।
इत्यथोक्त्वा ममारासौ यमदूताः समाययुः ।
विचित्रं बंधने यत्नं चक्रुस्ताडनतत्पराः २७।
चूर्णिता बंधपाशाश्च हेतिदंडाश्च चूर्णिताः ।
तद्गात्रस्पर्शमात्रे च तदद्भुतमिवाभवत् २८।
अथायातः स्वयं मृत्युः पाशेनैनमयोजयत् ।
मृत्युपाशमपिच्छिन्नं वीक्ष्य मृत्युरचिंतयत् २९।
सर्वमर्त्यमृतिर्दृष्टा दृष्टा नैतादृशी क्वचित् ।
इति चिंतापरे मृत्यौ ज्वालावक्त्रः प्रतापवान् ३०।
वीरभद्रेण निर्दिष्टः सहसायाच्च शूलभृत् ।
ज्वालावक्त्रमथालोक्य मृत्युस्तूर्णं पलाययौ ३१।
पलायमानं तं दृष्ट्वा मृत्युं वह्निमुखस्तदा ।
अरे रे चोर चोर त्वं तिष्ठतिष्ठ क्व यास्यसि ३२।
एनसो मुच्यते चोरः शूलारोपणमात्रतः ।
एवमाभाष्य मृत्युं तं शूलप्रोतमकल्पयत् ३३।
शूलं स्कंधगतं कृत्वा दूतान्संग्रथ्य रज्जुना ।
पादशृंखलविन्यस्तानादाय नृपमध्यगात् ३४।
विमानवरमारोप्य गीतवाद्यसुशोभितम् ।
वीरांतिकमथो गत्वा सर्वमस्मै न्यवेदयत् ३५।
वीरभद्रोपि तत्सर्वं शंकरायामितात्मने ।
नानामुनिगणैर्देवैर्ब्रह्मविष्णुपुरः सुरैः ३६।
सेव्यमानाय देवाय पार्वतीसहिताय च ।
प्रणिपत्य निवेद्याथ शूलस्थंमृत्युमेव च ३७।
तूष्णीं बभूव विश्वात्मा वीरभद्रः प्रतापवान् ।
अग्न्याननं वीक्ष्य शिवो विगर्हयन्कथं त्वयैतद्गणसाहसं कृतम् ।
बिभेषि मृत्योर्न कथं यमाधिकाद्वदस्व सर्वं परमार्थतो मे ३९।
प्रणम्य तं वह्निमुखोऽतिरोषो मृत्युं समालोक्य ननर्त हर्षात् ।
उवाच चौर्यं कृतमेव मृत्युना तदेष शूलेऽपि मया प्ररोहितः ४०।
विमोचयामास शिवोपि मृत्युं दूतानशेषान्निरुजश्चकार ।
मृत्युं समालोक्य शिवो बभाषे मन्नाम एषां मरणे समास्ते ४१।
मच्चेतसामन्यधियां च नामहीनाक्षरं वाधिकवर्णयुक्तम् ।
ममैव लोकं प्रददामि सत्यं ह्यनेन नाम प्रहरेति भाषितम् ४२।
प्रशब्दमात्रं त्वधिकं हरेतिपदप्रदं वै पदमीरयंति ।
आरादमूंस्त्वं जपतो नमस्व मदीयवाक्यं च यमं वदस्व ४३।
नतिं यतिं कीर्तिमुपास्तिमाश्रिता दास्यं च कैंकर्य्यमथ श्रुतिंवदाः ।
पंचाक्षरोक्तिं शतरुद्रियोक्तिं शिवस्य कुर्वंति न ते विचार्याः ४४।
मन्नामरुद्राक्षविभूतिधारणो ममाग्रतो यस्तु पुराणवक्ता ।
सर्वेषु पापेष्वपि तेषु सत्सु प्रशास्म्यहं नैव यमाधिकारः ४५।
ये चापि पापान्वितमायिनो नराः परान्नवस्त्रादिवधूभुजश्च ।
वाराणसीमृत्युपराश्च ये वै श्रीशैलमर्त्याश्च न ते विचार्याः ४६।
यूकाश्च दंशा अपि मत्कुणाश्च मृगादयः कीटपिपीलिकाश्च ।
सरीसृपा वृश्चिकशूकराश्च काशीमृताः शंकरमाप्नुवंति ४७।
इदं नामगृणन्ध्यायेद्यो वै हृत्पद्ममंदिरे ।
त्रियंबकं विरूपाक्षं सोमं सोमार्द्धभूषणम् ४८।
त्रिनेत्रकं त्रयीनेत्रं सोमसूर्याग्निलोचनम् ।
तं नमस्कृत्य दूरस्थो भवमृत्यो ममाज्ञया ४९।
अथाकर्ण्य शिवप्रोक्तं मृत्युस्तुष्टाव शंकरम् ।
नमस्ते देवतानाथ नमस्ते देवमूर्तये ५०।
सर्वज्ञाय नमस्तुभ्यं पशूनां पतये नमः ।
अथ देवो महादेवो मृत्युं प्राह वरं वृणु ५१।
स्तोत्रेणानेन तुष्टोस्मि मृत्युर्वरमयाचत ।
त्वदीयं पालय विभो मां च शंकर पापिनम् ५२।
तथेत्युक्त्वा मृत्युमीशो गच्छ वत्सेति चाब्रवीत् ।
यमलोकं गतः सोपि यमायाशेषमुक्तवान् ५३।
शंभुरुवाच-
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम् ।
विमुक्तः सर्वपापेभ्यो याति शंकरसन्निधिम् ५४।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे एकादशोत्तरशततमोऽध्यायः १११ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 112
शंभुरुवाच-
अथान्यदपि निर्वच्मि प्रमदाख्यानमुत्तमम् ।
सुतया देवरातस्य यत्प्राप्तं नामकीर्तनात् १।
देवरातसुता बाला कला नामातिरूपिणी ।
धनंजयसुतस्यासीद्भार्या शोणस्य धीमतः २।
तावुभौ नियतौ नित्यं धर्म्मैकप्रवणौ शुभौ ।
लब्धवंतौ निधिमथो गंगास्नानाय तौ गतौ ३।
प्रवाहपतिते कूले मृत्तिकानयनायतौ ।
कूलादादाय मृल्लोष्टं दृष्टवंतौ महाघटम् ४।
राजतं चोर्द्ध्वपाषाणमथ शोणः प्रियां वचः ।
इदमाह कथं कार्यं किं कर्तव्यं हि नो हितम् ५।
भार्योवाच-
न नारीमतमालंब्य किंचित्कार्यं समाचरेत् ।
न च नार्या चरेद्गुह्यमप्रियं वाथ किंचन ६।
यदि नारीसमक्षं तु द्रविणं दृष्टिमापतेत् ।
वंचयीत तथा नारी ईदृशैर्वाक्यसंचयैः ७।
अस्माभिर्न हि संप्रेक्ष्यं किं वा तत्र हि तिष्ठति ।
द्रविणं चेन्न संप्रेक्ष्यं बाधोदर्कं भविष्यति ८।
अन्याज्ञातं तु यदि चेत्कुतो ज्ञानविनिश्चयः ।
अप्रदृष्टस्त्विदानीं चेन्निभृतः कोपि तिष्ठति ९।
तिरोधानं न किंचिच्चेन्मायया कोपि तिष्ठति ।
न चेन्माया मनुष्याणां क्षेत्त्रपालस्तु तिष्ठति १०।
न हि चेद्भैरवश्चेह तिष्ठति ब्रह्मराक्षसः ।
न सोपि चेन्महाविद्या राज्ञां तत्र भविष्यति ११।
न च जानाति चेद्राजा व्यवहारादिसंभवः ।
स चेद्गूढप्रकारेण चोरबाधा भविष्यति १२।
अप्रमत्तस्य भवतो महानर्थो भविष्यति ।
प्रायेणार्थवतां नॄणां भोगलिप्सा प्रजायते १३।
भोगाद्भोगांतरेच्छा च सर्वानुष्ठाननाशिनी ।
जानाति यदि नारी स्वं भावयोगगतं तथा १४।
नारी स्वतंत्रतामेति रोषाल्लब्धप्रकाशिनी ।
रोषे विश्वासतां याति तदा दोषः पुरोदितः १५।
विश्वासिनि च विश्रंभः प्रवासो वान्यचित्तता ।
विश्रम्भाज्जायते स्त्रीणां नानाविधविचेष्टिता १६।
यं कंचित्पुरुषं दृष्ट्वा युवानं प्रीतिरापतेत् ।
प्रीत्या संजायते योगो योगान्मैथुनसंगतिः १७।
सततं मैथुने जाते विश्रंभांतरमापतेत् ।
भवता वा तथा पूर्वं भुक्तेदानीं च भुज्यते १८।
का प्रतीच्छा तवेदानीं प्रीतिः कस्यामथापि वा ।
का विदग्धा सुसंस्निग्धा पुरुषादन्यतश्चरेत् १९।
योब्रवीदथ वाक्यं तां यदि ब्रूयास्त्वमद्य मे ।
सर्वमेव तथा वच्मि नान्यथा वाक्यमुच्यते २०।
इत्थं च धृष्टतां याता तथा रूपांतरेण च ।
द्रव्यमादाय यत्किंचिदनुवर्तेत्स्वतंत्रतः २१।
समारयित्वा तां द्रव्यं गृहीत्वा पातयिष्यति ।
अथ पूर्वं पति मृतौ प्रविशेन्नाशुशुक्षणिम् २२।
वैधव्ये द्रविणं सर्वं धर्मार्थं मे भविष्यति ।
इति निश्चित्य मनसा वैधव्ये समुपस्थिते २३।
योनिकुंडं समासाद्य दिवा वा यदि वा निशि ।
एकांतस्थानमभ्येत्य विवृत्य वसनं भगम् २४।
इदमूचे वचो दुःखादुपस्थस्थकरा सती ।
किं त्वया वै कृतं योने किंवा पापमुपाश्रिता २५।
शिश्नस्य वाथवा पापं यत्त्वदंतरवेशनात् ।
यच्च कर्तृकृतं पापं मादृक्सेवाविवर्जनात् २६।
अतोपि कंडूसंभूतौ प्रवेशयेदथांगुलीम् ।
विचित्रचेष्टां कृत्वा तु कंडू बुद्धेरतः परम् २७।
मर्दयित्वा कराभ्यां तत्संताड्य च विवृत्य तु ।
असकृद्धुन्वती पादौ विवृतास्यातिदुःखिता २८।
खट्वा काष्ठमथालिंग्य स्तनपीडं यथाप्रियम् ।
अथो विचित्रचित्तत्वे ततः प्रद्युष्टती भवेत् २९।
अथवाह्नि पुरे स्थित्वा शाकं व्यवहृतं च यत् ।
आलंब्य वेश्मनि निशि संध्यायां विशिखासु च ३०।
कृत्वान्यवेषमात्मानं यैः कैरप्युपभुज्यते ।
अथ वाच्यप्रभावेण शंकिता योग्यमाहरेत् ३१।
अज्ञातं च गृहं गत्वा रमयेदेव निश्चितम् ।
नारीसमक्षं लब्धे तु द्रविणे ह्येतदिष्यते ३२।
तस्मान्मयापि भवतो न विचारप्रयोजनम् ।
शोण उवाच-
एवमेतन्न संदेहो गच्छ त्वं तिष्ठ दूरतः ३३।
मलमूत्रविसर्गार्थं स्थित्वा गच्छाम्यतः परम् ।
तस्यां गतायां शोणोपि वस्त्रखंडं त्वकल्पयत् ३४।
एकैकस्मिंस्ततः खंडे त्वग्रहीद्द्रविणं बहु ।
सैकते त्ववरं जानुदघ्नं कृत्वा ततस्ततः ३५।
क्षिप्त्वा धनं पूरयित्वा विष्ठां चक्रे ततोपरि ।
वस्त्राधारं घटं तं च प्रतिचिक्षेप कुत्रचित् ३६।
सर्वमज्ञातवत्कृत्वा स्नानाय प्रययौ मुनिः ।
तस्य भार्या ततः स्नानं कृत्वा संपूज्य पार्वतीम् ३७।
गच्छेति भर्त्रा सा प्रोक्ता स्ववेश्माभ्यागमत्सती ।
एतामेकाकिनीं ज्ञात्वा मारीचो नाम राक्षसः ३८।
भर्तृरूपमथास्थाय कलामेतदुवाच ह ।
मारीच उवाच-
सप्तगोदावरीतीरे पवित्रं पापनाशनम् ३९।
द्राक्षाराममिति प्रोक्तं यत्र भीमः स्वयं स्थितः ।
भुक्तिमुक्तिप्रदो नॄणां स्मरणात्पापनाशनः ४०।
तत्र गच्छावहे शीघ्रं त्वं तु निर्गच्छ सुंदरि ।
कलोवाच-
इदानीमभिषेकाय प्रवृत्तो नाभिषिक्तवान् ४१।
कथमेतादृशं त्वं हि पूर्वानुक्तं वदिष्यसि ।
प्रकृतेरन्यथाभावमुत्पातं विदुरुत्तमाः ४२।
मारीच उवाच-
भर्तुरप्रतिकूलत्वं नारीणां धर्म उच्यते ।
प्रतिकूलानुकूला वा मम शीघ्रं वदस्व तत् ४३।
तूष्णींभूत्वाथ सा साध्वी भर्तेत्येव विचार्य तम् ।
निर्ययौ तेन सा बाला वनमध्ये गता सती ४४।
अथ मध्याह्नकालोसौ क्रियतामाह्निकक्रियाः ।
राक्षसोथ वचः श्रुत्वा नानुष्ठानस्थलं त्विह ४५।
यत्र तत्रास्ति गंतव्यमितो गच्छावहे ततः ।
किंचित्प्रदेशं गत्वा तु गुहां वीक्ष्य सरस्तथा ४६।
इह स्थानं हि मे स्थातुं कार्यं स्नानमथ प्रिये ।
इत्युक्त्वा सरसि स्नात्वा फलाहारं प्रकल्प्य च ४७।
भोजनावसरे प्राप्ते कला दध्यावुमां शिवम् ।
अयं धवो मम न वा इति ध्यानपराभवत् ४८।
अथ ध्यानेन तं चोरं निश्चित्य च पतिव्रता ।
भीतातिनम्रवदना अश्रुपूर्णमुखी तदा ४९।
कष्टमापतितं पापमित्युक्त्वा निपापत च ।
रुदतीं तामथो दृष्ट्वा राक्षसः पापनिश्चयः ५०।
धर्षितुं तामथारेभे न चैतद्धर्षणं प्रति ।
बलात्कारमथो कर्तुं यतमाने तु राक्षसे ५१।
आजानुनाभिपर्यंतं शैलस्थानमकल्पयत् ।
शिला समभवद्वस्त्रं राक्षसो वीक्ष्य तामथ ५२।
इत्येवं तां हनिष्यामि खादयिष्याम्यतः परम् ।
इत्युक्त्वा भ्रामयित्वासिं शिरश्छेत्तुं प्रचक्रमे ५३।
कलाहं मत्पतिर्ज्ञात्वा शापं दास्यति मा हर ।
इत्युक्तमात्रे वचसि शिरश्चिच्छेद राक्षसः ५४।
प्राप्ता यां दुर्मृतिं तस्यामथ शैवाः समागताः ।
दूता विचित्राभरणाः सर्वायुधधराः शुभाः ५५।
एतां विमानमारोप्य शिवालोकमुपागमन् ।
तामागतां गिरिसुता हर्षेण प्रतिपूज्य च ५६।
स्वपादप्रणतां शुद्धामुमा वाक्यमभाषत ।
पातिव्रत्येन ते तुष्टा अभीष्टं प्रददामि ते ५७।
कलोवाच-
दासीभावं प्रयच्छ त्वं त्वत्पादाब्जं मम प्रियम् ।
प्रार्थ्यैःकिमन्यैर्बहुभिस्तथास्त्विति शिवाब्रवीत् ५८।
इंद्रादिवनिताभिः सा पूजिताथ कलानिधिः ।
एतस्मिन्नंतरे प्राप्तः शोणो मुनिरथो गृहम् ५९।
न तत्र दृष्ट्वा तां भार्यां ध्यानयोगपरोभवत् ।
रक्षोहृतां मृतां प्राप्तां शिवालोकमुमां प्रति ६०।
उमादत्तवरां चापि दृष्टवाञ्ज्ञानचक्षुषा ।
किंचिद्दुःखश्चिरं ध्यात्वा परावृत्य मुनिस्तदा ६१।
श्वशुरं गतवान्सोऽथ देवरातं मुनीश्वरः ।
निवेद्य सर्वं सहितो विश्वामित्रमगान्मुनिम् ६२।
निवेद्य तद्वसिष्ठस्य वसिष्ठोऽप्याह तान्मुनीन् ।
गत्वा कैलासमादौ तु दृष्ट्वा देवं महेश्वरम् ६३।
अनुज्ञां शिवतो लब्ध्वा पार्वतीमंदिरे गताः ।
देव्यै विज्ञाप्य तत्सर्वं यथार्थं प्रवदामतत् ६४।
तथेत्युक्त्वा मुनिवराः कैलासं शंकरालयम् ।
गत्वा प्रणम्य देवेशं वीरभद्रेण पूजिताः ६५।
विज्ञापयामासुरिदं शोणभार्य्याहृतेति च ।
शिवः प्राह मुनींद्रास्तांञ्ज्ञातमेव मया त्विदम् ६६।
अकालमरणं त्वस्या आयुर्वर्षशतं स्थितम् ।
अकालमृत्युयुक्तानां पुनर्ज्जीवनमस्ति च ६७।
दशपुत्रप्रसूर्वीरा रूपसौभाग्यवत्यपि ।
भवद्भिरिति निश्चित्य समागतमिह द्विजाः ६८।
यमलोकगतानां तु सर्वमेतद्विनिश्चितम् ।
ममलोकगतानां च गतिरन्या न विद्यते ६९।
अनया कीर्तितं नाम प्राणनिर्गमने पुरा ।
तया यमलिपिर्मृष्टा कथमायुष्यनिर्णयः ७०।
अथवा गिरिजायै च निवेदयत कृत्स्नशः ।
अथ ते पार्वतीपाददर्शनाय गता द्विजाः ७१।
प्रणम्य मातरं सर्वे विश्वामित्रोऽब्रवीदिदम् ।
दीनानाथाकृशा भार्या प्रणष्टपितृकाञ्छिशून् ७२।
रक्षयित्वा पुरा मातरिष्टदा त्वं सदा ह्यभूः ।
कला पौत्री ममैवेयं त्वामाराध्य पतिं त्वमुम् ७३।
शोणं लब्धवती मातस्त्वत्पूजायाः फलं त्विदम् ।
तपसा लभ्यते पर्णे दानेन यदि वापि च ७४।
व्रतोपवासैरथवा कला सा लभ्यते मया ।
एतया परिविष्टान्नं भोक्तुमिच्छामि तत्कथम् ७५।
पार्वत्युवाच-
यादृशी चेष्यते भार्य्या तादृशी दीयते मया ।
नैनां त्यक्तुमहं शक्ता किं वा त्वं मन्यसे मुने ७६।
विश्वामित्र उवाच-
माता त्वमित्येव मया अविशंकितमीरितम् ।
शोणो मुनिरयं मातस्तव विज्ञापयिष्यति ७७।
शोण उवाच-
तामेव भार्य्यां प्रतिमे प्रीतिरत्युक्तत्कटाति ।
सैव मे दीयतां भार्य्या चान्यथा मरणं भवेत् ७८।
पार्वत्युवाच-
भार्या पतीसमावेव विषमौ तु विगर्हितौ ।
तव चासदृशी चेयं सदृशीं प्रददाम्यहम् ७९।
न च मन्मंदिरे प्राप्तां त्यक्ष्ये देहविवर्ज्जिताम् ।
शोण उवाच-
यदि नो दीयते चेयं भार्य्यामन्यां मम प्रियाम् ८०।
राज्यं महेश्वरे भक्तिं प्रयच्छ वरमुत्तमम् ।
भविष्यत्येव मे वैतदित्युक्त्वा चाब्रवीन्मुनीन् ८१।
भोक्तव्यमिह युष्माभिर्ममास्मिन्दिवसत्रयम् ।
प्रतींदुवारे देवस्य महेशस्यैव तुष्टये ८२।
भोजनीयाः सदा कालमष्टौ विप्रा मुनीश्वराः ।
इच्छया यत्र कुत्रापि व्रतमेतदुपक्रमेत् ८३।
वत्सरे परिपूर्णे तु महाराज तमीश्वरम् ।
चतुर्निष्कप्रमाणेन तदर्द्धेनैव कारयेत् ८४।
श्वेतवस्त्रयुगं सूक्ष्मं चामरे व्यजने तथा ।
पादुकोपानहं च्छत्रं सर्वं विप्रे नियोजयेत् ८५।
स्वशक्त्या दक्षिणां दत्वा ब्राह्मणांश्च विसर्जयेत् ।
एतदुद्यापने कुर्यादादौ मध्ये तथा सुधीः ८६।
दिनेदिने तथा पूजा सोमस्य परमात्मनः ८७।
तत्पुरुषस्य विद्महे महादेवस्य धीमहि ।
तन्नो रुद्र प्रःचोदयात् ८८।
इति पूजामंत्रः ।
स्थंडिले पूजयेद्देवं प्रतिमायामथापि वा ।
एकभक्तं स्वयं कुर्याद्ब्रह्मचर्यसमन्वितम् ८९।
एतत्सोमव्रतं प्रोक्तं शिवतुष्टिप्रदं शुभम् ।
य एवं कुरुते भक्त्या नारी वा पुरुषोपि वा ९०।
छायेव शंकरस्यासौ नित्यमेवानुवर्तते ।
अद्य सोमदिनं प्राप्तं मध्याह्नात्परतो भुजिः ९१।
यूयं च सर्वे मुनयः कृतपौर्वाह्णिकक्रियाः ।
माध्याह्निकीं क्रिंयां कृत्वा भोक्तुमर्हथ सत्तमाः ९२।
मातुर्वचनमाकर्ण्य तथेत्युक्त्वा नमस्य च ।
अनुष्ठानाय ते सर्वे गता भागीरथीं नदीम् ९३।
संगमे मध्यतो वृत्ते कृत्वा माध्याह्निकीं क्रियाम् ।
विश्वेशपूजां कृत्वा च षोडशैरुपचारकैः ९४।
अथ ते पार्वतीगेहं गत्वा देवीं प्रणम्य च ।
लोकमातुर्नियोगेन शालंकायनकात्मजः ९५।
पादप्रक्षालनमुखानुपचारानकल्पयत् ।
पंचगंधकमादाय तान्मुनीनभ्यलेपयत् ९६।
राज्यं च महदाप्नोति यो दद्यात्पंचगंधकम् ।
पंचबाणसमो भूत्वा स्त्रीणां वल्लभतामियात् ९७।
विष्णवे यो हि दद्यात्तु सोपि मारसमो भवेत् ।
कामीत्वकामी यः कुर्यात्कैलासे पंचवत्सरान् ९८।
सर्वगंधसमोपेतो भोगी चेष्टार्थसंयुतः ।
यथेष्टवर्तनो भूत्वा ततो जायेत भूमिपः ९९।
कस्तूरीचंदनं चंद्रमगरुद्वितयं तथा ।
पंचगंधं समाख्यातं सर्वकार्येषु शोभनम् १००।
विलिप्तपंचगंधेषु ब्राह्मणेषु महात्मसु ।
आसीनेषु तदाभ्यागाद्ब्राह्मणः स्थविरः कृशः १०१।
उन्मत्तवेषो दिग्वासा जराजर्ज्जरितस्त्वरी ।
खल्वाटः श्वासकासी च बहुहिक्की क्षुधान्वितः १०२।
लालास्नुतः श्मश्रुकूर्चश्लेष्मानम्रः स्खलत्पदः ।
द्व्यष्टवर्षा तथा नारी सर्वाभरणभूषिता १०३।
रूपलावण्यसंयुक्ता लोकोत्कृष्टस्वरूपिणी ।
पुरुषान्रूपसंयुक्तान्वीक्षंती च ततस्ततः १०४।
गायंती त्वथ नृत्यंती तं दृष्ट्वाह सती पतिम् ।
प्रबाधते वृद्धधवं शीघ्रमेहि कृशाधम १०५।
आलंब्य त्वत्करं वृद्ध दुःखिता नित्यमस्म्यहम् ।
भूषणं वसनं घ्राणं स्रग्विलेपनमेव च १०६।
हासो गीतिस्तथा पानं मंडनं शोभनं गृहम् ।
सर्वऋतुसमृद्धिश्च कामस्यैवाभिवृद्धये १०७।
सर्वेषामेव कामानां रतिरेका प्रयोजनम् ।
सुखानि सर्वाण्येकत्र रतिरेकत्र च स्थिता १०८।
तुलया तुलितं सर्वं रतिः शतगुणाधिका ।
तन्मादृशी समासाद्य भवंतं किं करिष्यति १०९।
इति चान्यानि वाक्यानि ब्रुवाणा गृह्य वै करे ।
तदुत्तरमुवाचेदं किं कुर्म्मो भाग्यमीदृशम् ११०।
मा मारय दुरुक्त्या त्वं मां विज्ञायाथ चेदृशम् ।
एतादृशो द्विजः प्रायात्पार्वतीमंदिरं तदा १११।
अविज्ञायैव गिरिजामिदं वचनमब्रवीत् ।
द्विज उवाच-
अन्नार्थिनमिह प्राप्तं विद्धि मामतिथिं मुने ११२।
भोजनावसरे प्राप्तं ब्राह्मणान्न हि भोजय ।
तद्भार्यावचनं प्राह क्व मुनिर्योषिदेव हि ११३।
अंधस्य वचनं सर्वमेवमेतादृशं दृढम् ।
पार्वत्युवाच-
प्रक्षाल्य चरणावेतमासने उपवेशय ११४।
जांबूनदकृतेतीव भोज्येनातर्पयद्द्विजम् ।
सुरत्नचषकोपेतममृतं ब्रह्मवादिनीम् ११५।
अरुंधतीमथाहूय पर्य्यवेषयदंबिका ।
कला चारुंधती चैव अनसूया पतिव्रता ११६।
परिवेषं पदार्थानां स्रग्गंधाक्षतभूषणाः ।
अकुर्वन्नंबिकावाक्यात्षड्रसानां पृथक्पृथक् ११७।
भुंजानेषु तु विप्रेषु दिग्वासा ब्राह्मणाकृतिः ।
क्षणेन बुभुजे सर्वं दातुं नो शेकुरंगनाः ११८।
अथ सा गिरिजा देवी स्वयं दातुं प्रचक्रमे ।
यथादत्तमशेषं तु क्षणेनाश्नाति स द्विजः ११९।
भांडस्थितमशेषं च भोक्तुमैच्छत्प्रिया सह ।
तथांबिका समादाय प्रादादक्षय्यमस्त्विति १२०।
अथ वामकरेणासौ भोक्तुमैच्छत्ततः सती ।
तत्राप्यक्षय्यमेवास्तु तवान्नमिति चार्पयत् १२१।
करांतरमथोत्पाद्य भोक्तुमैच्छद्द्विजोत्तमः ।
एवं करसहस्रं च कृत्वैच्छद्भोजनं द्विजः १२२।
दत्त्वा दत्त्वा पुनर्देवी संतुष्टा न च कोपना ।
न चित्तमन्यथाकर्तुं शक्यमस्या इति द्विजः १२३।
प्रक्षाल्य हस्तौ चरणौ हस्तार्पितसुगंधवान् ।
पार्वतीं वाक्यमाहेदं तोषितोहं वरं वृणु १२४।
पार्वत्युवाच-
मम दातुं वरं शक्तो यदि त्वं ब्राह्मणोत्तम ।
वरेण मम किं कार्य्यं शंकरो मे यतः पतिः १२५।
तदाह ब्राह्मणो देवीं शंकरः कीदृशस्त्विति ।
सदृशोऽसौ त्वया नो वा त्वद्योग्यो नान्यथा भवेत् १२६।
स्त्रीवल्लभत्वमप्येव रूपं दाक्ष्यं शुभांगना ।
नो चेदेतादृशी भार्य्या मदधीना कथं भवेत् १२७।
पार्वत्युवाच-
त्वद्भार्य्यावचनं श्रुत्वा तव वाक्यं तथा द्विज ।
अपलापस्त्वयं ब्रह्मञ्च्छ्रुतं किंवा तथाविषम् १२८।
ब्राह्मण उवाच-
धम्मिल्लं ते करिष्यामि ममांकं त्वं समारुह ।
प्रचलेद्यदि ते चित्तं पातिव्रत्यं कुतस्तव १२९।
पार्वत्युवाच-
मम व्रतं द्विजश्रेष्ठ शंकरांकैकरोहणम् ।
अथ तच्चित्तमाज्ञाय भवान्याः परमेश्वरः १३०।
द्व्यष्टवर्षवया भूत्वा सुस्निग्धकचबंधनः ।
सुस्निग्धचारुनयनो गोक्षीरसमविग्रहः १३१।
कोटिकंदर्पलावण्यः सर्वाभरणभूषितः ।
स्वपार्श्वस्थितनार्यंसे प्रसारितभुजद्वयः १३२।
गायन्मंदतया साकमुमया पटुता यथा ।
अथ तां पार्वतीं शंभुः करेणाकृष्य च स्मयन् १३३।
विन्यस्य हस्तौ वनिता द्वयांसे गायन्समस्ताभरणः प्रसन्नदृक् ।
ननर्त चानंदसमृद्धगात्रो मुनींद्र गीतश्च सकालवेलम् १३४।
एतादृशं शिवं ध्यात्वा जन्मकोटिशतेष्वपि ।
न दुःखं जायते तस्य सदा हर्षश्च जायते १३५।
अथ स्तुतो मुनिवरैर्नारीं कृत्वा हरिं ततः ।
अथ सा पार्वती तुष्टा देवं प्राह पिनाकिनम् १३६।
पार्वत्युवाच-
किमित्येतादृशं भावमास्थाय त्वमिहागतः ।
नारीं कृत्वा तथा विष्णुं किं प्रकृत्या न चागतौ १३७।
शिवः प्राह व्रते चात्र ह्यतिथेर्भोजनं शुभम् ।
जाने सिद्धिमथो येषां विषादो नाभिजायते १३८।
जाते विषादे तु व्रतमसम्यगिति निश्चयः ।
सोमवाराः समायांति यावंतोब्दशतानि तु १३९।
तावंति मत्पुरे देवि सर्वभोगसमन्वितः ।
सभार्य्यपुत्रबंधुश्च वेदोक्तायुष्यजीवितः १४०।
पश्चाद्वाराणसीं गत्वा मृतो मुक्तिमवाप्स्यति ।
शंभुरुवाच-
अथ देवे स्थिते तत्र मुनयस्त्रिः प्रदक्षिणम् १४१।
कृत्वा पंचनमस्कारान्पुनः कृत्वा प्रदक्षिणम् ।
पुनश्च दंडवद्भूत्वा विसृष्टा निर्ययुस्ततः १४२।
अथ शोणः शोभितांगीं भार्यामाप ह्यनिंदिताम् ।
राज्यं च भारते वर्षे धर्मेणापालयद्द्विजः १४३।
मानुषानखिलान्भोगान्बुभुजे शिवभक्तिमान् ।
नित्यं देवार्चनपरो नित्यं ब्राह्मणपूजकः १४४।
नित्यदाता नित्ययाजी नित्यश्रोता पुराणकम् ।
मृतः स गतवांल्लोकं शंकरस्य विभोः शुभम् १४५।
शंभुरुवाच-
नामकीर्तनमाहात्म्यं प्रसंगात्परिकीर्तितम् ।
शृण्वतां सर्वपापघ्नं भक्तानां च तथा नृप १४६।
सर्वकल्याणदं नित्यं सुभार्य्या राज्यदं शिवम् ।
शिवभक्तिप्रदं गोप्यं यस्य कस्यापि नेरयेत् १४७।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे शिवनाममाहात्म्ये द्वादशोत्तरशततमोऽध्यायः ११२ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 113
त्रयोदशोत्तरशततमोऽध्यायः 5.113
श्रीराम उवाच-
खे दृश्यंते विमानस्था नानारूपधराः शुभाः ।
सर्वकामफलोपेताः सुभार्य्याः शतयोषितः १।
सहस्रनरनारीभिः पूज्यमानाः पदे पदे ।
गायंति विंशतिर्योषा रूपलावण्यकोमलाः २।
करंकवाहिनी चैका चामरासक्तबाहवः ।
तालवृंतद्वयं नार्य्यो वीजयंति प्रगृह्य वै ३।
सचक्रे चांकमध्ये स्या उपधानं तथापरः ।
एकस्याः करयोर्हस्तः स्तावकानेकसंयुतः ४।
नानाविधपरीहास कृतोत्फुल्लमुखांबुजः ।
एकैकत्र विमाने तु दृश्यते चंद्रदीधितिः ५।
स्त्रीशतेषु विमानेषु दृश्यते ईश्वरः शुभः ।
एते किं पुण्यकर्तारो विष्णुमायाथवा मुने ६।
शंभुरुवाच-
एते हि ब्राह्मणाः पुण्या गृहस्थाश्रमवासिनः ।
येषामेव च स ग्रासो दत्तो दशरथेन ते ७।
तेषां तु ममचित्तानां कदाचिदभवन्मतिः ।
यथेह सुखिनः सर्वे वयं चान्योपजीविनः ८।
अस्मानेवानुजीवंति शतशो मनुजा इह ।
येन पुण्येन च वयं सर्वेकामानुमोदिनः ९।
सुस्त्रीकृतोपचाराश्च सर्वे राज्यसुखान्विताः ।
जरामरणहीनाश्च युवानः सर्वदैव हि १०।
विचार्यैवं द्विजाः सर्वे वसिष्ठस्याश्रमं ययुः ।
आगतानथ संपूज्य वसिष्ठो वाक्यमुक्तवान् ११।
