Books / Padma Purāṇa — Sanskrit Text

4. Padma Purāṇa (part 4 of 5)

खण्डः ६ (उत्तरखण्डः) — Adhyāya 3

सूत उवाच-

एकदा नारदो द्रष्टुं पांडवान्दुःखकर्शितान् ।

ययौ काम्यवनं विप्रः सत्कृतस्तैर्यथाविधि १।

अथ नत्वा मुनिश्रेष्ठं युधिष्ठिर उवाच ह ।

भगवन्कर्मणा केन दुःखाब्धौ पतिता वयम् २।

तमुवाच ऋषिर्दुःखं त्यज त्वं पांडुनंदन ।

सुखदुःखसमाहारे संसारे कः सुखी नरः ३।

ईश्वरोपि हि न स्थायी पीड्यते देहसंचयैः ।

न दुःखरहितः कश्चिद्देही दुःखसहो यतः ४।

शरीरं सवितुर्यस्माद्राहुस्तद्ग्रसते बली ।

राहोरपि शिरश्छिन्नं शौरिणामृतभोजने ५।

सोऽपि शार्ङ्गधरो देवः क्षिप्तः सागरगह्वरे ।

जालंधरेण वीरेण निहतः सोऽपि शंभुना ६।

युधिष्ठिर उवाच-।

कोऽसौ जालंधरो वीरः कस्य पुत्रः कुतो बली ।

कथं जालंधरं संख्ये हतवान्वृषभध्वजः ७।

एतत्सर्वं समाचक्ष्व विस्तरेण तपोधन ।

राज्ञा स एव मुक्तस्तु कथयामास नारदः ८।

नारद उवाच-।

शृणु भूप कथां दिव्यामशेषाघौघनाशिनीम् ।

ईशानसिंधुसून्वोश्च संग्रामं परमाद्भुतम् ९।

एकदा गिरिशं स्तोतुं प्रययौ पाकशासनः ।

अप्सरोगणसंकीर्णो देवैर्बहुभिरावृतः १०।

गंधर्वैरावृतो देवस्तंत्रीशिक्षासु कोविदैः ।

रंभा तिलोत्तमा रामा कर्पूराकदली तथा ११।

मदना भारती कामा सर्वाभरणभूषिताः ।

नर्तक्यश्च तथा चान्याः समाजग्मुः सुरांतिकम् १२।

गंधर्वयक्षसिद्धास्तु नारदस्तुंबुरुस्तथा ।

किन्नरा मुहुराजग्मुस्तथा किंनरयोषितः १३।

वायुश्च वरुणश्चैव कुबेरो धनदस्तथा ।

यमश्चाग्निर्निर्ऋतिश्च ये चान्ये देवतागणाः १४।

विमानसंस्थो मघवा विमानस्थाः सुरांगनाः ।

स्ववाहनगतादेवाः कैलासं प्रययुर्जवात् १५।

ददृशुस्ते ततो देवाः कैलासं पर्वतोत्तमम् ।

महीधराणां सर्वेषां पृथिव्या इव मंडनम् १६।

सर्वतः सुखदं शुद्धं सिद्धिराशिमिवस्थितम् ।

यत्र वृक्षाः कल्पवृक्षाः पाषाणाश्चिंतितप्रदाः १७।

पुन्नागैर्नागचंपैश्च तिलकैर्देवदारुभिः ।

अशोकैः पाटलैश्चूतैर्मंदारैः शोभितो गिरिः १८।

पर्यंतकवनामोदवाहका यत्र वायवः ।

पंगुत्वं बहुचारेण यांति ते मलयानिलाः १९।

वाप्यः स्फटिकसोपाना ह्यगाध विमलोदकाः ।

वैडूर्यनालसंसक्तसौवर्णनिभ पंकजाः २०।

कुमुदानां द्युतिर्यत्र राजते सर्वतोदिशम् ।

कह्लारैः शौभितावाप्यः पिनद्धाः पद्मरागवत् २१।

हरिन्मणिनिबद्धाश्च गोमेदैः सर्वतो वृताः ।

पद्मरागशिलाबद्धा नानाधातुविचित्रिताः २२।

ददृशुः सुंदरतरं नाकाधिकविनिर्मितम् ।

कैलासं पर्वतश्रेष्ठं दृष्ट्वा ते विस्मयंगताः २३।

विमानादवतीर्णाश्च मघवा देवताश्च ताः ।

द्वारपालमथागम्य नंदिनं वाक्यमब्रुवन् २४।

भो भो गणवरश्रेष्ठ शृणु मे वाक्यमुत्तमम् ।

समाज्ञापय शीघ्रं त्वं नृत्यार्थमिहमागतम् २५।

ईश्वरं प्रतिदेवेशं सर्वदेवैः समावृतम् ।

इंद्रस्य वचनं श्रुत्वा गिरिशं नंदिरब्रवीत् २६।

प्रभोऽयमागतः सर्वैर्देवराजः पुरंदरः ।

नृत्यार्थमथ तं प्राहानय शीघ्रं शचीपतिम् २७।

प्रवेशयामास तदा नंदी तैः सह वासवम् ।

स दृष्ट्वा गिरिशं देवं तुष्टाव वृषभध्वजम् २८।

रंभाद्यास्तास्तदा सर्वा नर्त्तक्यो हरसन्निधौ ।

मृदंगवीणावादित्रैः मुदा नाट्यं प्रचक्रिरे २९।

कांस्यवाद्यान्प्रगृह्यान्या वंशतालान्सकाहलान् ।

चक्रुस्ता नृत्यसंरंभं स्वयंदेवः पुरंदरः ३०।

अतीवनर्तनं चक्रे सुंदरं देवदुर्ल्लभम् ।

ईश्वरस्तोषमापन्नो वासवं वाक्यमब्रवीत् ३१।

प्रसन्नोऽहं सुरश्रेष्ठ जातस्ते व्रियतां वरः ।

इत्युक्तवति देवेशे स्वबाहुबलगर्वितः ३२।

प्रत्युवाच हरं वाक्यं संग्रामः सवृतो मया ।

यत्र त्वत्सदृशो योद्धा तद्युद्धं देहि मे प्रभो ३३।

इत्युक्त्वा निर्गतो जिष्णुर्लब्ध्वा शंभोर्वरं प्रभोः ।

तस्मिन्गते तदा शक्रे गिरिशो वाक्यमब्रवीत् ३४।

गणा मे श्रूयतां वाक्यं देवराजोऽतिगर्वितः ।

इत्युक्त्वा क्रोधसंयुक्तो बभूव च ततो हरः ३५।

आविरासीत्ततः क्रोधो मूर्त्तिमान्पुरतः स्थितः ।

घनान्धकारसदृशो मृडं क्रोधस्ततोऽब्रवीत् ३६।

देहि मे त्वं हि सन्देशं किं करोमि तव प्रभो ।

उमापतिस्तदोवाच गच्छ त्वं वासवं जय ३७।

स्वर्गसिंधुं समासाद्य सागरस्य च वीर्यवान् ।

इत्युक्तोंतर्दधे क्रोधो गणास्ते विस्मयं ययुः ३८।

ईशानकल्पे जाते तु कामेनार्णवसंगमे ।

नाकसिंधुस्तदा मत्ता स्वयौवनभरोष्मणा ३९।

तां दृष्ट्वा सिंधुराजश्च जलकल्लोलवानभूत् ।

तदा बभूव राजेंद्र गंगासागरसंगमः ४०।

महानदी तदा प्राप्य रेमे चात्मबलेन च ।

अत्रांतरे समुद्रस्य बभूव सुभटस्ततः ४१।

सूनुस्तस्यां महानद्यां समुद्रादभवद्बली ।

महार्णवतनूजेन जातमात्रेण पार्थिव ४२।

रुदतोत्कंपिता पृथ्वी त्रिलोकी नादिताभवत् ।

समाधिबद्धमुद्रां च संतत्याज चतुर्मुखः ४३।

अत्रांतरे परित्रस्तां तां संवीक्ष्य जगत्त्रयीम् ।

धाता सुरेंद्रवाक्येन प्रजगाम महार्णवम् ४४।

आश्चर्यमिति संचिंत्य हंसारूढो जवाद्ययौ ।

ब्रह्माणमागतं वीक्ष्य सपर्यां विदधेऽर्णवः ।

तमुवाच ततो ब्रह्मा किं गर्जसि वृथांबुधे ४५।

समुद्र उवाच-।

नाहं गर्जामि देवेश मत्सुतो बलवान्प्रभो ।

शिशोर्वै कुरु रक्षां च दुर्ल्लभं तव दर्शनम् ४६।

संदृश्यतां च तनयो भार्यां प्राहातिशोभनाम् ।

ययौ सा भर्तुरादेशात्सपुत्रा ब्रह्मणोंतिके ४७।

उत्संगदेशे चतुराननस्य विधाय पुत्रं चरणौ ननाम ।

तदा समुद्रात्मजमद्भुतं तं दृष्ट्वा विधातुः किल विस्मयोऽभूत् ४८।

गृहीतकूर्चस्य शिशोः करं च यदा विरिंचिर्न शशाक मोचितुम् ।

तदा समुद्रः प्रहसन्प्रयातः कूर्चं प्रगृह्यार्भकरं विमोचयन् ४९।

तादृशं तस्य बालस्य दृष्ट्वा विक्रममात्मभूः ।

प्रीत्या जालंधरेत्याह नाम्ना जालंधरोऽभवत् 6.3.५०।

वरं ददावथो तस्य प्रणयेन प्रजापतिः ।

अयं जालंधरो देवैरजेयश्च भविष्यति ५१।

पातालसहितं नाकं मत्प्रसादेन भोक्ष्यति ।

इत्युक्त्वांतर्दधे ब्रह्मा हंसमारुह्य सत्वरः ५२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां युधिष्ठिरनारदसंवादे उत्तर।

खंडे जालंधरोत्पत्ति ब्रह्मागमोनाम तृतीयोऽध्यायः ३।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 4

नारद उवाच-

क्रमेण वर्द्धमानोऽसौ बाल्यभावे स बालकः ।

निपत्य मारुतोत्संगे सागरं प्रति धावति १।

आनीय चक्रे स च पंजरस्थान्क्रीडापरः केसरिणां किशोरान् ।

सिंहादिनेभादिनि युद्धमेवं युधोपयोगीव तदीय वीर्यम् २।

तस्मादाकाशमुत्पत्य खेचरान्पातयेद्भुवि ।

गर्जितैर्भीषयामास स्वर्गं हि सह सागरम् ३।

समुद्रांतर्गतं सर्वं सत्वजातं तु पार्थिव ।

ग्रस्तं सिंधुसुतेनेति तद्भयाच्छन्नतां गतम् ४।

दृष्ट्वा निःसत्वकं तोयं तद्भयाद्वडवानलः ।

निजदेशं परित्यज्य प्रविवेश हिमालयम् ५।

स बालत्वं परित्यज्य क्रमेणार्णवनंदनः ।

ततो नवं वयः प्राप्य विक्रमेणाक्रमद्दिवम् ६।

एकदा पितरं प्राह समुद्रं सिंधुनंदनः ।

मन्निवासोचितं स्थानं देहि तातातिविस्तृतम् ७।

संबुद्ध्य वचनं सूनोः स जगाद महार्णवः ।

पुत्र दास्याम्यहं राज्यं तव वा भुवि दुर्ल्लभम् ८।

अनंतरं दैत्यगुरुः समुद्रं भार्गवो गतः ।

तमागतं विलोक्याब्धिर्विधिना समपूजयत् ९।

अथ नदिपतिदत्ते प्राप्तसौंदर्यनिर्यन्मणिमहसि स तस्मिन्नासने सन्निविष्टः ।

रुचिररुचि सुमेरोः सुंदरे शृंगभागे कमलजइव कांतिं किंचिदुच्चैर्जहार १०।

कृतांजलिपुटो भूत्वा व्याजहारार्णवः कविम् ।

दिष्ट्या तवात्रागमनं वद किं करवाण्यहम् ११।

तदा दैत्यकुलाचार्यः प्राह तं सागरं कविः ।

किं तेन जातु जातेन मातुर्यौवनहारिणा १२।

प्ररोहति नयः स्वस्य वंशस्याग्रे ध्वजो यथा ।

तवात्मजो विक्रमेण त्रैलोक्यं भोक्ष्यति ध्रुवम् १३।

जंबूद्वीपे महापीठं योगिनीगणसेवितम् ।

आप्लावितं त्वयेदानीं मुंच जालंधरालयम् १४।

तत्र राज्यं प्रयच्छास्मै तनयाय महार्णव ।

अजेयश्चाप्यवध्यश्च तत्रस्थोऽयं भविष्यति १५।

एवमुक्तोऽर्णवः प्रीत्या भार्गवेणाथ लीलया ।

अपासर्पत्सुतप्रीत्यै जले स्थलमदर्शयत् १६।

शतयोजनविस्तीर्णमायतं च शतत्रयम् ।

देशं जालंधरं पुण्यं तस्य नाम्नैव विश्रुतम् १७।

दैत्यवर्यं समाहूय मयं प्रोवाच सागरः ।

पुरं जालंधरे पीठे कुरु जालंधराय वै १८।

अंभोधिनैवमुक्तस्तु चक्रे रत्नमयं पुरम् ।

प्राकारगोपुरद्वारं सोपानगृहभूमिकम् १९।

यत्रेंद्रनीलसंबद्धप्रासादतल संस्थिताः ।

मेनिरे जलदोद्योगं तांडवस्थाः शिखंडिनः २०।

यत्र प्रवालमाणिक्य भवनोत्था मरीचयः ।

सेव्यंते शकुनैश्चूतरुचिरांकुरशंकया २१।

यत्र कांचनहर्म्येषु त्विषो वह्निषु कातराः ।

विलोक्य प्रपलायंते दावशंकाः शिखंडिनः २२।

यत्र स्फटिकशालोत्थ प्रभासं मिश्रिता दिशः ।

विभांति मंदरोद्भ्रांताः सफेनार्णवसंनिभाः २३।

यत्र मोहं स्वहर्म्येषु विभातालोकसंस्थिताः ।

चक्रिरे ललनाः पूर्णसांध्यचंद्रोपमाननाः २४।

यत्रेन्द्र नीप कादंब पवनोद्यानमोदिताः ।

चित्तं विशंत्यो नारीणां चक्रिरे मोहनज्वरम् २५।

यत्र लेख्यगतं नॄणां विलोक्य सुरतं जनः ।

संयाति द्विगुणं नूनं निजकांतारतोद्यमः २६।

यत्र वातायनोद्धूत धूपधूमस्य लेखयः ।

नभो बभूव तद्गंगाकालिंदीसंगमोपमम् २७।

यत्रानेकगृहोद्भूत प्रभया सकलं नभः ।

विभातींद्रायुधाकीर्णं शरन्मेघ इवोन्नतः २८।

यत्रानिशं भ्रमभ्रांताः सूर्यवाहाः प्रपीडिताः ।

विश्रामं यांति मध्याह्ने प्रासादशिरसि स्थिताः २९।

यत्रकुत्रच हर्म्येषु बिभ्रत्यो मालतीस्रजः ।

रात्रौ संभूतनक्षत्रा इव रेजुर्वरांगनाः ३०।

यत्र हाटकहिंदोल शृंखलाघर्षणोद्भवः ।

चकार सुंदरीं शब्दः स्फुटं मेरुभुवोभुवम् ३१।

साकं सरिद्भिः पुत्रस्योशनसा सह सागरः ।

तत्राभिषेकमकरोद्वादित्रैर्निज गर्जितैः ३२।

याः स्कंदस्य जगाद तारकजये देवः स्वयंभूः स्वयं स्वः साम्राज्यमहोत्सवेऽपि च शचीकांतस्य वाचस्पतिः ।

ताभिश्चित्रविंरिंचि वक्त्रसरसी हंसीभिराशास्महे वाणीभिर्वसुधाविवाहसमये मंत्रोत्सवैर्मंगलम् ३३।

महापद्मसहस्रं तु सैन्यमात्मोदरोद्भवम् ।

जालंधराय पुत्राय ददौ भीमं महोदधिः ३४।

जालंधराय शुक्रोऽपि प्रीत्या विद्यां निजां ददौ ।

मृतसंजीवनीं नाम्ना मायां रुद्रविमोहिनीम् ३५।

शस्त्रास्त्रविद्या अन्याश्च विधिना अब्धिसूनवे ।

यदन्यत्सकलं तस्मै व्याख्यातं कविना तदा ३६।

ततो जालंधरं पुत्रमभिषिच्यार्णवो ययौ ।

स्वस्थानं दिव्यदेहेन नदीभिः परिवारितः ३७।

दृष्ट्वा जालंधरो दिव्यपुरं गोपुरमंडितम् ।

व्यचरत्सह शुक्रेण द्विजसंघैः सुपूजितः ३८।

एतस्मिन्नंतरे दैत्याः पातालस्था महाबलाः ।

प्राप्ता जालंधरं सर्वे कालनेमिपुरोगमाः ३९।

ततो महाबला वीरा बलं क्षीरोदसंनिभम् ।

तस्य शुंभासुरं दैत्यं सेनापतिमकल्पयन् ४०।

बलं स्ववशगं कृत्वा कृत्वा भुवि स्थिरं जलम् ।

जालंधरस्तदा राज्यं पितृदत्तं चकार सः ४१।

अत्रांतरेऽप्सराः काचित्स्वर्णेत्यासीत्पुरा दिवि ।

तस्याः क्रौंचप्रसादेन वृंदानाम सुताभवत् ४२।

धात्रा विभवसंयुक्तं सौंदर्यं यत्कृतं पृथक् ।

तत्तदेकगतं द्रष्टुं वृंदागात्रं विनिर्मितम् ४३।

तां वृंदामतिचार्वंगीं प्रमदां जनमोहिनीम् ।

स्वर्णा जालंधरस्यार्थे ददौ शुक्राय याचते ४४।

शुक्र उवाच-।

कंदर्पस्य जगन्नेत्र शस्त्रेणाश्चर्यकारिणा ।

रूपेणानेन रंभोरु दीर्घायुः सुखिनी भव ४५।

निर्माय स्वयमेव विस्मितमनाः सौंदर्यसारेण यं।

स्वव्यापारपरिश्रमस्य कलशं वेधाः समारोपयत् ।

कंदर्पं पुरुषं स्त्रियो विदधते यस्मिन्न दृष्टे सति द्रष्टव्यावधि।

रूपमाप्नुहि पतिं तं दीर्घनेत्रं भटम् ४६।

उपयेमे विवाहेन गांधर्वेणार्णवात्मजः ।

वृंदां तौ दंपती जातौ जनानंदकरौ नृप ४७।

चंचलत्वं परित्यक्तं तया जालंधरोऽपि हि ।

वृत्तेन वृद्धकार्येण चकमे न परस्त्रियम् ४८।

कदाचित्स सभासीनो दृष्ट्वा राहुं शिरोहृतम्।

कस्मात्कायार्द्धशेषोऽयं इति पप्रच्छ भार्गवम् ४९।

स तस्य कथयामास पूर्ववृत्तांतमादितः ।

यथा निर्मथितो देवैः क्षीरोदोऽमृतकारणात् 6.4.५०।

तच्छ्रुत्वा विस्मितो वाक्यं प्राह जालंधरोऽसुरः ।

प्रसादसुमुखो राहुं कामरूपो भवाधुना ५१।

इति शुक्रस्य मंत्रेण सिंधुसूनुः प्रतापवान् ।

पितृव्यं संस्मरन्वीर विग्रहं त्वकरोत्सुरैः ५२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे नारद युधिष्ठिरसंवादे जालंधरोपाख्याने वृंदाविवाहो जालंधराभिषेकोनाम चतुर्थोऽध्यायः ४।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 5

युधिष्ठिर उवाच-

कः पितृव्यः सिंधुसूनोः किं वृत्तं तस्य विग्रहे ।

युयुधे स कथं दैत्यस्तन्मे कथय नारद १।

नारद उवाच-।

शृणु त्वं नृपशार्दूल पितृव्यः क्षीरसागरः ।

जालंधरस्य तं देवैः प्रमथ्य धनमाहृतम् २।

श्रीचंद्रामृतनागाश्वपूर्वं तस्य सुरासुरैः ।

तच्छ्रुत्वा विग्रहं चक्रे देवैर्जालंधरोऽसुरः ३।

कदाचित्प्रेषयामास दूतं दुर्वारणं बली ।

शिक्षयित्वा तु वक्तव्यं देवेंद्रभवनं प्रति ४।

अथ स्यंदनमारुह्य ययौ दुर्वारणो दिवि ।

प्रवेष्टुकामो भवनं द्वारस्थैर्द्वारि निवारितः ५।

दूत उवाच-।

जालंधरस्य दूतोऽहं आगतः शक्रसंनिधौ ।

गत्वा तत्र भवंतो मां विज्ञापयितुमर्हथ ६।

इति तस्य वचः श्रुत्वा तदैव तु शचीपतिम् ।

गत्वा च प्रणिपत्याह दूतो देवागतो भुवः ७।

दौवारिको महेंद्रेण प्रत्युक्तो दूतमानय ।

हस्ते गृहीत्वा तं दूतं वासवांतिकमानयत् ८।

दुर्वारणो देवसभां प्रविष्टः प्रव्यलोकयत् ।

हरिं देवैस्तु यस्त्रिंशत्कोटिभिः परिवेष्टितम् ९।

स्वर्णसिंहासनं दिव्यं चामरानिलसेवितम् ।

शचीप्रेमरसोत्फुल्लनयनाब्जसहस्रकम् १०।

दुर्वारणोऽथ देवेशं विलोक्य गुरुणा सह ।

प्रणनामात्मगर्वेण प्रहसन्नयनश्रियम् ११।

निर्दिष्टमासनं भेजे दूतो जालंधरस्य सः ।

कस्य त्वं केन कार्येण प्राप्तः प्राहेति तं हरिः १२।

दूतो जालंधरस्याहं स जगाद पुरंदरम् ।

स राजा सर्वलोकानां तस्याज्ञां शृणु मन्मुखात् १३।

पितृव्यो मम दुग्धाब्धिस्त्वया कस्माद्विलोडितः ।

मंदराद्रिविधानेन हृतं कोशं महाधनम् १४।

श्रीचंद्रामृतनागाश्वं तन्मणिं विद्रुमादिकम् ।

देहि सर्वं तथा स्वर्गं शीघ्रं त्यज पुरंदर १५।

स त्वं मद्वचनात्तूर्णं कुरु सर्वं यथोचितम् ।

तं क्षमापय भूपाल यदि जीवितुमिच्छसि १६।

अथ प्रहस्य मघवा प्राह दुर्वारणं प्रति ।

शृणु दूत समासेन सिंधोर्मथनकारणम् १७।

पुरा हिमवतः सूनुर्मैनाको नाम मे रिपुः ।

स कुक्षौ विधृतस्तेन सागरेण जडेन च १८।

दग्धं चराचरं येन वह्निना हयरूपिणा ।

स चापि विधृतस्तेन सागरेण दुरात्मना १९।

धर्मद्विषां दानवानामसौ वै आश्रयः प्रभुः ।

नित्यं दधि घृतं क्षीरं दानवेभ्यः प्रयच्छति २०।

अतएवायमस्माभिः दुर्वारण विलोडितः ।

दंडितश्च गतश्रीको देवैरथ पुरातनैः २१।

शृणु दूत सबंधेन मम विप्रेण शोषितः ।

कुंभोद्भवेन किंचैष दुःसंगे नैव बाध्यते २२।

सोऽपि युद्धार्थमस्माभिः सर्वसैन्येन संवृतः ।

आगमिष्यति वै नाशं गमिष्यति तदैव हि २३।

इतीरयित्वा विरराम वृत्रहा सरित्पतेरात्मजदूतमुच्चकैः ।

शशंस चागत्य समुद्रसूनोर्देवेश्वरेणोक्तमशेषमादितः २४।

नारद उवाच-।

महेंद्र वचनं श्रुत्वा निजदूतमुखेन च ।

समुद्रसूनुः संक्रुद्धः सर्वं सैन्यं समाह्वयत् २५।

रसातलस्थिता दैत्याः ये च भूतलवासिनः ।

आययुः सबलास्तत्र जालंधरमथाज्ञया २६।

प्रयाणप्रक्रमे सिंधुसूनोः सैन्यस्य गर्जितैः ।

स्फुटंति नभसो राजन्पातालमखिला दिशः २७।

हयनागोष्ट्रवदना बिडालमुखभीषणाः ।

व्याघ्रसिंहाखुवदना विद्युत्सदृशलोचनाः २८।

सर्पकेशा महादेहाः केचित्खङ्गतनूरुहाः ।

अन्ये च परिधावंति गर्जंति जलदस्वनैः २९।

रथगजहयपत्तिसंकुलं समरविनोदकदंब भासुरम् ।

अब्जशतसहस्रकोटिनायकं बलमखिलं च तदा रराज राजन् ३०।

शतयोजनविस्तीर्णं विमानं हंसकोटिभिः ।

युक्तं भूतिसहस्रौघं सर्ववस्तुप्रपूरितम् ३१।

तद्विमानं समारुह्य सद्यो जालंधरो ययौ ।

मध्याह्ने मंदरं प्राप्तः प्रथमेऽह्नि बलैः सह ३२।

खंडितं शिबिकावाहैर्दलितं भूरिकुंजरैः ।

द्वितीये दिवसे मेरुं संप्राप्तो बलसंयुतः ३३।

इलावृत्ते तु शिखरे तस्थौ तत्कटकं महत् ।

अथ दैत्याधिपैर्भग्नं खांडवं नंदनं वनम् ३४।

शिखराणि विशीर्णानि मेरोर्दानवपुंगवैः ।

संतानकेषु वृक्षेषु बद्धा हिंदोलमंचकान् ३५।

सिद्धांगनाभिः सहिता रेमिरे दैत्यपुंगवाः ।

कुचकुंकुमतांबूल चंदनागरुभूषणैः ३६।

केशपाशच्युतैः पुष्पैः मेरोः संपूरिता नदी ।

सुमेरोः पूर्वदिग्भागो गजैस्तस्य विघट्टितः ३७।

दक्षिणं च रथैश्चेरुरुत्तरं पश्चिमं भटैः ।

अथ प्रस्थापयामास दैत्याञ्जालधरोऽसुरः ३८।

महेंद्रशिखरं चान्ये ययुर्दुंदुभिनिःस्वनैः ।

राजराजपुरीं भंक्त्वा यमस्य वरुणस्य च ३९।

अन्येषां लोकपालानामाययुस्तेऽमरावतीम् ।

अथोत्पाताभवन्नाके दिव्यभौमांतरिक्षगाः ४०।

रजः पपात बहुलं तमस्तोमो विजृंभते ।

तदा पपात कुलिशं करादिंद्रस्य निष्प्रभम् ४१।

दृष्ट्वा निमित्तानि भयावहानि नाके महेंद्रो गुरुमित्युवाच ।

किं कुर्महे कं शरणं च यामस्तं पश्य युद्धं समुपस्थितं च ४२।

ततो वाचस्पतिर्वाक्यमुवाच त्रिदशाधिपम् ।

चरणौ पाहि शरणं विष्णोर्वैकुंठवासिनः ४३।

इत्युक्तो गुरुणा देवैः साकं वैकुंठमंदिरम् ।

जगामाखंडलः शीघ्रं शरणं कैटभद्विषः ४४।

शशंस वासुदेवाय विजयो द्वारपालकः ।

जालंधरभयत्रस्ताः सर्वे देवाः समागताः ४५।

श्रीरुवाच-।

न वध्योऽसौ मम भ्राता देवार्थे युध्यता त्वया ।

शापितो देव मत्प्रीत्या वधार्हो न भविष्यति ४६।

इति श्रीवचनं श्रुत्वा विष्णुस्त्रैलोक्यपालकः ।

अथारुरोह गरुडं पक्षक्षेपावृतांबरम् ४७।

वैकुंठभवनात्तूर्णं निर्गतस्त्रिदशान्हरिः ।

जालंधरभयत्रस्तान्गतकांतीनथैक्षत ४८।

ददृशुस्ते सुराः सर्वे हरिं सांद्रघनोपमम् ।

शार्ङ्गशंखगदापद्मविभूषितचतुर्भुजम् ४९।

स्तोत्रं पठित्वा पुरतः प्राहेंद्रः सरितांपतेः ।

जालंधरेणात्मजेन भग्नं देव त्रिविष्टपम् 6.5.५०।

तदिंद्रवचनं श्रुत्वाऽभयं दत्वा दिवौकसाम् ।

विजेतुमसुरं देवैः सह रेजे सुरांतकृत् ५१।

अथानीतं मातलिना रथमारुह्य वासवः ।

वासुदेवस्य पुरतः प्रययौ विधृताशनिः ५२।

वामतस्त्रिदशाः सर्वे सव्यतश्च समाययौ ।

स्वाहाप्रियो दक्षिणतः स च मेषं समास्थितः ५३।

आरुह्यैरावतं नागं जयंतः शक्रनंदनः ।

उच्चैःश्रवसमिंद्रश्च उभौ भगवतः पुरः ५४।

धातार्यमा च मित्रश्च वरुणोंशो भगस्तथा ।

इंद्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः ५५।

ततस्त्वष्टा ततो विष्णू रेजे धन्यो जघन्यजः ।

इत्येते द्वादशादित्या इंद्रस्य पुरतः स्थिताः ५६।

वीरभद्रश्च शंभुश्च गिरिशश्च महायशाः ।

अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ५७।

भुवनाधीश्वरश्चैव कपाली च विशांपते ।

स्थाणुर्भगश्च भगवान्रुद्रा एकादश स्मृताः ५८।

श्वसनः स्पर्शनो वायुरनिलो मारुतस्तथा ।

प्राणापानौ सजीवौ च मरुतोऽष्टौ तदग्रतः ५९।

विवस्वानपि तन्मध्ये ययौ द्वादशमूर्तिभिः ।

धनदः शिबिकारूढः किंनरेशो ययौ तदा ६०।

रुद्राश्च वृषभारूढा मारुतो मृगवाहनः ।

ययुः सैन्यस्य पुरतः त्रिशूलपरिघायुधाः ६१।

गंधर्वाश्चारणा यक्षाः पिशाचोरग गुह्यकाः ।

सर्वसैन्यस्य पुरतः सर्वशस्त्रभृतो ययुः ६२।

पूर्वापरौ तोयराशी समाक्रांतौ च सैनिकैः ।

तस्मिन्ससार भूमिराट्वराहवपुषा हरिः ६३।

स्वर्गादागत्य वेगेन दैत्यसैन्यजिघांसया ।

सुमेरोरुत्तरो भागः सुरसैन्येन संवृतः ६४।

सेनाभारोद्भुतकरस्तस्थौ जालंधरस्य च ।

आश्रित्य दक्षिणं भागं तूर्णं कनकशृंगतः ६५।

अहोरात्रेण विहिता वर्षे तस्मिन्निलावृते ।

मेरुमंदरयोर्मध्ये युद्धभूमिः प्रतिष्ठिता ६६।

तत्रात्मजयदां भूमिं कविप्रोक्तां मुदायुताः ।

जग्मुस्ते दानवास्तूर्णं गुरुप्रोक्तां ययुः सुराः ६७।

रथप्रवीरैः परितश्च संप्लवैर्गजैर्घनाकारमदप्रवाहिभिः ।

अश्वैरनंतैर्गरुडाग्रगामिभिः पदातिभिः सारणभूर्भृता बभौ ६८।

ततो वादित्रनिर्घोषः सेनयोरुभयोरभूत् ।

कोलाहलश्च वीराणामन्योन्यमभिगर्जताम् ६९।

अथ दानवदेवानां संग्रामोऽभूद्भयावहः ।

सर्वसैन्यस्य संमर्दो यथा त्रिभुवनक्षयः ७०।

भयक्रांता महाश्रांता श्रुतिर्विलपती मुहुः ।

स्वरथाकाररहितं शरैः संपूरितं तदा ७१।

रोमांचिता बभौ द्यौश्च रजोवस्त्रं विधुन्वती ।

रौद्रैर्विहंगमारावैस्त्रासादाक्रंदतीव हि ७२।

देवेंद्रेण तदाज्ञप्ता मेघाः संवर्तकादयः ।

गजानुच्चैः समारुह्य तेऽसुरान्युयुधुर्मृधे ७३।

देवानामश्वारोहाश्च जाता गंधर्वकिन्नराः ।

रथिनः साध्यसिद्धाश्च गजिनो यक्षचारणाः ७४।

पदातिनः किंपुरुषाः पन्नगाः पवनाशनाः ।

रोगाणामधिपो राजन्यक्ष्मा च यमनायकः ७५।

तत्र दानवरोगाणां संग्रामोऽभूत्सुदारुणः ।

पतिता लुलुठुर्भूमौ दैत्याः शूलज्वरामयैः ७६।

दानवैर्निहता रोगाः पेतुः समरमूर्द्धनि ।

पलायांचक्रिरे केचित्व्याधयो भूधरान्प्रति ७७।

औषध्यस्तत्र सहजा वैशल्यकरणीमुखाः ।

ताभिर्विशल्याः सैन्येषु युयुधुर्यमकिंकराः ७८।

दानवैर्निहताः सर्वे शरमुद्गरपट्टिशैः ।

पदातयः पत्तिगणैः खङ्गैस्तीक्ष्णैः परश्वधैः ७९।

कोटिशो जघ्नुरन्योन्यं रुधिरारुणविग्रहाः ।

अश्वचारा हयैस्तूर्णैश्चिक्षिपुर्गगने तदा ८०।

संश्लिष्य जघ्नुरन्योन्यं रुधिरारुणविग्रहाः ।

समूहो रथिनां भीमो रथौघैश्छाद्य मेदिनीम् ८१।

विव्यधुर्निशितैर्बाणैर्धनुर्मुक्तैर्महारथान् ।

मदक्षीणकपोलांगाः करैर्बद्धा करान्दृढम् ८२।

गजान्प्रतिगजाः क्रुद्धाः पातयंति महीतले ।

कोपि दैत्यो रथं दोर्भ्यामुत्क्षिप्योत्थाय खं ययौ ८३।

अश्वचारान्हयान्नागान्पातयामास भूतले ।

स्कंधे गृहीत्वा तरसा ययौ जालंधरं प्रति ८४।

कक्षयोर्वै गजौ गृह्य तृतीयं जठरोपरि ।

चतुर्थं मस्तके गृह्य रणे धावति कश्चन ८५।

उत्पाट्य कोशतः खङ्गं विधूय विमलांबरम् ।

ययौ सहस्रशो देवान्पातयित्वा रणेऽसुरः ८६।

काचित्पीनस्तनी तन्वी खेचरीरति लंपटा ।

आगत्य गगनात्तूर्णं निन्ये दैत्यं रणांगणात् ८७।

चुचुंब सा तद्वदनं तीक्ष्णनाराचकीलितम् ।

देवसैन्यं ततो बद्ध्वा कालनेमिर्ननर्त्त ह ८८।

ततो जनार्दनः क्रुद्धो निर्ययौ कालनेमिनम् ।

यमो दुर्वारणं वीरं स्वर्भानुश्चंद्रभास्करौ ८९।

केतुं वैश्वानरो देवो ययौ शुक्रं बृहस्पतिः ।

आश्विनौ संयतौ तत्र दैत्यमंगारपर्णकम् ९०।

संह्रादं शक्रपुत्रश्च निर्ह्रादं धनदो ययौ ।

निशुंभश्चावृतो रुद्रैः शुंभो वसुभिराहवे ९१।

मेघाकारं स्थितं जंभं विश्वेदेवाः समाययौ ।

वायवो वज्ररोमाणमथ मृत्युर्मयं ययौ ९२।

नमुचिं वासवो व्यग्रं शक्तिहस्तोऽभ्यधावत ।

अन्यैरपि सुरैर्दैत्याः स्वस्ववीर्यसमैर्वृताः ९३।

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे युधिष्ठिरनारदसंवादे देवदानवयुद्धंनाम पंचमोध्यायः ५।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 6

नारदउवाच-

एवं द्वंद्वेषु युद्धेषु संप्रवृत्तेष्वनेकशः ।

जघानाथ हरिः क्रुद्धो गदया कालनेमिनम् १।

विहाय मूर्च्छां संचित्य विष्णुं बाणैर्जघान सः ।

ततः क्रुद्धेन हरिणा स क्षितौ पातितो व्यसुः २।

राजन्जघान संचिंत्य राहुं खड्गेन चंद्रमाः ।

राहुस्तु तं परित्यज्य तदा सूर्यमधावत ३।

सहस्राशुं रणे जित्वा राहुश्चंद्रमधावत ।

जघान तं च खङ्गेन समरे रजनीपतिः ४।

सैंहिकेयांगकाठिन्यात्खङ्गं चूर्णमभूत्तदा ।

जघान मुष्टिना गाढं कठिनेन विधुंतुदः ५।

चंद्रमुत्थाप्य तं कंठे धृत्वा वेगान्महामृधे ।

गिलित्वा राहुणा चंद्रोप्युद्गीर्णश्च ततः पुनः ६।

मृगं स्वचिह्नमुरसि निधाय विससर्ज ह ।

स उच्चैःश्रवसं गृह्य हयरत्नं विधुंतुदः ७।

जालंधरांतिकं नीत्वा भक्त्या तस्मै न्यवेदयत् ।

दुर्वारणो रणे क्रुद्धस्तं यमं गदया हनत् ८।

निशितैर्मार्गणैर्भिन्नः शक्रपुत्रेण चाहवे ।

धृत्वा जयंतं संह्रादः परिघाघातमूर्च्छितम् ९ ।

ऐरावतं समारुह्य ययौ जालंधरं प्रति ।

हतवांश्चैव गदया निह्रादं धनदो रणे १०।

रुद्रास्त्रिशूलनिर्घातैर्निशुंभं जघ्नुरोजसा ।

निशुंभो बाणजालैश्च पीडयामास तानति ११।

शुंभासुरो देवगणान्पूरयामास मार्गणैः ।

मृत्युं मायामय मयो बद्ध्वा पाशैर्निनायतम् १२।

ददौ जालंधरायासौ पौलोम्ने सोऽपि सिंधवे ।

अब्धिना च मुखे क्षिप्तो लोको जीवतु निर्भयः १३।

बद्ध्वा च नमुचिं पाशैर्वासवोऽपि रसातलम् ।

निन्ये विश्वस्य हंतारं अथ जालंधरो ययौ १४।

अथेंद्रबलयोर्युद्धमभूद्राजन्सुदारुणम् ।

बलांगरोचिषो भांति दिशो दश रवेरिव १५।

सर्वाण्यस्त्राणि शक्रस्य शीर्णान्यंगे बलस्य च ।

बलीयसा बलेनेंद्रो मुद्गरेण हतो हृदि १६।

ननादेंद्रस्ततो भीमं तच्छ्रुत्वा स बलोहसत् ।

हसतस्तस्य निश्चेरुर्मुखतो मौक्तिकानि च १७।

तस्यांगस्याभिलाषेण न युद्धमकरोत्तदा ।

तुष्टाव वासवोऽत्यर्थं तं बलं बलसागरम् १८।

वरं वृणु सुरश्रेष्ठेत्युक्तः प्राह बलं प्रति ।

यदि तुष्टोऽसि दैत्येश स्वं वपुर्दातुमर्हसि १९।

तदिंद्र वचनं श्रुत्वा भित्त्वा शस्त्रैर्गृहाण माम् ।

इत्युवाच बलं सोऽपि किमदेयं महात्मनाम् २०।

(गीरिव श्रोत्रहीनस्य लोलाक्षीव विचक्षुषः (अतिरिक्त श्लोकाः)।

परेषु पुष्पमालेव श्रीः कदर्यस्य निष्फला १।

महात्मानो न गृह्णंति हिंसमानान्रिपूनपि ।

सपत्नीः प्रापयंत्यब्धिं सिंधवो नगनिम्नगाः २।

सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि ।

छिन्नोऽपि चंदनतरुः सुरभयतिमुखं कुठारस्य ३।

देवं परं विनश्यति तनुरपि न श्रीर्निवेदितासत्सु ।

अवशिष्यते हिमांशोः सैव कलाशिरसि या शंभोः ४।

ते साधवो भुवनमंडलमौलिभूता ये साधुतामनुपकारिषु दर्शयंति ।

आत्मप्रयोजनवशात्कृतछिन्नदेहाः पूर्वापकारिषु खलोपि हितानुरक्तः५)।

तथेत्युक्त्वा सहस्राक्षो मुद्गरेणाहनद्बलम् ।

न बिभेद तदा देहः शक्रश्चिंतामवाप ह २०।

सस्मारितो मातलिना वज्रेणांगं जघान तत् ।

तेन वज्रप्रहारेण बलांगं तद्व्यशीर्यत २१।

बलांगस्यैकभागस्तु पपात कनकाचले ।

तुहिनाद्रौ द्वितीयस्तु तृतीयो गोनगेऽपतत् २२।

चतुर्थो देवनद्यां च पंचमो मंदरे तथा ।

वज्राकरे पपातांशः षष्ठश्च विजयांगजः २३।

तस्य जातिविशुद्धस्य परिशुद्धेन कर्मणा ।

कायस्यावयवाः सर्वे रत्नबीजत्वमागताः २४।

वज्रादस्थिकणाः कीर्णाः षट्कोणा मणयोऽभवन् ।

अक्षिभ्यामिन्द्रनीला वै माणिक्यं श्रुतिसंभवम् २५।

क्षतजात्पद्मरागाः स्युः मेदसो मरकतास्तथा ।

प्रवालानि च जिह्वातो दंता मुक्तास्तथाभवन् २६।

मज्जोद्भवं मरकतं गारुत्मतमभून्नसा ।

कांस्यं पुरीषं रजतं वीर्यं ताम्रं च मूत्रजम् २७।

अंगस्योद्वर्तनाज्जातं पित्तलं ब्रह्मवीतिकाः ।

नादाद्वैदूर्यमुत्पन्नं रत्नं चारुतरं तथा २८।

नखेभ्यः कनकोत्पत्ती रुधिराच्च रसोद्भवः ।

मेदसः स्फटिकं जातं प्रवालं मांससंभवम् २९।

बलदेहोद्भवान्यासन्रत्नानि पृथिवीतले ।

पुण्योपचयसंपत्त्या भोक्ष्यंते विमलैर्जनैः ३०।

अत्रांतरे हतं श्रुत्वा बलं मघवता मृधे ।

प्रभावती नाम राज्ञी ययौ तच्चरणांतिकम् ३१।

विललाप पतिं दृष्ट्वा विकीर्णावयवं रणे ।

प्रभावत्यश्रुपूर्णाक्षी मुक्तकेशी घनस्तनी ३२।

हा नाथ बलविक्रांत कांतदेह जगत्प्रिय ।

मां त्वं विहाय किं चात्र कैवल्यं गतवानसि ३३।

जराकुष्ठादिभिर्व्याप्तं बुद्ध्वा देहं त्यजंति न ।

देहिनोऽन्ये परं कांतं त्वया देहो वृथोज्झितः ३४।

तव देहेन दिव्येन हारकं भूष्यते प्रिय ।

रणोत्सुकेन भवता या वेणी ग्रथिता मम ३५।

तामुद्ग्रथय वैधव्यदुःखार्त्तायाः स्वयं प्रिय ।

एवं विलपतीं वीक्ष्य बलराज्ञीं समुद्रजः ।

दुःखितः शुक्रमित्याह बलं जीवय भार्गव ३६।

शुक्र उवाच-।

इच्छयामरणं प्राप्तं तं कथं जीवयाम्यहम् ।

तथापि मंत्रसामर्थ्याद्वाचमुच्चारयिष्यति ३७।

जालंधर उवाच-।

बलस्य रूप वचनं श्रोतुमिच्छामि भार्गव ।

जालंधरेणैवमुक्तः क्षणं ध्यानपरोऽभवत् ३८।

अथोदतिष्ठद्वदनात्स्वनः श्रोत्रमनोरमः ।

प्रभावतीं प्रति व्यक्तं वाद्यभांडा दिवोत्थितः ३९।

प्रभावति स्वदेहं त्वं ममांगेषु लयं नय ।

इति तस्य वचः श्रुत्वा नदी जाता प्रभावती ४०।

बलाङ्गेष्वेव लीना सा सुमेरोः पूर्ववाहिनी ।

यस्यास्तोयेन संजाता रत्नानां कांतिरुत्तमा ४१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहिता।

यामुत्तरखंडे जालंधरोपाख्याने बलदैत्य स्वर्गारोहणं नाम षष्ठोऽध्यायः ६।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 7

नारद उवाच-

ततो जालंधरः क्रुद्धः प्राह तं दैत्यसूदनम् ।

कपटेन बलं हत्वा क्व यास्यसि बलाधम १।

इत्युक्त्वा तं शतमखं सिंधुसूनुः प्रतापवान् ।

ससूताश्वध्वजरथं छादयामास मार्गणैः २।

पपात मूर्च्छितः शक्रो रथोपरि शरैः क्षतः ।

दृष्ट्वा तं पतितं शक्रं जगर्जार्णवनंदनः ३।

मूर्च्छां त्यक्त्वा मुमोचेंद्रो वज्रं जालंधरं प्रति ।

तदाद्रिदलनं हस्ते गृहीत्वा सिंधुसंभवः ४।

वज्रं कक्षापुटे धृत्वा रथादुत्तीर्य सत्वरम् ।

अभ्यधावत दैत्येंद्रो देवेंद्रं धर्तुमाहवे ५।

ततो दुद्राव मघवा रथं त्यक्त्वा हरिं स्मरन् ।

रथमिंद्रस्य मदवानारुह्यार्णवनंदनः ६।

यंतारं मातलिं कृत्वा ययौ प्राप्तमनोरथः ।

रथमिंद्रस्य तरसा यत्र यत्र ययौ बले ७।

जालंधरो महाबाहुः स्वयं चांबुधरो यथा ।

ततः स कोपात्पुरुषोत्तमः स्वयं खड्गं समुद्यम्य च नंदकं रणे ८।

संप्रेरयित्वा गरुडं मनोजवं जघान कोपेन च दैत्यवाहिनीम् ।

रथान्हयान्कुंजरपत्तिसंघान्स पातयामास बलात्सहस्रशः ९।

जनार्दनः कश्यपसूनुसंवृतश्चकार संख्ये चरितं भयावहम् ।

केशास्थिमज्जारुधिरौघवाहिनीं पिशाचवेतालविहंगसेविताम् १०।

करोरुजंघायुधशस्त्रपूरितां सुदुस्तरां व्याघ्रगजेंद्र सेविताम् ।

रक्तांत्रहारांगदभूषितांतां विघूर्णनेत्रोत्सवकांतिवाससम् ११।

विष्णुना निहतं सैन्यं दृष्ट्वा दानवपुंगवाः ।

जालंधराज्ञया सर्वे रुरुधुः परितो हरिम् १२।

दैत्यास्ते तत्र बाणौघान्वर्षमाणा यथांबुदाः ।

यथाद्विरेफाः कमलं पर्वतं जलदा इव १३।

चूतं यथा पक्षिगणा गगनं धूपसंचयः ।

न दृश्योऽभूत्तदा विष्णुर्न तार्क्ष्यो रणसंकटे १४।

सर्वे ते रथमारूढा सर्वशस्त्रैर्महासुराः ।

वैकुंठाधिपतिं जघ्नुर्गर्जंतो भीमनिस्वनैः १५।

तान्सर्वान्भीमरूपेण दैत्यारिः कुपितस्तदा ।

रणे निपातयामास वायुः पर्णचयं यथा १६।

शैलरोमा ततो विष्णुं दैत्यः कोपादधावत ।

हरेरपि शरास्तस्य शरीरे शीर्णतां गताः १७।

शैलरोमा च दैत्यारि शरीरं चाहनच्छरैः ।

हरिः खड्गं विनिर्धूय शिरस्तस्य जहार ह १८।

छिन्ने शिरसि दैत्यस्य कबंधो विक्रमन्रणे ।

शैलरोमा भुजाभ्यां च तार्क्ष्यं जग्राह पक्षयोः १९।

शिरश्चोत्पत्य तरसा विलग्नं स्कंधयोर्दृढम् ।

ततस्तत्रास्ययुद्धेन हृषीकेशोऽपि विस्मितः २०।

शिरः संलग्नमालोक्य गरुडो न्यपतद्भुवि ।

पुनश्चोत्पत्य वेगेन शिरःस्थानं समाश्रयत् २१।

शैलरोमा ततो विष्णुं जहार गरुडाद्बली ।

हरिर्जघ्ने तलेनाशु गतायुश्चापतद्भुवि २२।

ततो जालंधरः सूतं खड्गरोमाणमब्रवीत् ।

संप्रेषय रथं तत्र यत्र देवो जनार्दनः २३।

जालंधरस्य वचनात्खङ्गरोमानयद्रथम् ।

दृष्ट्वा तं पुरतो विष्णुमुवाचार्णवनंदनः २४।

निःशंकं जहि मां विष्णो नाहं त्वा हन्मि माधव ।

तस्य तद्वचनं श्रुत्वा क्रोधसंरक्तलोचनः २५।

नारायणः प्राणहरैः शरैरेनमपूरयत् ।

विष्णुना च विभिन्नांगोऽर्णवसूनुः प्रतापवान् २६।

हरिं संपूरयामास मार्गणौघैर्निरंतरम् ।

नारायणः प्राणहरैः शरैरेनमपूरयत् २७।

गरुडं पतितं दृष्ट्वासिंधुसूनोः शरैर्भुवि ।

रथं संस्मारयामास वैकुंठस्थं जनार्दनः २८।

सरथस्तस्य संप्राप्तः सूतहीनो हयैर्वृतः ।

अश्वैर्युतं रथं दृष्ट्वा विस्मितो भगवान्रणे २९।

संबोधयित्वा गरुडं सारथ्ये समयोजयत् ।

स धृत्वा मुकुटं मूर्ध्नि कौस्तुभं हृदये मणिम् ३०।

पुरुषार्थान्हयान्कृत्वा ययौ जालंधरं हरिः ।

मेदिनीं रथचक्रेण दारयंश्च सुरैः सह ३१।

जघान तरसा बाणैर्दानवानां च वाहिनीम् ।

देवराजेन संदिष्टो वीतिहोत्रो रणांगणे ३२।

ददाह दानवानीकं समीरणसमन्वितम् ।

तदाह तं भगवता दैत्यसैन्यं सुरैः सह ३३।

जालंधरः स्वल्पशेषं दध्यौ दृष्ट्वा बलं स्वकम् ।

अथाह भार्गवं राजा मत्सैन्यं निहतं सुरैः ३४।

त्वयि तिष्ठति मंत्रज्ञे विख्यातो विद्यया भवान् ।

किं तया विद्यया ब्रह्मन्क्षत्रेणाथ बलेन च ३५।

या न रक्षति रोगार्तान्यद्बलं शरणागतान् ।

जालंधरवचः श्रुत्वा भार्गवस्तमभाषत ३६।

पश्य राजन्मम बलं ब्राह्मणस्य रणांगणे ।

इत्युक्त्वा वारिणा स्पृष्टा हुंकारेण प्रबोधिताः ३७।

उत्थापितास्ते कविना शरौघैः प्राणहारकैः ।

देवाहता रणे पेतुः समंतात्सिंधुसूनुना ३८।

बाणैर्जर्जरदेहास्ते धृतप्राणा नराधिप ।

न मृतास्त्वमरत्वाच्च बाणैर्भिन्नाश्च सत्तम ३९।

ततो नारायणो देवो बृहस्पतिमभाषत ।

धिग्बलं दैवतगुरो यो न जीवयसे सुरान् ४०।

धिषणस्तु जगन्नाथमुवाच त्वरितं तदा ।

ओषधीभिरहं स्वामिन्जीवयिष्यामि निर्जरान् ४१।

इत्युक्त्वा धिषणः सोऽपि ययौ क्षीरार्णवस्थितम् ।

द्रोणमद्रिं तदा गत्वा सुखं गृह्यौषधीः स्वयम् ४२।

गुरुस्तासां च योगेन जीवयामास निर्जरान् ।

उत्थितास्ते ततो देवा जघ्नुर्दानववाहिनीम् ४३।

देवान्समुत्थितान्दृष्ट्वा बभाषे सिंधुजः कविम् ।

विना त्वद्विद्यया काव्य कथमेते समुत्थिताः ४४।

इति दैत्योक्तमाकर्ण्य शुक्रः प्राहार्णवात्मजम् ।

क्षीरसागरमध्यस्थो द्रोणोनाम महागिरिः ४५।

औषध्यस्तत्र तिष्ठंति जीवयंति च या मृतान् ।

तत्र गत्वा सुराचार्यो गृहीत्वोषधिसंचयम् ४६।

रणे विनिहतान्देवानुत्थापयति मंत्रतः ।

भार्गवोक्तमथाकर्ण्य सैन्यभारं महाबलः ४७।

शुंभे निक्षिप्य तरसा ययौ जालंधरोऽर्णवम् ।

अथ प्रविष्टः क्षीराब्धौ वेश्मदिव्यं महाप्रभम् ४८।

प्रविश्य तत्र क्षीराब्धेः क्रीडास्थानं ददर्श सः ।

नोष्णो न शीतलो वायुर्न तमो यत्र दृश्यते ४९।

यत्र गायंति नृत्यंति क्रीडंति च वरस्त्रियः ।

सुपीनस्तनभाराढ्याः कृशोदर्यः सुदंतिकाः 6.7.५०।

नेत्रविभ्रमविक्षेपैर्नितंबपरिवर्त्तनैः ।

अंगैः संमोहनै रम्यैर्बाहुवल्लीविचालनैः ५१।

पादविन्यासरणि तैर्मधुरैर्वचनस्तवैः ।

सौगंध्यसौख्यदैर्वासैर्नेत्रभ्रमरहुंकृतैः ५२।

चामरांदोललीलाभिः स्रग्भिः स्मितविलोकितैः।

सेवां चक्रुर्विलासिन्यस्तत्र सुतः।।५३।।।

क्रीडंतं तत्र दुग्धाब्धिं संवीक्ष्य समरोत्सुकः।

अथाह प्रणिपत्यासौ क्षीराब्धिं तात हंसि माम्।

द्रोणाचलौषधीर्व्याजादंबुभिः प्लावयस्वतः ५४।

क्षीरसागर उवाच-।

तं प्राप्तं शरणं पुत्र प्लावयाम्यूर्मिभिः कथम् ।

मुनींद्रास्तं न शंसंति यस्त्यजेच्छरणागतम् ५५।

पितृव्यवचनं श्रुत्वा संक्रोधात्संततं गिरिम् ।

तलप्रहरणेनैव ताडयामास दैत्यराट् ५६।

ततो द्रोणगिरी राजन्भीतो जालंधराद्भृशम् ।

अथाजगाम रूपेण प्राह जालंधरं प्रति ५७।

तवाहमभवं दासो रक्ष मां शरणागतम् ।

रसातलं महाबाहो यास्यामि तव शासनात् ५८।

यावत्त्वं कुरुषे राज्यं तावत्स्थास्याम्यहं प्रभो ।

ओषधीनां विरावेण सिद्धानां रोदनेन च ५९।

रसातलं जगामाद्रिः सिंधुसूनोः प्रपश्यतः ।

ततो जालंधरो वीर आजगाम महारणम् ६०।

पूर्वकल्पितमारुह्य रथस्थं केशवं ययौ ।

रथस्थं माधवं दृष्ट्वा जहासोच्चैर्नदीसुतः ६१।

तावत्त्वं तिष्ठ शकटे यावद्धन्यामरीनहम् ।

एवमुक्त्वा जघानाशु शरैस्तां देववाहिनीम् ६२।

बाणैर्विदारिता देवास्त्राहीत्यूचुर्बृहस्पतिम् ।

ततो बृहस्पतिः शीघ्रमगमत्क्षीरसागरम् ६३।

अदृष्ट्वा तं ततो द्रोणमभूच्चिन्तापरो नृप ।

अथागत्य रणं तूर्णममरान्प्राह गीष्पतिः ६४।

पलायध्वं सुराः सर्वे द्रोणाद्रिः क्षयमागतः ।

एवमुक्तवतस्तस्य गुरोश्चिच्छेद सिंधुजः ६५।

यज्ञोपवीतं केशांश्च बाणैस्तीक्ष्णैर्हसन्सुरान् ।

ततो दुद्राव वेगेन गुरुः प्राणभयार्दितः ६६।

देवाः सर्वे रणं हित्वा पलायांचक्रिरे नृप ।

एवं विद्राव्य देवान्वै जनार्द्दनमधावत ६७।

हृषीकेशोऽपि दैत्येशमन्वधावद्रणोत्सुकः ।

ततो युद्धमभूद्धोरं विष्णोर्जालंधरस्य च ६८।

दुर्द्धर्षणो बाणजालैः प्लावयामास केशवम् ।

तान्बाणान्खंडशः कृत्वा पूरयित्वा शरैर्महान् ६९।

वासुदेवोसुरं बाणैर्जालंधरमपीडयत् ।

जालंधरो रथं त्यक्त्वा शरपीडितविग्रहः ७०।

विष्णुं विजेतुं दुद्राव संयतिस्थमथ द्रुतम् ।

तमायांतं रणे दृष्ट्वा हरिर्विव्याध सायकैः ७१।

बाणानंगेसहद्विष्णोः प्राप्तोऽसौ रथसंनिधौ ।

हस्तेनैकेन गरुडं द्वितीयेन रथं हरेः ७२।

भ्रामयित्वांबरे शश्वत्श्वेतद्वीपे न्यपातयत् ।

जालंधरकरक्षिप्तो गरुडोऽपि पपात ह ७३।

क्रौंचद्वीपे स तत्रैव विश्राममकरोच्चिरम् ।

अच्युतः प्रच्युतस्तस्माद्भ्रमतो रथमंडलात् ७४।

रणमागत्य दैत्येशं तिष्ठतिष्ठेत्यभाषत ।

दृष्ट्वा तमागतं भूयः केशवं समरप्रियः ७५।

पूरयन्मार्गणैर्भूमिं जगर्जार्णवनंदनः ७६।

विव्याध दैत्यं हरिराशु शक्त्या हृदि स्फुरंत्या स ततः पपात ।

सूतो न यत्तं समरान्निवासं तं प्राह रे केन कृतोस्म्यलज्जः ७७।

दैत्यारि जालंधरयोर्महत्तदा बभूव युद्धं धरणीतलस्थयोः ।

प्रेम्णा श्रियस्तं न जघान दानवं स्वयं हरिस्तस्य शरैः पपात ७८।

ततो निरीक्ष्य गोविंदं पतितं धरणीतले ।

प्रगृह्यार्णवजो दैत्य आरुरोह निजं रथम् ।

ततस्तमिंदिरा प्राप्ता रुदंती विष्णुवल्लभा ७९।

संस्थिता कमला तत्र पतिं कमललोचनम् ।

पतितं तु पतिं वीक्ष्य लक्ष्मीः प्राहार्णवात्मजम् ८०।

शृणुष्व वचनं भ्रातर्जितो विष्णुर्धृतस्त्वया ।

भगिन्या न च वैधव्यं दातुं युक्तं महाबल ८१।

श्रुत्वा तु वचनं तस्या मुमोच जगतः पतिम् ।

जालंधरो महाबाहुः स्वस्रे भक्त्या ननाम च ८२।

ववंदे चरणौ विष्णोः स्वसुः स्नेहात्तदांजसा ।

विष्णुर्जालंधरं प्राह तुष्टोऽस्मि तव कर्मणा ।

वरं वरय दैत्येश किं प्रयच्छामि ते वरम् ८३।

जालंधर उवाच-।

यदि त्वं मम तुष्टोऽसि शौर्येणानेन केशव ।

स्थातव्यं मत्पितुः स्थाने त्वया कमलया सह ८४।

तथेत्युक्त्वा च संस्मृत्य गरुडं धरणीधरः ।

आरुह्य च जगन्नाथः क्षीराब्धिं प्रियया सह ८५।

तदाप्रभृति कृष्णस्य वासः श्वशुरमंदिरे ।

अब्धौ वसति देवेशो लक्ष्म्याः प्रियचिकीर्षया ८६।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहिता-।

यामुत्तरखंडे युधिष्ठिरनारदसंवादे सप्तमोऽध्यायः ७।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 8

युधिष्ठिर उवाच-

देवान्विक्लाव्य समरे विष्णुं स्थाप्यात्ममंदिरे ।

जालंधरेणाब्धिजेन यत्कृतं ब्रूहि नारद १।

नारद उवाच-।

शुंभादीनां तु वीराणां दत्त्वा दानं प्रसादजम् ।

जालंधरो जगामाथ स्वर्गं प्राप्यावलोकयत् २।

हिरण्यवर्षेण जनान्भूषयंतं दिनेदिने ।

फलंति तरवोऽजस्रं वाजिमेधक्रतोः फलम् ३।

गजवस्त्रसुवर्णानि धेनु कन्या तिलानि च ।

पुष्पकर्पूरतांबूल कस्तूरी कुंकुमानि च ४।

ये यच्छंति महात्मानस्ते पश्यंत्यमरावतीम् ।

वर्षासु गृहदानेन शिशिरेऽग्निप्रदानतः ५।

वादित्राणि च सर्वाणि वादयंति शिवालये ।

प्रपां कुर्वंति ये चैत्रे दध्योदनसमन्विताम् ६।

यत्र हिंदोलपर्यंकं स्वयमांदोलयंति च ।

सारिकाशुकहंसाश्च भ्रमद्भ्रमरकोकिलाः ७।

कुर्वंतो दूतकार्याणि यच्छंते प्रियसंगमम् ।

रंभा यत्र पुरे राम मेनका च तिलोत्तमा ८।

सुषमा सुंदरी यत्र घृताची पुंजिकस्थली ।

सुकेशी सुमुखी रामा मंजुघोषा च मालिनी ९।

मृगोद्भवा च सुखदा धनदंष्ट्रा तिलप्रभा ।

वाजिमेधफलग्राहा राजसूयफलंति याः १०।

कोटिशो यत्र निःष्पापाः क्रीडंत्यप्सरसो नृप ।

एवं भूरिसुखे स्वर्गे स्थापयामास सिंधुजः ११।

शुंभं प्राणसमं दैत्यं निशुंभं युवराजके ।

स्वयं जालंधरे पीठे स्वर्गादागत्य सिंधुराट् ।

वर्षार्बुदद्वयं राज्यं चकारात्मबलेन च १२।

युधिष्ठिर उवाच-।

युयुधेऽसुर संग्रामे ससुरैरपराजितः १३।

ततः किमकरोद्राजा सिंधुसूनुः प्रतापवान् ।

तन्ममाचक्ष्व देवर्षे श्रोतुकामस्य विस्तरात् १४।

नारद उवाच-।

शृणु राजन्यथातथ्यं कृतसागरसूनुना ।

स देवान्समरे जित्वा राज्यं चक्रे ह्यकंटकम् १५।

गंधर्वाश्चित्रसेनाद्याः सेवंते चासुरेश्वरम् ।

यज्ञभागांश्च यो भुंक्ते सर्वेषामसुरेश्वरः १६।

क्षीरसागरतो देवैर्हृतं रत्नादिकं च यत् ।

तत्सर्वं च तथान्यच्च निर्जित्य हृतवान्बली १७।

समुद्रतनये राज्यं भुवो राजन्प्रशासति ।

न कश्चिन्म्रियते मर्त्यो नरकं कोऽपि न व्रजेत् १८।

न कलिप्रणयादन्यो न भोगादपरः क्षयः ।

न वंध्या दुर्भगा नारी नालंकारैर्विवर्जिता १९।

कुरूपा दुर्गता दुष्टाऽयशस्या न च दृश्यते ।

न तत्र विधवा नारी न कश्चिन्निर्द्धनो जनः २०।

दातारः संति सर्वत्र न प्रतिग्राहिणः क्वचित् ।

पुण्या जनाः प्रयच्छंति द्विजेभ्यो ह्यात्मनो धनम् २१।

रूपयौवनशालिन्यः सीमंतिन्यो गृहे गृहे ।

गोक्षीरं दधिसर्पिश्च यत्र निर्जरसो जनाः २२।

मंगलं तत्र सर्वेषां न क्वचिद्वधबंधनम् ।

शरेण न च हिंसास्ति न कश्चित्केन बाध्यते २३।

ऋणं न दृश्यते राजन्धनिनः संति सर्वतः ।

संतुष्टाः सर्वसस्याढ्याः प्रजाः सर्वत्रपार्थिव २४।

केलीक्षुदंडप्रभवश्च दुग्धरसोऽति सुस्वादुतरो गृहे नृणाम् ।

शुश्राव नारीनरयोर्हितं वचो न चापहर्ताध्वनि गच्छतां सदा २५।

पतंत्यखंडा नभसो यतस्ततो धाराश्च कर्मारविमिश्रसर्पिषः ।

संमिश्रिताः शर्करया परिश्रुताः समुद्रसूनोः स्मरणान्मुखे नृणाम् २६।

इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशत्सहस्र-।

संहितायां युधिष्ठिरनारदसम्वादे जालंधरसौराज्यवर्णनंनामाष्टमोऽध्यायः ८।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 9

युधिष्ठिर उवाच-

इंद्रादिभिस्तदा देवैः किं कृतं द्विजसत्तम ।

जालंधरेण विजितैः स्वर्गराज्ये हृते सति १।

नारद उवाच-।

अथ त्यक्त्वा दिवं देवाः प्रापुस्ते दुर्दशां चिरम् ।

न पीयूषं नैव यज्ञाः ययुः स्थानं स्वयंभुवः २।

ददृशुर्ब्राह्मभुवने ब्रह्माणं परमेष्ठिनम् ।

प्राणायामेन युंजानं मनः स्वं परमात्मनि ३।

ते तुष्टुवुः सुराः सर्वे वाग्भिस्तथ्याभिरादृताः ।

ततः प्रसन्नो भगवान्किंकरोमीति चाब्रवीत् ४।

ततो निवेदयांचक्रुः ब्रह्मणे विबुधाः पुनः ।

जालंधरस्य सकलं तथा निजपराभवम् ५।

क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह ।

तस्य शैलस्य पार्श्वे ते वैचित्र्येण समाकुलाः ।

स्थिताः संतुष्टुवुर्देवा ब्रह्मशक्रपुरोगमाः ६।

नमो भवाय शर्वाय नीलग्रीवाय ते नमः ।

नमः स्थूलाय सूक्ष्माय बहुरूपाय ते नमः ७।

इति सर्वमुखो भूत्वा वाणीमाकर्ण्य शंकरः ।

प्रोवाच नंदिनं देवा नानयस्वेति सत्वरम् ८।

श्रुत्वा शंभोर्वचो देवा आहूता नंदिना द्रुतम् ।

प्रविश्यांतःपुरे देवा ददृशुर्विस्मितेक्षणाः ९।

तत्रासने समासीनं शंकरं लोकशंकरम् ।

गणैः कोटिसहस्रैस्तु सेवितं भक्तिशालिभिः १०।

नग्नैर्विरूपैः कुटिलैर्जटिलैर्धूलिधूसरैः ।

प्रणिपत्याग्रतः प्राह सह देवैः पितामहः ११।

सुखरोगो यथा स्यासीच्छक्रः सोऽयं वृथागतः ।

कृपां कुरु महादेव शरणागतवत्सल १२।

तत उच्चैर्विभोर्हास्यं श्रुत्वा ब्रह्मा पिनाकिनः ।

उवाच देवदेवेशं पश्यावस्थां दिवौकसाम् १३ ।

ततः सर्वेश्वरो ज्ञात्वा ब्रह्मणो मनसेप्सितम् ।

शक्रस्य मानभंगं च देवार्थे परमेश्वरः १४।

प्रेम्णा भवान्या विज्ञप्तो नृप प्राह वचो हरः ।

विष्णुना न हतो योऽरि स कथं हन्यते मया १५।

पूर्वसृष्टान्यायुधानि वज्रादीनि पितामह ।

तैः शस्त्रैर्नैव वध्योऽसौ बली जालंधरोऽसुरः १६।

हेतिभिः पूर्वसंसृष्टैः समयापि न हन्यते ।

देवाः कुर्वंतु शस्त्रं हि मम प्राणसहं दृढम् १७।

शंभोरित्युत्तरं श्रुत्वा ब्रह्मोवाचाथ शंकरम् ।

स्वयं कुरु महाशस्त्रं त्वं वेत्थ स्वात्मनो बलम् १८।

इति तस्य वचः श्रुत्वा प्रत्युवाच महेश्वरः ।

ब्रह्मन्विमुंच तेजस्त्वं क्रोधयुक्तं सुरैः सह १९।

ततस्तेजो मुमोचाथ ब्रह्मा ब्रह्मास्त्रसूचकः ।

रुद्रस्त्रिनेत्रजं तेजस्ततो निर्मुक्तवान्स्वयम् २०।

देवाश्च मुमुचुः सर्वे सक्रोधं तेजसां चयम् ।

अत्रांतरे स्मृतः प्राप्तो हरेण मधुसूदनः २१।

किं करोमीति तेनोक्तः शिवः प्राह जनार्दनम् ।

विष्णो जालंधरः कस्मान्न हतः संगरे त्वया २२।

कथं सुरान्परित्यज्य क्षीराब्धिं शयितुं गतः २३।

श्रीविष्णुरुवाच-।

यदि तं हन्मि देवेश श्रीः कथं मम वल्लभा ।

तस्मात्त्वं पार्वतीकांत जहि जालंधरं रणे २४।

तेजस्त्वं क्रोधजं मुंचेत्युक्तः शर्वेण केशवः ।

मुमोच वैष्णवं तेजः तत्सर्वं समवर्द्धत ।

तेजः प्रवृद्धं तद्दृष्ट्वा व्यापकं प्राह केशवम् २५।

शंकर उवाच-।

एतेन तेजसा शीघ्रं ममास्त्रं कर्तुमर्हथ ।

विश्वकर्मादयस्तच्च श्रुत्वा शंकरभाषितम् २६।

निरीक्ष्य च तदाऽन्योऽन्यं किं कुर्म इति शंकिताः ।

दृष्ट्वा तूष्णीं स्थितांस्तांश्च ज्ञात्वा तन्मनसि स्थितम् २७।

तदाह भगवान्ब्रह्मा अनालोक्यं हि दैवतैः ।

सोढुं न शक्तास्ते तेजो धर्तुं केन च शक्यते २८।

ततः प्रहस्य भगवानुत्पत्योपरि तेजसः ।

वामांघ्रिपार्ष्णिना शंभुर्ननर्त भ्रमरीचयम् २९।

ततो देवा महेंद्राद्यास्तेजसोपरि शंकरम् ।

नृत्यमानं तदा दृष्ट्वा मुदा वाद्यान्यवादयन् ३०।

तदाप्रभृति नृत्येषु भ्राम्यते भ्रमरीचयम् ।

अथ चक्रं समुत्पन्नं शंभोर्नर्तनमर्दनात् ३१।

आरलक्षत्रयोपेतं अस्थिकोटिसमाकुलम् ।

शर्वांघ्रिकषणात्तस्य तेजसो निसृताः कणाः ३२।

विश्वकर्मा च तेनास्त्रं विमानानि च निर्ममे ।

ततस्ते निर्ज्जरा भीत्या दृष्ट्वा चक्रं सुदर्शनम् ३३।

त्राहित्राहीति देवेशं प्रत्यूचुस्ते सुरान्नृप ।

पृथ्वीकाठिन्यमादाय लोहानामपि तेजसाम् ३४।

यद्विश्वकर्मणा कोशं कृतं भस्मीकृतं च तत् ।

सृष्टेन तेन चक्रेण दग्धः कालोऽपतत्क्षितौ ३५।

ततस्तद्ब्रह्मणो हस्ते ददौ चक्रं स धूर्जटिः ।

चक्रार्चिर्निचयैः कूर्चं दृष्ट्वा दग्धमुमापतिः ३६।

हसित्वा ब्रह्मणो हस्ताद्गृहीत्वा सत्वरं शिवः ।

दधौ कक्षापुटे चक्रं निधानं निर्धनो यथा ३७।

ततो न दृश्यते चक्रं शिवकक्षापुटेस्थितम् ।

महामूर्खस्य यद्दत्तं दानं तस्य फलं यथा ३८।

इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशत्सहस्र।

संहितायां युधिष्ठिरनारदसंवादे जालंधरोपाख्याने सर्व।

देवतेजोमयचक्रोत्पत्तिर्नाम नवमोऽध्यायः ९।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 10

नारद उवाच-

अत्रोत्तरे मया गत्वा कथितं सिंधुसूनवे ।

त्वां हंतु सर्ववीरेश प्रतिज्ञा शंभुना कृता ।

श्रुत्वेत्थं मद्वचो राजंस्ततः पप्रच्छ सोऽसुरः १।

जालंधर उवाच-।

किमस्ति शूलिनो गेहे रत्नजातं महामुने ।

तन्ममाचक्ष्व सकलं नास्ति युद्धं निरामिषम् २।

नारद उवाच-।

भूतिर्गात्रे वृषो जीर्णः फणिनोंऽगे गले विषम् ।

भिक्षापात्रं करे पुत्रौ गजानन षडाननौ ३।

इत्यादि विभवस्तस्य यदन्यत्तन्निबोध मे ।

तनया गिरिराजस्य विशाला ह्युन्नतस्तनी ४।

दग्धस्मरोऽपि भगवान्यस्यारूपेण मोहितः ।

महेशो यद्विनोदाय कुरुते नित्य कौतुकम् ५।

नृत्यन्गायंश्च ताञ्छंभुः स्वयं भवति हासकः ।

सा पार्वतीति विख्याता सौंदर्यावधि दैवतम् ६।

वृंदा वरांगना राजन्निमाश्चाप्सरसः शुभाः ।

न चाप्नुवंति पार्वत्याः षोडशीमपि तां कलाम् ७।

इत्युक्त्वाहं महीपाल जालंधरममर्षणम् ।

पश्यतां सर्वदैत्यानामंतर्धानं गतः क्षणात् ८।

अथ स प्रेषयद्दूतं सिंधुजः सिंहिकासुतम् ।

क्षणेनासाद्य कैलासं देवावासमपश्यत ९।

अत्रांतरे हरिर्भीममापृच्छ्य तु तदा हरम् ।

जगामालक्षितस्तूर्णं क्षीराब्धिं भेदशंकया १०।

ददर्श राहुर्भवनं शंकरस्यातिदीप्तिमत् ।

आत्मानमात्मना वीक्ष्य किमित्याह सुविस्मितः ११।

प्रवेष्टुकामो बलिभिर्द्वारि द्वास्थैर्निरोधितः ।

यत्नवान्स निषिद्धोऽपि तदा ते प्रोद्यतायुधाः १२।

तान्निवार्य गणान्नंदी व्याजहार विधुंतुदम् ।

कस्त्वं कस्मादिहायातः किं कार्यं तव बर्बर ।

ब्रूहि कार्यं गणा यावत्त्वां न हन्युर्भयावहाः १३।

राहुरुवाच-।

दूतो जालंधरस्याहं त्वं मां शर्वांतिके नय ।

न वाच्यमंतरे द्वास्थ महाराजप्रयोजनम् १४।

नंदी दूतोक्तमाकर्ण्य नीललोहितमाययौ ।

दंडवत्प्रणिपत्याग्रे स्थित्वा शंकरमब्रवीत् १५।

सैंहिकेयो महाराज द्वारे तिष्ठति कार्यतः ।

स प्रयात्वथवायातु भवानाज्ञप्तुमर्हति १६।

नंदिनोक्तमथाकर्ण्य त्वरन्निव महेश्वरः ।

सुप्तामंतःपुराद्देवीं प्रस्थाप्य च सखीवृताम् १७।

पश्चाद्वास्थं जगादाथ नंदिन्दूतं प्रवेशय ।

ततो हस्ते प्रगृह्यामुं दूतं नंदी महाबलः १८।

आनयामास देवानां मध्ये शंभुमदर्शयत् ।

तं ददर्श तदा राहुर्जटिलं नीलमात्मनि १९।

पंचवक्त्रं दशभुजं नागयज्ञोपवीतिनम् ।

देवीविरहितं मूर्ध्नि चंद्रलेखाविभूषितम् २०।

उच्छ्वासोच्छ्वासनिर्मुंचत्पृदाकुगणसेवितम् ।

सर्वदेवगणोपेतं सेवितं गणकोटिभिः २१।

प्राप्तं ज्ञात्वा ततो दूतं शंभुरालोक्य चाग्रतः ।

प्राह ब्रूहि तदा राहुर्वक्तुं समुपचक्रमे २२।

राहुरुवाच-।

देव जालंधरेणाहं प्रेषितस्तव सन्निधौ ।

तस्य शिववचः श्रुत्वा मन्मुखेन द्रुतं कुरु २३।

गिरिशत्वं तपोनिष्ठो निर्गुणो धर्मवर्जितः ।

तव नास्ति पिता माता वसु गोत्रादि वर्जितः २४।

जालंधरो महाबाहुर्भुंक्तेऽसौ भुवनत्रयम् ।

तस्यैव वश्यस्त्वमपि ततश्चोक्तं समाचर २५।

पुराणपुरुषः कामी वृषारूढः कथं भवान् ।

एवं वदति संप्राप्तौ सुतौ स्कंदविनायकौ २६।

तस्मिन्काले देवदेवो यतवागंगमर्दनम् ।

चकार च करैर्व्यस्तैर्वासुकिर्भूतलेऽपतत् २७।

हेरंबवाहनस्याखोः पुच्छं ग्रस्तमथाहिना ।

स्वपत्रं ग्रस्तमालोक्य मुंचमुंचेत्युवाच ह २८।

अत्रांतरे स्कंदवाहं क्षुब्धं वीक्ष्य महास्वरम् ।

तद्भयाद्वासुकिर्ग्रस्तमाखुपुच्छमथोद्गिरत् २९।

अथारुह्य हरस्यांगं गलमावेष्ट्य संस्थितः ।

तस्य निश्वासपवनैरथ जातो हुताशनः ३०।

तस्योष्मणा चंद्र लेखा जटाजूटाटवी स्थिता ।

सार्द्रतां तु तदा सायात्प्लावितं तद्वपुर्यथा ३१।

तस्याह्यमृतधाराभिर्ब्रह्ममस्तकमालिका ।

हरमौलिकपालानामभूत्संजीविता तदा ३२।

पपाठ पूर्वमभ्यस्तं सर्वयोगश्रुतिक्रमम् ।

श्रुत्वा परस्पराधीतं विवदंति शिरांस्यथ ३३।

अहमादिरहं पूर्वमहमेव परात्परः ।

अहं स्रष्टा अहं पातेत्युत्सुकानि परस्परम् ३४।

शोचंत्येतानि नो दत्तं नो भुक्तं न हुतं मया ।

लोभग्रस्तेन मनसा नो वित्तं ब्रह्मणेऽपि तम् ३५।

अथेश्वरजटाजूटादाविरासीद्गणो महान् ।

त्र्याननस्त्रिचरणस्त्रिपुच्छः सप्तहस्तवान् ३६।

स च कीर्तिमुखो नाम पिंगलो जटिलो महान् ।

तं दृष्ट्वा सा कपालाली भयात्तस्थौ मृतेव सा ३७*।

पुरतः प्राह सगणस्ततः कीर्तिमुखः प्रभुम् ।

प्रणिपत्य शिवं देवमत्यर्थं क्षुधितः प्रभो ३८।

तदोक्तः शंकरेणाहो भक्षय त्वं रणे हतान् ।

क्षणं विचार्य स गणः क्वाप्यदृष्ट्वा रणं तदा ३९।

ब्रह्माणं भक्षितुं प्राप्तः शंकरेण निवारितः ।

ततः कीर्तिमुखेनाथ स्वांगं सर्वं च भक्षितम् ४०।

बुभुक्षितेन चात्यंतं निषिद्धेन च सर्वतः ।

तत्साहसं तदा दृष्ट्वा भक्तिं कीर्त्तिमुखस्य च ४१।

तमुवाचेश्वरः प्रीतः प्रासादे तिष्ठ मे सदा ।

त्वच्चित्तरहितो यश्च भविष्यति ममालये ४२।

स पतिष्यति शीघ्रं हीत्युक्तः सोंऽतर्हितोऽभवत् ।

शंभोर्मूध्नि तदा देवा ववृषुः पुष्पवृष्टिभिः ४३।

एवमत्यद्भुतं दृष्ट्वा सभायां तु त्रिशूलिनः ।

स्वर्भानुरपि देवेशं पुनः प्रोवाच विस्मितः ४४।

स्पृशंति त्वां कथं भावं स्वाधीनं योगिनं बलात् ।

इंद्रियैः पूज्यसे त्वं हि प्राप्योऽयं विषयैः कथम् ४५।

ब्राह्मादिलोकपालानां पूजां गृह्णासि सर्वतः ।

न त्वं पश्यसि कं देवं त्वं पूजयसि कंचन ४६।

ईश्वरोऽसि कथं लोके भिक्षाभोजी प्रतिष्ठितः ।

संगोपयसि योगीन्द्र गौरीं रम्यां प्रयच्छ मे ४७।

स्कंदलंबोदराभ्यां त्वं पुत्राभ्यां सहितोऽधुना ।

भिक्षापात्रं गृहीत्वा तु भ्रम नित्यं गृहेगृहे ४८।

एवं बहुविधं तत्र राहुराहेश्वरं प्रति ।

भगवानपि तच्छ्रुत्वा नोत्तरं किंचिदब्रवीत् ४९।

अथेशं मौनिनं त्यक्त्वा राहुर्नंदिनमब्रवीत् ।

त्व मंत्री ह्यसि सेनानीर्विकटानन बिंबधृक् 6.10.५०।

एवमाचरित भ्रष्टं त्वं शिक्षयितुमर्हसि ।

नोचेद्रोषेणेंद्र इव पतिष्यति रणे हतः ५१।

इत्याकर्ण्य वचस्तस्य नंदी विज्ञाप्य चेश्वरम् ।

भ्रूसंज्ञयैव स तदा मतमाज्ञाय शूलिनः ५२।

संपूज्य प्रेषयामास राहुं नंदी गणाग्रणीः ।

अथ जालंधरं गत्वा कथयामास विस्तरात् ।

स्वर्भानुस्तस्य वृत्तांतं गौरीरूपं मनोहरम् ५३।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखण्डे युधिष्ठरनारद-

सम्वादे जालंधरोपाख्याने कैलासाद्राहुप्रत्यागमनं नाम दशमोऽध्यायः १०।

मूर्त्तिकलायां कीर्तिमुखः

खण्डः ६ (उत्तरखण्डः) — Adhyāya 11

नारद उवाच-

अथ जालंधरो दूतवचः श्रुत्वा प्रतापवान् ।

सर्वसैन्यं समाहूय प्रयाणमकरोत्तदा ।

ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः १।

सस्त्रीन्मन्दरकंदरेषु शयितानुत्थापयन्किन्नरान् ।

मेरोर्मंदरकंदरे प्रतिरवानुत्थापयन्वारणान् ।

सिहानां च ततीर्व्यमुंचत पुरःपंथानमेवंविधस्त्रै।

लोक्यं बधिरीचकार महतः सैन्यस्य कोलाहलः २।

ततो दुंदुभिनादोऽभूत्पीठे जालंधरे नृप ।

तन्निनादेन शूराणां प्रियेण महता तदा ३।

कंपंति गिरयस्तुंगाः प्रासादा विचलंति च ।

सप्तसागरगर्भेभ्यो निःसृता दैत्यदानवाः ४।

सन्नद्धाश्चातिगर्जंति नानावाहनसंयुताः ।

हेषा ययौ महानादा वाजिनां बाह्यतः पुरः ५।

रथांगेनाथ संहृष्टा धरां संचलतेऽथवा ।

चालितैर्गजयूथैश्च पृथ्वी रुद्धा सकानना ६।

जालंधरेरितैर्भीमैरयुतैः स्यंदनस्थितैः ।

अश्वार्बुदसहस्रे द्वे अर्बुदं दंतिनामपि ७।

रराज सैन्यलक्षैकं रथिनां सपताकिनाम् ।

परार्द्धनवतिः कोट्यः दृश्यंते मुख्यनायकाः ।

निर्जगाम महासैन्यं छत्रैः संछाद्य भास्करम् ८।

आसीत्पिंजरपांडुपंकजवनं श्वेतातपत्रैः क्वचित् ।

मायूरातपवारणैः क्वचिदभूतदुन्नीलनीलोत्पलम् ।

उन्मेघं क्वचिदूर्ध्वधूलिपटलैर्यस्य प्रयाणेऽभवत् ।

सद्वीचि क्वचिदंबरं सर इवोत्सर्पत्पताकापटैः ९।

गजवाजीमयी भूमिर्ध्वजच्छत्रमयं नभः ।

दिक्चक्रं चामरमयं दैत्यसैन्ये प्रसर्पति १०।

ततो जालंधरो दैत्यः प्रयाणाय समुत्सुकः ।

स्कंधे चारोपयन्शक्तिं नानारत्नविभूषिताम् ११।

आजगाम महाविष्णुं प्रष्टुं सागरवासिनम् ।

अभिवाद्य जगादाथ हरिं जालंधरस्त्विदम् १२।

भोगार्थां किं प्रयच्छामि तुभ्यं भावुक कथ्यताम् ।

श्रुत्वा नारायणो वाक्यमब्धिजस्य मुदान्वितः १३।

उवाच किं करोमीति प्रियं सिंधुसुतेप्सितम् ।

इत्युक्तः स प्रहृष्टोऽथ हरिं प्रोवाच सत्वरः १४।

यामि योद्धुं रणेऽहं त्वं सुखी तिष्ठेह सागरे ।

लक्ष्म्या दत्ताक्षतस्तत्र केशवेनाथ पूजितः १५।

स निर्गत्य हरेः स्थानात्समुद्रं प्रष्टुमागतः ।

सोऽर्णवं प्रणिपत्याह तात यास्यामि दूरतः १६।

नीलकंठं रणे जेतुमनुज्ञां दातुमर्हसि ।

पुत्रस्य वचनं श्रुत्वा यियासोः शंकरं प्रति १७।

सिंधुराजेन सोऽप्युक्तः पुत्र तं तापसं त्यज ।

भुंक्ष्व राज्यं मया दत्तं तापसं त्यज दूरतः १८।

अत्यद्भुतः प्रतापस्ते त्वत्तुल्यो नास्ति भूमिपः ।

स्वर्गादाधिक्यतां नीतं त्वया वत्स धरातलम् १९।

तव राज्येव सुमती वैकुंठ इव राजते ।

यो देवो दुर्जयो दैत्यैरानीतः सह सश्रिया २०।

ममांतिकं वत्स वस शंकरं भिक्षुकं त्यज ।

एवमुक्तो ह्यर्णवेन गिरिजां प्रति रागवान् २१।

पितृवाक्यमविज्ञाय आगत्य स्वभटान्स्वकान् ।

सज्जीभूतं तु युद्धाय वृंदा जालंधरं जगौ २२।

वृंदोवाच।

नाथ युद्धं न कर्तव्यं राजेंद्र कुत्सयोगिना ।

मनो निवर्त्यतां पश्य प्रवृत्तं पार्वतीं प्रति २३।

गौरीं त्वं वांछसि कस्मात्पार्वती किं ममाधिका ।

तपस्विनी निरालंबा संसक्ता स्थाणवे सदा २४।

सुतानुरागिणी वंध्या ततः कृत्रिमपुत्रिका ।

वृथास्तुता नारदेन तां त्यजस्व भजस्व माम् २५।

इति वृंदावचः श्रुत्वा प्रत्युवाचार्णवात्मजः ।

अदृष्ट्वा पार्वतीरूपं मच्चेतो न निवर्तते २६।

वृंदे त्वया जनपदो राजधानी प्रपाल्यताम् ।

स्मर्तव्योऽहं सदा चंडि यदि मां हंति शंकरः २७।

इति भर्तृवचः श्रुत्वा वृंदा हाससमन्विता ।

जगाम शिबिकारूढा पीठं जालंधरं तदा २८।

नारद उवाच-।

अथ प्रतस्थे कैलासं सिंधुसूनुर्महाबलः ।

महापद्मसहस्राणां षष्ट्या सैन्येन संवृतः २९।

अत्रांतरे परित्यज्य कैलांसं शंकरो गतः ।

गणपुत्रप्रियायुक्तः कैलासं मानसोत्तरम् ३०।

जालंधरस्ततः प्राप्तः कैलासं प्रथमेऽहनि ।

सेनाः संस्थाप्य कैलास आलोकनकुतूहली ३१।

दिव्यकेसरमंदाररजःपुंज परिश्रिताः ।

शीतांबुशीकरासारैः प्रभुग्ना वांति वायवः ३२।

यत्र सिद्धांगना पीनस्तनोत्तुंगतरंगिणः ।

मंदारमकरंदाढ्याः सुंदरा वांति वायवः ३३।

यत्राशोकरुचिस्निग्धपादन्यासं च योषिताम् ।

विलोक्य दानवेंद्रोभून्मनोरथसमाकुलः ३४।

प्राप्नुवंति सुराः प्रीतिं स्वबिंबालोकहर्षिताः ।

यत्र किन्नरकांतानां सुरतव्यंजितप्रभाः ३५।

विभांति सर्वतस्तत्र मंदाराः शीर्णपल्लवाः ।

यत्र शंभुगणाक्रांता नानावेलाकुलद्रुमाः ३६।

भांति मन्मथभूपाल यशसा सुधृता इव ।

यत्र चंदनकस्तूरी गंधोन्मत्तालिसंचयाः ।

विभांति दग्धकंदर्प्प निर्वाणांगारसन्निभाः ३७।

यत्रांगनानां सकलं विलोक्य सौरभ्यमत्युत्तमकांतिमित्रम् ।

मन्ये परिष्वक्तमनोविनोदा कस्तूरिका गाहति कालिमानम् ३८।

क्वचित्प्रवरगैरिकासमसमुल्लसत् पंकजं लवंगदलसन्निभासनचलच्चकोरं क्वचित् ।

क्वचिद्गिरिसरित्तटीतरणिवत्स्फुरत्कुंडलं चलन्निचुलमंजरीविनयनम्रभृंगं क्वचित् ३९।

क्वचिद्दलितकोकिलाकुलितनूत्नचूतांकुरं कुरंगकुलसेवितं प्रबलशालिमूलं क्वचित् ।

क्वचित्प्रवरसुंदरैः सुरवधूपदैः पावनं वनं नयति विक्रियामिह मनो मुनीनामपि ४०।

एवंगुणसमायुक्तं विलोक्य हरमंदिरम् ।

विचित्रं चापि कैलासं सर्वरत्नसमाश्रयम् ४१।

अत्यंतविस्मितो दैत्यः प्रोवाच भृगुनंदनम् ।

कस्मात्तं तापसं तात प्रवदंति भवादृशाः ४२।

तादृशी यस्य सा भार्या गृहमीदृङ्मनोहरम् ।

तत्रादृष्ट्वावदच्छंभुं हरः कुत्र गतः कवे ४३।

कथं मम भयाच्चेति पृष्टः प्रोवाच भार्गवः ।

देवशंभुर्महाशैलमगम्यं मानसोत्तरम् ४४।

ययौ तत्र महादेवो गंतुं चान्यैर्न शक्यते ।

इति काव्यवचः श्रुत्वा प्राह दैत्यो महाबलः ४५।

जालंधर उवाच-।

अहं यास्यामि देवेशं त्वं पुरा गच्छ भार्गव ।

इत्युक्त्वा प्रययौ तत्र यत्रास्ते शंकरः स्वयम् ४६।

अपश्यत्तं गिरिवरं सिंधुजो मानसोत्तरम् ।

तस्य षष्टिसहस्राणि योजनानां समुच्छ्रयः ४७।

स शैलो मानसो राजन्दैत्यसैन्यैः समावृतः ।

बहवो दैत्यराजानः शैलमारुरुहुर्द्रुतम् ४८।

छत्रांधकारं पर्यासीत्वाद्यनादेन वेपथुः ।

सैन्यकोलाहलस्तेषां पूरयामास रोदसी ४९।

नारद उवाच-।

अथैवमागतं दृष्ट्वा दैत्यसैन्यं महत्तदा ।

अत्युच्चे स गिरेः शृंगे स्थाप्य गौरीं सखीवृताम् 6.11.५०।

भगवांश्च गणैः सर्वैः सन्नद्धैर्युद्धदुर्मदैः ।

त्रिंशन्महाब्जसाहस्रैः प्रमथानां वृतः शिवः ५१।

उवाच नंदिनं शंभुर्गणानामधिपं त्वया ।

प्रहर्तव्यो महादैत्यो वीरो जालंधरो रणे ५२।

महाकालादिभिः शूरैर्याहि त्वं परिवारितः ।

तावदाजौ त्वया तस्माद्योद्धव्यमतिपौरुषात् ५३।

यावद्युद्धे नारिजयो मम वीर भविष्यति ।

इति शंभोर्वचः श्रुत्वा स च सारथिमब्रवीत् ५४।

काकतुंडरथं मेऽद्य समानय महामते ।

नंदिनो वचनं श्रुत्वा सोपि स्यंदनमाहरत् ५५।

द्वात्रिंशदश्वसंयुक्तं चक्रषोडशसंयुतम् ।

षष्टिध्वजसमोपेतं द्वात्रिंशद्योजनायुतम् ५६।

सर्वशस्त्रैश्च संपूर्णं प्राप्तं सांग्रामिकं रथम् ।

नंदिनश्चक्ररक्षार्थं पुत्रौ स्कंदविनायकौ ५७।

समादिष्टौ शंकरेण सन्नद्धौ तौ स्ववाहनौ ।

गणैः परिवृतो नंदी वाग्भिः संपूज्य चेश्वरम् ५८।

नंदी रथं समारुह्य निर्ययौ दानवान्प्रति ।

विराजते तस्य मूर्ध्नि छत्रं द्वादशयोजनम् ५९।

यावत्स निर्ययौ नंदी तावत्ते दानवाः पुरः ।

शैलोपरि समारूढा दानवा घोरदर्शनाः ६०।

गणानामायुधैस्तीक्ष्णैः निहताः पतिता भुवि ।

हन्यमाना गणैर्दैत्यास्तत्यजुर्दूरतो गिरिम् ६१।

ततो धूमसमं तस्मादवरुह्य शिलोच्चयात् ।

जघ्नुर्दैत्यान्शितैः शस्त्रैर्गणा राजन्महाबलान् ६२।

अमरैराचितं दृष्ट्वा रुरुधुर्दैत्यसैनिकाः ।

ततः समभवद्युद्धं गणानां दानवैः सह ६३।

शरवर्षमथात्युग्रं दानवानां दिवौकसाम् ।

ततः समस्तान्मातंगाञ्जघ्नुः शिखिमुखा रणे ६४।

रथान्हयान्पदातींश्च काकतुंडा महाबलाः ।

हतानां दैत्यसंघांनां संगरे भृशमायिनाम् ६५।

शिरोभिर्गगनं व्याप्तं प्रहसद्भिर्भयावहैः ।

मुक्तकेशारुणमुखैर्भीमदंष्ट्राविलोचनैः ६६।

सिंहैः कबंधजंघोरुकटिपृष्ठनिकृंतनैः ।

चिता सर्वत्र वसुधा कबंधैरुधिरारुणैः ६७।

ततो विरावः सुमहान्बभूव दैत्येश्वराणां ध्वजिनीषु धावताम् ।

शंभोर्गणैः पातितसैनिकानां यथार्णवानां नदतां युगक्षये ६८।

इति श्रीपाद्मे महापुराणे पंचाशत्सहस्रसंहितायामुत्तरखंडे नारदयुधिष्ठिरसंवादे जालंधरोपाख्याने दैत्यसैन्यपराजयोनाम एकादशोऽध्यायः ११।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 12

नारद उवाच-

दैत्यसैन्यं हतं दृष्ट्वा गणैर्नंदिपुरोगमैः ।

क्रुद्धाः शुंभादयो दैत्याः समाजग्मुर्गणान्प्रति १।

ततः शुंभो महादैत्यो नंदिनं प्रत्ययुध्यत ।

महाकालं निशुंभोऽथ कालो लोकेश्वरं रणे २।

पुष्पदंतं शैलरोमा माल्यवंतं महाबलः ।

कोलाहलो रणे राजन्प्राप्तो मायाबलेन च ३।

चंडं भयानको नाम राहुः स्कंदमधावत ।

कूष्मांडं सर्परोमा च घर्घरो मदनं तथा ४।

शुभं केतुमुखो हंतुं ययौ जंभो विनायकम् ।

हासं पातालकेतुश्च भृंगीशं रोमकंटकः ५।

युयुधुः कोटिशो रुद्रगणा दैत्याः परस्परम् ।

पश्यतोरुभयोस्तत्र स्वामिनोरिति ते युधि ६।

दृढप्रहारिणो जघ्नुर्गणा दैत्याः शरैरथ ।

नंदी मुमोच तान्बाणान्महासारो यथा नगे ७।

ततः संपूरयामास मुखं शुंभस्य पत्रिभिः ।

यथा पर्णचयैर्वातो मंदरस्येव कंदरम् ८।

शुंभोऽथ कार्मुकं त्यक्त्वा रथात्तं प्रत्यधावत ।

उत्पाट्य च गिरिं तेन जघान हृदि नंदिनः ९।

नंदिनो हृदयं भित्त्वा चूर्णयित्वा रथं रणे ।

पपात भूमौ स गिरिर्वज्रं प्राप्य गिरिं यथा १०।

मूर्च्छां प्राप्य क्षणात्संज्ञां वेगवान्स पलायितः ।

महाकालो निशुंभेन मुद्गरेण हतो हृदि ११।

आगत्य दैत्यं गदया जघान मुकुटोपरि ।

तत्प्रहारमचिंत्याथ निशुंभोऽपि महाबलः १२।

तं गृहीत्वा चरणयोर्महाकालं महाबलः ।

भ्रामयित्वा करतलाच्चिक्षेप च ननाद च १३।

स तद्वक्त्रानिलं पीत्वा ननाद रुधिरारुणः ।

पुष्पदंतः शैलरोम्णा चाहतो मुष्टिना मुखे १४।

गदया शैलरोमाणं हत्वा भूमौ न्यपातयत् ।

तं दृष्ट्वा पतितं भूमौ गिरिकेतुर्महाबलः १५।

पुष्पदंतं महाभीमं मुद्गरेण व्यपोथयत् ।

पुष्पंदंतोऽथ खड्गेन गिरिकेतोः शिरोऽछिनत् १६।

गृहीत्वा चर्म खड्गं च गिरिकेतोरधावत ।

शिरस्तं प्राह किं यासि मां त्यक्त्वा समरार्थिनम् १७।

शिरोहीने च कायेऽस्मिन्किं तु धावन्न लज्जसे ।

इत्युक्ते शिरसा तेन कबंधेन तु पादयोः १८।

विधृतः पुष्पदंतश्च कुक्षौ तीक्ष्णासिनाच्छिनत् ।

निश्चक्रामासुरः कुक्षेः शतशीर्षो महाबलः १९।

द्विशताक्षिसमायुक्तः शतद्वयभुजाकुलः ।

भ्रमत्तस्य शिरो राजन्कबंधोपांतमागमत् २०।

तच्छिरः प्राप्तमालोक्य पुष्पदंतोऽसिनाच्छिनत् ।

ततो भूकंपनो नाम ज्वरो दैत्यो भयावहः २१।

पुष्पंदंतस्तदा तत्र द्वाभ्यां राजन्विमर्दितः ।

ज्वरेण तेन च क्लिष्टो दुःसहेनातिवेगिना २२।

त्यक्त्वा शिवगणः संख्यं कंपमानो गिरिं ययौ ।

कोलाहलो महाधन्वी माल्यवंतं शरैस्त्रिभिः २३।

विव्याध स्कंधयोर्भाले माल्यवांश्च ततोऽसुरम् ।

बाणाहतो माल्यवता शस्त्रैर्नानाविधैः शितैः २४।

कोलाहलः प्रहृतवान्दर्शयन्नात्मलाघवम् ।

सोऽपि हेति व्यथां त्यक्त्वा माल्यवांश्च गणाग्रणीः २५।

गिरिं गृहीत्वा तेनाजौ कोलाहलमथाहनत् ।

निश्चक्राम ज्वरस्तस्माज्ज्वलनो नाम भीषणः २६।

त्रिशीर्षो नवहस्तश्च नवपादोऽतिपिंगलः ।

स ज्वरो मोहयामास माल्यवंतं स्वतेजसा २७।

माल्यवान्समरं त्यक्त्वा पराक्रांतो गिरिं ययौ ।

चंडिर्भयानकेनाजौ पाशेन हृदये हतः २८।

हयो विनिर्गतस्तस्मात्क्षिप्तः सोऽपि च सागरे ।

कार्त्तिकेयो रणे राहुं शितैर्बाणैः समाहनत् २९।

आच्छाद्य शरजालैश्च शीघ्रं शक्तिं मुमोच ह ।

आपतंतीं महाशक्तिं ज्वलंतीमिव तेजसा ३०।

दृष्ट्वा राहुः खमुत्पत्य कराभ्यां जगृहे द्रुतम् ।

स तां शक्तिं गृहीत्वा तु विनद्योच्चैः पुनः पुनः ३१।

स्वर्भानुः शिरसोनोपि तस्य शक्त्या जघान तम् ।

वक्षस्यभिहते शक्त्या तद्देहान्निर्गता सरित् ३२।

तया संप्लावितः पुत्रो महादेवस्य संयुगे ।

कथंचित्सा नदी रुद्धा समं पूरो गिरिं ययौ ३३।

श्रुत्वार्णवजो ज्वरतः कटककदंबस्य कर्कशं विरुतम् ।

सुस्वरवचनविदग्धं तमपि च कोकिलापतिं न सस्मार ३४।

शरैः किरंतं दहनमसिना बर्बरोऽवधीत् ।

कूष्मांडो निहतो मूर्ध्नि सर्परोम्णाथ मुष्टिना ३५।

पातालकेतुना हासो मुद्गरेण समाहतः ।

तस्य देहाद्विनिष्क्रम्य हस्ती मुद्गरमाभुनक् ३६।

शुंडायां मुष्टिघातेन हतः पातालकेतुना ।

आयुधैर्जर्जरं चक्रे भृंगीशं रोमकंटकः ३७।

भृंगीशोऽपि रणाद्भीतस्त्वरन्नेव गिरिं ययौ ।

सहसा धूम्रवर्णश्च शुभ्रः केतुमुखेऽपतत् ३८।

गणं गिलितवान्दैत्यो महाकायो महाननः ।

हाहाकारो महानासीद्गिलिते केतुना रणे ३९।

जृंभस्य निशितैर्बाणैश्छिन्नांगोऽथ विनायकः ।

शुंडादंडं परशुना तस्य चिच्छेद दंतिनः ४०।

जृंभासुरो जघानाथ शक्त्या लंबोदरोदरम् ।

मूषकोऽपि शरैर्भिन्नः प्रविवेश गुहामुखम् ४१।

विनायकः प्रहारार्त्तो विललापाकुलो रणे ।

हा मातस्तात हा भ्रातर्हा मूषक मम प्रिय ४२।

गणेशक्रंदितं श्रुत्वा भगवत्या तया तदा ।

समेत्य कूटादन्यस्मात्पार्वत्योक्तः शिवस्तदा ४३।

हेरंबो वध्यते दैत्यैः स्कंदोऽपि विनिपातितः ।

शिव किं क्रीडसे शैले रक्ष पुत्रौ गणानपि ४४।

सदा शूलादिशस्त्राणां धृतानामद्य वै क्षणः ।

अथ गौर्या वचः श्रुत्वा वीरभद्रं शिवोऽब्रवीत् ४५।

वृषः सज्जीयतां शीघ्रमित्युक्ते स तदाकरोत् ।

बबंध मुकुटं तस्य शृंगयोर्भास्करप्रभम् ४६।

कंठे घंटाशतं बद्ध्वा कर्णयोर्दर्पणौ धृतौ ।

स्कंधे च किंकिणीजालं चरणे नूपुरं महत् ४७।

पुच्छे चामरसाहस्रं तस्य पाशाष्टकं मुखे ।

कल्याणी च तदा देवी शर्वपार्श्वे व्यस्थिता ४८।

पाशाष्टकेन संयुक्ता तत्र खड्गधरांबिका ।

न्यस्तानि सर्वशस्त्राणि स वृषः सज्जितो बभौ ४९।

पार्वत्या भूषितः सोऽथ निजया घंटमालया ।

कृतं च तिलकं देव्या प्रोक्तः सत्कृतिपूर्वकम् 6.12.५०।

हरस्त्वया न मोक्तव्यो वृषेन्द्र रणसंकटे ।

आगंतव्यमरीन्जित्वा शंभुना सह संगरे ५१।

इति श्रुत्वा वचो देव्या हरो वृषमथारुहत् ।

धृत्वायुधसहस्रं तु निजालंकारभूषितः ।

रणं गच्छामि तां प्राह पार्वतीं प्रति सादरम् ५२।

ईश्वर उवाच-

त्वं तिष्ठसि स्वरूपाणि एकाकिन्यपि सस्पृहा ।

भामिनी दुरभिप्राया दानवा हि समागताः ५३।

तस्मात्त्वयात्मनैवात्मा रक्षणीयो वरानने ।

इत्युक्त्वा वृषभारूढो ययौ रुद्रो रणांगणम् ५४।

त्रिंशन्महाब्जसाहस्रैः प्रमथानां वृतः शिवः ।

वीरभद्रो रथेनाशु सिंहयुक्तेन सत्वरः ५५।

वामपार्श्वं महेशस्य शूरो रक्षति पार्थिव ।

मणिभद्रो ऽश्वयुक्तेन रथेन परवीरहा ५६।

दक्षिणं धूर्जटेः पार्श्वं संरक्षति धनुर्द्धरः ।

तुंगादुत्तीर्य शैलेंद्राद्रणं प्राप्तो गणैः सह ५७।

दृष्ट्वा जगर्जुस्ते दैत्या महेशानं वृषस्थितम् ।

ततो महान्निनादोऽभूद्दैत्यप्रमथसेनयोः ५८।

तयोरभून्मिथो राजन्संप्रमर्दोऽथ दारुणः ।

ततो नंदी महाकालः कालस्कंदौ महाबलः ५९।

माल्यवान्पुष्पदंतश्च वृषली स्वर्णदंतिकः ।

चंडीशो मदनश्चंडः कूष्मांडो गुप्तलोमकः ६०।

ये ये पूर्वं रणे भग्नाः प्राप्तास्ते रणसंकटम् ।

शिवस्य पुरतो दैत्या युयुधुस्ते महाबलाः ६१।

गणदानवयोधानां संग्रामोऽभूद्भयावहः ।

ततो गणानां विद्राव्य सैन्यं ते च महाबलाः ६२।

रणे संवेष्टयामासुः शरौघैः सर्वतः शिवम् ।

शूलैः कुंतैर्गदाभिश्च मुद्गरैः परिघैरपि ६३।

इंद्रियाणि यथात्मानं विषयैः पंचपंचभिः ।

जघानाथ रणे दैत्याञ्छंभुर्बाणैः सुदारुणैः ।

यथाशु माघः पापानि हंति स्नानेन तत्क्षणात् ६४।

इति श्रीपाद्मे महापुराणे पंचपंचात्सहस्रसंहितायामुत्तरखण्डे नारदयुधिष्ठिरसम्वादे जालंधरोपाख्याने श्रीमहादेवरणमागमनंनाम द्वादशोऽध्यायः १२।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 13

नारद उवाच-

ततो जालंधरः श्रुत्वा दैत्यकोलाहलं रणे ।

आजगाम रथारूढो यत्र देवः सदाशिवः १।

सारथिं खड्गरोमाणं कोपात्सत्वरमब्रवीत् ।

संप्रेषय रथं शीघ्रं सहस्रहययोजितम् २।

हन्मि तं तापसं शौर्याज्जटाभस्मास्थिभूषितम् ।

वृषारूढस्य का शक्तिः पंगोर्युद्धे मया सह ३।

नारद उवाच-

इत्युक्त्वा खड्गरोमाणमाभाष्य च तथोद्धतः ।

गृहीत्वा कार्मुकं घोरं रथेनाधावत द्रुतम् ४।

तं रुरोध तदायांतं वीरभद्रः शितैः शरैः ।

निरुच्छ्वासीकृतेनापि स कायेन शरैर्वृतः ५।

देवैर्यद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहः ।

तथापि किं कपालानि तुलां यांति कलानिधेः ६।

विव्याध मणिभद्रोऽपि शरैः सागरनंदनम् ।

पाशेन मणिभद्रं तु हत्वोवाचेश्वरं वचः ७।

एहि योद्धुं महादेव शस्त्राभ्यासोऽस्ति ते यदि ।

त्वं मां प्रहर न त्वाहमादौ हन्मि जटाधरम् ८।

इति ब्रुवंतं तं गर्वाद्वीरभद्रोऽथ सायकैः ।

पूरयामास संक्रुद्धो यथा पद्मं रविः करैः ९।

मणिभद्रोऽथ गदया सैन्यं तस्य समाहनत् ।

रथोपरि रथं वीर तुरगं तुरगोपरि १०।

गजोपरि गजं हत्वा पातयामास भूतले ।

रक्तपंकारुणा भूमिः संजाता दुर्गमा क्षणात् ११।

शैलाच्च गणमुख्याश्च दानवाञ्जघ्नुराहवे ।

पतंति दानवाः शूरा गतप्राणा महीतले १२।

रुंडदोर्दंडमुंडैश्च करिपृष्ठकरोरुभिः ।

पतंति दानवाः शूरा पूरिता वसुधा नृप १३।

नारद उवाच-

एवंविधं रणे दृष्ट्वा हरमत्यंतदुर्जयम् ।

भुवने च तथान्यानि दृष्टवाँल्लक्षणानि सः १४।

तेजोऽन्यदेवनक्षत्र शशांक सकलादिषु ।

उद्धाटितजगत्कोशमन्यदेवरवेर्महः १५।

भग्नः पुनश्चिंतितवांस्ततो जालंधरो नृप ।

न दृष्टा सा मया गौरी यां मामाहाति नारदः १६।

सांप्रतं शाश्वते स्थाने कथं द्रक्ष्याम्युमां स्थिताम् ।

तां हि द्रष्टुं व्रजाम्यादौ पश्चाद्योत्स्यामि शंभुना १७।

चिंतयित्वेति मनसा दैत्यं प्राहार्णवात्मजः ।

शुंभं चंडजये वीर मम तुल्यपराक्रम १८।

धृत्वा मत्सदृशं रूपं संग्रामं कर्तुमर्हसि ।

तव युद्धस्य भारोऽयं शिबिरस्य बलस्य च १९।

अहं यास्यामि तां द्रष्टुं गौरीं मच्चित्तहारिणीम् ।

इत्युक्त्वाथ ददौ तस्मै स्वांगादुत्तार्य मंडनम् २०।

वर्मशस्त्रादिकं दत्वा रथं सारथिसंयुतम् ।

दुर्वारणेन सहितः सैन्यं मुक्त्वोदधेः सुतः २१।

अलक्षितस्ततो गत्वा गुहां गुप्तां तु पार्थिव ।

मानसोत्तरशैलस्य हररूपं दधार सः २२।

धृत्वा दुर्वारणे रूपं नंदिनः सदृशं तथा ।

अथारुरुहतुः शैलं छद्मशंकरनंदिनौ २३।

यत्रास्ति शिखरे गौरी सखिभिः सहिता नृप ।

तमायांतं शरैर्भिन्नं स्कंधमालम्ब्य नंदिनः २४।

रक्ताक्तमंबरं दृष्ट्वा भवानी विस्मिताभवत् ।

सख्यस्तस्या जयाद्यास्ताः जग्मुस्तं संभ्रमान्विताः २५।

शंकरस्यांतिकं गत्वा पप्रच्छुस्तं सुदुःखिताः ।

किं जातं तव देवेश केन त्वं संगरे जितः २६।

सशल्यस्त्वं कथं नाथ संसारीव प्ररोदिषि ।

इत्युक्तः प्रददौ ताभ्यो भूषणानि पृथक्पृथक् २७।

उत्तार्य शनकैरंगात् वासुकिप्रभृतीनि च ।

गणेशस्कंदशिरसीच्छिन्ने कुक्षौ विलोक्य च २८।

हा स्कंद हा गणेशेति हा रुद्रेत्यंबिकारुदत् ।

तस्याः सख्यस्ततः सर्वा रुरुदुः शोककर्शिताः २९।

अत्राब्रवीज्जयां नंदी त्वमेनं परिपालय ।

मणिभद्रो वीरभद्रः पुष्पदंतश्च वीर्यवान् ३०।

दंभनो धूमतिमिरः कूष्मांडाद्या रणे हताः ।

चंडी भृंगी किरीटिश्च महाकालश्च शृंखली ३१।

चंडीशो गुप्तनेत्रश्च कालाद्याश्च हता रणे ।

विनायकस्य स्कंदस्य शिरसी भ्रमता मया ३२।

दृष्टे महारणे देवि इत्युक्त्वाथ पुरोक्षिपत् ।

तच्छ्रुत्वा नंदिनो वाक्यं शिरसी गृह्य पुत्रयोः ३३।

पार्वती विललापोच्चैः पुत्रपुत्रेति जल्पती ।

तारकारे कथं युद्धे हतस्त्वं सिंधुसूनुना ३४।

त्वं हि त्रिवासरो देवैः सेनापत्योऽभिषेचितः ।

तदा त्वया कथं वीर तारकाख्यो निपातितः ३५।

नीलकंठेन किं त्यक्तो यतस्त्वं पतितो भुवि ।

स्नुषामुखं न दृष्टं च मया पुत्रावभाग्यया ३६।

न भोगा वत्स ते भुक्ता संसारस्यापि येभवन् ।

तात हेरंब विघ्नेश लंबोदर गजानन ३७।

रणांगणे केन पुत्र सिद्धैः पूज्यो निपातितः ।

वाहनोऽसौ कुतो वत्स मूषकः केन हिंसितः ३८।

एवं विलपती गौरी शिवं प्राह सुदुःखितम् ।

साक्षाद्रुद्रोऽसि देवेश हरस्त्वं मा भयं कुरु ३९।

वृषभः क्व गतो देव हतो जालंधरेण वै ।

शरजर्जरदेहस्य किं करोमि प्रियं तव ४०।

ततः श्रुत्वा वचो देव्या निश्वस्योवाच शंकरः ।

दीर्घं विनिहतौ पुत्रौ वृथा शोचसि किं प्रिये ४१।

अधुना तेंगसंगेन देवि मां त्रातुमर्हसि ।

शंकरस्य वचः श्रुत्वाऽसमयोचितमातुरम् ।

प्रत्युवाचांबिका देवं बभाषे नोचितं वचः ४२।

महाविषादे पतिते भये च कृते समाधौ वमने महाज्वरे ।

श्राद्धे प्रयाणे गुरुवृद्धसन्निधौ रतिं बुधाः शंकर वर्जयंति ४३।

कथं मां दुःखदुःखार्तां पुत्रशोकेन पीडिताम् ।

म्लानां बाष्पपरिम्लानां संप्रार्थयसि चातुराम् ४४।

भवान्या इति वाक्यानि श्रुत्वा मायामहेश्वरः ।

उवाच स्वार्थमुद्दिश्य गौर्यारूपेण मोहितः ४५।

पुरुषस्यार्तियुक्तस्य न यच्छंति रतिं स्त्रियः ।

तथैव रौरवे घोरे पतिष्यंति न संशयः ४६।

गणशून्यः पुत्रशून्यो धीशून्योऽहं वरानने ।

सांप्रतं गृह्य शून्योऽहं सर्वशून्योऽस्मि भामिनि ४७।

सुजीवितं विहीनोऽहं त्वां प्रष्टुमिह चागतः ।

स्वं गृहं तु प्रविश्याशु त्यजामि प्रकृतिं स्वकाम् ४८।

उत्तिष्ठ नंदिन्संयावस्तीर्थे भव पुरःसरः ।

त्वं याहि स्वेच्छया कांते प्रकृतिं स्वां परित्यज ४९।

इति मायामहेशस्य वचः श्रुत्वांबिका ततः ।

दीर्घं दध्यो महाश्वासं शोकेन च जडीकृता 6.13.५०।

तस्यैवं परमे क्षोभे किंचिन्नोवाच सा क्षणम् ।

यया संमोहितं सर्वं जगत्स्थावरजंगमम् ।

सैव संमोहिता तेन न जाने दुःखमात्मनः ५१।

इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे युधिष्ठिरनारदसम्वादे जालंधरमायामहेशागमनंनाम त्रयोदशोऽध्यायः १३।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 14

युधिष्ठिर उवाच-

इति मायामहेशेन मोहिता गिरिजा यदा ।

अतः किं समभूद्ब्रह्मन्तन्ममाख्यातुमर्हसि १।

नारद उवाच-

क्षीराब्धौ तु शयानस्य चुक्षोभ हृदयं हरेः ।

अकस्मादेव राजेंद्र नयनेऽश्रुपरिप्लुते २।

दृष्ट्वा तन्महदुत्पातलक्षणं भगवांस्ततः ।

उत्थाय शेषपर्यंकान्मां च वायुं विलोक्य च ३।

किं कार्यमिति गोविंदस्तन्नागारिमथास्मरत् ।

स चाग्रे स्मृतिमात्रेण तस्थौ बद्धांजलिः प्रभो ४।

विनतानंदनं दृष्ट्वा पुरतः प्राह केशवः ।

सुपर्ण तत्र गच्छ त्वं यत्र युद्धं प्रवर्तते ५।

हतो जालंधरो वीरो हरो वा तेन मोहितः ।

दृष्ट्वा तं शीघ्रमागत्य कथयस्व ममाखिलम् ६।

जालंधरेशयोर्युद्धं द्रष्टुं शक्तस्त्वमेव हि ।

कोऽन्यो महाहवे तस्मिन्ज्ञात्वा याति शरीरवान् ७।

कदाचिद्दुर्गमं तत्र युद्धं शस्त्रास्त्रवृष्टिभिः ।

अथ त्वं बाणसंचारं गत्वापि हितविग्रहः ८।

संदृष्ट्वा पार्वतीवृत्तिं शीघ्रमायातुमर्हसि ।

दैत्यमायानिरासार्थं विचिंत्य भगवांस्त्वरन् ९।

गुटिकां सर्वसिद्धां च गरुडाय ददौ हरिः ।

अनया न भ्रमो वीर तथेत्युक्त्वा मुखेक्षिपत् १०।

एवं संप्रेरितः पत्री हरिं कृत्वा प्रदक्षिणम् ।

निश्चक्राम खमाविश्य जगामाद्भुतवेगवान् ११।

तत्र गत्वा रणं घोरं दैत्यसंघैः स दुःसहम् ।

दृष्टवानखिलेनासौ न किंचिज्ज्ञातवान्किल १२।

तस्मादुत्पत्य वेगेन गतोऽसौ मानसोत्तरम् ।

शैलं तुंगतरं दुर्गमगम्यं मरुतामपि १३।

विलोकयन्न ददृशे गौरीस्थानं पतंगराट् ।

तत्रागत्य भुजंगारिर्ध्वनिं संश्रुतवान्किल १४।

गत्वा समीपे ददृशे मायापशुपतिं ततः ।

गरुडो गुटिकां क्षिप्य मुखेन भ्रममाप सः १५।

ज्ञात्वा बुद्ध्वाथ दैत्योऽयमिति नायं वृषध्वजः ।

हा कष्टमिति चोक्त्वा च रुदन्नागत्य चार्णवम् १६।

कथयामास वृत्तांतं पुरतः कैटभद्विषः ।

देव जालंधरेणायं हरो देवो विडंबितः १७।

उमा प्रतारिता तेन पापेन छद्मरूपिणा ।

सुरस्त्वं यदि गोविंद समरं प्रतियाह्यतः १८।

मायायुद्धं तु देवेश कुरु जालंधरं प्रति ।

तस्य राज्ञी मया दृष्टा पीठे जालंधरे शुभे १९।

प्रासादभूम्यां क्रीडंती वाद्यगीतादिवर्त्तनैः ।

सा सुंदरतरा गौर्या रंभोर्वश्योः शतादपि २०।

नेदानीं मानुषे लोके न पातालेषु तत्समा ।

भार्या तेन समा वेश्या नारीणां का कथा हरे २१।

यस्तां स्पृशति देहेन सकृतार्थः पुमान्भवेत् ।

तव श्यालकपत्नी च हर त्वं तां रम प्रियाम् ।

शंकरस्योपकारं च कुरु चैवात्मनः सुखम् २२।

नारद उवाच-

श्रुत्वा तार्क्ष्यस्य वचनं तं निर्भर्त्स्य रमाप्रियः ।

सम्यग्व्यवस्य चोपायं विससर्ज द्रुतं द्विजम् २३।

श्रियंपतार्य्य संछाद्य मंचके पीतवाससा ।

निर्गतोऽन्येन रूपेण योगि मायाबलेन च २४।

वृंदारिकानुरागेण मोहितो मधुसूदनः ।

दृष्ट्वा हरिं तु गच्छंतं प्रतिछन्नं युधिष्ठिर २५।

शेषोप्यन्यतमेनासौ रूपेणागत्य केशवम् ।

जगाद भक्त्या त्वं तिष्ठ ममानुज्ञातुमर्हसि २६।

किं करोमि क्व गच्छामि ब्रूहि कार्यं जनार्दन ।

सदा तव मुखं दृष्ट्वा भोक्ष्यामीति भवेत्सुखम् २७।

श्रीभगवानुवाच-

जालंधरस्त्रियं रम्यां हरिष्ये हरकारणात् ।

पार्वत्याश्चोपकाराय संछाद्य स्वात्मनस्तनुम् २८।

एहि यामो वयं बंधो कांतारं दुरतिक्रमम् ।

वृंदाकर्षणसिद्ध्यर्थमित्युक्त्वा तौ वनं गतौ २९।

ततो विष्णुश्च शेषश्च जटावल्कलधारिणौ ।

आश्रमं चक्रतुः पुण्यं सर्वकामफलप्रदम् ३०।

तयोः शिष्याः प्रशिष्याश्च बभूवुः कामरूपिणः ।

सिंहव्याघ्रवराहाश्च ऋक्षवानरमर्कटाः ३१।

अथ तस्मिन्वने वृंदां मंत्रेणाकर्षयद्धरिः ।

तस्या हृदयसंतापं चकार मधुसूदनः ३२।

एतस्मिन्नंतरे राज्ञी तापमुग्रमुपागता ।

चामरांश्चालयामास दिव्यस्त्रीकरचालितान् ३३।

प्रियस्यागमनं तन्वीं चिंतयंती मुहुर्मुहुः ।

चंदनागुरुलिप्तांगी मूर्च्छां याति हि सत्वरम् ३४।

तुर्ययामे विभावर्याश्चतुर्दश्यां नृपांगना ।

स्वप्नं ददर्श भयदं वैधव्यभयसूचकम् ३५।

जालंधरशिरः शुष्कं मर्दितं पांडुभस्मना ।

गृध्रेण कृष्टनयनं छिन्नकर्णाग्रनासिकम् ३६।

मुक्तकेशी करालास्या कृष्णवर्णारुणांबरा ।

चखाद काली रक्तास्या हस्ते विधृतखर्परा ३७।

ईदृशं ददृशे स्वप्नं तथात्मानं विडंबितम् ।

दैत्यक्षयगुणोपेतं सा ददर्श नृपांगना ३८।

ततः प्रबुद्धाऽसुरराजपत्नी गीतेन वाद्येन च मागधानाम् ।

गेयप्रबंधैः स्तवनैर्व चोभिर्वं शस्तवैः किंपुरुषप्रपाठितैः ३९।

ततस्तान्सकलान्श्रांतान्धनं दत्वा प्रसादजम् ।

निवार्य विप्रानाहूय स्वप्नं दृष्टं न्यवेदयत् ।

तं स्वप्नं ब्राह्मणाः श्रुत्वा तामूचुः शास्त्रपारगाः ४०।

द्विजा ऊचुः -

देवि दुःस्वप्नमत्युग्रमचिंत्यं भयदायकम् ।

देहि दानं द्विजातिभ्यो ह्यचिंत्य भयनाशकम् ४१।

धेनुर्वासांसि रत्नानि गजांश्चाभरणानि च ।

ब्राह्मणाः परिसंतुष्टाः सिषिचुस्तां नृपस्त्रियम् ४२।

अभिषिक्तापि सा वृंदा ज्वरेण परितप्यते ।

विसृज्य विप्रप्रवरान्प्रासादमगमत्तदा ४३।

तत्र स्थितापि स्वपुरं ददृशे दीप्तमंगला ।

ततः स्वकर्मणा राजन्नाकृष्टा हरिणा तु सा ४४।

न शशाक गृहे स्थातुं ततो राज्ञी वनं ययौ ।

रथमश्वतरीयुक्तं स्मरदूतीसखीवहम् ४५।

समारुह्य क्षणात्तन्वी प्राप्ता सौभाग्यकाननम् ।

नानावृक्षसमायुक्तं नानापक्षिगणान्वितम् ४६।

पुष्पप्रस्रवणोपेतं स्वर्गनारीविभूषितम् ।

मंदानिलप्रवेशोऽस्ति यत्र नान्यस्य कस्यचित् ४७।

वनं वृंदारिका दृष्ट्वा सस्मार पतिमात्मनः ।

कथं जालंधरं वीरं द्रक्ष्यामि प्राप्तमग्रतः ४८।

सा तत्र न सुखं लेभे विवेशान्यतमं वनम् ।

सखीरथसमायुक्ता विष्णुमायाविमोहिता ४९।

ततो विलोकयामास विपिनं तरुसंकुलम् ।

उरुपाषाणसंरुद्धं कुरंगाक्षी भयावहम् 6.14.५०।

सिंहव्याघ्रभयाकीर्णंशृगालव्यालसेवितम् ।

द्रुमैः स्पृशच्छिखाकाशैर्गुहासु ध्वांतपूरितम् ५१।

वनं विलोक्य सा भीमं चकिता चपलेक्षणा ।

स्मरदूतीं सखीं वृंदा जगाद रथवाहिनीम् ।

रथं प्रेषय मे शीघ्रं स्मरदूति गृहं प्रति ५२।

स्मरदूतिरुवाच-

नाहं जानामि दिग्भागं न यामि क्व रथं सखि ।

श्रांता अश्व्यः प्रवर्तंते मार्गश्चात्र न विद्यते ५३।

प्रेरितो दैवकेनापि स्यंदनो यातु यत्र च ।

अत्र कोपि च मांसादो भक्षयिष्यति नान्यथा ५४।

इत्युक्ता सा द्रुततरा रथं शीघ्रमवाहयत् ।

स रथो वेगतः प्राप्तो यत्र सिद्धा मुदान्विताः ५५।

तत्र सिद्धाश्च दृश्यंते काननं च भयावहम् ।

न यत्र प्रबलो वायुर्न शब्दः पक्षिणामपि ५६।

न च तेजः प्रकाशोऽस्ति न जलं प्रदिशो दिशः ।

तत्र प्राप्तरथस्यापि लक्षणेऽभूद्विपर्ययः ५७।

अश्वतर्यो न हेषंते न च शब्दश्च नेमिजः ।

न चलंति पताकास्ता घंटिका न क्वणंति च ५८।

न स्वनंति महाघंटा ध्वजस्तंभे निवेशिताः ।

विलोक्यैवंविधं प्राह तत्र वृंदा सखीं प्रति ५९।

स्मरदूति क्व यास्यामो व्याघ्रसिंहभयं वनम् ।

न गृहे न सुखं राज्ये मम जातं वने सखि ६०।

स्मरदूतिरुवाच-

शृणुष्व देवि पश्य त्वं पुरः शैलोऽतिदारुणः ।

दृष्ट्वाग्रतो न गच्छंति तुरंग्यो भयविह्वलाः ६१।

तस्यास्तद्वचनं श्रुत्वा संत्रस्ता सा नृपांगना ।

दृष्ट्वा हारं स्वकंठस्थं स्यंदनाच्छीघ्रमुत्थिता ६२।

एतस्मिन्नंतरे प्राप्तो राक्षसो भीषणाकृतिः ।

त्रिपादः पंचहस्तश्च सप्तनेत्रोऽतिदारुणः ६३।

पिंगलो व्याघ्रकर्णश्च सिंहस्कंधस्तथाननः ।

विहंगेशसमाः केशा लंबंते रुधिरारुणाः ६४।

तं दृष्ट्वा पद्मकोशांगी सहसा सभयाभवत् ।

नेत्रे कराभ्यामाच्छाद्य चकंपे कदलीव सा ६५।

प्रतिहारी प्रतोदं तु त्यक्त्वा राज्ञीमभाषत ।

भीतां मां त्राहि देवि त्वमयं धावति भक्षितुम् ६६।

एतस्मिन्नंतरे प्राप्तो राक्षसो रथसंनिधौ ।

रथमुत्क्षिप्य हस्तेन भ्रामयंश्चाश्विनीयुतम् ६७।

सा राज्ञी पतिता भूमौ मृगी व्याघ्रभयादिव ।

स्मरदूती तरोर्मूले छिन्नाशोकलता यथा ६८।

ततस्ताश्चाश्विनीः सर्वाः भक्षयामास राक्षसः ।

तेन राज्ञी धृता हस्ते सिंहेनैणवधूरिव ६९।

तामुवाच ततो रक्षः प्राणैस्ते कारणं यदि ।

तव भर्ता हतः संख्ये हरेणेति श्रुतं मया ७०।

मामासाद्याद्य भर्तारं चिरंजीवाकुतोभया ।

पिबाथ वारुणीं स्वाद्वीं महामांससमन्विताम् ।

शृण्वंतीति वचो राज्ञी गतसत्वा इवाभवत् ७१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे जालंधरोपाख्याने श्रीमन्माधवमायाकथनंनाम चतुर्दशोऽध्यायः १४।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 15

नारदउवाच-

नारायणस्तदा देवो जटावल्कलधार्यथ ।

द्वितीयोऽनुचरस्तस्य ह्याययौ फलहस्तवान् १।

तौ दृष्ट्वा स्मरदूती सा विललाप मृगेक्षणा ।

तच्छ्रुत्वा वचनं तस्याः प्रोचतुस्तां च तावुभौ २।

भयं मा गच्छ कल्याणि त्वामावां त्रातुमागतौ ।

वने घोरे प्रविष्टासि कथं दुष्टनिषेविते ३।

एवमाश्वास्य तां तन्वीं राक्षसं प्राह माधवः ।

मुंचेमामधमाचार मृद्वंगीं चारुहासिनीम् ४।

रेरे मूर्ख दुराचार किं कर्तुं त्वं व्यवस्थितः ।

सर्वस्वं लोकनेत्राणामाहारं कर्तुमुद्यतः ५।

भव पुण्यप्रभावेयं हंस्येतां मंडनं भुवः ।

अद्यलोकं निरालोकं कंदर्पं दर्पवर्जितम् ६।

करिष्यस्यधुना त्वं च हत्वा वृंदारिकां वने ।

तस्मादिमां विमुंचाशु सुखप्रासाददेवताम् ७।

इति श्रुत्वा हरेर्वाक्यं राक्षसः कुपितोऽब्रवीत् ।

समर्थस्त्वं यदि तदा मोचयाद्यैव मत्करात् ८।

इत्युक्तमात्रे वचने माधवेन क्रुधेक्षितः ।

पपात भस्मसाद्भूतस्त्यक्त्वा वृंदां सुदूरतः ९।

अथोवाच प्रमुग्धा सा मायया जगदीशितुः ।

कस्त्वं कारुण्यजलधिर्येनाहमिह रक्षिता १०।

शारीरं मानसं दुःखं सतापं तपसां निधे ।

त्वया मधुरया वाचा हृतं राक्षसनाशनात् ११।

तवाश्रमे तपः सौम्य करिष्यामि तपोधन १२।

तापस उवाच-

भरद्वाजात्मजश्चाहं देवशर्मेति विश्रुतः ।

विहाय भोगानखिलान्वनं घोरमुपागतः १३।

अनेन बटुनासार्धं मम शिष्येण कामगाः ।

बहुशः संति चान्येऽपि मच्छिष्याः कामरूपिणः १४।

त्वं चेन्ममाश्रमे स्थित्वा चिकीर्षसि तपः शुभे ।

एहि राज्ञ्यपरं यामो वनं दूरस्थितं यतः १५।

इत्युक्त्वा राजपत्नीं तां ययौ प्राचीं दिशं हरिः ।

वनं प्रेतपिशाचाढ्यं मंदगत्या नराधिप १६।

वृंदारिकाश्रुपूर्णाक्षी तस्य पृष्ठानुगा ययौ ।

स्मरदूती च तत्पृष्ठे मां प्रतीक्षेति वादिनी १७।

अत्रांतरे दुराचारः कोपि पापाकृतिर्वने ।

जालं प्रसारयामास तद्यदा जीवपूरितम् १८।

ततः संकोचयामास तज्जालं पापनायकः ।

जालस्थांस्तु तदा जीवानुपाहृत्य मुमोच ह १९।

स च व्याधः स्त्रियौ दृष्ट्वा स्मरदूती जगाद ताम् ।

देवि मामत्तुमायाति करे गृह्णातु मां सखी २०।

वृंदा तयोक्तं श्रुत्वैनं विकृतास्यं व्यलोकयत् ।

वीक्ष्यतं भयवातेन निर्धूता सिंधुजप्रिया २१।

दुद्राव विकलं शुभ्रं स्मरदूत्या समं वने ।

विद्रवंती समं सख्या तापसाश्रममागता २२।

सा तापसवने तस्मिन्ददर्शात्यंतमद्भुतम् ।

पक्षिणः कांचनीयांगान्नानाशब्दसमाकुलान् २३।

सापश्यद्धेमपद्माढ्यां वापीं तु स्वर्णभूमिकाम् ।

क्षीरं वहंति सरितः स्रवंति मधु भूरुहः २४।

शर्कराराशयस्तत्र मोदकानां च संचयाः ।

भक्ष्याणि स्वादुसर्वाणि बहून्याभरणानि च २५।

बहुशस्त्राणि दिव्यानि नभसः संपतंति च ।

क्रीडंति हरयस्तृप्ता उत्पतंति पतंति च २६।

मठेति सुंदरं वृंदा तं ददर्श तपस्विनम् ।

व्याघ्रचर्मासनगतं भासयंतं जगत्त्रयम् २७।

तमुवाच विभो पाहि पाहि पापर्द्धिकादथ ।

तपसा किं च धर्मेण मौनेन च जपेन च २८।

भीतत्राणात्परं नान्यत्पुण्यमस्ति तपोधन ।

एवमुक्तवती भीता सालसांगी तपस्विनम् २९।

तावत्प्राप्तः सदुष्टात्मा सर्वजीवप्रबंधकः ।

वृंदादेवी भयत्रस्ता हरिकंठे समाश्लिषत् ३०।

सुखस्पर्शं भुजाभ्यां सा शोकवल्लीव लिंगिता ।

तवालिंगनभावेन पुनरेव भविष्यति ३१।

शिरः सर्वांगसंपन्नं त्वद्भर्तुरधिकं गुणैः ।

अथ त्वं प्रमदे गच्छ पत्यर्थे चित्रशालिकाम् ३२।

सा चित्रशालामित्युक्ता विवेश मुनिना तदा ।

दिव्यपर्यंकमारूढा गृह्य कांतस्य तच्छिरः ३३।

चकाराधरपानं सा मीलिताक्ष्यतिलोलुपा ।

यावत्तावदभूद्राजन्रूपं जालंधराकृति ३४।

तत्कांतसदृशाकारस्तद्वक्षस्तद्वदुन्नतिः ।

तद्वाक्यस्तन्मनोभावस्तदासीज्जगदीश्वरः ३५।

अथ संपूर्णकायं तं प्रियं वीक्ष्य जगाद सा ।

तव कुर्वे प्रियं स्वामिन्ब्रूहि त्वं स्वरणं च मे ३६।

वृंदावचनमाकर्ण्य प्राह मायासमुद्रजः ।

शृणु देवि यथा युद्धं वृत्तं शंभोर्मया सह ३७।

प्रिये रुद्रेण रौद्रेण छिन्नं चक्रेण मे शिरः ।

तावत्वत्सिद्धियोगाच्च त्वद्गतेन ममात्मना ३८।

छिन्नं तदत्र चानीतं जीवितं तेंगसंगतः ।

प्रिये त्वं मद्वियोगेन बाले जातासि दुःखिता ३९।

क्षंतव्यं विप्रियं मह्यं यत्त्वां त्यक्त्वा रणं गतः ।

इत्यादि वचनैस्तेन वृंदा संस्मारिता तदा ४०।

तांबूलैश्च विनोदैश्च वस्त्रालंकरणैः शुभैः ।

अथ वृंदारिका देवी सर्वभोगसमन्विता ४१।

प्रियं गाढं समालिंग्य चुचुंब रतिलोलुपा ।

मोक्षादप्यधिकं सौख्यं वृंदा मोहनसंभवम् ४२।

मेने नारायणो देवो लक्ष्मीप्रेमरसाधिकम् ।

वृंदां वियोगजं दुःखं विनोदयति माधवे ४३।

तत्क्रीडाचारुविलसद्वापिका राजहंसके ।

तद्रूपभावात्कृष्णोऽसौ पद्मायां विगतस्पृहः ४४।

अभूद्वृंदावने तस्मिंस्तुलसीरूप धारिणी ।

वृंदांगस्वेदतो भूम्यां प्रादुर्भूताति पावनी ४५।

वृंदांग संगजं चेदमनुभूय सुंखं हरिः ।

दिनानि कतिचिन्मेने शिवकार्यं जगत्पतिः ४६।

एकदा सुरतस्यांते सा स्वकंठे तपस्विनम् ।

वृंदा ददर्श संलग्नं द्विभुजं पुरुषोत्तमम् ४७।

तं दृष्ट्वा प्राह सा कंठाद्विमुच्य भुजबंधनम् ।

कथं तापसरूपेण त्वं मां मोहितुमागतः ४८।

निशम्य वचनं तस्याः सांत्वयन्प्राह तां हरिः ।

शृणु वृंदारिके त्वं मां विद्धि लक्ष्मीमनोहरम् ४९।

तव भर्ता हरं जेतुं गौरीमानयितुं गतः ।

अहं शिवः शिवश्चाहं पृथक्त्वे न व्यवस्थितौ 6.15.५०।

जालंधरो हतः संख्ये भज मामधुनानघे ।

नारद उवाच-

इति विष्णोर्वचः श्रुत्वा विषण्णवदनाभवत् ।

ततो वृंदारिका राजन्कुपिता प्रत्युवाच ह ५१।

रणे बद्धोऽसि येन त्वं जीवन्मुक्तः पितुर्गिरा ।

विविधैः सत्कृतो रत्नैर्युक्तं तस्य हृता वधूः ५२।

पतिर्धर्मस्य यो नित्यं परदाररतः कथम् ।

ईश्वरोऽपि कृतं भुंक्ते कर्मेत्याहुर्मनीषिणः ५३।

अहं मोहं यथानीता त्वया माया तपस्विना ।

तथा तव वधूं माया तपस्वीकोऽपि नेष्यति ५४।

इति शप्तस्तथा विष्णुर्जगामादृश्यतां क्षणात् ।

सा चित्रशालापर्यंकः स च तेऽथप्लवंगमाः ५५।

नष्टं सर्वं हरौ याते वनं शून्यं विलोक्य सा ।

वृंदा प्राह सखीं प्राप्य जिह्मं तद्विष्णुना कृतम् ५६।

त्यक्तं पुरं गतं राज्यं कांतः संदेहतां गतः ।

अहं वने विदित्वैतत्क्व यामि विधिनिर्मिता ५७।

मनोरथानां विषयमभून्मे प्रियदर्शनम् ।

प्राह निःश्वस्य चैवोष्णं राज्ञी वृंदातिदुःखिता ५८।

मम प्राप्तं हि मरणं त्वया हि स्मरदूतिके ।

इत्युक्ता सा तया प्राह मम त्वं प्राणरूपिणी ५९।

तस्यास्तथोक्तमाकर्ण्य इतिकर्त्तव्यतां ततः ।

वने निश्चित्य सा वृंदा गत्वा तत्र महत्सरः ६०।

विहाय दुःखमकरोद्गात्रक्षालनमंबुना ।

तीरे पद्मासनं बद्ध्वा कृत्वा निर्विषयं मनः ६१।

शोषयामास देहं स्वं विष्णुसंगेन दूषितम् ।

तपश्चचारसात्युग्रं निराहारा सखीसमम् ६२।

गंधर्वलोकतो वृंदामथागत्याप्सरोगणः ।

प्राह याहीति कल्याणि स्वर्गं मा त्यज विग्रहम् ६३।

गांधर्वं शस्त्रमेतत्त्रिभुवनविजयं श्रीपतिस्तोषमग्र्यं।

नीतो येनेह वृंदे त्यजसि कथमिदं तद्वपुः प्राप्तकामम् ।

कांतं ते विद्धि शूलिप्रवरशरहतं पुण्यलाभस्य भूषास्वर्गस्य त्वं।

भवाद्य द्रुतममरवनं चंडिभद्रे भज त्वम् ६४।

श्रुत्वा शास्त्रं वधूनां जलधिजदयिता वाक्यमाह प्रहस्य ।

स्वर्गादाहृत्य मुक्तात्रिदशपति वधूश्चातिवीरेण पत्या ।

आदौ पात्रं सुखानामहममरजिता प्रेयसा तद्वियुक्तानिर्दुष्टा तद्य।

तिष्ये प्रियममृतगतं प्राप्नुयां येन चैव ६५।

इत्युक्त्वा ससखी वृंदा विससर्जाप्सरोगणान् ।

तत्प्रीतिपाशबद्धास्ता नित्यमायांति यांति च ६६।

योगाभ्यासेन वृंदाथ दग्ध्वा ज्ञानाग्निना गुणान् ।

विषयेभ्यः समाहृत्य मनः प्राप ततः परम् ६७।

दृष्ट्वा वृंदारिकां तत्र महांतश्चाप्सरोगणाः ।

तुष्टुवुर्नभसस्तुष्टा ववृषुः पुष्पवृष्टिभिः ६८।

शुष्ककाष्ठचयं कृत्वा तत्र वृंदाकलेवरम् ।

निधायाग्निं च प्रज्वाल्य स्मरदूती विवेश तम् ६९।

दग्धं वृंदांगरजसां बिंबं तद्गोलकात्मकम् ।

कृत्वा तद्भस्मनः शेषं मंदाकिन्यां विचिक्षिपुः ७०।

यत्र वृंदा परित्यज्य देहं ब्रह्मपथं गता ।

आसीद्वृंदावनं तत्र गोवर्द्धनसमीपतः ७१।

देव्योऽथ स्वर्गमेत्य त्रिदशपतिवधूसत्त्वसंपत्तिमाहुर्देवीभ्यस्तन्निशम्य प्रमुदितमनसो निर्जराद्याश्च सर्वे ।

शत्रोर्दैत्यस्य हित्वा प्रबलतरभयं भीमभेर्यो निजघ्नुः श्रुत्वा तत्रासनस्थः ।

परिजननिवहोवापशोभां शुभस्य ७२।

इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशतसहस्रसंहितायां जालंधरोपाख्याने वृंदाया ब्रह्मपदप्राप्तिर्नाम पंचदशोऽध्यायः १५।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 16

युधिष्ठिर उवाच।

कथं जालंधरो गौरीं हररूपधरो मुने ।

दृष्ट्वा चकार किं तत्र तन्मे कथय विस्तरात् १।

नारद उवाच-

यदा मायाशिवस्तत्र प्रार्थयद्गिरिजां प्रति ।

ततः सा चुक्षुभे राजन्किंचिन्नोवाच तं प्रति २।

अनातुरस्य देवस्य प्राप्तस्य तपसा मया ।

न युक्तमिति निश्चित्य पार्वती नाह तं नृप ३।

सा न तत्र प्रतीकारं दृष्ट्वा तस्य च पश्यतः ।

निर्गता तत उत्थाय ददर्शाकाशवाहिनीम् ४।

गंगां वासोचितां मत्वा भवानी तपसे ययौ ।

पुरापि तपसा लब्धो मयेशः सांप्रतं तथा ५।

इत्यव्रजच्चिंतयती सखीभिः सहिता ततः ।

पुरः क्षीरनिभां राजन्पार्वती गगनात्परम् ६।

मंदाकिनीं ददर्शाथ पतंतीं मानसोत्तरे ।

हारमालामिवायांतीं विविक्तां गगनस्रजः ७।

मंदाकिन्याः पयःपूरो ह्याकृष्टः स्वर्गतो यथा ।

श्रुतीनां पूरधारेव ब्रह्मणो वदनच्युता ८।

दृष्ट्वा मुमोद तां गंगां स्नात्वा चालिसमन्विता ।

संपूज्य स्वतनुं पश्चान्निविष्टा स्वर्णदीतटे ९।

परस्परमथालोक्य गौरी प्राह सखीं जयाम् ।

त्वं गच्छ मद्वपुः कृत्वा तत्समीपं सखी त्वरा १०।

जानीहि तत्वं किं शंभुर्यदि वान्यो भविष्यति ।

यद्यसौ त्वां समालिंग्य कुरुते चुंबनादिकम् ११।

तदा मायां समास्थाय जानीह्यसुरमागतम् ।

यदि चेत्त्वां प्रतिब्रूयान्मन्निमित्तं शुभाशुभम् १२।

असंशयं पिनाकी स्यादत्रागत्य ब्रवीहि माम् ।

इत्यादिष्टा जया देव्या गता गंगाधरांतिकम् १३।

तामायांतीं स दृष्ट्वा च भृशं मन्मथपीडितः ।

चकारालिंगनं तस्या गौरीरूपेण भावयन् १४।

ततो जालंधरः सद्यो वीर्यं स्वं प्रमुमोचह ।

अल्पेंद्रियश्च संजातो वेगतः कुरुनंदन १५।

तया सप्रोदितो दैत्य न त्वं रुद्रो भविष्यसि ।

अल्पवीर्योऽधमाचारो नाहं गौरी हि तत्सखी १६।

इत्युक्त्वा निजमास्थाय रूपं सा प्राह तं पुनः ।

अनेन बत पापेन हतस्त्वं हि पिनाकिना १७।

इति ज्ञात्वा च सा प्राप्ता तत्र गत्वाब्रवीदुमाम् ।

देवि जालंधरो ह्येष न शंभुस्तव वल्लभः १८।

ततो भयार्ता हरवल्लभाभूद्द्रुतं विवेशाथ सरोजमध्ये ।

सख्यो भ्रमर्यः कमलेषु जाता भयेन जालंधरजेन राजन् १९।

अत्रांतरे वनगतामदृष्ट्वा तां नृपांगनाम् ।

भीतास्तु रक्षकास्तस्याः सत्वरं रणमाययुः २०।

ततः शुंभेन ते पृष्टास्तं नत्वोचुः ससाध्वसाः ।

आत्मनः परिहारार्थो विष्णुमित्यसुरेश्वरम् २१।

श्रुत्वा वृंदां हृतां त्रस्तो रुद्रात्त्यक्त्वाथ संगरम् ।

शुंभेन प्रेषितौ चंडमुंडौ जालंधरं प्रति २२।

मानसोत्तरमागत्य दानवौ वेगवत्तरौ ।

हररूपधरं दैत्यं ऊचतुर्विटपान्तरे २३।

किं तया नृपशार्दूल विदेशगतया श्रिया ।

अरयो यां न पश्यंति बंधुभिर्या न भुज्यते २४।

जितः शुंभो हतं सैन्यं देव रुद्रेण ते रणे ।

एह्येहि कुरु संग्रामं न त्वं प्राप्नोषि पार्वतीम् २५।

पंचाननस्य महिषीं कथं प्राप्नोति जंबुकः ।

अंधकारः कथं राजन्प्राप्नोति सवितुः प्रभाम् २६।

तव जालंधरात्पीठाद्धृता राज्ञी मुरारिणा ।

इति संश्रूयते वार्ता तस्मात्त्वं कुरु संगरम् २७।

रणे शर्वं विजित्याशु भव सर्वेश्वरेश्वरः ।

अथवा शिवनाराचैः खंडितो यासि तत्पदम् २८।

इति जालंधरः श्रुत्वा भाषितं चंडमुंडयोः ।

निःससार गिरेस्तस्मात्सक्रोधं रक्तलोचनः २९।

चंडमुंडौ समाश्वास्य त्यक्त्वा रूपं हरस्य च ।

गच्छञ्जालंधरो मार्गे दुर्वारणमुवाच ह ३०।

पश्य दुर्वारणेदानीं तत्र यद्विष्णुना कृतम् ।

मायामाश्रित्य सा राज्ञी वृंदा नीतात्मनः पदम् ३१।

गृहे स्थितस्य जामातुर्विश्वसेन्नैव बुद्धिमान् ।

नूनं तस्मै प्रदत्वा च कन्यकां विसृजेद्बुधः ३२।

जामातरं गृहे नैव स्थापयेत्सर्वथा नरः ।

धनदारादिकं सर्वं स गृह्णाति शनैः शनैः ३३।

दुर्वारण उवाच-

राजन्यत्क्रियते कर्म तत्तथैव तु भुज्यते ।

त्वं हर्तुमागतो गौरीं हरिणा ते हृता वधूः ।

तस्य स्पष्टं वचः श्रुत्वा क्षणं मौनी व्यचिंतयत् ३४।

जालंधर उवाच-

किं प्रयामि हरं जेतुमथवा हरिमुल्बणम् ।

कार्यद्वये समुत्पन्ने यत्परं तत्प्रकथ्यताम् ३५।

दुर्वारण उवाच-

यदि यासि हरिं जेतुं हरः पृष्ठे हनिष्यति ।

हनिष्यंति रणे शूरा यातुं रुद्रो न दास्यति ३६।

तस्मात्पशुपतिं जित्वा कृत्वा त्वं वश्यमात्मनः ।

पश्चात्प्रयाहि गोविंदं यदि जानासि तत्पदम् ३७।

अधुना सत्वरं वीर याहि दैत्यान्महाबलान् ।

रणं कुरु महाघोरं यथा स्वर्गे सुपच्यते ३८।

देशकालोचितं श्रुत्वा दुर्वारणवचस्तदा ।

ययौ जालंधरो योद्धुं सह रुद्रेण योगिना ३९।

इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशत्सहस्रसंहितायां जालंधरोपाख्याने जालंधरस्य मायारूपपरित्यागोनाम षोडशोऽध्यायः १६।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 17

नारद उवाच-

अथ जालंधरोऽपश्यत्कबंधचयभीषणम् ।

रणं रुधिरमांसौघ मज्जा मेदोऽस्थिदुर्गमम् १।

तत्र जालंधरो दैत्यः प्रियाहरणदुःखितः ।

रणे विलोकयामास वृषस्थं पार्वतीपतिम् २।

घोराहिभोगेनविभूषितांगं जटाकलापे शशिभूषणांकितम् ।

नेत्राग्निकीलोपरिशोभितांगं विना रणं संप्रददर्श सिंधुजः ३।

शीघ्रं स्वरथमारुह्य समुद्रतनयस्तदा ।

संरुष्टः प्राह तं शुंभं तापसो न हतस्त्वया ४।

प्राह जालंधरं शुंभस्तपस्तेन महत्कृतम् ।

हंतुं न शक्यतेऽस्माभिर्हरः संग्रामदुर्जयः ५।

इतिशुंभोक्तमाकर्ण्यसिंधुजःक्रोधमूर्च्छितः ।

हरं पद्मसहस्रेण दैत्यसैन्येन संवृतम् ६।

गृहीत्वा कालकेदारं धनुर्जालंधरो ययौ ।

बाणांस्तीक्ष्णानतिस्थूलान्लोहस्तंभान्तथा बहून् ७।

मुमोच युधि दुर्धर्षो वर्षन्मेघ इवागमे ।

आयांतं रुरुधुः सिंधुसूनुं शंभुगणा युधि ८।

ततो रुद्रेण रौद्रैश्च शरौघैस्ताडितो रुषा ।

रुद्रबाणैस्तदा तस्य कवचं भुवि पातितम् ९।

विवर्मापि बभौ सोऽथ मेघमुक्तो यथाचलः ।

पुनर्जालंधरस्यांगं शंभुना कीलितं शरैः १०।

रुधिरं बहु सुस्राव जालंधरशरीरतः ।

तेनाशु रुधिरौघेण प्लाविता सकला मही ११।

ततो देवा भयं जग्मुर्दानवाश्च चकंपिरे ।

त्यक्त्वा ते प्रमथा वीरा रणभूमिं प्रदुद्रुवुः १२।

नद्या इव परा मूर्त्तिः प्रसृता सर्वतोऽपि च ।

अथाहार्णवजो रुद्रं धनुर्धर वरो ह्यसि १३।

इदानीं तत्करिष्यामि येन गच्छसि संक्षयम् ।

इत्युक्त्वा कालकेदारं सशरं प्रतिगृह्य तत् १४।

शीघ्रं संपूरयामास शरैर्नानाविधैः शिवम् ।

शिवः सहस्रकोटीभिः पूरितांगो रणे बभौ १५।

विहंगमैर्यथाकाशं वृक्षैरिव महागिरिः ।

दैत्यमुक्तैस्तुतैर्बाणैर्दृष्ट्वा व्याप्तं महेश्वरम् १६।

वीरभद्रस्तथा कोपाज्जालंधरमधावत ।

अपीडयदमेयात्मा समुद्रतनयं बली १७।

जालंधरोऽथ संक्रुद्धो विध्यन्बाणैः सहस्रशः ।

धनुः शरान्रथं छत्रं सारथिं तिलशः शरैः १८।

चकार वीरभद्रस्य सिंधुसूनुः प्रतापवान् ।

वीरभद्रोऽथ विरथो हतवान्गदयाब्धिजम् १९।

तथैव गदया सोऽपि तं हत्वापातयद्भुवि ।

गदाप्रहारपतितमालोक्यातिविमूर्च्छितम् २०।

मणिभद्रोऽथ समरे जालंधरमधावत ।

अतिक्रुद्धं तमायांतं दृष्ट्वा दैत्यो महारणे २१।

शरैर्व्यस्तोपकरणं स चकार नदीसुतः ।

अथ मूर्च्छां परित्यज्य उत्तस्थौ सिंहवन्नदन् २२।

वीरभद्रस्ततः कोपान्मणिभद्रः प्रतापवान् ।

जघ्नतुः पर्वताभ्यां तौ व्योमस्थं तटिनीसुतम् २३।

तदंगे पतितौ दृष्ट्वा पर्वतौ विनिनद्य च ।

जघान मुष्टिपातेन वीरभद्रो नदीसुतम् २४।

मणिभद्रश्चरणयोर्धृत्वा सागरनंदनम् ।

स्यंदनाद्भ्रामयामास तदद्भुतमिवाभवत् २५।

मणिभद्र गृहीतोऽपि दैत्यराट्स महाबलः ।

हत्वा चरणघातेन मणिभद्रमपातयत् २६।

जालंधरो महाबाहुर्वीरभद्रं च मुष्टिना ।

अथागतः परिवृतो गणैर्वै नंदिकेश्वरः २७।

शुंभस्तमागतं दृष्ट्वा रुरोध सह सैनिकैः ।

द्वंद्वयुद्धैरथाजग्मुर्गणा दैत्यैः परस्परम् २८।

शुंभः शिलादजं राहुर्महाकालं रणे ययौ ।

कोलाहलं निशुंभोऽथ केतुः कालमधावत २९।

शैलोदरो गुहं जंभो माल्यवंतं महाबलः ।

महापार्श्वो ययौ चंडं चंडीशो रोमकंटकम् ३०।

विकटास्योऽथ वै भृंगिमुरुनेत्रो विनायकम् ।

एवं दैत्येश्वरैः सार्द्धं गणानामधिपा ययुः ३१।

अथ शुंभायुधैर्बाणैः प्रहतश्च शिलादजः ।

चूर्णीचकाराद्रिशृंगैः कपितुंडो महत्तरैः ३२।

शुंभस्तेनार्दितः शक्त्या शिलादं च जघान तम् ।

महाकालो जघानाथ तं राहुं रणमूर्द्धनि ३३।

शक्त्याथ तस्य हतवान्स्यंदनं स महाद्रिणा ।

कोलाहलो हतः शक्त्या निशुंभेन प्रतापवान् ३४।

शक्तिं गृहीत्वा ह्यहनद्रथं सारथिना सह ।

विरथेनाथ दैत्येन भृशं क्रुद्धेन संयुगे ३५।

कोलाहलो सुरेंद्रेण सहस्रफणिना हतः ।

तं हत्वा चातिवेगेन रथं चान्यमुपागतः ३६।

फणिचक्रहतः संख्ये क्षणान्मूर्च्छां विहाय च ।

स्वरथात्शीघ्रमुत्तीर्य गृहीत्वा खड्गचर्मणी ३७।

सर्वं चक्रे निशुंभस्य स रथाद्यसिना पृथक् ।

पुनः स्वरथमारुह्य दैत्यं बाणैरताडयत् ३८।

निशुंभोऽप्यतिरोषाच्च तत्पराक्रमविस्मितः ।

शक्त्या महाबलस्तस्य रथं साश्वं न्यषूदयत् ३९।

कोलाहलो रणे धावन्निशुंभं विरथो बली ।

गतः स सरथं चक्रे विरथं भुजबंधनात् ४०।

केतुपुच्छं गृहीत्वा च भ्रामयामास चांबरे ।

कालश्चिक्षेप सोऽप्यद्रिं स चिच्छेद गिरिं जवात् ४१।

तं नगं चूर्णितं दृष्ट्वा ताडयामास मुष्टिना ।

कालश्चूर्णितसर्वांगः केतुना प्राद्रवद्भयात् ४२।

शैलोदरस्तथा स्कंदं जघान गदयोरसि ।

षडाननोऽपि तं शक्त्या हत्वा भूमावपातयत् ४३।

शक्तिप्रहारेण मृतं दानवं वीक्ष्य षण्मुखः ।

जगर्ज तत्र वैचित्र्यं यथा क्रौंचे विदारिते ४४।

माल्यवानथ बाणौघैर्जंभमभ्यर्दयद्रणे ।

जंभोऽपि सायकैस्तीक्ष्णैर्भित्त्वा तं मूर्च्छितं जहौ ४५।

महापार्श्वो रथं धृत्वा बाणौघैर्वाजिवर्जितम् ।

लीलयैव च खे नीत्वा व्यश्वं चंडमपातयत् ४६।

व्यश्वं रथं विलोक्याथ ततश्चंडोऽग्रहीद्गजम् ।

आपतंतं महापार्श्वं चंडस्तं गदयाहनत् ४७।

अचिंत्यैव गदापातं सोऽसुरो भृशदारुणः ।

प्रहत्य मुष्टिना चंडं पातयामास भूतले ४८।

चंडीशशस्त्राभिहतो रोमकंठो महासुरः ।

चंडीशं पादयोर्धृत्वा रथमूर्ध्नि न्यपातयत् ४९।

पपात सहसा भूमौ ययौ तं भीषणेक्षणः ।

उरुनेत्रेण समरे हतो लंबोदरः शरैः 6.17.५०।

दंतेनोरसि तं हत्वा पातयामास भूतले ।

ऊरुनेत्रः क्षणाच्छांतिमागत्याशु रथं क्षणात् ५१।

जघान मुद्गरेणासौ मूर्ध्नि सिंदूरमंडिते ।

गणेश्वरः पट्टिशेन जघानोरसि दानवम् ५२।

तन्मुखादथ निष्क्रांतो नवशीर्षोऽसुरो महान् ।

अष्टादशभुजो राजन्सोऽप्यधावत शांकरिम् ५३।

नवशीर्षोरुनेत्राभ्यां रणे रुद्धो विनायकः ।

जर्जरीकृतदेहोऽपि जग्राह परशुं रुषा ५४।

तेन चिच्छेद शस्त्राणि तयोराजौ गणेश्वरः ।

रुद्धं गणेश्वरं दृष्ट्वा ताभ्यां संख्येऽथ षण्मुखः ५५।

शीघ्रमागत्य सेनानीर्जघान नवशीर्षकम् ।

नवशीर्षं रणे हत्वा उरुनेत्रमधावत ५६।

स्कंदः स्वशक्तिघातेन पातयामास तं नृप ।

पश्यञ्जालंधरः स्कंदं ययौ सैन्येन संवृतः ५७।

पुत्रप्रीत्यासुरान्हंतुं सगणः शंकरोऽपि च ।

ततो घोरतरं युद्धमभूदद्भुतसैन्ययोः ५८।

हरसिंधुजयोर्युद्धे गतप्राणेव रोदसी ।

अथ जालंधरः क्रुद्धो बाणं संधाय दारुणम् ५९।

सहस्रशतसंख्याकैः पत्रैः सर्वत्र भूषितम् ।

दैत्येंद्रस्तेन बाणेन ललाटेताडयच्छिवम् ६०।

ममज्जापुंखमर्यादं ललाटे शंकरस्य च ।

भाले शशांकवच्छंभोः स रराज महाप्रभः ६१।

यथादित्यो हि घर्मांते संध्याकालेंबुदागमे ।

अथ रुद्रो महाबाणं जग्राह ज्वलनोपमम् ६२।

यस्य वेगे तु पवनः फले यस्याग्निभास्करौ ।

कालो ग्रंथिषु सर्वेषु शरे देवी धरा स्थिता ६३।

हरस्तेन शरेणाशु विव्याध हृदि सिंधुजम् ।

तेन बाणप्रहारेण रुधिरौघपरिप्लुतः ६४।

पपात शरभिन्नांगो वज्राहत इवाचलः ।

तदा दैत्याः समाक्रंदन्जगर्जुः प्रमथास्तथा ६५।

सिंधुजं मूर्छितं दृष्ट्वा रुरुधुर्दानवाः शिवम् ।

रक्षार्थमुद्यताः केचित्केचित्तं परितः स्थिताः ६६।

यावज्जालंधरो मूर्छां प्राप्तो वारिधिनंदनः ।

तावद्रुद्रेण नाराचैर्हता जालंधरी चमूः ६७।

चिराज्जालंधरस्त्यक्त्वा मूर्छां सैन्यं हतं नृप ।

दृष्ट्वा भयान्वितः सेनां विकीर्णां च तथा रणे ६८।

ततः काव्यं स सस्मार मनसा परमं गुरुम् ।

स्मृतस्तेन त्वरन्प्राप्तः कविर्जालंधरं प्रति ६९।

स्वस्ति कृत्वा जगादाथ भार्गवः सिंधुनंदनम् ।

किं करोमि महाराज तव कार्यं महाबल ७०।

नारद उवाच-

इति काव्यवचः श्रुत्वा भार्गवं बहु मानयन् ।

नत्वा गुरुमुवाचाथ राजा जालंधरस्तथा ७१।

राजोवाच-

जीवयैतान्मृताञ्छुक्र दैत्यान्सर्वान्समंततः ।

इत्युक्तः सिंधुजेनाजौ सैन्यं तत्र व्यलोकयत् ७२।

पंचविंशत्सहस्राणि योजनानां प्रमाणतः ।

दैत्यांगरथसंकीर्णमुपर्युपरि पार्थिव ७३।

उच्छ्रये पंचनवतियोजनानां महीं चिताम् ।

योधवाहनदेहाद्यैरिव पूर्णां धरां ततः ७४।

मंत्रोदकेन चाभ्युक्ष्य दैत्यानुत्थापयत्कविः ।

यावद्रुद्रो जटाजूटं बबंध भुजगैर्दृढम् ७५।

तावत्काव्येन तत्सैन्यं मंत्रेणोत्थापितं नृप ।

व्याघ्रान्यथा केसरिणो गजेंद्राः शूकरान्यथा ७६।

आगतान्दानवान्दृष्ट्वा चिंतयामास शंकरः ।

किमेतदिह संजातं मृतान्सृजति कुत्रचित् ७७।

ददर्श चिंतयन्काव्य इति तस्मिन्रणे भवः ।

जीवयंतं रणे दैत्यान्धावंतं वेगवत्तरम् ७८।

ततः क्रुद्धो महादेवः शुक्रं हंतुं मनो दधे ।

त्रिशूलिनमनुज्ञाय रहश्चोवाच तं कविः ७९।

ब्राह्मणोऽहं कथं हंसि सर्वविद्याविशारदम् ।

ब्रह्महत्या मयि हते तव रुद्र भविष्यति ८०।

इति श्रुत्वा कवेर्वाक्यं शूलं तत्याज शंकरः ।

स्मृत्वा तत्पूर्ववृत्तांतं यल्लग्नं ब्रह्मणः शिरः ८१।

ब्राह्मणो न हि हंतव्यो हरन्प्राणानपि प्रियान् ।

अयं तु जीवयन्दैत्यान्निग्राह्यः सर्वथा मया ८२।

तस्मादेनं क्षिपाम्याशु स्त्रीयोनौ दैत्यजीवनम् ।

एवमुक्तवतः शंभोस्तृतीयनयनाद्द्रुतम् ८३।

कृत्या विवासा चात्युग्रा मुक्तकेशी महोदरा ।

स्थूललंबस्तनी योनी दंष्ट्रालोचनभीषणा ८४।

आज्ञापयेति स तया प्रोक्तस्तामब्रवीच्छिवः ।

कृत्ये त्वं दानवाचार्यं स्वयोनौ क्षिप दुर्मतिम् ८५।

यावज्जालंधरं हन्मि तावदेनं भगे वह ।

हते जालंधरे दैत्ये पश्चान्निस्तीर्य मोचय ८६।

हरेणोक्तेति सा कृत्या भार्गवं समधावत ।

पपात भूमौ तां दृष्ट्वा कविर्दैत्याः प्रदुद्रुवुः ८७।

केशेष्वाकृष्य धुन्वाना नग्नमालिंग्य भार्गवम् ।

योनौ दधार सा कृत्या हसंती जयनंदन ८८।

भगे क्षिप्तं गुरुं दृष्ट्वा यावज्जालंधरोऽसुरः ।

संदधे मार्गणांस्तावत्सा कृत्यादृश्यतां गता ८९।

इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां युधिष्ठिरनारदसम्वादे जालंधरोपाख्याने शुक्रयोनिप्रवेशोनाम सप्तदशोऽध्यायः १७।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 18

