5. Padma Purāṇa (part 5 of 5)
खण्डः ६ (उत्तरखण्डः) — Adhyāya 142
श्रीमहादेव उवाच।
कंबुतीर्थे नरः स्नात्वा कृत्वा वा पितृतर्पणम् ।
अर्चयेद्देवदेवेशं नारायणमनामयम् १।
दत्त्वा दानानि विधिवद् ब्रह्मणेभ्यो विधानतः ।
विष्णुलोकमवाप्नोति तीर्थस्यास्य प्रभावतः २।
अत्र राजर्षिणा पूर्वं विश्वामित्रेण धीमता ।
तपस्तप्तं विशेषेण प्रजाकामेन सुंदरि ३।
वायुभक्षो निराहारो यत्रासीदनिलाशनः ।
विष्णुपूजापरो नित्यं विष्णुध्यानपरायणः ४।
तपसानेन संजातः प्रजाकाममवाप्तवान् ।
प्रजाकामो नरो यश्च कंबुतीर्थं हि गच्छति ५।
स प्रजां लभते नित्यं सत्यं सत्यं वरानने ६।
इति कंबुतीर्थमाहात्म्यम् ।
ततो गच्छेत्सुरश्रेष्ठे तीर्थं नाम कपीश्वरम् ।
संनिधौ रक्तसिंहस्य महापातकनाशनम् ७।
बध्यमाने पुरा सेतौ रामरावणविग्रहे ।
गृहीत्वा पर्वतश्रेष्ठं विशेषात्कपिभिः कृतम् ८।
नाम्ना कपीश्वरादित्यं चक्रुस्तीर्थमनुत्तमम् ।
यत्र तीर्थे नरः स्नात्वा कृत्वा वा पितृतर्पणम् ९।
दृष्ट्वा कपीश्वरादित्यं मुच्यते ब्रह्महत्यया ।
तत्र स्नानं प्रकर्तव्यं चैत्राष्टम्यां विशेषतः १०।
हनुमत्प्रमुखैस्तत्र स्नातं यत्र दिनत्रयम् ।
कपितीर्थप्रभावोऽयं भवत्यै समुदीरितः ११।
अस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा कपीश्वरम् ।
रूपवान्बहुभोगश्च जायते नात्र संशयः १२।
बलं वांछति यो लोको धर्मं वा पुत्रमेव च ।
सर्वं स तु लभेन्नित्यं कपितीर्थप्रभावतः १३।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर।
संवादे कपितीर्थमाहात्म्यं नाम द्विचत्वारिंशदधिकशततमोऽध्यायः १४२।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 143
एकधारं ततो गच्छेत्तीर्थं परमपावनम् ।
एकधारे नरः स्नात्वा एकरात्रमुपोषितः १।
अर्चयन्स्वामिदेवेशं कुलानां तारयेच्छतम् ।
स्वामितीर्थसमं ज्ञेयं यत्र तीर्थेऽवगाहनम् २।
रुद्रलोके नरो गच्छेत्तीर्थस्यास्य प्रभावतः ।
यत्र स्नात्वा च पीत्वा च ब्रह्मलोके च गच्छति ३।
त्रैलोक्ये पुण्यकर्माणस्तटेऽस्मिन्संवसंति हि ४।
न भयं विद्यते तेषां खड्गधारादिकं च यत् ।
सत्सर्वमाशु नश्येत तीर्थे ह्येकप्रधारके ५।
इति एकधारतीर्थवर्णनम् ।
सप्तधारं ततो गच्छेत्तीर्थानां तीर्थमुत्तमम् ।
सप्तसारस्वतं नाम यत्कृते मुनिभिः कृतम् ६।
त्रेतायुगे मंकितीर्थं कृतं मंकि महर्षिणा ।
द्वापरे पांडुपुत्रैस्तु सप्तधारं प्रवर्तितम् ७।
सप्तधारकतां प्राप्तं तीर्थं हरजटा च्युतम् ।
सप्तरूपाणि गंगाया यामि लोकेषु सप्तसु ८।
वहंति तानि पुण्यानि तीर्थेऽस्मिन्सप्तधारके ।
सप्तधारे कृतं श्राद्धं पितॄणां तृप्तिदायकम् ९।
शृणु देवि प्रवक्ष्यामि इतिहासं पुरातनम् ।
यच्छ्रुत्वा देवदेवेशि ब्रह्मलोकं व्रजेद्ध्रुवम् १०।
कौषीतकस्य पुत्रो वै मंकि नामेति विश्रुतः ।
विष्णुध्यानरतो नित्यं विष्णुलोकप्रपूजकः ११।
वेदाध्ययनकर्ता च अग्निहोत्रपरायणः ।
सुरूपा विश्वरूपेति स्त्रियौ द्वेस्तस्तु तद्गृहे १२।
ताभ्यां पुत्रविहीनाभ्यां दृष्ट्वा देविविशंकितः ।
किंकर्तव्यमिति ध्यायन्नति चिंतापरोऽभवत् १३।
स्थिरो वंशस्तु पुत्रेण ह्यन्यथा नरकं व्रजेत् ।
एवं चिंतां प्रकुर्वाणो न सुखं लभते क्वचित् १४।
तदा स्वगृहमुत्सृज्य गतो वै गुरुसन्निधौ ।
नमो वै गुरुवे तुभ्यं देवानामुपकारिणे १५।
त्वं नाथः सर्वलोकानां ब्राह्मणानां च रक्षकः ।
यज्ञानां त्वं प्रकर्त्ता च द्विजराज नमोस्तु ते १६।
अपुत्रोऽहं तु विप्रर्षे किं कर्त्तव्यमिति प्रभो ।
वद त्वं तु यथा सर्वं पुत्रो भवति निश्चितम् १७।
अपुत्रस्य गतिर्नास्ति स्वर्गे नैव च नैव च ।
येनकेनाप्युपायेन पुत्रस्य जननं चरेत् १८।
इति वाक्यं तु संस्मर्य्य ह्यागतस्तव सन्निधौ १९।
गुरुरुवाच।
गच्छ त्वं मुनिशार्दूल यत्र साभ्रमती नदी ।
तत्र गत्वा मुनिश्रेष्ठ पुत्रान्वै प्राप्स्यसे ध्रुवम् २०।
तद्वाक्यं तु समाकर्ण्य नमस्कृत्वा तु दंडवत् ।
स गतो विप्रराजस्तु नदीं साभ्रमतीं प्रति २१।
मंकिनामा तु विप्रर्षिस्तत्र गत्वा तपो महत् ।
अतप्यत तदा देवि यावद्वर्षचतुष्टयम् २२।
यत्र तीर्थं कृतं तेन मंकिना ब्रह्मवादिना ।
त्रेतायुगे तदा देवि तदा तीर्थं महाद्भुतम् २३।
जातं तत्र न संदेहः पुत्रदं सार्वकामिकम् ।
अद्यापि मंकितीर्थाभं न भूतं न भविष्यति २४।
स वै द्विजवरो मंकिः पुत्रान्प्राप्य यथासुखम् ।
भोगान्नानाविधान्भुक्त्वा स गतो मंदिरं मम २५।
एतदाख्यानकं दिव्यं पवित्रं परमं महत् ।
पुत्रसौख्यादिकं सर्वं लभते श्रवणादतः २६।
इति श्रीपाद्मे महापुराणे पंचापंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे सप्तधारतीर्थमहिमानाम त्रिचत्वारिंशदधिकशततमोऽध्यायः १४३।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 144
महादेव उवाच।
ब्रह्मवल्ली महत्तीर्थं ततो गच्छेत्सुरेश्वरि ।
तस्य तीर्थस्य स्वरूपं साक्षाच्छृणु सुरोत्तम १।
यत्र साभ्रमती तोयं ब्रह्मवल्ल्यंभसा सह ।
युज्यते ब्रह्मतीर्थं तत्प्रयागेन समं स्मृतम् २।
तत्र पिंडप्रदानेन तृप्तिर्द्वादशवार्षिकी ।
पितॄणां जायते नूनं ब्रह्मणो वचनं यथा ३।
गयाश्राद्धसमंपुण्यंब्रह्मवल्ल्यांविशेषतः ।
यत्रज्ञात्वाप्रकुर्वंतिपितरस्तृप्तिमाप्नुयुः ४।
गोदानंभूमिदानंचअन्नदानंतथैवच ।
एतद्दानसमं पुण्यं ब्रह्मवल्ल्यां विशेषतः ५।
अत्रैव सनकाद्यास्तु स्नात्वा च विधिपूर्वकम् ।
परंब्रह्मपदध्यानाद्विष्णुलोकमवाप्नुयुः ६।
पुष्करे चैव गंगायां क्षेत्रे चामरकंटके ।
तत्र गत्वा तु देवेशि यत्फलं लभते नरः ७।
तत्फलं समवाप्नोति ब्रह्मवल्ल्यां विशेषतः ।
चंद्र सूर्योपरागे च दानं ये ददते नराः ८।
तत्फलं समवाप्नोति ब्रह्मावल्ल्यां सुरेश्वरि ।
दिव्यरूपधरास्ते च शंखचक्रगदाधराः ९।
तेऽपि स्वर्गे हि गच्छंति स्नानं कृत्वा सुरेश्वरि ।
धृत्वा तुलसिजां मालां नारायणमनुस्मरन् ।
वैकुंठं दिव्यमानंदं याति वै पदमव्ययम् १०।
इति ब्रह्मवल्लीतीर्थमाहात्म्यम् ।
वृषतीर्थं ततो गच्छेत्खंडतीर्थेऽतिविश्रुतम् ।
तत्र स्नात्वा दिवं गावो गोलोकं च पुराश्रिताः ११।
खंडरूपेण धर्मेण या गावो लोकमातरः ।
शापाद्भ्रष्टावितास्तेन खंडतीर्थमथोच्यते १२।
पार्वत्युवाच।
शापो हि लोकमातॄणां गवां कस्य पुराऽभवत् ।
कथं लोकात्परिभ्रष्टाः कथं धर्मेण रक्षिताः १३।
महादेव उवाच।
पुरा वृषेण गोलोके क्रीडता सह मातृभिः ।
मुक्तं तथा शकृन्मूत्रं पतितं हरमूर्द्धनि १४।
ततस्तासां ददौ शापं तेन दोषेण वै हरः ।
नष्टसंज्ञा स्वलोकाच्च गावो यास्यथ मेदिनीम् १५।
गावः शप्ता भगवता संप्रसाद्य पुनर्हरम् ।
प्राप्स्यामहे पुनर्लोकं इति देवं ययाचिरे १६।
यदा साभ्रमती तीर्थे ब्रह्मवल्ली समीपतः ।
खंडसंज्ञह्रदे स्नात्वा स्वर्गं वै प्राप्स्यथ ध्रुवम् १७।
ततस्तस्मिन्ह्रदे स्नात्वा गावो गोपतिना सह ।
स्वर्गं गता शुद्धतमा महादेवसमीपतः १८।
गोह्रदे तु नरः स्नात्वा कृत्वा वै पितृतर्पणम् ।
गवां लोकमवाप्नोति दाहप्रलयवर्जितम् १९।
तत्र स्थित्वा निराहारो गोपिंडं च ददाति वै ।
स नरः सुखमेधेत यावदिंद्राश्चतुर्दश २०।
गवांकोटिप्रदानेन यत्फलं प्राप्यते ध्रुवम् ।
तत्फलं समवाप्नोति खंडतीर्थे न संशयः २१।
गृहीत्वा वृषमूत्रं च तीर्थं यः पिबते नरः ।
तत्क्षणादेव शुद्धिः स्यात्खंडतीर्थे न संशयः २२।
खंडतीर्थात्परं तीर्थं न भूतं न भविष्यति ।
ये गच्छंति सुरश्रेष्ठ ते नराः पुण्यभागिनः २३।
तत्र गत्वा सुरश्रेष्ठे गवां पूजनमाचरेत् ।
वृषभं च ततः पूज्य स्नानं कृत्वा समाहितः २४।
पूजनाद्वै न संदेहो गोलोके तु वसेच्चिरम् ।
तत्र गत्वा विशेषेण सौवर्णी गां ददंति ये २५।
ते नरा भुंजते सौख्यं यावदिंद्राश्चतुर्दश ।
दशधेनुं ततः कृत्वा यो ददाति द्विजातये २६।
खंडतीर्थे सुरश्रेष्ठे तदनंतफलं स्मृतम् ।
तत्र गत्वा तु कर्त्तव्यं पिप्पलारोपणं बुधैः २७।
तत्कृते सति देवेशि पितृलोकं स गच्छति ।
पंच वामलकीर्दिव्या ये कुर्वंति प्ररोपणम् २८।
इहलोके सुखं भुक्त्वा हरिलोकं व्रजंति ते २९।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे खंडतीर्थंनाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः १४४।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 145
श्रीमहादेव उवाच।
ततो गच्छेः महत्तीर्थे संगमेश्वरमुत्तमम् ।
यत्र हस्तिमती पुण्या साभ्रमत्या हि संगता १।
शापं कौडिन्यमुनितः प्राप्य शुष्काभवन्नदी ।
बहिश्चर्येति नाम्ना वै लोके ख्यातिमुपागता २।
तत्तीर्थं संप्रवक्ष्यामि पुण्यं त्रैलोक्यविश्रुतम् ।
सर्वपापहरं पुण्यं त्रैलोक्ये चापि विश्रुतम् ३।
यत्र तीर्थे नरः स्नात्वा दृष्ट्वा देवं महेश्वरम् ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं प्रगच्छति ४।
शृणु देवि प्रवक्ष्यामि एतच्छापस्य कारणम् ।
यथैह शुष्करूपा हि जाता शापस्य कारणात् ५।
यत्र साभ्रमती पुण्या गंगा नाम महानदी ।
तत्र हस्तिमती नाम गंगया सह संगता ६।
तत्रारब्धं च मुनिना तपो वै परमं महत् ।
एवं बहुगते काले ऋषिणा परमात्मना ७।
आराधितो हृषीकेशो नारायणनिरंजनः ।
तस्यास्तटे तु देवेशि वर्षाणि च बहून्यपि ८।
गतानि च विशेषेण मुनेस्तस्य तु पार्वति ।
कदाचिद्दैवयोगाच्च वर्षाकालः समागतः ९।
नदी तत्र तु संपूर्णा कालयोगेन सुव्रते ।
तत्कौंडिन्येन ऋषिणा स्थानं त्यक्तं तदा निशि १०।
रात्रौ दुःखं महज्जातं हाहेति करुणो रुदन् ।
किं कर्तव्यमिति ध्यायन्नतिचिंतापरोऽभवत् ११।
आश्रमो हि महादिव्यो ऋषिणैव समायुतः ।
स गतो वारियोगेन हस्तिमत्यां सुरोत्तमे १२।
फलानि चैव मूलानि पुस्तकानि बहून्यपि ।
तानि तस्यां गतान्येव वारियोगेन सुंदरि १३।
स कौंडिन्यो ऋषिश्रेष्ठः शशाप तां नदीं किल ।
उदकेन विना त्वं च भविष्यसि कलौ युगे १४।
एवं स दत्त्वा वै शापं हस्तिमत्या महेश्वरि ।
गतोऽसौ विप्रप्रवरो विष्णुलोकं सनातनम् १५।
अद्यापि वर्तते तीर्थं संगमेश्वरसंज्ञकम् ।
यं दृष्ट्वा मुच्यते पापी ब्रह्महत्यादि पातकात् १६।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे सोमेश्वरतीर्थमहिमानाम पंचचत्वारिंशदधिकशततमोऽध्यायः १४५।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 146
महादेव उवाच ।
ततो गच्छेत देवेशि तीर्थं रुद्र महालयम् ।
केदारानुपमं साक्षाद्रुद्रेण परिनिर्मितम् १।
श्राद्धं तत्रैव कर्तव्यं पितॄणां तृप्तिकारणम् ।
तत्र श्राद्धप्रदानेन पितरः सपितामहाः २।
तृप्ताः समभिगच्छंति रुद्रस्य परमं पदम् ।
वृषमुत्सृजते यस्तु तत्र रुद्र महालये ३।
कार्तिक्यामथ वैशाख्यां रुद्रेण सह मोदते ।
केदारे उदकं पीत्वा पुनर्जन्म न विद्यते ४।
अत्र तु स्नानमात्रेण मुक्तिभागी न संशयः ।
एकस्मिन्समये देवि त्यक्त्वा कैलासमागतः ५।
साभ्रमतीं महागंगां ज्ञात्वा लोकहिताय वै ।
तत्र स्नात्वा च पीत्वा च कृत्वा तीर्थमनुत्तमम् ६।
ततोहं च स्वकं स्थानं कैलासं प्रति भामिनि ।
तदनंतरं महापुण्यं तीर्थं जातं महालयम् ७।
रुद्र महालयमिति लोके ख्यातिं गमिष्यति ।
कार्तिक्यामथ वैशाख्यां ये गच्छंति सुरोत्तमे ।
न तेषां विद्यते दुःखं सर्वसंसारजं पुनः ८।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायांमुत्तरखंडे उमामहेश्वरसंवादे रुद्र महालयतीर्थंनाम षट्चत्वारिंशाधिकशततमोऽध्यायः १४६।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 147
महादेव उवाच।
देवि वै श्रूयतां तीर्थं देवानामपि दुर्ल्लभम् ।
खड्गतीर्थमिति ख्यातं सर्वपापप्रणाशनम् १।
खड्गतीर्थे नरः स्नात्वा दृष्ट्वा खङ्गेश्वरं शिवम् ।
न नरो दुर्गतिं गच्छेत्स्वर्गलोकं प्रगच्छति २।
खड्गधारेश्वरं देवं यः पश्यति सुरोत्तमे ।
कार्तिक्यां तु विशेषेण पूजनं तत्र कारयेत् ३।
अयं विश्वेश्वरो देवः सर्वदा भुवि वल्लभे ।
सर्वं ददाति सर्वेशो वांच्छितार्थप्रदायकः ४।
वैशाखे राज्यकामार्थी यः पश्यति तमीश्वरम् ।
तमर्थं लभते क्षिप्रं विश्वनाथप्रसादतः ५।
पुष्पैर्धूपैश्च नैवेद्यैर्दीपैर्वा नगनंदिनि ।
फलप्रदानैर्बिल्वैश्च विश्वेशं पूजयेत्ततः ६।
धनधान्यप्रदं चाशु पुत्रपौत्रादिसंपदः ।
प्राप्यंते नात्र संदेहः श्रीविश्वेश्वरपूजनात् ७।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे खड्गतीर्थं नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः १४७।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 148
महादेव उवाच।
साभ्रमत्यास्तटे तीर्थं गयातीर्थमनुत्तमम् ।
चित्रांगवदनं नाम मालार्काधिष्ठितं शुभम् १।
कल्पपादपसंतानैर्मंदारैश्चोपशोभितम् ।
चूतनिंबकदंबैश्च काश्मर्यश्वत्थतिंदुकैः २।
तस्मादपहरेत्कुष्ठं योजनस्मृतिविभ्रमात् ।
यस्य संजायते कुष्ठं तस्य मालार्कको हरेत् ३।
या तु वेदोक्तविधिना नारी तत्राभिषिंचति ।
मृतवत्साऽथवा वंध्या पुत्रं प्राप्नोति साचिरात् ४।
संध्यास्नानं जपो होमः स्वाध्यायो देवतार्चनम् ।
कृतं भास्करभक्तेन मालार्के ह्यक्षयं भवेत् ५।
अत्र गत्वा तु देवेशि श्रीरवेर्व्रतमाचरेत् ।
इहलोके सुखं भुक्त्वा रवेर्लोकं हि याति वै ६।
मृतवत्सो हि राजर्षिस्तत्र गत्वाऽकरोत्तपः ।
स राजा प्राप्तवान्पुत्रं श्रीमालार्कप्रसादतः ७।
अत्र गत्वा विशेषण उपवासी जितेंद्रियः ।
मालार्कं पूजयेद्यो वै मुक्तिभागी भवेद्ध्रुवम् ८।
वसिष्ठप्रमुखाविप्रा देवा इंद्रादयः सदा ।
निवसंति सुरश्रेष्ठे मालार्के रविसन्निधौ ९।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे मालार्कतीर्थं नाम अष्टचत्वारिंशदधिकशततमोऽध्यायः १४८।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 149
महादेव उवाच।
तीर्थादस्मात्परं तीर्थं मालार्कांतरतः स्थितम् ।
चंदनेश्वरमागच्छेदामोदस्थानमुत्तमम् १।
दुःशासनस्य रुधिरं पीत्वा भीमो महाबलः ।
प्रतिज्ञामात्मनः सर्वां पूरयित्वा सुदारुणाम् २।
कराभ्यां रुधिराक्ताभ्यां द्रौपद्याः केशबंधनम् ।
कृत्वा दत्त्वा द्विजातिभ्यो तीर्थयात्रां ततोऽगमत् ३।
साभ्रमत्यास्तटे रम्ये गतो वै भ्रातृभिः सह ।
आनीतः साभ्रमत्यां यः स्वर्गाच्चंदनपादपः ४।
स तु लिंगतया जातः पुण्यतीर्थप्रभावतः ।
तत्र स्नात्वा च पीत्वा च कृत्वा वै पितृतर्पणम् ५।
न नरो निरयं गच्छेद्रुद्रलोकमवाप्नुयात् ।
चंदनेशं ततो दृष्ट्वा विश्वेशं लोकशंकरम् ६।
पूजयेच्च यथाशक्त्या यत्र गत्वा न शोचति ।
यत्र कैवर्तको राजा पूजां कृत्वा ह्यनेकशः ७।
स गतः शिवलोकं तं यत्र गत्वा न शोचति ।
मज्जंति ऋषयो यत्र यत्र देवः सनातनः ८।
साक्षाद्विष्णुः परमात्मा नित्यं तिष्ठति भूतिदः ।
इयं साभ्रमती धन्या धन्यो विश्वेश्वरः प्रभुः ९।
यत्र तीर्थान्यनेकानि जातानि भुवि पार्वति ।
अत्र चामर्दकीपुण्यैः फलैर्नानाविधैः शुभैः १०।
कर्त्तव्यमर्घदानं च विधिना तत्र सुंदरि ११।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे चंदनेश्वरमाहात्म्यं नामैकोनपंचाशदधिकशततमोऽध्यायः १४९।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 150
महादेवउवाच।
जंबूतीर्थं ततो गच्छेत्स्नानार्थं पापनाशनम् ।
कलिकाले च यत्पुंसां स्वर्गसोपानवत्स्थितम् १।
यत्र जांबवता पूर्वं दशांगे पर्वतोत्तमे ।
स्थापितं ऋक्षराजेशं लिगं सुरगणार्चितम् २।
रामेण हि यदा पूर्वं हतो वै रावणोऽसुरः ।
तदा जांबवता दिक्षु भेरीघोषैः प्रघोषितम् ३।
जितं वै रामचंद्रेण रावणो निहतो रणे ।
लब्ध्वा सीतेति संघुष्य स्नातं तीर्थवरे शुभे ४।
स्थापितं तत्र लिंगं तु स्वनाम्ना तु सुरेश्वरि ।
तत्र स्नात्वा नरः सद्यः स्मृत्वा रामं सहानुजम् ५।
जाबवंतेश्वरं स्नात्वा रुद्रलोके महीयते ।
यत्रयत्र हि भो देवि श्रीरामस्मरणं कृतम् ।
भवबंधविमोक्षो हि दृश्यते स चराचरे ६।
अहं रामस्तु विज्ञेयो रामो वै रुद्र एव च ।
एवं ज्ञात्वा तु ते देवि न भेदो वर्तते क्वचित् ७।
रामरामेति रामेति मनसा ये जपंति च ।
तेषां सर्वार्थसिद्धिश्च भविष्यति युगेयुगे ८।
अहं हि सर्वदा देवि श्रीरामस्मरणं चरे ।
यं श्रुत्वा तु पुनर्देवि न भवो जायते क्वचित् ९।
काश्यां हि निवसन्नित्यं श्रीरामं कमलेक्षणम् ।
स्मरामि सततं देवि भक्त्या च विधिपूर्वकम् १०।
जांबवता तदा पूर्वं स्मृत्वा रामं सुशोभनम् ।
जांबवंतमिति ख्यातं प्रस्थाप्य जगतां गुरुम् ११।
तत्र स्नात्वा च भुक्त्वा च कृत्वा देवस्य पूजनम् ।
शिवलोकमवाप्नोति यावदिंद्राश्चतुर्दश १२।
अत्र हि स्नानमात्रेण यथा जांबवतो बलम् ।
तथा वै बलमाप्नोति श्रीविश्वेशप्रसादतः १३।
अत्र गत्वा तु भूदानं पुमान्यश्च करोति वै ।
फलं सहस्रगुणितं जांबवंतेश दर्शनात् १४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे जांबवततीर्थमाहात्म्यंनाम पंचाशदधिकशततमोऽध्यायः १५०।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 151
महादेव उवाच ।
अस्मात्तीर्थात्परं तीर्थं इंद्रग्राममिति स्मृतम् ।
यत्र स्नात्वा पुरा शक्रो विमुक्तो घोरकिल्बिषात् १।
पार्वत्युवाच।
केनेह कर्मणा शक्रः प्राप्तवान्घोरकिल्बिषम् ।
विपाप्मा च कथं सोऽभूदिति विस्तरतो वद २।
महादेव उवाच।
इंद्रः सुरेश्वरः पूर्वं नमुचिश्चासुरेश्वरः ।
अशस्त्रवधमन्योऽन्य समयं तौ प्रचक्रतुः ३।
अथेंद्रस्तु नभोवाणीनिर्देशान्नमुचिं तदा ।
जघान फेनमादाय ब्रह्महत्या तदाऽभवत् ४।
पप्रच्छ च गुरुं शक्रः पापनिर्नाशकारणम् ।
बृहस्पतेरथादेशात्साभ्रामत्युत्तरे तटे ५।
अस्मिन्स्थाने समागत्य स्थानं चक्रे सुरेश्वरः ।
तस्येह स्नानमात्रेण गतपापस्य तत्क्षणात् ६।
पूर्णेंदुधवलाकांतिः शरीरे समजायत ।
धवलेश्वरमीशानं स्थापयामास वृत्रहा ७।
इंद्र नाम्ना च तल्लिंगं विश्रुतं पृथिवीतले ।
पूर्णिमास्यां तथा दर्शे संक्रांतौ ग्रहणे तथा ८।
श्राद्धे कृते पितॄणां तु तृप्तिर्द्वादशवार्षिकी ।
धवलेश्वरमासाद्य यः कुर्याद्विप्रभोजनम् ९।
एकस्मिन्भोजिते विप्रे सहस्रं भोजितं भवेत् ।
हिरण्यभूमिवासांसि दातव्यानि स्वशक्तितः १०।
शुक्ला गौ ब्राह्मणे देया सवत्सा च पयस्विनी ।
अत्रागत्य तु यो विप्रो रुद्रजाप्यादिकं चरेत् ११।
तत्कृतं कोटिगुणितं श्रीमहेशप्रसादतः ।
अत्र तीर्थे नरो यस्तु उपवासादिकं चरेत् १२।
स एव सर्वकामाढ्यो भवत्येव न संशयः ।
बिल्वपत्रं समानीय यः पूजयति तं प्रभुम् १३।
धर्ममर्थं च कामं च लभते मानवो भुवि ।
सोमवारे विशेषेण ये गच्छंति नरोत्तमाः १४।
तेषां रोगं तथा दोषं शमयेद्धवलेश्वरः ।
रवौ वाऽथ विशेषेण अर्चनं कुरुते यदा १५।
तेषां महिमा तु भो देवि न ज्ञातः कर्हिचिन्मया ।
दूर्वया चार्कपुष्पैर्वा कल्हारैः कमलैर्दलैः १६।
पूजनं कुर्वते येऽत्र ते नराः पुण्यभागिनः ।
श्वेतार्कपुष्पमानीय धवलेशं प्रपूज्य तु १७।
वांच्छितं लभते नित्यं धवलेशप्रसादतः ।
कृते वै नीलकंठस्तु सर्वेषां शंकरः सदा १८।
त्रेतायुगे स विख्यातो हरो वै भगवान्प्रभुः ।
द्वापरे शर्वसंज्ञस्तु कलौ वै धवलेश्वरः १९।
अत्रार्थे यत्पुरावृत्तं तच्छृणुष्व सुरेश्वरि ।
नंदिर्नाम पुरा वैश्य इंद्रग्रामे समावसत् २०।
शिवध्यानपरो भूत्वा शिवपूजां चकार सः ।
नित्यं तपोवनस्थं हि लिंगं धवलसंज्ञकम् २१।
उषस्युषसि चोत्थाय प्रत्यहं शिववल्लभः ।
नंदी लिंगार्चनरतो बभूवातिशयेन हि २२।
यथाशास्त्रेण विधिना पुष्पार्चनपरोऽभवत् ।
एकदा मृगयालुब्धः किरातो भूतहिंसकः २३।
पापी पापसमाचारश्चरन्साभ्रमती तटे ।
अनेक श्वापदाकीर्णे हन्यमानो मृगान्शरैः २४।
एवं विचरमाणोऽसौ किरातो भूतहिंसकः ।
यदृच्छयागतस्तत्र यत्र लिंगं सुपूजितम् २५।
धवलेश्वरविख्यातं अनेकाश्चर्यमंडितम् ।
दृष्टं सुपूजितं लिंगं नानापुष्पैः फलैस्तथा २६।
एवं लिंगं समालिंग्य गतः साभ्रमतीतटे ।
तत्र पीत्वा पयः सोऽथ मुखं गंडूषपूरितम् २७।
कृत्वा चैकेनहस्तेन मृगमांसं समुद्वहन् ।
करेणैकेन पूजार्थं बिल्वपत्राणि वै दधत् २८।
शीघ्रमागत्य लिंगांते पदा पूजां समाहनत् ।
पुष्पाणि तानि सर्वाणि विधूतानि इतस्ततः २९।
स्नापनं तस्य लिंगस्य कृतं गंडूषवारिणा ।
करेणैकेन पूजार्थं बिल्वपत्राणि सोऽर्पयत् ३०।
द्वितीयेन करेणैव मृगमांसं समर्पयत् ।
दंडप्रणामसंयुक्तः संकल्पं मनसाऽकरोत् ३१।
अद्यप्रभृति पूजां वै करिष्यामि प्रयत्नतः ।
त्वं मे स्वामी च भक्तोऽहं अद्यप्रभृति शंकर ३२।
एवं नियमवान्भूत्वा किरातो गृहमागमत् ।
तथा प्रभातसमये देवायतनमागतः ३३।
नंदी ददर्श तं सर्वं किरातेन च यत्कृतम् ।
अव्यवस्थं च तं दृंष्ट्वा अमेध्यं शिवसन्निधौ ३४।
विधूतानि च सर्वाणि हिंसकेन दुरात्मना ।
चिंतायुक्तोभवन्नंदी जातं किं चित्रमद्य मे ३५।
कथितानि च विघ्नानि शिवपूजारतस्य हि ।
उपस्थितानि तान्येव मम भाग्यविपर्ययात् ३६।
एवं विमृश्य सुचिरं प्रक्षाल्य शिवमंदिरम् ।
यथागतेन मार्गेण नंदी स्वगृहमागमत् ३७।
ततो नंदिनमालक्ष्य पुरोधा गतमानसम् ।
अब्रवीद्वचनं तं तु कस्मात्त्वं गतमानसः ३८।
पुरोहितं प्रति तदा नंदी वचनमब्रवीत् ।
अद्य दृष्टं मया विप्र अमेध्यं शिवसन्निधौ ३९।
केनेदं कारितं तत्र न जानामीह किंचन ।
ततः पुरोधा वचनं नंदिनं चाब्रवीत्तथा ४०।
येन विस्खलितं तत्र पुष्पादीनां प्रपूजनम् ।
सोऽपि मूढो न संदेहः कार्याकार्येषु मंदधीः ४१।
तस्माच्चिंता न कर्तव्या त्वया पुनरपि प्रभो ।
प्रभाते च मया सार्द्धं गम्यतां तच्छिवालयम् ४२।
निरीक्षणार्थं दुष्टस्य तस्य दंडंकरोम्यहम् ।
एतच्छ्रुत्वा तु वचनं नंदी तस्य पुरोधसः ४३।
आस्थितः स्वगृहे नक्तं दूयमानेन चेतसा ।
तस्यां रात्र्यां व्यतीतायां आहूय च पुरोधसम् ४४।
गतः शिवालयं नंदी समंतेन महात्मना ।
प्रक्षाल्य पूजनं कृत्वा नानारत्नपरिच्छदम् ४५।
पंचोपचारसंयुक्तं कृत्वा वै ब्राह्मणैः सह ।
एवं यामद्वयं जातं स्तूयमानस्य नंदिनः ४६।
आयातोऽसौ महाकालस्तथारूपो महाबलः ।
कालरूपो महारौद्रो धनुष्पाणिः प्रतापवान् ४७।
तं दृष्ट्वा भयसंत्रस्तो नंदी तत्र न्यलीयत ।
पुरोधाश्चैव सहसा भयभीतस्तदाभवत् ४८।
किरातेन कृतं तत्र यथापूर्वमविस्खलन् ।
तां पूजां स पदाहृत्य बिल्वपत्रं समर्पयत् ४९।
नैवेद्येन पलेनैव किरातः शिवमार्चयत् ।
दंडवत्पतितो भूमौ उत्थाय स्वगृहं गतः 6.151.५०।
तं दृष्ट्वा महदाश्चर्यं चिंतयामास वै चिरम् ।
पुरोधसा तदा नंदी सह व्याकुलचेतसा ५१।
तेन पृष्टास्तदा विप्राः कथ्यतां च यथातथम् ।
संप्रधार्य ततः सर्वे मिलित्वा धर्मशास्त्रतः ५२।
ऊचुः सर्वे तदा विप्रा नंदिनं जातशंकितम् ।
ईशविघ्नं समुत्पन्नं दुर्निवार्यं सुरैरपि ५३।
तस्मादानय लिंगं त्वं स्वगृहे वैश्यसत्तम ।
तथेति मत्वाऽसौ नंदी शिवस्योत्पाटनं महत् ५४।
कृत्वा स्वगृहमानीय प्रतिष्ठाप्य यथाविधि ।
सुवर्णपीठिकां कृत्वा नवरंभासुशोभिताम् ५५।
उपाहारैरनेकैश्च पूजयामास वै तदा ।
अथापरेद्युरायातः किरातः शिवमंदिरम् ५६।
यावद्विलोकयामास लिंगमैशं न दृष्टवान् ।
मौनं विहाय सहसा साक्रोशमिदमब्रवीत् ५७।
हे शंभो क्व गतोऽसि त्वं दर्शयात्मानमद्य वै ।
यदि नो दर्शनं हेयं त्यक्ष्याम्यद्य कलेवरम् ५८।
हे शंभो हे जगन्नाथ त्रिपुरांतक शंकर ।
हेरुद्र हे महादेव दर्शयात्मानमात्मना ५९।
एवं साक्षेपमधुरैर्वाक्यैः क्षिप्त्वा सदाशिवम् ।
किरातोऽसौ क्षुरिकया धीरो वै जठरं स्वकम् ६०।
बिभेद्याशु ततो बाहुमासाद्योच्चै रुषाब्रवीत् ।
हे शंभो दर्शयात्मानं कुतो मां त्यज्य यास्यसि ६१।
इति क्षिप्त्वा ततोंत्राणि मांसमुद्धृत्य सर्वतः ।
तस्मिन्गर्ते करेणैव किरातः सहसाक्षिपत् ६२।
स्वच्छं च हृदयं कृत्वा साभ्रमत्यां निमज्जतु ।
तथैव जलमानीय बिल्वपत्रं त्वरान्वितः ६३।
पूजयित्वा यथान्यायं दंडवत्पतितो भुवि ।
यदा ध्यानस्थितस्तत्र किरातः शिवसन्निधौ ६४।
प्रादुर्भूतस्तदा रुद्रः प्रमथैः परिवारितः ।
कर्पूरगौरो द्युतिमान्कपर्दी चंद्रशेखरः ६५।
तं गृहीत्वा करे रुद्रः उवाच परिसांत्वयन् ।
भो भो वीर महाप्राज्ञ मद्भक्तोऽसि महामते ६६।
वरं वृणीष्व भो भक्त यत्ते मनसि वर्त्तते ।
एवमुक्तः स रुद्रेण महाकालो मुदान्वितः ६७।
पपात दंडवद्भूमौ भक्त्या परमया युतः ।
ततो रुद्रं बभाषेदं न वरं प्रार्थयाम्यहम् ६८।
अहं दासोऽस्मि ते रुद्र त्वं मे स्वामी न संशयः ।
एतत्श्लाघ्यतमं लोके देहि जन्मनि जन्मनि ६९।
त्वं माता च पिता त्वं च त्वं बंधुश्च सखा च मे ।
त्वं गुरुस्त्वं महामंत्रो मंत्रैर्वेद्योऽसि सर्वदा ७०।
निष्कामं वाक्यमाकर्ण्य किरातस्य तदा भवः ।
ददौ पार्षदमुख्यत्वं द्वारपालत्वमेव च ७१।
तदा डमरुनादेन नादितं भुवनत्रयम् ।
भेरीभांकारशब्देन शंखानां निनदेन च ७२।
तदा दुंदुभयो नेदुः पटहाश्च सहस्रशः ।
नंदी तं नादमाकर्ण्य विस्मयात्त्वरितो ययौ ७३।
तपोवनं यत्र शिवः स्थितः प्रमथसंवृतः ।
किरातो हि तथा दृष्टो नंदिना च तदा भृशम् ७४।
उवाच प्रसृतो वाक्यं स नंदी विस्मयान्वितः ।
किरातं स्तोतुकामोऽसौ परमेन समाधिना ७५।
इहानीतस्त्वया शंभुस्त्वं भक्तोऽसि परंतपः ।
त्वद्भक्तोऽहमिह प्राप्तो मां निवेदय शंकरे ७६।
तच्छ्रुत्वा वचनं तस्य किरातस्त्वरयान्वितः ।
नंदिनं च करे गृह्य शंकरं समुपागतः ७७।
प्रहस्य भगवान्रुद्रः किरातं वाक्यमब्रवीत् ।
ब्रूहि कोऽसौ त्वयानीतो गणानामिह सन्निधौ ७८।
किरात उवाच।
त्वद्भक्तोऽसौ तदा देव तव पूजारतो ह्यसौ ।
प्रत्यहं रत्नमाणिक्यपुष्पैश्चौच्चावचैरिह ७९।
जीवितेन धनेनापि पूजितोऽसि न संशयः ।
तस्माच्चानीहि भो स्वामिन्नंदिनं भक्तवत्सल ८०।
महादेव उवाच।
जानाम्यहं महाभाग नंदिनं वैश्यवर्त्तनम् ।
त्वं मे भक्तः सखा चेति महाकाल महामते ८१।
उपाधिरहिता ये च ये निष्कपटमानसाः ।
ते प्रियास्ते च मे भक्तास्ते विशिष्टा नरोत्तमाः ।
तावुभौ स्वीकृतौ तेन पार्षदत्वेन शंभुना ८२।
ततो विमानानि बहुनि तत्र समागतान्येव महाप्रभाणि ।
किरातवर्येण स वैश्यवर्य उद्धारितस्तेन महाप्रभेण ८३।
कैलासलोकमापन्नौ विमानैर्वेगवत्तरैः ।
सारूप्यमेव संप्राप्तो ईश्वरस्य महात्मनः ८४।
नीराजितौ गिरिजया पुत्रवत्तौ गणावुभौ ८५।
उवाचेदं ततो देवी प्रहस्य गजगामिनी ।
यथा त्वं हि महादेव तथा चेतौ न संशयः ८६।
सारूप्येण च गत्या च हास्यभावैः सुपूजितैः ।
देव्यास्तद्वचनं श्रुत्वा किरातो वैश्य एव च ८७।
सद्यः पराङ्मुखौ भूत्वा शंकरस्य च पश्यतः ।
ऊचतुस्त्वरया युक्तौ गणौ रुद्रस्य पश्यतः ८८।
उभावप्यनुकंप्यौ च भवता हि त्रिलोचन ।
तव द्वारिस्थितौ नित्यं भवावस्ते नमो नमः ८९।
तयोर्भावं स भगवान्विदित्वा प्रहसन्भवः ।
उवाच परया भक्त्या भवतोरस्तु वांछितम् ९०।
ततः प्रभृति द्वावेतौ द्वारपालौ बभूवतुः ।
शिवद्वारि स्थितौ देवि मध्याह्ने शिवदर्शिनौ ९१।
एको नंदी महाकालो द्वावेतौ शिववल्लभौ ।
ये पापिनोप्यधर्मिष्ठा अंधा मूकाश्च पंगवाः ९२।
कुलहीना दुरात्मानः श्वपचाद्या हि मानवाः ।
यादृशास्तादृशाश्चान्ये आराध्य धवलेश्वरम् ९३।
गतास्तेऽपि गमिष्यंति नात्र कार्या विचराणा ।
अत्र स्नानं च दानं च सांनिध्यं शंकरस्य च ९४।
साभ्रमत्यां कृतस्नाना धवलेश्वरपूजकाः ।
ते रुद्रलोकं गच्छंति नात्र कार्या विचारणा ९५।
अत्र स्नानं च दानं च ये कुर्वंति नरोत्तमाः ।
धर्मार्थकामभोगाश्च भुक्त्वा यांति हरालयम् ९६।
चंद्र सर्योपरागे च पितुः सांवत्सरे दिने ।
यत्फलं लभते मर्त्यस्तत्फलं प्राप्नुयाद्ध्रुवम् ९७।
स्वर्गात्कामदुघा देवि नित्यमायाति सर्वथा ।
आगत्य तं शिवं देवं समभ्यर्च्य यथा तथा ९८।
सा गच्छति सुरश्रेष्ठे स्वर्गं प्रति न संशयः ।
तेन दुग्धाभियोगेन लिंगं तद्धवलीकृतम् ९९।
धवलेश्वरं नाम ततः संजातं भुवि सर्वदा ।
जंतवोऽत्र सदा देवि म्रियंते कालनोदिताः ।
ते ते शिवपदं यांति यावच्चंद्रदिवाकरौ 6.151.१००।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे धवलेश्वरमाहात्म्यंनामैकपंचाशदधिकशततमोऽध्यायः १५१।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 152
महादेव उवाच।
तीर्थानां प्रवरं तीर्थं साभ्रमत्यास्तटे स्थितम् ।
बालाप इति विख्यातं भुक्तिमुक्तिप्रदायकम् १।
तपस्विधारितं तीर्थं विबुधानां समाश्रयम् ।
तत्र कन्या तपस्तेपे परमं सुदृढव्रता २।
कन्या कण्वमुनेः साध्वी रूपेणाप्रतिमा भुवि ।
बाला बालावती नाम कुमारी ब्रह्मचारिणी ३।
व्रतं चचार सावित्र्या नियमैर्बहुभिर्युता ।
भर्ता मे भास्करो भूयादिति निश्चित्य भामिनि ४।
समास्तस्य समाक्रांता दश साभ्रमतीतटे ।
चरंत्या नियमांस्तांस्तान्भक्त्या परमदुश्चरान् ५।
तस्यास्तु तेन व्रतेन तपसा व्रतचर्यया ।
भक्त्या च भगवान्प्रीतः परया भक्तिसंपदा ६।
आजगामाश्रमपदं देवदेवो दिवाकरः ।
आस्थाय रूपं विप्रर्षेः प्रविष्टस्तु महामनाः ७।
सा तं दृष्ट्वोग्रतपसा वरिष्ठं ब्रह्मवित्तमम् ।
वानप्रस्थविधानेन पूजयामास तं द्विजम् ८।
उवाच रविभक्ता सा कल्याणी तं तपोधनम् ।
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ९।
सर्वं तुभ्यं यथाशक्ति दास्यामि स्वतनुं विना ।
सूर्यभक्तास्मि ते पाणिं दास्यामि न कथंचन १०।
व्रतैश्च नियमैश्चापि तपोभिश्च तपोधन ।
सूर्यस्तोषयितव्यो मे देवस्त्रिभुवनेश्वरः ११।
इत्युक्तवत्यां तस्यां तु स्मयन्निव निरीक्ष्य ताम् ।
उवाच नियमस्थां तां सांत्वयन्निव भास्करः १२।
उग्रं चरसि कल्याणि तपः परमदुष्करम् ।
यदर्थं च समारंभस्तव बाले तथैव तत् १३।
तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति ।
देवत्वं प्राप्यते भद्रे तपसा मोक्ष एव च १४।
इमानि पंच सुभगे बदराणि प्रतीच्छ मे ।
दत्त्वा स बदराण्यस्यै पचेत्युक्त्वा रविर्ययौ १५।
अपृष्ट्वा तां तु कल्याणीं ब्रह्मरूपी विहाय ताम् ।
स्थितोऽसौ नातिदूरेण इंद्रग्रामे महायशाः १६।
स्थित्वा जिज्ञासया भावं तस्याश्च ब्राह्मणो रविः ।
बदराणामुपवनं कारयामास भास्करः १७।
ततः सा प्रयता बाला प्रांजलिर्विगतश्रमा ।
पाकाय बदराणां सा पावकं समधिश्रयत् १८।
अपचत्परमा देवि बदराणि महाप्रभा ।
तस्याः पचंत्याः सुमहान्कालोऽगाच्च सुरेश्वरि १९।
भस्मपुंजो महान्जातो दिनं च क्षयमन्वगात् ।
हुताशनेन दग्धस्तु महान्वै काष्ठसंचयः २०।
पादौ प्रक्षाल्य सा पश्चात्पावके चारुदर्शने ।
ददाह बदरार्थं च ब्राह्मणप्रियकाम्यया २१।
दग्ध्वा दग्ध्वा पुनः पादौ उपर्या धार्यतेऽनघे ।
अथास्याः कर्म तद्दृष्ट्वा प्रीतो देवो दिवाकरः २२।
ततः संदर्शयामास कन्यायै रूपमात्मनः ।
उवाच परमप्रीतस्तां कन्यां सुदृढव्रताम् २३।
सूर्य उवाच।
प्रीतोऽस्मि बाले भक्त्या ते तपसा व्रतचर्यया ।
यस्मादभिमतः कामो बाले संपद्यतां तव २४।
अस्मिंस्तीर्थे तपोयुक्ता मद्गृहे त्वं निवत्स्यसि ।
इदं च तीर्थप्रवरं तव नाम्ना च लक्षितम् २५।
बालाप इति विख्यातं साभ्रमत्यास्तटे स्थितम् ।
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिस्तु स्तुतं पुरा २६।
बालातीर्थे नरः स्नात्वा त्रिरात्रमुषितः शुचिः ।
रक्तादित्यमुखं दृष्ट्वा सूर्यस्योदयनं प्रति २७।
सूर्यलोकमवाप्नोति नात्र कार्या विचारणा ।
सूर्यवारेऽथ संक्रांतौ सप्तम्यां तु विशेषतः २८।
विषुवत्ययने चापि चंद्रसूर्यग्रहेऽपि च ।
स्नात्वा संतर्पयेद्देवान्पितॄनथ पितामहान् २९।
गुडधेनुं ततो दद्याद्ब्राह्मणेभ्यो गुडोदनम् ।
करवीरैर्जपापुष्पै रक्तादित्यप्रपूजनम् ३०।
ये कुर्वंति नरास्ते वै सूर्यलोके वसंति वै ।
रक्तां धेनुं नरो दद्यादेकं चैव धुरंधरम् ३१।
स यज्ञफलमाप्नोति न नरो निरयं व्रजेत्।
व्याधितो मुच्यते रोगात्बद्धो मुच्येत बंधनात् ।
तीर्थेऽस्मिन्पिंडदानेन तृप्तिं यांति पितामहाः ३२।
महादेव उवाच।
तथान्यदपि माहात्म्यं तीर्थस्यास्य तपोधने ।
श्रूयतां यत्पुरावृत्तं व्यासेन कथितं महत् ३३।
पुरात्र महिषो वृद्धो जरया जर्जरीकृतः ।
अशक्तो भारमुद्वोढुं सार्थवाहस्तमत्यजत् ३४।
स निदाघे जलं पातुं जगाम च महानदीम् ।
दैवात्पंके निमग्नोऽसौ ततो मृत्युवशं गतः ३५।
प्लवितास्थिर्जले पुण्ये तीर्थस्यास्य प्रभावतः ।
कान्यकुब्जेश्वरसुतो राजा जातिस्मरोऽभवत् ३६।
संस्मृत्य च स्ववृत्तांतं प्रभावं तीर्थजं महत् ।
आगत्य तज्जले स्नात्वा ददौ दानान्यनेकशः ३७।
स तत्र स्थापयामास देवदेवं महेश्वरम् ।
अत्र तीर्थे नरः स्नात्वा संपूज्य महिषेश्वरम् ३८।
रक्तादित्यमुखं दृष्ट्वा सर्वपापैः प्रमुच्यते ।
साभ्रमत्युदकं यत्र पूर्वतः पश्चिमं व्रजेत् ३९।
प्रयागादपि तत्पुण्यं सर्वकामप्रदं महत् ।
दत्तं द्विजेंद्रेषु हुतं यदग्नौ श्राद्धं कृतं जाप्यमिहाक्षयं स्यात् ४०।
गोभूतिलाः कांचनवस्त्रधान्यं शय्यासनं वाहनछत्रदानम् ।
यं यं वांछयते कामं तं तं प्राप्नोति मानवः ४१।
श्रीमहेशप्रसादाच्च तीर्थस्यास्य प्रभावतः ।
बालापेंद्रं इदं तीर्थं पुण्यपापहरं सदा ४२।
यं दृष्ट्वा मुनयः सर्वे वीतरागाः सदैव तु ।
यत्र माहिषनामेति श्वेताख्यं पुण्यदं महत् ४३।
यत्र स्नात्वा तु देवेशि पुनर्जन्म न विद्यते ।
गोदावर्यां कृते स्नाने यत्फलं लभते नरः ४४।
तत्फलं लभते देवि अत्र तीर्थे न संशयः ४५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे बालापेंद्रं तीर्थंनामद्विपंचाशदधिकशततमोऽध्यायः १५२।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 153
महादेव उवाच।
अन्यत्तीर्थं प्रवक्ष्यामि दुर्द्धर्षेश्वरमुत्तमम् ।
यस्य स्मरणमात्रेण पापोऽपि पुण्यवान्भवेत् १।
वृत्ते देवासुरे युद्धे दैत्ये च निधनं गते ।
दुर्धर्षं च व्रतं कृत्वा यत्र भार्गवनंदनः २।
समाराध्य महादेवं दुर्द्धर्षं लोककारणम् ।
मृतसंजीवनीमाप यत्र विद्यां हि त्र्यंबकात् ३।
दैत्यार्थमुशनस्तीर्थं विख्यातं जगतीतले ।
काव्यतीर्थे कृतस्नानः पूज्य देवं महेश्वरम् ४।
दुर्द्धर्षेश्वरसंज्ञं वै सर्वपापैः प्रमुच्यते ।
अत्र वृत्तं तु श्रोतव्यं त्वया च नगनंदिनि ५।
पुरा यदाभवद्युद्धं वृत्रवासवयोरिह ।
तदासुरैर्जिता देवा मघवान्वै सुरेश्वरः ।
किं कर्त्तव्यमिति ध्यात्वा गतोऽसौ तं गुरुं प्रति ६।
इंद्र उवाच।
अस्माकं त्वं गुरुः साक्षाद्देवानां पालकः सदा ।
ऋषीणां त्वं वरः श्रीमान्कृपां कुरु दयानिधे ७।
वृत्रेण निर्जितोऽहं च क्व गच्छामि च सुव्रत ८।
बृहस्पतिरुवाच।
शृणु देवेंद्र वक्ष्यामि येन त्वं हि सदा सुखी ।
मम वाक्यं कुरुष्वैव यदीच्छेच्छुभमात्मनः ९।
साभ्रमत्यां तदा गच्छ तत्र गत्वा सुखी भव ।
दुर्द्धराख्यो यत्र देवो नित्यं तिष्ठति भूतिदः १०।
ददाति वांछितान्कामान्सत्यं सत्यं सुरेश्वर ।
गुरोर्वचनमाकर्ण्य स गतस्तां नदीं प्रति ११।
तत्र स्नात्वा तु देवेशो महेशं तमपूजयत् ।
स्नानाच्च पूजनादेव संतुष्टः श्रीमहेश्वरः १२।
महादेव उवाच।
यं यं प्रार्थयसे नित्यं तत्सर्वं हि ददाम्यहम् ।
श्रुत्वा वाक्यं तु देवेशो ह्युवाच परमं वचः १३।
इंद्र उवाच।
त्वं नाथः सर्वलोकानां त्वमेव कारणं पदम् ।
त्वं हि विश्वेश्वरो देवो सर्वदा लक्ष्यसे मया १४।
यदि त्वं मे प्रसन्नोऽसि विश्वेश्वर सुरेश्वर ।
वृत्रं हन महादेव एष कामो महान्मम १५।
महादेव उवाच।
तव वाक्यात्तु देवेश वृत्रोऽसौ निहतो मया ।
मया यद्दीयते शस्त्रं तद्गृह्णीष्व सुरेश्वर १६।
तेनैव चासुयोगेन हनिष्यसि न संशयः १७।
इंद्र उवाच।
किमस्त्रं वद विश्वेश येन वृत्रं हि हन्म्यहम् ।
वज्रादप्यधिकं किं त्तन्निर्मितं तु त्वया कदा १८।
महादेव उवाच।
इदं पाशुपतं ह्यस्त्रं निर्मितं तु मया पुरा ।
न दत्तं कस्यचिच्छक्र तवार्थे रक्षितं मया १९।
अत्र स्नातं त्वया देव पूजनं वै त्वया कृतम् ।
अतस्त्वं गृह्ण मे शस्त्रं येन वृत्रं हनिष्यसि २०।
श्रीमहेशप्रसादाच्च प्राप्तं मघवता ततः ।
तेन पाशुपतास्त्रेण हतो वृत्रो महाबलः २१।
तत्सर्वमत्र संजातं दुर्द्धर्षेश प्रसादतः ।
स्नानमात्रात्तु देवेशि पूजनादेव सांप्रतम् २२।
तीर्थप्रभावात्संप्राप्तं सत्यं सत्यं वरानने ।
एवं ज्ञात्वा तु देवेशि तत्र वै स्नानमाचरेत् ।
दर्शनं तु महेशस्य सर्वपापप्रणाशनम् २३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे दुर्द्धर्षेश्वरमाहात्म्यंनाम त्रिपंचाशदधिकशततमोऽध्यायः १५३।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 154
साभ्रमत्यास्तटे गुप्तं तीर्थं परमपावनम् ।
खङ्गधारमिति ख्यातं कलौ गुप्तं भविष्यति १।
यत्र प्रसंगतः स्नात्वा पीत्वा वापो यदृच्छया ।
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते २।
यत्र साभ्रमती पुण्या कश्यपानुगता सती ।
रुद्रेण हि जटाजूटे धृता पातालगामिनः ३।
खङ्गधारेति वै नाम्ना रुद्रस्तत्रैव संस्थितः ।
यत्र स्नात्वा दिवं याताः पापिनोऽपि सुरेश्वरि ४।
अत्रैवोदाहरंतीममितिहासं पुरातनम् ।
किरातेन कृतं यच्च व्रतं परमदुष्करम् ५।
पार्वत्युवाच।
किं नाम वै किरातोऽभूत्किं तेन व्रतमाहितम् ।
तत्सर्वं श्रोतुमिच्छामि यथातथ्येन कथ्यताम् ६।
नह्यन्यो विद्यते लोके त्वां विना वदतां वरः ।
तस्मात्कथय भो देव सर्वं शुश्रूषणे हितम् ७।
महादेव उवाच।
आसीत्पुरा महारौद्रश्चंडो नाम दुरात्मवान् ।
क्रूरः शठो नैष्कृतिको भूतानां च भयावहः ८।
जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं ततः ।
भल्लैर्मृगान्श्वापदांश्च कृष्णसारान्सशल्लकान् ९।
खगान्नानाविधांश्चैव विध्वा कांश्चित्प्रपातयेत् ।
पक्षिणो घातयन्क्रुद्धो बर्हिणश्च विशेषतः १०।
लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः ।
भार्या तथाविधा तस्य पुंश्चली च महामया ११।
एवं विहरतस्तस्य बहुकालो व्यवर्त्तत ।
एकदा निशि पापीयान्श्रीवृक्षोपरि संस्थितः १२।
कोलं हंतुं धनुःपाणिः शरं संयोज्य कार्मुके ।
एवं निशा गता तस्य जाग्रतो निमिषस्य हि ।
माघमासे सितायां वै चतुर्दश्यां नगात्मजे १३।
श्रीवृक्षपत्राणि बहूनि तत्र संच्छेदयामास रुषान्वितोऽपि ।
श्रीवृक्षमूले परिवर्त्तमानं लिगं च तस्योपरितानि पेतुः १४।
श्रीवृक्षपर्णानि च दैवयोगात्जातं च सर्वं शिवपूजनं तत् १५।
गंडूषकारिणा तेन स्नपनं च महत्कृतम् ।
अज्ञानिना च तेनैव पुष्कसेन दुरात्मना १६।
माघमासे सिते पक्षे चतुर्दश्यां विधूदये ।
पुष्कसो हि दुराचारो निष्पन्नो गतकल्मषः १७।
तस्य भार्या प्रचंडा च आगता तस्य सन्निधौ ।
निराशा च निराहारा यत्रासौ पुष्कसः स्थितः १८।
न प्राप्तः शूकरस्तेन मृगोऽपि महिषोऽपि वा ।
अशनार्थं च तस्यैव अन्नमादाय भामिनी १९।
तेन दृष्टा प्रचंडा सा आयांती क्रूरलोचना ।
सा तस्य भार्या नद्यां वै जलमध्ये पपात ह २०।
तावत्तयोक्तश्चंडात्मा एहि शीघ्रं च भक्षय ।
समानीतं त्वदर्थं च मत्स्यमांसं मयाधुना २१।
कृतं किं मूढ पूर्वेद्युर्मांसं पार्श्वे न दृश्यते ।
नाशितं च त्वया मूढ कुटुंबं लंघते तव २२।
एतच्छ्रुत्वा तु वचनं चंडायाश्चंडरूपवान् ।
शिवरात्र्युपवासेन रात्रौ जागरणेन च २३।
शुद्धांतःकरणो जातः स्नातुं नद्यां शुचिव्रतः ।
यावत्स्नाति स दुष्टात्मा तावत्श्वा तत्र चागतः २४।
शुना तदा भक्षितं च सर्वं मांसं सुरेश्वरि ।
चंडा प्रकुपिता तं च श्वानं हंतुमुपस्थिता २५।
निवारिता हि चंडेन चंडा प्रकुपिता तदा ।
न हंतव्यस्त्वया चैष किमनेनाशुभं कृतम् २६।
तयोक्तं भक्षितं चान्नं अनेनैव दुरात्मना ।
किं त्वं भक्षयिता मूढ भविताद्य बुभुक्षितः २७।
पुष्कस उवाच।
यच्छुना भक्षितं चान्नं तेनाहं परितोषितः ।
किमनेन शरीरेण नश्वरेण गतायुषा २८।
ये पुष्यंति शरीरं वै सर्वभावेन भामिनि ।
मूढास्ते पापिनो ज्ञेया लोकद्वय बहिष्कृताः २९।
तस्मान्मानं परित्यज्य कामं चापि दुरात्मताम् ।
स्वस्थाभावविमर्शेन तत्वबुध्या स्थिरा भव ३०।
अहमेतच्छरीरं वै खङ्गधारव्रतेन च ।
त्यक्ष्याम्यद्य वरारोहे किं चिरंजीवनेन मे ३१।
इत्युक्त्वा खङ्गमाकृष्य यावद्भिनत्ति कं स्वकम् ।
आगताश्च गणास्तावद्बहवः शिवनोदिताः ३२।
विमानानि बहून्यत्र आगतानि तदंतिके ।
दृष्ट्वा स चैव तान्येवं विमानानि गणांस्तथा ३३।
उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति ।
कस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः ३४।
सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्द्धशेखराः ।
कपर्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः ३५।
श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतोचितं मम ।
पुष्कसेन तदा पृष्टा ऊचुस्ते रुद्रपार्षदाः ३६।
गणा ऊचुः।
प्रेषितास्मो वयं चंड शिवेन परमेष्ठिना ।
आगच्छ त्वरितो भूत्वा सस्त्रीको यानमारुह ३७।
लिगार्चनं कृतं यच्च त्वया रात्रौ शिवस्य च ।
तेन कर्मविपाकेन प्राप्तोऽसि परमां गतिम् ३८।
तथोक्तो वीरभद्रेण उवाच प्रहसन्निव ।
किं मया सुकृतं चीर्णं पापिना पुष्कसेन हि ३९।
मृगयारसिकेनैव मूढेन च दुरात्मना ।
पापाचारोह्यहं नित्यं कथं स्वर्गे वसाम्यहम् ४०।
कथं लिगार्चनं चाद्या कृतमस्ति तदुच्यताम् ।
परं कौतुकमापन्नः पृच्छामि कृपया वद ४१।
वीरभद्र उवाच।
देवदेवो महादेवो यो गंगाधरसंज्ञकः ।
परितुष्टोऽद्य ते चंड सभार्यस्य उमापतिः ४२।
प्रासंगिकं त्वया चाद्य कृतमर्चनमेव च ।
कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि ४३।
छेदितानि त्वया चंड पतितानि तदैव हि ।
लिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो ४४।
तवैवं जागरो जातो महावृक्षोपरि ध्रुवम् ।
तेनैव जागरेणैव तुतोष जगदीश्वरः ४५।
छलेनैव महाभाग कोलसंदर्शनेन हि ।
शिवरात्रिदिनं व्याध प्रसंगेनाप्युपोषितम् ४६।
तेनोपवासेन च जागरेणतुष्टो ह्यसौ देववरो महात्मा ।
तव प्रसादाय महानुभावो ददाति सर्वान्वरदो वरांश्च ४७।
एवमुक्तस्तदा तेन वीरभद्रेण धीमता ।
पुष्कसोऽपि विमानाग्र्यमारुरोह च पश्यताम् ४८।
गणानां देवतानां च सर्वेषां प्राणिनामपि ।
तदा दुंदुभयो नेदुर्भेरीतूर्याण्यनेकशः ४९।
वीणावेणुमृदंगानि लास्यनाट्य युतानि च ।
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः 6.154.५०।
चामरैर्विज्यमानो हि छत्रैश्च विविधैरपि ।
महोत्सवेन महता ह्यानीतः शिवसन्निधौ ५१।
पुष्कसोऽपि तदा प्राप्तस्तीर्थस्नान शिवार्चनात् ।
किं पुनः श्रद्धया भक्त्या शिवाय परमात्माने ५२।
पुष्पादिकं फलं गंधं तांबूलाक्षतमेव च ।
ये प्रयच्छंति लोकेऽस्मिंस्ते रुद्रा नात्र संशयः ५३।
महादेव उवाच।
तदाप्रभृति तत्तीर्थं खङ्गधारेति विश्रुतम् ।
एतत्तीर्थं कलौ गुप्तं भविष्यति सुरेश्वरि ५४।
माघमासेऽथ वैशाखे कार्तिक्यां च विशेषतः ।
स्नानं येन प्रकुर्वंति मुक्तास्ते नगनंदिनि ५५।
वसिष्ठो वामदेवश्च भरद्वाजोऽथ गौतमः ।
स्नानार्थे वै समायांति देवं द्रष्टुं पिनाकिनम् ५६।
त्रियुगे वर्त्तते लिंगं कलौ नैव तु पार्वति ।
विश्वामित्रेण ऋषिणा दत्तशापो ह्यहं तदा ५७।
पार्वत्युवाच।
कथं शापस्तु ऋषिणा दत्तश्चैव सुरेश्वर ।
तदहं श्रोतुमिच्छामि त्वत्तो देव न संशयः ५८।
महादेव उवाच।
एकस्मिन्समये देवि विश्वामित्रो महातपाः ।
आगतः खङ्गधारेऽस्मिंस्तीर्थे वै परमाद्भुते ५९।
साभ्रमत्यां कृतस्नानो दर्शनं कृतवान्मम ।
तत्र तिष्ठति नित्यं वै पूजां कुर्वन्ननेकधा ६०।
तत्र कोऽपि महादुष्टः कौलिकः पापरुपधृक् ।
मांसं दत्तं तदा तेन शिवस्योपरि भामिनि ६१।
दृष्ट्वा तदपि मांसं च विश्वामित्रोऽथ वै पुनः ।
अब्रवीच्च तदा तत्र दुष्कृतं पापिना कृतम् ६२।
न दत्तस्तस्य दंडो हि शर्वेण परमात्मना ।
तस्मादहं हि निश्चित्य शापं दास्ये न संशयः ६३।
विचार्यैवं तदा तेन शप्तोऽहं देवि वै तदा ६४।
अस्मिन्कलियुगे घोरे गुप्तस्त्वं भव सर्वथा ।
इति दत्वाथ वै शापं गतवान्मुनिसत्तमः ६५।
तदा प्रभृति भो देवि गुप्तोऽहं ऋषिशापतः ।
ममस्थाने विशेषेण पूजनं कुरुते यदि ६६।
तेषां हि दुरितं यच्च नश्यते तत्क्षणादपि ।
मृन्मयीं मामकीं मूर्तिं कृत्वा ये पूजयंति वै ६७।
अत्र स्थाने विशेषेण मामके तु वसंति हि ।
खङ्गधारेश्वर इति नाम्ना ख्यातः कलौयुगे ६८।
कृते वै मंदिरं नाम त्रेतायां गौरवः स्मृतः ।
द्वापरे विश्वविख्यातः कलौ खङ्गेश्वरः स्मृतः ६९।
दक्षिणं भागमाश्रित्य मम स्थानं सुरेश्वरि ।
इति ज्ञात्वा तु तत्रैव कृत्वा मूर्तिं सदा बुधः ७०।
पूजनं कुरुते नित्यं वांछितं फलमाप्नुयात् ।
धर्मार्थकाममोक्षांश्च लभते मानवो भुवि ७१।
धूपं दीपं च नैवेद्यं तथा वै चंदनादिकम् ।
येऽर्पयंति हि देवेशि लोकनाथे महेश्वरि ।
न दुःखं तु भवेत्तेषां सत्यं सत्यं वरानने ७२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्रसंहितायामुउत्तरखंडे धारेश्वरमाहात्म्यं नाम चतुष्पंचाशदधिकशततमोऽध्यायः १५४।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 155
महादेव उवाच।
खड्गधाराद्दक्षिणतस्तीर्थं परमपावनम् ।
दुग्धेश्वरमिति प्रोक्तं सर्वपापप्रणाशनम् १।
यस्मिंस्तीर्थे नरः स्नात्वा दृष्ट्वा दुग्धेश्वरं हरम् ।
पुमान्सद्यो विमुच्येत दुःखात्पापसमुद्भवात् २।
दधीचिना तपस्तप्तं साभ्रमत्यास्तटे शुभे ।
चन्द्रभागा महत्पुण्यं गंगाया संगता यतः ३।
तत्र स्नानं च दानं जपः पूजा तपस्तथा ।
सर्वमक्षयतां याति दुग्धतीर्थप्रभावतः ४।
पार्वत्युवाच।
दुग्धेश्वरसमुत्पत्तिं श्रोतुमिच्छामि वै प्रभो ।
महिमा दुग्धतीर्थस्य कथ्यतां च सुरेश्वर ५।
महादेव उवाच।
पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः ।
पलायनपरा भूत्वा दधीचाश्रममागताः ६।
मुक्त्वा तत्रायुधान्येव गता देवा दिशो दश ।
पश्चात्कोलाहलं श्रुत्वा दधीचो दैत्यसंभवम् ७।
पीतवांस्तानि शस्त्राणि जलेनाप्लाय्य भार्गवः ।
कालेन ते सुराः सर्वे अस्त्राण्यादातुमुत्सुकाः ८।
गुरुणा सहिताः सर्वे परस्परमुदान्विताः ।
नकुलैः सह सर्पाश्च क्रीडंते ते परस्परम् ९।
एवंविधान्यनेकानि साश्चर्याणि तदाश्रमे ।
पश्यंतो विबुधाः सर्वे विस्मयं परमं गताः १०।
ददृशुस्ते मुनिवरं आसनोपरिसंस्थितम् ।
यत्र साभ्रमती पुण्या मिलिता चंद्रभागया ११।
वर्चसा परमेणैव भ्राजमानं यथा रविम् ।
विभावसु द्वितीयं च सुवर्चा भार्यया सह १२।
यथा ब्रह्माहि सावित्र्या तथाऽसौ मुनिसत्तमः ।
दृष्टः सुरवरैः सर्वैः प्रणिपातपुरःसरम् १३।
ऊचिरे तं तदा देवा बृहस्पतिपुरोगमाः ।
त्वं दाता त्रिषु लोकेषु विदितः पूर्वमेव च १४।
याच्ञार्थं च वयं सर्वे त्वत्सकाशं समागताः ।
भयभीता वयं सर्वेऽस्त्राणि नोदातु मर्हसि १५।
इत्युक्तो मुनिवर्योऽसौ देवानाह महामतिः ।
पीतानि तानि भो देवा जलेनाप्लाव्य मंत्रतः १६।
ततो देवाब्रुवन्विप्रं दैत्यानां निधनाय च ।
देह्यस्थीनि त्वरा विप्र दत्तानीति द्विजोऽवदत् १७।
इत्युक्त्वा तान्स्वपत्नीं स प्रेषयामास चाश्रमम् ।
तदोवाच द्विजो हृष्टो देवान्स्मित्वा महामतिः १८।
पीतानि तानि भो देवा गृह्णीध्वं च यथातथम् ।
इत्युक्त्वा च द्विजो देवि योगमास्थाय योगवित् १९।
ततोब्रुवन्सुरा विप्रं स्मयं तं छलया गिरा ।
त्वयि जीवति भो ब्रह्मन्कुतोस्थीनि लभामहे २०।
प्रहस्योवाच विप्रर्षिस्तिष्ठध्वं क्षणमेकतः ।
स्वयमेव च भो देवास्त्यक्ष्याम्यद्य कलेवरम् २१।
इत्युक्त्वा स द्विजो देवि योगमास्थाय योगवित् ।
ब्रह्मलोकं गतः सद्यो यतो नावर्त्तते पुनः २२।
ततः सर्वे सुरास्तत्र दृष्ट्वा तं विलयं गतम् ।
चिंतयंतः सुरगणाः कथं च विशसामहे २३।
सुरभिं चाह्वयामास तामुवाच शचीपतिः ।
कलेवरं द्विजेंद्रस्य लिह त्वं वचसा मम २४।
तथेति च वचो मत्वा तत्क्षणादेव लिह्य तत् ।
निर्मांसं च कृतं सद्यस्तया धेन्वा कलेवरम् २५।
जगृहुस्तानि चास्थीनि चक्रुः शस्त्राणि वै सुराः ।
तस्य वंशोद्भवं त्वस्त्रमासीद्ब्रह्मशिरस्तथा २६।
शस्त्राण्यस्त्राणि कृत्वा ते महाबलपराक्रमाः ।
ययुर्देवास्त्वरा युक्ता वृत्रघातनतत्पराः २७।
ततः सुवर्चा तु दधीचपत्नी संप्रेषिता या सुरकार्यसिद्धये ।
विलोकयामास समेत्य तत्र मृतं पतिं देहमथो विशस्तम् २८।
ज्ञात्वा तु तत्सर्वमथो सुराणां कृत्यं तदानीं च चुकोप साध्वी ।
ददौ तदा शापमतीव रुष्टा तदा सुवर्चा ऋषिवर्यपत्नी २९।
अहो सुरा दुष्टतराश्च सर्वे ह्यनेकशप्ताश्च तथैव लुब्धाः ।
तस्मात्तु सर्वे ह्यप्रजा भवंतु सेंद्रा सुराद्यप्रभृतीत्युवाच ३०।
एवं शापं ददौ तेषां सुराणां सा तपस्विनी ।
उपविश्याश्वत्थमूले साभ्रमत्यास्तटे स्थिता ३१।
सगर्भा सा सती साध्वी स्वोदरं विददार ह ।
निर्गतो जठराद्गर्भो दधीचस्य महात्मनः ३२।
साक्षाद्रुद्रावतारोऽसौ पिप्पलादो महाप्रभुः ।
प्रहस्य जननी गर्भं उवाच वचनं महत् ३३।
सुवर्चा तं पिप्पलादं चिरं तिष्ठास्य सन्निधौ ।
अश्वत्थस्य महाभाग सर्वेषां शुभदो भव ३४।
तथैव भाषमाणा सा सुवर्चा तनयं प्रति ।
पतिं प्रत्यगमत्साध्वी परमेन समाधिना ३५।
एवं दधीचपत्नी सा पतिना स्वर्गमास्थिता ।
ते देवाः कृतशस्त्रास्त्र दैत्यान्प्रति समुत्सुकाः ३६।
आजग्मुश्चेंद्रमुख्याश्च महाबलपराक्रमाः ।
कामधेनुः प्रसुस्राव ययौ यत्र द्विजः क्षयम् ३७।
मुनेः प्रभावतो दुग्धं लिंगरूपं व्यजायत ।
दुग्धेश्वरमिति ख्यातं देवि साभ्रमती तटे ३८।
तदा प्रभृति तीर्थं हि तन्नाम्ना प्रथितं भुवि ।
अतुलं यस्य माहात्म्यं श्रवणात्पातकापहम् ३९।
ये शृण्वंति नरा भक्त्या दुग्धेश्वरसमुद्भवम् ।
तेऽपि पापविनिर्मुक्ता यांति रुद्रपदं महत् ४०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे दुग्धेश्वरमाहात्म्यंनाम पंचपंचाशदधिक शततमोऽध्यायः १५५।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 156
महादेव उवाच।
दुग्धेश्वरस्य पूर्वे तु तीर्थं परमपावनम् ।
चंद्रभागेति वै नाम्ना नदी यत्र तु संगता १।
तत्र चंद्रेश्वरो देवो नित्यं तिष्ठति पुण्यदः ।
यो हरः सर्वदा व्यापी लोकानां सुखदो महान् २।
अत्र स्नानं प्रकुर्वंति ध्यानं कुर्वंति नित्यशः ।
तत्फलं प्राप्नुयुस्ते वै साभ्रमत्यां शिवार्चनात् ३।
सोमेनात्र तपस्तप्तं कालं बहुतरं किल ।
तस्माच्चन्द्रेश्वरो नाम स्थापितो वै महेश्वरः ४।
शुक्रेणापि तपस्तप्तं चन्द्रभागा समीपतः ।
अतस्तीर्थाधिकं तीर्थं पावनं सर्वदा भुवि ५।
कलौ गुप्तं तु ऋषिणा कारितं वै सुरेश्वरि ।
यत्र हेममयं लिगं दृश्यते नात्र संशयः ६।
अत्र स्नात्वा च पीत्वा च कृत्वा वै शिवपूजनम् ।
ये नराः संगमिष्यंति धर्मानर्थांल्लभंति ते ७।
वृषोत्सर्गादिकं कर्म ये कुर्वंति विशेषतः ।
भुक्त्वा स्वर्गपदं ते वै पश्चाद्यांति हरालयम् ८।
स्नानार्थे प्रत्यहं देवि चंद्रभागा समीपतः ।
आगमिष्यंति ये लोकास्ते ज्ञेयाः पुण्यभागिनः ९।
गत्वा परतटे ये वै ह्यर्चयंति च तं शिवम् ।
चंद्रेश्वरेति नामानं श्रीहरं पापकृंतनम् १०।
अत्र गत्वा विशेषेण रुद्रजाप्यादिकं तथा ।
ये कुर्वंति नरश्रेष्ठास्ते ज्ञेयाः शिवरूपिणः ११।
सर्वदा तु सुरश्रेष्ठ यत्र स्नानं प्रकुर्वते ।
ते नरा विष्णुरूपाणि विज्ञेया नात्र संशयः १२।
येऽत्र श्राद्धं प्रकुर्वंति तिलपिंडेन वा पुनः ।
तेऽपि विष्णुपदं यांति पिंडदानप्रभावतः १३।
अत्र दानं प्रकर्त्तव्यं स्नानं वै विधिपूर्वकम् ।
यत्र स्नात्वा तु मुच्यंते ब्रह्महत्यादिकिल्बिषात् १४।
तटेस्मिन्ये विशेषेण वटं चारोपयंति ते ।
मृताः शिवपदं यांति यावच्चंद्र दिवाकरौ १५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमा०चंद्रेश्वर चंद्रभागा महिमानाम षट्पंचाशदधिकशततमोऽध्यायः१५६।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 157
महादेव उवाच।
दुग्धेश्वरसमीपे तु तीर्थं चातीवपावनम् ।
रम्यं तत्पिप्पलादस्य नाम्ना वै प्रथितं भुवि १।
यत्र कृत्वा तपः पूर्वं मातुर्वचनतो मुनिः ।
उत्पादयामास कृत्यां वडवानलसम्मिताम् २।
पितुरानृण्यमन्विच्छन्दधीचस्य महात्मनः ।
तत्र स्नात्वा च पीत्वा च ब्रह्महत्यां व्यपोहति ३।
साभ्रमत्यास्तटे गुप्तं पिप्पलादं सुरेश्वरम् ।
तत्र स्नात्वा तु भो देवि मुक्तिभागी भवेन्नरः ४।
आरोपणं पिप्पलानां कर्त्तव्यं विधिपूर्वकम् ।
कृते सति महादेवि मुच्यते कर्मबंधनात् ५।
पार्वत्युउवाच।
किमर्थं सा तु कृत्या वै उत्पन्ना तां निबोधय ।
तया वै कृत्यया पूर्वं किं कृतं वद मे प्रभो ६।
येन पुत्रेण सा नीता पितुरानृण्यकारणात् ७।
महादेव उवाच।
दाधीचो ऋषिवर्योऽसौ ह्यागतस्तपकारणात् ।
अत्र तेन महत्तप्तमृषिणा परमात्मना ८।
तत्र कोलासुरो नाम विघ्नार्थं वै समागतः ।
तेन विघ्नं बहुतरं कृतं वै नात्र संशयः ९।
तद्दृष्टं तु सुपुत्रेण कहोडेन च धीमता ।
कृत्या ह्युत्पादिता तत्र हननार्थं सुरेश्वरि १०।
तया वै निहतो दैत्यः कोलो नाम महासुरः ।
तस्मात्तीर्थं महज्जातं कलौ गुप्तं तु पार्वति ११।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे पिप्पलादतीर्थं नाम सप्तपंचाशदधिकशततमोऽध्यायः१५७।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 158
महादेव उवाच।
पिप्पलादात्ततस्तीर्थे पिचुमंदार्कमुत्तमम् ।
तीर्थं साभ्रमती तीरे व्याधिदौर्गंध्यनाशनम् १।
पुरा कोलाहले युद्धे दानवैर्निर्जिताः सुराः ।
वृक्षेषु विविशुस्तत्र सूक्ष्माः प्राणपरीप्सया २।
तत्र बिल्वे स्थितः शंभुरश्वत्थे हरिरव्ययः ।
शिरीषेऽभूत्सहस्राक्षो निंबे देवः प्रभाकरः ३।
एवमादि यथायोग्यं वृक्षेषु विबुधास्तथा ।
यावत्कोलाहलो दैत्यो विष्णुना प्रभविष्णुना ४।
हतो महाहवे तावत्स्थितास्ते वृक्षमाश्रिताः ।
येनयेन हि यो वृक्षो विबुधेन समाश्रितः ५।
स तु तन्मयतां यातस्तस्मात्तं न विनाशयेत् ।
इति सूर्य्यस्य विश्रामात्पिचुमंदार्कमुत्तमम् ६।
तीर्थंरोगहरं स्नानात्साभ्रमत्यास्तटेऽभवत् ।
अत्र गत्वा विशेषेण तं रविं यदि पूजयेत् ७।
पूजयित्वा सुरश्रेष्ठे लभते वांछितं फलम् ।
अत्र द्वादशनामानि गत्वा ये वै पठंति च ८।
ते नराः पुण्यकर्माणो यावज्जीवं न संशयः ।
आदित्यं भास्करं भानुं रविं विश्वप्रकाशकम् ९।
तीक्ष्णांशुं चैव मार्तंडं सूर्यं चैव प्रभाकरम् ।
विभावसुं सहस्राक्षं तथा पूषणमेव च १०।
एवं द्वादशनामानि यः पठेत्प्रयतः सुधीः ।
धनं वै पुत्रपौत्रांश्च लभते नगनंदिनि ११।
एकैकं नाम आश्रित्य योऽर्चयेत नरो भुवि ।
सप्तजन्मभवेद्विप्रो धनाढ्यो वेदपरागः १२।
क्षत्रियो लभते राज्यं वैश्यो धनमवाप्नुयात् ।
शूद्रो वै लभते भक्तिं तस्मात्सूक्तं परं जपेत् १३।
निंबार्कतः परं तीर्थं न भूतं न भविष्यति ।
अत्र स्नात्वा च पीत्वा च मुक्तिभागी भवेद्ध्रुवम् १४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे निंबार्कदेवतीर्थंनामाष्टपंचाशदधिक शततमोऽध्यायः १५८।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 159
महादेव उवाच।
तस्माद्दूरतरे देवि सिद्धक्षेत्रमनुत्तमम् ।
अनिरुद्धो वृतः पूर्वं उषार्थे चित्रलेखया १।
नीतो बाणासुरपुरं तिष्ठति स्म गृहे पुरा ।
पाशैर्बाणैश्च संरुद्धः कोटराक्षीमथास्मरत् २।
साक्षाद्या वैष्णवी शक्तिः सदा रक्षण तत्परा ।
सेयं देवी नदीतीरे कृष्णेनात्र प्रतिष्ठिता ३।
जित्वा बाणासुरं संख्ये द्वारकां प्रतिगच्छता ।
अनिरुद्धस्य स्तोत्रेण साक्षात्सांनिध्यमागता ४।
तत्र तीर्थे नरः स्नात्वा वर्षमेकं प्रयत्नतः ।
कोटराक्षीमुखं दृष्ट्वा लक्ष्मीमाप्नोति पुष्कलाम् ५।
सिद्धतीर्थे नरः स्नात्वा दृष्ट्वा कोटरवासिनीम् ।
सिंहयुक्तेन यानेन रुद्रलोके महीयते ६।
यस्यां वै स्मरणादेव मुक्तः सोऽपि वरानने ।
अतोयेऽत्र प्रगच्छंति ते नरा मुक्तिभागिनः ७।
तत्र गत्वा विशेषेण स्नानं कृत्वा तु पार्वति ।
कोटराक्ष्यास्ततः स्तोत्रं पठेद्वै बुद्धिपूर्वकम् ८।
कोटराक्षी विश्वरूपा महामाया बलाधिका ।
त्रिपुरा त्रिपुरघ्नी च शिवा वै शिवरूपिणी ९।
कन्या सारस्वती प्रोक्ता दुर्गा दुर्गतिहारिणी ।
भैरवी भैरवाक्षी च लक्ष्मी देवी जनप्रिया १०।
एतानि बहुधोक्तानि नामानि च सुरेश्वरि ।
ये पठंति नरश्रेष्ठास्ते यांति शिवसन्निधौ ११।
अनिरुद्धकृतं स्तोत्रं ये जपंति मनीषिणः ।
मुच्यंते कष्टबंधात्ते सत्यंसत्यं वरानने १२।
तीर्थानां परमं तीर्थं कोटरानिर्मितं भुवि ।
दर्शनादेव नश्यंति पापानां राशयस्तथा १३।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे कोटरातीर्थं नामैकोनषष्ट्यधिकशततमोऽध्यायः १५९।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 160
महादेव उवाच।
अस्मात्तीर्थात्परं तीर्थं तीर्थराजेति विश्रुतम् ।
सप्तनद्यो वहंत्यत्र चंदनोदकमिश्रितम् १।
अन्यतीर्थाच्छतगुणं स्नानं चात्र विशिष्यते ।
देवानां प्रवरो देवो यत्रास्ते वामनः स्वयम् २।
द्वादश्यां माघमासस्य दद्याद्यस्तिलधेनुकम् ।
विमुक्तः सर्वपापेभ्यः कुलानां तारयेच्छतम् ३।
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्पितरो वदंति ४।
तीर्थेऽस्मिन्भोजयेद्यो वै ब्राह्मणान्गुडपायसैः ।
एकस्मिन्भोजिते विप्रे सहस्रं भोजितं भवेत् ५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे वामनतीर्थं नाम षष्ट्यधिकशततमोऽध्यायः १६०।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 161
महादेव उवाच।
सोमतीर्थं ततो गच्छेद्गुप्तं साभ्रमतीतटे ।
पातालात्तत्र निर्गत्य कालाग्निरभवद्भवः १।
सोमतीर्थे नरः स्नात्वा दृष्ट्वा सोमेश्वरं शिवम् ।
सोमपानफलं साक्षाद्भवतीति न संशयः २।
रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः ।
नरो भवति लोकेऽस्मिन्परत्र च शिवं व्रजेत् ३।
अत्रेतिहासं वक्ष्यामि शृणु सुंदरि तत्वतः ।
यं श्रुत्वा मुच्यते चात्र ब्रह्महत्यादिपातकात् ४।
कौषीतकेन ऋषिणा तपस्तप्तं विशेषतः ।
निराहारी स वै जातः पर्णाशनरतः परम् ५।
वायुभक्षस्ततः कुर्वन्नात्मध्यानपरायणः ।
एवं बहुयुगं तत्र तप्तं तेन महत्तपः ६।
कदाचिद्दैवयोगेन सुप्रसन्नो महेश्वरः ।
यं यं प्रार्थयसे विप्र तत्सर्वं प्रददाम्यहम् ७।
कौषीतक उवाच।
तव प्रसादाद्देवेश अत्र लिंगं प्रजायताम् ।
अत्र सोमेश्वर इति ख्यातो देवो भवेद्ध्रुवम् ८।
यत्र स्नात्वा च भुक्त्वा च वांछितं फलमाप्नुयात् ।
अत्र स्थाने विशेषेण रुद्रजाप्यादिकं यदि ९।
कारयंति नरश्रेष्ठा धर्मानर्थाल्लँभंति ते ।
अपुत्रो लभते पुत्रं निर्धनो लभते धनम् १०।
राज्यकामी तु तद्राज्यं लभते नात्र संशयः ।
यदि चेत्त्वं प्रसन्नोऽसि तत्सर्वं देहि मे प्रभो ११।
ईश्वर उवाच।
तदा चैव सुरेशेन सर्वं दत्तं द्विजन्मने ।
तदा प्रभृति तत्तीर्थं सोमलिंगेति विश्रुतम् १२।
चंदनैर्वा बिल्वपत्रैयेऽर्चयंति सदाशिवम् ।
लभंते मानुषे देहे सौख्यं पुत्रादिसंभवम् १३।
सोमवारे तथा प्राप्ते यो गच्छति हरालयम् ।
वाछितं लभते नित्यं सोमलिंग प्रसादतः १४।
अत्र गत्वा तु यो देवि यद्ददाति फलादिकम् ।
यया कामनया चैव तं तं प्राप्नोति निश्चितम् १५।
श्वेतैर्वा करवीरैश्च पारिजातैस्तथा पुनः ।
येऽर्चयंति च तं देवं श्रीमहेशं पिनाकिनम् १६।
ते लभंते सुरश्रेष्ठे शैवं पदमनुत्तमम् १७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे सोमतीर्थवर्णनंनामैकषष्ट्यधिकशततमोऽध्यायः १६१।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 162
महादेव उवाच।
ततो गच्छेत्तथा देवि तीर्थं कापोतिकं पुनः ।
यत्र साभ्रमती तोयं प्राचीनं संप्रवर्त्तते १।
पिंडं ददाति यस्तत्र पितृतर्पणपूर्वकम् ।
वन्यैः फलैस्तथा पुष्पैः सदा पर्वणि पर्वणि २।
काकादिभ्यश्च श्वादिभ्यो बलिं संददते तु यः ।
यमस्य पंथानं सोऽपि ससुखं निस्तरेन्नरः ३।
तत्र तीर्थे नरः स्नात्वा वैशाख्यां गौरसर्षपैः ।
पूजयेद्देवमीशानं प्राचीनेश्वरमुत्तमम् ४।
आत्मानं तारयेत्सोऽथ पितॄनथ पितामहान् ।
कपोतो यत्र चात्मानं दत्त्वा चातिथये मुदा ५।
स्तुतो देवगणैः सर्वैर्विमानेन दिवं गतैः ।
तदा प्रभृति तत्तीर्थं कापोतमिति विश्रुतम् ६।
तत्र स्नात्वा नरः पीत्वा ब्रह्महत्यां व्यपोहति ।
पार्वत्युवाच।
कपोतेन कथं दत्तं शरीरं च वद प्रभो ।
निमित्तं किं तथा देव नाहं वेद्मि सुरेश्वर ७।
महादेव उवाच।
अत्र तीर्थेति देवेशि वटो वै परमो महान् ।
तस्य शाखा ह्यनंताश्च दृश्यंते विपुला भुवि ८।
तत्र जीवा वसंतीह पक्षिणो बहवस्तथा ।
कपोतेन गृहं तत्र कारितं तु सुरेश्वरि ९।
तत्र तिष्ठति पक्षीशो नित्यं विष्णुपरायणः ।
कुटुंबेन समायुक्तो शाखायां वसति ध्रुवम् १०।
एकस्मिन्वासरे देवि द्वादश्यां विष्णुवासरे ।
श्येनस्तत्र समायातो ह्यतिथित्वेन भामिनि ११।
कपोत भो देहि मांसं तव शारीरकं मम ।
नोचेच्छापं प्रदास्यामि इत्युक्तं नगनंदिनि १२।
अद्य वै वासरे विष्णोः क्षुधार्तोऽहं समागतः ।
तस्माद्देयं हि मांसं तत्क्षुधार्ताय मम प्रभो १३।
श्येनोक्तं तत्तु वै श्रुत्वा कपोतो वैष्णवो महान् ।
तेन दत्तं तदा देवि शरीरं नात्र संशयः १४।
तेन दानप्रभावेन तीर्थं जातं सुरोत्तमे ।
कापोतकं महत्तीर्थं पावनानां च पावनम् १५।
अत्र तीर्थे नरः स्नात्वा कृत्वा वै शिवपूजनम् ।
ददाति चातिथिभ्यश्च मिष्टमन्नं सुरोत्तमे १६।
इहलोके सुखं भुक्त्वा याति विष्णोः सनातनम् ।
दत्त्वा वै स्वशरीरं तु कपोतोऽथ महात्मने १७।
स गतो वैष्णवं तत्र यावच्चंद्र दिवाकरौ ।
अतो गत्वा तु भो देवि अतिथिं पूजयेत्सदा ।
पूजिते चातिथौ तत्र सर्वं च लभते ध्रुवम् १८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कपोततीर्थं नाम द्विषष्ट्यधिक शततमोऽध्यायः १६२।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 163
महादेव उवाच।
तीर्थानां प्रवरं तीर्थं महापातकनाशनम् ।
गोतीर्थमिति विख्यातं काश्यपह्रदसमीपतः १।
यानि कानि च पापानि ब्रह्महत्या समानि च ।
गोतीर्थे तु ततः स्नात्वा नश्यंते नात्र संशयः २।
गावः कृष्णां तनुं प्राप्य पूर्वपातकयोगतः ।
यत्र तीर्थे ततः स्नात्वा शुक्लत्वं पुनरागताः ३।
तत्र तीर्थे नरः स्नात्त्वा दत्वा गोभ्यो गवाह्निकम् ।
गोमातॄणां प्रसादेन मातॄणामनृणी भवेत् ४।
गोतीर्थे तु नरो गत्वा स्नात्वा गां तु पयस्विनीम् ।
ददाति विप्रमुख्येभ्यः स याति ब्रह्मणः पदम् ५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तर।
खंडे साभ्रमतीमाहात्म्ये गोतीर्थंनाम त्रिषष्ट्यधिकशततमोऽध्यायः १६३।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 164
महादेव उवाच।
अत्र तीर्थं महच्चान्यत्कश्यपाख्यं सुरेश्वरि ।
यत्र ह्रदो महानासीन्नगदेव विनिर्मितः १।
तत्र कुशेश्वरो नाम देवो यत्र विराजते ।
यत्र कुंडं तथा रम्यं कश्यपेन विनिर्मितम् २।
तत्र स्नात्वा तु भो देवि न नरो निरयं व्रजेत् ।
अग्निहोत्रकरा विप्रा नित्यं वेदपरायणाः ३।
निवसंति महदेवि काश्यपायां बहुश्रुताः ।
यथा काशी तथा चेयं नगरी ऋषिनिर्मिता ४।
काश्यपेन यतश्चात्र तप्तं बहुतरं तपः ।
गंगा वै तपसा येन आनीतेशजटोद्भवा ५।
सा गंगा काश्यपी देवि महापातकनाशिनी ।
यस्या दर्शनमात्रेण मुच्यंते दुष्टकिल्बिषात् ६।
गोदानं च प्रशंसंति रथदानं तथैव च ।
श्राद्धं कृत्वा तु तत्रैव दानं देयं प्रयत्नतः ७।
कलौ युगे तथा घोरे महापातकनाशनम् ।
कश्यपाख्यं समं तीर्थं न भूतं न भविष्यति ८।
यत्र वै देवताः सर्वा ऋषयो वीतकल्मषाः ।
नित्यं तिष्ठंति देवेशि तीर्थराजप्रसादतः ९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे साभ्रमतीमाहात्म्ये कश्यपह्रदमाहात्म्यं नाम चतुःषष्ट्यधिकशततमोऽध्यायः १६४।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 165
महादेव उवाच।
भूतालयं ततो गच्छेत्तीर्थं पापहरं पदम् ।
भूतालयो वटो यत्र यत्र प्राची तु चंदना १।
भूतालये नरः स्नात्वा कृष्णाष्टम्यामुपोषितः ।
यस्तु कृष्णतिलान्दद्यान्न स प्रेतोऽभिजायते २।
पितॄनुद्दिश्य यो दद्यादुदकुंभं तिलैः सह ।
पूर्वजान्प्रेतभावात्स मोचयेन्नात्र संशयः ३।
यस्य नाम्ना नरः स्नाति प्रेतत्वात्स विमुच्यते ।
चतुर्दश्यामथाष्टम्यां प्रभाते विमलोदके ४।
तीर्थे भूतालये स्नात्वा दृष्ट्वा भूतालयं वटम् ।
भूतेश्वरप्रसादेन भूतेभ्यो न लभेद्भयम् ५।
इति श्रीभूतेश्वरतीर्थम् ।
अतस्तीर्थात्परं तीर्थं घटेश्वरमिति स्मृतम् ।
यत्र स्नात्वा तु तं दृष्ट्वा मुक्तिभागी भवेद्ध्रुवम् ६।
यत्र साभ्रमती तीर्थं घटो वै परमो महान् ।
दृष्ट्वा चैव महादेवं मुच्यते नात्र संशयः ७।
तत्र गत्वा विशेषेण प्लक्षपूजां करोति यः ।
मनसाभीप्सितान्कामाँल्लभते मानवो भुवि ८।
इति घटेश्वरतीर्थम् ।
ततो गच्छेन्नरो भक्त्या वैद्यनाथेति विश्रुतम् ।
तत्र स्नात्वा नरस्तीर्थे शिवपूजनतत्परः ९।
पितॄन्संतर्प्य विधिना सर्वयज्ञफलं लभेत् ।
विजयो देवसंभूतः सर्वपापक्षयंकरः ।
यं दृष्ट्वा विविधान्कामान्प्राप्नुयुस्ते नराः सदा 6.165.१०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे विजयीतीर्थमाहात्म्यंनाम पंचषष्ट्यधिकशततमोऽध्यायः १६५
खण्डः ६ (उत्तरखण्डः) — Adhyāya 166
महादेव उवाच।
वैद्यनाथात्परं तीर्थं सर्वसिद्धिप्रदायकम् ।
तीर्थानामुत्तमं तीर्थं देवतीर्थमनुश्रुतम् १।
विभीषणाद्राक्षसेंद्राद्गृहीत्वा करमोजसा ।
प्रारब्धो धर्मपुत्रेण राजसूयो महाक्रतुः २।
दिग्जये दक्षिणे जाते नकुलेन हि पांडुना ।
साभ्रमत्यास्तटे देवि पांडुरार्येति विश्रुता ३।
स्थापिता परया भक्त्या भुक्तिमुक्तिप्रदायिनी ।
स्नातः साभ्रमतीतोये पांडुरार्यां नमस्य च ४।
अणिमाद्या सिद्धयोऽष्टौ तथा मेधां महीयसीम् ।
नरः प्राप्नोति वै नूनं नात्र कार्या विचारणा ५।
पांडुरार्यां नमस्कृत्य शुद्धभावेन मानवः ।
संवत्सरकृता पूजा दातव्या तत्त्वबुद्धिभिः ६।
तत्र तीर्थे तनुं त्यक्त्वा पांडुरार्यासमीपतः ।
कैलासशिखरं प्राप्य चंडेश्वरगणो भवेत् ७।
पुरा हनूमता तत्र तपस्तप्तं सुदुष्करम् ।
समुद्रप्लवने शक्तिर्जाता तीर्थप्रभावतः ८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे पांडुरार्यातीर्थंनाम षट्षष्ट्यधिकशततमोऽध्यायः १६६।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 167
अत्र तीर्थात्परं तीर्थं चंडेश इति विश्रुतम् ।
यत्र चंडेश्वरो देवो नित्यं तिष्ठति भूतिदः १।
यं दृष्ट्वा मुच्यते पापादज्ञानादथवा कृतात् ।
सर्वाभिर्देवताभिश्च मिलित्वा नगरं कृतम् ।
चंडेश इति विख्यातं नाम्ना चैव महेश्वरि २।
इति चंडेशतीर्थम् ।
अत्र तीर्थात्परं तीर्थं गाणपत्यं ततो भुवि ।
साभ्रमत्यां समीपे तु विख्यातं देवि निर्मितम् ३।
तत्र स्नात्वा नरो देवि मुच्यते नात्र संशयः ।
मन्ये साभ्रमती तीरे जनानां हितकाम्यया ४।
पृथिव्यां यानि तीर्थानि सागरांतानि यानि च ।
तानि सर्वाणि संत्यज्य तीर्थे वै परमाद्भुते ५।
श्राद्धं करोति यस्तत्र रुद्रभक्त्या जितेंद्रियः ।
फलं प्राप्नोति शुद्धात्मा सर्वयज्ञसमुद्भवम् ६।
पितॄनुदिश्य यत्किंचिद्गणतीर्थे प्रदीयते ।
तत्सर्वं जायते क्षिप्रं गणनाथप्रसादतः ७।
तस्मिंस्तीर्थे नरः स्नात्वा वृषं विप्राय दापयेत् ।
सर्वलोकानतिक्रम्य स गच्छेत्परमां गतिम् ८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गणतीर्थंनाम सप्तषष्ट्यधिकशततमोऽध्यायः १६७।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 168
महादेव उवाच।
ततोगच्छेन्महादेवि वार्त्रघ्न्या गिरिकन्यया ।
शक्रश्चैव तया साध्व्या संगमं यत्र लब्धवान् १।
तत्र स्नानं प्रकुर्वंति नरा नियतमानसाः ।
दशानामश्वमेधानां यत्फलं स्नानकृल्लभेत् २।
तत्र यः कुरुते श्राद्धं पिंडान्वै तिलचूर्णजान् ।
पुनाति पुरुषो वंशान्सप्तसप्तपरावरान् ३।
संपूज्य विधिवत्स्नात्वा संगमे गणनायकम् ।
न विघ्नैरभिभूयेत लक्ष्म्या नैव विहीयते ४।
पार्वत्युवाच।
कस्मिन्कार्यसमारंभे समायातः पुरंदरः ।
स्वर्गलोकादिमं लोकमेतदाख्यातुमर्हसि ५।
वार्त्रघ्नी च नदी केन निरुक्तेन निगद्यते ।
पुरंदरपुरं देव ब्रह्मघोषनिनादितम् ।
संभावयति योऽजस्रं मम तत्संगमं वद ६।
महादेव उवाच।
अस्मिंश्चैव तु भूर्लोके प्रश्नोऽयं समभूत्पुरा ।
युधिष्ठिरेति विख्यातो राजा वै धार्मिको महान् ७।
पृष्टवान्स तु भीष्माय धर्मिणे ज्ञानरूपिणे ।
तेनोक्तं यत्तु तद्देवि प्रवक्ष्यामि तवाग्रतः ८।
दशवर्षसहस्राणि दशवर्षशतानि च ।
वृत्रवासवयोर्युद्धमभवल्लोमहर्षणम् ९।
ततः पराजितः शक्रः कृत्वा वृत्रेण संविधम् ।
अद्रोहे स रणं त्यक्त्वा जगाम शरणं मम १०।
वार्त्रघ्न्या संगमे पुण्ये तोषयामास शंकरम् ।
अथांतरिक्षेऽहं देवि दर्शनं दत्तवांस्तदा ११।
ममगात्रात्तु यद्भस्म पतितं काश्यपी तटे ।
भस्मगात्रेति तत्पुण्यं लिंगं देवि विनिर्मितम् १२।
भूतेश्वरं भस्मगात्रं ब्रह्मणा संप्रतिष्ठितम् ।
तस्य वै दर्शनादेव ब्रह्महत्या लयं व्रजेत् १३।
मुच्यते सर्वपापेभ्यः श्राद्धं कृत्वा युगादिषु ।
तदहं सुप्रसन्नोऽभूदिन्द्राय सुमहात्मने १४।
यद्यत्त्वं वांछसे देव तत्सर्वं हि ददामि ते ।
अनेन वज्रयोगेन शीघ्रं वृत्रं हनिष्यसि १५।
शक्र उवाच।
भगवंस्त्वत्प्रसादेन दितिजं च दुरासदम् ।
वज्रेण निहनिष्यामि पश्यतस्ते सुरोत्तम १६।
एवमुक्त्वा तदा इंद्रो गतवांश्चासुरं प्रति ।
तदा दुंदुभयो नेदुर्देवसैन्ये विशेषतः १७।
मृदंग डिंडिमाश्चैव भेरी तूर्याण्यनेकशः ।
असुराणां च सर्वेषां वृत्तिलोभो महानभूत १८।
बलवान्मघवा चैव क्षणेन समजायत् ।
तमाविष्टं ततो ज्ञात्वा ऋषयः पन्नगास्तथा १९।
स्तुवंति शक्रमीशानं स्तुत्या जयजयेति च ।
गच्छतस्तस्य शक्रस्य युद्धकामस्य सन्निधौ ।
ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्भरम् २०।
महादेव उवाच।
वृत्रस्यसहसा देवि तदा संग्राममूर्द्धनि ।
अभवन्यानि लिंगानि शरीरे तानि मे शृणु २१।
ज्वलतास्योभवद्धोरो वैवर्ण्यमभवत्परम् ।
गात्रकंपश्च सुमहान्श्वासः सोष्मा व्यजायत् २२।
रोमहर्षश्च तीव्रोऽभूच्छ्वासश्चैव महानभूत् ।
निष्पपात महाघोरा उल्काः पार्श्वं प्रपेदिरे २३।
गृध्रा वटाः श्येन कंका वचो मुंचन्सुदारुणाः ।
वृत्रस्योपरि ते सर्वे चक्रवत्परिबभ्रमुः २४।
ततः स गजमास्थाय इंद्रस्तत्र समागतः ।
वज्रोद्यतकरस्तत्र शक्रस्तं दैत्यमासदत् २५।
अमानुषमथो नादं स मुमोच सुरेश्वरः ।
वृत्रासुरस्य यततः शक्रो वज्रमपातयत् २६।
स वज्रः सुमहातेजाः कालाग्निसदृशो महान् ।
समुद्रस्य तटे वृत्रं शक्रो दैत्यमपातयत् २७।
ततो नादः समभवत्पुनरेव समंततः ।
वृत्रं विनिहतं दृष्ट्वा सर्वदेवभयंकरम् २८।
पुष्पवृष्टिस्तु महती इंद्र मूर्ध्नि पपात ह ।
वृत्रं हत्वा स भगवान्दानवेशं भयंकरम् २९।
स्तूयमानोऽमरैः सार्द्धं देवदानीं तमाविशत् ।
अथ वृत्रशरीरात्तु निर्गतं तेज उत्तमम् ३०।
ब्रह्महत्यामहाघोरा रौद्र लोकभयंकरी ।
करालवदना सा च विकृता कृष्णपिंगला ३१।
कपालमालिनी चैव सुकृशा नगनंदिनि ।
रुधिराक्ता च पापिष्ठा मीनगंधातिभीषणा ३२।
सानिष्क्रम्य महादेवि तादृग्रूपा भयावहा ।
इंद्रमन्वेषयामास तदा वै सुरसत्तमे ३३।
निर्धावती ततः सा तु दृष्ट्वा शक्रं महौजसम् ।
कंठे जग्राह देवेंद्रं सुलग्ना साभवत्तदा ३४।
स च तस्मिन्समुद्भ्रांतो ब्रह्महत्याकृते भये ।
निलिल्य बिसमध्येऽसौ स्थितो वर्षगणान्बहून् ३५।
तया गृहीतो भो देवि निश्चेष्टः समपद्यत ।
तस्या व्यपोहने शक्रः प्रयत्नं च चकार ह ३६।
न शक्तोऽभून्महादेवि ब्रह्महत्यां व्यपोहितुम् ।
तया गृहीतमात्रस्तु देवेंद्रो निष्ठरूपधृक् ३७।
पितामहमुपागम्य शिरसा प्रत्यपूजयत् ।
ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया ३८।
ब्रह्मा संचिंतयामास तदा वै सुरसत्तमे ।
सा चिंत्यमाना ब्रह्माणमुपगम्याब्रवीद्वचः ३९।
प्राप्तास्मि भगवन्देव त्वत्सकाशं हि मानद ।
यत्कर्त्तव्यं मया देव तद्भवान्वक्तुमर्हति ४०।
तामुवाच महाभागे ब्रह्महत्यां पितामहः ।
स्वरेण मधुरेणाथ संक्षेपेण यथातथम् ४१।
मुच्यतां देवराजोऽयं मत्प्रियं कुरु भामिनि ।
ब्रूहि किं ते करोम्यद्य कामं त्वं किमिहेच्छसि ४२।
हत्योवाच।
शक्रादपगमिष्यामि वचनात्ते नरोत्तम ।
देवदेव नमस्तेस्तु निवासं च ददस्व मे ४३।
महादेव उवाच।
तथेति तां प्रतिज्ञाय हत्यां चापि पितामहः ।
उपायमथ शक्रस्य ब्रह्महत्यापनोदने ४४।
ततो वह्निं समाहूय ब्रह्मा वचनमब्रवीत् ।
शक्रहत्या चतुर्थांशं जातवेदो गृहाण भो ४५।
अग्निरुवाच।
मम मोक्षस्य को हेतुर्ब्रह्महत्याकृते प्रभो ।
एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित ४६।
ब्रह्मोवाच।
यस्त्वां ज्वलंतमासाद्य न होष्यति नरः क्वचित् ।
बीजौषधितिलानग्रे फलमूलसमित्कुशान् ४७।
तदैव त्यक्षति त्वां च तत्रैव च निवत्स्यति ।
ब्रह्महत्या हव्यवाह व्येतु ते मनसो ज्वरः ४८।
ततः स परिजग्राह तद्वचो हव्यकव्यभुक् ।
पितामहश्च भगवान्तथा तदलभत्प्रियम् ४९।
ततो वृक्षौषधितृणान्याहूय स पितामहः ।
इममर्थं महाभागे वक्तुं समुपचक्रमे 6.168.५०।
ततो वृक्षौषधितृणैस्तथैवोक्तं यथातथम् ।
व्यथितान्यग्निवद्देवि ब्रह्माणं वाक्यमब्रुवन् ५१।
अस्माकं ब्रह्महत्यायाः कथयंतः पितामह ।
स्वभाव निहिता तस्मान्न पुनर्हंतुमर्हसि ५२।
वयमग्निं तथा शीतं वर्षं च पवनेरितम् ।
सहामः सततं देव तथा छेदनभेदनम् ५३।
ब्रह्मोवाच।
अकारणं नरो यस्तु युष्मच्छेदनभेदनम् ।
करिष्यति महामोहात्तमेषानु प्रयास्यति ५४।
महादेव उवाच।
ततो महौषधितृणैरोमित्युक्तं महात्मभिः ।
ब्रह्माणमपि संपूज्य जग्मुश्चाथ यथागतम् ५५।
आहूयाप्सरसो देवस्ततो लोकपितामहः ।
वाचा मधुरया प्राह सांत्वयन्निव सत्तमे ५६।
इयं वृत्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाः ।
चतुर्थमस्या भागं च मयोक्तं संप्रतीच्छथ ५७।
अप्सरा ऊचुः ।
ग्रहणे कृतबुद्धीनां देवेश तव शासनात् ।
संमोक्षसमयोऽस्माकं चिंतनीयः पितामह ५८।
पितामह उवाच।
रजस्वलासु नारीषु यो वै मैथुनमाचरेत् ।
तमेषा यास्यति क्षिप्रं व्येतु वो मनसो ज्वरः ५९।
महादेव उवाच।
तथेति हृष्टमनसः प्रत्युक्ता ह्यप्सरोगणाः ।
स्वानि स्थानानि संप्राप्य रेमिरे शैलजे तदा ६०।
ततश्च लोककृद्देवः पुनरेव पितामहः ।
आपः संचिंतयामास ततस्ताश्च समागमन् ६१।
ताश्च सर्वाः समागम्य ब्रह्माणममितौजसम् ।
इदमूचुर्वचो देवि प्रणिपत्य पितामहम् ६२।
इमाः स्म देव संप्राप्तास्त्वत्सकाशमरिंदम।
शासनात्तव देवेश समाज्ञापय तत्प्रभो ६३।
ब्रह्मोवाच।
इयं वृत्रादनुप्राप्ता पुरुहूतं भयानका ।
ब्रह्महत्या चतुर्थांशं यूयमस्याः प्रतीच्छथ ६४।
आप ऊचुः।
एवं भवतु लोकेश यत्त्वं वदसि नः प्रभोः ।
मोक्षस्य समयं नस्त्वं संचिंतयितुमर्हसि ६५।
त्वं हि देवेंद्र सर्वस्य जगतः परमा गतिः ।
कोऽन्येभ्यो हि प्रसादोऽपि यः कृच्छ्रान्नः समुद्धरेत् ६६।
ब्रह्मोवाच।
अल्पमेव मतिं कृत्वा यो नरो बुद्धिमोहितः ६७।
श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्षति ।
तमेव यास्यति क्षिप्रं तत्रैव च निवत्स्यति ।
ततो वै भविता मोक्ष इति सत्यं ब्रवीमि वः ६८।
महादेव उवाच।
ततो विमुच्य देवेंद्रं ब्रह्महत्या सुरेश्वरि ।
गतातिहृष्टो देवेशो ह्यभवद्देवशासनात् ६९।
एवं शक्रेण संप्राप्ता ब्रह्महत्या पुरा युगे ।
अस्मिंस्तीर्थे तपस्तप्त्वा शुद्धात्मा त्रिदिवं ययौ ७०।
अश्वमेधं ततः कृत्वा विपाप्मा समपद्यत ।
इति साभ्रमती तीर्थे वार्त्रघ्नीयं नगात्मजे ७१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे।
वार्त्रघ्नीमाहात्म्यंनामाष्टषष्ट्यधिकशततमोऽध्यायः १६८।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 169
महेश उवाच।
ततःपरं देवनदी वार्त्रघ्नी संगमात्किल ।
प्रविष्टा भद्रया सार्द्धं सागरं वरुणालयम् १।
समुद्रोऽपि तया तावदागम्य प्रियकाम्यया ।
साभ्रमत्यानुरागेण कृतवान्प्रियमेलनम् २।
भद्रा वापि सुभद्रा या वयस्या सा नदी पुरा ।
सहायमकरोन्मार्गे साक्षात्श्रीरूपधारिणी ३।
तयोस्तुसंगमः पुण्यः सागरस्योत्तरे तटे ।
तत्र तीर्थे नरः स्नात्वा मृष्टं वारि ददाति यः ४।
नमस्कृत्य वराहाय वारुणं स्थानमाप्नुयात् ।
प्रविश्य भगवान्विष्णुस्तेन मार्गेण सागरम् ५।
जित्वा वै दानवान्सर्वान्देवानां परिपंथिनः ।
देवो यज्ञवराहश्च संक्षोभ्य मकरालयम् ।
क्रीडित्वा सुचिरं कालं कर्दमालेन निर्ययौ ६।
पार्वत्युवाच।
देव यज्ञवराहस्य साभ्रमत्यां प्रवेशनम् ।
निर्गमं कर्दमालेन ब्रूहि त्वं मम विस्तरात् ७।
महादेव उवाच।
अंतर्भू क्रीडितमिदं वराहस्य हरेः पुरा ।
तत्सर्वं कथयिष्यामि शृणु त्वं नगनंदिनि ८।
योऽयं वै भगवान्साक्षाद्धृतवान्सूकरं वपुः ।
देवानां कार्यसिद्ध्यर्थं रूपं धृत्वा सुरेश्वरः ९।
धृत्वा वै पृथिवीं देवीं निर्गतः कर्दमालयम् ।
तत्र तीर्थं महज्जातं वराहाख्यं तु सुंदरि १०।
तत्र स्नाति नरो यस्तु मुक्तिभाक्स न संशयः ।
अत्र श्राद्धं प्रकुर्वीत पितॄणां मुक्तिहेतवे ।
विमुक्तस्तैः समं लोकं प्रयाति सुखदं महत् ११।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तर।
खंडे वाराहतीर्थंनामैकोनसप्तत्यधिकशततमोऽध्यायः १६९।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 170
महादेव उवाच।
अत्र तीर्थात्परं तीर्थं सङ्गमाख्यमिति श्रुतम् ।
अत्र साभ्रमती गंगा मिलिता सागरेण तु १।
तत्र स्नानं च दानं च कर्तव्यं विधिपूर्वकम् ।
यत्र स्नात्वा तु मुच्यंते महापातकिनोऽपि ये २।
तत्र श्राद्धं प्रकर्तव्यं स्वानां च हितमिच्छता ।
यत्र वै तु कृते श्राद्धे पितृलोके वसेद्ध्रुवम् ३।
यत्र वै सागरो देवो नित्यं मिलति गंगया ।
ब्रह्महा तत्र मुच्येत किमन्यैरितरैरघैः ४।
यत्र तीर्थं न जानंति लोका वै मंदबुद्धयः ।
तदा वै मम नाम्ना च कर्तव्यं तीर्थमुत्तमम् ५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे सङ्गमतीर्थंनाम सप्तत्यधिकशततमोऽध्यायः १७०।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 171
महादेव उवाच।
संगमस्य समीपे तु सत्तीर्थं लोकविश्रुतम् ।
आदित्याख्यं परं तस्मान्न भूतं न भविष्यति १।
यस्य वै दर्शनं कार्यं स्नानं वै पुष्करेण तु ।
पूजनं चार्कपुष्पेण करवीरैस्तथा पुनः २।
तत्र श्राद्धं च दानं च कुर्युर्वै मानवाः सदा ।
इदमादित्यकं तीर्थं पवित्रं पापनाशनम् ३।
दर्शनात्पुण्यदं तीर्थं महापातकिनामपि ४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे सत्तीर्थमाहात्म्यंनामैकसप्तत्यधिकशततमोऽध्यायः १७१।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 172
महादेव उवाच।
तस्मात्तीर्थात्परं तीर्थं नीलकंठेति विश्रुतम् ।
तस्य वै दर्शनं कार्यं मुक्तिं चैवेच्छता सदा १।
बिल्वपत्रैस्तथा धूपैर्दीपैर्वाथ सुरेश्वरि ।
वांछितं लभते मर्त्यो नीलकंठस्य दर्शनात् २।
उपवासपरो देवि निर्जनेसौ स्थितः सदा ।
यद्यद्वांच्छंति ये लोकास्तेषां तत्तद्ददाति च ३।
कलौ सा तु महादेवि विख्याता काश्यपीति वै ४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तर।
खंडे नीलकंठमाहात्म्यंनाम द्विसप्तत्यधिकशततमोऽध्यायः १७२।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 173
महादेव उवाच।
दुर्गया संगता यत्र देवि साभ्रमती नदी ।
संगमः सागरेणाथ स्नानं तत्र समाचरेत् १।
वीतदोषा भविष्यंति कलौ वै नात्र संशयः ।
तत्र श्राद्धं प्रकर्त्तव्यं दुर्गया संगमे तथा २।
तत्र गत्वा विशेषेण ब्राह्मणानां च भोजनम् ।
दानं गोमहिषीणां च कर्तव्यं विधिपूर्वकम् ३।
इयं धन्या धन्यतमा पवित्रा पापनाशिनी ।
यां दृष्ट्वा चापि भो देवि मुच्यते पातकैर्नरः ४।
यथा गंगा तथा चेयं ज्ञेया साभ्रमती नदी ।
कलौ देवि विशेषेण बहुकालफलप्रदा ५।
यदि चेच्छतशो जिह्वा मुखे वै मामके सति ।
तस्या अपि न शक्नोमि गुणान्वक्तुं कदाचन ६।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे साभ्रमतीमाहात्म्यंनाम त्रिसप्तत्यधिकशततमोऽध्यायः १७३।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 174
महादेव उवाच।
शृणु देवि प्रवक्ष्यामि व्रतं त्रैलोक्यदुर्लभम् ।
यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादिपातकात् १।
उत्पतिः स्वप्रकाशस्य भक्तानां सुखहेतवे ।
तिथिर्वापि समासो वै संजातः पुण्यकारकः २।
यस्य नाम गृणन्देवि मुक्तिं लभति शाश्वतीम् ।
स एव परमात्मा च कारणानां च कारणम् ३।
विश्वात्मा विश्वरूपी च सर्वेषां भगवान्प्रभुः ।
द्वादशार्का धृता येन नृसिंहेन महात्मना ।
स एव प्रकटीजातो भक्तानां शमभीप्सया ४।
पार्वत्युवाच।
अवतारा ह्यसंख्याताः कथिताः सुरसत्तम ।
नृसिंहाख्यं परं धाम वद विश्वेश्वर प्रभो ।
येन विज्ञानमात्रेण सुख लोकमवाप्नुयात् ५।
महादेव उवाच।
हिरण्यकशिपुं हत्वा देवदेवं जगद्गुरुम् ।
सुखासीनं तदुत्संगे स्थितो वचनमब्रवीत् ६।
प्रह्लादो ज्ञानिनां श्रेष्ठः पितॄहंतारमुत्तमम् ७।
प्रह्लाद उवाच।
नमस्ते भगवन्विष्णो नृसिंहाद्भुतरूपिणे ।
त्वद्भक्तोहं सुरश्रेष्ठ त्वां पृच्छामि च तत्वतः ८।
स्वामिंस्त्वयि ममाभिन्ना भक्तिर्जाता ह्यनेकधा ।
कथं तेऽहं प्रियो जातः कारणं वद मे प्रभो ९।
नृसिंह उवाच।
कथयामि महाप्राज्ञ शृणुष्वैकाग्रमानसः ।
भक्तेर्यत्कारणं वत्स प्रियत्वस्य च यत्पुनः १०।
पुरा कस्य द्विजस्यापि जातस्त्वं नाप्यधीतवान् ।
नाम्ना तु वसुदेवो हि वेश्यायामति लंपटः ११।
तस्मिन्जन्मनि नैवं च चकार सुकृतं कियत् ।
भुक्त्वा मधु घृतं चैव वेश्यासंगमलालसः १२।
मद्व्रतस्य प्रभावेन भक्तिर्जाता तवानघ ।
प्रह्लादोवाच।
विस्तराद्वद देवेश कस्य पुत्रस्य किं व्रतम् १३।
वेश्यायां वर्तमानेन कथंचिद्धि कृतं मया ।
ममोपरि कृपां कृत्वा सर्वं कथय सांप्रतम् १४।
नृसिंह उवाच।
सृष्ट्यर्थं तु पुरा ब्रह्मा चक्रे ह्येतदनुत्तमम् ।
मद्व्रतस्य प्रभावेन निर्मितं सचराचरम् १५।
ईश्वरेण व्रतं चीर्णं वधार्थं त्रिपुरस्यच ।
व्रतस्यास्यप्रभावेन त्रिपुरस्तु निपातितः १६।
अन्यैश्च बहुभिर्देवैरृषिभिश्च पुरातनैः ।
राजभिश्च महाप्राज्ञैर्विहितं व्रतमुत्तमम् १७।
व्रतस्यास्य प्रभावेन सर्वे सिद्धिमवाप्नुयुः ।
मम ते वै प्रिया जाता दिवि भोगाननेकशः १८।
भुक्त्वा मयि विलीनास्तु प्रह्लाद त्वं विशस्व माम् ।
कार्यार्थमवतारस्ते मच्छरीरत्पृथग्यतः १९।
न तेषां पुनरावृत्तिर्महाकल्पशतैरपि ।
दरिद्रो लभते लक्ष्मीं धनदस्य च यादृशी २०।
ततः कामी लभेत्कामं राज्यार्थी राज्यमुत्तमम् ।
आयुष्कामो लभेदायुर्यादृशं च शिवस्य हि २१।
अवैधव्यकरं स्त्रीणां पुत्रदं भाग्यदं तथा ।
धनधान्यकरं चैव तथाशोकविनाशनम् २२।
स्त्रियो वा पुरुषा वापि कुर्वंति व्रतमुत्तमम् ।
तेभ्यो ददाम्यहं सौख्यं भुक्ति मुक्ति फलं तथा २३।
बहुनोक्तेन किं वत्स व्रतस्यास्य फलस्य हि ।
मद्व्रतस्य फलं वक्तुं नाहं शक्तो न शंकरः २४।
प्रह्लाद उवाच।
भगवंस्त्वत्प्रसादेन श्रुतं व्रतमनुत्तमम् ।
व्रतस्यास्य फलं श्रोतुं त्वयि मे भक्ति कारणम् २५।
अधुना श्रोतुमिच्छामि व्रतस्यास्य विधिं परम् ।
कस्मिन्मासे भवेदेव कस्मिंश्चिद्वासरे प्रभो २६।
एतद्विस्तरतो देव वक्तुमर्हसि सांप्रतम् ।
विधिना येन वै स्वामिन्समग्रफलभाग्भवेत् २७।
नृसिंह उवाच।
प्रह्लाद वत्स भद्रं ते शृणुष्वैकमना व्रतम् ।
वैशाखेसित पक्षे तु चतुर्दश्यां समाचरेत् २८।
ममाविर्भावसंयुक्तं मम संतुष्टिकारणम् ।
शृणु पुत्र ममोत्पत्तिं भक्तानां सुखहेतवे २९।
पश्चिमायां दिशायां च संजातं कारणांतरात् ।
मौलिस्तानमिदं क्षेत्रं पवित्रं पापनाशनम् ३०।
तस्मिन्क्षेत्रे तु विख्यातो ब्राह्मणो वेदपारगः ।
हारीत इति नाम्ना च ज्ञानध्यानपरायणः ३१।
तस्य स्त्री तु महापुण्या सतीरूपा सदा प्रभो ।
लीलावती तु नाम्ना च भर्तुर्वशपरा सदा ३२।
ताभ्यां तपो महत्तप्तं कालं बहुतरं सुत ।
एकविंशयुगाश्चैव यातास्तत्र न संशयः ।
तस्मिन्क्षेत्रे तु वै ताभ्यां प्रत्यक्षो वाभवत्तदा ३३।
नृसिंह उवाच।
यं यं वांछयसे ब्रह्मंस्तं ददामि न संशयः ।
ताभ्यामुक्तं तदा तस्मै दीयते चेद्वरो मम ३४।
त्वादृशो मम पुत्रस्तु ह्यधुनैव भवत्विति ।
मयोक्तं तु तदा वत्स पुत्रोऽहं ते न संशयः ३५।
विश्वकर्मा ह्यहं साक्षात्परमात्मा परात्परः ।
उदरेऽहं न वत्स्यामि यतोऽहं वै सनातनः ३६।
हारीतेन तदा चोक्तं भवत्वेवं न संशयः ।
तदाप्रभृति वै क्षेत्रे स्थितोऽहं भक्तकारणात् ३७।
अत्रागत्य प्रकुर्वीत दर्शनं भक्तसत्तमः ।
तस्याहं सकलां बाधां नाशयामि निरंतरम् ३८।
एतस्मात्कारणाच्चैव व्रतं वै विधिपूर्वकम् ।
ये कुर्वंति नरश्रेष्ठा न तेषां विद्यते भयम् ३९।
बालरूपमयं ध्यात्वा ताभ्यां सह विशेषतः ।
पूजनं कुरुते रात्रौ स वै नारायणो भवेत् ४०।
चतुर्भुजं महादंष्ट्रं कालरूपं दुरासदम् ।
सूर्यकोटिप्रतीकाशं यमकोटिदुरासदम् ।
सिंहवच्च मुखं यस्य नरवच्चांगसंयुतम् ४१।
श्रीनृसिंहं दिव्यसिंहं कालरूपं भजेत्सदा ।
एवं ज्ञात्वा विशेषेण यः स्थानं मामकं व्रजेत् ४२।
व्रतं पवित्रं परमं श्रीकदंब प्रदं महत् ।
अंते मुक्तिप्रदं चैव भक्तानां च न संशयः ४३।
येन वै क्रियमाणेन सहस्रद्वादशी फलम् ।
स्वाती नक्षत्र संयोगे शनिवारे तु मद्व्रतम् ४४।
सिद्धियोगस्य संयोगे वणिजे करणे तथा ।
योगैः सर्वैश्च संयोगं हत्याकोटि विनाशनम् ४५।
एतदन्यतरैर्योगे मद्दिनं पापनाशनम् ।
विज्ञाय मद्दिनं यस्तु लंघयेत्स तु पापकृत् ४६।
अकर्त्ता नरकं याति यावच्चंद्र दिवाकरौ ।
प्राप्ते मम दिने वत्स दंतधावनपूर्वकम् ४७।
ममाग्रे व्रतसंकल्पं मद्भक्तो विजितेंद्रियः ।
अद्याहं ते विधास्यामि व्रतं निर्विघ्नतां नय ४८।
व्रतस्थेन न कर्त्तव्यं दुष्टसंभाषणादिकम् ।
ततो मध्याह्नसमये नद्यादौ विमले जले ४९।
गृहे वा देवखाते वा तडागे वाथ शोभने ।
वैदिकेन तु मंत्रेण स्नानं कुर्याद्विचक्षणः 6.174.५०।
मृत्तिका गोमयेनैव तथा धात्रीफलेन च ।
तिलैश्च विधिवत्स्नायात्सर्वपापौघ शांतये ५१।
परिधाय शुभे वस्त्रे नित्यकर्म समारभेत् ।
ततो गृहं विलिप्याथ कुर्यादष्टदलं शुभम् ५२।
कलशं तत्र संस्थाप्य ताम्रंत्रसमन्वितम् ।
तस्योपरि न्यसेत्पात्रं तंडुलैः परिपूरितम् ५३।
हैमीं च तत्र मन्मूर्ति स्थाप्य लक्ष्म्या समन्विताम् ।
निर्माय शक्त्या स्वर्णेन स्नाप्य पंचामृतैस्ततः ५४।
ततो ब्राह्मणमाहूय आचार्यं नातिलोलुपम् ।
शास्त्रज्ञमग्रतः कृत्वा ततो देवं समर्चयेत् ५५।
मंडपं कारयेत्तत्र पुष्पस्तबक शोभितम् ।
ऋतुकालोद्भवैः पुष्पैः पूज्योऽहं च यथाविधि ५६।
उपचारैः षोडशभिर्मंत्रैर्नियमैश्च यः ।
ततः पौराणिकैर्मंत्रैः पूजनीयो विशेषतः ५७।
चंदनं च सकर्पूरं घनकुंकुममिश्रितम् ।
कालोद्भवानि पुष्पाणि तथा तुलसीदलानि च ५८।
श्रीनृसिंहाय यो दद्यात्स मुक्तो नात्र संशयः ।
कृष्णागुरुमयं धूपं सर्वदा हरिवल्लभम् ५९।
हरये गुरवे दद्यात्सर्वकामार्थसिद्धये ।
महादीपः प्रकर्त्तव्यो ह्यज्ञानध्वांत नाशनः ।
महानीराजनं कुर्याद्घंटानाद पुरःसरम् ६०।
नैवेद्यं शर्करां चापि भक्ष्यभौज्यसमन्वितम् ।
ददामि ते रमाकांत सर्वपापक्षयं कुरु ६१।
नैवेद्य मंत्र।
नृसिंहाच्युत देवेश तव जन्मदिने शुभे ।
उपवासं करिष्यामि सर्वभोगविवर्जितः ६२।
तेन प्रीतो भव स्वामिन्पापं जन्म निराकुरु ।
रात्रौ जागरणं कार्यं गीतवादित्र निःस्वनैः ६३।
पुराणपठनं नित्यं श्रीनृसिंकथाश्रयम् ।
ततः प्रभातसमये स्नानं कृत्वा ह्यनंतरम् ६४।
पूर्वोक्तेन विधानेन पूजयेन्मां प्रतर्पयन् ।
वैष्णवं कारयेच्छ्राद्धं मदग्रे स्वस्थमानसः ६५।
ततो दानानि देयानि वक्ष्यमाणानि यान्युत ।
पात्रेभ्यः स द्विजेभ्यो हि लोकद्वय जिगीषया ६६।
सहस्वर्णमयो देवो मम संतोषकारकः ।
गोभूतिलहिरण्यादि प्रददाति द्विजातये ६७।
शय्या सतूलिका देया सप्तधान्यसमन्विता ।
अन्यानि च यथाशक्त्या देयानि निजशक्तितः ६८।
वित्तशाठ्यं न कुर्वीत यथोक्तफलकांक्षया ।
ब्राह्मणान्भोजयेत्पश्चात्तेभ्यो दद्यात्सुदक्षिणाम् ६९।
निर्धनैरपि कर्त्तव्यं देयं शक्त्यनुसारतः ।
सर्वेषामेव वर्णानामधिकारोऽस्ति मद्व्रते ।
मद्भक्तैस्तु विशेषेण कर्त्तव्यं मत्परायणैः ७०।
ततः प्रार्थना मंत्रः ।
मद्वंशे येन राजा ता ये भविष्याश्च मानवाः ।
तानुद्धरस्व देवेश दुःखदाद्भवसागरात् ७१।
पातकार्णवमग्नस्य व्याधिभिश्चांबुचारिभिः ।
जीवैस्तु परिभूतस्य महादुःखगतस्य मे ७२।
करावलंबनं देहि शेषशायी जगत्पते ।
व्रतेनानेन देवेश भुक्तिमुक्तिप्रदो भव ७३।
एवं प्रार्थ्य ततो देवं विसृज्य च यथाविधि ।
उपहारादिकं सर्वे आचार्याय निवेदयेत् ७४।
दक्षिणाभिश्च संतोष्या ब्राह्मणांश्च विसर्जयेत् ।
मम ध्यान समायुक्तो भुंजीत सह बंधुभिः ७५।
अकिंचनोपि नियतमुपोष्यति चतुर्दशीम् ।
सप्त जन्म कृतात्पापान्मुच्यते नात्र संशयः ७६।
य इदं शृणुयाद्भक्त्या व्रतं पापप्रणाशनम् ।
तस्य श्रवणमात्रेण ब्रह्महत्यां व्यपोहति ७७।
पवित्रं परमं गुह्यं कीर्तयेद्यस्तु मानवः ।
सर्वकामानवाप्नोति व्रतस्यास्य फलं सदा ७८।
य इदं कुरुते शक्त्या काले मध्याह्न संज्ञके ।
लीलावत्या सह ऋषिं श्रीनृसिंह प्रसादतः ७९।
पूजयेत्परया भक्त्या मुक्तिं प्राप्नोति शाश्वतीम् ।
तस्मिन्क्षेत्रे तु यो गत्वा श्रीनृसिंहं प्रपूजयेत् ८०।
वांच्छितं लभते नित्यं श्रीनृसिंह प्रसादतः ।
श्रीनृसिंह महद्रूप कालकोटिदुरासद ८१।
भैरवेश हरार्तिघ्न बालरूप नमोस्तु ते ।
श्रीनृसिंहाय रूपाय बालाय बालरूपिणे ८२।
व्यापकाय सुनंदाय स्वात्मप्रकट रूपिणे ।
सर्वजीवात्मकायैव विश्वेशाय स्वरात्मने ८३।
मार्तंड मंडलस्थाय दयासिंधो नमोस्तु ते ।
चतुर्विंशस्वरूपाय कालरुद्राग्निरूपिणे ८४।
जगदेकस्वरूपाय नृसिंहाय नमोस्तु ते ।
भाले दधार यो देवो नृसिंहो वीरभद्र जित् ८५।
द्वादशादित्यबिंबानि सुतप्तानि प्रमाणतः ।
तत्र सिंधु महापुण्या नदी रम्या विशेषतः ८६।
तस्याः समीपे नगरं वर्त्ततेऽद्यापि सुंदरि ।
मौलिस्तानेति विख्यातं सर्वदा देवनिर्मितम् ८७।
वसतिर्वर्त्तते तत्र हारीतस्य महात्मनः ।
लीलावती तु तत्रैव तिष्ठते नात्र संशयः ८८।
प्रतिशब्दो भवेत्तत्र सिंधुनद्याः समीपतः ।
कलौ युगे तु संप्राप्ते म्लेच्छा वै पापचारिणः ८९।
निवसंति तु तत्रैव बहवो नात्र संशयः ।
नृसिंहजन्मनि यथा शब्दोऽभूदद्भुतः परः ९०।
नृसिंहेति नृसिंहेति य उच्चैर्नदते नरः ।
तादृशः प्रतिशब्दो वै जायते नगनंदिनि ९१।
ब्रह्महा हेमहारी वा सुरापो गुरुतल्पगः ।
सिंधौ गत्वा विशेषेण स्नानं कुर्वंति ये जनाः ९२।
मुच्यते नात्र संदेहः श्रीनृसिंह प्रसादतः ।
दशारात्रिप्रमाणेन मानवा ये वसंति हि ९३।
ते ज्ञेयाः पुण्यकर्माणो नासत्यं मामकं वचः ।
निवसंति कलौ तत्र वर्णा ये द्विजपूर्वकाः ९४।
म्लेच्छवत्तेऽपि विज्ञेया वेदबाह्याः सुरोत्तमैः ।
मांसं खादंति ते तत्र मद्यपानं पपुः सदा ९५।
अतो ह्यधर्मरूपास्ते पापिष्ठा नात्र संशयः ।
संध्याहीना यथा विप्रा वेदबाह्यास्तथैव च ९६।
निवसंति पुरे तस्मिन्पश्चिमायां सुरेश्वरि ।
एकमेव परं तीर्थं नृसिंहाख्यं सुविस्तरम् ।
यं श्रुत्वा मुच्यते पापान्नरः सद्यो न संशयः ९७।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे नृसिंहोत्पत्तिर्नाम चतुःसप्तत्यधिकशततमोऽध्यायः १७४।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 175
पार्वत्युवाच।
भगवन्सर्वतत्वज्ञ श्रीविष्णोस्त्वत्प्रसादतः।
श्रुता नानाविधा धर्मा लोकनिस्तारहेतवः १।
अधुना श्रोतुमिच्छमि गीतामाहात्म्यमप्यहम्।
श्रुतेन येन देवेश हरौ भक्तिर्विवर्द्धते।
तद्वदस्वाधुना देव यद्यहं तव वल्लभा २।
ईश्वर उवाच।
अतसीपुष्पसंकाशं खगेंद्रासनमच्युतम्।
शयानं शेषशय्यायां महाविष्णुमुपास्महे ३।
कदाचिदासने रम्ये सुखासीनं मुरद्विषम्।
आनंदयित्री लोकानां लक्ष्मीः पप्रच्छ सादरात् ४।
श्रीरुवाच।
शयालुरसि दुग्धाब्धौ भगवन्केन हेतुना।
उदासीन इवैश्वर्यं जगंति स्थापयन्निव ५।
ईश्वर उवाच।
इति देव्या वचः श्रुत्वा मुरभिज्ज्ञानगर्वितम्।
उवाच श्लक्ष्णया वाचा विस्मयस्मेरलोचनः ६।
श्रीभगवानुवाच।
नाहं सुमुखि निद्रालुर्निजं माहेश्वरं वपुः।
दृशा तत्वानुवर्त्तिन्या पश्याम्यंतर्निमग्नया ७।
कुशाग्रया धिया देवि यदंतर्योगिनो हृदि।
पश्यंति यच्च वेदानां सारं मीमांसते भृशम् ८।
तदेवमक्षरं ज्योतिरात्मरूपमनामयम्।
अखंडानंद संदोह निष्पादि द्वैतवर्जितम् ९।
यदाश्रया जगद्वृत्तिर्यन्मया चानुभूयते।
न येन रहितं किंचिज्जगत्तत्वं चराचरम् १०।
निर्मथ्य बहुधालोक्य वेदशास्त्रांबुधिं सुधीः।
द्वैपायनो यदासाद्य गीताशास्त्रं निसृष्टवान् ११।
यदास्थाय महानंदमानंदीकृतमानसः।
निद्रालुरिव देवेशि दुग्धाब्धौ प्रतिभामि वै १२।
इति तस्य मुरारातेर्मितमानंदवद्वचः।
सा हर्षोत्फुल्ललोलाक्षी लक्ष्मी श्रुत्वा विसिस्मिरे १३।
श्रीरुवाच।
भवानेव हृषीकेश ध्येयोऽसि यमिनां सदा।
तस्मात्त्वत्तः परं यत्तच्छ्रोतुं कौतूहलं हि मे १४।
चराचराणां लोकानां कर्त्ता हर्त्ता स्वयं प्रभुः।
यथास्थितस्ततोऽन्यत्वं यदि मां बोधयाच्युत १५।
श्रीभगवानुवाच।
मायामयमिदं देवि वपुर्मे न तु तात्विकम्।
सृष्टिस्थित्योपसंहारक्रियाजालोपबृंहितम् १६।
अतोऽन्यदात्मनोरूपं द्वैताद्वैतविवर्जितम्।
भावाभावविनिर्मुक्तमाद्यंतरहितं प्रिये १७।
शुद्धसंवित्प्रभालाभं परानंदैकसुंदरम्।
रूपमैश्वरमात्मैक्यगम्यं गीतासु कीर्तितम् १८।
इत्याकर्ण्य वचो देवि देवस्यामिततेजसः।
शंकमाना ह वाक्येषु परस्परविरोधिषु १९।
स्वयं चेत्परमानंदमवाङ्मनसगोचरम्।
कथं गीता बोधयति इति मे च्छिंधि संशयम् २०।
ईश्वर उवाच।
श्रियः श्रुत्वा वचोयुक्तमितिहासपुरःसरम्।
आत्मानुगामिनीं दृष्टिं गीतां बोधितवान्प्रभुः २०।
अहमात्मा परेशानि परापरविभेदतः।
द्विधा ततः परः साक्षी निर्गुणो निष्कलः शिवः २१।
अपरः पंचवक्त्रोऽहं द्विधा तस्यापि संस्थितिः।
शब्दार्थभेदतो वाच्यो यथात्माहं महेश्वरः २२।
गीतानां वाक्यरूपेण यन्निरुच्छिद्यते दृढः।
मदीयपाशबंधोऽयं संसारविषयात्मकः २३।
यदाभ्यासपराधीनौ पंचवक्त्रमहेश्वरौ।
इति तस्य वचः श्रुत्वा गीतासारमहोदधेः २४।
इदं परविभेदेन बुध्यते भवभीरुभिः।
तमपृच्छदिदं लक्ष्मीरंगप्रत्यंगसंस्थितम् २५।
माहात्म्यं सेतिहासं च सर्वं तस्यै न्यवेदयत्।
श्रीभगवानुवाच।
शृणु सुश्रोणि वक्ष्यामि गीतासु स्थितिमात्मनः २६।
वक्त्राणि पंच जानीहि पंचाध्यायाननुक्रमात्।
दशाध्याया भुजाश्चैक उदरं द्वौ पदांबुजे २७।
एवमष्टादशाध्याया वाङ्मयी मूर्तिरैश्वरी।
विज्ञेया ज्ञानमात्रेण महापातकनाशिनी २८।
अतोध्यायं तदर्धं वा श्लोकमर्द्धं तदर्धकम्।
अभ्यस्यति सुमेधा यः सुशर्मेव समुच्यते २९।
श्रीरुवाच।
सुशर्मा नाम को देव किं जातीयः किमात्मकः।
कुतस्तस्य च वै मुक्तिः केनाजायत हेतुना ३०।
श्रीभगवानुवाच।
सुशर्मा नाम दुर्मेधाः सीमा पापात्मनामभूत्।
जातो नात्मविदां वंशे विप्राणां क्रूरकर्मणाम् ३१।
न ध्यानं न जपो होमो न चैवातिथिपूजनम्।
केवलं विषयेष्वेव बलाढ्येनाभिवर्त्तते ३२।
कृषिकर्मरतो नित्यं पर्णजीवी सुराप्रियः।
मांसोपहारी सुचिरं कालमेवं निनाय सः ३३।
आनेतुकामः पर्णानि पर्यटनृषिवाटिकाम्।
ततः स तत्र दष्टोऽभूत्कालसर्पेण मूढधीः ३४।
कालधर्मं समासाद्य गत्वा च निरयान्बहून्।
पुनरागत्य मर्त्येषु बलीवर्दत्वमीयिवान् ३५।
पंगुना केन विक्रीतः स स्वजीवनहेतवे।
नयन्पृष्ठेन शरदः सप्ताष्टौ कष्टतोनयत्३६।
कदाचित्पंगुनासोऽपि चिरमावर्तितो जवात्।
पपात तरसा भूमौ मूर्च्छां च प्रतिपेदिवान्३७।
विकलांगो विवृत्ताक्षः फेनसंततिमुद्गिरन्।
न जीवति न मृत्युं वा प्रतिपेदे स्वकर्मणा ३८।
कौतुकाकृष्टलोकेऽस्मिंस्तस्मिन्जनसमागमे।
श्रेयसे तस्य सुकृती कश्चित्पुण्यं वितीर्णवान् ३९।
कर्माणि स्वान्यनुस्मृत्य ददुरन्ये च केचन।
गणिका कापि तत्रस्था लोकयात्रानुवर्तिनी ४०।
अज्ञात निजपुण्या सा किंचिदुत्सृष्टवत्यभूत्।
परेतनगरीमादौ स नीतः कालकिंकरैः ४१।
गणिकादत्तपुण्येन पुण्यवानिति मोचितः।
पुनरागत्य भूर्लोकं कुलशीलवतां गृहे ४२।
द्विजन्मनामसौ जज्ञे जातिं स्वामनुसंस्मरन्।
काले महति जिज्ञासुः श्रेयः स्वाज्ञाननोदनम् ४३।
उपेत्य गणिकां दत्तं ख्यापयित्वा स पृष्टवान्।
आचष्ट मां शुको नित्यं पंजरस्थः पठत्यसौ ४४।
तेन पूतांतरात्माहं तत्पुण्यं पर्यकल्पयम्।
ताभ्यां शुकस्तु पृष्टोऽसौ व्याख्यातुमुपचक्रमे ४५।
आख्यायिकां पुरावृत्तां स्मृत्वा जातिं निजामपि।
शुक उवाच।
पुरा विद्वानहं भूत्वा वैदुष्य स्मयमोहितः ४६।
रागद्वेषेण विद्वत्सु गुणवत्स्वपि मत्सरी।
कालेनाहं ततः प्रेत्य प्राप्य लोकाञ्जुगुप्सितान् ४७।
सोऽहं कीरकुलेऽभूवं सद्गुरावतिनिंदकः।
काले धर्मणि दुष्कर्मा पितृभ्यां च वियोजितः ४८।
निदाघेऽध्वनिसंतप्ते आनीतो ऋषिपुंगवैः।
पातितः पंजरस्थोऽहं माश्रमे महदाश्रये ४९।
आवर्तयद्भ्यो गीतानामाद्यमध्यायमादरात्।
श्रुत्वा ऋषिकुमारेभ्यः पाठं चाकरवं मुहुः 6.175.५०।
एतस्मिन्नंतरे कश्चिद्वागुरिश्चौरकर्मकृत्।
मामाहृत्य तदाक्रीणादिति वृत्तमुदाहृतम् ५१।
श्रीभगवानुवाच।
अध्यायोऽयं पुराम्नातो येन पापमनोदयम्।
पूतांतरात्मा येनासौ मोचितश्च द्विजोत्तमः ५२।
एवमन्योन्यमाभाष्य तन्माहात्म्यं प्रशस्य च।
ते जपंतोनिशं धीरा मुक्तिं गेहे प्रपेदिरे५३।
तस्मादध्यायमाद्यं यः पठते शृणुते स्मरेत्।
अभ्यसेत्तस्य न भवेद्भवांभोधिर्दुरुत्तरः५४।
।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे सतीश्वरसंवादे गीतामाहात्म्ये पंचसप्तत्यधिकशततमोऽध्यायः१७५
खण्डः ६ (उत्तरखण्डः) — Adhyāya 176
श्रीभगवानुवाच ।
आदिमस्यैवमाख्यानमुदीरितमनुत्तमम् ।
शृणु माहात्म्यमन्येषामध्यायानामपींदिरे १।
दक्षिणस्यां दिशि श्रीमानासीदाम्नायवादिनाम् ।
पुरे पुरंदराह्वाने देवशर्मेति विश्रुतः २।
अर्चितातिथिराम्नातो वेदशास्त्रविशारदः ।
आहर्ता क्रतुसंघानां तापसानां प्रियः सदा ३।
देवान्संतर्पयामास हव्यैर्हुतवहं चिरम् ।
न चोपलेभे धर्मात्मा शांतिमेकांतिकीं ततः ४।
निःश्रेयसं स जिज्ञासुस्तापसाननुवासरम् ।
सिषेवे सत्यसंकल्पाननल्पैरेव कल्पकैः ५।
एवमाचरतस्तस्य काले महति गच्छति ।
मुक्तकर्मा ततः कश्चित्प्रादुरासीत्पुरा भुवि ६।
अनुभूतनिराकांक्षी नासाग्रन्यस्तलोचनः ।
शांतचेताः परं ब्रह्म ध्यायन्नानंदनिर्भरः ७।
पादौ तस्योपसंगृह्य प्रणतेनांतरात्मना ।
चकार विधिवत्तस्मै विद्वानतिथिसत्क्रियाम् ८।
तं च शुद्धेन भावेन परितुष्टं तपस्विनम् ।
प्रणतः परिपप्रच्छ निर्वाणस्थितिमात्मनः ९।
स तस्मै कथयामास पुरेऽसौ पुरनामनि ।
मित्रवंतमजापालमुपदेष्टारमात्मवित् १०।
स चाभिवंद्य तत्पादावेत्यसौ पुरमूर्जितम् ।
तस्योत्तरदिशोभागे ददर्श विपुलं वनम् ११।
मारुतांदोलितानेक कुसुमामोदसुंदरम् ।
उन्मत्तभ्रमरोद्गीत नादापूरितदिङ्मुखम् १२।
तस्मिन्वने सरित्तीरे निषीदंतं शिलातले ।
मित्रवंतं ददर्शाथ सानंदस्तिमितेक्षणम् १३।
अपि स्वाभाविकं वैरं हित्वान्योन्यं विरोधिभिः ।
सत्वैरावृतमुद्याने मंदस्यंदनभास्वति १४।
शांतेषु मृगयूथेषु दशानंदमनोज्ञया ।
कृपानुविद्धया भूमिं निषिंचंतमिवामृतम् १५।
उपेत्य विनयेनामुमुन्मनाः प्रीतमानसः ।
किंचिदानम्रशिरसा तेनापि स तु सत्कृतः १६।
उपतस्थे ततो विद्वान्मित्रवंतमनन्यधीः ।
समाप्तध्यानकालं स पर्यपृच्छत्समाहितः १७।
देवशर्मोवाच।
आत्मानं वेत्तुमिच्छामि तदमुष्मिन्मनोरथे ।
लब्धसिद्धिमुपायं मामुपदेष्टुं त्वमर्हसि १८।
श्रीभगवानुवाच।
परामृश्य क्षणं सोऽपि मित्रवानिदमब्रवीत् ।
मित्रवानुवाच।
विद्वन्विद्धि पुरावृत्तमुच्यमानमिदं मया १९।
अस्ति गोदावरीतीरे प्रतिष्ठानाभिधं पुरम् ।
तत्र दुर्दमनामासीदन्वये च मनीषिणाम् २०।
तत्रास्ति विक्रमो नाम सेव्यमानो महीपतिः ।
दानानि प्रत्यहं गृह्णन्वर्त्तते उदरंभरः २१।
कालेन कालपाशेन बद्धानीतो यमालयम् ।
निरयेषु समग्रेषु यातना अनुभूय च २२।
कस्मिंश्चित्स कुले जातो दुर्वृत्तानां द्विजन्मनाम् ।
भवांतरानुवर्तिन्या विद्यया स पुरस्कृतः २३।
उपयेमे दुराधर्षां कन्यकामधमे कुले ।
कालेन सा वयो हित्वा शैशवं यौवनं ययौ २४।
पीनस्तनी च सुश्रोणी मदविह्वललोचना ।
पतिं न सेहे दुर्वृत्तं चकमे स्वपतीन्परान् २५।
वृत्तिमाहर्तुकामस्मिन्निर्गता सा पुराद्बहिः ।
संगता कामुकेनासौ चिरं चांडालजन्मना २६।
दधे गर्भमसौ तस्मात्सा च कन्योपपद्यते ।
सैव भार्यापि तस्यासीत्पूर्वपापप्रसंगतः २७।
सैव वृद्धा ततः काले डाकिनी समजायत ।
कुसंगात्कुमतिर्जाता दुष्टनारीप्रसंगतः २८।
चखाद व्याधितं व्याधमसृगास्वादलालसा ।
भ्रमंती विपिने घोरे जनैर्दृष्ट्वा बहिष्कृता २९।
परेतलोकमासाद्य व्याधौ व्याघ्रोऽभ्यवर्त्तत ।
नरकान्दारुणान्भुक्त्वा जीवहिंसा प्रभावतः ३०।
सापि कालेन दुष्टात्मा मृत्युवेगमुपागता ।
निरयानेत्य दुर्द्धर्षानजाजायत मद्गृहे ३१।
तामन्या अप्यहं विद्वन्पालयन्काननांतरे ।
अपश्यन्द्वीपिनं घोरं जिघांसंतमिवाखिलम् ३२।
समालोक्य तमायांतं भयेन प्रपलायितम् ।
अजायूथं परित्यज्य मया मरणभीरुणा ३३।
उपदुद्राव स द्वीपी पूर्ववैरमनुस्मरन् ।
अजा तु तत्समीपेऽगात्सत्वरं सरिदंतिके ३४।
तत्र सा भयमुत्सृज्य हित्वा वैरमनर्गला ।
अवतस्थे स च द्वीपी तूष्णीमासीदमत्सरः ३५।
तं तथाविधमालोक्य सा वक्तुमुपचक्रमे ।
द्वीपिन्नभीप्सितं भुंक्ष्व मांसमुद्धृत्य सादरः ३६।
नेयं भवति ते बुद्धिः कथं वैरमतिं त्यजः ।
इत्याकर्ण्य तदा वाक्यं प्राह द्वीपी विमत्सरः ३७।
स्थानेऽस्मिन्मे गतो द्वेषः क्षुत्पिपासा च निर्ययौ ।
न प्रार्थयामि तेन त्वां समीपे समुपस्थिताम् ३८।
सैवमुक्ता पुनः प्राह जाताहं निर्भया कथम् ।
किमत्र कारणं वेत्सि यदि मे वक्तुमर्हसि ३९।
एवमुक्तः पुनर्द्वीपी तामाहाजां न वेद्म्यहम् ।
पुरोगतमिमं प्रष्टुं महांतमिति निर्गतौ ४०।
ताभ्यामुभाभ्यामागत्य पृष्टोऽहं बहुविस्मयः ।
अहं च सहितस्ताभ्यामपृच्छं वानरेश्वरम् ४१।
मया पृष्टः स विप्रेदमब्रवीत्सादरं कपिः ।
शृणु वक्ष्याम्यजापाल वृत्तमत्र पुरातनम् ४२।
इदमायतनं पश्य पुरोवनगतं महत् ।
अत्र त्र्यंबकलिंगं हि द्रुहिणेन प्रतिष्ठितम् ४३।
सुकर्मानाम मेधावी पर्युपास्ते तपश्चरन् ।
वनपुष्पाण्यपाहृत्य सुरपूज्यं पुरोभवम् ४४।
संस्नाप्य सरिदंभोभिः केवलं कर्मणा वसन् ।
काले महति तस्यागादतिथिः कश्चिदंतिकम् ४५।
उपाहृत्य फलाहारं स तस्मै पर्यकल्पयत् ।
तेनातिथ्येन संप्रीतः सुकर्माणमभाषत ४६।
किमिदं कर्मणो मूलं फलं भुक्त्वा तु तिष्ठसि ।
गतानुगतया वृत्त्या किं वा केवलमीहसे ४७।
स एवमुक्तः प्रायेण प्रीतेनात्मविदा तदा ।
प्रत्युवाच वचः स्पष्टमात्मनो हितमुत्तमम् ४८।
विद्वन्न वेद्मि तत्वेन फलमेतस्य कर्मणः ।
बुभुत्सया परः शंभुः सेव्यते केवलं यया ४९।
फलमेतस्य सेवायाः परिपाकं कपर्दिनः ।
यन्मांसमनुगृह्णासि संस्पृश्यात्ममनोरथम् 6.176.५०।
तस्यैवं सूनृतं वाक्यं श्रुत्वा प्रीतस्तपोधनः ।
द्वितीयमालिलेखाऽसौ गीताध्यायं शिलातले ५१।
आदिदेशाशु तं विप्रं पठनाभ्यसनाय च ।
फलिष्यत्यात्मनः स्वैरं परितस्ते मनोरथः ५२।
इत्युक्त्वांतर्दधे धीमान्पुरतस्तस्य पश्यतः ।
विस्मितस्तस्य चादेशात्सोऽन्वतिष्ठदनारतम् ५३।
ततः कालेन महता भावितात्मा प्रसन्नधीः ।
यत्रयत्र चचारासौ शांतं तत्तत्तपोवनम् ५४।
न द्वंद्वबाधा नैव क्षुत्पिपासा न च वा भयम् ।
तपसा तस्य जानीहि द्वितीयाध्यायजापिनः ५५।
मित्रवानुवाच।
एवमुक्तश्च तेनाऽहं ख्यापयित्वा परां कथाम् ।
अनुज्ञातप्रसंनेन च्छागीव्याघ्रयुतोगमम् ५६।
गत्वा शिलातले पश्यमध्यायं लिखितं पठेत् ।
तस्यैवावर्त्तनादाप्तं तपसः पारमुत्तमम् ५७।
तेन त्वमपि कल्याण नित्यमाहर्तुमर्हसि ।
अध्यायं तेन ते मुक्तिरदूरस्था भविष्यति ५८।
देवशर्मा समादिष्टस्तेन मित्रवता स्वयम् ।
अभ्यर्च्य प्रणतो भूत्वा पुरंदरपुरं ययौ ५९।
तत्रात्मविदमासाद्य देवतायतने क्वचित् ।
वृत्तमेतन्निवेद्यादावध्यायमपठत्ततः ६०।
शिक्षितस्तेन पूतात्मा पठन्नध्यायमादरात् ।
द्वितीयमाससादोच्चैर्निरवद्यं परं पदम् ६१।
द्वितीयस्येदमाख्यानं कथितं शृणु सांप्रतम् ।
तृतीयस्याथ वक्ष्यामि माहात्म्यमपि चेंदिरे ६२।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीता।
माहात्म्ये सतीश्वरसंवादे षट्सप्तत्यधिकशततमोऽध्यायः १७६।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 177
श्रीभगवानुवाच।
जनस्थाने जडो नाम द्विजन्मा कौशिकान्वयी ।
हित्वा जात्युचितं धर्मं वणिग्वृत्त्यां मनो दधे १।
व्यसनी परदारेषु दीव्यन्नक्षैः पिबन्मधु ।
मृगया निरतो नित्यं कालमेवं निनाय सः २।
क्षीणे वित्ते ततो रात्रौ चौर्यामारब्धवांस्ततः ।
प्रतिपेदे धनं तेन यज्वनां यष्टुमर्थिनाम् ३।
स दूरमगमत्तेन वाणिज्यायोत्तरां दिशम् ।
कस्तूरिमगुरुं कृष्णं चामरांश्चंद्रिकोज्ज्वलान् ४।
गृहीत्वा वृत्य चानिन्ये पंचषादध्वयोजनात् ।
अथापरस्मिन्नहनि प्रियादर्शनदोहनि ५।
दूरमध्वानमुल्लंघ्य रवावस्तमिते सति ।
ध्वांते प्रसर्पति स्वैरं दिशो दश तरोस्तले ६।
गतो वशं सदस्यूनां निजघ्ने तैश्च सत्वरम् ।
धर्मलोपादसौ जज्ञे घोरश्चोग्रतरो ग्रहः ७।
पिपासितो बुभुक्षार्तो लेलिहानश्च सृक्किणी ।
उर्ध्वकेशोऽतिजंघालुः पृष्टलग्नोदरो महत् ८।
अस्थिमात्रशरीरोऽभूद्दुर्वृत्तनयनो भृशम् ।
अत्रांतरे सुतस्तस्य धर्मात्मा वेदकोविदः ९।
पर्यपालयदत्यर्थं दिदृक्षुस्तं तदागमत् ।
नित्यमन्वेषयन्वार्त्तां पांथेभ्यो नोपलब्धवान् १०।
ततः कदाचिदायाते सहायिनि च मानवे ।
तस्माद्विदितवृत्तांतः शुशोच पितरं बहु ११।
ततो विमृश्य मेधावी चिकीर्षुः पारलौकिकम् ।
वाराणसीं ससंभारः स गंतुमुपचक्रमे १२।
मार्गे निवासान्सप्ताष्टौ नीत्वा तस्य तरोस्तले ।
संध्यां प्रचक्रमे कर्तुं यत्रास्य निहतः पिता १३।
तत्राध्यायं स गीतानां तृतीयं संजजाप ह ।
ततो घोरस्वरस्तत्र व्योममध्ये परामृशत् १४।
ददर्श घोरमाकाशात्पतंतं पितरं ततः ।
विस्मयेन भयेनापि विकलीकृतचेतनः १५।
तेजसा भूयसा व्याप्तमालुलोके पुरोऽम्बरे ।
किंकिणीकोटिसंकीर्णं तेजसा व्याप्तदिङ्मुखम् १६।
विमानमग्रतोऽपश्यद्दिव्यमध्यग्रचेतनः ।
तत्रापश्यत्समारूढं दिव्याभिः स्त्रीभिरावृतम् १७।
संस्तूयमानं मुनिभिः पितरं पीतवाससम् ।
प्रणतस्तं समालोक्य युयुजे तेन चाशिषा १८।
ततोऽपृच्छदिदं वृत्तं स च तस्मै न्यवेदयत् ।
दुस्त्यजात्कर्मणो वत्स वपुषो पुण्यकारणात् १९।
मोचितोऽस्मि त्वया दैवादध्यायं जपतांतिके ।
तन्निवर्त्तस्व जपतः सांप्रतं त्वामुपस्थितम् २०।
वाराणसीं यदर्थं यत्तदनुष्ठितमात्मनः ।
श्रीभगवानुवाच।
एवमुक्तः स च प्राह पितरं दीप्ततेजसम् २१।
सुत उवाच।
हितं ममानुशाधि त्वं कार्यमन्यन्मयानु किम् ।
श्रीभगवानुवाच।
ततः प्राह पिता पुत्रं कार्यमेतत्त्वयानघ २२।
यन्मयाचरितं कर्म भ्रात्रा मम तु तत्कृतम् ।
स यातो नरकं घोरं तं मोचयितुमर्हसि २३।
अन्ये मदन्वये ये वै निरयं प्रतिपेदिरे ।
ते च मोचयितव्यास्ते इति मेऽस्ति मनोरथः २४।
इत्येवमुक्तः पुत्रस्तं पुनः प्राह कृतांजलि ।
कर्मणा केन तान्सर्वान्मोचयामि तदादिश २५।
एवं निवेदितो वाक्यं पिता सुतमुवाच ह ।
पितोवाच।
येनाहं मोचितो वत्स तदनुष्ठातुमर्हसि २६।
अनुष्ठाय तदुत्पन्नं तेभ्यः पुण्यं समुत्सृज ।
ततोऽहमिव ते सर्वे पूर्वे संत्यज्य यातनाम् २७।
गमिष्यंत्यचिरेणैव तद्विष्णोः परमं पदम् ।
स संदिष्टोवदत्पुत्रो यद्येवं तात नारकान् २८।
सर्वानपि विमोक्ष्यामि यदि ते रोचते वचः ।
एवमस्तु शिवं भूयादुपपन्नं महत्प्रियम् २९।
इत्यादिश्य पिता पुत्रं ययौ विष्णोः परं पदम् ।
सोऽपि तस्मात्परावृत्त्य जनस्थानं प्रपद्य च ३०।
सुंदरस्य पुरः शौरेश्चालये कालमभ्यगात् ।
स कुर्वाणोःसमादीनि पित्रा च यदुदीरितम् ३१।
उत्ससर्ज कृतं पुण्यं मोचयिष्यन्स नारकान् ।
अत्रांतरे पदे विष्णोर्यातनापदमीयुषः ३२।
नारकान्मोचयिष्यंतः किंकरा यममभ्ययुः ।
तेन ते पूजिताः सर्वे सत्क्रियाभिरनेकधा ३३।
कुशलं परिपृष्टास्ते सर्वतः सुखमूचिरे ।
एमं सत्कृत्य मेधावी पितृलोक महेश्वरः ३४।
हेतुमागमने पृच्छत्ते च तस्मै न्यवेदयन् ।
विद्धि कीनाशनाथ त्वं शेषपर्यंकशायिना ३५।
शौरिणा प्रहितानस्मान्समादेष्टुं त्वदंतिके ।
अस्मन्मुखेन देवस्त्वां कुशलं परिपृच्छति ३६।
नारकान्प्राणिनः सर्वान्विमोक्तुं च नियच्छति ।
इत्याकर्ण्य समादिष्टं विष्णोरमिततेजसः ३७।
न तेन मूर्ध्ना संभाव्य दध्यौ किंचन चेतसा ।
विमुक्तान्निरयात्सर्वांस्तान्विलोक्य मदोत्कटान् ३८।
स तैरनुगतः सर्वैर्विष्णोरायतनं ततः ।
ययौ स वरयानेन यत्रास्ते दुग्धवारिधिः ३९।
तदंत उदितानेकसूर्यकोटिसमप्रभम् ।
इंदीवरदलश्याममालुलोक जगद्गुरुम् ४०।
शय्याफणिफणारत्नमरीच्यामिश्रतेजसम् ।
विलोक्यमानमानंदनिर्भरं प्रीतमानसम् ४१।
भावानुगैर्दृगालीकैः श्रिया प्रेम्णेक्षितं मुहुः ।
योगिभिः परितो जुष्टं ध्याननिष्पंदतारकैः ४२।
स्तूयमानं महेंद्रेण पराजेतुं विरोधिनः।
आम्नायवचसामंते ब्रह्मणो निःसृतैर्मुखात् ४३।
मूर्तिमद्भिर्वचोभिश्च गीयमानं गुणोत्करम् ।
संप्रीतं चाप्युदासीनमपि सर्वासु योनिषु ४४।
योगसंचितपुण्यानां यौगपद्येन जंतुषु ।
विलोकमानमात्मानमखिलं सचराचरम् ४५।
आमोद्यन्नमालोकैरात्मानं दीप्तिपूरितैः ।
आबिभ्राणं वपुर्व्यापि द्योतितं भोगिनस्विषा ४६।
इंदीवरदलश्यामं ज्योत्स्नयेव नभस्तलम् ।
विलोक्य तं स तुष्टाव धिया बहुलयानतः ४७।
यम उवाच।
नमः समस्तनिर्माणनिर्मलीभूतचेतसे ।
वद नोद्गीर्णवेदाय विश्वरूपाय वेधसे ४८।
बलवेगसुदुर्द्धर्ष दानवेंद्र मदद्रुहे ।
नमः स्थितौ च सत्वाय विश्वाधाराय विष्णवे ४९।
नमः पातकसंघात जिष्णवेऽखिलदेहिनाम् ।
ईषदुन्मीलल्लालाटनेत्राग्निप्रभवार्चिषे 6.177.५०।
त्वं हि सर्वस्य लोकस्य गुरुरात्मा महेश्वरः ।
विसृज्य वैष्णवान्सर्वानतस्त्वमनुकंपसे ५१।
व्यापयन्नखिलं लोकं मायया परिबृंहितम् ।
न तया परिभूतोऽसि न च तत्प्रभवैर्गुणैः ५२।
अंतरावर्तमानोऽपि न ताभ्यामभिभूयसे ।
दृशा विषयवर्तिन्या निग्रहीतमना अपि ५३।
तया फलाभिगामिन्या आत्मन्येवाभिलीयसे ।
न तवास्ति महिम्नोंतो यथा निरवधिः स्वयम् ५४।
मौनमेवात्रयुक्तं मे विषयोऽसि कथं गिराम् ।
इति स्तुत्वा ततो वाक्यमिदमाह कृतांजलि ५५।
विनियोगादमी युक्ता देहिनो निर्गुणा मया ।
समादिश यदन्यन्मे कार्यमस्ति जगद्गुरो ५६।
इति विज्ञापितस्तेन तमाह मधुसूदनः ।
मेघगंभीरया वाचा सिंचन्निव सुधारसैः ५७।
पापादुद्धार्य ते लोको मया समयवर्तिना ।
त्वयि विन्यस्तभारोऽहं नानुशोचामि देहिनः ५८।
तदाचर निजं कर्म प्रयाहि स्वं निकेतनम् ।
श्रीभगवानुवाच।
इत्युक्त्वांतर्दधे देवः सोऽपि स्वपुरमाययौ ५९।
सोऽपि स्वजातिजान्सर्वान्निरयस्थाननेकशः ।
उद्धृत्य वरयानेन विष्णुलोकं ययौ स्वयम् ६०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये सप्तसप्तत्यधिकशततमोऽध्यायः १७७।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 178
श्रीभगवानुवाच।
चतुर्थस्यापि माहात्म्यमाख्यास्याम्यधुना शृणु ।
बदरीत्वं समुत्सृज्य येन कन्ये दिवं गते १।
श्रीरुवाच।
कथं कन्ये दिवं याते बदरीत्वं विसृज्य वै ।
ते कचास्तां पुरा देव कथं प्राप्ते तु मुख्यताम् २।
एतद्वेदितुमिच्छामि नाथ वक्तुं त्वमर्हसि ।
न तु तृप्यामि शृण्वंती परमां च कथामिमाम् ३।
श्रीभगवानुवाच।
अस्ति भागीरथी तीरे नाम्ना वाराणसी पुरी ।
भरतो नाम युक्तात्मा तत्र विश्वेश्वरालये ४।
नित्यमात्मरतस्तुर्यं जपत्यध्यायमादरात् ।
तदभ्यासाददुष्टात्मा न द्वंद्वैरभिभूयते ५।
काले कदाचन क्रीडन्ययौ स नगराद्बहिः ।
उपांत्यवर्तिनो देवान्दिदृक्षुः स तपोधनः ६।