किमर्थमागता यूयं शीघ्रं ब्रूत द्विजोत्तमाः ।
द्विजा ऊचुः -
वयमिच्छामहे सर्वे सर्वसंपत्समन्विते १२।
विमाने कामगे रोढुं तत्संपादय नो गुरो ।
तत्तेषां चिंतितं श्रुत्वा वसिष्ठो वाक्यमब्रवीत् १३।
पुराणं सर्वदा विप्राः श्रोतव्यं पापनाशनम् ।
धर्मश्चार्थश्च कामश्च मोक्षस्तत्रैव दृश्यते १४।
तथेत्युक्त्वाथ सुनयः पुराणकुशलं मुनिम् ।
जग्मुरंगिरसं श्रेष्ठं सर्वशास्त्रविशारदम् १५।
सर्वागमपुराणज्ञं सदा सत्कर्म्मचारिणम् ।
इदमूचुर्नमस्कृत्य वयं सफलजीविनः १६।
कृतकृत्या वयं ब्रह्मन्साक्षाद्दृष्टोऽसि यन्मुने ।
अंगिरा उवाच-
यत्कार्यमागता यूयं तत्कार्यं करवाण्यहम् १७।
पुराणं श्रोतुकामास्तु यूयमत्र समागताः ।
कीर्तयिष्ये विधानं वः समस्ताघविनाशनम् १८।
सर्वज्ञानप्रदं देवं तत्वविज्ञानसंभवम् ।
शिवभक्तिप्रदं हृद्यं विष्णुभक्तिप्रदं शुभम् १९।
विचित्रस्वगतिप्राप्ति ज्ञानदं रमणीप्रदम् ।
नानाविधशुभज्ञानं रतितंत्रप्रकाशकम् २०।
भुक्तिमुक्तिप्रधानं च विधिदर्शनदीपकम् ।
विचित्रभक्तिकथनं भक्तिसाहसकीर्तनम् २१।
व्रतप्रतिष्ठादानादि भस्मपूजाविधिप्रद्रम् ।
पुराणं पाद्ममुदितं ब्रह्मपद्मोपनिर्वृतम् २२।
महेश्वरेण कथितं प्रमथाकृतिवर्णनम् ।
एतदन्यत्र कथितं पुराणे पाद्म एव तु २३।
दिलीपेनपुरापृष्टोवसिष्ठःप्रोक्तवानिदम् ।
तच्छृणुध्वं मुनिवरा ज्ञानं सर्वं भविष्यति २४।
अथ तद्वचनाद्विप्राः पुराणश्रवणे रताः ।
कथं श्रोतव्यमधुना किं कृत्वेत्यब्रुवन्मुनिम् २५।
सोऽपि सर्वं समाचष्ट शृणु धर्मं सनातनम् ।
नमस्कृत्य पुराणज्ञं दद्याच्चार्घासनं ततः २६।
निषीद तत्र चेत्युक्त्वा गंधपुष्पैः समर्चयेत् ।
आत्मयोगं च तांबूलमधिकं वा समर्पयेत् २७।
ब्रूहि पुण्यकथां ब्रह्मन्पौराणिकीमितीरयेत् ।
न खट्वासनमारुह्य नोच्चासनमथापि वा २८।
नीचासनो वै शृणुयाद्धर्म्मकामार्थसिद्धये ।
शृण्वित्युक्त्वा पुराणज्ञ इमं मंत्रमुदीरयेत् २९।
नमो हरिंहरमथो गणेशं भारतीमतः ।
इष्टदेवं नमस्कृत्वा पुराणं वक्तुमर्हति ३०।
अर्द्धयामं प्रतिदिनं यदि वापीच्छया भवेत् ।
एवं पाठसमाप्तिं च श्रुत्वा कृत्यं समाचरेत् ३१।
श्रोतुश्च तूष्णीं मननं तूष्णीं श्रवणमेव वा ।
अन्यथा भारती क्रुद्ध्येत् तत्क्रोधान्मूकता भवेत् ३२।
तस्मात्पुराणश्रोता च तांबूलादिसमर्पणम् ।
वक्तुश्च जीविकाकार्या स्वसामर्थ्यानुसारतः ३३।
पुराणप्रक्रमे देयं सचेलोद्गमनीयकम् ।
सूक्ष्मांबरमथो वापि वस्त्रद्वितयमर्पयेत् ३४।
आसनं तु महच्चित्रं रम्यमूर्जस्वलं मृदु ।
सुवर्णं वा तथा दद्याद्गो भू गेहादिकं तथा ३५।
एतत्समस्तं विप्रेंद्रा दक्षिणामूर्तिना पुरा ।
शंकरेण मुनीनां हि भाषितं च दिवौकसाम् ३६।
अथ ते मुनयः सर्वे तं प्रणम्यासनस्थितम् ।
पृथक्पृथक्च तांबूलं दत्वा शुश्रूषवः स्थिताः ३७।
तेनापि कथितं सर्वं पुराणं सर्वसंप्रदम् ।
उपांताध्यायपर्य्यंतं श्रुतवंतो द्विजोत्तमाः ३८।
दिलीप उवाच-
कामगेन विमानेन सर्वसंपत्समृद्धिना ।
सर्वतः सुखयुक्तेन पुण्यस्थानमुपस्थितम् ३९।
वसिष्ठ उवाच-
नालं पृष्टं त्वया राजन्नितोप्यतिशयांतरैः ।
क्रीडमाना भविष्यंति येन तत्पुण्यमुच्यते ४०।
सुधाधवलितं कृत्वा शिववेश्मसमं ततः ।
स्त्रियो रूपविलासाढ्याः सर्वालंकारभूषिताः ४१।
नानासुगीतकुशला नानानृत्यविशारदाः ।
चतस्रोऽष्टौ षडथवा मर्द्दलध्वनिकाः स्त्रियः ४२।
वशिन्यौ द्वे आवजिक्यौ कोणिकाधमने उभे ।
लासिक्यस्तु चतस्रः स्युः संतुष्टैकाथ गायिका ४३।
एका द्वे वा सुगीतज्ञेऽमुखरे हि प्रकीर्तिते ।
कोणवाद्यकृते द्वे तु तूष्णींभूताः षडष्ट वा ४४।
सर्वा रूपविलासिन्यः सर्वाश्चापतितस्तनाः ।
रतितंत्राधिकुशलास्तत एवाविशंकिताः ४५।
सुसूक्ष्मा वस्त्रवेषाश्च विद्युच्चंचलदृष्टयः ।
एतादृशीभिर्योषाभिर्येन नृत्यं हि कारितम् ४६।
एकस्मिन्दिवसे राजन्वत्सरान्सविमानगः ।
शतस्त्रीवीक्षितमुखो युवा बहुभिरर्चितः ४७।
आनंदपोषसंपूर्णः क्रोधेर्ष्यादिविवर्जितः ।
पंचगंधविलिप्तांगः सचंद्रा हिदलाननः ४८।
सूर्योपमस्तु योषाश्च सर्वास्ता दशनान्विताः ।
सद्योविकसितामोदि पारिजातकृतस्रजः ४९।
सर्वा विकसितारोहि रक्तसंधिकृतस्रजः ।
धम्मिल्ले वक्षसि तथा बिभ्रत्यः सुस्मिताधराः ५०।
चरत्येतादृशीभिस्तु नृत्यगीतानुमोदितः ।
एवं विमानगो भूत्वा उषित्वा कालमक्षयम् ५१।
पश्चाज्जायेत नृपतिरेवं कृत्वा पुनस्तथा ।
राज्यं स्वर्गफलं भुक्त्वा शिवभक्तो भविष्यति ५२।
शंभुरुवाच-।
दिलीपाय वसिष्ठोक्तं मुनीनामंगिरोब्रवीत् ।
ते तथा कृतवंतश्च तौर्य्यत्रिकमुमापतेः ५३।
श्रुत्वा पुराणं पाद्मं च समग्रं सुखिनो भवन् ।
त एते ब्राह्मणा राम विमानवरमास्थिताः ५४।
दृश्यंते खे च सुखिनः सदा मुदितमानसाः ।
एतत्ते सर्वमाख्यातं पुराणेषु विनिश्चितम् ५५।
इतः परं च किं भूयः श्रोतुमिच्छसि राघव ५६।
ति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे त्रयोदशोत्तरशततमोऽध्यायः ११३ ।
खण्डः ५ (पातालखण्डः) — Adhyāya 114 (part 1)
राम उवाच-
क एष दृश्यते व्योम्नि सर्वाभरणभूषितः ।
विमानस्थो महादीप्त मध्याह्नार्क इवापरः १।
दुष्प्रेक्ष्यः सर्वमर्त्यानां तस्यांके चारुहासिनी ।
अपरा श्रीरिव ब्रह्मंस्तथा पंचसुयोषितः २।
गायंति मधुरां गीतिं सुभ्रूभंगनिरीक्षणैः ।
मंदस्मितैः करतलशब्दास्फोटिकया तथा ३।
क्वचिद्गलकृतैर्गीतैरन्योन्य करताडनैः ।
अन्योन्य मुखमालोक्य प्रलोभैर्गीतपूर्वकैः ४।
क्रीडन्नास्ते महायोगी पद्मकिंजल्कसन्निभः ।
एवं चरितपुण्येन केन वा तद्वदस्व मे ५।
शंभुरुवाच-
एष विप्रः पुरा राम सर्वसंपत्समन्वितः ।
नानाविधसुखोपेतो भार्य्यापोषणतत्परः ६।
अपुत्रो दानहीनश्च देवतार्चनवर्जितः ।
पंचयज्ञविहीनश्च स्वाध्यायपरिवर्जितः ७।
प्रातर्म्मध्याह्नसायाह्नभोजनप्रवणोऽशुचिः ।
कदाचिदगमद्गेहं गौतमस्य महात्मनः ८।
त्र्यंबकस्य गिरौ पुण्ये नानामुनिगणाश्रिते ।
तत्रापि शोभितगृहं स्फटिकस्तंभकल्पितम् ९।
अगुरुद्रवकस्तूरीचंद्र कुंकुमचर्चिता ।
भित्तिर्यस्य च संतानकुसुमामोदसौष्ठवम् १०।
कस्तूरिका पुष्परस समुत्सेचितभूतलम् ।
सूक्ष्म सुश्वेतविविधवितानपरिशोभितम् ११।
अंगणं शोभित महाकदलीपूगशोभितम् ।
समीपसरसीजात मंजुकूजन्मधुव्रतम् १२।
पाटीरतरुसंभूत गंधपूरितदिङ्मुखम् ।
शिक्षागीतकृताल्हाद गीतपूरितदिङ्मुखम् १३।
निदाघजनिताताप नाशयंत्रविनिर्मितम् ।
कदलीदलसंच्छादि पावकाकल्पितच्छदम् १४।
पाटीरतरुसुस्निग्ध सांद्र द्वारकपाटकम् ।
सौगंधिकमहामोदि कल्पितांतर भित्तिकम् १५।
ईशानभागसुभग रतिकल्पित वेदिकम् ।
हाटिकाकल्पितपदं विचित्रवेदिकायुतम् १६।
सुस्निग्धनि बिडच्छायं वटमूलोपकल्पितम् ।
प्रसूनकदलीखंड सरोभिः प्रांतशोभितम् १७।
महावटाग्रसंलग्न तुषारितपयोधरम् ।
नाकोपवनसंपन्न विचित्राराम शोभितम् १८।
वापीकूपतडागाद्यमनेकवनशोभितम् ।
मंदं मंदं ववौ वायुर्यत्र गेहे सुखप्रदः १९।
वादिन्यश्चारुसर्वांग्यो वाद्यानि स्मरसंपदः ।
वीणां वेणुं त्रिवेणुं च वादयंति वरांगनाः २०।
तौर्य्यत्रिककृतो नार्य्यश्चतुर्दिक्षु तथोर्द्ध्वतः ।
सुवर्णादिकपात्रेषु वटका भस्मनः शुभाः २१।
वासिताः सर्वगंधैश्च सुधूपैरपि धूपिताः ।
कुशग्रथितसंघाश्च अक्षमालाश्च कोटिशः २२।
कृष्णाजिनसहस्राणि बहिः प्रांते स्थितानि च ।
एतादृशे गृहवरे देववंद्यो मुनीश्वरः २३।
कर्पूरादींश्च संस्थाप्य चतुर्दिक्षु मुनीश्वरः ।
पाटीरपीठे कर्पूरसिंहासनमकल्पयत् २४।
सूक्ष्मं श्वेतं च सुस्रिग्धमावृत्तं घनसारकैः ।
सुगंधवासितजलैः स्नाप्य क्षीरेण शंकरम् २५।
अन्यैश्च वैदिकैर्मंत्रैः स्नापयित्वा सदाशिवम् ।
दारुचंद्रोपपीठे तु वस्त्रपीठं निधाय च ।
पात्रिकामग्रतः स्थाप्य स्थापयित्वा दलेष्वमून् २६।
एकस्मिन्नक्षताः पात्रे अन्यस्मिन्सतिलाक्षताः ।
पंचगंधकमेकस्मिन्नन्यस्मिन्नष्टगंधकम् २७।
काश्मीरं मृगनाभिं तु कर्पूरं चंदनं तथा ।
पात्रेष्वन्येषु विन्यस्य पूजास्थाने प्रकल्प्य च २८।
नानावरणमार्गेण पूजा तत्र विधीयते ।
लिंगमध्ये स्थितो देवः पंचवक्त्रः सदाशिवः २९।
तस्य प्रावरणं लिंगं शक्तिस्तस्य विधीयते ।
शक्तेरावरणं विष्णुर्विष्णोरावरणं विधिः ३०।
ब्रह्मप्रावरणं चंद्रस्तस्य सूर्यस्ततः श्रुतिः ।
दिग्देवतासु तद्गुप्तिस्तासामावरणं दिशः ३१।
दिशामावरणं शंभुस्तस्य चावरणं गुणाः ।
दशप्रावरणं ह्येतच्छिवलिंगार्चनं शुभम् ३२।
केषांचिन्मतमेतत्स्यादथ प्रावरणांतरम् ।
विद्यावरणमाख्यातं तदुमावरणं स्मृतम् ३३।
विष्णुरावरणं तस्या विष्णोश्चावरणं विधिः ।
ब्रह्मप्रावरणंचंद्रस्तस्य भानुरथावृतिः ३४।
भानोरावरणं चेश इति षोढावृतिः स्मृता ।
विधिं विना समाख्यातं पंचावरणमुत्तमम् ३५।
शशांकविष्णुशक्तीनामेतदावरणत्रयम् ।
अंबिकावरणं प्रोक्तमेकावरणमुत्तमम् ३६।
अथवा लोकपालाः स्युरावृतिः सोमपूजने ।
अनावरणमथवा पूजनं शस्यते शिवे ३७।
पत्रिकाष्टदलेष्वेव स्थितद्रव्यैर्यजेच्छिवम् ।
पत्रिकालक्षणं वक्ष्ये सर्वकर्मोपयोगितम् ३८।
स्वर्णेन राजतेनाथ ताम्रेणाथ प्रकल्पितम् ।
मुक्ताशुक्तिनिभं कुर्यात्पत्रिकाष्टदलं शुभम् ३९।
पद्मपत्रसमानाष्टकोणाकारं प्रकल्पयेत् ।
पलमात्रं ततः शस्तं निर्वृतं विस्तृतं पदम् ४०।
अस्थूलमध्यमुपरि पद्माकृतिदलाष्टकम् ।
अथवा शक्तिमार्गेण पंचपत्रं प्रकल्पयेत् ४१।
त्रिपत्रमथवा कुर्याच्छक्तिभावे मतेन च ।
यथा स्याच्छोभनं पात्रं तथा कुर्य्याद्विचक्षणः ४२।
शक्त्यांतरितरुद्राक्षैः कल्पिताष्टशतैः शुभा ।
मालोपवीतं त्रिंशत्या अष्टकेन प्रकल्पितम् ४३।
प्रगंडयोरथैकैकं बद्धा तु द्वे प्रकोष्ठयोः ।
शिरस्येका धृता तेन कंठे च परमर्षिणा ४४।
रुद्राक्षैः स्फटिकै रत्नैः कल्पिता ह्यक्षमालिका ।
व्याघ्रचर्मासनं कृत्वा पद्मासनगतो मुनिः ४५।
आवाहनासनं चार्घ्यं पाद्यं वाचमनीयकम् ।
निर्वर्त्य गंगासलिलैः स्नापयामास शंकरम् ४६।
अष्टगंधकसंयुक्तैः पुष्पैर्बकुलपाटलैः ।
स्वर्णभांडस्थितैर्वस्त्रशोधितैर्वासितैर्दृढम् ४७।
द्वारे ताम्रकटाहश्च प्रबंधद्रोणिना शुभम् ।
गोशृंगेण विषाणेन गवयस्य तथा क्वचित् ४८।
दक्षिणावर्तशंखेन रत्नपात्रैरथापि वा ।
स्वर्णैर्वा राजतैर्वापि ताम्रैः कांस्यैरथापि वा ४९।
स्वर्णैश्च सूक्ष्मकलशैः स्नापयामास चेच्छया ।
अथवा मृण्मयैः कुर्य्यात्पद्मपत्रैरथापि वा ५०।
पालाशैश्चूतजंब्वाद्यैः पात्रैः संस्नापयेद्विभुम् ।
स्नानानामथ सर्वेषां धारास्नानं विशिष्यते ५१।
नमस्तेत्यादिमंत्रेण शतरुद्रियसंज्ञिना ।
शं चेत्याद्यनुवाकेन शांतिरूपेण चेश्वरम् ५२।
आवृत्य च यथाशक्ति पश्चाद्गंधादि विन्यसेत् ।
ततश्च शोभनैः पुष्पैः पत्रैर्बिल्वैः समर्चयेत् ५३।
तुलसीमारुवदलैः कल्हारैश्च महोत्पलैः ।
नीलोत्पलैरुत्पलैश्च शेषैश्च करवीरकैः ५४।
कर्णिकारैः सितांभोजैरपराजितया तथा ।
तिलाक्षतैरक्षतैश्च श्रीपत्रैस्तिलमिश्रकैः ५५।
एवं महेशमीशानं पूजयामास गौतमः ।
कर्पूरागरुकस्तूरी सर्ज्जागरुकचंदनैः ५६।
अन्यैश्च धूपयामास षोडशाथ प्रदीपिकाः ।
कर्पूरवर्त्तिसंयुक्ता दीपयंत्रोपरिस्थिताः ५७।
निवेदितं महेशाय अथ नैवेद्यमुत्तमम् ।
सुपक्वशालिपिष्टान्नं भक्ष्यं लेह्यं च चोष्यकम् ५८।
मधुरादिसमोपेतं पंचभक्ष्यसमन्वितम् ।
अनेकपक्वशाकाढ्यमनेक पक्वमिश्रितम् ५९।
पानं विंशतिसंयुक्तं द्राक्षारंभाफलान्वितम् ।
सूपाष्टकादिसंयुक्तं युक्तं मूलफलादिना ६०।
यथासंभवसंयुक्तैरन्यैरप्युपकल्पितम् ।
अग्रपुष्पसमोपेतं नैवेद्यं प्रददौ मुनिः ६१।
सौवर्णपात्रिका न्यस्तनीराजनसहस्रकम् ।
सोपहाराय देवाय दत्वा चैव नमस्य च ६२।
पूगखंडानथो घृष्टान्पत्राणि क्षालितानि च ।
अपृष्ठाग्राणि सुश्वेतच्छदयावृतिकानि च ६३।
घनसारकचूर्णं च न्यस्तपत्रत्रयं शुभम् ।
सौवर्णपात्रविन्यस्तमिदं तांबूलमीश्वरे ६४।
अथ प्रदक्षिणं कृत्वा नमस्काराननंतरम् ।
अष्टयोषास्ततः प्राप्तास्तंत्रीवेण्वादिधारिकाः ६५।
विचित्रवाद्यवादिन्यः संप्राप्ता मुनिसन्निधिम् ।
क्षुद्रतालयुगं गृह्य स्वयं गातुं प्रचक्रमे ६६।
गौतमे गातुमुद्युक्ते तानं कुर्युरथांगनाः ।
मंदं मंदं च वाद्यानि वादयंति तथापराः ६७।
मधुरं गायति मुनौ स्वरामूर्तिभृतस्तथा ।
प्रानृत्यंत महेशाग्रे तदद्भुतमिवाभवत् ६८।
एतस्मिन्नंतरे प्राप्तो भगवान्नारदो मुनिः ।
तमागतं गौतमोपि संपूज्य प्रणिपत्य च ६९।
आहचैनंकृतार्थोस्मिनचकश्चिन्मयासमः ।
तवागमनकृत्यं किं कुत आगमनं तथा ७०।
श्रीनारद उवाच-
पातालादागतोस्मीह भुक्त्वा वै बाणमंदिरे ।
आयास्यंति महात्मानो बाणशुक्रादयो गृहम् ७१।
अथ क्षणादभ्यगाच्च बाणः परपुरंजयः ।
विंशत्यक्षौहिणीयुक्तो गजमारुह्य सोसुरः ७२।
अपरं हि गजं शुक्रः प्रह्लादो रथमुत्तमम् ।
वृषपर्वा रथवरं बलिस्तुरगमुत्तमम् ७३।
आगतानथ तान्सर्वानाज्ञाय स तु गौतमः ।
सशिष्यो निर्जगामाथ ह्यादायार्घ्यादिकं त्वरा ७४।
गौतमं चापि ते वीक्ष्यावरुह्य च गजादिकात् ।
नमश्चक्रुरथो दैत्यास्तं नमस्कृत्य भार्गवम् ७५।
आलिंग्य राक्षसान्सर्वान्पूजयित्वा यथाविधि ।
सेनायाः सन्निवेशं च चकार मुनिपुंगवः ७६।
पादौ प्रक्षाल्य शुक्रस्य जलं मूर्ध्नि धृतं तथा ।
विचित्रफलसंयुक्तं दत्तवानर्हणं मुनिः ७७।
वापीतडागसरसी स्नानपूर्वकृत क्रियाः ।
संगमे वर्तमाने तु गौतमस्याश्रमे शुभे ७८।
तद्गेहं तु प्रविश्याथ राक्षसास्सपुरोहिताः ।
देवपूजाप्रपत्तिं च चक्रुः सर्वे द्विजालये ७९।
सद्यः प्रकल्पितायां च वेद्यां शुक्रोऽयजच्छिवम् ।
तस्यैव वामभागे तु प्रह्लादोयजदच्युतम् ८०।
सोमं च बलिरप्येवमन्ये चासुरपुंगवाः ।
अथ बाणोऽयजद्देवमेकमेव त्रियंबकम् ८१।
शुक्रोपि भगवन्तन्तमुमानाथमपूजयत् ।
गौतमोप्यथ मध्याह्ने पूजयामास शंकरम् ८२।
सर्वे शुक्लांबरधरा भस्मोद्धूलितविग्रहाः ।
सितेन भस्मना कृत्वा सर्वस्थाने त्रिपुंड्रकम् ८३।
नत्वा तु भार्गवं सर्वे भूतशुद्धिं प्रचक्रमुः ।
हृत्पद्ममध्ये सुषिरं तत्रैव भूतपंचकम् ८४।
तेषां मध्ये महाकाशमाकाशे निर्मलानलम् ।
तन्मध्ये च महेशानं ध्यायेद्दीप्तिमयं शुभम् ८५।
अज्ञानसंयुतं भूतं शमलं सर्वसंगतम् ।
तद्देहमाकाशदीपे प्रदहेज्ज्ञानवह्निना ८६।
आकाशस्यावृतं चाहं दग्ध्वाऽऽकाशमथो दहेत् ।
दग्ध्वाकाशमयो वायुमग्निभूतं तदा दहेत् ८७।
अब्भूतं च ततो दग्ध्वा पृथिवीभूतमेव च ।
तदाश्रितान्गुणान्दग्ध्वा ततो देहं प्रदाहयेत् ८८।
एवं दहित्वा भूतानि देही तज्ज्ञानवह्निना ।
शिखामध्यस्थितं विष्णुमानंदरसनिर्भरम् ८९।
निष्पन्नचंद्रकिरणसंकाशकिरणं शिवम् ।
शिवांगोत्पन्नकिरणैरमृतद्रवसंयुतैः ९०।
सुशीतला ततो ज्वाला प्रशांता चन्द्ररश्मिवत् ।
प्रसारितसुधारुग्भिः सांद्रीभूतश्च संप्लवः ९१।
क्रमेण प्लावितं भूतग्रामं संचिंतयेत्परम् ९२।
इत्थं कृत्वा भूतशुद्धिं क्रियार्हो मर्त्यः शुद्धो जायते एव शुद्धः ।
पूजां कर्तुं जाप्यकर्म्मापि पश्चाद्देवध्याने ब्रह्महत्यादि हानिः ९३।
एवं ध्यात्वा चंद्रदीप्तिप्रकाशं ध्यानेनारोप्याशु लिंगे शिवस्य ।
सदाशिवं दीपमध्ये विचिंत्य पंचाक्षरेणार्चनमव्ययं तु ९४।
आवाहनादीनुपचारांस्तथापि कृत्वा स्नानं पूर्ववच्छंकरस्य ।
उदुंबरं राजतं स्वर्णपीठं वस्त्रादिछन्नं सर्वमेवेह पीठम् ९५।
अंते कृत्वा बुद्बुदानां च वृष्टिं पीठे पीठे नागमेकं पुरस्तात् ।
कुर्यात्पीठे चोर्ध्वके नागयुग्मं देवाभ्याशे दक्षिणे वामतश्च ९६।
जपापुष्पं नागमध्ये निधाय मध्ये वस्त्रं द्वादश प्रातिगुण्ये ।
सुश्वेतेन तस्य मध्ये महेशं लिंगाकारं पीठयुक्तं प्रपूज्यम् ९७।
एवं कृत्वा बाणमुख्या दितीशा दत्त्वा दत्त्वा पंचगंधाष्टगंधम् ।
पुष्पैः पत्रैः श्री तिलैरक्षतैश्च तिलोन्मिश्रैः केवलैश्च प्रपूज्य ९८।
धूपं दत्त्वा विधिवत्संप्रयुक्तं दीपं दत्त्वा चोक्तमेवोपहारम् ।
पूजाशेषं ते समाप्याथ सर्वे गीतं नृत्यं तत्रतत्रापि चक्रुः ९९।
अथास्मिन्नंतरे गौतमस्यप्राप्तः शिष्यः शंकरात्मेति नाम्ना १००।
उन्मत्तवेशो दिग्वासा अनेकावृतिमाश्रितः ।
क्वचिद्द्विजातिप्रवरः क्वचिच्चंडालसन्निभः १०१।
क्वचिच्छूद्र समो योगी तापसः क्वचिदप्युत ।
गर्जत्युत्पतते चैव नृत्यति स्तौति गायति १०२।
रोदिति शृणुते व्यक्तं पतत्युत्तिष्ठति क्वचित् ।
शिवज्ञानैकसंपन्नः परमानंदनिर्भरः १०३।
संप्राप्तो भोज्यवेलायां गौतमस्यांतिकं ययौ ।
बुभुजे गुरुणा साकं क्वचिदुच्छिष्टमेव च १०४।
क्वचिल्लेहति तत्पात्रं तूष्णीमेवाभ्यगात्क्वचित् ।
हस्तं गृहीत्वैव गुरोः स्वयमेवाभुनक्क्वचित् १०५।
क्वचिद्गृहांतरे मूत्रं क्वचित्कर्दमलेपनम् ।
सर्वदा तं गुरुर्दृष्ट्वा करमालंब्य मंदिरम् १०६।
प्रवेश्य स्वीयपीठे तमुपवेश्याभ्यभोजयत् ।
स्वयं तदस्य पात्रेण बुभुजे गौतमो मुनिः १०७।
तस्य चित्तं परिज्ञातुं कदाचिदथ सुंदरी ।
अहल्या शिष्यमाहूय भुंक्ष्वेत्युक्त्वाथ सा शुभा १०८।
सौवर्णे भाजने चान्नं निधाय चषकांतरे ।
पानादिकमथो दत्वा एकस्मिन्पावकं पुनः १०९।
निधायांगारनिचयं कंटकानां चयं परे ।
निधाय भुंक्ष्व भुंक्ष्वेति स चापि बुभुजे मुनिः ११०।
यथा पपौ हि पानीयं तथा वह्निमपि द्विजः ।
कंटकानपि भुक्त्वा स यथापूर्वमतिष्ठत १११।
पुरा हि मुनिकन्याभिराहूतो भोजनाय च ।
दिनेदिने तत्प्रदत्तं लोष्ठमंबु च गोमयम् ११२।
कर्दमं काष्ठदंडं च भुक्त्वा प्रीत्याथ हर्षितः ।
एतादृशो मुनिरसौ चंडालसदृशाकृतिः ११३।
सुजीर्णोपानहौ हस्ते गृहीत्वा तु तथा करे ।
अंत्यजोचितभाषाभिर्वृषपर्वाणमभ्यगात् ११४।
वृषपर्वेशयोर्मध्ये दिग्वासाः समतिष्ठत ।
वृषपर्वा तमज्ञात्वा पीडयित्वा शिरोऽच्छिनत् ११५।
हते तस्मिन्द्विजश्रेष्ठे जगदेतच्चराचरम् ।
अतीव कलुषमभवत्तत्रस्था मुनयस्तथा ११६।
गौतमस्य महाशोकः संजातः सुमहात्मनः ।
निर्ययौ चक्षुषोर्वारि शोकं संदर्शयन्निव ११७।
गौतमः सर्वदैत्यानां संनिधौ वाक्यमुक्तवान् ।
किमनेन कृतं पापं येन च्छिन्नमिदं शिरः ११८।
मम प्राणाधिकस्येह सर्वदा शिवयोगिनः ।
ममापि मरणं सत्यं शिष्यरूपी यतो गुरुः ११९।
शैवानां धर्मयुक्तानां सर्वदा शिववर्तिनाम् ।
मरणं यत्र दृष्टं स्यात्तत्र नो मरणं ध्रुवम् १२०।
शुक्र उवाच-
एनं संजीवयिष्यामि मम गोत्रं शिवप्रियम् ।
किमसौ म्रियते ब्रह्मन्पश्य मे तपसो बलम् १२१।
इति वादिनि विप्रेंद्रे गौतमोऽपि ममार ह ।
तस्मिन्मृतेऽथ शुक्रोऽपि प्राणांस्तत्याज योगतः १२२।
तस्यापि हतमाज्ञाय प्रह्लादा द्दानवेश्वराः ।
सर्वे मृताः क्षणेनैव तदद्भुतमिवाभवत् १२३।
मृतमासीदथ बलं तस्य बाणस्य धीमतः ।
अहल्या शोकसंतप्ता रुरोदोच्चैः पुनः पुनः १२४।
गौतमेन महेशस्य पूजया पूजितो विभुः ।
वीरभद्रो महायोगी सर्वं दृष्ट्वा चुकोप ह १२५।
अहो कष्टमहोकष्टं माहेशा बहवो मृताः ।
शिवं विज्ञापयिष्यामि तेनोक्तं करवाण्यहम् १२६।
इति निश्चित्य गतवान्मंदराचलमव्ययम् ।
नमस्कृत्वा विरूपाक्षमिदं सर्वमथोक्तवान् १२७।
ब्रह्म हरी स्थितौ तत्र दृष्ट्वा प्राह शिवो वचः ।
मद्भक्तैः साहसं कर्म कृतं दृष्ट्वा वरप्रदः १२८।
गत्वा पश्यामहे विष्णो युवामप्यागमिष्यथ ।
अथेशो वृषमारुह्य वायुना धूतचामरः १२९।
नंदिकेन सुवेषेण धृते छत्रेति शोभने ।
सुश्वेतहेमदंडे च नान्ययोगे धृते विभोः १३०।
महेशानुमतिं लब्ध्वा हरिर्नागांतके स्थितः ।
आरक्तनीलछत्राभ्यां शुशुभे लक्ष्यकौस्तुभः १३१।
शिवानुमत्या ब्रह्मापि हंसारूढोऽभवत्तदा ।
इंद्रगोपप्रभाकारच्छत्राभ्यां शुशुभे विधिः १३२।
इंद्रादिसर्वदेवाश्च स्वस्ववाहनसंयुताः ।
अथ ते निर्ययुः सर्वे नानावाद्यानुमोदिताः १३३।
कोटिकोटिगणाकीर्णा गौतमस्याश्रमं गताः ।
ब्रह्मविष्णुमहेशाना दृष्ट्वा तत्परमाद्भुतम् १३४।
स्वभक्तं जीवयामास वामकोणनिरीक्षणात् ।
शंकरो गौतमं प्राह तुष्टोऽहं ते वरं वृणु १३५।
गौतम उवाच-
यदि प्रसन्नो देवेश यदि देयो वरो मम ।
त्वल्लिंगार्चनसामर्थ्यं नित्यमस्तु महेश्वर १३६।
वृतमेतन्मया देव शृणुष्वैतत्त्रिलोचन ।
मम शिष्यो महाभागो हेयाहेयादिवर्जितः १३७।
प्रेक्षणीयं ममत्वेन न च पश्यति चक्षुषा ।
न च घ्राणेन घ्रातव्यं न दातव्यं न चेतरत् १३८।
इति बुद्घ्वा तथा कुर्वन्स हि योगी महायशाः ।
उन्मत्तविकृताकारः शंकरात्मेति कीर्तितः १३९।
न कश्चित्तं प्रतिद्विष्यान्न च तं हिंसयेदिति ।
एतन्मे दीयतां देव एतेषाममृतिस्तथा १४०।
श्रीभगवानुवाच-।
आकल्पमेते जीवंतु ततो मुक्तिं भजंतु च ।
त्वया कृतमिदं वेश्म विस्तृतं विकृतं शुभम् १४१।
तिष्ठामः क्षणमात्रं तु ततो यास्याम मंदिरम् ।
गौतम उवाच-
अयोग्यं प्रार्थयामीश ह्यर्थी दोषं न पश्यति १४२।
ब्रह्माद्यलभ्यं देवेश दीयतां यदि रोचते ।
अथेशो विष्णुमालोक्य गृहीत्वा तु करं हरेः १४३।
प्रहसन्नंबुजाभाक्षमित्युवाच सदाशिवः ।
म्लानोदरोसि गोविंद देयं ते भोजनं किमु १४४।
स्वयं प्रविश्य यदि वा स्वयं भुंक्ष्व स्वगेहवत् ।
गच्छ वा पार्वतीगेहं या कुक्षिं पूरयिष्यति १४५।
इत्युक्त्वा तत्करालंबी एकांतमगमद्विभुः ।
आदिश्य नंदिनं देवो द्वाराध्यक्षं यथोक्तवत् १४६।
गौतमं समुवाचायमुत्तरं विष्णुभाषणम् ।
सदाशिव उवाच-
संपादयान्नं सर्वेषां भोक्तुकामा वयं मुने १४७।
इत्युक्त्वैकांतमगमद्वासुदेवेन शंकरः ।
मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ १४८।
अन्योन्यं भाषणं कृत्त्वा प्रोत्तस्थतुरुभावपि ।