श्रीनारद उवाच-

अथ जालंधरः प्राह रक्षात्मानमितः शिवम् ।

शिवाद्य त्वां क्षिपाम्याशु यत्रास्ते मधुसूदनः १।

पश्चाद्ब्रह्माणमाकृष्य पातयिष्यामि सागरे ।

धृतेषु युष्मासु यदा तदा सर्वेश्वरो ह्यहम् २।

इत्युक्त्वा सैन्यसंभारं न्यस्य शुंभासुरादिषु ।

भटैर्गुप्तं निशुंभाद्यैश्चतुरंगमनंतकम् ३।

शुंभो निशुंभः फेंकारो फेरुंडो धूम्रलोचनः ।

केतुर्बिडालजंघश्च राहुर्दुर्वारणो यमः ४।

कालासुरोऽथ लवणो भूमिरेतोंधकासुरः ।

रक्तवीर्यादयश्चंडी चामुंडी दैत्यपुंगवाः ५।

सर्वानेवोद्यतान्दृष्ट्वा संख्ये दानवपुंगवान् ।

रुरुधुः समरे राजन्वीरभद्रादयो गणाः ६।

ततो युद्धमभूद्धोरं तुमुलं लोमहर्षणम् ।

पतंति प्रथमा यत्र दैत्याश्चापि क्षतातुराः ७।

अथ शुंभादिभिर्दैत्यैः सर्वशस्त्रैर्महामृधे ।

हताः पेतुर्गणाश्चान्ये पलायांचक्रिरे नृप ८।

गणान्विजित्य समरे रुरुधुर्दानवाः शिवम् ।

वर्षंतः शरधाराभिर्घना मेरुगिरिं यथा ९।

ततः पिनाकमाकृष्य वृषभोपरि भैरवः ।

जघान बाणनिवहैर्दानवान्समरांगणे ।

तीक्ष्णाग्रैस्तु क्षुरप्रौघैर्दानवानहनद्बली १०।

केचिन्नंदिप्रहारेण पेतुः संग्राममूर्धनि ।

बाणैश्च जर्जरान्कृत्वा शुंभादीन्वृषभध्वजः ११।

शेषं सैन्यं जघानाशु शस्त्रास्त्रैः समरांगणे ।

गजैर्नरैर्हयैर्व्याप्तं पतितैः समरांगणम् १२।

बभूव वज्रनिर्भिन्नैः पर्वतैरिव भूतलम् ।

अथ मायामयीं गौरीं विदधे सिंधुनंदनः १३।

सौंदर्यगुणसंपन्नां सर्वालंकारभूषिताम् ।

जयां मायामयीं कृत्वा समुवाचाब्धिनंदनः १४।

गच्छ त्वं पुरतो रुद्रं विमोहय रणे द्रुतम् ।

इत्युक्त्वा दैत्यपतिना ययौ मायामयी जया १५।

रणे गत्वा शिवस्याग्रे मुक्तकेशी रुरोद ह ।

पृष्टा हरेण सा प्राह मानसोत्तरपर्वतात् १६।

हृता तव प्रिया देव पार्वती सिंधुसूनुना ।

श्रुत्वेति वचनं तस्यास्तामुवाच वृषध्वजः १७।

जये त्वमेहि वृषभं त्वां हरिष्यंति दानवाः ।

ततो वृषभमारुह्य जया चालिंग्य शंकरम् १८।

प्राह प्रयामि पार्वत्या न जीवामि विना हर ।

चंद्रं शंभुजटाविष्टं गृहीत्वा वृषभाद्द्रुतम् १९।

अवारोहत सा माया मायाष्वक्तो रणं ययौ ।

ततो गौरीं हृतां श्रुत्वा चिंतयामास शंकरः २०।

दैत्यमायापरिष्वक्तो नात्मानं बुबुधे नृप ।

एतस्मिन्नंतरे प्राप्तः सैन्येन महता वृतः २१।

मायामृडानीं स्वरथे निधायार्णवजः शिवम् ।

जालंधरजये तद्वदासीद्वादित्रनिस्वनः २२।

चचाल वसुधा येन प्रतिनेदुर्महीधराः ।

हरस्य दर्शयामास पार्वतीं सिंधुनंदनः २३।

रुद्रोऽप्यरिरथस्थां तां ददर्श निजवल्लभाम् ।

वियोगविधुरां दीनां तन्वीमातुरलोचनाम् २४।

हा नाथ प्रिय रुद्रेति प्रजल्पंतीं पुनः पुनः ।

प्रौढवैरिरथे दृष्ट्वा पाखंडिस्थां यथा श्रुतिम् २५।

गौरीं दध्यौ तथा स्थाणुः कथं प्राप्या प्रिया मया ।

विललाप ततः शंभुर्दैत्यमायाविमोहितः २६।

मोहो मे दानवैः कांते हृतासि त्वां कथं प्रिये ।

शोकमोहप्लुतं दृष्ट्वा शंकरं सागरात्मजः २७।

जगाद प्रहसन्वाक्यं कश्चित्कारुण्यवान्यथा ।

सर्वप्रमाणशून्योऽसि स्मर शृंगारवर्जितः २८।

ईश्वरोऽपि वराकस्त्वं संजातोंबिकया विना ।

मा रोदीर्हि विरूपाक्ष ददामि तव वल्लभाम् २९।

रक्षितोऽसि मया रुद्र गृहीत्वा पार्वतीं रणात् ।

इत्युक्त्वा गिरिशं तूर्णमुत्तार्य स्वरथादुमाम् ३०।

सैन्यं संप्रेषयामास शंकराभिमुखं किल ।

हरोऽपि वृषभेणाशु तत्सैन्यं समधावत ३१।

गृहीतुं पार्वतीं पाहि त्राहित्राहीति जल्पतीम् ।

यावद्गृह्णाति तां गौरीं करेण वृषभध्वजः ३२।

तावच्छुंभासुरः शीघ्रं गृहीत्वा चांबरे स्थितः ।

शूलं मुमोच बलवान्हंतुं शुंभासुरं हरः ३३।

शुंभेन सा परित्यक्ता शूलोपरि पपात ह ।

रुदंती चारुसर्वांगी त्यक्ता शूलेन संयुता ३४।

पतिता शंकरस्याग्रे तथेत्युक्त्वा ममार च ।

मायागौरीं मृतां दृष्ट्वा शोकमोहपरिप्लुतः ३५।

हा प्रियेति रुदन्रुद्रः पपात भुवि मूर्च्छितः ।

क्षणं संज्ञामवाप्याथ रणभूमावुमापतिः ।

शशाप शुंभप्रमुखान्गौरी युष्मान्हनिष्यति ३६।

नारद उवाच-

अथ शुंभादयो दैत्या रणे देव्या निपातिताः ।

महेश्वरस्य शापेन गते मंन्वतरे नृप ३७।

शपित्वा तान्रुरोदाथ जल्पन्निर्गत्य शंकरः ।

क्व गतासि प्रियेत्युक्त्वा दुःखितं मां रणांगणे ३८।

रतिं त्यक्त्वा वियोगार्तः श्रीकंठोऽहं त्वया कृतः ।

वासुदेवोऽपि मां त्यक्तं न जानाति त्वया प्रिये ३९।

यज्ञे दक्षस्याग्निकुंडे शिरो देवि हुतं त्वया ।

भूयो हि भवती लब्धा कथं त्यजसि मां पुनः ४०।

उतिष्ठोतिष्ठ चार्वंगि गिरिजे मां प्रबोधय ।

अत्रांतरे शिवं ज्ञात्वा दैत्यमायाविमोहितम् ४१।

देवतागणमध्यस्थो ह्यंतरिक्षादुपागमत् ।

विलपंतमुवाचेदमदृश्यः कमलासनः ४२।

ब्रह्मोवाच-

त्वं शोकमोहपितृमातृविवर्जितोऽसि दुःखं सुखं सुतकलत्ररिपुर्न चास्ति ।

जातोऽसि नैव जनकेन जनिष्यमाणस्त्वं मन्यसे ऋषिगणैश्च कुतो विमोहः ४३।

एकोऽसि नाथ बहुधा कृतविग्रहोऽसि सूर्यो यथा जलधिवीचिषु दृश्यमानः ।

ध्यानेन यांति यमिनस्तव पादमूलं रूपं परं दुरवबोधमवाच्यमेव ४४।

नैषा प्रिया तव समानतया विपन्ना जालंधरेण रचितां जहि देव मायाम् ।

सा पार्वती कमलकोशगता हि शंभो युद्धस्व वैरिनिवहं जहि पाहि चास्मान् ४५।

श्रुत्वेति ब्रह्मणो वाक्यमवबुद्धो महेश्वरः ।

ज्ञात्वा तां दानवीमायां मुमोच महती शिलाम् ४६।

तया जघान समरे दैत्यकोटिशतत्रयम् ।

ततो वृषभमारुह्य क्रोधेन महता नृप ४७।

धनुः पिनाकं युद्धाय धूर्जटिर्जगृहे शरान् ।

अथ मायापरित्यक्तं शर्वमालोक्य सिंधुजः ४८।

सुरेशमोहनं मायाजालमत्यद्भुतं नृप ।

अन्यदाविश्चकाराशु भृशं मायामहाबलम् ४९।

जालंधरः कोटिभुजो बभूव वृक्षास्त्रशस्त्रैर्युयुधे वृषांकम् ।

अथांतराले पृथिवीं चकार समुद्रसूनुर्गिरिधातुमंडिताम् 6.18.५०।

देवतायतनै रम्यैर्नानापुष्पसमाकुलैः ।

मंडितां नृप भूमिं च चकारोदधिनंदनः ।

नृत्यंति यत्राप्सरसो मेनकाद्या मनोहरा ५१।

विस्मृत्य शंभुस्तदपास्यकार्मुकं सद्यः प्रतस्थे वृषभोपरि स्थितः ।

वादित्रगीतैर्भुवि मोहितो भृशं दैत्येंद्रमायामय तांडवेन सः ५२।

विमोहितं वीक्ष्य वृषस्थितं हरं नित्यं समुद्रः सह तांडवेन ।

गीतेन वाद्येन च नृत्यलीलया ननाद रूपी तरसा विमोहितुम् ५३।

जंतून्क्षिप्त्वोदधौ तांश्च सहस्रं स ततोत्सवः ।

क्व च ता देवताः सर्वाः क्व नंदिप्रमुखा गणाः ५४।

अपि त्वं माननीयोऽसि मोहितो दैत्यमायया ।

किमद्य शंभो भगवन्नुपेक्ष्यते उदीर्यचक्रं जठरस्थितं च ५५।

वधाय चास्यैव कृतं महेश जालंधरं संहरते न चाजौ ।

इति कृष्णस्य वचनात्तत्स्मृत्वात्मानमीश्वरम् ५६।

आरुह्य वृषभं शीघ्रमाजगाम महारणम् ।

तमागतं शिवं दृष्ट्वा सर्वसैन्यसमावृतः ५७।

रुरोध समरे राजन्क्रुद्धो जालंधरोऽसुरः ।

हरस्य कुपितस्यासीत्सृष्टिसंहारकारकम् ५८।

रूपं तृतीयनेत्राग्नौ दानवाः शलभा यथा ।

रुपं दृष्ट्वा भगवतो रौद्रज्वालामयं नृप ५९।

शुंभादयस्तदा दैत्या राहुप्रभृतयश्च ये ।

रुद्रं निरीक्ष्य संत्रस्ताः पातालं विविशुर्भयात् ६०।

सेनाभटाननेकांश्च हतान्दृष्ट्वा महामृधे ।

शुंभादीन्हतशेषांस्तान्दृष्ट्वात्मानं पलायितान् ६१।

तदा जालंधरः संख्ये एको गिरिरिवस्थितः ।

परमार्थं रुद्ररूपं हृष्टः साक्षाद्विलोकयन् ६२।

ततो जालंधरः प्राह महादेवं प्रहस्य च ।

रूपं संहर येन त्वं दहसे सचराचरम् ६३।

शस्त्रेण कुरु संग्रामं त्यक्त्वा योगबलं निजम् ।

इति जालंधरवचः श्रुत्वोवाच ततः शिवः ६४।

वरं वरय दैत्येश प्रीतोऽस्मि तव कर्मणा ।

ईदृक्षमपि मद्रूपं दृष्ट्वा यन्निर्भयोऽधुना ६५।

अपि ब्रह्मांडमखिलं मद्रूपस्यास्य दानव ।

तेजसो वीक्षणेनालं तत्र त्वमसि निर्भयः ६६।

नारद उवाच-

इति शंभोः प्रसादं च मत्वा संसारनिस्पृहः ।

जालंधरो हराद्वव्रे मुक्तिं सायुज्यतां पराम् ६७।

श्रीमहादेव उवाच-।

दिव्यं देहमिदं दैत्य भोगसिद्धियुतं तव ।

वृंदा मनोहरं रम्यमिहस्थं कालमश्नुते ६८।

मुहूर्तं परमात्मानं तमेकाकिनमव्ययम् ।

अबुद्ध्वा त्यजसे मूर्ख कथं त्वं मुक्तिमिच्छसि ६९।

वृंदा तव प्रिया राज्ञी हृता सा योगमायया ।

ब्रह्मस्वरूपं विज्ञाय प्राप्ता तत्परमं पदम् ७०।

इदानीं दुर्ल्लभा सा च तत्पदं चैव दुर्ल्लभम् ।

स्वर्गापवर्गयोर्मध्ये संसारे वरमाप्नुहि ७१।

जालंधर उवाच-

देवमुक्तपदं लभ्यं कृतकृत्येन केनचित् ।

इदानीं कृतकृत्योऽस्मि यत्त्वां पश्ये त्वया हतः ७२।

शिव उवाच-

मत्स्थानं परमं क्षेत्रं यदि त्वं गंतुमुत्सुकः ।

तर्हि मां कोपयस्वाशु दैत्यं हत्वा दृढैः शरैः ७३।

ततोऽहं त्वां हनिष्यामि मत्स्थानं यास्यसेऽनघ ।

महेश्वरवचः श्रुत्वा प्राह जालंधरः शिवम् ७४।

त्वयि सर्वजगत्पूज्ये पूर्वं न प्रहराम्यहम् ७५।

नारद उवाच-

एवमुक्तो जघानाशु सिंधुजं विशिखैः शिवः ।

ते शराः सिंधुपुत्रस्य देहलग्ना विभांति च ७६।

यथा लोहगिरिप्रांते वेणवो वह्निदीपिताः ।

जालंधरो हरस्यांगं पूरयामास मार्गणैः ७७।

तैः शरैः शुशुभे रुद्रो यथा खं खेचराकुलम् ।

जालंधरेशयोर्युद्धं तथा द्वंद्वमभून्नृप ७८।

हरादन्येन हंतास्ति न सोढान्योऽर्णवात्मजात् ।

गिरिकोटिसहस्रैस्तु तदा पृथ्वीपुटोद्धृतैः ७९।

पूरयामास समरे सिंधुजः पार्वतीपतिम् ।

ततः शूलेन निहतो रुद्रेणोरसि दानवः ८०।

निःससार मुखात्तस्य ज्वरो जंभो भयंकरः ।

स च वीरज्वरोनाम सिंहवक्त्रो नराकृतिः ८१।

दैत्यदेहाद्विनिष्क्रांतं दृष्ट्वा सिंहमुखं ज्वरम् ।

हुंकारमकरोद्घोरं शरभस्तत्र निर्ययौ ८२।

शिवस्य निःसृतेनासौ शरभेण निपातितः ।

अजेयं शंकरं दृष्ट्वा वृषभेंद्रेण संयुतम् ८३।

आययौ वृषभाभ्याशे तरसा सागरात्मजः ।

वृषं पुच्छे गृहीत्वा च भ्रामयामास चांबरे ८४।

जालंधरो महाबाहुश्चिक्षेप हिमवद्गिरौ ।

ततस्त्रिशूलमत्युग्रं मुमोच गिरिजापतिः ८५।

तद्धस्तेन गृहीत्वा च दैत्येशः शिवसन्निधौ ।

रथारूढो धनुर्गृह्य कालकेदारमब्धिजः ८६।

पूरयामास विशिखैः शिवमुर्वीतले स्थितम् ।

उग्रः शस्त्राञ्छरान्छित्वा बाणै रथमचूर्णयत् ८७।

दशयोजनविस्तीर्णं सारथ्यश्व समन्वितम् ।

जालंरोऽपि विरथो अभ्यधावन्मृधे शिवम् ८८।

तयोर्युद्धमभूद्घोरमद्भुतं लोमहर्षणम् ।

तद्दृष्ट्वाऽकांडकल्पांत शंकया तत्र सुःसुराः ८९।

सर्वास्त्रैस्तावदन्योन्यं जघ्नतुर्भीमविक्रमौ ।

पद्भिः पृथ्वीं चालयंतौ कंपयंतौ नभः स्वनैः ९०।

अथोत्कटं बलं दृष्ट्वा दानवेंद्रस्य शंकरः ।

शस्त्रजालं जहाराशु योगमायाबलेन सः ९१।

ततः कोटिभुजो दैत्यो दंष्ट्रा भीषणलोचनः ।

शस्त्रहीनोऽपि तरसा धावमानो हरं ययौ ९२।

विशालकरबंधेन बबंध समरे शिवम् ।

ततस्तस्य कृपाणेन चिच्छेद करकाननम् ९३।

सिंधुजेन भुजाक्रांतो रुद्रोभून्नीललोहितः ।

लीलया योधयामास रणेऽसौ सिंधुनंदनः ९४।

छिन्नहस्तोऽपि युयुधे स्वर्भानुः शिरसा यथा ।

नियुद्धेन नदीसूनुस्तोषयामास शंकरम् ९५।

परितुष्टोऽब्रवीच्छंभुर्वरं वरय दुर्लभम् ।

जालंधरेणसोऽप्युक्तस्त्वं मे देह्यात्मनः पदम् ९६।

मम दोःशस्त्रहीनस्य नावज्ञां कर्तुमर्हसि ।

शीघ्रं प्रयच्छ मे सिद्धिं नोचेत्त्वां संहराम्यहम् ९७।

इत्युक्त्वा सभुजो भूत्वा जघ्ने तं मुष्टिनोरसि ।

ततः सुदर्शनं चक्रं पुरा यन्निर्मितं स्वयम् ९८।

मुखादुद्गीर्य तद्धस्ते गृहीत्वा तोलयद्रुषा ।

सूर्यकोटिसहस्राभं ग्रसंतं सचराचरम् ९९।

तेन चक्रेण चिच्छेद शिरो जालंधरस्य च ।

ततस्तच्छीर्षमुत्प्लुत्य गगने शतयोजनम् 6.18.१००।

दंष्ट्रा शतकरालास्यं स्वर्भूमिनयनं च यत् ।

व्याघ्रगत्या ततो यातं सदनं ब्रह्मणो नृप १०१।

भूयः स्वर्गे ततो दृष्ट्वा मृडः शीर्षमधावत ।

स्रवत्तद्रुधिरं भूरि प्रकुर्वद्भैरवस्वनम् १०२।

ततो दिशः प्रणष्टास्ता गगनं विलयं गतम् ।

न तेजसां प्रकाशोऽस्ति चचाल वसुधा भयात् १०३।

आपतंतं जघानाशु रुद्रश्चक्रेण तच्छिरः ।

द्विधा भूत्वाथ राजेंद्र पपात हिमवद्गिरौ १०४।

ततो जालंधरस्याशु शिरसः शकले किल ।

विशतः सर्वभूतानां पश्यतां स्म वृषाकपौ १०५।

तस्य कंठात्समुद्भूता दैत्याः शतसहस्रशः ।

ते हतास्तेन चक्रेण कपर्दिकरशालिना १०६।

जालंधरकबंधं तन्ननर्त रुधिरारुणम् ।

पुनः पुनः समुद्भूतास्तस्य कंठात्तु दानवाः १०७।

पुनः पुनर्बलवता छिन्नाश्चक्रेण शंभुना ।

मेदसा सिंधुपुत्रस्य पूरिता सकला मही १०८।

मेदिनी मेदसैवैषा ख्यातिं प्राप्ता तु पार्थिव ।

यत्र दैत्यवरस्यास्य शोणितं शैलतां गतम् १०९।

कैलासस्योत्तरे भागे तत्राभूच्छोणितं पुरम् ।

अथ मांसचयान्दृष्ट्वा सर्वतो व्याप्य तिष्ठतः ११०।

तदा सस्मार देवेशश्चतुःषष्टिगणं रणे ।

विज्ञानस्मरणाद्देव्यः संप्राप्ताः शंकरांतिकम् १११।

कृतांजलिपुटाः प्रोचुः शिव किं करवामहे ११२।

महादेव उवाच-

य एते दैत्यमांसस्य राशयो गिरिसन्निभाः ।

भक्षयध्वं युताः शीघ्रं दत्तानुज्ञा मया तु वः ११३।

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।

वाराही चैव माहेंद्री सर्वाः स्वगणशोभिताः ११४।

एवं शंकरनिर्दिष्टा देव्यस्ता मांससंचयान् ।

क्रूरेण चक्षुषालोक्य निन्युश्चादर्शनं क्षणात् ११५।

अथ जालंधरवपुः क्षीणं क्रांतं तु शक्तिभिः ।

ताभिर्ग्रस्ते शरीरे तु तस्य देहाद्विनिःसृता ११६।

प्रभासा शंकरं प्राप्ता जगामादर्शनं क्षणात् ।

तत्तेजः सूर्यसंकाशं लयं प्राप्तं महेश्वरे ११७।

एवं स विलयं प्राप्तः त्रिदिशारिस्त्रिलोचनात् ।

वृणुध्वं च वरं सर्वाः प्रीतः प्राह महेश्वरः ११८।

तदा ताः सर्वयोगिन्यः पप्रच्छुर्जगदीश्वरम् ।

मर्त्यलोकेषु ये लोका भोगमोक्षवरेप्सवः ११९।

पूजयिष्यंति ते नित्यं स्वगृहे योगिनीगणम् ।

तत्तेषां वांछितं सर्वं सिध्यतां त्वत्प्रसादतः १२०।

महादेव उवाच-

यः कश्चित्पूजयेन्नित्यं भक्तिभावसमन्वितः ।

युष्मद्गणं च तस्याहं वरदोऽस्मि धरातले १२१।

मद्भक्तः केशवस्यापि द्वेष्टि यो योगिनीगणम् ।

भैरवोऽहं तदा तस्य हरिष्ये सुकृतं कृतम् १२२।

इति दत्तवरा हृष्टा योगिन्यो विभुना मृधे ।

अत्रांतरे भवानीं तां सस्मार वृषभं हरः १२३।

स्मृतमात्रा पार्वती सा वृषभश्चागमत्क्षणात् ।

सखीगणसमायुक्ता संप्राप्ता हरवल्लभा १२४।

संत्यक्त्वा भ्रामरीं मूर्तिं हरस्यार्द्धं समारुहत् ।

गिरिजासहितो राजन्महेशो मुमुदे ततः १२५।

योगिनीं प्रत्युवाचेदं पिबध्वं रुधिरं नृप ।

जालंधरकबंधस्थं ताः श्रुत्वा जहृषुर्भृशम् १२६।

मांसमेदोह्यसृक्पीत्वा योगिन्यो ननृतुर्मुदा ।

ततो हरः प्रसन्नोऽभूत्तासां क्रीडनवीक्षणात् १२७।

स्वयं च भैरवं रूपं कृत्वा तन्मध्यगः पपौ ।

तीक्ष्णदंष्ट्रा महाकायास्तदासन्योगिनी गणाः १२८।

ग्रसंतोऽद्यापि मांसानि काले चापि पिबंत्यसृक् ।

तेन जालंधरो दैत्यो नोत्तिष्ठति रणे हतः १२९।

ततस्तत्र समाजग्मुर्ब्रह्माद्या देवतागणाः ।

ऋषयो मरुतो देवा स्तुवंति स्म महेश्वरम् १३०।

दिशः प्रसेदुः सुरभिर्ववौ मरुद्दिवः प्रपेतुर्भुवि पुष्पवृष्टयः ।

कृताभिषेकस्य च तस्य निःस्वनान्संनादिता दुंदुभयोऽपि चक्रिरे १३१।

उपरि परिमलांधैः सुस्वरं संपतद्भिर्मधुकरनिकुरं बैरुह्यमाणाभरेण ।

अविरलमधुधारासारसंसिक्तभूमिः सदसि सुरविमुक्ता प्रापतत्पुष्पवृष्टिः १३२।

हते तदा सिंधुसुते हरेण नाराचघातैस्त्रिजगत्तदा बभौ ।

प्रसूनवृष्टिर्ननृतुस्तदांगना जगुश्च यक्षाः सुरकिन्नराद्याः १३३।

शंभुर्वैरिजयोत्थितेन यशसा स्फारांगकीर्तिर्गिरिं ।

स्वं भेजे सुरसिद्धचारणगणैः संस्तूयमानः सदा ।

गौरी चापि जगाम चाशु गिरितः श्वेतः ।

सखीसंवृता संचक्रुस्त्वभिसेवनं सुमनसां वर्षेण देवांगना १३४।

देवोऽसौ करुणामयः सुरगणान्स्वे स्वे पदे स्थापयन्।

प्रादादन्यदपि स्वकं वसु ततो ज्ञात्वा पतिं शंकरः ।

किं वक्तव्यमतः परं यदि भवेदीशानुकंपा परा ।

कोऽयं वा त्रिदिवो धरातलमिदं स्यादात्मसात्सर्वतः १३५।

देवाः स्वराज्यमासाद्य यथापूर्वं चकाशिरे ।

बुभुजुर्यज्ञभागांस्ते लोकपालत्वमाश्रिताः १३६।

नारद उवाच-

इति जालंधरस्योक्तं यथावदनुपूर्वशः ।

चरितं लोकवीरस्य राजन्नत्यद्भुतं तव १३७।

विष्णुस्त्यजति नाद्यापि क्षीराब्धिं यद्वशो नृप ।

सर्वोऽपि भुंक्ते स्वं कर्म कर्म तद्विद्ध्यसंशयम् १३८।

तुभ्यं दुःखनिरासाय प्रोक्तमाख्यानमुत्तमम् ।

यावद्देहोस्ति कर्माणि सुखदुःखानि कर्मतः १३९।

देही भुंक्ते वशो राजन्त्राणं न ज्ञानतः परम् ।

कृष्णादीनां देहबंधे सुखदुःखादि वर्तते १४०।

तत्रेतरेषां किं वाच्यं ये वैराग्यपराङ्मुखाः ।

ज्ञात्वेदृशीं कर्मगतिं सर्वेभ्यो बलवत्तमाम् १४१।

धीरो भव प्रतीक्षस्व शुभकर्मागमं पुनः ।

शत्रून्जित्वा तु समये स्वं राज्यं पुनराप्स्यसि १४२।

इतिहासमिमं श्रुत्वा न दुःखै परिभूयते ।

धर्मार्थकाममोक्षाश्च यथावच्चात्र कीर्त्तिताः १४३।

स्वर्ग्यं पापहरं पुण्यं शोकमोहविनाशनम् ।

ब्राह्मणो ज्ञानमाप्नोति राज्यं प्राप्नोति क्षत्रियः १४४।

वैश्यश्च बह्वीं संपत्तिं श्रुत्वा शूद्रः सुखं लभेत् ।

यो राजा भ्रष्टराज्योऽपि रतः सन्नेव सत्पथि १४५।

स राज्यं पुनराप्नोति श्रवणान्नित्यमस्य तु ।

आकर्ण्यैतत्सतां राजन्श्राव्यमन्यन्न रोचते १४६।

कलं च कोकिलालापं रूक्षं ध्वांक्षरुतं यथा ।

आख्यानमेतदनघं श्रुत्वा सज्जनहृत्प्रियः १४७।

हिरण्यतिलवस्त्राद्यैर्धेनुभूमिप्रदानतः ।

संतोषयेद्वाचकं तु तस्मिंस्तुष्टे फलं लभेत् १४८।

देवताश्च प्रसीदेयुरर्चिते वाचके गुरौ ।

अन्नदानानि दद्याच्च ब्राह्मणेभ्यः प्रपूजयेत् १४९।

जायते विजयी नित्यं पुत्रपौत्रसमृद्धिमान् ।

जायते विष्णुलोके यः शृणोत्याख्यानमुत्तमम् 6.18.१५०।

इति व्याजेन भो भूप तुलस्युत्पत्तिकारणम् ।

ये शृण्वंति नरश्रेष्ठा न तेषां पातकं क्वचित् १५१।

तुलसीमाहात्म्यमिदं पवित्रं पापनाशनम् ।

श्रुत्वा तु लभते मोक्षमुक्त्वा चैव न संशयः १५२।

स्वगृहे रोपिता चैव तुलसी पापनाशिनी ।

दर्शनाद्ब्रह्महत्यापि नश्यते नात्र संशयः १५३।

कार्तिके चैव माघे तु तुलस्या पूजयेद्धरिम् ।

वैशाखे तु विशेषेण पूजनं च हरेः स्मृतम् १५४।

एकेनैव प्रदक्षिणेन सकलं पापं गतं वै सदा ये शूद्रा ।

भुवि संति दाननिरताः कालेन शुद्धिं गताः ।

तेपि स्युः सुरपूजनार्हतनवः पापाच्च दूरं गताः ये वै।

विष्णुजनाश्च दुर्लभतरा ह्यस्मिन्कलौ सांप्रतम् १५५।

इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखंडे जालंधरोपाख्याने श्रीजालंधरवधमहोत्सवोनामाष्टादशोऽध्यायः १८।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 19

युधिष्ठिर उवाच-

श्रीशैलः पर्वतो रम्यः कुत्र तिष्ठति नारद ।

किं तत्र वर्त्तते तीर्थं कस्य देवस्य पूजनम् ।

कस्यां दिशि समाख्यातो लोकेषु च वदाधुना १।

नारद उवाच-

शृणु राजन्प्रवक्ष्यामि श्रीशैलं पर्वतोत्तमम् ।

यं श्रुत्वा मुच्यते लोको बालहत्यादि पातकात् २।

तत्पर्वतवनं रम्यं मुनिभिश्चोपसेवितम् ।

नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ३।

हंसकोकिलनादैश्च मयूरध्वनिनादितम् ।

श्रीवृक्षैश्च कपित्थैश्च शिरीषै राजवृक्षकैः ४।

पारिजातकपुष्पैश्च कदंबोदुंबरैस्तथा ।

नानापुष्पैः सुगंधाढ्यैर्वासितं तद्वनं गिरौ ५।

सर्वाभिरृषिपत्नीभिः सशिष्याभिः सुसेवितम् ।

केचिदभ्यासयुक्ताश्च केचिद्व्याख्यानतत्पराः ६।

केचिदूर्ध्वभुजास्तत्र अंगुष्ठाग्रैः स्थिताः परे ।

शिवध्यानरताः केचित्केचिद्विष्णुपरायणाः ७।

निराहाराश्च केप्यत्र केचित्पर्णाशने रताः ।

कंदमूलफलाहाराः केचिन्मौनव्रताः स्थिताः ८।

एकपादाः स्थिताः केचित्केचित्पद्मासने स्थिताः ।

केचिच्चैव निराहारास्तपस्तेपुः सुदुष्करम् ९।

आश्रमाणि च पुण्यानि नद्यश्च विविधाः शुभाः ।

देवखातान्यनेकानि तडागानि बहूनि च १०।

पर्वतोऽयं महाराज दृश्यते किल सर्वतः ।

मल्लिकार्जुनको राजन्यत्र तिष्ठति नित्यशः ११।

तच्चैव शिखरं रम्यं पर्वतोपरि सेवितम् ।

शृंगदर्शनमात्रेण मुक्तिरेव न संशयः १२।

दक्षिणां दिशमाश्रित्य वर्त्तते पर्वतोत्तमः ।

अत्र गंगा महद्रम्या पातालेति समाश्रिता १३।

तत्र च स्नानमात्रेण महापापैः प्रमुच्यते ।

श्रीशैलशिखरं दृष्ट्वा वाराणस्यां मृतौ ध्रुवम् १४।

केदारे ह्युदकं पीत्वा पुनर्जन्म न विद्यते ।

तापसानां महत्स्थानं योगिनां च तथैव च १५।

तस्मात्सर्वप्रयत्नेन दर्शनं तस्य कारयेत् ।

अयं विज्ञानदेवोऽसौ महापातकनाशनः १६।

सिद्धपुरं च नगरं रम्यं स्वर्गसुखावहम् ।

नित्यमप्सरसो यत्र गायंति च रमंति च १७।

अतः पर्वताराजोऽयं दर्शने सौख्यकारकः ।

तस्य तैर्दर्शनं कार्यं मुक्तिमिच्छंति ये नराः १८।

इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखंडे श्रीशैलोपाख्याने एकोनविंशोऽध्यायः१९।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 20

श्रीमहादेवउवाच-

हरिद्वारं महापुण्यं शृणु देवर्षिसत्तम ।

यत्र गंगा वहत्येव तत्रोक्तं तीर्थमुत्तमम् १।

यत्र देवा वसंतीह ऋषयो मनवस्तथा ।

यत्र देवः स्वयं साक्षात्केशवो नित्यमाश्रितः २।

पुरा पूर्वं तु भो वत्स तीर्थं जातं महत्तदा ।

यस्य दर्शनमात्रेण दूरतो याति पातकम् ३।

यत्र गंगा महारम्या जाता पुण्य विशेषतः ।

विष्णुपादोदकी जाता तच्चरणस्पर्शनात्ततः ४।

भगीरथेन भो विद्वन्नानीता तत्र मार्गतः ।

उद्धारः पूर्वजानां तु कृतस्तेन महात्मना ५।

नारदउवाच-

कोऽयं देव समाख्यातो भगीरथ महातपाः ।

येन तीर्थं समानीतं लोकानां हितकारणात् ६।

गंगातीर्थं महत्पुण्यं सर्वपापप्रणाशनम् ।

लोकाः सर्वे वदंत्येवमेतत्तीर्थोत्तमोत्तमम् ७।

गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि ।

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ८।

कथं तेन समानीता किं कार्यं वद सुव्रत ।

महादेव उवाच-

येन गंगा यथानीता गंगाद्वारेऽतिशोभने ९।

तत्सर्वं संप्रवक्ष्यामि क्रमानुक्रमयोगतः ।

पूर्वमासीद्धरिश्चंद्रस्त्रैलोक्ये सत्यपालकः १०।

रोहितस्तस्यपुत्रोऽभूदेको विष्णुपरायणः ।

तस्यापि च वृकः पुत्रो धर्मिष्ठः सत्पथिस्थितः ११।

तस्य पुत्रः सुबाहुश्च जातोस्मिन्वै कुले तदा ।

तस्य पुत्रो गरो नाम नात्यंतं धार्मिकोऽभवत् १२।

कदाचित्कालयोगेन दुःखी जातोऽत्र कारणात् ।

राजा तु तत्र देशेन तर्जितो धर्मकारणात् १३।

स्वकुटुंबं गृहीत्वा तु गतोऽसौ भार्गवाश्रमे ।

रक्षितो भार्गवेणाथ कृपया तत्र वै तदा १४।

तत्र पुत्रो ह्यभूत्तस्य सगरो नाम वै द्विज ।

ववृधे चाश्रमे पुण्ये भार्गवेणाभिरक्षितः १५।

उपवीतादिकं सर्वं क्षत्रियस्य तदा कृतम् ।

शस्त्राणां च तथाभ्यासो वेदानां तु तथैव च १६।

आग्नेयास्त्रं ततो लब्ध्वा भार्गवात्सगरो नृपः ।

जघान पृथिवीं गत्वा तालजंघान्सहैहयान् १७ ।

सशकान् पारदांश्चैव जघान स महातपाः ।

नारद उवाच-

माहात्म्यं सगरस्याथ वद शंकर विस्तरात् १८।

महादेव उवाच-

सूर्यवंशी महाराजो विख्यातः स महाबली ।

गरस्य व्यसने तात हृतं राज्यमभूत्किल १९।

हैहयैस्तालजंघाद्यैः शकैः सार्द्धं च नारद ।

यवनाः पारदाश्चैव कांबोजाः पह्लवास्तथा २०।

एते पंचगणा ब्रह्मन्हैहयार्थे पराक्रमान् ।

हृतराज्यस्ततो राजा सगरोऽथ वनं ययौ २१।

पत्न्याचानुगतो दुःखी स वै प्राणानवासृजत् ।

तस्य पत्नी तु कल्याणी सगर्भा च व्रतान्विता २२।

सपत्न्या भार्गवस्तस्य वृतः पूर्वं सुतेप्सया ।

सा तु भर्तृचितां कृत्वा वने तं प्ररुरोद ह २३।

और्वस्तां वारयित्वा च गरपत्नीं तु नारद ।

न्यवेदयत तत्पुत्रं धर्मिष्ठं सात्विकं प्रियम् २४।

निवेदिते ततो बाले मरणात्सा न्यवर्त्तत ।

ततो मासद्वये जाते ववर्द्धौर्वस्य चाश्रमे २५।

जातकर्मादियोगश्च और्वेण च तथा कृतः ।

उपवीतादिकं सर्वं जातं तत्र महामुनेः २६।

तत्र वेदादिकं सर्वं पठितं चौर्वयोगतः ।

अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् २७।

आग्नेयं तं महाभाग अमरैरपि दुःसहम् ।

स तेनासुबलेनाजौ बलेन च समन्वितः २८।

हैहयान्वै जघानाशु संक्रुद्धः स्वबलेन च ।

आजहार च लोकेषु स च कीर्तिमवाप सः २९।

ततः शकाः सयवनाः कांबोजाः पल्लवास्तथा ।

हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः ३०।

वसिष्ठोऽपि च तान्कृत्वा समयेन महाद्युतिः ।

सगरं वारयामास तेषां दत्त्वाऽभयं नृपः ३१।

सगरः स्वां प्रतिज्ञांतु गुरोर्वाक्यं निशम्य च ।

धर्मैर्जघान तांश्चैषां विकृतत्वं चकार ह ३२।

अर्द्धंशकनांशिरसो मुंडं कृत्वा विसर्जयत् ।

यवनानां शिरः सर्वं कांबोजानां तथैव च ३३।

पारदा मुंडकेशाश्च पल्ल्वाः श्मश्रुरक्षकाः ।

एवं विजित्य सर्वान्वै कृतवान्धर्मसंग्रहम् ३४।

सर्वधर्मजयी राजा विजित्येमां वसुंधराम् ।

आशु संस्कारयामास वाजिमेधाय पार्थिवः ३५।

तस्य चारयतःसोऽश्वः समुद्रे पूर्वदक्षिणे ।

वेला समीपेऽपहृतो भूमिं चैव प्रवेशितः ३६।

स तं देशं तदा पुत्रैः खानयामास सर्वतः ।

नाश्वं प्रापुस्तदातेवै खन्यमाने महार्णवे ३७।

तत्रैकमादिपुरुषं ददृशुस्ते त्वरान्विताः ।

तमादिपुरुषं देवं कपिलं जगतां प्रभुम् ३८।

तस्य चक्षुः समुत्पन्न वह्निना प्रतिबुध्यतः ।

दग्धाः षष्टि सहस्राणि चत्वारस्तेऽवशेषिताः ३९।

हृषीकेतुः सुकेतुश्च तथा धर्मरथोपरः ।

शूरः पंचजनश्चैव तस्य वंशकरा द्विज ४०।

प्रादाच्च तस्मै भगवान्हरिः पंचवरान्स्वयम् ।

वंशं मोक्षं सुकीर्तिञ्च समुद्रं तनयं विभुः ४१।

सागरत्वं च लेभेथ कर्मणा तेन तस्य वै ।

तमाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान् ।

आजहाराश्वमेधानां शतं स च महायशाः ४२।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे विंशोऽध्यायः २०।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 21

नारद उवाच-

सगरस्यात्मजा वीराः कथं जाता महाबलाः ।

विक्रांताः षष्टिसाहस्रा विज्ञानेश्वर तद्वद १।

श्रीपार्वतीपतिरुवाच-

द्वे पत्न्यौ सगरस्यास्तां तपसा दग्धकिल्बिषे ।

और्वस्ताभ्यां वरं प्रादात्तोषितो मुनिसत्तमः २।

षष्टिंपुत्रसहस्राणि एका वव्रे तरस्विनाम् ।

एका वंशधरं त्वेकं यथेष्टं वरशालिनी ३।

तत्रैका सुषुवे तुंब्यां पुत्रान्शूरान्बहूनथ ।

ते तु सर्वेऽपि धात्रीभिर्वर्द्धितास्तु यथाक्रमम् ४।

कपिलानां तु दुग्धानां तेषां तत्र महात्मनाम् ५।

तेनैव दुग्धयोगेन ववृधुस्ते महात्मनः ।

एकः पंचजनो नाम पुत्रो राजा बभूव ह ६।

ततः पंचजनस्यासीदंशुमान्नाम वीर्यवान् ।

दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः ७।

यस्तु गंगासरिच्छ्रेष्ठामानयामास सुव्रतः ।

समुद्र मानयित्वैनां दुहितृत्वमकल्पयत् ८।

नारद उवाच-

कथं गंगा समानीता किं तपस्तेन वै कृतम् ।

तत्सर्वं मे समाचक्ष्व सुव्रतोऽसि दयानिधे ९।

महादेव उवाच-

पूर्वजानां हितार्थाय गतोऽसौ हैमके गिरौ ।

तत्र गत्वा तपस्तप्तं वर्षाणामयुतं तदा १०।

आदिदेवः प्रसन्नोऽभूद्योऽसौ देवो निरंजनः ।

तेन दत्ता इयं गंगा आकाशात्समुपस्थिता ११।

तत्र विश्वेश्वरो देवो यत्र तिष्ठति नित्यशः ।

गंगां दृष्ट्वाऽगतां तेन गृहीता जाह्नवी तदा १२।

जटाजूटे च संधार्य वर्षाणामयुतं स्थितम् ।

न निःसृता तदा गंगा ईशस्यैव प्रभावतः १३।

विचारितं तदा तेन क्व गता मम मातृका ।

स ध्यानेन विचार्यैवं गृहीता चेश्वरेण तु १४।

ततः कैलासमगमत्स तु भगीरथो नृपः ।

तत्र गत्वा मुनिश्रेष्ठ ह्यकरोदुल्बणं तपः १५।

आराधितस्तदा तेन दत्तवानहमापगाम् ।

एकं केशं परित्यज्य दत्ता त्रिपथगा तदा १६।

स गृहीत्वा गतो गंगां पाताले यत्र पूर्वजाः ।

अलकनंदा तदा नाम गंगायाः प्रथमं स्मृतम् १७।

हरिद्वारे यदायाता विष्णुपादोदकी तदा ।

तदेव तीर्थं प्रवरं देवानामपि दुर्ल्लभम् १८।

तत्तीर्थे च नरः स्नात्वा हरिं दृष्ट्वा विशेषतः ।

प्रदक्षिणं ये कुर्वंति न चैते दुःखभागिनः १९।

ब्रह्महत्यादि पापानां राशयः संत्यनेकशः ।

विलयं यांति ते सर्वे हरेर्दर्शनतः सदा २०।

एकदा केशवस्थाने हरिद्वारे ह्यहं गतः ।

तस्मात्तीर्थप्रभावाच्च जातोऽहं विष्णुरूपवान् २१।

ये गच्छंति नरश्रेष्ठास्ते वै यांति ह्यनामयम् ।

चतुर्भुजास्तु ते लोकाः नरा नार्यश्च सर्वशः २२।

वैकुंठं यांति ते सर्वे हरेर्दर्शनमात्रतः ।

ममाप्यधिक तीर्थं तु हरिद्वारं सुशोभनम् २३।

तीर्थानां प्रवरं तीर्थं चतुर्वर्गप्रदायकम् ।

कलौ धर्मकरं पुंसां मोक्षदं चार्थदं तथा २४।

यत्र गंगा महारम्या नित्यं वहति निर्मला ।

एतत्कथानकं पुण्यं हरिद्वाराख्यमुत्तमम् २५।

उक्तं च शृण्वतां पुंसां फलं भवति शाश्वतम् ।

अश्वमेधे कृते यागे गोसहस्रे तथैव च २६।

तत्पुण्यं लभते विद्वान्हरेर्दर्शनमात्रतः ।

गोहंता ब्रह्महा चैव ये चान्ये पितृघातकाः २७।

एवंविधानि पापानि बहून्यपि च वै द्विज ।

विलयं यांति सर्वाणि हरेर्दर्शनमात्रतः २८।

इति श्रीपाद्मेमहापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे उमापति नारद संवादेहरिद्वार माहात्म्ये गंगोत्पत्तिपूर्वकं हरिद्वारमाहात्म्यं नाम एकविंशोऽध्यायः २१।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 21

एकविंशोऽध्याय

नारद उवाच-

सगरस्यात्मजावीराः कथं जाता महाबलाः

विक्रांताः षष्टिसाहस्रा विज्ञानेश्वर तद्वद १

श्रीपार्वतीपतिरुवाच-

द्वे पत्न्यौ सगरस्यास्तां तपसा दग्धकिल्बिषे

और्वस्ताभ्यां वरं प्रादात्तोषितो मुनिसत्तमः २

षष्टिंपुत्रसहस्राणि एका वव्रे तरस्विनाम्

एका वंशधरं त्वेकं यथेष्टं वरशालिनी ३

तत्रैका सुषुवे तुंब्यां पुत्रान्शूरान्बहूनथ

ते तु सर्वेऽपि धात्रीभिर्वर्द्धितास्तु यथाक्रमम् ४

कपिलानां तु दुग्धानां तेषां तत्र महात्मनाम् ५

तेनैव दुग्धयोगेन ववृधुस्ते महात्मनः

एकः पंचजनो नाम पुत्रो राजा बभूव ह ६

ततः पंचजनस्यासीदंशुमान्नाम वीर्यवान्

दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः ७

यस्तु गंगासरिच्छ्रेष्ठामानयामास सुव्रतः

समुद्र मानयित्वैनां दुहितृत्वमकल्पयत् ८

नारदउवाच-

कथं गंगा समानीता किं तपस्तेन वै कृतम्

तत्सर्वं मे समाचक्ष्व सुव्रतोऽसि दयानिधे ९

महादेव उवाच-

पूर्वजानां हितार्थाय गतोऽसौ हैमके गिरौ

तत्र गत्वा तपस्तप्तं वर्षाणामयुतं तदा १०

आदिदेवः प्रसन्नोऽभूद्योऽसौ देवो निरंजनः

तेन दत्ता इयं गंगा आकाशात्समुपस्थिता ११

तत्र विश्वेश्वरो देवो यत्र तिष्ठति नित्यशः

गंगां दृष्ट्वाऽगतां तेन गृहीता जाह्नवी तदा १२

जटाजूटे च संधार्य वर्षाणामयुतं स्थितम्

न निःसृता तदा गंगा ईशस्यैव प्रभावतः १३

विचारितं तदा तेन क्व गता मम मातृका

स ध्यानेन विचार्यैवं गृहीता चेश्वरेण तु १४

ततः कैलासमगमत्स तु भगीरथो नृपः

तत्र गत्वा मुनिश्रेष्ठ ह्यकरोदुल्बणं तपः १५

आराधितस्तदा तेन दत्तवानहमापगाम्

एकं केशं परित्यज्य दत्ता त्रिपथगा तदा १६

स गृहीत्वा गतो गंगां पाताले यत्र पूर्वजाः

अलकनंदा तदा नाम गंगायाः प्रथमं स्मृतम् १७

हरिद्वारे यदायाता विष्णुपादोदकी तदा

तदेव तीर्थं प्रवरं देवानामपि दुर्ल्लभम् १८

तत्तीर्थे च नरः स्नात्वा हरिं दृष्ट्वा विशेषतः

प्रदक्षिणं ये कुर्वंति न चैते दुःखभागिनः १९

ब्रह्महत्यादि पापानां राशयः संत्यनेकशः

विलयं यांति ते सर्वे हरेर्दर्शनतः सदा २०

एकदा केशवस्थाने हरिद्वारे ह्यहं गतः

तस्मात्तीर्थप्रभावाच्च जातोऽहं विष्णुरूपवान् २१

ये गच्छंति नरश्रेष्ठास्ते वै यांति ह्यनामयम्

चतुर्भुजास्तु ते लोकाः नरा नार्यश्च सर्वशः २२

वैकुंठं यांति ते सर्वे हरेर्दर्शनमात्रतः

ममाप्यधिक तीर्थं तु हरिद्वारं सुशोभनम् २३

तीर्थानां प्रवरं तीर्थं चतुर्वर्गप्रदायकम्

कलौ धर्मकरं पुंसां मोक्षदं चार्थदं तथा २४

यत्र गंगा महारम्या नित्यं वहति निर्मला

एतत्कथानकं पुण्यं हरिद्वाराख्यमुत्तमम् २५

उक्तं च शृण्वतां पुंसां फलं भवति शाश्वतम्

अश्वमेधे कृते यागे गोसहस्रे तथैव च २६

तत्पुण्यं लभते विद्वान्हरेर्दर्शनमात्रतः

गोहंता ब्रह्महा चैव ये चान्ये पितृघातकाः २७

एवंविधानि पापानि बहून्यपि च वै द्विज

विलयं यांति सर्वाणि हरेर्दर्शनमात्रतः २८

इति श्रीपाद्मेमहापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे उमापति नारद संवादेहरिद्वार माहात्म्ये गंगोत्पत्तिपूर्वकं हरिद्वारमाहात्म्यं नाम

एकविंशोऽध्यायः २१

खण्डः ६ (उत्तरखण्डः) — Adhyāya 22

महादेव उवाच-।

गांगं वक्ष्यामि माहात्म्यं यथोक्तं मुनिसत्तम ।

यस्य श्रवणमात्रेण अघं नश्यति तत्क्षणात् १।

गंगागंगेति योब्रूयाद्योजनानां शतैरपि ।

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति २।

चरणाब्जसमुद्भूता गंगा नामेति विश्रुता ।

पापानां स्थूलराशीनां नाशिनी चेति नारद ३।

नर्मदा सरयूश्चैव तथा वेत्रवती नदी ।

तापी पयोष्णी चंद्रा च विपाशा कर्मनाशिनीम् ४।

पुष्या पूर्णा तथा दीपा विदीपा सूर्यतेजसा ।

सहस्रवृषदानात्तु यत्फलं लभते ध्रुवम् ५।

तत्फलं समवाप्नोति गंगादर्शनतः क्षणात् ।

इयं गंगा महापुण्या ब्रह्मघ्नानां विशेषतः ६।

तेषां निरययुक्तानां गंगा पापप्रहारिणी ।

चंद्र सूर्योपरागे च यत्फलं विद्यतेऽनघ ७।

तत्फलं समवाप्नोति गंगादर्शनमात्रतः ।

यथा सूर्योदये तात तमो गच्छति दूरतः ८।

तथा गंगाप्रभावेन विलयं याति पातकम् ।

मान्येयं सर्वदा लोके पवित्रा पापनाशिनी ९।

कल्याणरूपा सततं विष्णुना निर्मिता पुरा ।

दिव्यरूपा तु जननी दीनानां पावनी स्मृता १०।

देवानां च यथा विष्णुस्तथा गंगोत्तमा नदी ।

ये कुर्वंति नराः स्नानं माघमासे निरंतरम् ११।

न तेषां विद्यते दुःखं कल्पानां च शतत्रयम् ।

यत्र गंगा च यमुना यत्र चैव सरस्वती ।

तत्र स्नात्वा च पीत्वा च मुक्तिभागी न संशयः १२।

महादेव उवाच-।

त्वद्वार्तां प्रियतो ब्रवीमि यदहं सा स्तुस्तुतिस्ते प्रभो यद्भुंजे तव तन्निवेदनमथो यद्यामि सा प्रेष्यता ।

यच्छांतः स्वपिमि त्वदंघ्रियुगले दंडप्रणामोऽस्तु नः।

स्वामिन्यच्च करोमि तेन स भवान्विश्वेश्वरः प्रीयताम् १३।

दृष्टेन वंदितेनापि स्पृष्टेन च धृतेन के ।।

नरा येन विमुच्यंते तदेतद् यामुनं जलम्॥ १४॥

तावद् भ्रमंति भुवने मनुजा भवोत्थ दारिद्य्र रोग मरण व्यसनाभिभूताः ।।

यावज्जलं तव महानदि नीलनीलं पश्यंति नो दधति मूर्धसु सूर्यपुत्रि ॥१५॥

यत्संस्मृतिः सपदि कृंतति दुष्कृतौघं पापावलीं जयति योजन लक्षतोऽपि ।।

यन्नाम नाम जगदुच्चरितं पुनाति दिष्ट्या हि सा पथिदृशो भविताद्य गंगा ॥१६॥

आलोकोत्कंठितेन प्रमुदित मनसा वर्त्म यस्याः प्रयातं सद्यस्मिन्कृत्यमेतामथ प्रथम कृती जज्ञिवान्स्वर्गसिंधुम् ।।

स्नानं संध्या निवापः सुर यजनमपि श्राद्ध विप्राशनाद्यं सर्वं संपूर्णमेतत्भवति भगवतः प्रीतिदं नातिचित्रम् ॥१७॥

देवीभूत परं ब्रह्म परमानंददायिनी ।।

अर्घं गृहाण मे गंगे पापं हर नमोस्तुते ॥१८॥

साक्षाद्धर्म द्रवौघं मुररिपु चरणांभोज पीयूषसारं।।

दुःखस्याब्धेस्तरित्रं सुरमनुजनुतं स्वर्गसोपान मार्गम्। ।

सर्वांहोहारि वारि प्रवर गुणगणंभासि या संवहंती।।

तस्यै भागीरथि श्रीमति मुदितमना देवि कुर्वे नमस्ते ॥१९॥

स्वःसिंधो दुरिताब्धिमग्न जनता संतारणि प्रोल्लसत्कल्लोला। ।

मलकांतिनाशिततमस्तोमे जगत्पावनि ।।

गंगे देवि पुनीहि दुष्कृतभयक्रांतं कृपाभाजनं मातर्मां शरणागतं शरणदे रक्षाथभोभीषितम् ॥२०॥

हं हो मानस कंपसे किमु सखे त्रस्तोभयान्नारकात्किं ते।

भीतिरिति श्रुतिर्दुरितकृत्संजायते नारकी ।।

माभैषीः शृणु मे गतिं यदि मया पापाचल।

स्पर्द्धिनी प्राप्ता ते निरयं कथः किमपरं किं मे न धर्मं धनम् ॥२१॥

सर्वेशादि प्रशंसा मुदमनुभवनं मज्जनं यत्र चोक्तं स्वर्नार्योवीक्ष्यहृष्टा।

विबुध सुरपतिः प्राप्तिसंभावनेन ।।

नीरे श्रीजह्नु कन्येयम् अनियमरताः स्नांति ये तावकीने।।

देवत्वं ते लभंते स्फुटम् अशुभकृतोप्यत्र वेदाः प्रमाणम् ॥२२॥

बुद्धे सद्बुद्धिरेवं भवतु तव सखे मानस स्वस्तिते ऽस्तु।।

आस्तां पादौ पदस्थौ सततमिह युवां साधु दृष्टी च दृष्टी ।।

वाणि प्राणप्रियेधि प्रकट गुण वपुः प्राप्नुहि प्राणि पुष्टिं यस्मात्सर्वैर्भवद्भिः।।

सुखमतुलमहं प्राप्नुवं तीर्थपुण्यम् ॥२३॥

श्रीजाह्नवी रविसुता परमेष्ठिपुत्री सिंधुत्रयाभरणतीर्थवर प्रयाग। ।

सर्वेश मामनुगृहाण नयस्व चोर्ध्वमंतस्तमो दशविधं दलय स्वधाम्ना ॥२४॥

वागीश विष्ण्वीश पुरंदराद्याः पापप्रणाशाय विदांविदोऽपि। ।

भजंति यत्तीरमनीलनीलं सतीर्थराजो जयति प्रयागः ॥२५॥

कलिंदजा संगम वाप्ययत्र प्रत्यग्गता स्वर्गधुनीधुनोति। ।

अध्यात्म तापत्रितयं जनस्य स तीर्थराजो जयति प्रयागः ॥२६॥

श्यामो वटः श्यामगुणोवृणोति स्वच्छायया श्यामल याजनानाम्। ।

श्यामश्रमं कृंतति यत्रदृष्टः स तीर्थराजो जयति प्रयागः ॥२७॥

ब्रह्मादयोप्यात्मकृतिं विहाय भजंति पुण्यात्मक भागधेयम् ।।

यत्रोज्झितादंडधरः स्वदंडं स तीर्थराजो जयति प्रयागः ॥२८॥

यत्सेवया देव नृदेवतादि देवर्षयः प्रत्यहमामनंति। ।

स्वर्गं च सर्वोत्तम भूमिराज्यं स तीर्थराजो जयति प्रयागः ॥२९॥

एनांसि हंतीति प्रसिद्धवार्ता नाम प्रतापेन दृशो भवंति। ।

यस्य त्रिलोकीं प्रतताप गोभिः स तीर्थराजो जयति प्रयागः ॥३०॥

धत्ते ऽभितश्चामर चारुकांतिं सितासिते यत्रसरिद्वरेण्ये ।।

आद्यो वटश्छत्रमिवातिभाति स तीर्थराजो जयति प्रयागः ॥३१॥

ब्राह्मीनपुत्री त्रिपथास्त्रिवेणी समागमे साक्षतयागमात्रात् ।।

यत्राप्नुतान्ब्रह्मपदं नयंति स तीर्थराजो जयति प्रयागः॥ ३२॥

केषांचिज्जन्मकोटिर्व्रजति सुवचसां यामियामीति यस्मिन्केषां।।

चित्प्रेप्सतां यं नियतमतियतेद् वर्षवृंदं वरिष्ठम्। ।

यत्प्राप्तं भाग्यलक्षैर्भवति भवति नो वास वाचामवाच्यो। ।

दिष्ट्या वेणी विशिष्टो भवति दृगतिथिः कं प्रयाग प्रयागः ॥३३॥

लोकानामक्षमाणां मखकृतिषु कलौ स्वर्गकामैर्जय स्तुत्यादि स्तोत्रैर्वचोभिः।।

कथममरपद प्राप्ति चिंतातुराणाम् ।।

अग्निष्टोमाश्वमेध प्रमुख मखफलं सम्यगालोच्यसांगं।।

ब्रह्माद्यैस्तीर्थराजो ऽभिमतद उपदिष्टो ऽयमेव प्रयागः ॥३४॥

मया प्रमादातुरतादि दोषतः संध्या विधिर्नो समुपासितोऽभूत्। ।

चेदत्र संध्यां चरते प्रसादतः संध्यास्तु पूर्णा ऽखिलजन्मनोऽपि मे ॥३५॥

अन्यत्रापि प्रगर्जन्महिमनि तपसि प्रेमभिर्विप्रकृष्टैर्ध्यातः।।

संकीर्तितो योऽभिमत पद विधातानिशं निर्व्यपेक्षंम् ।।

श्रीमत्पांशुं त्रिवेणीपरिवृढम् अतुलं तीर्थराजं प्रयागं गोलंकारप्रकाशं स्वयममरवरं चेतनं तं नमामि ॥३६॥

अस्माभिः सुतपोन्वतप्त किमहो एज्यंत किंवाध्वराः।

पात्रे दानमदायि किं बहुविधं किं वा सुराश्चार्चिताः ।

किं सत्तीर्थमसेवि किं द्विजकुलं पूजादिभिः सत्कृतं येन प्रापि सदा।

शिवस्य शिवदा सा राजधानी स्वयम् ३७।

भाग्यैर्मेऽधिगता ह्यनेकजनुषां सर्वाघविध्वंसिनी।

सर्वाश्चर्यमयी शिवपुरी संसारसिंधोस्तरी ।

लब्धं सज्जनुषः फलं कुलमलं चक्रे पवित्रीकृतः।

स्वात्मा चाप्यखिलं कृतं किमपरं सर्वोपरिष्टात्स्थितम् ३८।

जीवन्नरः पश्यति भद्र लक्षमेवं वदंतीति मृषा न यस्मात् ।

तस्मान्मया वै वपुषे दृशे न प्राप्तापि काशी क्षणभंगुरेण ३९।

काश्यां विधातुममरैरपि दिव्यभूमौ सत्तीर्थ लिंगगणनार्चनता न शक्या ।

यानीह गुप्त विवृतानि पुरातनानि सिद्धानि योजितकरः प्रणमामि तेभ्यः ४०।

किं भीत्या दुरितव्रजात्किमु मुदा पुण्यैरगण्यैः कृतैः।

किं विद्याभ्यसनान्मदेन जडतादोषाद्विषादेन किम् ।

किं गर्वेण धनोदयादधनतातापेन किं भोजनाः ।

स्नात्वा श्रीमणिकर्णिकापयसि चेद्विश्वेश्वरो दृश्यते ४१।

अल्पस्फीति निरामयापि तनुता प्रव्यक्तशक्यात्मता प्रोत्साहाढ्य बलेन केवलमनोरागद्वितीयेन यत् ।

अप्राप्यापि मनोरथैरविषयास्वप्नप्रवृत्तेरपि प्राप्ता सा।

पि गदाधरस्य नगरी सद्योपवर्गप्रदा ४२।

मन्येनात्मकृतिर्नपूर्वपुरुषप्राप्तेर्बलं चात्र यन्नापीदं स्वजन।

प्रमाणमचलं किंस्वापतापादिकम्।

यादुष्प्राप गयाप्रयागयमुना काशीसुपर्वागमात्प्राप्तिस्तत्र।

महाफलो विजयते श्रीशारदानुग्रहः ४३।

यः श्राद्धसमये दूरात्स्मृतोऽपि पितृमुक्तिदः ।

तं गयायां स्थितं साक्षान्नमामि श्रीगदाधरम् ४४।

पंथानं समतीत्य दुस्तरमिमं दूरादवीयस्तरं क्षुद्र व्याघ्रतरक्षुकंटकफणिप्रत्यार्थिभिः संकुलम् ।

आगत्य प्रथमव्ययं कृपणवाग्याचेज्जनः ।

कर्परीश्रीमद्वारिगदाधर प्रतिदिनं त्वां द्रष्टुमुत्कंठते ४५।

सर्वात्मन्निजदर्शनेन च गयाश्राद्धेन वै देवताः प्रीणन्विश्वमनीहवत्कथमिहौदासीन्यमालंबसे ।

किं ते सर्वदनिर्दयत्वमधुना किं वा प्रभुत्वं कलेः किं वा सत्वनिरीक्षणं नृषु चिरं किं वास्य सेवारुचिः ४६।

गदाधर मया श्राद्धं संचीर्णं त्वत्प्रसादतः ।

अनुजानीहि मां देव गमनाय गृहं प्रति ४७।

चतुर्णां देवतानां च स्तोत्रं स्वर्गार्थदायकम् ।

श्राद्धकाले पठेन्नित्यं स्नानकाले तु यः पठेत् ४८।

सर्वतीर्थसमं स्नानं श्रवणात्पठनाज्जपात् ।

प्रयागस्य च गंगाया यमुनायाः स्तुतेर्द्विज ।

श्रवणेन विनश्यंति दोषाश्चैव तु कर्मजाः ४९।

इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे गंगाप्रयागयमुनास्तुतिर्नामद्वाविंशोऽध्यायः २२।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 23

महादेवउवाच-

शृणु नारद वक्ष्यामि माहात्म्यं तुलसीभवम् ।

यच्छ्रुत्वा मुच्यते पापादाजन्ममरणांतिकात् १।

पत्रं पुष्पं फलं मूलं शाखा त्वक्स्कंधसंज्ञितम् ।

तुलसी संभवं सर्वं पावनं मृत्तिकादिकम् २।

शरीरं दह्यते येषां तुलसीकाष्ठवह्निना ।

दत्वा च तुलसीकाष्ठं सर्वांगेषु मृतस्य वै ३।

पश्चाद्यः कुरुते दाहं सोऽपि पापात्प्रमुच्यते ।

मरणे यस्य संप्राप्तं कीर्तनं स्मरणं हरेः ४।

तुलसीदारुणा दाहो न तस्य पुनरावृतिः ।

यद्येकं तुलसीकाष्ठं मध्ये काष्ठशतस्य हि ५।

दाहकाले भवेन्मुक्तिः कोटिपापायुतस्य च ।

गंगांभसाभिषेकेण यांति पुण्यानि पुण्यताम् ६।

तुलसीकाष्ठमिश्राणि यांति दारूणि पुण्यताम् ।

तुलसीकाष्ठसंमिश्रा यावत्प्रज्वलते चिता ७।

दह्यंति तस्य पापानि कल्पकोटिकृतानि वै ।

दह्यमानं नरं दृष्ट्वा तुलसीकाष्ठवह्निना ८।

नयंति तं विष्णुदूता न च वै यमकिंकराः ।

जन्मकोटिसहस्रैस्तु मुक्तो याति जनार्दनम् ९।

दह्यंते ये नरा लोके तुलसीकाष्ठवह्निना ।

तान्विमानस्थितान्देवाः क्षिपंति कुसुमांजलिम् १०।

नृत्यंत्यप्सरसः सर्वा गीतं गायंति गायकाः ।

जायंते वीक्ष्य तं विष्णुः संतुष्टः शंभुना सह ११।

गृहीत्वा तं करे शौरिर्गृहं नीत्वास्य चांगतः ।

मार्जयेत्सर्वपापानि पश्यतां त्रिदिवौकसाम् १२।

महोत्सवं कारयित्वा जयशब्दपुरःसरम् ।

ज्वलते यत्र चाज्येन तुलसीकाष्ठपावकः १३।

अग्न्यगारे श्मशाने वा दह्यते पातकं नृणाम् ।

होमं कुर्वंति ये विप्रास्तुलसीकाष्ठवह्निना ।

सिक्ते सिक्ते तिले वापि अग्निष्टोमफलं लभेत् १४।

यो ददाति हरेर्धूपं तुलसीकाष्ठसंभवम् ।

शतक्रतुसमं पुण्यं लभते गोशतं फलम् १५।

नैवेद्यं पच्यते यस्तु तुलसीकाष्ठवह्निना ।

मेरुतुल्यं भवेद्दत्तं तदन्नं केशवस्य हि १६।

तुलसीपावकेनाथ यो दीपं कुरुते हरेः ।

दीपलक्षसहस्राणां पुण्यं स लभते फलम् १७।

न तेन सदृशो लोके वैष्णवो भुवि दृश्यते ।

यः प्रयच्छति कृष्णस्य तुलसीकाष्ठचंदनम् १८।

स जायते कृपापात्रं विष्णोर्वाडवसत्तम १९।

तुलसीदारुजातेन चंदनेन कलौ हरिम् ।

विलिप्य भक्तितो नित्यं रमते हरिसन्निधौ २०।

तुलसीपंकलिप्तांगः कुरुते विष्णुपूजनम् ।

पूजाशतदिनैकाह्ना लभ्यते गोशतं फलम् २१।

विलेपार्थे तु कृष्णस्य तुलसीकाष्ठचंदनम् ।

मंदिरे तिष्ठते यावत्तावत्पुण्यफलं शृणु २२।

तिलप्रस्थाष्टकं दत्वा यत्पुण्यं प्राप्नुयान्नरः ।

तत्फलं जायते पुंसां प्रसादाच्चक्रपाणिनः २३।

यो ददाति पितॄणां तु पिंडे तुलसिसंभवम् ।

दलं संजायते तृप्तिः पत्रे पत्रे शताब्दिका २४।

तुलसीमूलमृत्स्नैव स्नानं कुर्याद्विशेषतः ।

तेन तीर्थे कृतं स्नानं यावच्चांगे च मृत्तिका २५।

तदीय यातु मंजर्या पूजनं च करोति यः ।

नानापुष्पैः कृता पूजा यावच्चंद्रदिवाकरौ २६।

यस्मिन्गृहेऽवतिष्ठेत तुलसी वृक्षवाटिका ।

दर्शनात्स्पर्शनाच्चैव ब्रह्महत्यादिपातकम् ।

तत्सर्वं विलयं याति दर्शनेनैव नारद २७।

महादेव उवाच-

अथान्यत्ते प्रवक्ष्यामि शृणुष्वैकाग्रमानसः ।

न कस्यापि च कथितं शृणु देवर्षिसत्तम २८।

यत्र यत्र गृहे ग्रामे वने वा तुलसी भवेत् ।

तत्र तत्र जगत्स्वामी प्रीतात्मा च वसेद्धरिः २९।

गृहे तस्मिन्न दारिद्र्यं नायोगो बंधुसंभवः ।

न दुःखं न भयं रोगस्तुलसी यत्र तिष्ठति ३०।

सर्वत्र तुलसी पुण्या पुण्यक्षेत्रे विशेषतः ।

संनिधौ तस्य देवस्य रोपणात्पृथिवीतले ३१।

तेषां विष्णुपदं नित्यं तुलस्यारोपणे कृते ।

उत्पादान्दारुणान्रोगान्दुर्निमित्तान्यनेकशः ।

तुलस्याभ्यर्चिते भक्त्या हंत शांतिकरो हरिः ३२।

तुलसीगंधमाघ्राय यत्र गच्छति मारुतः ।

दिशो दश च ताः पूता भूतग्रामश्चतुर्विधः ३३।

यस्मिन्गृहे मुनिश्रेष्ठ तुलसीमूलमृत्तिका ।

सर्वदा तत्र तिष्ठंति देवताश्च शिवो हरिः ३४।

तुलसीवनजा छाया यत्र यत्र भवेद्दिवज ।

तर्पणं कुरुते तत्र पितॄणां दत्तमक्षयम् ३५।

तस्य मूले स्थितो ब्रह्मा मध्ये देवो जनार्दनः ।

मंजर्यां वसते रुद्रः तुलसी तेन पावनी ३६।

विना यस्तुलसीं कुर्यात्संध्याकाले तु मार्जनम् ।

तत्सर्वं राक्षसहृतं नरकं च प्रयच्छति ३७।

तुलसीपत्रगलितं तोयं यः शिरसावहेत् ।

गंगाफलमवाप्नोति शतधेनुफलं लभेत् ३८।

शिवालये विशेषेण रोपयेत्तुलसीं यदि ।

बीजसंख्या वसेत्स्वर्गे प्रत्येकं युगसंख्यया ३९।

उमया तु पुरा देवि शंकरार्थं हिमालये ।

रोपिताः शतवृक्षास्तु तुलस्याः प्रणतोऽस्म्यहम् ४०।

पर्वण्यवसरे यस्तु श्रावणे चाथ रोपयेत् ।

संक्रांतिदिवसे चैव तुलसी चातिपुण्यदा ४१।

तुलसीं पूजयेन्नित्यं दरिद्र ईश्वरो भवेत् ।

सर्वसिद्धिकरामूर्तिः कृष्णः कीर्तिं ददाति च ४२।

शालग्रामशिला यत्र तत्र संनिहितो हरिः ।

तत्र स्नानं च दानं च वाराणस्यां शताधिकम् ४३।

कुरुक्षेत्रं प्रयागं च नैमिषारण्यमेव च ।

तस्य कोटिगुणं पुण्यं शालग्रामशिलार्चनात् ४४।

शालग्राममयी मुद्रा संस्थिता यत्र हि क्वचित् ।

वाराणस्यां च यत्पुण्यं सर्वं तत्रैव तद्भवेत् ४५।

ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः ।

तत्सर्वं नाशयेदाशु शालग्रामशिलार्चनात् ४६।

इति श्रीपाद्मेमहापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे तुलसीशालग्राममाहात्म्यंनाम त्रयोविंशोऽध्यायः २३।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 24

महादेवउवाच-

प्रयागतीर्थमाहात्म्यं प्रवक्ष्यामि यथा श्रुतम् ।

महादानपराः पुण्यकर्माणो यत्र संति हि १।

यत्र गंगा च यमुना यत्र चैव सरस्वती ।

तं देवतीर्थप्रवरं देवानामपि दुर्लभम् २।

ईदृशं त्रिषु लोकेषु भूतं न च भविष्यति ।

ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी ३।

तीर्थानामुत्तमं तीर्थं प्रयागाख्यमनुत्तमम् ।

प्रातःकाले तु भो विद्वन्प्रयागे स्नानमाचरेत् ४।

महापापाद्विनिर्मुक्तः स याति परमं पदम् ।

देयं किंचिद्यथाशक्ति दारिद्र्याभावमिच्छता ५।

यो नरस्तत्र गत्वा वै प्रयागे स्नानमाचरेत् ।

धनिको दीर्घजीवी च जायते नात्र संशयः ६।

यत्र वटस्याक्षयस्य दर्शनं कुरुते नरः ।

तेन दर्शनमात्रेण ब्रह्महत्या विनश्यति ७।

स चाक्षयवटः ख्यातः कल्पांतेपि च दृश्यते ।

शेते विष्णुर्यस्य पत्रे अतोयमव्ययः स्मृतः ८।

तत्र पूजां प्रकुर्वंति मानवा विष्णुवल्लभाः ।

सूत्रेणाच्छादितं कृत्वा पूजां चैव तु कारयेत् ९।

माधवाख्यस्तत्र देवः सुखं तिष्ठति नित्यशः ।

तस्य वै दर्शनं कार्यं महापापैः प्रमुच्यते १०।

यत्र देवाश्च ऋषयो मनुष्याश्चापि सर्वशः ।

स्वस्वस्थानं समाश्रित्य तत्र तिष्ठंति नित्यशः ११।

गोघ्नो वापि च चांडालो दुष्टो वा दुष्टचेतनः ।

बालघाती तथाऽविद्वान्म्रियते तत्र वै तदा १२।

स वै चतुर्भुजो भूत्वा वैकुंठे वसते चिरम् ।

प्रयागे तु नरो यस्तु माघस्नानं करोति च १३।

न तस्य फलसंख्यास्ति शृणु देवर्षिसत्तम ।

आपो नारा इति प्रोक्ता सर्वलोकेषु शुश्रुम १४।

तेन नारायणः प्रोक्तः स्नातानां भुक्तिमुक्तिदः ।

ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी १५।

मासानां हि तथा माघः श्रेष्ठः सर्वेषु कर्मसु ।

मकरस्थे रवौ माघे प्रातःकाले तथामले १६।

गोःपदेऽपि जले स्नानं स्वर्गदं पापिनामपि ।

योगोऽयं दुर्लभो विद्वन्त्रैलोक्ये सचराचरे १७।

अस्मिन्यो यत्नमापन्नः स्नायादपि दिनत्रयम् ।

पंच वा सप्त वाप्यत्र स्नानं कुर्वन्प्रयागजम् १८।

चंद्रवद्वर्द्धते सोऽपि कुले वाडवसत्तम ।

चराचराश्च ये जीवास्तथैव मनुजादयः १९।

प्रयागं तीर्थमाश्रित्य वैकुंठं यांति तेऽचिरात् ।

ये वसिष्ठादयस्तत्र ऋषयः सनकादयः २०।

तेऽपि प्रयागजं तीर्थं सेवंते च पुनःपुनः ।

यत्र विष्णुश्च रुद्रश्च यत्रेंद्रश्च तथा पुनः २१।

तेऽपि सर्वे वसंतीह प्रयागे तीर्थसत्तमे ।

दानं तत्र प्रशंसंति नियमांश्च तथैव च २२।

तत्र स्नात्वा च पीत्वा च पुनर्जन्म न विद्यते २३।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे प्रयागमाहात्म्ये चतुर्विंशोऽध्यायः २४।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 25

नारदउवाच-

एवं तुलस्या माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया ।

सांप्रतं तु समाचक्ष्व त्रिरात्रं तुलसीव्रतम् १।

सदाशिव उवाच-

शृणु विप्र महाबुद्धे व्रतमेतत्पुरातनम् ।

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः २।

पुरा रैभ्यंतरे कल्पे राजा ह्यासीत्प्रजापतिः ।

तस्य भार्या च विख्याता चंद्ररूपा महासती ३।

सा वै व्रतमिदं चक्रे सर्वकामफलप्रदम् ।

त्रिरात्रं तु व्रतं तस्या धर्मकामार्थ मोक्षदम् ४।

सफलं जीवितं तेषां यैः श्रुतं तुलसीव्रतम् ।

कार्तिके शुक्लपक्षे तु नवम्यां चैव नारद ५।

नियमस्थो व्रती तिष्ठेद्भूमिशायी जितेंद्रियः ।

व्रतं त्रिरात्रमुद्दिश्य शुचिः संयतमानसः ६।

स्वपेन्नियमपूर्वं तु तुलसीवनसंनिधौ ।

ततो मध्याह्नसमये नद्यादौ विमले जले ७।

स्नानं कृत्वा पितॄन्देवांस्तर्पयेद्विधिपूर्वकम् ।

सुवर्णं कारयेद्देवं लक्ष्म्या सह जनार्दनम् ८।

वित्तशाठ्यं न कर्तव्यमात्मनः श्रेयमिच्छता ।

वस्त्रयुग्मं ततः कार्यं पीते शुक्लेऽपि वाससी ।

नवग्रहाणामारंभं शांतिकं विधिपूर्वकम् ९।

श्रपयित्वा चरुं तत्र वैष्णवं होममाचरेत् ।

द्वादश्यां देवदेवेशं पूजयित्वा प्रयत्नतः १०।

अव्रणं शुद्धकलशं स्थापयेद्विधिपूर्वकम् ।

पंचरत्नसमोपेतं पल्लवैश्चोषधीयुतम् ११।

तस्योपरिन्यसेत्पात्रे लक्ष्म्या सह जनार्दनम् ।

स्थापयेत्तुलसीमूले मंत्रैर्वेदपुराणकैः १२।

पयसा केवलेनैव सिंचयेत्तुलसीवनम् ।

पंचामृतेन संस्नाप्य देवदेवं जगद्गुरुम् १३।

योऽनंतरूपोऽखिलविश्वरूपो गर्भोदके लोकविधिं बिभर्त्ति ।

प्रसीदतामेष सदेव देवो यो मायया विश्वकृदेष देवी १४।

प्रार्थनामंत्रः ।

आगच्छाच्युत देवेश तेजोराशे जगत्पते ।

सदैव तिमिरध्वंसी पाहि मां भवसागरात् १५।

आवाहनमंत्रः ।

पंचामृतेन सुस्नानं तथा गंधोदकेन च ।

गंगादीनां च तोयेन स्नातोऽनंतःप्रसीदतु १६।

स्नानमंत्रः ।

श्रीखंडागुरुकर्पूरं कुंकुमादिविलेपनम् ।

भक्त्या दत्तं मया देव लक्ष्म्या सह गृहाण वै १७।

विलेपनमंत्रः ।

नारायण नमस्तेऽस्तु नरकार्णवतारण ।

त्रैलोक्याधिपते तुभ्यं ददामि वसने शुभे १८।

वस्त्रमंत्रः ।

दामोदर नमस्तेस्तु त्राहि मां भवसागरात् ।

ब्रह्मसूत्रं मया दत्तं गृहाण पुरुषोत्तम १९।

उपवीतमंत्रः ।

पुष्पाणि च सुगंधीनि मालत्यादीनि वै प्रभो ।

मया दत्तानि देवेश प्रीतितः प्रतिगृह्यताम् २०।

पुष्पमंत्रः ।

नैवेद्यं गृह्यतां नाथ भक्ष्यभोज्यैः समन्वितम् ।

सर्वै रसैः सुसंपन्नं गृहाण परमेश्वर २१।

नैवेद्यमंत्रः ।

पूगानि नागपत्राणि कर्पूरसहितानि च ।

मया दत्तानि देवेश तांबूलं प्रतिगृह्यताम् २२।

तांबूलमंत्रः ।

धूपं दत्वा गुरुं भक्त्या गुग्गुलं घृतमिश्रितम् ।

एवं पूजा प्रकर्त्तव्या घृतेन दीपमाचरेत् २३।

विविधं मुनिशार्दूल दीपं कृत्वा समाहितः ।

लक्ष्मीनारायणस्याग्रे तुलसीवनसन्निधौ २४।

अर्घं तत्र प्रदातव्यं देवदेवाय चक्रिणे ।

नवम्यां नालिकेरेण पुत्रार्थमर्घमुत्तमम् २५।

दशम्यां बीजपूरं तु धर्मकामार्थसिद्धये ।

एकादश्यां दाडिमेन दारिद्र्यं नाशयेत्सदा २६।

सप्तधान्येन संयुक्तं वंशपात्रेण नारद ।

फलसप्तकसंयुक्तं पत्रं पूगसमन्वितम् २७।

वस्त्रेणाच्छादितं कृत्वा देवस्याग्रे निवेदयेत् ।

मंत्रेणानेन विपेंद्र शृणुष्वैकाग्रमानसः २८।

तुलसीसहितो देव सदा शंखेन संयुतम् ।

गृहाणार्घं मया दत्तं देवदेव नमोस्तुते २९। अर्घमंत्रः ।

एवं संपूज्य देवेशं लक्ष्म्या सह जनार्दनम् ।

प्रार्थयेद्देवदेवेशं व्रतसंपूर्तिसिद्धये ३०।

उपोषितोऽहं देवेश कामक्रोधविवर्जितः ।

व्रतेनानेन देवेश त्वमेवशरणं मम ३१।

गृहीतेऽस्मिन्व्रते देव यदपूर्णं कृतं मया ।

सर्वं तदस्तु संपूर्णं त्वत्प्रसादाज्जनार्दन ३२।

नमः कमलपत्राक्ष नमस्ते जलशायिने ।

इदं व्रतं मयाचीर्णं प्रसादात्तव केशव ३३।

अज्ञानतिमिरध्वंसिन्व्रतेनानेन केशव ।

प्रसादसुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव ३४।

ततो जागरणं रात्रौ गीतपुस्तकवाचनम् ।

नाद नृत्यकलाभिज्ञैः पुण्याख्यानैः सुभोभनैः ३५।

विभातायां तु शर्वर्यामुदिते विमले रवौ ।

निमंत्र्य ब्राह्मणान्भक्त्या श्राद्धं कुर्याच्च वैष्णवम् ३६।

भोजयित्वा यथाकामं पायसेन घृतेन च ।

तांबूलपुष्पगंधादि दक्षिणाभिः समन्वितम् ३७।

उपवीतानि वासांसि दत्वा मालां च चंदनम् ।

दांपत्यत्रितयं भोज्यं वस्त्रभूषण कुंकुमैः ३८।

वंशपात्राणि शक्त्या च विरूढैः परिपूरयेत् ।

नालिकेरैश्च पक्वान्नैर्वस्त्रैश्च विविधैः फलैः ३९।

सपत्नीकं गुरुं तत्र वस्त्राणि परिधापयेत् ।

विभूषणानि दिव्यानि गंधमाल्यैः प्रपूजयेत् ४०।

सर्वोपस्करसंयुक्तां गां दद्याच्च पयस्विनीम् ।

सदक्षिणां सवस्त्रां च तन्मे निगदतः शृणु ४१।

सर्वतीर्थेषु यत्पुण्यं स्नातानां जायते नृणाम् ।

तत्फलं स लभेत्सर्वं देवदेवप्रसादतः ४२।

भुक्त्वा च विपुलान्भोगान्सर्वकामान्मनोरमान् ।

वैष्णवं पदमाप्नोति अंते विष्णोः प्रसादतः ४३।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे तुलसीत्रिरात्रव्रतवर्णनंनाम पंचविंशोऽध्यायः २५।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 26

नारद उवाच-

गुणाधिकेभ्यो विप्रेभ्यो दातुकामोऽपि मानवः ।

कानिकानि च लोकेऽस्मिन्दद्यात्सर्वं तथा वद १।

महादेव उवाच-

लोके तत्वं हि संज्ञाय शृणु देवर्षिसत्तम ।

अन्नमेवं प्रशंसंति सर्वमन्ने प्रतिष्ठितम् २।

तस्मादन्नं विशेषेण दातुमिच्छंति मानवाः ।

अन्नेन सदृशं दानं न भूतं न भविष्यति ३।

अन्नेन धार्यते विश्वं जगत्स्थावरजंगमम् ।

अन्नमूर्जस्करं लोके प्राणाह्यन्ने प्रतिष्ठिताः ४।

दातव्यं भक्ष्यमेवान्नं ब्राह्मणाय महात्मने ।

कुटुंबं पीडयित्वापि आत्मनो भूतिमिच्छता ५।

नारदासौ विदांश्रेष्ठो यो दद्यादन्नमर्थिने ।

ब्राह्मणायार्तरूपाय पारलौकिकमात्मनः ६।

आत्मीयभूतिमन्विच्छेत्काले द्विजमुपस्थितम् ।

श्रांतमध्वनि वर्त्तंतं गृहस्थं गृहमागतम् ७।

अन्नदः प्राप्नुते विद्वान्सुशीलो वीतमत्सरः ।

क्रोधमुत्पतितं हित्वा दिवि चेह च यत्सुखम् ८।

नाभिनिंदेच्च अतिथिं न द्रुह्याच्च कथंचन ।

ब्रह्मविदेऽर्पयेदन्नं तच्च दानं विशिष्यते ९।

श्रांतायादृष्टपूर्वाय अन्नमध्वनि वर्तिने ।

यो दद्याच्च परिक्लिष्टं सर्वधर्ममवाप्नुयात् १०।

पितृदेवांस्तथा विप्रातिथींश्च महामुने ।

यो नरः प्रीणयेतान्नैस्तस्य पुण्यमनंतकम् ११।

कृत्वापि सुमहत्पापं यो दद्यादन्नमर्थिने ।

ब्राह्मणाय विशेषेण स तु पापैः प्रमुच्यते १२।

ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महत्फलम् ।

अन्नदानं च शूद्रे च ब्राह्मणे चावशिष्यते १३।

न पृच्छेद्गोत्रचरणं न च स्वाध्यायमेव च ।

भिक्षुको ब्राह्मणो ह्यत्र दद्यादन्नं प्रयाति च १४।

अन्नदस्य शुभा वृक्षाः सर्वकामफलान्विताः ।

संभवंतीह लोके च हर्षयुक्तास्त्रिविष्टपे १५।

अन्नदानेन ये लोकास्तान्शृणुष्वमहामुने ।

विमानानि प्रकाशंते दिवि तेषां महात्मनाम् १६।

नानासंस्थानरूपाणि नानाकामान्वितानि च ।

सर्वकामफलाश्चापि वृक्षा भुवनसंस्थिताः १७।

हेमवाप्यः शुभाः सर्वा दीर्घिकाश्चैव सर्वशः ।

घोषवंति च यानानि मुक्तान्यथ सहस्रशः १८।

भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ।

क्षीरं स्रवंत्यः सरितस्तथैवाज्यस्य पर्वताः १९।

प्रासादाः शुभ्रवर्णाभाः शय्याश्च कनकोज्वलाः ।

तदन्नं दातुमिच्छंति तस्मादन्नप्रदो भवेत् २०।

एते लोकाः पुण्यकृतामन्नदानं महत्फलम् ।

तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि २१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे अन्नदानप्रशंसानाम षड्विंशोऽध्यायः २६।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 27

महादेव उवाच-

पानीयदानं परमं दानानामुत्तमं सदा ।

तस्माद्वापीश्च कूपांश्च तडागानि च कारयेत् १।

अर्द्धं पापं संहरंति पुरुषस्य विकर्मणः ।

कूपाः प्रवृत्तपानीयाः सुप्रवृत्तस्य नित्यशः २।

स च तारयते वंशं यस्य खात जलाशये ।

गावः पिबंति विप्राश्च साधवश्च नराः सदा ३।

निदाघकाले पानीयं यस्य तिष्ठति नारद ।

दुर्गे विषमकृच्छ्रे च न कदाचिदवाप्यते ४।

तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृताः ।

त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ५।

अथवा मित्रसदनं मित्रमैत्रीविवर्द्धनम् ।

कीर्तिसंजननं श्रेष्ठं तडागस्योपलक्षयेत् ६।

धर्म्यस्यार्थस्य कामस्य फलमाहुर्मनीषिणः ।

तडागं सुकृतं देशे क्षेत्रमध्ये महाश्रयम् ७।

चतुर्विधानां भूतानां तडागस्योपलक्षयेत् ।

तडागानि च सर्वाणि दिशंति श्रेयमुत्तमम् ८।

देवामनुष्यागंधर्वाः पितरो नाग राक्षसाः ।

स्थावराणि च भूतानि संश्रयंति जलाशयम् ९।

वर्षाऋतौ तडागे तु सलिलं यत्र तिष्ठति ।

अग्निहोत्रफलं तस्य जायते नात्र संशयः १०।

हेमंते शिशिरे चैव सलिलं यस्य तिष्ठति ।

गोसहस्रफलं तस्य लभते नात्र संशयः ११।

वसंतेऽपि तथा ग्रीष्मे सलिलं तिष्ठते यदि ।

अतिरात्राश्वमेधाभ्यां फलमाहुर्मनीषिणः १२।

अथैतेषां तु वृक्षाणां रोपणे च गुणाञ्छृणु ।

अतीतानागतौ चोभौ पितृवंशौ महाऋषे १३।

तारयेद्वृक्षरोपी च तस्माद्वृक्षांस्तु रोपयेत् ।

पुत्रपौत्रा भवंत्येते पादपा नात्र संशयः १४।

परलोकं गतः सोऽपि लोकानाप्नोति चाक्षयान् ।

पुष्पैः सुरगणान्सर्वान्पत्रैश्चापि तथा पितॄन् १५।

छायया चातिथीन्सर्वान्पूजयंति महीरुहाः ।

किन्नरोरगरक्षांसि देवगंधर्वमानवाः १६।

तथा ऋषिगणाश्चैव संश्रयंति महीरुहान् ।

पुष्पिताः फलवंतश्च तर्पयंतीह मानवान् १७।

इहलोके परे चैव पुत्रास्ते धर्मतः स्मृताः ।

तडागवृक्षरोपाश्च इष्टयज्ञाश्च ये द्विजाः १८।

एते स्वर्गान्नहीयंते ये चान्ये सत्यवादिनः ।

सत्यमेव परं ब्रह्म सत्यमेव परं तपः १९।

सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम् ।

सत्यं देवेषु जागर्ति सत्यं च परमं पदम् २०।

तपो यज्ञाश्च पुण्यं च तथा देवर्षिपूजनम् ।

आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् २१।

सत्यं यज्ञस्तथा दानं मंत्रा देवी सरस्वती ।

व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च २२।

सत्येन वायुरभ्येति सत्येन तपते रविः ।

सत्येन चाग्निर्दहति स्वर्गः सत्येन तिष्ठति २३।

पूजनं सर्वदेवानां सर्वतीर्थावगाहनम् ।

सत्यं च वदते लोके सर्वमाप्नोत्यसंशयः २४।

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।

सर्वेषां सर्वयज्ञानां सत्यमेव विशिष्यते २५।

सत्येन देवाः प्रीयंते पितरो ऋषयस्तथा ।

सत्यमाहुः परं धर्मं सत्यमाहुः परं पदम् २६।

सत्यमाहुः परं ब्रह्म तस्मात्सत्यं वदामि ते ।

मुनयः सत्यनिरताः तपस्तप्त्वा सुदुष्करम् २७।

सत्यधर्मरताः सिद्धास्ततः स्वर्गमितो गताः ।

अप्सरोगणसंघुष्टैर्विमानैः परितो वृताः २८।

वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम् ।

अगाधे विपुले सिद्धे सत्तीर्थे च शुचौ हृदि २९।

स्नातव्यं मनसा युक्तैः स्नानं तत्परमं स्मृतम् ।

आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः ।

अनृतं ये न भाषंते ते नराः स्वर्गगामिनः ३०।

वेदा यज्ञास्तथा मंत्राः संति विप्रेषु नित्यशः ।

न भांत्युज्झित सत्येषु तस्मात्सत्यं समाचरेत् ३१।

नारद उवाच-।

तपसां मे फलं ब्रूहि पुनरेव विशेषतः ।

सर्वेषां चैव वर्णानां ब्राह्मणानां तपोबलम् ३२।

प्रवक्ष्यामि तपोध्यानं सर्वकामार्थसाधकम् ।

सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु ३३।

तपो हि परमं प्रोक्तं तपसा विंदते फलम् ।

तपोरतो हि यो नित्यं मोदते सह दैवतैः ३४।

तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ।

तपसा मोक्षमाप्नोति तपसा विंदते महत् ३५।

ज्ञानविज्ञानसंपत्तिः सौभाग्यं रूपमेव च ।

तपसा लभते सर्वं मनसा यद्यदिच्छति ३६।

नातप्ततपसो यांति ब्रह्मलोकं कदाचन ।

यत्कार्यं किंचिदास्थाय पुरुषस्तप्यते तपः ३७।

तत्सर्वं समवाप्नोति परत्रेह च मानवः ।

सुरापः परदारी च ब्रह्महा गुरुतल्पगः ।

तपसा तरते सर्वं सर्वतश्च विमुच्यते ३८।

अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः ।

ब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः ३९।

षडशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम् ।

तपसा दिवि मोदंते समेता दैवतैः सह ४०।

तपसा प्राप्यते राज्यं शक्रः सर्वे पुरा सुराः ।

तपसा पालयन्सर्वानहन्यहनि वृत्तिदाः ४१।

सूर्याचंद्रमसौ देवौ सर्वलोकहिते रतौ ।

तपसैव प्रकाशंते नक्षत्राणि ग्रहास्तथा ४२।

सर्वं च तपसाभ्येति सर्वं च सुखमश्नुते ।

तपस्तपति योऽरण्ये वनमूलफलाशनः ४३।

योऽधीते श्रुतिमेवादौ समं स्यात्तपसा मुने ।

श्रुतेरध्यापनात्पुण्यं यदाप्नोति द्विजोत्तमः ४४।

तदध्यायस्य जप्याच्च द्विगुणं फलमश्नुते ।

जगद्यथा निरालोकं जायते शशिभास्करौ ४५।

विना तथा पुराणं हि ध्येयमस्मान्महामुने ।

तप्यमानस्तपो ज्ञानं यो धारयति शास्त्रतः ४६।

संबोधयति लोकं च तस्मात्पूज्यतमो गुरुः ।

सर्वेषां चैव पात्राणां श्रेष्ठपात्रं पुराणवित् ४७।

पतनात्त्रायते यस्मात्तस्मात्पात्रमुदाहृतम् ।

धनं धान्यं हिरण्यं वा वासांसि विविधानि च ४८।

ये यच्छंति सुपात्राय ते यांति च परां गतिम् ।

गाश्चैव महिषीर्वापि गजानश्वांश्च शोभनान् ४९।

यः प्रयच्छति मुख्याय तत्पुण्यस्य फलं शृणु ।

अक्षयं सर्वलोकानां सोऽश्वमेधफलं लभेत् 6.27.५०।

महीं ददाति यस्तस्मै कृष्टां फलवतीं शुभाम् ।

स तारयति वै वंशान्दशपूर्वान्दशापरान् ५१।

विमानेन च दिव्येन विष्णुलोकं स गच्छति ।

न यज्ञैस्तुष्टिमायांति देवाः प्रोक्षणकैरपि ५२।

बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः ।

विष्णोरायतने यस्तु कारयेद्धर्मपुस्तकम् ५३।

देव्याः शंभोर्गणेशस्य अर्कस्य च तथा पुनः ।

राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ५४।

इतिहासपुराणाभ्यां पुण्यं पुस्तकवाचनम् ।

सर्वान्कामानवाप्नोति सूर्यलोकं भिनत्ति सः ५५।

सूर्यलोकं च भित्त्वासौ ब्रह्मलोकं स गच्छति ।

स्थित्वा कल्पशतान्यत्र राजा भवति भूतले ५६।

अश्वमेधसहस्रस्य यत्फलं समुदाहृतम् ।

तत्फलं समवाप्नोति देवाग्रे यो जयं पठेत् ५७।

तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम् ।

इतिहासपुराणाभ्यां विष्णोरायतने शुभम् ।

नान्यत्प्रीतिकरं विष्णोस्तथान्येषां दिवौकसाम् ५८।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे वृक्षप्रपासरोवरतपोऽध्ययन धर्मव्याख्यान माहात्म्यंनाम सप्तविंशोऽध्यायः २७।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 28

महादेव उवाच-

अत्राप्युदाहरंतीममितिहासं पुरातनम् ।

पुराणं परमं पुण्यं सर्वपापहरं शुभम् १।

कुमारेण च लोकानां नमस्कृत्य पितामहम् ।

प्रोक्तं चेदं ममाख्यानं देवर्षे ब्रह्मसूनुना २।

सनत्कुमार उवाच-

गतोऽहं धर्मराजानं द्रष्टुं संपूजितो मुदा ।

श्रुतिभिः परया भक्त्या तेनोक्तोऽस्मि सुखासने ३।

मया तत्रोपविष्टेन दृष्टं किंचिन्महाद्भुतम् ।

कांचनेन विमानेन वैडूर्यकृतवेदिना ४।

मणिमुक्तविचित्रेण किंकिणीजालशोभिना ।

आगतं पुरुषं तत्र आसनाद्देवसत्तम ५।

ससंभ्रमं समुत्थाय दृष्ट्वा धर्मः स्वयं विभुः ।

गृहीत्वा दक्षिणे पाणौ पूजितोऽर्घेण वै ततः ६।

शिरस्याघ्राय देवेशः पुरः स्थाप्य ततः परम् ।

पूजयित्वा तु तं धर्म इदं वाक्यमुवाच ह ७।

सुस्वागतं धर्मदर्शिन्प्रीतोऽस्मि दर्शनात्तव ।

समीपे मम तिष्ठस्व किंचिज्ज्ञानं वदस्व मे ८।

पुनर्यास्यसि तत्स्थानं यत्र ब्रह्मा व्यवस्थितः ।

इत्युक्ते च ततश्चान्यो विमानवरमास्थितः ९।

आगतः पुरुषो देवो यत्र तिष्ठति धर्मराट् ।

स पूजितो विमानस्थः प्रश्रयावनतेन च १०।

सामपूर्वं तथोक्त्वा तु यथापूर्वं नरः स्वयम् ।

किमनेन कृतं कर्म यस्य तुष्टो भवान्भृशम् ११।

अत्र मे कौतुकं जातं कृता हि स्वयमेव तु ।

यदस्य भवता पूजा सविस्मयमनंतरम् १२।

तथैवास्य कृता पूजा द्वितीयस्य नरस्य तु ।

मेनेऽहं शुभकर्माणौ विमानं वरसत्तमौ १३।

यस्त्वमाभ्यां स्वयं पूजां कुरुषे धर्मकारणात् ।

ब्रह्माविष्णुशिवाद्यैस्तु पूज्यसे त्वं सदानिशम् १४।

यस्येदृक्परमं पुण्यं किमेतौ कर्म चक्रतुः ।

कथ्यतां मम सर्वज्ञ फलं दिव्यमवापतुः १५।

तच्छ्रुत्वा स तु मां प्राह शृणु कर्मानयोः कृतम् ।

यत्कृत्वार्हमिहायातौ तच्छृणुष्व महामते १६।

धर्म उवाच-

वैदिशं नाम नगरं पृथिव्यामस्ति विश्रुतम् ।

तत्राभूत्पृथिवीपालो धरापाल इति श्रुतः १७।

कस्मिन्काले पुरा देवी शशाप स्वगणं क्रुधा ।

मदृतेन परा नारी भर्त्तुर्यन्मे निवेशिता १८।

तस्माद्द्वादशवर्षाणि जंबुकस्त्वं भविष्यसि ।

इत्युक्तः स च बभ्राम जंबुको मेदिनीतलम् १९।

वेतसी वेत्रवत्योस्तु संगमे लोकविश्रुते ।

शापांतो भविता पुत्र इत्युक्तं गिरिकन्यया २०।

तत्र चानशनं कृत्वा क्षेत्रे प्राणांस्ततोऽत्यजत् ।

दिव्यरूपवपुर्भूत्वा जगाम विष्णुसन्निधौ २१।

तत्राश्चर्यं महद्दृष्ट्वा धरापालो महीपतिः ।

विष्णोरायतनं कृत्वा क्षेत्रे प्राणंस्ततोऽत्यजत् २२।

दिव्यरूपवपुर्भूत्वा स्थापयामास तं प्रभुम् ।

तस्मिन्पुरे नरान्सर्वा सन्नियोज्यास्य वीक्षणे २३।

शुभमायतनं विष्णोस्तस्मिन्ग्रामे सदा जनैः ।

पूर्णं तु ब्राह्मणादीनां पूजयित्वा कदंबकम् २४।

इतिहासपुराणज्ञं वाचकं तु विशेषतः ।

पूजयित्वा द्विजश्रेष्ठं विद्याश्रेष्ठं महामतिः २५।

पुस्तकं चापि संपूज्य गंधपुष्पादिभिः क्रमात् ।

ततस्तमाह राजासौ वाचकं विनयान्वितः २६।

एतदायतनं विष्णोः कारितं च तवाग्रतः ।

चातुर्वर्ण्यमिदं चापि श्रोतुकामं कदंबकम् २७।

तिष्ठतीह द्विजश्रेष्ठ कुरु पुस्तकवाचनम् ।

यावत्संवत्सरं विप्र गृह्य वृत्तिं त्वनुत्तमाम् २८।

स्वर्णनिष्कशतं चात्र ततो दास्ये तथापरम् ।

पूर्णे वर्षे द्विजश्रेष्ठ श्रेयोऽथ महमात्मनः २९।

एवं प्रवर्तितं तत्र पुण्यं पुस्तकवाचनम् ।

वर्षसंगतमात्रे तु तथा च मुनिसत्तम ३०।

अथायुषः क्षयाच्चायं कालधर्ममुपेयिवान् ।

मया चास्य विमानं हि विष्णुना प्रेरितं दिवः ३१।

इत्येषा कर्मणां व्युष्टिः पुण्यमाख्यानसंज्ञकम् ।

श्रुतं पाद्मं महत्पुण्यं पवित्रं पापनाशनम् ३२।

गंधपुष्पोपहारैस्तु न तुष्टिर्जायते तथा ।

देवानामिह सर्वेषां पुराणश्रवणाद्यथा ३३।

स्वर्णरत्नादिवस्तूनां वस्त्राणां चापि कृत्स्नशः ।

ग्रामाणां नगराणां च दानात्तुष्टिर्भवेन्नहि ३४।

यथा स्याद्धर्मश्रवणात्प्रीतिः सर्वदिवौकसाम् ।

इतिहासपुराणानां श्रवणे मुनिसत्तम ३५।

तथा स्यान्मे महाप्रीतिः साध्ये सर्वार्थकामिके ।

कन्यादाने महाप्रीतिर्मम स्यान्मुनिसत्तम ३६।

न तथा रोचते सा च यथा पुस्तकवाचनात् ।

अथ किं बहुनोक्तेन नान्यत्प्रीतिकरं मम ३७।

पुण्याख्यानमृते विप्र गुह्यमेतत्प्रकीर्तितम् ।

यश्चायमपरो विप्र इहायातो नरोत्तमः ३८।

संगत्यानुगतश्चायं धर्मश्रवणमुत्तमम् ।

श्रुत्वा भक्तिरभूदस्य श्रद्धया परमात्मनः ३९।

कृत्वा प्रदक्षिणं तस्य वाचकस्य महात्मनः ।

एष विप्रो मुनिश्रेष्ठ ददौ स्वर्णस्य माषकम् ४०।

नान्यद्दानं कदा चक्रे लोभाविष्टेन चेतसा ।

पात्रदानात्फलप्राप्तिस्त्वस्य जाता न संशयः ४१।

इत्येतत्कथितं कर्म आभ्यां चैव महामुने ४२।

महादेव उवाच-

एतत्पुण्यस्य माहात्म्यं ये शृण्वंति मनीषिणः ।

न तेषां दुर्गतिः कच्चिज्जन्मजन्मनि जायते ४३।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे शास्त्रव्याख्यामहिमानामाष्टाविंशोऽध्यायः २८।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 29

महादेव उवाच-

अथान्यत्संप्रवक्ष्यामि शृणु देवर्षिसत्तम ।

गोपीचंदनमाहात्म्यं यथादृष्टं श्रुतं मया १।

ब्राह्मणो वाथ वैश्यो वा शूद्रो वाप्यथवा द्विजः ।

गोपीचंदनलिप्तांगो मुच्यते ब्रह्महत्यया २।

तिलकं कुरुते यस्तु गोपीचंदनसंभवम् ।

मद्यपानादिदोषैस्तु मुच्यते नात्र संशयः ३।

गोपीचंदनलिप्तांगो वैष्णवो विष्णुतत्परः ।

सर्वदोषैः प्रमुच्येत यथा गंगांभसा पुनः ४।

ब्रह्महा मद्यपानी च स्वर्णस्तेयी तथैव च ।

गुरुतल्पगमो वाथ शूद्रो वाप्यथ वै द्विजः ५।

स सद्यो मुच्यते पापादाजन्मशतकारणात् ।

द्वादशतिलकं प्रोक्तं सर्वेषां वै विशेषतः ६।

वैष्णवानां ब्राह्मणानां कर्तव्यं भूतिमिच्छताम् ।

दंडाकारं ललाटे स्यात्पद्माकारं तु वक्षसि ७।

वेणुपत्रनिभं बाहुमूलेऽन्यद्दीपकाकृति ।

उच्चैश्चक्राणि चत्वारि बाहुमूले तु दक्षिणे ८।

नाममुद्राद्वयं नीचैः शंखमेकं तयोरपि ।

मध्ये ततः पार्श्वयोस्तु द्वे द्वे पद्मे च धारयेत् ९।

वामेऽपि चतुरः शंखान्नाममुद्रे च पूर्ववत् ।

चक्रमेकंगदे द्वे द्वे तयोरिति विभेदतः १०।

ललाटे च गदामेकां नाममुद्रां तथा हृदि ।

त्रीणित्रीणि विचित्राणि मध्ये शाखावुभावुभौ ११।

हृदि पार्श्वे स्तनादूर्ध्वं गदापद्मानि बाहुवत् ।

त्रीणि चत्वारि चक्राणि कर्णमूले द्वयोरधः १२।

एकमेकं तदन्येषु तिलकेषु च धारयेत् ।

संप्रदायजमुद्रां तु धार्या शिष्टानुसारतः १३।

यथारुच्यथवा धार्या न तत्र नियमा यतः ।

आचांडालाद्विशुद्ध्यंति तिलकस्यैव धारणात् १४।

चांडालादधिकं मन्ये वैष्णवानां हि निंदकम् ।

स च विष्णुसमो ज्ञेयो नात्र कार्या विचारणा १५।

वैष्णवो ब्राह्मणो यस्तु विष्णुध्यानेषु तत्परः ।

नांतरस्तस्य वै ज्ञेयः स वै विष्णुर्भवेदिह १६।

शंखचक्रधरो विप्रो वेदाध्ययनतत्परः ।

स वै नारायण इति वेदे चैव तु पठ्यते १७।

तप्तचक्रधरो विप्रः पंक्तिपावनपावनः ।

तस्य भक्तियुतो ब्रह्मन्महापापैः प्रमुच्यते १८।

तुलसीपत्रमालां वा तुलसीकाष्ठसंभवाम् ।

धृत्वा वै ब्राह्मणो भूयान्मुक्तिभागी न संशयः १९।

विष्णुरूपो यतो विप्रो वैष्णवः स इह स्मृतः ।

पंचत्वे यस्य तिलकं गोपीचंदनसंभवम् २०।

विमानं स समारुह्य याति विष्णोः परं पदम् ।

कलौ नारद वक्ष्यामि तिलकं गोपिचंदनम् २१।

ये कुर्वंति नरश्रेष्ठा न तेषां दुर्गतिः क्वचित् ।

शंखं चैव तथा चक्रं दक्षिणे चापि सव्यके २२।

हस्ते धृत्वा विशेषेण महापापैः प्रमुच्यते ।

मद्यपानरता ये च ये च स्त्रीबालघातकाः २३।

अगम्यागमका ये वै दृश्यंते भुवि वाडव ।

भक्तानां दर्शनादेव मुक्तिस्तेषां न संशयः २४।

संसारे तुच्छसारेस्मिन्कुतो वै वैष्णवा जनाः ।

अहं हि वैष्णवो जातो विष्णोर्भक्तिप्रसादतः २५।

काश्यां निवसतां ह्यत्र रामरामेति संजपन् ।

तेन पुण्यादियोगेन शिवो वै नात्र संशयः २६।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे गोपीचंदनमाहात्म्यं नामैकोनत्रिंशोऽध्यायः २९।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 30

नारद उवाच-

ब्रह्मन्संवत्सराख्यस्य दीपस्य विधिमुत्तमम् ।

सर्वव्रतप्रधानस्य माहात्म्यं प्रवदस्व मे १।

येन व्रतानि सर्वाणि कृतान्येव न संशयः ।

सर्वकामसमृद्धिश्च सर्वपापक्षयो भवेत् २।

महादेव उवाच -

वदामि तव देवर्षे रहस्यं पापनाशनम् ।

यच्छ्रुत्वा ब्रह्महा गोघ्नो मित्रघ्नो गुरुतल्पगः ३।

विश्वासघाती क्रूरात्मा मुक्तिमाप्नोति शाश्वतीम् ।

शतं कुलानामुद्धृत्य विष्णोर्लोकं स गच्छति ४।

तदहं कथयिष्यामि दीपव्रतमनुत्तमम् ।

संवत्सरप्रमाणस्य विधिं माहात्म्यमेव च ५।

हेमंते प्रथमे मासि प्राप्य ह्येकादशीं शुभाम् ।

ब्राह्मे मुहूर्त्ते चोत्थाय कामक्रोधविवर्जितः ६।

नदीसंगमतीर्थेषु तडागेषु सरित्सु च ।

स्नानं समाचरेत्तत्र गृहे वा नियतात्मवान् ७।

स्नातोऽहं सर्वतीर्थे तत्स्नानं देहि मे सदा ८।

स्नानमंत्रः ।

देवान्पितॄंश्च संतर्प्य कृतजप्यो जितेंद्रियः ।

ततः संपूजयेद्देवं लक्ष्मीनारायणं प्रभुम् ।

पंचामृतेन संस्नाप्य ततो गंधोदकेन च ९।

स्नातोऽसि लक्ष्म्या सहितो देवदेव जगत्पते ।

मां समुद्धर देवेश घोरात्संसारबंधनात् १०।

ततः संपूजयेद्देवं लक्ष्म्या सह जनार्दनम् ।

मंत्रैस्तु वैदिकैर्भक्त्या तथा पौराणिकैरपि ११।

अतो देवेति गंधादि पौरुषेणापि वा पुनः ।

नमो मत्स्याय देवाय कूर्मदेवाय वै नमः १२।

नमो वाराहदेवाय नरसिंहाय वै नमः ।

नमोऽस्तु बुद्धदेवाय कल्किने च नमोनमः १३।

नमोऽस्तु रामदेवाय विष्णुदेवाय ते नमः ।

नमः सर्वात्मने तुभ्यं शि रइत्यभिपूजयेत् ।

केशवादीनि नामानि तैर्वा संपूजयेद्धरिम् १४।

वनस्पतिरसो दिव्यः सुरभिर्गंधवाञ्छुचिः ।

धूपोऽयं देवदेवेश नमस्ते प्रतिगृह्यताम् १५ ।धूपमंत्रः ।

दीपस्तमो नाशयति दीपः कांतिं प्रयच्छति ।

तस्माद्दीपप्रदानेन प्रीयतां मे जनार्दनः १६। दीपमंत्रः ।

नैवेद्यमिदमन्नाद्यं देवदेव जगत्पते ।

लक्ष्म्या सह गृहाण त्वं परमामृतमुत्तमम् १७। नैवेद्यमंत्रः ।

अर्घ्यं दद्यात्ततो भक्त्या एवं ध्यात्वा जनार्दनम् ।

फलेन चैव हस्तेन शंखेनादाय चोदकम् १८।

जन्मांतरसहस्रेण यन्मया पातकं कृतम् ।

तत्सर्वं नाशमायातु प्रसादात्तव केशव १९। इति अर्घमंत्रः ।

ततः कुंभं नवं शुभ्रं घृतपूर्णं समानयेत् ।

लक्ष्मीनारायणस्याग्रे तैलपूर्णमथापि वा २०।

तस्योपरि न्यसेत्पात्रं ताम्रं मृन्मयमेव च ।

नवतंतुसमां वर्तिं तस्मिन्पात्रे तु निर्वपेत् २१।

ततः प्रबोधयेद्दीपं स्थाप्य कुंभं सुनिश्चलम् ।

पुष्पगंधादिभिः पूज्य ततः संकल्पयेच्छुचिः २२।

मंत्रेणानेन देवर्षे असमीरेषु धामसु ।

कामो भूतस्य भव्यस्य सम्राडेको विराजते २३।

दीपः संवत्सरं यावत्मयायं परिकल्पितः ।

अग्निहोत्रमविच्छिन्नं प्रीयतां मम केशव २४।

ततो जितेंद्रियो भूत्वा श्रुतिज्ञानपरायणः ।

नालपेत्पतितान्पापांस्तथा पाखण्डिनो नरान् २५।

रात्रौ जागरणं गीतं नृत्यवाद्यादिकैस्तथा ।

पुण्यपाठैश्च विविधैर्धर्माख्यानैरुपोषणैः २६।

ततः प्रभातसमये कृतपूर्वाह्णिक क्रियः ।

ब्राह्मणान्भोजयेद्भक्त्या यथाशक्त्या प्रपूजयेत् २७।

स्वयं च पारणं कृत्वा प्रणिपत्य विसर्जयेत् ।

एवं संवत्सरं यावदहोरात्रं दृढव्रतः २८।

दीपं पलसुवर्णेन तदर्द्धार्द्धेन वा पुनः ।

वर्तिस्तु राजती प्रोक्ता द्विपलार्द्धार्द्धिकापि वा २९।

घृतपूर्णं तथा कुंभं ताम्रपात्रसमन्वितम् ।

लक्ष्मीनारायणो देवो यथाशक्त्या हिरण्मयः ३०।

कार्यो भक्तिमता पुंसा मुक्तिद्वारमभीप्सता ।

ततो निमंत्रयेद्विद्वान्ब्रह्मणान्साधुसत्तमान् ३१।

द्वादशोत्तमपक्षे तु विप्रान्षण्मध्यमे तथा ।

अन्यथा कारयेत्त्रीन्वा एकं कर्मकरं द्विजम् ३२।

सपत्नीकं द्विजं शांतं क्रियावंतं विशेषतः ।

इतिहासपुराणज्ञं धर्मज्ञं मृदुमेव च ३३।

पितृभक्तं गुरुपरं देवब्राह्मणपूजकम् ।

पादार्घदानविधिना वस्त्रालंकारभूषणैः ३४।

संपूज्य पत्न्या सहितमेकं भक्त्या च पूर्ववत् ।

लक्ष्मीनारायणं देवं दीपवर्तियुतं तथा ३५।

ताम्रपात्रोपरिस्थाप्य घृतकुंभेन संयुतम् ।

ब्राह्मणाय ततो दद्याद्ध्यात्वा नारायणं परम् ।

मंत्रेणानेन देवर्षे तमहं कथयामि ते ३६।

अविद्या तमसा व्याप्ते संसारे पापनाशनः ।

ज्ञानप्रदो मोक्षदश्च तस्माद्दत्तो मयानघ ३७।

इति दीपमंत्रः ।

दक्षिणां च यथाशक्त्या दत्त्वा विप्राय भक्तितः ।

भोजयेद्ब्राह्मणान्पश्चाद्घृतपायसमोदकैः ३८।

वस्त्रैराच्छादयेत्पश्चात्सपत्नीकं तथा द्विजम् ।

शय्यां सोपस्करां दद्याद्धेनुं चैव सवत्सकाम् ३९।

तेभ्यस्तु दक्षिणां दद्याद्यथावित्तानुसारतः ।

सुहृत्स्वजनबंधूश्च भोजयेत्पूजयेत्तथा ४०।

एवं महोत्सवं कुर्याद्दीपव्रत समापने ।

ततो विसर्जयेत्पश्चात्प्रणिपत्य क्षमापयेत् ४१।

एवं कृते तु यत्पुण्यं तथा सांक्रांतिकैश्च यत् ।

संवत्सराख्य दीपस्य तत्फलं प्राप्यते नरैः ४२।

मासव्रतैश्च यत्पुण्यं तत्पुण्यं प्राप्यते नरैः ।

संवत्सरस्य दीपस्य व्रतेन चरितेन च ४३।

दानव्रतैर्यथासंख्यैर्यश्च योगव्रतैस्तथा ।

तत्फलं समवाप्नोति दीपे सांवत्सरे कृते ४४।

गोभूहिरण्यदानानि गृहादीनां विशेषतः ।

यत्फलं लभते विद्वान्तत्फलं दीपदो भवेत् ४५।

दीपदः कांतिमाप्नोति दीपदो धनमक्षयम् ।

दीपदो ज्ञानमाप्नोति दीपदः परमं सुखम् ४६।

दीपदानाच्च सौभाग्यं विद्यामत्यंतनिर्मलाम् ।

आरोग्यं परमामृद्धिं लभते नात्र संशयः ४७।

दीपदः सुभगां भार्यां सर्वलक्षणसंयुताम् ।

पुत्रान्पौत्रान्प्रपौत्रांश्च संततिं चाक्षया लभेत् ४८।

ब्राह्मणः परमं ज्ञानं क्षत्रियो राज्यमुत्तमम् ।

वैश्यो धनपशून्सर्वाञ्छूद्रः सुखमवाप्नुयात् ४९।

कुमारी चापि भर्तारं सर्वलक्षणसंयुतम् ।

प्राप्नोति परमायुश्च पुत्रान्पौत्रांश्च पुष्कलान् 6.30.५०।

वैधव्यं नैव युवती कदाचिदपि पश्यति ।

न वियोगमवाप्नोति दीपदानप्रभावतः ५१।

नाधयो व्याधयश्चैव जायंते दीपदानतः ।

भयात्प्रमुच्यते भीतो बद्धो मुच्येत बंधनात् ५२।

ब्रह्महत्यादिभिः पापैर्दीपव्रतपरायणः ।

मुच्यते नात्र संदेहो ब्रह्मणो वचनं यथा ५४।

चांद्रायणानि कृच्छ्राणि चरितानि न संशयः ।

येन सांवत्सरो दीपो बोधितः शाश्वतो हरेः ५५।

ते धन्यास्ते महात्मानस्तैः प्राप्तं जन्मनः फलम् ।

यैः संपूज्य हरिं भक्त्या दीपःसांवत्सरः कृतः ५६।

येऽपि संवर्त्तयंतीह दीपवर्तिविलोकनाः ।

ते यांति परमं स्थानं यत्सुरैरपि दुर्लभम् ५७।

येन तैलं च वर्तिं च यथाशक्त्या प्रदीपके ।

प्रक्षेपयंति सततं ते यांति परमां गतिम् ५८।

गच्छंतं दीपकं शांतिं न शक्नोति प्रबोधितुम् ।

कथयत्यन्यलोकानां तेऽपि तत्फलभागिनः ५९।

स्तोकं स्तोकं च भिक्षित्वा तैलं दीपार्थमेव च ।

करोति दीपकं विष्णोः पुण्यं तेनापि लभ्यते ६०।

दीपं प्रज्वाल्यमानं तु यः पश्यत्यधमो नरः ।

कृतांजलिपुटो विष्णोर्विष्णुलोकमवाप्नुयात् ६१।

दीपप्रज्वालने बुद्धिं यो दद्यात्कुरुते स्वयम् ।

सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ६२।

अत्राप्युदाहरंतीममितिहासं पुरातनम् ।

यस्य श्रवणमात्रेण मुच्यते सर्वकिल्बिषैः ६३।

सरस्वत्यास्तटे रम्ये सिद्धाश्रम इति श्रुतः ।

तत्रोवास द्विजः पूर्वं कपिलो नाम वेदवित् ६४।

व्रतोपवासनिरतो दरिद्र श्रोःत्रियस्तथा ।

भिक्षावृत्त्या च कुरुते कुटुंब परिपालनम् ६५।

व्रतोपवासनियमैर्विष्णुमाराधयत्यसौ ।

विष्णुं संपूज्य विधिवद्दीपं बोधयते सदा ६६।

समादाय च तत्तैलं स्वगृहे पूज्य केशवम् ।

दीपं भक्त्या च परया बोधयेद्धरितुष्टये ६७।

एवं प्रवर्त्तमानस्य कपिलस्य महात्मनः ।

मार्जारस्तीक्ष्णंदंष्ट्रस्तु मूषकान्भक्षयेत्सदा ६८।

तत्रागच्छति भक्ष्यार्थं मूषकानामहर्निशम् ।

कृत्वा ध्यानं स भक्ष्यार्थं नित्यं नारायणाग्रतः ६९।

भक्षिता बहवस्तेन मूषका द्विजवेश्मनि ।

ये ये तैलार्थमायांति वर्त्यपाहरणाय च ७०।

तांस्तांस्तु भक्षयत्येव मूषकान्ध्यानतत्परः ।

एवं प्रवर्तमानस्य कदाचित्कालपर्ययात् ७१।

एकादश्यां स कपिलो ब्राह्मणः स्वगृहे शुचिः ।

सोपवासः सपत्नीकः पूजयामास चाच्युतम् ७२।

ततो जागरणं चक्रे स्तुतिनृत्यपरायणः ।

अर्द्धरात्रे तु संप्राप्ते निद्रया मोहितो द्विजः ७३।

मार्जारश्चागतस्तत्र तीक्ष्णदंष्ट्रो लघुक्रमः ।

लक्षयामास नैवेद्यं गृहकोणे स्थितः सदा ७४।

अद्राक्षीन्मूषिकां क्षुद्रा तैलपानार्थमागताम् ।

मंदतेजसि दीपे तु वर्त्यपाहरणोचिताम् ७५।

समुत्पत्य पदाक्रम्य तदा सा बिलमाविशत् ।

तस्याः पादेन वै वर्त्या दीपः संबोधितो भृशम् ७६।

तैलपात्रं च नमितं सुप्रकाशोऽभवत्तदा ।

ब्राह्मणोऽपि जजागार त्यक्त्वा निद्रां विमोहिनीम् ७७।

मार्जारोऽपि च तां रात्रीमजाग्रच्चाखुभक्षकः ।

ततः प्रभाते विमले कृत्वा नित्यक्रियां द्विजः ७८।

ततश्च पारणं चक्रे विप्रो बंधुजनैः सह ।

एवं प्रवर्त्तमानस्य कपिलस्य महात्मनः ७९।

बभूवुः पुत्रपौत्राश्च धनधान्यमनुत्तमम् ।

आरोग्यं परमामृद्धिमवाप महतीं श्रियम् ८०।

दीपव्रतप्रभावेन कपिलो मोक्षमागतः ।

संभेद्य मंडलं पुण्यं सवितुः शशिनस्तथा ८१।

दीपज्योतिःस्वरूपेण परमात्मा नियुक्तवान् ।

मूषिकापि च कालेन ममार बिलमध्यतः ८२।

विमानवरमासाद्य विष्णुलोकं जगाम सा ।

मार्जारोऽपि च कालांते मृतः स्वर्गं जगाम सः ८२।

विमानवरमारुह्य देवगंधर्वसेवितम् ।

अप्सरोभिः परिवृतो विद्याधरगणैर्युतः ८३।

स्तूयमानो महातेजा जयशब्दादि मंगलैः ।

स्तूयमानः स वै नागैर्विष्णुलोकं जगाम सः ८४।

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।

भुक्त्वा च विपुलान्भोगान्ततो राजाभवद्भुवि ८५।

सुधर्मा नाम धर्मात्मा देवब्राह्मणपूजकः ।

रूपवान्सुभगश्चैव महाबलपराक्रमः ८६।

तस्य प्रियतमा भार्या सर्वलक्षणसंयुता ।

भर्तृभक्ता तथा शीला नाम्ना सा रूपसुंदरी ८७।

सर्वासां चैव नारीणां मध्ये सा सुभगाभवत् ।

पुत्राश्च बहवो जातास्तथा दुहितरो घनाः ८८।

एवं विहरतोस्तद्वद्दंपत्योः प्रीतिपूर्वकम् ।

आगतः कार्त्तिको मासो हरिनेत्रावबोधकृत् ८९।

तस्मिन्दीपाः प्रबोध्यंते नारायणपरायणैः ।

कृच्छ्रचांद्रायणादीनि व्रतानि नियमास्तथा ९०।

क्रियंते विष्णुभक्तैश्च संसारभयभीरुभिः ।

अथ प्रबोधिनीं प्राप्य राजा राज्ञीमथाब्रवीत् ९१।

भद्रे प्रबोधिनी पुण्या विष्णोर्नाभिसरोरुहे ।

करिष्याम्यद्य पूजां च सोपवासो जितेंद्रियः ९२।

स्नात्वा च पुष्करे तीर्थे पुंडरीकाक्षमच्युतम् ।

पूजयिष्यामि देवेशं लक्ष्म्या सह जनार्दनम् ९३।

इति सा वांछितं श्रुत्वा भर्तुः प्रियहिते रता ।

उवाच वचनं गुह्यं भर्त्तारं चारुहासिनी ९४।

रूपसुंदर्युवाच-

ममापि हृदये कामः समुत्पन्नो नराधिप ।

रूपसौंदर्यवांछा च हृदये मम वर्त्तते ९५।

पुष्करं प्रथमं तीर्थं गंतुमिच्छे त्वया सह ।

ततो राजा तया सार्द्धमागतः पुष्करं तदा ९६।

हस्त्यश्वरथवृंदैश्च समागत्य पुरोहितैः ।

ततः स्नात्वा तथा ध्यायन्तर्पयन्पितृदेवताः ९७।

पूजयामास देवेशं पुंडरीकाक्षमच्युतम् ।

दीपमालाकुले तत्र सर्वतः सुमनोहरे ९८।

ददर्श लिखितं तत्र मार्जारं देवतालये ।

तं दृष्ट्वा प्राकृतं कर्म जन्म स्मृत्वा नृपस्तदा ९९।

मुखपंकजमालोक्य प्रियायाः प्रजहास च ।

रूपसुंदर्युवाच-

मम सन्मुखमालोक्य भर्तः किं स्मितकारणम् 6.30.१००।

कथयामास हृष्टात्मा प्राक्तनं कर्मणः फलम् ।

राजोवाच-

अहमासं पुरा देवि मार्जारो ब्राह्मणालये १०१।

भक्षिता मूषकास्तत्र मया शतसहस्रशः ।

ततो नारायणस्याग्रे दीपः संरक्षितो यतः १०२।

व्याजेनापि मया देविप्राप्तं तत्कर्मणः फलम् ।

विष्णुलोकमनुप्राप्य राज्यं प्राप्तं मयाधुना १०३।

रूपसुंदर्युवाच-।

ममापि स्मरणं जातं प्राकृतस्य च जन्मनः ।

मूषिका चाहमप्यासं क्षुद्रा ब्राह्मणवेश्मनि १०४।

कार्तिके च प्रबोधिन्यां मंदीभूते च दीपके ।

वर्त्यग्राहरणार्थाय निर्गताहं तदा बिलात् १०५।

दृष्ट्वा नारायणं देवं पूजितं कुसुमैस्तथा ।

निद्राभिभूतं विप्रं च वर्त्तिः कृष्टा मया तदा १०६।

उत्थितस्त्वं यदा तत्र मां गृहीतुं कृतक्षणः ।

दृष्ट्वा त्वं च प्रणष्टाहं प्रविष्टा बिलमध्यतः १०७।

विशंत्या मम पादेन दीपवर्त्तिर्विजृंभिता ।

तैलपात्रं च नमितं तेनाहं सुखभागिनी १०८।

तन्मया राजराजेंद्र दीपं चैव प्रकाशितम् ।

इदानीं च मया प्राप्तं रूपलावण्यमुत्तमम् १०९।

त्वं च भर्त्ता तथा राज्यं पुत्राश्चैवंविधं सुखम् ।

दीपप्रबोधनाज्जातं ज्ञानमत्यंत दुर्ल्लभम् ११०।

तस्मात्सर्वप्रयत्नेन दीपव्रतमनुत्तमम् ।

आवां हि परया भक्त्या कुर्वश्चैव विशेषतः १११।

तदेतत्कर्मणः प्राप्तं फलं राज्यादिसंपदः ।

पूर्वजन्मस्मृतं चापि सर्वपापक्षयस्तथा ११२।

तस्मात्सर्वप्रयत्नेन विधिमंत्रादिपूर्वकम् ।

दीपव्रतं कृतं पुंभिः पुण्यं चंद्रार्कतारकम् ११३।

इति श्रुत्वा वचो राजा चक्रे दीपव्रतं तदा ।

प्रियया सह देवर्षे सम्यक्श्रद्धासमन्वितः ११४।

तस्मिंस्तु पुष्करे तीर्थे कृत्वा दीपव्रतं तु तौ ।

अवापतुः परां मुक्तिं देवदानवदुर्ल्लभाम् ११५।

एतद्दीपस्य माहात्म्यं ये शृण्वंति नरा भुवि ।

सर्वपापविनिर्मुक्ताः प्रयांति हरिमंदिरम् ११६।

ये च कुर्वंति पुरुषाः स्त्रियो वा भक्तितत्पराः ।

ते सर्वे पापनिर्मुक्ता यांति ब्रह्मसनातनम् ११७।

दीपव्रतमिदं विद्वन्कथितं ते विमुक्तिदम् ।

सर्वसौख्यप्रदं धन्यं महाव्रतमिदं तव ११७।

नेत्ररोगा विनश्यंति यथा पापप्रभावजाः ।

आधयो व्याधयः सर्वे नश्यंते हि कृतेक्षणात् ११८।

न दारिद्र्यं न शोकं च न मोहो न च विभ्रमः ।

गृहे लक्ष्मीः समायाति जन्मजन्मनि वाडव ११९।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे दीपव्रतमाहात्म्यंनाम त्रिंशोऽध्यायः ३०।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 31

नारद उवाच-

देवदेव जगन्नाथ भक्तानामभयप्रद ।

व्रतं ब्रूहि महादेव कृपां कृत्वा ममोपरि १।

श्रीमहादेव उवाच-

सार्वभौमः पुरा ह्यासीद्धरिश्चंद्रो महीपतिः ।

तस्यतुष्टोऽददद्ब्रह्मा पुरीं कामदुघां शुभाम् २।

सर्वरत्नमयीं दिव्यां बालार्कसदृशप्रभाम् ।

तत्र स्थितो महीपालो सप्तद्वीपां वसुंधराम् ३।

पालयामास धर्मेण पिता पुत्रमिवौरसम् ।

प्रभूतधनधान्यस्तु पुत्रदौहित्रवान्नृपः ४।

स पालयन्शुभं राज्यं परं विस्मयमागतः ।

न तादृशमभूत्पूर्वं राज्यं कस्य हि कर्हिचित् ५।

न चेदृशं नरैरन्यैर्विमानमधिरोहितम् ।

कस्येह कर्मणो व्यष्टिर्येनाहं सुरराडिव ६।

इति चिंतापरो भूत्वा विमानवरमास्थितः ।

ददर्श पार्थिववरो मेरुं शिखरिणां वरम् ७।

तत्रास्ते च महात्मासौ द्वितीय इव भास्करः ।

आसीनं पर्वतवरे शैलपट्टे हिरण्मये ८ ।

सनत्कुमारं ब्रह्मर्षिं ज्ञानयोगपरायणम् ।

दृष्ट्वा ह्यवातरद्राजा प्रष्टुकामोऽथ विस्मयम् ९।

ववंदे चरणौ हृष्टस्तेनापि स च नंदितः ।

सुखोपविष्टस्तु नृपः पप्रच्छ मुनिपुंगवम् १०।

भगवन्दुर्ल्लभा लोके संपच्चेयं यथा मम ।

कर्मणा केन लभ्येत कश्चाहं पूर्वजन्मनि ११।

तत्त्वं कथय मे सर्वमनुग्राह्योऽस्मि ते यदि ।

सनत्कुमार उवाच-।

शृणु राजन्प्रवक्ष्यामि पूर्ववृत्तस्य कारणम् १२।

येन कृत्वा विशेषेण तव चानुग्रहोऽभवत् ।

त्वमासीः पूर्वजनुषि सुवैश्यः सत्यवाक्शुचिः १३।

स्वं कर्म ते परित्यक्तं ततस्त्यक्तस्तु बांधवैः ।

सत्वं वृत्तिपरिक्षीणो भार्ययानुगतस्तथा १४।

निर्गतः स्वजनांस्त्यक्त्वा परप्रेषणलिप्सया ।

न च प्रेषणदो ह्यासीत्काले दुर्भिक्षपीडितः १५।

ततः कदाचिद्गहने सरश्चोत्फुल्लपंकजम् ।

दृष्ट्वा तत्र कृतो भावो गृह्णीवः पंकजानि वै १६।

एतावदुक्त्वा पुष्पाणि तान्यादाय पदे पदे ।

आस्थितौ नगरीं पुण्यां नाम्ना वाराणसीं शुभाम् १७।

ततो विक्रयतः कश्चिनैव गृह्णाति पंकजम् ।

तन्मठान्निर्गतः कश्चित्तत्रैव प्रांगणे स्थितः १८।

तत्र स्थाने प्रविशता श्रुतो वादित्रनिस्वनः ।

कस्मिंश्च श्रूयते ह्येष वादित्रस्य च निस्वनः १९।

इति पृष्टे तदा तूर्ये तेनोक्ते प्रस्थितोंतरम् ।

काशिराजस्तु विख्यात इंद्रद्युम्नस्तु पार्थिवः २०।

तस्यास्ति दुहिता ख्याता नाम्ना चंद्रावती सती ।

उपोषिता महाभागा जयंतीमष्टमीं शुभाम् २१।

तत्रागतोऽसौ वैश्यस्तु यत्र तिष्ठति सा शुभा ।

संतुष्टचित्तः स तदा हर्षस्तत्रागतो महान् २२।

तत्र स्थाने त्वया दृष्टो देव वैतानिको विधिः ।

आदित्यसहितो यत्र पूज्यते भगवान्हरिः २३।

तद्भक्त्या च त्वया पत्न्या सह पुष्पार्चनं कृतम् ।

शेषैस्तु प्रकरस्तत्र कृतः पुष्पमयस्तथा २४।

तं दृष्ट्वा विस्मिता साह केनेहाभ्यर्चनं कृतम् ।

ज्ञात्वा तत्कर्मतत्सर्वं कृतं संरक्षणं तथा २५।

ततस्तुष्टा तु सा तुभ्यं ददौ वित्तं बहुस्वयम् ।

त्वया वित्तं नो गृहीतं भोजनायानुमंत्रितः २६।

न गृहीतं भोजनं च न च वित्तं त्वया तदा ।

आदित्यो विष्णुसंयुक्तः पूजितोऽसौ यथाविधि २७।

ततः प्रभातसमये रक्षमाणस्तया सदा ।

विश्रंभयित्वा तान्सर्वान्निर्गतोऽसि यथेच्छया २८।

तदेतदन्यजनुषि सुकृतं चार्जितं त्वया ।

पंचत्वं च त्वया प्राप्तं स्वीयकर्मानुयोगतः २९।

तेन पुण्येन महता विमानमागमत्तदा ।

तत्फलं भुज्यते भूप पूर्वजन्मकृतं च यत् ३०।

हरिश्चंद्र उवाच-

केनैव च विधानेन कस्मिन्मासे च सा तिथिः ।

कर्त्तव्या तन्ममाचक्ष्व अनुग्राह्योऽस्मि ते यदि ३१।

सनत्कुमार उवाच-

शृणुष्वावहितो राजन्कथ्यमानं मया तव ।

श्रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप ३२।

रोहिणी यदि लभ्येत जयंती नाम सा तिथिः ।

भूयोभूयो महाराज भवेज्जन्मनि कारणम् ३३।

विधानमस्या वक्ष्यामि यथोक्तं ब्रह्मणा मम ।

यत्कृत्वा मुक्तपापस्तु विष्णुलोकं प्रगच्छति ३४।

उपोषितस्ततः कृत्वा स्नानं कृष्णतिलैः सह ।

स्थापयेदव्रणं कुंभं पंचरत्नसमन्वितम् ३५।

वज्रमौक्तिकवैडूर्य पुष्परागेंद्रनीलकम् ।

पंचरत्नं प्रशस्तं तु इति कात्यायनोऽब्रवीत् ३६।

तस्योपरि न्यसेत्पात्रं सौवर्णं लक्षणान्वितम् ।

सौवर्णां विन्यसेत्तत्र यशोदां नंदगेहिनीम् ३७।

ददमानां तु पुत्रस्य स्तनं वै विस्मिताननाम् ।

पिबमानं स्तनं मातुरपरं पाणिना स्पृशत् ३८।

आलोक्य मातरं प्रेम्णा सुखयंतं मुहुर्मुहुः ।

सौवर्णं कारयेद्देवं यावच्छक्तिश्च विद्यते ३९।

द्वि निष्कमात्रं कर्तव्यं यदि शक्तिश्च विद्यते ।

त्रिलोहेनैव कर्तव्यं सौवर्णेनाथवा पुनः ४०।

thumb|अङ्गुलिविन्यासः2

thumb|अङ्गुलिविन्यासः4

thumb|अङ्गुलिविन्यास5

thumb|अङ्गुलिविन्यास6

तद्वच्च रोहिणीं कुर्यात्सौवर्णी राजतः शशी ।

अंगुष्ठमात्रस्तु शशी रोहिणी चतुरंगुला ४१।

कर्णयोः कुंडले दद्यात्कंठाभरणकं गले ।

एवं कृत्वा तु गोविंदं मात्रासार्द्धं जगत्पतिम् ४२।

क्षीरादिस्नपनं कृत्वा चंदनेनानुलेपयेत् ।

श्वेतवस्त्रयुगच्छत्रं पुष्पमालोपशोभितम् ४३।

नैवेद्यैर्विविधैर्भक्षैः फलैर्नानाविधैरपि ।

दीपं च कारयेत्तत्र पुष्पमंडपशोभितम् ४४।

गीतं नृत्यं च वाद्यं च कारयेद्भक्तिमान्बुधैः ।

एवं कृत्वा विधानं तु यथाविभवसारतः ।

गुरुं संपूजयेत् पश्चात्पूजां तत्र समापयेत् ४५।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे जन्माष्टमीव्रतंनाम एकत्रिंशोऽध्यायः ३१।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 32

महादेव उवाच-

दृष्ट्वा शतक्रतुं सिद्धं समाप्तवरदक्षिणम् ।

मघवा जातसंकल्पः पर्यपृच्छद्बृहस्पतिम् १।

भगवन्केन दानेन सर्वतः सुखमेधते ।

यदक्षयं महार्घं च तन्मे ब्रूहि महातपः २।

एवमिंद्रेण चोक्तोऽसौ देवदेवः पुरोहितः ।

प्रहस्य तं महाप्राज्ञो बृहस्पतिरुवाचह ३।

हिरण्यदानं गोदानं भूमिदानं च वासव ।

एतत्प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते ४।

सुवर्णं रजतं वस्त्रं मणिरत्नं च वासव ।

सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ५।

फालकृष्टां महीं दत्वा सबीजां सस्यमालिनीम् ।

यावत्सूर्यकृतालोकस्तावत्स्वर्गेमहीयते ६।

यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्षितः ।

अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ७।

दशहस्तेन दंडोऽत्र त्रिंशद्दंडानि वर्तनम् ।

दशतान्येव गोचर्म्म ब्रह्मगोचर्मलक्षणम् ८।

सवृषं गोसहस्रं तु यत्र तिष्ठत्ययंत्रितम् ।

बालवत्सप्रसूतानां तद्गोचर्म इति स्मृतम् ९।

विप्राय दद्याच्च गुणान्विताय तपोयुताय प्रजितेंद्रियाय ।

यावन्मही तिष्ठति सागरांता तावत्फलं तस्य भवेदनंतम् १०।

यथाप्सु पतितः शक्र तैलबिंदुः प्रसर्पति ।

एवंभूमिकृतं दानं सस्ये सस्ये प्रसर्पति ११।

यथाबीजानि रोहंति प्रचीर्णानि महीतले ।

एवं कामान्प्ररोहंति भूमिदानसमन्विताः १२।

अन्नदाः सुखिनो नित्यं वस्त्रदो रूपवान्भवेत् ।

स नरः सर्वदो भूयो यो ददाति वसुंधराम् १३।

यथा गौर्भरते वत्सं क्षीरमुत्सृज्य क्षीरिणी ।

एवं दत्ता सहस्राक्ष भूमिर्भरति भूमिदम् १४।

शंखो भद्रासनं छत्रं वराश्ववरवारणाः ।

भूमिदानस्य पुण्यस्य फलं स्वर्गः पुरंदर १५।

आदित्यो वरुणो वह्निर्ब्रह्मा सोमो हुताशनः ।

शूलपाणिश्च भगवानभिनंदंति भूमिदम् १६।

आस्फोटयंति पितरो वर्णयंति पितामहाः ।

भूमिदाता कुले जातः स नस्त्राता भविष्यति १७।

त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती ।

नरकादुद्धरंत्येते जपवापनदोहनात् १८।

दुर्गतिं तारयंत्येते विद्वद्भिर्विप्रधारणैः ।

प्रावृता वस्त्रदा यांति नग्ना यान्तित्ववस्त्रदाः १९।

तृप्ता यांत्यन्नदातारः क्षुधिता यांत्यनन्नदाः ।

कांक्षंति पितरः सर्वे नरकाद्भयभीरवः २०।

गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ।

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् २१।

यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।

लोहितो यस्तु वर्णेन पुच्छाग्रे यस्तु पांडुरः २२।

श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ।

नीलः पांडुरलांगूलस्तोयमुद्धरते तु यः २३।

षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिताः ।

यच्च शृंगगतं पंकं कुलं तिष्ठति चोद्धृतम् २४।

पितरस्तस्य चाश्नंति सोमलोकं महाद्युतिम् ।

आसीद्राज्ञो दिलीपस्य नृगस्य नहुषस्य च २५।

अन्येषां तु नरेंद्राणां पुनरन्यो न गच्छति ।

बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः २६।

यस्य यस्य यदा भूमिस्तस्यतस्य तदा फलम् ।

ब्रह्मघ्नो वाथ स्त्रीहंता बालघ्नः पतितोऽथवा २७।

गवां शतसहस्राणि हंता तत्तस्यदुःष्कृतम् ।

स्वदत्तां परदत्तां वा यो हरेत्तु वसुंधराम् २८।

स च विष्ठाकृमिर्भूत्वा पितृभिः सह पच्यते ।

षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः २९।

प्रहर्ता चानुमंता च तावद्वै नरकं व्रजेत् ।

भूमिदाद्भूमिहर्तुश्च नापरः पुण्यपापवान् ३०।

उर्द्ध्वाधस्तौ च तिष्ठेते यावदाभूतसंप्लवम् ३१।

अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुतास्तु गावः ।

तेषांमनंतं फलमश्नुवीत यः कांचनं गां च महीं च दद्यात् ३२।

भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति ।

उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ३३।

अन्यायेन हृता भूमिर्यैर्नरैरपहारिता ।

हरंतो हारयंतश्च हन्युस्ते सप्तमं कुलम् ३४।

हरेद्धारयते यस्तु मंदबुद्धिस्तमोवृतः ।

स बद्धो वारुणैः पाशैस्तिर्यग्योनिषु जायते ३५।

अश्रुभिः पतितैस्तेषां दानानामवकीर्त्तनम् ।

ब्राह्मणस्य हृते क्षेत्रे हतं त्रिपुरुषं कुलम् ३६।

वापीकूपसहस्रेण अश्वमेधशतेन च ।

गवांकोटिप्रदानेन भूमिहर्ता न शुद्ध्यति ३७।

कृतं दत्तं तपोऽधीतं यत्किंचिद्धर्मसंस्थितम् ।

अर्द्धांगुलस्य सीमाया हरणेन प्रणश्यति ३८।

गोतीर्थं ग्रामरथ्यां च श्मशानग्राममेव च ।

संपीड्य नरकं याति यावदाभूतसंप्लवम् ३९।

पंचकन्यानृते हंति दश हंति गवानृते ।

शतमश्वानृते हंति सहस्रं पुरुषानृते ४०।

हंति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।

सर्वं भूम्यनृते हंति मास्म भूम्यनृतं वद ४१।

ब्रह्मस्वे नो रतिं कुर्यात्प्राणैः कंठगतैरपि ।

अग्निदग्धाः प्ररोहंति ब्रह्मदग्धो न रोहति ४२।

अग्निदग्धाः प्ररोहंति सूर्यदग्धास्तथैव च ।

राजदंडहताश्चैव ब्रह्मशापहता हताः ४३।

ब्रह्मस्वेन च पुष्टानि अंगानि च मुहुर्महुः ।

कार्यकालेविशीर्यंते सिकताभि तपो यथा ४४।

ब्रह्मस्वहरणं कुर्वन्नरो यातीह रौरवम् ।

न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ४५।

विषमेकाकिनं हंति ब्रह्मस्वं पुत्रपौत्रिकम् ।

लोहचूर्णं चाश्मचूर्णं विषं संजरयेन्नरः ४६।

ब्रह्मस्वं त्रिषु लोकेषु कः पुमान्जरयिष्यति ।

ब्रह्मस्वेन तु यत्सौख्यं देवस्वेन तु या रतिः ४७।

तद्धनं कुलनाशाय भवत्यात्मविनाशनम् ।

ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य तु यद्धनम् ४८।

गुरुमित्रहिरण्यं च स्वर्गस्थमपि पीडयेत् ।

श्रोत्रियाय कुलीनाय दरिद्राय च वासव ४९।

संतुष्टाय विनीताय सर्वस्वसहिताय च ।

वेदाभ्यास तपो ज्ञानेंद्रियसंयमशालिने 6.32.५०।

ईदृशाय सुरश्रेष्ठ यद्दत्तं हि तदक्षयम् ।

आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु ५१।

भिनत्ति पात्रं दौर्बल्यान्न च पात्रं विनश्यति ।

एवं गां च हिरण्यं च वस्त्रमन्नं मही तिलान् ५२।

अविद्वान्प्रतिगृह्णाति भस्मीभवति काष्ठवत् ।

यस्तडागं नवं कुर्यात्पुराणं वापि खानयेत् ५३।

सर्वं कुलं समुद्धृत्य स्वर्गलोके महीयते ।

वापीकूपतडागानि उद्यानप्रभवानि च ५४।

पुनर्नीतानि संस्कारं ददते मौक्तिकं फलम्।

निदाघकाले पानीय यस्य तिष्ठति वासव ५५।

स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुयात् ।

एकाहं तु स्थितं तोयं पृथिव्यां देवसत्तम ५६।

कुलानि तारयेत्तस्य सप्तसप्त परानपि ।

दीपालोकप्रदानेन वपुष्मान्स भवेन्नरः ५७।

दक्षिणायाः प्रदानेन स्मृतिं मेधां च विंदति ।

कृत्वापि पातकं कर्म यो दद्यादनुसंधिने ५८।

ब्राह्मणाय विशेषेण न स पापैर्हि लिप्यते ।

भूमेर्गावस्तथादासः प्रसह्य प्रहृता यदा ५९।

न निवेदयते यस्तु तमाहुर्ब्रह्मघातकम् ।

उपस्थिते विवाहे च यज्ञे दाने च वासव ६०।

मोहाच्चरति विघ्नं यः स मृतो जायते कृमिः ।

धनं फलति दानेन जीवितं जीवरक्षणात् ६१।

रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते ।

फलमूलाशनात्पूजां स्वर्गः सत्येन लभ्यते ६२।

प्रायोपवेशनाद्राज्यं सर्वत्र सुखमश्नुते ।

सुखाट्यः शक्रदीक्षायां सुगामी च तृणाशनः ६३।

रूपी त्रिषवणस्नायी वायुं पीत्वा क्रतुं लभेत् ।

नित्यस्नायी भवेद्दक्षः संध्यावेदजपान्वितः ६४।

अहिंस्रो याति वैराज्यं नाकपृष्ठमनाशकम् ।

अग्निप्रवेशी नियतं ब्रह्मलोके महीयते ६५।

रसानां प्रतिसंहारे पशून्पुत्रांश्च विंदति ।

नाके चिरं स वसति उपवासी च यो भवेत् ६६।

सततं भूमिशायी यः स लभेदीप्सितां गतिम् ।

वीरासनं वीरशयं वीरस्थानमुपासतः ६७।

अक्षयास्तस्यलोकाः स्युः सर्वकामगमास्तथा ।

उपवासं च दीक्षां च अभिषेकं च वासव ६८।

कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ।

पावनं चरते धर्मं स्वर्गलोके महीयते ६९।

बृहस्पतिमतं पुण्यं ये पठंति द्विजोत्तमाः ।

तेषां चत्वारि वर्द्धंते आयुर्विद्यायशोबलम् ७०।

नारद उवाच-

इतींद्राय बृहस्पतिप्रणीतं धर्मशास्त्रकम् ।

मह्यं भक्ताय संप्रोक्तं महेशेनाखिलं नृप ७१।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे धर्मकथने द्वात्रिंशोऽध्यायः ।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 33

नारद उवाच-

शनिपीडा कथं याति तन्मे वद सुरोत्तम ।

त्वन्मुखाच्छ्रूयते यद्वै तेन जंतुः प्रमुच्यते १।

महादेव उवाच-

देवर्षे शृणु वृत्तांतं तेन मुच्येत बंधनात् ।

ग्रहाणां ग्रहराजोऽयं सौरिः सर्वमहेश्वरः २।

अयं तु देवो विख्यातः कालरूपी महाग्रहः ।

जटिलो वज्ररोमा च दानवानां भयंकरः ३।

तस्याख्यानं च लोकेऽस्मिन्प्रथितं नास्ति वै प्रभो ।

मया गुप्तं विशेषेण नोक्तं हि कस्यचित्कदा ४।

रघुवंशेऽति विख्यातो राजा दशरथः पुरा ।

चक्रवर्ती महावीरः सप्तद्वीपाधिपोऽभवत् ५।

कृत्तिकांते शनिं ज्ञात्वा दैवज्ञैर्ज्ञापितो हि सः ।

रोहिणीं भेदयित्वा च शनिर्यास्यति सांप्रतम् ६।

शाकटं भेदमत्युग्रं सुरासुरभयंकरम् ।

द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम् ७।

एतच्छ्रुत्वा ततो वाक्यं मंत्रिभिः सह पार्थिवः ।

मंत्रयामास किमिदं भयंकरमुपस्थितम् ८।

आकुलं च जगद्दृष्ट्वा पौरजानपदादिकम् ।

ब्रुवंति सर्वतो लोकाः क्षय एष समागतः ९।

देशाः सनगरा ग्रामा भयभीताः समंततः ।

पप्रच्छ प्रयतो राजा वसिष्ठप्रमुखान्द्विजान् १०।

संविधानं किमत्रास्ति ब्रूत मां हि द्विजोत्तमाः ११।

वसिष्ठ उवाच-

प्राजापत्यमृक्षमिदं तस्मिन्भिन्ने कुतः प्रजाः ।

अयं योगोह्यसाध्यस्तु ब्रह्मशक्रादिभिस्तथा १२।

इति संचिंत्य मनसा साहसं परमं महत् ।

समादाय धनुर्दिव्यं दिव्यायुधसमन्वितम् १३।

रथमारुह्य वेगेन गतो नक्षत्रमंडलम् ।

सपादं योजनं लक्षं सूर्यस्योपरि संस्थितम् १४।

रोहिणीपृष्ठमास्थाय राजा दशरथः पुरा ।

रथे तु कांचने दिव्ये मणिरत्नविभूषिते १५।

हंसवर्णहयैर्युक्ते महाकेतुसमुच्छ्रये ।

दीप्यमानो महारत्नैः किरीटमुकुटोज्ज्वलः १६।

बभ्राज स तदाकाशे द्वितीय इव भास्करः ।

आकर्णपूर्णा चापे तु संहारास्त्रं न्ययोजयत् १७।

संहारास्त्रं शनिर्दृष्ट्वा सुरासुरभयंकरम् ।

हसित्वा तद्भयात्सौरिरिदं वचनमब्रवीत् १८।

शनिरुवाच -

पौरुषं तव राजेंद्र परं रिपुभयंकरम् ।

देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः १९।

मया विलोकिता राजन्भस्मसाच्च भवंतिते ।

तुष्टोऽहं तव राजेंद्र तपसा पौरुषेण च ।

वरं ब्रूहि प्रदास्यामि मनसा यत्किमिच्छसि २०।

दशरथ उवाच-

रोहिणीं भेदयित्वा तु न गंतव्यं कदाचन ।

सरितः सागरा यावत्यावच्चंद्रार्कमेदिनी २१।

याचितं तु मया सौरे नान्यमिच्छामि ते वरम् ।

एवमस्तु शनिः प्राह वरं दत्त्वा तु शाश्वतम् २२।

पुनरेवाब्रवीत्तुष्टो वरं वरय सुव्रत ।

प्रार्थयामास हृष्टात्मा वरमन्यं शनेस्तदा २३।

न भेत्तव्यं हि शकटं त्वया भास्करनंदन ।

द्वादशाब्दं तु दुर्भिक्षं न कर्तव्यं कदाचन २४।

शनिरुवाच-

द्वादशाब्दं तु दुर्भिक्षं न कदाचिद्भविष्यति ।

कीर्तिरेषा त्वदीया च त्रैलोक्ये विचरिष्यति २५।

वरद्वयं तु संप्राप्य हृष्टरोमा च पार्थिवः ।

रथोपरि धनुर्मुक्त्वा भूत्वा चैव कृताञ्जलि २६।

ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम् ।

राजा दशरथः स्तोत्रं सौरेरिदमथाब्रवीत् २७।

दशरथ उवाच-

नमः कृष्णाय नीलाय शितिकंठनिभाय च ।

नमः कालाग्निरूपाय कृतांताय च वै नमः २८।

नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च ।

नमो विशालनेत्राय शुष्कोदरभयाकृते २९।

नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः ।

नमो दीर्घाय शुष्काय कालदंष्ट्र नमोस्तु ते ३०।

नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः ।

नमो घोराय रौद्राय भीषणाय कपालिने ३१।

नमस्ते सर्वभक्षाय वलीमुख नमोस्तु ते ।

सूर्यपुत्र नमस्तेस्तु भास्करे भयदाय च ३२।

अधोदृष्टे नमस्तेस्तु संवर्तक नमोस्तु ते ।

नमो मंदगते तुभ्यं निस्त्रिंशाय नमोस्तु ते ३३।

तपसा दग्धदेहाय नित्यं योगरताय च ।

नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ३४।

ज्ञानचक्षुर्नमस्तेस्तु कश्यपात्मजसूनवे ।

तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ३५।

देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ।

त्वया विलोकिताः सर्वे नाशं यांति समूलतः ३६।

प्रसादं कुरु मे देव वरार्होऽहमुपागतः ।

एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः ३७।

अब्रवीच्च पुनर्वाक्यं हृष्टरोमा तु भास्करिः ।

तुष्टोऽहं तव राजेंद्र स्तवेनानेन सुव्रत ।

वरं ब्रूहि प्रदास्यामि स्वेच्छया रघुनंदन ३८।

दशरथ उवाच-

अद्यप्रभृति ते सौरे पीडा कार्या न कस्यचित् ।

देवासुरमनुष्याणां पशुपक्षिसरीसृपाम् ३९।

शनिरुवाच-

गृह्णंतीति ग्रहाः सर्वे ग्रहाः पीडाकराः स्मृताः ।

अदेयं याचितं राजन्किंचिद्युक्तं वदाम्यहम् ४०।

त्वया प्रोक्तमिदं स्तोत्रं यः पठिष्यति मानवः ।

एककालं द्विकालं वा पीडामुक्तो भवेत्क्षणात् ४१।

देवासुरमनुष्याणां सिद्धविद्याध्ररक्षसाम् ।

मृत्युं मृत्युगतो दद्यां जन्मन्यंते चतुर्थके ४२।

यः पुनः श्रद्धया युक्तः शुचिर्भूत्वा समाहितः ।

शमीपत्रैः समभ्यर्च्य प्रतिमां लोहजां मम ४३।

माषौदनतिलैर्मिश्रं दद्याल्लोहं च दक्षिणाम् ।

कृष्णां गां वृषभं वापि यो वै दद्याद्दिवजातये ४४।

मद्दिने तु विशेषेण स्तोत्रेणानेन पूजयेत् ।

पूजयित्वा जपेत्स्तोत्रं भूत्वा चैव कृतांजलि ४५।

तस्य पीडा न चैवाहं करिष्यामि कदाचन ।

गोचरे जन्मलग्ने वा दशास्वंतर्दशासु च ४६।

रक्षामि सततं तस्य पीडां चापि ग्रहस्य च ।

अनेनैव विधानेन पीडामुक्तं जगद्भवेत् ४७।

एवं युक्त्या मया दत्तो वरस्ते रघुनंदन ।

वरत्रयं तु संप्राप्य राजा दशरथस्तदा ४८।

मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम् ।

शनिना चाभ्यनुज्ञातो रथमारुह्य वेगवान् ४९।

स्वस्थानं गतवान्राजा प्राप्तः श्रेयोऽभवत्तदा ।

य इदं प्रातरुत्थाय शनिवारे स्तवं पठेत् 6.33.५०।

पठ्यमानमिदं स्तोत्रं श्रद्धया यः शृणोति च ।

नरः स मुच्यते पापात्स्वर्गलोके महीयते ५१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे- उमापतिनारदसंवादे दशरथकृतशनिस्तोत्रंनाम त्रयस्त्रिंशोऽध्यायः ३३।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 34

नारद उवाच-

त्रिस्पृशाख्यं व्रतं ब्रूहि सर्वेश्वर विशेषतः ।

यच्छ्रुत्वा मुच्यते लोकः कर्मबंधनतः क्षणात् १।

महादेव उवाच-

सर्वपापौघशमनं महादुःखविनाशनम् ।

शृणु कृष्णावतारं त्वं त्रिस्पृशाख्यं महाव्रतम् २।

कामदं सस्पृहाणां तु निस्पृहाणां तु मोक्षदम् ।

त्रिस्पृशाख्यं व्रतं विप्र शृणुष्व गदतो मम ३।

प्रत्यक्षमर्चितस्तेन कलिकाले च केशवः ।

त्रिस्पृशा कीर्तनं नित्यं यः करोति महामुने ४।

न पुरश्चरणे चीर्णे सर्वपापक्षयो भवेत् ।

त्रिस्पृशा नाममात्रेण क्षीयते नात्र संशयः ५।

नागमैर्न पुराणाद्यैर्न मखैस्तीर्थकोटिभिः ।

बहुभिर्व्रतसंघैश्च पूजितैस्त्रिदशैरपि ६।

मोक्षो भवति विप्रेन्द्र त्रिस्पृशा न कृता यदि ।

मोक्षार्थे देवदेवेन दृष्टा वै वैष्णवी तिथिः ७।

द्विजानां दुर्विदं सांख्यं कलिकाले विशेषतः ।

अनिग्रहश्चेंद्रियाणां स्थिरत्वं मनसो नहि ८।

विषयैर्विप्रयुक्तानां ध्यानधारणवर्जिनाम् ।

कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी ९।

मह्यं चैव पुरा प्रोक्ता चतुर्वक्त्रस्य सागरे ।

क्षीरोदे प्रणतानां तु मत्स्यरूपेण चक्रिणा १०।

त्रिस्पृशां ये करिष्यंति विषयैरपि संयुताः ।

तेषामपि मया दत्तो मोक्षः सांख्यविवर्जिनाम् ११।

कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी ।

बहुभिर्मुनिसंघैश्च कृतेयं च महामुने १२।

कार्त्तिके शुक्लपक्षे तु त्रिस्पृशा जायते यदि ।

सोमेन सोमजेनापि पापकोटिविनाशिनी १३।

यस्या उपोषणकृतो हत्यायुक्त महेशितुः ।

हस्ताद्ब्रह्मकपालं तु तत्क्षणात्पतितं भुवि १४।

कलिकल्मषकोट्यौघैर्मुक्ता देवी त्रिमार्गगा ।

उपदेशान्माधवस्य त्रिस्पृशा समुपोषणात् १५।

हत्याष्टौ बाहुवीर्यस्य पूर्वजाता महामुने ।

गता भृगूपदेशेन त्रिस्पृशा समुपोषणात् १६।

शतायुधेन विप्रेंद्र निहतो ब्राह्मणो वने ।

ब्रह्महत्याविनिर्मुक्तः त्रिस्पृशा समुपोषणात् १७।

जीवोपदेशाच्छक्रस्य हत्या नमुचिसंभवा ।

विनष्टा मुनिमुख्येन्द्र त्रिस्पृशा समुपोषणात् १८।

ब्रह्महत्यादि पापानि त्रिस्पृशासमुपोषणात् ।

विलयं यांति विप्रेंद्र पापेष्वन्येषु का कथा १९।

न प्रयागे न काश्यां तु गोमत्यां कृष्णसंनिधौ ।

मोक्षो भवति विप्रेंद्र त्रिस्पृशा यदि नो कृता २०।

मरणाच्च प्रयागे तु गोमत्यां कृष्णसन्निधौ ।

स्नानमात्रेण गोमत्यां मुक्तिर्भवति शाश्वती २१।

गृहेपि जायते मुक्तिस्त्रिस्पृशा समुपोषणात् ।

विषये वर्त्तमानस्य कामभोगान्वितस्य च २२।

निवृत्तविषयस्यापि मुक्तिः सांख्येन दुर्ल्लभा ।

तस्मात्कुरुष्व विप्रेंद्र त्रिस्पृशां मोक्षदायिनीम् २३।

नारद उवाच-

कीदृशं तत्सुरश्रेष्ठ त्रिस्पृशाख्यं महाव्रतम् ।

मुक्तिदं यद् द्विजातीनां त्वया प्रोक्तं ममाधुना २४।

महादेव उवाच-

जाह्नव्यै सा पुरा विप्र त्रिस्पृशा माधवेन तु ।

प्राची सरस्वती तीरे कथिता त्वनुकंपया २५।

जाह्नव्युवाच-

कलिकल्मष कोट्यौघैर्ब्रह्महत्यादिकैर्युताः ।

कलिकाले हृषीकेश स्नानं कुर्वंति मज्जले २६।

तेषां पापशतैर्दोषैर्देहो मे कलुषी कृतः ।

कथं यास्यति मे देव पातकं गरुडध्वज २७।

प्राचीमाधव उवाच-।

कथयामि न संदेहो मा पुत्रि रोदनंकुरु ।

श्यामोवटस्तु मे स्थानं प्राचीदेवी ममाग्रतः २८।

वहते ब्रह्मतनया दृष्ट्वाग्रे च सुरेश्वरीम् ।

स्नानं कुरुष्व नित्यं त्वं त्वत्र पूता भविष्यसि २९।

यत्र ब्रह्मसुता प्राची तत्राहं नात्र संशयः ।

तीर्थकोटिशतैर्युक्तः सुरैः सह वसाम्यहम् ३०।

पवित्रं मत्प्रियं स्थानं हत्याकोटिविनाशनम् ।

संतुष्टेन मया दत्तं यस्मात्प्राणाधिकासि मे ३१।

तीर्थकोटिसहस्राणि नित्यं तिष्ठंति जाह्नवि ।

प्राचीसरस्वती तोये सर्वदैव ममाज्ञया ३२।

ब्रह्मवधात्सुरापानात्गोधवाद्वृषलीवधात् ।

ब्रह्मस्वहरणादेव मातापित्रोस्त्वपूजनात् ३३।

चक्रियानाद्गुरुद्रोहादभक्ष्यस्य च भक्षणात् ।

सर्वपापस्य करणात्प्राची ब्रह्मसुता सुते ३४।

व्यपोहयति पापानि सकृत्स्नानेन मेऽग्रतः ।

कुरु स्नानं सरिच्छ्रेष्ठे विपापा त्वं भविष्यसि ३५।

जाह्नव्युवाच-

नाहं शक्नोमि देवेश आगंतुं नित्यमेव हि ।

कथं नश्यंति पापानि कथयस्वेह माधव ३६।

प्राचीमाधव उवाच-

न शक्नोषि यदागंतुं नित्यमेव हि जाह्नवि ।

तदान्यत्संप्रवक्ष्यामि यस्मान्मत्पादसंभवा ३७।

सरस्वत्यधिका या च तीर्थकोटिशताधिका ।

मखकोट्यधिका वापि व्रतदानाधिका च या ३८।

जपहोमाधिका या च चतुर्वर्गफलप्रदा ।

सांख्ययोगाधिका या च त्रिस्पृशा क्रियतां शुभा ३९।

यस्मिन्मासे समायाति सिता च यदि वासिता ।

कर्तव्या सा सरिच्छ्रेष्ठे कृते पापात्प्रमुच्यते ४०।

जाह्नव्युवाच-।

कीदृशी त्रिस्पृशा देव ममाख्याहि सुमाधव ।

ईदृशो महिमा यस्यास्त्वया प्रोक्तो ममाधुना ४१।

दशम्येकादशीभद्रा दिनैकस्मिन्यदा भवेत् ।

त्रिस्पृशा सा भवेद्देव वान्यथा वद मे प्रभो ४२।

कृष्ण उवाच-।

आसुरी त्रिस्पृशा देवी या त्वया परिकीर्तिता ।

वर्जनीया प्रयत्नेन वृत्तिहीनो यथा पतिः ४३।

असुराणां तु सा प्रोक्ता आयुर्बलविनाशिनी ।

वर्जनीया प्रयत्नेन यथा नारी रजस्वला ४४।

स्वजातिं च परित्यज्य या गताधमजातिषु ।

सैव त्याज्यं विशेषेण दशमीयुक्तं हि मद्दिनम् ४५।

यथा रजस्वलासंगाद्दूष्यंते ज्ञानवर्जिताः ।

तथैव दशमीयुक्तं मद्दिनं दूषितं नृणाम् ४६।

हत्यायुतशतं हंति त्रिस्पृशा समुपोषिता ।

एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ४७।

त्रिस्पृशा सा तु विज्ञेया दशमीसहिता न हि ।

कृत्वापराधं मुच्येत प्रायश्चित्ते कृते नरः ४८।

दशमीवेधजं दोषं न क्षमामि सुरापगे ।

भुक्तं हालाहलं तेन विषस्य भक्षणं कृतम् ४९।

दशमीमिश्रितं येन कृतमेकादशीव्रतम् ।

इति मत्वा न कर्त्तव्यं मद्दिनं दशमीयुतम् 6.34.५०।

जन्मकोटिकृतंपुण्यं संतानं याति संक्षयम् ।

पातयेत्स्वकुलं स्वर्गान्नयते रौरवादिकम् ५१।

स्वदेहं शोधयित्वा तु कर्त्तव्यो मम वासरः ।

वृद्धौ त्याज्या विना वेधाच्छ्रवणादिषु संयुता ५२।

जन्मपुण्यं क्षयं याति एकादश्युपवासिनाम् ।

संवृद्धौ तु विशेषेण संदेहे समुपस्थिते ५३।

ममाज्ञया च कर्त्तव्या द्वादशीवल्लभा मम ५४।

जाह्नव्युवाच-

करिष्येऽहं जगन्नाथ त्रिस्पृशां वचनात्तव ।

सर्वपापविनिर्मुक्ता भविष्यामि तवाज्ञया ५५।

श्रीकृष्ण उवाच-

स्वस्थानं गच्छ भद्रं ते न भीः कार्या कदाचन ।

तव देवि सरिच्छ्रेष्ठे न पापं संक्रमिष्यति ५६।

स्नात्वा सरस्वतीतोये येऽर्चयित्वा च माधवम् ।

प्रणमंति जगन्नाथं ते यांति परमां गतिम् ५७।

जाह्नव्युवाच-।

विधानं ब्रूहि मे ब्रह्मन्सर्वस्वेन करोम्यहम् ।

प्रसादयामि देवेशं दामोदरमनामयम् ५८।

प्राचीमाधव उवाच-।

शृणु देवि प्रवक्ष्यामि त्रिस्पृशाया विधानकम् ।

यं श्रुत्वापि सरिच्छ्रेष्ठे मुच्यते पातकैर्नरः ५९।

पलेन च पलार्धेन तदर्द्धेनापि वापगे ।

प्रतिमा मम सौवर्णा कार्या विभवसारतः ६०।

पात्रं ताम्रमयं कार्यं तिलैस्तु परिपूरितम् ।

सजलं तु घटं शुभ्रं पंचरत्नसमन्वितम् ६१।

वेष्टितं पुष्पमालाभिः कर्पूरागुरुवासितम् ।

न्यसेद्दामोदरं पश्चात्स्नापयित्वा विलिप्य च ६२।

परिधानं ततः कार्यं वस्त्रयुग्मेन चान्वितम् ।

मंत्रैस्तु पूजनं कार्यं पुराणैः समुदीरितैः ।

पुष्पैः कालोद्भवैः शुभ्रैस्तुलसीपत्रैश्च कोमलैः ६३।

छत्रं तु विष्णवे दद्यात्पादुकाभ्यां सुसंयुतम् ।

निवेद्यानि मनोज्ञानि फलानि सुबहून्यपि ६४।

उपवीतं तु दातव्यं सोत्तरीयं नवं दृढम् ।

वैणवं दापयेद्दंडं सुरूपं सोन्नतं दृढम् ६५।

दामोदराय वै पादौ जानुनी माधवाय च ।

गुह्यं कामप्रदायेति कटिं वामनमूर्तये ६६।

पद्मनाभाय नाभिं तु जठरं विश्वयोनये ।

हृदयं ज्ञानगम्याय कंठं वैकुंठगामिने ६७।

सहस्रबाहवे बाहू चक्षुषी योगरूपिणे ।

संपूज्य विधिवद्भक्त्या दद्यादर्घं विधानतः ६८।

शुभ्रेण नालिकेरेण शंखोपरि स्थितेन हि ।

सूत्रैरावेष्टितेनैव हस्तयोरुभयोरपि ६९।

स्मृतो हरसि पापानि यदि नित्यं जनार्दन ।

दुःस्वप्नं दुर्निमित्तानि मनसा दुर्विचिन्विता ७०।

नारकं तु भयं देव भयदुर्गतिसंभवम् ।

यन्मम स्यान्महादेव ऐहिकं पारलौकिकम् ७१।

तेन देवेश मां रक्ष गृहाणार्घं नमोस्तु ते ।

कृपादृष्टिः सदैवास्तु दामोदर ममोपरि ७२।

धूपं दीपं च नैवेद्यं कुर्यान्नीराजनं ततः ।

शीर्षोपरि सरिच्छ्रेष्ठे भ्रामयेद्वारिजं हरेः ७३।

कृत्वा विधानमेतद्धि पूजयेत्स्वगुरुं ततः ।

दद्यात्सुवर्णं वस्त्राणि सोष्णीषं चैव कंचुकम् ७४।

उपानहोऽपि छत्रं च मुद्रिकां च कमंडलुम् ।

भोजनं चैव तांबूलं सप्तधान्यं च दक्षिणाम् ७५।

गुरुं संपूज्य देवेशं कुर्याज्जागरणं हरेः ।

गीतनृत्यसमायुक्तं तथा शास्त्रसमन्वितम् ७६।

निशांते चैव देवाय दत्वा चार्घं विधानतः ।

स्नानादिकां क्रियां कृत्वा भुंजीयाद्वाडवैः सह ७७।

शिव उवाच-

द्विजैतत्त्रिस्पृशाख्यानमद्भुतं रोमहर्षणम् ।

श्रुत्वा तु लभते पुण्यं गंगां स्नानसमुद्भवम् ७८।

अश्वमेधसहस्राणि वाजपेयशतानि च ।

तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात् ७९।

पितृपक्षो मातृपक्षस्तथा चैवात्मपक्षकः ।

तैः सर्वैः सह संमुक्तो विष्णुलोके महीयते ८०।

तीर्थकोटिषु यत्पुण्यं क्षेत्रकोटिषु यत्फलम् ।

तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात् ८१।

ब्राह्मणा येऽपि कुर्वंति क्षत्रियाः कृष्णमानसाः ।

वैश्या वा शूद्रजन्मानो ये तथा चान्यजातयः ८२।

ते सर्वे मुक्तिमायांति भुवं त्यक्त्वा द्विजोत्तम ।

मंत्राणां मंत्रराजोऽथ यथा स्याद्द्वादशाक्षरः ८३।

व्रतानां च यथा चैषा येन वै त्रिस्पृशा कृता ।

ब्रह्मणा च कृता पूर्वं पश्चाद्राजर्षिभिः कृता ८४।

अन्येषां का कथा वत्स त्रिस्पृशा मुक्तिदायिनी ।

अनेन विधिना ब्रह्मंस्त्रिस्पृशासंभवं व्रतम् ८५।

यः करोति नरो भक्त्या शृणु वक्ष्यामि तत्फलम् ।

गंगावगाहने ब्रह्मन्वाराणस्यां तु यत्फलम् ८६।

मन्वंतरसहस्रैस्तु त्रिस्पृशाकारको हि तत् ।

प्राची च यमुना स्नाने वर्षैर्यत्कोटिभिः फलम् ८७।

तत्फलं समवाप्नोति त्रिस्पृशाव्रतकृन्नरः ।

तत्फलं तु कुरुक्षेत्रे सूर्यग्रहणकोटिभिः ८८।

हेमभारशतैर्दानैस्त्रिस्पृशाकरणेन तत् ।

पापकोटिसहस्राणि हत्याकोटिशतानि च ८९।

एकेनैवोपवासेन क्रियते भस्मसाद्द्रुतम् ।

त्रिस्पृशाया व्रतं यत्तु अगतीनां गतिप्रदम् ९०।

गतिमिच्छंति विप्रर्षे महत्पापशतानि च ।

स्वयं कृष्णेन कथितं पाराशर्यस्य चाग्रतः ९१।

प्रकाशयति यश्चेदं लिखित्वा वैष्णवं द्विजे ।

पापोघैर्ग्रथितस्यापि तस्य मुक्तिर्भविष्यति ९२।

पुण्यैरवाप्यते विद्वन्मन्वंतरशतैरपि ।

त्रिस्पृशा दुर्लभा लोके प्राप्यते नैव मानवैः ९३।

कलौ ये त्रिस्पृशां लब्ध्वा न कुर्वंति नराधमाः ।

तेषां जन्मफलं चैव जीवितं विफलं भवेत् ९४।

प्रेतत्वं तैः समुत्तीर्णं विना श्राद्धैर्विना सुतैः ।

कृता यैस्त्रिस्पृशा विद्वन्सकृत्प्राप्य कलौ युगे ९५।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे त्रिस्पृशाख्यानंनाम चतुस्त्रिंशोऽध्यायः ३४।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 35