विशश्राम तयोर्मूले बदर्योर्न्यपतत्फले ।
उपधाय तयोरेकामन्यामालंब्य चांघ्रिणा ७।
तपस्विनि ततो याते बदर्योश्च तथार्द्वयम् ।
शुष्कं निष्पत्रशाखं च दिवसैः पंचषैरभूत् ८।
गृहे क्वचन विप्राणां जज्ञाते कन्यके ततः ।
वर्द्धमानं तयोर्युग्मं सप्तभिः परिवत्सरैः ९।
विहृत्य दूरदेशेभ्यो यतिमायांत मैक्ष्यत ।
गृहीत्वा चरणौ तस्य वचः सूनृतमब्रवीत् १०।
त्वत्प्रसादादेव मुने मोचितं द्वंद्वमावयोः ।
उत्सृज्य बदरीभावं मानुष्यं प्रतिपद्यते ११।
एवमुक्तो मुनिस्ताभ्यां विस्मृतः प्रत्युवाच सः ।
कदा वत्से युवां केन हेतुना मोचिते मया १२।
युवयोर्बदरीत्वे च हेतुं ब्रूतां न वेद्म्यहम् ।
ऊचतुः कन्यके तस्मै बादर्ये हेतुमात्मनः १३।
आदौ विमोचने तस्माद्दुस्त्यजादपि कारणम् ।
अस्ति गोदावरी तीरे तीर्थं पुण्यप्रदं नृणाम् १४।
च्छिन्नपापमिति ख्यातं परां कोटिमवापयत् ।
तत्र सत्यतपा नाम तपस्तेपे सुदारुणम् १५।
ग्रीष्मे महति दीप्तानां मध्यगो जातवेदसाम् ।
वर्षासु जलधाराभिर्नित्यमासिक्तमूर्द्धजः १६।
शिशिरे च वसन्नप्सु बिभ्रत्कंटकितां तनुम् ।
विशुद्धः सततं काले तपस्तप्त्वा स संयमी १७।
आत्मन्येव मतिं चक्रे परां प्राप्य सुनिर्वृतिम् ।
सदा फलानि बिभ्रत्सु सांद्रच्छायेषु शाखिषु १८।
निर्मत्सरेषु सत्वेषु बध्वा प्रीतिपरामपि ।
तपःफलानुसंधाने वैदुष्येनोपपादितम् १९।
ब्रह्माप्येनं स्वयं पृच्छन्नुपतस्थे तमन्वहम् ।
तेन संकोचहीनत्वाद्ब्रह्यण्यनुगतेन्वहम् २०।
तद्ध्यानानुगतव्यक्ति ववृधे तस्य तत्तपः ।
विमुक्तकल्पं मन्वानः समृद्धादात्मनः पदात् २१।
अंतरायशतं चक्रे ततो भीतः पुरंदरः ।
आहूयाप्सरसां मध्यादावां तुल्यं समादिशत् २२।
कुरुतं तत्तपोविघ्नमनेनाचरितं युवाम् ।
यो मां पदादवष्टभ्य स्वराज्यं भोक्तुमिच्छति २३।
इति संदेशमापन्ने पुरस्ताच्च बिडौजसः ।
गोदावरीमगच्छावः स मुनिर्यत्र वर्तते २४।
मृदंगैर्मंदगंभीरैर्वेणुभिः कलवादिभिः ।
कलं गीतं समारब्धं तन्वंगीभिः समन्वितम् २५।
उद्वहंत्यौ पृथुश्रोणीं घनपीनपयोधरे ।
स्मयस्मेरमुखांभोजे किंचिदाकुंचितालके २६।
मणिकुंडलदृष्टांसे पुंडरीकोज्ज्वलेक्षणे ।
तनुमध्ये सुवृत्तोरु वहंत्यौ च समे पदे २७।
आनर्तां यो वनस्यार्थे स्वरताललयानुगाम् ।
दर्शयंत्यौ स्वतः कृत्स्नां गतिं भावानुगामिनीम् २८।
मृदूपक्रममुत्पन्नं मंदं मंदं विवर्द्धनम् ।
गर्जयामास दिक्चक्रं तत्तयोर्नृत्यमानयोः २९।
ततोंगहारवेगेन वायुर्वासः सुशीतलः ।
ईषदुच्छ्वसिते चैले दर्शयंत्यौ पयोधरौ ३०।
उद्वर्धयंती कंदर्प्पमुल्बणा गतिरावयोः ।
कोपमुत्पादयामासु मुने रविकृतात्मनः ३१।
ततः शापं ददौ कोपाज्जलमुत्सृज्य पाणिना ।
बदरीत्वं प्रपद्येथां जाह्नवी रोधसीति नौ ३२।
आवाभ्यां पारतंत्र्येण यद्दुश्चरितमास्थितम् ।
तत्क्षमस्व विनम्राभ्यां मुनिः पश्चात्प्रसादितः ३३।
ततः शापविमोक्षं नौ कल्पयामास पुण्यधीः ।
भरतागमनांतोयमिति सत्यतया मुनिः ३४।
मर्त्येषु जन्मलाभश्च स्मृतिश्चातीतजन्मनाम् ।
आवयोरंतिकं गत्वा बदरीभूतयोस्ततः ३५।
स्मरता तुर्यमध्यायं भवता निष्कृतिः कृता ।
तत्तावत्प्रणमावस्त्वां शापादेव न केवलात ३६।
घोरादेव तु संसारात्त्वयैतेन विमोचिते ।
श्रीभगवानुवाच।
एवमुक्तो मुनिस्ताभ्यामतिप्रीतमनास्ततः ३७।
पूजितस्ते समामंत्र्य यथागतमसौ ययौ ।
कन्ये चतुर्थमध्यायं जपेतां नित्यमादरात् ३८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये अष्टसप्तत्यधिकशततमोऽध्यायः १७८।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 179
श्रीभगवानुवाच।
पंचमस्याधुना देवि माहात्म्यं लोकपूजितम् ।
कथयामि समासेन सावधाना शृणु प्रिये १।
पिंगलो नाम भद्रेषु पुरुकुत्सपुरे द्विजः ।
अवदाते कुले जातो विश्रुते वेदवादिनाम् २।
कुलोचितानि शास्त्राणि तथा वेदान्विसृज्य सः ।
तौर्यत्रिके मतिं चक्रे वादयन्मुरजादिकम् ३।
कृतश्रमस्ततस्तत्र गीते नृत्ये च वादने ।
परां प्रसिद्धिमासाद्य नृपसद्म विवेश सः ४।
समातस्थे स तेनासौ पुरा भूमिभुजा सह ।
परदारानुपाहृत्य बुभुजे ता अनन्यधीः ५।
तत उत्सिक्तगर्वोऽयं सूचमानो निरंकुशः ।
परच्छिद्राणि चामुष्मै विविक्ते स निरंतरम् ६।
तस्यासीदरुणा नाम भार्या हीनकुलोद्भवा ७।
भ्रमत्यन्वेषयंती सा कामुकेन विहारिणी ।
तमंतरायं मन्वाना निशीथिन्यां निजालये ८।
निजघान शिरश्छित्त्वा निचखान महीतले ।
वियोजितस्तः प्राणैरुपेत्य यमसादनम् ९।
दुर्जयान्नरकान्भुंक्त्वा गृध्रोऽभूद्विजने वने ।
भगंदरेण रोगेण सापि हित्वा वरां तनुम् १०।
उपेत्य नरकान्घोरान्जज्ञे तत्र वने शुकी ।
कणानादातुकामां तां संचरंतीमितस्ततः ११।
विददार नखैस्तीक्ष्णैर्गृध्रो वैरमनुस्मरन् ।
नृकपाले पयः पूर्णे निपतंतीं ततः शुकीम् १२।
अभिदुद्राव गृध्रोऽपि निजघ्ने स च जालिकैः ।
पत्नीवियोजिता प्राणैर्नृकपालजले ततः १३।
तत्रैव निममज्जा सा वेत्यक्रूरतरः खगः ।
पितृलोकं प्रपेदाते नीतौ तौ यमकिंकरैः ।
प्राक्कृतं दुष्कृतं कर्म स्मरंतौ भयभागिनौ १४।
ततो यमः समालोक्य तयोः कर्म जुगुप्सितम् ।
अकस्मादेवतत्स्नानान्मरणे सुकृतं महत् १५।
अनुजज्ञे ततो लोकमीप्सितं गंतुमेतयोः ।
महापातकसंघातैरपि दुर्द्धर्षमानसौ १६।
ततोविस्मयमापन्नौ स्मृत्वा तौ दुष्कृतं निजम् ।
उपेत्य प्रणतौ भूत्वा वैवस्वतमपृच्छताम् १७।
संचितं दुष्कृतं पूर्वमावाभ्यामपि गर्हितम् ।
लोकानामीप्सितानां तु को हेतुस्तद्वदस्व नौ १८।
एवमुक्तस्ततस्ताभ्यामाह वैवस्वतो वचः ।
आसीद्गंगातटे नाम्ना बटुर्ब्रह्मविदुत्तमः॥ १९।
एकाकी निर्ममः शांतो वीतरागो विमत्सरः ।
गीतानां पंचमाध्यायमावर्त्तयति सर्वदा २०।
तेन पुण्येन पूतात्मा बुद्ध्वा ब्रह्म सनातनम् ।
पापीयानपि यं श्रुत्वा तनुमुत्सृष्टवानसौ २१।
निर्मलीकृतदेहस्य गीताभिर्भावितात्मनः ।
तत्कपालजलं प्राप्य युवां यातौ पवित्रताम् २२।
तद्गच्छतं युवां लोकान्मनोरथपथिस्थितान् ।
गीतानां पंचमाध्यायमाहात्म्येन पवित्रितौ २३।
एवं तौ बोधितौ तेन मुदितौ समवर्तिना ।
व्योमयानं समारुह्य जग्मतुर्वैष्णवं पदम् २४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये एकोनाशीत्यधिकशततमोऽध्यायः १७९।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 180
श्रीभगवानुवाच।
षष्ठाध्यायस्य माहात्म्यं प्रवक्ष्यामि वरानने ।
यदाकर्णयतां नॄणां मुक्तिः करतले स्थिता १।
अस्ति गोदावरी तीरे प्रतिष्ठानं पुरं महत् ।
पिप्पलेशाभिधानोऽहं यत्रास्मि स्मेरलोचने २।
यत्र गोदावरी तीर शीकरैरवशीतलैः ।
हंसाः पक्षपुटैः कीर्णैर्हरंति यमिनां श्रमम् ३।
स्फुरत्पद्मावलीकोशपरागसुरभीकृतम् ।
श्लाघ्यं गोदावरीतोयं येन ते निर्जरा नराः ४।
धिक्सुधामौषधीशस्य विकृत्क्षयविधायिनीम् ।
महाराष्ट्रवधूकानां मज्जंतीनां मुनीश्वराः ५।
स्पृशंति यत्र वक्त्राणि फुल्लपंकजशंकया ।
यत्रखेलन्महाराष्ट्राः क्वणत्कंकणसुंदराः ६।
हरंति ध्वनयो लीनां मनांस्यपि तपस्विनाम् ।
अत्युच्चसौधशिखरविहारि वनितामुखम् ७।
पश्यन्ननुदिनं यत्र क्षीयते मृगलांच्छनः ।
अत्युच्चसौधवलभी महामणिमरीचिभिः ८।
चुंब्यंते मुनिगंधर्वैर्दूर्वाचंदनचंचलैः ।
यस्मिन्नाधूयमानानां पताकानां समीरणैः ९।
गतश्रमा रवेर्याने भवंति रथवाजिनः ।
राशीकृतैर्मलयजैरसंख्यातैर्वणिग्गणैः १०।
यस्मिन्नुपलशेषोऽसौ लक्ष्यते मलयाचलः ।
पुंजीकृतानि दृश्यंते यत्र मुक्ताफलान्यपि ११।
नगरीदेवता हास्य स्तबका इव सर्वतः ।
तत्र ज्ञानश्रुतिर्नाम्ना मेदिनीवल्लभोऽभवत् १२।
यस्मिन्नुद्धरति क्षोणीं शेषोऽयं मणिसंनिभां ।
अपि प्रतापमार्तंडमंडली तीव्रतेजसि १३।
नित्यमध्वरधूमेन श्यामलाः कल्पशाखिनः ।
असाधारणदातृत्वं पश्यंत इव लज्जया १४।
यदध्वरपुरोडाश चर्वणास्वादलंपटाः ।
न तत्यजुः सुपर्वाणः प्रतिष्ठानपुरं मनाक् १५।
यस्यदानांबुधाराभिः प्रतापज्योत्स्नयानिशम् ।
मखधूमैश्च संपुष्टा ववृषुः समये घनाः १६।
स्वल्पमात्रमपि क्वापि न पदं प्रापुरीतयः ।
नीतयः प्रसरंति स्म यस्मिन्शासति मेदिनीम् १७।
वापिकूपतडागानां च्छद्मना योऽनुवासरम् ।
हृदयस्थानि मेदिन्या निधानानि व्यलोकयत् १८।
पांडुराभिः पताकाभिः प्रासादो यस्य राजते ।
वियद्गंगातरंगोघैर्हिमाद्रिरिव सानुमान् १९।
दानैस्तपोभिर्यज्ञैश्च प्रजानां पालनेन च ।
तुष्टाः स्वर्गौकसस्तस्मै वरं दातुं समागमन् २०।
ततोंतरिक्षमार्गेण धुन्वानाः पक्षसंहतीः ।
मृणालधवला देवी देवहंसा विनिर्गताः २१।
त्वरया गच्छतां तेषामन्योन्यं तत्र भाषिणाम् ।
भद्राश्वप्रमुखा द्वित्राः पुरस्तान्निर्ययुर्जवात् २२।
सर्वैर्मिलद्भिरूचुस्ते पुरस्ताद्गच्छतो जवात् ।
कथं वेगेन निर्याता भवंतः पुरतः स्थिताः २३।
सर्वैर्मिलित्वा गंतव्यमस्मिन्नध्वनि दुर्गमे ।
प्रकाशमानं पुरतस्तेजःपुंजं न पश्यथ २४।
ज्ञानश्रुतेर्महीभर्तुः पुण्यमूर्त्तेरतिस्फुटम् ।
निशम्येति वचः सम्यक्पाश्चात्याना पुरः स्थिताः २५।
हंसा हसित्वा सावज्ञमूचुर्वचनमुच्चकैः ।
रैक्याभिधस्य दुर्द्धर्ष तेजसो ब्रह्मवादिनः २६।
किं नु ज्ञानश्रुतेरस्य राज्ञस्तीव्रतरं महः ।
इति शुश्राव हंसानां गिरो ज्ञानश्रुतिर्नृपः २७।
अत्युच्चसौधभवनमारुह्य च सुखं स्थितः ।
ततः सारथिमाहूय भूपालो विस्मयान्वितः २८।
संदिदेश महात्माऽसौ रैक्य आनीयतामिति ।
ततोऽवधार्य भूपालवचः पीयूषगर्भितम् २९।
निर्जगाममहो नाम्ना सारथिः प्रथयन्मुदम् ।
यत्र वाराणसीनाम नगरी मुक्तिदायिनी ३०।
यत्र विश्वेश्वरो नाम ह्युपदेष्टा जगत्पतिः ।
ततो गयाभिधे क्षेत्रे यत्र देवो गदाधरः ३१।
उद्धर्तुमखिलान्लोकान्वसत्युत्फुल्ललोचनः ।
ततो गौरीगुरोः पार्श्वे सर्वैस्तीर्थैरनेकधा ३२।
पर्यटन्गतवान्यत्र केदारः पापदारणः ।
यमालोक्य सकृन्मर्त्या मुक्ताः स्युर्नात्र संशयः ३३।
महापापविर्निमुक्ता भुक्त्वा भोगान्यथेप्सितान् ।
ततो गौडेषु निर्यातो यत्रास्ते पुरुषोत्तमः ३४।
यस्यावलोकनादेव नराः स्वर्लोकगामिनः ।
ततो द्वारावतीं प्रागान्नगरीं मुक्तिदायिनीम् ३५।
यत्रास्ते गोमती तीरे रुक्मिणीवल्लभो हरिः ।
स्नात्वा च गोमतीतीर्थे पंचकृष्णान्विलोक्य च ३६।
मर्त्यो मुक्तिमवाप्नोति भुक्त्वा भोगान्यथेप्सितान् ।
ततः समुद्रमासाद्य सोमनाथं विलोक्य च ३७।
भुक्तिमुक्तिप्रदं देवं ततो निरगमन्सुधीः ।
अवंतिकां पुरीं प्राप्तो भुक्तिमुक्तिप्रदायिनीम् ३८।
यत्रोमया सुखं क्रीडन्महाकालोस्ति शंकरः ।
अथोंकारं समासाद्य शर्मदं नर्मदातटे ।
भुक्तिमुक्तिप्रदातारं त्वरया निर्गतस्ततः ३९।
अश्वमेधकरं नाम्ना नगरं पर्यटंस्ततः ।
यत्र शार्ङ्गधरः साक्षादास्ते लक्ष्मीपतिः स्वयम् ४०।
ततो विष्णुगयां प्राप्तः कुण्डं लोणारसंज्ञितम् ।
यत्र स्नात्वा च पीत्वा च मुच्यते बन्धनान्नरः ४१।
ततः कोल्हापुरं नाम गतो रुद्रगयां प्रति ।
आस्ते भगवती यत्र लक्ष्मीर्भक्तिप्रदायिनी ४२।
पञ्चनद्यां नरः स्नात्वा महालक्ष्मीं विलोक्य च ।
भुक्त्वा भोगान्यथाकामं भक्तिं च प्रतिपद्यते ४३।
ततोऽमलगिरिं नाम नगरीं प्रतिपद्य च ।
नन्दिकेश्वरमारुह्य सोमनाथोऽस्ति यत्र तु ४४।
दृष्ट्वा चतुर्भुजं देवं वरदानोद्यतं शिवम् ।
सोमनाथं नृणां मुक्तिर्भवत्येव न संशयः ४५।
तुङ्गभद्रानदी तीरे दृष्ट्वा हरिहरं ततः ।
युगेयुगे भुजा यस्य पतन्त्यवनिमण्डले ४६।
यद्विलोक्य नराः सर्वे रम्यं हरिहरं वपुः ।
भुक्त्वा भोगान्यथाकामं मुच्यन्ते बन्धनान्नराः ४७।
स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारबन्धनाः ।
ततः स्वामिनमालोक्य लोकानां स्वामिनं विभुम् ४८।
यमालोक्य न पश्यन्ति निरयं जातुचिन्नराः ।
स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारवासनाः ४९।
मुक्तिं च प्रतिदद्यन्ते नात्र कार्या विचारणा ।
ततः श्रीशैलमासाद्य सिद्धगन्धर्वसेवितम् 6.180.५०।
गिरिजावल्लभो यत्र मल्लिनाथोऽभिधानतः ।
उद्धर्तुमखिलाँल्लोकान्संसाराम्भोधिमध्यतः ५१।
स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारबंधनाः ।
मुक्तिं च प्रतिपद्यंते नात्र कार्या विचारणा ५२।
ततः श्रीशैलमासाद्य सिद्धगंधर्वसेवितम् ।
गिरिजावल्लभो यत्र मल्लिनाथोऽभिधानतः ५३।
उद्धर्तुमखिलाँल्लोकान्संसारांबुधिमध्यतः ।
कालेकाले परं ज्योतिर्यः संदर्शयते स्वयम् ५४।
अवलोकयतां नॄणां यमनुस्मरतामपि ।
दूरे तिष्ठंति संत्रस्ता दूरं निरययातनाः ५५।
स्वर्गे लोके सुखं भुक्त्वा मुक्तसंसारबंधनाः ।
मुक्तिं च प्रतिपद्यंते मानवा नात्र संशयः ५६।
रामोस्ति सानुजः सार्द्धं जानक्यापि ततो गतः ।
तत्र स्नात्वा च पीत्वा च मुच्यते नरकाद्ध्रुवम् ५७।
कल्पकोटिशतं भुक्त्वा स्वर्गलोकसुखं नराः ।
मुक्तसंसारवर्त्मानो मुक्तिं यांति न संशयः ५८।
ततो निवृत्य आयातः पश्यन्भीमरथी तटे ।
द्विभुजं विठ्ठलं देवं भुक्तिमुक्तिप्रदायकम् ५९।
यत्र गोदावरीजन्मस्थानं ब्रह्मगिरिर्महान् ।
गौतमालयमासाद्य यत्रास्ते त्र्यंबको हरः ६०।
अरुणावरुणयोर्मध्ये यत्र गोदावरी नदी ।
तत्र स्नात्वा च पीत्वा च ब्रह्महत्या विलीयते ६१।
असंख्यतीर्थसंपन्नं दृष्ट्वा ब्रह्मगिरिं नराः ।
मुक्तिमेव प्रपद्यंते मुक्ताः संसारदुःखतः ६२।
गौतम्युभयतीरस्थ तीर्थान्वेषणकौतुकी ।
ततो जगाम सूतस्तु मथुरां पापनाशिनीम् ६३।
यत्र स्वायंभुवं देवं भजंति सुरमानवाः ।
आद्यं भगवतः स्थानं महन्मुक्तिप्रदायकम् ६४।
त्रैलोक्येश जनिस्थानं विख्यातं वेदशास्त्रयोः ।
नानादेवगणैर्जुष्टं द्विजर्षिगणसेवितम् ६५।
कालिंदीकूलसंशोभि ह्यर्द्धचंद्र प्रभाकृति ।
सर्वतीर्थनिवासैक पूर्णमानंदसुंदरम् ६६।
गोवर्द्धनगिरिप्रख्यं पुण्यद्रुमलतावृतम् ।
द्विषड्वनं महापुण्यं विश्रांति श्रुतिसारभृत् ६७।
ततः काश्मीरनगरमपश्यत्प्रत्यगुत्तरम् ।
दृष्ट्वा धर्मधुरं क्षेत्रं कुरुक्षेत्रं समंततः ६८।
यत्राभ्रंलिहगेहानां पंक्तयः शंखपाण्डुराः ।
ता जाता धूर्जटेः स्पष्ट अट्टहासदशा इव ६९।
भक्तिप्रसादमालानां सुवर्णकलशैर्वृतम् ।
स्वः सिंधोः पतितानीव हेमपद्मानि मारुतैः ७०।
यत्र प्रासादशिखरे नीलपट्टपताकिकाः ।
शैवालवलयाभांति स्वः सिंधोर्लतिका इव ७१।
यत्र काश्मीरमाश्रित्य नित्यं वसति भारती ।
नौचेद्युगपदेवेदं कथं लिखति वाङ्मयम् ७२।
विश्रामंत्याः सरस्वत्याश्चिरं यत्र मदालसाः ।
मृणालचंचवो हंसा वाहनानि चरंत्यमी ७३।
कलाविशेषं प्रहिता यत्र बोद्धुं विरंचिना ।
तारा इव विराजंते हंसा याताः समंततः ७४।
स्थलपद्मानि दृश्यंते करस्पर्शसुखानि च ।
शयनाय नितंबिन्या यस्मिन्दानववैरिणा ७५।
उपन्यासैर्द्विजातीनां यत्र न श्रूयते स्फुटम् ।
मूकोऽपि निर्जरो वाचा पदकल्लोलडंबरः ७६।
यस्मिन्नध्वरधूमेन व्याप्तं गगनमंडलम् ।
अपि च क्षालितं मेघैः कालिमानं न मुंचति ७७।
गलितायाः सुधायास्तु यत्राध्वरमहार्चिषा ।
लांछितं छद्मनास्थानं दृश्यते तुहिनत्विषि ७८।
जन्माभ्यासवशादेव पठंति बटवः स्वयम् ।
यत्रोपाध्यायसान्निध्यमाश्रित्य सकलाः कलाः ७९।
यत्र ब्राह्मणपत्नीनां कंकणध्वनि हुंकृतिः ।
लुंपत्यनुदिनं भ्राम्यद्भ्रमराणां च गर्जितम् ८०।
यत्र ब्राह्मणपत्नीनां कपोलफलकं मुहुः ।
स्पृशन्समीरणो मंदं वाति शापभयादिव ८१।
माणिक्येश्वरनामासौ यत्र शीतांशुशेखरः ।
वसत्यनुदिनं देवो वरदानाय देहिनाम् ८२।
अर्चितो भूपतीन्जित्वा मणिकेशेन चादृतः ।
माणिक्येश्वर इत्याख्यां तदाप्रभृति यो दधौ ८३।
राज्ञा काश्मीरदेवेश दिग्जयोत्सवकारिणा ।
असौ सुपूजितो यस्मान्माणिक्यैर्भूरिभूतिभिः ८४।
संसेवमानं तद्वारि छायां शकटिकोपरि ।
कंडूयमानमंगानि यंता रैक्यमपश्यत ८५।
राज्ञापि कथितैस्तैस्तैश्चिह्नैः परिचितं जवात् ।
प्रणतः सारथी रैक्यं प्रणम्य तमभाषत ८६।
सारथिरुवाच।
कस्मिन्ब्रह्मन्किन्नामासि स्वछंदोऽसि निरंतरम् ।
किमर्थमत्र विश्रांतः किं च कर्तुं चिकीर्षसि ८७।
इत्याकर्ण्य च तद्वाक्यं परमानंदनिर्भरः ।
स्मृत्वा सारथिमित्यूचे वयं पूर्णमनोरथाः ८८।
परं केनापि बहुना परिचर्याविधायिना ।
भवितव्यं मनोवृत्तिं जानतास्माकमेव हि ८९।
हृदयस्थितमादाय रैक्याभिप्रायमादरात् ।
शनैर्निरगमद्यंता यत्रास्ते वसुधाधिपः ९०।
ततः प्रणम्य भूपालं यथावृत्तं न्यवेदयत् ।
बद्धांजलिपुटो हृष्टः सारथिः स्वामिदर्शनात् ९१।
ततो निशम्य तद्वाक्यं विस्मयस्मेरलोचनः ।
श्रद्धालुरभवद्भूपो रैक्यसंभावनाविधौ ९२।
आदायाश्वतरीयुग्मयुक्तां शकटिकामगात् ।
मुक्ताहारदुकूलानि सहस्रं च गवां नृपः ९३।
गतोऽसौ तत्र यत्रास्ते योगी काश्मीरमंडले ।
तन्निवेद्य पुरो राजा दंडवत्पतितो भुवि ९४।
आनम्य परया भक्त्या रैक्यो राज्ञे चुकोप ह ।
रे शूद्र मामकं वृत्तं न जानासि दुरीश्वर ९५।
गृहाण शकटीमेतामुत्थाप्याश्वतरी युताम् ।
वस्त्राणि मुक्ताहारांश्च गाश्च दोग्ध्रीरपि स्वयम् ९६।
इत्थमाज्ञतवान्भूपो रैक्यस्य भयमादधे ।
ततः शापभयाद्राजा तत्पदांभोरुहद्वयम् ९७।
गृह्णन्भक्त्या प्रसीदेति ब्रह्मन्नित्यूचिवान्स्वयम् ९८।
राजोवाच।
भगवंस्तव माहात्म्यमेतदत्युद्भुतं कुतः ।
प्रसन्नीभूय भगवन्नाख्याहि मम तत्त्वतः ९९।
रैक्य उवाच।
गीतानां षष्ठमध्यायं जपामि प्रत्यहं नृप ।
तेनैव तेजोराशिर्मे सुराणामपि दुःसहः 6.180.१००।
गीतानां षष्ठमध्यायं रैक्यादभ्यस्य यत्नतः ।
ज्ञानश्रुतिर्महीपालो मुक्तिमाप ततः सुधीः १०१।
रैक्योऽपि सुखमालेभे माणिक्येश्वरसन्निधौ ।
गीतानां षष्ठमध्यायं जपन्मोक्षप्रदायकम् १०२।
मरालवेषमास्थाय वरदानार्थमागताः ।
दिवौकसोऽपि निर्जग्मुः स्वैरं विस्मयकारिताः१०३।
इममध्यायमप्येकं यो जपेत्सततं नरः ।
सोऽपि तत्पदवीमेति विष्णोरेव न संशयः १०४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीता।
माहात्म्ये अशीत्यधिकशततमोऽध्यायः १८०।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 181
श्रीभगवानुवाच।
अथ ते वर्णयिष्यामि सप्तमाध्यायगौरवम् ।
यदाकर्ण्य सुधापूर पूर्तिर्भवति कर्णयोः १।
अस्ति पाटलिपुत्राख्यं दुर्गमुत्तुङ्गगोपुरम् ।
तत्राभूद्ब्राह्मणो नाम शंकुकर्णो दयार्णवः २।
वैश्यवृत्तिं समासाद्य धनमर्जितवान्बहु ।
पितॄन्न तर्पयामास पूजयामास नो सुरान् ३।
पार्थिवान्भोजयांश्चक्रे धनार्जनपरायणः ।
तुरीयपाणिग्रहणं मंगलार्थं गृहांतरे ४।
तनुजैर्बंधुभिः सार्धं संप्रतस्थे कदाचन ।
रजन्यां धर्मकल्पायां निद्रालोस्तस्य दोस्तले ५।
दशति स्म समागत्य दंदशूकः कुतश्चन ।
स दष्टमात्रोऽसाध्यात्मा मणिमंत्रौषधादिभिः ६।
क्षणैः कतिपयैरेव गतासुरभवत्ततः ।
पिचुमंददलैर्नालैरवगुंठितविग्रहम् ७।
तमारोप्य तरुस्कंधे सूनवो गृहमाययुः ।
ततः कालेन बहुना ततो जातः सरीसृपः ८।
तद्वासनानिबद्धात्मा जन्मपूर्वमनुस्मरन् ।
वंचयित्वा सुतानेतान्पूरयामि गृहाद्बहिः ९।
आत्मनः कोटिसंख्याकं यत्रास्ते स्थापितं वसु ।
ततो नारायणबलिश्रद्धया परयान्विताः १०।
कृतवंतः परे तस्य सूनवो हि द्विजन्मनः ।
एकदा स्वप्नमागत्य पीडितः सर्पजन्मना ११।
अभाषयन्मनोवृत्तं पुत्राणामग्रतः पिता ।
ततस्ते प्रातरुत्थाय परं विस्मयमोहिताः १२।
इतरेतरमाख्याय पर्यंतस्ते निरंकुशाः ।
एकस्तत्र पितृस्नेहादुद्धर्तुमपि वांछति १३।
अन्यो द्रविणलोभेन निहंतुं सर्पमीहते ।
इतरस्तु पितृस्नेहरसमोहितमानसः १४।
किंवा अहिमयो न स्याच्छोचन्रोदिति केवलम् ।
मध्यमस्तु ततः पुत्रो वंचयित्वा सहोदरौ १५।
केनापि छद्मनोत्थाय जगाम निजमालयम् ।
ततः शनैः समाहूय गृहिणीं गुणशालिनीम् १६।
कुद्दालहस्तो निरगाद्यत्रास्ते पन्नगः पिता ।
तेनाविदितवित्तेन चिह्नैर्निश्चित्य तत्वतः १७।
स्थानमागत्य तं हंतुं वल्मीकं लोभबुद्धितः ।
भार्ययोत्सार्य ते मृत्स्ना स्वयं तेन च खन्यते १८।
निखन्यमानादत्युग्रो वल्मीकादहिरुत्थितः ।
ततो गरलगंडूषैर्निर्गतैरतिदुःसहैः १९।
गिरः स कथयांचक्रे फणी फूत्कारमारुतैः २०।
अहिरुवाच।
कस्त्वं किमर्थमायातः कथं वा खन्यते बिलम् ।
केन वा प्रहितो मूढ तदाख्याहि ममाग्रतः २१।
पुत्र उवाच।
पुत्रस्तेऽहं शिवो नाम हेमग्रहणकौतुकी ।
आगतो रात्रलब्धस्य स्वप्नस्य तु सुविस्मितः २२।
शिव उवाच।
इत्थमाकर्ण्य पुत्रस्य गिरं लोकविगर्हिताम् ।
वक्तुमारभत स्पष्टं हसन्नुच्चैः फणी तदा २३।
सर्प उवाच।
यदि पुत्रोऽसि मे तूर्णं मामुन्मोचय बंधनात् ।
निक्षेपार्थाय संजातं पन्नगं पूर्वजन्मनः २४।
पुत्र उवाच।
पितः कथं ते मुक्तिः स्यादित्याचक्ष्व ममाग्रतः ।
परित्यक्त्वाखिलं लोकमागतोस्मि यथा निशि २५।
पितोवाच।
न तीर्थानि न दानानि न तपांसि न चाध्वराः ।
मामुन्मोचयितुं पुत्र प्रभवंति च सर्वथा २६।
गीतानां सप्तमाध्यायमंतरेण सुधामयम् ।
जंतोर्जरामृत्युदुःखनिराकरणकारणम् २७।
सप्तमाध्यायिनं विप्रं मदीये श्राद्धवासरे ।
भोजय श्रद्धया पुत्र तेन मुक्तिर्न संशयः २८।
अन्यानपि द्विजान्वत्स वेदविद्याविशारदान् ।
संभोजय यथाशक्ति परमश्रद्धयान्वितः २९।
इत्याकर्ण्य पितुर्वाक्यमुरगत्वमुपेयुषः ।
ते सर्वे सूनवो कुर्वन्यथादिष्टं ततोऽधिकम् ३०।
शंकुकर्णस्ततः श्रीमानुत्सृज्य तनुमौरगीम् ।
कृत्वा विभागं पुत्राणां दिव्यंदेहमुपाददे ३१।
विभज्य दत्तं पित्राय द्रव्यं तत्कोटिसंख्यया ।
तेन ते सूनवः सर्वे मुमुदुः साधुवृतयः ३२।
वापीकूपसरोयज्ञदेवप्रासादहेतवे ।
अन्नशालां ततः कुर्वन्पुत्रास्ते धर्मबुद्धयः ३३।
सप्तमाध्याय जपतो मुक्तिभाजोभवंस्ततः ।
षष्ठमिष्टतमं ज्ञात्वा निर्वाणार्पितदृष्टयः ३४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये एकाशीत्यधिकशततमोऽध्यायः १८१।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 182
शिव उवाच।
अष्टमाध्यायमाहात्म्यं शृणु वक्ष्यामि पार्वति ।
यस्य श्रवणमात्रेण परां मुदमवाप्स्यसि १।
आमर्दकं पुरं नाम्ना विश्रुतं दक्षिणापथि ।
द्विजन्मा भावशर्मेति तत्रासीद्गणिकापतिः २।
खादन्मांसं पिबन्मद्यं चोरयन्साधुसंपदः ।
रममाणः परस्त्रीभिराखेटक कुतूहली ३।
अत्यवाहयदत्युग्रो गरीयांसं मनोरथम् ।
सुहृदां विटगोष्ठ्यां च तालीफलसुधारसम् ४।
निपीय कंठपर्यंतमजीर्णेनातिपीडितः ।
मृतः कालेन पापात्मा जातस्तालीतरुर्महान् ५।
तस्यच्छायामुपाश्रित्य निबिडामतिशीतलाम् ।
अभूतां दंपती कौचिद्ब्रह्मराक्षसतां गतौ ६।
देव्युवाच।
किं जातीयौ किमात्मानौ किंवृत्तावित्युदीरय ।
कर्मणा केन वा देव ब्रह्मराक्षसता तयोः ७।
शिव उवाच।
वेदवेदांगतत्वज्ञः सर्वशास्त्रार्थकोविदः ।
सदाचारोऽभवत्कश्चिद्दिवजो नाम कुशीवलः ८।
जाया च तस्य कुमति नामधेया दुराशया ।
स सभार्यो महादानान्याददानोऽतिलोभवान् ९।
महिषीं कालपुरुषं हयादीननुवासरम् ।
अप्रयच्छन्द्विजातिभ्यो दानलब्धां वराटिकाम् १०।
कालेन दंपती प्रेतौ ब्रह्मराक्षसरूपिणौ ।
पर्यटंतौ महीमेतां क्षुत्तृषाकुलविग्रहौ ११।
विशश्रमतुरागत्य मूलं तालीतरोस्ततः ।
कथमेतन्महादुःखमावयोरपगच्छति १२।
कथं वा जायते मुक्तिर्ब्रह्मराक्षसयोनितः ।
इति पृष्टो गृहिण्याऽसौ ब्राह्मणः समभाषत १३।
ब्रह्मविद्योपदेशेन विनाध्यात्मविचारणात् ।
विनाकर्मविधिज्ञानात्कथं मुच्येत संकटात् १४।
भार्योवाच।
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
एतावदुक्ते तत्पत्न्या यदाश्चर्यमभूच्छृणु १५।
अष्टमाध्यायश्लोकार्द्धश्रवणात्स तरुस्तदा ।
विहाय तालीरूपं तद्बभूव द्विजसत्तमः १६।
सद्योज्ञानविधूतात्मा विमुक्तः पापकंचुकात् ।
तन्माहात्म्याद्विनिर्मुक्तौ दंपती तौ बभूवतुः १७।
एतावदेव मुक्तं च दैवान्निर्गत्य तन्मुखात् ।
ततोंतरिक्षादायांतं क्वणत्किंकिणिकं शुभम् १८।
दिवि दिव्यांगनावक्त्रचंद्रमंडलमंडितम् ।
अप्सरोवदनांभोज भ्राम्यद्भ्रमरसंकुलम् १९।
निर्मथ्यमानदुग्धाब्धि वेलाडिंडिरपांडुरैः ।
गंगातरंगसुभगैश्चामरैरुपशोभितम् २०।
गायद्गंधर्वसुभगं नृत्यत्सुरवधूशतम् ।
दिव्यं विमानमारूढौ दंपती जग्मतुर्दिवम् २१।
अत्रत्यं वृत्तमखिलमेतद्विस्मयकारकम् ।
ततो लिलेख मेधावी श्लोकार्द्धमिदमादरात् २२।
ययौ वाराणसीं नाम नगरीं मुक्तिदायिनीम् ।
आराधयितुमन्विच्छन्देवदेवं जनार्दनम् २३।
स तत्र कर्तुमारेभे तपः परमुदारधीः ।
अत्रांतरे जगन्नाथो देवदेवो जनार्दनः २४।
पृष्टो दुग्धाब्धिसुतया संयोज्य करसंपुटम् ।
निद्रापथं विहायैव स्थीयते कथ्यतामिति २५।
श्रीभगवानुवाच।
काश्यां भागीरथी तीरे तपस्यतितरां द्विजः ।
भावशर्माति मेधावी मद्भक्तिरसपूरितः २६।
जपन्गीताष्टमाध्यायश्लोकार्द्धं नियतेंद्रियः ।
संतुष्टवानहं देवि तदीयतपसा भृशम् २७।
चिरं विचारयन्नेव तत्तपः सदृशं फलम् ।
दातुमुत्कंठितमना वर्तेयं सांप्रतं प्रिये २८।
पार्वत्युवाच।
हरिः प्रसन्नभूतोऽपि चिंतां प्राप यदि प्रभो ।
भावशर्मा हरेर्भक्तः प्राप्तः किं तत्फलं पुनः २९।
श्रीमहादेव उवाच।
ततः प्रसादमासाद्य प्रसन्नस्य मुरद्विषः ।
सुखमात्यंतिकं प्राप भावशर्मा द्विजोत्तमः ।
लेभिरे पदवीं सर्वे तदीया अपि वंशजाः ३०।
तत्कर्मवशतो ये वै संप्राप्ता यातनां पुरा ।
एतदेवाष्टमाध्यायमाहात्म्यं किंचिदेव ते ३१।
कथितं मृगशावाक्षि द्रष्टव्यं तु सदैव च ३२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सा० उत्तरखंडे गीतामाहात्म्ये द्व्यशीत्यधिकशततमोऽध्यायः १८२।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 183
श्रीमहादेव उवाच।
अतः परं प्रवक्ष्यामि नवमाध्यायमादरात् ।
संशृणुष्व स्थिरीभूय तुहिनाचल कन्यके १।
अस्ति माहिष्मतीनाम नगरी नर्मदातटे ।
तत्रासीन्माधवो नाम द्विजन्मा स शिवो द्विजः २।
वेदवेदांगतत्वज्ञः कालेकालेऽतिथिप्रियः ।
अर्जयित्वा बहुधनं विद्ययैव विशुद्धधीः ३।
महांतमध्वरं कर्तुं समारेभे कदाचन ।
आलंभनार्थमानीतश्छागः पूजितविग्रहः ४।
वाचमूचे हसन्नुच्चैर्जगद्विस्मयकारकः ।
किमेतैर्बहुभिर्यागैर्विधिवद्विहितैरपि ५।
विनश्वरफलैर्जन्म जरामरणहेतुभिः ।
एतावत्यपि मे विप्र दशेयं दृश्यतामिति ६।
छागस्यैवं वचोतीव कुतूहलपरं जनाः ।
निशम्य विस्मयं याताः कृतमंडपवासिनः ७।
ततो बद्धांजलिपुटो द्विजातिस्तिमितेक्षणः ।
प्रणम्य श्रद्दधानस्तमपृच्छच्छागमादरात् ८।
द्विज उवाच।
किं जातीयः किमात्मा त्वं किं वृत्तमिति मे वद ।
केन वा कर्मणा वासीच्छागत्वमिति कारणम् ९।
छाग उवाच।
आसं पुरा द्विजातीनामन्वये चातिनिर्मले ।
आहर्ता क्रतुसंघानां वेदविद्याविशारदः १०।
एकदा मम गेहिन्या पुत्ररोगप्रशांतये ।
छागः प्रयाचितो मत्तः चंडिकाभक्तिनम्रया ११।
ततो निहन्यमानस्य चंडिकामंडपस्थले ।
छागस्य जननी मां तु शशाप ब्रह्मवादिनी १२।
अशास्त्रीयाध्वना पाप मत्सुतं यज्जिघांससि ।
द्विजात्यधमतेन त्वमजा योनिमवाप्स्यसि १३।
ततोऽहं प्रेत्यकालेन छागोऽभूवं द्विजोत्तम ।
निस्तीर्य चानेकविधा योनिसंतापयातनाः १४।
विप्र उवाच।
जातिस्मरत्वमप्यस्ति पशुयोनिमुपेयुषः ।
त्वदीयजन्मशुश्रूषा कुतूहलरसोन्मुखम् १५।
छाग उवाच।
मनः सर्वान्द्विजानेतानपि तत्कथयाखिलम् ।
कदाचिन्मर्कटो भूवमाहितुंडिकशिक्षया १६।
क्रीडद्भिर्वीक्षितो डिंभैर्नृत्यन्प्रतिगृहांगणे ।
उदारानात्मनो दारान्विलोक्य तनयानपि १७।
क्रियापराङ्मुखो जातस्त्यक्तनर्तनसंभ्रमः ।
ततो वर्तुलदंडैश्च दुःसहैराहितुंडिकः १८।
मामुच्चैस्ताडयांचक्रे रुषा लोहितलोचनः ।
ततोऽहं मूर्च्छितोऽभूवं क्षरत्क्षतजसंततिः १९।
आजिघ्रन्नन्नमुदकमगमं कालधर्मताम् ।
ततोऽहमासीच्छुनकः परिभ्राम्यन्गृहे गृहे २०।
कुक्षिं भरिरहं मार्गे त्यक्तोच्छिष्टान्नभक्षकः ।
कदाचिदाविशं स्वांतरात्मवेश्ममहानसम् २१।
बुभुक्षितो भक्षयितुं स्थाली स्थापितमोदनम् ।
जिघ्रन्भूमितलं पश्यन्दिशो दश शनैर्भयात् २२।
शंकमानो जनरवात्पार्श्वे च विलिहन्निव ।
ततः कदाचिदागत्य वीक्षितस्तनुजैर्निजैः २३।
जायया च जरत्याहं ताडितो लकुटादिभिः ।
ततो भग्नकटिर्यातो बहुशोणितमुद्वहन् २४।
निर्जगाम बहिर्गेहात्कथंचिन्मूर्च्छयाकुलः ।
अंगेषु पूतिगंधेषु क्रिमिगर्भेषु कालतः २५।
ततः कदश्वतां प्राप्तः शौंडिकस्य च वेश्मनि ।
अश्वोभवमहं विद्वन्मृतः कालक्रमादिह २६।
कदाचिच्चत्वरे तेन समानीतो जनाकुले ।
विक्रयाय जरालीढ पतयालुरदावलि २७।
जायया द्वारकायात्रां कर्तुमुद्यतयासकृत् ।
मौल्येनाल्पीयसा क्रेतुं तुरंगं चेष्टमानया २८।
जगृहेहं तया दाम्ना अल्पेन वसुना जरन् ।
गंतुं चारभतद्वित्रैः पुत्रैरारुह्य मां समम् २९।
शनैः शनै सरस्तीरे मग्नोऽहं गाढकर्दमे ।
तत्राहं कुटिलग्रीवश्चापतन्कर्दमान्तरे ३०।
ताड्यमानो मुहुः पुत्रैः लकुटोपलपाणिभिः ।
उत्थाप्यमानो बहुधा प्राणान्मोचितवानहम् ३१।
ततो निश्चित्य मां तत्र मृतं भग्नोद्यमाः सुताः ।
आक्रुश्य मातरं दीनां प्रावृत्य निर्ययुर्गृहम् ३२।
ततः संप्रेत्य बहुना कालेन छागतां गतः ।
निस्तीर्णानेकहीनोच्च योनिसंतापयातनः ३३।
द्विज उवाच।
किमनेन महाछाग दुःखजातेन नित्यशः ।
यथावदंजसा मह्यं सुखमात्यंतिकं भवेत् ३४।
छाग उवाच।
आश्चर्यं कथयिष्यामि पुनरन्यदपि द्विज ।
स्वस्थमापृच्छमानस्य तवास्ति यदि कौतुकम् ३५।
अस्ति नाम्ना कुरुक्षेत्रं नगरं मोक्षदायकम् ।
सूर्यवंशोऽभवत्तत्र चंद्रशर्मा महीपतिः ३६।
सूर्योपरागसमये श्रद्धया परयान्वितः ।
दानं स कालपुरुषं दातुं समुपचक्रमे ३७।
समाहूय द्विजन्मानं वेदवेदांगपारगम् ।
स्नातुं पुण्योदकैः पुण्यैर्ययौ सार्द्धं पुरोधसा ३८।
अथोच्चैः कालपुरुषो वाचमूचे हसन्निव ।
अन्येनैव प्रगृह्णंति क्षेत्रे चाण्वपि किंचन ३९।
सूर्योपरागसमये कुरुक्षेत्राभिधे स्थले ।
दानं च कालपुरुषं जिघृक्षसि कथं द्विज ४०।
ज्ञात्वापि निश्चितं सर्वमेतत्पातककारकम् ।
प्रवर्तसे कथं कर्तुं धनलोभान्धया धिया ४१।
इत्थमाकर्ण्य तद्वाक्यं जगद्विस्मयकारकम् ।
किमनेन महादानभयेनेत्यवदद्द्विजः ४२।
एवंविध महादान पातकागाधवारिधिम् ।
जानामि तरितुं सम्यगुपायमहमेव हि ४३।
ततः स्नात्वा महीपालः परिधाय च वाससी ।
शुचिः प्रसन्नहृदयः सितमाल्यानुलेपनः ४४।
अवलंब्य करांभोजं पार्श्ववर्तिपुरोधसः ।
समाययौ सेव्यमानः स तत्कालोचितैर्जनैः ४५।
समागत्य च भूपालः संप्रादात्कालपूरुषम् ।
यथोचितेन विधिना तस्मै भक्त्या द्विजन्मने ४६।
निर्भिद्य कालपुरुषहृदयं निर्दयोदयः ।
पापात्मा निर्ययौ कश्चिच्चांडालो रक्तलोचनः ४७।
किंच प्रापितकालस्य परनिंदारसोत्सवे ।
निंदा चांडालिका देहपार्श्वमागाद्द्विजन्मनः ४८।
एतच्चांडालयुगलं निर्गत्यारुणलोचनम् ।
ततः संचरितं चक्रे प्रसह्यांगे द्विजन्मनः ४९।
गीतानां नवमाध्यायं जपन्नेव हृदिस्थितः ।
कंपमानं द्विजं किंचित्तूष्णीं पश्यति भूपतौ 6.183.५०।
अंतर्निद्राणगोविंदं कंपमानमिवांबुधिम् ।
मरुदांदोलनैर्विद्वान्द्विजन्मा पापसंश्रयम् ५१।
ततो गीताक्षरोद्भूतैर्वैष्णवैः परिपीडितम् ।
पलायमानं चांडालयुगलं निष्फलोद्यमम् ५२।
तन्निश्चक्राम वेगेन द्विजातेः पार्श्ववर्ति यत् ।
शरीरे वर्त्तमानं च परनिंदारसोत्सवे ५३।
इत्थं कलितवृत्तांतः प्रत्यक्षं क्षितिवल्लभः ।
पर्यपृच्छद्द्विजन्मानं विस्मयस्मेरलोचनः ५४।
कथमापदियं घोरा निस्तीर्णा महती त्वया ।
कं मंत्रं जपता विप्र कं वासं स्मरतासुरम् ५५।
कः पुमान्का च सा योषित्कथमेतावुपस्थितौ ।
कथं च शांतिमापन्नावित्युदीरय मे द्विज ५६।
द्विज उवाच।
चांडालमूर्तिमासाद्य मूर्तिकिल्बिषमुल्बणम् ।
योषिन्मूर्त्तिमयीं निंदाद्वयमेतदवैम्यहम् ५७।
गीताया नवमाध्यायमंत्रमाला मया स्मृता ।
तन्माहात्म्यमिदं सर्वं त्वमवेहि महीपते ५८।
गीताया नवमाध्यायं जपामि प्रत्यहं नृप ।
निस्तीर्णाश्चापदस्तेन कुप्रतिग्रहसंभवाः ५९।
अभ्यस्य नवामाध्यायं राजा तस्माद्द्विजन्मनः ।
तावुभावपि लेभाते परां निर्वृतिमुत्तमाम् ६०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये त्र्यशीत्यधिकशततमोऽध्यायः १८३।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 184
देव्युवाच।
सर्वज्ञ सर्वचैतन्य सर्वेश्वर गिरां गुरो ।
धन्यास्मि शिवमान्येन दृश्यमानेन यत्त्वया १।
निरूपितमिदं पुण्यं नवमाध्यायवैभवम् ।
अनेकविस्मयस्वादु कथानकमयं मधु २।
शृण्वंत्या मम देवेश न तृप्तिर्जातु जायते ।
अकुंठाश्रवणोत्कंठा वर्द्धते वृषभध्वज ३।
आसीन्ममहिमांभोधे गीतानां श्रुतिजीवितम् ।
तत्रापि दशमाध्यायं प्रधानं मुनयो जगुः ४।
तमुद्दिश्य महाध्यायमभिधेहि कथानकम् ।
शिव उवाच।
शृणु सुश्रोणि निश्रेणीं स्वर्गदुर्गस्य दुर्ल्लभाम् ५।
सीमामिव प्रभावानां पावनीं परमां कथाम् ।
आसीत्काशीपुरे विप्रः पुण्यकीर्त्तिपरायणः ६।
प्रशांतचेता निर्मुक्त हिंसाकार्कश्यसाहसः ।
निवृत्तिनिरतो नित्यं जितेंद्रियतया तथा ७।
धीरधीरिति विख्यातो नंदीव मयि भक्तिमान् ।
निस्तीर्णनिगमांभोधिः सर्वशास्त्रार्थकोविदः ८।
तस्य ध्यानपराधीन चेतसः प्रतिगच्छतः ।
अंतरात्मनि निर्मग्न मनसस्तत्त्वचक्षुषः ९।
करावलंबनं तस्य धावन्प्रीत्या ददाम्यहम् ।
कदाचन चमत्कारकारकं विमना मुनिः १०।
आचांतः किंच नासाग्रपरमानंदमेदुराम् ।
दृशमासाद्य निद्राणकरणोयमिवास्थितः ११।
उपाधास्य विशालाक्षि विशालां द्वारदेहलीम् ।
अशेत निशि निःशंकं तावल्लंबेक्षणः क्षणम् १२।
मामपृच्छद्भृंगिरिटिः प्रणम्यपादपंकजम् ।
अनेन विधिना केन विहितं तव दर्शनम् १३।
तपस्तप्तं हुतं जप्तं किमनेन महात्मना ।
दत्ते प्रतिपदं देवो यस्य हस्तावलंबनम् १४।
अयं न लभते गंतुं कस्मादस्मात्पुराद्बहिः ।
यदृच्छया यदा काशी सीमामुल्लंघ्य गच्छति १५।
न पश्यति तदा सर्वान्पार्श्वस्थानपि देहिनः ।
अत्र हेतुमहं ज्ञातुमिच्छामि स्वामिभाषिताम् १६।
अनुग्राह्योस्मि चेद्वक्तुं युक्तं चेत्तदुदीरय ।
भृंगिरिटेरिमं प्रश्नं समाकर्ण्याहमूचिवान् १७।
कदाचिदासं कैलासं पार्श्वे पुन्नागकानने ।
रणत्खेचरसुश्रोणि पूर्णस्तबककानने १८।
कलकंठकुलालाप कल्लोलितदिगंतरे ।
गरुत्मदादिदात्यूह समूहस्वरसंकुले १९।
भ्रमद्दारुघटीयंत्र प्रोल्लसद्बिंदुदंतुरे ।
प्रबुद्धसारणिप्रांत कदलीकंदलालसे २०।
कस्तूरीहरिणोपेते किंनरस्वरमोहिते ।
रोमंथमंथरापांगैर्मृगैः क्वापि निषेविते २१।
हंसैः कीरेषु पांडित्यं कुर्वाणैः संकुले शुकैः ।
निर्हृदिक्वणिनीरंध्र समीरणविलोडिते २२।
माधवीपुष्पनिर्यासशीधुक्षीबमधुव्रते ।
उन्मीलित्त्रिवलीपुष्पगुच्छसौरभनिर्भरे २३।
प्रोत्फुल्लबकुलामोदमदमंथरषट्पदे ।
सोमादुद्भूतपीयूषक्षालितक्षितिमंडले २४।
अध्यास्य वेदिकामेकामहं क्षणमवस्थितः ।
उद्दंडशाखिसंघट्टस्फुटन्मंथामुखोत्करैः २५।
प्रकंपिता चलच्छायो ववौ चंडसमीरणः ।
पश्चादभून्महाघोषो निर्घोषित दरीतटः २६।
अवातरत्ततः कश्चित्पक्षी गगनगह्वरात् ।
शारदानरिदच्छायः कज्जलानामिवोच्चयः २७।
तमसामिव संघातः पक्षच्छेदीव पर्वतः ।
अवष्टभ्य क्षितिं पद्मां पक्षी मां प्रणनाम सः२८।
आनीय पद्ममम्लानमसौ मत्पादयोर्व्यधात् ।
अथासौ स्पष्टया वाचा पक्षी स्तोत्रमुदीरयत् २९।
जयदेव चिदानंद सुधासिंधो जगत्पते ।
सदा सद्भावना संग कल्लोलानंतविग्रह ३०।
अद्वैतवासना मत्या मलत्रयविवर्जित ।
जितेंद्रिय पराधीन समाधिप्राप्यविग्रह ३१।
निरुपाधिविनिर्मुक्त निराकार निरामय ।
निःसीम निरहंकार निरावरणनिर्गुण ३२।
शरणागतसंत्राण प्रवीण चरणांबुज ।
भीममाल महाव्याल ज्वालादग्धमनोभव ३३।
कुठारभिन्नदैत्येंद्र गंडूषित महाविभो ।
त्रिपुरप्रमदाभाल सिंदूरोद्धूलिमार्जन ३४।
कात्यायनीकुचांभोज वरकुंकुमचर्चित ।
नमः प्रमाणदूराय नमः प्रमतिरूपिणे ३५।
नमश्चैतन्यनाथाय नमस्त्रैलोक्यरूपिणे ।
वंदे तव पदांभोजं योगिप्रवरचुंबितम् ३६।
अपारभवपाथोऽधि पारावतरणाद्भुतम् ।
वाचस्पतिरपि स्तोत्रे भवतो न प्रगल्भते ३७।
सहस्रवदनस्यापि फणींद्रस्य न चातुरी ।
त्वद्वर्णने महादेव कोऽहंमल्पमतिः खगः ३८।
स्तोत्रमेतत्समाकर्ण्य कृतं तेन पतत्रिणा ।
तमवोचमहं कोऽसि कुतस्त्योसि विहंगम ३९।
हंसेन सदृशः कायो वर्णः काकेन संनिभः ।
प्रयोजनं कमुद्दिश्य प्राप्तोसीह तदुच्यताम् ४०।
इति पक्षी मया पृष्टः प्रश्रयानतकंधरः ।
जगाद श्लक्ष्णया वाचा पक्षीवाक्यविदांवरः ४१।
देवेश धूर्जटे विद्धि मां मरालं स्वयंभुवः ।
कर्मणा येन मे कार्ष्ण्यं जातमाधुनिकं विभो ४२।
तदाकर्णय सर्वज्ञ पृष्टं यदि तदुच्यते ।
मानसात्सरसः पृथ्वीं यातः प्राप्तोस्मि संकटम् ४३।
सौराष्ट्रनगरादारात्सरसि स्फुटदंबुजे ।
बालेंदुखंडधवलान्मृणालकवलानहम् ४४।
आदाय बलमाश्रित्य निरगां गगनं द्रुतम् ।
विहायसस्ततस्तस्मादकस्मादपतं भुवि ४५।
अथ मोहपरीतात्मा सर्वथा विकलेंद्रियः ।
वेपमानवपुर्मोहात्स्पृष्टः शीतैः समीरणैः ४६।
प्रबुद्धः पतने हेतुमपश्यन्नात्मनस्तदा ।
अहो किमेतदापन्नमद्य पातः कथं मम ४७।
कालिमा येन कायेस्मिन्पक्वकर्पूरपांडुरे ।
इत्यहं विस्मयाविष्टो यावत्कुर्वे विचारणम् ४८।
तावदंबुरुहाद्वाणीमश्रौषमहमीदृशीम् ।
उत्तिष्ठ हंस वक्ष्यामि कारणं पातकार्ष्ण्ययोः ४९।
अथोत्थाय समागत्य मया मध्ये सरोवरे ।
दृष्टराजीविनीरम्या राजीवैः पंचभिर्युता 6.184.५०।
कारणं प्रष्टुमारेभे कार्ष्ण्यस्य पतनस्य च ।
अथ तत्र घनश्यामान्स्वर्णवर्णांबरावृतान् ५१।
चतुर्भुजान्गदाशंखचक्रपंकेरुहायुधान् ।
किरीटहारकेयूरकुंडलद्युतिचित्रितान् ५२।
अद्राक्षमंतरिक्षस्थान्पुरुषानयुतानि षट् ।
नत्वा प्रदक्षिणीकृत्य पंचपद्मां सरोजिनीम् ५३।
आत्मीयं पातमारभ्य पृष्टं तदखिलं मया ।
पद्मिन्युवाच।
कलहंस गतोऽसि त्वं मां विलंघ्य विहायसा ५४।
तेन पातकयोगेन पतितोऽसि महीतले ।
तेनैव कालिमा काये पक्षिसत्तम लक्ष्यते ५५।
भवंतं पतितं वीक्ष्य कृपापूर्णेन चेतसा ।
मध्यमेनामुनाब्जेन वदता जातसौरभम् ५६।
आघ्राय षट्पदाः षष्टिसहस्राणि दिवं ययुः ।
एते ये भवतां दृष्टाः नीलोत्पलसमत्विषः ५७।
सर्वे ते सप्तमेऽतीते जन्मन्यासन्मुनेः सुताः ।
अस्यैव सरसस्तीरे तेपुस्ते परमं तपः ५८।
कदाचित्कामिनी काचिच्चंपकस्तबकस्तनी ।
चलापांगकालाकांततरंगित रसालिनी ५९।
नासा मुक्ताफलज्योत्स्ना चुंबितस्मित दीधितिः ।
वीणां विन्यस्य कुचयोर्वनेऽस्मिन्मधुरं जगौ ६०।
गायंत्या स्वरमाकर्ण्य ब्राह्मणा हरिणा इव ।
तां समागत्य ते सर्वे सममेव व्यलोकयन् ६१।
मया दृष्टा ममैवेयमित्यूचुस्ते परस्परम् ।
मुष्टामुष्टि ततस्तेषां भ्रातॄणामभवद्रणः ६२।
अन्योन्यमुष्टिनिष्पिष्ट वक्षसस्त्यक्तजीविताः ।
ते भुक्त्वा निरयान्घोरान्बभूवुः सारसा भुवि ६३।
तदा ते श्वापदान्जघ्नुर्दग्धावन्येन वह्निना ।
ततो मातंगतामेत्य पथिपांथानघातयन् ६४।
वने विषोदकं पीत्वा ते ययुर्यममंदिरम् ।
खरोष्ट्रकपिमार्जार जन्मान्यासाद्य च क्रमात् ६५।
ततो मधुव्रता जाता वर्तंतेऽत्र सरोवरे ।
अद्य मे गंधमाघ्राय प्रापुस्ते वैष्णवं पदम् ६६।
शृणु पक्षींद्र वक्ष्यामि येन मय्यस्ति वैभवम् ।
एतस्माज्जन्मनः पूर्वे तृतीये जन्मनि क्षितौ ६७।
सरोजवदनानाम द्विजातेः कन्यकाऽभवम् ।
पातिव्रत्यैकनिरता गुरुशुश्रूषणे रता ६८।
कदाचित्सारिकामेकां पाठयंत्याविलंबितम् ।
सारिका भव पापे त्वं पत्या शप्तास्मि कुप्यता ६९।
प्रेत्य सारित्वमासाद्य पातिव्रत्यप्रसादतः ।
मुनीनामेव सदने कन्या काचित्पुपोष माम् ७०।
गीतानां दशमाध्यायं विभूतिरिति विश्रुतम् ।
प्रातः पठति विप्रोसावश्रौषं तमघापहम् ७१।
कालेन सारिकादेहमहं हित्वा विहंगम ।
दशमाध्यायमाहात्म्यादप्सराश्चाभवं दिवि ७२।
पद्मावतीति विख्याता पद्माया दयिता सुखी ।
कदाचन मया यांत्या विमानेन विहायसा ७३।
एतत्सरोवरं रम्यं विलोक्य विमलांबुजम् ।
अवतीर्य जलक्रीडायावदारभ्यते मया ७४।
दुर्वासास्तावदायातो विवस्त्रा तेन वीक्षिता ।
तद्भयात्पद्मिनीरूपं धृतमेतन्मया स्वयम् ७५।
पद्भ्यां पद्मद्वयं चैव द्वयं हस्तद्वयेन च ।
मुखेन पंचमांभोजमिति पंचांबुजास्म्यहम् ७६।
दृष्टा तेन मुनींद्रेण कोपज्वलित चक्षुषा ।
अनेनैव स्वरूपेण तिष्ठ पापे शतं समाः ७७।
इति शापं समुत्सृज्य स चैवांतर्दधे क्षणात् ।
विभूत्यध्यायमाहात्म्याद्वाणी मे न विलीयते ७८।
मद्विलंघनमात्रेण पतितोसि महीतले ।
अद्य शापनिवृत्तिर्मे तिष्ठतस्ते खगोत्तम ७९।
निशामय मया गीयमानमध्यायमुत्तमम् ।
यस्याकर्णनमात्रेण त्वमद्यैव विमोक्ष्यसे ८०।
इत्यसौ दशमाध्यायं पपाठ श्लक्ष्णया गिरा ।
तमाकर्ण्य तया दत्तमादाय च सरोरुहम् ८१।
मया समर्पितं तुभ्यं पद्मिन्या पद्ममुत्तमम् ।
इत्युक्त्वा स जहौ देहं तदद्भुतमिवाभवत् ८२।
भृंगिरिटिरुवाच।
पुरातने भवे कोऽयं ब्रह्म हंसोऽभवत्कथं ।
तवाग्रतः कुतो हेतोरुत्ससर्ज कलेवरम् ८३।
इति भृंगिरिटिर्वाक्यमाकर्ण्याहं तदाब्रुवम् ।
द्विजवेश्मनि पूर्वस्मिन्जन्मन्ययमजायत ८४।
सुतपा इति विख्यातो ब्रह्मचारी जितेंद्रियः ।
वसन्गुरुकुले कुर्वन्वेदाध्ययनमन्वहम् ८५।
गुरुशुश्रूषणं सम्यग्विदधाति च भक्तितः ।
शयानस्य गुरोः शय्यां निद्रितः सपदा स्पृशत् ८६।
तेन पापेन तिर्यक्त्वमयं स्वर्गेऽपि लब्धवान् ।
पद्मयोनिमरालानां मध्ये जातस्ततो द्विजः ८७।
अस्मिञ्जन्मन्यमुष्येह पुरास्मल्लोकनावधि ।
गीतानां दशमाध्यायं नलिन्या कथितं ततः ८८।
आकर्ण्य विहगो लेभे ब्रह्मज्ञानमनुत्तमम् ।
सोऽयं विप्रकुले जातो दशमाध्यायवैभवात् ८९।
जन्माभ्यासवशादस्य शिशोरपि मुखांबुजात् ।
गीतानां दशमाध्यायः समुल्लसति सर्वदा ९०।
तदर्थपरिणामेन सर्वभूतेष्ववस्थितम् ।
शंखचक्रधरं देवमयं पश्यति सर्वदा ९१।
यस्मिन्यस्मिन्यदैवास्य दृष्टिः स्निग्धा शरीरिणः ।
स स मुक्तो भवेत्सर्वः सुरापो ब्रह्महाऽपि वा ९२।
तद्विज्ञाय मया विप्रः परमात्मस्वरूपिणा ।
इदं नगरमानीतो मुक्तिक्षेत्रं स्वभावतः ९३।
अत्रत्यानां मनुष्याणां मुक्तिः करतले स्थिता ।
तेनास्य दृष्टिपातेन विशेषोऽन्यो न जायते ९४।
न ददामि बहिर्गंतुमहमस्य पुरा कृतम् ।
दशमाध्यायमहात्म्यात्तत्वज्ञानं सुदुर्लभम् ९५।
लब्धमेतेन मुनिना जीवन्मुक्तिरियं तथा ।
तेनास्य चलतो हस्तं ददामि पथि गच्छतः ९६।
दशमाध्यायमहिमा भृंगिरिटे महानयम् ।
इति भृंगिरिटेरग्रे कथितं यत्कथानकम् ९७।
तवेदमत्र कथितं सर्वपापप्रणाशनम् ।
नरो वाप्यथवा नारी यापि कोऽपि च वा पुनः ९८।
अस्य श्रवणमात्रेण सर्वाश्रमफलं लभेत् ९९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये चतुरशीत्यधिकशततमोध्यायः १८४।
।
भगवद्गीतायाः दशमोध्यायः
खण्डः ६ (उत्तरखण्डः) — Adhyāya 185
देव्युवाच।
इतिहासोऽयमीशान श्रेयसां साधनं परम् ।
आकर्ण्य करुणापूर्ण ममकांक्षा प्रवर्त्तते १।
एकादशस्य माहात्म्यमध्यायस्य कथाश्रयम् ।
व्यावर्णय विरूपाक्ष वक्तॄणां प्रथम प्रभो २।
ईश्वर उवाच-।
आकर्णय कथां कांते गीतावर्णनसंश्रयाम् ।
विश्वरूपाभिधानस्य माहात्म्यमपि पावनम् ३।
अध्यायस्य विशालाक्षि वक्तुं तावन्न शक्यते ।
सहस्राणि कथाः संति तत्रैका कथ्यते मया ४।
प्रणीतायास्तटे नद्या मेघंकरमिति श्रुतम् ।
नगरं गरिमाधार तुंगप्राकारगोपुरम् ५।
विशालाश्रमशालासु स्वर्णस्तंभविभूषितम् ।
श्रीमद्भिः सुखिभिः शांतैः सदाचारैर्जितेंद्रियैः ६।
अधिष्ठितं जवैश्चारुशृंगाटकमनोहरम् ।
मणिस्तंभस्फुरत्स्वर्णापणचत्वरशोभितम् ७।
पताकाकिंकिणीक्वाण कदंबक कलस्वरम् ।
वेदाध्ययननिर्घोषवाचालित दिगंतरम् ८।
तूर्यसंघोषणाकीर्ण विशालव्योममंडलम् ।
पताकापल्लोद्भूतवातनिर्जितविग्रहम् ९।
राजामार्गवरद्वारनारीमंजीरसिंजितैः ।
वल्लकीवेणुकैर्गीतेर्भाति वाजींद्र हेषितैः १०।
प्रेक्षमाणमिवाभीक्ष्णं दिक्पालानां पुरैः समम् ।
आस्ते जगत्पतिर्यत्र शार्ङ्गपाणिर्विराजितः ११।
मूर्तिमत्परमं ब्रह्म जगल्लोचनजीवितम् ।
लक्ष्मीनयनराजीव पूजिताकारगौरवः १२।
त्रिविक्रमवपुर्मेघश्यामलः कोमलद्युतिः ।
श्रीवत्सवक्षाराजीव वनमालाविभूषितः १३।
अनेकभूषणोपेतः सरत्न इव वारिधिः ।
चलत्सौदामिनीदाम सांद्रमेघसमद्युतिः १४।
तस्यास्ते मुकुटे साक्षात्शार्ङ्गपाणिः परः पुमान् ।
तं दृष्ट्वा मुच्यते जंतुर्जन्मसंसारबंधनात् १५।
यस्मिन्पुरे महातीर्थं विद्यते मेखलाभिधम् ।
यत्र स्नात्वा नरैर्नित्यं प्राप्यते वैष्णवं पदम् १६।
तत्र वीक्ष्य जगन्नाथं नरसिंहं कृपार्णवम् ।
सप्तजन्मार्जिताद्धोरान्मुच्यते दुष्कृतान्नरः १७।
मेखलायां गणाधीशं विलोकयति यो नरः।
स निस्तरति विघ्नानि दुस्तराण्यपि सर्वदा ।
ब्रह्मचर्यपरो दांतो निर्ममो निरहंकृतिः १८।
तस्मिन्मेघंकरे कश्चिदभूद्ब्राह्मणसत्तमः ।
सुनंद इति विख्यातो वेदशास्त्रविशारदः १९।
वशीकृतेंन्द्रियग्रामो वासुदेवपरायणः ।
देवस्य शार्ङ्गिणः पार्श्वे गीताध्यायमिमं प्रिये २०।
एकादशं पठत्येष विश्वरूपप्रदर्शनम् ।
अध्यायस्य प्रभावेन ब्रह्मज्ञानमवाप सः २१।
परमानंदसंदोह श्लाघ्यसंवित्समाधिना ।
प्रत्यङ्मुखेंद्रियतयानिश्चलां स्थितिमीयुषा २२।
सततं स्थीयते तेन जीवन्मुक्तेन योगिना ।
एकदा स महायोगी सिंहराशिस्थिते गुरौ २३।
thumb|पूर्वगोदावरीजनपदे गोलिङ्गेश्वर मन्दिरसमूहे एका मूर्तिः
गोदावरीतीर्थयात्रां विधातुमुपचक्रमे ।
प्रथमेऽह्नि समागत्य विरजं तीर्थमुत्तमम् २४।
नाभिमारभ्य तीर्थेषु स समभ्यर्च्य देवताम् ।
मज्जन्मज्जन्जगद्धात्रीं कमलां स व्यलोकयत् २५।
तां संपूज्य महामायां सर्वकामफलप्रदाम् ।
तारातीर्थे ततः स्नात्वा कपिलासंगमे ततः २६।
अष्टतीर्थमसौ चक्रे विधाय पितृतर्पणम् ।
कुमारीशं शिवं नत्वा कपिलाद्वारमाययौ २७।
तत्र निर्मज्ज्य निर्धूतप्राग्जन्मांतरदुष्कृतः ।
संपूज्य नत्वा श्रुत्वा च देवं वै मधुसूदनम् २८।
उषित्वा तत्र तां रात्रिं प्रागात्प्रातः सह द्विजैः ।
नरसिंहवने तत्र तीर्थे रामस्य दीर्घिका ।
प्रह्लादपूजितः साक्षादास्ते यत्र नृकेसरी २९।
तं दृष्ट्वा देवदेवेशं पूजयित्वा तु भक्तितः ।
तत्र तं दिवसं नीत्वा स ययावंबिकापुरम् ३०।
अनुग्रहेण भक्तानामंबिका तत्र तिष्ठति ।
पूरयंति मनुष्याणां वांच्छितान्यखिलान्यपि ३१।
पूजयित्वांबिकां भक्त्या पुष्पगंधानुलेपनैः ।
उपहारैश्च विविधैः स्तौत्रैः प्रणमनैरपि ३२।
विप्रस्तस्मात्पुरा प्राप्तः कंठस्थानाभिधं पुरम् ।
यत्रास्ते परमा शक्तिर्महालक्ष्मीर्महाद्युतिः ३३।
तामवेक्ष्य सुधाभानुभास्करद्युतिमंडलाम् ।
संसारतापविच्छेद पद्मपीयूषवाहिनीम् ३४।
योगिराजहृदंभोज राजहंसनिषेविताम् ।
अनाहतमहानादमयीमद्वयरूपिणीम् ३५।
महालक्ष्मीं भगवतीं वांछितार्थप्रदायिनीम् ।
आराध्य भक्तिभावेन चेतसा स मुनीश्वरः ३६।
विवाहमंडपं प्राप पुरं विप्रैः समन्वितः ।
पुरे तत्र प्रतिगृहं वासस्थानमयाचत ३७।
न लेभे वसतिं स्थातुं गेहे कस्मिन्नपि द्विजः ।
दर्शितं ग्रामपालेन विशालं वासमंदिरम् ३८।
प्रविश्य वसतिं चक्रे ब्राह्मणः संगिभिः सह ।
ततः प्रभाते विमले सुनंदोऽसौ द्विजोत्तमः ३९।
बहिरालोकयांचक्रे वासगेहान्निजं वपुः ।
अध्वन्यानखिलान्यत्र जातान्क्वापि यदृच्छया ४०।
गम्यमानः समायांतं ग्रामपालो ददर्श सः ।
तं बभाषे ग्रामपाल आयुष्मानसि सर्वशः ४१।
भागधेयवतां पुंसां पुण्यः पुण्यवतामसि ।
प्रभावो विद्यते वत्स कोपि लोकोत्तरस्त्वयि ४२।
क्व प्रयाताः सहायास्ते कथं तत्सदनाद्बहिः ।
तत्पश्य मुनिशार्दूल कथयामि तवाग्रतः ४३।
किंतु नान्यं त्वया तुल्यं पश्यामीह तपस्विनम् ।
किं जानासि महामंत्रं कां विद्यामवलंबसे ४४।
कस्य देवस्य कारुण्याच्छक्तिर्लोकोत्तरा त्वयि ।
तत्कारुण्यवशात्तिष्ठ ग्रामेऽस्मिन्ब्राह्मणोत्तम ४५।
शुश्रूषामखिलामेव भगवंस्ते करोम्यहम् ।
इति संवासयामास तस्मिन्ग्रामे मुनीश्वरम् ४६।
परिचर्या च तस्यासौ भक्त्या चक्रे दिवानिशम् ।
दिवसेषु प्रयातेषु सप्ताष्टसु समेयिवान् ४७।
प्रातरागत्य तस्याग्रे रुरोद भृशदुःखितः ।
अद्य मे भाग्यहीनस्य गुणवान्भक्तिमान्सुतः ४८।
जाज्वल्यमानदंष्ट्रेण भक्षितो निशि रक्षसा ।
इत्येवं रक्षकेणोक्तं तं पप्रच्छ स संयमी ४९।
क्वास्ते स राक्षसः पुत्रो भक्षितस्ते कथं वद ।
ग्रामपाल उवाच-।
वर्तते नगरे घोरः पुरुषादो निशाचरः 6.185.५०।
स खादति नरानेत्य नित्यं नगरगोचरान् ।
स सर्वैर्नागरैरत्र प्रार्थितः पुरुषैः पुरा ५१।
रक्ष राक्षस नः सर्वान्ग्रासं ते कल्पयामहे ।
पथिका निशि निद्रंति ये च तान्भुंक्ष्व राक्षस ५२।
एतस्मिन्सदने पांथान्ग्रामपालप्रवेशितान् ।
आहारं कल्पयांचक्रुरात्मीयप्राणगुप्तये ५३।
भवान्सुप्तोगृहेऽमुष्मिन्नधन्यैः संयुतः परैः ।
ते ग्रस्ताः किल चानेन न त्वं मुक्तोसि द्विजोत्तम ५४।
प्रभावं भवतो वेत्ति भवानेव द्विजोत्तम ।
मदीय तनयस्याद्य मित्रमेकमुपागतम् ५५।
अजानता मया सोऽपि तनयस्य प्रियः सखा ।
अन्यैः पांथजनैः सार्द्धं तस्मिन्गेहे प्रवेशितः ५६।
श्रुत्वा तत्र प्रविष्टं तं निशीथे तनयो मम ।
तमानेतुं गतः सोऽपि भक्षितस्तेन रक्षसा ५७।
दुःखितेन मया प्रोक्तः प्रातः स पिशिताशनः ।
ममापि पुत्रो दुष्टात्मन्भवता निशि भक्षितः ५८।
भवज्जठरनिर्मग्नः सुतोऽसौ येन जीवति ।
अस्ति चैवमुपायस्ते ब्रूहि मे त्वं निशाचर ५९।
राक्षस उवाच-।
अंतःप्रविष्टा त्वत्पुत्रमज्ञात्वाहमभक्षयम् ।
अजानन्भक्षितः पांथैः सहितोऽसौ सुतस्तव ६०।
यथा जीवति मे कुक्षौ यथा भवति रक्षितः ।
तथा विहितमप्यस्ति दैवेन परमेष्ठिना ६१।
गीतैकादशमध्यायं यः पठत्यनिशं द्विजः ।
तत्प्रभावेन मे मुक्तिर्मृतानां पुनरुद्भवः ६२।
ग्रामपाल उवाच-।
कथमेकादशाध्यायसामर्थ्यमिदमद्भुतम् ६३।
इति पृष्टो मया विप्र स बभाषे निशाचरः ६४।
पुरा गृध्रेण केनापि नभोमार्गेण गच्छता ।
अस्थिखंडं स्वतुंडाग्रात्पातितं क्वापि वारिणि ६५।
तं जलाशयमागत्यकोऽपि ज्ञानीश्वरस्तदा ।
महातीर्थमिति ज्ञात्वा विदधे पितृतर्पणम् ६६।
तमूचिरे जनाः सर्वे तीर्थमेतत्कथं वद ।
जपत्येकादशाध्यायं त्रिसन्ध्यं नियतेंद्रियः ६७।
कृतमौनस्तु विप्रोऽसौ चौरैर्व्यापादितः पथि ।
तस्यास्थिशकलं गृध्रवदनात्पतितं जले ६८।
तेन तीर्थमिदं दिव्यं जातं पातकनाशनम् ।
ततस्ते मानवाः सर्वे सस्नुस्तत्र जलाशये ६९।
निष्कल्मषतया चैवं प्रापुस्ते परमं पदम् ।
एकादशस्य सामर्थ्यादध्यायस्य भविष्यति ७०।
ममापि मुक्तिः पांथानां पुनरुत्थानमेव च ।
यो मया कश्चिदुद्गीर्णो ब्राह्मणोऽत्रैव तिष्ठति ७१।
स च एकादशाध्यायं जपति स्म निरंतरम् ।
स तेनाध्यायमंत्रेण सप्तवाराभिमंत्रितम् ७२।
विधाय वारि विप्रेंद्रः क्षिपेद्यदि ममोपरि ।
ततो मे शापनिर्मुक्तिर्भविष्यति न संशयः ।
इति तेनास्मि संदिष्टः समायातस्त्वदंतिकम् ७३।
विप्र उवाच-।
राक्षसः केन पापेन जातोसौ वद रक्षक ।
यत्क्षपायां गृहे तस्मिन्नरान्खादति निद्रितान् ७४।
ग्रामपाल उवाच।
अस्मिन्ग्रामे पुरा कश्चिदासीद्विप्रः कृषीवलः ।
एकदा शालिकेदाररक्षणे व्याकुलो द्विजः ७५।
नातिदूरे महागृध्रः पांथमेकमभक्षयत् ।
तं विमोचयितुं दूराद्दयांचक्रेऽपि तापसः ७६।
भुक्त्वा पांथं खगस्तावन्निरगादंबराध्वना ।
ततः स तापसः कोपात्तं बभाषे कृषीवलम् ७७।
धिक्त्वां हालिक दुर्बुद्धे कठोरमतिनिर्घृण ।
कुक्षिभरं परत्राण विमुखं हतजीवितम् ७८।
चोरैश्च दंष्ट्रिभिः सर्प्पैररिवह्निविषांबुभिः ।
गृध्रराक्षसभूतैश्च वेतालादिभिराहतान् ७९।
जनानुपेक्षते शक्तः स तद्वधफलं लभेत् ।
न मोचयति यो विप्रं प्रभुश्चोरादिभिर्धृतम् ८०।
स याति नरकं घोरं स पुनर्जायते वृकः ।
निहन्यमानं विपिने गृध्रव्याघ्रेण पीडितम् ८१।
मुंचमुचेति यो वक्ति स याति परमां गतिम् ।
गवामर्थे हता व्याघ्रैर्व्याधैर्दुष्टैश्च राजभिः ८२।
तेपि यांति पदं विष्णोर्दुष्प्राप्यं योगिनामपि ।
अश्वमेधसहस्राणि वाजपेयशतानि च ८३।
शरणागतसंत्राण कलां नार्हंति षोडशीम् ।
दीनस्योपेक्षणं कृत्वा भीतस्य च शरीरिणः ८४।
पुण्यवानपि कालेन कुंभीपाके स पच्यते ।
पश्यन्नपि भवान् पांथं दुष्टगृध्रेण भक्षितम् ८५।
निवारणसमर्थोपि न चक्रे यन्निवारणम् ।
निष्कृपोसि यतस्तस्माद्भविष्यसि निशाचरः ८६।
इमां शापं मुने श्रुत्वा कंपमानकलेवरः ।
प्रणम्य हालिको विप्रं बभाषे करुणं वचः ८७।
अत्राहं क्षेत्ररक्षायां चिरं क्षिप्तेन चक्षुषा ।
न वेद्मि निकटं गृध्र हन्यमानमिमं नरम् ८८।
तेन मेऽनुग्रहं कर्तुं कृपणस्य त्वमर्हसि ।
विप्र उवाच।
यो वेत्त्येकादशाध्यायं जपत्यनुदिनं च यः ८९।
तेनाभिमंत्रितं वारि यदा शिरसि तावके ।
पतिष्यति तदा शापात्तव मुक्तिर्भविष्यति ९०।
इत्युक्त्वा तापसो यातो हालिको राक्षसोऽभवत् ।
तदागच्छ द्विजश्रेष्ठ तेनाध्यायेन मंत्रय ।
तीर्थोदकं स्वहस्तेन तस्य मूर्द्धनि निक्षिप ९१।
महादेव उवाच।
इति तत्प्रार्थितं तस्य श्रुत्वा च करुणाप्लुतः ।
तथेति सहपालेन मुनी रक्षोंतिकं ययौ ९२।
एकादशेन तेनांबु विश्वरूपेण मंत्रितम् ।
निक्षिप्तं तस्य शिरसि तेन विप्रेण योगिना ९३।
गीताध्यायप्रभावेण शापमोक्षमवाप सः ।
विहाय राक्षसं देहं चतुर्बाहुस्ततोऽभवत् ९४।
निगीर्णा ये जनास्तेन पांथा आसन्सहस्रशः ।
चतुर्भुजा बभूवुस्ते शंखचक्रगदाधराः ९५।
ते विमानान्यारुरुहुस्तावदूचे स राक्षसम् ।
मदीयस्तनयः कस्तं दर्शयस्व निशाचर ९६।
इत्युक्ते ग्रामपालेन दिव्यधीराह राक्षसः ।
एवं चतुर्भुजं विद्धि तमालश्यामलद्युतिम् ९७।
माणिक्यमुकुटं दिव्यमणिकुंडलमंडितम् ।
हारहारिमहास्कंधं स्वर्णकेयूरभूषितम् ९८।
राजीवलोचनं स्निग्धं हस्ते कृतसरोरुहम् ।
दिव्यं विमानमारूढं देवत्वं प्राप्तमात्मजम् ९९।
इति तस्य वचः श्रुत्वा सुतं दृष्ट्वा च तादृशम् ।
स्वगेहं नेतुमारेभे जहास स सुतस्ततः 6.185.१००।
कति वाराणि जातोऽसि त्वं पुत्रो मम रक्षक ।
पूर्वपुत्रस्त्वदीयोऽस्मि अधुना विबुधोऽस्म्यहम् १०१।
यास्यामि वैष्णवं धाम ब्राह्मणस्य प्रसादतः ।
निशाचरोऽपि प्राप्तोऽयं पश्य देहं चतुर्भजम् १०२।
एकादशस्य माहात्म्याद्याति स्वर्गं समं जनैः ।
विप्रादस्मात्तमध्यायमधीष्व त्वं जपानिशम् १०३।
भविष्यति न संदेहस्तवापि गतिरीदृशी ।
तात तस्मात्सतां संगं दुर्लभं सर्वथा जनैः १०४।
सोप्यद्य ते समुत्पन्नो ह्यात्मनः साधयेप्सितम् ।
किं धनैर्भोगदानैर्वा किं यज्ञैस्तपसा नु किम् १०५।
किं पूर्तैर्वापरं श्रेयो विश्वरूपस्य पाठतः ।
तद्विष्णोः परमं रूपमध्यायस्य श्रुतेन च १०६।
यत्पूर्णानंदसंदोह कृष्णब्रह्मास्यनिर्गतम् ।
कुरुक्षेत्रेऽर्जुने मित्रे तत्कैवल्यरसायनम् १०७।
नृणां च भवभीतानामाधिव्याधिभयापहम् ।
अनेकजन्मदुःखघ्नं नान्यत्पश्यामि तत्स्मर ।
शिव उवाच।
इत्युक्त्वा सह तैः सर्वैर्ययौ विष्णोः परं पदम् १०८।
तमध्यायं ततो विप्राद्ग्रामपालः पपाठ सः ।
तावुभौ तस्य माहात्म्याज्जग्मतुर्वैष्णवं पदम् १०९।
इत्येकादशमाहात्म्य कथा तुभ्यं निरूपिता ।
यस्याः श्रवणमात्रेण महापातकसंक्षयः ११०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये सतीश्वरसंवादे पंचाशीत्यधिकशततमोऽध्यायः १८५।
श्रीमद्भगवद्गीतायाः एकादशोध्यायः
खण्डः ६ (उत्तरखण्डः) — Adhyāya 186
लघुत्तम|400px|महाभूताः
महादेव उवाच-
अस्ति कोल्हापुरं नाम नगरं दक्षिणापथे ।
सुखानां सदनं साध्वि साधूनां सिद्धिसंभवम् १।
परशक्तेः परंपीठं सर्वदेवनिषेवितम् ।
पुराणेषु प्रसिद्धं यद्भुक्तिमुक्तिफलप्रदम् २।
कोटिशस्तत्र तीर्थानि शिवलिंगानि कोटिशः ।
आस्ते रुद्रगया यत्र विशालं लोकविश्रुतम् ३।
तुंगाचलमहावप्र गोपुरोल्लासितोरणम् ।
प्रासादशिखरे यत्र तुंगं च कनकध्वजम् ४।
सोमकांतिमहासौधवलभीपंक्तिशोभितम् ।
जालरंध्रोद्गिरद्धूपधूमाऽमोदितदिक्तटम् ५।
चलत्पताकविस्तीर्णच्छायं देवालयान्वितम् ।
चतुरैः सुंदरैः स्निग्धैः श्रीमद्भिः शुचिमानसैः ६।
अधिष्ठितं सदाचारैः पुरुषेर्भूरिभूषणैः ।
कुरंगनयनाश्चंद्रवदनाः कुटिलालकाः ७।
उत्फुल्लचंपकच्छायाः पीनतुंगपयोधराः ।
कृशमध्या निम्ननाभि वलित्रयविराजिताः ८।
विशालजघनाश्चारुजंघा युग्मा वरांघ्रयः ।
वाचालमेखलादामनिक्वणन्मणिनूपुराः ९।
रणत्कंकणहस्ताब्ज स्फुरत्करज रश्मयः ।
वसंति प्रमदा यत्र मादयंत्यो मुनीनपि १०।
समस्तवस्तुसंयुक्तं सर्वभोगसमन्वितम् ।
मंगलैः सकलैर्युक्तं महालक्ष्मीसमन्वितम् ११।
तत्रागच्छत्पुमान्कश्चिद्युवा गौरं सुलोचनः ।
कंबुकंठः पृथुस्कंधो महावक्षा महाभुजः १२।
समस्तलक्षणोपेतो गोचरासक्तमानसः ।
प्रविश्य नगरं पश्यन्शोभां सौधेषु सर्वतः १३।
उत्कंठितमना द्रष्टुं महालक्ष्मीं सुरेश्वरीम् ।
मणिकुंडे कृतः स्नानः संपन्न पितॄतर्पणः १४।
महालक्ष्मीं महामायां नत्वा तुष्टाव भक्तितः ।
जयत्यपारकरुणाशरण्या जगदंबिका १५।
कुर्वाणा जगतो जन्म पालनं क्षपणं दृशा ।
यया शक्त्या कृतादिष्टः परमेष्ठी सृजत्यसौ १६।
अवष्टभ्य च तां शक्तिं पालयत्यच्युतो जगत् ।
यया शक्त्या कृतावेशः संहरत्यखिलं हरः १७।
तां भजे परमां शक्तिं सर्गस्थितिलयोर्जिताम् ।
योगिध्येयांघ्रिकमले कमले कमलालये १८।
स्वभावानखिलान्नस्त्वं गृह्णासींद्रियगोचरान् ।
त्वमेव कल्पनाजालं तत्कल्पं कुरुषे मनः १९।
इच्छाज्ञानक्रियारूपा परसंवित्स्वरूपिणी ।
निष्फला निर्मला नित्या निराकारा निरंजना २०।
निरंतरा निरातंका निरालंबा निरामया ।
तवैवं महिमानं हि को वर्णयितुमीशते २१।
वंदे निर्भिन्नषट्चक्रद्वादशांतर्विहारिणीम् ।
अनाहतध्वनिमयीं बिंदुनादकलात्मिकाम् २२ ।
मातस्त्वं पूर्णशीतांशु गलत्पीयूषवाहिनी ।
पुष्णासि वत्सले बालान्सनकादीन्दिगंबरान् २३।
अनुस्यूता शिवा संविज्जाग्रत्स्वप्नसुषुप्तिषु ।
तुरीयायां वर्त्तमानां दयासूनृतसंधिषु २४।
ददासि प्राणिनां सर्वाः सततं ब्रह्मसंपदः ।
संहृत्य तत्वसंघातं तुरीयातीतया त्वया २५।
योगिनां बिंबतादत्म्यं दीयते निर्विकल्पया ।
परां नमामि पश्यंतीं मध्यमां वैखरीमपि २६।
रूपाणि देवि गृह्णासि जगत्संत्राणहेतवे ।
त्वं ब्राह्मी वैष्णवी च त्वं माहेशी च त्वमंबिके २७।
वाराहि त्वं महालक्ष्मीर्नारसिंही त्वमैंद्रिका ।
त्वं कौमारी चंडिका त्वं लक्ष्मीस्त्वं विश्वपावनी २८।
सावित्री त्वं जगन्माता शशिनी त्वं च रोहिणी ।
त्वं स्वाहा त्वं स्वधा त्वं हि त्वं सुधा परमेश्वरी २९।
चंडमुंडभुजादंडखंडदोर्दंडमंडिते ।
रक्तबीजगलद्रक्तपानघूर्णितलोचने ३०।
उन्मत्तमहिषग्रीवोन्मूलनप्रौढ दोर्युगे ।
शुंभासुरमहादैत्यदारणायातविक्रमे ३१।
अनंतचरिते तुभ्यं नमस्त्रैलोक्यमातृके ।
भक्तकल्पलते मह्यं प्रसीद परमेश्वरि ३२।
इति तेन स्तुता देवी महालक्ष्मीस्ततः स्वयम् ।
निजरूपं समास्थाय पुरुषं प्रत्युवाच तम् ३३।
श्रीलक्ष्मीरुवाच-।
राजपुत्र प्रसन्नाऽहं वृणीष्व वरमुत्तमम् ।
राजपुत्र उवाच।
पिता मे धरणीपालो वाजिमेधं महाक्रतुम् ३४।
कुर्वाणो दैवयोगेन रोगाक्रांतो दिवं ययौ ।
तद्वपुस्तप्ततैलेन शोषयित्वा मया ततः ३५।
स्थापितस्तत्र यागोऽसौ यथापूर्वमवर्तत ।
अथ क्रांतमहीचक्रो यूपे यागतुरंगमः ३६।
निशीथे बंधनं हित्वा नीतः केनापि कुत्रचित् ।
अदृष्ट्वा तद्गतं क्वापि निवृत्तेषु जनेष्वहम् ३७।
आमंत्र्य ऋत्विजः सर्वाञ्छरणं त्वामुपागतः ।
प्रसन्ना यदि देवि त्वं तन्मे यागतुरंगमः ३८।
दृष्टो भवतु यागोऽसौ संपूर्णो जायते यथा ।
आनृण्यं मम तातस्य तेन राज्ञो भविष्यति ३९।
तथा कुरु जगद्धात्रि शरणागतवत्सले ।
देव्युवाच।
ममद्वारं द्विजः सिद्धसमाधिरिति विश्रुतः ४०।
ममाज्ञया स ते सर्वं कार्यं निष्पादयिष्यति ।
इत्युक्तः श्रीमहालक्ष्म्या ततो राजकुमारकः ४१।
आजगाम मुनिः सिद्धसमाधिर्यत्र तिष्ठति ।
प्रणम्य तस्यपादाब्जं कृतांजलिरवस्थितः ४२।
तमुवाच ततो विप्रः प्रहितोऽसि त्वमंबया ।
त्वदीप्सितमिदं सर्वं साधयामि विलोकय ४३।
इत्युक्त्वा त्रिदशान्सर्वानाचकर्ष स मांत्रिकः ।
एक्षत क्षितिपालस्य तनयोऽसौ तदा सुरान् ४४।
कृतांजलिपुटान्देवान्वेपमानकलेवरान् ।
अथ तानमरान्सर्वान्संबभाषे द्विजोत्तमः ४५।
अमुष्य राजपुत्रस्य वाजी यज्ञाय कल्पितः ।
नीतोस्ति देवराजेन क्षपायामपहृत्य सः ४६।
गीर्वाणा अश्वमेवास्य समानयत मा चिरम् ।
अथ तस्य मुनेर्वाक्याद्देवैर्यज्ञतुरंगमः ४७।
समर्पितस्ततस्तेन तेऽनुज्ञात्वा दिवौकसः ।
आकृष्टानमरान्दृष्ट्वा गतं लब्ध्वा तुरंगमम् ४८।
महीपतिसुतो नत्वा तं मुनिं वाक्यमब्रवीत् ।
आश्चर्यमिदमेतत्ते सामर्थ्यमृषिसत्तम ४९।
कृतं त्वया चित्रमिदं त्रिदशाकर्षणं क्षणात् ।
हस्तादाकृष्य दत्तो मे यज्ञीयोऽयं तुरंगमः 6.186.५०।
न किंचिदपरं यावद्दुष्करं यत्सुरैरपि ।
प्रभविष्यति तत्कर्तुं भवानेव न चापरः ५१।
शृणु विप्र महीपाल पितासीन्मे बृहद्रथः ।
प्रारब्ध हयमेधोऽसौ दैवेन निधनं गतः ५२।
अद्यापि तस्य देहोस्ति तप्ततैलेन शोषितः ।
तस्य संजीवनं भूयः कर्त्तुमर्हसि सत्तम ५३।
इत्याकर्ण्य स्मितं कृत्वा स जगाद महामुनिः ।
यामस्तत्र पिता यत्र तावको यागमंडपः ५४।
अथागत्य समं तेन तत्र सिद्धः समाधिना ।
पयोऽभिमंत्र्य विदधे तस्य प्रेतस्य मूर्द्धनि ५५।
ततः प्राप नृपः संज्ञामुत्तस्थे वै ददर्श च ।
स तं पप्रच्छ विप्रेंद्रं कोऽसि धर्मेति भूपतिः ५६।
ततो राजसुतः सर्वं भूपालाय न्यवेदयत् ।
स नत्वा ब्राह्मणं राजा तं पुनर्दत्तजीवितम् ५७।
बभाषे केन पुण्येन त्वयि शक्तिरलौकिकी ।
यया मे जीवितं दत्तमाकृष्टाश्च दिवौकसः ५८।
यागश्चोद्धरितो विप्र येनमेतन्निरूपय ।
इत्युक्तस्तेनविप्रोऽसौ जगाद श्लक्ष्णया गिरा ५९।
गीतानां द्वादशाध्यायं जपाम्यहमतंद्रितः ।
तेन शक्तिरियं राजन्यया प्राप्तोसि जीवितम् ६०।
एतदाकर्ण्य राजाऽसौ द्वादशाध्यायमुत्तमम् ।
पपाठ तस्माद्विप्रर्षेः सकाशात्ब्राह्मणान्वितम् ६१।
तस्याध्यायस्य माहत्म्यात्ते सर्वे सद्गतिं ययुः ।
अन्ये पठित्वा जीवाश्च मुक्तिमापुरहो पराम् ६२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये षडशीत्यधिकशततमोऽध्यायः १८६।
भगवद्गीतायाः द्वादशोध्यायः
खण्डः ६ (उत्तरखण्डः) — Adhyāya 187
देव्युवाच।
द्वादशाध्यायमाहात्म्यं भवता कथितं मम ।
ब्रूहि त्रयोदशाध्यायमाहात्म्यमतिसुंदरम् १।
ईश्वर उवाच-
शृणु त्रयोदशाध्यायमहिमांभोनिधिं शिवे ।
यदाकर्णनमात्रेण परां मुदमवाप्स्यसि २।
अस्ति दक्षिणदिङ्मार्गे तुंगभद्रा महानदी ।
तत्तटे नगरं रम्यं नाम्ना हरिहरं पुरम् ३।
यत्राऽस्ते भगवान्देवि देवो हरिहरः स्वयम् ।
यस्य दर्शनमात्रेण परं कल्याणमाप्यते ४।
तस्मिन्पुरे द्विजन्मासीद्धरिदीक्षितसंज्ञिकः ।
तपः स्वाध्यायनिरतो श्रोत्रियो वेदपारगः ५।
दुराचारेति तस्यासीद्भार्या नाम्ना च कर्मणा ।
न सुष्वाप समं पत्या दुरालापा कदाचन ६।
क्षणमप्यात्मसदने न चास्ते स्वैरचारिणी ।
कंठदघ्नं द्विजद्वारे धयंती वारुणीरसम् ७।
पतिसंबधिनः सर्वान्तर्जयंती पुनः पुनः ।
विटैः सह सदोन्मत्ता रममाणा निरंतरम् ८।
कदचिद्व्याकुलं दृष्ट्वा पुरं पौरैरितस्ततः ।
संकेतगेहमकरोत्कांतारे निर्जने स्वयम् ९।
अथ तत्रैव सा धूर्ता रममाणा विटैः सह ।
निनाय सा बहून्कालान्निजयौवनगर्विता १०।
अथ तस्मिन्पुरे रम्ये निवसंत्या निरंकुशम् ।
वसंतकालं समभूत्परं चित्ते भुवः सखा ११।
आमूलपल्लवाकीर्णं सहकारविकारिणा ।
पिकानां पंचमालापैः पुनः स जीवितः स्मरः १२।
स्फुरच्चंपकसौरभ्यहारकैर्मलयानिलैः ।
मंदं मंदं प्रसर्पद्भिरांदोलितवनद्रुमः १३।
उत्फुल्लमल्लिकामोद मदिरापारणावताम् ।
अलीनां कलटंकारैः समंताद्रावशोभितः १४।
प्रसन्नचारुभिः स्मेरः सरोवरसुगंधिभिः ।
मीलन्मरालनिवहैः सरोभिः प्रकटीकृतः १५।
घनच्छायासुखासीन हरिणार्भकधारिभिः ।
नीरंध्रपल्लवैर्नानाशाखिभिः शोभितावनिः १६।
तस्मिन्वसंतसमये मुदिता साभिसारिका ।
अपश्यज्जगदानंददायिनीं चंद्रिकां निशि १७।
चंचच्चकोरचंच्वग्रगलत्पीयूषसीकराम् ।
द्रवदिंदुशिलानिर्यत्सुधानिर्झरनिर्भराम् १८।
विकाशिकुसुमक्रोडसांद्रीभूतकरोत्कराम् ।
उल्लासितपयोराशिकल्लोलालिंगितांबराम् १९।
मनोभवमहासिंहकुलटाकंठकर्तरीम् ।
घनांधकारसंदोहविदारणपटीयसीम् २०।
श्वेतीकृतसतीकारपरार्थहिमगर्भिणीम् ।
म्लानपंकजसंकोचा द्यूनामानंददायिनीम् २१।
चक्रवाकवधूवक्त्र करुणाक्रोशसाक्षिणीम् ।
मुक्ताश्रेणीविशुद्धांशु प्रभासितदिगंतराम् २२।
अथ तस्यां प्रभूतायां पूरयंत्या दिशो दश ।
कामांधा कामिनीजाता पथिसौधविहारिणी २३।
अपश्यंती विटान्रात्रौ निर्भिद्य भवनार्गलम् ।
ययौ संकेतभवनं निर्गत्य नगराद्बहिः २४।
तत्र प्रियतमं कंचित्काममोहितमानसा ।
अन्वेषयंती नाद्राक्षीत्कुंजे कुंजे तरौ तरौ २५।
आकर्णयंती कांतस्य मंदालापान्पदे पदे ।
अभियाति ततः क्रीडन्यत्र संहारिनिस्वनः २६।
चक्रवाकरवान्श्रुत्वा कांतालापभ्रमादसौ ।
सरोवराणि सर्वाणि पर्यटंती मुहुर्मुहुः २७।
कांतभ्रांत्या तरुतले प्रसुप्तान्हरिणोत्करान् ।
प्रबोधयंती सोच्छ्वासमागतास्मीति भाषिणी २८।
आलिंगंती वनस्थाणुं जीवनेश्वरशंकया ।
तदाननभ्रमाद्भूयं चुंबंती विकचांबुजम् २९।
तत्रतत्र कृतव्यर्थश्रमादृष्टप्रियास्वयम् ।
विललाप वने तस्मिन्मूर्च्छती विविधोक्तिभिः ।
हा कांत हा गुणाक्रांत मच्चैतन्यस्य नायक ३०।
हे मनोहरसौभाग्य भाग्यलावण्यशेवधे ।
हा पूर्णचंद्रवदन हा सरोजायतेक्षण ३१।
हा कांततत्वसौहित्य विश्रमाय सुरद्रुम ।
यदि कोपेन कुत्रापि गुह्यवेषोऽत्र तिष्ठसि ३२।
प्रसादयामि त्वां कांत दत्त्वा प्राणान्प्रियानपि।
इत्युच्चैः सर्वतो दिक्षु विलपंत्या वियोगतः ३३।
तस्याः श्रुत्वा वचः कोऽपि सुप्तो व्याघ्रः प्रबुद्धवान् ।
कुर्वन्घुरघुरध्वानं पश्यन्प्रतिदिशं रुषा ३४।
आस्फालयन्नखैर्भूमिं गर्जन्नाकाशगह्वरम् ।
पृष्ठनिर्भग्नलांगूल द्रुतमुत्थाय वेगवान् ३५।
गतो व्याघ्रः समुत्पत्य यत्रास्ते साभिसारिका ।
अथ सापि तमायांतमालोक्य पतिशंकया ३६।
निर्जगाम पुरः स्थातुं प्रेममनिर्भरमानसा ।
ततस्तस्यनखक्रीडाक्रूरतांधीकृता सती ३७।
जहौ प्रियवपुः शंकां श्रुत्वा गर्जितमूर्ज्जितम् ।
तथाविधापि सा नारी भ्रांतिमुत्सृज्यसत्वरम् ३८।
व्याघ्रत्वं तु कुतो हेतोर्मां निहंतुमिहागतः ।
इदं सर्वं समाख्याहि यतस्त्वं हंतुमिच्छसि ३९।
इति तस्या वचः श्रुत्वा शार्दूलश्चंडविक्रमः ।
क्षणं विहाय तद्ग्रासमुवाच प्रहसन्निव ४०।
मलापहा नदी नाम्ना देशे तिष्ठति दक्षिणे ।
नगरी मुनिपर्णेति तस्या रोधसि वर्तते ४१।
तत्रास्ते भगवान्साक्षात्पंचलिंगो महेश्वरः ।
तस्यां पुर्यामहं विप्र पुत्रो भूत्वा स्थितस्ततः ४२।
अयाज्यान्याजयन्नश्नन्नेकोद्दिष्टे नदी तटे ।
वेदपाठफलं शश्वद्विक्रीणन्धनकांक्षया ४३।
भिक्षुकानपरान्लोभात्तिरस्कुर्वन्दुरुक्तिभिः ।
अदेयद्रविणं गृह्णन्नदत्तमनिशं दिनम् ४४।
छलयन्सकलांल्लोकान्क्षणग्रहणकौतुकात् ।
ततः कतिपये काले जरठत्वमुपागतः ४५।
वलीपलितवानंधः प्रपतन्प्रस्खलद्गतिः ।
पतद्दंतोभवं भूयः प्रतिग्रहपरायणः ४६।
हस्ते गृहीत दर्भोऽहमगमं तीर्थसन्निधिम् ।
धनग्रहणलोभेन भ्रमन्पर्वसु पर्वसु ४७।
ततोऽहं शिथिलांगः सन्कंचिद्भूनिर्जरालयम् ।
गतवान्याचितं भोक्तुं दष्टो मध्ये पदे शुना ४८।
अपतं मूर्छितो भूत्वा ततः क्षितितले क्षणात् ।
ततोऽहं गलितप्राणो व्याघ्रयोनिमुपागतः ४९।
अत्र तिष्ठामि कांतारे पूर्वपापमनुस्मरन् ।
न भक्षयामि धर्मिष्ठान्मुनीन्साधुजनान्सतीः 6.187.५०।
किंतु पापान्दुराचारनसतीर्भक्षयाम्यहम् ।
अतोऽसतित्वं तत्वेन ममैव कवलायसे ५१।
इत्युक्त्वा स्वैर्नखैः कूरैस्तां विभज्यांगखंडशः ।
अथतां भक्षितां तेन पापदेहमुपाश्रिताम् ५२।
यमस्य किंकरा निन्युः सद्यः संयमनीं पुरीम् ।
यमादेशेन तत्रापि पातयामासुराशु ताम् ५३।
विण्मूत्ररक्तपूर्णेषु घोरकुंडेष्वनेकधा ।
कल्पकोटिषु पीतासु तस्मादानीय तां मुहुः ५४।
रौरवे स्थापयामासुर्मन्वंतरशतावधि ।
ततोप्याकृष्य तां दीनां रुदतीं सर्वतोमुखीम् ५५।
मुक्तकेशां भग्नगात्रां चिक्षिपुर्दहनानने ।
एवं पापपरां घोरां भुक्त्वा नरकयातनाम् ५६।
इह जाता महापापात्पुनः श्वपचयोनिषु ।
ततः श्वपचगेहेऽपि वर्द्धमाना दिनेदिने ५७।
पूर्वजन्मवशेनैव तथैवासीद्यथा पुरा ।
ततः कतिपये काले पुनः स्वंभवनंययौ ५८।
यत्रास्ते जृंभकादेवी शिवस्यांतः पुरेश्वरी ।
तत्रापश्यद्द्विजन्मानं वासुदेवाभिधं शुचिम् ५९।
गीतात्रयोदशाध्यायमुद्गिरंतमनारतम् ।
ततस्तच्छ्रवणादेव मुक्ता श्वपचविग्रहात् ६०।
दिव्यं देहं समासाद्य जगाम त्रिदशालयम् ६१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये सप्ताशीत्यधिकशततमोऽध्यायः १८७।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 188
ईश्वर उवाच-
अतः परं प्रवक्ष्यामि भवानि भवमुक्तये ।
गीताचतुर्दशाध्यायमवधारय सुस्मिते १।
मेदिन्यां यत्किलस्थूलमस्ति काश्मीरमंडलम् ।
राजधानी सरस्वत्या आस्ते चैव मनोहरा २।
यामधिष्ठाय वाग्देवी ब्रह्मलोकं प्रयच्छति ।
हंसमारुह्यमानापि सावित्रीप्रहतैरपि ३।
सरस्वतीपदांभोज सेवामाश्रित्य कुंकुमैः ।
यत्र गौरवयंत्याशा हंसपक्षपुटोद्भवैः ४।
निरंतरं तया चैव नृणां संस्कृतभाषिणाम् ।
सुपर्वाणमयी भाषा निमेषेणोपलभ्यते ५।
प्रातर्गृहांगणोद्भूतै र्यत्रकुंकुमपांसुलैः ।
सर्वतोरुणितच्छाय शशांकरविमंडलम् ६।
तत्रासीत्तेजसां राशिः शौर्यवर्मा नरेश्वरः ।
उद्यदुज्ज्वलबाणौघ खंडितारातिमंडलः ७।
अभूच्च सिंहलद्वीपे राजा सिंहपराक्रमः ।
नाम्ना विक्रमवेतालः कलानामपि शेवधिः ८।
उभौ परस्परं मैत्रीं वर्द्धयांचक्रतुः क्रमात् ।
तत्तद्देशसमुत्पन्नैरपूर्वैः प्रचुरोत्करैः ९।
एकदा प्रहितं प्रेम्णा प्रभूतं शौर्यवर्मणा ।
राजा विक्रमवेतालो विलोक्य शुनकीद्वयम् १०।
मत्तमातंगतुरग मणिभूषणचामरम् ।
प्रेषयामास मित्राय प्रभूतं शौर्यवर्मणे ११।
एकदा शिबिकारूढश्चारु चामरवीजितः ।
सुवर्णशृंखलारूढं वाद्यडिंडिमडंबरम् १२।
शुनीयुगलमादाय मृगया कौतुकोत्सुकः ।
राजा जगाम बाह्यालीं समं राजकुमारकैः १३।
पणबंधविधानेन समुपेतं शशामिषम् ।
तत्र राजकुमाराणां महान्कोलाहलोऽभवत् १४।
ततः समानवयसा केनचिद्राजसूनुना ।
बहुमूल्यं पणं कृत्वा राजाचिक्रीडकौतुकी १५।
ततोवतार्य दोलाया विरुदावलिगर्विताम् ।
धावतः शशकस्योच्चैः पृष्ठे मुंचन्नृपं शुनीम् १६।
मुमोच राजपुत्रोऽपि प्रेमपात्रं महाभुजः ।
विरराम शुनीमुच्चैः संकीर्त्य विरुदावलीम् १७।
अलक्ष्यमाणवेगेऽस्मिन्शुनीयुगलकेभृशम् ।
धावत्युत्थितमेवासीत्पश्यतां सर्वभूभृताम् १८।
पपात गर्ते महति शशकोऽतिश्रमादसौ ।
पतितोऽपि शुनी वश्यो नाभवच्छशशावकः १९।
ततः शनैः समुत्थाय धावन्नाक्रम्यरोषतः ।
जगृहे राजशुन्याऽसौ शशकः फेनमुद्वमन् २०।
ततः कथंचिदुप्लुत्य गच्छन्विस्खलयञ्छशः ।
राजपुत्रशुनक्यासौ गृहीतः कंधरातटे २१।
जितमस्माभिरत्यर्थमिति संजल्पतां नृणाम् ।
कोलाहले शंकिताया शुन्या निर्गतवान्मुखात् २२।
ततो दंष्ट्राव्रणश्रेणी क्षरद्रुधिरधारकः ।
क्वापि र्ममरभूभागे निलीयस्थितवाञ्छशः २३।
जिघ्रंत्या राजशुन्याऽसौ भूभागं धनरोषया ।
दृष्टमात्रः परित्रस्तो हस्तमात्रं ततोऽगमत् २४।
यत्र कर्पूरकदली क्रोडव्याघ्रदरीतलः ।
चोली कपोलफलकान्चुबन्वाति समीरणः२५।
उद्भिन्न केतकीकोशरजोमुकुलितेक्षणः ।
विस्रब्धाहरणा यत्रच्छायां तां परितन्वतः २६।
नारिकेलफलैर्यत्र स्वयं निपतितैरधः ।
अपि चूतफलैस्तृप्ताः पक्वैः शाखामृगा अपि २७।
अपि केसरिणो यत्र खेलंति कलभैः समम् ।
फणिनः केकिबर्हेषु निर्विशंकं विशंति च २८।
यत्राश्रमांतरे विप्रो वत्सनामा जितेंद्रियः ।
शांतश्चतुर्दशाध्यायं जपन्नास्ते निरंतरम् २९।
तत्र तच्छिष्यपादाब्ज प्रक्षालनजलैः कृते ।
कर्दमे न्यपतद्गत्वा जीवशेषो मुहुः श्वसन् ३०।
ततः कर्दमसंस्पर्शमात्रनिस्तीर्ण संसृतिः ।
दिव्यं विमानमारुह्य निर्ययौ शशको दिवम् ३१।
ततः शुन्यपि लिप्तांगीस्तोकैः कर्दमबिंदुभिः ।
क्षुत्पिपासार्तिरहिता शुनीरूपं विहाय सा ३२।
ततो दिव्यांगनारम्यं गंधर्वैरुपशोभितम् ।
दिव्यं विमानमारुह्य शुन्यपि त्रिदिवं ययौ ३३।
ततो जहास मेधावी शिष्यो नाम्ना स्वकंधरः ।
विचार्य विस्मितः पूर्वजन्मवैरस्य कारणम् ३४।
राजापि पर्यपृच्छत्तं विस्मयस्मेरलोचनः ।
प्रणम्य परया भक्त्या विनयैकपयोनिधिः ३५।
कथां कथय मे विप्र हीनयोनि निषेवितौ ।
अज्ञौयौ जग्मतुः स्वर्गे शुनी शशकशावकौ ३६।
शिष्य उवाच।
वत्सनामा द्विजन्मास्ते वनेऽमुष्मिन्जितेंद्रियः ।
चतुर्दशं तु ह्यध्यायं गीतानां सर्वदा जपन् ३७।
शिष्योऽहं तस्य भूपाल ब्रह्मविद्याविशारदः ।
चतुर्दश तु अध्यायं जपामि प्रत्यहं नृप ३८।
मदीयचरणांभोजप्रक्षालनजले लुठन् ।
शशस्त्रिदिवमापन्नः शुनक्या सह भूपते ३९।
राजोवाच।
हेतुना केन कथय हसितं च द्विजोत्तम ।
अतः किमपि साकूतं मन्यमानेन सादरम् ४०।
शिष्य उवाच।
महाराष्ट्रेति नगरं नाम्ना प्रत्युदकं महत् ।
तत्रासीद्ब्राह्मणो नाम्ना केशवः कितवाग्रणीः ४१।
विलोभनाभवत्तस्य जाया स्वैरविहारिणी ।
तेन सा हन्यते क्रोधाद्वैरं संचिंत्य जन्मनः ४२।
ततः स्त्रीवधपापेन शशको जायते द्विजः ।
किल्बिषाच्छुनकी सापि जाता वंचनजन्मनः ४३।
पूर्वेण जन्मनाभ्यस्तं वैरं विस्मरतो नहि ।
आसेदिवद्भ्यां बहुधा योन्यंतरमपि क्वचित् ४४।
इत्याकलय्य सकलं भूपालः श्रद्धयान्वितः ।
गीतामभ्यस्य सकलामवाप परमां गतिम् ४५।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये अष्टाशीत्यधिकशततमोऽध्यायः १८८।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 189
ईश्वर उवाच।
प्रवक्ष्यामि विशालाक्षि तुहिनाचलकन्यके ।
गीता पंचदशाध्यायमाहात्म्यमवधारय १।
कृपालुर्नरसिंहोऽभून्नाम्ना गौडेषु भूपतिः ।
यस्यासिधारया संख्ये देवासंघा वधीकृताः २।
यदीय मत्तमातंग दानधाराजलैरिला ।
निदाघेपि च सेहेतां रविसंतापवेदनाम् ३।
संक्रंदनपरित्रस्ता यदीय शरणं गताः ।
रेजिरे करिणो मत्ताश्चलंतः पर्वता इव ४।
मत्तमातंगचीत्कारप्रतिस्वनमिवादरात् ।
यस्य गोपायतः शैला व्याहरंति कृपावतः ५।
यदीय धावत्तुरगक्षुरसंघातजर्जरम् ।
नाभूच्चित्रं कथंकारं गतखंडं धरातलम् ६।
यस्मिन्वृत्रहणो मित्रे समुद्धरति मेदिनीम् 3।
पुनरुज्वलयांचक्रे महाभाष्यं फणीश्वरः ७।
तस्यासीत्सैनिको धीमाञ्छस्त्रशास्त्रकलानिधिः ।
नाम्ना सरभभेरुंडः प्रचंडभुजमंडलः ८।
भांडारेण तुरंगैश्च भटैर्वीररसोद्भवैः ।
समान एव भूपालदुर्गैरत्यंतदुर्गमैः ९।
स कदाचित्स्वयं राज्यं कर्तुं पापो दधे मनः ।
निहत्य वसुधापालं बलात्साकं कुमारकैः १०।
कर्तुं व्यवस्य दिवसैः स्वल्पैरित्थं चिकीर्षया ।
विषूचिकामयादाशु परासुः समजायत ११।
कालेनाल्पीयसा प्रेत्य पापात्मा तेन कर्मणा ।
तेजस्वी तुरगो जातः सिंधुदेशे कृशोदरिः १२।
मूलेन बहुना क्रीत्वा हयतत्वविदा ततः ।
बहुयत्नवता नीतः केनचिद्वैश्यसूनुना १३।
राजापि पौत्रनप्त्त्राद्यैस्तस्यैव मरणात्परम् ।
कालेन वृद्धतां प्राप्तः स्वराज्यं चापि पालयन् १४।
स वैश्यसूनुस्तं चाश्वं राज्ञे दातुं समागतः ।
राज्ञोद्वारिस्थितस्तत्र प्रतीक्षंस्तत्समागमम् १५।
ज्ञातपूर्वोऽपि वैश्योऽसौ प्रतीहारेण दर्शितः ।
किमर्थं ब्रूहि राज्ञेति पृष्टः स्पष्टमभाषत १६।
देव त्रिजगतीरत्नमिति मत्वा तुरंगमः ।
मया नियुतमूल्येन बहुना साधुलक्षणः १७।
ततोऽवलोक्य वक्त्राणि भूपालः पार्श्ववर्तिनाम् ।
समादिदेश वणिजमश्वोऽत्र नीयतामिति १८।
शिरांसि धूनयन्नृणामश्वलक्षणवेदिनाम् ।
शूराणामपि चेतांसि मुहुरुत्साहयन्महान् १९।
अखंडमेदिनीवेगबहुसंक्रमणार्जितम् ।
लालाफेनछलेनासौ वमन्शुभ्रतरं यशः २०।
उच्चैःश्रवस्तुलां भेजे गुणसाम्येन तत्त्वतः ।
विवृण्वन्नति तेजस्वी ह्रियेव नतकंधरः २१।
चामरैरिंदुधवलैर्वीज्यमानो निरंतरम् ।
दुग्धांभोनिधिलोलैस्तैः श्वासैरुच्चैःश्रवा इव २२।
नीलातपत्रयुगलं घनच्छायतुलश्रिया ।
बिभ्राणो वारिदालीढ हिमाद्रि शिखरश्रियम् २३।
मेदिनीमंडलस्पर्श संक्रांतमिव पावकम् ।
मुहुरुद्धरयन्धुन्वन्बंधुरं कंधरातटम् २४।
दारयन्वैरिणः सर्वान्व्याहरंश्च जयश्रियम् ।
हेषारवेण गुरुणा दिक्षुप्रख्यापयन्यशः २५।
सत्त्वस्य राशिरत्युच्चैर्गतीनामिव शेवधिः ।
रूपस्य निलयं साक्षाल्लक्षणानां पयोनिधिः २६।
आनीतो वणिजा वाजी राज्ञा च समदृश्यत ।
बहुधा वर्णितोऽमात्यैरश्वलक्षणवेदिभिः २७।
यथेच्छं वणिजोदीर्णं स्वर्णं दत्त्वा महीपतिः ।
जग्राह तुरगं वेगादसीमानंदनिर्भरः २८।
ततोऽश्वपालमाहूय यत्नतस्तं निरूप्य च ।
विसर्जितसभालोको गृहांतरमगान्नृपः २९।
अनेकधा समापृष्टो महीपालं रंणांगणे ।
शस्त्रव्रणकिणश्रेणीभूषणं सत्वसन्निभम् ३०।
एकदा मृगयां खेलन्कुतूहलरसात्मना ।
तमारुह्य महीपालो वनं प्रति विवेश ह ३१।
विसृज्य सैनिकान्पृष्टे धावतः परितोऽखिलान् ।
आकृष्यमाणो हरिणैः पिपासाकुलितोऽभवत् ३२।
तत उत्तीर्य तुरगाज्जलमन्वेषयन् नृपः ।
बध्वाश्वं तरुशाखायामारुरोह शिलां नृपः ३३।
गीतापंचदशाध्यायश्लोकार्द्धलिखितं ततः ।
पातितं मरुता तत्र यत्र खंडे विलोकयत् ३४।
पत्रं वाचयतो राज्ञः श्रुत्वा गीताक्षरावलीम् ।
ततो मुक्तिपदं लेभे तुरगस्त्वरयाऽपतत् ३५।
ततो ग्रंथिं समाच्छिद्य पल्याणवतार्य च ।
उत्थापमानस्तुरगो राज्ञा नोत्थितवान्मृतः ३६।
ततः सरभभेरुंडो नृपमाभाष्य सुस्वरम् ।
दिव्यं विमानमारुह्य जगाम त्रिदशालयम् ३७।
ततो गिरिं समारुह्य ददर्शाश्रममुत्तमम् ।
पुन्नागकदलीचूतनारिकेलसमन्वितम् ३८।
द्राक्षेक्षुवाटिकापूगनागकेसरचंपकम् ।
खेलत्करभसारंगं नृत्यत्केकिकुलं नृपः ३९।
प्रणिपत्य द्विजन्मानमुटजाभ्यंतरस्थितम् ।
पप्रच्छ परया भक्त्या मुक्तसंसारवासनात् ४०।
तुरगो निरगात्स्वर्गं हेतुना केन मे वद ।
इत्याकर्ण्य वचो राज्ञो द्विजन्मा वाचमूचिवान् ४१।
कालेन बहुना प्रेत्य तत्पापात्तुरगोऽभवत् ।
अथ पंचदशाध्यायश्लोकार्द्धं लिखितं क्वचित् ४२।
ततो वाचयतः श्रुत्वा निरगात्तुरगो दिवम् ।
ततः समागतैस्तत्र परिवारजनैर्वृतः ४३।
प्रणिपत्य द्विजन्मानं हृष्टरोमा विनिर्गतः ।
पत्रं तदेव लिखितं गीतापंचदशाक्षरम् ४४।
वाचयन्स महीपालो हर्षसंफुल्ललोचनः ।
अभिषिच्य निजं पुत्रं मंत्रविन्मंत्रिभिः समम् ४५।
सिंहासने सिंहबलं मुक्तिमाप विशुद्धधीः ४६।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये एकोननवत्यधिकशततमोऽध्यायः १८९।
भगवद्गीतायाः पञ्चदशाध्यायः
खण्डः ६ (उत्तरखण्डः) — Adhyāya 190
ईश्वर उवाच-
अतः परं प्रवक्ष्यामि षोडशाध्यायगौरवम् ।
आकर्णय कुरंगाक्षि हर्षोत्कंठप्रवर्षिणि १।
अस्ति सौराष्ट्रिकं नाम्ना पुरं गुर्जरमंडले ।
तत्रासीत्खङ्गबाहुश्च राजा चंद्र इवापरः २।
यदीय कुसुमामोदमालासुरभितोदरे ।
वारांनिधौ हरिः स्वास्थ्यादशेत सह पद्मया ३।
यदीय कीर्तिकर्पूरकणाभांतिनभोंगणे ।
कीर्णा वैरिकृतश्वास मारुतैस्तारकाछलात् ४।
यस्यासिधारा तीर्थेषु स्नाता वै रिपुभूभुजः ।
व्यावर्त्तं ते दिवोऽद्यापि स्वर्गस्त्रीवाग्विमोहिताः ५।
तस्यारिमर्दनोनाम मदहस्ती मदोद्धुरः ।
मदांबुधारा सलिले गुंजद्भ्रमरमंडलः ६।
कपोलफलकोत्तीर्ण मदधाराजलाविलः ।
बभौ यो निर्झरोद्गोरैरंजनाद्रिरिवाच्चकैः ७।
यस्यांगेषु व्यराजंत चामराश्चंद्रिकोज्ज्वलाः ।
किरणाइव शीतांशोः पतिताः काननोदरे ८।
सिंदूरपांसुपटली राजत्कुंभस्थलो बभौ ।
यः संध्यावारिदव्याप्तं वियत्खंडमिव स्थितम् ९।
स कदाचिन्मोचयित्वा शृंखलान्निगडानपि ।
भंक्त्वा लौहदृढस्तंभं प्रसह्य निशि निर्गतः १०।
आधोरणगणान्सर्वान्पार्ष्णिविस्फूर्जदंकुशान् ।
क्रोधादवगणय्यैव निजशालां बभंज सः ११।
तीक्ष्णांकुशमुखैर्विष्वक्हन्यमानोऽपि वैणवैः ।
दंडैस्तु त्रासयामासुः सादिनो न मनागपि १२।
ततो राजा समागत्य निशम्येदं कुतूहलम् ।
तत्र हस्तिकलाभिज्ञैः समं राजकुमारकैः १३।
अदृश्यत समागत्य राज्ञा दंतावलो बली ।
मोहयन्नुद्भटाटोपो हृताट्टालिकमालिकः १४।
ददृशुस्तं महाभीमं पौरा दूरतरं स्थिताः ।
गोपायंतः शिशून्भीत्या निवृत्तान्यकुतूहलाः १५।
रुद्धेषु तत्र मार्गेषु पलायनपरैर्जनैः ।
वासितेषु तदीयोग्रदानधारांबुसीकरैः १६।
स्नात्वा तेनाध्वना यातः सरसः कश्चन द्विजः ।
गीतानां षोडशाध्यायश्लोकान्कतिपयाञ्जपन् १७ भगवद्गीता/दैवासुरसम्पद्विभागयोगः।
निषिद्ध्यमानो बहुधा पौरैराधोरणैरपि १८।
अमन्यमानः करिणो भीतान्चलितवांस्ततः ।
फूत्कारेण स आवृण्वञ्जनान्विपरिमर्दयन् १९।
स्पृशन्दानांबुजं तस्य स्वस्तिमान्निर्गतो द्विजः ।
ततो महानभूत्तत्र विस्मयो वागगोचरः २०।
मानसे भूमिपालस्य पौराणामपि पश्यताम् ।
समाहूय ततो राजा फुल्लराजीवलोचनः २१।
तमापृच्छद्द्विजं वाहादवतीर्य प्रणम्य च २२।
राजोवाच-
अलौकिकमिदं विप्र त्वयाद्याचरितं महत् ।
कृतांतकल्पादेतस्मात्कथं निर्यातवान्गजात् २३।
कमर्चयसि गीर्वाणं कं मंत्रं जपसि प्रभो ।
का च सिद्धिस्तवास्तीति द्विजन्मन्समुदीरय २४।
द्विज उवाच ।
गीतायाः षोडशोध्यायः श्लोकान्कतिपयानहम् ।
जपामि प्रत्यहं भूप तेनैताः सर्वसिद्धयः २५।
ततो विहाय द्विरदं कौतूहलरसं नृपः ।
आजगाम द्विजन्मानमादाय निजमंदिरम् २६।
शुभं मुहूर्तमन्वीक्ष्य तोषयित्वा द्विजोत्तमम् २७।
सुवर्णैर्लक्ष्यसंख्याकैर्गीतामंत्रमुपाददे ।
गीतायाः षोडशाध्यायश्लोकान्कतिपयानपि २८।
समभ्यस्य ततो राजा सत्कारेण सकौतुकः ।
अथैकदा विनिर्गत्य बाह्यालीं सह सैनिकैः २९।
तमेवामोचयद्राजा मत्तमाधोरणाद्गजम् ।
विस्पष्टमिति वाक्यानि राज्यसौख्यममानयन् ३०।
तृणवज्जीवितं राजा गजस्याग्रेविशत्ततः ।
आदाय गंडफलकं मदपंक्तिनिरंकुशम् ३१।
आययौ मंत्रिविश्वासान्नृपः साहसिकाग्रणीः ।
राहोरिव मुखादिंदुः कालास्यादिव धार्मिकः ३२।
साधुः खलस्य वदनान्नृयोनिरगमद्गजात् ।
आगत्य नगरं राजा त्वभिषिच्य कुमारकम् ३३।
गीतायाः षोडशाध्यायादवाप परमां गतिम् ३४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरंखडे गीतामाहात्म्ये नवत्यधिकशततमोऽध्यायः१९०।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 191
ईश्वर उवाच-
षोडशाध्यायसामर्थ्यं कथितं शृणु सांप्रतम् ।
स्पष्टं सप्तदशाध्यायमहिमांभोनिधिं शिवे १।
खड्गबाहोः सुतस्यैव भृत्यो दुःशासनोऽभवत् ।
तं गजं धर्तुमागत्य गजात्प्राप्तो यमक्षयम् २।
तद्वासनानिबद्धात्मा गजयोनिमवाप्य च ।
गीता सप्तदशाध्यायं श्रुत्वा प्राप्तः परं पदम् ३।
देव्युवाच ।
दुःशासनो गजत्वं च प्राप्य मुक्त इति श्रुतम् ।
तदेव वद कल्याण विस्तरेण मम प्रभो ४।
ईश्वर उवाच-।
स्थितः कश्चन दुर्मेधा मंडलीककुमारकैः ।
बहुमूल्यं पणं कृत्वा गजमारूढवांस्ततः ५।
गत्वा कतिपयान्येव पदानि जनवारितः ।
नाम्ना दुःशासनो मूढः प्रौढवाक्यमुदीरयन् ६।
ततो निशम्य तद्वाक्यं क्रोधांधः सिंधुरोऽभवत् ।
न्यपतच्च स्खलत्पादः कंपमानकुमारकैः ७।
ततो निपतितं किंचिदुच्छ्वसंतं गजो रुषा ।
ऊर्द्ध्वमुन्मूलयांचक्रे कृतांतकनिरंकुशः ८।
गतासोरपि रोषेण तस्यास्थ्न्यां च गणं गजः ।
विकीर्णवान्पृथक्कृत्वा मत्तो दंतावलस्ततः ९।
ततः कालेन संप्रेत्य गजयोनिमवाप सः ।
महांतं कालमनयत्सिंहलद्वीपभूपतेः १०।
मैत्री गरीयसी सार्द्धं खड्गबाहुमहीभुजा ।
ततोऽयं जलमार्गेण प्रापितो वारुणो मतः ११।
जयदेवेन खड्गबाहोः प्रीत्या नीतो महीभुजा ।
जातिं स्मरन्स्वकीयां स पश्यन्बंधून्सहोदरान् १२।
दुःखेन महतास्तोकान्दिवसानत्यवाहयत् ।
उवास खड्गबाहोश्च गृहे तूष्णीमनिर्दिशन् १३।
स कदाचित्तु संतुष्टः समस्याश्लोकपूरणे ।
कस्मैचित्कवये प्रादात्तमुपायन हस्तिनम् १४।
शतेन तेन कविना रोगोपद्रवभीरुणा ।
मालवक्षोणिपालस्य विक्रीतश्चैत्यकुंजरः १५।
कियत्यपि गते काले पाल्यमानोऽपि यत्नतः ।
मुमूर्षुरभवत्तत्र कुंजरो दुर्जरज्वरः १६।
न जिघ्रति पयः शीतं नादत्ते कवलं गजः ।
स्वपित्यपि न सौख्येन मुंचत्यश्रूणि केवलम् ।
ततो हस्तिपकाख्यातं वृत्तांतमवनीपतिः १७।
आकर्ण्य स समायातो यत्रास्ते ज्वरितो गजः ।
स चावलोक्य भूपालं जगद्विस्मयकारिणीम् १८।
वाचमूचे गजः सम्यग्विसृष्टज्वरवेदनः ।
राजन्नशेषशास्त्रज्ञ राजनीतिपयोनिधे १९।
निर्जितारातिसंघात मुरारिचरणप्रिय ।
किमौषधैरलं वैद्यैः किं धानैः किं नु जापकैः २०।
गीतासप्तदशाध्यायजापकं द्विजमानय ।
तेनायं मामको रोगः शाम्यत्यत्र न संशयः २१।
यथादिष्टं गजेनासौ तथा चक्रे नराधिपः ।
ततो गजत्वमुत्सृज्य मुक्तो दुःशासनोऽभवत् २२।
तेन विप्रेणाभिमंत्र्य जले क्षिप्ते तदुत्तमे ।
अथ दिव्यं समारूढं विमानमवनीपतिः २३।
तं दुःशासनमद्राक्षीत्पाकशासनतेजसम् २४।
राजोवाच।
किं जातीयः किमात्मा त्वं किं वृत्त इति मे वद ।
केन वा कर्मणा जातो गजः कथमिहागतः २५।
पृष्टो राज्ञा विमुक्तोऽसौ विमानस्थः स्थिराक्षरम् ।
वृत्तं यथा यदाचख्यौ निजं दुःशासनः क्रमात् २६।
गीतासप्तदशाध्यायं जपन्मालवभूपतिः ।
नरवर्माभवन्मुक्तः कालेनाल्पीयसा ततः २७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये एकनवत्यधिकशततमोऽध्यायः १९१ ।
।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 192
पावर्त्युवाच-
उक्तं सप्तदशाध्यायगौरवं भवता शिव ।
स त्वमष्टादशाध्यायमहिमानमुदीरय १।
ईश्वर उवाच-।
आकर्णय चिदानंद निष्पादि निगमोत्तरम् ।
पुण्यमष्टादशाध्यायमाहात्म्यं गिरिनंदिनि २।
समस्तशास्त्रसर्वस्वं श्रोत्रप्राप्तं रसायनम् ।
संसारयातनाजालविदारणपरायणम् ३।
परं रहस्यं सिद्धानामविद्योन्मूलनक्षमम् ।
चैतन्यं कैटभारातेरग्रगण्यं परं पदम् ४।
विवेकवल्लरीमूलं कामक्रोधमलापहम् ।
पुरंदरादिगीर्वाणचित्तविश्रामकारकम् ५।
सनकादिमहायोगिमनोरंजनकारणम् ।
पाठमात्रपराभूतकालकिंकरगर्जितम् ६।
अष्टोत्तरशतव्याधिमूलोन्मूलनकारकम् ।
नातः परतरं किंचिद्रहस्यं हंसगामिनि ७।
उपतापत्रयहरं महापातकनाशनम् ।
यथाकालेष्वहं नित्यो यथा पशुषु कामधुक् ८।
यथा व्यासो मुनींद्रेषु व्यासेषु ब्रह्मवित्तमः ।
यथा दिवौकसां शक्रो गुरुः शक्राद्यथा वरः ९।
यथा रसानां पीयूषमुत्तमं विश्वविश्रुतम् ।
तथा गिरीणां कैलासो यथा चेंद्रो दिवौकसाम् १०।
तीर्थानां पुष्करं तीर्थं यथा पुष्पेषु पंकजम् ।
पतिव्रतासु नारीषु यथा लोकेष्वरुंधती ११।
यथा मखेष्वश्वमेधो यथोद्यानेषु नंदनम् ।
यथारुद्रेषु सर्वेषु वीरभद्रो ममानुगः १२।
यथा दानेषु भूदानं यथा सिंधुषु गौतमी ।
यथा लोके हरिक्षेत्रं प्रशस्तं धर्मकर्मसु १३।
तथैवाष्टादशाध्यायमाहात्म्यं भुवनोत्तरम् ।
तत्राख्यानमिदं पुण्यं भक्त्याकर्णय पार्वति १४।
यथाकर्णनमात्रेण जंतुः पापैः प्रमुच्यते ।
अस्ति मेरुगिरेः शृंगे पुरी रम्यामरावती १५।
पुरा मम विनोदाय निर्मिता विश्वकर्मणा ।
निरंतरं गुणयुता कोटिगीर्वाणसेविता १६।
तेजःपुंजवती साक्षाद्ब्रह्मविद्येव विश्रुता ।
चिंतामणिशिलाबद्धाः प्रासादा यत्र कामदाः १७।
जयंति मेरुशिखरे चतुर्मुखपुरावधि ।
यत्र कल्पद्रुमच्छाया सुखासीना पुलोमजा १८।
शृणोति श्यामला गीर्भिर्गीतं गंधर्वयोषिताम् ।
यत्रास्ते सबलारातिर्देवैश्च दलितायुषाम् १९।
दैत्यानां रक्तकल्लोलैः स्वर्धुनी शोणतां गता ।
पुरातनसुधास्वादु स्मारं स्मारं दिवौकसः २०।
धयंति यत्र क्षुत्क्षामा कलां प्रत्यहमैंदवीम् ।
तस्यां कैवल्यकल्पायामासीत्पूर्वं शतक्रतुः २१।
शची समन्वितः श्रीमान्सर्वगीर्वाणसेवितः ।
स कदाचित्सुखासीनो विष्णुदूतैरधिश्रितम् २२।
सहस्रनेत्रमायांतमपश्यत्पुरुषं परम् ।
ततस्तदीय तेजोभिरभिभूतः पुरंदरः २३।
मणिसिंहासनात्तूर्णं पतितः स्थानमंडपे ।
सिंहासनात्प्रयातस्य ततस्तस्य हरेर्भटाः २४।
गीर्वाणगणसाम्राज्य पट्टबंधं वितेनिरे ।
अथ तस्याभिषिक्तस्य महेंद्रस्य पुलोमजा २५।
वामांकमारुरोहाशु दिव्यदुंदुंभिनिःस्वनैः ।
अथ त्रिदिवसंगीत गीर्वाणाः प्रमदान्विताः २६।
सुरा नीराजयामासुर्दिव्यरत्नैः सुरस्त्रियः ।
ततो वै ऋषयो वेदैराशीर्वादास्तदा ददुः २७।
रंभाद्या ननृतुस्तस्य पुरस्तादप्सरोगणाः ।
गंधर्वा ललितालापाञ्जगुर्मंगलकौतुकम् २८।
एवं नूतनमिंद्रं तु जुष्टं बहुभिरुत्सवैः ।
विना शतक्रतुं दृष्ट्वा शक्रो विस्मयमाययौ २९।
न मया विहिता मार्गे तडागा न विनिर्मिताः ।
न रोपिता महावृक्षाः पांथविश्रांतिकारकः ३०।
न कदाचिदहो दृष्टो देवस्त्रिपुरभैरवः ।
निधिवासे स्थिता देवी पूजिता न मदालसा ३१।
मेघंकरस्थितः शार्ङ्गधरो नैव निरीक्षितः ।
न कृतं विरजे स्नानं नैवं काशीं पुरीं गतः ३२।
न देववाटिकावासी दृष्टो नरहरिः स्वयम् ।
एरंडविष्णुर्हेरंबो न जातु परिशीलितः ३३।
रेणुकानेक्षिता जातु माता पुरनिवासिनी ।
न भक्त्या पूजिता देवी दाना पुरनिवासिनी ३४।
न भक्त्या त्रिपुरे दृष्टस्त्रिलिंगस्त्र्यंबकः स्वयम् ।
न शार्दूलतडागस्थो वीक्षितः सोमनाथकः ३५।
रेवापुरस्थितो देवो घुसृणेशो न वीक्षितः ।
नागदंतपुरे ख्यातो नागनाथो न वेक्षितः ३६।
पर्णग्रामस्थितो दृष्टो न महानमृतेश्वरः ।
न तुंगभद्रा तीरस्थो दृष्टो हरिहरः स्वयम् ३७।
न वेंकटाद्रिनिलयः श्रीनिवासः सुलक्षितः ।
कावेरी कर्णिकातीरे श्रीरंगो नैव वीक्षितः ३८।
दीनास्त्वनाथाः क्रोशंतः कारागारान्न मोचिताः ।
अन्नदानेन दौर्भिक्षे प्राणिनो नैव पूजिताः ३९।
रात्रौ रात्रौ कृता क्वापिनिर्जले नोदकप्रभा ४०।
न गौतम्यां कृतं स्नानं न दृष्टो हरिणेश्वरः ।
कृष्णवेण्यां च न कृतं स्नानं कन्यागते गुरौ ४१।
दत्तं नो भूखंडमपि कवयो नैव पूजिताः ।
न तीर्थेषु कृतं सत्रं न ग्रामेषु कृता मखाः ४२।
पुष्करिण्यो न विहिता मध्ये मार्गं बहूदकाः ।
न प्रासादाः कृताः क्वापि ब्रह्मविष्णुपिनाकिनाम् ४३।
न जातुचिद्भयाक्रांता रक्षिताः शरणागताः ।
कथमेकेन पुण्येन देवदत्तमिहार्जितम् ४४।
इति चिंताकुलो भूत्वा हरिं प्रष्टुं पुरंदरः ।
ययौ सरभसंखिन्नः क्षीरकूपारगह्वरम् ४५।
तत्र प्रविश्य गोविंदं कृतनिद्रं नवैस्तवैः ।
अकस्मान्निजसाम्राज्यभ्रंशदुःखमुवाच ह ४६।
इंद्र उवाच-।
रमाकांत भवत्प्रीत्यै कृतं क्रतुशतं पुरा ।
तेन पुण्येन संप्राप्तं मया पौरंदरं पदम् ४७।
इदानीं नूतनः कोऽपि जातो दिवि पुरंदरः ।
न तेन धर्मो विहितो न तेन क्रतवः कृताः ४८।
मम सिंहासनं दिव्यं कथमाक्रांतमच्युत ४९।
महादेव उवाच-।
इत्येवं वदतस्तस्य श्रुत्वा वाचं रमापतिः ।
उन्मीलितस्मिताक्षो सावुवाच मधुरं वचः 6.192.५०।
श्रीभगवानुवाच-।
किं दानैरल्पफलदैः किं तपोभिः किमध्वरैः ।
वर्त्तमानः क्षितितले सत्वं प्रीणितवान्पुरा ५१।
इन्द्र उवाच-।
भगवन्कर्मणा केन स त्वां प्रीणितवान्द्विजः ।
यत्प्रीत्या भगवान्प्रादात्तस्मै पौरंदरं पदम् ५२।
श्रीभगवानुवाच ।
जपत्यष्टादशाध्याये गीतानां श्लोकपंचकम् ।
यत्पुण्येन च संप्राप्तं तव साम्राज्यमुत्तमम् ५३।
सर्वपुण्यशिरोरत्न भूतेन त्वं स्थिरो भव ।
इति विष्णोर्वचः श्रुत्वा ज्ञातोपायं पुरंदरः ५४।
विप्रवेषधरो भूत्वा गतो गोदावरीतटम् ।
तत्रापश्यत्पुरं पुण्यं कालिकाग्राममुत्तमम् ५५।
यत्र कालेश्वरो देवो वर्त्तते कालमर्दनः ।
तत्र गोदावरी तीरे स्थितं परमधार्मिकम् ५६।
अपश्यत्करुणावंतं ब्राह्मणं वेदपारगम् ।
नित्यमष्टादशाध्यायं जपंतं दांतचेतसम् ५७।
ततस्तच्चरणद्वंद्वे लुठित्वा परया मुदा ।
सत्वमष्टादशाध्यायमपठत्तेन शिक्षितम् ५८।
अथ पुण्येन तेनाऽसौ विष्णोः सायुज्यमाययौ ।
हित्वा पुरंदरादीनां देवानां पदमल्पकम् ५९।
ज्ञात्वातीव मुदायुक्तो वैकुंठमगमत्पुरम् ।
अतएव परं तत्वं मुनीनामिदमुत्तमम् ६०।
दिव्यमष्टादशाध्यायमाहात्म्यं कथितं मया ।
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ६१।
इत्येवं गीतामाहात्म्यं कथितं पापनाशनम् ।
पुण्यं पवित्रमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ६२।
यः शृणोति महाभागे श्रद्धया संयुतः पुमान् ।
सर्वयज्ञफलं प्राप्य विष्णोः सायुज्यमाप्नुयात् ६३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखंडे सतीश्वरसंवादे गीतामाहात्म्ये द्विनवत्यधिक शततमोऽध्यायः १९२।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 193
पार्वत्युवाच-
देवदेव महादेव सर्वज्ञ सकलार्थद ।
कृपां मयि परां कृत्वा यत्पृच्छे तद्वदस्व मे १।
श्रुतं च गीतामाहात्म्यं बह्वाश्चर्यकथायुतम् ।
तेन मे भक्तिरुत्पन्ना श्रोतुं कृष्णकथां पराम् २।
पुराणेषु तु सर्वेषु श्रीमद्भागवतं परम् ।
यत्र प्रतिपदं कृष्णो गीयते बहुधर्षिभिः ।
तन्माहात्म्यं यथातत्वं सेतिहासं वदाधुना ३।
ईश्वर उवाच-।
नैमिषे सूतमासीनमभिवाद्य महामतिम् ।
कथामृतरसास्वादकुशलः शौनकोऽब्रवीत् ४।
शौनक उवाच ।
अज्ञानध्वांतविध्वंसि कोटिजन्माघनाशनम् ५।
श्रीमद्भागवताख्यानं सूताख्याहि रसायनम् ।
भक्तिज्ञानविरागाढ्यो विवेको वर्द्धते कथम् ६।
माहामोहनिरासश्च वैष्णवैः क्रियते कथम् ।
इह घोरे कलौप्रायो जीवश्चासुरतां गतः ७।
क्लेशाक्रांतस्य तस्याथ शोधने किं रसायनम् ।
श्रेयसां यद्भवेच्छ्रेयः पावनानां च पावनम् ८।
कृष्णप्रीतिकरं यच्च साधनं तद्वदाधुना।
चिंतामणिं लोकसुखं सुरेंद्रास्पदसंपदम् ९।
प्रयच्छति गुरुः प्रीतो वैकुंठं चातिदुर्लभम् १०।
सूत उवाच-।
प्रीतोऽहं ते द्विजश्रेष्ठाः कथयिष्ये यथाश्रुतम् ।
सारात्सारतरं यच्च संसारभयनाशनम् ११।
भक्तिप्रवर्द्धकं यच्च कृष्णसंतुष्टिहेतुकम् ।
तन्मे कथयतः साधो सावधानतया शृणु १२।
कालव्यालमुखालीढ जगत्त्राणविधायकम् ।
श्रीमद्भागवतं शास्त्रं कलौ कृष्णेन भाषितम् १३।
एतस्मादपरं किंचिन्मनः शुद्धिकरं नहि ।
जन्मांतरकृतैः पुण्यैर्लभ्यते साधुभिस्तु तत् १४।
राज्ञः परीक्षितो मोक्षं ज्ञात्वा कमलसंभवः ।
तोलयामास शास्त्राणि पुराणानि महांति च १५।
श्रीमद्भागवतं तत्र गरीयो भुवि संगतम् ।
श्रीमद्भागवती वार्ता सुराणामपि दुर्लभा १६।
इति संचित्य बहुशो मुनयः साधवोऽमलाः ।
मेनिरे भगवद्रूपं श्रीमद्भागवतं क्षितौ १७।
पठनाच्छ्रवणाद्यस्य नरो याति हरेः पदम् ।
वर्षेण श्रवणं तस्य बहुसौख्यप्रदायकम् १८।
मासेन भक्तिराभास्यं लभते द्विजसत्तम ।
सप्ताहेन श्रुतं चैतत्सर्वथा मुक्तिदायकम् १९।
किं बहूक्तेन वै साधो श्रीमद्भागवताऽमृतम् ।
नित्यं सद्भिः प्रपातव्यं कृष्णलीलाप्रकाशकम् २०।
सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः ।
ब्रह्मणः श्रुतपूर्वाय सप्ताहश्रवणे विधिः २१।
शौनक उवाच-।
पितुर्लब्ध्वा वरं ज्ञानं श्रीमद्भागवताभिधम् ।
नारदो लोकतत्वज्ञः सर्वदा ह्यटते महीम् २२।
कुत्र तैः संगमो जातो नारदस्य महात्मभिः ।
श्रुतो देवर्षिणा यत्र सप्ताहश्रवणे विधिः २३।
सूत उवाच-।
अत्र ते वर्णयिष्यामि भक्तियुक्तं कथानकम् ।
यत्पुरा ब्रह्मरातेन मह्यं प्रोक्तं दयालुना २४।
एकदा तु विशालायामुपविष्टमधोमुखम् ।
नारदं सनकाद्यास्ते ददृशुर्दीनमानसम् २५।
तं दृष्ट्वा चिंतयानं तु देवर्षिर्भ्रातरं स्वकम् ।
पप्रच्छुर्विस्मयाविष्टा मुनयस्तत्वचिंतकाः २६।
कुमारा ऊचुः-।
किं त्वं चिंतयसे ब्रह्मन्नतिदीन इवातुरः ।
तवेत्थं मुक्तिसंगस्य नोचितं वद कारणम् २७।
नारद उवाच-।
अहं पृथ्व्यां समायातो ज्ञात्वा सर्वोत्तमोत्तमाम् ।
तीर्थैर्नानाविधैर्युक्तां पुण्यदैः पुण्यरूपिणीम् २८।
पुष्करे च प्रयागे च काश्यां गोदावरीतटे ।
हरिक्षेत्रे कुरुक्षेत्रे श्रीरंगे सेतुबंधने २९।
एतेष्वन्येषु तीर्थेषु भ्रममाण इतस्ततः ।
नापश्यं कुत्रचिच्छर्म मनः संतोषकारकम् ३०।
कलिना धर्ममित्रेण धरेयं बाधिताऽधुना ।
सत्यं शौचं दया दानं नास्ति कुत्रापि भूतले ३१।
उदरंभरिणो लोका वराकाः कूटसाक्षिणः ।
मंदाः सुमंदमतयो महापाखंडसंश्रयाः ३२।
स्त्रीप्रधानगृहस्थाश्च वर्णिनो व्रतवर्जिताः ।
वानप्रस्थाः पुरावासा न्यासिनो भोगतत्परा ३३।
कन्याविक्रयिणो लोभात्कृषिकर्मपरायणाः ।
भ्रष्टाचारा दंभिनश्च स्वेच्छाचारनिदर्शिनः ३४।
आश्रमा यवनै रुद्धास्तीर्थानि सरितो ह्रदाः ।
देवतायतनान्यत्र दुष्टैरुच्छेदितानि च ३५।
योगी सिद्धोऽथवा ज्ञानी सत्क्रियोऽत्र न दृश्यते ।
कलिदावानलेनाद्य साधनं भस्मतां गतम् ३६।
अट्टशूला जनपदाः शिवशूला द्विजातयः ।
कामिन्यः केशशूलिन्यो दृश्यंते भुवि सर्वतः ३७।
एकदाहमनुप्राप्तो यमुनायास्तटं शुभम् ।
दृष्टं वृंदावनं तत्र यत्र लीला हरेरभूत् ३८।
तत्र यच्चाद्भुतं दृष्टं श्रूयतां तन्मुनीश्वराः ।
एका तु तरुणी तत्र निषण्णाखिन्नमानसा ३९।
द्वौ वृद्धौ पतितौ पार्श्वे निःश्वसंतावचेतनौ ।
शुश्रूषंती प्रबोधंती रुदती च तयोः पुरः ४०।
दृष्टा दिशो निरीक्षंती रक्षितारमिवात्मनः ।
वीज्यमाना बहुस्त्रीभिर्बोध्यमाना मुहुर्महुः ४१।
दृष्ट्वा दूराद्गतश्चाऽहं कौतुकेन तदंतिकम् ।
मां दृष्ट्वोत्थाय सा बाला वचनं चेदमब्रवीत् ४२।
बालोवाच-।
भो साधोऽत्र क्षणं तिष्ठ मम चिंतामपाकुरु ।
पुंसां च दर्शनं भद्र सर्वाघौघनिवारणम् ।
पुण्येन प्राक्तनेनैव दर्शनं तव जायते ४३।
अतो मे मानसं दुःखं च्छेत्तुमर्हसि मानद ।
नारद उवाच ।
एवमुक्तस्तया चाहं कृपया स्निग्धमानसः ।
अपृच्छंतां वरारोहां कौतुकेन समाकुलः ४४।
का त्वमेतौ च कौ भद्रे काश्चेमाः पद्मलोचनाः ।
आख्याहि मत्पुरः सर्वं तव दुःखस्य कारणम् ४५।
इति पृष्टा मया सा तु बाला दुःखितमानसा ।
प्रोवाच निखिलं दुःखमात्मनो दुःखकारणम् ४६।
बालोवाच-।
अहं भक्तिरिति ख्याता एतौ मे तनयौ वरौ ।
ज्ञानवैराग्यनामानौ कालयोगेन जर्जरौ ४७।
गंगाद्याः सरितश्चेमा मम सेवार्थमागताः ।
एताभिः सेविता नित्यं सत्कारेणापि नारद ४८।
न च श्रेयो लभे किंचित्क्षीणाऽहं सर्वतो मुने ।
ममपूर्वं तु वृत्तातं शृणु ब्राह्मणसत्तम ४९।
येनाऽहं दुःखिता जाता न लभे शर्म कुत्रचित् ।
उत्पन्ना द्रविडे चाहं कर्णाटे वृद्धिमागता 6.193.५०।
स्थिता किंचिन्महाराष्ट्रे गुर्जरे जीर्णतां गता ।
तत्र घोरकलेर्योगात्पाखंडैः खंडितांगका ५१।
दुर्बलाहं चिरं जाता पुत्राभ्यां सह मंदताम् ५२।
वृंदावनमिदं प्राप्ता दैवयोगेन नारद ।
जाता हं तु पुनर्बाला नवीनेव सुरूपिणी ५३।
इमौ तु शयितावत्र सुतौ मे क्लिष्टमानसौ ।
अतिवृद्धौ परित्यज्य गंतुं नाहं क्षमाधुना ५४।
अहं बाला कथं जाता सुतौ मे जरठौ कुतः ।
त्रयाणामेकभावानां वैपरीत्यं कुतोऽभवत् ५५।
घटते जरठा माता बालकौ तनयाविति ।
अतः शोचामि चात्मानं विस्मयाविष्टमानसा ५६।
यदि त्वं वेत्सि धर्मज्ञ कृपालो दीनपालक ।
वद सर्वं यथातत्वं कारणं चात्र यद्भवेत् ५७।
एवं पृष्टस्तया चाहं क्षणं चैव विमृश्य तु ।
अवोचं भक्तिमाभाष्य क्लिष्टां कालेन भूयसा ५८।
ज्ञानेनाहं प्रपश्यामि वृत्तं सर्वं तवानघे ।
मा विषादं कुरु प्राज्ञे हरिः शं ते करिष्यति ५९।
सर्वसत्वहरो बाले युगोऽयं दारुणः कलि ।
लुप्तोऽनेन सदाऽचारो योगमार्गस्तपांसि च ६०।
जनाश्चाघा (द्या) सुरायंते शाठ्यदुष्कृतकारिणः ।
संतो ह्यस्मिन्सुदुःखार्ता असंतो हृष्टमानसाः ६१।
दृश्यते धीरचित्तस्तु पंडितोऽपि न कोऽपि च ।
अस्पृश्य नवलोक्येयं दुष्टभाराकुलाधरा ६२।
अन्वब्दं क्रमतो जातो मंगलं हीयतेऽन्वहम् ।
न त्वां तव सुतौ चेमौ कोऽपि पश्यति भामिनि ६३।
यूयं तु रागबहुलैस्त्यक्ता जर्जरतां गताः ।
वृंदावनस्य संयोगाद्बालात्वमभवः पुनः ६४।
धन्यं वृंदावनं चेदं भक्तिर्यत्राभवन्नवा ।
अत्रेमौ ग्राहकाभावान्नवीनत्वं न चागतौ ६५।
किंचिदात्मसुखेनेह प्रसुप्ताविति लक्ष्यते ।
भक्तिरुवाच-।
कथं परिक्षिता राज्ञा स्थापितोद्य शुचिः कलि ।
दयापरेण हरिणा ह्यधर्मः किमुपेक्षितः ६६।
एनं मे संशयं छिंधि त्वद्वाचा सुखितास्म्यहम् ।
तस्या वचः समाकर्ण्य भूयोऽहमवदं द्विजाः ६७।
यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु ।
यदा मुकुंदो भगवान्क्ष्मां त्यक्त्वा स्वपदं गतः ६८।
कलिस्तद्दिनमारभ्य प्रवृत्तः सत्यबाधकः ।
दृष्टो दिग्विजये राज्ञा दीनवच्छरणं गतः ६९।
न हतोऽस्य गुणद्रष्टा सर्वसाधारणं त्विदम् ।
यत्फलं तपसा नैति न योगे न समाधिना ७०।
तत्फलं लभते धीमान्कलौ केशवकीर्तनात् ।
एतादृशं कलिं दृष्ट्वा सारात्सारफलप्रदम् ७१।
विष्णुरातः स्थापितवान्कलिजानां हिताय च ।
कुकर्माचरणात्सारः सर्वतो निर्गतोऽधुना ७२।
पदार्थाः संस्थिता भूमौ बीजहीनास्तुषा यथा ।
विप्रैर्भागवतीवार्त्ता गेहे गेहे जने जने ७३।
कारिता धनलोभेन कथासारस्ततो गतः ।
अत्युग्रभूरिकर्माणो नास्तिका दांभिका जनाः ७४।
तिष्ठंति सर्वतीर्थेषु तीर्थसारस्ततो गतः ।
कामक्रोधमहालोभतृष्णाव्याकुलचेतसः ७५।
समारभंते कर्माणि कर्मसारस्ततो गतः ।
मनसश्चाजयाल्लोभाद्दंभात्पाखंडसंश्रयात् ७६।
शास्त्रानभ्यसनाच्चैव ध्यानयोगफलं गतम् ।
पंडितास्ते कलत्रेषु रमंते महिषा इव ७७।
पुत्रोत्पादनदक्षाश्च न दक्षा मुक्तिसाधने ।
न हि वैष्णवता कुत्र संप्रदायपुरःसराः ७८।
देवनिंदापराः सर्वे साधुनिंदापरायणाः ।
अयं तु युगधर्मोऽस्ति दीयते कस्य दूषणम् ७९।
अतस्त्वं पुंडरीकाक्षं स्मृत्वा सौख्यमवाप्स्यसि ८०।
एवं मयोक्तं वचनं श्रुत्वा सा विस्मयं गता ।
उवाच वचनं भूयो मां प्रशस्य द्विजोत्तमाः ८१।
भक्तिरुवाच-।
देवर्षे त्वं तु धन्योऽसि मद्भाग्येन समागतः ।
साधूनां दर्शनं लोके सर्वसिद्धिप्रदायकम् ८२।
सुखोपायो यथा मे स्यात्तथादिश मुनेऽधुना ।
सर्वज्ञस्य तव ब्रह्मन्न साध्यं किमपीह वै ८३।
अजयदजितमायां यस्य कायाधवस्ते वचनरचनमेकं केवलं चाकलय्य ।
ध्रुवपदमुपयातो यत्कृपातो ध्रुवो वै तमहमरणभूतं ब्रह्मपुत्रं नतास्मि ८४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे भागवतमाहात्म्ये त्रिनवत्यधिकशततमोऽध्यायः १९३ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 194
सूत उवाच-
एवं संप्रार्थितो विप्रास्तया भक्त्यातिदीनया।
यतश्चाकथयं तद्वै तच्छृणुध्वं दयालवः १।
नारद उवाच-
मा खिदस्त्वं वृथा बाले समाधाय मनो हृदि ।
श्रीकृष्णचरणांभोजं स्मर सौख्यं लभिष्यसि २।
द्रौपदी च परित्राता येन कौरवकश्मलात् ।
पालिता गोपसुंदर्यः स कृष्णः क्वापि नो गतः ३।
त्वं तु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका ।
त्वयाहूतस्तु भगवान्याति नीचगृहेष्वपि ४।
सत्यादि त्रियुगे बोधो विरागो मुक्तिसाधकौ ।
कलौ तु केवला भक्तिर्ब्रह्मसायुज्यकारिणी ५।
इति निश्चित्य विद्रूपी स्वकां गात्त्वां ससर्ज ह ।
परमानंदचिन्मूर्तिः स्वप्रियां प्रीतमानसः ६।
बध्वांजलि त्वया पृष्टः किं करोमीति वै हरिः ।
त्वां तदाज्ञापयत्कृष्णो मद्भक्तान्पोषयेति च ७।
अंगीकृतं त्वया तद्वै प्रसन्नोऽभूद्धरिस्तदा ।
मुक्तिदासीं ददौ तुभ्यं ज्ञानवैराग्य आत्मजौ ८।
भक्तानां पोषणं नित्यं वैकुंठस्था करोषि च ।
भूमौ च भक्तपोषाय छायारूपं समाश्रिता ९।
विमुक्ति ज्ञानवैराग्यैः सह चैवागतात्र हि ।
कृतादिद्वापरांते हि काले मुक्ति मुदास्थिता १०।
कलौ तु संक्षयं प्राप्ता पाषंडामयपीडिता ।
त्वदाज्ञया गता शीघ्रं वैकुंठे पुनरेव सा ।
स्मृतमात्रा त्वयाद्यापि मुक्तिरायाति सत्वरम् ११।
पुत्रीकृत्य त्वयैमौ च स्वपार्श्वे परिरक्षितौ ।
उपेक्षातः कलौ मंदौ वृद्धौ जातौ सुतौ तव १२।
तथापि चिंतां मुंचत्वमुपायं चिंतयाम्यहम् ।
कलिना सदृशः कोऽपि युगो नास्ति वरानने १३।
तस्मिंस्त्वां ख्यापयिष्यामि गेहे गेहे जने जने ।
अन्यधर्मांस्तिरस्कृत्य पुरस्कृत्य महोत्सवान् १४।
यदि प्रवर्त्तये न त्वां तदा दासो हरेर्नहि ।
त्वदन्विताश्च ये जीवा भविष्यंति कलाविह १५।
पापिनोऽपि गमिष्यंति निर्भया हरिमंदिरम् ।
येषां चित्ते भवेद्भक्तिः सर्वदा प्रेमरूपिणी १६।
न ते पश्यंति कीनाशं स्वप्नेऽप्यमलमूर्त्तयः ।
न प्रेतो न पिशाचो वा राक्षसो वासुरोपि च १७।
भक्तियुक्तमनस्कानां स्पर्शने दर्शने प्रभुः ।
न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा १८।
हरिर्हि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः ।
नृणां जन्मसहस्रेण भक्तिः सुकृतिनां भवेत् १९।
कलौ भक्तिः कलौ भक्तिर्भक्त्याकृष्णः पुरः स्थितः ।
भक्तिद्रोहकरा ये च ते सीदंति जगत्त्रये २०।
दुर्वासा दुःखमापन्नः पुरा भक्तिविनिंदकः ।
अलं वृत्तैरलंतीर्थैरलं योगैरलं मखैः २१।
अलं ज्ञानकथालापैर्भक्तिरेकैव मुक्तिदा ।
एवमुक्तं मया सा तु स्वमाहात्म्यं निशम्य वै २२।
सर्वांगहर्षसंयुक्ता मां पुनर्वाक्यमब्रवीत् ।
अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला २३।
न कदाचिन्विमुंचामि चित्तं ते मयि संगतम् ।
कृपालुना त्वया साधो मद्बाधा ध्वंसिता क्षणात् २४।
पुत्रयोश्चेतना नास्ति ममेमौ प्रतिबोधय ।
तस्यास्तद्वचनं श्रुत्वा कारुण्येनान्वितो ह्यहम् २५।
तयोः प्रबोधनं कर्तुं प्रवृत्तः पाणिना स्पृशन् ।
मुखं संसृज्य कर्णांते शब्दमुच्चैः समुच्चरन् २६।
ज्ञान प्रबुद्ध्य्तां शीघ्रं वैराग्यप्रतिबुध्यताम् ।
वेदवेदांतघोषैश्च गीता पाठैर्मुहुर्मुहुः २७।
बोध्यमानौ तदा तेन कथंचिद्बोधमागतौ ।
नेत्रैरनवलोकंतौ जृंभंतौ सालसावुभौ २८।
बकवत्पलितौ प्रायः शुष्ककाष्ठसमांगकौ ।
क्षुत्क्षामौ तौ निरीक्ष्यैव पुनः स्वापमुपागतौ २९।
तदा चिंतापरोऽभूवं किं विधेयं मयेति च ।
अहो निद्रा कथं याति वृद्धत्वं चानयोः परम् ३०।
चिंतयन्नित गोविंदं स्मरन्नासं द्विजोत्तमाः ।
व्योमवाणी तदैवाभून्मा ऋषे खिद्यतामिति ३१।
उद्यमस्सफलस्ते तु भविष्यति न संशयः ।
एतदर्थं तु सत्कर्म सुरर्षे त्वं समाचर ३२।
तत्कर्मतेऽभिधास्यंति साधवः साधुभूषणाः ।
सत्कर्मणि कृते तस्मिन्स्वपनं वृद्धतानयोः ३३।
गमिष्यति क्षणाद्भक्तिः सर्वतः प्रसरिष्यति ।
इत्याकाशवचः स्पष्टं निशम्यापि मया द्विजाः ३४।
न ज्ञातं यन्नभोवाण्या गोप्यत्वेन निरूपितं ।
किं तत्कर्म च येनैतौ भवतो ज्ञानसंयुतौ ३५।
क्व भविष्यंति ते संतः कथं वक्ष्यंति कर्म सत् ।
मयात्र किं प्रकर्त्तव्यं यदुक्तं व्योमभाषया ३६।
अथ तौ तत्र संस्थाप्य निर्गतोऽहं बहिर्द्विजाः ।
वृंदारण्यादपृच्छं च यत्र तत्र द्विजोत्तमान् ३७।
वृत्तांतं सर्व एवाथ श्रुत्वा विस्मितमानसाः ।
नैवोत्तरं प्रयच्छंति ह्यनभिज्ञानभोगिरः ३८।
असाध्यं केचन प्रोचुराविज्ञेयमथापरे ।
मूकी बभूवुरन्ये तु चिंतयानाः पुनः पुनः ३९।
वेदवेदांतघोषैश्च गीतापाठैर्मुहुर्मुहुः ।
बोध्यमानं त्रिकं तत्तु नोदतिष्ठदहो विधिः ४०।
योगिना नारदेनापि स्वयं न ज्ञायते तु यत् ।
तत्कथं शक्यते कर्तुमितरैरिह मानुषैः ।
ततश्चिंतातुरश्चाहं बदरीवनमागतः ४१।
तपश्चरामि चात्रैव तदर्थं कृतनिश्चयः ।
तावद्ददर्श पुरतः सनकाद्यान्मुनीश्वरान् ।
कोटिसूर्यसमाभासानुवाच मुनिसत्तमान् ४२।
इदानीं भूरिभागेन भवतां दर्शनं ह्यभूत् ।
तदुपायं महाभागा वदंतु प्रीतमानसाः ४३।
भवंतो योगिनां श्रेष्ठा बुद्धिमंतो बहुश्रुताः ।
कुमारा एवपंचाब्दाः पूर्वेषामपिपूर्वजाः ४४।
सदा वैकुंठनिलया हरिकीर्त्तनतत्पराः ।
लीलामृतकथोन्मत्ता हरिस्मरणतत्पराः ४५।
अतो हि कालदुहिता युष्मान्नैव प्रबाधते ।
येषां भ्रूभंगमात्रेण द्वारपालौ हरेः पुरा ४६।
दैत्यौ भूत्वा त्रिजन्मानि पुनस्तत्स्थानमास्थितौ ।
अशरीरगिरोक्तं यत्किंतत्साधनमुच्यताम् ४७।
अनुष्ठेयं यथा यत्र प्रब्रुवंतु कृपालवः ।
भक्तिज्ञानविरागाणांसुखमुत्पद्यतेयथा ।
ख्यातिर्वः सर्वलोकेषु तथा साधूच्यतां बुधाः ४८।
कुमारा ऊचुः-
मा चिंतां कुरु देवर्षे स्वचित्ते हर्षमावह ।
उपायः सुखासाध्योऽत्र विद्यते विश्वसौख्यदः ४९।
अहो नारद धन्योऽसि विरक्तानां शिरोमणिः ।
श्रीकृष्णप्रेमपात्राणामग्रणीर्वदतां वरः 6.194.५०।
त्वयि चित्रं न देवर्षे भक्तिसाधनतत्परे ।
उचितं कृष्णदासानां भक्तेः संचारणं भुवि ५१।
ऋषिभिर्बहुधा लोके उपायाः सिद्धये कृताः ।
श्रमसाध्याश्च ते सर्वे प्रायः स्वर्गफलप्रदाः ५२।
वैकुंठसाधकः पंथा गुप्तो लोकेषु वर्त्तते ।
तस्योपदेशकः साधुः प्रायो भाग्येन लभ्यते ५३।
यत्ते सत्कर्म निर्दिष्टं व्योमवाचा मुनीश्वर ।
तज्ज्ञेयमिह सर्वज्ञैर्ज्ञानयज्ञः पुरातनैः ५४।
श्रीमद्भागवतालापो ज्ञानयज्ञः शुकोदितः ।
भक्तिज्ञानविरागाणां सुखदः प्रतिभाति नः ५५।
कलिदोषा इमे सर्वे श्रीमद्भागवत ध्वनेः ।
प्रभीताः प्रलयायंते सिंहशब्दाद्वृका इव ५६।
ज्ञानवैराग्यसंयुक्ता भक्तिः प्रेमरसावहा ।
प्रतिगेहं प्रतिजनं सुखक्रीडां करिष्यति ५७।
सूत उवाच-
कुमारोक्तं समाकर्ण्य नारदः प्रीतमानसः ।
पुनः प्रोवाच भगवांस्तदुत्कर्षं विभावयन् ५८।
नारद उवाच-
वेदवेदांतघोषैश्च गीतापाठैः प्रबोधितम् ।
नोदतिष्ठत्त्रिकं तत्तु कलिदोषतिरस्कृतम् ५९।
कथं भागवतालापात्तद्विबोधमिहैष्यति ।
छिंदंतु संशयं ह्येनं भवंतोऽमोघदर्शनाः ६०।
विलंबो नात्र कर्त्तव्यः शरणागतवत्सलाः ।
ततस्ते सनकाद्यास्तु विरक्ता ह्यूर्द्ध्वरेतसः ६१।
सिद्धाः सनातना विप्रा नारदं प्रोचुरादरात् ६२।
कुमारा ऊचुः ।
वेदोपनिषदां साराज्जाता भागवती कथा ।
अत्युत्तमा ततो भाति पृथग्भूता फलोन्नतिः ६३।
आमूलाग्रं रसोस्त्येव रसालस्य यथा फले ।
पृथग्भूतं तु पानेन यथा विश्वमनोहरः ६४।
यथा दुग्धेस्थितं सर्पिर्न च स्वादूपकल्प्यते ।
पृथग्भूतं तु तद्दिव्यं देवानां प्रीतिवर्द्धनम् ६५।
इक्षुष्विवादिमध्यांतं शर्करा व्याप्य तिष्ठति ।
पृथग्भूता तु सा मिष्टा तथा भागवती कथा ६६।
श्रीमद्भागवतं नाम पुराणं रसमेव हि ।
भक्तिज्ञानविरागाणां सौख्यायैव प्रकाशितम् ६७।
कृष्णेन ब्रह्मणे नाभिकंजस्थाय हृदैव हि ।
तच्चतुःश्लोकमखिलं ब्रह्मैव प्रतिभासते ६८।
तुभ्यं च ब्रह्मणा प्रोक्तं तच्चरित्रनिदर्शनम् ।
त्वयापि व्यासदेवाय प्रोक्तं तत्तापहानये ६९।
यदीयस्मरणात्सद्यो निर्विण्णो बादरायणः ।
चकार महदाख्यातुमात्माराम मनोहरम् ७०।
अत्र ते विस्मयः केन येन पृच्छेः पुनः पुनः ।
श्रीमद्भागवतं शास्त्रं क्षमं कृष्णानुकर्षणे ७१।
सूत उवाच-
एतन्निशम्य वचनं समुदाहृतं तु योगीश्वरैः सनकमुख्यतमैरभीष्टम् ।
भक्त्या विधृत्य चरणं च प्रणम्य मूर्ध्ना हृष्टो जगाद जगदाधिनिवर्त्तकांस्तान् ७२।
नारद उवाच-।
संदर्शनं च भवतां विनिहंत्यघौघं श्रेयस्तनोति भवदुःखदवार्दितानाम् ।
निःशेषशेषमुखगीतकथैकपानात्प्रेमप्रकाशनकृते शरणं गतो वः ७३।
पुण्योदयेन बहुजन्मसमर्जितेन सत्संगमो यदि भवेत्कृतिनो जनस्य ।
अज्ञानहेतुकृतमोहमहांधकारो नश्येत्तदा ह्युदयमेति महान्विवेकः ७४।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्रयां संहितायामुत्तरखंडे।
श्रीभागवतमाहात्म्ये चतुर्नवत्यधिकशततमोऽध्यायः १९४।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 195
सूत उवाच-
अथ देवऋषिस्तत्र कुमाराननुमान्य च ।
उवाच प्रणतो वाक्यं ज्ञानयज्ञ कृतादरः १।
नारद उवाच-
ज्ञानयज्ञं करिष्यामि शुकशास्त्र कथोज्वलम् ।
भक्ति ज्ञान विरागाणां स्थापनार्थे प्रयत्नतः २।
यत्र कार्यो मया यज्ञः स्थानं तत्कथ्यतां द्विजाः ।
चत्वारो यज्ञवाहाश्च यूयमेव वृता मया ३।
कियद्भिर्दिवसैः श्राव्या श्रीमद्भागवती कथा ।
को विधिस्तत्र कर्तव्यो ज्ञानयज्ञविशारदाः ४।
कुमारा ऊचुः।
शृणु नारद वक्ष्यामस्तुभ्यं यत्र कथा नृणाम् ।
शृण्वतां पापराशिघ्नो भवेत्पुण्यविबर्द्विनी ५।
गंगाद्वार समीपे तु कामदाख्यं पुरं महत् ६।
स्वर्णद्याश्चोत्तरे पुण्ये तटमानंदनामकम् ।
नानाऋषिगणैर्जुष्टं देवसिद्धनिषेवितम् ७।
नाना तरुलताकीर्णं स्वच्छकोमल वालुकम् ।
रम्यमेकांतदेशस्थं स्वर्णपंकज शोभितम् ८।
यत्समीपस्थजीवानां क्षेत्रस्यैव प्रभावतः ।
मिथः संस्निग्धचित्तानां वैरं चेतसि न स्थितम् ९।
ज्ञानयज्ञस्त्वया तत्र कर्त्तव्यो हि प्रयत्नतः ।
अपूर्व रसदात्री च कथा तत्र भविष्यति १०।
वृंदावनप्रतोलिस्थं जराजीर्ण कलेवरम् ।
सुतद्वयं पुरस्कृत्य भक्तिस्तत्रागमिष्यति ११।
यत्र भागवती वार्ता भक्तिस्तत्र सहात्मजा ।
कृष्णकीर्तिसुधां पीत्वा तरुणी वा भविष्यति १२।
सूत उवाच-
एवमुक्त्वा कुमारास्ते नारदेन समंततः ।
गंगाद्वारे समाजग्मुर्ज्ञानयज्ञाय सत्वराः १३।
यदा प्राप्तास्तटं ते तु गंगाया भार्गवर्षभ ।
तदा कोलाहलश्चासीद्भूर्लोकादिक सप्तसु १४।
श्रीमद्भागवतास्वादलंपटा साप्तलौकिकाः ।
धावं धावं समाजग्मुः प्राचीना वैष्णवाश्च ये १५।
भृगुर्वसिष्ठश्च्यवनश्च गौतमो मेधातिथिर्देबलदेवरातौ ।