गत्वा तटाकं गंभीरं स्नास्यंतौ देवसत्तमौ १४९।
करांबुपानमन्योन्यं पृथक्कृत्वोभयत्र च ।
मुनयो राक्षसाश्चैव जलक्रीडां प्रचक्रिरे १५०।
अथ विष्णुर्महेशश्च जलपातानि शीघ्रतः ।
चक्रतुः शंकरः पद्मकिंजल्कांजलिना हरेः १५१।
अवाकिरन्मुखे तस्य पद्मोत्फुल्लविलोचने ।
नेत्रे केशरसंपातान्न्यमीलयत केशवः १५२।
अत्रांतरे हरेः स्कंधमारुरोह महेश्वरः ।
हर्युत्तमांगं बाहुभ्यां गृहीत्वा संन्यमज्जयत् १५३।
उन्मज्जयित्वा च पुनः पुनश्चापि पुनः पुनः ।
पीडितः स हरिः सूक्ष्मं पातयामास शंकरम् १५४।
अथ पादौ गृहीत्वा तु आचकर्ष च भ्रामयत् ।
अताडयद्धरेर्वक्षः पातयामास चाच्युतम् १५५।
अथोत्थितो हरिस्तोयमादायंजलिना ततः ।
अवाकिरदथो शंभुमथ विष्णुमथो हरः १५६।
जलक्रीडैवमभवदथ चर्षिगणांतरे ।
जलक्रीडासंभ्रमेण विस्रस्तजटबंधनाः १५७।
अथ संभ्रमतस्तेषामन्योन्यजटबंधनम् ।
इतरेतरबद्धासु जटासु च मुनीश्वराः १५८।
शक्तिमंतोऽशक्तिमतः आकर्षंति च सव्यथम् ।
पातयंतोन्यतश्चापि क्रोशतो रुदतस्तथा १५९।
एवं प्रवृत्ते तुमुले संभूते तोयकर्म्मणि ।
आकाशे नारदो हृष्टो ननर्त च ननाद च १६०।
विपंचीं नादयन्वाद्यं ललितां गीतिमुज्जगौ ।
सुगीत्या ललितायास्तु अगायत विधा दश १६१।
शुश्राव गीतं मधुरं शंकरो लोकभावनः ।
स्वयं गातुं हि ललितं मंदं मंदं प्रचक्रमे १६२।
स्वयं गायति देवेशे मिश्रा मंगलकैशिकी ।
नारदे नृत्यमाने तु गायति स्वरभेदिनि १६३।
स्वरं ध्रुवं समादाय सर्वलक्षणसंयुतम् ।
स्वधारामृतसंयुक्तं गानेनैवमथो जयत् १६४।
वासुदेवो मर्दलं च कराभ्यामिदमाहनत् ।
अवगाहंश्चतुर्वक्त्रस्तुंबुरुर्मुखरो बभौ १६५।
तानका गौतमाद्यास्तु तूष्णीं गातुं च वायुतः ।
गायके मधुरं गीतं हनूमति कपीश्वरे १६६।
म्लानमम्लानमभवत्कृशाः पुष्टास्तदाऽभवन् ।
स्वां स्वां गीतिमतः सर्वे तिरस्कृत्यैव मूर्च्छिताः १६७।
तूष्णीं सर्वे समभवन्देवर्षिगणदानवाः ।
एकः स हनुमान्गाता श्रोतारः सर्व एव ते १६८।
मध्याह्नकालवितते भोजनावसरे सति ।
दुकूलयुगमाधत्त शृण्वन्गीतिं महेश्वरः १६९।
पीतवस्त्रद्वयं विष्णुरारक्तं चतुराननः ।
स्वस्वार्हाण्यथ सर्वेऽपि कृत्यं कृत्वापि कालिकम् १७०।
स्वं स्वं वाहनमारुह्य निर्गताः सर्वदेवताः ।
गानप्रियो महेशस्तु जगाद प्लवगेश्वरम् १७१।
प्लवगत्वं मयाज्ञप्तो निःशंकं वृषमारुह ।
मम चाभिमुखो भूत्वा गायस्वाशेषगायनम् १७२।
अथाह कपिशार्दूलो भगवंतं महेश्वरम् ।
वृषभारोहसामर्थ्यं तव नान्यस्य विद्यते १७३।
तव वाहनमारुह्य पातकी स्यामहं विभो ।
मामेवारुह देवेश विहंगः शिववाहनः १७४।
तव चाभिमुखं गानं करिष्यामि विलोकय ।
अथेश्वरो हनूमंतमारुरोह वृषं यथा १७५।
आरूढे शंकरे देवे हनूमान्कंधराशिरः ।
छित्त्वा त्वचं परावृत्य मुखं गायति पूर्ववत् १७६।
शृण्वन्गीतिसुधां शंभुर्गौतमस्य गृहं गतः ।
सर्वे चाप्यागतास्तत्र देवर्षिगणदानवाः १७७।
पूजिता गौतमेनाथ भोजनावसरे सति ।
यच्छुष्कदारुसंभूतं गृहोपकरणादिकम् १७८।
प्ररूढमभवत्सर्वं गायमाने हनूमति ।
तस्मिन्गाने समस्तानां चित्रदृष्टिरतिष्ठत १७९।
द्विबाहुरीशस्य पदाभिवंदनः समस्तगात्राभरणोपपन्नः ।
प्रसन्नमूर्तिस्तरुणः सुमध्ये विन्यस्तमूर्द्धांजलिभिः सुरैः स्तुतः १८०।
शिरः कराभ्यां परिगृह्य शंकरो हनूमतः पूर्वमुखं चकार ।
पद्मासनासीन हनूमतांजलौ निधाय पादं त्वपरं मुखे च १८१।
पादांगुलीभ्यामथ नासिकां विभुः स्नेहेन जग्राह च मंदमंदम् ।
स्कंधे मुखे त्वंसतले च कंठे वक्षःस्थले च स्तनमध्यमे हृदि १८२।
ततश्च कुक्षावथ नाभिमंडले ततो द्वितीयं निदधाति चांजलौ ।
शिरो गृहीत्वावनमय्य शंकरः पस्पर्श पृष्ठं चिबुकेन सध्वनि १८३।
हारं च मुक्तापरिकल्पितं शिवो हनूमतः कंठगतं चकार ह ।
अथ विष्णुर्महेशानमिदं वचनमुक्तवान् १८४।
हनूमता समो नास्ति कृत्स्नब्रह्मांडमंडले ।
श्रुति देवाद्यगम्यं हि पदं तव किलस्थितम् १८५।
सर्वोपनिषदव्यक्तं त्वत्पदं कपि सर्वयुक् ।
यमादिसाधनैर्योगैर्न क्षणं ते पदं स्थितम् १८६।
महायोगिहृदंभोजे बलं स्वच्छं हनूमति ।
वर्षकोटिसहस्रेषु तपः कृत्वा तु दुष्करम् १८७।
त्वद्रूपं नाभिजानाति कुतः पादं मुनीश्वराः ।
अहो भाग्यं विचित्रं हि चपलो वा नरो मृगः १८८।
धत्ते पादयुगं चांगे योगिहृद्यपि न क्षमम् ।
मया वर्षसहस्रं तु सहस्राब्दं तथान्वहम् १८९।
भक्त्या संपूजितोऽपीश पादो नो दर्शितस्त्वया ।
लोके वादो हि सुमहाञ्छुंभुर्नारायणप्रियः १९०।
हरिः प्रियस्तथा शंभोर्न तादृग्भाग्यमस्ति मे ।
सदाशिव उवाच-
न त्वया सदृशो मह्यं प्रियोस्ति भगवन्हरे १९१।
पार्वती वा त्वया तुल्या न चान्यो विद्यते मम ।
अथ देवाय महते गौतमः प्रणिपत्य च १९२।
व्यज्ञापयदमेयात्मन्देवैहि करुणानिधे ।
मध्याह्नोऽयं व्यतिक्रांतो भुक्तिवेलाऽखिलस्य च १९३।
अथाचम्य महादेवो विष्णुना सहितो विभुः ।
प्रविश्य गौतमगृहं भोजनायोपचक्रमे १९४।
रत्नांगुलीयैरथ नूपुराभ्यां दुकूलबंधेन तडित्सु कांच्या ।
हारैरनेकैरथ कंठनिष्क यज्ञोपवीतोत्तरवाससी च १९५।
विलंबिचंचन्मणिकुंडलेन सुपुष्पिधम्मिल्लवरेण देवः ।
पंचांगगंधस्य विलेपनेन बाह्वंगदैः कंकणकांगुलीयकैः १९६।
इत्थं विभूषितः शिवो निविष्टउत्तमासने स्वसंमुखं हरिं तथा न्यवेशयद्वरासने ।
अन्योन्यसंमुखौ स्थितौ हरीशौ देवसत्तमौ सुवर्णभाजनान्यथो ददौ स चापि गौतमः १९७।
त्रिंशत्प्रभेदभक्ष्यकं सुपायसं चतुर्विधं सुपक्वपाकजातकं शतद्वयं प्रकल्पितम् ।
अपक्वपक्वमिश्रकं शतत्रयं प्रकल्पितं शतंशतं तथा सुकंदशाककं तथा मुनिः १९८।
शाकादि सर्पिषान्वितं ददौ च पंचविंशतिं सुशर्करादिकं तथा सुचूनदाडिमादिकम् ।
मोचाफलं तु गोस्तनीं सुखर्जुनागरंगकं जंबूफलं प्रियालुकं विकंकतं फलं तथा १९९।
एवमादीनि चान्यानि द्रव्याण्यर्प्य यथाविधि ।
दत्वा चापोशनं विप्रो भुंजध्वमिति चाब्रवीत् २००।
भुंजानेषु च सर्वेषु व्यजनं सूक्ष्मवस्त्रजम् ।
गौतमः स्वयमादाय शिवविष्णू अवीजयत् २०१।
परिहासमथोकर्तुमियेष परमेश्वरः ।
पश्य विष्णो हनूमंतं कथं भुंक्ते स वानरः २०२।
वानरं पश्यति हरौ मंडकं विष्णुभाजने ।
चिक्षेप मुनिसंघेषु पश्यत्स्वपि महेश्वरः २०३।
हनूमते दत्तवांश्च स्वोच्छिष्टं पायसादिकम् ।
त्वदुच्छिष्टमभोज्यं तु तवैव वचनाद्विभो २०४।
अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं तथा ।
मह्यं निवेद्य सकलं कूप एव विनिक्षिपेत् २०५।
अभुक्ते त्वद्वचो नूनं भुक्ते चापि कृपा तव ।
सदाशिव उवाच-
बाणलिंगे स्वयंभूते चंद्रकांते ह्यवस्थिते २०६।
चांद्रायणसमं ज्ञेयं शंभोर्नैवेद्यभक्षणम् ।
भुक्तिवेलेयमधुना तद्वैरस्यं कथांतरात् २०७।
भुक्त्वा तु कथयिष्यामि निर्विशंकं विभुंक्ष्व तत् ।
अथासौ जलसंस्कारं कृतवान्गौतमो मुनिः २०८।
आरक्तसुस्निग्धसुसूक्ष्म गात्राननेकधा धौत सुशोषितांगान् ।
तडागतोयैः कृतवीजघर्षितैर्विशोधितैस्तैः करकानपूरयत् २०९।
नद्याः सैकतवेदिकां नवतरां संच्छाद्य सूक्ष्मांबरैः शुद्धैः श्वेततरैरथोपरिघटांस्तोयेन पूर्णान्क्षिपेत् ।
क्षिप्त्वा नालकजातिमास्तपुटकं कंकोलकस्तूरिकाचूर्णं चन्दनचंद्ररश्मिविशदां मालां पुटां तं क्षिपेत् २१०।
यामस्यापि पुनश्च वारिवसनेनाशोध्य कुंभे क्षिपेच्चंद्र ग्रंथिमथो निधाय बकुलं क्षिप्त्वा तथा पाटलाम् २११।
शेफालीस्तबकमथो जलं च तत्र विन्यस्य प्रथमत एव तोयशुद्धिम् ।
कृत्वाथो मृदुतरसूक्ष्मवस्त्रखंडेनावेष्टेत्सृणिकमुखं च सूक्ष्मचंद्रम् २१२।
अनातपप्रदेशे तु निधाय करकानथ ।
मंदवातसमोपेते सूक्ष्मव्यजनवीजिते २१३।
अथ उर्वीशसलिलैः सिंचयेत्सृणिकामपि ।
संस्कृत्वा स्वायतास्तत्र नरा नार्योथ वा नृप २१४।
तत्कन्या वा क्षालितांगा धौतवस्त्राश्च वा सह ।
मधुपिंगलनिर्य्यासमसांद्रमगुरुद्रवम् २१५।
बाहुमूले च कंठे च विलिप्य सांद्रमेव च ।
मस्तके जाप्यकं न्यस्य पंचगंधविलेपनम् २१६।
पुष्पनद्धसुकेशास्तु ताः शुभास्याः सुनिर्मलाः ।
एवमेवोचितानार्य आत्तकुंकुमविग्रहाः २१७।
युवत्यश्चारुसर्वांग्यो नितरां भूषणैरपि ।
एतादृग्वनिताभिर्वानरैर्वादापयेज्जलम् २१८।
तेऽपि प्रदानसमये सूक्ष्मवस्त्राल्पवेष्टनम् ।
अथवा मकरे न्यस्य करकं तत्र पश्य हि २१९।
दोरिकान्यस्तमुन्मुच्य ततस्तोयं प्रदापयेत् ।
एवं सत्कारयामास गौतमो भगवान्मुनिः २२०।
महेशादिषु सर्वेषु भुक्तवत्सु महात्मसु ।
प्रक्षालितांघ्रिहस्तेषु गंधोद्वर्तितपाणिषु २२१।
तदासनसमासीने देवदेवे महेश्वरे ।
अथ नीचसमासीना देवाः सर्षिगणास्तथा २२२।
मणिपात्रेषु संवेष्ट्य पूगखंडान्सुधूपितान् ।
अकोणवर्तुलान्स्थूलानसूक्ष्मानकृशानपि २२३।
श्वेतपत्राणि संशोध्य क्षिप्त्वा कर्पूरखंडकम् ।
चूर्णं च शंकरायाथ निवेदयति गौतमे २२४।
गृहाण देव तांबूलमित्युक्तवचने मुनौ ।
कपे गृहाण तांबूलं प्रयच्छ मम खंडकान् २२५।
उवाच वानरो नास्ति मम शुद्धिर्महेश्वर ।
अनेकफलभुक्तत्वाद्वानरस्तु शुचिः कथम् २२६।
सदाशिव उवाच-।
मद्वाक्यादखिलं शुद्ध्येन्मद्वाक्यादमृतं विषम् ।
मद्वाक्यादखिला वेदा मद्वाक्याद्देवतादयः २२७।
मद्वाक्याद्धर्मविज्ञानं मद्वाक्यान्मोक्ष उच्यते ।
पुराणान्यागमाश्चैव स्मृतयो मम वाक्यतः २२८।
अतो गृहाण तांबूलं मम दद्याः सुखंडकान् ।
हरिर्वामकरेणादात्तांबूलं पूगखंडकम् २२९।
ततः पत्राणि संगृह्य ततः खंडान्समर्पयत् ।
कर्पूरमग्रतो दत्तं गृहीत्वाऽभक्षयच्छिवः २३०।
देवे तु कृततांबूले पार्वती मंदराचलात् ।
जया विजययोर्हस्तं गृहीत्वाऽऽयान्मुनेर्गृहम् २३१।
देवपादौ ततो नत्वा विनम्रवदनाऽऽभवत् ।
उन्नमय्य मुखं तस्या इदमाह त्रिलोचनः २३२।
त्वदर्थं देवदेवेशि अपराधः कृतो मया ।
यत्त्वां विहाय भुक्तं हि तथान्यच्छृणु सुंदरि २३३।
अथ स्वमंदिरे स्थाप्य देवदेवविवर्जिते ।
सर्वबंधविमुक्ते च महदेनो मया कृतम् २३४।
क्षंतुमर्हसि देवेशि त्यक्तकोपा विलोकय ।
न बभाषैवमुक्त्वा सा अरुंधत्या हि निर्ययौ २३५।
निर्गच्छंतीं मुनिर्ज्ञात्वा दंडवत्प्रणनाम च ।
तदारभ्य महेशाय दंडप्रणति संस्तुतिम् २३६।
कुर्यादुवाच च शिवा गौतम त्वं किमिच्छसि ।
गौतम उवाच-
कृतकृत्योस्मि देवेशि यदि देयो वरो मम २३७।
मन्मंदिरे महाभागे भोक्तुमर्हसि सांप्रतम् ।
देव्युवाच-
भोक्ष्यामि तव गेहेहं शंकरानुमता मुने २३८।
गत्वेशं गौतमो विप्रो लब्धानुज्ञः पुनर्गतः ।
भोजयामास गिरिजां देवीं चारुंधतीं तथा २३९।
भुक्त्वाथ पार्वती सर्वं गंधपुष्पसभूषणा ।
सहानुचरकन्याभिः सहस्राभिर्हरं ययौ २४०।
अथाह शंकरो देवीं गच्छ गौतममंदिरम् ।
संध्योपास्तिमहं कृत्वा आगच्छामि पुनर्गृहम् २४१।
इत्युक्ता प्रययौ देवी गौतमस्यैव मंदिरम् ।
संध्यावंदनकामाश्च सर्वएव विनिर्गताः २४२।
कृतसंध्यास्तटाके तु महेशाद्यास्तु कृत्स्नशः ।
अथोत्तरमुखः शंभुर्न्यासं कृत्वा जजाप ह २४३।
अथविष्णुर्महातेजा महेशमिदमब्रवीत् ।
सर्वैर्नमस्यते यस्तु सर्वैरेव समर्च्यते २४४।
हूयते सर्वयज्ञेषु स भवान्किं जपिष्यति ।
रचितांजलयः सर्वे त्वामेवैकमुपासते २४५।
स भवान्देवदेवेश कस्मै वा रचितांजलि ।
नमस्कारादि पुण्यानां फलदस्त्वं महेश्वर २४६।
तव कः फलदो वंद्यः को वा त्वत्तोधिको वद ।
शंकर उवाच-
ध्याये न किंचिद्गोविंद न नमस्येह किंचन २४७।
नोपास्ये कंचन हरे न जपिष्येह किंचन ।
किंतु नास्तिकजंतूनां प्रवृत्त्यर्थमिदं मया २४८।
दर्शनीयं हरे ते स्युरन्यथा पापकारिणः ।
तस्माल्लोकोपकारार्थमिदं सर्वं कृतं मया २४९।
ओमित्युक्त्वा हरिरथ तं नत्वा समतिष्ठत ।
अथ ते गौतमगृहं प्राप्ता देवगणर्षयः २५०।
सर्वे पूजामथो चक्रुर्देवदेवे पिनाकिने ।
देवो हनूमता सार्द्धं गायन्नास्ते रघूत्तम २५१।
पञ्चाक्षरीं महाविद्यां सर्व एव तदा जपन् ।
हनूमत्करमालंब्य देव्यभ्याशं गतो हरः २५२।
एकशय्यासमासीनौ तावुभौ देवदंपती ।
गायन्नास्ते स हनुमांस्तुंबुरुर्नारदस्तथा २५३।
नानाविधिविलासांश्च चकार परमेश्वरः ।
आहूय पार्वतीमीश इदं वाक्यमुवाच ह २५४।
श्रीसदाशिव उवाच-
रचयिष्यामि धम्मिल्लमेहि मत्पुरतः शुभे ।
देव्याह न च युक्तं तद्भर्त्राशुश्रूषणं स्त्रियः २५५।
केशप्रसाधनकृतावनर्थांतरमापतेत् ।
केशप्रसाधने देव तत्वं सर्वं न चेप्सितम् २५६।
अथ बंधे कृते पश्चादंसप्रांतप्रमार्जनम् ।
तनोश्चरमसंलग्न केशपुष्पादिमार्जनम् २५७।
एतस्मिन्वर्तमाने तु महात्मानो यदागमन् ।
तदा किमुत्तरं वाच्यं तव देवादिवंदिनः २५८।
नायांति चेदथ विभो भीतिर्नाशमुपेष्यति ।
एवं हि भाषमाणां तां करेणाकृष्य शंकरः २५९।
स्वोर्वोस्तां स्थापयित्वैव विस्रस्य कचबंधनम् ।
विभज्य च कराभ्यां स प्रससार नखैरपि २६०।
विष्णुदत्तां पारिजातस्रजं कचगतामपि ।
कृत्वा धम्मिल्लमकरोदथ मालां करागताम् २६१।
मल्लिकास्रजमादाय बबंध कचबंधने ।
कल्पप्रसूनमालां च ब्रह्मदत्तां महेश्वरः २६२।
पार्वतीवसने गूढगंधाढ्ये च समादधात् ।
अथांसपृष्ठसंलग्नमार्जनं कृतवान्विभुः २६३।
श्लथनीवेरधो देव्या वस्त्रवेष्टेरधोगतः ।
देवः किमिदमित्युक्त्वा नीवीबंधं चकार ह २६४।
नासाभूषणमेतत्ते पश्यामि स मदात्ततः ।
इत्युक्त्वा स्वयमादाय विच्छायं मौक्तिकं सती २६५।
हरिद्रायाः समायोगे मुक्ताफलमदीप्तिमत् ।
इदं हि ध्रियतां मुक्ताफलं मम तव प्रियम् २६६।
पार्वत्युवाच-
अहो त्वन्मंदिरं शंभो सर्ववस्तुसमृद्धिमत् ।
पूर्वमेव मया सर्वं वस्तुज्ञातं विभूषणैः २६७।
अहो द्रविणसंपत्तिर्भूषणैरवगम्यते ।
शिरोविभूषितं देव ब्रह्मशीर्षस्य मालया २६८।
नरकस्य तथा माला वक्षःस्थलविभूषणम् ।
शेषश्च वासुकिश्चैव सविषौ तव कंकणे २६९।
दिशोंऽबरे जटा केशा भसितं चांगरागकम् ।
महोक्षो वाहनं गोत्रं कुलं चाज्ञातमेव च २७०।
ज्ञायेते पितरौ नैव विरूपाक्षं तथा वपुः ।
एवं वदंतीं गिरिजां विष्णुः प्राहाति कोपनः २७१।
किमर्थं निंदसे देवि देवदेवं जगत्पतिम् ।
त्यक्ष्ये प्राणान्प्रियान्भद्रे तव नूनमसंयमम् २७२।
यत्रेशनिंदनं भद्रे तत्र नो मरणं व्रतम् ।
इत्युक्त्वाथ नखाभ्यां हि हरिश्छेत्तुं शिरोगतः २७३।
महेशस्तु करं गृह्य प्राह मा साहसं कृथाः ।
पार्वतीवचनं सर्वं प्रियं मम तवाप्रियम् २७४।
ममाप्रियं हृषीकेश कर्तुं यत्किंचिदिष्यते ।
ओमित्युक्त्वाथ भगवांस्तूष्णींभूतोऽभवद्धरिः २७५।
हनुमानथ देवाय व्यज्ञापयदिदं वचः ।
अर्थयामि विनिष्कामं मम पूजाव्रतं तथा २७६।
पूजार्थमप्यहं गच्छे ममानुज्ञातुमर्हसि ।
शंकर उवाच-
कस्य पूजा क्व वा पूजा किं पुष्पं किं दलं वद २७७।
को गुरुः कश्च मंत्रस्ते कीदृशं पूजनं तथा ।
एवं वदति देवेशे हनूमानतिकंपितः २७८।
वेपमानसमस्तांगः स्तोतुमेव प्रचक्रमे ।
हनूमानुवाच-
नमो देवाय महते शंकरायामितात्मने २७९।
योगिने योगधात्रे च योगिनां गुरवे नमः ।
योगिगम्याय देवाय ज्ञानिनां पतये नमः २८०।
वेदानां पतये तुभ्यं देवानां पतये नमः ।
ध्यानायध्यनगम्याय धातॄणां गुरवे नमः २८१।
शिष्टायशिष्टगम्याय भूम्यादि पतये नमः ।
नमस्तेत्यादिना वेदवाक्यानां निधये नमः २८२।
आतनुष्वेतिवाक्यैश्च प्रतिपाद्याय ते नमः ।
अष्टमूर्ते नमस्तुभ्यं पशूनांपतये नमः २८३।
त्र्यंबकाय त्रिनेत्राय सोमसूर्याग्निलोचन ।
सुभृंगराजधत्तूरद्रोणपुष्पप्रियाय ते २८४।
बृहतीपूगपुंनाग चंपकादिप्रियाय च ।
नमस्तेस्तु नमस्तेस्तु भूय एव नमोनमः २८५।
शिवो हरिमथ प्राह मा भैषीर्वद मेऽखिलम् ।
हनुमानुवाच-
शिवलिगार्चनं कार्यं भस्मोद्धूलितदेहिना २८६।
दिवासंपादितैस्तोयैः पुष्पाद्यैरपि तादृशैः ।
देव विज्ञापयिष्यामि शिवपूजाविधिं शुभम् २८७।
सायंकाले तु संप्राप्ते अशिरः स्नानमाचरेत् ।
क्षालितं वसनं शुष्कं धृत्वाचम्य द्विरग्रधीः २८८।
अथ भस्म समादाय आग्नेयं स्नानमाचरेत् ।
प्रणवेन समामंत्र्याप्यष्टवारमथापि वा २८९।
पंचाक्षरेण मंत्रेण नाम्ना वा येनकेनचित् ।
सप्ताभिमंत्रितं भस्म दर्भपाणिः समाहरेत् २९०।
ईशानः सर्वविद्यानामुक्त्वा शिरसि पातयेत् ।
तत्पुरुषाय विद्महे मुखे भस्म प्रसेचयेत् २९१।
अघोरेभ्योऽथ घोरेभ्यो भस्म वक्षसि निक्षिपेत् ।
वामदेवाय नम इति गुह्यस्थाने विनिक्षिपेत् २९२।
सद्योजातं प्रपद्यामि निक्षिपेदथ पादयोः ।
उद्धूलयेत्समस्तांगे प्रणवेन विचक्षणः २९३।
त्रैवर्णिकानामुदितः स्नानादिविधिरुत्तमः ।
शूद्रादीनां प्रवक्ष्यामि यदुक्तं गुरुणा तथा २९४।
शिवेति पदमुच्चार्य भस्मसंमंत्रयेत्सुधीः ।
सप्तवारमथादाय शिवायेति शिरः क्षिपेत् २९५।
शंकराय मुखे प्रोक्तं सर्वज्ञाय हृदि क्षिपेत् ।
स्थाणवे नम इत्युक्त्वा गुह्ये चापि स्वयंभुवे २९८।
उच्चार्य पादयोः क्षिप्त्वा भस्मशुद्धमतः परम् ।
नमः शिवायेत्युच्चार्य सर्वांगोद्धूलनं स्मृतम् २९७।
प्रक्षाल्य हस्तावाचम्य दर्भपाणिः समाहितः ।
दर्भाभावे सुवर्णं स्यात्तदभावे गवालकः २९८।
तदभावे तु दूर्वाः स्युस्तदभावे तु राजतम् ।
संध्योपास्तिं जपं देव्याः कृत्वा देवगृहं व्रजेत् २९९।
देववेदिमथो वापि कल्पितं स्थंडिलं तु वा ।
मृण्मयं कल्पितं शुद्धं पद्मादिरचनायुतम् ३००।
चातुर्वर्णक रंगैश्च श्वेतेनैकेन वा पुनः ।
विचित्राणि च पद्मानि स्वस्तिकादि तथैव च ३०१।
उत्पलादि गदा शंख त्रिशूलं डमरुं तथा ।
सरोक्तपंचप्रासादं शिवलिंगमथैव च ३०२।
सर्वकामफलं वृक्षं कुलकं कोलकं तथा ।
षट्कोणंचत्रिकोणंचनवकोणमथापिवा ३०३।
कोणद्वादशकांदोलां पादुकाव्यजनानि च ।
चामरच्छत्रयुगलं विष्णुब्रह्मादिकं तथा ३०४।
चूर्णैर्विरचयेद्वेद्यां धीमान्देवालयेऽपि वा ।
यत्रापि देवपूजा स्यात्तत्रैवं कल्पयेद्बुधः ३०५।
स्वहस्तरचितं मुख्यं क्रीतं चैव तु मध्यमम् ।
याचितं तु कनिष्ठं स्याद्बलात्कारमथाधमम् ३०६।
अर्हेषु यत्त्वनर्हेषु बलात्कारात्तु निष्फलम् ।
रक्तशालि जपा स्थाण कलमासित रक्तकैः ३०७।
तंदुलैर्व्रीहिमात्रोत्थैः कर्णैश्चैव यथाक्रमम् ।
उत्तमैर्मध्यमैश्चैव कथितैरधमैस्तथा ३०८।
पद्मादिस्थापनैरेव तत्सम्यग्यागमाचरेत् ।
प्रागुत्तरमुखो वापि यदि वा प्राङ्मुखो भवेत् ३०९।
आसनं च प्रवक्ष्यामि यथादृष्टं यथाश्रुतम् ।
कौशं चार्म्मं चैलतुल्यं दारवं ताडपत्रकम् ३१०।
कांबलं कांचनं चैव राजतं ताम्रमेव च ।
गोकरीषार्कजैर्वापि आसनं परिकल्पयेत् ३११।
वैयाघ्रं रौरवं चैव हारिणं मार्गमेव च ।
चार्मं चतुर्विधं ज्ञेयमथ बंधुकमेव च ३१२।
यथासंभवमेतेषु ह्यासनं परिकल्पयेत् ।
कृतपद्मासनो वापि स्वास्तिकासन एव च ३१३।
दर्भभस्मसमासीनः प्राणानायम्य वाग्यतः ।
तावत्स देवतारूपो ध्यानं चान्तः समाचरेत् ३१४।
शिखांते द्वादशांगुल्ये स्थितं सूक्ष्मतनुं शिवम् ।
अंतश्चरंतं भूतेषु गुहायां विश्वमूर्तिषु ३१५।
सर्वाभरणसंयुक्तमणिमादि गुणान्वितम् ।
ध्यात्वा तं धारयेच्चित्ते तद्व्याप्त्या पूरयेत्तनूम् ३१६।
तया दीप्त्या शरीरस्थं पापं नाशमुपागतम् ।
स्वर्णं पारदसंपर्काद्रक्तं श्वेतं यथा भवेत् ३१७।
तद्द्वादशदलावृत्तमष्टपंचत्रिरेव वा ।
परिकल्प्यासनं शुद्धं तत्र लिंगं निधाय च ३१८।
गुहास्थितं महेशानं लिंगे संचिंतयेत्तथा ।
शोधिते कलशे तोयं शोधितं गंधवासितम् ३१९।
सुगंधपुष्पं निक्षिप्य प्रणवेनाभिमंत्रितम् ।
प्राणायामश्च प्रणवः शूद्रेषु न विधीयते ३२०।
प्राणायामपदे ध्यानं शिवेत्योङ्कारमंत्रणम् ।
गंधपुष्पाक्षतादीनि पूजाद्रव्याणि यानि च ३२१।
तानि स्थाप्य समीपे तु ततः संकल्पयिष्यते ।
शिवपूजां करिष्यामि शिवतुष्ट्यर्थमेव च ३२२।
इति संकल्पयित्वा तु तत आवाहनादिकम् ।
कृत्वा तु स्नानपर्यंतं ततः स्नानं प्रकल्पयेत् ३२३।
नमस्तेत्यादिमंत्रेण शतरुद्रियविधानतः ।
अविच्छिन्ना तु या धारा मुक्तिधारेति कीर्तिता ३२४।
तया यः स्नापयेन्मासं जपन्रुद्रमुपांशु वा ।
एकवारं त्रिवारं च पंच सप्त नवापि वा ३२५।
एकादशमथो वारमथैकादशचान्वितम् ।
मुक्तिस्नानमिदं ज्ञेयं मासं मोक्षप्रदायकम् ३२६।
शैवया विद्यया स्नानं केवलं प्रणवेन च ।
मृण्मयैर्नालिकेरस्य शकलैश्चोर्मिभिस्तथा ३२७।
कांस्येन मुक्ता भुक्त्या च पुष्पादिक सरेणवा ।
स्नापयेद्देवदेवेशं यथासंभवमीरितैः ३२८।
शृंगस्य च विधिं वक्ष्ये स्नानयोग्यं यथा भवेत् ।
पूर्वमंतस्तु संशोध्य बहिरंतस्तु शोधयेत् ३२९।
सुस्निग्धं लघुकृत्वाथ नागं छिंद्यात्कथंचन ।
नीचैकदेशविन्यस्तद्वारद्रोण्या सुवृत्तयोः ३३०।
कुशानुयुतया स्नानं देवाय परिकल्पयेत् ।
एवं गवयशृंगस्य जलमूर्तिरथोच्यते ३३१।
द्वारे निषिद्धलोहार्द्धं संधिद्वारा समन्विते ।
योगवक्त्रं नागदंडं नागाकारं प्रकल्पयेत् ३३२।
फलस्थाने तु चषकं दंडेन समरंध्रकम् ।
तत्रैव पातयेत्तोयमूर्द्ध्वयंत्रघटे स्थितम् ३३३।
पातयेदथ चान्येन वामेनैव करेण वा ।
मुक्तिधाराकृता तेन पवित्रं पापनाशनम् ३३४।
एवं संस्थाप्य देवेशं पंचगव्यैस्तथैव च ।
पंचामृतैरथ स्नाप्य मधुरत्रितयेन च ३३५।
विभूष्य भूषकैर्देवं पुनः स्नाप्य महेश्वरम् ।
शीतोपचारं कृत्वाथ तत आचमनादिकम् ३३६।
वस्त्रं तथोपवीतं च पंचगंधकमेव च ।
कर्पूरमरुवं चापि पाटीरमथ वा भवेत् ३३७।
उभयं मिश्रितं वापि शिवलिंगं प्रपूजयेत् ।
कृत्स्नपीठं गंधपूर्णं यद्वा विभवसारतः ३३८।
तूष्णीमथोपचारं वा कालियं पुष्पमर्पयेत् ।
श्रीपत्रमरुचित्याजं यथाशक्त्याखिलं यथा ३३९।
अनेकद्रव्यधूपं च गुग्गुलं केवलं तथा ।
कपिलाघृतसंयुक्तं सर्वधूपाय शस्यते ३४०।
धूपं दत्वा यथाशक्ति कपिलाघृतदीपकान् ।
अथवाप्याज्यमात्रेण दीपान्दत्वोपहारकम् ३४१।