महादेव उवाच-

अतस्त्वां संप्रवक्ष्यामि उन्मीलनीमनुत्तमाम् ।

यस्याः श्रवणमात्रेण जन्मसंसारबंधनात् १।

पापात्मा मुच्यते पापैः स्वर्गलोके महीयते ।

देवताः पितरश्चैव तस्या गतिमवाप्नुयुः २।

विद्यार्थी लभते विद्यां सर्वकामानवाप्नुयात् ।

तस्या व्रतान्न संदेहः स्वर्गलोके महीयते ३।

स्वस्थानं तत्र वै प्राप्तः शिवलोके महीयते ।

अतस्त्वं कुरुषे राजन्वैष्णवानां तु पूजनम् ४।

वैष्णवानां तु ये राजन्सेवा कुर्वंति नित्यशः ।

तेषां दंडं च कुरुषे नो वा तेषां नराधिपः ५।

भोजनानंतरं तेषां भोजनं कुरुते नृप ।

तैरेव पूजितो विष्णुर्यैर्भक्त्या तु प्रपूजितः ६।

शालग्रामशिलाभूतां दत्त्वा मूर्द्धनि प्रत्यहम् ।

त्वं धारयसि भूपाल कंठे नित्यं सुभक्तितः ७।

धूपशेषं तु वै विष्णोर्भक्त्या भजसि भूपते ।

आरार्तिकं सदा कृत्वा भक्तानां वेदयेर्नृप ८।

शंखोदकं हरेर्मूर्ध्नि भ्रामयित्वा तु भक्तितः ।

नित्यं बिभर्षि शिरसि शेषं यच्छसि वैष्णवान् ९।

नैवेद्यं प्रत्यहं कृत्वा सर्वोपस्करसंयुतम् ।

विष्वक्सेनाय दत्वा वै स्वयं भुनक्षि वाडव १०।

विष्णोर्निवेदितं चान्नं वैष्णवैः सह भुज्यते ।

नित्यं नामसहस्रेण भक्त्या स्तौषि जनार्दनम् ११।

दीपार्घदानं वै विष्णोः कुरुषे गीतनर्तनम् ।

श्यामांकुरैः पूजयसे पूज्यंते नृपसत्तम १२।

श्यामांकुरैः सदा वत्स पूजनं चाति दुर्ल्लभम् ।

पृथ्वीदानसमं पुण्यं दूर्वया पूजने कृते १३।

अतो वै नास्ति लोकेऽस्मिन्दूर्वायाः सदृशं भुवि ।

तया वै पूजनं कार्यं विष्णुसायुज्यमिच्छता १४।

अतस्त्वं कुरुषे नित्यं पूजनं दूर्वया सह ।

यवाक्षतैर्विशेषेण पूजनं कुरुषेन वा १५।

पक्षेपक्षे नृपश्रेष्ठ विधिवद्द्वादशीव्रतम् ।

यत्कृतं तु महाराज महापापप्रणाशनम् १६।

मोक्षदं सुखदं चैव तथायुष्यप्रदं सदा ।

एतद्विष्णुव्रतं प्रोक्तं वैष्णवानां तु मोक्षदम् १७।

गृहस्थानां तु सुखदं यतीनां मुक्तिदायकम् ।

सर्वरोगादिशमनं पवित्रं कायशोधनम् १८।

व्रतमेतच्च कुरुषे नो वा चैव नराधिप ।

दशमीवेधरहितं कुरुषे जागरान्वितम् १९।

तुलसीपत्रनिकरैर्नित्यं पूजयसे हरिम् ।

गोपीचंदनजं पत्रं भाले वा नृपसत्तम २०।

धारितं सर्वलोकानां पवित्रीकरणं नृप ।

अतस्त्वं च धारयसे गोपीचंदनसंभवम् २१।

ब्रह्महा हेमहारी च मद्यपानी तथैव च ।

अगम्यगो महापापी तथा ह्यनृतभाषितः २२।

ते सर्वे मुक्तिमायांति तिलकं धारणादृताः ।

बिभर्षि कंठे नित्यं त्वं धात्रीफलसमुद्भवाम् २३।

मालां मुख्यायुतसमां तुलसीपत्रसंभवाम् ।

शालग्रामशिलायुक्तां द्वारकायां समुद्भवाम् २४।

नित्यं पूजयसे भूप भुक्तिमुक्तिफलप्रदाम् ।

पद्मसंज्ञं पुराणं वै पठसे पुरतो हरेः २५।

चरितं दैत्यराज्यस्य प्रह्लादस्य च भूपते ।

वासरं वासुदेवस्य सवेधं कुर्वतो नरान् २६।

निवारयसि भूपाल शास्त्रं दृष्ट्वा प्रयत्नतः ।

सवेधं वासरं विष्णोर्यस्मिन्राष्ट्रे प्रवर्तते २७।

लिप्यते तेन पापेन राजा भवति नारकी ।

वेधं चतुर्विधं त्यक्त्वा समुपोष्य हरेर्दिनम् ।

कुलकोटिं समुद्धृत्य विष्णुलोके महीयते २८।

गौतम उवाच-

शृणु भूपाल वक्ष्यामि वैष्णवाख्यं महाव्रतम् ।

यं श्रुत्वा पापिनः सर्वे मुक्तिमायांति तत्क्षणात् २९।

द्वादशीसंभवं पुण्यं मया ख्यातं न कस्यचित् ३०।

वैष्णवोऽसि महाराज भक्तो भागवते नृणाम् ।

वैष्णवं तु महागुह्यं तद्व्रतं त्वं निशामय ३१।

उन्मीलनी नाम पुरा भक्त्या मे माधवेन तु ।

कथिता सुप्रसन्नेन तां ते भूप वदाम्यहम् ३२।

एकादशी अहोरात्रं प्रभाते घटिका भवेत् ।

उन्मीलनी तु सा ज्ञेया विशेषेण हरिप्रिया ३३।

त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च ।

कोट्यंशे नैव तुल्यानि मखा वेदास्तपांसि च ३४।

उन्मीलनी समं किंचिन्न भूतं न भविष्यति ।

प्रयागो न कुरुक्षेत्रं न काशी न च पुष्करः ३५।

शैलो हिमाचलो नैव न मेरुर्गंधमादनः ।

शैलो न नीलनिषधो न विंध्यो नैव नैमिषम् ३६।

गोदावरी न कावेरी चंद्रभागा न वेदिका ।

न तापी न पयोष्णी च न क्षिप्रा नैव चंदना ३७।

चर्मण्वती च सरयूश्चंद्रभागा न गंडिका ।

गोमती च विपाशा च शोणाख्यश्च महानदः ३८।

किमत्र बहुनोक्तेन भूयोभूयो नराधिप ।

उन्मीलनीसमं किंचिन्न देवः केशवात्परः ३९।

उन्मीलनीमनु प्राप्य यैः कृतं केशवार्चनम् ।

पापचक्रसमूहस्य राशयः पतिताः क्षणात् ४०।

यस्मिन्मासे महीपाल तिथिरुन्मीलनी भवेत् ।

तन्मासनाम्ना गोविंदः पूजनीयः प्रयत्नतः ४१।

जातरूपमयः कार्यं मासनाम्ना तु माधवः ।

स्वशक्त्या विश्वरूपस्तु श्रद्धाभक्तिसमन्वितः ४२।

पवित्रोदकसंयुक्तं पंचरत्नसमन्वितम् ।

गंधपुष्पाक्षतैर्युक्तं कुंभं स्रग्दामभूषितम् ४३।

पात्रं च सोदकं कार्यं गोधूमैश्चापि पूरितम् ।

नानारत्नैश्च संयुक्तं नानागंधैः प्रपूजितम् ४४।

मल्लिकामोदसंयुक्तं जातीपुष्पैः प्रपूजितम् ।

श्वेताख्यैस्तंदुलैश्चैव पूरणीयः प्रयत्नतः ४५।

प्रदद्याद्वस्त्रयुग्मं तु उपवीतं तु सोत्तरम् ।

उपानहौ तु राजर्षे आतपत्रं शिरोपरि ४६।

भोजनं जलपात्रं च सप्तधान्यं तिलैः सह ।

रूप्यं चैव तु कार्पासं पायसं मुद्रिका हरेः ४७।

धेनुर्वात्र तु दातव्या वत्सालंकारसंयुता ।

सुवर्णशृंगी रौप्यखुरी ताम्रपृष्ठी तथैव च ४८।

कांस्यदोहीं रत्नपुच्छीं दद्याद्वै गुरवे तदा ।

शय्यां सोपस्करां दद्यात्साधवे भक्तिपूर्वकम् ४९।

धूपं दीपं तु नैवेद्यं फलपत्रं निवेदयेत् ।

पूजनीयो महाभक्तैर्मंत्रैरेभिस्तु केशवः 6.35.५०।

तुलसीपत्रसंयुक्तैः पुष्पैः कालोद्भवैस्तथा ।

मासनाम्नैव चरणौ जानुनी विष्णुरूपिणे ५१।

गुह्ये तु गुह्यपतये कटे वै पीतवाससे ।

ब्रह्ममूर्तिभृते नाभावुदरे विश्वयोनये ५२।

हृदये ज्ञानगम्याय कंठे वैकुंठमूर्तये ।

ऊर्द्ध्वगाय ललाटे तु बाहौ दक्षांतकारिणे ५३।

उत्तमांगे सुरेशाय सर्वांगे सर्वमूर्तये ।

स्वनाम्ना चायुधादीनि पूजनीयानि भक्तितः ५४।

अर्घदानं प्रकर्तव्यं नालिकेरादिभिः समम् ।

शंखोपरि जले कृत्वा गंधपुष्पाक्षतान्वितम् ५५।

सूत्रेणावेष्टितं कृत्वा दद्यादर्घं विधानतः ।

देवदेव महादेव श्रीकेशव जनार्दन ५६।

सुब्रह्मण्य नमस्तेऽस्तु पुण्यराशिविवर्धन ।

शोकमोहमहापापान्मामुद्धर भवार्णवात् ५७।

सुकृतं न कृतं किचिज्जन्मकोटिशतैरपि ।

तथापि मां महास्वामिन्मामुद्धर भवार्णवात् ५८।

व्रतेनानेन देवेश ये चान्ये मम पूर्वजाः ।

वियोनिं च गताश्चान्ये पापमृत्युवशं गताः ५९।

ये भविष्यंति येऽतीताः प्रेतलोकान्समुद्धर ।

श्रांतोस्म्यहमधीनस्य भक्तिरव्यभिचारिणी ६०।

दत्तमर्घं मया तुभ्यं भक्त्या गृह्ण गदाधर ।

दत्वार्घं धूपदीपाद्यैर्नैवेद्यैर्विष्णुसंभवैः ६१।

स्तोत्रैर्नीराजनैर्गीतैर्भृत्यैः संतोषयेद्धरिम् ।

वस्त्रैर्दानैश्च गोदानैर्भोजनैस्तोषयेद्गुरुम् ६२।

तथातथा विधातव्यं गुरुर्वै प्रीतिमाप्नुयात् ।

लोकानां तारणार्थाय धात्रा सृष्टो गुरुर्यतः ६३।

अतो वै गुरुपूजा च कर्त्तव्या वै प्रयत्नतः ।

अहितं यो नाशयति स्वहितं दर्शयेत्सदा ६४।

स गुरुः स च विज्ञेयः सर्वधर्मार्थकोविदः ।

अकुर्वन्वित्तशाठ्यं तु गुरवे तं निवेदयेत् ६५।

गुरोर्निवेदिते भूप परिपूर्णं भवेद्व्रतम् ।

कृत्वा दिवातनं कर्म भोजनं ब्राह्मणैः सह ६६।

कर्त्तव्यं नृपशार्दूल दिनं नेयं कथानकैः ।

अनेन विधिना यस्तु कुर्यादुन्मीलनीव्रतम् ६७।

कल्पकोटिसहस्राणि वसते विष्णुसन्निधौ ६८।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे उन्मीलनीव्रतंनाम पंचत्रिंशोऽध्यायः ३५।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 36

नारद उवाच-

कीदृशी स्यान्महादेव पक्षवर्द्धनिसंज्ञका ।

यया वै कृतया जंतुर्महपापात्प्रमुच्यते १।

श्रीमहादेव उवाच-

अमा वा यदि वा पूर्णा संपूर्णा जायते तदा ।

भूत्वा वै नाडिकाषष्ठिर्जायते प्रतिपद्दिने ।

अश्वमेधायुतैस्तुल्या सा भवेत्पक्षवर्द्धिनी २।

नारद उवाच-

पूजाविधिं तु पृच्छामि सांप्रतं देवसत्तम ।

यत्कृते तु महादेव महाफलमवाप्नुयात् ३।

महादेव उवाच-

पूजाविधिं प्रवक्ष्यामि सांप्रतं द्विजनंदन ।

पूजिते चार्चिते विष्णौ फलं प्राप्नोत्यसंशयः ४।

येन पूजाविधानेन तुष्टिं प्राप्नोति माधवः ।

अव्रणं जलपूर्णं च कुंभं चंदनचर्चितम् ५।

पंचरत्नसमायुक्तं पुष्पमालाभिवेष्टितम् ।

स्थाप्यं ताम्रमयं पात्रं सगोधूमं घटोपरि ६।

सौवर्णं कारयेद्देवं माससंज्ञाभिनामकम् ।

पंचामृतेन विधिना स्नपनं सुमनोरमम् ७।

कारयेद्देवदेवेशं जगन्नाथं जगत्पतिम् ।

विलेपनं तु कर्त्तव्यं कुंकुमागरुचंदनैः ८।

वस्त्रयुग्मं च दातव्यं छत्रोपानहसंयुतम् ।

पूजयेद्देवताधीशं कुंभपात्रोपरिस्थितम् ९।

पद्मनाभाय वै पादौ जानुनी विश्वमूर्त्तये ।

ऊरू वै ज्ञानगम्याय कटी दानप्रदाय च १०।

उदरं विश्वनाथाय हृदयं श्रीधराय च ।

कंठं कौस्तुभकंठाय बाहू क्षत्रांतकारिणे ११।

ललाटं व्योममूर्ध्ने तु शिरो वै सर्वरूपिणे ।

स्वनाम्ना चैव कमलां सर्वांगीं दिव्यरूपिणीम् १२।

एवं विधिवत्संपूज्य ततोऽर्घं दापयेत्सुधीः ।

नालिकेरेण शुभ्रेण देवदेवस्य चक्रिणः १३।

अनेनैवार्घदानेन संपूर्णं जायते व्रतम् ।

संसारार्णवमग्नं मां समुद्धर जगत्पते १४।

त्वमीशः सर्वलोकानां त्वं साक्षाच्च जगत्पतिः ।

गृहाणार्घं मया दत्तं पद्मनाभ नमोस्तु ते १५।

नैवेद्यानि सुहृद्यानि षड्रसानि विशेषतः ।

देयानि तु विशेषेण केशवाय सुभक्तितः १६।

नागपत्रं सकर्पूरं दद्याद्देवस्य भक्तितः ।

घृतेन दीपकं कुर्यात्तिलतैलेन वा पुनः १७।

कृत्वा सम्यग्विधानेन गुरोः पूजां प्रकारयेत् ।

वस्त्राणि चैव चोष्णीषं कंचुकं च प्रदापयेत् १८।

दक्षिणां च यथाशक्त्या गुरुवे संप्रदापयेत् ।

भोजनं चैव तांबूलं दत्त्वा चार्घं प्रदापयेत् १९।

स्ववित्तस्यानुमानेन यथाशक्त्या तु निर्द्धनैः ।

कार्या सम्यक्प्रयत्नेन द्वादशी पक्षवर्द्धिनी २०।

ततो जागरणं कुर्याद्गीतनृत्यसमन्वितम् ।

पुराणपाठसहितं हास्याह्लादसमन्वितम् २१।

स्तुवंति च प्रशंसंति जागरं चक्रपाणिनः ।

नित्योत्सवो भवेत्तेषां गृहे वै दशजन्मसु २२।

अतो धन्यतमा चेयं कर्त्तव्या पक्षवर्द्धनी ।

कृत्वा तु सकलं पुण्यं फलं प्राप्नोत्यसंशयम् २३।

पक्षवर्द्धनी माहात्म्यं ये शृण्वंति मनीषिणः ।

तैः कृतं सत्कृतं सर्वं यावदाभूतसंप्लवम् २४।

पंचाग्निसाधने पुण्यं यच्च स्यात्तीर्थसाधने ।

तत्पुण्यं समवाप्नोति विष्णोर्जागरकारणात् २५।

पक्षवर्द्धनिका पुण्या पवित्रा पापनाशिनी ।

उपवासकृता विप्र हत्याकोटिविनाशिनी २६।

वसिष्ठेन कृता पूर्वं भारद्वाजेन वै मुने ।

ध्रुवेण चांबरीषेण कृतेयं विष्णुवल्लभा २७।

इयं काशीसमा पुण्या इयं वै द्वारका समा ।

उपोषिता च भक्तेन वांछितं च ददात्यसौ २८।

इयं धन्या धन्यतमा हत्यायुतविनाशिनी ।

कर्त्तव्या तु विशेषेण वैष्णवैर्ज्ञानतत्परैः २९।

अहो सर्वेश्वरो देवः संसेव्यो व्रततत्परैः ।

किमन्यद्बहुनोक्तेन कर्तव्यं व्रतमुत्तमम् ३०।

यथा च वर्द्धते चंद्रः सिते पक्षे विशेषतः ।

तथा वै वर्द्धते भक्त कारणात्पक्षवर्द्धिनी ३१।

सूर्योदये यथा ध्वांतं नश्यते तत्क्षणादपि ।

तथाघं नाशमाप्नोति करणात्पक्षवर्द्धिनी ३२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे पक्षवर्द्धनी एकादशीमाहात्म्यंनाम षट्त्रिंशोऽध्यायः ३६।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 37

महादेव उवाच-

शृणु नारद वक्ष्यामि माहात्म्यं जागरस्य च ।

यच्छ्रुत्वा मुक्तिमाप्नोति महापापी न संशयः १।

नारद उवाच-

अहो विश्वेश्वरो विष्णुः पवित्रीकरणः सदा ।

तस्योपवासमाहात्म्यं श्रुतं हि त्वन्मुखाच्छिव २।

तथापि श्रोतुमिच्छामि माहात्म्यं जागरस्य तु ।

कीदृक्जागरमाहात्म्यं रात्रो भक्तिस्तु कीदृशी ३।

प्रहरेषु च या पूजा वद विश्वेश्वर प्रभो ।

त्वं लोकेषु सदा पूज्यस्त्वं हि देवो जनार्दनः ।

त्वं हि विश्वेश्वरो देवो यतो भक्तिर्जनार्दने ४।

सर्वेषां चैव भक्तानां त्वं च श्रेष्ठ उमापतिः ।

लोकेस्मिन्सर्वदा भक्त्या तवाख्या वर्त्तते सदा ५।

अतो येन प्रकारेण लोकानां मुक्तिरेव च ।

विश्वेश्वर वद त्वं तु माहात्म्यं जागरस्य तु ६।

महादेव उवाच-।

एकादश्यां जनो विष्णुं रात्रौ संपूज्य भक्तितः ।

कुर्याज्जागरणं विष्णोः पुरतो वैष्णवैः सह ७।

गीतं वाद्यं तथा नृत्यं पुराणपठनं तथा ।

धूपं दीपं च नैवेद्यं पुष्पं गंधानुलेपनम् ८।

फलमर्घं तथा श्रद्धा दानमिंद्रियसंयमम् ।

सत्यान्वितं च विप्रेंद्र वचोयुक्तं क्रियान्वितम् ९।

विनिद्रं च मुदायुक्तो यः करोति नरः सदा ।

सर्वपापविनिर्मुक्तो जायते विष्णुवल्लभः १०।

रात्रौ जागरणे प्राप्ते निद्रां कुर्वंति वैष्णवाः ।

हारितं चोपवासं तैर्व्रतं वै विष्णुसंज्ञकम् ११।

ये कुर्वंति नराः प्राज्ञ जागरे विष्णुसंज्ञके ।

जागरं कृष्णभावेन न स्वपंति कदाचन १२।

कृष्णस्य नाम मनसा वदंति च पुनः पुनः ।

ते तु धन्यतमा ज्ञेया अस्यां रात्रौ विशेषतः १३।

क्षणेक्षणे तु गोदानं घट्यां चैव चतुर्गुणम् ।

प्रहरे कोटिगुणितं चतुर्यामेष्वसंख्यकम् १४।

जागरे निमिषार्द्धे तु केशवाग्रे विशेषतः ।

तत्फलं कोटिगुणितं तस्य संख्या न विद्यते १५।

नर्त्तनं कुरुते यस्तु केशवाग्रे नरोत्तमः ।

न फलं हीयते तस्य आजन्ममरणांतिकम् १६।

साश्चर्यं चैव सोत्साहं पापालापादिवर्जितम् ।

प्रदक्षिणसमायुक्तं नमस्कारपुरःसरम् १७।

नीराजनसमायुक्तमनिर्विण्णेन चेतसा ।

यामेयामे महाभाग कुर्यादारार्तिकं हरेः १८।

षड्विंशगुणसंयुक्तमेकादश्यां च जागरम् ।

यः करोति नरो भक्त्या न पुनर्जायते भुवि १९।

य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः ।

जागरं वासरे विष्णोर्लीयते परमात्मनि २०।

धनवान्वित्तशाठ्येन यः करोति प्रजागरम् ।

तेनात्माहारितो नूनं कितवेन दुरात्मना २१।

विष्णुजागरणे प्राप्ते उपहासं करोति यः ।

षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः २२।

वेदविद्ब्राह्मणो यस्तु नर्त्तनेन विशेषतः ।

उपहासपरः प्राप्तः स वै चांडाल उच्यते २३।

निमिषं निमिषार्द्धं वा यः करोति प्रजागरम् ।

धर्मार्थकाममोक्षाणां प्राप्नोति पदमव्ययम् २४।

वेदशास्त्ररतो नित्यं नित्यं वै यज्ञयाजकः ।

रात्रौ जागरणे प्राप्ते निंदां कुर्वन्व्रजत्यधः २५।

मम पूजां प्रकुर्वाणो विष्णुनिंदासु तत्परः ।

एकविंशत्कुलेनैव नरकं प्रतिपद्यते २६।

विष्णुः शिवः शिवो विष्णुरेकमूर्तिर्द्विधा स्थिताः ।

तस्मात्सर्वप्रकारेण नैव निंदां प्रकारयेत् ।

दष्टाः कलिभुजंगेन स्वपंति मधुहाहनि २७।

कुर्वंति जागरं नैव मायया ते च मोहिताः ।

प्राप्ता एकादशी येषां कलौ जागरणं विना २८।

ते विनष्टा न संदेहो यस्माज्जीवितमध्रुवम् ।

उद्धृतं नेत्रयुग्मं तु दत्त्वा वै वैष्णवं पदम् २९।

कृतं ये नैव पश्यंति पापिनो हरिजागरम् ।

अभावे वाचकस्याथ गीतं नृत्यं तु कारयेत् ३०।

वाचके सति देवर्षे पुराणं प्रथमं पठेत् ।

अश्वमेधसहस्रस्य वाजपेयायुतस्य च ३१।

पुण्यं कोटिगुणं वत्स विष्णोर्जागरणे कृते ।

पितृपक्षे मातृपक्षे भार्यापक्षे तु वाडव ३२।

कुलानुद्धरते चैतान्कृत्वा जागरणं हरेः ।

उपोषणदिने विद्धे जागरं पूजनं हरेः ३३।

वृथादानादिकं सर्वं कृतघ्नेषु कृतं यथा ।

उपोषणदिने विद्धे प्रारब्धे जागरे स्थितिम् ३४।

विहाय स्थानं तद्विष्णुः शापं दत्वा प्रगच्छति ।

अविद्धे वासरे विष्णोर्ये कुर्वंति प्रजागरम् ३५।

तेषां मध्ये तु तुष्टः सन्नृत्यं तु कुरुते हरिः ।

यावद्दिनानि कुरुते जागरं केशवाग्रतः ३६।

युगानि तानि तावंति विष्णुलोके महीयते ।

यावद्दिनानि वसते विना जागरणं हरेः ३७।

तावद्वर्षसहस्राणि रौरवान्न निवर्तते ।

एकदश्यां शयानस्तु विना जागरणं हरेः ३८।

मूकवत्तिष्ठते यो वै गानं पाठं न वाचरेत् ।

सप्तजन्मानि मूकत्वं जायतेऽजागरे हरेः ३९।

यो न नृत्यति मूढात्मा पुरतो जागरे हरेः ।

पंगुत्वं तस्य जानीयात्सप्तजन्मानि वाडव ४०।

यः पुनः कुरुते गीतं नृत्यं जागरणं हरेः ।

ब्राह्मं पदं मदीयं च सत्यं वै तस्य वैष्णवम् ४१।

यः प्रबोधयते लोकान्विष्णोर्जागरणे रतः ।

वसेच्चिरं तु वैकुंठे पितृभिः सह वैष्णवः ४२।

मतिं प्रयच्छते यस्तु हरेर्जागरणं प्रति ।

षष्टिवर्षसहस्राणि श्वेतद्वीपे वसेन्नरः ४३।

यत्किंचित्क्रियते पापं कोटिजन्मनि मानवैः ।

श्रीकृष्णजागरे सर्वं रात्रौ नश्यति वाडव ४४।

शालग्रामशिलाग्रे ये कुर्वंति प्रतिजागरम् ।

यामेयामे फलं प्रोक्तं कोट्यैंदवसमुद्भवम् ४५।

संप्राप्ते वासरे विष्णोर्ये न कुर्वंति जागरम् ।

वृथा स्यात्तत्कृतं तेषां वैष्णवानां च निंदया ४६।

कामार्थौ संपदः पुत्राः कीर्तिर्लोकाश्च शाश्वताः ।

यज्ञायुतैर्न लभ्यंते द्वादशीजागरं विना ४७।

मतिर्न जायते यस्य द्वादश्यां जागरं प्रति ।

न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि ४८।

यावत्पदानि चलति केशवायतनं प्रति ।

अश्वमेधसमानि स्युः जागरार्थं प्रगच्छतः ४९।

पादयोः पतितं यावद्धरण्यां पांशु गच्छताम् ।

तावद्वर्षसहस्राणि जागरो वसते दिवि 6.37.५०।

तस्माद्गृहात्प्रगंतव्यं जागरे केशवालये ।

कलौ मलविनाशाय द्वादशीद्वादशीषु च ५१।

परापवादसंयुक्तं मनः प्रासाद वर्जितम् ।

शास्त्रहीनमगांधर्वं तथा दीपविवर्जितम् ५२।

शक्त्योपचाररहितमुदासीनं सनिंदनम् ।

कलियुक्तं विशेषेण जागरं नवधा मतम् ५३।

सशास्त्रं जागरं यच्च नृत्यगांधर्वसंयुतम् ।

सवाद्यं तालासंयुक्तं सदीपं मधुभिर्युतम् ५४।

उच्चारैस्तु समायुक्तं यथोक्तैर्भक्तिभावितैः ।

प्रसन्नं तुष्टिजननं संमूढं लोकरंजनम् ५५।

गुणैर्द्वादशभिर्युक्तं जागरं माधवप्रियम् ।

कर्त्तव्यं तत्प्रयत्नेन पक्षयोः शुक्लकृष्णयोः ५६।

किं व्रतैर्बहुभिश्चीर्णैस्तीर्थवासेन तस्य किम् ।

द्वादशीवासरे प्राप्ते न कुर्याज्जागरं हरेः ५७।

प्रवासेन त्यजेद्यस्तु पथिस्विन्नोऽपि वाडव ।

जागरं वासुदेवस्य द्वादश्यां तु समे प्रियः ५८।

मद्भक्तो न हरेः कुर्याज्जागरं पापमोहितः ।

व्यर्थं मत्पूजनं तस्य मत्पूज्यं यो न पूजयेत् ५९।

न शैवो न च सौरोऽसौ न शाक्तो गणसेवकः ।

यो भुंक्ते वासरे विष्णोर्ज्ञेयः पश्वधिको हि सः ६०।

विप्रियं च कृतं तेन दुष्टेनैव च पापिना ।

मद्भक्तिबलमाश्रित्य यो भुंक्ते वै हरेर्दिने ६१।

सबाह्याभ्यंतरं देहं वेष्टितं पापकोटिभिः ।

मुच्यंते वासरे विष्णोर्ये कुर्वंति प्रजागरम् ६२।

कूर्परं यमदूतानां दत्तं तेन यमस्य च ।

कृत्वा जागरणं विष्णोरविद्धं द्वादशीव्रतम् ६३।

स्वर्गापेक्षा मुनिश्रेष्ठ मुक्ता ते नैव संशयः ।

वांछितं नारकं सौख्यं विद्धं कृत्वा हरेर्दिनम् ६४।

निहताः पितरस्तेन देवानां वै वधः कृतः ।

दत्तं राज्यं तु दैत्यानां कृत्वा विद्धं हरेर्दिनम् ६५।

यो नृत्यति प्रहृष्टात्मा कृत्वा वै करताडनम् ।

गीतं कुर्वन्मुखेनापि दर्शयन्कौतुकान्बहून् ६६।

पुरतो वासुदेवस्य रात्रौ जागरणे स्थितः ।

पठन्कृष्णचरित्राणि रंजयन्वैष्णवान्गणान् ६७।

मुखेन कुरुते वाद्यं संप्रहृष्टतनूरुहः ।

दर्शयन्विविधान्भृत्यान्स्वेच्छालापान्प्रकारयन् ६८।

भावैरेतैर्नरो यस्तु कुरुते जागरे हरेः ।

निमिषेनिमिषे पुण्यं तीर्थकोटिफलं स्मृतम् ६९।

अनुद्विग्नमना यस्तु धूपनीराजनं हरेः ।

कुरुते जागरे रात्रौ सप्तद्वीपाधिपो भवेत् ७०।

यानि कानि च पापानि ब्रह्महत्यासमानि च ।

कृष्णा ह जागरात्तानि विलयं यांति खंडशः ७१।

एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः ।

एकतो देवदेवस्य जागरः कृष्णवल्लभः ७२।

तत्र काशी पुष्करं च प्रयागं नैमिषं गया ।

शालग्राममहाक्षेत्रमर्बुदारण्यमेव च ७३।

पौष्करं मथुरा तत्र सर्वतीर्थानि चैव हि ।

यज्ञा वेदाश्च चत्वारो व्रजंति हरिजागरम् ७४।

गंगा सरस्वती तापी यमुना च शतद्रुका ।

चंद्रभागा वितस्ता च नद्यः सर्वास्तु तत्र वै ७५।

सरांसि च ह्रदाः सर्वे समुद्राः सर्व एव हि ।

एकादश्यां द्विजश्रेष्ठ गच्छंति कृष्णजागरम् ७६।

स्पृहणीया हि देवानां ये नराः कृष्णजागरे ।

नृत्यंति गीतं कुर्वंति वीणावाद्यप्रहर्षिताः ७७।

एवं जागरणं कृत्वा संपूज्य च महाहरिम् ।

द्वादश्यां पारणं कृत्वा स्वशक्त्या वैष्णवैः सह ७८।

महादेव उवाच-

शृणु ब्रह्मन्प्रवक्ष्यामि द्वादशीमाहात्म्यमुत्तमम् ।

द्वादशी तु सदा ज्ञेया पुत्रदा मोक्षदायिनी ७९।

प्रातः स्नात्वा हरिं पूज्य उपवासं समर्पयेत् ।

अज्ञानतिमिरांधस्य व्रतेनानेन केशव ८०।

प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव ।

पारणं च ततः कुर्याद्यथासंभवमग्रतः ८१।

अत ऊर्ध्वं यथेष्टं तु कारयेच्च यथाविधि ।

यदा तु द्वादशी स्वल्पा पारणेन भवेद्दिवज ८२।

तदा रात्रौ तु कर्त्तव्यं पारणं मुक्तिमिच्छता ।

तदा न रात्रिदोषः स्यान्निषिद्धं न भवेत्क्वचित् ८३।

यदुक्तं निशि न स्नायान्महानिशि न भोजयेत् ।

तत्पूर्वपरयामाभ्यां दिनवत्कर्म कारयेत् ८४।

यदा भवति स्वल्पा तु द्वादशी पारणे दिने ।

उषःकाले द्वयं कुर्यात्प्रातर्मध्याह्निकं तथा ८५।

द्वादशी साधिता येन नरेण भुवि सर्वदा ।

तस्य पुण्यमहं वक्तुं न समर्थो विशेषतः ८६।

साधयित्वाखिलान्कामान्प्राप्नुयुश्च महाजनाः ।

अंबरीषादयः सर्वे ये भक्ता भुवि विश्रुताः ८७।

द्वादशीं साधयित्वा तु ते गता विष्णुसद्मनि ।

सत्यं सत्यं पुनः सत्यं यदुक्तं तु मया तव ८८।

नास्ति विष्णुसमो देवो न तिथिर्द्वादशीसमा ।

अत्र दत्तं च भुक्तं च तथा पूजादिकं च यत् ८९।

तत्सर्वं पूर्णतां याति पूजिते माधवे सति ।

किं पुनर्बहुनोक्तेन भक्तानां वल्लभो हरिः ९०।

प्रददात्यखिलान्कामान्यावदाभूतसंप्लवम् ।

द्वादश्यां चैव यद्दत्तं तत्सर्वं सफलं भवेत् ९१।

कुरुक्षेत्रेषु यद्दत्तं निष्फलं नैव जायते ।

तद्वच्च द्वादशीदत्तं भवेद्देवर्षिसत्तम ९२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे द्वादशीएकादशीजागरणमहिमानाम सप्तत्रिंशोऽध्यायः ३७।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 38

महादेव उवाच-

एकस्मिन्समये पुत्र गतोऽहं विष्णुसन्निधौ ।

तत्र पृष्टं मया पूर्वं माहात्म्यं द्वादशीभवम् १।

नारद उवाच

कीदृशी स्यान्महादेव महाद्वादशिका परा ।

तस्या व्रते फलं कीदृग्वद सर्वेश्वर प्रभो २।

शिव उवाच-

इयमेकादशी ब्रह्मन्महापुण्यफलप्रदा ।

ऋक्षयोगैश्च संयुक्ता कर्त्तव्या मुनिसत्तमैः ३।

जया च विजया चैव जयंती पापनाशिनी ।

सर्वपापहराश्चैताः कर्त्तव्याः फलकांक्षिभिः ४।

एकादश्यां यदा ऋक्षं शुक्लपक्षे पुनर्वसुः ।

नाम्ना सा च जया ख्याता तिथीनामुत्तमा तिथिः ५।

तामुपोष्य नरः पापान्मुच्यते नात्र संशयः ।

यदा च शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् ६।

विजया सा समाख्याता तिथीनामुत्तमा तिथिः ।

सहस्रगुणितं दानं यस्यां वै विप्र भोजनम् ७।

होमस्तथोपवासश्च सहस्राधिफलप्रदः ।

यदा च शुक्लद्वादश्यां प्राजापत्यं हि जायते ८।

जयंती नाम सा प्रोक्ता सर्वपापहरा तिथिः ।

सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ९।

प्रक्षालयति गोविंदस्तस्यामभ्यर्चितो ध्रुवम् ।

यदा वै शुक्लद्वादश्यां पुष्यं भवति कर्हिचित् १०।

तदा तु सा महापुण्या भविता पापनाशिनी ।

यो ददाति तिलप्रस्थं नित्यं संवत्सरं प्रति ११।

उपवासं च यस्तस्यां करोत्येतत्समं स्मृतम् ।

तस्यां जगत्पतिर्देवस्तुष्टः सर्वेश्वरो हरिः १२।

प्रत्यक्षतां प्रयात्येव तत्रानंतफलं स्मृतम् ।

सगरेण ककुत्स्थेन नहुषेण च साधितः १३।

तस्यामाराधितः कृष्णो दत्तवानखिलं भुवि ।

वाचिकान्मानसाद्वापि कायजाच्च विशेषतः १४।

सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ।

तामेकां समुपोष्याथ पुण्यनक्षत्रसंयुताम् १५।

एकादशीसहस्रस्य फलं प्राप्नोति मानवः ।

स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् १६।

यत्तस्यां क्रियते किंचित्तदक्षयफलं स्मृतम् ।

तस्मादेषा प्रकर्तव्या यत्नेन फलकांक्षिभिः १७।

पंचमेनाश्वमेधेन यदि स्नातो युधिष्ठिरः ।

पर्यपृच्छत धर्मात्मा कृष्णं यदुकुलोद्वहम् १८।

युधिष्ठिर उवाच-

उपवासस्य नक्तस्य त्वेकभुक्तस्य मे प्रभो ।

किं पुण्यं किं फलं तस्य ब्रूहि सर्वं जनार्दन १९।

श्रीभगवानुवाच-

हेमंते चैव संप्राप्ते मासे मार्गे च शोभने ।

कृष्णपक्षे च या पार्थ द्वादशी तामुपोषयेत् ।

दशम्यां चैकभक्तश्च शुद्धचित्तो दृढव्रतः २०।

नक्तं चैव तथा ज्ञात्वा दशम्यां नियतः सदा ।

दिवसस्याष्टमे भागे मंदीभूते दिवाकरे २१।

नक्तं च तद्विजानीयान्न नक्तं निशिभोजनम् ।

नक्षत्रदर्शनान्नक्तं गृहस्थस्य विधीयते २२।

यतेर्दिनाष्टमे भागे रात्रौ तस्य निषेधनम् ।

ततः प्रभातसमये कृत्वा च नियमं व्रती २३।

मध्याह्ने च तथा पार्थ स्नानं शुचिः समाचरेत् ।

अधमं कूपके स्नानं वाप्यां स्नानं च मध्यमम् २४।

तडागे चोत्तमं स्नानं नद्यां स्नानं ततः परम् ।

पीड्यंते जंतवो यत्र जलमध्ये व्यवस्थिते २५।

तत्र स्नाने कृते पार्थ पापं पुण्यं समं भवेत् ।

गृहे चैवोत्तमं स्नानं जलं चैव विशोधयेत् २६।

तस्मात्तु पांडवश्रेष्ठ गृहे स्नानं समाचरेत् ।

अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे २७।

मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् ।

क्रोधलोभौ परित्यज्य चैकचित्तो दृढव्रतः २८।

नालापेतांत्यजं चैव तथा पाखंडिनो नरान् ।

मिथ्यावादरतांश्चैव तथा ब्राह्मणनिंदकान् २९।

अन्यांश्चैव दुराचारानगम्यागमनेरतान् ।

परद्रव्यापहारांश्च परदाराभिगामिनः ३०।

केशवं पूजयित्वा तु नैवेद्यं तत्र कारयेत् ।

दीपं दद्याद्गृहे तत्र भक्तियुक्तेन चेतसा ३१।

तद्दिने वर्जयेत्पार्थ निद्रां चैव तु मैथुनम् ।

धर्मशास्त्रविनोदेन दिनं सर्वं निवारयेत् ३२।

रात्रौ जागरणं कृत्वा भक्तियुक्तो नृपोत्तम ।

विप्रेभ्यो दक्षिणां दद्यात्प्रणिपत्य क्षमापयेत् ३३।

यथा कृष्णा तथा शुक्ला विधिनैवं प्रकारयेत् ।

एकादशीं द्विजः पार्थ विभेदं नैव कारयेत् ३४।

एवं हि कुरुते यस्तु शृणु तस्य हि यत्फलम् ।

शंखोद्धारे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ३५।

एकादश्युपवासस्य कलां नार्हति षोडशीम् ।

संक्रांतिषु चतुर्लक्षं यो ददाति नृपोत्तम ३६।

एकादश्युपवासस्य कलां नार्हति षोडशीम् ।

प्रभासक्षेत्रे यत्पुण्यं ग्रहणे चंद्र सूर्ययोः ३७।

तत्फलं जायते नूनमेकादश्युपवासिनः ।

केदारे चोदकं पीत्वा पुनर्जन्म न विद्यते ३८।

तथा चैकादशी पार्थ गर्भवासक्षयंकरी ।

अश्वमेधस्य यज्ञस्य पृथिव्यां यत्फलं लभेत् ३९।

तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः ।

तपस्विनो गृहे यस्य भुंजते च द्विजोत्तमाः ४०।

तत्फलं जायते नूनमेकादश्युपवासिनः ।

गोसहस्रेण यत्पुण्यं दत्वा वेदांतपारगे ४१।

तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः ।

येषां देहे त्रयो देवा ब्रह्मविष्णुमहेश्वराः ४२।

वसंति तेषां ते तुल्या एकादश्युपवासिनः ।

ते नराः पुण्यकर्माणो ये भक्ता हरिपूजकाः ४३।

एकादशीव्रतस्यापि पुण्यसंख्या न विद्यते ।

एतत्पुण्यं भवेत्तस्य यत्सुरैरपि दुर्ल्लभम् ४४।

एतस्मादर्द्धपुण्यं तु प्राप्यते नक्तभोजनात् ।

नक्तस्यार्द्धं भवेत्पुण्यमेकभक्तेन देहिनाम् ४५।

तावद्गर्जंति तीर्थानि दानानि नियमानि च ।

यावन्नोपोषयेज्जंतुर्वासरं विष्णुवल्लभम् ४६।

तस्मात्त्वं पांडवश्रेष्ठ व्रतमेतत्समाचर ।

पुण्यसंख्यां न जानामि यत्त्वं पृच्छसि पांडव ४७।

एतद्धि कथितं पार्थ यद्गोप्यं व्रतमुत्तमम् ।

एकादशीसमं नास्ति कृत्वा यज्ञसहस्रकम् ४८।

युधिष्ठिर उवाच-

उत्पन्ना सा कथं देव पुण्या चैकादशी तिथिः ।

कथं पवित्रा विश्वेऽस्मिन्कथं वै देवताप्रिया ४९।

श्रीभगवानुवाच -

पुरा कृतयुगे पार्थ मुरनामेति दानवः ।

अत्यद्भुतो महारौद्र सर्वदेवभयंकरः 6.38.५०।

इंद्रोऽपि निर्जितस्तेन सर्वदेवास्तथा नृप ।

महासुरेण तेनैव मृत्युना च दुरात्मना ५१।

स्वर्गान्निराकृतास्तेन विचरंति महीतले ।

सशंका भयभीताश्च सर्वे गत्वा महेश्वरम् ५२।

इंद्रेण कथितं सर्वमीश्वरस्यापि चाग्रतः ।

स्वर्गलोकपरिभ्रष्टा विचरंति महीतले ५३।

मर्त्येषु संस्थिता देवा न शोभंते महेश्वर ।

उपायं ब्रूहि मे देव ह्यमरा यांति कां गतिम् ५४।

महादेव उवाच-

देवराजसुरश्रेष्ठयत्रास्तेगरुडध्वजः ।

शरण्यश्च जगन्नाथः परित्राता परायणः ५५।

तत्र गच्छ सुरश्रेष्ठ स वो रक्षां विधास्यति ।

ईश्वरस्य वचः श्रुत्वा देवराजो महामतिः ५६ ।

त्रिदशैः सहितो यत्र गतस्तत्र युधिष्ठिर ।

जलमध्ये प्रसुप्तं तं दृष्ट्वा देवं गदाधरम् ५७।

कृतांजलिपुटो भूत्वा इंद्रः स्तोत्रमुदीरयत् ५८।

इंद्र उवाच-

ॐनमो देवदेवेश देवदानववंदित ।

दैत्यारे पुंडरीकाक्ष त्राहि नो मधुसूदन ५९।

सुराः सर्वे समायाता भयभीताश्च दानवात् ।

शरणं त्वां जगन्नाथ त्राहि मां भक्तवत्सल ६०।

त्राहि नो देवदेवेश त्राहि त्राहि जनार्दन ।

त्राहि वै पुंडरीकाक्ष दानवानां विनाशक ६१।

त्वत्समीपं गताः सर्वे त्वमेव शरणं प्रभो ।

चशरणागतानां देवानां सहायं कुरु वै प्रभो ६२।

त्वं पतिस्त्वं मतिर्देव त्वं कर्ता त्वं च कारणम् ।

त्वं माता सर्वलोकानां त्वमेव जगतः पिता ६३।

भगवन्देवदेवेश शरणागतवत्सल ।

शरणं तव चायाता भयभीताश्च देवताः ६४।

देवता निर्जिताः सर्वाः स्वर्गभ्रष्टाः कृताः प्रभो ।

अत्युग्रेण हि दैत्येन मुरनाम्ना महौजसा ।

इंद्रस्य वचनं श्रुत्वा विष्णुर्वचनमब्रवीत् ६५।

श्रीभगवानुवाच-

कीदृशो दानवः शक्र किं रूपं कीदृशं बलम् ।

क्व स्थानं तस्य दुष्टस्य किं वीर्यं कः पराक्रमः ।

किं वरं तस्य दुष्टस्य ममाख्याहि महामते ६६।

इंद्र उवाच-

पूर्वं बभूव देवेश ब्रह्मवंशसमुद्भवः ।

तालजंघस्तु नाम्ना च अत्युग्रोऽपि महासुरः ६७।

तस्य पुत्रो हि विख्यातो मुरनामेति दानवः ।

अत्युत्कटो महावीर्यो देवतानां भयंकरः ६८।

पुरी चंद्रावती नाम्ना तत्र स्थाने वसत्यसौ ।

निर्जिता देवताः सर्वा स्वर्गात्तेन विवासिताः ६९।

इंद्रोऽन्यो रोपितस्तेन वातश्चैव हुताशनः ।

चंद्रसूर्यो कृतौ चान्यौ वायुर्वरुण एव च ७०।

सर्वमात्मकृतं तेन सत्यं सत्यं जनार्दन ।

देवलोकः कृतस्तेन सर्वस्थानविवर्जितः ७१।

तस्य तद्वचनं श्रुत्वा कोपमानो जनार्दनः ।

हनिष्ये दानवं दुष्टं देवतानां भयंकरम् ७२।

त्रिदशैः सहितो देवो गतश्चंद्रावतीं पुरीम् ।

दृष्टो देवैस्तु दैत्येंद्रो गर्जमानः पुनः पुनः ७३।

तेन सर्वे जिता देव गताश्चैव दिशो दश ।

हरिं निरीक्ष्य प्रोवाच तिष्ठतिष्ठेति दानवः ७४।

भगवानब्रवीत्तं च क्रोधसंरक्तलोचनः ।

श्रीभगवानुवाच-

रे दानव दुराचार मम बाहुं निरीक्षय ७५।

ततस्ते सम्मुखाः सर्वे विष्णुना दुष्टदानवाः ।

हता बाणैः पुनर्दिव्यैर्जाताश्च भयविह्वलाः ७६।

चक्रं मुक्तं च कृष्णेन दैत्यसैन्येषु पांडव ।

तेनच्छिन्नास्तु शतशो बहवो निधनं गताः ७७।

एकोपि दानवस्तत्र युध्यमानो मुहुर्मुहुः ।

नष्टाः सर्वे सुरास्तेन निर्जितो मधुसूदनः ७८।

निर्जितं तेन दैत्येन बाहुयुद्धमजायत ।

बाहुयुद्धं कृतं तेन दिव्यं वर्षसहस्रकम् ७९।

विष्णुश्चिंतां प्रपन्नश्च नष्टाः सर्वाश्च देवताः ।

विष्णुश्च निर्जितस्तेन गतो बदरिकाश्रमम् ८०।

गुहा सिंहावती नाम तत्र सुप्तो जनार्दनः ।

योजनद्वादशवती एकद्वारा च पांडव ८१।

तस्यां विष्टः प्रसुप्तश्च दानवो हंतुमुद्यतः ।

महायुद्धेन तेनैव श्रांतोऽसौ योगमायया ८२।

दानवः पृष्ठतो लग्नो प्रविष्टः स तदा गुहाम् ।

प्रसुप्तं तत्र मां दृष्ट्वा दानवो हर्षमागतः ८३।

इत्थं मां निर्जितं मत्वा प्रविष्टं शंकया हरिम् ।

निःसंदेहं हनिष्यामि दानवानां भयंकरम् ८४।

निर्गता कन्यका तत्र विष्णुदेहाद्युधिष्ठिर ।

रूपवती सुसौभाग्या दिव्यप्रहरणायुधा ८५।

तस्य तेजोंऽशसंभूता महाबलपराक्रमा ।

दृष्टा सा दानवेंद्रेण मुरनाम्ना धनंजय ८६।

युद्धं समाहितं तेन स्त्रिया चैव प्रयाचितम् ।

कन्यका युध्यते तत्र सर्वयुद्धविशारदा ८७।

हुंकारैर्भस्मसाज्जातो मुर नामा महासुरः ।

निहते दानवे तस्मिंस्तत्र देवस्त्वबुध्यत ८८।

पतितं दानवं दृष्ट्वा ततो विस्मयमागतः ।

केनायं च हतो रौद्रो ह्यत्युग्रो मम शात्रवः ८९।

अत्युग्रं च कृतं कर्म मम कारुण्यतः कृतम् ।

कन्योवाच-

तेन देवाश्च गंधर्वा सयक्षोरगराक्षसाः ९०।

इंद्राद्याः सकला जित्वा स्वर्गाच्चैव निराकृताः ।

हरिः सुप्तो मया दृष्टो मुरः पृष्ठे समागतः ९१।

संहरिष्यति त्रैलोक्यं सुप्ते चैव जर्नादने ।

तस्यास्तद्वचनं श्रुत्वा विष्णुर्वचनमब्रवीत् ९२।

अहं च निर्जितो येन कथं सोऽपि त्वया जितः ।

एकादश्युवाच-

त्वत्प्रसादाच्च भो स्वामिन्महादैत्यो मया हतः ९३।

श्रीभगवानुवाच-

आनंदं त्रिषु लोकेषु मुनयो देवता गताः ।

ब्रूहि त्वं च मया भद्रे यत्ते मनसि रोचते ।

ददामि च न संदेहो यत्सुरैरपि दुर्ल्लभम् ९४।

एकादश्युवाच-

यदि तुष्टोऽसि मे देव सत्यमुक्तं जनार्दन ।

वरमेकं तु वांच्छामि हृदये च जगत्पते ९५।

प्रार्थयामि च देवेश ईप्सितं च मया प्रभो ।

यदि सत्यं जगन्नाथ तिस्रो वाचो ददासि मे ९६।

श्रीभगवानुवाच-

सत्यं सत्यं मया प्रोक्तं अवश्यं तव सुव्रते ।

तिस्रो वाचो मया दत्ता न चावाक्यं भवेदिह ९७।

एकादश्युवाच-

त्रिभुवनेषु च देवेश चतुर्युगेषु सांप्रतम् ।

त्रिषु लोकेषु सर्वत्र तादृशं कुरु मे प्रभो ९८।

सर्वतीर्थप्रधानं हि सर्वविघ्नविनाशिनी ।

सर्वसिद्धिकरी देवी त्वत्प्रसादाद्भवाम्यहम् ९९।

मामुपोष्यंति ये भक्त्या तव भक्त्या जनार्दन ।

सर्वसिद्धिर्भवेत्तेषां यदि तुष्टोऽसि मे प्रभो 6.38.१००।

उपवासं च नक्तं च एकभक्तं करोति च ।

तस्य वित्तं च धर्मं च मोक्षं वै देहि माधव १०१।

विष्णुरुवाच-।

यत्त्वं वदसि कल्याणि तत्सर्वं च भविष्यति ।

सर्वान्मनोरथान्भद्रे दास्यसि त्वं च नान्यथा १०२।

मम भक्ताश्च ये लोके ये च भक्तास्तु कार्त्तिके ।

चतुर्युगेषु विख्यातास्त्रिषु लोकेषु वै प्रभो १०३।

त्वां च शक्तिमहं मन्ये एकादशीव्रतस्थिताः ।

मम पूजां करिष्यंति मोक्षगास्ते न संशयः १०४।

तृतीया चाष्टमी चैव नवमी च चतुर्दशी ।

एकादशी विशेषेण तिथिरेषा हरिप्रिया ।

सर्वतीर्थाधिकं पुण्यं सत्यं सत्यं न संशयः १०५।

इदं दत्त्वा वरं तस्यै तिस्रो वाचो न संशयः ।

हृष्टा पुष्टा च संजाता एकादशीमहाव्रता १०६।

शत्रुं हंसि परां तस्य ददासि परमां गतिम् ।

त्वं हंसि सर्वविघ्नानि सर्वसिद्धिवरप्रदा १०७।

उभयोः पक्षयोः पार्थ तुल्या एकादशी शुभा ।

न शुक्ला नैव कृष्णा च विभेदं नैव कारयेत् १०८।

विभेदो नैव कर्त्तव्यः समस्तव्रतकारिभिः ।

दिवा वा यदि वा रात्रौ शृणोति भक्तितत्परः १०९।

तिथिरेका भवेत्सर्वा पक्षयोरुभयोरपि ।

उभयैकादशी स्वल्पा ह्यंते चैव त्रयोदशी ११०।

मध्ये तु द्वादशी पूर्णा त्रिस्पृशा सा हरिप्रिया ।

एकामुपोषयेत्तां वै सहस्रैकादशीफलम् १११।

सहस्रगुणितं ह्येवं द्वादश्यां पारणे कृते ।

अष्टम्येकादशी षष्ठी तृतीया च चतुर्दशी ११२।

पूर्वविद्धा न कर्तव्या परविद्धामुपोषयेत् ।

एकादशी ह्यहोरात्रं प्रभाते घटिका भवेत् ११३।

सा तिथिः परिहर्तव्या उपोष्या द्वादशीयुता ।

एवंविधा मया प्रोक्ता पक्षयोरुभयोरपि ११४।

एकादश्यां प्रकुर्वीत ह्युपवासं न संशयः ।

ते यांति वैष्णवं स्थानं यत्रास्ते गरुडध्वजः ११५।

धन्यास्ते मानवा लोके विष्णुभक्तिपरायणाः ।

एकादश्याश्च माहात्म्यं सर्वकालेषु यः पठेत् ११६।

गोसहस्रफलं सोऽपि पुण्यं प्राप्नोति मानवः ।

दिवा वा यदि वा रात्रौ ये वै शृण्वंति भक्तितः ११७।

ब्रह्महत्यादिपापेभ्यो मुच्यंते नात्र संशयः ।

विष्णुधर्मसमं नास्ति गीतार्थं च नृपोत्तम ।

एकादशीसमं नास्ति व्रतं पापप्रणाशनम् ११८।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे एकादश्युत्पत्ति मुरवधोनामाष्टत्रिंशोऽध्यायः३८।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 39

युधिष्ठिर उवाच-

वंदे विष्णुं विभुं साक्षाल्लोकत्रयसुखावहम् ।

विश्वेशं विश्वकर्तारं पुराणं पुरुषोत्तमम् १।

पृच्छामि देवदेवेश संशयोऽस्ति महान्मम ।

लोकानां च हितार्थाय पापानां क्षयहेतवे २।

मार्गशीर्षेसिते पक्षे भवेदेकादशी तु या ।

किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते ।

एतदाचक्ष्व मे स्वामिन्विस्तरेण यथातथम् ३।

श्रीकृष्ण उवाच-

साधु पृष्टं त्वया राजन्साधु ते विमलं यशः ।

कथयिष्यामि राजेंद्र हरिवासरमुत्तमम् ४।

उत्पन्ना चासिते पक्षे द्वादशी मम वल्लभा ।

मार्गशीर्षोत्पत्तिरिति मम देह समुद्भवा ५।

सुरासुरवधार्थाय ह्युत्पन्ना भरतर्षभ ।

कथिता च मया सा वै तवाग्रे राजसत्तम ६।

पूर्वा चैकादशी राजंस्त्रैलोक्ये सचराचरे ।

मार्गशीर्षे सिते पक्षे उत्पत्तिरिति नामतः ७।

अतः परं प्रवक्ष्यामि मार्गशीर्षे सिता तु या ।

यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् ८।

मोक्षा नामेति सा प्रोक्ता सर्वपापहरा परा ।

देवं दामोदरं राजन्पूजयेच्च प्रयत्नतः ९।

तुलस्या मंजरीभिश्च धूपैर्दीपैः प्रयत्नतः ।

पूर्वेण विधिना चैव दशम्येकादशी तथा १०।

मोक्षा चैकादशी नाम्ना महापातकनाशिनी ।

रात्रौ जागरणं कार्यं नृत्यगीतस्तवैर्मम ११।

शृणु राजन्प्रवक्ष्यामि दिव्यां पौराणिकीकथाम् ।

यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत् १२।

अधोयोनिगतश्चैव पितरो यस्य पापतः ।

अस्याश्च पुण्यदानेन मोक्षं यांति न संशयः १३।

चंपके नगरे रम्ये वैष्णवैश्च विभूषिते ।

वैखानसो नाम नृपः पुत्रवत्पालयेत्प्रजाः १४।

वसंति बहवो विप्रा वेदवेदांगपारगाः ।

ऋद्धिमत्यः प्रजास्तस्य राज्ञो वैखानसस्य हि १५।

एवं राज्यं प्रकुर्वाणो रात्रौ स्वप्नस्य मध्यतः ।

स्वकीयपितरो दृष्ट्वा अधोयोनिगता नृप १६।

एवं दृष्ट्वा च तान्सर्वान्विस्मयाविष्टमानसः ।

कथयामास वृत्तांतं स्वप्नजातं द्विजान्प्रति १७।

राजोवाच-

मया स्वपितरो दृष्ट्वा नरकोपगता द्विजाः ।

तारयेति तनूजत्वमस्मान्निरयसागरात् १८।

एवं ब्रुवाणास्ते नूनं रोदमाना मुहुर्मुहुः ।

मया दृष्टा द्विजश्रेष्ठा एतस्माच्च न मे सुखम् १९।

एतद्राज्यं मम महत्सुखदायि न विद्यते ।

अश्वा गजास्तथा सर्वे रोचंते मे न भो द्विजाः २०।

न दारा न सुता मह्यं रोचंते द्विजसत्तमाः ।

किं करोमि क्व गच्छामि हृदयं मेऽवरुध्यते २१।

तद्व्रतं तं तपोयोगं येनैव मम पूर्वजाः ।

मोक्षं प्रयांति सद्यो वै कथ्यतां च द्विजोत्तमाः २२।

पुत्रे तु जीवितप्राये बलीयसि महात्मनि ।

पितास्ति नरके घोरे तस्य पुत्रस्य किं फलम् २३।

ब्राह्मणा ऊचुः -

पर्वतस्य मुने राजन्निकटे चाश्रमो महान् ।

गम्यतां राजशार्दूल भूतं भव्यं विजानतः २४।

तेषां श्रुत्वा ततो वाक्यं राजा वैखानसो महान् ।

जगाम चाशु तत्रैव चाश्रमं पर्वतस्य च २५।

ब्राह्मणैर्वेष्टितो राजा राजभिश्च समन्वितः ।

आश्रमं विपुलं तस्य संप्राप्तो राजसत्तमः २६।

तत्रर्ग्वेद यजुर्वेद सामाध्ययनकोविदैः ।

वेष्टितं मुनिभिश्चैव द्वितीयं ब्रह्मणो यथा २७।

दृष्ट्वा तं मुनिशार्दूलं राजा वैखानसस्तथा ।

दंडवत्प्रणतिं कृत्वा पस्पर्श चरणौ मुनेः २८।

पप्रच्छ कुशलं तस्य सप्तस्वंगेष्वसौ मुनिः ।

राज्ये निष्कंटकत्वं च राज्ञः सौख्यसमन्वितम् २९।

राजोवाच -

तव प्रसादाद्भो स्वामिन्कुशलं मेऽङ्गसप्तसु ।

भक्ता ये विष्णुविप्रेषु कथं तेषां च विघ्नता ३०।

मया स्वपितरो दृष्टाः स्वप्ने च नरके स्थिताः ।

कस्य पुण्यस्य सामर्थ्यान्मोक्षं यांति द्विजोत्तम ३१।

अयं मे संशयः स्वामिन्प्रष्टुं तं त्वामुपागतः ।

उपायः कश्चिदेवात्र कर्तव्यो मुनिसत्तम ३२।

एतद्वाक्यं ततः श्रुत्वा पर्वतो मुनिसत्तमः ।

ध्यानस्तिमितनेत्रोऽभूत्तपस्वी ब्रह्मसंनिभः ३३।

मुहूर्तमेकं ध्यानस्थो भूपतिं प्रत्युवाच ह ।

ज्ञातं हि तव राजेंद्र पितॄणां पूर्वचेष्टितम् ३४।

पूर्वजन्मनि तातस्ते क्षत्रियो राज्यगर्वितः ।

सपत्न्या ऋतुकाले तु राजधर्मप्रवर्तितः ३५।

गतो ग्रामे तु तां त्यक्त्वा कार्यार्थी निजयोषितम् ।

तव पित्रा तु तस्याश्च न दत्तमृतुदानकम् ३६।

तेन पापप्रभावेन नरके पितृभिः सह ।

पतितो राजशार्दूल तव तातः सुदारुणे ३७।

ततः पुनरुवाचेदं राजा वैखानसो मुनिम् ।

केन व्रतप्रभावेन मोक्षस्तेषां भवेन्मुने ३८।

मुनिरुवाच-

मार्गशीर्षे सिते पक्षे मोक्षा नामेति नामतः ।

सर्वैश्चेतद्व्रतं कार्यं पित्रे पुण्यं प्रदीयताम् ३९।

तेन पुण्यप्रभावेन मोक्षस्तेषां भविष्यति ।

सत्यमेतन्महाभाग ब्रह्मणो वचनं यथा ४०।

मुनेर्वाक्यं ततः श्रुत्वा स्वगृहं पुनरागतः ।

मार्गशीर्षस्तथा मासः प्राप्तः कष्टेन तेन वै ४१।

मुनेर्वाक्येन तत्कृत्वा व्रतं वैखानसो नृपः ।

अददत्पुण्यमखिलैः सार्द्धं पित्रे स भूमिपः ४२।

दत्ते पुण्यक्षणेनैव पुष्पवृष्टिरभूद्दिवि ।

वैखानसस्य तातो वै पितृभिर्मोक्षमाविशत् ४३।

राजानं चांतरिक्षे स गिरं पुण्यामुवाच ह ।

स्वस्तिस्वस्तीति ते पुत्र प्रोच्य चैवं दिवं गतः ४४।

एवं यः कुरुते राजन्मोक्षामेकादशीं शुभाम् ।

तस्य पापानि नश्यंति मृतो मोक्षमवाप्नुयात् ४५।

नातः परतरा काचित्मोक्षदैकादशी भवेत् ।

पुण्यसंख्यां न जानामि राजन्मे प्रियकृद्व्रतम् ४६।

चिंतामणिसमा ह्येषा नृणां मोक्षप्रदायिनी ।

पठनाच्छ्रवणादस्या वाजपेयफलं लभेत् ४७।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमापतिनारदसंवादे मार्गशीर्षशुक्ल मोक्षदा

एकादशीनामैकोनचत्वारिंशोऽध्यायः ३९।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 40

युधिष्ठिर उवाच-

पौषस्य कृष्णपक्षे तु किं नामैकादशी भवेत् ।

किं नाम को विधिस्तस्या एतद्विस्तरतो वद ।

एतदाख्याहि भो स्वामिन्को देवस्तत्र पूज्यते १।

श्रीकृष्ण उवाच-

कथयिष्यामि राजेंद्र भवतः स्नेहबंधनात् ।

तुष्टिर्मे न तथा राजन्यज्ञैर्बहुलदक्षिणैः २।

यथा मे तुष्टिरायाति ह्येकादशीव्रतेन वै ।

तस्मात्सर्वप्रयत्नेन कर्त्तव्यो हरिवासरः ३।

सत्यमेतन्न वै मिथ्या धर्मिष्ठानां विशारद ।

पौषस्य कृष्णपक्षे या सफला नाम नामतः ४।

तस्यां नारायणं देवं पूजयेच्च यथाविधि ।

पूर्वेणैव विधानेन कर्त्तव्यैकादशी शुभा ५।

नागानां च यथा शेषो पक्षिणां पन्नगाशनः ।

देवानां च यथा विष्णुर्द्विपदानां यथा द्विजः ६।

व्रतानां च यथा राजन्श्रेष्ठा चैकादशी तिथिः ।

ते जनाश्चैव भो राजन्पूज्या वै सर्वदा मम ७।

हरिवासरसंलीनाः कुर्वंत्येकादशीव्रतम् ।

इहैव धनसंयुक्ता मृता मोक्षं लभंति ते ८।

सफलायां फलै राजन्पूजयेन्नामतो हरिम् ।

नारिकेलफलैश्चैव क्रमुकैर्बीजपूरकैः ९।

जंबीरैर्दाडिमैश्चैव तथा धात्रीफलैः शुभैः ।

लवंगैर्बदरीभिश्च तथाम्रैश्च विशेषतः १०।

पूजयेद्देवदेवेशं धूपदीपैस्तथैव च ।

सफलायां विशेषेण दीपदानं तु कारयेत् ११।

रात्रौ जागरणं चैव कर्त्तव्यं सह वैष्णवैः ।

यावन्निमेषो नेत्रस्य तावज्जागर्ति यो निशि १२।

एकाग्रमनसो राजन्तस्य पुण्यं शृणुष्व हि ।

तत्समो नास्ति यज्ञो वै तीर्थं वा तत्समं नहि १३।

सर्वव्रतानि राजेंद्र कलां नार्हंति षोडशीम् ।

एवं वर्षसहस्राणि तपसा नैव यत्फलम् १४।

तत्फलं समवाप्नोति यः करोति हि जागरम् ।

श्रूयतां राजशार्दूल सफलायाः कथा शुभा १५।

चंपावतीति विख्याता पुरी माहिष्मतस्य च ।

बभूवुस्तस्य राजर्षेः पुत्राः पंच कुमारकाः १६।

तेषां मध्ये तु ज्येष्ठो वै महापापरतः सदा ।

परदाराभिचारी च वेश्यासक्तश्च मद्यपः १७।

पितुर्द्रव्यं तु तेनैव गमितं पापकर्मणा ।

असद्वृत्तिरतो नित्यं भूसुराणां तु निंदकः १८।

वैष्णवानां च देवानां नित्यं निंदां करोति सः ।

ईदृशं तु ततो दृष्ट्वा पुत्रं माहिष्मतो नृपः १९।

नाम्ना तु लुंपक इति राजपुत्रेषु चापठत् ।

राज्यान्निष्कासितस्तेन पित्रा चैव तु बंधुभिः २०।

स चैवं परिवारैस्तु त्यक्तश्च परिपंथिवत् ।

लुंपकोऽपि तथा त्यक्तश्चिंतयामास वै तदा २१।

त्यक्तोऽहं बांधवैः पित्रा राज्यान्निष्कासितः किल ।

इति संचिंत्यमानोऽसौ मतिं पापे तदाकरोत् २२।

मया गंतव्यमेवास्तु दारुणे गहने वने ।

तस्माच्चैव पुरं सर्वं लुंपयिष्यामि वै पितुः २३।

इत्येवं स मतिं कृत्वा लुंपको दैवयोगतः ।

निर्जगाम पुरात्तस्माद्गतोऽसौ गहने वने २४।

जीवघातरतो नित्यं स्तेयद्यूतकलानिधिः ।

सर्वं च नगरं तेन मुषितं पापकर्मणा २५।

स्तेयाभिगामी नगरे गृहीतः स निशाचरैः ।

उवाच तान्सुतोऽहं वै राज्ञो माहिष्मतस्य च २६।

स तैर्मुक्तः पापकर्मा चागतो विपिनं पुनः ।

आमिषाभिरतो नित्यं तरोर्वै फलभक्षणे २७।

आश्रमस्तस्य दुष्टस्य वासुदेवस्य संनिधौ ।

अश्वत्थो वर्त्तते तत्र जीर्णश्च बहुवार्षिकः २८।

देवत्वं तस्य वृक्षस्य विपिने वर्तते महत् ।

तत्रैव निवसंश्चैव लुंपकः पापबुद्धिमान् २९।

गते बहुतिथे काले कस्यचित्पुण्यसंचयात् ।

पौषस्य कृष्णपक्षे तु दशम्यां दिवसे तथा ३०।

फलानि भुक्त्वा वृक्षाणां रात्रौ शीतेन पीडितः ।

लुंपको नाम पापिष्ठो वस्त्रहीनो गतेक्षणः ३१।

पीड्यमानोऽतिशीतेन हरिवृक्षसमीपतः ।

न निद्रा न सुखं तस्य गतप्राण इवाभवत् ३२।

आछाद्य दशनैरास्यमेवं नीता निशाखिला ।

भानूदयेऽपि पापिष्ठो न लेभे चेतनां तदा ३३।

लुंपको गतसंज्ञस्तु सफलाया दिने तथा ।

रवौ मध्यंगते चैव संज्ञां लेभे स लुंपकः ३४।

इतस्ततो विलोक्याथ व्यथितश्च तदासनात् ।

स्खलत्पद्भ्यां प्रचलितः खंजन्निव मुहुर्मुहुः ३५।

वनमध्ये गतस्तत्र क्षुत्क्षामः पीडितोऽभवत् ।

न शक्तिर्जीवघाते तु लुंपकस्य दुरात्मनः ३६।

फलानि च तदा राजन्नाजहार स लुंपकः ।

यावत्समागतस्तत्र तावदस्तं गतो रविः ३७।

किं भविष्यति तातेति स विलापं चकार ह ।

फलानि तत्र भूरीणि वृक्षमूले न्यवेशयत् ३८।

इत्युवाच फलैरेभिः श्रीपतिस्तुष्यतां हरिः ।

इत्युक्त्वा लुंपकश्चैव निद्रां लेभे न वै निशि ३९।

रात्रौ जागरणं मेने विष्णुस्तस्य दुरात्मनः ।

फलैस्तु पूजनं मेने सफलायास्तथानघ ४०।

अकस्माद्व्रतमेवैतत्कृतवान्वै स लुंपकः ।

तेन पुण्यप्रभावेन प्राप्तं राज्यमकंटकम् ४१।

सूर्यस्योदयनं यावत्तावद्विष्णुर्जगाम ह ।

दिवि तत्कालमुत्पन्ना वागुवाचाशरीरिणी ४२।

राज्यं प्राप्स्यसि पुत्रत्वं सफलायाः प्रसादतः।

तथेत्युक्ते तु वचसि दिव्यरूपधरोऽभवत् ४३।

मतिरासीत्ततस्तस्य परमा वैष्णवी नृप ।

दिव्याभरणशोभाढ्यो लेभे राज्यमकंटकम् ४४।

कृतं राज्यं तु तेनैवं वर्षाणि दशपंच च ।

मनोदास्तस्यपुत्रास्तु दाराः कृष्णप्रसादतः ४५।

आशु राज्यं परित्यज्य पुत्रे चैव समर्प्य च ।

गतः कृष्णस्य सांनिध्यं यत्र गत्वा न शोचति ४६।

एवं यः कुरुते राजन्सफलाव्रतमुत्तमम् ।

इहलोके सुखं प्राप्य मृतो मोक्षमवाप्नुयात् ४७।

धन्यास्ते मानवा लोके सफलायां च ये रताः ।

तेषां च सफलं जन्म नात्र कार्या विचारणा ४८।

पठनाच्छ्रवणाच्चैव करणाच्च विशांपते ।

राजसूयस्य यज्ञस्य फलमाप्नोति मानवः ४९।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे पौषकृष्णासफलैकादशीनाम

चत्वारिंशोऽध्यायः ४०।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 41

युधिष्ठिर उवाच-

कथिता वै त्वया कृष्ण सफलैकादशी शुभा ।

कथयस्व प्रसादेन शुक्लपक्षस्य या भवेत् १।

किन्नाम को विधिस्तस्याः को देवस्तत्र पूज्यते ।

कस्मै तुष्टो हृषीकेशस्त्वमेव पुरुषोत्तमः २।

श्रीकृष्ण उवाच-।

शृणु राजन्प्रवक्ष्यामि शुक्ला पौषस्य या भवेत् ।

कथयामि महाराज लोकानां हितकाम्यया ३।

पूर्वेण विधिना राजन्कर्त्तव्यैषा प्रयत्नतः ।

पुत्रदा नाम नाम्ना सा सर्वपापहरा परा ४।

नारायणोऽधिदेवोऽस्या कामदः सिद्धिदायकः ।

नातः परतरा काचित्त्रैलोक्ये सचराचरे ५।

विद्यावंतं यशस्वंतं करोति च नरं हरिः ।

शृणु राजन्प्रवक्ष्यामि कथां पापहरां पराम् ६।

भद्रावत्यां पुरा ह्यासीत्पुर्यां राजा सुकेतुमान् ।

तस्य राज्ञस्तथाराज्ञी चंपका नाम वर्त्तते ७।

पुत्रहीनेन राज्ञा च काले नीतो मनोरथैः ।

नैवात्मजं नृपो लेभे वंशकर्त्तारमेव च ८।

तेनैव राज्ञा धर्मेण चिंतितं बहुकालतः ।

किं करोमि क्व गच्छामि सुतप्राप्तिः कथं भवेत् ९।

न राष्ट्रे न पुरे सौख्यं लेभे राजा सुकेतुमान् ।

साध्व्य स्वकांतया सार्द्धं प्रत्यहं दुःखितोऽभवत् १०।

तावुभौ दंपती नित्यं चिंताशोकपरायणौ ।

पितरोऽस्य जलं दत्तं कवोष्णमुपभुंजते ११।

राज्ञः पश्चान्न पश्यामो योऽस्मान्संतर्पयिष्यति ।

इत्येवं संस्मरंतोऽस्य दुःखिताः पितरोऽभवन् १२।

न बांधवा न मित्राणि नामात्याः सुहृदस्तथा ।

रोचयंत्यस्य भूपस्य न गजाश्वाः पदातयः १३।

नैराश्यं भूपतेस्तस्य नित्यं मनसि वर्त्तते ।

नरस्य पुत्रहीनस्य नास्ति वै जन्मनः फलम् १४।

अपुत्रस्य गृहं शून्यं हृदयं दुःखितं सदा ।

पितृदेवमनुष्याणां नानृणत्वं सुतं विना १५।

तस्मात्सर्वप्रयत्नेन सुतमुत्पादयेन्नरः ।

इह लोके यशस्तेषां परलोके शुभा गतिः १६।

येषां तु पुण्यकर्तॄणां पुत्रजन्मगृहे भवेत् ।

आयुरारोग्यसंपत्तिस्तेषां गेहे प्रवर्तते १७।

पुत्रजन्म गृहे येषां लोकानां पुण्यकारिणाम् ।

पुण्यं विना न च प्राप्तिर्विष्णुभक्तिं विना नृप १८।

पुत्राश्च संपदो वापि निश्चयादिति मे मतिः ।

एवं विचिंत्यमानोऽसौ न शर्म लभते नृपः १९।

प्रत्यूषे चिंतयद्राजा निशीथे चिंतयत्ततः ।

स्वयमात्मविनाशं च चिंतयामास केतुमान् २०।

आत्मघाते दुर्गतिं च चिंतयित्वा तदा नृपः ।

दृष्ट्वात्मदेहं पतितमपुत्रत्वं तथैव च २१।

पुनर्विचार्यात्मबुद्ध्या आत्मनो हितकारणम् ।

अश्वारूढस्ततो राजा जगाम गहनं वनम् २२।

पुरोहितादयः सर्वे न जानंति गतं नृपम् ।

गंभीरे विपिने राजा मृगपक्षिनिषेविते २३।

विचचार तदा राजा वनवृक्षान्विलोकयन् ।

वटानश्वत्थबिल्वांश्च खर्जूरान्पनसांस्तथा २४।

बकुलान्सप्तपर्णांश्च तिंदुकांस्तिलकानपि ।

शालांस्तालांस्तमालांश्च ददर्श सरलान्नृपः २५।

इंगुदी ककुभांश्चैव श्लेष्मातकनगांस्तथा ।

शल्लकान्करमर्दांश्च पाटलान्बदरानपि २६।

अशोकांश्च पलाशांश्च शृगालाञ्शशकानपि ।

वनमार्जारमहिषान्शल्लकांश्चमरानपि २७।

ददर्श भुजगान्राजा वल्मीकादर्द्धनिःसृतान् ।

तथा वनगजान् मत्तान् कलभैः सह संगतान् २८।

यूथपांश्च चतुर्दंतान्करिणीयूथमध्यगान् ।

तान्दृष्ट्वा चिंतयामास आत्मनः स गजान्नृपः २९।

तेषां स विचरन्मध्ये राजा शोभामवाप ह ।

महदाश्चर्यसंयुक्तं ददृशे विपिनं नृपः ३०।

मार्गे शिवारुतान्शृण्वन्नुलूकविरुतं तथा ।

तांस्तानृक्षमृगान्पश्यन्बभ्राम वनमध्यतः ३१।

एवं ददर्श गहनं नृपो मध्यगते रवौ ।

क्षुत्तृड्भ्यां पीडितो राजा इतश्चेतश्च धावति ३२।

नृपतिश्चिंतयामास संशुष्कगलकंधरः ।

मया तु किं कृतं कर्म प्राप्तं दुःखं यदीदृशम् ३३।

मया वै तोषिता देवा यज्ञैः पूजाभिरेव च ।

तथैव ब्राह्मणा दानैस्तोषिता मिष्टभोजनैः ३४।

प्रजाश्चैव सदा कालं पुत्रवत्पालिता भृशम् ।

कस्माद्दुःखं मया प्राप्तमीदृशं दारुणं महत् ३५।

इति चिंतापरो राजा जगामैवाग्रतो वनम् ।

सुकृतस्य प्रभावेन सरो दृष्टमनुत्तमम् ३६।

मीनसंस्पर्शमानं च पद्मैश्चापरशोभितम् ।

कारंडैश्चक्रवाकैश्च राजहंसैश्च शोभितम् ३७।

मकरैर्बहुभिर्मत्स्यैरन्यैर्जलचरैर्युतम् ।

समीपे सरसस्तस्य मुनीनामाश्रमान्बहून् ३८।

ददर्श राजा लक्ष्मीवान्शकुनैः शुभशंसिभिः ।

दक्षिणं प्रास्फुरन्नेत्रमथ सव्येतरः करः ३९।

प्रास्फुरन्नृपतेस्तस्य कथयञ्शोभनं फलम् ।

तस्य तीरे मुनीन्दृष्ट्वा कुर्वाणन्नैगमं जपम् ४०।

हर्षेण महताविष्टो बभूव नृपनंदनः ।

अवतीर्य हयात्तस्मान्मुनीनामग्रतः स्थितः ४१।

पृथक्पृथग्ववंदेऽसौ मुनींस्तान्शंसितव्रतान् ।

कृतांजलिपुटो भूत्वा दंडवच्च पुनः पुनः ४२।

प्रत्यूचुस्तेऽपि मुनयः प्रसन्ना नृपते वयम् ।

राजोवाच-

के भवंतोऽत्र कथ्यंतां का चाख्या भवतामपि ।

किमर्थं संगता यूयं सत्यं वदत मेऽग्रतः ४३।

मुनय ऊचुः-

विश्वेदेवा वयं राजन्स्नानार्थमिह चागताः ।

माघो निकटमायात एतस्मात्पंचमेऽहनि ४४।

अद्य चैकादशी राजन्पुत्रदा नाम नामतः ।

पुत्रं ददात्यसौ विष्णुः पुत्रदा कारिणां नृणाम् ४५।

राजोवाच-

एष वै संशयो मह्यं पुत्रस्योत्पादने महान् ।

यदि तुष्टा भवंतो वै पुत्रं मे दीयतां तदा ४६।

मुनिरुवाच-

अद्यैव दिवसे राजन्पुत्रदा नाम वर्तते ।

एकादशीति विख्यातं क्रियतां व्रतमुत्तमम् ४७।

अभिषेकात्ततोऽस्माकं केशवस्य प्रसादतः ।

अवश्यं तव राजेंद्र पुत्रप्राप्तिर्भविष्यति ४८।

इत्येवं वचनात्तेषां कृतं राज्ञा व्रतोत्तमम् ।

मुनीनामुपदेशेन पुत्रदा या विधानतः ४९।

द्वादश्यां पारणं कृत्वा मुनीन्नत्वा पुनः पुनः ।

आजगाम गृहं राजा राज्ञी गर्भमथादधौ 6.41.५०।

पुत्रो जातः सूतिकाले तेजस्वी पुण्यकर्मणा ।

पितरं तोषयामास प्रजापालो बभूव सः ५१।

तस्माद्राजन्प्रकर्त्तव्यं पुत्रदा व्रतमुत्तमम् ।

लोकानां तु हितार्थाय तवाग्रे कथितं मया ५२।

एकचित्तास्तु ये मर्त्याः कुर्वंति पुत्रदा व्रतम् ।

पुत्रान्प्राप्येह लोके तु मृतास्ते स्वर्गगामिनः ।

पठनाच्छ्रवणाद्राजन्नग्निष्टोमफलं लभेत् ५३।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे पौषशुक्लपुत्रदैकादशीनाम एकचत्वारिंशोऽध्यायः ४१।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 42

युधिष्ठिर उवाच-

साधु कृष्ण जगन्नाथ आदिदेव जगत्पते ।

कथयस्व प्रसादेन कृपां कुरु ममोपरि १।

माघस्य कृष्णपक्षे तु का वा चैकादशी भवेत् ।

किं नाम को विधिस्तस्या एतद्विस्तरतो वद २।

श्रीभगवानुवाच-

शृणु त्वं नृपशार्दूल कृष्णमाघस्य या भवेत् ।

षट्तिला नाम विख्याता सर्वपापप्रणाशिनी १।

षट्तिलायाः शृणुष्व त्वं कथां पापहरां शुभाम् ।

यां पुलस्त्यो मुनिश्रेष्ठो दालभ्यं प्रति चोक्तवान् २।

दालभ्य उवाच-

मर्त्यलोकमनुप्राप्ताः पापं कुर्वंति जंतवः ।

ब्रह्महत्यादिपापैश्च युक्ता ये विविधादिभिः ३।

परद्रव्यापहाराश्च परव्यसनमोहिताः ।

कथं न यांति नरकं ब्रह्मंस्तद्ब्रूहि तत्त्वतः ४।

अनायासेन भगवन्दानेनाल्पेन केनचित् ।

पापं प्रशमनं याति एतन्मे वक्तुमर्हसि ५।

पुलस्त्य उवाच-

साधुसाधु महाभाग गुह्यमेतत्सुदुर्ल्लभम् ।

यन्न कस्यचिदाख्यातं विष्णुब्रह्मेंद्रदैवतैः ६।

तदहं कथयिष्यामि त्वया पृष्टो द्विजोत्तम ।

माघमासे तु संप्राप्ते शुचिस्नातो जितेंद्रियः ७।

कामक्रोधाभिमानेर्ष्यालोभ पैशुन्य वर्जितः ।

देवदेवं च संस्मृत्य पादौ प्रक्षाल्य वारिभिः ८।

भूमावपतितं गृह्य गोमयं तत्र मानवः ।

तिलान्प्रक्षिप्य कार्पांसं पिंडिकाश्चैव कारयेत् ९।

अष्टोत्तरशतं चैव नात्र कार्या विचारणा ।

ततो माघे च संप्राप्ते ह्याषाढर्क्षं भवेद्यदि १०।

मूलं वा कृष्णपक्षस्यैकादशी नियमांस्ततः ।

गृह्णीयात्पुण्यकाले च विधानं तत्र मे शृणु ११।

देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः ।

कृष्णनामानि संकीर्त्य पुनः प्रस्खलितादिषु १२।

रात्रौ जागरणं कुर्यादादौ होमं च कारयेत् ।

अर्चयेद्देवदेवेशं द्वितीयेऽह्नि पुनर्हरिम् १३।

चंदनागुरुकर्पूरैर्नैवेद्यं कृसरं तथा ।

संस्मृत्य नाम्ना च ततः कृष्णाख्येन पुनः पुनः १४।

कूष्मांडैर्नारिकेरैश्च ह्यथवा बीजपूरकैः ।

सर्वाभावेऽपि विप्रेंद्र शस्तपूगफलैर्वृतम् ।

अर्घं दद्याद्विधानेन पूजयित्वा जनार्दनम् १५।

कृष्णकृष्ण कृपालुस्त्वमगतीनां गतिर्भव ।

संसारार्णव मग्नानां प्रसीद पुरुषोत्तम १६।

नमस्ते पुंडरीकाक्ष नमस्ते विश्वभावन ।

सुब्रह्मण्य नमस्तेऽस्तु महापुरुषपूर्वज ।

गृहाणार्घ्यं मया दत्तं लक्ष्म्या सह जगत्पते १७।

इत्यर्घमंत्रः ।

ततस्तु पूजयेद्विप्रमुदकुंभं प्रदापयेत् ।

छत्रोपानहवस्त्रैश्च कृष्णो मे प्रीयतामिति १८।

कृष्णा धेनुः प्रदातव्या यथाशक्ति द्विजोत्तमे ।

तिलपात्रं द्विजश्रेष्ठ दद्यात्पात्रविचक्षणः १९।

स्नाने प्राशनके शस्तास्तथा कृष्णतिला मुने ।

तान्प्रदद्यात्प्रयत्नेन यथाशक्ति द्विजोत्तमे ।

तिलप्ररोहजाः क्षत्रे यावत्संख्यास्तिला द्विज २०।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।

तिलस्नायी तिलोद्वर्ती तिलहोमी तिलोदकी २१।

तिलदाता च भोक्ता च षट्तिलाः पापनाशनाः ।

नारद उवाच-

कृष्णकृष्ण महाबाहो नमस्ते विश्वभावन २२।

षट्तिलैकादशीभूतं कीदृशं फलमस्ति वै ।

सोपाख्यानं मम ब्रूहि यदि तुष्टोऽसि यादव ।

श्रीकृष्ण उवाच

शृणु राजन्यथावृत्तं दृष्टं तत्कथयामि ते ।

मर्त्यलोके पुरा ह्यासीद्ब्राह्मण्येका च नारद ।

व्रतचर्यारता नित्यं देवपूजारता सदा २३।

मासोपवासनिरता मम भक्ता च सर्वदा ।

कृष्णोपवाससंयुक्ता मम पूजापरायणा २४।

शरीरं क्लेशितं चैव उपवासैर्द्विजोत्तम ।

देवानां ब्राह्मणानां च कुमारीणां च भक्तितः २५।

गृहादिकं प्रयच्छंती सर्वकालं महासती ।

अतिकृच्छ्ररता सा तु सर्वकालं तु वै द्विज २६।

न दत्ता भिक्षुके भिक्षा ब्राह्मणा न च तर्पिताः २७।

ततः कालेन महता मया वै चिंतितं द्विज ।

शुद्धमस्याः शरीरं हि व्रतैः कृच्छ्रैर्न संशयः २८।

अर्चितो वैष्णवो लोकः कायक्लेशेन वै तया ।

न दत्तमन्नदानं हि येन तृप्तिः परा भवेत् २९।

एवं ज्ञात्वा अहं ब्रह्मन्मर्त्यलोकमुपागतः ।

कापालं रूपमास्थाय भिक्षापात्रे च याचिता ३०।

कस्मात्त्वमागतो ब्रह्मन्क्व यासि वद मेऽग्रतः ।

पुनरेव मया प्रोक्तं देहि भिक्षां च सुंदरि ३१।

तया कोपेन महता मृत्पिंडस्ताम्रभाजने ।

क्षिप्तो यावदहं ब्रह्मन्पुनः स्वर्गं गतो द्विज ३२।

ततः कालेन महता तापसी सुमहाव्रता ।

सदेहा स्वर्गमायाता व्रतचर्या प्रभावतः ३३।

मृत्पिंडिकाप्रदानेन गृहं प्राप्तं मनोरमम् ।

संजातं चैव विप्रर्षे धान्यराशि विवर्जितम् ३४।

गृहं यावन्निरीक्षेत न किंचित्तत्र पश्यति ।

तावद्गृहाद्विनिष्क्रांता ममांते चागता द्विज ३५।

क्रोधेन महताविष्टमिदं वचनमब्रवीत् ।

मया व्रतैश्च कृच्छ्रैश्च उपवासैरनेकशः ३६।

पूजयाराधितो देवः सर्वलोकस्य पालकः ।

न तत्र दृश्यते किंचिद्गृहे मम जनार्दन ३७।

ततश्चोक्तं मया तस्यै गृहं गच्छ महाव्रते ।

आगमिष्यंति सुतरां कौतूहल समन्विताः ३८।

देवपत्न्यो हि द्रष्टुं त्वां विस्मयाभिसमन्विताः ।

द्वारं नोद्घाटय विना षट्तिलापुण्यवाचनात् ३९।

एवमुक्ता मया सा तु गता वै मानुषी तदा ।

अत्रांतरे समायाता देवपत्न्यश्च वाडव ४०।

ताभिश्च कथितं तत्र त्वां द्रष्टुं हि समागताः ।

द्वारमुद्घाटयस्वाद्य त्वां प्रपश्याम शोभने ४१।

मानुष्युवाच-

यदि मद्दर्शनं कार्यं सत्यं वाच्यं विशेषतः ।

षट्तिलाया व्रतं पुण्यं द्वारोद्घाटनकारणात् ४२।

श्रीकृष्ण उवाच-।

एकापिनावदत्तत्र षट्तिलैकादशीव्रतम् ।

अन्यया कथितं तत्र द्रष्टव्या मानुषी मया ४३।

ततो द्वारं समुद्घाट्य दृष्टा ताभिश्च मानुषी ।

न देवी न च गंधर्वी नासुरी न च पन्नगी ४४।

दृष्टा पूर्वं तथा नारी यादृशीयं द्विजर्षभ ।

देवीनामुपदेशेन षट्तिलाया व्रतं कृतम् ४५।

मानुष्या सत्यव्रतया भुक्तिमुक्तिफलप्रदम् ।

रूपकांतिसमायुक्ता क्षणेन समवाप सा ४६।

धनं धान्यं च वस्त्रादि सुवर्णं रौप्यमेव च ।

भवनं सर्वसंपन्नं षट्तिलायाः प्रभावतः ४७।

रूपकांतिसमायुक्ता क्षणेन समपद्यत ४८।

अतितृष्णा न कर्त्तव्या वित्तशाठ्यं विवर्जयेत् ।

आत्मवित्तानुसारेण तिलान्वस्त्राणि दापयेत् ४९।

लभते चैवमारोग्यं नरो जन्मनि जन्मनि ।

न दारिद्र्यं न कष्टत्वं न च दौर्भाग्यमेव च 6.42.५०।

संभवेद्वै द्विजश्रेष्ठ षट्तिलासमुपोषणात् ।

अनेन विधिना भूप तिलदाता न संशयः ५१।

मुच्यते पातकैः सर्वैरनायासेन मानवः ।

दानं च विधिवत्पात्रे सर्वपातकनाशनम् ।

नानर्थः कश्चिन्नायासः शरीरे नृपसत्तम ५२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे माघकृष्णाषट्तिलैकादशी नाम द्विचत्वारिंशोऽध्यायः४२।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 43

युधिष्ठिर उवाच-

साधु कृष्ण त्वया प्रोक्तमादिदेवो भवान्प्रभो ।

स्वेदजा अंडजाश्चैव उद्भिज्जाश्च जरायुजाः १।

तेषां कर्त्ता विकर्त्ता त्वं पालकः क्षयकारकः ।

माघस्य कृष्णपक्षे तु षट्तिला कथिता त्वया २।

शुक्ले च का भवेद्देव कथयस्व प्रसादतः ।

किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते ३।

श्रीकृष्ण उवाच-

कथयिष्यामि राजेंद्र शुक्ले माघस्य या भवेत् ।

जया नामेति विख्याता सर्वपापहरा परा ४।

पवित्रा पापहंत्री च कामदा मोक्षदा नृणाम् ।

ब्रह्महत्यापहंत्री च पिशाचत्वविनाशिनी ५।

नैव तस्या व्रते चीर्णे प्रेतत्वं जायते नृणाम् ।

नातः परतरा काचित्पापघ्नी मोक्षदायिनी ६।

एतस्मात्कारणाद्राजन्कर्त्तव्या सा प्रयत्नतः ।

श्रूयतां राजशार्दूल कथा पौराणिकी शुभा ७।

पंकजे च पुराणेऽस्या महिमा कथितो मया ।

एकदा नाकलोके वै इंद्रो राज्यं चकार ह ८।

देवास्तत्र सुखेनैव निवसंति मनोरमे ।

पीयूषपाननिरता अप्सरोगणसेविताः ९।

नंदनं तु वनं तत्र पारिजातोपसेवितम् ।

रमयंति रमंतेऽत्र अप्सरोभिर्दिवौकसः १०।

एकदा रममाणोऽसौ देवेंद्रः स्वेच्छया नृप ।

नर्त्तयामास वै हर्षात्पंचाशत्कोटिनायकः ११।

गंधर्वास्तत्र गायंति गंधर्वः पुष्पदंतकः ।

चित्रसेनस्तु तत्रैव चित्रसेनसुता तथा १२।

मालिनीति च नाम्ना तु चित्रसेनस्य योषिता ।

मालिन्यास्तु समुत्पन्ना पुष्पदंती च नामतः १३।

पुष्पदंतस्य पुत्रोऽसौ माल्यवान्नाम नामतः ।

पुष्पदंत्याश्च रूपेण माल्यवानतिमोहितः १४।

तया ह्येवं कटाक्षैश्च माल्यवांश्च वशीकृतः ।

लावण्यं रूपसंपन्नं तस्या रूपं निशामय १५।

बाहू तस्याश्च कामेन कंठपाशौ कृताविव ।

कर्णायते तु नयने रक्तांते घूर्णिते तथा १६।

कर्णौ तु शोभनौ तस्याः कुण्डलाभ्यां नृपोत्तम ।

कंबुग्रीवायुता सैव दिव्याभरणभूषिता १७।

पीनोन्नतौ कुचौ तस्यास्तौ हेमकलशाविव ।

मध्यं क्षामं च चार्वंग्या मुष्टिग्राह्यमनुत्तमम् १८।

नितंबौ विस्तृतौ चास्या विस्तीर्णा जघनस्थली ।

चरणौ शोभमानौ च रक्तोत्पलसमद्युती १९।

ईदृश्या पुष्पवत्या स माल्यवानतिमोहितः ।

शक्रस्य परितोषाय नृत्यार्थं तौ समागतौ २०।

गायमानौ तु तौ तत्र अप्सरोगणसेवितौ ।

मदनाभिपरीतांगौ पुष्पदंती च माल्यवान् २१।

परस्परानुरागेण व्यामोहवशमागतौ ।

न शुद्धगानं गायेतां चित्तभ्रमसमन्वितौ २२।

बद्धदृष्टी तथान्योन्यं कामबाणवशं गतौ ।

ज्ञात्वा लेखर्षभस्तत्र संगतं मानसं तयोः २३।

तालक्रियामानलोपात्तथा गीतविसर्जनात् ।

चिंतयित्वा तु मघवा ह्यवमानं तथात्मनः २४।

कुपितश्च तयोरर्थे शापं दास्यन्निदं जगौ ।

धिग्धिग्वां पतितौ मूढावाज्ञाभंग कृतौ मम २५।

युवां पिशाचौ भवतां दंपतीभावधारिणौ ।

मर्त्यलोकमनुप्राप्तौ भुंजानौ कर्मणः फलम् २६।

एवं मघवता शप्तावुभौ दुःखितमानसौ ।

हिमवंतं गिरिं प्राप्ताविंद्रशापाद्विमोहितौ २७।

उभौ पिशाचतां प्राप्तौ दारुणं दुःखमेव च ।

संतप्तमानसौ तत्र हिमकृच्छ्रगतावुभौ २८।

गंधर्वत्वमप्सरस्त्वं न जानीतो विमौहितौ ।

पीड्यमानौ निदाघेन देहपातकजेन च २९।

न निशायां सुखं शांतिं लभेते कर्मपीडितौ ।

परस्परं वादमानौ चेरतुर्गिरिगह्वरे ३०।

पीड्यमानौ तु शीतेन तुषारप्रभवेन तौ ।

दंतघर्षं प्रकुर्वाणौ रोमांचितवपुर्द्धरौ ३१।

ऊचे पिशाचः स तदा तां पत्नीं स्वां पिशाचिकाम् ।

किमनल्पकृतं पापं दारुणं रोमहर्षणम् ३२।

येन प्राप्तं पिशाचत्वं स्वेन दुष्कृतकर्मणा ।

नरकं दारुणं मत्वा पिशाचत्वं च दुःखदम् ३३।

तस्मात्सर्वप्रयत्नेन पातकं न समाचरेत् ।

इति चिंतापरौ तत्र तावास्तां दुःखकर्षितौ ३४।

दैवयोगात्तयोः प्राप्ता माघस्यैकादशी तिथिः ।

जयानामेति विख्याता तिथीनामुत्तमा तिथिः ३५।

तस्मिन्दिने तु संप्राप्ते तावाहारविवर्जितौ ।

आसाते तत्र नृपते जलपानविवर्जितौ ३६।

न कृतो जीवघातश्च न पत्रफलभक्षणम् ।

अश्वत्थस्य समीपे तौ सर्वदा दुःखसंयुतौ ३७।

रविरस्तंगतो राजंस्तथैव स्थितयोस्तयोः ।

प्राप्ता चैव निशा घोरा दारुणा प्राणहारिणी ३८।

वेपमानौ ततस्तौ तु ततः सुषुपतः क्षितौ ।

परस्परेण संलग्नौ गात्रयोर्भुजयोरपि ३९।

न निद्रा न रतं तत्र न तौ सौख्यमविंदताम् ।

एवं तौ राजशार्दूल शापेनेंद्रस्य पीडितौ ४०।

इत्थं तयोर्दुःखितयोर्निर्जगाम निशीथिनी ।

मार्तंड उदयं प्राप्तो द्वादशी दिवसागमे ४१।

मया तु राजशार्दूल तयोर्मुक्तिर्धृता हृदि ।

जयायाः सुव्रतं चीर्णं रात्रौ जागरणं कृतम् ४२।

तस्माद्व्रतप्रभावाच्च यथाजातं तथा शृणु ।

द्वादशीदिवसे प्राप्ते तथा चीर्णे जया व्रते ४३।

विष्णोः प्रभावान्नृपते पिशाचत्वं तयोर्गतम् ।

पुष्पदंती माल्यवतौ पूर्वरूपौ बभूवतुः ४४।

पुरातनस्नेहयुतौ पूर्वालंकारधारिणौ ।

विमानमधिरूढौ तौ गतौ नाके मनोरमे ४५।

देवेंद्रस्याग्रतो गत्वा प्रणामं चक्रतुर्मुदा ।

तथाविधौ तु तौ दृष्ट्वा मघवा विस्मितोऽब्रवीत् ४६।

इंद्र उवाच-

वद तं केन पुण्येन पिशाचत्वं हि वां गतौ ।

मम शापं च संप्राप्तौ केन देवेन मोचितौ ४७।

माल्यवानुवाच-

वासुदेवप्रसादेन जयायास्तु व्रतेन च ।

पिशाचत्वं गतं स्वामिंस्तव भक्तिप्रभावतः ४८।

इति श्रुत्वा तु मघवा प्रत्युवाच पुनस्तथा ।

पवित्रौ पावनौ जातौ वंदनीयौ ममापि च ४९।

हरिवासरकर्तारौ विष्णुभक्तिपरायणौ ।

हरिवासरसँल्लीना ये च कृष्णपरायणाः 6.43.५०।

अस्माकमपि मर्त्यास्ते पूज्याश्चैव न संशयः ।

विहरस्व यथासौख्यं पुष्पदंत्या सुरालये ५१।

कृष्ण उवाच-

एतस्मात्कारणाद्राजन्कर्त्तव्यो हरिवासरः ।

जया तु राजशार्दूल ब्रह्महत्यापहारिणी ५२।

सर्वदानानि तेनैव सर्वयज्ञा अशेषतः ।

दत्तानि कारिताश्चैव जयायास्तु व्रतं कृतम् ५३।

कल्पकोटिर्भवेत्तावद्वैकुंठे मोदते ध्रुवम् ।

पठनाच्छ्रवणाद्राजन्नग्निष्टोमफलं लभेत् ५४।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे माघशुक्लजयैकादशीमाहात्म्यंनाम त्रिचत्वारिंशोऽध्यायः ४३।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 44

युधिष्ठिर उवाच-

फाल्गुनस्यासिते पक्षे किंनामैकादशीभवेत् ।

कथयस्व प्रसादेन वासुदेव ममाग्रतः १।

श्रीकृष्ण उवाच-

नारदः परिपप्रच्छ ब्रह्माणं कमलासनम् ।

फाल्गुनस्यासिते पक्षे विजयानाम नामतः ।

तस्याः पुण्यं द्विजश्रेष्ठ कथयस्व प्रसादतः २।

ब्रह्मोवाच-

शृणु नारद वक्ष्यामि कथां पापहराम्पराम् ।

यन्न कस्यचिदाख्यातं मयैतद्विजयाव्रतम् ३।

पुरातनं व्रतं ह्येतत्पवित्रं पापनाशनम् ।

जयं ददाति विजया नृपाणां वै न संशयः ४।

पुरा रामो वनं यातो वर्षाण्येव चतुर्दश ।

न्यवसत्पंचवट्यां तु सहसीतः सलक्ष्मणः ५।

तत्रैव वसतस्तस्य रामस्य विजयात्मनः ।

रावणेन हृता लौल्याद्भार्या सीता यशस्विनी ६।

तेन दुःखेन रामोऽपि मोहमभ्यागतस्तदा ।

भ्रमन्जटायुषमथो ददर्श विगतायुषम् ७।

कबंधो निहतः पश्चाद्भ्रमतारण्यमध्यतः ।

सुग्रीवेण समं तस्य सखित्वं समपद्यत ८।

वानराणामनीकानि रामार्थंसंगतानि च ।

ततो हनुमता दृष्टा लंकोद्याने तु जानकी ९।

रामसंज्ञापनं तस्यै दत्तं कर्म महत्कृतम् ।

पुनः समेत्य रामेण सर्वं तत्र निवेदितम् १०।

अथ श्रुत्वा रामचंद्रो वाक्यं चैव हनूमतः ।

सुग्रीवानुमतेनैव प्रस्थानं समरोचयत् ११।

सौमित्रेकेन पुण्येन तीर्यते वरुणालयः ।

अगाधो नितरामेष यादोभिश्च समाकुलः ।

उपायं नैव पश्यामि येनासौ सुतरो भवेत् १२।

लक्ष्मण उवाच-

आदिदेवस्त्वमेवासि पुराणपुरुषोत्तमः ।

बकदाल्भ्यो मुनिश्चात्र वर्तते द्वीपमध्यतः १३।

अस्मात्स्थानाद्योजनार्द्धमाश्रमस्तस्य राघव ।

अन्ये च ब्राह्मणास्तत्र बहवो रघुनंदन १४।

तं पृच्छ गत्वा राजेंद्र पुराणमृषिपुंगवम् ।

इति वाक्यं ततः श्रुत्वा लक्ष्मणस्यातिशोभनम् १५।

जगाम राघवो द्रष्टुं बकदाल्भ्यं महामुनिम् ।

प्रणनाम मुनिं मूर्ध्ना रामो विष्णुमिवामरः १६।

ज्ञात्वा मुनिस्ततो रामं पुराणं पुरुषोत्तमम् ।

केनापि कारणेनैव प्रविष्टो मानुषीं तनुम् १७।

उवाच स ऋषिस्तुष्टः कुतो राम तवागमः १८।

राम उवाच-

त्वत्प्रसादादहं विप्र तीरं नदनदीपतेः ।

आगतोऽस्मि ससैन्योऽत्र लंकां जेतुं सराक्षसाम् १९।

भवतश्चानुकूलत्वात्तीर्यतेऽब्धिर्यथा मया ।

तमुपायं वद मुने प्रसादं कुरु सांप्रतम् २०।

एतस्मात्कारणादेव द्रष्टुं त्वाहमिहागतः ।

रामस्य वचनं श्रुत्वा बकदाल्भ्यो महामुनिः २१।

उवाच सुप्रसन्नात्मा रामं राजीवलोचनम् ।

कर्तव्यमद्य ते राम व्रतानां व्रतमुत्तमम् २२।

कृतेन येन सहसा विजयस्ते भविष्यति ।

लंकां जित्वा राक्षसांश्च स्वच्छां कीर्तिमवाप्स्यसि २३।

एकाग्रमानसो भूत्वा व्रतमेतत्समाचर ।

फाल्गुनस्यासिते पक्षे विजयैकादशी भवेत् २४।

तस्या व्रतेन हे राम विजयस्ते भविष्यति ।

निःसंशयं समुद्रं त्वं तरिष्यसि सवानरः २५।

विधिस्तु श्रूयतां राजन्व्रतस्यास्य फलप्रदः ।

दशम्यां दिवसे प्राप्ते कुंभमेकं तु कारयेत् २६।

हैमं वा राजतं वापि ताम्रं वाप्यथ मृन्मयम् ।

स्थापयेच्छोभितं चैव जलपूर्णं सपल्लवम् २७।

सप्तधान्यान्यधस्तस्य यवानुपरि विन्यसेत् ।

तस्योपरि न्यसेद्देवं हैमं नारायणं प्रभुम् २८।

एकादशीदिने प्राप्ते प्रातः स्नानं समाचरेत् ।

निश्चलं स्थापयेत्कुंभं कंठमाल्यानुलेपनैः २९।

पूगीफलैर्नालिकेरैः पूजयेच्च विशेषतः ।

गंधैर्धूपैश्चदीपैश्च नैवेद्यैर्विविधैरपि ३०।

कुंभाग्रे तद्दिनं राम नीयते सत्कथादिभिः ।

रात्रौ जागरणं चैव तस्याग्रे कारयेद्बुधः ३१।

प्रकाशयेद्घृतदीपमखंडव्रतहेतवे ।

द्वादशीदिवसे प्राप्ते मार्तंडस्योदये सति ३२।

नीत्वा कुंभं जलोद्देशे नद्याः प्रस्रवणे तथा ।

तडागे स्थापयित्वा तं पूजयित्वा यथाविधि ३३।

दद्यात्सदेवं तं कुंभं ब्राह्मणे वेदपारगे ।

कुंभेन सह राजेंद्र महादानानि दापयेत् ३४।

अनेनविधिना राम यूथपैः सह संगतः ।

कुरु व्रतं प्रयत्नेन विजयस्ते भविष्यति ३५।

इति श्रुत्वा ततो रामो यथोक्तमकरोत्तदा ।

कृते व्रते स विजयी बभूव रघुनंदनः ३६।

प्राप्ता सीता जिता लंका पौलस्त्यो निहतो रणे ।

अनेनविधिना पुत्र ये कुर्वंति नरा व्रतम् ३७।

इहलोकजयप्राप्तिः परलोकस्तथाक्षयः ।

एतस्मात्कारणात्पुत्र कर्तव्यं विजयाव्रतम् ३८।

विजयायाश्च माहात्म्यं सर्वकिल्बिषनाशनम् ।

पठनाच्छ्रवणाच्चैव वाजपेयफलं लभेत् ३९।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे फाल्गुनकृष्णाविजयामाहात्म्यंनाम चतुश्चत्वारिंशोऽध्यायः ४४।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 45

श्रीकृष्ण उवाच-

माहात्म्यं विजयायाश्च श्रुतं कृष्ण महत्फलम् ।

फाल्गुनस्यार्जुने पक्षे यन्नाम्नी तां वदाधुना १।

श्रीकृष्ण उवाच-।

धर्मपुत्र महाभाग शृणु वक्ष्यामितेऽधुना ।

योक्ता पृष्टेन मांधात्रा वसिष्ठेन महात्मना २।

फाल्गुनस्य विशेषेण विशेषः कथितो नृप ।

आमलकीव्रतं पुण्यं विष्णुलोकफलप्रदम् ३।

आमलक्यास्तले गत्वा जागरं तत्र कारयेत् ।

कृत्वा जागरणं रात्रौ गोसहस्रफलं लभेत् ४।

मांधातोवाच -

आमलकी कदा ह्येषा उत्पन्ना द्विजसत्तम ।

एतत्सर्वं ममाचक्ष्व परं कौतूहलं हि मे ५।

कस्मादियं पवित्रा च कस्मात्पापप्रणाशिनी ।

कस्माज्जागरणं कृत्वा गोसहस्रफलं लभेत् ६।

वसिष्ठ उवाच-

कथयामि महाभाग यथेयमभवत्क्षितौ ।

आमलकी महावृक्षः सर्वपापप्रणाशनः ७।

एकार्णवे पुरा जाते नष्टे स्थावरजंगमे ।

नष्टे देवासुरगणे प्रणष्टोरगराक्षसे ८।

तत्र देवादिदेवेशः परमात्मा सनातनः ।

जगाम ब्रह्मपरममात्मनः पदमव्ययम् ९।

ततोऽस्य जाग्रतो ब्रह्ममुखाच्छशिसमप्रभः ।

ष्ठीवनाद्बिंदुरुत्पन्नः स भूमौ निपपात ह १०।

तस्माद्बिंदोः समुत्पन्नः स्वयं धात्री नगो महान् ।

शाखाप्रशाखाबहुलः फलभारेण नामितः ११।

सर्वेषां चैव वृक्षाणामादिरोहः प्रकीर्तितः ।

ब्रह्मणाथ ततः पश्चात्संसृष्टाश्च इमाः प्रजाः १२।

देवदानवगंधर्वयक्षराक्षसपन्नगान् ।

असृजद्भगवान्देवो महर्षींश्च तथामलान् १३।

आजग्मुस्तत्र देवास्ते यत्र धात्री हरिप्रिया ।

तां दृष्ट्वा ते महाभाग परं विस्मयमागताः १४।

न जानीम इमं वृक्षं चिंतयंतोऽभिसंस्थिताः ।

एवं चिंतयतां तेषां वागुवाचाशरीरिणी १५।

आमलकी नगो ह्येष प्रवरो वैष्णवो मतः ।

अस्य संस्मरणादेव लभेद्गोदानजं फलम् १६।

स्पर्शनाद्द्विगुणं पुण्यं त्रिगुणं धारणात्तथा ।

तस्मात्सर्वप्रयत्नेन सेव्या आमलकी सदा १७।

सर्वपापहरा प्रोक्ता वैष्णवी पापनाशिनी ।

तस्या मूले स्थितो विष्णुस्तदूर्ध्वे च पितामहः १८।

स्कंधे च भगवान्रुद्रः संस्थितः परमेश्वरः ।

शाखासु मुनयः सर्वे प्रशाखासु च देवताः १९।

पर्णेषु चासते देवाः पुष्पेषु मरुतस्तथा ।

प्रजानां पतयः सर्वे फलेष्वेव व्यवस्थिताः २०।

सर्वदेवमयी ह्येषा धात्री च कथिता मया ।

तस्मात्पूज्यतमा ह्येषा विष्णुभक्तिपरायणैः २१।

ऋषय ऊचुः -

को भवान्न हि जानीमः कस्मात्कारणतां गतः ।

देवो वा यदि वा चान्यः कथयस्व यथातथम् २२।

वागुवाच -

यः कर्ता सर्वभूतानां भुवनानां च सर्वशः ।

विस्मितान्विदुषः प्रेक्ष्य सोऽहं विष्णुः सनातनः २३।

तच्छ्रुत्वा देवदेवस्य भाषितं ब्रह्मणः सुताः ।

अनादिनिधनं देवं स्तोतुं तत्र प्रचक्रमुः २४।

नमो भूतात्मभूताय आत्मने परमात्मने ।

अच्युताय नमो नित्यमनंताय नमो नमः २५।

दामोदराय कवये यज्ञेशाय नमो नमः ।

एवं स्तुतस्तु ऋषिभिस्तुतोष भगवान्हरिः २६।

प्रत्युवाच महर्षींस्तानभीष्टं किं ददामि वः ।

ऋषय ऊचुः

यदि तुष्टोऽसि भगवन्नस्माकं हितकाम्यया २७।

व्रतं किंचित्समाख्याहि स्वर्गमोक्षफलप्रदम् ।

धनधान्यप्रदं पुण्यमात्मनस्तुष्टिकारकम् २८।

अल्पायासं बहुफलं व्रतानामुत्तमं व्रतम् ।

कृतेन येन देवेश विष्णुलोके महीयते २९।

विष्णुरुवाच-

फाल्गुने शुक्लपक्षे तु पुष्येण द्वादशी यदि ।

भवेत्सा च महापुण्या महापातकनाशिनी ३०।

विशेषस्तत्र कर्त्तव्यः शृणुध्वं द्विजसत्तमाः ।

आमलकीं च संप्राप्य जागरं तत्र कारयेत् ३१।

सर्वपापविनिर्मुक्तो गोसहस्रफलं लभेत् ।

एतद्वः कथितं विप्रा व्रतानां व्रतमुत्तमम् ।

अर्चयित्वाच्युतं तस्यां विष्णुलोकान्न मुच्यते ३२।

ऋषय ऊचुः -

व्रतस्यास्य विधिं ब्रूहि परिपूर्णं कथं भवेत् ।

के मंत्राः के नमस्काराः देवता का प्रकीर्तिता ३३।

कथं दानं कथं स्नानं कश्च पूजाविधिः स्मृतः ।

अर्घार्चनस्य मंत्रं तु कथयस्व यथातथम् ३४।

विष्णुरुवाच-

श्रूयतां यो विधिः सम्यग्व्रतस्यास्य द्विजर्षभाः ।

एकादश्यां निराहारः स्थित्वा चैव परेऽहनि ३५।

भोक्ष्येऽहं पुंडरीकाक्ष शरणं मे भवाच्युत ।

इति कृत्वा तु नियमं दंतधावनपूर्वकम् ३६।

नालपेत्पतितांश्चौरांस्तथा पाषंडिनो नरान् ।

दुर्वृत्तान्भिन्नमर्यादान्गुरुदारप्रधर्षकान् ३७।

अपराह्णे ततः स्नानं विधिना कारयेद्बुधः ।

नद्यां तडागे कूपे वा गृहे वा नियतात्मवान् ३८।

मृत्तिकालंभनं पूर्वं ततः स्नानं च कारयेत् ।

अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे ३९।

मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ४०। इति मृत्तिकामंत्रः ।

त्वमंबु सर्वभूतानां जीवनं तनुरक्षकम् ।

स्वेदजोद्भिज्जजातीनां रसानां पतये नमः ४१।

स्नातोऽहं सर्वतीर्थेषु ह्रदप्रस्रवणेषु च ।

नदीषु देवखातेषु इदं स्नानं तु मे भवेत् ४२। इति स्नानमंत्रः ।

जामदग्न्यं मुनिं चैव कारयित्वा हिरण्मयम् ।

माषकस्य सुवर्णस्य तदर्द्धार्द्धेन वा पुनः ४३।

गृहमागत्य पूजायाः पूजाहोमं तु कारयेत् ।

ततश्चामलकीं गच्छेत्सर्वोपस्करसंयुतः ४४।

आमलकीं ततो गत्वा परिशोध्य समंततः ।

स्थापयेत्सततं कुंभमव्रणं मंत्रपूर्वकम् ४५।

पंचरत्नसमोपेतं दिव्यगंधाधिवासितम् ।

छत्रोपानद्युगोपेतं सितचंदनचर्चितम् ४६।

स्रग्दामलंबितग्रीवं सर्वधूपविधूपितम् ।

दीपमालाकुलं कुर्यात्सर्वतः सुमनोहरम् ४७।

तस्योपरि न्यसेत्पात्रं दिव्यलाजैः प्रपूरितम् ।

पात्रोपरि न्यसेद्देवं जामदग्न्यं महाप्रभम् ४८।

विशोकाय नमः पादौ जानुनी विश्वरूपिणे ।

उग्राय च ततोऽप्यूरू कटी दामोदराय च ४९।

उदरं पद्मनाभाय उरः श्रीवत्सधारिणे ।

चक्रिणे वामबाहुं च दक्षिणं गदिने नमः 6.45.५०।

वैकुंठाय नमः कंठमास्यं यज्ञमुखाय वै ।

नासां विशोकनिधये वासुदेवाय चाक्षिणी ५१।

ललाटं वामनायेति रामायेति भ्रुवौ नमः ।

सर्वात्मने तु तच्छीर्षं नम इत्यभिपूजयेत् ५२। इति पूजामंत्रः ।

ततो देवाधिदेवाय अर्घं चैव प्रदापयेत् ।

फलेन चैव शुभ्रेण भक्तियुक्तेन चेतसा ५३।

ततो जागरणं कुर्याद्भक्तियुक्तेन चेतसा ।

नृत्यैर्गीतैश्च वादित्रैर्द्धर्माख्यानैः स्तवैरपि ५४।

वैष्णवैश्च तथाख्यानैः क्षपयेत्सर्वशर्वरीम् ।

प्रदक्षिणां ततः कुर्याद्धात्र्या वै विष्णुनामभिः ५५।

अष्टाधिकं शतं चैव अष्टाविंशतिरेव वा ।

ततः प्रभाते समये कृत्वा नीराजनं हरेः ५६।

ब्राह्मणं पूजयित्वा तु सर्वं तस्मै निवेदयेत् ।

जामदग्न्य घटे तत्र वस्त्रयुग्ममुपानहौ ५७।

जामदग्न्यस्वरूपेण प्रीयतां मम केशवः ।

ततश्चामलकीं स्पृष्ट्वा कृत्वा चैव प्रदक्षिणाम् ५८।

स्नानं कृत्वा विधानेन ब्राह्मणान्भोजयेत्ततः ।

ततश्च स्वयमश्नीयात्कुटुंबेन समावृतः ५९।

एवं कृतेन यत्पुण्यं तत्सर्वं कथयामि ते ।

सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् ६०।

सर्वयज्ञाधिकं चैव लभते नात्र संशयः ।

एतद्वः सर्वमाख्यातं व्रतानामुत्तमं व्रतम् ६१।

एतावदुक्त्वा देवेशस्तत्रैवांतरधीयत ।

ते चापि ऋषयः सर्वे चक्रुः सर्वमशेषतः ६२।

तथा त्वमपि राजेन्द्र कर्तुमर्हसि सत्तम ।

व्रतमेतद्दुराधर्षं सर्वपापप्रमोचनम् ६३।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे फाल्गुनशुक्लामलक्येकादशीनाम पंचचत्वारिंशोऽध्यायः४५।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 46

युधिष्ठिर उवाच-

फाल्गुनस्य सिते पक्षे श्रुता चामलकी तथा ।

चैत्रस्य कृष्णपक्षे तु किं नामैकादशी भवेत् १।

श्रीकृष्ण उवाच-

शृणु राजेंद्र वक्ष्यामि आख्यानं पापनाशनम् ।

यल्लोमशोऽब्रवीत्पृष्टो मांधात्रा चक्रवर्तिना २।

मांधातोवाच -

भगवन्श्रोतुमिच्छामि लोकानां हितकाम्यया ।

चैत्रस्य प्रथमे पक्षे का नामैकादशी भवेत् ।

को विधिः किं फलं तस्याः कथयस्व प्रसादतः ३।

लोमश उवाच-

चैत्रमास्यसिते पक्षे नाम्ना वै पापमोचनी ।

एकादशी समाख्याता पिशाचत्वविनाशिनी ४।

शृणु तस्याः प्रवक्ष्यामि कामदां सिद्धिदां नृप ।

कथां विचित्रां शुभदां पापघ्नीं धर्मदायिनीम् ५।

पुरा चैत्ररथोद्देशे अप्सरोगणसेविते ।

वसंतसमये प्राप्ते षट्पदाकुलिते वने ६।

गंधर्वकन्यावादित्रै रमंति सह किंनरैः ।

पाकशासनमुख्याश्च क्रीडांते त्रिदिवौकसः ७।

नापरं सुखदं किंचिद्विना चैत्ररथाद्वनम् ।

तस्मिन्वने तु मुनयस्तपंति बहुलं तपः ८।

मेधावि नामानमृषिं तत्रस्थं ब्रह्मचारिणम् ।

अप्सरास्तं मुनिवरं मोहनायोपचक्रमे ९।

मंजुघोषेति विख्याता भावं तस्य वितन्वती ।

क्रोशमात्रं स्थिता तस्य भयादाश्रमसन्निधौ १०।

गायंती मधुरं साधु पीडयंती विपंचिकाम् ।

गायंतीं तामथालोक्य पुष्पचंदनसेविताम् ११।

कामोऽपि विजयाकांक्षी शिवभक्तान्मुनीश्वरान् ।

तस्याः शरीरे संवासमकरोन्मनसः सुतः १२।

कृत्वा भ्रुवौ धनुष्कोटिं गुणं कृत्वा कटाक्षकम् ।

मार्गणौ नयने कृत्वा पक्ष्मयुक्ते यथाक्रमम् १३।

कुचौ कृत्वा पटकुटीं विजयायोपचक्रमे ।

मंजुघोषाभवत्तस्य कामस्यैव वरूथिनी १४।

मेधाविनं मुनिं दृष्ट्वा सापि कामेन पीडिता ।

यौवनोद्भिन्नदेहोऽसौ मेधाव्यपि विराजते १५।

सितोपवीतसहितो दृष्टः स्मर इवापरः ।

मेधावी वसते चासौ च्यवनस्याश्रमे शुभे १६।

मंजुघोषा स्थितं तत्र दृष्ट्वा सा मुनिपुंगवम् ।

मदनस्य वशं प्राप्ता मंदं मंदमगायत १७।

रणद्वलयसंयुक्तां शिंजन्नूपुरमेखलाम् ।

गायंतीं तां तथाभूतां विलोक्य मुनिपुंगवः १८।

मदनेन ससैन्येन नीतो मोहवशं बलात् ।

मंजुघोषा समागम्य मुनिं दृष्ट्वा तथाविधम् १९।

हावभावकटाक्षैस्तं मोहयामास चांगना ।

अधः संस्थाप्य वीणां सा सस्वजे तं मुनीश्वरम् २०।

वलितेव लता वृक्षं वातवेगेन कंपितम् ।

सोऽपि रेमे तया सार्द्धं मेधावी मुनिपुंगवः २१।

तस्मिन्नेव ततो दृष्ट्वा तस्यास्तं देहमुत्तमम् ।

शिवतत्वं गतं तस्य कामतत्त्ववशं गतः २२।

न निशां न दिनं सोऽपि रमन्जानाति कामुकः ।

बहुवर्षं गतः कालो मुनेराचारलोपतः २३।

मंजुघोषा देवलोकगमनायोपचक्रमे ।

गच्छंती तं प्रत्युवाच रमंतं मुनिसत्तमम् ।

आदेशो दीयतां ब्रह्मन्स्वदेशगमनाय मे २४।

मेधाव्युवाच-

अद्यैव त्वं समायाता प्रदोषादौ वरानने ।

यावत्प्रभातसंध्या स्यात्तावत्तिष्ठ ममांतिके ।

इति श्रुत्वा मुनेर्वाक्यं भयभीता बभूव सा २५।

पुनर्वै रमयामास तमृषिं नृपसत्तम ।

मुनेः शापभयाद्भीता बहुलान्परिवत्सरान् २६।

वर्षाणां पंचपंचाशन्नवमासदिनत्रयम् ।

सा रेमे मुनिना तस्य निशार्द्धमिव चाभवत् २७।

सा तं पुनरुवाचाथ तस्मिन्काले गते मुनिम् ।

आदेशो दीयतां ब्रह्मन्गंतव्यं स्वगृहे मया २८।

मेधाव्युवाच-

प्रभातमधुना चास्ते श्रूयतां वचनं मम ।

संध्या यावच्च कुर्वेऽहं तावत्त्वं वै स्थिरा भव २९।

इति वाक्यं मुनेः श्रुत्वा जातानंदसमाकुला ।

स्मितं कृत्वा तु सा किंचित्प्रत्युवाच शुचिस्मिता ३०।

अप्सरा उवाच-।

कियत्प्रमाणा विप्रेंद्र तव संध्या गतानघ ।

मयि प्रसादं कृत्वा तु गतकालो विचार्यताम् ३१।

इति तस्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनः ।

गतकालस्य विप्रेंद्र प्रमाणमकरोत्तदा ३२।

समाश्च सप्तपंचाशद्गतास्तस्य तया सह ।

चुक्रोध सततस्तस्यै ज्वालामाली बभूव ह ३३।

नेत्राभ्यां विस्फुलिंगान्स मुंचमानोऽतिकोपनः ।

कालरूपां तु तां दृष्ट्वा तपसः क्षयकारिणीम् ३४।

दुःखार्जितं क्षयं नीतं तपोदृष्ट्वातयासह ।

सकंपोष्ठो मुनिस्तत्रप्रत्युवाचाकुलेंद्रियः ३५।

तां शशापाथमेधावी त्वं पिशाची भवेति च ।

धिक्त्वां पापे दुराचारे कुलटे पातकप्रिये ३६।

तस्य शापेन सा दग्धा विनयावनता स्थिता ।

उवाच वचनं सुभ्रूः प्रसादं वांछती मुनिम् ।

प्रसादं कुरु विप्रेंद्र शापस्यानुग्रहं कुरु ३७।

सतां संगो हि भवति वचोभिः सप्तभिः पदैः ।

त्वया सह मम ब्रह्मन्नीता वै बहुवत्सराः ।

एतस्मात्कारणात्स्वामिन्प्रसादं कुरु सुव्रत ३८।

मुनिरुवाच-

शृणु मे वचनं भद्रे शापानुग्रहकारकम् ।

किं करोमि त्वया पापे क्षयं नीतं महत्तपः ३९।

चैत्रस्य कृष्णपक्षे तु भवेदेकादशी शुभा ।

पापमोचनिका नाम सर्वपापक्षयंकरी ४०।

तस्या व्रते कृते शुभ्रे पिशाचत्वं प्रयास्यति ।

इत्युक्त्वा सोऽपि मेधावी जगाम पितुराश्रमम् ४१।

तमागतं समालोक्य च्यवनः प्रत्युवाचतम् ।

किमेतद्विहितं पुत्र त्वया पुण्यं क्षयं कृतम् ४२।

मेधाव्युवाच-

पातकं वै कृतं तात रमिता चाप्सरा मया ।

प्रायश्चित्तं ब्रूहि तात येन पापक्षयो भवेत् ४३।

च्यवन उवाच-

चैत्रस्य चासिते पक्षे नाम्ना वै पापमोचनी ।

अस्या व्रते कृते पुत्र पापराशिः क्षयं व्रजेत् ४४।

इति श्रुत्वा पितुर्वाक्यं कृतं तेन व्रतोत्तमम् ।

गतं पापं क्षयं तस्य तपोयुक्तो बभूव सः ४५।

साप्येवं मंजुघोषा च कृत्वैतद्व्रतमुत्तमम् ।

पिशाचत्वाद्विनिर्मुक्ता पापमोचनिकाव्रतात् ।

दिव्यरूपधरा सा वै गता नाके वराप्सराः ४६।

लोमश उवाच-

पापमोचनिकां राजन्ये कुर्वंति नरोत्तमाः ।

तेषां पापं च यत्किंचित्तत्सर्वं च क्षयं व्रजेत् ४७।

पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् ।

ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ४८।

व्रतस्य चास्य करणात्पापमुक्ता भवंति ते ।

बहुपुण्यप्रदं ह्येतत्करणाद्व्रतमुत्तमम् ४९।

इति श्री पाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे चैत्रकृष्णैकादशी पापमोचनीनाम षट्चत्वारिंशोऽध्यायः ४६।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 47

युधिष्ठिर उवाच-

वासुदेव नमस्तुभ्यं कथयस्व ममाग्रतः ।

चैत्रस्य शुक्लपक्षे तु किं नामैकादशी भवेत् १।

श्रीकृष्ण उवाच-

शृणुष्वैकमना राजन्कथां पुण्यां पुरातनीम् ।

वसिष्ठो यामकथयत्प्राग्दिलीपाय पृच्छते २।

दिलीप उवाच-

भगवञ्छ्रोतुमिच्छामि कथयस्व प्रसादतः ।

चैत्रमासि सिते पक्षे किंनामैकादशी भवेत् ३।

वसिष्ठ उवाच-

साधु पृष्टं त्वया राजन्कथयामि तवाग्रतः ।

चैत्रस्य शुक्लपक्षे तु कामदा नाम नामतः ४।

एकादशी पुण्यतमा पापेंधनदवानलः ।

शृणु राजन्कथामेतां पापघ्नीं पुण्यदायिनीम् ५।

पुरा नागपुरे रम्ये हेमरत्नविभूषिते ।

पुंडरीकमुखा नागा निवसंति महोत्कटाः ६।

तस्मिन्पुरे पुंडरीको राजा राज्यं चकार सः ।

गन्धर्वैः किन्नरैश्चैव अप्सरोभिश्च सेव्यते ७।

वराप्सरास्तु ललिता गंधर्वो ललितस्तथा ।

उभौ रागेण संरक्तौ दंपती कामपीडितौ ८।

रेमाते स्वगृहे रम्ये धनधान्ययुते तदा ।

ललितायाश्च हृदये पतिर्वसति सर्वदा ९।

हृदये तस्य ललिता नित्यं वसति भामिनी ।

एकदा पुंडरीकोऽथ क्रीडते सदसि स्थितः १०।

गीतं गानं प्रकुरुते ललितो दयितां विना ।

पदबंधस्खलज्जिह्वो बभूव ललितां स्मरन् ११।

मनोभावं विदित्वास्य कर्कटो नागसत्तमः ।

पदबंधच्युतिं तस्य पुंडरीके न्यवेदयत् १२।

श्रुत्वा कर्कोटकवचः पुंडरीको भुजंगराट् ।

क्रोधसंरक्तनयनो बभूवातिभयंकरः १३।

शशाप ललितं तत्र गायंतं मदनातुरम् ।

राक्षसो भव दुर्बुद्धे क्रव्यादः पुरुषादकः १४।

यतः पत्नीवशोपेतो गायमानो ममाग्रतः ।

वचनात्तस्य राजेंद्र रक्षोरूपो बभूव सः १५।

रौद्राननो विरूपाक्षो दृष्टमात्रो भयंकरः ।

बाहूयोजनविस्तीर्णौ मुखं कंदरसन्निभम् १६।

चंद्रसूर्यनिभे नेत्रे ग्रीवापर्वतसंनिभा ।

नासारंध्रे तु विवरे अधरौ योजनायतौ १७।

शरीरं तस्य राजेंद्र उत्थितं योजनाष्टकम् ।

ईदृशो राक्षसो भूत्वा भुंजानः कर्मणः फलम् १८।

ललिता तु तथालोक्य स्वपतिं विकृताकृतिम् ।

चिंतयामास मनसा दुःखेन महतार्दिता १९।

किं करोमि क्व गच्छामि पतिः शापेन पीडितः ।

इति संस्मृत्य संस्मृत्य मनसा शर्म नालभत् २०।

चचार पतिना सार्द्धं ललिता गहने वने ।

बभ्राम विपिने दुर्गे कामरूपी स राक्षसः २१।

निर्घृणः पापनिरतो विरूपः पुरुषादकः ।

न सुखं लभते रात्रौ न दिवा पापपीडितः २२।

ललिता दुःखितातीव पतिं दृष्ट्वा तथाविधम् ।

बभ्राम तेन सार्द्धं सा रुदती गहने वने २३।

दृष्ट्वाश्रमपदं रम्यं मुनिं संशांतविग्रहम् ।

शीघ्रं जगाम ललिता नमस्कृत्याग्रतः स्थिता २४।

तां दृष्ट्वा स मुनिः प्राह दुःखितां हि दयापरः ।

का त्वं कस्मादिहायाता सत्यं वद ममाग्रतः २५।

ललितोवाच-

वीरधन्वेति गंधर्वः सुता तस्य महात्मनः ।

ललितां नाम मां विद्धि पत्यर्थमिह चागताम् २६।

भर्ता मे पापदोषेण राक्षसोऽभून्महामुने ।

रौद्ररूपो दुराचारस्तं दृष्ट्वा नास्ति मे सुखम् २७।

सांप्रतं शाधि मां ब्रह्मन्यत्कृत्यं तद्वद प्रभो ।

कुरुष्व तद् व्रतं भद्रे विधिपूर्वं मयोदितम् २८।

ऋषिरुवाच-

चैत्रमासस्य रंभोरु शुक्लपक्षोऽस्ति सांप्रतम् ।

कामदैकादशीनाम पापघ्नी ललिते परा २९।

कुरुष्व तद्व्रतं भद्रे विधिपूर्वं मयोदितम् ।

अस्य व्रतस्य यत्पुण्यं तत्स्वभर्त्रे प्रदीयताम् ३०।

दत्ते पुण्येक्षणात्तस्य शापदोषः प्रयास्यति ।

इति श्रुत्वा मुनेर्वाक्यं ललिता हर्षिताभवत् ३१।

उपोष्यैकादशीं राजन्द्वादशीदिवसे तथा ।

विप्रस्यैव समीपे तद्वासुदेवस्य चाग्रतः ३२।

वाक्यमुवाच ललिता स्वपत्युस्तारणाय वै ।

मया तु तद्व्रतं चीर्णं कामदाया उपोषणम् ३३।

तस्य पुण्यप्रभावेन गच्छत्वस्य पिशाचता ।

ललितावचनादेव वर्त्तमानोऽपि तत्क्षणे ३४।

गतपापः स ललितो दिव्यदेहो बभूव ह ।

राक्षसत्वं गतं तस्य प्राप्ता गंधर्वता पुनः ३५।

हेमरत्नसमाकीर्णो रेमे ललितया सह ।

विमानवरमारूढौ पूर्वरूपाधिकौ च तौ ३६।

दंपती अत्यशोभेतां कामदायाः प्रभावतः ।

इति ज्ञात्वा नृपश्रेष्ठ कर्तव्यैषा प्रयत्नतः ३७।

लोकानां तु हितार्थाय तवाग्रे कथिता मया ।

ब्रह्महत्यादि पापघ्नी पिशाचत्वविनाशनी ३८।

नातः परतरा काचित्त्रैलोक्ये सचराचरे ।

पठनाच्छ्रवणाद्राजन्वाजपेयफलं लभेत् ३९।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे चैत्रशुक्ला कामदानाम सप्तचत्वारिंशोऽध्यायः ४७।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 48

युधिष्ठिर उवाच-

वैशाखस्यासिते पक्षे किंनामैकादशी भवेत् ।

महिमानं कथय मे वासुदेव नमोऽस्तु ते १।

श्रीकृष्ण उवाच-

सौभाग्यदायिनी राजन्निहलोके परत्र च ।

वैशाखकृष्णपक्षे तु नाम्ना चैव वरूथिनी २।

वरूथिन्या व्रतेनैव सौख्यं भवति सर्वदा ।

पापहानिश्च भवति सौभाग्यप्राप्तिरेव च ३।

दुर्भगा या करोत्येनां सा स्त्री सौभाग्यमाप्नुयात् ।

लोकानां चैव सर्वेषां भुक्तिमुक्तिप्रदायिनी ४।

सर्वपापहरा नॄणां गर्भवासनिकृंतनी ।

वरूथिन्या व्रतेनैव मांधाता स्वर्गतिं गतः ५।

धुंधुमारादयश्चान्ये राजानो बहवस्तथा ।

ब्रह्मकपालनिर्मुक्तो बभूव भगवान्भवः ६।

दशवर्षसहस्राणि तपस्तप्यति यो नरः ।

कुरुक्षेत्रे रविग्रहे स्वर्णभारं ददाति यः ।

तत्तुल्यंफलमाप्नोतिवरूथिन्याव्रतंचरन् ७।

श्रद्धावान्यस्तु कुरुते वरूथिन्या व्रतं नरः ।

वांछितं लभते सोऽपि इहलोके परत्र च ८।

पवित्रा पावनी ह्येषा महापातकनाशिनी ।

भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम ९।

अश्वदानान्नृपश्रेष्ठ गजदानं विशिष्यते ।

गजदानाद्भूमिदानं तिलदानं ततोऽधिकम् १०।

तस्माच्च स्वर्णदानं वै अन्नदानं ततोऽधिकम् ।

अन्नदानात्परं दानं न भूतं न भविष्यति ११।

पितृदेवमनुष्याणां तृप्तिरन्नेन जायते ।

तत्समं कविभिः प्रोक्तं कन्यादानं नृपोत्तम १२।

धेनुदानं च तत्तुल्यमित्याह भगवान्स्वयम् ।

प्रोक्तेभ्यः सर्वदानेभ्यो विद्यादानं विशिष्यते १३।

तत्फलं समवाप्नोति नरः कृत्वा वरूथिनीम् ।

कन्यावित्तेन जीवंति ये नराः पापमोहिताः १४।

पुण्यक्षयं ते गच्छंति निरयं यातनामयम् ।

तस्मात्सर्वप्रयत्नेन न ग्राह्यं कन्यकाधनम् १५।

यश्च गृह्णाति लोभेन कन्यां क्रीत्वा च तद्धनम् ।

सोऽन्यजन्मनि राजेंद्र ओतुर्भवति निश्चितम् १६।

कन्यां पुण्येन यो दद्याद्यथाशक्ति स्वलंकृताम् ।

तत्पुण्यसंख्यां नृपते चित्रगुप्तो न शक्नुयात् १७।

तत्तुल्यं फलमाप्नोति नरः कृत्वा वरूथिनीम् ।

कांस्यं मांसं मसूरांश्च चणकान्कोद्रवांस्तथा १८।

शाकं मधु परान्नं च पुनर्भोजन मैथुने ।

वैष्णवो व्रतकर्ता च दशम्यां दश वर्जयेत् १९।

द्यूतं क्रीडां च निद्रां च तांबूलं दंतधावनम् ।

परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् २०।

क्रोधं चैवानृतं वाक्यमेकादश्यां विवर्जयेत् ।

कांस्यं मांसं सुरां क्षौद्रं तैलं पतितभाषणम् २१।

व्यायामं च प्रवासं च पुनर्भोजनमैथुनम् ।

वृषपृष्ठं मसूरान्नं द्वादश्यां परिवर्जयेत् २२।

अनेन विधिना राजन्विहिता यैर्वरूथिनी ।

सर्वपापक्षयं कृत्वा दद्यात्प्रांतेऽक्षयां गतिम् ।

रात्रौ जागरणं कृत्वा पूजितो मधुसूदनः २३।

सर्वपापविनिर्मुक्तास्ते यांति परमां गतिम् ।

तस्मात्सर्वप्रयत्नेन कर्तव्या पापभीरुभिः २४।

क्षपारितनयाद्भीतो नरः कुर्याद्वरूथिनीम् ।

पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् ।

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते २५।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे वैशाखकृष्णवरूथिनी एकादशी नाम अष्टचत्वारिंशोऽध्यायः ४८।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 49

युधिष्ठिर उवाच-

वैशाख शुक्लपक्षे तु किन्नामैकादशी भवेत् ।

किं फलं को विधिस्तत्र कथयस्व जनार्दन १।

श्रीकृष्ण उवाच-

इदमेव पुरा पृष्टं रामचंद्रेण धीमता ।

वसिष्ठं प्रति राजेंद्र यत्त्वं मामनुपृच्छसि २।

राम उवाच-

भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् ।

सर्वपापक्षयकरं सर्वदुःखनिकृंतनम् ३।

मया दुःखानि भुक्तानि सीताविरहजानि तु ।

ततोऽहं भयभीतोऽस्मि पृच्छामि त्वां महामुने ४।

वसिष्ठ उवाच-

साधु पृष्टं त्वया राम तवैषा नैष्ठिकी मतिः ।

त्वन्नामग्रहणेनैव पूतो भवति मानवः ५।

तथापि कथयिष्यामि लोकानां हितकाम्यया ।

पवित्रं पावनानां च व्रतानामुत्तमं व्रतम् ६।

वैशाखस्य सिते पक्षे राम चैकादशी भवेत् ।

मोहिनी नाम सा प्रोक्ता सर्वपापहरापराः ७।

मोहजालात्प्रमुच्यंते पातकानां समूहतः ।

अस्या व्रत प्रभावेन सत्यं सत्यं वदाम्यहम् ८।

अतः कारणतो राम कर्तव्यैषा भवादृशैः ।

पातकानां क्षयकरी महादुःखविनाशिनी ९।

शृणुष्वैकमना राम कथां पापहरां पराम् ।

यस्याः श्रवणमात्रेण महापापं प्रणश्यति १०।

सरस्वत्यास्तटे रम्ये पुरी भद्रावती शुभा ।

द्युतिमान्नाम नृपतिस्तत्र राज्यं करोति वै ११।

चंद्रवंशोद्भवो नाम धृतिमान्सत्यसंगरः ।

तत्र वैश्यो निवसति धनधान्यसमृद्धिमान् १२।

धनपाल इति ख्यातः पुण्यकर्मप्रवर्त्तकः ।

प्रपा कूप मठाराम तडाग गृहकारकः १३।

विष्णुभक्तिरतः शांतस्तस्यासन्पंचपुत्रकाः ।

सुमना द्युतिमांश्चैव मेधावी सुकृतस्तथा १४।

पंचमो धृष्टबुद्धिश्च महापापरतः सदा ।

परस्त्रीसंगनिरतो विटगोष्ठी विशारदः १५।

द्यूतादि व्यसनासक्तः परस्त्री रतिलालसः ।

न च देवार्चने बुद्धिर्नपितॄन्न द्विजान्प्रति १६।

अन्यायवर्ती दुष्टात्मा पितुर्द्रव्यक्षयंकरः ।

अभक्ष्यभक्षकः पापी सुरापाने रतः सदा १७।

वेश्याकंठे क्षिप्तबाहुर्भ्रमन्दुष्टश्चतुष्पथे ।

पित्रा निष्कासितो गेहात्परित्यक्तश्च बांधवैः १८।

स्वदेहभूषणान्येव क्षयं नीतानि तेन वै ।

गणिकाभिः परित्यक्तो निंदितश्च धनक्षयात् १९।

ततश्चिंतापरो जातो वस्त्रहीनः क्षुधार्दितः ।

किं करोमि क्वगच्छामि केनोपायेन जीव्यते २०।

तस्करत्वं समारब्धं तत्रैव नगरे पितुः ।

गृहीतो राजपुरुषैर्मुक्तश्च पितृगौरवात् २१।

पुनर्बद्धः पुनस्त्यक्तः पुनर्बद्धः ससंभ्रमैः ।

धृष्टबुद्धिर्दुराचारो निबध्य निगडै र्दृढैः २२।

कशाघातैस्ताडितश्च पीडितश्च पुनः पुनः ।

न स्थातव्यं हि मंदात्मंस्त्वया मद्देशगोचरे २३।

एवमुक्त्वा ततो राज्ञा मोचितो दृढबंधनात् ।

निर्जगाम भयात्तस्य गतोऽसौ गहनं वनम् २४।

क्षुत्तृषापीडितश्चायमितश्चेतश्च धावति ।

सिंहवन्निजघानासौ मृग शूकर चित्रलान् २५।

आमिषाहार निरतो वने तिष्ठति सर्वदा ।

करे शरासनं कृत्वा निषंगं पृष्ठ संगतम् २६।

अरण्यचारिणो हंति पक्षिणश्च पदाचरन् ।

चकोरांश्च मयूरांश्च कंक तित्तिर मूषिकान् २७।

एतानन्यान्हिनस्त्यंधो धृष्टबुद्धिस्तु निर्घृणः ।

पूर्वजन्मकृतैः पापैर्निमग्नः पापकर्दमे २८।

दुःखशोकसमाविष्टः पीड्यमानो दिवानिशम् ।

कौंडिन्यस्याश्रमपदं प्राप्तः पुण्यागमात्क्वचित् २९।

माधवे मासि जाह्नव्याः कृतस्नानं तपोधनम् ।

आससाद धृष्टबुद्धिः शोकभारेण पीडितः ३०।

तद्वस्त्रबिंदुस्पर्शेन गतपापो हताशुभः ।

कौंडिन्यस्याग्रतः स्थित्वा प्रत्युवाच कृतांजलि ३१।

धृष्टबुद्धिरुवाच-

भो भो ब्रह्मन्द्विजश्रेष्ठ दयां कृत्वा ममोपरि ।

येन पुण्यप्रभावेन मुक्तिर्भवति तद्वद ३२।

कौंडिन्य उवाच-

शृणुष्वैकमनाभूत्वा येन पापक्षयस्तव ।

वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता ३३।

एकादशीव्रतं तस्याः कुरु मद्वाक्यनोदितः ।

मेरुतुल्यानि पापानि क्षयं गच्छंति देहिनाम् ३४।

बहुजन्मार्जितान्येषा मोहिनी समुपोषिता ।

इति वाक्यं मुनेः श्रुत्वा धृष्टबुद्धिः प्रसन्नधीः ३५।

व्रतं चकार विधिवत्कौंडिन्यस्योपदेशतः ।

कृते व्रते नृपश्रेष्ठ गतपापो बभूव सः ३६।

दिव्यदेहस्ततो भूत्वा गरुडोपरिसंस्थितः ।

जगाम वैष्णवं लोकं सर्वोपद्रव वर्जितम् ३७।

इतीदृशं रामचंद्र उत्तमं मोहिनी व्रतम् ।

नातः परतरं किंचित्त्रैलोक्ये सचराचरे ३८।

यज्ञादितीर्थदानानि कलां नार्हंति षोडशीम् ।

पठनाच्छ्रवणाद्राजन्गोसहस्र फलं लभेत् ३९।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां सहितायामुत्तरखंडे उमापतिनारदसंवादे वैशाखशुक्ले मोहन्येकादशीनाम एकोनपंचाशत्तमोऽध्यायः४९।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 50

युधिष्ठिर उवाच-

ज्येष्ठस्य कृष्णपक्षे तु किं नामैकादशी भवेत् ।

श्रोतुमिच्छामि माहात्म्यं तद्वदस्व जनार्दन १।

श्रीकृष्ण उवाच-

साधु पृष्टं त्वया राजन्लोकानां हितकाम्यया ।

बहुपुण्यप्रदा ह्येषा महापातकनाशिनी २।

अपरा नाम राजेंद्र अपरा पुत्रदायिनी ।

लोके प्रसिद्धितां याति अपरां यस्तु सेवते ३।

ब्रह्महत्याभिभूतोऽपि गोत्रहा भ्रूणहा तथा ।

परापवादवादी च परस्त्री रसिकोऽपि च ४।

अपरा सेवनाद्राजन्विपाप्मा भवति ध्रुवम् ।

कूटसाक्ष्यं कूटमानं तुलाकूटं करोति यः ५।

कूटवेदं पठेद्यस्तु कूटशास्त्रं तथैव च ।

ज्योतिषी गणकः कूटः कूटायुर्वैदिको भिषक् ६।

कूटसाक्ष्य समायुक्तो विज्ञेया नरकौकसः ।

अपरा सेवनाद्राजन्पापैर्मुक्ता भवंति ते ७।

क्षत्त्रियः क्षात्रधर्मं यस्त्यक्त्वा युद्धात्पलायते ।

स याति नरकं घोरं स्वीयधर्मबहिष्कृतः ८।

अपरा सेवनात्सोऽपि पापं त्यक्त्वा दिवं व्रजेत् ।

विद्यावान्यः स्वयं शिष्यो गुरुनिंदां करोति च ९।

स महापातकैर्युक्तो निरयं याति दारुणम् ।

अपरा सेवनात्सोऽपि सद्गतिं प्राप्नुयान्नरः १०।

महिमानमपरायाः शृणु राजन्वदाम्यहम् ।

मकरस्थे रवौ माघे प्रयागे यत्फलं नृणाम् ११।

काश्यां यत्प्राप्यते पुण्यमुपरागे निमज्जनात् ।

गयायां पिंडदानेन पितॄणां तृप्तिदो यथा १२।

सिंहस्थिते देवगुरौ गौतम्यां स्नातको नरः ।

कन्यागते गुरौ राजन्कृष्णवेणी निमज्जनात् १३।

यत्फलं समवाप्नोति कुंभकेदार दर्शनात् ।

बदर्याश्रमयात्रायां तत्तीर्थसेवनादपि १४।

यत्फलं समवाप्नोति कुरुक्षेत्रे रविग्रहे ।

गजाश्व हेमदानेन यज्ञं कृत्वा सदक्षिणम् १५।

तादृशं फलमाप्नोति अपरा व्रतसेवनात् ।

अर्धप्रसूतां गां दत्वा सुवर्णं वसुधां तथा १६।

नरो यत्फलमाप्नोति अपराया व्रतेन तत् ।

पापद्रुमकुठारीयं पापेंधन दवानलः १७।

पापांधकारतरणिः पापसारंग केसरी ।

बुद्बुदा इव तोयेषु पुत्तिका इव जंतुषु १८।

जायंते मरणायैव एकादश्या व्रतं विना ।

अपरां समुपोष्यैव पूजयित्वा त्रिविक्रमम् १९।

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ।

लोकानां च हितार्थाय तवाग्रे कथितं मया ।

पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् २०।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे ज्येष्ठकृष्णापरैकादशीनाम पंचाशत्तमोऽध्यायः ५०।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 51

युधिष्ठिर उवाच-

अपरायाश्च माहात्म्यं श्रुतं सर्वं जनार्दन ।

ज्येष्ठस्य शुक्लपक्षे तु स्याद्या तां वद मानद १।

श्रीकृष्ण उवाच-

एनां वक्ष्यति धर्मात्मा व्यासः सत्यवतीसुतः ।

सर्वशास्त्रार्थतत्त्वज्ञो वेदवेदांगपारगः २।

युधिष्ठिर उवाच-

श्रुता मे मानवा धर्मा वासिष्ठाश्च श्रुता मया ।

द्वैपायन यथावत्त्वं वैष्णवान्वक्तुमर्हसि ३।

श्रीवेदव्यास उवाच -

श्रुतास्तु मानवा धर्मा वैदिकाश्च श्रुतास्त्वया ।

कलौ युगे न शक्यंते ते वै कर्तुं नराधिप ४।

सुखोपायमल्पधनमल्पक्लेशं महाफलम् ।

पुराणानां च सर्वेषां सारभूतं महामते ५।

एकादश्यां न भुंजीत पक्षयोरुभयोरपि ।

द्वादश्यां तु शुचिर्भूत्वा पुष्पैः संपूज्य केशवम् ६।

अन्नं भुंजीत सत्कृत्य पश्चाद्विप्रपुरःसरम् ।

सूतकेऽपि न भोक्तव्यं नाशौचे च जनाधिप ७।

यावज्जीवं व्रतमिदं कर्त्तव्यं पुरुषर्षभ ।

स्वर्गतिं प्राप्तुमिच्छद्भिरत्र नैवास्ति संशयः ८।

आपपापा दुराचाराः पापिष्ठा धर्मवर्जिताः ।

एकादश्यां न भुंजाना न ते यांति यमांतिकम् ९।

इति तद्वचनं श्रुत्वा कंपितोऽश्वत्थपत्रवत् ।

भीमसेनो महाबाहुर्नत्वोवाच गुरुं प्रति १०।

भीमसेन उवाच-

पितामह महाबुद्धे शृणु मे परमं वचः ।

युधिष्ठिरश्च कुंती च तथा द्रुपदनंदिनी ११।

अर्जुनो नकुलश्चैव सहदेवस्तथैव च ।

एकादश्यां न भुंजंति कदाचिदपि सुव्रताः १२।

ते मां ब्रुवंति वै नित्यं मा भुंक्ष्व त्वं वृकोदर ।

अहं तानब्रुवं तात बुभुक्षा दुःसहा मम १३।

दानं दास्यामि विधिवत्पूजयिष्यामि केशवम् ।

भीमसेनवचः श्रुत्वा व्यासो वचनमब्रवीत् १४।

व्यास उवाच-

यदि स्वर्गमभीष्टं ते नरकं दुष्टमेव च ।

एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि १५।

भीमसेन उवाच-

पितामह महाबुद्धे कथयामि तवाग्रतः ।

एकभक्ते न शक्नोमि उपवासे कुतः प्रभो १६।

वृकोऽपिनाम यो वह्निः स सदा जठरे मम ।

अतिवेलं यदाश्नामि तदा समुपशाम्यति १७।

नैकं शक्नोम्यहं कर्तुमुपवासं महामुने ।

येनैव प्राप्यते स्वर्गस्तत्कर्त्तास्मि यथातथम् ।

तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् १८।

व्यास उवाच-

वृषस्थे मिथुनस्थे वा यदा चैकादशी भवेत् ।

ज्येष्ठमासे प्रयत्नेन सोपोष्योदकवर्जिता १९।

गंडूषाचमनं वारि वर्जयित्वोदकं बुधः ।

उपभुंजीत नैवेह व्रतभंगोऽन्यथा भवेत् २०।

उदयादुदयं यावद्वर्जयित्वोदकं नरः ।

श्रूयतां समवाप्नोति द्वादशद्वादशी फलम् २१।

ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत् ।

जलं सुवर्णं दत्त्वा च द्विजातिभ्यो यथाविधि २२।

भुंजीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशी ।

एवं कृते च यत्पुण्यं भीमसेन शृणुष्व तत् २३।

संवत्सरे तु याश्चैव एकादश्यो भवंति हि ।

तासां फलमवाप्नोति ह्यत्र मे नास्ति संशयः २४।

इति मां केशवः प्राह शंखचक्रगदाधरः ।

सर्वान्परित्यज्य पुमान्मामेकं शरणं व्रजेत् २५।

एकादश्यां निराहारस्ततः पापात्प्रमुच्यते ।

द्रव्यशुद्धिः कलौ नास्ति संस्कारः स्मार्त्त एव च २६।

वैदिकस्तु कुतश्चापि प्राप्ते दुष्टे कलौ युगे ।

किं नु ते बहुनोक्तेन वायुपुत्र पुनः पुनः २७।

एकादश्यां न भुंजीत पक्षयोरुभयोरपि ।

एकादश्यां सिते पक्षे ज्येष्ठेमास्युदकं विना २८।

पुण्यं फलमवाप्नोति तच्छृणुष्व वृकोदर ।

संवत्सरे तु या प्रोक्ताः शुक्लः कृष्णा वृकोदर २९।

उपोषिता हि सर्वाः स्युरेकादश्यो न संशयः ।

धनधान्यप्रदा पुण्या पुत्रारोग्यशुभप्रदा ३०।

उपोषिता नरव्याघ्र इति सत्यं ब्रवीमि ते ।

यमदूता महाकायाः करालाः कृष्णरूपिणः ३१।

दंडपाशधरा रौद्रा नोपसर्पंति तं नरम् ।

पीतांबरधरा सौम्याश्चक्रहस्ता मनोजवाः ३२।

अंतकालेन यंत्येते वैष्णवान्वैष्णवीपुरीम् ।

तस्मात्सर्वप्रयत्नेन उपोष्योदकवर्जिता ३३।

जलधेनुं तदा दत्त्वा सर्वपापैः प्रमुच्यते ।

ततस्त्वमस्यां कौंतेय सोपवासोऽर्चनं हरेः ३४।

कुरु सर्वप्रयत्नेन सर्वपापप्रशांतये ।

स्वप्नेन मेऽपराधोस्ति दंतरागतयापि वा ३५।

भोक्ष्येपरेऽह्नि देवेश ह्यशनं वासराद्धरेः ।

इत्युच्चार्य ततो मंत्र उपवासपरो भवेत् ३६।

सर्वपापविनाशाय श्रद्धा दम समन्वितः ।

मेरुमंदरमात्राघं स्त्रिया पुंसा च यत्कृतम् ३७।

सर्वं तद्भस्मतां याति एकादश्याः प्रभावतः ।

न शक्नुवंति ये दातुं जलधेनुं नराधिप ३८।

सकांचनः प्रदातव्यो घटको वस्त्रसंयुतः ।

तोयस्य नियमं योऽस्या कुरुते वै स पुण्यभाक् ३९।

फलं कोटिसुवर्णस्य यामेयामे श्रुतं फलम् ।

स्नानं दानं जपं होमं यदस्यां कुरुते नरः ४०।

तत्सर्वं चाक्षयं प्राप्तमेतत्कृष्णप्रभाषितम् ।

किं वापरेण धर्मेण निर्जलैकादशीं विना ४१।

उपोष्य सम्यग्विधिवद्वैष्णवं पदमाप्नुयात् ।

सुवर्णमन्नं वासो वा यदस्यां संप्रदीयते ४२।

तदस्य कुरुशार्दूल सर्वं चाप्यक्षयं भवेत् ।

एकादश्यां दिने योऽन्नं भुंक्ते पापं भुनक्ति सः ४३।

इहलोके स चांडालो मृतः प्राप्नोति दुर्गतिम् ।

ये च दास्यंति दानानि द्वादश्यां समुपोषिताः ४४।

ज्येष्ठमासे सिते पक्षे प्राप्स्यंति परमं पदम् ।

ब्रह्महा मद्यपः स्तेनो गुरुद्वेषी सदानृती ४५।

मुच्यंते पातकैः सर्वैर्निर्जलायैरुपोषिता ।

विशेषं शृणु कौंतेय निर्जलैकादशी दिने ४६।

यत्कर्त्तव्यं नरैः स्त्रीभिर्दानं श्रद्धासमन्वितैः ।

जलशायी च संपूज्यो देया धेनुस्तथाम्मयी ४७।

प्रत्यक्षा वा नृपश्रेष्ठ घृतधेनुरथापि वा ।

दक्षिणाभिः सुपुष्टाभिर्मिष्टान्नैश्च पृथग्विधैः ४८।

तोषणीयाः प्रयत्नेन द्विजा धर्मभृतां वर ।

तुष्टा भवंति वै विप्रास्तैस्तुष्टैर्मोक्षदो हरिः ४९।

आत्मद्रोहः कृतस्तैर्हि यैरेषा न ह्युपोषिता ।

पापात्मानो दुराचारा मुष्टास्ते नात्र संशयः 6.51.५०।

कुलानां शतमागामि अतीतानां तथा शतम् ।

आत्मना सह तैर्नीतं वासुदेवस्य मंदिरम् ५१।

शांतैर्दांतैर्दानपरैरर्चयद्भिस्तथा हरिम् ।

कुर्वद्भिर्जागरं रात्रौ यैरेषा समुपोषिता ५२।

अन्नं वस्त्रं तथा गावो जलं शय्यासनं शुभम् ।

कमंडलुं तथा छत्रं दातव्यं निर्जला दिने ५३।

उपानहौ यो ददाति पात्रभूते द्विजोत्तमे ।

स सौवर्णेन यानेन स्वर्गलोके महीयते ५४।

यश्चेमां शृणुयाद्भक्त्या यश्चापि परिकीर्तयेत् ।

उभौ तौ स्वर्गमाप्नोति नात्र कार्या विचारणा ५५।

यत्फलं संनिहत्यायां राहुग्रस्ते दिवाकरे ।

कृत्वा श्राद्धं लभेन्मर्त्यस्तदस्याः श्रवणादपि ५६।

नियमं च प्रकर्त्तव्यं दंतधावनपूर्वकम् ।

एकादश्यां निराहारो वर्जयिष्यामि वै जलम् ५७।

केशवप्रीणनार्थाय अन्यदाचमनादृते ।

द्वादश्यां देवदेवेशः पूजनीयस्त्रिविक्रमः ५८।

गंधैर्धूपैस्तथा पुष्पैर्वासोभिः प्रियदर्शनैः ।

पूजयित्वा विधानेन मंत्रमेतमुदीरयेत् ५९।

देवदेव हृषीकेश संसारार्णवतारक ।

उदकुंभप्रदानेन नय मां परमां गतिम् ६०।

ज्येष्ठे मासि तु वै भीम या शुक्लैकादशी शुभा ।

निर्जला समुपोष्यात्र जलकुंभान्सशर्करान् ६१।

प्रदाय विप्रमुख्येभ्यो मोदते विष्णुसन्निधौ ।

ततः कुंभाः प्रदातव्या ब्राह्मणानां च भक्तितः ६२।

भोजयित्वा ततो विप्रान्स्वयं भुंजीत तत्परः ।

एवं यः कुरुते पूर्णां द्वादशीं पापनाशिनीम् ६३।

सर्वपापविनिर्मुक्तो पदं गच्छत्यनामयम् ।

ततः प्रभृति भीमेन कृता ह्येकादशी शुभा ।

पांडवद्वादशी नाम्ना लोके ख्याता बभूव ह ६४।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितयामुत्तरखंडे उमापतिनारदसंवादे ज्येष्ठशुक्ला निर्जलैकादशीनामैकपंचाशत्तमोऽध्यायः ५१।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 52

युधिष्ठिरउवाच-

आषाढकृष्णपक्षे तु किं वै एकादशी भवेत् ।

कथयस्व प्रसादेन वासुदेव ममाग्रतः १।

श्रीकृष्ण उवाच-

व्रतानामुत्तमं राजन्कथयामि तवाग्रतः ।

सर्वपापक्षयकरं सर्वमुक्तिप्रदायकम् २।

आषाढस्यासिते पक्षे योगिनी नाम नामतः ।

एकादशी नृपश्रेष्ठ महापातकनाशिनी ३।

संसारार्णवमग्नानां पोतभूता सनातनी ।

जगत्त्रये सारभूता योगिनी व्रतकारिणाम् ४।

कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम् ।

अलकायां राजराजः शिवभक्तिपरायणः ५।

तस्यासीत्पुष्पबटुको हेममालीति नामतः ।

तस्य पत्नी सुरूपा च विशालाक्षीति नामतः ६।

स तस्यां चासक्तमना कामपाशवशं गतः ।

मानसात्पुष्पनिचयमानीय स्वगृहे स्थितः ७।

पत्नीप्रेमरसासक्तो न कुबेरालयं गतः ।

कुबेरो देवसदने करोति शिवपूजनम् ८।

मध्याह्नसमये राजन्पुष्पागमसमीक्षकः ।

हेममाली स्वभवने रमते कांतया सह ९।

यक्षराट्प्रत्युवाचाथ कालातिक्रमकोपितः ।

कस्मान्नायाति भो यक्षा हेममाली दुरात्मवान् ।

निश्चयः क्रियतामस्य इत्युवाच पुनः पुनः १०।

यक्षा ऊचुः -

वनिताकामुको गेहे रमते स्वेच्छया नृप ।

तेषां वाक्यं समाकर्ण्य कुबेरः कोपपूरितः ११।

आह्वयामास तं तूर्णं बटुकं हेममालिनम् ।

ज्ञात्वा कालात्ययं सोऽपि भयव्याकुललोचनः १२।

अस्नात एव आगत्य कुबेरस्याग्रतः स्थितः ।

तं दृष्ट्वा धनदः क्रुद्धः क्रोधसंरक्तलोचनः १३।

प्रत्युवाच रुषाविष्टः कोपप्रस्फुरिताधरः ।

धनद उवाच-

आः पाप दुष्ट दुर्वृत्त कृतवान्देवहेलनम् १४।

अष्टादशकुष्ठवृतो वियुक्तः कांतया तया ।

अस्मात्स्थानादपध्वस्तो गच्छ स्वप्नमथाधम १५।

इत्युक्ते वचने तस्य तस्मात्स्थानात्पपात सः ।

महादुःखाभिभूतश्च कुष्ठैः पीडितविग्रहः १६।

न सुखं दिवसे तस्य न निद्रां लभते निशि ।

छायायां पीडिततनुर्निदाघेऽत्यंतपीडितः १७।

शिवपूजाप्रभावेन स्मृतिस्तस्य न लुप्यते ।

पातकेनाभिभूतोऽपि पूर्वं कर्म स्मरत्यसौ १८।

भ्रममाणस्ततो गच्छन्हिमाद्रिं पर्वतोत्तमम् ।

तत्रापश्यन्मुनिवरं मार्कंडेयं तपोनिधिम् १९।

यस्यायुर्विद्यते राजन्ब्रह्मणो वयसा समम् ।

ववंदे चरणौ तस्य दूरतः पापकर्मकृत् २०।

मार्कंडेयो मुनिवरो दृष्ट्वा तं कंपितं तथा ।

परोपकरणार्थाय समाहूयेदमब्रवीत् २१।

कस्मात्कुष्ठाभिभूतस्त्वं कुतो निंद्यतरो ह्यसि ।

इत्युक्तः स प्रत्युवाच मार्कंडेयं महामुनिम् २२।

हेममाल्युवाच-

राजराजस्यानुचरो हेममालीति नामतः ।

मानसात्पद्मनिचयमानीय प्रत्यहं मुने २३।

शिवपूजनवेलायां कुबेराय समर्पये ।

एकस्मिन्दिवसे चैव कालश्चाविदितो मया २४।

पत्नीसौख्यप्रसक्तेन शोकव्याकुलचेतसा ।

ततः क्रुद्धेन शप्तोऽस्मि राजराजेन वै मुने २५।

कुष्ठाभिभूतः संजातो वियुक्तः कांतया तया ।

अधुना तव सान्निध्यं प्राप्तोऽस्मि शुभकर्मणा २६।

सतां स्वभावतश्चित्तं परोपकरणे क्षमम् ।

इति ज्ञात्वा मुनिश्रेष्ठ मां प्रशाधि कृतागसम् २७।

मार्कंडेय उवाच-

त्वया सत्यमिह प्रोक्तं नासत्यं भाषितं यतः ।

अतो व्रतोपदेशं ते कथयामि शुभप्रदम् २८।

आषाढे कृष्णपक्षे तु योगिनीव्रतमाचर ।

अस्य व्रतस्य पुण्येन कुष्ठं यास्यति वै ध्रुवम् २९।

इति वाक्यमृषेः श्रुत्वा दंडवत्पतितो भुवि ।

उत्थापितः स मुनिना बभूवातीव हर्षितः ३०।

मार्कंडेयोपदेशेन व्रतं तेन कृतं यथा ।

अष्टादशेव कुष्ठानि गतानि तस्य सर्वशः ३१।

मुनेर्वाचा ततः सम्यग्व्रते चीर्णेऽभवत्सुखी ।

ईदृग्विधं नृपश्रेष्ठ कथितं योगिनीव्रतम् ३२।

अष्टाशीतिसहस्राणि द्विजान्भोजयते तु यः ।

तत्समं फलमाप्नोति योगिनीव्रतकृन्नरः ३३।

महापापप्रशमनं महापुण्यफलप्रदम् ।

पठनाच्छ्रवणान्मर्त्यः सर्वपापैः प्रमुच्यते ३४।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे आषाढकृष्णयोगिन्येकादशीमाहात्म्यंनाम

द्विपंचाशत्तमोऽध्यायः ५२।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 53

युधिष्ठिर उवाच-

आषाढस्य सिते पक्षे का च एकादशी भवेत् ।

किं नाम को विधिस्तस्या एतद्विस्तरतो वद १।

श्रीकृष्ण उवाच-

कथयामि महापुण्यां स्वर्गमोक्षप्रदायिनीम् ।

शयनीं नामनामेति सर्वपापहरां पराम् २।

यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् ।

सत्यं सत्यं मया प्रोक्तं नातः परतरं नृणाम् ३।

पापिनां पापनाशाय सृष्टा धात्रा महोत्तमा ।

अतः परा न राजेंद्र वर्त्तते मोक्षदायिनी ४।

एतस्मात्कारणाद्राजन्श्रूयतां गतिरुत्तमा ।

भवेन्नराणां श्रोतॄणां कथायाः श्रवणादपि ५।

ते सदा वैष्णवा राजन्मम भक्तिपरायणाः ।

आषाढे वामनश्चैव पूज्यते परमेश्वरः ६।

वामनः पूजितो येन कमलैः कमलेक्षणः ।

आषाढस्य सिते पक्षे कामिकाया दिने तथा ७।

तेनार्चितं जगत्सर्वं त्रयो देवाः सनातनाः ।

कृता चैकादशी येन हरिवासरमुत्तमम् ८।

युधिष्ठिर उवाच-

संशयोऽस्ति महान्मेऽत्र श्रूयतां पुरुषोत्तम ।

कथं सुप्तोऽसि देवेश कथं च बलिमाश्रितः ९।

कथं च भूमौ संवेशः किं कुर्वंति जनाः परे ।

एतद्वद महाप्राज्ञ संशयोऽस्ति महान्मम १०।

श्रीकृष्ण उवाच -

श्रूयतां राजशार्दूल कथां पापहरां पराम् ।

यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत् ११।

बलिनामा पूर्वमासीद्दैत्यस्त्रेतायुगे नृप ।

पूजयंश्चैव मां नित्यं मद्भक्तो मत्परायणः १२।

यज्ञैस्तु विधिवद्दैत्यो यजते मां सनातनम् ।

भक्त्या च परया राजन्यज्ञकृद्व्रतकृत्तथा १३।

परं विचार्य बहुधा मघोना चैव सूक्तिभिः ।

गुरुणा दैवतैः सार्द्धं बहुधा पूजितोऽप्यहम् १४।

ततो वामनरूपेण अवतारे च पंचमे ।

अत्युग्ररूपेण तदा सर्वब्रह्मांडरूपिणा १५।

वाक्छलेन जिता दैत्याः सत्यमाश्रित्य संस्थितः ।

शुक्रस्तं वारयामास यन्नारायण इत्ययम् १६।

याचिता वसुधा राजन्सार्द्धत्रयपदी मया ।

संकल्पोदकमात्रे तु करे तेनैव चार्पिते १७।

रूपमीदृग्विधं राजंस्तदा शृणु मया कृतम् ।

भूर्लोके चरणौ न्यस्य भुवर्लोके तु जानुनी १८।

स्वर्लोके च कटिं न्यस्य महर्लोके तथोदरम् ।

जनलोके च हृदयं तपोलोके तु कंठकम् १९।

सत्यलोके मुखं स्थाप्य मस्तकं च तदूर्द्ध्वकम् ।

चंद्रसूर्यग्रहाश्चैव नक्षत्राणि तथैव च २०।

देवाः सेंद्राश्च नागाश्च यक्षगंधर्वकिन्नराः ।

स्तुवंतो वेदसंभूतैः सूक्तैश्च विविधैस्तथा २१।

करे गृहीत्वा च बलिं त्रिपदैः पूरिता मही ।

अर्द्धं च तस्य पृष्ठे च पदं न्यस्तं मया तदा २२।

गतो रसातलं राजन्दानवो मम पूजकः ।

क्षिप्तोऽधो दानवश्चैव किमकुर्वं ततः परम् २३।

विनयेनानतोसौ वै सुप्रसन्नो जनार्दनः ।

आषाढशुक्लपक्षे तु कामिका हरिवासरः २४।

तस्यामेका च मूर्तिर्मे बलिमाश्रित्य तिष्ठति ।

द्वितीया शेषपृष्ठे वै क्षीरसागरमध्यतः २५।

स्वपित्येव महाराज यावदागामि कार्तिकी ।

तावद्भवेत्सुधर्मात्मा सर्वधर्मोत्तमोत्तमः २६।

व्रतं च कुरुते मर्त्यः स याति परमां गतिम् ।

एतस्मात्कारणाद्राजन्कर्त्तव्या च प्रयत्नतः २७।

नातः परतरा काचित्पवित्रा पापनाशिनी ।

यस्यां स्वपिति देवेशः शंखचक्रगदाधरः २८।

तस्यां च पूजयेद्देवं शंखचक्रगदाधरम् ।

रात्रौ जागरणं कृत्वा भक्त्या चैव विशेषतः २९।

नास्याः पुण्यस्य संख्यानं कर्तुं शक्तश्चतुर्मुखः ।

एवं यः कुरुते राजन्नेकादश्या व्रतोत्तमम् ३०।

सर्वपापहरं चैव भुक्तिमुक्तिप्रदायकम् ।

स च लोके मम सदा श्वपचोऽपि प्रियंकरः ३१।

दीपदानेन पालाशपत्रे भुक्त्या व्रतेन च ।

चातुर्मास्यं नयंतीह ते नरा मम वल्लभाः ३२।

चातुर्मास्ये हरौ सुप्ते भूमिशायी भवेन्नरः ।

श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा ३३।

दुग्धमाश्वयुजि त्याज्यं कार्तिके द्विदलं त्यजेत् ।

अथवा ब्रह्मचर्यस्थः स याति परमां गतिम् ३४।

एकादश्या व्रतेनैव पुमान्पापैर्विमुच्यते ।

कर्तव्या सर्वदा राजन्विस्मर्तव्या न कर्हिचित् ३५।

शयनी बोधिनी मध्ये या कृष्णैकादशीभवेत् ।

सैवोपोष्या गृहस्थस्य नान्या कृष्णा कदाचन ३६।

शृणुयाच्चैव यो राजन्कथां पापहरां पराम् ।

अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ३७।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे देवशयन्येकादशीनाम त्रिपंचाशत्तमोऽध्यायः ५३।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 54