रामस्तथागाधिज शाकलौ च मृकंडपुत्रात्रिज पिप्पलादाः १६।
योगेश्वरौ व्यासपराशरौ च शुकादयो भागवतप्रधानाः ।
शिष्यैरुपेता बहुशास्त्रविज्ञाः कृष्णामृतास्वाद कृतौ प्रधानाः १७।
वेदांतानि च वेदाश्च मंत्रास्तंत्राणि संहिताः ।
दशसप्तपुराणानि षट्शास्त्राणि तथाययुः १८।
गंगाद्याः सरितस्तत्र पुष्करादि सरांसि च ।
क्षेत्राणि च दिशः सर्वा दंडकादि वनानि च १९।
हिमादयो नगास्तत्र देवगंधर्वकिन्नराः ।
द्वीपाः समुद्रा दिक्पालाः पातालस्थास्तथाययुः २०।
दीक्षायां नारदेनाथ दत्तमासनमुत्तमम् ।
कुमारा वंदिता सर्वे निषेदुः कृष्णतत्पराः२१।
वैष्णवाः सुविरक्ताश्च न्यासिनो ब्रह्मचारिणः ।
मुख्या ह्यग्रेस्थिता स्तेषां पुरतो नारदः स्थितः २२।
वामभागेमुनिगणादक्षिणेचदिवौकसः ।
वेदोपनिषदोऽन्यत्रतीर्थानिचभृगूद्वह २३।
जयशब्दोनमः शब्दःशंखशब्दस्तथैवच ।
बभूवाकाशसंस्पर्शीघोषयन्विदिशोदश २४।
विमानानिसमारुह्यप्रहृष्टानाकवासिनः ।
कल्पवृक्षप्रसूनैश्चतांसभांसमवाकिरन् २५।
सूतउवाच-
एवंतेषुनिविष्टेषुभृग्वादिषुयथार्हतः ।
श्रीभागवतमाहात्म्यमूचिरेनारदायते २६।
कुमारा ऊचुः।
शृणु नारद वक्ष्यामो महिमानं महाद्भुतम् ।
श्रीमद्भागवताख्यस्य शास्त्रस्य विधिपूर्वकम् २७।
सदा नरैः सुकृतिभिः सेव्या भागवती कथा ।
यस्याः श्रवणमात्रेण कृतार्थत्वं प्रयांति ते २८।
ग्रंथो ऽष्टादशसाहस्रो द्वादशस्कंध संयुतः ।
परीक्षिच्छुकसंवादः श्रीमद्भागवताभिधः २९।
तावत्संसारचक्रेस्मिन्भ्रमत्यज्ञानमोहितः ।
यावत्कर्णगतंनोस्याच्छुकशास्त्रं जनस्य च ३०।
किं श्रुतैर्बहुभिः शास्त्रैः पुराणैः संहितागमैः ।
यदि भागवतं पुंभिर्न श्रुतं भक्तिभावनैः ३१।
कथा भागवतस्यापि नित्यं भवति यद्गृहे ।
तद्गृहं तीर्थरूपं हि नृणां पापविनाशनम् ३२।
अश्वमेधसहस्राणि राजसूयशतानि च ।
भागवत्याः कथायाश्च कलां नार्हंति षोडशीम् ३३।
तावत्पापानि तिष्ठंति देहेऽस्मिन्मुनिपुंगव ।
यावन्न श्रूयते सम्यक्श्रीमद्भागवतं नरैः ३४।
न गंगा न गया काशी प्रतिष्ठानं न पुष्करः ।
कथाया भागवत्याश्च समा पुण्यफलेन च ३५।
श्लोकार्द्धं श्लोकपादं वा नित्यं भागवतोद्भवम् ।
पठस्व स्वमुखेनापि यदीच्छसि भवक्षयम् ३६।
वेदादिर्वेदमाता च पौरुषंसूक्तमेव च ।
त्रयी भागवतं चैव द्वादशाष्टाक्षरौ मनू ३७।
द्वादशात्मा प्रयागश्च कालः संवत्सरात्मकः ।
ब्राह्मणश्चाग्निहोत्रं च सुरभिर्द्वादशी तिथिः ३८।
तुलसी च वसंतर्तुः पुरुषोत्तम एव च ।
एतेषां वस्तुतो नास्ति पृथग्भावो मुनीश्वर ३९।
यश्च भागवतं शास्त्रं व्याकुर्यादन्वहं द्विज ।
जन्मकोटिकृतं पापं तस्य नश्यति नारद ४०।
श्रुतं च पठितं ध्यातं श्रीमद्भागवतं नृभिः ।
ददाति मुक्तिं भक्तिं वा तुलस्यग्न्योश्च सेवनम् ४१।
अंतकाले तु संप्राप्ते भयं त्यक्त्वा सुदूरतः ।
श्रीमद्भागवतं भक्त्या शृणुयाद्यः स मुक्तिभाक् ४२।
प्रौष्ठपद्यां च राकायां हेमसिंह समन्वितम् ।
अलंकृत्य द्विजाग्र्याय श्रीमद्भागवतं ददेत् ४३।
भक्तियुक्तो विमानश्च मिताशी च जितेंद्रियः ।
श्रुत्वादितः स कृष्णस्य सायुज्यं लोकमाप्नुयात् ४४।
आजन्ममात्रमपि येन शठेन चित्तं सम्यङ्नियम्य भुवि कृष्णकथा न पीता ।
चांडालवच्च पशुवद्बत तेन नीतं मिथ्या स्वजन्म जननी भृशमर्दिता च ४५।
यैर्न श्रुतं भागवतं पुराणमाराधितो नो पुरुषः पुराणः ।
मुखे हुतं नैव धरामराणां तेषां वृथा जन्म गतं नराणाम् ४६।
चित्तं न यस्य तु नरस्य हरेः कथायां संप्रीयते दुरितदुष्टमसत्प्रसंगात् ।
धिक्तं नरं पशुसमं भुविभारभूतमेवं वदंति मुनयः किल पूर्वसिद्धाः ४७।
दुर्ल्लभैव कथा लोके श्रीमद्भागवतोद्भवा ।
कोटिजन्मसमुत्थेन पुण्येनैव तु लभ्यते ४८।
तेन योगनिधे साधो श्रोतव्या सात्वती कथा ।
प्रत्यहं नियमो नास्ति दिनानां वस्तुतो द्विज ४९।
सत्येन ब्रह्मचर्येण यतोऽस्य श्रवणं मतम् ।
ततः कलौ विशेषो हि विधिः सप्तदिनात्मकः 6.195.५०।
मनसश्चाजयाद्रोगात्पुंसां चैवायुषः क्षयात् ।
कलेर्दोषबहुत्वाच्च सप्ताहश्रवणंमतम् ५१।
मनसो निग्रहश्चैव नियमाचरणं तथा ।
कर्तुं सप्तदिनं शक्यं ततो नियमकल्पना ५२।
श्रद्धया श्रवणे नित्यमाद्यंतावधि यत्फलम् ।
तत्फलं शुकदेवेन सप्ताहश्रवणे कृतम् ५३।
यत्फलं नास्ति तपसा न योगेन समाधिना ।
अनायासेन तत्सर्वं सप्ताह श्रवणाल्लभेत् ५४।
यज्ञाद्व्रताच्च तपसो ध्यानाज्ज्ञानाच्च तीर्थतः ।
श्रीभागवतसप्ताह नियमो ह्युत्तमो मतः ५५।
यदा कृष्णो भुवं त्यक्त्वा स्वपदं गंतुमुद्यतः ।
तदाज्ञायोद्धवो धीमान्गोविंदं वाक्यमब्रवीत् ५६।
उद्धव उवाच-
भगवन्भवता सर्वं देवकार्यं प्रसाधितम् ।
अधुना गंतुमिच्छुस्त्वं स्वंपदं तमसः परम् ५७।
अतश्चिंता ममोत्पन्ना त्वद्वियोग भिया विभो ।
तामपाकुरु देवेश त्वामहं शरणं गतः ५८।
आगतोऽयं कलिर्घोरोऽत्र सर्वेऽपि जनाः खलाः ।
भविष्यंति ततो नाथ किं विधेयं तदादिश ५९।
इयं भारवती भूमिः शरणं किं प्रयास्यति ।
त्वदन्यो दृश्यते नात्र त्राता स्याद् यदुनंदन ६०।
अतोऽस्मासु दयां कृत्वा तिष्ठात्रैव दयानिधे ।
साधूनां रक्षणायैव त्वमाविरभवः प्रभो ६१।
निर्गुणोऽपि निराकारः सच्चिदानंदविग्रहः ।
त्वद्वियोगेन ते भक्ताः कथं स्थास्यंति भूतले ६२।
निर्गुणोपासने कष्टमतोऽस्मद्धितमाचर ।
सूत उवाच-।
इत्युद्धववचः श्रुत्वा चिंतयित्वा क्षणं हरिः ६३।
ददौ भागवतं तस्मै कृपया परया युतः ।
निजं तेजः समाधाय श्रीमद्भागवते द्विज ६४।
दत्वोद्धवाय भगवान्स्वकीयं पदमाविशत् ।
तेनेयं वाङ्मयी मूर्तिर्वर्त्तते श्रीहरेरिह ६५।
सेवनात्सततं चास्याः पापं नश्येन्नृणां क्षणात् ।
सप्ताहश्रवणं तेन कथितं सर्वतोऽधिकम् ६६।
श्रोता वक्ता पृच्छकश्च यांति तन्मयतां द्विज ।
दुःखदारिद्र्य दौर्भाग्य पाप प्रक्षालनाय च ६७।
कामक्रोध जयार्थं च कलौ भागवतं क्षमम् ।
अन्यथा वैष्णवी माया देवानामपि दुर्जया ।
कथं निवर्तते पुंसां श्रीमद्भागवतं विना ६८।
सूत उवाच-
इत्येवमुक्त्वा माहात्म्यं श्रीमद्भागवतस्य ते ।
कथां भागवतीं दिव्यां प्रवक्तुमुपचक्रमुः ६९।
वेदोपनिषदां सारे श्रीमद्भागवते द्विजैः ।
आरभ्यमाणे तत्रैव भक्तिराविरभूत्क्षणात् ७०।
प्रेमान्विता चारुतनुर्मुदान्वितौ सुतौ गृहीत्वा तरुणौ स्वदोर्भ्याम् ।
श्रीकृष्ण गोविंद हरे मुरारे नाथेति नामानि मुहुर्वदंती ७१।
तामागतां भागवतार्थभूषां सुचारुवेषां ददृशुः सदस्याः ।
व्यतर्कयंश्चापि कथं कुतासौ कास्तीति सर्वेऽपि सुविस्मिताक्षाः ७२।
ततः कुमारा जगदुः कृतार्था कथार्थतो निष्पतिताधुनेयम् ।
एवं गिरः सा ससुता निशम्य जगाद नम्राब्जभुवः कुमारात् ७३।
भक्तिरुवाच-।
भवद्भिरद्यैव कृतास्मि पुष्टा कलौ प्रणष्टापि कथारसेन ।
तिष्ठामि कुत्राहमभीष्टमाभ्यां सहास्पदं मह्यमुपादशध्वम् ७४।
सूत उवाच-
तद्वाक्यमाकर्ण्य विधेः कुमारा विचार्य सम्यक्प्रणिधाय चित्ते ।
उचुश्च भक्तिं भवरोगहर्त्रीं प्रेमैकदात्रीं हरिभक्तिभाजाम् ७५।
कुमारा ऊचुः ।
भक्तेषु गोविंद परायणेषु साधुष्वथो दीनदया परेषु ।
मनो नियम्योत्पथसंप्रवृत्तं कृत्वैकतानं हरिपादपद्मे ७६।
ततो हि दोषाः कलिजा इमे त्वां द्रष्टुं न शक्ताः प्रभवोपि लोके ।
कलौ त्वमेकैव जगद्धिताय भविष्यसे नारद संप्रणीता ७७।
सकलभुवनमध्ये निर्धनाश्चातिधन्या निवसति हृदि येषां श्रीहरेर्भक्तिरेका ।
हरिरपि निजलोकं सत्वरं संविहाय प्रविशति हृदि येषां प्रेमसूत्रापिनद्धः ७८।
इति श्रीपाद्मे महापुराणे पचंपंचाशत्साहस्र्यां संहितायामुत्तरखंडे।
श्रीभागवतमाहात्म्ये पंचनवत्यधिकशततमोऽध्यायः १९५।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 196
सूत उवाच-
अथ वैष्णवचित्तेषु दृष्ट्वा भक्तिमलौकिकीम् ।
निजलोकं परित्यज्य भुवमभ्यगमद्धरिः १।
वनमाली घनश्यामः पीतवासाः किरीटधृक् ।
कांचीकलापपर्यस्तो लसन्मकरकुंडलः २।
त्रिभंगललितश्चारु कौस्तुभेन विराजितः ।
कोटिमन्मथ लावण्यो हरिचंदन चर्चितः ३।
परमानंद चिन्मूर्तिर्मधुरो मुरलीधरः ।
आविवेश स्वभक्तानां हृदयान्यमलानि च ४।
वैकुंठवासिनो ये च वैष्णवाः शांतमानसाः ।
गूढरूपाः समायाताः श्रवणाय हरेः कथाः ५।
तदा जयजयेत्युच्चैः शब्दोऽभूत्कंबुशब्दयुक् ।
येनामंगलमत्युग्रं कलिजं प्रलयं गतम् ६।
तत्रस्थानां जनानां च दृष्ट्वा गेहात्मविस्मृतिम् ।
नारदोऽध्यात्मतत्वज्ञः कुमारान्प्रत्युवाच ह ७।
नारद उवाच-
अलौकिकोऽयं महिमा मुनीश्वराः सप्ताहजन्योद्य विलोकितो मया ८।
मूढाः शठा ये पशुपक्षिणोऽपि तेपि प्रयांत्येव गतिं पराख्यात् ।
अतो नृलोकेन तु शास्त्रमन्यच्चित्तस्य शुध्यै विहितं पवित्रम् ९।
अघौघविध्वंसि कृतार्थतावहं कलौ युगे दोषनिधौ कुमाराः ।
के केन शुध्यंति वदंतु मह्यं सप्ताहयज्ञेन कथामयेन १०।
कृपालुभिर्लोकहितोभवद्भिः प्रकाशितं कोऽपि नवीनमार्गः ।
कुमारा ऊचुः।
ये मानवाः पापकृतः सुदुष्टाः सदा दुराचाररताः समत्सराः ११।
क्रोधाग्निदग्धाः कुटिलाश्च कामिनः सप्ताहयज्ञेन हरिं व्रजंति ते १२।
सत्येन हीनाः पितृमातृदूषकास्तृष्णाकुलाश्चाश्रमवर्णबाह्याः ।
ये दांभिका जीवविहिंसकाश्च सप्ताहयज्ञेन हरिं व्रजंति ते १३।
पंचोग्रपापाश्च्छलकारिणश्च क्रूराः पिशाचा इव निर्दयाश्च ।
ब्रह्मस्वपुष्टा व्यभिचारिणश्च सप्ताहयज्ञेन हरिं व्रजंति ते १४।
कायेन वाचा मनसापि पातकं नित्यं प्रकुर्वंति शठा हठेन ये ।
नीचाः कृतघ्ना मलिना दुराशयाः सप्ताहयज्ञेन हरिं व्रजंति ते १५।
सूत उवाच-
अथैवं तुष्टचित्तेऽथ नारदे देवपूजिते ।
प्रसन्नास्ते कुमाराश्च पुनरूचुश्च नारदम् १६।
कुमारा ऊचुः ।
अत्र ते कीर्तयिष्याम इतिहासं पुरातनम् ।
यस्य श्रवणमात्रेण पापहानिः प्रजायते १७।
तुंगभद्रा तटे पूर्वं पत्तने कोहलाभिधे ।
वर्णाश्रमाचारयुते धनधान्यसमाकुले १८।
आत्मदेव इति ख्यातस्तत्रासीद्दिवजसत्तमः ।
वेदविद्याविधिप्राज्ञो नित्यकर्मपरायणः १९।
तत्प्रिया धुंधुली नाम नित्यं स्वीयहिते रता ।
स्ववाक्यस्थापनाचापि सुंदरी सुकुलोद्भवा २०।
पूर्वकर्मविपाकेन प्रायशो बहुजल्पिनी ।
शूरा च गृहकृत्येषु क्रूरा च कलहप्रिया २१।
एवं निवसतोस्तत्र दंपत्योर्निरपत्ययोः ।
व्यतिक्रांतं वयश्चापि पंचाशद्वर्षसंमितम् २२।
अथ तौ दुःखितौ जातौ निरपत्यौ गृहेस्थितौ ।
संतानोत्पत्तये ताभ्यां दत्तं चापि धनादिकम् २३।
गोभूहिरण्यवासांसि दत्तान्यपि बहूनि च ।
न पुत्रो नापि दुहिता जायते पूर्वकर्मणा २४।
स चैकदा तु निर्विण्ण आत्मदेवो द्विजोत्तमः ।
गृहं त्यक्त्वा गतोऽरण्यमानपत्येन दुःखितः २५।
यत्र तत्र भ्रमन्भ्रांतो दुःखाकुलितमानसः ।
क्षुत्क्षामस्तृट्परीतश्च दैवात्प्राप्तो जलाशयम् २६।
जलं पीत्वा ततस्तस्मिंस्तडागे स द्विजोत्तमः ।
वृक्षच्छायां समाश्रित्य निषण्णस्तत्र नारद २७।
अथ तत्र तदैवागात्कश्चित्सिद्धो भ्रमन्महीम् ।
जलं पीत्वा तडागे तु सोऽपि तत्रैव चागतः २८।
तं दृष्ट्वा न्यासिनं शांतमात्मदेव उदारधीः ।
सत्कृत्योत्थाय तत्पादौ जग्राह स्वगुरोरिव २९।
उपविष्टौ ततस्तौ द्वौ कृतप्रश्नौ परस्परम् ।
सुस्निग्धमानसौ भूत्वा गुरुशिष्याविवाश्रमे ३०।
अथ तं स यतिर्दृष्ट्वा श्वसंतं दुःखितांतरम् ।
पप्रच्छ करुणासिंधुरात्मदेवं पुरः स्थितम् ३१।
सिद्ध उवाच-।
का ते चिंता द्विजश्रेष्ठ दुःखाय हृदि वर्तते ।
तां समाचक्ष्व धर्मज्ञ परितापप्रदायिनीम् ३२।
तच्छ्रुत्वा वचनं तस्य सिद्धस्य सुमहात्मनः ।
आत्मदेव उवाचाथ स्वस्य दुःखस्य कारणम् ३३।
आत्मदेव उवाच-।
किं ब्रवीमि मुने दुःखं संचितं पूर्वकर्मणा ।
मदीयाः पूर्वजास्तोयं कवोष्णमुपभुंजते ३४।
मद्दत्तं नैव गृह्णंति पितरो देवता बलिम् ।
तेन दुःखेन निर्विण्णः प्राणांस्त्यक्तुमिहागतः ३५।
धिग्जीवितं प्रजाहीनं गृहं चैव धनं कुलम् ।
पाल्यते या मया धेनुः साऽपि वंध्यात्वमेति ह ३६।
यो मयारोपितो वृक्षः सोपि वंध्यत्वमागतः ।
निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे ३७।
कुमारा ऊचुः।
इत्युक्त्वा स रुरोदोच्चैस्तत्पुरो दुःखपीडितः ।
यदा तदा यतेश्चित्ते करुणाभूद्गरीयसी ३८।
ललाटाक्षरमालां च दृष्ट्वा ज्ञात्वा स योगवान् ।
आत्मदेवं द्विजं प्राज्ञः पुनरूचे सविस्तरम् ३९।
सिद्ध उवाच।
शृणु विप्र मया तेऽद्य प्रारब्धमवलोकितम् ।
सप्तजन्मावधि प्राप्तिः पुत्रस्य न च दृश्यते ४०।
मुंचाग्रहं प्रजाहेतोर्बलिष्ठा कर्मणो गतिः ।
विवेकं तु समासाद्य सुखी भव महामते ४१।
एवमुक्तं समाकर्ण्य सिद्धस्य द्विजसत्तमः।
प्रजाशाबद्धचित्तस्तु सिद्धं प्राहातिदुःखितः ४२।
विप्र उवाच-।
विवेकेन भवेत्किं मे पुत्रं देहि बलादपि ।
नो चेत्त्यजाम्यहं प्राणांस्त्वदग्रे शोकमूर्च्छितः ४३।
इति विप्राग्रहं दृष्ट्वा प्राब्रवीत्स तपोधनः ।
संततेः सगरो दुःखमवापांगः प्रजापतिः ४४।
चित्रकेतुर्गतः कष्टं विधिलेखविमार्ज्जनात् ।
अतस्त्वमपि धर्मज्ञ यदि पुत्रं लभेरपि ४५।
सुतेन न सुखीभूयाः दैवं हि बलवत्तरम् ।
इत्युक्त्वा द्विजवर्याय स सिद्धः साधुसंमतः ४६।
ददावेकं फलं तस्मै प्राग्रहेण सुतार्थिने ।
इदं फलं मया तुभ्यं दत्तं पुत्राप्तये द्विज ४७।
भार्यायै देहि पुत्रस्ते भविष्यति न संशयः ।
सत्यं शौचं दया दानमेकभक्तं तु भोजनम् ४८।
वर्षावधि स्त्रिया कार्यं तेन शुद्धो भवेत्सुतः ।
एवमुक्त्वा ययौ योगी विप्रः स्वगृहमागतः ४९।
दत्त्वा पत्न्यै फलं तत्तु सिद्धोक्तमवदच्च ह ।
अथ सा धुंधुली क्रूरा स्ववाक्यस्थापनोत्सुका 6.196.५०।
स्वसख्यै प्राह तत्सर्वं पत्योक्तं सिद्धभाषितम् ।
यद्यहं भक्षये चेदं फलं सिद्धेन चार्पितम् ५१।
गर्भो मम भवेत्तर्हि कथं चाहं सहाम्यहम् ।
स्वल्पं भक्ष्यमशक्तिश्च गमने गृहकर्मणि ५२।
तिर्यक्चेदागतो गर्भो तदा मे मरणं भवेत् ।
प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे ।
मंदयां मयि सर्वस्वं ननांदा संहरेत्सदा ५३।
चिंता मे समनुप्राप्ता किं करोमि शुचिस्मिते ।
सा तद्वचनमाकर्ण्य स्नेहभंगभयाद्दिवज ५४।
एवमेवेति तां प्राह प्रीत्या प्रहसितानना ।
एवं कुतर्कयोगेन तत्फलं नैव भक्षितम् ५५।
पत्या पृष्टे फलं भुक्तं भुक्तं चेति तयेरितम् ।
एकदा भगिनी तस्याः स्वेच्छया तद्गृहं गता ५६।
तदग्रे कथितं सर्वं चिंतेयं महती हि मे ।
किं करोमि सगर्भोऽहं त्वं प्रब्रूहि यथातथम् ५७।
साब्रवीन्मम गर्भोस्ति तुभ्यं दास्ये प्रसूतितः ।
तावत्कालं सगर्भेव गुप्ता तिष्ठ गृहे सुखम् ५८।
तं बालं पोषयिष्यामि त्वद्गृहे चैव नित्यदा ।
फलं धेनोः प्रयच्छाद्य परीक्षार्थं शुभानने ५९।
इत्युक्त्वा सा ययौ गेहमात्मनो हृष्टमानसा ।
धुंधुल्यापि यथोद्दिष्टं तद्भगिन्या तथा कृतम् ६०।
अथ प्रसूय सा बालं धुंधुल्यै चार्पयद्द्रुतम् ।
तया च कथितं भर्त्रे प्रसूतः सुखमर्भकः६१।
लोकस्य सुखमुत्पन्नमात्मदेव प्रजोदयात् ।
दत्त्वा दानं द्विजाग्रेभ्यो जातकर्म चकार च ६२।
गीतवादित्रनिर्घोषो गृहे तस्यातिमङ्गलम् ।
बभूव हर्षमापन्न आत्मदेवो महामतिः ६३।
अथ सा प्राह भर्त्तारं दुग्धं मेस्तनयोर्नहि ।
पालयिष्ये कथं बालं सद्यः सूतं प्रभोऽधुना ६४।
मत्स्वसुश्च प्रसूताया मृतो बालः पुराभवत् ।
तामानीय गृहे रक्षसार्भकं पोषयिष्यति ६५।
इति श्रुत्वा वचस्तस्या धुंधुल्या द्विजसत्तमः ।
तथैव कृतवान्भ्रांतरात्मदेवो मुदान्वितः ६६।
धुंधुकारीति नामास्य कृतं मात्रा यथार्थतः ।
स्तन्येन पोषमाप्नोति नित्यं मातृष्वसुः सुतः ६७।
त्रिमासे निर्गते चाथ सा धेनुः सुषुवेऽर्भकम् ।
सर्वांगसुंदरं दिव्यं निर्मलं कनकप्रभम् ६८।
दृष्ट्वा प्रसन्नस्तं विप्रः संस्कारान्स्वयमादधे ।
तं दिदृक्षव आयाता जनाः सर्वेऽतिविस्मिताः ६९।
आत्मदेवस्य विप्रस्य महाभाग्योदयेन च ।
धेन्वा बालः प्रसूतश्च देवरूपोऽतिकौतुकम् ७०।
न ज्ञातं तद्रहस्यं तु केनापि विधियोगतः ।
गोकर्णः तं सुतं दृष्ट्वा गोकर्णेत्येवचाभ्यधात् ७१।
कियत्कालेन संप्राप्तौ तारुण्यं तावुभावपि ।
गोकर्णः पंडितो ज्ञानी धुंधुकारी महाखलः ७२।
स्नानशौचक्रियाहीनो भक्ष्याभक्षी क्रुधाप्लुतः ।
चौरः सर्वजनद्वेषी दुष्टचांडालसंगतः ७३।
क्रीडतो ह्यर्भकान्धृत्वा बलात्कूपे निपातयेत् ।
एवं वेश्याप्रसंगेनानयद्द्रव्यं क्षयं पितुः ७४।
पिता कृपणवत्तस्य शुचा निःस्वो रुरोद ह ।
अनपत्यः सुखी नित्यं कुपुत्रो दुःखदायकः ७५।
सिद्धेनोक्तं वचः सत्यमनुभूतं मयाधुना ।
क्व गच्छामि क्व तिष्ठामि को मे दुःखं निवारयेत् ७६।
प्राणांस्त्यक्ष्ये जले वह्नौ भृगोर्वापि पते ह्यहम् ।
इत्येवं चिंतयानं तमधोमुखमुपागतः ७७।
गोकर्णो जनकं ज्ञानी बोधयामास तत्वतः ।
गोकर्ण उवाच-
असारस्तात संसार दुःखमोहप्रदो नृणाम् ७८।
कः सुत किं धनं कस्य का जाया कः पतिः पितः ।
मोहेन बद्धो दीनात्मा लोकः क्लिश्यति नान्यथा ७९।
न चेंद्रस्य सुखं किंचिन्न सुखं चक्रवर्तिनः ।
विरक्तस्य सुखं तात मुनेरेकांतशीलिनः ८०।
मुंचाज्ञानं प्रजारूपं मोहं नरककारणम् ।
निर्द्वंद्वो निरभीमानो व्रज त्यक्त्वाखिलं वनम् ८१।
ततस्तद्वाक्यमाकर्ण्य गोकर्णं स द्विजोऽब्रवीत् ।
द्विज उवाच-
यत्कर्त्तव्यं वने साधो तन्ममाचक्ष्व विस्तरात् ८२।
मोहपाशनिबद्धं हि शठं कृपणमानसम् ।
संसारगर्ते पतितं मामुद्धर दयानिधे ८३।
पितुरित्थं वचः श्रुत्वा गोकर्णो ज्ञानपंडितः ।
उवाच दीनं निर्विण्णं पितरं हृष्टमानसः ८४।
गोकर्ण उवाच-
मांसास्थिरक्तनिकरे स्वशरीरकेऽस्मिन्स्वत्वं त्यजाशु ममतां वनिता सुतादौ ।
पश्यानिशं जगदिदं क्षणभंगनिष्ठं ज्ञानी विरागरसिको भव भक्तिनिष्ठः ८५।
धर्मं भजस्व सततं त्यज लोकधर्मान्संसेव्य साधुपुरुषान्जहि कामतृष्णाम् ।
अन्यस्य दोषगुण चिंतनमाशु मुक्त्वा विष्णोः कथारसमथो नितरां पिब त्वम् ८६।
कुमारा उचुः-
एवं सुतोक्तविदितानुभवो निरीहस्त्यक्त्वा गृहं स्थिरमतिर्गतषष्टिवर्षः ।
नित्यं हरिप्रियजनानुगतो महात्मा दुष्प्रापमाप च पदं स हरेर्वनस्थः ८७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे श्रीभागवत।
माहात्म्ये षण्णवत्यधिकशततमोऽध्यायः १९६।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 197
कुमारा ऊचुः।
पितर्येवं वनं प्राप्ते पश्चादागत्य नारद ।
जननीं तर्जयामास धुंधुकारी महाखलः १।
क्व वित्तं तिष्ठति ब्रूहि मातरं प्रति नारद ।
सर्वथा त्वां हनिष्यामि न चेद्ब्रूया निधानकम् २।
सा तस्य वचनात्त्रस्ता रात्रौ दुःखितमानसा ।
निपत्य कूपे तु मृता लोकैर्ज्ञात्वा बहिः कृता ३।
गोकर्णस्तां तु निर्हृत्य द्विजैस्तज्ज्ञातिबांधवैः ।
तीर्थयात्रां ययौ प्राज्ञः समदुःखसुखो मुने ४।
धुंधुकारी गृहे तिष्ठन्स्वके पण्यवधूवृतः ।
अत्युग्रकर्माचारेण तत्पोषणविमूढधीः ५।
भूषणान्यभिलिप्स्यंत्यस्तमूचुर्वारयोषितः ।
भोभो प्रिय वयं सर्वांस्त्वयानाथेन संगताः ६।
स्थिता नैवात्र कोप्यन्यो धनदोभ्येति मानद ।
तस्मात्सूक्ष्माणि वस्त्राणि भूषणानि द्युमंति च ७।
देहि नोचेद्व्रजिष्यामस्त्वत्सकाशान्नरांतरम् ।
इति श्रुत्वा वचस्तासां चिंतयित्वा क्षणं स च ८।
निर्गतः स्वगृहाद्रात्रौ कामांधो मृत्युमस्मरन् ।
मुषित्वा कस्यचिद्गेहाद्वस्त्राण्याभरणानि च ९।
ददौ ताभ्यो मुदायुक्तः प्रीत्यै तासां स नारद ।
तानि दृष्ट्वा ह्यमूल्यानि वस्त्राण्याभरणानि च १०।
ताः स्त्रियश्चिंतयामासुश्चौर्येणैतानि चामुना ।
आहृतानीति निश्चित्य परस्परममंत्रयन् ११।
चौर्यं करोत्यसौ नित्यमेनं राजा गृहीष्यति ।
वित्तं हृत्वा पुनश्चैव मारयिष्यति निश्चितम् १२।
अतो रहसि चास्माभिर्हत्वामुं चौर्यकारिणम् ।
वित्तं च बहु संगृह्य किमन्यत्र न गम्यते १३।
इति ताः क्रूरहृदयाः सुप्तं कंठग्रहं तदा ।
पाशैः सुतीक्ष्णैर्बद्ध्वा च व्यापादयितुमुद्यताः १४।
यदा च न मृतश्चासौ भृशं कंठग्रहेण वै ।
तदांगाराणि बहुशो मुखे चास्य विचिक्षिपुः १५।
अग्निज्वालातिदुःखेन व्याकुलो निधनं गतः ।
तद्देहं चिक्षिपुर्गर्ते प्रायः साहसिकाः स्त्रियः १६।
न ज्ञातं तच्चरित्रं तु केनापि मुनिसत्तम ।
लोकैः पृष्टा वदंति स्म दूरे यातः पतिर्हि नः १७।
आगमिष्यति दीर्घेण कालेन धनकर्षितः ।
अतः स्त्रीणां न विश्वासः कर्त्तव्यो विदुषां वरैः १८।
विश्वस्तं सर्वथा घ्नंति प्रार्थयंत्यो नवं नवम् ।
सुधामयं वचो यासां कामिनां रसवर्द्धनम् १९।
हृदयं क्षुरधाराभं प्रियः को नाम योषिताम् ।
अथ ता बहुलं वित्तं गृहीत्वा वारयोषितः २०।
ग्रामांतरं ययुः शीघ्रं भयाद्राज्ञोऽतिविह्वलाः ।
धुंधुकारी बभूवाथ महाप्रेतः कुकर्मकृत् २१।
वात्यारूपधरो नित्यं धावन्दुर्मृत्युतो दिशः ।
शीतातपपरिक्लिष्टो निराहारः पिपासितः २२।
न च लेभे सुखं क्वापि हाहेति प्रवदन्मुहुः।
कियत्कालांतरे त्वेनं मृतं चैवावबुध्य च २३।
गोकर्णस्तीर्थयात्रायां गयाश्राद्धमथाकरोत् ।
समाप्य तीर्थयात्रां तु स्वंपुरं समुपेयिवान २४।
सभाजितः सपौरैस्तु प्रीत्या स्वजनबांधंवैः ।
उवास स्वगृहे चैव दिनानि कतिचिद्दिवजः २५।
रात्रौ प्रसुप्तं गोकर्णं ज्ञात्वा वेश्मांगणे स तु ।
धुंधुकारी महादुष्टो रौद्रं रूपं व्यदर्शयत् २६।
क्षणं नागः क्षणं चोष्ट्रः क्षणं स महिषोऽभवत् ।
क्षणमग्निः क्षणं सर्पः क्षणेन पुरुषोऽभवत् २७।
वैपरीत्यमिदं दृष्ट्वा गोकर्णो धैर्यसंयुतः ।
चिंतयामास मेधावी किमेतदिति विस्मितः २८।
अयं दुर्गतिमापन्नः कोप्यस्ति पुरुषाधमः ।
इति निश्चित्य मनसा तमुवाच दयान्वितः २९।
गोकर्ण उवाच-
कस्त्वमुग्रतरो रात्रौ भीषयन्मामुपागतः ।
प्रेतो चाथ पिशाचो वा कुतः प्राप्तो दशामिमाम् ३०।
तद्ब्रूहि त्वं महाभाग किं कार्यं ते मयाधुना ।
घोररूपो यतो रात्रौ मत्समीपमुपागतः ३१।
इति श्रुत्वा वचो भ्रातुर्धुंधुकारी महाखलः ।
प्रेतभावमनुप्राप्तो रुरोद भृशमातुरः ३२।
वक्तुं नैव क्षमो वाचा प्रेतत्वेन विमोहितः ।
संज्ञया निर्दिदेशाथ जलं पातुं पिपासितः ३३।
अथासौ सुमहाभागो गोकर्णः साधुसंमतः ।
स्वकांजलौ जलं कृत्वा प्राक्षिपत्तमुदीरयन् ३४।
तत्क्षिप्तं तज्जलं भ्रात्रा गोकर्णेन महात्मना ।
उपस्थितं च तृप्त्यर्थं प्रेतस्य धुंधुकारिणः ३५।
अथोवाचागतज्ञानः प्रदत्तेनांबुनामुना ।
पुण्यात्मनात्मनो भ्रात्रा गोकर्णेन च नारद ३६।
प्रेत उवाच-
अहं भ्राता त्वदीयोऽस्मि धुंधुकारीति नामतः ।
आत्मनः कर्मदोषेण प्रेतत्वं समुपागतः ३७।
मम माता मृता दुःखाद्बहुशस्तर्जिता मया ।
द्रव्यहेतोस्ततः पश्चाद्वारस्त्रीपोषणोत्सुकः ३८।
निषिद्धं कृतवान्कर्म चौर्यादिधनलोभतः ।
एकदा प्रार्थितस्ताभिर्भूषणान्यंबराण्यहम् ३९।
धनिकस्य गृहाद्रात्रौ मुषित्वा तान्युपानयम् ।
ततस्ता धनलोभेन पाशैर्बद्ध्वा गले बलात् ४०।
मां तु व्यापादयामासुर्वह्निक्षेपेण मानद ।
गृहीत्वा मद्धनं भूरि ताः सर्वा भूपतेर्भयात् ४१।
पलायिताः पुरादस्मात्स्वार्थोन्मूलित सौहृदाः ।
अतः प्रेतत्वमापन्नो भ्रातरद्य त्वयांबुना ४२।
सिक्तः संज्ञामहं प्राप्तः पुण्येनातिकृपालुना ।
वाताहारेण जीवामि दैवादिष्टफलोदयः ४३।
अपश्यं त्वामहं सुप्तं भ्रातरं स्वगृहांगणे ।
ततस्त्वामनभिज्ञं मां धर्षणाय कृतोद्यमः ४४।
अभवं सहसा साधो ज्ञातश्चाहं त्वयाधुना ।
दीनबंधो दयासिंधो भ्रातर्मामाशु मोचय ४५।
प्रेतभावादमुष्मात्त्वं कृतार्थोऽसि न संशयः ।
इति श्रुत्वा वचो भ्रातुर्गोकर्णो ज्ञानवान्सुधीः ४६।
भ्रातरं प्राह खिन्नात्मा दुःखितं धुंधुकारिणम् ।
गोकर्ण उवाच-
तुभ्यं दत्तो मया पिंडो गयायां त्वामहं भृतम् ४७।
श्रुत्वा लोकमुखाद्भ्रातस्त्वं कथं प्रेततां गतः ।
गयापिंडप्रदानेन दुर्गतोऽपि शुभां गतिम् ४८।
प्राप्नोति नात्र संदेहस्त्वं कथं न दिवं गतः ।
भ्रातुरित्थंवचः श्रुत्वा गोकर्णस्य महात्मनः ४९।
धुंधुकारी दुःखितात्मा प्रोवाच पुरतः स्थितः ।
गयाश्राद्धशतेनापि न मे मुक्तिर्भविष्यति 6.197.५०।
उपायोऽन्यश्चिंतनीयो ममोद्धाराय वै त्वया ।
इति तद्वाक्यमाकर्ण्य गोकर्णो विस्मयं गतः ५१।
प्राह श्राद्धैर्न मुक्तिश्चेत्तर्ह्यसाध्या गतिस्तव ।
इदानीं त्वं निजस्थानमातिष्ठ प्रेत निर्भयः ५२।
विचार्याहं करिष्यामि मुक्त्युपायं परं तव ।
इति वाक्यं समाकर्ण्य धुंधुकारी ततो गतः ५३।
निजं स्थानं श्मशानस्थं कलिद्रुममतः परम् ।
शेषां रात्रिं स गोकर्णश्चिंतयन्नेव नारद ५४।
तस्य मुक्तिं स्थितस्तत्र तदुपायं न चाध्यगात् ।
प्रातस्ततः स गोकर्णः स्वज्ञाति कुलबांधवान् ५५।
धर्मशास्त्रविदोविप्रान्रात्रिवृत्तं न्यवेदयत् ।
ते विचार्य च तद्वृत्तं शास्त्रेषु बहुशो द्विजाः ५६।
यदा न ज्ञातवंतस्तद्वृत्तं सूर्यं तदा स्तुवन् ।
द्विजा ऊचुः-
नमस्ते भास्करादित्य तमोहंतर्गभस्तिमन् ५७।
लोकसाक्षिन्जगद्धाम सुरासुरनमस्कृत ।
द्वादशात्मन्हरिहय भास्वन्लोकप्रबोधक ५८।
त्वं गतिः सर्वलोकानां सततं धर्मशीलिनाम् ।
त्वं ब्रह्मा त्वं हरिः शूली सृष्टिस्थितिविनाशकृत् ५९।
त्वामृते नास्ति लोकेस्मिञ्छरणं प्राणिनां विभो ।
शर्वस्त्वं क्षितिरूपोऽसि भवोऽसि जलरूपधृक् ६०।
त्वमग्निरुपो रूद्रोसि वायुरस्युग्ररूपधृक् ।
भीमोस्याकाशदेहस्त्वं यज्वा पशुपतिः स्वयम् ६१।
महादेवः सोममूर्तिरीशानः सूर्य एव हि ।
तवाष्टौमूर्त्तयो दिव्या इज्यंते वेदवादिभिः ६२।
सर्वकामसमृद्ध्यर्थं व्याप्तलोकत्रयस्य च ।
मत्स्यस्त्वं वेदधृक् चासि कूर्मश्चाद्रिधरो वरः ६३।
धराधरो वराहोसि लोकधृक्त्वं त्रिविक्रमः ।
ब्रह्मध्रुग्घ्नो भार्गवस्त्वं लोकध्रुक्ग्घ्नोसि राघवः ६४।
भूभारहंता कृष्णोसि बुद्धोस्यसुरमोहकृत् ।
कल्क्यसि म्लेच्छहंता त्वं धर्मग्लानौ युगेयुगे ६५।
देवासुरमनुष्याणां पशुपक्ष्यंबुचारिणाम् ।
नानाविधानं जीवानां त्वं स्रष्टा ब्रह्मरूपधृक् ६६।
इंद्रोसि धर्मराजोसि वरुणस्त्वं धनेश्वरः ।
लोकपालस्वरूपेण वर्त्तसे गोगणेश्वर ६७।
त्रयीमूर्त्तिस्त्रिकालेज्यस्त्रिधामा त्रिगुणात्मकः ।
त्वमेव पूज्यसे लोकैस्त्रिधा भिन्नो दिवाकरः ६८।
पद्मप्रबोधनकरस्त्वमेवासि जगत्पते ।
इत्युदीर्य द्विजश्रेष्ठा यावत्तस्थुर्मुनीश्वर ६९।
तावदाकाशगः प्राह स्फुटं तेषां तु शृण्वताम् ।
श्रीसूर्य उवाच-
श्रूयतांभोद्विजश्रेष्ठा यदर्थं वर्णितोस्म्यहम् ७०।
भवद्भिर्धुंधुलीसूनोर्महापातकशांतये ।
आत्मदेवस्य पुण्येन गोकर्णो रौहिणो ह्ययम् ७१।
श्रीभागवतसप्ताहस्तस्योद्धर्ता भविष्यति ।
यद्भवद्भिः कृतं स्तोत्रं मम वैभववर्णनम् ७२।
तेन स्तुत्वा नरोविप्रा देवयानं लभिष्यति ।
पुत्रार्थी च धनार्थी च धर्मार्थी मोक्षकामुकः ७३।
वांछा चिंतामणिस्तोत्रं पठित्वात्यंतमाप्नुयात् ।
इत्युक्त्वा भास्करो देवो विरराम दिविस्थितः ७४।
ते द्विजाः साध्विति प्रोचुर्गोकर्णं हृष्टमानसाः ।
ततः समाजे विप्राणां तुंगभद्रा तटे शुभे ७५।
कौतुकं सुमहद्द्रष्टुं तत्रागान्नागरीप्रजा ।
गोकर्णो ज्ञाततत्वार्थो वक्ताध्यासनमास्थितः ७६।
नारायणादिकान्नत्वा सप्ताहं समवर्त्तयन् ।
श्रीहरेस्तु वचः शास्त्रं तीर्थपादाब्जसंभवम् ७७।
यदि सत्यं तदाप्नोतु धुंधुलीतनयो गतिम् ।
इति संकल्प्य मनसा श्रीमद्भागवताभिधम् ७८।
जन्माद्यस्य यतश्चेति धीमह्यंतमुपावदत् ।
तत्र प्रेतं समागत्य स्थानं पश्यन्नितस्ततः ७९।
सप्तग्रंथियुतं वंशं प्रविष्टो वातरूपधृक् ।
शृण्वत्सु वैष्णवाग्र्येषु ब्राह्मणेष्वथ नारद ८०।
शुश्राव धुंधुलीपुत्रो ग्रंथिछिद्रस्थितोऽन्वहम् ।
यदा कथाविरामोऽभूत्प्रथमेऽहनि नारद ८१।
तदैकाकी चकग्रंथिः पुस्फोटात्यद्भुतं ह्यभूत्।
द्वितीयादिष्वहःस्वेवमेकैकग्रंथिभेदनम् ८२।
बभूव सप्तमे भिन्ने स सद्यः प्रेततां जहौ ।
दिव्यरूपधरो भूत्वा तुलसीदाममंडितः ८३।
पीतवासा घनश्यामः प्रबभौ भूषणान्वितः ।
गोकर्णं भ्रातरं नत्वा प्रोवाचाखिल तत्वदृक् ८४।
त्वयाऽहं मोचितो बंधो कृपया प्रेतकश्मलात् ।
धन्या भागवतीवार्ता प्रेतत्वोन्मूलिनी श्रुता ८५।
सप्ताहोपि तथा धन्यो विष्णुलोकगतिप्रदः ।
यत्प्रभावाद्विमुक्तोऽहं प्रेतभावाद्भृशातुरः ८६।
आर्द्रं शुष्कं लघुस्थूलं वाङ्मनः कर्मभिः कृतम् ।
पातकं भस्मसात्कुर्यात्सप्ताहोऽग्निरिवेंधनम् ८७।
अस्मिन्वै भारते वर्षे देवानामप्यभीप्सिते ।
शृण्वतां भगवच्छास्त्रं गतिरत्युत्तमा भवेत् ८८।
स्नाय्वस्थि मज्जा मांसासृक्संघातं देहमुच्यते ।
शुचि भागवतास्वादादशुचित्वन्यथा मतम् ८९।
कर्मकश्मलसंदुष्टो देहो नरकभाजनम् ।
अतो दोषनिवृत्यर्थमेतदेव हि साधनम् ९०।
बुद्बुदा इव तोयेषु मशका इव जंतुषु ।
जायंते मरणायैव भगवच्छास्त्रवर्जिताः ९१।
भिद्यते हृदयग्रंथिश्छिद्यंते सर्वसंशयाः ।
क्षीयंते चास्य कर्माणि श्रुते भागवते द्विजाः ९२।
एवं ब्रुवति वै तस्मिन्विमानवरमागतम् ।
वैकुंठात्तदधिष्ठाय गतोऽसौ विष्णुमंदिरम् ९३।
विष्णुलोकं गतेतस्मिन्सर्वे विस्मितमानसाः ।
बभूवुश्चापि पप्रच्छुर्गोकर्णं ते द्विजोत्तमाः ९४।
द्विजा ऊचुः ।
श्रुतं भागवतं सर्वैरस्माभिरिह संगतैः ।
किं कारणं महाभाग त्वद्भ्रातैको गतो हरिम् ९५।
गोकर्ण उवाच-
श्रूयतामभिधास्यामि कारणं भातृसद्गतौ ।
यच्छ्रुत्वा यूयमेवापि गोलोकं च गमिष्यथ ९६।
सप्ताहश्रवणं कार्यमुपवासपरायणैः ।
कृष्णैकतानमतिभिर्गोलोक गतिदायकम् ९७।
पुनः शुणुध्वं सप्ताहं श्रीमद्भागवतं द्विजाः ।
एकाग्रचित्ताः सततं कृष्णप्रेमामृतप्रदम् ९८।
इति श्रुत्वा वचस्तस्य गोकर्णस्य द्विजोत्तमाः ।
पुनः श्रोतुं भागवतं सप्ताहं समुपावसन् ९९।
कृष्णैकतानमतयो नियमेन च नारद ।
पुनस्ते शुश्रुवुः सर्वे श्रीमद्भागवतं द्विजाः 6.197.१००।
कथावसाने भगवान्कृष्णः कमललोचनः ।
आविरासीन्मुनिश्रेष्ठ शंखचक्रगदाब्जधृक् १०१।
किरीटकुंडलधरो वनमाली विभूषितः ।
पीतवासा घनश्यामः कटकांगदभूषितः १०२।
तं दृष्ट्वा ते द्विजाः सर्वे विष्वक्सेनादिभिर्युतम् ।
पार्षदप्रवरैर्हृष्टाः प्रणेमुर्भुवि संगताः १०३।
जयशब्दो नमः शब्दस्तदासीत्सर्वतो मुने ।
अथ शंखध्वनिं चक्रे हरिः संहर्षयन्द्विजान् १०४।
तदानेके विमानास्तु वैकुंठात्समुपागताः ।
द्विजानां पश्यतां तत्र पार्षदप्रवरैर्युताः १०५।
गोकर्णं तु समालिंग्य ददौ सारूप्यमात्मनः ।
श्रोतॄनन्यान्घनश्यामान्पीतकौशेयवाससः १०६।
किरीटिनः कुंडलिनो हारिणो वनमालिनः ।
चकार तत्क्षणात्तत्र महदाश्चर्यमप्यभूत् १०७।
तस्मिन्ग्रामे स्थिता ये तु आचांडालजना मुने ।
समारुह्य विमानांस्तान्ययुः कृष्णाज्ञया दिवम् १०८।
गोकर्णसहितः कृष्णो गोपगोपीजनप्रियः ।
गोलोकं समनुप्राप्तः सर्वलोकोपरिस्थितम् ।
यत्र वृंदावनं रम्यं शतशृंगसमावृतम् १०९।
तद्बाह्ये परितोवृतं विजययाह्यत्यद्भुतं राजतेऽरण्यं यत्र तु मंडपानि सुबहून्यच्छोदवाप्यो ह्रदाः ।।
गावः कामदुघाः सुरद्रुमततिच्छायाश्रिता गोपकैः क्रीडातत्परमानसैः परिवृतो नंदात्मजः क्रीडति ११०।
मध्ये त्वस्य सुकाननस्य रचितो वृंदावनेशेच्छया रम्यं रत्नसमूहभर्मखचितं प्राकारमुद्भासयन् ।
न्यग्रोधः सुमहांस्ततः प्रतिदिशं गोपीजनाध्यासितं वत्सालंकृतमद्भुताकृति महच्छ्रीगोकुलं राजते १११।
तन्मध्ये भवनं हरेरधिकृतं प्रोद्भासते भास्वरं यस्मिन्नंदगृहेश्वरी समुदितास्ते राधया राधिताः ।
यद्भाग्यं महदप्युमापतिमुखैश्चिंत्यं सदाभ्यंतरैस्तत्सूनोर्मधुराकृतेरधिचकास्त्यंडौघभास्यांशुभिः ११२।
वातांबुपर्णाशनदेहशोषणैस्तपोभिरुग्रैर्जपयज्ञकर्मभिः ।
असाध्यमप्यायसधेनुसंभवो लोकं न गाहाख्यमखप्रवर्त्तनात् ११३।
इतिहासमिमं पुण्यं यः पठेच्छृणुयादपि।। ।
सोऽपि गोलोकमभ्येति किं श्रीभागवतं पुनः ११४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे।
भागवतमाहात्म्ये सप्तनवत्यधिकशततमोऽध्यायः१९७
खण्डः ६ (उत्तरखण्डः) — Adhyāya 198
कुमारा ऊचुः-
अथ ते संप्रवक्ष्यामः सप्ताहश्रवणे विधिम् ।
येन भागवतं सिद्ध्येत्पुंसां कृष्णार्पितात्मनाम् १।
दैवज्ञं शास्त्रकुशलं समाहूय धनांशुकैः ।
समभ्यर्च्य मुहूर्तं तु प्राक्पृच्छेद्भक्तिमान्नरः २।
स वदेद्यं मुहूर्तं तु तत्रारंभः प्रशस्यते ।
नभोनभस्येषोर्जाश्च सहः शुचिसमन्विताः ३।
मासाः श्रेष्ठाः कथारंभे पूर्णा चापि तिथिः शुभा ।
भौमार्किवर्जिता वारा भानि ध्रुव मृदूनि च ४।
शुभे योगे शुभे लग्ने प्रारंभः शस्यते सदा ।
नित्यायां च कथायां तु पुराणानां मुनीश्वर ५।
द्वादशीं वर्जयेत्प्राज्ञः सूतसूतकसंभवात् ।
श्रीमद्भागवतस्यापि सप्ताहेनैव केऽपि च ६।
न निषेधोस्ति देवर्षे प्राहुरेवं पुराविदः ।
श्रीभागवतसप्ताहो महायज्ञः स्मृतो बुधैः ७।
अतो निमंत्रणं कार्यं वैष्णवानां समंततः ।
सतां समाजो भविता सप्ताहं वैष्णवोत्तमाः ८।
आगंतव्यमतश्चात्र वैष्णवैः श्रवणार्थिभिः ।
समागतानां तेषां तु निवासं परिकल्पयेत् ९।
तीर्थे वापि वने वापि ग्रामे वापि प्रयत्नतः ।
संशोधितायां भूम्यां तु मंडपं परिकल्पयेत् १०।
कदलीस्तंभसंयुक्तं चतुर्दिक्षु ध्वजान्वितम् ।
उच्चमासनमप्युक्तं वक्तुस्तस्याग्रतो मुने ११।
आपार्श्वद्वयमुक्तानि श्रोतॄणामासनानि च ।
उदङ्मुखो भवेद्वक्ता समाजेस्मिन्विदांवरः १२।
वेदशास्त्रार्थतत्वज्ञो वैष्णवो ब्राह्मणोत्तमः ।
दृष्टांतकुशलो धीरो वक्ता कार्योऽतिनिस्पृहः १३।
सर्वसंदेहहर्त्तापि कार्यो वक्ता न चैव हि ।
वक्तुः पार्श्वे सहायार्थं स्थाप्योऽन्य पंडितः सुधीः १४।
श्रोतॄणां संशयच्छेत्ता ज्ञानांबोधविधायकः ।
कथाविघ्नविघातार्थं गणेशं प्राक्प्रपूजयेत् १५।
ततो दुर्गां हरं विष्णुं ब्रह्माणं भास्करं द्विजान् ।
संपूज्य विधिवद्भक्त्या तर्पयेद्देवताः पितॄन् १६।
मुख्यः श्रोता ततः पश्चात्पूजयेत्पुस्तके हरिम् ।
ततः प्रदक्षिणीकृत्य द्रव्यवस्त्रफलानि च १७।
धृत्वांजलौ पुस्तकस्थं हरिं संप्रार्थयेन्मुने ।
त्वं भागवतलोकेस्मिन्स्वयं कृष्णो व्यवस्थितः १८।
समाश्रितो मया नाथ मुक्त्यर्थं भवसागरे ।
मनोरथो मदीयोऽयं सर्वथा सफलस्त्वया १९।
निर्विघ्नेन प्रकर्तव्यो दासोऽहं तव केशव ।
इत्युच्चार्य मुने द्रव्यं पुस्तकाग्रे समर्प्यतु २०।
वक्तारं प्रार्थयेच्चापि नमस्कुर्वन्कृतांजलि ।
शुकरूपद्विजश्रेष्ठ सर्वशास्त्रविशारद २१।
श्रीभागवतव्याख्यानादज्ञानं मे विनाशय ।
इति संप्रार्थ्य वक्तारं वरयेत्पंच वाडवान् २२।
द्वादशाक्षरमंत्रस्य जपार्थं मुनिसत्तम ।
गीतवाद्यविधिज्ञांश्च संपूज्यार्थांशुकादिभिः २३।
स्थापयेत्कीर्तनार्थं तु कथांते विधिवन्मुने ।
यस्तु जाया धनागार पुत्रचिंतां व्युदस्य च २४।
शृणुयादेकचित्तस्तु स समग्रं फलं लभेत् ।
सूर्योदयं समारभ्य सार्द्धत्रिप्रहरांतकम् २५।
पठित्वार्थः प्रकर्त्तव्यो वाक्यमध्यायमेव वा ।
मध्याह्ने घटिकायुग्मं विरमेदपि नारद २६।
कथाऽवसाने कर्त्तव्यं कीर्तनं केशवस्य च ।
उपवासः प्रकर्त्तव्यः श्रोतृभिस्तत्फलेप्सुभिः २७।
तदशक्तो हविष्यान्नं सकृत्स्वल्पं समाहरेत् ।
जलेनापि फलेनापि दुग्धेन च घृतेन वा २८।
केवलेनैव कर्त्तव्यं निर्विघ्नं धारणं तनोः ।
सप्ताहव्रतिनां पुंसां नियमान्शृणु नारद २९।
विष्णुदीक्षाविहीनानां नाधिकारोऽत्र कीर्तितः ।
ब्रह्मचर्यमधः सुप्तिः पत्रावल्यां च भोजनम् ३०।
समाचरेन्नित्यमेव सप्ताहे मुनिसत्तम ।
द्विदलं मधु तैलं च परान्नं चेक्षुजं रसम् ३१।
भावदुष्टं क्रियादुष्टं जह्यात्पर्युषितं व्रती ।
पलांडुलशुनं हिंगुं मूलकं गृंजनं तथा ३२।
नालिकां चैव कूष्मांडं नरो नाद्यात्कथाव्रती ।
कामं क्रोधं मदं लोभं दंभं मात्सर्यमेव च ३३।
मोहं द्वेषं तथा हिंसां नैव कुर्यात्कथाव्रती ३४।
वेदवैष्णवविप्राणां गुरु गोव्रतिनां तथा ।
स्त्री राजमहतां चापि निंदां जह्यात्कथाव्रती ३५।
सत्यं शौचं दयामौनमार्जवं विनयं तथा ।
मनः प्रसन्नतां चापि बुधः कुर्यात्कथाव्रती ३६।
श्रीकामस्तनयार्थी च जयकामश्च मोक्षधीः ।
शृणुयाद्वै भागवतं निष्कामः श्रीहरिं लभेत् ३७।
सप्तमे दिवसे कुर्याल्लंघनं तत्समाप्तिके ।
वक्तुश्च पूजा कर्त्तव्या गोभूस्वर्गं वरादिभिः ३८।
प्रसाद तुलसीं मालां श्रोतृभ्यः प्रतिदापयेत् ।
उत्सवश्च तथा कार्यो गीतवाद्यविशारदैः ३९।
गीतार्थं शृणुयाच्चापि परेऽहनि विचक्षणः ।
प्रतिश्लोकं च जुहुयाद्गायत्र्या वा यथाविधि ४०।
पायसं मधुसर्पिश्च तिलांस्तंडुलकान्यवान् ।
शर्करां च प्रियालं च द्राक्षां वाताम खर्जुरौ ४१।
अंभोजानि च कर्पूरं चंदनागुरुणीपुरम् ।
लवंगं बिल्वपत्राणि सहस्रं च पृथक्पृथक् ४२।
विघ्नस्य च विघातार्थं न्यूनाधिक्यनिवृत्तये ।
आत्मनः पूततार्थं च पठेन्नामसहस्रकम् ४३।
द्वादशाष्टादशाथापि श्रद्धयाह्यधिकांस्तथा ।
पायसेनाशयेद्विप्रान्स्वर्णं धेनुश्च दक्षिणा ४४।
व्रतसिद्ध्यर्थमप्यत्र प्रौष्ठपद्यामथापि वा ।
स्वर्णसिंहं विनिर्माय तस्य पृष्ठे निधाय च ४५।
श्रीमद्भागवतं वक्त्रे लेखयित्वा समर्पयेत् ।
एवं कृते विधाने तु सर्वपापनिवारणम् ४६।
भवेच्छ्रोतुः सुफलदं श्रीमद्भागवतं श्रुतम् ।
धर्मकामार्थमोक्षाणां साधनं भक्तिदायकम् ४७।
न कार्यं विद्यते लोके यदनेन न सिध्यति ।
ततो भागवतं लोके पुराणेभ्योऽधिकं मतम् ४८।
दोषाष्टादशनिर्मुक्तो वाचकः परिकीर्तितः ।
द्वात्रिंशदपराधैर्हि मुक्तो श्रोता मतो बुधैः ४९।
श्रीमद्भागवतं नाम पुराणं कामदं नृणाम् ।
तथापि श्रवणं चास्य निष्कामस्यैव भक्तिदम् 6.198.५०।
श्रीमद्भागवताभिधः सुरतरुस्तारांकुरः सज्जनिः स्कंधैर्द्वादशभिस्ततः प्रविलसद्भक्त्यालवालोदयः ।
द्वात्रिंशत्त्रिशतं च यस्य विलसच्छाखाः सहस्राण्यलं पर्णान्यष्टदशेष्टदोतिसुलभो वर्वर्ति सर्वोपरि ५१।
इति ते कथितं सर्वं कृतं चापि तवेप्सितम् ।
ज्ञानवैराग्यभक्तीनां तारुण्यं लोकमोक्षदम् ५२।
सूत उवाच-
इत्युक्ता ते कुमारास्तु कृष्णांघ्रिसुधयाप्लुताः ।
विरेमुर्भगवद्भक्ता दीनोद्धरणतत्पराः ५३।
तद्वाक्यं तु समाकर्ण्य नारदो भगवत्प्रियः ।
प्रेमगद्गदया वाचा तानुवाच कृतांजलिः ५४।
नारद उवाच-
धन्योस्म्यनुगृहीतोस्मि भवद्भिः करुणापरैः ।
यद्भागवतसप्ताहान्निकटे दर्शितो हरिः ५५।
एवं ब्रुवति वै तस्मिन्नारदे वैष्णवोत्तमे ।
पर्यटंस्तं समायातस्तत्र योगेश्वरः शुकः ५६।
द्विरष्टवर्षाकृतिरंबुजाक्षो व्यासात्मजो ज्ञानपयोधिचंद्रः।
कथावसाने निजलाभतुष्टो हृदानिशं भागवतं पठंश्च ५७।
दृष्ट्वा सदस्यास्तमथोरुतेजसंसद्यःसमुत्थाय वरासनं ददुः ।
स चोपविष्टः सुखमासने यदा तदाविरासीद्धरिरब्जलोचनः ५८।
भवो भवान्या कमलासनः सुतैस्तत्रागतः कीर्तनदर्शनाय च ।
सुरेशमुख्यास्त्रिदशा विमानकैः समागतास्तैरभवद्वृतं नभः ५९।
प्रह्लादस्तालधारीतरलगतितया ह्युद्धवः कांस्यधारी वीणाधारी सुरर्षिः स्वरकुशलतया रागकर्ताऽर्जुनोऽभूत् ।
इंद्रो मार्दंगिकोऽभूज्जयजय सुवचः प्रावदंस्ते कुमाराः सद्भावस्य प्रवक्ता निरतिशयगुणोव्यासपुत्रो बभूव ६०।
ननर्त्त मध्ये त्रिकमेव तत्र ज्ञानादिकानां नवरूपयुक्तम् ।
अलौकिकं कीर्त्तनकं समीक्ष्य प्रसन्नचेता हरिरित्युवाच ६१।
मत्तो वरं भागवता वृणीध्वं प्रीतात्कथाकीर्त्तनतो भृशं वः।
श्रुत्वाथ तद्वाक्यमतिप्रसन्ना प्रेमार्द्रचित्ता हरिमूचिरे ते ६२।
कुमारा ऊचुः-
सप्ताहयज्ञेन वितायतेन सद्यः प्रसन्नो भविता मुरारे ।
कलौयुगे घोरतरे नराणां स्वल्पायुषां विघ्नशताकुलानाम् ६३।
एवं वरं विश्वविधानपालनप्रणाशहेतोर्भवतोखिलात्मनः ।
वृणीमहेऽन्यो न मनोरथो विभो भवत्पदांभोजनिषेविणां हि नः ६४।
एवमस्त्विति चैवोक्त्वा तत्रैवांतर्दधे हरिः ।
नारदः सुप्रसन्नात्मा कुमारानभ्यवादयत् ६५।
ततस्ते सनकाद्याश्च भृग्वाद्याश्च शुकादयः ।
प्रययुः स्वाश्रमान्हृष्टाः पीत्वा तच्च कथामृतम् ६६।
भक्तिः सुताभ्यां सहिता नारदेन प्रवर्तिता ।
भूमंडले समस्तेऽस्मिस्तदा प्रभृति शौनक ६७।
शिव उवाच-
आख्यानं महदाकर्ण्य प्रीतात्मा शौनकः प्रिये ।
पर्यपृच्छत्पुनः सूतं सर्वसंदेहभंजनम् ६८।
शौनक उवाच-।
शुकेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः ।
सुरर्षये कदा ब्राह्मैरेतदाख्याहि मानद ६९।
सूत उवाच-
श्रीकृष्णनिर्गमात्त्रिंशद्वर्षावधिगते कलौ ।
भाद्रशुक्लनवम्यां वै कथारंभं शुकोऽकरोत् ७०।
परीक्षिच्छ्रवणांते तु गते वर्षशतद्वये ।
शुचिशुक्लनवम्यां तु गोकर्णोकथयत्कथाम् ७१।
कलौ सहस्रमब्दानामधुना प्रगतं द्विज ।
परीक्षितो जन्मकालात्समाप्तिं नीयतां मखः ७२।
ईश्वर उवाच-
इति श्रुत्वा वचस्तस्य शौनको मुनिसत्तमः ।
पूर्णं चकार तं यज्ञं सहस्रपरिवत्सरम् ७३।
ब्राह्मं पाद्मं वैष्णवं च कौर्म्यं मात्स्यं च वामनम् ।
वाराहं ब्रह्मवैवर्त्तनारदीयं भविष्यकम् ७४।
आग्नेयमर्द्धं वै सूताच्छुश्रुवुर्लोमहर्षणात् ।
एतानि तु पुराणानि द्वापरांते श्रुतानि हि ७५।
शौनकाद्यैर्मुनिवरैर्यज्ञारंभात्पुरैव हि ।
यदा तु तीर्थयात्रायां वलदेवः समागतः ७६।
नैमिषं मिश्रिकं नाम समाहूतो मुनीश्वरैः ।
तत्र सूतं समासीनं दृष्ट्वा त्वध्यासनोपरि ७७।
चुक्षुभे भगवान्रामः पर्वणीव महोदधिः ।
आषाढशुक्लद्वादश्यां पारणाहनि पार्वति ७८।
पूर्वार्द्धयामवेलायां भावित्वात्कृष्णमायया ।
मुग्धो दर्भकरो रामः प्राहरल्लोमहर्षणम् ७९।
ततो मुनिगणाः सर्वे हाहाकारपरायणाः ।
बभूवुर्नगजेत्यर्थं शोकदुःखाकुलांतराः ८०।
ऊचुश्च रामं लोकेशं विनयेन क्षमापराः ।
ऋषय ऊचुः-
रामराम महाबाहो भवता लोककारिणा ८१।
अजानतेवाचरिता हिंसा ब्रह्मवधाधिका ।
व्यासशिष्यो ह्ययं साक्षात्पुराणर्षिर्महातपाः ८२।
अस्मै ह्यध्यासनं दत्तमस्माभिर्यज्ञकर्मणि ।
अष्टादशपुराणानां वाचकाय कृतक्षणैः ८३।
कथायां जगदीशस्य दीर्घमायुश्च मानद ।
तद्भवांल्लोकरक्षार्थं धर्मसेतुप्रवर्तकः ८४।
आविर्भूतो जगन्नाथो निग्रहानुग्रहक्षमः ।
इत्युक्त्वा मुनयस्ते तु बलदेवाग्रतः प्रिये ८५।
तूष्णीं बभूवुः सहसा स्मरंतो नियतेर्बलम् ।
ततः प्रोवाच भगवान्रामः शत्रुनिषूदनः ८६।
विप्रान्संप्रीणयंस्तांस्तु लोकवेदपथानुगः ।
श्रीराम उवाच-
विप्राः शृणुत भद्रं वः कोपं त्यक्त्वा सुदूरतः ८७।
यदहं वेद्मि भवतामभीष्टं कार्यसिद्धिदम् ।
अस्य पुत्रो महाज्ञानी भविष्यति वरान्मम ८८।
भवतामीप्सितं सर्वं शास्त्रं वै कथयिष्यति ।
यदर्थमहमाहूतस्तच्च कार्य्यं समुच्यताम् ८९।
ईश्वर उवाच-
इति श्रुत्वा वचस्ते तु रामस्य सुमहात्मनः ।
बल्वलस्य वधार्थाय प्रेरयामासुरीश्वरम् ९०।
ततः स बल्वलं हत्वा प्रसाद्य मुनिपुंगवान् ।
प्रणिपत्याभ्यनुज्ञातस्तीर्थयात्रामुपागमत् ९१।
तीर्थयात्रां गते रामे शौनकाद्या मुनीश्वराः ।
लौमहर्षणिमाहूय सत्कृत्य नगनंदिनि ९२।
तत्पदे स्थापयामासुः शेषं संकीर्तनाय वै ।
आग्नेयोत्तरमाहात्म्यं श्रीमद्भागवतांतकम् ९३।
पुराणसप्तकं सार्द्धं शुश्रुवुर्हृष्टमानसाः ।
दशसप्तपुराणानि कृत्वा सत्यवतीसुतः ९४।
नाप्तवान्मनसस्तोषं भारतेनापि भामिनि ।
ज्ञात्वास्य हृदयं खिन्नं नारदो देवदर्शनः ९५।
समाजगाम भगवान्व्यासस्याश्रममुत्तमम् ।
तं दृष्ट्वा वासवीसूनुः सत्कृत्यासनपूर्वकम् ९६।
नारदं पूजयामास विधिदृष्टेनकर्मणा ।
अथ तं नारदः प्राह किं भवान्क्लिष्टमानसः ९७।
ध्यायते तत्समाचक्ष्व सर्वं संदेहकारणम् ।
इति पृष्टः स मुनिना पराशर सुतोऽब्रवीत् ९८।
ब्रह्मन्किं कारणं चेतो मोहे जाने न तत्त्वहम् ।
भवान्विज्ञानकुशलो ज्ञात्वा तत्प्रब्रवीतु मे ९९।
एवं विज्ञापितस्तेन नारदोऽध्यात्मकोविदः ।
उवाच परमं तत्वं यदुक्तं विधिनात्मने 6.198.१००।
नारद उवाच-
शृणु पाराशरे मत्तः कारणं येन वै तव ।
असंपन्नं मनो भाति शास्त्रयोनेरपि प्रभोः १०१।
त्वयावतीर्य लोकेस्मिन्वेदा व्यस्ता विभागशः ।
कृतानि च पुराणानि सेतिहासानि चानघ १०२।
यत्र सर्वस्त्रयी धर्मो वर्णाश्रमनिवासिनाम् ।
निर्दिष्टो वीक्ष्य कालेन नृणामल्पायुषां कलौ १०३।
यत्राधिकारः सर्वेषां दृश्यते श्रवणादिषु ।
स्त्री शूद्र द्विजबंधूनां साधूनां साधुसंगमः १०४।
धर्मादयो यथाशश्वद्वर्णितास्तेषु वै त्वया ।
प्राधान्येन तथा नैव वर्णितो महिमा हरेः ।
सर्वधर्मक्रियाशून्ये कलौ दोषनिधौ मुने १०५।
न गतिः पापकर्तॄणां विना कृष्णकथाऽमृतम् ।
एष एव गुणो ह्यस्मिन्घोरे कलियुगे नराः १०६।
यत्कृष्णकीर्तनेनैव मुच्यंते कर्मबंधनात् ।
यज्ञो दानं तपः कर्म ज्ञानं ध्यानं कृतादिषु १०७।
सिद्धिदं च तथा ब्रह्मन्नामकीर्त्तनकं कलौ ।
अतो वै कलिजातानामुद्धारार्थं नृणां भवान् १०८।
श्रीमद्भागवतं नाम पुराणं वर्णयत्वलम् ।
येन प्रवर्तितेनांग भवतो मानसं ध्रुवम् १०९।
तोषमेष्यति लोकाश्च प्राप्स्यंति कृतकृत्यताम् ११०।
ईश्वर उवाच-
एवमादिश्य स मुनिर्व्यासायामिततेजसे ।
ययौ यादृच्छिकः शश्वद्गायन्हरिगुणान्प्रिये १११।
नारदे तु गते पश्चाद्व्यासः सर्वार्थदर्शनः ।
चकार संहितामेतां श्रीमद्भावतीं पराम् ११२।
पैलादींश्चतुरो वेदानध्याप्य विधिपूर्वकम् ।
पुराणसंहिताः सर्वाः सूताय प्रत्यपादयत् ११३।
श्रीमद्भागवतं नाम पुराणं ब्रह्मसंमितम् ।
शुकमध्यापयामास विरतं लोकवेदतः ११४।
सा संहिता भागवती लोमहर्षणसूनुना ।
श्रुता कथयतो राज्ञे औत्तरेयाय वै शुकात् ११५।
शौनकादिऋषिभ्यस्तु तेन प्रोक्ता यथार्थतः ।
वरीवर्त्ति पुराणानामुपरीयं नगात्मने ११६।
अस्यां संलग्नचित्तानां नृणामन्यत्र नो रतिः ।
जायते मानसे कृष्णो नंदसूनुश्चकास्ति च ११७।
यत्तु पृष्टं त्वया भद्रे लोकनिस्तारहेतवे ।
श्रीभागवतमाहात्म्यं मह्यं संकीर्त्तयेति ह ११८।
तत्सर्वं च मया तुभ्यं निर्दिष्टं गणपांबिके ।
नानेतिहाससहितं भक्तिमुक्तिप्रदायकम् ११९।
यः शृणोति नरो भक्त्या माहात्म्यं पठतेऽपि च ।
अनुमोदनेन वा सोपि लभते परमां गतिम् १२०।
द्विजोऽधीत्याप्नुयाद्वेदान्क्षत्रियस्तु लभेज्जयम् ।
धनं वैश्यस्तथाशूद्रः श्रुत्वैव लभते गतिम् १२१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीमद्भागवतमाहात्म्ये अष्टनवत्यधिकशततमोऽध्यायः १९८।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 199
ऋषय ऊचुः-
कालिंद्याश्चैव माहात्म्यं वद सूत सविस्तरम् ।
यस्मै प्रकाशितं येन तदाख्यानसमन्वितम् १।
सूत उवाच-
एकदा पांडुतनयः शुश्रूषुः सौभरेः शुभम् ।
ज्ञानं तत्स्थानमभ्येत्य नत्वा तमिति पृष्टवान् २।
युधिष्ठिर उवाच-
ब्रह्मन्मार्तंडतनया तीर तीर्थेषु यच्छुभम् ।
तीर्थं तद्वद वैकुंठ जन्मभूमिपरात्परम् ३।
सौभरिरुवाच-
एकदा तु मुनिश्रेष्ठौ दिवि नारदपर्वतौ ।
गच्छंतौ खांडवं पश्यन्पश्यतः सुमनोहरम् ४।
तत्रावतीर्णो नभस उपविष्टौ तटे शुभे ।
कालिंद्याः क्षणविश्रांतौ स्नातुं विविशतुर्जले ५।
शिबिरौशीनरो राजा मृगयांतौ चरन्वने ।
दृष्ट्वा तान्निर्गमापेक्षी निषसाद सरित्तटे ६।
तौ मुनी विधिवत्स्नात्वा परिधायांबराणि च ।
वंदितौ शिरसा राज्ञा तेनोपाविशतां तटे ७।
तत्रालोक्य सुवर्णस्य शिबिर्यूपान्सहस्रशः ।
नारदं गर्वरहितः पर्वतं च जगाद सः ८।
शिबिरुवाच-
कथ्यतां मुनिशार्दूलौ कस्येमा यागयष्टयः ।
केनात्र विहितो यज्ञः सुरेणाथ नरेण वा ९।
मुक्त्वा काश्यादितीर्थानि यज्ञैरीज्येऽत्र कः पुमान् ।
को विशेषोऽत्र तीर्थेभ्यस्तेभ्यो विज्ञानसन्निधिः १०।
नारद उवाच-
पुरा हिरण्यकशिपुर्जित्वा शक्रादिदेवताः ।
त्रैलोक्यराज्यमासाद्य सो खर्वं गर्वमाददे ११।
प्रह्लादस्तस्य तनयो नारायणपरायणः ।
तस्मै सो द्रुह्यताभीक्ष्णं पापात्मा नष्टमंगलः १२।
तद्द्रोहाद्विष्णुना सद्यो नृसिंहतनुधारिणा ।
हत्वा दैत्यपतिं स्वर्गराज्यं स्वःपतयेऽर्पितम् १३।
स्वपदं प्राप्य देवेशो बृहस्पतिमथावदत् ।
मूर्ध्नाभिवंद्य तत्पादौ नारायणगुणान्स्मरन् १४।
इंद्र उवाच-
गुरो नृसिंहरूपेण हरिणा लोकधारिणा ।
दत्तं मे देवताराज्यं यष्टुमिच्छामि तं मखैः १५।
स्थानं पवित्रं कथय ब्राह्मणांश्चैव मे गुरो ।
न विधेयो विलंबोऽत्र त्वया नो हितकारिणा १६।
बृहस्पतिरुवाच-
अस्ति ते खांडववनं रम्यं परमपावनम् ।
केतक्यशोकबकुलमधुमत्त मधुव्रतम् १७।
तत्रास्ति यमुना पुण्या धन्या त्रैलोक्यपावनी ।
ददाति स्मरणे स्वर्गं मरणे ब्रह्मणः पदम् १८।
तत्तीरे यज देवेश केशवं बहुभिर्मखैः ।
यदीच्छसि स्वकीयानां कल्याणं त्वं निरंतरम् १९।
नारद उवाच-
गुरोर्वचनमाकर्ण्य तूर्णमारुह्य वाहनम् ।
शिवप्रदमिमं शक्रः स्वकीयवनमागमत् २०।
गुरुणा सह देवैश्च यज्ञोपकरणैस्तथा ।
अत्रागत्य विलोक्यैतद्वनं लेभे मुदं पराम् २१।
गुरुणा नोदितः शक्रो सप्तर्षीन्ब्रह्मणः सुतान् ।
वसिष्ठादीन्द्विजान्वृत्वा यजति स्म जगत्पतिम् २२।
तस्य प्रसन्नो भगवान्ब्रह्मेशाभ्यां सहागतः ।
क्रतौ शतक्रतोर्यत्र महानभवदुत्सवः २३।
देवत्रयीं सतां वीक्ष्य शक्रो वक्रमतिस्तदा ।
उत्थायासनतस्तूर्णं ववंदे मुनिभिः सह २४।
वाहनेभ्योऽवरुह्याशु तदंतेषूपविश्य ते ।
आसनेषु सुहैमेषु बभुर्वेदीष्विवाग्नयः २५।
सितरक्तांगयोः शंभु ब्रह्मणोर्हरिराबभौ ।
नीलच्छविः पीतवासास्तडित्वानिव शृंगयोः २६।
शक्रः प्रक्षाल्य तत्पादान्मूर्ध्ना तज्जलमादधे ।
अब्रवीच्च मुदायुक्तो वचनं मधुराक्षरम् २७।
इंद्र उवाच-।
विहितोऽयं मया देव यज्ञोऽद्य सफलोऽभवत् २८।
यद्ययं दर्शनं प्राप्ता दुर्लक्ष्या अपि योगिभिः।
एकेनैव त्वया विष्णो कृता मूर्तिस्त्रयीमयी २९।
गुणैस्तथापि नानात्वं स्फटिकस्येव ते मृषा ।
यथा दारुषु गूढोऽग्निर्घर्षणेन विना विभो ३०।
नाविर्भवति भूतानां हृत्सु भक्त्या तथा भवान् ।
एकस्य त्वयि भक्तिः स्यात्सर्वभूतोपकारिणी ३१।
बभूवुः सुखिनो देवाः प्रह्लादकृतया तया।
वयं विषयिणो देव त्वन्मायावृतचेतसः ३२।
न जानीमः स्वरूपं ते यथावत्पादसेवकाः ।
भो ब्रह्मन्भो महादेव युवामपि जगद्गुरू ३३।
एतस्यैव गुरुत्वेन यतो नातः पृथक्युवाम् ।
यत्किंचिदुच्यते वाचा मनसा च विचिंत्यते ।
अस्यैव माया तत्सर्वे तद्द्वयीदूरवर्त्तिनः ३४।
प्रपंचजातं यदिदं विलोक्य तेन सत्यमित्येव विचिंतयेन्न सः ।
भजंति विष्णोश्चरणं तरंति ते यदंबुमूर्ध्ना हर धार्यते त्वया ३५।
विधेस्य भूयादनुजन्मपादयो रतिर्मदीया कमलाभयोर्भृशम् ।
यदीक्षण क्षोभितया तया जगत्समस्तमेतन्महदादि जायते ३६।
भवादृशो नास्ति कृपापरोपरो विपक्षपक्षे वितनोषि यत्सुखम् ।
स्वलोकशोकापनये कृपालुता यदुच्यते ते नृहरे तदज्ञता ३७।
नारद उवाच-
इत्यभिष्टूय देवेशं केशवं प्रणतोऽग्रतः ।
तस्थौ तद्वाक्यशुश्रुषा दत्तचित्तो महीयते ३८।
एवमाकर्ण्य मुनय स्तुतिं तस्य रमापतेः ।
कृतामिंद्रेण सदसि साधुसाध्विति चाब्रुवन् ३९।
शतमन्यो वर्षशतं ये कुर्वंति महत्तपः ।
न तेषामीदृशी भक्तिर्यादृशी तव माधवे ४०।
न योगः सुलभोष्टांगः ख्यातिर्येनाधिगम्यते ।
समत्वेन च तत्त्यागस्तद्भक्तिः शरणं नृणाम् ४१।
स्वधर्मार्जितवित्तैर्यद्यथा विधि विधीयते ।
कर्मतस्यार्पणं विष्णौ भक्तिरेषा शिवप्रदाः ४२।
न निंदेद्देवतामन्यां विष्णुबुद्ध्यां च यो नमेत् ।
न त्यजेद्वेदवाक्यानि स भक्तोऽस्य हरेः प्रियः ४३।
ये शृण्वंति हरेर्गुणानहरहः कुर्वंति ये कीर्तनं ये चास्य स्मरणं यदोश्च भजनं येऽमुं यजंते तथा ४४।
ये दास्येन नमंति चैनममुना कुर्वंति ये मित्रतां ये च स्वं च निवेदयंति नहि ते वांच्छंति मुक्त्यादिकम् ४५।
इंद्र भक्त्या त्वमप्येनमाराधय जगद्गुरुम् ।
न कामये किमप्यास्मत्कृतकृत्यो भविष्यति ४६।
नारद उवाच-
मुनिभिरिति शिक्षिते समस्तसेव्यां त्रिभुवनपारपदप्रदां निशम्य ।
हरिरनिशगुरुः कृतां स्वभक्तिं मधुरमुवाच वचो हरिं समाजे ४७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे।
कालिंदीमाहात्म्ये इंद्रयागविधिनोनाम एकोनद्विशततमोऽध्यायः१९९।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 200
श्रीभगवानुवाच-
नैतच्चित्रं सुराधीश मुनयो ज्ञानवत्तराः ।
मदीयां पदवीं भक्तिं गुर्वीं कुर्वंति सत्कृताम् १।
एते ज्ञानोपदेष्टारस्त्रिलोकतलवासिनाम् ।
प्रवर्तयंत्यमी नष्टं वेदमार्गं यतः सदा २।
भक्त्या भवानपि स्वर्गभोगासक्तोऽपि मां यतः ।
प्रपन्नोऽसि किमाश्चर्यं यतस्तव गुरुर्गुरुः ३।
यजस्व सुरशार्दूल मखैर्मां बहुदक्षिणैः ।
निष्क्रामस्त्वं समीपस्थं तूर्णं प्राप्स्यसि मत्पदम् ४।
प्रतियागं प्रयच्छ त्वं रत्नप्रस्थान्यनेकशः ।
आख्ययास्थानमेतत्ते इंद्रप्रस्थं भविष्यति ५।
विधे त्वमत्र रचय प्रयागं तीर्थपुंगवम् ।
सरस्वतीं समानीय गंगां च जनपाविनीम् ६।
काशीं च शिवकांचीं च त्वमत्र स्थापयेश्वर ।
गोकर्णं च समं गौर्या निवासं कुरु सर्वदा ७।
भो भो ब्रह्मसुता यूयं ज्ञानविज्ञानकोविदाः ।
निजयोगबलेनात्र कुरुध्वं तीर्थसप्तकम् ८।
निगमोद्बोधकं तीर्थं त्वं गुरो प्रतिपादय ।
विनाध्ययनमप्यत्र स्नानाद्बोधोस्तु छंदसाम् ९।
स्मृतिश्च जायतां पूर्वजन्मनस्तु परात्मनोः ।
अहमारोपयाम्यत्र द्वारकां सुमनोहराम् १०।
समुद्रेणसमं यत्र गोमत्यासंगमोऽभवत् ।
कोशलां च करोम्यत्र मध्वरण्यं च वासव ११।
ययोरवतरिष्यामि वपुर्भ्यां रामकृष्णयोः ।
बदर्याश्रममप्यत्र नरनारायणास्पदम् १२।
विदधामि सदा यत्र वसामि सुरनायक ।
हरिद्वारं पुष्करं च तीर्थद्वयमनुत्तमम् १३।
तदपि स्थापयाम्यत्र तवैव हितकाम्यया ।
नैमिषेयानि तीर्थानि यानि कालंजरे गिरौ १४।
सरस्वतीतटे यानि स्थापयाम्यहमत्र वै ।
नारद उवाच-
शिवे शिवतरं वाक्यं हरेः श्रुत्वा कृतं च तत् १५।
दृष्ट्वा तदुक्तमपि ते चक्रुर्ब्रह्मशिवादयः ।
सर्वतीर्थमयेऽमुष्मिन्स्थाने स त्रिदशाधिपः १६।
स्वर्णयूपैर्बहुमखैरीजे भूयो रमापतिम् ।
रत्नप्रस्थानि विप्रेभ्यः कृष्णस्य पुरतो ददौ १७।
नारायणः समस्तात्मा ममायमिति तुष्यतु ।
इंद्रप्रस्थमिदं तीर्थं ततःप्रभृति कथ्यते १८।
सर्वतीर्थमये यत्र मृतो भूयो न जायते ।
इंद्रदत्तानि ते लब्ध्वा रत्नप्रस्थानि भूसुराः १९।
तस्मै ददुरवितथामाशिषं तत्र संसदि ।
इंद्राय तव गोविंदो दानेनानेन तुष्यतु २०।
तावकी भक्तिरप्यस्मिन्भूयादव्यभिचारिणी ।
कर्मभूमाविह विभो पुरा यज्ञशतं कृतम् २१।
तेन पुण्येन लब्धं ते सकामेन सुरास्पदम् ।
अधुना पूजितो विष्णुर्निःकामेन त्वया मखैः २२।
स्वपदाद्विच्युतो भूमौ भविष्यति द्विजाग्रणीः ।
तत्रापि निजधर्मेण विष्णुमाराधयन्भवान् २३।
स्मरिष्यति निजं कर्म कृतमत्र मखादिकम् ।
तत्स्मृतेगृर्हमुत्सृज्य भवान्तीर्थानि पर्यटन् २४।
जनकेन समं शक्र तीर्थेऽस्मिन्संप्रपत्स्यते ।
चतुर्थाश्रममादाय त्यक्षत्यत्र कलेवरम् २५।
ततो विमानमारुह्य गणा नीतं रविप्रभम् ।
भवान्दिव्यांगवान्भूत्वा प्राप्स्यति श्रीहरेः पदम् २६।
नारद उवाच-
एवमाकर्ण्य विप्राणामाशिषं त्रिदशाधिपः ।
भविष्यपिशुनां चोक्तिं शिवे मुदमगात्तराम् २७।
समाप्य विधिवद्यज्ञान्नात्र सौवर्णयष्टिकान् ।
माधवप्रमुखान्देवान्पूजितान्स व्यसर्जयत् २८।
ऋत्विजो ब्रह्मणः पुत्रानभ्यर्च्य च धनादिभिः ।
बृहस्पतिं पुरस्कृत्य ययौ शक्रस्त्रिविष्टपम् २९।
तत्र राज्यं विधायेंद्रो हरिभक्तियुतः शिवे ।
अवातरद्भुवि क्षीणपुण्ये हास्तिनपत्तने ३०।
शिवशर्मा द्विजः कश्चिद्वेदवेदांगपारगः ।
तस्य भार्या गुणवती नाम्नान्वर्थवती भृशम् ३१।
तस्यां जातः सुवेलायामिंद्रः श्रीपतिसेवकः ।
ज्योतिर्विदः समाहूता लग्नं दृष्ट्वा बभाषिरे ३२।
ज्योतिर्विद ऊचुः-
शिवशर्मन्नयं बालः तव भावी हरिप्रियः ।
उद्धरिष्यति ते वंशं ब्रूमः सत्यं न वै मृषा ३३।
त्रयोदशाब्ददेहो यः सांगं वेदचतुष्टयम् ।
अधीतज्ञानसंपन्नो विवाहं तु करिष्यति ३४।
पुनरुत्पाद्य सत्पुत्रं वानप्रस्थो भविष्यति ।
तीर्थेषु पर्यटन्धीरः संन्यासं धारयिष्यति ३५।
इंद्रस्य खांडववने यमुनास्ति सरिद्वरा ।
तत्तीरेस्ति हरिप्रस्थं मरणं तत्र यास्यति ३६।
नारद उवाच-
गणकोदितमाकर्ण्य शिवशर्मा शिवं वचः ।
चकार विष्णुशर्माणं नाम्ना निजसुतं तदा ३७।
तान्विसृज्य च वित्तेन चिंतयामास बुद्धिमान् ।
धन्योऽहं यस्य मे पुत्रो विष्णुभक्तो भविष्यति ३८।
साधयिष्यति पुत्रोऽयमाश्रमांश्चतुरो मम ।
मरिष्यति च सत्तीर्थे मदन्यः कोऽस्ति भाग्यवान् ३९।
एवं विचिंत्य मनसा जातकर्माद्यकारयत् ।
शिशोर्द्विजातिप्रवरैः शिवशर्मा शुभेऽहनि ४०।
अथ सप्तस्वतीतेषु वर्षेषु द्विजसत्तमः ।
सुतोपनयनं चक्रे चैत्रमास्यष्टमेऽब्दके ४१।
आद्वादशाब्दादध्याप्य वेदानन्वगतः सुतम् ।
शिवशर्मा शिवे राजन्युयोज सह भार्यया ४२।
विष्णुशर्मा स्वभार्यायां पुत्रमुत्पाद्य बुद्धिमान् ।
चकार तीर्थयात्रायां मनो निर्विषयं स्वकम् ४३।
अभ्येत्य पितरं प्राह नत्वा तच्चरणद्वयम् ।
विष्णुशर्मा महाप्राज्ञो मुनिवाक्यमनुस्मरन् ४४।
विष्णुशर्मोवाच -
अनुजानीहि मां तात विष्णुमाराधयाम्यहम् ।
तृतीयाश्रममासाद्य सत्संगतिविधायकम् ४५।
दारागारधनापत्यसुहृदः क्षणभंगुराः ।
बुद्बुदा इव तोयेषु सुधीस्तेषु न सज्जते ४६।
स्वाध्यायेन च संतत्या मया तीर्णमृणद्वयम् ।
तीर्थेषु कामरहितो यष्टुमिच्छामि केशवम् ४७।
सन्यस्तगुणरागोऽहं पश्चात्तीर्थोत्तमे क्वचित् ।
स्थातुमिच्छाम्यहं तावद्यावत्प्रारब्धमस्ति मे ४८।
इत्युक्तस्तेन पुत्रेण स पिता बुद्धिमत्तरः ।
स्मृत्वा ज्योतिर्विदां वाक्यमाह संसारनिस्पृहः ४९।
शिवशर्मोवाच-
चतुर्थाश्रमकालोऽयं ममापि निरहंकृतेः ।
विषयान्विषवत्त्यक्त्वा सेविष्ये केशवामृतम् 6.200.५०।
गृहे मम मनः पुत्र रमते नाद्य वार्द्धके ।
आनीतस्य वनाद्बद्ध्वा गजस्येव नृपालये ५१।
तवानुजं सुशर्मायं कुटुंबं धारयिष्यति ।
आवाभ्यामुज्झितं विद्याश्रीकुलाभ्यां यथा नरम् ५२।
प्रव्रजंतं तु मामेव तव माता पतिव्रता ।
अनुयास्यति मार्तंडं यथा कांतिर्दिनात्यये ५३।
तस्मादावामविज्ञातो तया तात तवांबया ।
गच्छावश्चिंतयंतौ श्रीहरेः पादसरोरुहम् ५४।
नारद उवाच-
इत्यालोच्य मुमुक्षू तौ निशीथे तमसावृते ।
सुप्तं कुटुंबमुत्सृज्य गृहान्निर्याय जग्मतुः ५५।
सहैव पर्यटंतौ तौ सुतीर्थे निरहंकृती ।
शिवेऽत्रशिवदे तीर्थे शक्रप्रस्थे समीयतुः ५६।
अत्रागतः स्वविहितान्पूर्वजन्मनि यूपकान् ।
विष्णुशर्मा शमालोक्य सस्मार हरिसंगमम् ५७।
ऊचे च पितरं धीमान्शक्र आसमहं पुरा ।
मयात्र विहिता यज्ञा माधवप्रीणनेच्छया ५८।
अत्रैव मे प्रसन्नोऽभूत्केशवो भक्तवत्सलः ।
संतोषिता मणिप्रस्थैः द्विजाः सप्तर्षयश्च मे ५९।
तैरेव वैष्णवी भक्तिर्दत्ता मोक्षोभवेऽत्र च ।
विष्ण्वादिभिः समस्तैस्तु तीर्थान्यत्र कृतानि वै ६०।
सर्वतीर्थमयं तीर्थमिन्द्रप्रस्थमिदं कृतम् ।
अत्रैव मे मृतिश्चोक्ता तैरेव मुनिपुंगवैः ६१।
ततो हरिपदप्राप्तिरेतत्सर्वं स्मराम्यहम् ।
इमे गंगासरस्वत्यौ निजलोकाद्विरिंचिना ६२।
समानीते ययोर्योगे प्रयागोऽयं निगद्यते ।
एषा काशी शिवपुरी प्रयागात्पूर्वदेशके ६३।
द्विपंचाशद्धनुर्मात्रे मृतो यस्यां न जायते ।
काश्याः पश्चिमके भागे धनुषामेकविंशतिः ६४।
शिवकांची शिवेनैषा स्थापिता मृतमुक्तिदा ।
गोकर्णाख्यमिदं क्षेत्रं शंभोः परमवल्लभम् ६५।
धनुर्द्वयप्रमाणे तु भूमिभागे व्यवस्थितम् ।
इयं द्वारवती पुण्या तीर्थराजस्य पश्चिमे ६६।
धनुषां सप्ततिर्यत्र मृतो भावी चतुर्भुजः ।
अतोऽसौ पूर्वदिग्भागे कोशलाजनवत्सला ६७।
अष्टादशधनुर्मात्रे दृश्यते पुण्यदर्शना ।
एतन्मधुवनं तात स्थापितं विष्णुना स्वयम् ६८।
कोशला पश्चिमे भागे दशचापप्रमाणतः ।
अत उत्तरतस्तात नरनारायणास्पदम् ६९।
एतदेकादशधनुर्भूमिदेशे च तिष्ठति ।
एतत्तीर्थं हरिद्वारमतो दक्षिणतः स्थितम् ७०।
त्रिंशद्धनुर्महीदेशे दृश्यते देवदुर्ल्लभम् ।
एतत्तु पुष्करं नाम तीर्थं तीर्थशिरोमणिम् ७१।
द्वादशेष्वासमात्रे भूभागे भो तात तिष्ठति ।
प्रयागादिक गव्यूतिः सप्तर्षीणां महात्मनाम् ७२।
पूर्वस्यां दिशि तीर्थानि सप्ततत्तीर्थसप्तकम् ।
तीर्थसप्तककाशोस्तु संति तीर्थान्यनेकशः ७३।
पदेपदे येषु मृतो जायते स चतुर्भुजः ।
प्रयागादेकगव्यूतिमात्रे पश्चिमभूतले ७४।
निगमोद्बोधकं नाम तीर्थं गुरुकृतं पुरा ।
तीर्थसप्तकनिगमोद्बोधयोरंतरं महत् ७५।
इंद्रप्रस्थमिदं क्षेत्रं स्थापितं दैवतैः पुरा ।
पूर्वपश्चिमयोस्तात एकयोजनविस्तृतम् ७६।
कालिंद्यावदक्षिणेवयावद्योजनानांवचतुष्टयम् ।
इंद्रप्रस्थस्यमर्यादा कथितैषा महर्षिभिः ७७।
देवत्रय्यां च योह्यत्र त्यजत्यंगं भवत्यजः ।
नारद उवाच-
पुत्रस्यैतद्वचः श्रुत्वा शिवशर्मा शिवे द्विजः ७८।
प्रत्याहलसंदिहानस्तं स्वपुत्रं सत्यवादिनम् ।
शिवशर्मोवाच-
कथमेतद्विजानीयां त्वं पुरासीः सुरेश्वरः ७९।
त्वमत्र कृतवान्यज्ञान्मणिभिस्तोषिता द्विजाः ।
त्वदुक्तज्ञानवान्पुत्र यथाऽहं स्यां तथा कुरु ८०।
इंद्रप्रस्थस्य मर्यादा कुत एषा त्वया श्रुता ।
यतः प्रभृति ते जाता मतिस्त्वं नात्यजो गृहम् ८१।
मत्त एव त्वयाधीतं सांगं वेदचतुष्टयम् ।
पूर्वजन्मकृते कृत्ये ज्ञानमासीत्कुतस्तव ८२।
विष्णुशर्मोवाच -
ऋषिभिर्मे वरो दत्तः पूर्वजन्मस्मृतिप्रदः ।
तेभ्य एवास्य तीर्थस्य श्रुता ह्येषा स्मृतिर्मया ८३।
निगमोद्बोधके तीर्थे स्नानमत्र पितः कुरु ।
दुर्लभं प्राप्स्यसे ज्ञानं पूर्वजन्मस्मृतिप्रदम् ८४।
ममापि पूर्वजनुषः प्रवृत्तिं त्वं स्मरिष्यसि ।
एतत्तीर्थजलस्पर्शात्तात सत्यं वदामि ते ८५।
नारद उवाच-
शिवशर्मणि विप्रेंद्रे श्रुत्वैतत्स्नातुमुद्यते ।
निगमोद्बोधके तीर्थे स्मृतये पूर्वजन्मनः ८६।
सिंहेनानुगतः कश्चिद्भिल्लो धावन्समागतः ।
अतित्रासपरीतांगो निःश्वसन्श्रमविह्वलः ८७।
हिंसात्मको वर्त्मघाती वणिजां लुंठकः सदा ।
कृष्णांगः पिंगकेशश्च खर्वो मार्जारलोचनः ८८।
कुंतहस्तो भीममूर्ति देही पाप्मेव भूयते ।
सतः पश्चात्कियद्दूरे सिंहमालोक्य तावुभौ ८९।
पितृपुत्रौ समीपस्थे द्रुममारुह्य तस्थतुः ।
वदंताविति हा कृष्ण मोचयातोऽपमृत्युतः ९०।
स किरातस्तु राजेंद्र गृहीतुं वेगवत्तरम् ।
वीक्ष्य सिंहं द्रुमं भीतः समारोढुं प्रचक्रमे ९१।
आरोहणं प्रकुर्वंतं सिंहो जग्राह वेगवान् ।
पादयोरथ भूपृष्ठे पातयित्वा रुरोह तम् ९२।
अधःस्थितो किरातोऽपि कुंतेनोदरमस्य वै ।
ददार रुधिरौघाक्त निसृतांत्रकदंबकम् ९३।
जातव्यथो विधायाथ नादं परमदारुणम् ।
सिंहः पिपेष भिल्लस्य शिरः सद्यो ममार च ९४।
तयोः पंचत्वमापन्ने भूतसंघेऽत्र भूपते ।
विमानद्वयमुत्तीर्णं गणाभ्यां सह सत्पदात् ९५।
नवीनघनवर्णाभ्यां स्फटिकोपलनिर्मितम् ।
चारुकुंडलकर्णाभ्यां मणिप्रकरमंडितम् ९६।
शंखचक्रगदापद्महस्ताभ्यां चारुचित्रभृत् ।
दधद्भ्यां पीतवस्त्राणि हेमभित्तिविभूषितम् ९७।
प्रफुल्लांबुजनेत्राभ्यां पद्मरागगवाक्षभृत् ।
धीरनिह्रादमंजीरपद्भ्यां रणितकिंकिणी ९८।
प्रकोष्ठेवलयश्रेणीं बिभ्रद्भ्यां चारुवेदिकम् ।
मुक्ताहारैर्मनोहारि वक्षोभ्यां सवितानवत् ९९।
कुटिलालकवक्त्राभ्यां मुन्नतध्वजिराजितम् ।
भ्रूयुगाक्षिप्तपंचेषु धनुर्भ्यामुच्चतोरणम् 6.200.१००।
नासालज्जितकीराभ्यां निर्व्यूहशतशोभितम् ।
नवविद्रुमसच्छायतलाभ्यां दर्पणामलम् १०१।
दिव्यांगौ भिल्लपंचास्यौ त्यक्त्वांगं प्राकृतं स्थितौ ।
पुरैव प्राणनिर्याणे तीर्थस्यास्य प्रभावतः १०२।
तयोः समीपमानीय विमानौ तौ हरेर्गणौ ।
ऊचतुस्तावथारूपवेषाकृतिधरौ ततः १०३।
भो किरात नरश्रेष्ठ भो पंचास्य मृगाधिप ।
आवां जानीतमायातौ वैकुंठात् श्रीहरेर्गणौ १०४।
नेष्यामस्तत्पदं सत्यं युवां तत्र न चोर्मयः ।
स्वंस्वं विमानमारुह्य गम्यतामाशु मा चिरम् १०५।
स्वंस्वं विमानमारूढौ तौ किरातमृगाधिपौ ।
ऊचतुर्विस्मयाविष्टौ लक्ष्मीपतिगणौ प्रति १०६।
भोभो त्रिदशशार्दूलौ श्रूयतां वाक्यमावयोः ।
युवयोर्दर्शनाज्जातं ज्ञानं तौ पारमार्थिकम् १०७।
अत्र जन्मनि नावाभ्यां कृतं सुकृतमल्पकम् ।
स्मृतिर्नो जायते पूर्वकर्मणां वां प्रसादतः १०८।
मांसाहारौ प्राणिहिंसारतौ क्रूरांतरेंद्रियौ ।
पापाचारकुले जातौ दर्शनेन भयप्रदौ १०९।
आवामेतादृशे लोके ह्यभूतामिति पापिनौ ।
केन पुण्येन युवयोर्जातं दर्शनमावयोः ११०।
सारूप्यं च कुतः पुण्याद्यायावः श्रीहरेः पदम् ।
गणावूचतुः ।
तीर्थेत्र मरणान्नूनं सुराचार्यकृते पुरा १११।
युवयोर्दर्शनं जातं नौ च सारूप्यमद्भुतम् ।
लक्ष्मीपतिपदपाप्तिर्भविष्यति च वां चिरम् ११२।
तावत्पापानि गर्जंति ब्रह्महत्यादिकानि वै ।
जातं न दर्शनं यावत्तीर्थस्यास्य बृहस्पतेः ११३।
यथा तमांसि नश्यंति भास्करस्योदयादिह ।
तथा पापानि निगमोद्बोधकस्याविलोकनात् ११४।
इंद्रप्रस्थाख्यमेतद्वै क्षेत्रमिंद्रस्य पावनम् ।
तेनात्र पूजितो विष्णुः क्रतुभिर्बहुदक्षिणैः ११५।
तुष्टेन विष्णुना तस्मै वरो दत्तो निशम्यताम् ।
भो शक्र तावके क्षेत्रे सर्वतीर्थमये जनाः ११६।
तनुं त्यक्षंति ये ते वै मत्तुल्या हिंसका अपि ११७।
नारद उवाच-
इत्युक्त्वा तौ गणःश्रेष्ठौ नीत्वा तौ जग्मतुः पदम् ।
हरेर्यत्रगतोभूयो विश्वाब्धौ न निमज्जति ११८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदी।
माहात्म्ये भिल्लसिंहवैकुंठारोहणं नाम द्विशततमोऽध्यायः २०० ।
।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 201
नारद उचाव-
अथावरुह्य तौ वृक्षात्पितृपुत्रौ सुविस्मितौ ।
दृष्ट्वा हरिपदप्राप्तिमभूतां पापिनोरपि १।
शिवशर्माथ विप्रेंद्रः श्रुत्वा तीर्थस्तुतिं तदा ।
गणोक्तां विष्णुशर्माणमुवाच सुतमात्मनः २।
शिवशर्मोवाच-
यत्पदं न सुलभं द्विजन्मनां साधितेन तपसापि लीलया ।
प्रापतुः शबरदंष्ट्रिणौ च तत्तीर्थराजमहिमा विलोक्य ताम् ३।
जन्मनः प्रभृति तावदामृतेः पापिनावपि च यत्प्रभावतः ।
जग्मतुः सुत हरेः सरूपतामस्य तीर्थवृषभस्य का स्तुतिः ४।
शुद्धसत्वमपि रूपमैश्वरं क्वाम्बुजन्मजनिदेवदुर्ल्लभम् ।
तामसौ क्व मृगनाथभिल्लकौ किं तु तीर्थमिदमद्भुतक्रियम् ५।
तात भो पतति वेधसः पदात्जंतुरंतमधिगम्य कर्मणाम् ।
अत्र देवगुरुनिर्मिते मृतिं प्राप्य माधवपदान्न विच्युतिः ६।
नारद उवाच-
एवं प्रत्यक्षमालोक्य माहात्म्यं स द्विजोत्तमः ।
तीर्थस्यास्य गुरो राजन्स्नातुं तत्र प्रचक्रमे ७।
मुख दंत पदानां सः कृत्वा शुद्धिं च चेतसः ।
पंचकच्छः शिखाबंधोपग्रही माधवं स्मरन् ८।
अश्वक्रांतेति श्लोकेन पाठेन तटमृत्तिकाम् ।
स्पृशंस्तयैव विदधत्तिलकं जलमाविशत् ९।
तत्र प्रवाहाभिमुखो निमज्जन्पुनरुत्थितः ।
पुनर्मग्नो हरिं स्मृत्वा गंगां च जनपावनीम् १०।
अयोध्याद्यापुरीः सप्त पुनरुत्थाय संस्मरन् ।
पुनर्ममज्ज सलिले गोविंदार्पितमानसः ११।
कृत्वा यथाविधिस्नानं धौतवस्त्रे च पर्यधात् ।
बहिरागत्य तिलकं चक्रे च द्विजसत्तमः १२।
करपादशिखासूत्रैर्दर्भांश्च विदधद्वशी ।
संध्यां चकार विधिवत्तर्पणं त्रिविधं तथा १३।
सूर्याय कुसुमैर्दत्त्वा स जलैरर्घमादृतः ।
शिरोबद्धांजलिपुटो नमश्चक्रे द्विजोत्तमः १४।
आवाहनादि नैवेद्यपर्यंतमथ विप्रराट् ।
जगत्पूज्यपदाब्जस्य विष्णोः पूजामचीकरत् १५।
कृतक्रियः सूपविष्टः तादृशं सुतमात्मनः ।
जगाद संस्मरन्पूर्वजन्मकर्मणि कृत्स्नशः १६।
शिवशर्मोवाच-
विष्णुशर्मन्न ते मिथ्या वाक्यं तात यतः स्मृतिः ।
अत्र स्नानेन मे जाता पूर्वेषां जन्मकर्मणाम् १७।
आकर्णय माहाभाग कथयामि तवाग्रतः ।
पुराहमन्वये जातो विशां धनिकधर्मिणाम् १८।
पिता मे शरभो नाम्ना कान्यकुब्जे पुरेऽवसन् ।
वाणिज्येनार्जयन्वित्तं भूरिधर्मधनाश्रितः १९।
व्यतीतस्तु महान्कालस्तस्य नाभवदात्मजः ।
जरागृहीतदेहस्य तच्चिंतातुरचेतसः २०।
अचिंतयदहोरात्रमिति वैश्यवरस्तदा ।
विना सुतेन मे व्यर्थं धनं भूर्यपि संचितम् २१।
ऋते सुतमृणीलोके पितॄणां धनवानपि ।
सजलोऽपि विना वर्षं चातकानां यथा घनः २२।
पुमान्जयति संतत्या विश्वं धर्मधुरीणया ।
शक्त्या त्रिविधया राजा विपक्षमिव दुर्जयम् २३।
प्रीणाति संततिः शुद्धा सुमनः पितृमानवान् ।
मित्रप्रत्यर्थ्यु यदासीनान्सूनृता वाग्यथेरिता २४।
उदयस्थेन पुत्रेण वर्द्धते स्वयशः पितुः ।
निर्मलं द्विजराजेन नीरं तीरनिधेरिव २५।
तस्माद्यतेत्सुतोत्पत्यै शरीरेण धनेन वा ।
तमृते हि द्वयं व्यर्थं जनानां तडिदायुषाम् २६।
एवं चिंतयतस्तस्य गृहे मुनिवरस्तदा ।
देवलोऽतीद्रियज्ञानो वरं दातुं समाययौ २७।
आगतं तं समालोक्य प्रत्युत्थायासनात्पिता ।
दत्त्वार्घमथ पाद्यं च ववंदे शिरसा मुनिम् २८।
उपवेश्यासने दत्ते स्वहस्तेन पिता मम ।
पप्रच्छ च मुनिश्रेष्ठं देवलं देवदर्शनम् २९।
स्वागतं तु मुनिश्रेष्ठ शमस्ति भवतां कुले ।
तपः स्वाध्यायनियमा निष्प्रत्यूहा भवंति च ३०।
काले चातिथयः कच्चिदायांति भवदाश्रमे ।
कच्चिदाश्रमवृक्षा वः फलंति मनसेप्सितम् ३१।
व्याघ्रादयो न कुर्वंति कच्चिद्वैरं मृगादिभिः ।
त्वदीयाश्रममभ्येत्य भ्रातरो भ्रातृभिर्यथा ३२।
तवाटनं भुवि मुदे गृहिणामन्यथा कथम् ।
तेषां गृहाधिमग्नानां दर्शनं क्व भवादृशः ३३।
हरिपादरजोबुद्धेः कामं कामो न कुत्रचित् ।
मुने तव तथाप्याशु हेतुमागमने वद ३४।
शिवशर्मोवाच-
इत्युक्तस्तेन स मुनिर्देवलो देवपूजितः ।
अब्रवीत्तन्मनोभावं ज्ञातुकामो विशांपतिम् ३५।
देवल उवाच-
वैश्यवर्य त्वया भूरि धनं धर्मेण संचितम् ।
करोषि येन धर्मज्ञ नित्यनैमित्तिकी क्रियाः ३६।
आदरं राजसदसि धनेन लभते नरः ।
सुभटः शत्रुसंग्रामे विक्रमेण यथा जयम् ३७।
गृहस्थस्तु धनं प्राप्य परां पुष्टिं व्रजत्यलम् ।
शरत्परिणतं सस्यमनड्वानिव विश्पते ३८।
धनिनां न विमुंचंति बंधवोऽन्ये च ये जनाः ।
मधुमत्सुमनो युक्तं पादपं मधुपा इव ३९।
धनाभावेन गृहिणां कृशत्वमुपजायते ।
सर्वतो ग्रीष्मसमये नभसां सरसामिव ४०।
तद्धनं वर्त्तते भूरि गृहे तव विशांपते ।
कुतः कृशत्वमंगानां गोप्यं चेन्न वदाद्य मे ४१।
वैश्य उवाच-
हितोपदेशविरता भवंतः पितरो यथा ।
गोपनीयं भवद्भ्यः किं मादृशैः पुत्रतां गतैः ४२।
त्वत्प्रसादान्मुनिश्रेष्ठ सर्वतोऽस्ति शिवं मम ।
वार्द्धकेपि सुताभावो दुःखमेकमिदं मम ४३।
तस्मात्कृशत्वमंगानां विद्धि मे मुनिपुंगव ।
बिभेम्यहं पितृऋणाद्यतोऽधः पतनं नृणाम् ४४।
तमुपायं कुरु मुने येन स्यां सुतवानहम् ।
किंचित्कर्तुमशक्यं न भूतलेऽत्र भवादृशैः ४५।
शिवशर्मोवाच-
इत्याकर्ण्य वचस्तस्य वैश्यवर्यस्य देवलः ।
मनः क्षणं स्थिरं कृत्वा दध्यौ मीलितलोचनः ४६।
संततेर्मत्पितुर्दृष्ट्वा प्रतिबंधस्य कारणम् ।
देवलोतींद्रियज्ञानी बभाषे कारयन्स्मृतिम् ४७।
देवल उवाच-
एकदा तु पुरा वैश्य तवेयं धर्मचारिणी ।
यं चकार स्वचित्ते तं कथयामि मनोरथम् ४८।
गुर्विणी यद्यहं गौरि भवेऽहं शंभुवल्लभे ।
तदा त्वां तोषयिष्यामि षड्रसान्वितभोजनैः ४९।
धूपदीपकमालाभिस्तांबूलैर्नृत्यबाधकैः ।
तंत्रीमुखोद्गतैर्गीतैर्नानाविधविलेपनैः ५०।
एवं प्रतिश्रुत्य पुरः सखीनां दयिता तव ।
प्रतीक्षमाणा तं कालं तस्थौ तद्भक्तिसंयुता ५१।
तस्मिन्नेवाभवद्गर्भो मासेऽस्या योषितस्तव ।
ऊचुरेनां ततः सख्यः सर्वाः सस्नेहचेतसः ५२।
यस्त्वया वांछितो गर्भो गौर्या संप्रतिपादितः ।
अतः प्रतिश्रुतं देव्याः पूजनं सुभगे कुरु ५३।
नोचेद्विकाराद्भवति विघ्नं तु तदनुष्ठितात् ।
तोषिता रोषिताश्चात्र देव्यो हि वरशापदाः ५४।
सखीभिरिति ते भार्या कथितेयं मुदान्विता ।
त्वामुवाच महाभागा विनयेन पतिव्रता ५५।
नाथ पूजयितुं गौरीं वांछाम्यखिलकामदाम् ।
यत्प्रसादादहं याता वांछितार्थवती प्रभो ५६।
वैश्यवर्य त्वमेवैतच्छ्रुत्वास्या वचनं शुभम् ।
अमन्यत गर्भवतीमेनां निजगृहेश्वरीम् ५७।
परमोत्सवया मोदमानः सद्यो भवानपि ।
भृत्यानाज्ञापयामास पूजावस्तूपपादने ५८।
तैरानाय्य समस्तानि वस्तूनि भवता ततः ।
अस्यै दत्तानि मध्वन्न द्राक्षा गंधादिकान्यपि ५९।
ततो निजसखीः सर्वा आहूयेदमिदं जगौ ।
सख्यः समस्ताः सामग्री समानीतांबिकार्चने ६०।
नीत्वा पूजोपकरणं यूयं यातांबिकालयम् ।
संतोषयत तां देवीं पूजया विधिदृष्टया ६१।
गुर्विणीति कुलेऽस्माकं न निर्याति गृहाद्बहिः ।
अतोऽहं नागमिष्यामि यूयं यात तदर्चने ६२।
इत्याज्ञप्तास्तु ताः सख्यो नीत्वोपकरणं ययुः ।
अंबिकालयमुन्मत्तभ्रमद्भ्रमरकेतनम् ६३।
कोकिलाकुलसंकेलि सहकारकुलाकुलम् ।
हंससारसचक्राह्वमंडितं स्वच्छसारसम् ६४।
महादेवगुणालापि शुकसारिसमावृतम् ।
हारपूरालतासेके तत्परो मा सखीधरम् ६५।
उमापतेरुमापादन्यासपूतमहीतलम् ।
स्फटिकोपलसंबद्ध जलाधारसुरद्रुमम् ६६।
पार्वतीपतिसंनाट्य गायद्गंधर्वनादितम् ।
मन्दानिलमनाग्धूत चूतचंपककोरकम् ६७।
नृत्यन्मयूरनिर्ह्राद प्रतिनादिलतागृहम् ।
तल्लीलाचलविद्योतमानं रत्नलसत्प्रभम् ६८।
तत्र गत्वा गिरिसुतां प्रणेमुस्ताः सभर्तृकाः ।
प्रदक्षिणीकृत्य ततो भक्त्या तां च बभाषिरे ६९।
जगदंबे नमतुभ्यं शन्नो देहि शिवप्रिये ।
त्वत्पूजार्थे समानीतो बलिरेष प्रगृह्यताम् ७०।
वैश्यस्तु शरभो नाम्ना तस्यास्ति ललितांगना ।
तयाभिलषितो गर्भस्तत्प्राप्तौ तव पूजनम् ७१।
त्वत्प्रसादादभूत्तस्याः स गर्भः शंभुवल्लभे ।
त्वत्पूजनाय प्रहितो बलिरस्माभिरेषकः ७२।
तस्याः कुले गर्भवती न निरेति बहिर्गृहात् ।
अतः सा नागता देवि प्रसीदैन गृहाण वै ७३।
इत्युक्त्वा तां तदा वैश्य त्वत्स्त्रीसख्यस्तु तं बलिम् ।
समर्पयित्वा विधिवदानर्चुश्चंदनादिभिः ७४।
प्रतिवाक्यमलब्ध्वा ता गौर्या प्रत्याययुर्गृहम् ।
निजसख्यै समाचख्युर्विषण्णां तां शिवप्रियाम् ७५।
तासामाकर्ण्य वचनमिति वैश्य तवाबला ।
उन्मनाश्चिंतयामास कुतो गौरीनपि प्रिये ७६।
सा जानाति यथा भक्तिस्तत्पूजाया कृता मया ।
तादृशीनां किमज्ञातं बाह्यं चाभ्यंतरं नृणाम् ७७।
न गताहं यतस्तत्र तज्जानात्यपि कारणम् ।
मया दत्तेन बलिना कुतः सा न तुतोष वै ७८।
नाहमन्यत्प्रजानामि तदतोषे हि कारणम् ।
ऋते मदगतेस्तत्र नूनं रम्ये तदालये ७९।
यदतीतं न तच्छक्यमन्यथाकर्तुमद्य वै ।
गर्भान्मुक्ता गमिष्यामि तत्पूजायै तदालये ८०।
नमस्तस्यै महादेव भार्यायै सा करोतु शम् ।
इत्युक्त्वा दधती गर्भं तस्थौ वैश्य तवांगना ८१।
शिवशर्मोवाच-
विष्णुशर्मन्निदं पूर्ववृत्तमाज्ञाय मत्पिता ।
पप्रच्छ मुनिशार्दूलं देवलं ज्ञानवत्तरम् ८२।
वैश्य उवाच-
मुने यथा प्रतिश्रुता पूजा ते स्नुषया तया ।
तथैवाकारि पार्वत्या विषादे कारणं वद ८३।
यतोऽसौ न गता तत्र तज्जानाति शिवास्वतः ।
सखीभ्यश्चोक्तमस्यास्तद्विषण्णा सा कुतोभवत् ८४।
देवल उवाच-।
वैश्यवर्य शृणुष्वेदं कारणं कथयामि ते ।
यतस्तस्या विषादोऽभूत्पार्वत्या गर्भनाशकः ८५।
निवृत्तासु सखीष्वस्याः संपूज्य स्कंदमातरम् ।
विजया पार्वतीं प्राह कौतूहलसमन्विता ८६।
विजयोवाच-
गिरिजे श्रद्धया तुभ्यं दत्तोमूभिरयं बलि ।
मानुषीभिः कुतः प्रीता नाभवस्त्वं वरानने ८७।
धूपदीपकनैवेद्यैः पूजिता तोषहेतवे ।
प्रत्युताकारणं देवि त्वं विषादं कुतो गता ८८।
देवल उवाच-
इत्याकर्ण्य वचः सख्या देवी देववरार्चिता ।
अब्रवीद्विजयां वैश्य विषादे कारणं सखीम् ८९।
पार्वत्युवाच-
विजये सखि जानामि वैश्यभार्या गृहाद्बहिः ।
निर्गंतुमक्षमां गर्भधारणास्वविवेकतः ९०।
समागतास्तु तत्सख्यो मत्पूजायै तदीरिताः ।
मादृशो न च गृह्णंति परहस्तकृतं बलिम् ९१।
तत्पतिश्चेत्समायास्यदभविष्यत्तदा शिवम् ।
तस्यास्तु मदवज्ञातो गर्भपातो भविष्यति ९२।
यद्व्रतं पूजनं यच्च कर्तुं न क्षमतेंगना ।
तत्कारयति नाथेन न भंगः स्यात्तयोःसखि ९३।
अथवा विप्रमुख्येन पृष्ट्वा पतिमनन्यधीः ।
यतः स्वयमनागत्य तत्कृतं मे तयार्चनम् ९४।
न कारितं च भर्त्रातो भविता दोहदोऽफलः ।
यद्युभौ तौ समागत्य दंपती श्रद्धया पुनः ९५।
मां पूजयिष्यतः पुत्रो भविष्यति तदा तयोः ।
देवल उवाच-
सशापो न त्वया वैश्य न चैव तव भार्यया ९६।
श्रुतः सखीभिरस्या नो प्रसादश्च तयार्पितः ।
तयोरज्ञानतो वैश्य युवयोर्नाभवत्सुतः ९७।
अजानतो प्रतिविधिं परत्रात्र सुखप्रदम् ।
एतत्ते कथितं वैश्य संतानाभावकारणम् ९८।
वसिष्ठेन यथापूर्वं दिलीपस्य महीपतेः ।
तच्छ्रुत्वा स यथा राजा नंदिनीं समतोषयत् ९९।
सस्त्रीकस्त्वं तथा वैश्य गौरिं तोषय कामदाम् ।
सा यथाराधिता राज्ञे दिलीपाय ददौ सुतम् १००।
आराधय तथा गौरीं त्वं सा तुभ्यं च दास्यति ।
वैश्य उवाच-
दिलीप इति भूपः कः का च सा नंदिनी मुने १०१।
यामाराध्यसुतंलेभेसभूयोभूपसत्तमः ।
महेशादिसुरान्मुक्त्वा त्रिवर्णफलदायिनः १०२।
आराधिता कुतः सैव सुतार्थं तेन भूभुजा ।
एतत्सर्वं समाख्याहि मुने यत्पृष्टवानहम् ।
श्रुत्वा ततो गिरिसुतां सेविष्ये सह भार्यया १०३।
शिवशर्मोवाच-
गदितमिति निशम्य विष्णुशर्मन्विनययुतेन विशा मदीय पित्रा ।
मुनिरिति गदितुं दिलीपवृत्तं जगति पवित्रतरं विचक्रमे सः १०४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदी।
माहात्म्ये एकाधिकद्विशततमोऽध्यायः २०१।
।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 202
देवल उवाच-
शृणुष्व भो महाप्राज्ञ दिलीपस्य महीपतेः ।
कथां दिव्यां विचित्रां च शृणुतां पापनाशिनीम् १।
वैवस्वतमनोर्वंशे दिलीपो भूभुजां वरः ।
आसीत्प्राचीनबर्हिस्तु स्वायंभुवमनोरिव २।
स तु धर्मभृतां श्रेष्ठो धर्मेण प्रतिपालयन् ।
महीं महीपतिर्लोकान्गुणैराद्धैररंजयत् ३।
मगधाधिपतेः पुत्री महिषी तस्य भूपतेः ।
सुदक्षणाख्यया ख्याता शचीवासीद्दिवस्पतेः ४।
गते महति काले तु महिष्यां नाभवत्सुतः ।
दध्याविति निजस्वांते स सम्राट्कोशलाधिपः ५।
रत्नाकरसुमेर्वादि नगरत्नैर्विराजितम् ।
धृतं भूवलयं दोषो भूषायै नाप्रजस्य मे ६।
वर्गत्रयी यथाकालं सेविता न विरोधिता ।
तथापि मेऽनपत्यस्य न सौख्यं विद्यते हृदि ७।
यज्ञैराराधितो विष्णुरिंद्राद्याश्च सुरोत्तमाः ।
दीर्घिकारामकूपाश्च कारिताः सर्वतो भुवि ८।
गोभूहिरण्यवासोभिः षड्रसान्वितभोजनैः ।
विप्रा अतिथयश्चैव भक्त्या संतोषिता मया ९।
वृत्यर्थं पृथिवीपालानुद्धृत्य युधि धर्मतः ।
धनेन महता कोशो मया हि बहुलीकृतः १०।
उन्मार्गगामिनो मत्ता निजधर्मविलंघिनः ।
विमुखः पितृदेवेभ्यो दंड्यास्ते दंडिता मया ११।
पंचपर्वसु वैष्णव्यां रवौ पित्र्ये च कर्मणि ।
दशम्यैकादशीतिथ्योर्न स्त्रीसेवा कृता मया १२।
ऋतुकालावधौ स्नातां स्वस्त्रियं नाहमत्यजम् ।
अनृतावपि तद्योग्ये काले चेत्प्रार्थितस्तया १३।
तदा तस्यां सकामिन्यां सकामं रमितं मया ।
एवं धर्मार्थकामा मे यथाकालं निषेविताः १४।
महिष्यां केन दोषेण जायते मे न संततिः ।
अतीतानागतज्ञानो वसिष्ठो गुरुरेव नः १५।
कथयिष्यति तं दोषं यन्मे पुत्रो न जायते ।
देवल उवाच-
इत्यालोच्य स भूपालो गमिष्यन्नाश्रमं गुरोः ।
मंत्रिष्वारोपयामास कोशलामृद्धिकोशलाम् १६।
अथ प्रजासृजं देवं पूजयित्वाश्रमं गुरोः ।
प्रतस्थाते पुत्रकामौ दंपती तौ शुभेऽहनि १७।
कतिचिद्वासरैर्मार्गमुल्लंघ्यैकरथे स्थितौ ।
तौ दंपती गुरोः सायमाश्रमं प्रापतुः शुभम् १८।
वैश्वदेवांत संप्राप्तातिथिसत्कारकृन्मुनिम् ।
हुताशनहुतद्रव्यप्रसरद्धूममालया १९।
पवित्रयंतमात्मस्थान्मुनीनागंतुकानपि ।
मृगैर्दूर्वाप्रतानौघप्रपूर्णोदरमंथरम् २०।
अभ्यागच्छद्भिरभितो मंडपं स मृगीगणैः ।
वासवृक्षमिलत्पक्षिकुलकोलाहलाकुलम् २१।
परस्परविनिर्मुक्तवैरव्याघ्रमृगादिकम् ।
जपध्यानपरर्षीणां क्षणश्रांतश्रुतिध्वनिम् २२।
अनध्ययनकालोत्थ क्रीडारक्तकुमारकम् ।
तस्मिन्वसिष्ठमद्राष्टां दंपती तौ कृतक्रियम् २३।
बृस्यां निषणमव्यग्रमरुंधत्योपसेवितम् ।
स ववंदे गुरोः पादौ महिषी सा च तत्स्त्रियः २४।
आशिषा गुरुरप्येनं युयोजारुंधती च ताम् ।
अतिथिं तमथाभ्यर्च्य मधुपर्कादिभिर्गुरुः २५।
अर्हणैरर्हतां श्रेष्ठो वसिष्ठ इति पृष्टवान् ।
वसिष्ठ उवाच-
भो भो भूमिभृतां श्रेष्ठ राज्ये कुशलमस्ति ते २६।
कुले च कच्चिल्लोके च निजधर्मानुवर्त्तिनि ।
धर्मेण पालिता कच्चित्वया वीरवसुंधरा २७।
संवर्द्धयति ते कोशं धर्मधीरिव सात्विकी ।
तव जानपदा राजन्पौराश्च स्थितिमात्मनः २८।
सारवंतो विमुंचंति कच्चिन्नांबुधयो यथा ।
स्नेहेन साहचर्येण सहवासतया प्रभो २९।
लक्ष्मीनारायणायेते कच्चित्ते पुरदंपती ।
काम्यव्रतानि राजेंद्र प्रजानां नगरे तव ।
फलंति वांछितं कच्चिद्धरिचंदनवद्दिवि ३०।
देवल उवाच-
पृष्ट्वैवं स मुनिश्रेष्ठो वसिष्ठो मुनिपुंगवः ।
योगप्रभावोपनतैर्नृपं भोज्यैरभोजयत् ३१।
अरुंधतीच तां राज्ञीं बह्वादरसमन्विता ।
नानाव्यंजनपक्वान्नैरभोजयदुदारधीः ३२।
कृतभोजनमासीनं स्वस्थः स्वस्थं मुनिर्नृपम् ।
पुनः पप्रच्छ संगृह्य पाणिना पाणिमानतम् ३३।
वसिष्ठ उवाच-
सप्तांग संयुतं राज्यं निजधर्मरतप्रजम् ।
प्रीतबंधुजनामात्यं शस्त्रास्त्रविधिवद्भटम् ३४।
वश्यमित्रं हृतामित्रं कृष्णार्चापरमानसम् ।
यस्यास्ति नृपते राज्यं स्वर्गराज्येन तस्य किम् ३५।
इक्ष्वाकुवंशराजानः पुत्रानुत्पाद्य धार्मिकाः ।
राज्यं च तेषु विन्यस्य प्रपन्नास्तपसि प्रभो ३६।
त्वं युवा दृष्टपुत्रास्यो नाधिकारी तपोविधौ ।
किमर्थमागतो ह्यत्र राज्यं त्यक्त्वा तथाविधम् ३७।
राजोवाच-
ब्रह्मन्नाहं तपः कर्तुमागतस्तावकाश्रमे ।
स्वर्गकामनया त्यक्त्वा राज्यमत्र तथाविधम् ३८।
ब्रह्मन्सत्यमिदं चोक्तं भवता यत्तपोवनम् ।
राज्यमारोप्य पुत्रेषु प्राप्ता इक्ष्वाकुवंशजाः ३९।
न तैस्त्यक्तं महीराज्यमिदं स्वर्गगतैरपि ।
तन्मूर्तिरस्यां विमनास्तिष्ठति ह्येव संततिः ४०।
यथा बाल्यं गतं तात यौवनं च समागतम् ।
यास्यत्यदोपि च तथा जराप्येष्यति निश्चितम् ४१।
जरसोऽनतरं मृत्युः पुरुषस्य न संशयः ।
मृत्युंगते मयि ब्रह्मन्विनातनयसंभवम् ४२।
कस्येदं जगतीराज्यं भविष्यति गुरो वद ।
तस्मादपत्यहीनस्य राज्येऽपि मम तिष्ठतः ४३।
ममत्वं विद्यते नात्र पुरस्तात्तदभावतः ।
वर्गत्रयस्य वै सम्यक्संवेत्ता त्वं गुरो मम ४४।
केन दोषेण मे पुत्रो जायते न तपोनिधे ।
ध्यानेन दोषमालोक्य तं गुरो कथयाशुमे ४५।
तस्य प्रतिक्रियां कुर्यां श्रुत्वा संतानलब्धये ।
देवल उवाच-
इत्याकर्ण्य वसिष्ठस्तु वचस्तस्य महीपतेः ४६।
उवाच संततिस्तंभहेतुं वीक्ष्य समाधिना ।
वसिष्ठ उवाच-
त्वं पुरा राजशार्दूल संसेव्य सुरनायकम् ४७।
स्नातामिमां वधूं स्मृत्वा चलितो निजमंदिरम् ।
गच्छतस्त्वरया तात संतानोत्कंठितस्य ते ४८।
आसीत्सुरतरोर्मूले कामेधनुः स्थिता पथि ।
उत्पादिता त्वया तस्याः पूज्यांघ्रिरजसोऽतिरुट् ४९।
प्रदक्षिणनमस्कारसदाचारमकुर्वता ।
साऽशपत्त्वामतिक्रोधात्पुत्रो नोत्पत्स्यते तव ५०।
मम संतानशुश्रूषां यावत्त्वं न करिष्यसि ।
गच्छंस्त्वमृतुदानाय त्वरया सुतकामुकः ५१।
तन्मना नाश्रृणोः शापं नयंताक्षनिनादतः ।
तस्याः सुतासुतां धेनुं नंदिनीं ससुतां मम ५२।
आराधयानया वध्वा सार्द्धं सा दास्यते सुतम् ।
देवल उवाच-
इत्युक्तवति तत्रर्षौ वसिष्ठे सा तु नंदिनी ५३।
तपोवनात्समायाता वत्सस्नेहस्नुतस्तनी ।
तां दृष्ट्वा हृष्टहृदयो वसिष्ठो मुनिपुंगवः ।
उवाच भूपतिं भूयो दर्शयित्वा च नंदिनीम् ५४।
वसिष्ठ उवाच-
राजन्समागता ह्येषा स्मृतमात्रशुभाह्वया ।
अतो विद्धि समीपस्थां कार्यसिद्धिमिहात्मनः ५५।
आराधितानुगत्येयं त्वयारण्ये तथाश्रमे ।
वध्वा प्रसादात्ते पुत्रं दास्यते नात्र संशयः ५६।
यथानाभिभवेदेनां जंतुः कश्चिद्वनोद्भवः ।
तथा चारय राजेंद्र वने हिंस्रो धनुर्द्धर ५७।
देवल उवाच-
तथेति लघुवादिने नृपतये स्नुषायै च सक्षपाशयनहेतवे सदुटजं ददौ तापसः ।
स तत्र सहभार्यया समधिशय्यदर्भास्तृतां महीमगमयन्निशां नियतमानसो विश्पतिः ५८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कालिंदीमाहात्म्ये द्व्यधिकद्विशततमोध्यायः २०२।
।
।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 203
देवल उवाच।
अथोषसि नराधीशः पूजितां कुसुमादिभिः ।
महिष्या नंदिनीं धेनुं नीत्वारण्यं जगाम सः १।
गच्छंतीमनु तां देवीं छायेव नृपतिर्ययौ ।
खादंतीमनुशष्पादि सोऽपि मूलाद्यभक्षयत् २।
तरुच्छायामुपासीनामनु सोऽप्युपविष्टवान् ।
पिबंतीमनुपानीयं राजापि सलिलं पपौ ३।
स च राजा मृदुग्रासैर्दंशापनयनेन च ।
कंडूयनैः कामधेनुं गुरोरेवमसेवत ४।
अथ प्रत्याश्रमं सायं न्यवर्त्तंत महीपतेः ।
अंगं पवित्रयंती सा खुरोद्धूतैरजःकणैः ५।
अधोभारेण गुरुणा गच्छंती मंथरं बभौ ।
महीपालमहत्कार्यभाराक्रांतेव नंदिनी ६।
तां मुनेराश्रमाभ्याशे राज्ञी प्रत्युज्जगाम ह ।
चंदनाक्षतनैवेद्यधूपादीनुपनीय च ७।
तां पूजयित्वा विधिवत्प्रणम्य च पुनः पुनः ।
कृत्वा प्रदक्षिणं राज्ञी तस्थौ प्रांजलिरग्रतः ८।
सा गृहीत्वा च तां पूजां विहितां श्रद्धया तया ।
राज्ञा निश्चलमास्थाय ययौ ताभ्यां सहाश्रमम् ९।
आराधयति तामेवं दिलीपे तु दृढव्रते ।
एकाधिका व्यतीयाय दिनानां वैश्य विंशतिः १०।
अथ भूमिपतेस्तस्य भावजिज्ञासया तु सा ।
विवेश निर्भयस्वांता सशष्पां हिमवद्गुहाम् ११।
पश्यता हिमवत्सानु शोभामथ महीभृता ।
अलक्षितागमः सिंहो बलाज्जग्राह नंदिनीम् १२।
सा चक्रंद भृशं धेनुर्दुःखितेव दयास्वना ।
चित्ते धनुर्भृतस्तस्य जनयंती दयोदयम् १३।
तदाक्रंदितमाकर्ण्य तस्याः स जगतीपतिः ।
हिमवत्सानुसंलग्नां निजदृष्टिं न्यवर्त्तयत् १४।
उपर्युपरि तां धेनुं स्रवदश्रुमुखीं नृपः ।
तीक्ष्णदंष्ट्रनखं सिंहं दृष्ट्वा स व्यथितोऽभवत् १५।
गृहीतां तेन सिंहेन तामालक्ष्य धनुर्द्धरः ।
निषंगाद्बाणमुद्धर्तुं प्राहिणोद्दक्षिणं भुजम् १६।
बाणमुद्धृत्य तूणीरान्निहंतुं तं मृगाधिपम् ।
गुणेनापूर्णमायोज्य चकर्ष वसुधाधिपः १७।
जडीभूतः समस्तांगस्तत्सिंहालोकनेन सः ।
नाशकद्बाणमुत्सृष्टुं राजासीद्विस्मितस्ततः १८।
तादृशं नृपमालक्ष्य जगाद स मृगाधिपः ।
नरवाचा भृशं भूयो विस्मयं प्रापयन्निदम् १९।
सिंह उवाच-
दिलीपं त्वामहं राजन्जानामि रविवंशजम् ।
त्वं च जानीहि मां शंभोर्गणं कुंभोदराभिधम् २०।
देवदारुरयं यस्ते वर्त्तते दृष्टगोचरे ।
पार्वत्यापुत्रवद्वीर पालितः स्निग्धचित्तया २१।
एकदामुष्यवन्येन गजेनाघर्षता कटम् ।
उदपाटि महाराज वल्कलं मृदुलं भृशम् २२।
एनं तादृशमालक्ष्य मृडानी करुणान्विता ।
मामत्र स्थापयामास सिंहं कृत्वास्य रक्षणे २३।
ममाह चेति सा देवी कुंभोदर निशम्यताम् ।
योऽत्र जंतुः समागच्छेत्तं खादेस्त्वं वसन्निह २४।
ततः प्रभृति राजेंद्र तदाज्ञां पालयन्नहम् ।
पालितां त्रिदशैः सर्वैः कंदरेऽत्र वसाम्यहम् २५।
जडीभावे स्वदेहस्य त्वया कार्यो न विस्मयः ।
महती शांभवी माया वर्त्ततेऽत्र हिमाचले २६।
अन्यस्मिन्निव सिंहे त्वं प्रहर्तुं न मयि क्षमः ।
यतो मत्पृष्ठमारुह्य वृषमारोहति प्रभुः २७।
निवर्त्तस्व निजं देहं रक्ष सर्वार्थसाधनम् ।
दैवेनासादिता वीर गौरियं भक्षणाय मे २८।
देवल उवाच-
इत्याकर्ण्य वचस्तस्य वीरसंबोधनान्वितम् ।
प्रत्युवाच दिलीपस्तं स जडीभूतविग्रहः २९।
राजोवाच-
सर्गस्थितिविसर्गाणां कारणं जगतः शिवम् ।
अंबिकां जगदंबां च नमामि मृगराज तौ ३०।
त्वं च तत्सेवकत्वेन मान्यो मम मृगाधिप ।
ब्रवीमि यदहं वाक्यं श्रुत्वा शाधि करोमि किम् ३१।
वसिष्ठो ब्रह्मणः पुत्रो गुरुर्नो विदितस्तव ।
तस्येयं नंदिनीनाम धेनुः सर्वार्थसाधिका ३२।
संतानोत्पत्तये तेन दत्ताराधयितुं मम ।
येयमाराधिता सम्यक्दिनानि कतिचिन्मया ३३।
लघुतर्णक मातेयं धृता ते गिरिकंदरे ।
शुंभुभृत्याद्बलात्त्वत्तोशक्तामोचयितुंमया ३४।
अहं तस्य मुनेरग्रे गच्छाम्येनामृते कथम् ।
कामधेनोस्तु दौहित्री जगत्सेव्या यशस्विनी ३५।
अनया सदृशी नान्या गौर्यया तोषयामि तम् ।
तस्माद्विमुच्य गामेनामग्र्यां कुरु निजाशनम् ३६।
ददामि देहमात्मीयमपकीर्तिमलीमसम् ।
एवं न धर्महानिः स्यादृषेस्तव तु भोजनम् ।
गवार्थे त्यजतः प्राणान्ममापि गतिरुत्तमा ३७।
देवल उवाच-
एवमाकर्ण्य सिंहेन कृते मौने विशांपते ।
तदग्रेऽवाङ्मुखो राजा न्यपतद्धर्मकोविदः ३८।
तस्य प्रतीक्षमाणस्य सिंहपातं सुदुःसहम् ।
पपातोपरि पुष्पाणां वृष्टिर्मुक्ता सुरेश्वरैः ३९।
पुत्रोत्तिष्ठेति वचनं श्रुत्वा राजा स उत्थितः ।
जननीमिव तां धेनुं ददर्श न मृगाधिपम् ४०।
तं विस्मितमुवाचेदं नंदिनी नृपसत्तमम् ।
नंदिन्युवाच-
मायया सिंहरूपिण्या त्वं मयासि परीक्षितः ४१।
मुनिप्रभावान्मां राजन्गृहीतुं न क्षमोंऽतकः ।
मनसापि कुतोऽन्येषां यद्ग्रहे शक्तिरंगिनाम् ४२।
स्वशरीरस्य दानेन त्वं मां रक्षितुमुद्यतः ।
अतस्तेऽहं प्रसन्नास्मि वृणीष्व वरमीप्सितम् ४३।
राजोवाच-
न गुप्तं देहिनामंतर्वर्तिवृत्तं भवादृशम् ।
अतो जननि जानासि वांच्छितं मम देहि तत् ४४।
मगधेशसुतायां मे वंशकर्तारमात्मजम् ।
प्रयच्छ किंचित्स्वच्छानां नासाध्यं हि भवादृशाम् ४५।
इत्युक्त्वांजलिमाधाय तत्पुरस्तस्थिवान्नृपः ।
तूष्णीं तदुत्तरापेक्षी तत्पुरोबद्धलोचनः ४६।
देवल उवाच-
निशम्येति वचस्तस्य भूपतेरिदमब्रवीत् ।
नंदिनी पितृदेवर्षिनरभूतार्थसाधिका ४७।
नन्दिन्युवाच-
पुत्र पत्रपुटे दुग्ध्वा पयो मम पिबेप्सितम् ।
आश्रमे गुरुणाज्ञप्तः पुनः पास्यसि शेषितम् ४८।
भविता वंशकर्ता ते सुतः शस्त्रास्त्रतत्ववित् ।
देवल उवाच-
इत्युक्तः सौरभेय्या तामुवाच विनयेन सः ४९।
दिलीप उवाच-
मातस्तवैव पास्यामि शेषं सर्वक्रियाविधेः ।
तृप्तोऽहं मातरासाद्य मिष्टं ते वचनामृतम् ५०।
नान्यदिच्छामि सारंगः कादंबिन्या यथा जलम् ।
तव शुश्रूषणान्मातरभवं सकलोद्भवः ५१।
समस्तजनपूज्याया विद्याया इव मूढधीः ।
तव मातामही दत्तः शापोऽप्यासीद्वरो मम ५२।
तमृते पुत्रलाभो मे कुतस्तव च दर्शनम् ।
वरायैव तथाप्यंब समाराध्या भवादृशः ।
न हि कश्चिद्विषाकांक्षी महादेवात्त्रिवर्गदात् ५३।
देवल उवाच-
श्रुत्वेति तद्वचः सा गौः प्रसन्ना साधुसाध्विति ।
आभाष्य हि महादर्पा ययौ तेन सहाश्रमम् ५४।
पूर्वेद्युरिव तत्रापि पूजिता राजभार्यया ।
प्रसन्ना सा बभौ धेनुः कार्यसिद्धिरिवांगभाक् ५५।
मुखं प्रसन्नमालक्ष्य मृगाक्षी सा क्षितीशितुः ।
अज्ञासीत्तं निजं कार्यं सिद्धं यत्नस्तु यत्कृते ५६।
अथ तौ दंपती धेन्वा विधिवद्विहितार्चया ।
तया सह गुरोरग्रे कृतकृत्यस्य जग्मतुः ५७।
निरीक्ष्य तौ मुनिवरः प्रसन्नमुखपंकजौ ।
अतींद्रियज्ञाननिधिः प्रोवाचेदं प्रहर्षयन् ५८।
वसिष्ठ उवाच-
राजञ्जानामि गौरेषा प्रसन्ना वामभूत्किल ।
अपूर्वा युवयोरद्य मुखकांतिर्हि लक्ष्यते ५९।
सुरभिः सुरशाखी च विश्रुतौ कामपूरिणौ ।
तदपत्यं समाराध्य सिद्धोऽथ स्यात्किमद्भुतम् ६०।
यो ददाति निखिलं मनोरथं कीर्तितेयमनघापि दूरतः ।
श्रद्धया निकट एव सेविता किं पुनः सुरतरंगिणीव सा ६१।
ज्ञानतो विदितमद्भुतं मया त्वत्कृतं यदनया परीक्षणम् ।
भूपते त्वमपि धर्ममात्मनो रक्षसि स्म च यथा च तत् ६२।
त्वय्यसौ मम मनोऽनुकूलतां भावमात्मनि विबुध्यते तथा ।
तुष्यति स्म कमला यथा हरेः पार्वतीव गिरिशस्य सज्जते ६३।
रात्रिरत्र सहाभार्ययानया धेनुपूजनपरेण नीयताम् ।
भूपभव्य भवता गमिष्यते श्वः समाप्तविधिना निजांपुरीम् ६४।
देवल उवाच-
वैश्यैवं धेनुमाराध्य सभार्यः प्राप्तवांछितः ।
प्रातर्युक्तरथः प्राप्य गुरोराज्ञामगाद्गृहम् ६५।
कतिचिद्वासरैस्तस्य दिलीपस्याभवद्रघुः ।
यस्य नाम्ना रघोर्वंशः पृथिव्यां विश्रुतोऽभवत् ६६।
यः पठिष्यति भूपस्य दिलीपस्य कथामिमाम् ।
धनं धान्यं सुतं वैश्य लप्स्यते स पुमानिह ६७।
शरभवरसुताप्तये स्वबुद्ध्या सममनया परितोषयाशु गौरीम् ।
त्वमपि कुलधुरं गुणान्वितं सा सुतमनघं खलु दास्यते च तुभ्यम् ६८।
शिवशर्मोवाच-
मुनिरिति चरितं दिलीपराज्ञो ललिततरं शरभाय पुण्यमुक्त्वा ।
अभिमतगतमात्मनः प्रपेदे विधिमुपदिश्य च पूज जनेंबिकायाः ६९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये त्र्यधिकद्विशततमोऽध्यायः २०३।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 204
शिवशर्मोवाच-
विष्णुशर्मंस्ततो वैश्यः शरभः सह भार्यया ।
नीत्वा पूजोपकरणं ययौ श्रीचंडिकालयम् १।
तत्र तौविधिवत्स्नात्वा सुमनो धूपदीपकैः ।
आनर्चतुर्भक्तियुक्तौ चंडिकां पुत्रकाम्यया २।
श्रद्धया पूजिता ताभ्यां दिनैः सप्तभिरंबिका ।
उवाच वाचा प्रत्यक्षं भूत्वा विशदमानसा ३।
पार्वत्युवाच-
भो भो वैश्य प्रसन्नास्मि भक्त्या सुदृढया तव ।
ददामि पुत्रं ते साधो यदर्थे यत्नवानसि ४।
गच्छ त्वं मा विलंबस्व वनमैद्रं च खांडवम् ।
तत्र तीर्थं महापुण्यमिंद्रप्रस्थाख्यमुत्तमम् ५।
निगमोद्बोधकं तत्र तीर्थं निखिलकामदम् ।
बृहस्पतिकृतं तत्र स्नाहि त्वं सुतवांछया ६।
भविष्यति सुतस्तात तव स्नानेन तत्र हि ।
तत्र स्नात्वा मयाप्यंग लब्धः स्कंदः सुरारिहा ७।
शिवशर्मोवाच-
इत्याकर्ण्य वचो देव्याः पिता मम सहस्त्रिया ।
अत्राजगाम सत्तीर्थे सस्नौ च सुतवांछया ८।
उपस्करवतीर्धेनूर्द्विजेभ्यः प्रददौ शतम् ।
देवान्पितॄंश्च संतर्प्य यथाविध्यत्र बुद्धिमान् ९।
सप्तरात्रमुषित्वा तु दंपती यतमानसौ ।
जग्मतुः स्वगृहानिष्टलाभोत्फुल्लमुखांबुजौ १०।
तस्मिन्नेवाभवद्गर्भो मासि मातुर्ममान्वहम् ।
व्यतीते नवमे मासि जातोऽहं दशमे शुभे ११।
विष्णुशर्मन्यदुक्तं ते पुरावृत्तमिदं मया ।
दशाब्दद्वयमेवैतच्छ्रुतं सर्वं पितुर्मुखात् १२।
एकदा क्षममालोक्य गृहकर्मणि मां पिता ।
गृहं मामर्पयामास विश्वाद्वैराग्यमाप्नुवन् १३।
मां चोवाच स धर्मात्मा गोविंदासक्तमानसः ।
विनिंदन्विषयासक्तिं विष्णुभक्तिं स्तुवन्मुहुः १४।
पितोवाच-
सुमते वार्द्धकं प्राप्तं पलिताश्चिकुरा मम ।
गोविंदचरणांभोजं सेविष्ये साधुसेवितम् १५।
तत्सैवया भवेत्स्वच्छं मनो यस्य च सुस्थिरम् ।
स पुमानात्मसंतुष्टो न किंचिदभिवांछति १६।
निष्कामः सुखदुःखाभ्यां भुंजन्सुकृतदुष्कृते ।
प्राकृते तत्समाप्तौ च त्यजन्देहं भवत्यजः १७।
तां वद्द्रव्यं गुणसुखं यावत्प्राप्तं न चित्सुखम् ।
तत्प्राप्तौ तद्भवेत्तुच्छं सुधाया इव तक्रकम् १८।
हरेर्मायाबलवतीयं मोहयति देहिनम् ।
हितानि तं न जानाति स यथा मदिरामदः १९।
प्रवृत्तिं च निवृत्तिं च विद्ययाविद्यया च सः ।
करोति स्वेच्छया काले बाललीलो हि स प्रभुः २०।
वेदोदितं यदा कर्म क्रियते फलमिच्छता ।
प्रवृत्तिं सा परा तात तेषामर्पणमीश्वरे २१।
यथा निर्दग्धाबीजानि न प्ररोहंति यत्नतः ।
यथा कर्माणि विश्वेशे निःकामेनार्पितानि तु २२।
कर्मणां च लयो मोक्षः सुखदुःखप्रदायिनाम् ।
तदुत्पत्तिस्तु बंधः स्यादित्यसौ शास्त्रनिर्णयः २३।
अतोऽहं कर्मवेदोक्तं कुर्वन्नाभिलषन्फलम् ।
पर्यटिष्यामि तीर्थेषु हृदि भक्ति दधद्धरेः २४।
एवं प्रारब्धकर्माणि भुंजन्नान्यान्यतर्जयन्।
हनिष्यामि जगद्रोगं पीत्वा सत्संगमौषधम् २५।
शिवशर्मोवाच-
एवमाकर्ण्य वचनं तस्याहं पितुरात्मनः ।
अवदं विष्णुशर्मस्त्वं तन्निशामय तत्वतः २६।
वैश्यपुत्र उवाच-
अयं जनो दुराराध्यः कथयिष्यति नो यशः ।
दुष्टकुटुंबादुद्विज्य निःसृत्य गत इत्ययम् २७।
इयं विष्णुपदी तात भुवनत्रयपावनी ।
स्मृता हरत्यघं दूरात्कस्मादेनां विमुंचसि २८।
पापकारी जनस्तात म्रियते मगधे तु यः ।
सोप्यस्तपापो गंगायां स्वर्याति त्यजमाशुभम् २९।
पुत्राः षष्टिसहस्राणि सगरस्य महात्मनः ।
कपिलक्रोधनिर्दग्धा गतायत्स्पर्शनाद्दिवम् ३०।
तामिमां त्रिदिवश्रेणीं मुक्तेरपि विधायिनीम् ।
मुमुक्षुसेवितां तात मुक्त्वा मान्यत्र गम्यताम् ३१।
मावजानीहि सामीप्ये गंगा त्रिदशमानिताम् ।
यदिच्छसि महाभाग सेवितैषा प्रदास्यति ३२।
तिर्यंचोऽपि विना ज्ञानाज्जले चेत्स्युर्गतासवः ।
भवेयुस्तर्हि ते ब्रह्म सा कथं त्यज्यते त्वया ३३।
शिवशर्मोवाच-
निशम्यैतद्वचस्तातस्ततो मम ऋतप्रियः ।
उवास सदने सर्वविषयेभ्यः पराङ्मुखः ३४।
त्रिषु कालेषुं गगायां प्रत्यहं स्नानमाचरन् ।
पुराणं स्याद्गृहे यत्र तत्र याति स नित्यशः ३५।
एकदाकर्णयन्धीरो यमुनातीर्थगौरवम् ।
तत्र शुश्राव माहात्म्यमस्यतीर्थस्य पुत्र सः ३६।
अविमुक्त हरिद्वार प्रयागेभ्यश्च पुष्करात् ।
अयोध्याद्वारिका कांची मथुराभ्यस्तथान्यतः ३७।
सर्वतीर्थमयस्यास्य पुण्यं शतगुणाधिकम् ।
कथितं तेन विदुषा सुतेनाकर्ण्यमत्पिता ३८।
त्यक्त्वा गृहमगादत्र तीर्थे सर्वैरलक्षितः ।
आवामिव महाभागो गोविंदपदसेवकः ३९।
अत्रागत्य महाभागो मत्पिता मोक्षवांछया ।
निगमोद्बोधके तीर्थे त्रिकालं स्नानमाचरन् ४०।
उवास कतिचिन्मासानत्र तीर्थोत्तमे हि सः ४१।
कुर्वन्निजक्रियां धीमान्निस्पृहोप्यजवेश्मनि ।
एकदा सहसा तस्य ज्वरोऽभूदतिदारुणः ४२।
महत्या पीडया तस्य मुमोह गतचेतनः ।
मुहूर्तं स पिता मुह्यं तदवस्थो व्यतिष्ठित ४३।
पश्चात्समागतप्राणो विचिंत्य यदिदं तदा ।
अहो मे कष्टमापन्नं दूरे पुत्रः स धार्मिकः ४४।
यो मां ज्वरवितप्तांगमाश्वासयति बुद्धिमान् ।
अगम्यागमनं पापं कृतं यन्मे सुदारुणम् ४५।
प्रायश्चित्तं न तस्यापि कृतं कामे गतिर्भवेत् ।
आगमिष्यति पुत्रो मे तस्मै दास्यामि वस्विति ४६।
यन्मया गोपितं गेहे न दृष्टं च तदप्यहम् ।
शिवशर्मोवाच-
इति चिंतयतस्तस्य पान्थो वर्षेण पीडितः ४७।
शीतार्तः कंपितवपुरुटजं प्राविशत्तदा ।
स तं संविष्टमालोक्य भूयो गत्वा तदंतिके ४८।
मुनिरेष इति ज्ञात्वा ववंदे शिरसाध्वगः ।
ऊचे च कस्मात्सुप्तोसि मुने संध्या समागता ४९।
रविरस्तं प्रयात्येष न सुप्तेः काल एष ते ।
इत्युक्तमात्रे वचसि पथिकेन पिता मम ५०।
शरभो ज्वरतप्तांगस्तमाह कथमप्यहो ।
शरभ उवाच-
श्रूयतां वचनं पांथ यद्वदामि पुरस्तव ५१।
श्रुत्वा मद्भाग्ययातेन त्वया साधो विधीयताम् ।
वैश्योऽहं शरभो नाम्ना कान्यकुब्जे गृहं मम ५२।
अत्रागतो निषिद्धोपि जायामित्रसुतैरहम् ।
अस्य तीर्थस्य माहात्म्यं श्रुत्वा सूनुमुखेरितम् ५३।
मासास्तु कतिचित्साधो व्यतीता मयि चागते ।
दिनत्रयमतिक्रांतं ज्वरितस्य ममाधुना ५४।
प्राणा मे विगता आसन्नद्यभूयः समागताः ।
कियानप्यायुषः शेषः साधो मे खलु तिष्ठति ५५।
शमनस्य गृहं दृष्ट्वा यदहं पुनरागतः ।
भाग्योदयेन केनापि ममात्र त्वं समागतः ५६।
नय मां मद्गृहं मित्र द्रव्यं बहु ददामि ते ।
दास्याम्यपि गृहं गत्वा कृपां कुरु कृपानिधे ५७।
इह भूभाग उत्खाय गृह्यतां मामकं धनम् ।
शिवशर्मोवाच-
इत्याकर्ण्य स दुर्बुद्धिर्ग्राम्यो विषयलंपटः ५८।
उवाच धनलुब्धस्तं त्वदुक्तं साधयाम्यहम् ।
इत्युक्त्वा धनमुत्खाय तस्माद्भूभागतस्तदा ५९।
अग्रतः स्थापयामास शरभस्याह चाध्वगः ।
अध्वग उवाच-
धनमेतद्विशांनाथ तव भूभागतो मया ६०।
निष्कासितं प्रयच्छाशु शिबिकानयनाय मे ।
यामारोप्य ज्वरार्तं त्वां नयामि तव केतनम् ६१।
शिवशर्मोवाच-
इत्युक्तस्तेन स तदा ददौ स्वर्णपलत्रयम् ।
सोपि नीत्वा पितुर्द्रव्यं ययौ लवणपत्तनम् ६२।
उषित्वा रात्रिमेकां तु शिबिकां सपरिच्छदाम् ।
सवाहामानयत्पुत्र दत्त्वा स्वर्णपलद्वयम् ६३।
पलं द्वयं गृहीतं तत्तेनैवाधर्मबुद्धिना ।
आरोप्य शिबिकां तं तु शरभं वैश्यसत्तमम् ६४।
पांथः स चलितो वाहांस्त्वरयन्कान्यकुब्जकम् ।
अस्य तीर्थवरस्याथ कमंडलुजलं धृतम् ६५।
पाययन्नल्पमल्पं तं तृषार्तं सोध्वगो ययौ ।
अथ ते सरसस्तीरे उत्तीर्णा भोक्तुमध्वनि ६६।
स्नात्वा भुक्त्वा पुनस्तस्मात्स्थानाच्चेलुस्त्वरान्विताः ।
कियंति भूमिमुल्लंघ्य तृषार्तांस्ते कमंडलोः ६७।
जलं पीत्वा तृषार्तं तं शरभं चाप्यपाययत् ।
अथ कश्चिन्महाभीमो विकटो नाम राक्षसः ६८।
विचरन्निर्जनेऽरण्ये गच्छतस्तानवैक्षत ।
तान्दृष्ट्वा स क्षुधाक्रांतो वेगवान्विवृताननः ६९।
अभिदुद्राव चरणाघातेनाकंपयन्महीम् ।
आगत्य तरसा पार्श्वे तान्वाहान्पथिकं च तम् ७०।
सकोशेषु समादाय भ्रामयामास खेचरः ।
गतासून्भ्रामणेनैव भूतले तानपोथयत् ७१।
चखाद पिशितं तेषां पपौ कोशाच्च शोणितम् ।
कुत्र यास्यति रोगार्तो नरोऽयं पुरतो मम ७२।
एनं तु भक्षयिष्यामि पश्चादंबु पिबाम्यहम् ।
इति कृत्वा मतिर्वारितीर्थस्यास्य कमंडलोः ७३।
मुखे चिक्षेप स तदा रजनीचरपुंगवः ।
क्षिप्तमात्रे जले तस्य पूर्वजन्मभवा स्मृतिः ७४।
जाता स तु वधात्तस्य शरभस्य न्यवर्तत ।
पूर्वजन्मकृतं पापं तदपि स्मृतिमागमत् ७५।
येन राक्षसभावस्तु भूतो विप्रोद्भवादपि ।
स्मृत्वा पापमुपेत्याशु समीपे शरभस्य तु ।
उवाच ज्ञानमापन्नो राक्षसः पितरं मम ७६।
राक्षस उवाच-
भो भो मनुष्यशार्दूल कस्त्वं के च जना अमी ।
भक्षिता ये मया घोर रूपेणाधमरक्षसा ७७।
कस्य तीर्थवरस्येदं जलं यस्य प्रभावतः ।
पापिनोऽपि स्मृतिर्जाता पूर्वजन्मभवा मम ७८।
वैश्य उवाच-
वैश्योऽहं राक्षसश्रेष्ठ कान्यकुब्जे गृहं मम ।
तीर्थानि पर्यटन्निंद्रप्रस्थेऽहं समुपागतः ७९।
तत्राहमभवं दुःखी ज्वरेण विधियोगतः ।
ततो मे बुद्धिरुत्पन्ना गंतुं गृहमसत्पथ ।
तत्र कश्चित्समायातः पांथो वर्षेण पीडितः ८०।
प्रार्थितः स मयानीय शिबिकां मां गृहं नय ।
स चायं शिबिकां पांथः समुपानीय सत्वरः ८१।
मामारोप्य च तां धीरश्चलितो मद्गृहं प्रति ।
स पांथस्ते च शिबिकावाहाः संप्रति भक्षिताः ८२।
त्वया जलमिदं यस्य तीर्थस्यापि च तच्छृणु ।
इंद्रस्य खांडववने यमुनास्ति सरिद्वरा ८३।
तत्तीरेऽस्ति हरिप्रस्थं तीर्थं तीर्थोत्तमोत्तमम् ।
सुराचार्यस्य तत्रास्ति तीर्थं सर्वार्थसाधकम् ८४।
निगमोद्बोधकं जाता स्मृतिस्ते यज्जलाशनात् ।
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहंमिह त्वया ८५।
पृच्छामि त्वामहं किंचित्तद्वदाशु निशाचर ।
पूर्वजन्मकृतं कर्म स्मरसि त्वमिहाधुना ।
वद किं ते कृतं पापं येन जातोऽसि राक्षसः ८६।
राक्षस उवाच-
पुराहमभवं विप्रः पुण्ये वेदविदां कुले ।
दुराचारो ह्यधर्मात्मा शृणु सर्वं वदामि ते ८७।
क्रीडता हि मया नित्यं द्यूतेन सह तद्विदैः ।
हारितं द्रविणं भूरि स्वकीयं पितुरेव च ८८।
पित्रा निवेद्य भूपाय मामकं कर्म तज्जनैः ।
पुरान्निःसारितो निःस्वो गतोऽहं ग्राममंतिके ८९।
तत्रासीन्मे सखा नाम देवको ब्राह्मणोत्तमः ।
तेनाऽहं रक्षितो गेहे कुर्वता चिरमादरम् ९०।
वस्तुं तत्र सुखेनाहं तद्भार्यां रूपशालिनीम् ।
कामातुरोऽहमभजं बलान्मित्रे गते क्वचित् ९१।
सा मृता तत्क्षणात्साध्वी भक्षयित्वा महाविषम् ।
तां दृष्ट्वा तमसायुक्ते निशीथेऽहं पलायितः ९२।
पलायमानस्तरसा धृतोऽहं राजकिंकरैः ।
चौरोऽयमिति खङ्गेन चिच्छिदुस्ते शिरो मम ९३।
मृतं मां यातनादेहमावेश्य यमकिंकराः ।
रौरवे निरयघोरे चिक्षिपुर्यमशासनात् ९४।
षष्टिवर्षसहस्राणि तत्राऽहं तीव्रयातनाम् ।
भुक्त्वा तेनैव पापेन राक्षसत्वमुपागतः ९५।
शतवर्षाण्यतीतानि राक्षसत्वे विशांपते ।
वदामि तमुपायं मे येनास्मान्मुक्तिमाप्नुयाम् ९६।
पुण्यं तदर्पिते साधो वदामि शृणु सादरम् ।
येन तीर्थवरस्येदं जलं मम मुखे गतम् ९७।
तत्रैव जन्मनि मया कृत्वा हरिदिने व्रतम् ।
संसर्गान्नेच्छया वैश्य रात्रौ जागरणं कृतम् ९८।
द्वादश्यामथ संस्नात्वा भोक्तुंमपि समुद्यते ।
मद्गृहे कश्चिदायातो वैष्णवो विष्णुरूपधृक् ९९।
कुपितोऽहं तमालोक्य दुर्वचो वदमग्रतः ।
क्व गच्छसि दुराचार दांभिकस्त्रीजनांतरे १००।
इत्युक्तं स मया धीरस्तुल्यो मानापमानयोः ।
तूष्णीमेव निकेतान्मे निर्गत्य चलितो यदा १०१।
तदाभिमुखमायांती पत्नी मम पतिव्रता ।
पतित्वा पादयोस्तस्य तं साधुं गृहमानयत् १०२।
मयापमानितस्यापि न क्रोधोऽभून्महात्मनः ।
तयादृतस्याप्यानंदो यतः सोरि सुहृत्समः १०३।
तमर्चयित्वा विधिवद्विष्टरे चोपवेश्य सा ।
भोज्यं भोजय जीवेश जयताद्भुवनत्रयम् १०४।
इत्युक्तोऽहं तया साध्व्या न्यगदं तं महाशयम् ।
म्लानवक्त्रः प्रसन्नास्यमुत्तिष्ठ शमय क्षुधाम् १०५।
इत्युक्त्वा तस्य चरणौ नोदितस्तनुमध्यमा ।
प्राक्षालयं पुनस्तं तु निवेश्यासनमुत्तमम् १०६।
अददां पात्रमन्नेन पूर्णं तस्मै विवेकिने ।
जलं च तत्करे साध्व्या प्रेरितोऽहं तया मुहुः १०७।
उपभुज्य स धर्मात्मा स्वैरं विगतविक्रियः ।
हरेराम हरेकृष्ण जपन्निति जगाम ह १०८।
कृतं पुण्यमिदं वैश्य नोदितेन मया स्त्रिया ।
पूर्वजन्मनि येनेदं प्रापितं तीर्थवारि मे १०९।
शिवशर्मोवाच-
विष्णुशर्मन्निदं वाक्यमुक्त्वा तिष्ठति राक्षसे ।
पथिकः स च ते वाहाः प्राहुः खे दिव्यदेहिनः ११०।
पथिकवाहा ऊचुः
भो भो विशांपते साधो प्राप्ता अप्यपमृत्युताम् ।
त्वत्प्रसादादिदं वारि पीत्वा देवत्वमागताः १११।
त्वत्संगे धनलोभेन विट्पते चलिता यतः ।
विगता न धनाकांक्षा मरणावसरेप्यतः ११२।
तीर्थराजजलस्यास्य तिष्ठतो जठरे हि नः ।
मरणे ह्यनुभावात्तु मैत्री प्राप्ता धनेशितुः ११३।
नमामस्त्वां वयं यामो धनेश नगरीं प्रभो ।
विमानैस्तद्गणानीतैर्नानामणिविभूषितैः ११४।
प्रयाहि मा विलंबस्व तीर्थे निगमबोधके ।
त्वमनेनसमं साधो तारयैनमपि द्रुतम् ११५।
शिवशर्मोवाच-
इत्युक्त्वा ते गतास्तात दिश्युदीच्यां समंततः ।
विमानकिंकिणीनादैर्नादयंतोऽथ रोदसी ११६।
अथ वैश्यो मम पिता तमाह रजनीचरम् ।
शरभ उवाच-
उत्तिष्ठ नय मामाशु तीर्थे निगमबोधके ११७।
ज्वरार्त्तेन मया पद्भ्यां तत्र गंतुं न शक्यते ।
यो मां नयति तत्तीर्थं त्वदन्यो नास्ति कश्चन ११८।
शिवशर्मोवाच-
तथेति तमथाश्वास्य वैश्यं स रजनीचरः ।
स्कंधमारोप्य वेगेन तत्तीर्थं पावनं ययौ ११९।
ऊषतुस्तावुभौ तत्र विश्पतिः स च राक्षसः ।
कुर्वंतौ स्नानमात्रं तु सर्वतीर्थोत्तमोत्तमे १२०।
अथाऽहं पितुराकर्ण्य महतीं गुरुवेदनाम् ।
तं प्रति प्रेरितो मात्रा चलितो निजसद्मतः १२१।
अत्रागत्य मया दृष्टः स महाज्वरपीडितः ।
मूर्ध्ना च वंदितस्तेन दत्ताशीर्मेऽभ्यभाषि च १२२।
शरभ उवाच-
किमर्थमिह भो तात दूरमार्गे समागतः ।
दिनानि कतिचित्तिष्ठन्कुर्वन्नत्र निजक्रियाम् १२३।
विकटो नाम मे मित्रः राक्षसः समुपैति वै ।
उत्तिष्ठ वपुषामुष्य दंडवत्पत पादयोः १२४।
न भेतव्यं त्वयामुष्मात्त्यक्तहिंसादि कर्मणः ।
अधुना तीर्थमासाद्य सन्निधौ मम तिष्ठति १२५।
शिवशर्मोवाच-
इत्युक्तोऽहं तदा पित्रा शरभेण महात्मना ।
उत्थाय पतितस्तस्य पादयोर्दंडवद्भुवि १२६।
दोर्भ्यामुत्थाप्य मां सोऽथ गाढमालिंग्य राक्षसः ।
स्वागतं मित्रपुत्रेति जगादाशिषमीरयन् १२७।
राक्षस उवाच-
भाग्यवानसि भो तात यत्त्वमत्र समागतः ।
पितुर्धर्मात्मनः श्रुत्वा ज्वरपीडां सुदारुणाम् १२८।
पितुराण्यमाप्नोषि तीर्थे कृत्वा तिलोदकम् ।
स्नात्वा कुरु क्रियां स्वीयाः पूर्वजन्मस्मरिष्यसि १२९।
शिवशर्मोवाच-
एवमुक्तस्तदा तेन स्नातुं तीर्थे वरांभसि ।
प्रविष्टोऽहं स्मरंस्तात पूर्वजन्मशुभाशुभम् १३०।
स्नात्वा विधिवदत्रैव पितुरंतिकमागतः ।
अपृच्छं रक्षसो वृत्तं कुतोऽयं धर्मधीरिति १३१।
पित्रोक्तं रक्षसो वृत्तं वाहानां पथिकस्य च ।
श्रुत्वाऽहं तीर्थराजस्य स्तुतिमस्य चकार वै १३२।
पिता मे रोगनिर्मुक्तो भविष्यति यदा तदा ।
यास्यामि गृहमित्यत्र दशोषितमहानि मे १३३।
दशाहाभ्यंतरे तात तातस्य मरणं मम ।
अभूदर्धजले ह्यस्य तीर्थराजस्य पश्यतः १३४।
अथो गरुडमारुह्य वक्षसो धारयन्श्रियम् ।
आजगाम स्वयं विष्णुर्नवीन घनविग्रहः १३५।
पीतवासा चतुर्बाहुः पंकजारुणलोचनः ।
ब्रह्मेंद्रादिभिरादिव्यैः सनाथैरंधकारिणा १३६।
सेव्यमानो गुणग्रामान्गायद्भिः किन्नरैः सह ।
हाहाहूहूप्रभृतिभिः स्तूयमानश्च सर्वतः १३७।
दत्त्वा स्वकीय सारूप्यमारोप्य गरुडं तदा ।
पितरं मम ब्रह्माद्यैर्वृतो वैकुंठमारुहत् १३८।
पितुः सारूप्यमालोक्य विष्णोरहमचिंतयम् ।
इति चित्ते तदालोक्य जाततत्वोदये तदा १३९।
न हि वर्णयितुं शक्यो ह्यस्य तीर्थशिरोमणेः ।
महिमा यज्जलार्द्धे स्यान्मृतो जंतुश्चतुर्भुजः १४०।
न मया सर्वथा त्याज्यं तीर्थराजमिदं ननु ।
अंजसा दृढमाहात्म्यं धनरोगादितृष्ण्या १४१।
पितुरत्रोटजे तावत्स्थातव्यं हि मया मम ।
यावत्तु कर्मणां भुक्तः प्रारब्धानां महीतले १४२।
एवं विचिंतयित्वा च पितुः कृत्वा तु सत्क्रियाम् ।
रक्षसा तेन सहितः स्थितोऽहं मोक्षवांछया १४३।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये चतुरधिकद्विशततमोऽध्यायः २०४।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 205
शिवशर्मोवाच-
एकदाऽत्र महातीर्थे पंके मग्नां पयस्विनीम् ।
दृष्ट्वा स राक्षसश्रेष्ठस्तामुद्धर्तुं विवेश ह १।
गोरक्षणे महान्धर्मो रक्षतुः स्वर्गतिर्भवेत् ।
चिंतयन्निति मध्ये तु सगृहीतोंबुहस्तिना २।
नीतस्तु वारिणोऽधस्ताज्जलपूर्णोदरस्तदा ।
तत्याज जीवितं सद्यस्तेन पीडितविग्रहः ३।
दिव्यरूपं समास्थाय विमानमपि ढौकितम् ।
गणेन प्रहितेनाथ दैवैरिंद्रपुरोगमैः ४।
गच्छन्निति मया पृष्टः स निशाचरपुंगवः ।
मुक्तिदेऽत्र महातीर्थे मृत्युं प्राप्य सदुर्लभे ५।
कथं देवपदप्राप्तिर्जाता तव महामते ।
इत्युक्तो मामुवाचेदं वांछासीदत्र मेऽनघ ६।
तस्मिन्गते पुण्यजने स्वर्गं पुण्यवतां पदम् ।
एकाकिना मया विष्णुः सद्गतिः प्रापितस्तदा ७।
गच्छंस्तिष्ठन्स्वपन्जाग्रत्स्नानं कुर्वंश्च नित्यशः ।
तमेव पुंडरीकाक्षमहं दध्यावनन्यधीः ८।
हरे तव पदांभोजमहं शरणमागतः ।
ब्रह्मत्वे च महेशत्वे नेंद्रत्वे मम मानसम् ९।
प्रार्थयन्नित्यहं तात तमेव पुरुषोत्तमम् ।
उषितोऽत्र महातीर्थे कृत्वा निर्विषयं मनः १०।
विष्णुशर्मोवाच-
वसतोऽत्र महातीर्थे मरणं चेत्तवाभवत् ।
कथं जन्म पुनः प्राप्तं त्वयेति मम संशयः ११।
मर्यादां यस्य तीर्थस्य त्यक्त्वापि धनलोभतः ।
राक्षसान्मरणं प्राप्ताः पथिकस्ते च वाहकाः १२।
यस्य तीर्थवरस्यास्य जलपानाद्दिवंगताः ।
तथैव राक्षसोऽप्यस्मिन्नपमृत्युमवाप्य सः १३।
नक्रतः स्वेच्छया स्वर्गं जगाम तव पश्यतः ।
न नूनं तत्र मरणं जातं यज्जन्म दृश्यते १४।
नारद उवाच-
शिवे निशम्य पुत्रस्य शिवशर्मा शुभं वचः ।
उवाच पूर्ववृत्तांतं कारणं निजजन्मनः १५।
शिवशर्मोवाच-
विष्णुशर्मन्शृणुष्वेदं कारणं मम जन्मनः ।
कथयामि तवाग्रेऽहं श्रुत्वा निःसंशयो भव १६।
एकदा विष्णुपूजायां मयि ध्यानं समास्थिते ।
दुर्वासाः प्रकृतिक्रोधी ममाश्रममुपागतः १७।
तमागतमविज्ञाय विष्णुध्यानपरायणः ।
तस्थिवांस्तदवस्थोऽहं चिरं तं नामसंस्मरन् १८।
समुहूर्तं मुनिः स्थित्वा ममाग्रे क्रोधमूर्छितः ।
आत्मनात्मानमाहेदमुच्चैरारक्तलोचनः १९।
दुर्वासा उवाच-
अहो अत्रेरहं पुत्रोऽनसूयागर्भसंभवः ।
शिवांशो मानुषेणालमवज्ञातोऽमुना भवम् २०।
त्रिलोकीराज्यतः शक्रो मया येन प्रपातितः ।
तं मामपि मनुष्योऽयमवजानाति दुर्मतिः २१।
यो बिभेति न कः सोसि मत्तः कालानलादिव ।
मुक्त्वा देवत्रयीं लोके यतः सार्हत्तमा मम २२।
यामसौ ध्यायते मूढो देवतां ध्यानमास्थितः ।
न कथं बोधयत्येनं सेति मूर्त्तिस्थितो यमः २३।
नूनं नारायणं देवं ध्यायत्येष जगद्गुरुम् ।
यद्ध्यानामृततृप्तो हि न बाह्यज्ञानवानयम् २४।
हरिं वा ब्रह्म वा शंभुमन्यं वा ध्यायतामहम् ।
मयायं सर्वथा दंड्यो मदवज्ञाकरो ह्ययम् २५।
शिवशर्मोवाच-
एवं विचिंतयित्वा स सुमतिं मामबोधयत् ।
शशाप च विबुद्धं मामितिक्रोधारुणेक्षणः २६।
मामवज्ञाय यश्चित्ते ध्यानकाले मनोरथः ।
कुतस्तेन भवेह्यस्मिन्भविष्यति हि सर्वथा २७।
इत्युक्त्वा स यदा तात चलितो मुनिरत्रिजः ।
तदा मया चरणयोर्गृहीतोभयभीरुणा २८।
इत्युक्तश्च मुनिश्रेष्ठ क्षम्यतां रुड्विमुच्यताम् ।
मादृशा न विजानंति सम्यक्कर्म भवादृशाम् २९।
शापं त्वं दत्तवान्घोरं सांप्रतं मे निरेनसः ।
प्रसीद मम नम्रस्य शापांते कुर्वनुग्रहम् ३०।
इत्युक्तः कोपमुत्सृज्य दुर्वासा शीतलोभवत् ।
किमेतन्नोचितं तात स यतश्चंद्रशेखरः ३१।
उवाचेति समां धीमांस्तं भूत्वा ब्राह्मणोत्तमः ।
अत्रैव मरणं प्राप्य न भूयो जन्म लप्स्यसे ३२।
इति मामनुगृह्याथ स जगाम दिगंबरः ।
उषित्वा तद्दिनं तात मया सत्कारपूजितः ३३।
न मुनेर्भाषितं मिथ्या चिंतयित्वाहमित्यपि ३४।
जगाम स्वगृहं चित्ते पश्चात्तापं वहन्निति ।
अहो मे ध्यायतो नित्यं स तीर्थाश्रमिणस्तथा ३५।
दर्शनं दुर्लभं जातं श्रीपतेरिह जन्मनि ।
चातकस्येव मेघस्य शुचौ संतापकारिणि ३६।
कुतोऽयमागतो मह्यं वैकुंठगतिरोधकः ।
जनस्य प्रस्थितस्येव जलदो कालवारिमुक् ३७।
न दोषोऽस्ति मुनेर्नूनं तस्यैवेच्छाहरेः खलु ।
सुदर्शनं हि दत्त्वापि ममजन्मांतरं कृतम् ३८।
मया संसारभीतेन ग्राह्यं पादांबुजंहरेः ।
निदाघातपतप्तेन पथिकेनेव पादपः ३९।