यथाशक्त्युपपन्नं च दत्वा पुष्पसमन्वितम् ।
मुखशुद्धिं ततो दत्वा दत्वा तांबूलमादरात् ३४२।
प्रदक्षिणनमस्कारौ पूजैवं हि समाप्यते ।
गीतांगपंचकं पश्चात्तानि विज्ञापयामि ते ३४३।
गीतं वाद्यं पुराणं च नृत्यं हासोक्तिरेव च ।
नीराजनं च पुष्पाणामंजलिश्चाखिलार्पणम् ३४४।
क्षमा चोद्वासनं चैव कीर्तितं चोपचारकम् ।
भूषणं च तथा छत्रं चामरं व्यजनं तथा ३४५।
शिवोपवीतं कैङ्कर्यं षडीशानोपचारकम् ।
द्वात्रिंशदुपचारैस्तु यः समाराधयेच्छिवम् ३४६।
एकेनाह्ना समस्तानां पापानां नाशनं ध्रुवम् ।
द्वात्रिंशदुपचारं स्यात्पूजनं तूत्तमोत्तमम् ३४७।
सदाशिव उवाच-
एवमेतत्कपिश्रेष्ठ तव पूजां वदाम्यहम् ।
मत्पादयुगलं पूज्य सर्वपूजाकरो भव ३४८।
आराध्येत्थं यथालिंगे तन्ममाराधनं कुरु ।
हनूमानुवाच-
गुरुणा लिंगपूजैव नियता कल्पिता मम ३४९।
तां करोमि पुरा देव पश्चात्त्वत्पादपूजनम् ।
इत्युक्त्वैव नमस्येशं शिवलिगार्चनेऽभवत् ३५०।
सरस्तीरमथो गत्वा कृत्वा सैकतवेदिकाम् ।
तालपत्रैर्विरचितमासनं परिकल्पयेत् ३५१।
प्रक्षाल्य पादहस्तौ तु समाचम्य समाहितः ।
भस्मस्नानमथो चक्रे पुनराचम्य वाग्यतः ३५२।
देववेद्यामथो चक्रे पद्मानि सुमनोहरम् ।
अनंतरं तालपत्रं पद्मासनगतः कपिः ३५३।
प्राणानायम्य सन्यासं शुक्लध्यानसमन्वितः ।
प्रणम्य गुरुमीशानं जपन्नासीदतः परम् ३५४।
अथ देवार्चनं कर्तुं यत्नमास्थितवानपि ।
पलाशपत्रपुटकद्वयानीत जलं शुचि ३५५।
शिरःकमंडलुगतं निधायाग्निं त्रिमंत्रितम् ।
आवाहनादि कृत्वाथ स्नानपर्यन्तमेव च ३५६।
अथ स्नापयितुं देवमादाय करसंपुटे ।
कृत्वा निरीक्षणं देवं पीठं नो दृष्टवान्कपिः ३५७।
लिंगमात्रं करगतं दृष्ट्वा भीतिसमन्वितः ।
इदमाह महायोगी किं वा पापं मया कृतम् ३५८।
यदेतत्पीठरहितं शिवलिंगं करस्थितम् ।
ममाद्य मरणं सिद्धं पीठं चेन्नागमिष्यति ३५९।
अथ रुद्रं जपिष्यामि तदायाति महेश्वरः ।
इति निश्चित्य मनसा जजाप शतरुद्रियम् ३६०।
अथापि न समायातो महेशोऽथ कपीश्वरः ।
रुद्रं न्यपातयद्भूम्यां वीरभद्रः समागतः ३६१।
किमर्थं रुद्यते भक्त रुदिहेतुं वदस्व मे ।
हनूमानुवाच-
पीठहीनमिदं लिंगं पश्य मे पापसंचयम् ३६२।
वीरभद्र उवाच-
यदि नायाति पीठं ते लिंगे मा साहसं कृथाः ।
दाहयिष्याम्यहं लोकं यदि नायाति पीठकम् ३६३।
पश्य दर्शय मे लिंगं पीठं यद्यागतं न वा ।
अथ दृष्ट्वा वीरभद्रो लिंगं पीठमनागतम् ३६४।
दग्धुकामोऽखिलाँल्लोकान्वीरभद्रः प्रतापवान् ।
अनलं भुवि चिक्षेप क्षणाद्दग्धा मही तदा ३६५।
अथ सप्ततलान्दग्ध्वा पुनरूर्द्ध्वमवर्तत ।
पंचोर्द्ध्वलोकानदहज्जनलोकनिवासिनः ३६६।
ललाटनेत्रसंभूतं नखेनादाय चानलम् ।
जंबीरफलसंकाशं कृत्वा करतले विभुः ३६७।
यदि नायाति पीठं ते दग्धा लोका न संशयः ।
अनायातमथो दृष्ट्वा वीरभद्रः प्रतापवान् ३६८।
सनकादयो महात्मानो ज्ञात्वा योगेन चागमन् ।
गौतमस्याश्रमवरं समागम्य महेश्वरम् ३६९।
न दृष्टवंतो देवादिं विद्यमानमपि द्विजाः ।
अस्तुवन्नथ च स्तोत्रैः सर्ववेदसमुद्भवैः ३७०।
ॐनमो देवदेवाय तस्मै शुद्धप्रभाचिंत्यरूपाय तस्मै ।
नमः सुराणामधीशाय तस्मै नमो वेदगुह्याय शुद्धाय तस्मै ३७१।
नमः शिवायादिदेवाय तस्मै नमो व्यालयज्ञोपवीताय तस्मै ।
नमः सुरानंदसंदोह वर्षत्रयी बिंदुविश्वंभराय तस्मै ३७२।
पृथिव्यथो वायुराकाशमापः पुनः शशी वह्निसूर्य्यौ तथात्मा ।
यस्याष्टैता मूर्तयः शंकरस्य तस्मै नमो ज्ञानगम्याय शश्वत् ३७३।
एतां स्तुतिमथाकर्ण्य भगनेत्रप्रदः शिवः ।
विष्णुमाह च गच्छ त्वं समानय च तान्द्विजान् ३७४।
आनीतास्तेन हरिणा देवाय प्रणतास्तु ते ।
तानाह शंकरो वाक्यं किमर्थं यूयमागताः ३७५।
मुनय ऊचुः -
देव द्वादशलोकानां दृश्यंते भस्मराशयः ।
स्थितमेकं वनमिदं पश्य त्वं लोकसंक्षयम् ३७६।
सदाशिव उवाच-
ऊर्द्ध्वस्थपंचलोकानां दाहे संदेह एव नः ।
कथमंगारवृष्टिश्च कथं नो वा महाध्वनिः ३७७।
मुनय ऊचुः -
भीतिरस्माकमधुना वर्तते वीरभद्रतः ।
स एवांगारवृष्टिं च पिपासुरिव तामपात् ३७८।
देवोथ वीरमाहूय किं वीरेत्यब्रवीद्भवः ।
वीरो हनूमतो लिंगपीठाभावादिदं कृतम् ३७९।
कपेश्चित्तं परिज्ञातुं मया कृतमिदं बृहत् ।
कृपानिधिरथो देवो यथापूर्वमकल्पयत् ३८०।
दग्धानप्यखिलाँल्लोकान्पूर्वतः शोभनान्विभुः ।
कल्पयामास विश्वात्मा वीरभद्रमथाब्रवीत् ३८१।
आलिंग्याघ्राय शिरसि तांबूलं दत्तवान्हरः ।
अथासौ हनुमानीश पूजनं कृतवानथ ३८२।
एकं वनचरं तत्र गंधर्वं सविपंचिकम् ।
इदमाह महावीणा मम वै दीयतामिति ३८३।
गंधर्वो न मया त्याज्या वीणा प्राणसमा मम ।
ममापि प्राणसदृशी वीणेत्याह कपीश्वरः ३८४।
अथ मुष्टिनिपातेन गंधर्वे पतिते कपिः ।
आदाय वीणां महतीं स्वरतंतुसमन्विताम् ३८५।
अलाबुसंयुतां कृत्वा राजवृक्षफलाकृतिम् ।
तस्योरसि विनिक्षिप्य गायन्नागाच्छिवांतिकम् ३८६।
बृहतीकुसुमैः शुद्धैर्देवपादावपूजयत् ।
तस्मै वरमथ प्रादादाकल्पं जीवितं पुनः ३८७।
समुद्रलंघने शक्तिं वरं प्रादादथापरम् ३८८।
समस्तभूषासुविभूषितांगः स्वदीप्तिमंदीकृतदेवदीप्तिः ।
प्रसन्नमूर्तिस्तरुणः शिवाङ्गकः संभावयामास समस्तदेवान् ३८९।
पीतमुद्गमनीयं च समादाय महेश्वरः ।
पीतवस्त्रमिदं देव त्वं गृहाण हरे शुभम् ३९०।
ब्रह्मणे रक्तवसनं सर्वेषां वसुदस्तथा ।
देवर्षिदानवादीनां दत्तवान्वसुयुग्मकम् ३९१।
रामोपि चैतदाकर्ण्य शंभवे युग्ममर्पयत् ।
सुसूक्ष्मं बहुमूल्यं च स्वर्णभूषणमेव च ३९२।
अथ भुक्त्वा सुखासीनः सामात्यः सपुरोहितः ।
नानामुनिगणैर्भूपैर्वानरैर्गौतमी तटे ३९३।
शंभुं पुराणतत्त्वज्ञं राघवो वाक्यमब्रवीत् ।
त्वमेव सर्वं जानीषे सर्वधर्मगुहाशयम् ३९४।
कस्मिन्कस्मिन्युगे ब्रह्मन्किंविशिष्टं वदस्व मे ।
शंभुरुवाच-
ध्यानमेव कृते श्रेष्ठं त्रेतायां यज्ञ एव च ३९५।
द्वापरे चार्चनं तिष्ये दानं च हरिकीर्तनम् ।
सर्वं च शस्तं सर्वत्र ध्यानं न च कलौ युगे ३९६।
नराणां मुग्धचित्तत्वात्कृच्छ्रस्थानां विशांपते ।
न धर्मे नियताबुद्धिर्न वेदे नैव च स्मृतौ ३९७।
न क्रतौ न स्वधाकारे पुराणानां च न श्रुतौ ।
न यज्ञेन च तीर्थेषु न च शुश्रूषणे सताम् ३९८।
नेज्यायां देवतानां च न स्वजातीयकर्म्मणि ।
न देवस्मरणेनापि न च क्वापि वृषे नृप ३९९।
अतश्च दीर्घकालानां पुण्यानामक्षमा नराः ।
दानं तु स्वल्पकालत्वात्कर्तुं शक्नोति मानवः ४००।
अतश्च कलिदुष्टानां प्रायश्चितं न विद्यते ।
केषांचित्पापनाशः स्यात्प्रायश्चित्तैस्तु नान्यथा ४०१।
ब्रह्मज्ञानी गयाश्राद्धी काशीगंता श्रुतौ रतः ।
पुराणज्ञावमाश्चैते श्रोता तस्य च राघव ४०२।
युगानामनुसारेण तथार्थस्य विवेचनात् ।
स्व पर प्रत्ययोत्पादात्परब्रह्मप्रकाशनात् ४०३।
पुराणवक्ता सर्वस्माद्ब्राह्मणस्तु विशिष्यते ।
तेनापि च कृतं पापं न सज्येत्किमुतान्यतः ४०४।
खण्डः ५ (पातालखण्डः) — Adhyāya 114 (part 2)
अन्येषामपि केषांचित्पुराणं पापनाशनम् ।
यः पुराणेषु विश्वासी वक्तारं मन्यते गुरुम् ४०५।
ब्रह्मविद्याप्रदातारं विशेषं ज्ञातिबंधुतः ।
तस्य पापानि सर्वाणि विलयं यान्त्यसंशयम् ४०६।
अथ श्रीशैलगमनं पूजकस्य महेशितुः ।
अतः कलौ मनुष्याणां पुराणं पापनाशनम् ४०७।
पुरा कलियुगे राम वृत्तं संकीर्तये शृणु ।
आसीत्तु गौतमो नाम ब्राह्मणो वेदवर्जितः ४०८।
तस्य पुष्टिः पशुश्चास्तां भ्रातरौ वेदवर्जितौ ।
ताभ्यां सह कृषिं चक्रे तत्र वृद्धिमवाप च ४०९।
धनधान्यादिकं किंचिद्राजानं दत्तवानथ ।
उवाच वचनं किंचिदधिकारं निरूपय ४१०।
अर्थं न गमयिष्यामि तौ शक्तौ भ्रातरौ मम ।
राजोवाच-
ब्राह्मणस्याधिकारो हि वैदिके धर्मकर्मणि ४११।
तदन्यत्र नियुक्तस्य ब्राह्मण्यं विप्रणश्यति ।
गौतम उवाच-
युगेष्वन्येषु धर्मोयं कलिधर्मो न तादृशः ४१२।
भूपति त्वं हि भूपाल नृपाणां धर्म उच्यते ।
ब्राह्मणश्च परिक्षीणस्तं कुर्वन्नैव दुष्यति ४१३।
शूद्राणां तु कृषिर्द्धर्मो नापद्यप्यग्रजन्मनः ।
तस्मात्क्षत्त्रेण वर्तिष्ये ग्रामान्मम समादिश ४१४।
अन्यत्र चात्र क्षत्त्रेण वर्तनं मम रोचते ।
अन्यन्न तु तथेत्युक्तो ददौ ग्रामान्द्विजन्मनः ४१५।
ग्रामाधिकारदुष्टस्य वर्तनं त्वन्यथाभवत् ।
अभक्षि मांसं चापायि सुरा चाभाषि दुर्वचः ४१६।
परयोषा तथा गामि परस्वं प्रत्यहारि च ।
अक्रीडि द्यूतमसकृत्कलंजं चादि दुर्भुजा ४१७।
नापूजि जगतामीशः शिवो वा विष्णुरेव वा ।
एवं कालेन दुर्वृत्तं राजा वाक्यमभाषत ४१८।
विप्र विप्रत्वमुत्सृज्य शूद्रत्वं प्राप्तवानसि ।
तस्मान्नियोगधर्मेण भवंतं भ्रंशयामि च ४१९।
मास्तु विप्रत्वमद्यैव शूद्रतैव वरं मम ।
तदृते यदि विप्रास्ते न भोक्ष्यंति वरं मम ४२०।
न हि सर्वमिदं त्यक्तुं शक्तोहं पृथिवीपते ।
शंभुरुवाच-
एवं वदति दुर्विप्रे राजा तूष्णीमतिष्ठत ४२१।
स तु वै शूद्रतुल्यश्च बुभुजेन्नं सहामिषम् ।
कदाचिदथ दुर्वृत्तः प्रतोलीमंडपस्थितः ४२२।
द्विजेन पठ्यमानं तु पद्यं तु श्रुतवानिदम् ।
हृदये पद्यमेतत्तु द्विजेरितमतिष्ठत ४२३।
परात्परतरं यांति नारायणपरायणाः ।
न ते तत्र गमिष्यंति ये द्विषंति महेश्वरम् ४२४।
व्याख्यानमपि च श्रुत्वा पौराणिकमभाषत ।
कीदृङ्नारायणः प्रोक्तः कीदृशोपि महेश्वरः ४२५।
किं परं त्वयनं प्रोक्तं द्वेषः कीदृगुदाहृतः ।
किं तत्परमिति ख्यातं ततः परतरं च किम् ४२६।
पौराणिक उवाच-
परं तद्ब्रह्मणः स्थानं सुखव्यक्तैकलक्षणम् ।
ततः परतरं विष्णोर्द्धाम तद्ब्रह्मणोधिकम् ४२७।
अविनाशितया तत्तु कीर्तितं परमं पदम् ।
तन्मध्ये पुरुषो विष्णुस्तदंग परमं विभुः ४२८।
आपो हि नरजन्मत्वान्नाराः प्रोक्ता मनीषिभिः ।
नाराश्चास्यायनं यस्मात्तेन नारायणः स्मृतः ४२९।
तत्परं वर्तनं येषां ते प्रोक्तास्तत्परायणाः ।
महदादीनि तत्वानि यानि तेषां य ईश्वरः ४३०।
सूर्याग्निशशिनेत्रोऽसौ महेशः स्यादुमापतिः ।
द्वेषो हि वैरं विज्ञेयमीश्वरे परमात्मनि ४३१।
शंभुरुवाच-
एवं पुराणभट्टेन समीरितमिदं वचः ।
चिंतयन्पुनरप्याह मादृशस्य कथं गतिः ४३२।
पौराणिकोऽथ तं प्राह शृणु वक्ष्यामि ते गतिम् ।
कुरु सर्वेण यत्नेन प्रायश्चित्तं यथाविधि ४३३।
धर्मं चर यथाशक्ति यथाकालं यथाविधि ।
विमुक्तपापः पश्चात्त्वमुत्तमां गतिमेष्यसि ४३४।
पुराणमथवा नित्यं शृणुष्वावहितश्च सन् ।
निराशो वा महेशानं पूजयस्व पिनाकिनम् ४३५।
देवं वा पुंडरीकाक्षं केशवं क्लेशनाशनम् ।
संन्यासमथवा नित्यं ब्रह्मज्ञानपरो भव ४३६।
अथवा गच्छ काशीशं मुक्तौ वा मृतिमाप्नुहि ।
गयां वा गच्छ तत्र त्वं श्राद्धं कर्तुं प्रयत्नतः ४३७।
अथवा सर्ववेदानां सारं पातकनाशनम् ।
रुद्रं रुद्रप्रियकरं जप प्रत्यहमादरात् ४३८।
श्रीशैलमथवा गच्छ केदारमथवेच्छया ।
अथवा प्रतिवर्षे तु माघस्नानं प्रवर्तय ४३९।
किमत्र बहुनोक्तेन धर्मभक्तः सदा भव ।
नैवं नरकवासस्ते भविता तु द्विजाधम ४४०।
गौतम उवाच-
श्रुत्वा सर्वं करिष्यामि पुराणं भवतो मुखात् ।
शास्त्रं विश्वासहेतुं च वर्जं चापि वदस्व मे ४४१।
पौराणिक उवाच-
वर्ज्यं मांसं सुराऽन्यस्त्री भोगो द्यूतं विकत्थनम् ।
पारुष्यमनृतं माया देवदेवविनिंदनम् ४४२।
गुरूणां सुरवृद्धानां पुराणस्मृतिभाषिणाम् ।
निंदनं श्वेतवृंताकं कृतकालाबुवर्तनम् ४४३।
बीजपूरं कुसुंभं च लोहितं शृंगमेव च ।
अररुं नालिकेरं च कूष्मांडकं तथैव च ४४४।
कोविदारफलं तैलपक्वं मानवजं पयः ।
वार्ध्रीणस खरी दुग्धं सूतिका क्षीरमाविकम् ४४५।
औष्ट्रमेकशफक्षीरं मार्गमाजं नृसंभवम् ।
विवत्सासंधिनीक्षीरं लवणं चैव योगि यत् ४४६।
नालिकेररसं कांस्ये ताम्रे मधु च सीसके ।
काचे तक्रं करंभांश्च घृताक्तान्नैव कारयेत् ४४७।
होमं तु मृण्मये पात्रे पुरोडाशं तु राजते ।
न सेवेत परं लोके शुभार्थी तु विचक्षणः ४४८।
पात्रांतश्चूर्णलेपोऽपि तत्र भक्षणमेव च ।
क्रमुकस्य तथा भक्षश्चूर्णपत्रस्य चैव हि ४४९।
क्रमुकस्यापि पक्वस्य भक्षणं क्रमियोगिनः ।
पायसे लवणं चैव केवलं च करार्पितम् ४५०।
सिंधुसौराष्ट्रकांबोजमागधेषु च सिंहले ।
न दोषाय भवेत्तत्र क्षीरं च लवणान्वितम् ४५१।
क्षीराणि च समस्तानि लवणानि च योगतः ।
देशेष्वन्येषु दोषाय पाने चैवेह संशयः ४५२।
किमत्र बहुनोक्तेन सद्भिर्निंद्यं विवर्जयेत् ।
शंभुरुवाच-
एवं तस्य वचः श्रुत्वा ब्राह्मणस्य महात्मनः ४५३।
स्वमेव भवनं गत्वा चिंतयामास दुःखितः ।
रात्रौ मृत्युर्दिवा चेति न जानाति महानपि ४५४।
परलोके सुखं दुःखमिह भोगविनोदनम् ।
क्रिमिकीटमनुष्याद्यैः सुख दुःखैः पृथक्पृथक् ४५५।
प्रतिजीवंतु हेतूनां भेदोऽपि सुविनिश्चयः ।
एकस्यापि हि जीवस्य नास्ति चैकविधा स्थितिः ४५६।
जन्मकाले महाऽज्ञानं शैशवेत्यल्पबोधनम् ।
स्खलत्पदेल्पविज्ञानं बाल्ये चाल्पं तथैव च ४५७।
कौमारे क्रीडनरतिर्यौवने विषयोषितम् ।
यौवने विनिवृत्ते तु द्रव्यसंपादनेषणा ४५८।
वार्द्धके भोगलिप्सा च न भोक्तुं क्षमतेपि च ।
दूषिका श्लेष्मलालाभिर्वलीपलितकंपनैः ४५९।
श्वासकासानिलाक्षिप्तैर्हृषीकैर्विकलैर्युतः ।
किंचिद्धर्तुं न शक्नोति न च जानाति किंचन ४६०।
तिष्ठंतीषु परस्त्रीषु गुह्यस्थानं प्रदर्शयेत् ।
कोशकंडूयनपरः क्रूरो जीवितलक्षणैः ४६१।
कंडूयते स्फिचौ वस्त्रमुद्धृत्य च विचालयन् ।
भुंजानः श्लेष्मणा ग्रासं ग्रसितुं न च शक्नुयात् ४६२।
यदा कासस्तदा जज्ञे पायुवायुश्च शब्दवान् ।
निःसृतिश्च मलस्यापि श्लेष्मनिर्गम एव च ४६३।
स्नुषादिभर्त्सनं बाल तालहास्यनिदर्शनम् ।
गुरुनिर्गमनादीनि संचिंत्य च पुनः पुनः ४६४।
आहूतो भोजनाद्यर्थं भोज्यान्नादि विनिंदयन् ।
चिरमुष्णं च निर्भर्त्स्य पुनश्चिंतामवाप सः ४६५।
अतिदुष्कृतिकर्म्माहं कथं भोक्ष्ये कथं स्वपे ।
कथं तिष्ठे कथं गच्छे परलोकः कथं भवेत् ४६६।
इति चिंताकुलो नित्यं न नमत्यपरान्वितः ।
द्विजस्य सदनं गत्वा पुराणज्ञस्य राघव ४६७।
लज्जावाक्कृतवक्त्रश्च किंकरोमीत्यभाषत ।
न किंचिदप्युवाचासौ द्विजः पौराणिकस्तदा ४६८।
पापोयमिति विज्ञाय शिष्येण निरगामयत् ।
गौतमोपि विनिर्गम्य द्वार्येव च बहिः स्थितः ४६९।
भुव्यासीनं तु विज्ञाय पुराणार्थविचारकम् ।
कथं कथमपि प्राप्य पीठं दत्तं च नाभजत् ४७०।
निषण्णो भूतले राम पुराणज्ञमभाषत ।
प्रायश्चित्तं करिष्यामि तदत्रैव विधीयताम् ४७१।
ब्राह्मण उवाच-
पापानि कीर्तयस्व त्वं सर्वथैव कृतानि तु ।
स चापि नाऽकृतं किंचिन्मया पापमितीरयन् ४७२।
रुदन्पपात भूम्यां च कथं तातेति पीडितः ।
ब्राह्मणस्तमथ प्राह प्रायश्चित्तं न विद्यते ४७३।
महापापं त्रिरावृत्ते पुनश्च यदि चेत्कृतम् ।
गौतम उवाच-
पौराणिक महाभाग प्राप्यापि त्वामहं कथम् ४७४।
पापयुक्तो द्विजश्रेष्ठ संगतिर्विफला भवेत् ।
पौराणिक उवाच-
शास्त्रं प्रमाणं सर्वेषां प्रायश्चित्तविनिर्णये ४७५।
तद्विना यो हि तं ब्रूयात्प्रायाश्चित्तं न तद्भवेत् ।
सकृत्कृते सकृत्प्रोक्तं द्वितीये द्विगुणं भवेत् ४७६।
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ।
त्वया कृतं तु बहुधा चतुर्विधमपीच्छया ४७७।
कथं वक्तुमहं शक्तः प्रायश्चित्तं भवादृशे ।
गौतमोऽपि पुनः प्राह क्व गंतव्यं मयेति च ।
उपवासत्रयं कृत्वा शिवरात्रिमविंदत ४८०।
चतुर्थमुपवासं च चकारातीव दुःखितः ।
पारणं चाप्यमायां स कृतवान्फलवल्कलैः ४८१।
अथ प्रदक्षिणं चक्रे श्रीशैलस्य च स द्विजः ।
गतवान्मंदिरं पश्चाच्चिंतयातिकृशः श्वसन् ४८२।
कथं पापनिवृत्तिर्मे तूष्णींभूतस्य सेत्स्यति ।
अनंतमविचार्यं किं पापं च सुमहत्तरम् ४८३।
श्रुत्वा न कोपि मे ब्रूयात्प्रायश्चित्तं विधीयताम् ।
किंतु कस्मिन्पुराणे तु श्रुते ज्ञातं भविष्यति ४८४।
इति कृत्वा मतिं सोथ पुराणज्ञमभाषत ।
पुराणमेकं मे तात व्याख्यातु भगवानिति ४८५।
जातकर्मादिसंस्कारान्कारयस्व ममाशु वै ।
द्विजो भूत्वा शृणोम्यद्य प्रायश्चित्तं करोम्यतः ४८६।
विधायकं पुराणं मे भविष्यति च कीर्तितम् ।
अतः शक्यं करिष्यामि पुराणार्थं विनिश्चयन् ४८७।
पौराणिक उवाच-
यथावत्कीर्तयिष्यामि पुराणं पापनाशनम् ।
यथाज्ञानं यथाशक्ति यथाशुद्धं यथाविधि ४८८।
किं वांच्छसि पुराणं तु कीर्तयिष्ये तदेव तु ।
गौतम उवाच-
सर्वं रुचि पुराणं मे वक्तव्यं किं हितं वद ४८९।
श्रुते यस्मिन्भिदा नैव जायते तु हरीशयोः ।
पौराणिक उवाच-
कौर्मोक्तं यत्पुराणं तद्देवयोरभिदाभिधम् ४९०।
शृणोति यस्तत्प्रथमं तस्य पापं विनश्यति ।
तस्य वक्ता तु यो विप्रस्तस्य विघ्नांतरं भवेत् ४९१।
श्रोतव्यं मन्यते पापो यदि भार्या विनश्यति ।
किंचैकं दुष्करं वक्ष्ये श्रोतुर्वक्तुरनिंदकम् ४९२।
व्याख्यातरि यदि प्रीतिर्द्धर्मादेव प्रकाशिनी ।
आचारदर्शने पुण्ये कर्ममोक्षादिदर्शके ४९३।
तदा तुष्टो महेशः स्याद्विष्णुरिष्टफलप्रदः ।
पितरस्तारितास्तेन यांति ते परमां गतिम् ४९४।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे चतुर्दशोत्तरशततमोऽध्यायः ११४।
खण्डः ५ (पातालखण्डः) — Adhyāya 115
श्रीराम उवाच-
कथं पातकसंघात संक्रमे ब्राह्मणाधमे ।
पुराणज्ञः कथं व्याख्यां चकार द्विजसत्तम १।
शंभुरुवाच-
अध्यापने चाध्ययने जायते चाथ संगमः ।
संगतौ वत्सरं राम याति पातकि पातकम् २।
पुराणज्ञे तु काकुत्स्थ सर्वतत्वार्थवेदिनि ।
अपिपातकसंदोह चीर्णपापं प्रणश्यति ३।
प्रभूतवह्निनाशे हि धूमराशिर्यथैव हि ।
शलभो दीपनाशाय वह्निनाशाय न प्रभुः ४।
कृतं पापं तथान्येषां नाशनाय पुराणिकः ।
भूतादिग्रस्तमर्त्यानां भूतादि भयमोचकः ५।
समंत्रवानपनयेद्यथा न स्वयमातुरः ।
पौराणिकस्तथा पापं न किंचित्प्राप्तुमर्हति ६।
आत्मना च कृतं पापमन्यैरपि च यत्कृतम् ।
पुराणज्ञो नाशयति त्वतिदुष्टं स्वकर्म्म वा ७।
भवानीशे हृषीकेशे समवृत्तिर्विवेकवान् ।
लोकवेदक्रियावेत्ता रुद्रजाप्यतिनिःस्पृहः ८।
तुष्टः शांतः क्रियादक्षः प्रभूतो योगकृद्वशी ।
यथैव ते पुराणज्ञो वसिष्ठो भगवानृषिः ९।
नियोगात्तव भूपाल अयोध्यायामतिष्ठत ।
अपालयद्भुवं कृत्स्नां त्वां च रक्षः समापतत् १०।
स च शुक्रोपदेशेन राक्षसस्त्वामथाभ्यगात् ।
निद्रासक्तं हनिष्यामि नान्यथावसरस्त्विति ११।
अथ विप्रो विदित्वैतद्वसिष्ठस्त्वद्धितप्रियः ।
सुप्तं प्रमत्तं काकुत्स्थं रक्षो हंति न संशयः १२।
ब्रह्मावाप्तवरं तद्धि मया कार्यं निवारणम् ।
इति संचिंत्य विप्रर्षिः सेनामादाय निर्गतः १३।
रक्षो हंतुमशक्तस्तु मृत्युहीनं ततो मुनिः ।
स्वयं च राक्षसो भूत्वा वाक्यमाह महामुनिः १४।
किमर्थमागतोसीह वनं मुनिनिषेवितम् ।
स आह राजा रक्षोघ्नस्तमहं हंतुमागतः १५।
मुनिरप्याह किं तेन जीवितेन मृतेन वा ।
भुक्त्वामिषं मदीयं तु युद्धं कृत्वा जयं व्रज १६।
राक्षस उवाच-
कथं त्वं राक्षसो मह्यं भक्षणाय भविष्यसि ।
वसिष्ठोऽप्यथ मानुष्यमास्थाय वियति स्थितः १७।
निष्ठीव्य मस्तके तस्य मुष्टिना तमताडयत् ।
ताडितो राक्षसस्तेन व्यद्रावयदृषिश्च तम् १८।
पलायमानावन्योन्यं जलधिं तु गतावुभौ ।
तत्रस्थेन ग्रहेणासौ गृहीतो राक्षसस्तदा १९।
मुनिः पुनरयोध्यायां पूर्ववत्समतिष्ठत ।
शंभुरुवाच-
तस्मात्स्वाभिमतं कुर्यात्पुराणज्ञो विमत्सरः २०।
श्रवणस्य विधानं च कथयामि शुभं शृणु ।
शुक्लपक्षे दिने शुद्धे वारनक्षत्रयोगतः २१।
करणे चापि लग्ने च ग्रहताराबलान्विते ।
अमूढेन ग्रहे बाले न च वृद्धौ गुरौस्थिते २२।
न कृष्णपक्षे ग्रहणे न च नास्तिकसंनिधौ ।
पूर्वोक्तलक्षणोपेतं पुराणं शृणुयादिति २३।
शुद्धगेहेऽथवा शुद्धवेदिकायां मठेथ वा ।
नदीतीरे देवगेहे सभामंडप एव च २४।
रथ्या मठेथ वा रम्ये पुण्यशालासु राघव ।
स्वयं नमस्य विप्रेंद्रान्पुराणज्ञं विशेषतः २५।
आसनं कल्पितं कुर्य्यादूर्ध्वं सर्वविशेषितम् ।
एहि धर्म्मासनमिति वक्तव्यं स्यादनिष्ठुरम् २६।
पुराणप्रक्रमदिने यत्कार्यं तदुदीरयेत् ।
व्याख्यातारं पुराणस्य वस्त्राद्यैः परिपूजयेत् २७।
शुभानि दत्वा वस्त्राणि सूक्ष्माणि च नवानि च ।
करकंठविभूषादि पात्रमासनमेव च २८।
गंधपुष्पाक्षतैः पूज्य तांबूलं विनिवेद्य च ।
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् २९।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ।
सभासदश्च संपूज्य गणेशं प्रार्थयेत्ततः ३०।
ॐनमेत्यादि मंत्रेण पूजनं भारती नुतिः ।
प्रातःकाले पुराणस्य प्रक्रमं प्रारभेदिति ३१।
उपक्रमदिने राम त्रिपंचदश वा शुभाः ।
श्लोका द्वितीये दिवसे ततो द्विगुणिताः शुभाः ३२।
तृतीये दिवसे राम ततश्चाधिकमिष्यते ।
दिनानामव्यवच्छेदाद्व्याख्यानं श्रवणं तथा ३३।
व्यवस्थितिर्यदा जाता तदा पौराणिकं गुरुम् ।
तांबूलादिप्रदायाथ परेद्युः शृणुयादपि ३४।
पुराणमेवं श्रोतव्यं दैनंदिनमिति श्रुतिः ।
व्रतरूपेण यः कश्चित्पुराणं शृणुयान्नरः ३५।
यदैवं तत्पुराणं तु तत्र याति न संशयः ।
पुराणं श्रोतुकामेन श्लोकश्चैकोपि चेच्छ्रुतः ३६।
तद्दिने तु कृतं पापं नाशयेत्तु न संशयः ३७।
एवं पुराणं शृणुयाच्च यस्तु स ब्रह्महत्याकृतपापबंधात् ।
सुरापीतिः स्वर्णहरश्च राम गुर्वंगनागश्च विमुक्तिमेति ३८।
पापानि चान्यानि कृतानि पुंभिः सर्वाणि नश्यंति पुराकृतानि ।
इहापि यान्यब्दशतार्जितानि श्रोतुर्विनश्यंति तथा च वक्तुः ३९।
कलौ समस्तविप्राणां सर्वज्ञत्वं न विद्यते ।
विगुणापि ततो व्याख्या फलदा दानकर्मवत् ४०।
पुराणानामभिप्रायं व्यासो वेद न चापरः ।