युधिष्ठिर उवाच-

श्रावणस्य सिते पक्षे किंनामैकादशीभवेत् ।

तन्नः कथय गोविंद वासुदेव नमोऽस्तु ते १।

श्रीकृष्ण उवाच-

शृणु राजन्प्रवक्ष्यामि आख्यानं पापनाशनम् ।

यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छते नारदाय वै २।

नारद उवाच-

भगवन्श्रोतुमिच्छामि त्वत्तोऽहं कमलासन ।

श्रावणस्यासिते पक्षे किं नामैकादशी भवेत् ३।

को देवः को विधिस्तस्याः किं पुण्यं कथय प्रभो ।

इति तस्य वचः श्रुत्वा ब्रह्मा वचनमब्रवीत् ४।

ब्रह्मोवाच-

शृणु नारद ते वच्मि लोकानां हितकाम्यया ।

श्रावणैकादशी कृष्णा कामिका नाम नामतः ५।

अस्याः श्रवणमात्रेण वाजपेयफलं लभेत् ।

अस्यां यजति देवेशं शंखचक्रगदाधरम् ६।

श्रीधराख्यं हरिं विष्णुं माधवं मधुसूदनम् ।

पूजयेद्ध्यायते यो वै तस्य पुण्यंफलं शृणु ७।

न गंगायां न काश्यां च नैमिषे न च पुष्करे ।

तत्फलं समवाप्नोति यत्फलं कृष्णपूजनात् ८।

गोदावर्यां गुरौ सिंहे व्यतीपाते च दंडके ।

यत्फलं समवाप्नोति तत्फलं कृष्णपूजनात् ९।

ससागरवनोपेतां यो ददाति वसुंधराम् ।

कामिकाव्रतकारी च ह्युभौ समफलौ स्मृतौ १०।

प्रसूयमानां यो धेनुं दद्यात्सोपस्करां नरः ।

तत्फलं समवाप्नोति कामिकाव्रतकारकः ११।

श्रावणे श्रीधरं देवं पूजयेद्यो नरोत्तमः ।

तेनैव पूजिता देवा गंधर्वोरगपन्नगाः १२।

तस्मात्सर्वप्रयत्नेन कामिकादिवसे हरिः ।

पूजनीयो यथाशक्ति मानुषैः पापभीरुभिः १३।

ये संसारार्णवे मग्नाः पापपंकसमाकुले ।

तेषामुद्धरणार्थाय कामिकाव्रतमुत्तमम् १४।

नातः परतरा काचित्पवित्रा पापहारिणी ।

एवं नारद जानीहि स्वयमाह परो हरिः १५।

अध्यात्मविद्या निरतैर्यत्फलं प्राप्यते नरैः ।

ततो बहुतरं विद्धि कामिकाव्रतसेविनाम् १६।

रात्रौ जागरणं कृत्वा कामिकाव्रतकृन्नरः ।

न पश्यति यमं रौद्रं नैव गच्छति दुर्गतिम् १७।

न पश्यति कुयोनिं च कामिकाव्रतसेवनात् ।

कामिकाया व्रते चीर्णे कैवल्यं योगिनो गताः १८।

तस्मात्सर्वप्रयत्नेन कर्तव्या नियतात्मभिः ।

तुलसीप्रभवैः पत्रैः यो नरः पूजयेद्धरिम् १९।

न लिप्यते स पापेन पद्मपत्रमिवांभसा ।

सुवर्णभारमेकं तु रजतं च चतुर्गुणम् २०।

तत्फलं समवाप्नोति तुलसीदलपूजनात् ।

रत्न मौक्तिक वैडूर्य प्रवालादिभिरर्चितः २१।

न तुष्यति तथा विष्णुस्तुलसीदलतो यथा ।

तुलसीमंजरीभिश्च पूजितो येन केशवः २२।

या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुः पावनी।

रोगाणामभिवंदितानि रसिनी सिक्तांतकत्रासिनी ।

प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता।

न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः २३।

दीपं ददाति यो मर्त्यो दिवारात्रं हरेर्दिने ।

तस्य पुण्यस्य संख्यातुं चित्रगुप्तो न वेत्त्यलम् २४।

कृष्णाग्रे दीपको यस्य ज्वलत्येकादशीदिने ।

पितरस्तस्य तृप्यंति अमृतेन दिवि स्थिताः २५।

घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः ।

प्रयाति सूर्यलोकं च दीपकोटिशतार्चितः २६।

अयं तवाग्रे कथितः कामिकामहिमा मया ।

अतो नरैः प्रकर्त्तव्या सर्वपातकहारिणी २७।

ब्रह्महत्यापहरणी भ्रूणहत्याविनाशिनी ।

वैष्णवस्थानदात्री च महापुण्यफलप्रदा २८।

श्रुत्वा माहात्म्यमेतस्या नरः श्रद्धासमन्वितः ।

विष्णुलोकमवाप्नोति सर्वपापैः प्रमुच्यते २९।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रावणकृष्णैकादशीनाम चतुष्पंचाशत्तमोऽध्यायः ५४।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 55

युधिष्ठिर उवाच।

श्रावणस्य सिते पक्षे किं नामैकादशीभवेत् ।

कथयस्व प्रसादेन ममाग्रे मधुसूदन १।

श्रीकृष्ण उवाच-

शृणुष्वावहितो राजन्कथां पापहरां पराम् ।

यस्याः श्रवणमात्रेण वाजपेयफलं भवेत् २।

द्वापरस्य युगस्यादौ पुरा माहिष्मती पुरे ।

राजा महीजिदाख्यातो राज्यं पालयति स्वकम् ३।

पुत्रहीनस्य तस्यैव न तद्राज्यं सुखप्रदम् ।

अपुत्रस्य सुखं नास्ति इहलोके परत्र च ४।

चिंतयास्य सुतस्यैवं कालो बहुतरो गतः ।

न प्राप्तश्च सुतो राज्ञा सर्वसौख्यप्रदो नृणाम् ५।

दृष्ट्वात्मानं प्रवयसं राजा चिंतापरोऽभवत् ।

तदागतः प्रजामध्ये इदं वचनमब्रवीत् ६।

इहजन्मनि भो लोका न मया पातकं कृतम् ।

अन्यायोपार्जितं वित्तं क्षिप्तं कोशे मया न हि ७।

ब्रह्मस्वं देवद्रविणं न गृहीतं मया क्वचित् ।

न्यासापहारो न कृतः परस्य बहुपापदः ।

पुत्रवत्पालितो लोको धर्मेण विजिता मही ८।

दुष्टेषु पातितो दंडो बंधुपुत्रोपमेष्वपि ।

शिष्टास्तु पूजिता नित्यं न द्वेष्याश्च मया जनाः ९।

इत्येवं ब्रुवतो मार्गं धर्मयुक्तं द्विजोत्तमाः ।

कस्मान्मम गृहे पुत्रो न जातस्तद्विमृश्यताम् १०।

इति वाक्यं द्विजाः श्रुत्वा सप्रजाः सपुरोहिताः ।

मंत्रयित्वा नृपहितं जग्मुस्ते गहनं वनम् ११।

इतस्ततश्च पश्यंत आश्रमानृषिसेवितान् ।

नृपतेर्हितमिच्छंतो ददृशुर्मुनिसत्तमम् १२।

तप्यमानं तपो घोरं निरालंबं निरामयम् ।

निराहारं जितात्मानं जितक्रोधं सनातनम् १३।

लोमशं धर्मतत्वज्ञं सर्वशास्त्रविशारदम् ।

दीर्घायुषं महात्मानं सकेशं ब्रह्मसंमितम् १४।

कल्पेकल्पे गते तस्य एकं लोम विशीर्यते ।

अतो लोमशनामायं त्रिकालज्ञो महामुनिः १५।

तं दृष्ट्वा हर्षिताः सर्वे आजग्मुस्तस्य सन्निधिम् ।

यथान्यायं यथार्हं ते नमश्चक्रुर्यथोदितम् १६।

विनयावनताः सर्वे ऊचुस्ते च परस्परम् ।

अस्मद्भाग्यवशादेव प्राप्तोऽयं मुनिसत्तमः ।

तास्तथा स प्रजा वीक्ष्य उवाच ऋषिसत्तमः १७।

लोमश उवाच-

किमर्थमिह संप्राप्तः कथयध्वं सकारणम् ।

दर्शनाद्धृष्टमनसः स्तुवंतश्चैव मां किमु १८।

असंशयं करिष्यामि भवतां यद्धितं भवेत् ।

परोपकृतये जन्म मादृशानां न संशयः १९।

जना ऊचुः -

श्रूयतामभिधास्यामो वयं स्वागमकारणम् ।

संशयच्छेदनार्थाय तव सान्निध्यमागताः २०।

पद्मयोनेः परतरस्त्वत्तः श्रेष्ठो न विद्यते ।

अतः कार्यवशात्प्राप्ताः समीपं भवतो वयम् २१।

महीजिन्नाम राजासौ पुत्रहीनोऽस्ति सांप्रतम् ।

वयं तस्य प्रजा ब्रह्मन्पुत्रवत्तेन पालिताः २२।

तं पुत्ररहितं दृष्ट्वा तस्य दुःखेन दुःखिताः ।

तपः कर्तुमिहायाता मतिं कृत्वा तु नैष्ठिकीम् २३।

तस्य भाग्येन दृष्टोऽसि ह्यस्माभिस्त्वं द्विजोत्तम ।

महतां दर्शनेनैव कार्यसिद्धिर्भवेन्नृणाम् २४।

उपदेशं वद मुने राज्ञः पुत्रो यथा भवेत् ।

इति तेषां वचः श्रुत्वा मुहूर्त्तं ध्यानमास्थितः ।

प्रत्युवाच मुनिर्ज्ञात्वा तस्य जन्म पुरातनम् २५।

लोमश उवाच-

पुरा जन्मनि वैश्योऽयं धनहीनो नृशंसकृत् ।

वाणिज्यकर्मनिरतो ग्रामाद्ग्रामांतरं भ्रमन् २६।

ज्येष्ठे मासि सिते पक्षे दशमी दिवसे तथा ।

मध्यगे द्युमणौ प्राप्ते ग्रामसीम्नि जलाशयम् २७।

कूपिकां सजलां दृष्ट्वा जलपाने मनोदधे ।

सद्यस्ततः सवत्सा च धेनुस्तत्र समागता २८।

तृष्णातुरा निदाघार्ता तस्यामंबुपपौ तु सा ।

पिबंतीं वारयित्वा तामसौ तोयं पपौ स्वयम् २९।

कर्मणा तेन पापेन पुत्रहीनो नृपो भवेत् ।

कस्यापि जन्मनः पुण्यात्प्राप्तं राज्यमकंटकम् ३०।

लोका ऊचुः -

पुण्यात्पापं क्षयं याति पुराणे श्रूयते मुने ।

पुण्योपदेशं कथय येन पापक्षयो भवेत् ।

यथा भवत्प्रसादेन पुत्रो भवति भूपतेः ३१।

लोमश उवाच-

श्रावणे शुक्लपक्षे तु पुत्रदा नाम विश्रुता ।

एकादशी वांच्छितदा कुरुध्वं तद्व्रतं जनाः ३२।

इति श्रुत्वा नमस्कृत्य मुनिमेत्य पुरं व्रतम् ।

यथाविधियथान्यायं कृतं तैर्जागरान्वितम् ३३।

तस्य पुण्यं सुविमलं दत्तं नृपतये जनैः ।

दत्ते पुण्येऽथ सा राज्ञी गर्भमाधत्त शोभनम् ३४।

प्राप्तो प्रसवकाले सा सुषुवे पुत्रमूर्जितम् ।

श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे ३५।

द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम् ।

हेम रौप्य ताम्र क्षौमैः सूत्रैः कौशेयपद्मजैः ३६।

कुशैः काशैश्च कार्पासैर्ब्राह्मण्या कर्तितैः शुभैः ।

स्नात्वा त्रिगुणितं सूत्रं त्रिगुणीकृत्य शोधयेत् ३७।

गोदोहांतरिते काले पूर्वेद्युरधिवासनम् ।

ब्राह्मणेभ्यो नमस्कृत्य गुरुपादौ प्रणम्य च ३८।

गीतमंगलनिर्घोषः कुर्याज्जागरणं ततः ।

ब्राह्मणाः क्षत्रिया वैश्या भिल्लाः शूद्रास्तथैव च ३९।

स्वधर्मावस्थिताः सर्वे भक्त्या कुर्युः पवित्रकम् ।

ततः पवित्रं गुरवे दद्याद्वै विधिपूर्वकम् ४०।

ब्राह्मणान्वैष्णवांश्चैव गंधपुष्पादिनार्चयेत् ।

अतो देवेति मंत्रेण द्विजो विष्णौ निवेदयेत् ४१।

शूद्रस्तु मूलमंत्रेण यथा विष्णौ तथा शिवे ।

वर्षेवर्षे प्रकर्त्तव्यं पवित्रारोपणं नरैः ४२।

भुक्तिं मुक्तिं च इच्छद्भिः संसारे शोकसागरे ।

न करोति विधानेन पवित्रारोपणं तु यः ४३।

तस्य सांवत्सरी पूजा निष्फला वैष्णवस्य तु ।

श्रुत्वा माहात्म्यमेतस्या नरः पापात्प्रमुच्यते ।

इह पुत्रसुखं प्राप्य परत्र स्वर्गतिं भवेत् ४४।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहिता।

यामुत्तरखंडे उमापतिनारदसंवादे श्रावणशुक्लापवित्रारोपणी पुत्रदैकादशीनाम पंचपंचाशत्तमोऽध्यायः ५५।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 56

युधिष्ठिर उवाच-

भाद्रस्य कृष्णपक्षे तु किंनामैकादशीभवेत् ।

एतदिच्छाम्यहं श्रोतुं कथयस्व जनार्दन १।

श्रीकृष्ण उवाच-

शृणुष्वैकमना राजन्कथयिष्यामि विस्तरात् ।

अजेति नामतः प्रोक्ता सर्वपापप्रणाशिनी २।

पूजयित्वा हृषीकेशं व्रतमस्यां करोति यः ।

पापानि तस्य नश्यंति व्रतस्य श्रवणादपि ३।

नातः परतरा राजन्लोकद्वयहिताय वै ।

सत्यमुक्तं मया ह्येतन्नासत्यं मम भाषितम् ४।

हरिश्चन्द्र इति ख्यातो बभूव नृपतिः पुरा ।

चक्रवर्ती सत्यसंधः समस्ताया भुवः पतिः ५।

कस्यापि कर्मणः प्राप्तौ राज्यभ्रष्टो बभूव सः ।

विक्रीतौ वनितापुत्रौ स चकारात्मविक्रयम् ६।

पुल्कसस्य च दासत्वं गतो राजा स पुण्यकृत् ।

सत्यमालंब्य राजेंद्र मृतचैलापहारकः ७।

सोऽभवन्नृपतिश्रेष्ठो न सत्याच्चलितस्तथा ।

एवं च तस्य नृपतेर्बहवो वत्सरा गताः ८।

ततश्चिंतापरो राजा स बभूवातिदुःखितः ।

किं करोमि क्व गच्छामि निष्कृतिर्मे कथं भवेत् ९।

इति चिंतयतस्तस्य मग्नस्य वृजिनार्णवे ।

आजगाम मुनिः कश्चिज्ज्ञात्वा राजानमातुरम् १०।

परोपकारणार्थाय निर्मिता ब्रह्मणा द्विजाः ।

स तं दृष्ट्वा द्विजवरं ननाम नृपसत्तमः ११।

कृतांजलिपुटो भूत्वा गौतमस्याग्रतः स्थितः ।

कथयामास वृत्तांतमात्मनो दुःखसंयुतम् १२।

श्रुत्वा नृपतिवाक्यानि गौतमो विस्मयान्वितः ।

उपदेशं नृपतये व्रतस्यास्य ददौ मुनिः १३।

मासि भाद्रपदे राजन्कृष्णपक्षेति शोभना ।

एकादशी समायाता अजा नामेति पुण्यदा १४।

अस्याः कुरु व्रतं राजन्पापस्यांतो भविष्यति ।

तव भाग्यवशादेषा सप्तमेऽह्नि समागता १५।

उपवासपरो भूत्वा रात्रौ जागरणं कुरु ।

एवमस्या व्रते चीर्णे तव पापक्षयो ध्रुवम् १६।

तव पुण्यप्रभावेण चागतोऽहं नृपोत्तम ।

इत्येवं कथयित्वा च मुनिरंतरधीयत १७।

मुनिवाक्यं नृपः श्रुत्वा चकार व्रतमुत्तमम् ।

कृते तस्मिन्व्रते राज्ञः पापस्यांतोऽभवत्क्षणात् १८।

श्रूयतां राजशार्दूल प्रभावोऽस्य व्रतस्य च ।

यद्दुःखंबहुभिर्वर्षैर्भोक्तव्यंतत्क्षयोभवेत् १९।

निस्तीर्णदुःखो राजासीद्व्रतस्यास्य प्रभावतः ।

पत्न्या सह समायोगं पुत्रजीवनमाप सः २०।

दिवि दुंदुभयो नेदुः पुष्पवर्षमभूद्दिवः ।

एकादश्याः प्रभावेन प्राप्यराज्यमकंटकम् २१।

स्वर्गं लेभे हरिश्चंद्रः सपुरः सपरिच्छदः ।

ईदृग्विधं व्रतंराजन्ये कुर्वंति च मानवाः २२।

सर्वपापविनिर्मुक्तास्त्रिदिवं यांति ते नृप ।

पठनाच्छ्रवणाद्वापि अश्वमेधफलं लभेत् २३।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे भाद्रपदकृष्णाजैकादशीनाम षट्पंचाशत्तमोऽध्यायः५६।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 57

युधिष्ठिर उवाच -

नभस्यस्य सिते पक्षे किंनामैकादशी भवेत् ।

को देवः को विधिस्तस्य एतदाख्याहि केशव १।

श्रीकृष्ण उवाच-

कथयामि महीपाल कथामाश्चर्यकारिणीम् ।

कथयामास यां ब्रह्मा नारदाय महात्मने २।

नारद उवाच-

कथयस्व प्रसादेन चतुर्मुख नमोऽस्तु ते ।

नभस्य शुक्लपक्षे तु किं नामैकादशी भवेत् ।

एतदिच्छाम्यहं श्रोतुं विष्णोराराधनाय वै ३।

ब्रह्मोवाच-

वैष्णवोऽसि मुनिश्रेष्ठ साधुपृष्टं किल त्वया ।

नातः परतरा लोके पवित्रा हरिवासरात् ४।

पद्मा नामेति विख्याता नभस्यैकादशी सिता ।

हृषीकेशः पूज्यतेऽस्यां कर्त्तव्यं व्रतमुत्तमम् ५।

कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम् ।

यस्याः श्रवणमात्रेण महापापं प्रणश्यति ६।

मांधाता नाम राजर्षिर्विवस्वद्वंशसंभवः ।

बभूव चक्रवर्ती स सत्यसंधः प्रतापवान् ७।

धर्मतः पालयामास प्रजाः पुत्रानिवौरसान् ।

न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयस्तथा ८।

निरातंकाः प्रजास्तस्य धनधान्यसमेधिताः ।

न्यायेनोपार्जितं वित्तं तस्य कोशे महीपते ९।

स्वस्वधर्मे प्रवर्त्तंते सर्वे वर्णाश्रमास्तथा ।

कामधेनुसमाभूमिस्तस्य राज्ये महीपतेः १०।

तस्यैवं कुर्वतो राज्यं बहुवर्षगणा गताः ।

अथैकस्मिंश्च संप्राप्ते विपाकः कर्मणः खलु ११।

वर्षत्रयं तद्विषये न ववर्ष बलाहकः ।

तेन भग्नाः प्रजास्तस्य बभूवुः क्षुधयार्दिताः १२।

स्वाहा स्वधा वषट्कार वेदाध्ययनवर्जिताः ।

बभूव विषयस्तस्या भाग्येन दैवपीडितः ।

अथ प्रजाः समागम्य राजानमिदमब्रुवन् १३।

प्रजा ऊचुः -

श्रोतव्यं नृपशार्दूल प्रजानां वचनं त्वया ।

आपो नारा इति प्रोक्ताः पुराणेषु मनीषिभिः १४।

अयनं भगवतस्तस्मान्नारायण इति स्मृतः ।

पर्जन्यरूपो भगवान्विष्णुः सर्वगतः स्थितः १५।

स एवं कुरुते वृष्टिं वृष्टेरन्नं ततः प्रजाः ।

तदभावे नृपश्रेष्ठ क्षयं गच्छंति वै प्रजाः ।

तथा कुरु नृपश्रेष्ठ योगः क्षेमो यथा भवेत् १६।

राजोवाच-।

सत्यमुक्तं भवद्भिश्च न मिथ्याभिहितं क्वचित् ।

अन्नं ब्रह्म यतः प्रोक्तमन्ने सर्वं प्रतिष्ठितम् १७।

अन्नाद्भवंति भूतानि जगदन्नेन वर्तते ।

इत्येवं श्रूयते लोके पुराणे बहुविस्तरे १८।

नृपाणामपचारेण प्रजानां पीडनं भवेत् ।

नाहं पश्याम्यात्मकृतमेवं बुद्ध्या विचारयन् १९।

तथापि प्रयतिष्यामि प्रजानां हितकाम्यया ।

इति कृत्वा मतिं राजा परिमेयपरिच्छदः २०।

नमस्कृत्य विधातारं जगाम गहनं वनम् ।

चचार मुनिमुख्यांश्च आश्रमान्तापसैः श्रितान् २१।

ददर्शाथ ब्रह्मसुतमृषिमांगिरसं नृपः ।

तेजसा द्योतितदिशं द्वितीयमिव पद्मजम् २२।

तं दृष्ट्वा हर्षितो राजा अवतीर्य स्ववाहनात् ।

नमश्चक्रेऽस्य चरणौ कृतांजलिपुटो वशी २३।

मुनिस्तमभिनंद्याथ स्वस्तिवाचनपूर्वकम् ।

पप्रच्छ कुशलं राज्ये सप्तस्वंगेषु भूपतेः २४।

निवेदयित्वा कुशलं पप्रच्छानामयं नृपः ।

दत्तासनो गृहीतार्घ्य उपविष्टोऽस्य संनिधौ २५।

प्रत्युवाच मुनिं राजा पृष्टो ह्यागमकारणम् २६।

राजोवाच-

भगवन्धर्मविधिना मम पालयतो महीम् ।

अनावृष्टिश्च संवृत्ता नाहं वेद्म्यत्र कारणम् २७।

संशयच्छेदनायात्र आगतोऽहं तवांतिके ।

योगक्षेमविधानेन प्रजानां कुरु निर्वृतिम् २८।

ऋषिरुवाच-

एतत्कृतयुगं राजन्युगानामुत्तमं मतम् ।

अत्र ब्रह्मपरा लोका धर्मश्चात्र चतुष्पदः २९।

अस्मिन्युगे तपोयुक्ता ब्राह्मणा नेतरा जनाः ।

विषये तव राजेंद्र वृषलोऽयं तपस्यति ३०।

एतस्मात्कारणाच्चैव न वर्षति बलाहकः ।

कुरु तस्य वधे यत्नं येन दोषः प्रशाम्यति ३१।

राजोवाच-

नाहमेनं वधिष्यामि तपस्यंतमनागसम् ।

धर्मोपदेशं कथय उपसर्गविनाशनम् ३२।

ऋषिरुवाच-

यद्येवं तर्हि नृपते कुरुष्वैकादशीव्रतम् ।

नभस्यस्य सिते पक्षे पद्मा नामेति विश्रुता ३३।

तस्या व्रतप्रभावेन सुवृष्टिर्भविता ध्रुवम् ।

सर्वसिद्धिप्रदा ह्येषा सर्वोपद्रवनाशिनी ३४।

अस्या व्रतं कुरु नृप सप्रजः सपरिच्छदः ।

इति वाक्यमृषेः श्रुत्वा राजा स्वगृहमागतः ३५।

भाद्रमासे सिते पक्षे पद्माव्रतमथाकरोत् ।

प्रजाभिः सह सर्वाभिश्चातुर्वर्ण्यसमन्वितः ३६।

एवं व्रते कृते राजन्प्रववर्ष बलाहकः ।

जलेन प्लाविता भूमिरभवत्सस्यशालिनी ३७।

ऋषीश्वरप्रभावेन लोकाः सौख्यं प्रपेदिरे ।

एतस्मात्कारणादेवं कर्त्तव्यं व्रतमुत्तमम् ३८।

दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे ।

वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च ३९।

नमो नमस्ते गोविंद बुधश्रवणसंज्ञक ।

अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ४०।

भुक्तिमुक्तिप्रदश्चैव लोकानां सुखदायकः ।

पठनाच्छ्रवणाद्राजन्सर्वपापैः प्रमुच्यते ४१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे भाद्रपदशुक्ला पद्मैकादशीनाम सप्तपंचाशत्तमोऽध्यायः५७।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 58

युधिष्ठिर उवाच-

कथयस्व प्रसादेन ममाग्रे मधुसूदन ।

इषस्य कृष्णपक्षे तु किंनामैकादशीभवेत् १।

श्रीकृष्ण उवाच-

आश्विने कृष्णपक्षे तु इंदिरा नाम नामतः ।

तस्या व्रतप्रभावेन महापापं प्रणश्यति २।

अधोयोनि गतानां च पितॄणां गतिदायिनी ।

शृणुष्वावहितो राजन्कथां पापहरां पराम् ३।

यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् ।

पुरा कृतयुगे राजन्बभूव नृपनंदनः ४।

इंद्रसेन इति ख्यातः पुरा माहिष्मतीपतिः ।

स राजा पालयामास धर्मेण यशसान्वितः ५।

पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः ।

माहिष्मत्यधिपो राजा विष्णुभक्तिपरायणः ६।

जपन्गोविंदनामानि मुक्तिदानि नराधिपः ।

कालं नयति विधिवदध्यात्मध्यानचिंतकः ७।

एकस्मिन्दिवसे राज्ञि सुखासीने सदो गते ।

अवतीर्यागमत्तत्र ह्यंबरान्नारदो मुनिः ८।

तमागतमभिप्रेक्ष्य प्रत्युत्थाय कृतांजलि ।

पूजयित्वाथ विधिना चासने संन्यवेशयत् ९।

सुखोपविष्टं स मुनिं प्रत्युवाच नृपोत्तमः ।

राजोवाच-।

त्वत्प्रसादान्मुनिश्रेष्ठ सर्वं च कुशलं मम १०।

अद्य क्रतुक्रियाः सर्वाः सफलास्तव दर्शनात् ।

प्रसादं कुरु देवर्षे ब्रूह्यागमनकारणम् ११।

नारद उवाच-

श्रूयतां नृपशार्दूल मद्वचो विस्मयप्रदम् ।

ब्रह्मलोकादहं प्राप्तो यमलोकं नृपोत्तम १२।

शमनेनार्चितो भक्त्या उपविष्टो वरासने ।

धर्मशीलः सत्यवांस्तु भास्करिं समुपासते १३।

बहुपुण्यप्रकर्त्ता च व्रतवैकल्यदोषतः ।

सभायां श्राद्धदेवस्य मया दृष्टः पिता तव १४।

कथितस्तेन संदेशस्तं निबोध जनेश्वर ।

इंद्रसेन इति ख्यातो राजा माहिष्मतीपतिः १५।

तस्याग्रे कथयब्रह्मन्स्थितं मां यमसंनिधौ ।

केनापि चांतरायेण पूर्वजन्मोद्भवेन च १६।

स्वर्गं प्रेषय मां पुत्र इंदिरा पुण्य दानतः ।

इत्युक्तोऽहं समायातः समीपं तव पार्थिव १७।

पितुः स्वर्गकृते राजन्निंदिरा व्रतमाचर ।

तेन व्रतप्रभावेन स्वर्गं यास्यति ते पिता १८।

राजोवाच-

कथयस्व प्रसादेन भगवन्निंदिरा व्रतम् ।

विधिना केन कर्त्तव्यं कस्मिन्पक्षे तिथौ तथा १९।

नारदउवाच-

शृणु राजेंद्र ते वच्मि व्रतस्यास्य विधिं शुभम् ।

आश्विनस्यासिते पक्षे दशमी दिवसे शुभे २०।

प्रातःस्नानं प्रकुर्वीत श्रद्धायुक्तेन चेतसा ।

ततो मध्याह्नसमये स्नानं कृत्वा समाहितः २१।

पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धा समन्वितः ।

एकभक्तं ततः कृत्वा रात्रौ भूमौ शयीत च ।

प्रभाते विमले जाते प्राप्ते चैकादशी दिने २२।

मुख प्रक्षालनं कुर्याद्दंतधावन वर्जितम् ।

उपवासस्य नियमं गृह्णीयाद्भक्तिभावतः २३।

अद्यस्थित्वा निराहारः सर्वभोग विवर्जितः ।

श्वो भोक्ष्ये पुंडरीकाक्ष शरणं मे भवाच्युत २४।

इत्येवं नियमं कृत्वा मध्याह्न समये तथा ।

शालग्राम शिलाग्रे तु स्नानं कुर्याद्यथाविधि २५।

पूजयित्वा हृषीकेशं धूप गंधादिभिस्तथा ।

रात्रौ जागरणं कुर्यात्केशवस्य समीपतः २६।

ततः प्रभातसमये प्राप्ते वै द्वादशी दिने ।

अर्चयित्वा हरिं भक्त्या श्राद्धं कुर्याद्यथाविधि २७।

पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धा समन्वितः ।

गोधूम चूर्णैर्यछ्राद्धं कृतं मेध्यकृतं भवेत् २८।

यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथा ।

ब्राह्मणान्भोजयेद्राजन् दक्षिणाभिः प्रपूजितान् २९।

बंधु दौहित्र पुत्राद्यैः स्वयं भुंजीत वाग्यतः ।

अनेन विधिना राजन्कुरुव्रतमतंद्रितः ३०।

विष्णुलोकं प्रयास्यंति पितरस्तव भूपते ।

इत्युक्त्वा नृपतिं राजन्मुनिरंतरधीयत ३१।

यथोक्त विधिना राजा चकार व्रतमुत्तमम् ।

अंतःपुरेण सहितः पुत्रभृत्य समन्वितः ३२।

कृते व्रते तु कौंतेय पुष्पवृष्टिरभूद्दिवः ।

तत्पिता गरुडारूढो जगाम हरिमंदिरम् ३३।

इंद्रसेनोऽपिराजर्षिः कृत्वा राज्यमकंटकम् ।

राज्ये निवेश्य तनयं जगाम त्रिदिवं स्वयम् ३४।

इंदिरा व्रत माहात्म्यं तवाग्रे कथितं मया ।

पठनाच्छ्रवणाद्राजन् सर्वपापैः प्रमुच्यते ३५।

भुक्त्वेह निखिलान्भोगान् विष्णुलोके वसेच्चिरम् ३६।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यांसंहितायाम् उत्तरखंडे ।

उमापतिनारदसंवादे आश्विनकृष्णेंदिरैकादशीनामाष्टपंचाशत्तमोऽध्यायः ५८।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 59

युधिष्ठिर उवाच-

कथयस्व प्रसादेन ममाग्रे मधुसूदन ।

इषस्य शुक्लपक्षे तु किं नामैकादशीभवेत् १।

श्रीकृष्ण उवाच-

शृणुराजेंद्र वक्ष्यामि माहात्म्यं पाप नाशनम् ।

शुक्लपक्षे चाश्विनस्य भवेदेकादशी तु या २।

पापांकुशेति विख्याता सर्वपापहरा परा ।

पद्मनाभाभिधानं मां पूजयेत्तत्र मानवः ३।

सर्वाभीष्ट फलं प्राप्तौ स्वर्गमोक्षप्रदं नृणाम् ।

तपस्तप्त्वा पुनस्तीव्रं चिरं सुनियतेन्द्रियः ४।

यत्फलं समवाप्नोति तन्न त्वा गरुडध्वजम् ।

कृत्वापि बहुशःपापं नरो मोह समन्वितः ५।

न याति नरकं नत्वा सर्वपापहरं हरिम् ।

पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ६।

तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्त्तनात् ।

देवं शार्ङ्गधरं विष्णुं ये प्रपन्ना जनार्दनम् ७।

न तेषां यमलोकस्य यातना जायते क्वचित् ।

उपोष्यैकादशीमेकां प्रसंगेनापि मानवः ।

न याति यातनां यामीं पापं कृत्वापि दारुणम् ८।

वैष्णवः पुरुषो भूत्वा शिवनिंदां करोति यः ।

न विंदेद्वैष्णवं लोकं स याति नरकं ध्रुवम् ९।

शैवः पाशुपतो भूत्वा विष्णुनिंदां करोति चेत् ।

रौरवे पच्यते घोरे यावदिन्द्राश्चतुर्दश १०।

नेदृशं पावनं किंचित्त्रिषु लोकेषु विद्यते ।

यादृशं पद्मनाभस्य व्रतं पातकनाशनम् ११।

तावत्पापानि देहेऽस्मिन्तिष्ठंति मनुजाधिपम् ।

यावन्नोपवसेज्जंतुः पद्मनाभदिनं शुभम् १२।

अश्वमेधसहस्राणि राजसूयशतानि च ।

एकादश्युपवासस्य कलां नार्हंति षोडशीम् १३।

एकादशीसमं किंचिद्व्रतं लोके न विद्यते ।

व्याजेनापि कृता यैश्च न ते यांति हि भास्करिम् १४।

स्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी ।

कलत्रसुतदा ह्येषा धनमित्रप्रदायिनी १५।

न गंगा न गया राजन्न च काशी च पुष्करम् ।

न चापि कौरवं क्षेत्रं पुण्यं भूप हरेर्दिनात् १६।

रात्रौ जागरणं कृत्वा समुपोष्य हरेर्दिनम् ।

अनायासेन भूपाल प्राप्यते वैष्णवं पदम् १७।

दशैव मातृके पक्षे राजेंद्र दश पैतृके ।

प्रियाया दशपक्षे तु पुरुषानुद्धरेन्नरः १८।

चतुर्भुजा दिव्यरूपा नागारिकृतकेतनाः ।

स्रग्विणः पीतवस्त्राश्च प्रयांति हरिमंदिरम् १९।

बालत्वे यौवनत्वे च वृद्धत्वे च नृपोत्तम ।

उपोष्यैकादशीं नूनं नैव प्राप्नोति दुर्गतिम् २०।

पापांकुशामुपोष्यैव आश्विनस्य सिते नरः ।

सर्वपापविनिर्मुक्तो हरिलोकं स गच्छति २१।

दत्त्वा हेमतिलान्भूमिं गामन्नमुदकं तथा ।

उपानच्छत्रवस्त्रादीन्न पश्यति यमं नरः २२।

यस्य पुण्यविहीनानि दिनान्यायांति यांति च ।

स लोहकारभस्त्रेव श्वसन्नपि न जीवति २३।

अवंध्यं दिवसं कुर्याद्दरिद्रोऽपि नृपोत्तम ।

सदाचरन्यथाशक्ति स्नानदानादिकाः क्रियाः २४।

होमस्नानजपध्यानसत्रादिपुण्यकर्मणाम् ।

कर्त्तारो नैव पश्यंति घोरां तां यमयातनाम् २५।

दीर्घायुषो धनाढ्याश्च कुलीना रोगवर्जिताः ।

दृश्यंते मानवा लोके पुण्यकर्त्तार ईदृशाः २६।

किमत्र बहुनोक्तेन यांत्यधर्मेण दुर्गतिम् ।

आरोहंति दिवं धर्मैर्नात्रकार्या विचारणा २७।

इति ते कथितं राजन्यत्पृष्टोऽहं त्वयानघ ।

पापांकुशाया माहात्म्यं किमन्यच्छ्रोतुमिच्छसि २८।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे आश्विनशुक्लपापांकुशैकादशीमाहात्म्यनामैकोनषष्टितमोऽध्यायः५९।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 60

युधिष्ठिर उवाच-

कथयस्व प्रसादेन मयि स्नेहाज्जनार्दन ।

कार्त्तिकस्यासिते पक्षे किंनामैकादशी भवेत् १।

श्रीकृष्ण उवाच-

श्रूयतां राजशार्दूल कथयामि तवाग्रतः ।

कार्त्तिके कृष्णपक्षे तु रमा नाम सुशोभना २।

एकादशी समाख्याता महापापहरा परा ।

अस्याः प्रसंगतो राजन्माहात्म्यं प्रवदामि ते ३।

मुचुकुंद इति ख्यातो बभूव नृपतिः पुरा ।

देवेंद्रेण समं तस्य मित्रत्वमभवन्नृप ४।

यमेन वरुणेनैव कुबेरेणापि सर्वथा ।

विभीषणेन यस्यैव सखित्वमभवन्नृप ५।

विष्णुभक्तः सत्यसंधो बभूव नृपतिः परः ।

तस्यैवं शासतो राजन्राज्यं निहतकंटकम् ६।

बभूव दुहिता गेहे चंद्रभागा सरिद्वरा ।

शोभनाय च सा दत्ता चंद्रसेनसुताय वै ७।

स कदाचित्समायातः श्वशुरस्य गृहे नृप ।

एकादशीव्रतदिनं समायातं सुपुण्यदम् ८।

समागते व्रतदिने चंद्रभागा त्वचिंतयत् ।

किं भविष्यति देवेश मम भर्त्तातिदुर्बलः ९।

क्षुधां न क्षमते सोढुं पिता चैवोग्रशासनः ।

पटहस्ताड्यते यस्य संप्राप्ते दशमीदिने १०।

न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने ।

श्रुत्वा पटहनिर्घोषं शोभनस्त्वब्रवीत्प्रियाम् ११।

किं कर्त्तव्यं मया कांते देहि शिक्षां वरानने ।

चंद्रभागोवाच -

मत्पितुर्वेश्मनि प्रभो भोक्तव्यं नाद्य केनचित् १२।

गजैरश्वैश्च कलभैरन्यैः पशुभिरेव च ।

तृणमन्नं तथा वारि न भोक्तव्यं हरेर्दिने १३।

मानवैश्च कुतः कांत भुज्यते हरिवासरे ।

यदि त्वं भोक्ष्यसे कांत ततो गर्हां प्रयास्यसि १४।

एवं विचार्य मनसा सुदृढं मानसं कुरु ।

शोभन उवाच-

सत्यमेतत्प्रिये वाक्यं करिष्येऽहमुपोषणम् १५।

दैवेन विहितं यद्धि तत्तथैव भविष्यति ।

इति दृढां मतिं कृत्वा चकार नियमं व्रते १६।

क्षुधया पीडिततनुः स बभूवातिदुःखितः ।

इति चिंतयतस्तस्य आदित्योऽस्तमगाद्गिरिम् १७।

वैष्णवानां नराणां सा निशा हर्षविवर्द्धनी ।

हरिपूजारतानां च जागरासक्तचेतसाम् १८।

बभूव नृपशार्दूल शोभनस्यातिदुःखदा ।

रवेरुदयवेलायां शोभनः पंचतां गतः १९।

दाहयामास राजा तं राजयोग्यैश्च दारुभिः ।

चंद्रभागा नात्मदेहं ददाह पतिना सह २०।

कृत्वौर्द्ध्वदैहिकं तस्य तस्थौ जनकवेश्मनि ।

शोभनश्च नृपश्रेष्ठ रमाव्रतप्रभावतः २१।

प्राप्तो देवपुरं रम्यं मंदराचलसानुनि ।

अनुत्तममनाधृष्यमसंख्येयगुणान्वितम् २२।

हेमस्तंभमयैसौधै रत्नवैडूर्यमंडितैः ।

स्फाटिकैर्विविधाकारैर्विचित्रैरुपशोभितैः २३।

सिंहासनसमारूढः सुश्वेतच्छत्रचामरः ।

किरीटकुंडलयुतो हारकेयूरभूषितः ।

स्तूयमानश्च गंधर्वैरप्सरोगणसेवितः २४।

शोभनः शोभते यत्र राजराजोपरो यथा ।

सोमशर्मेति विख्यातो मुचुकुंदपुरेऽभवत् २५।

तीर्थयात्राप्रसंगेन भ्रमन्विप्रो ददर्श तम् ।

नृपजामातरं ज्ञात्वा तत्समीपं जगाम सः २६।

शोभनोऽपि तदा ज्ञात्वा सोमशर्माणमागतम् ।

आसनादुत्थितः शीघ्रं नमश्चक्रे द्विजोत्तमम् २७।

चकार कुशलप्रश्नं श्वशुरस्य नृपस्य च ।

कांतायाश्चंद्रभागायास्तथैव नगरस्य च २८।

सोमशर्मोवाच-

कुशलं वर्त्तते राजन्श्वशुरस्य गृहे तव ।

चंद्रभागा कुशलिनी सर्वतः कुशलं पुरे २९।

स्ववृत्तं कथ्यतां राजन्नाश्चर्यं विद्यतेऽद्भुतम् ।

पुरं विचित्रं रुचिरं न दृष्टं केनचित्क्वचित् ३०।

एतदाचक्ष्व नृपते कुतः प्राप्तमिदं त्वया ।

शोभन उवाच-

कार्तिकस्यासिते पक्षे या नामैकादशी रमा ३१।

तामुपोष्य मया प्राप्तं द्विजेंद्र पुरमध्रुवम् ।

ध्रुवं भवति येनैव तत्कुरुष्व द्विजोत्तमः ३२।

द्विज उवाच-

कथमध्रुवमेतद्धि कथं हि भवति ध्रुवम् ।

तत्त्वं कथय राजेंद्र तत्करिष्यामि नान्यथा ३३।

शोभन उवाच-

मयैतद्विहितं विप्र श्रद्धाहीनं व्रतोत्तमम् ।

तेनाहमध्रुवं मन्ये ध्रुवं भवति तच्छृणु ३४।

मुचुकुंदस्य दुहिता चंद्रभागा सुशोभना ।

तस्यै कथय वृत्तांतं ध्रुवमेतद्भविष्यति ३५।

कृष्ण उवाच-

स श्रुत्वा वचनं तस्य मुचुकुंदपुरं गतः ।

उवाच सर्वं वृत्तांत्तं चंद्रभागाग्रतो द्विजः ३६।

सोमशर्मोवाच -

प्रत्यक्षं दयितः कांतस्तव दृष्टो मया शुभे ।

इंद्रतुल्यमनाधृष्यं दृष्टं तस्य पुरं मया ।

अध्रुवं तेन तत्प्रोक्तं ध्रुवं भवति तत्कुरु ३७।

चंद्रभागोवाच-

तत्र मां नय विप्रर्षे पतिदर्शनलालसाम् ।

आत्मनो व्रतपुण्येन करिष्यामि पुरं ध्रुवम् ३८।

आवयोर्द्विजसंयोगो यथा भवति तत्कुरु ।

प्राप्यते हि महत्पुण्यं कृत्वा योगं वियुक्तयोः ३९।

इति श्रुत्वा सह तया सोमशर्मा जगाम ह ।

आश्रमं वामदेवस्य मंदराचलसंनिधौ ४०।

वामदेवोऽशृणोत्सर्वं वृत्तांतं कथितं तयोः ।

अभ्यषिञ्चच्चन्द्रभागां वेदमंत्रैरथोज्ज्वलाम् ४१।

ऋषिमंत्रप्रभावेन विष्णुवासरसेवनात् ।

दिव्यदेहा बभूवासौ दिव्यां गतिमवाप ह ४२।

पत्युः समीपमगमत्प्रहर्षोत्फुल्ललोचना ।

जहर्ष शोभनोऽतीव दृष्ट्वा कांतां समागताम् ४३।

समाहूय स्वके वामे पार्श्वेतां संन्यवेशयत् ।

अथोवाच प्रियं हर्षाच्चंद्रभागा प्रियं वचः ४४।

शृणु कांत हितं वाक्यं यत्पुण्यं विद्यते मयि ।

अष्टवर्षाधिका जाता यदाहं पितृवेश्मनि ४५।

ततः प्रभृति यच्चीर्णं मया चैकादशीव्रतम् ।

यथोक्तविधिसंयुक्तं श्रद्धायुक्तेन चेतसा ।

तेन पुण्यप्रभावेन भविष्यति पुरं ध्रुवम् ४६।

सर्वकामसमृद्धं च यावदाभूतसंप्लवम् ।

एवं सा नृपशार्दूल रमते पतिना सह ४७।

दिव्यभोगा दिव्यरूपा दिव्याभरणभूषिता ।

शोभनोऽपि तया सार्द्धं रमते दिव्यविग्रहः ४८।

रमाव्रतप्रभावेन मंदराचलसानुनि ।

चिंतामणिसमा ह्येषा कामधेनुसमाथ वा ४९।

रमाभिधाना नृपते तवाग्रे कथिता मया ।

तस्या माहात्म्यमनघ श्रुतं सर्वं त्वया नृप 6.60.५०।

मया तवाग्रे कथितं माहात्म्यं पापनाशनम् ।

एकादशीव्रतानां च पक्षयोरुभयोरपि ५१।

यथा कृष्णा तथा शुक्ला विभेदं नैव कारयेत् ।

सेवितैकादशी नॄणां भुक्तिमुक्तिप्रदायिनी ५२।

धेनुः श्वेता यथा कृष्णा उभयोः सदृशं पयः ।

तथैव तुल्यफलदं स्मृतमेकादशीद्वयम् ५३।

एकादशीव्रतानां यो माहात्म्यं शृणुते नरः ।

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ५४।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे कार्तिक कृष्णा रमैकादशीनाम षष्टितमोऽध्यायः ६०।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 61

युधिष्ठिर उवाच-

श्रुतं रमाया माहात्म्यं त्वत्तः कृष्ण यथातथम् ।

कार्तिके शुक्लपक्षे या तां मे कथय मानद १।

श्रीकृष्ण उवाच-।

शृणु राजन्प्रवक्ष्यामि शुक्ले चोर्जदले तु या ।

सा यथा नारदे प्रोक्ता ब्रह्मणा लोककारिणा २।

नारद उवाच -

प्रबोधिन्याश्च माहात्म्यं वद विस्तरतो मम ।

यस्यां जागर्ति गोविंदो धर्मकर्मप्रवर्त्तकः ३।

ब्रह्मोवाच-

प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम् ।

मुक्तिप्रदं सुबुद्धीनां शृणुष्व मुनिसत्तम ४।

तावद्गर्जंति तीर्थानि आसमुद्रसरांसि च ।

यावत्प्रबोधिनी विष्णोस्तिथिर्नायाति कार्तिके ५।

तावद्गर्जंति विप्रेंद्र गंगाभागीरथी क्षितौ ।

यावन्नायाति पापघ्नी कार्तिके हरिबोधिनी ६।

अश्वमेधसहस्राणि राजसूयशतानि च ।

एकेनैवोपवासेन प्रबोधिन्या लभेन्नरः ७।

यद्दुर्ल्लभं यदप्राप्यं त्रैलोक्यस्य न गोचरम् ।

तदप्यप्रार्थितं पुत्रं ददाति हरिबोधिनी ८।

ऐश्वर्यं संपदं प्रज्ञां राज्यं च सुखसंपदः ।

ददात्युपोषिता भक्त्या जनेभ्यो हरिबोधिनी ९।

मेरुमन्दरमात्राणि पापान्युक्तानि यानि च ।

एकेनैवोपवासेन दहते पापनाशिनी १०।

पूर्वजन्मसहस्रेषु यत्पापं समुपार्जितम् ।

निशि जागरणं चास्या दहते तूलराशिवत् ११।

उपवासं प्रबोधिन्यां यः करोति स्वभावतः ।

विधिवन्मुनिशार्दूल यथोक्तं लभते फलम् १२।

यथोक्तं कुरुते यस्तु विधिवत्सुकृतं नरः ।

स्वल्पं मुनिवरश्रेष्ठ मेरुतुल्यं भवेत्फलम् १३।

विधिहीनं तु यः कुर्यात्सुकृतं मेरुमात्रकम् ।

अणुमात्रं तदाप्नोति फलं धर्मस्य नारद १४।

ये ध्यायंति मनोवृत्या ये करिष्यंति बोधिनीम् ।

वसंति पितरो हृष्टा विष्णुलोके च तस्य वै १५।

विमुक्ता नारकैर्दुःखैर्याति विष्णोः परं पदम् ।

कृत्वा तु पातकं घोरं ब्रह्महत्यादिकं नरः १६।

कृत्वा तु जागरं विष्णोर्द्धौतपापो भवेन्नरः ।

दुष्प्राप्यं यत्फलं विप्र अश्वमेधादिकैर्मखैः १७।

प्राप्यते तत्सुखेनैव प्रबोधिन्यास्तु जागरे ।

आप्लुत्य सर्वतीर्थेषु प्रदत्त्वा कांचनं महीम् १८।

तत्फलं समवाप्नोति यत्कृत्वा जागरं हरेः ।

जातः स एव सुकृती कुलं तेनैव पावितम् १९।

कार्तिके मुनिशार्दूल कृता येन प्रबोधिनी ।

यथा ध्रुवं नृणां मृत्युर्धनं गात्रं तथाध्रुवम् २०।

इति ज्ञात्वा मुनिश्रेष्ठ कर्तव्यं वैष्णवं दिनम् ।

यानि कानि च तीर्थानि त्रैलोक्ये संभवंति च २१।

तानि तस्य गृहे सम्यग्यः करोति प्रबोधिनीम् ।

किं तस्य बहुभिः पुण्यैः कृता येन प्रबोधिनी २२।

पुत्रपौत्रप्रदा ह्येषा कार्तिके हरिबोधिनी ।

स ज्ञानी च स योगी च स तपस्वी जितेंद्रियः २३।

भोगो मोक्षश्च तस्यास्ति उपास्ते हरिबोधिनीम् ।

विष्णोः प्रियतरा ह्येषा धर्मसारसहायिनी २४।

यः करोति नरो भक्त्या भुक्तिभाक्स भवेन्नरः ।

प्रबोधिनीमुपोषित्वा गर्भे न विशते नरः २५।

सर्वधर्मान्परित्यज्य तस्मात्कुर्वीत नारद ।

कर्मणा मनसा वाचा पापं यत्समुपार्जितम् २६।

तत्क्षालयति गोविंदः प्रबोधिन्यां तु जागरे ।

स्नानं दानं जपः पूजां समुद्दिश्य जनार्दनम् २७।

नरो यत्कुरुते वत्स प्रबोधिन्यां तदक्षयम् ।

येर्चयंति नरास्तस्यां भक्त्या देवं च माधवम् २८।

समुपोष्य प्रमुच्यंते पापैस्तैः शतजन्मजैः ।

महाव्रतमिदं पुत्र महापापौघनाशनम् २९।

प्रबोधवासरं विष्णोर्विधिवत्समुपोषयेत् ।

व्रतेनानेन देवेशं परितोष्य जनार्दनम् ३०।

विराजयन्दिशः सर्वाः प्रयाति हरिमंदिरम् ।

कर्तव्यैषा प्रयत्नेन नरैः कांतिधनार्थिभिः ३१।

बाल्ये यत्संचितं पापं यौवने वार्द्धके तथा ।

शतजन्मकृतं पापं स्वल्पं वा यदि वा बहु ३२।

तत्क्षालयति गोविंदश्चास्यामभ्यर्चितो नृणाम् ।

धनधान्यवहा पुण्या सर्वपापहरा परा ३३।

तामुपोष्य हरेर्भक्त्या दुर्ल्लभं न भवेत्क्वचित् ।

चंद्रसूर्योपरागे च यत्फलं परिकीर्तितम् ३४।

तत्सहस्रगुणं प्रोक्तं प्रबोधिन्यां प्रजागरे ।

स्नानं दानं जपो होमः स्वाध्यायोऽभ्यर्चनं हरेः ३५।

तत्सर्वं कोटिगुणितं प्रबोधिन्यां कृतं तु यत् ।

जन्मप्रभृतियत्पुण्यं नरेणोपार्जितं भवेत् ३६।

वृथा भवति तत्सर्वमकृत्वा कार्तिके व्रतम् ।

अकृत्वा नियमं विष्णोः कार्तिकं यः क्षिपेन्नरः ३७।

न जन्मार्जितपुण्यस्य फलं प्राप्नोति नारद ।

तस्मात्सर्वप्रयत्नेन देवदेवं जनार्दनम् ३८।

उपसेवेत विप्रेंद्र सर्वकामफलप्रदम् ।

परान्नं वर्जयेद्यस्तु कार्तिके विष्णुतत्परः ३९।

परान्नवर्जनाद्वत्स चांद्रायणफलं लभेत् ।

नित्यं शास्त्रविनोदेन कार्तिके मधुसूदनः ४०।

स दहेत्सर्वपापानि यज्ञायुतफलं लभेत् ।

न तथा तुष्यते यज्ञैर्न दानैर्वाजपादिभिः ४१।

यथा शास्त्रकथालापैः कार्तिके मधुसूदनः ।

ये कुर्वंति कथां विष्णोर्ये शृण्वंति शुभान्विताः ४२।

श्लोकार्द्धं श्लोकपादं वा कार्तिके गोशतं फलम् ।

सर्वधर्मान्परित्यज्य कार्तिके केशवाग्रतः ४३।

शास्त्रावधारणं कार्यं श्रोतव्यं च महामुने ।

श्रेयसा लोभबुद्ध्या च यः करोति हरेः कथाम् ४४।

कार्तिके मुनिशार्दूल कुलानां तारयेच्छतम् ।

नियमेन नरो यस्तु शृणुते वैष्णवीं कथाम् ४५।

कार्तिके तु विशेषेण गोसहस्रफलं लभेत् ।

प्रबोधवासरे विष्णोः शृणुते यो हरेः कथाम् ४६।

सप्तद्वीपवती दाने तत्फलं लभते मुने ।

श्रुत्वा विष्णुकथां दिव्यां येऽर्चयंति कथाविदम् ४७।

स्वशक्त्या मुनिशार्दूल तेषां लोकोऽक्षयः स्मृतः ।

गीतशास्त्रविनोदेन कार्तिकं यो नयेन्नरः ४८।

न तस्य पुनरावृत्तिर्मया दृष्टा कलिप्रिय ।

गीतं नृत्यं च वाद्यं च भव्यां विष्णुकथां मुने ४९।

यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः ।

बहुपुष्पैर्बहुफलैः कर्पूरागुरुकुंकुमैः 6.61.५०।

हरेः पूजा विधातव्या कार्तिके बोधवासरे ।

यस्मात्पुण्यमसंख्यातं प्राप्यते मुनिसत्तम ५१।

फलैर्नानाविधैर्द्रव्यैः प्रबोधिन्यां तु जागरे ।

शंखे तोयं समादाय अर्घो देयो जनार्दने ५२।

यत्फलं सर्वतीर्थेषु सर्वदानेषु यत्फलम् ।

तत्फलं कोटिगुणितं दत्त्वार्घं बोधवासरे ५३।

गुरुपूजा ततः कार्या भोजनाच्छादनादिभिः ।

दक्षिणाभिश्च देवर्षे तुष्ट्यर्थं चक्रपाणिनः ५४।

भागवतं शृणुते यस्तु पुराणं च पठेन्नरः ।

प्रत्यक्षरं भवेत्तस्य कपिलादानजं फलम् ५५।

कार्त्तिके मुनिशार्दूल स्वशक्त्या वैष्णवं व्रतम् ।

यः करोति यथोक्तं तु मुक्तिस्तस्य सुनिश्चला ५६।

केतक्या एकपत्रेण पूजितो गरुडध्वजः ।

समाः सहस्रं सुप्रीतो भवति मधुसूदनः ५७।

अगस्तिकुसुमैर्देवं पूजयेद्यो जनार्दनम् ।

दर्शनात्तस्य देवर्षे नरकाग्निः प्रणश्यति ५८।

मुनिपुष्पार्चितो विष्णुः कार्तिके पुरुषोत्तमः ।

ददात्यभिमतान्कामान्शशिसूर्यग्रहे यथा ५९।

विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम् ।

कार्तिके योऽर्चयेद्भक्त्या वाजिमेधफलं लभेत् ६०।

तुलसीदलानि पुष्पाणि ये यच्छंति जनार्दने ।

कार्तिके सकलं वत्स पापं जन्मायुतं दहेत् ६१।

दृष्टा स्पृष्टाथ वा ध्याता कीर्तिता नामतस्तु ता ।

रोपिता सिंचिता नित्यं पूजिता तुलसी शुभा ६२।

नवधा तुलसीभक्तिं ये कुर्वंति दिनेदिने ।

युगकोटिसहस्राणि तन्वंति सुकृतं मुने ६३।

यावच्छाखाप्रशाखाभिर्बीजपुष्पदलैर्मुने ।

रोपिता तुलसी पुंभिर्वर्द्धते वसुधातले ६४।

तेषां वंशे तु ये जाता ये भविष्यंति ये गताः ।

आकल्पवर्षसाहस्रं तेषां वासो हरेर्गृहे ६५।

यत्फलं सर्वपुष्पेषु सर्वपत्रेषु नारद ।

तुलसीदलेन चैकेन कार्तिके प्राप्यते तु तत् ६६।

संप्राप्तं कार्त्तिकं दृष्ट्वा नियमेन जनार्दनः ।

पूजनीयो महाविष्णुः कोमलैस्तुलसीदलैः ६७।

इष्ट्वा क्रतुशतैर्देवान्दत्त्वा दानान्यनेकशः ।

तुलसीदलैस्तु तत्पुण्यं कार्तिके केशवार्चने ६८।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे कार्त्तिके शुक्लैकादशीमाहात्म्यंनामैकषष्टितमोऽध्यायः ६१।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 62

युधिष्ठिर उवाच -

भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् ।

सर्वपापहरं विष्णोः फलदं व्रतिनां च यत् १।

पुरुषोत्तममासस्य कथां ब्रूहि जनार्दन ।

को विधिः किं फलं तस्य को देवस्तत्र पूज्यते २।

अधिमासे च संप्राप्ते व्रतं ब्रूहि जनार्दन ।

कस्य दानस्य किं पुण्यं किं कर्त्तव्यं नृभिः प्रभो ३।

कथं स्नानं च किं जाप्यं कथं पूजाविधिः स्मृतः ।

किं भोज्यमुत्तमं चान्नं मासेऽस्मिन्पुरुषोत्तमे ४।

श्रीकृष्ण उवाच-

कथयिष्यामि राजेंद्र भवतः स्नेहकारणात् ।

पुरुषोत्तममासस्य माहात्म्यं पापनाशनम् ५।

अधिमासे तु संप्राप्ते भवेदेकादशी तु या ।

कमला नाम सा नाम्ना तिथीनामुत्तमा तिथिः ६।

तस्या व्रतप्रभावेन कमलाभिमुखी भवेत् ।

ब्राह्मे मुहूर्त्ते चोत्थाय संस्मृत्य पुरुषोत्तमम् ७।

स्नात्वा चैव विधानेन नियमं कारयेद्व्रती ।

गृहे त्वेकगुणं जाप्यं नद्यां तु द्विगुणं स्मृतम् ८।

गवां गोष्ठे सहस्रोर्ध्वमग्न्यागारे शतान्वितम् ।

शिवक्षेत्रेषु तीर्थेषु देवतानां च सन्निधौ ९।

लक्षं तुलस्याः सांनिध्ये ह्यनंतं विष्णुसन्निधौ ।

अवंत्यामभवत्कश्चिच्छिवशर्मा द्विजोत्तमः १०।

तस्यात्मजास्तु पंचासन्कनिष्ठो दोषवानभूत् ।

तदा पित्रा परित्यक्तस्त्यक्तः स्वजनबांधवैः ११।

कुकर्मणः प्रभावेन गतो दूरतरं वनम् ।

एकदा दैवयोगेन तीर्थराजं समागतः १२।

क्षुत्क्षामो दीनवदनस्त्रिवेण्यां स्नानमाचरत् ।

मुनीनामाश्रमांस्तत्र विचिन्वन्क्षुधयार्दितः१३।

हरिमित्रमुनेस्तत्र ददर्शाश्रममुत्तमम् ।

पुरुषोत्तममासे वै जनानां च समागमे १४।

तत्राश्रमे कथयतां कथां कल्मषनाशिनीम् ।

ब्राह्मणानां मुखात्तेन श्रद्धया कमला श्रुता १५।

एकादशी पुण्यतमा भुक्तिमुक्तिप्रदायिनी ।

जयशर्मा विधानेन श्रुत्वेमां कमला तिथिम् १६।

एकादशीपुण्यतमा भुक्तिमुक्तिप्रदायिनी ।

व्रतं कृतं च तैः सार्द्धं स्थित्वा शून्यालये तदा १७।

निशीथे समनुप्राप्ते लक्ष्मीस्तत्र समागता ।

वरं ददामि भो विप्र कमलायाः प्रभावतः १८।

जयशर्मोवाच -

का त्वं कस्यासि रंभोरु प्रसन्ना च कथं मम ।

इंद्राणी सुरनाथस्य भवानी शंकरस्य वा १९।

गंधर्वी किन्नरी वाथ वधूर्वा चंद्रसूर्ययोः ।

त्वत्सदृक्षा न दृष्टा च न श्रुता च शुभानने २०।

लक्ष्मीरुवाच-

प्रसन्ना सांप्रतं जाता वैकुंठादहमागता ।

प्रेरिता देवदेवेन कमलायाः प्रभावतः २१।

पुरुषोत्तममासस्य या पक्षे प्रथमे भवेत् ।

तस्या व्रतं त्वया चीर्णं प्रयागे मुनिसंनिधौ २२।

व्रतस्यास्य प्रभावेन वशगाहं न संशयः ।

तववंशे भविष्यंति मानवा द्विजसत्तम २३।

मत्प्रसादादवाप्स्यंति सत्यं ते व्याहृतं मया ।

ब्राह्मण उवाच-

प्रसन्ना यदि मे पद्मे व्रतं विस्तरतो वद २४।

यत्कथासु प्रवर्तंते साधवो ये जना द्विजाः ।

लक्ष्मीरुवाच-

श्रोतॄणां परमं श्राव्यं पवित्राणामनुत्तमम् २५।

दुःस्वप्ननाशनं पुण्यं श्रोतव्यं यत्नतस्ततः ।

उत्तमः श्रद्धया युक्तः श्लोकं श्लोकार्द्धमेव वा २६।

पठित्वा मुच्यते सद्यो महापातककोटिभिः ।

मासानां परमो मासः पक्षिणां गरुडो यथा २७।

नदीनां च यथा गंगा तिथीनां द्वादशी तिथिः ।

अद्यापि निर्जराः सर्वे भारते जन्मलिप्सवः २८।

तमर्चयंति विविधा नारायणमनामयम् ।

ये यजंति सदा भक्त्या देवं नारायणं प्रभुम् २९।

तानर्चयंति सततं ब्रह्माद्या देवतागणाः ।

येऽपि नामपरा ये च हरिकीर्त्तनतत्पराः ३०।

हरिपूजापरा ये च ते कृतार्थाः कलौ युगेः ।

शुक्ले वा यदि वा कृष्णे भवेदेकादशी द्वयम् ३१।

गृहस्थानां भवेत्पूर्वा यतीनामुत्तरा स्मृता ।

एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ।

तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे ३२।

एकादश्यां निराहारः स्थित्वाहमपरेऽहंनि ।

भोक्ष्यामि पुंडरीकाक्ष शरणं मे भवाच्युत ३३।

अमुं मंत्रं समुच्चार्य देवदेवस्य चक्रिणः ।

भक्तिभावेन तुष्टात्मा उपवासं समाचरेत् ३४।

कुर्याद्देवस्य पुरतो जागरं नियतो व्रती ।

गीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः ३५।

ततः प्रातः समुत्थाय द्वादशीदिवसे व्रती ।

स्नात्वा विष्णुं समभ्यर्च्य विधिवत्प्रयतेंद्रियः ३६।

पंचामृतेन संस्नाप्य एकादश्यां जनार्दनः ।

द्वादश्यां च पयःस्नानाद्धरेः सारूप्यमश्नुते ३७।

अज्ञानतिमिरांधस्य व्रतेनानेन केशव ।

प्रसीद सन्मुखो भूत्वा ज्ञानदृष्टिप्रदो भव ३८।

एवं विज्ञाप्य देवेशं देवदेवं गदाधरम् ।

ब्राह्मणान्भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ३९।

ततः स्वबंधुभिः सार्द्धं नारायणपरायणः ।

कृत्वा पंचमहायज्ञान्स्वयं भुंजीत वाग्यतः ४०।

एवं यः प्रयतः कुर्यात्पुण्यमेकादशीव्रतम् ।

स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम् ४१।

इत्युक्त्वा कमला तस्मै वरं दत्त्वा तिरोदधे ।

सोऽपि विप्रो धनी भूत्वा पितुर्गेहं समागतः ४२।

श्रीकृष्ण उवाच-

एवं यः कुरुते राजन्कमलाव्रतमुत्तमम् ।

शृणुयाद्वासरे विष्णोः सर्वपापैः प्रमुच्यते ४३।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे पुरुषोत्तममासस्य कृष्णा कमलानामैकादशीनाम द्विषष्टिमोऽध्यायः ६२।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 63

युधिष्ठिर उवाच -

श्रुतानि बहुधर्माणि व्रतानि च जगत्प्रभो ।

एकादशीसमं किंजिच्छ्रुतं नैव जनार्दन १।

पुनस्त्वेकादशीं ब्रूहि पापघ्नीं पुण्यदायिनीम् ।

यां कृत्वा मनुजो लोके प्राप्नुयात्परमं पदम् २।

श्रीकृष्ण उवाच-

शुक्ले वा यदि वा कृष्णे यदा चैकादशी भवेत् ।

न त्याज्या जगतीपाल मोक्षसौख्यविवर्द्धनी ३।

एकादशी कलौ राजन्भवबंधविमोचनी ।

कामदा सर्वकामानां पापानां पापहा भुवि ४।

रविवारेऽथ मांगल्ये संक्रमे वा नृपोत्तम ।

एकादशी सदोपोष्या पुत्रपौत्रविवर्द्धनी ५।

एकादशीव्रतं क्वापि न त्याज्यं विष्णुवल्लभैः ।

आयुः कीर्तिप्रदं नित्यं संतानारोग्यवित्तदम् ६।

मोक्षदं रूपदं राज्यं नित्यमेकादशीव्रतम् ।

ये कुर्वंति महीपाल श्रद्धया परया युताः ७।

यथोक्तविधिना लोके ते नरा विष्णुरूपिणः ।

जीवन्मुक्तास्तु भूपाल दृश्यंते नात्र संशयः ८।

युधिष्ठिर उवाच-

जीवन्मुक्ताः कथं कृष्ण विष्णुरूपाः कथं पुनः ।

पापरूपाश्च दृश्यंते परं कौतूहलं हि मे ९।

श्रीकृष्ण उवाच-

ये च राजन्कलौ भक्त्या निर्जलं व्रतमुत्तमम् ।

एकादश्याः प्रकुर्वंति विधिदृष्टेन कर्मणा १०।

न कथं विष्णुरूपास्ते जीवन्मुक्ताः कथं नहि ।

सर्वपापहरं पुण्यं व्रतमेकादशीसमम् ११।

न किंचिद्विद्यते राजन्सर्वकामप्रदं नृणाम् ।

एकाशनं दशम्यां च नंदायां निर्जलं व्रतम् १२।

पारणं चैव भद्रायां कृत्वा विष्णुसमा नराः ।

श्रद्धावान्यस्तु कुरुते कामदाया व्रतं शुभम् १३।

वांछितं लभते सोऽपि इहलोके परत्र च ।

पवित्रा पावनी ह्येषा महापातकनाशिनी १४।

भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम ।

कामदायां विधानेन पूजयेत्पुरुषोत्तमम् १५।

पुष्पधूपादिभिश्चैव नैवेद्यैर्विविधैस्तथा ।

कांस्य मांसमसूरांश्च चणकान्कोद्रवांस्तथा १६।

शाकं मधु परान्नं च पुनर्भोजन मैथुनम् ।

वैष्णवो व्रतकर्त्ता च दशम्यां दश वर्जयेत् १७।

द्यूतं क्रीडां तथा निद्रा तांबूलं दंतधावनम् ।

परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् १८।

क्रोधं च वितथं वाक्यमेकादश्यां विवर्जयेत् ।

कांस्यं मांसंमसूरांश्च तैलं वितथभाषणम् १९।

व्यायामं च प्रवासं च पुनर्भोजनमैथुनम् ।

वृषपृष्ठं परान्नं च शाकं च द्वादशीदिने २०।

अनेन विधिना राजन्विहिता यैश्च कामदा ।

रात्रौ जागरणं कृत्वा पूजितः पुरुषोत्तमः २१।

सर्वपापविनिर्मुक्तास्ते यांति परमां गतिम् ।

पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् २२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे पुरुषोत्तममासस्य शुक्ला कामदानामैकादशीनाम त्रिषष्टितमोऽध्यायः ६३।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 64

नारद उवाच-

चातुर्मास्यां तु नियमा ये केचिद्भुवि विश्रुताः ।

तानहं श्रोतुमिच्छामि कथयस्व महेश्वर १।

चातुर्मास्ये हरौ सुप्ते कर्त्तव्यं किं जनार्दने ।

षड्रसानां परित्यागे नखकेशविधारणे ।

अन्यैश्च नियमैः स्वामिन्यत्फलं तद् ब्रवीहि मे २।

सूत उवाच-

एतच्छ्रुत्वा त्वसौ देवः प्रहस्योत्फुल्ललोचनः ।

प्रोवाच तं द्विजवरं नारदं तपसान्निधिम् ३।

महादेव उवाच-

शृणु त्वमिह देवर्षे कथयामि सविस्तरम् ।

आषाढस्य सिते पक्षे एकादश्यामुपोषितः ४।

चातुर्मास्यव्रतानीह गृह्णीयाद्भक्तिपूर्वकम् ।

भूमिशय्यासमारूढो योगनिद्रां गते हरौ ५।

नयेत चतुरो मासान्यावद्भवति कार्तिकी ।

प्रतिष्ठा न प्रवर्त्तंते तथा यज्ञादिकाः क्रियाः ६।

विवाहव्रतसंबंध अन्यन्माङ्गल्यकर्म च ।

भूपयानं तथा यात्रा अन्याश्च विविधाः क्रियाः ७।

प्रसुप्ते च जगन्नाथे अच्युते गरुडध्वजे ।

व्रतक्रियां चरेद्यस्तु तस्य व्रतफलं शृणु ८।

अश्वमेधसहस्रैस्तु यत्फलं प्राप्नुयान्नरः ।

चातुर्मास्यव्रतैश्चीर्णैस्तत्फलं समवाप्नुयात् ९।

मिथुनस्थे सहस्रांशौ स्वापयेन्मधुसूदनम् ।

तुलाराशौ गते सूर्ये पुनरुत्थापयेद्धरिम् १०।

अधिमासे तु पतिते तदा चैष विधिक्रमः ।

स्थापयेत्प्रतिमां विष्णोः शंखचक्रगदाधरीम् ११।

पीतांबरधरां सौम्यां पर्यंके स्थापयेत्शुचौ ।

श्वेतवस्त्रसमाच्छन्ने सोपधाने तु नारद १२।

इतिहासपुराणज्ञो विष्णुभक्तोऽथवा पुनः ।

स्नापयित्वा दधिक्षीरमधुलाजघृतस्तथा १३।

समालभ्य शुभैर्गंधैर्धूपैः पुष्पैर्मनोरमैः ।

पूजितां कुसुमैः शुभ्रैर्मंत्रेणानेन वाडव १४।

सुप्ते त्वयि जगन्नाथे जगत्सुप्तं भवेदिदम् ।

विबुद्धे त्वयि बुध्येत जगत्सर्वं चराचरम् १५।

एवं तां प्रतिमां विष्णोः स्थापयित्वा तु नारद ।

तस्यैवाग्रे स्वयं वाचा गृह्णीयान्नियमं ततः १६।

स्त्री वा नरो वा तद्भक्तो धर्माधर्मविभागतः ।

चतुरो वार्षिकान्मासान्देवस्योत्थापनावधि १७।

गृह्णीयान्नियमानेतान्दंतधावनपूर्वकम् ।

उपवासं ततः कृत्वा प्रभाते विमले सति १८।

नित्यं कर्म चरित्वा तु विष्णोरग्रे जितात्मवान् ।

तेषां फलानि वक्ष्यामि तत्कर्तॄणां पृथक्पृथक् १९।

मधुरत्वं लभेद्विद्वान्पुरुषो गुडवर्जनात् ।

तथैव संततिं दीर्घां तैलस्य वर्जनाद्यतः २०।

घृतस्य वर्जनाद्विप्र सुंदरांगः प्रजायते ।

कटुतैलपरित्यागी शत्रुनाशमवाप्नुयात् २१।

सुगंधतैलत्यागेन सौभाग्यमतुलं लभेत् ।

पुष्पभोगपरित्यागी स्वर्गे विद्याधरो भवेत् २२।

योगाभ्यासी नरो यस्तु स ब्रह्मपदमाप्नुयात् ।

कट्वम्लमधुरक्षारतीक्ष्णकाषाय षड्रसान् २३।

वर्जयेद्यस्तु वैरूप्यं दौर्गंध्यं नाप्नुयान्नरः ।

तांबूलवर्जनाद्भोगी रक्तकंठस्तु जायते २४।

घृतत्यागाच्च लावण्यं सदा स्निग्धतनुर्भवेत् ।

फलत्यागाच्च विपेंद्र बहुपुत्रश्च जायते २५।

पलाशपत्राशनकृद्रूपवान्भोगवान्भवेत् ।

दीप्तिमान्दीप्तिकरणः साक्षाद्द्रव्यपतिर्भवेत् २६।

दधिदुग्धपरित्यागी गोलोकं लभते नरः ।

मौनव्रती भवेद्यस्तु तस्याज्ञाऽस्खलिता भवेत् २७।

इंद्रासनमवाप्नोति स्थालीपाकस्य वर्जनात् ।

एवमादि परित्यागाद्धर्मस्थो धर्मनंदनः २८।

नमोनारायणायेति जप्त्वा शतगुणं फलम् ।

एक एव स वै स्वर्गे विद्याधरपतिर्भवेत् २९।

पुष्करस्नानमात्रेण गंगायाः स्नानजं फलम् ३०।

भूमौ भुंक्ते सदा यस्तु स पृथिव्यधिपो भवेत् ।

विष्णोश्चैव गृहे कुर्यादुपलेपनमार्जनम् ३१।

कल्पस्थायी भवेद्विद्वन्वैकुंठे नात्र संशयः ।

प्रदक्षिणं च यः कुर्याच्छतमष्टोत्तरं नरः ३२।

हंसयुक्तविमानेन दिव्येन सह गच्छति ।

गीतवाद्यकरो विष्णोर्गांधर्वं लोकमाप्नुयात् ३३।

पंचगव्याशनो विद्वन्चांद्रायणफलं लभेत् ।

नित्यं शास्त्रविनोदेन लोकान्यस्तु प्रबोधयेत् ३४।

स व्यासरूपी विष्ण्वग्रे ततो विष्णुपदं लभेत् ।

तुलसीदलपूजां तु कृत्वा विष्णुपुरं व्रजेत् ३५।

कृत्वा प्रोक्षणकं दिव्यं स्थानमप्सरसां लभेत् ।

शीतांबुना गृहे स्नानात्निर्मलं देहमाप्नुयात् ३६।

उष्णोदकं परित्यज्य स्नानं वै पौष्करं लभेत् ।

पत्रेषु यो नरो भुंक्ते कुरुक्षेत्रफलं लभेत् ३७।

भुंक्ते शिलायां यो नित्यं तस्य पुण्यं प्रयागजम् ।

धर्मोदयजलत्यागी न रोगैः परिभूयते ३८।

ताम्रपात्रेषु भुंजानो नैमिषं फलमाप्रुयात् ।

कांस्यपात्रं परित्यज्य शेषपात्रमुपाचरेत् ३९।

अलाभे सर्वपात्राणां मृन्मयं पात्रमुत्तमम् ।

स्वगृहीतैः कृतैर्वापि पात्रैः पालाशसंभवैः ४०।

यस्तु संवत्सरं पूर्ण अग्निहोत्रमुपासते ।

पात्रैर्वा भोजनं विद्वान्सेवते तत्समं स्मृतम् ४१।

चांद्रायणसमं प्रोक्तं ब्रह्मपात्रेषु भोजने ।

एकैकं भोजनं विद्वन्ब्रह्मपत्रेषु भुंजतः ४२।

त्रिरात्रेण समं प्रोक्तं महापातकनाशनम् ।

एकादश्युपवासेन यत्पुण्यं परिकीर्तितम् ४३।

सर्वदानफलं चैव सर्वतीर्थफलं लभेत् ।

न चापि नरकं पश्येत्पद्मपत्रेषु भोजनात् ४४।

ब्राह्मणो याति वैकुंठेऽन्यो जनः स्वर्गमाप्नुयात् ।

एष ब्रह्म महावृक्षः पापहा सर्वकामदः ४५।

मध्यमं वर्जितं पत्रं शूद्रजातेर्नृपोत्तम ।

भुंजन्नरकमाप्नोति यावदिंद्राश्चतुर्दश ४६।

वर्जयेन्मध्यमं पत्रं शेषपत्रेषु भोजनम् ।

मध्यपत्रे च यः शूद्रो भोजनं कुरुते द्विज ४७।

कपिलां ब्रह्मणे दत्त्वा शुद्धिर्भवति नान्यथा ।

कपिलां दोहयेद्यस्तु शूद्रो भुंक्ते निजे गृहे ४८।

दशवर्षसहस्राणि विष्ठायां जायते कृमिः ।

कृमियोनिविनिर्मुक्तः पशुयोनिमवाप्नुयात् ४९।

कपिलं योह्यनड्वाहं शूद्रो भूत्वात्र वाहयेत् ।

यावंति तस्य रोमाणि तावद्वर्षाणि नारद 6.64.५०।

कुंभीपाकेषु पच्येत स नरो नात्र संशयः ।

अजा चैव गृहे तस्य शूद्रस्य च विशेषतः ५१।

तस्या वै दुग्धपानेन शूद्रो यातीह रौरवम् ।

ब्राह्मणैः सह व्यापारो यस्य शूद्रस्य दृश्यते ५२।

स विप्रो वेदबाह्यः स्याच्छूद्रः कौलिक उच्यते ।

व्यापारे प्रेरितो विप्रः शूद्राज्ञां च करोति यः ५३।

यावत्पदानि चलते तावद्भवति नारकी ।

उदकार्थं तु यो विप्रः शूद्रेण प्रेषितो गृहे ५४।

तदुदकं मद्यतुल्यं पीत्वा वै नरकं व्रजेत् ।

शूद्रेण सर्वदा नित्यं दानं देयं द्विजन्मने ५५।

तेषां चैव तु वै भक्तिः कर्त्तव्या च विशेषतः ।

इहलोके सुखं भुक्त्वा परलोकं च गच्छति ५६।

पांचभौतिकमेतद्धि अनर्थकमुदाहृतम् ।

अतो देयं हि गुरवे यतोऽनंतफलं लभेत् ५७।

अस्मिन्कलियुगे घोरे पापाचारे दुरात्मनः ।

निंदां कुर्वंति विप्रेंद्र जनानां पुण्यकर्मणाम् ५८।

निंदया लभते दुःखं यावदाभूतसंप्लवम् ।

नानाधर्माः प्रवर्त्तंते कलौ चैव महामते ५९।

धर्मोऽयं दुर्ल्लभो लोके धर्मकामार्थमोक्षदः ।

भूमिशायी भवेद्यस्तु नरः कोऽपि महीतले ६०।

दशवर्षसहस्राणि न रोगैः परिपीड्यते ।

बहुपुत्रो धनैर्युक्तो ह्यकुष्ठी जायते नरः ६१।

नक्तभोजी नरो यस्तु तीर्थयात्राफलं लभेत् ।

अयाचितेन चाप्नोति वापीकूपक्रिंया फलम् ६२।

वर्जयेद्यस्तु वै द्रोहं प्राणहिंसापराङ्मुखः ।

अहिंसा परमो धर्म इति वेदेषु गीयते ६३।

दानं दया दम इति सर्वत्र हि श्रुतं मया ।

तस्मात्सर्वप्रयत्नेन कार्यं वै महतामपि ६४।

गुरवे ये प्रयच्छंति शरीरं पुत्रपौत्रकम् ।

तत्र दानप्रभावेन विष्णोर्वल्लभतामियात् ६५।

शूद्रेण दीक्षितो यस्तु शूद्रः शूद्रेण दीक्षितः ।

उभौ तौ पापिनौ प्रोक्तौ यावदाभूतसंप्लवम् ६६।

हिंसामतिं यदादत्ते शूद्रो वै पापसत्तमः ।

एकविंशतिकुलं तेन नरकं प्रतिपात्यते ६७।

कलौ पाखंडिनः शूद्रा दृश्यंते बहवो भुवि ।

तेषां संभाषणादेव नरको भवति द्विज ६८।

ब्रह्मज्ञानरता ये च गायत्रीजापिनो द्विज ।

तेषां दर्शनमात्रेण ब्रह्महत्या दिने दिने ६९।

शंखचक्रधरा विप्रा विष्णुधर्मेषु संमताः ।

वेदधर्मरता नित्यं पंक्तिपावनपावनाः ७०।

चातुर्मास्यमिदं कर्म कर्त्तव्यं तैः सदा नरैः ।

किमन्यद्बहुनोक्तेन भूयोभूयश्च वाडव ७१।

ते धन्याः पृथिवी मध्ये नरा ये वैष्णवा भुवि ।

तेषां कुलं धन्यतमं जातिर्धन्यतमा स्मृता ७२।

मधु भक्षयते यस्तु सुप्ते देवे जनार्दने ।

महत्पापं भवेत्तस्य वर्जने यच्छृणुष्व तत् ७३।

सर्वयज्ञैश्च विविधैर्यत्फलं तदवाप्नुयात् ।

दाडिमं मातुलिगं च नालिकेरं च वर्जयेत् ७४।

देवो वैमानिको भूत्वा ह्यंते विष्णुपदं व्रजेत् ।

वित्तवान्सुभगश्चैव कुले श्रीमति जायते ७५।

यः क्षिपेदेकभक्तेन नरो मासचतुष्टयम् ।

यावंति च मुहूर्तानि उदितोदितभास्करे ७६।

ताद्वर्षसहस्राणि विष्णुलोके महीयते ।

व्रीहींश्च यवगोधूमान्वर्जयेद्यस्तु मानवः ७७।

अश्वमेधादिके कृते विधिवद्वै सदक्षिणे ।

यत्फलं मुनिभिः प्रोक्तं तत्फलं लभते नरः ७८।

धनधान्यसमायुक्तो बहुपुत्रश्च जायते ।

तुलसीतिलदर्भैश्च ये कुर्वंति च तर्पणम् ७९।

तत्फलं कोटिगुणितं चातुर्मास्ये विशेषतः ।

यदा सुप्ते हृषीकेशे कुर्याच्चैतत्त्रयान्वितम् ८०।

तेऽपि युगसहस्राणि मोदंते विष्णुसंनिधौ ।

पदं वा पदमर्द्धं वा ऋचां चार्द्धऋचां तथा ८१।

विष्ण्वग्रे ये प्रगायंति मुक्तास्ते वै न संशयः ।

मैथुनं वर्जयेद्यस्तु सुप्ते देवे जनार्दने ८२।

एकमन्वंतरं सोऽपि विष्णुलोके महीयते ।

दधिदुग्धं तथा तक्रं गुडं शाकं तथैव च ८३।

वर्जनादेव भो विप्र मुक्तिभागी न संशयः ।

स्नानमामलकेनैव ये कुर्वंति च मानवाः ८४।

दिनेदिने महत्पुण्यं प्राप्नुवंति च ते मुने ।

धात्रीफलं पापहरं प्रवदंति मनीषिणः ८५।

त्रैलोक्यतारणार्थाय निर्मिता ब्राह्मणा पुरा ।

संध्यामौनं चरेद्यस्तु भुंक्ते मासचतुष्टयम् ८६।

मन्वंतराणि चत्वारि वैकुंठे मोदते पुनः ।

स्वयंपाकी नरो यस्तु भुंक्ते मासचतुष्टयम् ८७।

दशवर्षसहस्राणि इंद्रलोके महीयते ।

चतुरो वार्षिकान्मासान्मौनं चैव समाचरेत् ८८।

स च विष्णुपुरं गच्छेद्ब्राह्मं च तदनंतरम् ।

मौनभोजी नरो यस्तु कदाचिन्नावसीदति ८९।

मौनेन भुंजमानास्तु राक्षसास्त्रिदिवं गताः ।

कृमिकीटसमायुक्तं पक्वान्नमशुची भवेत् ९०।

गवां मांससमं ज्ञेयमन्नं चापि द्विजोत्तम ।

तदन्नमशुचि ज्ञेयं ग्रसते मानुषो यदि ९१।

एतद्वै भोजनं प्रोक्तं राक्षसानां प्रियं सदा ।

तोषितो हि पुरा ब्रह्मा तेन दत्तं महात्मना ९२।

मौनेन भोजयित्वा तु स्वर्गं प्राप्ता न संशयः ।

संजल्पन्भुंजते यस्तु तेनान्नमशुची भवेत् ९३।

पापं स केवलं भुंक्ते तस्मान्मौनं समाचरेत् ।

उपवाससमं भोज्यं ज्ञेयं मौनेन नारद ९४।

पंचप्राणाहुतीर्यस्तु मौनभोजी नरोत्तमः ।

पंच वै पातकान्यस्य नश्यंति नात्र संशयः ९५।

न कुर्यात्संधितं वस्त्रं पितृकर्मणि वाडव ।

अशुच्यंगे स्थितं चैव वस्त्रं तदशुची भवेत् ९६।

कटिपृष्ठस्थिते वस्त्रे पुरीषं कुरुते तु यः ।

मूत्रं वा मैथुनं वापि तद्वस्त्रं परिवर्जयेत् ९७।

पितृकर्मविशेषेण वर्जनीयं च वाडव ।

सर्वदा च मुने प्राज्ञैर्देवार्चा चक्रपाणिनः ९८।

कर्त्तव्या च विशेषेण शुचिभिर्विजितेंद्रियैः ।

संप्रसुप्ते हृषीकेशे तृणशाककुसुंभिकाः ९९।

संधितानि च वस्त्राणि वर्जितानि प्रयत्नतः ।

चातुर्मास्ये हरौ सुप्ते यस्तु एतानि वर्जयेत् 6.64.१००।

नरकं न तु संगच्छेत्यावदाभूतसंप्लवम् ।

मद्यं मांसं न भक्षेत शाशकं सौकरं तथा १०१।

चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने ।

सोऽपि देवत्वमाप्नोति अहिंसानिरतो नरः १०२।

मिथ्याक्रोधं तथा रौक्ष्यं तथा पर्वसु मैथुनम् ।

वर्जितं येन विप्रेंद्र सोऽश्वमेधफलं लभेत् १०३।

ब्रह्मचर्ये प्रजावृद्धिरायुर्वृद्धिस्तथैव च ।

पुष्पं पत्रं फलं शय्या अभ्यंगं च विलेपनम् १०४।

वृथादुग्धानि मांसं च मद्यं च परिवर्जयेत् ।

चातुर्मास्ये हरौ सुप्ते नियतं यद्विवर्जितम् १०५।

प्रथमं तत्तु दातव्यं ब्राह्मणाय न संशयः ।

तद्धनं चाक्षयं विद्वन्प्रदत्तं यद्दिवजातये १०६।

कोटिकोटिगुणं विप्र लभते नात्र संशयः ।

येनकेनापि विप्रेंद्र नियमेनार्चितो हरिः १०७।

ददाति विष्णुभवनं नात्र कार्या विचारणा ।

चातुर्मास्ये हरौ सुप्ते नियमं यो न कारयेत् १०८।

सोऽपि नरकमाप्नोति तस्य जन्म वृथागतम् ।

यत्पुमान्कारयेन्नित्यं द्विजोक्तं विधिमुत्तमम् १०९।

तथोक्तान्नियमांश्चैव स याति परमं पदम् ।

त्रिवर्गरहितं दानं दत्तं भवति निष्फलम् ११०।

तस्मात्सर्वप्रयत्नेन देवदेवं जनार्दनम् ।

तोषयेन्नियमैर्दानैर्यथाशक्त्या नरोत्तमः १११।

अकृतस्नानदानं च ब्राह्मणानां च पूजनम् ।

वृथागतं तु तत्सर्वं यावदिंद्राश्चतुर्दश ११२।

नारद उवाच-

कीदृशं ब्रह्मचर्यं च वद विश्वेश्वर प्रभो ।

येन चीर्णेन गोविंदः परितुष्टो भवेन्नृणाम् ११३।

महादेव उवाच-

स्वदारनिरतश्चैव ब्रह्मचारी स्मृतो बुधैः ।

चांडालादधिको विद्वन्यः स्वभार्यां परित्यजेत् ११४।

ऋतावभिगमं कृत्वा ब्रह्मचर्यं विधीयते ।

परित्यजति यो भार्यां भक्तां दोषविवर्जिताम् ११५।

पापकर्मा नरो लोके भ्रूणहत्यामवाप्नुयात् ।

अश्वमेधसहस्राणि वाजपेयशतानि च ११६।

एकादश्युपवासस्य कलां नार्हंति षोडशीम् ।

स्नानं दानं जपो होमः स्वाध्यायं देवतार्चनम् ११७।

चातुर्मास्यकृतं यच्च सर्वं हि चाक्षयं भवेत् ।

एककालं द्विकालं वा पुराणं शृणुते तु यः ११८।

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।

हरौ सुप्ते विशेषेण हरेर्नामपठन्जपन् ११९।

तत्फलं कोटिगुणितं लभते द्विजसत्तम ।

वैष्णवो ब्राह्मणो यस्तु पूजनं यः करोति हि १२०।

स एव सर्वधर्मात्मा पूज्य एव न संशयः ।

चातुर्मास्यमिदं पुण्यं पवित्रं पापनाशनम् ।

श्रुत्वा तु लभते पुण्यं गंगास्नानफलं लभेत् १२१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्र्यां संहितायामुमापतिनारदसंवादे उत्तरखंडे चातुर्मास्यमहिमानाम चतुःषष्टितमोऽध्यायः ६४।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 65

नारद उवाच-

चातुर्मास्यव्रतानां च प्रब्रूह्युद्यापनं विभो ।

उद्यापने कृते सर्वं संपूर्णं भवति ध्रुवम् १।

महादेव उवाच-

व्रतं कृत्वा महाभाग यदि नोद्यापनं चरेत् ।

यस्तु कर्त्ता कर्मणां स न सम्यक्फलभाक्भवेत् २।

व्रतवैकल्यमासाद्य कुष्ठी चांधः प्रजायते ।

एतस्मात्कारणाच्चैव कुर्यादुद्यापनं द्विज ३।

गृहीत्वा नियमानेतान्पालयित्वा यथाविधि ।

सुप्तोत्थिते जगन्नाथे गत्वा ब्राह्मणसंनिधौ ४।

क्षमापयेद्देवदेवं यथाविधि च विस्तरात् ।

तैलत्यागे घृतं दद्याद्घृतत्यागे पयः स्मृतम् ५।

मौने पिंडास्तिला देयाः सहिरण्या द्विजातये ।

भोजने भोजनं दद्याद्दध्योदनसमन्वितम् ६।

अन्नं दद्याद्विशेषेण हिरण्येन समन्वितम् ।

अन्नदानान्मुनिश्रेष्ठ विष्णुलोके महीयते ७।

पालाशपात्रे यो भुंक्ते नरो मासचतुष्टयम् ।

भाजनं घृतपूर्णं तु दद्यादुद्यापने द्विज ८।

षड्रसं भोजनं दद्याद्ब्राह्मणे नक्तभोजने ।

अयाचिते ह्यनड्वाहं सहिरण्यं प्रदापयेत् ९।

माषं त्यजन्मुनिश्रेष्ठ गां च दद्यात्सवत्सकाम् ।

धात्रीस्नाने नरो दद्यात्स्वर्णं माषिकमेवच १०।

फलानां नियमे चैव फलानि च प्रदापयेत् ।

धान्यानां नियमे धान्यमथवा शालयः स्मृताः ११।

तद्वद्भूशयने शय्यां सतूलां गेंदुकान्विताम् ।

ब्रह्मचर्यं कृतं येन चातुर्मास्ये द्विजोत्तम १२।

दंपत्योर्भोजनं देयमुभयोर्भक्तिपूर्वकम् ।

सभोगं दक्षिणोपेतं सशाकं लवणं तथा १३।

नित्यस्नाने नरो दद्यान्निस्नेहे सर्पिः सक्तवः ।

नखकेशव्रते चैव प्रादेशं परिकल्पयेत् १४।

उपानहौ प्रदातव्यौ उपानहविवर्जनात् ।

आमिषस्य परित्यागात्सवत्सा कपिला स्मृता १५।

नित्यं दीपप्रदो यस्तु सौवर्णं दीपमावहेत् ।

तं दीपं घृतसंयुक्तं दद्याच्चैव द्विजन्मने १६।

विष्णुभक्ताय विप्राय परिपूर्णव्रतेप्सया ।

शाकस्य नियमे शाकं माषे सौवर्णमाषकम् १७।

मैथुनानां तु नियमे रौप्यं दद्याद्दिवजातये ।

नागवल्ल्यास्तु नियमे कर्पूरं सहरिण्यकम् १८।

कालेकाले द्विजश्रेष्ठ यत्कृतं नियमेन तु ।

तत्तद्देयं विशेषेण परलोकगतीप्सया १९।

आदौ स्नानादिकं कृत्वा विष्णोरग्रे प्रकाशयेत् ।

अनादिनिधनो देवः शंखचक्रगदाधरः ।

तस्याग्रे के न कुर्वंति यतो विष्णुस्तु पापहा २०।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे चातुर्मास्योद्यापनंनाम पंचषष्टितमोऽध्यायः ६५।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 66

नारद उवाच-

यमस्याराधनं ब्रूहि मद्धितार्थं सुरोत्तम ।

कथं न गम्यते देव नरेण नरकांतरे १।

श्रूयते यमलोके तु सदा वैतरणी नदी ।

अनाधृष्यात्वपारा च दुस्तरा बहुशोणिता २।

दुस्तरा सर्वभूतानां सा कथं सुतरा भवेत् ।

भयमेतन्महादेव यमलोकं प्रति प्रभो ३।

तस्य निर्मोचनार्थाय ब्रूहि कृत्यमशेषतः ।

भगवन्देवदेवेश कृपां कृत्वा ममोपरि ४।

महादेव उवाच-

द्वारवत्यां पुरा विप्र स्नातोऽहं लवणांभसि ।

ददृशे मुनिमायांतं मुद्गलं नाम वाडव ५।

ज्वलंतमिवचादित्यं तपसा द्योततांगकम् ।

मां प्रणम्य मुनिः प्राह मुद्गलो विस्मयान्वितः ६।

मुद्गल उवाच-

अकस्मान्मूर्च्छितो देव पतितोऽस्मि धरातले ।

प्रज्वलंति ममांगानि गृहीतो यमकिंकरैः ७।

बलादाकृष्यमाणोऽहं पुरुषॐगुष्ठमात्रकः ।

बद्धो यमभटैर्गाढं नीतोऽस्मि शमनांतिकम् ८।

क्षणात्सभायां पश्यामि यमं पिंगललोचनम् ।

कृष्णमुखं महारौद्रं मृत्युव्याधिशतान्वितम् ९।

वातपित्त श्लेष्मदोषैर्मूर्तिमद्भिस्तु सेवितम् ।

कायशोषज्वरातंक स्फोटिका लूतकादिभिः १०।

ज्वालांगमर्दशीर्षार्ति भगंदर बलक्षयैः ।

कंठमालाक्षिरोगैश्च मूत्रकृच्छ्रज्वरव्रणैः ११।

विमूर्च्छिका गलग्राह हृद्रोगैर्भूततस्करैः ।

इत्थं बहुविधै रौद्रैर्नानारूपैर्भयंकरैः १२।

कपालशिरोहस्तैश्च संग्रामे नरके तथा ।

राक्षसैर्दानवैर्घोरैरुपविष्टैः पुरः स्थितैः १३।

धर्माधिकारिभिश्चात्र चित्रगुप्तादि लेखकैः ।

व्याघ्र सिंह वराहैश्च शिखासर्पैः सुदुर्द्धरैः १४।

वृश्चिकैर्दंष्ट्रिभिर्भूतैः कीटकैर्मत्कुणादिभिः ।

वृक चित्रादि शुनकैः कंकैर्गृध्रैश्च जंबुकैः १५।

तस्करैर्भूतदारिद्रैर्मारिभिर्डाकिनीग्रहैः ।

मुक्तकेशैः श्वासकासैर्भ्रुकुटी कुटिलाननैः १६।

बृहत्प्रतापैर्नोभीतैः शासकैः पापकर्मणाम् ।

यमः सभायां शुशुभे सेव्यमानः परिग्रहैः १७।

भीमाटविकजीवैश्च यथा व्यालांजनो गिरिः ।

ततो विश्वेश्वरः प्राह समयः किंकरान्प्रति १८।

नामभ्रांतैर्भवद्भिश्च समानीतः कथं मुनिः ।

भीमकस्यात्मजो ग्रामे कौंडिन्ये मुद्गलाभिधः १९।

क्षीणायुः क्षत्रियः सोऽस्ति आनेयो मुच्यतामसौ ।

श्रुत्वैतत्ते गतास्तस्मादायाताः पुनरेव ते २०।

धर्मराजं पुनः प्राहुः सर्वे ते यमकिंकराः ।

तत्रास्माभिर्गतैर्देही क्षीणायुर्नोपलक्षितः २१।

यम उवाच-

किं कारणमदृश्यास्ते प्रायेण भवतां नराः ।

सुकृता द्वादशीयैस्तु ख्याता वैतरणी नदी २२।

उज्जयिन्यां प्रयागे वा यमुनायां च ये मृताः ।

तिलहस्तिहिरण्यादि दत्तं यैस्तु गवाह्निकम् २३।

दूता ऊचुः -

तद्व्रतं कीदृशं ब्रह्मन्ब्रूहि सर्वमशेषतः ।

किं तत्र देव कर्त्तव्यं पुरुषैस्तवतोषदम् २४।

येन कृता नरश्रेष्ठ द्वादशी कृष्णपक्षजा ।

उपवासे च तेनैव कथं पापात्प्रमुच्यते २५।

तद्व्रतं केन विधिना कर्त्तव्यं च यथा वद ।

सुप्रसन्नेन वक्तव्यं दयां कृत्वा दयानिधे २६।

श्रीमुद्गल उवाच-

दूतानां वचनं श्रुत्वा उवाच मधुरं तदा ।

सर्वं वदामि भो दूता यथादृष्टं यथाश्रुतम् २७।

यम उवाच-

मार्गशीर्षादि मासे तु या इमाः कृष्णपक्षजाः ।

तासु पूर्वासु विधिवद्दूता वैतरणीव्रतम् २८।

प्रतिमासं च कर्त्तव्यं यावद्वर्षं भवेद्ध्रुवम् ।

यां तु कृत्वा तु भो दूता मुच्यते नात्र संशयः २९।

उपवासस्य नियमः कर्त्तव्यो विष्णु तुष्टिदः ।

अद्य मे देवदेवेश उपवासो भविष्यति ३०।

द्वादश्यां पूज्य गोविंदं भक्तिभावसमन्वितम् ।

स्वप्नेंद्रियस्य वैकल्याद्भोजनं यच्च मैथुनम् ३१।

तत्सर्वं क्षम मे देव कृपां कृत्वा ममोपरि ।

एवं वै नियमं कृत्वा मध्याह्ने तीर्थमाव्रजेत् ३२।

मृद्गोमय तिलान्नीत्वा गंतव्यं विधिपूर्वकम् ।

स्नानं तत्र प्रकर्तव्यं व्रतसंपूर्णहेतवे ३३।

अश्वक्रांतेति मंत्रेण स्नानं कुर्याद्विशेषतः ।

अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे ३४।

मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् ।

तया हतेन पापेन सर्वपापैः प्रमुच्यते ३५।

काश्यां चैव तु संभूतास्तिला वै विष्णुरूपिणः ।

तिलस्नानेन गोविंदः सर्वं पापं व्यपोहति ३६।

विष्णुदेहोद्भवा देवि महापापापहारिणी ।

सर्वं पापं हर त्वं वै सर्वेषां हि नमोऽस्तु ते ३७।

तुलसीपत्रकं धृत्वा नामोच्चारणपूर्वकम् ।

स्नानं सुकृतिभिः प्रोक्तं कर्तव्यं विधिपूर्वकम् ३८।

एवं स्नात्वा समुत्तीर्य परिधाय सुवाससी ।

तर्पयित्वा पितॄन्देवांस्ततो विष्णोस्तु पूजनम् ३९।

संस्थाप्य चाव्रणं कुंभं पंचपल्लवसंयुतम् ।

पंचरत्नसमोपेतं दिव्यस्रग्गंधवासितम् ४०।

जलपूर्णं सद्रव्यंच ताम्रपात्रसमन्वितम् ।

तत्रस्थं श्रीधरं देवं देवदेवं तपोनिधिम् ४१।

पूर्णेन विधिना राजन्कुर्यात्पूजां गरीयसीम् ।

मृद्गोमयादिरचितं मंडलं कारयेच्छुभम् ४२।

तंडुलैः शुक्लधौतैश्च अश्मपिष्टैश्च कारयेत् ।

धर्मराजः प्रकर्त्तव्यो हस्ताद्यव यवान्वितः ४३।

नदीं वैतरणीं ताम्रां स्थापयित्वा तदग्रतः ।

पूजयेच्च पृथक्सम्यक्समावाहनपूर्वकम् ४४।

आवाहयामि देवेशं यमं वै विश्वरूपिणम् ।

इहाभ्येहि महाभाग सान्निध्यं कुरु केशव ४५।

इदं पाद्यं श्रियः कांत सोपविष्टं हरे प्रभो ।

विश्वोद्यानरतो नित्यं कृपां कुरु ममोपरि ४६।

भूतिदाय नमः पादावशोकाय च जानुनी ।

उरू नमः शिवायेति विश्वमूर्ते नमः कटिम् ४७।

कंदर्पाय नमो मेढ्रमादित्याय फलं तथा ।

दामोदराय जठरं वासुदेवाय वै स्तनौ ४८।

श्रीधराय मुखं केशान्केशवायेति वै नमः ।

पृष्ठं शार्ङ्गधरायेति चरणौ वरदाय च ४९।

स्वनाम्ना शंखचक्रासिगदापरशुपाणये ।

सर्वात्मने नमस्तुभ्यं शिर इत्यभिधीयते 6.66.५०।

मत्स्यं कूर्मं च वाराहं नारसिंहं च वामनम् ।

रामं रामं च कृष्णं च बुधं कल्किं नमोऽस्तु ते५१।

सर्वपापौघनाशार्थं पूजयामि नमो नमः ।

एभिश्च सर्वशो मंत्रैर्विष्णुं ध्यात्वा प्रपूजयेत् ५२।

धर्मराज नमस्तेऽस्तु धर्मराज नमोऽस्तु ते ।

दक्षिणाशापते तुभ्यं नमो महिषवाहन ५३।

चित्रगुप्त नमस्तुभ्यं विचित्राय नमोनमः ।

नरकार्तिप्रशांत्यर्थं कामान्यच्छ ममेप्सितान् ५४।

यमाय धर्मराजाय मृत्यवे चांतकाय च ।

वैवस्वताय कालाय सर्वभूतक्षयाय च ५५।

वृकोदराय चित्राय चित्रगुप्ताय वै नमः ।

नीलाय चैव दध्नाय नित्यं कुर्यान्नमो नमः ५६।

एवं द्वादशभिः पूज्यो नामभिर्धर्मराट्प्रभुः।

वैतरणी सुदुःपारे पापघ्नि सर्वकामदे ५७।

इहाभ्येहि महाभागे गृहाणार्घं मया कृतम् ।

यमद्वारपथे घोरे ख्याता वैतरणी नदी ५८।

तस्यामुद्धरणार्थाय जन्ममृत्युजरातिगा ।

या दुस्तरा दुष्कृतिभिः सर्वप्राणिभयापहा ५९।

यस्यां भयात्प्रमज्जंति प्राणिनो यातनापराः ।

तर्तुकामस्तु तां घोरं जया देवि नमोनमः ६०।

तस्यां देवाधितिष्ठंति या सा वैतरणी नदी ।

सा चापि पूजिता भक्त्या प्रीत्यर्थं केशवस्य च ६१।

यस्यास्तटे प्रविशंति ऋषयः पितरस्तथा ।

सा चापि सिंधुरूपेण पूजिता पापहारिका ६२।

तरीतुं तां प्रदास्यामि सर्वपापविमुक्तये ।

पुण्यार्थं संप्रवक्ष्यामि तुभ्यं वैतरणी नदीम् ६३।

मयासि पूजिता भक्त्या प्रीत्यर्थं केशवस्य च ।

कृष्णकृष्णजगन्नाथ संसारादुद्धरस्व माम् ६४।

नामग्रहणमात्रेण सर्वं पापं हरस्व मे ।

यज्ञोपवीतं परमं कारितं नवतंतुभिः ६५।

प्रतिगृह्णीष्व देवेश प्रीतो यच्छ ममेप्सितम् ।

इदं तव च तांबूलं यथाशक्त्या सुशोभनम् ६६।

प्रतिगृह्णीष्व देवेश मामुद्धर भवार्णवात् ।

पंचवर्ती प्रदीपोऽयं देवेशारार्तिकं तव ६७।

मोहांधकारद्युमणे भक्तियुक्तो भवार्तिहृत् ।

परमान्नं सुपक्वान्नं समस्तरससंयुतम् ६८।

निवेदितं मया भक्त्या भगवन्प्रतिगृह्यताम् ।

द्वादशाक्षरमंत्रेण यथासंख्य जपेन च ६९।

प्रीयतां मे श्रियःकांतः प्रीतो यच्छतु वांछितम् ।

पंच गावः समुत्पन्ना मथ्यमाने महोदधौ ७०।

तासां मध्ये तु या नंदा तस्यै धेन्वै नमोनमः ।

गां संपूज्य विधानेन अर्घ्यं दद्यात्समाहितः ७१।

सर्वकामदुघे देवि सर्वांतकनिवारिणी ।

आरोग्यं संततिं दीर्घां देहि नंदिनि मे सदा ७२।

पूजिता च वसिष्ठेन विश्वामित्रेण धीमता ।

कपिले हर मे पापं यन्मया पूर्वसंचितम् ७३।

गावो ममाग्रतः संतु गावो मे संतु पृष्ठतः ।

नाके मामुपतिष्ठंतु हेमशृंगी पयोमुचः ७४।

सुरभ्यः सौरभेयाश्च सरितः सागरा यथा ।

सर्वदेवमये देवि सुभद्रे भक्तवत्सले ७५।

एवं संपूज्य विधिवद्दद्याद्गोषु गवाह्निकम् ।

सौरभेयः सर्वहिताः पवित्राः पापनाशनाः ७६।

प्रतिगृह्णंतु मे ग्रासं गावस्त्रैलोक्यमातरः ।

गंगदायै नमो भूत्यै सर्वपापप्रहाणये ७७।

अनेनैव तु मंत्रेण गदां वैधारयेद्बुधः ।

पं नमः पद्मनाभाय पद्मं वै धारयेत्सुधीः ७८।

चं चक्ररूपिणे विष्णो धारणं चक्रजं स्मृतम् ।

शं शंखरूपिणे तुभ्यं नमोऽस्तु सुखकारिणे ७९।

मंत्रेणानेन वै दूता धारणं शंखजं स्मृतम् ।

चतुर्णामायुधानां तु धारणं मुनिभिः स्मृतम् ८०।

अग्निहोत्रं यथा नित्यं वेदस्याध्ययनं तथा ।

ब्राह्मणस्य तथैवेदं तप्तमुद्रादि धारणम् ८१।

चंदनेन सुगंधेन गोपिकाचंदनेन तु ।

धारणं च विशेषेण ब्राह्मणैर्वेदपारगैः ८२।

चांडालोऽपि भवेच्छुद्धो धारणाच्च न संशयः ।

ऊर्ध्वं पुंड्रमृजुं सौम्यं सचिह्नं धारयेद्यदि ८३।

स चांडालोऽपि शुद्धात्मा पूज्य एव सदा द्विजैः ।

चांडालानां गृहे दूतास्तुलसी यत्र दृश्यते ८४।

तत्रत्या तुलसी ग्राह्या भक्तिभावेन चेतसा ८५।

इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशत्साहस्र्यांसंहितायामुमापतिनारदसंवादे यमाराधनं नाम षट्षष्टितमोऽध्यायः ६६।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 67

महेश्वर उवाच-

इति श्रुतं धर्ममुखान्मुद्गलो द्विजसत्तमः ।

कथयित्वा ममाग्रे वै गतो यादृच्छिको मुने १।

गोपिकाचंदनं यत्र तिष्ठते वै द्विजोत्तम ।

तद्गृहं तीर्थरूपं च विष्णुना भाषितं किल २।

शोकमोहौ न तत्रास्तां न भवत्यशुभं क्वचित् ।

गोपिकाचंदनं यस्य तिष्ठति द्विजसद्मनि ३।

सुखिनः पूर्वजास्तेषां संततिर्वर्द्धते सदा ।

गोपिकाचंदनं यस्य वर्त्ततेऽहर्निशं गृहे ४।

गोपीपुष्करजा मृत्स्ना पवित्रा कायशोधिनी ।

उद्वर्त्तनाद्विनश्यंति व्याधयो ह्याधयश्च ये ५।

अतो देहे धृतं पुंभिर्मुक्तिदं सर्वकामिकम् ।

तावद्गर्जंति तीर्थानि तावत्क्षेत्राणि सर्वदा ६।

गोपिकाचंदनं यावन्न दृष्टं न श्रुतं द्विज ।

इदं ध्येयमिदं पूज्यं मलदोषविनाशनम् ७।

यस्य संस्पर्शनादेव पूतो भवति मानवः ।

अंतकाले तु मर्त्यानां मुक्तिदं पावनं परम् ८।

किं वदामि द्विजश्रेष्ठ मुक्तिदं गोपिचंदनम् ।

विष्णोस्तु तुलसीकाष्ठं तथा वै मूलमृत्तिका ९।

गोपिकाचंदनं चैव तथा वै हरिचंदनम् ।

चत्वारि ह्येतानि संमील्य अंगमुद्वर्तयेत्सुधीः १०।

तेन तीर्थं कृतं सर्वं जंबूद्वीपेषु सर्वदा ।

तिलकं कुरुते यस्तु गोपिकाचंदनद्रवैः ११।

सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ।

पितुः श्राद्धादिकं तेन गयां गत्वा तु वै कृतम् १२।

येन वा पुरुषेणापि विधृतं गोपिचंदनम् ।

मद्यपो ब्रह्महा चैव गोघ्नो वा बालहा तथा ।

मुच्यते तत्क्षणादेव गोपीचंदनधारणात् १३।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे गोपीचंदनमाहात्म्ये सप्तषष्टितमोऽध्यायः ६७।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 68

महेश्वर उवाच-

शृणु नारद! वक्ष्यामि वैष्णवानां च लक्षणम्।

यच्छ्रुत्वा मुच्यते लोको ब्रहत्यादिपातकात्।१।

तेषां वै लक्षणं यादृक्स्वरूपं यादृशं भवेत्।

तादृशं मुनिशार्दूल शृणु त्वं वच्मि साम्प्रतम्।२।

विष्णोरयं यतो ह्यासीत्तस्माद्वैष्णव उच्यते।

सर्वेषां चैव वर्णानां वैष्णवः श्रेष्ठ उच्यते।३।

येषां पुण्यतमाहारस्तेषां वंशे तु वैष्णवः।

क्षमा दया तपः सत्यं येषां वै तिष्ठति द्विज।४।

तेषां दर्शनमात्रेण पापं नश्यति तूलवत्।

हिंसाधर्माद्विनिर्मुक्ता यस्य विष्णौ स्थितामति:।५।

शंखचक्रगदापद्मं नित्यं वै धारयेत्तु यः।

तुलसीकाष्ठजां मालां कंठे वै धारयेद्यतः।६।

तिलकानि द्वादशधा नित्यं वै धारयेद्बुधः।

धर्माधर्मं तु जानाति यः स वैष्णव उच्यते।७।

वेदशास्त्ररतो नित्यं नित्यं वै यज्ञयाजकः।

उत्सवांश्च चतुर्विंशत्कुर्वंति च पुनः पुनः।८।

तेषां कुलं धन्यतमं तेषां वै यश उच्यते।

ते वै लोके धन्यतमा जाता भागवता नराः।९।

एक एव कुले यस्य जातो भागवतो नरः।

तत्कुलं तारितं तेन भूयोभूयश्च वाडव ।१०।

अण्डजा उद्भिजाश्चैव ये जरायुज योनयः।

ते तु सर्वेऽपि विज्ञेयाः शंखचक्रगदाधराः।११।

येषां दर्शनमात्रेण ब्रह्महा शुद्ध्यते सदा।

किन्तु वक्ष्यामि देवर्षे तेभ्यो धन्यतमा भुवि।१२।

वैष्णवा ये तु दृश्यन्ते भुवनेऽस्मिन्महामुने।

ते वै विष्णुसमाश्चैव ज्ञातव्यास्तत्वकोविदैः।१३।

कलौ धन्यतमा लोके श्रुता मे नात्र संशयः।

विष्णोः पूजा कृता तेन सर्वेषां पूजनं कृतम्।१४।

महादानं कृतं तेन पूजिता येन वैष्णवाः।

फलं पत्रं तथा शाकमन्नं वा वस्त्रमेव च।१५।

वैष्णवेभ्यः प्रयच्छन्ति ते धन्या भुवि सर्वदा।

अर्चितो वैष्णवो यैस्तु सर्वेषां चैव पूजनम्।१६।

कृतं यैरर्चितो विष्णुस्ते वै धन्यतमा मताः।

तेषां दर्शनमात्रेण शुद्ध्यते पातकान्नरः।१७।

किमन्यद्बहुनोक्तेन भूयोभूयश्च वाडव।

अतो वै दर्शनं तेषां स्पर्शने सुखदायकम्।१८।

यथा विष्णुस्तथा चायं नान्तरं वर्तते क्वचित्।

इति ज्ञात्वा तु भो वत्स सर्वदा पूजयेद्बुधः।१९।

एक एव तु यैर्विप्रो वैष्णवो भुवि भोज्यते।

सहस्रं भोजितं तेन द्विजानां नात्र संशयः।२०।

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे वैष्णवमाहात्म्यंनाम अष्टषष्टितमोऽध्यायः।६८।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 69

नारद उवाच-

उपवासासमर्थानां सदैवामरसत्तम ।

एका या द्वादशी पुण्या तां वदस्व ममानघ १।

शिव उवाच-

मासि भाद्रपदे शुक्ले द्वादशी श्रवणान्विता ।

सा वै सर्वप्रदा पुण्या ह्युपवासे महाफला २।

संगमे सरितः स्नात्वा द्वादशीं तामुपोषितः ।

अयत्नात्समवाप्नोति द्वादश द्वादशीफलम् ३।

बुधश्रवणसंयुक्ता या च वै द्वादशी भवेत् ।

अतीव महती तस्यां कृतं सर्वमथाक्षयम् ४।

द्वादशी श्रवणोपेता यदा भवति नारद ।

संगमे सरितां स्नात्वा लभेद्गोदानजं फलम् ५।

जलपूर्णं तदा कुंभं स्थापयित्वा विचक्षणः ।

तस्योपरि न्यसेत्पात्रं स्थापयित्वा जनार्दनम् ६।

ततस्तस्याग्रतो देयं नैवेद्यं घृतपाचितम् ।

सोदकांश्च नवान्कुंभान्दद्याच्छक्त्या विचक्षणः ७।

एवं संपूज्य गोविंदं जागरं तत्र कारयेत् ।

प्रभाते विमले स्नात्वा संपूज्य गरुडध्वजम् ८।

पुष्पधूपादि नैवेद्यैः फलैर्वस्त्रैः सुशोभनैः ।

पुष्पांजलिं ततो दद्यान्मंत्रमेनमुदीरयेत् ९।

नमो नमस्ते गोविंद बुधश्रवणसंयुत ।

अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव १०।

अन्नं तु ब्राह्मणे पूतं वेदवेदांगपारगे ।

पुराणज्ञे विशेषेण विधिवत्संप्रदापयेत् ११।

अनेन विधिना चैव नद्यास्तीरे नरोत्तमः ।

सर्वं निर्वर्त्तयेत्सम्यगेकचित्तरतोऽपि सन् १२।

अत्राप्युदाहरंतीममितिहासं पुरातनम् ।

महत्यरण्ये यद्वृतं भूमिदेव शृणुष्व तत् १३।

यं श्रुत्वा मानवो लोके महादुःखात्प्रमुच्यते ।

देशो दासरको नाम तस्य भागे च पश्चिमे १४।

तत्र विद्वन्मरुर्देशः सर्वसत्वभयंकरः ।

सुतप्तसिकता भूमिर्यत्र दुष्टा महोरगाः १५।

अल्पच्छायाद्रुमाकीर्णा मृतप्राणिसमाकुला ।

शमीखदिरपालाशकरीरैः पीलुभिः सह १६।

तत्र भीमा द्रुमगणाः कंटकैरचिता दृढैः ।

जग्धप्राणजनाकीर्णा यत्र भूर्दृश्यते क्वचित् १७।

तथापि जीवा जीवंति सर्वे कर्मनिबंधनात् ।

नोदकं नोदकाधारा विद्वंस्तत्र बलाहकाः १८।

पक्षांतरगतैः कैश्चिच्छिशुभिस्तृषितैः समम् ।

उत्क्रांतजीविनो विप्र दृश्यंते नु खगोत्तमाः १९।

तस्मिंस्तथाविधे देशे कश्चिद्दैववशाद्वणिक् ।

निजसार्थपरिभ्रष्टः प्रविष्टो मरुजांगले २०।

बभ्रामोद्भ्रांतहृदयः क्षुत्तृट्भ्यां श्रमपीडितः ।

क्व ग्रामः क्व जलं क्वाहं यास्यामि न बुबोध ह २१।

अथ प्रेतान्ददर्शासौ क्षुत्तृषाव्याकुलेंद्रियान् ।

उत्कटान्खलिनो भीमान्निर्मांसान्रौद्रदर्शनान् २२।

प्रेतस्कंधसमारूढमेकं विकृतदर्शनम् ।

ददर्श बहुभिः प्रेतैः समंतात्परिवारितम् २३।

अगच्छमानमत्युग्रं प्रेतशब्दपुरःसरम् ।

प्रेतोऽपि दृष्ट्वा तां घोरामटवीमागतं नरम् २४।

प्रेतस्कंधान्महीं गत्वा तस्यांतिकमुपागमत् ।

प्रणिपत्य वणिक्श्रेष्ठमिदं वचनमब्रवीत् २५।

अस्मिन्घोरतरे देशे प्रवेशो भवतः कथम् ।

तमुवाच वणिक्धीमान्सार्थभ्रष्टस्य मे वने २६।

प्रवेशो दैवयोगेन पूर्वकर्मकृतेन च ।

तृषा मे बाधतेऽत्यर्थं क्षुधा चैव भृशं तथा २७।

प्राणांतिकमनुप्राप्तं वचनं भ्रमतीव मे ।

अत्रोपायं न पश्यामि जीवेयं येन केनचित् २८।

इत्येवमुक्ते प्रेतस्तं वणिजं वाक्यमब्रवीत् ।

फुल्लां शमीं समाश्रित्य प्रतीक्ष त्वं मुहूर्त्तकम् २९।

कृतातिथ्यो मया पश्चाद्गमिष्यसि यथासुखम् ।

एवमुक्तस्तथा चक्रे स वणिक्तृष्णयार्दितः ३०।

मध्याह्नसमये प्राप्ते प्रेतस्तं देशमागतः ।

फुल्लां सवृक्षां शीतोदां वारिधानीं मनोरमाम् ३१।

दध्योदनसमायुक्तां वर्द्धमानेन संयुताम् ।

अवतीर्य ततः स्वन्नं प्रादादतिथये तदा ३२।

स तत्राशनमात्रेण परं तृप्तित्वमागतः ।

वितृष्णो विज्वरश्चैव क्षणेन समपद्यत ३३।

ततश्च प्रेताः संप्राप्ताः सोऽस्माद्भागं क्रमाद्ददौ ।

दध्योदनात्सपानीयात्प्रेतास्तृप्तिं परां गताः ३४।

अतिथिं तर्पयित्वा तु प्रेतलोकं च सर्वतः ।

ततः स्वयं स बुभुजे भुक्तशेषं यथासुखम् ३५।

तस्य भुक्तवतः स्वन्नं पानीयं च क्षयं ययौ ।

प्रेताधिपं ततस्तं वै वणिग्वचनमब्रवीत् ३६।

आश्चर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे ।

अन्नं पानं च परमं संप्राप्तं च कुतस्तव ३७।

स्वल्पेनैव तथान्नेन त्वमेतांस्तु बहूनपि ।

अतर्पयः कथं त्वेते निर्मांसा भिन्नकुक्षयः ३८।

कथमस्यां सुघोरायामटव्यां च कृतालयाः ।

तदेतत्संशयं छिंधि परं कौतूहलं मम ३९।

एवमुक्तः स वणिजा प्रेतो वचनमब्रवीत् ।

वाणिज्यसक्तस्य पुरा जन्मातीते ममानघ ४०।

सकले नगरे नास्ति ममान्यो हि दुरात्मकः ।

धनलोभान्न कस्यापि दत्ता भिक्षा मया तदा ४१।

सखा चैव ततश्चासीद्ब्राह्मणो गुणवान्मम ।

श्रावणद्वादशीयोगे मासि भाद्रपदे ततः ४२।

स कदाचिन्मया सार्द्धं तापीं नाम नदीं ययौ ।

तस्याश्च संगमः पुण्यो यत्रासीच्चंद्रभागया ४३।

चंद्रभागा चंद्रसुता तापी चैवार्कनंदिनी ।

तयोः शीतोष्णसलिले प्रविवेश स ह द्विजः ४४।

श्रवणद्वादशीयोगे नराश्च समुपोषिताः ।

चंद्रभागा सुतो येन वारिधानीं ददुर्द्विजे ४५।

दध्योदनयुतां सार्द्धं संपूर्णैर्वर्द्धमानकैः ।

छत्रोपानद्युगं वस्त्रं प्रतिमां च तथा हरेः ४६।

प्रददौ विप्रमुख्येभ्यो हरस्याग्रे महामते ।

वित्तसंरक्षणार्थाय तस्यास्तीरे व्रते मया ४७।

सोपवासेन दत्तैका वारिधानी मनोरमा ।

तत्कृत्वाहं गृहं प्राप्तः ततः कालेन केनचित् ४८।

पंचत्त्वमहमासाद्य नास्तिक्यात्प्रेततां गतः ।

अस्यामटव्यां घोरायां यथा ह्यहिकुलं तथा ४९।

श्रवणद्वादशीयोगे वारिधान्यर्पिता मया ।

सेयं मध्याह्नसमये लभ्यते च दिनेदिने 6.69.५०।

ब्रह्मस्वरूपिणः सर्वे पापाः प्रेतत्वमागताः ।

परदारगताः केचित्स्वामिद्रोहरताश्च ये ५१।

भूतप्रेतजरूपेण ते जाता ह्यत्र मानवाः ।

देशे मरुस्थले त्वस्मिन्ममैते मित्रतां गताः ५२।

अक्षयो भगवान्विष्णुः परमात्मा सनातनः ।

दीयते यत्समुद्दिश्य ह्यक्षयं तत्प्रकीर्तनम् ५३।

अक्षयेनापि चान्नेन तृप्ता एते पुनः पुनः ।

प्रेतत्वभावं दौर्बल्यं न विमुंचति कर्हिचित् ५४।

पूजयित्वाहमन्नैस्त्वामतिथिं समुपस्थितम् ।

प्रेतभावाद्विनिर्मुक्तो यास्यामि परमां गतिम् ५५।

मया विहीनाः किंत्वेते वनेऽस्मिन्भृशदारुणे ।

पीडामनुभविष्यंति दारुणां कर्मयोनिजाम् ५६।

एतेषां तु महाभाग ममानुग्रहकाम्यया ।

प्रत्येकं नामगोत्राणि गृह्णीष्व लिखितानि च ५७।

अस्ति कक्षागता चैव तव संपुटिका शुभा ।

हिमवंतमथासाद्य तत्र त्वं लप्स्यसे निधिम् ५८।

गयाशीर्षं ततो गत्वा श्राद्धं कुरु महामते ।

इत्याज्ञाप्य स वै प्रेतो वणिजं च यथासुखम् ५९।

विसर्जयामास तदा स वै प्रायात्समुत्सुकः ।

समासाद्य गृहं तत्र पश्चात्प्रायाद्धिमालयम् ६०।

ततो दृष्टं निधिं तत्र गृहीत्वा स समागतः ।

षष्ठांशं प्रतिगृह्याथ गयाशीर्षं ततोऽभ्यगात् ६१।

तत्र गत्वा गयायां स श्राद्धं कृत्वा महामतिः ।

प्रेतानां तु यथोद्दिष्टं श्राद्धं सम्यग्विधानतः ६२।

प्रत्येकं नामगोत्राणि गृहीत्वा पिंडमुत्सृजत् ।

यस्य यस्य भवेच्छ्राद्धं स करोति दिने वणिक् ६३।

स स तस्य तदा स्वप्ने दर्शयत्यात्मनस्तनुम् ।

ब्रवीति च महाभाग प्रसादाद्भवतोऽनघ ६४।

प्रेतभावं मया त्यक्तं प्राप्तोऽस्मि परमां गतिम् ।

एवं कृत्वा विधानेन गयाशीर्षं महामनाः ६५।

पश्चाज्जगाम स्वगृहं विष्णुं ध्यायन्पुनः पुनः ।

मासि भाद्रपदे प्राप्ते शुक्लपक्षे तथा सुधीः ६६।

श्रवणद्वादशीयोगे संगमे सरितां पुनः ।

जगाम स महाबुद्धिः सर्वोपस्करसंयुतः ६७।

संगमे सरितां स्नात्वा द्वादशीं तामुपोषितः ।

तत्र स्नात्वापि दत्त्वा तु पूजयित्वा जनार्दनम् ६८।

अनंतरं ब्राह्मणस्य ह्युपहारांस्तदा ददौ ।

शास्त्रोक्तेनापि विधिना ह्येकचित्तरतोऽपि सः ६९।

निवर्त्तयामास तदा वणिजो बुद्धिमान्स वै ।

वर्षेवर्षे तु संप्राप्ते मासि भाद्रपदे तथा ७०।

श्रवणद्वादशीयोगे संगमे सरितां पुनः ।

एवं वै कृतवान्सर्वं विष्णुमुद्दिश्य सत्वरम् ७१।

कालेन चातिमहता पंचत्वं समुपागतः ।

अवाप परमं स्थानं दुर्लभं सर्वमानवैः ७२।

क्रीडतेऽद्यापि वैकुंठे विष्णुदूतैः स सेवितः ।

एवं कुरु त्वं भो ब्रह्मन्श्रवणद्वादशीव्रतम् ७३।

सर्वसौभाग्यदं चैव इह लोके परत्र च ।

सुबुद्धिजननं चैव सर्वपापहरं परम् ७४।

श्रवणद्वादशीयोगे यः कुर्याद्व्रतमीदृशम् ।

व्रतस्यास्य प्रभावेन विष्णुलोकं च गच्छति ७५।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे श्रवणद्वादशीव्रतनामैकोनसप्ततितमोऽध्यायः ६९।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 70

नारद उवाच-

देवदेव जगन्नाथ भुक्तिमुक्तिप्रदायक ।

कथयस्व सुरश्रेष्ठ येन दुःखं न पश्यति १।

महेश उवाच-

शृणु वाडव वक्ष्यामि त्रिरात्रं सरितः शुभम् ।

येन चीर्णेन नरको मानवानां न जायते २।

आयुरारोग्यमतुलं सौभाग्यं सुखसंपदम् ।

संतानं चाक्षयं प्राप्य स्वर्गलोके महीयते ३।

आषाढमासि संप्राप्ते नदीपूरेण संयुता ।

सततं तोयसंस्थाने पुराणे सा च विश्रुता ४।

वर्षर्तौ घनसंपूर्णे कर्तव्या सा व्रतेन वा ।

तोयोघैः परिपूर्णा सा सकलैः स्यान्नदी यदा ५।

व्रतं त्रिरात्रमुद्दिश्य तदा कार्यं प्रयत्नतः ।

कृतं प्रतिपदा छंदः दर्शनं तु दिनत्रयम् ६।

यथाप्राप्तं नदीपूरं स्त्रीभिस्तीरजलस्य तु ।

अथवा तज्जलं कुंभे कृष्णे कृत्वा गृहं नयेत् ७।

प्रातःस्नायी तथा नद्यां गत्वा अभ्यर्चयेत्सुधीः ।

त्रिरात्रस्योपवासस्य यथाशक्तो भवेद्दिवज ८।

अशक्तश्चैकभक्तेन कुर्याच्चैवाप्युपोषणम् ।

दीपं दद्यादविछिन्नं प्रातःसायं च पूजनम् ९।

महानदीं समुच्चार्य नाम्ना च वरुणं तथा ।

जलमूले तु संस्थाप्य केशवं जलशायिनम् १०।

नमो देव्यै च गंगेति गौतमीति नदीति च ।

सिंधो चैव च कावेरि सरस्वति नमोऽस्तु ते ११।

तापी पयोष्णी पूर्णेति महेंद्रसुखदेति च ।

काश्यपी गंडकी चैव सिंधुनद्यै नमोनमः १२।

वरुणाय नमस्तेऽस्तु जलवासहरिप्रिय ।

यादोनाथ रसेशान कल्याणं देहि मे सदा १३।

गृहाणार्घं मया दत्तं देहि मे वांछितं फलम् ।

कूष्मांडैर्नालिकेरैश्च फलैः कालोद्भवैः शुभैः १४।

नैवेद्यं घृतपक्वं तु सरितः संप्रकल्पयेत् ।

नमस्ते केशवानंत जलशायिन्नमोऽस्तु ते १५।

परिपालय मामीश गोविंदवरदो भव ।

एवं पूजा प्रकर्तव्या यथाकालं क्रमेण तु १६।

प्रार्थना चोपचारैस्तु त्रिरात्रनियमः शुचिः ।

पारणेन तु संपूज्य जलपात्रं समाचरेत् १७।

फलपुष्पैस्तथा विद्वन्स्त्रीभिर्बालैर्नरैरपि ।

गीतवादित्रसहितैर्नदी कुंभ परिप्लुतैः १८।

जलेजले समास्थाप्य फलपुष्पैः प्रपूजयेत् ।

धान्यैर्नानाविधैश्चैव जलप्रक्षेपणैरपि १९।

हास्यैर्गीतैश्च नृत्यैश्च गृहमागत्य यत्नतः ।

सप्तधान्यैः पूरितानि वंशपात्राणि पूजयेत् २०।

सप्त वा पंच वा त्रीणि यथाशक्त्या प्रपूरयेत् ।

त्रिरात्रं च नदीतोयं न पिबेद्धितमुल्लसन् २१।

पारणे तु हविष्यान्नं हृतं वा ह्यन्यथा भवेत् ।

कृते स्नानार्चने चैव नोपयोज्यं नदीजलम् २२।

शुच्यन्नानि च भोज्यानि दापयत्त्रितयं तथा ।

सप्तैव वंशपात्राणि सप्त वै मणिकास्तथा २३।

हविष्यान्नं च भुंजीत कट्वम्लमधुवर्जितम् ।

माषान्नं च शिलापिष्टं यत्नेन परिवर्जयेत् २४।

एवं वर्षत्रयं कुर्याद्व्रतमेतद्दिवजोत्तम ।

वर्षत्रये समाप्यैवं तस्योद्यापनमाचरेत् २५।

कृष्णां गां कृष्णवस्त्रां च तिलान्दद्याच्च नारद ।

दंपती परिदाप्यैवं सुवर्णं चापि शक्तितः २६।

हैमं च वरुणं कुर्यान्नदीरूपेण नारद ।

मंडलं वारुणं चैव सर्वतोभद्रमेव च २७।

कुंभं तत्र प्रतिष्ठाप्य सोपहारं प्रतिष्ठितम् ।

संपूज्य विधिवद्भक्त्या ततो विप्राय दापयेत् २८।

ब्राह्मणान्भोजयेच्छक्त्या यथावित्तानुसारतः ।

गुरवेर्चितशीलाय सर्वशास्त्ररताय च २९।

एवं कृते तदा विद्वन्परिपूर्णं व्रतं भवेत् ।

सौभाग्यसुखसंपत्तिः संततिश्चाक्षया भवेत् ३०।

न दुर्गतिमवाप्नोति चिरं स्वर्गे महीयते ।

देवपत्नीभिराचीर्णमृषिपत्नीभिरेव च ३१।

नागसिद्धांगनाभिश्च व्रतमेतत्पुरा कृतम् ।

नदीत्रिरात्रमतुलं किमन्यच्छ्रोतुमिच्छसि ।

सौभाग्यं संततिं चैव निश्चयं प्राप्नुते सदा ३२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे नदीत्रिरात्रव्रतं नाम सप्ततितमोऽध्यायः ७०।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 71

ऋषय ऊचुः -

सूत जीव चिरं साधो त्वयातिकरुणात्मना ।

संवादो ह्यद्भुतः प्रोक्तो यश्चासीन्नारदेशयोः १।

भगवन्नाममहिमा नारदेन महात्मना ।

कीदृक्श्रुतः समाख्याहि श्रद्धया शृण्वतां गुरो २।

सूत उवाच-

शृणुध्वं मुनयः सर्वे पुरावृत्तं वदाम्यहम् ।

यस्मिञ्छ्रुते द्विजश्रेष्ठाः कृष्णे भक्तिर्विवर्द्धते ३।

एकदा नारदो द्रष्टुं पितरं सुसमाहितः ।

जगाम मेरुशिखरं सिद्धचारणसेवितम् ४।

तत्र देवं समासीनं ब्रह्माणं जगतां पतिम् ।

नमस्कृत्याब्रवीद्विप्रा नारदो मुनिसत्तमः ५।

नारद उवाच-

नाम्नोऽस्य यावतीशक्तिर्वद विश्वेश्वर प्रभो ।

कीदृक्तु नाममहिमा अव्ययस्य महात्मनः ६।

योऽयं विश्वेश्वरः साक्षादयं नारायणो हरिः ।

परमात्मा हृषीकेशः सर्वजीवेषु संगतः ७।

मायाविमोहिताः सर्वे भगवंतमधोक्षजम् ।

नैव जानंत्यसारेऽस्मिन्नरा मूढाः कलौ युगे ८।

ब्रह्मोवाच-

अस्मिन्कलौ विशेषेण नामोच्चारणपूर्वकम् ।

भक्तिः कार्या यथा वत्स तथा त्वं श्रोतुमर्हसि ९।

दृष्टं परेषां पापानामनुक्तानां विशोधनम् ।

विष्णोर्जिष्णोः प्रयत्नेन स्मरणं पापनाशनम् १०।

मिथ्या ज्ञात्वा ततः सर्वं हरेर्नामपठन्जपन् ।

सर्वपापविनिर्मुक्तो याति विष्णोः परंपदम् ११।

ये वदंति नरा नित्यं हरिरित्यक्षरद्वयम् ।

तस्योच्चारणमात्रेण विमुक्तास्ते न संशयः १२।

प्रायश्चित्तानि सर्वाणि कृष्णानुस्मरणं परम् ।

प्रातर्निशि तथा सायं मध्याह्नादिषु संस्मरन् १३।

नारायणमवाप्नोति सद्यः पापक्षयं नरः ।

विष्णुसंस्मरता देव समस्तक्लेशसंक्षये १४।

मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विष्णोस्तु कीर्त्तनात् ।

वासुदेवे मनो यस्य जपहोमार्चनादिषु १५।

तदक्षयं विजानीयाद्यावदिंद्राश्चतुर्दश ।

क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् १६।

क्व जपो वासुदेवस्य मुक्तिबीजमनुत्तमम् ।

तन्मुखं परमं तीर्थं यत्रावर्त्तं वितन्वती १७।

नमो नारायणायेति भाति प्राची सरस्वती ।

तस्मादहर्निशं विष्णुस्मरणात्पुरुषोत्तमः १८।

न याति नरकं पुत्र संक्षीणकलिकल्मषः ।

सत्यं सत्यं पुनः सत्यं भाषितं मम सुव्रत १९।

नामोच्चारणमात्रेण महापापात्प्रमुच्यते ।

रामरामेति रामेति रामेति च पुनर्जपन् २०।

स चांडालोऽपि पूतात्मा जायते नात्र संशयः ।

कुरुक्षेत्रं तथा काशी गया वै द्वारिका तथा २१।

सर्वं तीर्थं कृतं तेन नामोच्चारणमात्रतः ।

कृष्णकृष्णेति कृष्णेति इति वायो जपन्पठन् २२।

इहलोकं परित्यज्य मोदते विष्णुसंनिधौ ।

नृसिंहेति मुदा विप्र सततं प्रजपन्पठन् २३।

महापापात्प्रमुच्येत कलौ भागवतो नरः ।

ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरेऽर्चयन् २४।

यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ।

एतज्ज्ञात्वा निमग्नाश्च जगदात्मनि केशवे २५।

सर्वपापपरिक्षीणा यांति विष्णोः परं पदम् ।

मत्स्यः कूर्मो वराहश्च नृसिंहो वामनस्तथा २६।

रामो रामश्च कृष्णश्च बुद्धः कल्की ततः स्मृतः ।

एते दशावताराश्च पृथिव्यां परिकीर्तिताः २७।

एतेषां नाममात्रेण ब्रह्महा शुध्यते सदा ।

प्रातः पठन्जपन्ध्यायन्विष्णोर्नाम यथा तथा २८।

मुच्यते नात्र संदेहः स वै नारायणो भवेत् ।

सूत उवाच-

श्रुत्वा वै नारदो ह्येतद्विस्मयं परमं गतः २९।

उवाच पितरं तत्र किमुक्तं देवसत्तम ।

देवाः सहस्रशः संति रुद्राः संति सहस्रशः ३०।

पितरः संति शतशः यक्षाश्च किन्नरास्तथा ।

भूताः प्रेताः पिशाचाश्च ये केचिद्देवयोनयः ३१।

तेषां नाम्ना च माहात्म्यं श्रुतं दृष्टं तथा न च ।

श्रीविष्णोर्नाममाहात्म्यं यादृशं च श्रुतं मया ३२।

यस्य वै नाममात्रेण मुच्यते नात्र संशयः ।

किं वै तीर्थकृते देव पृथिव्यामटने कृते ३३।

यस्य वै नाममहिमा श्रुत्वा मोक्षमवाप्नुयात् ।

तन्मुखं तु महत्तीर्थं तन्मुखं क्षेत्रमेव च ३४।

यन्मुखे रामरामेति तन्मुखं सर्वकामिकम् ।

कानि वै तस्य नामानि कति वीर्याणि सुव्रत ३५।

तत्सर्वं च विशेषेण मम ब्रूहि पितामह ।

ब्रह्मोवाच-

व्यापकोऽयं सदा विष्णुः परमात्मा सनातनः ३६।

अनादिनिधनः श्रीमान्भूतात्मा भूतभावनः ।

यस्मादहं हि संजातो सोऽयं विष्णुः सदावतु ३७।

सोऽयं कालस्य कालो वै सोऽयं मम तु पूर्वजः ।

अक्षयः पुंडरीकाक्षो मतिमानव्ययः पुमान् ३८।

शेषशायी सदा विष्णुः सहस्रशीर्षा महत्प्रभुः ।

सर्वभूतमयः साक्षाद्विश्वरूपो जनार्दनः ३९।

कैटभारिरयं विष्णुर्धाता देवो जगत्पतिः ।

तस्याहं नामगोत्रं च न वेद्मि पुरुषर्षभ ४०।

वेदवाद्यप्यहं तात नाहं ज्ञाता कदाचन ।

अतस्त्वं गच्छ देवर्षे यत्रास्ति किल विश्वराट् ४१।

स च तत्त्वं मुनिश्रेष्ठ सर्वं ते कथयिष्यति ।

स एव पुरुषः श्रीमान्कैलासाधिपतिः सदा ४२।

सर्वेषां विष्णुभक्तानामयं श्रेष्ठः परात्परः ।

पंचवक्त्रो ह्युमाकांतः सर्वदुःखनिबर्हणः ४३।

विश्वेश्वरो विश्वनाथः सर्वदा भक्तवत्सलः ।

तत्र गच्छ सुरश्रेष्ठ तत्सर्वं कथयिष्यति ४४।

पितुर्वचनमाकर्ण्य तत्र गंतुं प्रचक्रमे ।

विज्ञातुं नाममाहात्म्यं कैलासभवनं प्रति ४५।

यत्र विश्वेश्वरो देवो नित्यं तिष्ठति भूतिदः ।

ददर्श नारदस्तत्र देवं तं सुरपूजितम् ४६।

कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।

पंचवक्त्रं दशभुजं त्रिनेत्रं शूलपाणिनम् ४७।

कपालिनं सखट्वांगं तीक्ष्णं शूलासिधारिणम् ।

पिनाकधारिणं भीमं वरदं वृषवाहनम् ४८।

भस्मांगं व्यालशोभाढ्यं शशांककृतशेखरम् ।

नीलजीमूतसंकाशं सूर्यकोटिसमप्रभम् ४९।

क्रीडंतं तत्र देवेशं साष्टांगं दंडवत्पुनः ।

तं दृष्ट्वा तु महादेवो विस्मयोत्फुल्ललोचनः 6.71.५०।

वैष्णवानां परः श्रेष्ठः प्राह वाडवसत्तमम् ।

कस्मादिह समायातो वद देवर्षिसत्तम ५१।

नारद उवाच-

एकस्मिन्नेव काले तु गतोऽहं ब्रह्मणोंतिकम् ।

श्रुतं तत्र मया देव विष्णोर्माहात्म्यमुत्तमम् ५२।

ब्रह्मणा कथितं तत्र ममाग्रे देवसत्तम ।

नाम्नोऽस्य यावती शक्तिः सा श्रुता ब्रह्मणो मुखात् ५३।

तत्र पृष्टं मया पूर्वं विष्णोर्नामसहस्रकम् ।

तदाहं ब्रह्मणा चोक्तं नाहं जानामि नारद ५४।

जानात्ययं महारुद्रस्तत्सर्वं कथयिष्यति ।

महाश्चर्यं तु संप्राप्य ह्यागतस्तव सन्निधौ ५५।

अस्मिन्कलियुगे घोरेऽल्पायुषश्चैव मानवाः ।

विधर्मेषु रता नित्यं नामनिष्ठा न वै पुनः ५६।

पाखंडिनस्तथा विप्रा धर्मेषु विरताः सदा ।

संध्याहीन व्रतभ्रष्टा दुष्टा मलिनरूपिणः ५७।

यथा विप्रास्तथा क्षत्रा वैश्याश्चैव पुनः पुनः ।

एवं शूद्रास्तथान्ये च न वै भागवता नराः ५८।

शूद्रा द्विजातिबाह्याश्च कलौ विश्वेश्वर प्रभो ।

धर्माधर्मौ न जानंति हितं वाऽहितमेव वा ५९।

एवं ज्ञात्वा ह्यहं स्वामिन्नागतः संनिधौ तव ।

पुनश्च नाममाहात्म्यं श्रुतं वै ब्रह्मणो मुखात् ६०।

त्वं देवः सर्वदेवानां त्वं नाथो मम सर्वदा ।

त्रिपुरारिश्च विश्वात्मा धाता त्वं च पुनः पुनः ६१।

कथयस्व प्रसादेन विष्णोर्नामसहस्रकम् ।

सौभाग्यजननं पुंसां परं भक्तिकरं सदा ६२।

ब्राह्मणानां ब्रह्मदं च क्षत्रियाणां जयप्रदम् ।

वैश्यानां धनदं नित्यं शूद्राणां सुखदायकम् ६३।

तदहं श्रोतुमिच्छामि त्वत्सकाशान्महेश्वर ।

त्वं समर्थोऽसि भक्तानां सर्वदा केशवं प्रति ६४।

कथयस्व प्रसादेन यदि गोप्यं न सुव्रत ।

इदं पवित्रं परमं सर्वतीर्थमयं सदा ६५।

अतो वै श्रोतुमिच्छामि वद विश्वेश्वर प्रभो ।

श्रुत्वा नारदवाक्यानि विस्मयोत्फुल्ललोचनः ६६।

रोमांचितस्ततो जातो विष्णोर्नामानि संस्मरन् ।

ईश्वर उवाच-

एतद्गोप्यं परं ब्रह्मन्विष्णोर्नामसहस्रकम् ६७।

एतच्छ्रुत्वा नरो वत्स न लभेद्दुर्गतिं क्वचित् ।

कदाचिच्च गते काले पार्वती मामुवाच ह ६८।

पार्वत्युवाच -

कैलासाधिपते मह्यं कथयस्व यथातथम् ।

त्वं किं जपसि देवेश परैश्वर्यसमाहितः ६९।

सदा त्वं भस्मलिप्तांगः कृत्तिवासाः सदा कथम् ।

जटाधरः कथं जातो वद विश्वेश्वर प्रभो ७०।

त्वं देवः सर्वदेवानां त्वं गुरुः सर्वकर्मणाम् ।

त्वं पतिर्मम विश्वेश विश्वनाथ जगत्प्रभो ७१।

महादेव उवाच-

इति पृष्टं मम ब्रह्मन्पार्वत्या च पुनः पुनः ।

तदा सर्वं मया ख्यातं तस्याश्चाग्रे विशेषतः ७२।

शृणु नारद वक्ष्यामि यदुक्तं पार्वतीं प्रति ।

येन प्रसन्नो भगवान्मुक्तिदाता न संशयः ७३।

ममायं तु पिता साक्षाद्बन्धुश्चैव तु सर्वदा ।

तस्याहं सर्वदा भक्तो ह्ययं मम पतिः सदा ७४।

तदहं संप्रवक्ष्यामि शृणुष्व गदतो मम ।

सूत उवाच-

एवमुक्त्वा नारदाय कथयामास वै द्विजाः ७५।

उमायै यत्पुरा प्रोक्तं विष्णोर्नामसहस्रकम् ।

महेशाच्चैव तत्प्राप्तं कैलासे नारदेन वै ७६।

कदाचिद्दैवयोगेन कैलासात्स समागतः ।

नैमिषारण्यसंज्ञं तु तीर्थं वै परमाद्भुतम् ७७।

तत्रस्था ऋषयः सर्वे दृष्ट्वा तं ऋषिसत्तमम् ।

पूजां चक्रुर्विशेषेण नारदाय महात्मने ७८।

आगतं नारदं ज्ञात्वा विस्मयोत्फुल्ललोचनाः ।

पुष्पवृष्टिं प्रचक्रुस्ते वैष्णवा द्विजसत्तमाः ७९।

पाद्यमर्घ्यं ततः कृत्वा कृत्वा चारार्तिकं ततः ।

निवेद्य फलमूलानि दंडवत्पतिता भुवि ८०।

ऊचुश्च कृतकृत्याः स्म देशे ह्यस्मिन्महामुने ।

भवतो दर्शनं जातं पवित्रं पापनाशनम् ८१।

त्वत्प्रसादाच्च देवेश पुराणानि श्रुतानि च ।

ब्रह्मन्केन प्रकारेण सर्वपापक्षयो भवेत् ८२।

विना दानेन तपसा विना तीर्थ तपो मखैः ।

विना दानैर्विना ध्यानैर्विना चेंद्रियनिग्रहैः ।

विना शास्त्रसमूहैश्च कथं मुक्तिरवाप्यते ८३।

नारद उवाच-

कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।

प्रणिपत्य महादेवं पर्यपृच्छदुमाप्रियम् ८४।

पार्वत्युवाच-

भगवंस्त्वं परो देवः सर्वज्ञः सर्वपूजितः ।

स त्वमत्त्यर्च्यते देवैरिंद्रसूर्यादिकैरपि ८५।

लभंतेऽभिमतां सिद्धिं सर्वेऽभ्यर्च्य वरप्रदम् ।

त्वं जन्ममृत्युरहितः स्वयंभूः सर्वशक्तिमान् ८६।

सदा ध्यायसि किं स्वामिन्दिग्वासा मदनांतकः ।

तपश्चरसि कस्मात्त्वं जटिलो भस्मधूसरः ८७।

किं वा जपसि देवेश परं कौतूहलं हि मे ।

अनुग्राह्या यदा तेऽस्मि तत्त्वं कथय सुव्रतम् ८८।

महादेव उवाच-

नेदं कस्यापि कथितं गोपनीयमिदं मम ।

किंतु वक्ष्यामि ते भद्रे त्वं भक्तासि प्रियासि मे ८९।

पुरा सत्ययुगे देवि विशुद्धमतयोऽखिलाः ।

यजंति विष्णुमेवैकं ज्ञात्वा सर्वेश्वरेश्वरम् ९०।

प्रयांति परमामृद्धिमैहिकामुष्मिकीं प्रिये ।

यां न प्राप्ताः सुराः सर्वे ऋषयः क्लेशसंयुताः ९१।

ते तां गतिं प्रपद्यंते ये नामकृतनिश्चयाः ।

मन्मुखादपि संश्रुत्य देवा विष्णुबहिर्मुखाः ९२।

वेदैः पुराणैः सिद्धांतैर्भिन्नैर्विभ्रांतचेतसः ।

निश्चयं नाधिगच्छंति किं तत्वं किं परं पदम् ९३।

तुलापुरुषदानाद्यैरश्वमेधादिभिर्मखैः ।

वाराणसीप्रयागादि तीर्थस्नानादिभिः प्रिये ९४।

गयाश्राद्धादिभिः पित्र्यैर्वेदपाठादिभिर्जपैः ।

तपोभिरुग्रैर्नियमैर्यमैर्भूतदयादिभिः ९५।

गुरुशुश्रूषणैः सेव्यैर्धर्मैर्वर्णाश्रमान्वितैः ।

ज्ञानध्यानादिभिः सम्यक्चरितैर्जन्मकोटिभिः ९६।

न यांति तत्परं श्रेयो विष्णुं सर्वेश्वरेश्वरम् ।

सर्वभावैः समाश्रित्य पुराणपुरुषोत्तमम् ९७।

अनन्यगतयो मर्त्या भोगिनोऽपि परंतपे ।

ज्ञानवैराग्यरहिता ब्रह्मचर्यादिवर्जिताः ९८।

सर्वधर्मोज्झिता विष्णोर्नाममात्रैकजल्पिनः ।

सुखेन यां गतिं यांति न तां सर्वेऽपि धार्मिकाः ९९।

स्मर्त्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् ।

सर्वे विधिनिषेधाः स्युरेतस्यैव विधिं कराः 6.71.१००।

किंतु ब्रह्मादयो देवा ऋषयश्च निरंहसः ।

निर्भयं विष्णुनाम्नैव यथेष्टं पदमागताः १०१।

अलब्ध्वा चात्मनः पूजां सम्यगाराधितो हरिः ।

मयास्मादपि च श्रेष्ठं वांच्छताहं कृतात्मना १०२।

ततः साक्षाज्जगन्नाथ प्रसन्नो भक्तवत्सलः ।

अंशांशेनात्मनैवैतान्पूजयामास केशवः १०३।

देवान्पितॄन्द्विजान्हव्यकव्याद्यैः करुणामयः ।

ततः प्रभृति पूज्यंते त्रैलोक्ये सचराचरे १०४।

ब्रह्मादयः सुराः सर्वे प्रसादाच्छार्ङ्गधन्वनः ।

मां चोवाच यथा मत्तः पूज्यः श्रेष्ठो भविष्यसि १०५।

त्वामाराध्य तथा शंभो गृहीष्यामि वरं सदा ।

द्वापरादौ युगे भूत्वा कलया मानुषादिषु १०६।

स्वागमैः कल्पितैस्त्वं च जनान्मद्विमुखान्कुरु ।

मां च गोपय येन स्यात्सृष्टिरेषोत्तरोत्तरा १०७।

एष मोहं सृजाम्याशु योजनान्मोहयिष्यति ।

त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय १०८।

अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।

प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु १०९।

ततस्तं प्रणिपत्याहमवोचं परमेश्वरम् ।

ब्रह्महत्या सहस्रस्य पापं शाम्येत्कथंचन ११०।

न पुनस्त्वदविज्ञानं कल्पकोटिशतैरपि ।

तस्मान्मया कृता स्पर्द्धा पवित्रः स्यां कथं हरे १११।

तन्मे कथय गोविंद पायश्चित्तं यदिच्छसि ।

ततः प्रसन्नो भगवानवोचत्तत्त्वमात्मनः ११२।

येनाहमधिकस्तस्मादभवं नगनंदिनि ।

तमेव तपसा नित्यं भजामि स्तौमि चिंतये ११३।

परमो विष्णुरेवैकस्तज्ज्ञानं मुक्तिसाधनम् ।

शास्त्राणां निर्णयस्त्वेषस्तदन्यन्मोहनाय च ११४।

दानं विना च या मुक्तिः साम्यं च मम विष्णुना ।

तीर्थादिमात्रतो ज्ञानं ममाधिक्यं च विष्णुतः ११५।

अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा ।

इत्यादि सर्वमोहाय कथ्यते सति नान्यथा ।

तेनाद्वितीय महिमो जगत्पूज्योऽस्मि पार्वति ११६।

पार्वत्युवाच -

तन्मे कथय देवेश यथाहमपि शंकर ।

सर्वेश्वरी निरुपमा तव स्यां सदृशी प्रभो ११७।

महादेव उवाच-

साधुसाधु त्वया पृष्टं विष्णोर्भगवतः प्रिये ।

नाम्नां सहस्रं वक्ष्यामि मुख्यं त्रैलोक्यमुक्तिदम् ११८।

अस्य श्रीविष्णोर्नामसहस्रस्तोत्रस्य श्रीमहादेव ऋषिरनुष्टुपच्छंदः ।

ह्रीं बीजं श्रीं शक्तिः क्लीं कीलकं चतुर्वर्गधर्मकामार्थमोक्षार्थे जपे विनियोगः ।