किं धनापत्ययोषिद्भिरनित्यैश्चान्यबंधुभिः ।
गोविंदपरमानंद रामेति ममजल्पतः ४०।
उदासीनवदासीनः कुंटुबेषु हरिं भजन् ।
प्रारब्धमेव भोक्ष्यामि कर्माण्यन्यान्यतर्जयन् ४१।
चिंतयन्नित्यहं तात कियद्भिर्वासरैरहम् ।
प्राप्तवान्स्वगृहं स्नात्वा हरिपादोदकांतरे ४२।
पितुर्मरणमाख्यातं मात्रे बंधुभ्य एव च ।
श्रुत्वा तेऽपि शुचं चक्रुर्नाविंदन्निममस्थिरम् ४३।
सत्यलोकादि लोकेषु निस्पृहोऽहं गृहे वसन् ।
मरणं प्राप्तवान्कूले गंगाया मुनिसेविते ४४।
मुनेर्दुर्वाससः शापाज्जातोऽहं वैष्णवे कुले ।
मरणं चात्र सत्तीर्थे लब्ध्वा प्राप्स्ये हरेः पदम् ४५।
नारद उवाच-
एवं सुराचार्यविनिर्मिते तदा तीर्थे महाभाग पुराकृतानि तौ ।
द्विजोत्तमौ प्रोच्य मिथः सुतस्थतुर्विचिंतयंतौ हरिपादपल्लवम् ४६।
विचिंतयंतौ हरिमब्जलोचनं चतुर्भुजं नीरदनीलविग्रहम् ।
निजायुधालंकरणावभासितं स्मृत्वात्र सारूप्यमवापतुर्हरेः ४७।
यस्य क्षेत्रमिमं पुण्यमिंद्रप्रस्थाख्यमुत्तमम् ।
तस्योपाख्यानमाख्यातं फलमस्य शिवे शृणु ४८।
गंगास्नानेन यत्पुण्यं कन्यादानोद्भवं च यत् ।
श्रवणादस्य तत्पुण्यं श्रद्धया लभते नरः ४९।
पुत्रे जाते तु गोदानात्सिंहगे च बृहस्पतौ ।
गोदावरीजले स्नानाद्यत्फलं भुवि जायते ५०।
तत्फलं श्रवणादस्य जायते नात्र संशयः ।
अतस्तीर्थोत्तमादन्यत्तीर्थं नास्त्यखिलार्थदम् ।
यस्मिन्मरणतो नूनं तिर्यंचोऽपि चतुर्भुजाः ५१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये निगमबोधोपाख्यानं नाम पंचाधिकद्विशततमोऽध्यायः २०५।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 206
सौभरिरुवाच-
धर्मराजशिबिः श्रीमानाकर्ण्य तद्वचो मुनेः ।
नारदस्याब्रवीत्प्रीतमना इति तमुत्तमम् १।
शिबिरुवाच-
मुने तीर्थवरस्यास्य निगमोद्बोध कस्य ते ।
माहात्म्यं वर्णितं सम्यक्श्रुतं पापहरं मया २।
इंद्रप्रस्थेत्र शतशः संति तीर्थानि वै मुने ।
अन्यस्यापि समाचक्ष्व माहात्म्यं यदि विद्यते ३।
नारद उवाच-
इंद्रप्रस्थांतरावर्तिन्येषा या द्वारका नृप ।
अस्यां पुरा हि यद्वृत्तं तत्ते वच्मि शृणुष्व मे ४।
काम्पिल्येऽथ द्विजः कश्चित् पुष्पेषुर्मूर्तिमानिव ।
सर्वासां योषितां चित्तहारी स्यादग्रविभ्रमैः ५।
संगीतविद्याकुशलः कोकिलामधुरध्वनिः ।
एकदा स करे वीणां धारयन्वादयन्मुहुः ६।
कंठेन कोकिलालाप मधुरेण नराधिप ।
गायन्बभ्राम नगरे प्रतिरथ्यं महामतिः ७।
तस्य गीतिध्वनिं श्रुत्वा मूर्छनातानसंयुतम् ।
त्वक्त्वा स्वगृहकार्याणि तमीयुः पौरयोषितः ८।
मोहितास्तस्य रूपेण कामवेगं न सेहिरे ।
जाता स्खलितवीर्यास्ता गीतं श्रुत्वा समक्षतः ९।
ब्रह्मणो मानसं येन लोभितं भारतीं प्रति ।
शिवस्यार्द्धशरीरं च पार्वत्यै येन दापितम् १०।
ताभ्यामन्यो जनो लोके वशी वा ज्ञानवानपि ।
यः स्मरं तं क्षमो जेतुं स्त्रियः प्रकृतिचंचलाः ११।
ताः स्मरावेशमासोढुं न साध्योपि विषेहिरे ।
वक्तव्यमिति किं राजन्लोके कामो हि दुर्जयः १२।
अथ तास्तत्र तत्रेयुर्यत्र यत्र व्रजत्यसौ ।
प्रगायन्कंठवीणाभ्यां प्रगायन्स्वरमोहितः १३।
तासां पतिसुतभ्रातृपितरोऽथ नराधिप ।
आगत्य भर्त्सयित्वा ता निन्युः स्वान्स्वान्गृहान्प्रति १४।
तमन्विष्य पुनस्तास्तु जग्मुः सर्वास्तदंतिके ।
यदा तदा पौरजना वृत्तं तत्प्राहुरीश्वरे १५।
राजापि तं समाहूय पप्रच्छ रहसि द्विजम् ।
केन मंत्रेण भो विप्र मोहितास्ताः पुरस्त्रियः १६।
तन्ममाचक्ष्व विप्रेंद्र दास्यामि बहु ते धनम् ।
नोचेन्निष्कासयामि त्वां निजराज्यान्न संशयः १७।
नारद उवाच-
श्रुत्वेति नृपतेर्वाक्यं नृपतिं स द्विजोत्तमः ।
उवाच सत्यं तस्याग्रे वचोरूपगुणार्णवः १८।
द्विज उवाच-
न मंत्रं नौषधं राजन्विद्यते मयि भिक्षुके ।
किंतु ते नगरे सर्वा योषितो ह्यजितेंद्रियाः १९।
रूपं मम समालोक्य श्रुत्वा गीतध्वनिं तथा ।
स्मरवेगं सहंते न राजंस्तव पुरे स्त्रियः २०।
किं करोमि महाराज कोऽपराधोस्ति मे विभो ।
पुराकृतमिवोल्लंघ्यं शासनं न महीपते २१।
नारद उवाच-
उशीनरशीबे राजन्नेवं कथयति द्विजे ।
सर्वे पौराः समेत्याथ प्रावदन्निति भूपतिम् २२।
पौरा ऊचुः -
राजन्ननेन विप्रेण मोहिताः पौरयोषितः ।
गृहेषु न हि तिष्ठंति ह्यस्माभिरनिवारिताः २३।
यद्ययं मोहनः स्त्रीणां नगरे वत्स्यति प्रभो ।
तदा देशांतराण्येव यास्यामो वयमद्य वै ।
गतोऽस्माकं वृषो देवो हव्यकव्यक्रियात्मकः २४।
तमनुप्रस्थितात्क्षेत्राद्गौरियं पापिनामिव ।
विना तं शरणं यातं त्यक्तश्रीभिर्नरेश्वर २५।
अथैनमनुयास्यंति वासिताभिर्वृषं यथा ।
शून्यालये कथं लक्ष्मीर्यत्नतोप्यवतिष्ठति २६।
धर्मोऽर्थश्च गृहं चैतत् त्रयं स्त्रीवशगं यतः ।
कांताधर्म धनाधीना तयोर्नाशे न तिष्ठति २७।
नारद उवाच-
एवं वदत्सु पौरेषु स्त्रियस्तेषां समागताः ।
राजांतिक उपाविष्टा इत्यूचुस्ताः परस्परम् २८।
पौरस्त्रिय ऊचुः ।
कामं वामाकृतिं विप्रमेनं प्राप्यमनांसि नः ।
उल्लसंति दिवाधीशं कमलानीव वारिणि २९।
संकुचंति विना तेन कुमुदानि यथेंदुना ।
आगच्छंतमिलित्वैनंधारयामोनृपाग्रतः ३०।
अवध्योऽयं वयं चास्य किं करिष्यति भूपतिः ।
नारद उवाच-
इत्युक्त्वा तास्त्वरावत्यो जगृहुस्तं द्विजोत्तमम् ३१।
पश्यतां निजभर्तॄणां राज्ञश्चैव पुरस्तदा ।
ऊचुश्चैनं मनोनाथ गृहानागच्छ हृच्छयम् ३२।
शमयाशु विनाद्यत्वां स्थातुं नैव च शक्नुमः ।
इत्याकर्ण्य वचस्तासां स विप्रः प्रत्युवाच ह ३३।
विप्र उवाच-
भवतीनामहं पुत्रो भवत्यो मातरो मम ।
गृहान्किमर्थमुत्सृज्य भवत्यः पर्यटंति हि ३४।
आराधयत नाथान्स्वान्यतो लोकद्वयं ध्रुवम् ।
आराधितेषु पतिषु विष्णुः सर्वसुरेश्वरः ३५।
प्रसन्नो भवति त्वत्र प्रसन्ने किमु दुर्लभम् ।
या स्त्री स्वपतिमुत्सृज्य सेवतेऽन्यसुखेच्छया ३६।
सापवादमवाप्नोति याति घोरां च दुर्गतिम् ।
उषित्वा तत्र कल्पांते यावत्सा पतिवंचना ३७।
पुनस्तस्माद्विनिर्गत्य स्थावरत्वं प्रपद्यते ।
तस्मादपि पशुत्वं सा लभते बहुजन्मसु ३८।
ततो मुक्ता मनुष्यत्वे व्यंगा भवति तत्र सा ।
एवं पापगतिं ज्ञात्वा निवर्तध्वमतो जनात् ३९।
नो वा यास्यथ देहांते नरकं भृशदारुणम् ।
यदिच्छंति भवंत्यो मे सुखं तन्नेह लप्स्यथ ।
पापमेव हि युष्माकं यतोधःपतनं नृणाम् ४०।
नारद उवाच-
श्रुत्वैवं वचनं तस्य दृष्ट्वा भर्तृसुखानि च ।
लज्जयानम्र मुख्यस्ता लतावातहता इव ४१।
तासां तु पुरनारीणां स्मराग्निर्भृशदारुणः ।
शशाम तस्य शीतेन बटोर्वचनवारिणा ४२।
उत्थाय चेलुः सर्वास्ता विनिंदंत्य इति स्मरम् ।
ब्रह्मशक्रादिदेवानामपि मोहकरं नृप ४३।
स्त्रिय ऊचुः ।
धिगिमं पापकर्माणं शीलदारुकुठारकम् ।
कामवामदृशां प्रीत्यै धन्यो येन हतः स्मरः ४४।
किं वदेम जगत्पूज्यां रुक्मिणीं जठरे यया ।
धृतः प्रद्युम्ननाम्नाऽसौ राहुः स्त्रीशीलचंद्रभुक् ४५।
स देवाधम आयाति यदि नो दृष्टगोचरम् ।
भूयो ध्यानकृतेशान दृगग्नौ तं क्षिपामहे ४६।
येनायं जनितः पापो ह्यात्मारामेण विष्णुना ।
कृतः षोडशसाहस्रस्त्रीप्रियः का हि नः कथा ४७।
एवं विनिंद्य तं कामं तुष्टुवुस्तं द्विजोत्तमम् ।
शीलं स्वस्य च तासां च रक्षितं येन भूपते ४८।
धन्या सामुष्य जननी ययायं ब्राह्मणोत्तमः ।
स्मरजिन्निर्मितो लोके परधर्मस्य रक्षकः ४९।
धिगस्तु नो राजलोकैर्हसिताः स्मरनिर्जिताः ।
याभिर्वाक्यमनोभ्यां च जनितं पापमुल्बणम् ५०।
नारद उवाच-
एवं विचिंतयंत्यस्ता एक्यमत्ययुताः स्त्रियः ।
जग्मुः स्वंस्वं गृहं सर्वा द्विजवाक्येन बोधिताः ५१।
अथ राजापि कांपिल्यस्तं द्विजं वस्त्रभूषणैः ।
संपूज्य प्रेषयामास सद्गृहे संयतेंद्रियम् ५२।
अथागच्छति काले तु कारूषाधिपतिर्बली ।
कांपिल्याधिपतिं सैन्यैर्नगरं रुरुधे तदा ५३।
तयोर्युद्धमभूद्घोरं तेन युद्धे स घातितः ।
नगरं लुठितं सर्वं हताः शूराश्च सर्वशः ५४।
ता स्त्रियः कालकूटं तु खादित्वा मरणं गताः ।
प्रायश्चित्तं तु न कृतं ताभिः पापस्य तस्य तु ५५।
येन पापेन ताः सर्वा भीषणाख्यस्य रक्षसः ।
राक्षस्यो नगरे जाता महाकाया भयानकाः ५६।
तत्र ता निहिताः सर्वाः पुरनार्यो हनूमता ।
यज्ञांश्च रसतो जिष्णोस्तिष्ठतां रथकेतने ५७।
पुनस्ता एव राक्षस्यो बभूवुर्मारवेध्वनि ।
क्षुधार्ताश्च तृषार्ताश्च दर्शनेन भयप्रदाः ५८।
एवं तेन तु पापेन वाङ्मनोविहितेन तु ।
ताभिर्जन्मद्वयं प्राप्तं राक्षसीयोनिमिश्रितम् ५९।
पापेन नाशितं तासां स नृपं नगरद्वयम् ।
अतएव न कर्त्तव्यं परकांतनिषेवणम् ६०।
नारीभिः पापभीताभिर्वाङ्मनोभ्यामपि प्रभो ।
रोगी जडो दरिद्रो वा नेत्राभ्यां वर्जितोऽपि वा ।
न त्याज्यः स्वपतिः स्त्रीभिः इच्छंतीभिस्तु सद्गतिम् ६१।
कथितमिदं मया मनोवचोभ्यां जनितमघं च यदन्यकांतभक्त्या ।
फलमपि च यदेव लब्धमाभिस्तदपि शिबे बहुविस्तरेण तुभ्यम् ६२।
इंद्रप्रस्थगता न ये ममनघा या द्वारका दृश्यते तास्तस्या जलबिंदुदेहपतनात्पौरस्त्रियो रेभिरे ।
स्वर्गं चित्तवचोऽन्यकांत भजनाज्जातं विमुच्वोल्बणं क्रव्यादत्वमवाप्य देववनिताभावं सुराह्लाददम् ६३।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये द्वारकावर्णंनंनाम षष्ठाधिकद्विशततमोऽध्यायः २०६।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 207
सौभरिरुवाच-
धर्मात्मज निशम्यैतद्वचस्तस्य महात्मनः ।
नारदस्य शिबी राजा प्रोवाचेदं विनीतवत् १।
शिबिरुवाच-
तिष्ठंत्यो मरुमार्गे ता राक्षस्यो मुनिपुंगव ।
एतस्या द्वारिकायास्तु लेभिरे सलिलं कुतः २।
नारद उवाच-
शृणु राजन्कथां दिव्यां पूतां पापप्रणाशिनीम् ।
विमलाख्यस्य विप्रस्य हिमवद्द्रोणिवासिनः ३।
एकस्तु हिमवद्द्रोण्यां विमलो नाम भूसुरः ।
देवर्षिपितृवह्नीनां पूजकोऽतिथिपूजकः ४।
हरिपादार्चनरतो वेदवेदांगधर्मवित् ।
वासुदेवगुणग्राम पुराणश्रुतिमानसः ५।
वार्द्धके तस्य पुत्रोऽभूत्प्रसादाच्चक्रपाणिनः ।
चकार हरिदत्तेति नाम्ना तं जनकस्तदा ६।
विधिवद्विदधे चास्य क्षौरकर्मादिकं च तत् ।
गुरोः सकाशाज्जग्राह छंदांसि हरिदत्तकः ७।
अधीत्य विधिवद्वेदान्दत्त्वा च गुरुदक्षिणाम् ।
प्रवव्राज विरक्तः सन्समूलं चाश्रमद्वयम् ८।
ज्ञात्वा तत्कर्मतन्माता व्यलपत्पुत्रवत्सला ।
स्नापयंती कुचद्वंद्वं पुत्रविश्लेषजाश्रुभिः ९।
मातोवाच-
मामनाथां परित्यज्य तात यातोऽसि कुत्र वै ।
पितरं च जराग्रस्तं षट्पदो बल्वजाविव १०।
वार्द्धके त्वं मया प्राप्तः श्रीपतेः पादसेवया ।
मां विहायाभजस्त्वं वै चरणं तस्य मुक्तये ११।
अहं मूढा ध्रुवं तात ध्रुवमाराध्य यद्धरिम् ।
अध्रुवं वांछितवती भवन्तं तु सुखलब्धये १२।
त्वं सुधीर्वत्स सर्वार्थं यद्विष्णुं भजसे स्वयम् ।
अध्रुवं जगदेतद्वै मत्वासीस्त्वमपि ध्रुवम् १३।
किं करोमि क्व गच्छामि माया ज्ञानं छिनत्ति मे ।
सुफलोत्पादकं शास्त्री रंभामूलमिवोल्बणा १४।
धन्यो दशरथो राजा यो मृतो रामशोकतः ।
धिङ्मां पुत्रस्य विश्लेषाद्धारयंती स्वजीवितम् १५।
आगच्छ दर्शंन देहि तात मां परितारय ।
वद वेदमयीं वाणीं पितुरग्रे गुणार्णव १६।
नारद उवाच-
एवं विलप्य तन्माता राजन्सा पतिता भुवि ।
दलनाद्राहुदत्तानां लेखा चांद्रमसी यथा १७।
अथाजगाम विप्रर्षिर्विमलो नृपसत्तमः ।
दृष्ट्वा तां पतितां भूमौ किंकिमित्यभ्यभाषत १८।
कस्मादियं कीर्णकेशव्यस्तवस्त्रविभूषणा ।
पतिता भुवि कल्याणं हरिदत्तस्य विद्यते १९।
तस्यावयस्यास्ताः सर्वाः प्रोचुस्तं विमलं नृप ।
वयस्या ऊचुः -
अधीत्य वेदांस्ते पुत्रो दत्त्वा च गुरुदक्षिणाम् २०।
नारायणपरो भूत्वा प्राव्रजद्धरिदत्तकः ।
तस्य विश्लेषशोकेन पतितेयं धरातले २१।
नारद उवाच-
इत्याकर्ण्य वचस्तासां विमलो बुद्धिमत्तरः ।
प्राबोधयन्निजां भार्यामिति वागमृतेन सः २२।
विमल उवाच-
उत्तिष्ठ जाये शृणु वाक्यमीरितं मया किमर्थं पतिता विषीदसि ।
धन्यः सुतस्ते य इमं विनश्वरं विज्ञाय भेजे हरिपादपल्लवम् २३।
धन्या त्वमप्यस्य जनि प्रदायिनी यस्याः सुतस्ते हरिपादभागभूत् ।
संतारयिष्यत्यपि मामसंशयं कुलं कुलोत्थानपि पूरुषान्शुभे २४।
क्व विश्वमेकतच्च पतच्चलं क्व सेवनं शाश्वतलोकदं हरेः ।
मत्वेति भेजुर्भरतादयो नृपा यथा हरिं साध्वि तथैव ते सुतः २५।
दारा धनागार शरीरबांधवा एते भवंति प्रतिजन्मदुःखदाः ।
तावन्नयावद्धरिपादपल्लवं भजेत धीरोऽखिलकामवर्जितः २६।
नारद उवाच-
एवं प्रबोधिता तेन धीरेण धरणीतलात् ।
उत्थाय निजभर्तारमब्रवीद्दीनया गिरा २७।
भार्योवाच।
सर्वं जानाम्यहं कांत यत्त्वया साधुभाषितम् ।
कुलधुर्यं न पश्यामि यतस्तप्यामि वै भृशम् २८।
पुत्रे सति महत्तीर्थे किं वा केशवसेवया ।
गृह एवावयोर्मृत्युश्चेत्स्याल्लोकद्वयं तदा २९।
सत्पुत्रोत्पादने यत्नः कर्त्तव्यः खलु मानवैः ।
तारयंति पितॄन्पुत्रा यतः संसारवारिधैः ३०।
स्रष्टारं सर्वजंतूनां धातारं पुत्रकाम्यया ।
भज वांछसि चेत्पुत्रं कुलधुर्यं महामते ३१।
नारद उवाच-
इत्याकर्ण्यवचस्तस्याः प्रत्याह विमलो द्विजः ।
ब्रह्मक्षेत्रं प्रयागं हि याम्यहं पुत्रकाम्यया ३२।
इत्युक्त्वा चलितः सोऽथ हरिद्वारमगाद्द्विजः ।
स्नात्वा तत्रापि विधिवदिंद्रप्रस्थमथागमत् ३३।
कतिभिर्वासरैर्वीर सायंकालेऽखिलार्थिदम् ।
स्नात्वा भुक्त्वा निशायां स सुष्वाप यमुनातटे ३४।
निशीथे स्वपतस्तस्य विमलस्यांतिके विधिः ।
हंसमारुह्य देवेशस्तीर्थैः सर्वैरनुद्रुतः ३५।
आगत्योत्थापयामास विमलं पुत्रवांच्छकम् ।
उवाच च सुरश्रेष्ठो वचनं मधुराक्षरम् ३६।
ब्रह्मोवाच-
जाने समीतिं चित्तं त्वदीये मनसि स्थितम् ।
न तत्पूरयितुं कल्पो यतस्तत्कारणं शृणु ३७ ।
एकदा मेरुशिखरे मिलिताः सर्वदेवताः ।
तुष्टुवुर्मद्भवमुखा माधवं कार्यसिद्धये ३८।
स्तुतो स्मदादिविबुधैः कृपया भगवान्हरिः ।
प्रसन्नोभूत्तदा विष्णुर्वृणुध्वमिति चाब्रवीत् ३९।
इत्युक्तास्तेन ते देवा यथाभिलषितं वरम् ।
श्रीपतेः प्राप्य ते जग्मुः सर्वे स्वं स्वं निकेतनम् ४०।
मयोक्तमिति देवेश देहि मे वरमुत्तमम् ।
प्रयागं नाम मे क्षेत्रं भवत्वखिलकामदम् ४१।
ततः शतगुणं भूयाद्दिवतीयं क्षेत्रकं मम ।
इंद्रप्रस्थगतं सम्यग्वृत्तं त्वत्तो मयानघ ४२।
इत्याकर्ण्य वचो मह्यं भगवानाह मां तदा ।
तथास्त्विति पुनर्वाचमुवाच श्रूयतां वचः ४३।
श्रीभगवानुवाच ।
इंद्रस्य खांडवारण्ये इंद्रप्रस्थाभिधं शुभम् ।
क्षेत्रं कलिंदजातीरे मत्तुल्यास्तत्र ये मृताः ४४।
विरिंचे रचिता तत्र स्वकीया द्वारकापुरी ।
मया शतगुणांभोधी तीरस्थायाः पुरा गुणैः ४५।
तामुल्लंघ्य नरो यस्तु तीर्थमन्यन्निषेव्यते ।
न तीर्थफलमाप्नोति स पुमान्न मृषोदितम् ४६।
सर्वतीर्थोदितं पुण्यं शक्रतीर्थे लभेन्नरः ।
द्वारका च पुरी मायातीर्थमन्यच्च रक्षति ४७।
यो निमज्ज्यान्यतीर्थेषु कृत्वा च विविधां क्रियाम् ।
अत्रैष्यति फलं तेभ्यः फलं प्राप्स्यति स ध्रुवम् ४८।
इत्युक्त्वांतर्द्धधे विष्णुरहमप्यगमं स्वकम् ।
लोकं द्विजेंद्र वैकुंठादधोभागे व्यवस्थितम् ४९।
प्रयागान्मामकात्क्षेत्रात्काशी शतगुणा स्मृता ।
काश्याः शतगुणं तीर्थं निगमोद्बोधकं तथा ५०।
तीर्थसप्तकमेतत्तु त्रयं तुल्यफलं स्मृतम् ।
एतत्त्रयमनुल्लंघ्य यो गच्छति सितासितम् ५१।
तस्याहं वांछितं विप्र ददामि खलु नान्यथा ।
केचिदाहुः सप्तपुरी समपुण्या महर्षयः ५२।
अयोध्याद्याः शतं ताभ्य इंद्रप्रस्थं प्रचक्षते ।
त्वमत्रागत्य विप्रेंद्र सर्वकामफलप्रदे ५३।
तीर्थे श्रीद्वारकाख्ये हि कुरु स्नानं सुतेच्छया ।
यावंति सर्वतीर्थानि ब्रह्मांडकलशोदरे ५४।
तेभ्यो परिमितं पुण्यं शतनामनि कीर्तिते ।
सुतं ते कुलधौरेयं तीर्थमेतत्प्रदास्यति ५५।
स्नानाच्च तव गोविंदः प्रसन्नात्मा भविष्यति ।
नारद उवाच-
इत्युक्त्वा देवदेवेशो ब्रह्मा तत्र तिरोधते ५६।
विमलोऽपि तदा स्नात्वा देवादीनप्यतर्पयत् ।
इत्युवाच स धर्मात्मा द्वारके कृष्णवल्लभे ५७।
सुतं वंशकरं देहि मह्यंभक्ताय ते नमः ।
इत्युक्ते तेन विप्रेण देववागभवत्तदा ५८।
देववागुवाच-
पुत्रस्ते धर्म्मतत्वज्ञो वंशकर्त्ता भविष्यति ।
प्रसादादस्य तीर्थस्य सर्वतीर्थशिरोमणेः ५९।
याहि गेहं विलंबं मा सुकृतं तेन मज्जनम् ।
नारद उवाच-
इत्याकर्ण्य सतां वाणीं विश्वस्तः पुत्रजन्मनि ६०।
चचाल जलमादाय द्वारकायाः कमंडलौ ।
मार्गे तस्य सखा विप्रो मलयाचलकेतनः ६१।
मीलितश्चलितो गेहं कृत्वा तीर्थानि सर्वतः ।
तस्मै स्ववृत्तमाख्यातं ब्रह्मसंवादकात्मकम् ६२।
यद्भूतं द्वारकातीर्थे श्रुत्वा सोऽपि विसिस्मये ।
उवाच स च धर्मात्मा सखे मम वचः शृणु ६३।
यावंति भारते क्षेत्रे तीर्थानि विहितानि मे ।
तावंति कर्तुमिच्छामि त्वदुक्तं तीर्थमुत्तमम् ६४।
नीत्वा मां दर्शय सखे तत्तीर्थं सर्वकामदम् ।
सखायस्ते वरा भूमावुपकुर्वंति ये सखीन् ६५।
न तैर्ननु समो लोके पितामाताऽथवा सुतः ।
निर्द्धनं पुरुषं लोके सर्वे मुंचंति बांधवाः ६६।
न मुंचंति सखायस्तु तस्य दुःखेन दुःखिताः ।
संसारार्णवनिर्मग्नान्सखीनुद्धरते सखा ६७।
उपदिश्य हरेर्भक्तिमार्गं जन्मेंधनानलम् ।
अतस्त्वं मे सखा श्रेष्ठ उपकारं विधेहि मे ६८।
दर्शयैतद्वरश्रेष्ठं तीर्थाख्यं द्वारकां द्विज ६९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहिंतायामुत्तरखंडे कालिंदीमाहात्म्ये सप्ताधिकद्विशततमोऽध्यायः २०७।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 208
नारद उवाच-
विमलस्तं द्विजं नीत्वा द्वारकायामिहागतः ।
पुनस्तौ सस्नतुं धीरौ श्रीपतेर्भक्तिकाम्यया ।
भूयः खे मेघगंभीरा वागासीदिति भूपते १।
आकाशवागुवाच-
शृणुतं द्विजशार्दूलौ हरेस्तीर्थमिदं शुभम् ।
एतत्तीर्थ प्रसादाद्वां विष्णुभक्तिर्भविष्यति ।
यया जहाति लोकोऽयमविद्या मोहमुल्बणम् २।
नारद उवाच-
निशम्येतिद्विजश्रेष्ठौ तां वाचमशरीरिणीम् ।
प्रसादोऽयं हरेरासीदित्यूचाते परस्पराम् ३।
स्नात्वा तौ विधिवत्तत्र लब्ध्वा भक्तिं हरेः पराम् ।
चेलतुः प्रणिपत्येदं भाषमाणौ मिथस्तदा ४।
द्विजावूचतुः ।
यथावयोर्हि संयोगः पथिजातो विचारतः ।
यथा गृहकलत्रादि संयोगो भुवि जायते ।
सांप्रतं विरहोभावी यथा नौ मार्गवर्तिनौ ५।
तथादारसुतादीनां कालव्यास्यवर्तिनाम् ।
धन्यः स पुरुषो लोके यो दारसुतसंगमम् ६।
विज्ञाय क्षणिकं नित्यं संश्रयेत्श्रीपतिं भजेत् ।
नारद उवाच-
स्मरणं करणीयं मे दासोऽहं त्वत्पदाश्रयः ७।
संदेशः प्रेषणीयो मामित्युक्त्वा स्वगृहं गतौ ।
शृणु राजन्यथा तेन मित्रेण विमलस्य तु ८।
मोक्षणं राक्षसीनां तु विहितं पथिगच्छता ।
व्रजन्स ब्राह्मणः प्राप्तस्तं देशं जलवर्जितम् ९।
यत्र ताः पापविप्लुष्टा राक्षस्यः क्षुत्तृषाकुलाः ।
अथ ताः पथिगच्छंतं दूराद्दृष्ट्वा द्विजोत्तमम् १०।
सजलामत्रहस्तं तं मिथस्त्विति बभाषिरे ।
राक्षस्य ऊचुः -
आयाति पथिकः कश्चिज्जलपात्रं करे दधत् ११।
अस्माकं क्षुत्तृषोः शांतिर्मनागपि भविष्यति ।
एनं संभक्षयिष्यामः पास्यामोऽस्य करे स्थितम् १२।
पात्रं जलं वयं तृष्णा क्षुधार्ताः शतवर्षतः ।
नारद उवाच-
काचिदाहेत्यहं पूर्वमस्योष्णं कालखंडकम् १३।
भक्षयित्वा ततो रक्तं पीत्वा यास्यामि जीवितम् ।
अन्या प्राह कियद्द्रव्यं विद्यतेऽस्य गजानने १४।
मम व्याघ्राननायास्तु पानायापि न दृश्यते ।
अन्या वै रथचक्राख्या श्रूयतां वचनं मम १५।
करिष्ये कुंडलमहं केनांत्रैरस्य मेखलाम् ।
अन्यावददहं दंतैरेकतः श्यामलीकृतैः १६।
रमे षोडशभिर्द्यूतशालायां तद्विशारदः ।
इत्युक्त्वा ताः मिथः सर्वास्तंद्विजं प्रति दुद्रुवुः १७।
विवृतास्या ललज्जिह्वाः प्रद्योतैकमहाभुजाः ।
आयांतीस्ताः समालोक्य ब्राह्मणो भयविह्वलः १८।
आत्मानमभितश्चक्रे रक्षां वेदोदितां नृप ।
ता आगत्य स्थिता दूरं राक्षस्यो भीमविक्रमाः १९।
तेजसा तस्य मंत्रैश्च प्रत्यादिष्टा नराधिपः ।
ऊचुश्च को भवानत्र कुतः प्राप्तोऽसि तद्वद २०।
त्वद्दर्शनान्मनोऽस्माकं प्रसादमधिगच्छति ।
त्वत्पादस्पर्शनात्किं नो न विप्र भविता फलम् ।
अतो मूर्द्धसु नो देहि स्वकीयं पादपंकजम् २१।
नारद उवाच-
इत्याकर्ण्य वचस्तासां जगाद हरिदत्तजः ।
द्विज उवाच-
कृत्वा पवित्रतीर्थानि ब्राह्मणोऽहं समागतः २२।
सांप्रतं पुष्करं यामि भवतीभिः किमिच्छते ।
यतस्तत्प्रार्थ्यतां दातुं शक्तो दास्यामि चेत्तदा २३।
राक्षस्य ऊचुः ।
येषु तीर्थेषु विप्रेंद्र त्वया स्नातं वदस्व नः ।
तानि सर्वाणि पुण्यानि मोचयातः कुजन्मनः ।
अस्मानतितरां तृष्णा क्षुद्भ्यां दारुणदुःखदात् २४।
ब्राह्मण उवाच-
अवंतीमाश्रमात्पूर्वमहं हरिपुरीमितः ।
गतोऽहं द्वारकां तस्मात्स्नात्वा सोमोद्भवा जले २५।
ततः प्राप्तः प्रभासाख्यं तीर्थं नीरधितीरगम् ।
तस्मात्सेतुनिबंधेऽहं स्नातः परमपावने २६।
तस्मादहं महापुण्यां किष्किंधां समुपागतः ।
हतो यत्र तु रामेण वाली कपिगणेश्वरः २७।
तस्मान्मठं सरस्वत्यानर्मदातीरसंस्थितम् ।
समागतोऽहं यत्रास्ति भारती सर्वसेविता २८।
ततोऽहंमावेशंवेणींतांनत्वादक्षिणापथे ।
शिवकांची विष्णुकांच्यौ दृष्टे तत्र मया पुरौ २९।
ययोर्मरणतो जंतुः शिवो विष्णुश्च जायते ।
ततोऽहंमुत्कलं प्राप्तो यत्रास्ति हरिरीश्वरः ३०।
चतुर्वर्गप्रदः साक्षाद्भक्तानामपि कांक्षितम् ।
तमर्चयित्वा विधिवद्भक्षयित्वा निवेदितम् ३१।
प्रसादभूतं तस्यैव गंगासागरसंगमम् ।
तत्र देवानृषीन्पितॄंस्तर्पयित्वा यथाविधि ३२।
यत्र गंगाशतमुखी जाता तत्राहमागमम् ।
ततो गयामुपागत्य पिंडान्दत्त्वा यथाविधि ३३।
पितृभ्यस्तुलसीपुष्पचंदनोदकपूजितान् ।
कोशलां शरयूं वारिकर्णधारनभस्वता ३४।
पवित्रिताखिलजनांस्पर्शनेनाहमागमम् ।
तत्रास्ति गोप्रताराख्यं तीर्थं त्रिदशदुर्ल्लभम् ३५।
तत्र स्नानादिकं कर्म निशाचर्यः कृतं मया ।
ततः काशीमहंप्राप्तो राजधानीमुमापतेः ३६।
नत्वा विश्वेश्वरं देवं बिंदुमाधवमेव च ।
स्नातं मणिकर्णिकायां ज्ञानवाप्यां च भक्तितः ३७।
त्रिरात्रिमुषितस्तत्र प्रयागं पुनरागमम् ।
पौषशुक्लचतुर्दश्यां साक्षाद्यत्र प्रजापतिः ३८।
एकस्मिन्माघमासे तु स्नानं कृत्वाऽरुणोदये ।
पुनस्तस्मात्समायातो नैमिषं गोमतीतटे ३९।
यत्र तीर्थानि सर्वाणि वसंति च स्वमायया ।
ततोऽहं मथुरां प्राप्तो यत्र विश्रांतिसंज्ञकम् ४०।
तीर्थं तत्सन्निधौ पुण्यमसिकुंडाख्यमुत्तमम् ।
कृष्णगंगा ध्रुवाक्रूर केशिकालीयतीर्थभृत् ४१।
यमुनास्ति महापुण्या यत्र सर्वार्थदायिनी ।
उभयोः कूलयोस्तस्या वनानि द्वादश श्रिया ४२।
राजमानानि खेचर्यः समस्तार्थकराणि च ।
संति तेषु नरः स्नात्वा पीत्वा भूयो न जायते ४३।
ततोहमागमं पुण्यं हस्तिनापुरमुत्तमम् ।
यत्र श्रीपतिपादाब्ज जाता गंगा सरिद्वरा ४४।
ततो नारायणस्थानं हिमवद्भूमिसंस्थितम् ।
आगत्य माधवं दृष्ट्वा केदारमहमागमम् ४५।
तत्र संपूज्य विश्वेशं पीत्वा हंसोदकं पुनः ।
हरिद्वारं महापुण्यमागमं जाह्नवीतटे ४६।
तत्र स्नात्वापितॄन्देवानृषीन्संतर्प्य चाप्यहम् ।
समागतः कुरुक्षेत्रे यत्र प्राची सरस्वती ४७।
तत्राप्यहं क्रियाः सर्वाः कृतवान्नियतेंद्रियः ।
अर्चयित्वा च पादाब्जं श्रीपतेः पुष्करं प्रति ४८।
चलितो मार्गमध्ये तु विमलो नाम मे सखा ।
मिलितो मां व्रजन्गेहमिंद्रप्रस्थात्तु तीर्थतः ४९।
नीतोऽहं तेन राक्षस्यः पुनस्तत्र द्विजन्मना ।
तीर्थेति मे परावृत्य शक्रप्रस्थेऽखिलार्थदे ५०।
तत्रास्ति द्वारका पुण्या निर्मिता विष्णुना स्वयम् ।
तत्रावलोकितः साक्षाद्विष्णुर्वाक्यान्नरूपतः ५१।
तत्राहं स च संस्नातौ विष्णुभक्तिप्रलब्धये ।
दत्ता सा विष्णुना मह्यं तस्मै च कृष्णमूर्तिना ५२।
श्रुत्वा तत्र हरेर्वाणी न रूपं वै विलोकितम् ।
भक्तिर्लब्धा ततः स्थानाद्यमहं पुष्करं प्रति ५३।
तस्य तीर्थाधिपस्येदं द्वारकाख्यस्य वै जलम् ।
कमंडलुगतं पुण्यं निशाचर्यो वदाम्यहम् ५४।
भवतीभिरहं पृष्टो यत्तदाख्यातमेव मे ।
दृष्ट्वा वो दुर्दशामेतां कृपा मे जायते हृदि ५५।
उच्यतां किं करोम्यद्य भवतीनां वशो ह्यहम् ।
ज्ञानं भवतु युष्माकमिति ताः सिषिचेंभसा ५६।
तास्तज्जलाभिमर्शात्तु सर्वेषां जन्मकर्मणां ।
संस्मृत्य तत्यजुश्चैव राक्षसं देहमुल्बणम् ५७।
आसाद्य देवतादेहं विमानं सप्तमागतम् ।
आरुह्याप्सरसो भूत्वा ताः प्रणेमुर्द्विजन्मने ५८।
ऊचुश्च भो द्विजश्रेष्ठ द्वारकाजलसंगमात् ।
राक्षसत्वाद्वयं मुक्ता गच्छामस्त्रिदशालयम् ५९।
इंद्रप्रस्थांतरावर्तिन्येषा या द्वारका द्विज ।
नातः परतरं लोकेऽन्यत्तीर्थमखिलार्थदम् ६०।
नारद उवाच-
इत्युक्त्वा ताःसमारूढा विमानेषु महीपते ।
जग्मुः प्रार्चीं दिशं तेन दत्ताज्ञा वै द्विजन्मना ६१।
यमुनातीरवर्तिन्या द्वारकाया महीपते ।
शृण्वन्माहात्म्यमेतस्या नरः पापैः प्रमुच्यते ६२।
वेदज्ञानां ब्राह्मणानां शतस्येच्छासु भोजनात् ।
यत्फलं श्रवणादस्मान्महिम्नस्तत्प्रजायते ६३।
गोविंदाराधने सम्यग्यथा वै सौख्यमिंद्रियम् ।
माहात्म्यश्रवणादस्या द्वारकायास्तथा नृप ६४।
सूर्येंदुग्रहणे दानात्सुवर्णपलविंशतेः ।
यत्फलं शृण्वतैतस्या माहात्म्यं तदवाप्यते ६५।
विमलस्य सुतप्राप्तिं श्रुत्वा सुत इहाप्यते ।
तत्सख्युर्भक्तिलाभं च लभ्यते भक्तिरुत्तमा ६६।
राक्षसीनां विमोक्षं यः शृणोति श्रद्धयान्वितः ।
स याति ता इव श्रेष्ठं विमानेन सुरालयम् ६७।
नृपवरमहिमा ते वर्णितो द्वारकायास्त्रिभुवनजनसेव्या शक्रतीर्थस्थितायाः ।
किमपरमतिपुण्यं वर्णयामि त्वदग्रे कथय न हि विधेयः श्रेयसि स्वे विलंबः ६८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिन्दी।
माहात्म्ये द्वारकायाख्यानंनाम अष्टाधिकद्विशततमोऽध्यायः २०८।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 209
युधिष्ठिर उवाच-
सौभरे कस्य तीर्थस्य माहात्म्यं नारदो मुनिः ।
वर्णयामास शिबये शक्रतीर्थगतस्य च १।
अतस्तु मम शुश्रूषा जायते मुनिपुंगवः ।
शिविनारदसंवादं ब्रूहि पुण्यं नताय मे २।
सौभरिरुवाच-
धर्मराज शिबीराजा श्रुत्वा नारदवर्णितम् ।
द्वारकायास्तु माहात्म्यं तमेवापृच्छदादरात् ३।
शिबिरुवाच-
ब्रह्मांगज सुरश्रेष्ठ श्रुतं माहात्म्यमुत्तमम् ।
इंद्रप्रस्थतटस्थाया द्वारकाया मयाद्भुतम् ४।
अयोध्यायां यदि मुने किंचिदस्ति पवित्रकम् ।
चरितं मम तद्ब्रूहि पिपासोस्त्वद्वचोऽमृतम् ५।
नारद उवाच-
अस्त्यत्र चरितं पुण्यं महापातकनाशनम् ।
नापितस्याद्ययुक्तस्य मुकुंदस्य द्विजस्य च ६।
ब्रह्महा नापितो राजन्नपमृत्युं गतो द्विजः ।
प्रसादात्कोशलायास्तु द्वावपि स्वर्गतिं गतौ ७।
चंद्रभागा नदी तीरे पुरी सा च निवेशिता ।
तत्रास्ति नापितः पापश्चंडकोनाम गर्हितः ८।
चौर्येण परवित्तानामपहर्ता स पापकृत् ।
घातकः शस्त्रपाशाद्यैः पांथानामवलुंठकः ९।
द्यूतमद्यरतो नित्यं परस्त्रीलंपटेंद्रियः ।
भित्वा देवालयं भित्तिमिष्टिका ग्राव विक्रयी १०।
स तस्योद्वसिताभ्यासे ब्राह्मणो वसति श्रिया ।
संयुक्तो ब्रह्मकर्मज्ञो मुकुंदो नामतो नृप ११।
स एकदा समालिंग्य तरुणीमात्मयोषितम् ।
सुष्वाप सुरतायास श्लथांगो निशि निर्भयम् १२।
स चंडको निशीथेऽथ प्रविवेश तदालयम् ।
मुकुंदस्य समाहर्तुं हर्म्ये भूषादि वस्तु यत् १३।
उपकार्या बहिस्थं यत्तद्गृहीत्वोऽगमद्गृहम् ।
स्वकीयं च पुनस्तस्य ब्राह्मणस्याविशद्गृहम् १४।
कपाटोत्पाटनार्थी तु यत्नेन महताऽभवत् ।
लोहयंत्रावरुद्धश्च स नोद्धाटयितुं क्षमः १५।
आरुरोह तदा तस्य ब्राह्मणस्याविशद्गृहम् ।
प्रविश्य तद्गृहं क्रूरः कृपणं पाणिनादधत् १६।
अट्टालिकां स पापिष्ठो नापितस्तस्करक्रियः ।
तत्रापश्यत्प्रसुप्तौ तौ दंपतीरतिविह्वलौ १७।
जगाम च तयोः पार्श्वे हेमभूषाजिघृक्षया ।
शय्याया एकदेशस्थं गृहीत्वा भूषणं बहु १८।
हर्तुं तदंगतो हस्तं प्रससार स नापितः ।
तस्करस्पर्शतो विप्रो जजागार भयातुरः १९।
न किंचिदूचे संमील्य नेत्रे तत्रैव संस्थितः ।
यदा स तस्करः पापो गृहीत्वा देहभूषणम् २०।
चलितः स तदा तेन दोर्भ्यामात्तो द्विजेन हि ।
पश्चादागत्य वित्तस्यासहमानेन संक्षयम् २१।
तेनापि नृप चौरेण कृपाणेन हतो द्विजः ।
विदीर्णोदरमध्यस्तु तातमातरितीरयन् २२।
वदंतः किंकिमेत्येतत्पार्श्वं तस्या ययुर्जनाः ।
ददृशुस्तं निःसृतांत्रं रुधिरालिप्तविग्रहम् २३।
पप्रच्छुश्च मुकुंदेदं कर्म केनेदृशं कृतम् ।
सोऽपि कृच्छ्रेण महता प्रोवाचेदं स्वबांधवान् २४।
मुकुंद उवाच-।
ममैव परिपाकोऽयं पूर्वोपार्जितकर्मणाम् ।
न कश्चित्सुखदुःखस्य दाता कस्यापि देहिनः २५।
धर्मोऽधर्मश्च तावेव तेषां मूलं पुराकृतौ ।
नारद उवाच-
इत्युक्त्वा स तु भूयस्यापीडया गाढपीडितः २६।
तत्याज भूपते प्राणान्पश्यतां सुहृदां तदा ।
विललाप तदा तस्य माता द्विजसती नृप २७।
निधाय तच्छिरः स्वांके कुंडलाभ्यामलंकृतम् ।
मातोवाच-
हा हतास्मि त्वया वत्स दशामंत्यां च गच्छता २८।
दिनश्रीरिव सूर्येण पश्चिमाचललंबिना ।
यदंगं चंदनालेपयोग्यं तव महामते २९।
मां मज्जयार्तिशोकाब्धौ तदिदं धूलिधूसरम् ३०।
तांबूलचर्वणेभ्यासो यस्त्वया विहितस्त्वसौ ।
स एव रुधिरोद्गार मिश्रेण क्रियते ध्रुवम् ।
तव ये लोचने पूर्वं जिग्यतुः कमलश्रियम् ३१।
त एव सांप्रतं जाते तिमिरौघा वृते इव ।
उत्तिष्ठोत्तिष्ठ वत्स त्वं शिष्यानध्यापयात्मनः ३२।
यथावद्वैश्वदेवांते पूजयातिथिमागतम् ।
द्वारि स्थिता वयस्यास्ते त्वाह्वयंति प्रयाहि तान् ३३।
दातव्यं यद्ददस्वैभ्यो गृहीतव्यं गृहाण तत् ।
हाहा देहि प्रतिवचः पतामि तव पादयोः ३४।
नोचेदहं विमोक्ष्यामि प्राणांस्तव समीपतः ।
नारद उवाच-
इत्युक्त्वा मूर्छिता तस्य मुकुंदस्य प्रसूस्तदा ३५।
भार्या तस्य शिरः स्वांके विधाय व्यलपच्च सा ।
भार्योवाच-
नाममार्गेण पाथोधे मदीयं वचनं शृणु ३६।
रुष्टोऽसि चेत्समं मात्रा कुतो वद ममाग्रतः ।
न कदाचित्त्वया साधो मौनमीदृक्कृतं पुरा ।
केनापि लघुना भ्रात्रा ह्यपमानः कृतस्तव ३७।
शुकोऽयं पंजरस्थस्ते नान्नमत्ति त्वया विना ।
भोजयैनं सुसिद्धान्नं कलवाचं च सारिकाम् ३८।
रामराम हरेकृष्ण विष्णो नामावलीमिति ।
पाठयोत्तिष्ठ निपुणौ द्वावेतौ सारिकाशुकौ ३९।
अपराद्धं मया किं ते यत्वं मां नाभिभाषसे ।
यत्त्वया मे धनं दत्तं तन्मया साधुरक्षिणम् ४०।
अर्पितं यत्त्वया नाथ निजतेजो ममोदरे ।
सूतिकालमहं तस्य नोपेक्षे त्वामनुव्रजे ४१।
नारद उवाच-
एवं विलप्य सा तस्य मुकुंदस्य प्रिया तदा ।
न रुरोद स्वभर्तारमनुगंतुमना सती ४२।
अथ तस्य मुकुंदस्य गुरुर्वेदायनाभिधः ।
संन्यासी पर्यटन्पृथ्वीं तस्य वेश्म ययौ नृप ४३।
मुकुंदः क्व गतो माता भार्या तस्य च धीमतः ।
न दृश्यते तदा तेन पृष्टेत्याचष्ट चेटिका ४४।
चेटिकोवाच ।
स्वामिन्केनापि चौरेण मम स्वामी हतो निशि ।
स्नुषाया भूषणं नीतं दुकूलानि च सर्वशः ४५।
स मृतः पतितो भूमौ हर्म्यस्योपरि तिष्ठति ।
तस्य माता वधूश्चैव भ्रातरश्च तदंतिके ४६।
विलपंति महाशोकसागरे पतिता गुरो ।
नारद उवाच-
इत्याकर्ण्य परिव्राट्स वचनं चेटिकोदितम् ४७।
आरुह्य हर्म्यमद्राक्षीदात्मांते वासिनं मृतम् ।
तदंतिके समालोक्य बंधूनां क्रंदतो भृशम् ४८।
उद्धरिष्यन्निदं धीरः शोकाब्धेस्तानुवाच ह ।
वेदायन उवाच-
देहमुद्दिश्य वात्मानं शोकोऽयं क्रियते त्वया ४९।
मातः कथय सत्यं मे नोभयोर्युज्यते हि सः ।
देहोऽयं भूतसंघातः प्रारब्धेः समुपार्जितः ५०।
तेषु क्षीणेषु भूतानां पृथक्त्वमुपजायते ।
यदेकीभवनं तेषां कर्मभिर्जन्म तन्नृणाम् ५१।
तन्नाशे तत्पृथक्त्वं च तदेव मरणं स्मृतम् ।
एक्यं पृथक्त्वं भूतानां कर्मार्धा नेयतो? बुधैः ५२।
अतो देहे न कर्तव्यः शोकः परवशे जडे ।
अनाद्यविद्यया जीवे दृष्टे मरणजन्मनी ५३।
देहस्यात्मन्यहं बुद्ध्या मन्यते नहि तत्र ते ।
तन्निवृत्तौ स तद्ब्रह्म यच्छुद्धं रूपवर्जितम् ५४।
स्वप्रकाशं जगद्धेतु हेत्वतीतं गुणोर्जितम् ।
नित्यं विज्ञानमानंद स्वभासा भासयज्जगत् ५५।
न जिह्वा लेढि तच्चक्षुर्न पश्यति शृणोति न ।
श्रुतिर्जिघ्रति न घ्राणं न त्वक्स्पृशति कर्हिचित् ५६।
अतीतमिंद्रियेभ्यस्तत्स्वप्रकाशकमात्मदृक् ।
अविषयं मनोदूरं बुद्धेरपि न गोचरम् ५७।
तस्यावताररूपाणि शुद्धसत्वानि देवताः ।
सेवंते तन्न जानंति रूपं यत्सदसत्परम् ५८।
एवं स्वरूपमात्मा यस्तं समुद्दिश्य कः कुधीः ।
क्रोधं कुर्याद्यतस्तस्य नोत्पत्तिर्नैव संक्षयः ५९।
इति श्रीपाद्मेमहापुराणे पचंपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये नवाधिकद्विशततमोऽध्यायः २०९ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 210
नारद उवाच-
एवं प्रबोध्य तान्सर्वान्वचोभिः पारमार्थिकैः ।
स हंसः कारयामास क्रियास्तस्यात्मसंभवाः १।
अंतर्वत्नी मुकुंदस्य निर्बंधं कुर्वती वधूः ।
अनुगंतुं स्वभर्तारं विदुषा तेन वारिता २।
तस्यास्थीनि समादाय तेन सन्यासिना समम् ।
तद्भ्राता प्रययौ गंगाजले पातयितुं नृप ३।
विप्रसन्यासिनौ तौ हि कतिभिर्वासरैर्नृप ।
सार्थलोकवशात्प्राप्तौ इंद्रप्रस्थेऽत्र सत्पदे ४।
इंद्रप्रस्थांतरावर्तिन्येषा या कोशला नृप ।
अत्र सुप्तौ निशायां तौ यमुनातीरभूतले ५।
आत्मनोरुभयोर्मध्ये न्यस्यास्थिपटसंपुटम् ।
मार्गखेदपरिक्रांतौ दशां सौषुप्तिकीं गतौ ६।
निशीथेऽथ प्रसुप्तेषु सार्थलोकेषु कश्चन ।
एकः श्वा तत्र संप्राप्तः पक्वान्नादि जिहीर्षया ७।
बभ्राम सर्वशिविरे जिघ्रन्पाकस्थलीं मुहुः ।
भाजनानि लिहन्मूर्ध्नि क्व च दंडाहतिं सहन् ८।
केनचित्ताडितो मूर्ध्नि निशब्दं विद्रुतस्ततः ।
प्रतिचक्रुमशक्तस्तु स्त्रीजितः स्वस्त्रिया यथा ९।
यत्रावकंडितः स श्वा दंडग्रावेष्टकादिभिः ।
पुनर्विवेश तत्रैव सान्नपात्रलिलिप्सया १०।
भोगेच्छया यथा वेश्या स्नेहवान्निर्द्धनो जनः ।
भ्रमन्नेवं स चात्रापि यत्र सुप्तौ हि तावुभौ ११।
सारमेयस्तयोर्मध्याज्जह्रे स पटसंपुटम् ।
नीत्वा स कियतीं भूमिं दंतैस्तत्पटसंपुटम् १२।
विदार्यास्थीनि तत्स्थानि निर्मांसान्यवलोक्य सः ।
एतस्याः कोशलायास्तु जलमध्ये समाक्षिपत् १३।
क्षिप्तमात्रेषु तेनास्थिष्वेतदंबुनि भूपते ।
दिव्यं विमानमास्थाय मुकुंदोऽत्र समागतः १४।
दृष्ट्वा गुर्वनुजौ सुप्तौ शनैः प्राबोधयत्तदा ।
उवाच च नमस्कृत्य गुंरुं दिव्याकृतिर्नृप १५।
मुकुंद उवाच।
वेदायन गुरो तुभ्यं नम आशीस्तवानुज ।
प्रासादाद्वां ममास्थीनि तीर्थेऽत्र पतितानि वै १६।
अयं मृत्युमहं गत्वा निरयं प्राप्य तत्फलम् ।
एतत्तीर्थप्रसादेन दैवी लब्धा मया गतिः १७।
त्वां गुरुं तीर्थभूतं तु नमस्कर्तुमिहागतः ।
अहं गच्छन्विमानेन दिव्येन त्रिदशालयम् १८।
नमस्कृतो भवानेतत्तीर्थ चायं सहोदरः ।
दृष्टो मामनुजानीहि यामि स्वर्गं सुखोदयम् १९।
नारद उवाच-
श्रुत्वैवं वचनं तस्य मुकुंदस्य गुरुस्तदा ।
वेदायनो विमानस्थं तमूचे गतविस्मयः २०।
देवायन उवाच-
मुकुंदाख्याहि मे सत्यं लब्ध्वा यन्मरणं भवान् ।
कस्मिंल्लोके गतस्तात यतो यात्यधुना दिवम् २१।
किं वृत्तं तत्र ते तात तस्यलोकस्य कोऽधिपः ।
कीदृशी च प्रजा कीदृक्धर्मस्तत्राखिलं वद २२।
मुकुंद उवाच-
कथयामि गुरो तुभ्यं यद्वृत्तं मरणादनु ।
तीर्थस्यास्य प्रसादेन स्मृतिर्मे जायतेऽधुना २३।
यदाहं तेन निहतश्चंडकेन दुरात्मना ।
नापितेन तदा जग्मुर्यमभृत्याः सुदारुणाः २४।
पिंगाक्षा रक्तकेशाश्च श्यामदेह नखाधराः ।
वामना दीर्घचरणा ह्रस्वनासाश्च दंतुराः २५।
नीयतां नीयतामेष धर्मराजस्य शासनात् ।
पुरीं संयमनीमेवमूचिरे ते परस्परम् २६।
इत्युक्त्वा यातना देहे मां निवेश्य महारुषा ।
निबध्य दारुणैः पाशैर्जघ्नुर्लोहस्य मुद्गरैः २७।
तैरहं नीयमानस्तु मार्गे ह्युत्तप्तवालुके ।
अरुदं भृशदुःखार्तस्ताडितोऽहं पुनश्च तैः २८।
प्रोचुश्च ते ध्रुवं कृत्वा निर्भर्त्स्येति च मां बहु ।
यमदूता ऊचुः ।
त्वया लुप्तो गुरुर्यस्माद्वदता ब्रह्म निश्चलम् २९।
किं करोषि यमस्याग्रे द्रष्टव्यं दारुणं मुखम् ।
तस्य पापस्य भोक्तव्यं दारुणस्य फलं त्वया ३०।
तेनैव पाप्मना पापिन्नपमृत्युं गतो भवान् ।
इत्युक्त्वा मां मुहूर्तेन बहुयोजनसंस्थिताम् ३१।
पुरीं संयमनीं निन्युर्यत्र राजा स्वयं यमः ।
प्रणम्य धर्मराजानं स्थापयित्वा तु मां पुरः ३२।
आनीतोऽयं द्विजः पाप इति मां ते न्यवेदयन् ।
दृष्ट्वा मां धर्मराजोऽथ प्रोवाच स्वसभासदः ३३।
यम उवाच-
भो सभ्या मामकीं वाचं शृण्वंतु सुसमाहिताः ।
यदाहं ब्रह्मणा ह्यस्मिन्नधिकारे निवेशितः ३४।
तदा मामित्युवाचासौ ब्रह्मा लोकपितामहः ।
ब्रह्मोवाच-
अधर्मिणां नराणां त्वं शास्ता संयमनीपतिः ३५।
यथापराधमाधत्स्व दंडं चंडकरात्मज ।
पित्रोरपोषको यस्तु समर्थो गुरुध्रुक्तु यः ।
एतौ महापातकिनौ निपात्यौ निरयेषु ते ३६।
सर्वेषु यावद्वर्षाणां प्रत्येकमयुतं भवेत् ।
एतयोर्न त्वया कार्या दया जातु ककुप्पते ३७।
यम उवाच-
इत्यहं ब्रह्मणो वाक्यात्स्वगुरुद्रुहि मानवे ।
न करोमि क्रियां सभ्यास्तथा पित्रोरपोषके ३८।
ब्राह्मणोऽयं गुरुद्रोही तद्द्रोहादपमृत्युताम् ।
प्राप्तो मच्छासनाद्भृत्यैरानीतो दर्शनाक्षमः ३९।
भो भृत्याः प्रथमं घोरे रौरवे वत्सरायुते ।
पात्यतां च पुनस्तस्मान्निःसार्य्यान्यत्र पात्यताम् ४०।
तावंतमेव कालं वै पापोऽयं गुरुलोपकः ।
नरकेष्विति सर्वेषु यथाकालं स्थितं द्रुतम् ४१।
मुकुंद उवाच-
वेदायन गुरो स्वामिन्भृत्यास्ते यमशासनात् ।
नीत्वा मां रौरवे घोरे पाशैर्बध्वा न्यपातयन् ४२।
तत्राहं तां व्यथां गुर्वी लब्धवानतिदारुणाम् ।
यथाकोऽपि क्षणस्तात नीतो मे युगवत्तदा ४३।
त्रिंशद्दिनानि तन्नीतं दुःखं मे तत्र तिष्ठता ।
एकत्रिंशतमे ह्यस्मिन्दिनेऽहं निर्गतस्तदा ४४।
पतितेष्वस्थिखंडेषु तीर्थेऽस्मिन्नुतमोत्तमे ।
गुरुलोपोद्भवं पापं सद्यो नष्टं ममाभवत ४५।
तीर्थस्यास्य प्रसादेन लब्धा च स्वर्गतिर्मया ।
सुखं स्वर्गे निवत्स्यामि यावदिंद्राश्चतुर्दश ४६।
यमस्य नगरे तस्मिन्याः प्रजा निवसंति वै ।
पापिनां भयदायिन्यो धर्मिणां ता मनोहराः ४७।
सिंहास्या गजकोलास्या महादंष्ट्रोन्नतोदरीः ।
बिडालास्याः पिंगकेश्यो भामिन्यो दीर्घपत्कराः ४८ ।
तीर्थस्यास्य प्रसादेन निःपापोहं यदाभवम् ।
तदा मया प्रजा दृष्टा दिव्यरूपा यमालये ४९।
सर्वास्ताः सत्यवादिन्यो विनयाचारसंचिताः ।
दिव्याभरणधारिण्यो दिव्यांबरविभूषिताः ५०।
इत्येतत्कथितं तात यत्पृष्टोऽहं त्वयानघ ।
अनुजानीहि मां गंतुममरेशपुरीं प्रति ५१।
नारद उवाच-
इत्याकर्ण्य स सन्यासी स्वशिष्योक्तं वचस्तदा ।
भूयः पप्रच्छ धर्मात्मा मुकुंदं तं द्विजं नृप ५२।
वेदायन उवाच-
बाल्यावधि गुरुस्नेहं मत्तोऽधीतं त्वयाखिलम् ।
शब्दशास्त्रसमेतश्च वेदस्तु सपदक्रमः ५३।
विहिता मम शुश्रूषा भावेन भवतोत्तमा ।
त्वयि संति सतां साधो गुणाः शमदमादयः ५४।
गुरुलोपकृतं पापं कथं ते समजायत ।
एतदाख्याहि मे तात यथा जानामि तत्वतः ५५।
मुकुंद उवाच-
जन्मोपवीतकन्यानां धातारो निगमस्य च ।
यज्ञोपवीतदातुश्च नाज्ञाभंगः कृतो मया ५६।
श्वश्रुश्वशुरयोः सेवा भृत्येनेव कृता मया ।
तवापि शास्त्रदातुश्च नाज्ञाभंगः कृतो मया ५७।
पुरोधा यः कुलाचार्यो वेदवेदांतपारगः।
तस्यापराद्धं केचिन्मे तत्र त्वं श्रोतुमर्हसि ५८।
यद्यस्माकं कुले पुत्रो जायते धर्मकोविद ।
तदा पुरोधसे धेनुमेकां वा तस्य दक्षिणाम् ५९।
दत्त्वा संच्छिद्यते नालमिति वंशस्य नः स्थितिः ।
पुरा ममैव पुत्रे तु जातमात्रे शुभेऽहनि ६०।
कुलक्रिया मया तात न कृता मूढबुद्धिना ।
तस्याश्चाकरणेनैव गुरुलोपकरोऽभवम् ६१।
निवेदितमिदं सर्वं गुरुलोपाद्यथा मम ।
पापमासीदनुज्ञा मे देहि यामि सुरालयम् ६२।
वेदायन उवाच-
इंद्रप्रस्थांतरावर्तिन्येषा या कोशला शुभा ।
स्मृतिरस्याः प्रसादेन दृश्यते पूर्वजन्मनः ६३।
केन पुण्येन तीर्थेऽस्मिन्नस्थीनि पतितानि ते ।
मुकुंदाख्याहि चैतस्य स्मृतिरस्ति तवानघ ६४।
मुकंद उवाच-
एकस्तु ब्राह्मणः कश्चित्सायं मद्गृहमागतः ।
तस्मै स्थानं मया दत्तं भोजनं च यथाविधि ६५।
सोऽपि भुक्त्वा यथाकामं सुष्वाप शयने शुभे ।
निशीथे तस्य सर्वांगे ज्वरोऽभूदति दारुणः ६६।
तेन पीडितसर्वांगो निद्रां लेभे न स द्विजः ।
प्रभात एव तत्याज प्राणान्मृत्यावुपस्थिते ६७।
तस्य दाहादि कर्माणि विहितानि मया गुरो ।
तदस्थीनि च गंगायां पातितानि विधानतः ६८।
तेन पुण्येन मेस्थीनि पतितानि शिवप्रदे ।
तीर्थेऽस्मिन्कोशले नाम्नि ब्रह्मदेवविनिर्मिते ६९।
नारद उवाच-
स्वचरितमितिराजन्स द्विजः प्रोच्य सद्यः सुरसुभगशरीरो द्यां ययौ यानगत्या ।
इदमकथित मया तं तस्करात्प्राप्य मृत्युं व्यलभत दिवमेतत्तीर्थराजप्रसादात् ७०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये मुकुंदोपाख्याने दशाधिकद्विशततमोऽध्यायः २१० ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 211
नारद उवाच-
शिवे तवपुरः सर्वं मुकंदाख्यानमुत्तमम् ।
कथितं चंडकस्यापि नापितस्य शृणुष्व मे १।
यस्मिन्दिने मुकुंदस्तु ब्राह्मणस्तेन घातितः ।
चंडकेन तदा राजंस्तद्वृत्तं नागरैः श्रुतम् २।
श्रुत्वा तैस्तन्नृपस्याग्रे निवेदितमिति स्फुटम् ।
नागरा ऊचुः ।
चंडकेन हतो राजन्मुकुंदो ब्राह्मणोत्तमः ३।
नीतं च तद्धनं भूरि यद्युक्तं तद्विधीयताम् ।
त्वमस्माकं प्रजानां हि रक्षकः शासकोऽसताम् ४।
नारद उवाच-
इत्याकर्ण्य स भूपालो मंत्रिणं पार्श्ववर्तिनम् ।
उवाच कोपरक्ताक्षः किमेभिः कथ्यते शृणु ५।
शीघ्रमानयतं पापं नोचेत्त्वां घातयाम्यहम् ।
उत्तिष्ठोत्तिष्ठ पापिष्ठ साधूनां शं विधीयताम् ६।
पीड्यंते विषये यस्य प्रजा दस्युभिरुल्बणैः ।
स नृपो नरकं याति तेभ्यस्ताश्चेन्न रक्षति ७।
नारद उवाच-
निशम्येति वचो राज्ञः सचिवः स शिवे नृपः ।
वेगेन हयमारुह्य पदातिशतसंयुतः ८।
ययौ गृहे मुकुंदस्य तस्य बंधूनपृच्छत ।
मुकुंदः केन निहतः सत्यं ब्रूत ममाग्रतः ९।
तं पापं निहनिष्यामि शासनाद्भूपतेरहम् ।
नारद उवाच-
श्रुत्वेति मंत्रिणो वाक्यं प्रत्यूचुर्विप्रबांधवाः १०।
विप्रबांधवा ऊचुः -
चंडकेन हतो मंत्रिन्मुकुंदो नापितेन हि ।
इदं पलायमानस्य तस्योष्णीषं पपात वै ११।
दृष्टः स्वचक्षुषा वध्वा मुकुंदस्यैव सोघकृत् ।
किं कुर्मस्तेन पापेन मज्जिताः शोकसागरे १२ ।
नारद उवाच -
इत्याकर्ण्य वचस्तेषां बंधूनां ब्राह्मणस्य हि ।
स मंत्री तस्य पापस्य नापितस्य गृहं ययौ १३।
अश्वादुत्तीर्य तरसा तद्गृहं स्वयमाविशत् ।
कतिभिः पत्तिभिः सार्द्धं शयानं च ददर्श ह १४।
पत्तयस्तु तदाज्ञप्ताः केशेष्वाकृष्य तत्क्षणात् ।
तल्पादुत्थापयामासुस्तं पापं नापिताधमम् १५।
किं किमित्येव संजल्पन्नेत्रे उन्मीलयत्यसौ ।
यावत्स नापितः पापस्तावत्तं ददृशे पुरः १६।
संस्मरंतं निजं कर्म रात्रौ यत्कृतवानघम् ।
अधोमुखः क्षणं तस्थौ पश्यन्मूर्ध्नि स्थितं यमम् १७।
ग्राहयित्वा च सचिवस्तं पापं च स्वपत्तिभिः ।
निनाय नृपतेः पार्श्वमिति चोवाच भूपतिम् १८।
आनीतो ब्रह्महा राजन्नयं चंडक नापितः ।
यदाज्ञापयसि स्वामिंस्तरसा तत्करोम्यहम् १९।
राजोवाच-
धर्मज्ञ सचिवश्रेष्ठ शृणु त्वं वचनं मम ।
इयं सरिद्वरा युष्मंश्चंद्रभागात्र निर्मलाः २०।
त्यजंति येऽत्र वै प्राणाल्लँभंते ते सुरास्पदम् ।
अत एष न हंतव्यः पापात्मा ह्यत्र नापितः २१।
पंचकोशांतरे ह्यस्या मर्यादाया बहिर्यदि ।
नरकान्दारुणान्ह्येष ब्रह्महा यातु मा चिरम् २२।
नारदोवाच-
इत्युक्तस्तेन वै राज्ञा स राजन्मंत्रिसत्तमः ।
श्वपचान्प्रेरयामास हंतुं तं भूपशासनात् २३।
श्वपचास्ते तमुन्नीय चंद्रभागापरे तटे ।
योजनद्वयभूभागं चिच्छिदुस्तस्य मस्तकम् २४।
स पापो मारवे देशे सर्पोऽभूत्कालविग्रहः ।
धवकोटरमध्यस्थो विषज्वालाकराननः २५।
स शुष्को धववृक्षस्तु तस्य फूत्कारवह्निना ।
तथा तपनतापेन सरसोऽपि यथा ह्रदः २६।
गमनात्तस्य पापस्य सर्वतो वृक्षमूषरम् ।
उच्छिद्य तृणजातादि जातं पश्वहितं तदा २७।
तत्र जातु समायातः सार्थो दक्षिणदेशतः ।
नारायणाश्रमं गच्छन्बदर्याख्यं शिवे नृप २८।
तत्रैको ब्राह्मणः कश्चित्सार्थेसंमीलितः पथि ।
निश्छिद्रां काष्ठमंजूषां पितृमात्रस्थिसंयुताम् २९।
स्कंधेन धारयन्याति तानि पातयितुं नृप ।
गंगांभसि महाभाग पापिनामपि कामदे ३०।
सोऽप्यागतस्तत्र वने यत्रास्ति स भुजंगमः ।
विविक्ते क्षिप्य मंजूषां शलाकालोहनिर्मिताम् ३१।
अथागत्य भुजंगोऽसौ शलाकां फणयाघटत् ।
किंचिदुद्धाटितायां स मंजूषायां समाविशत् ३२।
पुनः शलाका स्वंस्थानमागताथ स कुंडली ।
तत्रैव तस्थौ निश्चेष्टो मंजूषायां विषोल्बणः ३३।
अथ प्रभाते सर्वे ते चेलुः स्थानात्ततो नृप ।
ब्राह्मणः सोऽपि मंजूषां कंबलेन समावृताम् ३४।
कृत्वा शिरसि राजेंद्र चचाल प्रति जाह्नवीम् ।
कतिभिर्वासरैः सार्थः संप्राप्तस्तीर्थगामिनाम् ३५।
इहैव कोशलायां वै पुनीतायां महीपते ।
अथ शीतातुरो विप्रः कंबलं चोदघाटयत् ३६।
मंजूषावरणं राजन्तत्रायोध्यातटे शुभे ।
सोऽपि सर्पो निराहारो लब्ध्वा मारुतभोजनम् ३७।
निश्चक्राम बहिस्तस्मादुत्क्षेप्य सुशलाकिकाम् ।
तं निःसृतं समालोक्य सर्प्प सर्प इति क्रुधा३८।
व्याहरंतो जनाः सर्वे लोष्टहस्ताः समभ्ययुः ।
यावत्पलायते सर्पस्तावदेकेन घातितः ३९।
तत्याज स तदा प्राणान्पश्यतां तीर्थगामिनाम् ।
त्यक्त्वा भुजंगदेहं स देवत्वं प्राप दुर्लभम् ४०।
दिव्यं विमानमारुह्य प्रोवाचेदं जनानि ह ।
सर्प उवाच-
भो दाक्षिणात्याः शृणुत ब्राह्मणा वचनं मम ४१।
पुरा चंडकनामाहं नापितो ब्रह्महाधमः ।
ब्रह्महत्याप्रदोषेण सर्पआसं मरुस्थले ४२।
भुक्त्वा नरकदुःखानि वर्षाणां लक्षपंचकम् ।
अतीतं सर्पयोनौ मे वर्षाणामयुतद्वयम् ४३।
तीर्थस्यास्य प्रसादेन प्राप्तं देवत्वमुत्तमम् ।
तस्मादिदं न वै त्याज्यं तीर्थं वै कोशलाभिधम् ।
सर्वार्थदं यतो नाकः प्राप्तः पापीयसा मया ४४।
नारद उवाच-
एवं स नापितः पापो योनिं प्राप्य विनिंदिताम् ।
जगाम द्यां विमानस्थस्तीर्थस्यास्य प्रसादतः ४५।
ते दाक्षिणात्या यतयो भूत्वा तत्रैव तीर्थके ।
ऊषुर्गोविंदपादाब्ज मानसा दृष्टवैभवे ४६।
माहात्म्यमस्य तीर्थस्य दृष्ट्वा स ब्राह्मणोत्तमः ।
तीर्थेऽत्रजातविश्रद्धः पित्रोरस्थीनि सोऽक्षिपत् ४७।
पतितेष्वस्थिखंडेषु पितरौ तस्य तत्क्षणात् ।
विमानवरमारूढौ दिव्यौ तत्र समागतौ ४८।
ऊचतुश्च स्वतनयं शृण्वानेषु जनेषु वै ।
वत्स जीव चिरं लोके धनधान्यसुखी भव ४९।
आवयोर्मुक्तिदानाच्च मुक्तिं यास्यसि नो मृषा ।
गंगायां पिंडदानेन यत्फलं स्यात्सुतस्य वै ।
पितॄणां या गतिश्चात्र द्वयं स्यादस्थिपाततः ५०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे।
कालिंदीमाहात्म्ये मुकुंदोपाख्यानं नामैकादशाधिकद्विशतमोध्यायः २११।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 212
नारद उवाच-
इत्युक्त्वा तस्य विप्रस्य पितरौ दिव्यरूपिणौ ।
विमानवरमारुह्य गतौ हरिपुरं प्रति १।
तयोः पुत्रस्तु तत्रैव कोशलायां दिनत्रयम् ।
उषित्वा स्वगृहं प्रायात्चिंतयंस्तीर्थवैभवम् २।
इयमेव तु कथ्यंते विबुधैः कोशला नृप ।
कथयिष्यामि तत्तेऽहं श्रवणोत्सुकचेतसे ३।
ते दाक्षिणात्या बटवस्तस्यामूषु मुमूर्षवः ।
समर्थार्थप्रदायिन्यां कोशलायां विपद्यताम् ४।
कश्चिदेकस्तदा तेषु तामनादृत्य कोशलाम् ।
गच्छन्नारायणस्थानं विष्णुना वारितः पथि ५।
वृद्धब्राह्मणरूपेण प्रोक्तं चेति द्विजं प्रति ।
वृद्धब्राह्मण उवाच-
क्व यासि ब्राह्मणश्रेष्ठ त्यक्त्वेमां कोशलां शुभाम् ६।
इंद्रप्रस्थमिदं तीर्थं सर्वतीर्थोत्तमं द्विज ।
कोशला ह्यत्र पुत्रेयं मुक्तिदा विष्णुवल्लभा ७।
यत्र यासि विहायैनां निष्कामपददायिनीम् ।
न सिद्धिर्भविता तत्र विष्णुस्ते च पराङ्मुखः ८।
मुक्तिं चेदिच्छसे विप्र तीर्थेन्या संप्रगृह्य च ।
यस्य यस्येच्छया स्नासि तं तं वर्गं प्रदास्यति ९।
तव दृष्टिपथे विप्र सर्पोऽपि सुरतामियात् ।
अस्याः प्रसादतो मुक्तौ स्वर्गस्थौ विप्रदंपती १०।
संजातप्रत्ययोऽपि त्वमेतन्माहात्म्यदर्शनात् ।
लब्ध्वा भाग्योदयेनापि कथमेनां विमुंचसि ११।
यथा कश्चित्तृषार्तोऽपि लब्ध्वाप्यमृतवारिधिम् ।
तं त्यक्त्वा याति पंकांभस्तद्वत्त्वं मूढ दृश्यसे १२।
यथा चिंतामणिं कश्चित्कूपे क्षिपति मोहितः ।
हस्तस्थं या गतिस्तस्य दृश्यते सा गतिस्तव १३।
आराध्य विष्णुं विश्वेशं यथा कश्चित्पुमान्कुधीः ।
सुखमैंद्रियकं तुच्छं याचते सा गतिस्तव १४।
न याति कोशलामेनां त्यक्त्वा सर्वार्थदायिनीम् ।
स्नातस्यात्र दिव प्राप्तिर्मृतस्यामृतसंस्थितिः १५।
नारद उवाच-
राजन्नाकर्ण्य विप्रोऽसौ द्विजश्रेयभृतो हरेः ।
वाक्यं प्रोवाच विप्राय श्रेष्ठं बदरिकाश्रमम् १६।
विप्र उवाच-
भो भो विप्रवर श्रद्धा तव वाक्येन जायते ।
मम श्रुतवतः पूर्वमल्पग्रामस्य वैभवम् १७।
इंद्रप्रस्थमिदं तीर्थं न कदाचिन्मया श्रुतम् ।
कुतस्तु कोशलावृद्ध एतदंतरवर्तिनी १८।
यत्र नारायणः साक्षान्मुक्ता यत्र च योगिनः ।
मुक्त्वा तमाश्रमं पुण्यं तिष्ठाम्यत्र कथं द्विज १९।
यथागत्य स्वयं विष्णुरित्युक्त्वा मां निवारयेत् ।
बदर्याश्चाधिकं क्षेत्रमिंद्रप्रस्थमिदं द्विज २०।
तदाहं न प्रतिष्ठामि चालितोऽपि तमाश्रमम् ।
मुक्तिकामः स्वसदनान्नान्यथा स्थितिरत्र मे २१।
नारद उवाच-
इत्युक्ते तेन विप्रेण प्रादुरासीच्चतुर्भुजः ।
विहाय प्राकृतं रूपं दिव्यरूपधरो हरिः २२।
उवाच च महाभागं तं द्विजं मोक्षकामुकम् ।
विष्णुरुवाच-
इंद्रप्रस्थमिदं विप्र सर्वतीर्थोत्तमोत्तमम् ।
ब्रह्मज्ञेष्विव सर्वेषु शंभुर्गंगानदीष्विव २३।
हिमवानिव शैलेषु पक्षिराडिव पक्षिषु ।
त्रिदशेषु यथा शक्रो वैष्णवेष्विव नारदः २४।
तेजस्विषु यथा सूर्यः क्षीराब्धिरिव चाब्धिषु ।
यथा वर्णेषु भूदेवः सृष्टिष्विव पितामहः २५।
विष्णोर्यथावतारेषु कौशल्या जनितो वरः ।
तथा समस्ततीर्थेषु शक्रप्रस्थमिदं वरम् २६।
निष्कामो वा सकामो वा याति तीर्थे क्वचिन्नरः ।
तत्र तत्र समस्तात्मा फलदाताहमेव वै २७।
इंद्रप्रस्थांतरगतां त्यक्त्वा यो याति कोशलाम् ।
स नो फलमवाप्नोति भक्तो वरदवृंदपात् २८।
नारद उवाच-
एवं निशम्य तद्वाक्यं दृष्ट्वा तद्रूपमुत्तमम् ।
प्रणिपत्य रमाकांतं तस्यामेवागमद्द्विजः २९।
भगवानपि विश्वात्मा सपद्यंतर्दधे विभुः ।
तत्त्वमुद्दिश्य तं विप्रं तेन भावेन पूजितः ३०।
तत्रागत्य स विप्रोऽसौ कोशलायां नराधिप ।
कथयामास तद्वृत्तं सर्वं सर्वान्स्वसंगिनः ३१।
तेपि श्रुत्वा महाभागा दाक्षिणात्या द्विजातयः ।
तस्यामनशनं कृत्वा तत्यजुः प्राकृतं वपुः ३२।
तदेव गरुडारूढः श्रीविष्णुं समुपागतः ।
विमानैः स्वगणैः सार्द्धं तावद्भिर्दीप्तिभास्वरैः ३३।
ते तं दृष्ट्वा समायांतं विमानं गणसंयुतम् ।
वपुषा दिव्यरूपेण दंडवत्पतिता भुवि ३४।
तुष्टवुश्च द्विजाः सर्वे दिव्यज्ञानवपुर्द्धराः ।
तं दिव्यरूपिणं देवदेववंद्यपदांबुजम् ३५।
ब्राह्मणा ऊचुः -
नमस्तेऽतसीपुष्पसंकाशभासं तनुं बिभ्रते पीतवासो वृताय ।
लसत्कुंडलप्रोतनानोपलाय श्रुतौ चंचला व्यापिनीलांबुदाय ३६।
भक्तिस्त्वदीया किल कल्पवल्ली समाश्रिता यच्छति चित्तवांच्छितम् ।
यथा तथैषा तव कोशला विभो जनैरुभे ते कृपया तवाप्यते ३७।
वंदामहे ते चरणारविंदं वृदांरकैर्वृंदितमीश्वराद्यैः ।
विचिंत्यमानं हृदि योगिवृंदैः कंदं परानंदभुवो विमुक्तेः ३८।
प्राप्ताः कामं श्रीपतेत्वत्स्वरूपं श्रीवत्साद्यैर्लक्षितं चारुचिह्नैः ।
वांच्छामस्ते दासभावं तथापि प्राप्तं सर्वैरादृतं नारदाद्यैः ३९।
यत्सौख्यं ते दासभावं गतानां तन्नो लक्ष्म्या वक्षसोंतर्वसंत्याः ।
तज्जानाति श्रीपते श्रीमहेशो नान्यो लोके येन तच्चानुभूतम् ४०।
मध्येऽस्माकं श्रीपते सेवकानां नीरागाणामप्यसौ माननीयः ।
अस्मात्तं ते नारदाद्या मुनीशास्त्वद्भक्ताप्तैर्लोकनाथं भजंते ४१।
कामं ब्रह्मानंदमासोंतरात्मा त्वद्दास्ये नो तृप्तिमायाति शंभुः ।
वारंवारं त्वद्गुणानाग्रहीतुं नृत्यत्युच्चैस्त्वत्परो भावयुक्तः ४२।
हेतोरस्माद्देहिनः स्वस्य दास्यं यत्प्राप्तानां नोर्मयः संभवंति ।
त्वच्चिह्नांगौ द्वारपालौ तदीयौ मोहाद्धामप्राप्य तौ तत्स्वकीयम् ४३।
लोकादस्मादंतरेण त्वदिच्छा त्वल्लोकानां नोद्यते चाशुपातः ।
को जानीयात्तावकीमत्र मायां दुर्विज्ञेयां ब्रह्म शर्वादिदेवैः ४४।
नारद उवाच-
एवं तैः स्तूयमानः स प्रभुर्निजपदोन्मुखः ।
उवाच तान्दाक्षिणात्यान्मेघगंभीरया गिरा ४५।
श्रीभगवानुवाच-
भोभो द्विजा भवंतोऽस्या कोशलायाः प्रसादतः ।
सारूप्यमपि मे प्राप्ता दासभावं च यास्यथ ४६।
अद्यप्रभृति मे विप्रास्तीर्थमेतदनुत्तमम् ।
दक्षिणकोशलेत्युच्चैर्नाम्ना ख्यातं भविष्यति ४७।
यत्र दाशरथी भूत्वा निहनिष्यद्दशाननम् ।
सा कथ्यते मुनिवरैः सर्वैरुत्तरकोशला ४८।
विपन्नो ज्ञानवान्यस्या वैकुंठमधिरोहति ।
विनापि तद्वसेद्योऽस्यां सोऽपि स्वर्गं च गच्छति ४९।
इमां ततो दशगुणामाहुर्दक्षिणकोशलाम् ।
एकादशगुणामेके सम्यगाहुर्मुनीश्वराः ५०।
इयानेव विशेषोऽस्ति तस्या अस्या मतिर्मम ।
तस्यां मृतं नयंत्येते वैकुंठं मामका गणाः ५१।
अस्यां मृतं स्वयमहमनन्यवदमानसम् ।
आरोप्य गरुडं दत्त्वा सारूप्यं प्रापयामि तत् ५२।
नारद उवाच-
इत्युक्त्वा तान्द्विजान्विष्णुर्नीत्वा वैकुंठमभ्यगात् ।
महिमानं स्तुवन्नस्य स्वयं तीर्थस्य भूपते ५३।
एतत्ते सर्वमाख्यातं कारणं जगतीपते ।
येनेयं कथ्यते विज्ञैरिह दक्षिणकोशला ५४।
कलिमलकुलहंता शृण्वतां मानवानां कमलनयनपादप्राप्तये वांच्छितश्च ।
नृपवर महिमा ते वर्णितः कोशलाया मधुवनभववृत्तं शृण्वतस्ते वदामि ५५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये कोशलामहिमावर्णनंनाम द्वादशाधिकद्विशततमोऽध्यायः २१२।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 213
नारद उवाच-
एतन्मधुवनं तात शिवे परमपावनम् ।
देवराजाय तुष्टेन स्थापिता विष्णुना पुरी १।
अत्र विश्रांतिनामेदं तीर्थं त्रिभुवनोत्तमम् ।
विविदां मुक्तिदं पुंसां पवनं साधुसेवितम् २।
नित्यं वसति विश्वात्मा विष्णुः श्रीकोलरूपधृक् ।
अत्र तीर्थोत्तमे पुण्ये नृपविश्रांतिसंज्ञके ३।
बहुभिर्जन्मभिर्येन विष्णुराराधितः सदा ।
मरणं तस्य तीर्थेऽस्मिन्जायते किल भूपते ४।
कालिंद्या एव कूले तु द्वितीयं हरिणा कृतम् ।
तीर्थे विश्रांतिसंज्ञं तु यत्र कंसो निपातितः ५।
एतद्द्वयं समं राजन्गुणैर्वैकुंठदातृभिः ।
भाग्योदयेन केनापि लभ्यते सकलार्थदम् ६।
अथ तीर्थस्य माहात्म्यं कथयामि तवाग्रतः ।
यच्छ्रुत्वा सर्वतीर्थेषु मज्जनाल्लप्स्यसे फलम् ७।
हिमाचलोपत्यकायां किरातनगरे शुभे ।
ब्राह्मणो नाम कुशलो राजन्नासीद्दरिद्रतः ८।
तस्य पत्नी दुराचारा दुराचारनरे रता ।
कर्मणा मोहयामास पतिं सा बंधकी वरा ९।
पतिस्तया मोहितस्तु न निवारयितुं क्षमः ।
तदाज्ञा तत्परो दीनः क्रयक्रीतइवाभवत् १०।
लोका उपहरंति स्म तं द्विजं कुलटापतिम् ।
उपहासभयात्सोऽपि निर्ययौ न गृहात् कुधीः ११।
महार्हाणि दुकूलानि भूषणानि च सा दधौ ।
जारैर्दत्तानि दुष्टात्मा हसितापि न लज्जते १२।
वस्त्रं पुरातनं दास्यादुत्तीर्णं यच्छरीरतः ।
अवज्ञापूर्वकं दुष्टा स्वभर्त्रे संप्रयच्छति १३।
एवं तया कुलटया सोऽवज्ञातं स्वकः पतिः ।
नितांतं दुःखमापन्नो विषमत्त्वामृतो निशि १४।
सा भीता राजतः पापा ह्यनयात्स्वैरिणी तदा ।
अनुयास्यामि भर्त्तारमित्युवाच मृषा वचः १५।
तयैवं शिक्षिता सख्यः स्वकीयस्तां समीपगाः ।
निवारयामासुरिति कथयित्वा महीपतेः १६।
सख्य ऊचुः -
भो मृगाक्षि किमर्थं ते क्रियतेऽनर्थ ईदृश ।
यत्सुवर्णनिभं कायं त्वं नाशयितुमुद्यता १७।
भवत्या किं सुखं दृष्टममुष्या व्यवसायिनः ।
दरिद्रस्यासमर्थस्य सखि स्वोदरपूरिणः १८।
पालयैनं सुतं बालं त्वदृते कोऽस्य पालकः ।
मरिष्यामो वयं सर्वा मृतायां त्वयि सुंदरि १९।
गृहमेतदवेक्षस्व समुत्तिष्ठवरानने ।
जीयादयं तव सुतोयस्त्रीभाविसुखप्रदः २०।
वांछंति बांधवाः सर्वे त्वदीयास्तव जीवितम् ।
उत्तिष्ठ निजबंधूनां कुरु चित्तं समीहितम् २१।
रुदंति तव रागेण वयस्याः सकलाः सति।
निजवाक्यप्रदानेन वारयैताः सुदुःखिताः २२।
नारद उवाच-
इत्याकर्ण्य वचस्तासां दुष्टा सा धर्मविश्रुतम् ।
उन्नमय्य मुखं प्राह श्रावयंती स्वबांधवान् २३।
सख्युवाच-
युष्माभिर्यद्वचो धर्मं प्रोक्तं जाने ऋतं ननु ।
तथापि स्वपतिः स्त्रीभिर्मान्यो लोकद्वयप्रदः २४।
यदुच्यते मया वाक्यं धर्मशास्त्रसमन्वितम् ।
तद्वचः श्रूयतां सख्यो युक्तं चेदनुमोदत २५।
या स्त्री निधनमापन्नं पतिमन्वेति तत्परा ।
पापापि सह तेनैव स्वर्गे वसति सा चिरम् २६।
स्त्रीभिः पतिर्न हातव्यो निर्धनो रोगवानपि ।
जीवन्मृतोऽनुगंतव्यः श्रुतिरेषा सनातनी २७।
विचिंत्येति स्वमनसि सख्योन्वेमि स्वकं पतिम् ।
वर्तिष्यते स्वभाग्येन करिष्येऽहं किमस्य वै २८।
नारद उवाच-
इत्युक्तास्तास्तया सख्यो दुष्टा दुष्टमतिप्रदाः ।
ऊचुस्तां धर्मवाक्येन समस्तजनमोहिनीम् २९।
सख्य ऊचुः -
जहि पूर्वं हि नः सुभ्रु पश्चादन्वेहि वल्लभे ।
समस्तास्त्वद्वियोगं न वयं सोढुं क्षमामहे ३०।
अस्मांस्तव विनिघ्नंत्या अनुयांत्याः स्वकं पतिम् ।
धर्मोऽल्पपापबाहुल्यं स्वर्गप्राप्तिस्तु कीदृशी ३१।
जीवन्नयं पतिः स्वीयः साध्वयं प्रतिपालितः ।
यदुक्तं पतिपत्नीभ्यां तत्त्वया विहितं सखी ३२।
यावत्स्वजीवनोपायं विधातुमयमक्षमः ।
तावत्त्वदीयभाग्येन जीविष्यति सुतस्तव ३३।
नारद उवाच-
इत्युक्ता सा निववृते स्वभर्त्तुरनुयानतः ।
सुतेन कारयामास तदा तद्विरतिक्रियाम् ३४।
अथ कालेन कियता सुतोपनयने मतिम् ।
कारयामास सा विप्रैर्दत्त्वा जारार्पितं धनम् ३५।
कृतोपनयनः कुंडः स तत्त्वज्ञानवान्शिशुः ।
गृहान्निर्गम्य सपदि नारायणपरोऽभवत् ३६।
सतां संगतिमासाद्य त्यक्त्वा स्वं प्राकृतं वपुः ।
आरुरोह निजं लोकमप्राप्यं योगिभिश्च तत् ३७।
अथ सा निर्गते पुत्रे मनो दुःखं चकार वै ।
तस्मिन्नेव दिने राजन्भूयो जारैः सहारमत् ३८।
इति तै रममाणायां तस्यां जारैः समं नृप ।
समागता जरा काले लावण्यमदनाशिनी ३९।
त्यक्तोपपतिभिर्दृष्टा सा जराग्रस्तविग्रहा ।
बभूव दूतिकान्यासं कुलशीलविनाशिनी ४०।
तदा ह्येकस्य विप्रस्य सवत्सां गामपाहरत् ।
विक्रीता कियता राजन्द्रव्येण ननु सा तया ४१।
तयेति गमितः कालो दूतित्वेन कियान्नृप ।
पश्चाच्छुष्करशरीरोऽस्या विगुणः समजायत ४२।
तस्याः कुष्ठे समुत्पन्ने गलितं ह्यंगपंचकम् ।
हस्तौ पादौ च नृपते पंचमा नासिका तदा ४३।
एवंभूता यदाहारं न लभेत कुतश्चन ।
तदा तु तत्रोदितया दास्या सा नीयता पणम् ४४।
तत्र सा पतिता पापा लोकान्संप्रार्थ्य दीनया ।
गिरा धिगिति कुर्वाणा चक्रे स्वोदरपूरणम् ४५।
तदिहाभ्यासवर्त्त्ये को द्विजः सर्वागमार्थवित् ।
तां विलोक्य महावाग्मी प्रोवाचेदं वचो नृप ४६।
जनानां दुःखदं पापमिहलोके परत्र च ।
तस्मात्पापं न कर्त्तव्यं मानवैर्दुःखभीरुभिः ४७।
पापं कृत्वा जनो यस्तु प्रायश्चित्तं करोति वै ।
न तदाचरिते भूयो न तत्फलमवाप्नुयात् ४८।
यः कृत्वा मुहुरेनांसि प्रायश्चित्तं करोति न ।
तस्यास्या इव पापाया गतिरत्र परत्र च ४९।
अनया पापसंघातो लोकेऽत्र समुपार्जितः ।
इहैव तत्फलं भुंक्ते भोक्ष्यते नरकेऽप्यसौ ५०।
सर्वशास्त्रेषु दृष्टं वै सर्वेषां पापकर्मणाम् ।
प्रायश्चित्तं न च स्त्रीणां विन्मुखानां तु कर्मणः ५१।
नारद उवाच-
इत्युक्त्वा स द्विजश्रेष्ठो नमस्कृत्य रविं ययौ ।
विष्णुं संस्मृत्य संस्मृत्य भीतस्तदवलोकनात् ५२।
एवं सा दुःखमापन्ना भुंजाना कर्मणः फलम् ।
अर्जितस्य स्वयं राजन्मृता कतिपयैर्दिनैः ५३।
न तस्या अग्निसंस्कारः संजातः पापकर्मणः ।
आकृष्य केशे सा नीता श्वपचैर्नगराद्बहिः ५४।
मरणावसरे तस्या यमभृत्याः समागताः ।
प्रापप्य यातनादेहं तां निन्युर्भास्करेः पुरीम् ५५।
सौम्यः सधर्मिणां देवः साक्षाद्गुह्यस्तु पापिनाम् ।
तस्या विलोकनाद्भूयः सोप्यभूद्वै पराङ्मुखः ५६।
भृत्यानाज्ञापयामास यम एव पराङ्मुखः ।
रौरवे नरके घोरे पात्यतां सा मयेरिता ५७।
इत्युक्तास्ते तदा भृत्या नीत्वा तां घोररौरवे ।
न्यपातयन्नधोववक्त्रां स्मरंतीं कर्म यत्कृतम् ५८।
एकमन्वंतरं यावत्सा स्थित्वा तत्र रौरवे ।
पश्चाद्गोधा समुत्पन्ना श्मशाने मृतमांसभुक् ५९।
तत्रापि सा वर्षशतं लेभे दुःखं स्वकर्मणः ।
फलं मृतकमांसे कुर्वत्याहारमुत्कटम् ६०।
एकदा स मुनेः पुत्रो योऽस्या कुक्षौ व्यजायत ।
विप्रयोनौ समायातः श्मशाने तत्र पर्यटन् ६१।
मुनिपुत्रस्तु तां वीक्ष्य मृतानां क्रव्यमश्नतीम् ।
ध्यात्वा क्षणं स्वमनसि बुबुधे तां स्वमातरम् ६२।
स उवाचात्मनात्मानं बुद्ध्वा तां निजमातरम् ।
मुनिपुत्र उवाच-
एतां तु तारयाम्यद्य दुस्तराद्दुःखवारिधेः ६३।
अहो न मुच्यते जंतुर्जातपापेन कर्मणा ।
आत्मनोपार्जितेनैव भोगकालावधिं विना ६४।
अस्याः कालो व्यतीयाय निरये मानवाभिधः ।
सांप्रतं च जनैस्त्वत्र वत्सराणां शतं गतम् ६५।
कियदग्रे च भोक्तव्यमेतया पापमुल्बणम् ।
नारद उवाच।
इत्यालोच्य पुनर्दध्यौ ज्ञानेनामील्य चक्षुषी ६६।
दृष्ट्वा तस्या गतिं घोरां पापाया दिव्यचक्षुषा ।
पुनरात्मानमादेहं स द्विजप्रवरो नृप ६७।
मुनिपुत्र उवाच-
अहो कल्पशतेनापि निस्तारोऽस्या न दृश्यते ।
विना सत्तीर्थमरणं शरणं वा रमापतेः ६८।
अथवा पिंडदानेन गयायां मत्कृतेन च ।
विनास्याः सद्गतिं नैव कल्पकोटिशतैरपि ६९।
न घटेत द्वयं चास्या अस्यां योनौ कदाचन ।
तत्तीर्थविषये मृत्युः सेवायां श्रीपते रतिः ७०।
अस्या उद्धारहेतुर्वै मग्नायाः पापसागरे ।
भविता मत्कृतं श्राद्धं गयाया च हित्रकम् ७१।
नारद उवाच-
इत्यालोच्य स धर्मात्मा ययौ स्वपितुराश्रमम् ।
आचख्यौ पितरं सर्वं स्वमातुर्दुःखकारणम् ७२।
निशम्य पुत्रवचनं मातृदुःखनिवेदकम् ।
उवाच स मुनिश्रेष्ठः पुत्रं प्रणतकंधरम् ७३।
मुनिरुवाच-
हे तात मातरं स्वीयां शीघ्रमुद्धर दुर्गतेः ।
नयविद्भूपतिः शत्रोर्जयलक्ष्मीमिवाहवे ७४।
न तारयति यः पुत्रो मातरं पितरं स्वकम् ।
दुःखात्स याति नरकं यदि तारयितुं क्षमः ७५।
स्वपुत्रात्प्राप्य पानीयं पिंडाश्च वरतीर्थके ।
पितरो नरकात्स्वर्गं स्वर्गाद्यांति हरेः पदम् ७६।
तस्मादाशु समुत्तिष्ठ गच्छ खांडवकानने ।
तत्रास्ति यमुना पुण्या मुनिवर्यनिषेविता ७७।
तत्तीरेऽस्ति हरिप्रस्थं सर्वतीर्थमयं ततः ।
पुण्यं मधुवनं तत्र विष्णुना स्थापितं स्वयम् ७८।
तत्र स्नात्वा तु विधिवत्कृत्वा नित्यक्रियां निजाम् ।
तामुद्दिश्य कुरु श्राद्धं स्वप्रसूं च कुरु क्रियाम् ७९।
त्वया तत्र कृते श्राद्धे तस्याः सद्गतिमिच्छता ।
सा प्राप्स्यति हरेर्लोकं हित्वा गोधांगमुल्बणम् ८०।
गयायां पिंडदानेन यत्फलं तात जायते ।
ततः शतगुणं पुण्यं सद्भिर्मधुवने स्मृतम् ८१।
इदानीं वर्तते तात कन्याराशिगतो रविः ।
पुत्र गत्वा कुरु श्राद्धं पूर्वानुद्दिश्य बांधवान् ८२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये त्रयोदशाधिकद्विशततमोऽध्यायः २१३ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 214
नारद उवाच-
इत्याकर्ण्य पितुर्वाक्यं स जगाम त्वरान्वितः ।
पुण्यं मधुवनं राजन्गयाशतगुणाधिकम् १।
तत्तीर्थवासिनो विप्रान्सायमामंत्र्य मंत्रवित् ।
काले पुनः समाहूय बभाषे स्वागतं वचः २।
ततः प्रक्षाल्य तत्पादौ गंधाद्यैरभिपूज्य च ।
पादार्घ्यमददात्प्रीत्या समेन स्वयमाचमत् ३।
ततस्तान्ब्राह्मणान्नीत्वा श्राद्धदेशे न्यवेशयत् ।
कुशांबु तुलसीपुष्प गंधाक्षत तिलैः सह ४।
पूरयित्वा कर्मपात्रं पुंडरीकाक्षमस्मरत् ।
देवताभ्य इति श्लोकं त्रिःकृत्वा सोऽपठद्द्विजः ५।
सतिलं शोधितकुशैर्विदधे बंधनं ततः ।
अग्निष्वात्तेति मंत्रेण पूर्वादीनां दिशां क्रमात् ६।
रक्षोभूतेति मंत्रेण नीवीबंधं व्यधाच्च सः ।
ततः प्रतिज्ञामाधाय ददौ द्विजकुशासनम् ७।
पितॄन्समाह्वयामास स तदा ब्राह्मणोत्तमः ।
दत्त्वा ततस्तु हस्तार्घ्यं पात्रं न्युब्जीचकार वै ८।
कृत्वा गंधादिदानं च पुनः सव्येन चाचमत् ।
सव्यापसव्येन तदा दत्वा पात्राणि स द्विजः ९।
तैर्ब्राह्मणैरनुज्ञातश्चक्रेऽग्नौकरणं ततः ।
आज्यादिहविषा राजंस्तान्यमत्राण्यपूरयत् १०।
अनुत्तानोत्तानपाणिः कुर्वन्पात्रावलंबनम् ।
पपाठ पाठितो विप्रैः पृथ्वी त्वेति द्विजन्मनाम् ११।
असंस्कृतप्रणीतानामिति मंत्रेण स द्विजः ।
दर्भेषु दक्षिणाग्रेषु ददौ च विकिरासनम् १२।
अग्निदग्धेति मंत्रेण घृतमिश्रान्नमक्षिपत् ।
जलेन सह राजेंद्र विष्टरे कुशकल्पिते १३।
सव्येन पुनराचम्य ददौ चुलकजीवनम् ।
तृप्ताः स्थेति च संपृच्छ्यातृप्तास्म प्रतिभाषिताः १४।
शेषान्नभोजने तेषां जग्राहाज्ञां द्विजन्मनाम् ।
पिंडार्थं वेदिकां कृत्वा वितस्तिप्रमितां द्विजः १५।
रेखां चकार दर्भेण दक्षिणाभिमुखीं नृप ।
ये रूपाणीति मंत्रेण दधेऽग्निदिशि चोल्मुकम् १६।
पूर्वजन्मनि या माता पिता यश्च महीपते ।
तयोश्च पितरौ यौ हि यौ च राजन् पितामहौ १७।
यः प्रमातामहश्चापि पितरौ राजसत्तम ।
पित्रादीन्षट्सपत्नीकांस्तानुद्दिश्य यथाविधि १८।
कुशासनानि दत्त्वा वै ददौ पिंडान्षडैव हि ।
गंधादिभिश्च संपूज्य मध्यपिंडविसर्जनम् १९।
कृत्वाघ्राय च वामांसे पिंडपात्रं न्यवेशयेत् ।
जलपात्रं तदादाय वाजेवाजे पठन्निति २०।
पाद्यार्घं च पुनर्दत्त्वा दक्षिणाद्यैरतूतुषत् ।
आद्वारं ताननुव्रज्य तेभ्यो लब्ध्वानुशासनम् २१।
बुभुजे च स्वयं राजन्बांधवैः सह स द्विजः ।
एवं समाप्य राजेंद्र श्राद्धं स द्विजसत्तमः २२।
पूर्वसबंधिनां तत्र तीर्थे मधुवने शुभे ।
यदा चचाल शांतात्मा पितुराश्रमकं प्रति २३।
तदा संमिलिता मार्गे सर्वे ते श्राद्धभोजिनः ।
विमानषट्कमारूढा दिव्याभरणभूषिताः ।
दिव्यांबरधरा राजन्नित्यूचुस्तं द्विजोत्तमम् २४।
पितर ऊचुः -
भो वत्स विप्रशार्दूल वृणीष्व वरमुत्तमम् ।
तीर्थेऽत्र कुर्वता श्राद्धं भवता तारिता वयम् २५।
वयं गणत्वमापन्नाः श्रीपतेस्त्वत्प्रसादतः ।
प्रार्थयस्व महाबुद्धे यदिष्टं तव चेतसि २६।
मुनिपुत्र उवाच-
के यूयं कुत आयाता गणत्वं हि कुतो गताः ।
उपकारं विना कस्माद्वरं यन्मे प्रयच्छत २७।
नारद उवाच-
इत्याकर्ण्यवचस्तस्य पूर्वजन्मसुतस्य वै ।
पिता प्रोवाच यो दुःखाद्भक्षयित्वा विषं मृतः २८।
पितोवाच -
अहं तव पिता विप्र पूर्वजन्मनि भूसुरः ।
भार्यया व्यभिचारिण्या मात्रा ते पीडिता भृशम् २९।
अतीवदुःखमापन्नो भक्षयित्वा विषं निशि ।
अपमृत्युं गतस्तस्मादभवं रजनीचरः ३०।
एवं मन्वतरं तात शतं पंचदशाधिकम् ।
वर्षाणां च व्यतीतं तद्राक्षसत्वं गते मयि ३१।
इदानीं षोडशाब्दे तु त्वया श्राद्धे कृतेऽत्र वै ।
पुण्ये मधुवने तीर्थे देवत्वं प्राप्तवानहम् ३२।
एतद्विमानमायांतं स्वर्गादिंद्रप्रणोदितम् ।
सगणं साप्सरोवृंदं ममारोहणहेतवे ३३।
अत्र तुभ्यं वरं दातुं सगणः साप्सरोगणः ।
विमानवरमारुह्य गच्छन्स्वर्गेऽहमागमम् ३४।
वरं वरय भद्रं ते न विलंबसहा वयम् ।
ऐरावतगजारूढः सुरेशो मामवेक्षते ३५।
नारद उवाच।
इत्युक्त्वा निजवृत्तांतं दत्त्वा च निजसूनवे ।
तत्प्रार्थितां हरेर्भक्तिं जगाम स दिवं नृप ३६।
अथ प्रोवाच तन्माता पूर्वजन्मसुतं च तम् ।
मातोवाच-।
त्वत्प्रसादादहं जाता देवी मुक्ता च पापतः ३७।
प्राप्तं शच्याः सखीत्वं मे पापयापि द्विजोत्तम ।
त्वयात्र विहिते श्राद्धे तीर्थे विश्रांतिसंज्ञके ३८।
प्रार्थयस्व महाभाग निजचित्तसमीहितम् ।
ददामि ते यतोऽस्माकं देवीनां न वचो मृषा ३९।
येन पापेन जाताहं गोधा च पितृकानने ।
नरके चिरमास्थाय तत्त्वं वेत्सि द्विजोत्तम ४०।
अनुजानीहि मां पुत्र पुलोमतनया दिवि ।
मामपेक्षितमाकाशे वृता देवांगनागणैः ४१।
नारद उवाच-
इत्युक्त्वा सापि तन्माता निष्कामाय स्वसूनवे ।
ययौ त्रिविष्टपं राजन्शिरसा तेन वंदिता ४२।
ततः पितामहस्तस्य स्वपौत्रं तं द्विजोत्तमम् ।
उवाच वचनं भूयः हरेर्बिभ्रत्स्वरूपताम् ४३।
पितामह उवाच-
वत्सवत्स चिरंजीव लभस्व निजवांच्छितम् ।
त्वत्प्रसादाद्वयं तीर्णा दुस्तराद्भवसागरात् ४४।
पितामहोऽहं ते वत्स तवेयं च पितामही ।
मृतं मानुगता साध्वी सालोक्यमचिरं गता ४५।
अद्य त्वयात्र विश्रांतौ विहिते श्राद्धकर्मणि ।
आवयोस्तु हरेर्लोके लब्धा तस्य स्वरूपता ४६।
नारद उवाच-
एवमुक्त्वा तया सार्द्धं स्वस्त्रिया भूपसत्तम ।
ब्रह्मलोकमतिक्रम्य वैकुंठं स ययौ द्विजः ४७।
अथ प्रोवाच राजेंद्र वचस्तत्प्रपितामहः ।
यत्ते तत्कथयाम्यद्य शृणुष्वैकमना द्विज ४८।
प्रपितामह उवाच-
भोभो वत्स महाभाग तवाहं प्रपितामहः ।
भ्रूणहत्याफलेनाहं शौकरीं योनिमाप्तवान् ४९।
ततो विनिर्गतस्तात श्वाभवं पापपीडितः ।
ततः स्थावरतां प्राप्तो विंध्ये पर्वतसत्तमे ५०।
तत्रापि चिरकालेन स्थितं स्थावरतां दधत् ।
हस्तिना केनचित्तात मूलादुत्पाटितो बलात् ५१।
तस्मिन्नेव ततः काले त्वया श्राद्धमकारि वै ।
अस्मिंस्तीर्थोत्तमे तात मुक्तोऽहं स्थावरात्ततः ५२।
प्राप्तोऽयं यक्षराजस्य नगर्य्यां वास उत्तमः ।
देह्यनुज्ञां द्विजश्रेष्ठ यामि तां त्वत्प्रसादतः ५३।
त्वां दिदृक्षुरिहायातो दृष्टस्त्वं पुण्यदर्शनः ।
तीर्थं च सर्वतीर्थेषु श्रेष्ठं मधुवनं मया ५४।
नारद उवाच-
इत्युक्तस्तेन राजेंद्र मुनिपुत्रः स धर्मवित् ।
पप्रच्छ शिरसा नम्य तं निजं प्रपितामहम् ५५।
ऋषिरुवाच-
ब्राह्मणानां कुले तात जातोऽसि त्वं गरीयसि ।
कथं विहितवान्पापं भ्रूणहत्याभिधं गुरो ५६।
येन निंद्यां समापन्नो भवान्योनिपरं पराम् ।
समाचक्ष्व महाभाग यदि तत्स्मृतिरस्ति ते ५७।
प्रपितामह उवाच-
पुराहं द्विजशार्दूल ब्राह्मणस्येव जन्मनि ।
मंत्रयंत्रविधानेन कृतवान्वृत्तिमात्मनः ५८।
धनलोभेन नारीणां गर्भार्थमहमौषधम् ।
दत्तवांश्चैव नाशाय दैवोपहतचेतनः ५९।
लोभो हि धनहीनानां जनानां ज्ञानमाहरेत् ।
शुचिकाले दिनाधीशः कुल्यानामिव जीवनम् ६०।
ज्ञाने नष्टे जनस्तात पापमाचरते ध्रुवम् ।
पापान्नरकमाप्नोति ततो याति कुयोनिताम् ६१।
काचिदेका तदा नारी गुर्विणी मामपृच्छत ।
किं जनिष्याम्यहं विप्र पुत्रं वेत्यथ वा स्त्रियम् ६२।
तदाहमुक्तवांस्तां वै तव कन्या भविष्यति ।
पुत्रोत्पत्तिकृते तुभ्यं प्रदास्यामि महौषधम् ६३।
इत्युक्ता च मया नारी दुर्बुद्धिस्त्रीशिरोमणिः ।
जग्राह मम पादौ तु दत्तं हेमपलं च मे ६४।
इत्युवाच च सा मह्यं षट्कन्याजनिता मया ।
सप्तमीयं त्वया चोक्ता जीविष्ये स्या न जन्मनि ६५।
तथा कुरु महाबुद्धे यथाहं वै न कन्यकाम् ।
जनयिष्यामि विप्रान्यां निजप्राणविनाशिनीम् ६६।
इत्याकर्ण्य वचस्तस्यास्तामहं पुनरुक्तवान् ।
प्रसूतिकाले दास्यामि पुत्रोत्पाद्यहमौषधम् ६७।
तथेति सा वचो मह्यं प्रतिश्रुत्य गता गृहम् ।
अपेक्षमाणा तं कालं तस्थौ वाक्यप्रतीतिकृत् ६८।
तस्यां गतायां भो तात चिंतया भवमातुरः ।
इत्यहं द्विजशार्दूल तच्छृणुष्व वदामि ते ६९।
पुत्रोत्पत्तिप्रतीतेयं मह्यं दत्तवती पलम् ।
सुवर्णस्य न जानामि किमस्याः संभविष्यति ७०।
किमत्र करणीयं मे कथमेतत्सुवर्णकम् ।
पलप्रमाणं तिष्ठेद्वै दरिद्रस्य गृहे मम ७१।
एवं विमृश्य तद्दास्यास्तस्यै हस्तेन दापितम् ।
गर्भपातकरं तात मया दारुणमौषधम् ७२।
तेनौषधेन तस्यास्तु गर्भस्रावेऽभवत्तदा ।
मासे तृतीये न ज्ञातं चिह्नं पुरुषकन्ययोः ७३।
तदा सा मद्गृहं प्राप्ता विषण्णा गर्भस्रावतः ।
अथार्थयत्सुवर्णं तन्निराशा पुत्रजन्मनि ७४।
तदाहमिष्टकाचूर्णं भस्मना च समन्वितम् ।
हरिद्राचूर्णसंयुक्तं सांबु तस्यै अदर्शयम् ७५।
एतच्चूर्णं कृतं मातस्त्वत्पुत्रोत्पत्तये मया ।
त्वद्दानाद्द्विगुणं द्रव्यं लग्नमेतस्य साधने ७६।
इत्युक्त्वा सा मया तात त्यक्त्वा चूर्णं गृहं ययौ ।
मामुक्त्वेति गृहीष्यामि काले त्वत्तो द्विजोत्तम ७७।
एवं मया कृता तात भ्रूणहत्यातिदारुणा ।
ययातिकुत्सिते योनित्रितये भ्रमितं मया ७८।
त्वत्प्रसादादहं मुक्तः सांप्रतं स्थावरत्वतः ।
देह्यनुज्ञां मुनिश्रेष्ठ याम्यहं ह्यलकां शुभाम् ७९।
नारद उवाच-
एवमुक्त्वा तु राजेंद्र तस्य तु प्रपितामहः ।
तेनाभिवंदितो मूर्ध्ना प्रययौ दिशमुत्तराम् ८०।
विमानेन विचित्रेण किंकिणीजालमालिना ।
नृत्यद्गंधर्वजुष्टेन मणिप्राकारशोभिना ८१।
अथ तस्य महाराज विप्रस्य प्रपितामही ।
उवाच स्वप्रपौत्रं तं विमानवरमास्थिता ८२।
प्रपितामह्युवाच ।
नान्यत्र कुत्र गंतासि पुण्येनानेन सुव्रत ।
विना पद्मापतेः पादपद्मचिह्नितमंदिरम् ८३।
अयं मम पतिः पापो मुने त्वत्प्रपितामहः ।
वारितोऽपि मया पापमाचचार सुदुष्टधीः ८४।
सोऽपि त्वयातिपापात्मा तारितो दुःखसागरात् ।
शक्यते केन वै कर्तुं तावकं गुणवर्णनम् ८५।
नारद उवाच-
इत्युक्त्वा सापि राजेंद्र पतिलोकं जगाम ह ।
अलकायां चिरं पत्या तेनैव मुमुदे सह ८६।
अथ ते मुनिपुत्रस्य सर्वे मातामहादयः ।
सपत्नीकाः समारुह्य विमानेषु ययुर्दिवम् ८७।
सोऽपि द्विजवरस्तस्मात्तीर्थात्स्वपितुराश्रमम् ।
गत्वा तं सर्ववृत्तांतं स्वपित्रे समवर्णयत् ८८।
सोऽपि तत्र गतः सार्द्धं कुटुंबेन वने मधोः ।
चकार पर्णशालां वै विश्रांतेस्तु समीपतः ८९।
तत्र विश्रांततीर्थं तु त्रिकालं स्नानमाचरन् ।
नाकरोद्विष्णुलोकेऽपि स्पृहां स मुनिसत्तमः ९०।
एकदा जलमध्ये स स्नानं कुर्वन्मुनिर्नृप ।
आचकांक्षे च भवता कदा मे हरिदर्शनम् ९१।
एवं कामयमानस्य मुनिवर्यस्य भूपते ।
आजगाम त्वरायुक्तो पक्षिराजासनो हरिः ९२।
लक्ष्म्या वक्षःस्थया सार्द्धं चतुर्बाहुधरो हरिः ।
नवीनघनवर्णांगो विद्युद्वर्णांबरावृतः ९३।
कौस्तुभोद्भासि सद्वक्षाः शंखचक्रगदाब्जभृत् ।
वनमालालसत्कंठो मकराकृतिकुंडलः ९४।
फुल्लांबुजपलाशाक्षः स्वलकालं कृताननः ।
विद्रुमाकारकरजोरुणहस्तांघ्रिसत्तलः ९५।
उवाच तं द्विजश्रेष्ठं दंतभासा विभासयन् ।
शरन्निशापतिस्तोम तिरस्कारकृतादिशः ९६।
श्रीभगवानुवाच-
भोभो द्विजवरैतन्मे तीर्थं मधुवनं शुभम् ।
विश्रांतसंज्ञकं स्नानात्सर्वकामोपपादकम् ९७।
अत्र त्वया स्नानकाले वांछितं मम दर्शनम् ।
तुभ्यं हि तन्मया दत्तं ब्रह्मादिसुरदुर्लभम् ९८।
त्यज देहमिमं विप्र मानुषं दिव्यमाप्नुहि ।
आयाहि मद्गृहं सार्द्धं मयारुह्य खगेश्वरम् ९९।
नारद उवाच-
इत्याकर्ण्यवचस्तस्य श्रीपतेः स मुनीश्वरः ।
तुष्टाव प्रणतो भूत्वा जल एव विशांपते १००।
मुनिरुवाच-
श्रीपते श्रीमदंभोज संमर्दितपदांबुजम् ।
भवतो भवतापघ्नं वंदे त्रिदशवंदितम् १०१।
त्वदीय मायया नाथ मोहिता येऽत्र जंतवः ।
तेषां कदाचिन्निस्तारो न कृपामंतरेण ते १०२।
सत्तीर्थसेवनादीश तथा सज्जनसंगमात् ।
पुसां भक्तिस्तु येषां वै जायते कृपया तव १०३।
साधुभिर्बहुभिरीरितं हरे यो निशम्य गुणकीर्त्तनं तव ।
कीर्तयत्यखिलपापनाशनं मातृगर्भकुहरे स नो पतेत् १०४।
श्रीपते तव जनस्य मानसं दैवतस्तु पतितं महारणे ।
गुंठितं च रजसा जहाति नो निर्मलत्वमिव रत्नमुत्तमम् १०५।
यः पुमान्पतति ते पदांबुजे दंडवत्पुलकमंगके दधत् ।
सोन्वयं नयति तावकं पदं स्वं च वांछितमशेषयोगिभिः १०६।
जीव एव तव मायया विभो मोहितो भ्रमति विश्ववर्त्मसु ।
त्वत्कृपाललितलोचनांचलैस्तत्क्षणं तरति विश्ववारिधिम् १०७।
नारद उवाच-
इति संस्तुत्य गोविंदं दंडवत्तस्य पादयोः ।
पपात स मुनिश्रेष्ठो जयेति मुहुरीरयन् १०८।
श्रीपतिस्तं मुनिश्रेष्ठं दंडवत्पतितं भुवि ।
उत्थाप्य बाहुभिस्तूर्णं सुपर्णे समरोपयत् १०९।
तत्कुटुंबं च विश्वात्मा वैकुंठं च जगाम ह ।
इत्येतत्कथितं राजन्शिवे मधुवनस्य वै ११०।
महात्म्यं सर्वपापघ्नं किमन्यच्छ्रोतुमिच्छसि ।
य इदं शृणुयान्मर्त्यः सर्वपापैः प्रमुच्यते १११।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये मधुवनमाहात्म्यंनाम चतुर्दशाधिकद्विशततमोऽध्यायः २१४ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 215
सौभरिरुवाच-
युधिष्ठिरेदमाकर्ण्य नारदस्य वचः शुभम् ।
शिबिरौशीनरो राजा विनीतस्तमुवाच ह १।
शिबिरुवाच-
मुने मया तु माहात्म्यं श्रुतं मधुवनस्य वै ।
त्वन्मुखात्किंतु संदेहो ह्येकोस्ति मम मानसे २।
येन धर्मात्मना सर्वे तारिता निजबांधवाः ।
जन्मद्वयकृता ह्यासीत्स कथं स्वैरिणीसुतः ३।
एतदाचक्ष्व भगवन्सर्वस्वं वेत्सि तत्त्वतः ।
अतीतं वर्त्तमानं च भविष्यमपि नारद ४।
नारद उवाच-
एकदा मुनयः सर्वे हरिद्वारे समागताः ।
दशम्यां ज्येष्ठशुक्लस्य युक्तायां सर्वपर्वभिः ५।
तत्र ते विधिवत्स्नात्वा कृत्वा च स्वक्रियां शुभाम् ।
हिमाचलस्य पृष्ठे तु स्वस्थचित्ता उपाविशन् ६।
तारात्मजो बुधस्तत्र मुनिसंगे समागतः ।
र्सौदर्यभरसंयुक्तः स्मरो मूर्त्त इवापरः ७।
तं समागतमालोक्य समुत्तस्थुर्मुनीश्वराः ।
तेनाभिवंदिता मूर्ध्ना पुनस्ते समुपाविशन् ८।
बुधस्यादरमालोक्य विहितं मुनिपुंगवैः ।
मुनिपुत्रः स पप्रच्छ पितरं स्वमिति प्रभो ९।
मुनिपुत्र उवाच-
कोऽयं तात समायातः सौंदर्येणापरः स्मरः ।
व्यासादिभिर्मुनिवरैर्भृशं तस्यादरः कृतः १०।
नारद उवाच-
इत्याकर्ण्य स धर्मात्मा स्वस्य पुत्रस्य भाषितम् ।
बभाषे मुनिशार्दूलः पुत्रं निर्बंधसंयुतम् ११।
पितोवाच-
बृहस्पतेः सुरगुरोः सुतस्तारोदरोदोद्भवः ।
बुद्धिमान्बुधनामायं शशिवंशकरः परः १२।
पुत्र उवाच-
किं त्वया कथितं तात निःसंबंधपरं वचः ।
बृहस्पतेः सुतो यस्तु स कथं शशिवंशकृत् १३।
जज्ञे न सूयया तात विधुरत्रेर्मुनीश्वरात् ।
तस्यवंशस्य कर्त्तायं कथं सुरगुरोः सुतः १४।
एष मे मानसे तात संशयो वर्तते महान् ।
तमपाकुरु विप्रेंद्र संदिहानस्य मे शिशोः १५।
पितोवाच-
पुरा बृहस्पतेर्भार्या तारानाम यशस्विनी ।
चंद्रेणापहृता तात बलाद्बलवता तदा १६।
अपहृत्य तदा नीता स्वगृहं विधिना गुरोः ।
भार्या सा तु तया सार्द्धं रमितं तेन वै चिरम् १७।
तस्मागर्भोऽभवत्तात कालेन कियता तदा ।
ततो बृहस्पतिर्भार्या निजां तां समयाचत १८।
चंद्रमापि मदाविष्टो न ददौ बलदर्पितः ।
ततो बृहस्पतिस्तात देवैः शक्रादिभिः सह १९।
सन्नद्धो योद्धुमारेभे समं बलवदिंदुना ।
सहायार्थं विधोः शुक्रः समं दितिजदानवैः २०।
समागतस्तदा तात तस्मिन्रणसमुद्यमे ।
ततस्तारानिमित्तं वै युद्धं प्रावर्त्ततोल्बणम् २१।
करिष्यते सर्वजनैः प्रधानं तारकामयम् ।
तस्मिन्युद्धे महाभीमे हता देवाश्च दानवाः २२।
न कस्यचिज्जयस्तात बभूव न पराजयः ।
ततः समागतो ब्रह्मा संनिवार्योल्बणं रणम् २३।
ददौ बृहस्पतेस्तारां बोधयित्वा निशापतिम् ।
बृहस्पतिस्तु तां वीक्ष्य तारां गर्भवतीं तदा ।
क्रुद्धो विरिंचेः प्रत्यक्षं समाजे देवदैत्ययोः २४।
बृहस्पतिरुवाच-
शृणुष्व मामकं वाक्यं तारे तरललोचने ।
कस्यायं ध्रियते गर्भो भवतेंदोर्ममाथवा २५।
पितोवाच-
एवं मुहुर्मुहुः पृष्टा सा च लज्जावती शुभा ।
यदा न कथयामास किंचित्तात तदग्रतः २६।
तदायं पश्यतां तेषां देवानां च सुरद्विषाम् ।
उत्पन्नस्तामुवाचेदं जननीं च रुषान्वितः २७।
बुध उवाच-
कस्मान्न कथ्यते दुष्टे मदीयो जनकस्त्वया ।
लज्जां विहाय संपश्य शापस्य मम वैभवम् २८।
पितोवाच-।
इत्युक्त्वा जलमादाय यदा शप्तुं समुद्यतः ।
तदा सा मंदमाहेदं पिता तव सुधाकरः २९।
इत्युक्ते च तया साध्व्या चंद्र स्वःतनयं बुधम् ।
अमुं गृहीत्वा सानंदं जगाम निजमंदिरम् ३०।
बृहस्पतिस्तु तां तारां गृहीत्वा स्वगृहं ययौ ।
ब्रह्मा देवाश्च दैत्याश्च तेपि स्वं स्वं गृहं ययुः ३१।
एतत्ते सर्वमाख्यातं यस्त्वं मां परिपृष्टवान् ।
बृहस्पतिस्त्रियां जातो यथायं चंद्रवंशकृत् ३२।
नारद उवाच-
इत्याकर्ण्य पितुर्वाक्यं जहासोच्चैर्मुनेः सुतः ।
उवाच च स्वपितरं कुंडोऽयं स्वैरिणीसुतः ३३।
उवाच च पिता पुत्रं हा पुत्रेदं न भण्यताम् ।
सर्वसत्वांतरज्ञोऽयं शप्स्यते त्वां त्वदुक्तवित् ३४।
नारद उवाच-
इत्युक्ते तेन मुनिना चांद्रिर्ज्ञात्वा तदीरितम् ।
सर्वेषां शृण्वतां प्राह मुनीनामिति भूपते ३५।
बुध उवाच-
शृण्वंतु मुनिशार्दूला भवंतो मम भाषितम् ।
यदि साध्वथवा साधु विचारयत मा चिरम् ३६।
भवतां तत्वबुद्धीनां दर्शनार्थमिहागतः ।
कृतवान्कस्यचिन्नाहमपराधं मनागपि ३७।
असूयया किमर्थं मामवजानंति दुर्मदाः ।
स्वजन्मसफलत्वाय भवद्दर्शनलालसः ३८।
स्वभाव एव दुष्टानां साधूनपि निरेनसः ।
उद्वेजयंति यत्क्वापि मिष्टवाचः पिका इव ३९।
दुःस्वभावं न मुंचंति दुष्टाः सत्संगमादपि ।
गंगाबुसंगमेनापि क्षारतामिव नीरधिः ४०।
अहो व्याधस्य दुष्टत्वं मुनिवृत्तीन्यतो मृगान् ।
वने मृगचरान्हंति निजगानविदोऽपि सः ४१।
मत्स्यैः किमपराद्धं हि धीवराणां दुरात्मनाम् ।
यज्जले चरतस्तीर्थे घ्नंति तत्प्रकृतिर्हि सा ४२।
साधवोऽपि न मुंचंति स्वभावं दुष्टसंगताः ।
वृता विषाग्नियुक्सर्पैः श्रीखंडा इव शीतताम् ४३।
परोदयेपि नृत्यंति किं स्वपक्षस्य साधवः ।
यथोन्मना मुनिवरा वारिवाहस्य बर्हिणः ४४।
धारयंति परार्थे हि निजांगमपि साधवः ।
पितृदेवमनुष्याणामर्थे मत्पितृवत्कलाः ४५।
निजोदयस्तु साधूनां स्वच्छस्यानंदहेतवः ।
यथा कुमुदपुष्पाणां मत्पितुः शीतलत्विषः ४६।
नारद उवाच-
इत्युदीर्य वचः क्रोधाद्बुधस्तं मुनिबालकम् ।
शशापेति त्वमप्याशु कुंडो भव महीतले ४७।
एवमाकर्ण्य तं शापं पिता बुधविसर्जितम् ।
स्वपुत्रं पातयामास तदंघ्र्योः क्षम्यतामिति ४८।
उवाच च न जानाति बालोऽयं तव वैभवम् ।
नोचितं क्रोधकरणमस्मिन्बाले भवादृशैः ४९।
कुतश्चित्कारणात्साधोः क्रुद्धस्य प्रकृतिक्षमा ।
हुताशनप्रतप्तस्य शीतत्वमिव चांबुनः ५०।
अतः क्षमां विधायाशु विधेह्यस्मिन्ननुग्रहम् ।
बाले विवेकरहिते क्षमासारा हि साधवः ५१।
नारद उवाच-
इत्युक्तस्तेन मुनिना शीतांशुतनयस्तदा ।
क्रोधं तत्याज शांतात्मा चक्रे तस्मिन्ननुग्रहम् ५२।
बुध उवाच-
अयं तव मुने बालः कुंडत्वं प्राप्य भूतले ।
दत्तयज्ञोपवीतः सँल्लप्स्यसे हि निजास्पदम् ५३।
एवं स मुनिपुत्रो वै बुधशापान्नृपोत्तम ।
कुंडत्वं प्राप्तवान्भूमौ पितरो येन तारिताः ५४।
इदं पवित्रं माहात्म्यं श्रुत्वा मधुवनस्य वै ।
समस्तमश्वमेधस्य फलं प्राप्नोति मानवः ५५।
ये नरा धारयंत्यस्य माहात्म्यस्यार्थमुत्तमम् ।
हृदये यत्र तत्तेषां विषयैर्नाभिभूयते ५६।
ये पठिष्यंति माहात्म्यं श्रोष्यंति च महाधियः ।
देहांते विष्णुसालोक्यं गमिष्यंति न संशयः ५७।
इदमनिशपवित्रं तुभ्यमावर्णितं मे मधुवनसुचरित्रं श्रीपतेः प्रीतिकारि ।
कलिकलुषकलापच्छेदने दक्षमक्षोत्पथगमननिरासे कारणं पुण्यमूर्तौ ५८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये मधुवनवर्णनोनाम पंचदशाधिकद्विशततमोऽध्यायः २१५।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 216
नारद उवाच-
अतो मधुवनाद्राजन्नयं बदरिकाश्रमः ।
एकादशधनुर्मात्रे भूभागे व्यवतिष्ठति १।
अस्य तीर्थवरस्याहं महिमानं महद्भुतम् ।
वर्णयामि पुरस्तात्ते यं श्रुत्वा मुच्यते भयात् २।
एकस्तु मगधे राजन्देवदासो हि नामतः ।
ब्राह्मणः सत्यवान्दांतः साक्षाद्धर्म इवापरः ३।
निष्णातः सर्वविद्यासु बृहस्पतिरिवापरः ।
हरिसंतोषको भक्त्या प्रह्लाद इव दैत्यराट् ४।
सस्त्रीकोऽपि स्मरं जेता पार्वत्याइव वल्लभः ।
सदाचारपरो नित्यं विश्वामित्रो मुनिर्यथा ५।
मगधेशगृहे मान्यो द्रोणतत्कुरुवेश्मनि ।
दानशीलः सुपात्रेषु बलिर्दैत्याधिपो यथा ६।
तस्यभार्योत्तमा नाम लक्ष्मीरिव गुणोत्तमा ।
पतिशुश्रूषणपरा यथाजनकनंदिनी ७।
तस्यैकश्च सुतो राजन्नंगदो नाम बुद्धिमान् ।
एका पुत्री तु वलया नाम सल्लक्षमणान्विता ८।
तयोर्ज्यायान्सुतः कन्या तस्माद्भूपकनीयसी ।
तयोर्यथाक्रमं चक्रे विवाहं स द्विजोत्तमः ९।
विवाहिता तु सा कन्या ययौ श्वशुरवेश्मनि ।
शुभलक्षणसंपन्ना कालेन कियता नृप १०।
अंगदस्तु महाबुद्धिर्गृहभारं बभार ह ।
पितृवत्सर्वशास्त्रज्ञो यौवनश्रीविभूषितः ११।
एकदा स तु विप्रेंद्रः पुत्रं तं गृहकर्मणि ।
क्षमं विज्ञाय राजेंद्र निजभार्यामुवाच ह १२।
देवदास उवाच ।
समाकर्णय मे साध्वि कालेऽस्मिन्नुचितं वचः ।
ततो यदुचितं भद्रे तदह्नाय विधीयताम् १३।
एषा जरा समायाता शरीरं पातयिष्यति ।
अंगान्याकंपयंतीव वात्या पक्वफलं यथा १४।
अक्ष्णामपि द्युतिं मंदां नूनमेषा करिष्यति ।
नक्षत्राणां सचंद्राणां प्रातर्वेलेव सुव्रते १५।
स्खलितो पादयोर्मंदां गतिं प्रतिपदक्रमम् ।
करिष्यति जरा ह्येषा यथानिगडशृंखला १६।
तस्मादेषा जरा यावन्न प्रौढा जायते शुभे ।
आत्मनस्तावदावाभ्यां करणीयं हि तं द्रुतम् १७।
गृहपुत्रसुहृद्भ्रातृपितरो हि विनश्वराः ।
द्रव्यादिकं च सुभगे तेषु सज्जेत नो बुधः १८।
अतोऽहं सर्वतीर्थेषु पयर्यटन्विजितेंद्रियः ।
वानप्रस्थेन विधिना वीक्षिष्ये हरिमीश्वरम् १९।
ततः संन्यासमादाय क्वचित्तीर्थोत्तमे शुभे ।
प्रारब्धकर्मणामंते त्यक्ष्यामि स्वं कलेवरम् २०।
एवं चेत्प्राणमुक्तः स्यान्मुक्तिः स्यान्नात्र संशयः ।
मम श्रीपतिपादाब्जसम्यक्स्थापितचेतसः २१।
उत्तमोवाच-
पुमान्वा स्त्रीजनो वापि को रमेत विनश्वरे ।
संसारे माधवं मुक्त्वा नित्याश्रममचेतनः २२।
तस्मान्मामपि जीवेश त्वत्पादांबुजसेविनीम् ।
नीत्वा स्वसंगमे तावद्विश्वाब्धेराशु तारय २३।
पुत्रोऽयमंगदः श्रीमान्गृहभारस्य धारणे ।
समर्थोऽभूत्स्नुषा चेयं कल्याणी तत्सहायिनी २४।
पुत्रे समर्थे यो मूढः पुरुषः स्त्रीजनोऽथवा ।
न विरज्येत यो मूढो वंचितः श्रेयसा हि सः २५।
नारद उवाच-
एवमन्योन्यमामंत्र्य दंपती तौ रहस्तदा ।
पुत्रमाहूय कथयांचक्रतुस्त्विदमंगदम् २६।
दंपत्यूचतुः-
जरागमश्लथद्गात्रावावां विद्धि त्वमंगद ।
स्वश्रेयसे यतिष्यावः कुत्रचित्पुण्यभूतले २७।
हरेराराधनं भक्त्या श्रेयः परममुच्यते ।
तदर्थमेव निष्कामा यतंते साधवो भुवि २८।
विषयेषु न संसक्तिः समत्वं सर्वजंतुषु ।
येषां हर्षविवादौ च न जातु सुखदुःखयो २९।
त एव साधवो लोके गोविंदपदसेविनः ।
तेषां दर्शनमात्रेण कृतार्थो जायते नरः ३०।
तीर्थानि पर्यटन्धीरस्तद्दर्शनसमुत्सुकः ।
भाग्योदयेन केनापि तद्दर्शनमवाप्नुयात् ३१।
तस्माद्भारं कुटुंबस्य भुजयोर्युगदीर्घयोः ।
आरोप्य नौ विसर्जस्व तीर्थयात्रार्थमंगद ३२।
तीर्थयात्राप्रसंगेन कदाचित्साधुदर्शनम् ।
भवेद्यदि तदा पुत्र द्वयोर्नौ स्यात्कृतार्थता ३३।
नारद उवाच-
इत्युक्तः पितृभ्यां पुत्रः साधुवादमवादयत् ।
नारद उवाच-
समस्तकुलनिस्तारो भवद्भ्यामयमीरितः ३४।
आशु मामवजानीतं किं करोमि भवद्धितम् ।
अहमाज्ञाकरो नित्यं युवयोः पूज्यपादयोः ३५।
पुण्यतीर्थेषु दानार्थं गृहीतं धनमुत्तमम् ।
नयतं मामपि प्रेष्यं सेवायै निजसंगमम् ३६।
नारद उवाच-
इत्युक्त्वा धनमादाय गत्वा क्रोशद्वयं तयोः ।
संगे गृहमगात्ताभ्यां कथंचित्संनिवर्तितः ३७।
तौ गृहीत्वा धनं किचिद्विष्णुर्नौ संयतामिति ।
कंदमूलफलाहारौ तत्रोषित्वा दिनत्रयम् ३८।
यदा तस्मात्प्रचलितौ दंपती जगतीपते ।
तदा मार्गे महान्कश्चित्सिद्धः संमीलितस्तयोः ३९।
ताभ्यामुभाभ्यां शिरसा वंदितः स उपाविशत् ।
उपविष्टस्तदा ताभ्यामिति पृष्टः स सिद्धराट् ४०।
को भवान्कुत आयातो किं चिकीर्षति तद्वद ।
सिद्ध उवाच-
सिद्धोऽहं तापसश्रेष्ठ कल्पग्रामे गृहं मम ४१।
इंद्रप्रस्थात्समायातो दृष्टं तत्र महाद्भुतम् ।
तत्रास्ति कपिलः सिद्धो नारायणसमो गुणैः ४२।
तस्मादहं पठन्सांख्यं निवसामि तदाश्रमे ।
एकदा मद्गुरुः श्रीमान्स्वाश्रमात्कपिलो ययौ ४३।
बदर्याख्यं महापुण्यं स्नातुं स यमुनाजले ।
तत्रैकोरण्यमहिषस्तृषार्तो यमुनाजले ४४।
प्रविष्टो जलमापीय पूर्वजन्मस्वमस्मरत् ।
स्मृत्वा स पूर्वकर्माणि महिषोऽरण्यसंभवः ४५।
जलान्निसृत्य तरसा ववंदे कपिलं गुरुम् ।
उवाच नरवाचा च मयि शृण्वति तापसः ।
यत्तत्ते कथयाम्यद्य शृणु त्वं परमाद्भुतम् ४६।
महिष उवाच-
भोभो विष्णुकलाभूत सिद्धानां कपिलेश्वर ।
किं नामेदं महातीर्थं नताय कथयस्व मे ४७।
अस्य तीर्थवरस्यांबुस्पर्शाद्वै पूर्वजन्मनि ।
जाता मम महाभाग पापस्यापि च कर्मणः ४८।
सिद्ध उवाच-
एवमाकर्ण्य तद्वाक्यं महिषस्य महामुनिः ।
जानन्नपि च तद्वृत्तं विहस्येदमुवाच ह ४९।
कपिल उवाच-
भवान्महिषशार्दूल क आसीत्पूर्वजन्मनि ।
तत्र किं कृतवान्कर्म योनिं येनाप माहिषीम् ५०।
महिष उवाच-
शृणुष्व मुनिशार्दूल वृत्तं वै पूर्वजन्मनः ।
अहमासं पुरा राजा कलिंगाधिपतिर्बली ५१।
स्वां परां नैव जानामि योषितं काममोहितः ।
वणिजां साधुवृत्तीनां धनहर्ता निरेनसाम् ५२।
निशीथे नगरे राजन् गतभीः पर्यटाम्यहम् ।
सुंदरीभिः परस्त्रीभिः क्रीडितुं रतिलीलया ५३।
यद्गृहे सुंदरीं नारीं पश्यामि स्मरमोहितः ।
वसामि निशि तत्राहं क्षेत्रे मध्ये गजो यथा ५४।
क्रीडित्वा तत्र निःशंकं धनं हृत्वा च तद्गृहात् ।
स्वगृहं पुनरायामि कियद्भिर्वासरैरहम् ५५।
उपविष्टः सभामध्ये दिवा द्वौ पुरबालकौ ।
अनार्यबाहुयुद्धेन योधयामि निजाग्रतः ५६।
नियोधयति यो बालस्तं मत्वा धनिनं बलात् ।
गृह्णामि तत्पितुर्वित्तं स्वल्पं वा भूरि वा मुने ५७।
यः पराजयते तत्र कातरत्वान्महामुने ।
नायमर्हः पुरे स्थातुं ममेति विनिहन्मि तम् ५८।
एवमप्यद्यमारेभे वर्त्तमाने महीपतौ ।
पौरा नगरमुत्सृज्य प्रययुर्विषयांतरम् ५९।
एकदा मुनिशार्दूलो दुर्वासा पर्यटन्महीम् ।
पुरे मम समायातो दुर्वासा रुद्रसंभवः ६०।
मिलित्वा नागराः सर्वे तदाजग्मुस्तदंतिके ।
प्रणिपत्येदमाहुस्तं स्वदुःखज्ञापकं वचः ६१।
पौरा ऊचुः
आत्रेय मुनिशार्दूल कृपां कुरु कृपानिधे ।
अधर्मनिरतं भूपमेनं धर्मेण योजय ६२।
भाग्योदयेन केनापि भवानस्माकमागतः ।
उद्वेलाद्भूपदुःखाब्धेरस्मांस्तारय पोतवत् ६३।
धनं लोभयतातेन हृतं नो मुनिपुंगव ।
दूषिताश्च स्त्रियः साध्व्यः सकामेन निरेनसा ६४।
दशवत्सरदेशीया बहवः शिशवो हताः ।
अगण्य वैगुण्यनिधिरेष भूपो महामुने ६५।
महिष उवाच-
एवमाकर्ण्य पौराणां वचः स मुनिरत्रिजः ।
दंड्योयमिति संचित्य सभास्थं मामथा ययौ ६६।
दृष्ट्वा हि तं समायांतमवधूतं दिगंबरम् ।
आवारयमहं भृत्यैर्नेत्ययं दर्शनोचितः ६७।
रेणुना सर्वलिप्तांगो महिषाकृतिरेव वै ।
वार्यतामिति पार्श्वस्थान्बहुशोऽहं समादिशम् ६८।
ततस्ते तरसा भृत्यास्तं वारयितुमभ्यगुः ।
हुंकारेणैव तान्सर्वान्स चक्रे भस्मसान्मुनिः ६९।
यज्ञाश्वं रक्षतः स्वस्य पितुस्त्वमिव सागरात् ।
सर्वशस्तानहं भृत्यान्भस्मीभूतांस्तु तेजसा ७०।
आलक्ष्य सहसोत्थाय गृहमावेष्टुमुद्यतः ।
रेरे पापेति संबोध्य ततो मां मुनिसत्तमः ७१।
शशापेति महारण्ये महिषो भव सांप्रतम् ।
तेनाहमिति शप्तो वै मुक्त्वा राजतनुं तदा ७२।
मरुदेशे महारण्ये जातोऽहं महिषो मुने ।
चिरकालमहं तत्र न्यवसं मुनिपुंगवः ७३।
अत्रागतस्तु केनाहं पुण्येन तदपि शृणु ।
वापीकूपसरस्यस्तु बहबः कारिता मया ७४।
सहकारादिवृक्षाणामारोपो विहितः पथि ।
पुण्येनानेन मे देव पातो न नरकेऽभवत् ७५।
तीर्थस्य च मया प्राप्तो ह्यमुष्यजलसंगमः ।
एतत्ते कथितं सर्वं पूर्वजन्मशुभाशुभम् ७६।
येन तीर्थं मया प्राप्तमेतद्योनिश्च माहिषी ।
अस्यतीर्थवरस्यांबुस्पर्शाज्जातिस्मरोभवम् ।
कथमस्या असद्योनेर्मुक्तिः स्यात्तन्मुने वद ७७।
कपिल उवाच-
एतत्तीर्थं महापुण्यं बदर्याख्यं रमापतेः ।
अत्र स्नाहि द्रुतं कामं स्वचित्तस्थं हि लप्स्यसे ७८।
सिद्ध उवाच-
एतच्छ्रुत्वा वचस्तस्य महिषस्य महामुने ।
तत्र तीर्थे वरे स्नातुं प्राविशत्स्वर्गवांछया ७९।
स्नात्वा स्वर्गेच्छया तस्मिन्जलात्तटमुपागते ।
तत्क्षणं गजमारूह्य शक्रः स्वर्गात्समाययौ ८०।
इंद्र उवाच-
हे कलिंगपते नैजं देहं जहि हि माहिषम् ।
प्रतिलभ्य वपुर्दिव्यं सममायाहि मे दिवम् ।
त्वया स्वर्गेच्छया स्नातं प्राप्तं तत्ते सुरास्पदम् ८१।
सिद्ध उवाच-
इत्युक्तः स तदा तेन त्यक्त्वा देहं तु माहिषम् ।
दिव्यं वपुः समासाद्य गजराजं समारुहत् ८२।
गजराजं समारुह्य स्थित्वा च गगने क्षणम् ।
प्रणम्य शिरसा देवं तुष्टाव कपिलं मुनिम् ८३।
कलिङ्ग उवाच ।
नमस्ते परमेशान केवलज्ञानहेतवे ।
सेतवे वेदविद्यानां रिपवे तद्विरोधिनाम् ८४।
त्वत्तः प्रवृत्तिः सांख्यस्य जाता तत्वावबोधिनी ।
देहिनां मायया ग्रस्त चेतसामपि ते विभो ८५।
ये वेदविहितं त्यक्त्वा वर्तंते स्वेच्छया मुने ।
तान्दंडयसि दंड्यांस्त्वं मज्जयंस्तिर्यगादिषु ८६।
इंद्रादयो लोकपालाः सर्वे त्वदधिकारिणः ।
त्वदिच्छामनुवर्तंते भीता दंडकृतो हि ते ८७।
त्रयीधर्मविरोद्धारः पूर्वदेवा युगे युगे ।
अवतीर्य विनाशाय कृता सर्वात्मना त्वया ८८।
ये ये त्वया हता नाथ चक्रिणा त्रिदशारयः ।
ते ते तमोमयीं हित्वा तनुं वैकुंठमभ्यगुः ८९।
आज्ञापय जगन्नाथ गंतु मां त्रिदशालयम् ।
अनुगृह्णीष्व शक्रं च नमंतं वीक्षणामृतैः ९०।
प्रसादात्तव देवेश बदर्याख्यस्य च प्रभो ।
तीर्थस्य स्वतनुं हित्वा तामसीं सात्विकीं गतः ९१।
इंद्रेण सह नागेंद्रमारुह्य त्रिदशालयम् ।
गच्छामि स्वेच्छया नाथ कृपातस्ते कृपानिधेः ९२।
सिद्ध उवाच-
इत्यभिष्टूय देवेशं कपिलं स कलिंगपः ।
नमस्कृत्य च तत्पादौ जगाम त्रिदशालयम् ९३।
एतन्मयाद्भुतं विप्र दृष्टं बदरिकाश्रमे ।
गुरुं शुश्रूषमाणेन पापस्यापि विमोक्षणम् ९४।
नातः परं त्रिलोक्यां तु तीर्थं सर्वार्थदायकम् ।
याहि तत्रैव सस्त्रीकः परं श्रेयो यदीच्छसि ९५।
अहं यामि समानेतुं बदर्याख्यं गृहान्द्विज ।
वृद्धं स्वकीय पितरं निस्पृहं मोक्षकामुकम् ९६।
नारद उवाच-
इति तीर्थवरस्यास्य बदर्याख्यस्य भूपते ।
महिमानं समुत्कीर्त्य स सिद्धः स्वगृहं ययौ ९७।
अथ कालेन कियता स द्विजः सह भार्यया ।
तीर्थानपर्यटन्धीरः इंद्रप्रस्थेभ्यगादहम् ९८।
तेनैव वपुषा राजन्नीतवांस्तौ निजालयम् ।
ससिद्धोऽपि स्वपितरं गृहादानीय सत्वरः ९९।
तत्रैव स्नापयामास तत्तीर्थे मोक्षकामुकम् ।
सोऽपि श्रीवासुदेवेन वृद्धः सिद्धपिता तदा १००।
ततो नीतो निजगृहं वृंदारकविवंदितः ।
इंद्रप्रस्थांतरगतमिदं सद्बदर्याख्यमीशः स्नानाद्दद्यादखिलजनिता मानसेष्टं पदार्थम् ।
माहात्म्यं ते नृपनतिमते वर्णितं तस्य पूतं यच्छ्रुत्वा वै पतति न जनो मातृगर्भे कदाचित् १०१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये बदरिकाश्रमवर्णनंनाम षोडशाधिकद्विशततमोऽध्यायः२१६।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 217
राजोवाच-
वर्णितं मे त्वया साधो माहात्म्यं बदरीभवम् ।
यं निशम्य मनो याति मम निर्मलतां मुने १।
एतदद्भुतमाहात्म्यं शक्रप्रस्थाख्यमुत्तमम् ।
सकलं मुनिशार्दूलचतुवर्गप्रदायकम् २।
भुवि नातः परं तीर्थं वतिरश्चातमपि मुक्तिदम् ।
श्रेष्ठं सकलपापघ्नं दर्शनादेव नारद ३।
एतदंतर्गतस्यास्य हरिद्वारस्य नारद ।
माहात्म्यं श्रोतुमिच्छामि त्वत्तः संतोषकारकात् ४।
मामुद्धर मुने दीनमविद्याकामकर्म्मभिः ।
वर्णनेनास्य तीर्थस्य शक्रप्रस्थगतस्य वै ५।
नारद उवाच-
आकर्णय महाभाग वर्णयामि तवाग्रतः ।
हरिद्वारस्य माहात्म्यमश्वमेधफलप्रदम् ६।
अत्रैकः श्वपचः पापः यथास्वर्गतिमाप्तवान् ।
तत्तेऽहं कथयाम्यद्य शृणुष्वैकमनाः प्रभो ७।
धर्मक्षेत्रे कुरुक्षेत्रे कालिग इति विश्रुतः ।
श्वपचः पापकर्म्मा वै वसति स्म पुराद्बहिः ८।
पंचषड्वर्षदेशीयान्बालान्नगरवासिनाम् ।
प्रसह्य वंचयित्वा च वने नीत्वा जघान सः ९।
तेषामलंकारमयं रजतं हेमवन्नृपः ।
रत्नादिकं च कायस्थं हत्वा तान्जगृहेऽधमः १०।
विवेश साधुनिलये रात्रौ धनजिहीर्षया ।
पथिकान्धनमालक्ष्य स जघ्ने निर्जनं वने ११।
कुरुक्षेत्रे समायाता एकदा रविपर्वणि ।
नानादिग्भ्यो जना राजन्नानादान जिहीर्षया १२।
तस्मिन्यथाविधि स्नात्वा रविपर्वणि भूपते ।
दानं दत्त्वा यथावच्च लोकाः स्वान्स्वान्गृहान्ययुः १३।
एकः कश्चिद्विशां श्रेष्ठो धनेन महता यतः ।
पश्चात्सर्वजनेभ्यस्तु चचाल स्वगृहंप्रति १४।
अश्ववारः पदातीनां विंशतिं पुरतो दधत् ।
कालिगः स महापापस्तमनुप्रस्थितः श्रियै १५।
कतिचिद्वसतीर्गत्वा सह तेन विशाधमः ।
सॐऽत्यजस्तद्धनं हर्तुं न लेभे समयं नृप १६।
बलेनापि गृहीतुं न क्षमोऽभूत्तस्य सश्रियम् ।
वैश्यस्तु जनविंशत्या संयुक्तस्तु स एकलः १७।
अत्रागतः स पापात्मा वैश्यस्यार्थेन पार्थिव ।
निशीथे शिबिरं तस्य धनं हर्त्तुं समाविशत् १८।
एकेन तस्य वैश्यस्य जनेन स तु लक्षितः ।
प्रविशन्नेव पापात्मा ददता प्रहरं स्वकम् १९।
तमालक्ष्य समीपस्थं स जनः प्रहरप्रदः ।
उभयोः पादयोराजन्स्वपन्नेव गृहीतवान् २०।
तौ गृहीत्वा जनानन्यान्बोधयन्प्रहरप्रदः ।
हस्तेनैव तु पापेन चौरेणाघातितो हि सः २१।
श्रुत्वा पलायमानस्तु गृहीतोऽन्यैर्जनैस्तदा ।
गृहीतारं पुनर्हत्वा सहसा स पलायितः २२।
एकेन केनचिद्राजन्सेवकेन धनुर्भृता ।
दूरादेव शरेणाशु धावन्स निहतोऽधमः २३।
हतमात्रः शरेणाशु तत्याज स च जीवितम् ।
चौरेण निहतौ राजन्वैश्यस्यानुचरावुभौ २४।
ते त्रयो वरयानानि गणानीतानि भूपते ।
समारुह्य दिविस्थित्वा वैश्यमेतद्बभाषिरे २५।
कालिगवैश्यानुचरा ऊचुः ।
भो भो वैश्यपते साधो तीर्थमेतदनुत्तमम् ।
इंद्रप्रस्थे हरिद्वारं शिवकृत्पापिनामपि २६।
वयं त्रयः सुतीर्थेऽस्मिन्नपमृत्युगता अपि ।
गच्छामस्त्रिदिवं वैश्य सांप्रतं शिवमस्तु ते २७।
श्रीनारद उवाच-
इत्युक्त्वा ते ययुः स्वर्गं शिवे शिवकृतां पदम् ।
यत्रेच्छया हि लभ्यंते भोग्यवस्तून्यनेकशः २८।
अथ रात्रौ व्यतीतायां प्रातरत्र विशांवरः ।
स्वभृत्यदेहयोः कृत्वा दाहमस्थीन्यपातयत् २९।
तीर्थेऽत्र पात्यमानेषु भृत्यौ तावस्थिषु प्रभो ।
स्वर्गात्पुनरिहायातौ तं वैश्यमिदमूचतुः ३०।
भृत्या ऊचतुः ।
भो भो वैश्यपते साधो तीर्थेऽत्र मरणाद्भुवि ।
पापानामपि जंतूनां स्वर्गप्राप्तिर्न संशयः ३१।
स्थले मृतस्य जंतोश्चेत्पतंत्यस्थीनि वारिणि ।
तीर्थस्यास्य तदा वैश्य सत्यलोके स्थितिर्भवेत् ३२।
स्थले मृताभ्यामावाभ्यामस्थिपातेन वारिणि ।
संप्राप्ता ब्रह्मणो लोके स्थितिराब्रह्मसंस्थिते ३३।
स्थले मृतस्य चौरस्यापेतुरस्थीनिनांबुनि ।
यतोऽत स विशांनाथ तस्थौ वृंदारकालये ३४।
तस्यापि देहमन्विष्य तीर्थेस्मिन्नाशु पातय ।
यथासोऽपि सुरश्रेष्ठ प्राप्नुयान्नौ गतिं पराम् ३५।
उपकारः सदाकार्यः परेषामपि साधुभिः ।
अपकारो न मंतव्यः कृतो भृशमसज्जनैः ३६।
नारद उवाच-
इत्युक्त्वा तौ महाभागौ गतौ हरिपुरं प्रति ।
हरिद्वारस्य तीर्थस्य सलिलेनास्थिपातनात् ३७।
स वैश्यस्तु महाभागस्तस्य चौरस्य विग्रहम् ।
दग्धुमन्वेषयामास न लब्धं तत्तु भूपते ३८।
पुनरावृत्य तत्रैव सर्वतीर्थशिरोमणौ ।
हरिद्वारे महाराज स सस्नाविति वांच्छया ३९।
अहमुत्पाद्य सत्पुत्रान्धर्म्मार्जितधनेन च ।
संतोष्य विप्रान्बंधूंश्च विष्णुमाराध्य सेवया ४०।
त्वय्येव मरणं प्राप्य गच्छामि हरिमंदिरम् ।
तीर्थराज नमस्तुभ्यमेतत्कर्तव्यमस्ति ते ४१।
इति कामनया राजन्स वैश्यस्तत्र कामदे ।
तीर्थे स्नात्वा गतः सर्वैर्भृत्य्स्वं समगाद्गृहम् ४२।
तत्र गत्वा सपत्न्यां तु पुत्रानुत्पाद्य बुद्धिमान् ।
धर्मोपार्जितवित्तेन तोषयामास बांधवान् ४३।
भक्त्या परमया राजन्नाराध्य कमलापतिम् ।
तीर्थेऽस्मिन्मरणं प्राप्तो यतो वैकुंठमाप्नुयात् ४४।
इति वै वर्णितो राजंस्तीर्थस्य महिमा तव ।
हरिद्वारस्य पुण्यस्य श्रवणेऽस्य फलं शृणु ४५।
तिलद्रोणस्य दानेन माघे यत्फलमाप्नुयात् ।
जनस्तत्फलमाप्नोति शृण्वन्माहात्म्यमस्य तु ४६।
गोपीचंदन दानेन ब्रह्मपत्रेषु भोजनात् ।
यत्फलं तन्महिम्नोऽस्य श्रवणादेव कार्तिके ४७।
जागरे च प्रबोधिन्यां प्रहरे पश्चिमे नृप ।
यत्फलंन्तन्महिम्नोऽस्य तीर्थस्याकर्णनाद्भवेत् ४८।
हरिद्वारस्य सदृशं शक्रप्रस्थगतस्य वै ।
न तीर्थं पृथिवीलोके चतुर्वर्गफलप्रदम् ४९।
इतिं श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे इंद्रप्रस्थमाहाम्त्ये हरिद्वारवर्णनंनाम सप्ताधिकद्विशततमोऽध्यायः २१७ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 218
नारद उवाच-
भूयः शृणु महाभाग माहात्म्यं परमाद्भुतम् ।
अत्रस्थितस्य तीर्थस्य पुष्करस्य शिवप्रदम् १।
प्रसादात्तस्य तीर्थस्य विष्णुः सर्वसुरेश्वरः ।
प्रसन्नं पुंडरीकस्य मासमेकं गृहे वसेत् ।
अत्र मुक्तिं तदनुजो लेभे पापरतोऽपि हि २।
शिबिरुवाच-
कः पुंडरीको धर्मात्मा कृतं तेन च कर्म्म किम् ।
येन प्रसन्नो भगवांस्तद्गृहे मासमावसत् ३।
कथं तदनुजः प्राप पापात्मा श्रीहरेः पदम् ।
तीर्थस्यास्य प्रसादेन सर्वमाख्याहि मे मुने ४।
शृण्वतोऽस्य न संतोषो माहात्म्यं मम जायते ५।
नारद उवाच-
विदर्भनगरे राजन्मालवाख्ये महायशाः ।
ब्राह्मणो ब्रह्मविच्छांतो विद्वान्विष्णुपरायणः ६।
देवर्षिपितृभूतानां मानुषाणां च पोषकः ।
विषयेषु न संसक्तो लोभमोहादिवर्जितः ७ ।
स एकदा महाभाग सिंहं प्राप्ते बृहस्पतौ ।
गोदावरीं महापुण्यां स्नातुं प्रतिजगाम ह ८।
दातुं तत्र सुवर्णस्य गृहान्निन्ये पलायुतम् ।
गच्छन्पथि स धर्मात्मा मनसैतदचिंतयत् ९।
मालव उवाच-
गृहाद्दानार्थमानीतं मया हेमपलायुतम् ।
यस्मै कस्मै न दातव्यं दातव्यं पूज्य साधवे १०।
निष्किंचनाय विप्राय पात्रायानुपकारिणे ।
पूज्याय देशे काले च दत्तमक्षयतां व्रजेत् ११।
उञ्छवृत्त्या समानीतं दत्त्वा दुर्वाससे मुनिः ।
शिलोंच्छवृत्तिर्धर्मात्मा स्वं त्यक्त्वा गात्परं पदम् १२।
दानवेंद्रो बली राजा पात्रं विज्ञाय वामनम् ।
विपक्षायाप्यदात्तस्मै त्रिलोकीं स्वभुजार्जिताम् १३।
तस्मात्पात्राय दातव्यं धनं धर्म्माजितं मया ।
गोविंदतुष्टये सम्यक्वांच्छनीयं न तत्फलम् १४।
पुंडरीकस्तु धर्मात्मा भागिनेयो गजाह्वयात् ।
आयास्यति मयाहूतः सर्वपात्रशिरोमणिः १५।
आनीतस्य धनस्यार्द्धं तस्मै पात्राय सूनवे ।
स्वसुर्द्दास्यामि शेषं तु श्रोत्रियेभ्यो यथाविधि १६।
नारद उवाच-
एवं विचिंत्य धर्मात्मा मालवं स द्विजोत्तमः ।
कतिचिद्वासरैः प्राप्तः पुण्यां गोदावरीं नृप १७।
मिलितस्तस्य धर्मात्मा पुंडरीकः स्वसुः सुतः ।
तस्य वै पूर्वमायातो मालवस्य महीपते १८।
स तत्र विधिना स्नात्वा सिंहसंक्रमवासरे ।
पुंडरीकाय वित्तार्द्धं ददौ मे प्रीयतां हरिः १९।
पुंडरीकोऽपि धर्मात्मा स्नात्वा गोदावरीजले ।
स्ववित्तस्य चतुर्थांशं श्रोत्रियेभ्यो ददौ मुदा २०।
स तत्र विधिवत्स्नात्त्वा दत्वा दानं च शक्तितः ।
गच्छंतं स्वगृहान्राजन्नित्युवाच स्वसुः सुतम् २१।
मालव उवाच-
गुरून्प्रति नमस्कारो वाच्यो आशीर्लघून्प्रति ।
यथावयोर्हि संयोगः क्षणिकोऽयं बभूव ह २२।
एवं हि सर्वजंतूनां पुत्रदारादिभिः सह ।
तस्मात्क्षणिकसंयोगात्संसाराद्यः सुधीर्नरः २३।
विरज्येत कृपापात्रं स हरे स्याद्विनिश्चितम् ।
कृपातः श्रीहरेः प्राणी सत्संगमरतो भवेत् २४।
तस्तस्य हरेर्लीलाश्रवणेच्छा हि जायते ।
श्रुत्वा च कीर्तिता सद्भिर्हरिलीला अपि स्वयम् २५।
सुस्पृहं कीर्त्तयत्येव ततः स्मरति केवलम् ।
ततस्तस्य भवेत्प्रेमगोविंदपदसेवने २६।
नरस्ततस्तरत्याशु पोतेनेव महार्णवम् ।
एतदर्थं हि साधूनां ज्ञानिनां कर्मणां तथा ।
यत्नो भवति धर्मात्मन्नपि त्वं यत्नवान्भव २७।
नारद उवाच-
एवमुक्त्वा स वैदर्भः सुतं कथमपि स्वसुः ।
विसृज्याश्रुमुखो वाष्पपर्याकुलदृशं ययौ २८।
पुंडरीकोऽपि धर्मात्मा चचाल स्वगृहं प्रति ।
कतिभिर्वासरै राजन्नागतोऽत्र शुभास्पदे २९।
भरताख्यं कनीयांसं भ्रातरं पतितं भुवि ।
श्वसंतं क्षतनिर्गच्छद्रुधिराक्तमवैक्षत ३०।
पप्रच्छ च रुदन्नुर्च्च्भ्रातः केनेदृशीं दशाम् ।
गमितोसि किमर्थं वा गृहादिह समागतः ३१।
इति पृच्छति राजेंद्र पुंडरीके सपीडया ।
महत्या भरतः सद्यः पीडितोसूनमुंचत ३२।
अवातरत्तदा यानमेकं सगणमद्भुतम् ।
आकाशात्पश्यतां भूप जनानां तद्गुरोरपि ३३।
तदारुह्य स दिव्यांगो भरतः पापकार्यपि ।
उवाच वचनं ज्येष्ठं भ्रातरं विनमन्निदम् ३४।
भरतोवाच-
पुंडरीक महाबुद्धे तीर्थस्यास्य प्रसादतः ।
पुष्करस्य मया प्राप्ता पापिनापि दिवि स्थितिः ३५।
मदीयं दारुणं कर्म भ्रातर्जानासि यद्यपि ।
तथापि कथयाम्यद्य किंचिदज्ञातमस्ति ते ३६।
यथा मया प्रभावत्या वेश्यया रमितं सह ।
तद्गृहं व्ययितं भूरि धनं च मदिराकृते ३७।
द्यूतेन हारितं यच्च चौरकर्मसमार्जितम् ।
शिवरात्र्यां मया शंभुनिर्माल्यं यच्च भक्षितम् ३८।
यत्कृते भवता विप्रो जेबुको नाम दूषितः ।
एतन्मया कृतं कर्म्म विदितं पुंडरीक ते ३९।
गोदावरीं गते भ्रातस्त्वयि यत्कृतवानहं ।
न तत्ते विदितं कर्म कथयामि तदप्यहो ४०।
चलितेत्वय्यतिक्रांतोयदापक्षस्तदाह्यहम् ।
श्रुतवानिति लोकेभ्यो वचनं हरिदुःसहम् ४१।
पुंडरीको धनं दातुमाहूतो मातुलेन हि ।
निजसोदरमाहत्य पुंडरीकं तदा हृतम् ४२।
गृहीष्यामि धनं भूरि मालवेन समर्पितम् ।
महता वसुना तेन तोषयामि प्रभावतीम् ४३।
दुरोदरेण क्रीडामि स्वेच्छया तद्विदैः सह ।
इत्यालोच्य त्वदध्वानं निरुध्याहमिह स्थितः ४४।
हत्वा त्वां च धनं भूरि गृहीतुं च महामते ।
अतिक्रांते धने भ्रातः कुतश्चित्सार्थमागतः ४५।
वणिजामत्र सुप्तोऽहं रात्रौ तत्र महामते ।
अथ कश्चिन्निशीथे तु तस्करो वणिजां धनम् ४६।
हर्तुं तत्र समाविष्टः सार्थे जनसमाकुले ।
नीत्वा यदा धनं किंचित्स चौरस्तु पलायितः ।
तमन्वधावन्सहसा क्रोशंत इव सेवकाः ४७।
सेवका ऊचुः ।
गृह्यतां गृह्यतामेष चौरोऽयं याति सत्वरम् ।
मध्याद्बहूनामस्माकमपहृत्य धनं बहु ४८।
भरत उवाच-
इत्याकर्ण्य वचस्तेषां पुरतस्तु तमन्वहम् ।
अधावं सहसा भ्रातस्तद्गृहीतुं जिहीर्षया ४९।
ततस्ते वणिजां भृत्या ज्ञात्वा मां तस्य रक्षकम् ।
प्रजहुस्तरसा सर्वे सखड्गं खड्गपाणयः ५०।
तेषु कश्चिद्द्विजश्रेष्ठो ब्राह्मणोऽहमिति ब्रुवन् ।
खड्गेन शितधारेण मया पापीयसा हतः ५१।
वणिजां सेवकैस्तैस्तु खड्गधारैरहं हतः ।
गतास्ते वणिजः प्रातर्निजगंतव्यनीवृतम् ५२।
ततो भवानिह प्राप्तः श्वसंतं मां ददर्श ह ।
चलद्रुधिरलिप्तांगं पीडामोहविचेतनम् ५३।
इत्येतत्कथितं भ्रातर्यदर्थमहमागतः ।
अपमृत्युं यथा प्राप्तस्तच्चापि कथितं मया ५४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कालिंदीमाहात्म्येऽष्टादशाधिकद्विशततमोऽध्यायः २१८ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 219
नारद उवाच-
इत्याकर्ण्य वचस्तस्य पुंडरीको महामनाः ।
उवाच निजबंधुं तं शृण्वतां निजसंगिनाम् १।
पुंडरीक उवाच-
केन पुण्येन तीर्थेऽस्मिन्मृत्युर्भरत तेऽभवत् ।
यदि जानासि तद्ब्रूहि पापं विख्यातमेव ते २।
भरत उवाच-
पुंडरीक शृणुष्वेदं कथयामि तवाग्रतः ।
एतत्तीर्थप्रदं पुण्यं कृतं यदिह जन्मनि ३।
एकदा तु धनं जित्वा समागच्छन्निजं गृहम् ।
अपश्यं मृतकं बालं मृतस्यानाथमापणे ४।
निधाय तमहं मूर्ध्नि नीत्वा गंगातटे शुभे ।
वस्त्रादिभिरलंकृत्य चक्रे दाहादिसत्क्रियाम् ५।
द्यूतेनोपार्ज्जितं द्रव्यं तत्सर्वं व्ययितं मया ।
तेन पुण्येन प्राप्तं मे तीर्थमेतच्छुभावहम् ६।
कुरु त्वं मम देहस्य संस्कारं दाहपूर्वकम् ७।
श्रीनारद उवाच-
संस्कारे विहिते राजन्भरतः पापवानपि ।
तीर्थस्यास्य प्रसादेन पुष्करस्य गतो दिवि ।
मासमेकं यथा विष्णुः पुंडरीकगृहे हरिः ८।
उवासास्य प्रसादेन तीर्थस्य शृणु सांप्रतम् ।
अत्र तीर्थे स धर्मात्मा भरतस्यापि सद्गतिम् ।
दृष्ट्वेति हृदये मेने तीर्थमेतत्तु कामदम् ९।
अत्रेति वांच्छया सस्नौ पुंडरीकः स पंडितः ।
माघमासं स्वरूपेण हरिर्वसतु मे गृहे १०।
एवं स्नात्वा स कामेन ययौ निजगृहं प्रति ।
तीर्थेऽत्र नृपतिश्रेष्ठ पुंडरीकोऽखिलार्थदे ११।
बंधुभ्यो मरणं भ्रातुर्भरतस्य जगाद ह ।
तेपि श्रुत्वा शुचं चक्रुर्माययावृतबुद्धयः १२।
पुंडरीकस्तदा कुर्वन्गृहे स्वस्मिन्निजक्रियाः ।
उवासेति महानंदस्तपस्यायास्यते हरिः १३।
पूर्णिमायामथो पौष्यां चक्रे स परमोत्सवम् ।
मत्वेति श्वो गृहे मह्यं हरिरायास्यति ध्रुवम् १४।
श्रीखंडजलसेकेन गोमयालेपनेन च ।
मुक्ताचूर्णचतुष्केन समस्कुरुत केतनम् १५।
शतद्वयं ब्राह्मणानां नानाभोज्यैरभोजयत् ।
वह्वीभिर्दक्षिणाभिश्च तानेव समतोषयत् १६।
नानावादित्रकुशलैः कलकंठैश्च गायनैः ।
रजन्यां स्वजनैर्गायंश्चक्रे जागरणं तथा १७।
अथ प्रभाते तान्सर्वान्गायनादीन्विसृज्य सः ।
गोविंदागमनाकांक्षी गृहमध्ये उपाविशत् १८।
अथ तस्य गृहाभ्यासे निवर्त्य निजवाहनम् ।
प्राविशद्गृहमध्ये तु कर्तुं स्वजनवांछितम् १९।
स पुंडरीकस्तं दृष्ट्वा माधवं समुपागतम् ।
उत्थायासनतस्तूर्णं ववंदे शिरसा नृप २०।
उवाच च स धर्म्मात्मा गोविंदालोकनिर्वृतः ।
संपूज्यार्घादिदानेन विष्टरे तं निवेशितम् २१।
पुंडरीक उवाच-
भवता भव तापघ्नं सुस्पष्टं तदनुष्ठितम् ।
तावदत्र त्वया विष्णो स्थीयतां स्थितिकारिणा २२।
यावदस्य पुनीतस्य समाप्तिस्तपसो भवेत् ।
यत्र त्वं सेवकास्ते च वसंति परिचर्यया २३।
तत्रैव खलु वैकुंठं सर्वदोषविवर्जितः ।
यद्गृहे तव कर्माणि वर्ण्यं ते साधुभिर्विभो २४।
हरिर्निवसते तत्र सन्मुखादिति नः श्रुतम् ।
येषां वचसि ते नाम हृदि रूपं च सुंदरम् २५।
कर्णयोश्च गुणारोपस्त एव खलु साधवः ।
भवतो भवते स्वांतं येषां शुश्रूषणे विभो २६।
उत्तमांगे च निर्माल्यं त एव खलु साधवः ।
येषां तु बुद्धिः शत्रौ च मित्रे च कमलापते २७।
चयापचययोश्चैव त एव खलु साधवः ।
येषां विकुरुते चेतो न विकारस्य कारणे २८।
संति लक्ष्मीपते नूनं त एव खलु साधवः ।
यत्र त्वं साधवस्तत्र संतो यत्र ततो भवान् ।
भवानतो विज्ञाय तां साधुं माघे मम गृहे वस २९।
नारद उवाच-
इत्याकर्ण्य वचस्तस्य पुंडरीकस्य माधवः ।
उवाच वचनं भासादंतानां भासयन्दिशः ३०।
श्रीभगवानुवाच-
साधूनामुत्तमः साधुस्त्वं पृथिव्यां महामते ।
यत्त्वया पुण्यतीर्थे तु स्नातं मत्संगवांछया ३१।
उत्तिष्ठ जाह्नवीतोय माघे स्नानं कुरु द्विज ।
माघांते स्नापयामि त्वां पूर्णिमायां तु पुष्करे ३२।
प्रयागे माघमासे तु पूर्णं यत्स्नानजं फलम् ।
तत्सर्वं पुष्करे तीर्थे दिनैकस्नानतो भवेत् ३३।
नारद उवाच-
एवमुक्तः स विप्रेंद्रः पुंडरीको मुरारिणा ।
किंचिदभ्युदिते सूर्ये स्नानं गंगाजलेऽकरोत् ३४।
प्रत्यक्ष पुंडरीकाक्ष पुंडरीकः समर्चयत् ।
तुलसीविकसत्पुष्पयवकुंकुमचंदनैः ३५।
धूपैरगरुजैरंगवासितांगं रमापतिम् ।
नीराजयति कर्पूरदीपकैः पंचभिः स्म सः ३६।
चतुर्विधमयैर्भोज्यैर्भोजयित्वा जगद्गुरुम् ।
सुप्तं स मणिपर्यंके चामरैस्तमवीजयत् ३७।
पादसंवाहनं जातु चक्रे तस्य रमापतेः ।
जातकर्पूरसंयुक्तं ददौ तांबूलवीटकम् ३८।
उष्णीषं बध्नतस्तस्य श्रीपतेः पुरतस्तदा ।
तस्थौ जातु स विप्रेंद्रः करेणानीय दर्पणम् ३९।
एवं निजगृहे तस्य वसतः स भवच्छिदः ।
सपर्यां विदधद्विप्रो माघं निन्ये स मस्तकम् ४०।
अथ माघावसाने तु पूर्णिमायां रमापतेः ।
स्मृतिमात्रागतं तार्क्ष्यमपश्यत्पुरतः स्थितम् ४१।
तं दृष्ट्वा पुंडरीकाक्षः पुंडरीकमुवाच ह ।
श्रीभगवानुवाच-
श्रूयतां भो द्विजश्रेष्ठ यद्वचोऽहं वदामि ते ४२।
इंद्रप्रस्थगते तीर्थे पुष्करे ते यदृच्छया ।
स्नानायते मया दत्तं यन्मासमुषितं मया ४३।
अद्यपक्षींद्रमारुह्य मया सह महामते ।
व्रज तीर्थशिरोरत्नं तदेव प्रति पुष्करे ४४।
चतुर्वर्गप्रदे तस्मिन्स्नानं कुर्वन्यदीच्छसि ।
तदहं ते प्रदास्यामि यदहं तद्वशे द्विज ४५।
पापोऽपि भरतस्ते वै भ्राता यत्र मृतो गतः ।
स्वर्गं स्वर्गसुखाकांक्षी किमन्यत्तस्य वर्ण्यते ४६।
नारद उवाच-
एवमुक्त्वा स देवेंद्रो ब्राह्मणेंद्रं नरेंद्र तम् ।
पतगेंद्रं समारोप्य सर्वतीर्थेंद्रमागमत् ४७।
पुंडरीकस्य देहात्तु तेन तत्प्राणवायुना ।
समं ज्योतिः स निर्गत्य गोविंदपदमाविशत् ४८।