अहं वेद्मि विशेषेण व्यासादपि विधेरपि ४१।
न स्वाध्यायस्तपो वापि न मंत्रो न जुहोतयः ।
फलंति न तथा तिष्ये पुराणश्रवणं यथा ४२।
एकैकश्रवणादेव पातकं महदेव तु ।
नाशमाप्नोत्यसंदेहः श्रीशैले वर्तनादिव ४३।
अतो गुरुः पुराणज्ञः श्रोतृवंद्योऽघनाशनः ।
न तस्मादधिकः कश्चिद्गुरुरस्ति गतिप्रदः ४४।
मंत्रेषु गुरवो ये च वेदशास्त्रेषु ये मताः ।
नेशते सर्वविज्ञानं दातुं तस्मान्न बोधकाः ४५।
पिशाचाः प्रायशो राम ब्रह्मराक्षसनामिनः ।
वेदमंत्रस्य वेत्तारो दृश्यंते न पुराणवित् ४६।
पुराणविमुखो नैव सर्वः सर्वं हि पश्यति ।
पुराणज्ञो हि तस्तस्मात्पापनाशकरः प्रभुः ४७।
तत्पूजा सर्वपूजा स्यात्सर्वद्रोहोऽस्य पीडनम् ।
यथा समस्तदानानां विद्यादानं प्रशस्यते ४८।
पौराणिकस्तथा धन्यस्तत्र दानं महत्फलम् ।
राम उवाच-।
किं वा पौराणिके देयं कियत्कीदृशमेव च ४९।
पुराणं कीदृशं वर्ज्यं वर्ज्यः कीदृक्पुराणवित् ।
शंभुरुवाच-
षड्रसानन्नपानानि स्नेहद्रव्याणि यानि च ५०।
गृहं सोपस्करं राम पुराणज्ञाय दापयेत् ।
पर्याप्तान्येव सर्वाणि अधिकानि फलाधिकात् ५१।
दद्याद्द्रव्यमतो भूयः सचैलं शोभितं मृदु ।
भूषणानि यथार्हाणि स्वशक्त्या प्रतिपादयेत् ५२।
गंधपुष्पं प्रतिदिनं केवलं गंधमेव च ।
केवलं च तथा पुष्पं फलकाले फलान्यपि ५३।
तांबूलं च तथा दद्यान्नमस्कुर्याच्च भक्तितः ।
पुराणस्य समाप्तौ तु दद्याद्दानादिकं तथा ५४।
अधिकं तु तथा देयं भूहिरण्यादिकं नृप ।
न च तूष्णीमुपक्रम्य श्रोतुमर्हति कश्चन ५५।
सभासद्भिः कृता चैव या पूजैकेन वा कृता ।
देवस्थाने यथाशक्ति सर्वैः पूजनमिष्यते ५६।
तीर्थेपि च यथा राम पुण्येष्वायतनेषु च ।
स्वशक्त्या पूजनं कुर्यात्पुराणज्ञाय राघव ५७।
श्रोतुस्तु लक्षणं पूर्वं मयोक्तं तु भवेन्नृप ।
पौराणिकस्य सर्वस्य लक्षणं कथयामि ते ५८।
कुलहीनो महाव्याधिर्महापापी तिरस्कृतः ।
शौचाचारविहीनश्च वेदस्मृतिविवर्जितः ५९।
अन्यदेवः पूतिवचो व्यंगश्चाप्यधिकांगवान् ।
परपूर्वापतिः स्तेनः प्राणिहंता निराकृतिः ६०।
अथ वर्ज्यं पुराणं ते कथयामि नृपोत्तम ।
पूर्वज्ञैरुच्यमानं च यत्प्रोक्तं मुनिभिः परैः ६१।
व्यासादयो मुनिवरा यत्प्रोचुस्तदुदीरयेत् ।
पुराणस्थं पठेद्ग्रन्थं व्याख्यायेत विचारयन् ६२।
यया कयापि वा राम भाषयादेशभाषतः ।
न देशभाषा रचितं ग्रंथं श्रुत्वा फलं लभेत् ६३।
व्याख्या या कापि काकुत्स्थ पुराणस्य हिता हि सा ।
तस्मात्त्वं देवयाचस्व व्याख्यास्ये यत्पुराणकम् ६४।
शंभुरुवाच-
एवं पौराणिकेनोक्तं श्रुतवानपि गौतमः ।
स्वयं वस्त्रत्रयं प्रादाद्ब्राह्मणाय महात्मने ६५।
कौर्मं पुराणं प्रथमं श्रुतवानिति नः श्रुतम् ।
दत्तवान्स्वर्णमधिकं वस्त्राणि च शुभानि च ६६।
अथ लैंगं च शुश्राव वैष्णवं वामनं तथा ।
पाद्मं च गारुडं चैव सौरं ब्राह्ममथैव च ६७।
एवमष्ट स शुश्राव पुराणानि स गौतमः ।
अथ रामायणं चैव कौर्ममेव पुनश्च सः ६८।
शिवनारायणेत्येवं जपं चक्रे सदैव हि ।
अवाप निधनं चापि स गतो ब्रह्मणः पदम् ६९।
ब्रह्मा संपूज्य तं विप्रं विष्णुलोकमथागमत् ।
विष्णुना पूजितः सोऽथ जगाम शिवमंदिरम् ७०।
सर्वेषामेव वंद्योऽसौ गौतमो मुनिसत्तमः ।
भारतश्रवणे चापि नियमा ये मयेरिताः ७१।
पुरा व्यासेन मुनिना त्रिवर्षाद्यत्कृतं शुभम् ।
श्रवणात्तस्य कृत्स्नस्य व्याकर्ता भारतस्य यः ७२।
न किंचित्प्रणमेद्विप्रं मुक्त्वा योगिनमुत्तमम् ।
सर्वेषामेव वंद्योसौ भारतं व्याकरोति यः ७३।
यो महाभारतं नित्यं व्याख्यास्यति पठेच्च वा ।
स सर्वेभ्योधिको विप्रस्तारयेच्चैव मानवान् ७४।
व्याकरोति च पर्वैकं सर्वाणि कतिचित्तु वा ।
सर्वपापविनिर्मुक्तो हव्ये कव्ये विशिष्यते ७५।
तमेव प्रणमेद्विप्रं तमेवार्हं च पूजयेत् ।
तमेव भोजयेन्नित्यं सर्वं तस्मै निवेदयेत् ७६।
तस्य पूजाविधिः प्रोक्तो व्याख्यानसमये द्विजः ।
प्रतिपूज्योऽथ वस्त्राद्यैः पूजयेद्विधिमार्गतः ७७।
आदिपर्वसमाप्तौ च सूक्ष्मवस्त्रत्रयं ददेत् ।
सुवर्णं च यथाशक्ति सभापर्वणि वाससी ७८।
आनुशासनिकारण्यस्वर्गारोहेषु पर्वसु ।
आदिपर्वणि पूजा या सा पूजा नृपपुंगव ७९।
कर्णाश्वमेधवैराटशल्यद्रोणेषु पर्वसु ।
सूक्ष्मवस्त्रत्रयं शुद्धं निष्कद्वयमथापि वा ८०।
क्षुद्रपर्वस्वथान्येषु निष्कावथ समानयेत् ।
हरिवंशे सनिष्कं तु वस्त्रत्रितयमेव तु ८१।
भारतस्याखिलस्यैव समाप्तौ क्षेत्रदो भवेत् ।
रामायणस्य श्रवणे कांडेकांडे प्रपूजयेत् ८२।
क्षेत्रं पर्याप्तमथवा सुवर्णमपि दापयेत् ।
व्याख्यातुर्गुरुवाक्यस्य सर्वकल्मषनाशनः ८३।
अर्थोधर्म्मश्च कामश्च मोक्षश्च नृपसत्तम ।
व्याख्याश्रवणतः सर्वे सिद्धयंति च सुबुद्धयः ८४।
ब्रह्महत्यादिपापानां सर्वेषामपि नाशनम् ।
एकेन श्रवणेनास्य किं नरैर्न श्रुतं भुवि ८५।
यानवसुसुवर्णाद्यैर्नित्यमेनं प्रपूजयेत् ।
व्याख्यातारं यतः पापसंदोहस्य विनाशनम् ८६।
अन्यान्यपि पुराणानि मुनिप्रोक्तानि तान्यपि ।
श्रोतॄणां पापनाशाय वक्तुश्चापि विशेषतः ८७।
यश्च सर्वपुराणानि षट्त्रिंशत्तु प्रकीर्तयेत् ।
शृणोति वा न तस्यास्ति चित्तच्छेदः कदाचन ८८।
ब्राह्मं पुराणं प्रथमं द्वितीयं पाद्ममुच्यते ।
तृतीयं वैष्णवं चैव चतुर्थं शैवमुच्यते ८९।
अथ भागवतं प्रोक्तं पंचमं षष्ठमुच्यते ।
भविष्यं नारदीयं च सप्तमं परिकीर्तितम् ९०।
मार्कंडेयमिति प्रोक्तमष्टमं नवमं तथा ।
आग्नेयं ब्रह्मवैवर्तं दशमं परिकीर्तितम् ९१।
लैंगं च वामनं चैव स्कांदं मात्स्यमथैव च ।
कौर्मं वाराहमुदितं गारुडं वाथ कीर्तितम् ९२।
ब्रह्मांडमित्यष्टादशपुराणानि विदुर्बुधाः ।
तथा चोपपुराणानि कथयिष्याम्यतः परम् ९३।
आद्यं सनत्कुमाराख्यं नारसिंहमतः परम् ।
तृतीयमांडमुद्दिष्टं दौर्वाससमथैव च ९४।
नारदीयमथान्यं च कापिलं मानवं तथा ।
तद्वदौशनस प्रोक्तं ब्रह्मांडं च ततः परम् ९५।
वारुणं कालिकाह्वानं माहेशं सांबमेव च ।
सौरं पाराशरं चैव मारीचं भार्गवाह्वयम् ९६।
कौमारं च पुराणानि कीर्तितान्यष्ट वै दश ।
अष्टादशपुराणानां व्याकर्ता तु भवेन्मनुः ९७।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे पुराणमाहात्म्यकथनंनाम पंचदशोत्तरशततमोऽध्यायः ११५।
खण्डः ५ (पातालखण्डः) — Adhyāya 116
सूत उवाच-
संध्यावंदनकर्मक्रियतामिति रामो मुनिमाचष्टायम् ।
उष्णद्युतिरप्यस्तमुपैति द्विजकुलमेतन्नीडमुपैति १।
स्वयमपि संध्यावंदनकामोऽव्रजदुत्तरदिशमुज्झितयानः ।
हाहाहूहूकृतसंगीतिर्बंदीप्रमुखप्रस्तुतकीर्तिः २।
गौतमीतटमुपेत्य राघवो वायुनंदनसुधौतपद्युगः ।
जांबवत्कृतकरावलंबनः प्रापदुत्तमनदीं तु गौतमीम् ३।
करद्वये धृतकुशः स राघवः प्रागमद्वरुणदिशामथोत्तमाम् ।
दत्वा ततोऽर्घत्रितयं यथाविधि प्रहृष्टरोमाथ जजाप सोंऽतरे ४।
संप्रार्थयित्वा वरुणं यथाक्रमं शंभुं वसिष्ठं प्रणनाम राघवः ।
ताभ्यां कृताशीरगमन्मनःपदं हनूमता क्षालित पादपंकजः ।
जुहाव वह्नीनथ बंदिमागधैः संस्तूयमानोऽथ विनिर्ययौ बहिः ५।
प्रहसच्चंद्र किरणैः सुधालिप्तमिवांबरम् ।
प्रसन्नताराकुसुमं वितानमिव सर्वतः ६।
अथागच्छत्सौधतलं वृद्धामात्येन कल्पितम् ।
नानासनसमोपेतं सभास्थानं ययौ नृपः ७।
अथ मुनिं ह्युपवेश्य स राघवः स्वयमपि प्रथमासनमाभजत् ।
कपिगणाः परितः पृथुविग्रहा रचनयास्थितिमाप्रतिपेदिरे ८।
सुखस्थितं नृपमभिवीक्ष्य स द्विजो वचस्तदा समुचितमाह शंभुः ।
इहस्थितो भवति समस्तपूजितः कथं कथा नृपवर वर्तते गुहायाम् ९।
आकर्ण्याथ रघूद्वहो द्विजवचः शुश्रूषुरासीत्कथां ।
तत्रस्थो निपुणं निवार्यवचनं सर्वैः श्रुतं तत्क्षणात् ।
शुश्रूषामि कथं महाद्भुततया स्वात्माश्रयामन्यथा ।
रक्षोबाधनवादिनीमथनृपः किंत्वेतदित्याह च १०।
कुंभश्रोत्रवधः पुरा समजनि प्राप्तो दशास्यो वधं ।
पश्चादित्ययमन्यथा विरचितं रामायणं भाषते ।
कोऽयं विप्रवरः समस्तजनता नास्तिक्य संपादको ।
राज्ञांस्थानमुपेत्य वक्ति समया दंड्योऽथ पूज्योऽथवा ११।
अथाह जांबवानमुं रघूत्तमं कथां प्रति ।
रामायणं न तावकं त्विदं हि कल्पितं मतम् ।
समस्तमत्र विस्तराद्वदामि देव तच्छृणु ।
पंकेरुहस्यसूनुतो मया श्रुतं पुराह्यभूत् १२।
जांबवंतं विज्ञाप्य रामचंद्रो वचनमाह १३।
श्रीराम उवाच-
कीर्तय पुराणं मे शुश्रूषुः कुतूहलादहं प्रणीतं तत्केन च विज्ञातम् १४।
जांबवानथ बभाषे हि विधात्रे नमो नमस्तथैव विधुभूषणकेशवाभ्याम् १५।
अथ पुरातनं रामायणं कथयामि १६।
यस्य श्रवणेनाखिलजन्मसंपादित पापक्षयो जायते १७।
अथ तथापि दशरथो दशरथसमानरथी महीयसा बलेन सुमानसनामनगरजिगीषया पंकेरुहसुतसुतं वसिष्ठमाहूय नमस्कृत्वा मुनिदत्तानुज्ञः शताक्षौहिणीसेनया सहारुह्य तुरंगमं चंद्र समानशरीरमतिरोषसमाविष्टो विष्टरश्रवसमाराध्य दंडयात्रां चकार १८।
साध्यो नाम स्वीयया सेनयावृतो दशरथाभिमुखमाययौ योद्धुं युद्धं चान्योन्यमभूत् १९।
मासमेकं युद्धं कृत्वा दशरथस्तं साध्यं जग्राह २०।
अथ साध्यसूनुर्भूषणोनामाल्पपरिवारो युयुधे दशरथेन २१।
दशरथोऽपि साध्यसूनुं भुवोभूषणमवलोक्य योद्धुमेव नैच्छत् २२।
कथमेतादृशं हन्मि चास्मिन्हतेऽस्य कथं पिता भविष्यति कथं तन्माता कथमप्रौढयौवनाप्रियार्या २३।
अमुष्य हि देहे समालिंगनचुंबनपरिवर्तन नवीनतरदलारविंदपदानि कुसुमानीव दृश्यंते २४।
एतत्समानवर्णवया एतादृशः सुभगः परमप्रीतिवर्द्धनोनाम पुत्रो भल्लूकभक्षितोमृतःस्मृतिपथं प्राप्यापि मां रक्षयितुमिच्छतीव मम हृदयमन्यथा करोति इति मनसा वितर्क्यातिबालकं ग्रहीतुमारभत् २५।
स च साध्योपि पराधीनो बभूव २६।
स च कुमारेण सह पराजय खेदमपि मत्वा सुखमध्युवास च २७।
दशरथोऽपि तत्र मासं स्थित्वा तत्पुत्रसंदर्शनसुखमवलोक्याचिंतयत् २८।
अहो सर्वदुःखापनोदनक्षममेतन्मुखावलोकनं पुत्रसंवर्द्धनंनाम सर्वराष्ट्रिको मम जयः पुत्रवियोगमनुस्मरतो दुःखाय केवलं भवति २९।
तदस्य पृच्छां करोमि कथमीदृशो जायते पुत्र इति वितर्क्य तमपृच्छत् ३०।
साध्योऽपि सकलमोक्षमार्गं क्षितीशायादिशत् ३१।
हरीशानौ सहाराध्य सर्वैकादशीरुपोष्य द्वादशीषु ब्राह्मणानाराध्य तत्तत्कालभवं फलपूर्वमन्नाद्यं व्यंजनं पुष्पं च न्यायेन संपाद्य कपिलाघृतेन केशवं स्नापयित्वा मुद्गचूर्णेन संलिप्य स्वादूदकेन स्नापयित्वा सुरभिपाटीरं स्वयमुद्घृष्टं मृगनाभ्यागुरुसारेण वासमेतं देवांगं सर्वमुपलिप्य तुलसीदलैर्यूथिकाकरवीरनीलोत्पलकमल कोकनदद्रो णकुसुम मरुवदमनक गिरिकर्णिकाकेतकीदलपूर्वैर्यथासंभवमभ्यर्च्य द्वादशाक्षरेण पुरुषसूक्तेन वा नाम्ना षोडशोपचारेण वाराध्य प्रणम्य नृत्यं कृत्वा देवं क्षमापयेत् ३२।
तथा व्रतानि विचित्राणि नारायणप्रीणनाय कुर्य्यात् ३३।
प्रसन्नो भगवान्मुनिरीप्सितं पुत्रं यच्छति तदमुमाराधयस्वेति दशरथमुक्तवान् ३४।
स चापि साध्यं तत्र स्थाप्य गत्वायोध्यां तथा सर्वं कृतवान् ३५।
अथ पुत्रकामेष्टौ समाप्तायामाहवनीयाद्यज्ञमूर्तिः शंखचक्रगदापाणिरुदतिष्ठत् ।
राजानं च वरं वृणीष्वेत्युक्तवान् ३६।
स च राजा वव्रे पुत्रानतिधार्म्मिकान्दीर्घायुषश्चतुरोलोकोपकारकान्देहीति ३७।
अथ राजमहिष्यश्चतस्रः कौशल्या सुमित्रा सुरूपा सुवेषा चेति ३८।
राजानमब्रुवन्देव प्रतियोषमेकेन पुत्रेण भवितव्यम् ३९।
अथ कौशल्योवाच एष यदि प्रसन्नो देवस्तदायमुत्पद्यतां मम ४०।
राजोवाच-
मम यदिष्टं तदयं प्रार्थ्यते हरिः ।
विष्णोप्रसीददेवेश कमलापते शंखचक्रगदाधरविभीषणसृष्टिसमस्तलोकपालादिपूजित पादयुगलशाश्वतहरे नमस्ते नमस्ते एवं स्तुतो भगवानथ राजानमाह ४१।
माधव उवाच-
तव पुत्रो भविष्यामि कौशल्यायाम् ।
अथ चरुं प्राविशद्धरिः ।
तं चरुं हि चतुर्धा विभज्य भार्य्याभ्यो दत्तवान् ४२।
अथ कौशल्यायां रामो लक्ष्मणः सुमित्रायां सुरूपायां भरतः सुवेषायां शत्रुघ्नो जज्ञे खात्पुष्पवृष्टिश्च पपात ४३।
अथ चतुराननः स्वयमुपेत्य जातकर्मादिकाः क्रियाश्चक्रे ४४।
त्रिभुवनाभिरामतया राम इति नाम चक्रे रूपशौर्य्यादिलक्ष्मीयोग्यतया लक्ष्मण इत्यपरस्य भुवं भारात्तारयतीति भरतः शत्रून्हंतीति शत्रुघ्न इति नामानि कृत्वा ब्रह्मा स्वभवनं जगाम शिशवश्च वृद्धिमीयुः ४५।
अथ पादसंचारिणं बालचंद्र संकाशदर्शनं बिंबाधरमुन्नततिलप्रसूननासं पुरश्चूलिकालंबमान-रत्नपत्रकं श्रवणलोललंबमानकुंडलं वक्षःस्थलविचलित स्थूलमुक्ताहारं विलसत्कार्तस्वरो ब-ह्वलयं सिंजन्मणिकंकणरत्नांगुलीयकं हेममणिरचितश्रोणिसूत्रं सिंजन्ननूपुरोपशोभितपादमंगुलीयोपशोभितपादमध्यांगुलीयकं वज्रांकुशसरोजलांछनशोभितोरुपादतलं तूणीरसदृश जंघं करिकरसदृशोरुं विस्तृतजघनं सूक्ष्ममध्यंवर्तुलावर्तकं गंभीरनाभिमिंद्रनीलशिलाविशा-ल वक्षःस्थलं कंबुग्रीवंचंद्रबिंबसदृशवदनमर्द्धचंद्र सदृशललाटं नीलकुटिलकुंतलं क्रोडासक्तंधूलिभिरापांडुरं फुल्लपद्मदलारक्तविलोललोचनं महेश्वरमिवोद्धूलितभूतिं महेश्वरमिव दिगंबरं रामं कुमारं राजा दशरथो दृष्ट्वा हर्षपरिपूर्णहृदयः पुत्रमालिंग्य चुंबित्वा वक्षस्यालिलिंग दृढम् ४६।
अथ कुमारोपि पार्श्वेनास्यांकमारोप्य कलकलितलोचनो यत्किंचिदुवाच ४७।
याचमानमितस्ततो वीक्षमाणः तात गच्छेशये तात क्रीडामि तातेत्यादिपुत्रसुखमनुभूयानुभूय निर्वृतिं ययौ ४८।
अथ कदाचिद्भोक्तुमागते राजनि रामचंद्रो बालक्रीडासक्तहृदयो बहुक्रीडनकरकमल उत्प्लुत्य धावमानो नरपतिपुरःस्थितमणिखचितसुवर्णभाजनस्थमन्नं वामकरेण गृहीत्वा राजनि चिक्षेप इदमपि राजा सुखाय मेने ।
एतादृशान्यन्यानि चकार रामचंद्रः ४९।
अथ कदाचित्क्रीडमाने रामे वात्या राममपातयद्रामश्च रुदन्नपतत् ५०।
एतस्मिन्नंतरे ब्रह्मराक्षसो राममगृह्णाद्रामश्च मूर्च्छामाप ५१।
अथ सहचरो बाल इतस्ततो रोरूयमाणो रामं तथाविधं राज्ञे व्यज्ञापयत् ५२।
अथ राजा राममादाय वसिष्ठमाह किमिदं रामस्येति पप्रच्छ ५३।
अथ वसिष्ठो भस्मादायाभिमंत्र्य ब्रह्मराक्षसं मोचयामास ५४।
पप्रच्छ को भवानिति स चाहाहं वेदगर्वितो ब्राह्मणो बहुशः परधनमपहृत्य ब्रह्मराक्षसो जातो मे निष्कृतिं विचारय ५५।
वसिष्ठ उवाच-
इदानीमितः परमेकवर्षशतोपभोग्यं राक्षसत्वं नरकं भागीरथीस्नानमेकं शिवाय बिल्वपत्रशतं समर्प्य ततः स्नात्वा पापाद्विमुक्तो भवसीति ५६।
कदाचित्तादृशं कृतपुण्यं तव पदं प्रयच्छामि तदुपरिशिष्टां गतिं भजेति वसिष्ठवाक्यमाकर्ण्य ब्रह्मराक्षसो वसिष्ठोपदिष्टपुण्यवशाद्दिव्यशरीरो भूत्वा नमस्कृत्वा स्वर्गं जगाम ५७।
अथ रामं प्राप्तेकाले उपनीय वसिष्ठो वेदानध्यापयामास षडंगानि मीमांसाद्वयं नीतिशास्त्रं चाध्यापयामास ५८।
अथ धनुर्वेदमायुर्वेदं भरत गांधर्व वास्तु शाकुन विविधयुद्धशास्त्राणि च ५९।
अथ विवाहं कर्तुकामेन राज्ञा दशरथे नानानादेशजनपतीन्प्रति दूताः प्रेरिताः ६०।
अथ कश्चिच्छीघ्रमागत्य राजानमिदमब्रवीत् ६१।
राजन्विदर्भदेशाधिपतिर्विदेहोनाम राजा तस्य पुत्री वैदेही होमलब्धारूपेण लक्ष्मीसमा सर्वलक्षणसंपन्ना रामयोग्या विद्यते स च तां दातुं राजा रामायोद्यतः तद्गम्यतां शीघ्रमिति ६२।
अथ वसिष्ठादीन्प्रेषयामास ते च तत्र गत्वा तां च निरीक्ष्य लग्नं निश्चित्यायोध्यामेत्य राजानमुक्त्वा रामसहिताः पृथिवीपतिसमेताः शीघ्रं विविध करि तुरग शकट शिबिकांदोलिकाभिरतिसुभगरूपभोगविलासक्रियानिपुणा विदितविविधचेष्टागंधर्वाः कामशास्त्रसुकुशलाः मृदुकठिनपृथुपयोधरासन्न कंठाः स्थूलसूक्ष्मललाटबिंबदशनच्छदमुखपंकजाः कुटिलकुंतलदीर्घकेशधम्मिल्लाः कनकपत्रकर्णाः स्नानचेष्टयोत्थितरोमशोभित जपाकुसुमरक्तदशना विशदविस्फुरच्छफरीलोचनाः शुक्तिकासदृशश्रवणाः नक्षत्रसदृशस्थूलमुक्ताफलोपशोभितनासापुटा मुकुरसदृशकपोलास्तिलप्रसूननासिका आनम्रमध्यप्रदेशचूचुका इंद्रगोपप्रतीकाशाधरपुटदशनक्षताः समदीर्घकांगप्रदर्शनास्थितसर्वप्रदेशवर्तुला नातिमांसलाः पिंडकाग्रंथिनीव्योवलितबाहुमूला अनतिचिरकालोत्थितरोमतया हरिद्रा वर्णतया च कर्णिकारदलसदृशबाहुमूला मृदुस्निग्धवर्तुलसूक्ष्ममध्यप्रदेशाः कठिनस्थूलवर्तुलामग्नचूचुकपरस्परस्थानाक्रमणस्पर्द्धि पयोधरमध्यलब्धपदकपयोधरोपरिचंचलविविधमणिमय हारोपशोभित वक्षःस्थलाः पयोधरपरितो लब्धपदतया तरुणदृष्टिपरम्परतया असमानयानाभिकूपोपरितन रोमराज्योपशोभितोदरप्रदेशा भज्यमान मध्यस्थलीकरणएव वलीत्रयोपशोभित मुष्टिग्राह्यमध्याः करिकरोपमजघनप्रदेशा अरोमसदृशमृदुस्निग्धामला समजान्व्यः कदलीस्तंभसंनिभोरुयुगला आमग्नजानुकृशकुशवर्तुलपिंडिकारहितजंघा आमग्नगुल्फा आसूक्ष्मस्निग्धा दीर्घदीर्घांगुली पादानूपुररवाह्वयमानमदना हंसमतंगजगमना दक्षिणांगुष्ठस्पर्शिकच्छाग्रा उपरिकच्छं नीवीं कृत्वा करद्वययुता वस्त्रप्रदेशकंठमप्रावृत्या परवसनपरिभागा वृतस्तनवसना परभागे वामांस एव दक्षिणपार्श्वगतेन दशाभागेन नाभिप्रांतेन प्रवेशितोपशोभितगात्रयष्टयो योषितो विवाहमंगलकर्मकरणायानेकश आगच्छन् ६३।
बालिकाश्च विद्युल्लतांशुशोधितगात्रयष्टय उद्भिन्नकुचकमलकुड्मलविविधहारोपशोभिवक्षसो यत्किंचिद्भाषिण्योऽतिचपलमृदुगतयो वृद्धवनिताश्चागच्छन् ६४।
अथ विदेहे पुरतः क्रोशमात्रे चूतवनिकायां विविधविटपविस्तरप्रदेशविविधविहंगकूजिता-कर्णनदत्तकर्णवनहरिणशाववत्यां महारजतनिर्मितोच्चनीचप्रासादोपशोभितप्रदेशविविधविहंगायां हेमवल्कलसंवीतभसितो-द्धूलितशरीरजटिलमुनिगणध्यानोपासनोपशोभितवृक्षमालायां विविधविद्यधरवधूपयोधरभाराभिभूतविचरिततरंगसरसीयुतायां सरस्तीरमिलितसैरंध्रीयुवतिभिराहूयमान तरुणजनायां नानावर्णकुसुमसौरभवासिताशेषप्रदेशायामितस्ततो रिरंसया प्रदर्शितस्फारशफरीविलोचनतरलचक्षुषा प्रभाविलसितशरीरवेश्याजनायां विविधाश्चर्ययुतायां दशरथः सामात्यपुरोहिताभिरामरामादिपुत्रसहितः सुखमुवास ६५।
अथ वैदेहोऽपि मिथिलां नानापताकोपशोभितां विविधप्रासादगोपुरोद्यानदेवतायतनोपशोभितामन्योन्यकेलिचतुरयुवतिजनानुकीर्णामुशीरविरचितमहाप्रपां सुकेलीजनोपशोभितविशिखां ।
विविधपण्योपशोभितरथ्यां तत्रतत्र ब्रह्मघोषशोभितमठां प्रतिमंदिरं मीमांसादिव्याख्यानसंपादि सामाध्ययनां सुपुण्यहविर्गंधसामादिस्वरपदक्रमश्रुतिब्राह्मणवाटिकामनेकपरिवृढमंदिरप्रवेशनिष्क्रीतागुरुकुंकुमाध्वर्य्युवेषां मृदुलवसन तांबूल रक्तदंतच्छदकामिनीमृदुवचनकठिनवचनकरसंज्ञानिर्द्धारित प्रतिवचनविविधोपायना हरणकरजनोपशोभितां मृदुधवलजघनपरिवीतवस्त्रोपरिभागेन स्निग्धवर्तुलपरस्परसंघर्षपयोधरमध्यप्रदेशोपशोभित वामांसकंदोपशोभितवनितां विविधमुक्ताहारजपासंकाशदशनच्छद मंदहासमालाकारसहस्रोपशोभितां पुण्यासवसाधनमंदिरां तत्रतत्र विचित्रतोरणां विशुद्धवीथिकां तत्रतत्र स्थापितकल्पपादपां रंभाविभूषितद्वारां पुरीं शोभितां शोभयामास ६६।
अथाभिकलनार्थं विलासिन्यो निशादूर्वाक्षतामंत्रमंगलकज्जलितकैशिकधमिल्ललताग्रंथि-त जटोपशोभित सीमंतशीर्षशोभितनासामुखविचित्राभरणार्हणहेमपात्रावस्थिताज्यगुग्गलु फलादिसौभाग्यद्रव्यमुद्वहंतीभिः स्त्रीभिरन्यैरपिशोभितजनैः स राजा निर्जगाम ६७।
तदानीं मंगलतुर्यघोषादेव दुंदुभिभेरीनिःसाणमर्दलशंखादिनादाः प्रादुर्बभूवुः ६८।
गायकाश्च मंगलानि जगुः ६९।
मंगलवेदवाक्यानुपाठेन वैदिकाः ब्राह्मणाः ।
कुलपाठका भेरीघोषेण कृत्स्नमाकाशमापूरयन् ७०।
अथान्योन्याक्षतपूर्वमंगीकुर्वंतः सूतबंदिजनादिभिः स्तूयमानाः पुरं प्रविविशुः ७१।
विदेहनगरात्पश्चिमभागे निर्मितं मंदिरं दशरथः प्रविवेश ७२।
अवशिष्टाश्च यथायोग्यं भवनं विविशुः ७३।
अथ नारदो मिथिलां तदानीमेवागच्छत् ७४।
विदेहोऽपि देवर्षिमभिपूज्य स्वागतं दृष्ट्वा भोजनं कारयित्वा।
सुखासीनाय मुनये सघनसारं तांबूलं दत्वा व्यज्ञापयत् ७५।
श्वो विवाहे भवान्स्थातुमर्हति कारयितुं विवाहम् ७६।
नारद उवाच ७७।
श्वो हि नक्षत्रं सूर्यनक्षत्रदर्शनं तत्र विवाहो न कर्तव्य इति ७८।
अथ मौहूर्तिकं वृद्धगार्ग्यमाहूय राजा पप्रच्छ क्व विवाहमुहूर्तः ७९।
श्व इति गार्ग्य उवाच ८०।
राजा च नारदं गार्ग्यं चोदीक्ष्य भो इदमित्थमिति पप्रच्छ ८१।
अथ नारदो गार्ग्यमुवाच ८२।
कथमुक्तं लग्नं दास्यसि ८३।
अथ गार्ग्यो विषघटिकाश्च विहाय लग्नं दास्यामि इत्युवाच ८४।
नारदोपि ब्रह्मवचनानि किं न जानासीत्युक्तवान्गार्ग्यम् ८५।
गार्ग्यस्तुष्टस्तान्दोषानपठत् ८६।
उल्का च ब्रह्मदंडश्च मोघः कंपस्तथैव च ।
सर्वकार्यविनाशाय दृष्टा वै ब्रह्मणा पुरा ८७।
प्रतिष्ठासु विवाहेषु मौंजीबंधाभिषेकतः ।
अन्येषु सर्वकार्येषु विषनाडीर्विवर्जयेत् ८८।
अतः परं तु कार्य्याणां करणेन च दोषभाक् ।
विवाहादिषु कार्येषु दोषमेव वदाम्यतः ८९।
उल्का दहेत्कुलं सर्वं ब्रह्मदंडो विनाशयेत् ।
मोघस्तु मरणा यस्यात्कंपः कंपाय कर्म्मणः ९०।
इति नारदोक्तमाकर्ण्य गार्ग्यो मुनिर्मौनपरोऽभवत् ९१।
दध्यौ रविं ग्रहपतिं विहाय विषनाडीर्विवाहः क्रियतमिति ९२।
नारद उवाच-
कथं ब्रह्मवचनम् ९३।
सूर्य उवाच-
देशभेदेन व्यवस्थोदिता तदस्मिन्देशे विवाहो विषघटिकां विहाय कर्तव्य एव ९४।
नारदोप्यनुमेने ९५।
उवाच श्वः पराह्णे च क्षत्त्रविवाहश्च भवेदतः स्वयं वरार्थं नृपा आगच्छंतु तन्नृपदूतान्प्रेषय ९६।
अथ राजा दशरथानुमतेन सर्वानेव नृपानागमय्याचिंतयत् कथं सर्वानेव तिरस्कृत्य वैदेही रामाय देयेति ९७।
अथ रात्रौ मुहुर्मुहुर्निःश्वस्य निद्रालुरपि न निद्रामाप ९८।