ॐवासुदेवाय विद्महे महाहंसाय धीमहि ।

तन्नो विष्णुः प्रचोदयात् अंगन्यासकरन्यासौ विधिपूर्वं यदा पठेत् ।

तत्फलं कोटिगुणितं भवत्येव न संशयः ११९।

श्रीवासुदेवः परंब्रह्म इति हृदये ।

मूलप्रकृतिरिति शिरः ।

महावराह इति शिखा ।

सूर्यवंशध्वज इति कवचम् ।

ब्रह्मादिकाम्यललित जगदाश्चर्य शैशव इति नेत्रम् ।

यथार्थखंडिताशेष इत्यस्त्रम् ।

नमोनारायणायेति न्यासं सर्वत्र कारयेत् ।

ॐनमोनारायणाय पुरुषाय महात्मने ।

विशुद्धसत्वधिष्ण्याय महाहंसाय धीमहि ।

ॐह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ।

क्लीं कृष्णाय विष्णवे ह्रीं रामाय धीमहि तन्नो देवः प्रचोदयात् ।

क्ष्रौं नृसिंहाय विद्महे श्रीं श्रीकंठाय धीमहि तन्नो विष्णुः प्रचोदयात् ।

ॐवासुदेवाय विद्महे देवकीसुताय धीमहि तन्नः कृष्णः प्रचोदयात् ।

ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः।

क्लीं कृष्णाय गोविंदाय गोपीजनवल्लभाय स्वाहा ।

इति मंत्रम् समुच्चार्य जपेद्वा विष्णुमव्ययम् ।

श्रीनिवासं जगन्नाथं तस्य स्तोत्रं पठेत्सुधीः १२०।

ॐवासुदेवः परं ब्रह्म परमात्मा परात्परः ।

परंधाम परंज्योतिः परंतत्वं परं पदम् १२१।

परः शिवः परोध्येयः परं ज्ञानं परागतिः ।

परमार्थः परंश्रेयः परानंदः परोदयः १२२।

परो व्यक्तात्परं व्योम परमर्द्धिः परेश्वरः ।

निरामयो निर्विकारो निर्विकल्पो निराश्रयः १२३।

निरंजनो निरातंको निर्लेपो निरवग्रहः ।

निर्गुणो निष्कलोऽनंतोऽभयोऽचिंत्योऽबलोचितः १२४।

अतीन्द्रियो मितो पारोऽनीशोऽनीहोऽव्ययोऽक्षयः ।

सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः १२५।

सर्वशास्ता सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक्? ।

सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः १२६।

सर्वावासः सर्वरूपः सर्वादिः सर्वदुःखहा ।

सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् १२७।

सर्वातिशयितः सर्वाध्यक्षः सर्वसुरेश्वरः ।

षड्विंशको महाविष्णुर्महागुह्यो महाविभुः १२८।

नित्योदितो नित्ययुक्तो नित्यानंदः सनातनः ।

मायापतिर्योगपतिः कैवल्यपतिरात्मभूः १२९।

जन्ममृत्युजरातीतः कालातीतो भवातिगः ।

पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः १३०।

योगप्रियो योगगम्यो भवबंधैकमोचकः ।

पुराणपुरुषः प्रत्यक्चैतन्यः पुरुषोत्तमः १३१।

वेदांतवेद्यो दुर्ज्ञेयस्तपत्रयविवर्जितः ।

ब्रह्मविद्याश्रयो नाद्यः स्वप्रकाशः स्वयंप्रभुः १३२।

सर्वोपेय उदासीनः प्रणवः सर्वतः समः ।

सर्वानवद्यो दुष्प्राप्यस्तुरीयस्तमसः परः १३३।

कूटस्थः सर्वसंश्लिष्टो वाङ्मनोगोचरातिगः ।

संकर्षणः सर्वहरः कालः सर्वभयंकरः १३४।

अनुल्लंघ्यश्चित्रगतिर्महारुद्रो दुरासदः ।

मूलप्रकृतिरानंदः प्रद्युम्नो विश्वमोहनः १३५।

महामायो विश्वबीजं परशक्तिः सुखैकभूः ।

सर्वकाम्योऽनतलीलः सर्वभूतवशंकरः १३६।

अनिरुद्धः सर्वजीवो हृषीकेशो मनःपतिः ।

निरुपाधिप्रियो हंसोक्षरः सर्वनियोजकः १३७।

ब्रह्मप्राणेश्वरः सर्वभूतभृद्देहनायकः ।

क्षेत्रज्ञः प्रकृतिः स्वामी पुरुषो विश्वसूत्रधृक् १३८।

अंतर्यामी त्रिधामांतः साक्षी त्रिगुण ईश्वरः ।

योगिगम्यः पद्मनाभः शेषशायी श्रियःपतिः १३९।

श्रीसदोपास्यपादाब्जो नित्यश्रीः श्रीनिकेतनः ।

नित्यं वक्षःस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः १४०।

वश्यश्रीर्निश्चलः श्रीदो विष्णुः क्षीराब्धिमंदिरः ।

कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा १४१।

श्रीवत्सवक्षा निःसीम कल्याणगुणभाजनः ।

पीतांबरो जगन्नाथो जगत्त्राता जगत्पिता १४२।

जगद्बंधुर्जर्गत्स्रष्टा जगद्धाता जगन्निधिः ।

जगदेकस्फुरद्वीर्योऽनहंवादी जगन्मयः १४३।

सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्वरंजितः ।

सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनाः १४४।

शंभोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः ।

सर्वदेवप्रियः सर्वदेवमूर्तिरनुत्तमः १४५।

सर्वदेवैकशरणं सर्वदेवैकदैवतम् ।

यज्ञभुग्यज्ञफलदो यज्ञेशो यज्ञभावनः १४६।

यज्ञत्राता यज्ञपुमान्वनमाली द्विजप्रियः ।

द्विजैकमानदो विप्र कुलदेवो सुरांतकः १४७।

सर्वदुष्टांतकृत्सर्वसज्जनानन्यपालकः ।

सप्तलोकैकजठरः सप्तलोकैकमंडनः १४८।

सृष्टिस्थित्यंतकृच्चक्री शार्ङ्गधन्वा गदाधरः ।

शंखभृन्नंदकी पद्मपाणिर्गरुडवाहनः १४९।

अनिर्देश्यवपुः सर्वपूज्यस्त्रैलोक्यपावनः ।

अनंतकीर्तिर्निःसीम पौरुषः सर्वमंगलः 6.71.१५०।

सूर्यकोटिप्रतीकाशो यमकोटिदुरासदः ।

मयकोटिजगत्स्रष्टा वायुकोटिमहाबलः १५१।

कोटींदु जगदानंदी शंभुकोटिमहेश्वरः ।

कंदर्पकोटिलावण्यो दुर्गकोट्यरिमर्दनः १५२।

समुद्रकोटिगंभीरस्तीर्थकोटि समाह्वयः ।

कुबेरकोटि लक्ष्मीवाञ्छक्रकोटि विलासवान् १५३।

हिमवत्कोटिनिष्कंपः कोटिब्रह्मांडविग्रहः ।

कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः १५४।

सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः ।

ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः १५५।

विश्वंभरस्तीर्थपादः पुण्यश्रवणकीर्तनः ।

आदिदेवो जगज्जैत्रो मुकुंदः कालनेमिहा १५६।

वैकुंठोऽनंतमाहात्म्यो महायोगेश्वरोत्सवः ।

नित्यतृप्तोलसद्भावो निःशंको नरकांतकः १५७।

दीनानाथैकशरणं विश्वैकव्यसनापहः ।

जगत्कृपाक्षमो नित्यं कृपालुः सज्जनाश्रयः १५८।

योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः ।

अधोक्षजो विश्वरेताः प्रजापति शताधिपः १५९।

शक्रब्रह्मार्चितपदः शंभुब्रह्मोर्ध्वधामगः ।

सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः १६०।

जगत्सेतुर्धर्मसेतुधरो विश्वधुरंधरः ।

निर्ममोऽखिललोकेशो निःसंगोऽद्भुतभोगवान् १६१।

वश्यमायो वश्यविश्वो विष्वक्सेनः सुरोत्तमः ।

सर्वश्रेयः पतिर्दिव्यानर्घ्यभूषणभूषितः १६२।

सर्वलक्षणलक्षण्यः सर्वदैत्येंद्रदर्पहा ।

समस्तदेवसर्वस्वं सर्वदैवत नायकः १६३।

समस्तदेवकवचं सर्वदेवशिरोमणिः ।

समस्तदेवतादुर्गः प्रपन्नाशनिपंजरः १६४।

समस्तभयहृन्नामा भगवान्विष्टरश्रवाः ।

विभुः सर्वहितोदर्को हतारिः स्वर्गतिप्रदः १६५।

सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः ।

ब्रह्मशंभुः परार्धायुर्ब्रह्मज्येष्ठः शिशुः स्वराट् १६६।

विराड्भक्तपराधीनः स्तुत्यः स्तोत्रार्थसाधकः ।

परार्थकर्त्ताकृत्यज्ञः स्वार्थकृत्य सदोज्झितः १६७।

सदानंदः सदाभद्रः सदाशांतः सदाशिवः ।

सदाप्रियः सदातुष्टः सदापुष्टः सदार्चितः १६८।

सदापूतो पावनाग्र्यो वेदगुह्यो वृषाकपिः ।

सहस्रनामा त्रियुगश्चतुर्मूर्तिश्चतुर्भुजः १६९।

भूतभव्यभवन्नाथो महापुरुषपूर्वजः ।

नारायणो मुंजकेशः सर्वयोगविनिःसृतः १७०।

वेदसारो यज्ञसारः सामसारस्तपोनिधिः ।

साध्यः श्रेष्ठः पुराणर्षिः निष्ठा शांतिः परायणः १७१।

शिवत्रिशूलविध्वंसी श्रीकंठैकवरप्रदः ।

नरः कृष्णो हरिर्धर्मनंदनो धर्मजीवनः १७२।

आदिकर्त्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा ।

त्रिकालजित कंदर्प्प उर्वशीसृङ्मुनीश्वरः १७३।

आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः ।

सर्वदेवमयो ब्रह्मा गुरुर्वागीश्वरीपतिः १७४।

अनंतविद्याप्रभवो मूलाविद्याविनाशकः ।

सर्वज्ञदो जगज्जाड्यनाशको मधुसूदनः १७५।

अनेकमंत्रकोटीशः शब्दब्रह्मैकपारगः ।

आदिविद्वान्वेदकर्त्ता वेदात्मा श्रुतिसागरः १७६।

ब्रह्मार्थवेदहरणः सर्वविज्ञानजन्मभूः ।

विद्याराजो ज्ञानमूर्त्तिर्ज्ञानसिंधुरखंडधीः १७७।

मत्स्यदेवो महाशृंगो जगद्बीजबहित्रदृक् ।

लीलाव्याप्ताखिलांभोधिश्चतुर्वेदप्रवर्त्तकः १७८।

आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भरः ।

अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम् १७९।

आत्माधारो धराधारो यज्ञांगो धरणीधरः ।

हिरण्याक्षहरः पृथ्वीपतिः श्राद्धादिकल्पकः १८०।

समस्तपितृभीतिघ्नः समस्तपितृजीवनम् ।

हव्यकव्यैकभुक्हव्यकव्यैकफलदायकः १८१।

रोमांतर्लीनजलधिः क्षोभिताशेषसागरः ।

महावराहो यज्ञघ्नध्वंसको यज्ञिकाश्रयः १८२।

श्रीनृसिंहो दिव्यसिंहः सर्वानिष्टार्थदुःखहा ।

एकवीरोऽद्भुतबलो यंत्रमंत्रैकभंजनः १८३।

ब्रह्मादिदुःसहज्योतिर्युगांताग्र्यतिभीषणः ।

कोटिवज्राधिकनखो जगद्दुष्प्रेक्ष्यमूर्तिधृक् १८४।

मातृचक्रप्रमथनो महामातृगणेश्वरः ।

अचिंत्यामोघवीर्याढ्यः समस्तासुरघस्मरः १८५।

हिरण्यकशिपुछेदी कालः संकर्षणीपतिः ।

कृतांतवाहनासह्यः समस्तभयनाशनः १८६।

सर्वविघ्नांतकः सर्वसिद्धिदः सर्वपूरकः ।

समस्तपातकध्वंसी सिद्धमंत्राधिकाह्वयः १८७।

भैरवेशो हरार्तिघ्नः कालकोटिदुरासदः ।

दैत्यगर्भश्राविनामास्फुटद्र् ब्रह्मांडगर्जितः १८८।

स्मृतमात्राखिलत्राताऽद्भुतरूपो महाहरिः ।

ब्रह्मचर्यशिरः पिंडी दिक्पालोऽर्द्धांगभूषणः १८९।

द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः ।

योगिनीग्रस्तगिरजा त्राताभैरवतर्जकः १९०।

वीरचक्रेश्वरोऽत्युग्रोऽपमारिः कालशंबरः ।

क्रोधेश्वरो रुद्रचंडी परिवारादिदुष्टभुक् १९१।

सर्वाक्षोभ्यो मृत्युमृत्युः कालमृत्युनिवर्त्तकः ।

असाध्यसर्वरोगघ्नः सर्वदुर्ग्रहसौम्यकृत् १९२।

गणेशकोटिदर्पघ्नो दुःसहाशेषगोत्रहा ।

देवदानवदुर्दर्शो जगद्भयदभीषणः १९३।

समस्तदुर्गतित्राता जगद्भक्षकभक्षकः ।

उग्रशोंबरमार्जारः कालमूषकभक्षकः ।

अनंतायुधदोर्दंडी नृसिंहो वीरभद्रजित् १९४।

योगिनीचक्रगुह्येशः शक्रारि पशुमांसभुक् ।

रुद्रो नारायणो मेषरूप शंकरवाहनः १९५।

मेषरूपशिवत्राता दुष्टशक्तिसहस्रभुक् ।

तुलसीवल्लभो वीरो वामाचारोऽखिलेष्टदः १९६।

महाशिवः शिवारूढो भैरवैककपालधृक् ।

किल्लीचक्रेश्वरः शक्र दिव्यमोहनरूपदः १९७।

गौरीसौभाग्यदो मायानिधीर्मायाभयापहः ।

ब्रह्मतेजोमयो ब्रह्मश्रीमयश्च त्रयीमयः १९८।

सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा ।

उपेंद्रो नृपतिर्विष्णुः कश्यपान्वयमंडनः १९९।

बलिस्वराज्यदः सर्वदेवविप्रान्नदोऽच्युतः ।

उरुक्रमस्तीर्थपादस्त्रिपदस्थस्त्रिविक्रमः 6.71.२००।

व्योमपादः स्वपादांभः पवित्रितजगत्त्रयः ।

ब्रह्मेशाद्यभिवंद्यांघ्रिर्द्रुतधर्मांघ्रिधावनः २०१।

अचिंत्याद्भुतविस्तारो विश्ववृक्षो महाबलः ।

राहुमूर्धापरांगच्छिद्भृगुपत्नीशिरोहरः २०२।

पापत्रस्तः सदापुण्यो दैत्याशानित्यखंडनः ।

पूरिताखिलदेवाशो विश्वार्थैकावतारकृत् २०३।

स्वमायानित्यगुप्तात्मा भक्तचिन्तामणिः सदा ।

वरदः कार्त्तवीर्यादि राजराज्यप्रदोऽनघः २०४।

विश्वश्लाघ्यामिताचारो दत्तात्रेयो मुनीश्वरः ।

पराशक्तिसदाश्लिष्टो योगानंदः सदोन्मदः २०५।

समस्तेंद्रारितेजोहृत्परमामृतपद्मपः ।

अनुसूयागर्भरत्नं भोगमोक्षसुखप्रदः २०६।

जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिकृत् ।

मातृहत्यादिनिर्लेपः स्कंदजिद्विप्रराज्यदः २०७।

सर्वक्षत्रांतकृद्वीरदर्पहा कार्त्तवीर्यजित् ।

सप्तद्वीपावतीदाता शिवार्चक यशप्रदः २०८।

भीमः परशुरामश्च शिवाचार्यैकविश्वभुक् ।

शिवाखिलज्ञानकोशो भीष्माचार्योऽग्निदैवतः २०९।

द्रोणाचार्यगुरुर्विश्वजैत्रधन्वाकृतांतजित् ।

अद्वितीयतपोमूर्त्तिर्ब्रह्मचर्यैकदक्षिणः २१०।

मनुःश्रेष्ठः सतांसेतुर्महीयान्वृषभो विराट् ।

आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत् २११।

पृथुर्जन्माद्येकदक्षो गीः श्रीः कीर्तिः स्वयंवृतः ।

जगद्वृत्तिप्रदश्चक्रवर्त्तिश्रेष्ठोद्वयास्त्रधृक् २१२।

सनकादिमुनिप्राप्य भगवद्भक्तिवर्द्धनः ।

वर्णाश्रमादिधर्माणां कर्त्ता वक्ता प्रवर्त्तकः २१३।

सूर्यवंशध्वजो रामो राघवः सद्गुणार्णवः ।

काकुत्स्थो वीरराड्राजा राजधर्मधुरंधरः २१४।

नित्यस्वस्थाश्रयः सर्वभद्र ग्राही शुभैकदृक् ।

नररत्नं रत्नगर्भो धर्माध्यक्षो महानिधिः ।

सर्वश्रेष्ठाश्रयः सर्वशास्त्रार्थग्रामवीर्यवान् २१५।

जगद्वशो दाशरथिः सर्वरत्नाश्रयो नृपः ।

समस्तधर्मसूः सर्वधर्मद्रष्टाऽखिलाघहा २१६।

अतींद्रो ज्ञानविज्ञानपारदश्च क्षमांबुधिः ।

सर्वप्रकृष्टशिष्टेष्टो हर्षशोकाद्यनाकुलः ।

पित्राज्ञात्यक्तसाम्राज्यः सपन्नोदयनिर्भयः २१७।

गुहदेशार्पितैश्वर्यः शिवस्पर्द्धाजटाधरः ।

चित्रकूटाप्तरत्नाद्रिर्जगदीशो वनेचरः २१८।

यथेष्टामोघसर्वास्त्रो देवेंद्रतनयाक्षिहा ।

ब्रह्मेंद्रदिनतैषीको मारीचघ्नो विराधहा २१९।

ब्रह्मशापहताशेष दंडकारण्यपावनः ।

चतुर्दशसहस्रोग्र रक्षोघ्नैकशरैकधृक् २२०।

खरारिस्त्रिशिरोहंता दूषणघ्नो जनार्दनः ।

जटायुषोऽग्निगतिदोऽगस्त्यसर्वस्व मंत्रराट् २२१।

लीलाधनुः कोट्यपास्तदुंदुभ्यस्थिमहाचयः ।

सप्ततालव्यधाकृष्ट ध्वस्तपातालदानवः २२२।

सुग्रीवराज्यदो हीनमनसैवाभयप्रदः ।

हनुमद्रुद्रमुख्येश समस्तकपिदेहभृत् २२३।

सनागदैत्यबाणैकव्याकुलीकृतसागरः ।

सम्लेच्छकोटिबाणैकशुष्कनिर्दग्धसागरः २२४।

समुद्राद्भुतपूर्वैक बंधसेतुर्यशोनिधिः ।

असाध्यसाधको लंकासमूलोत्कर्षदक्षिणः २२५।

वरदृप्तजगच्छल्य पौलस्त्यकुलकृंतनः ।

रावणिघ्नः प्रहस्तच्छित्कुंभकर्णभिदुग्रहा २२६।

रावणैकशिरश्च्छेत्ता निःशंकेंद्रैकराज्यदः ।

स्वर्गास्वर्गत्वविच्छेदी देवेंद्रानिंद्रताहरः २२७।

रक्षो देवत्वहृद्धर्मा धर्मत्वघ्नः पुरुष्टुतः ।

नतिमात्रदशास्यारिर्दत्तराज्यविभीषणः २२८।

सुधावृष्टिमृताशेष स्वसैन्योज्जीवनैककृत् ।

देवब्राह्मणनामैक धाता सर्वामरार्चितः २२९।

ब्रह्मसूर्येंद्ररुद्रादि वृंदार्पितसतीप्रियः ।

अयोध्याखिलराजन्यः सर्वभूतमनोहरः २३०।

स्वामितुल्यकृपादंडो हीनोत्कृष्टैकसत्प्रियः ।

स्वपक्षादिन्यायदर्शी हीनार्थाधिकसाधकः २३१।

व्याधव्याजानुचितकृत्तारकोखिलतुल्यकृत् ।

पार्वत्याधिक्यमुक्तात्मा प्रियात्यक्तः स्मरारिजित् २३२।

साक्षात्कुशलवच्छद्मेंद्रादितातोऽपराजितः ।

कोशलेंद्रो वीरबाहुः सत्यार्थ त्यक्तसोदरः २३३।

शरसंधाननिर्धूत धरणीमंडलोदयः ।

ब्रह्मादिकाम्यसांनिध्यसनाथीकृतदैवतः २३४।

ब्रह्मलोकाप्तचांडालाद्यशेषप्राणिसार्थकः ।

स्वनीतगर्दभाश्वादिश्चिरायोध्यावनैककृत् २३५।

रामद्वितीयः सौमित्रिर्लक्ष्मणः प्रहतेंद्रजित् ।

विष्णुभक्ताप्तरामांघ्रिपादुकाराज्यनिर्वृतः २३६।

भरतोऽसह्यगंधर्वकोटिघ्नो लवणांतकः ।

शत्रुघ्नो वैद्यराजायुर्वेदगर्भौषधीपतिः २३७।

नित्यामृतकरो धन्वंतरिर्यज्ञो जगद्धरः ।

सूर्यारिघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः २३८।

छिन्नमूर्धायदेशार्कः शेषांगस्थापितामरः ।

विश्वार्थाशेषकद्रास्त्र शिरच्छेदाक्षताकृतिः २३९।

वाजपेयादिनामाग्निर्वेदधर्मपरायणः ।

श्वेतद्वीपपतिः सांख्यप्रणेता सर्वसिद्धिराट् २४०।

विश्वप्रकाशितज्ञानयोगमोहतमिस्रहा ।

देवहूत्यात्मजः सिद्धः कपिलः कर्दमात्मजः २४१।

योगस्वामी ध्यानभंग सगरात्मजभस्मकृत् ।

धर्मो वृषेन्द्रः सुरभीपतिः शुद्धात्मभावितः २४२।

शंभुस्त्रिपुरदाहैकस्थैर्थविश्वरथोद्वहः ।

भक्तशंभुजितो दैत्यामृतवापीसमस्तपः २४३।

महाप्रलयविश्वैकद्वितीयाखिलनागराट् ।

शेषदेवः सहस्राक्षः सहस्रास्य शिरोभुजः २४४।

फणामणिकणाकारयोजिताब्ध्यंबुदक्षितिः ।

कालाग्निरुद्रजनको मुशलास्त्रो हलायुधः २४५।

नीलांबरो वारुणीशो मनोवाक्कायदोषहा ।

असंतोषो दृष्टिमात्रपातितैकदशाननः २४६।

बलिसंयमनो घोरो रौहिणेयः प्रलंबहा ।

मुष्टिकघ्नो द्विविदहा कालिंदीकर्षणो बलः २४७।

रेवतीरमणः पूर्वभक्तिखेदाच्युताग्रजः ।

देवकीवसुदेवाह्व कश्यपादितिनंदनः २४८।

वार्ष्णेयः सात्वतां श्रेष्ठः शौरिर्यदुकुलोद्वहः ।

नराकृतिः परंब्रह्म सव्यसाची वरप्रदः २४९।

ब्रह्मादिकाम्यलालित्य जगदाश्चर्य शैशवः ।

पूतनाघ्नः शकटभिद्यमलार्जुनभंजनः 6.71.२५०।

वातासुरारिः केशिघ्नो धेनुकारिर्गवीश्वरः ।

दामोदरो गोपदेवो यशोदानंददायकः २५१।

कालीयमर्दनः सर्वगोपगोपीजनप्रियः ।

लीलागोवर्द्धनधरो गोविंदो गोकुलोत्सवः २५२।

अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः ।

सद्यः कुवलयापीडघाती चाणूरमर्दनः २५३।

कंसारिरुग्रसेनादिराज्यव्यापारितापरः ।

सुधर्मांकितभूर्लोको जरासंधबलांतकः २५४।

त्यक्तभग्नजरासंधो भीमसेनयशःप्रदः ।

सांदीपनमृतापत्यदाता कालांतकादिजित् २५५।

समस्तनारकित्राता सर्वभूपतिकोटिजित् ।

रुक्मिणीरमणो रुक्मिशासनो नरकांतकः २५६।

समस्तसुंदरीकांतो मुरारिर्गरुडध्वजः ।

एकाकीजितरुद्रार्क मरुदाद्यखिलेश्वरः २५७।

देवेंद्रदर्पहा कल्पद्रुमालंकृतभूतलः ।

बाणबाहुसहच्छिन्नं नद्यादिगणकोटिजित् २५८।

लीलाजित महादेवो महादेवैकपूजितः ।

इंद्रार्थार्जुननिर्भंग जयदः पांडवैकधृक् २५९।

काशिराजशिरश्छेत्ता रुद्रशक्त्यैकमर्दनः ।

विश्वेश्वरप्रसादाक्षः काशीराजसुतार्दनः २६०।

शंभुप्रतिज्ञाविध्वंसी काशीनिर्दग्धनायकः ।

काशीशगतकोटिघ्नो लोकशिक्षाद्विजार्चकः २६१।

युवतीव्रतयोवश्यः पुराशिववरप्रदः ।

शंकरैकप्रतिष्ठाधृक्स्वांश शंकरपूजकः २६२।

शिवकन्याव्रतपतिः कृष्णरूप शिवारिहा ।

महालक्ष्मीवपुर्गौरीत्राता वैदलवृत्रहा २६३।

स्वधाममुचुकुंदैकनिष्कालयवनेष्टकृत् ।

यमुनापतिरानीत परिलीनद्विजात्मजः २६४।

श्रीदामरंकभक्तार्थभूम्यानीतेंद्रवैभवः ।

दुर्वृत्तशिशुपालैकमुक्तिदो द्वारकेश्वरः २६५।

आचांडालदिकप्राप्य द्वारकानिधिकोटिकृत् ।

अक्रूरोद्धवमुख्यैकभक्तस्वच्छंदमुक्तिदः २६६।

सबालस्त्रीजलक्रीडामृतवापीकृतार्णवः ।

ब्रह्मास्त्रदग्धगर्भस्थ परीक्षिज्जीवनैककृत् २६७।

परिलीनद्विजसुतानेताऽर्जुनमदापहः ।

गूढमुद्राकृतिग्रस्त भीष्माद्यखिलकौरवः २६८।

यथार्थखंडिताशेष दिव्यास्त्रपार्थमोहहृत् ।

गर्भशापछलध्वस्तयादेवोर्वी भयापहः २६९।

जराव्याधारिगतिदः स्मृतिमात्राखिलेष्टदः ।

कामदेवो रतिपतिर्मन्मथः शंबरांतकः २७०।

अनंगो जितगौरीशो रतिकांतः सदेप्सितः ।

पुष्पेषुर्विश्वविजयि स्मरः कामेश्वरीप्रियः २७१।

उषापतिर्विश्वकेतुर्विश्वदृप्तोऽधिपूरुषः ।

चतुरात्मा चतुर्व्यूहश्चतुर्युगविधायकः २७२।

चतुर्वेदैकविश्वात्मा सर्वोत्कृष्टांशकोटिशः ।

आश्रमात्मा पुराणर्षिर्व्यासः शाखासहस्रकृत् २७३।

महाभारतनिर्माता कवींद्रो बादरायणः ।

कृष्णद्वैपायनः सर्वपुरुषार्थैकबोधकः २७४।

वेदांतकर्ता ब्रह्मैकव्यंजकः पुरुवंशकृत् ।

बुद्धो ध्यानजिताशेष देवदेवो जगत्प्रियः २७५।

निरायुधो जगज्जैत्रः श्रीधरो दुष्टमोहनः ।

दैत्यवेदबहिःकर्त्ता वेदार्थश्रुतिगोपकः २७६।

शौद्धोदनिर्दष्टदृष्टिः सुखदः सदसस्पतिः ।

यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः २७७।

चतुष्कोटिपृथक्तत्वं प्रज्ञापारमितेश्वरः ।

पाखंडवेदमार्गेशः पाखंडश्रुतिगोपकः २७८।

कल्की विष्णुयशःपुत्रः कलिकालविलोपकः ।

समस्तम्लेच्छदुष्टघ्नः सर्वशिष्टद्विजातिकृत् २७९।

सत्यप्रवर्त्तको देव द्विजदीर्घक्षुधापहः ।

अश्ववारादि रेवंतः पृथ्वीदुर्गतिनाशनः २८०।

सद्यः क्ष्माऽनंतलक्ष्मीकृन्नष्टनिःशेषधर्मवित् ।

अनंतस्वर्णयोगैक हेमपूर्णाखिलद्विजः २८१।

असाध्यैकजगच्छास्ता विश्ववंद्यो जयध्वजः ।

आत्मतत्वाधिपः कर्तृश्रेष्ठो विधिरुमापतिः २८२।

भर्तृश्रेष्ठः प्रजेशाग्र्यो मरीचिर्जनकाग्रणीः ।

कश्यपो देवराजेंद्रः प्रह्लादो दैत्यराट्शशी २८३।

नक्षत्रेशो रविस्तेजः श्रेष्ठः शुक्रः कवीश्वरः ।

महर्षिराट्भृगुर्विष्णुरादित्येशो बलिस्वराट् २८४।

वायुर्वह्निः शुचिः श्रेष्ठः शंकरो रुद्रराट्गुरुः ।

विद्वत्तमश्चित्ररथो गंधर्वाग्र्योक्षरोत्तमः २८५।

वर्णादिरग्र्यस्त्रीगौरीशक्त्याग्र्याशीश्च नारदः ।

देवर्षिराट्पांडवाग्र्योऽर्जुनोवादः प्रवादराट् २८६।

पवनः पवनेशानो वरुणो यादसां पतिः ।

गंगातीर्थोत्तमोद्यूतं छलकाग्र्यं वरौषधम् २८७।

अन्नं सुदर्शनोऽस्त्राग्र्यं वज्रं प्रहरणोत्तमम् ।

उच्चैःश्रवावाजिराज ऐरावतइभेश्वरः २८८।

अरुंधत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट् ।

अध्यात्मविद्याविद्याग्र्यः प्रणवच्छंदसां वरः २८९।

मेरुर्गिरिपतिर्मार्गो मासाग्र्यः कालसत्तमः ।

दिनाद्यात्मा पूर्वसिद्धः कपिलः सामवेदराट् २९०।

तार्क्ष्यः खगेंद्र ऋत्वग्र्यो वसंतः कल्पपादपः ।

दातृश्रेष्ठः कामधेनुरार्तिघ्नाग्र्य सुहृत्तमः २९१।

चिंतामणिर्गुरुश्रेष्ठो माता हिततमः पिता ।

सिंहो मृगेंद्रो नागेंद्रो वासुकिर्नृवरो नृप २९२।

वर्णेशो ब्राह्मणश्चेतः करुणाग्र्यं नमोनमः ।

इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम् २९३।

सर्वापराधशमनं परं भक्तिविवर्द्धनम् ।

अक्षयं ब्रह्मलोकादि सर्वस्वर्गैकसाधनम् २९४।

विष्णुलोकैकसोपानं सर्वदुःखविनाशनम् ।

समस्तसुखदं सद्यः परं निर्वाणदायकम् २९५।

कामक्रोधादिनिःशेषमनोमलविशोधनम् ।

शांतिदं पावनं नॄणां महापातकिनामपि २९६।

सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् ।

समस्तविघ्नशमनं सर्वारिष्टविनाशनम् २९७।

घोरदुःखप्रशमनं तीव्रदारिद्र्यनाशनम् ।

ऋणत्रयापहं गुह्यं धनधान्ययशस्करम् २९८।

सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वधर्मदम् ।

तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम् २९९।

जगज्जाड्यप्रशमनं सर्वविद्यापवर्त्तकम् ।

राज्यदं भ्रष्टराज्यानां रोगिणां सर्वरोगहृत् 6.71.३००।

वंध्यानां सुतदं चायुःक्षीणानां जीवितप्रदम् ।

भूतग्रहविषध्वंसि ग्रहपीडाविनाशनम् ३०१।

मांगल्यं पुण्यमायुष्यं श्रवणात्पठनाज्जपात् ।

सकृदस्याखिलावेदाः सांगा मंत्राश्च कोटिशः ३०२।

पुराणशास्त्रस्मृतयः श्रुता स्युः पठितास्तथा ।

जप्त्वा चैकाक्षरं श्लोकं पादं वा पठति प्रिये ३०३।

नित्यं सिध्यति सर्वेष्टमचिरात्किमुताखिलम् ।

नानेन सदृशं सद्यः प्रत्ययं सर्वकर्मसु ३०४।

इदं भद्रे त्वया गोप्यं पाठ्यं स्वार्थैकसिद्धये ।

नावैष्णवाय दातव्यं विकल्पोपहतात्मने ३०५।

भक्तिश्रद्धाविहीनाय विष्णुसामान्यदर्शिने ।

देयं पुत्राय शिष्याय सुहृदे हितकाम्यया ३०६।

मत्प्रसादादृतेनेदं ग्रहीष्यंत्यल्पमेधसः ।

कलौ सद्यः फलं कल्पग्रामं नेष्यति नारदः ३०७।

लोकानां भाग्यहीनानां येन दुःखं विनश्यति ।

द्वित्रेषु वैष्णवेष्वेतदार्यावर्ते भविष्यति ३०८।

नास्ति विष्णोः परं धाम नास्ति विष्णोः परं तपः ।

नास्ति विष्णोः परो धर्मो नास्ति मंत्रो ह्यवैष्णवः ३०९।

नास्ति विष्णोः परं सत्यं नास्ति विष्णोः परो मखः ।

नास्ति विष्णोः परं ध्यानं नास्ति विष्णोः परा गतिः ३१०।

किं तस्य बहुभिर्मंत्रैः शास्त्रैर्वा र्बहुविस्तरैः ।

वाजपेयसहस्रैर्वा भक्तिर्यस्य जनार्दने ३११।

सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभुः ।

सर्वक्रतुमयो विष्णुः सत्यं सत्यं वदाम्यहम् ।

आब्रह्मसारसर्वस्वं सर्वमेतन्मयोदितम् ३१२।

पार्वत्युवाच-

धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्पते ।

यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम् ३१३।

अहो बत महत्कष्टं समस्तदुःखहे हरौ ।

विद्यमानेऽपि देवेशे मूढाः क्लिश्यंति संसृतौ ३१४।

यमुद्दिश्य सदा नाथं महेशोऽपि दिगंबरः ।

जटिलो भस्मलिप्तांगो तपस्वी वीक्ष्यते जनैः ३१५।

ततोऽधिकोऽस्ति देवः को लक्ष्मीकांतान्मधुद्विषः ।

यत्तत्त्वं चिंत्यते नित्यं त्वया योगेश्वरेण हि ३१६।

ततः परं किमधिकं पदं श्रीपुरुषोत्तमात् ।

तमविज्ञाय कं मूढाः यजंते ज्ञानमानिनः ३१७।

मुषितास्मि त्वया नाथ चिरं यदयमीश्वरः ।

प्रकाशितो न मे यस्मात्त्वदाद्या दिव्यशक्तयः ३१८।

अहो सर्वेश्वरो विष्णुः सर्वदेवोत्तमोत्तमः ।

भवदादिगुरुर्मूढैः सामान्य इव वीक्ष्यते ३१९।

महीयसां हि माहात्म्यं भजमानान्भजंति ते ।

द्विषतोऽपि वृथा पापानुपेक्ष्यंते क्षमान्विताः ३२०।

मयापि बाल्ये स्वपितुः प्रजा दृष्टा बुभुक्षिताः ।

दुःखादशक्तया पोष्टुं श्रियमाराध्य वै भृताः ३२१।

तया संनिहिताभ्यश्च प्रजाभ्यो भवदादयः ।

विलसंति स शक्राद्याः ससुहृन्मित्रबांधवाः ३२२।

तया विना क्व देवत्वं क्वैश्वर्यं क्व परिग्रहः ।

सर्वे भवंति जीवंतो यातनास्वेव संस्थिताः ३२३।

तामृतेनैव धर्मोऽथ कामो मोक्षोऽपि दूरतः ।

क्षुधितानां दुर्गतानां कुतो योगसमाधयः ३२४।

स च संसारसारैकः सर्वलोकैकनायकः ।

वशगा कमला यस्य त्यक्त्वा तामपि शंकरः ३२५।

अनौद्धत्येन शौचेन रूपेणार्जवसंपदा ।

सर्वातिशयवीर्येण संपूर्णस्य महात्मनः ३२६।

कस्तेन तुल्यतामेति देवदेवेन विष्णुना ।

यस्यांशांशावतारेण विना सर्वं विलीयते ३२७।

जगदेतत्तथाप्याहुर्दोषायैतद्विमोहिताः ।

नास्य जन्म न वा मृत्युर्नाप्राप्यं स्वार्थमेव च ३२८।

कामाद्यासक्तचित्तत्वात्किं तु सर्वेश्वरप्रभो ।

त्वन्मयत्वात्प्रमादाद्वा शक्नोमि पठितुं न चेत् ३२९।

विष्णोः सहस्रनामैतत्प्रत्यहं वृषभध्वज ।

नाम्नैकेन तु येन स्यात्तत्फलं ब्रूहि मे प्रभो ३३०।

महादेव उवाच-

रामरामेति रामेति रमे रामे मनोरमे ।

सहस्रनामतत्तुल्यं रामनाम वरानने ३३१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे विष्णोर्नामसहस्रं संपूर्णं नामैकसप्ततितमोऽध्यायः ७१।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 72

श्रीमहादेव उवाच-

ब्राह्मणा वा क्षत्रिया वा वैश्या वा गिरिकन्यके ।

शूद्रा वाथ विशेषेण पठंत्यनुदिनं यदि १।

धनधान्यसमायुक्ता यांति विष्णोः परं पदम् ।

श्लोकं वा श्लोकमर्द्धं वा पादं पादार्द्धमेव वा २।

पठनान्मोक्षमाप्नोति यावदाभूतसंप्लवम् ।

विन्यासेन युतं देवि विष्णोर्नामसहस्रकम् ३।

ये पठंति नरश्रेष्ठास्ते यांति पदमव्ययम् ।

एककालं द्विकालं वा त्रिकालं वाथ यः पठेत् ४।

धनायुर्वर्धते तस्य यावदिंद्राश्चतुर्दश ।

पुत्रान्पौत्रांस्तथालक्ष्मी संपदं विपुलां लभेत् ५।

किमन्यद्बहुनोक्तेन भूयो भूयो वरानने ।

विष्णोर्नामसहस्रं तु परं निर्वाणदायकम् ६।

पूजनं प्रथमं तस्य कृतं येन नरेण तु ।

संपूर्णं पूजिते विष्णौ तस्य पूजा च वार्षिकी ७।

व्यग्रत्वं च न कर्त्तव्यं पठने तु विशेषतः ।

यदि चेत्क्रियते पाठे ह्यायुर्वित्तं च नश्यति ८।

यावंति भुवि तीर्थानि जंबुद्वीपेषु सर्वदा ।

तानि तीर्थानि तत्रैव विष्णोर्नामसहस्रकम् ९।

तत्रैव गंगा यमुना च वेणी गोदावरी तत्र सरस्वती च ।

सर्वाणि तीर्थानि वसंति तत्र यत्र स्थितं नामसहस्रकं तत् १०।

इदं पवित्रं परमं भक्तानां वल्लभं सदा ।

ध्येयं हि दासभावेन भक्तिभावेन चेतसा ११।

परं सहस्रनामाख्यं ये पठंति मनीषिणः ।

सर्वपापविनिर्मुक्तास्ते यांति हरिसंनिधौ १२।

अरुणोदयकाले तु ये पठंति जपंति च ।

आयुर्बलं च तेषां श्रीर्वर्द्धते च दिनेदिने १३।

रात्रौ जागरणे प्राप्ते कलौ भागवतो नरः ।

पठनान्मुक्तिमाप्नोति यावदिंद्राश्चतुर्दश १४।

एकैकेन तु नाम्ना वै हरौ तुलसिकारणात् ।

पूजा सा चैव विज्ञेया कोटियज्ञफलाधिका १५।

मार्गे च गच्छमानास्तु ये पठंति द्विजातयः ।

न दोषा मार्गजास्तेषां भवंति किल पार्वति १६।

शृणु देवि प्रवक्ष्यामि माहात्म्यं केशवस्य तु ।

ये शृण्वंति नरश्रेष्ठास्ते पुण्याः पुण्यरूपिणः १७।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे सहस्रनाममहिमानाम द्विसप्ततितमोऽध्यायः ७२।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 73

महादेव उवाच-

ॐरामरक्षास्तोत्रस्य श्रीमहर्षिर्विश्वामित्रऋषिः ।

श्रीरामो देवता अनुष्टुप्छंदः ।

विष्णुप्रीत्यर्थे जपे विनियोगः १।

अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।

ध्यात्वा वै पुंडरीकाक्षं श्रीरामं विष्णुमव्ययम् २।

पातु वो हृदयं रामः श्रीकंठः कंठमेव च ।

नाभिं पातु मखत्राता कटिं मे विश्वरक्षकः ३।

करौ पातु दाशरथिः पादौ मे विश्वरूपधृक् ।

चक्षुषी पातु वै देव सीतापतिरनुत्तमः ४।

शिखां मे पातु विश्वात्मा कर्णौ मे पातु कामदः ।

पार्श्वयोस्तु सुरत्राता कालकोटिदुरासदः ५।

अनंतः सर्वदा पातु शरीरं विश्वनायकः ।

जिह्वां मे पातु पापघ्नो लोकशिक्षाप्रवर्त्तकः ६।

राघवः पातु मे दंतान्केशान्रक्षतु केशवः ।

सक्थिनी पातु मे दत्त विजयो नाम विश्वसृक् ७।

एतां रामबलोपेतां रक्षां यो वै पुमान्पठेत् ।

स चिरायुः सुखी विद्वान्लभते दिव्यसंपदम् ८।

रक्षां करोति भूतेभ्यः सदा रक्षा तु वैष्णवी ।

रामेति रामभद्रेति रामचंद्रेति यः स्मरेत् ९।

विमुक्तः स नरः पापान्मुक्तिं प्राप्नोति शाश्वतीम् ।

वसिष्ठेन इदं प्रोक्तं गुरवे विष्णुरूपिणे १०।

ततो मे ब्रह्मणः प्राप्तं मयोक्तं नारदं प्रति ।

नारदेन तु भूर्लोके प्रापितं सुजनेष्विह ११।

सुप्त्वावाथ गृहे वापि मार्गे गच्छंत एव वा ।

ये पठंति नरश्रेष्ठास्ते नराः पुण्यभागिनः १२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे रामक्षास्तोत्रंनाम त्रिसप्ततितमोऽध्यायः ७३।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 74

महादेव उवाच-

शृणु देवि प्रवक्ष्यामि धर्ममाहात्म्यमुत्तमम् ।

यच्छ्रुत्वा न पुनर्जन्म जायते भुवि कर्हिचित् १।

धर्मादर्थं च कामं च मोक्षं चैतत्त्रयं लभेत् ।

तस्माद्धर्मं समीहेत विद्वान्यः स बुधः स्मृतः २।

तपसा चैव दानेन व्रतेन नियमेन च ।

तपसा प्राप्यते स्वर्गः सात्विकेन तथैव च ३।

इहायातो लभेद्राज्यं क्रोधलोभविवर्जितः ।

जन्मांतरेण मुक्तिः स्यात्पदं विंदति वैष्णवम् ४।

तपसा राजसेनेह राजसश्चैव जायते ।

तप्त्वा तामसभावेन क्रूरकर्मा हि निष्ठुरः ५।

तपस्तद्रक्षसां चोक्तं भुक्तिदं तामसात्मनाम् ।

यत्तप्तं सात्विकं चैव तत्तपो भवति ध्रुवम् ६।

रजस्तमोभ्यां नियतं तपस्यां वने सतां वायुभुजां सुनिर्जने ।

तपस्विनां चैव धनादिवांच्छतां वनेऽपि दोषाः प्रभवंति रागिणाम् ७।

गृहेऽपि पंचेंद्रियनिग्रहस्तपस्त्वकुत्सिते कर्मणि यः प्रवर्त्तते ।

निवृत्तरागस्य तपोवनं गृहं गृहाश्रमोऽतो गदितः स्वधर्मः ८।

सुदुस्तरः सत्वजितेंद्रियाणां संहन्यते श्रेष्ठतमः शुभाश्रमः ।

गृहस्तु धर्मः प्रवरो मनीषिणां ब्रह्मादिभिश्चाभिहितो नगात्मजे ९।

तप्त्वा तपस्वी विपिने क्षुधार्तो गृहं समायाति सदान्नदातुः ।

भक्त्या स चान्नं प्रददाति तस्मै तपोविभागं भजते हि तस्य १०।

गृहाश्रमं ज्येष्ठमिहाश्रमाणां सम्यक्च यः पालयते मनुष्यः ।

इहैव भुंजन्समनुष्यभोगान्स्वर्गं प्रयातीति न संशयोऽत्र ।

गृहं सदा पालयतां नराणां पापं समायाति कथं हि देवि ११।

गृहाश्रमः पुण्यतमः सर्वदा तीर्थवद्गृहम् ।

अस्मिन्गृहाश्रमे पुण्ये दानं देयं विशेषतः १२।

देवानां पूजनं यत्र अतिथीनां च भोजनम् ।

पथिकानां च शरणं अतो धन्यतमो मतः १३।

तद्गृहं तु समाश्रित्य येऽर्चयंति द्विजान्नराः ।

आयुर्लक्ष्मीस्तथा पुत्रा न हीयंते कदाचन १४।

शृणु सुंदरि वक्ष्यामि महापापविशोधनम् ।

सर्वसंपत्करं दानं इहामुत्रफलप्रदम् १५।

शुभेकाले समायाते समभ्यर्च्य स्वदैवतम् ।

नित्यं नैमित्तकं कृत्वा दद्याद्दानं स्वशक्तितः १६।

गृहीत्वा परद्रव्यं च द्विजदेवेभ्य एव हि ।

दद्यात्स निरयं दृष्ट्वा पश्चाद्याति परां गतिम् १७।

शतानीको यथा दानात्सपुत्रश्चैव तारितः ।

दत्त्वान्ये च द्विजेभ्यश्च स गंता धर्मतो दिवम् १८।

धर्मस्थानेषु यैर्दत्तं तेषां धर्ममुदाहृतम् ।

शृणु देवि प्रवक्ष्यामि वित्तदानं समासतः १९।

देहशुद्धिकरं दानं न भूतं न भविष्यति ।

पापहीनो येन पुमान्जायते नात्र संशयः २०।

भोगान्भुक्त्वा ततश्चायं याति विष्णुं सनातनम् ।

पुरा वै ब्रह्मणा प्रोक्तं भार्गवाय महात्मने २१।

पापयुक्ताय रामाय तुलावृषभमेव च ।

पापकर्मरतश्चैव भवबंधक्रियो नृपः २२।

अभक्षभक्षणरता भ्रूणहा गुरुतल्पगः ।

एतेप्यनृतवादी च प्रसूयंते वियोनिषु २३।

अयाज्ययाजनं कृत्वा याचयित्वा तु निंदितान् ।

सदा कोपसमायुक्ताः साधूनां पीडने रताः २४।

विश्वासोपहताश्चैषामसुभिर्धर्मनिंदकाः ।

पापैरेभिः समायुक्ता ज्ञात्वात्मानं गतायुषम् २५।

इति ज्ञात्वा तु तैर्देवि दानं देयं विशेषतः ।

बहवो धर्मकर्त्तारो वैष्णवा भुवि विश्रुताः २६।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे दानधर्मोनाम चतुःसप्ततितमोऽध्यायः ७४।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 75

महादेव उवाच-

गंडिकायास्तु माहात्म्यं वक्ष्ये देवि विधानतः ।

यथा गंगा तथा सा च कथिता नगनंदिनि १।

शालग्रामशिला यत्र जायते बहुधा तथा ।

माहात्म्यं चैव तस्याश्च कथितं मुनिसत्तमैः २।

अंडजा उद्भिजा यत्र स्वेदजाश्च जरायुजाः ।

यस्या दर्शनमात्रेण पुण्यरूपास्तु पार्वति ३।

उत्तरे सा तु संभूता गंडिका तु महानदी ।

संस्मृता संस्मृता नूनं पापं हंत्यगनंदिनि ४।

यत्र नारायणो देवो नित्यं तिष्ठति भूतिदः ।

शंखचक्रधरास्तस्य समीपे निवसंति ये ५।

ते मृत्युं समनुप्राप्य दिव्यरूपाश्चतुर्भुजाः ।

ऋषयस्तत्र तिष्ठंति देवाश्चैवं विशेषतः ६।

रुद्रा नागास्तथा यक्षा नात्र कार्या विचारणा ।

तस्याः समीपे ह्येकोऽयं स्थलो वै विष्णुरूपधृक् ७।

स्थलेऽस्मिन्वर्तते मूर्तिर्बहुरूपातिमुक्तिदा ।

चतुर्विंशतिभूतानां जातयः संति तत्र वै ८।

एका वै मत्स्यरूपा च कृष्णरूपातिमुक्तिदा ।

अन्या च या बुधैः प्रोक्ता स्थले वै विष्णुसंज्ञके ९।

कल्किनाम्नी तथा पुण्या कपिला या मयोदिता ।

अन्यास्तु विविधाकारा दृश्यंते बहुधा अपि १०।

तिष्ठंति मूर्त्तयः सर्वा नानारूपा ह्यनेकशः ।

सा गंगा महती पुण्या धर्मकामार्थमुक्तिदा ११।

यस्यां भूमौ हृषीकेशो नियमेन समन्वितः ।

वर्त्ततेऽद्यापि तत्रैव मया सह न संशयः १२।

भ्रूणहत्या बालहत्या गोहत्या च विशेषतः ।

यस्याः स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषात् १३।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवान्यजातयः ।

सर्वे ते वै विमुच्यंते दर्शनाद्गंडिकांबुनः १४।

इयं वेणी समा पुण्या पापिनां तु विशेषतः ।

मुच्यते ब्रह्महा यत्र इतरेषां तु का कथा १५।

सर्वदा सर्वकाले तु अहं गच्छामि पार्वति ।

तीर्थानां तीर्थराजोऽयं ब्रह्मणा भाषितः किल १६।

तत्र स्नानं च दानं च मुनिभिः परिकल्पितम् ।

आषाढे पुण्यकाले तु तत्र गच्छामि सुंदरि १७।

मासैकविधिना चैव स्नानं तत्र करोम्यहम् ।

तारकं तत्र विशदं जपामि तु निरंतरम् १८।

अतोऽहं वैष्णवो जातो विष्णुक्षेत्रे यतोगतः ।

विष्णुना निर्मितं पूर्वं क्षेत्रं तत्तु महत्तरम् १९।

वैष्णवानां च गतिदं पावनं परमं स्मृतम् ।

भवेऽस्मिन्मानुषे जन्म दुर्लभं देवि सर्वदा २०।

दुर्लभं गण्डिकातीर्थं विष्णुक्षेत्रं तु दुर्लभम् ।

अतो ह्याषाढमासे तु गंतव्यं द्विजसत्तमैः २१।

तत्र गत्वा विशेषेण शंखचक्रादिधारणम् ।

कर्त्तव्यं तु द्विजश्रेष्ठैः पवित्रं परमं स्मृतम् २२।

शंखतीर्थं तु वामे वै दक्षिणे चक्रचिह्नितम् ।

द्विजानां मुक्तिदं प्रोक्तं धारितव्यं प्रयत्नतः २३।

ब्राह्मणैश्च विशेषेण शंखचक्रादिधारणं ।

धृते सति महादेवि वैष्णवास्ते हि मानवाः २४।

न गण्डिका समं तीर्थं न व्रतं द्वादशीसमम् ।

न देवः केशवादन्यो भूयोभूयो वरानने २५।

गंडिकायास्तु माहात्म्यं ये शृण्वंति नरोत्तमाः ।

इहलोके सुखं भुक्त्वा विष्णुलोके हि यांति ते २६।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे गंडिकातीर्थमाहात्म्यंनाम पंचसप्ततितमोऽध्यायः ७५।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 76

महादेव उवाच-

शृणु सुंदरि वक्ष्यामि स्तोत्रं चाभ्युदयं ततः ।

यच्छ्रुत्वा मुच्यते पापी ब्रह्महा नात्र संशयः १।

धाता वै नारदं प्राह तदहं तु ब्रवीमि ते ।

तमुवाच ततो देवः स्वयंभूरमितद्युतिः २।

प्रगृह्य रुचिरं बाहुं स्मारयेच्चौर्ध्वदेहिकम् ।

भगवान्नारायणः श्रीमान्देवश्चक्रायुधोहरिः ३।

शार्ङ्गधारी हृषीकेशः पुराणपुरुषोत्तमः ।

अजितः खड्गभृज्जिष्णुः कृष्णश्चैव सनातनः ४।

एकशृंगो वराहस्त्वं भूतभव्यभवात्मकः ।

अक्षरं ब्रह्म सत्यं तु आदौ चांते च राघवः ५।

लोकानां तु परो धर्मो विष्वक्सेनश्चतुर्भुजः ।

सेनानी रक्षणस्त्वं च वैकुंठस्त्वं जगत्प्रभुः ६।

प्रभवश्चाव्ययस्त्वं च उपेंद्रो मधुसूदनः ।

पृश्निगर्भो धृतार्चिस्त्वं पद्मनाभो रणांतकृत् ७।

शरण्यं शरणं च त्वामाहुः सेन्द्रा महर्षयः ।

ऋक्सामश्रेष्ठो वेदात्मा शतजिह्वो महर्षयः ८।

त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परंतपः ।

शतधन्वा वसुः पूर्वं वसूनां त्वं प्रजापतिः ९।

त्रयाणामपि लोकानां आदिकर्ता स्वयंप्रभुः ।

रुद्राणामष्टमो रुद्रः साध्यानामपि पंचमः १०।

आश्विनौ चापि कर्णौ ते सूर्यचंद्रौ च चक्षुषी ।

अंते चादौ च मध्ये च दृश्यसे त्वं परंतपः ११।

प्रभवो निधनं चास्य न विदुः को भवानिति ।

दृश्यसे सर्वलोकेषु गोषु च ब्रह्मणेषु च १२।

दिक्षु सर्वासु गगने पर्वतेषु गुहासु च ।

सहस्रनयनः श्रीमाञ्छतशीर्षः सहस्रपात् १३।

त्वं धारयसि भूतानि वसुधां च सपर्वताम् ।

अंतःपृथिव्यां सलिले सर्वसत्वमहोरगः १४।

त्रींल्लोकान्धारयन्नास्ते देवगंधर्वदानवान् ।

अहं ते हृदयं राम जिह्वा देवी सरस्वती १५।

देवा रोमाणि गात्रेषु निर्मितास्ते स्वमायया ।

निमिषस्ते स्मृता रात्रिरुन्मेषो दिवसस्तथा १६।

संस्कारस्ते भवेद्देहो न तदस्ति विना त्वया ।

जगत्सर्वं शरीरे तत्स्थैर्यं च वसुधातलम् १७।

अग्निः कोपः प्रसादस्ते शेषः श्रीमांश्च लक्ष्मणः ।

त्वया लोकास्त्रयः क्रांताः पुराणैर्विक्रमैस्त्रिभिः १८।

त्वयेंद्रश्च कृतो राजा बलिर्बद्धो महासुरः ।

लोकान्संहृत्य कालस्त्वं निवेश्यात्मनि केवलम् १९।

करोष्येकार्णवं घोरं दृश्यादृश्ये च नान्यथा ।

त्वया सिंहवपुः कृत्वा परमं दिव्यमुत्तमम् २०।

भयदः सर्वभूतानां हिरण्यकशिपुर्हतः ।

त्वमश्ववदनो भूत्वा पातालतलमाश्रितः २१।

संहृतं परमं हव्यं रहस्यं वै पुनः पुनः ।

यत्परं श्रूयते ज्योतिर्यत्परं श्रूयते परः २२।

यत्परं परतश्चै वपरमात्मेति कथ्यते ।

परो मंत्रः परं तेजस्तमेव हि निगद्यसे २३।

हव्यं कव्यं पवित्रं च प्राप्तिः स्वर्गापवर्गयोः ।

स्थित्युत्पत्तिविनाशांस्ते त्वामाहुः प्रकृतेः परम् २४।

यज्ञश्च यजमानश्च होता चाध्वर्युरेव च ।

भोक्ता यज्ञफलानां च त्वं वै वेदैश्च गीयसे २५।

सीतालक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः ।

वधार्थं रावणस्य त्वं प्रविष्टो मानुषीं तनुम् २६।

तदिदं च त्वया कार्यं कृतं धर्मभृतां वर ।

निहतो रावणो राम प्रहृष्टा देवताः कृताः २७।

अमोघं देववीर्यं ते न ते मोघः पराक्रमः ।

अमोघदर्शनं राम न च मोघस्तव स्तवः २८।

अमोघास्ते भविष्यंति भक्तिमंतो नरा भुवि ।

ये च त्वां देव संभक्ताःपुराणं पुरुषोत्तमम् २९।

इममार्षस्तवं पुण्यमितिहासं पुरातनम् ।

ये नराः कीर्तयिष्यंति नास्ति तेषां पराभवः ३०।

कथमिह हि पराभवं व्रजेयुः पुरुषवराः पुरुषोत्तमे हि भक्ताः ।

नहि जगति चतुर्भुजप्रियाणां त्रिदश इहास्ति वरप्रदो विशिष्टः ३१।

स्तोत्राणां प्रवरं स्तोत्रं राघवस्य महात्मनः ।

त्रिकाले यः पठेन्नित्यं महापातकवानपि ३२।

संध्याकाले द्विजश्रेष्ठैः श्राद्धकाले विशेषतः ।

पठनीयं प्रयत्नेन भक्तिभावेन चेतसा ३३।

इदं गोप्यं हि परमं नाख्येयं कर्हिचित्क्वचित् ।

पठनान्मुक्तिमाप्नोति सात्त्वतः स भवेद्ध्रुवम् ३४।

प्रथमं पिंडपूजांते ब्राह्मणैर्द्विजसत्तमैः ।

पठितव्यमिदं स्तोत्रं श्राद्धमक्षयमाप्नुयात् ३५।

इदं पवित्रं परमं जनानां मुक्तिदायकम् ।

लिखित्वा वै गृहे यस्तु धारयेत्सुसमाधिना ३६।

आयुः श्रीश्च बलं तस्य वृद्धिं याति दिनेदिने ।

लिखित्वा ब्राह्मणे दद्याद्धीमान्यो वै कदाचन ३७।

विमुक्ताः पूर्वजास्तस्य यांति विष्णोः परं पदम् ।

चतुर्णां चैव वेदानां पाठे चैव तु यत्फलम् ३८।

समवाप्नोति जापेन नरः स्तोत्रं पठन्जपन् ।

धृत्वा वै शंखचक्रादि ब्राह्मणैर्वेदतत्परैः ३९।

श्राद्धकाले महादेवि अक्षयं तद्भवेद्ध्रुवम् ।

कंठे पद्माक्षमालां च शंखचक्रादिधारणम् ४०।

ततः श्राद्धं प्रकुर्वीत इदं स्तोत्रं पठन्जपन् ।

विधिना भक्तिभावेन पूर्णं भवति नान्यथा ४१।

अतो भक्तिमता पुंसा पठनीयं प्रयत्नतः ।

पठनात्सर्वमाप्नोति स नरः सुखमेधते ४२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे आभ्युदयिकमूर्ध्वदैहिकस्तोत्रं नाम षट्सप्ततितमोऽध्यायः ७६ ।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 77

महादेव उवाच-

पप्रच्छाहं जगन्नाथं व्रतानामुत्तमं व्रतम् ।

पुत्रपौत्रविवृद्ध्यर्थं सुखसौभाग्यदायकम् १।

तवाग्रे संप्रवक्ष्यामि शृणु सुंदरि सांप्रतम् ।

इदं कथानकं दिव्यमृषीणां व्रतमुत्तमम् २।

रजस्वला तु या नारी सहसा पापरूपिणी ।

कृतेन च व्रतेनैव महापापैः प्रमुच्यते ।

पितॄणामक्षयं देयं धर्मकामार्थसाधनम् ३।

श्रीविष्णुरुवाच-

पूर्वमासीन्महाबाहुर्ब्राह्मणो वेदपारगः ।

सदाध्ययनशीलस्तु देवशर्मा इति द्विजः ४।

अग्निहोत्रक्रियायुक्तः षट्कर्मनिरतः सदा ।

सर्ववर्णेषु संपूज्यः सपुत्रपशुबांधवः ५।

तस्य ब्राह्मणमुख्यस्य भग्ना च गृहवाहिनी ।

प्राप्ते भाद्रपदे मासे शुक्लपक्षे तु पंचमी ६।

पितुःक्षयाहं कुरुते यतात्मा च जितेंद्रियः ।

रात्रौ निमंत्रयेद्विप्रान्सुखसौभाग्यदायकान् ७।

प्रभाते विमले प्राप्ते भांडान्यन्यानि कारयेत् ।

पाकं सर्वेषु पात्रेषु स कारयति जायया ८।

अष्टादशरसोपेतं पितॄणां प्रीतिदायकम् ।

आकारणं ततो दत्त्वा विप्राणां च पृथक्पृथक् ९।

सर्वे विप्रास्तु संप्राप्ता मध्याह्ने वेदपाठकाः ।

अर्घपाद्यादि विधिवत्कृतवान्द्विजसत्तमः १०।

रजसा दूषितः श्राद्धे प्रक्षाल्य विधिवत्तदा ।

गृहमध्ये गताः सर्वे आसने ते निरूपिताः ११।

प्रदत्तं भोजनं तेन मिष्टान्नेन विशेषतः ।

विधिना च कृतं श्राद्धं पिंडदानप्रपूर्वकम् १२।

तांबूलं दक्षिणां चैव वस्त्राणि विविधानि च ।

सर्वं ददौ द्विजेभ्यो वै पितृध्यानपरायणः १३।

विप्रा विसर्जिताः सर्वे आशीर्वादपरायणाः ।

गोत्रिणां बांधवानां च अन्येषां च बुभुक्षताम् १४।

दत्तमन्नं तदा तेन भोजने विधिपूर्वकम् ।

निशायां तु कुटीद्वारे उपविष्टो यदा तदा १५।

ब्राह्मण्या वारि संगृह्य पादप्रक्षालनं कृतम् ।

तदा शुनी बलीवर्दौ परस्परमभाषताम् १६।

शृणु कांत वचो मह्यं यादृक्कृतवती वधूः ।

तादृशं संप्रवक्ष्यामि नान्यथा प्रब्रवीम्यहम् १७।

कदाचिद्दैवयोगेन गताहं पुत्रसद्मनि ।

तत्रस्थितं पयः पातुं वध्वा दृष्टं न तत्पुनः १८।

पीतं पयस्तु सर्पेण तद्दृष्टं तु मया पुनः ।

पश्चात्पीतं मया सम्यक्दृष्टं वध्वा तदा पुनः १९।

तेन संपर्कदोषेणकटिर्भग्ना च मे सदा ।

तेन दुःखेन भो स्वामिन्जाताहं दुःखभागिनी ।

भग्ना कटिश्च संजाता ह्याहारो नैव रोचते २०।

बलीवर्द्द उवाच-

शृणु त्वं शुनि वक्ष्यामि मम दुःखस्य कारणम् ।

अस्मिन्वै दिवसे प्राप्ते ब्राह्मणानां तु भोजनम् २१।

कारितं मम पुत्रेण मम चिंता तु नो कृता ।

नोदकं न तृणं चैव न दत्तं केनचित्क्वचित् २२।

अनाहारोह्यहं पापी बद्धोऽस्मिन्पापभावितः ।

पूर्वपापविशेषेण जातं शुनि न संशयः २३।

तद्वाक्यं तु तदा देवि श्रुतं पुत्रेण धीमता ।

ममायं तु पिता साक्षाज्जातो मम गृहे पशुः २४।

इयं तु जननी साक्षान्मम चैव न संशयः ।

दैवयोगाच्छुनी जाता किं करोमि सुनिश्चयम् २५।

एवं विचार्यासौ विप्रो नैव निद्रामवाप सः ।

रात्रौ चिंतापरो भूत्वा स्मरन्विश्वेश्वरं परम् २६।

नानाधर्मपरोऽहं च ममैवं च कथं शुभम् ।

विचारयित्वा च ततो रात्रौ सुप्तस्तदा पुनः २७।

प्रभाते विमले प्राप्ते ऋषीणां पुरतो गतः ।

तेषां मध्ये वसिष्ठेन तस्य सुस्वागतं कृतम् २८।

ब्रूहि त्वं ब्राह्मणश्रेष्ठ तवागमनकारणम् ।

इति पृष्टस्तदा विप्रः प्रणाममकरोत्तदा २९।

अद्य मे सफलं जन्म अद्य मे सफला क्रिया ।

अद्य मे पितरस्तृप्ता दुर्लभात्तव दर्शनात् ३०।

यथोक्तं च कृतं श्राद्धं द्विजाश्चैव सुभोजिताः ।

कुटुंबिनां तु सर्वेषां भोजनं कारितं तथा ३१।

भोजनानंतरं प्राप्ता शुनी तत्र उवाच ह ।

अस्माकं तु गृहे ह्येको बलीवर्दस्तु वर्त्तते ३२।

तं पतिं प्रतिवाक्यं यद्दिवज मत्तः शृणुष्व तत् ।

गृहेस्थितं दुग्धभांडमहिना दूषितं मया ३३।

दृष्टं मे महती चिंता तदा जाता न संशयः ।

अनेन पयसा चैव पक्वमन्नं यदा भवेत् ३४।

तदात्र सर्वे विप्राश्च म्रियंते भोजनात्ततः ।

एवं विचार्य तत्स्वामिन्दुग्धं पीतं तदा मया ३५।

तदा दृष्टं तु वध्वा वै तया मे ताडनं कृतम् ।

चरामि तेन संभग्ना किं करोमि सुदुःखिता ३६।

तस्या दुःखं तु संस्मृत्य वृषः प्राह शुनीं प्रति ।

शृणु शुनि प्रवक्ष्यामि मम दुःखस्य कारणम् ३७।

अस्याहं तु पिता साक्षात्पूर्वजन्मनि वै शुनि ।

अद्य वै भोजिता विप्रा दत्तमन्नं तु भूरिशः ३८।

न तृणं नोदकं चैव ममाग्रे संनिवेदितम् ।

तेन दुःखेन मे दुःखं जातं बहुतरं तदा ३९।

एतत्कथानकं श्रुत्वा रात्रौ निद्रामवाप न ।

मम चिंता तु तत्रैव जाता वै ऋषिसत्तम ४०।

वेदाध्ययनशीलोऽहं कुशलो वेदकर्मणि ।

अनयोश्च महद्दुःखं किं करोमीति चिंतयन् ।

आगतस्त्वत्समीपे तु ममकष्टं निवारय ४१।

ऋषिरुवाच-

उग्रजन्मन्शृणुष्व त्वं पूर्वजन्मनि यत्कृतम् ।

अयं वै तु द्विजश्रेष्ठो कुंडने नगरे शुभे ४२।

मासे भाद्रपदे चैव पंचमी या समागता ।

तद्व्रतं तेन नाज्ञातं पितुः श्राद्धादिकारणात् ४३।

स्त्रीधर्मेण तु संप्राप्ता क्षयहेतु तदानघ ।

तया चैव कृतं सर्वं ब्राह्मणानां च भोजनम् ४४।

न ज्ञातं च कृतं तेन पापिष्ठेन दुरात्मना ।

प्रथमेऽहनि चांडाली द्वितीये ब्रह्मघातिनी ४५।

तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति ।

तेन पापेन सा जाता शुनी स्वगृहचारिणी ।

बलीवर्दस्त्वयं जातः कर्मणानेन सुव्रत ४६।

उग्रजन्मोवाच-

व्रतं दानं तथा यज्ञं तीर्थं वाममसुव्रत ।

ब्रूहि येन विशेषेण मुक्तिः पित्रोर्भवेन्मम ४७।

ऋषिरुवाच-

मासे भाद्रपदे शुक्ले जायते ऋषिपंचमी ।

रजसा विकृतं पापं नश्यते करणाद्यतः ४८।

पुत्रपौत्रप्रदात्री च पितॄणां मुक्तिदायिनी ।

नद्या कूपे तडागे वा ब्राह्मणस्य गृहे तथा ४९।

गोमयं मंडलं कुर्यात्कुंभं तत्रैव विन्यसेत् ।

तस्योपरि न्यसेत्पात्रमृषिधान्येन पूरितम् 6.77.५०।

यज्ञोपवीतसूत्रं च सहिरण्यं फलं तथा ।

स्थाप्याश्च ऋषयः सप्त सुखसौभाग्यदायकाः ५१।

आवाहयित्वा ते सर्वे पूजनीया व्रतस्थितैः ।

नैवेद्यमृषिधान्यं च ऋषिधान्यं तु भोजनम् ५२।

एकभक्तेन कर्तव्यमृषीणामर्चनं तदा ।

पूजयेत्परया भक्त्या मंत्रेण विधिपूर्वकम् ५३।

निर्वापं सघृतं देयं दक्षिणासंयुतं तदा ।

देयं विप्राय विधिवदृषीणां प्रीयतां प्रति ५४।

कथां श्रुत्वा विधानेन कृत्वा चैव प्रदक्षिणाम् ।

धूपं दीपं च नैवेद्यमर्घ्यं दद्यात्पृथक्पृथक् ५५।

ऋषयः संतु मे नित्यं व्रतसंपूर्णकारिणः ।

पूजां गृह्णंतु मद्दत्तां ऋषिभ्योऽस्तु नमोनमः ५६।

पुलस्त्यः पुलहश्चैव क्रतुः प्राचेतसस्तथा ।

वसिष्ठमरिचात्रेया अर्घं गृह्णंतु वो नमः ५७।

एवं पूजा प्रकर्त्तव्या धूपैर्दीपैर्मनोरमैः ।

पितॄणां जायते मुक्तिः कृतस्यास्य प्रभावतः ५८।

पूर्वकर्मविपाकेन रजसा दोषभावतः ।

कृतं ह्येवं तु भो वत्स मुक्तिस्तस्य न संशयः ५९।

तद्व्रतं च कृतं तेन मुक्त्यर्थं पितृहेतवे ।

ते गता मुक्तिमार्गेण आशीर्वादपरायणाः ६०।

ऋषिपंचमीव्रतं पुण्यं विप्राय परिकीर्तितम् ।

ये कुर्वंति नरश्रेष्ठास्ते ज्ञेयाः पुण्यभागिनः ६१।

ये कुर्वंति नरश्रेष्ठ ऋषिव्रतमनुत्तमम् ।

भुक्त्वात्र भोगान्विपुलान्यांति विष्णोः पदं तु ते ६२।

इतिश्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारद।

संवादे ऋषिपंचमीव्रतंनाम सप्तसप्ततितमोऽध्यायः ७७।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 78

महादेव उवाच-

अथातः संप्रवक्ष्यामि अपामार्जनमुत्तमम् ।

पुलस्त्येन यथोक्तं तु दालभ्याय महात्मने १।

सर्वेषां रोगदोषाणां नाशनं मंगलप्रदम् ।

तत्तेऽहं तु प्रवक्ष्यामि शृणु त्वं नगनंदिनि २।

श्रीदालभ्य उवाच-

भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः ।

कुष्ठग्रहाभिभूताश्च सर्वकाले ह्युपद्रुताः ३।

आभिचारिककृत्याद्या बहुरोगाश्च दारुणाः ।

न भवंति मुनिश्रेष्ठ तन्मे त्वं वक्तुमर्हसि ४।

पुलस्त्य उवाच-

व्रतोपवासनियमैर्विष्णुर्वै तोषितस्तु यैः ।

ते नरा नैव रोगार्त्ता जायंते मुनिसत्तम ५।

यैर्न कृतं व्रतं पुण्यं न दानं न तपस्तदा ।

न तीर्थं देवपूजा च नान्नं दत्तं तु भूरिशः ६।

ते वै लोकास्तदा ज्ञेया रोगदोषैः प्रपीडिताः ।

आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति ७।

तत्तदाप्नोत्यसंदिग्धं विष्णोः सेवी विशेषतः ।

नाधिं प्राप्नोति न व्याधिं न विषग्रहबंधनम् ८।

कृत्यास्पर्शभयं नापि तोषिते मधुसूदने ।

समस्तदोषनाशश्च सर्वदा च शुभा ग्रहाः ९।

देवानामप्यधृष्योऽसौ तोषिते च जनार्दने ।

यः सर्वेषु च भूतेषु यथात्मनि तथापरे १०।

उपवासादिना तेन तोषितो मधुसूदनः ।

तोषिते तत्र जायंते नराः पूर्णमनोरथाः ११।

अरोगाः सुखिनो भोगभोक्तारो मुनिसत्तम ।

तेषां च शत्रवो नैव न च रोगाभिचारिकम् १२।

ग्रहरोगादिकं चैव पापकार्यं न जायते ।

अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि वै ।

रक्षंति सकलापद्भ्यो येन विष्णुरुपासितः १३।

श्रीदालभ्य उवाच-

अनाराधितगोविंदा ये नरा दुःखभागिनः ।

तेषां दुःखाभिभूतानां यत्कर्त्तव्यं दयालुभिः १४।

पश्यद्भिः सर्वभूतस्थं वासुदेवं सनातनम् ।

समदृष्टिभिरप्यत्र तन्मे ब्रूहि विशेषतः १५।

श्रीपुलस्त्य उवाच-।

तद्वक्ष्यामि मुनिश्रेष्ठ समाहितमनाः शृणु ।

रोगदोषाशुभहरं विज्वरादि विनाशनम् १६।

शिखायां श्रीधरं न्यस्य शिखाधः श्रीकरं तथा ।

हृषीकेशं तु केशेषु मूर्ध्नि नारायणं परम् १७।

ऊर्ध्वश्रोत्रे न्यसेद्विष्णुं ललाटे जलशायिनम् ।

विभुं वै भ्रूयुगे न्यस्य भ्रूमध्ये हरिमेव च १८।

नरसिंहं नासिकाग्रे कर्णयोरर्णवेशयम् ।

चक्षुषोः पुंडरीकाक्षं तदधो भूधरं न्यसेत् १९।

कपोलयोः कल्किनाथं वामनं कर्णमूलयोः ।

शंखिनं शंखयोर्न्यस्य गोविंदं वदने तथा २०।

मुकुंदं दंतपंक्तौ तु जिह्वायां वाक्पतिं तथा ।

रामं हनौ तु विन्यस्य कंठे वैकुंठमेव च २१।

बलघ्नं बाहुमूलाधश्चांसयोः कंसघातिनम् ।

अजं भुजद्वये न्यस्य शार्ङ्गपाणिं करद्वये २२।

संकर्षणं करांगुष्ठे गोपमंगुलिपंक्तिषु ।

वक्षस्यधोक्षजं न्यस्य श्रीवत्सं तस्य मध्यतः २३।

स्तनयोस्त्वनिरुद्धं च दामोदरमथोदरे ।

पद्मनाभं तथा नाभौ नाभ्यधश्चापि केशवम् २४।

मेढ्रे धराधरं देवं गुदे चैव गदाग्रजम् ।

पीतांबरधरं कट्यामूरुयुग्मे मधोर्द्विषम् २५।

मुरद्विषं पिंडकयोर्जानुयुग्मे जनार्दनम् ।

फणीशं गुल्फयोर्न्यस्य क्रमयोश्च त्रिविक्रमम् २६।

पादांगुष्ठे श्रीपतिं च पादाधो धरणीधरम् ।

रोमकूपेषु सर्वेषु विष्वक्सेनं न्यसेद्बुधः २७।

मत्स्यं मांसे तु विन्यस्य कूर्मं मेदसि विन्यसेत् ।

वाराहं तु वसामध्ये सर्वास्थिषु तथाच्युतम् २८।

द्विजप्रियं तु मज्जायां शुक्रे श्वेतपतिं तथा ।

सर्वांगे यज्ञपुरुषं परमात्मानमात्मनि २९।

एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् ।

यावन्न व्याहरेत्किंचित्तावद्विष्णुमयः स्थितः ३०।

गृहीत्वा तु समूलाग्रान्कुशान्शुद्धान्समाहितः ।

मार्जयेत्सर्वगात्राणि कुशाग्रैरिह शांतिकृत् ३१।

विष्णुभक्तो विशेषेण रोगग्रहविषार्दिते ।

विषार्त्तानां रोगिणां च कुर्याच्छांतिमिमां शुभाम् ३२।

जायते तेन भो विप्र सर्वरोगप्रणाशनम् ।

ॐनमः श्रीपरमार्थाय पुरुषाय महात्मने ३३।

अरूपबहुरूपाय व्यापिने परमात्मने ।

वाराहं नारसिंहं च वामनं च सुखप्रदम् ३४।

ध्यात्वा कृत्वा नमो विष्णोर्नामान्यंगेषु विन्यसेत् ।

निष्कल्मषाय शुद्धाय व्याधिपापहराय वै ३५।

गोविंदपद्मनाभाय वासुदेवाय भूभृते ।

नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ३६।

त्रिविक्रमाय रामाय वैकुंठाय नराय च ।

श्रीवाराहनृसिंहाय वामनाय महात्मने ३७।

हयग्रीवाय शुभ्राय हृषीकेश हराशुभम् ।

परोपतापमहितं प्रमुक्तं चाभिचारिकम् ३८।

गरस्पर्शमहारोगप्रयोगं जरयाजर ।

नमोऽस्तु वासुदेवाय नमः कृष्णाय खड्गिने ३९।

नमः पुष्करनेत्राय केशवायादिचक्रिणे ।

नमः किंजल्कवर्णाग्र्य पीतनिर्मलवाससे ४०।

महादेव वपुष्कंध धृतचक्राय चक्रिणे ।

दंष्ट्रोद्धृतक्षितितलत्रिमूर्तिपतये नमः ४१।

महायज्ञवराहाय श्रीवल्लभ नमोस्तु ते ।

तप्तहाटककेशांत ज्वलत्पावकलोचनः ४२।

वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते ।

कश्यपायातिह्स्वाय ऋग्यजुः सामलक्षण ४३।

तुभ्यं वामनरूपाय क्रमते गां नमोनमः ।

वाराहाशेषदुःखानि सर्वपापफलानि च ४४।

मर्दमर्द महादंष्ट्र मर्दमर्द च तत्फलम् ।

नृसिंहकुलिशस्पर्श दंतप्रांत नखोज्वल ४५।

भंजभंज निनादेन दुःखान्यस्यार्त्तिनाशन ।

ऋग्यजुःसामभिर्वाग्भिः कामरूपधरादिधृक् ४६।

प्रशमं सर्वदुःखानि नयत्वस्य जनार्दनः ।

एकाहिकं द्व्याहिकं च तथा त्रिदिवसज्वरम् ४७।

चातुर्थिकं तथात्युग्रं तथा वै सततज्वरम् ।

दोषोत्थं सन्निपातोत्थं तथैवागंतुकज्वरम् ४८।

शमं नयतु गोविंदो भित्वा छित्वास्य वेदनाम् ।

नेत्रदुःखं शिरोदुःखं दुःखं तूदरसंभवम् ४९।

अनुच्छ्वासं महाश्वासं परितापं सवेपथुम् ।

गुदघ्राणांघ्रिरोगांश्च कुष्ठरोगं तथाक्षयम् 6.78.५०।

कामलादींस्तथारोगान्प्रमेहादींश्च दारुणान् ।

ये वातप्रभवा रोगा लूताविस्फोटकादयः ५१।

ते सर्वे विलयं यांतु वासुदेवापमार्जिताः ।

विलयं यांति ते सर्वे विष्णोरुच्चारणेन वा ५२।

क्षयं गच्छंतु चाशेषास्ते चक्राभिहता हरेः ।

अच्युतानंतगोविंद नामोच्चारणभेषजात् ५३।

नश्यंति सकला रोगाः सत्यं सत्यं वदाम्यहम् ।

स्थावरं जंगमं यच्च कृत्रिमं चापि यद्विषम् ५४।

दंतोद्भवं नखोद्भूतमाकाशप्रभवं च यत् ।

भूतादिप्रभवं यच्च विषमत्यंतदुःसहम् ५५।

शमं नयतु तत्सर्वं कीर्तितोऽस्य जनार्दनः ।

ग्रहान्प्रेतग्रहांश्चैव तथान्याञ्छाकिनीग्रहान् ५६।

मुखमंडलिकान्क्रूरान्रेवतीं वृद्धिरेवतीम् ।

वृद्धिकाख्यान्ग्रहांश्चोग्रांस्तथा मातृग्रहानपि ५७।

बालस्य विष्णोश्चरितं हंतु बालग्रहानपि ।

वृद्धानां ये ग्रहाः केचिद्बालानां चापि ये ग्रहाः ५८।

नृसिंहदर्शनादेव नश्यंते तत्क्षणादपि ।

दंष्ट्राकरालवदनो नृसिंहो दैत्यभीषणः ५९।

तं दृष्ट्वा ते ग्रहाः सर्वे दूरं यांति विशेषतः ।

श्रीनृसिंहमहासिंहज्वालामालोज्ज्वलानन ६०।

ग्रहानशेषान्सर्वेश नुदस्वास्य विलोचन ।

ये रोगा ये महोत्पाता ये द्विषो ये महाग्रहाः ६१।

यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ।

शस्त्रक्षतेषु ये रोगा ज्वालगर्दभिकादयः ६२।

विस्फोटकादयो ये च ग्रहा गात्रेषु संस्थिताः ।

त्रैलोक्यरक्षाकर्त्तस्त्वं दुष्टदानववारण ६३।

सुदर्शनमहातेजश्छिंधि छिंधि महाज्वरम् ।

छिंधि वातं च लूतां च छिंधि घोरं महाविषम् ६४।

उद्दंडामरशूलं च विषज्वालासगर्दभम् ।

ॐ हांहांहूंहूं प्रधारेण कुठारेण हनद्दिवषः ६५।

ॐ नमो भगवते सुदर्शनाय दुःखदारणविग्रह ।

यानि चान्यानि दुष्टानि प्राणिपीडाकराणि वै ६६।

तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः ।

किंचिद्रूपं समास्थाय वासुदेव नमोस्तु ते ६७।

क्षिप्त्वा सुदर्शनं चक्रं ज्वालमालाविभीषणम् ।

सर्वदुष्टोपशमनं कुरु देव वराच्युत ६८।

सुदर्शनमहाचक्र गोविंदस्य वरायुध ।

तीक्ष्णधार महावेग सूर्यकोटिसमद्युते ६९।

सुदर्शनमहाज्वाल छिंधि छिंधि महारव ।

सर्वदुःखानि रक्षांसि पापानि च विभीषण ७०।

दुरितं हन चारोग्यं कुरु त्वं भो सुदर्शन ।

प्राच्यां चैव प्रतीच्यां च दक्षिणोत्तरतस्तथा ७१।

रक्षां करोतु विश्वात्मा नरसिंहः स्वगर्जितैः ।

भूम्यांतरिक्षे च तथा पृष्ठतः पार्श्वतोऽग्रतः ।

रक्षां करोतु भगवान्बहुरूपी जनार्दनः ७२।

यथा विष्णुमयं सर्वं सदेवासुरमानुषम् ।

तेन सत्येन सकलं दुःखमस्य प्रणश्यतु ७३।

यथा योगेश्वरो विष्णुः सर्वदेवेषु गीयते ।

तेन सत्येन सकलं दुःखमस्य प्रणश्यतु ७४।

परमात्मा यथा विष्णुर्वेदांगेषु च गीयते ।

तेन सत्येन विश्वात्मा सुखदोऽस्त्वस्य केशवः ७५।

शांतिरस्तु शिवं चास्तु प्रणाशं यातु चासुखम् ।

वासुदेवशरीरोत्थैः कुशैः संमार्जितं मया ७६।

अपामार्जितगोविंद नमो नारायणस्तथा ।

तथापि सर्वदुःखानां प्रशमो वचनाद्धरेः ७७।

शांताः समस्तदोषास्ते ग्रहाः सर्वे विषाणि च ।

भूतानि च प्रशाम्यंति संस्मृते मधुसूदने ७८।

एते कुशा विष्णुशरीरसंभवा जनार्दनोऽहं स्वयमेव चाग्रतः ।

हतं मया दुःखमशेषमस्य वै स्वस्थो भवत्वेष वचो यथा हरेः ७९।

शांतिरस्तु शिवं चास्तु प्रणश्यतु सुखं च यत् ।

यदस्य दुरितं किंचित्क्षिप्तं तल्लवणांभसि ८०।

स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात् ।

यद्यतोऽत्रागतं पापं तत्तु तत्र प्रगच्छतु ८१।

एतद्रोगेषु पीडासु जंतूनां हितमिच्छुभिः ।

विष्णुभक्तैश्च कर्त्तव्यमपामार्जनकं परम् ८२।

अनेन सर्वदुःखानि विलयं यांत्यशेषतः ।

सर्वपापविशुध्यर्थं विष्णोश्चैवापमार्जनम् ८३।

आर्द्रं शुष्कं लघुस्थूलं ब्रह्महत्यादिकं तु यत् ।

तत्सर्वं नश्यते तूर्णं तमोवद्रविदर्शनात् ८४।

नश्यंति रोगा दोषाश्च सिंहात्क्षुद्रमृगा यथा ।

ग्रहभूतपिशाचादि श्रवणादेव नश्यतु ८५।

द्रव्यार्थं लोभपरमैर्न कर्त्तव्यं कदाचन ।

कृतेपामार्जने किंचिन्न ग्राह्यं हितकाम्यया ८६।

निरपेक्षैः प्रकर्तव्यमादिमध्यांतबोधकैः ।

विष्णुभक्तैः सदा शांतैरन्यथा सिद्धिदं भवेत् ८७।

अतुलेयं नृणां सिद्धिरियं रक्षा परा नृणाम् ।

भेषजं परमं ह्येतद्विष्णोर्यदपमार्जनम् ८८।

उक्तं हि ब्रह्मणा पूर्वं पुलस्त्याय सुताय वै ।

एतत्पुलस्त्यमुनिदालभ्यायोतं स्वयम् ८९।

सर्वभूतहितार्थाय दालभ्येन प्रकाशितम् ।

त्रैलोक्ये तदिदं विष्णोः समाप्तं चापमार्जनम् ९०।

तवाग्रे कथितं देवि यतो भक्तासि मे सदा ।

श्रुत्वा तु सर्वं भक्त्या च रोगान्दोषान्व्यपोहति ९१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे अपामार्जनस्तोत्रंनाम अष्टसप्ततितमोऽध्यायः ७८।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 79

महादेव उवाच-

अपामार्जनकं दिव्यं परमाद्भुतमेव च ।

पठितव्यं विशेषेण पुत्रकामार्थसिद्धये १।

एतत्स्तोत्रं पठेत्प्राज्ञः सर्वकामार्थसिद्धये ।

एककालं द्विकालं वा ये पठंति द्विजातयः २।

आयुश्च श्रीर्बलं तस्य वर्द्धयंति दिने दिने ।

ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमेव वा ३।

वैश्यो धनसमृद्धिं च शूद्रो भक्तिं च विंदति ।

अन्यैश्च लभते भक्तिं पठनाच्छ्रवणाज्जपात् ४।

सामवेदफलं तस्य जायते नगनन्दिनि ।

अखिलं पापसंघातं तत्क्षणादेव नश्यति ५।

इति ज्ञात्वा तु भो देवि पठितव्यं समाहितैः ।

पुत्राश्चैव तथा लक्ष्मीः संपूर्णा भवति ध्रुवम् ६।

लिखित्वा भूर्जपत्रे तु यो धारयति वैष्णवः ।

इहलोके सुखं भुक्त्वा याति विष्णोः परं पदम् ७।

पठित्वा श्लोकमेकं तु तुलसीं यः समर्पयेत् ।

सर्वं तीर्थं कृतं तेन तुलस्याः पूजने कृते ८।

एतत्स्तोत्रं तु परमं वैष्णवं मुक्तिदायकम् ।

पृथ्वीदानसमं पाठाद्विष्णुलोकं तु गच्छति ९।

जपेत्स्तोत्रं विशेषेण विष्णुलोकस्य वांछया ।

बालानां जीवनार्थाय पठितव्यं समाहितैः १०।

रोगग्रहाभिभूतानां बालानां शांतिकारकम् ।

भूत ग्रह विषं चैव पठनादेव नश्यति ११।

कंठे तुलसिजां मालां धृत्वा विप्रो हि यः पठेत् ।

स च वै वैष्णवो ज्ञेयो विष्णुलोकं स गच्छति १२।

कंठे माला धृता येन शंखचक्रादिचिह्नितः ।

वैष्णवः प्रोच्यते विप्रः स्तोत्रं चैतत्पठन्सदा १३।

इहलोकं परित्यज्य विष्णुलोकं स गच्छति ।

मोहमायापरित्यक्तो दंभतृष्णाविवर्जितः १४।

एतत्स्तोत्रं पठेद्दिव्यं परं निर्वाणमाप्नुयात् ।

ते धन्याः संति भूर्लोके ये विप्रा वैष्णवाः स्मृताः १५।

स्वात्मा वै तारितस्तैस्तु सकुलं नात्र संशयः ।

ते वै धन्यतमा लोके नारायणपरायणाः ।

तैर्भक्तिश्च सदा कार्या ते वै भागवता नराः १६।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे अपामार्जनमहिमानामैकोनाशीतितमोऽध्यायः ७९।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 80

श्रीपार्वत्युवाच-

अहो विष्णोश्च माहात्म्यं वद विश्वेश्वर प्रभोः ।

यन्माहात्म्यं पुनः श्रुत्वा न भवे जायते क्वचित् १।

महादेव उवाच-

शृणु सुन्दरि वक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् ।

श्रुत्वा तु लभते पुण्यं ह्यंते मोक्षमवाप्नुयात् २।

देवव्रतं महाप्राज्ञं ध्यानयोगपरायणम् ।

आश्रयं सर्वशास्त्राणां यतेंद्रियमकल्मषम् ३।

अप्रधृष्यं महाभागं देवैरपि सवासवैः ।

सत्यसंधं जितक्रोधं समत्वे परिनिष्ठितम् ४।

नारायणे जगन्नाथे शरण्ये भक्तवत्सले ।

परां निष्ठामनुप्राप्तं वाङ्मनः काय कर्मभिः ५।

गुणनामाश्रयं शांतं भीष्मं कुरु पितामहम् ।

प्रणम्य शिरसा भूमौ पप्रच्छेदं युधिष्ठिरः ६।

युधिष्ठिर उवाच-

केचिदाहुः परं धर्मं केचिदाहुः परं धनम् ।

केचिद्दानं प्रशंसंति समुदायं तथापरे ७।

सांख्यं केचित्प्रशंसंति योगमन्ये तथा परम् ।

केचिज्ज्ञानं प्रशंसंति केचिदाहुः परं श्रुतम् ।

सम्यक्ध्यानं परं केचित्केचिद्वैराग्यमुत्तमम् ८।

अग्निष्टोमादिकं कर्म तथा केचित्परं विदुः ।

आत्मज्ञानं परं केचित्समलोष्टाश्मकांचनाः ९।

यमांश्च नियमांश्चैव केचिद्वैराग्यमुत्तमम् ।

कारुण्यं च परे केचिदहिंसां च तपस्विनः १०।

शौचं केचित्परं प्राहुः केचिद्देवार्चनं नराः ।

व्यामोहं चात्र गच्छंति व्यामुग्धाः पापकर्मभिः ११।

यदेतेषु परं कृत्यमनुष्ठेयं महात्मभिः ।

वक्तुमर्हसि धर्मज्ञ सर्वशास्त्रभृतां वर १२।

महादेव उवाच-

भूर्लोके या कथा जाता भैष्मी यौधिष्ठिरी सति ।

तामहं संप्रवक्ष्यामि लोकानां च हिताय वै ।

एतान्प्रश्नांस्तदा श्रुत्वा प्राह भीष्मो युधिष्ठिरम् १३।

भीष्म उवाच-

श्रूयतामिदमत्यंतं गूढं संसारमोचनम् ।

श्रोतव्यं यत्त्वया सम्यग्ज्ञातव्यं धर्मनंदन १४।

अत्रैवोदाहरंतीमं पुण्यं चैव पुरातनम् ।

पुंडरीकस्य संवादं महर्षेर्नारदस्य च १५।

ब्राह्मणः श्रुतिसंपन्नः पुंडरीको महामतिः ।

आश्रमे प्रथमे तिष्ठन्गुरूणां वशगः सदा १६।

जितेंद्रियो जितक्रोधः संध्योपासनतत्परः ।

वेदवेदांगनिपुणः शास्त्रेषु च विचक्षणः १७।

समिद्भिः साधुहव्येन सायंप्रातर्हुतानलः ।

ध्यात्वा जगत्पतिं विष्णुं सम्यगाराधयद्विभुम् १८।

तपः स्वाध्यायनिरतः साक्षाद्ब्रह्मसुतो यथा ।

उदकेंधनपुष्पाद्यैरसकृत्पूजयन्गुरुम् १९।

मातापित्रोश्च शुश्रूषुर्भिक्षाहारी विमत्सरः ।

ब्रह्मविद्यामधीयानः प्राणायामपरायणः २०।

तस्य सर्वात्मभूतस्य संसारे निस्पृहस्य च ।

महात्मनो बुद्धिरासीत्संसारार्णवतारिणी २१।

मातरं पितरं चैव भातॄनथ सुहृज्जनान् ।

मित्राणि मातुलांश्चैव सखीन्संबंधिबांधवान् २२।

धनधान्यसमृद्धं च ग्रहं वा शक्रसंनिभम् ।

क्षेत्राणि सुमहार्हाणि सर्वसस्योद्भवानि च २३।

परित्यज्य महासत्वस्तृणानीव महासुखी ।

विचचार महीं रम्यां शाकमूलफलाशनः २४।

गंगां च यमुनां चैव गोमतीमथ गंडिकाम् ।

शतद्रुं च पयोष्णीं च सरयूं च सरस्वतीम् २५।

प्रयागं नर्मदां चैव शोणं चैव महानदम् ।

प्रभासं विंध्यतीर्थानि हिमवत्प्रभवानि च २६।

आश्रमेषु च यानि स्युर्नैमिषे पुष्करादिषु ।

कुरुक्षेत्रे च यानि स्युस्तथा गोवर्द्धनादिषु २७।

अन्यानि सुमहातेजास्तीर्थानि सुसमाहितः ।

विचचार महायोगी यथाकाले यथाविधि २८।

कदाचिदात्मवान्धीरः शालग्रामं तपोधनः ।

पुंडरीको महाभागः पूर्वकर्मवशानुगः २९।

संसेव्यमानं मुनिभिस्तत्वविद्भिस्तपोधनैः ।

मुनीनामास्पदं रम्यं पुराणेष्वपि विश्रुतम् ३०।

भूषितं चैव चक्राद्यैश्चक्रांकितशिलातलम् ।

रम्यं विविक्तविस्तीर्णं सदा विष्णुप्रसादकम् ३१।

किंच चक्रांकितास्तत्र प्राणिनः पुण्यदर्शनाः ।

विचिरंति यथाकामं पूण्यतीर्थप्रदर्शिनः ३२।

तस्मिन्क्षेत्रे महापुण्ये शालिग्रामे महामतिः ।

स्नात्वा देवह्दे तीर्थे सरस्वत्यां च सुव्रतः ३३।

जातिस्मर्यां चक्रकुंडे चक्रनद्याश्रितेषु च ।

तथान्यान्यपि तीर्थानि तस्मिन्नेव चचार सः ३४।

ततः क्षेत्रप्रभावेन तीर्थानां चैव तेजसा ।

मनःप्रसादमभजत्तस्मिन्नेव महामनाः ३५।

सोऽपि तीर्थविशुद्धात्मा पुंडरीकस्तपोधनः ।

तत्रैव वसतिं चक्रे ध्यानयोगपरायणः ३६।

तत्रैव सिद्धिमाकांक्षन्नाराध्य गरुडध्वजम् ।

शास्त्रोक्तेन विधानेन भक्त्या परमया पुनः ३७।

उवास चिरमेकाकी निर्द्वंद्वः सजितेंद्रियः ।

शाकमूलफलाहारः संतुष्टः समदर्शनः ३८।

यमैश्चनियमैश्चैव तथैवासनबंधनैः ।

प्राणायामैश्च तीर्थैश्च प्रत्याहारैश्च संततैः ३९।

धारणाभिस्तथा ध्यानैः समाधिभिरतंद्रितः ।

योगाभ्यासं सदा सम्यक्चक्रे विगतकिल्बिषः ४०।

वैदिकैश्चांगिकैश्चैव तथा पौराणिकैरपि ।

आराधयति सर्वेशं ततः शुद्धिमवाप सः ४१।

रागद्वेषविनिर्मुक्तः स्वधर्मइव रूपवान् ।

आराधयामास देवं तद्गतेनांतरात्मना ४२।

तुतोष भगवान्विष्णुः पुंडरीकायतेक्षणः ।

भगवान्नारदमिति प्रसन्नोऽस्म्यस्य धीमतः ४३।

ततः कदाचित्तं देशं नारदः परमार्थवित् ।

जगाम सुमहातेजाः साक्षादादित्यसन्निभः ४४।

तं द्रष्टुकामो भगवान्पुंडरीकं तपोनिधिम् ।

विष्णुभक्तिपरीतात्मा वैष्णवानां हिते रतः ४५।

स दृष्ट्वा नारदं प्राप्तं तेजोमंडलमंडितम् ।

महामतिर्महोदारः सर्ववेदैकभाजनम् ४६।

प्रांजलिः प्रणतो भूत्वा प्रहृष्टेनांतरात्मना ।

अर्घं दत्त्वा विधानेन प्रणाममकरोत्पुनः ४७।

कोऽयमत्यद्भुताकारस्तेजस्वी हृद्यवेषधृक् ।

आतोद्यहस्तः सुमुखो जयमंडलमंडितः ४८।

विवस्वानथवा वह्निरिंद्रो वरुण एव वा ।

इति संचिंतयन्स्थित्वा जगाद परमद्युतिम् ४९।

पुंडरीक उवाच-

को भवानिह संप्राप्तः कुतो वा परमद्युतिः ।

त्वद्दर्शनं हि भगवन्प्रायेण भुवि दुर्लभम् 6.80.५०।

नैव दृष्टः पुमान्वापि मया तव समः प्रभो ।

वक्तुमर्हस्यशेषेण यत्प्रदिष्टं मयानघ ५१।

नारद उवाच-

नारदोऽहंमनुप्राप्तस्त्वद्दर्शनकुतूहलात् ।

प्रभावं भगवद्भक्तं त्वादृशं सततं द्विज ५२।

स्मृतः संतोषितो वापि पूजितो वा द्विजोत्तमः ।

पुनाति भगवद्भक्तश्चांडालोऽपि यदृच्छया ५३।

दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिणः ।

शंखचक्रगदापाणेस्त्रैलोक्यस्यैकचक्षुषः ५४।

इत्युक्तो नारदेनासौ भक्तिपर्याकुलात्मना ।

प्रोवाच मधुरं विप्रं तद्दर्शनसुविस्मितः ५५।

पुंडरीक उवाच-

धन्योऽहं देहिनां मध्ये सुपूज्योऽहं सुरैरपि ।

कृतार्थाः पितरो मेऽद्य संप्राप्तं जन्मनः फलम् ५६।

अनुगृह्णीष्व देवर्षे त्वद्भक्तस्य विशेषतः ।

तं करिष्याम्यहं विद्वन्भ्राम्यमाणः स्वकर्मभिः ५७।

कर्तव्यं परमं गुह्यं उपदेष्टुं त्वमर्हसि ।

त्वं गतिः सर्वभूतानां वैष्णवानां विशेषतः ५८।

नारद उवाच-

अनेकानीह शास्त्राणि कर्माणि च तथा द्विज ।

धर्मवर्गं बहुविधं तथैव भुवि मानसम् ५९।

वैलक्षण्यं च जगतस्तस्मादेव द्विजोत्तम ।

अन्यथा सर्वसत्वानां सुखं वा दुःखमेव च ६०।

विज्ञानमात्रं क्षणिकं निरात्मकमिदं जगत् ।

इति कैश्चित्परिज्ञातं बाह्यार्थनिरपेक्षकम् ६१।

अव्यक्ताज्जायते नित्यं नित्यान्नित्यमिदं जगत् ।

इत्येवं प्राहुरपरे तत्रैव लयमेति च ६२।

आत्मनो बहवः प्रोक्ता नित्याः सर्वगतास्तथा ।

अन्ये मतिमतां श्रेष्ठास्तत्वालोकनतत्पराः ६३।

यावच्छरीरमात्मानं प्रतिपन्नास्तथापरे ।

हस्तिकीटादिदेहेऽपि महांतमंडमेव च ६४।

यथाऽद्यजगतोवृत्तिस्तथा कालांतरेष्वपि ।

प्रवाहो नित्यमेवैष कः कर्त्तेति च केचन ६५।

यद्यत्प्रत्यक्षविषयं तत्तदत्र न विद्यते ।

कुतः स्वर्गादयः संतीत्यन्ये विजितमानसाः ६६।

निरीश्वरमिदं प्राहुः सेश्वरं च तथापरे ।

अत्यंतभिन्नमतयः परमार्थपराङ्मुखाः ६७।

एवं मन्येऽपि कुहका यथामति यथाश्रुतम् ।

वदंति विविधैर्भेदैः स्वयुक्ति स्थितिकारकाः ६८।

तर्केष्ववहितो भूत्वा कथयामि तपोधन ।

परमार्थमिमं पुण्यं घोरं संसारनाशनम् ६९।

तन्मूलमनुजानंति ततो देवादयो नराः ।

प्रमाणेनोपलभ्यंते न प्रमाणं विमोहितैः ७०।

अनागतमतीतं च विप्रकृष्टमतीव यत् ।

न गृहीतं यथाशक्त्या वर्त्तमानार्थनिष्ठितम् ७१।

आगमो मुनिभिः प्रोक्तो पूर्वरूपक्रमागतः ।

प्रमाणं स तु विज्ञेयः परमार्थप्रसाधकः ७२।

यदभ्यासबलाज्ज्ञानं रागद्वेषमलापहम् ।

उत्पद्यते द्विजश्रेष्ठ सोऽयमागमसंज्ञकः ७३।

फलं कर्म च यत्तत्वं विज्ञानं दर्शनं विभुम् ।

जात्यादिकल्पनाहीनं द्वितीयागमलक्षणम् ७४।

आत्मसंवेदनं नित्यं सनातनमतींद्रियम् ।

चिन्मात्रममृतं ज्ञेयमनंतमजमव्ययम् ७५।

व्यक्ताव्यक्तस्वरूपेण व्यक्तस्थितमनंजनम् ।

व्याप्ता विष्णुरिति ख्यातं ख्यातभिन्नमवस्थितम् ७६।

योगिध्येयमविज्ञेयं परमार्थपराङ्मुखैः ।

लक्ष्यते बुद्धिभिर्भिन्नमभिभिन्नं न चात्मनि ७७।

शृणुष्वावहितस्तात कथयामि तवानघ ।

यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छतो मम सुव्रत ७८।

कदाचिद्ब्रह्मलोकस्थं ब्रह्माणं च पितामहम् ।

प्रणिपत्य यथान्यायमपृच्छमजमव्ययम् ७९।

किमु ज्ञानं परं प्रोक्तं कश्च योगः परो मतः ।

एतन्मे तत्त्वतो ब्रह्मन्समाचक्ष्व पितामह ८०।

ब्रह्मोवाच-

शृणुष्वावहितस्तात ज्ञानयोगमनुत्तमम् ।

अल्पग्रंथं प्रभूतार्थमदुःखोपासनक्रियम् ८१।

यः परं परया प्रोक्तः पुरुषः पंचविंशकः ।

स एव सर्वभूतात्मा तेन इत्यभिधीयते ८२।

नारायणो जगद्धाम परमात्मा सनातनः ।

जगतः सृष्टिसंहार परिपालनतत्परः ८३।

त्रयाणामात्मनां चैको देवदेवः सनातनः ।

आराध्यः सर्वदा ब्रह्मन्ते पश्यंति जगत्पतिम् ८४।

यथा जगदवस्थानं यथा कालांतरे पुनः ।

भूतं भव्यं भविष्यं च विप्रकृष्टं तथैव च ८५।

स्थूलं सूक्ष्मं तथा चान्यत्पश्यंति ज्ञानचक्षुषा ।

तच्चित्तास्तद्गतप्राणा नारायणपरायणाः ८६।

अन्यथा मंदबुद्धीनां प्रतिभाति दुरात्मनाम् ।

कुतर्कज्ञानदुष्टानां विभक्तेंद्रियवादिनाम् ८७।

नारद उवाच-

श्रूयतामन्यदपि वै कथ्यमानं मयानघ ।

ब्रह्मणैव पुरा प्रोक्तं जगतः कारणात्मना ८८।

देवानामिंद्रमुख्यानामृषीणां चैव सुव्रत ।

हितानि कथयामास पृच्छतां कमलासनः ८९।

ब्रह्मोवाच-

नारायणपरो धर्मस्तथालोकाश्च शाश्वताः ।

नारायणपरा यज्ञाः शास्त्राणि विविधानि च ९०।

वेदाः सांगास्तथा चान्ये विष्णुर्विश्वेश्वरो हरिः ।

पृथिव्यादीनि विबुधाः पंचभूतानि सोऽव्ययः ९१।

सर्वं विष्णुमयं ज्ञेयं विबुधैः सकलं जगत् ।

तथापि मानुषाः पाप न जानंति विमोहिताः ९२।

तस्यैव मायया व्याप्तं चराचरमिदं जगत् ।

तन्मनास्तद्गतप्राणो जानाति परमार्थवित् ९३।

ईश्वरः सर्वभूतानां विष्णुस्त्रैलोक्यपालकः ।

तस्मिन्नेतज्जगत्सर्वं तिष्ठति प्रभवत्यपि ९४।

जगत्संहरते रुद्रः पालने विष्णुरुच्यते ।

उत्पत्तौ चाहमेवात्र तथान्ये लोकपालकाः ९५।

सर्वाधारो निराधारः सकलो निष्कलस्तथा ।

अणुर्महांस्तथाप्यन्यत्तस्माच्च परतः परः ९६।

तमेव शरणं यात सर्वसंहारकर्मगम् ।

स पिता जनितास्माकं कीर्तितो मधुसूदनः ९७।

एवमुक्ताः सुराः सर्वे ब्रह्मणा पद्मयोनिना ।

प्रणेमुः सर्वलोकेशं देवं विष्णुं जनार्दनम् ९८।

तस्मात्त्वमपि विप्रर्षे नारायणपरो भव ।

तदन्यः को महोदारः प्रार्थितं दातुर्महति ९९।

पितरं मातरं चैव तमेव पुरुषोत्तमम् ।

परिगृह्णीष्व लोकेशं देवदेवं जगत्पतिम् 6.80.१००।

अग्निकार्येण वै तेन तपसाध्ययनेन वै ।

तोषयेद्देवदेवेशं गुरुं नित्यमतंद्रितः १०१।

स्वर्गे क्षयं तथा भोगमनुष्ठेयं तथैव च ।

परिगृह्णीष्व विप्रर्षे तमेव पुरुषोत्तमम् १०२।

किं तेन मंत्रैर्बहुभिः किं तेन बहुभिर्व्रतैः ।

ॐ नमोनारायणायेति मंत्रः सर्वार्थसाधकः १०३।

चीरवासा जटी विप्र दंडीमुंडित एव वा ।

विभूषितो वा विप्रेंद्र न लिंगं धर्मकारणम् १०४।

ये नृशंसा दुरात्मानः पापाचारपराः सदा ।

तेपि यांति परं स्थानं नारायणपरायणाः १०५।

लिप्यंते न च पापौघैर्वैष्णवं वीतकिल्बिषाः १०६।

पुनंति सकलं लोकं अहिंसाजितमानसाः १०७।

क्षत्रबंधुरिति ख्यातो राजा प्राणिविहिंसकः ।

प्राप्तवान्परमं धाम वैष्णवं केशवालयात् १०८।

अंबरीषो महासत्वो राजा परमतत्ववित् ।

हृषीकेशं समाराध्य वैष्णवं पदमाप्तवान् १०९।

अन्ये ब्रह्मर्षयः शांता बहवः संशितव्रताः ।

ध्यात्वा च परमात्मानं संसिद्धिं परमां गताः ११०।

प्रह्लादः परमाह्लादः पुरा नारायणं हरिम् ।

सेवितोऽभ्यर्चितो ध्यातस्तेनैव परिरक्षितः १११।

भरतो नाम तेजस्वी राजा परमधार्मिकः ।

उपास्यैनं चिरं कालं परां मुक्तिमवाप्तवान् ११२।

ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ।

केशवाराधनं हित्वा नैव यांति परां गतिम् ११३।

जन्मांतरसहस्रेषु यस्य स्यान्मतिरीदृशी ।

दासोऽहं विष्णुभक्तानामिति सर्वार्थसाधकः ११४।

स याति विष्णुसालोक्यं पुरुषो नात्र संशयः ।

किं पुनस्तद्गतप्राणाः पुरुषाः संशितव्रताः ११५।

अनन्यमानसैर्नित्यं ध्यातव्यस्तत्वचिंतकैः ।

नारायणो जगद्व्यापी परमात्मा सनातनः ११६।

भीष्म उवाच-

इत्येवमुक्त्वा देवर्षिस्तत्रैवांतरधीयत ।

परोपकारनिरतो नारदः परमार्थवित् ११७।

पुंडरीकोऽपि धर्मात्मा नारायणपरायणः ।

ॐ नमो नारायणायेति मंत्रमष्टाक्षरं जपन् ११८।

प्रसीद मम विश्वात्मन्निति वाचं वदन्सदा ।

हृत्पुंडरीके गोविंदं प्रतिष्ठाप्यामृतात्मकम् ११९।

तपस्वी विमले सौम्ये शालग्रामे तपोधनः ।

उवास चिरमेकाकी निर्द्वंद्वो निष्परिग्रहः १२०।

स्वप्नेऽपि केशवान्नान्यत्पश्यतीति महामतिः ।

निद्रापि नैव तस्यासीत्पुरुषार्थविरोधिनी १२१।

तपसा ब्रह्मचर्येण शौचेन च विशेषतः ।

जन्मजन्मांतरारूढे संस्कारे च यथा तथा १२२।

प्रसादाद्देवदेवस्य सर्वलोकस्य साक्षिणः ।

अवाप परमां सिद्धिं वैष्णवीं वीतकिल्बिषः १२३।

शंखचक्रगदापाणिं पीतवाससमच्युतम् ।

श्यामलं पुंडरीकाक्षं स ददर्श सदाकृतिम् १२४।

सिंहा व्याघ्रास्तथा चान्ये मृगाः प्राणिविहिंसकाः ।

विरोधं सहजं हित्वा समेतास्तस्य संनिधौ १२५।

विचरंति यथाकामं प्रसन्नेंद्रियवृत्तयः ।

परस्परहितं रम्यं संप्राप्तं पांडुनंदन १२६।

तथा प्रसन्नं सलिलं सरसां सरितामपि ।

ऋतवः सुप्रन्नाश्च विमलेंद्रियसंयुताः १२७।

मारुताश्च सुखस्पर्शा वृक्षाः पुष्पफलान्विताः ।

आनुकूल्यं ययुः सर्वे पदार्थास्तस्य धीमतः १२८।

प्रसन्नमभवत्तस्मै प्रसन्नं सचराचरम् ।

प्रसन्ने देवदेवेशे गोविंदे भक्तवत्सले १२९।

ततः कदाचिद्भगवान्पुंडरीकस्य धीमतः ।

आविरासीज्जगन्नाथः पुंडरीकायतेक्षणः १३०।

शंखचक्रगदापाणिः पीतवासाः समुज्ज्वलः ।

पुंडरीकविशालाक्षश्चंद्रबिंबनिभाननः १३१।

किंकिणीकुंडली हारी केयूरी कटिसूत्रवान् ।

श्रीवत्सांकः पीतवासाः कौस्तुभेन विभूषितः १३२।

वनमालापरीतांगः स्फुरन्मुकुटकुंडलः ।

स्फुरता ब्रह्मसूत्रेण मुक्तादामविलंबिना १३३।

विराजमानो देवेशश्चामरव्यजनादिभिः ।

देवैः सिद्धैः सदेवेंद्रैर्गंधर्वैर्मुनिभिर्वरैः १३४।

यक्षैर्नागवरैश्चैवसेव्यमानोऽप्सरोगणैः ।

तं दृष्ट्वा देवदेवेशं पुंडरीकोऽनघः स्वयम् १३५।

ततो बुद्ध्या महात्मानं तुष्टाव च जनार्दनम् ।

प्रांजलिः प्रणतो भूत्वा प्रहृष्टेनांतरात्मना १३६।

पुंडरीक उवाच-

नमोऽस्तु विष्णवे तुभ्यं सर्वलोकैकचक्षुषे ।

निरंजनाय नित्याय निर्गुणाय महात्मने १३७।

त्वमीशः सर्वभूतानां तथैव च निरीश्वरः ।

तथाभयार्तिनाशायगोविंदोगरुडध्वजः १३८।

अनुग्रहेणभूतानांअनेकाकारधारिणे ।

त्वयि सर्वमिदं प्राहुस्त्वन्मयं चैव केवलम् १३९।

त्वमस्माज्जगतो भिन्नो निर्मितं च जगत्त्वया ।

नमोस्तु नाभिप्रसवनलिनाय नमो नमः १४०।

नमः समस्तवेदांतविश्रुतात्मविभूतये ।

त्वमेव सर्वदेवेश कारणं कैटभार्दन १४१।

प्रसीद हृदयावास शंखचक्रगदाधर ।

नमः समस्तभूतानामादिभूताय भूभृते १४२।

अनेकरूपरूपाय विष्णवे प्रभविष्णवे ।

यस्य ब्रह्मादयो देवा न विदंति सुरेश्वराः १४३।

महिमानं तपोमेयं तस्मै तुभ्यं नमाम्यहम् ।

वाचामगोचरो यस्य महिमा तव नाप्यते १४४।

जात्यादिभिरसंस्पृष्टः सदा ध्येयोऽसि तत्त्वतः ।

तथा विभेदरूपेण भक्तानामनुकंपया १४५।

मत्स्यकूर्मादिरूपेण दृश्यसे पुरुषोत्तम ।

भीष्म उवाच-

पुंडरीको जगन्नाथं संस्तुवन्पुरुषोत्तमम् १४६।

तमेवालोकयद्वीर चिरप्रार्थितदर्शनम् ।

तमाह भगवान्विष्णुः पद्मनाभस्त्रिविक्रमः १४७।

पुंडरीकं महाभागं तथा गंभीरया गिरा १४८।

श्रीभगवानुवाच-

प्रीतोऽस्मि वत्स भद्रं ते पुंडरीक महामते ।

वरं वृष्णीष्व दास्यामि यत्ते मनसि वर्त्तते १४९।

एतच्छ्रुत्वा तु वचनं देवदेवस्य भाषितम् ।

एवं विज्ञापयामास पुंडरीको महामतिः 6.80.१५०।

पुंडरीक उवाच-

क्वाहमत्यंत दुर्बुद्धिः क्व भवंतो हितैषिणः ।

यद्धितं मम देवेश तदाज्ञापय माधव १५१।

एवमुक्तः स भगवान्सुप्रीतश्च ततोऽब्रवीत् ।

पुंडरीकं महाभागं कृतांजलिमुपस्थितम् १५२।

आगच्छ कुशलं तेऽस्तु मयैव सह सुव्रत ।

उपकारी च नित्यात्मा मया त्वं सर्वदा सह १५३।

भीष्म उवाच-

एवमुक्तवति प्रीत्या श्रीधरे भक्तवत्सले ।

दिवि दुंदुभयो नेदुः पुष्पवर्षं पपात ह १५४।

ब्रह्मादयस्तथा देवाः साधुसाध्विति चाब्रुवन् ।

जगुः सिद्धाश्च गंधर्वाः किन्नराश्च विशेषतः १५५।

तत्रैव तमुपादाय देवदेवो जगत्पतिः ।

जगाम गरुडारूढः सर्वलोकनमस्कृतः १५६।

तस्मात्त्वमपि राजेंद्र विष्णुभक्तिसमन्वितः ।

तच्चित्तस्तद्गतप्राणस्तद्भक्तानां हिते रतः १५७।

अर्चयित्वा यथायोग्यं भजस्व पुरुषोत्तमम् ।

शृणुष्व तत्कथां पुण्यां सर्वपापप्रणाशिनीम् १५८।

येनोपायेन राजेंद्र विष्णुभक्तिसमन्वितः ।

प्रीतो भवति विश्वात्मा तत्कुरुष्व सुविस्तरम् १५९।

अश्वमेधशतैरिष्ट्वा वाजपेयशतैरपि ।

प्राप्नुवंति नरा नैव नारायणपराङ्मुखाः १६०।

सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ।

बद्धः परिकरस्तेन मोक्षाय गमनं प्रति १६१।

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।

येषामिंदीवरश्यामो हृदयस्थो जनार्दनः १६२।

य इदं शृणुयान्नित्यं पठेद्वापि समाहितः ।

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति १६३।

ईश्वर उवाच-

एतद्वै नाममाहात्म्यं श्रुत्वा वै नगनंदिनि ।

धर्मार्थकाममोक्षास्तु भवंति च न संशयः १६४।

शुक्ले कुलेऽवतीर्णो यो ब्राह्मणो वेदतत्परः ।

वैष्णवो विष्णुरूपोऽसौ नान्यो विप्रस्तु कर्हिचित् १६५।

मुखे नामोच्चरन्विष्णोर्हृदये ध्यानतत्परः ।

शंखचक्रधरो विद्वन्मालां तुलसिजां दधत् १६६।

जीवन्मुक्तः स विज्ञेयो भुक्त्वा भोगांस्त्वनेकशः ।

एकविंशतिकुलैः सार्द्धं विष्णुलोके स मोदते १६७।

पुंडरीको यथा शक्त्या मुक्तो ह्यत्र न संशयः ।

भक्तिभावेन गोविंदस्तुष्टिं प्राप्नोति शाश्वतीम् १६८।

कलौ वै हरिगीतं तु स्वगृहे वा विशेषतः ।

सामगानसमं प्रोक्तं देवार्चनसमाधिषु १६९।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे विष्णुमहिमानामाशीतितमोऽध्यायः ८०।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 81

पार्वत्युवाच-

गंगायाश्चैव माहात्म्यं पुनर्वद महामते ।

यच्छ्रुत्वा मुनयः सर्वे वीतरागाः पुनः पुनः १।

माहात्म्यं कीदृशं चैव तस्याः सर्वेश्वर प्रभो ।

उत्पत्तिश्च श्रुता पूर्वं महिमा न श्रुतो मया ।

त्वमाद्यः सर्वभूतानां त्वं देवश्च सनातनः २।

महादेव उवाच-

बृहस्पतिसमं बुद्ध्या शक्रतुल्यपराक्रमम् ।

शरतल्पगतं भीष्मं ऋषयो द्रष्टुमाययुः ३।

अत्रिर्वसिष्ठश्च भृगुः पुलस्त्यः पुलहः क्रतुः ।

अंगिरावगौतमोऽगस्त्यः सुमतिस्त्वापुरात्मवान् ४।

विश्वामित्रः स्थूलशिराः सर्वज्ञः प्रमथाधिपः ।

रैभ्यो बृहस्पतिर्व्यासः पावनः कश्यपो ध्रुवः ५।

दुर्वासा जमदग्निश्च मार्कंडेयोऽथ गालवः ।

उशनाथ भरद्वाजः क्रतुरास्तीक एव च ६।

स्थूलाक्षः सर्वलोकाक्षः कण्वो मेधातिथिः कुशः ।

नारदः पर्वतश्चैव सुधन्वा च्यवनो द्विजः ७।

मतिभूर्भुवनो धौम्यः शतानंदोकृतव्रणः ।

जामदग्न्योऽथ रामश्च ऋचीकश्चैवमादयः ८।

तान्प्रणम्य यथान्यायं धर्मपुत्रः सहानुजः ।

पूजयामास विधिवज्जगत्पूज्यांस्तु तेजसः ९।

ते पूजिता महात्मानः सुखासीनास्तपोधनाः ।

भीष्माश्रिताः कथाश्चक्रुर्दिव्यधर्माश्रितास्तथा १०।

कथांते तु ततस्तेषां ऋषीणां भावितात्मनाम् ।

प्रणम्य शिरसा भीष्मं पप्रच्छेदं युधिष्ठिरः ११।

युधिष्ठिर उवाच-

के देशास्तु महापुण्याः के शैलाः केऽपिचाश्रमाः ।

सेव्या धर्मार्थिभिर्नित्यं तन्मे ब्रूहि पितामह १२।

भीष्म उवाच-

अत्रैवोदाहरंतीममितिहासं नरोत्तम ।

शिलोंछवृत्तेः संवादं सिद्धस्य च युधिष्ठिर १३।

कश्चित्सिद्धः परिक्रम्य समस्तां पृथिवीमिमाम् ।

उंछवृत्तेः शिबेराजन्गृहं प्राप्तो महात्मनः १४।

आत्मविद्यासु तत्वज्ञः सर्वदा स जितेंद्रियः ।

रागद्वेषपरित्यक्तः कुशली ज्ञानकर्मसु १५।

वैष्णवेषु सदा श्रेष्ठो विष्णुधर्मपरायणः ।

अनिंदको वैष्णवानां सदा धर्मपरायणः १६।

योगाभ्यासरतो नित्यं शंखचक्रविधारकः ।

त्रिकालपूजा तत्वज्ञः श्रीकंठेऽनुरतः सदा १७।

वेदविद्यासु विदुषो धर्माधर्मविचारकः ।

वेदपाठव्रतो नित्यं नित्यं चातिथिपूजकः १८।

सतीर्थमतियुक्तस्तु शिलोंछेषु स्थितः सदा ।

चतुर्वेदेषु यद्ध्यानं गीतं यद्यत्स्वयंभुवा १९।

तत्सर्वं स च जानाति द्विजो विष्णुस्वरूपधृक् ।

नानाधर्मार्थविशदो ह्यव्ययेष्टमतिः सदा २०।

एकस्मिन्नेव काले तु गतोऽसौ वै शिबेर्गृहम् ।

तं दृष्ट्वा विधिवच्चैव कृत्वातिथ्यं महामनाः २१।

शिबिः संपृच्छयामास देशानां हितकारणम् २२।

उंछवृत्तिरुवाच-

के देशाः के जनपदाः के शैलाः केऽपि चाश्रमाः ।

पुण्या द्विजवर प्रीत्या मह्यं निर्देष्टुमर्हसि २३।

सिद्ध उवाच-

ते देशास्ते जनपदास्ते शैलास्तेऽपि चाश्रमाः ।

पुण्यास्त्रिपथगा येषां मध्ये नित्यं सरिद्वरा २४।

तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः ।

गतिं तां न लभेज्जंतुर्गंगां संसेव्य यां लभेत् २५।

स्नातानां तत्र पयसि गांगेये नियतात्मनाम् ।

तुष्टिर्भवति या पुंसां न सा क्रतुशतैरपि २६।

अपहृत्य तमस्तीव्रं यथा भात्युदये रविः ।

तथापहृत्य पाप्मानं भाति गंगाजलाप्लुतः २७।

अग्निं प्राप्य यथा विप्र तूलराशिर्विनश्यति ।

तथा गंगावगाहश्च सर्वं पापं व्यपोहति २८।

यस्तु सूर्यांशुसंतप्तं गांगेयं सलिलं पिबेत् ।

स गोनीहारनिर्मुक्तः पावकाद्धि विशिष्यते २९।

चांद्रायणसहस्रं तु पादेनैकेन यः पुमान् ।

संप्लुतश्चापि गंगायां यो नरः स विशिष्यते ३०।

लंबेदधःशिरा यस्तु वर्षाणामयुतं नरः ।

मासमेकं तु गंगांभः सेवते यो नरोत्तमः ३१।

ब्रह्महत्याविनिर्मुक्तो याति विष्णोरनामयम् ।

इयं वेणीसमा पुण्या पवित्रा पापनाशिनी ३२।

यस्याः स्मरणमात्रेण बालहा मुच्यते क्षणात् ।

स प्रयागस्तीर्थराजो वैष्णवानां हि दुर्ल्लभः ३३।

स्नात्वा यत्र नरश्रेष्ठ वैकुंठे सत्वरं व्रजेत् ।

प्रियाप्रिये न जानाति धर्माधर्मौ न विंदति ३४।

स्नात्वा चैव तु गंगायां महापापात्प्रमुच्यते ३५।

गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि ।

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ३६।

ब्रह्महा चैव गोघ्नो वा सुरापी बालघातकः ।

मुच्यते सर्वपापेभ्यो दिवं याति च सत्वरम् ३७।

दर्शनं माधवस्याथ वरस्य दर्शनं तथा ।

वेण्यां स्नानं प्रकुर्वाणो वैकुंठं प्रति गच्छति ३८।

उदिते च यथा सूर्ये विलयं याति वै तमः ।

तथैव तस्यां पापानि नश्यंति स्नानमात्रतः ३९।

गंगाद्वारे कुशावर्ते गल्लिके(बिल्वके?) नीलपर्वते ।

स्नात्वा कनखले तीर्थे पुनर्जन्म न विद्यते ४०।

एवं ज्ञात्वा नरश्रेष्ठो गंगास्नायी पुनःपुनः ।

स्नानमात्रेण भो राजन्मुच्यते किल्बिषादतः ४१।

देवानां प्रवरो विष्णुर्यज्ञानां चाश्वमेधकः ।

अश्वत्थः सर्ववृक्षाणां नदी भागीरथी सदा ४२।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे गंगामाहात्म्यंनामैकाशीतितमोऽध्यायः ८१।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 82

पार्वत्युवाच-

वैष्णवानां लक्षणं च कीदृशं प्रतिपादितम् ।

महिमा कीदृशश्चैव वद विश्वेश्वर प्रभो १।

महादेव उवाच -

विष्णोरयं यतः प्रोक्तो ह्यतो वै वैष्णवो मतः ।

सर्वस्यादिस्तु विज्ञेयो ब्रह्मारूपधरस्ततः २।

यतः सकाशात्संजाता ब्राह्मणा वेदपारगाः ।

ते वैष्णवास्तु विज्ञेया नैवान्ये तु कदाचन ३।

शौचसत्यक्षांतियुक्तो रागद्वेषविवर्जितः ।

वेदविद्याविचारज्ञो यः स वैष्णव उच्यते ४।

अग्निहोत्ररतो नित्यं नित्यं चातिथिपूजकः ।

पितृभक्तो मातृभक्तः स वै वैष्णव उच्यते ५।

दयाधर्मेण संयुक्तस्तथा पापपराङ्मुखः ।

शंखचक्रांकितोयो वै स वै वैष्णव उच्यते ६।

कंठे मालाधरो यस्तु मुखे रामं सदोच्चरेत् ।

गानं कुर्यात्सदा भक्त्या स नरो वैष्णवः स्मृतः ७।

पुराणेषु रता नित्यं यज्ञेषु चरताः सदा ।

ते नरा वैष्णवा ज्ञेयाः सर्वधर्मेषु संमताः ८।

तेषां निंदां प्रकुर्वंति ये नराः पापकारिणः ।

ते मृतास्तु कुयोनिं वै गच्छंति च पुनः पुनः ९।

गोपालनाम्नीं मूर्तिं च येऽर्चयंति द्विजाः सदा ।

धातुमात्रमयीं कृत्वा चतुर्हस्तां सुशोभिताम् १०।

पूजां कुर्वंति ये विप्रास्ते ज्ञेयाः पुण्यभाजिनः ।

कृत्वा पाषाणजां मूर्तिं कृष्णाख्यां रूपसुंदरीम् ११।

पूजां कुर्वंति ये विप्रास्ते ज्ञेयाः पुण्यमूर्त्तयः ।

शालग्रामशिला यत्र यत्र द्वारवती शिला १२।

उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः ।

मूर्तिं मंत्रेण संस्थाप्य पूजनं क्रियते यदि १३।

तदर्चनं कोटिगुणं धर्मकामार्थमोक्षदम् ।

नवधा तत्र वै भक्तिः कर्तव्या च जनार्दने ।

अतः पाषाणजा मूर्तिस्तथा धातुमयी त्वया १४।

तस्यां भक्तैः प्रकर्त्तव्यं ध्यानं पूजनमेव च ।

राजोपचारकीं पूजां मूर्तौ तत्र प्रकल्पयेत् १५।

सर्वात्मानं स्मरेन्नित्यं भगवंतमधोक्षजम् ।

दीनानाथैकशरणं लोकानां वृत्तिकारणम् १६।

मूर्त्तौ तत्र स्मरेन्नित्यं महापातकनाशनम् ।

गोपालोऽयं तथा कृष्णो रामोऽयमिति च ब्रुवन् १७।

पूजां करोति यः सम्यक्स वै भागवतो नरः ।

गोकुले तु यथा रूपं धृतं वै केशवेन तु १८।

तादृग्रूपं प्रकर्त्तव्यं वैष्णवैर्नरसत्तमैः ।

आत्मसंतोषणार्थाय स्वरूपं कारयेद्बुधः १९।

यतो भक्तिस्तु बहुला जायते नात्र संशयः ।

शंखचक्रगदादीनि विष्णोश्चैवायुधानि च २०।

तस्यां मूर्तौ विशेषेण कर्त्तव्यानि प्रमाणतः ।

चतुर्भुजां द्विनेत्रां च शंखचक्रगदाधराम् २१।

पीतवासः परीधानां शोभमानां गरीयसीम् ।

वनमालां दधानां तां लसद्वैडूर्यकुंडलाम् २२।

मुकुटे मणिसंयुक्तां कौस्तुभोद्भासितां सदा ।

सौवर्णीं चाथ रौप्यां वा ताम्रजां चाथ पैत्तलीम् २३।

कारयेत्परया भक्त्या वैष्णवैर्द्विजसत्तमैः ।

आगमोक्तैर्वेदमंत्रैः प्रतिष्ठाप्य विशेषतः २४।

पश्चाद्वै अर्चनं कार्यं यथाशास्त्रानुसारतः ।

षोडशोपचारैर्मंत्रैः पूजनं विधिपूर्वकम् २५।

पूजिते तु जगन्नाथे सर्वे देवाश्च पूजिताः ।

अतो येन प्रकारेण पूजनीयो महाप्रभुः २६।

अनादिनिधनो देवः शंखचक्रगदाधरः ।

सर्वं ददाति सर्वेशो वैष्णवान्पुण्यरूपिणः २७।

यथा विष्णुस्तथा शर्वो नांतरं वर्त्तते क्वचित् ।

एवं ज्ञात्वा तु भो देवि ह्युभयोर्मूर्तिकल्पनम् २८।

शिवपूजां प्रकुर्वाणो विष्णुनिंदासु तत्परः ।

रौरवेषु नरकेषु वसते नात्र संशयः २९।

अहं विष्णुरहं रुद्रो ह्यहं ब्रह्मा पितामहः ।

सर्वभूतेषु सततं संवसामि पुनः पुनः ३०।

पार्वत्युवाच-

के दासा वैष्णवाः के तु के भक्ता भुवि कीर्तिताः ।

तेषां वै लक्षणं ब्रूहि यथार्थं वै महेश्वर ३१।

महादेव उवाच-

शूद्रा भवंति वै दासा वैष्णवा नारदादयः ।

प्रह्लादश्चांबरीषाद्या भक्तास्ते नगनंदिनि ३२।

ब्रह्मक्रियारतो नित्यं वेदवेदांगपाठकः ।

शंखचक्रांकितो यस्तु स वै वैष्णव उच्यते ३३।

द्विजसेवारतो नित्यं नित्यं विष्णुप्रपूजकः ।

शृणोति बहुधा चैव पुराणं वेदसंमितम् ३४।

स शूद्रो हरिदासस्तु इत्युक्तो नगनंदिनि ।

पंचवर्षत्वमाश्रित्य कृता भक्तिरनेकधा ३५।

स वै भक्त इति प्रोक्तः सर्वसाधुषु संमतः ।

ध्रुवादयस्ते विज्ञेया अंबरीषादयश्च ये ३६।

भक्ताश्च मुनिभिः प्रोक्ताः सर्वकालेषु भामिनि ।

कलौ धन्यतमाः शूद्रा विष्णुध्यानपरायणाः ३७।

इहलोके सुखं भुक्त्वा यांति विष्णोः सनातनम् ।

शंखचक्रांकितो यस्तु विष्णुभक्तिप्रकारकः ३८।

चतुर्विधमहोत्साहकर्त्ता चैव विशेषतः ।

स शूद्रो विष्णुदासस्तु यथादृष्टं यथाश्रुतम् ३९।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे दासवैष्णवानां महिमानाम द्व्यशीतितमोऽध्यायः ८२।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 83

पार्वत्युवाच-

सर्वेषां चैव मासानां विधिं ब्रूहि महेश्वर ।

महोत्सवः प्रकर्त्तव्यः को विधिस्तत्र संमतः १।

को देवः पूजनं कस्य महिमा कीदृशो भवेत् ।

कस्यां तिथौ प्रकर्त्तव्यं तन्मे वद सुरेश्वर २।

मासं प्रति किमुक्तं च वैष्णवान्पुण्यकर्मणः ।

धन्याहं कृतकृत्याहं सुभगाहं धरातले ।

विष्णोः कथां शृणोमीति दर्शनात्स्पर्शनात्तव ३।

शिव उवाच-

उत्सवानां विधिं ब्रूमो मासं प्रति तवानघे ।

यानाकर्ण्य पुनर्देवि गीतवादित्र हर्षिता ४।

तत्रादौ च सिते पक्षे चैत्रमासे सुशोभने ।

एकादश्यां विशेषेण दोलारूढं प्रपूजयेत् ५।

कुर्याद्भक्त्या सदा देवि उत्सवं विधिपूर्वकम् ।

दोलारूढं प्रपश्यंति कृष्णं कलिमलापहम् ६।

अपराधसहस्रैस्तु मुक्तास्ते नगनंदिनि ।

तावत्तिष्ठंति पापानि कोटिजन्मकृतान्यपि ७।

यावन्नांदोलयेद्देवं विश्वेशं विश्वनायकम् ।

कलौ वै ये प्रपश्यंति दोलारूढं जनार्दनम् ८।

गोघ्नादिकाः प्रमुच्यंते का कथा इतरेष्वपि ।

दोलोत्सवे प्रहृष्टास्तु रुद्रेण सहिताः सुराः ९।

कुर्वंति प्रांगणे नृत्यं गीतवाद्यं च हर्षिताः ।

ऋषयो गणगंधर्वा रंभाद्यप्सरसां गणाः १०।

वासुकिप्रमुखा नागास्तथा देवाः सुरेश्वराः ।

दोलायां च समायांति विष्णुदर्शनलालसाः ११।

दोलायात्रानिमित्तं तु दोलाह्ने मधुमाधवे ।

भूतानि संति भूपृष्ठे ये केचिद्देवयोनयः १२।

समायांति महादेवि कृष्णे दोलास्थिते ध्रुवम् ।

विष्णुं दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत् १३।

तस्मात्कार्यशतं त्यक्त्वा दोलाह्ने उत्सवं कुरु ।

प्रह्लादस्तु समायाति विष्णुर्दोलाधिरोहणम् १४।

कुरुते च महादेवि वरदं तमनुस्मरन् ।

दोलास्थितस्य कृष्णस्य ये कुर्वंति प्रजागरम् १५।

सर्वपुण्यफलप्राप्तिर्निमेषैकेन जायते ।

दोलायां संस्थितं विष्णुं पश्यंति मधुमाधवे १६।

क्रीडंति विष्णुना सार्द्धं देवदेवेन वंदिताः ।

दक्षिणाभिमुखं देवं दोलारूढं सुरेश्वरि १७।

सकृद्दृष्ट्वा तु गोविंदं मुच्यते ब्रह्महत्यया ।

ॐ दोलारूढाय विद्महे माधवाय च धीमहि ।

तन्नो देवः प्रचोदयात् १८ इदं गायत्र्या पूजनम् ।

माधवाय गोविंदाय श्रीकंठाय नमोनमः ।

पूजनं मंत्रपूर्वं च कर्तव्यं विधिपूर्वकम् १९।

गुरवे दक्षिणां दद्याद्यथाशक्त्या समाहितः ।

गायन्विष्णोः सदा भक्त्या परिपूर्णं ततो भवेत् २०।

किमन्यद्बहुनोक्तेन भूयो भूयो वरानने ।

दोलायां संस्थितो विष्णुः सर्वपापापहारकः २१।

पूजितो यैर्नरैः सम्यक्सदा सर्वं ददाति च ।

यत्र देवाः सगंधर्वाः किन्नरा ऋषयस्तथा २२।

आयांति बहुधा तत्र दोलारूढे न संशयः २३।

ॐ नमो भगवते वासुदेवायेति मंत्रेण पूजनं तत्र कारयेत् ।

षोडशोपचारैः पूजा च कर्तव्या विधिपूर्वकम् ।

धर्मार्थमुख्या ये कामास्ते सर्वे प्राप्नुयुर्ध्रुवम् २४।

अंगन्यासं करन्यासं न्यासं शारीरकं च यत् ।

तत्सर्वं तु प्रकर्त्तव्यं मंत्रेणानेन सुव्रत २५।

आगमोक्तेन मंत्रेण कर्त्तव्यो हि महोत्सवः ।

श्रीलक्ष्म्यासहितं देवं दोलायां च प्रकल्पयेत् २६।

देवाग्रे वैष्णवाः स्थाप्या नारदाद्याः सुरर्षयः ।

विष्वक्सेनादिका भक्ता स्थाप्यास्ते ह्यग्रतः सदा २७।

पंचवादित्रनिर्घोषैः कुर्यादारार्तिकं बुधः ।

यामे यामे तथा देवि पूजनीयः प्रयत्नतः २८।

नालिकेरैस्तथा शुभ्रैः कदलैर्वा तथा पुनः ।

अर्घं दद्यात्ततो देवि पूजनीयः प्रयत्नतः २९।

देवदेव जगन्नाथ शंखचक्रगदाधर ।

अर्घं गृहाण मे देव कृपां कुरु ममोपरि ३०।

तच्छेषं वैष्णवानां तु दद्यात्प्राच्छादिकं पुनः ।

वादनं नर्त्तनं तत्र कर्त्तव्यं वैष्णवैर्नरैः ३१।

आंदोलनं ततः सर्वैः कर्त्तव्यं च विशेषतः ।

पृथिव्यां यानि तीर्थानि क्षेत्राणि च सुरेश्वरि ३२।

सर्वान्येतानि वै तत्र द्रष्टुमायांति तद्दिने ।

एवं ज्ञात्वा सदा देवि कर्त्तव्यः सोत्सवो महान् ३३।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा याश्चान्यजातयः ।

शंखचक्रगदाधारा ज्ञातव्या नगनंदिनि ३४।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर-संवादे दोलामहोत्सवोनाम त्र्यशीतितमोऽध्यायः ८३।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 84

महादेव उवाच-

अस्मिन्वै चैत्रमासे तु कार्यो दमनकोत्सवः ।

द्वादश्यां तु तथा सम्यग्विधिः कार्यो विशेषतः १।

वैष्णवैः श्रद्धया पुण्यो जनतानंदवर्द्धनः ।

देवानंदसमुद्भूता दिव्या दमनमंजरी २।

निवेद्या वैष्णवैर्भक्तैः सर्वपूजाफलेप्सुभिः ।

चैत्रे तु शुक्लपक्षे तु द्वादश्यां नगनंदिनि ३।

कारयेत्परया भक्त्या महोत्सवमनास्तथा ।

तत्रादौ च स्वयं गत्वा आरामं प्रति चानघे ४।

गुर्वाज्ञया प्रकर्त्तव्यं पूजनं रतिना सह ।

कामदेव नमस्तेऽस्तु विश्वमोहनकारक ५।

विष्णोरर्थे विचेष्यामि कृपां कुरु ममोपरि ।

गीतवादित्रनिर्घोषैरानेतव्यो गृहं प्रति ६।

एकादश्यां सुरश्रेष्ठि ह्यधिवासनपूर्वकम् ।

कर्त्तव्यं पूजनं तत्र रात्रौ भक्त्या तु वैष्णवैः ७।

कर्त्तव्यमग्रतस्तस्य सर्वतोभद्र मंडलम् ।

स्थापयित्वा तु देवेशं रतिना सह तत्र वै ८।

आच्छाद्य श्वेतवस्त्रेण दमनं स्थापयेद्बुधः ।

तत्र वै पूजनं कार्यं वैष्णवैर्द्विजसत्तमैः ९।

क्लीं कामदेवाय नमो ह्रीं रत्यै च तथा नमः ।

एंद्र्यादि दिशि संस्थाप्य कंदर्प्पं पूजयेद्बुधः १०।

गंधं पुष्पं तथा धूपं दीपमारार्तिकं तथा ।

रात्रौ भक्त्या प्रकर्त्तव्यं विधिनात्र सुरेश्वरि ११।

मदनाय नम इति प्राच्याम् ।

मन्मथाय नम इति आग्न्येय्याम् ।

कंदर्पाय नम इति याम्ये ।

अनंगाय नम इति रक्षोदिशि ।

भस्मशरीराय नमः इति वारुण्याम् ।

स्मराय नम इति वायव्याम् ।

ईश्वराय नमः इति कौबेर्याम् ।

पुष्पबाणाय नमः इति ईशान्याम् ।

चतुर्दिक्षु च सर्वासु पूजनं तत्र कारयेत् ।

पूजिते केशवे चात्र सर्वे देवाः सुपूजिताः १२।

अक्षतगंध धूपदीपैर्नैवेद्यैस्तांबूलैश्च दमनकं पूजयित्वा तु ।

तत्पुरुषाय विद्महे कामदेवाय धीमहि ।

तन्नोऽनंगः प्रचोदयात् ।

इति वै कामगायत्र्या अष्टोत्तरशतवारं तं दमनकं अभिमंत्र्य नमस्कुर्यात् ।

नमोस्तु पुष्पबाणाय जगदाह्लादकारिणे ।

मन्मथाय जगन्नेत्रे रतिप्रीतिकराय च १३।

देवदेव नमस्तेऽस्तु श्रीविश्वेश नमोस्तु ते ।

रतिपते नमस्तेस्तु नमस्ते विश्वमंडन १४।

नमस्तेस्तु जगन्नाथ सर्वबीज नमोस्तु ते ।

एतैर्नानाविधैर्मंत्रैरागमोक्तैर्विशेषतः १५।

पूजनीयः प्रयत्नेन लक्ष्म्या सह जनार्दनः ।

ततो निवेद्य तत्कर्म जागरं कारयेद्बुधः १६।

देवदेव जगन्नाथ वांच्छितार्थप्रदायक ।

हृत्स्थान्पूरय मे विष्णो कामान्कामेश्वरीप्रिय १७।

इत्येतैर्बहुभिर्मंत्रैः पूजनीयः प्रयत्नतः ।

श्रीनिवासो जगन्नाथो भक्तानां शमभीप्सकः १८।

ततो दमनकमुष्टिं गृहीत्वा तत्र मूलमंत्रेण ।

श्रीश्रीविष्ण्वादिदेवेभ्यो दमनकं निवेदयेत् ।

ततो गंधादिभिर्महतीपूजागीतवाद्यनृत्यैश्च महोत्सवः कार्यः ।

देवाग्रेस्थापितः कलशोदकं देवस्य पादयोर्निक्षिप्य जलक्रीडा तस्मिन्दिने कर्त्तव्या ।

ततः स्वगुरुं वस्त्रालंकारद्रविणैः श्रद्धया प्रपूजयेत् ।

ततः स्वयं वैष्णवैर्बंधुभिः सह अश्नीयात् १९।

महादेव उवाच-

ततो दमनकमंजर्या यो वै विष्णुं प्रपूजयेत् ।

पूजिते वै जगन्नाथे ह्यहं वै पूजितः सदा २०।

ब्रह्महा हेमहारी च मद्यपो मांसभक्षकः ।

मुच्यते पातकाद्देवि दृष्ट्वा दमनकोत्सवम् २१।

एवं दमनको देवि पूजितो यैः सुवैष्णवैः ।

सर्वं तीर्थं कृतं तैस्तु मंजर्या पूजनं कृतम् २२।

वेदाध्ययनं कृतं तेन शास्त्राध्ययनमेव च ।

अग्निहोत्रं कृतं तेन मंजर्या पूजितो हरिः २३।

तत्कुलं तु महज्ज्ञेयं ब्राह्मं वा चाथ क्षात्रियम् ।

शौद्रं वैश्यं च यच्चान्यद्धन्यं धन्यतरं स्मृतम् २४।

यस्मिन्कुलेऽवतीर्याथोत्सवो दमनकः कृतः ।

स च धन्यस्तु धन्यो वै येन विष्णुः प्रपूजितः २५।

दमनकेन तु तथा संप्राप्ते मधुमाधवे ।

संपूज्य गोसहस्रस्य देवि संलभते फलम् २६।

मल्लिकाकुसुमैर्देवं वसंते गरुडध्वजम् ।

योऽर्चयेत्परया भक्त्या मुक्तिभागी भवेत्तु सः २७।

मरुकोदमनकश्चैव सद्यस्तुष्टिकरो हरेः ।

अतः पूजा प्रकर्त्तव्या वैष्णवैर्नरसत्तमैः २८।

गोसहस्रं कृतं तेन कन्यादानं तथैव च ।

पृथ्वीदानं कृतं तेन विष्णोर्वै पूजने कृते २९।

एकामेकां गृहीत्वा तु मंजरीं दमनस्य तु ।

यः पूजयति देवेशं संप्राप्ते मधुमाधवे ३०।

पुण्यसंख्यां न जाने वै तस्याहं नगनंदिनि ।

स वै चतुर्भुजो भूत्वा इह लोके परत्र च ।

धर्मानर्थांश्च कामांश्च प्रभुंक्ते वैष्णवं पदम् ३१।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे दमनकमहोत्सवो नाम चतुरशीतितमोऽध्यायः ८४।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 85

महादेव उवाच-

वैशाख्यां पूर्णमास्यां वै जलस्थं जगदीश्वरम् ।

पूजयेद्वैष्णवो भक्त्या कृतोत्साहो मुदान्वितः १।

गीतं वाद्यं तथा नृत्यं कृत्वा पुण्यं महोत्सवम् ।

एकादश्यां सुरश्रेष्ठं पश्येद्वाथ प्रहर्षितः २।

गीतं गायन्हरेर्भक्त्या कर्त्तव्यः सोत्सवः शुभः ।

शयनं कुरु देवेश जलेऽस्मिन्वै सुरेश्वर ३।

त्वयि सुप्ते जगत्सुप्तं भवत्येव न संशयः ।

घनागमे प्रकुर्वंति जलस्थ वै जनार्दनम् ४।

ये नरास्तु सुरश्रेष्ठे न दाहो नरके भवेत् ।

स्वर्णपात्रे तथा रौप्ये ताम्रे वा च सुरेश्वरि ५।

मृन्मये वाथ कर्त्तव्यं शयनं विष्णुसंज्ञकम् ।

तत्र तोयं च संस्थाप्य शीतलं गंधवासितम् ६।

तस्मिंस्तोये ततो विष्णोः स्थापनं कारयेद्बुधः ।

गोपालनाम्नी मूर्त्तिश्च रामनाम्नी तथापि वा ७।

शालग्राम शिला वापि स्थापनीया विशेषतः ।

प्रतिमां वा महाभाग तस्य पुण्यमनंतकम् ८।

यावद्धराधरालोका यावच्चंद्र दिवाकरौ ।

तावत्तस्य कुले कश्चिन्न भवेद्देवि नारकी ९।

तस्माज्ज्येष्ठे महादेवि तोयस्थं पूजयेद्धरिम् ।

वीततापो नरस्तिष्ठेद्यावदाभूतसंप्लवम् १०।

सुशीतले तथा तोये तुलसीदलवासितम् ।

शुचिशुक्रगते काले पूजयेद्धरणीधरम् ११।

शुचिशुक्रगते काले येऽर्चयिष्यंति केशवम् ।

जलस्थं विविधैः पुष्पैर्मुच्यंते यमपीडनात् १२।

जलप्रेष्ठो यतो विष्णुर्जलशायी जलप्रियः ।

तस्माद्ग्रीष्मे विशेषेण जलस्थं पूजयेद्धरिम् १३।

नीरमध्ये स्थितं कृत्वा शालग्रामसमुद्भवम् ।

येनार्चितो महाभक्त्या स भवेत्कुलपावनः १४।

कर्कराशि गते सूर्ये मिथुनस्थे विशेषतः ।

येनार्चितो हरिर्भक्त्या जलमध्ये तु सुंदरि १५।

द्वादश्यां तु विशेषेण जलस्थ जलशायिनः ।

येनार्चनं कृतं तेन कोटियज्ञशतं कृतम् १६।

निक्षिप्य जलपात्रे तु मासे माधवसंज्ञके ।

माधवं येऽर्चयिष्यंति देवास्ते तु नरा भुवि १७।

पात्रे गंधोदकं कृत्वा यः क्षिपेद्गरुडध्वजम् ।

द्वादश्यां पूजयेद्रात्रौ मुक्तिभागी भवेत्तु सः १८।

अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः ।

हेतुनिष्ठश्च पंचैते न पूजाफल भागिनः १९।

तथा महादेवि प्रभुं जलस्थं जगदीश्वरम् ।

पूजयेद्यो नरो नित्यं महापापैः प्रमुच्यते २०।

ॐह्री ह्रीं रामाय नमः ।

इति मंत्रेण देवेशि पूजनं तत्र वै स्मृतम् ।

ॐ क्लीं कृष्णाय गोविंदाय गोपीजनवल्लभाय नमः ।

इति मंत्रेण गिरिजे उदकं चाभिमंत्रयेत् ।

देवदेव महाभाग श्रीवत्सकृत लांछन २१।

महादेव नमस्तेऽस्तु नमस्ते विश्वभावन ।

अर्घं गृहाण भो देव मुक्तिं मे देहि सर्वदा २२।

नानाविधैः सुपुष्पैश्च पूजयेद्गरुडासनम् ।

सर्वबाधाविनिर्मुक्तो विष्णोः सायुज्यतामियात् २३।

रात्रौ जागरणं तत्र द्वादश्यां सुसमाहितः ।

भक्तिपूर्वं भजेद्देवं विष्णुमव्ययमक्षयम् २४।

एवं वैशाख संबंधी भक्तिभावेन तत्परैः ।

उत्सवो विष्णुसंज्ञस्तु कर्त्तव्यो भक्तिमिच्छुभिः २५।

आगमोक्तेन मंत्रेण विधिं तत्र प्रकारयेत् ।

कृते सति महादेवि कोटियज्ञसमं फलम् २६।

रागद्वेषविनिर्मुक्तो महामोहनिवर्त्तकः ।

इहलोके सुखं भुक्त्वा याति विष्णोः सनातनम् २७।

ब्राह्मणो भक्तिभावेन यः करोत्युत्सवं भुवि ।

सर्वपापविनिर्मुक्तो वैकुंठं गच्छते ध्रुवम् २८।

वेदाध्ययनहीनोऽपि शास्त्राध्ययनवर्जितः ।

हरिभक्तिं तु संप्राप्य लभते वैष्णवं पदम् २९।

आत्मारामः सदा मुक्तो विजितात्मा भवेत्तु सः ।

स वै विष्णुपदं याति यावच्चंद्र दिवाकरौ ३०।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे शयनमहोत्सवोनाम पञ्चाशीतितमोऽध्यायः ८५।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 86

महादेव उवाच-

श्रावणे मासि संप्राप्ते पवित्रारोपणो विधिः ।

यस्मिन्कृते तु देवेशि दिव्यभक्तिः प्रजायते १।

पवित्रारोपणं विष्णोः कर्तव्यं श्रद्धया बुधैः ।

संपूर्णा जायते तस्य पूजा पार्वति वार्षिकी २।

पवित्रारोपणे विष्णोर्जायते सुखमात्मनः ।

संपूजिते सदा विष्णौ नानासुखमवाप्नुयात् ३।

सूत्रं वाससमानीय ब्राह्मण्या कर्तितं तथा ।

स्वेनैव कर्तितं सूत्रं तेनैव च प्रकारयेत् ४।

सच्छूद्र्या कर्तितं सूत्रं तद्ग्राह्यं वा तथैव च ।

अन्यथा विक्रयेणापि ग्राह्यं चापि यथातथम् ५।

क्षौमेनैव प्रकर्तव्यः पवित्रारोपणो विधिः ।

रूप्येण वा तथा कार्यं पवित्रं विष्णुदैवतम् ६।

सौवर्णेनापि देवेशि कर्तव्यं विधिपूर्वकम् ।

अभावे सर्वधातूनां ग्राह्यं सूत्रं तथा बुधैः ७।

कृत्वा तु त्रिवृतं सूत्रं प्रक्षाल्यमुदकेन तु ।

लिंगे लिंगप्रमाणं च प्रतिमायां यथाविधिः ८।

पादौ वै जानुपर्यंतं तथा नाभिसमं स्मृतम् ।

ज्येष्ठं मध्यं कनिष्ठं च पवित्रं कारयेद्बुधः ९।

संवत्सरदिनैस्तद्वत्तदर्द्धार्द्धेन संख्यया ।

सूत्रेणैव प्रकर्त्तव्यं ग्रंथिनाष्टोत्तरं शतम् १०।

तदर्द्धसंख्यकेनापि युक्तं वा तत्र पार्वति ।

लिंगे वै लिंगसंज्ञं तु गंगानागैश्च संयुतम् ११।

प्रतिमायां तथा देवि पवित्रं वनमालकम् ।

यथाशोभा तथा कार्यं येन विष्णुः प्रसीदति १२।

एकं वै सुपवित्रं तु गंधाख्यं कारयेत्सदा ।

तंतुना यच्च संयुक्तं कर्त्तव्यं वैष्णवैर्नरैः १३।

देवानां च तथा प्रोक्तं पवित्रं विष्णुदैवतम् ।

अंबरीषाद्या भक्ताश्च अन्येऽपि च ध्रुवादयः १४।

पवित्राणि ततः पश्चाद्दातव्यानीह पार्वति ।

प्रतिपद्धनदस्योक्ता पवित्रारोपणे तिथिः १५।

लक्ष्म्या देव्या द्वितीया तु तिथीनामुत्तमा तिथिः ।

तृतीया तु तव प्रोक्ता चतुर्थी गणपस्य च १६।

पंचमी चंद्रमसश्चैव षष्ठी वै कार्त्तिकस्य च ।

सप्तमी च रवेः प्रोक्ता दुर्गायाश्चाष्टमी स्मृता १७।

नवमी चैव मातॄणां यमस्य दशमी तथा ।

एकादशी तु सर्वेषां द्वादशी माधवस्य च १८।

त्रयोदशी तु कामस्य शर्वस्योक्ता चतुर्दशी ।

तद्वत्पंचदशी ख्याता धातुर्वै ह्यर्चने पुनः १९।

एता वै तिथयः प्रोक्ताः पवित्रारोपणोचिताः ।

कनिष्ठे द्वादश प्रोक्ता मध्यमे द्विगुणा स्मृताः २०।

त्रिगुणाश्चोत्तमे चैव ग्रंथयश्च पवित्रके ।

कर्पूरकेसराभ्यां वा चंदनेन हरिद्रया २१।

रंजयित्वा तु तत्सर्वं स्थाप्यं नवकरंडके ।

देवस्य यजनं यत्र स्थाप्यानि देववत्तदा २२।

आदौ देवार्चनं कृत्वा वासनं सपवित्रकम् ।

अधिवासिते पवित्रे तु ततो वै पूजनं स्मृतम् २३।

पवित्रेषु च यद्देवास्तेषां निकटमाचरेत् ।

ब्रह्माविष्णुस्तथा रुद्रस्त्रयो वै सूत्रदेवताः २४।

क्रिया च पौरुषी वीरा चतुर्थी चापराजिता ।

जया च विजया चैव मुक्तिदा च सदाशिवा २५।

मनोन्मनी तु नवमी दशमी सर्वतोमुखी ।

ग्रंथीनां देवताश्चैव सूत्रेषु विनिवेशयेत् २६।

आवाहनमुद्रया वै शास्त्रोक्तविधिना ततः ।

आवाह्य तत्र ताः सम्यक्संनिधीकरणं स्मृतम् २७।

संनिधीकरणमुद्रया संनिधीकरणम् ।

रक्ष्यामुद्रया संरक्ष्य धेनुमुद्रया अमृतीकृत्य ।

आनीय देवस्याग्रे कलशोदकं गृहीत्वा ।

आगमोक्तेन मंत्रेण प्रोक्षणं विधाय क्लीं कृष्णाय इति मंत्रेण प्रोक्षणं गंधधूपदीप।

नैवेद्यादिकं दत्त्वा तांबूलादिकं दत्त्वा षोडशोपचारादिना पवित्रदेवता।

अभ्यर्च्य गंधपवित्रं धूपितं कृत्वा देवाभिमुखः सन् ।

नमस्कारमुद्रया देवं अभिमंत्रयीत ।

आमंत्रितो महादेव सार्द्धं देव्या गणादिभिः ।

मंत्रैर्वा लोकपालैश्च सहितः परिवारकैः २८।

आगच्छ भगवन्विष्णो विधिसंपूर्णहेतवे ।

प्रातस्त्वत्पूजनं कुर्मः सान्निध्यं नियतं कुरु २९।

तद्गंधं च पवित्रं च देवस्य राघवस्य च ।

श्रीविष्णोश्चरणे तत्नि क्षिप्य प्रातः ।

स्वक्रियां विधाय पुण्याहस्वस्तिवाचन जयजय शब्दैर्घंटादि वादित्र।

निर्घोषतूर्यादिशब्दैः पवित्रैः पूजां कुर्यात् ।

ततः प्रथमं ज्येष्ठं ततो मध्यमं कनिष्ठं च ।

एभिः सर्वैर्यथाक्रमेण पूजां कुर्यात् ।

ॐवासुदेवाय विद्महे विष्णुदेवाय धीमहि ।

तन्नो देवः प्रचोदयात् ।

इति पवित्रदानं अथवा स्वमंत्रैः ।

ततो वै महतीं पूजां विष्णोः कुर्यात्प्रसादिनीम् ।

यया वै कृतया देवि विष्णुरात्मा प्रसीदति ३०।

समंताद्दीपमाला च कत्तर्व्या च विधानतः ।

चतुर्विधं तथा चान्नं नैवेद्यं कारयेद्बुधः ३१।

पवित्राणि ततो दद्यात्पूजितानि तु शोभने ।

भक्त्या चैव विशेषेण श्रीगुरुं पूजयेत्ततः ३२।

वस्त्रालंकारविधिना पूजनीयो गुरुर्महान् ।

पूजयित्वा गुरुं तत्र पवित्रं धारयेत्ततः ३३।

अथ ये वैष्णवाः संति तेभ्यस्तांबूलादिकं दत्त्वा पूर्णाहुतिमग्नये दत्त्वा श्रीनिवासाय श्रीकृष्णाय कर्म निवेदयेत् ।

मंत्रहीनं क्रियाहीनं भक्तिहीनं तु केशव ।

यत्पूजितो मया सम्यक्संपूर्णं यातु मे ध्रुवम् ३४।

तत उद्वास्य इष्टबंधुभिस्तथा वैष्णवैर्विप्रैर्वा सहितः सन्मृष्टमन्नं स्वयं भुंजीत ।

एतत्पूजनकं दिव्यं ये शृण्वंति द्विजोत्तमाः ।

सर्वपापविनिर्मुक्ता यांति विष्णोः परं पदम् ३५।

यावत्तपति वै चंद्रो यावत्तपति वै रविः ।

पवित्रारोपकस्तद्वत्तप्यते नात्र संशयः ३६।

पृथिव्यां यानि दानानि नियमाश्च तथा पुनः ।

सर्वे वै पूर्णतां यांति पवित्रारोपणे कृते ३७।

उत्सवानां च राजायं पवित्रारोपणो विधिः ।

ब्रह्महा शुध्यते तत्र नात्र कार्या विचारणा ३८।

सत्यं सत्यं पुनः सत्यं यदुक्तं नगनंदिनि ।

पवित्रारोपणे पुण्यं दर्शने तु तथा स्मृतम् ३९।

शूद्रैर्वाथ महाभागे पवित्रारोपणो विधिः ।

कृतो यैर्भक्तिभावेन ते वै धन्यतमाः स्मृताः ४०।

धन्योऽहं कृतकृत्योऽहं सौभाग्यो धरणीतले ।

मया तु या कृता भक्तिर्वैष्णवी मुक्तिदायिनी ४१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे पवित्रारोपणंनाम षडशीतितमोऽध्यायः ८६।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 87

महेश्वर उवाच-

चैत्रे तु चंपकेनैव जातीपुष्पेण वा पुनः ।

पूजनीयः प्रयत्नेन केशवः क्लेशनाशनः १।

दमनकैर्मरुकैश्चैव बिल्वपुष्पैरथापि वा ।

पूजयेज्जगतामीशं विष्णुं सर्वेश्वरेश्वरम् २।

शतपत्रैस्तथादिव्यै रक्तैर्वा सुसमाहितः ।

पूजयंति नरा विष्णुं चैत्रमासे सुरेश्वरि ३।

वैशाखे तु सदा देवि ह्यर्चनीयो महत्प्रभुः ।

केतकीपत्रमादाय वृषस्थे च दिवाकरे ४।

येनार्चितो हरिर्भक्त्या प्रीतो मन्वंतरं शतम् ।

ज्येष्ठे मासे तु संप्राप्ते नानापुष्पैः प्रपूजयेत् ५।

पूजिते देवदेवेशे सर्वे देवाः सुपूजिताः ।

कृत्वा पापसहस्राणि महापापशतानि च ६।

तेपि यास्यंति भो देवि यत्र विष्णुः श्रिया सह ।

आषाढे मासि संप्राप्ते पूजां कुर्याद्विशेषतः ७।

करवीरैरक्तपुष्पैस्तथाब्जैर्वा सदा नराः ।

पूजां कुर्वंति ये विष्णोस्ते ज्ञेयाः पुण्यभागिनः ८।

जातरूपनिभैर्विष्णुं कदंबकुसुमैस्तथा ।

येऽर्चयिष्यंति गोविंदं न तेषां सौरिजं भयम् ९।

घनागमे घनश्यामः कदंबकुसुमार्चितः ।

ददाति वांछितान्कामान्यावदिंद्राश्चतुर्दश १०।

यथा पद्मालयां प्राप्य प्रीतो भवति माधवः ।

कदंबकुसुमं लब्ध्वा प्रीतो भवति लोककृत् ११।

तुलसी कृष्णतुलसी वंजुलैर्वा सुरेश्वरि ।

सर्वदा पूजितो विष्णुः कष्टं हरति नित्यशः १२।

श्रावणे मासि संप्राप्ते येऽर्चयंति जनार्दनम् ।

अतसीपुष्पमादाय तथा दूर्वादलेन तु १३।

नानापुष्पैर्विशेषेण पूजनीयः प्रयत्नतः ।

ददाति विपुलान्कामान्यावदाभूतसंप्लवम् १४।

भाद्र मासे तु संप्राप्ते शृणु त्वं नगनंदिनि ।

चंपकैर्वा श्वेतपुष्पैरक्तसिंदूरकैस्तथा १५।

कह्लारैर्वा महादेवि सर्वकामफलं लभेत् ।

आश्विने वै शुभेमासे कर्त्तव्यं विष्णुपूजनम् १६।

यूथिकानवजातीभिस्तथा नानाविधैः शुभैः ।

पूजनीयः प्रयत्नेन भक्तिपूर्वं सदा जनैः १७।

पद्मान्येव समानीय येऽर्चयंति जनार्दनम् ।

धर्मार्थकाममोक्षांस्ते लभंते मानवा भुवि १८।

कार्तिकेमासि संप्राप्ते पूजनीयो महेश्वरः ।

यावंति ऋतुपुष्पाणि देयानि माधवस्य च १९।

तिलानि तिलपुष्पाणि तैर्वा ह्यर्चनकं चरेत् ।

पूजिते सति देवेशि अनंतफलमश्नुते २०।

बकुलपुष्पैः पुन्नागैश्चंपकैर्वा जनार्दनम् ।

कार्तिके पूजयिष्यंति ते देवा न हि मानवाः २१।

मार्गशीर्षे प्रयत्नेन पूजनीयः सदा प्रभुः ।

नानापुष्पैः सनैवेद्यैर्धूपैर्नीराजनैस्तथा २२।

मार्गशीर्षे विशेषेण दिव्यैः पुष्पैः प्रपूजयेत् ।

पौषमासे महादेवि स्वर्चनं शुभदं स्मृतम् २३।

नानातुलसिपत्रैश्च मृगनाभिजलैस्तथा ।

माघमासे तु संप्राप्ते नानापुष्पैः प्रपूजयेत् २४।

पूजिते देवदेवेशे वांछितं लभते ध्रुवम् ।

कर्पूरजा तथा पूजा नानानैवेद्यमोदकैः २५।

फाल्गुने चैव संप्राप्ते ह्यर्चनं माधवस्य च ।

कृत्वा वासंतिकीं पूजां पुष्पाण्यादाय सर्वशः २६।

नवीनैर्वाथ देवेशि सर्वैर्वा पूजयेत्ततः ।

पूजिते तु जगन्नाथे वैकुंठपदमव्ययम् ।

प्राप्नोति पुरुषो नित्यं श्रीविष्णोश्च प्रसादतः २७।

इति श्रीपाद्मे महापुराणेपंचपंचाशत्सहस्रसंहितायामुत्तरखंडे उमामहेश्वरसंवादे मासिकपुष्पोनाम सप्ताशीतितमोऽध्यायः ८७।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 88

सूतउवाच-

अतःपरं कार्तिकमाहात्म्यं प्रस्तूयते ।

सूत उवाच-

एकदा द्वारकामागादृषिः कृष्णदिदृक्षया ।

पुष्पाण्यादाय दिव्यानि कल्पवृक्षोत्थितानि च १।

नारदं स्वागतेनासौ कृष्णः सत्कारमाचरत् ।

इदमर्घ्यमिदं पाद्यमित्युवाचासनंददत् २।

नारदस्तानि पुष्पाणि कृष्णायोपाजहार च ।

कृष्णः षोडशसाहस्रस्त्रीभ्यस्तानि व्यभज्यत ३।

विस्मृत्य सत्यभामां तु सर्वाभ्यस्तान्यदात्प्रभुः ।

सत्यभामा ततः क्रुद्धा क्रोधागारं समाविशत् ४।

समाज्ञाय ततः कृष्णस्तत्र गत्वा समाहितः ।

सत्यभामां मानयित्वा गरुडं मनसा स्मरन् ५।

स्मृतमात्रस्तु गरुडस्तदागत्याग्रतः स्थितः ।

आरुह्य वेगात्पत्रं तमित्युवाच प्रियां प्रभुः ६।

सत्ये त्वं माकृथाः क्रोधं त्वत्कृते देवतैः सह ।

विरुध्य देवराजानं रोपयिष्ये तवांगणे ७।

कल्पद्रुमं महाभागेऽपराधं मे क्षमां कुरु ।

इति कृत्वा प्रतिज्ञां तु कृष्णः स सत्यभामया ८।

देवलोकमगात्तूर्णं यत्र देवः स वृत्रहा ।

याचितः कल्पवृक्षार्थमुत्तरं दत्तवान्प्रभुम् ९।

नायं देवद्रुमो भूम्यां प्राप्तुं योग्यस्त्वया प्रभो ।

तदा क्रुद्धो महाबाहुर्वृक्षमुत्पाट्य मूलतः १०।

वाहमारोपयामास वेगेन बलवत्तरः ।

तदा वज्रधरो वेगाद्वज्रमुद्यम्य वीर्यवान् ११।

गरुडं ताडयामास कल्पवृक्षं त्यजेरिति ।

तदा पत्ररथः पत्रं कुलिशस्यापि गौरवात् १२।

एकं विसर्जयामास त्वरया प्रजगाम च ।

तेन वज्रप्रहारेण त्रयोभूव पतत्रिणः १३।

मयूरो नकुलश्चाषः कृष्णो द्वारावतीमगात् ।

आगत्य सत्यभामाया गृहे चैनमरोपयत् ।

तदैव नारदोऽभ्यागात्सत्यया मानितो बहु १४।

सत्यभामोवाच-

ईदृशः कल्पवृक्षोऽयं पतिरेतादृशः प्रभुः ।

भवेभवे कथं प्राप्यस्तदाख्यातु भवान्मम १५।

इति पृष्टस्तदा प्राह नारदो मुनिसत्तमः ।

प्राप्यते सत्यभामेऽयं तुलापुरुष दानतः १६।

सत्यभामा तदा कृष्णं कल्पवृक्षसमन्वितम् ।

नारदायैव सा प्रादात्तोलयित्वा विधानतः ।

सर्वोपस्करमाकृष्य नारदस्त्रिदिवं ययौ १७।

सूत उवाच-

श्रियःपतिमथामंत्र्य गते देवर्षिसत्तमे ।

हर्षोत्फुल्लानना सत्या वासुदेवमथाब्रवीत् १८।

सत्यभामोवाच-

धन्यास्मि कृतकृत्यास्मि सफलं जीवितं च मे ।

मज्जन्मनि निदाने च धन्यौ तौ पितरौ मम १९।

यौ मां त्रैलोकसुभगां जनयामासतुर्ध्रुवम् ।

षोडशस्त्रीसहस्राणां वल्लभाहं यतस्तव २०।

यस्मान्मयादिपुरुषः कल्पवृक्षसमन्वितः ।

यथोक्तविधिना सम्यङ्नारदाय समर्पितः २१।

यद्वार्तामपि जानंति भूमिसंस्थान जंतवः ।

सोऽयं कल्पद्रुमो गेहे मम तिष्ठति सांप्रतम् २२।

त्रैलोक्याधिपतेश्चाहं श्रीपतेरतिवल्लभा ।

अतोऽहं प्रष्टुमिच्छामि किंचित्त्वां मधुसूदन २३।

यदि त्वं मत्प्रियकरः कथयस्वात्र विस्तरात् ।

श्रुत्वा तच्च पुनश्चाहं करोमि हितमात्मनः २४।

यथाकल्पं त्वया देव वियुक्ता स्यां न कर्हिचित् ।

सूत उवाच-

इति प्रियावचः श्रुत्वा स्मेरास्योऽयं गदाग्रजः २५।

सत्या करे करं कृत्वागमत्कल्पतरोस्तलम् ।

निषिद्ध्यानुचरं लोकं सविलासं प्रियान्वितः २६।

प्रहस्य सत्यामामंत्र्य प्रोवाच जगतांपतिः ।

तत्प्रीति परितोषार्थं लसत्पुलकितांगजः २७।

कृष्ण उवाच-।

न मे त्वत्तः प्रियतमा काचिदन्या नितंबिनी ।

षोडशस्त्रीसहस्राणां प्रिये प्राणसमा ह्यसि २८।

त्वदर्थं देवराजेन विरोधो दैवतैः सह ।

त्वया यत्प्रार्थितं कांते शृणु यच्च महद्भवेत् २९।

अदेयमथवाकार्यमकथ्यमपि यत्पुनः ।

त्वत्कृतं तु कथं प्रश्नं कथयामि न तु प्रिये ।

पृच्छस्व सर्वं कथये यत्ते मनसि वर्तते ३०।

सत्योवाच-

दानं व्रतं तपो वापि किं तु पूर्वं मयाकृतम् ।

येनाहं मर्त्यजा मर्त्ये भवानीवाऽभवं किल ३१।

तवांगार्द्धहरा नित्यं गरुडोपरिगामिनी ।

इंद्रादिदेवतावासमगमं च त्वया सह ३२।

अतस्त्वां प्रष्टुमिच्छामि किं कृतं तु मया शुभम् ।

जन्मांतरे च किं शीला का चाहं कस्य कन्यका ३३।

श्रीकृष्ण उवाच-

शृणुष्वैकमनाः कांते यत्त्वं वै पूर्वजन्मनि ।

पुण्यं व्रतं कृतवती तत्सर्वं कथयामि ते ३४।

आसीत्कृतयुगस्यांते मायापुर्यां द्विजोत्तमः ।

आत्रेयो देवशर्मेति वेदवेदांगपारगः ३५।

आतिथेयोऽग्निशुश्रूषुः सौरव्रत परायणः ।

सूर्यमाराधयन्नित्यं साक्षात्सूर्य्य इवापरः ३६।

तस्यातिवयसश्चासीन्नाम्ना गुणवती सुता ।

अपुत्रः स स्वशिष्याय चंद्र नाम्ने ददौ सुताम् ३७।

तमेव पुत्रवन्मेने स च तं पितृवद्वशी ।

तौ कदाचिद्वनं यातौ कुशेध्महरणार्थिनौ ३८।

हिमाद्रिपादजवने चेरतुस्तौ यतस्ततः ।

तौ ततो राक्षसं घोरमायांतं समपश्यताम् ३९।

भयविह्वलसर्वांगावसमर्थौ पलायितुम् ।

निहतौ रक्षसा तेन कृतांतसमरूपिणा ४०।

तौ तु क्षेत्रप्रभावेण धर्मशीलतया पुनः ।

वैकुंठभवनं नीतौ मद्गणैर्मत्समीपगैः ४१।

यावज्जीवंतु यत्ताभ्यां सूर्यपूजादिकं कृतम् ।

तेन वै कर्मणा ताभ्यां सुप्रीतोऽहं किलाभवम् ४२।

शैवाः सौराश्च गाणेशा वैष्णवाः शक्तिपूजकाः ।

मामेव प्राप्नुवंतीह वर्षांभः सागरं यथा ४३।

एकोऽहं पंचधा जातः क्रीडयन्नामभिः किल ।

देवदत्तो यथा कश्चित्पुत्राद्याह्वाननामभिः ४४।

ततश्च तौ मद्भवनाधिवासिनौ विमानयानौ रविवर्चसावुभौ ।

मत्तुल्यरूपौ मम सन्निधानगौ दिव्यांगना चंदनभोगभोगिनौ ४५।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां श्रीकृष्णसत्यभामा संवादे अष्टाशीतितमोऽध्यायः ८८।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 89

श्रीकृष्ण उवाच-

ततो गुणवती श्रुत्वा रक्षसा निहतावुभौ ।

पितृभर्तजदुःखार्त्ता करुणं पर्यदेवयत् १।

गुणवत्युवाच-

हा नाथ हा पितस्त्यक्त्वा गच्छतं क्व मया विना ।

बालाहं किं करोम्यद्य ह्यनाथा भवता विना २।

को नु मामास्थितां गेहे भोजनाच्छादनादिभिः ।

अकिंचित्कुशलां स्नेहात्पालयिष्यति दुःखिताम् ३।

हतभाग्या गतसुखा हतेशा हतजीविता ।

शरणं कं व्रजाम्यद्य त्वन्नाथा बतबालिशा ४।

श्रीकृष्ण उवाच-

एवं बहुविलप्याथ कुररीव भृशातुरा ।

पपात भूमौ विकला रंभा वातहता यथा ५।

चिरादाश्वस्य सा भूमौ विलप्य करुणं बहु ।

निमग्ना दुःखजलधौ शोकार्त्ता समवर्त्तत ६।

साग्रहोपस्करान्सर्वान्विक्रीय शुभकर्मकृत् ।

तयोश्चक्रे यथाशक्ति पारलौकिक सत्क्रियाम् ७।

तस्मिन्नेव पुरे वासं चक्रे प्रभृतिजीवितम् ।

विष्णुभक्तिपरा शांता सत्यशौचा जितेंद्रिया ८।

व्रतद्वयं तया सम्यगाजन्म मरणात्कृतम् ।

एकादशीव्रतं सम्यक्सेवनं कार्त्तिकस्य च ९।

एतद्व्रतद्वयं कांते ममातीव प्रियंकरम् ।

भुक्तिमुक्तिकरं सम्यक्पुत्रसंपत्तिकारकम् १०।

कार्तिके मासि ये नित्यं तुलासंस्थे दिवाकरे ।

प्रातः स्नास्यंति ते मुक्ता महापातकिनोऽपि च ११।

संमार्जनं गृहे विष्णोः स्वस्तिकादि निवेदनम् ।

विष्णुपूजां प्रकुर्वंति जीवन्मुक्ताश्च ते नराः १२।

स्नानं जागरणं दीपं तुलसीवनसेवनम् ।

कार्त्तिके ये प्रकुर्वंति ते नरा विष्णुमूर्त्तयः १३।

इत्थं दिनत्रयमपि कार्तिके ये प्रकुर्वते ।

देवानामपि ते वंद्याः किं यैराजन्मतः कृतम् १४।

इत्थं गुणवती सम्यक्प्रत्यब्दं प्रतिनीयते ।

नित्यं विष्णोः परिकरे भक्ता तत्परमानसा १५।

कदाचिज्जरसा साथ कृशांगी ज्वरपीडिता ।

स्नातुं गंगां गता कांते कथंचिच्छनकैस्तथा १६।

यावज्जलांतरगता कंपिता शीतपीडिता ।

तावत्सा विह्वला पश्यद्विमानं प्राप्तमंबरात् १७।

शंखचक्रगदापद्महस्तैरासन्नमंबरात् ।

विष्णुरूपधरैः सम्यग्वैनतेयध्वजांकितैः १८।

आरोहयन्विमानं तमप्सरोगणसेवितम् ।

चामरैर्वीज्यमानां तां वैकुंठमनयन्गणाः १९।

अथ सा तद्विमानस्था ज्वलदग्निशिखोपमा ।

कार्त्तिकव्रतपुण्येन मत्सान्निध्यगताभवत् २०।

अथ ब्रह्मादिदेवानां यथा प्रार्थनया भुवम् ।

आगच्छता गणाः सर्वे यातास्तेऽपि मया सह २१।

एतेपि यादवाः सर्वे मद्गणा एव भामिनि ।

पिता ते देवशर्माभूत्सत्राजिदधिपो ह्ययम् २२।

यश्चंद्रशर्मा सोऽक्रूरस्त्वं सा गुणवती शुभे ।

कार्त्तिकव्रतपुण्येन बहुमत्प्रीतिवर्द्धनी २३।

मम द्वारे त्वया पूर्वं तुलसीवाटिका कृता ।

तस्मादयं कल्पवृक्षस्तवांगणतः शुभे २४।

कार्तिके दीपमानं च यत्त्वया तु कृतं पुरा ।

त्वद्देहगेहसंस्थेयं तस्माल्लक्ष्मी स्थिराभवत् २५।

यच्च व्रतादिकं सर्वं विष्णवे भर्तृरूपिणे ।

निवेदितवती तस्मान्मम भार्यात्वमागता २६।

आजन्ममरणात्पूर्वं कार्त्तिके यद्व्रतं कृतम् ।

कदाचिदपि तेनैव मद्वियोगं न पश्यसि २७।

एवं ये कार्त्तिके मासि नरा व्रतपरायणाः ।

मत्सान्निध्यं गतास्तेऽपि प्रीतिदा त्वं यथा मम २८।

यज्ञदानव्रततपः कारिणो मानवाः खलु ।

कार्त्तिकव्रतपुण्यस्य नाप्नुवंति कलामपि २९।

इत्थं निशम्य भुवनाधिपतेस्तदानीं प्राक्पुण्यजन्मभव वैभव जातहर्षा ।

विश्वेश्वरं त्रिभुवनैकनिदानभूतं कृष्णंप्रणम्य वचनं निजगाद सत्या ३०।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे सत्यापूर्वजन्मवर्णनंनामैकोननवतितमोऽध्यायः ८९।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 90

सत्योवाच-

सर्वेऽपि कालावयवास्तवकालस्वरूपिणः ।

समानास्तु कथं नाथ मासानां कार्तिको वरः १।

एकादशी तिथीनां च मासानां कार्त्तिकः प्रियः ।

कथं ते देवदेवेश कारणं किं च कथ्यताम् २।

श्रीकृष्ण उवाच-

साधु पृष्टं त्वया सत्ये शृणुष्वैकाग्रमानसा ।

पृथोर्वैन्यस्य संवादं देवर्षेर्नारदस्य च ३।

एवमेव पुरा पृष्टो नारदः पृथुना प्रिये ।

उवाच कार्त्तिकाधिक्ये कारणं सर्वविन्मुनिः ४।

नारद उवाच-

शंखनामाभवत्पूर्वमसुरः सागरात्मजः ।

त्रिलोकीमथने शक्तो महाबलपराक्रमः ५।

जित्वा देवान्निराकृत्य स्वर्गलोकान्महासुरः ।

इंद्रादिलोकपालानामधिकारांस्तथाहरत् ६।

तद्भयादथ ते देवाः सुवर्णाद्रिगुहां गताः ।

न्यवसन्बहुवर्षाणि सावरोधाः सवासवाः ७।

सुवर्णाद्रि गुहादुर्गसंस्थितास्त्रिदशा यदा ।

तद्वश्या न बभूवुस्ते तदा दैत्यो व्यचारयत् ८।

हृताधिकारास्त्रिदशा मया यद्यपि निर्जिताः ।

भवंति बलयुक्तास्ते करणीयं ममात्र किम् ९।

अद्य ज्ञातं मया देवा वेदमंत्रबलान्विताः ।

तान्हरिष्ये ततः सर्वे बलहीना भवंति हि १०।

इति मत्वा ततो दैत्यो विष्णुमालक्ष्य निद्रितम् ।

सत्यलोकाज्जहाराशु वेदानां च गणं प्रभुः ११।

नीतास्तु तेन ते वेदास्तद्भयात्ते निराक्रमन् ।

तोये निविविशुस्तेऽत्र यज्ञमंत्रसमन्विताः १२।

तान्मार्गमाणः शंखोऽपि समुद्रांतर्गतो भ्रमन् ।

न ददर्श ततो दैत्यः क्वचिदेकत्र संस्थितान् १३।

अथ ब्रह्मा सुरैः सार्द्धं विष्णुं शरणमन्वयात् ।

पूजोपकरणं गृह्य वैकुंठभवनं गतः १४।

तत्र तस्य प्रबोधाय गीतवाद्यादिकाः क्रियाः ।

चक्रुर्देवा गंधपुष्पधूपदीपान्मुहुर्मुहुः १५।

अथ प्रबुद्धो भगवांस्तद्भक्तिपरितोषितः ।

ददृशे तैः सुरैस्तत्र सहस्रार्कसमद्युतिः १६।

उपचारैः षोडशभिः संपूज्य त्रिदशास्तदा ।

दंडवत्पतिता भूमौ तानुवाचाथ केशवः १७।

विष्णुरुवाच-

वरदोऽहं सुरगणा गीतवाद्यादि मंगलैः ।

मनोऽभिलषितान्कामान्सर्वानेव ददामि वः १८।

इषस्य शुक्लैकादश्या यावदुद्बोधिनी भवेत् ।

निशातुर्यांशशेषेण गीतवाद्यादि मंगलैः १९।

कुर्वंति मनुजा नित्यं भवद्भिर्यद्यथाकृतम् ।

ते मत्प्रियकरा नित्यं मत्सांनिध्यं व्रजंति हि २०।

पाद्यार्घाचमनीयाद्यैर्भवद्भिर्यद्यथाकृतम् ।

तदद्भुतगुणं यस्माज्जातंवः सुखकारणम् २१।

वेदाः शंखहृताः सर्वे तिष्ठंत्युदकसंस्थिताः ।

तानानयाम्यहं देवा हत्वा सागरनंदनम् २२।

अद्यप्रभृति वेदास्तु मंत्रबीजमखान्विताः ।

प्रत्यब्दं कार्तिके मासि विश्रमंत्वप्सु सर्वदा २३।

अद्यप्रभृत्यहमपि भवामि जलमध्यगः ।

भवंतोऽपि मया सार्द्धमायांतु समुनीश्वराः २४।

कालेऽस्मिन्नेव कुर्वंति प्रातःस्नानं द्विजोत्तमाः ।

ते सर्वयज्ञावभृथैः सुस्नाताः स्युर्न संशयः २५।

ये कार्तिके व्रतं सम्यङ्नित्यं कुर्वंति मानवाः ।

ते देहांते त्वया शक्र प्राप्या मद्भवनं सदा २६।

विघ्नेभ्यो रक्षणं तेषां यया कार्यं ममाज्ञया ।

देया त्वया च वरुण पुत्रपौत्रादि संततिः २७।

धनवृद्धिर्धनाध्यक्ष त्वया कार्या ममाज्ञया ।

ममरूपधराः साक्षाज्जीवन्मुक्ताश्च ते नराः २८।

आजन्ममरणाद्यैश्च कृतमेतद्व्रतोत्तमम् ।

यथोक्तविधिना सम्यक्ते मान्या भवतामपि २९।

एकादश्यां यतश्चाहं भवद्भिः प्रतिबोधितः ।

अतश्चैषा तिथिर्मान्या सदैव प्रीतिदा मम ३०।

व्रतद्वयं सम्यगिदं नरैः कृतं कृष्णस्य सान्निध्यदमस्ति नान्यत् ।

दानानि तीर्थानि तपांसि यज्ञाः स्वर्लोकदानेन सदा सुरोत्तमाः ३१।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्र संहितायां कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शंखासुरवधउद्यमोनाम नवतितमोऽध्यायः ९०।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 91