एवं पुष्करतीर्थेऽस्मिन्निंद्रप्रस्थगते नृप ।
स्नानेन पुंडरीकस्तु लेभे सायुज्यमीश्वरे ४९।
एवं तीर्थानुरोधेन गोविंदोऽपि च तद्गृहे ।
मासमेकं सुखं राजन्नुवास निजबंधुवत् ५०।
केन वर्णयितुं शक्यो महिमा पुष्करस्य वै ।
शक्रप्रस्थगतस्यास्य कोट्यंशो वर्णितो मया ५१।
माहात्म्यश्रवणादस्य श्रद्धया लभते नरः ।
अश्वमेधक्रतुफलं पठनादपि भूपते ५२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये पुष्करमहिमावर्णनोनामैकोनविंशाधिकद्विशततमोऽध्यायः २१९ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 220
नारद उवाच-
शिवस्यतीर्थराजस्य प्रयागस्य तवाग्रतः ।
महिमानं महापुण्यं श्रद्धया वर्णयामि ते १।
विश्वावसुर्महीपाल गंधर्वो लोकविश्रुतः ।
एकदा स गतो गातुं सुमेरौ ब्रह्मणः सभाम् २।
तत्र सर्वैः सुरश्रेष्ठमुपविष्टं सुविष्टरे ।
जुष्टं सुरगणैर्भूप विश्वावसुरवैक्षत ३।
ब्रह्मासनसमीपे तु वरासनगतं नृप ।
द्वितीयमिव लोकेशमिंद्रप्रस्थं स एक्षत ४।
सुरराजतीर्थराजौ ब्रह्मेंद्रप्रस्थयोर्नृप ।
चामरोद्धूननं मूर्ध्नि कुर्वंतौ स ददर्श ह ५।
अन्यानि देवतीर्थानि तयोर्दूरे महीपते ।
स्थितानि तेन दृष्टानि बद्धांजलिपुटानि तु ६।
तयोरग्रे जगौ राजन्गांधर्वं रागमुत्तमम् ।
तीर्थैः सममगात्सत्यलोकं देवान्विसृज्य हि ७।
अथ विश्वावसुर्द्धीमान्दृष्ट्वा तीर्थस्य वैभवम् ।
इंद्रप्रस्थस्य राजेंद्र हाहामेतदुवाच ह ८।
विश्वावसुरुवाच-
भोभो गंधर्वशार्दूल तीर्थमेतन्महाद्भुतम् ।
इंद्रप्रस्थाख्यमेतस्मिन्संसारे तीर्थराशिषु ९।
चराचरगुरुर्ब्रह्मा सुरवंद्य पदांबुजः ।
तस्यासनसमीपस्थं यदतिष्ठ समासनम् १०।
तीर्थराजोऽपि पृष्ठस्थश्चामरं यस्य मस्तके ।
अधुना भृत्यवज्जातस्तीर्थेष्वन्येषु का कथा ११।
पृथिव्यां यानि तीर्थानि त्रिवर्गफलदानि तु ।
इंद्रप्रस्थमिदं तीर्थं चतुर्वर्गफलप्रदम् १२।
अत्र स्थितानि तीर्थानि तादृशानि गुणैर्ध्रुवः ।
शेषेनापि न शक्यंते स्तोतुं तेषां महागुणाः १३।
नारद उवाच-।
एवं विश्वावसुर्धीमान्दृष्ट्वेंद्रप्रस्थवैभवम् ।
गत्वा तस्य गृहं राजन्पावनं सर्वकामदम् १४।
यथा देवेषु सर्वेषु शक्रः श्रेष्ठः शचीपतिः ।
तस्माद्ब्रह्मा च तीर्थेषु प्रयागोऽयं तथा वरः १५।
तस्मादपि महाराज शक्रप्रस्थमिदं वरम् ।
अस्यांतरगतो योऽयं प्रयागो नृप दृश्यते १६।
कथयाम्यत्र यद्वृत्तं मोहिन्याः पण्ययोषितः ।
नर्मदासरितस्तीरे पुरी माहिष्मती नृप १७।
मोहिनीनाम तत्रासीद्वेश्या बहुधनान्विता ।
रूपयौवनसंपन्ना निष्णाता नृत्यगीतयोः १८।
तया बहूनि पापानि कृतानि धनलुब्धया ।
ब्रह्महत्याः कृताः सप्त दास्यश्च बहवो हताः १९।
तासां च पातिता गर्भाः बहुशः पापया तया ।
एवं तया सुतारुण्यं गमितं पापकर्मभिः २०।
ततो जरा कियत्काले तद्देहे समपद्यत ।
जराग्रस्तशरीरा सा निवृत्तविषयस्पृहा २१।
न चक्रे मानसं यूनां ते च तां पतिभूपते ।
पापार्जितं धनं स्वीयं न विश्वसिति कस्यचित् २२।
न दत्ते न स्वयं भुंक्ते न निक्षिपति वै क्वचित् ।
एकदा सा निशीथे तु विबुध्येति विचिंतयत् २३।
मृतायां मयि कस्येदं धनं पापैरुपार्जितम् ।
तं नयिष्यति मां घोरं नरकं भृशदारुणम् २४।
दास्यस्तासां च भर्त्तारस्तद्भोक्ष्यंति धनं मम ।
मयैव सद्गतिस्तस्य कथं न क्रियतेऽधुना २५।
एवं विचिंत्य सा धर्मे विधाय मतिमुत्तमाम् ।
चकारारामसरसि वापीकूपसुरालयान् २६।
अभितः पुरमाधत्ते प्रपाः पथिकहेतवे ।
निदाघे च महाराज तेभ्योऽन्नं प्रददौ च सा २७।
धर्मशालां गृहाभ्याशे निवासाय विदेशिनाम् ।
विदधे सा पुनस्तेभ्यो ददावाहारमुत्तमम् २८।
एवं प्रवर्त्तमाना हि धर्मे सा भूपमोहिनी ।
ज्वरातुराभवत्काले क्वचिच्चेति विचिंतयत् २९।
धर्मार्थे हि मया वित्तं व्ययितं भूरि यद्यपि ।
तथापि स्वर्णरूप्यादि प्रचुरं वर्त्तते परम् ३०।
श्रोत्रियेभ्यो ददाम्येतज्ज्ञानेनेति व्यचिंतयत् ।
विचिंत्येति समाहूता मोहिन्या नगरद्विजाः ३१।
नागतास्ते महीपाल ज्ञात्वा घोरं प्रतिग्रहम् ।
यदा तदा द्विभागं च चक्रे तत्तु धनं स्वकम् ३२।
एको भागस्तु दासीनां दत्तोन्यश्च विदेशिनाम् ।
स्वयं तु निर्द्धना राजन्नभवत्सा तु मोहिनी ३३।
तथा समागतं मृत्युं विज्ञायांतिकमंतिके ।
मुक्त्वा दास्यो धनं नीत्वा यथेष्टगतयोऽभवत् ३४।
इति मत्वा यदा ह्येषा ज्वरमुक्ता भविष्यति ।
तदानीं यद्धनं दत्तं नूनमादास्यते हि तत् ३५।
अथ सा लंघनान्यष्टादशकृत्वा महीपते ।
निजायुषस्तु शेषेण ज्वरमुक्ता तदाभवत् ३६।
एका जरद्गवानाम सखी तस्या महीपते ।
सा तामुपचचाराशु पथ्यादिभिरतंद्रिता ३७।
कियद्भिर्वासरैः सा तु पूर्णाहारा व्यजायत ।
तस्या जरद्गवायास्तु गृहे भुक्तं स्म लज्जया ३८।
मया स्थितं सुखेनात्र दुःखमद्य समागतम् ।
दारिद्र्यान्न मया स्थेयं सचिंत्येति गतान्यतः ३९।
गच्छती सा वने राजन्मोहिनी पुरतस्करैः ।
इति मत्वा विनिहता गृहीत्वा यात्यसौ धनम् ४०।
धनमप्राप्य तैस्तस्याः सकाशात्पुरतस्करैः ।
श्वसती सा परित्यक्ता तस्मिन्नेव वने नृप ४१।
अथ वैखानसः कश्चित्प्रयागस्यास्य वै जलम् ।
बिभ्रत्कमंडलौ राजन्नत्रारण्ये समाययौ ४२।
अथ तां पतितां वीक्ष्य शस्त्रविक्षतविग्रहाम् ।
याचमानामिदं राजन् जीवनं हस्तसंज्ञया ४३।
वैखानस उवाच-
का त्वं केन शितैः शस्त्रैः सक्षतीकृतविग्रहा ।
एकाकिनी किमर्थं वा निर्जनारण्यमागता ४४।
इंद्रप्रस्थगतस्येदं प्रयागस्य जले शुभे ।
भाग्योदयेन केनापि प्रापितं प्रियकाम्यया ४५।
इत्युक्ता तेन सा वक्तुमक्षमा व्याददे मुखम् ।
पातुं तद्वारिमहिषी भवेयमिति वांछया ४६।
अथैतस्य प्रयागस्य पातितेंबुनि तन्मुखे ।
तत्याज जीवितं सा तु मोहिनीगणिका नृप ४७।
प्राणप्रयाणकाले तु महिषीत्वं च वांच्छयत् ।
अतः सा महिषी जाता द्राविडे वीरवर्मणः ४८।
संभूय केरलाधीश गृहे तीर्थांबुपानतः ।
कुलशीलधनैश्वर्यसंयुक्तस्य महीपते ४९।
हेमगौरं ततः सांगं बभार कमलेक्षणा ।
अतस्तस्य पिता नाम हेमांगीति चकार ह ५०।
एकदा सा तु हेमांगी हेमाभरणभूषिता ।
कलायाः स्ववयस्याया मंत्रिपुत्र्या गृहं ययौ ५१।
तत्र यावकतैलेन स्नापिता भोजिता च सा ।
विविधान्नैस्तदा राजन्निविष्टा वरविष्टरे ५२।
पुष्पोद्ग्रथित धमिल्ला क्षामक्षौमविभूषिता ।
कलां प्रोवाच दधती मुखे तांबूलवीटिकाम् ५३।
हेमांग्युवाच -
कले कलय मे वाक्यं कोकिलाकलभाषिणि ।
गृहे यदद्भुतं वस्तु तव मामभिदर्शय ५४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये इंद्रप्रस्थवर्णनोनाम विंशाधिकद्विशततमोऽध्यायः २२० ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 221
नारद उवाच-
इत्युक्ता सा कला राजंस्तया नृपतिभार्यया ।
स्वकोशात्स्वर्णमंजूषामानाय्य विदधे पुरः १।
उवाच च महाराज भार्येऽस्यामहदद्भुतम् ।
पुस्तकं वर्तते देवि तत्र चित्राणि संति वै २।
उद्धाट्य दृश्यतां किंचित्किं किमस्त्यत्र पुस्तके ।
रंस्यते ते मनो नूनं तत्रस्था लेख्यदर्शने ३।
इत्युक्त्वा भूपपत्नी सा दास्या तामुदघाटयत् ।
मंजूषां तत्र संस्थं च पुस्तकं पाणिनाऽग्रहीत् ४।
तत्रावलोकयामास सावतारान्समासतः ।
पूर्वं ततस्तु भूगोलं पंचाशत्कोटियोजनम् ५।
तत्रांधकारसंयुक्ता भूमिर्दृष्टाथ कांचनी ।
एतयोरंतरे राजँल्लोकालोकश्च पर्वतः ६।
सप्तद्वीपास्ततो दृष्ट्वा समुद्रैः सप्तभिर्वृताः ।
एतेषु नद्यः शैलाश्च खंडानि तु महामते ७।
एतद्भारतखंडं सा पश्यंती भूपतिप्रिया ।
यमुनाजाह्नवी मुख्या सरितः समवैक्षत ८।
यमुनातीरगं राजन्निंद्रप्रस्थमिदं शुभम् ।
ददर्श सा महाभागा तीर्थं व्रजयुतं नृप ९।
अत्र तीर्थमिदं दृष्ट्वा प्रयागं ब्रह्मनिर्मितम् ।
पूर्वजन्मकृतं कर्म सा सस्मार मनस्विनी १०।
ततस्तूष्णीं समुत्थाय तूर्णं सा स्वगृहं ययौ ।
निश्चित्येति न भोक्ष्यामि ततः प्रस्थाय तीर्थकम् ११।
तदैव सा तु हेमांगी सहगंतुमसुप्रियम् ।
वीरवर्माणमाहेदं तीर्थराजं प्रिया सती १२।
हेमांग्युवाच-
भो भो प्राणपते वाक्यं मदीयं शृणु धर्मदम् ।
विधेहि च महाभाग तूर्णं पूर्णो भविष्यति १३।
पुराहं मोहिनी नाम वेश्या च बहुपापकृत् ।
यौवने वार्द्धके किंचिद्धर्मे जाता मतिर्मम १४।
पापेनोपार्जितां वित्तं धर्मेण व्ययितं मया ।
निर्द्धनाहं यदा राजन्निर्गता निजपत्तनात् १५।
तदा मां निर्जनेऽरण्ये यांती जघ्नुस्तु तस्कराः ।
वृथा दारिद्र्यसंतप्ता पापा धनजिघृक्षया १६।
शितशस्त्रक्षतांगीं मां श्वसंतीं गतचेतनाम् ।
विसृज्य तस्करास्तत्र गता हतमनोरथाः १७।
ततो वैखानसो ह्येकः प्रयागस्य जलं वहन् ।
इंद्रप्रस्थगतस्यैव वने तत्र समागतः १८।
तत्र मां पतितां दृष्ट्वा तदवस्थां स तापसः ।
का त्वं कुतः किमर्थं वा हता केनेति पृष्टवान् १९।
तदा किमपि नोक्तं मे प्रार्थितं पुण्यमंबु तत् ।
तेन तन्मे मुखे क्षिप्तं ततोऽहं देहमत्यजम् २०।
प्राणप्रयाणकाले तु वारितत्सर्वकामदम् ।
श्रुत्वेति वांच्छितवती महिषी स्यामिति प्रभो २१।
तस्य तीर्थांभसो राजन्प्रसादात्ते गृहेश्वरी ।
जाताहं सत्कुलाचारा शीलया परयो निधेः २२।
सांप्रतं द्रष्टुमिच्छामि शक्रप्रस्थगतं नृप ।
प्रयागं तीर्थराजं तं भवता सह कामदम् २३।
प्रस्थास्येहं यदा राजन् तीर्थराजं प्रति प्रभो ।
तदाहमन्नं भोक्ष्यामि मयेति विहितः पणः २४।
राजोवाच-
कथमेतद्विजानीयां त्वदुक्तं चललोचने ।
प्रतीतं कुरु मे भद्रे त्वदुक्तं करवाण्यहम् २५।
नारद उवाच-
इत्युक्ते तेन भूपेन खे वागित्यभवत्तदा ।
आकाशवागुवाच-
सत्यमुक्तं वचो राजन्ननया तव भार्यया २६।
इंद्रप्रस्थे गते पुण्ये प्रयागे तीर्थपुंगवे ।
तत्र गत्वा कुरु स्नानं लप्स्यसे यद्यदिच्छसि २७।
नारद उवाच-
निशम्येति ततो वाणीं नृपो गगनसंभवाम् ।
दंडवत्पतितो भूमौ तद्वक्तारं नमाम्यहम् २८।
अथ मंत्रिणमाहूय राज्यमारोप्य तत्र वै ।
तया सह समारुह्य रथं तीर्थवरं ययौ २९।
कतिभिर्वासरैरत्र हेमांग्या सह आययौ ।
उपजहृ तीर्थराजे क्षीरं भार्यायुतो नृपः ३०।
सस्नतुस्तौ शिवे तीर्थे दंपती तत्र कामदे ।
प्रयागे तेन वपुषा वैकुंठप्राप्तिरस्तु मे ३१।
प्रतीच्छया स्नानमात्रे मिथुने तत्र भूपते ।
आगतौ सुरशार्दूलौ हंसपक्षींद्रवाहनौ ३२।
आगतौ तौ समालोक्य वीरवर्मा स भूपतिः ।
प्रणम्य शिरसा देवौ तुष्टावैकाग्रमानसः ३३।
राजोवाच-
नमो वां सुरशार्दूलौ बिभ्रद्भ्यामसितारुणे ।
वपुषी क्षौमवासांसि हेमसिंदूरभानि च ३४।
वंदे युवां सत्वरजः प्रधानौ चराचरस्य स्थितिसर्गहेतू ।
वैकुंठसत्याद्भुतलोकनाथौ चतुर्द्विबाहू खगराजवाहौ ३५।
वैराग्यसंरागवतां जनानां सन्मुक्तिभुक्तिप्रतिपादिकौ च ।
वृंदारके वंदितपादपद्मौ सद्भावनम्रेण नमामि मूर्ध्ना ३६।
गोविंदवृंदारकवंद्यपाद न कोऽपि जानाति तव स्वरूपम् ।
यतः परस्त्वं प्रकृतेश्च पुंसो मनोवचोभ्यामपि दूरवर्ती ३७।
धन्यः सलोके पुरुषः परात्मन्यो विश्वमेतत्क्षणिकं विचिंत्य ।
अनन्यचेता भजति त्वदीय पादारविंदं मुनिवृंदवंद्यम् ३८।
त्वत्पादसेवनंनाम तीर्थमेतच्च दुर्लभम् ।
जनानां भजमानानां वांछितार्थफलप्रदम् ३९।
तथाप्येतद्द्वयं सेव्यं मुक्तये नान्यलब्धये ।
अन्यकामनया यस्तु सेवते स तु वंचितः ४०।
संतो भवंतमासेव्य तीर्थमेतच्च मुक्तिदम् ।
नान्यमिच्छंत्यतिक्रम्य सर्वलोकान्जिजीषवः ४१।
नारद उवाच-
इत्यभिष्टूय देवेशं लोकेशं स च भूपतिः ।
तस्थौ यदा तदा राजन्हेमांगी सा जगाद ह ४२।
पद्मापते पद्मपलाशलोचन ब्रह्मन्करालासन भारती गुरो ।
नमो युवाभ्यां यदि दीनचेतसे प्रसीदतां तारयतां भवाब्धेः ४३।
तीर्थस्यास्य प्रसादेन जाताहं महिषी प्रभो ।
युवयोर्दर्शनं जातं देवानामपि दुर्लभम् ४४।
युवामखिलचित्तज्ञौ दत्तं नौ मानसेप्सितम् ।
स्नानकाले यदावाभ्यां विहितं पारमार्थिकम् ४५।
एवं ताभ्यामुभाभ्यां तौ संस्तुतौ देवपुंगवौ ।
प्रसन्नवदनौ भूत्वा प्रोचतुर्दंपती प्रति ४६।
हरिब्रह्माणावूचतुः ।
धन्या त्वमसि हेमांगि यतोऽयं तारितः पतिः ।
त्वया राज्यसुखासक्त चित्तोप्येतत्समागमात् ४७।
राज्ञां विषयसक्तानां दुर्लभा मुक्तिरीदृशी ।
त्वद्भर्तुर्यादृशी जाता तीर्थस्यास्य प्रसादतः ४८।
नारद उवाच-
इत्युक्त्वा तौ समालोक्य गरुडं पक्षिपुंगवम् ।
जग्मतुस्तौ सुरश्रेष्ठौ सत्यलोकं नरेश्वर ४९।
तत्र ते ब्रह्मणा सर्वे पूजिता विधिवन्नृप ।
तस्य चित्तानुरोधेन तस्थुरेकं मुहूर्तकम् ५०।
अथ ताभ्यामुभाभ्यां स दंपतीभ्यां समं हरिः ।
आरुह्य गरुडं श्रीमद्वैकुंठमगमन्नृप ५१।
इत्येतत्कथितं तुभ्यं तीर्थराजस्य वैभवम् ।
पुण्यं समस्तपापघ्नं यशस्यं सुतदं नृप ५२।
य एतच्छृणुयान्नित्यं पठेदपि च मानवः ।
स गच्छेद्वांछितं स्थानं सत्यमेतन्मयोदितम् ५३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे इंद्रप्रस्थमाहात्म्ये प्रयागवर्णनंनामैकविंशत्यधिकद्विशततमोऽध्यायः २२१ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 222
नारद उवाच-
आकर्णय शिबे राजन्वर्णयामि तवाग्रतः ।
पुण्यं यशस्यमायुष्यं काश्या माहात्म्यमुत्तमम् १।
इंद्रप्रस्थतटस्थायां काश्यामेकस्तु पादपः ।
शिंशपाख्योभवेद्राजन् पुरा पुण्ययुगे कृते २।
तत्रैको वायसो ह्यासीत्कृतनीडो वनस्पतौ ।
तस्याधस्तान्महासर्पं कोटरेव सति स्म ह ३।
एकदा तस्य काकस्य भार्यांडद्वयमालये ।
प्रतिमुच्य गता क्वापि न नीडे स्वे समागता ४।
स्वयमेव स काकस्तु पालयन्नंडकद्वयम् ।
तामेव शिंशपामुच्चैरध्यतिष्ठन्महीपते ५।
अथैकदा निशीधे तु महावात्या समागता ।
अभनक्शिंशपां राजन्मूलादपि दृढादपि ६।
वात्यया पात्यमानाया शिंशपायास्तदा तले ।
चूर्णितौ काकसर्पौ तौ गतप्राणौ बभूवतुः ७।
दिव्यांगास्ते त्रयो भूत्वा शिंशपा वायसादयः ।
विमानत्रयमारूढा जग्मुः श्रीपतिकेतनम् ८।
शिबिरुवाच-
देवर्षे केन पुण्येन प्राप्ता तैर्मुक्तिदा पुरी ।
आसंस्ते के त्रयः पूर्वं सर्वं कथय नारद ९।
नारद उवाच-।
कुरुजांगलदेशीयो ब्राह्मणः श्रवणाभिधः ।
तस्य भार्या कुडा नाम भ्राताभूच्च कुरंटकः १०।
अस्नातभोक्ता नित्यं स कवलो मिष्टभुग्रहः ।
श्रवणस्तेन दोषेण बभूव ग्रामवायसः ११।
कुरंटकस्तु तद्भ्राता नास्तिकोऽभवदुल्बणः ।
श्रुतिस्मृतिपथोच्छेत्ता देवतानां च निंदकः १२।
तेन दोषेण स मृतो ह्यभवत्कालकुंडली ।
सा कुंडा श्रवणस्य स्त्री बभूवोभयदोषभाक् १३।
अतः सा स्थावरत्वं हि लब्ध्वासीदुभयाश्रया ।
एतत्ते कथितं भूप तद्वृत्तं पूर्वजन्मनि १४।
अतः परं प्रवक्ष्यामि तेषां पुण्यं यतस्त्रयः ।
प्रापुस्तेन पुरीं रम्यां काशीं वैश्वेश्वरीं नृप १५।
ग्रामांतरादेकदा तौ प्रत्यायातौ निजालयम् ।
कस्यचित्पथिकस्याथ कूपमग्नां पयस्विनीम् १६।
अवलोक्य तदुद्धारं चक्रतुस्तेन नोदितौ ।
ताभ्यांगदितमाकर्ण्य कुंडा साध्वित्यभाषत १७।
ते त्रयस्तेनपुण्येन मरणं प्राप्य दुर्लभम् ।
इंद्रप्रस्थतटस्थायां काश्यां वैकुंठमारुहन् १८।
इयं काशी महेशस्य पुरी यद्यपि भूपते ।
तथाप्यस्यां मृतं जंतुर्वैकुंठे स्यात्सुखी हरेः १९।
एतत्ते कथितं राजन्काश्या माहात्म्यमुत्तमम् ।
किमन्यच्छ्रोतुमिच्छा ते विद्यते तद्वदस्व मे २०।
शिबिरुवाच-
मुने त्वया महेशस्य क्षेत्रत्रयमुदीरितम् ।
काशी च शिवकांची च गोकर्णं च तथापरम् २१।
एकस्य महिमा प्रोक्तो त्वया काश्या महामुने ।
गोकर्णशिवकांच्योश्च कथ्यतां यदि विद्यते २२।
नारद उवाच-।
गोकर्णं केवलं शैवं क्षेत्रं परमपावनम् ।
तस्मिन्मृतो नरो राजन्शिवः स्यान्नात्र संशयः २३।
स्थले जलेंतरिक्षे च जंतुस्तत्र मृयेत चेत् ।
तदा कैलासशिखरो शिवः संभूय दीव्यति २४।
अत्र गोकर्णतीर्थे स्यान्मृतस्य न पुनर्भवः ।
शिवेन स समं राजन्मुक्तिं यास्यति कर्हिचित् २५।
अस्यापि तव माहात्म्यं गोकर्णस्य महामते ।
वर्णयामि यदाकर्णि मया ब्रह्ममुखात्प्रभो २६।
प्रयागादेकगव्यूतौ गुरुतीर्थसमीपगः ।
मर्यादापर्वतो योऽयं दृश्यते पुण्यदर्शनः २७।
तत्रैकः कर्कटो नाम भिल्ल आसीत्सुदारुणः ।
तस्य भार्या जरा नाम सा जघ्ने पतिपंचकम् २८।
सा जरा विषसंयुक्तं षष्ठं कर्कटकं तदा ।
अकरोन्मोदकं हंतुं तदा तेन स्वसुः श्रुतम् २९।
निजाया मुखतो राजन्भिल्लेन च महात्मना ।
बालां तां हंतुमारेभे कर्कटो भृशदारुणः ३०।
खङ्गपाणिर्यदा याति तद्वधाय स भिल्लपः ।
यावत्तावत्तु सा यायाज्ज्ञात्वा निजवधोद्यमम् ३१।
वनमभ्यद्रवद्भीता निजप्राणपरीप्सया ।
तामनुद्रवता तेन कर्कटेन महीपते ३२।
अत्र गोकर्णतीर्थे तु गृहीता खङ्गपाणिना ।
शिरश्छित्वा तु खङ्गेन पातयित्वा जले वपुः ३३।
तस्य गोकर्णतीर्थस्य निजस्थानमगाच्च सः ।
सा जरा तत्र गोकर्णे पापापि निधनं गता ३४।
कैलासशिखरे राजन्पार्वत्या अभवत्सखी ।
अहं कथितवानेतत्तव गोकर्णवैभवम् ३५।
शिवकांच्याश्च माहात्म्यं पवित्रं वर्णयामि ते ।
इंद्रप्रस्थतटस्थायां शिवकांच्यामपि प्रभो ३६।
गतिः सा परमा पुंसां गोकर्णे या मयोदिता ।
अत्र श्रीमन्महादेवो विष्णुं सर्वसुरेश्वरम् ३७।
आराध्य भक्तराजत्वं लेभे ज्ञानं च तात्विकम् ।
अतः सर्वे वयं पुत्रा ब्रह्मणस्तं महेश्वरम् ३८।
आराधयामः सततं सद्भक्तिज्ञानलिप्सया ।
अत्र बाणासुरो राजन्नारराध महेश्वरम् ३९।
निराहारो वर्षशतं तद्गुणत्वबुभूषया ।
तस्मै प्रसन्नो भगवान्गणत्वं दत्तवान्निजम् ४०।
स्वयं च सर्वदा तस्य पुरपालो बभूवह ।
इयं पुरी पुरा राजन्नासीद्विष्णोर्महात्मनः ४१।
दत्ता शिवाय तुष्टेन तपसा तस्य विष्णुना ।
अस्यामेकं पुरावृत्तं महदाश्चर्यकारकम् ४२।
विप्रस्य शिवभक्तस्य वैकुंठाप्तिर्यथाभवत् ।
एकस्तु ब्राह्मणो राजन् हेरंबो नाम धार्मिकः ४३।
कायेन मनसा वाचा शिवपूजारतः सदा ।
एकदा स महाभागः शिवतीर्थानि पर्यटन् ४४।
शिवभक्तः शिवे राजन्शिवकांच्यामिहागतः ।
एनां मनोहरां चैव न तत्याज स बुद्धिमान् ४५।
पश्चात्तत्रैव तत्याज प्राणानस्या जलांतरे ।
तत्रैव श्रीमहादेवगणास्तं ब्राह्मणोत्तमम् ४६।
नीत्वा कैलासमचलं चेलुस्तदनुशासनात् ।
अथ मध्ये समायाता गणा वैकुंठतो हरेः ४७।
तेभ्यो बलात्समादातुं तं द्विजश्रेष्ठमुद्यताः ।
आसीत्तेषां महयुद्धं गणानां हरिशर्वयोः ४८।
तत्र युद्धेन वैकेषां विजयो न पराजयः ।
तत्र वैकुंठतो विष्णुरागतो गरुडासनः ४९।
कैलासाद्वृषभारूढो महेशश्च त्रिलोकधृक् ।
तावन्योन्यं मुखं दृष्ट्वा विहस्य जगदीश्वरौ ५०।
पश्यतस्म महद्युद्धं नभस्येव गणैः कृतम् ।
अथ स्वीयान्गणान्विष्णुः शैवांश्च दिवि युद्धतः ५१।
निवार्य तं द्विजं तार्क्ष्यमारोप्यागाच्छिवालयम् ।
शिवेन तद्गणैश्चापि स्वकीयैरपि माधवः ५२।
वृतो गछन्पथि श्रीमान्स्तुतस्त्रिदशवंदितः ।
गत्वा विवेश तं चागं महादेवपुरःसरः ५३।
तस्मै द्विजाय वै तस्य दर्शयन्रमणीयताम् ।
अथ तस्मात्तु कैलासान्महादेवेन वंदितः ५४।
माधवः परया भक्त्या वैकुंठमगमत्तदा ।
द्विजः सोऽपि महाभागस्तीर्थस्यास्य प्रसादतः ५५।
गोविंददर्शनं प्राप्य मुमुदे हरसन्निधौ ।
एतत्ते कथितं राजन्शिवकांच्यास्तु वैभवम् ५६।
तीर्थसप्तकनाम्नस्तु शृणुष्व सुसमाहितः ।
तीर्थमेतन्महाराज चतुर्वर्गफलप्रदम् ५७।
दर्शनात्स्पर्शनाद्ध्यानात्स्मरणादपि भूपते ।
वसिष्ठादिभिरेतस्मिन्महर्षिभिरनुष्ठितम् ५८।
महत्तपस्तु सृष्ट्यर्थं तत्रासंस्तु क्षमा नृप ।
मरीचिरपि धर्मात्मा पुत्रार्थं स्नानमाचरन् ५९।
अत्र लेभे महाभागः कश्यपं सुतमुत्तमम् ।
अत्रिरत्रापि तपसा तोषयद्देवपुंगवान् ६०।
सोमं दुर्वाससं दत्तं तेभ्यो लेभे सुतत्रयम् ।
अंगिरा अपि धर्मात्मा तीर्थस्यास्य प्रसादतः ६१।
लेभे सुतांस्तुतद्वंश्या जाता आंगिरसा द्विजाः ।
पुलहोऽपि सुतं लेभे दंभोलि गुणवत्तरम् ६२।
योऽगस्त्योभूत्पुरा राजंस्तीर्थेऽत्रैव निमज्जनात् ।
पुलस्त्यस्यात्र तीर्थे वै पुत्रो लब्धो तपस्यतः ६३।
कुबेरोभून्महाभागो यः सखासीदुमापतेः ।
क्रतोरपि सुता जाता वालखिल्याः सहस्रशः ६४।
तीर्थस्यास्य प्रसादेन ते सर्वे ह्यूर्ध्वरेतसः ।
रजआदीन्सुताँ लेभे वसिष्ठोऽपि महातपाः ६५।
सप्तैव राजशार्दूल महिमा तस्य वर्णितः ।
अन्यान्यपि च तीर्थानि संत्यनेकानि भूपते ६६।
कपिलाश्रमकेदारप्रभासादीनि वै प्रभौ ।
नियुतैरपि वर्षाणां तेषां च महिमा नृप ।
अनंतेनापि नो वक्तुं शक्यते किमु मादृशैः ६७।
सौभरिरुवाच-
एवमुक्त्वा मुनिश्रेष्ठो नारदो मुनिपुंगवः ।
शिवं जगाम नभसो नारायणगुणान्गृणन् ६८।
शिबिरौशीनरो राजा शक्रप्रस्थस्य वैभवम् ।
श्रुत्वा मुनिमुखाद्राजन्कृतार्थं स्वममन्यत ६९।
तत्र स्नात्वा हि विधिवदिंद्रप्रस्थे स भूपतिः ।
विधाय सत्क्रियाः सर्वा जगाम निजपत्तनम् ७०।
इंद्रप्रस्थस्य माहात्म्यमेतत्तव मया विभो ।
यमुनातीरतीर्थस्य वर्णितं जनपावनम् ७१।
नास्यादरं करिष्यंति कलौ श्रद्धाविवर्जिताः ।
इंद्रप्रस्थस्य राजेंद्र सर्वतीर्थशिरोमणेः ७२।
अष्टादशपुराणानां श्रवणाद्भारतस्य च ।
यत्फलं तन्महिम्नस्य शक्रप्रस्थस्य जायते ७३।
अरुणोदयवेलायां माघलक्षैकमज्जनात् ।
यत्फलं तन्महिम्नोस्य श्रवणाच्छ्रद्धया भवेत् ७४।
श्रद्धयास्य तु माहात्म्यं यः शृणोति महीपते ।
तर्पितास्तेन पितरो देवाश्च मुनयस्तथा ७५।
कृच्छ्रातिकृच्छ्रपाराक चांद्रायण व्रतादिभिः ।
यत्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणाद्भवेत् ७६।
अश्वमेधादियज्ञानां समस्तानां महीपते ।
यत्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणाद्भवेत् ७७।
सूत उवाच-
एवं युधिष्ठिरो राजा श्रुत्वा शौनक सौभरेः ।
इंद्रप्रस्थस्य माहात्म्यं स ययौ हस्तिनं पुरम् ७८।
ततो विनीय सद्भ्रातॄन्दुर्योधनपुरःसरान् ।
इंद्रप्रस्थमगात्पुण्यं राजसूयचिकीर्षया ७९।
द्वारकायाः समागम्य गोविंदं कुलदैवतम् ।
राजसूयेन यज्ञेन स इयाज महीपतिः ८०।
मुक्तिदं तीर्थमेतत्तु शपतोस्याप्यजायत ।
इति मत्वा हरिस्तत्र शिशुपालं जघान ह ८१।
शिशुपालोऽपि तस्यैव तीर्थस्य मरणाद्भुवि ।
सायुज्यमगमत्कृष्णे निखिलार्थप्रदायके ८२।
शिशुपालो हतो यत्र विहितो यत्र चक्रतुः ।
गदया तत्र भीमेन कृतं कुंडं सुविस्तरम् ८३।
भीमकुंडं तु विज्ञातं जातं तद्भुविपावनम् ।
कालिंद्या दक्षिणे भागे गव्यूत्यर्धं महीतले ८४।
इंद्रप्रस्थगताया यत्कालिंद्याः स्नानतः फलम् ।
तत्फलं तत्र कुंडे तु जायते नात्र संशयः ८५।
सूत उवाच-
यस्मिन्क्षेत्रे स्थितो जंतुस्तं क्षेत्रमनुवत्सरम् ।
प्रदक्षिणादिभिर्धर्मैः स्वापराधान्क्षमापयतेत् ८६।
प्रतिसंवत्सरं चैव परिक्रामति यो नरः ।
क्षेत्रापराधदोषैश्च न स लिप्येत्तु पातकैः ८७।
प्रदक्षिणमकुर्वाणः क्षेत्रसिद्धिं न विंदति ।
तस्मात्प्रदक्षिणा तीर्थे दातव्या च फलार्थिभिः ८८।
हरेर्नाम निसंजल्पन्प्रकरोति प्रदक्षिणाम् ।
पदेपदे स लभते कपिलादानजं फलम् ८९।
चैत्रकृष्णचतुर्दश्यां शक्रप्रस्थप्रदक्षिणाम् ।
यः करोति नरो धन्यः सर्वपापैः प्रमुच्यते ९०।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये इंद्रप्रस्थगत काशीगोकर्णशिवकांचीतीर्थसप्तक भीमकुंडवर्णनोनाम द्वाविंशत्यधिकद्विशततमोऽध्यायः २२२ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 223
शौनक उवाच-
सूतसूत महाभाग धन्योसि त्वं भवांबुधौ ।
यन्नोऽत्यर्थं निमग्नानां पाययस्वमृतोत्करम् १।
साधोऽत्र भवनिस्तार वांछतां नः समादिश ।
मंत्ररत्नं भावशुद्धं यन्मयं सचराचरम् २।
सूत उवाच-
शृणु शौनक वक्ष्यामि मंत्ररत्नं महाद्भुतम् ।
यद्दिलीपाय गदितं वसिष्ठेन महात्मना ३।
एकदा तु दिलीपेन पृष्टमेतद्गुरुं प्रति ।
वसिष्ठं द्विजशार्दूलं प्रणिपत्य यथा त्वया ४।
दिलीप उवाच-
भगवन्भवता प्रोक्तास्सर्वधर्माविशेषतः ।
वर्णाश्रमयुता धर्मा नित्यनैमित्तिकाः क्रियाः ५।
राजधर्म्माश्च यज्ञाश्च तीर्थदानव्रतादिकम् ।
श्रुता मया मुनिःश्रेष्ठ अक्षय्य स्वर्गभोगदाः ६।
अधुना श्रोतुमिच्छामि मोक्षमार्गं सनातनम् ।
दिष्ट्याहं येन गच्छामि तद्ब्रह्मन्वक्तुमर्हसि ७।
को मंत्रं सर्वमंत्राणां भवरोगैकभेषजम् ।
सर्वेषामेव देहीनां को हि मोक्षप्रदः परः ८।
तत्समाख्याहि तत्त्वेन मयि वात्सल्यगौरवात् ९।
वसिष्ठ उवाच-
साधुपृष्टं त्वया राजन्सर्वलोकहितैषिणा ।
वक्ष्यामि परमं गुह्यमेकं संसारतारकम् १०।
पुरा महर्षयः सर्वे यज्ञदानपराः शुभाः ।
पप्रच्छुर्ब्रह्मणः पुत्रं नारदं मुनिसत्तमम् ११।
महर्षय ऊचुः -
भगवन्केन मंत्रेण गच्छामः परमं पदम् ।
तन्नो ब्रूहि महाभाग प्रसादं कर्तुमर्हसि १२।
नारद उवाच-।
पितामहं पुरा सर्वे योगिनः सनकादयः ।
पप्रच्छुरेकमेकांते मोक्षमार्गं सुदुर्ल्लभम् १३।
ब्रह्मोवाच-।
शृणुध्वं योगिनः सर्वे रहस्यमिदमद्भुतम् १४।
न जानंति सुराः सर्वे ऋषयश्च तपोधनाः ।
सर्गादौ प्रोक्तवान्देवो मह्यं नारायणोऽव्ययः १५।
ईश्वर्या सह देव्या च सम्यक्संपूजितो मया ।
ततः प्रसन्नो भगवान्मम नारायणोऽव्ययः १६।
प्राजापत्यं ददौ मह्यं श्रुतिजं सर्ववाङ्मयम् ।
प्रकाशकानि मंत्राणि व्यापकाव्यापकानि च १७।
ततस्तमब्रुवं देवं पुराणपुरुषोत्तमम् ।
भगवन्केन मंत्रेण संसारोत्तारणं नृणाम् १८।
तन्ममाचक्ष्व तत्त्वेन सर्वलोकहिताय वै ।
को मन्त्रः सर्वमन्त्राणां पुरश्चरणवर्जितः १९।
सकृदुच्चारणान्नृणां ददाति परमं पदम् ।
श्रीभगवानुवाच-
साधुपृष्टं महाभाग सर्वलोकहितैषिणा २०।
तस्माद्वक्ष्यामि ते गुह्यं येन मामाप्नुयुर्नराः २१।
सर्वेषामेव मंत्राणां मंत्ररत्नं शुभावहम् ।
सकृत्स्मरणमात्रेण ददाति परमं पदम् २२।
मंत्ररत्नद्वयं न्यासं प्रयतिः शरणागतिः ।
लक्ष्मीनारायणमिति मन्त्रः सर्वफलप्रदः २३।
नामानि मंत्ररत्नस्य पर्य्यायेण निबोधत ।
तस्योच्चारणमात्रेण परितुष्टोस्मि नित्यशः २४।
कुलजो वा तपस्वी वा वेदवेदांगपारगः ।
यज्ञदानपरो वापि सर्वतीर्थोपसेवकः २५।
व्रती वा सत्यवादी वा यतिर्वा ज्ञानवानपि ।
मन्त्राधिकारी न भवेत्तं प्रयत्नेन वर्जयेत् २६।
ब्राह्मणाः क्षत्रिया वैश्या स्त्रियः शूद्रास्तथेतराः ।
तस्याधिकारिणः सर्वे मम भक्तास्तु ते यदि २७।
अनन्यशरणानां च तथैवानन्यसेविनाम् ।
अनन्यसाधकानां च वक्तव्यो मन्त्र उत्तमः २८।
आर्तानामाशु फलदस्सकृदेव कृतो ह्यसौ ।
दृप्तानामपि जन्तूनां देहान्तरनिवारणः २९।
आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी वापि प्रजापतिः ।
सकृन्मां शरणं याति ततः कामानवाप्नुयात् ३०।
नादीक्षिताय वक्तव्यं नाभक्ताय च मानिने ।
नास्तिकाय न लुब्धाय न श्रद्धाविमुखाय च ३१।
न चाशुश्रूषवे वाच्यं नासंवत्सरवासिने ।
कामक्रोधविमुक्तस्तु दंभलोभविवर्जितः ३२।
मां च यो व्यभिचारेण भक्तियोगेन सेवते ।
वक्तव्य तस्य विधिवन्मंत्ररत्नमनुत्तमम् ३३।
देशकालादिनियमानरिमित्रादि शोधनम् ।
न्यासमुद्रादिकं तस्य पुरश्चरणसंयुतम् ३४।
मच्चक्रांकितदेहत्वं मदीयाराधनं तथा ।
मयि सन्यस्तकर्मत्वं मदनन्यशरण्यतता ३५।
मयि सर्वफलन्यासो महाविश्वासपूर्वकम् ।
अनन्यसाधनो यत्नस्त्वकिंचनत्वमात्मनः ३६।
अवैष्णवानां संभाषा वंदनादि विवर्जनम् ।
अनन्यदेवतानां च वन्दनं पूजनं तथा ३७।
एवमाद्यादि नियमां प्रपन्नस्य प्रकीर्तिताः ।
इत्यादिगुणयुक्तस्य वक्तव्यं मंत्रमुत्तमम् ३८।
तस्य नारायणश्चाहमृषिर्विष्णुः सनातनः ।
देवता च श्रिया सार्द्धमहं वात्सल्यसागरः ३९।
सर्वलोकेश्वरः श्रीमान्सुशीलः सुभगस्तथा ।
सर्वज्ञः सर्वशक्तिश्च सदापूर्णमनोरथः ४०।
सर्वगः सर्वबंधुश्च कृपापीयूषसागरः ।
श्रीमन्नारायणश्चाहं देवता समुदाहृतः ४१।
छंदस्तु देवी गायत्री पंचविंशाक्षरात्मिका ।
द्विस्सप्तषट्त्रिपंचद्विषडंगानि नियोजयेत् ४२।
लक्ष्म्या मदनपायिन्या मां ध्यायेद्विश्वरूपिणम् ।
चक्रशंखगदापद्मपाणिनं दिव्यरूपिणम् ४३।
वामांकस्थश्रिया सार्द्धं पूजयेत्प्रयतं शुचिः ।
अनेन मंत्ररत्नेन गंधपुष्पनिवेदनैः ।
सकृत्संपूज्यमानोऽपि संतुष्टोस्मि प्रजापते ४४।
ब्रह्मोवाच-
सम्यगुक्तं त्वया नाथ रहस्यमिदमुत्तमम् ।
मंत्ररत्नप्रभावश्च सर्वसिद्धिप्रदो नृणाम् ४५।
पिता त्वं सर्वलोकानां माता त्वं गुरुरेव च ।
त्वं च स्वामी सखा भ्राता गतिस्त्वं शरणं सुहृत् ४६।
अहं तु तव देवेश दासश्शिष्यस्तथा सुहृत् ।
तस्मान्मम दयासिंधो प्रोक्तवानिदमुत्तमम् ४७।
अधुना मंत्ररत्नस्य दीक्षां सम्यग्विधानतः ।
ब्रूहि सर्वत्र तत्वेन लोकानां हितकाम्यया ४८।
श्रीभगवानुवाच -
शणु वत्स प्रवक्ष्यामि मंत्र दीक्षाविधिं परम् ।
आचार्यं संश्रयेत्पूर्वं मदाश्रयणसिद्धये ४९।
आचार्यो वेदसंपन्नो विष्णुभक्तो विमत्सरः ।
मंत्रज्ञो मन्त्रभक्तश्च सदा मंत्राश्रयः शुचिः ५०।
सत्संप्रदायसंयुक्तो ब्रह्मविद्याविशारदः ।
अनन्यसाधनश्चैव तथानन्यप्रयोजनः ५१।
ब्राह्मणो वीतरागश्च क्रोधलोभविवर्जितः ।
सद्वृत्तौ शासिता चैव मुमुक्षुः परमात्मवित् ५२।
एवमादिगुणेपेत आचार्यः स मुदा सुहृत् ।
आचाराञ्शासयेद्यस्तु स आचार्य इतीरितः ५३।
यस्त्वाचार्यपराधीनस्सद्वृत्तौ शास्यते यदि ।
शासने स्थिरवृत्तश्च शिष्यः सद्भिरुदाहृतः ५४।
एवं लक्षणसंयुक्तं शिष्यं सर्वगुणान्वितम् ।
अध्यापयेद्विधानेन मन्त्ररत्ननुत्तमम् ५५।
द्वादश्यां श्रवणे वापि कर्हिचिद्वैष्णवे दिने ।
सदाचार्योपसंप्रीतौ तत्र दीक्षां समाचेत् ५६।
सुदर्शनं पांचजन्यं सुवर्णेन प्रकारयेत् ।
रौप्येण वापि ताम्रेण कांस्येनापि प्रकारयेत् ५७।
स्नाप्य पंचामृतैः शुद्धैरर्चयेत्पुरतो मम ।
अर्च्चयेद्गंधपुष्पाद्यैस्तन्मंत्रेण विधानतः ५८।
तत्र संस्थापयेदग्नि स्वगृह्योक्त विधानतः ।
आचार्यो जुहुयादाज्यं मंत्रेणाथ द्विजोत्तमः ५९।
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा ।
जुहुयान्मंत्ररत्नेन तथान्यैर्वैष्णवैः शुभैः ६०।
मंत्रैः पुरुषसूक्ताद्यैर्जुहुयाघृतपायसम् ।
तस्मिन्नग्नौ क्षिपेच्चक्रं शंखं च द्विजत्तमः ६१।
षडक्षरेण जुहुयादाज्यं विंशतिसंख्यया ।
प्रतप्तं चक्रमादाय मंत्रैणैव तथा गुरुः ६२।
शंखेनैवांकनं कुर्याद्बाह्वोर्दक्षिणसव्ययोः ।
होमशेषं समाप्याथ पुनः पूजां समाचरेत् ६३।
ततः कलशमादाय पवित्रोदकपूरितम् ।
मंत्रेणैवाभिमंत्र्याथ तस्य मूर्ध्न्यभिषेचयेत् ६४।
सितवस्त्रधरं सम्यगाचांतं विनयान्वितम् ।
ऊर्द्ध्वपुण्ड्रधरं शिष्यं मंत्रमध्यापयेद्गुरुः ६५।
मंत्रार्थश्च प्रवक्तव्यो वृत्तिश्चैव विशेषतः ।
लब्धमंत्रस्तदाचार्यं पूजयेद्भूषणादिभिः ६६।
अनेन विधिना मंत्रं योऽधीते वैष्णवाद्गुरोः ।
ततः स वैष्णवं याति नान्यथा सुरसत्तम ६७।
नारद उवाच-
एवमुक्त्त्वा विधातारं देवदेवो हरिः पिता ।
स्वचक्रेणांकयित्वा तु तस्मै मंत्रं ददौ स्वयम् ६८।
सर्वलोकेश्वरो देवो ब्रह्मा मम पिता प्रभुः ।
ममापि विधिवन्मंत्रं स ददौ मुनिसत्तमाः ६९।
तस्माद्यूयं मुनिश्रेष्ठा धारयित्वा सुदर्शनम् ।
नारायणपदं द्वंद्वं गच्छध्वं शरणं द्विजाः ७०।
वसिष्ठ उवाच-
इत्युक्त्वा मुनयः सर्वे नारदेन सुरर्षिणा ।
द्वयाधिकारिणः सर्वे याता विष्णोः परं पदम् ७१।
तस्मात्त्वमपि राजर्षे विष्णुसायुज्यमिच्छसि ।
दीक्षामार्गविधानेन धारयित्वा सुदर्शनम् ७२।
नारायणपदद्वंद्वं तदेकं शरणं व्रज ।
सर्वलोकेश्वरः साक्षाद्ब्रह्मा त्रिभुवनेश्वरः ७३।
ममापि नारदस्यापि प्रोक्तवान्मंत्रमुत्तमम् ।
शौनकादि महर्षीणां नैमिषारण्यवासिनाम् ७४।
नारदः प्रददौ मंत्रं प्रपत्तिं शरणागतिम् ।
एतद्गुह्यतमं राजन्न जानंति महर्षयः ७५।
देवाताश्च न जानंति सिद्धा साध्याश्च दानवाः ।
मयापि प्रापितो मंत्रं शक्तिपुत्रः पराशरः ७६।
इदं रहस्यं परमं लक्ष्मीनारायणं द्वयम् ।
राजंस्तवापि वक्ष्यामि प्रपत्ति शरणागतिम् ७७।
द्वयात्परतरं मन्त्रं नास्ति सत्यं ब्रवीमि ते ।
अस्मात्परतरं धर्म्मं नास्ति लोकेषु किंचन ७८।
सत्यं सत्यं पुनः सत्यं ब्रह्मणा कथितं पुरा ।
नारायणात्परो देवो नास्ति मुक्तिप्रदो नृणाम् ७९।
तत्सेवैव भवेन्मोक्षः सर्वकर्म निकृंतनः ८०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे वसिष्ठदिलीपसंवादे विद्योपदेशोनाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः २२३।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 224
दिलीप उवाच-
भगवन्सर्वमाचक्ष्व हरिभक्तिसुधामयम् ।
शृण्वतो नैव तृप्तिर्मे विष्णुभक्तिं सुखावहाम् १।
तापत्रयमहाज्वाला वह्निभिः सततं नृणाम् ।
संतप्तानां मुनिश्रेष्ठ विष्णुभक्तिसुधार्णवम् २।
विना किमन्यच्छरणं भवारण्ये भयानके ।
आचक्ष्व विस्तरेणाथ भक्तिभेदान्महामुने ।
उपास्यमानान्सततं मुनिभिः परमात्मनः ३।
वसिष्ठ उवाच-
साधु पृच्छसि राजेंद्र संसारोत्तारणं नॄणां ।
वैकुंठस्य परेशस्य भक्तिं नित्यसुखावहाम् ४।
इममेवं महाप्रश्नं कैलासशिखरे पुरा ।
पप्रच्छ गिरिजादेवी शंकरं लोकपूजितम् ५।
पार्वत्युवाच-
देवदेव महादेव त्रिपुरघ्न सुरेश्वर ।
विष्णुभक्तिं ममाचक्ष्व मुक्तिदां सर्वदेहिनाम् ६।
उपास्यभेदान्मंत्रांश्च तस्य पूजाविधींस्तथा ।
तस्य विष्णोः स्वरूपं च तद्विभूतिर्गुणादिकम् ७।
तस्य लोकस्वरूपं च यं प्राप्य न निवर्तते ।
सर्गस्थितिलयं येन करोति भगवान्हरिः ८।
यद्गत्वा न निवर्तंते तद्धामपरमं हरेः ।
येन केन च कृत्येन साधनेन परं पदम् ९।
प्राप्नुवंति नराः पापा विषयासक्तचेतसः ।
विस्तरेण मयि प्रीत्या ब्रूहि सर्वमशेषतः १०।
वसिष्ठ उवाच-
इति पृष्टो महादेव्या हरस्त्रिपुरहा तदा ।
उवाच परमप्रीत्या नमस्कृत्य जनार्दनम् ११।
रुद्र उवाच-
साधुसाधु महादेवि सर्वलोकहितैषिणि ।
साधु पृच्छसि मां देवि श्रीशमाहात्म्यमुत्तमम् १२।
धन्यासि कृतपुण्यासि विष्णुभक्तासि पार्वति ।
परितुष्टोऽस्मि ते भद्रे शीलरूपगुणैः सदा १३।
अथ वक्ष्यामि गिरिजे भगवद्भक्तिमुत्तमाम् ।
तन्मंत्राणां विधानं च स्वरूपं तस्य शार्ङ्गिणः १४।
तत्वं नारायणो विष्णुर्वासुदेवस्सनातनः ।
परमात्मा परं ब्रह्म परं ज्योतिः परात्परः १५।
अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः ।
नित्यः सर्वगतः स्थाणू रुद्रस्साक्षी प्रजापतिः १६।
यज्ञो यज्ञपतिः साक्षाद्ब्रह्मणः पतिरेव च ।
हिरण्यगर्भं सविता लोककृल्लोकभृद्विभुः १७।
अकारवाच्यो भगवान् श्रीभू नीलापतिः प्रभुः ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति १८।
सहस्रमूर्द्धा विश्वात्मा सहस्राक्षः सहस्रपात् ।
स भूमिं सर्वतः स्पृत्वा ह्यत्यतिष्ठद्दशांगुलम् १९।
अनंतः श्रीपती रामो गुणभृन्निर्गुणो महान् ।
सर्वलोकेश्वरः श्रीमान्सर्वज्ञः सर्वतोमुखः २०।
तस्य लोकप्रधानस्य जगन्नाथस्य पार्वति ।
माहात्म्यं वासुदेवस्य यच्छक्यं तद्ब्रवीमि ते २१।
अशक्यं तन्मया वक्तुं ब्रह्मणा सह दैवतैः ।
सर्वोपनिषदामर्थं वेदांते परिनिश्चितम् २२।
तस्योपासनभेदांश्च शृणु वच्मि पुनः पृथक् ।
आद्यंतु वैष्णवं प्रोक्तं शंखचक्रांकनं हरेः २३।
धारणं चोर्ध्वर्पुंड्राणां तन्मंत्राणां परिग्रहः ।
अर्चनं च जपोध्यानं तन्नामस्मरणं तथा २४।
कीर्तनं श्रवणं चैव वंदनं पादसेवनम् ।
तत्पादोदकसेवा च तन्निवेदितभोजनम् २५।
तदीयानां च सेवाञ्च द्वादशीव्रतनिष्ठितम् ।
तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः २६।
भक्तिः षोडशधा प्रोक्ता भवबंधविमुक्तये ।
सर्वेषामेव देवानां ममापि पुरुषोत्तमः २७।
पूजनीयो हरिर्नित्यं ब्राह्मणानां विशेषतः ।
तस्मात्तु ब्राह्मणो नित्यं विधिवत्पूजयेद्धरिम् २८।
तच्चिह्नैरंकितः श्रीशपदंप्राप्नोत्यसंशयम् ।
शंखचक्रांकनं कुर्याद्ब्राह्मणो बाहुमूलयोः २९।
हुताग्निनैव संतप्य सर्वपापापनुत्तये ।
चक्रं वा शंखचक्रे वा तथा पंचायुधानि वा ३०।
धारयित्वैव विधिवद्व्रह्मकर्मसमारभेत् ।
अग्नितप्तं पवित्रं च धृत्वा वै भुजमूलयोः ३१।
त्यक्त्वा यमपुरं घोरं याति विष्णोः परं पदम् ।
चक्रचिह्नविहीनस्तु यः पूजयति केशवम् ३२।
तत्सर्वं विफलं याति पूजामंत्रजपादिकम् ।
अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः ३३।
अंकयित्वा जपन्मंत्रं संसारान्मोक्षमाप्नुयात् ।
सुदर्शनं धारयित्वा वह्नितप्तं द्विजोत्तमः ३४।
उपनीय विधानेन पश्चात्कर्मसु योजयेत् ।
विष्णुचक्रविहीनं तु य श्राद्धे भोजयिष्यति ३५।
व्यर्थं भवति तत्सर्वं निराशाः पितरो गताः ।
विष्णुचक्रांकितं विप्रं पूजयेच्छ्राद्धकर्मणि ३६।
विष्णुचक्रविहीनं तु प्रयत्नेन विवर्जयेत् ।
दद्याद्गोभूहिरण्यादि चक्रांकितभुजाय वै ३७।
यद्दत्तं चक्रहीनाय तत्सर्वमसुराय वै ।
अग्नितप्तेन चक्रेण बाहुमूले तु लांछिताः ३८।
सर्वपापविनिर्मुक्ता यांति विष्णोः परं पदम् ।
हुताग्नितप्तचक्रेण शरीरं यस्य चिह्नितम् ३९।
तस्य तीर्थानि यज्ञाश्च संप्राप्ता नात्र संशयः ।
अधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेत् ४०।
न तस्य किंचिदश्नीयादपि क्रतुसहस्रिणः ।
अधृत्वा विधिना चक्रं ब्राह्मणो ज्ञानदुर्लभः ४१।
गर्हितस्सर्वलोकेषु ब्राह्मण्यात्प्रच्युतो भवेत् ।
शङ्खचक्रधरो देवो हरिः पूज्यो यथात्मभिः ४२।
तथैव सर्वैस्संपूज्यो विप्रश्चक्रादिचिह्नितः ।
सर्ववेदविदो वापि सर्वशास्त्रविशारदः ४३।
अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत् ।
ऊर्द्ध्वपुंड्रविहीनस्तु शंख चक्रविवर्जितः ४४।
तं गर्दभे समारोप्य बहिः कुर्यात्स्वपत्तनात् ।
प्रकृतिस्पर्शरहितो वासुदेवो जनार्दनः ४५।
तथैव ब्राह्मणो देवि विष्णुचक्रेण चिह्नितः ।
तस्मात्प्रकृतिसंसर्गपापौघदहनं हरेः ४६।
प्रतप्तं बिभृयाच्चक्रं शंखं च भुजमूलयोः ।
स्त्रीशूद्राणां सदा धार्य्ये चंदनेन सुगंधिना ४७।
बाहुमूले लिखेच्चक्रं तप्तं तु ब्राह्मणस्य वै ।
तप्तेनैवांकनं कुर्याद्ब्राह्मणस्य विधानतः ४८।
श्रौतस्मार्त्तादिसिद्ध्यर्थं मंत्रसिद्ध्यै तथैव च ।
हरेः पूजाधिकारार्थं चक्रं धार्यां विधानतः ४९।
वैष्णवत्वस्य सिद्ध्यर्थं ज्ञानसिद्ध्यर्थमेव च ।
प्रतपेच्चक्रशंङ्खाभ्यां हुत्वा होमं विधानतः ५०।
अन्यैर्न दाहयेद्गात्रं ब्राह्मणो हरिलांछनात् ।
शंखचक्रगदाखड्गशार्ङ्गादन्यैर्हरेरपि ५१।
लक्षणेन दहेद्देहं नान्यदग्धोर्हतिक्रियाम् ।
अचक्रधारिणं विप्रं दूरतः परिवर्जयेत् ५२।
श्वपाकमिव नेक्षेत लोके विप्रमवैष्णवम् ।
वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् ५३।
तस्मात्तु विधिना चक्रं धार्यं विप्रैः शुभानने ।
ब्राह्मणा मंत्रसिद्ध्यै च ज्ञानसिद्ध्यै च मुक्तये ५४।
अप्राकृतामहात्मानो विष्णुचक्रेण लांच्छिताः ।
विष्णुचक्रविहीनास्तु ब्राह्मणाः प्राकृताः स्मृताः ५५।
सर्वाश्रमेषु वसतां ब्राह्मणानां विशेषतः ।
विधिना वैष्णवं चक्रं धार्यं हि श्रुतिनोदनात् ५६।
दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ।
वामे तु शंखं बिभृयादिति ब्रह्मविदो विदुः ५७।
एवम्महोपनिषदि प्रोक्तं चक्रादिधारणम् ।
तथैव साम्नि यजुषि ऋचि प्रोक्तं शुभानने ५८।
प्र ते विष्णो अब्जचक्रे पवित्रे जन्माम्भोधिं तर्तवे चर्षणीन्द्राः।
मूले बाह्वोर्दधतेऽन्ये पुराणा लिङ्गान्येन्ये तावकान्यर्पयन्ति ५९।
चरणं पवित्रं विततं पुराणं वाङ्मयं शुभम् ।
तेन चक्रेण सन्तप्तास्तरेयुः पातकाम्बुधिम् ६०।
पवित्रं ब्राह्मणस्पत्यं जगद्व्याप्तं हरेस्सदा ।
ते नातप्ततनूर्येषां न ते यान्ति परं पदम् ६१।
तेन तप्ता तनूर्येषां ते प्रयांति परं परदम् ।
पवित्रचरणं नेमिर्हरेश्चक्रं सुदर्शनम् ६२
thumb|वासवं साम
सहस्रारं प्राकृतघ्नं लोकद्वारं महौजसम् ।
नामानि विष्णुचक्रस्य पर्यायेण निबोध मे ६३।
शुद्धेन वह्नितप्तेन ब्रह्मत्वेन पुनीहि नः ।
यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः ६४।
येन देवाः पवित्रेण आत्मानं पुनते सदा ।
तेन सहस्रधारेण पावमान्यः पुनंतु माम् ६५।
प्रजापत्यं पवित्रं तु शतोद्यामं हिरण्मयम् ।
वयं ब्रह्मविदस्तेन पूतं ब्रह्म पुनीमहे ६६।
सनेमिचक्रमजरं चक्षुरस्य महात्मनः ।
अस्मिन्हि विधृते देवा महोन्नतपद ययौ ६७।
तस्माद्वै विधिवद्धार्याः शंखचक्रादिहेतयः ।
ब्राह्मणानां विशेषेण वैष्णवानां विशेषतः ६८।
धृतोर्द्ध्वपुंड्रः कृतचक्रधारी विष्णोः पदं ध्यायति यो महात्मा ।
स्वरेणमंत्रेण सदा हृदिस्थं परात्परं याति विशुद्धचेताः ६९।
ये कंठलग्नतुलसी नलिनाक्षमाला ये बाहुमूलपरिचिह्नितशंखचक्राः ।
ये वा ललाटफलके लसदूर्ध्वपुंड्रास्ते वैष्णवा भुवनमाशु पवित्रयंति ७०।
दिवस्पतेः सुविततं पवित्रं ये तु रक्षिणः ।
न वहंति भुजे सम्यक्न हि शोचंति जन्तवः ७१।
ये वहंति भुजे चक्रं सस्थिरं विधिना द्रुतम् ।
परं व्योम्नि तु ते स्थानमधितिष्ठन्ति तेजसा ७२।
होमाग्निसंतप्तपवित्रलांछिता मूले तु बाह्वोः परमात्मनो हरेः ।
संतारयित्वा भवसागरं महच्छुद्धं परं याति परेशलोकम् ७३।
अङ्कयेत्तप्तचक्राद्यैरात्मनो बाहुमूलयोः ।
कलत्रापत्यभृत्येषु पश्वादिषु च अङ्कयेत् ७४।
इत्येवं श्रुतयस्सर्वाः कथयंति वरानने ।
तथैव सेतिहासेषु पुराणेष्वपि कथ्यते ७५।
द्विविधं वैष्णवं प्रौक्तं बाह्यमाभ्यंतरं तथा ।
शंखचक्रादिभिर्बाह्यमांतरं वीतरागता ७६।
बाह्याभ्यंतरसाम्यं यत्तद्वैष्णवमुदाहृतम् ।
तस्माच्चक्रादिचिह्नं तु प्रथमं वैष्णवं स्मृतम् ७७।
आंतरं स्मरदोषादि विमुक्तं स्वात्मदर्शनम् ।
सर्वभूतदयाशांतिरिंद्रियार्थेष्वलोलता ७८।
पुत्रदाराद्यसंगत्वं योगाभ्यासरतिस्तथा ।
अनन्यभक्तियोगेन परेशस्याभिषेवणम् ७९।
तस्माच्चक्रादिहेतीनामंकनं वैष्णवं स्मृतम् ।
चक्रादिचिह्नहीनत्वाद्वैष्णवत्वं न लभ्यते ८०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे सुदर्शनादिमाहात्म्यंनाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः २२४ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 225
शंकर उवाच-
ऊर्द्ध्वपुंड्रस्य माहात्म्यं वक्ष्यामि शुभदर्शने ।
धारणादेव मुच्येत भवबंधाद्द्विजोत्तमः १।
ऊर्द्ध्वपुंड्रस्य मध्ये तु विशाले सुमनोहरे ।
लक्ष्म्या सार्द्धं समासीनो देवदेवो जनार्दनः २ ।
तस्माद्यस्य शरीरे तु ऊर्द्ध्वपुंड्रं धृतो भवेत् ।
तस्यदेहं भगवतो विमलं मंदिरं शुभम् ३।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
धारयेदूर्द्ध्वपुंड्रं यो मृदाशुभ्रेण वैष्णवः ४।
ऊर्द्ध्वपुंड्रधरो विप्रः सर्वलोकेषु पूजितः ।
विमानवरमारुह्य याति विष्णोः परं पदम् ५।
धारयेदूर्द्ध्वपुंड्रं तु त्रिसंध्यं तु द्विजोत्तमः ।
सर्वपापविशुद्ध्यर्थमिष्टापूर्तफलाप्तये ६।
ऊर्द्ध्वपुंड्रधरं दृष्ट्वा सर्वपापैः प्रमुच्यते ।
नमस्कृत्वाथवा भक्त्या सर्वदानफलं लभेत् ७।
ऊर्द्ध्वपुंड्रधरं विप्रं यः श्राद्धे भोजयिष्यति ।
आकल्पकोटिपितरस्तस्य तृप्ता न संशयः ८।
ऊर्द्ध्वपुंड्रधरो यस्तु कुर्याछ्रांद्धं शुभानने ।
कल्पकोटिसहस्राणि गयाश्राद्धफलं लभेत् ९।
यज्ञदानतपश्चर्या जपहोमादिकं च यत् ।
ऊर्द्ध्वपुंड्रधरः कुर्यात्तस्य पुण्यमनंतकम् १०।
ऊर्द्ध्वपुंड्रविहीनस्तु किंचित्कर्म करोति यः ।
इष्टापूर्तादिकं सर्वं निष्फलं स्यान्न संशयः ११।
यच्छरीरं मनुष्याणामूर्द्ध्वपुंड्र विवर्जितम् ।
द्रष्टव्यं नैव तत्किंचित्श्मशानसदृशं भवेत् १२।
ऊर्द्ध्वपुंड्रविहीनस्तु सन्ध्याकर्मादिकं चरेत् ।
तत्सर्वं राक्षसैर्नीतं नरकं चावगच्छति १३।
ऊर्द्ध्वपुंड्रधरोद्विप्रो मृदाशुभ्रेण वैदिकः ।
न तिर्यग्धारयेद्विद्वानापद्यपि कदाचन १४।
विप्राणामूर्द्ध्वपुंड्रं स्यात्तिलकं तु महीभृतः ।
पट्टाकारं तु वैश्यानां शूद्राणां वै त्रिपुंड्रकम् १५।
ऊर्द्ध्वपुंड्रं मृदा कार्यं कस्तूर्य्यास्तिलकं तथा ।
पट्टाकारं तु गंधेन भस्मनैव त्रिपुंड्रकम् १६।
ऊर्द्ध्वपुंड्रं तु सर्वेषां न निषिद्धं कदाचन ।
धारयेत्क्षत्रियाद्योऽपि विष्णुभक्तो भवेद्यदि १७।
विप्राणां नैव कार्य्यं स्यात्तिर्य्यक्पट्टादिधारणम् ।
नारायणात्परेशानादन्येषामर्चनं न तु १८।
ब्राह्मणः कुलजो विद्वान्भस्मधारी भवेद्यदि ।
वर्जयेत्तादृशं देवि मद्योच्छिष्टं घटं यथा १९।
त्रिपुंड्रं शूद्रकल्पानां शूद्राणां च विधिस्तथा ।
त्रिपुंड्र धारणाद्विप्रः पतितः स्यान्न संशयः २०।
एकांतिनो महाभागाः सर्वभूतहिते रताः ।
सांतरालं प्रकुर्वीरन्पुंड्रं हरिपदाकृतिम् २१।
हरेः पादाकृतिं कुर्यादूर्द्ध्वपुंड्रं विधानतः ।
मध्यछिद्रेण संयुक्तं तद्धि वै मंदिरं हरेः २२।
ऊर्द्ध्वपुंड्रमृजुं सौम्यं सुपार्श्वं सुमनोहरम् ।
दंडाकारं सुशोभाढ्यं मध्येछिद्रं प्रकल्पयेत् २३।
तस्माच्छिद्रान्वितं पुंड्रं दण्डाकारं सुशोभनम् ।
विप्राणां सततं कार्यं स्त्रीणां च शुभदर्शने २४।
ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे ।
सान्तराले समासीनो हरिरस्ति श्रिया सह २५।
निरन्तरालं यः कुर्यादूर्द्ध्वपुंड्रं द्विजाधमः ।
स हि तत्रस्थितं विष्णुं श्रियं चैव व्यपोहति २६।
अच्छिद्रमूर्द्ध्वपुंड्रं तु ये कुर्वंति द्विजाधमाः ।
तेषां ललाटे सततं शुनःपादो न संशयः २७।
तस्माच्छिद्रान्वितं पुंड्रं सहरिद्रं शुभान्वितम् ।
धारयेद्ब्राह्मणो नित्यं हरिसालोक्यसिद्धये २८।
आदाय परया भक्त्या वेङ्कटाद्रौ हृदे मृदम् ।
धारयेदूर्ध्वपुण्ड्राणि हरिसायुज्यसिद्धये २९।
श्रीकृष्णतुलसीमूले मृदमादाय भक्तिमान् ।
धारयेदूर्द्ध्वपुंड्राणि हरिस्तत्र प्रसीदति ३०।
द्वारवत्यां शुभे रम्ये वासुदेवहृदे तथा ।
तत्रोद्भवां मृदं रम्यामादाय द्विजसत्तमः ३१।
धारयेदूर्द्ध्वपुंड्रांणि सर्वकामफलाप्तये ।
आदाय परया भक्त्या गंगातीरोद्भवां मृदम् ३२।
तया धृतोर्द्ध्वपुंड्राणि सर्वयज्ञफलो लभेत् ।
चंदनं च हरिद्रा च तथा भस्माग्निहोत्रजम् ३३।
सर्ववश्यकरं प्रोक्तमूर्द्ध्वपुंड्रस्य धारणात् ।
यत्र पुण्यं हरिक्षेत्रं तत्र वै मृदमाहरेत् ३४।
पर्वताग्रे नदीतीरे बिल्वमूले जलाशये ।
सिंधुतीरे च वल्मीके हरिक्षेत्रे विशेषतः ३५।
विष्णोः स्नानोदकं यत्र प्रवाहयति नित्यशः ।
पुंड्राणां धारणार्थाय गृह्णीयात्तत्र मृत्तिकाम् ३६।
श्रीरङ्गे वेङ्कटाद्रौ च श्रीकूर्मे द्वारके शुभे ।
प्रयागेनारसिंहाद्रौ वाराहे तुलसीवने ३७।
गृहीत्वा मृत्तिकां भक्त्या विष्णुपादजलैः सह ।
धृत्वा पुंड्राणि चांगेषु विष्णुसायुज्यमाप्नुयात् ३८।
यस्मिन्कस्मिन्महाभागा वैष्णवा धारयंति वै ।
तस्मिन्वै मृत्तिका ग्राह्या ऊर्द्ध्वपुंड्रस्य धारणे ३९।
श्यामं शांतिकरं प्रोक्तं रक्तं वश्यकरं तथा ।
श्रीकरं पीतमित्याहुः श्वेतं मोक्षकरं शुभम् ४०।
वर्तुलं तिर्यगछिद्रं ह्रस्वं दीर्घं ततं तनुम् ।
वक्रं विरूपं बद्धाग्रं छिन्नमूलं पदच्युतम् ४१।
अशुभं रूक्षमासक्तं तथानंगुलिकल्पितम् ।
विगंधमवसह्यं च पुंड्रमाहुरनर्थकम् ४२।
आरभ्य नासिकामूलं ललाटं तं लिखेन्मृदा ।
समारभ्य भ्रुवोर्मध्यमंतरालं प्रकल्पयेत् ४३।
अंतरालं द्व्यंगुलं स्यात्पार्श्वावंगुलिमात्रकौ ।
मृदा शुभ्रेण विलिखेत्पुण्ड्रं ऋजुतरं शुभम् ४४।
ललाटे केशवं ध्यायेन्नारायणमथोदरे ।
वक्षस्थले माधवं च गोविंदं कंठकूबरे ४५।
विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ।
त्रिविक्रमं कंधरे तु वामनं वामपार्श्वके ४६।
श्रीधरं बाहुके वामे हृषीकेशं तु कंधरे ।
पृष्ठे वै पद्मनाभं तु त्रिके दामोदरं न्यसेत् ४७।
तत्प्रक्षालनतोयेन वासुदेवं तु मूर्द्धनि ।
ललाटे भुजयुग्मे तु पृष्ठयोः कंठकूबरे ४८।
धारयेदूर्द्ध्वपुंड्रं तु चतुरंगुलमात्रतः ।
कुक्षौ तत्पार्श्वयोः प्रोक्तमायतं तु दशांगुलम् ४९।
बाह्वोर्वक्षस्थले पुंड्रंमष्टांगुलमुदाहृतम् ।
एवं द्वादशपुंड्राणि ब्राह्मणः सततं धरेत् ५०।
तत्तत्पुण्ड्राणि तन्मूर्तीर्ध्यात्वा मंत्रेण धारयेत् ।
अंतरालेषु सर्वेषु हरिद्रां धारयेच्छ्रियाम् ५१।
चत्वारि भूभृतामाहुः पुंड्राणि द्वे विशां स्मृते ।
एकपुंड्रं तु नारीणां शूद्राणां च विधीयते ५२।
ललाटे हृदि बाह्वोश्च चतुःपुंड्राणि धारयेत् ।
ललाटे हृदये द्वे तु फालेत्वेकं विधीयते ५३।
ऊर्द्ध्वपुंड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम् ।
ललाटादिक्रमेणैव धारणं तु विधीयते ५४।
मूर्तीस्तु वासुदेवाद्याश्चतुःपुंड्रेषु धारयेत् ।
द्वयोर्गोविंदकृष्णौ तु एकं नारायणं धरेत् ५५।
एवं पुंड्रविधिः प्रोक्तः सर्वेषां गिरिजे मया ।
अश्वत्थपत्रसंकाशो वेणुपत्राकृतिस्तथा ५६।
पद्मकुड्मलसंकाशो मोहनं त्रितयं स्मृतम् ।
महाभागवतः शुद्धः पुंड्रं हरिपदाकृतिम् ५७।
दंडाकारं तु वा देवि धारयेदूर्द्ध्वपुंड्रकम् ।
सुदर्शनेनांकितबाहुमूलास्तथोर्द्ध्वपुंड्रांकित सर्वगात्राः ५८।
मालारविंदाक्षधरा विशुद्धा रक्षंति लोकान्दुरितौघसंगात् ५९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे ऊर्द्ध्वपुंड्रमाहात्म्यंनाम पंचविंशत्यधिकद्विशततमोऽध्यायः २२५ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 226
शंकर उवाच -
न्यासेवाप्यर्चने वापि मंत्रमेकांतिनः श्रयेत् ।
अवैष्णवोपदिष्टेन मंत्रेण न परा गतिः १।
अवैष्णवोपदिष्टंचेत्पूर्वमंत्रवरंद्वयम् ।
पुनश्च विधिना सम्यक्वैष्णवाद्ग्राहयेद्गुरोः २।
सहस्रशाखाध्यायी वा सर्वयज्ञेषु दीक्षितः ।
कुले महति जातोऽपि न गुरुः स्यादवैष्णवः ३।
यस्तु मंत्रद्वयं सम्यगध्यापयति वैष्णवः ।
स आचार्यस्तु विज्ञेयो भवबंधविदारकः ४।
आचार्यं संश्रयित्वाथ वत्सरं सेवयेद्दिवजः ।
तस्य वृत्तिं परिज्ञात्वा मंत्रमध्यापयेद्गुरुः ५।
कृत्वा तापादिसंस्कारान्पश्चान्मंत्रमुदीरयेत् ।
तापं पुंड्रं तथा नाम कृत्वा वै विधिना गुरुः ६।
पश्चादध्यापयेन्मंत्रं शिष्यं निर्मलचेतसम् ।
चक्रेण विधिना तप्तं ताप इत्यभिधीयते ७।
पुंड्रमूर्द्ध्वं तथा प्रोक्तं नाम वैष्णवमुच्यते ।
ततो मंत्रं विधानेन शिष्यमध्यापयेद्गुरुः ८।
न्यासमष्टाक्षरं मंत्रमन्यं वा वैष्णवं मनुम् ।
न्यासमेवात्र परमं वैष्णवानां शुभानने ९।
तस्मात्तु न्यासमेवैषामतिरिक्तमिहोच्यते ।
न्यासविद्यापरो यस्तु ब्राह्मणः श्रेष्ठ उच्यते १०।
न्यासात्परतरं नास्ति मन्त्रं सत्यं ब्रवीमि ते ।
न्यासं द्वयं प्रपत्तिः स्यात्पर्यायेण निबोध मे ११।
द्वयोपदेशपूर्वं तु सर्वकर्मसमाचरेत् ।
द्वयाधिकारी न भवेत्सर्वकर्मसु नार्हति १२।
तस्माद्वयमधीत्येव पश्चान्मंत्रमनुत्तमम् ।
श्रीमदष्टाक्षरं सम्यगभ्यसेद्दिवजसत्तमः १३।
मंत्रमष्टाक्षरं प्रोक्तं प्रणवस्यैव संग्रहात् ।
नैसर्गप्रणवाद्यन्तु मंत्रमित्युच्यतेबुधैः १४।
नान्यत्र सर्वमंत्रेषु प्रणवस्वस्वभावतः ।
पूर्वं तु सर्वमंत्राणां योजयेत्प्रणवं शुभम् १५।
ॐकारः प्रणवं ब्रह्म सर्वमंत्रेषु नायकः ।
आदौ सर्वत्र युंजीत मंत्राणां तु शुभानने १६।
स्वभावात्प्रणवन्तस्मिन्मूलमंत्रे प्रतिष्ठितम् ।
ओमित्येकाक्षरं पूर्वं द्व्यक्षरं नम इत्यथ १७।
ततो नारायणायेति पंचार्णानि यथाक्रमम् ।
एवमष्टाक्षरो मंत्रो ज्ञेयः सर्वार्थसाधकः १८।
सर्वदुःखहरः श्रीमान्सर्वमंत्रात्मकः शुभः ।
ऋषिर्नारायणस्तस्य देवता श्रीश एव च १९।
छंदस्तु देवी गायत्री प्रणवो बीजमुच्यते ।
नित्यानपायिनी देवी शक्तिः श्रीरुच्यते मनोः २०।
प्रथमं पदमोङ्कार द्वितीयं नम उच्यते ।
तृतीयं नारायणायेति पदत्रयमुदाहृतम् २१।
अकारश्चाप्युकारश्च मकारश्च ततः परम् ।
वेदत्रयात्मकं प्रोक्तं प्रणवं ब्रह्मणः पदम् २२।
अकारेणोच्यते विष्णुः श्रीरुकारेण चोच्यते ।
मकारस्त्वनयोर्दासः पंचविंशः प्रकीर्तितः २३।
वासुदेवस्वरूपं तदकारेणोच्यतै बुधैः ।
उकारेण श्रियो देव्या रूपं मुनिभिरुच्यते २४।
मकारेणोच्यते जीवः पंचविंशोदितः पुमान् ।
भूतानि च कवर्गेण चवर्गणेन्द्रियाणि च २५।
ट वर्गेण तवर्गेण ज्ञानं धादयस्तथा ।
मनः पकारेणैवोक्तं फकारेण त्वहंकृतिः २६।
बकारेण भकारेण महान्प्रकृतिरुच्यते ।
आत्मा तु स मकारः स्यात्पंचविंशः प्रकीर्तितः २७।
देहेंद्रियमनः प्राणादिभ्योन्योऽनन्यसाधनः ।
भगवच्छेषभूतोऽसौ मकाराख्यः स चेतनः २८।
अवधारणवाच्येवमुकारः कैश्चिदुच्यते ।
श्रीतत्वमपि तत्पक्षे वकारेणैव चोच्यते २९।
भास्करस्य प्रभा यद्वत्तस्य नित्यानपायिनी ।
आकारेणोच्यते विष्णुः कल्याणगुणसागरः ३०।
श्रीशः सर्वात्मनां शेषो जगद्बीजं परः पुमान् ।
जगत्कर्त्ता जगद्भर्त्ता ईश्वरो लोकबांधवः ३१।
जगतामीश्वरी नित्या विष्णोरनपगामिनी ।
माता सर्वस्य जगतः पत्नी विष्णोर्मनोरमा ३२।
जगदाधारभूता श्रीरुकारेणात्र चोच्यते ।
मकारेण तयोर्दासः क्षेत्रज्ञः प्रोच्यते बुधैः ३३।
ज्ञानाश्रमो ज्ञानगुणश्चेतनः प्रकृतेः परः ।
न जडो निर्विकारश्च एकरूप स्वरूपभाक् ३४।
अणुर्नित्यो व्याप्तिशीलश्चिदानंदात्मकस्तथा ।
अहमर्थोऽव्ययः क्षेत्री भिन्नरूपं सनातनः ३५।
अदाह्योच्छेद्यो ह्यक्लैद्यस्त्वशोष्योक्षर एव च ।
एवमादिगुणोपेतश्शेषभूतः परस्य वै ३६।
मकारेणोच्यते जीवः क्षेत्रज्ञः परवान्सदा ।
दासभूतो हरेरेव नान्यस्य तु कदाचन ३७।
एवं दासत्वमेवास्य मध्यमेवावधार्यते ।
इत्येवं प्रणवस्यार्थो ज्ञातव्योक्तो मयानघे ३८।
विवृतिः प्रणवस्यार्थ मन्त्रशेषेण वै शुभे ।
परस्य दासभूतस्य स्वातन्त्र्यं नेह विद्यते ३९।
तस्मान्महदहंकारौ मनसा विनिवर्त्तयेत् ।
स्वोपायबुद्ध्या यत्कृत्यं तदपि प्रतिषिध्यते ४०।
अहंकृतिर्मकारः स्यान्नकारस्तन्निषेधकः ।
तस्मात्तु मनसैवास्य अहंकारविमोचनम् ४१।
मनसा सर्वसिद्धिः स्यादन्यथा नाशमाप्नुयात् ।
नमसा सहितं किंचित्तदहंकार उच्यते ४२।
अहंकारेण युक्तस्य सुखं किंचिन्न विद्यते ।
अहंकारविमूढात्मा अंधे तमसि मज्जति ४३।
तस्मान्न मनसा चात्र स्वातंत्र्यं प्रतिषिध्यते ।
भगवत्परतंत्रोऽसौ तदायत्तश्च जीवति ४४।
तस्मात्साधनकर्तृत्वं चेतनस्य न विद्यते ।
ईश्वरस्यैव संकल्पाद्वर्त्तते स्वचराचरम् ४५।
तस्मात्स्वसामर्थ्यविधिं त्यजेत्सर्वमशेषतः ।
ईश्वरस्य तु सामर्थ्यान्नालभ्यं तस्य विद्यते ४६।
तस्मिन्न्यस्तभरः श्रीशे तत्कर्मैव समाचरेत् ।
परमात्मा हरिस्स्वामी स्वमहं तस्य सर्वदा ४७।
इच्छाया विनियोक्तव्यस्तस्यैवात्मेश्वरस्य हि ।
इत्येवं मनसा त्यक्तमहंता ममतोर्जितम् ४८।
देहेष्वहं मतिर्मूलं संसृतौ कर्मबंधने ।
तस्मान्महदहंकारौ मनसा वर्जयेद्बुधः ४९।
अथ नारायणपदं वक्ष्यामि गिरजे शुभे ।
नारा इत्यात्मनां संघास्तेषां गतिरसौ पुमान् ५०।
त एव चायनं तस्य तस्मान्नारायणः स्मृतः ।
सर्वं हि चिदचिद्वस्तु श्रूयते दृश्यते जगत् ५१।
योऽसौ व्याप्यस्थितो नित्यं स वै नारायणः स्मृतः ।
नाराश्चेति सर्वपुंसां समूहाः परिकीर्तिताः ५२।
गतिरालंबनं तेषां तस्मान्नारायणः स्मृतः ।
नराज्जातानि तत्वानि नाराणीति विदुर्बुधाः ५३।
तान्येव चायनं तस्य तेन नारायणस्स्मृतः ।
कल्पांतेपि जगत्कृत्स्नं ग्रसित्वा येन धार्यते ५४।
पुनः संसृज्यते येन स वै नारायणः स्मृतः ।
चराचरं जगत्कृत्स्नं नार इत्यभि धीयते ५५।
तस्य वासं गतिर्येन तेन नारायणः स्मृतः ।
नारो नराणां संघातस्तस्यासावयनं गतिः ५६।
तेनासौ मुनिभिर्नित्यं नारायण इतीरितः ।
प्रभवन्ति यतो लोका महाब्धौ पृथुफेनवत् ५७।
पुनर्यस्मात्प्रलीयन्ते तस्मान्नारायणः स्मृतः ।
यो वै नित्यपदे नित्यो नित्यमुक्तैकभोगवान् ५८।
ईशः सर्वस्य जगतः स वै नारायणः स्मृतः ।
नारायणः परंब्रह्म तत्वं नारायणः परम् ५९।
यच्च किंचिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा ।
अंतर्बंहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ६०।
अपहतपाप्मा पुरुषः सर्वभूतांतरस्थितः ।
दिव्यएकस्सदा नित्यो हरिर्नारायणोऽच्युतः ६१।
यस्तु द्रष्टा च द्रष्टव्यं श्रोता श्रोतव्यमेव च ।
स्प्रष्टा च स्पर्शितव्यश्च ध्याता ध्यातव्यमेव च ६२।
वक्ता च वाच्यं ज्ञाता च ज्ञातव्यं चिदचिज्जगत् ।
तच्च सर्वं हरिः श्रीशो नारायण उदाहृतः ६३।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स लोकान्सर्वतो व्याप्य अत्यतिष्ठद्दशांगुलम् ६४।
यद्भूतं यच्च भव्यं तत्सर्वं नारायणो हरिः ।
उतामृतत्वस्येशानो यदन्नेन विराट्पुमान् ६५।
स एव पुरुषो विष्णुर्वासुदेवोऽच्युतो हरिः ।
हिरण्मयोऽथ भगवान्सोऽमृतः शाश्वतः शिवः ६६।
पतिर्विश्वस्य जगतः सर्वलोकेश्वरं प्रभुः ।
हिरण्यगर्भाः सविता अनंतोऽसौ महेश्वरः ६७।
भगवानिति शब्दोऽयं तथा पुरुष इत्यपि ।
वर्त्तते निरुपाधिश्च वासुदेवोऽखिलात्मनि ६८।
ईश्वरो भगवान्विष्णुः परमात्मा जगत्सुहृत् ।
शास्ता चराचरस्यैको यतीनां परमा गतिः ६९।
यो वेदादौ स्वरः प्रोक्तो वेदांते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ७०।
योसावकारो वै विष्णुर्योऽसौ नारायणो हरिः ।
स एव पुरुषो नित्यः परमात्मा महेश्वरः ७१।
यस्मादुद्भूतमैश्वर्यं यस्मिन्कस्मिंश्च वर्तते ।
तस्मिन्नीश्वरशब्दोऽपि प्रोच्यते मुनिभिस्तथा ।
निरुपाधीश्वरत्वं हि वासुदेवे प्रतिष्ठितम् ७२।
आत्मेश्वर इति प्रोक्तो वेदवादैः सनातनैः ।
तस्मान्महेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ७३।
असौ त्रिपाद्विभूतेस्तु लीलया अपि चेश्वरः ।
विभूतिद्वयमैश्वर्यं तस्यैव सकलात्मनः ७४।
श्रीभूनीलापतिर्योसावीश्वरस्स उदाहृतः ।
तस्मात्सर्वेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ७५।
असौ यज्ञेश्वरो यज्ञो यज्ञभुक्यज्ञकृद्विभुः ।
यज्ञभुग्यज्ञपुरुषः स एव परमेश्वरः ७६।
यज्ञेश्वरो हव्यसमस्तकव्यभोक्ता व्ययात्मा हरिरीश्वरोऽत्र ।
तत्संनिधानादपयांति सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे ७७।
योऽसौ विराट्त्वमापन्नो हरिर्भूतो जनार्दनः ।
संतर्पयति लोकांस्त्रीन्स एव परमेश्वरः ७८।
येन पूर्णेन हविषा देवा यज्ञमतन्वत ।
तस्माद्यज्ञात्समुत्पन्ना ये के चोभयादतः ७९।
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
तस्मादश्वा अजायंत गावश्च पुरुषादयः ८०।
पुरुषस्य तनोरस्य सर्वयज्ञमयस्य वै ।
हरेः सर्वं समुद्भूतं जगत्स्थावरजंगमम् ८१।
मुखबाहूरुपादाः स्युस्तस्य वर्णा यथाक्रमम् ।
पद्भ्यां तु पृथिवी तस्य शिरसा द्यौरजायत ८२।
मनसश्चंद्रमा जातश्चक्षुषश्च प्रभाकरः ।
मुखादग्निः सहस्राक्षो वायुः प्राणात्सदागतिः ८३।
नाभेर्विरिंचिर्गगनं जगत्सर्वं चराचरम् ।
यस्मात्सर्वं समुद्भूतं जगद्विष्णोः सनातनात् ८४।
तस्मात्सर्वमयो विष्णुर्नारायण इतीरितः ।
एवं सृष्ट्वा जगत्सर्वं पुनः संग्रसते हरिः ८५।
निजलीलासमुद्भूतं तान्तवं चोर्णनाभिवत् ।
ब्रह्माणमिंद्रं रुद्रं च यमं वरुणमेव च ८६।
निगृह्य हरते यस्मात्तस्माद्धरिरहोच्यते ।
असावेकार्णवीभूते मायावटतले पुमान् ८७।
जगत्स्वजठरे कृत्वा शेते तस्मिन्सनातनः ।
आसीदेको हि वै चात्र विष्णुर्नारायणोऽच्युतः ८८।
न ब्रह्मा न च रुद्रश्च न देवा न महर्षयः ।
नेमे द्यावापृथिव्यौ च न सोमो न च भास्करः ८९।
न नक्षत्राणि लोकाश्च न चांडं महदावृतम् ।
यस्माज्जगद्वृतं तेन सकलं हरिणा शुभे ९०।
सृष्टं पुनस्तथा सर्गे तस्मान्नारायणस्स्मृतः ।
तस्य दास्यं चतुर्थ्यानु मंत्रे प्रोक्तं तु पार्वति ९१।
दासभूतमिदं तस्य ब्रह्माद्यं सकलं जगत् ।
एवमर्थं विदित्वा वै पश्चान्मंत्रं प्रयोजयेत् ९२।
अविदित्वा तु मन्त्रार्थं सिद्धिं नैवाधिगच्छति ।
न तु भुक्तिं च भक्तिं च न च मुक्तिं वरानने ९३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे मंत्रार्थोपदेशोनाम षड्विंशत्यधिकद्विशततमोऽध्यायः २२६।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 227
पार्वत्युवाच-
विस्तरेण मयाचक्ष्व मंत्रार्थपदगौरवम् ।
ईश्वरस्य स्वरूपं च तद्विभूतिगुणांस्तथा १।
तद्विष्णोः परमं धामव्यूहभेदांस्तथा हरेः ।
सर्वमाख्याहि तत्त्वेन मम सर्वसुरेश्वर २।
ईश्वर उवाच-
शृणु देवि प्रवक्ष्यामि स्वरूपं परमात्मनः ।
विभूतिगुणसंघातं तदवस्थात्मकं हरेः ३।
यः परः पुरुषो विष्णुर्नारायण उदाहृतः ।
स ईश्वरश्च जगतां परमात्मा सनातनः ४।
विश्वतः पाणिपादश्च चक्षुष्मान्विश्वतः प्रभुः ।
विश्वानि भुवनान्यस्मिन्धामानि परमाणि वै ५।
धारयन्सोऽप्यत्यतिष्ठेन्मनांसि च मनीषिणाम् ।
एवं बहुस्वरूपः सञ्छ्रीपतिः पुरुषोत्तमः ।
ईश्वरर्य्या सहभोगार्थं दिव्यमंगलरूपवान् ६।
बृहच्छरीरोऽग्निसमानरूपो युवा कुमारत्वमुपेयिवान्हरिः ।
रेमे श्रियासौ जगतां जनन्या स्वज्योत्स्नया चंद्रइवामृतांशुः ७।
अयं च जगदीश्वर्य्या कुमारो नित्ययौवनः ।
कंदर्प्पकोटिलावण्यः स तस्थे परमे पदे ८।
भोगार्थं परमं व्योम लीलार्थमखिलं जगत् ।
भोगेन क्रीडया विष्णोर्विभूतिद्वयसंस्थितिः ९।
भोगे नित्यस्थितिस्तस्य लीलां संहरते कदा ।
भोगो लीला उभौस्तस्य धार्य्येते शक्तिमत्तया १०।
त्रिपाद्व्याप्तिः परे धाम्नि पादोस्येहाभवत्पुनः ।
त्रिपाद्विभूतिर्नित्या स्यादनित्यं पादमैश्वरम् ११।
नित्यं तद्रूपमीशस्य परे धाम्नि स्थितं शुभम् ।
अच्युतं शाश्वतं दिव्यं सदा यौवनमाश्रितम् १२।
नित्यं संभोगमीश्वर्या श्रिया भूम्या च संवृतम् ।
नित्यैवेषा जगन्माता विष्णोः श्रीरनपायिनी १३।
यथा सर्वगतो विष्णुस्तथा लक्ष्मीश्शुभानने ।
ईशाना सर्वजगतो विष्णुपत्नी सदा शिवा १४।
सर्वतः पाणिपादांता सर्वतोऽक्षिशिरोमुखी ।
नारायणी जगन्माता समस्तजगदाश्रया १५।
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजङ्गमम् ।
जगत्स्थितिलयौ यस्या उन्मीलननिमीलनात् १६।
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी ।
लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता १७।
शून्यं तदखिलं विश्वं विलोक्य परमेश्वरी ।
शून्यं तदखिलं स्वेन पूरयामास तेजसा १८।
सा लक्ष्मीर्धरणी चैव नीलादेवीति विश्रुता ।
आधारभूता जगतः पृथिवीरूपमाश्रिता १९।
तोयादिरसरूपेण सैव नीलावपुर्भवेत् ।
लक्ष्मीरूपत्वमापन्ना धनवाग्रूपिणी हि सा २०।
एवं देवीस्वरूपा सा जगतः श्रीः श्रीताहरिम् ।
समस्तविद्याभेदा स्युर्लक्ष्मीरूपा वरानने २१।
श्रीरूपमखिलं सर्वं तस्या हि वपुरुच्यते ।
सौंदर्यं शीलवृत्तं च सौभाग्यं स्त्रीषु संस्थितम् ।
तस्या रूपं च गिरिजे सर्वासां मूर्ध्नि योषिताम् २२।
यस्याः कटाक्षाय तमोग्रदृष्ट्या ब्रह्माशिवस्स्वर्गपतिर्महेंद्रः ।
चंद्रश्च सूर्यो धनदोपमोग्निः प्रभूतमैश्वर्यमवाप्नुवंति २३।
लक्ष्मीः श्रीः कमला विद्या माता विष्णुप्रिया सती ।
पद्मालया पद्महस्ता पद्माक्षी लोकसुंदरी २४।
भूतानामीश्वरी नित्या सह्या सर्वगता शुभा ।
विष्णुपत्नी महादेवी क्षीरोदतनया रमा २५।
अनंता लोकमाता भूर्नीला सर्वसुखप्रदा ।
रुक्मिणी च तथा सीता सर्ववेदवती शुभा २६।
सती सरस्वती गौरी शांतिः स्वाहा स्वधा रतिः ।
नारायणी वरारोहा विष्णोर्नित्यानपायिनी २७।
एतानि पुण्यनामानि प्रातरुत्थाय यः पठेत् ।
स महाश्रियमाप्नोति धनधान्यमकल्मषम् २८।
हिरण्यवर्णां हरिणीं सुवर्णरजतः स्रजाम् ।
चंद्रां हिरण्मयीं लक्ष्मीं विष्णोरनपगामिनीम् २९।
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ३०।
एवं ऋक्संहितायां तु स्तूयमाना महेश्वरी ।
सर्वैश्वर्यसुखं प्रादाच्छिवादीनां दिवौकसाम् ३१।
अस्येशाना हि जगतो विष्णुपत्नी सनातनी ।
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजंगमम् ३२।
यस्य वक्षसि सा देवी प्रभाग्नाविव तिष्ठति ।
स वै सर्वेश्वरः साक्षादक्षरः पुरुषोऽव्ययः ३३।
स वै नारायणः श्रीमान्वात्सल्यगुणसागरः ।
स्वामी सुशीलः सुभगः सर्वज्ञः सर्वशक्तिमान् ३४।
नित्यं संपूर्णकामश्च नैसर्गिकसुहृत्सखा ।
कृपापीयूषजलधिः शरणं सर्वदेहिनाम् ३५।
स्वर्गापवर्गसुखदो भक्तानां करुणाकरः ।
श्रीमते विष्णवे तस्मै दास्यं सर्वं करोम्यहम् ३६।
देशकालाद्यवस्था तु सर्वासु कमलापतेः ।
इति स्वरूपं संसिद्धं सुखं दास्यमवाप्नुयात् ३७।
एवं विदित्वा मंत्रार्थं तद्भक्तिं सम्यगाचरेत् ।
दासभूतमिदं तस्य जगत्स्थावरजंगमम् ३८।
श्रीमन्नारायणः स्वामी जगतां प्रभुरीश्वरः ।
माता पिता सुतो बंधुर्निवासः शरणं गतिः ३९।
कल्याणगुणवान्श्रीशः सर्वकामफलप्रदः ।
योऽसौ निर्गुण इत्युक्तः शास्त्रेषु जगदीश्वरः ४०।
प्राकृतैर्हेयसंयुक्तैर्गुणैर्हीनत्वमुच्यते ।
यत्र मिथ्या प्रपञ्चत्वं वाक्यैर्वेदांतगोचरैः ४१।
दृश्यमानमिदं सर्वमनित्यमिति चोच्यते ।
अत्रापि प्राकृतं रूपमण्डस्यैव विनाशनम् ४२।
प्राकृतानां हि रूपाणामनित्यत्वं तथोच्यते ।
इममर्थं महादेवि प्रकृतेरुद्भवं हरेः ४३।
क्रीडार्थं देवदेवस्य विष्णोर्लीलाधिकारिणः ।
लोकैश्चतुर्भिर्दशभिः सागरैर्द्वीपसंयुतैः ४४।
भूतैश्चतुर्विधैश्चापि भूधरैश्च महोच्छ्रयैः ।
परिपूर्णमिदं रम्यमंडं प्रकृतिसंभवम् ४५।
दशोत्तरगुणोपेतं सप्तावरणसंवृतम् ।
कलाकाष्ठादिरूपेण यः कालं परिवर्तते ४६।
कालेनैव जगत्सर्गस्थितिसंहरणं भवेत् ।
चतुर्युगसहस्रं वै ब्रह्मणो दिवसो भवेत् ४७।
तावंति रात्रिवर्षाणि ब्रह्मणोऽव्यक्तजन्मनः ।
क्षये तु ब्रह्मणः प्राप्ते सर्वसंहारको भवेत् ४८।
अंडमंडगता लोका दह्यंते कालवह्निना ।
सर्वात्मानस्तथा विष्णोः प्रकृतौ विनिवेशिताः ४९।
अंडावरणभूतानि प्रकृतौ लयमाप्नुयुः ।
सा सर्वजगदाधारा प्रकृतिर्हरिसंश्रिता ५०।
तया जगत्सर्गलयौ करोति भगवान्सदा ।
क्रीडार्थं देवदेवेन सृष्टा माया जगन्मयी ५१।
अविद्या प्रकृतिर्माया गुणत्रयमयी सदा ।
सर्गस्थितिलयानां सा हेतुभूता सनातनी ५२।
योगनिद्रा महामाया प्रकृतिस्त्रिगुणान्विता ।
अव्यक्ता च प्रधानं च विष्णोर्लीलाविकारिणः ५३।
जगत्सर्गलयौ स्यातां प्रकृतेरेव सर्वदा ।
असंख्यप्रकृतेः स्थानं निबिडध्वान्तमव्ययम् ५४।
ऊर्ध्वं तु सीम्नि विरजा निस्सीमाधस्सनातनी ।
तयादृतं जगत्सर्वं स्थूलसूक्ष्माद्यवस्थया ५५।
विकाससंकोचावस्थे तस्यां सर्गलयौ स्मृतौ ।
एवं सर्वाणि भूतानि प्रकृत्यंतर्गतानि वै ५६।
ततः शून्यमिदं सर्वं प्रकृत्यंतर्गतं महत् ।
एवं प्रकृतिरूपाया विभूते रूपमुत्तमम् ५७।
त्रिपाद्विभूतिरूपं तु शृणु भूधरनंदिनि ।
प्रधान परमव्योम्नोरंतरे विरजा नदी ५८।
वेदांगस्वेदजनिततोयैः प्रस्राविता शुभा ।
तस्याः पारे परे व्योम्नि त्रिपाद्भूतिस्सनातनी ५९।
अमृतं शाश्वतं नित्यमनन्तं परमं पदम् ।
शुद्धं सत्वमयं दिव्यमक्षरं ब्रह्मणः पदम् ६०।
अनेककोटिसूर्याग्नि तुल्य वर्चसमव्ययम् ।
सर्ववेदमयं शुद्धं सर्गप्रलयवर्जितम् ६१।
असंख्यमजरं नित्यं जाग्रत्स्वप्नादिवर्जितम् ।
हिरण्मयं मोक्षपदं ब्रह्मानंदसुखावहम् ६२।
समानाधिक्यरहितमाद्यंतरहितं शुभम् ।
तेजसात्यद्भुतं रम्यं नित्यमानंदसागरम् ६३।
एवमादिगुणोपेतं तद्विष्णोः परमं पदम् ।
न तद्भासयते सूर्यो न शशांको न पावकः ६४।
यद्गत्वा न निवर्तंते तद्धाम परमं हरेः ।
तद्विष्णोः परमं धाम शाश्वतं नित्यमच्युतम् ।
न हि वर्णयितुं शक्यं कल्पकोटिशतैरपि ६५।
हरेः पदं वर्णयितुं न शक्यं मया च धात्रा च मुनींद्रसङ्घैः ।
यस्मिन्पदे ह्यच्युत ईश्वरो यः सो अङ्ग वेद यदि वा न वेद ६६।
यदक्षरं वेदगुह्यं यस्मिन्देवा अधि विश्वे निषेदुः ।
यस्तन्नो वेद किमृचा करिष्यति ये तद्विदुस्त इमे समासते ६७।
तद्विष्णोः परमं धाम सदा पश्यंति सूरयः ।
अक्षरं शाश्वतं दिव्यं देवि चक्षुरिवाततम् ६८।
तत्प्रवेष्टुमशक्यं च ब्रह्मरुद्रादिदैवतैः ।
ज्ञानेन शास्त्रमार्गेण वीक्ष्यते योगिपुंगवैः ६९।
अहं ब्रह्मा च देवाश्च न जानंति महर्षयः ।
सर्वोपनिषदामर्थं दृष्ट्वा वक्ष्यामि सुव्रते ७०।
विष्णोः पदे हि परमे पदे तत्सशुभाह्वयेः ।
यत्र गावो भूरिशृंगा आसते सुसुखाः प्रजाः ७१।
अत्राह तत्परं धाम गोपवेषस्य शार्ङ्गिणः ।
तद्भाति परमं धाम गोभिर्गोपैस्सुखाह्वयैः ७२।
आदित्यवर्णं तमसः परस्ताज्ज्योतिरच्युतम् ।
आधारो ब्रह्मणो लोकश्शुद्धसत्त्वस्सनातनः ७३।
सामान्या विभिते भूमिन्तेऽस्मिन्शाश्वते पदे ।
तस्थतुर्जागरूकेस्मिन्युवानौ श्रीसनातनौ ७४।
यतः स्वसारौ युवती भूनीले विष्णुवल्लभे ।
अत्र पूर्वे ये च साध्या विश्वेदेवास्सनातनाः ७५।
ते ह नाकं महिमानस्सचन्ते शुभदर्शनाः ।
तत्र विज्ञानिनो विप्रा जागृवांसस्समिन्धते ७६।
तत्पदं ज्ञानिनो विप्रा यांति संवासमिच्छवः ।
तद्विष्णोः परमं धाम मोक्ष इत्यभिधीयते ७७।
तस्मिन्बंधविनिर्मुक्ताः प्राप्नुवन्ति सुखं पदम् ।
तत्प्राप्य न निवर्तंते तस्मान्मोक्ष उदाहृतः ७८।
मोक्षं परं पदं दिव्यममृतं विष्णुमंदिरम् ।
अक्षरं परमं धाम वैकुण्ठं शाश्वतं पदम् ७९।
नित्यञ्च परमं व्योम सर्वोत्कृष्टं सनातनम् ।
पर्य्यायवाचकान्यस्य परधाम्नोच्युतस्य च ।
तस्य त्रिपाद्विभूतेस्तु रूपं वक्ष्यामि विस्तरात् ८०।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे त्रिपाद्विभूतिकथनंनाम सप्तविंशत्यधिकद्विशततमोऽध्यायः २२७ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 228
श्रीमहादेव उवाच-
त्रिपाद्विभूतेर्लोकास्तु असंख्याताः प्रकीर्तिताः ।
शुद्धसत्वमयाः सर्वे ब्रह्मानंदसुखाह्वयाः १।
सर्वे नित्या निर्विकारा हेयरागादिवर्जिताः ।
सर्वे हिरण्मयाश्शुद्धाः कोटिसूर्य्यसमप्रभाः २।
सर्वे वेदमयार्दिव्याः काम क्रोधविवर्जिताः ।
नारायणपदांभोज भक्त्येकरससेविताः ३।
निरंतरं सामगानपरिपूर्णसुखं श्रिताः ।
सर्वे पंचोपनिषद स्वरूपा वेदवर्चसः ४।
सर्वे वेदमयैर्दिव्यैःपुरुषैः स्त्रीभिरावृताः ।
वेदैकरसतोयाढ्यैस्सरोभिरुपशोभिताः ५।
श्रुतिस्मृतिपुराणादि रूपस्थावरसंयुताः ।
सर्वं वर्णयितुं शक्यं न मया लोकविस्तृतम् ६।
विरजा परमव्योम्नोरंतरंकेवलं स्मृतम् ।
तत्स्थानमुपभोक्तव्यमव्यक्तब्रह्मसेविनाम् ७।
स्वात्मानुभवजानंदसुखदं केवलं पदम् ।
निःश्रेयसं च निर्वाणं कैवल्यं मोक्ष उच्यते ८।
श्रीशांघ्रिभक्तिसेवैकरसभोगविवर्धिताः तम् ।
तदिच्छन्त्यल्पमतयो मोक्षं सुखविवर्जितम् ।
महात्मानो महाभागा भगवत्पादसेवकाः ९।
तद्विष्णोः परमं धाम यांति ब्रह्मसुखप्रदम् ।
नानाजनपदाकीर्णं वैकुंठं तद्धरेः पदम् १०।
प्राकारैश्च विमानैश्च सौधैरत्नमयैर्वृतम् ।
तन्मध्ये नगरी दिव्या साऽयोध्येति प्रकीर्तिता ११।
मणिकांचनचित्राढ्य प्राकारैस्तोरणैर्वृता ।
चतुर्द्वारसमायुक्ता रत्नगोपुरसंवृता १२।
चंडादिद्वारपालैश्च कुमुदाद्यैश्च रक्षिता ।
चंडप्रचंडौ प्राग्द्वार याम्ये भद्रसुभद्रकौ १३।
वारुण्यां जयविजयौ सौम्ये धातृविधातरौ ।
कुमुदः कुमुदाक्षश्च पुंडरीकोऽथ वामनः १४।
शंकुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ।
एते दिक्पतयः प्रोक्ताः पुर्य्यामत्र शुभानने १५।
कोटिवैश्वानरप्रख्य गृहपंक्तिभिरावृता ।
आरूढयौवनैर्नित्यैर्दिव्यनारीनरैर्युता १६।
अन्तःपुरं तु देवस्य मध्ये पुर्याम्मनोहरम् ।
मणिप्राकारसंयुक्तं रत्नतोरणशोभितम् १७।
विमानैर्गृहमुख्यैश्च प्रासादैर्बहुभिर्युतम् ।
दिव्याप्सरोगणैः स्त्रीभिस्सर्वतस्समलंकृतम् १८।
मध्ये तु मंडपं दिव्यं राजस्थानं महोच्छ्रयम् ।
माणिक्यस्तंभसाहस्रजुष्टं रत्नमयं शुभम् १९।
दिव्यैर्मुक्तैः समाकीर्णं सामगानोपशोभितम् ।
मध्ये सिंहासनं रम्यं सर्ववेदमयं शुभम् २०।
धर्मादिदैवतैर्नित्यैर्वृंतवैदमयात्मकैः ।
धर्म्मज्ञानमहैश्वर्यवैराग्यैः पादविग्रहैः २१।
ऋग्यजुःसामचाथर्वैरूपैर्नित्यं वृतं क्रमात् ।
शक्तिराधारशक्तिश्च चिच्छक्तिश्च सदाशिवा २२।
धर्मादिदेवतानां च शक्तयः परिकीर्तिताः ।
वसंति मध्यमे तत्र वह्निसूर्यसुधांशवः २३।
कूर्मश्च नागराजश्च वैनतेयस्त्रयीश्वरः ।
छंदासि सर्वमंत्राश्च पीठरूपत्वमास्थिताः २४।
सर्वाक्षरमयं दिव्यं योगपीठमिति स्मृतम् ।
तन्मध्येऽष्टदलं पद्ममुदयार्कसमप्रभम् २५।
तन्मध्ये कर्णिकायां तु सावित्र्यां शुभदर्शने ।
ईश्वर्य्या सह देवेशस्तत्रासीनः परः पुमान् २६।
इंदीवरदलश्यामः कोटिसूर्यप्रकाशवान् ।
युवाकुमारः स्निग्धश्च कोमलावयवैर्वृतः २७।
फुल्लरक्तांबुजनिभः कोमलांघ्रिसरोजवान् ।
प्रबुद्धः पुंडरीकाक्षः सुभ्रू लतायुगाङ्कितः २८।
सुनासस्सुकपोलाढ्यस्सुश्रोत्रमुखपंकजः ।
मुक्ताफलाभदन्ताढ्यः सस्मिताधरविद्रुमः २९।
परिपूर्णेदुसंकाशः सुस्मिताननपंकजः ।
तरुणादित्यवर्णाभ्यां कुंडलाभ्यां विराजितः ३०।
सस्निग्धनीलकुटिलकुन्तलैरुपशोभितः ।
मन्दारपारिजाताढ्य कबरीकृतकेशवान् ३१।
प्रातरुद्यत्सहस्रांशुनिभकौस्तुभशोभितः ।
हारस्वर्णस्रगासक्त कम्बुग्रीवो विराजितः ३२।
सिंहस्कंधनिभैः प्रोच्चैः पीनैरंसैर्विराजितः ।
पीनवृत्तायतभुजैश्चतुर्भिरुपशोभितः ३३।
अङ्गुलीयैश्च कटकैः केयूरैः परिमण्डितः ।
बालार्ककोटिसंकाशैः कौस्तुभाद्यैः सुभूषणैः ३४।
विराजितमहावक्षो वनमालाविभूषितः ।
विधातृजननस्थान नाभिपङ्कजशोभितः ३५।
बालातपनिभश्लक्ष्ण पीतवस्त्रसमन्वितः ।
नानारत्नविचित्रांघ्रिः कटकाभ्यां विराजितः ३६।
सज्योत्स्नचंद्रप्रतिम नखपंक्तिसमन्वितः ।
कोटिकंदर्पलावण्य सौंदर्य्यनिधिरच्युतः ३७।
दिव्यचंदनलिप्तांगो दिव्यमालाविभूषितः ।
गृहीतशंखचक्राभ्यामुद्बाहुभ्यां विराजितः ३८।
वरदाभयहस्ताभ्यामितराभ्यां तथैव च ।
वामाङ्के संस्थिता देवी महालक्ष्मीर्महेश्वरी ३९।
हिरण्यवर्णा हरिणी सुवर्णरजतस्रजा ।
सर्वलक्षणसंपन्ना यौवनारंभविग्रहा ४०।
रत्नकुंडलसंयुक्ता नीला कुंचितशीर्षजा ।
दिव्यचंदनलिप्तांगी दिव्यपुष्पोपशोभिता ४१।
मंदारकेतकी जाती पुष्पाञ्चितसुकुंतला ।
सुभ्रूस्सुनासा सुश्रोणी पीनोन्नतपयोधरा ४२।
परिपूंर्णेंदुसंकाशा सुस्मिताननपंकजा ।
तरुणादित्यवर्णाभ्यां कुंडलाभ्यां विराजिता ४३।
तप्तकांचनवर्णाभा तप्तकांचनभूषणा ।
हस्तैश्चतुर्भिः संयुक्ता कनकांबुजभूषिता ४४।
नानाविचित्ररत्नाढ्या कनकांबुजमालया ।
हारकेयूरकटकैरंगुलीयैश्च शोभिता ४५।
भुजद्वयघृतोदग्र पद्मयुग्मोपशोभिता ।
गृहीतमातुलुंगाख्य जांबूनदकराञ्चिता ४६।
एवं नित्यानपायिन्या महालक्ष्म्या महेश्वरः ।
मोदते परमे व्योम्नि शाश्वते सर्वदा प्रभुः ४७।
पार्श्वयोर्धरणी नीले समासीने शुभासने ।
अष्टदिक्षु दलाग्रेषु विमलाद्याश्च शक्तयः ४८।
विमलोत्कर्षिणी ज्ञानाक्रियायोगा तथैव च ।
प्रह्वी सत्या तथेशाना शक्तयः परमात्मनः ४९।
गृहीत्वा चामरान्दिव्यान्सुधाकरसमप्रभान् ।
सर्वलक्षणसंपन्ना मोदंते पतिमच्युतम् ५०।
दिव्याप्सरोगणाः पंच शतसंख्याश्च योषितः ।
अंतःपुरनिवासिन्यः सर्वाभरणभूषिताः ५१।
पद्महस्ताश्च ताः सर्वाः कोटिवैश्वानरप्रभाः ।
सर्वलक्षणसंपन्नाः शीतांशुसदृशाननाः ५२।
ताभिः परिवृतो राजा शुशुभे परमः पुमान् ।
अनंतविहगाधीश सेनान्याद्यैस्सुरेश्वरे ५३।
अन्यैः परिजनैर्नित्यैर्मुक्तैश्च परिसंवृतः ।
मोदते रमया सार्द्धं भोगैश्वर्यरतः पुमान् ५४।
एवं वैकुंठनाथोऽसौ राजते परमे पदे ।
तद्व्यूहभेदाँल्लोकांश्च वक्ष्यामि गिरिजे शुभे ५५।
प्राच्यां वैकुंठलोकस्य वासुदेवस्य मंदिरम् ।
आग्नेय्यां लक्ष्म्यालोकस्तु याम्यां संकर्षणालयः ५६।
सारस्वतस्तु नैरृत्या प्राद्युम्नः पश्चिमे तथा ।
रतिलोकस्तु वायव्यामुदीच्यामनिरुद्धभूः ५७।
ऐशान्यां शांतिलोकः स्यात्प्रथमावरणं स्मृतम् ।
केशवादिचतुर्विंशत्यमी लोकास्ततः क्रमात् ५८।
द्वितीयावरणं प्रोक्तं वैकुंठस्य शुभाह्वयम् ।
मत्स्यकूर्मादिलोकास्तु तृतीयावरणं शुभम् ५९।
सत्याच्युतानंत दुर्गा विष्वक्सेन गजाननाः ।
शंखपद्मनिधीलोकाश्चतुर्थावरणं शुभम् ६०।
ऋग्यजुः सामाथर्वाणो लोका दिक्षु महत्सु च ।
सावित्र्या विहगेशस्य धर्मस्य च मखस्य च ६१।
पंचमावरणं प्रोक्तमक्षयं सर्ववाङ्मयम् ।
शंखचक्रगदापद्मखड्गशार्ङ्गहलं तथा ६२।
मौशलं च तथा लोकाः सर्वशस्त्रास्त्रसंयुताः ।
षष्ठमावरणं प्रोक्तं मंत्रास्त्रमयमक्षरम् ६३।
ऐंद्र पावकयाम्यानि नैरृतं वारुणं तथा ।
वायव्यं सौम्यमैशानं सप्तमं मुनिभिः स्मृतम् ६४।
साध्या मरुद्गणाश्चैव विश्वेदेवास्तथैव च ।
नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः ६५।
ते वै प्राकृतलोकेस्मिन्न नित्यास्त्रिदशेश्वराः ।
ते ह नाकं महिमानः सचंत इति वै श्रुतिः ६६।
एवं परं पदं नित्यैर्मुक्तैर्भोगपरायणैः ।
दिव्याभिर्महिषीभिश्च राजते विभुरीश्वरः ६७।
न तद्भासयते सूर्यो न शंशांको न पावकः ।
यद्गत्वा न निवर्त्तंते योगिनः संशितव्रताः ६८।
द्वयैकमंत्रनिष्ठा ये ते वै यांति तदव्ययम् ।
न वेदयज्ञाध्ययनैर्न दानैर्न व्रतैः शुभैः ६९।
न तपोभिर्निराहारैर्न च साधनकर्मभिः ।
एकेन द्वयमंत्रेण तथा भक्त्या त्वनन्यथा ७०।
तद्गम्यं शाश्वतं स्थानं प्रपत्त्या वै सनातनम् ।
पार्वत्युवाच-
साधूक्तं परमं स्वर्गस्वरूपं भवता प्रभो ७१।
परव्योम्नि स्थितो नित्यं कथं प्रकृतिमण्डले ।
स्थितवान्किं निमित्तेन लीलया किं प्रयोजनम् ७२।
शुद्धसत्वमये लोके संस्थितः परमेश्वरः ।
कथं रजस्तमोमिश्र विभूत्या स्थिवान्प्रभुः ७३।
रुद्र उवाच-
त्रिपाद्विभूतौ भगवानीश्वर्य्या परमेश्वरः ।
नित्यमुक्त्यैकभोग्योऽसौ मोदते सततं विभुः ७४।
तमीश्वरं महामाया प्रकृतिर्जगदाश्रया ।
कृतांजलिपुटा भूत्वा तुष्टाव परमेश्वरम् ७५।
महामायोवाच-।
नमस्ते त्रिजगद्धाम्ने नमस्ते विश्वरूपिणे ।
पुराणाय नमस्तुभ्यं जगदुत्पत्तिहेतवे ७६।
श्रीभूलीलाधिपतये नमो नारायणाय च ।
नमो भगवते तुभ्यं वासुदेवाय शार्ङ्गिणे ७७।
सर्वदेवस्वरूपाय विष्णवे जिष्णवे नमः ।
सहस्रमूर्तये तुभ्यमनंताय नमोस्तु ते ७८।
अच्युताय विकाराय शुद्धसत्त्वस्वरूपिणे ।
अदिमध्यांतरहित स्वरूपाय नमो नमः ७९।
नमो हिरण्यगर्भाय ज्ञानाय परमात्मने ।
सर्वभूतात्मने तुभ्यं सर्वभूताश्रयाय च ८०।
ब्रह्मणे ज्योतिषे तुभ्यं नमस्ते विश्वरूपिणे ।
नमः शुचिषदे तुभ्यं हंसाय परमाय च ८१।
संकर्षणाय रुद्राय सर्वभूतधराय च ।
हयग्रीवाय दीप्ताय कालाय हरये नमः ।
नमस्ते यज्ञपुरुष हव्यकव्यस्वरूपिणे ८२।
नमः प्रजापतये तस्मै सूर्याय शुभवर्चसे ।
अग्नये हव्यभोक्त्रे च तस्मै यज्ञात्मने नमः ८३।
नमस्ते प्रसवित्रे च सर्गस्थित्यंतहेतवे ।
नमो वेदांतवेद्याय चतुरात्मस्वरूपिणे ८४।
ब्रह्मणे विष्णवे तुभ्यं नमस्ते शंकाराय च ।
त्रिगुणाय नमस्तुभ्यं सर्गस्थित्यंतहेतवे ८५।
निर्गुणाय नमस्तुभ्यं सर्वात्मान्तरवर्तिने ।
अव्यक्ताय नमस्तस्मै विष्णवे लोकसाक्षिणे ८६।
नारायणाय श्रीशाय पूर्णषाड्गुण्यमूर्त्तये ।
अनंतगुणपूर्णाय नमः सर्वार्थदायिने ८७।
नमस्ते वासुदेवाय पंचावस्थस्वरूपिणे ।
नमः पंचनवव्यूह भेदरूपाय ते नमः ८८।
नमो यज्ञवराहाय गोविंदाय नमो नमः ।
अविकाराय शुद्धाय हेयप्रतिभटाय च ८९।
नमो रामाय कृष्णाय नरसिंहाय ते नमः ।
केशवाय नमस्तुभ्यं जगतां क्लेशहारिणे ९०।
त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः ।
प्रसीद देवदेवेश सर्वलोकहिताय वै ९१।
मत्संस्थाश्चेतनास्सर्वे निराधारा निराश्रयाः ।
हीनदेहा निराकाराः सर्वेन्द्रियविवर्जिताः ९२।
सर्वानुष्ठानरहिताः सततं दुःखभोगिनः ।
तेषां लोकांश्च देहांश्च दातुमर्हसि केशव ९३।
लीलाविभूतिं सर्वज्ञ यथापूर्वं प्रकल्पय ।
चेतनाचेतनं कृत्स्नं जगत्स्थावरजंगमम् ९४।
मया संमोहितं पश्य लीलार्थंपरमेश्वर ।
प्राकृताण्डं मया सार्धं सृजस्व पुरुषोत्तम ९५।
धर्म्माधर्म्मौ सुखं दुःखं तस्मिन्निक्षिप्य संसृतौ ।
मामधिष्ठाय लीलां वै कर्तुमर्हसि मा चिरम् ९६।
श्रीमहादेव उवाच-
एवमुक्तस्तया देव्या मायया परमेश्वरः ।
तस्यां निवेश्य मायायां जगत्स्रष्टुं प्रचक्रमे ९७।
योऽसौ प्रकृतिपुरुषः प्रोच्यते स इहाच्युतः ।
स एव भगवान्विष्णुः प्रकृत्यां प्रविवेश ह ९८।
असृजत्प्रकृतौ ब्रह्मभूतादिमहदाश्रयम् ।
महतः पुरुषादस्मादहंकारोऽभ्यजायत ९९।
अहंकारात्तु वै तस्माद्गुणत्रयमजायत ।
त्रिभ्यो गुणेभ्यस्तन्मात्रामसृजद्विश्वभावनः १००।
तन्मात्रेभ्योभ्यजायंत महाभूतानि तत्क्षणात् ।
ॐकारः प्रथमं जातो ब्रह्मणस्त्रिगुणात्मनः १०१।
आकाशादभवद्वायुर्वायोरग्निरजायत ।
अग्नेरापः समुद्भूता अद्भ्यश्च पृथिवी मता १०२।
आकाशादीनि भूतानि सृष्टान्येकोत्तराणि वै ।
शब्दस्पर्शश्च रूपं च रसो गंधश्च तद्गुणाः १०३।
एकोत्तरगुणान्सृष्ट्वा तानादाय महाप्रभुः ।
तेषां विमिश्रणं कृत्वा जगदंडं महत्तरम् ।
असृजत्तत्रलान्वै संख्यया ये चतुर्दश १०४।
ब्रह्मादित्रिदशांस्तस्मिन्नसृजत्पुरुषोत्तमः ।
दैवतिर्य्यक्तथा मर्त्यं स्थावरं च चतुर्व्विधम् १०५।
तथा सृष्टो महासर्गन्तेन वै जलजेक्षणे।
तत्र कर्मानुरूपेण त्रिदशादिषु योनिषु १०६।
संस्थिताः प्रकृतौ पूर्व आत्मनः प्रभवंति हि १०७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे परमव्योमादिवर्णनंनाम अष्टाविंशत्यधिकद्विशततमोऽध्यायः २२८ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 229
पार्वत्युवाच-
विस्तरेण ममाख्याहि देवसर्गमनुत्तमम् ।
ब्रह्मादि त्रिदिवश्रेष्ठाः कथं जाताः सनातनाः ।
ईश्वरस्यावतारांश्च विस्तरेण वदस्व मे १।
रुद्र उवाच-
आकाशानिलतेजोंबु भुवः सृष्टा यथाक्रमम् ।
तासां मध्येऽसृजद्ब्रह्मा अगाधजलमर्णवम् २।
अस्मिन्नेकार्णवीभूते जलमायावटच्छदे ।
आदाय सर्व्वभूतानि योगनिद्रां ययौ हरिः ३।
स जगत्स्रष्टुकामस्तु योगनिद्रामुपेयिवान् ।
तया रेमे चिरं कालं मायया मधुसूदनः ४।
तस्यां तु जनयामास कालात्मानमनुत्तमम् ।
कलाकाष्ठादि भूता ये पक्षमासादिरूपिणः ५।
तस्मिन्काले हरेर्न्नाभिपंकजं मुकुलाकृति ।
विकसत्सर्वजगतो बीजभूतं सुवर्चसम् ६।
उदस्थादुदभूत्तत्र ब्रह्मा च सुमहामतिः ।
स जगत्स्रष्टुकामस्तु रजोगुणविचोदितः ।
तुष्टाव योगनिद्रायां शयानं परमेश्वरम् ७।
ब्रह्मोवाच-
नमोस्तु विष्णवे तुभ्यं सर्गस्थित्यंतहेतवे ।
जगद्भूषणभूषाय श्रीमते विश्वरूपिणे ८।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविंदाय नमोनमः ९।
प्रधानकालरूपाय पुरुषायेश्वराय च ।
नमः प्रपंचरूपाय निष्प्रपंचस्वरूपिणे १०।
नारायणाय विश्वाय विश्वेशाय नमोनमः ।
श्रीभूलीलाधिपतये ब्रह्मणे परमात्मने ११।
नमोस्तु वासुदेवाय विश्वरूपाय शार्ङ्गिणे ।
त्रयीनाथाय हरये विश्वनाथस्वरूपिणे १२।
अनंतकल्याणगुणपरिपूर्णाय ते नमः ।
जगच्च सर्व्वं स्वपिति त्वयि सुप्ते जगन्मये १३।
वृतं सर्वं जगन्नाथ प्रपंचे सचराचरम् ।
त्वमेव कारणं कर्त्ता कार्य्यं च त्रिगुणोद्भवम् १४।
स्रष्टा ध्याता विधाता च त्वमेव परमेश्वरः ।
जागर्षिशुद्धसत्वस्थस्तवनिद्रा कुतःप्रभो ।
देवत्वयि स्थितालोकाः समाधिष्ठाः सनातनाः १५।
शिव उवाच-
एवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः ।
उत्तस्थौ शयनात्तस्माद्विमुक्तो योगनिद्रया १६।
नियम्य योगनिद्रां तां जगत्स्रष्टुं प्रचक्रमे ।
अचिंत्यस्तत्क्षणाद्देवो जगतां प्रभुरच्युतः १७।
चिंतयित्वा जगत्सर्वमसृजत्स पुमांस्ततः ।
लोकान्सर्व्वांस्तदा ह्यप्सु गतमंडं हिरण्मयम् १८।
सप्तद्वीपान्समुद्रांतान्मेदिनी भूधरैर्युतान् ।
सहैकाण्डकटाहेन नाभिपद्मेऽसृजत्प्रभुः १९।
तदण्डमध्ये चास्थानमीश्वरः कृतवान्हरिः ।
अथ नारायणंकस्तु दध्यावध्यात्मचेतसा २०।
ध्यानांते तस्य भालात्तु स्वेदबिंदुरजायत ।
स बिंदुर्बुद्बुदाकारः पृथिव्यामपतत्क्षणात् २१।
तस्मात्तु बुद्बुदात्सोऽहमुत्पन्नोस्मि वरानने ।
त्र्यक्षस्त्रिशूलहस्तोऽहं जटामुकुटमंडितः २२।
किंकरोमीति देवेशमवोचं विनयान्वितः ।
ततो नारायणो देवो मामित्याह मुदान्वितः २३।
कर्त्तासि जगतो रुद्र संहारं भीमदर्शनम् ।
साक्षात्संकर्षणांशेन संहारार्थे वरानने २४।
तस्मान्नारायणाद्देवि उत्पन्नोस्मि भयंकरः ।
नियोज्य मां तु संहारे पुनरेव जनार्दनः २५।
नेत्राभ्यामसृजच्चंद्रसूर्य्यौ ध्वांतापहारिणौ ।
वायुं दिशश्च श्रोत्राभ्यामिंद्राग्नीमुखतोऽसृजत् २६।
नासाभ्यां वरुणं मित्रमसृजत्पंकजेक्षणः ।
बाहुभ्यामखिलान्देवान्ससाध्यान्समरुद्गणान् २७।
समस्तरोमकूपेभ्यो रत्नान्योषधयस्तथा ।
त्वचि शैलान्समुद्राश्च गवाद्याः पशवस्तथा २८।
मुखतो ब्राह्मणः सृष्टो बाहुभ्यां क्षत्रियस्तथा ।
ऊर्व्वोर्वैश्यस्ततः पद्भ्यां शूद्रश्चैवमजायत २९।
एवं सृष्ट्वा जगत्सर्व्वमचेतनमवस्थितम् ।
विश्वरूपेण देवेशो यस्यांतरमधिष्ठितः ३०।
शक्त्या विना हरेस्तस्य नोन्मेषो विद्यते यतः ।
तस्मात्सर्वजगत्प्राणो विष्णुरेव सनातनः ३१।
स एवाव्यक्तरूपः सन्परमात्मा व्यवस्थितः ।
सर्गस्थितिलयं ब्रह्मा स्वयमेव प्रवर्त्तते ३२।
षाड्गुण्यपरिपूर्णोऽसौ वासुदेवः सनातनः ।
त्रिगुणादात्मनोरूपं चतुर्द्धा कुरुते जगत् ३३।
प्रद्युम्नमूर्त्तिर्भगवान्सर्वैश्वर्य्यसमन्वितः ।
विधेः प्रजापतीनां च कालस्य च जनस्य च ३४।
अंतर्य्यामित्वमापन्नो सर्गं सम्यक्करोति हि ।
सेतिहासांस्ततो वेदान्ददौ तस्मै महात्मने ३५।
प्रद्युम्नस्यांशभागोऽसौ ब्रह्मा लोकपितामहः ।
जगत्सर्गस्थितिं सर्व्वं प्रकरोत्यंशसंभवः ३६।
अनिरुद्धश्च भगवाञ्छक्तितेजः समन्वितः ।
मनूनां पार्थिवानां च कालस्य च जनस्य च ३७।
स्थितिं करोति भगवानंतर्य्यामित्वमास्थितः ।
संकर्षणो महाविष्णुर्विद्याबलसमन्वितः ३८।
कालस्य सर्वभूतानां रुद्रस्य च यमस्य च ।
अंतर्य्यामित्वमास्थाय जगत्संहरते प्रभुः ३९।
इत्यंतर्य्याम्यवस्थायामंतर्य्यामित्वमात्मनः ।
मत्स्यः कूर्म्मो वराहश्च नरसिंहोऽथ वामनः ४०।
रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश ।
एते तु विभवावस्था ब्रह्मणः परमात्मनः ४१।
नृसिंहरामकृष्णेषु षाड्गुण्यं परिकीर्तितम् ।
परावस्था तु देवस्य दीपादुत्पन्न दीपवत् ४२।
सा ह्यवस्था हरेरस्य शृणुष्व गिरिजे शुभे ।
वैकुंठं परमं लोकं विष्णुलोकमनुत्तमम् ४३।
श्वेतदीपं स्वरूपं तु क्षीरसागरमुत्तमम् ।
एवं चतुर्द्धा व्यूहं तु सम्यगुक्तं महर्षिभिः ४४।
जलावरणमध्ये तु वैकुंठं कारणं शुभम् ।
कोटिवैश्वानरप्रख्यं सर्वं धर्म्मवदव्ययम् ४५।
आमोदमंदारकरैर्वृक्षैर्वह्निभिरास्थितम् ।
नानामणिमयं दिव्यं विमानकोटिभिर्य्युतम् ४६।
यदुक्तं परमं धाम तादृक्लक्षणसंस्थितम् ।
तस्मिन्वैकुंठनगरे नानारत्नसमुज्ज्वले ४७।
मध्ये देवजयारामं पुरं रम्यमनुत्तमम् ।
चतुर्द्वारसमायुक्तं हेमप्राकारतोरणम् ४८।
चंडादिद्वारपालाद्यैः कुमुदाद्यैश्च रक्षितम् ।
नानामणिमयैर्दिव्यैर्गृहैः पंक्तिभिरावृतम् ४९।
विततं पंचपद्माभिर्योजनैश्च समंततः ।
सहस्रयोजनोत्तुंगैः प्रासादैः कोटिभिर्वृतम् ५०।
आरूढयौवनैर्द्दिव्यैः पुंभिः स्त्रीभिश्च शोभितम् ।
स्त्रियश्च पुरुषाश्चास्मिन्सर्वलक्षणशोभिताः ५१।
समरूपाश्च श्रीविष्णोः सर्व्वालंकारभूषिताः ।
दिव्यस्रग्वस्त्रसंछन्ना दिव्यचंदनभूषिताः ५२।
मोदंते तत्र देवेश भक्त्या त्वात्ममनोरमे ।
मंत्राष्टाक्षरसंसिद्धा भक्त्या षोडशरूपया ५३।
वृतास्तत्पदमाविश्य मोदंते मनसीप्सितम् ।
गत्वास्मिन्न निवर्तंते विष्णुना सह संस्थिताः ५४।
अविच्छिन्नात्मना ते वै विष्णुना संगताः शुभाः ।
तत्समानसुखं नित्यं प्राप्नुवंति मनीषिणः ५५।
यत्रतत्र हरेर्लोकानाविश्य शुभचेतसः ।
प्राप्नुवंति पुनः स्वर्गं स्वर्गस्थाइव जंतवः ५६।
यथा सौमित्रि भरतौ यथा संकर्षणादयः ।
तथा तेपि च जायंते सत्यलोके यथेच्छया ५७।
पुनस्तेनैव यास्यंति तत्पदं शाश्वतं परम् ।
न कर्म्मबंधनं जन्म वैष्णवानां च विद्यते ५८।
विष्णोरनुचरत्वं हि मोक्षयाहुर्मनीषिणः ।
न दास्यममरेशस्य बंधनं परिकीर्तितम् ५९।
सर्वबंधननिर्मुक्ता हरिदासा निरामयाः ।
आब्रह्मभुवनाँ लोकाः पुनरावृत्तिलक्षणाः ६०।
कर्मबंधमया दुःखमित्रासख्यभयप्रदाः ।
बह्वाया सफला देवि जनिनाशकहेतवः ६१।
सुखभोगस्तु यन्नॄणां विषमिश्राशनं यथा ।
स्वर्गसंस्थान्नरान्दृष्ट्वा क्षीणे कर्म्मणि देवताः ६२।
कुपिताः पातयन्त्येव संसृतौ कार्य्यबंधने ।
तस्मात्स्वर्गसुखं देवि बहुधायाससाधनम् ६३।
अनित्यं कुटिलं दुःखमिश्रं योगी परित्यजेत् ।
सततं संस्मरेद्विष्णुं सर्वदुःखौघनाशनम् ६४।
नामोच्चारणमात्रेण प्राप्नुवंति परं पदम् ।
तस्मात्तु वैष्णवं लोकं गौरि संप्रार्थयेत्सुधीः ६५।
भक्त्या त्वनन्यया देवं भजेत करुणांबुधिम् ।
स सर्वज्ञानगुणवान्रक्षत्येव न संशयः ६६।
तस्मादष्टाक्षरं मन्त्रं जप्त्वा सुखतरं शुभम् ।
संप्राप्नोति परं लोकं वैष्णवं सर्वकामदम् ६७।
तस्मिन्मणिमये तल्पे सहस्रसूर्य्यरश्मिनि ।
विमाने शुशुभे दिव्ये संस्थितो भगवान्हरिः ६८।
तत्र चाधारशक्त्यादि धृते पीठे हिरण्मये ।
नानारत्नमये दिव्ये नानावर्णसमन्विते ६९।
तस्मिन्नष्टदले पद्मे मंत्राक्षरपदे शुभे ।
कर्णिकायां सुरम्यायां लक्ष्मीबीजशुभाक्षरे ७०।
तस्मिन्वालार्कसाहस्रकोटितुल्य समप्रभे ।
दिव्ये नारायणः श्रीमानासीनः पंकजासने ७१।
तस्य दक्षिणके पार्श्वे जगन्माता हिरण्मयी ।
गृहीत्वा चामरान्दिव्यान् दिव्यमाल्यविभूषणा ७२।
वसुपात्रं मातुलुंगं स्वर्णपद्मं धृतं करैः ।
वामतः पृथिवीदेवी नीलोत्पलदलद्युतिः ७३।
नानाभरणसंयुक्ता विचित्रांबरभूषिता ।
सा धृत्वा चोर्द्ध्वबाहुभ्यां रम्यं रक्तोत्पलद्वयम् ७४।
इतराभ्यां धृतं देव्या धान्यपात्रयुगं तथा ।
गृहीत्वा चामरान्दिव्यान्शक्तयो विमलादिकाः ७५।
दलाग्रेषु समासीनाः सर्वलक्षणशोभिताः ।
तासां मध्ये समासीनो भगवानच्युतो हरिः ७६।
शंखचक्रगदापद्मपाणिभिर्दिव्यभूषणैः ।
केयूरांगदहाराद्यैर्भूषणै रूपशोभितः ७७।
प्रातरुद्यत्सहस्रांशु कुण्डलाभ्यां विराजितः ।
पूर्वोक्तैस्त्रिदशैर्न्नित्यैः सेवितः परमेश्वरः ७८।
आस्ते वैकुण्ठनगरे नित्ये सत्ये च भोगवान् ।
श्रीमदष्टाक्षरं मंत्रं सिद्धानां वै मनीषिणाम् ७९।
गम्यं तद्वैष्णवं लोकं नेतरेषां कथंचन ।
इत्येवं प्रथमं व्यूहं कथितं ते वरानने ८०।
द्वितीयं वैष्णवं लोकं शृणु वक्ष्यामि सुव्रते ।
योऽयं नित्य इति ख्यातो लोकाग्र्यो वैष्णवः स्मृतः ८१।
तं लोकं विपुलं पुण्यं शुद्धं सत्वमयं शुभम् ।
मध्याह्नसूर्य्यसाहस्रयुगपद्भासितं तदा ८२।
कल्पांतेऽपि न लीयेत तत्वलोकं महत्तरम् ।
मम ब्रह्मादिदेवानां न द्रष्टुमपि शक्यते ८३।
सर्वं कल्पद्रुमवनैः परिपूर्णं समंततः ।
सुधाम्बुपरिपूर्णाभिर्दीर्घिकाभिः समन्वितम् ८४।
स्वर्णरत्नमयैर्दिव्यैः पंकजैरुपशोभितम् ।
जलदग्निनिभैर्दिव्यैर्भूषणैः कोटिभिर्वृतम् ८५।
निरंतरं सामभिश्च कूजितैः कोकिलादिभिः ।
ऊह्यमानैर्गन्धर्वृक्षैः पुष्पकैरपि शोभितम् ८६।
ऊनषोडशवर्षाब्दैर्दिव्यनारीनरैर्वृतम् ।
सर्वलक्षणशोभाढ्यैर्दिव्यकल्पविभूषणैः ८७।
तत्रप्रदेशे रम्येषु देशेषु कमलापतिम् ।
मुदितैः पतिभिः सार्द्धमर्चयंति स्म योषितः ८८।
तत्प्रसादोपलभ्यं वै सुखमश्नन्ति सर्वदा ।
गायंति परमानंदं कृष्णस्य चरितं महत् ८९।
पद्मेक्षणाः पद्महस्ताः पद्मया सदृशः शुभाः ।
दिव्यस्रग्वसनोपेताः क्रीडंति स्म सुयोषितः ९०।
शंखचक्रगदापद्मधरा भूषणभूषिताः ।
स्रग्विणः पीतवसनाः पुरुषास्तत्र संस्थिताः ९१।
अनन्यस्पर्शनात्तत्र स्त्रीपुंसोः क्रीडमानयोः ।
भवत्यनुदिनं वृद्धं हरिभक्तिसुखं रसम् ९२।
तन्मध्येंतःपुरं रम्यं वासुदेवस्य शोभितम् ।
चंदनागुरुकर्प्पूरकुंकुमोदकसंयुतम् ९३।
नानापुष्पविमानाद्यैः सर्वतः समलंकृतम् ।
तन्मध्ये कल्पवृक्षस्य च्छायायां कमलासने ९४।
विचित्रश्लक्ष्णपर्यंके शुभास्तरणसंवृते ।
दिव्यगंधसुशोभाढ्यैर्नानापुष्पपरिच्छदैः ९५।
तस्मिन्मनोरमे दिव्ये समासीनः श्रिया सह ।
ईश्वर्य्या सह देवेशो वासुदेवः सनातनः ९६।
सुधांशुकोटिसंकाशो दिव्याभरणभूषितः ।
सुवर्णशुभ्रयुगल श्लक्ष्णनासांचिताननः ९७।
स्निग्धायतसुलावण्यकपोलाभ्यां विराजितः ।
नीलकुंचितकेशाढ्यो रक्ताब्जदललोचनः ९८।
मंदारकेतकीजाती कैरवीकृतशेखरः ।
स्निग्धबिम्बफलाभौष्ठः सुस्मिताननपंकजः ९९।
अनर्घ्यमौक्तिकाभासदंतावलिविराजितः ।
हरिचंदनलिप्तांगः कस्तूरीतिलकांकितः १००।
उन्नतांसभुजैर्दीर्घैश्चतुर्भिरुपशोभितः ।
जपाकुसुमसंकाशकरपल्लवशोभितः १०१।
श्रीवत्सकौस्तुभाभ्यां च शोभितः पृथुवक्षसा १०२।
मुक्तामयैः सुशोभाढ्यैर्दिव्यस्रग्भिरलंकृतः ।
बालार्कसदृशज्योत्स्ना पीतवस्त्रेण वेष्टितः १०३।
माणिक्यनूपुरोपेत पद्मपत्रविराजितः ।
अकलंकितचंद्राभ नखपंक्तिविराजितः १०४।
रक्तोत्पलनिभश्लक्ष्ण शुभ्रांघ्रिकरपंकजः ।
पांचजन्यरथांगाभ्यां बाहुयुग्मविराजितः १०५।
इतराभ्यां श्रियो गात्रमाश्लिष्यन्निजवक्षसि ।
श्लिष्यद्विद्युल्लतोद्गीथ शिताभ्र इव राजते १०६।
सप्तजांबूनदश्लक्ष्ण शुभांघ्रियुगपंजकः ।
अत्र क्रीडति देवेशो वासुदेवः सनातनः १०७।
तप्तकांचनसंकाशा सर्वाभरणभूषिता ।
सुस्निग्धनीलकुटिलचंद्रराविविराजिता १०८।
मंदारपारिजातादि दिव्यपुष्पविराजिता ।
कर्णावतंस शोभाढ्या चिकुरांतालिसन्निभा १०९।
पीनोन्नतस्तनाभ्यां च पीडंति हरिवक्षसि ।
केयूरांगदहाराद्यैर्भूषणैरुपशोभिता ११०।
आरूढयौवना नित्यं सर्वलोकेशसुंदरी ।
तत्र क्रीडति लोकेश पत्या सह निरंतरम् १११।
स एव वासुदेवोऽत्र सर्वभूतमनोहरः ।
क्रीडते सर्वलोकेस्मिन्सर्वकामप्रदो नृणाम् ११२।
अत्राष्टशक्तयो लक्ष्म्यास्तनवः परितः स्थिताः ।
रमा च रुक्मिणी सीता पद्मा पद्मालया शिवा ११३।
सुलक्षणा सुशीला च रतिकामप्रदाश्च ताः ।
शंखचक्रगदापद्म शार्ङ्गाद्यैर्हेतिभिस्तथा ११४।
परितः पुष्कराकारैस्तं लोकं परिरक्षते ।
एवं द्वितीयं रूपं च सम्यक्ते शुभदर्शने ११५।
संक्षेपतो मया प्रोक्तं न शक्यं विस्तरेण हि ।
द्वादशाक्षरमंत्रं वै ये जपंति सुखाह्वयम् ११६।
ते प्राप्नुवंति सततं शाश्वतं शुभमक्षयम् ।
न वेदाध्ययनैर्यज्ञैर्न व्रतैर्नोपवासतः ११७।
न प्राप्यं वैष्णवं लोकं विना दास्येन कुत्रचित् ।
तस्माद्दास्यं हरेर्भक्तं भजेतानन्यमानसः ११८।
प्राप्नोति परमां सिद्धिं कर्मबंधविमोचनीम् ।
एवं संप्रोच्यते देवि द्वितीयं व्यूहमव्ययम् ११९।
तृतीयं तु परं व्यूहं शृणु वक्ष्यामि पार्वति ।
तोयाब्धेरुत्तरं कूलं श्वेतद्वीपे महामते १२०।
संदर्शनाय योगानां सनकादि महात्मनाम् ।
सनकश्च सनंदश्च तृतीयश्च सनातनः १२१।
सनत्कुमारजाताश्च वोढुः पंचशिखस्तथा ।
सप्तैते ब्रह्मणः पुत्रा योगिनः सुमहौजसः १२२।
विरक्ताः सर्वभोगेषु शुद्धाः सत्वगुणाः सदा ।
भगवद्दर्शनोद्भूतसुखैकरससेविनः १२३।
नरनारायणाद्याश्च श्वेतद्वीपे वसंति ये ।
तेषां संदर्शनार्थाय तत्र संनिहितो हरिः १२४।
शुभ्रांशुकोटिसंकाशे नानारत्नमयोज्ज्वले ।
श्वेतद्वीपे महायोगि सेविते भयवर्जिते १२५।
तत्रोद्यानानि रम्याणि पारिजातसमानि वै ।
संतानकलताकीर्णं चन्दनद्रुममंडितम् १२६।
फुल्लपद्मोत्पलोपेतं नानातोयालयैर्युतम् ।
तन्मध्ये नगरी रम्या नाम्ना चैरावती शुभा १२७।
नानारत्नमयैर्दिव्यैर्विमानैरुपशोभिता ।
दिव्यस्त्रीपुंभिराक्रांता बहुप्रासादसंकुला १२८।
तन्मध्येऽन्तपुरं रम्यं रत्नद्रुमसमाकुलम् ।
बालसूर्यनिभैस्तुंगैः प्रासादैर्बहुभिर्वृतम् १२९।
तन्मध्ये मंडपं दिव्यं मणिकांचनशोभितम् ।
चंदनागुरुकर्पूरकुंकुमामोदवाशितम् १३०।
नानाकुसुमशोभाढ्यैर्वितानैः समलंकृतम् ।
दिव्याप्सरः समाकीर्णं सामगानोपशोभितम् १३१।
मध्ये सिंहासनं तत्र सूर्यवैश्वानरप्रभम् ।
तन्मध्येऽष्टदलं पद्मं चंद्रबिंबमिवापरम् १३२।
तन्मध्ये कर्णिकायां तु समासीनो जनार्दनः ।
शुद्धजांबूनदप्रख्यो मुक्ताहारविभूषितः १३३।
शंखचक्रगदापद्मशक्तिहस्तचतुष्टयः ।
हारकेयूरकटकैरंगुलीयैश्च शोभितः १३४।
सुवर्णपंकजप्रख्यः पदयुग्मविराजितः ।
संतानकनिभैः शुभ्रैर्नखपंक्तिविराजितः १३५।
षोडशाब्दवयो रूपयौवनेन विराजितः ।
विशालभालदेशे तु कुंकुमेन सुगंधिना १३६।
रचितेनोर्ध्वपुंड्रेण सीमंतेनोपशोभितः ।
मथितामृतफेनाभ शुक्लवस्त्रसुवेष्टितः १३७।
मुक्तामयाभ्यां शुभ्राभ्यां कुंडलाभ्यां विराजितः ।
पद्मासनसमासीनो जगन्मोहनविग्रहः १३८।
वामांके संस्थिता देवी तस्य दिव्यस्वरूपिणी ।
तस्यैव सदृशी लक्ष्मीः शीलसुष्टुगुणादिभिः १३९।
पद्मकिंजल्कसंकाशा यौवनारंभशोभिता ।
सर्वलक्षणसंपन्ना तप्तकांचनभूषणा १४०।
दिव्यस्रग्वसनोपेता नीलकुंचितमूर्धजा ।
चतुर्भुजैर्विराजंती केयूराङ्गदभूषिता १४१।
मुक्ताहारैर्विराजंती मंदारांचितशीर्षजा ।
श्लक्ष्णनासापुटयुता लसद्दंतिवरा जिता १४२।
कस्तूरीतिलकोपेता नासाग्रांचित मौक्तिका ।
स्वर्णकुंभसमप्रख्य पीनोन्नतपयोधरा १४३।
दिव्यकुंकुमलिप्तांगी पद्ममालोपशोभिता ।
वस्त्रपात्रं मातुलिड्गं दर्पणं हेमपंकजम् १४४।
करपद्मधृता देवी चेतसाभीष्टदायिनी ।
तस्यैताः सदृशास्तत्र शक्तयः परितो हरेः १४५।
ईशावास्या महादेवी जाह्नवी कमलालया ।
सावित्री सर्वगा पद्मा शक्तयः परिकीर्तिताः १४६।
श्रद्धा मेधा धृतिः प्रज्ञा धारणा शांतिरेव च ।
श्रुतिस्मृतिर्धृतिर्मेधा वृद्धिर्बुद्धिर्मनीषिणी १४७।
दास्यस्ते ताः श्रियः प्रोक्ताः सर्वकार्यस्य कारिकाः ।
अनंतवैनतेयादि देवता नित्यकिंकराः १४८।
साध्या मरुद्गणाश्चैव सेवंते नित्यदेवताः ।
प्रासादेषु विमानेषु वनेषु नगरेषु च १४९।
तत्प्रसादोपलब्धेषु भोगेष्वत्रानुरंजिताः ।
क्रीडंती सततं नित्या हेयनिष्फलवर्जिताः १५०।
ये विष्णुमंत्रजप्तारः सततं श्रद्धयान्विताः ।
ये द्वादशीव्रते युक्तास्तत्पदं यांति तेऽव्ययम् १५१।
न वेदैर्न च दानैश्च न यज्ञैर्न व्रतैरपि ।
प्राप्तुं च शक्यं गिरिजे विष्णुलोकं सनातनम् १५२।
भक्त्या चानन्यया प्राप्तुं शक्यं विष्णुपदं नृणाम् ।
तस्मात्संपूजयेन्नित्यं भक्त्या देवं जनार्दनम् १५३।
कीर्तनं नाममात्रं च ध्यायन्मंत्रं जपेत्सदा ।
जुहुयात्तर्पयेद्भक्त्या सर्वगं सर्वकामदम् १५४।
एवमुक्तं तृतीयं तु व्यूहं तु परमात्मनः ।
स्वरूपं तव सुश्रोणि यथाप्रोक्तं पुरातनैः १५५।
अतः परं प्रवक्ष्यामि चतुर्थं व्यूहमुत्तमम् ।
दिवौकसां रक्षणार्थं दुग्धाब्धौ परमेश्वरः १५६।
सुधांशुकोटिसंकाशः सहस्राक्षेण शोभिते ।
पुरंदरसयूथैस्तु च्छादिते दुग्धवारिधौ १५७।
तस्मिन्ननंतपर्यंके शेतेऽसौ विस्तृते शुभे ।
दिव्यासनसमासीनः पद्मनाभोऽच्युतो हरिः १५८।
नीलजीमूतसंकाशः पद्मपत्रायतेक्षणः ।
विवस्वत्कोटिसंकाश किरीटेन विराजितः १५९।
नानारत्नोज्ज्वलद्दिव्यं कुंडलाभ्यां विराजितः ।
बालार्कसदृशज्योत्स्ना पीतवस्त्रेण वेष्टितः १६०।
स्फुरद्रक्तारविंदाभ हस्तांघ्रितलशोभितः ।
हारकेयूरकटकैरंगुलीयैर्विराजितः १६१।
शंखचक्रगदाशार्ङ्गखड्गहस्तैर्विभूषितः ।
सुपुष्पफलशाखाढ्यकल्पवृक्षैर्विराजितः १६२।
विश्वस्य जन्ममरण नाभिपंकजशोभितः ।
हरिचंदनलिप्तांगः सर्वाभरणभूषितः १६३।
मंदारपारिजातादि दिव्यपुष्पैर्मनोरमैः ।
सुस्निग्धनीलकुटिलकबरीकृतकेशवान् १६४।
श्लक्ष्णोन्नतसुनासांस जानुयुग्मविराजितः ।
मणिविद्रुमशाखाढ्य नूपुराङ्घ्रिविराजितः १६५।
अकलंकितचंद्राभ नखपंक्तिविराजितः ।
अशोकपुष्पसंकाश रक्तोष्ठमुखपंकजः १६६।
अनर्घ्यमुक्तिकाभास दंतपंक्तिविराजितः ।
संपूर्णचंद्रप्रतिम स्मितवक्त्रसुशोभितः १६७।
आरूढयौवनः श्रीमान्कोमलावयवोज्ज्वलः ।
शरण्यः सर्वलोकानां सर्वलोकफलप्रदः १६८।
सदृशी तस्य देवी तु रूपशीलगुणादिभिः ।
तप्तकांचनसंकाशा तप्तकांचनभूषणा १६९।
तरुणी रूपलावण्या कान्तिशीलगुणान्विता ।
दुग्धाब्धिफेनसंकाश शुभवस्त्रेण वेष्टिता १७०।
मंदारकेतकी जाती पुष्पार्चितशिरोरुहा ।
कस्तूरीतिलकोपेता रत्नसीमंतशोभिता १७१।
नानावर्णसुशोभाढ्या कर्णभूषणभूषिता ।
प्रवालसदृशज्योत्स्ना रक्तधारसुविस्मिता १७२।
मत्तभृङ्गोपमैः स्निग्धैरलकैः सुविराजिता ।
तनुमध्या विशालाक्षी पीनोन्नतपयोधरा १७३।
चतुर्हस्तैर्विराजंती सर्वाभरणभूषिता ।
उद्बाहुभ्यां धृता देवी हेमपद्मयुगं शुभम् १७४।
इतराभ्यां समाश्लिष्य भर्तारं निबिडं स्थिता ।
आलोकयंती सततं त्रिदशांश्च कटाक्षकै १७५।
निरीक्षितास्तया देव्या धन्यास्ते सततं शिवे ।
तत्र देवा विमानस्थाः सिद्धचारणकिन्नराः १७६।
गायंति सततं देवीमानंदाश्रुपरिप्लुताः ।
दैतेयैर्बाध्यमानैस्तु ब्रह्मरुद्रादिभिः सुरैः १७७।
संस्तूयमानस्तत्रेशो देवानामभयं ददौ ।
देवानामभयं दत्त्वा सर्वदेवेश्वरो हरिः १७८।
राक्षसान्हंतुमारेभे जगत्संरक्षणाय वै ।
एवं चतुर्थं व्यूहं तु हरेः प्रोक्तं तवानघे १७९।
किमन्यच्छ्रोतुकामासीत्तद्ब्रवीमि वरानने ।
धन्यासि कृतकृत्यासि भक्तासि पुरुषोत्तमे १८०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे विष्णुव्यूहभेदवर्णनंनाम एकोनत्रिंशदधिकद्विशततमोऽध्यायः २२९।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 230
पार्वत्युवाच-
भगवन्यत्रदेवेशो राक्षसान्मधुसूदनः ।
जघान केन रूपेण यथावद्वक्तुमर्हसि १।
वैभवं च स्थवीयस्य मत्स्यकूर्म्मादिरूपकम् ।
विस्तरेण समाख्याहि मम प्रीत्या महेश्वर २।
महादेव उवाच-
शृणु देवि प्रवक्ष्यामि वैभवं स्वस्थमानसा ।
मत्स्यकूर्म्मादि यद्रूपमवतारात्मकं हरेः ३।
दीपादुत्पाद्यते दीपो यथावत्तद्भविष्यति ।
परावस्थापरेशस्य सव्यूहा विभवादयः ४।
उक्ता देवावतारास्तु विविधाकारकाः शुभाः ।
अर्च्चावतारा देवस्य वैभवाः परमात्मनः ५।
प्राजापत्येन वै ब्रह्मा स सम्राट्परमोत्सवः ।
भृगुं मरीचिमत्रिं च दक्षं कर्द्दममेव च ६।
पुलस्त्यं पुलहं चैव गिरिशं च तथा क्रतुम् ।
नवप्रजानां पतय इमे प्रोक्ता यथाक्रमम् ७।
मरीचिर्भगवांस्तत्र जनयामास कश्यपम् ।
कश्यपस्याभवञ्जायाश्चतस्रः शुभदर्शने ८।
अदितिश्च दितिश्चैव कद्रुश्च विनता तथा ।
अदितिर्जनयामास देवांस्तु शुभदर्शनान् ९।
दितिश्च राक्षसान्पुत्रांस्तामसान्सुमहासुरान् ।
शंबूकस्तु हयग्रीवो हिरण्याक्षो महाबलः १०।
हिरण्यकशिपुर्जंभो मयाद्याः सुमहातपाः ।
मकरस्तु महावीर्यो ब्रह्मलोकमुपागतः ११।
ब्रह्माणं मोहयित्वाऽसौ वेदाञ्जग्राह वीर्यवान् ।
ग्रसित्वा च श्रुतिं सोऽथ प्रविवेश महार्णवम् १२।
ततः सर्वं जगच्छून्यमभवद्धर्मसंकरः ।
नाधीतं न वषट्कारं वर्णाश्रमविवर्जितम् १३।
ततः प्रजापतिर्देवः सर्वदेवगणैर्वृतः ।
गत्वा दुग्धांबुधिं देवं तुष्टाव शरणं गतः १४।
ब्रह्मोवाच-
प्रसीद देव मे नाथ नागपर्यंकसंस्थित ।
सर्वेश सर्वदेवात्मन्सर्ववेदमयाच्युत १५।
आद्यं जगद्भुवो बीजं मध्ये त्वं सर्वतोऽधिकः ।
अंते च पशुनाथस्त्वं स्वेच्छया तस्तमेव च १६।
त्वमेव धत्से चिद्रूपं जगत्सर्वं सनातनम् ।
त्वमव्यक्तो हि भूतादिः प्रधानपुरुषोऽव्ययः १७।
त्वमादिमध्यांतवपुर्जगतः परमेश्वरः ।
त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः १८।
भूतादिस्त्वं महद्भूतं भूतसंघस्य कारणम् ।
त्वमेव कारणमाश्रित्य रमते धाम आत्मवान् १९।
त्वमादिभूतश्चांतस्त्वं त्वं वायुः सर्व्वगो महान् ।
त्वमादिस्त्वमनादिश्च त्वमग्निस्तेजसां निधिः २०।
त्वमापः सर्व्वजगतां जीवनं परमेश्वरः ।
त्वं भूमिर्जगदाधारो भूधरस्त्वं महामते २१।
सरितं सागरस्त्वं वै सर्व्वस्यादिस्त्वमेव च ।
देवर्षिः सर्वभूतानि त्वमेव पुरुषोत्तम २२।
त्वयैव प्रेरिता लोकाश्चेष्टंते साध्वसाधुषु ।
दैत्येनोपद्रुता वेदाः प्रविष्टा महदर्णवम् २३।
वेदाधारमिदं सर्व्वं जगत्स्थावरजंगमम् ।
वेदाश्चैव हि सर्व्वेषां धर्माणां परितः स्थितिः २४।
वेदेषु सर्वदेवानां नित्यतृप्तिर्भविष्यति ।
तस्माद्वेदान्समानेतुं त्वमेवार्हसि केशव २५।
श्रीमहादेव उवाच-
एवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः ।
मत्स्यरूपं समास्थाय प्रविवेश महोदधिम् २६।
तं दैत्यं सुमहाघोरं माकरंरूपमास्थितः ।
तुण्डाग्रेण विदार्याथ जघानामरपूजितं २७।
तं हत्वा सर्ववेदांश्च साङ्गोपाङ्गसमन्वितान् ।
गृहीत्वा प्रददौ तस्मै ब्रह्मणे स महाद्युतिः २८।
अन्योन्यमिश्रिता वेदा ग्रसितास्तेन रक्षसा ।
व्यक्ता भगवता तेन व्यासरूपेण धीमता २९।
पृथग्भूता समं वेदा व्यासेनैव महात्मना ।
एवं मत्स्यावतारेण रक्षिताः सर्व्वदेवताः ३०।
श्रुतिप्रदानेन जगत्त्रयं तदा कृत्वा निरातंकमहो रमाधवः ।
संस्तूयमानः सुरसिद्धसंघैरंतर्दधे योगिभिरर्च्चितांघ्रिः ।
वासुदेवो हि भवगान्सर्वदेवमयो हरिः ३१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे उमामहेश्वरसंवादे मत्स्यावतारवर्णनंनाम त्रिंशदधिकद्विशततमोऽध्यायः २३० ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 231
श्रीरुद्र उवाच-
यत्कौर्म्यवैभवं विष्णोः सर्वलोकनमस्कृतम् ।
तद्वक्ष्यामि प्रिये सम्यक्शृणुष्वेकाग्रचेतसा १।
अत्रिपुत्रो महातेजा दुर्वासा इति विश्रुतः ।
प्रचण्डः सर्वलोकानां क्षोभकारी महातपाः २।
स ययौ हिमवत्पृष्ठं ब्रह्मर्षिस्तपसो निधिः ।
ममांशभूतो ब्रह्मर्षिः सर्वेषां भयदस्सदा ३।
उषितस्तत्र वर्षं तु किन्नरीभिः स पूजितः ।
महेंद्रं द्रष्टुकामोऽसौ स्वर्लोकं प्रययौ मुनिः ४।
तस्मिन्काले महातेजा गजारूढं महेश्वरम् ।
ददर्श सर्वदेवैस्तं पूज्यमानं शचीपतिम् ५।
तच्च दृष्ट्वा स हृष्टात्मा दुर्वासा सुमहातपाः ।
पारिजातस्रजं तस्मै प्रददौ विनयान्वितः ६।
आदाय देवताधीशस्तां स्रजं गजमूर्द्धनि ।
विन्यस्य तत्र देवेशः प्रययौ नंदनं प्रति ७।
करेणादाय तां मालां मदोद्रिक्तस्ततो गजः ।
पीडयित्वाथ चिक्षेप संस्थितां धरणीतले ८।
ततः क्रुद्धो महातेजा दुर्वासा रक्तलोचनः ।
प्रशप्तवान्महेंद्रं तं संतप्तक्रोधवह्निना ९।
दुर्वासा उवाच-
त्रैलोक्यैकश्रियायुक्तो यस्मान्मामवमन्यते ।
तस्मात्त्रैलोक्यश्रीर्नष्टा भवत्वेव न संशयः १०।
रुद्र उवाच-
इति शप्तस्ततः शक्रो जगाम स्वपुरं पुनः ।
ततः श्रीर्जगतां धात्री क्षणादंतर्दधे स्वयम् ११।
अंतर्द्धानं गता लक्ष्मीस्तदा नष्टं जगत्त्रयम् ।
यदपांगाश्रितं सर्वं जगत्स्थावरजंगमम् १२।
तस्यामंतर्द्धानवत्यां सर्वं नष्टतरं भवत् ।
ब्रह्मादि त्रिदशाः सर्वे गंधर्वा यक्ष किन्नराः १३।
दैत्याश्च दानावा नागा मनुष्या राक्षसास्तथा ।
पशवः पक्षिणः कीटाः सर्वे स्थावरजंगमाः १४।
तया लक्ष्म्या जगन्मात्रा ते सर्वे नावलोकिताः ।
दारिद्र्येनैव विहितास्ते सर्वे दुःखभागिनः १५।
क्षुत्पिपासार्दिता देवाश्चुक्रुशुर्गतचेतसः ।
न ववर्ष जलधरः सर्वे शुष्का जलाशयाः १६।
सर्वे ते पादपा शुष्काः फलपुष्पविवर्जिताः ।
तदा देवाः सगंधर्वा दैत्यदानवराक्षसाः १७।
क्षुत्पिपासार्द्दिता जग्मुः ब्रह्माणममितौजसम् ।
ऊचुस्तं देवदेवेशमब्जयोनिं पितामहम् १८।
देवा ऊचुः -
भगवन्क्षुत्पिपासाभ्यां पीडितं हि जगत्त्रयम् ।
न हुतं न वषट्कारः सर्वधर्म्मविवर्जितम् १९।
क्षुत्पिपासार्द्दिताः सर्वे देवदानवमानवाः ।
त्रातारं सर्वलोकेशं भवंतं शरणं गताः २०।
त्रातुमर्हसि देवेश क्षुत्पिपासार्दिताञ्जनान् ।
रुद्र उवाच-
इति तेषां वचः श्रुत्वा सर्वलोकपितामहः २१।
उवाच परमप्रीतस्तान्सर्वान्प्रति मानदः ।
ब्रह्मोवाच-
शृणुध्वं देवताः सर्वे दैत्यगंधर्वमानवाः २२।
महेंद्रस्यापचारेण सर्वमेतदुपस्थितम् ।
समुद्भूतमिदं घोरं जगत्संवर्त्तकं महत् २३।
दुर्वासाः सुमहात्मातु यतः क्रोधमवाप्तवान् ।
तस्मात्क्रोधेन तेनेदं नष्टं लोकत्रयं सुराः २४।
असौ रोषपरीतात्मा क्रोधेन कलुषीकृतः ।
जगत्त्रयं च श्रीनष्टं भवत्वित्याह दुर्मतिः २५।
तच्छापाज्जगतां धात्री लक्ष्मीर्न्नारायणप्रिया ।
अंतर्द्धानं गता देवी जगन्माता महेश्वरी २६।
यदपाङ्गे क्षिता लोका भवंति सुखितास्तथा ।
नालोकिता जगन्मात्रा दुःखभागिन एव हि २७।
तस्मात्सर्वे वयं गत्वा दुग्धाब्धौ स्थितमुत्तमम् ।
तत्र नारायणं देवमर्च्चयामः सनातनम् २८।
तस्मिन्प्रसन्ने देवेशे शिवमेतद्भवेज्जगत् ।
इति निश्चित्य मनसा ब्रह्मा देवगणैर्युतः २९।
भृग्वादिमुनिभिः सार्द्धं प्रययौ क्षीरसागरम् ।
क्षीराब्धावुत्तरतटे ब्रह्मरुद्रादिदेवताः ३०।
विष्णुं समर्च्चयामासुः पौरुषेण विधानतः ।
जपन्नष्टाक्षरं मंत्रं पौरुषं सूक्तमेव च ३१।
ध्यायंतोऽनन्यमनसो जुहुवुः परमेश्वरम् ।
तुष्टुवुः स्तवनैर्दिव्यैर्नमश्चक्रुर्विचित्रधा ३२।
ततः प्रसन्नो भगवान्सर्वेषां च दिवौकसाम् ।
तेषां संदर्शने तस्थौ स्तूयमानो महर्षिभिः ३३।
वैनतेयं समारुह्य सर्वदेवमयं विभुम् ।
तं दृष्ट्वा जगतामीशं शंखचक्रगदाधरम् ३४।
पीतवस्त्रं चतुर्बाहुं पुंडरीकनिभेक्षणम् ।
श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् ३५।
किरीटहारकेयूरनूपुरैरुपशोभितम् ।
तुष्टुवुर्जयशब्देन नमश्चक्रुर्निरंतरम् ३६।
ततः प्रोवाच भगवान्कृपया सर्वदेवताः ।
वरदोस्मि वरं देवा वृणीध्वमिति चाब्रवीत् ३७।
इति श्रुत्वा तदा सर्वे देवा ब्रह्मपुरोगमाः ।
ऊचुः प्रांजलयो देवमिदं वचनमीश्वरम् ३८।
देवा ऊचुः।
भगवन्मुनिशापेन संप्रतीदं जगत्त्रयम् ।
क्षुत्पिपासार्दितं सर्वं सदेवासुरमानुषम् ३९।
तस्माद्भवंतं शरणं याताः स्म पुरुषोत्तम ।
त्राहि सर्वमिमं लोकं नान्यः शक्तो भवेत्क्वचित् ४०।
रुद्र उवाच-
इत्युक्तो देवतैः सर्वैरच्युतः परमेश्वरः ।
विचार्य्यैतदुवाचैतान्देवान्ब्रह्मपुरोगमान् ४१।
श्रीभगवानुवाच-
अत्रिसूनोर्मुनेः शापादंतर्द्धानं गता रमा ।
कटाक्षदर्शनात्तस्या जगदैश्वर्य्यसंयुतम् ४२।
तस्माद्यूयं सुराः सर्वे शिवब्रह्मपुरोगमाः ।
उत्पाट्य मंदरं शैलं निधाय क्षीरसागरम् ४३।
मंदरं घर्घरं कृत्वा सर्प्पराजेन वेष्टितम् ।
कुरुध्वं मथनं देवा दैत्यगंधर्वदानवैः ४४।
उत्पद्यते च सा लक्ष्मीर्जगत्संरक्षणाय वै ।
तया हृष्टा महाभागा भविष्यथ न संशयः ४५।
धारयाम्यहमेवाद्रिं कूर्मरूपेण संवृतः ।
मम शक्त्या सुरान्सर्वान्प्रविश्य च बलीयसः ४६।
रुद्र उवाच-
इत्युक्ता देवताः सर्वा हरिणा कामलक्षणे ।
साधुसाध्विति देवेशमूचुर्ब्रह्मपुरोगमाः ४७।
संस्तूयमानो भगवानच्युतः सुरसत्तमैः ।
अंतर्दधे ततः श्रीमान्सर्वलोकनमस्कृतः ।
सर्वाधारः सर्वदेवः सर्वत्र समदर्शनः ४८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे।
उमामहेश्वरसंवादे दुर्वाससःशापकथनंनाम एकत्रिंशदधिकद्विशततमोऽध्यायः २३१।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 232
शंकर उवाच-
ततः सुरगणाः सर्वे दानवाद्या महाबलाः ।
उत्पाट्य मंदरं शैलं चिक्षिपुः पयसांनिधौ १।
ततो नारायणः श्रीमान्भगवान्भूतभावनः ।
कूर्मरूपेण तं शैलं दधारामितविक्रमः २।
अनादिमध्यांतवपुर्विश्वरूपः सनातनः ।
अधारयद्गिरिवरं संपूज्यो जगदीश्वरः ३।
तथैकेन भुजेनैव ईश्वरः सर्वगोऽव्ययः ।
ततो देवासुराः सर्वे ममंथुः क्षीरसागरम् ४।
सर्प्पराजेन संवेष्ट्य घर्घरं मंदराचलम् ।
मथ्यमानेऽथ दुग्धाब्धौ दैवतैः सुमहाबलैः ५।
उत्पादनार्थं लक्ष्म्याश्च सर्व एव महर्षयः ।
उपोष्य नियमं कृत्वा जेपुः श्रीसूक्तमेव च ६।
सहस्रनामपठनं चक्रुर्दिव्या द्विजोत्तमाः ।
एकादश्यां तु शुद्धायां मथ्यमाने महांबुधौ ७।
उपोष्य ऋषयः सर्वे जप्तं श्रीमंत्रमुत्तमम् ।
कांक्षमाणाश्च ये जप्तुं लक्ष्मीनारायणं हरिम् ८।
ध्यात्वा समर्च्चयामासुर्द्विजाग्र्या मुनिसत्तमाः ।
ततस्तस्मिन्मुहूर्ते तु मथ्यमाने महांबुधौ ९।
समभूत्तत्र प्रथमं कालकूटं महाविषम् ।
महापीडं महाघोरं संवर्ताग्निसमप्रभम् १०।
दृष्ट्वा प्रदुद्रुवुः सर्वे भयार्ता देवदानवाः ।
ततस्तान्विद्रुतान्दृष्ट्वा भयार्त्तान्सुरसत्तमान् ११।
ततस्तानब्रुवं वाक्यमहं तत्र शुभेक्षणे ।
भोभो देवगणाः सर्वैर्न भेतव्यं विषं प्रति १२।
अहमाहारयिष्यामि कालकूटं महाविषम् ।
इत्युक्तास्ते मया सर्वे देवा इंद्र पुरोगमाः १३।
साधुसाध्विति वाक्यैर्मां तुष्टुवुः प्रणता भृशम् ।
तद्दृष्ट्वा मेघसंकाशं प्रादुर्भूतं महाविषम् १४।
ध्यात्वा नारायणं देवं हृदये गरुडध्वजम् ।
उदयादित्यसंकाशं शंखचक्रगदाधरम् १५।
श्रीभूमिसहितं देवं तप्तकांचनकुण्डलम् ।
एकाग्रमनसा ध्यात्वा सर्वदुःखहरं प्रभुम् १६।
नामरूपं महामंत्रं जप्त्वा लक्ष्म्यासमन्वितम् ।
तद्विषं तु महाघोरमाद्यं सर्वभयंकरम् १७।
नामत्रयप्रभावाच्च विष्णोः सर्वगतस्य वै ।
विषं तदभवज्जीर्णं लोकसंहारकारकम् १८।
अच्युतानंत गोविन्द इति नामत्रयं हरेः ।
यो जपेत्प्रयतोभक्त्या प्रणवाद्यं नमोंतकम् १९।
तस्य मृत्युभयं नास्ति विषरोगाग्निजं महत् ।
नामत्रयं महामंत्रं जपेद्यः प्रयतात्मवान् २०।
कालमृत्युभयं चापि तस्य नास्ति किमन्यतः ।
इति नामत्रयेणैव पीतं देवि मया विषम् २१।