अथ मध्ये निशं राजा शुचिर्भूत्वा त्र्यंबकं सांबिकं मंगलदुकूलधारिणं कमलभवपुरुषोत्तमशक्र-प्रमुखनिखिलदेवैर्भृगुप्रमुखमुनिवरैर्हाहाप्रमुखगंधर्वैस्तुंबुरुप्रमुखैश्च श्रुतिस्मृतीतिहासपुराणैर्मूर्तिमद्भिश्च सिद्धविद्याधरादिमातृकागणैश्च नंदीप्रमुखगणैश्च सेव्यमान पादकमलं सर्वामंगलपरिमोचकमतिपुण्यसलिलया गंगया निष्कलं केन चंद्रमसा सेव्यमान शिरोभागं वामांकारूढया गिरिजया प्रदीयमानवीटिं सहासं सकामं सहावेक्षणमाददानं गोक्षीरसदृशं प्रतिकूलकस्तूरिकासदृशकंठं मृदुसूक्ष्मस्निग्धजटाभिर्विरचितकपर्दं विशुद्धकार्तस्वरकुंडलोपशोभितगंडभागं द्विरष्टवर्षवयसं गोक्षीरसदृश स्थूलमुक्ताफलकौसुंभवर्णांचलेनावेष्टितशिरोभागं विविधरत्नविरचितकार्तस्वरभूषितवक्षःस्थलमतिधवलोपवीतेनोपशोभितशरीरमंबिकानुलग्नकुंकुमारुणसुगंधिशरीरमीक्षमाणं तर्जमानकाममार्गणं कोटिकंदर्पसदृशं मनसाचिंतयत् ९९।
जजाप शतरुद्रियं जुहाव च तेनैव कामाहुतीः प्रास्तुवच्च पुरुषसूक्तेन १००।
अथ तादृश एव महेश्वरस्तत्र प्रादुरभूत् १०१।
अथ राजा नमस्कृत्यास्तुवीत १०२।
राजोवाच-
क्षितिसलिलगगनपवनदहनरविशशियजमानमूर्तिभिरष्टमूर्ते विश्वमूर्ते लोकमूर्त्ते त्रिभुवनमूर्ते वेदपुराणमूर्त्ते यज्ञमूर्ते स्तोत्रमूर्त्ते शास्त्रमूर्त्तेस्वधामूर्त्ते नारायणमूर्त्ते सर्वदेवतामूर्त्ते त्रयीमयत्रयीप्रमाणत्रयीनेत्रसा-मप्रियवसुधाराप्रियभक्तिप्रियभक्तसुलभाभक्तविदूरस्तुतिप्रिय धूपप्रिय दीपप्रिय घृतक्षीरप्रिय द्रो णकरवीरप्रिय श्रीपत्रप्रिय कमलकह्लारप्रिय नंद्यावर्तप्रिय बकुलप्रिय यूथिकाप्रिय कोकनदप्रिय ग्रीष्मजलावासप्रिय यमनियमप्रिय नियतेंद्रियप्रिय जपप्रिय श्राद्धप्रिय गायनप्रिय गायत्रीप्रिय पंचब्रह्मप्रिय सदाचारप्रिय गोत्रोत्सादिकमलभवहरिहरनयनसमर्चित पादकमलजयप्रद हरिप्रार्थितजलोत्पादितचक्रप्रदर्शकृत्स्मृतियुक्तिप्रद स्मृतमंगलप्रद मृत्युञ्जय नमस्ते नमस्ते १०३।
इति स्तोत्रमाकर्ण्य भगवान्भवो राजानमुवाच वरदोऽहं वरं वृणु १०४।
राजोवाच श्रीमन्मम कन्या वैदेही रामाय दित्सिता स्वयंवरे कुलरूपबलोत्साह संपन्नानेकभूपराक्षसविप्रादिसर्वप्राणिसमागमे रामाधिकबलो यदि तामग्रहीष्यत् तदा वचनमनृतं मम पापं च भविष्यति १०५।
प्रत्युत दशरथोऽपि सर्वानेवागतान्विजेतुमलं क्षत्रकदनश्च रामो यद्यायास्यति तर्हि मम सुतां किं करिष्यति वा किंकिं वा प्रेषयिष्यति कीदृशं कारयिष्यति मम किंवा करिष्यति सर्वथा हि प्रभूतबलवाहनो नरपतिरशेषमपि त्रिभुवनं हन्यात् किमुत मामल्पसत्वं किमुत बहुना भवानेव शरणं ममोपायं वद यथा विवाहे श्रेयो भविष्यति रामश्च जामाता भविष्यति १०६।
शंभुरपि तथा करोमीत्युवाच १०७।
राम एव नाथः सीताया भविष्यति रामं च कृत्वा स्वस्त्यद्यैव करिष्यामि गृहाणाजगवं धनुरिदम् १०८।
राजोवाच-
किमेतेनाजगवेन धनुषा स्वयंवरे सीतां रामं प्रापय १०९।
शंकर उवाच-
इदं धनुरसज्यं मे यस्तु सज्यं करिष्यति तस्मै देया मया सीता प्रतिज्ञामेवमाचर ११०।
इत्येवमुक्त्वा भगवान्गणैरंतर्दधे हरः ।
अथादातुं धनू राजा न शशाकातियत्नतः १११।
अथोज्ज्वलं शतसहस्रगजबलं समाहूय गृहाणेत्युवाच ११२।
स चापि मातुलं नत्वाट्टहासं कृत्वोत्प्लुत्य धनुर्द्वाभ्यां कराभ्यामुद्दधार जानुपर्यंतं मातुलो मारीचः श्रुत्वा एकाकी विप्रवेषं कृत्वा विदेहमयाचत वैश्वदेवांते प्राप्तमतिथिं मामवैहि ११३।
राजोवाच-
स्वागतं भो इदं ब्रह्मन्नासनं तत्र निषीदेति ११४।
स चातिथिस्तथेत्युक्त्वा निषसाद ११५।
अथ राजा जलमादाय पादौ प्रक्षाल्य गंधपुष्पाक्षतैरभ्यर्च्य महाजं तस्मै निवेद्य भोजनाय प्रार्थयामास ११६।
स चापि तदन्नं षड्रसोपेतं सौवर्णभाजनगतमीक्षमाणइवेतस्ततो विलोकयामास ११७।
तस्मिन्नेवावसरे सीता पद्मकिंजल्कप्रभेषदरुणवसनं बिभ्रती नीलकुटिलकुंतलैश्चलद्भिर्यूनां मनांस्याकर्षयद्भिः प्रेक्षमाणदृष्टिभग्नकलैरिव स्त्रीणां चित्तमीदृशमिति दर्शयद्भिरिवोपशोभित-ललाटानंगचापसुभ्रूपद्मपत्रारुणविलोचना तिलप्रसूननासामृदुस्निग्धरो मशकपोलानंतरा रक्तोष्ठराक्तासनमाणिक्यनिभदाडिमीदशना जपाकुसुमारुणाधरातिशोभितचिबुकाशुक्ति-कर्णासमदीर्घकंठातिमांसलवक्षाः पीनोद्भिन्नकुचकुड्मलानेकहारोपशोभिता सुभगाका-।
रानतिमांसलबाहुलता मुग्धायतसमानांगुलिशिखापद्मारुणपल्लवाविविधबहुरत्नांगुलिभूषणामुष्टिग्राह्यमध्यासु रोमराजिगंभीरनाभिः पृथुजघनाकरिकरोरुस्तूणीरजंघासुपादकमला-नूपुरादि पादविभूषणा पादांगुलीभूषिता विकसितसौगंधिकं विदधती भुंजानमारीचस्य पुरतश्चागता ११८।
वीक्ष्यासावचिंतयदेनां कथमपहरामि कथमालिंगामि कथमन्यत्किंचित्करोमीत्येवमवसरमलभमानस्तूष्णीमेव विनिर्गतः ११९।
अथ देवा धनुःसज्जीकरणाय यतमाना अहंपूर्विकया विद्यमाना अन्योन्यतिरस्कारेण महेंद्रः प्राप धनुरुत्तमं प्रांतद्वयात्परं नावनमयितुं शशाक १२०।
अथ सूर्यो धनुरादाय नमयन्नेव निपपात १२१।
वायुर्बलवतां श्रेष्ठो जग्राहाजगवमथ स्वेनैव करेणोत्कर्षयन्नधः पपात धनुश्च वायोरुपरि पपात अहसंस्तदा सर्वे १२२।
एतस्मिन्नंतरे तुरगवरमारुह्य बाणासुरः सहस्रबाहुरनेकानेकशिरोभिर्दैत्यैः परिवृतः प्रह्लादसमेतो विदेहपुरीमाजगाम १२३।
अथ स्वविभूषणोद्भासितां दिशं कुर्वन्स्वतेजसापयशसो देवताः कुर्वन्नानाविधगीतं शृण्वन्द्व्यंगुलमात्रेण शक्तो विरराम १२४।
प्रह्लादोबलिश्चैवधावातेऽथविरेमतुः १२५।
अथ राक्षसेषु तूष्णींभूतेषु राजानोऽतिबलिनः समागता ज्याबंधाशक्ता अपसृत्य तस्थुः१२६।
अथ ब्राह्मणाः समागताः १२७।
अथ विश्वामित्रो धनुरादाय एकांगुलपर्यंतं सज्यं कृत्वा विरराम निवृत्ताश्चापरे १२८।
अथ दिनमात्रे धनुषि तूष्णींभूतेषु राघवः सहानुजैरागत्य धनुर्निरीक्ष्यास्पृशत् १२९।
अथ राजकुमाराः शतशः समागताः सर्वाभरणभूषिता धनुर्दृष्ट्वापस्पृशुर्न चालनक्षमाः १३०।
अथ दाशरथिप्रमुखाःकुमाराः समागताः १३१।
अथ वेत्रझर्झरपाणयः समागमन्सर्वानेवापसारयामासुः १३२।
अथ रामो लक्ष्मरणहस्तं गृहीत्वा सर्वाभरणभूषितो धनुरासाद्य स्पृष्ट्वा नत्वा प्रदक्षिणीकृत्य धनुरादायोद्दधार १३३।
तदादानसमये सर्व एवैत्य सहासमूचुः अत्र भग्ना महारथा इति १३४।
अथ स रामो धनुर्ज्यास्थानमवनमय्य धनुषि जानुं कृत्वा सज्यमेककरेणोत्पादयन्कोट्यामनामयत् १३५।
अथसज्जीकृतं दृष्ट्वा सर्व एव नासाग्रन्यस्तांगुलयोऽभवन् १३६।
रामोऽपि ज्यामन्वनादयत् ।
तेन नादेन सर्वेषां मनांसि क्षुभितान्यासन् १३७।
रामेणसज्यितं धनुरिति सर्वत्र वादः संजातः १३८।
जनकोऽपि सीतां रामाय ददौ राजभिश्च युद्धं कृत्वा तान्निर्ज्जित्य स्वपुरीमागात् १३९।
अथैकदा दशरथो रामं यौवराज्येभिषिच्य सुखी बभूव सर्वप्रजारंजनाच्च रामो राजानुमत इति सर्वप्रजावादोऽभूत् १४०।
अथ कैकयदेशाधिपतितनया सुवेषा रामं राजानमसहमाना राजानमुवाच मम वरदानावसर इति राजाचिंतयत्किं देयमिति १४१।
देव्युवाच-।
चतुर्दशवर्षाणि रामो वनं विशतु पालयतु राज्यं भरतः १४२।
राजानृतवचनदोषभयात्कथंकथमपि स्वीचकार १४३।
अथ वसिष्ठं भावितयावोचत रामो वनाय निर्गच्छति अस्य किंवा भवेदिति विचार्य शुभाशुभं ब्रूहि १४४।
वसिष्ठो विचार्य सहर्षं राजानमुवाच १४५।
गत्वा वनं निखिलदानववीरहंता शंभोरनेकविधपूजनमातनोति ।
सीतावियोगरुषितः कपिसेनया च तीर्त्वोदधिं दशमुखं च निहंति रामः १४६।
आगम्य राज्यं रघुनंदनोऽपि बहूनि वर्षाणि समातनोति ।
प्रशस्तकीर्तिर्निखिलेपि लोके शर्वेण देवेन चिरं न्यवात्सीत् १४७।
सुपुत्रयुक्तो बहुयज्ञयाजी परिवृढः सर्वगुणाधिकश्च १४८।
इति वसिष्ठवचनं श्रुत्वा दशरथो रामगुणाननुस्मरन्नित्युवाच श्रेयो मे मरणं रामस्य निर्गमने इति १४९।
अथ रामो मातरं पितरं गुरुं च वसिष्ठं पितृपत्नीर्नमस्कृत्य वनाय जगाम १५०।
अथोपवने दिनमेकं स्थित्वा जटाः कारयित्वा वल्कलं वासो धृत्वैकोपवीती कृतदंतशुद्धिरेकेनोपवीतेन जटां बद्ध्वा भस्मोद्धूलितसर्वांगो भसित निष्ठुरकायो मुक्ताफलदाममणिव्यत्यस्त रुद्राक्षमालामुरसि दधानोऽल्पभूषणाधिभूषित सीतासहायो लक्ष्मणानुचरो विवेश वनांतरम् १५१।
अथानेक राक्षसांस्तस्मिन्निजघान भवानिव निखिलं चकार सीतापहरणादिनिखिलमपि भवता यथातथा स्याथ सुग्रीवाश्रममृष्यमूकपर्वतं रामो जगाम निबिडच्छायाचूतवृक्षमासाद्य लक्ष्मणसहायः परिश्रयमकल्पयत् ।
वृक्षे तु धनुषी आरोप्यासीनलक्ष्मणांके शिरः कृत्वा हरिचर्मशय्याशयनोलक्षितांगीतिं शृण्वन्वृक्षफलं निरीक्षमाणो वानरमेकं मणिकुंडलं हेमपिंगलं सदृढबद्धमौंजीकौपीनमच्छोपवीतिनमतिचंचलं फलमादायात्मनिविक्षिपंतं पुष्पमंजरीश्च किरंतं गानमनुकुर्वंतं व्यजनेन रामं वीजयंतमारुह्य शाखामपि तथा वीजयंतमाबद्धचूतफलमात्रं रामो वीक्ष्य लक्ष्मणमभाषत १५२।
लक्ष्मण कोऽयं कपिरिति १५३।
लक्ष्मणोऽपि न जान इत्युवाच अथ रामः समाहूय कस्य त्वं किं नामत्येपृच्छत् १५४।
स च सुग्रीवस्य हनूमानित्युवाच १५५।
रामं नत्वा सुग्रीवमेत्य नत्वा देवनारायणइवापरः पुरुषो युवा मेघश्यामो जटी आजानुबाहुरतियशस्वी सूर्यसंकाशेन सहापरेण नरेण इहास्ते १५६।
अथ तरुच्छायाधः संस्थितौ सर्वलक्षणसंपन्नौ राजपुत्रौ दृष्ट्वा उक्तश्च ताभ्यां सुग्रीवाय निवेदयेति तत्त्वयि निवेदितम् १५७।
अथ सुग्रीवः सत्वरमुत्थाय पुष्पसलिलादिद्रव्यमादाय पादप्रक्षालनादिकं कृत्वा फलानि समर्प्य व्यज्ञापयत् १५८।
कौ युवां किमर्थमागतौ राजपुत्रौ तपस्विनाविति सुग्रीववचनमाकर्ण्य लक्ष्मणेनाभाषत रामः १५९।
दशरथतनयावावां रामलक्ष्मणौ दुष्टनिग्रह शिष्टपरिपालनाय वनं गताविति १६०।
अथ सुग्रीव आह युवयोरुपकारमपकारं कार्यमस्तीति लक्ष्यते १६१।
अन्यथा सेनासमेतावागमिष्यतः लक्ष्मण आह अस्ति कार्यांतरम् अमुष्य भार्या केनापहृता न ज्ञायते तामन्वेष्टुमागतौ तदेवावयोः कार्य्यमन्यदानुषंगिकम् तदर्थमपि जलधिं तराव अपि पातालं प्रविशाव अपि नाकं साधयावः अपि महेंद्रं पातयावः अपि बलिनं हनावः किमपि कुर्वहे १६२।
सुग्रीव उवाच-
रावणेनापहृतया कयाचिद्ध्रियमाणागतया विभूषणानि कानिचित्परित्यक्ता निगतानि मया संगृहीतानि तानि दर्शयामीत्याभाष्य रामं मंदिरमागमय्य दर्शयामास १६३।
रामोऽपि निरीक्ष्य निश्चित्य प्ररुद्य क्व गतोऽसौ रावण इति पप्रच्छ स च दक्षिणामाशां गत इति बभाषे १६४।
अथ रामस्तेन सख्यमकरोत् अपृच्छच्च किमर्थमिह भार्य्याहीनः स्थित इति १६५।
सुग्रीव उवाच-।
मम भ्राता वाली महाबलो ममभार्य्यां राज्यं चापहृत्य किष्किन्धायामास्ते युद्धेन चाहं पराजितः तद्वधाय सर्वथा मम चिंता यथासौ त्वया निहन्यते तथाहमपि सागरं बद्ध्वा परतीरे लंकायां स्थितां सीतां रावणेनापहृतां तव समर्पयामीत्याभाष्य शपथं कृत्वा सुग्रीवो वालिनातिबलिना युद्धायाहूतेन युयुधे १६६।
रामोप्यनंतरमनिश्चयाद्वालिनं नाहनत् १६७।
अथ सुग्रीवः पलायितो राममिदमभाषत १६८।
तव चित्तमविज्ञाय प्रवृत्तोऽहमरणाय १६९।
रामोपि युवयोर्विशेषाज्ञानान्मया तूष्णीं भूतं चिह्नितं त्वा निरीक्ष्यतं हन्मि १७०।
अथ सुग्रीवश्चिह्नं कृत्वा वालिनं युद्धायाहूय समतिष्ठत १७१।
तारा बभाषे वालिनम् १७२।
सहायवानिव लक्ष्यते सुग्रीवो नोचेदेवं नाह्वयति ज्ञातं मया रामलक्ष्मणौ दशरथतनयौ नारायणांशौ भूभारावतरणाय समागतौ तावस्य सहायभूतौ १७३।
वाल्युवाच-
नीतिमान्राम इति मया श्रुतः ।
नहि बलवंतं विहाय दुर्बलं भजते तादृशः समायातु वा रामः प्रतिपन्नमधिकं कृत्वा बिभेति वीरो यदि रामः स्वयं युद्धाय यातस्तदा युद्धं कर्तव्यमित्याभाष्य तारां संभाव्य सुग्रीवयुद्धाय निर्य्यातः १७४।
अथ मुष्टियुद्धमन्योन्यमभूत् १७५।
रामोऽपि वालिनं जघान १७६।
पपात च वाल्याह चाशस्त्रयुद्धे वा बाणघातोऽथ शोणितसर्वांगो बभूव १७७।
अथ तारा चांगदश्च समागत्य व्यथितौ बभूवतुः १७८।
अथ राघवं वानराः समायाता वाल्युपांते निपेतूरुरुदुश्च १७९।
अथ तारा रामं बभाषे शास्त्रकुशलाः शूरा धार्मिका राघवाः पुरा चापि राम कथं पापमकार्षीः १८०।
न क्षत्रधर्म्मं जानीषे राजगणसेवितम् १८१।
अन्योन्यं युद्ध्यतोर्युद्धे जयो वा मरणं भवेत् ।
अन्यो यदितयोर्हन्याद्ब्रह्महा स निगद्यते १८२।
किं वैरेण वालिनमाहनः किं वानरमांसाशया १८३।
अभोज्यं वानरं मांसं यद्यात्मनोऽप्रियात्सुखाभावादपरेषामपि तथाभावं मन्यसे अहो विमोहाद्यदिमामादातुमिदं कृतमेकपत्नीव्रतं तव १८४।
यदि रावणहृतां सीतामानेतुं सुग्रीवसहायाय कृतमेवमेव हा महदंतरं बलवृद्धेन महाबलेन वालिना सद्भावेन दिनकरावर्तितांतरे सीतामानेतुं समर्थेन स्मरणागतरावणदानमर्थेन वानरराजेन पंचाशत्परार्द्धवानरभल्लूकसेनावता आत्मकार्येण सिद्ध्यत इति किं सुग्रीवेणाल्पवी-र्येण सप्तपरार्द्धसेनापतिना कपिना किं सिद्ध्यति कार्यं वचनवतः १८५।
अहो ज्ञातं सर्वदेव भद्रं यदुक्तोसि १८६।
वक्ति च रामः पृथिवीपतिना मया दुष्टनिग्रहणं कार्यं शिष्टपरिपालनं च वालिना सुग्रीवमहिषी रुमापहृता राज्यं च अतश्च न तादृग्वधे दोषः १८७।
तारोवाच-
सुग्रीवोऽपि तर्हि वध्यो दुंदुभिना युद्ध्यता वालिना बिलेप्रविष्टेन वत्सरं तत्रोषितं तदंतरे च मामपहृत्य राज्यं च कृतं सुग्रीवेण तं पूर्वमपि पश्चात्तं हंतु १८८।
राम उवाच-।
कियत्कालात्पूर्वमिदं च वद १८९।
तारोवाच-
षष्टिवर्षसहस्रादर्वाकशीतितमे वर्षे रक्षोयुद्धे सुग्रीवेण राज्यमपहृतम् १९०।
पुनश्च वर्षांतरे प्राप्तेन वालिना सुग्रीवः पलायितः १९१।
अपहृता तस्य भार्या राज्यं चापहृतम् १९२।
तस्मिन्नेव दिने भवतः पितुर्दशरथस्याभिषेकः १९३।
राघव उवाच-
मया पितुरनुशासनाद्राज्यगतदुष्टनिग्रहणं कृतम् ।
गुरुवचनस्यानुल्लंघनीयत्वात्तदपहरणवेलायां यो राजासनाचरत् १९४।
अथवा स्वतंत्रौ मृगौ मृगयोर्हतश्च वाली मृगाणामन्योन्यं दारणाद्य जगुप्सा च १९५।
यतो मम मृगयावदाथवा मृगाणाम् ।
चलितस्थितबद्धानां चलद्भ्रांतपलायिनाम् ।
अथावसृजतासंगमुज्झिता मृगया तथा १९६।
मृगयाशास्त्रविधितो मृगयेयं मया कृता ।
दर्शनादर्शनाभ्यां च धावताधावता तथा १९७।
अवरोहात्परं स्थानं सात्विकानां प्रभिद्यते ।
राज्ञश्च मृगयाधर्मो विना आमिषभोजनम् १९८।
अथ रामवचनमाकर्ण्य सर्व एव प्राकंपयञ्छिरांसि १९९।
वाली बभाषे राममंजलिमस्तके निधाय नमस्ते राम शृणु वचनं मम २००।
शंखचक्रगदापाणिः पीतवासा जगद्गुरुः ।
नारायणः स्वयं साक्षाद्भवानिति मया श्रुतम् २०१।
त्वां योगिनश्चिंतयंति त्वां यजंति च यज्विनः ।
हव्यकव्यभुगे कस्त्वं पितृदेवस्वरूपधृक् २०२।
मरणे चिंतयानस्य त्वां विमुक्तिरदूरतः ।
सत्वं मे दर्शनं प्राप्तो राम मे पापसंक्षयः २०३।
गृहाण बाणं काकुत्स्थ व्यथितो भृशमस्म्यहम् २०४।
अथ रामस्तथेति बाणमादाय वालिनमुवाच किमिष्टं दीयतां वद २०५।
कपिरुवाच-
यदि प्रसन्नो भगवान्मम सद्गतिं देहि २०६।
अयं सुग्रीवस्तथा रक्षणीयोंऽगदोऽथ तारा च मया पापिनापराधः कृतस्तत्फलमनुभूतम् २०७।
अथ रामं पश्यन्नेव वाली ममार स्वर्गं च गतः २०८।
अथ सुग्रीवं राज्येऽभिषिच्य स्वयं वनं विवेश २०९।
अथ तेन सहायेन जलधिसमीपं गत्वा क्व लंका क्व सीता क्व चारातिरिति सुग्रीवमाह रामः २१०।
अथ हनुमानाह प्रविश्य लंकां विचित्य सीतां सर्वतत्त्वमवगत्य युद्धं संधिर्वा कर्तव्यः तदुदधिलंघनाय किंचित्समादिशतु भगवान् २११।
अथ सुग्रीवमाह रामः ।
कथमेतद्घटत इति २१२।
कपिरुवाच-
मम वानरा भल्लूप्रमुखाः कोटिशः संति २१३।
एकं नियुज्य सर्वमाकलय्य यथायुक्तं तथा करणीयम् २१४।
अथ जांबवानाह ।
हनूमानेको गच्छतु बुध्यतु लंकाम् २१५।
अथ हनूमानगमल्लंकापुरं विचित्य सीतामशोकवनिकायामासीनां तथा च संभाष्य विश्वासं कृत्वा वनं बभंज वनरक्षकांश्च २१६।
बद्धो रक्षसा लंकां दग्ध्वा उत्तरकूलं गत्वा रामं दृष्ट्वा वृत्तांतं कथयित्वा तूष्णीमतिष्ठत् २१७।
अथ रामः सर्वैर्विचारयामास जांबवानुवाच रामेण लंका कपिभिर्विनश्यतीति नारदेन ममोक्तम् २१८।
अथ सागरोत्तरणे यत्नतया स्थेयम् २१९।
अथ रामः शंकरमाराध्य सर्वं निवेदयित्वा त्वदुक्तं करोमीति वचनमुक्त्वा शिवमभ्यर्च्य प्रणतो भूत्वा व्यजिज्ञपत् २२०।
हे महादेव महाभूतग्रास महाप्रलयकारण महाहिभूषण महारुद्र शंकर परमेश्वर विरूपाक्ष नागयज्ञोपवीतकरि कृत्तिवसन ब्रह्मशिरः कपालमालाभरभूषण –नरकास्थिभूषणभसित परनारायणप्रिय शुभचरित पंचब्रह्मादिदेव पंचानन चतुर्वदन वेदवेद्य भक्तसुलभा भक्तदुर्लभ परमानंदविज्ञान पर पूषदंतपातन दक्षशिरश्छेदन ब्रह्मपंचमशिरोहरण पार्वतीवल्लभ नारदोपगीयमान शुभचरित शर्व त्रिनेत्र त्रिशूलधर पिनाकपाणे कपर्दिन्ननेकरूपधर वृषभवाहन शुद्धस्फटिकसंकाश चतुर्भुज नानायुध दक्षिणामूर्ते ईश्वर देवपते गंगाधर त्रिपुरहर श्रीशैलनिवास काशीनाथ केदारेश्वर भूषणसिद्धेश्वर गोकर्णेश्वर कनखलेश्वर पर्वतेश्वर चक्रप्रद बाणचिंतापादक मुरहर पूजितचरणकमल सोमसोमभूषण सर्वज्ञ ज्योतिर्मय जगन्मय नमस्ते नमस्ते २२१।
एवं स्तुवतो रामस्य पुरतो लिंगमध्यकोपेतस्तेजोमयमूर्तिराविर्बभूव २२२।
अभयवानथ पुनः पद्मासनासीनमुमाधिष्ठितांकमीशमामुक्तसर्वाभरणं सुकांतिकिरीटिनं हैमवतीकटिस्पर्शं करद्वयेनाभयवरप्रदं तरंगितानेकदिशाभिः ।
पूर्णतेजस्विनं हासमुखं प्रसन्नवदनं ददर्श रामः २२३।
परमेशितारं ननाम बद्धांजलिपुनश्च दंडवत्पपात २२४।
अथ रामं परमेश्वरोऽपि वरं वृणु त्वं वरदोऽहमित्युक्तवान् २२५।
राम उवाच-
लंकां गमिष्यामि समुद्रतरणे उपायमेकं मम देहि शंभो २२६।
शंभुरुवाच-
ममाजगवं धनुरस्ति तत्कालरूपमविकल्पं वा भवति ।
तदारुह्य समुद्रं तीर्त्वा लंकामाप्नुहि २२७।
रामस्तथेति निश्चित्य सस्माराजगवम् २२८।
आगतं धनुस्ततश्च रामोऽपूजयत् २२९।
अथ हरो धनुरादाय रामाय दत्तवान् २३०।
रामोऽपि जलधावपातयत् २३१।
आरुरुहुः सर्वे वानरा रामलक्ष्मणौ च षष्टिपरार्द्धं तेषामसंख्येषु वानरेषु धनुरारूढेषु निकामं ययौ २३२।
धनुस्तटं वानराश्च ततस्ततो गत्वा निरीक्षयामासुः २३३।
अथातिकायो नाम रक्षः कपिबलमालोक्य रावणायोक्तवान् २३४।
रावणोऽपि किं कपिभिः शाखामृगैः किं वा मानुषाभ्यां रामलक्ष्मणाभ्यां किमायातं।
दैवागतमसकं भोजनमित्युवाच २३५।
अथ सुग्रीवः पश्चिमावलंबिनि भास्वति हनूमज्जांबवदादिमहाबलैश्चातिकायैरसंख्यातैर्लंकापार्श्वं गत्वा उपवनं प्रवश्यि नानाफलानि खादित्वा पयः पीत्वोपवनरक्षिराक्षसान्विद्राव्य सर्वविपिनमेकैकशो गृहीत्वा प्राद्रवन्लंकां गोपुरं च गत्वा समारुह्य प्रासादं च विशीर्यैकैकशः केचित्स्तंभमादाय रक्षोभिर्युयुधुः २३६।
एके च शालां बभंजुर्गृहाणि चूर्णयामासुर्बालवृद्धस्त्रीजनादिकं सर्वमेव निजघ्नुः २३७।
अथैकं प्राकारं निर्जितमाज्ञाय रावण इंद्रजितं संदिदेश २३८।
इंद्रजिता च युद्धं वानराः कृत्वा भीताः पलायिताश्च २३९।
अथ हनूमानखिलं निर्गतमाज्ञाय रावणं ज्ञात्वा वानरानाहूय निर्भर्त्स्य सेनां महतीं कारयित्वा दशमुखं कल्पयित्वा मोदयामास २४०।
अथ खस्थ एवेंद्रजिद्युयुधे न च वानरास्तं दृष्टवंतः २४१।
अथ हनूमज्जांबवंतौ खमुत्पत्य पर्वतशिखराभ्यामिन्द्रजितं निजघ्नतुः २४२।
अथ भुविपपात तं लक्ष्मणश्च यमलोकगामिनं चकार २४३।
अथातिकायमहाकायौ वानरसैन्यं बहुशो हत्वा लक्ष्मणं पीडयित्वा रामेण संयुध्य सुग्रीवं कृत्वा हनूमज्जांबवद्भ्यां युयुधाते पराजितौ गृहीत्वा तौ च योद्धारावादाय रामसमीपं गत्वा रामाय न्यवेदयताम् २४४।
अतिकायमभाषत रामः २४५।
रावणस्य मम युद्धं ब्रूहि सचिवानामन्येषां महाभयानां च २४६।
अतिकाय उवाच-
निश्चितमिदं पुरास्माभिः कार्यं सेनां विभागशः कृत्वा विद्युन्मालीनाम राक्षसो महाबलो विचित्रयोधी दर्शनादर्शनयोधी वानरैः सर्वैरेक एव युध्यते २४७।
अपरे च बलिनो महांतः शिक्षितास्त्राश्चागता आवां च युवाभ्यां युध्यावो रावणः पुष्पकमारुह्यापरभागेन त्वामेव निहनिष्यति २४८।
अन्ये च राक्षसाः कुंभकर्णमुखाश्चात्मरूपं कृत्वा त्वां परिवार्य गृहीत्वा सीतायै दर्शयित्वा तत्संनिधावेव हनिष्यति २४९।
रामः प्राह अहो बलवतां किमसाध्यमेवं भवति दैवगतिः कुटिला सुग्रीवोऽतिकोपनः सक्रोधं दृष्ट्वा राममुवाच २५०।
वध्यावेतौ न मोचनीयौ २५१।
रामः प्राहावध्यौ मोचनीयावेतौ वसनानि भूषणान्यानयेत्युक्तमात्रे हनूमता तान्यानीतानि रामस्ताभ्यां दत्तवान् २५२।
नत्वा यदेतल्लंकाद्वारे दृश्यते दारुपंचवक्त्रं शुक्रेणोक्तमेतेन च्छिन्नेन रावणो हन्यते २५३।
अथ च दारुच्छेदनसमनंतरं पातालं गंतव्यमिति भार्गवभाषितं शासनं लिखितम् २५४।
तस्मात्त्वमिदं दार्वेकप्रयत्नैकबाणनिपातेन पंचधाच्छिंधि ततस्तव शक्तिं ज्ञात्वा युद्धमतिदृढं कुर्वीमहि २५५।
अथ भार्गववचोविज्ञाय रामः पूर्वकोट्यां स्पर्शमात्रेण सज्यं कृत्वा धनुषि बाणं संयोज्य रक्षोभ्यां हनूमताश्रावयन्नेव बाणं मुमोच २५६।
बाणं धनुषश्चलितं तौ राक्षसौ बाणमार्गं निरीक्षमाणौ दारु बाणेन पंचधा च्छिन्नं निरीक्ष्य रामं व्यज्ञापयतामावयोः शिशवो रक्षणीयास्त्वयेति तथेत्याह रामः राक्षसौ लंकां प्रविष्टौ २५७।
अथ प्राकारयुद्धं कर्तुं वानरा गत्वा सर्वतो वरणमात्रं हि पार्ष्णिभिः पादैर्जानुभिः करैः पृष्ठैश्च तलसमं कृत्वा द्वितीयप्राकारं गतास्तदा च रावणः समागत्य सर्वानेवेषुभिर्द्रावयित्वा तदनुगच्छन्राममगात् २५८।
अथ राममपि पंचभिर्बाणैर्विव्याध २५९।
अथ रामो दशभिर्बाणै रावणं सव्रणं चकार २६०।
अनयोरतिदारुणमन्योन्यं युद्धं बभूव २६१।
रावणो दशभिर्बाणैर्विव्याध २६२।