नारद उवाच-

इत्युक्त्वा भगवान्विष्णुः शफरीतुल्यरूपधृक् ।

स पपातांजलौ विंध्ये निवासे कश्यपस्य च १।

स तं कमंडलौ क्षिप्रं कृपया क्षिप्तवान्मुनिः ।

तावत्स न ममौ तत्र ततः कूपे न्यवेशयत् २।

तत्रापि न ममौ तावत्कासारे प्राक्षिपत्सताम् ।

एवं स सागरे क्षिप्तस्तत्र सोऽप्यन्ववर्द्धत ३।

ततोऽवधीत्स तं शंखं विष्णुर्वै मत्स्यरूपधृक् ।

अथ तं स्वकरे धृत्वा बदरीवनमागतः ४।

तत्राहूय ऋषीन्सर्वानिदमाज्ञापयद्विभुः ।

श्रीकृष्ण उवाच-

जलांतरे विशीर्णांस्तु यूयं वेदान्प्रमार्जथ ५।

आनयध्वं च त्वरिताः सरहस्यं जलांतरात् ।

तावत्प्रयागे तिष्ठामि देवतागणसंयुतः ६।

नारद उवाच-

ततस्तैः सर्वमुनिभिस्तपोबलसमन्वितैः ।

उद्धारिताः षडंगास्ते वेदा यज्ञसमन्विताः ७।

तेषु यावन्मितं येन लब्धं तावन्मितस्य हि ।

स स एव ऋषिर्जातस्तदाप्रभृति पार्थिव ८।

अथ सर्वेऽपि संगम्य प्रयागं मुनयो ययुः ।

विष्णवे सविधात्रे ते लब्धान्वेदान्न्यवेदयन् ९।

लब्ध्वा वेदान्सयज्ञांस्तु ब्रह्माहर्षसमन्वितः ।

अयजच्चाश्वमेधेन देवर्षिगणसंवृतः १०।

यज्ञा ते देवदेवेश सिद्धपन्नगगुह्यकाः ।

निपत्य दंडवद्भूमौ विज्ञप्तिं तत्र चक्रिरे ११।

देवा ऊचुः।

देवदेवजगन्नाथ विज्ञप्तिं शृणु नः प्रभो ।

हर्षकालोऽयमस्माकं तस्मात्त्वं वरदो भव १२।

स्थानेऽस्मिन्नृषयो वेदान्नष्टान्प्रापुः पुनः स्वयम् ।

यज्ञभागान्वयं प्राप्तास्त्वत्प्रसादाद्रमापते १३।

स्थानमेतदपि श्रेष्ठं पृथिव्यां पुण्यवर्द्धनम् ।

भुक्तिमुक्तिप्रदं चास्तु प्रसादाद्भवतः सदा १४।

कालोऽप्ययं महापुण्यो ब्रह्मघ्नादिविशुद्धिकृत् ।

दत्ताक्षयकरश्चास्तु वरमेतद्वदस्व नः १५।

श्रीविष्णुरुवाच।

ममाप्येतन्मतं देवा यद्भवद्भिरुदाहृतम् ।

तत्तथास्तु लभत्वेतद्ब्रह्मक्षेत्रमिति प्रथाम् १६।

सूर्यवंशोद्भवो राजा गंगामत्रानयिष्यति ।

सा सूर्यकन्यया चात्र कालिंद्या संगमिष्यति १७।

यूयं च सर्वे ब्रह्माद्या निवसध्वं मया सह ।

तीर्थराजेऽति विख्यातं तीर्थमेतद्भविष्यति १८।

दानं तपो व्रतं होमो जपपूजादिकाः क्रियाः ।

अनंतफलदाः संतु मत्सांनिध्यप्रदाः सदा १९।

ब्रह्महत्यादि पापानि बहुजन्मकृतान्यपि ।

दर्शनादस्य तीर्थस्य विनाशं यांतु तत्क्षणात् २०।

देहत्यागं तथा धीराः कुर्वंति मम सन्निधौ ।

मत्तनुं प्रविशंत्येव पुनर्जन्मनि नो नराः २१।

पितॄन्निर्दिश्य ये श्राद्धं कुर्वंत्यत्र समागताः ।

तेषां पितृगणाः सर्वे यांतु ते मत्सलोकताम् २२।

कालोऽप्येष महापुण्यफलदोऽस्तु सदा नृणाम् ।

सूर्य्ये मकरगे प्रातः स्नायिनां पापनाशनम् २३।

मकरस्थरवौ माघे प्रातः स्नानं प्रकुर्वताम् ।

दर्शनादेव पापानि यांति सूर्याद्यथा तमः २४।

सलोकत्वं सरूपत्वं समीपत्वं त्रयं क्रमात् ।

नृणां ददाम्यहं स्नानान्माघे मकरगे रवौ २५।

यूयं मुनीश्वराः सर्वे शृणुध्वं वरदोऽस्मि वः ।

बदरीवनमध्येऽहं सदा तिष्ठामि सर्वगः २६।

अन्यत्र दशभिर्वर्षैस्तपसावाप्यते फलम् ।

तदत्र दिवसैकेन भवद्भिः प्राप्यते सदा २७।

स्थानस्य दर्शनं तस्य ये कुर्वंति नरोत्तमाः ।

जीवन्मुक्तास्तदा तेषु पापं नैवावतिष्ठते २८।

सूत उवाच-

एवं देवान्देवदेवस्तदुक्त्वा तत्रैवांतर्द्धानमागात्स वेधाः ।

देवाः सर्वेऽप्यंशकैस्तत्र तस्थुश्चांतर्द्धानं प्रापुरिंद्रादयस्ते २९।

इमां च गाथां शृणुयान्नरोत्तमो यः श्रावयेद्वापि विशुद्धचित्तः ।

स तीर्थराजं बदरीवनं यत्कृत्वा फलं मां समवाप्नुयाच्च ३०।

इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशत्सहस्रसंहितायां कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शंखासुरवधो वेदागमे प्रयागमाहात्म्यं नामैकनवति-तमोऽध्यायः ९१।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 92

पृथुरुवाच-

महाफलं त्वया प्रोक्तं मुने कार्त्तिकमाघयोः ।

तयोः स्नानविधिं सम्यङ्नियमानपि नारद ।

उद्यापनविधिं चैवं यथावद्वक्तुमर्हसि १।

नारद उवाच-

त्वं विष्णोरंशसंजातो नाज्ञातं विद्यते तव ।

तथापि वदतः सम्यङ्माहात्म्यं शृणु वेनज २।

आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत् ।

कार्तिकव्रतनियमं तस्यां कुर्यादतंद्रितः ३।

रात्र्यां तुर्यांशशेषायां मुदो तिष्ठत्सदा व्रती ।

नैरृत्यां संव्रजेद्वासाद्बहिः सोदकभाजनः ४।

दिवासंध्या सुकर्णस्थ ब्रह्मसूत्र उदङ्मुखः ।

अंतर्धाय तृणं भूमौ शिरः प्रावृत्य वाससा ५।

वक्त्रं नियम्य यत्नेन ष्ठीवनश्वासवर्जितः ।

कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ६।

गृहीतशिश्नश्चोत्थाय गृहीत्वा शुचिमृत्तिकाम् ।

गंधलेपक्षयकरं शौचं कुर्यादतंद्रितः ७।

एका लिंगे गुदे पंच तथा वामकरे दश ।

उभयोः सप्त दातव्यास्तथा तिस्रस्तु पादयोः ८।

एतद्द्वि त्रिगुणं प्रोक्तं ब्रह्मचारि वनस्थयोः ।

यतेश्चतुर्गुणं रात्रौ तदर्द्धं शौचमाचरेत् ९।

तदर्द्धमपि मार्गस्थः स्त्रीशूद्राणां तदर्द्धकम् ।

शौचकर्मविहीनस्य सकला निष्फलाः क्रियाः १०।

मुखशुद्धिविहीनस्य नो मंत्राः फलदाः स्मृताः ।

दंत जिह्वा विशुद्धिं च ततः कुर्यात्प्रयत्नतः ११।

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।

ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते १२।

इति मंत्रं समुच्चार्य द्वादशांगुलकं सदा ।

समिधा क्षीरवृक्षास्य क्षयाहोपोषणं विना १३।

प्रतिपद्दर्श नवमी षष्ठीश्चार्कदिनं विना ।

चंद्रसूर्योपरागे च न कुर्याद्दंतधावनम् १४।

कंटकीवृक्षकार्पास निर्गुंडी ब्रह्मवृक्षजम् ।

बिल्वैरंडविगंधाढ्यं वर्जयेद्दंतधावनम् १५।

ततो विष्णोः शिवस्यापि गृहं गच्छेत्प्रसन्नधीः ।

गंधपुष्पसुतांबूलान्गृहीत्वा भक्तितत्परः १६।

तत्र देवस्य पाद्यार्घाद्युपचारान्पृथक्पृथक् ।

कृत्वा स्तुत्वा पुनर्नत्वा कुर्याद्गीतादिमंगलम् १७।

तालवेणुमृदंगादि ध्वनियुक्तान्सनृत्तकान् ।

पुष्पैर्गंधैः सतांबूलैर्गायनानपि चार्चयेत् १८।

देवालये गानपरा यतस्ते विष्णुमूर्त्तयः ।

तपांसि यज्ञदानानि कृतानि च जगद्गुरोः १९।

तुष्टिदानि कलौ नित्यं भक्त्या देवस्य सत्पतेः ।

क्व त्वं वससि देवेश मया पृष्टस्तु पार्थिव २०।

विष्णुरेवं तदा प्राह मद्भक्तिपरितोषितः ।

नाहं वसामि वैकुंठे योगिनां हृदये न च २१।

मद्भक्ता यत्र गायंति तत्र तिष्ठामि नारद ।

सत्पुराणकथां श्रुत्वा मद्भक्तानां च गायनम् २२।

नेच्छंति ये नरा मूढा मद्द्वेष्यास्ते भवंति हि ।

तेषां पूजादिकं गंधपुष्पादि क्रयते नरैः२३।

तेन प्रीतिं तथा यामि न तथा मत्प्रपूजनात् ।

शिरीषोन्मत्तगिरिजा मल्लिका शाल्मलीभवैः २४।

अर्कजैः कर्णिकारैश्च विष्णुर्नार्च्यस्तथाक्षतैः ।

जपा कुंद शिरीषैश्च यूथिका मालती भवैः २५।

केतकीभव पुष्पैश्च नैवार्च्यः शंकरस्तथा ।

गणेशं तुलसीपत्रैर्दुर्गां नैव च दूर्वया २६।

मुनिपुष्पैस्तथा सूर्यं लक्ष्मीकामो न चार्चयेत् ।

सुगंधीनि प्रशस्तानि पूजायां सर्वदैव तु २७।

एवं पूजाविधिं कृत्वा देवदेवं क्षमापयेत् ।

मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर २८।

यत्पूजितं मया देव परिपूर्णं तदस्तु मे ।

ततःप्रदक्षिणंकृत्वादंडवत्प्रणिपत्यच २९।

पुनःक्षमापयेद्देवंगायनाद्यंक्षमापयेत् ।

विष्णोः शिवस्यापि च पूजनादिकं कुर्वंति सम्यङ्निशि कार्तिके ये ।

निर्धूतपापाः सह पूर्वजैस्ते प्रयांति विष्णोर्भवनं मनुष्याः ३०।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे नियमवर्णनं नाम द्विनवतितमोऽध्यायः ९२।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 93

नारद उवाच-

नाडीद्वयावशिष्टायां रात्रौ गच्छेज्जलाशयम् ।

तिलगंधाक्षतैः पुष्पैर्दीपाद्यैः सहितः शुचिः १।

मानुषे देवखाते च नद्यां नद्योश्च संगमे ।

क्रमाद्दशगुणं स्नानं तीर्थेऽनंतफलं स्मृतम् २।

विष्णुं स्मृत्वा ततः कुर्यात्संकल्पं सवनस्य तु ।

तीर्थादिदेवतादिभ्यः क्रमादर्घादि दापयेत् ३।

ॐनमः कमलनाभाय नमस्ते जलशायिने ।

नमस्तेऽस्तु हृषीकेश गृहाणार्घं नमोऽस्तु ते ४।

वैकुंठे च प्रयागे च तथा बदरिकाश्रमे ।

यतो विष्णुर्विचक्रमे त्रेधा स निदधे पदम् ५।

अतो देवा मामवंतु यतो विष्णुर्विचक्रमे ।

तैरेव सहितैः सर्वैर्मुनिदेवसमन्वितैः ६।

कार्तिकेऽहं करिष्यामि प्रातःस्नानं सुरोत्तम ।

प्रीत्यर्थं देवदेवेश दामोदर मया सह ७।

ध्यात्वाहं त्वां च देवेश जलेऽस्मिन्स्नातुमुद्यतः ।

तव प्रसादात्पापं मे दामोदर विनश्यतु ८।

नित्यनैमित्तिके कृष्णे कार्तिके पापनाशने ।

गृहाणार्घ्यं मया दत्तं राधया सहितो हरे ९।

व्रतिना कार्तिके मासि स्नातस्य विधिवन्मम ।

गृहाणार्घ्यं मया दत्तं राधया सहितो हरे १०।

स्मृत्वा भागीरथीं विष्णुं शिवं सूर्यं जले विशेत् ।

नाभिमात्रे जले तिष्ठन्व्रती स्नायाद्यथाविधि ११।

तिलामलकचूर्णेन गृही स्नानं समाचरेत् ।

वनस्थानां यतीनां च तुलसीमूलमृत्तिका १२।

सप्तमी दर्श नवमी द्वितीया दशमीषु च ।

त्रयोदश्यां च न स्नायाद्धात्रीफल तिलैः सह १३।

आदौ कुर्यान्मलस्नानं मंत्रस्नानं ततः परम् ।

स्त्री शूद्राणां न वेदोक्तैर्मंत्रैस्तेषां पुराणजैः १४।

स्नान मन्त्राः ।

त्रिधाभूद्देवकार्याय यः पुरा भक्तिभावतः ।

स विष्णुः सर्वपापघ्नः पुनातु कृपयात्र माम् १५।

विष्णोराज्ञामनुप्राप्य कार्तिकव्रतकारणात् ।

रक्षंतु देवास्ते सर्वे मां पुनंतु सदैव ते १६।

वेदमंत्राः सबीजास्तु सरहस्याः सवीर्यकाः ।

कश्यपाद्याश्च मुनयो मां पुनंतु सदैव ते १७।

गंगाद्याः सरितः सर्वास्तीर्थानि जलदा नदाः ।

ससप्तसागराः सर्वे मां पुनंतु जलाशयाः १८।

पतिव्रतास्त्वदित्याद्या यक्षाः सिद्धाः सपन्नगाः ।

ओषध्यः पर्वताश्चाशु मां पुनंतु त्रिलोकजाः १९।

एभिः स्नात्वा व्रती मंत्रैर्हस्तन्यस्तपवित्रकः ।

देवर्षीन्मानवपितॄंस्तर्पयेच्च यथाविधि २०।

यावंतः कार्तिके मासि वर्तंते पितृतर्पणे ।

तिलास्तत्संख्यकाब्दानि पितरः स्वर्गवासिनः २१।

ततो जलाद्विनिष्क्रम्य शुचिवस्त्रावृतो व्रती ।

प्रातःकालोदितं कर्म समाप्यार्चेद्धरिं पुनः २२।

तीर्थादिदेवान्संस्मृत्य पुनरर्चां प्रदापयेत् ।

गंधपुष्पफलैर्युक्तो भक्तितत्परमानसः २३।

अर्घमंत्रः ।

व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम ।

गृहाणार्घ्यं मया दत्तं दनुजेंद्र निषूदन २४।

ततश्च ब्राह्मणान्भक्त्या भोजयेद्वेदपारगान् ।

गंधपुष्पैः सतांबूलैः प्रणमेच्च पुनः पुनः २५।

तीर्थानि दक्षिणे पादे वेदाश्च मुखमाश्रिताः ।

सर्वांगे संस्थिता देवाः पूजिताः स्युर्द्विजार्चनात् २६।

अव्यक्तरूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि ।

नावमान्या नो विरोध्याः कदाचिच्छुभमिच्छता २७।

तां वै हरिप्रियां देवि तुलसीमर्चयेद्व्रती ।

प्रदक्षिणनमस्कारान्कुर्यादेकाग्रमानसः २८।

देवैस्त्वं निर्मिता पूर्वमर्चितासि मुनीश्वरैः ।

नमो नमस्ते तुलसि पापं हर हरिप्रिये २९।

ततो विष्णुकथां श्रुत्वा पौराणीं स्निग्धमानसः ।

तं ब्राह्मणं मुनिं विप्रं पूजयेद्भक्तिमान्व्रती ३०।

एवं पूर्णविधिं सम्यक्पूर्वोक्तं भक्तिमान्नरः ।

करोति यः स लभते नारायणसलोकताम् ३१।

रोगापहं पापविनाशकृत्परं सद्बुद्धिदं पुत्रधनादिसाधनम् ।

मुक्तेर्निदानं न हि कार्तिकव्रताद्विष्णुप्रियादन्यतमं हि भूतले ३२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे स्नानविधिवर्णनोनाम त्रिनवतितमोऽध्यायः ९३।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 94

नारद उवाच-

कार्तिकव्रतिनां पुंसां नियमा ये प्रकीर्तिताः ।

ताञ्छृणुष्व मया राजन्कथ्यमानान्समंततः १।

सर्वामिषाणि मांसानि क्षौद्रं सौवीरकं तथा ।

राजमाषादिकं चापि नैवाद्यात्कार्तिकव्रती २।

द्विदलं तिलतैलं च तथान्नमश्रुदूषितम् ।

भावदुष्टं शब्ददुष्टं वर्जयेत्कार्तिकव्रती ३।

परान्नं च परद्रोहं परदारागमं तथा ।

तीर्थे प्रतिगृहं नापि गृह्णीयात्कार्तिकव्रती ४।

देवदेवद्विजानां च गुरोश्च व्रतिनस्तथा ।

स्त्रीराजमहतां निंदां वर्जयेत्कार्तिके व्रती ५।

प्राण्यंगमामिषं चूर्णं फले जंबीरमामिषम् ।

धान्ये मसूरिका प्रोक्ता चान्नं पर्युषितं तथा ६।

अजागोमहिषीक्षीरादन्यदुग्धादि चामिषम् ।

द्विजक्रीता रसाः सर्वे लवणं भूमिजं तथा ७।

ताम्रपात्रस्थितं गव्यं जलं पल्वलसंस्थितम् ।

आत्मार्थं पाचितं चान्नमामिषं तत्स्मृतं बुधैः ८।

ब्रह्मचर्यमधः सुप्तिः पत्रावल्यां च भोजनम् ।

चतुर्थकाले भुंजीत कुर्यादेवं सदा व्रती ९।

नरकस्य चतुर्दश्यां तैलाभ्यंगं च कारयेत् ।

अन्यत्र कार्तिकस्नायि तैलाभ्यंगं न कारयेत् १०।

पलांडुं लशुनं शिग्रु छत्राकं गृंजनं तथा ।

नालिकां मूलकं हिंगुं वर्जयेत्कार्तिकव्रती ११।

अलाबुं चापि वृंताकं कूष्मांडं बृहतीफलम् ।

श्लेष्मातकं कपित्थं च वर्जयेद्वैष्णवव्रती १२।

रजस्वलांत्यज म्लेच्छ पतितव्रात्यकैः सह ।

द्विजातिवेदबाह्यैश्च न वदेत्कार्तिकव्रती १३।

श्वभिर्दृष्टं च काकैश्च सूतकान्नं च वर्जयेत् ।

द्विःपाचितं च दग्धान्नं वर्जयेत्कार्तिकव्रती १४।

तिलाभ्यंगं तथा शय्यां परान्नं कांस्यभोजनम् ।

कार्तिके वर्जयेद्यस्तु परिपूर्णव्रती भवेत् ।

एतानि वर्जयेन्नित्यं व्रती सर्वव्रतेष्वपि ।

कृच्छ्राद्यं चापि कुर्वीत स्वशक्त्या विष्णुतुष्टये १५।

क्रमात्कूष्मांड वृंताकं बृहती मूलकं तथा ।

श्रीफलं च कलिंगं च फलं धात्रीभवं तथा १६।

नारिकेरं महालाबुं पटोलं बदरीफलम् ।

चर्म वैकतकं चापि बिसं वै कट्फलं तथा १७।

शाकान्येतानि वर्ज्यानि क्रमात्प्रतिपदादिषु ।

धात्रीफलं रवौ तद्वद्वर्जयेत्सर्वदा गृही १८।

एभ्योऽपि वर्जयेत्किंचिद्यद्विष्णुप्रीतये नरः ।

तत्पुनर्ब्राह्मणे दत्त्वा भक्षयेत्सर्वदैव हि १९।

एवमेव हि माघेऽपि कुर्याद्वै नियमान्व्रती ।

हरिजागरणं तत्र विधिप्रोक्तं च कारयेत् २०।

यथोक्तकारिणं दृष्ट्वा कार्तिकव्रतिनं नरम् ।

यमदूताः पलायंते गजाः सिंहार्दिता यथा २१।

वरं विष्णुव्रतं ह्येतदथ यज्ञशताधिकम् ।

यज्ञकृत्प्राप्नुयात्स्वर्गं वैकुंठं कार्तिकव्रती २२।

भुक्तिमुक्तिप्रदानीह यानि क्षेत्राणि भूतले ।

वसंति तानि तद्गेहे कार्तिक्रव्रतकारिणः २३।

दुःस्वप्न्नं दुष्कृतं किंचिन्मनोवाक्कायकर्मजम् ।

कार्त्तिकव्रतिनं दृष्ट्वा विलयं यांति तत्क्षणात् २४।

कार्त्तिकव्रतिनः पुंसो विष्णुवाक्यप्रणोदिताः ।

रक्षां कुर्वंति शक्राद्या राज्ञो वै किंकरा यथा २५।

विष्णुव्रतकरा नित्यं यत्र तिष्ठंति पूजिताः ।

ग्रहभूतपिशाचाद्या नैव तिष्ठंति तत्र वै २६।

कार्त्तिकव्रतिनः पुण्यं यथोक्तव्रतकारिणः ।

न समर्थो भवेद्वक्तुं ब्रह्मापीह चतुर्मुखः २७।

विष्णुप्रियं सकलकल्मषनाशनं च सर्वत्र पुत्रधनधान्यसमृद्धिकारि ।

ऊर्जे व्रतं सनियमं कुरुते मनुष्यः किं तस्य तीर्थपरिशीलन सेवया च २८।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे नियमवर्णनोनाम चतुर्नवतितमोऽध्यायः ९४।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 95

नारद उवाच।

अथोर्जव्रतिनः सम्यगुद्यापनविधिं नृप ।

तच्छृणुष्व मयाख्यातं किं विधानं समासतः १।

ऊर्ज्जशुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रती ।

व्रतसंपूर्णतार्थाय विष्णुप्रीत्यर्थमेव च २।

तुलस्या उपरिष्टात्तु कुर्यान्मंडपिकां शुभाम् ।

सुतोरणां चतुर्द्वारां पुष्पचामरशोभिताम् ३।

द्वारेषु द्वारपालांश्च पूजयेन्मृन्मयान्पृथक् ।

पुण्यशीलं सुशीलं च जयं विजयमेव च ४।

तुलसीमूलदेशे च सर्वतोभद्रमालिखेत् ।

चतुर्भिर्वर्णकैः सम्यक्शोभाढ्यं समलंकृतम् ५।

तस्योपरिष्टात्सपिधानं पंचरत्नसमन्वितम् ।

महाफलेन संयुक्तं कुंभं तत्र निधाय च ६।

पूजयेत्तत्र देवेशं शंखचक्रगदाधरम् ।

कौशेयपीतवसनं युक्तं जलधिकन्यया ७।

इंद्रादिलोकपालांश्च पूजयेन्मंडले व्रती ।

द्वादश्यां प्रतिबुद्धः स त्रयोदश्यां यतः सुरैः ८।

दृष्टोऽर्चितश्चतुर्दश्यां तस्मात्पूज्यस्तथाधिकम् ।

तस्यामुपवसेद्भक्त्या शांतः प्रयतमानसः ९।

पूजयेद्देवदेवेशं सौवर्णं गुर्वनुज्ञया ।

उपचारैः षोडशभिर्नानाभक्ष्यसमन्वितैः १०।

रात्रौ जागरणं कुर्याद्गीतवाद्यादि मंगलैः ।

गीतं कुर्वंति ये भक्त्या जागरे चक्रपाणिनः ११।

जन्मांतरशतोद्भूतैस्ते मुक्ताः पापसंचयैः ।

जागरे वासरे विष्णोर्गीतं नृत्यं च कुर्वताम् १२।

गोसहस्रं च ददतां तत्फलं समुदाहृतम् ।

गीतनृत्यादिकं कुर्वन्दर्शयेत्कौतुकानि च १३।

पुरतो वासुदेवस्य रात्रौ यो हरिजागरे ।

पठन्विष्णुचरित्राणि यो रंजयति वैष्णवान् १४।

मुखेन कुरुते वाद्यं स्वेच्छालापांश्च दर्शयन् ।

भावैरेतैर्नरो यस्तु कुरुते हरिजागरम् १५।

दिनेदिने तस्य पुण्यं तीर्थकोटिसमं स्मृतम् ।

ततस्तु पौर्णिमास्यां वै सपत्नीकान्द्विजोत्तमान् १६।

त्रिंशन्मिताननेकान्वा स्वशक्त्या वा निमंत्रयेत् ।

वरान्दत्त्वा यतो विष्णुर्मत्स्यरूपी अभूत्तदा १७।

तस्यां दत्तं हुतं जप्तं तदक्षयफलं स्मृतम् ।

अतस्तान्भोजयेद्विप्रान्पायसान्नादिना व्रती १८।

अतो देवा इति द्वाभ्यां जुहुयात्तिलपायसम् ।

प्रीत्यर्थं देवदेवस्य देवानां च पृथक्पृथक् १९।

दक्षिणां च यथाशक्ति प्रदद्यात्प्रणमेच्च तान् ।

पुनर्देवं समभ्यर्च्य देवांश्च तुलसीं तथा २०।

ततो गां कपिलां तत्र पूजयेद्विधिवद्व्रती ।

गुरुं व्रतोपदेष्टारं वस्त्रालंकरणादिभिः २१।

सपत्नीकं समभ्यर्च्य गां च तस्मै प्रदापयेत् ।

युष्मत्प्रसादाद्देवेशः प्रसन्नो मे भवेत्तदा २२।

व्रतादस्माच्च यत्पापं सप्तजन्मकृतं मया ।

तत्सर्वं नाशमायातु स्थिरा मे चास्तु संततिः २३।

मनोरथाश्च सफलाः संतु नित्यं ममार्चनात् ।

देहांते वैष्णवं स्थानं प्राप्नुयामतिदुर्लभम् २४।

इति क्षमाप्यतान्विप्रान्प्रसाद्य च विसर्जयेत् ।

तामर्चां गुरवे दद्याद्रत्नयुक्तां तदा व्रती २५।

तदा सुहृद्गुरुयुतः स्वयं भुंजति भक्तिमान् ।

कार्त्तिके वाथ तपसि विधिरेवंविधः स्मृतः २६।

एवं यः कुरुते सम्यक्कार्तिकस्य व्रतं नरः ।

विपाप्मा स विनिर्मुक्तो विष्णुसान्निध्यगो भवेत् २७।

सर्वव्रतैः सर्वतीर्थैःस र्वदानैश्च यत्फलम् ।

तत्कोटिगुणितं ज्ञेयं सम्यगस्य विधानतः २८।

ते धन्यास्ते महापुण्यास्तेषां सर्वफलोदयः ।

विष्णुभक्तिरता ये स्युः कार्तिके व्रतकारिणः २९।

देहस्थितानि पापानि वितर्कं यांति तद्भयात् ।

क्व यास्यामो वदंत्येवं यद्ययं व्रतकृन्नरः ३०।

इत्यूर्जव्रतनियमान्शृणोति भक्ता ये चैतत्कथयंति चैव वैष्णवाग्रे ।

ते सम्यग्व्रतकरणात्फलं लभेरन्तत्सर्वं कलुषविनाशनं लभंते ३१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे उद्यापनवर्णनोनाम पंचनवतितमोऽध्यायः ९५।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 96

पृथुरुवाच-

यत्त्वया कथितं ब्रह्मन्व्रतमूर्जस्य विस्तरात् ।

तत्र या तुलसीमूले विष्णोः पूजा त्वयोदिता १।

तेनाहं प्रष्टुमिच्छामि माहात्म्यं तुलसीभवम् ।

कथं सातिप्रिया विष्णोर्देवदेवस्य शार्ङ्गिणः २।

कथमेषा समुत्पन्ना कस्मिंस्थाने च नारद ।

एतद्ब्रूहि समासेन सर्वज्ञोऽसि मतो हि मे ३।

नारदउवाच-

पुरा रुद्रेण दैत्येंद्रे सिंधुसूनौ निपातिते ।

प्रणम्य शिरसा रुद्रं देवा ब्रह्मादयोऽब्रुवन् ।

शृणु राजन्प्रवक्ष्यामि माहात्म्यं तुलसीभवम् ४।

सेतिहासं पुरावृत्तं तत्सर्वं कथयामि ते ।

पुरा शक्रः शिवं द्रष्टुमगात्कैलासपर्वतम् ।

सर्वदेवैः परिवृतस्त्वप्सरोगणसेवितः ५।

यावद्गतः शिवगृहं तावत्तत्राशु दृष्टवान् ।

पुरुषं भीमकर्माणं दंष्ट्रानयनभीषणम् ६।

स पृष्टस्तेन कस्त्वं भो क्व गतो जगदीश्वरः ।

एवं पुनः पुनः पृष्टः स यदा नोचिवान्नृप ७।

ततः क्रुद्धो वज्रपाणिस्तन्निर्भर्त्स्य वचोऽब्रवीत् ।

रे मया पृच्छमानोऽपि नोत्तरं दत्तवानसि ८।

अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते ।

इत्युदीर्य ततो वज्री वज्रेण चाहनद्दृढम् ९।

तेनास्य कंठे नीलत्वमगाद्वज्रं च भस्मतां ।

ततो रुद्र प्रजज्वाल तेजसा प्रदहन्निव १०।

दृष्ट्वा बृहस्पतिस्तूर्णं कृतांजलिपुटोऽभवत् ।

इंद्रश्चदंडवद्भूमौ कृत्वा स्तोतुं प्रचक्रमे ११।

बृहस्पतिरुवाच-

नमो देवाधिदेवाय त्र्यंबकाय कपर्दिने ।

त्रिपुरघ्नाय शर्वाय नमोंधकनिषूदिने १२।

विरूपायातिरूपाय बहुरूपाय शंभवे ।

यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने १३।

कालांतकाय कालाय कालभोगधराय च ।

नमो ब्रह्मशिरोहंत्रे ब्राह्मणाय नमो नमः १४।

नारद उवाच-

एवं स्तुतस्तदा शंभुः द्विजर्षभं जगाद ह ।

संहरन्नयनज्वालं त्रिलोकीदहनक्षमाम् १५।

वरं वरय भो ब्रह्मन्प्रीतः स्तुत्यानया तव ।

इंद्रस्यजीवदानेन जीवति त्वं प्रथां व्रज १६।

बृहस्पतिरुवाच-

यदि तुष्टोऽसि देव त्वं याहींद्रं शरणागतम् ।

अग्निरेष शमं यातु भालनेत्रसमुद्भवः १७।

ईश्वर उवाच-

पुनः प्रवेशमायाति भालनेत्रे कथं त्वयम् ।

एनं त्यक्ष्याम्यहं दूरे यथेंद्रं नैव पीडयेत् १८।

नारद उवाच-

इत्युक्त्वा तं करे धृत्वा प्राक्षिपल्लवणांभसि ।

सोऽपतत्सिंधुगंगायाः सागरस्य च संगमे १९।

तदा स बालरूपत्वमगात्तत्र रुरोद च ।

रुदतस्तस्य शब्देन प्राकंपद्धरणी मुहुः २०।

स्वर्गश्च सत्यलोकश्च तत्स्वनाद्बधिरीकृतौ ।

श्रुत्वा ब्रह्मा ययौ तत्र किमेतदिति विस्मितः २१।

तावत्समुद्रस्योत्संगे तं बालं स ददर्श ह ।

दृष्ट्वा ब्राह्मणमायांतं समुद्रोऽपि कृतांजलि २२।

प्रणम्य शिरसा बालं तस्योत्संगे न्यवेशयेत् ।

ततो ब्रह्माब्रवीद्वाक्यं कस्यायं शिशुरद्भुतः २३।

निशम्येति वचो धातुर्वाक्यं तु सागरोऽब्रवीत् ।

ब्रह्मा उवाच-

सरित्पते कुतो लब्धो बालो ह्येष महाबलः २४।

यस्य नादेन संत्रस्ता देवासुरमहोरगाः ।

समुद्र उवाच-

भो ब्रह्मन्सिधुगंगायां जातोऽयं मम पुत्रकः २५।

जातकर्मादि संस्कारान्कुरुष्वास्य जगद्गुरो ।

नारद उवाच-

इत्थं वदति पाथोधौ स बालः सागरात्मजः २६।

ब्रह्माणमग्रहीत्कूर्चे विधुन्वंतं मुहुर्मुहुः ।

धुन्वतस्तस्य कूर्चं तु नेत्राभ्यामागमज्जलम् ।

कथंचिन्मुक्तकूर्चोऽथ ब्रह्मा प्रोवाच सागरम् २७।

ब्रह्मोवाच-

नेत्राभ्यां विधृतं यस्मादनेनैतज्जलं मम ।

तस्माज्जलंधर इति ख्यातो नाम्ना भवत्यसौ २८।

अधुनैवैष तरुणः सर्वशस्त्रास्त्रपारगः ।

अवध्यः सर्वभूतानां विना रुद्रं भविष्यति २९।

याति यत्र समुद्भूतस्तत्रेदानीं गमिष्यति ३०।

नारद उवाच-

इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत् ।

आमंत्र्य सरितां नाथं ब्रह्मांतर्द्धानमन्वगात् ३१।

अथ तद्दर्शनोत्फुल्लनयनः सागरस्तदा ।

कालनेमिसुतां वृंदां तद्भार्यार्थमयाचत ३२।

ते कालनेमिप्रमुखास्ततोऽसुरास्तस्मै सुतां तां प्रददुः प्रहर्षिताः ।

स चापि तान्प्राप्यसुहृद्वरान्वशी शशास गां शुक्रसहायवान्बली ३३।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जालंधरोत्पत्तिवर्णनंनाम षण्णवतितमोऽध्यायः ९६।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 97

नारद उवाच-

ये देवैर्निर्जिताः पूर्वं दैत्याः पातालसंस्थिताः १।

ते हि भूमंडलं जाता निर्भयास्तमुपासितुम् ।

कदाचिच्छिन्नशिरसं राहुं दृष्ट्वा स दैत्यराट् ।

पप्रच्छ भार्गवं विप्रं केनेदं विहितं प्रभो २।

भार्गवस्तस्य शिरसश्छेदं राहोः शशंस ह ।

अमृतार्थं समुद्रस्य मथनं देवकारितम् ३।

रत्नापहरणं चैव दैत्यानां च पराभवम् ।

तच्छ्रुत्वा क्रोधरक्ताक्षः स्वपितुर्मथनं तदा ४।

स दूतं प्रेषयामास घस्मरं शक्रसंनिधौ ।

दूतस्त्रिविष्टपं गत्वा सुधर्मां प्राप्य सत्वरम् ५।

गर्वादखर्वमौलिस्तु देवेंद्रं वाक्यमब्रवीत् ।

दूत उवाच-

जलंधरोऽब्धितनयः सर्वदैत्यजनेश्वरः ६।

दूतोऽहं प्रेषितस्तेन स यदाह शृणुष्व तत् ।

कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा ७।

नीतानि सर्वरत्नानि तानि शीघ्रं प्रयच्छ मे ।

इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः ।

उवाच घस्मरं घोरं भयरोषसमन्वितः ८।

ईश्वर उवाच-

शृणु दूत मया पूर्वं मथितः सागरो यथा ।

अद्रयो मद्भयाद्भीताः स्वकुक्षिस्थास्तथा कृताः ९।

अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजास्तथा ।

तस्मात्तद्रत्नजातं तु मयाप्यपहृतं किल १०।

शंखोऽप्येवं पुरा देवानद्विषत्सागरात्मजः ।

ममानुजेन निहतः प्रविष्टः सागरोदरम् ११।

तद्गच्छ कथयस्वास्यसर्वं मथनकारणम् १२।

नारद उवाच-

इत्थं विसर्जितो दूतस्तदेंद्रेणागमद्गृहम् ।

तदिंद्रवचनं दैत्यराजायाकथयत्तदा १३।

तन्निशम्य तदा दैत्यो रोषात्प्रस्फुरिताधरः ।

उद्योगमकरोत्तूर्णं सर्वदेवजिगीषया १४।

तदोद्योगे सुरेंद्रस्य दिग्भ्यः पातालतस्तथा ।

दितिजाः प्रत्यपद्यंत शतशः कोटिशस्तथा १५।

अथ शुंभनिशुंभाद्यैर्बलाधिपतिकोटिभिः ।

गत्वा त्रिविष्टपं दैत्यो युद्धायाधिष्ठितोऽभवत् १६।

निर्ययुस्त्वमरावत्या देवा युद्धाय दंशिताः ।

पुरमावृत्य तिष्ठंति दृष्ट्वा दैत्यबलं महत् १७।

ततः समभवद्युद्धं देवदानवसेनयोः ।

मुशलैः परिघैर्बाणैर्गदापरशुशक्तिभिः १८।

तेऽन्योन्यं समधावेतां जघ्नतुश्च परस्परम् ।

क्षणेनाभवतां सेने रुधिरौघ परिप्लुते १९।

पतितैः पात्यमानैश्च गजाश्वरथपत्तिभिः ।

व्यराजत रणे भूमिः संध्याभ्रपटलैरिव २०।

तत्र युद्धे हतान्दैत्यान्भार्गवस्तूदतिष्ठयत् ।

विद्ययाऽमृतजीविन्या मंत्रितैस्तोयबिंदुभिः २१।

देवास्तत्र तथा युद्धे जीवयेदंगिरस्सुतः ।

दिव्यौषधीः समानीय द्रोणदेश्याः पुनः पुनः २२।

दृष्ट्वा देवांस्तथा युद्धे पुनरेव समुत्थितान् ।

जलंधरः क्रोधवशो भार्गवं वाक्यमब्रवीत् २३।

जलंधर उवाच-

मया देवा हता युद्धे उत्तिष्ठंति कथं पुनः ।

तव संजीवनीविद्या नैवान्यत्रेति विश्रुतम् २४।

भृगुरुवाच-

दिव्यौषधीः समानीय द्रोणाद्रेरंगिराः सुरान् ।

जीवयत्येष वै शीघ्रं द्रोणाद्रिं समपाहर २५।

नारद उवाच-

इत्युक्तः स तु दैत्येंद्रो नीत्वा द्रोणाचलं तदा ।

प्राक्षिपत्सागरे तूर्णं पुनरागान्महाहवम् २६।

अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः ।

तावत्तत्र गिरींद्रं तं न ददर्श सुरार्चितः २७।

ज्ञात्वा दैत्यहृतं द्रोणं विषण्णो भयविह्वलः ।

आगत्य दूराद्व्याजह्रे श्वासाकुलितविग्रहः २८।

पलायध्वं पलायध्वं नायं जेतुं हि शक्यते ।

रुद्रांशसंभवो ह्येष स्मरध्वं शक्रचेष्टितम् २९।

श्रुत्वा तद्वचनं देवा भयविह्वलितास्तदा ।

दैत्यैस्तैर्वध्यमानास्ते पलायंत दिशो दश ३०।

देवान्विदारितान्दृष्ट्वा दैत्यः सागरनंदनः ।

शंखभेरीजयरवैः प्रविवेशामरावतीम् ३१।

प्रविष्टे नगरं दैत्ये देवाःशक्रपुरोगमाः ।

सुवर्णाद्रिगुहां प्राप्य न्यवसन्दैत्यतापिताः ३२।

ततश्च सर्वेष्वसुराधिकारेष्विंद्रादिकानां विनिवेशयत्तदा ।

शुंभादिकान्दैत्यवरान्पृथक्पृथक्स्वयं सुवर्णाद्रिगुहामगात्पुनः ३३।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये अमरावतीविजयोनाम सप्तनवतितमोऽध्यायः ९७।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 98

नारद उवाच-

पुनर्दैत्यं समायांतं दृष्ट्वा देवाः सवासवाः ।

भयप्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः १।

देवा ऊचुः।

नमो मत्स्यकूर्मादि नानास्वरूपैः सदाभक्तकार्योद्यतायार्तिहंत्रे ।

विधात्रादिसर्गस्थितिध्वंसकर्त्रे गदाशंखपद्मारिहस्तायतेऽस्तु २।

रमावल्लभायासुराणां निहंत्रे भुजंगादिनाथाय पीतांबराय ।

मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ३।

नमो दैत्यसंतापिता मर्त्यदुःखाचलध्वंस दंभोलये विष्णवेते ।

भुजंगेशतल्पेशयायार्कचंद्र द्विनेत्राय तस्मै नतास्मो नताः स्मः ४।

नारद उवाच-

संकष्टनाशनं स्तोत्रं नित्यं यस्तु पठेन्नरः ।

स कदाचिन्नसंकष्टै पीड्यते कृपया हरेः ५।

इति देवाः स्तुतिं यावत्कुर्वंति दनुजद्विषः ।

तावत्सुराणामापत्तिर्विज्ञाता विष्णुना तदा ६।

सहसोत्थाय दैत्यारिः कृपया खिन्नमानसः ।

आरुह्य गरुडं वेगाल्लक्ष्मीं वचनमब्रवीत् ७।

विष्णुरुवाच-

जलंधरेण ते भ्रात्रा देवानां कदनं कृतम् ।

तैराहूतो गमिष्यामि युद्धायाद्य त्वरान्वितः ८।

लक्ष्मीरुवाच-

अहं ते वल्लभा नाथ भक्ता च यदि सर्वदा ।

तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ९।

श्रीभगवानुवाच-

रुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि ।

प्रीत्या च तव नैवायं मम वध्यो जलंधरः १०।

नारद उवाच-

इत्युक्त्वा गरुडारूढः शंखचक्रगदासिभृत् ।

विष्णुर्वेगाद्ययौ योद्धुं यत्र देवाः स्तुवंति ते ११।

अथारुणानुजात्युग्रपक्षवातप्रपीडिताः ।

वात्याविवर्तिता दैत्या बभ्रमुः खे यथा घनाः १२।

ततो जलंधरो दृष्ट्वा दैत्यान्वात्या प्रपीडितान् ।

नोवाच वचनं क्रोधात्ततो विष्णुं समभ्ययात् १३।

ततः समभवद्युद्धं विष्णुदैत्येंद्रयोर्महत् ।

आकाशं कुर्वतोर्बाणैरंते निरवकाशवत् १४।

विष्णुर्दैत्यस्य बाणौघैर्ध्वजं च्छत्रं धनुर्हयान् ।

चिच्छेद तं च हृदये बाणेनैकेनताडयन् १५।

ततो दैत्यं समुत्पत्य गदापाणिस्त्वरान्वितः ।

आगत्य गरुडं मूर्ध्नि पातयामास भूतले १६।

विष्णुर्गदां च खड्गेन चिच्छेद प्रहसन्निव ।

तावत्स सुहृदे विष्णुं जघान दृढमुष्टिना १७।

ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ ।

बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम् १८।

एवं सुरुचिरं युद्धं कृत्वा विष्णुः प्रतापवान् ।

उवाच दैत्यराजानं मेघगंभीरया गिरा १९।

विष्णुरुवाच-

वरं वरय दैत्येंद्र प्रीतोऽस्मि तव विक्रमात् ।

अदेयमपि ते दद्मि यत्ते मनसि वर्तते २०।

जलंधर उवाच-

यदि भावुकतुष्टोऽसि वरमेतं ददस्व मे ।

मद्भगिन्या सह तया मद्गृहे सगणो वस २१।

नारद उवाच-

तथेत्युक्त्वा स भगवान्सर्वदेवगणैः सह ।

जलंधरं नाम पुरमगमद्रमया सह २२।

जलंधरश्च देवानामधिकारेषु दानवान् ।

स्थापयित्वा सहर्षः सन्पुनरागान्महीतले २३।

देवगंधर्वसिद्धेषु यत्किंचिद्रत्नसंज्ञितम् ।

तदात्मवशगं कृत्वा तिष्ठत्सागरनंदनः २४।

पातालभवने दैत्यं निशुंभं च महाबलम् ।

स्थापयित्वा स शेषादीननयद्भूतलं बली २५।

देवगंधर्वसिद्धौघान्यक्षरासमानुषान् ।

स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम् २६।

एवं जलंधरः कृत्वा देवांश्च वशवर्त्तिनः ।

धर्मेण पालयामास प्रजाः पुत्रानिवौरसान् २७।

न कश्चित्व्याधितो नैव दुःखितो न कृशस्तथा ।

न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति २८।

एवं महीं शासति दानवेंद्रे धर्मेण सम्यक्च यदृच्छयाहम् ।

कदाचिदागामथ तस्य लक्ष्मीं विलोकितुं श्रीरमणं च सेवितुम् २९।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जलंधरप्रवेशोनाम अष्टनवतितमोऽध्यायः ९८।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 99

नारद उवाच-

स मां संपूज्य विधिवद्दानवेंद्रो ऽतिभक्तितः ।

संप्रहस्य तदा वाक्यं जगाद नृपसत्तम १।

जलंधर उवाच-

कुतस्त्वागम्यते ब्रह्मन्किं च दृष्टं त्वया क्वचित् ।

यदर्थमिह चायातस्तदा ज्ञापय मां मुने २।

नारद उवाच-

गतः कैलासशिखरं दैत्येंद्राहं यदृच्छया ।

तत्रोमया सहासीनं दृष्टवानस्मि शंकरम् ३।

योजनायुतविस्तीर्णे कल्पद्रुम महावने ।

कामधेनुशताकीर्णे चिंतामणि सुदीपिते ४।

तं दृष्ट्वा महदाश्चर्यं वितर्को मेऽभवत्तदा ।

क्वापीदृशी भवेद्वृद्धिस्त्रिलोक्यां वा न वेति च ५।

तावत्तवापि दैत्येंद्र समृद्धिः सम्भृता मया ।

तद्विलोकनकामोऽहं त्वत्सान्निध्यमिहागतः ६।

त्वत्समृद्धिमिमां पश्यन्स्त्रीरत्नरहितां ध्रुवम् ।

तर्कयामि शिवादन्यत्त्रिलोक्यां न समृद्धिमान् ७।

अप्सरो नागकन्याश्च यद्यपि त्वद्वशे स्थिताः ।

तथापि ता न पार्वत्या रूपेण सदृशा ध्रुवम् ८।

यस्या लावण्यजलधौ निमग्नश्चतुराननः ।

स्वधैर्यममुचत्पूर्वं तया कान्योपमीयते ९।

वीतरागोऽपि हि यथा मदनारिः स्वलीलया ।

विश्वतंत्रोऽपि तपसा स चात्मवशगः कृतः १०।

सौंदर्यगहने भ्रामन्शबरीरूपया पुरा ।

यस्याः पुनः पुनः पश्यन्रूपं धाता विसर्जने ११।

ससर्जाप्सरसस्तास्तास्तत्समैकापि नाभवत् ।

अतः स्त्रीरत्नसंभोक्तुः समृद्धिस्तस्य सा वरा १२।

तथा न तव दैत्येंद्र सर्वरत्नाधिपस्य च ।

एवमुक्त्वा तमामंत्र्य गते मयि स दैत्यराट् १३।

तद्रूपश्रवणादासीदनंगज्वरपीडितः ।

अथ संप्रेषयामास दूतं च सिंहिकासुतम् १४।

त्र्यंबकाय तदा किंचिद्विष्णुमायाविमोहितः ।

कैलासमगमद्राहुः सर्वशुक्लेंदुवर्चसम् १५।

कार्त्स्न्येन कृष्णपक्षेंदुवर्चसं स्वांगजेन तु ।

निवेदितस्तदादेशान्नंदिना च प्रवेशितः ।

त्र्यंबकाभ्रूलतासंज्ञा प्रेरितो वाक्यमब्रवीत् १६।

राहुरुवाच-

देवपन्नगसेव्यस्य त्रैलोक्याधिपतेः प्रभोः ।

सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज १७।

श्मशानवासिनो नित्यं मुंडमालाधरस्य च ।

दिगंबरस्य ते भार्या कथं हैमवती शुभा १८।

अहं रत्नाधिनाथोऽस्मि सा च स्त्री रत्नसंज्ञका ।

तस्मान्ममैव सा योग्या नैव भिक्षाशिनस्तव १९।

नारद उवाच-

वदत्येवं तदा राहौ भ्रूमध्याच्छूलपाणिनः ।

अभवत्पुरुषो रौद्रस्तीव्राशनिसमस्वनः २०।

सिंहास्यः प्रचलज्जिह्वः सज्वलन्नयनो महान् ।

ऊर्ध्वकेशः शुष्कतनुर्नृसिंह इव चापरः २१।

स तं खादितुमारेभे दृष्ट्वा राहुर्भयातुरः ।

अधावदतिवेगेन बहिः स च दधार तम् २२।

स च राहुर्महाबाहुर्मेघगंभीरया गिरा ।

उवाच देवदेवेशं पाहि मां शरणागतम् २३।

ब्राह्मणं मां महादेव खादितुं समुपागतः ।

एतस्माद्रक्ष देवेश शरणागतवत्सल २४।

महादेवो वचः श्रुत्वा ब्राह्मणस्य तदाब्रवीत् ।

नैवासौ वध्यतामेति दूतोऽयं परवान्यतः २५।

मुंचेति पुरुषः श्रुत्वा राहुं तत्याज सोंबरे ।

राहुं त्यक्त्वा स षुरुषो महादेवं व्यजिज्ञपत् २६।

पुरुष उवाच-

क्षुधा मां बाधते स्वामिन्क्षुत्क्षामश्चास्मि सर्वथा ।

किं भक्ष्यं मम देवेश तदाज्ञापय मां प्रभो २७।

ईश्वर उवाच-

संभक्षयात्मनः शीघ्रं मांसं त्वं हस्तपादयोः २८।

नारद उवाच-

सशिवेनैवमाज्ञप्तश्चखाद पुरुषः स्वयम् ।

हस्तपादोद्भवं मांसं शिरःशेषो यदाभवत् २९।

दृष्ट्वा शिरोऽवशेषं तु सुप्रसन्नः सदाशिवः ।

पुरुषं भीमकर्माणं तमुवाच सविस्मयः ३०।

ईश्वर उवाच-

त्वं कीर्तिमुखसंज्ञो हि भव मद्द्वारगः सदा ।

त्वदर्चां नैव कुर्वंति नैव ते मत्प्रियंकराः ३१*।

नारद उवाच-

तदाप्रभृति देवस्य द्वारे कीर्तिमुखः स्थितः ।

नार्चयंतीह ये पूर्वं तेषामर्चा वृथा भवेत् ३२।

राहुर्विमुक्तो यस्तेन सोऽपतद्बर्बरस्थले ।

अतः स बर्बरोद्भूत इति भूमौ पृथां गतः ३३।

ततश्च राहुः पुनरेव जातमात्मानमस्मिन्निति मन्यमानः ।

समेत्य सर्वं कथयां बभूव जलंधरायेशविचेष्टितं तत् ३४।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकामाहात्म्ये श्रीकृष्णसत्यभामासंवादे दूतसंवादो जालंधरोपाख्यानंनाम नवनवतितमोऽध्यायः ९९।

मूर्तिकलायां कीर्तिमुखः

खण्डः ६ (उत्तरखण्डः) — Adhyāya 100

नारद उवाच-

जालंधरस्तु तच्छ्रुत्वा कोपाकुलितविग्रहः ।

निर्जगामाशु दैत्यानां कोटिभिः परिवारितः १।

गतस्तस्याग्रतः शुक्रो राहुर्दृष्टिस्थितोऽभवत् ।

मुकुटश्चापतद्भूमौ वेगात्प्रस्खलितस्तदा २।

दैत्यसैन्यवृतैस्तत्र विमानानां शतैस्तदा ।

व्यराजत नभः पूर्णं प्रावृषीव बलाहकैः ३।

तस्योद्योगं तदा दृष्ट्वा देवाः शक्रपुरोगमाः ।

अलक्षितत्वराजग्मुः शूलिनं ते व्यजिज्ञपन् ४।

देवा ऊचुः ।

न जानासि कथं स्वामिन्देवा विज्ञापयंति भो ।

तदस्मद्रक्षणार्थाय जहि सागरनंदनम् ५।

नारद उवाच-

इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः ।

महाविष्णुं समाहूय वचनं चेदमब्रवीत् ६।

ईश्वर उवाच-

जालंधरः कथं विष्णो न हतः संगरे त्वया ।

तद्भयाच्चापयातोऽसि त्यक्त्वा वैकुंठमात्मनः ७।

भगवानुवाच-

तवांशसंभवत्वाच्च भ्रातृत्वाच्च तथा श्रियः ।

न मया निहतः संख्ये त्वमेनं जहि दानवम् ८।

ईश्वर उवाच-

नायमेभिर्महातेजाः शस्त्रास्त्रैर्वध्यते मया ।

देवैः सर्वैः स्वतेजोंशः शस्त्रार्थे दीयतां मम ९।

नारद उवाच-

अथ विष्णुमुखा देवाः स्वतेजांसि ददुस्तदा ।

तान्येकत्वं गतानीशो दृष्ट्वा तेजो महांस्तदा १०।

तेनाकरोन्महादेवः सहसा शस्त्रमुत्तमम् ।

चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् ११।

तेजःशेषेण च तदा वज्रं च कृतवान्हरः ।

तावज्जलंधरो दृष्टः कैलासतलभूमिषु १२।

हस्त्यश्वरथपत्तीनां कोटीभिः परिवारितः ।

तं दृष्ट्वा हर्षिताः सर्वे देवा जग्मुर्यथागतम् १३।

गणाश्च समनह्यंत युद्धायातित्वरान्विताः ।

नंदीभवक्त्रसेनानीमुखाः सर्वे शिवाज्ञया १४।

अवतेरुर्गणाः सर्वे कैलासाद्युद्धदुर्मदाः ।

ततः समभवद्युद्धं कैलासोपत्यका भुवि १५।

प्रमथाधिपदैत्यानां घोरं शस्त्रास्त्रसंकुलम् ।

भेरीमृदंगशंखौघनिस्वनैर्वीरहर्षणैः १६।

गजाश्वरथशब्दैश्च नादिता भूर्व्यकंपत ।

शक्तितोमरबाणौघैर्मुशलप्रासपट्टिशैः १७।

व्यराजत नभः पूर्णमुल्काभिरिव संवृतम् ।

निहतैरथ नागाश्वैः सर्वा भूमिर्व्यराजत १८।

वज्राहताश्चलशिरः शकलैरिव संवृता ।

प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा १९।

वसासृङ्मांस पंकाद्यैर्भूरगम्याभवत्तदा ।

प्रमथाहतदैत्यौघान्भार्गवः समजीवयत् २०।

युद्धे पुनः पुनश्चैव मृतसंजीवनी बलात् ।

तं दृष्ट्वा व्याकुलीभूत्वा गणाः सर्वे भयार्दिताः २१।

शशंसुर्देवदेवेशं तत्सर्वं शुक्रचेष्टितम् ।

अथ रुद्रमुखात्कृत्या बभूवातीव भीषणा २२।

तालजंघोदरी वक्रा स्तनापीडितभूरुहा ।

सा युद्धभूमिमासाद्य भक्षयंती महासुरान् २३।

भार्गवं स्वकरे धृत्वा जगामांतर्हिताभवत् ।

विधृतं भार्गवं दृष्ट्वा दैत्यसैन्यगणास्तदा २४।

प्रम्लानवदना दर्पान्निजघ्नुर्युद्धदुर्मदाः ।

अथाभज्यत दैत्यानां सेना गणभयार्दिता २५।

वायुवेगहता यद्वत्प्रकीर्णतृणसंहतिः ।

भग्नां गतभयात्सेनां दृष्ट्वा हर्षं गणा ययुः २६।

निशुंभशुंभसेनान्यौ कालनेमिश्च वीर्यवान् ।

त्रयस्ते वारयामासुर्गणसेनां महाबलाः २७।

मुंचतः शरवर्षाणि प्रावृषीव बलाहकाः ।

ततो दैत्यशरौघास्ते शलभानामिव व्रजाः २८।

रुरुधुः खं दिशः सर्वा गणसेनामकंपयन् ।

गणाः शरशतैर्भिन्ना रुधिरासारवर्षिणः २९।

वसंते किंशुकाभासा न प्राज्ञायत किंचन ।

पतिताः पात्यमानाश्च छिन्नाभिन्नास्तदा गणाः ३०।

त्यक्त्वा संग्रामभूमिं ते सर्वेऽपि विमुखाभवन् ३१।

ततः प्रभग्नं स्वबलं विलोक्य गजास्यनंदीश्वरकार्तिकेयाः ।

चिरान्विता दैत्यवरान्प्रसह्य निवारयामासुरमर्षणास्ते ३२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे दैत्यसेनावधोनाम शततमोऽध्यायः १००।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 101

नारद उवाच-

ते गणाधिपतीन्दृष्ट्वा नंदीभमुखषण्मुखान् ।

अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः १।

नंदिनं कालनेमिश्च शुंभो लंबोदरं तथा ।

निशुंभः षण्मुखं वेगादभ्यधावत दंशितः २।

निशुंभः कार्तिकेयस्य मयूरं पंचभिः शरैः ।

हृदि विव्याध वेगेन मूर्छितः स पपात च ३।

ततः शक्तिधरः शक्तिं यावज्जग्राह रोषितः ।

तावन्निशुंभो वेगेन स्वशक्त्या तमपातयत् ४।

ततो नंदीश्वरो बाणैः कालनेमिमविध्यत ।

सप्तभिश्च हयान्केतूंस्त्रिभिः सारथिमच्छिनत् ५।

कालनेमिस्तु संक्रुद्धो धनुश्चिच्छेद नंदिनः ।

तदपास्य सशूलेन तं वक्षस्य हनद्दृढम् ६।

सशूलभिन्नहृदयो हताश्वो हतसारथिः ।

अद्रेः शिखरमामुच्य शैलाद्रिं सोऽप्यपातयत् ७।

अथ शुंभो गणेशश्च रथमूषकवाहनौ ।

युध्यमानौ शरव्रातैः परस्परमविध्यताम् ८।

अथ शुंभं गणाध्यक्षो हृदि विव्याध पत्रिणा ।

सारथिं पंचभिर्बाणैः पातयामास भूतले ९।

ततः शुंभोऽतिक्रुद्धोऽपि बाणषष्ट्या गणाधिपम् ।

मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः १०।

मूषकः शरभिन्नांगश्चचाल कृतवेदनः ।

लंबोदरः समुत्तीर्य पदातिरभवन्नृप ११।

ततो लंबोदरः शुंभं हत्वा परशुना हृदि ।

अपातयत्तदा भूमौ मूषकं चारुहत्पुनः १२।

कालनेमिर्निशुंभश्च उभौ लंबोदरं शरैः ।

युगपज्जघ्नतुः कोपात्तोत्रेणेव महाद्विपम् १३।

तं पीड्यमानमालोक्य वीरभद्रो महाबलः ।

अभ्यधावत वेगेन भूतकोटियुतस्तदा १४।

कूष्मांडा भैरवाश्चापि वेताला योगिनीगणाः ।

पिशाचा योगिनीसंघा गणाश्चापि तमन्वयुः १५।

ततः किलकिलाशब्दैः सिंहनादैः सघुर्घुरैः ।

विनादिता डमरुकैः पृथिवी समकंपत १६।

ततो भूतानि धावंति भक्षयंति स्म दानवान् ।

उत्पतंति पतंति स्म ननृतुश्चरणांगणे १७।

नंदी च कार्तिकेयश्च समायातौ त्वरान्वितौ ।

निजघ्नतू रणे दैत्यान्निरंतर शरव्रजैः १८।

छिन्नभिन्नाह तैर्दैत्यैः पातितैर्भर्त्सितैस्तथा ।

व्याकुला सा भवत्सेना विषण्णवदना तदा १९।

प्रविध्वस्तां ततः सेनां दृष्ट्वा सागरनंदनः ।

रथेनातिपताकेन गणानभिययौ बली २०।

हस्त्यश्वरथसंह्रादः शंखभेरीरवस्तदा ।

अभवत्सिंहनादश्च सेनयोरुभयोस्तदा २१।

जालंधरशरव्रातैर्नीहारपटलैरिव ।

द्यावापृथिव्योराच्छन्नमंतरं समपद्यत २२।

गणेशं पंचभिर्विध्वा शैलाद्रिमपि पंचभिः ।

वीरभद्रं च विंशत्या ननाद जलदस्वनः २३।

कार्तिकेयस्ततो दैत्यं शक्त्या विव्याध सत्वरः ।

व्याघूर्णः शक्तिनिर्भिन्नः किंचिद्व्याकुलमानसः २४।

ततः क्रोधपरीताक्षः कार्तिकेयं जलंधरः ।

गदया ताडयामास स च भूमितलेऽपतत् २५।

तथैव नंदिनं वेगादपातयत भूतले ।

ततो गणेश्वरः क्रुद्धो गदां परशुनाच्छिनत् २६।

वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम् ।

सप्तभिश्च हयान्केतून्धनुश्छन्नं च चिच्छिदे २७।

ततोऽतिक्रुद्धो दैत्येंद्रः शक्तिमुद्यम्य दारुणाम् ।

गणेशं पातयामास रथमन्यं समारुहत् २८।

अभ्ययादथ वेगेन वीरभद्रं रुषान्वितः ।

ततस्तौ सूर्यसंकाशौ युयुधाते परस्परम् २९।

वीरभद्रस्तस्य हयांस्तथा बाणैरपातयत् ।

धनुश्चिच्छेद दैत्येंद्रो युयुधे परिघायुधः ३०।

स वीरभद्रं त्वरयाभिगम्य जघान दैत्यः परिघेन मूर्ध्नि ।

स चापि दैत्यः प्रविभिन्नमूर्द्धा पपात भूमौ रुधिरं समुद्गिरन् ३१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे दैत्यसेनापराभवोनाम एकाधिकशततमोऽध्यायः १०१।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 102

नारद उवाच-

पतितं वीरभद्रं तु दृंष्ट्वा रुद्रगणा भयात् ।

आगतास्ते रणं हित्वा क्रोशमाना महेश्वरम् १।

अथ कोलाहलं श्रुत्वा गणानां चंद्रशेखरः २।

अभ्ययाद्वृषमारूढः संग्रामं प्रहसन्निव ।

रुद्रमायां तमालोक्य सिंहनादैर्गणाः पुनः ३।

निवृत्ताः संगरे दैत्यान्निजघ्नुः शरवृष्टिभिः ।

दैत्याश्च भीषणं रुद्रं दृष्ट्वा सर्वे विदुद्रुवुः ४।

कार्त्तिकव्रतिनं दृष्ट्वा पातकानीव तद्भयात् ।

अथ जालंधरो दैत्यान्विद्रुतान्प्रेक्ष्य संगरे ५।

रोषादधावच्चंडीशं मुंचन्बाणान्सहस्रशः ।

शुंभो निशुंभोऽश्वमुखः कालनेमिर्बलाहकः ६।

खड्गरोमा प्रचंडश्च घस्मरश्च शिवं ययुः ।

बाणांधकारसंच्छन्नं दृष्ट्वा गणबलं शिवः ७।

तद्बाणजालं विच्छिद्य स्वबाणैरावृणोन्नभः ।

दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ८।

प्रचंडजालबाणौघैरपातयत भूतले ।

खड्गरोम्णः शिरः कोपात्तथा परशुनाच्छिनत् ९।

बलाहकस्य च शिरः खंट्वागेनाकरोद्द्विधा ।

बद्ध्वा च घस्मरं दैत्यं पाशेनाभ्यहनाद्भुवि १०।

वृषभेण हताः केचित्केचिद्बाणैर्निराकृताः ।

न शेकुरसुराः स्थातुं गजाः सिंहार्दिता यथा ११।

ततः कोपपरीतात्मा वेगाद्रुद्रं जलंधरः ।

आह्वयामास समरे तीव्राशनिसमस्वनः १२।

जलंधर उवाच-

युध्यस्वाद्य मया सार्द्धं किमेभिर्निहितैस्तव ।

यच्च किंचिद्बलं तेऽस्ति तद्दर्शय जटाधर १३।

नारद उवाच।

इत्युक्त्वा बाणसप्तत्या जघान वृषभध्वजम् ।

तानप्राप्तान्शितैर्बाणैश्चिच्छेद प्रहसन्निव १४।

ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद सप्तभिः ।

सच्छिन्नधन्वा विरथो गदामादाय वीर्यवान् १५।

अभ्यधावच्छिवस्तावद्गदाबाणैर्द्विधाकरोत् ।

तथापि मुष्टिमुद्यम्य ययौ रुद्रजिघांसया १६।

तावच्छिवेन बाणौघैः क्रोशमात्रमपाकृतः ।

ततो जालंधरो दैत्यो मत्वा रुद्रं बलाधिकम् १७।

ससर्ज मायां गांधर्वीमद्भुतां रुद्रमोहिनीम् ।

ततो जगुश्च ननृतुर्गंधर्वाप्सरसांगणाः १८।

तालवेणुमृदंगांश्च वादयंतः परस्परम् ।

तं दृष्ट्वा महदाश्चर्यं रुद्रो नादविमोहितः १९।

पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः ।

एकाग्रभूतमालोक्यरुद्रं दैत्यो जलंधरः २०।

कामार्त्तः सञ्जगामाशु यत्र गौरी स्थिताभवत् ।

युद्धे शुंभनिशुंभाख्यौ स्थापयित्वा महाबलौ २१।

दशदोर्दंडपंचास्यस्त्रिनेत्रश्च जटाधरः ।

महावृषभमारूढः स बभूव जलंधरः २२।

अथ रुद्रं समायांतमालोक्य भववल्लभा ।

अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् २३।

यावद्ददर्श चार्वगीं पार्वतीं दनुजेश्वरः ।

तावत्स वीर्यं मुमुचे जडांगश्चाभवत्तदा २४।

अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला ।

जगामांतर्हिता तावत्सा तदोत्तरमानसम् २५।

तामदृष्ट्वा तदा दैत्यः क्षणाद्विद्युल्लतामिव ।

जवेनायात्पुनर्युद्धं यत्र देवो वृषध्वजः २६।

पार्वत्यपि महाविष्णुं सस्मार मनसा तदा ।

तावद्ददर्श तं देवी सोपविष्टं समीपगम् २७।

पार्वत्युवाच।

विष्णो जलंधरो दैत्यः कृतवान्परमाद्भुतम् ।

तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः २८।

श्रीभगवानुवाच-

तेनैव दर्शितः पंथा वयमप्यन्वयामहे ।

नान्यथा स भवेद्वध्यः पातिव्रत्यात्सुरक्षितः २९।

नारद उवाच-

जगाम विष्णुरित्युक्त्वा पुनर्जालंधरं पुरम् ।

अथ रुद्रश्च गंधर्वानुगतः संगरे स्थितः ३०।

अंतर्द्धानगतां मायां दृष्ट्वा तु बुबुधे तदा ।

ततः शिवो विस्मितमानसः पुनर्जगाम युद्धाय जलंधरं रुषा ३१।

स चापि दैत्यः पुनरागतं शिवं दृष्ट्वा शरौघैः समवाकिरद्रणे ३२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे दैत्यकपटवर्णनोनाम द्व्यधिकशततमोऽध्यायः १०२।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 103

नारद उवाच-

विष्णुर्जालंधरं गत्वा तद्दैत्यपुटभेदनम् ।

पातिव्रत्यस्य भंगाय वृंदायाश्चाकरोन्मतिम् १।

अथ वृंदारका देवी स्वप्नमध्ये ददर्श ह ।

भर्त्तारं महिषारूढं तैलाभ्यक्तं दिगंबरम् २।

कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम् ।

दक्षिणाशां गतं मुंडं तमसा व्यावृतं तदा ३।

स्वपुरं सागरे मग्नं सहसैवात्मना सह ।

ततः प्रबुद्धा सा बाला स्वस्वप्नं प्रविचिन्वती ४।

ददर्शोदितमादित्यं सच्छिद्रं निश्चलं मुहुः ।

तदनिष्टमिति ज्ञात्वा रुदती भयविह्वला ५।

कुत्रचिन्नालभच्छर्म गोपुराट्टालभूमिषु ।

ततः सखीद्वययुता नगरोद्यानमागमत् ६।

तत्रापि सागता बाला नालभत्कुत्रचित्सुखम् ।

वनाद्वनांतरं याता नैव वेदात्मनस्तदा ७।

ततो भ्रमंते सा बाला ददर्शातिविभीषणौ ।

राक्षसौ सिंहवदनौ दंष्ट्रानयनभीषणौ ८।

तौ दृष्ट्वा विह्वलातीव पलायनपरा तदा ।

ददर्श तापसंशांतं सशिष्यं मौनमास्थितम् ९।

ततस्तत्कंठ आसज्य निजां बाहुलतां भयात् ।

मुने मां रक्ष शरणमागतामित्यभाषत १०।

मुनिस्तां विह्वलां दृष्ट्वा राक्षसानुगतां तदा ।

हुंकारेणैव तौ घोरौ चकार विमुखौ रुषा ११।

यद्धुंकारभयत्रस्तौ दृष्ट्वा तौ गगनं गतौ ।

प्रणम्य दंडवद्भूमौ वृंदा वचनमब्रवीत् १२।

वृंदोवाच।

रक्षिताहं त्वया घोराद्भयात्तस्मात्कृपानिधे ।

किंचिद्विज्ञप्तुमिच्छामि कृपया तन्निशामय १३।

जलंधरो हि मे भर्त्ता रुद्रं योद्धुं गतः प्रभो ।

स तत्रास्ति कथं युद्धे तन्मे कथय सुव्रत १४।

नारद उवाच-।

मुनिस्तद्वाक्यमाकर्ण्य कृपयोर्ध्वमवैक्षत ।

तावत्कपीशावायातौ तं प्रणम्याग्रतः स्थितौ १५।

ततस्तद्भ्रूलतासंज्ञा नियुक्तौ गगनं गतौ ।

गत्वा क्षणार्द्धादागत्य वानरावग्रतः स्थितौ १६।

शिरः कबंधहस्तौ तौ दृष्ट्वाब्धितनयस्य सा ।

पपात मूर्छिता भूमौ भर्तृव्यसनदुःखिता १७।

कमंडलुजलैः सिक्ता मुनिनाश्वासिता तदा ।

स्वभर्तृभाले सा भालं कृत्वा खिन्ना रुरोद ह १८।

वृंदोवाच-।

यः पुरा सुखसंवादैर्विनोदयसि मां विभो ।

स कथं न वदस्यद्य वल्लभां मामनागसम् १९।

येन देवाः सगंधर्वा निर्जिता हरिणा सह ।

स कथं तापसेन त्वं त्रैलोक्यविजयी हतः २०।

नारद उवाच-।

रुदित्वेति तदा वृंदा तं मुनिं वाक्यमब्रवीत् ।

वृंदोवाच ।

कृपानिधे मुनिश्रेष्ठ जीवनं मेऽस्य सुप्रियम् २१।

त्वमेवास्य पुनः शक्तो जीवनाय मतो मम ।

अथ तद्वाक्यमाकर्ण्य प्रहस्य मुनिरब्रवीत् २२।

मुनिरुवाच।

नायं जीवयितुं शक्यो रुद्रेण निहतो युधि ।

तथापि त्वत्कृपाविष्ट एवं संजीवयाम्यहम् २३।

नारद उवाच।

इत्युक्त्वांतर्दधे यावत्तावत्सागरनंदनः ।

वृंदामालिंग्य तद्वक्त्रं चुचुंबे प्रीतमानसः २४।

अथ वृंदापि भर्त्तारं दृष्ट्वा हर्षितमानसा ।

रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरम् २५।

कदाचित्सुरतस्यांते दृष्ट्वा विष्णुं तमेव हि ।

निर्भर्त्स्य क्रोधसंयुक्ता वृंदा वचनमब्रवीत् २६।

वृंदोवाच।

धिक्त वेदं हरे शीलं परदाराभिगामिनः ।

ज्ञातोऽसि त्वं मया सम्यङ्माया प्रत्यक्ष तापसः २७।

यौ त्वया मायया द्वास्थौ स्वकीयौ दर्शितौ मम ।

तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यथ २८।

त्वं चापि भार्यादुःखार्तो वने कपिसहायवान् ।

भ्रम सर्वेश्वरेणायं यस्ते शिष्यत्वमागतः २९।

इत्युक्त्वा सा तदा वृंदा प्राविशद्धव्यवाहनम् ।

विष्णुना वार्यमाणापि तस्मिन्नासक्तमानसा ३०।

ततो हरिस्तामनुसंस्मरन्मुहुर्वृंदाचिताभस्मरजोवगुंठितः ।

तत्रैव तस्थौ मुनिसिद्धसंघैः प्रबोध्यमानोपि ययौ न शांतिंम् ३१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे वृंदाचिताग्निप्रवेशोनाम त्र्यधिकशततमोऽध्यायः १०३।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 104

नारद उवाच-

ततो जलंधरो दृष्ट्वा रुद्रमद्भुतविक्रमम् ।

चकार मायया गौरीं त्र्यबकं मोहयंस्तदा १।

रथोपरिगतां दृष्ट्वा रुदंतीं च तदा शिवः ।

शुंभनिशुंभदैत्यैश्च वध्यमानां ददर्श सः २।

गौरीं तथाविधां दृष्ट्वा शिवोऽप्युद्विग्नमानसः ।

अवाङ्मुखः स्थितस्तूष्णीं विस्मृत्य स्वपराक्रमम् ३।

ततो जलंधरो वेगात्त्रिभिर्विव्याध सायकैः ।

आपुंखमग्नैस्तं रुद्रं शिरस्युरसि चोदरे ४।

ततो जज्ञे स तां मायां विष्णुना संप्रबोधितः ।

रौद्ररूपधरो जातो ज्वालामालातिभीषणः ५।

तस्यातीवमहारौद्रं रूपं दृष्ट्वा महासुराः ।

न शेकुः प्रमुखे स्थातुं भेजिरे च दिशो दश ६।

ततः शापं ददौ देवस्तयोः शुंभनिशुंभयोः ।

मम युद्धादपक्रांतौ गौर्यावध्यौ भविष्यथः ७।

पुनर्जलंधरो वेगाद्ववर्ष निशितैः शरैः ।

बांणांधकारसंच्छन्नं यथा भूमितलं महत् ८।

यावद्रुद्रः प्रचिच्छेद तस्यबाणांस्त्वरान्वितः ।

तावत्स परिघेणाशु जघान वृषभं बली ९।

वृषस्तेन प्रहारेण परावृत्तो रणांगणात् ।

रुद्रेणाकृष्यमाणोऽपि न तस्थौ रणभूमिषु १०।

ततः परमसंक्रुद्धो रुद्रो रौद्रवपुर्द्धरः ।

चक्रं सुदर्शनं वेगाच्चिक्षेपादित्यवर्चसम् ११।

प्रदहद्रोदसी वेगात्तदासाद्य जलंधरम् ।

जहार तच्छिरः कायान्महदायतलोचनम् १२।

रथात्कायः पपातोर्व्यां नादयन्वसुधातलम् ।

तेजश्च निर्गतं देहात्तद्रुद्रे लयमागमत् १३।

दृष्ट्वा देहोद्भवं तेजस्तद्गौरीशे लयं गतम् ।

अथ चेंद्रादयो देवा हर्षादुत्फुल्ललोचनाः १४।

प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम् ।

देवा ऊचुः।

महादेव त्वया देवा रक्षिताः शत्रुजाद्भयात् १५।

किंचिदन्यत्समुद्भूतं तत्र किं करवामहै ।

वृंदालावण्यसंभ्रांतो विष्णुस्तिष्ठति मोहितः १६।

ईश्वर उवाच।

गच्छध्वं शरणं देवा विष्णोर्मोहापनुत्तये ।

शरण्यां मोहिनीं मायां सा वः कार्यं करिष्यति १७।

नारद उवाच।

इत्युक्त्वांतर्दधे देवः सहभूतगणैस्तथा ।

देवाश्च तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम् १८।

देवा ऊचुः ।

यदुद्भवाः सत्वरजस्तमोगुणाः सर्गस्थितिध्वंसनिदानकारणम् ।

यदिच्छया विश्वमिदं भवाभवौ तनोति शुद्धां प्रकृतिं नताः स्म ताम् १९।

ये हि त्रयोविंशतिभेदिसंज्ञिता जगत्यशेषे समधिष्ठिता पुरा ।

यद्रूपकर्माणि जडास्त्रयोऽपि ते देवा विदुर्न प्रकृतिं नताः स्म ताम् २०।

यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यव्यामोहपराभवादिकम् ।

न प्राप्नुवंत्येव हि भक्तवत्सलां सदैव विष्णोः प्रकृतिं नताः स्म ताम् २१।

नारद उवाच।

स्तोत्रमेतत्त्रिसंध्यं यः पठेदेकाग्रमानसः ।

दारिद्र मोहदुःखानि न कदाचित्स्पृशंति तम् २२।

इति स्तुवंतस्ते देवास्तेजोमंडलमास्थिताम् ।

ददृशुर्गगने तत्र ज्वालाव्याप्तदिगंतराम् २३।

तन्मध्याद्भारतीं सर्वे ददृशुर्व्योमचारिणीम् ।

अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः २४।

गौरीलक्ष्मीस्वरा चेति रजःसत्त्वतमोगुणैः ।

तत्र गच्छत तं कार्यं विधास्यंति च वः सुराः २५।

नारद उवाच-

शृण्वतामिति देवानामंतर्द्धानमगान्महः ।

देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा नृप २६।

ततः सर्वेऽपि ते देवा गत्वा तद्वाक्यनोदिताः ।

गौरीं लक्ष्मीं स्वरां चैव प्रणेमुर्भक्तितत्पराः २७।

ततस्तास्तान्सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलाः ।

बीजानि प्रददुस्तेभ्यो वाक्यान्यूचुश्च भूमिप २८।

देव्य ऊचुः।

इमानि क्षेत्रबीजानि विष्णुर्यत्रावतिष्ठति ।

निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति २९।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जालंधरवधोनाम चतुरधिकशततमोऽध्यायः १०४।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 105

नारद उवाच।

क्षिप्तेभ्यस्तत्रबीजेभ्यो वनस्पत्यस्त्रयोभवन् ।

धात्री च मालती चैव तुलसी च नृपोत्तम १।

धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता ।

गौरीभवा च तुलसी तमः सत्त्व रजोगुणाः २।

स्त्रीरूपिण्यौ वनस्पत्यौ दृष्ट्वा विष्णुस्तदा नृप ।

उत्तस्थौ संभ्रमाद्वृंदारूपातिशयमोहितः ३।

ददर्श तास्तदा मोहात्कामासक्तेन चेतसा ।

तं चापि तुलसीधात्र्यौ रागेणैवावलोकताम् ४।

यच्चलक्ष्म्यापुराबीजंमाययैवसमर्पितम् ।

तस्मात्तदुद्भवानारीतस्मिन्नीर्ष्यायुताभवत् ५।

अतःसाबर्बरीत्याख्यामाधवस्यातिगर्हिता ।

धात्रीतुलस्यैतद्रा गात्तस्यप्रीतिप्रदेसदा ६।

ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु ।

वैकुंठमगमद्धृष्टः सर्वदेवनमस्कृतः ७।

कार्तिकोद्यापने विष्णोस्तस्मात्पूजा विधीयते ।

तुलसीमूलदेशे तु प्रीतिदा सा यतः स्मृता ८।

तुलसीकाननं राजन्गृहे यस्यावतिष्ठते ।

तद्गृहं तीर्थरूपं तु नायांति यमकिंकराः ९।

सर्वपापहरं पुण्यं कामदं तुलसीवनम् ।

रोपयंति नरश्रेष्ठा न तेपश्यंति भास्करिम् १०।

दर्शनं नर्मदायास्तु गंगास्नानं तथैव च ।

तुलसीवनसंसर्गः सममेतत्त्रयं स्मृतम् ११।

रोपणात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम् ।

तुलसी दहते पापं वाङ्मनःकाय संचितम् १२।

तुलसीमंजरीभिर्यः कुर्याद्धरिहरार्चनम् ।

न स गर्भगृहं याति मुक्तिभागी न संशयः १३।

पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा ।

वासुदेवादयो देवास्तिष्ठंति तुलसीदले १४।

तुलसीमंजरीयुक्तो यदि प्राणान्विमुंचति ।

विष्णोः सायुज्यमाप्नोति सत्यं सत्यं नृपोत्तम १५।

तुलसीमृत्तिकालिप्तो यस्तु प्राणान्विमुचंति ।

यमोऽपि नेक्षितुं शक्तो युक्तं पापशतैरपि १६।

तुलसीकाष्ठजं यस्तु चंदनं धारयेन्नरः ।

तद्देहं नस्पृशेत्पापं क्रियमाणमपीह यत् १७।

तुलसीविपिनच्छाया यत्र यत्र भवेन्नृप ।

तत्र श्राद्धं प्रकर्त्तव्यं पितॄणां दत्तमक्षयम् १८।

धात्रीछायासु यः कुर्यात्पिंडदानं नृपोत्तम ।

तृप्तिं च यांति पितरस्तस्य ये नरके स्थिताः १९।

मूर्ध्नि पाणौ मुखे चैव देहे च नृपसत्तम ।

धत्ते धात्रीफलं यस्तु स विज्ञेयो हरिः स्वयम् २०।

धात्रीफलं च तुलसीमृत्तिका द्वारकोद्भवा ।

यस्य देहे स्थिता नित्यं स जीवन्मुक्त उच्यते २१।

धात्रीफलविमिश्रैस्तु तुलसीदलमिश्रितैः ।

जलैः स्नाति नरस्तस्य गंगास्नानफलं स्मृतम् २२।

देवार्चनं नरः कुर्याद्धात्रीपत्रैः फलैरपि ।

सुवर्णपुष्पैर्विविधैरर्चनस्याप्नुयात्फलम् २३।

तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके ।

नित्यं धात्रीं समाश्रित्य तिष्ठंत्यर्के तुलाश्रिते २४।

द्वादश्यां तुलसीपत्रं धात्रीपत्रं तु कार्तिके ।

लुनाति स नरो गच्छेन्निरयानतिगर्हितान् २५।

धात्रीछायां समाश्रित्य कार्तिकेऽन्नं भुनक्ति यः ।

अन्नसंसर्गजं पापमावर्षं तस्य नश्यति २६।

धात्रीमूले तु यो विष्णुं कार्तिकेऽर्चयते नरः ।

विष्णुक्षेत्रेषु सर्वेषु पूजितस्तेन सर्वदा २७।

धात्रीतुलस्योर्माहात्म्यमपिदेवश्चतुर्मुखः ।

न समर्थो भवेद्वक्तुं यथा देवस्यशार्ङ्गिणः २८।

धात्री तुलस्युद्भवकारणं च शृणोति यः श्रावयते च भक्त्या ।

विधूतपाप्मा सह पूर्वजैश्च स्वर्गं व्रजत्यग्र्यविमानसंस्थः २९।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे धात्रीतुलस्योर्माहात्म्यंनाम पंचाधिकशततमोऽध्यायः१०५।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 106

पृथुरुवाच।

सेतिहासमिमं ब्रह्मन्माहात्म्यं कथितं त्वया ।

अत्याश्चर्यकरं सम्यक्तुलस्यास्तु श्रुतं महत् १।

यदूर्जव्रतिनः पुंसः फलं महदुदाहृतम् ।

तत्पुनर्ब्रूहि माहात्म्यं केन चीर्णमिदं कथम् २।

नारद उवाच।

आसीत्सह्याद्रिविषये करवीरपुरे पुरा ।

ब्राह्मणो धर्मवित्कश्चिद्धर्मदत्तोऽतिविश्रुतः ३।

विष्णुव्रतकरः शश्वद्विष्णुपूजारतः सदा ।

द्वादशाक्षरविद्यायां जपनिष्ठोऽतिथिप्रियः ४।

कदाचित्कार्तिके मासि हरिजागरणाय सः ।

रात्र्या तुर्यांशशेषायां जगाम हरिमंदिरम् ५।

हरिपूजोपकरणान्प्रगृह्य व्रजता तदा ।

तेन दृष्टा समायाता राक्षसी भीमनिःस्वना ६।

वक्रदंष्ट्रानना जिह्वा निमग्ना रक्तलोचना ।

दिगंबरा शुष्कमांसा लंबोष्ठी घर्घरस्वना ७।

तां दृष्ट्वा भयवित्रस्तः कंपितावयवस्तदा ।

पूजोपकरणैर्वेगात्पयोभिश्चाहनद्भयात् ८।

संस्मृत्य च हरेर्नाम तुलसीयुतवारिणा ।

सा हता पातकं तस्मात्तस्याः सर्वमगात्क्षयम् ९।

अथ संस्मृत्य सा पूर्वजन्मकर्मविपाकजम् ।

स्वां दशामब्रवीत्सर्वां दंडवत्तं प्रणम्य सा १०।

कलहोवाच ।

पूर्वकर्मविपाकेन दशामेतां गता ह्यहम् ।

तत्कथं तु पुनर्विप्र याम्युत्तमगतिं शुभाम् ११।

नारद उवाच।

तां दृष्ट्वा प्रणतामग्रे वदमानां स्वकर्म तत् ।

अतीव विस्मितो विप्रस्तदा वचनमब्रवीत् १२।

धर्मदत्त उवाच।

केन कर्मविपाकेन त्वं दशामीदृशीं गता ।

कुतस्त्वं का च किं शीला तत्सर्वं कथयस्व मे १३।

कलहोवाच।

सौराष्ट्रनगरे ब्रह्मन्भिक्षुनामाभवद्द्विजः ।

तस्याऽहं गृहिणी पूर्वं कलहाख्याति निष्ठुरा १४।

न कदाचिन्मया भर्तुर्वचसापि शुभं कृतम् ।

नार्पितं तस्य मिष्टान्नं भर्तुर्वचनभंगया १५।

कलहप्रियया नित्यं भयोद्विग्नस्तदा द्विजः ।

परिणेतुं तदाऽन्या स मतिं चक्रे पतिर्मम १६।

ततो गरं समादाय प्राणास्त्यक्ता मया द्विज ।

अथ बध्वा बध्यमानां मां विनिन्युर्यमानुगाः १७।

यमश्च मां तदा दृष्ट्वा चित्रगुप्तमपृच्छत ।

यम उवाच।

अनया किं कृतं कर्म चित्रगुप्त विलोकय १८।

प्राप्नोत्वेषा कर्मफलं शुभं वाशुभमेव च ।

चित्रगुप्तस्ततो वाक्यं भर्त्सयन्समुवाच ह १९।

चित्रगुप्त उवाच।

अनया तु शुभं कर्म कृतं किंचिन्न विद्यते ।

मिष्टान्नं भुक्तमनया न भर्तरि तदर्पितम् २०।

अतश्च वल्गुली योन्यां स्वविष्ठादावतिष्ठतु ।

भर्तुर्द्वेषकरी त्वेषा नित्यं कलहकारिणी २१।

विष्ठादा शूकरी योन्यां ततस्तिष्ठत्वियं हरे ।

पाकभांडे सदा भुक्तं नित्यं चैवानया यतः २२।

तस्माद्दोषाद्बिडाली तु स्वजातापत्यभक्षिणी ।

भर्तारमनयोद्दिश्य ह्यात्मघातः कृतो यतः २३।

तस्मात्प्रेतपिशाचेषु तिष्ठत्वेषातिनिंदिता ।

ततश्चैव मरुं देशं प्रापितव्या भटैः सह २४।

तत्र प्रेतशरीराख्या चिरं तिष्ठत्वियं ततः ।

इत्थं योनित्रयं त्वेषा भुनक्त्वा शुभकारिणी २५।

कलहोवाच-

साहं पंचशताब्दानि प्रेतदेहे स्थिता किल ।

क्षुतृड्भ्यां पीडिता नित्यं दुःखिता स्वेन कर्मणा २६।

ततः क्षुत्पीडिता नित्यं शरीरं वणिजस्त्वहम् ।

आयाता दक्षिणं देशं कृष्णावेण्यास्तु संगमे २७।

तत्तीरसंश्रिता यावत्तावत्तस्य शरीरतः ।

शिवविष्णुगणैर्दूरमपाकृष्टा बलादहम् २८।

ततः क्षुत्क्षामया दृष्टो भ्रमंत्या त्वं मया द्विज ।

प्रक्षिप्ततुलसीवारिसंसर्गगतपापया २९।

तत्कृपां कुरु विप्रेंद्र कथं मुक्तिमियाम्यहम् ।

योनित्रयादति भयादस्माच्च प्रेतदेहतः ३०।

इत्थं निशम्य कलहा वचनं द्विजश्च तत्कर्मपाकभवविस्मयदुःखयुक्तः ।

तद्ग्लानिदर्शनकृपाचलचित्तवृत्तिर्ध्यात्वा चिरं स वचनं निजगाद दुःखात् ३१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये कलहोपाख्यानंनाम षडधिकशततमोऽध्यायः १०६।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 107

धर्मदत्त उवाच।

विलयं यांति पापानि तीर्थदानव्रतादिभिः ।

प्रेतदेहस्थितायास्ते तेषु नैवाधिकारिता १।

त्वद्ग्लानिदर्शनादस्मात्खिन्नं च मम मानसम् ।

नैव निर्वृतिमायाति त्वामनुद्धृत्य दुःखिताम् २।

पातकं च तवात्युग्रं योनित्रयविपाकदम् ।

नैवान्यैः क्षीयते पुण्यैः प्रेतत्वं चातिगर्हितम् ३।

तस्मादाजन्मजनितं यन्मया कार्तिकव्रतम् ।

तत्पुण्यस्यार्द्धभागेन सद्गतिं त्वमवाप्नुहि ४।

कार्तिकव्रतपुण्येन न साम्यं यांति सर्वथा ।

यज्ञदानानि तीर्थानि व्रतान्यपि यतो ध्रुवम् ५।

नारद उवाच।

इत्युक्त्वा धर्मदत्तोऽसौ यावत्तामभ्यषेचयत् ।

तुलसीमिश्रतोयेन श्रावयन्द्वादशाक्षरम् ६।

तावत्प्रेतत्वनिर्मुक्ता ज्वलदग्निशिखोपमा ।

दिव्यवपुर्धरा जाता लावण्याद्भासिता दिशः ७।

ततः सा दंडवद्भूमौ प्रणनामाथ तं द्विजम् ।

उवाच च तदा वाक्यं हर्षगद्गदभाषिणी ८।

कलहोवाच।

त्वत्प्रसादाद्दिवजश्रेष्ठ विमुक्ता निरयादहम् ।

पापाब्धौ मञ्जमानायास्त्वं नो भूतोऽसि मे ध्रुवम् ९।

नारद उवाच।

इत्थं सा वदती विप्रं ददर्शायातमंबरात् ।

विमानं भास्वरं युक्तं विष्णुरूपधरैर्गणैः १०।

अथ सा तद्विमानाग्र्यद्वास्थाभ्यामधिरोहिता ।

पुण्यशीलसुशीलाभ्यामप्सरोगणसेवितम् ११।

तद्विमानं तदापश्यद्धर्मदत्तः सविस्मयः ।

पपात दंडवद्भूमौ दृष्ट्वा तौ पुण्यरूपिणौ १२।

पुण्यशीलसुशीलौ तमुत्थाप्य प्रणतं द्विजम् ।

अभ्यनंदयतां वाक्यमूचतुर्द्धर्मशालिनौ १३।

गणा ऊचतुः ।

साधुसाधु द्विजश्रेष्ठ यस्त्वं विष्णुरतः सदा ।

दीनानुकंपी धर्मज्ञो विष्णुव्रतपरायणः १४।

आजन्मसच्छुभं ह्येतद्यत्त्वया कार्त्तिकव्रतम् ।

कृतं तस्यार्द्धदानेन यदस्याः पूर्वसंचितम् १५।

जन्मांतरशतोद्भूतं पापं तद्विलयं गतम् ।

हरिजागरणाद्यैश्च विमानमिदमागमत् १६।

वैकुण्ठभवनं विष्णोः सान्निध्यं च स्वरूपता ।

ते धन्याः कृतकृत्यास्ते तेषां च सफलो भवः १७।

यैर्भक्त्याराधितो विष्णुर्धर्मदत्तत्वया यथा ।

सम्यगाराधितो विष्णुः किं न यच्छति देहिनाम् १८।

औत्तानचरणिर्येन ध्रुवत्वे स्थापितः पुरा ।

यन्नामस्मरणादेव देहिनो यांति सद्गतिम् १९।

ग्राहगृहीतो नागेंद्रो यन्नामस्मरणात्पुरा ।

विमुक्तः सन्निधिं प्राप्तो जातो यो जयसंज्ञकः २०।

अतस्त्वयार्चितो विष्णुः स्वसान्निध्यं प्रदास्यति ।

बहून्यब्दसहस्राणि भार्याद्वययुतस्य ते २१।

ततः पुण्यक्षये जाते यदा यास्यसि भूतले ।

सूर्यवंशोद्भवो राजा विख्यातस्त्वं भविष्यसि २२।

नाम्ना दशरथस्तत्र भार्याद्वययुतः पुनः ।

तृतीयं यानया चापि याते पुण्यार्द्धभागिनी २३।

तत्रापि तव सान्निध्यं विष्णुर्यास्यति भूतले ।

आत्मानं तव पुत्रत्वे प्रकल्प्यामरकार्यकृत् २४।

तवाजन्मव्रतादस्माद्विष्णुसंतुष्टिकारकात् ।

न यज्ञा न च दानानि न तीर्थान्यधिकानि ते २५।

धन्योऽसि विप्रप्रयतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः ।

यदर्धभागाच्च फलान्मुरारेः प्रणीयतेस्माभिरियं सलोकताम् २६।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्यानोनाम सप्ताधिकशततमोऽध्यायः १०७।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 108

नारद उवाच।

इत्थं तद्वचनं श्रुत्वा धर्मदत्तः सविस्मयः ।

प्रणम्य दंडवद्भूमौ वाक्यमेतदुवाच ह १।

धर्मदत्त उवाच।

आराधयंति सर्वेऽपि विष्णुं भक्तार्त्तिनाशिनम् ।

यज्ञैर्दानैर्व्रतैस्तीर्थैस्तपोभिश्च यथाविधि २।

विष्णुप्रीतिकरं तेषां विष्णुसान्निध्यकारकम् ।

यत्कृत्वा तानि चीर्णानि सर्वाण्यपि भवंति हि ३।

गणावूचतुः ।

साधु पृष्टं त्वया विप्र शृणुष्वैकाग्रमानसः ।

सेतिहासां कथां विप्र कथ्यमानां पुराभवाम् ४।

कांतिपुर्यां पुरा चोल चक्रवर्त्ती नृपोऽभवत् ।

यस्य नाम्ना च ते देशाश्चोलाख्या अभवन्किल ५।

यस्मिन्शासति भूचक्रं दरिद्रो नैव दुःखितः ।

पापबुद्धिः सरुग्वापि नैव कश्चिदभून्नरः ६।

यस्याप्यत्यंतयज्ञस्य ताम्रपर्णी तटावुभौ ।

सुवर्णयूपैः शोभाढ्यावास्तां चैत्ररथोपमौ ७।

स कदाचिदगाद्राजा ह्यनंतशयनं द्विज ।

यत्रासौ जगतां नाथो योगनिद्रामुपासते ८।

तत्र श्रीरमणं देवं संपूज्य विधिवन्नृपः ।

मणिमुक्ताफलैर्दिव्यैः स्वर्णपुष्पैश्च शोभनैः ९।

प्रणम्य दंडवद्यावदुपविष्टः स तत्र वै ।

तावद्ब्राह्मणमायां तमपश्यद्देवसन्निधौ १०।

देवार्चनार्थमायांतं तुलस्युदकपाणिनम् ।

स्वपुरीवासिनं तत्र विष्णुदासाह्वयं द्विजम् ११।

तत्राभ्येत्य स विप्रर्षिर्देवदेवमपूजयत् ।

विष्णुसूक्तेन संस्नाप्य तुलसीमंजरीदलैः १२।

तुलसीपूजया तस्य रत्नपूजां तथा कृताम् ।

आच्छादितां समालोक्य राजा क्रुद्धोऽब्रवीद्वचः १३।

राजोवाच।

माणिक्यस्वर्णपूजात्र शोभाढ्या या मया कृता ।

विष्णुदास कथं सेयमाच्छन्ना तुलसीदलैः १४।

विष्णुभक्तिं न जानासि वराकोऽसि मतो मम ।

यस्त्विमामतिशोभाढ्यां पूजामाच्छादयस्यहो १५।

इति तद्वचनं श्रुत्वा सक्रोधः स द्विजोत्तमः ।

राज्ञो गौरवमुल्लंघ्य जगाद वचनं तदा १६।

विष्णुदास उवाच।

राजन्मुक्तिं न जानासि गर्वितोऽसि नृपश्रिया ।

किंस्विद्विष्णुव्रतं पूर्वं त्वया चीर्णं वदस्व तत् १७।

गणावूचतुः ।

तद्ब्राह्मणवचः श्रुत्वा प्रहस्य स नृपोत्तमः ।

विष्णुदासं तदा गर्वादुवाच वचनं द्विज १८।

इत्थं चेत्कथ्यसे विप्र विष्णुभक्त्यातिगर्वितः ।

भक्तिस्ते कियतीविष्णोर्दरिद्रस्याधनस्य च १९।

यज्ञदानादिकं चैव विष्णुतुष्टिकरं कृतम् ।

नापि देवालयं पूर्वं त्वया विप्र क्वचित्कृतम् २०।

ईदृशस्यापि ते गर्व एष तिष्ठति भक्तितः ।

तच्छृण्वंतु वचो मेऽद्य सर्वेप्येते द्विजोत्तमाः २१।

साक्षात्कारमहं विष्णोरेष वादो गमिष्यति ।

यथा तु सर्वेऽपि ततो भक्तिं ज्ञास्यथ चावयोः २२।

गणावूचतुः ।

इत्युक्त्वा स नृपो गच्छन्निजं राजगृहं द्विजः ।

आरेभे वैष्णवं सत्रं कृत्वाचार्यं तु मुद्गलम् २३।

ऋषिसंघसमाजुष्टं बभूव बहुदक्षिणम् ।

यद्वद्ब्रह्मकृतं पूर्वं गयाक्षेत्रे समृद्धिमत् २४।

विष्णुदासोऽपि तत्रैव तस्थौ देवालये व्रती ।

पंचैतान्नियमान्कृत्वा विष्णुतुष्टिकरान्सदा २५।

माघोर्जयोर्व्रतं सम्यक्तुलसीवनपालनम् ।

एकादशीव्रतं जाप्यं द्वादशाक्षरविद्यया २६।

उपचारैः षोडशभिर्गीतनृत्यादिमंगलैः ।

नित्यं विष्णोस्तथा पूजां व्रतान्येतानि सोऽकरोत् २७।

नित्यं संस्मरणं विष्णोर्गच्छन्भुंजन्स्वपन्नपि ।

सर्वभूतस्थितं विष्णुमपश्यत्समदर्शनः २८।

माघकार्तिकयोर्नित्यं विशेषनियमानपि ।

अकरोद्विष्णुतुष्ट्यर्थं सोद्यापनविधिं तथा २९।

एवं समाराधयतोः श्रियः पतिं तयोस्तु चोलेश्वरविष्णुदासयोः ।

अगादनेहा बहु तद्व्रतस्थयोस्तन्निष्ठकर्मेन्द्रियकर्मणोस्तयोः ३०।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्याने अष्टाधिकशततमोऽध्यायः १०८।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 109

गणावूचतुः ।

कदाचिद्विष्णुदासोऽथ कृत्वा नित्यविधिं द्विजः ।

पाककर्माकरोद्यावदहरत्कोप्यलक्षितः १।

तमदृष्ट्वाप्यसौ पाकं पुनर्नैवाकरोत्तदा ।

सायंकालार्चनस्यासौ व्रतभंगभयाद्द्विजः २।

द्वितीयेऽह्नि ततः पाकं कृत्वा यावत्स विष्णवे ।

उपहारार्पणं कर्तुं तावत्कोप्यहरत्पुनः ३।

एवं सप्तदिनं तस्य पाकं कोप्यहरद्द्विज ।

जातः सविस्मयः सोऽथ मनस्येव व्यचारयत् ४।

अहो नित्यं समभ्येत्य कः पाकं हरते मम ।

क्षेत्रसंन्यासिनां स्थानमत्याज्यं सर्वथा मया ५।

पुनः पाकं विधायात्र भुज्यते यदि चेन्मया ।

सायंकालार्चनं चैतत्परित्याज्यं कथं मया ६।

किंचित्पाकं विधायैतद्भोक्तव्यं तु मया नहि ।

अनिर्वेद्य हरौ सर्वं वैष्णवैर्नैव भुज्यते ७।

उपोषितोऽहं च कथं तिष्ठाम्यत्र व्रतस्थितः ।

अद्य संरक्षणं सम्यक्पाकस्यात्र करोम्यहम् ८।

इति पाकं विधायासौ तत्रैवालक्षितः स्थितः ।

तावद्ददर्श चांडालं पाकान्नहरणे स्थितम् ९।

क्षुत्क्षामं दीनवदनमस्थिचर्मावशेषितम् ।

तमालोक्य द्विजाग्र्योभूत्कृपयापन्नमानसः १०।

विलोक्यान्नहरं विप्रस्तिष्ठतिष्ठेत्यभाषत ।

कथमत्ति भवान्रूक्षं घृतमेतद्गृहाण भोः ११।

इत्थं ब्रुवंतं विप्राग्र्यं आयांतं च विलोक्य सः ।

वेगादधावत्तद्भीत्या मूर्च्छितश्च पपात ह १२।

भीतं तं मूर्च्छितं दृष्ट्वा चांडालं स द्विजोत्तमः ।

वेगादभ्येत्य कृपया स्ववस्त्रांतैरवीजयत् १३।

अथोत्थितं तमेवासौ विष्णुदासो व्यलोकयत् ।

साक्षान्नारायणं देवं शंखचक्रगदाधरम् १४।

पीतांबरं चतुर्बाहुं श्रीवत्सांकं किरीटिनम् ।

अतसीपुष्पसंकाशं कौस्तुभोरःस्थलं विभुम् १५।

तं दृष्ट्वा सात्विकैर्भावैरावृतो द्विजसत्तमः ।

स्तोतुं चापि नमस्कर्तुं तदानालं बभूव सः १६।

अथ शक्रादयो देवास्तत्रैवाभ्याययुस्तदा ।

गंधर्वाप्सरसश्चापि जगुश्च ननृतुर्मुदा १७।

विमानशतसंकीर्णं देवर्षिगणसंकुलम् ।

गीतवादित्रनिर्घोषं स्थानं तदभवत्तदा १८।

ततो विष्णुः समालिंग्य स्वभक्तं सात्विकं तथा ।

सायुज्यमात्मनो दत्त्वानयद्वैकुंठमंदिरम् १९।

विमानवरसंस्थानमास्थितं विष्णुसन्निधौ ।

दीक्षितश्चोलनृपतिर्विष्णुदासं ददर्श ह २०।

वैकुंठभवनं यांतं विष्णुदासं विलोक्य सः ।

स्वगुरुं मुद्गलं वेगादाह्वयेत्थं वचोऽब्रवीत् २१।

चोल उवाच।

यत्स्पर्धया मया चैतद्यज्ञदानादिकं कृतम् ।

स विष्णुरूपधृग्विप्रो याति वैकुंठमंदिरम् २२।

दीक्षितेन मया सम्यक्सत्रेऽस्मिन्विष्णवे त्वया ।

हुतमग्नौ कृता विप्रा दानाद्यैः पूर्णमानसाः २३।

नैवाद्यापि समे देवः प्रसन्नो जायते ध्रुवम् ।

भक्त्यैव तस्य विप्रस्य साक्षात्कारं ददौ हरिः २४।

तस्माद्दानैश्च यज्ञैश्च नैव विष्णुः प्रसीदति ।

भक्तिरेव परं तस्य निदानं दर्शने विभोः २५।

गणावूचतुः ।

इत्युक्त्वा भागिनेयं स्वमभिषिच्य नृपासने ।

आबाल्याद्दीक्षितो यज्ञे सा पुत्रत्वमगाद्यतः २६।

तस्मादद्यापि तद्देशे सदा राज्यांशभागिनः ।

स्वस्रेया एव जायंते तत्कृताचारवर्तिनः २७।

यज्ञवाटं ततोऽभ्येत्य वह्निकुंडाग्रतः स्थितः ।

त्रिरुच्चैर्व्याजहाराशु विष्णुं संबोधयंस्तदा २८।

विष्णो भक्तिं स्थिरां देहि मनोवाक्कायकर्मभिः ।

इत्युक्त्वा सोऽपतद्वह्नौ सर्वेषामेव पश्यताम् २९।

मुद्गलस्तु तदा क्रोधाच्छिखामुत्पाटयत्स्वकाम् ।

ततस्त्वद्यापि तद्गोत्रे मुद्गला विशिखाभवन् ३०।

तावदाविरभूद्विष्णुः कुंडाग्नौ भक्तवत्सलः ।

तमालिंग्य विमानाग्र्यं समारोहयदच्युतः ३१।

तमालिंग्यात्मसारूप्यं दत्त्वा वैकुंठमंदिरम् ।

तेनैव सह देवेशो जगाम त्रिदशैर्वृतः ३२।

नारद उवाच।

यो विष्णुदासः स तु पुण्यशीलो यश्चोलभूपः स सुशील नामा ।

एतावुभौ तत्समरूपभाजौ द्वाःस्थौ कृतौ तेन रमाप्रियेण ३३।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्यानंनाम नवाधिकशततमोऽध्यायः १०९।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 110

धर्मदत्त उवाच।

जयश्च विजयश्चैव विष्णोर्द्वास्थौ मया श्रुतौ ।

किंतु ताभ्यां पुरा चीर्णं यस्मात्तद्रूपधारिणौ १।

गणावूचतुः।

तृणबिंदोस्तु कन्यायां देवहूत्यां पुरा द्विज ।

कर्दमस्य तु दृष्ट्यैव पुत्रौ द्वौ संबभूवतुः २।

ज्येष्ठो जयः कनिष्ठोऽभूद्विजयश्चेति नामतः ।

अन्यस्यामभवत्पश्चात्कपिलो योगधर्मवित् ३।

जयश्च विजयश्चैव विष्णुभक्तिरतौ सदा ।

संनियम्येंद्रियग्रामं धर्मशीलौ बभूवतुः ४।

नित्यमष्टाक्षरी जाप्यौ विष्णुव्रतकरावुभौ ।

साक्षात्कारं ददौ विष्णुस्तयोर्नित्यार्चने सदा ५।

मरुत्तेन कदाचित्तावाहूतौ यज्ञकर्मणि ।

जग्मतुर्यज्ञकुशलौ देवर्षिगणसेवितौ ६।

जयस्तत्राभवद्ब्रह्मा याजको विजयोऽभवत् ।

ततो यज्ञविधिं कृत्स्नं परिपूर्णं च चक्रतुः ७।

मरुतोऽवभृथस्नातस्ताभ्यां वित्तं ददौ बहु ।

तत्समादाय तौ वित्तं जग्मतुः स्वाश्रमं प्रति ८।

यजनाय तदा विष्णोस्तुष्ट्यर्थं तौ तदा मुने ।

तद्धनं विभजंतो वै पस्पर्द्धाते परस्परम् ९।

जयोऽब्रवीत्समो भागः क्रियतामिति तत्र सः ।

विजयश्चाब्रवीत्तत्र यल्लब्धं येन तस्य तत् १०।

ततो जयोऽशपत्क्रोधाद्विजयं क्षुब्धमानसः ।

गृहीत्वा न ददास्येतत्तस्माद्ग्राहो भवेति तम् ११।

विजयस्तस्य तं शापं श्रुत्वा सोऽप्यशपच्च तम् ।

मदभ्रांतोशपद्यस्मात्तस्मान्मातंगतां व्रज १२।

तौ तथा चख्यतुर्विष्णुं दृष्ट्वा नित्यार्चने विभुम् ।

शापयोस्तुनिवृत्तिं तौ ययाचाते रमापतिम् १३।

भक्तावावां कथं देव ग्राहमांतगयोनिगौ ।

भविष्यावः कृपासिंधो तच्छापो विनिवर्त्यताम् १४।

श्रीभगवानुवाच।

मद्भक्तयोर्वचोऽसत्यं न कदाचिद्भविष्यति ।

मयापि नान्यथा कर्तुं शक्यते तत्कदाचन १५।

प्रह्लादवचनात्स्तंभऽप्याविर्भूतो ह्यहं पुरा ।

तथांबरीषवाक्येन जातो मार्गे स्वयं किल १६।

तस्माद्ध्रुवमिमौ शापावनुभूय स्वयंकृतौ ।

लभेतां मत्पदं नित्यमित्युक्त्वांतर्दधे हरिः १७।

गणावूचतुः ।

ततस्तौ ग्राहमातंगा बभूतां गंडकी तटे ।

जातिस्मरौ च तद्योन्यामपि विष्णुव्रते स्थितौ १८।

कदाचित्स गजः स्नातुं कार्तिके गंडकीं गतः ।

तावज्जग्राह च ग्राहः संस्मरञ्छापकारणम् १९।

ग्राहगृहीतोऽसौ नागः संस्मार श्रीपतिं तदा ।

तावदाविरभूद्विष्णुः शंखचक्रगदाधरः २०।

तॄतस्तौ ग्राहमातंगौ चक्रं क्षिप्त्वा समुद्धृतौ ।

दत्त्वा च निजसारूप्यं वैकुंठमनयद्विभुः २१।

तदाप्रभृति तत्स्थानं हरिक्षेत्रमिति श्रुतम् ।

चक्रसंघर्षणाद्यस्मिन्पाषाणोऽपि हि लांछितः २२।

ताविमौ विश्रुतौ लोके जयश्च विजयश्च ह ।

नित्यं विष्णुप्रियौ द्वाःस्थौ पृष्टौ यौ हि त्वया द्विज २३।

अतस्त्वमपि धर्मज्ञ नित्यं विष्णुव्रते स्थितः ।

त्यक्तमात्सर्यदंभो हि भव स्वसमदर्शनः २४।

तुलामकरमेषेषु प्रातःस्नायी सदा भव ।

एकादशीव्रते तिष्ठ तुलसीवनपालकः २५।

ब्राह्मणानपि गाश्चापि वैष्णवांश्च सदा भज ।

मसूराश्चारनालाश्च वृंताकानपि खाद मा २६।

एवं त्वमपि देहांते तद्विष्णोः परमं पदम् ।

प्राप्नोषि धर्मदत्त त्वं तद्भक्त्यैव यथा वयम् २७।

तवाजन्मव्रतात्तस्माद्विष्णुसंतुष्टिकारकात् ।

न यज्ञा न च दानानि न तीर्थान्यधिकानि वै २८।

धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः ।

यत्पुण्यभागाप्तफलं मुरारेः प्रणीयतेस्माभिरियं सलोकताम् २९।

नारद उवाच।

इत्थं तौ धर्मदत्तं तमुपदिश्य विमानगौ ।

तया कलहया सार्द्धं वैकुंठभवनं गतौ ३०।

धर्मदत्तोप्यसौ जातप्रत्ययस्तद्व्रते स्थितः ।

देहांते तद्विभोः स्थानं भार्याभ्यामन्वितोऽभ्यगात् ३१।

इतिहासमिमं पुराभवं शृणुते यश्च पुमान्यथाविधि ।

हरिसंनिधिकारिणीं मतिं लभतेऽसौ कृपया जगद्गुरोः ३२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तर।

खण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्याने गणपूर्वपुण्यवर्णनोनाम दशाधिशततमोऽध्यायः११०।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 111

पृथुरुवाच।

कृष्णवेण्यातटाद्यस्मात्शिवविष्णुगणैः पुरा ।

वणिक्शरीरात्कलहा निर्मिता कथिता त्वया १।

प्रभावोऽयं तयोर्नद्योः किंवा क्षेत्रस्य तस्य वा ।

तन्मे कथय धर्मज्ञ विस्मयोऽत्र महान्मम २।

नारद उवाच।

कृष्णा कृष्णतनुः साक्षाद्वेण्या देवो महेश्वरः ।

तत्संगमप्रभावं तु नालं वक्तुं चतुर्मुखः ३।

तथापि तत्समुत्पत्तिं कीर्तयिष्यामि तच्छृणु ।

चाक्षुषस्यांतरे पूर्वं मनोर्देवः पितामहः ४।

सह्याद्रिशिखरे रम्ये यजनायोद्यतोऽभवत् ।

स कृत्वा यज्ञसंभारान्सर्वदेवगणैर्वृतः ५।

युक्तो हरिहराभ्यां च तद्गिरेः शिखरं ययौ ।

भृग्वादयो मुनिगणा मुहूर्ते ब्रह्मदैवते ६।

तस्य दीक्षाविधानाय समाजं तत्र चक्रिरे ।

अथ ज्येष्ठां स्वरां पत्नीं विष्णुराह्वयत द्विजैः ७।

साशनैराययौ तावद्भृगुर्विष्णुमुवाच ह ।

भृगुरुवाच।

विष्णो स्वरा त्वयाहूता आयाति न हि सत्वरा ८।

मुहूर्त्तातिक्रमश्चायं कार्यो दीक्षाविधिः कथम् ।

विष्णुरुवाच।

नायाति चेत्स्वरा शीघ्रं गायत्र्यत्र विधीयताम् ९।

एषापि न भवत्यस्य भार्या किं पुण्यकर्मणि ।

नारद उवाच।

एवमेव हि रुद्रोऽपि विष्णोर्वाक्यममोदत १०।

तच्छ्रुत्वा स भृगुर्वाक्यं गायत्रीं ब्रह्मणस्तदा ।

निवेश्य दक्षिणे भागे दीक्षाविधिमथाकरोत् ११।

यावद्दीक्षाविधिं तस्य विधेश्चक्रुर्विधानतः ।

तावदभ्याययौ तत्र स्वरा यज्ञस्थले नृप १२।

ततस्तां दीक्षितां दृष्ट्वा गायत्रीं ब्रह्मणा सह ।

सपत्नीर्षापरा क्रोधात्स्वरा वचनमब्रवीत् १३।

स्वरोवाच।

अपूज्या यत्र पूज्यन्ते पूज्यानां च व्यतिक्रमः ।

त्रीणि तत्र भविष्यंति दुर्भिक्षं मरणं भयम् १४।

ममासने कनिष्ठेयं भवद्भिः सन्निवेशिता ।

तस्मात्सर्वे जडीभूता नानारूपा भविष्यथ १५।

इदं च दक्षिणेभागे ह्युपविष्टा मदासने ।

तस्माल्लोकैः सदाऽदृश्या तनुर्वहतु निम्नगा १६।

नारद उवाच।

ततस्तच्छापमाकर्ण्य गायत्री कंपिता तदा ।

समुत्थायाशपद्देवैर्वार्यमाणापि तां स्वराम् १७।

तव भर्त्ता यथा ब्रह्मा ममाप्येष तथा खलु ।

वृथाशपस्त्वं यस्मान्मां भव त्वमपि निम्नगा १८।

नारद उवाच।

ततो हाहाकृताः सर्वे शिवविष्णुमुखाः सुराः ।

तदा लोकत्रयं ह्येतद्विनाशं यास्यति ध्रुवम् १९।

देवा ऊचुः ।

देवि सर्वे वयं शप्ता ब्रह्माद्या यत्त्वयाधुना ।

यदि सर्वे जडीभूता भविष्यामोऽत्र निम्नगाः २०।

तदा लोकत्रयं ह्येतद्विनाशं यास्यति ध्रुवम् ।

अविवेकः कृतस्तस्माच्छापोऽयं विनिवर्त्यताम् २१।

स्वरोवाच।

नार्चितो हि गणाध्यक्षो यज्ञादौ यत्सुरोत्तमाः ।

तस्माद्विघ्नं समुत्पन्नं मत्क्रोधजमिदं खलु २२।

नापि मद्वचनं ह्येतदसत्यं जायते खलु ।

तस्मात्स्वांशैर्जडीभूता यूयं भवत निम्नगाः २३।

आवामपि सपत्न्यौ च स्वांशाभ्यामपि निम्नगे ।

भविष्यावोऽत्र वै देवाः पश्चिमाभिमुखावहे २४।

नारद उवाच।

इति तद्वचनं श्रुत्वा ब्रह्मविष्णुमहेश्वराः ।

जडीभूताभवन्नद्यः स्वांशैरेव तदा नृप २५।

तत्र विष्णुरभूत्कृष्ण वेण्या देवो महेश्वरः ।

ब्रह्मा ककुद्मिनीगंगा पृथगेवाभवत्तदा २६।

देवा स्वानपितानंशान्जडीकृत्वा विचक्षणाः ।

सह्याद्रिशिखरेभ्यस्ताः पृथगासन्सुनिम्नगाः २७।

देवांशैः पूर्ववाहिन्यो बभूवुः सरितां वराः ।

गायत्री च स्वरा चैव पश्चिमाभिमुखे तदा २८।

योगेनाभवतां नद्यौ सावित्रीति प्रथां गते ।

ब्रह्मणा स्थापितौ तत्र यज्ञे हरिहरावुभौ २९।

महाबलातिबलिनौ नाम्ना देवौ बभूवतुः ।

तयोर्नद्योस्तु माहात्म्यं नाहं वक्तुं क्षमो नृप ।

ययुर्ब्रह्मादयो देवाः स्वांशैस्तिष्ठंति चापगाः ३०।

कृष्णोद्भवं पापहरं परं यः शृणोति यः श्रावयते च भक्त्या ।

स्यात्तस्य पुण्या सकलाक्रियापि तद्दर्शनस्नानसमुद्भवं फलम् ३१।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये सत्य भामासंवादेकृष्णावेण्यामाहात्म्यवर्णनोनाम एकादशाधिकशततमोऽध्यायः १११।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 112

श्रीकृष्ण उवाच।

इति तद्वचनं श्रुत्वा पृथुर्विस्मितमानसः ।

संपूज्य नारदं भक्त्या विससर्ज तदा प्रिये १।

तस्माद्व्रतत्रयं ह्येतन्ममातीवप्रियंकरम् ।

माघकार्तिकयोस्तद्वत्तथैवैकादशीव्रतम् २।

वनस्पतीनां तुलसी मासानां कार्तिकः प्रियः ।

एकादशी तिथीनां च क्षेत्राणां द्वारका मम ३।

एतेषां सेवनं यस्तु करोति च जितेंद्रियः ।

स मे वल्लभतां याति न तथा यजनादिभिः ४।

पापेभ्यो न भयं तेन कर्त्तव्यं नियमादपि ।

एतेषां सेवनं कांते कुर्वता मत्प्रसादतः ५।

सत्यभामोवाच।

विस्मापनीयं तन्नाथ यत्त्वया कथितं मम ।

परदत्तेन पुण्येन कलहा मुक्तिमागता ६।

इत्थं प्रभावो मासोऽयं कार्त्तिकस्ते प्रियंकरः ।

स्वामिद्रोहादिपापानि स्नानदानैर्गतानि यत् ७।

दत्तं च लभते पुण्यं यत्परेण कृतं विभो ।

अदत्तं केन मार्गेण लभते चापि मानवः ८।

श्रीकृष्ण उवाच।

अदत्तान्यपि पुण्यानि पापानि च यथा नरैः ।

प्राप्यंते कर्मणा येन तद्यथावन्निशामय ९।

देशग्रामकुलानि स्युर्भागभांजि कृतादिषु ।

कलौ तु केवलं कर्त्ता फलभुक्पुण्यपापयोः १०।

अकृतेऽपि हि संसर्गे व्यवस्थेयमुदाहृता ।

संसर्गात्पुण्यपापानि यथा यांति निबोध तत् ११।

एकत्रमैथुनाद्यानादेकपात्रस्थभोजनात् ।

फलार्द्धं प्राप्नुयान्मर्त्यो यथावत्पुण्यपापयोः १२।

अध्यापनाद्याजनाद्वाप्येकपंक्त्यशनादपि ।

तुर्यांशं पुण्यपापानां नित्यं प्राप्नोति मानवः १३।

एकासनादेकयानान्निःश्वासस्यांगसंगतः ।

षडंशं फलभागी स्यान्नयतं पुण्यपापयोः १४।

स्पर्शनाद्भाषणाद्वापि परस्य स्तवनादपि ।

दशांशं पुण्यपापानां नित्यं प्राप्नोति मानवः १५।

दर्शनश्रवणाभ्यां च मनोध्यानात्तथैव च ।

परस्य पुण्यपापानां शतांशं प्राप्नुयान्नरः १६।

परस्य निंदां पैशुन्यं धिक्कारं च करोति यः ।

तत्कृतं पातकं प्राप्य स्वपुण्यं प्रददाति सः १७।

कुर्वतः पुण्यकर्माणि सेवां यः कुरुते नरः ।

पत्नीभृतकशिष्येभ्यो यदन्यः कोऽपि मानवः १८।

तस्य सेवानुरूपेण द्रव्यं किंचिन्न दीयते ।

सोऽपि सेवानुरूपेण तत्पुण्यफलभाग्भवेत् ।

एकपंक्त्यश्नतां यस्तु लंघयेत्परिवेषणम् १९।

तस्य पापषडंशं तु लभेद्वै परिवेषकः ।

स्नानसंध्यादिकं कुर्वन्यः स्पृशेद्वा प्रभाषते २०।

स पुण्यकर्मषष्ठांशं दद्यात्तस्मै सुनिश्चितम् ।

धर्मोद्देशेन यो द्रव्यमपरं याचते नरः २१।

तत्पुण्यकर्मजं तस्य धनदस्त्वाप्नुयात्फलम् ।

अपहृत्य परद्रव्यं पुण्यकर्म करोति यः २२।

कर्मकृत्पापभाक्तत्र धनिनस्तद्भवं फलम् ।

नापनुद्य ऋणं यस्तु परस्य म्रियते नरः २३।

धनी तत्पुण्यमाधत्ते स्वधनस्यानुरूपतः ।

बुद्धिदस्त्वनुमंता च यश्चोपकरणप्रदः २४।

बलकृच्चापि षष्ठांशं प्राप्नुयात्पुण्यपापयोः ।

प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमुद्धरेत् २५।

शिष्याद्गुरुः स्त्रियो भर्त्ता पितापुत्रात्तथैव च ।

स्वपतेरपि पुण्यस्य योषिदर्द्धमवाप्नुयात् २६।

चित्तस्यानुव्रता शश्वद्वर्तते तुष्टिकारिणी ।

परहस्तेन दानादि कुर्वतः पुण्यकर्मणि २७।

विना भृतकपुत्राभ्यां कर्त्ता षष्ठांशमुद्धरेत् ।

वृत्तिदो वृत्तिसंभोक्तुः पुण्यमष्टांशमुद्धरेत् २८।

आत्मनो वा परस्यापि यदि सेवां न कारयेत् २९।

श्रीकृष्ण उवाच।

इत्थं ह्यदत्तान्यपि पुण्यपापान्या यांति नित्यं परसंचितानि ।

शृणुष्व चेमं इतिहासमग्र्यं पुराभवं पुण्यमतिप्रदं च ३०।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे पुण्यपापांशकथनंनाम द्वादशाधिकशततमोऽध्यायः ११२।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 113

श्रीकृष्ण उवाच।

पुरावंतीपुरे वासी विप्र आसीद्धनेश्वरः ।

ब्रह्मकर्मपरिभ्रष्टः पापनिष्ठः सुदुर्मतिः १।

रसकंबलचर्मादि विक्रयानृतवर्त्तनः ।

स्तेयवेश्यासुरापानद्यूतसंसक्तमानसः २।

देशाद्देशांतरं गच्छन्क्रयविक्रयकारणात् ।

माहिष्मतीं पुरीं यातः कदाचित्स धनेश्वरः ३।

महिषेण कृता पूर्वं तस्मान्माहिष्मतीभवत् ।

यस्यां वप्रतटाभाति नर्मदा पापनाशिनी ४।

कार्तिकव्रतिनस्तत्र नानाग्रामागतान्नरान् ।

स दृष्ट्वा विक्रयं कुर्वन्मासमेकमुवास ह ५।

स नित्यं नर्मदातीरे भ्रमन्विक्रयकारणात् ।

ददर्श ब्राह्मणान्स्नातान्जपदेवार्चनेरतान् ६।

कांश्चित्पुराणं पठतः कांश्चित्तच्छ्रवणे रतान् ।

नृत्यगायनवादित्रविष्णुस्तवनतत्परान् ७।

विष्णुमुद्रांकितान्कांश्चिन्मालातुलसिधारिणः ।

ददर्श कौतुकाविष्टस्तत्र तत्र धनेश्वरः ८।

नित्यं परिभ्रमंस्तत्र दर्शनस्पर्शभाषणात् ।

वैष्णवानां तथा विष्णोर्नामश्रावादि सोऽलभत् ९।

एवं मासं स्थितःसोऽथ कार्तिकोद्यापने विधौ ।

क्रियमाणे ददर्शासौ भक्तैर्जागरणं हरेः १०।

पौर्णमास्यां ततोऽपश्यद्विविधं पूजनादिकम् ।

दक्षिणा भोजनाद्यं च दीपदानं व्रतस्थितैः ११।

ततोऽर्कास्तमये चैवं दीपोत्सवविधिं तदा ।

क्रियमाणं ददर्शासौ प्रीत्यर्थं त्रिपुरद्विषः १२।

त्रिपुराणां कृतो दाहो यतस्तस्यां शिवेन तु ।

अतस्तु क्रियते तस्यां तिथौ भक्तैर्महोत्सवः ।

मम रुद्रस्य यः कश्चिदंतरं परिकल्पयेत् १३।

तस्य पुण्यक्रियाः सर्वा निष्फलाः स्युर्न संशयः ।

तत्र नृत्यादिकं पश्यन्बभ्राम स धनेश्वरः ।

तावत्कृष्णाहिना दष्टो विकलः स पपात ह ।

जनास्तंपति तं वीक्ष्य परिवव्रुः कृपान्विताः १४।

तुलसीमिश्रितैस्तोयैस्तन्मुखं सिषिचुस्तदा ।

अथ देहे परित्यक्ते तं बद्ध्वा यमकिंकराः १५।

बाध्यमानं कशाघातैर्निन्युः संयमिनीं रुषा ।

चित्रगुप्तस्तु तं दृष्ट्वा निर्भर्त्स्यावेदयत्तदा १६।

यमायतेन बाल्यात्तु कर्म यद्दुष्कृतं कृतम् ।

चित्रगुप्त उवाच।

नैवास्य दृश्यते किंचिदाबाल्यात्सुकृतं क्वचित् १७।

दुष्कृतं शक्यते वक्तुं शतवर्षैर्न भास्करे ।

पापमूर्तिरयं दुष्टः केवलं दृश्यते विभो १८।

तस्मादाकल्पमर्यादं निरये परिपाच्यताम् ।

श्रीकृष्ण उवाच।

निशम्येत्थं वचः क्रोधाद्यमः प्राह स्वकिंकरान् १९।

दर्शयन्नात्मनोरूपं कालाग्निसदृशप्रभम् ।

यम उवाच।

भो प्रेतापनयस्वैनं बध्यमानं स्वमुद्गरैः २०।

कुंभीपाके क्षिपस्वाशु तैलक्वथनशब्दिते ।

यावत्क्षिप्तस्तु तत्रासौ तावच्छीतलतां ययौ २१।

कुंभीपाको यथा वह्निः प्रह्लादक्षेपणात्पुरा ।

तद्दृष्ट्वा महदादश्चर्यं प्रेतपो विस्मयान्वितः २२।

वेगादागत्य तत्सर्वं यमायाकथयत्तदा ।

यमस्तु कौतुकं श्रुत्वा प्रेतपेन निवेदितम् २३।

आः किमेतदिति प्रोच्य सम्यगेतद्विचारयत् ।

तावदभ्यागतस्तत्र नारदः प्रहसंस्त्वरन् २४।

यमेन पूजितः सम्यक्तं दृष्ट्वा वाक्यमब्रवीत् ।

नारद उवाच।

नैवायं निरयान्भोक्तुं क्षमः सवितृनंदन २५।

यस्मादेतस्य संजातं कर्म यन्निरयापहम् ।

यः पुण्यकर्मणां कुर्याद्दर्शनस्पर्शभाषणम् २६।

तत्षडंशमवाप्नोति पुण्यस्य नियतं नरः ।

असंख्यातैस्तुसंसर्गैः कृतवानेष यद्धरेः २७।

कार्तिकव्रतिभिर्मासं तस्मात्पुण्यांशभागयम् ।

परिचर्याकरस्तेषां संपूर्णव्रतपुण्यभाक् २८।

अतोऽस्योर्जव्रतोद्भूतपुण्यसंख्या न विद्यते ।

कार्त्तिकव्रतिनां पुंसां पातकानि महांत्यपि २९।

नाशयत्येव सर्वाणि विष्णुः सद्भक्तवत्सलः ।

अंते तन्नामभिस्तोयैस्तुलसीमिश्रितैस्त्वयम् ३०।

वैष्णवानुग्रही यस्मान्नरके नैव पच्यते ।

तस्मान्निहतपापोऽयं सद्गतिं यातुमर्हति ३१।

आर्द्रैः शुष्कैर्यथापापैर्निरये भोगसंनिधिः ।

प्राप्यते सुकृतैस्तद्वत्स्वर्गभोगस्य संनिधिः ३२।

तस्मादकामपुण्यो हि यक्षयोनिस्थितस्त्वसौ ।

विलोक्य नरकान्सर्वान्पापभोगमवाप्नुयात् ३३।

श्रीकृष्ण उवाच।

इत्युक्त्वा गतवति नारदेऽथ सौरिस्तद्वाक्यश्रवणविबुद्ध तत्सुकर्मा ।

विप्रं तं पुनरनयत्स्वकिंकरेण तान्सर्वान्निरयगणान्प्रदर्शयिष्यन् ३४।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्त्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे धनेश्वरोपाख्याने त्रयोदशाधिकशततमोऽध्यायः ११३।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 114

श्रीकृष्णोवाच।

ततो धनेश्वरं नीत्वा निरयान्प्रेतपोऽब्रवीत् ।

प्रदर्शयिष्यंस्तान्सर्वान्यमस्यानुचरस्तदा १।

प्रेतप उवाच।

पश्येमान्निरयान्घोरान्धनेश्वर महाभयान् ।

येषु पापकरा नित्यं पच्यंते यमकिंकरैः २।

तप्तवालुकनामायं निरयो घोरदर्शनः ।

यस्मिन्नेते दग्धदेहाः क्रंदंते पापकारिणः ३।

अतिथीन्वैश्वदेवान्ते क्षुत्क्षामानागतान्गृहे ।

ये नार्चंति नरास्ते हि पच्यंते स्वेन कर्मणा ४।

गुर्वग्निब्राह्मणान्देवांस्तथा मूर्द्धाभिषिक्तकान् ।

ताडयंति पदा ये वै ते निर्दग्धांघ्रयस्त्विमे ५।

षड्भेदस्त्वेषनिरयो नानापापैः प्रपद्यते ।

तथैव चांधतामिस्रो द्वितीयो निरयो महान् ६।

पश्य सूचीमुखैर्देहो भिद्यते पापकर्मणा ।

क्रिमिभिर्घोरवक्त्रैश्च तत्संपर्कागमैर्द्विज ७।

असावपि स्थितः षोढा श्वकाकमृगपक्षिभिः ।

परमर्मभिदो मर्त्याः पच्यंते तेषु पापिनः ८।

तृतीयः क्रकचो ह्येष निरयो घोरदर्शनः ।

यत्रेमे क्रकचैर्मर्त्याः पाट्यंते पापकारिणः ९।

असिपत्रवनाद्यैस्तु षट्प्रकारो व्यवस्थितः ।

पत्नीपुत्रादिभिर्ये वै वियोगं कारयंति हि १०।

इष्टैरन्यैरपि परान्पच्यंते त इमे नराः ।

असिपत्रैश्छिद्यमाना छेदभीत्या पलायिताः ११।

पच्यंते पापिनः पश्य क्रंदमाना इतस्ततः ।

अर्गलाख्यो महाघोरश्चतुर्थो निरयो ह्ययम् १२।

पश्य नानाविधैः पाशैराबध्य यमकिंकरैः ।

मुद्गराद्यैर्वध्यमानाः क्रंदंते ते च पापिनः १३।

सज्जनान्ब्राह्मणाद्यांश्च विरुंधंतीह ये नराः ।

कंठग्रहाद्यैस्ते पापाः पच्यंते यमकिंकरैः १४।

असावपि हि षड्भेदो वधभेदादिभिः स्थितः ।

कूटशाल्मलिनामानं निरयं पश्य पंचमम् १५।

यत्रांगारनिभा एते शाल्मल्याद्याः स्थिता द्विज ।

यत्र षोढा विपच्यंते यातनाभिरिमे नराः १६।

परदारा परद्रव्य परद्रोह रताः सदा ।

रक्तपूयमिमं पश्य षष्ठं निरयमद्भुतम् १७।

अधोमुखा विपच्यंते यत्र पापकृतो नराः ।

अभक्ष्यभक्षका निंदा पैशुन्यादि रता इमे १८।

भज्यमाना वध्यमानाः क्रंदंते भैरवान्स्वरान् ।

षट्प्रकारैर्विगंधाढ्यैरसावपि च संस्थितः १९।

कुंभीपाकः सप्तमोऽयं निरयो घोरदर्शनः ।

षोढास्तैलादिभिर्द्रव्यैर्धनेश्वर विलोकय २०।

महापातकिनो यत्र क्वथ्यंते यमकिंकरैः ।

बहून्यब्दसहस्राणि सोन्मज्जननिमज्जनैः २१।

चत्वारिंशन्मितानेतान्द्व्यधिकान्पश्य रौरवान् ।

अकामात्पातकं शुष्कं कामादार्द्रमुदाहृतम् २२।

आर्द्रशुष्कादिभिः पापैर्द्विप्रकारानवस्थितान् ।

चतुरशीतिसंख्याकैः पृथग्भेदैरवस्थितान् २३।

यत्प्रकीर्णमपांक्तेयं मलिनीकरणं तथा ।

ज्ञातिभ्रंशकरं तद्वदुपपातकसंज्ञकम् २४।

अतिपापं महापापं सप्तधा पातकं स्मृतम् ।

एभिः सप्तसु पच्यंते निरयेषु यथाक्रमम् २५।

कार्तिकव्रतिभिर्यस्मात्संसर्गो ह्यभवत्तव ।

तत्पुण्योपचयादेते निर्हृता निरयाः खलु २६।

श्रीकृष्ण उवाच।

दर्शयित्वेति निरयान्प्रेतपस्तमथाहरत् ।

धनेश्वरं यक्षलोकं पश्चादासीत्स तत्र हि २७।

धनदस्यानुगः सोऽयं धनयक्षेति स स्मृतः ।

यदाख्यायाकरोत्तीर्थमयोध्यायां तु गाधिजः २८।

एवं प्रभावः खलु कार्तिकोऽयं मुक्तिप्रदो मुक्तिकरश्च यस्मात् ।

प्रयात्यनेकार्जितपातकोऽपि व्रतस्थसंदर्शनतोऽपि मुक्तिम् २९।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये धनेश्वरोपाख्याने चतुर्दशाधिकशततमोऽध्यायः ११४।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 115

सूत उवाच।

इत्युक्त्वा वासुदेवोऽसौ सत्यभामामतिप्रियाम् ।

सायंसंध्यादिकं कर्तुं जगाम जननीगृहम् १।

एवं प्रभावः प्रोक्तोयं कार्तिकः पापनाशनः ।

विष्णुप्रियकरो नित्यं भुक्तिमुक्तिप्रदः सदा २।

हरिजागरणं प्रातः स्नानं तुलसिसेवनम् ।

उद्यापनं दीपदानं व्रतान्येतानि कार्तिके ३।

पंचकैर्व्रतकैरेभिः संपूर्णं कार्तिकव्रतम् ।

फलं प्राप्नोति तत्प्रोक्तं भुक्तिमुक्तिफलप्रदम् ४।

ऋषय ऊचुः।

विष्णोः प्रियोऽतिफलदः प्रोक्तोऽयं रोमहर्षणे ।

कार्तिकस्य विधिः सम्यक्पावनः पापनाशनः ५।

अवश्यमेव कर्त्तव्यः प्राप्य दुःखनिवारणः ।

मोक्षार्थिभिर्नरः सम्यग्भोगकामैरथापिवा ६।

एवं स्थिते यथाकश्चिद्व्रतस्थः संकटे स्थितः ।

दुर्गारण्यस्थितो वापि व्याधिभिः परिपीडितः ।

कथं तेन प्रकर्तव्यं कार्तिकव्रतकं शुभम् ७।

सूत उवाच।

यस्मादत्यंतफलदं कर्तव्यं तु यथा नरैः ।

तत्सर्वं कथयिष्येऽहं शृणुध्वं मुनिपुंगवाः ८।

विष्णोः शिवस्य वा कुर्यादालये हरिजागरम् ।

शिवविष्णुग्रहाभावे सर्वदेवालयेष्वपि ९।

दुर्गारण्यस्थितो यश्च यदि वा यद्गतो भवेत् ।

कुर्यात्तदाश्वत्थमूले तुलसीनां वनेष्वपि १०।

विष्णुनामप्रधानानां गायनाद्विष्णुसन्निधौ ।

गोसहस्रप्रदानस्य फलं प्राप्नोति मानवः ११।

वाद्यकृत्पुरुषश्चापि वाजपेयफलं लभेत् ।

सर्वतीर्थावगाहोत्थं नर्तकः फलमाप्नुयात् १२।

सर्वमेतल्लभेत्पुण्यं तेषां तु द्रव्यदः पुमान् ।

प्रशंसादर्शनाभ्यां हि तत्षडंशमवाप्नुयात् १३।

आपद्गतो यदाप्यंभो न लभेत्स्नपनाय सः ।

व्याधितो वा पुनः कुर्याद्विष्णोर्नामापमार्जनम् १४।

उद्यापनविधिं कर्तुं न शक्तो यो व्रते स्थितः ।

ब्राह्मणान्भोजयेच्छक्त्या व्रतसंपूर्णहेतवे १५।

यस्मादत्यंतफलदो न त्याज्यः सर्वदा नरैः ।

अव्यक्तरूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि १६।

तत्संतुष्ट्या सुसंतुष्टः सर्वदा स्यां न संशयः ।

अशक्तो दीपदाने तु परदीपं प्रबोधयेत् १७।

तेषां वा रक्षणं कुर्याद्वातादिभ्यः प्रयत्नतः ।

अभावे तुलसीनां तु पूजयेद्वैष्णवं द्विजम् १८।

यस्मात्संनिहितो विष्णुः स्वभक्तेष्वेव सर्वदा ।

सर्वाभावे व्रती कुर्याद्ब्राह्मणानां गवामपि १९।

सेवां वाश्वत्थवटयोर्व्रतसंपूर्णहेतवे २०।

ऋषय ऊचुः ।

कथं त्वयाश्वत्थवटौ गोब्राह्मणसमौ कृतौ ।

सर्वेभ्योऽपि तरुभ्यस्तौ कस्मात्पूज्यतरौ कृतौ २१।

सूत उवाच।

अश्वत्थरूपी भगवान्विष्णुरेव न संशयः ।

रुद्ररूपी वटस्तद्वत्पालाशो ब्रह्मरूपधृक् २२।

दर्शनं पूजनं सेवा तेषां पापहरा स्मृता ।

दुःखापद्व्याधिदुष्टानां विनाशकरणी ध्रुवम् २३।

ऋषय ऊचुः।

कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ।

एतत्कथय सर्वज्ञ संशयोऽत्र महान्हि नः २४।

सूत उवाच।

पार्वतीशिवयोर्देवैः सुरतं कुर्वतोः किल ।

अग्निर्ब्राह्मणरूपेण प्रेषितो विघ्नकृत्पुरा २५।

ततः सा पार्वती क्रुद्धा शशाप त्रिदिवौकसः ।

रतोत्सवसुखभ्रंशात्कंपमाना रुषा तदा २६।

पार्वत्युवाच।

कृमिकीटादयोप्येते जानंति सुरतं सुखम् ।

तद्विघ्नकरणाद्देवा ह्युद्भिज्जत्वमवाप्स्यथ २७।

सूत उवाच।

एवं सा पार्वती देवानशपत्क्रुद्धमानसा ।

तस्माद्वृक्षत्वमापन्नाः सर्वे देवगणाः किल २८।

तस्मादिमौ विष्णुमहेश्वरावुभौ बभूवतुर्बोधिवटौ मुनीश्वराः ।

बोधिस्त्वगादार्किदिने स्पृशत्वमस्पृश्यतामर्कजविष्टियोगात् २९।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये अश्वत्थवटप्रशंसनंनाम पंचदशाधिकशततमोऽध्यायः ११५।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 116

ऋषय ऊचुः।

अस्पृश्यत्वे कथं जातः सूत बोधितरुस्त्वयम् ।

स्पृश्यत्वं च कथं प्राप्तस्तथा च शनिवासरे ।

एतद्विस्तरतः सर्वं वक्तुमर्हति नो भवान् १।

सूत उवाच।

समुद्रमथनाद्यानि रत्नान्यापुः सुरेश्वराः ।

श्रियं च कौस्तुभं तेषां विष्णवे प्रददुः सुराः २।

यावदंगीचकारासौ लक्ष्मीं भार्यार्थमात्मनः ।

तावद्विज्ञापयामास लक्ष्मीस्तं चक्रपाणिनम् ३।

लक्ष्मीरुवाच।

असंस्कृत्य कथं ज्येष्ठां त्वं कनिष्ठां प्रणीयसे ।

तस्मान्ममाग्रजामेतामलक्ष्मीं मधुसूदन ४।

विवाह्य नय मां पश्चादेष धर्मः सनातनः ५।

सूत उवाच।

इति तद्वचनं श्रुत्वा स विष्णुर्लोकभावनः ।

उद्दालकाय मुनये सुदीर्घतपसे तदा ६।

आत्मवाक्यानुरोधेन तामलक्ष्मीं ददौ किल ।

स्थूलास्यां शुभ्रदशनां राजतीं बिभ्रतीं तनुम् ७।

विततां रक्तनयनां रूक्षपिंगशिरोरुहाम् ।

समुनिर्विष्णुवाक्यात्तामंगीकृत्य स्वमाश्रमम् ८।

वेदध्वनिसमायुक्तमानयामास धर्मवित् ।

होमधूमसुगंधाढ्यं विद्याघोषविनादितम् ९।

आश्रमं तं समालोक्य व्यथिता साब्रवीदिदम् ।

ज्येष्ठोवाच।

न हि वासोऽनुरूपोऽयं वेदध्वनियुतो मम ।

नात्रागमिष्ये भो ब्रह्मन्नयस्वान्यत्र मा चिरम् १०।

उद्दालक उवाच।

कथं नायासि किंवात्र वर्त्तते संमतं तव ।

तव योग्या च वसतिः का भवेच्च वदस्व तत् ११।

ज्येष्ठोवाच।

वेदध्वनिर्भवेद्यस्मिन्नतिथीनां च पूजनम् ।

यज्ञदानादिकं वापि नैव तत्र वसाम्यहम् १२।

परस्परानुरागेण दांपत्यं यत्र वर्तते ।

पितृदेवार्चनं यत्र नैव तत्र वसाम्यहम् १३।

दुरोदररता यत्र परद्रव्यापहारिणः ।

परदाररताश्चापि तत्र स्थाने रतिर्मम १४।

गोवधो मद्यपानं च यत्र संजायतेनिशम् ।

ब्रह्महत्यादिपापानि तस्मिन्स्थाने रतिर्मम ।

वृद्धसज्जनविप्राणां यत्र स्यादपमाननम् ।

निष्ठुरं भाषणं यत्र तत्र नित्यं वसाम्यहम् १५।

सूत उवाच।

इति तद्वचनं श्रुत्वा विषण्णवदनोऽभवत् ।

उद्दालकमुनिर्विष्णोर्वाक्यं स्मृत्वा न चोचिवान् १६।

सोऽगच्छद्यत्र तत्रास्य पूजामालोक्य साब्रवीत् ।

नायामीति ततः सोऽपि भ्रमादत्यातुरोऽभवत् ।

उद्दालकस्ततो वाक्यं तामलक्ष्मीमुवाच ह १७।

उद्दालक उवाच।

अश्वत्थवृक्षमूलेऽस्मिन्नलक्ष्मि स्थीयतां क्षणम् ।

आवासस्थानमालोक्य यावदायाम्यहं पुनः १८।

सूत उवाच।

इति तत्र स संस्थाप्य जगामोद्दालकस्तदा ।

प्रतीक्षंती चिरं तत्र यदा तन्न ददर्श सा १९।

तदा रुरोद करुणं भर्तृत्यागेन दुःखिता ।

तत्रस्थां रुदतीलक्ष्मीर्वैकुंठभुवनेऽशृणोत् २०।

तदा विज्ञापयामास विष्णुमुद्विग्नमानसा २१।

लक्ष्मीरुवाच।

स्वामिन्मद्भगिनी ज्येष्ठा भर्तृत्यागेन दुःखिता ।

तामाश्वासयितुं याहि कृपालो यद्यहं प्रिया २२।

सूत उवाच।

लक्ष्म्या सह ततो विष्णुस्तत्रागच्छत्कृपान्वितः ।

आश्वासयदलक्ष्मीं तामिदं वचनमब्रवीत् २३।

श्रीविष्णुरुवाच।

अश्वत्थवृक्षमासाद्य सदाऽलक्ष्मि स्थिरा भव ।

ममांशसंभवो ह्येष आवासस्ते मया कृतः २४।

प्रत्यहं येऽर्चयिष्यंति त्वां ज्येष्ठां गृहधर्मिणः ।

तेष्वियं श्रीः कनिष्ठा ते भगिनी निश्चलास्तु वै २५।

सूत उवाच।

इत्यूर्जस्य च माहात्म्यं ये शृण्वंति पठंति च ।

तेषां विष्णुपुरे वासो भवेदाभूतसंप्लवम् २६।

रोगापहं पातकनाशकृत्परं सुबुद्धिदं पुत्रधनादिसाधनम् ।

मुक्तेर्निदानं न हि कार्तिकाद्वै विष्णुप्रियादन्यदिहास्ति भूतले २७।

विष्णुप्रियं सकलकल्मषनाशनं च सत्पुत्रपौत्रधनधान्यसमृद्धिकारि ।

ऊर्जव्रतं सनियमं कुरुते मनुष्यः किं तस्य तीर्थपरिशीलनसेवया च २८।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे अलक्ष्म्युपाख्यानंनाम षोडशाधिकशततमोऽध्यायः११६।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 117

सूत उवाच।

इति सर्वं समाकर्ण्य सत्राजितसुता तदा ।

हरेर्वाक्यं महाभागा सत्या वचनमब्रवीत् १।

सत्योवाच।

कार्तिकस्य च माहात्म्यं न श्रुतं विस्तरात्प्रभो ।

सर्वेषामेव मासानां कार्तिकः प्रवरः कथम् २।

श्रीकृष्ण उवाच।

साधु पृष्टं त्वया सत्ये कार्तिकव्रतमादरात् ।

शौनकाय पुरा प्रोक्तं सूतेन सुमहात्मना ३।

सूत उवाच।

श्रूयतां तत्प्रवक्ष्यामि एतत्प्रश्नोत्तरं शुभम् ।

ईश्वरेण पुरा प्रोक्तं पृच्छते षण्मुखाय वै ४।

कार्तिकेय उवाच।

बहूनि पद्मनाभस्य रहस्यानि श्रुतानि च ।

यथा हि प्रोच्यमानानि वैष्णवेन त्वया प्रभो ५।

संसारसागरे प्राप्ता दुःखोरुलहरीवृते ।

तेषामुत्तारणार्थाय कथयस्व प्रयत्नतः ६।

कार्तिकस्य विधिश्चैव स्नानस्य वदतां वर ।

येन दुःखांबुधिं तात संतरिष्यंति मानवाः ७।

फलं वैष्णवधर्मस्य कथयस्व सुविस्तरम् ।

येन धर्मप्रभावेन पदं गच्छति वैष्णवम् ८।

दीपदानस्य माहात्म्यं मुनिपुष्पस्य सुव्रत ।

गोपीचंदनमाहात्म्यं तुलस्यास्तु तथा विभो ९।

मालतीपुष्पमाहात्म्यं वारिजानां तथा वद ।

धात्रीफलानां माहात्म्यं तथा दमनकस्य च १०।

केतकीपुष्पमाहात्म्यं नैवेद्यस्य परंतप ।

तीर्थोदकस्य माहात्म्यं माघस्नानफलं विभो ११।

फलं ब्रूहि सुरश्रेष्ठ ब्रह्मपत्रेषु भोजनात् ।

नीराजनफलं स्थाणो परदीपप्रवेधनात् १२।

पुष्करक्षेत्रमाहात्म्यं शूकरस्य तथा विभो ।

शालग्रामस्य माहात्म्यं स्वस्तिकस्य विधानकम् १३।

दानानां च फलं ब्रूहि परान्नस्य च वर्जनात् ।

मासोपवासस्य फलं खट्वाया मोक्षणाद्विभो १४।

दीपावल्याश्च माहात्म्यं प्रबोधिन्याश्च सुव्रत ।

पंचभीष्मस्यमाहात्म्यं कथयस्व सुविस्तरात् १५।

ईश्वर उवाच।

साधु पृष्टं त्वया वत्स लोकोद्धरणहेतवे ।

कथयामि न संदेहस्त्वत्समो नास्ति वैष्णवः १६।

सत्पुत्रेण त्वया वत्स तारितोऽहं न संशयः ।

निश्चला केशवे भक्तिस्त्वयि तिष्ठति सर्वदा १७।

नरेभ्यो वैष्णवं धर्मं यो ददाति द्विजोत्तमः ।

ससागरमही दाने तत्पुण्यं लभते हि सः १८।

कार्तिकस्य च मासस्य कोट्यंशेनापि नार्हति ।

एकतः सर्वतीर्थानि सर्वदानानि चैकतः १९।

एकतो गोप्रदानानि सर्वे यज्ञाः सदक्षिणाः ।

एकतः पुष्करे वासं कुरुक्षेत्रे हिमालये २०।

एकतो मथुरातीर्थे वाराणस्यां च शूकरे ।

एकतः कार्तिको वत्स सर्वदा केशवप्रियः २१।

सूत उवाच।

इत्युक्त्वा मुनिशार्दूल पुनर्वाक्यं जगौ हरः ।

कार्तिकस्नानमाहात्म्यं कथयिष्ये सुविस्तरात् २२।

ईश्वर उवाच।

ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्रियं स्वयम् ।

द्वापरं वैश्यमित्याहुः शूद्रं कलियुगं स्मृतम् २३।

कलौ वत्स मनुष्याणां शैथिल्यं स्नानकर्मणि ।

तथापि कथयिष्यामि स्नानं कार्तिकमाघयोः २४।

यस्य हस्तौ च पादौ न वाङ्मनश्च सुसंयतम् ।

विद्या तपश्च कीर्तिश्च स तीर्थफलभाङ्नरः २५।

अश्रद्दधानः पापात्मा नास्तिकश्छिन्नमानसः ।

हेतुवादी च पंचैते न तीर्थफलभागिनः २६।

प्रातरुत्थाय यो विप्रस्तीर्थस्नायी सदा भवेत् ।

सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति २७।

स्नानं चतुर्विधं प्रोक्तं स्नानविद्भिः षडानन ।

वायव्यं वारुणं दिव्यं ब्राह्मं चेति तथा स्मृतम् २८।

वायव्यं गोरजः स्नानं वारुणं सागरादिषु ।

ब्राह्म्य ब्राह्मणमंत्रोक्तं दिव्यं मेघांबु भास्करम् २९।

स्नानानां चैव सर्वेषां विशिष्टं तत्र वारुणम् ।

ब्राह्मणः क्षत्रियो वैश्यो मंत्रवत्स्नानमाचरेत् ३०।

तूष्णीमेव हि शूद्रस्य स्त्रीणां चैव षडानन ।

बाला च तरुणी वृद्धा नरनारीनपुंसकाः ३१।

पापैः सर्वैः प्रमुच्यंते स्नानात्कार्तिकमाघयोः ।

स्नाता वै कार्तिके लोकाः प्राप्नुवंतीप्सितं फलम् ३२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीशिवषडाननसंवादे सप्तदशाधिकशततमोऽध्यायः ११७।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 118

सूत उवाच।

पुनः प्रोवाच भगवान्महादेवो वृषध्वजः ।

श्रोतारमुपसंगम्य भक्तियुक्तं षडाननम् १।

ईश्वर उवाच।

कार्तिको वैष्णवो मासः सर्वमासेषु चोत्तमः ।

अस्मिन्मासे त्रयस्त्रिंशद्देवाः संनिहिताः कलौ २।

ऊर्जे मासि महाभागौ भोजनानि द्विजातये ।

तिलधेनुं हिरण्यं च रजतं भूमिवाससी ३।

गोप्रदानानि दास्यंति सर्वभावेन सुव्रत ।

सर्वेषामेव दानानां कन्यादानं विशिष्यते ४।

ब्राह्मणायात्र ये कन्यां दास्यंति विधिवन्नराः ।

वैकुंठे वसतिस्तेषां यावदिंद्राश्चतुर्दश ५।

रोमकाले तु संप्राप्ते सोमो भुंक्ते तु कन्यकाम् ।

ऋतुकाले तु गंधर्वा वह्निस्तु कुचदर्शने ६।

तावद्विवाहयेत्कन्यां यावन्नर्तुमती भवेत् ।

विवाहस्त्वष्टवर्षायाः कन्यायाः शस्यते बुधैः ७।

दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने ।

साक्षादधीतवेदाय विधिना ब्रह्मचारिणे ८।

कन्यावरप्रमाणाया एष एव विधिः स्मृतः ।

यावंति चैव रोमाणि कन्यायाश्च तनौ सुत ९।

तावद्वर्षसहस्राणि रुद्रलोके महीयते ।

सहस्रमेव धेनूनां शतं चानुडुहां समम् १०।

दशानुडुत्समं यानं दशयानसमो हयः ।

हयदानसहस्रेभ्यो गजदानं विशिष्यते ११।

गजदानसहस्राणां स्वर्णदानं च तत्समम् ।

स्वर्णभारसहस्राणां विद्यादानं च तत्समम् १२।

विद्यादानात्कोटिगुणं भूमिदानं विशिष्यते ।

भूमिदानसहस्रेभ्यो गोप्रदानं विशिष्यते १३।

गोप्रदानसहस्रेभ्यो ह्यन्नदानं विशिष्यते ।

अन्नाधारमिदं सर्वं जगत्स्थावरजंगमम् १४।

तस्माद्देयं प्रयत्नेन कार्तिके शिखिवाहन ।

त्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि च १५।

कार्तिकेय उवाच।

अन्यानपि महादेव धर्मान्मे वक्तुमर्हसि ।

यान्कृत्वा सर्वपापानि प्रक्षाल्य त्रिदशो भवेत् १६।

सूत उवाच।

इतिपृष्टस्तदा शंभुः पुनर्वक्तुं प्रचक्रमे ।

यावत्किं बहुधा स्तुत्वात्तच्छृणुध्वं तपोधनाः १७।

ईश्वर उवाच।

परान्नं वर्जयेद्यस्तु कार्तिके नियमे कृते ।

परान्नवर्जनादेव लभेच्चांद्रायणं फलम् १८।

तं प्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत् ।

दिनेदिने तु कृच्छ्रस्य फलंप्राप्नोति मानवः १९।

कार्तिके वर्जयेत्तैलं कार्तिके वर्जयेन्मधु ।

कार्तिके वर्जयेत्कांस्यं संघान्नं च विशेषतः २०।

राक्षसीं योनिमाप्नोति सकृन्मांसस्य भक्षणात् ।

षष्टिवर्षसहस्राणि विष्ठायां परिपच्यते २१।

तन्मुक्तो जायते पापो विष्ठाशी ग्रामसूकरः ।

प्रवृत्तानां तु भक्षाणां कार्तिके नियमे कृते २२।

अवश्यं विष्णुरूपत्वं प्राप्यते मोक्षदं पदम् ।

न कार्तिकसमो मासो न दैवं केशवात्परम् २३।

न वेदसदृशं शास्त्रं न तीर्थं गंगया समम् ।

न सत्यं न समं वृत्तं न कृतेन समं युगम् २४।

न तृप्ती रसना तुल्या न दानसदृशं सुखम् ।

न धर्मसदृशं मित्रं न ज्योतिश्चक्षुषा समम् २५।

अव्रतेन क्षिपेद्यस्तु मासं दामोदरप्रियम् ।

कर्मभ्रष्टः स विज्ञेयो हीनयोनिषु जायते २६।

कार्तिकः प्रवरो मासो वैष्णवानां सदा प्रियः ।

समुद्रगा नदी पुण्या दुर्लभा स्नानशालिनाम् २७।

कुलशीलवतीकन्या दुर्लभा दंपती नृणाम् ।

दुर्लभा जननी लोके पिता चैव विशेषतः २८।

दुर्लभं साधुसन्मानं दुर्लभो धार्मिकः सुतः ।

दुर्लभो द्वारिकावासो दुर्लभं कृष्णदर्शनम् २९।

दुर्लभं गोमतीस्नानं दुर्लभं कार्तिकव्रतम् ।

ब्राह्मणेभ्यो महीं दत्त्वा ग्रहणे चंद्रसूर्ययोः ३०।

यत्फलं लभते वत्स तत्फलं भूमिशायिनः ।

भोजनं द्विजदंपत्योः पूजयेच्च विलेपनैः ३१।

कंबलानि च रत्नानि वासांसि विविधानि च ।

तूलिकाश्च प्रदातव्याः प्रच्छादनपटैः सह ३२।

उपानहा वातपत्रं कार्तिके देहि पावके ।

यः करोति नरो नित्यं कार्तिके पत्रभोजनम् ३३।

न दुर्गतिमवाप्नोति यावदिंद्राश्चतुर्दश ।

सर्वकामफलं तस्य सर्वतीर्थफलं लभेत् ३४।

न चापि नरकं पश्येद्ब्रह्मपत्रेषु भोजनात् ।

ब्रह्मा एष स्मृतः साक्षात्पालाशः सर्वकामदः ३५।

मध्यमं वर्जयेत्पत्रं कार्तिके शिखिवाहन ।

ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवास्त्रिपत्रके ३६।

ऐश्वरं वर्जयेत्पत्रं ब्रह्माविष्णुरनुत्तमः ।

सर्वपुण्यमवाप्नोति शेषपत्रेषु भोजनात् ३७।

भोजनान्मध्यपत्रे तु कपिलापयसस्तथा ।

प्राशनान्मुनिशार्दूल नरो नरकमाप्नुयात् ३८।

अज्ञानाद्भुंजते यस्तु शूद्रो वा कपिलापयः ।

कपिलां ब्राह्मणे दत्त्वा शुद्धो भवति कार्तिके ३९।

तिलदानं नदीस्नानं सर्वदा साधुदर्शनम् ।

भोजनं ब्रह्मपत्रेषु कार्तिके मुक्तिदायकम् ४०।

मौनी पालाशभोजी च जलस्नायी सदा क्षमी ।

कार्तिके क्षितिशायी च हन्यात्पापं युगार्जितम् ४१।

जागरं कार्तिके मासि यः करोत्यरुणोदये ।

दामोदराग्रे सेनानीर्गोसहस्रफलं लभेत् ४२।

पितृपक्षेऽन्नदानेन ज्येष्ठाषाढे च वारिणा ।

कार्तिके तत्फलं पुंसां परदीपप्रबोधनात् ४३।

बोधनात्परदीपस्य वैष्णवानां च सेवनात् ।

कार्तिके फलमाप्नोति राजसूयाश्वमेधयोः ४४।

नदीस्नानं कथाविष्णोर्वैष्णवानां च दर्शनम् ।

न भवेत्कार्तिके यस्य हरेत्पुण्यं दशाब्दिकम् ४५।

पुष्करं यः स्मरेत्प्राज्ञः कर्मणा मनसा गिरा ।

कार्तिके मुनिशार्दूल लक्षकोटिगुणं भवेत् ४६।

प्रयागो माघमासे तु पुष्करं कार्तिके तथा ।

अवंती माधवे मासि हन्यात्पापं युगार्जितम् ४७।

धन्यास्ते मानवा लोके कलिकाले विशेषतः ।

कुर्वंति स्कंद नित्यं ये सर्वथा हरिसेवनम् ४८।

किं दत्तैर्बहुभिः पिंडैर्गयाश्राद्धादिभिर्मुने ।

तारितास्तेन पितरो नरकाच्च न संशयः ४९।

क्षीरादिस्नपनं विष्णोः क्रियते पितृकारणात् ।

कल्पकोटिं दिवं प्राप्य वसंति त्रिदशैः सह 6.118.५०।

कार्तिके नार्चितो यैस्तु कृष्णस्तु कमलेक्षणः ।

जन्मकोटिषु विप्रेंद्र न तेषां कमला गृहे ५१।

दष्टा मुष्टा विनष्टास्ते पतिताः कलिकंदरे ।

यैर्नार्चितो हरिर्भक्त्या कमलैरसितैः सितैः ५२।

पद्मेनैकेन देवेशं योऽर्चयेत्कमलापतिम् ।

वर्षायुतसहस्रस्य पापस्य कुरुते क्षयम् ५३।

अपराधसहस्राणि तथा सप्तशतानि च ।

पद्मेनैकेन देवेशः क्षमेत प्रणतोऽर्चितः ५४।

तुलसीपत्रलक्षेण कार्तिके योऽर्चयेद्धरिम् ।

पत्रेपत्रे मुनिश्रेष्ठ मौक्तिकं लभते फलम् ५५।

तुलसीगंधमिश्रं तु यत्किंचित्क्रियते सुत ।

कल्पकोटिसहस्राणि प्रीतो भवति केशवः ५६।

मुखे शिरसि देहे तु कृष्णोत्तीर्णां तु यो वहेत् ।

तुलसीं षण्मुखप्रीत्या न तस्य स्पृशते कलिः ५७।

कृष्णोत्तीर्णैस्तु निर्माल्यैर्यो गात्रं परिमार्जयेत् ।

सर्वरोगैस्तथा पापैर्मुक्तो भवति षण्मुख ५८।

विष्णोरंगारशेषेण यस्यांगं स्पृशते सुत ।

दुरितानि विनश्यंति व्याधयो यांति संक्षयम् ५९।

शंखोदकं हरेर्भक्तिर्निर्माल्यं पादयोर्जलम् ।

चंदनं धूपशेषं तु ब्रह्महत्यापहारकम् ६०।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीशिवकार्तिकेयसंवादे प्रश्नोत्तरोनाम अष्टादशाधिकशततमोऽध्यायः ११८।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 119

ईश्वर उवाच।

माघस्नानस्य माहात्म्यं शृणु भागवतोत्तम ।

त्वत्समो नास्ति लोकेऽस्मिन्विष्णुभक्तो महामते १।

चक्रतीर्थे हरिं दृष्ट्वा मथुरायां च केशवम् ।

यत्फलं लभते मर्त्यो माघस्नानेन तत्फलम् २।

जितेंद्रियः शांतमनाः सदाचारेण संयुतः ।

स्नानं करोति यो माघे संसारी न भवेत्पुनः ३।

श्रीकृष्ण उवाच।

शूकरस्य च माहात्म्यं कथयिष्ये तवाग्रतः ।

यस्य विज्ञानमात्रेण सान्निध्यं मम सर्वदा ४।

सूत उवाच।

इत्युक्त्वा भगवान्कृष्णः सत्यायै बहुधा जगौ ।

तदहं संप्रवक्ष्यामि तच्छृणुध्वं तपोधनाः ५।

श्रीकृष्ण उवाच।

पंचयोजनविस्तीर्णे शूकरे हरिमंदिरे ।

यस्मिन्वसति यो जीवो गर्दभोऽपि चतुर्भुजः ६।

त्रीणि हस्तसहस्राणि त्रीणि हस्तशतानि च ।

त्रयो हस्ता शूकरस्य परिमाणं विधीयते ७।

षष्टिवर्षसहस्राणि योऽन्यत्र कुरुते तपः ।

तत्फलं लभते देवि प्रहरार्द्धेन शूकरे ८।

सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे ।

तुलापुरुषदानेन तत्फलं परिकीर्त्तितम् ९।

काश्यां दशगुणं प्रोक्तं वेण्यां शतगुणं भवेत् ।

सहस्रगुणितं प्रोक्तं गंगासागरसंगमे १०।

अनंतं चैव विज्ञेयं शूकरे हरिमंदिरे ।

अन्यत्र ददते लक्षं संविधानेन कार्तिक ११।

इहैवैकेन दत्तेन शूकरे तत्समं भवेत् ।

शूकरे च तथा वेण्यां गंगासागरसंगमे १२।

सकृदेव नरः स्नात्वा ब्रह्महत्यां व्यपोहति ।

अलर्केण पुरा प्राप्ता सप्तद्वीपा वसुंधरा ।

शूकरक्षेत्रमाहात्म्यं श्रुत्वा चैव षडानन १३।

मार्गशीर्षस्य द्वादश्यां शुक्लायां व्रज पुत्रक ।

कार्त्तिकेय उवाच ।

भगवन्श्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् ।

विधिं मासोपवासस्य फलं चास्य यथोचितम् १४।

यथाविधि नरैः कार्या व्रतचर्या यथा भवेत् ।

आरभ्यते यथापूर्वं समाप्यं हि यथाविधि १५।

यावत्संख्यं तु कर्त्तव्यं तत्प्रब्रूहि महेश्वर ।

व्रतमेतत्सुखश्रीदं विस्तरेण ममानघ १६।

श्रीरुद्र उवाच।

पावके साधु सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ ।

भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम १७।

सुराणां च यथा विष्णुस्तपतां च यथा रविः ।

मेरुःशिखरिणां यद्वद्वैनतेयश्च पक्षिणाम् १८।

तीर्थानां तु यथा गंगा प्रजानां तु यथा वणिक् ।

श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम् १९।

सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि ।

सर्वदानोद्भवं चैव लभेन्मासोपवासकृत् २०।

अग्निष्टोमादिभिर्यज्ञैर्विविधैर्भूरिदक्षिणैः ।

न तत्पुण्यमवाप्नोति यन्मासपरिलंघनात् २१।

तेन जप्तं हुतं दत्तं तपस्तप्तं कृतं स्वधा ।

यः करोति विधानेन नरो मासमुपोषणम् २२।

उद्दिश्य वैष्णवं यज्ञं मामभ्यर्च्य जनार्दनम् ।

गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम् २३।

वैष्णवानि यथोक्तानि कृत्वा सर्वव्रतानि तु ।

द्वादश्यादीनि पुण्यानि ततो मासमुपावसेत् २४।

अतिकृच्छ्रं च पाराकं कृत्वा चांद्रायणं ततः ।

मासोपवासं कुर्वीत गुरोर्विप्राज्ञया ततः २५।

आश्विनस्यामले पक्षे एकादश्यामुपोषितः ।

व्रतमेनं तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु २६।

वासुदेवं समभ्यर्च्य कार्तिकं सकलं नरः ।

मासं चोपवसेद्यस्तु स मुक्तिफलभाग्भवेत् २७।

अच्युतस्यालये भक्त्या त्रिकालं कुमुदैः शुभैः ।

मालतींदीवर्रैबुध्नैः कमलैश्च सुगंधिभिः २८।

कुसुमोशीरकर्पूरैर्विलिप्य वरचंदनैः ।

नैवेद्यापूपदीपाद्यैरर्चयेच्च जनार्दनम् २९।

मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम् ।

कुर्वन्नरः स्त्री विधवा बृहद्भक्तिर्जितेंद्रियः ३०।

नाम्नामेव तथालापं विष्णोः कुर्यादहर्निशम् ।

भक्त्या विष्णोः स्तुतिर्वाच्या मिथ्यालापविवर्जिता ३१।

सर्वसत्वदयायुक्तः शांतवृत्तिरहिंसकः ।

सुप्तो बाह्यासनस्थो वा वासुदेवं प्रकीर्तयेत् ३२।

स्मृत्यालोकनगंधादि स्वादनं परिकीर्त्तनम् ।

अन्नस्य वर्जयेद्वासं ग्रासानां संप्रमोक्षणम् ३३।

गात्राभ्यंगं शिरोभ्यंगं तांबूलं सविलेपनम् ।

व्रतस्थो वर्जयेत्सर्वं यच्चान्यच्च निराकृतम् ३४।

न व्रतस्थः स्पृशेत्किंचिद्विकर्मस्थं न चालयेत् ।

देवतायतने तिष्ठन्न गृहस्थश्चरेत्ध्रुवम् ३५।

कृत्वा मासोपवासं तु यथोक्तविधिना नरः ।

नारी वा विधवा साध्वी वासुदेवं समर्चयेत् ३६।

अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिदम् ।

कृत्वा मासोपवासं तु संयतात्मा जितेंद्रियः ३७।

ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम् ।

पूजयेत्पुष्पमालाभिर्गंधधूपविलेपनैः ३८।

वस्त्रालंकारवाद्यैश्च तोषयेदच्युतं नरः ।

संस्नापयेद्धरिं भक्त्या तीर्थचंदनवारिभिः ३९।

चंदनेनानुलिप्तांगं धूपपुष्पैरलंकृतम् ।

वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान् ४०।

दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत् ।

एवं मासोपवासाद्धि कृत्वाभ्यर्च्य जनार्दनम् ४१।

भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते ।

एवं मासोपवासांते कृत्वा विप्रान्त्रयोदश ४२।

निर्यापयेत्ततस्तान्वै विधिना येन तच्छृणु ।

कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः ४३।

पूजयित्वा तु देवेशमाचार्यानुज्ञया हरिम् ।

अर्चयित्वा यथाशक्त्या ह्यभिवाद्य गुरुं तथा ४४।

ततोनुभोजयेद्विप्रान्नमस्कारपुरःसरम् ।

विशुद्धकुलचारित्र विष्णुपूजनतत्परान् ४५।

पूजयित्वा तथा सर्वान्भोजयित्वा त्रयोदश ।

तांबूलवस्त्रयुग्मानि भोजनाच्छादनानि च ४६।

योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि ।

दद्याच्चैव द्विजाग्र्येभ्यः पूजयित्वा प्रणम्य च ४७।

ततोनुपूजयेच्छक्त्या शय्यां स्तरणसंस्कृताम् ।

साच्छादनां शुभां श्रेष्ठां सोपधानामलंकृताम् ४८।

कारयित्वात्मनोमूर्तिं कांचनीं तु स्वशक्तितः ।

न्यसेत्तस्यां तु शय्यायामर्चयित्वा स्रगादिभिः ४९।

आसनं पादुकां छत्रं वस्त्रयुग्ममुपानहौ ।

पवित्राणि च पुष्पाणि शयाय्यामुपकल्पयेत् 6.119.५०।

एवं शय्यां तु संकल्प्य प्रणिपत्य च तान्द्विजान् ।

प्रार्थयेच्चानुमोदार्थं विष्णुलोकं व्रजाम्यहम् ५१।

ततो व्रजेन्नरश्रेष्ठो विष्णोः स्थानमनामयम् ।

मंडपस्थां स्तुतान्विप्रानिति वाच्यं मुहुर्मुहुः ५२।

मंत्रहीनं क्रियाहीनं सर्वहीनं द्विजोत्तमाः ।

सर्वंसंपूर्णतां यातु भवद्वाक्यप्रसादतः ।

विधिर्मासोपवासस्य यथावत्परिकीर्तितः ५३।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहिताया।

मुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे मासो।

पवासकथनंनामैकोनविंशत्यधिकशततमोऽध्यायः११९।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 120