ततः प्रहृष्टास्त्रिदशास्तुष्टुवुर्मां सुविस्मिताः ।
मां प्रणम्य पुनर्देवा ममंथुः क्षीरसागरम् ।
तस्मिन्प्रमथ्यमाने तु मया देवैश्च भामिनि २२।
ज्येष्ठा देवी समुत्पन्ना रत्नस्रग्वाससा वृता ।
उत्पन्ना साऽब्रवीद्देवान्किंकर्त्तव्यं मयेति वै २३।
तामब्रुवंस्तु ते देवीं सर्वदेवगणा भृशम् ।
देवा ऊचुः ।
येषां गृहांतरे रम्ये कलहः संप्रवर्त्तते २४।
तत्ते स्थानं प्रयच्छामो वस तत्राशुभान्विता ।
परुषं भाषणं नित्यं वदंत्यनृतवादिनः २५।
संध्याकाले तु ये पापाः स्वपंति मलचेतसः ।
तेषां वेश्मनि संतिष्ठ दुःखदारिद्र्यदायिनी २६।
कपालकेशभस्मास्थि तुषांगारानि यत्र तु ।
तत्र ते सततं स्थानं भविष्यति न संशयः २७।
यस्यवेश्म कपालास्थि भस्मकेशादि चिह्नितम् ।
तत्र वसाशुभे नित्यं कलिना सह नित्यशः २८।
अकृत्वा पादयोः शौचं यस्त्वाचामति दुर्म्मतिः ।
तं भजस्व महादेवि कलुषेण भृशं वृतम् २९।
तुषांगारकपालाश्मवालुका वस्त्र चर्म्मभिः ।
दंतधावनकर्तारो भविष्यंति नराधमाः ३०।
रमस्व कलिना देवि तेषां वेश्मसु नित्यशः ।
तिलपिष्टं कलंजं च कलिगं शिग्रु गृंजनम् ३१।
छत्राकं विड्वराहं च बिल्वं कोशातकीफलम् ।
अलाबुं च पलांडुं च ये खादंति नराधमाः ।
तेषां गेहे ह्यवस्थानं देवी दारिद्र्यदे सदा ३२।
रुद्र उवाच-
इत्यादिश्य सुराः सर्वे ज्येष्ठां च कलिवल्लभाम् ।
पुनश्च मंथनं चक्रुः क्षीराब्धिं सुसमाहिताः ३३।
ततश्च वारुणी देवी समुत्पन्ना शुभानने ।
अनंतो नागराजोऽथ तां जग्राह सुलोचनाम् ३४।
ततः सुरा समुत्पन्ना सर्वाभरणभूषिता ।
वैनतेयस्य भार्याभूत्सर्वलक्षणशोभिता ३५।
ततोऽप्सरोगणा दिव्या गंधर्वाश्च महौजसः ।
जज्ञिरे रूपसंपन्ना मधुगायनतत्पराः ३६।
ऐरावतस्ततो जज्ञे तथैवोच्चैःश्रवा हयः ।
धन्वंतरिः पारिजातं सुरभिः सर्वकामधुक् ३७।
एतान्सर्वान्सहस्राक्षो जग्राह प्रीतमानसः ।
ततः प्रभातसमये द्वादश्यामुदिते रवौ ३८।
मथ्यमाने पुनस्तस्मिन्देवैरिंद्र पुरोगमैः ।
ततः प्रहृष्टवदनैस्तूयमाना महर्षिभिः ३९।
उत्पन्ना श्रीर्महालक्ष्मी सर्वलोकेश्वरी शुभा ।
बालार्ककोटिसंकाशा कनकांगदभूषिता ४०।
हेमांबुजसमासीना सर्वलक्षणशोभिता ।
पद्मपत्त्रविशालाक्षी नीलकुंचितमूर्द्धजा ४१।
दिव्यचंदनलिप्तांगी दित्यपुष्पैरलंकृता ।
नानारत्नमयैर्दिव्यैः सर्वैराभरणैर्युता ४२।
तनुमध्या जगद्धात्री पीनोन्नतपयोधरा ।
चतुर्हस्ता विशालाक्षी पूर्णेंदुसदृशानना ४३।
वसुपात्रं मातुलुंगं स्वर्णपद्मयुगं शुभम् ।
विभ्राणा हस्तकमलैः सर्वाभरणभूषितैः ४४।
अम्लानपंकजां मालां धारयंती ह्युरः स्थले ।
ददृशुस्तां महादेवीं सर्वलोकहितैषिणीम् ४५।
ईश्वरीं सर्वभूतानां मातरं पद्ममालिनीम् ।
नारायणीं जगद्धात्रीं नारायणहृदालयाम् ४६।
तां विलोक्य महालक्ष्मीं प्रहृष्टाः सर्वदेवताः ।
अवादयंतः पटहान् दिविदेवगणा भृशम् ४७।
ववर्षुः पुष्पवर्षाणि वनदेव्यो निरंतरम् ।
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ४८।
ववुः पुण्यास्तथावाताः सुप्रभोऽभूद्दिवाकरः ।
जज्वलुश्चाग्नयः शांताः प्रसन्नाश्च दिशो दश ४९।
अनंतरं शीतरश्मिरुदभूत्क्षीरसागरे ।
सुधामयूखवान्सोमो मातुर्भ्राता सुखावहः ५०।
नक्षत्राधिपतिश्चाभूच्चंद्रो वै लोकमातुलः ।
ततो जाया हरेः पुण्या तुलसी लोकपावनी ५१।
समुत्पन्ना जगद्धात्री पूजार्थं शार्ङ्गिणो हरेः ।
ततः प्रहृष्टमनसः सर्वे देवा दिवौकसः ५२।
तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः ।
समेत्य मातरं सर्वे शिवब्रह्मपुरोगमाः ५३।
स्तुत्वा नामसहस्रेण जेपुः श्रीसूक्तसंहिताः ।
ततः प्रसन्ना सा देवि सर्वान्देवानुवाच ह ५४।
श्रीरुवाच-
वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाः ।
रुद्र उवाच-
ऊचुः प्रांजलयो देवाः श्रियं नम्रात्ममूर्तयः ५५।
देवा ऊचुः -
प्रसीद कमले देवि सर्वलोकेश्वरप्रिये ।
विष्णोर्वक्षस्थले देवि भव नित्यानपायिनी ५६।
त्रैलोक्यं पालया देवी नित्या त्वं परमेश्वरी ।
यदपांगाश्रितं सर्वं जगत्स्थावरजंगमम् ५७।
त्वया विलोकिताः सर्वे प्रभवंति दिवौकसः ।
माता रुद्रादिदेवानामैश्वर्यं त्वत्कटाक्षतः ५८।
एतदिच्छामहे देवि जगन्मातर्नमोस्तु ते ।
रुद्र उवाच-
इत्युक्ता दैवतैः सर्वैर्लोकमाता महेश्वरी ५९।
एवमस्त्विति तान्देवान्प्राह नारायणप्रिया ।
ततो नारायणः श्रीशः शंखचक्रगदाधरः ६०।
तथैवाविरभूद्ब्रह्मा पूर्ववत्क्षीरसागरे ।
ततः प्रतुष्टुवुर्देवा नमस्कृत्वा जनार्दनम् ६१।
ऊचुः प्रांजलयः सर्वे प्रहृष्टवदनाः शुभाः ।
देवा ऊचुः-
गृहाण देवीं सर्व्वेश महिषीं तव वल्लभाम् ६२।
जगत्संरक्षणार्थाय लक्ष्मीमनपगामिनीम् ।
रुद्र उवाच-
इत्युक्त्वा मुनिभिः सर्वे देवा ब्रह्मपुरोगमाः ६३।
नानारत्नमये दिव्ये पीठे बालार्कसंनिभे ।
निवेश्य देवीं देवं च आनंदाश्रुपरिप्लुताः ६४।
दिव्याम्बरैर्दिव्यमाल्यैर्नानारत्नविभूषितैः ।
लक्ष्म्या सह समासीनमर्चयामासुरच्युतम् ६५।
गंधैर्धूपैश्च दीपैश्च नैवेद्यैश्च सुधामयैः ।
अप्राकृतैः फलैर्दिव्यैरर्चयामासुरीश्वरीम् ६६।
अमृतादुत्थिता देवी तुलसी कोमला शुभा ।
तया श्रीपादयुगलमर्च्चयामासुरंजसा ६७।
प्रदक्षिणत्रयं कृत्वा नमस्कृत्वा मुहुर्मुहुः ।
तष्टुवुस्तुतिभिर्द्देवा हर्षपूर्णाश्रुविक्लवाः ६८।
ततः प्रसन्नो भगवान्सर्वदेवेश्वरो हरिः ।
अभीष्टान्प्रददौ तेभ्यो वरान्देव्या सह प्रभुः ६९।
ततः सुहृष्टाः सुरमानुषाद्या लक्ष्मीकटाक्षार्प्पित दृष्टिपूताः ।
प्रभूतधान्यार्थयुता निरंतरं सुखं परं प्रापुरनामया भृशम् ७०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे लक्ष्म्युत्पत्तिर्नाम द्वात्रिंशदधिकद्विशततमोऽध्यायः २३२।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 233
शंकर उवाच-
ततः प्रोवाच भगवान्सुरांश्चैव महामुनीन् ।
देव्या सह प्रहृष्टात्मा सर्वलोकहिताय वै १।
श्रीभगवानुवाच-
शृणुध्वं मुनयः सर्वे देवताश्च महाबलाः ।
एकादशी महापुण्या सर्वोपद्रवनाशिनी २।
लक्ष्मीसंदर्शनार्थाय भवद्भिः समुपोषिता ।
तस्मात्तु सर्वदा पुण्या द्वादशी मम वल्लभा ३।
अद्यप्रभृति ये लोका उषिताः पूर्ववासरे ।
द्वादश्यामुदिते भानौ श्रद्धया परया युताः ४।
ये पूजयंति मां भक्त्या तुलस्या च श्रिया सह ।
सर्वे ते बन्ध निर्मुक्ताः प्राप्नुवंति पदं मम ५।
नार्च्चयंति च ये वै मां द्वादश्यां पुरुषोत्तमम् ।
ते नराः पापकर्माणो मम मायाविमोहिताः ६।
ये नार्चयंति पापिष्ठा नरा नरकगामिनः ।
तान्पापान्विषयैर्वद्धान्ममपूजापराङ्मुखान् ७।
क्षिपत्यजस्रं संसारे माया मम दुरत्यया ।
रुद्र उवाच-
एवमुक्त्वा तु भगवान्परमात्मा सनातनः ८।
संस्तूयमानो मुनिभिः प्रययौ कमलालयम् ।
क्षीराब्धौ शेषपर्य्यङ्के विमाने सूर्य्यसन्निभे ९।
देव्या सह विशालाक्ष्या रमया परमेश्वरः ।
दर्शनार्थं सुराणां च तत्र सन्निहितोऽभवत् १०।
ततः सुरगणाः सर्व्वे कूर्म्मरूपं सनातनम् ।
भक्त्या संपूजयित्वाथ तुष्टुवुर्हृष्टमानसाः ११।
ततः प्रसन्नो भवगान्कूर्म्मरूपी जनार्द्दनः ।
भगवानुवाच-
वरं वृणीध्वं देवेशा यद्वो मनसि वर्त्तते ।
रुद्र उवाच-
ततो देवगणाः सर्वे कूर्म्मरूपं जनार्दनम् १२।
उचुः प्रांजलयः सर्व्वे हर्ष निर्भरमानसाः ।
देवा ऊचुः-
शेषस्य दिग्गजानां च सहायार्थं महाबल १३।
धर्तुमर्हसि देवेश सप्तद्वीपवतीं महीम् ।
रुद्र उवाच-
एवमस्त्विति हृष्टात्मा भगवांल्लोकभावनः १४।
धारयामास धरणीं सप्तद्वीपसमावृताम् ।
ततो देवाः सगंधर्वा दैत्यदानवमानुषाः १५।
महर्षिभिरनुज्ञाताः स्वर्लोकान्प्रतिपेदिरे ।
तदाप्रभृति ते सर्व्वे देवा ब्रह्मपुरोगमाः १६।
सिद्धा ये मानुषाश्चैव योगिनो मुनिसत्तमाः ।
विष्णोराज्ञां पुरस्कृत्य भक्त्या परमया युताः १७।
एकादश्यामुपोष्याथ भक्त्या चैव जनार्दनम् ।
द्वादश्यामर्च्चनं चक्रुर्विधिना वरवर्णिनि १८।
एतत्तु सर्वमाख्यातं देव्या जन्म वरानने ।
कौर्म्यं च वैभवं विष्णोः किमन्यच्छ्रोतुमिच्छसि १९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे एकादश्युपवासकथनंनाम त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः २३३ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 234
पार्वत्युवाच-
भगवञ्छ्रोतुमिच्छामि द्वादश्याश्च विधानकम् ।
विष्णोः पूजाविधानं च कर्त्तव्यं तत्र वै प्रभो १।
एकादश्याः प्रभावं च सर्वपापहरंनृणाम् ।
आचक्ष्व विस्तरेणैव मयि प्रीत्या महेश्वर २।
महादेव उवाच-
शृणु देवि प्रवक्ष्यामि द्वादश्याश्च विधानकम् ।
तस्याः स्मरणमात्रेण संतुष्टः स्याज्जनार्दनः ३।
एकादश्यां तु प्राप्तायां समुपोष्येह मानवः ।
सर्वपापविनिर्मुक्ता यांति विष्णोः परम्पदम् ४।
सप्तजन्मार्जितं पाप ज्ञानतोऽज्ञानतः कृतम् ।
क्षणादेव लयं याति द्वादश्यां हरिपूजनात् ५।
अश्वमेधसहस्राणि वाजपेयशतानि च ।
एकादश्युपवासस्य कलां नार्हंति षोडशीम् ६।
धर्म्मदा ह्यर्थदा चैव कामदा मोक्षदा किल ।
सर्व्वकामदुघा नॄणां द्वादशी वरवर्णिनी ७।
एकादशी समं किंचित्पापत्राणं न विद्यते ।
एकादशीसमंकिचिद्व्रतं नास्ति शुभेक्षणे ८।
एकादशीं परित्यज्य यो ह्यन्यद्व्रतमाचरेत् ।
स करस्थं महाराज्यं त्यक्त्वा भैक्ष्यं तु याचते ९।
एकादशेंद्रियैः पापं यत्कृतं भवति प्रिये ।
एकादश्युपवासेन तत्सर्वं विलयं व्रजेत् १०।
रटंतीह पुराणानि भूयोभूयो वरानने ।
न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे ११।
अभक्ष्यं सर्वदा प्रोक्तं किं पुनः शुक्लकृष्णयोः ।
वर्णानामाश्रमाणां च सर्वेषां वरवर्णिनी १२।
एकादश्युपवासस्तु कर्त्तव्यो नात्र संशयः ।
एकादश्यां च प्राप्तायां मातापित्रोर्मृतेऽहनि १३।
द्वादश्यां तु प्रदातव्यं नोपवासदिने क्वचित् ।
गर्हितान्नं न वाश्नंति पितरश्च दिवौकसः १४।
एकादश्यां न भोक्तव्यं सुरां वा न पिबेत्क्वचित् ।
ब्राह्मणं नैव हन्यात्तु सममेतत्त्रयं मतम् १५।
तस्मादेकादशीं शुद्धामुपवासं समाचरेत् ।
अवस्थात्रितये यस्तु यत्नो वाक्कायकर्म्मभिः १६।
दशमीमिश्रितां तां तु प्रयत्नेन विवर्ज्जयेत् ।
अरुणोदयवेलायां दशमीमिश्रिता भवेत् १७।
तां त्यक्त्वा द्वादशीं शुद्धामुपोष्येहाविचारयन् ।
कलायां विद्यमानायां सूर्य्यस्योदयनं प्रति १८।
त्रयोदश्यां तथा देवि द्वादशी परिविद्यते ।
तथा च द्वादशी शुद्धा ह्युपवासे विधीयते १९।
अरुणोदयवेलायां कृत्यं सर्वं समाचरेत् ।
कलायामपि द्वादश्यां पारणं तत्र चोदितम् २०।
शुद्धामेकादशीं चापि त्यजेदत्र न संशयः ।
कलाप्येकादशी यत्र द्वादश्यामुदिते रवौ २१।
सर्वामेकादशीं त्यक्त्वा तत्रैवोपवसेद्द्विजः ।
एवं विधिं विनिश्चित्य समुपोष्यं हरेर्द्दिनम् २२।
सायमाद्यंतयोरह्नोः सायंप्रातस्तु मध्यमे ।
तत्रोपवासं कुर्वीत त्यक्त्वा भुक्तिचतुष्टयम् २३।
दशम्यामेकभक्तस्तु नारीसंगमवर्जितः ।
अवनीतल्पशायी च परेऽहनि वसेच्छुचिः २४।
धात्रीफलानुलिप्तांगः स्नानं संध्यां समाचरेत् ।
उपवासपरो भूत्वा रात्रौ संपूजयेद्धरिम् २५।
पाखंडिनं विकर्मस्थं पतितं श्वपचं तथा ।
नावलोकेन्न संभाषेन्न स्पृशेत्तत्र वैष्णवः २६।
अवैष्णवस्तु यो विप्रः स पाषण्डः प्रकीर्तितः ।
शिखोपवीतत्यागी च विकर्मस्थ इतीरितः २७।
महापापोपपापाभ्यां युक्तः पतित उच्यते ।
अंत्यजः श्वपचः प्रोक्तो वेदैस्तत्र सुनिर्णयः २८।
रात्रौ संपूज्य देवेशं जागरं च समाचरेत् ।
गंधैः पुष्पैस्तथा दीपैर्वस्त्रैराभरणैः शुभैः २९।
जपैस्तोत्रैर्नमस्कारैः पूजयेन्निशि भक्तितः ।
ततः प्रभातसमये तुलसीमिश्रितैर्जलैः ३०।
स्नात्वा सम्यग्विधानेन संतर्प्य पितृदेवताः ।
पूजयेज्जगतामीशं लक्ष्म्या सह जनार्दनम् ३१।
कोमलैस्तुलसीपत्रैः पुष्पैश्चैव सुगंधिभिः ।
दीपान्नीराजयेत्तत्र वारमष्टोत्तरं शतम् ३२।
शतपत्रकृतां मालां ताभ्यां सम्यङिनवेदयेत् ।
धूपं दीपं च नैवेद्यं तांबूलं च समर्प्पयेत् ३३।
शर्करासहितं दिव्यं पायसान्नं समर्पयेत् ।
कर्पूरेण च संयुक्तं तांबूलं च निवेदयेत् ३४।
प्रदक्षिणे नमस्कारं कृत्वा भक्त्या समन्वितः ।
आज्येन जुहुयाद्वह्नौ शतमष्टोत्तरं तथा ३५।
प्रत्यृचं पुरुषसूक्तेन लक्ष्मीसूक्तेन पायसम् ।
ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुंजीतवाग्यतः ३६।
पुराणादि प्रपाठेन क्षपयेत्तद्दिनं महत् ।
क्षितिशायी ब्रह्मचारी तस्यामेव निशि स्वपेत् ३७।
एवं संपूज्यमानं स द्वादश्यां कमलापतिः ।
क्षणात्प्रसन्नो भगवान्सर्वाभीष्टप्रदो ध्रुवम् ३८।
इत्येतत्कथितं देवि द्वादशीव्रतमुत्तमम् ।
किमन्यच्छ्रोतुकामासि तद्वक्तव्यं ब्रवीम्यहम् ३९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे द्वादशीमाहात्म्यंनाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः २३४ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 235
श्रीपार्वत्युवाच-
पाषंडानां च संवादं वर्जयेदिति यत्त्वया १।
उक्तं ममेह भगवान्श्वपचादपि गर्हितम् ।
ते यादृशाः समाख्याताः कैर्लिंङ्गैश्चिह्निता भुवि ।
रुद्र उवाच-
येऽन्यदेवं परत्वेन वदंत्यज्ञानमोहिताः २।
नारायणाज्जगन्नाथात्ते वै पाषंडिनः स्मृताः ।
कपालभस्मास्थिधरा ये ह्यवैदिकलिङ्गिनः ३।
ऋते वनस्थाश्रमाच्च जटावल्कलधारिणः ।
अवैदिकक्रियोपेतास्तै वै पाषंडिनस्तथा ४।
शंखचक्रोर्ध्वपुंड्रादि चिह्नैः प्रियतमैर्हरेः ।
रहिता ये द्विजा देवि ते वै पाषंडिनः स्मृताः ५।
श्रुतिस्मृत्युदिताचारं यस्तु नाचरति द्विजः ।
स पाषंडीति विज्ञेयः सर्वलोकेषु गर्हितः ६।
विना वै भगवत्प्रीत्या ते वै पाषंडिनः स्मृताः ।
समस्तयज्ञभोक्तारं विष्णुं वै ब्रह्मदैवतम् ७।
उदिश्य देवता एव जुहोति च ददाति च ।
स पाषण्डीति विज्ञेयः स्वतंत्रः सर्वकर्मसु ८।
स्वातंत्र्यात्कुरुते यस्तु कर्म वेदोदितं महत् ।
यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ९।
सममन्यैर्निरीक्षेत स पाषंडी भवेत्सदा ।
अवस्थात्रितये यस्तु मनोवाक्कायकर्म्मभिः १०।
वासुदेवं न जानाति स पाषंडी भवेद्दिवजः ।
किमत्र बहुनोक्तेन ब्राह्मणा येप्यवैष्णवाः ११।
न स्प्रष्टव्या न वक्तव्या न द्रष्टव्याः कदाचन ।
पार्वत्युवाच-
भगवन्परमं गुह्यं पृच्छामि सुरसत्तम १२।
मयि प्रीत्या समाचक्ष्व संशयो वर्त्तते भृशम् ।
कपालभस्मचर्म्मास्थि धारणं श्रुतिगर्हितम् १३।
तत्त्वया धार्य्यते देव गर्हितं केन हेतुना ।
स्त्रीचापल्येन देवेश पृच्छामि त्वां महामते १४।
महाप्रभावात्कथितं न कर्त्तव्यं क्वचिद्भवेत् ।
त्वयेति न पुरा प्रोक्तं विस्तरेण महाप्रभो १५।
अकर्त्तव्यमिति प्रश्नं क्षंतुमर्हसि मे प्रभो ।
वसिष्ठ उवाच-
इति देव्या हरः पृष्टो रहस्ये जनवर्जिते १६।
उवाच परमं गुह्यं यद्यदाचरितं स्वकम् ।
शिव उवाच-
शृणु देवि प्रवक्ष्यामि यद्गुह्यं परमाद्भुतम् १७।
न वक्तव्यं त्वया देवि जनेषु कथितं मया ।
अपृथक्त्वाच्छरीरस्य वक्ष्यामि तव सुव्रते १८।
नमुच्याद्या महादैत्याः पुरा स्वायंभुवेंतरे ।
महाबला महावीर्या महावीरा महौजसः १९।
सर्वे विष्णुरताः शुद्धाः सर्वपापविवर्जिताः ।
त्रयीधर्मवृताः सर्वे भग्ना इंद्रपुरोगमाः २०।
विष्णोः समीपमागम्य भयार्त्ताः शरणं गताः ।
देवा ऊचुः।
अजेयान्सर्वदेवानां तपोनिर्द्धूतकल्मषान् २१।
त्वमेवैतान्महादैत्याञ्जेतुमर्हसि केशव ।
महादेव उवाच-।
इत्याकर्ण्य हरिर्वाक्यं देवानां च भयानकम् २२।
तान्समाश्वास्य दिक्पालान्मामाह पुरुषोत्तमः ।
श्रीभगवानुवाच-
त्वं हि रुद्र महाबाहो मोहनार्थे सुरद्विषाम् २३।
पाषंडाचरणं धर्मं कुरुष्व सुरसत्तम ।
तामसानि पुराणानि कथयस्व च तान्प्रति २४।
मोहनानि च शास्त्राणि कुरुष्व च महामते ।
मयि मुक्ताश्च विप्रश्च भविष्यंति महर्षयः २५।
मद्भक्त्या तान्समाविश्य कथयस्व च तामसान् ।
काणादं गौतमं शक्तिमुपमन्युं च जैमिनिम् २६।
कपिलं चैव दुर्वासं मृकंडुं च बृहस्पतिम् ।
भार्गवं जामदग्न्यं च दशैतांस्तामसानृषीन् २७।
भावशक्त्या समाविश्य कुर्वता जगतो शिवम् ।
त्वच्छक्त्या च निविष्टास्ते तमसोद्रिक्तया भृशम् २८।
तामसास्ते भविष्यंति क्षणादेव न संशयः ।
कथयिष्यंति ते विप्रास्तामसानि जगत्त्रये २९।
पुराणानि च शास्त्रणि त्वया सत्वेन बृंहिताः ।
कपालचर्म्मभस्मास्थि चिह्नान्यमरसर्वशः ३०।
त्वमेव धृतवान्लोकान्मोहयस्व जगत्त्रये ।
तथा पाशुपतं शास्त्रं त्वमेव कुरु सत्कृतः ३१।
कंकालशैवपाषंडमहाशैवादिभेदतः ।
अलक्ष्यं च मतं सम्यग्वेदबाह्यं नराधमाः ३२।
भस्मास्थिधारिणः सर्वे भविष्यंति ह्यचेतसः ।
त्वां परत्वेन वक्ष्यंति सर्वशास्त्रेषु तामसाः ३३।
तेषां मतमधिष्ठाय सर्वे दैत्याः सनातनाः ।
भवेयुस्ते मद्विमुखाः क्षणादेव न संशयः ३४।
अहमप्यवतारेषु त्वां च रुद्र महाबल ।
तामसानां मोहनार्थं पूजयामि युगे युगे ३५।
मतमेतदवष्टभ्य पतंत्येव न संशयः ।
महादेव उवाच-।
तच्छ्रुत्वाहं यथोक्तं तु वासुदेवेन भामिनि ३६।
सुमहद्वदनो दीनो बभूवात्र वरानने ।
नमस्कृत्वाथ तं देवमब्रवं परमेश्वरम् ३७।
त्वयोदितमिदं देव करोमि यदि भूतले ।
तस्मान्नाशाय मे नाथ भविष्यति न संशयः ३८।
तत्र शक्यं मया कर्तुमेतत्कृत्यं हरेऽधुना ।
त्वदाज्ञापि च नोल्लंघ्या एतद्दुःखतरं महत् ३९।
एवमुक्ते ततो देवि समाश्वास्य च मां पुनः ।
आत्मनाशाय तेनात्र भवत्वित्याह मां हरिः ४०।
देवतानां हितार्थाय कुरुष्व वचनं मम।
तवापि जीवनोपायं कथयामि सुरोत्तम ४१।
दत्तवान्कृपया मह्यमात्मनाम सहस्रकम् ।
हृदये मां समाधाय जप मंत्रं ममाव्ययम् ४२।
षडक्षरं महामंत्रं तारकं ब्रह्म उच्यते ।
ये जपंति हि मां भक्त्या तेषां मुक्तिर्न संशयः ४३।
इंदीवरदलश्यामं पद्मपत्रविलोचनम् ।
शंखांगशार्ङ्गेषुधरं सर्वाभरणभूषितम् ४४।
पीतवस्त्रं चतुर्बाहुं जानकीप्रियवल्लभम् ।
श्रीरामाय नम इत्येवमुच्चार्य्यं मन्त्रमुत्तमम् ४५।
सर्वदुःखहरं चैतत्पापिनामपि मुक्तिदम् ।
इमं मंत्रं जपन्नित्यममलस्त्वं भविष्यसि ४६।
भस्मास्थिधारणाद्यत्तु संभूतं किल्बिषं त्वयि ।
मंगलं तदभूत्सर्वं मन्मंत्रोच्चारणाच्छुभात् ४७।
तर्पितो नाशयिष्यामि पापं सर्वं सुरोत्तम ।
मदन्यदेवताभक्तिर्जायते न तु सुव्रत ४८।
मनसैवार्च्चय हृदि मां नाथं पुरुषोत्तमम् ।
मदाज्ञां कुरु मत्प्रीत्या सर्वमेतच्छुभं तव ४९।
इति संदिश्य मां देवि विससर्ज मरुद्गणान् ।
विसृष्टास्ते ततो देवा निवृत्ताः स्वाश्रमं ययुः ५०।
ततो मां प्रार्थयामासुर्देवा इंद्र पुरोगमाः ।
इन्द्रादय ऊचुः ।
शीघ्रं कुरु हितं देव यथोक्तं हरिणाधुना ५१।
महादेव उवाच-
देवतानां हितार्थाय वृत्तिं पाखंडिनां शुभे ।
कपालचर्मभस्मास्थिधारणं तत्कृतं मया ५२।
तामसानि पुराणानि यथोक्तं विष्णुना शुभे ।
पाषंडशैवशास्त्राणि यथोक्तं कृतवानहम् ५३।
मच्छक्त्यापि समाविश्य गौतमादि द्विजानपि ।
वेदबाह्यानि शास्त्राणि सम्यगुक्तं मयानघे ५४।
इमं मतमवष्टभ्य दुष्टाः सर्वे च राक्षसाः ।
भगवद्विमुखाः सर्वे बभूवुस्तामसावृताः ५५।
भस्मादिधारणं कृत्वा महोग्रतपसावृताः ।
मामेव पूजयांचक्रुर्म्मांसासृक्चंदनादिभिः ५६।
मत्तो वरप्रदानानि लब्ध्वा मदबलोद्धताः ।
अत्यंतविषयासक्ताः कामक्रोधसमन्विताः ५७।
सत्वहीनास्तु निर्वीर्य्या जिता देवगणैस्तदा ।
सर्वधर्म्मपरिभ्रष्टाः काले यांत्यधमां गतिम् ५८।
ये मे मतमवष्टभ्य चरंति पृथिवीतले ।
सर्वधर्मैश्च रहिताः पश्यंति निरयं सदा ५९।
एवं देवहितार्थाय वृत्तिर्मे देवि गर्हिता ।
विष्णोराज्ञां पुरस्कृत्य कृतं भस्मास्थिधारणम् ६०।
बाह्यचिह्नमिदं देवि मोहनार्थाय विद्विषाम् ।
अथांतर्हृदये नित्यं ध्यात्वा देवं जनार्दनम् ६१।
जपन्नेव च तन्मंत्रं तारकं ब्रह्मवाचकम् ।
सहस्रनामसदृशं विष्णोर्नारायणस्य तु ६२।
षडक्षरं महामंत्रं रघूणां कुलवर्द्धनम् ।
जपन्वै सततं देवि सदानंदसुधाप्लुतम् ।
सुखमात्यंतिकं ब्रह्म ह्यश्नाम सततं शुभे ६३।
एतत्ते सर्वमाख्यातं त्वयापृष्टं शुभानने ।
किमन्यच्छ्रोतुकामासि प्रीत्या तत्परिपृच्छ माम् ६४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे पाषंडोत्पत्तिवर्णनंनाम पंचत्रिंशदधिकद्विशततमोऽध्यायः २३५।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 236
पार्वत्युवाच-
तामसानि च शास्त्राणि समाचक्ष्व ममानघ ।
संप्रोक्तानिच तैर्व्विप्रैर्भगवद्भक्तिवर्जितैः ।
तेषां नामानि क्रमशः समाचक्ष्व सुरेश्वर १।
रुद्र उवाच-
शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् २।
तेषां स्मरणमात्रेण मोहः स्याज्ज्ञानिनामपि ।
प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम् ३।
मच्छक्त्यावेशितैर्व्विप्रैः प्रोक्तानि च ततः शृणु ।
कणादेन तु संप्रोक्तं शास्त्रं वैशेषिकं महत् ४।
गौतमेन तथा न्यायं सांख्यं तु कपिलेन वै ।
धिषणेन तथा प्रोक्तं चार्व्वाकमतिगर्हितम् ५।
दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा ।
बौद्धशास्त्रमसत्प्रोक्तं नग्ननीलपटादिकम् ६।
मायावादमसच्छास्त्रं प्रच्छन्नं बौद्ध उच्यते ।
मयैव कथितं देवि कलौ ब्राह्मणरूपिणा ७।
अपार्थं श्रुतिवाक्यानां दर्शयन्लोकगर्हितम् ।
स्वकर्म्मरूपं त्याज्यत्वमत्रैव प्रतिपाद्यते ८।
सर्वकर्म्मपरिभ्रष्टैर्वैधर्म्मत्वं तदुच्यते ।
परेशजीवपारैक्यं मया तु प्रतिपाद्यते ९।
ब्रह्मणोस्य स्वयं रूपं निर्गुणं वक्ष्यते मया ।
सर्वस्य जगतोऽप्यत्र मोहनार्थं कलौ युगे १०।
वेदार्थवन्महाशास्त्रं मायया यदवैदिकम् ।
मयैव कल्पितं देवि जगतां नाशकारणात् ११।
मदाज्ञया जैमिनिना पूर्वं वेदमपार्थकम् ।
निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् १२।
शास्त्राणि चैव गिरिजे तामसानि निबोध मे ।
पुराणानि च वक्ष्यामि तामसानि यथाक्रमात् १३।
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ।
तथैव नारदीयं तु मार्कण्डेयन्तु सप्तमम् १४।
आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं तथा ।
दशमं ब्रह्मवैवर्तं लिङ्गमेकादशं स्मृतम् १५।
द्वादशं च वराहं च वामनं च त्रयोदशम् ।
कौर्म्मं चतुर्दशं प्रोक्तं मात्स्यं पंचदशं स्मृतम् १६।
षोडशं गारुडं प्रोक्तं स्कंदं सप्तदशं स्मृतम् ।
अष्टादशं तु ब्रह्मांडं पुराणानि यथाक्रमम् १७।
मात्स्यं कौर्मं तथा लैड्गं शैवं स्कांदं तथैव च ।
आग्नेयं च षडेतानि तामसानि निबोध मे १८।
वैष्णवं नारदीयं च तथा भागवतं शुभम् ।
गारुडं च तथा पाद्मं वाराहं शुभदर्शने १९।
सात्विकानि पुराणानि विज्ञेयानि शुभानि वै ।
ब्रह्मांड ब्रह्मवैवर्त्तं मार्कंडेयं तथैव च २०।
भविष्यं वामनं ब्राह्मं राजसानि निबोध मे ।
सात्विका मोक्षदाः प्रोक्ता राजसाः सर्वदा शुभाः २१।
तथैव तामसा देवि निरयप्राप्तिहेतवः ।
तथैव स्मृतयः प्रोक्ता ऋषिभिस्त्रिगुणान्विताः २२।
सात्विका राजसाश्चैव तामसा शुभदर्शने ।
वासिष्ठं चैव हारीतं व्यासं पाराशरं तथा २३।
भारद्वाजं काश्यपं च सात्विका मुक्तिदाः शुभाः ।
याज्ञवल्क्यं तथात्रेयं तैत्तिरं दाक्षमेव च २४।
कात्यायनं वैष्णवं च राजसां स्वर्गदाः शुभाः ।
गौतमं बार्हस्पत्यं च सांवर्त्तं च यमं स्मृतम् २५।
साख्यं चौशनसं चेति तामसा निरयप्रदाः ।
किमत्र बहुनोक्तेन पुराणेषु स्मृतिष्वपि २६।
तामसा नरकायैव वर्जयेत्तान्विचक्षणः ।
एतत्ते सर्वमाख्यातं प्रसंगाच्छुभदर्शनम् ।
शेषां च प्रभवावस्थां हरेर्वक्ष्यामि ते शृणु २७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे तामसशास्त्रकथनंनाम षट्त्रिंशदधिकद्विशततमोऽध्यायः २३६ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 237
श्रीरुद्र उवाच-
हिरण्यक हिरण्याक्षौ काश्यपेयौ महाबलौ ।
दितिपुत्रौ महावीर्य्यौ सर्व्वदैत्यपती उभौ १।
नाम्ना तौ जयविजयौ श्वेतद्वीपे हरिं गतौ ।
तस्मिन्प्रविष्टयोगीन्द्रान्सनकादीन्महाबलौ २।
वारयामासतुर्देवि हरिसंदर्शनोत्सुकान् ।
तैः प्रशप्तौ महावीर्य्यौ द्वारपालौ सुरोत्तमौ ३।
सनकादय ऊचुः-
उत्सृज्य तत्पृथिव्यां च यातौ देवस्य किंकरौ ।
रुद्र उवाच-
इति शापं तयोर्दत्त्वा तत्र तस्थुर्मुनीश्वराः ४।
देवस्तमर्थं ज्ञात्वा च तानाहूय च तावपि ५।
तौ चोत्थायाब्रवीत्तत्र भगवान्भूतभावनः ।
भगवानुवाच-
कृतवंतौ महावीर्य्यावपराधं महात्मनाम् ६।
नातिक्रमणीयमिदं भवद्भ्यां द्वारपालकौ ।
दासत्वं सप्तजन्मानि युवां भक्तौ ममानघौ ७।
अमित्रतस्तथा त्रीणि जन्मानि भजतोऽपि वा ।
रुद्र उवाच-
इत्युक्तौ तौ महावीर्य्यावब्रूतां परमेश्वरम् ८।
जयविजयावूचतुः ।
चिरकालं महीं गंतुं न समर्थौ स्व मानद ।
तस्माद्वैराय जन्मानि विद्धि वां च व्रजावहे ९।
देवत्व यैव निहतो प्राप्स्यावो भवदंतिकम् ।
रुद्र उवाच-
इत्युक्त्वा द्वारपालौ तौ पूर्वं जातौ महाबलौ १०।
कश्यपस्य महावीर्य्यौ दितिगर्भे महासुरौ ।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षः कनिष्ठकः ११।
उभौ तौ लोकविख्यातौ महावीर्य्य बलोद्धतौ ।
अप्रमाणशरीरः स हिरण्याक्षो महोद्धतः १२।
उत्पाट्य बाहुसाहस्रैः पृथिवीं समहीधराम् ।
ससागरां द्वीपयुतां सर्व्वप्राणिसमन्विताम् १३।
उत्पाट्य शिरसा कृत्वा प्रविवेश रसातलम् ।
ततो देवगणाः सर्वे चुक्रुशुर्भयपीडिताः १४।
शरणं प्रययुर्देवं नारायणमनामयम् ।
ततस्तदद्भुतं ज्ञात्वा शंखचक्रगदाधरः १५।
वाराहरूपमास्थाय विश्वरूपं जनार्दनः ।
अनादिमध्यांतवपुः सर्वदेवमयो विभुः १६।
विश्वतः पाणिपच्चक्षुर्महादंष्ट्रो महाभुजः ।
दंष्ट्रैकया तु तं दैत्यं जघान परमेश्वरः १७।
संचूर्णितमहागात्रो ममार दितिजाधमः ।
पतितां धरणीं दृष्ट्वा दंष्ट्रयोद्धृत्य पूर्ववत् १८।
संस्थाप्य धारयामास शेषे कूर्म्मवपुस्तदा ।
तं दृष्ट्वा देवताः सर्व्वे क्रोडरूपं महाहरिम् ।
तुष्टुवुर्म्मुनयश्चैव भक्तिनम्रात्ममूर्त्तयः १९।
देवा ऊचुः-
नमो यज्ञवराहाय नमस्ते शतबाहवे ।
नमस्ते देवदेवाय नमस्ते विश्वरूपिणे २०।
नमः स्थितिस्वरूपाय सर्वयज्ञस्वरूपिणे ।
कलाकाष्ठानिमेषाय नमस्ते कालरूपिणे २१।
भूतात्मने नमस्तुभ्यमृग्वेदवपुषे तथा ।
सुरात्मने नमस्तुभ्यं सामवेदाय ते नमः २२।
ॐकाराय नमस्तुभ्यं यजुर्वेदस्वरूपिणे ।
ऋचःस्वरूपिणे चैव चतुर्वेदमयाय च २३।
नमस्ते वेदवेदाङ्ग सांगोपांगाय ते नमः ।
गोविंदाय नमस्तुभ्यमनादिनिधनाय च २४।
नमस्ते वेदविदुषे विशिष्टैकस्वरूपिणे ।
श्रीभूलीलाधिपतये जगत्पित्रे नमोनमः २५।
रुद्र उवाच-
इत्यादि स्तुतिभिः स्तुत्वा देवं वाराहरूपिणम् ।
अर्च्चयामासुरात्मेशं गंधपुष्पादिभिर्हरिम् २६।
समर्च्यमानस्तैर्देवैस्तेषामिष्टं वरं ददौ ।
गंधर्वैरप्सरोभिश्च गायमानो मुदा हरिः २७।
महर्षिभिः स्तूयमानस्तत्रैवांतरधीयत ।
एभिः स्तुत्वा नरो भक्त्या प्रातरुत्थाय भक्तिमान् २८।
ईप्सितांल्लभते भूमिं चिरं सस्यफलान्विताम् ।
एतत्ते सर्वमाख्यातं वाराहवैभवं हरैः ।
नारसिंहं तथा वक्ष्ये शृणु देवि वरानने २९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे।
वराहावतारकथनंनाम सप्तत्रिंशदधिकद्विशततमोऽध्यायः २३७ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 238
रुद्र उवाच-
भ्रातरं निहतं ज्ञात्वा हिरण्यकशिपुस्ततः ।
तपस्तेपे महादैत्यो मेरोः पार्श्वे च मां प्रति १।
दिव्यवर्षसहस्राणि वायुभक्षो महाबलः ।
जपन्पंचाक्षरं मंत्रं पूजयामास मां शुभे २।
ततः प्रहृष्टमनसा तमवोचं महासुरम् ।
वरं वृणीष्व दैतेय यत्ते मनसि वर्त्तते ।
ततः प्रोवाच दैतेयो मां प्रसन्नं शुभानने ३।
हिरण्यकशिपुरुवाच-
देवासुरमनुष्याणां गंधर्वोरगरक्षसाम् ।
पशुपक्षिमृगाणां च सिद्धानां वै महात्मनाम् ४।
यक्षविद्याधराणां च किन्नराणां तथैव च ।
सर्वेषामेव रोगाणामायुधानां तथैव च ।
सर्वेषामृषिमुख्यानामवध्यत्वं प्रयच्छ मे ५।
रुद्र उवाच-
एवमस्त्विति तद्रक्षस्त्वब्रुवं प्रियदर्शने ।
मत्तो महद्वरं प्राप्य स दैतेयो महाबलः ६।
जित्वा महेंद्रं देवांश्च स त्रैलोक्येश्वरोऽभवत् ।
सर्वांश्च यज्ञभागांश्च स्वयमेवाग्रहीद्बलात् ७।
त्रातारं नाधिगच्छंति देवतास्तेन निर्जिताः ।
तस्यैव किंकराः सर्वे गंधर्वा देवदानवाः ८।
यक्षाश्चनागाः सिद्धाश्च साध्याश्च वशवर्तिनः ।
उत्तानपादस्य सुतां कल्याणीं नाम कन्यकाम् ९।
उपयेमे विधानेन दैत्यराजो महाबलः ।
तस्यां जातो महातेजाः प्रह्लादो दैत्यराट्शुभे १०।
अनुरक्तो हृषीकेशे गर्भवासेऽपि यो हरौ ।
सर्वावस्थासु कृत्येषु मनोवाक्कायकर्म्मभिः ११।
नान्यं जानाति देवेशात्प्रसन्नात्मा सनातनात् ।
स कालेऽपि विनीतः सन्गुरुगेहे वसत्सुधीः १२।
अधीत्य सर्ववेदांश्च शास्त्राणि विविधानि च ।
कस्यचित्त्वथ कालस्य गुरुणा सह दैत्यजः १३।
पितुः समीपमागत्य ववंदे विनयान्वितः ।
तं परिष्वज्य बाहुभ्यां तनयं शुभलक्षणम् ।
अंके निधाय दैत्येंद्रः प्रोवाचेदं सुविस्मितम् १४।
हिरण्यकशिपुरुवाच-
प्रह्लाद चिरकालं त्वं गुरुगेहे निवेशितः ।
यदुक्ता गुरुणा विद्या तन्ममाचक्ष्व सुव्रत १५।
रुद्र उवाच-
इति पृष्टः स्वपित्रा वै प्रह्लादो जन्मवैष्णवः ।
प्राह दैत्येश्वरं प्रीत्या वचनं कलुषापहम् १६।
प्रह्लाद उवाच-
यो वै सर्वोपनिषदामर्थः पुरुष ईश्वरः ।
तं वै सर्वगतं विष्णुं नमस्कृत्वा ब्रवीमि ते १७।
रुद्र उवाच-।
इति विष्णुस्तुतिं श्रुत्वा दैत्यराड् विस्मयान्वितः ।
उवाच तं गुरुं रोषात्किं त्वयोक्तं ममात्मजे १८।
ममात्मजस्य दुर्बुद्धे हरिसंस्तवमीदृशम् ।
किमर्थमुक्तवान्जाड्यमकार्य्यं ब्राह्मणोचितम् १९।
अश्राव्यं मदमित्रस्य स्तवमेतं ममाग्रतः ।
बालेनापिकृतंत्वेतत्त्वत्प्रसादाद्दिवजाधम २०।
इत्युक्त्वा परितो वीक्ष्य दैत्यराट्क्रोधमूर्च्छितः ।
उवाच दैत्यमेकं तु बंधयैनं द्विजाधमम् २१।
इतिराजवचः श्रुत्वा स बबंध भृगोः सुतम् ।
बध्यमानं गुरुं दृष्ट्वा प्रह्लादो ब्राह्मणप्रियः ।
उवाच पितरं तात इदं मे नोक्तवान्गुरुः २२।
कृपया देवदेवस्य शिक्षितोस्मि हरेः प्रभो ।
नान्यो गुरुर्मे भवति स एव प्रेरको हरिः २३।
श्रोता मंता तथा वक्ता द्रष्टा सर्वग ईश्वरः ।
हरिरेवाक्षयः कर्त्ता नियंता सर्वदेहिनाम् ।
तस्मादनागसो विप्रो मोक्तव्योऽयं गुरुः प्रभो २४।
रुद्र उवाच-
इति पुत्रवचः श्रुत्वा हिरण्यकशिपुस्ततः ।
तं ब्राह्मणं मोचयित्वा स्वसुतं प्राह विस्मयात् २५।
किं वत्स त्वं भ्रमस्येवं मिथ्यावाक्यैर्द्विजन्मनः ।
को विष्णुः किं तु तद्रूपं कुत्रासौ संस्थितो हरिः २६।
अहमेवेश्वरो लोके त्रैलोक्याधिपतिर्यतः ।
मामेवार्च्चय गोविंदं त्यज शत्रुं दुरासदम् २७।
अथवा शंकरं देवं रुद्रं लोकगुरुं प्रभुम् ।
अर्च्चयस्वासुराध्यक्षं सर्वैश्वर्य्यप्रदं शिवम् २८।
त्रिपुंड्रधारणं कृत्वा भस्मना दैत्यपूजितम् ।
पूजयित्वा महादेवं पाशुपत्योक्तमार्गतः २९।
रुद्र उवाच-
इति दैत्यपतेर्वाक्यं श्रुत्वा दैत्यपुरोहिताः ३०।
पुरोहिता ऊचुः-
एवमेव महाभाग कुरुष्व वचनं पितुः ।
त्यज शत्रुं कैटभारिं पूजयस्व त्रिलोचनम् ३१।
रुद्रात्परतरो देवो नास्ति सर्वप्रदो नॄणाम् ।
पिता तवापि तस्यैव प्रसादादीश्वरोऽभवत् ३२।
रुद्र उवाच-
इति तेषां वचः श्रुत्वा प्रह्लादो जन्मवैष्णवं ३३।
प्रह्लाद उवाच-
अहो भगवतः श्रेष्ठा यन्माया मोहितं जगत् ।
अहो वेदांतविदुषः सर्वलोकेषु पूजिताः ३४।
ब्राह्मणा अपि चापल्याद्वदंत्येवं मदान्विताः ।
नारायणः परं ब्रह्म तत्वं नारायणः परम् ३५।
नारायणः परो ध्याता ध्यानं नारयणः परम् ।
गतिर्विश्वस्य जगतः शाश्वतं शिवमच्युतः ३६।
धाता विधाता जगतो वासुदेवः सनातनः ।
विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ३७।
हिरण्मयवपुर्नित्यःपुंडरीकनिभेक्षणः ।
श्रीभूलीलापतिः सौम्योनिर्म्मलः शुभविग्रहः ३८।
तेनैव सृष्टौ ब्रह्मेशौ सर्गे देवोत्तमौ विभू ।
तस्यैवाज्ञां पुरस्कृत्य वर्त्तेते ब्रह्मशंकरौ ३९।
भीषास्माद्वाति पवनो भीषोदेति दिवाकरः ।
भीषास्मादग्निश्चंद्रोऽथ मृत्युर्धावति पंचमः ४०।
आसीदेको हरिर्दिव्यो देवो नारायणः परः ।
ब्रह्मा नेंद्रो न चेशानो न च चंद्र दिवाकरौ ४१।
न वा द्यावापृथिव्यौ च नक्षत्राणि दिवौकसः ।
तस्य विष्णोः परं धाम सदा पश्यंति सूरयः ४२।
एवं सर्वोपनिषदामर्थं हित्वा द्विजोत्तमाः ।
रागाल्लोभाद्भयाद्वापि किं ब्रवीथ ममाग्रतः ४३।
तं सर्वरक्षकं देवं त्यक्त्वा सर्वेश्वरं हरिम् ।
कथं पाषंडमाश्रित्य पूजयामि च शंकरम् ४४।
लक्ष्मीपतिं देवदेवमनंतं पुरुषोत्तमम् ।
इंदीवरदलश्यामं पद्मपत्रायतेक्षणम् ४५।
श्रीवत्सलक्षितोरस्कं सर्व्वाभरणभूषितम् ।
सदा कुमारं सर्व्वेशं नित्यानन्दसुखप्रदम् ४६।
कृष्णं दध्युर्महात्मानो योगिनः सनकादयः ।
यमर्चयंति ब्रह्मेश शक्राद्या देवतागणाः ४७।
यस्य पत्न्याः कटाक्षार्द्धदृष्ट्या दृष्टा दिवौकसः ।
ब्रह्मेंद्र रुद्र वरुण यम सोम धनाधिपाः ४८।
यन्नामस्मरणादेव पापिनामपि सत्वरम् ।
मुक्तिर्भवति जंतूनां ब्रह्मादीनां सुदुर्लभा ४९।
स एवं रक्षकः श्रीशो देवानामपि सर्वदा ।
तमेव पूजयिष्यामि लक्ष्म्या संयुतमच्युतम् ५०।
प्राप्स्यामि सुसुखेनैव तद्विष्णोः परमं पदम् ।
रुद्र उवाच-
इति तस्य वचः श्रुत्वा हिरण्यकशिपुस्ततः ५१।
क्रोधेन महताविष्टो जज्वालाग्निरिवापरः ।
परितो वीक्ष्य दैतेयानित्याह क्रोधमूर्छितः ५२।
हिरण्यकशिपुरुवाच -
भीषणैः शस्त्रसंघातैः प्रह्लादं पापकारिणम् ।
ममाज्ञया घातयध्वं शत्रुपूजनतत्परम् ५३।
रक्षिता हरिरेवेति रक्षते तेन वात्सलात् ।
अद्यैव सफलं तस्य पश्येयं हरिरक्षणम् ५४।
रुद्र उवाच-
तदोद्यतास्त्रा दैतेया हंतुं दैत्येश्वरात्मजम् ।
परिवार्य महात्मानं तस्थुर्दैत्येश्वराज्ञया ५५।
प्रह्लादोऽपि तथा विष्णुं ध्यात्वा हृदयपंकजे ।
जपन्नष्टाक्षरं मंत्रं तस्थौ गिरिरिवापरः ५६।
तं जघ्नुः परितो वीराः शूलतोमरशक्तिभिः ।
प्रह्लादस्य वपुस्तत्र हरिसंस्मरणाच्छुभे ५७।
विष्णोः प्रभावाद्दुद्धर्षाद्वज्रभूतमभूद्भृशम् ।
ततः संप्राप्य तद्गात्रं महास्त्राणि सुरद्विषाम् ५८।
नीलोत्पलदलानीव पेतुश्चिछन्नाः क्षितौ शुभे ।
अल्पमप्यस्य तद्गात्रं भेत्तुं दैत्या न च क्षमाः ५९।
विस्मितावाङ्मुखास्तस्थुर्दैत्य राजांतिके भटाः ।
तादृग्विधं महात्मानं दृष्ट्वा पुत्रं महाबलम् ६०।
विस्मयं परमं गत्वा दैत्यराट्क्रोधमूर्छितः ।
आदिदेश ततः सर्वान्दंदशूकान्महाविषान् ६१।
वासुकिप्रभृतीन्भीमान्खादयध्वमिति क्रुधा ।
आदिष्टास्तेन राज्ञाथ ते नागाः सुमहाबलाः ६२।
ज्वलितास्या महाभीमास्तं च खादुर्महाबलम् ।
गरुडध्वजभक्तं तं विदश्य गरलायुधाः ६३।
निर्विषाश्च्छिन्नदशना बभूवुरनिलाशनाः ।
वैनतेयसहस्रेण छिन्नगात्राः सुविह्वलाः ६४।
प्रदुद्रुवुर्दिशः सर्वावमंतो रुधिरं भृशम् ।
तादृग्विधान्महासर्पान्दृष्ट्वा दैत्यपतिस्तदा ६५।
आदिदेश ततः क्रुद्धो दिग्गजान्सुमदान्वितान् ।
निर्दिष्टास्तेन राज्ञाथ दिग्गजाश्च मदोद्धताः ६६।
परिवार्याथ तं जघ्नुर्दंतैः पृथुतरैर्भृशम् ।
अथ दिग्गजदंताश्च छिन्नमूलाः पतन्भुवि ६७।
दंतैर्विनाकृता नागा भयार्ता वै प्रदुद्रुवुः ।
तान्दृष्ट्वाथ महानागान्दैत्येंद्रः कुपितो बली ६८।
प्रज्वाल्य च महावह्निं चिक्षेप सुतमात्मनः ।
जलशायिप्रियं दृष्ट्वा प्रह्लादं हव्यवाहनः ६९।
न ददाह च तं धीरं सुशीतः समभूच्छिखी ।
अदह्यमानं तं बालं दृष्ट्वा राजा सुविस्मितः ७०।
प्रादात्तस्मै विषं घोरं सर्वभूतहितं तदा ।
तस्य विष्णोः प्रभावाच्च विषमस्यामृतं भवेत् ७१।
अर्पणात्तस्य देवस्य विषं चामृतमश्नुते ।
एवमाद्यैर्वधोपायैर्घोररूपैः सुदारुणैः ७२।
मोहयित्वात्मजं राजा तस्यावध्यत्वमीक्ष्य च ।
ततः साम्ना सुतं प्राह दैत्यराड्विस्मयाकुलः ७३।
हिरण्यकशिपुरुवाच-
त्वया विष्णोः परत्वं च सम्यगुक्तं ममाग्रतः ।
व्यापित्वात्सर्वभूतानां विष्णुरित्यभिधीयते ७४।
योऽसौ सर्वगतो देवः स एव परमेश्वरः ।
तस्य सर्वगतत्वं वै प्रत्यक्षं दर्शयस्व मे ७५।
ऐश्वर्यशक्तितेजांसि ज्ञानवीर्यबलानि च ।
परस्य तस्य परमं रूपं गुणविभूतयः ७६।
सम्यग्दृष्ट्वा प्रयत्नेन विष्णुं मन्ये दिवौकसाम् ।
मम प्रतिबलो लोके नास्ति देवेषु कश्चन ७७।
ईशानवरदानेन सर्वभूतेष्ववध्यताम् ।
प्राप्तवान्सर्वभूतानांनदुर्जयत्वं च मानद ।
ईश्वरत्वं लभेद्विष्णुर्मां जित्वा बलवीर्यतः ७८।
रुद्र उवाच-
इति तस्य वचः श्रुत्वा प्रह्लादः प्राह विस्मितः ।
हरेः प्रभावं दैन्यस्य कथयामास सुव्रतः ७९।
प्रह्लाद उवाच-
योऽसौ नारायणः श्रीमान्परमात्मा सनातनः ।
वसनात्सर्वभूतेषु वासुदेवः स उच्यते ८०।
सर्वस्यापि जगद्धाता विष्णुरित्यभिधीयते ।
न किंचिदस्मादन्यं तु जगत्स्थावर जंगमम् ८१।
सर्वत्र चिदचिद्वस्तु रूपं तस्यैव नान्यथा ।
त्रिपाद्व्याप्तिः परं व्योम्नि पादव्याप्ति कलाद्भुता ८२।
योऽसौ चक्रगदापाणिः पीतवासा जनार्दनः ।
योगिभिर्दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् ८३।
द्रष्टुं न शक्यो रोषाच्च मत्सराद्वा जनार्दनः ।
देवतिर्यङ्मनुष्येषु स्थावरेष्वपि जंतुषु ।
व्याप्य तिष्ठति सर्व्वेषु क्षुद्रेष्वपि महत्सु च ८४।
रुद्र उवाच-
इति प्रह्लादवचनं श्रुत्वा दैत्यवरस्तदा ।
उवाच रोषताम्राक्षो भर्त्सयंश्च सुतं मुहुः ८५।
हिरण्यकशिपुरुवाच-
असौ सर्वगतो विष्णुरपि चेत्परमः पुमान् ।
प्रत्ययं दर्शयस्वाद्य बहुभिः किं च लापितैः ८६।
महादेव उवाच-।
इत्युक्त्वा सहसा दैत्यः प्रासादस्तंभमात्मनः ।
ताडयामास हस्तेन प्रह्लादमिदमब्रवीत् ८७।
हिरण्यकशिपुरुवाच-
अस्मिन्दर्शय तं विष्णुं यदि सर्वगतो भवेत् ।
अन्यथा त्वां वधिष्यामि मिथ्यावाक्यप्रलापिनम् ८८।
रुद्र उवाच-
इत्युक्त्वा सहसा खङ्गमाकृष्य दितिजेश्वरः ।
प्रह्लादोरसि चिक्षेप हंतुं खङ्गेन तं रुषा ८९।
तस्मिन्क्षणे महाशब्दः स्तंभे संश्रूयते भृशम् ।
संवर्ताशनिसंरावैः खमिव स्फुटितांतरम् ९०।
तेन शब्देन महता दैत्यश्रोत्रविघातिना ।
सर्वे निपातिता भूमौ छिन्नमूला इव द्रुमाः ९१।
बिभ्यंतः संप्लुतं दैत्या मेनिरे वै जगत्त्रयम् ।
ततः स्तंभे महातेजा निष्क्रांतो वै महाहरिः ९२।
चकार स महाघोरं जगत्क्षयनिभं स्वनम् ।
तेन नादेन महता तारकाः पतिता भुवि ९३।
नृसिंहवपुरास्थाय तत्रैवाविरभूद्धरिः ।
अनेककोटिसूर्य्याग्नि तेजसा स समावृतः ९४।
मुखे पंचाननप्रख्यः शरीरे मानुषाकृतिः ।
दंष्ट्राकरालवदनः स्फुरज्जिह्वाम्बरोद्धतः ९५।
ज्वालावलितकेशांतस्तप्तालातेक्षणो विभुः ।
सहस्रबाहुभिर्दीर्घैः सर्वायुधसमन्वितैः ९६।
वृतो मेरुरिवाभाति बहुशाखानगान्वितः ।
दिव्यमाल्यांबरधरो दिव्याभरणभूषितः ९७।
तस्थौ नृकेसरीरूपः संहर्त्तुं सर्वदानवान् ।
तं दृष्ट्वा घोरसंकाशं नरसिंहं महाबलम् ९८।
दग्धाक्षिपक्ष्मो दैत्येंद्रो विह्वलांगः पपात ह ।
प्रह्लादोऽथ तदा दृष्ट्वा नारसिंहोपमं हरिम् ९९।
जयशब्देन देवेशं नमश्चक्रे जनार्दनम् ।
ददर्श तस्य गात्रेषु नृसिंहस्य महात्मनः १०० 6.238.100।
लोकान्समुद्रा न्सद्वीपान्सुरगंधर्वमानुषान् ।
अजांडानां सहस्रं तु सटाग्रे तस्य दृश्यते १०१।
दृश्यंते तस्य नेत्रेषु सोमसूर्य्यादयस्तथा ।
कर्णयोरश्विनौ देवौ दिशश्च विदिशस्तथा १०२।
ललाटे ब्रह्मरुद्रौ च नभो वायुश्च नासिके ।
इंद्राग्नी तस्य वक्त्रांतेजिह्वायां तु सरस्वती १०३।
दंष्ट्रासु सिंहशार्दूलाः शरभाश्च महोरगाः ।
कंठे च दृश्यते मेरुः स्कंधेष्वपि महाद्रयः १०४।
देवतिर्य्यङ्मनुष्याश्च बाहुष्वपि महात्मनः ।
नाभौ चास्यांतरिक्षं च पादयोः पृथिवीतथा १०५।
रोमस्वोषधयः सर्वाः पादपा नखपंक्तिषु ।
निःश्वासेषु च वेदाश्च साङ्गोपाङ्गसमन्विताः १०६।
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।
सर्वाङ्गेषु प्रदृश्यंते गंधर्वाप्सरसश्च ये १०७।
इत्थं विभूतयस्तस्य दृश्यंते परमात्मनः ।
श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् १०८।
शंखचक्रगदाखङ्ग शार्ङ्गाद्यैर्हेतिभिर्युतम् ।
सर्वोपनिषदामर्थं दृष्ट्वा दैत्येश्वरात्मजः १०९।
हर्षाश्रुजलसिक्तांगः प्रणनाम मुहुर्मुहुः ।
दैत्येंद्रस्तु हरिं दृष्ट्वा क्रोधान्मृत्युवशे स्थितः ११०।
योद्धुं खङ्गं समुद्यम्य नृसिंहं तमभिद्रवत् ।
अथ दैत्यगणाः सर्व्वे लब्धसंज्ञा महाबलाः १११।
स्वान्यायुधानि चादाय हरिं जघ्नुस्त्वरान्विताः ।
पलालकाण्डानि यथा वह्नौ क्षिप्तान्यनेकशः ११२।
तथैव भस्मतां यांति महास्त्राणि हरेस्तनौ ।
तान्यनीकानि दैत्यानां दृष्ट्वा नरहरिस्तदा ११३।
सटैर्ददाह च ज्वालामालाविरचित स्फुटैः ।
नृकेसरि सटोद्भूतवह्निना दानवा भृशम् ११४।
निर्भस्मिता गणाः सर्वे निःशेषं तदभूद्बलम् ।
प्रह्लादं सानुगं हित्वा भस्मिते वीक्ष्य तद्बले ११५।
क्रोधाद्दैत्यपतिः खङ्गमाकृष्याभिप्रपद्यत ।
खङ्गहस्तं तु दैत्येंद्रं जग्राहैकेन बाहुना ११६।
पातयामास देवेशो यथा शाखां महानिलः ।
गृहीत्वा पतितं भूमौ महाकायं नृकेसरी ११७।
स्वोत्संगे स्थापयामास ददर्शासौ मुखं हरेः ।
विष्णुनिंदाकृतंपापंतथावैष्णवदोषजम् ११८।
नृसिंहस्पर्शनादेवनिर्भस्मितमभूत्तदा ।
अथदैत्येश्वरस्याथमहद्गात्रंनृकेसरी ११९।
नखेर्विदारयामासतीक्ष्णैर्वज्रनिभैर्घनैः ।
सनिर्म्मलात्मादैत्येंद्र पःश्यन्साक्षान्मुखं हरेः १२०।
नखनिर्भिन्नहृदयः कृतार्थो विजहावसून् ।
तद्गात्रं शतधा भित्त्वा नखैस्तीक्ष्णैर्महाहरिः १२१।
आकृष्यांत्राणि दीर्घाणि कंठे संसक्तवान्प्रियान् ।
अथ देवगणाः सर्व्वे मुनयश्च तपोधनाः १२२।
ब्रह्मरुद्रौ पुरस्कृत्य शनैः स्तोतुं समाययुः ।
ते प्रसादयितुं भीता ज्वलंतं विश्वतोमुखम् १२३।
मातरं जगतां धात्रीं चिंतयामासुरीश्वरीम् ।
हिरण्यवर्णां हरिणीं सर्व्वोपद्रवनाशिनीम् १२४।
विष्णोर्नित्यानवद्यांगीं ध्यात्वा नारायणीं शुभाम् ।
देवीसूक्तजपैर्भक्त्या नमश्चक्रुः सनातनीम् १२५।
तैश्चिंत्यमाना सा देवी तत्रैवाविरभूत्तदा ।
चतुर्भुजा विशालाक्षी सर्वाभरणभूषिता १२६।
दुकूलवस्त्रसहितां दिव्यमालानुलेपनाम् ।
तां दृष्ट्वा देवदेवस्य प्रियां सर्वे दिवौकसः १२७।
ऊचुः प्रांजलयो देवीं प्रसन्नं कुरुते प्रियम् ।
त्रैलोक्यस्याभयं स्वामी यथा दद्यात्तथा कुरु १२८।
रुद्र उवाच-
इत्युक्ता सहसा देवी प्रियं प्राप्य जनार्दनम् ।
प्रणिपत्य नमस्कृत्य प्रसीदेति उवाच तम् १२९।
तां दृष्ट्वा महिषीं स्वस्य प्रियां सर्व्वेश्वरो हरिः ।
रक्षःशरीरजं क्रोधं तत्याज प्रीतवत्क्षणात् १३०।
अंकमादाय तां देवीं समाश्लिष्य दयानिधिः ।
कृपासुधार्द्रदृष्ट्या वै निरैक्षत सुरान्हरिः १३१।
ततो जयजयेत्युच्चैः स्तुवतां नमतां तदा ।
तद्दयादृष्टिदृष्टानां सानंदः संभ्रमोऽभवत् १३२।
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ।
ऊचुः प्रांजलयो देवं नमस्कृत्य जगत्पतिम् १३३।
देवगणा ऊचुः -
द्रष्टुमत्यद्भुतं तेजो न शक्तास्ते जगत्पते ।
अत्यद्भुतमिदं रूपं बहुबाहुपदांकितम् १३४।
जगत्त्रयसमाक्रांतं तेजस्तीक्ष्णतरं तव ।
द्रष्टुं स्थातुं न शक्ताः स्मः सर्व्व एव दिवौकसः १३५।
महादेव उवाच-।
इत्यर्थितस्तु विबुधैस्तेजस्तदतिभीषणम् ।
उपसंहृत्य देवेशो बभूव सुखदर्शनः १३६।
शरत्कोटींदुसंकाशः पुंडरीकनिभेक्षणः ।
सुधामय सटापुंज विद्युत्कोटिनिभः शुभः १३७।
नानारत्नमयैर्दिव्यैः केयूरैः कटकान्वितैः ।
बाहुभिः कल्पवृक्षस्य शाखौघैरिव सत्फलैः १३८।
चतुर्भिः कोमलैर्दिव्यैरन्वितः परमेश्वरः ।
जपाकुसुमसंकाशैः शोभितः करपंकजैः १३९।
शंखचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितः ।
वरदाभयहस्ताभ्यामितराभ्यां नृकेसरी १४०।
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः ।
उद्यद्दिनकाराभ्यां च कुण्डलाभ्यां विराजितः १४१।
हारकेयूरकटकैर्भूषणैः समलंकृतः ।
सव्यांगस्थ श्रियायुक्तो राजते नरकेसरी १४२।
लक्ष्मीनृसिंहं तं दृष्ट्वा देवताः समहर्षयः ।
आनन्दाश्रुजलैः सिक्ता हर्षनिर्भरचेतसः १४३।
आनंदसिंधुमग्नास्ते नमश्चक्रुर्निरंतरम् ।
अर्चयामासुरात्मेशं दिव्यपुष्पसमर्पणैः १४४।
रत्नकुंभैः सुधापूर्णैरभिषिच्य सनातनम् ।
वस्त्रैराभरणैर्गंधैः पुष्पैर्धूपैर्म्मनोरमैः १४५।
दिव्यैर्निवेदितैर्दीपैरर्च्चयित्वा नृकेसरिम् ।
तुष्टुवुः स्तवनैर्दिव्यैर्नमश्चक्रुर्म्मुहुर्म्महुः १४६।
ततः प्रसन्नो लक्ष्मीशस्तेषामिष्टान्वरान्ददौ ।
ततो देवगणैः सार्धं सर्व्वेशो भक्तवत्सलः १४७।
प्रह्लादं सर्वदैत्यानां चक्रे राजानमव्ययम् ।
आश्वास्य भक्तं प्रह्लादमभिषिच्य सुरोत्तमैः १४८।
ददौ तस्मै वरानिष्टान्भक्तिं चाव्यभिचारिणीम् ।
ततो देवगणैः सर्वैः स्तूयमानो नृकेसरी १४९।
विकीर्णपुष्पवपुभिस्तत्रैवांतरधीयत ।
ततः सुरगणाः सर्वे स्वंस्वं स्थानं प्रपेदिरे १५०।
पुनश्च यज्ञभागान्स्वान्बुभुजुः प्रीतमानसाः ।
ततो देवाः सगंधर्वा निरातंकाभवंस्तदा १५१।
तस्मिन्हते महादैत्ये सर्व एव प्रहर्षिताः ।
प्रह्लादस्तु तदा चक्रे राज्यं धर्मेण वैष्णवः १५२।
हरेः प्रसादाल्लब्धं तु राज्यं वैष्णवसत्तमः ।
बहुभिर्यज्ञदानाद्यैरर्चयित्वा नृकेसरिम् १५३।
काले हरिपदं प्राप योगिगम्यं सनातनम् ।
एतत्प्रह्लादचरितं ये तु शृण्वंति नित्यशः १५४।
ते सर्वेपापनिर्मुक्ता यास्यंति परमां गतिम् ।
एतत्ते कथितं देवि नृसिंहं वैभवं हरेः ।
शेषां च वैभवावस्थां शृणु देवि यथाक्रमम् १५५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां सहिंतायामुत्तरखंडे उमामहेश्वरसंवादे नृसिंहप्रादुर्भावोनामाष्टत्रिंशदधिकद्विशततमोऽध्यायः २३८।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 239
रुद्र उवाच-
प्रह्लादस्य सुतो जज्ञे विरोचन इतीरितः ।
तस्य पुत्रो महाबार्हुबलिर्वैश्वानरः प्रभुः १।
स तु धर्मविदां श्रेष्ठः सत्यसंधो जितेंद्रियः ।
हरेः प्रियतमो भक्तो नित्यं धर्मरतः शुचिः २।
स जित्वा सकालान्देवान्सेंद्रांश्च समरुद्गणान् ।
त्रींल्लोकान्स्ववशे स्थाप्य राज्यं चक्रे महाबलः ३।
अकृष्टपच्या पृथिवी बहुसस्यफलप्रदा ।
गावः पूर्णदुघाः सर्वाः पादपाः फलपुष्पिताः ४।
स्वधर्म्मनिरताः सर्वे नराः पापविवर्जिताः ।
अर्चयंति हृषीकेशं सततं विगतज्वराः ५।
एवं चकार धर्मेण राज्यं दैत्यपतिर्बली ।
इंद्रादित्रिदशास्तस्य किंकराः समुपस्थिताः ६।
ऐश्वर्यं त्रिषु लोकेषु बुभुजे बलदर्प्पहृत् ।
भ्रष्टराज्यं सुतं दृष्ट्वा तस्यापि हितकाम्यया ७।
कश्यपो भार्यया सार्द्धं तपस्तेपे हरिं प्रति ।
अदित्या सह धर्मात्मा पयोव्रतसमन्वितः ८।
अर्चयामास देवेशं पद्मनाभं जनार्दनम् ।
ततो वर्षसहस्राणि तेन संपूजितो हरिः ९।
तत्रैवाविरभूत्तस्य देव्या सह सनातनः ।
तं दृष्ट्वा पुंडरीकाक्षं शंखचक्रगदाधरम् १०।
इंद्रनीलमणिश्यामं सर्वाभरणभूषितम् ।
स्फुरत्किरीटकेयूरहारकुंडलशोभितम् ११।
कौस्तुभोद्भासितोरस्कं पीतवस्त्रेण वेष्टितम् ।
श्रिया सह समासीनं मंडलेंद्रे महात्मनि १२।
तं दृष्ट्वा जगतामीशं हर्षनिर्भरचेतसा ।
पत्न्या सह नमस्कृत्वा तुष्टाव द्विजसत्तमः १३।
कश्यप उवाच-
नमो नमस्ते लक्ष्मीश सर्वज्ञ जगदीश्वर ।
सर्वात्मन्सर्वदेवेश सृष्टिसंहारकारकः १४।
अनादिनिधनानंतवपुषे विश्वधारिणे ।
नमस्ते वेदवेदांग वपुषे सर्वचक्षुषे १५।
सर्वात्मने नमस्तुभ्यं नमः सूक्ष्मतराय च ।
कल्याणगुणपूर्णाय योगिध्येयात्मने नमः १६।
नमो युवकुमाराय श्रीभूलीलाधिपाय च ।
नित्यमुक्तैकभोगाय परधाम्नि स्थिताय च १७।
चतुरात्मन्नमस्तुभ्यं चतुर्व्यूह नमोस्तु ते ।
पंचावस्थाय ते तुभ्यं नमस्ते पंचमात्मकम् १८।
पंचमात्मकनिष्ठैस्तु योगिभिः पूज्यसे सदा ।
पंचार्थतत्वविदुषां पंचसंस्कारसंस्थितः १९।
पंचापरं स्वरूपं ते विज्ञेयं सततं हरे ।
चतुर्धा परिपूर्णात्मन्नियतं कवयो विदुः २०।
त्वत्प्रसूतिं जगत्सर्वं पुनंति तव किंकराः ।
त्रयीमयाः कर्म्मनिष्ठा ये द्विजा भक्तवत्सलाः २१।
तेषां दये क्षणादेव भवबंधविमुक्तये ।
नमोस्तु त्रिजगद्धात्रे स्वयं धात्रेऽखिलात्मने २२।
धात्रे विधात्रे विश्वाय विश्वरूपाय ते नमः ।
नारायणाय कृष्णाय वासुदेवाय शार्ङ्गिणे ।
विष्णवे जिष्णवे तुभ्यं शुद्धसत्वाय ते नमः २३।
महादेव उवाच-
इत्यादिस्तुतिभिः सम्यक्स्तूयमानो महर्षिणा ।
प्राह गंभीरया वाचा परितुष्टो जनार्दनः २४।
श्रीभगवानुवाच-
संतुष्टोऽहं द्विजश्रेष्ठ त्वया भक्त्या समर्च्चितः ।
वरं वृणीष्व भद्रं ते करोमि तव वांछितम् २५।
महादेव उवाच-
ततः प्राह हृषीकेशं भार्य्यया सह कश्यपः २६।
कश्यप उवाच-
पुत्रत्वं मम देवेश संप्राप्य त्रिदशां हितम् ।
कुरुष्व बलिना देव त्रैलोक्यं निर्जितं बलात् २७।
इंद्रस्यावरजो भूत्वा उपेंद्र इति विश्रुतः ।
येनकेन च मार्गेण बलिं निर्जित्य मायया ।
त्रैलोक्यं मम पुत्राय देहि शक्राय शाश्वतम् २८।
महादेव उवाच-
इत्युक्तस्तेन विप्रेण तथेत्याह जनार्द्दनः ।
संस्तूयमानस्त्रिदशैस्तत्रैवांतरधीयत २९।
एतस्मिन्नेव काले तु कश्यपस्य महात्मनः ।
अदित्यागर्भमागच्छद्भगवान्भूतभावनः ३०।
तस्मिन्काले बलिर्यागं दीर्घसत्रं महातपाः ।
अष्टमहर्षिभिं सार्द्धमारेभे तद्विधानतः ३१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे वामनप्रादुर्भावोनामैकोनचत्वारिंशदधिकद्विशततमोऽध्यायः २३९।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 240
श्रीमहादेव उवाच-
अथ वर्षसहस्रांते सर्वलोकमहेश्वरम् ।
अदितिर्जनयामास वामनं विष्णुमच्युतम् १।
श्रीवत्सकौस्तुभोरस्कं पूर्णेंदुसदृशद्युतिम् ।
सुन्दरं पुंडरीकाक्षमतिखर्वतनुं हरिम् २।
वटुवेषधरं देवं सर्ववेदांगगोचरम् ।
मेखलाजिनदण्डादि चिह्नैरंकितमीश्वरम् ३।
तं दृष्ट्वा देवताः सर्वे शतक्रतुपुरोगमाः ।
स्तुत्वा महर्षिभिः सार्द्धं नमश्चक्रुर्महौजसम् ४।
ततः प्रसन्नो भगवान्प्रोवाच सुरसत्तमान् ।
वामन उवाच-
किं कर्तव्यं मया चाद्य तद्ब्रवीथ सुरोत्तमाः ५।
श्रीशंकर उवाच-।
ततः प्रहृष्टास्त्रिदशास्तमूचुः परमेश्वरम् ।
देवा ऊचुः ।
अस्मिन्काले बलेर्यज्ञो वर्त्तते मधुसूदन ६।
अप्रत्याख्यानकालोऽयं तस्य दैत्यपतेः प्रभो ।
याचित्वा त्रिदिवं लोकं तन्नस्त्वं दातुमर्हसि ७।
शंकर उवाच-
इत्युक्तास्त्रिदशैस्सर्वैराजगाम बलिं हरिः ।
यागदेशे समासीनमृषिभिस्सार्द्धमष्टभिः ८।
अभ्यागतं तु तं दृष्ट्वा सहसोत्थाय दैत्यराट् ।
अभ्यागतः स्वयं विष्णुरितिहास समन्वितः ९।
पूजयामास विधिना निवेश्य कुसुमासने ।
प्रणिपत्य नमस्कृत्य प्राह गद्गदया गिरा १०।
बलिरुवाच-
धन्योऽस्मि कृतकृत्योस्मि सफलं मम जीवितम् ।
त्वामर्च्चयित्वा विप्रेंद्र किं करोमि तव प्रियम् ११।
आगतोऽसि यदर्थं त्वं मामुद्दिश्य द्विजोत्तमः ।
तत्प्रयच्छामि ते शीघ्रं ब्रूहि वेदविदां वर १२।
शंकर उवाच-
ततः प्रहृष्टमनसा तमुवाच महीपतिम् ।
वामन उवाच-
शृणु राजेंद्र वक्ष्यामि ममागमनकारणम् १३।
अग्निकुण्डस्य पृथिवीं देहि दैत्यपते मम ।
मम त्रिविक्रमपदां नान्यदिच्छामि मानद १४।
सर्वेषामेव दानानां भूमिदानमनुत्तमम् ।
यो ददाति महीं राजा विप्रायाकिंचनाय वै १५।
अंगुष्ठमात्रामपि वा स भवेत्पृथिवीपतिः ।
न भूमिदानसदृशं पवित्रमिह विद्यते १६।
भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति ।
उभौ तौ पुण्यकर्म्माणौ निधने स्वर्गगामिनौ १७।
तस्माद्भूमिं महाराज प्रयच्छ त्रिपदीं मम ।
एतदल्पां महीं दातुं मा विशंक महीपते ।
जगत्त्रयप्रदानं तन्नाम भूप भविष्यति १८।
शंकर उवाच-
ततः प्रहृष्टवदनस्तथेत्याह महीपतिः ।
तस्मै महीप्रदानं तु कर्तुं मेने विधानतः १९।
तं दृष्ट्वा दैत्यराजानं तदा तस्य पुरोहितः ।
उशना ह्यब्रवीद्वाक्यं मा राजन्दीयतां महीम् २०।
शुक्र उवाच-
एष विष्णुः परेशोऽथ देवैः संप्रार्थितो नृप ।
वंचयित्वा महीं सर्वां त्वत्तः प्राप्तुमिहागतः २१।
तस्मान्मही न दातव्या तस्मै राजन्महात्मने ।
अन्यमर्थं प्रयच्छस्व वचनान्मम भूपते २२।
श्रीशंकर उवाच-
ततः प्रहस्य राजासौ तं गुरुं प्राह धैर्य्यतः ।
बलिरुवाच-
प्रीतये वासुदेवस्य सर्वं पुण्यं कृतं मया २३।
अद्य धन्योस्म्यहं विष्णुः स्वयमेवागतो यदि ।
तस्य प्रदेयमेवाद्य जीवितं च महत्सुखम् २४।
तस्मादस्मै प्रयच्छामि त्रिलोकीमपि मा चिरम् ।
श्रीशंकर उवाच-
इत्युक्त्वा भूपतिस्तस्य पादौ प्रक्षाल्य भक्तितः २५।
वांच्छितां प्रददौ भूमिं वारिपूर्वं विधानतः ।
परिणीय नमस्कृत्य दत्वा वै दक्षिणां वसु २६।
प्रोवाच तं पुनर्विप्रं प्रहृष्टेनांतरात्मना ।
बलिरुवाच-
धन्योस्मि कृतकृत्योस्मि तव दत्वा महीं द्विज २७।
यथेष्टा तव विप्रेंद्र तद्गृहाण महीमिमाम् ।
श्रीशंकर उवाच-
तमुवाच नृपं विष्णू राजंस्तव समीपतः २८।
मापयामि पदेनाद्य पृथिवीं तव पश्यतः ।
इत्युक्त्वा खर्वरूपं तद्विहाय परमेश्वरः २९।
त्रिविक्रमवपुर्भूत्वा जग्राह पृथिवीमिमाम् ।
पंचाशत्कोटिविस्तीर्ण ससमुद्र महीधराम् ३०।
ससागरां च सद्वीपां सदेवासुरमानुषाम् ।
पादेनैकेन वपुषो व्यक्रांत मधुसूदनः ३१।
उवाच दैत्यराजेंद्र किं करोमीति शाश्वतः ।
तद्वै त्रिविक्रमं रूपमीश्वरस्य महौजसम् ३२।
हितार्थमपि देवानामृषीणां च महात्मनाम् ।
न दृष्टमपि शक्यं स्याद्ब्रह्मणः शंकरस्य च ३३।
तत्पदं पृथिवीं सर्वामाक्रम्य गिरिजे शुभे ।
अतिरिक्तं समभवच्छतयोजनमायतम् ३४।
दिव्यचक्षुर्ददौ तस्मै दैत्यराज्ञे सनातनः ।
तस्मै संदर्शयामास स्वकं रूपं जनार्दनम् ३५।
तद्विश्वरूपं देवस्य दृष्ट्वा दैत्येश्वरो बलि ।
प्रहर्षमतुलं लेभे सानंदाश्रु परिप्लुतः ३६।
दृष्ट्वा देवं नमस्कृत्य स्तुत्वा स्तुतिभिरेव च ।
प्राह गद्गदया वाचा प्रहृष्टेनांतरात्मना ३७।
बलिरुवाच-
धन्योस्मि कृतकृत्योस्मि त्वां दृष्ट्वा परमेश्वरम् ।
लोकत्रयं त्वमेवैतद्गृहाण परमेश्वर ३८।
श्रीशंकर उवाच-
अथ सर्वेश्वरो विष्णुर्द्वितीयं पदमव्ययम् ।
ऊर्ध्वं प्रसारयामास ब्रह्मलोकांतमच्युतः ३९।
सनक्षत्रग्रहोपेतं सर्वदेवसमावृतम् ।
पदेन परिपूर्णोऽभूदच्युतस्य शुभानने ४०।
ततः पितामहो ब्रह्मचक्रपद्मादिचिह्नितम् ।
पादं तद्देवदेवस्य हर्षसंकुलचेतसा ४१।
धन्योस्मीति वदन्ब्रह्मा गृहीत्वा स्वकमंडलुम् ।
भक्त्या प्रक्षालयामास तत्रसंस्थित वारिणा ४२।
अक्षय्यमभवत्तोयं तस्य विष्णोः प्रभावतः ।
तत्तीर्थं मेरुशिखरे पपात विमलं जलम् ४३।
जगतः पावनार्थं वै चतुर्दिक्षु प्रवाहितम् ।
सिता चालकनन्दा च चक्षुर्भद्रा यथाक्रमम् ४४।
ततश्चालकनन्दा च मेरोर्दक्षिणतः स्मृता ।
त्रिधा नाम्ना त्रिपथगा त्रिस्रोता लोकपावनी ४५।
स्वर्गे मंदाकिनी प्रोक्ता त्वधो भोगवती तथा ।
मध्ये वेगवती गंगा पावनार्थं नृणां शिवा ४६।
तां दृष्ट्वा मेरुमध्ये तु प्रस्रवंतीं शुभानने ।
आत्मनः पावनार्थाय शिरसाहमधारयम् ४७।
दिव्यं वर्षसहस्रं तु धृत्वा गंगाजलं शुभम् ।
शिवत्वमगमं देवि सर्वलोकेषु पूजितः ४८।
यो वहेच्छिरसा गंगातोयं विष्णुपदोद्भवम् ।
प्राशयेद्वा जगत्पूज्यो भविष्यति न संशयः ४९।
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ५०।
ततो भगीरथो राजा गौतमश्च महातपाः ।
तपसा पूजयित्वा मां गंगार्थं समयाचत ५१।
सर्वलोकहितार्थाय तां गंगां वैष्णवीं शिवाम् ।
तयोरहं तामददां प्रीत्या देवि सरिद्वराम् ५२।
गौतमेन समानीता गौतमी तेन कीर्त्तिता ।
भागीरथीति विख्याता तेन राज्ञा वृता यतः ५३।
प्रसंगात्ते समाख्यातं गंगाजन्मात्यनुत्तमम् ।
ततो नारायणः श्रीमान्बलिं दैत्यपतिं प्रभुः ५४।
रसातलं शुभं लोकं प्रददौ भक्तवत्सलः ।
सर्वेषां दानवानां तु नागानां यादसामपि ५५।
राजानं तु बलिं चक्रे यावदाभूतसंप्लवम् ।
प्रतिगृह्य बलेर्लोकान्बटुवेषेण दैत्यहा ५६।
महेंद्राय ददौ प्रीत्या काश्यपो विष्णुरव्ययः ।
ततो देवाः सगंधर्वा ऋषयश्च महौजसः ५७।
तुष्टुवुः स्तुतिभिर्द्दिव्यैः पूजयामासुरच्युतम् ।
संक्षिप्य तन्महद्रूपं तेषां संदर्शनाय वै ५८।
संपूज्यमानास्त्रिदशैरंतर्द्धानं ययौ हरिः ।
इत्थं सुरक्षितः शक्रो विष्णुना प्रभविष्णुना ५९।
त्रैलोक्यं महदैश्वर्य्यमवाप त्रिदिवेश्वरः ।
एतत्ते सर्वमाख्यातं वामनं वैभवं शुभम् ।
शेषं यद्वैभवं देवि तद्वक्ष्यामि यथाक्रमात् ६०।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे वामनप्रादुर्भावोनाम चत्वारिंशदधिकद्विशततमोऽध्यायः २४० ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 241
ईश्वर उवाच-
भृगुपुत्रो महानासीज्जमदग्निर्द्विजोत्तमः ।
समस्तवेदवेदांगपारगश्च महातपाः १।
तपस्तेपे सुधर्मात्मा महेंद्रं प्रति भामिनि ।
सहस्रवर्षपर्य्यंतं गंगायाः पुलिने शुभे २।
ततः प्रसन्नः प्राहेदं भगवान्पाकशासनः ।
इंद्र उवाच-
वरं वृणीष्व विप्रेंद्र यत्ते मनसि वर्त्तते ३।
ईश्वर उवाच-
ततः प्रोवाच विप्रर्षिः परितुष्टं शतक्रतुम् ।
जमदग्निरुवाच-
सुरभिं देहि मे देव सर्वकामदुघां सदा ४।
ईश्वर उवाच-
ततः प्रसन्नो देवेशस्तस्मै विप्राय गोत्रभित् ।
प्रददौ सुरभिं देवीं सर्वकामदुघां तदा ५।
स लब्ध्वा सुरभीं देवीं जमदग्निर्महातपाः ।
उवास महदैश्वर्यः शतक्रतुरिवापरः ६।
रेणुकस्य सुतां रम्यां रेणुकां नामनामतः ।
उपयेमे विधानेन जमदग्निर्महातपाः ७।
तया सह स धर्मात्मा रेमे वर्षाण्यनेकशः ।
पौलोम्या शुभया देव्या यथा संक्रन्दनो विभुः ८।
ततः स पुत्रकामत्वादिष्टिं चक्रे सुधार्म्मिकः ।
इष्ट्या संतोषयामास पाकशासनमीश्वरम् ९।
परितुष्टः शचीभर्त्ता तस्मै पुत्रं महाबलम् ।
महौजसं महाबाहुं सर्वशत्रुप्रतापनम् १०।
अथ कालेन विप्रेंद्रो रेणुकायां शुचिस्मिते ।
पुत्रमुत्पादयामास महावीर्य्यं बलान्वितम् ११।
विष्णोरंशांशभागेन सर्वलक्षणलक्षिणम् ।
तस्मिन्सुते महावीर्य्ये भृगुस्तस्य पितामहः १२।
नाम चास्मै ददौ हर्षाद्विष्णोरंशोपलक्षितम् ।
चक्रेऽथ नामधेयं तु राम इत्यस्य शोभनम् १३।
जमदग्नेः समुत्पन्नो जामदग्न्य इतीरितः ।
तद्भार्गवान्वयः सोऽपि ववृधे द्विजपुंगवः १४।
उपनीतं स्तुतो येन सर्वविद्याविशारदः ।
तपस्तप्तुं जगामाथ शालग्रामाचलं प्रति १५।
ददर्श कश्यपं तत्र ब्रह्मर्षिममितौजसम् ।
हर्षेण पूरितस्तस्मिन्मरीचितनयो द्विजः १६।
विधिना प्रददौ तस्मै मंत्रं वैष्णवमव्ययम् ।
लब्धमंत्रस्तदा रामं कश्यपात्तु महात्मनः १७।
पूजयामास विधिना स तदा कमलापतिम् ।
षडक्षरं महामंत्रं जपन्नेव दिवानिशम् १८।
ध्यायन्कमलपत्राक्षं विष्णुं सर्वगतं हरिम् ।
तपस्तेपे स धर्मात्मा बहुवर्षाणि भार्गवः १९।
जितेंद्रियस्तु यतवाक्तदा तस्थौ महातपाः ।
जमदग्निस्तु विप्रर्षिः स्थितो गंगातटे शुभे २०।
चकार विधिवद्धर्म्यं यज्ञदानादिकं महत् ।
धेन्वाः प्रसादादिंद्रस्य संपूर्णास्तस्य सम्पदः २१।
कस्यचित्त्वथकालस्य हैहयाधिपतिः प्रभुः ।
विजित्वा सर्वराष्ट्राणि सर्वसैन्यसमावृतः २२।
भार्गवस्याश्रमं प्राप्य जमदग्नेर्महीपतिः ।
समीक्ष्य तं महाभागं ववंदे मुनिसत्तमम् २३।
पृष्ट्वा तु कुशलं तस्य महर्षेर्भावितात्मनः ।
प्रददौ नृपतिस्तस्मै वस्त्राण्याभरणानि च २४।
स च संपूजयामास राजानं गृहमागतम् ।
मधुपर्केण विधिना पूजयित्वा नृपोत्तमम् २५।
ससैन्याय नृपेंद्राय भोजनं प्रददौ मुनिः ।
प्रार्थिता सुरभिस्तेन भार्गवेण सुधीमता २६।
संपूर्णमन्नपानादि ससर्ज शबला तदा ।
अक्षय्यमन्नपानादि तया सृष्टं महातपाः २७।
ससैन्याय नृपेंद्राय प्रददौ मुनिसत्तमः ।
तां दृष्ट्वा शबलां राजा कुतूहलसमन्वितः २८।
स्पृहां चकारयामास तस्यां गवि सुदुर्म्मतिः ।
अयाचत्सुरभिं तत्र जमदग्निं नृपोत्तमः २९।
कार्त्तवीर्य उवाच-
शबलां देहि मे विप्र कपिलां सर्वकामदाम् ।
अन्यधेनुसहस्राणि दास्यामि तव सुव्रत ३०।
ईश्वर उवाच-
इत्युक्तस्तेन राज्ञाथ जमदग्निर्महातपाः ।
जमदग्निरुवाच-।
न देया शबला राजन्मया तव महीपते ३१।
इयं च देवदेवेन शक्रेण परिपालिता ।
देवतानां धनं राजन्दातव्यं स्यात्कथं मया ३२।
ईश्वर उवाच-
इत्युक्तः स तदा राजा क्रोधेन कलुषीकृतः ।
बलाज्जग्राह शबलां सर्वसैन्यसमावृतः ३३।
ततः क्रुद्धा महाभागा शबला वरवर्णिनि ।
जघान तस्य सैन्यानि शृंगैः खुरतलैरपि ३४।
घातयित्वा मुहूर्त्तेन तत्सैन्यं शबला बलात् ।
अंतर्द्धानं गता देवी ययौ शक्रांतिकं क्षणात् ३५।
स्वसैन्यं निहतं दृष्ट्वा सोऽर्जुनः क्रोधमूर्च्छितः ।
मुष्टिना ताडयामास भार्गवं द्विजसत्तमम् ३६।
ताडितस्तेन बहुशो विकलांगः प्रकल्पितः ।
पपात सहसा भूमौ ममार द्विजसत्तमः ३७।
हत्वा मुनिवरं तत्र पापत्मा हैहयाधिपः ।
महासैन्यपरीवारो विवेश नगरं स्वकम् ३८।
रामस्तु देवदेवेशं पूजयामास भार्गवः ।
तेन संपूजितो देवः प्रसन्नः प्राह केशवः ३९।
श्रीभगवानुवाच-
प्रीतोस्मि तपसा वत्स भवतो नियतात्मनः ।
संप्रदास्यामि ते विप्र मच्छक्तिं परमां शुभाम् ४०।
आवेशितोऽथ मच्छक्त्या जहि दुष्टान्नृपोत्तमान् ।
भूभारकविनाशाय देवतानां हिताय वै ४१।
ईश्वर उवाच-
इत्युक्त्वा प्रददौ देवः परशुं शत्रुधर्षणम् ।
वैष्णवं च महच्चापं दिव्यान्यस्त्राण्यनेकशः ।
दत्वा प्रोवाच भगवाञ्जामदग्निं जनार्द्दनः ४२।
श्रीभगवानुवाच-
मदोत्कटान्नृपान्हत्वा बहुशः परवीरहा ।
गृहाण पृथिवीं सर्वां सागरान्तां द्विजोत्तम ४३।
पालयस्व च धर्मेण वीर्य्येण महता वृतः ।
कालेन मत्पदं चापि मत्प्रसादाद्गमिष्यसि ४४।
ईश्वर उवाच-
इत्युक्त्वांतर्हितो देवो वरं दत्वा द्विजन्मने ।
रामोऽपि चाथ सहसा प्रययौ पितुराश्रमम् ४५।
पितरं निहतं दृष्ट्वा भार्गवः क्रोधमूर्च्छितः ।
निष्क्षत्रां कर्तुमन्विच्छन्महीं नृपसमाकुलाम् ४६।
जगाम हैहयपतेर्नगरं नृपसंवृतम् ।
क्रोधावेशज्वलद्गात्रो द्वार्य्यतिष्ठदुदायुधः ४७।
तं दृष्ट्वा तत्पुरजना जामदग्न्यं महौजसम् ।
जाज्वल्यमानं वपुषा कालाग्निमिव मेनिरे ४८।
भयार्ता विद्रुताः सर्वे राजानं हैहयाधिपम् ।
शशंसुस्तं महासत्वं सर्वायुधसमन्वितम् ४९।
श्रुत्वा स राजा तद्वाक्यं प्राह विस्मितचेतसा ।
हैहयाधिप उवाच-
कोऽसौ मम पुरद्वारि सायुधः संस्थितो बलात् ५०।
महेंद्रो वा यमो वापि रुद्रो वा धनदोऽपि वा ।
सायुधो मत्पुरद्वारि स्थातुं शक्तो न कर्हिचित् ५१।
महादेव उवाच-
इत्युक्त्वा पार्थिवेंद्रो ऽसौ किंकरान्सुमहाबलान् ।
प्रेरयामास तं द्रष्टुं गृह्णीतेत्याह दुर्मतिः ५२।
ते गत्वा ददृशुर्वीरं पुरद्वारि महाबलम् ।
ज्वलंतमिव कालाग्निं दुर्निरीक्ष्यं स्वतेजसा ५३।
तस्य संदर्शनेऽप्यत्र न शक्तास्ते महाबलाः ।
ग्रहीतुकामस्तं वीरं समंतात्प्रययुर्भृशम् ५४।
तान्दृष्ट्वा सायुधान्सर्वान्पार्थिवेन्द्रस्य किंकरान् ।
प्रहसन्प्राह विप्रेन्द्रो जामदग्निर्महाबलः ५५।
परशुराम उवाच-
भार्गवस्य सुतो रामः संप्राप्तोऽहं नराधमाः ।
स्वपितुर्निधनात्सर्वान्हनिष्यामि नृपोत्तमान् ५६।
कार्तवीर्यस्य रुधिरं मत्पित्रे तिलसंयुतम् ।
दास्यामि पिण्डदानं च तच्छिरः कमलेन वै ५७।
महादेव उवाच-
इत्युक्तास्ते महावीर्य्याः किंकरास्तस्य भूपतेः ।
शरैः स्म ताडयामासुः पलालैरिव पावकम् ५८।
ततः क्रुद्धो महावीर्यो रामस्सत्यपराक्रमः ।
वैष्णवं चापमाकृष्य ज्यानिनादमथाकरोत् ५९।
तेन नादेन महता पूरितं भुवनत्रयम् ।
देवानामपि संत्रासो बभूव महदद्भुतम् ६०।
ततः पावकसंकाशैराशुगैः सुमहाबलः ।
ताडयामास तान्वीरान्किंकरान्वै महाबलान् ६१।
हत्वा तु किंकरास्तस्य पार्थिवस्य महात्मनः ।
कालाग्निरिव संतस्थौ सर्वभूतभयंकरः ६२।
श्रुत्वा तु किंकरान्स्वस्य हतान्रामेण धीमता ।
हैहयाधिपतिर्वीरः क्रोधसंरक्तलोचनः ६३।
निर्य्ययौ सहसैन्येन यत्रास्ते भागवोऽव्ययः ।
तं दृष्ट्वा घोरसंकाशं ज्वलंतं स्वेन तेजसा ६४।
त्रस्ताः सर्वे जनास्तत्र शंकमाना जनक्षयम् ।
ततो युद्धं महाघोरं रामस्य नृपतेस्तदा ६५।
शस्त्रास्त्रपातनैर्भीमैर्मेघयोरिव वर्षतोः ।
ततो रामो महातेजास्तत्सैन्यं नृपतेस्तदा ६६।
निर्ददाह क्षणात्सर्वं वैष्णवास्त्रेण लीलया ।
ततः परशुना रामस्तीक्ष्णेनामितविक्रमः ६७।
चिच्छेद बाहुसाहस्रं कार्त्तवीर्यस्य दुर्मतेः ।
न शशाक महावीर्यो योद्धुं रामेण भूपतिः ६८।
नष्टवीर्य्यो बभूवात्र पापेन स्वेन दुर्म्मतिः ।
चिच्छेद तच्छिरः क्रुद्धो रेणुकातनयो बली ६९।
महाद्रिशृड्गंवज्रेण यथा देवपतिर्बली ।
हत्वा सहस्रबाहुं तं जामदग्न्यः प्रतापवान् ७०।
जघान पार्थिवान्सर्वान्क्रुद्धः परशुना मृधे ।
रामं दृष्ट्वा महारौद्रं पार्थिवाः पृथिवीतले ७१।
भयार्त्ता विद्रुताः सर्वे मातंगा इव केसरिम् ।
विद्रुतानपि भूपालान्पितुर्निधनमन्युना ७२।
जघान भार्गवः क्रुद्धो नागानिव खगेश्वरः ।
निःक्षत्रं कृतवान्सर्वं जामदग्निः प्रतापवान् ७३।
ररक्ष भगवानेकमिक्ष्वाकोः सुमहत्कुलम् ।
मातामहस्यान्वयत्वाद्रेणुकावचनादथ ७४।
तान्भ्रष्टराज्यान्कृत्वा वै मातामहकुलोद्भवान् ।
न हत्वा मनुवंशांस्तान्रामो नृपकुलांतकः ७५।
सर्वं तु भूभृतां वंशं नाशयामास वीर्य्यवान् ।
कृत्वा चोर्वीं तु निःक्षत्रां जमदग्निसुतो बली ७६।
अश्वमेधं महायज्ञं चकार विधिवद्द्विजः ।
प्रददौ विप्रमुख्येभ्यः सप्तद्वीपवतीं महीम् ७७।
दत्वा महीं स विप्रेभ्यो जामदग्न्यः प्रतापवान् ।
तपस्तप्तुं ययौ सोऽथ नरनारायणाश्रमम् ७८।
एतत्ते कथितं देवि जामदग्नेर्महात्मनः ।
शक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः ७९।
नोपास्यं हि भवेत्तस्य शक्त्यावेशान्महात्मनः ।
उपास्यौ भगवद्भक्तैर्विप्रमुख्यैर्महात्मभिः ८०।
रामकृष्णावतारौ तु परिपूर्णौ हि सद्गुणैः ।
उपास्यमानावृषिभिरपवर्गप्रदौ नृणाम् ८१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे परशुरामचरितंनामैकचत्वारिंशदधिकद्विशततमोऽध्यायः २४१ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 242
रुद्र उवाच-
स्वायम्भुवो मनुः पूर्वं द्वाशार्णं महामनुम् ।
जजाप गोमतीतीरे नैमिषे विमले शुभे १।
तेन वर्षसहस्रेण पूजितः कमलापतिः ।
मत्तो वरं वृणीष्वेति तं प्राह भगवान्हरिः २।
ततः प्रोवाच हर्षेण मनुः स्वायम्भुवो हरिम् ।
मनुरुवाच-
पुत्रत्वं भज देवेश त्रीणि जन्मानि चाच्युत ३।
त्वां पुत्रलालसत्वेन भजामि पुरुषोत्तमम् ।
रुद्र उवाच-
इत्युक्तस्तेन लक्ष्मीशः प्रोवाच सुमहागिरा ४।
विष्णुरुवाच-
भविष्यति नृपश्रेष्ठ यत्ते मनसि कांक्षितम् ।
ममैव च महत्प्रीतिस्तव पुत्रत्वहेतवे ५।
स्थितिप्रयोजने काले तत्र तत्र नृपोत्तम ।
त्वयि जाते त्वहमपि जातोस्मि तव सुव्रत ६।
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्म्मसंस्थापनार्थाय संभवामि तवानघ ७।
रुद्र उवाच-
एवं दत्वा वरं तस्मै तत्रैवांतर्दधे हरिः ।
अस्याभूत्प्रथमं जन्म मनोः स्वायंभुवस्य च ८।
रघूणामन्वये पूर्वं राजा दशरथो ह्यभूत् ।
द्वितीयो वसुदेवोऽभूद्वृष्णीनामन्वये विभुः ९।
कलेर्दिव्यसहस्राब्दप्रमाणस्यांत्यपादयोः ।
शंभलग्रामकं प्राप्य ब्राह्मणः संजनिष्यति १०।
कौशल्या समभूत्पत्नी राज्ञो दशरथस्य हि ।
यदोर्वंशस्य सेवार्थं देवकी नाम विश्रुता ११।
हरिव्रतस्य विप्रस्य भार्य्या देवप्रभा पुनः ।
एवं मातृत्वमापन्ना त्रीणि जन्मानि शार्ङ्गिणः १२।
पूर्वं रामस्य चरितं वक्ष्यामि तव सुव्रते ।
यस्य स्मरणमात्रेण विमुक्तिः पापिनामपि १३।
हिरण्यकहिरण्याक्षौ द्वितीयं जन्मसंश्रितौ ।
कुंभकर्ण दशग्रीवावजायेतां महाबलौ १४।
पुलस्त्यस्य सुतो विप्रो विश्रवानाम धार्मिकः ।
तस्य पत्नी विशालाक्षी राक्षसेंद्र सुताऽनघे १५।
सुकेशितनया सा स्यात्सुमाली दानवस्य च ।
केकसी नाम कन्यासीत्तस्य भार्या दृढव्रता १६।
कामोद्रिक्ता तु सा देवी संध्याकाले महामुनिम् ।
रमयामास तन्वंगी यथेष्टं शुभदर्शना १७।
कामात्संध्याभवाद्यत्वात्तस्यां जातौ महाबलौ ।
रावणः कुंभकर्णश्च राक्षसौ लोकविश्रुतौ १८।
कन्या शूर्पणखा नाम जातातिविकृतानना ।
कस्यचित्त्वथ कालस्य तस्यां जातो विभीषणः १९।
सुशीलो भगवद्भक्तः सत्यवाग्धर्म्मवाञ्शुचिः ।
रावणः कुंभकर्णश्च हिमवत्पर्वतोत्तमे २०।
महोग्रतपसा मां वै पूजयामासतुर्भृशम् ।
रावणस्त्वथ दुष्टात्मा स्वशिरःकमलैः शुभैः २१।
पूजयामास मां देवि दारुणेनैव कर्म्मणा ।
ततस्तमब्रुवं सुभ्रूः प्रहृष्टेनांतरात्मना २२।
वरं वृणीष्व मे वत्स यत्ते मनसि वर्त्तते ।
ततः प्रोवाच दुष्टात्मा देवदानव रक्षसाम् २३।
अवध्यत्वं प्रदेहीति सर्वलोकजिगीषया ।
ततोऽहं दत्तवांस्तस्मै राक्षसाय दुरात्मने २४।
देवदानवयक्षाणामवध्यत्वं वरानने ।
राक्षसोऽसौ महावीर्यो वरदानात्तु गर्वितः २५।
त्रींल्लोकान्पीडयामास देवदानवमानुषान् ।
तेन संबाध्यमानाश्च देवा ब्रह्मपुरोगमाः २६।
भयार्त्ताः शरणं जग्मुरीश्वरं कमलापतिम् ।
ज्ञात्वाथ वेदनां तेषामभयाय सनातनः २७।
उवाच त्रिदशान्सर्वान्ब्रह्मरुद्रपुरोगमान् ।
श्रीभगवानुवाच-
राज्ञो दशरथस्याहमुत्पत्स्यामि रघोः कुले २८।
वधिष्यामि दुरात्मानं रावणं सह बांधवम् ।
मानुषं वपुरास्थाय हन्मि दैवतकंटकम् २९।
नंदिशापाद्भवंतोऽपि वानरत्वमुपागताः ।
कुरुध्वं मम साहाय्यं गंधर्वाप्सरसोत्तमाः ३०।
रुद्र उवाच-
इत्युक्ता देवतास्सर्वा देवदेवेन विष्णुना ।
वानरत्वमुपागम्य जज्ञिरे पृथिवीतले ३१।
भार्गवेण प्रदत्ता तु महीसागरमेखला ।
दत्ता महर्षिभिः पूर्वं रघूणां सुमहात्मनाम् ३२।
वैवस्वतमनोः पुत्रो राज्ञां श्रेष्ठो महाबलः ।
इक्ष्वाकुरिति विख्यातस्सर्वधर्म्मविदांवरः ३३।
तदन्वये महातेजा राजा दशरथो बली ।
अजस्य नृपतेः पुत्रः सत्यवान्शीलवान्शुचिः ३४।
स राजा पृथिवीं सर्वां पालयामास वीर्य्यतः ।
राज्येषु स्थापयामास सर्वान्पार्थिवसत्तमान् ३५।
कोशलस्य नृपस्याथ पुत्री सर्वांगशोभना ।
कौशल्या नाम तां कन्यामुपयेमे स पार्थिवः ३६।
मागधस्य नृपस्याथ तनया च शुचिस्मिता ।
सुमित्रा नाम नाम्ना च द्वितीया तस्य भामिनी ३७।
तृतीया केकयस्याथ नृपतेर्दुहिता तथा ।
भार्य्याभूत्पद्मपत्राक्षी केकयी नाम नामतः ३८।
ताभिः स्म राजा भार्याभिस्तिसृभिर्धर्मसंयुतः ।
रमयामास काकुत्स्थः पृथिवीं चानुपालयन् ३९।
अयोध्यानाम नगरी सरयूतीर संस्थिता ।
सर्वरत्नसुसंपूर्णा धनधान्यसमाकुला ४०।
प्राकारगोपुरैर्जुष्टा हेमप्राकारसंकुला ।
उत्तमैर्नागतुरगैर्महेंद्रस्य यथा पुरी ४१।
तस्यां राजा स धर्मात्मा उवास मुनिसत्तमैः ।
पुरोहितेन विप्रेण वसिष्ठेन महात्मना ४२।
राज्यं चकारयामास सर्वं निहतकंटकम् ।
यस्मादुत्पत्स्यते तस्यां भगवान्पुरुषोत्तमः ४३।
तस्मात्तु नगरी पुण्या साप्ययोध्येति कीर्तिता ।
नगरस्य परं धाम्नो नाम तस्याप्यभूच्छुभे ४४।
यत्रास्ते भगवान्विष्णुस्तदेव परमं पदम् ।
तत्र सद्यो भवेन्मोक्षः सर्वकर्म्मनिकृंतनः ४५।
जाते तत्र महाविष्णौ नराः सर्वे मुदं ययुः ।
स राजा पृथिवीं सर्वां पालयित्वा शुभानने ४६।
अयजद्वैष्णवेष्ट्या च पुत्रार्थी हरिमच्युतम् ।
तेन संपूजितः श्रीशो राजा सर्वगतो हरिः ४७।
वैष्णवेन तु यज्ञेन वरदः प्राह केशवः ।
तस्मिन्नाविरभूदग्नौ यज्ञरूपो हरिस्तदा ४८।
शुद्धजाम्बूनदप्रख्यः शंखचक्रगदाधरः ।
शुक्लांबरधरः श्रीमान्सर्वभूषणभूषितः ४९।
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः ।
पद्मपत्रविशालाक्षश्चतुर्बाहुरुदारधीः ५०।
सव्यांकस्थ श्रिया सार्द्धमाविरासीद्रमेश्वरः ।
वरदोस्मीति तं प्राह राजानं भक्तवत्सलः ५१।
तं दृष्ट्वा सर्वलोकेशं राजा हर्षसमाकुलः ।
ववंदे भार्य्यया सार्द्धं प्रहृष्टेनांतरात्मना ५२।
प्रांजलिः प्रणतो भूत्वा हर्षगद्गदया गिरा ।
पुत्रत्वं मे भजेत्याह देवदेवं जनार्दनम् ५३।
ततः प्रसन्नो भगवान्प्राह राजानमच्युतः ।
विष्णुरुवाच-
उत्पत्स्येऽहं नृपश्रेष्ठ देवलोकहिताय वै ५४।
परित्राणाय साधूनां राक्षसानां वधाय च ।
मुक्तिं प्रदातुं लोकानां धर्म्मसंस्थापनाय च ५५।
महादेव उवाच-
इत्युक्त्वा पायसं दिव्यं हेमपात्रस्थितं शृतम् ।
लक्ष्म्याहस्तस्थितं शुभ्रं पार्थिवाय ददौ हरिः ५६।
विष्णुरुवाच-
इदं वै पायसं राजन्पत्नीभ्यस्तव सुव्रत ।
देहि ते तनयास्तासु उत्पत्स्यन्ते मदंगजाः ५७।
महादेव उवाच-
इत्युक्त्वा मुनिभिः सर्वैः स्तूयमानो जनार्दनः ।
स्वात्मानं दर्शयित्वाथ तथैवांतरधीयत ५८।
स राजा तत्र दृष्ट्वा च पत्नीं ज्येष्ठां कनीयसीम् ।
विभज्य पायसं दिव्यं प्रददौ सुसमाहितः ५९।
एतस्मिन्नन्तरे पत्नी सुमित्रा तस्य मध्यमा ।
तत्समीपं प्रयाता सा पुत्रकामा सुलोचना ६०।
तां दृष्ट्वा तत्र कौशल्या कैकेयी च सुमध्यमा ।
अर्द्धमर्द्धं प्रददतुस्ते तस्यै पायसं स्वकम् ६१।
तत्प्राश्य पायसं दिव्यं राजपत्न्यः सुमध्यमाः ।
संपन्नगर्भाः सर्वास्ता विरेजुः शुभ्रवर्च्चसः ६२।
तासां स्वप्नेषु देवेशः पीतवासा जनार्दनः ।
शंखचक्रगदापाणिराविर्भूतस्तदा हरिः ६३।
अस्मिन्काले मनोरम्ये मधुमासि शुचिस्मिते ।
शुक्ले नवम्यां विमले नक्षत्रेऽदितिदैवते ६४।
मध्याह्नसमये लग्ने सर्वग्रहशुभान्विते ।
कौसल्या जनयामास पुत्रं लोकेश्वरं हरिम् ६५।
इंदीवरदलश्यामं कोटिकंदर्प्पसन्निभम् ।
पद्मपत्रविशालाक्षं सर्वाभरणशोभितम् ६६।
श्रीवत्सकौस्तुभोरस्कं सर्वाभरणभूषितम् ।
उद्यद्दिनकरप्रख्यकुण्डलाभ्यां विराजितम् ६७।
अनेकसूर्य्यसंकाशं तेजसा महता वृतम् ।
परेशस्य तनो रम्यं दीपादुत्पन्नदीपवत् ६८।
ईशानं सर्वलोकानां योगिध्येयं सनातनम् ।
सर्वोपनिषदामर्थमनंतं परमेश्वरम् ६९।
जगत्सर्गस्थितिलये हेतुभूतमनामयम् ।
शरण्यं सर्वभूतानां सर्वभूतमयं विभुम् ७०।
समुत्पन्ने जगन्नाथे देवदुंदुभयो दिवि ।
विनेदुः पुष्पवर्षाणि ववर्षुः सुरसत्तमाः ७१।
प्रजापतिमुखा देवा विमानस्था नभस्तले ।
तुष्टुवुर्मुनिभिः सार्द्धं हर्षपूर्णांगविह्वलाः ७२।
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ।
ववुः पुण्यशिवा वाताः सुप्रभोभूद्दिवाकरः ७३।
जज्वलुश्चाग्नयः शांता विमलाश्च दिशोदश ।
ततस्स राजा हर्षेण पुत्रं दृष्ट्वा सनातनम् ७४।
पुरोधसा वसिष्ठेन जातकर्म्मतदाऽकरोत् ।
नाम चास्मै ददौ रम्यं वसिष्ठो भगवांस्तदा ७५।
श्रियः कमलवासिन्या रमणोऽयं महान्प्रभुः ।
तस्माच्छ्रीराम इत्यस्य नाम सिद्धं पुरातनम् ७६।
सहस्रनाम्नां श्रीशस्य तुल्यं मुक्तिप्रदं नृणाम् ।
विष्णुमासि समुत्पन्नो विष्णुरित्यभिधीयते ७७।
एवं नामास्य दत्वाथ वसिष्ठो भगवानृषिः ।
परिणीय नमस्कृत्य स्तुत्वा स्तुतिभिरेव च ७८।
संकीर्त्य नामसाहस्रं मंगलार्थं महात्मनः ।
विनिर्ययौ महातेजास्तस्मात्पुण्यतमाद्गृहात् ७९।
राजाथ विप्रमुख्येभ्यो ददौ बहुधनं मुदा ।
गवामयुतदानं च कारयामास धर्म्मतः ८०।
ग्रामाणां शतसाहस्रं ददौ रघुकुलोत्तमः ।
वस्त्रैराभरणैर्दिव्यैरसंख्येयैर्धनैरपि ८१।
विष्णोस्संतुष्टये तत्र तर्प्पयामास भूसुरान् ।
कौसल्या च सुतं दृष्ट्वा रामं राजीवलोचनम् ८२।
फुल्लहस्तारविंदाभं पद्महस्ताम्बुजान्वितम् ।
तस्य श्रीपादकमले पद्माब्जे च वरानने ८३।
शंखचक्रगदापद्मध्वजवस्त्रादिचिह्निते ।
दृष्ट्वा वक्षसि श्रीवत्सं कौस्तुभं वनमालया ८४।
तस्यांगे सा जगत्सर्वं सदेवासुरमानुषम् ।
स्मितवक्त्रे विशालाक्षी भुवनानि चतुर्दश ८५।
निश्वासे तस्य वेदांश्च सेतिहासान्महात्मनः ।
द्वीपानब्धीन्गिरींस्तस्य जघने वरवर्णिनि ८६।
नाभ्यां ब्रह्मशिवौ तस्य कर्णयोश्च दिशः शुभाः ।
नेत्रयोर्वह्निसूर्यौ च घ्राणे वायुं महाजवम् ८७।
सर्वोपनिषदामर्थं दृष्ट्वा तस्य विभूतयः ।
कृत्स्ना भीता वरारोहा प्रणम्य च पुनः पुनः।
हर्षाश्रुपूर्णनयना प्रांजलिर्वाक्यमब्रवीत् ८८।
कौशल्योवाच-
धन्यास्मि देवदेवेश लब्ध्वा त्वां तनयं प्रभो ।
प्रसीद मे जगन्नाथ पुत्रस्नेहं प्रदर्शय ८९।
ईश्वर उवाच-
एवमुक्तो हृषीकेशो मात्रा सर्वगतो हरिः ।
मायामानुषतां प्राप्य शिशुभावाद्रुरोद सः ९०।
अथ प्रमुदिता देवी कौशल्या शुभलक्षणा ।
पुत्रमालिंग्य हर्षेण स्तन्यं प्रादात्सुमध्यमा ९१।
तस्याः स्तन्यं पपौ देवो बालभावात्सनातनः ।
उवास मातुरुत्संगे जगद्भर्ता महाविभुः ९२।
देशे तस्मिञ्छुशुभे रम्ये सर्वकामप्रदे नृणाम् ।
उत्सवं चक्रिरे पौरा हृष्टा जनपदा नराः ९३।
कैकेय्यां भरतो जज्ञे पांचजन्यांशचोदितः ।
सुमित्रा जनयामास लक्ष्मणं शुभलक्षणम् ९४।
शत्रुघ्नं च महाभागा देवशत्रुप्रतापनम् ।
अनंतांशेन संभूतो लक्ष्मणः परवीरहा ९५।
सुदर्शनांशाच्छत्रुघ्नः संजज्ञेऽमितविक्रमः ।
ते सर्वे ववृधुस्तत्र वैवस्वतमनोः कुले ९६।
संस्कृतास्ते सुताः सम्यग्वसिष्ठेन महौजसा ।
अधीतवेदास्ते सर्वे श्रुतवंतस्तथा नृपाः ९७।
सर्वशास्त्रार्थतत्वज्ञा धनुर्वेदे च निष्ठिताः ।
बभूवुः परमोदारा लोकानां हर्षवर्द्धनाः ९८।
युग्मं बभूवतुस्तत्र राजानौ रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ तयोर्युग्मं बभूव ह ९९।
अथ लोकेश्वरी लक्ष्मीर्जनकस्य निवेशने ।
शुभक्षेत्रे हलोद्धाते सुनासीरे शुभेक्षणे १००।
बालार्ककोटिसंकाशा रक्तोत्पलकराम्बुजा ।
सर्वलक्षणसंपन्ना सर्वाभरणभूषिता १०१।
धृत्वा वक्षसि चार्वङ्गी मालामम्लानपङ्कजाम् ।
सीतामुखे समुत्पन्ना बालभावेन सुंदरी १०२।
तां दृष्ट्वा जनको राजा कन्यां वेदमयीं शुभाम् ।
उद्धृत्यापत्यभावेन पुपोष मिथिलापतिः १०३।
जनकस्य गृहे रम्ये सर्वलोकेश्वरप्रिया ।
ववृधे सर्वलोकस्य रक्षणार्थं सुरेश्वरी १०४।
एतस्मिन्नंतरे देवि कौशिको लोकविश्रुतः ।
सिद्धाश्रमे महापुण्ये भागीरथ्यास्तटे शुभे १०५।
क्रतुप्रवरमारेभे यष्टुं तत्र महामुनिः ।
वर्त्तमानस्य तस्यास्य यज्ञस्याथ द्विजन्मनः १०६।
क्रतुविध्वंसिनोऽभूवन्रावणस्य निशाचराः ।
कौशिकश्चिंतयित्वाथ रघुवंशोद्भवं हरिम् १०७।
आनेतुमैच्छद्धर्मात्मा लोकानां हितकाम्यया ।
स गत्वा नगरीं रम्यामयोध्यां रघुपालिताम् १०८।
नृपश्रेष्ठं दशरथं ददर्श मुनिसत्तमः ।
राजापि कौशिकं दृष्ट्वा प्रत्युत्थाय कृतांजलिः १०९।
पुत्रैः सह महातेजा ववंदे मुनिसत्तमम् ।
धन्योऽहमस्मीति वदन्हर्षेण रघुनंदनं ११०।
अर्चयामास विधिना निवेश्य परमासने ।
परिणीय नमस्कृत्य किं करोमीत्युवाच तम् १११।
ततः प्रोवाच हृष्टात्मा विश्वामित्रो महातपाः ।
विश्वामित्र उवाच-
देहि मे राघवं राजन्रक्षणार्थं क्रतोर्मम ११२।
साफल्यमस्तु मे यज्ञे राघवस्य समीपतः ।
तस्माद्रामं रक्षणार्थं दातुमर्हसि भूपते ११३।
ईश्वर उवाच-
तच्छ्रुत्वा मुनिवर्य्यस्य वाक्यं सर्वविदां वरः ।
प्रददौ मुनिवर्य्याय राघवं सह लक्ष्मणम् ११४।
आदाय राघवं तत्र विश्वामित्रो महातपाः ।
स्वमाश्रममभिप्रीतः प्रययौ द्विजसत्तमः ११५।
ततः प्रहृष्टास्त्रिदशाः प्रयाते रघुसत्तमे ।
ववृषुः पुष्पवर्षाणि तुष्टुवुश्च महौजसः ११६।
अथाजगाम हृष्टात्मा वैनतेयो महाबलः ।
अदृश्यभूतो भूतानां संप्राप्य रघुसत्तमम् ११७।
ताभ्यां दिव्ये च धनुषी तूणौ चाक्षयसायकौ ।
दिव्यान्यस्त्राणि शस्त्राणि दत्वा च प्रययौ द्विजः ११८।
तौ रामलक्ष्मणौ वीरौ कौशिकेन महात्मना ।
गच्छंती ज्ञापितारण्ये राक्षसी घोरदर्शना ११९।
नाम्ना तु ताडका देवि भार्या सुंदस्य रक्षसः ।
जघ्नतुस्तां महावीरौ बाणैर्दिव्यधनुश्च्युतैः १२०।
निहता राघवेणाथ राक्षसी घोरदर्शना ।
त्यक्त्वा तनुं घोररूपां दिव्यरूपा बभूव सा १२१।
जाज्वल्यमानावपुषा सर्वाभरणविभूषिता ।
प्रययौ वैष्णवं लोकं प्रणम्य च रघूत्तमौ १२२।
तां हत्वा राघवः श्रीमान्कौशिकस्याश्रमं शुभम् ।
प्रविवेश महातेजा लक्ष्मणेन महात्मना १२३।
ततः प्रहृष्टा मुनयः प्रत्युद्गम्य रघूत्तमम् ।
निवेश्य पूजयामासुरर्घाद्यैः परमात्मने १२४।
कौशिकः कृतदीक्षस्तु यंष्टुं यज्ञमनुत्तमम् ।
आरेभे मुनिभिः सार्द्धं विधिना मुनिसत्तमः १२५।
वर्त्तमाने महायज्ञे मारीचो नाम राक्षसः ।
भ्रात्रा सुबाहुना तत्र विघ्नं कर्तुमवस्थितः १२६।
दृष्ट्वा तौ राक्षसौ घोरौ राघवः परवीरहा ।
जघानैकेन बाणेन सुबाहुं राक्षसेश्वरम् १२७।
पवनास्त्रेण महता मारीचं स निशाचरम् ।
सागरे पातयामास शुष्कपर्णमिवानिलः १२८।
स रामस्य महावीर्य्यं दृष्ट्वा राक्षससत्तमः ।
न्यस्तशस्त्रस्तपस्तप्तुं प्रययौ महादाश्रमम् १२९।
विश्वामित्रो महातेजाः समाप्ते महति क्रतौ ।
प्रहृष्टमनसा तत्र पूजयामास राघवम् १३०।
समाश्लिष्य महात्मानं काकपक्षधरं हरिम् ।
नीलोत्पलदलश्यामं पद्मपत्रायतेक्षणम् १३१।
उपाघ्राय तदा मूर्ध्नि तुष्टाव मुनिसत्तमः ।
एतस्मिन्नंतरे राजा मिथिलाया अधीश्वरः १३२।
वाजपेयं क्रतुं यष्टुमारेभे मुनिसत्तमैः ।
तं द्रष्टुं प्रययुस्सर्वे विश्वामित्रपुरोगमाः १३३।
मुनयो रघुशार्दूल सहिताः पुण्यचेतसः ।
गच्छतस्तस्य रामस्य पदाब्जेन महात्मनः १३४।
अभूत्सा पावनी भूमिः समाक्रांता महाशिला ।
सापि शप्ता पुरा भर्त्रा गौतमेन द्विजन्मना १३५।
अहल्या रघुनाथस्य पादस्पर्शाच्छुभाऽभवत् ।
अथ संप्राप्य नगरीं मिथिलां मुनिसत्तमाः १३६।
राघवाभ्यां तु सहिता बभूवुः प्रीतमानसाः ।
समागतान्महाभागान्दृष्ट्वा राजा महाबलः १३७।
प्रत्युद्गम्य प्रणम्याथ पूजयामास मैथिलः ।
रामं पद्मविशालाक्षमिंदीवरदलप्रभम् १३८।
पीताम्बरधरं श्लक्ष्णं कोमलावयवोज्ज्वलम् ।
अवधीरित कंदर्प्पकोटिलावण्यमुत्तमम् १३९।
सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् ।
स्वस्य हृत्पद्ममध्ये यः परेशस्य तनुर्हरिः १४०।
उत्पन्नो दीपवद्दीपात्सौशील्यादिगुणैः परैः ।
तं दृष्ट्वा रघुनाथं स जनको हृष्टमानसः १४१।
परेशमेव तं मेने रामं दशरथात्मजम् ।
पूजयामास काकुत्स्थं धन्योस्मीति ब्रुवन्नृपः १४२।
प्रसादं वासुदेवस्य विष्णोर्मेने नरेश्वरः ।
प्रदातुं दुहितां तस्मै मनसा चिंतयन्प्रभुः १४३।
आत्मजौ रघुवंशस्य ज्ञात्वा तत्र नृपोत्तमः ।
पूजयामास धर्मेण वस्त्रैराभरणैः शुभैः १४४।
ऋषीन्समर्चयामास मधुपर्कादिपूजनैः ।
ततोऽवसाने यज्ञस्य रामो राजीवलोचनः १४५।
भंक्त्वा शैवं धनुर्दिव्यं जितवान्जनकात्मजाम् ।
अथासौ वीर्यशुल्केन महता परितोषितः १४६।
मुदा धरणिजां तस्मै प्रददौ मिथिलाधिपः ।
केशवाय श्रियमिव यथापूर्वं महार्णवः १४७।
स दूतं प्रेषयामास राघवं मिथिलाधिपः ।
पुत्राभ्यां सह धर्मात्मा मिथिलायां विवेश ह १४८।
वसिष्ठवामदेवाद्यैः प्रीतैः सह महीपतिः ।
उवास नगरे रम्ये जनकस्य रघूत्तमः १४९।
तस्मिन्नेव शुभे काले रामस्य धरणीसुताम् ।
विवाहमकरोद्राजा मिथिलेन समर्चितः १५०।
लक्ष्मणस्योर्मिलां नाम कन्यां जनकसंभवाम् ।
जनकस्यानुजस्याथ तनये शुभवर्चसी १५१।
मांडवी श्रुतकीर्त्तिश्च सर्वलक्षणलक्षिते ।
भरतस्य च सौमित्रेर्विवाहमकरोन्नृपः १५२।
निर्वर्त्यौद्वाहिकं तत्र राजा दशरथो बली ।
अयोध्यां प्रस्थितः श्रीमान्पौरैर्जनपदैर्वृतः १५३।
पारिबर्हं समादाय मैथिलेन च पूजितः ।
ससुतः सस्नुषः साश्वः सगजः सबलानुगः १५४।
तदध्वनि महावीर्य्यो जामदग्निः प्रतापवान् ।
गृहीत्वा परशुं चापं संक्रुद्ध इव केसरी १५५।
अभ्यधावच्च काकुत्स्थं योद्धुकामो नृपांतकः ।
संप्राप्य राघवं दृष्ट्वा वचनं प्राह भार्गवः १५६।
परशुराम उवाच-
रामराम महाबाहो शृणुष्व वचनं मम ।
बहुशः पार्थिवान्हत्वा संयुगे भूरिविक्रमान् १५७।
ब्राह्मणेभ्यो महीं दत्वा तपस्तप्तुमहं गतः ।
तव वीर्यबलं श्रुत्वा त्वया योद्धुमिहागतः १५८।
इक्ष्वाकवो न वध्या मे मातामहकुलोद्भवाः ।
वीर्य्यं क्षत्रबलं श्रुत्वा न शक्यं सहितुं मम १५९।
रौद्रं चापं दुराधर्षं भज्यमानां त्वया नृप ।
तस्माद्वदान्य युद्धं मे दीयतां रघुसत्तम १६०।
इदं तु वैष्णवं चापं तेन तुल्यमरिंदम ।
आरोपय स्ववीर्येण निर्जितोस्मि त्वयैव हि १६१।
अथवा त्यज शस्त्राणि पुरस्ताद्बलिनो मम ।
शरणं भज काकुत्स्थ कातरोस्यथ चेतसी १६२।
ईश्वर उवाच-
एवमुक्तस्तु काकुत्स्थो भार्गवेण प्रतापवान् ।
तच्चापं तस्य जग्राह तच्छक्तिं वैष्णवीमपि १६३।
शक्त्या वियुक्तस्स तदा जामदग्निः प्रतापवान् ।
निर्वीर्यो नष्टतेजाभूत्कर्म्महीनो यथा द्विजः १६४।
विनष्टतेज संदृष्ट्वा भार्गवं नृपसत्तमाः ।
साधुसध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः १६५।
काकुत्स्थस्तन्महच्चापं गृहीत्वारोप्य लीलया ।
संधाय बाणं तच्चापे भार्गवं प्राह विस्मितम् १६६।
राम उवाच-
अनेन शरमुख्येन किं कर्त्तव्यं तव द्विज ।
छेद्मि लोकमिमं चाधः स्वर्गं वा हन्मि ते तपः १६७।
ईश्वर उवाच-
तन्दृष्ट्वा घोरसंकाशं बाणं रामस्य भार्गवः ।
ज्ञात्वा तं परमात्मानं प्रहृष्टो राममब्रवीत् १६८।
परशुराम उवाच-
रामराम महाबाहो न वेद्मि त्वां सनातनम् ।
जानाम्यद्यैव काकुत्स्थ तव वीर्य्यगुणादिभिः १६९।
त्वमादिपुरुषः साक्षात्परब्रह्मपरोऽव्ययः ।
त्वमनंतो महाविष्णुर्वासुदेवः परात्परः १७०।
नारायणस्त्वं श्रीशस्त्वमीश्वरस्त्वं त्रयीमयः ।
त्वं कालस्त्वं जगत्सर्वमकाराख्यस्त्वमेव च १७१।
स्रष्टा धाता च संहर्त्ता त्वमेव परमेश्वरः ।
त्वमचिंत्यो महद्भूतरूपस्त्वं तु मनुर्महान् १७२।
चतुःषट्पंचगुणवांस्त्वमेव पुरुषोत्तमः ।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारस्त्रयीमयः १७३।
व्यक्ताव्यक्तस्वरूपस्त्वं गुणभृन्निर्ग्गुणः परः ।
स्तोतुं त्वाहमशक्तश्च वेदानामप्यगोचरम् १७४।
यच्चापलत्वं कृतवांस्त्वां युयुत्सुतया प्रभो ।
तत्क्षंतव्यं त्वया नाथ कृपया केवलेन तु १७५।
तव शक्त्या नृपान्सर्वाञ्जित्वा दत्वा महीं द्विजान् ।
त्वत्प्रसादवशादेव शांतिमाप्नोति नैष्ठिकीम् १७६।
ईश्वर उवाच-
एवमुक्त्वा तु काकुत्स्थं जामदग्निर्महातपाः ।
परिणीय नमस्कृत्वा राघवं लोकरक्षकम् १७७।
शतक्रतुकृतं स्वर्गं तदस्त्राय न्यवेदयत् ।
राघवोऽथ महातेजा ववंदे तं महामुनिम् १७८।
विधिवत्पूजयामास पाद्यार्घाचमनादिभिः ।
तेन संपूजितस्तत्र जामदग्निर्महातपाः १७९।
तपस्तप्तुं ययौ रम्यं नरनारायणाश्रमम् ।
राजा दशरथः सोऽथ पुत्रैर्दारसमन्वितैः १८०।
स्वां पुरीं सुमुहूर्त्तेन प्रविवेश महाबलः ।
राघवो लक्ष्मणश्चैव शत्रुघ्नो भरतस्तथा १८१।
स्वान्स्वान्दारानुपागम्य रेमिरे हृष्टमानसाः ।
तत्र द्वादश वर्षाणि सीतया सह राघवः १८२।
रमयामास धर्मात्मा नारायण इव श्रिया ।
तस्मिन्नेव तु राजाथ काले दशरथः सुतम् १८३।
ज्येष्ठं राज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ।
तस्य भार्याथ कैकेयी पुरा दत्तवरा प्रिया १८४।
अयाचत नृपश्रेष्ठं भरतस्याभिषेचनम् ।
विवासनं च रामस्य वत्सराणि चतुर्दश १८५।
स राजा सत्यवचनाद्रामं राज्यादथोः सुतम् ।
विवासयामास तदा दुःखेन हतचेतनः १८६।
शक्तोऽपि राघवस्तस्मिन्राज्यं संत्यज्य धर्मतः ।
दशग्रीववधार्थाय पितुर्वचनहेतुना १८७।
वनं जगाम काकुत्स्थो लक्ष्मणेन च सीतया ।
राजा पुत्रवियोगार्त्तः शोकेन च ममार सः १८८।
नियुज्यमानो भरतस्तस्मिन्राज्ये समंत्रिभिः ।
नैच्छद्राज्यं स धर्म्मात्मा सौभ्रात्रमनुदर्शयन् १८९।
वनमागम्य काकुत्स्थमयाचद्भ्रातरं ततः ।
रामस्तु पितुरादेशान्नैच्छद्राज्यमरिंदमः १९०।
स्वपादुके ददौ तस्मै भक्त्या सोऽप्यग्रहीत्तथा ।
रामस्य पादुके राज्यमवाप्य भरतः शुभे १९१।
प्रत्यहं गंधपुष्पैश्च पूजयन्कैकयीसुतः ।
तपश्चरणयुक्तेन तस्मिंस्तस्थौ नृपोत्तमः १९२।
यावदागमनं तस्य राघवस्य महात्मनः ।
तावद्व्रतपराः सर्वे बभूवुः पुरवासिनः १९३।
राघवश्चित्रकूटाद्रौ भरद्वाजाश्रमे शुभे ।
रमयामास वैदेह्या मन्दाकिन्या जले शुभे १९४।
कदाचिदंके वैदेह्याः शेते रामो महामनाः ।
ऐंद्रिः काकस्समागम्य तस्मिन्नेव चचार ह १९५।
स दृष्ट्वा जानकीं तत्र कंदर्प्पशरपीडितः ।
विददार नखैस्तीक्ष्णैः पीनोन्नतपयोधरम् १९६।
तं दृष्ट्वा वायसं रामः कुशं जग्राह पाणिना ।
ब्रह्मणास्त्रेण संयोज्य चिक्षेप धरणीधरः १९७।
तं तृणं घोरसंकाशं ज्वालारचितविग्रहम् ।
दृष्ट्वा काकः प्रदुद्राव विमुंचन्कातरं स्वरम् १९८।
तं काकं प्रत्यनुययौ रामस्यास्त्रं सुदारुणम् ।
वायसस्त्रिषुलोकेषु बभ्राम भयपीडितः १९९।
यत्र यत्र ययौ काकः शरणार्थी स वायसः ।
तत्र तत्र तदस्त्रं तु प्रविवेश भयावहम् २००।
ब्रह्माणमिंद्रं रुद्रं च यमं वरुणमेव च ।
शरणार्थी जगामाशु वायसः शस्त्रपीडितः २०१।
तं दृष्ट्वा वायसं सर्वे रुद्राद्या देव दानवाः ।
न शक्ताः स्म वयं त्रातुमिति प्राहुर्मनीषिणः ।
अथ प्रोवाच भगवान्ब्रह्मा त्रिभुवनेश्वरः २०२।
ब्रह्मोवाच-
भो भो बलिभुजां श्रेष्ठ तमेव शरणं व्रज ।
स एव रक्षकः श्रीमान्सर्वेषां करुणानिधिः २०३।
रक्षत्येव क्षमासारो वत्सलं शरणागतान् ।
ईश्वरः सर्वभूतानां सौशील्यादिगुणान्वितः २०४।
रक्षिता जीवलोकस्य पिता माता सखा सुहृत् ।
शरणं व्रज देवेशं नान्यत्र शरणं द्विज २०५।
महादेव उवाच-
इत्युक्तस्तेन बलिभुग्ब्रह्मणा रघुनंदनम् ।
उपेत्य सहसा भूमौ निपपात भयातुरः २०६।
प्राणसंशयमापन्नं दृष्ट्वा सीताथ वायसम् ।
त्राहित्राहीति भर्तारमुवाच विनयाद्विभुम् २०७।
पुरतः पतितं देवी धरण्यां वायसं तदा ।
तच्छिरः पादयोस्तस्य योजयामास जानकी २०८।
समुत्थाप्य करेणाथ कृपापीयूषसागरः ।
ररक्ष रामो गुणवान् वायसं दययार्दितः २०९।
तमाह वायसं रामो मा भैरिति दयानिधिः ।
अभयं ते प्रदास्यामि गच्छ गच्छ यथासुखम् २१०।
प्रणम्य राघवायाथ सीतायै च मुहुर्मुहुः ।
स्वर्ल्लोकं प्रययावाशु राघवेण च रक्षितः २११।
ततो रामस्तु वैदेह्या लक्ष्मणेन च धीमता ।
उवास चित्रकूटाद्रौ स्तूयमानो महर्षिभिः २१२।
तस्मिन्संपूज्यमानस्तु भरद्वाजेन राघवः ।
जगामात्रेस्सुविपुलमाश्रमं रघुसत्तमः २१३।
समागतं रघुवरं दृष्ट्वा मुनिवरोत्तमः ।
भार्यया सह धर्म्मात्मा प्रत्युद्गम्य मुदा युतः २१४।
आसने सुशुभे मुख्ये निवेश्य सह सीतया ।
अर्घ्यपाद्याचमनीयं च वस्त्राणि विविधानि च २१५।
मधुपर्कन्ददौ प्रीत्या भूषणं चानुलेपनम् ।
तस्य पत्न्यनसूया तु दिव्यांबरमनुत्तमम् २१६।
सीतायै प्रददौ प्रीत्या भूषणानि द्युमंति च ।
दिव्यान्नपानभक्षाद्यैर्भोजयामास राघवम् २१७।
तेन संपूजितस्तत्र भक्त्या परमया नृपः ।
उवास दिवसं तत्र प्रीत्या रामस्सलक्ष्मणः २१८।
प्रभाते विमले रामः समुत्थाय महामुनिम्।
परिणीय प्रणम्याथ गमनायोपचक्रमे २१९।
अनुज्ञातस्ततस्तेन रामो राजीवलोचनः ।
प्रययौ दंडकारण्यं महर्षिकुलसंकुलम् २२०।
तत्रातिभीषणं घोरं विराधं नाम राक्षसम् ।
हत्वाथ शरभंगस्य प्रविवेशाश्रमं शुभम् २२१।
स तु दृष्ट्वाथ काकुत्स्थं सद्यः संक्षीणकल्मषः ।
प्रययौ ब्रह्मलोकं तु गंधर्वाप्सरसान्वितम् २२२।
सुतीक्ष्णस्याप्यगस्त्यस्य ह्यगस्त्यभ्रातुरेव च ।
क्रमेण प्रययौ रामस्तैश्च संपूजितस्तथा २२३।
पंचवट्यां ततो रामो गोदावर्यास्तटे शुभे ।
उवास सुचिरं कालं सुखेन परमेण च २२४।
तत्र गत्वा मुनिश्रेष्ठास्तापसा धर्मचारिणः ।
पूजयामासुरात्मेशं रामं राजीवलोचनम् २२५।
भयं विज्ञापयामासुस्तं च रक्षोगणेरितम् ।
तानाश्वास्य तु काकुस्थो ददौ चाभयदक्षिणाम् २२६।
ते तु संपूजितास्तेन स्वाश्रमान्संप्रपेदिरे ।
तस्मिंस्त्रयोदशाब्दानि रामस्य परिनिर्य्ययुः २२७।
गोदावर्य्यास्तटे रम्ये पंचवट्यां मनोरमे ।
कस्यचित्त्वथ कालस्य राक्षसी घोररूपिणी २२८।
रावणस्य स्वसा तत्र प्रविवेश दुरासदा ।
सा तु दृष्ट्वा रघुवरं कोटिकंदर्प्पसन्निभम् २२९।
इंदीवरदलश्यामं पद्मपत्रायतेक्षणम् ।
प्रोन्नतांसं महाबाहुं कम्बुग्रीवं महाहनुम् २३०।
संपूर्णचंद्रसदृशं सस्मिताननपंकजम् ।
भृंगावलिनिभैः स्निग्धैः कुटिलैः शीर्षजैर्वृतम् २३१।
रक्तारविंदसदृशं पद्महस्ततलांकितम् ।
निष्कलंकेन्दुसदृशं नखपंक्तिविराजितम् २३२।
स्निग्धकोमलदूर्वाभं सौकुमार्य्यनिधिं शुभम् ।
पीतकौशेयवसनं सर्वाभरणभूषितम् २३३।
युवाकुमारवयसं जगन्मोहनविग्रहम् ।
दृष्ट्वा तं राक्षसी रामं कंदर्प्पशरपीडिता २३४।
अब्रवीत्समुपेत्याथ रामं कमललोचनम् ।
राक्षस्युवाच-
कस्त्वं तापसवेषेण वर्त्तसे दंडके वने २३५।
आगतोऽसि किमर्थं च राक्षसानां दुरासदे ।
शीघ्रमाचक्ष्व तत्त्वेन नानृतं वक्तुमर्हसि २३६।
महेश्वर उवाच-
इत्युक्तः स तदा रामः संप्रहस्याब्रवीद्वचः ।
राम उवाच-।
राज्ञो दशरथस्याहं पुत्रो राम इतीरितः ।
असौ ममानुजो धन्वी लक्ष्मणो नाम चानघः २३७।
पत्नी चेयं च मे सीता जनकस्यात्मजा प्रिया ।
पितुर्वचननिर्देशादहं वनमिहागतः २३८।
विचरामो महारण्यमृषीणां हितकाम्यया ।
आगतासि किमर्थं त्वमाश्रमं मम सुंदरि २३९।
का त्वं कस्य कुले जाता सर्वं सत्यं वदस्व मे ।
महेश्वर उवाच-
इत्युक्ता सा तु रामेण प्राह वाक्यमशंकिता २४०।
राक्षस्युवाच-
अहं विश्रवसः पुत्री रावणस्य स्वसा नृप ।
नाम्ना शूर्पणखा नाम त्रिषु लोकेषु विश्रुता २४१।
इदं च दंडकारण्यं भ्रात्रा दत्तं मम प्रभो ।
भक्षयन्नृषिसंघान्वै विचरामि महावने २४२।
त्वां तु दृष्ट्वा मुनिवरं कंदर्पशरपीडिता ।
रंतुकामा त्वया सार्द्धमागतास्मि सुनिर्भया २४३।
मम त्वं नृपशार्दूल भर्ता भवितुमर्हसि ।
इमां तव सतीं सीतां ग्रसितुं भूप कामये २४४।
वनेषु गिरिमुख्येषु रमयामि त्वया सह ।
महेश्वर उवाच-।
इत्युक्त्वा राक्षसी सीतां ग्रसितुं वीक्ष्य चोद्यताम् २४५।
श्रीरामः खड्गमुद्यम्य नासाकर्णौ प्रचिच्छिदे २४६।
रुदंती सभयं शीघ्रं राक्षसी विकृतानना ।
खरालयं प्रविश्याह तस्य रामस्य चेष्टितम् २४७।
स तु राक्षससाहस्रैर्दूषणत्रिशिरो वृतः ।
आजगाम भृशं योद्धुं राघवं शत्रुसूदनः २४८।
तान्रामः कानने घोरे बाणः कालांतकोपमैः ।
निजघान महाकायान्राक्षसांस्तत्र लीलया २४९।
खरं त्रिशिरसं चैव दूषणं तु महाबलम् ।
रणे निपातयामास बाणैराशीविषोपमैः २५०।
निहत्य राक्षसान्सर्वान्दंडकारण्यवासिनः ।
पूजितः सुरसंघैश्च स्तूयमानो महर्षिभिः २५१।
उवास दंडकारण्ये सीतया लक्ष्मणेन च ।
राक्षसानां वधं श्रुत्वा रावणः क्रोधमूर्च्छितः २५२।
आजगाम जनस्थानं मारीचेन दुरात्मना ।
संप्राप्य पंचवट्यां तु दशग्रीवः स राक्षसः २५३।
मायाविना मरीचेन मृगरूपेण रक्षसः ।
अपहृत्याश्रमाद्दूरे तौ तु दशरथात्मजौ २५४।
जहार सीतां रामस्य भार्यां स्ववधकांक्षया ।
ह्रियमाणां तु तां दृष्ट्वा जटायुर्गृध्रराड्बली २५५।
रामस्य सौहृदात्तत्र युयुधे तेन रक्षसा ।
तं हत्वा बाहुवीर्येण रावणं शत्रुवारणः २५६।
प्रविवेश पुरीं लंकां राक्षसैर्बहुभिर्वृताम् ।
अशोकवनिकामध्ये निःक्षिप्य जनकात्मजाम् २५७।
निधनं रामबाणेन कांक्षयन्स्वगृहं विशत् ।
रामस्तु राक्षसं हत्वा मारीचं मृगरूपिणम् २५८।
पुनराविश्य तत्राथ भ्रात्रा सौमित्रिणा ततः ।
राक्षसापहृतां भार्यां ज्ञात्वा दशरथात्मजः २५९।
प्रभूतशोकसंतप्तो विललाप महामतिः ।
मार्गमाणो वने सीतां पथि गृध्रं महाबलम् २६०।
विच्छिन्नपादपक्षं च पतितं धरणीतले ।
रुधिरापूर्णसर्वांगं दृष्ट्वा विस्मयमागतः २६१।
पप्रच्छ राघवं श्रीमान्केन किं त्वं जिघांसितः ।
गृध्रस्तु राघवं दृष्ट्वा मंदमंदमुवाच ह २६२।
गृध्र उवाच-
रावणेन हृता राम तव भार्यां बलीयसा ।
तेन राक्षसमुख्येन संग्रामे निहतोस्म्यहम् २६३।
महेश्वर उवाच-
इत्युक्त्वा राघवस्याग्रे सहसा त्यक्तजीवितः ।
संस्कारमकरोद्रामस्तस्य ब्रह्मविधानतः २६४।
स्वपदं च ददौ तस्मै योगिगम्यं सनातनम् ।
राघवस्य प्रसादेन स गृध्रः परमं पदम् २६५।
हरेः सामान्यरूपेण मुक्तिं प्राप खगोत्तमः ।
माल्यवंतं ततो गत्वा मतंगस्याश्रमे शुभे २६६।
अभिगम्य महाभागां शबरीं धर्मचारिणीम् ।
सा तु भागवतश्रेष्ठा दृष्ट्वा तौ रामलक्ष्मणौ २६७।
प्रत्युद्गम्य नमस्कृत्वा निवेश्य कुशविष्टरे ।
पादप्रक्षालनं कृत्वा वन्यैः पुष्पैः सुगंधिभिः २६८।
अर्चयामास भक्त्या वै हर्षनिर्भरमानसा ।
फलानि च सुगंधीनि मूलानि मधुराणि च २६९।
निवेदयामास तदा राघवाभ्यां दृढव्रता ।
फलान्यास्वाद्य काकुत्स्थस्तस्यै मुक्तिं ददौ पराम् २७०।
ततः पंपासरो गत्वा राघवः शत्रुसूदनः ।
जघान राक्षसं तत्र कबंधं घोररूपिणम् २७१।
तं निहत्य महावीर्यो ददाह स्वर्गतश्च सः ।
ततो गोदावरीं गत्वा रामो राजीवलोचनः २७२।
पप्रच्छ सीतां गंगे त्वं किं तां जानासि मे प्रियाम् ।
न शशंस तदा तस्मै सा गंगा तमसावृता २७३।
शशाप राघवः क्रोधाद्रक्ततोया भवेति ताम् ।
ततो भयात्समुद्विग्ना पुरस्कृत्य महामुनीन् २७४।
कृतांजलिपुटा दीना राघवं शरणं गता ।
ततो महर्षयस्सर्वे रामं प्राहुस्सनातनम् २७५।
ऋषय ऊचुः-
त्वत्पादकमलोद्भूता गंगा त्रैलोक्यपावनी ।
त्वमेव हि जगन्नाथ तां शापान्मोक्तुमर्हसि २७६।
महेश्वर उवाच-
ततः प्रोवाच धर्मात्मा रामः शरणवत्सलः ।
राम उवाच-
शबर्याः स्नानमात्रेण संगता शुभवारिणा ।
मुक्ता भवतु मच्छापाद्गंगेयं पापनाशिनी २७७।
एवमुक्त्वा तु काकुत्स्थः शबरीतीर्थमुत्तमम् ।
गंगा गयासमं चक्रे शार्ङ्गकोट्या महाबलः २७८।
महाभागवतानां च तीर्थं यस्योदकेऽभवत् ।
तच्छरीरं जगद्वंद्यं भविष्यति न संशयः २७९।
एवमुक्त्वा तु काकुत्स्थ ऋष्यमूकं गिरिं ययौ ।
ततः पंपासरस्तीरे वानरेण हनूमता २८०।
संगतस्तस्य वचनात्सुग्रीवेण समागतः ।
सुग्रीववचनाद्धत्वा वालिनं वानरेश्वरम् २८१।
सुग्रीवमेव तद्राज्ये रामोसावभ्यषेचयत् ।
स तु संप्रेषयामास दिदृक्षुर्जनकात्मजाम् २८२।
हनुमत्प्रमुखान्वीरान्वानरान्वानराधिपः ।
स लंघयित्वा जलधिं हनूमान्मारुतात्मजः २८३।
प्रविश्य नगरीं लंकां दृष्ट्वा सीतां दृढव्रताम् ।
उपवासकृशां दीनां भृशं शोकपरायणाम् २८४।
मलपंकेन दिग्धांगीं मलिनाम्बरधारिणीम् ।
निवेदयित्वाऽभिज्ञानं प्रवृत्तिं च निवेद्य ताम् २८५।
सप्तमंत्रिसुतांस्तत्र रावणस्य सुतं तथा ।
तोरणस्तंभमुत्पाट्य निजघान स्वयं कपिः २८६।
समाश्वास्य च वैदेहीं बभंजोपवनं तदा ।
वनपालान्किंकरांश्च पंचसेनाग्रनायकान् २८७।
रावणस्य सुतेनाथ निगृहीतो यदृच्छया ।
दृष्ट्वा च राक्षसेंद्रं तु संभाषित्वा तथैव च २८८।
ददाह नगरीं लंकां स्वलांगूलाग्निना कपिः ।
तया दत्तमभिज्ञानं गृहीत्वा पुनरागमत् २८९।
सोऽभिगम्य महातेजा रामं कमललोचनम् ।
न्यवेदयद्वानरेंद्रो दृष्टा सीतेति तत्वतः २९०।
सुग्रीवसहितो रामो वानरैर्बहुभिर्वृतः ।
महोदधेस्तटं गत्वा तत्रानीकं न्यवेशयत् २९१।
रावणस्यानुजो भ्राता विभीषण इतीरितः ।
धर्मात्मा सत्यसंधश्च महाभागवतोत्तमः२९२।
ज्ञात्वा समागतं रामं परित्यज्य स्वपूर्वजम् ।
राज्यं सुतांश्च दारांश्च राघवं शरणं ययौ २९३।
परिगृह्य च तं रामो मारुतेर्वचनात्प्रभुः ।
तस्मै दत्वाऽभयं सौम्यं रक्षो राज्येऽभ्यषेचयत् २९४।
ततस्समुद्रं काकुत्स्थस्तर्तुकामः प्रपद्य वै ।
सुप्रसन्नजलं तं तु दृष्ट्वा रामो महाबलः २९५।
शार्ङ्गमादाय बाणौघैः शोषयामास वारिधिम् ।
ततस्तु सरितामीशः काकुत्स्थं करुणानिधिम् २९६।
प्रपद्य शरणं देवमर्चयामास वारिधिः ।
पुनरापूर्य जलधिं वरुणास्त्रेण राघवः २९७।
उदधेर्वचनात्सेतुं सागरे मकरालये ।
गिरिभिर्वानरानीतैर्नलः सेतुमकारयत् २९८।
ततो गत्वा पुरीं लंकां सन्निवेश्य महाबलम् ।
सम्यगायोधनं चक्रे वानराणां च रक्षसाम् २९९।
ततो दशास्यतनयः शक्रजिद्राक्षसो बली ।
बबंध नागपाशैश्च तावुभौ रामलक्ष्मणौ ३००।
वैनतेयः समागत्य तान्यस्त्राणि प्रमोचयत् ।
राक्षसा निहतास्सर्वे वानरैश्च महाबलैः ३०१।
रावणस्यानुजं वीरं कुंभकर्णं महाबलम् ।
निजघान रणे रामो बाणैरग्निशिखोपमैः ३०२।
ब्रह्मास्त्रेणेन्द्रजित्क्रुद्धः पातयामास वानरान् ।
हनूमता समानीतो महौषधि महीधरः ३०३।
तस्यानीतस्य च स्पर्शात्सर्व एव समुत्थिताः ।
ततो रामानुजो वीरः शक्रजेतारमाहवे ३०४।
निपातयामास शरैर्वृत्रं वज्रधरो यथा ।
निर्ययावथ पौलस्त्यो योद्धुं रामेण संयुगे ३०५।
चतुरंगबलैः सार्द्धं मंत्रिभिश्च महाबलः ।
समंततोभवद्युद्धं वानराणां च रक्षसाम् ३०६।
रामरावणयोश्चैव तथा सौमित्रिणा सह ।
शक्त्या निपातयामास लक्ष्मणं राक्षसेश्वरः ३०७।
ततः क्रुद्धो महातेजा राघवो राक्षसांतकः ।
जघान राक्षसान्वीराञ्शरैः कालांतकोपमैः ३०८।
प्रदीप्तैर्बाणसाहस्रैः कालदंडोपमैर्भृशम् ।
छादयामास काकुत्स्थो दशग्रीवं च राक्षसम् ३०९।
स तु निर्भिन्नसर्वांगो राघवास्त्रैर्निशाचरः ।
भयात्प्रदुद्राव रणाल्लंकां प्रति निशाचरः ३१०।
जगद्राममयं पश्यन्निर्वेदाद्गृहमाविशत् ।
ततो हनूमता नीतो महौषधिमहागिरिः ३११।
तेन रामानुजस्तूर्णं लब्धसंज्ञोऽभवत्तदा ।
दशग्रीवस्ततो होममारेभे जयकांक्षया ३१२।
ध्वंसितं वानरेंद्रैस्तदभिचारात्मकं रिपोः ।
पुनर्युद्धाय पौलस्त्यो रामेण सह निर्ययौ ३१३।
दिव्यस्यन्दनमारुह्य राक्षसैर्बहुभिर्युतः ।
ततः शतमखो दिव्यं रथं हर्यश्वसंयुतम् ३१४।
राघवाय ससूतं हि प्रेषयामास बुद्धिमान् ।
रथं मातलिना नीतं समारुह्य रघूत्तमः ३१५।
स्तूयमानं सुरगणैर्युयुधे तेन रक्षसा ।
ततो युद्धमभूद्धोरं रामरावणयोर्महत् ३१६।
सप्ताह्निकमहोरात्रं शस्त्रास्त्रैरतिभीषणम् ।
विमानस्थाः सुरास्सर्वे ददृशुस्तत्र संयुगम् ३१७।
दशग्रीवस्य चिच्छेद शिरांसि रघुसत्तमः ।
समुत्थितानि बहुशो वरदानात्कपर्दिनः ३१८।
ब्राह्ममस्त्रं महारौद्रं वधायास्य दुरात्मनः ।
ससर्ज राघवस्तूर्णं कालाग्निसदृशप्रभम् ३१९।
तदस्त्रं राघवोत्सृष्टं रावणस्य स्तनांतरम् ।
विदार्य धरणीं भित्त्वा रसातलतले गतम् ३२०।
संपूज्यमानं भुजगै राघवस्य करं ययौ ।
स गतासुर्महादैत्यः पपात च ममार च ३२१।
ततो देवगणास्सर्वे हर्षनिर्भरमानसाः ।
ववृषुः पुष्पवर्षाणि महात्मनि जगद्गुरौ ३२२।
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ।
ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ३२३।
तुष्टुवुर्मुनयः सिद्धा देवगंधर्वकिन्नराः ।
लंकायां राक्षसश्रेष्ठमभिषिच्य विभीषणम् ३२४।
कृतकृत्यमिवात्मानं मेने रघुकुलोत्तमः ।
रामस्तत्राब्रवीद्वाक्यमभिषिच्य विभीषणम् ३२५।
राम उवाच-
यावच्चंद्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।
यावन्ममकथालोके तावद्राज्यं विभीषणे ३२६।
गत्वा मम पदं दिव्यं योगिगम्यं सनातनम् ।
सपुत्रपौत्रः सगणः संप्राप्नुहि महाबलः ३२७।
ईश्वर उवाच-
एवं दत्वा वरं तस्मै राक्षसाय महाबलः ।
संप्राप्य मैथिलीं तत्र परुषं जनसंसदि ३२८।
उवाच राघवः सीतां गर्हितं वचनं बहु ।
सा तेन गर्हिता साध्वी विवेश चानलं महत् ३२९।
ततो देवगणास्सर्वे शिवब्रह्मपुरोगमाः ।
दृष्ट्वा तु मातरं वह्नौ प्रविशंतीं भयातुराः ।
समागम्य रघुश्रेष्ठं सर्वे प्रांजलयोऽब्रुवन् ३३०।
देवा ऊचुः-
रामराम महाबाहो शृणु त्वं चातिविक्रम ।
सीतातिविमला साध्वी तव नीत्यानपायिनी ३३१।
अत्याज्या तु वृथा सा हि भास्करेण प्रभा यथा ।
सेयं लोकहितार्थाय समुत्पन्ना महीतले ३३२।
माता सर्वस्य जगतः समस्तजगदाश्रया ।
रावणः कुंभकर्णश्च भृत्यौ पूर्वपरायणौ ३३३।
शापात्तौ सनकादीनां समुत्पन्नौ महीतले ।
तयोर्विमुक्त्यै वैदेही गृहीता दण्डके वने ३३४।
तावुभौ वै वधं प्राप्तौ त्वया राक्षसपुंगवौ ।
तौ विमुक्तौ दिवं यातौ पुत्रपौत्रसहानुगौ ३३५।
त्वं विष्णुस्त्वं परं ब्रह्म योगिध्येयः सनातनः ।
त्वमेव सर्वदेवानामनादिनिधनोऽव्ययः ३३६।
त्वं हि नारायणः श्रीमान्सीता लक्ष्मीः सनातनी ।
माता सा सर्वलोकानां पिता त्वं परमेश्वर ३३७।
नित्यैवैष जगन्माता तव नित्यानपायिनी ।
यथा सर्वगतस्त्वं हि तथा चेयं रघूत्तम ३३८।
तस्माच्छुद्धसमाचारां सीतां साध्वीं दृढव्रताम् ।
गृहाण सौम्य काकुत्स्थ क्षीराब्धेरिव मा चिरम् ३३९।
ईश्वर उवाच-
एतस्मिन्नंतरे तत्र लोकसाक्षी स पावकः ।
आदाय सीतां रामाय प्रददौ सुरसन्निधौ ।
अब्रवीत्तत्र काकुत्स्थं वह्निः सर्वशरीरगः ३४०।
वह्निरुवाच-
इयं शुद्धसमाचारा सीता निष्कल्मषा विभो ।
गृहाण मा चिरं राम सत्यं सत्यं तवाब्रुवन् ३४१।
ईश्वर उवाच-
ततोऽग्निवचनात्सीतां परिगृह्य रघूद्वहः ।
बभूव रामः संहृष्टः पूज्यमानः सुरोत्तमैः ३४२।
राक्षसैर्निहता ये तु संग्रामे वानरोत्तमाः ।
पितामहवरात्तूर्णं जीवमानाः समुत्थिताः ३४३।
ततस्तु पुष्पकं नाम विमानं सूर्यसन्निभम् ।
भ्रात्रा गृहीतं संग्रामे कौबेरं राक्षसेश्वरः ३४४।
तद्राघवाय प्रददौ वस्त्राण्याभरणानि च ।
तेन संपूजितः श्रीमान्रामचंद्रः प्रतापवान् ३४५।
आरुरोह विमानाग्र्यं वैदेह्या भार्यया सह ।
लक्ष्मणेन च शूरेण भ्रात्रा दशरथात्मजः ३४६।
ऋक्षवानरसंघातैः सुग्रीवेण महात्मना ।
विभीषणेन शूरेण राक्षसैश्च महाबलैः ३४७।
यथाविमाने वैकुंठे नित्यमुक्तैर्महात्मभिः ।
तथा सर्वे समारुह्य ऋक्षवानरराक्षसाः ३४८।
अयोध्यां प्रस्थितो रामः स्तूयमानः सुरोत्तमैः ।
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ३४९।
भरतस्यांतिके तत्र हनूमंतं व्यसर्जयत् ।
स निषादालयं गत्वा गुहं दृष्ट्वाऽथ वैष्णवम् ३५०।
राघवागमनं तस्मै प्राह वानरपुंगवः ।
नंदिग्रामं ततो गत्वा दृष्ट्वा तं राघवानुजम् ३५१।
न्यवेदयत्तथा तस्मै रामस्यागमनोत्सवम् ।
भरतश्चागतं श्रुत्वा वानरेण रघूत्तमम् ३५२।
प्रर्हर्षमतुलं लेभे सानुजः ससुहृज्जनः ।
पुनरागत्य काकुत्स्थं हनूमान्मारुतात्मजः ३५३।
सर्वं शशंस रामाय भरतस्य च वर्तितम् ।
राघवस्तु विमानाग्र्यादवरुह्य सहानुजः ३५४।
ववंदे भार्यया सार्द्धं भारद्वाजं तपोनिधिम् ।
स तु संपूजयामास काकुत्स्थं सानुजं मुनिः ३५५।
पक्वान्नैः फलमूलाद्यैर्वस्त्रैराभरणैरपि ।
तेन संपूजितस्तत्र प्रणम्य मुनिसत्तमम् ३५६।
अनुज्ञातः समारुह्य पुष्पकं सानुगस्तदा ।
नंदिग्रामं ययौ रामः पुष्पकेण सुहृद्वृतः ३५७।
मंत्रिभिः पौरमुख्यैश्च सानुजः केकयीसुतः ।
प्रत्युद्ययौ नृपवरैः सबलैः पूर्वजं मुदा ३५८।
संप्राप्य रघुशार्दूलं ववंदे सानुगैर्वृतः ।
पुष्पकादवरुह्याथ राघवः शत्रुतापनः ३५९।
भरतं चैव शत्रुघ्नमुपसंपरिषस्वजे ।
पुरोहितं वसिष्ठं च मातृवृद्धांश्च बांधवान् ३६०।
प्रणनाम महातेजाः सीतया लक्ष्मणेन च ।
विभीषणं च सुग्रीवं जाम्बवंतं तथांगदम् ३६१।
हनुमंतं सुषेणं च भरतः परिषस्वजे ।
भ्रातृभिः सानुगैस्तत्र मंगलस्नानपूर्वकम् ३६२।
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः ।
आरुरोह रथं दिव्यं सुमंत्राधिष्ठितं शुभम् ३६३।
संस्तूयमानस्त्रिदशैर्वैदेह्या लक्ष्मणेन च ।
भरतश्चैव सुग्रीवः शत्रुघ्नश्च विभीषणः ३६४।
अङ्गदश्च सुषेणश्च जाम्बवान्मारुतात्मजः ।
नीलो नलश्च सुभगः शरभो गंधमादनः ३६५।
अन्ये च कपयः शूरा निषादाधिपतिर्गुहः ।
राक्षसाश्च महावीर्याः पार्थिवेंद्रा महाबलाः ३६६।
गजानश्वानथो सम्यगारुह्य बहुशः शुभान् ।
नानामंगलवादित्रैः स्तुतिभिः पुष्कलैस्तथा ३६७।
ऋक्षवानररक्षोभिर्निषादवरसैनिकैः ।
प्रविवेश महातेजाः साकेतं पुरमव्ययम् २६८।
आलोक्य राजनगरीं पथि राजपुत्रो राजानमेव पितरं परिचिंतयानः ।
सुग्रीवमारुतिविभीषणपुण्यपादसंचारपूतभवनं प्रविवेश रामः ३६९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे रामस्यायोध्याप्रवेशोनाम द्विचत्वारिंशदधिकद्विशततमोऽध्यायः २४२ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 243
शंकर उवाच-
अथ तस्मिन्दिने पुण्ये शुभलग्ने शुभान्विते ।
मंगलस्याभिषेकार्थं मंगलं चक्रिरे जनाः १।
वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः ।
मार्कंडेयश्च मौद्गल्यः पर्वतो नारदस्तथा २।
एते महर्षयस्तत्र जपहोमपुरस्सरम् ।
अभिषेकं शुभं चक्रुर्मुनयो राजसत्तमम् ३।
नानारत्नमये दिव्ये हेमपीठे शुभान्विते ।
निवेश्य सीतया सार्द्धं श्रिया इव जनार्दनम् ४।
सौवर्णकलशैर्दिव्यैर्नानारत्नमयैः शुभैः ।
सर्वतीर्थोदकैः पुण्यैर्माङ्गल्यद्रव्यसंयुतैः ५।
दूर्वाग्रतुलसीपत्रपुष्पगंधसमन्वितैः ।
मंत्रपूतजलैः शुद्धैर्मुनयः संशितव्रताः ६।
अजपन्वैष्णवान्सूक्तान्चतुर्वेदमयान्शुभान् ।
अभिषेकं शुभं चक्रुः काकुत्स्थं जगतः पतिम् ७।
तस्मिन्शुभतमे लग्ने देवदुंदुभयो दिवि ।
विनेदुः पुष्पवर्षाणि ववृषुश्च समंततः ८।
दिव्यांबरैर्भूषणैश्च दिव्यगंधानुलेपनैः ।
पुष्पैर्नानाविधैर्दिव्यैर्देव्या सह रघूद्वहः ९।
अलंकृतश्च शुशुभे मुनिभिर्वेदपारगैः ।
छत्रं च चामरं दिव्यं धृतवान्लक्ष्मणस्तदा १०।
पार्श्वे भरतशत्रुघ्नौ तालवृंतौ विरेजतुः ।
दर्पणं प्रददौ श्रीमान्राक्षसेंद्रो विभीषणः ११।
दधार पूर्णकलशं सुग्रीवो वानरेश्वरः ।
जाम्बवांश्च महातेजाः पुष्पमालां मनोहराम् १२।
वालिपुत्रस्तु तांबूलं सकर्पूरं ददौ हरेः ।
हनुमान्दीपकां दिव्यां सुषेणश्च ध्वजं शुभम् १३।
परिवार्य महात्मानं मंत्रिणः समुपासिरे ।
सृष्टिर्जयंतो विजयः सौराष्ट्रो राष्ट्रवर्द्धनः १४।
अकोपो धर्मपालश्च सुमंत्रो मंत्रिणः स्मृताः ।
राजानश्च नरव्याघ्रा नानाजनपदेश्वराः १५।
पौराश्च नैगमा वृद्धा राजानं पर्युपासत ।
ऋक्षैश्च वानरेंद्रैश्च मंत्रिभिः पृथिवीश्वरैः १६।
राक्षसैर्द्विजमुख्यैश्च किंकरैश्च समावृतः ।
परे व्योम्नि यथा लीनो दैवतैः कमलापतिः १७।
तथा नृपवरः श्रीमान्साकेते शुशुभे तदा ।
इंदीवरदलश्यामं पद्मपत्रनिभेक्षणम् १८।
आजानुबाहुं काकुत्स्थं पीतवस्त्रधरं हरिम् ।
कंबुग्रीवं महोरस्कं विचित्राभरणैर्युतम् १९।
देव्या सह समासीनमभिषिक्तं रघूत्तमम् ।
विमानस्थाः सुरगणा हर्षनिर्भरमानसाः २०।
तुष्टुवुर्जयशब्देन गंधर्वाप्सरसां गणाः ।
अभिषिक्तस्ततो रामो वसिष्ठाद्यैर्महर्षिभिः २१।
शुशुभे सीतया देव्या नारायण इव श्रिया ।
अतिमर्त्यतयाभीत उपासितुं पदांबुजम् २२।
दृष्ट्वा तुष्टाव हृष्टात्मा शंकरो हृष्टमागतः ।
कृतांजलिपुटो भूत्वा सानंदो गद्गदाकुलः ।
हर्षयन्सकलान्देवान्मुनीनपि च वानरान् २३।
महादेव उवाच-
नमो मूलप्रकृतये नित्याय परमात्मने ।
सच्चिदानंदरूपाय विश्वरूपाय वेधसे २४।
नमो निरंतरानंद कन्दमूलाय विष्णवे ।
जगत्त्रयकृतानंद मूर्त्तये दिव्यमूर्त्तये २५।
नमो ब्रह्मेंद्रपूज्याय शंकराभयदाय च ।
नमो विष्णुस्वरूपाय सर्वरूपनमोनमः २६।
उत्पत्तिस्थितिसंहारकारिणे त्रिगुणात्मने ।
नमोस्तु निर्गतोपाधिस्वरूपाय महात्मने २७।
अनया विद्यया देव्या सीतयोपाधिकारिणे ।
नमः पुंप्रकृतिभ्यां च युवाभ्यां जगतां कृते २८।
जगन्मातापितृभ्यां च जनन्यै राघवाय च ।
नमः प्रपंचरूपिण्यै निष्प्रपंचस्वरूपिणे २९।
नमो ध्यानस्वरूपिण्यै योगिध्येयात्ममूर्त्तये ।
परिणामापरीणामरिक्ताभ्यां च नमोनमः ३०।
कूटस्थबीजरूपिण्यै सीतायै राघवाय च ।
सीता लक्ष्मीर्भवान्विष्णुः सीता गौरी भवान्शिवः ३१।
सीता स्वयं हि सावित्रि भवान्ब्रह्मा चतुर्मुखः ।
सीता शची भवान्शक्रः सीता स्वाहानलो भवान् ३२।
सीता संहारिणी देवी यमरूपधरो भवान् ।
सीता हि सर्वसम्पत्तिः कुबेरस्त्वं रघूत्तम ३३।
सीता देवी च रुद्राणी भवान्रुद्रो महाबलः ।
सीता तु रोहिणी देवी चंद्रस्त्वं लोकसौख्यदः ३४।
सीता संज्ञा भवान्सूर्यः सीता रात्रिर्दिवा भवान् ।
सीतादेवी महाकाली महाकालो भवान्सदा ३५।
स्त्रीलिङ्गेषु त्रिलोकेषु यत्तत्सर्वं हि जानकी ।
पुन्नाम लांछितं यत्तु तत्सर्वं हि भवान्प्रभो ३६।
सर्वत्र सर्वदेवेश सीता सर्वत्र धारिणी ।
तदात्वमपिचत्रातुंतच्छक्तिर्विश्वधारिणी ३७।
तस्मात्कोटिगुणं पुण्यं युवाभ्यां परिचिह्नितम् ।
चिह्नितं शिवशक्तिभ्यां चरितं तव शांतिदम् ३८।
आवां राम जगत्पूज्यौ मम पूज्यौ सदा युवाम् ।
त्वन्नामजापिनी गौरी त्वन्मंत्रजपवानहम् ३९।
मुमूर्षोर्मणिकर्ण्यां तु अर्द्धोदकनिवासिनः ।
अहं दिशामि ते मंत्रं तारकं ब्रह्मदायकम् ४०।
अतस्त्वं जानकीनाथ परब्रह्मासि निश्चितम् ।
त्वन्मायामोहितास्सर्वे न त्वां जानंति तत्वतः ४१।
ईश्वर उवाच-
इत्युक्तः शंभुना रामः प्रसादप्रवणोऽभवत् ।
दिव्यरूपधरः श्रीमानद्भुताद्भुतदर्शनः ४२।
तथा तं रूपमालोक्य नरवानरदेवताः ।
न द्रष्टुमपिशक्तास्ते तेजसं महदद्भुतम् ४३।
भयाद्वै त्रिदशश्रेष्ठाः प्रणेमुश्चातिभक्तितः ।
भीता विज्ञाय रामोऽपि नरवानरदेवताः ।
मायामानुषतां प्राप्य स देवानब्रवीत्पुनः ४४।
रामचंद्र उवाच-