अथ रामबाणैश्च क्षतशरीरो राक्षसः पलायनपरोऽभवत् २६३।
वानरा लक्ष्मणश्च कोटिकोटिराक्षसानघ्नन् २६४।
अथपरस्मिन्नहनि विभीषणो रावणं विचार्येदमुवाच २६५।
तृतीयोपायकालोऽयं चतुर्थं न विचारय ।
चतुर्थो विपरीतो न शस्तः शस्तार्थकारिणः २६६।
परस्य चाऽत्मनः शक्तिं विदित्वा चाऽत्मनोऽधिकाम् ।
तदा युद्धं प्रशस्तं स्याद्विपरीतं विनाशकम् २६७।
रामेण बलिनानैव युद्धं ते दुर्बलस्य च ।
एकेषुवालिहन्ताऽसौ वालिर्ज्ञातस्त्वया पुरा २६८।
मारीचमेकबाणेन भवानपि पलायितः ।
निहता राक्षसाः शूरा इन्द्र जिच्च सुतो हतः २६९।
वरेण्यत्रितयं भग्नं तेन युद्धं च नैव ते ।
दासभावमथो वाऽपि दत्त्वा सीतामथाऽप्नुहि २७०।
गोपुरस्थं तथा दारु पञ्चवक्त्रमथेषुणा ।
चिच्छेद पञ्चधा तेन रामस्त्वां मारयिष्यति २७१।
त्वदर्थं बहवो नष्टा नाशमेष्यंति चापरे ।
एको न्यायः सुखार्थाय न च मौढ्यं सहोदर २७२।
मानुषीं मृत्युसंयुक्तामनिच्छन्तीं पतिव्रताम् ।
पत्नीं बलवतश्चापि पूजयित्वा विसर्जय २७३।
अनिच्छन्त्याः समायोगे भवेद्दुःखपरंपरा ।
दुर्गन्धमलसंयुक्तो नारीसङ्गो जुगुप्सितः २७४।
विरक्तिरथ चेज्जाता दुःखायाकार्यवर्तनम् ।
अनुरागोयदि भवेन्मरणं नरकं ततः २७५।
आत्मनो मरणं व्यर्थं तस्याश्चाद्य समागमे ।
त्यागो वा मरणं तात धर्मपत्न्यास्तथा भवेत् २७६।
एवमादि तथाऽन्यच्च कश्मलं संभविष्यति ।
अन्यदाख्यामि ते वाक्यं सर्वेषां च प्रियं हितम् २७७।
गत्वा रामान्तिकं नत्वा स्तुत्वा विज्ञाप्य राघवम् ।
क्षम राम महावीर शरणागतवत्सल २७८।
तामसा राक्षसाः सर्वे वयमेते सुपापिनः ।
सीतापहारजं दोषं त्यक्त्वा पुत्रानवेहि नः २७९।
त्वदधीना वयं राम रक्ष वा मारयेच्छया ।
इत्युदीर्य पुरस्तस्य राघवस्य स्थिता वयम् २८०।
स्थिरायुषो भविष्यामः स्थिरराज्या दशानन ।
अथाऽहं रावणो वाक्यमहो नो राक्षसो भवान् २८१।
न शूरो राजधर्मं च न च जानासि शाश्वतम् ।
परनारीपरद्र व्यपरराज्यनिषेवया २८२।
शूराणामुत्तमो धर्मो न षण्ढानां भवादृशाम् ।
शत्रुपक्षं समालिग्य निर्गच्छेच्छा हि चेन्नृप २८३।
अथ बिभीषणो मन्दिरं गत्वा रामान्तिकं गत्वा तं शरणमभजत् २८४।
अथ रावणः पुरान्निर्गत्य रामेण लक्ष्मणवानरै राक्षसा अपि युयुधिरे २८५।
अथ रावणं महाबलं हन्तुमशक्तोरामो विभीषणमुखमवलोक्य तदुक्तचिह्नपदं बाणेन निर्भिद्यामारयत् २८६।
अथ कुम्भकर्णो महागदामादाय सर्वं निष्पाद्य वानराननेकशो भक्षयित्वा रामोत्तमाङ्गं गदयाऽहन् २८७।
अथ रामो निशितबाणशतेन तमहन्ममार कुम्भकर्णः २८८।
अथ विभीषणेन रावणादेः श्राद्धादिकं कारयित्वा शिवालयं तन्नाम्ना कारयित्वा तमेव लङ्काराज्ये विभीषणमभिषिच्य सीतामग्निप्रवेशशुद्धामुमामहेश्वराभ्यां नमयित्वा पुरहरेण दत्ताखिलामृतबलायुष्यः सुपुष्पकमारुह्य जलधिमुत्तीर्य पारावारतटे सेनां समवस्थाप्य शिवप्रतिष्ठां तत्र कृत्वा मुनिभिर्देवैरभ्यर्चितोऽयोध्यामगमत् २८९।
अथ भरतादिसमुपेतो नागरैर्वसिष्ठेन मुनिभिश्चाभ्यर्चितःस्वगृहमगमत् २९०।
आत्मनाऽगतानिन्द्रा दिदेवानासनादिनाऽभ्यर्च्य वानरान्संपूज्य मुक्तजटोऽभिषिक्तो राज्ये रावणवधहर्षिता देवा राममूचुः २९१।
त्वयाऽत्मराज्ये स्थापिता वयं नः सर्वदा परिपालय त्वमादिनारायणो देवो निखिलदुष्टनिग्रहार्थमवतीर्णो रावणं सबान्धवं हत्वा लोकत्रयरक्षकोऽसि श्रिया सह सुखी भवेत्युदीर्य स्वर्गं गताः २९२।
अथायोध्यावासिनो रामं प्रहर्षिता ऊचुः २९३।
हत्वा शत्रून्समायातो दृष्ट्वा प्राप्तोऽसि वै शिवम् ।
दिष्ट्या त्वं राजसे राम दिष्ट्या पालयसे प्रजाः २९४।
त्वया यज्ञाः करिष्यंते त्वया धर्मो विवर्धते ।
इतिपौरवचःश्रुत्वारामो राजीवलोचनः २९५।
वस्त्रादिभिरथोसर्वान्नागरान्समपूजयत् ।
मुनीनुवाचधर्म्मात्मापूजयित्वाखिलैर्जनैः २९६।
कच्चित्तपःसमृद्धंवःकच्चिद्यज्ञःस्वनुष्ठितः ।
कच्चित्स्वदारनिरताःकच्चिदीशोभिपूज्यते २९७।
कच्चित्सुप्रजसोभार्याःकच्चित्सर्वंसुखोत्तरम् २९८।
मुनय ऊचुः -
त्वयि राजनि काकुत्स्थ सर्वं स्वस्थं तपस्विनाम् ।
गच्छामहे पदमितः किं वा त्वं मन्यसे नृप २९९।
राम उवाच-
यस्य विप्राः प्रसीदंति तस्य शंभुः प्रसीदति ।
यस्य प्रसीदतीशानस्तस्य भद्रं भविष्यति ३००।
तत्कृत्वा भोजनमिह गंतुमर्हा अनंतरम् ।
अथेत्युक्त्वा मुनिगणाः कृत्वा भोजनमुत्तमम् ३०१।
अभिवर्ध्यतमाशीर्भिर्हृष्टाः स्वं स्वं पदं ययुः ।
रामोऽपि परमप्रीतः सभार्यश्च सहानुजः ३०२।
अकंटकं स कृतवान्राज्यं सर्वजनप्रियः ।
शृणोत्येतदुपाख्यानं यः कश्चिदपि पातकी ३०३।
सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति ।
न दुर्गतिर्भवेत्तस्य यश्चेदं स्मरते नरः ३०४।
यश्चापि कीर्तयेत्तस्य एवमेतदुदीरितम् ३०५।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे पुराकल्पीयरामायणकथनंनाम षोडशोत्तरशततमोऽध्यायः ११६।
खण्डः ५ (पातालखण्डः) — Adhyāya 117
सूत उवाच-
भारद्वाजगृहे भुक्त्वा रामचंद्रः प्रसन्नधीः ।
मुनींद्र विष्णुसहितो वानरर्क्षसमन्वितः १।
मेघच्छन्ने तथाकाशे मंदं चरति मारुते ।
तद्वनाभ्यंतरे क्वापि सुदेवगृहमुत्तमम् २।
अष्टापदस्तंभयुतं हेमपट्टिककल्पितम् ।
मणिमौक्तिकसंयुक्तं राजतैः कलशैर्युतम् ३।
पाटीरचंद्रकस्तूरीकुंकुमैः सुरभीकृतम् ।
कर्द्दमैर्जालकयुतं शकलोपरि संवृति ४।
चंद्रजोत्स्नागमं सूर्य्या निरीक्ष्य मध्यभित्तिकम् ।
गृहांतर्भूतलं कृत्स्नं चंद्रपुष्परसोक्षितम् ५।
दिगुदीची तथा कृत्स्नाभित्तिकल्पनवर्जिता ।
स्तंभेस्तंभे चित्रकारी स्वपादी परिकल्पितम् ६।
शतहस्तांगणं तस्य स्फटिकोपरिकल्पितम् ।
गृहांगणाधिकच्छायः पारिजातमहीरुहः ७।
कृत्स्नप्रावृतिकं तत्र निबिडं कदलीवनम् ।
कदलीवनसंयुक्तं केतकीवनसंवृतम् ८।
मयूरनादबहुलं मंजुकूजन्मधुव्रतम् ।
पारावतगणध्वानं नानोपवनशोभितम् ९।
प्रासादशतसंबाधं मत्तकोकिलनादितम् ।
शाखालंबिमहारत्नशोभितानेकपादपम् १०।
किन्नरीवनितागीतनादपूरितदिङ्मुखम् ।
अनेकारामसुभगं गौतमीतटमुत्तमम् ११।
भारद्वाजगृहं पुण्यमनंतगुणसेवितम् ।
रतिकंदर्पसंकाश दासीदासशतान्वितम् १२।
नानोपकरणोपेतं भारद्वाजगृहं शुभम् ।
तस्य चांतर्गतः सौधस्तत्रांतर्गृहवाटिकाः १३।
अष्टौ तन्मध्यतो ह्येकं गृहं परमशोभनम् ।
चतुर्दिक्षु महादेव गृहप्रासादशोभितम् १४।
प्रतिदेवगृहं श्यामा तौर्य्यत्रिकसुशोभितम् ।
स्वर्गस्थितवरस्त्रीणां विश्रामायैव कल्पितम् १५।
भारद्वाजगृहाद्रामो निर्गत्याशेषसंयुतः ।
तस्यैव च महागेहं वनमध्यगतं त्वगात् १६।
तदंतराच्छादितकंबलं तदा पृथक्स्थवस्त्रासनसंयुतं च ।
सिंहासनं मध्यगतं तथैकं मुन्यासनानेकगतं विवेश १७।
पौराणिकस्यानुपमासनांतरं भूपालहर्यृक्षवरासनं च ।
पौराणिकं पूर्वमथोपवेश्य ततो वसिष्ठं मुनिपुंगवांश्च १८।
नारायणं भूमिपतीन्कपींश्च नीचासनं च स्वयमाससाद ।
मेघावृतं व्योमदिशः प्रसन्नाः सुपुष्पमुर्वीतलमुप्तबीजम् १९।
तदंगणं नोष्णमहो न शीतलं संतानपुष्पं दमपुष्पगंधि ।
शंभुं विलोक्याथ वचो बभाषे रामः कथां कीर्तय शंकरस्य २०।
तृप्तिर्न जाता मुनिवर्य्य शृण्वतो माहेशमाख्यानमघौघनाशनम् ।
चकार किं वा ननु गौतमाश्रमे महेश्वरो देवगणाधिसंवृतः २१।
शिव उवाच-
महाविपंचीमवलंब्य निष्ठितः स वायुसूनुः शिवमन्वपृच्छत् ।
न्यायार्जितैरेव हि पूजने विभोः कीदृग्भवेच्चानयजैः फलं वद २२।
चौर्य्यैरथो किं फलमर्पितार्पणे उपाहृतद्रव्यसमर्पणेषु ।
एकैकशो मे भगवन्वदेश प्रश्नोत्तरं किं कथयाशु शंभो २३।
अथेश्वरो वानरमाबभाषे वदामि सर्वं तव ध्यानतः शृणु ।
न्यायार्जितैः पूज्य सदाशिवं त्वजं संप्राप चैश्वर्यमिदं हि गौतमः २४।
पुरा द्विजो मंकणसूनुराकथः सुशोभनामाप सतीं द्विजन्मा ।
द्ररिद्र एकः करुणासमन्वितः षष्ठाहभोजी पितृवर्जितश्च २५।
उपोष्य पंचाहमथापि भोक्तुं प्रवृत्त एवाथ समापतद्यतिः ।
यतिर्बभाषे मधुरं तदा कथं मासोपवासी तव भोक्तुमागतः २६।
तिष्ठामि भुंजे यदि चास्ति ते मुने न मे बुभुक्षान्यगृहाद्विभोक्तुम् ।
आकथ उवाच-
न मे भुजिः पंचदिनं द्विजेंद्र षष्ठे दिने मे भुजिरागतश्च २७।
तदा मया कार्यमचिंतनीयं प्रक्षालयाम्येहि तवाद्य पादौ ।
ओमित्यथ क्षालितपादयुग्मः स भोजनं कर्तुमियेष योगी २८।
रंभादलांसे बुभुजे तदन्नं विपाच्य संपादितमाज्ययुक्तम् ।
वन्यैः सुसंयुक्तमथादरेण न किंचिदुच्छेषितमन्नमस्य २९।
अथाकथो वीक्ष्य मुनिं सुतुष्टं तुतोष भार्य्यासहितस्तपस्वी ।
गतोऽथ भुक्त्वापि यतिः स चाकथः संतुष्टचित्तोऽथ जपं चकार ३०।
कपोतवृत्तिं स चकार पत्न्या तपोवितानायस सज्जनो मुनिः ।
पीठेऽथ कृत्वा तमुमापतिं शिवं लिंगे समाराध्य समन्वितं गणैः ३१।
लिंगं निधायाथ निरीक्षमाणो ददर्श चाज्ञातकृशाकृतिं द्विजम् ।
दिगंबरं पादविहीनमेतं काणं कुणिं कर्णविहीनकं प्रभुम् ३२।
सामोद्गिरं तं बहुशास्त्रपारगं गृहं समायांतमथो ददर्श ३३।
अथाकथो भार्यां सुशोभनामिदमुवाच ३४।
अयं हि विकृतवेषो ब्राह्मणः समायाति ३५।
अर्द्धं देयमेतस्मै भोजनं रक्षार्द्धमन्नं चास्मिन्नपि दिने गते षष्ठेह्नि भोजनाभावात्तव जीवितं न तिष्ठतीति मम प्रतीयते किं तु त्वं मन्यसे वद ३६।
सा शोभनोवाच-
आयुर्ललाटे लिखितं नांतरा नश्यति ३७।
आकथ आह।
यथा बद्धायुषोऽपि यज्ञस्य वीरभद्रेणच्छिन्नं शिर अजस्रात्मनः किमुत नु याणां पापात्मनामिति तदेनं परिहृत्य त्वया भुज्यते यदि त्वेतस्मै मयान्नं दीयते ।
तवेच्छानुसारतो मम कर्तव्यम् ३८।
भार्य्या प्राह कथमहं भोक्ष्ये त्वय्यभुक्ते मया किं पूर्वं भुक्तमिदमपरं शृणु ३९।
अन्नं हि प्राणिनां प्राणाः प्रत्यक्षं सर्वदेहिनाम् ।
तस्मादन्नप्रदो यस्तु प्राणदः स निगद्यते ४०।
अन्नाद्भूतानि जायंते वर्द्धंते तानि वै यतः ।
तस्मादन्नाधिकं किंचिन्नास्य दानं महाफलम् ४१।
अश्वत्थचलपत्राग्र लीनतोयद्रवास्तिके ।
जीवितेन हि यो दद्यात्तस्य जन्म निरर्थकम् ४२।
परलोकसहायो हि धर्मो भार्या न बांधवाः ।
भार्य्या वा पितरौ पुत्रा यावदायुर्न बांधवाः ४३।
संपद्वयः सुहृदिह इहामुत्र हि तं स्थितम् ।
धर्मं धर्मभृतां श्रेष्ठं भुंक्ते चान्ये किमावयोः ४४।
इति भार्य्यावचः श्रुत्वा आकथः करुणानिधिः ।
अविशंकितमेवास्मै दत्तवानन्नमूर्ज्जितम् ।
अयं स शंकरो देवो नानाकरणमागतः ४५।
इति निश्चित्य मनसा तस्यांगं पापनाशनम् ४६।
आजानुपादं प्रक्षाल्य परा जंघमतः परम् ।
गुल्फं च तदधस्तस्य प्रक्षाल्याचामय द्द्विजम् ४७।
अथाकथोऽपि पत्संधिं गृहांगणमुपानयत् ।
उन्मुच्य पादसंधिं स निषसादार्पितासने ४८।
समभ्यर्च्याकथः सम्यग्भोजयामास तं मुनिम् ।
एतस्मिन्नंतरे कश्चिदुन्मत्तो गृहमागतः ४९।
पादसंधिमथादाय गृहबाह्यमुपानयत् ।
अथादहच्च तद्गेहं दंपती चाप्यताडयत् 5.117.५०।
आकथस्ताडितो विप्रो दह्यमानं गृहं तदा ।
विवेश देवमीशानमादातुं तूर्णमेव वा ५१।
अथादाय महेशानं दग्धपूजं द्विजोत्तमः ।
निर्गत्य च ततो दृष्ट्वा मुखसंतापमेव च ५२।
दग्धपूजां तिरस्कृत्य वीक्ष्य दग्धांगमप्युत ।
भार्यामुवाच धर्मात्मा यथापूजा महेशितुः ५३।
तथा मम समस्तांगं कर्त्तव्यमविशंकितम् ।
व्यंग उवाच-
पश्चादपि कृता पूजा सफला ते भविष्यति ५४।
यथान्यद्रव्यदहने तादृशं दीयते जनैः ।
पूजाया दहने तद्वत्पूजास्य क्रियतामिति ५५।
आकथ उवाच-
चौर्येणाप्यर्जितैर्द्रव्यैः पूजया न हितं भवेत् ।
न चान्यायार्ज्जितैर्विप्र शंभोः पूजा शुभप्रदा ५६।
इत्युक्त्वा चाकथस्तूर्णं स्वांगं दग्धुमुपाक्रमत् ।
दग्धं लिंगं तदोन्मत्तो गृहीत्वांतर्दधे क्षणात् ५७।
अथ व्यंगो हरो भूत्वा वारयामास चाकथम् ।
किमर्थं खिद्यते विप्र वरदोऽहं वरं वृणु ५८।
आकथोऽपि विभोः पादे भक्तिं वव्रे सुनिश्चलाम् ।
सूत उवाच-
एतां श्रुत्वा कथां रामः प्रहृष्टो मुनिभिर्वृतः ५९।
भारद्वाजं नमस्कृत्य प्रयाणाज्ञामयाचत ६०।
अथो भरद्वाजमुनिः प्रसन्नः शंभुं वसिष्ठं मुनिपुंगवं च ।
नारायणं चर्षिगणांश्च नत्वा व्यसर्जयत्तेऽपि ययुः प्रणम्य ६१।
नैमिषीया ऊचुः -
गत्वायोध्यां महातेजाः समस्तमुनिसंयुतः ।
किं चकार ततो रामः स च शंभुर्महायशाः ६२।
सूत उवाच-
कौसल्या मासिकश्राद्धमपरेऽहनि राघवः ।
चिकीर्षुर्द्विजप्रवरानृषिकल्पान्न्यमंत्रयत् ६३।
शंभुं समस्तत्त्वज्ञं नारदं रोमशं भृगुम् ।
विश्वामित्रमथो राम एकभक्तव्रती ततः ६४।
भूमौ सुखास्तृतायां च सुष्वापा व्याकुलेंद्रियः ।
परेद्युरथ संप्राप्ते प्रातःस्नात्वा विधानवित् ६५।
अन्नं शाकादिकं शुद्धं जनैरेवान्वकारयत् ।
नानान्नानि विचित्राणि चोष्याद्यानि तथैव च ६६।
वटकादींस्तथा भक्ष्यानष्टत्रिंशदकल्पयत् ।
पायसं षड्विधं चैव पक्वशाकशतद्वयम् ६७।
अपक्वमिश्रकाणां च शतत्रयमकल्पयत् ।
कालशाकादिकं शाकं फलानि विविधानि च ६८।
मूलानि चैककंदानि वल्कलानि च राघवः ।
कारयित्वा नदीं गत्वा सहभ्रातृपुरोहितः ६९।
सरयूसलिले स्नात्वा हुत्वाग्निं स्वागतान्द्विजान् ।
उक्त्वा तु स्वागतं तांस्तु कृतदेवार्चनो नृपः ७०।
प्राणानायम्य संकल्प्य क्षणं चैव प्रदत्तवान् ।
रोमशं नारदं रामो वैश्वदेवे न्यमंत्रयत् ७१।
शंभुं भृगुं कौशिकं च मातृस्थाने न्यमंत्रयत् ।
गोमयेन ततः कृत्वा मंडलं पूज्य चार्हतः ७२।
पादप्रक्षालनं चक्रे सीतादत्तोदकेन च ।
आचामयित्वा तान्विप्रान्गृहं गंतुमथोद्यतः ७३।
अभ्यागतः समायातः स्थविरो विकृताकृतिः ।
कृशः संप्रचलद्गात्रो वेपितांघ्रिशिरास्तथा ७४।
लंबमानत्वगुत्कर्षच्छ्वासकासादिपीडितः ।
दूषिकाक्लिन्नगंडश्च लालासंपृक्तकूर्चकः ७५।
उवाच रामं राजानमहमेको द्विजः स्थितः ।
ममापि भोजनं देयं स्थविरस्य कृशस्य च ७६।
रामोऽपि तद्वचः श्रुत्वा लक्ष्मणं वाक्यमब्रवीत् ।
पादौ प्रक्षालयास्य त्वमहमभ्यर्चये द्विजम् ७७।
अभ्यागतोऽपि वचनमाह राममथाकुलम् ।
त्वया प्रक्षालिते पादे मम भोजनमिष्यते ७८।
मत्तोऽधिका द्विजाः किं ते येन मामवमन्यसे ।
श्राद्धधर्मं न जानीषे महर्षिगणसेवितम् ७९।
ममावमानतः सर्वविप्राणामवमाननम् ।
श्राद्धं विहन्यते चापि नरकं च गमिष्यसि ८०।
अथ रामः स्वयं विप्रपादौ प्राक्षालयत्तदा ।
आचामयित्वा तं विप्रं गृहं प्रावेशयत्ततः ८१।
आचान्तश्च स्वयं रामो विष्टरं दत्तवानथ ।
आसीनेषु च विप्रेषु प्राणवायुं निरुध्य च ८२।
स्वकर्मकरणानुज्ञां लब्ध्वाऽथ सतिलं जलम् ।
अपहतेति मन्त्रेण द्वारदेशे विचिक्षिपेत् ८३।
उदीरतामिति तथा पितृपात्रस्थले क्षिपेत् ।
गायत्र्या चाक्षतजलं देवपात्रस्थले क्षिपेत् ।
पाकजातं तथाऽभ्युक्ष्यम न्त्रमेतदुदीरयेत् ८४।
श्राद्धभूमिं गयां ध्यात्वा ध्यात्वा देवं जनार्दनम् ।
वस्वादींश्च पितॄन्ध्यात्वा ततः श्राद्धं प्रवर्तयेत् ८५।
विश्वेदेवार्चनं कुर्याद्यवैर्वा तण्डुलैरथ ।
मूलाग्रयोजितौ दर्भौ गृहीत्वा साक्षतावथ ८६।
भूस्पृष्टदक्षजानुस्तु द्विजहस्ते जलार्पणम् ।
पुरूरवार्द्रवाणां वै देवानामिदमासनम् ८७।
इति दत्त्वाऽसनं तेषां श्राद्धदः प्रार्थयेत्क्षणम् ८८।
अर्घं कृत्वा ततः पश्चादुत्तराग्रकुशेष्वथ ।
न्युब्जं पात्रं ततः कृत्वा कुशग्रन्थिमथोपरि ८९।
उत्तानं तु ततः कृत्वा जलैरभ्युक्ष्यरौक्मकैः ।
पवित्रान्तर्हिते पात्रे शं नो देव्या जलं क्षिपेत् ९०।
वैश्वदेव्याऽखिलं कर्म यावत्तद्विधिचोदितम् ।
यवोऽसि धान्यराजो वा इति पात्रे क्षिपेद्यवान् ९१।
मधुमिश्रांस्तु करकान्गन्धपुष्पैस्ततो ददेत् ।
द्विज तेऽस्त्वर्घ इत्युक्त्वा त्वस्त्वर्घोत्तरतस्ततः ९२।
आवाहयिष्ये तान्देवानिति पृष्ट्वा तदुत्तरम् ।
विश्वेदेवास इत्युक्त्वा विप्रमूर्ध्नि कुशान्क्षिपेत् ९३।
विश्वेदेवाः शृणुतेममागच्छन्त्विति संजपेत् ।
समागतो निषण्णोऽथ सदर्भं पात्रमाहरेत् ९४।
दक्षिणे चरणे क्षिप्त्वा मुख्यपात्रोदकं ततः ।
विप्रस्य दक्षिणे हस्ते प्रागग्रेऽथ पवित्रके ९५।
या दिव्या इति मंत्रेण निक्षिपेत्पात्रवारितत् ।
इदं भो अर्घमित्युक्त्वा ह्यस्त्वर्घोत्तरतस्ततः ९६।
पात्रे धृत्वाऽर्घतोयं च तत्पात्रं स्थापयेत्क्वचित् ।
अथ दत्त्वा करे तोयं यवैरेतानथार्चयेत् ९७।
अर्चत प्रार्चत इति पृष्ट्वा चोत्तरतस्ततः ।
पादादिमूर्धपर्यन्तमभ्यर्च्य जलदस्ततः ९८।
गन्धद्वारेति मन्त्रेण तथेत्युक्त्वोत्तरस्ततः ।
पितॄणामर्चनं कुर्यादेवमेवापसव्यकम् ९९।
उपवीतं द्विजं कृत्वा कुशान्भग्नांस्तिलान्वितान् ।
वामजानुं भूमिगतं कृत्वा दद्यात्तदासनम् 5.117.१००।
दक्षिणाभिमुखो भूत्वा क्षणप्रश्नमथो वदेत् ।
दक्षिणाग्रेषु दर्भेषु न्युब्जं पात्रत्रयं न्यसेत् १०१।
त्रिकुशग्रन्थिसंयुक्तमुत्तानमथ कल्पयेत् ।
ततः संप्रोक्ष्य पात्रेषु सपवित्रतिलेषु च १०२।
शं नो देव्या जलं क्षिप्त्वा तिलोऽसीति तिलान्क्षिपेत् ।
गन्धपुष्पमथो दत्त्वा स्वधार्घ इति पृच्छति १०३।
दत्तोत्तरोऽस्त्वर्घ इति पितॄनावाहयेत्ततः ।
तिलपुष्पकुशैस्तिष्ठन्कल्पितार्घं करे दधत् १०४।
उशन्तस्त्वेति मन्त्रेण त्रिरर्घोदकमर्पयेत् ।
अर्चनं तु तदा तेषामपसव्यं तु पूवर्वत् १०५।
प्रक्षाल्य भाजनं स्वर्णं देवानां परिकल्पयेत् ।
पितॄणां राजतं कुर्याद्यथासंभवमेव वा १०६।
तदभावे तु कांस्यं स्यादनन्याशितमुत्तमम् ।
पात्राणि तदभावे स्युः पालाशानि न मध्यमम् १०७।
रम्भाणि चूतपत्राणि जम्बूपुंनागकानि च ।
पराकान्यथ चाम्पानि मधूककुटजान्यपि १०८।
मातुलुङ्गस्य पत्राणि श्राद्धे देयानि वै नृभिः ।
दर्व्यामन्नमथाऽदाय कराभ्यामाज्यमेव च १०९।
प्रवेषणं ततः पृच्छेत्प्राचीनावीतवान्द्विजम् ।
करिष्येऽग्नौकरणमिति कुरुष्वेति तदुत्तरम् ११०।
परिविष्योपवीती स्यादभिघार्य समाहरेत् ।
हुनेत्सोमाय पितृमते स्वधा नम इतीरयन् १११।
यमायाङ्गिरसे पितृमते स्वधा नम इति ।
द्वितीयामाहुतिं हुत्वा चाभिघार्याक्षतं ततः ११२।
अग्नये कव्यवाहनाय स्वधा नमस्ततः परम् ।
हुत्वाऽपसव्यं कृत्वा तु परिविष्य द्विजान्व्रजेत् ११३।
मेक्षणेन ततोऽभीक्ष्णं पातयेत्पितृपात्रके ।
पिण्डपात्रमतः शेषं दर्वीप्रक्षालनं ततः ११४।
मेक्षणस्याग्निनिक्षेपं ततः पात्राण्युपस्तरेत् ।
पात्रदक्षिणभागे तु दद्यादन्नमनन्तरम् ११५।
भक्ष्याणि भोज्यशाकानि सर्वाण्येव स दत्तवान् ।
अथातिथिर्महावृद्धो वीक्षमाणस्ततस्ततः ११६।
उवाच राघवं शान्तं शीघ्रमेव नमस्कुरु ।
बुभुक्षा वर्ततेऽस्माकं भोक्ष्येऽहं वा तवाऽज्ञया ११७।
रामो बभाषे वचनं विलम्बय क्षणं मुने ।
देवताः पितरो मङ्क्षु नमस्यन्तेऽधुना मया ११८।
इत्युक्त्वा राघवः प्रादादन्नं पात्रगतं तदा ।
प्राक्सौम्याग्रान्कुशान्दैवे प्रतीचीदक्षिणाग्रकान् ११९।
पित्र्ये पवित्रे ये दर्भा यवानथ तिलानपि ।
अन्नप्रदानं कुर्वन्ति पृथिवी इति मन्त्रतः १२०।
इदं विष्णुरिति स्पृष्टमङ्गुष्ठेन द्विजस्य तु ।
देवेभ्यः प्रथमं दद्याद्ये देवा इति वै पठन् १२१।
पितॄणां च ततो दद्याद्दद्यादतिथये ततः ।
देवताभ्य इति मुखानुच्चार्याऽपोशनं ददेत् १२२।
त्रिर्जपित्वा तु गायत्रीमुपवीती पुरोमुखः ।
प्राचीनावीतवान्ब्रूयान्मधुत्रयमतः परम् १२३।
भुञ्जध्वमिति तानुक्त्वा भुञ्जानेषु द्विजातिषु ।
रक्षोघ्नमन्त्रपठनं भक्ष्यभोज्यादि दापयन् १२४।
एतस्मिन्नन्तरे विप्रो योऽतिथिस्तदिदं तथा ।
कृतवान्महदाश्चर्यं तद्वदामि समासतः १२५।
पात्रस्थितमशेषं च ग्रासेनैकेन चाग्रसत् ।
प्राणाहुतीनां पर्याप्तं दीयतामिति चाब्रवीत् १२६।
एतावद्दातुमशक्तः कथं श्राद्धक्रियोद्यतः ।
ममैकस्य प्रदाने त्वमशक्तो राम किं वृथा १२७।
बहूनां भोजनं दातुमुद्युक्तो राम किं वृथा ।
सहसा कृतकर्माणि न समाप्तिं प्रयान्ति च १२८।
त्वया कृतमशेषाणां नालं प्राणाहुतिर्मम ।
कथं मे दीयते भुक्तिः कथमेषां तथा वद १२९।
रामस्तमब्रवीद्वीरो भुंक्ष्व त्वं हि यथासुखम् ।
इत्युदीर्य निरीक्ष्यास्य कर्म तत्परमाद्भुतम् १३०।
अथ शंभुं समाहूय प्राह त्वं परिवेषय ।
त्वं पिता पार्वती माता शिवा देवीति मे मतिः १३१।
अन्नपूर्णेश्वरी देवी भवान्येवेति मे मतिः ।
सा शांभवी वचः प्राह तत्पर्याप्तं ददाम्यहम् १३२।
अथोमा कांस्यमादाय भिस्सापूर्णमलंकृतम् ।
स्वर्णदर्व्या समादाय पायसं गन्धकान्तिमत् १३३।
अस्याक्षयमिदं भूयादिति प्रादात्तु पायसम् ।
द्विजस्य दक्षिणे हस्ते साऽददात्सत्कृतं मुदा १३४।
सशिरः कम्पमानस्तु ऊर्ध्वदृष्टिरथाभवत् ।
प्रसारितकरश्चाऽसीद्गृहीत्वा पायसं करे १३५।
दीयतां पायसं स्वादु सुष्ठु पक्वमिदं तु किम् ।
शंभुपत्नी बभाषे तं करे भुंक्ष्व ततो ददे १३६।
अभक्षयत्ततो विप्रः पुनः करतले स्थितम् ।
तदक्षयमथ ज्ञात्वा प्रासारयदथेतरम् १३७।
तस्मिन्करतले देवी पायसं दत्तवत्युत ।
अन्येषामपि विप्राणां पक्वाक्षय्यमदात्सती १३८।
अथ पाणिद्वयगतं विज्ञायाक्षय्यपायसम् ।
दृष्ट्वा करान्तरमथो प्रासारयत स द्विजः १३९।
उवाचान्नं प्रदातव्यं ससूपघृतमुत्तमम् ।
शिवादेवी तथा प्रादादक्षय्यं शंभुवल्लभा १४०।
यद्यत्प्रादात्तदा साध्वी सर्वमेव तदक्षयम् ।
करान्तरमथोसृष्टं परिपूर्णं पुनःपुनः १४१।
एवं करसहस्रं तु कृत्वा स विरराम ह ।
उवाच वचनं विप्रो देहि गण्डूषवारि मे ।
तर्पितोऽस्मि त्वया भद्रे न रामेण न सीतया १४२।
शंभुरुवाच-
रामेण सीतया दत्तं मया दत्तं हि यत्र च ।
इतः परं हि किं देयं पूर्णं वा त्वं वदस्व मे १४३।
द्विज उवाच-
तृप्तोऽस्मि न च मे देयमधिकं च करस्थितम् ।
विद्वन्नतः करगतं न पपात कथंचन १४४।
निषण्णो हि चिरं दध्यौ कथं मे केवलः करः ।