सूत उवाच।

इति वाक्यं समाकर्ण्य पुनः पप्रच्छ पावकिः ।

शालग्रामार्चनं भूयस्तच्छृणुध्वं तपोधनाः १।

कार्तिकेय उवाच।

भगवन्योगिनां श्रेष्ठ सर्वेधर्माः श्रुता मया ।

शालग्रामार्चनं ब्रूहि विस्तरेण मम प्रभो २।

ईश्वर उवाच।

साधुसाधु महाप्राज्ञ यन्मां हि परिपृच्छसि ।

तदहं संप्रवक्ष्यामि श्रूयतां मम वत्सल ३।

शालग्रामशिलायां तु त्रैलोक्यं सचराचरम् ।

महाशय महासेन नित्यं तिष्ठति संहितम् ४।

दृष्टं प्रणमितं येन स्नापितं पूजितं तथा ।

यज्ञकोटिगुणं पुण्यं गवां कोटिफलं लभेत् ५।

छिन्नस्तेन तथा वत्स गर्भवासः सुदारुणः ।

पीतं येन सदा विष्णोः शालग्रामशिलाजलम् ६।

कामासक्तोऽपि यो नित्यं भक्तिभावविवर्जितः ।

शालग्रामशिला पुत्र पूजयित्वाच्युतो भवेत् ७।

शालग्रामशिला बिंबं हत्वा कोटिविनाशनम् ।

स्मृतं संकीर्तितं ध्यातं पूजितं च नमस्कृतम् ८।

शालग्रामशिलां दृष्ट्वा यांति पापान्यनेकशः ।

सिंहं दृष्ट्वा यथा यांति वने मृगगणा भयात् ९।

नमस्कारं तु मनुजः शालग्रामशिलार्चने ।

भक्त्या वा यदि वाऽभक्त्या कृत्वा मुक्तिमवाप्नुयात् १०।

वैवस्वतभयं नास्ति तथा मरणजन्मनोः ।

यः करोति नरो नित्यं शालग्रामशिलार्चनम् ११।

गंधपाद्यार्घनैवेद्यैर्दीपैर्धूपैर्विलेपनैः ।

गीतैर्वाद्यैस्तथा स्तोत्रैः शालग्रामशिलार्चनम् १२।

कुरुते मानवो यस्तु कलौ भक्तिपरायणः ।

कल्पकोटिसहस्राणि रमते विष्णुसद्मनि १३।

शालग्रामनमस्कारो भावेनापि नरैः कृतः ।

मानुषत्वं कथं तेषां मद्भक्ता ये नरा भुवि १४।

मद्भक्तास्तीव्रपापिष्ठा मत्प्रभुं न नमंति ये ।

वासुदेवं न ते ज्ञेया मद्भक्ताः पापमोहिताः १५।

मद्भक्तोऽपि च यो भूत्वा भुंक्ते त्वेकादशीदिने ।

स याति ह्यंधतामिस्रे निरयं मम घातकः १६।

मल्लिंगस्पर्शनं कार्यं नान्या शुद्धिर्विधीयते ।

या तिथिर्दयिता विष्णोः सा तिथिर्मम वल्लभा १७।

यस्तां नोपवसेन्मर्त्यः स पापी श्वपचाधिकः ।

शालग्रामशिलायां तु सदा पुत्र वसाम्यहम् १८।

दत्तं देवेन तुष्टेन स्वस्थानं मम भक्तितः ।

पद्मकोटिसहस्रैस्तु पूजिते मयि यत्फलम् १९।

तत्फलं कोटिगुणितं शालग्रामशिलार्चनात् ।

पूजितोऽहं न तैर्मर्त्यैर्नमितोऽहं न तैर्नरैः २०।

न कृतं मर्त्यलोके यैः शालग्रामशिलार्चनम् ।

शालग्रामशिलाग्रे तु यः करोति ममार्चनम् २१।

तेनार्चितोऽहं सेनानीर्युगानामेकविंशतिम् ।

किमर्चितैर्लिंगशतैर्विष्णुभक्तिविवर्जितैः २२।

शालग्रामशिलाबिंबं नार्चितं यदि पुत्रक ।

अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम् २३।

शालग्रामशिलाग्रे तु सर्वं याति पवित्रताम् ।

भुक्त्वान्यदेवनैवेद्यं द्विजश्चांद्रायणं चरेत् २४।

भुक्त्वा केशवनैवेद्यं यज्ञकोटिफलं लभेत् ।

पादोदकेन देवस्य हत्याकोटिसमन्विताः २५।

शुद्ध्यंति नात्र संदेहस्तथा शंखोदकेन हि ।

यो हि माहेश्वरो भूत्वा वैष्णवं च न पूजयेत् २६।

द्वेष्टा च याति नरकं यावदिंद्राश्चतुर्दश ।

ज्येष्ठाश्रमी गृहे यस्य मुहूर्त्तमपि विश्रमेत् २७।

पितामहा युगान्यष्टौ भवत्यमृतभोजिनः ।

संसारे दुःखकांतारे निमज्ज्यंते नराधमाः २८।

वर्षकोटिसहस्राणि कृष्णाराधनवर्जिताः ।

स्नेहादभ्यर्चितैर्लिंगैः शालग्रामसमुद्भवैः २९।

मुक्तिं प्रयांति मनुजा योगसांख्येन वर्जिताः ।

मल्लिंगकोटिभिर्दृष्टैर्यत्फलं पूजितैः स्तुतैः ३०।

शालग्रामशिलायां तु एकस्यामिह तद्भवेत् ।

द्वादशैव शिला यो वै शालग्रामसमुद्भवाः ३१।

अर्चयेद्वैष्णवो नित्यं तस्य पुण्यं न बोध मे ।

कोटिलिंगसहस्रैस्तु पूजितैर्जाह्नवी तटे ३२।

काशीवासे युगान्यष्टौ दिनेनैकेन तद्भवेत् ।

किं पुनर्बहुना यस्तु पूजयेद्वैष्णवो नरः ३३।

नाहं ब्रह्मादयो देवाः संख्यां कर्तुं समीहते ।

तस्माद्भक्त्या च मद्भक्तैः प्रीत्यर्थं मम पुत्रक ३४।

कर्त्तव्यं मम तद्भक्त्या शालग्रामशिलार्च्चनम् ।

शालग्रामशिलारूपी यत्र तिष्ठति केशवः ३५ ।

तत्र देवासुरा यक्षा भुवनानि चतुर्दश ३६।

सुराणां कीर्तनैः सर्वैः कोटिभिश्च फलं लभेत् ।

तत्फलं कीर्त्तनादेव केशवे सुकृतं कलौ ३७।

शालग्रामशिलाग्रे तु सकृत्पिंडेन तर्पिताः ।

वसंति पितरस्तस्य न संख्या तत्र विद्यते ३८।

ये पिबंति नरा भक्त्या शालग्रामशिलाजलम् ।

पंचगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम् ३९।

प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैः ।

चांद्रायणैः सुचीर्णैश्च पीत्वा पादोदकं हरेः ४०।

यः करोति तडागे तु प्रतिमां जलशायिनीम् ।

कोटिभिश्चापि किं कार्यमन्यदेवैश्च पूजितैः ४१।

विष्णुमुख्यास्तु वै देवास्तत्र जल्पंति वै सह ।

प्रमाणमस्ति सर्वस्य सुकृतस्य हि पुत्रक ४२।

फलप्रमाणं नैवास्तिशालग्रामशिलार्चन ।

यो ददाति शिलां विष्णोः शालग्रामसमुद्भवाम् ४३।

विप्राय विष्णुभक्ताय तेनेष्टं क्रतुभिः शतैः ।

गृहेऽपि वसतस्तस्य गंगास्नानं दिनेदिने ४४।

स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।

शालग्रामशिलातोयैरभिषेकं समाचरेत् ४५।

स्वर्गे मर्त्ये च पाताले पाषाणाः संति वै गुह ।

शालग्रामशिला ग्राव्णा नास्ति नास्ति समा पुनः ४६।

मानुषे दुर्ल्लभे लोके सफलं तस्य जीवितम् ।

तिलप्रस्थशतं भक्त्या यो ददाति दिनेदिने ४७।

तत्फलं समवाप्नोति शालग्रामशिलार्चनात् ।

पत्रं पुष्पं फलं तोयं मूलं दूर्वादलं तथा ४८।

जायते मेरुणा तुल्यं शालग्रामे समर्पितम् ।

विधिहीनोऽपि यः कश्चित्क्रियामंत्रविवर्जितः ४९।

चक्रांकभुज आप्नोति सम्यक्शास्त्रोदितं फलम् ।

यत्तु पूर्वं मया दृष्टं केशवे क्लेशनाशनम् 6.120.५०।

तत्सर्वं कथयिष्यामि तव स्नेहेन पुत्रक ।

क्व त्वं वससि हे विष्णो किमाधारः किमाश्रयः ५१।

कथं वा प्रीयसे देव तत्सर्वं कथयस्व मे ।

श्रीकृष्ण उवाच।

निवसामि सदा शंभो शालग्रामोद्भवेऽश्मनि ५२।

तत्रैव रथचक्रांके यानि नामानि मे शृणु ।

द्वारदेशे समे चक्रे दृश्येते नांतरं यदि ।

वासुदेवः स विज्ञेयः शुक्लश्चैवातिशोभनः ५३।

प्रद्युम्नः सूर्यवक्त्रस्तु नीलदीप्तिस्तथैव च ।

सुषिरं च्छिद्रबहुलं दीर्घाकारं तु तद्भवेत् ५४।

अनिरुद्धस्तु पीताभो वर्त्तुलश्चातिशोभनः ।

रेखात्रयांकितो द्वारि दृष्टपद्मेन चिह्नवत् ५५।

श्यामो नारायणो देवो नाभिचक्रे तथोन्नते ।

दीर्घ रेषा समोपेतो दक्षिणे सुषिरान्वितः ५६।

ऊर्ध्वंमुखं च जानीयात्सुंदरं हरिरूपिणम् ।

कामदं मोक्षदं चैव अर्थदं च विशेषतः ५७।

परमेष्ठी च शुक्लाभः पद्मचक्रसमन्वितः ।

बिंबाकृतिस्तथा पृष्ठे सुषिरं चातिपुष्कलम् ५८।

कृष्णवर्णस्तथा विष्णुर्मूले चक्रे सुशोभने ।

द्वारोपरि तथा रेखा लक्ष्यते मध्यदेशतः ५९।

कपिलो नरसिंहश्च पृथुचक्रः सुशोभितः ।

ब्रह्मचर्येण पूज्योसावन्यथा विघ्नदो भवेत् ६०।

वाराहः शक्तिलिंगस्तु चक्रे च विषमे स्मृते ।

इंद्र नीलनिभः स्थूलस्त्रिरेखो नाभितः शुभः ६१।

दीर्घाकांचनवर्णाया बिंदुत्रयविभूषिता ।

मत्स्याख्या सा शिला ज्ञेया भुक्तिमुक्तिफलप्रदा ६२।

कूर्मस्तथोन्नतः पृष्ठे वर्तुलश्चक्रपूरितः ।

हरितं वर्णमाधत्ते कौस्तुभेन तु चिह्नितः ६३।

हयग्रीवो हयाकारो रेखापंचकभूषितः ।

बहुबिंदुसमाकीर्णः पृष्ठे नीलं च रूपकम् ६४।

वैकुंठमविभिन्नांगं चक्रमेकं तथा ध्वजम् ।

द्वारोपरि तथा रेखा गुंजाकारा सुशोभना ६५।

श्रीधरस्तु तथा देवश्चिह्नितो वनमालया ।

कदंबकुसुमाकारो रेखापंचकभूषितः ६६।

वर्तुलश्चापि हृस्वश्च वामनः परिकीर्तितः ।

अतसीकुसुमप्रख्यो बिंदुना परिशोभितः ६७।

सुदर्शनस्ततो देवः श्यामवर्णो महाद्युतिः ।

वामपार्श्वे गदाचक्रे रेखा चैव तु दक्षिणे ६८।

दामोदरस्तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम् ।

दूर्वाभं द्वारसंकीर्णं पीतरेखं तथैव च ६९।

नानावर्णो ह्यनंतस्तु नानाभोगेन चिह्नितः ।

अनेकमूर्तिकोभिन्नः सर्वकामफलप्रदः ७०।

विदिक्षुदिक्षुसर्वासु यस्योर्ध्वं दृश्यते मुखम् ।

पुरुषोत्तमः स विज्ञेयो भुक्तिमुक्तिफलप्रदः ७१।

दृश्यते शिखरे लिंगं शालग्रामशिलोद्भवम् ।

यस्य योगेश्वरो देवो ब्रह्महत्यां व्यपोहति ७२।

आरक्तः पद्मनाभस्तु पंकजं वक्त्रसंयुतम् ।

तस्याभ्यर्चनतो नित्यं द्ररिद्रस्त्वीश्वरो भवेत् ७३।

चक्रांकितं हिरण्यांगं रश्मिजालं विनिर्दिशेत् ।

सुवर्णरेखाबहुलं स्फाटिकद्युतिशोभितम् ७४।

अतिस्निग्धा सिद्धिकरी कृष्णा कीर्तिं ददाति च ।

पांडुरा पापदहनी पितापुत्रफलप्रदा ७५।

नीला प्रयच्छती लक्ष्मीं रक्ता रोगप्रदायिनी ।

रूक्षा उद्वेगजननी वक्रा दारिद्र्यभागिनी ७६।

एकं सुदर्शनं ज्ञेयं लक्ष्मीनारायणं द्वयम् ।

तृतीयं चाच्युतं विद्याच्चतुर्थं तु जनार्दनम् ७७।

पंचमं वासुदेवं च षष्ठं प्रद्युम्नमेव च ।

संकर्षर्णं सप्तमं च अष्टमं पुरुषोत्तमम् ७८।

नवमं च नवव्यूहं दशमं तु तदात्मकम् ।

एकादशं चानिरुद्धं द्वादशं द्वादशात्मकम् ७९।

अत ऊर्ध्वं तु चक्राणि दृश्यंतेऽनंतसंज्ञके ।

खंडिते त्रुटिते भग्ने सालग्रामे न दोषभाक् ८०।

इष्टा च यस्य या मूर्तिः स तां यत्नेन पूजयेत् ।

स्कंधे कृत्वा तु योऽध्वानं वहते शैलनायकम् ८१।

तस्य वश्यं भवेत्सर्वं त्रैलोक्यं सचराचरम् ।

शालग्रामशिला यत्र तत्र संनिहितो हरिः ८२।

तत्र दानं जपः स्नानं वाराणस्याः शताधिकम् ।

कुरुक्षेत्रे प्रयागे च नैमिषे पुष्करे तथा ८३।

तत्र कोटिगुणं पुण्यं वाराणस्यां महाफलम् ।

ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः ८४।

तत्सर्वं निर्दहत्याशु शालग्रामशिलार्चनम् ।

शालग्रामोद्भवो देवो यत्र द्वारावतीभवः ८५।

उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः ।

ब्रह्मचारि गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ८६।

भोक्तव्यं विष्णुनैवेद्यं नात्र कार्या विचारणा ।

तत्पूजनेन मंत्राश्च न जपो न च भावना ८७।

न स्तुतिर्नापि चाचारः शालग्रामशिलार्चने ।

शालग्रामशिलाग्रे तु कृत्वा स्वस्तिकमादरात् ८८।

कार्तिके तु विशेषेण पुनात्यासप्तमं कुलम् ।

अणुमात्रं तु यः कुर्यान्मंडलं केशवाग्रतः ८९।

मृदाधातुविकारैश्च कल्पकोटिं दिवं वसेत् ।

यस्तु संवत्सरं पूर्णमग्निहोत्रमुपासते ९०।

कार्तिके स्वस्तिकं कृत्वा सममेतन्न संशयः ।

अगम्यागमने चैव ह्यभक्षस्य तु भक्षणे ९१।

तत्पापं नाशमायाति मंडयित्वा हरेर्गृहम् ।

मंडलं कुरुते नित्यं या नारी केशवाग्रतः ।

सप्तजन्मानि वैधव्यं न प्राप्नोति कदाचन ९२।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शालिग्राममाहात्म्यंनाम विंशत्यधिकशततमोऽध्यायः १२०।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 121

ईश्वर उवाच।

धात्रीच्छायां समाश्रित्य कुर्यात्पिंडं तु यो गुह ।

मुक्तिं प्रयांति पितरः प्रसादान्माधवस्य तु १।

मूर्ध्नि पाणौ मुखे चैव देहे चैव तु यो नरः ।

धत्ते धात्रीफलं वत्स धात्रीफलविभूषितः २।

धात्रीफलकृताहारो नरो नारायणो भवेत् ।

यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं गुह ३।

प्रियो भवति देवानां मनुष्याणं च का कथा ।

न जह्यात्तुलसीमालां धात्रीमालां विशेषतः ४।

यावत्तिष्ठति कंठस्था धात्रीमाला नरस्य हि ।

तावत्तस्य शरीरे तु प्रतिष्ठति च केशवः ५।

धात्रीं फलं तु तुलसीमृत्तिका द्वारकोद्भवा ।

सफलं जीवितं तस्य त्रितयं यस्य वेश्मनि ६।

यावद्दिनानि वहते धात्रीमालां कलौ नरः ।

तावद्युगसहस्राणि वैकुंठे वसतिर्भवेत् ७।

मालायुग्मं वहेद्यस्तु धात्रीतुलसिसंभवम् ।

वहते कंठदेशे तु कल्पकोटिं दिवं वसेत् ८।

संनियम्येंद्रियग्रामं शालग्रामशिलार्चनम् ।

यः कुर्यान्मानवो भक्त्या पुष्पेपुष्पेऽश्वमेधजम् ९।

सुराणां च यथा विष्णुः पुष्पाणां तुलसी तथा ।

तुलस्यानुदिनं देवं योऽर्चयेद्गरुडध्वजम् १०।

जन्मदुःखजरारोगैर्मुक्तोऽसौ मुक्तिमाप्नुयात् ।

तुलसीमालया विष्णुः पूजितो येन कार्तिके ११।

यमाक्षरकृतां मालां स्फुटं शौरिः प्रमार्जति ।

श्रीचंदनं सकर्पूरमगुरुं च सकुंकुमम् १२।

केतकी दीपदानं च सर्वदा केशवप्रियम् ।

कार्तिके केतकीपुष्पं दत्तं येन कलौ युगे १३।

दीपदानं महासेन कुलानां तारयेच्छतम् ।

सरोरुहाणि तुलसी केतकी मुनिपुष्पकम् १४।

कार्तिके च दिनान्येव दीपदानं तु पंचमम् ।

केतकीमालया येन कार्तिके पुष्पमंडपम् १५।

केशवस्य कृतं वत्स वसतिर्दिवि तस्य च ।

केतकीपुष्पकेनैव पूजितो गरुडध्वजः १६।

समाः सहस्रं सुप्रीतो जायते मधुसूदनः ।

अर्चयित्वा हृषीकेशं कुसुमैः केतकीभवैः १७।

पुण्यं तद्भवनं याति केशवस्य शिवं गुह ।

दमनकेनापि देवेशं संप्राप्ते मधुमाधवे १८।

समभ्यर्च्य मुनिश्रेष्ठ अर्चनाल्लभते फलम् ।

अगस्तिकुसुमैर्देवं योऽर्चयेत जनार्दनम् १९।

दर्शनात्तस्य भो विप्र नरकाग्निः प्रणश्यति ।

न तत्करोति विप्रर्षे तपसा तोषितो हरिः २०।

यत्करोति महासेन मुनिपुष्पैरलंकृतः ।

विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम् २१।

कार्तिके योऽर्चयेद्भक्त्या वाजिमेधफलं लभेत् ।

मुनिपुष्पकृतां मालां यो ददाति जनार्दने २२।

देवेंद्रोऽपि मुनिश्रेष्ठ कुरुते तस्य सत्कथाम् ।

गवामयुतदानेन यत्फलं प्राप्यते गुह २३।

मुनिपुष्पेण चैकेन कार्तिके लभते फलम् ।

कौस्तुभेन यथा प्रीतो यथा च वनमालया २४।

तुलसीदलेन संप्रीतः कार्तिके च तथा हरिः ।

सिऊ!त उवाच।

प्रश्रयावनतं दृष्ट्वा कुमारं भक्तितत्परम् २५।

पुनः प्रोवाच भगवान्महादेवो वृषध्वजः ।

ईश्वर उवाच।

शृणु दीपस्य माहात्म्यं कार्तिके शिखिवाहन २६।

पितरश्चैव वांच्छंति सदा पितृगणैर्वृताः ।

भविष्यति कुलेऽस्माकं पितृभक्तः सुपुत्रकः २७।

कार्तिके दीपदानेन यस्तोषयति केशवम् ।

घृतेन दीपको यस्य तिलतैलेन वा पुनः २८।

ज्वलते यस्य सेनानीरश्वमेधेन तस्य किम् ।

तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम् २९।

दीपदानं कृतं येन कार्तिके केशवाग्रतः ।

कृष्णपक्षे विशेषेण पुत्र पंचदिनानि च ३०।

पुण्यानि तेषु यो दत्ते दीपं सोऽक्षयमाप्नुयात् ।

एकादश्यां परैर्दत्तं दीपं प्रज्वाल्य मूषिका ३१।

मानुष्यं दुर्ल्लभं प्राप्य परां गतिमवाप सा ।

लुब्धकोऽपि चतुर्दश्यां पूजयित्वा महेश्वरम् ३२।

निर्भक्षः परमं प्राप्य विष्णुलोकं जगाम सः ।

श्वपाकस्याश्रयाद्वैश्या दीपं कृत्वा परैः कृतम् ३३।

शुद्धा लीलावती भूत्वा जगाम स्वर्गमक्षयम् ।

गोपः कश्चिदमावस्यां पूजां दृष्ट्वा तु शार्ङ्गिणः ३४।

मुहुर्मुहुर्जयेत्युक्त्वा राजराजेश्वरोऽभवत् ।

तस्माद्दीपाः प्रदातव्या रात्रावस्तमते रवौ ३५।

गृहेषु सर्वगोष्ठेषु सर्वेष्वायतनेषु च ।

देवालयेषु देवानां श्मशानेषु सरस्सु च ३६।

घृतादिना शुभार्थाय यावत्पंचदिनानि च ।

पापिनः पितरो ये च लुप्तपिंडोदकक्रियाः ।

तेपि यांति परां मुक्तिं दीपदानस्य पुण्यतः ३७।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये दीप गंध धात्री माहात्म्यवर्णनो नाम एकविंशत्यधिकशततमोऽध्यायः १२१।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 122

कार्तिकेय उवाच।

दीपावलिफलं नाथ विशेषाद्ब्रूहि सांप्रतम् ।

किमर्थं क्रियते सा तु तस्याः का देवता भवेत् १।

किं च तत्र भवेद्देयं किं न देयं वद प्रभो ।

प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा कात्र प्रकीर्तिता २।

सूत उवाच।

इति स्कंदवचः श्रुत्वा भगवान्कामशोषणः ।

साधूक्त्वा कार्तिकं विप्राः प्रहसन्निदमब्रवीत् ३।

श्रीशिव उवाच।

कार्तिकस्यासिते पक्षे त्रयोदश्यां तु पावके ।

यमदीपं बहिर्दद्यादपमृत्युर्विनश्यति ४।

मृत्युना पाशहस्तेन कालेन भार्यया सह ।

त्रयोदशीदीपदानात्सूर्यजः प्रीयतामिति ५।

कार्तिके कृष्णपक्षे च चतुर्दश्यां विधूदये ।

अवश्यमेव कर्त्तव्यं स्नानं च पापभीरुभिः ६।

पूर्वविद्धा चतुर्दश्या कार्तिकस्य सितेतरे ।

पक्षे प्रत्यूषसमये स्नानं कुर्यादतंद्रितः ७।

तैले लक्ष्मीर्जले गंगा दीपावल्यां चतुर्दशीम् ।

प्राप्तः स्नानं हि यः कुर्याद्यमलोकं न पश्यति ८।

अपामार्गस्तथा तुंबी प्रपुन्नाटं च वाह्वलम् ।

भ्रामयेत्स्नानमध्ये तु नरकस्य क्षयाय वै ९।

सीतालोष्टसमायुक्त सकंटक दलान्वित ।

हर पापमपामार्ग भ्राम्यमाणः पुनः पुनः १०।

अपामार्गं प्रपुन्नाटं भ्रामयेच्छिरसोपरि ।

ततश्च तर्पणं कार्यं यमराजस्य नामभिः ११।

यमाय धर्मराजाय मृत्यवे चांतकाय च ।

वैवस्ताय कालाय सर्वभूतक्षयाय च १२।

औदुंबराय दध्नाय नीलाय परमेष्ठिने ।

वृकोदराय चित्राय चित्रगुप्ताय वै नमः १३।

नरकाय प्रदातव्यो दीपः संपूज्य देवताः ।

ततः प्रदोषसमये दीपान्दद्यान्मनोहरान् १४।

ब्रह्मविष्णुशिवादीनां भवनेषु विशेषतः ।

कूटागारेषु चैत्येषु सभासु च नदीषु च १५।

प्राकारोद्यानवापीषु प्रतोली निष्कुटेषु च ।

मंदुरासु विविक्तासु हस्तिशालासु चैव हि १६।

एवं प्रभातसमये ह्यमावास्यां तु पावकं ।

स्नात्वा देवान्पितॄन्भक्त्या संपूज्याथ प्रणम्य च १७।

कृत्वा तु पार्वणं श्राद्धं दधिक्षीरघृतादिभिः ।

भोज्यैर्नानाविधैर्विप्रान्भोजयित्वा क्षमापयेत् १८।

ततोपराह्णसमये पोषयेन्नागरान्प्रिय ।

तेषां गोष्ठीं च मानं च कृत्वा संभाषणं नृपः १९।

वक्तृणां वत्सरं यावत्प्रीतिरुत्पद्यते गुह ।

अप्रबुद्धे हरौ पूर्वं स्त्रीभिर्लक्ष्मीः प्रबोधयेत् २०।

प्रबोधसमये लक्ष्मीं बोधयित्वा तु सुस्त्रिया ।

पुमान्वै वत्सरं यावल्लक्ष्मीस्तं नैव मुंचति २१।

अभयं प्राप्य विप्रेभ्यो विष्णुभीता सुरद्विषः ।

सुप्तं क्षीरोदधौ ज्ञात्वा लक्ष्मीं पद्माश्रितां तथा २२।

त्वं ज्योतिः श्री रविश्चंद्रो विद्युत्सौवर्णतारकः ।

सर्वेषां ज्योतिषां ज्योतिर्दीपज्योतिः स्थिता तु या २३।

या लक्ष्मीर्दिवसे पुण्ये दीपावल्यां च भूतले ।

गवां गोष्ठे तु कार्तिक्यां सा लक्ष्मीर्वरदा मम २४।

शंकरश्च भवानी च क्रीडया द्यूतमास्थितौ ।

भवान्याभ्यर्चिता लक्ष्मीर्धेनुरूपेण संस्थिता २५।

गौर्या जित्वा पुरा शंभुर्नग्नो द्यूते विसर्जितः ।

अतोऽयं शंकरो दुःखी गौरी नित्यं सुखेस्थिता २६।

प्रथमं विजयो यस्य तस्य संवत्सरं सुखम् ।

एवं गते निशीथे तु जने निद्रार्धलोचने २७।

तावन्नगरनारीभिस्तूर्य डिंडिमवादनैः ।

निष्कास्यते प्रहृष्टाभिरलक्ष्मीश्च गृहांगणात् २८।

पराजये विरुद्धं स्यात्प्रतिपद्युदिते रवौ ।

प्रातर्गोवर्द्धनः पूज्यो द्यूतं रात्रौ समाचरेत् २९।

भूषणीयास्तथा गावो वर्ज्या वहनदोहनात् ।

गोवर्द्धनधराधार गोकुलत्राणकारक ३०।

विष्णुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव ।

या लक्ष्मीर्लोकपालानां धेनुरूपेण संस्थिता ३१।

घृतं वहति यज्ञार्थे मम पापं व्यपोहतु ।

अग्रतः संतु मे गावो गावो मे संतु पृष्ठतः ।

गावो मे हृदये संतु गवां मध्ये वसाम्यहम् ३२।

इतिगोवर्द्धनपूजा ।

सद्भावेनैव संतोष्य देवान्सत्पुरुषान्नरान् ।

इतरेषामन्नपानैर्वाक्यदानेन पंडितान् ३३।

वस्त्रैस्तांबूलदीपैश्च पुष्पकर्पूरकुंकुमैः ।

भक्ष्यैरुच्चावचैर्भोज्यैरंतःपुर निवासिनः ३४।

ग्रामर्षभं च दानैश्च सामंतान्नृपतिर्धनैः ।

पदातिजनसंघांश्च ग्रैवेयैः कटकैः शुभैः ३५।

स्वानमात्यांश्च तान्राजा तोषयेत्स्वजनान्पृथक् ।

यथार्थं तोषयित्वा तु ततो मल्लान्नटांस्तथा ३६।

वृषभांश्च महोक्षांश्च युद्ध्य्मानान्परैः सह ।

राजान्यांश्चापि योधांश्च पदातीन्स समलंकृतान् ३७।

मंचारूढः स्वयं पश्येन्नटनर्तकचारणान् ।

योधयेद्वासयेच्चैव गोमहिष्यादिकं च यत् ३८।

वत्सानाकर्षयेद्गोभिरुक्तिप्रत्युक्ति वादनात् ।

ततोपराह्णसमये पूर्वस्यां दिशि पावके ३९।

मार्गपालद्यं प्रबध्नीयाद्दुर्गस्तंभेऽथ पादपे ।

कुशकाशमयीं दिव्यां लंबकैर्बहुभिर्गुह ४०।

वीक्षयित्वा गजानश्वान्मार्गपाल्यास्तले नयेत् ।

गावैर्वृषांश्चमहिषान्महिषीर्घंटिकोत्कटाः ४१।

कृतहोमैर्द्विजेंद्रैस्तु बध्नीयान्मार्गपालिकाम् ।

नमस्कारं ततः कुर्यान्मंत्रेणानेन सुव्रतः ४२।

मार्गपालि नमस्तुभ्यं सर्वलोकसुखप्रदे ।

मार्गपालीतले स्कंद यांति गावो महावृषाः ४३।

राजानो राजपुत्राश्च ब्राह्मणाश्च विशेषतः ।

मार्गपालद्यं समुल्लंघ्य निरुजः सुखिनो हि ते ४४।

कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपतेर्बलेः ।

पूजां कुर्यात्ततः साक्षाद्भूमौ मंडलके कृते ४५।

बलिमालिख्य दैत्येंद्रं वर्णकैः पंचरंगकैः ।

सर्वाभरणसंपूर्णं विंध्यावलिसमन्वितम् ४६।

कूष्मांडमय जंभोरु मधुदानवसंवृतम् ।

संपूर्णं हृष्टवदनं किरीटोत्कटकुंडलम् ४७।

द्विभुजं दैत्यराजानं कारयित्वा स्वके पुनः ।

गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत् ४८।

मातृभ्रातृजनैः सार्द्धं संतुष्टो बंधुभिः सह ।

कमलैः कुमुदैः पुष्पैः कल्हारै रक्तकोत्पलैः ४९।

गंधपुष्पान्ननैवेद्यैः सक्षीरैर्गुडपायसैः ।

मद्यमांससुरालेह्य चोष्य भक्ष्योपहारकैः 6.122.५०।

मंत्रेणानेन राजेंद्र सः मंत्री सपुरोहितः ।

पूजां करिष्यते यो वै सौख्यं स्यात्तस्य वत्सरम् ५१।

बलिराज नमस्तुभ्यं विरोचनसुत प्रभो ।

भविष्येंद्र सुराराते पूजेयं प्रतिगृह्यताम् ५२।

एवं पूजाविधिं कृत्वा रात्रौ जागरणं ततः ।

कारयेद्वै क्षणं रात्रौ नटनर्तकगायकैः ५३।

लोकैश्चापि गृहस्यांते सपर्यां शुक्लतंडुलैः ।

संस्थाप्य बलिराजानं फलैः पुष्पैश्च पूजयेत् ५४।

बलिमुद्दिश्य वै तत्र कार्यं सर्वं च पावके ।

यानि यान्यक्षयान्याहु ऋषयस्तत्वदर्शिनः ५५।

यदत्र दीयते दानं स्वल्पं वा यदि वा बहु ।

तदक्षयं भवेत्सर्वं विष्णोः प्रीतिकरं शुभम् ५६।

रात्रौ ये न करिष्यंति तव पूजां बलेर्नराः ।

तेषामश्रोत्रियं धर्मं सर्वं त्वामुपतिष्ठतु ५७।

विष्णुना च स्वयं वत्स तुष्टेन बलये पुनः ।

उपकारकरं दत्तमसुराणां महोत्सवम् ५८।

तदा प्रभृति सेनाने प्रवृत्ता कौमुदी सदा ।

सर्वोपद्रवविद्रावा सर्वविघ्नविनाशिनी ५९।

लोकशोकहरा काम्या धनपुष्टिसुखावहा ।

कुशब्देन मही ज्ञेया मुद हर्षे ततो द्वयम् ६०।

धातुत्वे निगमैश्चैव तेनैषा कौमुदी स्मृता ।

कौमोदं ते जना यस्मान्नानाभावैः परस्परम् ६१।

हृष्टतुष्टाः सुखापन्नास्तेनैषा कौमुदी स्मृता ।

कुमुदानि बलेर्यस्यां दीयंते तेन षण्मुख ६२।

अघार्थं पार्थिवैः पुत्र तेनैषा कौमुदी स्मृता ।

एकमेवमहोरात्रं वर्षेवर्षे च कार्तिके ६३।

दत्तं दानवराजस्य आदर्शमिव भूतल ।

यः करोति नृपो राज्ये तस्य व्याधिभयं कुतः ६४।

सुभिक्षं क्षेममारोग्यं तस्य संपदनुत्तमा ।

नीरुजश्च जनाः सर्वे सर्वोपद्रववर्जिताः ६५।

कौमुदी क्रियते तस्माद्भावं कर्तुं महीतले ।

यो यादृशेन भावेन तिष्ठत्यस्यां च षण्मुख ६६।

हर्षदुःखादिभावेन तस्य वर्षं प्रयाति हि ।

रुदिते रोदते वर्षं हृष्टे वर्षं प्रहर्षितम् ६७।

भुक्ते भोक्ता भवेद्वर्षं स्वस्थे स्वस्थं भविष्यति ।

तस्मात्प्रहृष्टैः कर्त्तव्या कौमुदी च शुभैर्नरैः ६८।

वैष्णवी दानवी चेयं तिथिः प्रोक्ता च कार्तिके ६९।

दीपोत्सवंजनित सर्वजनप्रसादं कुर्वंति ये शुभतया बलिराजपूजाम् ।

दानोपभोगसुखबुद्धिमतां कुलानां हर्षं प्रयाति सकलं प्रभुदं च वर्षम् ७०।

स्कंदैतास्तिथयो नूनं द्वितीयाद्याश्च विश्रुताः ।

मासैश्चतुर्भिश्च ततःप्रावृट्काले शुभावहाः ७१।

प्रथमा श्रावणे मासि तथा भाद्रपदे परा ।

तृतीयाश्वयुजेमासि चतुर्थी कार्तिके भवेत् ७२।

कलुषा श्रावणे मासि तथा भाद्रपदेमला ।

आश्विने प्रेतसंचारा कार्तिके याम्यकामता ७३।

गुह उवाच।

कस्मात्सा कलुषा प्रोक्ता कस्मात्सा निर्मला मता ।

कस्मात्सा प्रेतसंचारा कस्माद्याम्या प्रकीर्तिता ७४।

सूत उवाच।

इति स्कंदवचः श्रुत्वा भगवान्भूतभावनः ।

उवाच वचनं श्लक्ष्णं प्रहसन्वृषभध्वजः ७५।

महेश उवाच।

पुरा वृत्रवधे वृत्ते प्राप्ते राज्ये पुरंदरे ।

ब्रह्महत्यापनोदार्थमश्वमेधः प्रवर्तितः ७६।

क्रोधादिंद्रेण वज्रेण ब्रह्महत्या निषूदिता ।

षड्विधा सा क्षितौ क्षिप्ता वृक्षतोयमहीतले ७७।

नार्यां भ्रूणहणिवह्नौ संविभज्य यथाक्रमम् ।

तत्पापश्रवणात्पूर्वं द्वितीयाया दिनेन च ७८।

नारीवृक्षनदीभूमिवह्निभ्रूणहनस्तथा ।

कलुषीभवनं जातो ह्यतोर्थं कलुषा स्मृता ७९।

मधुकैटभयो रक्ते पुरा मग्नानु मेदिनी ।

अष्टांगुला पवित्रा सा नारीणां तु रजोमलम् ८०।

नद्यः प्रावृण्मला सर्वा वह्निरूर्ध्वं मषीमलः ।

निर्यासमलिना वृक्षाः संगाद्भ्रूणहनो मलाः ८१।

कलुषानि चरंत्यस्यां तेनैषा कलुषा मता ।

देवर्षिपितृधर्माणां निंदका नास्तिकाः शठाः ८२।

तेषां सा वाङ्मलात्पूता द्वितीया तेन निर्मला ।

अनध्यायेषु शास्त्राणि पाठयंति पठंति च ८३।

सांख्यकास्तार्किकाः श्रौतास्तेषां शब्दापशब्दजात् ।

मलात्पूता द्वितीयायां ततोर्थे निर्मला च सा ८४।

कृष्णस्य जन्मना वत्स त्रैलोक्यं पावितं भवेत् ।

नभस्येते विनिर्दिष्टा निर्मला सा तिथिर्बुधैः ८५।

अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।

पितॄन्पितामहान्प्रेतसंचारात्प्रेतसंचरा ८६।

प्रेतास्तु पितरः प्रोक्तास्तेषां तस्यां तु संचरः ।

पुत्रपौत्रेस्तुदौहित्रैः स्वधामंत्रैस्तु पूजिताः ८७।

श्राद्धदानमखैस्तृप्ता यांत्यतः प्रेतसंचरा ।

महालये तु प्रेतानां संचारो भुवि दृश्यते ८८।

तेनैषा प्रेतसंचारा कीर्तिता शिखिवाहन ।

यमस्य क्रियते पूजा यतोऽस्या पावके नरैः ८९।

तेनैषा याम्यका प्रोक्ता सत्यं सत्यं मयोदितम् ।

एतत्कार्तिकमाहात्म्यं ये शृण्वंति नरोत्तमाः ९०।

कार्तिकस्नानजं पुण्यं तेषां भवति निश्चितम् ९१।

कार्तिके च द्वितीयायां पूर्वाह्णे यममर्चयेत् ।

भानुजायां नरः स्नात्वा यमलोकं न पश्यति ९२।

कार्तिके शुक्लपक्षे तु द्वितीयायां तु शौनक ।

यमो यमुनया पूर्वं भोजितः स्वगृहेऽचितः ९३।

द्वितीयायां महोत्सर्गो नारकीयाश्च तर्पिताः ।

पापेभ्यो विप्रयुक्तास्ते मुक्ताः सर्वनिबंधनात् ९४।

आशंसिताश्च संतुष्टाः स्थिताः सर्वे यदृच्छया ।

तेषां महोत्सवो वृत्तो यमराष्ट्रसुखावहः ९५।

अतो यमद्वितीयेयं त्रिषुलोकेषु विश्रुता ।

तस्मान्निजगृहे विप्र न भोक्तव्यं ततो बुधैः ९६।

स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनं ।

दानानि च प्रदेयानि भगिनीभ्यो विधानतः ९७।

स्वर्णालंकारवस्त्राणि पूजासत्कारसंयुतम् ।

भोक्तव्यं सह जायाश्च भगिन्याहस्ततः परम् ९८।

सर्वासु भगिनीहस्ताद्भोक्तव्यं बलवर्द्धनम् ।

ऊर्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः ९९।

महिषासनमारूढो दंडमुद्गरभृत्प्रभुः ।

वेष्टितः किंकरैहृष्टैस्तस्मै याम्यात्मने नमः 6.122.१००।

यैर्भगिन्यः सुवासिन्यो वस्त्रदानादि तोषिताः ।

न तेषां वत्सरं यावत्कलहो न रिपोर्भयम् १०१।

धन्यं यशस्यमायुष्यं धर्मकामार्थसाधनम् ।

व्याख्यातं सकलं पुत्र सरहस्यं मयानघ १०२।

यस्यां तिथौ यमुनया यमराजदेवः संभोजितः प्रतितिथौ स्वसृसौहृदेन ।

तस्मात्स्वसुः करतलादिह यो भुनक्ति प्राप्नोति वित्तशुभसंपदमुत्तमां सः १०३।

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्ससहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये।

द्वाविंशत्यधिकशततमोऽध्यायः १२२।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 123

कार्तिकेय उवाच।

भगवञ्च्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् ।

विधिं मासोपवासस्य फलं चास्य यथोदितम् १।

यथाविधि नरैः कार्या व्रतचर्या यथा भवेत् ।

आरभ्यते यथापूर्वं समाप्यं हि यथाविधि २।

यावत्संख्यं तु कर्तव्यं तत्प्रब्रूहि महेश्वर ।

व्रतमेतत्सुरश्रेष्ठ विस्तरेण ममानघ ३।

श्रीरुद्र उवाच।

साधु पावकि सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ ।

भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम ४।

सुराणां च यथा विष्णुस्तपतां च यथा रविः ।

मेरुः शिखरिणां यद्वद्वैनतेयश्च पक्षिणाम् ५।

तीर्थानां तु यथा गंगा प्रजानां तु यथा वणिक् ।

श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम् ६।

सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि ।

सर्वदानोद्भवं चैव लभेन्मासोपवासकृत् ७।

अग्निष्टोमादिभिर्यज्ञैर्विविधैर्भूरिदक्षिणैः ।

न तत्पुण्यमवाप्नोति यन्मासपरिलंघनात् ८।

तेन जप्तं हुतं दत्तं तपस्तप्तं कृता स्वधा ।

यः करोति विधानेन नरो मासमुपोषणम् ९।

उद्दिश्य वैष्णवं यज्ञं समभ्यर्च्य जनार्दनम् ।

गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम् १०।

वैष्णवानि यथोक्तानि कृत्वा सर्वव्रतानि तु ।

द्वादश्यादीनि पुण्यानि ततो मासमुपावसेत् ११।

अतिकृच्छॄं च पाराकं कृत्वा चांद्रायणं ततः ।

मासोपवासं कुर्वीत ज्ञात्वा देह बलाबलम् १२।

वानप्रस्थो यतिर्वापि नारी वा विधवा मुने ।

मासोपवासं कुर्वीतगुरोर्विप्राज्ञया ततः १३।

आश्विनस्यामले पक्षे एकादश्यामुपोषितः ।

व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु १४।

वासुदेवं समभ्यर्च्य कार्तिकं सकलं नरः ।

मासं चोपवसेद्यस्तु स मुक्तिफलभाग्भवेत् १५।

अच्युतस्यालये भक्त्या त्रिकालं कुमुदैः शुभैः ।

मालतींदीवरैः पद्मैः कमलैस्तु सुगंधिभिः १६।

कुंकुमोशीरकर्पूरैर्विलिप्य वरचंदनैः ।

नैवेद्यधूपदीपाद्यैरर्चयेच्च जनार्दनम् १७।

मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम् ।

कुर्वन्नरस्त्रीविधवा बृहद्भक्तिर्जितेंद्रियः १८।

नाम्नामेव तथालापं विष्णोः कुर्यादहर्निशम् ।

भक्त्या विष्णोस्तुतिर्वाच्या मिथ्यालापविवर्जिता १९।

सर्वसत्वदयायुक्तः शांतवृत्तिरहिंसकः ।

सुप्तो बाह्यासनस्थो वा वासुदेवं प्रकीर्तयेत् २०।

स्मृत्वालोकनगंधादि स्वादितं परिकीर्तितम् ।

अन्नस्य वर्जयेद्ग्रासं ग्रासानां सम्प्रमोक्षणम् २१।

गात्राभ्यंगं शिरोभ्यंगं तांबूलं सविलेपनम् ।

व्रतस्थो वर्जयेत्सर्वं यच्चान्यच्च निराकृतम् २२।

न व्रतस्थः स्पृशेत्किंचिद्विकर्मस्थं न चालयेत् ।

देवतायतने तिष्ठन्गृहस्थश्चाचरेद् व्रतम् २३।

कृत्वा मासोपवासं तु यथोक्तविधिना नरः ।

नारी वा विधवा साध्वी वासुदेवं समर्चयेत् २४।

अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिति ।

कृत्वा मासोपवासं तु संयतात्मा जितेंद्रियः २५।

ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम् ।

पूजयेत्पुष्पमालाभिर्गंधधूपविलेपनैः २६।

वस्त्रालंकारवाद्यैश्च तोषयेदच्युतं नरः ।

संस्नापयेद्धरिं भक्त्या तीर्थचंदनवारिभिः २७।

चंदनेनानुलिप्तांगं धूपपुष्पैरलंकृतम् ।

वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान् २८।

दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत् ।

विप्रान्क्षमापयित्वा तु विसृज्याभ्यर्च्य पूज्य च २९।

एवं वित्तानुसारेण भक्तियुक्तेन शक्तितः ।

एवं मासोपवासान्हि कृत्वाभ्यर्च जनार्दनम् ३०।

भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते ।

एवं मासोपवासांते वृत्वा विप्रांस्त्रयोदश ३१।

निर्यापयेत्ततस्तान्वै विधिना येन तच्छृणु ।

कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः ३२।

पूजयित्वा तु देवेशमाचार्यानुज्ञया हरिम् ।

अर्चयित्वा यथाशक्त्या ह्यभिवाद्य गुरुं तथा ३३।

ततोनुभोजयेद्विप्रान्नमस्कारपुरःसरम् ।

विशुद्धकुलचारित्रान्विष्णुपूजनतत्परान् ३४।

पूजयित्वा तथा सर्वान्भोजयित्वा त्रयोदश ।

तांबूलवस्त्रयुग्मानि भोजनाच्छादनानि च ३५।

योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि ।

दत्त्वा चैव द्विजाग्र्येभ्यः पूजयित्वा प्रणम्य च ३६।

ततोनुपूजयेद्भक्त्या शय्यास्तरणसंस्कृताम् ।

साच्छादनां शुभां श्रेष्ठां सोपधानामलंकृताम् ३७।

कारयित्वात्मनोमूर्तिं कांचनीं तु स्वशक्तितः ।

न्यसेत्तस्यां तु शय्यायामर्चयित्वा स्रगादिभिः ३८।

आसनं पादुका छत्रं वस्त्रयुग्ममुपानहौ ।

पवित्राणि च पुष्पाणि शय्यायामुपकल्पयेत् ३९।

एवं शय्यां तु संकल्प्य प्रणिपत्य च तान्द्विजान् ।

प्रार्थयेच्चानुमोदार्थं विष्णुलोकं व्रजाम्यहम् ४०।

ततो व्रजेन्नरः प्रेष्ठं विष्णोः स्थानमनामयम् ।

मंडपस्थांस्तु तान्विप्रानिति वाच्यं मुहुर्मुहुः ४१।

मंत्रहीनं भक्तिहीनं क्रियाहीनं द्विजोत्तमाः ।

सर्वं संपूर्णतां यातु भवद्वाक्यप्रसादतः ।

विधिर्मासोपवासस्य यथावत्परिकीर्तितः ४२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे श्रीकृष्णसत्यभामासंवादे मासोपवासकथनंनाम त्रयोविंशत्यधिकशततमोऽध्यायः १२३।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 124

ईश्वर उवाच।

प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम् ।

मुक्तिदं तत्वबुद्धीनां शृणुष्व सुरसत्तम १।

तावद्गर्जति सेनानि गंगा भागीरथी क्षितौ ।

यावन्नायाति पापघ्नी कार्तिके हरिबोधिनी २।

तावद्गच्छंति तीर्थानि आसमुद्र सरांसि च ।

यावत्प्रबोधिनी विष्णोस्तिथिर्नायाति कार्तिके ३।

अश्वमेधसहस्राणि राजसूयशतानि च ।

एकेनैवोपवासेन प्रबोधिन्यां यथाऽभवत् ४।

दुर्लभं चैव दुष्प्राप्यं त्रैलोक्ये सचराचरे ।

तदपि प्रार्थितं विप्र ददाति प्रतिबोधिनी ५।

ऐश्वर्यं संसृतिं ज्ञानं राज्यं च सुखसंपदम् ।

ददात्युपोषिता विप्र हेलया हरिबोधिनी ६।

मेरुमंदरतुल्यानि पापान्युपार्जितानि च ।

एकेनैवोपवासेन दहते हरिबोधिनी ७।

उपवासं प्रबोधिन्यां यः करोति स्वभावतः ।

विधिना नरशार्दूल यथोक्तं लभते फलम् ८।

पूर्वजन्मसहस्रेषु पापं यत्समुपार्जितम् ।

जागरेण प्रबोधिन्यां दह्यते तूलराशिवत् ९।

शृणु षण्मुख वक्ष्यामि जागरस्य च लक्षणम् ।

यस्य विज्ञानमात्रेण दुर्लभो न जनार्दनः १०।

गीतं वाद्यं च नृत्यं च पुराणपठनं तथा ।

धूपं दीपं च नैवेद्यं पुष्पं गंधानुलेपनम् ११।

फलमर्घ्यं च श्रद्धा च दानमिंद्रियसंयमम् ।

सत्यान्वितं विनिद्रं च मुदायुक्तं क्रियान्वितम् १२।

साश्चर्चं चैव सोत्साहमालस्यादिविवर्जितम् ।

प्रदक्षिणादिसंयुक्तं नमस्कारपुरःसरम् १३।

नीराजनसमायुक्तमनिर्विण्णेन चेतसा ।

यामे यामे महाभाग कुर्वन्नीराजनं हरेः १४।

एतैर्गुणैः समायुक्तं कुर्याज्जागरणं विभोः ।

एकाग्रमानसो यस्तु न पुनर्जायते भुवि १५।

य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितैः ।

जागरं वासरे विष्णोर्नीयते परमां गतिम् १६।

पुरुषसूक्तेन यो नित्यं कार्तिके अर्चयेद्धरिम् ।

वर्षकोटिसहस्राणि पूजितस्तेन केशवः १७।

यथोक्तेन विधानेन पंचरात्रोदितेन वै ।

कार्तिके त्वर्चयेन्नित्यं मुक्तिभागी भवेन्नरः १८।

नमोनारायणायेति कार्तिके योऽर्चयेद्धरिम् ।

स मुक्तो नारकैर्दुःखैः पदं गच्छत्यनामयम् १९।

हरेर्नामसहस्रं च गजराजस्य मोक्षणम् ।

कार्तिके पठते यस्तु पुनर्जन्म न विंदति २०।

युगकोटिसहस्राणि मन्वंतरशतानि च ।

द्वादश्यां कार्तिके मासि जागरी वसते दिवि २१।

कुले तस्य च संजाताः शतशोऽथ सहस्रशः ।

प्राप्नुवंति पदं विष्णोस्तस्मात्कुर्वीत जागरम् २२।

कार्तिके पश्चिमे यामे स्तवं गानं करोति यः ।

श्वेतद्वीपे तु वसते पितृभिः सह भामिनि २३।

नैवेद्यदानं हरये कार्तिके दिनसंक्षये ।

युगानि वसते स्वर्गे तावंति मुनिसत्तमाः २४।

अक्षयं मुनिशार्दूल मालतीकमलार्चनम् ।

अर्चयेद्देवदेवेशं स याति परमं पदम् २५।

कार्तिके शुक्लपक्षे तु कृत्वा ह्येकादशीं नरः ।

प्रातर्दत्त्वा शुभान्कुंभान्स याति मम मंदिरम् २६।

कार्त्तिकेय उवाच।

भगवन्नुच्यतां पुण्यं व्रतानां परमं व्रतम् ।

कर्तव्यं कार्तिके मासि भवता भीष्मपंचकम् २७।

विधानं तस्य च फलं तथैव सुरसत्तम ।

कथयस्व प्रसादान्मे मुनीनां च पितामह २८।

ईश्वर उवाच।

प्रवक्ष्यामि महापुण्यं व्रतं विधिमतां वरः ।

भीष्मेणैतद्यतः प्राप्तं व्रतं पंचदिनात्मकम् २९।

सकाशाद्वासुदेवस्य तेनोक्तं भीष्मपंचकम् ।

व्रतस्यास्य गुणान्वक्तुं कः शक्तः केशवादृते ३०।

कार्त्तिके शुक्लपक्षे तु शृणु धर्मं पुरातनम् ।

वसिष्ठभृगुगर्गाद्यैश्चीर्णं कृतयुगादिषु ३१।

अंबरीषेण भोगाद्यैश्चीर्णं त्रेतायुगादिषु ।

ब्राह्मणैर्ब्रह्मचर्येण जपहोमक्रियादिभिः ३२।

क्षत्रियैश्च तथा वैश्यैः सत्यशौचपरायणैः ।

दुष्करं सत्यहीनानामशक्यं बालचेतसाम् ३३।

दुष्करं भीष्ममित्याहुर्न शक्यं प्राकृतैर्नरैः ।

यस्तत्करोति विप्रेंद्र तेन सर्वं कृतं भवेत् ३४।

व्रतं चैतन्महापुण्यं महापातकनाशनम् ।

अतो नरैः प्रयत्नेन कर्त्तव्यं भीष्मपंचकम् ३५।

कार्तिकस्यामलेपक्षे स्नात्वा सम्यग्विधानतः ।

एकादश्यां तु गृह्णीयाद्व्रतं पंचदिनात्मकम् ३६।

प्रातः स्नात्वा विशेषेण मध्याह्ने च तथा व्रती ।

नद्यां निर्झरगर्ते वा समालभ्य च गोमयम् ३७।

यवव्रीहितिलैः सम्यक्पितॄन्संतर्पयेत्क्रमात् ।

स्नात्वा मौनं नरः कृत्वा धौतवासा दृढव्रतः ३८।

भीष्मायोदकदानं च अर्घ्यं चैव प्रयत्नतः ।

पूजा भीष्मस्य कर्त्तव्या दानं दद्यात्प्रयत्नतः ३९।

पंचरत्नं विशेषेण दत्त्वा विप्राय यत्नतः ।

वासुदेवोऽपि संपूज्यो लक्ष्मीयुक्तः सदा प्रभुः ४०।

पंचके पूजयित्वा तु कोटिकल्पानि तुष्यति ।

यत्किंचित्क्रियते सर्वं पंचधातुप्रकल्पयेत् ४१।

संवत्सरव्रतानां च लभते सकलं फलम् ।

कृत्वा तूदकदानं तु तथार्घ्यस्य च दापनम् ४२।

मंत्रेणानेन यः कुर्यान्मुक्तिभागी भवेन्नरः ४३।

वैयाघ्रपादगोत्राय सांकृते प्रवराय च ।

अपुत्राय ददाम्येतदुदकं भीष्मवर्मणे ४४।

वसूनामवताराय शंतनोरात्मजाय च ।

अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे ४५ इति अर्घ्यमंत्रः ।

अनेन विधिना यस्तु पंचकं तु समापयेत् ।

अश्वमेधसमं पुण्यं प्राप्नोत्यत्र न संशयः ४६।

पंचाहमपि कर्तव्यं नियमं च प्रयत्नतः ।

नियमेन विना पुत्र न भाव्यं व्रतकर्मणा ४७।

उत्तरायणहीनाय भीष्माय प्रददौ हरिः ।

उत्तरायणहीनोऽपि शुद्धिं लग्नं विना शुभाः ४८।

ततः संपूजयेद्देवं सर्वपापहरं हरिम् ।

अनंतरं प्रयत्नेन कर्तव्यं भीष्मपंचकम् ४९।

स्नापयेत जलैर्भक्त्या मधुक्षीरघृतेन च ।

तथैव पंचगव्येन गंधचंदनवारिणा 6.124.५०।

चंदनेन सुगंधेन कुंकुमेनाथ केशवम् ।

कर्पूरोशीरमिश्रेण लेपयेद्गरुडध्वजम् ५१।

अर्चयेद्रुचिरैः पुष्पैर्गंधधूपसमन्वितैः ।

गुग्गुलुं घृतंसंयुक्तं दहेत्कृष्णाय भक्तिमान् ५२।

दीपकं तु दिवारात्रौ दद्यात्पंचदिनादिषु ।

नैवेद्यं देवदेवस्य परमान्नं निवेदयेत् ५३।

एवमभ्यर्चयेद्देवं संस्मृत्य च प्रणम्य च ।

ॐ नमो वासुदेवाय जपेदष्टोत्तरं शतम् ५४।

जुहुयाच्च घृताभ्यक्तैस्तिलव्रीहियवादिभिः ।

षडक्षरेण मंत्रेण स्वाहाकारान्वितेन च ५५।

उपास्य पश्चिमां संध्यां प्रणम्य गरुडध्वजम् ।

जपित्वा पूर्ववन्मंत्रं क्षितिशायी भवेद्व्रती ५६।

सर्वमेतद्विधानं तु कार्यं पंचदिनानि तु ।

विशेषोऽत्र व्रते ह्यस्मिन्यदन्यूनं शृणुष्व तत् ५७।

प्रथमेऽह्नि हरेः पादौ पूजयेत्कमलैर्व्रती ।

द्वितीये बिल्वपत्रेण जानुदेशं समर्चयेत् ५८।

ततोनुपूजयेच्छीर्षं मालत्या चक्रपाणिनः ।

कार्तिक्यां देवदेवस्य भक्त्या तद्गतमानसः ५९।

अर्चित्वा तं हृषीकेशमेकादश्यां समासतः ।

निष्प्राश्य गोमयं सम्यगेकादश्यामुपावसेत् ६०।

गोमूत्रं मंत्रवद्भूमौ द्वादश्यां प्राशयेद्व्रती ।

क्षीरं चैव त्रयोदश्यां चतुर्दश्यां तथा दधि ६१।

संप्राश्य कायशुद्ध्यर्थं लंघयित्वा चतुर्दिनम् ।

पंचमे दिवसे स्नात्वा विधिवत्पूज्य केशवम् ६२।

भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ।

पापबुद्धिं परित्यज्य ब्रह्मचर्येण धीमता ६३।

मद्यं मांसं परित्यज्य मैथुनं पापकारिणम् ।

शाकाहारेण मुन्यन्नैः कृष्णार्चनपरो नरः ६४।

ततो नक्तं समाश्नीयात्पंचगव्यपुरः सरम् ।

एवं सम्यक्समाप्तस्य यथोक्तं फलमाप्नुयात् ६५।

मद्यपो यत्पिबेन्मद्यं जन्मनो मरणांतिकम् ।

एतद्भीष्मव्रतं कृत्वा प्राप्नोति परमं पदम् ६६।

स्त्रीभिर्ब्राह्मणवाक्येन कर्तव्यं धर्मवर्द्धनम् ।

विधवाभिश्च कर्तव्यं मोक्षसौख्याभिवृद्धये ६७।

सर्वकामसमृद्ध्यर्थं पुण्यार्थमपि पावके ।

नित्यस्नाने तथा दाने ये कार्तिकमुपासते ६८।

वैश्वदेवश्च कर्तव्यो विष्णुध्यानपरायणैः ।

आरोग्य पुत्रदो वत्स महापातकनाशनः ६९।

तीर्थेषु कार्तिकं कुर्यात्सर्वयत्नेन षण्मुख ।

संवत्सरव्रतानां तु समाप्तिः कार्तिके मता ७०।

पापस्य प्रतिमा कार्या रौद्रवस्त्राति भीषणा ।

खड्गहस्ता विनिष्क्रांता लोहदंष्ट्राकरालिनी ७१।

तिलप्रस्थोपरि स्थाप्या कृष्णवस्त्राभिवेष्टिता ।

रक्तपुष्पकृतापीडा ज्वलत्कांचनकुंडला ७२।

संपूज्य परया भक्त्या धर्मराजस्य नामभिः ।

इममुच्चारयेन्मंत्रं गृहीतकुसुमांजलिः ७३।

यदन्यजन्मनि कृतमिह जन्मनि वा पुनः ।

पापं प्रशममायातु तव पादप्रसादतः ७४।

एवं संपूज्य विधिवत्प्रतिमां तां च कांचनीम् ।

कृत्वा पूजां यथाशक्त्या विप्राणां वेदवादिनाम् ७५।

प्रीतये देवदेवस्य कृष्णस्याक्लिष्टकर्मणः ।

ब्राह्मणाय प्रदातव्यं धर्मो मे प्रीयतामिति ७६।

वाचकाय प्रदातव्या यथाशक्त्या च दक्षिणा ।

दद्याद्धिरण्यं गाश्चैव कृष्णो मे प्रीयतामिति ७७।

कृतकृत्य स्थितो भूत्वा विरक्तः संयतो भवेत् ।

अन्येषामपि दातव्यं स्वशक्त्या दानमुत्तमम् ७८।

शांतचित्तो निरपराधः परं पदमवाप्नुयात् ।

नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः ७९।

अष्टपादैकनयनः शंकुकर्णः खरस्वनः ।

जडी द्विजिह्वस्ताम्राक्षो मृगराजतनुच्छदः ८०।

चिंतनीयो महादेवो यस्य रूपं न विद्यते ।

इदं भीष्मेण कथितं शरतल्पगतेन मे ८१।

तदेतत्ते मयाख्यातं दुष्करं भीष्मपंचकं ।

धन्यं पुण्यं पापहरं युधिष्ठिर महाव्रतम् ।

यत्कृत्वा ब्रह्महा गोघ्नः सर्वपापैः प्रमुच्यते ८२।

यद्भीष्मपंचकमिति प्रथितं पृथिव्यामेकादशीप्रभृतिपंचदशी निरुद्धम् ।

उक्तं न भोजनपरस्य तदा निषेधस्तस्मिन्व्रते शुभफलं प्रददाति विष्णुः ८३।

सूत उवाच।

एतत्सर्वाधिकं पुण्यं दुर्लभं भुवने कृतम् ।

इदं गुह्यं मयाख्यातं शास्त्रसारसमुच्चयम् ८४।

सुराणां गोपितं सर्वमतिगुह्यं च मोक्षदम् ।

श्रुत्वा चैकपदे देवि अगम्यागमने रताः ८५।

कन्याविक्री स्वसाविक्री ह्युभयं तु विमोचयेत् ।

मोक्षदं च इदं शास्त्रं प्रकाशं नेतरे जने ८६।

श्रुत्वा चैकपदे यस्तु मोक्षं गच्छति मानवः ।

गोपनीयं प्रयत्नेन ये चापि त्यागिनो नराः ८७।

न तेषां कथ्यते पुण्यं सत्यं सत्यं च षण्मुख ।

इत्येतत्सर्वमाख्यातं कार्तिकस्य तु यत्फलम् ८८।

श्रीविष्णुरुवाच।

कथितं देवदेवेन पुत्राय हितकाम्यया ।

पितुस्तद्वाक्यमाकर्ण्य षण्मुखो हर्षनिर्भरः ८९।

ऊचुः प्रांजलयः सर्वे तं देवं जगदायुषम् ।

कृतकृत्या वयं जाताः श्रुत्वा कार्तिकजं फलम् ९०।

अपरं नास्ति श्रोतव्यं प्राप्तं मे जन्मनः फलम् ।

माहात्म्यमेतदाकर्ण्य पूजयेद्यस्तु पाठकम् ९१।

गोभूहिरण्यवस्त्रैश्च विष्णुतुल्यो यतो हि सः ।

वाचके पूजिते यस्माद्विष्णुर्भवति पूजितः ९२।

तथा तं पूजयेन्नित्यं यदीच्छेत्सफलं शुभम् ।

धर्मशास्त्रं पुराणं च वेदविद्यादिकं च यत् ९३।

पुस्तकं वाचकायैव दातव्यं धर्ममिच्छता ।

पुराणविद्या दातारो ह्यनंतफलभोजिनः ९४।

यः पठेत इदं भक्त्या श्रुत्वा चैवावधारयेत् ।

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ९५।

धनं धान्यं यशः पुत्रानायुरारोग्यमेव च ।

माहात्म्यश्रवणादेव लभ्यते च न संशयः ९६।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्त्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे चतुर्विंशत्यधिकशततमोध्यायः १२४।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 125

ऋषय ऊचुः।

सूतसूत महाभाग त्वया लोकहितैषिणा ।

कथितं कार्तिकाख्यानं भुक्तिमुक्तिप्रदायकम् १।

अधुना माघमाहात्म्यं वद नो लोमहर्षणे ।

श्रुतेन येन लोकानां संशयः क्षीयते महान् २।

पुरा केन महाभाग लोकेऽस्मिन्संप्रकाशितम् ।

माघस्नानस्य माहात्म्यं सेतिहासं तदादिश ३।

सूत उवाच।

साधुसाधु मुनिश्रेष्ठा यूयं कृष्णपरायणः ।

यत्पृच्छथ मुदायुक्ता भक्त्या कृष्णकथा मुहुः ४।

कथयिष्यामि माघस्य माहात्म्यं पुण्यवर्धनम् ।

पापघ्नं शृण्वतां पुंसां स्नातानां चारुणोदये ५।

एकदापार्वती विप्राः शंकरं लोकशंकरम् ।

पप्रच्छ विनयोपेता स्पृष्ट्वा तच्चरणांबुजम् ६।

पार्वत्युवाच।

देवदेव महादेव भक्तानामभयप्रद ।

प्रसीद नाथ विश्वेश यत्पृच्छे तद्वदाधुना ७।

श्रुता नानाविधा धर्मास्त्वत्तः पूर्वं मया विभो ।

अधुना श्रोतुमिच्छामि माहात्म्यं माघजं वद ८।

तत्तु केन पुरा चीर्णं को विधिः का च देवता ।

तत्सर्वं विस्तराद्ब्रूहि यतस्त्वं भक्तवत्सलः ९।

महेश उवाच।

अध्वराऽवभृथस्नात ऋषिभिः कृतमंगलः ।

पूजितो नागरैः सर्वैः स्वपुरान्निर्गतो बहिः १०।

दिलीपो भूभृतां श्रेष्ठो मृगयारसिको नृपः ।

कौतूहलसमाविष्ट आखेटव्यूहसंवृतः ११।

उपानद्रूढपादस्तु नीलोष्णीष उरच्छदी ।

बद्धगोधांगुलित्राणो धनुष्पाणिः सरीसृपः १२।

बद्धक्षुद्रासिधानुष्कैस्तथाभूतैश्च पत्तिभिः ।

गांधारेषु सुरम्येषु वनेषु विपुलेषु च १३।

उल्लंघितमहास्रोता युवा पंचास्यविक्रमः ।

मुदा क्रीडति तैः सार्द्धं कुंजेषु मृगयन्मृगान् १४।

हन्यतां हन्यतामेष मृगो वैष पलायते ।

इति जल्पन्स्वभृत्येषु स्वयमुत्पत्त्य हंति च १५।

इतस्ततः पुनर्याति क्वचित्पश्यन्वनस्थलीम् ।

विटपोड्डीनसंत्रस्त लीन केकिकुलाकुलाम् १६।

हरिणीगणवित्रस्तां धावच्छावकदिङ्मुखाम् ।

क्वचित्फेरवफेत्कारतारारावविभीषणाम् १७।

खड्गयूथैः क्वचिल्लक्ष्मीं दधानामिव दंतिनाम् ।

क्वचित्कोटरसंदष्टोलूकनादविनादिनीम् १८।

मृगारिपदमुद्राभिर्मुद्रितां च क्वचित्क्वचित् ।

शार्दूलनखनिर्भिन्न रोहिद्रक्तारुणां क्वचित् १९।

पीवरस्तनभारार्त सुस्निग्धमहिषीगणैः ।

अवरोधाजिरक्षोणीं सूचयंती मनः क्वचित् २०।

क्वचिद्वृक्षघनच्छन्नां वन्यपुष्पसुगंधिनीम् ।

क्वचिल्लतागृहद्वारां भृंगशब्दसुशोभनाम् २१।

अर्धनिःसृतनिर्मोक नागभीमबृहद्विलाम् ।

बिलेषु लीनाजगरैर्भीमां निर्मोकसर्पिणीम् २२।

क्वचिद्दावानलज्वालां शिलाज्योतिः सुशोभनाम् ।

फूत्कारशब्दसंपूर्णां मृगव्याघ्रसमाकुलाम् २३।

प्रविमुंचञ्छुनां यूथं शशकेषु क्वचित्क्वचित् ।

पल्वलेषु च विश्रम्य पुनर्याति वनान्तरम् २४।

एवं व्रजति राजेन्द्रे व्याधवर्गे च वल्गति ।

कुर्वन्कोलाहलं तत्र सारंगो निर्गतो वनात् २५।

स्फालवेगक्रमाक्रांत दुर्गमार्गमहीतलः ।

कदाचिद्गगनारूढः कदाचिद्भूमिगोचरः २६।

वक्रस्रोतोऽतिगंभीरं कण्टकद्रुमसंकुलम् ।

प्रविष्टो विषमारण्यं राजाऽसौ तत्पदानुगः २७।

दूराद्दूरतरं गत्वा देशाद्देशं च निर्जनम् ।

मृगादर्शनसंरम्भ संशुष्कगलकन्धरः २८।

ताम्रतालुमुखः स्विन्नः श्रांतपत्तिः स्खलद्ध्वनिः ।

अतीत्य दीर्घमार्गान्स तृषार्तो मध्यगे रवौ २९।

ददर्शाग्रे तु कासारं स्पर्धयंतमपांपतिम् ।

घनपादपतीरस्थं सुतीर्थं विमलं शुभम् ३०।

विशालं विकचांभोजं मधुमत्तमधुव्रतम् ।

पद्मिनीपत्रपालाशच्छन्नं मरकतैरिव ३१।

स्वच्छंदमुच्छलन्मत्स्यं स्वच्छं साधुमनो यथा ।

चलज्जलचरैर्मिश्रं वीचिराजिविराजितम् ३२।

अंतर्ग्राहगणक्रूरं खलानामिव मानसम् ।

क्वचिच्छैवालदुर्गम्यं कृपणस्यैव मंदिरम् ।

नानाविहङ्गसर्वार्तिं शमयंतं दिवानिशम् ३३।

दातारमिव सर्वस्वैरापन्नार्तिप्रणाशनम् ।

तर्पयंतं निजांभोभिः श्वापदान्स्वपितॄनिव ३४।

हरंतं सर्वसंतापं हिमांशुरिव चाह्निकम् ।

तं दृष्ट्वाभूद्गतग्लानिश्चातको जलदं यथा ३५।

तत्र पीतजलो राजा कृतमाध्याह्निकक्रियः ।

भुक्त्वा खेटकमांसानि सहायैः सहितो नृपः ३६।

उवास सरसस्तीरे सुरम्यां कथयन्कथाम् ।

ततः शरासने बाणं कृत्वा रात्रौ स्थितस्तरौ ३७।

व्याधाः संधानमास्थाय रुरुधुः ककुभां पथः ।

एवं स्थितेषु वीरेषु वने विस्तार्य वागुराम् ३८।

निशार्धे निर्गतं यूथं सूकराणां तटे तटे ।

चरित्वा सरसीकंदान्पपात व्याधसंकुले ३९।

राज्ञा विद्धाश्च ते क्रोडा व्याधैश्च बहवो हताः ।

क्षणेनैव वराहास्ते विद्धाः पेतुर्महीतले ४०।

तान्दृष्ट्वा तुमुलं नादं व्याधाश्चक्रुः सुदर्पिताः ।

धावंतः प्रमुदायुक्ता मिलिता यत्र भूपतिः ४१।

तानादाय भटैर्भूयो निःसृतः सरसीतटात् ।

स्वपुरं गंतुकामोऽसौ दृष्टवान्पथि तापसम् ४२।

ब्राह्मणं वृद्धहारीतं शंखचक्रसुशोभितम् ।

नियमैर्दुष्करैरुग्रैः परिक्षीणकलेवरम् ४३।

अस्थिशेषं महद्दांतं विस्फुरत्कर्कशत्वचम् ।

दधानं हारिणं चर्म वसानं मृदुवल्कलम् ४४।

कुर्वाणं नैगमं जाप्यं नखलोमजटाधरम् ।

तं वनाश्रमिणं दृष्ट्वा मार्गं दत्त्वा ससंभ्रमः ४५।

प्रणम्य शिरसा राजा कृतपद्मांजलिस्थितः ।

अथ चैनमलंकारैर्द्विजो निश्चित्य भूमिपम् ४६।

उवाच श्रेयसे हेतोः परोपकृतिवांच्छया ।

किमर्थं गम्यते राजन्काले पुण्यतमे शुभे ४७।

माघमासे विहायैव प्रातःस्नानं सरोवरे ।

प्रत्युवाच ततो राजा नाहं जाने द्विजोत्तम ४८।

माघस्नानफलं कीदृक्तन्मे कथय विस्तरात् ।

इति भूपवचः श्रुत्वा प्राह वैखानसो मुनिः ४९।

भगवान्द्युमणिः शीघ्रमभ्युदेति तमोपहा ।

स्नानकालोऽयमस्माकं न कथाऽवसरो नृप 6.125.५०।

स्नात्वा गच्छ वसिष्ठं तं पृच्छस्व स्वकुलप्रभुम् ।

इत्युक्त्वा तापसो मौनी प्रातःस्नानाय निर्गतः ५१।

प्रत्यावृत्य दिलीपोऽपि तत्र स्नात्वा यथाविधि ।

पुनः स्वनगरीं वीरो गतोऽसौ हर्षपूरितः ५२।

अन्तःपुरे निवेद्याथ वानप्रस्थकथां पुनः ।

श्वेताश्वरथमारुह्य सुश्वेतच्छत्रचामरः ५३।

सालंकारः सुवासाश्च संवृत्तो मंत्रिभिः सह ।

जयशब्दान्पुनः शृण्वन्स्तुतो मागधबंदिभिः ५४।

वसिष्ठस्याश्रमं यात ऋषिवाक्यमनुस्मरन् ।

तत्रैव नत्वा ब्रह्मर्षिं विनयाचारपूर्वकम् ५५।

दत्तासनो गृहीतार्घ्य आशीर्भिः समलंकृतः ।

सानंदं मुनिना पृष्टः कुशलं भूपतिर्यदा ५६।

तदाब्रवीद्वचो राजा हर्षयन्मुनिमानसम् ।

सोऽपि वैखानसेनोक्तं पप्रच्छ मधुराकृतिः ५७।

दिलीप उवाच।

भगवंस्त्वत्प्रसादेन श्रुता विस्तरतो मया ।

आचारो दंडनीतिश्च राजधर्माश्च ये परे ५८।

चतुर्णामपि वर्णानामाश्रमाणां च याः क्रियाः ।

दानानि तद्विधानानि यज्ञाश्च विधयस्तथा ५९।

व्रतानि तत्प्रदिष्टानि विष्णोराराधनं तथा ।

अधुना श्रोतुमिच्छामि माघस्नाने च यत्फलम् ।

विधेयं यद्विधानेन तन्मे ब्रह्मन्मुने वद ६०।

वसिष्ठ उवाच।

सम्यगुक्तं परं श्रेयो लोकत्रयहितावहम् ।

निर्मलीकरणं तेन मुनिना वनवासिना ६१।

कटाक्षैः कामिनीनां ते प्रत्यासन्नमखंडिताः ।

कामयंते मृगार्के ते स्रोतसि स्नातुमेव च ६२।

विना वह्निं विना यज्ञमिष्टापूर्तं विना प्रिये ।

वांच्छंति सद्गतिं स्नातुं प्रातर्माघे बहिर्जले ६३।

गोभूहिरण्यमाणिक्य स्वर्ण धेन्वादिकानि ये ।

अदत्त्वेच्छंति चैकार्णे माघं स्नाता नराधिप ६४।

त्रिःसप्ताहव्रतैः कृच्छ्रैः पराकैश्च निजां तनुम् ।

अशोष्येच्छंति ये स्वर्गं तपसि स्नांतु ते सदा ६५।

हरेः पूजा च वैशाखे तपः पूजा च कार्तिके ।

तपोहोमस्तथा दानं त्रयं माघे विशिष्यते ६६।

सानुबंधोऽतिपर्यासो धराधीशो भवेद्ध्रुवम् ।

कैवल्योत्पादका बुद्धि यया वा न भवेत्पुनः ६७।

पदध्र्या वरिवस्या सा विहिता दिव्यलोचनैः ।

तदनन्नं तपो दानं माघेमासि नृपोत्तम ६८।

सकामो वा प्रजा ये वा हरये तद्विनापि वा ।

कायशुद्धिव्रती भूत्वा चतुर्द्धास्नानजं फलम् ६९।

निरन्ना अदितिः सस्नौ माघे द्वादशवत्सरे ।

पुत्रांश्च द्वादशादित्यान्लभे त्रैलोक्यदीपकान् ७०।

सुभगा रोहिणी माघा दानशीलात्वरुंधती ।

शची च रूपसंपन्ना प्रासादे सप्तभूमिके ७१।

विमलीकृतशोभाढ्यो नर्तकी ललिताजिरे ।

द्वीपवर्णसमुच्छिन्ने रूपवत्स्त्रीजनाकुले ७२।

गीतवादित्रनिर्घोषे मंगलाचारशोभिते ।

वेदध्वनिपवित्रे च विद्वद्विप्रैरलंकृते ७३।

सुरार्चनरते रम्ये सदातिथिनिषेविते ।

मुदितांस्ते वसंतीह यैः स्नानं मकरे रवौ ७४।

यैर्दत्तं बहु माघे च मुरारिश्चार्चितः स्तुतः ।

इष्टवस्तुपरित्यागान्नियमस्य तु पालनात् ७५।

धर्मसूतिः सदा माघः पापमूलं निकृंतति ।

काममूलः फलद्वारा निष्कामो ज्ञानदः सदा ७६।

ये लोका ज्ञानशीलानां ये लोका विपिनौकसाम् ।

ये लोका विष्णुभक्तानां ते माघस्नायिनां सदा ७७।

देवलोकान्निवर्तंते पुण्यैरन्यैः परंतप ।

कदाचिन्न निवर्तंते माघस्नानरता नराः ७८।

माघे स्नात्वा तु यो धेनुं दद्यान्मर्त्यः पयस्विनीम् ।

तस्या यावंति रोमाणि सर्वांगे च नृपोत्तम ७९।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।

माघस्नानं प्रकुर्वाणो यो दद्यात्सगुडांस्तिलान् ८०।

पातकं तस्य प्रक्षाल्य निर्मलो भाति वै नरः ।

सर्वेषां धान्यराशीनां तिलाः पापप्रणाशनाः ८१।

तस्मान्माघे प्रयत्नेन तिला देया नृपोत्तम ।

माघस्नानं प्रकुर्वाणो दद्याद्ब्राह्मणभोजनम् ८२।

पितॄन्संतर्प्य शुद्धात्मा याति विष्णोः परंपदम् ।

तस्मात्सर्वप्रयत्नेन माघो दानेन नीयते ८३।

अदानं न क्षिपेन्माघं सर्वदा नृपसत्तम ।

वित्तानुसारं ज्ञात्वा वै माघे दानं सदा ददेत् ८४।

माघस्नानं तु यः कुर्यादुपानहकमंडलून् ।

ददाति ब्राह्मणेभ्यश्च स स्वर्गे तिष्ठति ध्रुवम् ८५।

माघस्नानमयं राजन्कुर्वाणस्तप उत्तमम् ।

दानं विना क्षिपेन्नैव दानात्स्वर्गमवाप्यते ८६।

दानेन प्राप्यते स्वर्गो दानेन प्राप्यते सुखम् ।

दानेन हीयते पापं महापातकजं नृप ८७।

अदानं न तपो भाति ह्यसूर्यं गगनं यथा ।

असंततिकुलं यद्वादाचारेण विना गृहम् ८८।

नातः परतरं किंचित्पवित्रं पापनाशनम् ।

विद्याधराय संगीतं भृगुणा मणिपर्वते ८९।

राजोवाच।

ब्रह्मन्कदा भृगुर्विप्रो निजगाद महीधरे ।

तस्मै धर्मोपदेशं च कथ्यतां मे कुतूहलात् ९०।

वसिष्ठ उवाच।

द्वादशाब्दं पुरा राजन्न ववर्ष बलाहकः ।

तेनोद्विग्नाः प्रजाः क्षीणा गताः सर्वा दिशो दश ९१।

खिलीभूते तदा मध्ये हिमवद्विंध्ययोर्नृप ।

स्वाहास्वधावषट्कारवेदाध्ययनवर्जिते ९२।

सोपप्लवे तदा लोके लुप्तधर्मे च निष्प्रभे ।

फलमूलान्नपानीय शून्ये वै भूमिमंडले ९३।

विंध्यपादतरुच्छन्न रम्यरेवातटाश्रमात् ।

सहशिष्यैश्च निर्गम्य हिमाद्रिं स गतो भृगुः ९४।

तत्र तिष्ठति कैलासगिरेः पश्चिमतो गिरिः ।

मणिकूट इति ख्यातो हेमरत्नशिलोच्चयः ९५।

अधोऽधस्फटिकश्वेतो मध्ये नीलशिलो गिरिः ।

भूतिभिः सर्वतः शुक्लो नीलकंठ इवाबभौ ९६।

सर्वत्रासौ नीलशिलो हेमरेखांतरांतरः ।

स्फुरद्विद्युल्लतः कृष्णो जीमूतइव राजते ९७।

मूर्ध्नि नीलशिलः शैल अधः कांचनमेखलः ।

नारायण इवाभाति परिवीत इवांबरः ९८।

अमेखला सुनीलाभो मध्ये मध्ये सितोपलः ।

सतारकमिव व्योम शुशुभे स महीधरः ९९।

लब्ध्वात्मनस्तनुं शुभ्रां दीप्तदिव्यौषधीधरः ।

बहुद्योतकरो भाति द्वितीय इव चंद्रमाः 6.125.१००।

अधित्यकासु संगीतैः किन्नरीणां सकीचकैः ।

रंभापत्रपताकाभिः शोभते स सदाऽचलः १०१।

हरितोपलवैदूर्य पद्मरागशिताश्मनाम् ।

रुग्रश्मिमंडलैः सोऽग इंद्रचापैरिवावृतः १०२।

सर्वधातुमयैर्हेमैर्नानारत्नैः प्रशोभितः ।

सोऽग्निज्वालैरिवात्युच्चैः शृंगैः सर्वत्र वेष्टितः १०३।

तस्यागत्य नितंबेषु सतृणा सुशिलासु च ।

विद्याधर्यः प्रदेवंते स्वपतीन्कामविक्लवाः १०४।

निरुद्धांतर्मरुन्मार्गा जितक्लेशा विरागिणः ।

ध्यायंत्यहर्निशं ब्रह्म रम्यसानुगुहासु च १०५।

साक्षसूत्रकराः सिद्धा अर्धोन्मीलितलोचनाः ।

आराधयंति भूतेशं सुंदरीषु दरीषु च १०६।

मंदारकुसुमामोद सुरभीकृतदिङ्मुखः ।

एष निर्झरिणी वारि झंकारमुखरः सदा १०७।

उपत्यकासु खेलद्भिर्वनस्थैः कलभैर्गजैः ।

कस्तूरीमृगयूथैश्च चारुचित्रमृगैस्तथा १०८।

विलसच्चामरीवृंदैर्विचित्रैः श्वापदैस्तथा ।

नदत्पारावतैश्चैव चकोरैश्चापि कोकिलैः १०९।

राजहंसमयूरैश्च सदा रम्यः स पर्वतः ।

सेव्यमानः सदा देवैर्गुह्यकैरप्सरोगणैः ११०।

राजोवाच।

बह्वाश्चर्यमयः शैलः सर्वसिद्धिसमाश्रयः ।

भगवन्कियदुच्छ्रायः कियदायामविस्तरः १११।

ऋषिरुवाच।

षट्त्रिंशद्योजनोच्छ्रायो मस्तके दशयोजनः ।

आयामविस्तराभ्यां स मूले षोडशयोजनः ११२।

हरिचंदनमंदारचूतराजिविराजितः ।

देवदारुद्रुमाकीर्णः सरलार्जुनशोभितः ११३।

कालागरुलवंगैश्च निकुंजैश्च लतागृहैः ।

विराजते गिरिश्रेष्ठः सदा पुष्पफलप्रदः ११४।

तं दृष्ट्वा पर्वतं रम्यं तदा दुर्भिक्षपीडितः ।

भृगुश्चकार तत्रैव वसतिं हृष्टमानसः ११५।

तस्मिन्मनोहरे शैले कंदरेषु वनेषु च।

चिरकालं तपस्तेपे तपःसु निरतो भृगुः ।

एवं तिष्ठति राजेंद्र द्विजे स्वाश्रमवासिनि ११६।

अवतीर्यागतौ शैलाद्द्वौ विद्याधरदंपती ।

समागम्य मुनिं नत्वा स्थितौ तावतिदुःखितौ ११७।

तथाविधौ च तौ दृष्ट्वा मंजुवाक्यं द्विजोऽब्रवीत् ।

वद विद्याधर प्रीत्या युवां किमतिदुःखितौ ११८।

श्रुत्वा तस्य मुनेर्वाक्यं प्राह विद्याधरो द्विजम् ।

श्रूयतां तापसश्रेष्ठ मम दुःखस्य कारणम् ११९।

सुकृतस्य फलं प्राप्य प्राप्तोऽस्मि त्रिदशालयम् ।

लब्ध्वाऽपि देवतादेहं मुखं व्याघ्रस्य मेऽभवत् १२०।

न जाने कर्मणः कस्य विपाकोऽयमुपस्थितः ।

इति संस्मृत्य संस्मृत्य न लेभे शर्म मे मनः १२१।

अन्यच्च श्रूयतां विप्र येन मे ह्याकुलं मनः ।

जायेयं मम कल्याणी मधुवाणी सुरूपिणी १२२।

नृत्यगीतकलाभिज्ञा सर्वसद्गुणशालिनी ।

यस्मिन्काले कुमारीयं तदा चाऽमलयानया १२३।

विपंचीं परिवादिन्या तंत्रीभिः सप्तभिर्भृशम् ।

वीणावादरसाभिज्ञस्तोषितो नारदो मुनिः १२४।

मुग्धभावेपि गायंत्या त्वनया रक्तकंठया ।

विचित्रस्वरनादज्ञो देवराजोऽपि तोषितः १२५।

अस्याः कौतुकभिन्नांग्या वादयंत्या विपंचिकाम् ।

नानावक्रगतिस्निग्धं श्रुत्वा तं पंचमध्वनिम् १२६।

तुतोषोद्भिन्नरोमांचो धुन्वन्मौलि महेश्वरः ।

शीलौदार्यगुणग्रामरूपयौवनसंपदा १२७।

नानया सदृशी नाके काचिदस्ति नितंबिनी ।

क्वेयं देवमुखी रामा क्वाहं व्याघ्रमुखः पुमान् १२८।

इति ब्रह्मन्सदाचिंत्य दह्यामि हृदि सर्वदा ।

इति विद्याधरप्रोक्तं श्रुत्वा चेक्ष्वाकुनंदनः १२९।

त्रिकालज्ञो भृगुः प्राह प्रहसन्दिव्यलोचनः ।

शृणु विद्याधरश्रेष्ठ विचित्रं कर्मणां फलम् १३०।

प्राप्य प्राज्ञा न मुह्यंति मुह्यंत्यज्ञानचेतसः ।

मक्षिकापदमात्रं तु यथा हि विषमं विषम् १३१।

क्रियात्वविहिताल्पापि विपाके दारुणा तथा ।

उपोष्यैकादशीं माघे तैलाभ्यंगः कृतस्त्वया १३२।

द्वादश्यां प्राग्भवे देहे तेन व्याघ्रमुखोभवान् ।

उपोष्यैकादशीं पुण्यां द्वादश्यां तैलसेवनात् १३३।

कुरूपं प्राप्तवान्देहं पुराह्येवं पुरूरवाः ।

दृष्ट्वात्मनः कुकायं स तेन दुःखेन दुःखितः १३४।

गिरिराजं समागम्य देवतासरसस्तटे ।

स्थित्वा च परमप्रीत्या शुचिः स्नातः कुशासने १३५।

नवनीलघनश्यामं नलिनायतलोचनम् ।

शंखचक्रगदापद्मधरं पीतांबरावृतम् १३६।

कौस्तुभेन विराजंतं वनमालाधरं हरिम् ।

चिंतयन्हृदये राजा निग्रहीताखिलेंद्रियः १३७।

मासत्रयं निराहारस्तपस्तेपे सुदारुणम् ।

अल्पेन तपसा तुष्टः सप्तजन्मकृतार्चनः १३८।

संस्मरंस्तस्य भूपस्य तदा प्रादुरभूत्स्वयम् ।

माघस्य शुक्लपक्षे तु द्वादश्यां मकरे रवौ १३९।

शंखाद्भिरभिषिच्याशु मुदा तं चक्रवर्तिनम् ।

वासुदेवो ददौ तस्मै स्मारयंस्तैलचेष्टितम् १४०।

अतीव सुंदरं रूपं कमनीयं मनोहरम् ।

येन तं चकमे देवी उर्वशी देवनायिका १४१।

इत्थं लब्धवरो राजा कृतकृत्यः पुरं गतः ।

इति कर्मगतिं ज्ञात्वा किं विद्याधर खिद्यते १४२।

भवान्परिजिहीर्षुश्चेद्दानवस्य विरूपताम् ।

शीघ्रं मद्वचनादेव प्राचीनाघविनाशनम् १४३।

माघमासे कुरु स्नानं मणिकूटनदीजले ।

मुनिसिद्धसुरैर्जुष्टे कथयिष्यामि तद्विधिम् १४४।

तवभाग्यवशान्माघो निकटः पंचमेऽहनि ।

पौषस्यैकादशीं शुक्लामारभ्य स्थंडिलेशयः १४५।

मासमेकं निराहारस्त्रिकालं स्नानमाचर ।

त्रिकालमर्चयन्विष्णुं त्यक्तभोगो जितेंद्रियः १४६।

माघस्यैकादशीशुक्ला यावद्विद्याधरोत्तम ।

ततो निर्दग्धपापं त्वां द्वादश्यां पुण्यवासरे १४७।

अभिषिच्य शिवैस्तोयैर्मंत्रपूतैरहं सुर ।

कामवक्त्रोपमं वक्त्रं करिष्यामि तवानघ १४८।

देवतावदनोभूत्वा त्वं विद्याधरसत्तम ।

अनया वरवर्णिन्या सार्द्धं क्रीड यथासुखम् १४९।

ज्ञातमाघप्रभावस्त्वं माघस्नानं सदा कुरु ।

यथामनोरथावाप्तिर्जायते तव सर्वदा 6.125.१५०।

इत्युक्तं भृगुणा तस्मै सर्वज्ञेन महात्मना ।

विद्याधराय राजेंद्र पुनर्गाथा उदाहृता १५१।

माघस्नानैर्विपन्नाश माघस्नानैरघक्षयः ।

सर्वयज्ञाधिको माघः सर्वदानफलप्रदः १५२।

माघो गर्जति यज्ञेभ्यो माघो योगाच्च गर्जति ।

तीव्राच्च तपसो माघो भो विद्याधर गर्जति १५३।

पुष्करे च कुरुक्षेत्रे ब्रह्मावर्ते पृथूदके ।

अविमुक्ते प्रयागे च गंगासागरसंगमे १५४।

यत्फलं दशभिर्वर्षैः प्राप्यते नियमैर्नरैः ।

तत्फलं प्राप्यते माघे त्र्यहस्नानान्न संशयः १५५।

स्वर्गलोके चिरं रागो येषां मनसि वर्तते ।

यत्र क्वापि जले तैस्तु स्नातव्यं मकरे रवौ १५६।

आयुरारोग्यसंपत्तिरूपसौभाग्यता गुणाः ।

येषां मनोरथस्तैस्तु न त्याज्यं माघमज्जनम् १५७।

ये च बिभ्यंति नरकाद्ये दरिद्राच्च संचितात् ।

सर्वथा तैः प्रयत्नेन माघे कार्यं निमज्जनम् १५८।

दारिद्र्य पापदौर्भाग्य पंकप्रक्षालनाय च ।

माघस्नानान्न चान्योऽस्ति उपायो राजसत्तम १५९।

श्रद्धाहीनानि कर्माणि तथात्यल्पफलानि वै ।

फलं ददाति संपूर्णं माघस्नानं यथा तथा १६०।

अकामो वा सकामो वा यत्र क्वापि बहिर्जले ।

इहामुत्र च दुःखानि माघस्नायी न विंदति १६१।

पक्षद्वये यथा चंद्रो वर्द्धते क्षीयते तथा ।

पातकं क्षीयते माघे पुण्यराशिश्च वर्धते १६२।

यथा च खन्या जायंते रत्नानि विविधानि च ।

स्नानात्पुण्यानि जायंते नराणां माघतस्तथा १६३।

कामधेनुर्यथा कामं चिंतामणिस्तु चिंतितम् ।

माघस्नानं ददातीह तद्वत्सर्वान्मनोरथान् १६४।

कृते तपः परं ज्ञानं त्रेतायां यजनं तथा ।

द्वापरे तु कलौ ज्ञानं माघः सर्वयुगेषु च १६५।

सर्वेषामेव वर्णानामाश्रमाणां च भूपते ।

माघस्नानं तु धर्मस्य धाराभिरभिवर्षति १६६।

वसिष्ठ उवाच।

इति वाक्यं भृगोः श्रुत्वा तस्मिन्नेवाश्रमे सुरः ।

सहैव भृगुणा माघे गिरौ निर्झरिणी तटे १६७।

यथोक्तविधिना स्नानमकरोद्भार्यया सह ।

भृगोरनुग्रहात्सोऽथ संप्राप्य मनसेप्सितम् १६८।

देवतावदनो भूत्वा मुमुदे मणिपर्वते ।

आजगाम भृगुर्विध्यं तमनुग्राह्य हर्षितः १६९।

मणिमयगिरिराजे स्नानमात्रेण माघे मदनवदनरूपस्तत्र विद्याधरोऽभूत् ।

क्षपितनियमदेहो विंध्यपादावतीर्णो भृगुरपि सहशिष्यैराजगामाथ रेवाम् १७०।

अखिलभुवनसारं माघमाहात्म्यमेतद्द्विजवरभृगुणोक्तं भूपविद्याधराय ।

विविधफलविचित्रं यः शृणोतीह नित्यं रुचिरसकलकामान्देववत्प्राप्नुयात्सः १७१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे माघमाहात्म्ये वसिष्ठदिलीपसंवादे पंचविंशत्यधिकशततमोऽध्यायः १२५।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 126

वसिष्ठ उवाच।

अधुना माघमाहात्म्यं प्रवक्ष्यामि नृपोत्तम ।

पृच्छते कार्तवीर्याय दत्तात्रेयेण भाषितम् १।

दत्तात्रेयं हरिं साक्षाद्वसंतं सह्य पर्वते ।

पप्रच्छ तं द्विजं गत्वा राजा माहिष्मतीपतिः २।

सहस्रार्जुन उवाच।

भगवन्योगिनां श्रेष्ठ सर्वे धर्माः श्रुता मया ।

माघस्नानफलं ब्रूहि कृपया मम सुव्रत ३।

दत्तात्रेय उवाच।

श्रूयतां नृपशार्दूल एतत्प्रश्नोत्तरं शुभम् ।

ब्रह्मणोक्तं पुरा ह्येतन्नारदाय महात्मने ४।

तत्सर्वं कथयिष्यामि माघस्नानफलं महत् ।

यथादेशं यथातीर्थं यथाविधि यथाक्रियम् ५।

अस्मिन्वै भारते वर्षे कर्मभूमौ विशेषतः ।

अमाघस्नायिनां नॄणां निष्फलं जन्मकीर्तितम् ६।

असूर्यं गगनं यद्वदचन्द्रमुडुमंडलम् ।

तद्वन्नाभाति सत्कर्म माघस्नानं विना नृप ७।

व्रतैर्दानैस्तपोभिश्च न तथा प्रीयते हरिः ।

माघमज्जनमात्रेण यथा प्रीणाति केशवः ८।

न समं विद्यते किंचित्तेजः सौरेण तेजसा ।

तद्वत्स्नानेन माघस्य न समाः क्रतुजाः क्रियाः ९।

प्रीतये वासुदेवस्य सर्वपापापनुत्तये ।

माघस्नानं प्रकुर्वीत स्वर्गलाभाय मानवः १०।

किं रक्षितेन देहेन सुपुष्टेन बलीयसा ।

अध्रुवेणाप्यशुचिना माघस्नानं विना भवेत् ११।

अस्थिस्तंभं स्नायुबद्धं मांसक्षतज लेपनम् ।

चर्मावनद्धं दुर्गंधं पात्रं मूत्रपुरीषयोः १२।

जराशोकविपद्व्याप्तं रोगमंदिरमातुरम् ।

रजस्वलमनित्यं च सर्वदोषसमाश्रयम् १३।

परोपतापितापार्तं परद्रोहि परं विषम् ।

लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणिकं तथा १४।

दुष्पूरं दुर्धरं दुष्टं दोषत्रयसमन्वितम् ।

अशुचिस्रावि सच्छिद्रं तापत्रयविमोहितम् १५।

निसर्गतोऽधर्मरतं तृष्णाशत समाकुलम् ।

कामक्रोध महालोभ नरकद्वार संस्थितम् १६।

क्रिमिविड्भस्मभवति परिणामे शुनां हविः ।

ईदृक्शरीरं व्यर्थं हि माघस्नानविवर्जितम् १७।

बुद्बुदाइव तोयेषु पूतिका इव जंतुषु ।

जायंते मरणायैव माघस्नानविवर्जिताः १८।

अवैष्णवो हतो विप्रो हतं श्राद्धमयोगि च ।

अब्रह्मण्यं हतं क्षेत्रमनाचारं हतं कुलम् १९।

सदंभश्च हतो धर्मः क्रोधेनैव हतं तपः ।

अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् २०।

गुर्वभक्ता हता नारी ब्रह्मचारी तया हतः ।

अदीप्तेऽग्नौ हतो होमो हता भुंक्तिरसाक्षिका २१।

उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता ।

शूद्रभिक्षो हतो यागः कृपणस्य हतं धनम् २२।

अनभ्यासा हता विद्या हतो राजा विरोधकृत् ।

जीवनार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् २३।

असत्या च हता वाणी तथा पैशुन्यवादिनी ।

संदिग्धश्च हतो मंत्रो व्यग्रचित्तो हतो जपः २४।

हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः ।

अश्रद्धया हतं सर्वं कृतं यत्पारलौकिकम् २५।

इहलोको हतो नॄणां दरिद्राणां यथा नृप ।

मनुष्याणां तथा जन्म माघस्नानं विना हतम् २६।

मकरस्थे रवौ यो हि न स्नात्यनुदिते रवौ ।

कथं पापैः प्रमुच्येत कथं स त्रिदिवं व्रजेत् २७।

ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ।

माघस्नायी विपापः स्यात्तत्संसर्गी च पंचमः २८।

माघमासे रटंत्यापः किंचिदभ्युदिते रवौ ।

ब्रह्मघ्नं वा सुरापं वा कंपंतं तं पुनीमहे २९।

उपपापानि सर्वाणि पातकानि महांत्यपि ।

भस्मीभवंति सर्वाणि माघस्नानोद्यतं नरम् ३०।

कंपंति सर्वपापानि माघस्नानसमागमे ।

नाशकालोऽयमस्माकं यदि स्नास्यति वारिणि ३१।

एवं क्रोशंति पापानि दृष्ट्वा स्नानोद्यतं नरम् ।

पावका इव दीप्यंते माघस्नानैर्नरोत्तमाः ३२।

विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चंद्रमाः ।

आर्द्रशुष्कं लघुस्थूलं वाङ्मनः कर्मभिः कृतम् ३३।

माघस्नानं दहेत्पापं पावकः समिधो यथा ।

प्रामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यत् ३४।

स्नानमात्रेण तन्नश्येन्मकरस्थे दिवाकरे ।

निष्पापास्त्रिदिवं यांति पापिष्ठा यांति शुद्धताम् ३५।

संदेहो नात्र कर्तव्यो माघस्नाने नराधिप ।

सर्वेऽधिकारिणो माघे विष्णुभक्तौ यथा नृप ३६।

सर्वेषां स्वर्गदो माघः सर्वेषां पापनाशनः ।

एष एव परो मंत्रो ह्येतदेव परं तपः ३७।

प्रायश्चित्तं परं चैतन्माघस्नानमनुत्तमम् ।

नृणां जन्मांतराभ्यासान्माघस्नाने मतिर्भवेत् ३८।

अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप ।

संसारकर्दमालेप प्रक्षालन विशारदम् ३९।

पावनं पावनानां च माघस्नानपरं नृप ।

स्नांति माघे न ये राजन्सर्वकामफलप्रदे ४०।

कथं ते भुंजते भोगांश्चंद्रसूर्यग्रहोपमान् ।

शृणु राजन्महाश्चर्यं माघस्नानप्रभावजम् ४१।

कुब्जिका नाम कल्याणी ब्राह्मणी भृगुवंशजा ।

बालवैधव्यदुःखार्ता तपस्तेपे सुदुस्तरम् ४२।

विंध्यपादे महाक्षेत्रे रेवाकपिलसंगमे ।

तत्र सा व्रतिनी भूत्वा नारायणपरायणा ४३।

सदाचारवती नित्यं नित्यं संगविवर्जिता ।

जितेंद्रिया जितक्रोधा सत्यवागल्पभाषिणी ४४।

सुशीला दानशीला च देहशोषणशालिनी ।

पितृदेवद्विजेभ्यश्च दत्वा हुत्त्वा तथानले ४५।

षष्ठे काले च सा भुङ्क्ते ह्युंच्छवृत्तिः सदा नृप ।

कृच्छ्रातिकृच्छ्र पाराक तप्तकृच्छ्रादिभिर्व्रतैः ४६।

पुण्यान्नयति सा मासान्नर्मदायाश्च रोधसि ।

एवं तया तपस्विन्या वल्कलिन्या सुशीलया ४७।

सुमहासत्त्वशालिन्या धृति संतोषयुक्तया ।

षष्टिर्माघास्तया स्नाता रेवाकपिलसंगमे ४८।

ततः सा तपसा क्षीणा तस्मिंस्तीर्थे मृता नृप ।

माघस्नानजपुण्येन तेन सा वैष्णवे पुरे ४९।

उवास प्रमुदा युक्ता चतुर्युगसहस्रकम् ।

सुंदोपसुंदनाशाय पश्चात्पद्मभवात्पुनः 6.126.५०।

तिलोत्तमेति नाम्ना सा ब्रह्मलोकेऽवतारिता ।

तेन पुण्यस्यशेषेण रूपस्यैकायनं ययौ ५१।

अयोनिजाबलारत्नं देवानामपि मोहिनी ।

लावण्यहृदनी तन्वी साभूदप्सरसां वरा ५२।

निपुणस्य विधेः स्रष्टुर्नूनमाश्चर्यकारिणी ।

तामुत्पाद्य विधाता वै तुष्टोऽनुज्ञां तदा ददौ ५३।

एणशावाक्षि गच्छ त्वं दैत्यनाशाय सत्वरम् ।

ततः सा ब्रह्मणो लोकाद्वीणामादाय भामिनी ५४।

गता पुष्करमार्गेण यत्र तौ देववैरिणौ ।

तत्र स्नात्वा तु रेवायाः पवित्रे निर्मले जले ५५।

परिधायांबरं रक्तं बंधूककुसुमप्रभम् ।

रणद्वलयिनीचारु सिंजन्मेखलनूपुरा ५६।

लोलमुक्तावलीकंठी चलत्कुंडलशोभना ।

माधवी कुसुमापीडा कंकेली विटपे स्थिता ५७।

गायंती सुस्वरं सापि पीडयंती तु वल्लकीम् ।

मूर्च्छयंती स्वरषट्कं सुस्निग्धं कोमलं कलम् ५८।

इत्थं तिलोत्तमा बाला तिष्ठंत्यशोककानने ।

दृष्ट्वा दैत्यभटैरिंदोः कलेव सुखदा हृदि ५९पु।

तां दृष्ट्वा विस्मितै राजन्सानंदैः सैनिकैर्भृशम् ।

त्वरमाणैरदृष्ट्वैव गत्वा सुंदोपसुंदयोः ६०।

कथिता संभ्रमेणैव वर्णयित्वा पुनः पुनः ।

हे दैत्यौ न विजानीमो देवी वा दानवी नु किम् ६१।

नागांगनाथ वा यक्षी स्त्रीरत्नं सर्वथा तु सा ।

युवां रत्नभुजौ लोके रत्नभूता हि साबला ६२।

वर्तते नाति दूरेऽग्रे अशोके शोकहारिणी ।

गत्वा तां पश्यतं शीघ्रं मन्मथस्यापि मोहिनीम् ६३।

इति सेनापतीनां तौ श्रुत्वा वाचं मनोहराम् ।

चषकं सीधुनस्त्यक्त्वा विहाय जलसेचनम् ६४।

उत्तमस्त्रीसहस्राणि त्यक्त्वा तस्माज्जलाशयात् ।

शतभारायसीं क्रूरां कालदंडोपमां गदाम् ६५।

भिन्नाभिन्नां गृहीत्वा तु जवेनाभिप्लुतं गतौ ।

यत्र शृंगारसज्जा सा हंतुं चंडीव संस्थिता ६६।

राजन्संधुक्षयंतीव दैत्ययोर्मन्मथानलम् ।

स्थित्वा तस्याः पुरो जाल्मौ तद्रूपेणविमोहितौ ६७।

विशेषान्मधुनामत्तावूचतुस्तौपरस्परम् ।

भ्रातर्विरम भार्येयं ममास्तु वरवर्णिनी ६८।

त्वमेवार्य त्यजैतां मे भार्यां तु मदिरेक्षणाम् ।

इत्याग्रहेण संरब्धौ मातंगाविव सोन्मदौ ६९।

अन्योन्यं कालनिर्दिष्टौ गदया जघ्नतुस्तदा ।

परस्परप्रहारेण गतासू पतितौ भुवि ७०।

तौ मृतौ सैनिकैर्दृष्ट्वा कृतः कोलाहलो महान् ।

कालरात्रिसमा केयं हा किमेतदुपस्थितम् ७१।

एवं वदत्सु सैन्येषु दैत्यौ सुंदोपसुंदकौ ।

पातयित्वा गिरेः शृंगे ह्रादिनीव त्तिलोत्तमा ७२।

प्रस्थिता गगनं शीघ्रं द्योतयंती दिशो दश ।

देवकार्यं ततः कृत्वा आगता ब्रह्मणः पुरः ७३।

ततस्तुष्टेन देवेन विधिना सानुमोदिता ।

स्थानं सूर्यरथे दत्तं तव चंद्रानने मया ७४।

भुंक्ष्व भोगाननेकांस्त्वं यावत्सूर्योंबरे स्थितः ।

इत्थं सा ब्राह्मणी राजन्भूत्वा चाप्सरसां वरा ७५।

भुंक्तेद्यापि रवेर्लोके माघस्नानफलं महत् ।

तस्मात्प्रयत्नतो राजन्श्रद्दधानैः सदा नरैः ७६।

स्नातव्यं मकरादित्ये वांच्छद्भिः परमां गतिम् ।

नानवाप्तोऽत्र तस्यास्ति पुरुषार्थो हि कश्चन ७७।

नाक्षीणं पातकं कंचिन्माघे मज्जति यो नरः ।

तुलयंति न तेनात्र यज्ञाः सर्वे सदक्षिणाः ७८।

माघस्नानेन राजेंद्र तीर्थे चैव विशेषतः ।

न चान्यत्स्वर्गदं कर्म न चान्यत्पापनाशनम् ७९।

न चान्यन्मोक्षदं यस्मान्माघस्नानसमं भुवि ८०।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे माघमाहात्म्ये वसिष्ठदिलीपसंवादे माघस्नानप्रशंसायां सुंदोपसुंददैत्यवधोनाम षड्विंशत्यधिकशततमोध्यायः १२६।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 127

कार्तवीर्य उवाच।

हेतुना केन विप्रर्षे माघस्नाने महाद्भुतः ।

प्रभावो वर्ण्यते नूनं तन्मे कथय सुव्रत १।

गतपापो यदेकेन द्वितीयेन दिवं गतः ।

वैश्योऽसौ माघपुण्येन ब्रूहि मे तत्कुतूहलम् २।

दत्तात्रेय उवाच।

निसर्गात्सलिलं मेध्यं निर्मलं शुचिपांडुरम् ।

मलहं पुरुषव्याघ्र द्रावकं दाहनाशनम् ।

तारकं सर्वभूतानां पोषणं जीवनं च यत् ३।

आपो नारायणोदेवः सर्ववेदेषु पठ्यते ।

ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी ।

मासानां च तथा माघः श्रेष्ठः सर्वेषु कर्मसु ४।

मकरस्थे रवौ माघे प्रातः काले तथाऽमले ।

गोष्पदेऽपि जले स्नानं स्वर्गदं पापिनामपि ५।

योगोऽयं दुर्लभो राजंस्त्रैलोक्ये सचराचरे ।

अस्मिन्योगे त्वशक्तोऽपि स्नायाद्यदि दिनत्रयम् ६।

दद्यात्किंचिदशक्तोऽपि दरिद्राभाववांच्छया ।

त्रिस्नानेनापि माघस्य धनिनो दीर्घजीविनः ७।

पंच वा सप्त वाहानि चंद्रवद्वर्धते फलम् ।

संप्राप्ते मकरादित्ये पुण्ये पुण्यप्रदे नृणाम् ८।

सत्कार्यास्तिथयः सर्वा स्नानदानादि कर्मसु ।

कर्तारं दापयंतीह ह्यक्षयं शाश्वतं पदम् ९।

तस्मान्माघे बहिः स्नायादात्मनो हितकाम्यया ।

अथातः संप्रवक्ष्यामि माघस्नानविधिं परम् १०।

कर्तव्यो नियमः कश्चिद्व्रतरूपी नरोत्तमैः ।

फलातिशयहेतोर्वै किंचिद्भोज्यं त्यजेद्बुधः ११।

भूमौ शयीत होतव्यमाज्यं तिलविमिश्रितम् ।

त्रिकालं चार्चयेद्विष्णुं वासुदेवं सनातनम् १२।

दातव्यो दीपकोऽखंडो देवमुद्दिश्य माधवम् ।

इंधनं कंबलं वस्त्रमुपानत्कुंकुमं घृतम् १३।

तैलं कार्पासकोष्ठं च तूलीं तूलवटीं पटीम् ।

अन्नं चैव यथाशक्ति देयं माघे नराधिप १४।

सुवर्णं रत्तिकामात्रं दद्याद्वेदविदे तथा ।

तद्दानमक्षयं राजन्समुद्र इव सर्वदा १५।

परस्याग्निं न सेवेत त्यजेच्चैव प्रतिग्रहम् ।

माघांते भोजयेद्विप्रान्यथाशक्ति नराधिप १६।

देया च दक्षिणा तेभ्य आत्मनः श्रेय इच्छता ।

एकादशीविधानेन माघस्योद्यापनं तथा १७।

कर्तव्यं श्रद्दधानेन ह्यक्षय्य स्वर्गवांछया ।

अनंतपुण्यावाप्त्यर्थं विष्णुसंप्रीतिहेतवे १८।

मकरस्थे रवौ माघे गोविंदाच्युतमाधव ।

स्नानेनानेन भो देव यथोक्तफलदो भव १९।

इति मंत्रं समुच्चार्य स्नायान्मौनी समाहितः ।

वासुदेवं हरिं कृष्णं माधवं च स्मरेत्पुनः २०।

गृहेऽपि सजलं कुंभं वायुना निशिपीडितम् ।

तत्स्नानं तीर्थसदृशं सर्वकामफलप्रदम् २१।

तत्र व्रतेन दातव्यं सान्नं चोपस्करान्वितम् ।

तत्स्नानस्य प्रभावेण नरो न निरयं व्रजेत् २२।

तप्तेन वारिणा स्नानं यद्गृहे क्रियते नरैः ।

षडब्दफलदं तद्धि मकरस्थे दिवाकरे २३।

बहिः स्नानं तु वाप्यादौ द्वादशाब्दफलं स्मृतम् ।

तडागे द्विगुणं राजन्नद्यां चैव चतुर्गुणम् २४।

शतधा देवखातेषु शतधा तु महानदे ।

शतं चतुर्गुणं राजन्महानद्याश्च संगमे २५।

सहस्रगुणितं सर्वं तत्फलं मकरे रवौ ।

गंगायां स्नानमात्रेण लभते मानवो नृप २६।

गंगायां येऽवगाहंति माघमासे नृपोत्तम ।

चतुर्युगसहस्रं तु न पतंति सुरालयात् २७।

दिनेदिने सहस्रं तु सुवर्णानां विशांपते ।

तेन दत्तं तु गंगायां यो माघे स्नाति मानवः२८।

शतेन गुणितं माघे सहस्रं राजसत्तम ।

निर्दिष्टमृषिभिः स्नानं गंगायामुनसंगमे २९।

पापौघभूरिभारस्य दाहार्थे च प्रजापतिः ।

प्रयागं विदधे भूप प्रजानां च हिते स्थितः ३०।

शृणु स्थानमिदं सम्यक्सितासित जलं किल ।

पापरूप पशूनां च ब्रह्मणा विहितं पुरा ३१।

सितासितजले मज्जेदपि पापशतान्वितः ।

मकरस्थे रवौ माघे नैव गर्भेषु मज्जति ३२।

सूनारतोऽपि यो मर्त्यः प्रयागे स्नानमाचरेत् ।

माघेमासि नरव्याघ्र स याति परमंपदम् ३३।

सितासिता तु या धारा सरस्वत्याविगर्भिता ।

तन्मार्गं विष्णुलोकस्य सृष्टिकर्ता ससर्ज वै ३४।

दुस्तरा वैष्णवी माया देवैरपि सुदुर्जया ।

प्रयागे दह्यते सा तु माघे मासि नराधिप ३५।

तेजोमयेषु लोकेषु भुक्त्वा भोगाननेकशः ।

पश्चाच्चक्रिणि लीयंते प्रयागे माघ मज्जनात् ३६।

उपस्पृशति यो माघे मकरार्के सितासिते ।

न तत्पुण्यं च संख्यातुं चित्रगुप्तोऽपि वेत्यलम् ३७।

सन्निमज्जति यो माघे मकरस्थ सितासिते ।

तस्य पुण्यस्य माहात्म्यं वक्तुं ब्रह्मापि न क्षमः ३८।

संवत्सरशतं साग्रं निराहारस्य यत्फलम् ।

प्रयागे माघमासे तु त्र्यहस्नानस्य तत्फलम् ३९।

स्वर्णभारसहस्रेण कुरुक्षेत्ररविग्रहे ।

यत्फलं लभते माघे वेण्याः स्नानाद्दिने दिने ४०।

राजसूयसहस्रस्य राजन्नविकलं फलम् ।

सितासिते तु माघे च स्नानानां भवति ध्रुवम् ४१।

पृथिव्यां यानि तीर्थानि पुर्यः सप्त च याः पुनः ।

वेण्यां स्नातुं समायांति माघेमासि नृपोत्तम ४२।

सर्वतीर्थानि कृष्णानि पापिनां संगदोषतः ।

भवंति शुक्लवर्णानि प्रयागे माघमज्जनात् ४३।

आकल्पसंचितं पापं जन्मभिर्यन्नरैर्नृप ।

तद्भवेद्भस्मसान्माघे स्नातानां च सितासिते ४४।

वाङ्मनःकायजं पापं नरस्य विलयं व्रजेत् ।

प्रयागे माघमासे तु त्र्यहस्नातस्य निश्चितम् ४५।

प्रयागे माघमासे यस्त्र्यहं स्नाति च मानवः ।

पापं त्यक्त्वा दिवं याति जीर्णां त्वचमिवोरगः ४६।

कुरुक्षेत्रसमा गंगा यत्रकुत्रावगाहिता ।

तस्माद्दशगुणा पुण्या यत्र विंध्येन संगता ४७।

तस्माच्छतगुणा गंगा काश्यामुत्तरवाहिनी ।

काश्याः शतगुणाः प्रोक्ता गंगायामुनसंगमे ४८।

सा सहस्रगुणा तासां भवेत्पश्चिमवाहिनी ।

या राजन्दर्शनादेव ब्रह्महत्यापहारिणी ४९।

या पश्चाद्वाहिनी गंगा कालिंद्या सह संगता ।

हंति कोटिकृतं पापं सा माघे नृप दुर्लभा 6.127.५०।

यत्कथ्यतेऽमृतं राजन्सा वेणी भुवि कीर्तिता ।

तस्यां माघे मुहूर्तं तु देवानामपि दुर्लभम् ५१।

ब्रह्माविष्णुर्महादेवो रुद्रादित्यमरुद्गणाः ।

गंधर्वा लोकपालाश्च यक्षकिन्नरपन्नगाः ५२।

अणिमादिगुणैः सिद्धा ये चान्ये तत्त्ववादिनः ।

ब्रह्माणी पार्वती लक्ष्मीः शची मेनादितिर्दितिः ५३।

सर्वास्ता देवपत्न्यश्च तथा नागांगना नृप ।

घृताची मेनका रंभा उर्वशी च तिलोत्तमा ५४।

गणा ह्यप्सरसां सर्वे पितॄणां च गणास्तथा ।

स्नातुमायांति ते सर्वे माघे वेण्यां नराधिप ५५।

कृते युगे स्वरूपेण कलौ प्रच्छन्नरूपिणः ।

प्रयागे माघमासे तु त्र्यहस्नानस्य यत्फलम् ५६।

नाश्वमेधसहस्रेण तत्फलं लभते भुवि ।

त्र्यहस्नानफलं माघे पुरा कांचनमालिनी ५७।

राक्षसाय ददौ भूप तेन मुक्तः स पापकृत् ।

कार्तवीर्य उवाच ।

भगवन्राक्षसः कोऽसौ सा का कांचनमालिनी ५८।

कथं दत्तवती धर्मं कथं वा तस्य सद्गतिः ।

एतत्कथय योगींद्र अत्रिसंतानभास्कर ।

यदि त्वं मन्यसे श्राव्यं परं कौतूहलं हि मे ५९।

दत्तात्रेय उवाच।

शृणु राजन्विचित्रं त्वमितिहासं पुरातनम् ।

यस्य स्मरणमात्रेण वाजपेयफलं लभेत् ६०।

अप्सरारूपसंपन्ना नाम्ना कांचनमालिनी ।

प्रयागे माघमासे सा स्नात्वा याति हरालयम् ६१।

निकुंजे गिरिराजस्य तिष्ठता गिरिरूपिणा ।

दृष्टा गगनमारूढा तेन वृद्धेन रक्षसा ६२।

तेजस्विनी सुहेमाभा सुश्रोणी दीर्घलोचना ।

चंद्रानना सुकेशी च पीनोन्नतपयोधरा ६३।

तां दृष्ट्वा रूपसंपन्नामुवाच राक्षसस्तदा ।

का त्वं कमलपत्राक्षि कुत आगम्यते त्वया ६४।

आर्द्रं च वसनं कस्मात्सार्द्रा ते कबरी कुतः ।

कुत्र आगम्यते भीरु कुतस्ते खेचरी गतिः ६५।

केन पुण्येन वा भद्रे तव तेजोमयं वपुः ।

अतीवरूपसंपन्नं संभूतं च मनोहरम् ६६।

त्वद्वस्त्रबिंदुपातेन मम मूर्ध्नि सुलोचने ।

क्षणेन ह्यगमच्छांतिं क्रूरं मे मानसं सदा ६७।

नीरस्य महिमा कोऽयमेतद्व्याख्यातुमर्हसि ।

त्वं मे शीलवती भासि नाकृतिर्निर्गुणा भवेत् ६८।

अप्सरा उवाच।

श्रूयतामप्सराश्चाहं भो रक्षः कामरूपिणी ।

प्रयागतश्चागताऽहं नाम्ना कांचनमालिनी ६९।

आर्द्रः परिकरो मेऽतः सुस्नाताऽहं सितासिते ।

गंतव्यं तु मया रक्षः कैलासे तु नगोत्तमे ७०।

तत्रास्ते पार्वतीनाथः सुरासुरसुपूजितः ।

वेणीवारिप्रभावेण रक्षस्ते क्रूरता गता ७१।

जाताहं येन पुण्येन गंधर्वस्य सुमेधसः ।

कन्यका दिव्यरूपा तु तत्सर्वं कथयामि ते ७२।

कलिंगाधिपते राज्ञस्त्वहमासीच्च वेश्यका ।

रूपलावण्यसंपन्ना सौभाग्यमदगर्विता ७३।

अन्यासां युवतीनां च तत्पुरेऽहं शिरोमणिः ।

तज्जन्मनि मया रक्षो भुक्त्वा भोगान्यथेच्छया ७४।

मोहितं तत्पुरं सर्वं मया यौवनसंपदा ।

रत्नानि च विचित्राणि भूषणानि धनानि च ७५।

वासांसि चित्ररूपाणि कर्पूरागुरुचंदनम् ।

एतच्चोपार्जितं सर्वं मया मोहनरूपया ७६।

नाहं जानामि हेम्नोंतं स्वनिवासे निशाचर ।

संसेवंते युवानो मे चरणौ कामपीडिताः ७७।

मया ते वंचिताः सर्वे सर्वस्वेन तु मायया ।

अन्योन्यस्पर्धाभावेन मृताः केचित्तु कामिनः ७८।

इत्थं तन्नगरे रम्ये सकले मे गतिस्तदा ।

प्राप्ते तु वार्द्धके काले शुशोच हृदयं मम ।

न दत्तं न हुतं जप्तं न व्रतं चरितं मया ७९।

नाराधितो मया देवश्चतुर्वर्गफलप्रदः।

न मया पूजिता देवी दुर्गा दुर्गतिनाशिनी ।

सर्वपापहरो विष्णुर्न स्मृतो भोगलुब्धया ८०।

न च संतर्पिता विप्रा न कृतं प्राणिनां हितम् ।

अणुमात्रमिदं पुण्यं न कृतं च प्रमादतः ८१।

पातकं तु कृतं भद्र तेन मे दह्यते मनः ।

बहुधैवं विलप्याहं ब्राह्मणं शरणं गता ८२।

ब्रह्मण्यं वेदविद्वांसं तस्य राज्ञः पुरोहितम् ।

स हि पृष्टो मया रक्षः कथं मे निष्कृतिर्भवेत् ८३।

पापस्यास्य द्विजश्रेष्ठ कथं यास्यामि सद्गतिम् ।

स्वेनैव कर्मणा तप्तां वराकीं दीनमानसाम् ८४।

पापपंकनिमग्नां त्वं मामुद्धर कचग्रहैः ।

मयि कारुण्यंजं वारि वर्षहर्षदृशा द्विज ८५।

सज्जने साधवः सर्वे साधुः साधुरसज्जने ।

इत्यसौ मद्वचः श्रुत्वा चकारानुग्रहं मयि ८६।

द्विज उवाच।

निषिद्धाचरणं जाने सर्वं तेऽहं वरानने ।

कुरु मे सत्वरं वाक्यं याहि क्षेत्रं प्रजापते ८७।

तत्र गत्वा कुरु स्नानं तेन पापक्षयस्तव ।

सर्वं मनोगतं भद्रे त्वदीयं शोचितं मया ८८।

नाहमन्यत्प्रपश्यामि यत्ते पापप्रणाशनम् ।

प्रायश्चित्तं परं तीर्थे स्नानं च ऋषिभिः स्मृतम् ८९।

किंतु तीर्थे त्यजेद्भीरु मनसाप्यशुभं कृतम् ।

प्रयागस्नानशुद्धा त्वं स्वर्गं यास्यसि निश्चितम् ९०।

प्रयागस्नानमात्रेण नृणां स्वर्गो न संशयः ।

अन्यदेशकृतं पापं तत्क्षणादेव भामिनि ९१।

प्रयागे विलयं याति पापं तीर्थकृतं विना ।

शृणु भीरु पुरा शक्रो गौतमस्य मुनेर्वधूम् ९२।

दृष्ट्वा कामवशं प्राप्तस्तां गतो गुप्तकामुकः ।

उग्रेण तेन पापेन तदैव जनितं फलम् ९३।

ऋषिस्त्रीगंतुरिंद्रस्य तस्याश्च पुरतस्तदा ।

कुत्सितं गर्हितं जातमिति लज्जाकरं वपुः ९४।

तद्भर्तुः शापमाहात्म्यात्सहस्रभगचिह्नितम् ।

अधोमुखस्ततो भूत्वा देवराजो विनिर्गतः ९५।

निनिंद स्वकृतं कर्म सोऽभिभूतः सलज्जितः ।

मेरोः शिरसि तोयाढ्ये शतयोजनविस्तृते ९६।

तत्र गत्वा प्रविष्टस्तु हेमांभोरुहकोरके ।

तत्रस्थो गर्हयन्नित्यमात्मानं मन्मथं तथा ९७।

धिक्तां कामात्मतां लोके सद्यः पातकदायिनीम् ।

यया हि नरकं याति सर्वलोकविगर्हितः ९८।

आयुः कीर्तिर्यशोधर्म धैर्य ध्वंसकरी तथा ।

धिङ्मन्मथं दुराचारमापदां नियतं पदम् ९९।

देहस्थं दुर्दमं शत्रुमसंतुष्टं सदावशम् ।

इत्थंवादिनि प्रच्छन्ने वासवे पद्मसद्मनि 6.127.१००।

आखंडलं विना भीरु देवलोको न शोभते ।

ततो देवाः सगंधर्वा लोकपालाः सकिन्नराः १०१।

शच्या सह समागम्य पप्रच्छुस्ते बृहस्पतिम् ।

भगवन्बलभिद्देवं नैव जानीमहे वयम् १०२।

क्व तिष्ठति गतः कुत्र कुत्र वा मृगयामहे ।

न नाकः शोभते तेन विना देवगणैः सह १०३।

सुपुत्रेण विना यद्वत्कुलं श्रीमद्गुणान्वितम् ।

उपायश्चिंत्यतां सद्यः स्वर्लोके येन शोभते १०४।

सनाथः सुश्रियायुक्तो न विलंबोऽत्र युज्यते ।

इति तेषां वचः श्रुत्वा गुरुर्वचनमब्रवीत् १०५।

जानेऽहं स्वापराधेन लज्जया यत्र तिष्ठति ।

रभसा लब्धकार्यस्य भुंक्ते स मघवा फलम् १०६।

नृणां नीतिपरित्यागाद्विपाकाः स्युर्भयंकराः ।

अहो राज्यमदैर्मत्तः कृत्याकृत्यमचिंतयन् १०७।

कृतवान्निंद्यमानं हि दृष्टादृष्टक्षयंकरम् ।

कुर्वंति बालिशा यत्र दैवोपहतबुद्धयः १०८।

अपराधाद्यथाजन्म स्यादिहामुत्र निष्फलम् ।

अधुना तत्र गच्छामो यत्र शक्रः स तिष्ठति १०९।

इत्युक्त्वा निर्गताः सर्वे बृहस्पतिपुरोगमाः ।

दृष्ट्वा सरसि विस्तीर्णे स्वर्णपंकजकाननम् ११०।

तुष्टुवुर्देवराजानं प्रबोधो येन जायते ।

ततो गुरोः प्रबोधेन निर्गतः पद्मकुड्मलात् १११।

दीनाननो विरूपस्तु व्रीडाकुंचितलोचनः ।

जग्राह चरणाविंद्रो गुरोस्तस्याग्रजन्मनः ११२।

त्राहि मां निष्कृतिं ब्रूहि पापस्यास्य बृहस्पते ।

देवराजवचः श्रुत्वा जगौ विप्रो बृहस्पतिः ११३।

शृणु देवेंद्र वक्ष्येऽहमुपायं पापनाशनम् ।

प्रयागस्नानमात्रेण तत्क्षणादेव पातकात् ११४।

मुच्यसे देवराजत्वं तत्र यामः सहैव ते ।

अथ पुरोधसा सार्धमागत्य बलमर्दनः ११५।

सस्नौ सितासिते तीर्थे सद्यो मुक्तो ह्यघैस्ततः ।

अथ देवगुरुस्तस्मै प्रसन्नस्तु वरं ददौ ११६।

प्रयागस्नानमात्रेण क्षीणं पापं त्वयानघ ।

क्षीणपापस्य ते शक्र मत्प्रसादेन सत्वरम् ११७।

सहस्रमेतद्योनीनां सहस्रं स्याद्दृशां तव ।

तदैव द्विजवाक्येन शुशुभे च शचीपतिः ११८।

लोचनानां सहस्रेण पंकजैरिव मानसम् ।

अथ वृंदारकैः सर्वैरृषिभिश्चाभिपूजितः ११९।

गंधर्वैः स्तूयमानस्तु गतः शक्रोऽमरावतीम् ।

इत्थं सद्यो विपापोऽभूत्प्रयागे पाकशासनः १२०।

याहि त्वमपि कल्याणि प्रयागं देवसेवितम् ।

सद्यः पापविनाशाय तथा स्वर्गतये दृढम् १२१।

इति तस्य वचः श्रुत्वा सेतिहासं समंगलम् ।

तदैव संभ्रमापन्ना नत्वा पादौ द्विजस्य तु १२२।

त्यक्त्वा बंधुजनं सर्वं दासदासीगृहं तथा ।

सकलान्विषयान्रक्षो विषग्रासानिव स्फुटम् १२३।

वपुश्च क्षणविध्वंसि पश्यंती निर्गता ह्यहम् ।

नरकार्णवसंपात दारुणांतर वह्निना १२४।

हृदये कुणपव्याघ्र तदा तत्तप्यमानया ।

मया गत्वा कृतं स्नानं माघे मासि सितासिते १२५।

तस्य स्नानस्य माहात्म्यं शृणु वृद्धनिशाचर ।

त्र्यहात्पापक्षयो जातः सप्तविंशतिभिर्दिनैः १२६।

शेषैर्मे यदभूत्पुण्यं तेन देवत्वमागता ।

रममाणा तु कैलासे गिरिजायाः प्रिया सखी १२७।

जातिस्मरा तथा जाता प्रयागस्य प्रभावतः ।

स्मृत्वा प्रयागमाहात्म्यं माघे माघे व्रजाम्यहम् १२८।

इति राक्षस यत्पृष्टं त्वया विस्मितचेतसा ।

तन्मया कथितं सर्वं चरितं प्रीतये तव १२९।

मत्प्रीतये चरित्रं स्वं त्वं ब्रूहि मम राक्षस ।

कर्मणा केनजातोऽसि विरूपोऽतिभयंकरः १३०।

श्मश्रुलो दीर्घदंष्ट्रंश्च क्रव्यादो गिरिगह्वरे ।

राक्षस उवाच।

इष्टं ददाति गृह्णाति गुह्यं वदति पृच्छति १३१।

प्रीत्या हि सज्जनो भद्रे तच्च सर्वं त्वयि स्थितम् ।

त्वया संभावितो नूनं मन्येऽहं वामलोचने १३२।

भाविनी निष्कृतिः सद्यस्त्वयास्य क्रूरकर्मणः ।

अतो वक्ष्यामि ते भद्रे दुष्कृतं यत्स्वयंकृतम् १३३।

निवेद्य सज्जने दुःखं ततः सर्वसुखी भवेत् ।

शृणु सुश्रोण्यहं काश्यां बह्वृचो वेदपारगः १३४।

जातः पुरा द्विजः श्रेष्ठः कुले महति निर्मले ।

राज्ञां दुष्कृतिनां भीरु शूद्राणां च तथा विशाम् १३५।

वाराणस्यां कृतो घोरो मया दुष्टप्रतिग्रहः ।

बहुधा बहुधा वारं निषिद्धः कुत्सितो बहु १३६।

चांडालस्यापि न त्यक्तो मया दुष्टप्रतिग्रहः ।

अन्यच्च पातकं तत्र ममाभून्मूढचेतसः ।

तन्नास्ति दुष्कृतं कर्म मया यत्र न यत्कृतम् १३७।

अन्यच्च श्रूयतां दोषः क्षेत्रस्य वरवर्णिनि ।

अविमुक्तेऽणुमात्रं यत्तदघं मेरुतां व्रजेत् ।

न धर्मस्तु मया कश्चित्संचितस्तत्र जन्मनि १३८।

ततो बहुतिथे काले मृतस्तत्रैव शोभने ।

अविमुक्तप्रभावेण न चाहं नरकं गतः १३९।

अविमुक्ते मृतः कश्चिन्नरकं नेति किल्बिषी ।

अविमुक्ते कृतं किंचित्पापं वज्री भवेद्दृढम् १४०।

वज्रलेपेन पापेन तेन मे जन्म राक्षसम् ।

रौद्रं क्रूरतरं पापं संभूतं हिमपर्वते १४१।

द्विर्जातो गृध्रयोनौ प्राक्त्रिर्व्याघ्रो द्विः सरीसृपः ।

एकवारमुलूकस्तु विड्वराहस्ततः परम् १४२।

इदं तु दशमं जन्म राक्षसं मम भामिनी ।

अतीतानि सहस्राणि वर्षाणि मम जन्मनः १४३।

नास्ति मे निष्कृतिर्भद्रे एतस्माद्दुःखसागरात् ।

अत्र त्रियोजनं सुभ्रूर्निर्जंतु हि मया कृतम् १४४।

अनागसां च भूतानां बहूनां च कृतः क्षयः ।

कर्मणा तेन मे सुभ्रूर्दह्यते सततं मनः १४५।

त्वद्दर्शनसुधासिक्तं गतं शैत्यं मनो मम ।

तीर्थं फलति कालेन सद्यः साधुसमागमः १४६।

अतः सत्संगतिं सुभ्रूः प्रशंसंति मनीषिणः ।

एतत्ते कथितं सर्वं स्वदुःखं हृद्गतं मया १४७।

विरलः सज्जनः सुभ्रूः स्वात्मा यस्य न खिद्यते ।

जानास्यत्रोचितं त्वं हि किंचिन्नो वच्म्यतः परम् १४८।

अस्य दुःखोदधेः पारं कथं यामीति चिंतयन् ।

सज्जनानां समा भूतिः सर्वेषामुपजीवनम् १४९।

क्षीरार्णवः पयो दत्ते हंसाय न बकाय किम् ।

दत्तात्रेय उवाच।

इति तस्य वचः श्रुत्वा दयार्द्रीकृतमानसा 6.127.१५०।

धर्मदाने मतिं कृत्वा जगौ कांचनमालिनी ।

करिष्ये निष्कृतिं रक्ष इदानीं खलु मा शुचः १५१।

प्रतिज्ञां तु दृढां कृत्वा यतिष्ये तव मुक्तये ।

बहवो हि कृता माघा वर्षे वर्षे यथाविधि १५२।

श्रद्धापूर्वं मया भद्र ब्रह्मक्षेत्रे सितासिते ।

तां वदामि तु संख्यातिं तस्य धर्मस्य राक्षस १५३।

गूढो धर्मो हि कर्तव्य इत्यूचुर्विबुधा जनाः ।

आर्ते दानं प्रशंसंति मुनयो वेदवादिनः १५४।

सागरे वर्षतो भद्र किं मेघस्य फलं भवेत् ।

अनुभूतं मया रक्षः स्वयं तत्पुण्यजं फलम् १५५।

तत्तु दास्यामि ते मित्र सद्यः पापविनाशनम् ।

निष्पीड्याथ ततो वस्त्रं जलं कृत्वा करांबुजे १५६।

ददौ सा माघजं पुण्यं तस्मै वृद्धाय रक्षसे ।

शृणु राजन्विचित्रं हि प्रभावं माघधर्मजम् १५७।

तदैवं प्राप्य तत्पुण्यं विमुक्ता राक्षसी तनुः ।

संभूतो देवताकारस्तेजो भास्करविग्रहः १५८।

देवयानं समारूढः सहर्षोत्फुल्ललोचनः ।

द्योतमानस्तदा व्योम्नि भासयन्प्रभया दिशः १५९।

दिव्यरूपधरो रेजे द्वितीय इव भास्करः ।

ततोऽभिनंदयामास सतां कांचनमालिनीम् १६०।

भद्रे वेत्तीश्वरो देवः कर्मणां यः फलप्रदः ।

तत्त्वयोपकृतं सर्वं यत्र मे नास्ति निष्कृतिः १६१।

इदानीमपि कारुण्यात्प्रसीदानुग्रहं कुरु ।

शिक्षां विधेहि मे देवि सर्वनीतिमयीं शुभाम् १६२।

सर्वधर्मकरीं नूनं न कुर्वे पातकं यथा ।

तां श्रुत्वा त्वदनुज्ञातः पश्चाद्यामि सुरालयम् १६३।

दत्तात्रेय उवाच।

एतन्निशम्य तेनोक्तं प्रियं धर्ममयं वचः ।

अतिप्रीत्याब्रवीद्धर्मं राजन्कांचनमालिनी १६४।

धर्मं भजस्व सततं त्यज भूतहिंसां सेवस्व साधुपुरुषान्जहि कामशत्रुम् ।

अन्यस्य दोषगुणकीर्तनमाशु हित्वा सत्यं वदार्चय हरिं व्रज देवलोकम् १६५।

देहेऽस्थिमांसरुधिरे स्वमतिं त्यज त्वं जायासुतादिषु सदा ममतां विमुंच ।

पश्यानिशं जगदिदं क्षणभंगुरं हि वैराग्यभावरसिको भव योगनिष्ठः १६६।

प्रीत्या मया निगदितं तव धर्ममार्गं चित्तो निधेहि सकलं भवशीलयुक्तः ।

संत्यज्य राक्षसतनुं धृतदेवदेहो ज्योतिर्मयो व्रज यथासुखमाशु नाकम् १६७।

श्रुत्वाधर्मं ततो हृष्टः संतुष्टो राक्षसोऽब्रवीत् ।

भवप्रमुदिता नित्यं सर्वदा शिवमस्तु ते १६८।

आचन्द्रार्कं रमस्व त्वं कैलासे शिवसन्निधौ ।

उमयाऽखंडितं प्रेम तवास्तु वरवर्णिनि १६९।

धर्मनिष्ठा तपोनिष्ठा मातस्त्वं भव सर्वदा ।

मास्तु लोभः शरीरे ते आपन्नार्ति सदा हर १७०।

इत्युक्त्वा तु प्रणम्याथ सतां कांचनमालिनीम् ।

जगाम राक्षसः स्वर्गं गंधर्वैर्बहुभिः स्तुतः १७१।

देवकन्यास्तदागत्य ववर्षुः पुष्पवृष्टिभिः ।

तस्याः कांचनमालिन्या मूर्ध्नि हर्षसमाकुलाः १७२।

तामालिंग्य ततः प्रोचुः कन्यकास्तु प्रियं वचः ।

कृतं भद्रे त्वया चित्रं राक्षसस्य विमोक्षणम् १७३।

दुष्टस्यास्य भयात्कश्चिद्विशत्यस्मिन्न कानने ।

अधुना निर्भया ह्यत्र विचरामो यथासुखम् १७४।

श्रुत्वा तद्वचनं राजंस्तासां कांचनमालिनी ।

हृष्टा तेनैव दानेन कृतकृत्या तदा सती १७५।

तं राक्षसं कांचनमालिनीवरा गन्धर्वकन्या परिमोच्य सत्वरम् ।

क्रीडंत्यमूभिः प्रययौ हरालयं प्रीत्या सपूर्णा च परोपकारया १७६।

संवादमेनं वरकन्यकेरितं भक्त्या परं यः शृणुयाच्च मानवः ।

न बाध्यते जातु सदा स राक्षसैर्धर्मे मतिस्तस्य भृशं हि जायते १७७।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहिताया।

मुत्तरखण्डे माघमासमाहात्म्ये दिलीपवसिष्ठसंवादे राक्षसमोक्षोनाम सप्तविंशत्यधिकशततमोऽध्यायः१२७।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 128

वसिष्ठ उवाच।

कथितं माघमाहात्म्यं दत्तात्रेयेण भाषितम् ।

अधुनाऽहं प्रवक्ष्यामि माघस्नानस्य यत्फलम् १।

सर्वक्रतुवरिष्ठं तु सर्वदानफलप्रदम् ।

सर्वव्रततपस्तुल्यं माघस्नानं परंतप २।

स्नानेन माघस्य विशुद्धमानसा पितॄन्दिवि स्थाप्य कुलद्वयस्य वै ।

स्वर्गं प्रयांति स्वयमुज्ज्वलानना वरैर्विमानै रुचिरैश्च कामगैः ३।

ये मानवाः पापकृतोऽपि सर्वदा सदा दुराचाररता विमार्गगाः ।

स्नात्वा हि माघे हरिमर्चयंति ये मुंचंति तेपीह महाघसंचयम् ४।

सत्येन हीनाः पितृमातृदुःखदा ह्यनाश्रमस्थाः कुलधर्मवर्जिताः ।

ये दांभिकास्तेऽपि नराः सतां गतिं स्नानैः प्रयांत्यत्र हि माघसंभवैः ५।

पुण्येषु तीर्थेषु च माघमासे स्नानं नराणामतिदुर्लभं भुवि ।

तस्माद्यतो ब्रह्मविदां पदं नरैः संप्राप्यते नात्र विचारणा मम ६।

माघे तपो दान जप प्रसेवनं स्थानं हरेः पूजनमक्षयं नृप ।

तस्माद्यथाशक्ति नरैः प्रयत्नतः स्नात्वा प्रदेयं वसनान्नकांचनम् ७।

माघेऽन्नदाताऽमृतपः सुरालये हेम्नश्च दाता बलभित्समीपगः ।

दीपाग्निवासांसि ददन्नरः सदा सूर्यस्यलोके वसति प्रभामयः ८।

यज्ञैः सुदानैः सुतपोभिरुज्ज्वलैः सुब्रह्मचर्यार्चनयोगसेवया ।

शुद्धा भवंतीह तथा न पापिनः स्नानैर्यथा पुण्यभवैस्तु माघजैः ९।

दुःखौघसंतप्तिमसह्ययातनां याम्यां न ते यांत्यपि पापकारिणः ।

ये माघमासे वरतीर्थमज्जनं कुर्वंति चार्धोदितसूर्यमंडले १०।

स्नात्वा च माघे हरिमर्चयंति ये स्वर्गच्युता भूपतयो भवंति ।

भव्याः सुरूपाः सुभगाः प्रियंवदा धर्मान्विता भूरिधनाः शतायुषः ११।

दीप्तानले काष्ठचयो यथाहुतो भस्मावशेषो भवतीह तत्क्षणात् ।

स्नानेन माघस्य तथा विलीयते क्षुद्रोऽपि पापौघ महाघसंचयः १२।

कायेन वाचा मनसापि पातकं ज्ञातं यदज्ञातमलंकृतं नरैः ।

स्नानं च माघे वरतीर्थसंभवं सर्वं दहद्विष्णुरिवाशु हृद्गतः १३।

संभुज्यमानाघफलं हि पार्थिव प्रमादतोपीह नृणां कदाचन ।

स्नानं हि माघस्य यतः प्रसज्यते तदैव तत्संक्षयमेति निश्चितम् १४।

गंधर्वं कन्याः पृथिवी शशापजं संभुज्यमानाघफलं दुरत्ययम् ।

स्नानाद्विमुक्ताः खलु माघमासजाद्वाक्यात्पुरा लोमशजातमद्भुतम् १५।

सूत उवाच।

श्रुत्वैतत्पार्थिवः प्रीत्या नत्वा तत्पादपंकजम् ।

श्रद्धया परया नम्रस्तं पप्रच्छ पुरोधसम् १६।

भगवन्ब्रूहि कन्याभिः शापो ह्यभिगतः कुतः ।

कस्यापत्यानि तास्तासां नाम किं कीदृशं वयः १७।

कथं लोमशवाक्येन विपाकाच्छापसंभवात् ।

विमुक्ताः कुत्र ताः सस्नुर्मासं ताः कतिसंख्यया १८।

वसिष्ठ उवाच।

श्रूयतां राजशार्दूल धर्मगर्भां कथां पराम् ।

यथाऽरणिर्वह्निगर्भा धर्मसूर्वह्निसूरिव १९।

गंधर्वः सुखसंगीतिस्तस्य कन्या प्रमोदिनी ।

सुशीलस्य सुशीला च सुस्वरा स्वरवेदिनः २०।

सुतारा चंद्रकांतस्य चंद्रिका सुप्रभस्य च ।

इमानि वरनामानि तासामप्सरसां नृप २१।

कुमार्यः पंच सर्वास्ता वयसा सुसमाः पुनः ।

चंद्रादिवविनिष्क्रांताश्चंद्रिकेव समुज्ज्वलाः २२।

चंद्राननाः सुकेशिन्यश्चंद्रामृतरसाधराः ।

नेत्रेष्वानंदकारिण्यः कौमुदी कुमुदेष्विव २३।

लावण्यपिंडसंभूताश्चारुरूपामनोहराः ।

उद्भिन्नकुचकुंभिन्यः पद्मिन्य इव माधवे २४।

उन्मील्य यौवनं कांतं वल्लीव नवपल्लवैः ।

हेमगौराश्च हेमाभा हेमालंकारभूषिताः २५।

हेमचंपकमालिन्यो हेमच्छविसुवाससः ।

स्वरग्रामावलीहासु विविधा मूर्च्छनासु च २६।

तालदानविनोदेषु वेणुवीणाप्रवादने ।

मृदंगनादसंभिन्नं लास्यमार्गलवेषु च २७।

चित्रादिषु विनोदेषु कलासु च विशारदाः ।

एवंभूतास्तु ताः कन्या मुमुहुः क्रीडने वने २८।

पितृभिर्लालिताः सत्यश्चेरुश्च धनदालये ।

कौतुकादेकदा पंच मिलित्वा मासि माधवे ।

कन्या मंदारपुष्पाणि विचिन्वंत्यो वनाद्वनम् २९।

गौरीं समाराधयितुं वरांगनाः कदाचिदच्छोदसरोवरं ययुः ।

हेमांबुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरोत्पलैः सह ३०।

वैडूर्यशुद्धस्फटिकाच्छविद्रुमे स्नात्वा तडागे परिधाय चांबरम् ।

मौनेन च स्थंडिलपिंडिकामयी स्वर्णस्य सिक्ताभिरुमां विनिर्ममुः ३१।

समर्चितां चंदनचंद्रकुंकुमैरभ्यर्च्य गौरीं वरपंकजादिभिः ।

नानोपचारैश्च सुभक्तिभावितास्तालप्रयोगैर्ननृतुः कुमारिकाः ३२।

गांधारमाश्रित्य वरं स्वरं ततो गेयं सुतारध्वनिभिः सुमूर्च्छितम् ।

एणीदृशस्ताः प्रजगुः कलाक्षरं चारुप्रबंधं गतिभिस्तु सुस्वरम् ३३।

तस्मिन्सुनादे रसवर्षहर्षदे कन्यास्वलं निर्भरनृत्यवृत्तिषु ।

अच्छोदतीर्थप्रवरे तदा गतः स्नातुं मुनेर्वेदनिधेः सुताग्निपः ३४।

रूपेण निःसीमतरो वराननः सरोजपत्रायतलोचनो युवा ।

विशालवक्षाः सुभुजोऽतिसुंदरः श्यामच्छविः कामइवापरो हि सः ३५।

स ब्रह्मचारी सशिखो विराजते दंडेनयुक्तो धनुषैव मन्मथः ।

एणाजिनप्रावरणः सुसूत्रधृग्घेमाभमौंजी कटिसूत्रमेखलः ३६।

तं दृष्ट्वा ब्राह्मणं बालास्तास्तत्र सरसस्तटे ।

जहर्षुः कौतुकाविष्टाः कोऽयं नो नयनातिथिः ३७।

संत्यक्तनृत्यगीतास्तास्तस्यालोकनतत्पराः ।

हरिण्यो लुब्धकेनेव विद्धाः कामेन सायकैः ३८।

पश्यपश्येति जल्पंत्यो मुग्धाः पंचसु संभ्रमम् ।

तस्मिन्विप्रवरे यूनि कामदेवभ्रमं ययुः ३९।

पुनः पुनस्तमभ्यर्च्य नयनैः पंकजैरिव ।

पश्चाद्विचारमायासुस्ताश्च कन्याः परस्परम् ४०।

यद्ययं कामदेवो हि रतिहीनः कथं व्रजेत् ।

अथायमश्विनौ देवौ तौ नूनं युग्मचारिणौ ४१।

गंधर्वः किन्नरो वाथ सिद्धो वा कामरूपधृक् ।

ऋषिपुत्रोथवा कश्चित्कश्चिद्वा मानुषोत्तमः ४२।

अस्तु वा कश्चिदेवायं धात्रासृष्टो हि नः कृते ।

यथाभाग्यवतामर्थे निधानं पूर्वकर्मभिः ४३।

तथास्माकं कुमारीणां गौर्या नीतो वरोत्तमः ।

करुणाजलकल्लोल प्लवार्द्रीकृतचित्तया ४४।

मया वृतस्त्वया चायं त्वया वृतस्तथा मया ।

एवं पंचसु कन्यासु वदंतीषु नृपोत्तम ४५।

श्रुत्वा तद्वचनं तत्र कृत्वा माध्याह्निकीः क्रियाः ।

आलोच्य हृदये सोऽपि विघ्नमेतदुपस्थितम् ४६।

ब्रह्मविष्णुगिरिशादयः सुरा ये च सिद्धमुनयः पुरातनाः ।

तेऽपि योगबलिनो विमोहिता लीलया तदबलाभिरद्भुतम् ४७।

योषितां नयनतीक्ष्णसायकैर्भ्रूलतासुदृढचापनिर्गतैः ।

धन्विनामकरकेतुना हतः कस्य नो पतति हा मनोमृगः ४८।

तावदेव नयधीर्विराजते तावदेव जनता भयं भजेत् ।

तावदेव दृढचित्तता भृशं तावदेव गणना कुलस्य च ४९।

तावदेव तपसः प्रगल्भता तावदेव यमधारणं नृणाम् ।

यावदेव वनितेक्षणबाणैर्मोहयंत्युरुमदैर्न मानुषाः 6.128.५०।

मोहयंतु मदयंतु रागिणां योषितः सुललितैर्मनोहरैः ।

मोहयंति मदयंति मामिमं धर्मरक्षणपरं हि कैर्गुणैः ५१।

मांसशुक्रमलमूत्रनिर्मिते योषितां वपुषि निर्घृणेऽशुचौ ।

कामिनश्च परिकल्प्य चारुतां मा रमंतु सुविमूढचेतसः ५२।

दारुणो हि परिकीर्तितोंगना सन्निधिर्विमलबुद्धिभिर्बुधैः ।

यावदत्र न समीपगा इमास्तावदेव हि गृहं व्रजाम्यहम् ५३।

समीपं तस्य यावद्धि नागच्छंति वरांगनाः ।

वैष्णवेन प्रभावेण तावदंतर्दधे द्विजः ५४।

तस्य योगबलाद्भूप गतस्यादर्शनं तदा ।

दृष्ट्वा तदद्भुतं कर्म ऋषिपुत्रस्य धीमतः ५५।

वित्रस्तनयना बालाः कुरंग्य इव कातराः ।

संभ्रांत नयनाः शून्या ददृशुस्ता दिशो दश ५६।

इंद्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः ।

दृष्टोऽप्यदृष्टरूपोऽभूदित्यूचुश्च परस्परम् ५७।

व्याप्तं तु हृदयं तासां सदैव विरहाग्निना ।

ज्वलद्दावानलेनेव सुस्निग्धं सांद्र काननम् ५८।

त्यक्त्वैंद्रजालिकीं विद्यां कांत दर्शय सत्वरम् ।

स्वात्मानं नो मनोयुक्तं प्राग्ग्रासे मक्षिकोपमम् ५९।

हा कष्टं दर्शितः कस्माद्धात्रा त्वं घटितः पुनः ।

ज्ञातं महानुसंतापहेतोर्नस्त्वं विनिर्मितः ६०।

कच्चित्ते निर्दयं चेतः कच्चिदस्मासु नो मनः ।

कच्चिद्धूर्तोऽसि हे कांत कच्चिन्मुष्णासि नो मनः ६१।

कच्चिन्न प्रत्ययोस्मासु कच्चिदऽस्मान्परीक्षसे ।

कच्चिन्नर्मकलाशीलः कच्चिन्मायाविशारदः ६२।

कच्चिच्चित्ते प्रवेष्टुं च वेत्सि विज्ञानलाघवम् ।

कच्चिन्निष्क्रमणोपायं न जानासि कुतः पुनः ६३।

कच्चिद्विनापराधं तु त्वमस्मासु प्रकुप्यसे ।

कच्चिद्दुःखं विजानासि परेषां विप्रलंभजम् ६४।

त्वद्दर्शनं विना नूनं हृदयेश्वर सांप्रतम् ।

न जीवामोऽथ जीवामः पुनस्त्वद्दर्शनाशया ६५।

अस्मांश्च नीयतां तत्र यत्र शीघ्रं गतो भवान् ।

त्वद्दर्शनहरो धाता व्यदधादंकुरच्छिदम् ६६।

सर्वथा दर्शनं देहि कारुण्यं भज सर्वथा ।

पर्यंतं न प्रपश्यंति सर्वथा सज्जना जनाः ६७।

इत्थं विलप्य ताः कन्याः प्रतीक्ष्य च बहुक्षणम् ।

पितृर्भिया गृहं गंतुं शीघ्रमारेभिरे गतिम् ६८।

तत्प्रेमनिगडैर्बद्धा भृशं विरह विक्लवाः ।

कथंचिद्धैर्यमालंब्य ताः स्वं स्वं गृहमागताः ६९।

आगत्य पतिताः सर्वा जलयंत्रसमीपतः ।

किमेतन्मातृभिः पृष्टाः कुतः कालात्ययोऽभवत् ७०।

कन्या ऊचुः।

क्रीडंत्यः किन्नरीभिस्तु सार्धं संगीतकं मुदा ।

संस्थितास्तेन न ज्ञातं दिवसादि सरोवरे ७१।

पथिश्रांता वयं मातः संतापस्तेन नस्तनौ ।

मोहेन महता वक्तुं न केनाप्युत्सहामहे ७२।

इत्युक्त्वा लुलुठुस्तत्र मणिभूमौ कुमारिकाः ।

आकारं गोपयंत्यस्ता मुग्धा जल्पंति मातृभिः ७३।

काचिन्नर्तयति क्रीडामयूरं न मुदा तदा ।

न पाठयति तं कीरं पंजरेऽन्या कुतूहलात् ७४।

लालयेन्नकुलं नान्या नोल्लासयति सारिकाम् ।

अपरातीव संमुग्धा नैव क्रीडति सारसैः ७५।

भेजिरे न विनोदांस्ता रेमिरे नैव मंदिरे ।

ऊचिरे बांधवैर्नालं वीणावाद्यं न चक्रिरे ७६।

कल्पद्रुमप्रसूनं यद्रसवत्तु सुधोपमम् ।

मंदारकुसुमामोदि न पपुर्मधुरं मधु ७७।

योगिन्य इव ताः कन्या नासाग्रन्यस्तलोचनाः ।

अलक्ष्यध्यानसंतानाः पुरुषोत्तममानसाः ७८।

चंद्रकांतमणिच्छन्ने स्रवद्वारिकणद्रवे ।

क्षणं वातायने स्थित्वा जलयंत्रेक्षणं क्षणात् ७९।

रचयंति क्षणं शय्यां दीर्घिकां भोजिनीदलैः ।

वीज्यमाना सखीभिस्ताः शीतलैः कदलीदलैः ८०।

इत्थं युगसमां रात्रिं मन्वानास्ता वरस्त्रियः ।

कथंचिद्धीरतां कृत्वा विह्वलाः सज्वरा इव ८१।

प्रातर्व्योममणिं दृष्ट्वा मन्यमानाः स्वजीवितम् ।

विज्ञाप्य मातरं स्वां स्वां गौरीं पूजयितुं गताः ८२।

स्नात्वा तेन विधानेन पुष्पैर्धूपैर्यथा तथा ।

विधाय पूजनं देव्या गायंत्यस्तत्र ताः स्थिताः ८३।

एतस्मिन्नंतरे विप्रः स्नातुं सोऽपि समागतः ।

पित्राश्रमपदात्तस्मादच्छोदे च सरोवरे ८४।

मित्रं दृष्ट्वैव रात्र्यंते नलिन्य इव कन्यकाः ।

उत्फुल्लनयना जातास्तं दृष्ट्वा ब्रह्मचारिणम् ८५।

गत्वा तदैव ताः कन्याः समीपं ब्रह्मचारिणः ।

सव्यापसव्यबंधेन भुजपाशं च चक्रिरे ८६।

गतोऽसि धूर्त पूर्वेद्युर्गंतुमद्य न शक्यसे ।

वृतस्त्वं नूनमस्माभिर्नात्र तेऽस्तु विचारणा ८७।

इत्युक्तो ब्राह्मणः प्राह प्रसन्बाहुपाशगः ।

युष्माभिरुच्यते भद्रमनुकूलं प्रियं वचः ८८।

प्रथमाश्रमनिष्ठस्य किंतु नाद्यापि मे व्रतम् ।

वेदाभ्यसनशीलस्य पारं याति गुरोः कुले ८९।

आश्रमे यत्र यो धर्मो रक्षणीयः स पंडितैः ।

विवाहोऽयमतो मन्ये न धर्म इति कन्यकाः ९०।

आकर्ण्य तस्य वाक्यानि तमूचुस्ता वचस्ततः ।

सकलध्वनिसोत्कंठाः कोकिला इव माधवे ९१।

धर्मादर्थोर्थतः कामः कामाद्धर्मफलोदयः ।

इत्येव निश्चितं शास्त्रं वर्णयंति विपश्चितः ९२।

सकामो धर्मबाहुल्यात्पुरस्ते समुपागतः ।

सेव्यतां विविधैर्भोगैः स्वर्गभूमिरियं ततः ९३।

श्रुत्वा तद्वचनं तासां प्राह गंभीरया गिरा ।

तथ्यं वो वचनं किंतु समाप्येह स्वकं व्रतम् ९४।

प्राप्यनुज्ञां गुरोः सर्वं वैवाहं कर्म नान्यथा ।

इत्युक्त्वा पुनरूचुस्ताः स्फुटं मूढोऽसि सुन्दरः ९५।

दिव्यौषधं ब्रह्मरसायनं च सिद्धिर्निधेः साधुकला वरांगनाः ।

मंत्रस्तथा सिद्धिरसश्च धर्मतो नेमा निषेध्याः सुधिया समागताः ९६।

कार्यं हि दैवाद्यदि सिद्धमागतं तस्मिन्नुपेक्षां न च याति नीतिगः ।

यस्मादुपेक्षा न पुनः फलप्रदा तस्मान्न दीर्घीकरणं प्रशस्यते ९७।

सांद्रानुरागाः कुलजन्मनिर्मलाः स्नेहार्द्रचित्ताः सुगिरः स्वयंवराः ।

कन्याः सुरूपाः खलु चारुयौवना धन्या लभंतेऽत्र नरास्तु नेतरे ९८।

क्व वयं वरसुन्दर्यः क्व चाऽयं तापसो बटुः ।

दुर्घटस्य विधाने हि मन्ये धातातिपंडितः ९९।

तस्मादस्मानिदानीं तु स्वीकुर्यान्मंगलं भवान् ।

गांधर्वेण विवाहेन ह्यन्यथा नो न जीवितम् 6.128.१००।

श्रुतवाक्यस्ततः प्राह ब्राह्मणो धर्मवित्तमः ।

भो मृगाक्ष्यः कथं त्याज्यो धर्मो धर्मधनैर्नरैः १०१।

धर्मश्चार्थश्च कामश्च मोक्षश्चैतच्चतुष्टयम् ।

यथोक्तं सफलं ज्ञेयं विपरीतं तु निष्फलम् १०२।

नाकालेहं व्रती कुर्यामतो दारपरिग्रहम् ।

न क्रियाफलमाप्नोति क्रियाकालं न वेत्ति यः १०३।

यतो धर्मविचारेऽस्मिन्प्रसक्तं मम मानसम् ।

तस्माच्छृणुत हे कन्या न समीहे स्वयंवरम् १०४।

एवं ज्ञात्वाशयं तस्य समीक्ष्यैताः परस्परम् ।

करात्करं विमुच्याथ जग्राहांघ्री प्रमोदिनी १०५।

भुजौ जग्रहतुस्तस्य सुशीला सस्वरा तथा ।

आलिलिंग सुतारा च चुचुंबे चंद्रिकामुखम् १०६।

तथापि निर्विकारोऽसौ प्रलयानलसन्निभः ।

शशाप ब्रह्मचारी ताः क्रोधेनात्यंतमूर्च्छितः १०७।

पिशाच्य इव मां लग्नास्तत्पिशाच्यो भविष्यथ ।

एवं तेनाशु शप्तास्तास्तं संत्यज्य पुरास्थिताः १०८।

किमेतच्चेष्टितं पाप ह्यनागसि जने त्वया ।

प्रिये कृत्येऽप्रियं कृत्वा धिक्ता धर्मज्ञतां तव १०९।

अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः ।

पुंसो लोकद्वये सौख्यं नाशं यातीति नः श्रुतम् ११०।

तस्मात्त्वमपि नः शापात्पिशाचो भव सत्वरम् ।

इत्युक्त्वोपरता बाला निःश्वसंत्यः क्षुधाकुलाः १११।

तदा चान्योन्यसंरंभात्तस्मिन्सरसि पार्थिव ।

ताः कन्या ब्रह्मचारी सः सर्वे पैशाचमागताः ११२।

पिशाच्याः स पिशाचश्च क्रंदमानाः सुदारुणम ।

क्षपयंति विपाकं तं पूर्वोपात्तस्य कर्मणः ११३।

स्वकाले तु फलत्येव पूर्वोपात्तं शुभाशुभम् ।

स्वच्छाया इव दुर्वारं देवानामपि पार्थिव ११४।

क्रंदंति पितरस्तासां मातरस्तत्र तस्य च ।

अप्रमादश्च बालानां दैवं हि दुरतिक्रमम् ११५।

तत ऊर्ध्वं पिशाचास्ते आहारार्थे सुदुःखिताः ।

इतस्ततश्च धावंतो वसंति सरसस्तटे ११६।

एवं बहुतिथे काले लोमशो मुनिसत्तमः ।

पौषे मासि चतुर्दश्यामच्छोदे स्नातुमागतः ११७।

दृष्ट्वा तं ब्राह्मणं सर्वे पिशाचाः क्षुत्समाकुलाः ।

धावंतो हंतुकामास्ते मिलित्वा यूथवर्तिनः ११८।

दह्यमानासु तीव्रेण तेजसा लोमशस्य च ।

असमर्थाः पुरःस्थातुं सर्वे ते दूरतः स्थिताः ११९।

तत्र वेदनिधिर्विप्रस्तदैव हि समागतः ।

समीक्ष्य लोमशं राजन्साष्टांगं प्रणिपत्य सः १२०।

उवाच सूनृतां वाचं बद्ध्वा शिरसि चांजलिम् ।

महाभाग्योदये विप्र साधूनां संगतिर्भवेत् १२१।

गंगादिसर्वतीर्थेषु यो नरः स्नाति सर्वदा ।

यः करोति सतां संगं तयोः सत्संगतिर्वरा १२२।

गुरूणां संगमो विप्र दृष्टादृष्टफलो भुवि ।

स्वर्गदो रोगहारी च किंतु सोपद्रवो मतः १२३।

इत्युक्त्वा कथयामास पूर्ववृत्तांतमद्भुतम् ।

इमा गंधर्वकन्यास्ता बटुः सोऽयं ममात्मजः १२४।

सर्वे पिशाचरूपेण मिथः शापविमोहिताः ।

दीनाननास्तु तिष्ठंति तवाग्रे मुनिसत्तम १२५।

त्वद्दर्शनेन बालानां निस्तारोऽद्य भविष्यति ।

सूर्योदये तमः स्तोमः किं न लीयेत गह्वरे १२६।

श्रुत्वा तल्लोमशो राजन्कृपार्द्रीकृतमानसः ।

प्रत्युवाच महातेजास्तं मुनिं पुत्रदुःखितम् १२७।

मत्प्रसादाच्च बालानां स्मृतिः सपदि जायताम् ।

धर्मं च वच्मि तं येन मिथः शापो लयं व्रजेत् १२८।

वेदनिधिरुवाच।

महर्षे कथ्यतां धर्मो मुच्यंते येन बालकाः ।

नायं कालो विलंबस्य शापाग्निर्दारुणो यतः १२९।

लोमश उवाच।

मया सार्धं प्रकुर्वंतु माघस्नानं विधानतः ।

शापान्मुच्यंति माघांते नान्यथा निष्कृतिर्भवेत् १३०।

शापः पापफलं विप्र पापनाशो भवेन्नृणाम् ।

माघस्नानेन तीर्थे च इति मे निश्चिता मतिः १३१।

सप्तजन्मकृतं पापं वर्तमानं च पातकम् ।

माघस्नानं दहेत्सर्वं पुण्यतीर्थे विशेषतः १३२।

प्रायश्चित्तं न पश्यंति यस्मिन्पापे मुनीश्वराः ।

पातकं पुण्यतीर्थेषु नश्येत्तदपि माघतः १३३।

ज्ञानकृन्मानसे माघस्तस्मान्मोक्षफलप्रदः ।

हिमवत्पृष्ठतीर्थेषु सर्वपापप्रणाशनः १३४।

इंद्रलोकप्रदोच्छोदे निर्दिष्टो वेदवादिभिः ।

सर्वपापहरो माघो मोक्षदो बदरीवने १३५।

पापहा दुःखहारी च सर्वकामफलप्रदः ।

रुद्रलोकप्रदो माघो नार्मदे पापनाशनः १३६।

यामुनः सूर्यलोकाय भवेत्कल्मषनाशनः ।

सारस्वतोऽघविध्वंसी ब्रह्मलोकफलप्रदः १३७।

विशालफलदो माघो विशालायां द्विजोत्तम ।

पातकेंधनदावाग्निर्गर्भहेतु क्रियापहः १३८।

विष्णुलोकाय मोक्षाय जाह्नवः परिकीर्तितः ।

शरयू गंडकी सिंधुश्चंद्रभागा च कौशिकी १३९।

तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका ।

कावेरी तुंगभद्रा च अन्या याश्च समुद्रगाः १४०।

आशु माघी नरो याति स्वर्गलोकं विकल्मषः ।

नैमिषे विष्णुसायुज्यं पुष्करे ब्रह्मणोंतिकम् १४१।

आखंडलस्य लोको हि कुरुक्षेत्रे तु माघतः ।

माघो देवह्रदे विप्र योगसिद्धिफलप्रदः १४२।

प्रभासे मकरादित्ये स्नानाद्रुद्रगणो भवेत् ।

देवक्यां देवतादेहो नरो भवति माघतः १४३।

माघस्नानेन भो विप्र गोमत्यां न पुनर्भवः ।

हेमकूटे महाकाले ॐकारे अमरेश्वरे १४४।

नीलकंठेर्बुदे माघाद्रुद्रलोके महीयते ।

सर्वासां सरितां विप्र संगमे मकरे रवौ १४५।

स्नानेन सर्वकामानामवाप्तिर्जायते नृणाम् ।

माघस्तु प्राप्यते धन्यैः प्रयागे द्विजसत्तम ।

अपुनर्भवदं तत्र सितासितजलं यतः १४६।

गायंति देवाः सततं दिविस्था माघः प्रयागे किल नो भविष्यति ।

स्नानान्नरा यत्र न गर्भवेदनां पश्यंति तिष्ठंति च विष्णुसन्निधौ १४७।

मज्जंति येऽपित्र्यहमत्र मानवास्तीर्थे प्रयागे बहुपापकंचुकाः ।

व्रजंति ते नो निरयेषु धर्मिणः स्वर्गे शुभे चारु चरंति देववत् १४८।

तीर्थैर्व्रतैर्दानतपोभिरध्वरैः सार्धं विधात्रा तुलया धृतं पुरः ।

माघे प्रयागस्य तयोर्द्वयोरभून्माघो गरीयानत एव सोऽधिकः १४९।

वातांबुपर्णाशनदेहशोषणैस्तपोभिरुग्रैश्चिरकालसंचितैः ।

योगैश्च संयांति नरा नतां गतिं स्नानेन माघस्य हि यांति यां गतिम् 6.128.१५०।

स्नाताश्च ये मकरभास्करोदये तीर्थे प्रयागे सुरसिंधुसंगमे ।

तेषां गृहद्वारमलंकरोति किं भृंगावलि कुंजरकर्णताडिता १५१।

यो राजसूयाद्धयमेधयज्ञतः स्नानात्फलं संप्रददाति चाधिकम् ।

पापानि सर्वाणि विलोप्य लीलया नूनं प्रयागः स कथं न सेव्यते १५२।

अवंतिविषये राजा वीरसेनोऽभवत्पुरा ।

नर्मदातीरमागत्य राजसूयं चकार सः १५३।

षोडशैरश्वमेधैश्च स्वर्णवाटविराजितैः ।

स्वर्णभूषणयूपाढ्यैरीजे सोऽपि यथाविधि १५४।

प्रददौ धान्यराशींश्च द्विजेभ्यः पर्वतोपमान् ।

वदान्यो देवताभक्तो गोप्रदः स सुवर्णदः १५५।

ब्राह्मणो भद्रको नाम मूर्खो हीनकुलस्तथा ।

कृषीवलो दुराचारः सर्वधर्मबहिष्कृतः १५६।

कृषिकर्मसमुद्विग्नो बंधुभिश्चाप्यसंस्कृतः ।

इतस्ततः परिभ्रम्य निर्गतः क्षुत्प्रपीडितः १५७।

दैवतः सार्थमाविश्य प्रयागं स समागतः ।

महामाघीं पुरस्कृत्य सस्नौ तत्र दिनत्रयम् १५८।

अनघः स्नानमात्रेण भूत्वेह स द्विजोत्तमः ।

प्रयागाच्चलितस्तत्र पुनर्यस्मात्समागतः १५९।

स राजा सोऽपि विप्रश्च विपन्नावेकदा तदा ।

तयोर्गतिः समादृष्टा मया शक्रस्य सन्निधौ १६०।

तेजो रूपं बलं स्त्रैणं देवयानं विभूषणम् ।

पारिजातमयीमाला नृत्यं गीतं तयोः समम् १६१।

इति दृष्टं हि माहात्म्यं क्षेत्रस्य कथमुच्यते ।

माघः सितासिते विप्र राजसूयैः समो मतः १६२।

धनुस्त्रिशतविस्तीर्णे सितनीलांबुसंगमे ।

अपुनरावृत्तिर्माघी राजसूयी पुनर्भवेत् १६३।

माघमासीय वातोऽपि सितासितजलं स्पृशेत् ।

अधर्म्यं न स्पृशेन्नूनं महापातकहा हि सः १६४।

किमत्र बहुनोक्तेन श्रूयतां द्विज निश्चितम् ।

समुद्भूतफलं पापं तीर्थे माघः प्रणाशयेत् १६५।

अत्र ते कथयिष्यामि सावधानमतिः शृणु ।

पिशाचमोचनं नाम इतिहासं पुरातनम् ।

शृण्वंत्यप्सरसो बालाः शृणोतु त्वत्सुतस्तथा ।

मत्प्रसादात्स्मृतिर्लब्ध्वा पैशाच्यान्मुक्तिकामिनः १।

पुरा देवद्युतिर्विप्रो वैष्णवो वेदपारगः १६६।

पिशाचान्मोचयामास करुणाप्लुतमानसः १६७।

दिलीप उवाच।

कुत्र स्थितः कस्य पुत्रो नियमः कोऽस्य वा जपः ।

केन वा वैष्णवो वृत्तः के पिशाचाश्च मोचिताः १६८।

एतद्विस्तरतः सर्वं कीर्तयस्व महामुने ।

कौतूहलं महापुण्यं शृणुमस्त्वत्प्रसादतः १६९।

वसिष्ठ उवाच।

प्लक्षप्रस्रवणे पुण्ये सरस्वत्यास्तटे शुभे ।

तत्राश्रमपदं तस्य शैलमाश्रित्य शोभनम् १७०।

शालैस्तालैस्तमालैश्च बिल्वैर्बकुलपाटलैः ।

तिंतिडीचिरिबिल्वैश्च चूतचंपककांचनैः १७१।

करंजैः कोविदारैश्च केसरैः कुंजराशनैः ।

तिलकैः कर्णिकारैश्च कुंभैः खादिरतिंदुकैः १७२।

वानीरैः साल्वजंबीरैः पीलूदुंबरवेतसैः ।

शाकोटैरटरूषैश्च करहाटैर्वटद्रुमैः १७३।

घोंटाकुटजपालाशैरशोकैः शोकहारिभिः ।

जंबूनिंबकदंबैश्च क्षीरिकाकरमर्दकैः १७४।

बीजपूरैः सनारिंगै रंभाराजिविराजितैः ।

पनसै रसवद्भिश्च नारिकेलैः सदाफलैः १७५।

सप्तच्छदैस्त्रिपत्रैश्च शिरीषामलकैः शुभैः ।

कर्कंधू लकुचैरक्षैः पारिभद्रैर्वचादिभिः १७६।

केतकैः सिंदुवारैश्च तगरैः कुन्दमल्लिकैः ।

पद्मेन्दीवरकह्लार मालती यूथिकादिभिः १७७।

मालती मोगरैश्चैव जातीफलविराजितैः ।

पुन्नागैः किंशुकैश्चैव बर्बरीतुलसीद्रुमैः १७८।

आश्रमो रमणीयः स द्रुमैर्नानाविधैर्नृप ।

वनमध्ये नदी याति पुण्यतोया सरस्वती १७९।

कूजंति सारसास्तत्र मदस्निग्धकलं सदा ।

नदंति कोकिलाः शब्दं गुंजंति च मधुव्रताः १८०।

बहुकोलाहलं भूप तद्वनं शुकसारिभिः ।

चरंति श्वापदास्तत्र विविधाः काननोत्तमे १८१।

सदाफलं सदापुष्पं परागकणधूसरम् ।

आच्छन्नं काननं सर्वं मधुवृक्षैः समंततः १८२।

नवपल्लवसंजातमंजरीभरवल्लिभिः ।

आश्लिष्टमभितोरम्यं प्रियाभिरिव वल्लभः १८३।

तस्य शापभयात्त्रस्तो वातो वाति समंततः ।

न वर्षंत्यश्मभिर्मेघा न शोषयति भास्करः १८४।

वनं नोपद्रवं तद्धि सदा सिद्धनिषेवितम् ।

आह्लादजनकं नित्यं वनं चैत्ररथं यथा १८५।

तस्मिन्वसति धर्मात्मा देवद्युतिर्द्विजोत्तमः ।

पुत्रः सुमित्रो विप्रस्य लब्धो लक्ष्मीपतेर्वरात् १८६।

नियमः श्रूयतां तस्य सर्वदा नियतात्मनः ।

ग्रीष्मे पंचतपा नित्यं सूर्यन्यस्तविलोचनः १८७।

वर्षत्कादंबिनी यावद्वर्षास्वभ्रावकाशगः ।

वाते प्रवाते निष्कंपो दुःसहो हिमवानिव १८८।

वसत्यप्सु स हेमंते ह्रदे सारस्वते द्विज ।

उपस्पृशति काले स त्रिवारं वारिनिर्मलम् १८९।

पितॄन्देवानृषीन्नित्यं संतर्पयति श्रद्धया ।

ब्रह्मयज्ञपरो नित्यं सत्यवादी जितेंद्रियः १९०।

भूमौ विश्राम्य विश्रांतः प्रदध्यौ प्रार्थयन्हरिम् ।

वन्यैर्जुहोत्यग्निहोत्रं श्रद्धयातिथिपूजकः १९१।

चांद्रायणविधानेन कालं नयति सर्वदा ।

स्वयं विगलितैः पत्रैः फलैर्वृत्तिं समीहते १९२।

अनुद्विग्नस्तपोनिष्ठो वेदवेदांगपारगः ।

धमनी विकरालोसावस्थिमात्रकलेवरः १९३।

इत्थं जगाम वर्षाणां सहस्रं तस्य कानने ।

तदा जज्वाल शैलोऽसौ तपसस्तस्य तेजसा १९४।

सोढुं न शक्यते भूतैस्तेजस्तस्य महात्मनः ।

वैश्वानर इवाभाति प्रज्वलंस्तपसा द्विज १९५।

गतवैराणि भूतानि समजायंत तद्वने ।

मृगव्याघ्राखुमार्जारा मिथः क्रीडंति निर्भयाः १९६।

अन्योऽपि नियमस्तस्य श्रूयतामतिदुर्लभः ।

नारायणं त्रिकालं स संपूजयति नित्यशः १९७।

पुष्पाणां तु सहस्रेण विकचेन सुगंधिना ।

वेदसूक्तविधानेन विष्णुध्यानपरायणः १९८।

विष्णोः संप्रीतये विप्रः कुरुते कर्म चाखिलम् ।

दधीचेर्वरदानात्स संजातो वरवैष्णवः १९९।

एकदा मासि वैशाखे एकादश्यां महामुनिः ।

पूजां कृत्वा हरे रम्यां विचित्रामकरोत्स्तुतिम् 6.128.२००।

तदैव खगमारुह्य देवो देवो हरिः स्वयम् ।

आजगाम पुरस्तस्य तया स्तुत्यातिहर्षितः २०१।

तं दृष्ट्वा गरुडारूढं प्रत्यक्षं जलदच्छविम् ।

चतुर्बाहुं विशालाक्षं सर्वालंकारभूषितम् २०२।

उद्भूतपुलको विप्रः सानंद जललोचनः ।

जगाम शिरसा भूमौ कृतकृत्यमनास्तदा २०३।

न ममौ तेन हर्षेण स ब्रह्मांडोदरेऽपि हि ।

न सस्मार निजं देहं ब्रह्मभूत इवाभवत् २०४।

ततः संभाषितः प्रीत्या हरिणा वैष्णवो मुनिः ।

देवद्युते विजानामि मद्भक्तस्त्वं मदाश्रयः २०५।

संन्यस्ताखिलकर्मासि मद्भावो मन्मनाः सदा ।

वरं ब्रूहि प्रसन्नोऽस्मि स्तोत्रेणानेन चानघ २०६।

इति श्रुत्वा हरेर्वाक्यं प्रत्युवाच स तापसः ।

देवदेवारविंदाक्ष स्वमायाधृतविग्रह २०७।

त्वद्दर्शनात्सदा देव दुर्लभो नापरो वरः ।

ब्रह्मादयः सुराः सर्वे योगिनः सनकादयः २०८।

त्वां साक्षात्कर्तुमिच्छंति सिद्धाश्च कपिलादयः ।

अहं ममेति पाशा ये मोह लोभाः शुभाशुभाः २०९।

सहेतुकाश्च दह्यंते दृष्टे त्वयि परावरे ।

जन्मनः कर्मणो बुद्धेराविर्भूतं फलं मम २१०।

यद्दृष्टोऽसि जगन्नाथ प्रार्थये किमतः परम् ।

न वरार्थं हि देवेश त्वत्पादपंकजं हृदि २११।

चिंतयामि सदा भक्त्या त्वद्गतेनांतरात्मना ।

इममेव वरं याचे त्वद्भक्तिरचला मम २१२।

अस्तु वै कमलानाथ प्रार्थये नापरं वरम् ।

इति श्रुत्वा वचस्तस्य प्रसन्नवदनो हरिः २१३।

प्रत्युवाच प्रसन्नात्मा एवमस्तु द्विजोत्तम ।

अन्यस्ते तपसः कश्चित्प्रत्यूहो न भविष्यति २१४।

एतच्च त्वत्कृतं स्तोत्रं ये पठिष्यंति मानवाः ।

तेषां मद्विषया भक्तिर्निश्चला च भविष्यति २१५।

धर्मकार्यं च यत्किंचित्सांगं सर्वं भविष्यति ।

ज्ञाने च परमा निष्ठा तेषां स्थास्यति निश्चला २१६।

इत्युक्त्वांतर्हितस्तत्र देवदेवो जनार्दनः ।

देवद्युतिस्तदारभ्य नारायणपरोऽभवत् २१७।

दिलीप उवाच।

महर्षेऽनुगृहीतोऽस्मि कथया पावनीकृतः ।

अनया विष्णुसंगत्या गंगयेवाहमद्य वै २१८।

किं तत्स्तोत्रं समाख्याहि प्रसन्नो येन माधवः ।

तस्यानघस्य विप्रस्य महत्कौतूहलं मम २१९।

त्वत्प्रसादादहं विप्र मन्ये प्राप्तं मनोरथम् ।

महतां संगतिः कस्य महत्त्वाय न कल्पते २२०।

कथयस्व प्रसादेन विष्णोः स्तोत्रमनुत्तमम् ।

येन तुष्टः स भगवान्ददौ तस्य च दर्शनम् २२१।

वसिष्ठ उवाच।

कथयामि रहस्यं ते यज्जप्तं स्तोत्रमुत्तमम् ।

प्राग्गृहीतं सुपर्णेन गरुडान्मयि चागतम् २२२।

अध्यात्मगर्भसारं तन्महोदयकरं शुभम् ।

सर्वपापहरं भूप स्वात्मज्ञानकरं परम् २२३।

ॐ नमो वासुदेवाय नमो विश्वाय चक्रिणे ।

भक्तप्रियाय कृष्णाय जगन्नाथाय शार्ङ्गिणे २२४।

स्तोता स्तुत्यः स्तुतिः सर्वं जगद्विष्णुमयं यदा ।

तदा संस्तूयते केन भक्तिर्मोदकरी नृणाम् २२५।

यस्य देवस्य निःश्वासो वेदाः सांगाः ससूत्रकाः ।

का स्तुतिः प्रमुदे तस्य भक्त्याऽहं मुखरोऽभवम् २२६।

चक्रवद्भ्रमते सर्वं त्रैलोक्यं सचराचरम् ।

अतस्त्वं गीयते देव चक्रपाणि वरायुध २२७।

वेदो न वक्ति यं साक्षान्न च वाग्वेत्ति नो मनः ।

मद्विधस्तं कथं स्तौति भक्तिमान्वा कथं भवेत् २२८।

ब्रह्मादिब्रह्मविष्णुस्त्वं त्वमेव सकलाश्रयः ।

स्रष्टा ब्रह्मनिदानं च शुद्धं ब्रह्मत्वमेव च २२९।

(कोऽयं कायस्तव विभो भित्त्वा स्पृशति कायिनम् ।

कायदोषैर्न चाघ्रातस्तस्मै नमोस्तु योगिने १)।

देवभावेन जागर्ति न निद्राति निजात्मनि ।

सुखसंदोहबुद्धिर्या सा त्वं विष्णो न संशयः २३०।

महदादयो महाभावास्तथा वैकारिका गुणाः ।

त्वमेव नाथ तत्सर्वं नानात्वं मूढकल्पना २३१।

केशकेशवरूपाभिः कल्पना तिसृभिस्तथा ।

त्वमेव कल्पसे ब्रह्म पुमानिव सुतादिभिः २३२।

विदोषं विगुणं चैकं चिन्मूर्तिरखिलं जगत् ।

कवीनां भाति यत्तत्त्वं तं विष्णुं नौमि निर्मलम् २३३।

यस्य ज्ञानेन कुर्वंति कर्मापि श्रुतिभाषितम् ।

निरीषणा जगन्मित्राः शुद्धं ब्रह्म नमामि तत् २३४।

ध्वस्तेतरच्च सन्मात्रं यत्प्रबोधादुपासते ।

योगिनः सर्वभूतेषु सद्रूपं नौमि तं हरिम् २३५।

ब्रह्माहमिति गायंति यं ज्ञात्वैकं वरा द्विजाः ।

पश्यंतो हि त्वया तुल्यं देव तं नौमि माधवम् २३६।

मायया मोहवैचित्र्यं तथाहं ममतां नृणाम् ।

यो नाशयति पापौघान्नमस्तस्मै चिदात्मने २३७।

प्रयाणे वा प्रयाणे च यन्नामस्मरतां नृणाम् ।

सद्यो नश्यंति पापौघा नमस्तस्मै चिदात्मने २३८।

मोहानललसज्ज्वाला ज्वलल्लोकेषु सर्वदा ।

यत्पादांभोरुहच्छायां प्रविष्टश्च न दह्यते २३९।

यस्य स्मरणमात्रेण न मोहो नैव दुर्गतिः ।

न रोगा नैव दुःखानि तमनंतं नमाम्यहम् २४०।

कामयंते प्रजा नैव धिषणाभ्यः समुत्थिताः ।

लोकमात्मैव पश्यंति यं बुद्ध्वैकचरा जनाः २४१।

शब्दार्थः संविदर्थश्च विष्णोर्नामपरो यदि ।

सत्येन तेन संसारो मा संस्पृशतु माधव २४२।

नारायणो जगद्व्यापी यदि वेदादिसंमतः ।

सत्येन तेन निर्विघ्ना विष्णुभक्तिर्ममास्तु वै २४३।

यो न बीजं विना बीजं बीजे यो बीजभावितः ।

स विष्णुर्भव बीजं मे सितविद्यासि नाद्य तु २४४।

त्रितनुर्नटवद्यस्तु सृष्टि स्थिति लयेषु च ।

गुणैर्भवति कार्येषु स प्रसीदतु मे हरिः २४५।

दशधेहाऽवतीर्णो यो धर्मत्राणाय केवलम् ।

अभ्यर्थितः सुरैः सर्वैः स प्रसीदतु मे हरिः २४६।

ब्रह्मादिस्तंबपर्यंतं प्राणिहृन्मंदिरेऽमलः ।

एको वसति यो देवः स प्रसीदतु मे हरिः २४७।

इच्छां चक्रे स देवाग्रे एकश्चैव बहुस्तथा ।

प्रविष्टो देवताः स्रष्टा स प्रसीदतु मे हरिः २४८।

हृत्खगः खसमः खादिः खातीतः खक्रियः खगः ।

खं ब्रह्मा खादिभुक्चांते खमूर्तिस्त्वं मखाशनः २४९।

यद्भासायन्मुदा यस्य मायया सज्यते जगत् ।

जाड्यं दुःखमसत्यं च स भवानेव तन्मयः 6.128.२५०।

त्वत्सृष्टं मोदते विश्वं त्वत्त्यक्तमशुचिर्भवेत् ।

तत्संगतोऽप्यसंगस्त्वं विकारस्तेन तेन हि २५१।

भूतयोगजचैतन्यं चार्वाकायमुपासते ।

सौगता ब्रवते तर्कैस्त्वां बुद्धिं क्षणभंगुराम् २५२।

शरीरपरिमाणं त्वां मन्यंते जिनदेवताः ।

ध्यायंति पुरुषं सांख्यास्त्वामेव प्रकृतेः परम् २५३।

जन्मादिरहितः पूर्वं यः स्यादानंदलक्षणम् ।

त्वामेवोपनिषद्ब्रह्म चिंतयंति परस्परम् २५४।

खादिभूतानि देहश्च मनो बुद्धींद्रियाणि च ।

विद्याविद्ये त्वमेवात्र नान्यत्त्वत्तोऽस्ति किंचन २५५।

त्वं धाता सर्वभूतानां त्वमेव शरणं मम ।

त्वमग्निस्त्वं हविः शक्रो होता मंत्रः क्रियाफलम् २५६।

त्वमस्ति नास्ति वैकुंठ त्वामहं शरणं गतः ।

त्वं कर्मफलदाता च दीक्षितानां क्रियाफलम् २५७।

त्वं हेतुः सर्वभूतानां त्वमेव शरणं मम ।

युवतीनां यथा यूनि यूनां च युवतौ यथा २५८।

मनोऽभिरमते तद्वत्प्रीतिर्मे रमतां त्वयि ।

अपि पापं दुराचारं नरं त्वत्प्रणतं हरे २५९।

नेक्षंते किंकरा याम्या उलूकास्तपनं यथा ।

तापत्रयमघौघश्च तावत्पीडयते जनम् २६०।

यावत्स्मरति नो नाथ भक्त्या त्वत्पादपंकजम् २६१।

यं नस्पृशंति गुणजातिशरीरधर्मा यं न स्पृशंति गतयस्त्वखिलेंद्रियाणाम् ।

यं च स्पृशंति मुनयो गतसंगमोहास्तस्मै नमो भगवते हरये करोमि २६२।

स्थूलं विलाप्यकरणे करणं निदाने तत्कारणं करणकारणवर्जिते च ।

इत्थं विलाप्य मुनयः प्रविशंति तत्र तस्मै नमोस्तु हरये मुनिसेविताय २६३।

यद्ध्यानसंवहनघूर्णवशीकृतांतामैश्वर्यचारुगुणिनीं सुखमोक्षलक्ष्मीम् ।

आलिंग्य शेरत इहात्मसुखैकभाजस्तस्मैनमोऽस्तु हरये मुनिसेविताय २६४।

जन्मादिभावविकृतेर्विरहस्वभावे यस्मिन्नयं परिधुनोति षडूर्मिवर्गः ।

यं तापयंति न सदा मदनादिदोषास्तं वासुदेवममलं प्रणतोऽस्मि हार्दम् २६५।

यद्ध्यानसंगतमलं विजहात्यविद्यां यद्ध्यानवह्निपतितं जगदेति नाशम् ।

यज्ज्ञानमुल्लसदसिद्यति संशयारिं तं त्वां हरिं विशदिबोधघनं नमामि २६६।

चराचराणि भूतानि सर्वाणि च हरेर्वशे ।

यथात्र तेन सत्येन पुरस्तिष्ठतु मे हरिः २६७।

यथा नारायणः सर्वं जगत्स्थावरजंगमम् ।

तेन सत्येन मे रूपं प्रदर्शयतु केशवः २६८।

भक्तिर्यथा हरौ मेऽस्ति तद्वरिष्ठा गुरौ यदि ।

ममास्ति तेन सत्येन स्वं दर्शयतु केशवः २६९।

तस्यैवं शपथैः सत्यैर्भक्तिं तस्यानुचिंतयन् ।

दर्शयामास चात्मानं स प्रीतः पुरुषोत्तमः २७०।

ततो दत्त्वा वरं तस्य पूरयित्वा मनोरथम् ।

जगाम कमलाकांतः स्तुत्या विप्रेण तोषितः २७१।

कृतकृत्यो द्विजः सोऽपि वासुदेवपरायणः ।

शिष्यैः सार्धं जपन्स्तोत्रं तस्मिन्नास्ते तपोवने २७२।

कीर्तयेद्यनइदंनस्तोत्रंनशृणुयाद्योऽपिनमानवः ।

अश्वमेधस्यनयज्ञस्यनप्राप्नोतिनविपुलंनफलम् २७३।

आत्मविद्याप्रबोधं च लभते ब्राह्मणः सदा ।

न पापे जायते बुद्धिर्नैव पश्यत्यमंगलम् २७४।

बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैंद्रियकं तथा ।

नृणां भवति सर्वेषामस्य स्तोत्रस्य कीर्तनात् २७५।

विचार्यार्थं जपेद्यस्तु श्रद्धया तत्परो नरः ।

स विधूयेह पापानि लभते वैष्णवं पदम् २७६।

लभते वांच्छितान्कामान्पुत्रपौत्रान्पशूंस्तथा ।

दीर्घमायुर्बलं वीर्यं लभते स सदा पठन् २७७।

तिलपात्रसहस्रेण गोसहस्रेण यत्फलम् ।

तत्फलं समवाप्नोति य इमां कीर्तयेत्स्तुतिम् २७८।

धर्मार्थकाममोक्षाणां यं यं कामयते सदा ।

अचिरात्तमवाप्नोति स्तोत्रेणानेन मानवः २७९।

आचारे विनये धर्मे ज्ञाने तपसि सन्नये ।

नृणां भवति नित्यं धीरिमां संशृण्वतां स्तुतिम् २८०।

महापातकयुक्तो वा युक्तो वा ह्युपपातकैः ।

सद्यो भवति शुद्धात्मा स्तोत्रस्य पठनात्सकृत् २८१।

प्रज्ञा लक्ष्मीर्यशः कीर्तिज्ञानधर्मविवर्धनम् ।

दुष्टग्रहोपशमनं सर्वाशुभविनाशनम् २८२।

सर्वव्याधिहरं पथ्यं सर्वारिष्टनिषूदनम् ।

दुर्गतेस्तरणं स्तोत्रं पठितव्यं द्विजातिभिः २८३।

नक्षत्रग्रहापीडासु राजचोरभयेषु च ।

अग्निचोरनिपातेषु सद्यः संकीर्तयेदिदम् २८४।

सिंहव्याघ्रभयं नास्ति नाभिचारभयं तथा ।

भूतप्रेतपिशाचेभ्यो राक्षसेभ्यस्तथैव च २८५।

पूतना जृंभकेभ्यश्च विघ्नेभ्यश्चैव सर्वदा ।

नृणां क्वचिद्भयं नास्ति स्तवे ह्यस्मिन्प्रकीर्तिते २८६।

वासुदेवस्य पूजां यः कृत्वा स्तोत्रमुदीरयेत् ।

लिप्यते पातकैर्नासौ पद्मपत्रमिवांभसा २८७।

गंगादिपुण्यतीर्थेषु या स्नानैर्नाप्यते गतिः ।

तां गतिं समवाप्नोति पठन्पुण्यामिमां स्तुतिम् २८८।

एककालं द्विकालं वा त्रिकालं वापि यः पठेत् ।

सर्वदा सर्वकालेषु सोऽक्षयं सुखमश्नुते २८९।

चतुर्णामपि वेदानां त्रिरावृत्त्या च यत्फलम् ।

तत्फलं लभते स्तोत्रमधीयानः सकृन्नरः २९०।

अक्षय्यं धनमाप्नोति स्त्रीणां भवति वल्लभः ।

पूजां विंदति लोकेऽस्मिच्छ्रद्धया संस्मरन्हरिम् २९१।

सर्वदा संपदायुक्तो विपदं नैव गच्छति ।

गोभिर्न ह्रियते स्तोत्रं नित्यं यः कीर्तयेद्धि यत् २९२।

अलक्ष्मी कालकर्णी च दुःस्वप्नं दुर्विचिंतितम् ।

सद्यो नश्यंति भक्तानामेतं संशृण्वतां स्तवम् २९३।

प्रातरुत्थाय योऽधीते शुचिर्विष्णुपरायणः ।

अक्षय्यं लभते सौख्यमिह लोके परत्र च २९४।

देवद्युतिप्रणीतं वै विष्णुप्रीतिकरं शुभम् ।

विष्णुप्रसादजननं विष्णुदर्शनकारकम् २९५।

योगसारमिदं नाम स्तोत्रं परमपावनम् ।

यः पठेत्सततं भक्त्या विष्णुलोकं स गच्छति २९६।

इति ते कथितं स्तोत्रं गुह्यं पापप्रणाशनम् ।

अत ऊर्ध्वं प्रवक्ष्यामि पिशाचस्य विमोचनम् २९७।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे माघमाहात्म्ये वसिष्ठदिलीपसंवादे।