शृणुध्वं देवता यो मां प्रत्यहं संस्तुविष्यति ।
स्तवेन शंभुनोक्तेन देवतुल्यो भवेन्नरः ४५।
विमुक्तः सर्वपापेभ्यो मत्स्वरूपं समश्नुते ।
रणे जयमवाप्नोति न क्वचित्प्रतिहन्यते ४६।
भूतवेतालकृत्याभिर्ग्रहैश्चापि न बाध्यते ।
अपुत्रो लभते पुत्रं पतिं विंदति कन्यका ४७।
दरिद्रः श्रियमाप्नोति सत्ववाञ्शीलवान्भवेत् ।
आत्मतुल्यबलः श्रीमाञ्जायते नात्र संशयः ४८।
निर्विघ्नं सर्वकार्येषु सर्वारंभेषु वै नृणाम् ।
यंयं कामयते मर्त्यः सुदुर्लभमनोरथम् ४९।
षण्मासात्सिद्धिमाप्नोति स्तवस्यास्य प्रसादतः ।
यत्पुण्यं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ।
तत्फलं कोटिगुणितं स्तवेनानेन लभ्यते ५०।
ईश्वर उवाच-
इत्युक्त्वा रामचंद्रोऽसौ विससर्ज महेश्वरम् ।
ब्रह्मादि त्रिदशान्सर्वान्विससर्ज समागतान् ५१।
अर्चिता मानवाः सर्वे नरवानरदेवताः ।
विसृष्टा रामचंद्रेण प्रीत्या परमया युताः ५२।
इत्थं विसृष्टाः खलु ते च सर्वे सुखं तदा जग्मुरतीवहृष्टाः ।
परं पठंतः स्तवमीश्वरोक्तं रामं स्मरंतो वरविश्वरूपम् ५३।
।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे विश्वदर्शनं नाम त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः २४३।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 244
शंकर उवाच-
अथ रामस्तु वैदेह्या राज्यभोगान्मनोरमान् ।
बुभुजे वर्षसाहस्रं पालयन्सर्वतोदिशः १।
अंतःपुरजनास्सर्वे राक्षसस्य गृहे स्थिताम् ।
गर्हयंति स्म वैदेहीं तथा जानपदा जनाः २।
लोकापवादभीत्या च रामः शत्रुनिवारकः ।
दर्शयन्मानुषं धर्ममंतर्वत्नीं नृपात्मजाम् ३।
वाल्मीकेराश्रमे पुण्ये गंगातीरे महावने ।
विससर्ज महातेजा गर्भिणीं मुनिसंसदि ४।
सा भर्तुः परतंत्रा हि उवास मुनिवेश्मनि ।
अर्चिता मुनिपत्नीभिर्वाल्मीकमुनि रक्षिता ५।
तत्रैवासूत यमलौ नाम्ना कुशलवौ सुतौ ।
तौ च तत्रैव मुनिना संस्कृतौ च ववर्धतुः ६।
रामोऽपि भ्रातृभिस्सार्द्धं पालयामास मेदिनीम् ।
यमादिगुणसम्पन्नस्सर्वभोगविवर्जितः ७।
अर्चयन्सततं विष्णुमनादिनिधनं हरिम् ।
ब्रह्मचर्यपरो नित्यं शशास पृथिवीं नृपः ८।
शत्रुघ्नो लवणं हत्वा मथुरां देवनिर्मिताम् ।
पालयामास धर्मात्मा पुत्राभ्यां सह राघवः ९।
गंधर्वान्भरतो हत्वा सिंधोरुभयपार्श्वतः ।
स्वात्मजौ स्थापयामास तस्मिन्देशे महाबलौ १०।
पश्चिमे मद्रदेशे तु मद्रान्हत्वा च लक्ष्मणः ।
स्वसुतौ च महावीर्यौ अभिषिच्य महाबलः ११।
गत्वा पुनरयोध्यां तु रामपादावुपस्पृशत् ।
ब्राह्मणस्य मृतं बालं कालधर्ममुपागतम् १२।
जीवयामास काकुत्स्थः शूद्रं हत्वा च तापसम् ।
ततस्तु गौतमीतीरे नैमिषे जनसंसदि १३।
इयाज वाजिमेधं च राघवः परवीरहा ।
कांचनीं जानकीं कृत्वा तया सार्द्धं महाबलः १४।
चकार यज्ञान्बहुशो राघवः परमार्थवित् ।
अयुतान्यश्वमेधानि वाजपेयानि च प्रभुः १५।
अग्निष्टोमं विश्वजितं गोमेधं च शतक्रतुम् ।
चकार विविधान्यज्ञान्परिपूर्णसदक्षिणान् १६।
एतस्मिन्नंतरे तत्र वाल्मीकिः सुमहातपाः ।
सीतामानीय काकुत्स्थमिदं वचनमब्रवीत् १७।
वाल्मीकिरुवाच-
अपापां मैथिलीं राम त्यक्तुं नार्हसि सुव्रत ।
इयं तु विरजा साध्वी भास्करस्य प्रभा यथा ।
अनन्या तव काकुत्स्थ कस्मात्त्यक्ता त्वयानघ १८।
राम उवाच-
अपापां मैथिलीं ब्रह्मन्जानामि वचनात्तव ।
रावणेन हृता साध्वी दण्डके विजने पुरा १९।
तं हत्वा समरे सीतां शुद्धामग्निमुखागताम् ।
पुनर्यातोस्म्ययोध्यायां सीतामादाय धर्मतः २०।
लोकापवादः सुमहानभूत्पौरजनेषु च ।
त्यक्ता मया शुभाचारा तद्भयात्तव सन्निधौ २१।
तस्माल्लोकस्य संतुष्ट्यै सीता मम परायणा ।
पार्थिवानां महर्षीणां प्रत्ययं कर्तुमर्हति २२।
महेश्वर उवाच-
एवमुक्ता तदा सीता मुनिपार्थिवसंसदि ।
चकारप्रत्ययं देवी लोकाश्चर्यकरं सती २३।
दर्शयंस्तस्य लोकस्य रामस्यानन्यतां सती ।
अब्रवीत्प्रांजलिः सीता सर्वेषां जनसंसदि २४।
सीतोवाच-
यथाऽहं राघवादन्यं मनसापि न चिंतये ।
तथा मे धरणी देवी विवरन्दातुमर्हति २५।
यथैव सत्यमुक्तं मे वेद्मि रामात्परं न च ।
तथा स्वपुत्र्यां वैदेह्यां धरणी सहसा इयात् २६।
महेश्वर उवाच-
ततो रत्नमयं पीठं पृष्ठे धृत्वा खगेश्वरः ।
रसातलात्तदा वीरो विज्ञाय जननीं तदा २७।
ततस्तु धरणीदेवी हस्ताभ्यां गृह्य मैथिलीम् ।
स्वागतेनाभिनंद्यैनामासने संन्यवेशयत् २८।
सीतां समागतां दृष्ट्वा दिवि देवगणा भृशम् ।
पुष्पवृष्टिमविच्छिन्नां दिव्यां सीतामवाकिरन् २९।
सापि दिव्याप्सरोभिस्तु पूज्यमाना सनातनी ।
वैनतेयं समारुह्य तस्मान्मार्गाद्दिवं ययौ ३०।
दासीगणैः पूर्वभागे संवृता जगदीश्वरी ।
संप्राप्य परमं धाम योगिगम्यं सनातनम् ३१।
रसातलप्रविष्टां तु तां दृष्ट्वा सर्वमानुषाः ।
साधुसाध्विति सीतेयमुच्चैः सर्वे प्रचुक्रुशुः ३२।
रामः शोकसमाविष्टः संगृह्य तनयावुभौ ।
मुनिभिः पार्थिवेंद्रैश्च साकेतं प्रविवेश ह ३३।
अथ कालेन महता मातरः संशितव्रताः ।
कालधर्मं समापन्ना भर्तुः स्वर्गं प्रपेदिरे ३४।
दशवर्षसहस्राणि दशवर्षशतानि च ।
चकार राज्यं धर्मेण राघवः संशितव्रतः ३५।
कस्यचित्त्वथकालस्य राघवस्य निवेशनम् ।
कालस्तापसरूपेण संप्राप्तो वाक्यमब्रवीत् ३६।
काल उवाच-
राम राम महाबाहो धात्रा संप्रेषितोऽस्म्यहम् ।
यद्ब्रवीमि रघुश्रेष्ठ तच्छृणुष्व महामते ३७।
द्वन्द्वमेव हि कार्यं स्यादावयोः परिभाषितम् ।
तदंतरे प्रविष्टोयस्स वद्ध्यो हि भविष्यति ३८।
महेश्वर उवाच-
तथेति च प्रतिश्रुत्य रामो राजीवलोचनः ।
द्वास्थं कृत्वा तु सौमित्रिं कालो वाक्यमभाषत ।
वैवस्वतोऽब्रवीद्वाक्यं रामं दशरथात्मजम् ३९।
काल उवाच-
शृणु राम यथावृत्तं समागमनकारणात् ।
दशवर्षसहस्राणि दशवर्षशतानि च ४०।
वसामि मानुषे लोके हत्वा राक्षसपुंगवौ ।
एवमुक्तः सुरगणैरवतीर्णोसि भूतले ४१।
तदयं समयः प्राप्तः स्वर्लोकं गमितुं त्वया ।
सनाथा हि सुरास्सर्वे भवंत्वद्य त्वयानघ ४२।
महेश्वर उवाच-
एवमस्त्विति काकुत्स्थो रामः प्राह महामुनिम् ।
एतस्मिन्नंतरे तत्र दुर्वासास्तु महातपाः ४३।
राजद्वारमुपागम्य लक्ष्मणं वाक्यमब्रवीत् ।
दुर्वासा उवाच-
मां निवेदय काकुत्स्थं शीघ्रं गत्वा नृपात्मज ४४।
महेश्वर उवाच-
तमब्रवील्लक्ष्मणस्तु असांनिध्यमिति द्विज ।
ततः क्रोधसमाविष्टः प्राह तं मुनिसत्तमः ४५।
दुर्वासा उवाच-
शापं दास्यामि काकुत्स्थं रामं न यदि दर्शये ।
महेश्वर उवाच-
तस्माच्छापभयाद्विप्रं राघवाय न्यवेदयत् ।
तत्रैवांतर्दधे कालः सर्वभूतभयावहः ४६।
पूजयामास तं प्राप्तमृषिं दुर्वाससं नृपः ।
अग्रजस्य प्रतिज्ञा तं विज्ञाय रघुसत्तमः ४७।
तत्याज मानुषं रूपं लक्ष्मणः सरयूजले ।
विसृज्य मानुषं रूपं प्रविवेश स्वकां तनुम् ४८।
फणासहस्रसंयुक्तः कोटींदुसमवर्चसः ।
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः ४९।
नागकन्यासहस्रैस्तु संवृतः समलंकृतः ।
विमानं दिव्यमारुह्य प्रययौ वैष्णवं पदम् ५० 6.244.50।
लक्ष्मणस्य गतिं सर्वां विदित्वा रघुसत्तमः ।
स्वयमप्यथ काकुत्स्थः स्वर्गं गंतुमभीप्सितः ५१।
अभिषिच्याथ काकुत्स्थः स्वात्मजौ च कुशीलवौ ।
विभज्य रथनागाश्वं सधनं प्रददौ तयोः ५२।
कुशवत्यां कुशं तं च शरवत्यां लवं तथा ।
स्थापयामास धर्मेण राज्ये स्वे रघुसत्तमः ५३।
अभिप्रायं तु विज्ञाय रामस्य विदितात्मनः ।
आजग्मुर्वानराः सर्वे राक्षसाः सुमहाबलाः ५४।
विभीषणोऽथ सुग्रीवो जाम्बवान्मारुतात्मजः ।
नीलो नलः सुषेणश्च निषादाधिपतिर्गुहः ५५।
अभिषिच्य सुतौ वीरौ शत्रुघ्नश्च महामनाः ।
सर्व एते समाजग्मुरयोध्यां रामपालिताम् ५६।
ते प्रणम्य महात्मानमूचुः प्रांजलयस्तथा ।
वानरप्रभृतय ऊचुः -
स्वर्लोकं गंतुमुद्युक्तं ज्ञात्वा त्वां रघुसत्तम ५७।
आगताः स्म वयं सर्वे तवानुगमनं प्रति ।
न शक्ताः स्म क्षणं राम जीवितुं त्वां विना प्रभो ।
तस्मात्त्वया विशालाक्ष गच्छामस्त्रिदशालयम् ५८।
महेश्वर उवाच-
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत्ततः ।
अथोवाच महातेजा राक्षसेंद्रं विभीषणम् ५९।
राम उवाच-
राज्यं प्रशास धर्मेण मा प्रतिज्ञां वृथा कृथाः ।
यावच्चंद्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।
तावद्रमस्व सुप्रीतो काले मम पदं व्रज ६०।
महेश्वर उवाच-।
इत्युक्त्वाथ स काकुत्स्थः स्वाड्गं विष्णुं सनातनम् ।
श्रीरंगशायिनं सौम्यमिक्ष्वाकुकुलदैवतम् ६१।
संप्रीत्या प्रददौ तस्मै रामो राजीवलोचनः ।
हनुमंतमथोवाच राघवः शत्रुसूदनः ६२।
राम उवाच-
मत्कथाः प्रचरिष्यंति यावल्लोके हरीश्वर ।
तावत्त्वमास मेदिन्यां काले मां व्रज सुव्रत ६३।
महेश्वर उवाच-
तमेवमुक्त्वा काकुत्स्थो जांबवंतमथाब्रवीत् ।
राम उवाच-
द्वापरे समनुप्राप्ते यदूनामन्वये पुनः ६४।
भूभारस्य विनाशाय समुत्पत्स्याम्यहं भुवि ।
करिष्ये तत्र संग्रामं स्वयं भल्लूकसत्तम ६५।
महेश्वर उवाच-
तमेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् ।
उवाच वाचा गच्छध्वमिति रामो महाबलः ६६।
मंत्रिणो नैगमाश्चैव भरतः कैकयीसुतः ।
राघवस्यानुगमने निश्चितास्ते समाययुः ६७।
ततः शुक्लांबरधरो ब्रह्मचारी ययौ परम् ।
कुशान्गृहीत्वा पाणिभ्यां संसक्तः प्रययौ परम् ६८।
रामस्य दक्षिणे पार्श्वे पद्महस्ता रमा गता ।
तथैव धरणीदेवी दक्षिणेतरगा तथा ६९।
वेदाः सांगाः पुराणानि सेतिहासानि सर्वतः ।
ॐकारोऽथ वषट्कारः सावित्री लोकपावनी ७०।
अस्त्रशस्त्राणि च तदा धनुराद्यानि पार्वति ।
अनुजग्मुस्तथा रामं सर्वे पुरुषविग्रहाः ७१।
भरतश्चैव शत्रुघ्नः सर्वे पुरनिवासिनः ।
सपुत्रदाराः काकुत्स्थमनुजग्मुः सहानुगाः ७२।
मंत्रिणो भृत्यवर्गाश्च किंकरा नैगमास्तथा ।
वानराश्चैव ऋक्षाश्च सुग्रीवसहितास्तदा ७३।
सपुत्रदाराः काकुत्स्थमन्वगच्छन्महामतिम् ।
पशवः पक्षिणश्चैव सर्वे स्थावरजंगमाः ७४।
अनुजग्मुर्महात्मानं समीपस्था नरोत्तमाः ।
ये च पश्यंति काकुत्स्थं स्वपथांतर्गतं प्रभुम् ७५।
ते तथानुगता रामं निवर्त्तंते न केचन ।
अथ त्रियोजनं गत्वा नदीं पश्चान्मुखीं स्थिताम् ७६।
सरयूं पुण्यसलिलां प्रविवेश सहानुगः ।
ततः पितामहो ब्रह्मा सर्वदेवगणावृतः ७७।
तुष्टाव रघुशार्दूलमृषिभिः सार्द्धमक्षरैः ।
अब्रवीत्तत्र काकुत्स्थं प्रविष्टं सरयूजले ७८।
ब्रह्मोवाच-
आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि मानद ।
भ्रातृभिस्सहदेवाभैः प्रविशस्व निजां तनुम् ७९।
वैष्णवीं तां महातेजां देवाकारां सनातनीम् ।
त्वं हि लोकगतिर्देव न त्वां केचित्तु जानते ८०।
त्वामचिंत्यं महात्मानमक्षरं सर्वसंग्रहम् ।
यमिच्छसि महातेजस्तां तनुं प्रविशस्व भोः ८१।
महेश्वर उवाच-
तस्मिन्सूर्यकराकीर्णे पुष्पवृष्टिनिपातिते ।
उत्सृज्य मानुषं रूपं स्वां तनुं प्रविवेश ह ८२।
अंशाभ्यां शंखचक्राभ्यां शत्रुघ्नभरतावुभौ ।
तदा तेन महात्मानौ दिव्यतेजस्समन्वितौ ८३।
शंखचक्रगदाशार्ङ्गपद्महस्तश्चतुर्भुजः ।
दिव्याभरणसम्पन्नो दिव्यगंधानुलेपनः ८४।
दिव्यपीतांबरधरः पद्मपत्रनिभेक्षणः ।
युवा कुमारः सौम्यांगः कोमलावयवोज्ज्वलः ८५।
सुस्निग्धनीलकुटिलकुंतलः शुभलक्षणः ।
नवदूर्वांकुरः श्यामः पूर्णचंद्र निभाननः ८६।
देवीभ्यां सहितः श्रीमान्विमानमधिरुह्य च ।
तस्मिन्सिंहासने दिव्ये मूले कल्पतरोः प्रभुः ८७।
निषसाद महातेजाः सर्वदेवैरभिष्टुतः ।
राघवानुगता ये च ऋक्षवानरमानुषाः ८८।
स्पृष्ट्वैव सरयूतोयं सुखेन त्यक्तजीविताः ।
रामप्रसादात्ते सर्वे दिव्यरूपधराः शुभाः ८९।
दिव्यमाल्यांबरधरा दिव्यमंगलवर्चसः ।
आरुरोह विमानं तदसंख्यास्तत्र देहिनः ९०।
सर्वैः परिवृतः श्रीमान्रामो राजीवलोचनः ।
पूजितः सुरसिद्धौघैर्मुनिभिस्तु महात्मभिः ९१।
आययौ शाश्वतं दिव्यमक्षरं स्वपदं विभुः ।
यः पठेद्रामचरितं श्लोकं श्लोकार्धमेव वा ९२।
शृणुयाद्वा तथा भक्त्या स्मरेद्वा शुभदर्शने ।
कोटिजन्मार्जितात्पापाज्ज्ञानतोऽज्ञानतः कृतात् ९३।
विमुक्तो वैष्णवं लोकं पुत्रदारसबांधवैः ।
समाप्नुयाद्योगगम्यमनायासेन वै नरः ९४।
एतत्ते कथितं देवि रामस्य चरितं महत् ।
धन्योऽस्म्यहं त्वया देवि रामचंद्रस्य कीर्त्तनात् ।
किमन्यच्छ्रोतुकामासि तद्ब्रवीमि वरानने ९५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीरामचरितकथनंनाम चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः२४४ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 245
श्रीपार्वत्युवाच-
रघुनाथस्य चरितं साधूक्तं हि त्वया विभो ।
श्रुत्वा धन्यास्मि देवेश त्वत्प्रसादान्महेश्वर १।
वसुदेवसुतस्यास्य कृष्णस्य चरितं महत् ।
श्रोतुमिच्छामि देवेश चरितं कल्मषापहम् २।
रुद्र उवाच-
शृणु देवि प्रवक्ष्यामि कृष्णस्यास्य महात्मनः ।
चरितं वासुदेवस्य सर्वेषां फलदं नृणाम् ३।
यदूनामन्वये देवि वसुदेव इतीरितः ।
देवमीढस्यपुत्रोऽभूत्सर्वधर्मविदांवरः ४।
देवकस्यैव दुहितां देवकीं देववर्णिनीम् ।
उपयेमे विधानेन मथुरायां नृपात्मजः ५।
उग्रसेनस्य पुत्रोऽभूत्कंसः शूरो महाबलः ।
तयो रथवरं तत्र चोदयामास सारथिः ६।
समागतेषु तेष्वेवं पथि रम्ये शुभावहे ।
अंतरिक्षेऽशरीरावाक्प्राह गंभीरया गिरा ७।
आकाशवागुवाच-
अस्यास्तवाष्टमो गर्भः कंस प्राणान्हरिष्यति ८।
रुद्र उवाच-
तच्छ्रुत्वा हंतुमारेभे कंसोऽपि भगिनीं तदा ।
तमब्रवीत्सुसंरब्धं वसुदेवः स्वबुद्धिना ९।
वसुदेव उवाच-
न हंतव्या महाभाग भगिनी धर्मतस्त्वया ।
गर्भानेव समुत्पन्नाञ्जहि राजन्महाबल १०।
रुद्र उवाच-
तथेत्याह तदा कंसो वसुदेवं च देवकीम् ।
निबध्य स्वगृहे रम्ये सर्वभोगे न्यवेशयत् ११।
एतस्मिन्नंतरे देवि पापिभारप्रपीडिता ।
जगाम धरणीदेवी सहसा ब्रह्मणोंतिकम् १२।
समेत्य जगतामीशं ब्रह्माणं परमेष्ठिनम् ।
प्राह गंभीरया वाचा धरणी लोकधारिणी १३।
धरण्युवाच-।
प्रजापते न शक्तास्मि धर्तुं लोकानिमान्प्रभो ।
राक्षसाः पापकर्माणः संस्थिता मयि सुव्रत १४।
जगतः सकलान्धर्मान्विध्वंसंतो महाबलाः ।
अधर्मवर्च्चसः सर्वे नराः पापविमोहिताः १५।
स्वल्पमल्पतरं धर्मं लोकेऽस्मिन्न च दृश्यते ।
धर्मेणैव धृता देव सत्यशौचदमेन च ।
तस्मादधर्मसंभूतं न लोकं धर्तुमुत्सहे १६।
रुद्र उवाच-
इत्युक्त्वा धरणीदेवी तत्रैवांतरधीयत ।
ततः सुरगणाः सर्वे ब्रह्मरुद्रपुरोगमाः १७।
क्षीराब्धेरुत्तरं कूलमधिगम्य जगत्पतिम् ।
तुष्टुवुः स्तुतिभिर्दिव्यैर्मुनयश्च महातपाः ।
ततः प्रसन्नः प्राहेशः सर्वांस्तान्मुनिसत्तमान् १८।
श्रीभगवानुवाच-
भो भो देवगणास्सर्वे किन्निमित्तमिहागताः ।
रुद्र उवाच-
ततः पितामहः प्राह देवदेवं जनार्दनम् १९।
ब्रह्मोवाच-
देवदेव जगन्नाथ पृथिवी भारपीडिता ।
राक्षसा बहवो लोके समुत्पन्ना दुरासदाः २०।
जरासंधश्च कंसश्च प्रलम्बो धेनुकादयः ।
दुरात्मानः प्रबाधंते सर्वलोकान्सनातनान् २१।
भारावतरणं कर्तुं पृथिव्यास्त्वमिहार्हसि ।
रुद्र उवाच-
एवमुक्तो हृषीकेशो ब्रह्मणा परमेष्ठिना ।
प्राह गंभीरया वाचा जगतीपतिरव्ययः २२।
श्रीभगवानुवाच-।
अवतीर्याथ लोकेस्मिन्यदूनामन्वये सुराः ।
अवनीभारमव्यग्रमपास्यामि महाबलाः २३।
रुद्र उवाच-
एवमुक्ताः सुरास्सर्वे नमस्कृत्वा जनार्दनम् ।
स्वान्स्वान्लोकान्समासाद्य परेशं तेन्वचिंतयन् ।
ततो नारायणीं मायां परमेशः समब्रवीत् २४।
श्रीभगवानुवाच-
हिरण्याक्षस्य षट्पुत्रान्समानीयावनीतले ।
वसुदेवस्य पत्न्यां तु देवक्यां सन्निवेशय २५।
अनंतांशः सप्तमोऽत्र संप्रविष्टस्तु माचिरम् ।
तस्याः सपत्न्यां रोहिण्यां ददस्व शुभदर्शने २६।
ततोऽष्टमे ममांशस्तु देवक्यां संभविष्यति ।
नंदगोपस्य पत्न्यां तु यशोदायां सनातनी २७।
तवांशभूता महानिद्रा विंध्यं गत्वा महाचलम् ।
तत्र संपूज्यमाना हि देवैरिंद्र पुरोगमैः ।
हन्याद्दैत्यान्महावीर्याञ्शुंभासुरपुरोगमान् २८।
रुद्र उवाच-
तथेत्युक्त्वा महामाया हिरण्याक्षसुतांस्तदा ।
पर्यायेण च देवक्यां षड्गर्भान्संन्यवेशयत् २९।
ताञ्जघान तदा कंसो जातमात्रान्महाबलः ।
ततस्तु सप्तमो गर्भो ह्यनंतांशेन चोदितः ३०।
वर्धमानं तु गर्भं तं रोहिण्यां समुपानयत् ।
गर्भसंकर्षणात्तस्यां जातः संकर्षणोऽव्ययः ३१।
कृष्णाष्टम्यां तु रोहिण्यां प्रौष्ठपद्यां शुभोदये ।
रोहिणी जनयामास पुत्रं संकर्षणं प्रभुम् ३२।
ततस्तु देवकी गर्भमापेदे भगवान्हरिः ।
आपन्नगर्भां तां दृष्ट्वा कंसो भयनिपीडितः ३३।
ततः सुरगणाः सर्वे हर्षनिर्भरमानसाः ।
तुष्टुवुर्देवकीं तत्र विमानस्था नभस्तले ३४।
ततस्तु दशमे मासि कृष्णे नभसि पार्वति ।
अष्टम्यामर्द्धरात्रे च तस्यां जातो जनार्दनः ३५।
इंदीवरदलश्यामः पद्मपत्रायतेक्षणः ।
चतुर्भुजः सुंदरांगो दिव्याभरणभूषितः ३६।
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः ।
वसुदेवस्य जातोऽसौ वासुदेवः सनातनः ३७।
तं दृष्ट्वा जगतां नाथं कृष्णमानकदुंदुभिः ।
उवाच प्रांजलिर्भूत्वा नमस्कृत्य जगन्मयम् ३८।
वसुदेव उवाच-
जातोऽसि मे जगन्नाथ भक्तकल्पतरो प्रभो ।
त्वमेव सर्वदेवानामनादिः पुरुषोत्तमः ३९।
त्वमचिन्त्यमहद्भूतो योगिध्येयः सनातनः ।
मम पुत्रत्वमापन्नो धरण्यां धरणीधर ४०।
दृष्ट्वैतदद्भुतं रूपमैश्वरं पुरुषोत्तम ।
दानवाः पापकर्माणो न सहंते महौजसः ४१।
रुद्र उवाच-
इत्यर्थितः स्तुतस्तेन पद्मनाभः सनातनः ।
उपसंहृतवान्रूपं चतुर्भुजसमन्वितम् ४२।
मानुषेणैव भावेन द्विभुजेन व्यरोचत ।
येचांगरक्षकाः सर्वे दानवास्तत्र संस्थिताः ४३।
ते चापि मायया तस्या मोहितास्तमसावृताः।
एतस्मिन्नंतरे देवमादायानकदुंदुभिः ४४।
प्रययौ नगरात्तूर्णं सर्वदेवैरभिष्टुतः ।
पयोधरे वर्षमाणे नागराजो महाबलः ४५।
फणासहस्रेणाच्छाद्य भक्त्या देवं समन्वगात् ।
तौ गोपुरकपाटौ तु तत्पादस्पर्शनात्तदा ४६।
भिद्यमानौ सुविवृतौ तत्रस्थाश्च विमोहिताः ।
स्रोतस्विनी सुपूर्णाया यमुनापि महात्मनः ४७।
प्रवेशाज्जानुमात्रं तु जलं सा चाप्युपावहत् ।
उत्तीर्य यमुनां सोथाव्रजत्तत्तीरसंस्थितम् ४८।
संस्तूयमानस्त्रिदशैः प्रविवेश यदूत्तमः ।
तत्र नंदस्य पत्नी सा प्रसूता गोव्रजे शुभे ४९।
विमोहिता माययैव सुषुप्ता तमसा वृता ।
तस्यास्तु शयने देवं विनिक्षिप्य स यादवः ५० 6.245.50।
तां कन्यां समुपादाय प्रययौ मथुरां पुनः ।
पत्न्यै दत्वाऽथ तां बालामुवास सुसमाहितः ५१।
रुरोद बालभावात्सा देवकीशयनं गता ।
अथ बालाध्वनिं श्रुत्वा तद्गृहं साङ्गरक्षकाः ५२।
कंसायावेदयामासुर्देवकीप्रसवं शुभम् ।
कंसस्तूर्णमुपेत्यैनां जग्राह बालिकां तदा ५३।
चिक्षेप च शिलापृष्ठे सापि तूर्णं वियत्स्थिता ।
तस्योत्तमांगे स्वपदं दत्वा पूर्णमुखास्थिता ५४।
उवाचाष्टभुजादेवी तदा राक्षसपुंगवम् ।
देव्युवाच-
किं मयाक्षिप्तया मंद जातो यस्त्वां वधिष्यति ५५।
सर्वस्य जगतः स्रष्टा धर्ता हर्ता च यः प्रभुः ।
अस्मिन्लोके समुत्पन्नः स ते प्राणान्हरष्यिति ५६।
रुद्र उवाच-
इत्युक्त्वा तेजसा देवी सहसा पूरयन्नभः ।
जगाम देवगंधर्वैः स्तूयमाना हिमाचलम् ५७।
कंसस्तदोद्विग्नमनाः समाहूय स्वदानवान् ।
प्रलंबचाणूरमुखानुवाचभय पीडितः ५८।
कंस उवाच-
अस्माद्भयात्सुरगणा उपेत्य क्षीरसागरम् ।
आचचक्षुर्हरेः सर्वं रक्षो विध्वंसनं प्रति ५९।
तेषां तु वचनं श्रुत्वा धरण्यां धरणीधरः ।
मानुषेणैव भावेन समुत्पन्नो हि सोऽव्ययः ६०।
तदद्य सर्वे यूयं वै राक्षसाः कामरूपिणः ।
समुद्रिक्तबलान्बालान्मारयध्वमशंकिताः ६१।
रुद्र उवाच-
इत्यादिश्य ततः कंसो वसुदेवं च देवकीम् ।
आश्वास्य मोचयित्वाथ स्ववेश्मांतर्विवेश ह ।
वसुदेवस्ततो गत्वा नंदव्रजमनुत्तमम् ६२।
तेन संपूजितस्तत्र निक्षिप्य तनयं मुदा ।
उवाच नंदपत्नीं तां यशोदां यदुनंदनः ६३।
वसुदेव उवाच-
सुभगे मत्सुतमिमं रोहिणीजठरोद्भवम् ।
स्वपुत्रमिव रक्षस्व भिया कंसादिहागतम् ६४।
रुद्र उवाच-
तथेत्याह तदा तन्वी नंदपत्नी दृढव्रता ।
लब्ध्वैव युगलं पुत्रमुत्पुपोष मुदान्विता ६५।
निक्षिप्य तनयौ गेहं नंदगोपस्य यादवः ।
विश्रब्धः प्रययौ तूर्णं मथुरां कंसपालिताम् ६६।
ततो गर्गः शुभदिने वसुदेवेन नोदितः ।
नंदगोपव्रजं गत्वा तत्रस्थैः पूजितो द्विजः ६७।
विधिना जातकं कर्म कृत्वा देवस्य गोकुले ।
नाम चात्राकरोद्दिव्यं पुत्रयोर्वासुदेवयोः ६८।
संकर्षणो रौहिणेयो बलभद्रो महाबलः ।
राम इत्यादिनामानि पूर्वजस्याकरोद्दिवजः ६९।
श्रीधरः श्रीकरः श्रीमान्कृष्णोऽनंतो जगत्पतिः ।
वासुदेवो हृषीकेश इत्याद्यवरजस्य च ७०।
रामकृष्णाविति ख्यातिमस्मिँल्लोके गमिष्यतः ।
एवमुक्त्वा द्विजश्रेष्ठः संपूज्य पितृदेवताः ७१।
संपूज्यमानो गोपालैराययौ मथुरां पुनः ।
कंसेन प्रेषिता रात्रौ पूतनाबालघातिनी ७२।
विषलिप्तं स्तनं दत्वा कृष्णायामिततेजसे ।
कृष्णस्तु राक्षसीं ज्ञात्वा पपौ गाढं स्तनं भृशम् ७३।
प्राणैः सह महातेजा राक्षस्या यदुपुंगवः ।
सा विह्वलांगी सहसा विच्छिन्नस्नायुबंधना ७४।
पपात वेपमाना सा ममार च महास्वना ।
तस्याः शब्देन महता पूरितं च नभस्तलम् ७५।
त्रस्ताः सर्वे ततो गोपा दृष्ट्वा तां पतितां भुवि ।
कृष्णं च क्रीडमानं तं राक्षस्या महतोरसि ७६।
समुद्विग्नास्ततस्तूर्णमादाय तनयं तदा ।
रक्षोभिया तदा तस्मिन्गोपुरीषेण मूर्द्धनि ७७।
संमार्जयामास तदा गोवालेन तदाननम् ।
नंदगोपः समभ्येत्य सुतमादाय भामिनि ७८।
भगवन्नामभिस्तस्य सर्वांगेषु प्रमार्जनम् ।
कृत्वा तां तामसीं भीमां बहिर्विन्यस्य गोव्रजात् ७९।
ददाह गोपवृंदैश्च त्रासितैस्तत्र गोव्रजे ।
कदाच्छिकटस्याधः शयानो भगवान्हरिः ८०।
प्रसार्य चरणौ तत्र रुरोद मधुसूदनः ।
तस्य पादप्रहारेण शकटं परिवर्तितम् ८१।
विध्वस्तकुंभभाडं तद्विपरीतं पपात वै ।
ततो गोप्यश्च गोपाश्च दृष्ट्वा तच्छकटं महत् ८२।
विस्मयं परमं जग्मुः किमेतदिति शंकिताः ।
यशोदा च तदा तूर्णं बालं जग्राह विस्मिता ८३।
अल्पेनैव हि कालेन बालकौ तौ यदूत्तमौ ।
वर्द्धमानौ यशोदायाः स्तनपानेन पोषितौ ८४।
जानुभ्यामथ हस्ताभ्यां रिंगमाणौ विरेजतुः ।
मायावी राक्षसस्तत्र कृतश्च बटुवेषधृक् ८५।
कृष्णं हंतुं समारब्धो विचचार महीतले ।
ज्ञात्वा कृष्णस्तु तं रक्षो निजघान तलेन वै ८६।
राक्षसेनैव रूपेण निपपात ममार च ।
विचचार ततः सर्वं गोव्रजं मधुसूदनः ८७।
नवनीतं जहाराशु गोपीनां च गृहे गृहे ।
तदा यशोदा कुपिता दाम्ना मध्ये उलूखले ८८।
निबध्य कृष्णं प्रययौ विक्रेतुं गोरसादिकम् ।
कर्षमाणस्ततः कृष्णो दाम्ना बद्ध उलूखले ८९।
यमलार्जुनयोर्मध्ये जगाम धरणीधरः ।
उलूखलेन गोविंदः पातयामास तौ द्रुमौ ९०।
भग्नस्कंधौ निपतितौ स्वरेण धरणीतले ।
तेन शब्देन महता जग्मुस्तत्र महौजसः ९१।
गोपवृद्धास्ततो दृष्ट्वा विस्मयं परमं गताः ।
यशोदापि समुद्विग्ना विमुच्य धरणीधरम् ९२।
तं विस्मितं समादाय स्तनं प्रादान्महात्मने ।
यस्मिन्निबध्यमानस्तु दाम्ना मात्रा जगत्पतिः ९३।
तस्मिन्महर्षिभिः सर्वैर्दामोदर इतीरितः ।
तौ तु किंनरतां प्राप्तौ विमुक्तौ यमलार्जुनौ ९४।
गोपवृद्धास्ततः सर्वे नंदगोपपुरोगमाः ।
महोत्पातमिमं ज्ञात्वा स्थानांतरमुपाययुः ९५।
वृंदावने मनोरम्ये यमुनायास्तटे शुभे ।
निवासं चक्रिरे रम्यं गवांगोपीजनस्य च ९६।
तत्र तौ रामकृष्णौ तु वर्द्धमानौ महाबलौ ।
वत्सपालयुतौ वत्सान्पालयामासतुस्तदा ९७।
गोवत्समध्यगं कृष्णं बको नाम महासुरः ।
बकरूपेण तं हंतुमुद्युक्तोऽत्र यदूत्तमम् ९८।
तं दृष्ट्वा वासुदेवोऽपि लोष्टमुद्यम्य लीलया ।
ताडयामास पक्षांते पपातोर्व्यां महासुरः ९९।
ततः कतिपयाहस्तु गोवत्सान्पालयन्वने ।
छायायां जंबुवृक्षस्य प्रसुप्तौ पल्लवे मृदौ १०० 6.245.100।
एतस्मिन्नंतरे देवो ब्रह्मा देवगणैर्वृतः ।
द्रष्टुं कृष्णं समागम्य सुप्तौ दृष्ट्वा यदूत्तमौ १०१।
वत्सान्गोपशिशून्हृत्वा जगाम त्रिदिवं पुनः ।
प्रबुद्धौ तौ समालोक्य विनष्टाञ्शिशुवत्सकान् १०२।
गोवत्सागोपबालाश्च क्व गता इति विस्मितौ ।
ज्ञात्वा कृष्णस्तु तत्कर्म प्रजापतिकृतं तदा १०३।
तथैव ससृजे बालान्गोवत्सांश्च सनातनः ।
यथातूर्णं यथारूपं तथैव मधुसूदनः १०४।
ससर्ज वत्सान्गोपालानविता जगतां प्रभुः ।
दृष्ट्वा सायाह्नसमये गावस्त्वेषां च मातरः १०५।
स्वान्स्वान्वत्सानुपागम्य यथापूर्वं प्रवर्तिताः ।
एवं संवत्सरे काले गते तत्र महात्मनः १०६।
प्रजापतिः पुनस्तस्मै ददौ वत्सान्सबालकान् ।
कृतांजलिपुटो भूत्वा परिणीय प्रणम्य च ।
भयादुवाच गोविंदं ब्रह्मा त्रिभुवनेश्वरः १०७।
ब्रह्मोवाच-
नमो नमस्ते सर्वात्मंस्तत्वज्ञानस्वरूपिणे ।
नित्यानंदस्वरूपाय प्रियतात्मन्महात्मने १०८।
अणुर्बृहत्स्थूलतररूपः सर्वगतोऽव्ययः ।
अनादिमध्यांतरूप स्वरूपात्मन्नमोस्तु ते १०९।
नित्यज्ञानबलैश्वर्य वीर्यतेजोमयस्य च ।
महाशक्ते नमस्तुभ्यं पूर्णषाड्गुण्यमूर्तये ११०।
त्वं वेदपुरुषो ब्रह्मन्महापुरुषएव च ।
शरीरपुरुषत्वस्य छंदःपुरुष एव च १११।
चत्वारः पुरुषास्त्वं च पुराणः पुरुषोत्तम ।
विभूतयस्तव ब्रह्मन्पृथिव्यग्न्यनिलादयः ११२।
तव वाचा समुद्भूतौ क्ष्मा वह्नी जगदीश्वर ।
अंतरिक्षं च वायुश्च सृष्टौ प्राणेन ते विभो ११३।
चक्षुषा तव संसृष्टौ द्यौश्चादित्यस्तथाव्यय ।
दिशश्च चंद्रमाः सृष्टाः श्रोत्रेण तव चानघ ११४।
अपांस्रावश्च वरुणो मनसा ते महेश्वर ।
उक्ते महति मीमांसे यत्तद्ब्रह्मप्रकाशते ११५।
तथैव चाध्वरेष्वेतदेतदेव महाव्रते ।
छंदोगे ये नभस्येतद्दिव्ये तद्वायुरेव तत् ११६।
आकश एतदेवेदमोषधीष्वेवमेव च ।
नक्षत्रेषु च सर्वेषु ग्रहेष्वेतद्दिवाकरे ११७।
एवंभूतेष्वेवमेव ब्रह्मेत्याचक्षते श्रुतिः ।
तदेव परमं ब्रह्म प्रज्ञातं परितोमृतम् ११८।
हिरण्मयोऽव्ययो यज्ञः शुचिः शुचिषदित्यपि ।
वैदिकान्यभिधेयानि तथैतान्यस्य न क्वचित् ११९।
चक्षुर्मयं श्रोत्रमयं छंदोमय मनोमयम् ।
वाङ्मयं परमात्मानं परेशं शंसति श्रुतिः १२०।
इति सर्वोपनिषदामर्थस्त्वं कमलेक्षण ।
स्तोतुं न शक्तोऽयं त्वां तु सर्ववेदांतपारगम् १२१।
महापराधमेतत्ते वत्सापहरणं मया ।
कृतं तत्क्षम्यतां नाथ शरणागतवत्सल १२२।
महेश्वर उवाच-
एवं स्तुत्वा हरिं वेधाः प्रणम्य च पुनः पुनः ।
वत्सान्दत्वा पुनस्तस्मै प्रययौ स्वयमालयम् १२३।
हृदि कृत्वा सदा देवि बालरूपं हरिं विधिः ।
उवास त्रिदशैः सार्द्धं हृष्टपुष्टो महातपाः १२४।
कृष्णेन सृष्टा वत्सा वै पूर्ववत्सास्तथार्भकाः ।
अवापुरैक्यतां तत्र पश्यतां त्रिदिवौकसाम् १२५।
कृष्णस्तु वत्सपालैर्वै प्रययौ नंदगोकुलम् ।
ततः कतिपयाहस्सु गोपालैर्यदुपुंगवः १२६।
ह्रदं गत्वाऽथ कालिंद्यास्तत्रस्थं सुमहाविषम् ।
सहस्रशीर्षबलिनं नागराजानमच्युतः १२७।
निष्पिष्य फलसाहस्रं पादेनैकेन लीलया ।
प्राणसंशयमापन्नं चकार मधुसूदनः १२८।
स कालियो लब्धसंज्ञस्तमेव शरणं ययौ ।
ररक्ष भगवान्कृष्णो नागं त्यक्तविषं तदा १२९।
वैनतेयभयाद्भीतं स्वपदेनांक्य मूर्द्धसु ।
ह्रदाद्विवासयामास कालिंद्या यदुपुंगवः १३०।
त्यक्त्वा स तं ह्रदं तूर्णं पुत्रदारसमन्वितः ।
नमस्कृत्वाथ गोविंदं प्रययौ कालियस्तदा १३१।
विषदग्धास्तु ये पूर्वं तत्तीरस्थाश्च शाखिनः ।
कृष्णेन वीक्षितास्तूर्णं फलिनः पुष्पिणोऽभवन् १३२।
अथ कालेन कौमारमवाप्य मधुसूदनः ।
गोवृंदं पालयामास सर्वदेवमयः प्रभुः १३३।
स्वसमानवयोभिस्तु गोपालैस्तु यदूत्तमः ।
वृंदावने मनोरम्ये सरामो विचचार ह १३४।
तत्र हत्वा महाघोरं सर्परूपं महासुरम् ।
अपहत्य महाकायं मेरुमंदारगौरवम् १३५।
धेनुकस्य वनं प्राप्य तालहिंतालगह्वरम् ।
प्रविश्यतद्वनंरम्यंफलितंतालगह्वरम् ।
धेनुकं पर्वताकारं खररूपधरं सदा १३६।
पादौ गृह्य समुत्क्षिप्य तालेन विजघान ह ।
तत्क्षणादेव तत्पालास्तदंते रेमिरे तदा १३७।
निष्क्रम्य तद्वनात्तूर्णं भांडीरं वटमागताः ।
तत्र ते रामकृष्णाभ्यां चिक्रीडुर्बाललीलया १३८।
गोपवेषेण तत्रागात्प्रलंबोनाम राक्षसः ।
रामं स्वपृष्ठमारोप्य ययौ तूर्णं नभस्तलम् १३९।
मत्वा तं राक्षसं रामो मुष्टिना तस्य मूर्द्धनि ।
ताडयामास रोषेण विह्वलांगस्ततोऽपतत् १४०।
राक्षसेनैव रूपेण विनदन्भैरवं स्वनम् ।
भिन्नशीर्षतनुस्तत्र ममार रुधिरोक्षितः १४१।
ततः प्रदोषसमयेगोव्रजे नंदनंदनः ।
उवासगोपकन्याभिः क्रीडन्कौमोदवर्चसे १४२।
अरिष्टनामा दैत्येशो गत्वा तत्र वृषाकृतिः ।
कृष्णं हंतुं समागत्य जगर्ज च महास्वनम् १४३।
तं दृष्ट्वा विद्रुताः सर्वे गोपाला भयपीडिताः ।
कृष्णोऽपि दृष्ट्वा तं रौद्रमागतं दनुजाधिपम् १४४।
तालवृक्षं समुत्पाट्य शृंगमध्ये व्यपीडयत् ।
स तु भग्नशिरः शृंगो वमन्वै रुधिरं बहु १४५।
पपात भीमवेगेन निनदंस्त्यक्तजीवितः ।
इत्थं हत्वा महाकायमरिष्टं दनुजाधिपम् १४६।
आहूय गोपबालांश्च तत्रैवोवास गोव्रजे ।
ततः कतिपयाहस्सु केशी नाम महासुरः १४७।
हयकायेन गोविंदं हंतुं व्रजमुपाययौ ।
स गत्वा गोव्रजं रम्यमुच्चैर्हेषामथाकरोत् १४८।
तेन शब्देन महता पूरितं भुवनत्रयम् ।
भीताः सर्वे सुरगणाः शंकमाना युगक्षयम् १४९।
तत्रस्था मोहिताः सर्वे गोपागोप्यश्च विह्वलाः ।
लब्धसंज्ञास्तु ते सर्वे विद्रुताश्च समंततः १५० 6.245.150।
गोप्यस्तु शरणं जग्मुः कृष्णं त्राहीति चाब्रुवन् ।
न भेतव्यं न भेतव्यमित्याह भक्तवत्सलः १५१।
समाश्वास्य ततस्तूर्णं मुष्टिना वासवानुजः ।
ताडयामास शिरसि तस्य दैत्यस्य लीलया १५२।
विभिन्नदंतनेत्रोऽसौ विननाद महास्वनम् ।
महाशिलां समुत्क्षिप्य तस्यांगे वै न्यपातयत् १५३।
स तु चूर्णितसर्वांगो निनदन्भैरवं स्वनम् ।
पपात सहसा भूमौ ममार च महासुरः १५४।
केशिनं निहतं दृष्ट्वा दिवि देवगणा भृशम् ।
मुमुचुः पुष्पवर्षाणि साधुसाध्विति चाब्रुवन् १५५।
इत्थं शिशुत्वे वै दैत्यान्हरिर्हत्वा बलोत्कटान् ।
स मुमोद सुखेनैव बलरामसमन्वितः १५६।
इंदीवरदलश्यामः पद्मपत्रनिभेक्षणः ।
पीतांबरधरः स्रग्वी वनमालाविभूषितः १५७।
कौस्तुभोद्भासितोरस्कश्चित्रमाल्यानुलेपनः ।
विचित्राभरणैर्युक्तः कुंडलाभ्यां विराजितः १५८।
आमुक्ततुलसीमालः कस्तूरीतिलकांचितः ।
सुस्निग्धनीलकुटिल कबरीकृतकेशवान् १५९।
बद्धैर्नानाविधैः पुष्पैर्बर्हिबर्हावतंसकः ।
रक्तारविंदसदृश हस्तपादतलाधरः १६०।
पक्षमध्यगशीतांशु कलंकभ्रूलताननः ।
हारनूपुरकेयूरैः कटकाभ्यां विराजितः १६१।
वृंदावने महारम्ये फलपुष्पविराजिते ।
रम्यं निनादयन्वेणुं तत्रास्ते यदुनंदनः १६२।
अवधीरित कंदर्पकोटिलावण्यमच्युतम् ।
सर्वागोपस्त्रियो दृष्ट्वा मन्मथास्त्रेण पीडिताः १६३।
पुरा महर्षयः सर्वे दंडकारण्यवासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुमैच्छत्सुविग्रहम् १६४।
ते सर्वे स्त्रीत्वमापन्नाः समुद्भूतास्तु गोकुले ।
हरिं संप्राप्य कामेन ततो मुक्ता भवार्णवात् १६५।
क्रोधेनैव यथा दैत्याः समेत्य मधुसूदनम् ।
निधनं प्राप्य संग्रामे हता मुक्तिमवाप्नुयुः १६६।
कामक्रोधौ नृणां लोके निरयस्यैव कारणम् ।
हरिं समेत्य भावेन मुक्ता गोप्यः सुरद्विषः १६७।
कामाद्भयाद्वा द्वेषाद्वा ये भजंति जनार्दनम् ।
ते प्राप्नुवंति वैकुंठं किं पुनर्भक्तियोगतः १६८।
तस्य वेणुध्वनिं श्रुत्वा रजन्यां बल्लवांगनाः ।
शयनादुत्थिताः सर्वा विकीर्णांबरमूर्द्धजाः १६९।
त्यक्त्वा पतीन्सुतान्बधूंस्त्यक्त्वा लज्जां कुलं स्वकम् ।
जगत्पतिं समाजग्मुः कंदर्पशरपीडिताः १७०।
समेत्य गोप्यः सर्वास्तु भुजैरालिंग्य केशवम् ।
बुभुजुश्चाधरं देव्यः सुधामृतमिवामराः १७१।
ताभिः सर्वाभिरात्मेशः क्रीडयामास गोव्रजे ।
तेनापि ताः स्त्रियः सर्वा रेमिरे निर्भया व्रजे १७२।
इत्येवं रमयामासुरहन्यहनि केशवम् ।
वृंदावने मनोरम्ये कालिंदीपुलिने तथा १७३।
पार्वत्युवाच-
धर्मसंरक्षणार्थाय जगत्यामवतीर्य सः ।
परदाराभिगमनं कथं कुर्याज्जनार्दनः १७४।
रुद्र उवाच-
स्वशरीरे परेष्वंगभेदो नास्ति शुभानने ।
सर्वं जगच्च तस्यांगं पृथगत्र न विद्यते १७५।
स्त्रीपुंभेदो न वै तस्य पुरुषस्य महात्मनः ।
नैसर्गिकस्य भर्तृत्वादात्मेशत्वाज्जगत्पतेः १७६।
तथापहृतपाप्मत्व सामर्थ्याद्व्यापिनः प्रभोः ।
दोषोऽत्र नास्ति सुभगे देवस्य परमात्मनः १७७।
वसिष्ठ उवाच-
एवमुक्त्वा तु गिरिजां रुद्रः श्रीत्रिपुरान्तकः ।
कृष्णस्यशेषं चरितमाख्यातुं संप्रचक्रमे १७८।
रुद्र उवाच-
शरत्काले तु संप्राप्ते नंदगोपपुरोगमाः ।
गोपा महोत्सवं कर्तुमारब्धास्त्रिदशांपतेः १७९।
तदुत्सवं तु गोविंदो निवार्याथ शतक्रतोः ।
गोवर्द्धनाद्रिराजस्य कारयामास वीर्यवान् १८०।
ततः क्रुद्धः सहस्राक्षो नंदगोपस्य गोव्रजे ।
ववर्ष च महावृष्टिं सप्तरात्रं निरंतरम् १८१।
गोवर्द्धनं समुत्पाट्य महाशैलं जनार्दनः ।
गवां संरक्षणार्थाय धारयामास लीलया १८२।
तस्यच्छायां गिरेः प्राप्य गोपागोप्यश्च सुव्रते ।
अवसंश्च सुखेनैव हर्म्यांतरगता इव १८३।
ततः शक्रः सहस्राक्षो भीतः संभ्रांतचेतसा ।
वारयामास तद्वर्षं ययौ नंदस्य तद्व्रजम् १८४।
कृष्णोऽपि तं महाशैलं यथापूर्वं निवेशयत् ।
गोपवृद्धाश्च ते सर्वे नंदगोपपुरोगमाः १८५।
परिपूज्य च गोविंदं परं विस्मयमाययुः ।
ततः शतक्रतुर्देवः समेत्य मधुसूदनम् ।
तुष्टाव प्रांजलिर्भूत्वा हर्षगद्गदया गिरा १८६।
इन्द्र उवाच-
नमस्ते पुंडरीकाक्ष सर्वज्ञाति त्रिविक्रम ।
त्रिगुणातीत सर्वेश विश्वस्यात्मन्नमोस्तु ते १८७।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः क्रतुर्हविः ।
त्वमेव सर्वदेवानां पिता माता च केशव १८८।
अग्रे हिरण्यगर्भस्त्वं भूतस्य समवर्त्तत ।
त्वमेवैकः पतिरसि पुरुषस्त्वं हिरण्मयः १८९।
पृथिवीं द्यामिमां देव त्वमेव धृतवानसि ।
आत्मदः फलदो यश्च स्यादेवं जगदीश्वर १९०।
अवाप्तं तच्च त्रिदशैः प्रकाशं जगतांपतेः ।
अमृतं चैव मृत्युश्च छाया तव सनातन १९१।
तस्मै देवाय भवते विधेम हविषा वयम् ।
हेमवंत इमे यस्य समुद्भूता हिरण्मयाः १९२।
समुद्रा रसना यस्य वाहस्तस्यैव केशव ।
इमा दिशः प्रतिदिशो वायुर्यस्य तवाव्यय १९३।
तस्मै देवाय भवते विधेम हविषा वयम् ।
येन त्वया समारूढा पृथिवी वर्द्धता पुनः १९४।
स्वर्लोकः स्तंभितो येन त्वया ब्रह्मन्महेश्वर ।
त्वमंतरिक्षे रजसोवसानः सर्वगोव्ययः १९५।
तस्मै देवाय भवते विधेम हविषा वयम् ।
यं क्रंदसि राजमाने तप्तभासे गुणान्विते १९६।
अभ्यैक्षेतां च मनसा अवश्यं श्रीश्च सर्वदा ।
यत्रास्ति सूर उदितो विभाति परमे पदे १९७।
तस्मै देवाय भवते विधेम हविषा वयम् ।
यदापो बृहतीर्विश्व ब्रह्ममायं जनार्दनाः १९८।
गर्भं दधानाः सर्गेऽत्र जनयंतीरघौघकृत् ।
समवर्तत देवानामसुरेकोऽव्ययो विभुः १९९।
तस्मै देवाय भवते विधेम हविषा वयम् ।
या आपो महिना दक्षं पर्यपश्यत्प्रजापतिम् २००। 6.245.200।
यज्ञं दधानास्तत्रादौ जनयंतीर्हविः पुमान् ।
यो देवेष्वेक एवासीदधिदेवः परात्परः २०१।
तस्मै देवाय भवते विधेम हविषा वयम् ।
मा नो हिंसीज्जनिता यः पृथिव्या अव्ययः पुमान् २०२।
यो वा दिवं सत्यधर्मा जजानाव्यय ईश्वरः ।
यश्चंद्रो बृहतीरपो जजान सकलं जगत् २०३।
तस्मै देवाय भवते विधेम हविषा वयम् ।
एतानि विश्वजातानि बभूव परिता प्रभो २०४।
त्वदुत्पन्नप्रजाध्यक्ष भविष्यद्भूतमच्युतः ।
यजामस्त्वां च यत्कामास्तन्नो अस्तु समासतः २०५।
त्रयाणां पतयः स्याम तव कारुण्यवीक्षणात् ।
हिरण्मयाख्यः पुरुषो हिरण्यश्मश्रुकेशवान् २०६।
आप्रणखात्सर्वं हिरण्यं सविता तु हिरण्यभाक् ।
असौ सर्वगतो ब्रह्मा यस्त्वादित्ये व्यवस्थितः २०७।
तद्वै देवस्य सवितुर्वरेण्यं भर्ग उत्तमम् ।
सदा धीमहि ते रूपं धियो यो नः प्रभाति हि २०८ ।
नमस्ते पुंडरीकाक्ष श्रीश सर्वेश केशव ।
वेदांतवेद्य यज्ञेश यज्ञरूप नमोस्तु ते २०९।
नमस्ते वासुदेवाय गोपवेषाय ते नमः ।
तत्सर्वध्वंसनादेव अपराधं मया कृतम् २१०।
तत्क्षम्यतां जगन्नाथ घृणाब्धे पुरुषोत्तम ।
अल्पेनैव हि कालेन जहि कंसं दुरासदम् ।
देवानां हि हितं कृत्वा सुखेवस्थाय मेदिनीम् २११।
महादेव उवाच-
इति संस्तुत्य गोविंदं सर्वदेवेश्वरो हरिः ।
सुधामृतेनाभ्यषिंचद्दिव्यांबरविभूषणैः २१२।
अर्चयित्वा तु देवेशं जगाम त्रिदिवं पुनः ।
गोपवृद्धाश्च गोप्यश्च दृष्ट्वा तत्र शतक्रतुम् २१३।
तेन ते पूजिताश्चैव प्रहर्षमतुलं ययुः ।
रामकृष्णौ महावीर्यौ दिव्याभरणभूषितौ २१४।
नंदस्य गोव्रजे रम्ये सुसुखेनैव तस्थतुः ।
एतस्मिन्नंतरे देवि नारदो मुनिसत्तमः २१५ ।
सहसा मथुरां गत्वा कंसस्यांतिकमाविशत् ।
राज्ञा संपूजितास्तत्र समासीनः शुभासने २१६।
सर्वं विज्ञापयामास चेष्टितं शार्ङ्गिणस्तदा ।
देवतानां समुद्योगं जन्म वै केशवस्य च २१७।
तथा च वसुदेवेन पुत्रनिक्षेपणं व्रजे ।
निधनं राक्षसानां च सर्पराजविवासनम् २१८।
धारणं गिरिवर्यस्य शतक्रतुसमागमम् ।
निवेदयित्वा कंसस्य सर्वं निरवशेषतः २१९।
प्रययौ ब्रह्मभवनं पूजितस्तेन रक्षसा ।
कंसः समुद्विग्नमना मंत्रिभिः परिवेष्टितः २२०।
मंत्रयामास तैः साकमात्मनो निधनं प्रति ।
तत्र बुद्धिमतां श्रेष्ठमक्रूरं धर्मवत्सलम् ।
उवाचात्महितं कार्यं दानवेंद्रो महाबलः २२१।
कंस उवाच-
मद्भयात्त्रिदशाः सर्वे शतक्रतुपुरोगमाः ।
विष्णोः समीपमागत्य भयार्त्ताः शरणं गताः २२२।
स तेषामभयं दत्वा भगवान्भूतभावनः ।
उत्पन्नो देवकीगर्भे मां हंतुं मधुसूदनः २२३।
वसुदेवोऽपि दुष्टात्मा वंचयित्वा तु मां निशि ।
पुत्रं निक्षिप्तवान्गेहे नंदस्य सुदुरात्मनः २२४।
बालेनैव दुराधर्षो विजघान महासुरान् ।
मां हंतुमपि संनद्धो भवेदेव न संशयः २२५।
स तु हंतुं न वै शक्तः सेंद्रैरपि सुरासुरैः ।
उपायेनैव हंतव्यः समानीय मया तदा २२६।
मदोत्कटैस्तु मातंगैर्मल्लैश्च वरवाजिभिः ।
येनकेनाप्युपायेन हंतुं शक्यमिहैव तु २२७।
तस्मात्त्वं गोव्रजं गत्वा कृष्णं रामं च यादव ।
सर्वान्गोपालवृद्धांश्च नंदगोपपुरोगमान् ।
उपभोक्तुं धनुर्यागामिहानय यदूत्तम २२८।
महादेव उवाच-।
तथेत्युक्त्वा यदुश्रेष्ठो रथमारुह्य वीर्यवान् ।
प्रययौ गोकुलं रम्यं कृष्णं संदर्शनोत्सुकः २२९।
महाभागवतश्रेष्ठो गवां मध्ये व्यवस्थितम् ।
ददर्श कृष्णमक्लिष्टमक्रूरो विनयान्वितः २३०।
नीलनीरदसंकाशं सर्वाभरणभूषितम् ।
पद्मपत्रं विशालाक्षं दीर्घबाहुमनामयम् २३१।
पीतवस्त्रेण संवीतं सर्वावयवसुंदरम् ।
कौस्तुभोद्भासितोरस्कं रत्नकुंडलशोभितम् २३२।
तुलसीवनमालाढ्यं वन्यपुष्पावतंसकम् ।
गोपकन्यापरिवृतं दृष्ट्वा तत्र जनार्दनम् २३३।
पुलकांकितसर्वांगो हर्षाश्रुप्लुतलोचनः ।
अवरुह्य रथात्तस्मात्प्रणनाम यदूद्वहः २३४।
हर्षात्समेत्य गोपालं परिणीय प्रणम्य च ।
रक्तारविंदसदृशौ वज्रचक्राङ्कचिह्नितौ २३५।
स्वमूर्ध्नि धृत्वा पादाब्जौ प्रणनाम पुनः पुनः ।
कैलासशिखराभासं नीलांबरधरं प्रभुम् २३६।
शरत्पूर्णेंदुसदृशं मुक्तादामविभूषितम् ।
बलरामं ततो दृष्ट्वा प्रणनाम स यादवः २३७।
हर्षेणोत्थाप्य तौ वीरौ परिगृह्य यदूत्तमौ ।
गृहमाजग्मतुर्वीरौ तेनाक्रूरेण वृष्णिना २३८।
नंदगोपस्तु तं दृष्ट्वा यदुश्रेष्ठं समागतम् ।
अभिगम्य महातेजा निवेश्य परमासने २३९।
अर्चयामास विधिवदर्घ्यपाद्यादिभिर्मुदा ।
वस्त्रैः समर्हणैर्दिव्यैरर्चयामास भक्तितः २४०।
अक्रूरो रामकृष्णाभ्यां वस्त्राण्याभरणानि च ।
प्रददौ नंदगोपाय यशोदायै च यादवः २४१।
पृष्ट्वा कुशलमव्यग्रमासीनस्तु कुशासने ।
राजकार्याणि सर्वाणि संपृष्टोवाच बुद्धिमान् २४२।
अक्रूर उवाच-
एष कृष्णो महातेजास्साक्षान्नारायणोऽव्ययः ।
देवतानां हितार्थाय साधूनां रक्षणाय च २४३।
भूभारकविनाशाय धर्मसंस्थापनाय च ।
कंसादीनां तु दैत्यानां सर्वेषां निधनाय च २४४।
संप्रार्थितः सुरगणैर्मुनिभिश्च महात्मभिः ।
देवकीजठरे जातः प्रावृट्काले महानिशि २४५।
भयात्कंसस्य देवेशमानीयानकदुंदुभिः ।
तव गेहे तदा रात्रौ पुत्रं निःक्षिप्तवान्हरिम् २४६।
तस्मिन्नेव तु कालेऽपि यशोदा तु यशस्विनी ।
कन्यां मायांशसंभूतां प्रसूता तु शुभाननाम् २४७।
तया संमोहितं सर्वमिदं व्रजकुलं शुभम् ।
मूर्च्छिताया यशोदायाः शयने यदुपुङ्गवम् २४८।
कृष्णं निक्षिप्य तां कन्यामादाय स्वगृहं ययौ ।
तां तु निक्षिप्य देवक्याः शयने बहिरागमत् २४९।
सा रुरोद ततः क्षिप्र देवकीशयने स्थिता ।
तच्छ्रुत्वा सहसा कंसः कन्यामादाय सुव्रत २५० 6.245.250।
भ्रामयित्वा शिलापृष्ठे चिक्षेपोत्पत्य वीर्यवान् ।
समुत्थाय च सा कन्या सायुधाष्टभुजान्विता ।
गगनस्था रुषा कंसं प्राह गंभीरया गिरा २५१।
कन्योवाच-
योऽनंतः सर्वदेवानामीश्वरः पुरुषोत्तमः ।
यातस्तव वधार्थाय गोव्रजे दानवाधम २५२।
अक्रूर उवाच-
इत्युक्त्वा सा महामाया हिमवंतं समाययौ ।
तदाप्रभृति दुष्टात्मा भयादुद्विग्नमानसः २५३।
दानवान्प्रेषयामास निधनाय महात्मनः ।
बालेनैव हताः सर्वे लीलयानेन धीमता २५४।
अत्यद्भुतानि कर्माणि कृतवान्परमेश्वरः ।
गोवर्द्धनादिधरणं नागराजविवासनम् २५५।
समागमं महेंद्रस्य निधनं सर्वरक्षसाम् ।
श्रुत्वा देवर्षिणा ख्यातमतीव भयपीडितः २५६।
इतो नीत्वा महाबाहू रामकृष्णौ दुरासदौ ।
मदोत्कटैर्महानागैर्मल्लैर्वा हंतुमुद्यतः २५७।
कृष्णस्यानयनार्थाय प्रेरयामास मामिह ।
वसुदेवस्य दुष्टात्मा निग्रहं कृतवानसौ २५८।
एतत्सर्वं समाख्यातं चेष्टितं सुदुरात्मनः ।
उपभोक्तुं धनुर्यागं यूयं सर्वे व्रजौकसः २५९।
दध्याज्यादिगृहीत्वा वै श्वोभूते गंतुमर्हथ ।
सहिता रामकृष्णाभ्यां गोपाः सर्वे तदंतिकम् २६०।
कृष्णेन निहतः कंसो भविष्यति न संशयः ।
परित्यज्य भयं तस्माद्गमिष्यध्वं नृपाज्ञया २६१।
ईश्वर उवाच-
इत्युक्त्वा स तदाक्रूरस्तूष्णीमासीत्सुबुद्धिमान् ।
तस्य तद्वचनं श्रुत्वा दारुणं रोमहर्षणम् २६२।
नंदगोपमुखाः सर्वे गोपवृद्धा भयातुराः ।
अभाषिरे महादुःखसागरे शोकमोहिताः २६३।
तानाश्वास्य हरिस्तत्र दृष्ट्वा कमललोचनः ।
न भीः कार्येति संप्राह राक्षसं प्रति वीर्यवान् २६४।
विनाशाय प्रयास्यामि कंसस्यास्य दुरात्मनः ।
मथुरां सह रामेण भवद्भिः सह संगतः २६५।
तत्र हत्वा दुरात्मानं कंसं दानवपुंगवम् ।
सर्वांश्च राक्षसान्हत्वा पालयिष्यामि मेदिनीम् २६६।
तस्माच्छोकं परित्यज्य गच्छध्वं मथुरां पुरीम् ।
एवमुक्तास्तु हरिणा गोपानंदपुरोगमाः २६७।
मुहुर्मुहुः परिष्वज्य मूर्द्धघ्राणं प्रचक्रिरे ।
अप्रमेयानि कर्माणि विचार्य सुमहात्मनः २६८।
अक्रूरवचनाच्चैव गोपाः सर्वे गतव्यथाः ।
दुग्धदध्याज्ययुक्तानि शुचीनि विविधानि च २६९।
पक्वान्नानि सुहृद्यानि स्वादूनि मधुराणि च ।
अक्रूराय ददौ सौम्यं यशोदा भोजनं बहु २७०।
सहितो रामकृष्णाभ्यां नंदाद्यैर्गोपसत्तमैः ।
सुहृद्भिर्बालवृद्धैश्च भवने समलंकृते २७१।
दत्तं यशोदया सौम्यं भोजनं कलुषापहम् ।
बुभुजे यादवश्रेष्ठो ह्यन्नं रोगापहं शुभम् २७२।
भोजयित्वा यथान्यायं दत्त्वा च मनमंभसा ।
सकर्पूरं सतांबूलं ददौ तस्मै दृढव्रता २७३।
अस्तंयाते दिनकरे संध्यामन्वास्य यादवः ।
सहितो रामकृष्णाभ्यां भुक्त्वा क्षीरान्नमुत्तमम् २७४।
ताभ्यामेव तदाक्रूरः शयनं समुपाविशत् ।
तस्मिंस्तु भवने श्रेष्ठे रम्ये दीपविराजिते २७५।
श्लक्ष्णे विचित्रपर्यंके नानापुष्पविराजिते ।
तस्मिन्शेते हरिः कृष्णः शेषे नारायणो यथा २७६।
तं दृष्ट्वा सहसाऽक्रूरो हर्षाश्रुपुलकांकितः ।
विहाय तामसीं निद्रां सुश्रेयः समुदीक्ष्य वै २७७।
पादसंवाहनं विष्णोश्चक्रे भागवतोत्तमः ।
एतावता मे साफल्यं जीवितं च सुजीवितम् २७८।
इदं त्रैलोक्यमैश्वर्यमिदं वै सुखमुत्तमम् ।
इदं राज्यमिदं धर्म्यमिदं मोक्षसुखं परम् २७९।
न शक्यं मनसा स्मर्तुं शिवब्रह्मादिदैवतैः ।
सनकाद्यैर्मुनींद्रैस्तु वसिष्ठाद्यैर्महर्षिभिः २८०।
तच्छ्रीशस्य पदद्वंद्वं शरदंबुरुहोज्ज्वलम् ।
संस्पृष्टमिंदिरा लक्ष्म्या कराभ्यां सुसुखं परम् २८१।
दिष्ट्या लब्धं मया विष्णोः श्रीपादाब्जयुगं शुभम् ।
व्यतीता सा क्षणाद्रात्रिस्तब्रह्मानंदगौरवात् २८२।
ततः प्रभाते विमले दिवि देवगणोत्तमैः ।
संस्तूयमानो बुबुधे तस्मात्तु शयनाद्धरिः २८३।
उपस्पृश्य यथान्यायं सह रामेण धीमता ।
पपात पादयोर्मातुः प्रयाणं चाभ्यरोचयत् २८४।
समुत्थाप्य यशोदा तु दुःखहर्षसमन्विता ।
अश्रुपूर्णमुखी पुत्रौ प्रेम्णा संपरिषस्वजे २८५।
आशिषं प्रददौ देवी तनयाभ्यां दृढव्रता ।
विससर्ज महावीरौ समालिङ्ग्य मुहुर्मुहुः २८६।
अक्रूरोऽपि यशोदायै प्रणम्य प्राह सांजलि २८७।
अक्रूर उवाच-
प्रयास्यामि महाभागे प्रसादं कुरु मेऽनघे ।
एष कृष्णो महाबाहुः कंसं हत्वा महाबलम् २८८।
सर्वस्य जगतो राजा भविष्यति न संशयः ।
तस्माच्छोकं परित्यज्य सुखी भव वरानने २८९।
ईश्वर उवाच-
इत्युक्तया तयाऽक्रूरो विसृष्टो यदुसत्तमः ।
सहितो रामकृष्णाभ्यामारुरोह रथोत्तमम् २९०।
प्रययौ मथुरां शीघ्रं स्तूयमानोऽप्सरोगणैः ।
नंदगोपमुखाः सर्वे गोपवृद्धास्तमन्वयुः २९१।
पुनर्गृहीत्वा दध्याज्यं फलानि विविधानि च ।
तं प्रयांतं हरिं दृष्ट्वा गोकुलाद्गोपयोषितः २९२।
अनुजग्मुर्विनिष्क्रांतं रथस्थं मधुसूदनम् ।
निवर्त्तयामास हरिस्ताः सर्वा गोपयोषितः २९३।
शोकसंतप्तहृदया विलेपुः कमलेक्षणम् ।
हा कृष्ण कृष्ण कृष्णेति गोविंदेत्यरुदन्मुहुः २९४।
अश्रुपूर्णेक्षणादीना रुदंत्यस्तत्र संस्थिताः ।
अथाक्रूरो रथं दिव्यं चोदयामास गोव्रजात् २९५।
सहितो रामकृष्णाभ्यां मथुरां प्रति यादवः ।
उत्तीर्य यमुनां शीघ्रं कूले स्थाप्य रथोत्तमम् २९६।
अवरुह्य रथात्तस्मात्स्नातुं तत्रोपचक्रमे ।
तथा चावश्यकं कर्तुं निमज्ज्याथ जले शुभे २९७।
तत्राघमर्षणं सम्यग्जपन्भागवतोत्तमः ।
ददर्श तौ जले तत्र रामकृष्णौ शुभान्वितौ २९८।
शरत्कोटींदुसंकाशं नीलांबरधरं प्रभुम् ।
दिव्यचंदनदिग्धांगं मौक्तिकाभरणच्छविम् २९९।
रक्तारविंदनयनं पुडंरीकावतंसकम् ।
रामं ददर्श कृष्णं च नीलनीरदसन्निभम् ३०० 6.245.300।
दिव्यपीतांबरधरं पुंडरीकायतेक्षणम् ।
हरिचंदनलिप्तांगं नानारत्नविभूषितम् ३०१।
दृष्ट्वा तत्र यदुश्रेष्ठो विस्मयं परमंगतः ।
उत्थाय स्यंदने तत्र तौ ददर्श महाबलौ ३०२।
पुनरप्यत्र निर्मज्ज्य जपन्मंत्रद्वयं हरिम् ।
सुधाब्धौ शेषपर्यंके रमया सहितं हरिम् ३०३।
सनकाद्यैस्तूयमानं सर्वैर्देवैरुपासितम् ।
दृष्ट्वा तस्मिन्जले देवं विस्मयं परमं ययौ ।
तुष्टावाथ यदुश्रेष्ठो हरिं सर्वगमीश्वरम् ३०४।
अक्रूर उवाच-
कालात्मने नमस्तुभ्यमनादिनिधनाय च ।
अव्यक्ताय नमस्तुभ्यमविकाराय ते नमः ३०५।
भूतभर्त्रे नमस्तुभ्यं भूतव्याघ्र नमो नमः ।
नमस्ते सर्वभूतानां नियन्त्रे परमात्मने ३०६।
विकारायाविकाराय प्रत्यक्षपुरुषाय च ।
गुणभर्त्रे नमस्तुभ्यं नियमाय नमो नमः ३०७।
देशकालादिनिर्भेदरहिताय परात्मने ।
अनंताय नमस्तुभ्यमच्युताय नमो नमः ३०८।
गोविंदाय नमस्तुभ्यं त्रयीनाथाय शार्ङ्गिणे ।
नारायणाय विश्वाय वासुदेवाय ते नमः ३०९।
विष्णवे पुरुरूपाय शाश्वताय नमो नमः ।
पद्मनेत्राय नित्याय शंखचक्रधराय च ३१०।
उद्यत्कोटिरविप्रख्य भूषणांचित वर्चसे ।
हरये सर्वलोकानामीश्वराय नमो नमः ३११।
सवित्रे सर्वजगतां बीजाय परमात्मने ।
संकर्षणाय कृष्णाय प्रद्युम्नाय नमो नमः ३१२।
अनिरुद्धाय धात्रे च विधात्रे विश्वयोनये ।
सहस्रमूर्त्तये तुभ्यं बहुमूर्द्धांघ्रिबाहवे ३१३।
सहस्रनाम्ने नित्याय पुरुषाय नमो नमः ।
नमस्ते नागपर्यंकशायिने सौम्यरूपिणे ३१४।
केशवाय नमस्तुभ्यं पीतवस्त्रधराय च ।
लक्ष्मीघनकुचाश्लेष विमर्दोज्ज्वलवर्चसे ।
श्रीधराय नमस्तुभ्यं श्रीशायानंतरूपिणे ३१५।
ईश्वर उवाच-
स्नानकाले पठेद्यस्तु देवं ध्यायन्सनातनम् ।
इमं स्तवं नरो भक्त्या महद्भिर्मुच्यते ह्यघैः ३१६।
सर्वतीर्थफलं प्राप्य विष्णुसायुज्यमाप्नुयात् ।
एवमंतर्जले देवं स्तुत्वा भागवतोत्तमः ३१७।
अर्चयामास स जलैः कुसुमैश्च सुगंधिभिः ।
कृतकृत्यस्तदाक्रूरो निर्गत्य यमुनाजलात् ३१८।
समेत्य रामकृष्णौ तु प्रणनाम शुभान्वितः ।
तं दृष्ट्वा प्राह गोविंदो विनीतं विस्मितं हरिः ३१९।
श्रीकृष्ण उवाच-
किमाश्चर्यं जले तस्मिन्दृष्टवानसि यादव ।
ईश्वर उवाच-
अक्रूरस्तु यदुश्रेष्ठं प्राह कृष्णं सुतेजसम् ३२०।
अक्रूर उवाच-
तव सर्वगतस्येश महिम्नो जगतः प्रभो ।
किमाश्चर्यं हृषीकेश जगत्सर्वं त्वमेव हि ३२१।
त्वमापस्त्वं नभो वह्निस्त्वं भूमिरनिलस्तथा ।
चतुर्विधमिमं सर्वं जगत्स्थावरजंगमम् ३२२।
त्वत्तो नान्यद्वासुदेव जीमूतादमृतं यथा ।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारो हविस्तथा ३२३।
त्वमेव सर्वदेवानामीश्वरः शाश्वतोऽव्ययः ।
नाकारणात्कारणाद्वा करणाकारणात्परः ३२४।
धर्मत्राणाय देवेश शरीरग्रहणं तव ।
मत्स्यकूर्मवराहादि वैभवत्वमुपागतः ३२५।
पासि सर्वमिमं लोकं त्वमेव त्वन्मयं विभो ३२६।
ईश्वर उवाच-
इति संस्तुत्य गोविंदं प्रणम्य जगतां पतिम् ।
आरुरोह रथं दिव्यं ताभ्यां सह यदूत्तमः ३२७।
ततस्तूर्णं समासाद्य मथुरां देवनिर्मिताम् ।
रामकृष्णौ पुरद्वारि निवेश्यांतःपुरं ययौ ३२८।
तयोरागमनं तस्य निवेद्य नृपतेस्तदा ।
राज्ञा संपूजितस्तेन ततः स्वगृहमाविशत् ३२९।
अथ सायाह्नसमये रामकृष्णौ महाबलौ ।
परस्परं करौ गृह्य मथुरायां समागतौ ३३०।
गछन्तौ च महावीर्यौ राजमार्गे यदूत्तमौ ।
ददृशतुर्महात्मानौ रजकं वस्त्ररंजकम् ३३१।
दिव्यवस्त्रवृतं राजगेहमायांतमच्युतः ।
ययाचे तानि वस्त्राणि सह रामेण वीर्यवान् ३३२।
न दत्तवांस्तदा तस्मै रुषा वै वस्त्ररंजकः ।
बहूनि कटुवाक्यानि प्राह तत्राध्वनि स्थितः ३३३।
ताडयामास तं कृष्णस्तलेनैव महाबलः ।
तत्रैव निहतो मार्गे वमन्वै रुधिरं बहु ३३४।
तानि वस्त्राणि रम्याणि गोपालैः सह बांधवैः ।
धारयामासतुर्वीरौ यथाहं रामकेशवौ ३३५।
मालाकारगृहं प्राप्य तेन दृष्टौ नमस्कृतौ ।
सुगंधिभिर्दिव्यपुष्पैः पूज्यमानौ मुदान्वितौ ३३६।
ददतुस्तौ वरं तस्मै वांछितं यदुपुंगवौ ।
समागतौ पुनर्वीथ्यामायांतीं च शुभाननाम् ३३७।
कुब्जां स्त्रियं महाभागौ धृतचंदनभाजनाम् ।
वक्रांगपृष्ठां वनितां दृष्ट्वा गंधमयाचतम् ३३८।
प्रहसंती तदा ताभ्यां ददौ चंदनमुत्तमम् ।
आदाय चंदनं दिव्यमुपलिप्य यथेच्छया ३३९।
तस्यैकांततरं रूपं दत्त्वाऽध्वनि समागतौ ।
निरीक्ष्यमाणौ योषिद्भिः सुकुमारौ शुभाननौ ३४०।
विवेशतुर्महात्मानौ यज्ञशालां सहानुगैः ।
दृष्ट्वा समर्चितं दिव्यं कार्मुकं तत्र केशवः ३४१।
लीलयैव गृहीत्वाऽथ बभंज मधुसूदनः ।
बिभज्यमानं तच्चापं श्रुत्वा कंसः सुविह्वलः ३४२।
आहूय मल्लान्सूतांस्तु प्रमुखान्दैत्यपुंगवान् ।
विमृश्य मंत्रिभिः प्राह चाणूरं दैत्यपुंगवः ३४३।
कंस उवाच-
रामकृष्णौ समायातौ सर्व दैत्यविनाशकौ ।
प्रभाते मल्लयुद्धेन हन्यतामविशंकया ३४४।
येनकेनाप्युपायेन हंतव्यौ बलदर्पितौ ।
मदोत्कटैर्गजैर्वापि मल्लमुख्यैश्च यत्नतः ३४५।
ईश्वर उवाच-
इत्यादिश्य ततो राजा सानुजः सचिवैः सह ।
आरुरोह भयात्तूर्णं दिव्यप्रासादमूर्द्धनि ३४६।
द्वारेषु सर्वमार्गेषु गजान्मत्तानयोजयत् ।
मल्लान्मदोत्कटान्नागान्स्थापयामास सर्वतः ३४७।
ज्ञात्वा कृष्णोऽपि तत्सर्वं सह रामेण धीमता ।
उवास रजनीं तत्र यज्ञगेहे सहानुगैः ३४८।
ततो रजन्यां व्युष्टायां प्रभाते विमले सति ।
शयनादुत्थितौ वीरौ रामकृष्णौ कृतोदकौ ३४९।
स्वलंकृतौ च तौ भुक्त्वा संग्रामाभिमुखोत्सुकौ ।
विनिर्गतौ गृहात्तस्मात्सिंहाविव महागुहात् ३५० 6.245.350।
राजद्वारि स्थितं नागं हिमाद्रिशिखरोपमम् ।
नाम्ना कुवलयापीडं कंसस्य जयवर्द्धनम् ३५१।
देवकुंजरदर्पघ्नं महाकायं मदोत्कटम् ।
दृष्ट्वा तं च महानागं पंचास्य इव केशवः ३५२।
करेणैव करं गृह्य सम्यगुत्प्लुत्य लीलया ।
भ्रामयित्वाथ चिक्षेप धरण्यां धरणीधरः ३५३।
स तु चूर्णितसर्वांगो निनदन्भैरवं स्वनम् ।
पपात सहसा भूमौ ममार च महागजः ३५४।
हत्वा दंतौ समुत्पाट्य गृहीत्वा रामकेशवौ ।
मल्लैरायोधनं कर्तुं रंगं विविशतुस्तदा ३५५।
तत्रस्था दानवा दृष्ट्वा गोविंदस्य पराक्रमम् ।
भीताः प्रविद्रुताःसर्वे राज्ञोंतःपुरमाययुः ३५६।
कपाटौ सुदृढौ बध्वा तत्र तस्थुः सहस्रशः ।
दृढबंधकपाटांस्तु दृष्ट्वा कृष्णस्तु लीलया ३५७।
ताडयित्वा पदेनैव पातयामास वीर्यवान् ।
तौ भग्नौ पातितौ तत्र सेनानीके व्यवस्थिते ३५८।
तत्रस्था निहताः सर्वे चूर्णितांगशिरोधराः ।
ततः प्रविश्य भवनं कंसस्यास्य महाबलौ ३५९।
भ्रामयंतौ महाभाग शृंगौ पीनौ रणोत्सुकौ ।
ददृशाते महात्मानौ मल्लौ चाणूरमुष्टिकौ ३६०।
कंसोऽपि दृष्ट्वा गोविंदं रामं च सुमहाबलम् ।
भयमाविश्य चाणूरं प्राह मल्लवरं तदा ३६१।
कंस उवाच-
अस्मिन्नवसरे मल्ल जहि गोपालबालकौ ।
विभज्य तव राज्यार्द्धमहं दास्याम्ययत्नतः ३६२।
ईश्वर उवाच-
तस्मिन्नवसरे कृष्णो मल्लाभ्यां दृश्यते महान् ।
मध्ये वने च संग्रामे महामेरुरिवापरः ३६३।
कंसस्य दृष्टिविषये संवर्त्ताग्निरिवाच्युतः ।
स्त्रीणां च साक्षान्मदनः पित्रोः शिशुरिवापरः ३६४।
त्रिदशानां हरिरिव गोपालानां सखा यथा ।
बहुरूपेण ददृशुस्तत्र सर्वगतं हरिम् ३६५।
वसुदेवस्तथाऽक्रूरो नंदगोपो महामतिः ।
अन्यं प्रासादमारुह्य ददृशुः कदनं महत् ३६६।
स्त्रीभिरंतःपुरस्थाभिर्देवकी तत्र संस्थिता ।
मुखं पुत्रस्य ददृशे साश्रुपूर्णेक्षणा शुभा ३६७।
ताभिराश्वासिता देवी भवनांतरमाविशत् ।
ततो देवगणाः सर्वे विमानस्था नभस्तले ३६८।
तुष्टुवुर्जयशब्देन पुंडरीकाक्षमच्युतम् ।
जहि कंसमिति प्राहुरुच्चैर्देवा मरुद्गणाः ३६९।
एतस्मिन्नंतरे तत्र तूर्यघोषनिनादिते ।
आसेदतुर्महामल्लौ यदुसिंहौ महाबलौ ३७०।
चाणूरेण तु गोविंदो मुष्टिकेन हलायुधः ।
युयुधाते महात्मानौ नीलश्वेताद्रि सन्निभौ ३७१।
मल्लयुद्धविधानेन मुष्टिभिः पादताडनैः ।
बभूव कदनं घोरं देवानां च भयावहम् ३७२।
चाणूरेण चिरं कालं क्रीडित्वाऽथ जनार्दनः ।
निष्पिष्य गांत्रं मल्लस्य पातयामास लीलया ३७३।
स पपात महीपृष्ठे संवमन्रुधिरं बहु ।
ममार च महामल्लो देवदानवदुःखदः ३७४।
मुष्टिकेन तथा रामश्चिरकालमयुध्यत ।
मुष्टिभिस्ताडयामास तस्य वक्षसि वीर्यवान् ३७५।
भिन्नास्थि स्नायुबंधोऽसौ पपात धरणीतले ।
ततस्तु दुद्रुवुः सर्वे मल्ला दृष्ट्वा पराक्रमम् ३७६।
कंसो महद्भयं तीव्रमाविशद्वेदनातुरः ।
एतस्मिन्नंतरे वीरौ रामकृष्णौ दुरासदौ ३७७।
आरोहतुर्महात्मानौ चैत्यप्रासादमूर्जितम् ।
ताडयित्वा तलेनैव कंसं मूर्ध्नि जनार्दनः ३७८।
अपातयद्धरा पृष्ठे प्रासादशिखराद्धरिः ।
स तु निर्भिन्नसर्वांगो धरण्यां त्यक्तजीवितः ३७९।
कृष्णेन निहते कंसे रामोऽपि सुमहाबलः ।
तस्यानुजं सुनामानं मुष्टिनैव जघान ह ३८०।
धरण्यां पातयामासानुजं च धरणीधरः ।
हत्वा कंसं दुरात्मानं सानुजं रामकेशवौ ३८१।
पित्रोः समीपमागम्य भक्त्या चैव प्रणेमतुः ।
देवकीवसुदेवश्च परिष्वज्य मुहुर्मुहुः ३८२।
स्नेहेन मूर्ध्न्युपाघ्राणं चक्रतुः पुत्रलालसौ ।
तयोरुपरि देवक्याः स्तनौ क्षीरं ववर्षतुः ३८३।
तत आश्वास्य पितरौ रामकृष्णौ बहिर्गतौ ।
एतस्मिन्नंतरे देवि देवदुंदुभयो दिवि ३८४।
विनेदुः पुष्पवर्षाणि ववृषुस्त्रिदशेश्वराः ।
स्तुत्वा मरुद्गणैर्दिव्यैर्नमस्कृत्य जनार्दनम् ३८५।
परं हर्षमनुप्राप्य लोकान्स्वान्स्वान् प्रपेदिरे ।
नंदगोपं नमस्कृत्य गोपवृद्धांश्च केशवः ३८६।
रामेण सह धर्मात्मा मुदा संपरिषस्वजे ।
बहुरत्नधनं तस्मै ददौ प्रीत्या जनार्दनः ३८७।
सर्वांस्तान्गोपवृद्धांश्च वस्त्रैराभरणादिभिः ।
बहुभिर्धनधान्यैश्च पूजयामास केशवः ३८८।
विसृष्टास्तेन कृष्णेन नंदगोपपुरोगमाः ।
प्रययुर्गोव्रजं दिव्यं हर्षशोकसमन्विताः ३८९।
मातामहं समासाद्य रामकृष्णौ दुरासदौ ।
बंधाद्विमोचयित्वाथ समाश्वास्य मुहुर्मुहुः ३९०।
चक्रे तस्याभिषेकं तु तद्राज्ये मधुसूदनः ।
अकारयद्द्विजश्रेष्ठैः स कंसस्योर्ध्वदैहिकम् ३९१।
अक्रूरप्रमुखान्राज्ये संस्थाप्य यदुपुंगवान् ।
राजानमुग्रसेनं तु कृत्वा धर्मेण मेदिनीम् ।
पालयामास धर्मात्मा वसुदेवसुतो हरिः ३९२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीकृष्णचरिते कंसवधोनाम पंचचत्वारिंशदधिकद्विशततमोऽध्यायः २४५ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 246
श्रीमहेश्वर उवाच-
अथोपनयनं नाम चकारानकदुंदुभिः ।
पुत्रयोर्वेदविधिना तस्मिन्वै रामकृष्णयोः १।
आचार्येण हि गर्गेण संस्कृतौ रामकेशवौ ।
पंडितैर्वैष्णवैर्दिव्यैः स्नापनैर्विमलैः शुभैः २।
कृतसंस्कारकर्माणौ रामकृष्णौ महाबलौ ।
सांदीपनेर्गृहं गत्वा नमस्कृत्य महात्मनः ३।
अधीत्य वेदशास्त्राणि तस्मात्तौ द्विजपुंगवात् ।
मृतं पुत्रं समानीय ददतुस्तस्य दक्षिणाम् ४।
आशिषो वचनं लब्ध्वा गुरोस्तस्मान्महात्मनः ।
तस्मै प्रणम्य मथुरां जग्मतुर्यदुपुंगवौ ५।
अथ कृष्णेन निहतं श्रुत्वा कंसं दुरासदम् ।
श्वशुरस्तस्य नृपतेर्जरासंधो महाबलः ६।
अक्षौहिणीसहस्रैस्तु सेनानीकैर्महाबलैः ।
कृष्णं हंतुं समागत्य रुरोध मथुरां पुरीम् ७।
रामकृष्णौ महावीर्यौ विनिर्गत्य पुरोत्तमात् ।
गजवाजिसमाकीर्णं तद्बलौघमपश्यताम् ८।
सस्मार वासुदेवस्तु पूर्वं रूपं सनातनम् ।
तस्य स्मरणमात्रेण दारुको विष्णुसारथिः ९।
सुग्रीवपुष्पकं नाम समानीय महारथम् ।
वाजिभिर्दिव्यपुष्पाद्यैरुह्यमानं सनातनम् १०।
दिव्यायुधैरुपेतं तं शंखचक्रगदादिभिः ।
वैनतेयपताकेन शोभितं देवदुर्जयम् ११।
अवनीं प्राप्य गोविंदं प्रणम्य हरिसारथिः ।
प्रददौ स्यंदनं शुभ्रं सायुधाश्वसमन्वितम् १२।
दृष्ट्वा हर्षेण कृष्णोऽपि परिणीय महारथम् ।
आरुरोहाग्रजेनैव स्तूयमानो मरुद्गणैः १३।
चतुर्भुजं वपुर्भूत्वा शंखचक्रगदासिभृत् ।
किरीटी कुंडली स्रग्वी संग्रामाभिमुखं ययौ १४।
बलदेवोऽपि मुशलं लांगलं गृह्य वीर्यवान् ।
तत्सैन्यं हंतुमारेभे महेश्वर इवापरः १५।
दारुकश्च रथं शीघ्रं नोदयामास तद्रणे ।
तृणगुल्मलताक्रांते काननेऽग्निमिवानिलः १६।
ततो गदाभिः परिघैः शक्तिभिर्मुद्गरैस्तथा ।
तद्रथं छादयामासुर्जरासंधस्य सैनिकाः १७।
चक्रेणैव हरिस्तूर्णं तानि चिच्छेद लीलया ।
बहूनि तृणकाष्ठानि महावह्निरिवार्चिषा १८।
ततः शार्ङ्गं समादाय सायकैरक्षयैः शितैः ।
चिच्छेद तानि सैन्यानि न प्राज्ञायत किंचन १९।
चक्रच्छिन्नास्यकमलाः केचित्तत्र महाबलाः ।
गदया चूर्णिताः केचित्केचिदन्यैर्महारणे २०।
केचिच्चैवासिनाछिन्नास्तथान्ये शरताडिताः ।
लांगलाग्रहतग्रीवा मुशलाहतमस्तकाः २१।
क्षणेन तद्बलं सर्वं निहत्य मधुसूदनः ।
शंखं दध्मौ यदुश्रेष्ठो लयाशनि निभस्वनम् २२।
शंखरावविनिर्भिन्नहृदयास्ते महाबलाः ।
योधाः साश्वाः सनागाश्च पतितास्त्यक्तजीविताः २३।
अक्षौहिणीसहस्रं तु साश्वं सरथकुंजरम् ।
कृष्णेनैकेन निहतं निःशेषं तदभूद्बलम् २४।
निहतं वासुदेवेन प्रहरार्द्धेन शार्ङ्गिणा ।
ततो देवगणाः सर्वे हर्षनिर्भरचेतसः २५।
ववृषुः पुष्पवर्षाणि साधुसाध्विति चाब्रुवन् ।
सर्वमप्यवनीभारं विमुच्य धरणीधरः २६।
संस्तूयमानस्त्रिदशैर्बभौ संग्राममूर्द्धनि ।
निहतं स्वबलं दृष्ट्वा जरासंधोऽतिवीर्यवान् २७।
योद्धुमभ्याययौ तूर्णं बलदेवेन दुर्मतिः ।
तयोर्युद्धमभूद्धोरं संग्रामेष्वनिवर्तिनोः २८।
रामो लांगलमादाय रथं तस्य ससारथिम् ।
विनिपात्य रणे शूरो गृहीत्वा तं महाबलम् २९।
उद्यम्य मुशलं तूर्णं तं हंतुमुपचक्रमे ।
प्राणसंशयमापन्नं जरासंधं नृपोत्तमम् ३०।
कृतं रामेण बलिना सिंहेनेव महागजम् ।
दृष्ट्वा कृष्णोग्रजं प्राह न हंतव्य इति प्रभुः ३१।
मोचयामास धर्मात्मा जरासंधं महामतिः ।
विमुच्य कृष्णवाक्येन शत्रुं संकर्षणोऽव्ययः ३२।
सानुजो रथमारुह्य मथुरां प्रविवेश ह ।
स कालयवनं प्राप्य महावीर्यं बलान्वितम् ३३।
पुत्रयोर्वसुदेवस्य समाचष्ट पराक्रमम् ।
दानवानां वधं चैव कंसस्य निधनं तथा ३४।
अक्षौहिणीनां च वधं तथा स्वस्य पराजयम् ।
सर्वं निवेदयामास कृष्णस्य चरितं महत् ३५।
तच्छ्रुत्वा यवनः क्रुद्धो महाबलपराक्रमैः ।
म्लेच्छकोटिसहस्रैस्तु संवृतो मदसंयुतैः ३६।
मगधाधिपतेस्तस्य सहायार्थं महाबलः ।
तेनैव सहितस्तूर्णं जगाम मथुरां पुरीम् ३७।
बलैराच्छाद्य पृथिवीं नानाजनपदान्विताम् ।
संनिवेश्य महासैन्यं रुरोध मथुरां पुरीम् ३८।
कृष्णोऽपि चिंतयित्वाऽथ पौराणां कुशलं तदा ।
ययाचे सागरं भूमिं निवासार्थं जनस्य च ३९।
त्रिंशद्योजनविस्तीर्णां ददौ कृष्णस्य सागरः ।
असृजत्पयसां मध्ये तत्र द्वारवतीं पुरीम् ४०।
बहुप्रासादसंयुक्तां हेमप्राकारतोरणाम् ।
नानामणिमयैर्दिव्यैर्गृहपंक्तिभिरावृताम् ४१।
उद्यानैश्च तथा रम्यैस्तडागैर्बहुभिर्युताम् ।
असृजत्पुंडरीकाक्षो यथेंद्रस्यामरावतीम् ४२।
सुषुप्तान्मथुरायां तु पौरांस्तत्र जनार्दनः ।
उद्धृत्य सहसा रात्रौ द्वारावत्यां निवेशयत् ४३।
प्रबुद्धास्ते जनाः सर्वे पुत्रदारसमन्विताः ।
हेमहर्म्यतलेविष्टा विस्मयं परमं ययुः ४४।
बहुभिर्धनधान्यैश्च दिव्यवस्त्रविभूषणैः ।
परिपूर्णैरिवाभोगैर्गृहमुख्यैः समावृताः ४५।
तस्मिन्प्रहृष्टाः संतस्थुर्दिवि देवगणा इव ।
यवनेन तदा योद्धुं रामकृष्णौ महाबलौ ४६।
विनिर्ययतुरात्मेशौ मथुराया बहिस्तदा ।
रामो लांगलमादाय मुशलं च महारथः ४७।
जघान समरे क्रुद्धो यवनानां महद्बलम् ।
कृष्णस्तु शार्ङ्गमासज्य बाणैरग्निशिखोपमैः ४८।
निर्ददाह बलं सर्वं म्लेच्छानां देवकीसुतः ।
निहतं स्वबलं दृष्ट्वा स कालयवनो बली ४९।
युयुधे वासुदेवेन गदया यवनेश्वरः ।
कृष्णोऽपि कदनं तेन कृत्वा चिरमनामयः ५० 6.246.50।
विमुखः प्राद्रवत्तस्मात्संग्रामात्कमलेक्षणः ।
सोनुयातोऽतिवेगेन तिष्ठतिष्ठेति चाब्रुवन् ५१।
वेगात्कृष्णो गिरिगुहां प्रविवेश महामतिः ।
तत्र प्रसुप्तो राजाऽसौ मुचुकुंदो महामुनिः ५२।
अदृश्यस्तस्य नृपतेः संस्थितो भगवान्हरिः ।
यवनोऽपि महावीरो गदामुद्यम्य पाणिना ५३।
कृष्णं हंतु समारब्धो गुहां तां प्रविवेश ह ।
दृष्ट्वा शयानं राजानं मत्वा कृष्णं जनार्दनम् ५४।
पादेन ताडयामास मुचुकुंदं महामुनिम् ।
ततः प्रबुद्धो भगवान्मुचुकुंदो महामुनिः ५५।
क्रोधात्संरक्तनयनो हुंकारं कृतवानसौ ।
तस्य हुंकारशब्देन तथा क्रोधनिरीक्षणात् ५६।
निर्दग्धो भस्मतां प्राप यवनस्त्यक्तजीवितः ।
ततस्तु कृष्णो ददृशे राजर्षेः पुरतः प्रभुः ५७।
नीलोत्पलदलश्यामः पुंडरीकनिभेक्षणः ।
शंखचक्रगदापाणिः पीतवासा जनार्दनः ५८।
दृष्ट्वा तं सहसोत्थाय राजर्षिरमितौजसम् ।
अहोभाग्यमहोभाग्यमित्युवाच महामुनिः ५९।
पुलकांकितसर्वांगः सानंदाश्रुजलाकुलः ।
स्तुवन्वै जयशब्देन प्रणनाम मुहुर्मुहुः ६०।
मुचुकुंद उवाच-
धन्योस्मि कृतकृत्योस्मि दर्शनात्परमेश्वर ।
अद्य मे सफलं जन्म जीवितं सफलं मम ६१।
नमस्ते वासुदेवाय जगन्नाथाय शार्ङ्गिणे ।
दामोदराय देवाय तेजसां निधये नमः ६२।
अधोक्षजाय हरये नृसिंहवपुषे नमः ।
राघवाय नमस्तुभ्यं पुंडरीकेक्षणाय च ६३।
अच्युतायाविकाराय तथानंताय ते नमः ।
गोविंदाय नमस्तुभ्यं विष्णवे जिष्णवे नमः ६४।
नारायणाय श्रीशाय कृष्णाय परमात्मने ।
मुकुंदाय नमस्तुभ्यं चतुर्व्यूहाय ते नमः ६५।
नमः परमकल्याण नमस्ते परमात्मने ।
वासुदेवाय शांताय यदूनां पतये नमः ६६।
महेश्वर उवाच-
एवं स्तुत्वा तु गोविंदं प्रणनाम पुनः पुनः ।
संतुष्टो भगवान्प्राह मुचुकुंदं महामुनिम् ६७।
श्रीभगवानुवाच-
वरं वृणीष्व राजर्षे यत्ते मनसि वर्त्तते ।
महेश्वर उवाच-
सोऽपि मुक्तिं ययाचाथ पुनरावृत्तिवर्जिताम् ६८।
तस्मै ददौ तदा कृष्णो दिव्यं लोकं सनातनम् ।
राजा तु मानुषं रूपं विहायाथ महामतिः ६९।
समानं रूपमास्थाय देवस्य परमात्मनः ।
वैनतेयं समारुह्य शाश्वतं पदमाविशत् ७०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमाहेश्वरसंवादे श्रीकृष्णचरिते मुचुकुंदमोक्षोनाम षट्चत्वारिंशदधिकद्विशततमोऽध्यायः २४६।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 247
रुद्र उवाच-
हत्वाथ यवनं तत्र मुचुकुंदेन धीमता ।
दत्त्वा तस्मै वरं मुक्तिं निष्क्रांतो यदुनंदनः १।
हतं च यवनं श्रुत्वा जरासंधः सुदुर्मतिः ।
ययुधे रामकृष्णाभ्यां स्वबलेन समावृतः २।
कृष्णेन निहतं सैन्यं सर्वं तस्य दुरात्मनः ।
स पपात महीपृष्ठे मूर्च्छितो मगधाधिपः ३।
चिरेण लब्ध्वा संज्ञां तु विह्वलांगो भयातुरः ।
न शशाक रणे योद्धुं रामेण मगधेश्वरः ४।
विमुखः प्राद्रवत्तूर्णं हतशेषबलानुगः ।
अजेयाविति तौ मत्वा रामकृष्णौ महाबलौ ५।
तयोर्विरोधं त्यक्त्वाथ नगरीं स्वां विवेश ह ।
अथ तौ वसुदेवस्य तनयौ सह सेनया ६।
मथुरां त्यज्य नगरीं प्रविष्टौ द्वारिकां पुरीम् ।
इंद्रेण प्रेषितो वायुः सभां तत्र दिवौकसाम् ७।
कृष्णाय प्रददौ प्रीत्या निर्मितां विश्वकर्मणा ।
वज्रवैडूर्यरचितां बह्वासनविचित्रिताम् ८।
नानारत्नमयैर्दिव्यैः स्वर्णच्छत्रैर्विराजिताम् ।
तां प्राप्य रम्यां तु सभामुग्रसेनादयो नृपाः ९।
मोदंते नैगमैः सार्द्धं दिवि देवगणा इव ।
इक्ष्वाकुवंशसंभूतो रैवतो नाम पार्थिवः १०।
कन्यां दुहितरं स्वस्य सर्वलक्षणसंयुताम् ।
रामाय प्रददौ प्रीत्या रेवती नाम नामतः ११।
उपयेमे विधानेन स रामस्तां च रेवतीम् ।
रमयामास च तया शच्या इव सुरेश्वरः १२।
विदर्भराजो धर्मात्मा भीष्मको नाम धार्मिकः ।
बभूवुस्तस्य पुत्रास्तु रुक्मप्रभृतयः शुभाः १३।
तेषामवरजा कन्या रुक्मिणी वरवर्णिनी ।
कमलांशेन संभूता सर्वलक्षणसंयुता १४।
राघवत्वेभवत्सीता रुक्मिणी कृष्णजन्मनि ।
अन्येष्वेवावतारेषु विष्णोरेषा सहायिनी १५।
हिरण्यक हिरण्याक्षौ संभूतौ द्वापरे पुनः ।
शिशुपालो दंतवक्त्र इति नाम समन्वितौ १६।
चैद्यान्वये समुद्भूतौ महाबलपराक्रमौ ।
रुक्मिणी शिशुपालाय दातुमैच्छत्तदात्मजः १७।
तं नेच्छती पतिं सा तु शिशुपालं शुभानना ।
बाल्यात्प्रभृति वै विष्णुमनुरक्ता दृढव्रता १८।
उद्दिश्य कृष्णं भर्त्तारं सुराणामर्चनं सदा ।
चकार रुक्मिणी कन्या दानानि विविधानि च १९।
व्रतचर्यापराभूत्वा ध्यायंती पुरुषोत्तमम् ।
आत्मेशं स्वस्य भर्तारमुवास पितृमंदिरे २०।
कर्त्तुं तां शिशुपालाय विवाहं पार्थिवोत्तमः ।
चकार यत्नं पुत्रेण रुक्मिणा सविधीमता २१।
पुरोहितसुतं विप्रं प्रेषयामास रुक्मिणी ।
उद्दिश्य कृष्णं भर्त्तारं स तूर्णं द्वारकां ययौ २२।
समेत्य कृष्णं रामं च ताभ्यां विधिवदर्चितः ।
एकांते सर्वमाचष्ट रुक्मिणीभाषितं तयोः २३।
तच्छ्रुत्वा रामकृष्णौ तु तेन विप्रेण धीमता ।
सर्वशस्त्रास्त्रसंपूर्णं रथमाकाशगं प्रभुः २४।
आरुह्य सूतमुख्येन दारुकेण महात्मना ।
विदर्भनगरीं तूर्णं जग्मतुः पुरुषोत्तमौ २५।
राजानः सर्वराष्ट्रेभ्यो विवाहं द्रष्टुमागताः ।
जरासंधमुखाः सर्वे शिशुपालस्य धीमतः २६।
तस्मिन्नुद्वाहसमये रुक्मिणी रुक्मभूषणा ।
दुर्गां निःसृतार्चयितुं सखीभिर्नगराद्बहिः २७।
एतस्मिन्नेव काले तु संप्राप्तो देवकीसुतः ।
रथस्थां तां च जग्राह बलवान्मधुसूदनः २८।
सहसा रथमारोप्य ययौ तूर्णं स्वमालयम् ।
ततः क्रोधसमाविष्टा जरासंधमुखा नृपाः २९।
रुक्मिणा राजपुत्रेण युद्धाय समुपस्थिताः ।
अनुयाता हरिं क्रुद्धाश्चतुरंगबलान्विताः ३०।
बलभद्रो महाबाहुरवरुह्य रथोत्तमात् ।
लांगलं मुशलं गृह्य निजघान क्षणादरीन् ३१।
रथानश्वान्महानागांस्तथा पादचरानपि ।
लांगलमुशलाम्यां वै निजघान बलाद्रणे ३२।
तस्य लांगलपातेन चूर्णिता रथपंक्तयः ।
नागाश्च पतिता भूमौ वज्रेणेव महीधराः ३३।
निर्भिन्नमस्तकाः सर्वे वमंतो रुधिरं बहु ।
क्षणेनैव हतं सैन्यं बलरामेण वै तदा ३४।
साश्वं सनागं सरथं सपदातिं महारणे ।
समंतात्समरे तत्र सुस्रुवुः शोणितापगाः ३५।
प्रभग्नाः पार्थिवाः सर्वे दुद्रुवुर्भयपीडिताः ।
कृष्णेन कदनं चक्रे रुक्मी क्रोधवशाद्बली ३६।
धनुरुद्यम्य बाणौघैस्ताडयामास शार्ङ्गिणम् ।
ततः प्रहस्य गोविंदः शार्ङ्गमादाय लीलया ३७।
जघानैकेनबाणेन रथाश्वांस्तस्य सारथिम् ।
रथंध्वजं पताकां च चिच्छेद धरणीधरः ३८।
विरथः खङ्गमादाय धरण्यां स उपस्थितः ।
कृष्णस्तु खङ्गं चिच्छेद बाणेनैकेन वीर्यवान् ३९।
ततः स मुष्टिमुद्यम्य कृष्णं वक्षस्यताडयत् ।
तं जग्राह रणे वीरं निबध्य निबिडं हरिः ४०।
तीक्ष्णं क्षुरप्रमादाय प्रहसन्मधुसूदनः ।
शिरसो मुंडनं कृत्वा मुमोच च जनार्दनः ४१।
स तु शोकसमाविष्टो निःश्वसन्नुरगो यथा ।
आविवेश पुरं स्वीयं स तु तत्रैव चावसत् ४२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीकृष्णचरिते विदर्भसेनाविध्वंसनंनाम सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः २४७।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 248
रुद्र उवाच-
अथ कृष्णस्तु रामेण रुक्मिण्या दारुकेण च ।
दिव्यं स्यंदनमारुह्य ययौ तूर्णं स्वमालयम् १।
ततः प्रविश्य नगरीं द्वारकां देवकीसुतः ।
शुभेह्रि शुभलग्ने वै वेदोक्तविधिना हरिः २।
उपयेमे नृपसुतां रुक्मिणीं रुक्मभूषिताम् ।
तस्मिन्नुद्वाहसमये देवदुंदुभयो दिवि ३।
विनेदुः पुष्पवर्षाणि ववृषुः सुरसत्तमाः ।
वसुदेवोग्रसेनौ च तथाक्रूरो यदूत्तमः ४।
बलभद्रो महातेजा ये चान्ये यदुपुंगवाः ।
चक्रुः कृष्णस्य रुक्मिण्या विवाहं सुसुखं यथा ५।
नंदगोपोथ गोपालैर्गोपवृंदैः समागतः ।
स्वलंकृताभिर्योषाभिर्यशोदा च समागता ६।
वसुदेवस्त्रियः सर्वा देवकीप्रमुखास्तथा ।
रेवती रोहिणी देवी याश्चान्याः पुरयोषितः ७।
सर्वाण्युद्वाहकर्माणि चक्रुर्हर्षसमन्विताः ।
सुराणामर्चनं प्रीत्या कर्त्तव्यं तत्र देवकी ८।
वृद्धाभिर्नृपयोषिद्भिश्चकार विधिना तदा ।
सर्वमौद्वाहिकं कर्म उत्सवं हि द्विजोत्तमैः ९।
ब्राह्मणान्भोजयामास वस्त्रैराभरणैः शुभैः ।
उग्रसेनादयस्तत्र राजानश्च सुपूजिताः १०।
नंदगोपादयो गोपा यशोदाद्याश्च योषितः ।
बहुभिः स्वर्णरत्नाद्यैर्वासोभिः सविभूषणैः ११।
पूजिताः संप्रहृष्टास्ते तद्विवाहमहोत्सवे ।
तौ दंपती समाश्लिष्य प्रणतौ जातवेदसम् १२।
वेदविद्भिर्विप्रमुख्यैराशीर्भिरभिनंदितौ ।
तस्यां विवाहवेद्यां तु शुशुभाते वधूवरौ १३।
ब्राह्मणेभ्योऽथ वृद्धेभ्यो राजन्यः सह भार्य्यया ।
ववंदे देवकीपुत्रो ज्येष्ठस्य भ्रातुरेव च १४।
एवमौद्वाहिकं सर्वं निर्वर्त्य मधुसूदनः ।
व्यसर्जयन्नृपान्सर्वान्ये च तत्र समागताः १५।
प्रस्थिता हरिणा तत्र पूजिता नृपपुंगवाः ।
ब्राह्मणाः सुमहात्मानो निर्ययुः स्वकमालयम् १६।
रुक्मिण्या सह धर्मात्मा देवकीनंदनोऽव्ययः ।
उवास सुसुखेनैव दिव्यहर्म्यतले शुभे १७।
तया वै रमयामास नारायण इव श्रिया ।
संस्तूयमानो मुनिभिर्दिवि देवगणैरपि १८।
अहन्यहनि हृष्टात्मा सुखेनैव जनार्दनः ।
अथोवास सुशोभायां द्वारवत्यां सनातनः १९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीकृष्णचरिते रुक्मिणीविवाहकथनंनाम अष्टाचत्वारिंशदधिकद्विशततमोऽध्यायः २४८।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 249
श्रीरुद्र उवाच-
सत्राजितस्य तनया नाम्ना सत्या यशस्विनी ।
पृथिव्यंशेन संभूता भार्यां कृष्णस्य वा परा १।
वैवस्वती महाभागा कालिंदी नाम नामतः ।
तृतीया तस्य भार्या सा लीलांशा समुपस्थिता २।
विंदानुविंदस्य सुतां मित्रविंदां शुचिस्मिताम् ।
स्वयंवरस्थितां कन्यामुपयेमे जनार्दनः ३।
पाशेनैकेन बद्ध्वा तान् वृषभान्सप्तदुर्मदान् ।
तां वीर्यशुल्कां जग्राह पद्मपत्रायतेक्षणः ४।
सत्राजितो महारत्नं स्यमंताख्यं महीपतिः ।
अनुजाय ददौ सोऽयं प्रसेनाय महात्मने ५।
ययाचे तं मणिवरं कदाचिन्मधुसूदनः ।
उवाच वासुदेवं तं प्रसेनः प्रसभं तदा ६।
प्रसेन उवाच-
भारानष्टसुवर्णानि नित्यं प्रसवते मणिः ।
तस्मात्कस्य न दातव्यं स्यमंताख्यमिदं मया ७।
महादेव उवाच-
कृष्णस्तु तदभिप्रायं ज्ञात्वा तूष्णीमुवास ह ।
कदाचिन्मृगयां कर्त्तुं कृष्णः सर्वैर्यदूत्तमैः ८।
प्रविवेश महारण्यं प्रसेनाद्यैर्महाबलैः ।
प्रत्येकं वै मृगान्हंतुमनुयाताः सहस्रशः ९।
एक एव महारण्ये प्रसेनो दूरमागतः ।
तं सिंहो दृष्टमासाद्य हत्वा रत्नं जहार सः १०।
तं सिंहं जांबबान्हत्वा मणिं गृह्य महाबलः ।
प्रविवेश बिलं तूर्णं दिव्यस्त्रीभिर्निषेवितम् ११।
तस्मिन्नस्तंगते सूर्ये वासुदेवं सहानुगः ।
चतुर्थ्यामुदितं चंद्रं दृष्ट्वा स्वं पुरमाविशत् १२।
ततः सर्वे पुरजनाः कृष्णं प्रोचुः परस्परम् ।
हत्वा प्रसेनं गोविंदो मृगव्याजेन कानने १३।
स्यमंतकं मणिवरमग्रहीदविशंकया ।
तदाकर्ण्य हरिस्तस्मिन्द्वारकाजनभाषितम् १४।
अज्ञलोकभयात्सर्वैर्यदुभिर्गहनं ययौ ।
दर्शयामास तान्सर्वान्सिंहेन निहतं वने १५।
लब्धात्मशुद्धिस्तत्रैव संस्थाप्य महतीं चमूम् ।
एकः शार्ङ्गगदापाणिर्जगाम गहनं वनम् १६।
दृष्ट्वा महाबिलं कृष्णः प्रविवेश विशंकितः ।
तत्र नाना मणिवरद्योतिते विमले गृहे १७।
सुतं जांबवतो धात्री दोलामारोप्य लीलया ।
दोलामुखे मणिं धृत्वा दोलयन्गायती मुदा १८।
सिंहः प्रसेनमवधीत्सिंहो जांबवता हतः ।
सुकुमारक मा रोदीस्तव ह्येष स्यमंतकः १९।
तच्छ्रुत्वा वासुदेवोऽथ शंखं दध्मौ प्रतापवान् ।
तेन नादेन महता निर्जगामात्र जांबवान् २०।
तयोर्युद्धमभूद्घोरं दशरात्रं निरंतरम् ।
मुष्टिभिर्वज्रकल्पैश्च सर्वभूतभयावहम् २१।
कृष्णस्य बलवृद्धिं च तथात्मबलसंक्षयम् ।
अवेक्ष्य पूर्ववचनं बुबुधे परमात्मनः २२।
सोऽयं रामोऽवतीर्णोऽत्र धर्मत्राणाय वै पुनः ।
स आगतो मम स्वामी दातुं मम मनोरथम् २३।
एवं ज्ञात्वाथ ऋक्षेशो निर्वर्त्य रणकर्म तत् ।
प्रांजलि प्राह गोविंदं को भवानिति विस्मयात् २४।
निवर्त्य कदनं शौरिः प्रोचे गंभीरया गिरा ।
श्रीकृष्ण उवाच-
पुत्रोऽहं वसुदेवस्य वासुदेव इतीरितः २५।
ममरत्नं स्यमंताख्यं हृतवांस्त्वं सुनिर्भयः ।
तद्दीयतां च शीघ्रं मे अन्यथा वधमेष्यसि २६।
महादेव उवाच-
तच्छ्रुत्वा जांबवान्हृष्टः प्रणनामाथ दंडवत् ।
परिणीय नमस्कृत्य विनयात्प्राह केशवम् २७।
जांबवानुवाच-
धन्योस्मि कृतकृत्योस्मि तव संदर्शनात्प्रभो ।
दासोऽहं पूर्वभावेन तव देवकिनंदन २८।
दत्तवानसि गोविंद कदनं पूर्वकांक्षितम् ।
मयेदं कदनं मोहाद्यत्कृतं स्वामिना त्वया ।
तत्क्षम्यतां जगन्नाथ करुणाकर शाश्वत २९।
महादेव उवाच-
इत्युक्त्वा प्रणतो भूत्वा नमस्कृत्य पुनः पुनः ।
नानारत्नमये पीठे निवेश्य विनयात्प्रभुम् ३०।
शारदाब्जनिभौ पादौ प्रक्षाल्य शुभवारिणा ।
मधुपर्कविधानेन पूजयित्वा यदूद्वहम् ३१।
वस्त्रैराभरणैर्दिव्यैः पूजयित्वा विधानतः ।
पुत्रीं जांबवतीं नाम कन्यां लावण्यसंयुताम् ३२।
कन्यारत्नं ददौ तस्मै भार्यार्थममितौजसे ।
अन्यैश्च मणिमुख्यैश्च स्यमंताख्यं ददौ मणिम् ३३।
तत्रैवोद्वाह्य तां कन्यां प्रहृष्टपरवीरहा ।
ददौ तस्मै परां मुक्तिं प्रीत्या जांबवते हरिः ३४।
गृहीत्वा तनयां तस्य कन्यां जांबवतीं मुदा ।
विनिर्गत्य बिलात्तस्मात्प्रययौ द्वारकां पुरीम् ३५।
सत्राजिते ददौ रत्नं स्यमंताख्यं यदूत्तमः ।
दुहित्रे प्रददौसोऽपि कन्यायै मणिमुत्तमम् ३६।
मासि भाद्रपदे शुक्ले चतुर्थ्यां चंद्रदर्शनम् ।
मिथ्याभिदूषणं प्राहुस्तस्मात्तत्परिवर्जयेत् ३७।
प्राप्यते दर्शनं तत्र चतुर्थ्यां शीतगोर्नरः ।
स्यमंतस्य कथां श्रुत्वा मिथ्यावादात्प्रमुच्यते ३८।
सुलक्ष्मणां नाग्नजितीं सुशीलां च यशस्विनीम् ।
मद्रराजसुतास्तिस्रः कन्यकास्ताः शुभाननाः ३९।
स्वयंवरस्थास्ताः कृष्णं वरयामासुरुज्ज्वलाः ।
एकस्मिन्दिवसे तास्तु उपयेमे यदूद्वहः ४०।
अष्टौ महिष्यस्ताः सर्वा रुक्मिण्याद्या महात्मनः ।
रुक्मिणी सत्यभामा च कालिंदी च शुचिस्मिता ४१।
मित्रविंदा जांबवती नाग्नजित्यः सुलक्ष्मणा ।
सुशीला नाम तन्वंगी महिषी चाष्टमी स्मृता ४२।
भूमिपुत्रो महावीर्यो नरको नाम राक्षसः ।
जित्वा देवपतिं शक्रं सर्वांश्चैव सुरान्रणे ४३।
अदित्या देवमातुश्च कुंडले च सुवर्चसी ।
बलाज्जग्राह देवानां रत्नानि विविधानि च ४४।
ऐरावतं महेंद्रस्य तथैवोच्चैःश्रवं हयम् ।
माणिक्यादि धनेशस्य शंखपद्मनिधिं तथा ४५।
स्त्रियश्चाप्सरसश्चैव हृतवान्क्षितिनंदनः ।
वज्रादिहेतीस्तेषां च बलाद्धृत्वा दिवौकसाम् ४६।
तैरेव स सुरान्हत्वा सभां मयविनिर्मिताम् ।
उवास व्योमगो दिव्यो नगर्यां विमलेंबरे ४७।
ततो देवगणाः सर्वे पुरस्कृत्य शचीपतिम् ।
भयार्ताः शरणं जग्मुः कृष्णमक्लिष्टकारिणम् ४८।
कृष्णोऽपि तदुपश्रुत्य सर्वं नरकचेष्टितम् ।
देवानामभयं दत्वा वैनतेयं व्यचिंतयत् ४९।
तस्मिन्क्षणे हरेस्तस्य वैनतेयो महाबलः ।
प्रांजलिः पुरतस्तस्थौ सर्वदेवनमस्कृतः ५० 6.249.50।
तमारुह्य द्विजश्रेष्ठं सत्यया सह केशवः ।
संस्तूयमानो मुनिभिः प्रययौ राक्षसालयम् ५१।
प्रदीप्यमानमाकाशे यथा सूर्यस्य मंडलम् ।
राक्षसैर्बहुभिर्युक्तं दिव्यैराभरणैर्युतम् ५२।
ददर्श तत्पुरं कृष्णो दुर्भेद्यं त्रिदशैरपि ।
तदावरणानि भगवान्वीक्ष्य चक्रेण वीर्यवान् ५३।
चिच्छेद तेजसा दीप्त्या तमांसि च दिवाकरः ।
ततस्ते राक्षसाः सर्वे शतशोऽथ सहस्रशः ५४।
उद्यम्य शूलानि तदा युद्धायाभिमुखं ययुः ।
ततस्तु तोमरैर्दिव्यैर्भिण्डिपालैः सुपट्टिशैः ५५।
केशवं ताडयामासुः पलालैरिव पावकम् ।
ततस्तु शार्ङ्गमादाय भगवान्गरुडध्वजः ५६।
दिव्यशस्त्राणि चिच्छेद बाणैरग्निशिखोपमैः ।
तेषां शिरोधरा नागानश्वांश्चैव तरस्विनः ५७।
चक्रेणैव प्रचिच्छेद वीर्यवान्पुरुषोत्तमः ।
केचिच्चक्रेण संछिन्नास्तथान्ये शरताडिताः ५८।
गदया निहताः केचिद्राक्षसास्तद्रणाजिरे ।
एवं ते राक्षसाः सर्वे पातिता धरणीतले ५९।
शक्रोत्सृष्टेन वज्रेण निर्भिन्ना इव भूधराः ।
निहत्य दानवान्सर्वान्पुंडरीकायतेक्षणः ६०।
पाञ्चजन्यं महाशंखं प्रदध्मौ पुरुषोत्तमः ।
ततः स नरको दैत्यो धनुरादाय वीर्यवान् ६१।
दिव्यं स्यंदनमारुह्य ययौ युद्धाय केशवम् ।
तयोर्युद्धमभूद्घोरं तुमुलं लोमहर्षणम् ६२।
बहुभिर्बाणसाहस्रैर्मेघयोरिव वर्षतोः ।
ततोऽर्द्धचंद्र बाणेन वासुदेवः सनातनः ६३।
तस्य राक्षसमुख्यस्य धनुश्चिच्छेद वीर्यवान् ।
ससर्जास्त्रं महादिव्यं नरकस्य महोरसि ६४।
स तेन भिन्नहृदयः पपातोर्व्यां महासुरः ।
शक्रवज्रेण निर्भिन्नो महाचल इवोन्नदन् ६५।
उपगम्य ततः कृष्णः समीपं तस्य रक्षसः ।
भूम्या संप्रार्थितः प्राह वरं वृण्विति राक्षसम् ।
स चाह राक्षसः कृष्णं गरुडोपरि संस्थितम् ६६।
न मे कृत्यं वरेणास्ति नरकोऽहं तथापि च ।
अन्यलोकहितार्थाय वृणेऽहं वरमुत्तमम् ६७।
मृताहनि तु मे कृष्ण सर्वभूतेश्वरेश्वर ।
ये नरा मंगलस्नानं कुर्वंति मधुसूदन ।
न तेषां निरयप्राप्तिर्भवत्वेवं भयापह ६८।
महादेव उवाच-
एवमस्त्विति गोविंदो ददौ तस्मै वरं प्रभुः ।
ततः पश्यन्हरेः साक्षाच्छरदंबुज सन्निभौ ६९।
चरणौ वज्रवैडूर्य्यनूपुराभ्यां विराजितौ ।
अर्चितौ विधिरुद्राद्यैस्त्रिदशैर्मुनिभिस्तथा ७०।
त्यक्त्वा प्राणान्महीपुत्रः सारूप्यमगमद्धरेः ।
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ७१।
ववृषुः पुष्पवर्षाणि तुष्टुवुश्च महर्षयः ।
प्रविश्य नगरं तस्य कृष्णः कमललोचनः ७२।
बलात्तेन गृहीतानि रत्नानि त्रिदिवौकसाम् ।
कुंडले देवमातुश्च तथैवोच्चैःश्रवो हयम् ७३।
ऐरावतं गजश्रेष्ठं प्रदीप्तं मणिपर्वतम् ।
सर्वमेतद्यदुश्रेष्ठो ददौ शक्राय वज्रिणे ७४।
पार्थिवान्सर्वराष्ट्रेभ्यो जित्वाऽसौ नरको बली ।
कन्याषोडशसाहस्रं हृतवान्नरकस्तदा ७५।
सन्निरुद्धास्तु ताः सर्वा नरकांतःपुरे तदा ।
दृष्ट्वा कृष्णं महावीर्यं कंदर्पशतसंनिभम् ७६।
भर्तारं वव्रिरे सर्वाः पतिं विश्वस्य सर्वगम् ।
एतस्मिन्नेव काले तु गोविंदोऽनंतरूपवान् ७७।
तासां करग्रहं चक्रे विधिना पुरुषोत्तमः ।
नरकस्य सुताः सर्वे पुरस्कृत्य महीं तदा ७८।
गोविंदं शरणं जग्मुस्तानरक्षद्घृणानिधिः ।
तद्राज्ये स्थाप्य तान्सर्वान्पृथिव्या वाक्य गौरवात् ७९।
ऐन्द्रं विमानमारोप्य ताश्च सर्वा वरस्त्रियः ।
देवदूतैर्महाभागैर्द्वारवत्यां न्यवेशयत् ८०।
वैनतेयं समारुह्य सत्यया सह केशवः ।
स्वर्लोकं प्रययौ तूर्णं द्रष्टुं तां देवमातरम् ८१।
प्रविश्य नगरीं तत्र देवराज्ञो जनार्दनः ।
अवरुह्य द्विजश्रेष्ठात्पत्न्या सह महाबलः ८२।
ववंदे मातरं तत्र वंद्यां तां त्रिदिवौकसाम् ।
संपरिष्वज्य बाहुभ्यामदितिः पुत्रवत्सला ८३।
निवेश्यासनमुख्ये तु पूजयामास भक्तितः ।
आदित्या वसवो रुद्राः शतक्रतुपुरोगमाः ८४।
तत्र संपूजयामासुर्यथार्हं परमेश्वरम् ।
शचीगृहं समागम्य सत्यभामा यशस्विनी ८५।
तया समर्चिता देव्या समासीना सुखासने ।
तस्मिन्काले सुपुष्पाणि पारिजातस्य किंकराः ८६।
शच्यै देव्यै ददुः प्रीत्या सहस्राक्षेण चोदिताः ।
प्रगृह्य तानि पुष्पाणि शचीदेवी सुमध्यमा ८७।
नीलनिर्मलकेशे च बबंध स्वस्य मूर्धनि ।
अवमान्य शची तत्र सत्यभामां यशस्विनीम् ८८।
अनर्हा मानुषी चेयं देवार्हं कुसुमं शुभम् ।
इति कृत्वा मतिं तस्यै न ददौ कुसुमानि सा ८९।
विनिष्क्रम्य पुरात्तस्मात्सत्या कोपसमन्विता ।
समेत्य कृष्णं भर्त्तारमुवाच कमलेक्षणा ९०।
सत्योवाच-
एषा शची यदुश्रेष्ठ पारिजातेन गर्विता ।
अदत्त्वा मम गोविंद बबंध स्वस्य मूर्द्धनि ९१।
महादेव उवाच-।
सत्यया भाषितं श्रुत्वा वासुदेवो महाबलः ।
उत्पाट्य पारिजातं तु निवेश्य गरुडोपरि ९२।
आरुह्य सत्यया तूर्णं वैनतेयं महाबलम् ।
प्रययौ द्वारकां रम्यां नगरीं देवकीसुतः ९३।
ततः कोपसमाविष्टो देवराजः शतक्रतुः ।
रुद्रैर्वसुभिरादित्यैः साध्यैश्च मरुतां गणैः ९४।
ऐरावतं समारुह्य ययौ युद्धाय केशवम् ।
ततो देवगणाः सर्वे परिवार्य्य जनार्दनम् ९५।
ववृषुः शस्त्रवर्षाणि मेघा इव महाचलम् ।
कृष्णश्चिच्छेद चक्रेण तान्यस्त्राणि दिवौकसाम् ९६।
वैनतयस्तु संक्रुद्धः पक्षपातेन वीर्यवान् ।
पातयामास तान्देवान्पलालानीव मारुतः ९७।
ततः क्रुद्धः सहस्राक्षो देवानामीश्वरः प्रभुः ।
मुमोच सहसा दीप्तं वज्रं कृष्णजिघांसया ९८।
जग्राह कृष्णस्तं वज्रं हस्तेनैकेन लीलया ।
ततो भीतः सहस्राक्षो नागेंद्रादवरुह्य सः ९९।
प्रांजलिः पुरतः स्थित्वा नमस्कृत्वा जनार्दनम् ।
प्राह गद्गदया वाचा स्तुत्वा स्तुतिभिरेव च १०० 6.249.100।
इंद्र उवाच-
देवयोग्यमिदं कृष्ण पारिजातं त्वया पुरा ।
दत्तो मम सुराणां च कथं स्थास्यति मानुषे १०१।
महादेव उवाच-
ततः प्रोवाच भगवान्सहस्राक्षमुपस्थितम् ।
शच्यावमानिता सत्या तव गेहे सुरेश्वर १०२।
अदत्त्वा पारिजातानि सत्यायै सा पुलोमजा ।
स्वयमेव स्वशिरसि धारयामास ते प्रिया १०३।
अस्या निमित्तं देवेंद्र पारिजातो हृतो मया ।
अस्यै प्रतिश्रुतं दातुं मया सुरगणेश्वर १०४।
तव गेहे पारिजातं स्थापयामीति वासव ।
तस्मादद्य न दातव्यः पारिजातः सुरेश्वर १०५।
देवतानां हितार्थाय प्रापयिष्यामि भूतले ।
तावत्तिष्ठतु देवेंद्र पारिजातो ममालये १०६।
मयि स्वर्गं गते शक्र गृहाण त्वं यथेच्छया ।
महादेव उवाच-
एवमुक्त्वा यदुश्रेष्ठस्तस्मै वज्रं ददौ स्वयम् १०७।
एवमस्त्विति गोविंदं नमस्कृत्य स वज्रभृत् ।
प्रययौ स्वपुरं दिव्यं सह देवगणैर्वृतः १०८।
कृष्णोऽपि सत्यया देव्या गरुडोपरि संस्थितः ।
संस्तूयमानो मुनिभिर्द्वारवत्यां विवेश ह १०९।
सत्यया निकटे स्थाप्य पारिजातं सुरद्रुमम् ।
रमयामास भार्याभिः सर्वाभिः सर्वगो हरिः ११०।
निशासु तासां सर्वासां गृहेषु मधुसूदनः ।
विश्वरूपधरः श्रीमानुवास स सुखप्रदः १११।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे ।
उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीवासुदेवविवाहकथनं नामैकोनपंचाशदधिकद्विशततमोऽध्यायः २४९ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 250
श्रीरुद्र उवाच-
रुक्मिण्यां कृष्णस्य प्रद्युम्नो मदनांशेन जज्ञे १।
असौ मदनसंभूतो महाबलः शंबरं जघ्निवान् २।
तस्य रुक्मिणः सुतायामनिरुद्धो जज्ञे ३।
सोऽपि बाणपुत्रीमुषां नाम कन्यामुपयेमे ४।
सा तु स्वप्ने नीलोत्पलदलश्यामं पुंडरीकनिभेक्षणं महाबाहुं विचित्राभरणोपेतं षोडशसमायथावदुपभुज्य प्रबुध्य तं पुरतो न दृष्ट्वा मदनेनपीडिता भ्रांतचित्ता मां तु त्यक्त्वा वयस्कं रक्तारविंदवक्त्रं क्वासि क्व यासीति बहुधा विललाप ५।
ततस्तस्याः सखी चित्रलेखेति नाम कन्यां तादृशीमवस्थां गतां विलोक्य किंनिमित्त विभ्रांतचित्तासीति पप्रच्छ ६।
सापि स्वप्नलब्धं पतिं यथावदाचष्ट ७।
सापि सकलदेवमानुषादिश्रेष्ठान्पटे विलिख्य तस्यै दर्शयामास ८।
यदुवंशसंभूतान्कृष्णसंकर्षणप्रद्युम्नानिरुद्धादीनपि सम्यङिनवेदयामास ९।
सा तेषां कृष्णमनुमान्य प्रद्युम्नानंतरमनिरुद्धं दृष्ट्वा स इत्येष इत्यालिलिंग १०।
अथ चित्रलेखा बह्वीभिर्मायावतीभिर्दैत्यस्त्रीभिर्द्वारवतीं गत्वा रात्रावंतःपुरे सुप्तमनिरुद्धं।
दृष्ट्वा गृहीत्वा मोहयित्वा माहिष्मत्यां बाणस्यांतःपुरे चैत्यप्रासादादियुक्ते तस्या बाणपुत्र्याः शय्यायां चिक्षेप ११।
सोऽपि प्रबुद्धोतिरम्येऽनंगपावके संस्थितामुषां सर्वलक्षणलक्षितां विचित्राभरणवसनगंधमाल्यालंकृतां कांचनवर्णां सुकेशीं सुजातस्तनीं दृष्ट्वा गाढमालिंग्य करिण्या गंधहस्तीव तयातिप्रीतिसंयुक्तया यथासुखं रमयामास १२।
एवं मासमात्रं निरंतरतयानिरुद्धं रममाणं कदाचिदंतःपुरनिवासिन्यो वृद्धा दैत्यस्त्रियो ज्ञात्वा राज्ञे निवेदयामासुः १३।
स राजा क्रोधताम्राक्षः परं विस्मयं गत्वा तमिहानयतेति पुरः किंकरान्प्रेषयामास १४।
तेऽपि तूर्णं नृपप्रासादमारुह्य राजपुत्र्याः शयने संस्थितमनिरुद्धं ग्रहीतुमाजग्मुः १५।
स तान्समारब्धान्दृष्ट्वा प्रासादस्तंभमेकं हेलयोत्पाट्य नियुतसंख्याकान् किंकरान्मुहूर्तमात्रणैव स्तंभेन चूर्णितमात्रं चकार १६।
अथ दैत्यपतिर्निहतान्किंकरान्दृष्ट्वा कौतूहलं गत्वा असौ श्रीकृष्णपौत्र इति देवर्षिणा प्रोक्तो धनुरादाय स्वयमेवानिरुद्धं ग्रहीतुं तत्समीपमाजगाम १७।
अनिरुद्धोऽपि योद्भुमायांतं सहस्रबाहुं राजानं दृष्ट्वा तत्परिघं भ्रामयित्वा बाणस्योपरि चिक्षेप १८।
स्वचापनिर्मुक्तेन बाणेन तं परिघं चिच्छेद १९।
अनंतरमुरगास्त्रेण अनिरुद्धं निबिडं बद्ध्वा स्वांतःपुरे निवेशयामास २०।
अथ कृष्णोप्येवंविधमेव देवर्षिणा ज्ञात्वा बलदेवप्रद्युम्नसहितः स्वसेनया विहंगमेंद्रमारुह्य तस्यबाणस्य भुजवनं छेत्तुमाजगाम २१।
बलिपुत्रेण पुरा शंकरोऽर्चितः प्रसन्नो वरं वृणीष्वेत्युवाच २२।
तमीश्वरं बाणो मम पुरद्वारिरक्षार्थं सर्वदोपविश्य समागतं परसैन्यं जहीत्येवं वरमयाचत२३।
तं तथेत्युक्त्वा शंकरोऽपि तस्य पुरद्वारि सायुधः सपुत्रः सगणः समासीनस्तस्मिन्नेव काले रुषा स्वसेनया समागतं वासुदेवं दृष्ट्वा वृषमारुह्य सर्वायुधोपेतः स्वपुत्रगणसंवृतो योद्धुं निश्चक्राम २४।
कृष्णोऽपि तं भूतपतिं गजचर्मकपालभस्मधरं ज्वलितोरगाकल्पं पिंगलं त्रिलोचनं त्रिशूलधरं सर्वभूतगणसंहृतिकर्त्तारं सर्वभूतभयावहं संवर्त्ताग्निप्रभं पुत्रद्वयसमन्वितं समस्तगणावृतं त्रिपुरांतकं दृष्ट्वा सेनां सुदूरे पृष्ठतो निवेश्य बलभद्र प्रद्युम्नसहितस्तेन रुद्रे ण सह प्रहसन्निव योद्धुमारेभे २५।
प्रथमं तदभूद्घोरं कृष्णशंकरयोस्तदा ।
पिनाकशार्ङ्गनिर्मुक्तैर्बाणैः संवर्त्तकोपमैः २६।
रामोऽपि चक्रे बाणेन प्रद्युम्नः षण्मुखेन च ।
युयुधाते महावीर्यौ सिंहाविव बलोत्कटौ २७।
विनायकः स्वदंतेन जघानोरसि यादवम् ।
रामो मुशलमादाय तस्य दंतमताडयत् २८।
निर्भिन्नदंतः सहसा प्रदुद्रावाखुवाहनः ।
तदाप्रभृति लोकेऽस्मिन्हतदंतो गणेश्वरः २९।
देवदानवगंधर्वैरेकदंतइतीरितः ।
प्रद्युम्नेन समं युद्धं चकार शिखिवाहनः ३०।
गणान्विद्रावयामास मुशलेन हलायुधः ।
कृष्णेन सुचिरं कालं युद्धासौ नीललोहितः ३१।
तापज्वरं महादीप्तमस्मिन्संयोज्य सायके ।
कोपान्मुमोच तदसौ भृशं संरक्तलोचनः ३२।
तदस्त्रं वारयामास कृष्णः शीतज्वरेण तु ।
ताभ्यां हरिहराभ्यां तु विसृष्टौ ताविमौ ज्वरौ ३३।
विशतुर्मानुषे लोके तयोरेवाज्ञया भृशम् ।
हरिशंकरयोर्युद्धं ये तु शृण्वंति मानवाः ३४।
ते सर्वे ज्वरनिर्मुक्ताः प्राप्नुवंति निरामयम् ।
ततः स तु हृषीकेशो मोहनास्त्रं दुरासदम् ३५।
नियुज्य बाणं भूतेशे मुमोच मधुसूदनः ।
मुहुर्मुहुर्व्यजृंभद्वै तेनास्त्रेण विमोहितः ३६।
पपात मूर्च्छितो भूमौ शंकरस्त्रिदशेश्वरः ।
पितरं मोहितं दृष्ट्वा शक्तिमुद्यम्य वीर्यवान् ३७।
योद्धुमभ्याययौ कृष्णं षण्मुखः शिखिवाहनः ।
हुंकारेणैव तं कृष्णश्चकारात्र पराङ्मुखम् ३८।
एवं जित्वा यदुश्रेष्ठः शूलपाणिं त्रिलोचनम् ।
महास्वनं पांचजन्यं शंखं दध्मौ प्रतापवान् ३९।
कृष्णेन निर्जितं श्रुत्वा सात्मजं शंकरं तदा ।
बाणः स्यंदनमास्थाय ययौ युद्धाय केशवम् ४०।
स दृष्ट्वा सहसा कृष्णं गरुडोपरिसंस्थितम् ।
छादयामास गोविंदं बहुशस्त्रास्त्रवृष्टिभिः ४१।
गदाभिः परिघैः शूलैः शक्तिभिस्तोमरैरपि ।
भिंडिपालैश्च खङ्गैश्च चक्रैर्बाणैर्निरंतरम् ४२।
तानि सर्वाणि चिच्छेद चक्रेणैव जनार्दनः ।
ससर्ज तस्य बाहूनां छेदनार्थं सुदर्शनम् ४३।
मुक्तं दनुजराजस्य सहस्रारं सुदर्शनम् ।
तद्बाहुकाननं तूर्णं छिन्नं चक्रे सहस्रधा ४४।
एतस्मिन्नंतरे देवि पार्वती संशितव्रता ।
हरेः समीपमागत्य कृतांजलिरभाषत ४५।
पार्वत्युवाच-
कृष्णकृष्ण जगन्नाथ नारायण दयानिधे ।
दास्यस्मि तव देवेश पूर्वभावे यदूत्तम ४६।
त्वया दत्तं वरं मह्यं तदा कौशलपर्वते ।
सौभाग्यं शाश्वतं सौम्य प्रसन्नेन महात्मना ४७।
तव मुख्यं सहस्रस्य नाम्नामन्यतमं विभो ।
गौरीसौभाग्यदातेति मुनिभिः परिकीर्तितम् ४८।
तत्सत्यं कुरु गोविंद गरुडारूढ शाश्वत ।
तस्मान्मम पतिं देव त्वं जीवयितुमर्हसि ४९।
रुद्र उवाच-
एवमुक्तस्ततो देव्या कृष्णः कमललोचनः ।
अस्त्रं संहारयामास येनासौ मोहितः पतिः ५० 6.250.50।
कृष्णास्त्रेण विनिर्मुक्तः सर्वभूतपतिः शिवः ।
उत्थाय प्रांजलिर्भूत्वा तुष्टाव जगतां पतिम् ५१।
शंकर उवाच-
कृष्णकृष्ण जगन्नाथ भगवन्पुरुषोत्तम ।
परेश परमेशान अनादिनिधनाव्यय ५२।
तीव्रवीर्यं मनुष्येषु शरीरग्रहणात्मिका ।
सर्वस्य तव चेष्टेयं मानलक्षणमेव तत् ५३।
प्रसीद मे नमस्तुभ्यं प्रसीद मम शाश्वत ।
प्रसीद मे जगत्स्वामिन्प्रसीदाच्युत केशव ५४।
त्वमेव जगतां स्रष्टा धाता हर्त्ता जगद्गुरुः ।
त्वमेव चिदचिद्वस्तुरूपं ब्रह्म सुरेश्वर ५५।
त्वमादिस्त्वमनादिस्त्वमीश्वरः शेष एव च ।
त्वं महत्त्वं परं ब्रह्म प्रत्यगात्मा त्वमेव हि ५६।
समस्तामरवर्य्यस्त्वममर्त्यस्त्वं सुरेश्वर ।
त्वं मर्त्त्येशः सयोनिस्त्वं सौशील्येन तव प्रभो ५७।
तव श्वाससमुत्पन्नौ परजीवौ सनातनौ ।
ततश्च पाल्यते चैव तव वात्सल्यगौरवात् ५८।
क्षराक्षरे परे धाम्नि रुचो नित्यं सुराश्रये ।
अधि विश्वे निधेषि त्वां दास्यकर्मणि नान्यथा ५९।
यस्त्वां न वेदलोकेऽस्मिन्स मूढः सर्वभावनः ।
परावरेश्वरं धाम विदुर्दास्ये मनीषिणः ६०।
ते वै समासते युक्तास्तत्पदं त्रिदशैः समम् ।
सामान्यो भजते दूरेनंतुं नित्यं पदं तव ६१।
तस्य तुर्या चारुकेशी चावस्था घटते तव ।
मिथुनानि तवाध्यक्ष ब्रुवते यदुशाश्वत ६२।
तव नामानि कर्माणि गुणानि शाश्वतानि च ।
ऐश्वर्याणि गुणातीत ब्रुवते चोत्तमे इमे ६३।
कर्मज्ञानमये रूपे इमे पूर्वोत्तरे श्रुते ।
ससुतौ युवतीशस्य स्तोतारौ तव केशव ६४।
त्वं प्रज्ञानं परं ब्रह्म त्वया प्राज्ञेन शाश्वत ।
जीवयैतेन प्रज्ञेन परेणैवात्मना त्वया ६५।
तस्माच्छरीरादुत्क्रम्य कृपया तव केवलम् ।
आमुष्मिके परे स्वर्गे त्वया दत्तात्मबोधवान् ६६।
प्रज्ञानं चैव विज्ञानं मेधां दृष्टिं तथा धृतिम् ।
सर्वान्कामानवाप्नोति अमृतं स भवेत्तदा ६७।
एतत्संज्ञानमात्मानं यदेतद्धृदि यन्मनः ।
मनीषा चैव युक्तिश्च स्मृतिः संकल्प एव च ६८।
तपश्च क्रतवः कामो दश इत्यादि ते प्रभो ।
भवंति नामधेयानि प्रज्ञानस्य घृणानिधेः ६९।
एष त्वं परमं ब्रह्म एष त्वं वै प्रजापतिः ।
एष त्वमिंद्रो रुद्रश्च एष त्वं सर्वदेवताः ७०।
एतानि सर्वभूतानि त्वमेव परमेश्वर ।
सुत मित्राणि जीवायुस्तथान्यानि सनातन ७१।
जरायुजाण्डजातानि स्वेदजोद्भिद्यजानि च ।
अश्वा गावश्च पुरुषा हस्तिनश्चेतराणि च ७२।
यत्किंचित्प्राणिजातं च जंगमाश्चैव जंतवः ।
स्थावरा ये च वै नाथ सर्वे त्वत्तो भवंति च ७३।
त्वां हि सर्वं गतं चेत्थं वदंति श्रुतयो हरिम् ।
त्वयैव प्रेरिता लोकाश्चेष्टंते साध्वसाधुषु ७४।
तस्मान्मया कृतं यच्च अपराधमिदं प्रभो ।
क्षमस्व करुणासिंधो गुणैः शुभतमैस्तव ७५।
नमस्ते पुंडरीकाक्ष गोविंदाच्युत माधव ।
वासुदेव जगद्वंद्य नारायण नमोस्तु ते ७६।
नमस्यामि जगत्स्वामिन्नृसिंहकरुणाकर ।
श्रीश सर्वगत श्रीमन्परमात्मन्नमोस्तु ते ७७।
निजावसथवैकुंठ नित्यमुक्तार्चितप्रभो ।
त्रयीनाथ नमस्तुभ्यं रामराजीवलोचन ७८।
भूभारकविनाशाय कृष्णानंदस्वरूपिणे ।
विष्णवे जिष्णवे तुभ्यं नमस्ते यदुनंदन ७९।
एवं स्तुत्वाथ गोविंदं प्रणिपत्य उमापतिः ।
प्रांजलिः प्राह भूतेशो वाक्यं गंभीरया गिरा ८०।
रुद्र उवाच-
मया दत्तवरो ह्येष बाणो बलिसुतः प्रभो ।
अहं च दत्तवांस्तस्मै पुरानेनार्थितो वरम् ८१।
अमरत्वं यदुश्रेष्ठ सर्वं कर्तुं त्वमर्हसि ।
तस्मादेनं बलिसुतं त्रातुमर्हसि मे प्रियम् ८२।
तथेत्युक्त्वा च भगवान्बाणं बलिसुतं तदा ।
प्राणसंशयमापन्नं च्छिन्नबाहुमसृक्चितम् ८३।
संहृत्य चक्रं गोविंदो मुमोच करुणानिधिः ।
मोचयित्वा बलिसुतं शंकरः संशितव्रतः ८४।
वृषभेंद्रं समारुह्य पार्वत्यासहितः प्रभुः ।
ययौ च वसतिस्थानं कैलासं धरणीधरम् ८५।
स तु बाणो नमस्कृत्य रामकृष्णौ महाबलौ ।
ताभ्यां वै नगरीं गत्वा मुमोच मदनात्मजम् ८६।
वस्त्रैराभरणैर्दिव्यैः पूजयित्वा यथार्हतः ।
उषां संप्रददौ तस्मै कृष्णपौत्राय शौरये ८७।
उद्वाह्य रामकृष्णौ तमनिरुद्धं यथाविधि ।
बाणेन पूजितौ तत्र प्रद्युम्नसहितौ तदा ८८।
उषयासहितं तत्रानिरुद्धं वै जनार्दनः ।
आरोप्य स्यंदने दिव्ये ययौ द्वारवतीं तदा ८९।
रामप्रद्युम्नसहितः सेनया सहितो हरिः ।
प्रविवेश पुरीं रम्यां त्रिदशैर्मघवानिव ९०।
अनिरुद्धो बाणपुत्र्या नानारत्नमये गृहे ।
अनिशं रमयामास नानाभोगैर्मुदान्वितः ९१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे बाणासुरसंग्रामकथनंनाम पंचाशदधिकद्विशततमोऽध्यायः२५०।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 251
श्रीरुद्र उवाच-
अथ पौंड्रक वासुदेवः काशिराजो वाराणस्यां विविक्ते द्वादशवर्षं महेशमर्च्चयन्निराहारः पंचाक्षरं जजाप १।
पौरश्चरणकाले शंकरं स्वनेत्रकमलेन पूजयामास २।
ततः शूलपाणिरुमापतिः प्रसन्नो वरं वृणीष्वेति तमाह ३।
असौ पंचवक्त्रंसर्वभूतपतिं शिवं प्रसन्नं वरद मम वासुदेवसमानरूपं प्रयच्छेत्युवाच ४।
शिवस्तस्मै शंख चक्र गदा पद्मयुत चतुर्भुजं पुंडरीकदलनिभलोचनं वासुदेवसमानकिरीट।
ललित कुंतलं पीतवस्त्रकौस्तुभाभरणादि चिह्नान्यपि मह्यं देहीति याचितः शिवः सर्वमपि तस्मै प्रददौ ५।
स तु वासुदेवोऽहमिति सर्वलोकान्मोहयामास ६।
कदाचित्स्वर्गतः मदबलोत्कटं तं काशिपतिं नारदोऽभ्येत्य वसुदेवसुतमजित्वा वासुदेवत्वं न विद्यते इत्युवाच ७।
स तु तस्मिन्नेव क्षणे गरुडपताकायुतरूपं रथमारोप्य चतुरंगाक्षौहिणीबलेन द्वारकामवाप ८।
तत्र पुरद्वारि स्वर्णयाने संस्थितो वासुदेवोऽहं युद्धार्थं संप्राप्तोस्मि मामजित्वात ववासुदेवत्वं नास्तीति दूतं प्रेषयामास ९।
विष्णुरपि तच्छ्रुत्वा वैनतेयमारुह्य पौंड्रकेण योद्धुं पुरद्वारि विनिष्क्रम्याक्षौहिणीबलेन स्यंदने समासीनं शंखचक्रगदापद्महस्तं पौंड्रकं ददर्श १०।
कृष्णोऽथ शार्ङ्गमादाय संवर्ताग्निप्रभैर्बाणैस्तथाश्वगजपदातियुक्तं महदक्षौहिणीबलं मुहूर्तमात्रेण निःशेषं ददाह ११।
शरेणैकेन तस्य हस्तावसक्तशंखचक्रगदादिहेतीरपि लीलयैव चिच्छेद १२।
पवित्रेण सुदर्शनेन किरीटकुंडलयुतं तस्य शिरः कमलं छित्त्वा वाराणस्यामंतः पुरे निपातयामास १३।
तद्दृष्ट्वा सर्वे काशीनिवासिनः किमेतदित्याशंक्य विस्मिता बभूवुः १४।
तस्य पौंड्रकस्य सुतो दंडपाणिरिति वासुदेवेन भगवता निहतं स्वपितरं श्रुत्वा मात्रा मृत्युना समादिष्टः स्वपुरोहितेनाभियुक्तो माहेश्वरेण क्रतुना शंकरमियाज १५।
स तु प्रसन्नः कृष्णजिघांसया समर्थां माहेश्वरीं कृत्यां तस्मै संप्रीत्या च दत्तवान् १६।
स काशिराजस्तां महोश्वरीं ज्वालाकुलोपचितविग्रहां संदीप्तसटाकलापां पिंगलनेत्रां ज्वलत्करालवदनां त्रिशूलहस्तां भस्मांगरागलिप्तां नरमुंडमालाविभूषितां सर्वदेवभयंकरीं रुद्रदत्तां समीक्ष्य सपुत्रदारबांधवसहितं कृष्णं जहीति प्रेरयामास १७।
सा तु सर्वलोकभयावहा सर्वां पृथ्वीं स्वतेजसा निर्दहंती प्रलयाशनिनिर्भरस्वनं नदंती द्वारकामवाप १८।
तत्रत्याः सर्वेजनास्तां दृष्ट्वा महाप्रलयमिति मत्वा हाहाकारं कुर्वंतः कृष्णं निवेदयामासुः १९।
कृष्णोऽपि तान्सर्वान्न भेतव्यमित्युक्त्वा प्राकारतोरणे स्थितां महारौद्रां कृत्यां तथाविधां दृष्ट्वा सकलशस्त्रास्त्रानिवारणसमर्थं सहस्रारं सुदर्शनं तस्या कृत्यायां सहसा मुमोच २०।
सा तु कल्पान्तार्ककोटिसमवर्चसा शतयोजनोद्गतं सकलदीप्तास्त्रयुतं हिरण्मयं प्रभापूर्णं सकलजगत्प्रलयस्थितिसमर्थं सहस्रारं सर्वदेवनमस्कृतं जगच्छरणभूतं महासुदर्शनं विलोक्य विनष्टतेजा भयार्ता क्रोशंती वाराणसीं प्रतिदुद्राव २१।
सुदर्शनमपि तां कृत्यां भृशमन्वगात् २२।
सापि भयार्ता क्रोशंती काशिपतेस्तस्यांतःपुरं प्रविवेश २३।
सुदर्शनोऽपि तां वाराणसीं पुरीं प्राप्य सभृत्यबलवाहनं पौंड्रकसुतं दंडपाणिं नामकाशिराजं बहुप्रासादहर्म्यमालिनीं पुरीं माहेश्वरीमपि भस्मावशेषां कृत्वा सकलदेवमहर्षिभिः पूज्यमानः पुनरेव द्वारवत्यां कृष्णहस्तं सुसौम्यं कल्पमिव आविवेश २४।
अत्र च श्लोका गीयंते ।
शस्त्रास्त्रमोक्षमजरं दग्ध्वा तद्बलमोजसा ।
कृत्यां भस्मावशेषं तां ततो वाराणसीं पुरीम् २५।
प्रभूतरथमातंगां साश्वां पुंस्त्रीसमन्विताम् ।
साशेषकोषकोष्ठां तां दुर्निरीक्ष्यां सुरैरपि २६।
द्वारोपलक्षिताशेष गृहप्राकारचत्वराम् ।
प्रददाह हरेश्चक्रं सकलामेव तां पुरीम् २७।
अक्षीणगतिसामर्थ्यमसाध्यकृतसाधनम् ।
तच्चक्रं प्रज्वलद्भासं विष्णोरभ्याययौ करम् २८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीकृष्णचरिते पौंड्रकपुत्रकृत्याविध्वंसनं नामैकपंचाशदधिक द्विशततमोऽध्यायः २५१ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 252
श्रीरुद्र उवाच-
अथ मगधाधिपः कंसवधानंतरं द्विषन्नेव यादवान्सदा पीडयामास ते दुःखिताः कृष्णमूचुः १।
स च भीमार्जुनावाहूय संमंत्रयामास कृष्णः अनेन रुद्र पूःजितस्तत्प्रसादाच्छस्त्रैरवध्यः परं केनापिप्रकारेण हंतव्य इति २।
अथ विचार्य भीममाह एनं प्रतिमल्लयुद्धं कुरु तत्तेन प्रतिज्ञातम् ३।
अथ सकल चराचरजगद्वंद्यो वासुदेवो भीमार्जुनसहितो जरासंधस्य पुरीं गत्वा विप्रवेषेण तस्यांतःपुरमवाप ४।
सोऽपि महावीर्यान्क्षत्त्रियान्युद्धे निर्जित्य बलाद्गृहीत्वा स्ववेश्मनि निरुध्य मासिमासि कृष्णचतुर्दश्यामेकैकं हत्वा तद्रक्तेनैव बलिं भैरवायाकरोत् ५।
एवंविधं सकलजनपार्थिववधं कुर्वतो जरासंधस्य समुद्यमानो भीमार्जुनसहितस्तस्य गृहे विप्रवेषेणैव प्रविवेश ६।
स तु तान्दृष्ट्वा दंडवत्प्रणतो भूत्वा यथोचितासनेषु निवेश्य मधुपर्कविधानेन संपूज्य धन्योस्मि कृतकृत्योस्मि किमर्थं भवन्तो मे समीप आगतास्तद्वक्तव्यमहं तत्सर्वं भवद्भ्यो दास्यामीत्युवाच ७।
तेषां वासुदेवः प्रहसन्पार्थिवं तमुवाच कृष्णभीमार्जुना युद्धार्थमागताः स्म अस्माकमन्यतमं द्वंद्वयुद्धार्थं वृणीष्वेत्यवदत् ८।
सोऽपि तथेत्यवदत्ततो द्वंद्वयुद्धार्थं मारुतिं वरयामास ९।
ततो भीमजरासंधयोरभितो भयंकरं मल्लयुद्धं निरंतरं पंचविंशतिवासरमभूत् १०।
ततः कृष्णेनैव संचोदितो वायुपुत्रस्तस्य शरीरं द्विधाकृत्य भूमौ निपातयामास ।।
एवं जरासंधं पांडुपुत्रेण हत्वा तान्जरासंधनिरोधितान्वासुदेवोऽपि पार्थिवान्मोचयामास ११।
निहत्य वायुपुत्रेण जरांसंधं यदूद्वहः ।
तद्गृहे सन्निरुद्धांस्तु मोचयामास पार्थिवान् १२।
ते च तत्र नमस्कृत्य स्तुत्वा च मधुसूदनम् ।
स्वान्स्वान्जनपदान्सर्वे जग्मुः कृष्णेन रक्षिताः १३।
अथ ताभ्यामिंद्रप्रस्थं गत्वा वासुदेवस्तत्र महाक्रतुं राजसूयं युधिष्ठिरं कारयामास १४।
तत्र समाप्ते क्रतौ अग्रपूजां भीष्मानुमतेन कृष्णाय दत्तवान् १५।
तत्र शिशुपालः कृष्णं बहून्याक्षेपवाक्यान्युक्तवान् १६।
कृष्णोऽपि सुदर्शनेन तस्य शिरश्चिच्छेद १७।
असौ जन्मत्रयावसाने हरेः सारूप्यमगमत् १८।
अथ शिशुपालं निहतं श्रुत्वा दंतवक्त्रः कृष्णेन योद्धुं मथुरामाजगाम १९।
कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन योद्धुं मथुरामाययौ २०।
दंतवक्त्रवासुदेवयोरहोरात्रं मथुरापुरद्वारि यमुनातीरे संग्रामः समवर्त्तत कृष्णस्तु गदया तं जघान २१।
स तु चूर्णितसर्वांगो वज्रनिर्भिन्न महीधर इव गतासुरवनितले पपात २२।
सोऽपि हरेः सायुज्यं योगिगम्यं नित्यानंदसुखं शाश्वतं परमं पदमवाप २३।
इत्थं जयविजयौ सनकादिशापव्याजेन केवलं भगवतोलीलार्थं संसृताववतीर्य जन्मत्रयेऽपि तेनैव निहतौ जन्मत्रयावसाने मुक्तिमवाप्तौ २४।
कृष्णोऽपि तं हत्वा यमुनामुत्तीर्य नंदव्रजं गत्वा प्राक्तनौ पितरावभिवाद्य आश्वास्य ताभ्यां साश्रुकंठमालिगितः सकलगोपवृद्धान्प्रणम्याश्वास्य रत्नाभरणादिभिस्तत्रस्थान्संतर्पयामास २५।
कालिंद्याः पुलिने रम्ये पुण्यवृक्षसमावृते ।
गोपनारीभिरनिशं क्रीडयामास केशवः २६।
रम्यकेलिसुखेनैव गोपवेषधरो हरिः ।
बद्धप्रेमरसेनात्र मासद्वयमुवास ह २७।
अथ तत्रस्था नंदगोपादयः सर्वेजनाः पुत्रदारसहिताः पशुपक्षिमृगादयश्च वासुदेवप्रसादेन दिव्यरूपधरा विमानमारूढाः परमं वैकुंठलोकमवापुः २८।
कृष्णस्तु नंदगोपव्रजौकसां सर्वेषां परमं निरामयं स्वपदं दत्वा दिवि देवगणैः संस्तूयमानो द्वारवतीं श्रीमतीं विवेश २९।
तत्र वसुदेवोग्रसेनसंकर्षणप्रद्युम्नानिरुद्धाक्रूरादिभिः प्रत्यहं संपूजित षोडशसहस्रभार्याभिरष्टाभिर्दिव्यमहिषीभिश्च विश्वरूपधरो दिव्यरत्नमय नानागृहांतरेषु सुतकुसुमांचित श्लक्ष्णतरपर्यंकेषु रमयामास ३०।
अथ रामकृष्णसतीर्थ्यो विप्रो बालसखा सदात्यंतदारिद्र्यपीडितो मुष्टिमात्रान्याचनाप्तपृथुकाञ्जीर्णवाससि निबध्य वासुदेवं द्रष्टुं श्रीमतीं द्वारकानगरीमाजगाम ३१।
स तु रुक्मिण्यंतःपुरद्वारि क्षणं तूष्णीं तस्थौ ३२।
कृष्णोऽपि समागतं ब्राह्मणं ज्ञात्वा प्रद्युम्नेन नमस्कृत्वा वामकरं गृहीत्वा गृहांतरे स्वासने निवेश्य भयाद्वेपमानं तं रुक्मिणीहस्तगतसुवर्णकलशजलेन पादौ प्रक्षाल्य मधुपर्केण पूजयामास ३३।
सुधामृतोपमैरन्नपानाद्यैस्तर्पयित्वा तस्य जीर्णवस्त्रांतरे याचनाप्तपृथुकान्स्वयमेव हस्तेन गृहीत्वा प्रहसन्जग्रास ३४।
कृष्णेन पृथुके भक्षिते तस्मिन्नेव क्षणे तस्य बहुधनधान्यवस्त्राभरणसंभूतं महदैश्वर्यमभूत् ३५।
स तु कृष्णेन विसृष्टो मम किंचिद्वस्त्रं वा धनं वा कृष्णेन न दत्तमिति मन्यमानः स्वपुरं विवेश ३६।
अथ बहुधनधान्ययुतं स्वगृहं दृष्ट्वा तत्प्रसादादिदं लब्धमिति वदन्प्रहृष्टेनांतरात्मना दिव्य वस्त्राभरणादिना भार्यया सह सर्वान्कामान्भुक्त्वा हरिसंतुष्ट्यै बहुयज्ञानिष्ट्वा तत्प्रसादेन परमं नित्यं स्वर्गसुखमवाप ३७।
अथ धृतराष्ट्रतनयो दुर्योधनः पांडुतनयान्कपटद्यूतव्याजेन राज्यमपहृत्य स्वराष्ट्राद्विवासयामास ३८।
ते तु युधिष्ठिरभीमार्जुननकुलसहदेवाः सुपत्न्या द्रौ पद्या सह महारण्यं गत्वा तत्र द्वादशाब्दान्स्थित्वा संवत्सरपर्यंतमज्ञाताः सर्वे मत्स्यदेशाधिपतेर्विराटस्य निवेशने स्थित्वा वासुदेवेन सहायेन धार्तराष्ट्रान्योद्धुमाजग्मुः ३९।
तेषां धार्तराष्ट्रपांडुपुत्राणां नानादेशाधिपनृपैः कुरुक्षेत्रमहापुण्ये देवानामपि भयंकरो महासंग्रामोऽभवत् ४०।
अथ श्रीकृष्णोऽप्यर्जुनसारथ्यं कुर्वन्नर्जुने स्वशक्तिमावेश्य तेन दुर्योधनभीष्मद्रो- णप्रमुखान्सर्वान्पार्थिवानेकादशाक्षौहिणीबलसहितान्कुरुक्षेत्रे हत्वा पांडवान्राज्ये स्थापयित्वा निःशेषेण सर्वभूभारमपास्य स्वां पुरीं प्रविवेश ४१।
कस्यचित्त्वथकालस्य कतिपयाहनि वैदिको ब्राह्मणो मृतं पंचवार्षिकं बालमादाय राजद्वारि निधाय बहुशो विलपन्बहून्याक्रोशवाक्यानि कृष्णं जगाद ४२।
कृष्णस्तमाक्रोशं श्रुत्वा तूष्णीमुवास ४३।
स तु मम पंचपुत्राः पूर्वं हता अयं तु षष्ठः एनं कृष्णो न जीवयिष्यति तर्हि राजद्वारि मरिष्यामीत्युवाच ४४।
तस्मिन्काले अर्जुनः कृष्णं द्रष्टुमागतस्तथाविधं तं पुत्रशोकेन विलपंतं ददर्श ४५।
अर्जुनोऽपि कालधर्ममुपागतं पंचवार्षिकं बालकं दृष्ट्वा कृपयाविष्टस्तव पुत्रमहंजीवयिष्यामीति ब्राह्मणायाभयं दत्वा प्रतिश्रुतवान् ४६।
ब्राह्मणस्तु तेनाश्वासितो हृष्टवान् ४७।
अथैतं ब्राह्मणशिशुं बहुभिः संजीविनास्त्रैरभिमंत्र्य अलब्धजीवितं दृष्ट्वा वृथा प्रतिज्ञामवाप्य बहुशोकसमन्वितस्तेनैव प्राणांस्त्यक्तुमैच्छत् ४८।
कृष्णस्तु तत्सर्वं ज्ञात्वांतःपुराद्विनिष्क्रम्य तं वैदिकं प्राह तवपुत्रान्सर्वानहं दास्यामीत्युक्त्वाश्वास्य वैनतेयमारुह्यार्जुनसहितो वैष्णवं लोकमाजगाम ४९।
तत्र दिव्यमणिमंडपोद्देशे देव्या सह समासीनं नारायणं दृष्ट्वा कृष्णार्जुनौ नमश्चक्रतुः ५० 6.252.50।
स तौ बाहुभ्यां परिष्वज्य किमर्थमागतावित्युवाच ५१।
कृष्णश्च भगवन्वैदिकस्य तनयान्मम देहीत्युवाच ५२।
स तु नारायणस्तादृग्वयसि संस्थितान्ब्राह्मणपुत्रान्कृष्णाय संददौ ५३।
श्रीकृष्णोऽपि तान्वैनतेयस्कंधे समारोप्य हर्षसमन्वितोऽर्जुनसहितः स्वयमप्यारुह्य दिवि देवगणैः संस्तूयमानो द्वारवतीमाविवेश ५४।
तस्मै ब्राह्मणाय पंचवर्षवयःस्थान्षट्पुत्रान्ददौ सोऽप्यत्यंतर्हषसमन्वितः कृष्णं वर्द्धयस्वेत्याशिषं प्रायच्छत् ५५।
अर्जुनस्तु सफलां प्रतिज्ञामवाप्य कृष्णं नमस्कृत्य युधिष्ठिरपालितां स्वां पुरीमाजगाम ५६।
कृष्णस्य षोडशसहस्रभार्यास्वयुतसाहस्रपुत्रा जज्ञिरे तेषां पुत्रपौत्रसंख्यां वक्तुं न शक्यते ५७।
अत्रापि श्लोकः ।
अष्टौशतानि पुत्राणां सहस्राण्ययुतं तथा ।
प्रद्युम्नः प्रथमस्तेषां सर्वेषां रुक्मिणीसुतः ५८।
असंख्यैस्तैर्यादवैरियं पृथिवी संवृताऽभवत् ५९।
पुनरप्यवनीभारशंकया कृष्णस्तु तानृषिशापव्याजेन संहर्तुमैच्छत् ६०।
कदाचित्सर्वे कुमारा नर्मदायां विहर्तुमाजग्मुः ६१।
तत्र तपंतं कण्वं महर्षिं दृष्ट्वा जांबवत्याः ।
पुत्रं योषिद्वेषं कृत्वा तस्योदरे कात्वायसं मुसलं बद्ध्वा ऋषेः ।
समीपमागत्य सर्वे नमस्कृत्वा पत्नीरूपं सांबं कुमारं तस्य पुरतो निधाय ।
अस्या गर्भे स्त्री वा पुरुषो वा भविष्तीति ब्रूहीत्यूचुः ६२।
स तु मनसा तद्विज्ञाय तानमर्षमाणः सर्वाननेन मुसलेन यूयं सर्वे निहता भवतेत्युवाच ६३।
सर्वे समुद्विग्नमनसः कृष्णं समेत्य महर्षिणोक्तं तत्कर्म निवेदयामासुः ६४।
कृष्णोऽपि तदायसं मुसलं चूर्णीभूतं ह्रदे निपातयामास ६५।
तदयश्चूर्णीभूतबीजसमुद्भूता वज्रसन्निभा महाकाशाः संबभूवुः ६६।
तत्र तं मुसलावशिष्टं कनिष्ठांगुलिमात्रं मत्स्यो जग्रास तं मत्स्यं निषादो गृहीत्वा तदुदरस्थं मुशलखण्डमादाय बाणाग्रे फलकमकरोत् ६७।
कदाचित्सर्वे यादवा रामकृष्णप्रद्युम्नादयो मघवता प्रेषितां वारुणीं पीत्वा मत्ता बभूवुः६८।
परस्परं वीरणं नीत्वा बहून्याक्रोशवाक्यानि वदंतो युद्धं चक्रुः क्षयं च गताः ६९।
कृष्णस्तु युद्धश्रांतः कल्पतरुच्छायायां शयनं चकार स निषादो धनुर्बाणं गृहीत्वा खेटकवृत्तिं जगाम ७०।
एवं निःशेषं त्यक्तजीविता बभूवुस्ते सर्वे स्वान्स्वांस्त्रिदशान्प्रपेदिरे ७१।
एवं मुशलेन संहृत्य सर्वं स्वयमेको देवो बहुगुल्मसमाकीर्णमहाद्रुमछायायां सुप्तश्चतुर्विधव्यूहगतं वासुदेवात्मकमात्मानं चिंतयञ्जानूपरिपदं निधायात्मनो मानुषंवपुस्त्यक्तुमनुनिषसाद ७२।
एतस्मिनन्तरे मृगयाजीविको हरेः स तदा कालप्रभावेन चक्रवज्रध्वजांकुशादिचिह्नितमतिरक्ततमं हरेः पादकमलं दृष्ट्वा विव्याध ७३।
तदनंतरं श्रीकृष्णं ज्ञात्वा सुमहाभयार्तः प्रवेपमानः कृतांजलिपुटो महदपराधः सकलोपह्रियतामिति तं प्रणनाम ७४ ।
श्रीकृष्णस्तथाभूतं दृष्ट्वा सुधामयकराभ्यां तमुत्थाप्य भवतानापराद्धं कृतमिति वदन्महाभयपीडितमाश्वासयन्नुवाच ७५।
ततो योगिगम्यमपुनरावृत्तिशाश्वतं सर्वोपनिषदमयं वैष्णवं लोकं प्रददौ ७६।
असौ तस्मिन्नेव मुहूर्ते मानुषं रूपं विहाय पंचोपनिषन्मयं सकलपुत्रदारसहितो दीप्तिमयं वैष्णवं लोकं दिव्यं विमानमास्थाय सहस्रार्कद्युतिसदृशं दिव्याप्सरोगणाकीर्णं हिरण्मयं वासुदेवेत्येकं जगाम ७७।
तस्मिन्काले दारुको रथमारुह्य विष्णोः समीपं विवेश ७८।
कृष्णोऽपि मत्स्वरूपमर्जुनं पूर्वमानयस्वेति प्रेषयामास ७९।
स तु मनोजवस्यंदनमारुह्यार्जुनसमीपमाजगाम ८०।
एतस्मिन्नंतरे देव्यर्जुनस्तदारुह्य परिणीय नमस्कृत्वा किं करोमीति पुटांजलिरुवाच ८१।
कृष्णस्तु तमाह पार्थाहं स्वलोकं यास्यामि त्वं तु द्वारवतीं गत्वा तत्रस्था रुक्मिण्याद्यष्टभार्या आनीय मम शरीरे प्रेषय ८२।
स दारुकेण सहितो नगरीमाजगाम ८३।
एतस्मिन्नंतरे देवा विमानस्था नभसि संस्थिताः स्वर्लोकं यियान्तं कृष्णं दृष्ट्वा ऋषिभिः सार्द्धं स्तुत्वा पुष्पवर्षाणि ववृषुः ८४।
कृष्णोऽपि मानुषदेहं- संन्यस्यसकलजगत्स्थितिसंहारहेतुभूतं सकलक्षेत्रज्ञमंतर्यामियोगिध्येयमनामयं वासुदेवात्मकं देहं धृत्वा वैनतेयमारुह्य महर्षिभिस्तूयमानो जगाम ८५।
अर्जुनो वसुदेवोग्रसेनाभ्यां रुक्मिण्यादिमहिषीभ्यस्तत्सर्वं कथयामास ८६।
तच्छ्रुत्वा सर्वे पौरजनाः स्त्रियश्च द्वारवतीमुत्सृज्यांतःपुराद्बहिर्निष्क्रम्य सर्वास्ताः कृष्णवल्लभा वसुदेवोग्रसेनसहिताः शीघ्रमेव हरेः समीपं जग्मुः ८७।
ते सर्वे वसुदेवोग्रसेनाक्रूराः सर्वे यदुवृद्धा वपुस्त्यक्त्वा सनातनवासुदेवं समाजग्मुः८८।
रेवतीच बलभद्रशरीरं परिष्वज्याग्निं प्रविश्य तस्मिन्देहं प्राप्य दिव्यविमानारूढा भर्तुः स्थानं संकर्षणलोकं दिव्यमवाप ८९।
तथैव प्रद्युम्नेन सह रुक्मपुत्री तथानिरुद्धेनोषापि सर्वाश्च यादवस्त्रियः स्वस्वभर्तुः शरीराणि संपूज्याग्निप्रवेशं चक्रुः ९०।
तेषां सर्वेषामर्जुनऔर्द्ध्वदैहिकं कृतवान् ९१।
तस्मिन्काले दिव्यवाजिसमायुक्तं सुग्रीवाख्यकं सर्वरत्नोपेतं दिव्यं स्यंदनमारुह्य दारुकोप्याजगाम ९२।
पारिजाततरुर्देवसभासुधर्मात्रिदशेंद्रलोकमयाताम् ९३।
तस्मिन्समये द्वारवतीपुरी महोदधौ निमग्नाभूत् ९४।
ततः सर्वाः षोडशसहस्रभार्य्या अर्जुनेनसहेंद्रप्रस्थं गच्छंतीर्दस्यवो जगृहुः ९५।
पूर्वं देवगंधर्वयोषितो ह्यष्टावक्रं महामुनिं दृष्ट्वा जहसुस्ततस्तेन शप्ता वेश्या भविष्यथ ततस्ताभि प्रसादितः पूजितश्च तत्प्रसादात्सर्वलोकैश्च नमस्कृतं वासुदेवं भर्तारमवाप्यापि तेनैव दस्युहस्तं गता अभवन् ९६।
अर्जुनोऽपि दस्युभिर्निर्जितः शोकसमाविष्टो मम भुजबलं सवीर्यं कृष्णेनैव सह सर्वमैश्वर्यं निर्यातमिति मत्वा अद्य मम भाग्य क्षय इति वदन्सायं संध्यारविरिव निःशेषविनष्टतेजाः स्वां पुरीं समाजगाम ९७।
एवं हितार्थाय सर्वदेवानां समस्तभूभारविनाशाय यदुवंशेऽवतीर्य सकलराक्षसविनाशं कृत्वा महांतमपि चोर्वीभारं नाशयित्वा नंदव्रजद्वारकामथुरानिवासिनः सर्वान्स्थावरजंगमान्कालभवबंधैर्मोचयित्वा परमैश्वर्गे शाश्वते योगिगम्ये हिरण्मये रम्ये सात्विके संस्थाप्य नित्यं दिव्यमहिष्यादिसंसेव्यमानो वासुदेव उवास ९८।
अत्र श्लोकाः -
अन्ये सर्वेऽवताराः स्युः कृष्णस्य चरितं महत् ।
भूभारकविनाशाय प्रादुर्भूतो रमापतिः ९९।