भुक्त्यै कृतमिदं सर्वं नान्यस्मै कर्मणे मम १४५।
तस्मादन्यकृतेरेतत्सर्वं रिक्तं भविष्यति ।
इति निश्चित्य मनसा लिप्ताङ्गोऽतिथिराभवत् १४६।
पश्यत्सु सर्वदेवेषु तदद्भुतमिवाभवत् ।
तृप्तानथ द्विजाञ्ज्ञात्वा राघवः परमार्थवित् १४७।
दर्वीकरोऽथ तृप्ताः स्थ इति पृष्ट्वा यथाविधि ।
तृप्ताः स्म इति विप्रेन्द्रा विकीर्यान्नं समन्त्रकम् १४८।
पात्रस्य याम्याभिमुखः संनिधौ पिण्डमर्पयेत् ।
गण्डूषमपि विप्राणां तत्रैव परिकल्पयेत् १४९।
उच्छिष्टपर्णपात्रेषु ते गण्डूषमकुर्वत ।
गृहान्तरे च ते विप्रा विविशुस्त्वतिथिं विना 5.117.१५०।
आहातिथिर्बहिः कार्यं मयाऽचमनं विट्पते ।
उत्थातुं नैव शक्नोमि करं मे देहि राघव १५१।
अथ रामः करं प्रादान्नोत्थितस्तु द्विजोत्तमः ।
हनूमानथ चाप्यस्य दत्तवान्बलवत्करम् १५२।
इतरेण गृहीत्वा तु करेण द्विजपुंगवम् ।
आचकर्ष कपीन्द्रस्तु द्विजः साक्रोशमुक्तवान् १५३।
द्विज उवाच-
छिद्यते मे करो व्यक्तमुत्थापय ततोऽन्यतः ।
लांगूलेन सपीठं तमावृत्याऽमस्तकं बलात् १५४।
अथाधावत्ततः पृथ्वीं द्विजस्तु न चचाल ह ।
अथ वानरवीरस्तु पद्भ्यां च कृन्ततां महीम् १५५।
पादौ विन्यस्य सुदृढौ द्विजमूर्धानमाक्षिपत् ।
विशीर्णमभवद्वेश्म द्विजाः सर्वे बहिस्तथा १५६।
सह वृद्धद्विजः सोऽथ हनूमान्बहिरभ्यगात् ।
पीठे च स्थापयामास ब्राह्मणं स्थविरं कृशम् १५७।
द्विजाय जलमादाय जाम्बवान्मृण्मये घटे ।
आह स्वच्छं जलं विप्र त्वयाऽदेयं सभाजनम् १५८।
सीता प्रक्षालयेदङ्गं लक्ष्मणो जलदो भवेत् ।
जाम्बवानाह तं रामं ब्राह्मणोक्तमशेषतः १५९।
द्विजप्रक्षालने रामो व्यादिदेशानुजं प्रियाम् ।
सौमित्रिर्जलमादाय द्विजाङ्गक्षालने तथा १६०।
प्राक्षालयदशेषाङ्गं प्रतिमामिव भूभुजः ।
अथ रामोपदेशेन चक्रतुस्तौ तथैव च १६१।
अथातिथिः स्वगण्डूषं सीतावक्त्रे व्यमुञ्चत ।
सालंकाराऽम्बुभिर्व्याप्ता प्राक्षालयदथो सती १६२।
श्लेष्मलालासुप्रचुरं मुखं विप्रस्य सा सती ।
प्रममार्ज पुनः क्षाल्य नासा श्लेष्माणमत्यजत् १६३।
आचामयित्वा सौमित्रिरुत्तिष्ठेत्यब्रवीद्द्विजम् ।
द्विजो न शक्यमित्याह हनूमानप्यथाऽगतः १६४।
अतिथिः प्राह तं विप्रः पीडितोऽहं हनूमता ।
गृहीत्वोद्धरता पूर्वं पातितो वानरेण च १६५।
जांबवानथ तं प्राह लोमांगं मम वै मृदु ।
मयाथ ध्रियसे विप्र न च पीडा भविष्यति १६६।
इत्युक्त्वा जांबवान्विप्रं दोर्भ्यामालंब्य चोद्धरत् ।
द्विजप्रांतमथादाय स्थापयामास तं मुनिम् १६७।
अथ रामो द्विजेंद्राणां प्रदक्षिणमवर्तत ।
दत्ताशीरपि विपेंद्रैर्दत्वा तांबूलमग्रतः १६८।
पादावलंबकृद्रामो भ्रातृभिः सह चाब्रवीत् ।
अयि सीतेऽतिथेरस्य त्वया न क्षालितं वपुः १६९।
जंघायुगेऽतिथेरस्य मलं चास्यं मलान्वितम् ।
सम्यक्प्रक्षालय मुखं द्विजो न सहते मलम् १७०।
सीतोवाच-
अथ प्रक्षालितं सम्यगिदानीं निर्गतं पुनः ।
राम उवाच-
पुनः प्रक्षालय मलं दोषः स्यादन्यथा मम १७१।
अथ सीता तथा कृत्वा तूष्णीमेव बभूव ह ।
आह रामं च सीतां च द्विजः परमकोपवान् १७२।
पादौ यौ मम राजेंद्र तौ सीता लंबयेदिति ।
भवान्करौ च भरतो मम वीजं प्रयच्छतु १७३।
लक्ष्मणः केशनिचय प्रसाधनकरो भवेत् ।
शत्रुघ्नः श्लेष्मनिर्मुक्तिं स्ववस्त्रेण करोतु मे १७४।
सूत उवाच-
अथ ते चक्रुरतिथेरशेषमुदितं तथा ।
तथापुर्विस्मयं विप्रा नरवानरराक्षसाः १७५।
शिवा देवी च शंभुश्च सभ्रूभंगमुदैक्षताम् ।
मनसा चाप्यभाषेतामतिथिःशंभुरेव च १७६।
अतिथिश्च प्रसन्नोऽभू च्छंखचक्रगदाधरः ।
पीतांबरः समस्तांगभूषितोऽतीव दीप्तिमान् १७७।
यः पुराराधितः शंभुः प्रसन्नोऽभूत्त्रिलोचनः ।
शुद्धस्फटिकसंकाशः सर्वाभरणभूषितः १७८।
कोटिसूर्य्यप्रतीकाशः किरीटीकरुणानिधिः ।
आलंब्य चक्रिणः पाणिमातिष्ठत सदाशिवः १७९।
रामः परमधर्म्मात्मा पुलकांचितविग्रहः ।
दंडवन्निपपातोर्व्यामानंदप्लाविते क्षणः १८०।
अनमन्भ्रातरस्तस्य दंडवद्भूतले स्थिताः ।
शिव उत्थाप्य काकुत्स्थमालिंग्याघ्राय मस्तकम् १८१।
उवाच मधुरं वाक्यं रामं राजीवलोचनम् ।
शिव उवाच-
वरं वृणु प्रसन्नोऽस्मि ब्रह्मादेरपि दुर्लभम् १८२।
तवादेयं न मे किंचिद्वृणु त्वं न चिराय वै ।
श्रीराम उवाच-
न याच्यं मे जगन्नाथ भूराज्यं मम सांप्रतम् १८३।
स्वर्गश्च कर्म्मभिः प्राप्तो भक्तिस्त्वत्पाददर्शनात् ।
आरोग्यं पश्य भुंजेऽहं सा सीता योषितां वरा १८४।
वशीकृताः सर्वनृपाः प्रजाधर्मसमन्विताः ।
हर्ष एव ममापन्नस्त्वदागमनतोऽच्युत १८५।
तथापि वरये किंचिद्भक्तिरस्तु स्थिरा त्वयि ।
तथा मम गृहे देव त्रिवर्षं तिष्ठ हे प्रभो १८६।
ब्रुवन्समस्तधर्मांश्च रूपेणानेन शंकर ।
शिव उवाच-
एवमस्तु तथा राम सर्वं ते संभविष्यति १८७।
अथाह चक्री राजानं रामं राजीवलोचनम् ।
वरं वृणु महाभाग प्रसन्नोऽहं यमिच्छसि १८८।
श्रीराम आह वचनं मम प्रार्थ्यं न चास्ति हि ।
यत्प्राप्यं शंभुतः प्राप्तमन्यत्सर्वमुदीरितम् १८९।
किं चैकं वरये विष्णो प्रसन्नः सर्वदा भव ।
अथसी तां हरिः प्राह प्रसन्नोऽहं तवाधुना १९०।
वरं वृणु प्रयच्छामि ततः सीताब्रवीदिदम् ।
वरो वृतः पुरा भर्त्रा न चान्यो मे वरोवरः १९१।
यदि कामं प्रयच्छेथा मनश्च परपूरुषात् ।
संनिवृत्तं च भवतान्नमस्तेऽस्तु द्विज प्रभो १९२।
अथ ते मुनयः सर्वे प्रणेमुर्देवतोत्तमौ ।
अथासौ राघवं प्राह भुंक्ष्व त्वं बंधुभिः सह १९३।
एकांतमंदिरे रम्ये देव्यासहवसामिते ।
विष्णुः समस्तकरणः समुद्र तनयान्वितः १९४।
एकस्मिन्मंदिरे राम तिष्ठतां लोलुपो हि सः ।
अथ शुद्धमहागारे पीठाढ्ये बहुभाजने १९५।
अग्रे वसिष्ठो भगवानुपविष्टस्तयोर्मुनिः ।
अपरे ऋषयः सर्वे यथावृद्धं नृपास्तथा १९६।
तेषामभिमुखो रामो भ्रातृभिः सहितो नृपः ।
तरुणे समभागे च आसने तानवेशयत् १९७।
हनूमत्प्रमुखान्भृत्यानाहरामोऽनुसांत्वयन् ।
भवंतः परितिष्ठंतु पश्चाद्भुंजे न चान्यथा १९८।
ततस्ते प्रददुः सर्वे पादार्घाननुपूर्वशः ।
बुभुजुश्चापि ते सर्वे ये रामस्योपसेविनः १९९।
तेषां दत्वाथ तांबूलं कपींद्रादीनभोजयत् ।
भुक्तवत्सु समस्तेषु रामो राजीवलोचनः 5.117.२००।
दीनांधकृपणादीनां पशुपक्षिमृगस्य च ।
दत्वाहि भोजनं संध्यां वंदितुं हि समारभत् २०१।
संध्याजपादिकं कृत्वा नत्वा तेषां नृपस्ततः ।
सिंहासनगतो रामः पौरजानपदादिभिः २०२।
सेव्यमानः सभास्थानगतो रेजे स राघवः ।
सर्वदेवपरीवारो यथा देवः शचीपतिः २०३।
राजकार्यमशेषं च कृतवान्भ्रातृभिः सह ।
नाम्ना चैकैकशः सर्वान्विससर्ज स राघवः २०४।
भ्रातॄन्विसर्जयामास वानरादींस्तथापरान् ।
अथ रामं महातेजा वसिष्ठो वाक्यमुक्तवान् २०५।
तव प्रातर्हि यत्कार्यं न च विस्मर राघव ।
आस्ते शंभुर्जगन्नाथो भगवानंबिकापतिः २०६।
स्मर्तव्यो वन्दनीयश्च भगवानथ यत्नतः ।
तथेत्युक्त्वा गुरुं राजा नत्वा तं च व्यसर्जयत् २०७।
स्वयं च भार्यामभजद्देवदेवं विचिंतयन् ।
ऋषय ऊचुः -
प्रातः समुत्थाय गुरो रामो मतिमतां वरः ।
किं चकार तदाख्याहि श्रोतुं कौतूहलं हि नः २०८।
सूत उवाच-
शंभुं विलोक्याथ ततो बभाषे रामः कथां कीर्त्तय शंकरस्य ।
तृप्तिर्न जाता मुनिवर्य शृण्वतो महेशमाहात्म्यमघौघनाशनम् २०९।
शंभुरुवाच-
अथप्रश्नशेषस्योत्तरमीशभाषितं ते कीर्तयिष्यामि ।
अन्यायोपार्जितद्रव्यैरीश्वरं य उपासते ते व्यंगा जायंते २१०।
तद्यथाकश्चिद्रूपको नाम राक्षसोऽन्यायार्जितेनद्रव्येण शंकरमाराध्य तेनैव द्रव्येण घंटामीश्वरप्रीतये कृतवान् २११।
तस्य पुत्रः संपातिरिति ख्यातः चौर्य्यार्जितैः शंकरं पूजयामास २१२।
तावुभावेकस्मिन्दिवसे मम्रतुः गतौ शिवलोकं वीरभद्रेण भाषितौ च २१३।
भो रूपक अन्यायार्जितेन द्रव्येण भवता पूजाकृता घंटादिकं च तेन भावेन व्यंगो भूत्वा चौरगणो भविष्यसि २१४।
शिवपदवचनाद्व्यक्तं नामाश्रवणात् ।
श्रोत्रं तस्य स्वनेन ध्वस्तं भवति नो दर्शनमेतावतादेव त्वयेश्वरपूजा सम्यक्कृता २१५।
अतो भक्तिश्च भविष्यति वीरभद्रस्त्वनशनं नामगणं क्वचिद्विचरंतमित्यादिदेश २१६।
तौ च तथाभूतौ शिवलोकेऽतिष्ठताम् २१७।
शंभुरुवाच-
अथोपहतद्रव्यपूजाकथां हनूमते महेशभाषितां कथयिष्यामि २१८।
शृणु राघव प्रमथानां चरित्रमेकैकस्य कर्मविपाकं कथयिष्यामि २१९।
उपहतांगगणव्याख्याक्रियतामिति हनूमत्पृष्टः ।। ।
शिव उवाच २२०
तदुपहतद्रव्यं ज्ञानतो य ईश्वरेऽपयिष्यति एतदुक्तं ज्ञानिनोऽत शृणुः २२१।
एष सर्वांगस्वेदिलः सर्वकालं सर्वांगस्वेदिलः स्वेदार्द्र वसनः स्वेदसंपादिताल्पप्रवाहशरीरो नासाग्रनिपतितस्वेदबिंदुः स्पर्शायोग्यो दृश्यते २२२।
स पुरा स्वेदकरणेश्वरार्चनं कृतवान् ।
अत्रेतिहासं कीर्तयिष्यामि २२३।
चेकितानिरिति ख्यातो ब्राह्मणः कर्षकोभवत् ।
स नित्यं कृषिमुत्पाद्य प्रातः स्नात्वा च नित्यशः २२४।
मध्याह्नकाले संप्राप्ते संजपन्ब्राह्मणस्त्वसौ ।
अन्नमानय मे क्षिप्रमिति भार्यामभाषत २२५।
तयानीतेन चान्नेन वेगेन शिवपूजनम् ।
कृतवानर्कसंतप्तः स्वेदिलः सर्वदैव तु २२६।
गंधपुष्पाक्षताद्यैश्च स्वेदबिंदुसमन्वितैः ।
अथ सायंदिने प्राप्ते क्षालितांगः सुशोभनः २२७।
पूजयामास देवेशं कालसंभवसाधनैः ।
ममाराथ महाबुद्धिः शिवलोकं गतश्च सः २२८।
वीरभद्रेण चाप्युक्तो भव त्वं स्वेदिलो गणः ।
स्वेदस्पृष्टपदार्थैश्च पुरा शंभुः प्रपूजितः २२९।
नित्यं स्वेदसमायुक्तस्तेन स्वेदगणो भव ।
शंभुरुवाच-
वीरेणाथ समादिष्टः प्राप्तो रामगणस्त्वयम् २३०।
अमुं घंटामुखं पश्यायं पुरा वैश्यो विभावसोनाम धार्मिको महादानकर्त्ता नित्यं ब्राह्मणभोजनं कारयित्वा कृतानुष्ठानः प्रातःकाले शिवं नमस्कृत्य कुसुमैः संपूज्य किंचित्प्रदेशं गोमयेनोपलिप्य पद्मादिकमर्जयित्वा देवाय समर्प्य उपहत घंटानादं कृतवान् २३१।
राम उवाच-
कथमुपहतघंटा २३२।
शंभुरुवाच-
आसीत्पुरा बलः कश्चित्सोम इत्यभिविश्रुतः ।
तस्य पुत्रश्च मंदाख्यो दशवर्षवया अभूत् २३३।
स चाग्निपक्वकुल्माषान्घंटायां प्राक्षिपन्नृप ।
तानभक्षयदप्येष तेन चोपहताभवत् २३४।
गृहीतुमथ तं वैश्यं यतमानोऽब्रवीदिदम् ।
अथ वैश्यः स्वयं तत्र निश्चित्य द्रव्यशोधनम् २३५।
लौकिके कृतवाँल्लोके व्यवहारपदश्च ताम् ।
एतेन पापयोगेन गणो घंटामुखोऽभवत् २३६।
राम उवाच-
द्रव्यशुद्धेर्विशुद्धा सा कथं पापस्य कारणम् ।
सम्यगुक्तं द्रव्यशुद्ध्यै कथं न द्रव्यशोधिनी २३७।
शंभुरुवाच-
न लौकिकव्यवहृतौ तवाभक्तो भविष्यति ।
स याति च शिवस्थानं वक्ता चापि तथा भवेत् २३८।
सूत उवाच-
यश्च वक्ति कथामेतां स तेन सदृशो भुवि ।
गुह्याद्गुह्यतमं विप्राः शिवज्ञानप्रदं भवेत् २३९।
एतद्वः कथितं विप्राः पुण्यायुष्यतमं महत् ।
य इदं शृणुयाद्भक्त्या शिवलोके महीयते २४०।
पुराणवक्त्रे दातव्यं वस्त्रं गोहेमभूषणम् ।
भूमिः सस्यफलोपेता देया शक्त्यनुसारतः २४१।
शिवराघवसंवादं सर्वाघौघनिकृंतनम् ।
यः पठेच्छृणुयाद्वापि स याति परमं पदम् २४२।
।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे उपरिभागे राममोक्षोनाम सप्तदशाधिकशततमोऽध्यायः ११७ ।
समाप्तं पञ्चमं पातालखण्डम् ५।
इति श्रीपद्मपुराणे पञ्चमं पातालखण्डं समाप्तम् ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 1
ॐ श्रीविष्णवे नमः ।
ॐ श्रीवेदव्यासाय नमः ।
ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् १।
अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः २।
ऋषय ऊचुः -।
श्रुतं पातालखंडं च त्वयाख्यातं विदांवर ।
नानाख्यानसमायुक्तं परमानंददायकम् ३।
अधुना श्रोतुमिच्छामो भगवद्भक्तिवर्द्धनम् ।
पाद्मे यच्छेषमस्तीह तद्ब्रूहि कृपया गुरो ४।
सूत उवाच-।
शृणुध्वं मुनयः सर्वे यदुक्तं शंकरेण हि ।
पृच्छते नारदायैव विज्ञानं पापनाशनम् ५।
एकादा नारदो लोकान्पर्यटन्भगवत्प्रियः ।
गतोऽद्रि मंदरं शंभुं प्रष्टुं किंचिन्मनोगतम् ६।
तत्रासीनमुमानाथं प्रणिपत्य शिवाज्ञया ।
उपविष्टः समादिष्ट आसनेऽभिमुखो विभोः ७।
नारद उवाच।
पप्रच्छ इदमेवेशं यन्मां पृच्छथ सत्तमाः ।
भगवन्देवदेवेश पार्वतीश जगद्गुरो ८।
भगवत्तत्वविज्ञानं येन स्यात्तन्ममादिश ।
शिव उवाच।
शृणु नारद वक्ष्यामि पुराणं वेदसंमितम् ९।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।
प्रथमोत्तरकीर्तिः स्यात्पर्वताख्यानमेव च १०।
जालंधरं तथाख्यानं श्रीशैलाख्यं ततः परम् ।
हरिद्वारस्य व्याख्यानं विष्णुपादोद्भवां तथा ११।
प्रयागतीर्थं ते वक्ष्ये दशाश्वमेधिकं च तत् ।
तुलसीमहिमाचैव शंखचक्रगदादिकम् १२।
द्वारकायास्तथाख्यानं महोत्सवविधिस्ततः ।
तडाकजं तथा पुण्यं वापीकूपप्रपादिकम् १३।
गाणपत्यं ततो वक्ष्ये वैष्णवागममेव च ।
जीर्णोद्धारस्य माहात्म्यं मंदाकिनी समागमम् १४।
साभ्रमत्यास्तु माहात्म्यं माहात्म्यं तीरजं तथा ।
स्त्रीशूद्राणां तथा धर्मं तथा त्याज्यैश्च धारणम् १५।
उमामहेशसंवादे प्रोक्तं नामसहस्रकम् ।
कैलासात्तत्समानीतं नारदेनाग्रजन्मना १६।
लोकानां ब्राह्मणानां च क्षत्रियाणां विशेषतः ।
स्त्रीशूद्राणां विशेषेण पठितव्यं समाहितैः १७।
इदं पवित्रं परमं पुण्यमायुष्यवर्धनम् ।
पठितव्यं विशेषेण विष्णोः सायुज्यमाप्नुयात् १८।
विष्णोर्नामसहस्रं तत्पावनं भुवि विश्रुतम् ।
चतुर्विंशतिमूर्तीनां स्थानकानीह संवदेत् १९।
तेषां च मातापितरावंतरं च ब्रवीम्यहम् ।
गोत्रं वेदांश्चतेषां वै कर्माणीह तथैव च २०।
स्त्रियस्तेषां प्रवक्ष्यामि यथाविज्ञानदर्शनात् ।
चतुर्विंशत्येकादशीनां द्वादशीनां प्रभावताम् २१।
गोदावर्याश्च माहात्म्यं शंखचक्रादिधारणम् ।
ब्राह्मणानां विशेषेण धारणं विधिपूर्वकम् २२।
यमुनायाश्च माहात्म्यं गंडिकायास्तथा मुने ।
वेत्रवत्यास्तु माहात्म्यं वच्म्यहं ते न संशयः २३।
गिल्लितीर्थोद्भवं पुण्यं शिलाक्षेत्रं महच्च यत् ।
तत्सर्वं संप्रवक्ष्यामि खंडे उत्तरसंज्ञके २४।
अर्बुदेश्वरमाहात्म्यं तत्र तीर्थादिकं च यत् ।
सरस्वत्याश्च माहात्म्यं सिद्धक्षेत्रादिकं च यत् २५।
पद्मनाभसमुत्पत्तिं तुलस्याश्चैव धारणम् ।
गोपीचंदनमाहात्म्यं पट्टपूजां तथैव च २६।
निरंजनस्य माहात्म्यं तथा विज्ञानदर्शनम् ।
तत्र दीपप्रदानं च धूपदानं विशेषतः २७।
कार्तिकस्याथ माहात्म्यं माहात्म्यं माघजं तथा ।
सर्वेषां च व्रतानां च माहात्म्यं विधिपूर्वकम् २८।
शृणु नारद वक्ष्यामि जगन्नाथाख्यमुत्तमम् ।
यं दृष्ट्वा मुच्यते लोको ब्रह्महत्यादिपातकात् २९।
यत्र सिद्धं तथा भुक्तं पारलौकिकदायकम् ।
ब्राह्मणा यत्र भुंजन्ति वेदशास्त्र विशारदः ३०।
अन्येषां चैव लोकानां का कथा चैव सुव्रत ।
पंचविंशत्यत्र नागा नर्तक्यो विविधास्तथा ३१।
ब्रह्महत्या बालहत्या गवांहत्या तथैव च ।
ताः सर्वा विलयं यांति जगन्नाथस्य दर्शनात् ३२।
जगन्नाथेत्युच्चरञ्जंतुर्महापापैः प्रमुच्यते ।
विष्णोः पूजनकं पुष्पैस्तन्माहात्म्यमपि ब्रुवे ३३।
पर्वतानां वर्णनं च देशानां वर्णनं तथा ।
गोपूजनादिमाहात्म्यं सिद्धानां चैव पूजनम् ३४।
सिक्थे दत्ते तु यत्पुण्यं तत्सर्वं प्रवदाम्यहम् ।
कदलीगर्भदानं च वृक्षदानं ततः परम् ३५।
अश्वदानं हस्तिदानं जपमाहात्म्यमुत्तमम् ।
मंत्रदीक्षागमं चैव गुरोर्लक्षणमेव च ३६।
शिष्यस्य लक्षणं प्रोक्तं यथा पौराणिका विदुः ।
चरणोदकमाहात्म्यं पितृश्राद्धादिकं च यत् ३७।
पितृक्षयाहदानं च नीलोत्सर्गविधिस्ततः ।
ग्रहणं चंद्रसूर्यस्य तत्र दानं च यद्भवेत् ३८।
शालग्रामस्य दानस्य माहात्म्यं माल्यगंधयोः ।
दशम्यैकादशीवेधं द्वादशी हरिवासरम् ३९।
तेषां चैव तुमाहात्म्यं रुद्रनामादिकं च यत् ।
मथुरायाश्च माहात्म्यं कुरुक्षेत्रादिकं तथा ४० ।
सेतुबंधस्य चाख्यानं श्रीरामेश्वरजं तथा ।
त्र्यंबकस्य च माहात्म्यं पंचवट्याश्च यत्फलम् ४१।
दंडकारण्यमाहात्म्यं शृणु वाडवसत्तम ।
दंडकारण्यमाहात्म्यं नृसिंहोत्पत्तिकारणम् ४२।
गीतायाश्चैव माहात्म्यं तथा भागवतस्य च ।
कालिंद्याश्चैव माहात्म्यमिन्द्रप्रस्थस्य वर्णनम् ४३।
रुक्मांगदचरित्रं तु महिमा वैष्णवस्य च ।
वैष्णवे ह्येकभुक्ते तु शृणु वाडवसत्तम ४४।
ससागरां च पृथिवीं दत्त्वा चैव तु यत्फलम् ।
तत्फलं समवाप्नोति भुक्ते ह्येके तु वैष्णवे ४५।
सात्विकाः सत्त्वसंपन्ना राजसाः कामुकाः स्मृताः ।
तामसा अधमाः प्रोक्ता वैष्णवानां तु लक्षणम् ४६।
ब्राह्मणा वैष्णवा ये तु वेदधर्मपरायणाः ।
तेषां माहात्म्यं वक्ष्यामि यथोक्तं चैव नारद ४७।
विष्णुनिंदारता ये वै द्रव्यलोभेन सत्तम ।
तेषां पापं तु वक्ष्यामि सांप्रतं ऋषिसत्तम ४८ ।
ज्वालामुख्यास्तथाख्यानं हिमशैलेक्षणं तथा ।
ब्रह्मोत्पत्तिस्तु वै यत्र तं प्रदेशं वदाम्यहम् ४९।
कायस्थानां समुत्पतिर्गयाव्याख्यानमेव च ।
गदाधरस्वरूपं च फल्गुवर्णनमेव च 6.1.५०।
एतेषां चैव माहात्म्यं पाद्मे दृष्टं तथा श्रुतम् ।
महाबोधस्वरूपं च सकल्केर्यश एव च ५१।
रामगयाया माहात्म्यं तथा प्रेतशिलाभवम् ।
ब्रह्मणश्च तथाख्यानं शिलाख्यानं वदाम्यहम् ५२।
ब्रह्मयोनेस्तथाख्यानमक्षयाख्य वटस्य च ।
श्राद्धे तत्र महत्पुण्यं यत्तत्सर्वं वदाम्यहम् ५३।
महेश्वरकृतां भक्तिं विष्णुना च महात्मना ।
अद्यापि काश्यां जपति महारुद्रो ह्यनामयम् ५४।
माहात्म्यं च ततो वक्ष्ये सागरस्य हि नारद ।
तिलतर्पणजं पुण्यं यवजं पुण्यमेव च ५५।
तुलसीदलसंयुक्तं तर्पणं देवजं तथा ।
तन्माहात्म्यं प्रवक्ष्यामि यथोक्तं ब्रह्मणा मम ५६।
शंखनादस्य माहात्म्यं पुण्यं चासंख्यसंज्ञकम् ५७।
रवेर्वारस्य माहात्म्यं योगस्य विष्णुसंज्ञिनः ।
वैधृतस्य च माहात्म्यं व्यतीपातस्य वै तथा ५८।
एतत्सर्वं प्रवक्ष्यामि यथोक्तं चैव नारद ।
अन्नदानं वस्त्रदानं भूमिदानं तथैव च ५९।
शय्यादानं च गोदानं तथा वृषभमेव च ।
जन्माष्टम्याश्च माहात्म्यं मत्स्यमाहात्म्यमेव च ६०।
कूर्ममाहात्म्यं तत्प्रोक्तं वाराहस्य तथैव च ।
माहात्म्यं च गवादीनां दानानां प्रवदाम्यहम् ६१।
प्रह्लादमुखभक्ता ये ये केचिद्भुवि विश्रुताः ।
तन्माहात्म्यं ततो वक्ष्ये शृणु देवर्षिसत्तम ६२।
जागरे महिमा चैव दीपदाने कृते च यत् ।
प्रहरेषु पृथक्पूजाफलं देवर्षिसत्तम ६३।
पर्शुरामस्य चाख्यानं रेणुकाया वधस्तथा ।
ब्राह्मणानां भूमिदानं रामेणैव च यत्कृतम् ६४।
रामस्याश्रमजं पुण्यं वदाम्यहमशेषतः ।
नर्मदायास्तथाख्यानं पुण्यपूजनयोस्तथा ६५।
दानं वेदपुराणानामाश्रमाणां निरूपणम् ।
हिरण्यदानपुण्यं च ब्रह्मांडदानमेव च ६६।
पद्मपुराणदानं च खंडानां व्यक्तयस्तथा ।
प्रथमं सृष्टिखंडं च द्वितीयं भूमिखंडकम् ६७।
स्वर्गखंडं तृतीयं च तुर्यं पातालसंज्ञकम् ।
उत्तरं पंचमं प्रोक्तं खंडान्यनुक्रमेण वै ६८।
एतत्पद्मपुराणं तु व्यासेन तु महात्मना ।
कृतं लोकहितार्थाय ब्राह्मणश्रेयसे तथा ६९।
शूद्राणां पुण्यजननं तीव्रदारिद्र्यनाशनम् ।
मोक्षदं सुखदं चाशु कल्याणप्रदमव्ययम् ।
श्रुत्वा दानं तथा कुर्याद्विधिना तत्र नारद ७०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे महेशनारदसंवादे बीजसमुच्चयोनाम प्रथमोऽध्यायः १।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 2
महेश उवाच-
एकलक्षं पंचविंशत्सहस्रा पर्वतास्तथा ।
तेषां मध्ये महत्पुण्यं बद्रिकाश्रममुत्तमम् १।
नरनारायणो देवो यत्र तिष्ठति नारद ।
तस्य स्वरूपं तेजश्च वक्ष्यामीह च सांप्रतम् २।
हिमपर्वतशृंगे च कृष्णाकारतया द्विज ।
द्वौ पुरुषौ तत्र वर्तेते नरनारायणावुभौ ३।
श्वेत एकस्तु पुरुषः कृष्णो ह्येकतमः पुनः ।
तेन मार्गेण ये यांति हिमाचलकृतोद्यमाः ४।
पिंगलश्वेतवर्णश्च जटाधारी महाप्रभुः ।
कृष्णो नारायणो ह्येष जगदादिर्महाप्रभुः ५।
चतुर्बाहुर्महान्श्रीमान्व्यक्तोऽव्यक्तः सनातनः ।
उत्तरायणे महापूजा जायते तत्र सुव्रत ६।
षण्मासादिकपर्यंतं पूजा नैव च जायते ।
हिमव्याप्तं तदा जातं यावद्वै दक्षिणं भवेत् ७।
अत एतादृशो देवो न भूतो न भविष्यति ।
तत्र देवा वसंतीह ऋषीणां चाश्रमास्तथा ८।
अग्निहोत्राणि वेदाश्च ध्वनिः प्रश्रूयते सदा ।
तस्य वै दर्शनं कार्यं कोटिहत्याविनाशनम् ९।
अलकनंदा यत्र गंगा तत्र स्नानं समाचरेत् ।
कृत्वा स्नानं तु वै तत्र महापापात्प्रमुच्यते १०।
यत्र विश्वेश्वरो देवस्तिष्ठत्येव न संशयः ।
एकस्मिन्नवसरे ब्रह्मन्सुतपस्तप्तवानहम् ११।
तदा नारायणो देवो भक्तानां हि कृपाकरः ।
अव्ययः पुरुषः साक्षादीश्वरो गरुडध्वजः ।
सुप्रसन्नोऽब्रवीन्मां वै वरं वरय सुव्रत १२।
श्रीनारायण उवाच-।
यद्यदीप्ससि देव त्वं तं तं कामं ददाम्यहम् ।
त्वं कैलासविभुः साक्षाद्रुद्रो वै विश्वपालकः १३।
रुद्र उवाच-।
अलं गृह्णामि भो देव सुप्रसन्नो जनार्दन ।
द्वौ वरौ मम दीयेतां यदि दातुं त्वमिच्छसि १४।
तव भक्तिः सदैवास्तु भक्तराजो भवाम्यहम् ।
सर्वे लोका ब्रुवंत्वेवमयं भक्तः सदैव हि १५।
तव प्रसादाद्देवेश मुक्तिदाता भवाम्यहम् ।
ये लोका मां भजिष्यंति तेषां दाता न संशयः १६।
विष्णुभक्त इति ख्यातो लोके चैव भवाम्यहम् ।
यस्याहं वरदाता तु तस्य मुक्तिर्भवेत्प्रभो १७।
जटिलो भस्मलिप्तांगो ह्यहं वै तव संनिधौ ।
तव चरणप्रसादेन लोके ख्यातो भवाम्यहम् १८।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां नारदोमापतिसंवादे बदरीनारायणमाहात्म्ये रुद्रप्रसादोनाम द्वितीयोऽध्यायः २।