योगसारस्तोत्रकथनंनाम अष्टाविंशत्यधिकशततमोऽध्यायः १२८।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 129

वसिष्ठ उवाच।

श्रूयतां ये पिशाचाश्च मोचितास्तेन तद्वने ।

आसीद्राजा चित्रनामा द्राविडे विषये पुरा १।

सोमान्वये महावीरः शूरः शस्त्रास्त्रपारगः ।

गजवाजिरथौघैश्च संपन्नो विक्रमी सदा २।

स्वर्णैर्नानाविधै रत्नैः पूर्णकोशो महाधनः ।

मध्ये नारीसहस्रस्य सदा क्रीडति तत्परः ३।

स्त्रैणः कामी सदा लुब्धश्चंडकोपः स पार्थिवः ।

न करोति वचो धर्म्यं सचिवैः समुदीरितम् ४।

विष्णुं निंदति सोऽत्यर्थं वैष्णवान्द्वेष्टि सर्वदा ।

कोऽसौ विष्णुः क्व दृष्टोऽसौ क्व चास्ते केन कीर्त्यते ५।

इत्थं न सहते विष्णुं स राजा दैवमोहितः ।

नारायणं भजंते ये तान्पीडयति कोपितः ६।

न ब्राह्मणान्न वेदांश्च वैदिकं कर्म न व्रतम् ।

न दानं मन्यते दातुं पाखंडस्थितिसंस्थितः ७।

अनीत्या चंडदंडैश्च प्रजापीडां करोति सः ।

निष्ठुरो निर्दयः क्रूरः पुण्यकार्यपराङ्मुखः ८।

च्युताचारोऽच्युतद्वेष्टा च्युताग्निश्च च्युतक्रियः ।

सोऽनुशास्ति जनं भूपः कालरूप इवापरः ९।

ततो बहुतिथे काले स राजा पंचतां गतः ।

वैदिकेन विधानेन लेभे नैवोर्ध्व दैहिकम् १०।

अथ किंकरयूथेन पीड्यमानो भृशं तदा ।

अयःकीलमये मार्गे तप्तसिक्ता प्रपूरिते ११।

चंडार्करश्मिसंतप्ते वृक्षच्छायाविवर्जिते ।

तप्तांगारप्रकीर्णे च वह्निज्वालासमाकुले १२।

लोहतुंडैश्च काकोलैर्हन्यमानः सुदारुणैः ।

वृकैर्दंष्ट्राकरालैश्च श्वभिर्घोरैश्च भक्षितः १३।

शृण्वन्क्रंदितमन्येषां नृणां किल्बिषकारिणाम् ।

जगाम पार्थिवो लोकमंतकस्य भयावहम् १४।

शृणु भूपगतिं तस्य तस्मिँल्लोके सुदुःसहाम् ।

निरयान्निरयं यातः पर्यायेण स भूपतिः १५।

आदौ प्रयातस्तामिस्रे दारुणे भूरिदुःखदे ।

पुनश्चैवांधतामिस्रे यत्र दुःखं निरंतरम् १६।

गतोऽनंतरमत्युग्रं महारौरवरौरवम् ।

नरकं कालसूत्रं च महानरकमेव च १७।

पश्चान्मग्नः स भूपालो दुस्तरे दुःखमूर्छितः ।

संजीवने महावीचौ तापने संप्रतापने १८।

प्रतापनरकं राजा दुःखाग्निप्लुष्टमानसः ।

संपातं च स काकोलं कुड्मलं पूतिमृत्तिकम् १९।

लोहशंकुं मृगीयंत्रं पंथानं शाल्मलिनदीम् ।

प्रविष्टोऽथ महाभीमं दुर्दर्शं दुर्गमं पुनः २०।

असिपत्रवनं चैव लोहचारकमेव च ।

एवमेतेषु सर्वेषु पतित्वा पापकृन्नृपः २१।

अविंदन्नरके घोरे संतापं यातनामयम् ।

विष्णुप्रद्वेषघोषेण युगानामेकविंशतिः २२।

भुक्त्वा च यातनां याम्यां निस्तीर्णनरको नृपः ।

समयाद्गिरिराजे तु पिशाचोऽभूत्तदा महान् २३।

स भ्राम्यति दिशः सर्वा वने तस्मिन्बुभुक्षितः ।

न पश्यत्यशनं तोयं मेरावपि सदा गिरौ २४।

कदाचित्पर्यटन्सोऽथ पिशाचः शोकपीडितः ।

प्लक्षप्रस्रवणारण्यं प्रविष्टो भाविसत्फलम् २५।

बिभीतकतरुच्छायां समाश्रित्य सुदुःखितः ।

हा हतोऽस्मीति चाक्रंदद्घोरमुच्चैः पुनः पुनः २६।

क्ष्रुत्तृड्भ्यां मुह्यमानस्य सर्वभूतद्रुहो मम ।

जन्मनोस्य दुरंतस्य कथमंतो भविष्यति २७।

आदौ पापसमुद्रेऽस्मिन्दुःखकल्लोलमालिनी ।

करावलंबनं कोद्य निमग्नस्य प्रदास्यति २८।

इत्थं तस्य पिशाचस्य रोदनं दीनचेतसः ।

देवद्युतिरधीयानः शुश्राव करुणामयम् २९।

समागम्य ततस्तत्र तं पिशाचं ददर्श सः ।

विकरालमुखं भीमं पिशंगनयनं कृशम् ३०।

ऊर्ध्वमूर्धजकृष्णांगं यमदूतमिवापरम् ।

ललज्जिह्वं च लंबोष्ठदीर्घजंघं शिराकुलम् ३१।

दीर्घांघ्रिं शुष्कतुंडं च गर्ताक्षं शुष्कपंजरम् ।

अथामुं कौतुकाविष्टः पप्रच्छ मुनिपुंगवः ३२।

देवद्युतिरुवाच।

कोऽसि त्वं भीषणाकारः कुतो रोदिषि दारुणम् ।

अवस्थेयं कुतो ब्रूहि किंचाहं करवाणि ते ३३।

ममाश्रमप्रविष्टा हि दुःखभाजो न जंतवः ।

मोदंते केवलं सर्वे वैष्णवे भवने यथा ३४।

वद त्वं सत्वरं भद्र दुःखस्यैतस्य कारणम् ।

कालक्षेपं न कुर्वंति प्राप्तेऽथे हि मनीषिणः ३५।

वसिष्ठ उवाच।

श्रुत्वैतद्वचनं प्रीतः पिशाचस्त्यक्तरोदनः ।

उवाच दीनया वाचा प्रश्रयावनतस्तदा ३६।

पिशाच उवाच।

सर्वांगव्यापि संतापं जहार त्वद्वचो मयि ।

ग्रीष्मे दावानलोद्भूतं वर्षन्मेघ इवाचले ३७।

यन्मेऽस्ति सुकृतं किंचित्तेन दृष्टोऽसि मे द्विज ।

न ह्यसंचितपुण्यानां सद्भिरेकत्रसंगमः ३८।

इत्युक्त्वा कथयामास पूर्ववृत्तांतमात्मनः ।

विष्णुद्वेषप्रदोषेण दशामेतामहं गतः ३९।

यन्नामप्राणान्मुक्तो हि स्मृत्वा विष्णुपदं व्रजेत् ।

पापिष्ठो हि हरौ तस्मिन्ममद्वेषोऽभवद्द्विज ४०।

यः पालयति भूतानि धर्मं याति जगत्त्रये ।

योंऽतरात्मा च भूतानां तस्मिन्द्वेषो ममाभवत् ४१।

कर्मणां फलदो योऽत्र सर्ववेदेषु गीयते ।

तपोभिरिज्यते विप्रैः समद्वेषवशंगतः ४२।

त्यक्तक्रियैः प्रियारण्यैर्निःसंगैकचरैश्च यः ।

वेदांते यतिभिश्चिंत्यः स मे द्वेषी हरिर्द्विज ४३।

ब्रह्मादयः सुराः सर्वे योगिनः सनकादयः ।

मुक्त्यर्थमर्चयंतीह स विष्णुर्द्वेषितो मया ४४।

आदौ मध्येऽवसाने यो विश्वधाता सनातनः ।

यस्य नैवादिमध्यांताः समे द्वेषपदं ययौ ४५।

यन्मया सुकृतं कर्म कृतं प्राक्तनजन्मनि ।

विष्णुद्वेषाग्निना दग्धं तत्सर्वं भस्मसादभूत् ४६।

कथंचिदस्य पापस्य सीमां द्रक्ष्यामि चेदहम् ।

मुक्त्वा नारायणं नान्यमर्चयिष्यामि देवताम् ४७।

विष्णुद्वेषाच्चिरं भुक्त्वा मया नरकयातनाम् ।

निरयान्निसृतः सोऽहं पैशाचीं योनिमागतः ४८।

अधुना कर्ममंत्रैः कैरथानीतस्त्वदाश्रमम् ।

यत्र त्वद्दर्शनार्कान्मे नष्टं दुःखमयं तमः ४९।

प्राप्यते मरणं यत्र बंधनं श्रीः सुखं वधूः ।

स तत्र नीयते स्वेन कर्मणा गलहस्तिना 6.129.५०।

इदानीमुचितं कर्म ब्रूहि पैशाच्यनाशनम् ।

परोपकारकार्ये हि न धन्या मंदगामिनः ५१।

देवद्युतिरुवाच।

अहो मुष्णाति मायेयं देवासुरनृणां स्मृतिम् ।

यया देवेष्वपि द्वेषो जायते धर्मनाशनः ५२।

स्रष्टा पालयिता हंता जगतां यो महेश्वरः ।

आत्मा च सर्वभूतानां तं मूढो द्वेष्टि कः कथम् ५३।

भवंति सर्वकर्माणि सफलानि यदर्पणात् ।

तद्भक्तिविमुखो मर्त्यः को न यातीह दुर्गतिम् ५४।

श्रुतिस्मृतिसदाचारविहितं कर्म केवलम् ।

सेवितव्यं चतुर्वर्णैर्भजन्नारायणं सदा ५५।

अन्यथा निरयं यांति विना ह्यागमसेवनात् ।

अतो वेदविरुद्धार्थं शास्त्रोक्तं कर्म संत्यजेत् ५६।

स्वबुद्धिरचितैः शास्त्रैः प्रतार्येह तु बालिशान् ।

विघ्नंति श्रेयसो मार्गं लोकनाशाय केवलम् ५७।

विष्णुं निंदंति वेदांश्च तपो निंदंति सद्द्विजान् ।

तेन ते नरकं यांति ह्यसच्छास्त्रनिषेवणात् ५८।

अयमेव यथा राजा द्रविडो निरयं गतः ।

द्विषन्नारायणं देवं देवदेवं जगत्प्रभुम् ५९।

तस्माद्द्वेषं हि देवेषु ब्राह्मणेषु विशेषतः ।

संत्यजेत्पुण्यकामोऽत्र वेदबाह्यां क्रियां त्यजेत् ६०।

इत्युक्त्वा कथयामास पिशाचाय हि तं मुनिः ।

प्रयागं गच्छ भो भद्र माघमासं विचारय ६१।

यत्र ते निश्चिता मुक्तिः पैशाच्यान्नात्र संशयः ।

तत्राप्लुता दिवं यांति श्रुतिरेषा सनातनी ६२।

विजहाति नरस्तत्र प्राक्तनं कर्म दुष्कृतम् ।

प्रयागस्नानतो नास्ति क्वाप्यन्यदधिकं परम् ६३।

प्रायश्चित्तं तपोरूपं दानरूपं क्रियात्मकम् ।

यागयोगाधिकं विद्धि प्रयागं पापिनामपि ६४।

स्वर्गापवर्गयोर्द्वारं तत्पृथिव्यामपावृतम् ।

सितासितोद वेणी या तां हित्वा भुवि नापरा ६५।

पापनैगडबद्धस्य छेदनैककुठारिका ।

क्व विष्णुः सूर्यतेजोऽग्निर्गंगायामुनसंगमः ६६।

क्व वराकी नृणां तुच्छा पापराशि तृणाहुतिः ।

मलीमसघनध्वंसे यथा शरदि चंद्रमाः ६७।

भाति पापक्षयादूर्ध्वं नरो वेणीजलाप्लुतः ।

सितासितस्य माहात्म्यमहं वक्तुं न ते क्षमः ६८।

यत्तोयकणसंस्पृष्टो मुक्तः केरलको द्विजः ।

इति वाक्यमृषेः श्रुत्वा पिशाचस्तुष्टमानसः ६९।

मुक्तदुःखइव प्रीतः पप्रच्छ प्रणयान्मुनिम् ।

कथं केरलदेशीयो द्विजो मुक्तो महामुने ७०।

एतं कथय वृत्तांतं संश्रित्य करुणां मयि ७१।

देवद्युतिरुवाच।

पिशाच शृणु पुण्यां मे कथां कथयतः शुभाम् ।

केरले वसुनामात्र ब्राह्मणो वेदपारगः ७२।

दायादैर्हृतवित्तस्तु निर्धनो बंधुवर्जितः ।

जन्मभूमिं परित्यज्य महादुःखेन दुःखितः ७३।

देशाद्देशं परिभ्राम्य कालेन महता पुनः ।

प्रविश्य स महारण्यमीषद्व्याधिप्रपीडितः ७४।

गच्छंस्तीर्थांतरं श्रांतः क्षुत्क्षामो विंध्यपर्वते ।

दुर्भिक्षेण मृतिं लेभे न दाहं चौर्ध्वदेहिकम् ७५।

तेन कर्मविपाकेन तत्रैव गिरिगह्वरे ।

प्रेतीभूतश्चिरं कालमुवास निर्जने वने ७६।

शीतातपपरिक्लिष्टो निराहारो निरूदकः ।

दिगंबरो व्युपानत्को गिरा हाहेति निःश्वसन् ७७।

इतस्ततः परिभ्राम्य वायुभूतः स केरलः ।

द्विजो न शरणं लेभे न सुखं कुत्रचित्तदा ७८।

संशोचति स्म दुःखार्ते नैव पश्यति सद्गतिम् ।

सर्वदा दत्तदानं स भुंक्ते स्वं कर्मणः फलम् ७९।

हविर्जुह्वति नाग्नौ ये गोविंदं नार्चयंति ये ।

भजंते नात्मविद्यां ये सुतीर्थविमुखाश्च ये ८०।

सुवर्णवस्त्रतांबूलं मणिमन्नं फलं जलम् ।

आर्तेभ्यो न प्रयच्छंति सर्वे ते कृतहीनकाः ८१।

ब्रह्मस्वं च परस्वं च स्त्रीधनानि हरंति ये ।

बलेन छद्मना वापि धूर्ताश्च परवंचकाः ८२।

दांभिकः कुहकाश्चौरा ये च पावकवृत्तयः ।

बालवृद्धातुरस्त्रीषु निर्दयाः सत्यवर्जिताः ८३।

अग्निदा गरदा ये च ये चान्ये कूटसाक्षिणः ।

अगम्यागामिनः सर्वे ये चान्ये ग्रामयाजिनः ८४।

पितृमातृस्नुषापत्यस्वदारत्यागिनश्च ये ।

ये कदर्याश्च लुब्धाश्च नास्तिका धर्मदूषकाः ८५।

त्यजंति स्वामिनं युद्धे त्यजंति शरणागतम् ।

गवांभूमेश्च हंतारो ये चान्ये रत्नदूषकाः ८६।

परापवादिनः पापा देवतागुरुनिंदकाः ।

महाक्षेत्रेषु सर्वेषु प्रतिग्रहरताश्च ये ८७।

परद्रोहरता ये च यथा च प्राणिहिंसकाः ।

कुप्रतिग्राहिणः सर्वे ते भवंति पुनः पुनः ८८।

प्रेतराक्षसपैशाच तिर्यग्वृक्षकुयोनिषु ।

न तेषां सुखलेशोऽस्ति इह लोके परत्र च ८९।

तस्मात्त्यक्त्वा निषिद्धार्थं विहितं कर्म चाचरेत् ।

यज्ञं दानं तपस्तीर्थं मंत्रं देवं गुरुं भजेत् ९०।

विपाकं कर्मणां दृष्ट्वा योनिकोटिषु दुस्तरम् ।

चतुर्भिरपि वर्णैश्च सेव्यो धर्मो निरंतरम् ९१।

इति प्रेतगतिं दृष्ट्वा पापबीजोत्थितां हि सः ।

कृत्वा धर्मोपदेशं च पुनस्तस्मै द्विजोऽब्रवीत् ९२।

इत्थं स केरलः प्रेतो वर्तमानो गिरौ तदा ।

अतिवाह्य चिरं कालमपश्यत्पथिकं पथि ९३।

वहंतं द्वौ करंडौ च वेणी जलयुतौ तथा ।

गायंतं प्रमुखा देवं पुण्यश्लोकं जनार्दनम् ९४।

तं दृष्ट्वा सहसा प्रेतो मार्गरोधं चकार सः ।

दर्शयामास चात्मानं मा भैषीरित्युवाच सः ९५।

पानीयं पातुमिच्छामि त्वत्तः कार्पाटिकोत्तम ।

न पास्यसि जलं चेन्मां प्राणा यास्यंति मे दृढम् ९६।

इति प्रेतवचः श्रुत्वा पांथः प्रत्याह कौतुकात् ।

कार्पटीक उवाच।

कस्त्वं दुःखाभिभूतस्तु कृशो म्लानो दिगंबरः ९७।

जीवशेषो मुमूर्षुश्च विकृतो भयवर्धनः ।

नवधूममयाकारश्चंडश्चंचललोचनः ९८।

पद्भ्यामस्पृष्टभूमिस्त्वं निर्मांसोदरबाहुकः ।

इति तद्वचनं श्रुत्वा प्रेतो वाक्यमथाब्रवीत् ९९।

प्रेत उवाच।

शृणु धर्मिष्ठ ते वच्मि येनाहमीदृशोऽभवम् ।

ब्राह्मणोऽदत्तदानोऽहं लोभी च मलिनक्रियः 6.129.१००।

परान्नं च सदा भुक्तमेकाकी मिष्टभोजनः ।

मया दत्ता न भिक्षापि हंतकारो न पुष्कलः १०१।

न कृतो वैश्वदेवस्तु प्रक्षिप्तो न बहिर्बलि ।

भूतानां तु तृषार्तानां न हता पयसा च तृट् १०२।

कदाचित्पितरो नैव तर्पिता अटता महीम् ।

न च श्राद्धं कृतं क्वापि पूजिता नैव देवताः १०३।

वर्षातपपरित्राणं न दत्तं पादरक्षणम् ।

जलपात्रं न दत्तं च तांबूलं नौषधं मया १०४।

न गृहे वसतिर्दत्ता नातिथ्यं कस्यचित्कृतम् ।

अंधवृद्धाधनानाथ दीनाः पानान्नतोषिताः १०५।

गवां ग्रासो न दत्तो वै न रोगी परिमोचितः ।

न दत्ता न हुता विप्र पवित्राश्च तिला मया १०६।

पृथिव्यां तिलदातारो न भवंति तु मद्विधाः ।

व्यतीपाते न दत्तं हि किंचित्स्वर्णं महाफलम् १०७।

संक्रांतावुपरागे च न दत्तं सूर्यचन्द्रयोः ।

पर्वाण्यन्यानि सर्वाणि जग्मुः शून्यानि मे द्विज १०८।

तिथयः कार्तिके मुख्या जाता वंध्याः सदा मम ।

पितृभ्यो नैव दत्तं वा अष्टकासु मघासु च १०९।

द्विजानां न कृता प्रीतिर्मन्वादिषु युगादिषु ।

न दत्तस्तिलतैलेन प्रदीपः कार्तिके मया ११०।

न स्नातो माघमासेऽहं रूपसौभाग्यकामदे ।

द्विजाय वेदविदुषे गौतम्यां सिंहगे गुरौ १११।

मया संकल्पितं द्रव्यं न दत्तं पूर्वजन्मनि ।

न स्नातोऽहं कृष्णवेण्यां तथा कन्यागते गुरौ ११२।

अग्निं प्रज्वाल्य काष्ठौघैः स्नातानां पौषमाघयोः ।

शीतार्तानां च विप्राणां न कृतो जाड्यनिग्रहः ११३।

माधवादिषु मासेषु न दत्तं शीतलं जलम् ।

मया नारोऽपितोऽश्वत्थो न्यग्रोधो नैव वर्धितः ११४।

बंदीगृहान्मया मुक्तिर्न कृता प्राणिनां क्वचित् ।

न प्राणिभयसंत्रस्तो रक्षितः शरणागतः ११५।

नोपोष्यात्र त्रिरात्राणि तोषितो मधुसूदनः ।

कृच्छ्रातिकृच्छ्रपाराकं तथा चांद्रायणं द्विज ११६।

अथान्यत्तप्तकृच्छ्रं च तथा सांतपनानि च ।

व्रतान्येतानि पुण्यानि जुष्टानींद्रादिभिः सुरैः ११७।

चरित्वा न मया तानि देहः संशोषितः पुरा ।

इत्थं पूर्वभवो वंध्यो मम जातो द्विजोत्तम ११८।

पश्य द्विज महाक्रूरामद्भुतामत्र जन्मनि ।

गतिं दूरप्रबोधां तु मम पूर्वस्य कर्मणः ११९।

संति मांसानि मार्गेषु वृकव्याघ्रहतानि वै ।

फलान्यन्यानि शैलेस्मिन्शुकैस्त्यक्तानि सर्वतः १२०।

पुण्यानि च सुगंधीनि फलानि रसवंति च ।

मूलानि तु सुभक्ष्याणि मृदूनि मधुराणि च १२१।

नानाविधानि तिष्ठंति मधूनि सुबहून्यपि ।

स्रोतसां निर्झराणां च संति वारीणि सर्वशः १२२।

सुलभेषु पदार्थेषु सर्वेष्वेतेषु पर्वते ।

नेक्षेहमशनं क्वापि दैवेनापि हतं सदा १२३।

वाताहारेण जीवामि यथा जीवंति पन्नगाः ।

पुनर्जीवामि भो विप्र देवयोनिप्रभावतः १२४।

बलेन प्रज्ञया नित्यं मंत्रपौरुषविक्रमैः ।

सहायैश्चैव मित्रैश्च नालभ्यं लभते नरः १२५।

लाभालाभे सुखे दुःखे विवाहे मृत्युजीवने ।

भोगे रोगे वियोगे च दैवमेव हि कारणम् १२६।

कुरूपाः कुकुला मूर्खाः कुत्सिताचारनिंदिताः ।

शौर्यविक्रमहीनाश्च दैवाद्राज्यानि भुंजते १२७।

काणाः खंजा अभव्याश्च नीतिहीनाश्च दुर्गुणाः ।

नपुंसकाश्च दृश्यंते दैवाद्राज्ये प्रतिष्ठिताः १२८।

यैर्दत्ताश्च तिला गावो हिरण्यं वसनानि च ।

गौरी कन्या च यैर्दत्ता यैर्दत्ता च वसुंधरा १२९।

शय्यासनानि तांबूलं मंदिराणि धनानि च ।

भक्ष्यभोज्यानि दत्तानि चंदनान्यगरूणि च १३०।

अटव्यां पर्वताग्रे च ग्रामे वा नगरेऽपि वा ।

पुरः पुरःश्च तिष्ठंति तेषां भोगाः प्रयत्नतः १३१।

संत्यत्र पर्वतेऽन्येऽपि राक्षसा बलवत्तराः ।

राक्षसाश्च पिशाचाश्च पिशाच्यश्चातिदारुणाः १३२।

कदाचिच्च कथंचिच्च क्वापि यत्र स्वकर्मणा ।

लभंते चान्नपानानि पर्यटंतो वनेवने १३३।

इति श्रुत्वाऽत्र तेभ्यश्च मा भयं भवतां भवेत् ।

शुचिं गोविंदभक्तं त्वां न ते द्रष्टुमपि क्षमाः१३४।

विष्णुभक्तितनुत्राणं नारायणपरायणम् ।

न स्पृशंति न पश्यंति राक्षसाः प्रेतपूतनाः १३५।

भूतवेतालगंधर्वाः शाकिन्यश्चार्यका ग्रहाः।

रेवत्यो वृद्धरेवत्यो मुखमंड्यस्तथा ग्रहाः १३६।

यक्षा बालग्रहाः क्रूरा दुष्टा वृद्धग्रहाश्च ये ।

तथा मातृग्रहा भीमा ग्रहाश्चान्ये विनायकाः १३७।

कृत्याः सर्पाश्च कूष्मांडा ये चान्ये दुष्टजंतवः ।

न पश्यंति परं विप्र वैष्णवं ब्राह्मणं शुचिम् १३८।

शुचिं रक्षंति भूतानि धर्मिष्ठं पीडयंति न ।

रक्षंति च शुचिं नित्यं ग्रहनक्षत्रदेवताः १३९।

गोविंदनाम जिह्वाग्रे हृदि वेदस्तु संस्थितः ।

शुचिश्च दानशीलश्च त्वं सर्वत्राकुतोभयः १४०।

एवं ब्राह्मण तिष्ठामि भुंजानः कर्मणः फलम् ।

न शोचामीति मत्वाऽहं विमृश्य च पुनः पुनः १४१।

न दुनोमि तथा तावद्यावज्जंबालिनी तटे ।

सारसोदीरितं वाक्ये श्रुतं पर्यटता मया १४२।

ब्राह्मण उवाच।

सारसोदीरितं वाक्यं कीदृशं हि श्रुतं त्वया ।

तदहं श्रोतुमिच्छामि ब्रूहि त्वं प्रेत सत्वरम् १४३।

प्रेत उवाच।

ब्रवीमि सारसं वाक्यं शृणु कार्पाटिकोत्तम ।

धूसरा नाम कक्षेऽस्मिन्नदीगिरिसमुद्भवा १४४।

सदा जलशयोत्ताला मत्तदंतिकुलाकुला ।

महाककुभशोभाढ्या स्निग्धजंबूमनोहरा १४५।

तस्यास्तीरमहं प्राप्तो गाहमानो वनं घनम् ।

मयि तिष्ठति वै तत्र फलभोजनकाम्यया १४६।

वनांतरात्समुड्डीय सारसो लक्ष्मणा युतः ।

आगत्य पुलिनं नद्याः सेवितुं बहुपक्षिभिः १४७।

पीत्वा तत्रैव पानीयं रमित्वा भार्यया सह ।

सुप्तः पक्षपुटे वामे प्रवेश्य च शिरोमुखम् १४८।

एतस्मिन्नंतरे दृष्टः पादपादवतीर्य च ।

रक्ताननः सुरक्ताक्षो दंडी दृढनखावलि १४९।

लोमशो दीर्घलांगूलश्चलचेष्टो हि वानरः ।

यत्रासौ सारसः सुप्तस्तत्र वेगेन चागतः 6.129.१५०।

समागत्य च जग्राह सारसं चरणे दृढम् ।

कराभ्यां क्रूरया बुद्ध्या पश्यतां बहुपक्षिणाम् १५१।

उड्डीयोड्डीय ते सर्वे गताश्चान्यत्र खेचराः ।

सारसी भीतभीता च विरावान्कुर्वती स्थिता १५२।

सारसो भग्ननिद्रस्तु त्रासाच्चलितलोचनः ।

अवलोकितवाञ्छीघ्रं तदोत्ताम्य शिरोधराम् १५३।

विलोक्य वानरं दुष्टं हंतुकामं सुदारुणम् ।

तदा संभाषयामास गिरा मधुरया खगः १५४।

अपराधं विना मां त्वं किं शाखामृग बाधसे ।

सापराधा जना लोके वध्यंते भूमिपैरपि १५५।

न पीडयितुमर्हंति त्वादृशा उत्तमा जनाः ।

अस्मानहिंसकान्साधून्परवृत्तिपराङ्मुखान् १५६।

जलशैवालभक्षांश्च खेचरान्वनवासिनः ।

स्वदाररतिशीलांश्च परदाराभिवर्जितान् १५७।

न पीडयितुमर्हंति त्वद्विधा वानरोत्तम ।

परापवादपैशुन्यान्द्विजान्परमसेवकान् १५८।

शाखामृग विमुंचाशु सर्वथा मामनागसम् ।

जानामि तव जन्माहं न त्वं वेत्सि तु मामकम् १५९।

इत्याकर्ण्य वचस्तस्य मुमोच सारसं तदा ।

चपलो वानरः शीघ्रमाह दूरे व्यवस्थितः १६०।

वानर उवाच।

ब्रूहि रे त्वं कथं वेत्सि मम जन्म पुरातनम् ।

त्वं पक्षी ज्ञानहीनश्च तिर्यक्चाहं वनेचरः १६१।

सारस उवाच।

जानेऽहं तावकं जन्म जातिस्मरमिति स्फुटम् ।

त्वं हि विंध्याधिपो राजा प्राग्भवे पर्वतेश्वरः १६२।

अहं पूज्यतमो विप्रस्तव वंशे पुरोहितः ।

तेन प्रत्यभिजानामि त्वां सम्यग्वानरोत्तम १६३।

इमां पालयता भूमिं प्रजाः सर्वाः प्रपीडिताः ।

त्वया विवेकहीनेन भृशं संचयता धनम् १६४।

प्रजापीडानतापोत्थ वह्निज्वालैस्तु वानर ।

प्राक्त्वं दग्धः पुनः क्षिप्तः कुंभीपाकेऽति दारुणे १६५।

पुनः पुनःश्च दग्धेन जातेन च पुनः पुनः ।

नारकेण शरीरेण समास्त्रिंशद्गतं त्वया १६६।

कुर्वता दारुणाञ्छब्दान्रुदता च पुनः पुनः ।

कुंभीपाकानले तीव्रा ह्यनुभूताश्च यातनाः १६७।

निस्तीर्णनरको भूयः पापशेषेण सांप्रतम् ।

प्राप्तोऽसि वानरं जन्म येन मां हंतुमिच्छसि १६८।

विप्रस्योपवनात्पूर्वं पक्वरंभाफलानि वै ।

अननुज्ञाप्य भुक्तानि त्वयापहृत्य पौरुषात् १६९।

विपाकः कर्मणस्तस्य फलते पश्य दारुणः ।

वानरस्त्वं वने वासो ह्यधुना तेन वर्तसे १७०।

अशुभस्य शुभस्यापि पुराविहितकर्मणः ।

भोगः क्रीडति भूतेषु नोल्लंघ्यस्त्रिदशैरपि १७१।

इत्थं त्वज्जन्म जानामि यथावत्तु सहेतुकम् ।

प्राप्तः सारसदेहोऽपि ज्ञानेनापरिमोहितः १७२।

प्रेत उवाच।

इति श्रुत्वा कथां विप्र वानरोप्याह सारसम् ।

सम्यग्वेत्ति भवान्नूनं कथं त्वं पक्षितां गतः १७३।

सारस उवाच।

कथयिष्यामि तत्कर्म येनाहं दुर्गतिं गतः ।

पक्षियोनिं गतो येन तत्सर्वं श्रोतुमर्हसि १७४।

धान्यं खारिशतं साग्रमुत्सृष्टं हि त्वया पुरा ।

बहुभ्यो ब्राह्मणेभ्यश्च चर्मदायां रविग्रहे १७५।

पौरोहित्यमदाल्लोभाद्वंचयित्वा द्विजांस्तथा ।

किंचिद्दत्त्वा तु तेभ्यश्च गृहीतमखिलं मया १७६।

विप्रसाधारणद्रव्यग्रहणोत्पन्नपातकात् ।

पतितः कालसूत्रेऽहं नरके रक्तकर्दमे १७७।

चलत्क्रिमिसुसंपूर्णे दुर्गंधे पूयफेनिले ।

आनाभेस्तत्र मग्नोस्मि लिहन्पूयमधोमुखः १७८।

तथोपरि महागृध्रैर्भक्ष्यमाणस्तु वायसैः ।

क्रिमिभिस्तुद्यमानस्तु मम देहो निरंतरम् १७९।

तस्मिञ्छोणितपंकेऽहं निरुच्छ्वासोऽभवं तदा ।

मुहूर्तोऽपि महाकल्पसमो जातो ममात्र वै १८०।

यातनाश्चानुभूताश्च समास्त्रिरयुतं मया ।

वक्तुं च तन्न शक्नोमि दुःखं वानर नारकम् १८१।

पौरोहित्यं महाघोरं पापदं च स्वभावतः ।

देवोपजीवनं यत्र ब्राह्मणस्योपजीवनम् १८२।

राज्ञः प्रतिग्रहो घोरस्तेन दग्धा द्विजातयः ।

तेषामपि हरेद्द्रव्यं पुरोधास्तेन नारकी १८३।

राजा यत्कुरुते पापं पुरा देहेन धीयते ।

तस्य तेन पुरोधाश्च गीयते तत्वदर्शिभिः १८४।

दैवात्कथमपि प्राप्त उत्तारो नरकांबुधेः ।

मयादौ दैवयोगेन शकुनित्वमुपस्थितम् १८५।

अपहृत्य पुरा कांस्यभाजनं भगिनीगृहात् ।

आक्षिकाय मया दत्तं तेन मे सारसी गतिः १८६।

इयं च ब्राह्मणी पूर्वं कांस्यचोरी सुदारुणा ।

तेनेयं सारसी जाता मम भार्या सधर्मिणी १८७।

इत्थं वानर ते सर्वं कथितं कर्मणः फलम् ।

वृत्तं च वर्तमानं च भविष्यं शृणु सांप्रतम् १८८।

अहं हंसो भविष्यामि त्वं च हंसो भविष्यसि ।

हंसीयमपि मद्भार्या सारसी च भविष्यति १८९।

देशे च कामरूपे वै स्थास्यामो वै यथासुखम् ।

योगिनीं भाविकल्याणीं यास्यामस्तदनंतरम् १९०।

ततश्च मानुषं जन्म प्राप्यामो दुर्लभं पुनः ।

श्रेयस्तद्विपरीतं च प्राणिभिर्यत्र साध्यते १९१।

एवं सर्वाञ्छिवो जंतून्मोहयित्वा स्वमायया ।

सुखैर्भुनक्ति दुःखैश्च नास्मानेव तु केवलम् १९२।

अयं लोके प्रवृत्तश्च मार्गो विविधनिर्मितः ।

धर्माधर्ममयोऽत्यर्थे सुखदुःखफलात्मकः १९३।

सेवितः प्राणिभिः सर्वैः सर्वदा वा पुनः पुनः ।

देवासुरनरव्याघ्र क्रिमिकीटजलेचरैः १९४।

नातिक्रांतो हि केनापि पंथाऽयं दुःखकंटकः ।

विरक्तान्योगिनोध्यायं विनावेदांतपारगान् १९५।

अणोर्वापि गुरोर्वापि पुण्यापुण्यस्य कर्मणः ।

ददातीह फलं ज्ञात्वा देशं कालं महेश्वरः १९६।

इत्थं विधिविधानज्ञां मायां ज्ञात्वेश्वरस्य च ।

न शोचंति न तप्यंति न व्यथंति महाधियः १९७।

नान्यथा शक्यते कर्तुं विपाकः पूर्वकर्मणाम् ।

उपायैः प्रज्ञया वापि शाखामृगसुरैरपि १९८।

पुरा त्वं भूपतिर्जातः पश्चाज्जातोऽसि नारकी ।

अधुना वानरो भूयो जन्म प्राप्स्यसि तादृशम् १९९।

इति मत्वा विशोकस्त्वं शाखामृग यथासुखम् ।

प्रतीक्षां कुरु कालस्य रममाणोऽत्र कानने 6.129.२००।

अहमप्येवमीशान मायाबद्धो वने वने ।

क्षपयिष्यामि वै जन्म धैर्यमास्थाय सारसम् २०१।

वानर उवाच।

मया त्वं पूजितः पूर्वं नौमि त्वामधुनाप्यहम् ।

जातिस्मरोऽसि जानामि सर्वं मत्पूर्वदैहिकम् २०२।

तिष्ठ सारस सारस्या शिवमस्तु सदा तव ।

त्वद्वाक्याद्गतमोहोऽहं विचरिष्यामि सर्वदा २०३।

प्रेत उवाच।

इमं रम्यं विचित्रं च पावनं परमं द्विज ।

पक्षिवानरसंवादं श्रुतं यावन्नदीतटे २०४।

तावन्ममापि बोधोऽभूत्तेन शोकः क्षयं गतः ।

इदानीं जाह्नवीतोयमाहात्म्यं परमाद्भुतम् २०५।

दृष्ट्वात्र ब्राह्मणश्रेष्ठ त्वां याचे जाह्नवीजलम् ।

प्रेतत्वात्तर्तुकामोऽहं तीव्रा तृष्णा प्रपीडितः २०६।

अस्मिन्नेवाचले दृष्टं मयाश्चर्यं च वै द्विज ।

गंगातोयस्य तावद्धि पातुमिच्छामि तज्जलम् २०७।

पारियात्रोद्भवः कोऽपि ब्राह्मणो ग्रामयाजकः ।

अयाज्ययाजनाद्विंध्ये संभूतो ब्रह्मराक्षसः २०८।

अस्मत्संगस्य लोभे स्थितोऽसौ हायनाष्टकम् ।

तस्यास्थीनि सुपुत्रेण संचितानि द्विजोत्तम २०९।

क्षिप्तान्यानीय गंगायां तीर्थे कनखलेऽमले ।

तत्क्षणादेव मुक्तोऽसौ राक्षसत्वात्सुदारुणात् २१०।

इति गंगाजलस्नान महिमा महदद्भुतम् ।

साक्षाद्दृष्टो मया तेन गांगेयं प्रार्थितं जलम् २११।

पुरस्ताद्यत्कृतस्तीर्थे मया भूरिपरिग्रहः ।

न कृतस्तु प्रतीकारस्तस्य जाप्यादिलक्षणः २१२।

तेन मे प्रेतरूपस्य दुर्लभोदकभोजनम् ।

सहस्रं यत्र वर्षाणामतीतं विंध्यपर्वते २१३।

इति ते कथितं सर्वं हित्वा लज्जां गरीयसीम् ।

इदानीं धार्मिकश्रेष्ठ जलदानेन सत्वरम् २१४।

संतर्पय मम प्राणान्कंठमात्रावलंबितान् ।

दुर्लभं प्रेतभावेऽपि जीवितं प्राणिनामिह २१५।

शरीरं रक्षणीयं हि सर्वथा सर्वदा नरैः ।

नहीच्छंति तनुत्यागमपि कुष्ठादि रोगिणः २१६।

देवद्युतिरुवाच।

इति तद्वचनं श्रुत्वा विस्मयं परमं गतः ।

पथिकश्चिंतयामास कृपां प्रेते समुद्वहन् २१७।

पापपुण्यफलं लोके प्रत्यक्षं दृश्यते खलु ।

देवदानवमानुष्यं तिर्यक्त्वं क्रिमिकीटकम् २१८।

नानायोनिषु जन्मानि नानाव्याधिप्रपीडनम् ।

मरणं बालवृद्धानामंधत्वं कुब्जता तथा २१९।

ऐश्वर्यं च दरिद्रत्वं पांडित्यं मूर्खता तथा ।

एताश्च रचना लोके भवंति कथमन्यथा २२०।

ते धन्याः कर्मभूमौ ये न्यायमार्गार्जितं धनम् ।

सत्पात्रेभ्यः प्रयच्छंति कुर्वंति चात्मनो हितम् २२१।

भूमिरत्नहिरण्यानि गावो धान्यं गृहं गजाः ।

रथाश्ववसनग्रामाः सिद्धमन्नं फलं जलम् २२२।

कन्या दिव्यौषधमन्नं छत्रोपानद्वरासनम् ।

शय्या तांबूल माल्यानि तालवृंतं वरासनम् २२३।

सर्वमेतत्प्रदातव्यं लोकत्रयजिगीषुभिः ।

दत्तं हि प्राप्यते स्वर्गे दत्तमेव हि भुज्यते २२४।

छत्रचामरयानानि वराश्ववरवारणाः ।

हर्म्याणि वरशय्याश्च गोमहिष्यो वरस्त्रियः २२५।

अन्नभूषणमुक्ताश्च पुत्रा दास्यो महाकुलम् ।

आयुरारोग्यमैश्वर्यं कला विद्यासु कौशलम् २२६।

दानस्यैव फलं सर्वं प्राप्यते भुवि मानवैः ।

तस्माद्देयं प्रयत्नेन नादत्तमुपतिष्ठति २२७।

धर्मिष्ठेन तु पांथेन गाथेयं समगायत ।

इति श्रुत्वा पुनः प्रेतः प्रोवाच ह्यार्तमानसः २२८।

मन्ये धर्मज्ञकल्पोऽसि पांथ त्वं नात्र संशयः ।

देहि मे जीवनं वारि चातकाय घनो यथा २२९।

एतस्मिन्प्राणदाने हि मा विलंबं कृथा बहु ।

ततः प्रत्याह पांथस्तु वचनं न्यायगर्भितम् २३०।

भृगुक्षेत्रे शृणु प्रेत पितरौ मम तिष्ठतः ।

तदर्थं तीर्थराजस्य मया वारि समाहृतम् २३१।

तत्सितासितपानीयं मध्ये च प्रार्थितं त्वया ।

न जाने धर्मसंदेहः किमत्र मम युज्यते २३२।

बलाबलं विचारार्थं करिष्ये प्रबलं विधिम् ।

वेदेभ्यो धर्मशास्त्रेभ्यो नाहं मानेन केवलम् २३३।

हयमेधादि यज्ञेभ्यः सर्वेभ्योप्यधिकं मतम् ।

ऋषिभिर्देवताभिश्च प्राणिनां प्राणरक्षणम् २३४।

इति दत्त्वा वरं वारि कृत्त्वा प्रेतस्य रक्षणम् ।

पित्रर्थं पुनरादाय जलं नेष्यामि पावनम् २३५।

एष मे प्रबलो भाति शुद्धधर्मप्रदो विधिः ।

परोपकरणादन्यत्सर्वमल्पं स्मृतं बुधैः २३६।

परोपकारिभिर्दत्ता अपि प्राणा नृभिर्मुदा ।

अद्भिः परोपकारः स्यात्किं न लब्धं मया पुनः २३७।

दधीचिना पुरा गीतः श्लोकोऽयं श्रूयते भुवि ।

सर्वधर्ममयः सारः सर्वधर्मज्ञसंमतः २३८।

परोपकारः कर्तव्यः प्राणैरपि धनैरपि ।

परोपकारजं पुण्यं तुल्यं क्रतुशतैरपि २३९।

इत्युक्त्वा प्रददौ तोयं गंगायामुनसंभवम् ।

प्रेताय प्राणरक्षार्थं स धर्मिष्ठो वरो द्विजः २४०।

प्रेतः प्रीतो जलं पीत्वा ह्यभिषिच्य शिरस्तथा ।

प्रजहौ प्रेतदेहं तं दिव्यदेहोऽभवत्क्षणात् २४१।

तदाश्चर्यं महद्दृष्ट्वा निजगाद स केरलः ।

अहो विमुक्तः प्रेतत्वाद्वेणीपानीयबिंदुभिः २४२।

ब्रह्मापि नैव शक्नोति मन्ये वक्तुमपां गुणम् ।

गङ्गातोयं महादेवो धत्ते के कथमन्यथा २४३।

अचिंत्यशक्तिगंगांभस्तिलमात्रं तु यः पिबेत् ।

देवो भवेत्स सिद्धो वा गर्भे नैव च संविशेत् २४४।

न गंगा सदृशी सिद्धिर्न गंगा सदृशी मतिः ।

न गंगासदृशी मुक्तिर्गंगा सर्वाधिका यतः २४५।

तस्मात्सर्वप्रयत्नेन महाभक्त्या च धार्मिक ।

करस्थं तस्य कैवल्यं योगं गां सेवते सदा २४६।

आयुष्मान्भव पांथत्वं मा धर्मविरतो भव ।

त्वयाऽहं तारितः सद्यो गंगांबुकणदानतः २४७।

इत्युक्त्वा प्रस्थितो नाकं पिशाचस्तु स केरलः ।

आशीर्भिरभिनंद्याथ पांथं बंधुवरं नरम् २४८।

प्रेतं विमोक्ष्य पांथोऽपि पुनरादाय तज्जलम् ।

गतस्तेनैव मार्गेण स्मरंस्तीर्थोदकौतुकम् २४९।

वसिष्ठ उवाच।

इत्थं प्रयागमाहात्म्यं श्रुत्वा नत्वा च तं मुनिम् ।

प्रयागं सहसा माघे पिशाचः सत्वरं गतः 6.129.२५०।

स्नात्वा सितासिते सोऽपि माघमासे द्विजोत्तम ।

पिशाचः क्षीणपापस्तु पैशाचीं विजहौ तनुम् २५१।

दिव्यदेहस्ततो भूत्वा द्राविडो भूपतिस्तदा ।

स्तुवन्नारायणं देवं भक्त्या दोषविवर्जितः २५२।

गंधर्वैः स्तूयमानस्तु नाकनारीसुपूजितः ।

उत्तमेन विमानेन पुरंदरपुरं ययौ २५३।

इति ते कथितं विप्र पूर्ववृत्तं सकौतुकम् ।

इतिहासं द्विजश्रेष्ठ सद्यः पातकनाशनम् २५४।

ज्ञानदं मोक्षदं विप्र श्रुतं दुर्गतिनाशनम् ।

इति ते कथितं सर्वं पुरावृत्तं सकौतुकम् २५५।

इतिहासं द्विजश्रेष्ठ श्रुतं दुर्गतिनाशनम् ।

अधुना तु मया सार्धमिमाः कन्याः सुतश्च ते २५६।

त्वं चायातु प्रयागं वै सर्वे सद्गतिमीप्सवः ।

माघस्नानं प्रकुर्मोऽत्र देवानामपि दुर्लभम् २५७।

तत्र मोक्ष्यंति पैशाच्यं सद्यः पापसमुद्भवम् २५८।

महेश उवाच।

एवं वसिष्ठवक्त्राब्जकथामधुरसंमुदा ।

पीत्वा प्रमुदिताः सर्वे निस्तीर्णा नरकार्णवात् २५९।

प्रस्थितास्तेन सार्धं ते सत्वरं व्योम्नि हर्षिताः ।

दिलीप शृणु तत्सर्वं तत्तीर्थं तु सितासितम् २६०।

सत्वरं व्योममार्गेण काममासाद्य दुःसहाः ।

समागम्य तदा तत्र संहृष्टहृदयाश्च ते २६१।

अथोचे लोमशस्तत्र सदयं गगनांगणे ।

पश्यंतु श्रद्धया सर्वे तीर्थराजमिमं भुवि २६२।

विना ज्ञानं प्रयागेऽस्मिन्मुच्यंते सर्वजंतवः ।

इष्ट्वात्रैव महायज्ञं स्रष्टुकामः प्रजापतिः २६३।

अवाप सृष्टिसामर्थ्यं ततः सृष्टिं चकार सः ।

अत्र नारायणः सस्नौ पत्नीकामः सितासिते २६४।

अतः स लब्धवान्लक्ष्मीं भार्याममृतमंथने ।

उषित्वा चात्र षण्मासं स्नात्वा वेण्यां यथेच्छया २६५।

त्रिपुरं घातयामास त्रिबाणेन त्रिशूलभृत् ।

इमानि त्रीणि कुंडानि दीप्तान्यजस्रवह्निभिः २६६।

एष तृप्तिं गतो वह्निर्यः केनापि च पुष्यति ।

अत्र देवास्त्रयस्त्रिंशत्तृप्ता मुमुदिरे भृशम् २६७।

आविर्भूतो महेशोऽत्र नीलकंठः कपालभृत् ।

अनिशंस सुरैः सेव्य आयातोंजलये बटुः २६८।

मृकंडसूनुना कल्पे प्रविश्य यन्मुखे स्थितम् ।

लोके ज्वालाकुले सोऽयं योगरूपी जनार्दनः २६९।

सेयं भागीरथी शंभोः सर्वदुःखापहारिणी ।

सिद्ध्यर्थं सेव्यते सिद्धैर्भुक्तिमुक्तिफलप्रदा २७०।

अनिशं भूतिदा या च स्वर्गमार्गे ह्यनुत्तमा ।

स्वर्गहेतुश्च या देवी सेयं भागीरथी नदी २७१।

यदंभः स्नानमात्रेण विकर्तन सलोकताम् ।

लभंते प्राणिनः सर्वे नदी सा यमुना स्वयम् २७२।

अनयोः पुण्यनद्योश्च संगमः सुखदो मुने ।

अत्र स्नाता न पच्यंते नरके ज्ञानभाविताः २७३।

विना ज्ञानं प्रयागेऽस्मिन्मुच्यंते सर्वजंतवः ।

अन्यच्च श्रूयतां विप्र इतिहासं पुरातनम् २७४।

शृण्वतां सर्वपापघ्नं सर्वरोगविनाशनम् ।

ऋचीकेन पुरा शप्तो गंधर्वो वायसोऽभवत् २७५।

शापं मुमोच सोऽत्रैव स्नातः सद्यः सितासिते ।

वासवस्य तु शापेन स्वर्गाद्भ्रष्टाप्सरोर्वशी २७६।

स्वर्गकामा च सा सस्नौ लेभे स्वर्गं ततोचिरात् ।

पुत्रं च शंकरं लेभे ययातिर्नाहुषो मुने २७७।

पुत्रकामः प्रयागे हि स्नात्वा पुण्ये सितासिते ।

धनकामः पुरा शक्रः सुस्नातोऽत्र द्विजोत्तम २७८।

धनदस्य निधीन्सर्वाञ्जहार स च मायया ।

कश्यपोऽत्र तपस्तेपे शिवाराधनतत्परः २७९।

अस्मिंस्तीर्थे भरद्वाजो योगसिद्धिमवाप्तवान् ।

अस्मिंस्तीर्थे पुरा विप्र योगेशाः शांतमानसाः २८०।

योगस्य फलभूमिं तु लेभिरे सनकादयः ।

अस्मिन्माघे तु ये स्नाता गंगायामुनसंगमे २८१।

तारारूपाश्च ते सर्वे तैर्व्याप्तं सकलं जगत् ।

विंदंति कामिनः कामान्मुक्तिं यांति मुमुक्षवः २८२।

विंदंति साधकाः सिद्धिं प्रयागे हि द्विजोत्तम ।

सांप्रतं मुक्तिकामास्तु कन्याश्चापि सुतश्च ते २८३।

मद्वाक्यादत्र मज्जंतु सर्वे त्वं च सितासिते ।

प्राक्कालीनाघविध्वंसि वेणीजलबलेन तु २८४।

लभंतामखिलं लक्ष्मीं प्राप्तशापमहाफलाम् ।

एवमार्षवचः सत्यमतींद्रियमलंघनम् २८५।

श्रुत्वा चोत्कंठचित्तास्तेसर्वे स्नानाय चोद्यताः ।

प्रयागं प्राप्य दुष्प्राप्यं पैशाच्यं विजहुः क्षणात् २८६।

विमुक्ताः शापदुःखेन तनुं स्वां स्वां च लेभिरे ।

दृष्ट्वा वेदनिधिः पुत्रं ताः कन्या दिव्यरूपिणीः २८७।

तुष्टाव लोमशं प्रीत्या प्रसन्नेनांतरात्मना ।

त्वदनुग्रहमात्रेणोत्तीर्णः पापमहार्णवः २८८।

इदानीमुचितं ब्रूहि बालानामृषिसत्तम ।

लोमश उवाच।

कुमारोधीतवेदोऽयं समाप्तनियमो युवा २८९।

आसां तु सानुरागाणां गृह्णातु करपंकजम् ।

ततो लोमशवाक्येन स्वपितुर्वचनात्तदा २९०।

विवाहविधिना चाशु ब्रह्मचारी स धार्मिकः ।

शुभद्रव्यैश्च मंत्रैश्च ऋषिभिः कृतमंगलः २९१।

पंचानामपि कन्यानां पाणिं जग्राह धर्मतः ।

आनंदिन्यस्तदा सर्वाः कन्याः पूर्णमनोरथाः २९२।

बभूवुः स कुमारश्च संतुष्टश्च बभूव ह ।

दत्त्वानुज्ञां मुनिः सोऽथ लोमशस्तैर्नमस्कृतः २९३।

जगाम स्वाश्रमं मेरुं पर्वतं सुरसेवितम् ।

ततो वेदनिधी राजन्स्नुषाः पंचसुतं तथा ।

पुरस्कृत्य मुदायुक्तो धनदस्य पुरं ययौ २९४।

इति नृपवरमाघे स्नानसंजातपुण्यान्मुनिवरवचसा द्राक्तीर्थराजप्रयागे ।

सकलकलुषमुक्ताः पंच गंधर्वकन्या अलमभिगतलाभात्प्राप्य तर्षं च जग्मुः २९५।

परमिममितिहासं पावनं तीर्थभूतं वृजिनविलयहेतुं यः शृणोतीह नित्यम् ।

स भवति खलु पूर्णः सर्वकामैरभीष्टैर्व्रजति च सुरलोके दुर्लभो धर्मयुक्तः २९६।

इतिहासमिमं श्रुत्वा पूजयेद्यस्तु पाठकम् ।

गोभिर्हिरण्यवस्त्रैश्च ब्रह्मतुल्यो यतो हि सः २९७।

वाचके पूजिते यस्माद्विष्णुर्भवति पूजितः ।

तस्मात्प्रपूजयेन्नित्यं यदीच्छेत्सफलं भवम् २९८।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे माघमाहात्म्ये वसिष्ठदिलीपसंवादे गंधर्वकन्यापरिणयोनामैकोनत्रिंशाधिकशततमोऽध्यायः।

१२९।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 130

पार्वत्युवाच।

श्रुतं कार्तिकमाहात्म्यं माघस्य च मया विभो ।

अधुना श्रोतुमिच्छामि मुक्तिदं कर्म चोत्तमम् १।

श्रेष्ठा भक्तिस्तु का प्रोक्ता वद विश्वेश्वर प्रभो ।

येन विज्ञानमात्रेण नराः सुखमवाप्नुयुः २।

महादेव उवाच।

तल्लीनचित्तः स पुमान्सा भक्तिः परमा मता ।

दयाधर्मपरो नित्यं विष्णुधर्मेषु तत्परः ३।

फलमूलजलाहारी शंखचक्रप्रधारकः ।

त्रिकालं पूजयेद्विष्णुं सा भक्तिः सात्विकी मता ४।

उत्तमा सात्विकी प्रोक्ता राजसी चैव मध्यमा ।

कनिष्ठा तामसी चैव त्रिविधा भक्तिरुच्यते ५।

श्रीधरे तु प्रकर्त्तव्या मुक्तिकामफलेप्सुभिः ।

अहंकारेण रूपेण दंभमात्सर्यमायया ६।

ये कुर्वंति जना भक्तिं तामसी सा उदाहृता ।

परस्योत्सादनार्थं वा दंभमुद्दिश्यवाऽथवा ७।

या भक्तिः क्रियते देवे तामसी सा प्रकीर्तिता ।

विषयान्प्रतिसंधाय यश ऐश्वर्यमेव वा ८।

अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः ।

कर्मक्षयार्थे कर्त्तव्या ब्राह्मणैर्ज्ञानतत्परैः ९।

विष्णौ ह्यात्मार्पणीं बुद्धिं सा भक्तिः सात्विकी मता ।

अतो वै सर्वथा देवि संसेव्यः सर्वदा हरिः १०।

तामसेन तु भावेन तामसत्वं हि लभ्यते ।

राजसो राजसेनैव सात्विकेन तु सात्विकः ११।

वेदाध्यायरतः श्रीमान्रागद्वेषविवर्जितः ।

शंखचक्रधरो विप्रः सर्वदा शुचिरुच्यते १२।

कर्मकांडे प्रवृत्तो यः सर्वदा विष्णुनिंदकः ।

निंदकस्तज्जनानां च महाचंडाल उच्यते १३।

वेदाध्यायरता नित्यं नित्यं वै यज्ञयाजकाः ।

अग्निहोत्ररता नित्यं विष्णुधर्मपराङ्मुखाः ।

निंदंति विष्णुधर्मांश्च वेदबाह्याः सुरेश्वरि १४।

कुर्वंति शांतिं विबुधाः प्रहृष्टाः क्षेमं प्रकुर्वंति पितामहाद्याः ।

स्वस्ति प्रयच्छंति मुनींद्रमुख्या गोविंदभक्तिं वहतां नराणाम् १५।

शुभा ग्रहा भूतपिशाचयुक्ता ब्रह्मादयो देवगणाः प्रसन्नाः ।

लक्ष्मी स्थिरा तिष्ठति मंदिरे च गोविंदभक्तिं वहतां नराणाम् १६।

गंगा गया नैमिषपुष्कराणि काशी प्रयागं कुरुजांगलानि ।

तिष्ठंति देहे कृतभक्तिपूर्वं गोविंदभक्तिं वहतां नराणाम् १७।

एवमाराधयेद्विद्वान्भगवंतं श्रिया सह ।

कृतकृत्यो भवेन्नित्यं स विप्रो नात्र संशयः १८।

क्षत्रियो वाथ वैश्यो वा शूद्रो वासुरसत्तमे ।

भक्तिं कुर्वन्विशेषेण मुक्तिं याति स वै नरः १९।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे विष्णु।

भक्तिमहिमावर्णनंनाम त्रिंशाधिकशततमोऽध्यायः १३०।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 131

पार्वत्युवाच।

शालग्रामशिला शुद्धा मूर्त्तयः संति भूतले ।

तासां चैव तु मूर्तीनां पूजनं कतिधा स्मृतम् १।

ब्राह्मणैः कति पूज्यास्ताः क्षत्रियैर्वा सुरेश्वर ।

वैश्यैर्वापि कथं शूद्रैः स्त्रीभिर्वापि समादिश २।

महादेव उवाच।

शालग्रामशिला पुण्या पवित्रा धर्मकारिणी ।

यस्या दर्शनमात्रेण ब्रह्महा शुध्यते नरः ३।

तद्गृहं सर्वतीर्थानां प्रवरं श्रुतिनोदितम् ।

यत्रेयं सर्वदा मूर्तिः शालग्रामशिला शुभा ४।

ब्राह्मणैः पंचपूज्या स्युश्चतस्रः क्षत्रियैस्तथा ।

वैश्यैस्तिस्रस्तथापूज्याएकापूज्याप्रयत्नतः ५।

तस्यादर्शनमात्रेणशूद्रो मुक्तिमवाप्नुयात् ।

अनेन विधिना देवि ये नराः पूजयंति वै ६।

भोगान्सर्वांस्तत्र भुक्त्वा यांति विष्णोः सनातनम् ।

इयं सा महती मूर्तिः सर्वदा पापहारिणी ७।

कैलासाद्यं फलं देवि जायते पूजनाद्यतः ।

तत्र गंगा च यमुना गोदावरी सरस्वती ८।

तिष्ठते च शिला यत्र सर्वं तत्र न संशयः ।

किमत्र बहुनोक्तेन भूयोभूयो वरानने ९।

पूजनं मनुजैः सम्यक्कर्त्तव्यं मुक्तिमिच्छुभिः ।

भक्तिभावेन देवेशि येऽर्चयंति जनार्दनम् १०।

तेषां दर्शनमात्रेण ब्रह्महा शुध्यते जनः ।

दासभावेन ये शूद्राः स्वर्चनं कुर्वते सदा ११।

तेषां पुण्यं न जानंति ब्रह्माद्याश्च सुरेश्वरि ।

भक्तिभावेन ये विप्रा हरिमभ्यर्चयंति वै १२।

एकविंशतिकुलं तैस्तु तारितं तेषु जन्मसु ।

शंखचक्रांकितो यस्तु विप्रः पूजनमाचरेत् १३।

पूजितं तु जगत्सर्वं तेन विष्णुप्रपूजनात् ।

पितरः संवदंत्यस्मत्कुले जाताश्च वैष्णवाः १४।

तत्कुलं तारितं तैस्तु यावदाभूतसंप्लवम् ।

ते तु चास्मान्समुद्धृत्य नयंते विष्णुमंदिरम् १५।

स एव दिवसो धन्यो धन्या माताऽथ बांधवाः ।

पिता तस्य च वै धन्यो धन्या वै सुहृदस्तथा १६।

सर्वे धन्यतमा ज्ञेया विष्णुभक्तिपरायणाः ।

तेषां दर्शनमात्रेण महापापात्प्रमुच्यते १७।

उपपातकानि सर्वाणि महांति पातकानि च ।

तानि सर्वाणि नश्यंति वैष्णवानां च दर्शनात् १८।

पावका इव दीप्यंते ये नरा वैष्णवा भुवि ।

विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चंद्रमाः १९।

आर्द्रशुष्कं लघुस्थूलं वाङ्मनः कर्मभिः कृतम् ।

तत्सर्वं नाशमायाति वैष्णवानां च दर्शनात् २०।

हिंसादिकं च यत्पापं ज्ञानाज्ञानं कृतं च यत् ।

तत्सर्वं नाशमायाति दर्शनाद्वैष्णवस्य च २१।

निःपापास्त्रिदिवं यांति पापिष्ठा यांति शुद्धिताम् ।

दर्शनादेव साधूनां सत्यं तुभ्यं मयोदितम् २२।

संसारकर्दमालेपप्रक्षालनविशारदः ।

पावनः पावनानां च विष्णुभक्तो न संशयः २३।

प्रत्यहं विष्णुभक्ता ये स्मरंति मधुसूदनम् ।

ते तु विष्णुमया ज्ञेया विष्णुस्तत्र न संशयः २४।

नवनीलघनश्यामं नलिनायतलोचनम् ।

शंखचक्रगदापद्मधरं पीतांबरावृतम् २५।

कौस्तुभेन विराजंतं वनमालाधरं हरिम् ।

उल्लसत्कुंडलज्योतिः कपोलवदनश्रिया २६।

विराजितं किरीटेन वलयांगदनूपुरैः ।

प्रसन्नवदनांभोजं चतुर्बाहुं श्रियान्वितम् २७।

एवं ध्यायंति ये विप्रा विष्णुं चैव तु पार्वति ।

ते विप्रा विष्णुरूपाश्च वैष्णवास्ते न संशयः २८।

तेषां दर्शनमात्रेण भक्त्या वा भोजनेन वा ।

पूजनेन च देवेशि वैकुंठं लभते ध्रुवम् २९।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे शालग्रामशिलापूजनमाहात्म्यंनामैकत्रिंशाधिकशततमोऽध्यायः १३१।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 132

पार्वत्युवाच।

अनंतवासुदेवस्य कीदृशं स्मरणं स्मृतम् ।

यच्छ्रुत्वा न पुनर्मोहो मानुषाणां प्रजायते १।

महादेव उवाच।

दृष्टतत्वेन देवेशि स्मरंति विष्णुं नित्यशः ।

तृषातुरो यथा वारि तद्वद्विष्णुं स्मराम्यहम् २।

हिमेनाकुलितं विश्वं स्मरत्यग्निं यथा तथा ।

तद्वदेव तु वै विष्णुं स्मरंति विबुधादयः ३।

पतिव्रता यथा नारी पतिं स्मरति नित्यशः ।

तथा स्मरंति लोकेशं विष्णुं विश्वेश्वरेश्वरम् ४।

भयार्त्तः शरणं यद्वदर्थलोभी यथा धनम् ।

पुत्रकामो यथा पुत्रं तथा विष्णुं स्मराम्यहम् ५।

दूरस्थोऽपि यथा गेहं चातको माधवं यथा ।

ब्रह्मविद्यां ब्रह्मविदस्तथा विष्णुं स्मराम्यहम् ६।

हंसा मानसमिच्छंति ऋषयः स्मरणं हरेः ।

भक्ताश्च भक्तिमिच्छंति तथा विष्णुं स्मराम्यहम् ७।

प्राणिनां वल्लभो देहो यत्र आत्माऽवतिष्ठति ।

आयुर्वांच्छंति ये जीवास्तथा विष्णुं स्मराम्यहम् ८।

भ्रमराश्च यथा पुष्पं चक्रवाका दिवाकरम् ।

यथात्मवल्लभा भक्तिस्तथा विष्णुं स्मराम्यहम् ९।

अंधेनाकुलिता लोका दीपं वांच्छंति वै यथा ।

तथा वै पुरुषा लोके स्मरणं केशवस्य च १०।

यथा श्रमार्त्ता विश्रामं निद्रा व्यसनिनो यथा ।

गतालस्या यथा विद्यां तथा विष्णुं स्मराम्यहम् ११।

मातंगाः पार्वतीं भूमिं सिंहा वनगजादिकम् ।

तथैव स्मरणं विष्णोः कर्तव्यं पापभीरुभिः १२।

सूर्यकांते रवेर्योगाद्वह्निस्तत्र प्रजायते ।

एवं वै साधुसंयोगाद्धरौ भक्तिः प्रजायते १३।

शीतरश्मेर्यथा कांतश्चंद्रयोगादपः श्रयेत् ।

एवं वैष्णवसंयोगान्मुक्तिर्भवति शाश्वती १४।

कुमुद्वती यथा सोमं दृष्ट्वा पुष्पं विकासते ।

तद्वद्देवे कृता भक्तिर्मुक्तिदा सर्वदा नृणाम् १५।

यथानलायाः संत्रस्ता भ्रमरी स्मरणं चरेत् ।

तेन स्मरणयोगेन नलासारूप्यतामियात् १६।

गोपीभिर्जारबुद्ध्या च विष्णोश्च स्मरणं कृतम् ।

ताश्च सायुज्यतां नीतास्तथा विष्णुं स्मराम्यहम् १७।

केऽपि वै दुष्टभावेन च्छद्मभावेन केचन ।

के चापि लोभभावेन चिंतयंति जनार्दनम् १८।

भक्त्या वा स्नेहभावेन द्वेषभावेन वा पुनः ।

केऽपि स्वामित्त्वभावेन बुद्धया वा बुद्धिपूर्वकम् १९।

येनकेनापि भावेन चिंतयंति जनार्दनम् ।

इहलोके सुखं भुक्त्वा यांति विष्णोः सनातनम् २०।

अहो विष्णोश्च माहात्म्यमद्भुतं लोमहर्षणम् ।

यदृच्छयापि स्मरणं त्रिधामुक्तिप्रदायकम् २१।

न धनेन समृद्धेन विपुलाविद्यया तथा ।

एकेन भक्तियोगेन समीपे दृश्यते क्षणात् २२।

सांनिध्येऽपि स्थितो दूरे नेत्रयोरंजनं यथा ।

भक्तियोगेन दृश्येन भक्तैश्चैव सनातनः २३।

इदं तत्वमिदं तत्वं मोहितो देवमायया ।

भक्तितत्वं यदा प्राप्तं तदा विष्णुमयं जगत् २४।

इंद्राद्यैरमृतं प्राप्तं सुखार्थे शृणु सुंदरि ।

तथापि दुःखितास्ते वै भक्त्या विष्णोर्यथा विना २५।

भक्तिमेवामृतं प्राप्य पुनर्दुःखं न जायते ।

वैकुंठाख्यं पदं प्राप्य मोदते विष्णुसन्निधौ २६।

वारि त्यक्त्वा यथा हंसः पयः पिबति नित्यशः ।

एवं धर्मान्परित्यज्य विष्णोर्भक्तिं समाश्रयेत् २७।

अन्यभक्तिं परित्यज्य विष्णुभक्तिं समाश्रयेत् ।

तोयं बद्ध्वा तु वस्त्रेण कृतं कार्यं कथं भवेत् २८।

प्राप्य देहं विना भक्तिं क्रियते स वृथाश्रमः ।

विष्णुभक्तिं विना धर्मानुपदिशंति ये जनाः ।

ते पतंति सदा घोरे नरके नात्र संशयः २९।

बाहुभ्यां सागरं तर्तुं यद्वन्मूर्खोऽभिवांछति ।

संसारसागरं तद्वद्विष्णुभक्तिं विना नरः ३०।

विष्णुभक्तिं च रक्षंति कर्मणा पात्यते यदि ।

अकिंचनः स्पृहायुक्तो मेरौ धत्ते यथा स्पृहाम् ३१।

तव भक्तौ तथा देव मया हि क्रियते स्पृहा ।

जन्मांतरे हि सा भक्तिर्मामकी यत्करोति हि ३२।

वह्निर्यथेह स्वल्पोऽपि दहते विविधं वनम् ।

तद्वदेव तु सा भक्तिरणुमात्रा कृता मया ३३।

शतैश्च श्रूयते भक्तिः सहस्रैरपि बुध्यते ।

तेषां मध्ये तु देवेशि भक्तोह्येकः प्रजायते ३४।

बुद्धिं परेषां दास्यंति लोके बहुविधा जनाः ।

स्वयमाचरते सोऽपि नरः कोटिषु दृश्यते ३५।

पूजया हस्यते भक्तिर्जयेन परिहस्यते ।

एवं भावो हि देवेशे भक्तिस्तेनैव गृह्यते ३६।

सागरे च यथा पातः कूपे त्राणोपवेशनम् ।

यस्य भावो हि तद्वच्च भक्तिः सा तेन गृह्यते ३७।

मूले सिक्तस्य वृक्षस्य पत्रं शाखासु दृश्यते ।

भजनादेव भो देवि फलमग्रे प्रतिष्ठितम् ३८।

पानीयहारिणा यद्वत्घटे चित्तं प्रधीयते ।

तद्वद्देवे हरौ चित्तं धृत्वा मोक्षमवाप्नुयात् ३९।

शैशवे च यथा माता गुडं स्तोकं ददाति वै ।

पुनर्याचति वै बालो गुडं वै लोभकारणात् ४०।

नीरे नीरं यथाक्षिप्तं दुग्धे दुग्धं घृते घृतम् ।

तद्वद्भेदं न पश्यंति विष्णुभक्तिप्रसादतः ४१।

भानुः सर्वगतो यद्वद्वह्निः सर्वगतो यथा ।

भक्तिः स्थितस्तथा भक्तः कर्मभिर्नैव बाध्यते ४२।

अजामिलः स्वधर्मं च त्यक्त्वा पापं समाचरन् ।

पुत्रं नारायणं स्मृत्वा मुक्तिं वै प्राप्तवान्ध्रुवम् ४३।

दिवारात्रौ च ये भक्ता नाममात्रोपजीविनः ।

वैकुंठवासिनस्ते वै तत्र वेदा हि साक्षिणः ४४।

अश्वमेधादियज्ञानां फलं स्वर्गेऽपि दृश्यते ।

तत्फलं तु समग्रं वै भुक्त्वा वै संपतंति च ४५।

विष्णुभक्तिस्तथा देवि भुक्त्वा भोगाननेकशः ।

वैकुंठं प्राप्य वा तेषां पुनरागमनं कदा ४६।

विष्णुभक्तिः कृता येन विष्णुलोके वसत्यसौ ।

दृष्टांतं पश्य देवेशि विष्णुभक्तिप्रसादतः ४७।

ग्रावाणो जलमध्यस्थाः शतशस्तेन तारिताः ।

विना जलं सोमकांतो विष्णुभक्तस्य मानसम् ४८।

दर्दुरो वसते नीरे षट्पदो हि वनांतरे ।

गंधं वेत्ति कुमुद्वत्या भक्तो भक्तौ तथा हरेः ४९।

गंगातटे वसंत्येके एके वै शतयोजनम् ।

कश्चिद्गंगाफलं वेत्ति विष्णुभक्तिं परस्तथा 6.132.५०।

कर्पूरागुरुभारं हि उष्ट्रो वहति नित्यशः ।

मध्यगंधं न जानाति तथा विष्णुं बहिर्मुखाः ५१।

मृगाः शालं हि जिघ्रंति कस्तूरीगंधमिच्छवः ।

स्वनाभिस्थं न जानंति तथा विष्णुं बहिर्मुखाः ५२।

उपदेशो हि मूर्खाणां वृथा वै नगनंदिनि ।

तथैव विष्णुभक्तेर्हि उपदेशो बहिर्मुखे ५३।

अहिना च पयः पीतं तत्पयो हि विषायते ।

तथा वै चान्यभक्तानां विष्णुभक्तिर्विषायते ५४।

चक्षुर्विना यथा दीपं दृष्ट्वा दर्पणमेव च ।

समीपस्था न पश्यंति तथा विष्णुं बहिर्मुखाः ५५।

पावको हि यथा धूमैरादर्शोपि मलेन च ।

यथोल्बेनावृतो गर्भो देहे कृष्णस्तथावृतः ५६।

दुग्धे सर्पिः स्थितं यद्वत्तिले तैलं तु सर्वदा ।

चराचरे तथा विष्णुर्दृश्यते नगनंदिनि ५७।

एकसूत्रे मणिगणा धार्यंते बहवो यथा ।

एवं ब्रह्मादिभिर्विश्वं संप्रोतं ब्रह्मचिन्मये ५८।

यथा काष्ठे स्थितो वह्निर्मंथनादेव दृश्यते ।

एवं सर्वगतो विष्णुर्ध्यानादेव प्रदृश्यते ५९।

आदिरेको भवेद्दीपस्तस्माज्जाताः सहस्रशः ।

एवमेकः स्थितो विष्णुः सर्वव्याप्य प्रतिष्ठति ६०।

यथा सूर्योदये ज्योतिः पुष्करे तिष्ठते सदा ।

दृश्यते बहुधा नीरे लोके विष्णुस्तथा हि सः ६१।

मारुतः प्रकृतिस्थोऽपि नानागंधवहः सदा ।

ईश्वरः सर्वजीवस्थो भुंक्ते प्रकृतिजान्गुणान् ६२।

शर्करा विषसंयोगान्नीरं भवति यादृशम् ।

संभूत्त्वा तादृशो ह्यात्मा कर्मणः फलमश्नुते ६३।

उर्वी च नीरसंयोगान्नानावृक्षा प्रजायते ।

प्रकृतेर्गुणसंयोगान्नानायोनिषु जायते ६४।

गजे वै मशके चैव देवे वा मानुषेऽपि वा ।

नाधिको न च न्यूनो वै निष्ठो देहे स निश्चलः ६५।

ब्रह्मादिस्तंबपर्यंता ये चात्र भुवि मानवाः ।

देवा यज्ञास्तथा नागा गंधर्वाः किन्नरादयः ६६।

तेषु सर्वेषु दृश्यंते जले चंद्रमसो यथा ।

स सच्चिदानंदशिवः स महेशो हि दृश्यते ६७।

स वै विष्णुस्तथा प्रोक्तः सोऽयं सर्वगतो हरिः ।

वेदांतवेद्यः सर्वेशः कालातीतो ह्यनामयः ६८।

एवं तं वेत्ति यो देवि स भक्तो नात्र संशयः ।

एको हि बहुधा ज्ञेयो बहुधाप्येक एव सः ६९।

नामरूपविभेदेन जल्प्यते बहुधा भुवि ।

चक्षुषा न रवेर्ज्योतिर्भानुना चक्षुरेधते ७०।

परमात्मा तथा चात्मा प्रतिदेहे तु सर्वदा ।

घटे घटे यथाकाशस्तस्मिन्भग्ने यथा स्थितः ७१।

रूपे रूपे तथा त्वं हि भग्ने तस्मिन्सुनिश्चलः ।

यथा काष्ठमयं रूपं पतते प्रभुणा विना ७२।

क्रिमिभेदमयो देहो पतते चात्मना विना ।

हेम्नो भवंति वर्णाश्च वह्निना यांति पूर्ववत् ७३।

तद्वज्जीवाः प्रपद्यंते भक्ता वै पूर्वरूपताम् ।

स्वघनेनावृतं सूर्यं मूढाः पश्यंति निष्प्रभम् ७४।

तथाऽज्ञानधियो मूढा न जानंति तमीश्वरम् ।

निर्विकल्पं निराकारं वेदां तैः परिपाठ्यते ७५।

निराकाराच्च साकारं स्वेच्छया च प्रकाशते ।

तस्मात्संजातमाकाशं निःशब्दं गुणवर्जितम् ७६।

आकाशान्मारुतो जातः सशब्दं च तदाऽभवत् ।

वातादजायत ज्योतिर्ज्योतिषश्चाभवज्जलम् ७७।

तज्जले रुक्मगर्भश्च विराड्वै विश्वरूपधृक् ।

तस्य नाभिसरोजे च ब्रह्मांडानां च कोटयः ७८।

प्रकृतिः पुरुषस्तस्मान्निर्मितं तु त्रिधा जगत् ।

तयोर्द्वयोश्च संयोगात्तत्त्वयोगो ऽभ्यजायत ७९।

सात्विकी विष्णुसंभूतिर्ब्रह्मा वै राजसः स्मृतः ।

शिवस्तु तामसः प्रोक्त एभिः सर्वं प्रवर्तितम् ८०।

एका ब्राह्मी स्थितिर्लोके कर्मबीजानुसारतः ।

तया संहरते विष्णुः सर्वलोकानुशेषतः ८१।

तिष्ठत्यसौ तदा तत्र भगवान्विष्णुरव्ययः ।

एवं सर्वगतो विष्णुरादिमध्यांत एव च ८२।

अविद्यया न जानंति लोका वै कर्मनिश्चिताः ।

वर्णोचितानि कर्माणि यः कालेषु प्रकारयेत् ८३।

यत्कर्मविष्णुदैवत्यं न हि गर्भस्य कारणम् ।

वेदांतशास्त्रे मुनिभिः सर्वदैव विचार्यते ८४।

ब्रह्मज्ञानमिदं देहे तदहं परिकीर्त्तये ।

शुभाशुभस्य कार्यं च कारणं मन एव हि ८५।

मनसा शुध्यते सर्वं तदा ब्रह्म सनातनम् ।

मन एव सदा बंधुर्मन एव सदा रिपुः ८६।

मनसा तारिताः केचिन्मनसा यातिताश्च के ।

मध्ये सर्वपरित्यागः बाह्ये कर्म तथाचरन् ८७।

एवमेव कृतं कर्म कुर्वन्नपि न लिप्यते ।

पद्मपत्रं यथा नीर लेशैरपि न लिप्यते ८८।

अग्निरग्नौ यथा क्षिप्तो भक्त्या च किं प्रयोजनम् ।

यदा भक्तिरसो ज्ञातो न मुक्ती रोचते तदा ८९।

योगैरष्टविधैर्विष्णुर्न प्राप्यश्चेह जन्मनि ।

भक्त्या वा प्राप्यते विष्णुः सर्वदा सुलभो भवेत् ९०।

वेदांतैः प्राप्यते ज्ञानं ज्ञानेन ज्ञेयमेव च ।

तत्तु ज्ञेयं यदा प्राप्तं तदा शून्यमिदं जगत् ९१।

बलेन प्राप्यते विष्णुर्योगैरष्टविधैश्च किम् ।

सर्वेषामेव भावानां भावशुद्धिः प्रशस्यते ९२।

आलिंग्यते यथा कांता यथा भावस्तथा फलम् ।

उपानद्युक्तपादो हि वेत्ति चर्ममयीं महीम् ९३।

बुद्धिर्यथाविधा यस्य तद्वत्स मन्यते जगत् ।

दुग्धेन सिक्तो निंबोऽपि कटुभावं न तु त्यजेत् ९४।

प्रकृतिं यांति भूतानि उपदेशो निरर्थकः ।

छित्वा वै सहकारं च फलं पत्रं कथं लभेत् ९५।

इंद्रियाणां सुखार्थेन वृथा जन्म कथं नयेत् ।

स्थाल्यां वैडूर्यमय्यां हि पच्यते चौषधं यथा ९६।

दह्यते चागदस्तद्वद्वृथाजन्म कथं भवेत् ।

निधानं च गृहे क्षिप्त्वा शुभः सेवां कथं चरेत् ९७।

त्यक्त्वा वैकुंठनाथं तमन्यमार्गे कथं रमेत् ।

भक्तिहीनैश्चतुर्वेदैः पठितैः किं प्रयोजनम् ९८।

श्वापचो भक्तियुक्तस्तु त्रिदशैरपि पूज्यते ।

स्वकरे कंकणं बद्ध्वा दर्पणैः किं प्रयोजनम् ९९।

ब्रह्मरुद्रादिभिर्देवैर्दत्तैश्वर्याश्च सेवकाः ।

अर्पितं नैव गृह्णंति प्रभोश्चैव तु किंचन 6.132.१००।

अकिंचनाय भक्ताय दातुं नालं गतो वरम् ।

निःशरीरस्य कृष्णस्य तत्र ध्यानं कथं भवेत् १०१।

साकारं बहवो दृष्ट्वा गता भक्त्या च तत्पदम् ।

पूजा भक्तिः कथं शून्ये साकारे कथ्यते बुधैः १०२।

शून्यमार्गे कथं याति आधारेण विना नरः ।

साकारो यः स्वयं स्वामी निराकारः स वै प्रभुः १०३।

साकारो हि सुखेनैव निराकारो न दृश्यते ।

सेवारसश्च साकारे निराकारेण वैरसः १०४।

साकारेण निराकारो ज्ञायते स्वयमेव हि ।

हरिस्मृतिप्रसादेन रोमांचित तनुर्यदा १०५।

नयनानंदसलिलं मुक्तिर्दासी भवेत्तदा ।

बाल्ये च यत्कृतं पापं तत्कथं न विनश्यति १०६।

पूजादानव्रतैस्तीर्थैर्जपहोमैस्त्वदर्पितैः ।

निजधर्मं परित्यज्य तपो घोरं कथं चरेत् १०७।

स्वधर्मे निधनं श्रेयः परमधर्मो भयावहः ।

विधिं संत्यज्य शास्त्रीयं तपो घोरं कथं चरेत् १०८।

आश्रमेण विना मूढो नैव सिद्धिमवाप्नुयात् ।

ब्रह्मणा निर्मिता वर्णाः स्वे स्वे धर्मे नियोजिताः १०९।

स्वधर्मेणागतं द्रव्यं शुक्लद्रव्यं तदुच्यते ।

शुक्लद्रव्येण यद्दानं दीयते श्रद्धयान्वितम् ११०।

स्वल्पेनापि महत्पुण्यं तस्य संख्या न विद्यते ।

नीचसंगेन यद्द्रव्यमानीतं गृहकर्मसु १११।

तेन द्रव्येण यद्दानं कृतं वै मनुजादिभिः ।

तत्फलं न भवेत्ते वै नैव तत्फलभागिनः ११२।

यादृशं कुरुते कर्म इंद्रियाणां सुखेच्छया ।

तादृशीं योनिमाप्नोति मूढो हि ज्ञानदुर्बलः ११३।

इह यत्कुरुते कर्म तत्परत्रोपभुज्यते ।

पुण्यमाचरतः पुंसो यदि दुःखं प्रजायते ११४।

तदा तापो न कर्त्तव्यस्तत्कर्म पूर्वदेहजम् ।

पापमाचरतः पुंसो जायते दुःखमेव च ११५।

न कर्त्तव्यस्तदा हर्षः सुखे तत्र सुरेश्वरि ।

रज्जुबद्धाश्च पशवः प्रभुणा स्वेच्छया यथा ११६।

नीयंते कर्मबंधेन मनुजा अपि भूतले ।

शाखामृगो वनचरो नृत्यते च गृहे गृहे ११७।

एवं च कर्मणा जीवा नीयंते सर्वयोनिषु ।

क्रीडता कंदुको यद्वत्प्रेर्यते प्रभुणेच्छया ११८।

कर्मणा वा तथा जंतुर्नीयते सुखदुःखयोः ।

प्राणी स्वकर्मभिर्बद्धो न शक्तो बंधनिग्रहे ११९।

देवा वै कर्मभिर्बद्धा ऋषयश्च तथापरे ।

कैलासे रुद्रदेहस्था भुजंगा विषभोजिनः १२०।

असमर्थाः सुधा भोक्तुं कर्मयोनिर्बलीयसी ।

नीरोगदेहदाता यो बुधैः सूर्यो हि कथ्यते १२१।

तद्रथे सारथिः पंगुः कर्मयोनिर्बलीयसी ।

इंद्रद्युम्नो हि राजर्षिर्गजत्वं कर्मणा गतः १२२।

समर्थस्वामिना तस्मिन्कर्मयोनिर्वृथा कृता ।

रुद्रब्रह्मादयो देवा मानवाश्चासुराश्च ये १२३।

ते सर्वे कर्मबद्धाश्च विचरंति महीतले ।

कर्माधीनं जगत्सर्वं विष्णुना निर्मितं पुरा १२४।

तत्कर्मकेशवाधीनं रामनाम्ना विनश्यति ।

सर्वत्रापि स्थितं तोयं मुक्तिदं तु सितासिते १२५।

एवमाचरतां कर्म मुक्तिदं केशवार्चनम् ।

इंद्रियाणां सुखार्थाय यः कर्म मनसाचरेत् १२६।

अहं कृतेन मन्येत केवलं देहमेव हि ।

मनसा संस्मरन्जंतुः प्रायश्चित्तं समाचरेत् १२७।

स पूर्वकर्मभोक्ता च अग्रे कर्म न वर्द्धते ।

प्रशंसंति ग्रहान्केचित्केचित्प्रेतपिशाचकान् १२८।

केचिद्देवान्प्रशंसंति ह्योषधीः केचिदूचिरे ।

केचिन्मंत्रं च सिद्धिं च केचिद्बुद्धिपराक्रमम् १२९।

उद्यमं साहसं धैर्यं केचिन्नीतिं बलं तथा ।

अहंकर्मप्रशंसाभिः सर्वे कामानुवर्तिनः १३०।

इति मे निश्चिता बुद्धिः कथ्यते पूर्वसूरिभिः ।

यदा पुण्यमयो जंतुः पापं किंचिन्नः विद्यते १३१।

ज्ञानं हि द्विविधं चैव तदा पुण्यं सुखं भवेत् ।

पापं पुण्यं समं यस्य तदा कर्मसु विद्यते १३२।

समं योगं यदा द्वंद्वं तदानंदपदं व्रजेत् ।

बाह्ये सर्वपरित्यागी मनसा संस्पृही भवेत् १३३।

तद्वृथाचरितं तस्य तेन तत्पापभोगिनः ।

बाह्ये करोति कर्माणि मनसा निःस्पृहो भवेत् १३४।

त्यागोऽसौ मध्यमो ज्ञेयो न तु पूर्णफलं लभेत् ।

बाह्यमध्ये परित्यज्य बुद्ध्या शून्यावलंबनम् १३५।

त्यागः स उत्तमो ज्ञेयो योगिनामपि दुर्ल्लभः ।

क्रोधात्सर्वं त्यजंत्येके केचिद्वादप्रभावतः १३६।

कष्टात्सर्वं त्यजंत्येके त्यागाः सर्वेनुमध्यमाः ।

सुबुद्ध्या श्रद्धया युक्तो न क्रोधादिवशंगतः १३७।

कर्मणां ह्यवलिप्तोऽपि सुगतिं याति मानवः ।

शुचीनां श्रीमतां गेहे धीमतां योगिनामपि १३८।

योगाद्भ्रष्टस्तु जायेत कुले वै द्विजपूर्वके ।

स्वल्पेनैव तु कालेन पूर्णं योगं च विंदति १३९।

चिदानंदपदं गच्छेद्योगभक्तिप्रसादतः ।

पंकेनैव यथा पंकं रुधिरं रुधिरेण वै १४०।

हिंसया कर्मणा कर्म कथं क्षालयितुं क्षमः ।

हिंसाकर्ममयोयज्ञः कथं कर्मक्षये क्षमः १४१।

स्वर्गकामकृता यज्ञा स्वर्गे ते चाल्पसौख्यदाः ।

अनित्यानि तु सौख्यानि भवंति च बहून्यपि १४२।

नित्यं सौख्यं न तेष्वस्ति विना भक्त्या हरेः क्वचित् ।

सार्वभौमसुखं राज्यं स्वर्गे चापि तथा सुखम् १४३।

अन्यत्किंचिन्न वांछामि गर्भवासाद्बिभेम्यहम् ।

ग्रावा वै भिद्यते लोहैर्माणिक्यं नैव भिद्यते १४४।

नानाकाममयी बुद्ध्या विष्णुभक्तिर्न भिद्यते ।

बको जलचरान्भुंक्ते मंडूकादींश्च वर्जयेत् १४५।

तथा यमः सर्वहंता वर्जयेत्कृष्णसेवकान् ।

यो रक्षति स हर्ता च स वै पालक उच्यते १४६।

अपराधशतैर्युक्तं स्वं स्थाने यत्र वासिता ।

यथा कृतापराधस्य कृष्णस्तस्य कृपाकरः १४७।

फलं च लभते वाद्य रक्षकः किं करोति चेत् ।

एवमात्मा च देहेस्मिन्परवश्यकृपाकरः १४८।

प्राप्तो न पारः शनकैर्मल्लैर्युक्ता न वापि ता ।

व्याधस्य मुक्तिदाता च कुब्जका तारिता स्वयम् १४९।

ब्रह्माद्यैर्दुर्लभः स्वप्ने सुलभो गोपमंदिरे ।

गोपोच्छिष्टं यदा भुक्तं तदा ते तारिताः स्वयम् 6.132.१५०।

योगिभिर्गीयते नित्यं परमात्मा जनार्दनः ।

अव्ययः पुरुषः श्रीमान्दृष्ट्वा तैर्देवि विस्मये १५१।

एतत्स्मरणकं दिव्यं ये पठंति दिने दिने ।

सर्वपापविनिर्मुक्ता यांति विष्णोः सनातनम् १५२।

अनया भावबुद्ध्या च पठनं विष्णुसन्निधौ ।

इहलोके सुखं भुक्त्वा परं पदमवाप्नुयात् १५३।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखण्डे विष्णुस्मरणंनाम द्वात्रिंशाधिकशततमोऽध्यायः १३२।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 133

पार्वत्युवाच।

द्वीपेऽस्मिन्यानि तीर्थानि तानि मे वद सुव्रत ।

द्वीपानां द्वीपराजोऽयं सर्वदा भुवि निर्मितः ।

संख्यया त्वं वद स्वामिन्कृपां कृत्वा ममोपरि १।

महादेव उवाच।

सर्वगः सर्वभूतेषु द्रष्टव्यः सर्वतो भुवि ।

सप्तलोकेषु यत्किंचिद्दृश्यते सचराचरम् २।

तत्वं तेन विना देवि न दृष्टं न श्रुतं मया ।

अतो विष्णुर्महादेवः केशवः क्लेशनाशनः ।

तीर्थरूपेण वर्तेत द्वीपे ह्यस्मिन्सुरेश्वरि ३।

तानि तीर्थानि वक्ष्यामि सांप्रतं नात्र संशयः ।

प्रथमं पुष्करं क्षेत्रं तीर्थानां प्रवरं शुभम् ।

वाराणसी द्वितीयं तु क्षेत्रं मुक्तिप्रदायकम् ४।

तृतीयं नैमिषं क्षेत्रमृषीणां पावनं स्मृतम् ।

प्रयागं वै चतुर्थं तु तीर्थानामुत्तमं स्मृतम् ५।

कार्मुकं पंचमं प्रोक्तं उत्पन्नं गंधमादने ।

एकादशं कान्यकुब्जं यत्र तिष्ठति वामनः ६।

सप्तमं विश्वकायं तु अवरे पर्वते शुभे ।

अष्टमं गौतमाख्यं च मंदरे निर्मितं पुरा ७।

मदोत्कटं तु नवमं दशमं रथचैत्रकम् ।

एकादशं कान्यकुब्जं यत्र तिष्ठति वामनः ८।

द्वादशं मलयं चैव कुब्जाम्रकमतः परम् ।

विश्वेश्वरं गिरिकर्णं केदारं गतिदायकम् ९।

बाह्यं हिमवतः पृष्ठे गोकर्णे गोपकं तथा ।

स्थानेश्वरं हिमाद्रौ च बिल्वके बिल्वपत्रिकम् १०।

श्रीशैले माधवं तीर्थं भद्रं भद्रेश्वरे तथा ।

वाराहे विजयं प्रोक्तं वैष्णवं वैष्णवे गिरौ ११।

रौद्रं तु रुद्रकोटे तु पैत्र्यं कालिजरे गिरौ ।

कंपिले कापिलं तीर्थं मुकुटे कर्कोटकं तथा १२।

शालग्रामोद्भवं तीर्थं गल्लिकायां सुरेश्वरि ।

नर्मदायां शिवाख्यं तु मायायां विश्वरूपकम् १३।

उत्पलाक्षं सहस्राक्षं जातं वै रैवते गिरौ ।

गंगायां पितृतीर्थं च विष्णुपादोद्भवं तथा १४।

विपाशायां विपापा च पाटले पुंड्रवर्द्धनम् ।

नारायणं सुपार्श्वे तु त्रिकूटे विष्णुमंदिरम् १५।

विपुले विपुलं नाम कल्याणं मलयाचले ।

कौरवं कोटितीर्थे च सुगंधं गंधमादने १६।

कुब्जाम्रके त्रिसंध्यं तु गंगांद्वारे हरिप्रियम् ।

शैलं विंध्यप्रदेशे तु बदर्यां सारस्वतं स्मृतम् १७।

कालिद्यां कालरूपं च सह्ये वै सायकं स्मृतम् ।

चांद्रं चंद्रप्रदेशे तु रमणं तीर्थनायकम् १८।

यमुनायां मृगाख्यं तु करवीरे कुरूद्भवम् ।

विनायके पर्वते वै उमाख्यं तीर्थमेव च १९।

आरोग्यं भास्करे देशे महाकाले महेश्वरम् ।

तीर्थं अभयदं नामामृताख्यं विंध्यकंधरे २०।

मंडपे विश्वरूपं च स्वाहाख्यं ईश्वरे पुरे ।

वैगलेयं प्रचंडायां चांडिकंमरकंटके २१।

सोमेश्वरं तथा तीर्थे प्रभासे पुष्करं तथा ।

देवमात्रं सरस्वत्यां पारावततटे स्थितम् २२।

महालयं महापद्मे पयोष्ण्यां पिंगलेश्वरम् ।

सिंहिकायां तथा तीर्थं सौरवेरविसंज्ञकम् २३।

कार्तिकं कृत्तिकाक्षेत्रे शांकरं शंकरे गिरौ ।

उत्पलाख्यं ततो दिव्यं सुभद्रा सिंधुसंगमे २४।

गाणपत्यं ततश्चैव पर्वतो विष्णुसंज्ञके ।

जालंधरे ततः प्रोक्तं तीर्थं विष्णुमुखं च यत् २५।

तारे वै तारकं प्रोक्तं पर्वते विष्णुसंज्ञके ।

देवदारुवने पौंड्रं पौष्कं काश्मीरमंडले २६।

भौमं हिमं हिमाद्रौ च तुष्टिकं पौष्टिकं पुनः ।

कपालमोचनं तीर्थं जातं मायापुरे तथा २७।

शंखोद्धारं ततश्चैव देवं वै शंखधारकम् ।

पिंडे वै पिंडनामानं सिद्धे वैखानसं भवेत् २८।

अच्छोदे विष्णुकामं तु धर्मकामार्थमोक्षदम् ।

औषध्यं चोत्तरेकूले कुशद्वीपे कुशोदकम् २९।

मन्मथं हेमकूटे तु कुमुदे सत्यवादनम् ।

वदंत्यावाश्वकं तीर्थं विंध्ये वै मातृकं स्मृतम् ३०।

चित्ते ब्रह्ममयं तीर्थं तीर्थानां पावनं स्मृतम् ।

एतेषां सर्वतीर्थानामुत्तमं शृणु सुंदरि ३१।

विष्णोर्नाममयं तीर्थं न भूतं न भविष्यति ।

ब्रह्महा हेमहारी वा बालहा गोघ्न एव च ३२।

मुच्यते नाममात्रेण प्रसादात्केशवस्य तु ।

कलौ द्वारवती रम्या धन्यो देवो जनार्दनः ३३।

ये पश्यंति नरा देवं मुक्तिस्तेषां सुनिश्चला ।

एवं धन्यतमं देवं विष्णुं सर्वेश्वरं प्रभुम् ३४।

चिंतयामि महादेवि विद्वत्संस्थो जनार्दनम् ।

अष्टोत्तरं तु तीर्थानां शतमेतदुदाहृतम् ३५।

यो जपेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ।

एषु तीर्थेषु यः स्नात्वा पश्येन्नारायणं हरिम् ३६।

सर्वपापविनिर्मुक्तो याति विष्णोः सनातनम् ।

जगन्नाथं महातीर्थं लोकानां पावनं स्मृतम् ३७।

ये गच्छंति नरश्रेष्ठास्तेपि यांति परां गतिम् ।

शताष्टकं महापुण्यं श्रावयेत्पितृकर्मणि ३८।

इहलोके सुखं भुक्त्वा याति विष्णोः सनातनम् ।

गोदाने श्राद्धदाने वा अहन्यहनि वा पुनः ३९।

देवार्चनविधौ विद्वान्परं ब्रह्माधिगच्छति ४०।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे जंबूद्वीपतीर्थवर्णनंनाम त्रयस्त्रिंशाधिकशततमोऽध्यायः १३३।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 134

महादेव उवाच।

वेत्रवत्यास्तु माहात्म्यं वक्ष्यामि शृणु सुंदरि ।

यत्र स्नात्वा विमुच्यंते यावदाभूतसंप्लवम् १।

वृत्रेण च कृतः कूपो महागंभीरसंज्ञकः ।

कूपात्सा निःसृता देवी महापापौघनाशिनी २।

यथा गंगा तथेयं च सरिच्छ्रेष्ठा सुरोत्तमे ।

अस्या दर्शनमात्रेण पापौघाः शमयंति च ३।

शृणु देवि प्रवक्ष्यामि इतिहासं पुरातनम् ।

यच्छ्रुत्वा पापिनो दोषैर्विमुक्ताः कर्मबंधनात् ४।

चंपके नगरे चैव राजा राज्यं करोति सः ।

सदा दुष्टो दुष्टरूपो जनानां स प्रपीडकः ५।

अधर्मो धर्मरूपश्च विष्णुनिंदापरायणः ।

देव द्विज निहंता च आश्रमाणां विदूषकः ६।

वेदनिंदापरः श्रीमान्मूर्खो वा निर्घृणः शठः ।

असच्छास्त्रेषु निरतः परदाराभिमर्शकः ७।

विदारुणेति नामा च संजातो मूर्ख एव च ।

कदाचिद्दैवयोगेन आगतस्तां नदीं प्रति ८।

आखेटकसमायुक्तः स्वयं कुष्ठी सुरेश्वरि ।

महापापादयं जातो ब्राह्मणानां च निंदनात् ९।

वृथावादी दुरात्मा च शठो वै निर्घृणः पशुः ।

वेदनिंदारतो नित्यं गोशास्त्राणां प्रदूषकः १०।

एवंविधो वने भ्राम्यंस्तृषार्तः स सुहृद्वृतः ।

अश्वादुत्तीर्य राजाऽसौ जलं पीत्वा गृहं गतः ११।

तेनैवोदकपानेन गतं कुष्ठं न संशयः ।

बुद्धिस्तु निर्मला जाता तस्य राज्ञो विशेषतः १२।

विष्णौ भक्तिः समुत्पन्ना तदा तस्य सुरेश्वरि ।

ततः प्रभृति कालेन स्नानं वै कृतवान्सदा १३।

निर्मलो बहुरूपाढ्यो जातस्तत्र सुरेश्वरि ।

इहलोके सुखं भुक्त्वा कृत्वा यज्ञाननेकशः १४।

विप्रेभ्यो दक्षिणां दत्वा स गतो वैष्णवं पदम् ।

इति ज्ञात्वा तु भो देवि वेत्रवत्यां विशेषतः १५।

स्नानं कुर्वंति ये विप्रास्ते मुक्ता नगनंदिनि ।

राजन्यो वाथ वैश्यो वा शूद्रो वा सुरसत्तमे १६।

यत्र स्नानं प्रकुर्वंति ते मुक्ताः पापबंधनात् ।

कार्तिके वाऽथ माघे वा बाह्यो वा वेदनिंदकः १७।

सरितां संगमे स्नात्वा मुच्यते देवि किल्बिषात् ।

साभ्रमत्याः समं यत्र तस्याः संगः प्रदृश्यते १८।

तत्र स्नात्वा विशेषेण मुच्यते ब्रह्महा सदा ।

खेटकं नगरं दिव्यं स्वर्गरूपं तु वाऽनघे १९।

ब्रह्मणा तत्र वै देवि योगाश्च बहवः कृताः ।

तत्र स्नात्वा च भुक्त्वा च पुनर्जन्म न विद्यते २०।

सा द्वितीया स्मृता गंगा कलौ देवि विशेषतः ।

ये नराः सुखमिच्छंति धनमिच्छंति ये नराः २१।

स्वर्गमिच्छंति ये लोकास्ते वै स्नात्वा पुनःपुनः ।

इहलोके सुखं भुक्त्वा यांति विष्णोः सनातनम् २२।

सूर्यवंशे च ये जाताः सोमवंशे तथैव च ।

आगता वेत्रवत्यां तु स्नात्वा निर्वृतिमागताः २३।

दर्शनाद्धरते दुःखं स्पर्शनान्मानसं ह्यघम् ।

स्नात्वा भुक्त्वा तथा देवि मुक्तिभागी न संशयः २४।

स्नानाज्जपात्तथाहोमादनंतं फलमश्नुते ।

गत्वा वाराणसीतीर्थं भक्त्या चांद्रायणं चरेत् २५।

तत्र गत्वा महत्पुण्यं तत्पुण्यं सुरसत्तमे ।

वेत्रवत्यां विशेषेण पंचत्वं यदि गच्छति २६।

स वै चतुर्भुजो भूत्वा याति विष्णोः परं पदम् ।

पृथिव्यां यानि तीर्थानि ये देवाः पितरस्तथा २७।

ते सर्वे च वसंतीह वेत्रवत्यां सुरेश्वरि ।

किमन्यद्बहुनोक्तेन भूयो भूयो वरानने २८।

वेत्रवत्याः समं तीर्थं पृथिव्यां न सनातनि ।

अहं विष्णुस्तथा ब्रह्मा देवाश्च परमर्षयः २९।

तिष्ठंति देवताः सर्वे वेत्रवत्यां महेश्वरि ।

एककालं द्विकालं वा त्रिकालं च विशेषतः ३०।

स्नानं कुर्वंति ये तत्र ते वै मुक्ता न संशयः ३१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे वेत्रवती माहात्म्ये चतुस्त्रिंशाधिकशततमोऽध्यायः १३४।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 135

श्रीमहादेव उवाच।

साभ्रमत्यास्तु माहात्म्यं वक्ष्ये देवि यथातथम् ।

कश्यपो वै मुनिश्रेष्ठस्तपो वै तप्तवान्महत् १।

अनेकवर्षपर्यंतं तेन तप्तं महत्तपः ।

अर्बुदे पर्वते रम्ये नानाद्रुमसमाकुले २।

तत्र गत्वा तपस्तप्तं ऋषिणा कश्यपेन वै ।

सरस्वती यत्र रम्या पवित्रा पापनाशिनी ३।

एकस्मिन्दिवसे देवि गतोऽसौ नैमिषं प्रति ।

तदा ते ऋषयः सर्वे कथां चक्रुरनेकशः ४।

तदा तैस्तु द्विजैः सम्यक्पृष्टोऽसौ कश्यपो मुनिः ।

अहो कश्यप नः प्रीत्यै गंगेहानीयतां प्रभो ५।

भवन्नाम्ना तु सा गंगा भविष्यति सरिद्वरा ।

तेषां वाक्यमुपाकर्ण्य नमस्कृत्य द्विजांश्च तान् ६।

आगतो ह्यर्बुदारण्ये सरस्वतीतीरसंनिधौ ।

तत्र तप्तं तदा तेन तपः परमदुष्करम् ७।

आराधितो ह्यहं तेन कश्यपेन द्विजेन वै ।

प्रत्यक्षोऽहं तदा जातस्तस्य द्विजवरस्य च ८।

वरं वरय भद्रं ते यत्ते मनसि वर्त्तते ९।

कश्यप उवाच।

वरं दातुं समर्थोऽसि देवदेव जगत्पते ।

शिरःस्थिता या गंगेयं पवित्रा पापहारिणी १०।

मम देया विशेषेण महादेव नमोस्तुते ।

तदा देवि मयोक्तं च गृह्णीष्व त्वं द्विजोत्तम ११।

जटामेकां परित्यज्य दत्ता गंगा तदा मया ।

तां गृहीत्वा द्विजश्रेष्ठः स्वस्थानं हर्षतो ययौ १२।

केशरन्ध्रं नाम तीर्थं वासो वै कश्यपस्य च ।

गतस्तत्र तु देवेशि मुनिभिः परिवारितः १३।

कश्यपेन समानीता काश्यपी सा सरिद्वरा ।

यस्या दर्शनमात्रेण ब्रह्महा मुच्यते किल १४।

पार्वत्युवाच।

स्नानमात्रेण किं पुण्यं तत्र तीर्थे वदस्व मे ।

विश्वनाथ कृपालुस्त्वं दयां कुरु ममोपरि १५।

दर्शने किं भवेत्पुण्यं स्नाने किं वद देवराट् ।

महिमा कीदृशो ब्रह्मन्सर्वं त्वं वक्तुमर्हसि १६।

महादेव उवाच।

मया श्रुतान्यनेकानि तीर्थान्यायतनानि च ।

श्रीविष्णोश्च प्रसादाच्च नद्यः सागरगाः प्रभोः १७।

गंगा च यमुना रेवा तापी चैव महानदी ।

गोदावरी तुंगभद्रा कौशिकी गल्लिका तथा १८।

कावेरी वेदिका भद्रा सरयूः पापहारिणी ।

अन्याश्च विविधा नद्यः सर्वपापहरा भुवि १९।

प्रयागस्तीर्थराजश्च काशी पुष्कर एव च ।

नैमिषारण्यसंज्ञं तु तीर्थं चामरकंटकम् २०।

उत्तमं द्वारकाक्षेत्रमर्बुदारण्यमुत्तमम् ।

एवंविधानि दिव्यानि क्षेत्राणि विविधानि च २१।

श्रुतानि तत्र देवेशि माया विष्णोः प्रसादतः ।

पूर्वं भगीरथेनैव याचितोऽहं तु पार्वति २२।

तदा दत्ता इयं गंगा विष्णोर्लोकमभीप्सुना ।

कश्यपाय पुनर्दत्ता ऋषीणां वचनान्मया २३।

इयं वै काश्यपी गंगा रोगदोषहरा सदा ।

इयं या कथ्यते लोके युगे वै नामपूर्वकम् २४।

तदहं कथयिष्यामि शृणु सुंदरि तत्वतः ।

कृते कृतवती नाम त्रेतायां गिरिकर्णिका २५।

द्वापरे चंदना नाम कलौ साभ्रमती स्मृता ।

दिनेदिने विशेषेण स्नानार्थं तु नराश्च ये २६।

सर्वपापविनिर्मुक्ता यांति विष्णोः सनातनम् ।

प्लक्षावतरणे तीर्थे सरस्वत्यां तथेश्वरि २७।

केदारे च कुरुक्षेत्रे यत्फलं स्नानतो भवेत् ।

तत्फलं तु नृणां नूनं साभ्रमत्या दिने दिने २८।

भवतीति न संदेहो व्यासस्य वचनं यथा ।

नभस्येपरपक्षे तु प्रत्यहं वा सुरेश्वरि २९।

अमावास्यादिने सम्यक्श्राद्धदाने च यत्फलम् ।

नरस्तत्फलमाप्नोति साभ्रमत्यावगाहनात् ३०।

कार्तिक्यां कृत्तिकायोगे श्रीस्थले माधवाग्रतः ।

तत्फलं लभते मर्त्यो साभ्रमत्यावगाहनात् ३१।

एषा श्रेष्ठतमा देवि सर्वलोकेषु पावनी ।

इयं धन्यतमा देवि पवित्रा ह्यघनाशिनी ३२।

यस्यां वै साभ्रमत्यां च एते तिष्ठंति नित्यशः ।

पूर्वं संबंधिनो ये च उत्तरे ये तथा पुनः ३३।

पाश्चात्या दाक्षिणात्याश्च सर्वे यांति च नित्यशः ।

तीर्थयात्रामिषेणैव खेटके ब्रह्मसन्निधौ ३४।

आयांति सर्वदा देवि कार्तिक्यां च न संशयः ।

तत्र श्राद्धं प्रकुर्वंति तथा वै विप्रभोजनम् ३५।

नाना धर्मान्प्रकुर्वंति नानायज्ञांश्च नित्यशः ।

विविधानि च दानानि प्रकुर्वंति जनाः सदा ३६।

चतुर्युगेषु सर्वेषु नात्र कार्या विचारणा ।

यवक्रीतोऽथ रैभ्यश्च काक्षीवानुशिजस्तथा ३७।

भृग्वंगिरास्तथा कण्वो मेधावी च पुनर्वसुः ।

बंदी च गुणसंपन्नः प्राच्यां दिशि उपश्रिताः ३८।

उदीच्यां ये महाभागा मधुमत्प्रमुखास्तथा ।

सुबंधुश्च महाभागो दत्तात्रेयश्च वीर्यवान् ३९।

शिखी दीर्घतमाश्चैव गौतमः कश्यपस्तथा ।

श्वेतकेतुः कहोडश्च पुलहो देवलस्तथा ४०।

विश्वामित्र भरद्वाजौ जमदग्निश्च वीर्यवान् ।

ऋचीकपुत्रो गर्गश्च ऋषिरुद्दालकस्तथा ४१।

देवशर्माऽथ धौम्यश्च आस्तीकः कश्यपस्तथा ।

लोमशो नाभिकेतुश्च लोमहर्षण एव च ४२।

ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा ।

वालखिल्यादयो ये च सर्वे गच्छंति तत्र वै ४३।

कृतस्नाना निराहाराः सदा विष्णुपरायणाः ।

शंखचक्रगदाधरास्तटे तिष्ठंति नित्यशः ४४।

पितृतीर्थं गयानाम सर्वतीर्थवरं शुभम् ।

यत्रास्ते देवदेवेशः स्वयमेव पितामहः ४५।

गीतायाः पितृभिर्गाथा श्राद्धभागमपीप्सुभिः ।

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ४६।

यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।

तथा वाराणसी पुण्या पितॄणां वल्लभा सदा ४७।

या चैव मम सांनिध्याद्भुक्तिमुक्तिफलप्रदा ।

ममाज्ञया तु देवेशो बिंदुमाधवसंज्ञकः ४८।

नित्यं तिष्ठति देवेशि वाराणस्यां विशेषतः ।

अतो धन्यतमा श्रेष्ठा पुरीयं मम सर्वदा ४९।

पितॄणां वल्लभं तीर्थं पुण्यं वै विमलेश्वरम् ।

पितृतीर्थं प्रयागं च सर्वतीर्थसमन्वितम् 6.135.५०।

साभ्रमत्युदके देवि आयांति वचनान्मम ।

वटेश्वरश्च भगवान्माधवेन समन्वितः ५१।

दशाश्वमेधकं पुण्यं गंगाद्वारं तथैव च ।

मन्नियोगाच्च देवेशि साभ्रमत्यां वसंति हि ५२।

नदाथ ललितादेवी तीर्थं यत्सप्तधारकम् ।

तथा मित्रपदं नाम केदारं शंकरालयम् ५३।

गंगासागरमित्याहुः सर्वतीर्थमयं शुभम् ।

तीर्थं ब्रह्मसरस्तद्वच्छतद्रु सलिले ह्रदे ५४।

तीर्थं तु नैमिषं नाम आज्ञया मम सर्वदा ।

साभ्रमत्युदके देवि निवसंति न संशयः ५५।

श्वेता वल्कलिनी पुण्या ततः श्वेता हिरण्मयी ।

हस्तिमत्यथवार्त्तघ्नी नदी सागरगामिनी ५६।

पितॄणां वल्लभा ह्येताः श्राद्धकोटिफलप्रदः ।

तत्र श्राद्धानि देयानि पुत्रैः पितृहिताय वै ५७।

पाटलं वाडवाख्यं च नगरं तत्र सुंदरि ।

साभ्रमत्यां सदा एताः प्राप्ता नद्यो विशेषतः ५८।

तत्र स्नानं च दानं च ये कुर्वंति नरा भुवि ।

इहलोके सुखं भुक्त्वा यांति विष्णोः सनातनम् ५९।

जंबूद्वीपं महापुण्यं यत्र पुण्यं विवर्द्धते ।

तत्रार्याख्यं महापुण्यं सर्वकामफलप्रदम् ६०।

नीलकंठमिति ख्यातं तीर्थं नंदह्रदस्तथा ।

तथा रुद्रह्रदस्तीर्थं पुण्यं रुद्र महालयम् ६१।

मंदाकिनी महापुण्या तथाच्छोदा महानदी ।

साभ्रमत्यां वहंत्येते स्वात्मना दर्शनीकृते ६२।

धूम्रा मित्रपदं तद्वद्वैजनाथं दृषद्वरम् ।

क्षिप्रा नदी महाकालं तथा कालिंजरो गिरिः ६३।

गंगोद्भूतं हरोद्भेदं नर्मदाकारमेव च ।

गंगापिंडप्रदानेन समान्याहुर्मनीषिणः ६४।

एतानि ब्रह्मतीर्थानि साभ्रमत्युत्तरे तटे ।

गुप्तीकृतानि देवेशि देवैर्ब्रह्मपुरोगमैः ६५।

स्मरणादपि लोकानां पापघ्नानि महेश्वरि ।

किं पुनः श्राद्धदातॄणां मानवानां सुरेश्वरि ६६।

ॐकारं पितृतीर्थं च कावेरी कपिलोदकम् ।

संभेदश्चंडवेगायास्तथैवामरकंटकम् ६७।

कुरुक्षेत्राच्छतगुणमस्मिन्स्नानादिकं भवेत् ।

वार्तघ्नीसंगमे देवि गणेश्वरपुरःसरम् ६८।

साभ्रमत्यां पुरा नीतं गणैस्तीर्थकदंकबम् ।

एष तूद्देशतः प्रोक्तस्तीर्थानां संगमो मया ६९।

वागीशापि न शक्नोति तीर्थानां तत्वविस्तरम् ।

सत्यं तीर्थं दयातीर्थं तीर्थमिंद्रियविग्रहः ७०।

तस्यास्तीर्थे प्रयत्नेन स्नानं कुर्यान्न संशयः ।

प्रातःकालो मुहूर्तांस्त्रीन्संगवस्तावदेव तु ७१।

तदा स्नानादिकं तीर्थे देवानां प्रीतिदायकम् ।

मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम् ७२।

पितॄणां प्रीतिजननं स्नानपिंडादि तर्पणम् ।

सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् ७३।

राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु ।

अह्नो मुहूर्ता विख्याता दशपंच च सर्वदा ७४।

तत्राष्टमो मुहूर्तो यः स कालः कुतुपः स्मृतः ।

मध्याह्ने सर्वदा यस्मान्मंदी भवति भास्करः ७५।

तस्मादनंतफलदः पितॄणां पिंडदानतः ।

मध्याह्नः खङ्गपात्रं च तथा नेपालकंबलः ७६।

रूप्यं दर्भास्तथा गावो दौहित्रं कुतपास्तिलाः ।

पापं कुत्सितमित्याहुस्तस्य संतापकारकाः ७७।

अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः ।

ऊर्द्ध्वं मुहूर्तात्कुतुपात्यन्मुहूर्त चतुष्टयम् ७८।

महूर्तपंचकं चैतच्छ्राद्धकाले समिष्यते ।

विष्णोर्देहात्समुद्भूताः कुशाः कृष्णतिलाः स्मृताः ७९।

श्राद्धस्य रक्षणार्थाय एवमाहुर्दिवौकसः ।

तिलोदकांजलिर्देयो जलस्थैस्तीर्थवासिभिः ८०।

सदर्भहस्तैरेकेन श्राद्धमेवं न हिंस्यते ।

साभ्रमत्यां नामधेयैरिति तीर्थप्रवेशनम् ८१।

कारयित्वा मया देवि दत्ता वै कश्यपाय च ।

मम भक्तः कश्यपोसौ वल्लभो मम सर्वदा ८२।

दत्ता तस्मादियं गंगा पवित्रा पापनाशिनी ।

साभ्रमत्यां महाभागे तीर्थे वै ब्रह्मचारिके ८३।

आत्मानं च प्रतिष्ठाप्य तन्नाम्ना शंकरो ह्यहम् ।

स्थितो लोकहितार्थाय ब्रह्मचारीश संज्ञकः ८४।

साभ्रमत्यामुपकंठे ब्रह्मचारीश संज्ञके ।

कलौ भक्तो विशेषेण पूजनं कुरुते यदा ८५।

इहलोके सुखं भुक्त्वा याति शैवं पदं महत् ।

महद्भिर्व्याधिभिश्चैव पीडितो यदि गच्छति ८६।

यस्याशु नश्यति व्याधिर्दर्शनाच्च महेश्वरि ।

गत्वा वै तस्य संस्थाने उपवासी जितेंद्रियः ८७।

पूजनं कुरुते भक्त्या रात्रौ तिष्ठन्सुनिश्चलः ।

तदाहं योगिरूपेण दर्शनं तस्य यामि हि ८८।

ददामि वांच्छितान्कामान्सत्यं सत्यं वरानने ।

ममस्थाने विशेषेण समायांति च ये जनाः ८९।

तेषां व्याधिप्रशमनं करोमि सुचिरादहम् ।

चतुरशीतिसंज्ञेयो व्याधिः संकथितो मया ९०।

स स व्याधिर्विनश्येत दर्शनादेव सुंदरि ।

न लिंगं वर्तते तत्र मामकं नगनंदिनि ९१।

स्नानमात्रं तु तत्रैव मामकं नात्र संशयः ।

एकस्मिन्नेव काले तु अस्यां भूमौ महातपाः ९२।

राजा वै सूर्यवंशीयो ब्रह्मदत्तस्तु वीर्यवान् ।

तेन राज्ञा तपस्तप्तं बहुकालं सुरेश्वरि ९३।

पंचाग्निसाधनं तेन कृतं च बहुधा ततः ।

मासोपवासकादीनि तपस्तप्तान्यनेकशः ९४।

एवं बहुतरं कालं राज्ञा तप्तं तपो महत् ।

प्रत्यक्षोऽहं तदा जातो वरार्थं वरवर्णिनि ९५।

ब्रह्मदत्त शृणुष्व त्वं महद्वाक्यं नरेश्वर ।

यं यं वांछयसे नित्यं तं तं दद्मि न संशयः ९६।

तेनोक्तं मम देवेश वांच्छितं यदि दीयते ।

एक एव वरो देव दीयतां मम सर्वदा ९७।

मम नाम्ना हि देवेश ईश्वरो भुवि जायताम् ।

तेन वाक्येन संतुष्टो वरो दत्तो मयाऽनघे ९८।

तदाहं तेन वै सार्द्धं निवसामि सुरेश्वरि ।

अत्र स्थित्वा निराहारो भक्तिं कुर्यादशेषतः ९९।

ददामि वांछितान्कामान्यावदिंद्राश्चतुर्दश ।

अत्रागत्य तु ये विप्रा रुद्रजाप्यादिकं च यत् 6.135.१००।

प्रकुर्वंति विशेषेण तेषां दद्मि शृणुष्व तत् ।

स्त्रीसौख्यं पुत्रसौख्यं च लक्ष्मीवृद्धिकरं पुनः १०१।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 136

पार्वत्युवाच।

साभ्रमत्यपि यान्देशान्नंदिकुंडाद्विनिःसृता ।

गच्छंती पावयामास कान्कान्देशान्वदस्व मे ।

चकार कानि तीर्थानि विलंघ्यार्बुदपर्वतम् १।

सूत उवाच।

इति तत्रोदिते देव्या महादेवः स विश्वराट् ।

उवाच वचनं तां वै पार्वतीं विश्वमोहिनीम् २।

महादेव उवाच।

नंदिकुंडात्प्रथमतः तीर्थात्परमपावनात् ।

कपालमोचनं तीर्थं मुनिभिः संप्रकारितम् ३।

सर्वतेजोधिकं तीर्थं पावनात्पावनं परम् ।

अत्र मया परित्यक्तं कपालं ब्रह्मसंज्ञकम् ४।

कपालमोचनं तीर्थमतो जातं हि पार्वति ।

पावनं सर्वभूतानां प्रकटं लोकविश्रुतम् ५।

कपालकुंडमाख्यातं तत्तीर्थं तीर्थराजकम् ।

यत्र देवास्तथा नागा गंधर्वाः किंनरादयः ६।

निवसंति महात्मानस्तीर्थे वै निर्मले शुभे ।

त्रैलोक्ये विश्रुतं तीर्थं दानदं मुक्तिदायकम् ७।

तत्र स्नात्वा शुचिर्भूत्वा कपालेशं प्रपूजयेत् ।

उपोष्य रजनीमेकां कृत्वा ब्राह्मणभोजनम् ८।

तत्रापि वस्त्रदानेन अग्निहोत्रफलं लभेत् ।

तस्मिंस्तीर्थे तु यः कश्चिद्दर्शनव्रतमास्थितः ९।

संत्यज्य देहमात्मानं शिवलोकं व्रजेद्ध्रुवम् ।

अस्मिंस्तीर्थे पुरा स्नानात्सौदासो ब्रह्महत्यया १०।

मोचितो विमलं ज्ञानं प्राप्तवान्वै सुरेश्वरि ।

भागीरथ्यान्वये जातः सुदासाख्यो महाबली ११।

तस्य पुत्रो मित्रसहः सौदासेति च विश्रुतः ।

वसिष्ठशापतः प्राप्तः सौदासो राक्षसीं तनुम् १२।

साभ्रमत्यां कृतस्नानो विमुक्तः शापजादघात् ।

अत्र गंगा च यमुना गोदावरी सरस्वती १३।

नंदितीर्थे वसंत्येताः पवित्राः पुण्यदाः सदा ।

गोदानं भूमिदानं च शय्यादानं तथैव च १४।

कन्यादानं विशेषेण कर्तव्यं ज्ञानिभिर्नरैः ।

एतद्दानसमं प्रोक्तं साभ्रमत्यावगाहनम् १५।

यत्र वै सकलान्येव पतितानीह भूतले ।

वारिणा स्पर्शमात्रेण शुद्धत्वं यांति तान्यपि १६।

अत्र श्राद्धं प्रकुर्वाणो नरो वै भक्तितत्परः ।

पितरस्तस्य संतुष्टा गच्छंति परमं पदम् १७।

एतदाख्यानकं दिव्यं ये शृण्वंति नराः सदा ।

सर्वपापविनिर्मुक्ता विष्णोः सायुज्यमाप्नुयुः १८।

कर्मणा मनसा वाचा ये स्तुवंति महेश्वरम् ।

न तेषां विद्यते दुःखं यावदाभूतसंप्लवम् १९।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमा।

महेश्वरसंवादे नंदितीर्थमहिमानाम षट्त्रिंशाधिकशततमोऽध्यायः १३६।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 137

महादेव उवाच।

अथ नंदिप्रदेशात्तु यथा साभ्रमती नदी ।

समायाता विकीर्णं च वनं विप्रर्षिसेवितम् १।

बहुधा जलवेगेन पर्वतानां च रोधसः ।

सप्तधा प्रविभक्ता च दक्षिणोदधिगामिनी २।

आद्या साभ्रमती पुण्या द्वितीया सेटिका तधा ।

तृतीया वल्किनी पुण्या चतुर्थी च हिरण्मयी ३।

सर्वपापहरा प्रोक्ता हस्तिमत्यथ पंचमी ।

वेत्रवती सा च षष्ठी वृत्रेण निर्मिता पुरा ४।

इयं सा परमा देवी वृत्रकूपाद्विनिःसृता ।

वेत्रवती ततो जाता महापापप्रणाशिनी ५।

भद्रामुखी शुभप्राया सप्तमी लोकपावनी ।

एतैस्तु सप्तभिर्देवि तांस्तान्जनपदांस्तथा ६।

पवित्रीकृत्य चैकेन सप्तस्रोता प्रतिष्ठिता ।

विकीर्णतीर्थे यः श्राद्धं पितॄनुद्दिश्य दास्यति ७।

गयापिंडप्रदानस्य फलं यत्तद्भविष्यति ।

अवकीर्णा च्युता ये च लुप्तपिंडोदकक्रियाः ८।

ते विकीर्णे प्रमुच्यंते दत्तपिंडोदकक्रियाः ।

तत्र श्राद्धं तु यः कुर्याद्गाणपत्यं भवेद्ध्रुवम् ९।

तस्मात्त्रयीविधानेन श्रद्धया श्राद्धमाचरेत् ।

अस्मिंस्तीर्थे विशेषेण सप्तनद्युदये द्विजाः १०।

स्नानं कुरुत विप्रेंद्रा ऋषिलोकमभीप्सवः ।

इत्युक्तं कश्यपेनाथ द्विजान्प्रति विशेषतः ११।

यदि चेत्क्रियते स्नानं सर्वदुःखापहं सदा ।

तीर्थानां प्रवरं तीर्थं क्षेत्राणामुत्तमोत्तमम् १२।

तीर्थमेतद्विकीर्णं च शुभदं रोगदोषहृत् ।

कुर्वंत्यत्र विशेषेण ये स्नानं सर्वदा कलौ १३।

ते नराः पुण्यभाजो हि जायंते नात्र संशयः ।

गयातीर्थसमं तीर्थं विकीर्णं पावनं परम् ।

पितॄणां पुण्यदं नित्यं लोकानां दुःखनाशनम् १४।

इति विकीर्णतीर्थम् ।

तीर्थादस्मात्परं तीर्थं श्वेतोद्भवमनुत्तमम् ।

यत्र श्वेता नदी जाता मत्पृष्ठोदरभस्मना १५।

विश्रुता त्रिषु लोकेषु सर्वपापप्रणाशिनी ।

हरांगभस्मसंयोगात्जाता देवैस्तु मानिता १६।

तस्यां स्नातः शुचिर्दांतस्त्रिरात्रमुषितः पुमान् ।

महाकालेश्वरं दृष्ट्वा रुद्रलोके महीयते १७।

पिंडं पितृभ्यो यो दद्यात्तस्यास्तीरे कुशैस्तिलैः ।

सुतृप्ताः पितरस्तस्य भवंतीति न संशयः १८।

श्वेतगंगामहापुण्या दुःखदारिद्र्यमोचनी ।

यत्र स्नानेन भो देवि परं सुखमवाप्यते १९।

तस्या वै संगमे पुण्ये नित्यं तिष्ठामि पार्वति ।

येऽत्र दानं प्रकुर्वंति स्नानं च तत्र सुंदरि २०।

तदनंतफलं तस्य भवेद्वै नात्र संशयः ।

तत्र भूतेश्वरो देवः संगमे वसते ध्रुवम् २१।

तत्र धूपं च दीपं च पुष्पमारार्तिकं तथा ।

ये कुर्वंति नरश्रेष्ठास्ते नराः पुण्यरूपिणः २२।

बिल्वदलं समादाय यो ददाति शिवोपरि ।

वांच्छितं लभते नित्यं श्वेतायां शिवसंनिधौ २३।

इति श्रीपाद्मे महापुराणे पंचपंचात्साहस्र्यां संहितायामुत्तरखंडे।

उमामहेश्वरसंवादे श्वेतातीर्थंनाम सप्तत्रिंशाधिकशततमोऽध्यायः १३७।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 138

महादेव उवाच।

गणतीर्थं ततो गच्छेत्तीर्थयात्रापरायणः ।

त्रिविष्टपमिति प्रोक्तं गणैस्तु चंदना तटे १।

त्रिविष्टपे नरः स्नात्वा पूर्णमास्यां समाहितः ।

संशयो नात्र कर्त्तव्यो मुच्यते ब्रह्महत्यया २।

चतुरो वार्षिकान्मासान्स्थितिर्यस्य त्रिविष्टपे ।

सोऽपि पुण्यो महाभागे रुद्रलोके महीयते ३।

गणतीर्थे नरः स्नात्वा कृष्णाष्टम्यामुपोषितः ।

बकुलासंगमे स्नात्वा स्वर्गं गच्छति मानवः ४।

तस्मिंस्तीर्थे नरः स्नात्वा बकुलेशं विलोक्य च ।

गणेश्वरप्रसादेन गाणपत्यमवाप्नुयात् ५।

इदं पवित्रं परमं पुण्यायुष्यविवर्द्धनम् ।

श्रुत्वा तु लभते पुण्यं गंगास्नानसमं नरः ६।

अत्र स्थित्वा निराहारो जितेंद्रिय समाहितः ।

जपत्येवं परं देवं गणेश्वरं मनोरमम् ७।

संप्राप्नोत्यखिलान्भोगान्सत्यं सत्यं वरानने ।

अत्र राजा सोमवंशी विश्वदत्तः स वीर्यवान् ८।

तेन तपो महत्तप्तं बहुकालं सुरेश्वरि ।

गाणपत्यं तदा प्राप्तं श्रीगणेशप्रसादतः ९।

वसिष्ठो वामदेवश्च होडः कौशीतको मुनिः ।

भरद्वाजोंगिराश्चैव विश्वामित्रोऽथ वामनः १०।

एते वै मुनयः सर्वे पुण्यरूपा महेश्वरि ।

नित्यं सेवां प्रकुर्वंति श्रीगणेशप्रसादतः ११।

अपुत्रो लभते पुत्रान्निर्द्धनो लभते धनम् ।

अविद्यो लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् १२।

किमन्यद्बहुनोक्तेन भूयोभूयो वरानने ।

योऽत्र स्नानं प्रकुर्वीत पूजनं वा करोति च १३।

सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ।

शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे १४।

नांतरं देवि पश्यामि श्रीविष्णोश्च प्रसादतः १५।

इति श्रीपाद्मे महापुराणे पंचपंचात्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे बकुलासंगमे गणतीर्थं नामाष्टत्रिंशाधिकशततमोऽध्यायः१३८।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 139

महादेव उवाच।

साभ्रमत्युत्तरे कूले अग्नितीर्थमिति श्रुतम् ।

तस्याश्चोत्तरपूर्वेण नातिदूरे कृतास्पदम् १।

तीर्थं पालेश्वरं नाम चंडी यत्र प्रतिष्ठिता ।

पीठं तद्योगमातॄणां सर्वसिद्धिविधायकम् २।

यत्र ताः सर्वदेवानां कार्यार्थे मातरः स्थिताः ।

परमं यत्नमास्थाय लोकानुग्रहकारणात् ३।

त्रिरात्रमुषितो भूत्वा तस्मिंस्तीर्थे दृढव्रतः ।

अभिगच्छेत्तमीशानं देवेशं चंडिकेश्वरम् ४।

साभ्रमत्यां कृतस्नानो मातृतीर्थस्य संनिधौ ।

समाधिविधिना युक्तो गच्छेद्वै मातृमंडलम् ५।

गोसहस्रप्रदानस्य फलं प्राप्नोति मानवः ।

अग्नितीर्थे नरः स्नात्वा चामुंडादर्शने कृते ६।

न भयं जायते तस्य रक्षोभूतपिशाचजम् ।

गोखुरा च नदी यत्र साभ्रमत्यां तु संगता ७।

तत्र तीर्थसहस्राणि तिष्ठंतीति सुरेश्वरि ।

श्राद्धं तत्र प्रकर्त्तव्यं तिलचूर्णेन पार्वति ८।

पिंडान्दत्त्वा द्विजान्भोज्य अक्षयं पदमाप्नुयात् ।

यत्र कुकर्दमो राजा पापिष्ठो दुर्द्धरः खलः ९।

मूढोऽहंकारसंयुक्तो द्विजानां परिनिंदकः ।

गोघ्नोऽपि बलहा चैव पापिष्ठो दुर्दमः सदा १०।

राज्यं च कुर्वतस्तस्य पुरे पिंडारसंज्ञके ।

तदा मृत्तिः समापन्ना धर्मे योगे सुरेश्वरि ११।

मृतोऽसौ तत्र संजातः प्रेतरूपो महेश्वरि ।

पीतास्यः शुष्कतुंडश्च पीतरोमाऽथ कर्कशः १२।

उच्चस्तरो बहुरोमा क्षुत्पिपासाप्रपीडितः ।

वायुभक्षं प्रकुर्वाणः प्रगच्छति इतस्ततः १३।

बहुप्रेतैः समायुक्तो हाहेति करुणो रुदन् ।

किं कर्तव्यमिति प्राहुः प्रेतास्ते वै समीपगाः १४।

तेऽपि तदा रोदमानाः क्षुत्पिपासादि पीडिताः ।

अन्ये प्रेता दुरात्मानो राज्ञः संगतिमाययुः १५।

राज्ञा सार्द्धं च गच्छंति लोकान्विजनकान्बहून् ।

नोदकमथवा चान्नं न मार्गे दृश्यते कदा १६।

ते प्रेता दुष्टरूपाश्च विचरंति महीतले ।

भक्षंति शवमांसानि पिबंति रुधिरं सदा १७।

एवं कुकर्दमो राजा सदा तैः परिवारितः ।

कदाचिद्दैवयोगेन गुरोराश्रममन्वगात् १८।

पूर्वजन्मकृतं पुण्यं तेन योगेन संगतः ।

पार्वत्युवाच।

किं कृतं तेन वै पुण्यं वद विश्वेश्वर प्रभो १९।

अयं पापी दुरात्मा च ब्राह्मणानां च दुःखदः ।

सत्संगतिः कथं जाता तन्मे दुस्तरतो वद २०।

महादेव उवाच।

एतेन नरदेवेन पूर्वजन्मनि यत्कृतम् ।

तत्सर्वं कथयिष्यामि शृणु त्वं नगनंदिनि २१।

पूर्वजन्मन्ययं देवि ब्राह्मणो वेदपाठकः ।

संपूज्य च महादेवं कृत्वा चातिथिपूजनम् २२।

भोजनं कुरुते नित्यमसौ वाडवसत्तमः ।

तेन पुण्यप्रभावेन पुरो पिंडारसंज्ञके २३।

राजा वै तत्र संजातः कुकर्दम इति श्रुतः ।

कर्मणा मनसा चैव न कृतं पुण्यमेव च २४।

तेन देवाभियोगेन मृतो वै प्रेतराडभूत् ।

शुष्कास्यः शुष्करूपश्च पीतवर्णः करालकः २५।

पूर्वजन्मकृतं पुण्यं न नश्यति सुरेश्वरि ।

तेन पुण्याभियोगेन संगतो गुरुणाश्रमे २६।

कहोडो वर्तते तत्र तेन दृष्टोऽथ प्रेतराट् ।

शुष्कास्यः शुष्करूपश्च पीतवर्णः करालकः २७।

गंभीराक्षो महापापी दुष्टैः प्रेतैश्च संयुतः ।

ऊर्द्ध्वरोमा जटायुक्तः कालरूपो भयंकरः २८।

एवं दृष्ट्वा तदा देवि विह्वलो वाडवोऽभवत् ।

कहोड उवाच।

अस्मिन्मनोरमे चाहं स्थाने वै परमाद्भुते २९।

अग्निपालेश्वरे तीर्थे नित्यं तिष्ठामि भूमिप ।

यजमानस्त्वमस्माकं कथं जातोऽसि प्रेतराट् ३०।

दुरात्मा दुष्टरूपश्च कालरूपो भयंकरः ।

केन कर्मविपाकेन जातो वै भूतले शुभे ३१।

प्रेत उवाच।

शृणु वाडव मे पापं पूर्वजन्मनि यत्कृतम् ।

अहं कुकर्दमो राजा पुरे पिंडारसंज्ञके ३२।

तत्रस्थेन मया देव यत्कृतं तच्छृणुष्व हि ।

ब्रह्मणां हिंसनं चैव पुराऽसत्यादिभाषणम् ३३।

प्रजानां पीडनं चैव जीवानां हिंसनं सदा ।

गवां वै दुःखकर्ताऽहं ब्राह्मणव्रतलोपनः ३४।

अस्नातः सर्वदा विप्र सज्जनानां विदूषकः ।

विष्णुनिंदापरो नित्यं वैष्णवानां च निंदकः ३५।

दुराचारो दुरात्मा च वृषलीसंयुतः सदा ।

तत्र तत्र प्रभुंजानो नाऽहं शौचपरायणः ३६।

तेन कर्माभियोगेन मृतो वै द्विजराट्ततः ।

प्रेतयोनिं प्रपन्नोऽस्मि दुःखी जातो ह्यनेकधा ३७।

यस्य माता पिता नास्ति यस्य स्वजनबांधवाः ।

तस्य बंधुर्गुरुर्माता पितापि गुरुरेव च ३८।

इति ज्ञात्वा तु भो ब्रह्मन्मुक्तिं दातुं त्वमर्हसि ३९।

कहोड उवाच।

शृणु त्वं नृपतिश्रेष्ठ करिष्ये वचनं तव ।

मुक्तिं यास्यति वै सद्यो भवांस्त्विह न संशयः ४०।

एकादश पुरोगाश्च प्रेता ये तव संगताः ।

ते चापि मुक्तिमायांति सुतीर्थेऽस्मिन्विशेषतः ४१।

तदा वै तेन विप्रेण तीर्थे गत्वा सुरेश्वरि ।

सर्वैश्चकारयामास तिलपिंडोदकक्रियाः ४२।

न मासो न तिथिर्देवी तीर्थे गत्वा पुनः पुनः ।

कर्त्तव्यं श्राद्धकर्मादि ब्रह्मणोक्तं पुरा मम ४३।

कृते कर्मणि देवेशि मुक्तास्ते तीर्थराजके ।

विमानवरमारूढास्ते गता मामकीं पुरीम् ४४।

संगता गोखुरा यत्र साभ्रमत्या सुरेश्वरि ।

तत्र स्नानं च दानं च कोटियज्ञफलं लभेत् ४५।

यत्राग्नितीर्थं वर्तेत कपालेश्वरसंज्ञकम् ।

तत्र मुक्तिस्तु संप्रोक्ता सत्यं सत्यं भवेद्ध्रुवम् ४६।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे अग्निपालेश्वरमहिमानामैकोनचत्वारिंशत्यधिकशततमोऽध्यायः १३९।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 140

श्रीमहादेव उवाच।

भो देव्यन्यत्प्रवक्ष्यामि हिरण्यासंगमं महत् ।

यदा साभ्रमती गंगा सप्तस्रोता पुराभवत् १।

तदा सा ब्रह्मतनया सप्तस्रोतेति विश्रुता ।

सप्तमं तद्धिरण्याख्यं स्रोत इत्यभिधीयते २।

तस्मिंस्तीर्थे नरः स्नात्वा पापी गतिमवाप्नुयात् ।

ऋक्षुमंजुमयोर्मध्ये सत्यवान्नाम पर्वतः ३।

तस्य प्राक्सुमहत्तीर्थं हिरण्यासंगमं शुभम् ।

तत्र स्नात्वा च पीत्वा च शुभां गतिमवाप्नुयात् ४।

वनस्थल्यां ततो गच्छेद्दृष्ट्वा नारायणं हरिम् ।

तीर्थमप्सरसां पुण्यं हिरण्यासंगमेश्वरम् ५।

यत्रोर्वशी पुरा जाता समस्ताप्सरसां शुभा ।

नरनारायणौ तत्र तपस्तेपतुरुत्तमम् ६।

हिरण्यासंगमे रम्ये महापापहरे शुभे ।

यत्र वै ऋषयः सर्वे मज्जंति वीतकल्मषाः ७।

वसिष्ठाद्याश्च ये विप्रा वालखिल्यादयश्च ये ।

यत्र मज्जंति देवेशि हिरण्या सह संगमे ८।

यत्र हिरण्मयं रूपं स्नानाद्वै भवति ध्रुवम् ।

कपिलागोसहस्रस्य दानेनैव तु यत्फलम् ९।

तत्फलं समवाप्नोति हिरण्यासंगमे सदा ।

दशाश्वमेधे यत्पुण्यं ग्रहणे चंद्रसूर्ययोः १०।

तदनंतगुणं प्रोक्तं हिरण्यासंगमे पुनः ।

तुलापुरुषदाने च यत्फलं समवाप्नुयात् ११।

तत्फलं समवाप्नोति हिरण्यासंगमे सदा ।

हिरण्याक्षो महादैत्यस्तेन तप्तं महत्तपः १२।

हिरण्यसदृशं तत्र शरीरमभवत्पुरा ।

जनमेजये तथा राज्ञि यत्र स्नानं प्रकुर्वति १३।

ब्रह्महत्या गता देवि हिरण्यासंगमे तदा ।

विश्वामित्रोऽथ राजर्षिः स्नानार्थं वै समागतः १४।

स्नानं कृत्वा विशेषेण गतोऽसौ मामकीं पुरीम् १५।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चाथ सुरेश्वरि ।

स्नानं येऽत्र प्रकुर्वंति ते गच्छंति शिवालयम् १६।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे हिरण्यासंगमं तीर्थं नाम चत्वारिंशदधिकशततमोऽध्यायः १४०।

खण्डः ६ (उत्तरखण्डः) — Adhyāya 141

महादेव उवाच।

ततो देवि प्रवक्ष्यामि हिरण्यासंगमादनु ।

धर्मावती नदी यत्र संगता सह गंगया १।

तत्र स्नात्वा नरो धन्यस्त्रिदिवं यात्यसंशयम् ।

यत्र धर्मकृतं तीर्थं यः पश्यति स पुण्यभाक् २।

श्राद्धं तत्रैव ये कुर्युर्मुच्यंते पितृजादृणात् ।

ततश्च मधुरातीर्थं सर्वपापप्रणाशनम् ३।

स्नातव्यं मधुरातीर्थे द्रष्टव्यो मधुहा हरिः ।

यत्र विश्रांतवान्कृष्णो जरासंधभयाकुलः ४।

कंसासुरवधे वृत्ते गंतुकामः कुशस्थलीम् ।

उषित्वा सप्तरात्रं तु स देवश्चंदनातटे ५।

भोजवृष्ण्यंधकवृतो वीरैर्यादवपुंगवैः ।

मधुरातीर्थमासाद्य स्नानं कृत्वा विधानतः ६।

मधुरादित्यनामानं यत्र स्थापितवान्हरिः ।

अष्टादशसहस्राणि विप्राणां यज्ञशालिनाम् ७।

स्थापयित्वा ययौ दत्त्वा यानानि विविधानि च ।

तत्र तीर्थसहस्राणि तिष्ठंति च सुरेश्वरि ८।

श्राद्धं तत्र प्रकर्तव्यं पितॄणां हितकाम्यया ।

न भेतव्यं जरासंधान्मत्तीर्थे वसतां सदा ९।

इत्युक्त्वा तान्द्विजान्कृष्णः प्रययौ द्वारकां प्रति ।

तस्मिंस्तीर्थे नरः स्नात्वा मधुरार्कं प्रपूजयेत् १०।

माघस्य शुक्लसप्तम्यां कपिला गो प्रदानतः ।

चिरं सौख्यानि भुंक्त्वेह पदमादित्यमा व्रजेत् ११।

शृणु सुन्दरि वक्ष्यामि इतिहासं पुरातनम् ।

यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादि पातकात् १२।

एकस्मिन्समये देवि मांडव्यो ऋषिसत्तमः ।

गङ्गाद्वारे महापुण्यं तप्तवांस्तु महत्तपः १३।

पत्राशी च फलाशी च वायुभक्षकरः सदा ।

अहोरात्रं सदा देवि विष्णुध्यानपरायणः १४।

योगाभ्यासरतो नित्यं नित्यं धर्मपरायणः ।

तस्मिन्देशे तु वै देवि राजा वै विश्वमोहनः १५।

गजाश्वरथपत्तीनां संपदो बहुला भुवि ।

सोमचंद्रेति विख्यातः पुत्रस्तस्य सुलक्षणः १६।

एकदा तु तदा देवि गतो ह्याखेटके वने ।

तत्र गत्वा तदा तेन कृत्वा ह्याखेटकक्रियाः १७।

स्वात्मानं रमयामास स्वलोकैः परिवारितः ।

क्रीडारते तदा राज्ञि रात्रिर्जाता सुरेश्वरि १८।

तस्यां रात्रौ तदा राजा उवासाखेटके वने ।

तस्यां रात्र्यां व्यतीतायां मुहूर्ते ब्रह्मसंज्ञके १९।

हृतोऽश्वोऽथ विशेषेण चौरेणात्र दुरात्मना ।

तदा हाहेति शब्दोऽभूत्क्व गतः क्व गतो हरिः २०।

तदा राज्ञो भयात्सर्वे गंतुकामाः समुत्सुकाः ।

चौरेणापहृतश्चाश्व इत्येवं संवदंति हि २१।

निरीक्ष्यमाणास्ते सर्वे हरिद्वारं समागताः ।

ऋषिस्तत्र तु मांडव्यस्तपस्तपति नित्यशः २२।

ध्यानेन च समायुक्तो दृष्टोऽसौ तैर्भटैस्तदा ।

अयं चौरः सदा पापी ध्यानं कृत्वा प्रतिष्ठति २३।

बद्ध्वाश्वं तु समायातो ज्ञात्वा राजभटैस्तदा ।

एवं विचार्य ते सर्वे गृहीत्वा तं महामुनिम् २४।

राज्ञे निवेदयामासुस्तं चौरं मुनिसत्तमम् ।

अश्वापहारी ह्यानीतश्चौरोऽयं नृप सर्वदा २५।

आज्ञा दत्ता तदा तेन शूलिकारोपणे पुनः ।

तदा तैस्तुभटैः सर्वैर्मिलित्वा बंधनं कृतम् २६।

पश्चाद्वै शूलिकाप्रोतस्तत्क्षणात्तु कृतस्तदा ।

न ज्ञातं तेन तत्कर्म शूलिकायाः प्रतोदनम् २७।

यतो योगसमारूढो विष्णुध्यानपरायणः ।

शूलिकाप्रोतनं ज्ञातं कतिचित्कालयोगतः २८।

मांडव्योऽहंमृषिश्रेष्ठः केन कर्म इदं कृतम् ।

त्रिकालज्ञानी सर्वज्ञो भगवांस्तद्व्यचिंतयत् २९।

धर्मस्य च इदं कर्म न चान्यस्य कदाचन ।

योगारूढः स धर्मात्मा गतोऽसौ धर्मसंनिधौ ३०।

तत्र गत्वा उवाचेदं शृणु त्वं धर्म सांप्रतम् ।

त्वं वै धर्म इति ख्यातो लोके वेदे च सर्वदा ३१।

शूलिकाप्रोतनं कर्म कथं चैव त्वया कृतम् ।

तत्सर्वं श्रोतुमिच्छामि त्वत्तो देव न संशयः ३२।

धर्म उवाच।

शृणुष्व त्वं द्विजश्रेष्ठ पूर्वजन्मनि पातकम् ।

तदहं कथयिष्यामि कृपां कुरु ममोपरि ३३।

बालत्वे तु इदं कर्म पूर्वजन्मजपातकम् ।

तच्छृणुष्व महाप्राज्ञ भवेऽस्मिन्पातनं कृतम् ३४।

एकस्मिन्समये विप्र त्वं गतो विजने वने ।

तत्र गत्वा त्वया विप्र जीवः शलभसंज्ञकः ३५।

आरोऽपितः स वै शूल्यां कर्मणा तेन दुःखितः ।

राज्ञा शूलेऽर्पितस्त्वं वै कर्मणानेन सुव्रत ३६।

सर्वथैव प्रभोक्तव्यं कृतं कर्म शुभाशुभम् ।

अल्पमात्रमिदं कर्म त्वया भुक्तं न संशयः ३७।

सुखी भवतु विप्रेंद्र गच्छ त्वं हि यथेच्छया ।

एतद्वाक्यं ततः श्रुत्वा मांडव्यो द्विजसत्तमः ३८।

उवाच वचनं तत्र सकोपादारुणेक्षणः ।

मांडव्य उवाच।

रे पापिष्ठ दुराचार किं कृतं बहुपातकम् ३९।

येन कृत्वा इदं कर्म शूलिकायाः प्रतोदनम् ।

ममवाक्यप्रकोपेन शूद्रस्त्वं भव सर्वथा ४०।

कियता कालयोगेन वंशे वै चंद्रसंज्ञके ।

जातो विदुरनामाख्यो विष्णुभक्तिपरायणः ४१।

तीर्थयात्रामिषेणैव गतः साभ्रमतीं नदीम् ।

यत्र धर्मावती संगो वर्त्तते च सुरेश्वरि ४२।

तत्र वै कृतवान्स्नानं विदुरो धर्मरूपवान् ।

त्यक्तं तत्र हि शूद्रत्वं धर्मावत्यां न संशयः ४३।

एतस्मात्कारणाद्देवि यत्र स्नानं प्रकुर्वते ।

ते नराः पुण्यकर्माणो गच्छंति परमं पदम् ४४।

अत्र श्राद्धं च दानं च ये कुर्वंति नरा भुवि ।

इहलोके परामृद्धिं प्राप्य तैर्दिविमुद्यते ४५।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये मधुरादित्यमाहात्म्यंनामैकचत्वारिंशदधिक शततमोऽध्यायः १४१।