एतत्कृष्णस्य चरितं दुष्टानां नाशहेतवे ।
श्रीकृष्णः करुणासिंधुर्वैकुंठे मोदते सदा १०० 6.252.100।
अत्यद्भुतमिदं देवि कृष्णस्य चरितं शुभम् ।
संग्रहेण मयैवोक्तं तव सर्वफलप्रदम् १०१।
वासुदेवस्य चरितं यः पठेद्धरिसन्निधौ ।
स्मरेद्वा शृणुयाद्भक्त्या स याति परमं पदम् १०२।
महापातकयुक्तो वा तथोपपातकसंयुतः ।
बालकृष्णस्य चरितं श्रुत्वा पापैः प्रमुच्यते १०३।
द्वारवत्यां समासीनं रुक्मिणीसहितं हरिम् ।
स्मरन्वै महदैश्वर्यमनेनाप्नोत्यसंशयः १०४।
संग्रामे संकटे दुर्गे शत्रुभिः परिवेष्टिते ।
नेतारं सर्वदेवानां ध्यात्वा सुविजयी भवेत् १०५।
यः स्मरेद्गोपकन्याभिः क्रीडंतं गोव्रजे शुभे ।
सर्वकामानवाप्नोति सौभाग्यं चैव विंदति १०६।
महोपसर्गरोगाद्यैर्युक्तो यस्तु सनातनम् ।
जेतारं च महारौद्रीं कृत्यां काशीपुरे स्थिताम् १०७।
किमत्र बहुनोक्तेन सर्वकालेषु चाप्सु भे ।
कृष्णाय नम इत्येवं मंत्रमुच्चारयेद्बुधः १०८।
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतः क्लेशनाशाय गोविंदाय नमोनमः १०९।
इमं मंत्रं जपन्देवि भक्त्या प्रतिदिनं नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ११०।
सर्वेषामेव देवानामीश्वरोऽसौ जनार्दनः ।
रक्षणाय च लोकानामवस्थांतरमेति वै १११।
त्रिपुरं हंतुकामेन मया संपूजितो हरिः ।
बुद्धरूपधरः श्रीमान्मोहयामास तद्रिपून् ११२।
मोहितास्तेन शास्त्रेण सर्वधर्मविवर्जिताः ।
नारायणास्त्रेण मया निहता देवशत्रवः ११३।
अवतीर्य कलावंते ब्राह्मणस्य निवेशने ।
हनिष्यति तथा रौद्रान्म्लेच्छान्सर्वाञ्जनार्दनः ११४।
तैस्तैर्भावैर्मयावस्थाः सर्वाः प्रोक्ता जगत्पतेः ।
किमन्यच्छ्रोतुकामासि तद्ब्रवीमि शुभानने ११५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे।
उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीकृष्णस्वधामगमननिरूपणंनाम द्विपंचाशदधिकद्विशततमोऽध्यायः २५२।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 253
श्रीपार्वत्युवाच-
भगवन्सर्वमाख्यातं वैभवावस्थितं हरेः ।
एतस्मिन्रामकृष्णाभ्यां चरित्रमति विस्मितम् १।
अहो रामस्यचरितं कृष्णस्य च महात्मनः ।
शृण्वत्या मम देवेश कल्पांतरशतैरपि २।
तृप्तिं नैवेति भूतेश चेतो हरिकथामृतम् ।
अधुना श्रोतुमिच्छामि विष्णोर्माहात्म्यमुत्तमम् ।
तत्पूजनविधिं देव श्रोतुमिच्छाम्यहं तथा ३।
श्रीरुद्र उवाच-
शृणु देवि प्रवक्ष्यामि हरेश्च सुमहात्मनः ।
स्थापनं च स्वयं व्यक्तं द्विविधं तत्प्रकीर्तितम् ४।
शिला मृद्दारुलोहाद्यैः कृत्वा प्रतिकृतिं हरेः ।
श्रौतस्मार्तागमप्रोक्तक्रियासंस्थापनं हि यत् ५।
तत्स्थापनमिति प्रोक्तं स्वयं व्यक्तं हि मे शृणु ।
यस्मिन्संनिहितो विष्णुः स्वयमेव नृणां भुवि ६।
पाषाणदार्वोरात्मेशः स्वयं व्यक्तं हि तत्स्मृतम् ।
स्वयं व्यक्तं स्थापितं वा पूजयेन्मधुसूदनम् ७।
देवतानां मर्हषीणामर्चनार्थे सनातनः ।
स्वयमेव जगन्नाथः सान्निध्यं याति केशवः ८।
यस्य यद्विग्रहे भोग्यं तदेवाविरभूद्भुवि ।
तदेव पूजयेन्नित्यं तस्मिन्नेव रमेत्सदा ९।
श्रीरङ्गशायी देवेशो विधिनार्च्यः सुरोत्तमः ।
स एवेक्ष्वाकुनाथानां तपसाविरभूद्भुवि १०।
ममापि काश्यां संपूज्यो माधवः कलुषापहः ।
यत्र यत्र गृहे रम्ये स्वयं व्यक्तः सनातनः ११।
तत्रतत्र समागम्य रमेऽहं संव्यवस्थितः ।
नाष्टांगयोगे यज्ञेशस्त्वर्चायां विंदते नृणाम् १२।
चक्षुषोर्विषयं प्राप्य ददाति वरमीप्सितम् ।
सर्वावस्थासु सौलभ्यमर्चायां लभ्यते जनैः १३।
अज्ञानामपि सान्निध्यं सर्वदा पृथिवीतले ।
जंबूद्वीपे महापुण्ये वर्षे वै भारते शुभे १४।
अर्चायां संनिधौ विष्णुर्नेतरेषु कदाचन ।
तत्तस्माद्भारते वर्षे मुनिभिस्त्रिदशैरपि १५।
सेवितः सततं देवि तपोयज्ञक्रियादिभिः ।
भारतेऽस्मिन्महावर्षे नित्यं संनिहितो हरिः १६।
ऐंद्रद्युम्ने तथा कौर्मे सिंहाद्रौ करवीरके ।
काश्यां प्रयागे सौम्ये च शालग्रामाचले तथा १७।
द्वारवत्यां नैमिषे च तथा बदरिकाश्रमे ।
कृतशौचे हरेत्पापं पौंडरीके च दंडके १८।
माथुरे वेङ्कटाद्रौ च श्वेताद्रौ गरुडाचले ।
कांच्यामनंतशयने श्रींरगे वासवाचले १९।
नारायणाचले सौम्ये वाराहे वामनाश्रमे ।
एवमाद्याः स्वयं व्यक्ताः सर्वकामफलप्रदाः २०।
स्वयमेव हि सान्निध्यं यस्मिन्याति जनार्दनः ।
तस्मिन्नेव स्वयं व्यंक्तं वदंति मुनयः शुभाः २१।
महाभागवतश्रेष्ठो विधिना स्थाप्य केशवम् ।
मंत्रेण कुर्यात्सांनिध्यं स्थापनं तद्विशिष्यते २२।
तस्मिन्संपूजयेद्देवं ग्रामेषु च गृहेषु च ।
शालग्रामशिलायां तु गृहार्चा सद्भिरिष्यते २३।
अर्चनं मंत्रपठनं यागयोगो महात्मनः ।
नामसंकीर्तनं सेवा तच्चिह्नैरंकनं तथा २४।
तदीयाराधनं च स्यान्नवधा भिद्यते शुभे ।
तत्तत्कर्मविधानं च विप्रस्य सततं स्मृतम् २५।
महाभागवतः श्रेष्ठो ब्राह्मणो वै गुरुर्नृणाम् ।
सर्वेषामेवलोकानामसौ पूज्यो यथा हरिः २६।
तापादिपंच संस्कारि नवेज्याकर्मकारकः ।
अर्थपंचकविद्विप्रो महाभागवतः स्मृतः २७।
तत्तत्कर्मविधानेज्या क्षत्त्रियस्य विधीयते ।
तच्चिह्नैरंकने सेवा तदीयानां च पूजनम् २८।
मंत्रवर्णस्य जपनं नामसंकीर्तनं हरेः ।
वंदनं च विशां प्रोक्तं षट्कर्मेज्याविधानतः २९।
नामसंकीर्तनं सेवा पूजनं वंदनं तथा ।
अर्चनं च तदीयानां पंचेज्या शूद्रजन्मनः ३०।
साधारणेन सर्वेषां मानसेज्या नृणां प्रिये ।
स्वाधिकारानुरूपं च कार्या चेज्या जगत्पतेः ३१।
अनन्यदेवताभक्तैरनन्यफलसाधकैः ।
वेदविद्ब्रह्मतत्त्वज्ञैर्वीतरागैर्मुमुक्षुभिः ३२।
गुरुभक्तिसमायुक्तैः सुप्रसन्नैः सुसाधुभिः ।
ब्राह्मणैरितरैश्चापि पूजनीयो हरिः सदा ३३।
यथोचिता च वर्णस्य कार्या इज्या हरेर्नृणाम् ।
वर्णाश्रमानुरूपं च कर्त्तव्यं वैष्णवैः शुभैः ३४।
श्रुतिस्मृत्युदितं सम्यङ्नित्यमत्र समाचरेत् ।
श्रुतिस्मृत्युक्तकर्माणि नातिक्रामेत बुद्धिमान् ३५।
श्रुतिस्मृत्युक्तमाचारं यो न सेवेत वैष्णवः ।
स च पाखंडमापन्नो रौरवे नरके वसेत् ३६।
तस्माद्वर्णानुरूपां वै कुर्यादिज्यां जगत्पतेः ।
तस्मात्स्मृत्युक्तमाचारं कुर्याद्वै मानवः सदा ३७।
साधारणा हि सर्वेषां मानसेज्या शुभे नृणाम् ।
स्वाधिकारं निरीक्ष्यैव कर्म कुर्यादतंद्रितः ३८।
शमोदमस्तपः शौचं सत्यमामिषवर्जनम् ।
अस्तेयमेवाहिंसा च सर्वेषां धर्मसाधनम् ३९।
तस्माद्वर्णानुरूपेण पूजयेन्मधुसूदनम् ।
रात्रावंते समुत्थाय उपस्पृश्य यथाविधि ४०।
नमस्कृत्य गुरून्स्वस्य संस्मरेदच्युतं हृदि ।
सहस्रनामभिर्भक्त्या कीर्तयेद्वाग्यतः शुचिः ४१।
बहिर्ग्रामात्समुसृज्य मूलमंत्रं यथाविधि ।
शौचं कृत्वा यथान्यायमाचम्य प्रयतः शुचिः ४२।
दंतधावनपूर्वं तु स्नानं कुर्याद्यथाविधि ।
आदाय तुलसीमूलमृदं तत्पत्रसंयुताम् ४३।
मूलमंत्रेणाभिमंत्र्य गायत्र्या च शुभानने ।
मंत्रेणैवानुलिप्तांगः स्नायात्कृत्वाघमर्षणम् ४४।
हरिपादोद्भवां गंगां तत्रावाह्य सुनिर्मले ।
निमज्ज्याशु जपेत्सूक्तमघमर्षणमुत्तमम् ४५।
आचम्य मार्जनं कुर्यात्पौरुषोक्तक्रमादथ ।
पश्चादाशु निमज्ज्याथ मूलमंत्रं जपेद्बुधः ४६।
अष्टाविंशतिवारं वा शतमष्टोत्तरं च वा ।
प्रार्थयेदभिमंत्र्याथ जलमंत्रेण वैष्णवः ४७।
आचम्य तर्पयेद्देवान्नृषींश्चैव पितॄंस्तथा ।
निपीड्य वस्त्रमाचम्य धौतवस्त्रेण वेष्टितः ४८।
विमलां मृत्तिकां रम्यामादाय द्विजसत्तमः ।
मंत्रेणैवाभिमंत्र्याथ ललाटादिषु वैष्णवः ४९।
धारयेदूर्द्ध्वपुंड्रानि यथासंख्यमतंद्रितः ।
उपास्य विधिवत्संध्यां सावित्रीं च जपेद्बुधः ५० 6.253.50।
संयतात्मा गृहं गत्वा पादौ प्रक्षाल्य वाग्यतः ।
आचम्यैकाग्रमनसा पूजामंडपमाविशेत् ५१।
रम्ये शुभ्रतरे पीठे पुष्पोपचय शोभिते ।
तस्मिन्निवेश्य देवं तं लक्ष्मीनारायणं प्रभुम् ५२।
पूजयेद्विधिना सम्यग्गंधपुष्पाक्षतादिभिः ।
स्थापने वा स्वयं व्यक्ते गृहार्चायां विधानतः ५३।
श्रौतस्मार्तागमोक्तानामर्चनं विधिना द्विजः ।
कुर्याद्भक्त्या यथार्हं च विष्णोः प्रयतमानसः ५४।
यथोपदिष्टं गुरुणा तथा कुर्वीत वैष्णवः ।
श्रौतं वैखानसं प्रोक्तं वासिष्ठं स्मार्तमुच्यते ५५।
पंचरात्रविधानं च दिव्यागममितीरितम् ।
क्रियालोपं न कर्त्तव्यं विष्णोराराधनं परम् ५६।
आवाहनासनार्घ्याद्यैर्गंधपुष्पाक्षतादिभिः ।
धूपैर्दीपैश्च नैवेद्यैस्तांबूलाद्यैर्नमस्कृतैः ५७।
कुर्यादाराधनं विष्णोर्यथाशक्त्या मुदान्वितः ।
प्रत्यृचं पुरुषसूक्तेन मूलमंत्रेण वैष्णवः ५८।
मंत्रद्वयेन कुर्वीत षोडशैरुपचारकैः ।
भूयः प्रत्युपचारेषु दद्यात्पुष्पाञ्जलिं ततः ५९।
आवाहयेज्जगन्नाथं मुद्रया चैव वैष्णवः ।
आसनं तु यथा दद्यात्पुष्पकेण च मुद्रया ६०।
दीपार्घ्याचमनं स्नानं पात्रस्थैर्विमलैर्जलैः ।
मंगलद्रव्यसंयुक्तैस्तुलसीदलमिश्रितैः ६१।
दद्यात्प्रत्युपचारं तु मूलमंत्रद्वयेन च ।
सुवासितेन तैलेन कुर्यादभ्यंजनं ततः ६२।
कस्तूर्याचंदेनेनापि कुर्यादुद्वर्त्तनादिकम् ।
सुगंधवासितैस्तोयैः स्नाप्य मंत्रयुतैः शुभैः ६३।
वस्त्रैराभरणैर्दिव्यैरलंकृत्य यथाविधि ।
मधुपर्कं ततो दद्याद्गंधं दद्यात्सुवासितम् ६४।
सुरभीणि सुपुष्पाणि भक्त्या सम्यङ्निवेदयेत् ।
धूपं दशांगमष्टांगं दीपं च सुमनोहरम् ६५।
नैवेद्यं विविधं दद्यात्पायसापूपमिश्रितम् ।
कर्पूरं तु सतांबूलं भक्त्या चैव निवेदयेत् ६६।
दीपैर्नीराजनं कृत्वा पुष्पमालां समर्चयेत् ।
परिणीय प्रणम्याथ स्तुत्वा स्तोत्रैरनुत्तमैः ६७।
गरुडाङ्के शाययित्वा मङ्गलार्घ्यं निवेदयेत् ।
संकीर्त्य नामभिः पुण्यैः पश्चाद्धोमं समाचरेत् ६८।
हरेर्नैवैद्यशेषेण जहुयाद्वह्निमंडले ।
प्रत्यृचं पौरुषं सूक्तं श्रीसूक्तं मंगलाह्वयम् ६९।
होतव्यमाज्यसंमिश्रं हविषा वैदिकानले ।
प्रोक्तेन मंत्ररत्नेन जुहुयाद्भक्तिसंयुतम् ७०।
अष्टोत्तरशतवारमष्टाविंशतिमेव च ।
यज्ञरूपं महाविष्णुं ध्यायन्वै जुहुयाद्धविः ७१।
शुद्धजांबूनदनिभं शंखचक्रगदाधरम् ।
समस्तवेदवेदांतसांगोपांगयुतं प्रभुम् ७२।
देव्या श्रिया समासीनं ध्यात्वा होमं समाचरेत् ।
एकैकामाहुतिं पश्चान्नामभिर्जुहुयाद्धविः ७३।
नित्यान्भक्तान्समुदिदश्य महाभागवतोत्तमः ।
भूलीला विमलाद्याश्च शक्तयः प्रथमं क्रमात् ७४।
अनंतं विहगेंद्रादि देवतास्तदनंतरम् ।
वासुदेवादयः पश्चात्तथा शक्त्यादि देवताः ७५।
मूर्त्तयः केशवाद्याश्च तथा संकर्षणादयः ।
मत्स्यकूर्मादयश्चैव तथा चक्रादिहेतयः ७६।
कुमुदादयश्च त्रिदशास्तथा चंद्रादिदेवताः ।
इंद्रादिलोकपालाश्च तथा धर्मादिदेवताः ७७।
होतव्याः क्रमशस्तस्मिन्संपूज्याश्च विशेषतः ।
एतद्वैकुंठहोमं तु महाभागवतोत्तमः ७८।
नित्यार्चनविधौ नित्यं कुर्वीत सुसमाहितः ।
गृहार्चने गृहद्वारि पंचयज्ञविधानतः ७९।
दत्त्वा बलिविधानेन पश्चादाचमनं चरेत् ।
उपविश्यासने शुभ्रे कृष्णाजिनकुशोत्तरे ८०।
मंत्रयोगे प्रकुर्वीत भोगार्थं सुखमात्मनः ।
सम्यक्पद्मासनासीनो भूतशुद्धिं समाचरेत् ८१।
प्राणायामत्रयं कुर्यान्मन्त्रेण विजितेंद्रियः ।
उदङ्मुखं ततः कृत्वा हृत्पङ्कजमनुत्तमम् ८२।
विकासं तस्य कुर्वीत विज्ञानरविणा हृदि ।
तत्कर्णिकायां वह्न्यर्कशशिबिंबान्यनुक्रमात् ८३।
त्रयं त्रयीमये तस्मिंश्चिंतयेद्वैष्णवोत्तमः ।
नानारत्नमयं पीठं तेषामुपरि चिंतयेत् ८४।
तस्मिन्हृत्पद्ममूलांते बालार्कसदृशद्युतिम् ।
अष्टैश्वर्यदलं पद्मं मंत्राक्षरमयं चरेत् ८५।
तस्मिन्देव्या समासीनं कोटिशीतांशुसंनिभम् ।
चतुर्भुजं सुंदरांगं शंखचक्रगदाधरम् ८६।
पद्मपत्रविशालाक्षं सर्वलक्षणलक्षितम् ।
श्रीवत्सकौस्तुभोरस्कं पीतवस्त्रधरं प्रभुम् ८७।
विचित्राभरणैर्युक्तं दिव्यमंडनमंडितम् ।
दिव्यचंदनलिप्तांगं दिव्यपुष्पोपशोभितम् ८८।
तुलसीकोमलदलवनमालाविभूषितम् ।
बालार्ककोटिसदृशं कांत्या देव्या श्रिया सह ८९।
सर्वलक्षणलक्षण्या समाश्लिष्टतनुः शिवम् ।
एवं ध्यात्वा जपेन्मंत्रं समाहितमनाः शुचिः ९०।
सहस्रं शतवारं वा यथाशक्त्याऽथवापि च ।
मनसैवार्चनं कृत्वा विरमेत्तत्र भक्तितः ९१।
तदीयानर्च्चयेद्भक्त्या तस्मिन्काले समागतान् ।
तर्पयित्वान्नपानाद्यैरनुव्रज्य विसर्जयेत् ९२।
अर्च्चयित्वा पितॄन्देवांस्तर्पयेच्च विधानतः ।
संपूज्यातिथिभृत्यांश्च भुंजीयातां च दम्पती ९३।
यक्षराक्षस भूतानामर्चनं वर्जयेत्सदा ।
यो मोहात्कुरुते विप्रः स चांडालो भवेद्ध्रुवम् ९४।
यक्षाणां च पिशाचानां मद्यमांसभुजां तथा ।
दिवौकसां तु भजनं सुरापानसमं स्मृतम् ९५।
ब्रह्मराक्षसवेतालयक्षभूतार्चनं नृणाम् ।
कुंभीपाकमहाघोर नरकप्राप्तिसाधनम् ९६।
कोटिजन्मकृतं पुण्यं यज्ञदानक्रियादिकम् ।
सद्यः सर्वं लयं याति यक्षभूतादिपूजनात् ९७।
स्त्रियो वा पुरुषो वापि यक्षभूतादिकार्च्चनात् ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ९८।
क्रिमिर्भूत्वाथ विष्ठायां पितृभिः सह मज्जति ।
यक्षाणां च पिशाचानां तामसानां दिवौकसाम् ९९।
निवेदितान्नं योऽश्नाति पूयशोणितभुग्भवेत् ।
यक्षान्भूतगणांश्चान्यान्क्रूरान्वै ब्रह्मराक्षसान् १०० 6.253.100।
उद्दिश्य भुङ्क्ते यो विप्रः सद्यश्चाण्डाल एव सः ।
या नारी पूजयेद्यक्षान्पिशाचोरगराक्षसान् १०१।
सा याति नरकं घोरं कालसूत्रमधोमुखी ।
पितृभिः सह कल्पांतमुषित्वा तत्र दारुणे १०२।
लिहन्मूत्रपुरीषं वै कृच्छ्रात्सूचिमुखैस्तथा ।
कृमिभिर्भक्षमाणांगो यावदाभूतसंप्लवम् १०३।
पश्चाद्भूमौ दशाहेषु जायते शतसंख्यया ।
तस्माद्यक्षादिकानां च देवानामर्च्चनं त्यजेत् १०४।
स्वतंत्रपूजनं यत्र वैदिकानामपि त्यजेत् ।
अर्च्चयित्वा जगद्वंद्यं देवं नारायणं हरिम् १०५।
तदावरणसंस्थानं देवस्य परितोऽर्च्चयेत् ।
हरेर्भुक्तावशेषेण बलिं तेभ्यो विनिःक्षिपेत् १०६।
होमं चैव प्रकुर्वीत तच्छेषेणैव वैष्णवः ।
हरेर्निवेदितुं सम्यग्देवेभ्यो जुहुयाद्धविः १०७।
पितृभ्यश्चापि तद्दद्यात्सर्वमानंत्यमाप्नुयात् ।
प्राणिनां पीडनं यत्तद्विदुषां निरयाय वै १०८।
अदत्तं चैव यत्किंचित्परस्वं गृह्यते नरैः ।
स्तेयं तद्विद्धि गिरिजे नरकस्यैव कारणम् १०९।
लशुनं मद्यपानादि मूलकं गृंजनं तथा ।
तिलपिष्टं शिग्रु बिल्वं तथा कोशातकीं तथा ११०।
अलाबुं चैव वार्ताकं बीजालद्यं कवचानि च ।
एवमन्यान्यभक्ष्याणि शास्त्रदृष्टानि वै नरः १११।
खादन्नरकमाप्नोति विचित्रमशिवं तथा ।
अवैष्णवानां यच्चान्नं पतितानां तथैव च ११२।
अनर्पितं तथा विष्णोः श्वमांससदृशं भवेत् ।
यक्षराक्षसभूतान्नं सुरा मद्यं च गृञ्जनम् ११३।
योऽश्नाति निरयं याति पूयशोणितभोजनम् ।
एतैः संस्थापनस्पर्शसहवासादिभिर्नरः ११४।
तेपियान्त्येव निरयं विण्मूत्रकृमिभोजनम् ।
पतितानां च संसर्गात्पाखंडानां तथैव च ११५।
सर्वयज्ञस्यभोक्तारं पुराणं पुरुषोत्तमम् ।
ज्ञात्वा सर्वं प्रकुर्वीत नित्यनैमित्तिकाः क्रियाः ११६।
यक्षराक्षसभूताश्च कूष्माण्डगण भैरवाः ।
नार्च्चनीयाः सदा देवि स्वर्गलोकमभीप्सुभिः ११७।
यक्षराक्षसभूतानामर्च्चनं वर्जयेद्द्विजः ।
पैशाचत्वमवाप्नोति कल्पकोटिशतत्रयम् ११८।
तस्माद्राक्षसभूतानामर्चनं प्रतिषिध्यते ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ११९।
रौरवं नरकं याति यक्षभूतगणार्चनात् ।
शंखचक्रादिभिश्चिह्नैरन्यैः प्रियतमैर्हरेः १२०।
रहितः सर्वधर्मेभ्यः प्रच्युतो नरकं व्रजेत् ।
अगम्यागमनाद्धिंसा परद्रव्यापहारणात् १२१।
अभक्ष्यभक्षणात्सद्यो नरकं समवाप्नुयात् ।
यस्तु पाणिगृहीतां च हित्वाऽन्यां यो स्त्रियं व्रजेत् १२२।
अगम्यागमनं तद्धि सद्यो नरककारकम् ।
पतितानां च संसर्गात्पाखंडानां तथैव च १२३।
विकर्मस्थानां च तथा यात्येव निरयं नरः ।
संसर्गिणां च संसर्गं तत्संसर्गमपि त्यजेत् १२४।
वैष्णवः कुलमेकं तु वर्जयेत्पापसंयुतम् ।
एकांती संत्यजेद्ग्रामं महापातकमिश्रितम् १२५।
तथैव परमेकान्ती तद्देशमपि वर्जयेत् ।
स्वकर्म्मज्ञानभक्त्यादि साधनं वैष्णवं स्मृतम् १२६।
हरेराज्ञानुरूपेण कर्मज्ञानादि यश्चरेत् ।
स एकांती भवेद्विप्रो वासुदेवपरायणः १२७।
अकृत्यं वैष्णवः पापबुद्ध्या सम्यक्परित्यजेत् ।
एकांती संत्यजेच्छास्त्रं दूषणान्मनसापि च १२८।
तथैव परमैकांती हेयबुद्ध्या परित्यजेत् ।
नित्यं नैमित्तिकं काम्यं कृत्यं तु त्रिविधं स्मृतम् १२९।
ज्ञानं तथैवलोकेऽस्मिन्मुनिभिः संप्रकीर्तितम् ।
कृत्याकृत्यविवेकं च परलोकस्य चिंतनम् १३०।
तत्प्राप्तिसाधनं विष्णोः स्वरूपज्ञानमेव च ।
भक्तियुक्तो भवेद्भक्तो नवधा सा प्रकीर्तिता १३१।
सुदर्शनोर्द्ध्वपुंड्रादि तच्चिह्नैरंकनं शुभम् ।
सद्गुरोमंत्रपठनमर्चनं विधिना हरेः १३२।
स्मरणं कीर्तनं विष्णोः सेवा च परमात्मनः ।
प्रणामस्तस्य पुरतस्तदीयानां च पूजनम् १३३।
प्रसादतीर्थसेवा च भक्तिर्नवविधा स्मृता ।
यस्मात्प्रपद्यते देवं शरणं वैष्णवो हरिम् १३४।
प्रपत्तिः सा तु विज्ञेया त्रिविधा संप्रकीर्तिता ।
तामसी राजसी चैव सात्विकी त्रिविधा स्मृता १३५।
सापि त्रिधाकृता सिद्धिः सामान्या सर्वदेहिनाम् ।
एतच्चतुष्टयं देवि हेयं संत्यज्य वैष्णवः १३६।
उपायभूतं ब्रह्मैवमवलंबेत वैष्णवम् ।
उपायभावात्संत्यज्य कर्मज्ञानादिकं नरः १३७।
कुर्वीत भगवत्प्रीत्यै महाभागवतोत्तमः ।
त्रिकालमर्चयेद्विष्णुं भक्त्या वै पुरुषोत्तमम् १३८।
नैमित्तिके विशेषेण पूजयेद्विधिना शुभे ।
प्रत्यहं कार्तिके मासि जातीपुष्पैः समर्चयेत् १३९।
दद्यादखंडं दीपं च नियतात्मा दृढव्रतः ।
ब्राह्मणान्भोजयित्वांते हरिसायुज्यमाप्नुयात् १४०।
धनुष्युषसि देवेशं मासमेकं निरंतरम् ।
अर्चयेदुत्पलैर्देवि करवीरैः सितासितैः १४१।
धूपदीपैश्च नैवेद्यैर्यथाशक्त्या निवेदयेत् ।
समाप्तौ भोजयेद्विप्रान्महाभागवतोत्तमान् १४२।
अश्वमेधसहस्रस्य फलमाप्नोत्यसंशयम् ।
तपो मास्युदिते भानौ स्नात्वा नद्यां विशेषतः १४३।
अर्च्चयेन्माधवं पुष्पैरुत्पलैश्च शुभानने ।
पायसं सघृतं दिव्यं भक्त्या तत्र निवेदयेत् १४४।
स्नात्वा संपूजयेद्विष्णुं मासमेकं निरंतरम् ।
शर्करांबुयुतं नित्यमुद्यानं विनिवेदयेत् १४५।
वैष्णवान्पूजयेद्भक्त्या मासान्ते शुभदर्शने ।
मधुमासि तथा नित्यं बकुलैश्चंपकैरपि १४६।
पूजयेज्जगतामीशं गुडान्नं च निवेदयेत् ।
मासांते वैष्णवान्विप्रान्भोजयेत्सुसमाहितः १४७।
सहस्रवार्षिकीं पूजां प्रतिनित्यमवाप्नुयात् ।
माधवे पूजयेद्देवं शतपत्रैर्महोत्पलैः १४८।
पूजयित्वा विधानेन दध्यन्नं फलसंयुतम् ।
गुडोदकं च भक्त्या वै तस्मिन्देवि निवेदयेत् १४९।
लक्ष्म्या युक्तो जगन्नाथः प्रीतो भवति पार्वति ।
शुक्रे तु शुक्लकमलैः पाटलैः कुमुदोत्पलैः १५० 6.253.150।
अर्चयित्वा हृषीकेशमन्नं चूतफलैर्युतम् ।
निवेदयित्वा भक्त्या वै गवांकोटिप्रदो भवेत् १५१।
वैष्णवान्भोजयित्वाथ सर्वमानंत्यमाप्नुयात् ।
आषाढे देवदेवेशं लक्ष्मीभर्तारमच्युतम् १५२।
श्रीपुष्पैरर्चयेन्नित्यं पायसान्नं निवेदयेत् ।
मासान्ते भोजयेद्विप्रान्महाभागवतोत्तमान् १५३।
षष्टिवर्षसहस्रस्य पूजां प्राप्नोत्यसंशयः ।
नभोमास्यर्चयेद्विष्णुं पुन्नागैः केतकीदलैः १५४।
अर्चयित्वाच्युतं भक्त्या न भूयो जन्मभाग्भवेत् ।
दद्यादपूपान्भक्त्याथ शर्कराघृतमिश्रितान् १५५।
ब्राह्मणान्भोजयेत्तद्वत्सर्वमानंत्यमाप्नुयात् ।
नभस्येऽप्यर्चयेदीशं कुंदैः कुरबकैरपि १५६।
क्षीरान्नं गुडसंमिश्रं भक्त्या तत्र निवेदयेत् ।
गवांकोटिप्रदानस्य प्रत्यहं फलमाप्नुयात् १५७।
नीलोत्पलैरिषे मासि पूजयेन्मधुसूदनम् ।
भक्त्या निवेदयेत्तस्मिन्क्षीरमापूपमिश्रितम् १५८।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
वैष्णवं लोकमाप्नोति मुदितः स्वजनैर्वृतः १५९।
ऊर्जे मासि तथा देवि कोमलैस्तुलसीदलैः ।
पूजयित्वाच्युतं भक्त्या तत्सायुज्यमवाप्नुयात् १६०।
क्षीराज्यशर्करोपेतमन्नं वै पायसं तथा ।
अपूपं च क्रमेणैव भक्त्या सम्यङ्निवेदयेत् १६१।
अमायां मंदवारे च वैष्णवर्क्षे तथैव च ।
रविसंक्रमे व्यतीपाते ग्रहणं चंद्र सूर्ययोः १६२।
विशेषेणार्चयेद्विष्णुं यथाशक्त्या वरानने ।
गुरोरुत्क्रांतदिवसे जन्मर्क्षेषु तथा हरेः १६३।
इष्टिं च वैष्णवीं कुर्याच्छक्त्या वै द्विजसत्तमः ।
दद्यात्पुष्पांजलिं तत्र प्रत्यर्चं वेदसंमितम् १६४।
पारणं चापि कुर्वीत चरुणा पायसेन वा ।
वैष्णवान्भोजयेद्विप्राञ्छक्त्या दद्याच्च दक्षिणाम् १६५।
कुलकोटिं समुधृत्य वैष्णवं पदमाप्नुयात् ।
सर्ववेदैरशक्तश्चेद्यष्टुं भागवतोत्तमम् १६६।
वैष्णवैरनुवाकैर्वा सप्तरात्रं निरंतरम् ।
पुष्पांजलिसहस्रं तु होमं च प्रत्यहं चरेत् १६७।
प्रीतये वा भगवतः प्रतिश्लोकं यजेदबुधः ।
अथवा मंत्ररत्नं हि सप्तरात्रं निरंतरम् १६८।
अष्टोत्तरसहस्रं तु जुहुयाद्धविषा यजेत् ।
विशेषेणार्चयेद्विद्वान्महाभागवतोत्तमान् १६९।
अंते चावभृथं कुर्याद्यथाविभवसारतः ।
वैष्णवैरनुवाकैश्च कुर्यादवभृथं द्विजः १७०।
अत्र स्नात्वा विधानेन यथाशक्त्या द्विजोत्तमः ।
शुभे पात्रांतरे रम्ये पादौ प्रक्षाल्य भक्तितः १७१।
अर्चयेद्गंधपुष्पाद्यैर्वस्त्रैराभरणादिभिः ।
तांबूलेन फलैर्वापि यथाशक्त्या समर्चयेत् १७२।
भोजयित्वान्नपानाद्यैः प्रणम्य च पुनःपुनः ।
आसीमांतमनुव्रज्य नमस्कृत्य विसर्जितम् १७३।
पुनः प्रणम्य भक्त्याथ शनैस्तत्र निवर्त्तितः ।
गृहं प्रविश्य देवेशं पूजयेत्प्रयतात्मवान् १७४।
एवमभ्यर्चयेद्विष्णुं यावज्जीवमतंद्रितः ।
तदीयांश्च विशेषेण पूजयेत्सर्वदा शुभे १७५।
आराधनानां सर्वेषां विष्णोराराधनं परम् ।
तस्मात्परतरं देवि तदीयानां समर्चनम् १७६।
अर्चयित्वापि गोविंदं तदीयान्नार्चयेत्पुनः ।
न स भागवतो ज्ञेयः केवलं दांभिकः स्मृतः १७७।
पुमांस्तस्मात्प्रयत्नेन वैष्णवान्पूजयेत्सदा ।
सर्वं तरति दुःखौघं महाभागवतार्चनात् १७८।
एवमुक्तं मया देवि विष्णोराराधनं परम् ।
नित्यनैमित्तिकं चैव तदीयानां च पूजनम् १७९।
पौरुषं तस्य याथात्म्यं फलसाधनमेव च ।
तस्यावसथदेहं च कर्माद्यपि चतुष्टयम् ।
तव प्रोक्तं मया देवि किमन्यच्छ्रोतुमिच्छसि १८०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे विष्णुपूजाविधानवैष्णवाचारकथनंनाम त्रिपंचाशदधिकद्विशततमोऽध्यायः २५३।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 254
वसिष्ठ उवाच-
एवमुक्ता तु सा देवि पतिना शूलपाणिना ।
प्रणिपत्य महात्मानमुवाच प्रांजलिस्तदा १।
पार्वत्युवाच-
साधूक्तं हि त्वया नाथ वैष्णवं धर्ममुत्तमम् ।
गुह्याद्गुह्यतमं विष्णोः स्वरूपं परमात्मनः २।
धन्यास्मि कृतकृत्यास्मि सर्वदेवनमस्कृत ।
तव प्रसादाद्देवेशमर्चयामि सनातनम् ३।
वसिष्ठउवाच-
ततस्तद्वचनं श्रुत्वा स भवस्त्रिपुरांतकः ।
समाश्लिष्यावदद्देवीं प्रहृष्टेनांतरात्मनाः ४।
रुद्र उवाच-
साधुसाधु महादेवि साधुसाधु वरानने ।
अर्चयस्व हृषीकेशं लक्ष्मीभर्त्तारमच्युतम् ५।
कृतकृत्योऽस्म्यहं भद्रे वैष्णव्या भार्यया त्वया ।
गुरुणा तव चार्वंगि वामदेवेन धीमता ६।
अनुज्ञातार्चयस्वेशं पुराणं पुरुषोत्तमम् ।
गुरूपदेशमार्गेण पूजयित्वैव केशवम् ।
प्राप्नोति वाछितं सर्वं नान्यथा भूधरात्मजे ७।
वसिष्ठ उवाच-
एवमुक्ता तदा देवि वामदेवांतिकं नृप ।
जगाम सहसा हृष्टा विष्णुपूजनलालसा ८।
समेत्य तं गुरुं देवि पूजयित्वा प्रणम्य च ।
विनीता प्रांजलिर्भूत्वा उवाच मुनिसत्तमम् ९।
पार्वत्युवाच-
भगवंस्त्वत्प्रसादेन सम्यगाराधनं हरेः ।
करिष्यामि द्विजश्रेष्ठ त्वमनुज्ञातुमर्हसि १०।
वसिष्ठ उवाच-
इत्युक्तस्तु तया देव्या वामदेवो महामुनिः ।
तस्यै मंत्रवरं श्रेष्ठं ददौ स विधिना गुरुः ११।
नाम्नां सहस्रं विष्णोश्च प्रोक्तवान्मुनिसत्तमः ।
निवेदयित्वा पूजाया विधानमपि देशिकः ।
उवाच परमप्रीत्या पार्वतीं संशितव्रताम् १२।
वामदेव उवाच-
अर्चयित्वा हृषीकेशं प्रातर्नित्यं वरानने ।
सहस्रनामपठनं कुरुष्व तदनंतरम् १३।
वसिष्ठ उवाच-
द्वत्युक्ता तेन गुरुणा प्रहृष्टेनांतरात्मना ।
पूजयित्वा नमस्कृत्य पुनरायात्स्वमालयम् १४।
शिक्षिता गुरुणा तेन वामदेवेन पार्वती ।
ततः कतिपयाहस्तु द्वादश्यां वृषभध्वजः १५।
कैलासशिखरे रम्ये विष्णुमाराध्य शंकरः ।
उपविष्टस्ततो भोक्तुं पार्वतीं शंकरोऽब्रवीत् १६।
शंकर उवाच-
पार्वत्ये हिमया सार्द्धं भोक्तुं भुवनवंदिते ।
वसिष्ठ उवाच-
तमाह पार्वती देवी जप्त्वा नामसहस्रकम् १७।
ततो भोक्ष्याम्यहं देव भुज्यतां भवता प्रभो ।
ततस्तां पार्वतीं प्राह प्रहसन्परमेश्वरः १८।
शंकर उवाच-
धन्यासि कृतकृत्यासि विष्णुभक्तासि पार्वति ।
दुर्लभा वैष्णवी भक्तिर्भागधेयं विनेश्वरि १९।
रामरामेति रामेति रमे रामे मनोरमे ।
सहस्रनामतत्तुल्यं रामनाम वरानने २०।
रकारादीनि नामानि शृण्वतो मम पार्वति ।
मनः प्रसन्नतां याति रामनामाभिशंकया २१।
रामेत्युक्त्वा महादेवि भुंक्ष्व सार्धं मयाधुना ।
वसिष्ठ उवाच-
ततो रामेति नामोक्त्वा सह भुंक्त्वाऽथ पार्वती २२।
रामेत्युक्ता महादेवी शंभुना सह संस्थिता ।
पप्रच्छ शंकरं देवं प्रीतिप्रणवमानसा २३।
पार्वत्युवाच-
सहस्रनामभिस्तुल्यं रामनाम त्वयोदितम् ।
तस्यापराणि नामानि संति चेद्रावणद्विषः ।
कथ्यतां मम देवेश तत्र मे भक्तिरुत्थिता २४।
श्रीमहादेव उवाच-
शृणु नामानि वक्ष्यामि रामचंद्रस्य पार्वति ।
लौकिका वैदिकाः शब्दाः ये केचित्संति पार्वति २५।
नामानि रामचंद्रस्य सहस्रं तेषु चाधिकम् ।
तेषु चात्यंतमुख्यं हि नाम्नामष्टोत्तरं शतम् २६।
विष्णोरेकैकनामैव सर्ववेदाधिकं मतम् ।
तादृङ्नामसहस्राणि रामनामसमानि च २७।
यत्फलं सर्ववेदानां मंत्राणां जपतः प्रिये ।
तत्फलं कोटिगुणितं रामनाम्नैव लभ्यते २८।
नामानि शृणु रामस्य मुख्यानि शुभदर्शने ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि ते प्रिये २९।
ॐ श्रीरामो रामचंद्रश्च रामभद्रश्च शाश्वतः ।
राजीवलोचनः श्रीमान्राजेंद्रो रघुपुंगवः ३०।
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ।
विश्वामित्रप्रियो दांतः शरण्य त्राणतत्परः ३१।
वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः ।
सत्यव्रतो व्रतफलः सदा हनुमदाश्रयः ३२।
कौशलेयः खरध्वंसी विराधवधपंडितः ।
विभीषणपरित्राता दशग्रीवशिरोहरः ३३।
सप्ततालप्रभेत्ता च हरकोदंड खंडनः ।
जामदग्नि महादर्प्पदलनस्ताडकांतकृत् ३४।
वेदांतपारो वेदात्मा भवबंधैकभेषजम् ।
दूषणत्रिशिरोरिश्च त्रिमूर्त्तिस्त्रिगुणस्त्रयी ३५।
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्त्तनः ।
त्रिलोकरक्षको धन्वी दंडकारण्यवासकृत् ३६।
अहल्यापावनश्चैव पितृभक्तो वरप्रदः ।
जितेंद्रियो जितक्रोधो जितलोभो जगद्गुरुः ३७।
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः ।
जयंतत्राणवरदः सुमित्रापुत्रसेवितः ३८।
सर्वदेवाधिदेवश्च मृतवानरजीवनः ।
मायामारीचहंता च महाभागो महाभुजः ३९।
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसत्तमः ।
महायोगी महोदारः सुग्रीवस्थिरराज्यदः ४०।
सर्वपुण्याधिकफलः स्मृतः सर्वाघनाशनः ।
आदिपुरुषो महापुरुषः परमः पुरुषस्तथा ४१।
पुण्योदयो महासारः पुराणपुरुषोत्तमः ।
स्मितवक्त्रो मितभाषी पूर्वभाषी च राघवः ४२।
अनंतगुणगंभीरो धीरो दांतगुणोत्तरः ।
मायामानुषचारित्रो महादेवाधिपूजितः ४३।
सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः ।
श्यामांगः सुंदरः शूरः पीतवासा धनुर्द्धरः ४४।
सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः ।
शिवलिंगप्रतिष्ठाता सर्वाद्यगुणवर्जितः ४५।
परमात्मा परब्रह्म सच्चिदानंदविग्रहः ।
परंज्योतिः परंधाम पराकाशः परात्परः ४६।
परेशः पारगः पारः सर्वभूतात्मकः शिवः ।
इति श्रीरामचन्द्रस्य नाम्नामष्टोत्तरं शतम् ४७।
गुह्याद्गुह्यतरं देवि तव स्नेहात्प्रकीर्तितम् ।
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ४८।
सर्वैः प्रमुच्यते पापैः कल्पकोटिशतोद्भवैः ।
जलानि स्थलतां यांति शत्रवो यांति मित्रताम् ४९।
राजानो दासतां यांति वह्नयो यांति सौम्यताम् ।
आनुकूल्यं च भूतानि स्थैर्यं यांति चलाः श्रियः ५० 6.254.50।
अनुग्रहं ग्रहा यांति शांतिमायांत्युपद्रवाः ।
पठतो भक्तिभावेन नरस्य गिरिसंभवे ५१।
पठेत्परमया भक्त्या तस्य वश्यं जगत्त्रयम् ।
यंयं कामं प्रकुरुते तंतमाप्नोति कीर्त्तनात् ५२।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
वैकुंठे मोदते नित्यं दशपूर्वैर्दशापरैः ५३।
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
स्तुवंति नामभिर्द्दिव्यैर्न ते संसारिणो जनाः ५४।
रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ५५।
इमं मंत्रं महादेवि जपन्नेव दिवानिशम् ।
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ५६।
इति ते रामचंद्रस्य माहात्म्यं वेदसंमितम् ।
कथितं वै मया सुभ्रूस्तव प्रीत्या शुभाह्वयम् ५७।
वसिष्ठ उवाच-
तच्छ्रत्वा शंकरेणोक्तं माहात्म्यं परमात्मनः ।
प्रहर्षमतुलं लेभे आनंदाश्रुजलाप्लुता ५८।
प्रणम्य प्राह देवेशं भर्तारं वृषभध्वजम् ।
पार्वत्युवाच-
अहो माहात्म्यमतुलं रामस्य परमात्मनः ।
श्रोत्रतृप्तिर्हि मे न स्यात्कल्पायुतशतैरपि ५९।
धन्याहं कृतकृत्यास्मि सर्वमुक्तं त्वयानघ ।
त्वत्प्रसादाद्धरेर्भक्तिर्जन्मजन्मनि चास्तु मे ६०।
वसिष्ठ उवाच-
एवमुक्त्वा स्वभर्तारं गौरी भागवतोत्तमा ।
रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ६१।
इममेव जपन्मंत्रं सर्वावस्थासु पार्वती ।
उवास च सुखेनैव कैलासे पतिना सह ६२।
एतत्ते सर्वमाख्यातं गुह्याद्गुह्यतमं नृप ।
रुद्रप्रोक्तानि शास्त्राणि तामसान्येव पार्थिव ६३।
संमोहनार्थं लोकानां प्रोक्तवान्वृषभध्वजः ।
रहसि प्रोक्तवान्देव्या इदमेकं हरः प्रभुः ६४।
यथार्थमर्थं गुह्यं च सारं मंत्रस्य भूपते ।
देव्या प्रीत्यै महादेवः कथयामास तत्परः ६५।
उमामहेश्वरं राजन्संवादमिममद्भुतम् ।
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ६६।
स सर्ववंद्यः सर्वज्ञो महाभागवतो भवेत् ।
सर्वधर्मविनिर्मुक्तः प्राप्नोति परमं पदम् ६७।
धन्यः खलु भवान्लोके पार्थिवेंद्र महाबल ।
त्वदन्वये हरिः श्रीमान्पुराणः पुरुषोत्तमः ६८।
उत्पत्स्यते दाशरथिः सर्वलोकहिताय वै ।
तस्मादिक्ष्वाकवः पूज्याः सुराणामपि पार्थिव ६९।
येषां जातो हि भगवान्रामो राजीवलोचनः ।
इति श्रीपाद्मे महापुराणे पंचपचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे रामचंद्राष्टोत्तरशतनामकथनं नाम चतुःपंचाशदधिक द्विशततमोऽध्यायः २५४ ।
खण्डः ६ (उत्तरखण्डः) — Adhyāya 255
दिलीप उवाच-
कथितं भवता ब्रह्मन्सर्वधर्ममशेषतः ।
सामान्यं च विशिष्टं च स्वरूपं परजीवयोः १।
स्वर्गापवर्गौ कथितौ साधनं च तयोरपि ।
धन्योऽस्म्यहं द्विजश्रेष्ठ त्वत्प्रसादात्सदागुरो २।
एकमन्यं द्विजश्रेष्ठ पृच्छामि त्वां कुतूहलात् ।
कथयस्व यथातथ्यमपि वात्सल्यगौरवात् ३।
महाभागवतश्रेष्ठो रुद्रस्त्रिपुरहंतकः ।
कस्माद्विगर्हितं रूपं प्राप्तवान्सह भार्य्यया ४।
योनिलिंगस्वरूपं च कथं स्यात्सुमहात्मनः ।
पंचवक्त्रश्चतुर्बाहुः शूलपाणिस्त्रिलोचनः ५।
कथं विगर्हितं रूपं प्राप्तवान्द्विजपुंगव ।
एवं सर्वं समाचक्ष्व मित्रावरुणनंदन ६।
वसिष्ठ उवाच-
शृणु राजन्प्रवक्ष्यामि यन्मां पृच्छसि गौरवात् ।
विशुद्धहृदये पुंसां बुद्धिः श्रेयसि जायते ७।
स्वायंभुवो मनुः पूर्वं मंदरे पर्वतोत्तमे ।
जगाम मुनिभिः सार्द्धं दीर्घसत्रमनुत्तमम् ८।
तस्मिन्समागताः सर्वे मुनयः शंसितव्रताः ।
नानाशास्त्रविदः श्रेष्ठा बालसूर्य्यानलप्रभाः ९।
सर्ववेदविदो विप्राः सर्वधर्मपरायणाः ।
वर्तमाने महासत्रे मुनयः क्षीणकल्मषाः १०।
अन्वेष्टुंदेवतातत्वंमिथः प्रोचुस्तपोधनाः ।
विप्राणां वेदविदुषां कः पूज्यो देवता वरः ११।
ब्रह्मविष्णुमहेशानां कः स्तुतो मुक्तिदो नृणाम् ।
कस्यपादोदकं सेव्यं भुक्तोच्छिष्टं च पावनम् १२।
कोऽव्ययः परमं धाम परमात्मा सनातनः ।
कस्य प्रसादं तीर्थं च पितॄणां तृप्तिदं भवेत् १३।
तेषां समुपविष्टानां इति वादो महानभूत् ।
रुद्रमेकमिति प्रोचुः केचिदत्र महर्षयः १४।
ब्रह्मैव पूज्य इत्यन्ये वदंति मुनिसत्तमाः ।
सूर्य एवात्मनां पूज्य इत्यन्ये प्राहुरुत्तमाः १५।
योऽसो सर्वगतः श्रीमाञ्छ्रीपतिः पुरुषोत्तमः ।
अव्ययः पुंडरीकाक्षो वासुदेवः परात्परः १६।
अनादिनिधनो विष्णुः स एव परमेश्वरः ।
संपूज्यो देवताश्रेष्ठ इत्यन्ये चोचिरे द्विजाः १७।
तेषां विवदतां तत्र मनुः स्वायंभुवोऽब्रवीत् ।
शुद्धसत्वमयो योऽसौ कल्याणगुणवान्प्रभुः १८।
पुंडरीकेक्षणः श्रीमाञ्छ्रीपतिः पुरुषोत्तमः ।
विप्राणां वेदविदुषां एक एवार्चितः प्रभुः १९।
विप्राणां नेतरे पूज्या रजस्तमविमिश्रिताः ।
इति तस्य वचः श्रुत्वा सर्व एव महर्षयः ।
भृगुं तपोनिधिं विप्रं प्रोचुः प्रांजलयस्तथा २०।
ऋषय ऊचुः-
अस्माकं संशयं छेत्तुं त्वं समर्थोऽसि सुव्रत ।
ब्रह्मविष्णुमहेशानामंतिकं व्रज सुव्रत २१।
गत्वा तेषां समीपं तु तथा दृष्ट्वा तु विग्रहान् ।
शुद्धसत्वगुणं तेषां यस्मिन्संविद्यते मुने २२।
स एव पूज्यो विप्राणां नेतरस्तु कदाचन ।
शुद्धसत्वमयः साक्षाद्ब्रह्मण्यः स भविष्यति २३।
तीर्थप्रसादवाँल्लोके विप्राणां स भविष्यति ।
देवतानां पितॄणां च तस्योच्छिष्टं सुपावनम् २४।
तस्माद्याहि मुनिश्रेष्ठ विबुधानां निवासनम् ।
क्षिप्रं कुरु मुनिश्रेष्ठ सर्वलोकहितं प्रभो २५।
एवमुक्तस्ततस्तूर्णं कैलासं मुनिसत्तमः ।
जगाम वामदेवेन यत्रास्ते वृषभध्वजः २६।
गृहद्वारमुपागम्य शंकरस्य महात्मनः ।
शूलहस्तं महारौद्रं नंदिं द्दष्ट्वाब्रवीद्दिवजः २७।
संप्राप्तोऽहं भृगुर्विप्रो हरं द्रष्टुं सुरोत्तमम् ।
निवेदयस्व मां शीघ्रं शंकराय महात्मने २८।
तस्य तद्वचनं श्रुत्वा नंदी सर्वगणेश्वरः ।
उवाच परुषं वाक्यं महर्षिममितौजसम् २९।
असांनिध्यं प्रभोस्तस्य देव्या क्रीडति शंकरः ।
निवर्त्तस्व मुनिश्रेष्ठ यदि जीवितुमिच्छसि ३०।
एवं निराकृतस्तेन तत्रातिष्ठन्महातपाः ।
बहूनि दिवसान्यस्मिन्गृहद्वारि महेशितुः ३१।
नारीसंगममत्तोऽसौ यस्मान्मामवमन्यते ।
योनिलिंगस्वरूपं वै तस्मात्तस्य भविष्यति ३२।
ब्राह्मणं मावजानाति तमसा समुपागतः ।
अब्रह्मण्यत्वमापन्नो ह्यपूज्योऽसौ द्विजन्मनाम् ३३।
तस्मादन्नं जलं पुष्पं तस्मै दत्तं हविस्तथा ।
निर्माल्यमस्य तत्सर्वं भविष्यति न संशयः ३४।
एवं शप्त्वा महातेजाः शंकरं लोकपूजितम् ।
उवाच गणमत्युग्रं नंदिं शूलधरं नृप ३५।
रुद्र भक्ताश्च ये लोके भस्मलिंगास्थिधारिणः ।
ते पाखंडत्वमापन्ना वेदबाह्या भवंतु वै ३६।
एवं शप्त्वा मुनिस्तत्र रुद्रं त्रिपुरहंतकम् ।
जगाम ब्रह्मलोकं वै सर्वलोकनमस्कृतम् ३७।
तत्र दैवैः सहासीनं ब्रह्माणं परमेष्ठिनम् ।
दृष्ट्वा प्रांजलिना देवं प्रणनाम महामतिः ३८।
प्रणम्य पुरतस्तस्य तूष्णीमास महातपाः ।
तं दृष्ट्वा मुनिशार्दूलं रजोगुण समावृतः ३९।
नार्चयामास धाताऽसौ महर्षिं समुपागतम् ।
प्रत्युत्थानं प्रियं वाक्यं न कृतं तस्य वेधसा ४०।
ऐश्वर्येणैव महता तस्थौ तत्रांबुजासनः ।
तं दृष्ट्वा रजसोद्रिक्तं महर्षिः पंकजासनम् ४१।
व्याजहार महातेजा वाक्यं लोकपितामहः ।
रजसा महतोद्रिक्तो यस्मान्मामवमन्यसे ४२।
तस्मात्त्वं सर्वलोकानामपूज्यत्वं समाप्नुहि ।
एवं शप्त्वा महात्मानं ब्रह्माणं लोकपूजितम् ४३।
जगाम सहसा विप्रो भगवन्मंदिरं भृगुः ।
प्रविश्य वैष्णवं लोकं क्षीराब्धेरुत्तरे तटे ४४।
तत्रस्थितैर्महाभागैः पूज्यमानो यथार्हतः ।
तत्रानिवार्य्यमाणस्तु प्रविष्टोंतःपुरं द्विजः ४५।
प्रविश्य तस्मिन्विमले विमाने रविसन्निभे ।
शयानं नागपर्यंके ददर्श कमलापतिम् ४६।
लक्ष्मीकरसरोजाभ्यां मृज्यमानपदद्वयम् ।
तं दृष्ट्वा मुनिशार्दूलो भृगुः कोपसमन्वितः ४७।
सव्यं पादं प्रचिक्षेप विष्णोर्वक्षसि शोभने ।
तूर्णमुत्थाय भगवान्धन्योस्मीति वदन्मुदा ४८।
हस्ताभ्यां चरणं तस्य पीडयामास हर्षितः ।
शनैर्मृदित्वा तत्पादं मधुरं वाक्यमब्रवीत् ४९।
धन्योस्म्यद्यैव विप्रर्षे कृतकृत्योस्मि सर्वदा ।
त्वत्पादस्पर्शनाद्देहे मंगलं मे भविष्यति ५० 6.255.50।
समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः ।
अपारसंसारसमुद्र सेतवः पुनंतु मां ब्राह्मणपादपांसवः ५१।
विप्रपादरजो यस्य देहे तिष्ठति सर्वदा ।
गंगादिसर्वतीर्थानि तस्य तिष्ठंत्यसंशयम् ५२।
इत्युक्त्वा सहसोत्थाय देव्या सार्द्धं जनार्दनः ।
भक्त्या समर्चयामास दिव्यस्रक्चंदनादिभिः ५३।
तं दृष्ट्वा मुनिशार्दूलो हर्षपूर्णोऽश्रुलोचनः ।
उत्थायासनमुख्यात्तं प्रणनाम दयानिधिम् ।
कृतांजलिपुटोभूत्वा हर्षात्प्राह महातपाः ५४।
श्रीभृगुरुवाच-
अहोरूपमहोशांतिरहोज्ञानमहो दया ।
अहो सुनिर्मला क्षांतिरहो सत्वगुणं हरेः ५५।
नैसर्गिकं शुभं सत्वं तथैव गुणवारिधेः ।
नान्येषां विद्यते किंचित्सर्वेषां त्रिदिवौकसाम् ५६।
ब्रह्मण्यश्च शरण्यश्च त्वमेव पुरुषोत्तमः ।
ब्राह्मणानां त्वमेवेशो नान्यः पूज्यः सुरः क्वचित् ५७।
येऽर्चयंति सुरानन्यांस्त्वां विना पुरुषोत्तम ।
ते पाखंडत्वमापन्नाः सर्वलोकविगर्हिताः ५८।
विप्राणां वेदविदुषां त्वमेवेज्यो जनार्दनः ।
नान्यः कश्चित्सुराणां तु पूजनीयः कदाचन ५९।
अनर्च्याब्रह्मरुद्राद्या रजस्तमोविमिश्रिताः ।
त्वं शुद्धसत्वगुणवान्पूजनीयोऽग्रजन्मनाम् ६०।
त्वत्पादसलिलं सेव्यं पितॄणां च दिवौकसाम् ।
सर्वेषां भूसुराणां च मुक्तिदं कल्मषापहम् ६१।
त्वद्भुक्तोच्छिष्टशेषं वै पितॄणां च दिवौकसाम् ।
भूसुराणां च सेव्यं स्यान्नान्येषां तु कदाचन ६२।
इतरेषां तु देवानामन्नं पुष्पं जलं तथा ।
अस्पृश्यं तु भवेत्सर्वं निर्माल्यं सुरयासमम् ६३।
तस्माद्वै ब्राह्मणो नित्यं पूजयित्वा सनातनम् ।
त्वत्तीर्थं भुक्तमन्नं च भजेतैवानिशं बुधः ६४।
नान्यं देवं तु वीक्षेत ब्राह्मणो न च पूजयेत् ।
नान्यप्रसादं भुंजीत नान्यदायतनं विशेत् ६५।
न ददातीह यो विप्रः पितॄणां श्राद्धकर्मणि ।
त्वद्भुक्तमन्नं तीर्थं च तत्सर्वं निष्फलं भवेत् ६६।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
पतंति पितरस्तस्य नरके पूयशोणिते ६७।
निवेदितं तव विभो यो जुहोति ददाति वा ।
देवतानां पितॄणां च तृप्तिरानंत्यमश्नुते ६८।
तस्मात्त्वमेव विप्राणां पूज्यो नान्योस्ति कश्चन ।
मोहाद्यः पूजयेदन्यान्स पाखंडी भविष्यति ६९।
त्वं हि नारायणः श्रीमान्वासुदेवः सनातनः ।
विष्णुः सर्वगतो नित्यः परमात्मा महेश्वरः ७०।
त्वमेव सेव्यो विप्राणां ब्रह्मण्यः शुद्धसत्ववान् ।
पूज्यत्वाद्ब्राह्मणानां वै शुद्धसत्वगुणादपि ७१।
सर्वेषामेव देवानां ब्राह्मणत्वमवाप्नुहि ।
त्वामेव हि सदा विप्रा भजंति पुरुषोत्तमम् ७२।
ब्राह्मणास्ते बभूवुस्तु नान्यास्तत्र न संशयः ।
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ७३।
ब्रह्मण्यः पुंडरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ।
ब्रह्मण्यो भगवान्कृष्णो वासुदेवोऽच्युतो हरिः ७४।
ब्रह्मण्यो नारसिंहः स्यात्तथा नारायणोऽव्ययः ।
ब्रह्मण्यः श्रीधरः श्रीशो गोविंदो वामनस्तथा ७५।
ब्रह्मण्यो यज्ञवाराहः केशवः पुरुषोत्तमः ।
ब्रह्मण्यो राघवः श्रीमान्रामो राजीवलोचनः ७६।
ब्रह्मण्यः पद्मनाभः स्यात्तथा दामोदरः प्रभुः ।
ब्रह्मण्यो माधवो यज्ञस्तथा त्रिविक्रमः प्रभुः ७७।
ब्रह्मण्यश्च हृषीकेशः पीतवासा जनार्दनः ।
नमो ब्रह्मण्यदेवाय वासुदेवाय शार्ङ्गिणे ७८।
नारायणाय श्रीशाय पुंडरीकेक्षणाय च ।
नमो ब्रह्मण्यदेवाय वासुदेवाय विष्णवे ७९।
कल्याणगुणपूर्णाय नमस्ते परमात्मने ।
नमो ब्रह्मण्यदेवाय सर्वदेवस्वरूपिणे ८०।
वाराहवपुषे नित्यं त्रयीनाथाय ते नमः ।
नमो ब्रह्मण्यदेवाय नागपर्य्यंकशायिने ८१।
राजीवदलनेत्राय राघवाय नमो नमः ।
मायया मोहिताः सर्वे देवाश्च ऋषयस्तव ८२।
न जानंति महात्मानं सर्वलोकेश्वरं प्रभो ।
त्वां न जानंति भगवन्सर्ववेदविदोऽपि हि ८३।
नामरूपगुणैः श्रीश चारित्रैरपि दुष्कृतैः ।
परत्वसूचकं सत्वं तव वेदितुमीश्वरः ८४।
महर्षिभिः प्रेषितोऽहमागतोस्मि तवांतिकम् ।
तव शीलगुणाञ्ज्ञातुं चरणं मम केशव ८५।
दत्तं वक्षसि गोविंद तत्क्षंतव्यं कृपानिधे ।
एवमुक्त्वा भृगुर्देवं प्रणम्य च मुहुर्मुहुः ८६।
दिव्यैर्महर्षिभिस्तत्र पूज्यमानो महात्मभिः ।
पुनर्जगाम हृष्टात्मा यज्ञभूमिं शुभाह्वयाम् ८७।
समागतं महात्मानं तत्र दृष्ट्वा महर्षयः ।
प्रत्युत्थाय नमस्कृत्वा पूजां चक्रुर्विधानतः ८८।
तेषां विज्ञापयामास तत्सर्वं मुनिपुंगवः ।
रजस्तमगुणोद्रिक्तो विधीशानौ सुरोत्तमौ ८९।
शप्तौ मया न पूज्यौ तौ विप्राणामृषिसत्तमाः ।
अब्रह्मण्यत्वमापन्नो गर्हितं रूपमास्थितः ९०।
शप्तः कैलासशिखरे शंकरस्तमसावृतः ।
शुद्धसत्वमयो विष्णुः कल्याणगुणसागरः ९१।
नारायणः परं ब्रह्म विप्राणां दैवतं हरिः ।
ब्रह्मण्यः श्रीपतिर्विष्णुर्वासुदेवो जनार्दनः ९२।
ब्रह्मण्यः पुंडरीकाक्षो गोविंदो हरिरच्युतः ।
स एव पूज्यो विप्राणां नेतरः पुरुषर्षभाः ९३।
मोहाद्यः पूजयेदन्यं स पाखंडी भविष्यति ।
स्मरणादेव कृष्णस्य विमुक्तिः पापिनामपि ९४।
तस्य पादोदकं सेव्यं भुक्तोच्छिष्टं च पावनम् ।
स्वर्गापवर्गदं नॄणां ब्राह्मणानां विशेषतः ९५।
विष्णोर्निवेदितं नित्यं देवेभ्यो जुहुयाद्धविः ।
पितृभ्यश्चैव तद्दद्यात्सर्वमानंत्यमश्नुते ९६।
यो न दद्याद्धरेर्भुक्तं पितॄणां श्राद्धकर्मणि ।
अश्नंति पितरस्तस्य विण्मूत्रं सततं द्विजाः ९७।
तस्माद्विष्णोः प्रसादो वै सेवितव्यो द्विजन्मनाम् ।
इतरेषां तु देवानां निर्माल्यं गर्हितं भवेत् ९८।
सकृदेव हि योश्नाति ब्राह्मणो ज्ञानदुर्बलः ।
निर्माल्यं शंकरादीनां स चांडालो भवेद्ध्रुवम् ९९।
कल्पकोटिसहस्राणि पच्यते नरकाग्निना ।
निर्माल्यं भो द्विजश्रेष्ठा रुद्रादीनां दिवौकसाम् १०० 6.255.100।
रक्षोयक्षपिशाचान्नं मद्यमांससमं स्मृतम् ।
तद्ब्राह्मणैर्न भोक्तव्यं देवानां भुंजितं हविः १०१।
तस्मादन्यं परित्यज्य विष्णुमेव सनातनम् ।
पूजयध्वं द्विजश्रेष्ठा यावज्जीवमतंद्रिताः १०२।
तद्विष्णोः परमं धाममन्यंतो गतसंशयाः ।
तापादिपंचसंस्कारैरन्विष्टाः शुभचेतसः १०३।
अप्राकृतं हरिं सम्यगर्चयध्वं द्विजर्षभाः ।
चक्रांकितभुजा विप्रा भवंत्यप्राकृताः शुभाः १०४।
चक्रलांछनहीनास्तु प्राकृतास्तामसा स्मृताः ।
तस्मात्प्राकृतसंसर्ग पापौघ दहनं हरेः १०५।
प्रतप्तं बिभृयाच्चक्रं शंखं च भुजमूलयोः ।
उर्द्ध्वपुंड्राणि चांगेषु धृत्वा शास्त्रोक्तमार्गतः १०६।
अर्चयेन्मंत्ररत्नेन विधिना पुरुषोत्तमम् ।
तस्य प्रसादसेवां च कुर्य्यान्नित्यमतंद्रितः १०७।
तस्यावरणपूजायां त्रिदशानर्चयेत्सदा ।
तमेव सर्वयज्ञानां भोक्तारं परमेश्वरम् १०८।
ज्ञात्वा वै जुहुयाद्दद्याज्जपेद्वै सततं द्विजाः १०९।
वसिष्ठ उवाच-
एवमुक्तास्तु ते सर्वे ऋषयः क्षीणकल्मषाः ।
नमस्कृत्य भृगुं सम्यगूचुः प्रांजलयस्तदा ११०।
ऋषय ऊचुः ।
भगवन्संशयछेत्ता त्वमेव द्विजसत्तम ।
त्वं वै लोकगतिर्ब्रह्मंस्त्वमेव परमा गतिः १११।
त्वमेव परमोधर्मस्त्वमेव परमं तपः ।
त्वत्प्रसादाद्वयं विप्र भविष्यामो हि नान्यथा ११२।
वसिष्ठ उवाच-
एवं स्तुत्वा भृगुं विप्रं सर्व एव महर्षयः ।
तस्मात्संप्राप्तमंत्रा वै पूजयामासुरच्युतम् ११३।
एतत्ते सर्वमाख्यातं प्रसंगात्पार्थिवोत्तम ।
रामस्य हस्तकमलस्पर्शनाद्वै नृपोत्तम ११४।
भविष्यत्यमलं तच्च रूपं लोकविगर्हितम् ।
राघवः सर्वदेवानां पावनः पुरुषोत्तमः ११५।
स्पृष्टा दृष्टाश्च तेनैव विमलाः शंकरादयः ।
सर्वेषामपि देवानां पिता माता जनार्दनः ११६।
त्राता च सर्वलोकानां वात्सल्यगुणसागरः ।
तमेव शरणं गच्छ यदीच्छेत्परमं पदम् ११७।
एतत्ते सर्वमाख्यातं पुराणं वेदसंमितम् ।
ब्रह्मणा कथितं राजन्मनु स्वायंभुवोंतरे ११८।
विष्णुभक्तिविनीतस्य शुद्धसत्वस्य नान्यथा ।
तस्य संश्रावयेन्नित्यं विमुक्ता सा हरेः कथा ११९।
शंखचक्रोर्द्ध्वपुंड्रादि विहितो वाचकः पुमान् ।
तन्मुखाच्छ्रूयतां नित्यं पुत्री भवसि नान्यथा १२०।
यस्त्विदं श्रावयेन्नित्यं पठेद्वा सुसमाहितः ।
अनन्यभक्तिः श्रीशस्य जायते तस्य सर्वदा १२१।
विद्यार्थी लभते विद्यां धर्मार्थी धर्ममाप्नुयात् ।
मोक्षार्थी लभते मोक्षं कामार्थी लभते सुखम् १२२।
द्वादश्यां श्रवणार्के च संक्रांतौ ग्रहणे तथा ।
अमावस्यां पौर्णमास्यां पठेद्भक्तिसमन्वितः १२३।
श्लोकार्द्धं श्लोकपादं वा पठेद्यस्तु समाहितः ।
अश्वमेधसहस्रस्य फलं प्राप्नोत्यसंशयः १२४।
इत्येतत्कथितं गुह्यं पुराणं संहितात्मकम् ।
अर्चयस्व हृषीकेशं यदीच्छसि परमं पदम् १२५।
सूत उवाच-
एवमुक्तो वसिष्ठेन गुरुणा नृपसत्तमः ।
प्रणम्य च गुरुं राजा पूजयित्वा यथार्हतः १२६।
तस्मात्संप्राप्तमंत्रोऽसौ विधिना द्विजसत्तमात् ।
अर्चयित्वा हृषीकेशं यावज्जीवमतंद्रितः ।
काले हरिपदं प्राप योगिगम्यं सनातनम् १२७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां वैयासिक्यामुत्तरखंडे भृगुपरीक्षाकथनंनाम पंचपंचाशदधिकद्विशततमोऽध्यायः २५५।
इति श्रीपाद्मे महापुराणे षष्ठमुत्तरखण्डं समाप्तम् ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 1
श्रीगणेशाय नमः ।
अथ क्रियायोगसारखण्डमारभ्यते ।
लक्ष्मीनाथपदारविंदयुगलं ।
ब्रह्मेश्वराद्यामरश्रेणीनम्रशिरोलिरोलिमा अमलं।
वंदामहे संततम् ।
भक्त्या योगिमनस्तडागसुषमासंदोहपुष्यत्तमं गङ्गाम्भोमकरं दविन्दुनिकरं संसारदुःखापहम् १।
यो मूर्तीर्बहुधा विधाय भगवान्रक्षन्नशेषं जगद्यत्पादार्चनतत्परा न हि पुनर्मज्जंति विश्वार्णवे ।
सर्वप्राणिहृदंबुजेषु वसतिर्यस्य प्रभोः संततं रम्यक्रोडवपुर्धराय हरये देवाय तस्मै नमः २।
वेदेभ्य उद्धृत्य समस्तधर्मान्योऽयं पुराणेषु जगाद देवः ।
व्यासस्वरूपेण जगद्धिताय वंदेतमेतं कमला समेतम् ३।
एकदा मुनयः सर्वे सर्वलोकहितैषिणः ।
सुरम्ये नैमिषारण्ये गोष्ठींचक्रुर्मनोरमाम् ४।
तत्रांतरे महातेजा व्यासशिष्यो महायशाः ।
सूतः शिष्यगणैर्युक्तः समायातो हरिं स्मरन् ५।
तमायांतं समालोक्य सूतं शास्त्रार्थपारगम् ।
नेमुः सर्वे समुत्थाय शौनकाद्यास्तपोधनाः ६।
सोऽपि तान्सहसा भक्त्या मुनीन्परमवैष्णवान् ।
ननाम दंडवद्भूमौ सर्वधर्मविदांवरः ७।
वरासने महाबुद्धिस्तैर्द्दत्ते मुनिसत्तमैः ।
उवास ह मुनिर्मध्ये सर्वैः शिष्यगणैर्वृतः ८।
तत्रोपविष्टं तं सूतं शौनको मुनिसत्तमः ।
बद्धाञ्जलिरिमां वाचमुवाच विनयान्वितः ९।
शौनक उवाच-
महर्षे सूत सर्वज्ञ कलिकाले समागते ।
केनोपायेन भगवन्भूरिभक्तिर्भवेन्नृणाम् १०।
कलौ सर्वे भविष्यंति पापकर्मरता जनाः ।
वेदविद्याविहीनाश्च तेषां श्रेयः कथं भवेत् ११।
कलावन्नगताः प्राणा लोकाः स्वल्पायुषस्तथा ।
निर्धनाश्च भविष्यंति नानादुःखप्रपीडिताः १२।
प्रयाससाध्यं सुकृतं शास्त्रेषु क्रियते द्विज ।
तस्मात्केऽपि करिष्यंति कलौ न सुकृतं जनाः १३।
सुकृतेषु विनष्टेषु प्रवृत्ते पापकर्मणि ।
सवंशाः प्रलयं सर्वे गमिष्यंति दुराशयाः १४।
स्वल्पश्रमैरल्पवित्तैरल्पकालैश्च सत्तम ।
यथा भवेन्महापुण्यं तद्वै कथय सूतज १५।
यस्योपदेशतः पुण्यं पापं वा कुर्वते जनाः ।
स तद्भागी भवेन्मर्त्य इति शास्त्रेषु निश्चितम् १६।
पुण्योपदेशः सदयः कैतवैश्च विवर्जितः ।
पापमार्गविरोधी च चत्वारः केशवोपमाः १७।
ज्ञानं संप्राप्य संसारे यः परेभ्यो न यच्छति ।
ज्ञानरूपी हरिस्तस्मै प्रसन्न इव नेक्षते १८।
ज्ञानरत्नैश्च रत्नैश्च परसंतोषकृन्नरः ।
स ज्ञेयः सुमतिर्नूनं नररूपधरो हरिः १९।
त्वमेव मुनिशार्दूल वेदवेदाङ्गपारगः ।
त्वदृते न हि वक्ताऽन्यो यतस्त्वं व्यासशासितः २०।
सूत उवाच-
धन्योऽसि त्वं मुनिश्रेष्ठ त्वमेव वैष्णवाग्रणीः ।
यतः समस्तलोकानां हितं वाञ्छसि सर्वदा २१।
शृणु शौनक वक्ष्यामि यत्त्वया श्रोतुमिच्छितम् ।
सर्वलोकहितार्थाय वैष्णवानां विशेषतः २२।
पृष्टो जैमिनिना सर्वं यदुवाच शृणुष्व तत् ।
महर्षिर्जैमिनिर्नाम योगाभ्यासरतः सदा २३।
प्रणम्य शिरसा व्यासं पप्रच्छ मुनिसत्तमः ।
जैमिनिरुवाच-
भगवन्सर्वधर्मज्ञ व्यास सत्यवती सुत २४।
कलौ कस्माद्भवेन्मोक्षस्तन्ममाचक्ष्व मूलतः ।
सूत उवाच-
जैमिनेर्वचनं श्रुत्वा व्यासः संतुष्टमानसः २५।
प्रारेभे मुनिशार्दूल कथां मंगलसंयुताम् ।
व्यास उवाच-
जैमिने मुनिशार्दूल धन्योऽसि त्वं महामते २६।
नारायणकथां श्रोतुं यतो वांछसि सर्वदा ।
सत्कथाश्रवणे बुद्धिर्यस्य यस्य प्रवर्तते २७।
तस्य तस्य भवेज्ज्ञानं ज्ञानं मोक्षप्रदं विदुः।
न वैष्णवकथा यस्मै रोचते पापिने भुवि २८।
वृथैव सृष्ट्वा विधिना भूमिर्भारवती कृता ।
कथायै जगती वक्तुं श्लाघ्यते वैष्णवैर्जनैः २९।
तां मिथ्यामिव यो वक्ति स ज्ञेयः पापिनां वरः ।
यस्मिन्दिने मुनिश्रेष्ठ श्रूयते न हरेः कथा ३०।
तद्दिनं दुर्दिनं मन्ये घनच्छन्नं न दुर्दिनम् ।
यत्र यत्र महीभागे वैष्णवी वर्तते कथा ३१।
सांनिध्यं तत्र भगवान्न जहाति कदाचन ।
यो वैष्णवकथारम्भे विघ्नकृन्मानवो भवेत् ३२।
तमेव शप्त्वा भगवान्दैवतैः सह गच्छति ।
प्रभावं वासुदेवस्य श्रुत्वा हृष्यंति ये जनाः ३३।
ज्ञेयास्त एव देवांशाः पूज्या दृश्याश्च सत्तमाः ।
नारायणप्रभावं ये श्रुत्वा चोपहसंति वै ३४।
ते विज्ञेया दानवांशा नरा नरकभागिनः ।
तत्र तीर्थानि सर्वाणि गङ्गादीनि द्विजोत्तम ३५।
देवर्षयश्च देवाश्च मुनयश्च तपोधनाः ।
शृण्वतां लोकसंघानां पापव्याधिविनाशनी ३६।
नारायणकथा यत्र वर्तते प्रतिवासरम् ।
मुने क्रियायोगसारं बह्वर्थं पापनाशनम् ३७।
नारायणकथोपेतं सेतिहासं निशामय ३८।
इति श्रीपाद्मे महापुराणे क्रियायोगसारे जैमिनिव्याससंवादे प्रथमोऽध्यायः १ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 2
व्यास उवाच-
सृष्टेरादौ महाविष्णुः सिसृक्षुः सकलं जगत् ।
स्रष्टा पाता च संहर्ता त्रिमूर्तिरभवत्स्वयम् १।
सृष्ट्यर्थमस्य जगतः ससर्ज ब्रह्मसंज्ञकम् ।
दक्षिणां गतआत्मानमात्मना श्रेष्ठपूरुषः २।
ततस्तु पालनार्थाय जगतो जगतीपतिः ।
विष्णुं ससर्ज वामांशान्निजांशं केशवं मुने ३।
अथ संहरणार्थाय जगतो रुद्रमव्ययम् ।
मुने ससर्ज मध्यांगात्कृतपद्मालयः प्रभुः ४।
रजः सत्वं तमश्चेति पुरुषं त्रिगुणात्मकम् ।
वदंति केचिद्ब्रह्माणं विष्णुं केचिच्च शंकरम् ५।
एको विष्णुस्त्रिधा भूत्वा सृजत्यत्ति च पाति च ।
तस्माद्भेदो न कर्त्तव्यस्त्रिषु लोकेषु सत्तमैः ६।
आद्या प्रकृतिरेतस्य महाविष्णोः परात्मनः ।
निदानंभूतविश्वस्य विद्या विद्येति गीयते ७।
भावाभावस्वरूपा सा जगद्धेतुः सनातनी ।
ब्राह्मी लक्ष्मीरम्बिकेति त्रिमूर्तिः सहसाऽभवत् ८।
सृष्टिस्थितिविनाशेषु यां नियोज्य ततो मुने ।
आद्यां चैवाद्यपुरुषस्तत्रैवांतरधीयत ९।
यस्याज्ञया ततो ब्रह्मा महाभूतान्ससर्ज ह ।
पृथिव्याकाशवाय्वंबु वह्नीन्पञ्चसमाधिना १०।
भूर्भुवः स्वस्तथा चैव महश्चैव जनस्तथा ।
तपश्च सत्यमित्यादीन्सृष्टवान्कमलासनः ११।
अतलं सृष्टवान्ब्रह्मा ततोऽधोवितलं द्विज ।
ततोऽधःसुतलं चैव ततोऽधश्च तलातलम् १२।
महातलमधस्तस्मात्ततोऽधश्च रसातलम् ।
तस्मादधश्च पातालं लोकानेवं यथाक्रमम् १३।
देवतानांनिवासार्थं रत्नसानुं महागिरिम् ।
सृष्टवान्पृथिवीमध्ये जाम्बूनदसमुज्ज्वलम् १४।
मंदरं चरमं चैव त्रिकूटमुदयाचलम् ।
अन्यांश्च पर्वतांश्चैव सृष्टवान्विविधानपि १५।
लोकालोकस्ततश्चैव तन्मध्ये सप्तसागराः ।
सप्तद्वीपाश्च विप्रेन्द्र परमेश स्वयंभुवा १६।
जम्बुद्वीपो द्विजश्रेष्ठ द्वीपश्च प्लक्षसंज्ञितः ।
विज्ञेयो द्विगुणस्तस्माच्छाल्मलो द्विगुणस्ततः १७।
ते च प्लक्षादयो द्वीपाः सर्वभाग समन्विताः ।
समस्तगुणसंयुक्ता देवदेवर्षिमूर्तयः १८।
सप्तद्वीपा इमे विप्र सप्तसागरवेष्टिताः ।
तेषां नामानि वक्ष्यामि सागराणां निशामय १९।
लवणेक्षु सुरा सर्पिर्दधिदुग्धजलांतकाः ।
एते समुद्रा देवर्षे पूर्वस्माच्च परः पराः २०।
विज्ञेया द्विगुणाः सर्व आलोकालोकपर्वताः ।
द्वीपेद्वीपे ततो ब्रह्मा वृक्षगुल्मलतादिकान् २१।
तिर्यग्योनिगताञ्जन्तून्सृष्टवान्द्विजसत्तम ।
अथ देवान्मनुष्यांश्च नागान्विद्याधरांस्तथा २२।
क्रमात्ससर्ज पुत्रांश्च ततो दक्षादिकान्मुनीन् ।
ब्रह्मक्षत्त्रियविट्शूद्रानन्यांश्चैवांत्यजांस्तथा २३।
तेषां च वर्तनादीनि सृष्टवान्स प्रजापतिः ।
हेमाद्रि दक्षिणं यद्वै विंध्याद्रेरुत्तरं तथा २४।
आहुस्तद्भारतं वर्षं शुभाशुभफलप्रदम् ।
आसाद्य भारते वर्षे ये जन्मनि नरोत्तमाः २५।
धर्मकर्माणि कुर्वंति ते सर्वे केशवोपमाः ।
कर्मभूमौ कृतं कर्म शुभं वाशुभमेव वा २६।
तत्फलं भुंजते लोको भोगभूमिषु सत्तम ।
कर्मभूमिं समागत्य यो धर्मकर्मसूद्यतः २७।
न च तेन समः कोऽपि त्रिषुलोकेषु विद्यते ।
तस्य स्यात्सफलं जन्म जीवितं च सुजीवितम् २८।
श्रीनारायणसेवायां मतिर्यस्य न विद्यते ।
जन्मकोट्यर्जितैः पुण्यैः संसारैकाधिनायके २९।
नारायणे देवदेवे भक्तिः स्यात्सुदृढा नृणाम् ।
समस्तसुखदश्चापि स श्लाघ्यो निर्भयोऽपि च ३०।
त्याज्यः स देशः सहसा नातिष्ठेद्यत्र वैष्णवः ।
जन्मांतरार्जितं पापं स्वल्पं वा यदि वा बहु ३१।
तत्क्षणात्क्षयमाप्नोति भगवद्भक्तदर्शनात् ।
वैष्णवांघ्रिजलं यस्तु समस्तपातकापहम् ३२।
वहेत्स्वशिरसा भक्त्या गङ्गास्नानेन तस्य किम् ।
मुहूर्तमपि यः कुर्यात्सड्गं भागवतैः सह ३३।
स मुच्यते सर्वपापैर्ब्रह्महत्यामुखैरपि ।
धर्मकर्माणि विप्रेन्द्र क्रियंते यानि कानि च ३४।
भगवद्भक्तपुरतस्तानि स्युरक्षयाणि च ।
मुहूर्त्तं वा मुहूर्तार्द्धं यत्र तिष्ठंति वैष्णवाः ३५।
सत्यं सत्यं पुनः सत्यं तत्तीर्थं तत्तपोवनम् ।
अन्नं वा सलिलं वापि फलं वा वैष्णवाय च ३६।
यत्किंचिद्दीयते विप्र तद्दानमक्षयं भवेत् ।
समस्तदेवतारूपो वैष्णवः परिकीर्तितः ३७।
स चेत्संतोषितो येन तोषिताः सर्वदेवताः ।
संसारेऽस्मिन्महाघोरे नानादुःखसमन्विते ३८।
भगवद्भक्तपुरुषः कदाचिन्नावसीदति ।
तस्मात्त्वमपि विप्रेन्द्र क्रियायोगेन केशवम् ३९।
समाराध्य सदा भक्त्या व्रज विष्णोः पदं परम् ।
सूत उवाच-
तदेतद्वचनं श्रुत्वा कानीनस्य महात्मनः ४०।
शिरसांजलिमादाय जैमिनिः पर्यपृच्छत ।
जैमिनिरुवाच-
भगवद्भक्तमाहात्म्यं त्वया प्रोक्तं पुनः पुनः ४१।
गुरो किं लक्षणं तेषां तत्सर्वं ब्रूहि सांप्रतम् ।
कथं वा वैष्णवा लोका ज्ञातव्या मुनिसत्तम ४२।
आदितो ब्रूहि तत्सर्वं यदि ते मय्यनुग्रहः ।
व्यास उवाच-।
मधुकैटभयोः पूर्वं हतयोर्वेधसा स्वयम् ४३।
पृष्टो यदाह भगवांस्तन्निशामय वेद्म्यहम् ।
कल्पांते रुद्ररूपेण संहार्य सकलं जगत् ४४।
स्वयमेकश्च भगवान्सुष्वाप योगमायया ।
सुप्ते तस्मिन्भगवति योगनिद्रा विमोहिते ।
अभवत्पृथिवी सर्वा सलिलौघ परिप्लुता ४५।
अतो ब्रह्मा जगत्स्रष्टा तन्नाभिकमलोपरि ।
तमादिपुरुषं ध्यात्वा तस्थौ तद्गतमानसः ४६।
तस्मिन्काले महाघोरे विष्णोः कर्णमलाद्द्विज ।
जातौ महासुरौ घोरौ मधुकैटभसंज्ञितौ ४७।
अंतरिक्षे भ्रमंतौ तौ दानवावतिदारुणौ ।
श्रीविष्णोर्नाभिकमले ब्रह्माणं तावपश्यताम् ४८।
तं हंतुमथ दैत्यौ तौ महाबलपराक्रमौ ।
उद्यमं चक्रतुर्विप्र क्रोधसंरक्तलोचनौ ४९।
ततो ब्रह्मा जगत्स्रष्टा विचिंत्य तद्वधं हृदा ।
योगनिद्रां भगवतीं तुष्टाव श्लक्ष्णया गिरा ५० 7.2.50।
तस्य स्तवं समाकर्ण्य ब्रह्मणः परमेष्ठिनः ।
उवाचेति वचः प्रीत्या किं तेऽभिमतमुच्यताम् ५१।
ब्रह्मोवाच-
अत्युग्रदानवावेतौ हंतुं मां कृतनिश्चयौ ।
मायया मोहय क्षिप्रं त्रातारमच्युतं त्यज ५२।
ततो भागवती निद्रा महाविष्णुं तमत्यजत् ।
दानवाभ्यां ततस्ताभ्यामंतरिक्षे कृपामयः ५३।
युयुधे बाहुयुद्धेन शरणागतवत्सलः ।
पञ्चवर्षसहस्राणि कृत्वा युद्धं सुदारुणम् ५४।
विजयं नागमत्कोऽपि न च कोऽपि पराभवम् ।
अथ तौ दानवौ तत्र महामायाविमोहितौ ५५।
वरं वृण्विति चास्मत्तोऽगदतां केशवं प्रति ।
ततः प्रहस्य देवेश उवाचेति वचो द्विज ५६।
यदि तुष्टौ च वां दैत्यौ मद्वध्यौ भवतं द्रुतौ ।
ततस्तौ दानवौ घोरौ भगवंतं जनार्दनम् ५७।
इत्यूचतुर्महामायौ महामायाविमोहितौ ।
अयमेव वरो दत्तो भवते नात्र संशयः ५८।
मारयावां विना वारि मही यत्र जनार्द्दन ।
महासुरौ ततस्तौ तु आनीय जघनं प्रति ५९।
निहतौ सहसा विप्र चित्रया चक्रधारया ।
चक्रिणा निहतौ दृष्ट्वा दानवौ मधुकैटभौ ।
तुष्टाव देवदेवेशं ब्रह्मा विगतसाध्वसः ६०।
ब्रह्मोवाच-
नमो नमस्ते परमेश्वराय प्रपन्नसर्वार्तिविनाशनाय ।
नमो नमस्ते त्रिगुणात्मकाय नारायणायामितविक्रमाय ६१।
त्वत्पादपाथोजयुगं प्रपन्ना जनाः क्वचिन्नो विपदं मनुष्याः ।
एतन्मया ज्ञातमनंतकीर्ते सद्यो हृतेयं महती ममापत् ६२।
योगेश्वरोऽसि सदयोऽसि जगत्त्रयेश त्वं देवदेवशरणागतपालकेश ।
त्वं निर्द्दयोऽरिनिकरस्य विनाशनेषु यद्रक्षितोऽहमसुरौ निहतौ त्वयैतौ ६३।
यद्यप्यत्यंतकठिनौ मधुकैटभौ तौ मन्ये तथापि स्वजनाविह चेतसाहम् ।
यस्मात्स्वजीवनविनाश वरप्रदानैः संतोषितोऽखिलशुभप्रद ईश्वरस्त्वम् ६४।
रम्यं जगत्त्रयमिदं पुरुषस्य तस्य नश्यंति सर्वरिपवः स्वकुलैः समेताः ।
वृद्धिं व्रजंति सुहृदोऽखिलबांधवाश्च यं पश्यसि त्वममरेश दयाभिरत्र ६५।
लक्ष्मीमुखांबुज मधुव्रत देवदेव संसारलोकभयशोकविनाशकारिन् ।
त्वच्चारुपादकमलद्वयमाश्रयंतं मां पाहि नाथ कृपया सततं नमस्ते ६६।
प्रसीद पुण्डरीकाक्ष प्रसीद कमलेश्वर ।
प्रसीद सर्वभूतेश विश्वंभर नमोस्तु ते ६७।
नमस्ते भक्ततुष्टाय नमस्ते भक्तिदायिने ।
नमस्ते ज्ञानरूपाय शरणं मे भवानघ ६८।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ।
परित्राहि परित्राहि परित्राहि जगन्मय ६९।
व्यास उवाच-
एतैरन्यैरपि स्तोत्रैर्ब्रह्मणा लोककारिणा ।
स्तुतः स देवो भगवान्परमां प्रीतिमाययौ ७०।
श्रीभगवानुवाच -
स्तोत्रेणानेन ते भक्त्या तुष्टोऽस्मि कमलासन ।
किमस्त्यभिमतं ब्रूहि तत्ते दास्याम्यहं भुवि ७१।
ब्रह्मोवाच-
यदि तुष्टोऽसि देवेश करुणाब्धे जगन्मय ।
नापदस्तव भक्तानां भवंत्विति वरो मम ७२।
श्रीभगवानुवाच-
एवमस्तु सुरश्रेष्ठ दत्तोऽयं ते मया वरः ।
मद्भक्तस्य कदाप्यापन्न भवेत्क्षितिमण्डले ७३।
वैष्णवानां शरीरेषु सततं निवसाम्यहम् ।
लभंते नापदस्तस्मात्कदाचिद्वैष्णवा नराः ७४।
ब्रह्मोवाच-।
सर्वमेव जगन्नाथ त्वया दत्तं न संशयः ।
यद्येतौ च महादैत्यौ संग्रामे विनिपातितौ ७५।
कियत्कालं समासाद्य स्तोत्रेणानेन वै प्रभो ।
स्तौति त्वां परया भक्त्या तस्य त्राता भविष्यसि ७६।
अहो ध्यानैरपि ध्यातुं देवैस्त्वं न हि शक्यसे ।
स त्वं वैष्णवदेहेषु भ्रमसीत्यद्भुतं महत् ७७।
क्षणमात्रमपि स्वामिंस्त्वयि तुष्टेन किं भवेत् ।
स त्वं वैष्णवसंगेन भ्रमसीत्यद्भुतं महत् ७८।
के वैष्णवाः कैटभारे किं वा तेषां च लक्षणम् ।
कथं ज्ञेयास्तु ते सर्वे तन्मे कथय केशव ७९।
श्रीभगवानुवाच-
वैष्णवानां लक्षणानि कल्पकोटिशतैरपि ।
सम्यग्वक्तुं न शक्तोऽस्मि संक्षेपाच्छृणु सत्तम ८०।
संसारो वैष्णवाधीनो देवा वैष्णवपालिताः ।
अहं च वैष्णवाधीनस्तस्माच्छ्रेष्ठाश्च वैष्णवाः ८१।
क्षणमात्रमपि ब्रह्मन्विहाय वैष्णवं जनम् ।
तिष्ठामि नाहमन्यत्र वैष्णवा मम बांधवाः ८२।
कामक्रोधविहीना ये हिंसादंभविवर्जिताः ।
लोभमोहविहीनाश्च ज्ञेयास्ते वैष्णवा जनाः ८३।
अमत्सरा दयायुक्ताः सर्वभूतहितैषिणः ।
सत्योक्तिभाषिणश्चैव विज्ञेयास्ते च वैष्णवाः ८४।
धर्मोपदेशिनश्चैव धर्माचारधरास्तथा ।
गुरुशुश्रूषिणश्चैव विज्ञेयास्ते च वैष्णवाः ८५।
समानं ये च पश्यन्ति त्वां च मां च महेश्वरम् ।
कुर्वन्ति पूजामतिथेर्ज्ञेयास्ते वैष्णवा जनाः ८६।
वेदविद्यानिरुक्ता ये विप्र भक्तिरताः सदा ।
नपुंसकाः परस्त्रीषु ज्ञेयास्ते वैष्णवा जनाः ८७।
एकादशीव्रतं ये च भक्तिभावेन कुर्वते ।
गायंति मम नामानि ज्ञेयास्ते वैष्णवा जनाः ८८।
देवायतनकर्तारस्तुलसीमाल्यधारकाः ।
पद्माक्षधारिणो ये च ज्ञेयास्ते वैष्णवा जनाः ८९।
शङ्खचक्रगदापद्मैरङ्कितानि ममायुधैः ।
ब्रह्मन्येषां शरीराणि ज्ञेयास्ते वैष्णवा जनाः ९०।
धात्रीफलस्रजो येषां गलेषु कमलासन ।
मां पूजयंति तत्पत्रैर्ज्ञेयास्ते वैष्णवा जनाः ९१।
तुलसीमूलमृद्भिश्च तिलकानि नयंति ये ।
तुलसीकाष्ठपंकैश्च ज्ञेयास्ते वैष्णवा जनाः ९२।
गङ्गास्नानरता ये च गङ्गानामपरायणाः ।
गङ्गामाहात्म्यवक्तारो ज्ञेयास्ते वैष्णवा जनाः ९३।
शालग्रामशिला येषां गृहे वसति सर्वदा ।
शास्त्रं भागवतं चैव ज्ञेयास्ते वैष्णवा जनाः ९४।
संमार्जयंति ये नित्यं मम स्थानानि सत्तम ।
दीपं यच्छंति तत्रैव ज्ञेयास्ते वैष्णवा जनाः ९५।
शीर्णं मन्मंदिरं ये च कुर्वन्ति नूतनं पुनः ।
तत्रायतनशोभां च ज्ञेयास्ते वैष्णवा जनाः ९६।
अभयं ये च यच्छन्ति भीरुभ्यश्चतुरानन ।
विद्यादानं च विप्रेभ्यो ज्ञेयास्ते वैष्णवा जनाः ९७।
मत्पादसलिलैर्येषां सिक्तानि मस्तकानि च ।
मम नैवेद्यमश्नन्ति ज्ञेयास्ते वैष्णवा जनाः ९८।
क्षुत्तृट्प्रपीडितेभ्यश्च ये यच्छंत्यन्नमंबु च ।
कुर्युर्ये योगशुश्रूषां ज्ञेयास्ते वैष्णवा जनाः ९९।
आरामकारिणो ये च पिप्पलारोहिणोऽपि च ।
गोसेवां ये च कुर्वन्ति ज्ञेयास्ते वैष्णवा जनाः १०० 7.2.100।
अत्यन्तभक्ता ये ब्रह्मन्पितृयज्ञं प्रकुर्वते ।
कुर्वन्ति दीनशुश्रूषां ज्ञैयास्ते वैष्णवा जनाः १०१।
तडागग्रामकर्तारः कन्यादानरताश्च ये ।
सेवंते श्वशुरौ ये च ज्ञेयास्ते वैष्णवा जनाः १०२।
सेवंते ज्येष्ठभगिनीं ज्येष्ठभ्रातरमेव च ।
परनिंदां न कुर्वंति ज्ञेयास्ते वैष्णवा जनाः १०३।
वैष्णवेषु गुणाः सर्वे दोषलेशो न विद्यते ।
तस्माच्चतुर्मुख त्वं च वैष्णवो भव सांप्रतम् १०४।
समाराधय मां नित्यं क्रियायोगैः प्रजापते ।
सर्वमेवाशु भद्रं ते भविष्यति न संशयः १०५।
देवस्वं ब्राह्मणद्रव्यं परस्वं च चतुर्मुख ।
पश्यन्ति विषवद्ये च ज्ञेयास्ते वैष्णवा जनाः १०६।
पाखंडभक्तिरहिताः शिवभक्तिपरायणाः ।
चतुर्द्दशीव्रतरता ज्ञेयास्ते वैष्णवा जनाः १०७।
बहुनात्र किमुक्तेन भाषितेन पुनः पुनः ।
ममार्चां ये च कुर्वंति विज्ञेयास्ते च वैष्णवाः १०८।
भूयः पूर्वस्थितमिव सृज्यतां सकलं जगत् ।
इत्युक्त्वांतर्द्दधे देवस्तत्रैव परमेश्वरः १०९।
ततस्तु पूर्ववद्ब्रह्मा सृष्टवान्सकलं जगत् ।
क्रियायोगैर्हरिं चेष्ट्वा जगाम परमं पदम् ११०।
ये पठंती ममध्यायं भक्त्या नारायणाग्रतः ।
सर्वपापविनिर्मुक्ता अन्ते यान्ति हरेर्गृहम् १११।
इति श्रीपाद्मे महापुराणे क्रियायोगसारे द्वितीयोऽध्यायः २ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 3
जैमिनिरुवाच-
क्रियायोगस्य तत्वं मे ब्रूहि व्यास महामते ।
क्रियायोगमहं ज्ञातुमिच्छामि भवदग्रतः १।
व्यास उवाच-
शरीरं मानुषं विप्र दुर्लभं चात्र भूतले ।
धीरः शरीरमासाद्य मोक्षार्थं योगमभ्यसेत् २।
क्रियायोगध्यानयोगावुभौ योगौ प्रकीर्तितौ ।
तयोराद्यः क्रियायोगः कुर्वतां सर्वकामदः ३।
गङ्गा श्रीर्विष्णुपूजा च दानानि द्विजसत्तम ।
ब्राह्मणानां तथा भक्तिर्भक्तिरेकादशी व्रते ४।
धात्री तुलस्योर्भक्तिश्च तथा चातिथिपूजनम् ।
क्रियायोगाङ्गभूतानि प्रोक्तानीति समासतः ५।
क्रियायोगादृते विप्र ध्यानयोगेन सिद्ध्यति ।
क्रियायोगरतो याति तद्विष्णोः परमं पदम् ६।
जैमिनिरुवाच-
क्रियायोगाङ्गभूतानि यानि प्रोक्तानि भोः प्रभो ।
तन्माहात्म्यानि कथय यदि भो मय्यनुग्रहः ७।
गङ्गायाः के गुणा ब्रह्मन्विष्णुपूजाफलं च किम् ।
श्रेष्ठानि कानि दानानि का वा भक्तिर्द्विजन्मनाम् ८।
एकादश्याः फलं किंवा धात्रीभक्तिश्च कीदृशी ।
तुलस्याः कीदृशी भक्तिः किं वा चातिथिपूजनम् ९।
एतत्सर्वं मुने ब्रूहि श्रोतुमस्ति ममादरः ।
त्वत्तोऽन्य कथितुं कोऽपि न शक्नोति जगत्त्रये १०।
व्यास उवाच-
साधुसाधु द्विजश्रेष्ठ मनस्ते विमलं ध्रुवम् ।
यतो गुह्यकथामेतां श्रोतुं श्रद्धा च कौतुकम् ११।
भागीरथ्या गुणं सम्यक्कथितुं न हि शक्यते ।
तस्मात्समासतो वक्ष्ये श्रूयतामेकचेतसा १२।
गङ्गेत्यक्षरयुग्मं च जपत्यत्यन्तकोमलम् ।
मन्ये व्रजेत्तथाप्येनो महाभूतरसायनम् १३।
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ।
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे १४।
सवासवाः सुराः सर्वे गङ्गाद्वारं मनोरमम् ।
समागत्य प्रकुर्वन्ति स्नानदानादिकं मुने १५।
दैवयोगान्मुने तत्र ये त्यजंति कलेवरम् ।
मनुष्य पशु कीटाद्या लभंते परमं पदम् १६।
अत्रेतिहासं विप्रर्षे कथ्यमानं मया शुणु ।
सम्यक्छ्रवणमात्रेण सर्वपापैः प्रमुच्यते १७।
मनोभद्रो नाम राजा सोमवंश समुद्भवः ।
पूर्वमासीज्जगत्यस्मिन्बलवान्सर्वधर्म्मवित् १८।
तस्य हेमप्रभा नाम महिषी प्रियवादिनी ।
पतिव्रता महाभागा सर्वलक्षणसंयुता १९।
स राजा समरे हत्वा सकलानेव शात्रवान् ।
शशास पृथिवीं कृत्स्नां साब्धिद्वीपां महाबलः २०।
स एकदा महीपालः समाहूय स्वमंत्रिणः ।
उवाचेदं वचः प्रीत्या सभामध्ये महायशाः २१।
मनोभद्र उवाच-।
अमात्याः पृथिवी सर्वा मयेयं परिपालिता ।
निहता रिपवः सर्वे सपुत्रबलवाहनाः २२।
पालितानि स्वगोत्राणि दानैर्विप्राश्च तोषिताः ।
शिष्टाश्च त्रिदशाः सर्वे सपुत्रबलवाहनाः २३।
पालितानि स्वगोत्राणि यज्ञैः सर्वैः सदक्षिणैः ।
एतद्धि जरया सर्वं महत्या मे बलं हृतम् २४।
कर्माणि कानिचित्कर्त्तुं न हि शक्नोमि दुर्बलः ।
सामर्थ्यहीने पुरुषे राजश्रीर्न हि शोभते २५।
सर्वाभरणसंयुक्ता वृद्धाङ्गा इव कामिनी ।
तावद्विभ्यति सर्वेऽपि शत्रवः पृथिवीतले २६।
यावद्धि गतसामर्थ्यं नेच्छन्ति चारुचक्षुषा ।
समस्तगुणसम्पन्नामपि तद्गतमानसम् २७।
पृथ्वी त्यजेन्नृपं वृद्धं स्वैरिणीपालिता यथा ।
भक्तिलभ्यागुणाः सर्वे गुणलभ्यं महद्यशः २८।
निःश्रेयसं दानलभ्यं बललभ्या तु मेदिनी ।
सामर्थ्यहीनः कृपणो निश्चितो रिपुशासने २९।
मूर्खमात्रवचो ग्राही स नृपः शत्रुनंदनः ।
ततोऽहं सकलं राज्यं विभज्य वरमंत्रिणः ३०।
दातुमिच्छामि पुत्राभ्यां युष्माभिर्यदि मन्यते ।
मन्त्रिण ऊचुः -
यदेतद्वचनं प्रोक्तं त्वया नीतिविदा नृप ३१।
तदेव मतमस्माकं संदेहो नात्र विद्यते ।
अथायातौ नृपादेशात्संसदं प्रति सत्तमौ ३२।
वीरभद्र यशोभद्र नामानौ तनयावुभौ ।
तौ च सर्वगुणोपेतौ कुमारौ प्रियवादिनौ ३३।
पितृभक्तौ सदा शांतौ बलिनौ धर्मतत्परौ ।
ततः स भूपः सहसा राजनीति विदांवरः ३४।
विभज्य सकलं राज्यं ददौ ताभ्यां कुतूहलात् ।
अत्रांतरे गृध्र एकः स्वकीयस्त्री समन्वितः ३५।
आगत्य तत्सभामध्ये उपविष्टो द्विजोत्तमाः ।
तावागतौ समालोक्य पक्षिणावतिहर्षितौ ३६।
राजाह युवयोः कस्माच्छुभागमनमुच्यताम् ।
गृध्र उवाच-
गृध्रोऽहं पृथिवीपाल ममेयं स्त्री परंतपः ३७।
आगतोऽस्मि मुदा द्रष्टुं संपदं पुत्रयोस्तव ।
एतयोर्महती दृष्टा विपत्तिः पूर्वजन्मनि ३८।
इह जन्मनि संपत्तिं द्रष्टुमावां समागतौ ।
तस्यैतद्वचनं श्रुत्वा गृध्रस्य परमाद्भुतम् ।
राजोवाच पुनर्विप्र विस्मयाविष्टमानसः ३९।
राजोवाच-
अत्यद्भुतं वचो गृध्र त्वत्तः श्रुतमिदं मया ।
एतयोः पूर्ववृत्तान्तो भवता ज्ञायते कथम् ४०।
यदि जानासि तत्वेन पूर्ववृत्तांतमेतयोः ।
ब्रूहि तर्हि खगश्रेष्ठ सर्वमेतदशेषतः ४१।
गृध्र उवाच-
नृपते वृषलावेतौ युगे द्वापरसंज्ञके ।
गरसंगरनामानौ सत्यघोषसुतौ स्थितौ ४२।
एककाले च भूपाल मृतौ निज गृहांतरे ।
ततो नेतुमिमौ भूप दंष्ट्रिणो यमकिंकराः ४३।
पाशहस्ताः समायाताः कोटिकोटिसहस्रशः ।
बबंधुश्चर्मपाशेन द्वावेतौ तौ मदोद्धतौ ४४।
निन्युश्च निलयं मृत्योरतिदुर्गमवर्त्मना ।
इमौ दृष्ट्वा धर्मराजश्चित्रगुप्तमुवाच ह ४५।
एतयोः सकलं वृत्तं चित्रगुप्त विचार्यताम् ।
तस्याज्ञया चित्रगुप्तः सर्वकर्मशुभाशुभम् ४६।
मूलाद्विचारयामास तत इत्याह चांतकम् ।
चित्रगुप्त उवाच-
सत्यमेतौ महाबाहो पुण्यव्रत महाशयौ ४७।
अस्तिचेद्दुष्कृतं किञ्चित्सर्वकर्मविलोकितम् ।
स्वयंदानं समुत्सृज्य न हि दत्तं द्विजातये ४८।
तेनैव कर्मणा राजन्निमौ नरकगामिनौ ।
दाता दानं समुत्सृज्य यो न दद्याद्दिवजातये ४९।
स याति नरकं घोरं सर्वभूतभयावहम् ।
दाता हि न स्मरेद्दानं प्रतिग्राही न याचते ५० 7.3.50।
उभयोर्नरके वासो यावच्चन्द्र दिवाकरौ ।
तस्मादिमौ महापापौ ब्रह्मस्वाहारिणौ प्रभो ५१।
नयंतु किंकराः शीघ्रं नरकं प्रतिदारुणम् ५२।
यमाज्ञया ततो दूताः संदष्टौष्ठपुटाः क्रुधा ।
चिक्षिपुर्नरके घोरे तावेतौ पृथिवीपते ५३।
तस्मिन्नेव दिने राजन्ननया भार्यया सह ।
यमदूतैः समागत्य नीतोऽहं यममन्दिरम् ५४।
मयापि तत्कृतं कर्म तदाकर्णय भूपते ।
मूलात्सर्वं प्रवक्ष्यामि शृण्वतां विस्मयप्रदम् ५५।
पुरासीत्सर्वगो नाम ब्राह्मणोऽहं महाकुलः ।
सौराष्ट्रदेशवासी च वेदवेदाङ्गपारगः ५६।
इयं मंजूकषा नाम मम पत्नी यशस्विनी ।
पतिव्रता महाभागा पवित्रकुलसंभवा ५७।
प्रमत्तोऽहं महाभाग विद्यया वयसाधनैः ।
अवज्ञां मनसा पित्रोश्चकाराहं युवैकदा ५८।
अहं भूरि सभाश्लाघ्यो वनस्थः सर्वकर्मकृत् ।
धनवान्सुन्दरो ज्ञानी ज्ञातिपोषणतत्परः ५९।
ममैव पुंसः पितरौ तौ च पापपरायणौ ।
मुखरौ दययाहीनौ पाखंडिसङ्ग लोलुपौ ६०।
पौरुषं जीवनं चैव धनं चैव कुलं तथा ।
विद्या कीर्तिश्च सर्वस्वं पितृभ्यां विफलीकृतम् ६१।
एतद्विचिन्त्य मनसा मया नृप मुहुर्मुहुः ।
अवज्ञया परित्यक्ता पित्रोः सेवा शुभप्रदा ६२।
अनेन कर्मणा राजन्सदारोऽहं यमाज्ञया ।
विक्षिप्तो नरके दूतैर्यत्रतौ पापिनांवरौ ६३।
एताभ्यां सह पापाभ्यां सदारेण मया नृप ।
स्थितं च नरके घोरे यावत्कालं शृणुष्व तत् ६४।
युगकोटिसहस्राणि युगकोटिशतानि च ।
अनुभूतं महादुःखं नरकस्य नृपोत्तम ६५।
नरकांते ततः सोऽहं कांतया सह भूपते ।
गृध्रपक्षकुलेजातौ मृतमांसाशनौ तथा ६६।
एतावपि च तौ राजन्नरकांत गतैषिणौ ।
जातौ शलभयोर्वंशे भोक्तुं फलं स्वकर्मणः ६७।
यदेताभ्यां कृतं कर्म्म राजञ्छलभजन्मनि ।
तदाकर्णय वक्ष्यामि श्रोतॄणां विस्मयप्रदम् ६८।
एकदा सुमहान्वायुः समायातो महीपते ।
उड्डीय पातितौ तेन गङ्गागर्भे सुनिर्मले ६९।
निपत्य गङ्गासलिले कोमलाङ्गाविमौ तथा ।
जग्मतुः पंचतां सद्यः समस्तकलुषापहम् ७०।
ततो नेतुमिमौ दूता आयाताश्चारुचक्षुषः ।
आयातानि विमानानि सर्वभोगान्वितानि च ७१।
विमुक्तौ सर्वपापेभ्यस्तुलसी माल्य शोभितौ ।
दिव्यंविमानमारुह्य गतौ विष्णुपुरं प्रति ७२।
तावत्कालं स्थितौ राजन्ब्रह्मणोऽव्यक्तजन्मनः ।
ब्रह्माज्ञया समायातौ तत इन्द्रपुरं प्रति ७३।
भुक्तवंतौ सुखं तत्र दुर्ल्लभं यत्सुरैरपि ।
तावत्कालं स्थितौ राजन्भोक्तुं कृच्छ्रां वसुंधराम् ७४।
पवित्रे भवतो वंशे जातावेतौ महायशौ ।
गङ्गायां त्यजतो देहं भूयो जन्म न विद्यते ७५।
तथापि वसुधां भोक्तुं जातौ पुण्यतमाविमौ ।
चिरं भुक्त्वा महीं कृत्स्नां पुत्रपौत्रसमन्वितौ ७६।
गङ्गामरणमासाद्य योगिनामपि दुर्ल्लभम् ।
नारायणस्य सायुज्यमिमौ भूप गमिष्यतः ७७।
एतत्सर्वं मया प्रोक्तं पूर्व वृत्तांतमेतयोः ।
जातिस्मरप्रभावेन नृपवर्गशिरोमणी ७८।
गङ्गामरणमासाद्य गतावेतौ दशामिमाम् ।
आवयोः कः परित्राणं करिष्यति दुरात्मनोः ७९।
मित्रावज्ञा मनुष्याणां नरकक्लेशदायिनी ।
ममैव पृथिवीपाल दृष्टा केवलमेवतत् ८०।
पित्रभक्तिर्द्विजश्रेष्ठ इहामुत्र च दुःखदा ।
इह संपद्विनाशाय परत्र नरकाय च ८१।
वरं मन्ये महीपाल ब्रह्महत्यादि पातकम् ।
कदाचिन्निष्कृतिस्तस्मादियं भवति शाश्वती ८२।
दुःखार्जितं पुण्यवृक्षं सर्वक्लेशविनाशनम् ।
पित्रवज्ञाकुठारेण च्छिंदंति भुवि मानवाः ८३।
यत्किञ्चिद्दीयते राजन्पित्र्ये वक्त्रे परंतप ।
तदश्नाति स्वयं विष्णुः पितृरूपो हरिर्यतः ८४।
प्रत्यक्षदेवौ पितरौ सेवंते येत्वहर्निशम् ।
सर्वसिद्धिर्भवेत्तेषां प्रसादाज्जगतीपतेः ८५।
पितृभक्तिविहीना ये दिनं तिष्ठंति मानवाः ।
तावत्कल्पसहस्रं तु तिष्ठंति नरके जनाः ८६।
तस्मादिदं महादुःखं बभूव मम सांप्रतम् ।
मोक्षं कदा गमिष्यामि सदारोऽहं न वेद्मि तत् ८७।
व्यासउवाच-
एतत्तस्य वचः श्रुत्वा प्रगृह्य द्विजसत्तम ।
बभूव हर्षितो राजा विस्मितश्च पुनः पुनः ८८।
राजोवाच-
आश्चर्यं हि वचो गृध्र श्रुतमेतन्मुखात्तव ।
मम चैषां च हृदये प्रतीतिर्न हि जायते ८९।
अथांतरिक्षे वागुच्चैरिति जाता नृपोत्तम ।
सत्यं सत्यं सत्यमिदं संदेहोनात्र विद्यते ९०।
ततः स पक्षी विप्रर्षे सहसा भार्यया सह ।
गङ्गा माहात्म्यकथनात्पूर्वस्थित इवाभवत् ९१।
दिवि दुंदुभयो नेदुर्जगुर्गन्धर्वसत्तमाः ।
ननृतुश्चाप्सरोवर्गा ह्यपतत्पुष्पवर्षणम् ९२।
विमानमागतं दिव्यं सर्वभोगसमन्वितम् ।
समायाता दूतगणाः प्रेषिताः कैटभद्विषा ९३।
अथासौ सर्वगो विप्र प्रियया सह भार्यया ।
सद्यो विमानमारुह्य जगाम भवनं हरेः ९४।
एतच्छ्रुत्वाद्भुतं कर्म स राजा द्विजसत्तम ।
सपुत्रदारः सेवायां गङ्गायास्तत्परोऽभवत् ९५।
भागीरथ्या समं तीर्थं नास्ति वै भुवनत्रये ।
यन्नामोच्चारणादेव सर्वगो मोक्षमाप्नुयात् ९६।
गङ्गाद्वारस्य माहात्म्यं कथितं ते द्विजोत्तम ।
समस्तपापविध्वंसि किमन्यच्छ्रोतुमिच्छसि ९७।
अध्यायमेतत्परमादरेण पठंति ये देवगृहे मनुष्याः ।
शृण्वंति ये च द्विजवर्गभक्ता नश्यंति तेषां दुरितानि सद्यः ९८।
इति श्रीपद्मपुराणे क्रियायोगसारे तृतीयोऽध्यायः ३ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 4
जैमिनिरुवाच-
गङ्गाद्वारस्य माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया ।
प्रयागस्य च माहात्म्यमिदानीं श्रोतुमिष्यसे १।
गङ्गाब्धिसङ्गमस्यापि माहात्म्यं कथ्यतां मुने ।
न सम्यक्कथितुं कोऽपि शक्नोति त्वदृते क्षितौ २।
व्यास उवाच-
प्रयागस्य फलं वत्स गङ्गाब्धिसङ्गमस्य च ।
सम्यग्वक्तुं न शक्नोमि संक्षेपाच्छ्रूयतां द्विज ३।
कोटिब्रह्माण्डमध्येषु यानि तीर्थानि वै मुने ।
प्रयांति तानि सर्वाणि प्रयागप्रतिमां तु किम् ४।
गङ्गाया यमुनायाश्च सरस्वत्याश्च सङ्गमे ।
प्रशंसंति सुराः सर्वे ब्रह्मविष्णुशिवादयः ५।
मकरस्थे रवौ माघे स्नानं ये तत्र कुर्वते ।
तेषामागमनं नास्ति विष्णुलोकात्कदाचन ६।
गवां कोटिसहस्राणि वाजिमेधमुखाध्वराः ।
मेरुतुल्यसुवर्णानि दानान्यन्यानि च द्विज ७।
कुरुक्षेत्रे पुष्करे च प्रभासे च गयासु च ।
हुत्वा दत्वा च विप्रेभ्यो यत्फलं प्राप्यते बुधैः ८।
माघे स्नात्वा प्रयागे तु तस्मात्कोटिगुणं भवेत् ।
तस्मात्समस्ततीर्थानां प्रयागः परमः स्मृतः ९।
सिंहराशिस्थिते सूर्ये गोदावर्यां द्विजोत्तम ।
चिरमुग्रतपस्तप्त्वा स्नानदानव्रतादिभिः १०।
वेदागमपुराणोक्तं यत्पुण्यमक्षयं भवेत् ।
माघे स्नात्वा प्रयागे तु तत्पुण्यं नात्र संशयः ११।
फाल्गुने कृष्णपक्षे तु चतुर्दश्यामुपोषितः ।
काश्यां यत्फलमाप्नोति तन्मे निगदतः शृणु १२।
कोटिजन्मार्जितैः पापैर्विमुक्तः सर्वरूपधृक् ।
उद्धृत्य कोटिपुरुषाञ्छिवेन सह मोदते १३।
माघेमासे प्रयागे तु स्नात्वा सकृदपि द्विजः ।
कल्पकोटिशतं विष्णुं संपूज्यान्यत्र यत्फलम् १४।
एकाहमपि संपूज्य मकरस्थे दिवाकरे ।
सत्यं सत्यमहं वच्मि सर्वमेवाक्षयं भवेत् १५।
यावद्दिनं माघमासे तत्र तिष्ठति मानवः ।
तावत्कल्पशतं विप्र मोदते विष्णुना सह १६।
गङ्गायमुनयोस्तोये स्नानं येन कृतं सकृत् ।
सद्यस्तद्दर्शनात्पापैर्मुच्यते सर्वपातकैः १७।
तर्तुं यदीच्छंति जनाः संसाराब्धिं सुदुस्तरम् ।
गङ्गायमुनयोः स्नात्वा भक्त्या पश्यंतु माधवम् १८।
यजंति मानवास्तत्र यद्यदिष्ट्वा कलेवरम् ।
सद्यो लभंते विप्रर्षे तत्तदेव न संशयः १९।
इतिहासमिहैवाहं कथयामि निशामय ।
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः २०।
प्रणिधिर्नाम तत्रासीद्वैश्य एको महाधनी ।
देवतातिथिपूजासु विप्रभक्त्येकतत्परः २१।
तस्य पद्मावती नाम धर्मपत्नी पतिव्रता ।
चार्वङ्गी शीलयुक्ता च कुलजा प्रियवादिनी २२।
स्त्रीणां योग्या गुणा ये ये सृष्टाः श्रीपरमेष्ठिना ।
तच्छरीरे गुणास्ते ते निवसंति द्विजोत्तम २३।
अथासौप्रणिधिर्वैश्यः समादायधनं बहु ।
वाणिज्यार्थे गतो विप्र शुभे लग्ने शुभे तिथौ २४।
धनाद्धर्मः प्रभवति धनाच्च विपुलं यशः ।
धनात्कुलमवाप्नोति भवेत्किं वा धनादृते २५।
धनहीनं जनं दृष्ट्वा सखापि वा पलायते ।
मेघःशरद्यंबुहीनः खंडं खंडं नयेन्महत् २६।
खादितुं प्राप्यते यावत्तावदेव हि बांधवाः ।
धनं यस्य कुलं तस्य बुद्धिस्तस्य स पंडितः २७।
अर्थैर्विहीनः पुरुषो जीवन्नपि मृतोपमः ।
धर्मार्थविद्यार्जनतो मतिर्यस्य नि वर्तते २८।
ज्ञेयः स मूर्खः सुतरामधिकस्याधिकं फलम् ।
कर्त्तव्यः सततं धर्मश्चार्जितव्यं सदाधनम् २९।
शिक्षितव्या सदा विद्या पुंभिरेव विचक्षणैः ।
दानाद्धनं च विद्या च वर्द्धते प्रतिवासरम् ३०।
धर्मस्तु वर्द्धते नैव रक्षतेन विना नृणाम् ।
काष्ठं तृणं तुषं वापि संप्राप्य न परित्यजेत् ३१।
पुमान्संचयशीलोऽपि कदाचिन्नावसीदति ।
ततोऽसौ प्रणिधिर्वैश्यो नियोज्य स्त्रियमालये ३२।
गृहव्यापारनिष्णातो वाणिज्येन जगाम ह ।
अथैकदा तस्य पत्नी गृहीत्वोद्वर्तनादिकम् ३३।
सखीभिः सह विप्रर्षे जगाम स्नानहेतवे ।
ततो धनुर्ध्वजो नाम स्वयं च पातकाश्रयः ३४।
निजेच्छया प्रकुर्वंतीं स्नानकर्म ददर्श ताम् ।
विकसत्स्वर्णपुष्पाढ्यां प्रफुल्लकमलाननाम् ३५।
मृगशावदृशं चारु पीनोन्नतपयोधराम् ।
तां वैश्यपत्नीमालोक्य श्वपचोऽसौ स्मरातुरः ३६।
उवाच प्रहसन्वाणीं निजमूर्तिमचिंतयन् ।
धनुर्ध्वज उवाच-
कासि कल्याणि सुश्रोणि चारुहासिनि सुन्दरि ३७।
मनो हरसि मे कस्मात्सुयौवनरसैः प्रिये ।
विशालजघने तन्वि मया गुणवता सह ३८।
गुणवत्या त्वया सर्वं सुखमत्यनुभूयताम् ।
धनुर्ध्वजवचः श्रुत्वा तस्याः सख्यस्ततो द्विज ३९।
ऊचुर्वाक्यं तथा क्रुद्धाः संदष्टदशनच्छदाः ।
सख्य ऊचुः-
अरे मूढ दुराचार दुराचारकुलोद्भव ४०।
पादनिष्प्रेक्षणमपि नैतस्यास्ते प्रदीयते ।
इयं पतिव्रता नारी धर्मकर्मपरायणा ४१।
आत्मानं सुखमिच्छद्भिः पापदृष्ट्या न दृश्यते ।
परस्त्रीमुखसौंदर्यं परद्रव्यं च सर्वदा ४२।
दृष्ट्वा कामाग्निसंखिन्ना दह्यंते मूढमानसाः ।
याहि पापमते दूरं मा वदोक्तिं सुदुःसहाम् ४३।
वयमेव भवंतं न स्पृशामश्चरणैरपि ।
धनुर्ध्वज उवाच-
धिगस्त्वमुं जातिशब्दं संजानन्नखिलं गुणम् ४४।
संभावितो न युष्माभिः श्वपचत्वे यतोऽधुना ।
कनकं मदिरापूर्णं कलशाभ्यंतरस्थितम् ४५।
संप्राप्य को न गृह्णाति तद्गुणग्रामवित्पुमान् ।
अतोऽहं युवतीमेनां यथा प्राप्नोमि सांप्रतम् ४६।
तथा कुरुत हे सख्यः शरणं भो गतोस्मि यत् ।
इति ब्रुवंतं तं मूढं भूयोभूयो द्विजोत्तम ४७।
ऊचुर्वाक्यमिदं तास्तु जातात्यंतकुतूहलाः ।
सख्य ऊचुः-
यद्येतां रमणीं नूनमिच्छसि त्वं सुदुर्म्मते ४८।
गङ्गायमुनयोः शीघ्रं शरीरं संगमे त्यज ।
मिथःकृतमुखालोका हसंत्यस्तास्ततो द्विज ४९।
तां साधुपत्नीमादाय ययुर्निजगृहांतरम् ।
ततोऽसौ श्वपचो मोहाद्ब्रह्महत्यासहस्रकृत् ५० 7.4.50।
गंगायमुनयोस्तोये तामिष्ट्वा पंचतां गतः ।
तत्स्वामिसदृशाकारः समस्तगुणवान्बली ५१।
स च एव श्वपाकोऽसौ स्ववृत्तांतं स्मरन्नभूत् ।
ततोऽसौ प्रणिधिर्वैश्यस्तस्मिन्नेव दिने शुभे ५२।
कृत्वा वाणिज्यमायातः स्वकीयं निलयं प्रति ।
श्वपाकोऽपि ततो विप्रस्तस्या वासं विवेश ह ५३।
प्रणिधेः सदृशो रूपैर्वयोभिश्च गुणैरपि ।
एकाकारौ समालोक्य पुरःस्थौ तौ गुणाकरौ ५४।
कस्याहं दयिता को वा मम भर्त्तेत्यचिंतयत् ।
ततः सा विस्मिता साध्वी विलोक्य तत्पतिद्वयम् ५५।
तुष्टाव माधवं देवं वचनैः कोमलाक्षरैः ५६।
पद्मावत्युवाच-
नमामि गोविन्दमनन्तमूर्तिं शक्रादिदेवार्चितपादपद्मम् ।
योगेश्वरं योगविदां निरीहं योगप्रदं योगिभिरर्चनीयम् ५७।
नमोऽस्तु ते कैटभमर्द्दनाय नमो मधुध्वंसकराय तुभ्यम् ।
नमोऽस्तु कंसासुरनाशनाय नमोऽस्तु चाणूरनिपातनाय ५८।
नमोऽस्तु वेदोद्धरणाग्रनित्यं नमोऽस्तु भूम्युद्धरणाय तुभ्यम् ।
नमोस्तु पृथ्वीधरणक्षमाय नमोस्तु दैत्यांतकराय तुभ्यम् ५९।
गङ्गांबुधौ तांघ्रियुगाय तुभ्यं नमोस्तु राजन्यकुलांतकाय ।
नमोस्तु ते रावणवंशहंत्रे अलं च दैत्यांतकराय तुभ्यम् ६०।
नमोस्तु ते चाध्वरनिंदकाय नमोस्तु ते म्लेच्छकुलांतकाय ।
नमोऽस्तु ते हृत्कमलासनाय नमोऽस्तु ते सर्वरिपुध्वजाय ६१।
प्रसीद गोपीजनवल्लभ प्रभो धृतैकहस्ताचलदेवदेव ।
प्रसीद लक्ष्मीमुखपद्मभृंग प्रसीद विष्णो सततं नमस्ते ६२।
प्रसीद पद्मेक्षणचक्रपाणे कौमोदकीहस्तगदाधर त्वम् ।
प्रसीद विष्णो धृतपांचजन्य नमोस्तु ते पद्मधराय नित्यम् ६३।
संसारकौतुहलमंदिरे ते मोहांधकारे च विवेकदीपे ।
संमोहिता केशव मायया हि त्वदीयया नित्यमहं भ्रमामि ६४।
विरञ्चि सेन्द्रार्कमुखाः सुरेन्द्रा मायां न जानन्ति तवासुरारे ।
मानुष्यहं किं तव वेद्मि मायां पुरोभ्रमं मे हरसानुकंपम् ६५।
व्यास उवाच-
तस्याः स्तवं समाकर्ण्य भगवान्माधवः प्रभुः ।
समालोक्य जगन्नाथश्चतुर्वर्गफलप्रदः ६६।
आविर्बभूव सहसा सूर्यकोटिसमप्रभः ।
सा मूर्ध्ना भूमिमालोक्य ववंदे तत्पदद्वयम् ६७।
नमस्ते कमलाकान्त भुक्तिमुक्तिफलप्रद ।
हर मे ज्ञानहीनायाः स्वकीय मतिविभ्रमम् ६८।
श्रीभगवानुवाच-
भ्रमं जहीहि चार्वंगि द्वावेतौ हि पती तव ।
एकभावेन सुश्रोणि कुरु सेवां तयोः सदा ६९।
यश्च ते प्रणिधिः स्वामी मद्भक्तस्तरुणः सुधीः ।
भोक्तुं सुखफलं साध्वि सोऽभवद्द्विविधः स्वयम् ७०।
अनन्तरूपिणी लक्ष्मीर्यथा क्रीडे मया सह ।
तथा त्वमपि सुश्रोणि भुंक्ष्व ताभ्यां सुखं सदा ७१।
पद्मावत्युवाच-
एकस्या द्वौ पती देव न प्रशंसन्ति मानवाः ।
मग्नां लज्जाब्धिकल्लोले मामुद्धर दयामय ७२।
श्रीभगवानुवाच-
यदापकीर्तितः साध्वि बिभेषि त्वं ध्रुवं भुवि ।
तदा मत्पुरमागच्छ ताभ्यां सह वरानने ७३।
विमानमागतं सद्यस्ततो भगवदाज्ञया ।
तौ समादाय वैकुण्ठं सा गंतुमुपचक्रमे ७४।
अथ सा पथिगच्छन्ती भर्तृभ्यां सह जैमिने ।
ददर्शैकं महात्मानं रथस्थं स्त्रीसमन्वितम् ७५।
धृतं कमलपत्राक्षैरतसीकुसुमप्रभैः ।
चतुर्भुजैर्दूतगणैरासीनैर्गरुडोपरि ७६।
विष्णुदूतांस्ततस्तांस्तु विष्णुरूपान्वरांगना ।
कोऽयं रथस्थः पुरुष इति पप्रच्छ सा सती ७७।
के वा यूयं महात्मानः पुण्डरीकनिभेक्षणाः ।
सर्वेपि विष्णुसदृशाः शङ्खचक्रादिपाणयः ७८।
ततस्ते भगवद्दूता विष्णुतुल्यपराक्रमाः ।
विहस्योचुर्मुहुः सर्वे परमामोदसंयुताः ७९।
विष्णुदूता ऊचुः ।
विष्णुदूता वयं साध्वि पुण्यात्मानमिमंजनम् ।
समादाय पदं याम उदारं लोकमुत्तमम् ८०।
पद्मावत्युवाच-
केन पुण्यप्रभावेन गतोऽयमीदृशीं गतिम् ।
विष्णुदूता महात्मानः कथ्यतामित्यहो मम ८१।
विष्णुदूता ऊचुः -
अयं बृहद्ध्वजो नाम राक्षसो लोकशोककृत् ।
अरण्यादिनिवासी च महाबलपराक्रमः ८२।
परदारपरद्रव्यहारको रिपुकोद्यतः ।
गोमांसाशी निष्ठुरोक्तिभाषी च देवनिन्दकः ८३।
यद्यत्पापरतं कर्म्म तदनेन कृतं सदा ।
स्वप्नेऽपि न कृतं कर्म शुभं न च पतिव्रते ८४।
अयं रथं समारुह्य सततं कामपीडितः ।
परस्त्रीहरणार्थाय सुश्रोणि नभसि भ्रमन् ८५।
यां यां सुयौवनां नारीं यत्र यत्रायमीक्षते ।
बलाच्चालिङ्गितस्तां तु तत्र तत्र स्मरातुरः ८६।
अथैकदा भीमकेश नाम्नो नरपतेः प्रियाम् ।
ददर्श क्रीडामध्यस्थां सुंदरीं नवयौवनाम् ८७।
अथासौ तां समालोक्य सुवर्णकुसुमप्रभाम् ।
इत्युवाच वचः प्रेम्णा का त्वमत्र करोषि किम् ८८।
सैवोवाच ततः कांता भीमकेशस्य भूपतेः ।
अहं सुरतशास्त्रज्ञा केशिनी नाम भूषिता ८९।
अयि सर्वगुणज्ञां मां प्रेमहृष्टां न भूपतिः ।
स्ववंशजां दोषहीनां पश्यति क्षणमप्यसौ ९०।
स्थीयते नित्यमत्रैव भर्त्राखंडितचर्चया ।
मया स्वकर्मशोचंत्या विरहानलतप्तया ९१।
कस्त्वं कथमिदं प्राप्तमुद्यानं प्रतिसत्तम ।
समायातोऽसि तत्सर्वं प्रसन्नो वक्तुमर्हसि ९२।
अथायमित्याह वचः पूर्णचन्द्र निभानने ।
मायावी राक्षसोऽहं त्वामालिङ्गितुमिहागतः ९३।
जहीहि रुष्टभर्तारं सर्वदा दोषदर्शिनम् ।
तन्वि मां भज सर्वं ते दास्यामि सुखमुत्तमम् ९४।
ततो विहस्य साध्वीयं राक्षसेन्द्रमिमं मुदा ।
बबंध बाहुलतया विन्यस्य वदने मुखम् ९५।
स तामालिंग्य युवतीं विवेकोद्वेगविह्वलाम् ।
अनया सह सुश्रोणि दिव्यमारूढवान्रथम् ९६।
दंपतीभावमाश्रित्य तौ जातावतिकौतुकम् ।
वायुवेगरथारूढौ यातौ गगनवर्त्मनि ९७।
अथैनामयमित्याह पश्यतन्विवरानने ।
त्वद्भर्तृदेशादायातौ गङ्गासागरसङ्गमे ९८।
ततो रथस्थनारीयमधिगङ्गाब्धिसङ्गमम् ।
जगाम पंचतां सद्यः संदृश्यात्यंतसाध्वसैः ९९।
विलप्य बहुधा साध्वीं तत्रायमपि राक्षसः ।
गतप्राणां समालोक्य सद्यो मृत्युं जगाम ह १०० 7.4.100।
वैनतेयध्वजादेशादिमौ गलितकल्मषौ ।
नयामः पुण्यकर्माणौ वैकुण्ठं प्रति संप्रति १०१।
जलेस्थले चांतरिक्षे गङ्गासागरसङ्गमे ।
देहं संत्यज्य गच्छन्ति पापिनो हि परां गतिम् १०२।
त्रैलोक्यदुर्लभं तीर्थं गङ्गासागरसंगमे ।
माघे तपसि शुक्लायामेकादश्यामुपोषितः १०३।
तत्र शुद्धिमवाप्नोति ब्रह्महापि न संशयः ।
गङ्गाब्धिसङ्गमे स्नात्वा हरिं दृष्ट्वा च माधवम् १०४।
कार्तिकेयमुखं दृष्ट्वा पुनर्जन्म न विद्यते ।
कार्तिकेयो हरिः साक्षादित्यभेदः कृतः सदा १०५।
ये कार्तिंकेयं पश्यंति ते सर्वे मोक्षगामिनः ।
सर्वतीर्थाधिकं तीर्थं गङ्गाब्धिसङ्गमं शृणु १०६।
जले स्थले चांतरिक्षे मृतो मोक्षमवाप्नुयात् ।
व्यास उवाच-
इत्युक्त्वा विष्णुदूतास्ते तौ समादाय जैमिने १०७।
जग्मुर्विष्णुगृहं सर्वे सह साकाशवर्त्मनि ।
या च पद्मावती साध्वी भर्तृद्वयसमन्विता १०८।
गता सारूप्यतां विष्णोश्चतुर्वर्गप्रदायिनः ।
तत्र भुक्त्वाखिलान्भोगान्दुर्ल्लभान्द्विजसत्तम १०९।
परमं ज्ञानमासाद्य ययुः सारूप्यतां हरेः ।
सर्वतीर्थमयी गङ्गा सर्वतीर्थमयो हरिः ११०।
गङ्गायाश्च हरेश्चैव तस्माद्भक्तिर्विधीयते ।
गङ्गाब्धिसंगमे पूर्वं माधवो नाम भूभुजः १११।
तप्त्वा तपश्चिरं तत्र सदारो मोक्षमाप्तवान् ११२।
जैमिनिरुवाच-
त्वयोक्तो माधवः कोऽसौ किं कर्म स चकार ह ।
कथं तेपे तपस्तन्मे सर्वं कथय सत्तम ११३।
व्यास उवाच-
चरितं तस्य विप्रर्षे माधवस्य महात्मनः ।
आकर्णय प्रवक्ष्यामि समासेन महामते ११४।
इति श्रीपद्मपुराणे क्रियायोगसारे व्यासजैमिनिसंवादे प्रयागवर्णनंनाम चतुर्थोऽध्यायः ४ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 5
व्यास उवाच-
अस्ति तालध्वजा नाम नगरी त्रिदशोपमा ।
सर्वलोकेषु विख्याता प्रकीर्णा गुणिनां गणैः १।
तत्रासीद्विक्रमो नामा राजा शुद्धकुलोद्भवः ।
धार्मिकः सत्यवादी च प्रजापालनतत्परः २।
तस्य हारावती नाम वल्लभा भुवि दुर्ल्लभा ।
आसीत्स्वकीयवदनप्रभाजित शशिप्रभा ३।
तस्य सैव प्रिया राज्ञः स्त्रीगणेऽपि च तिष्ठति ।
गङ्गेव सरितां भर्त्तुस्तिष्ठत्यपि सरिद्गणे ४।
भूदेवदैवपरतः कालेन कियता द्विज ।
व्यजायत सुतस्तस्यां सर्वलक्षणसंयुतः ५।
शास्त्रोक्तविधिना तस्य स राजा सर्वशास्त्रवित् ।
माधवेति ततो नाम चक्रवर्ती चकार ह ६।
ततोऽसौ माधवो विप्रः कालेन कियता बली ।
सर्वविद्यासरित्पारंगतः सद्गुणसंगतः ७।
अथासौ यौवराज्येन राज्ये नरपतिः सुतम् ।
सिक्तवांस्तं महीदेव सर्वदेवगणार्चकम् ८।
एकस्मिन्दिवसे विप्र चतुरंगबलैर्वृतः ।
जगाम कौतुकेनासौ मृगयायै महद्वनम् ९।
तत्र हत्वा बहूञ्जन्तून्मध्याह्ने समये ततः ।
कृतवान्नगरे गंतुमुद्यमं विपिनादसौ १०।
नगरं स्वकमागच्छत्ससैन्यो माधवो मुदा ।
ददर्श युवतीमेकां सरसि स्नानतत्पराम् ११।
स्नानार्हद्रव्यवसनैर्व्यक्तीकृतकलेवराम् ।
स्वकीयमुखसौन्दर्य्यजितपूर्णनिशाकराम् १२।
सुवर्णकुण्डलद्वन्द्व विभ्राजद्गण्डमण्डलाम् ।
सुदीर्घकेशकैश्छन्न नितंबां चारुहासिनीम् १३।
सुवर्णपद्मकलिकां चारून्नतपयोधराम् ।
मृगारिकृशमध्यां च वसंते कोकिलस्वराम् १४।
यूनां मनोहरा राज्ये कन्दर्पेण महात्मना ।
आरोपिता पताकेव सुन्दरी सा व्यजायत १५।
तादृशीं तां समालोक्य प्रान्तरे सङ्गवर्जिते ।
कः कामवशगो न स्यात्क्षितौ प्राणान्वहन्पुमान् १६।
अथ विक्रमपुत्रोऽसौ तामालोक्य वराननाम् ।
कंदर्पबाणव्रणित हृदयश्चेति चिंतयन् १७।
एतस्याः सदृशी कापि न दृष्टा क्षितिमण्डले ।
एतामिह समालिङ्ग्य सफलं जन्म चेष्यते १८।
श्रेष्ठोऽस्मि सर्वलोकानां वयस्तेजोगुणैरहम् ।
यद्यपीन्द्रांगनेयं स्यान्नेतव्याद्य तथापि च १९।
परस्त्रीहरणे यो वा दोषो भवति सांप्रतम् ।
को वा शक्नोति तद्वक्तुं यतो राजा पिता मम २०।
इति संचिंत्य मनसा सुदृढं तेन कामिना ।
दूरे संस्थाप्य सैन्यानि ययौ सा स्नाति यत्र ह २१।
ऐश्वर्यं च मदश्चैव कामश्चैव महीतले ।
त्रय एते विवेकस्य तेजो घ्नंति किमद्भुतम् २२।
पितास्य दुरितध्वंसी धर्मरक्षाकरो नृणाम् ।
धिक्स्वयं कामदेवोऽसौ मोहयत्यखिलं जगत् २३।
तमायातं समालोक्य वेगेन महता ततः ।
एकाकिनी सा रमते भृशं चिंताकुलाभवत् २४।
एकाकिनीं समालोक्य कांतारस्थां सयौवनाम् ।
अयं धावति वेगेन तन्मे मनसि वर्तते २५।
जल्पंति मुनयः सर्वे धर्मो रक्षति रक्षितः ।
न च ज्ञातव्यमत्रैव किमत्र च भविष्यति २६।
सहायहीनं यत्स्थानं पुरो धावति शत्रवः ।
श्लाघ्यं पलायनं तत्र निवासः प्राणनाशकः २७।
इत्यालोच्य वरारोहा सव्यकच्छे घटं ततः ।
कृत्वा पलायने भीत्या मनश्चक्रे सरोवरात् २८।
ततः स माधवश्चापि जवेन महता द्विज ।
एवं तस्याः पुरो गत्वा प्रसारितकरः स्थितः २९।
श्रीमाधव उवाच-
वराङ्गने चारुदेहे सुयौवनबलान्मम ।
पलायसे मनो हृत्वा हतोस्म्यहमचेतनः ३०।
किं नाम चंचलापांगि चार्वङ्गि तव कः पतिः ।
स्वर्गात्किं वा गतासि त्वं त्वत्तुल्या नास्ति भूतले ३१।
सुन्दरि त्वमिह श्रेष्ठा सर्वलक्षणसंयुता ।
कथं वहसि पानीयं दासीव कमलानने ३२।
पयोधरौ शातकुंभौ सदा वहसि वक्षसि ।
कक्षेण जलकुम्भं च कोमलाङ्गीदमद्भुतम् ३३।
दिवाकरकरात्यंत संतप्ते पथि लोहिताः ।
पादांगुल्यंतरा भांति जपानां कलिका इव ३४।
सुश्रोणि भज मां प्रीत्या त्यज कुंभं वरानने ।
तव दुःखावसानोऽभून्मम दर्शनमात्रतः ३५।
श्रीमद्विक्रमभूभर्त्तुः पुत्रोऽहं माधवाह्वयः ।
सर्वभावैर्भविष्यामि वराङ्गस्तव सुन्दरि ३६।
ममस्त्रीगणमध्येषु सुभगा त्वं भविष्यसि ।
सुपुष्पवल्ली मध्येषु द्विरेफस्येव मालती ३७।
अथवा मम वाक्यं त्वं गर्वाल्लंघितुमिच्छसि ।
न त्यक्षामि तथापि त्वां यतोऽहं नृपतेः सुतः ३८।
व्यास उवाच-
तेनोक्तं वचनं श्रुत्वा पंथानं प्रविहाय सा ।
तस्थावधोमुखी विप्र प्राहेति च शनैः शनैः ३९।
कदापि चेत्परस्यापि न शृणोति वचो मम ।
तथापि लज्जां संत्यज्य वक्ष्याम्येव भवाग्रतः ४०।
तथा ह्यहं महावीर सुबाहुक्षत्त्रियप्रिया ।
नयामि देवपूजार्थं जलं चंद्रकला ह्यहम् ४१।
यद्वचो भवता प्रोक्तं न च तत्त्वत्कुलोचितम् ।
त्वद्वंशप्रभवाः सर्वे परस्त्रीषुनपुंसकाः ४२।
अहमेकाकिनी नारी वीराणां प्रभवो भवान् ।
बलादालिङ्ग्य मामत्र यशः किं ते भविष्यति ४३।
परस्त्रियं समालिङ्ग्य क्षणमात्रसुखं भवेत् ।
इहापकीर्तिः शेषं च दुःखं कल्पशताधिकम् ४४।
कर्मभूमिरियं शूर पुण्यमत्र विधीयताम् ।
परस्त्रीहरणे चित्तं कदाचिन्मां करिष्यसि ४५।
लोभात्प्रवर्तते कामः कामात्पापं प्रवर्त्तते ।
पापान्मृत्युर्मृतेऽपि स्याद्दुस्तरे नरके स्थितिः ४६।
सर्वेऽपि त्वद्गुणा व्यर्थं त्वज्जन्मापि च निष्फलम् ।
कामस्य वशतां गत्वा रंतुमिच्छेः परस्त्रियम् ४७।
मांसमूत्रपूरीषास्थिनिर्मितं मे कलेवरम् ।
एतदेव समालोक्य स्मरस्य वशतां गतः ४८।
भूपालवंशोत्पत्तित्वात्पौरेभ्यो न बिभेषि किम् ।
मस्तकोपरि गर्जंतं नेक्षसे समवर्त्तिनम् ४९।
ग्रसंति बडिशं मत्स्यास्ते सर्वे ज्ञानवर्जिताः ।
ज्ञानीचेत्प्राप्य बडिशं भवान्कस्माद्ग्रसिष्यसि ५० 7.5.50।
विवेकस्त्रिषु लोकेषु संपदां परमं पदम् ।
अविवेको हि लोकानामापदां परमं पदम् ५१।
तयोक्तं वचनं श्रुत्वा माधवः काममोहितः ।
उवाच जैमिने वाचं विनयावनतः पुनः ५२।
तवोद्वीक्षणनाराच धाराजर्जरमानसम् ।
प्रिये मां त्राहि त्राहीति तवास्मि शरणं गतः ५३।
तावत्प्रियतमा नारी यावत्तिष्ठति यौवने ।
मृणालकोषां नलिनीं हेमभृंगो न गच्छति ५४।
प्रसीद हरिणीनेत्रे रक्ष मां सेवकं स्वकम् ।
त्वद्वाचं नीरसां श्रुत्वा भिनत्ति हृदयं मम ५५।
चन्द्रकलोवाच-
त्यज दुःखं महावीर शृणु मद्वचनं शुभम् ।
प्रवक्ष्यामि मनोदुःखं हंतुं यद्भवतः क्षमाम् ५६।
समुद्रपारे विख्याता पुरंदरपुरोपमा ।
प्लक्षद्वीपेऽस्ति दीप्यंती विख्याता संज्ञया पुरी ५७।
गुणाकराह्वयस्तत्र राजा श्रेष्ठो महायशाः ।
आस्ते सर्वगणैर्युक्तः प्रतापेऽग्निसमो बली ५८।
सुशीला नाम तद्भार्या सर्वलक्षणसंयुता ।
सेवावशीकृतस्वामि हृदया सदया जनैः ५९।
सुलोचनाख्या तत्कन्या वीरतत्कुक्षिसंभवा ।
सदूहरूपैरजयत्सकलान्सुन्दरीगणान् ६०।
तस्या रूपं गुणौघं च वर्णितुं भुवि कः क्षमः ।
तद्रूपदर्शमालोक्यासृजदन्यां स्वयं विधिः ६१।
अहमासं महावीर तस्या दासी नृपात्मजः ।
समागतास्मि दैवेन त्वद्देशं प्रति सुन्दरी ६२।
तत्समा सुन्दरी नास्ति त्वत्समो नास्ति सुन्दरः ।
गृहाण तां विवाहेन स्वर्गभोगं यदीच्छसि ६३।
जंबुकीं बलवान्सिंहो विहायांकगतामपि ।
हस्तिनीं न हि किं धत्ते यत्नतः प्रतिपत्तये ६४।
उद्योगी पुरुषो लोके लभते परमां श्रियम् ।
उद्योगेन विना ब्रूहि किं कार्यं भुवि विद्यते ६५।
व्यास उवाच-
तस्यास्तद्वचनं श्रुत्वा माधवो माधवार्चकः ।
दूरीकृत्य स्मरोद्भावं तामित्याह वराननाम् ६६।
माधव उवाच-
केन चिह्नेन तां कन्यां ज्ञास्यामि कमलानने ।
तन्मे कथय सुश्रोणि यदि ते मय्यनुग्रहः ६७।
सिंधुपार प्रतीपाज्ञः कथं यास्यामि मानुषः ।
भविष्यति तया सार्द्धं कथं संदर्शनं मम ६८।
चन्द्रकलोवाच-
तस्यास्तु वामजघने तिलकं तिलसन्निभम् ।
अस्ति तद्दर्शनेनैव ज्ञास्यसि त्वं सुलोचनाम् ६९।
उच्चैःश्रवससंज्ञस्य तुरगस्य महात्मनः ।
त्वन्मंदुरायां पुत्रोस्ति सर्वगामी हयोत्तमः ७०।
तमश्वश्रेष्ठमारुह्य जवेन पवनोपमम् ।
गमिष्यसि समुद्रांतं सुखसाध्या महीयतः ७१।
ततो भूपालपुत्रोऽसौ ससैन्यो गृहमागतः ।
सापि चन्द्रकला साध्वी सुप्रीता स्वगृहं गता ७२।
विचिंत्य वचनं तस्या माधवोऽति त्वरान्वितः ।
चिंताकुलितचित्तोऽसौ सहसा मंदुरां ययौ ७३।
तत्र बद्धाञ्जलिर्भूत्वा वैक्रमिर्विक्रमान्वितः ।
तुरंगमानिति प्राह गुणयुक्तान्महाबलान् ७४।
माधव उवाच-
यूयं सर्वे महात्मानः सर्वलक्षणसंयुताः ।
समुद्रपारे मां नेतुं कः शक्नोति तुरङ्गमः ७५।
अथ ते तुरगाः सर्वे श्रुत्वा तद्वचनं भिया ।
परस्परं क्षितिमुखास्तस्थुर्नो नेतुमुद्यताः ७६।
अथैकस्तुरगस्तत्र समस्तलक्षणैर्युतः ।
माधवस्य पुरो गत्वा वाचमेतामुवाच ह ७७।
अहं भवंतं नेष्यामि सिंधुपारं न संशयः ।
किं त्वाकर्णय दुःखानि मदीयानि नृपात्मज ७८।
अन्यभुक्तावशिष्टं यत्तत्तृणं मम भक्षणम् ।
ग्रंथिकोटिप्रयुक्ताभीरज्जुभिर्मम बंधनम् ७९।
स्वप्नेऽपि व्रीहयो वीर न दृष्टा बलिना मया ।
अन्येषामपि भोगानां का कथात्र नृपात्मज ८०।
गौरवेण विना वीर न सतां विक्रमो भवेत् ।
जनिष्यति कथं वह्निर्विना काष्ठं घृतादिभिः ८१।
अहमीदृगिमे सर्वे नानाभूषासमन्विताः ।
न तु सिंहसमाः श्वानः सर्वाभरणभूषिताः ८२।
प्रदक्षिणाकारतया सशैलद्वीपसागराः ।
क्षणमात्रेण पृथिवीं शक्नोमि भूपते प्रभो ८३।
माधव उवाच-
क्षमस्व दोषं सकलं मत्पित्रा विहितं हय ।
अद्यप्रभृति मुख्योऽसि मंदुराभ्यंतरे मम ८४।
परेण दत्तः संतापः सदा तिष्ठति नोत्तमे ।
सलिलं वह्निसंतप्तं क्षणाच्छीतलतां व्रजेत् ८५।
स्वमाधुर्यैर्भवेदिक्षुः क्षणमपि हि तृप्तये ।
इत्युक्त्वा तं नमस्कृत्य तुरंगं नृपनंदनः ८६।
ततः शुभे क्षणे तस्य पृष्ठमारुह्य वाजिनः ।
प्रचेष्टाख्येन भृत्येन विलंघ्य जलधिं ययौ ८७।
पुरीं सर्वगुणैर्युक्तां पुरंदरपुरोपमाम् ।
जगाम माधवो भ्राजन्सौधावलिभिरुज्ज्वलाम् ८८।
तत्रोपस्थां च युवतीं गंधिनीं माधवो द्विजः ।
दृष्ट्वास्मितमुखो वाक्यमुवाचेति च कोमलम् ८९।
वृद्धे मातरहं पार्थो दिनमेकं तवालये ।
स्थातुमिच्छामि काऽज्ञाते धनवान्माधवाह्वयः ९०।
आतिथेयी गंधिनी सा तमादायातिथिं ततः ।
हर्षित्वा स्वगृहं तत्र जगामात्यंतभक्तितः ९१।
यथोक्तविधिना विप्र तया तस्यार्हणा कृता ।
माधवस्तां निशां निन्ये चिंताव्याकुलमानसः ९२।
अथ प्रभाते विमले गन्धिन्याः पुरतो द्विज ।
माधवः सकलं कार्यं कथयामास भूसुरः ९३।
देवी सुलोचनायाश्च तस्मिन्नेव दिने शुभे ।
गन्धादिवासनं कर्म रचयामास सा च तत् ९४।
श्रुत्वाधिवासनं कर्म राजपुत्र्यास्ततो द्विज ।
शोकसागरकल्लोल निकरो माधवोऽभवत् ९५।
यदर्थं राज्यवसतिर्मया त्यक्ता तदिच्छुना ।
यदर्थं बांधवास्त्यक्ता लंघितश्च महोदधिः ९६।
अद्यैव तस्या दैवेन भविष्यत्यधिवासनम् ।
निष्फलाः सकला एव यावंतो विहिताः श्रमाः ९७।
किंतु लोका न जल्पंति माध्व्या मुग्धो गतोऽखिलम् ।
कोऽपि भग्नोद्यमो न स्यात्प्रज्ञात्वा कार्यनिश्चयम् ९८।
एतद्विचिंत्य मनसा माधवोऽसौ पुनः पुनः ।
मालापुष्पादिके कार्यं लिलेख प्रेमवर्णितम् ९९।
कन्ये माधवनामाहं कुमारो धरणीपतेः ।
तालध्वजाधिराजस्य विक्रमस्य महात्मनः १०० 7.5.100।
त्वच्चेटी तत्र काप्यस्ति कन्ये चन्द्रकलाह्वया ।
तया तवगुणग्रामः कथितो मे पुरा किल १०१।
त्वद्गुणग्रामसंलग्नचित्तोऽहं निम्नसागरम् ।
विलङ्घ्य तुरगारूढः समायातः पुरीं तव १०२।
अधुना मां वरत्वेन वृणु कन्ये सुलोचने ।
यतः संसारमध्येऽस्मिंस्तवास्मि शरणं गतः १०३।
यथा गुणवतीं त्वां हि नान्यो जानाति तत्पुमान् १०४।
सरोजिनीगुणं वेत्ति भृंग एव न दर्दुरः ।
शुभ्रस्य जलदस्यापि गगनैकस्य नोदयः १०५।
तथापि न भजेदन्यं विना चन्द्रं कुमुद्वती ।
अथ तल्लिखनं वीरो मालाकारप्रिया करे १०६।
स्वर्णांगुलीय सहितं ददौ स विनयो नृपः ।
पुष्पमालांतरे कृत्वा तं लेखं सांगुलीयकम् १०७।
राजपुत्री समीपे सा गंधिनी तरसा ययौ ।
पुष्पमालां बलिं तस्यै दत्वा सा गंधिनी ततः १०८।
तस्थौ बद्धाञ्जलिर्भूत्वा दूरं गत्वा भिया कियत् ।
ततः सा राजतनया लिखितं सांगुलीयकम् १०९।
विलोक्य सकलं मूलात्पपाठात्यंतपण्डिता ।
सापि तत्पृष्ठपत्रे तु तद्योग्यमुत्तरं द्विज ११०।
अलिखद्विस्मिता कन्या यद्यच्च सर्वमुच्यते ।
राजपुत्र महाबाहो त्वद्वाक्यमखिलं श्रुतम् १११।
शृणु सत्तम वाक्यं मे यथोचितमिदं वचः ।
अद्याधिवासनं कर्म श्वो विवाहो मम ध्रुवम् ११२।
पितुर्यत्संमतं कार्यं पृथिव्यांकोऽपि नत्यजेत् ।
कार्ये तु दुःखसाध्ये तु कार्यो नातिश्रमो जनैः ११३।
कार्येसिद्धे श्रमो न स्यादसिद्धे श्रम एव हि ।
तथापि शृणु वक्ष्यामि येन प्राप्नोति मां भवान् ११४।
यदर्थो भवता चैव समुद्रोपि च लंघितः ।
मया प्रदक्षणी कार्यो वरो विद्याधरो ह्ययम् ११५।
तत्पुरोऽहं गमिष्यामि नानाभरणभूषिता ।
वामबाहूर्द्ध्वं कृत्वा च वीरः स्यान्मम संमुखः ११६।
येन मां शक्यते नेतुं स मे भर्ता भविष्यति ।
सत्यं सत्यमिदं सत्यं पत्रेऽस्मिंल्लिखितं मया ११७।
अन्यथा सुदृढं कार्यं लंघितुं न हि शक्यते ।
एतद्विलिख्य सा कन्या तस्या एव करे ददौ ११८।
सापि तत्पत्रमादाय गता माधवसन्निधिम् ।
तया यल्लिखितं पत्रे तत्पठित्वा तु माधवः ११९।
भूयोपि लिखितं विप्र लिलेखात्यंतकौतुकैः ।
त्वया यदुक्तं हे कन्ये धन्ये धन्यकुलोद्भवे १२०।
तदेव मन्मतं सर्वं कोऽपि नास्त्यत्र संशयः ।
ततस्तु गंधिनी भूयो गत्वा तन्निकटे द्विज १२१।
ददौ सुलोचनायै सा लिखनं सुन्दराक्षरम् ।
अथ तल्लिखनं ज्ञात्वा कुमारांगी कृतं द्विज १२२।
बभूवात्यन्तसंहृष्टा विस्मिता च पुनः पुनः ।
तस्मिन्नसंशयं कार्यं यदासौ स्वीकृतं ददौ १२३।
तदा किं स्वयमिन्द्रो वा यन्माया माधवः पुमान् ।
इहलोके परत्रास्ति स्नेहभूमिः पतिः सदा १२४।
विना संदर्शनेनापि न वरत्वेदृतो मया ।
इति संचिन्त्य सा साध्वी निःश्वस्य च पुनः पुनः १२५।
स्नानव्याजाद्गतावासं गन्धिन्याश्च सहालिभिः ।
हस्ते विधृत्य तां कन्यां गंधिनी सा पुरंध्रिका १२६।
माधवं दर्शयामास शयानं मंचकोपरि ।
तं समालोक्य सा कन्या कंदर्पसदृशं ततः १२७।
रोमांचितं समस्ताङ्गमुदात्तं पश्यति क्रमात् ।
तन्नेत्रयुगलं तस्मिन्यत्र यत्र निमज्जति १२८।
कष्टदृष्ट्या च नान्यत्र तस्मान्नामात्र गच्छति ।
साक्षादयं वा कन्दर्पो देवकीनन्दनोऽपि वा १२९।
शर्वो वा विषयाधीशः साक्षाद्वा पार्वतीपतिः ।
रूपैरेतैर्जगन्मध्ये मानुषो न हि जायते १३०।
अनेन स्वामिना जन्मसफलं हरिणीदृशः ।
मद्भक्तिवशगो भूत्वा विधातात्यंतयत्नतः १३१।
यदाहं कन्यका जाता तदैनं किं ससर्ज ह ।
अद्यप्रभृति नाथोऽयं स्वयं नास्त्यत्र संशयः १३२।
इत्युक्त्वा सा मतिं चक्रे गंतुं निजगृहं प्रति ।
गन्धिन्युवाच-
कन्ये युक्तिरियं भद्रे त्वयापि हृदि सेव्यताम् १३३।
यथा सुमूर्तिः पुरुषो न तथा भाति निन्दया ।
उल्लासो गात्रभंगश्च मन्ददृष्टिश्च विस्मितम् १३४।
सर्वाणि विष्णुचिह्नानि निद्रायां मृगलोचने ।
संदष्टौष्ठपुटाक्षेपात्प्रोक्तो नोत्तिष्ठति ध्रुवम् १३५।
शनैः शनैः करं तस्य स्वकराभ्यामदर्शयत् ।
त्वां द्रष्टुं राजकन्यायाः संधृत्यागमनं शृणु १३६।
श्रुत्वैतत्सोपि चोत्तस्थौ संभ्रमाक्रांतमानसः ।
विनयावनतो वाक्यं माधवश्चेत्युवाच ताम् १३७।
माधव उवाच-
कन्ये मज्जन्मसफलं श्रमश्च सफलो मम ।
त्वच्चारुवदनांभोजं साक्षादेव मयेक्षितम् १३८।
सकलैर्यौवनैः कन्ये त्वं वरत्वेन मां वृणु ।
त्वद्योगोस्ति वरो नान्यो मां विना भुवि सुन्दरि १३९।
सुलोचनोवाच-
सुगते त्वं मम स्वामी भाग्येन महता भवेः ।
मया यद्वचनं प्रोक्तं तदेव सुदृढं खलु १४०।
आज्ञां कुरु महाभाग गच्छामि निजमंदिरम् ।
माधव उवाच-
तिष्ठेति यदि वा वच्मि कन्ये गर्वस्तदा भवेत् १४१।
गच्छेति वचनं वक्तुं नायाति वदनान्मम ।
स्वयं विचार्य चार्वंगि यद्युक्तं तद्विधीयताम् १४२।
सत्येहवचनं तस्मिन्भविष्यसि सुतत्परा ।
इत्युक्ता तेन सा कन्या हर्षिता स्वगृहं गता १४३।
तत्रैव माधवस्तस्थौ वृतो बहुपरिच्छदैः ।
चारुविद्याधर एव स्थितो विद्याधरो वरः १४४।
तत्रस्थाश्च जनाः सर्वे स्रक्चन्दनविभूषिताः ।
दिव्यांबरपरीधाना रेजुर्देवगणा इव १४५।
क्वचिद्गीतं क्वचिन्नृत्यं क्वचित्कोलाहलध्वनिः ।
क्वचित्केन प्रदीपालिस्तत्पुरे समवर्तत १४६।
हेषितैः सप्तिवृंदानां हस्तिनां चैव बृंहितैः ।
हर्षस्वनैश्च पत्रीणां पूरिताः ककुभो दश १४७।
नानापताकानिवहैर्धवलैर्नृपसद्मभिः ।
समंताद्गगनं सर्वं व्याप्तं हि यत्र जैमिने १४८।
केऽपि शङ्खान्समादध्मुर्ढक्काडिंडिमझर्झरान् ।
वादयांचक्रिरे केऽपि मधुकोहलकादिकम् १४९।
ततो युवतयः सर्वाः सरोजकोरकस्तस्था ।
ललितानि सुगीतानि जगुश्चन्द्रनिभाननाः १५० 7.5.150।
परस्परं यौवनतो घर्षणच्युतमालया ।
प्रस्वेदाम्बुगलद्गंधैर्बभौ कन्येव तत्र भूः १५१।
गंभारीकाष्ठरचितं पीठमारुह्य सुन्दरी ।
ज्ञातिभिर्वेष्टिता याता वरं स्थानं सुलोचना १५२।
अत्रांतरे विक्रमपुत्र एष शय्योपरिष्टात्किल लब्धनिद्रः ।
न वेद दैवेन विवाहकार्यं सुलोचनायाश्च सुलोचनायाः १५३।
विधातृमायाशतमोहितानां कदापि न स्याद्भुवने सुखाय ।
ततः स्वसंकेतविधिं जनोऽयं विस्मृत्य निद्रामभजत्सुखेन १५४।
वनं परित्यज्य कृशानुभीत्या जलं प्रविष्टा नलिनी सुखार्थम् ।
संदह्यते तत्र हिमानलेन यद्यस्य कर्म न तदन्यथा स्यात् १५५।
वेदादिशास्त्रमखिलं प्रपठंतु लोकाः कुर्वंतु नामक्षितिपालसेवाम् ।
उग्रं तपः प्रतिदिवं प्रतिसाधयंतु न श्रीस्तथापि च भजत्यतिभाग्यहीनम् १५६।
मस्तकोपरि तिष्ठंति दुःखानि च सुखानि च ।
अन्यकाले समायान्ति हठादन्यानि सत्तम १५७।
निद्रावंतं समालोक्य माधवं दुःखभागिनम् ।
प्रचेष्टश्चिंतयामास जानन्संकेतमेतयोः १५८।
धिगस्त्वमुं राजपुत्रं दैवमायाविमोहितः ।
विस्मृत्य निजसंकेतं निद्रां संप्राप्य सेवते १५९।
असौ दुःखागता कन्या वरस्य निकटेऽधुना ।
किं भवेन्नयने तादृक्संकेतं याति निष्फलम् १६०।
तिष्ठ त्वं वै पापकर्मन्निद्रां संसेव्य मस्तके ।
मया हयं समारुह्य नेतव्या सा वराङ्गना १६१।
कन्यारत्नं च रत्नं च मुदा प्राप्नोति दुर्ल्लभम् ।
तदा किं सेवया कार्यं माधवस्यास्य दुर्मतेः १६२।
धनार्थं क्रियते सेवा सर्वभावेन भूभुजाम् ।
तच्चेन्मुदा स्वयं प्राप्तं सेवादुःखेन किं तदा १६३।
प्रचेष्ट इति संचिंत्य समारुह्य तुरंगमम् ।
सा राजकन्या यत्रास्ते ययौ तत्र नभः पथा १६४।
वरं प्रदक्षिणीकृत्य स्मरंती समयं स्वकम् ।
वामहस्तं समुद्धृत्य तस्थौ विद्याधराग्रतः १६५।
हस्ते विधृत्य तां कन्यां प्रचेष्टोऽतिजवेन सः ।
पृष्ठे निवेशयामास सप्तेस्तस्य महाबलः १६६।
तां राजपुत्रीमादाय पुरीं कांचीं सुशोभनाम् ।
तामथासौ समालोक्य प्रचेष्टोऽतित्वरान्वितः १६७।
उवाच प्रवहन्पाणिं नष्टमानससाध्वसः ।
प्रचेष्ट उवाच-
समुद्रांतरतीरस्थां कांचीं नाम पुरीमिमाम् १६८।
पश्य सर्वत्र विख्यातां जनसर्वसुखप्रदाम् ।
अत्र माधववीरस्य तस्य विद्याधरस्य वा १६९।
कस्यापि च भयं नास्ति पश्य चन्द्रनिभानने ।
मच्चित्तेंधनसंलग्नां कामानलशिखावलिम् १७०।
कुचकुंभकरैः सिद्धं निर्वाणं देहि सुंदरि ।
त्वच्चारुमुखपद्मेऽस्मिन्मन्मुखभ्रमरोऽधुना १७१।
इच्छेत्पातुं मधून्यत्र काऽज्ञाते तिष्ठति प्रिये ।
त्वच्चारुगात्रसंस्पर्शाच्छरैस्तुदति मां स्मरः १७२।
त्राहि त्राहि प्रिये त्राहि तवास्मि शरणं गतः ।
इति ब्रुवंतं तं मूढमभिवीक्ष्य वरांगना १७३।
शोकाग्नितप्तसर्वाङ्गी चिंतयामास चेतसा ।
अयं मूढो दुष्टचेष्टः प्रचेष्टो नाम वेधसा १७४।
लिखितः किं ललाटे मे यन्मया हा हतास्म्यहम् ।
क्व माता क्व च मे तातः क्व च विद्याधरो वरः १७५।
अनेनाहं समानीता धिगस्तु घटनां विधेः ।
अलं लोकाः प्रकुर्वंति गर्वं जगति सर्वदा १७६।
वेत्ति च्छेतुं गर्ववृक्षं विधाता घटनासिना ।
तथापि विपदे धैर्यं निर्भयत्वं च तत्परम् १७७।
उपायाश्चेति चत्वारः प्रशस्या दीर्घदर्शिभिः ।
इत्यालोक्य हृदा कन्या वचोभिः कोमलाक्षरैः १७८।
प्रचेष्टं प्रत्युवाचासौ सर्वकार्यविचक्षणा ।
सुलोचनोवाच।
दृढं कुरु मनो वीर कन्याहमविवाहिता १७९।
मां समालिङ्ग्य मोहेन कथं यास्यसि दुर्मते ।
शास्त्रोक्तविधिना वीर विवाहेन गृहाण माम् १८०।
तव सेवां करिष्यामि दासीवत्कोऽत्र संशयः ।
त्वं मे प्राणाश्च मित्रश्च भूषणं बांधवस्तथा १८१।
अनन्यगतयो नार्यो भवान्नीतिमवैति किम् ।
विवाहयोग्यवस्तूनि विवाहार्थं समानय १८२।
मत्पाणिग्रहणं शीघ्रं कुरु जाड्यंगृहीति च ।
अंतर्दृढं बहिः श्लक्ष्णं बदरीफलवद्वचः १८३।
आकर्ण्य तस्या मूढोऽसौ परमां प्रीतिमाययौ ।
तुरंगमं च तां कन्यां संस्थाप्यैकत्र दुर्मतिः १८४।
करकंकणमादाय तस्यास्तत्पुरमाययौ ।
ततः सा चिंतयामास विधिं नूनं प्रशस्यतम् १८५।
यत आवां परित्यज्य मूढोऽसौ हर्षितो ययौ ।
किं कर्तव्यं क्व गंतव्यं क्व स्थातव्यं मयाधुना १८६।
अतिसंकटकार्येस्मिन्निस्तारो मे भवेत्कथम् ।
यदाहमत्र तिष्ठमि किं वदिष्यंति ते तदा १८७।
पुण्यतीर्थं समासाद्य परत्र जन्मकाम्यया ।
पंचतां प्रतियास्यामि सापि श्रेयस्करी यतः १८८।
मद्वियोगादयं मूढो न विद्याधर माधवौ ।
जीविष्यंति त्रयोप्येते क्षणमात्रमपि स्मरन् १८९।
मयि स्थितायामेतेषां भवेज्जीवनरक्षणम् ।
मृतायामपि यास्यंति त्रयोऽप्येते तु पंचताम् १९०।
मामुद्दिश्य यदा प्राणाः यक्ष्यंते तेऽत्र मे जनाः ।
भविष्यामि तदा नूनमहं तद्वधभागिनी १९१।
इदानीं पुण्यतीर्थेषु यष्टव्यो भगवान्हरिः ।
तस्मिन्प्रसन्ने भद्रं मे सर्वमेव भविष्यति १९२।
प्राणेषु च विनष्टेषु सर्वमेव विनश्यति ।
तेषु स्थितेषु सकलं स्तोकस्तोकेन सिध्यति १९३।
निशावशिष्टा नलिनी हिमाकरे दूरीकृते चण्डकरेण भास्वता ।
सुगन्धपुष्पप्रकरोऽतिसुंदरी नाप्नोति किं भृंगवरस्य संगमम् १९४।
हृदा विचिंत्येति वरांगना सा सप्तिं समारुह्य महाजवं तम् ।
तप्तुं तपः सागरविष्णुपत्न्योर्जगाम विज्ञोत्तमसंगमाय १९५।
तस्मिन्क्षेत्रवरे पुण्ये गङ्गासागरसंगमे ।
वसेद्राजा सुषेणाख्यः सोमवंशसमुद्भवः १९६।
गंतुं तस्य सभां राज्ञश्चेतसा सा व्यचिंतयत् ।
मया युवत्या कर्तव्यं कथं भूपालदर्शनम् १९७।
अधिवासनसूत्राणि सदूर्वाणि भुजे मम ।
कन्याहं तुरगारूढा युवती संगवर्जिता १९८।
चारित्रं मामकं नूनं मनोविस्मयकारकम् ।
आत्मानं गोपयित्वाहं यास्यामि नृपतेः सभाम् १९९।
इन्द्रजालप्रभावेण सा भूत्वा पुरुषाकृतिः ।
प्रविवेश सभां राज्ञः सुधर्मामिव जैमिने २०० 7.5.200।
तं सपन्नमिवायांतं शक्तिहस्तं हयासनम् ।
स्वयं पप्रच्छ भूपालः कस्त्वं कुत इहागतः २०१।
तस्यैतद्वचनं श्रुत्वा सा कन्या पुरुषाकृतिः ।
प्रणम्योवाच राजानं सुहृदं सज्जनाश्रयम् २०२।
देव वीरवरो नाम पुत्रोऽहं पृथिवीपतेः ।
वर्तनाय समायातस्त्वद्राज्यं प्रति संप्रति २०३।
यद्यत्कार्यमसाध्यं स्यात्तदेव साधयाम्यहम् ।
मयि स्थिते न मद्भर्त्तुः कुत्रापि स्यात्पराजयः २०४।
इति श्रीपद्मपुराणे क्रियायोगसारे वीरवरप्रदर्शोनाम पंचमोऽध्यायः ५ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 6
राजोवाच-
तिष्ठात्रैव महाबाहो मम राज्ये सुशोभने ।
कर्तव्या ते मया वृत्तिः संशयो नात्र विद्यते १।
ततो वीरवरस्तस्य सन्निधौ धरणीपतेः ।
उवास सततं विप्र तत्सेवा गतमानसः २।
अथैकदा तस्य पुरे जैमिने सकलाः प्रजाः ।
भीमनादो नाम खड्गः क्षोभयामास संततम् ३।
तद्वधाय ततो राजा प्रेषयामास तं रुषा ।
ततोऽसौ गंडकं हंतु ययौ वीरवरो जनैः ४।
ददर्श पर्वताकारं सुप्तं तं धरणीतले ।
दंष्ट्राकरालवदनं खड्गिनं तं सशक्तिधृक् ५।
नभसि भ्रामयन्सप्तिं स च वीरवरो रुषा ।
खड्गिनं तमिति प्राह मेघगंभीरया गिरा ६।
उपार्जितास्त्वया ये ये दुरात्मन्पापपादपाः ।
बभूवुः फलिनस्ते ते ऋतुं प्राप्य यथा द्रुमाः ७।
खादिताः प्राणिनो ये ये राज्येऽस्मिन्पापिना त्वया ।
यमालये समस्तैस्तैर्दर्शनं ते भविष्यति ८।
मुंच निद्रामरे दुष्ट मां पश्यान्तकरं निजम् ।
अनया निद्रया किन्ते महानिद्र भविष्यति ९।
ततः सोऽपि समुत्तस्थौ क्रोधसंरक्तलोचनः ।
धूलिधूसरसर्वाङ्गस्त्यक्तनिद्रो महाबलः १०।
भीमनाद उवाच-
गर्वं मा कुरु दुर्बुद्धे तवायुः शेषतां गतम् ।
तत्संदर्शनमात्रेण प्राप्तः कोनु विमुच्यते ११।
ज्वलदग्निशिखाश्रेणीं प्रविशेच्छलभो यथा ।
मत्कोपानलराशौ त्वं तथैव निपतिष्यसि १२।
इति ब्रुवंतं तं द्रष्टुं शक्त्या निशितया तया ।
स जज्वाल महाकोपात्कृत्वा हुंकारनिःस्वनम् १३।
स पपात महीपृष्ठे गतायुर्गंडकस्ततः ।
चालयन्पृथिवीं सर्वां स्वनितौघ परिप्लुतः १४।
खड्गिनं पतितं दृष्ट्वा गङ्गाब्धिरोधसि द्विज ।
समीपं तस्य भूपस्य स गंतुमुपचक्रमे १५।
स गच्छन्पथिविप्रर्षे ददर्शैकं महाशयम् ।
जाज्वल्यमानं तेजोभिर्द्वितीयमिव भास्करम् १६।
विष्णुदूतगणैर्युक्तं तुलसीमाल्यभूषितम् ।
दिव्याम्बरधरं दिव्यं रथारूढं स्मिताननम् १७।
पप्रच्छेति ततो भक्त्या स च वीरवरश्च तम् ।
कस्त्वं कुत इहायातः क्व गच्छसि वदस्व नः १८।
पुरुष उवाच-
कन्येविधृतपुंवेशे मद्वृत्तांतं निशामय ।
कथयामि समासेन श्रोतुमिच्छसि चेन्मुदा १९।
अहमासं पुरा राजा चौरवंशवनानलः ।
धर्मबुद्धिरिति ख्यातः सर्वधर्मपरायणः २०।
मया यज्ञाः कृताः सर्वे दानानि सकलानि च ।
चतुर्वर्षसहस्राणि पालिता च वसुन्धरा २१।
पाखण्डजनवाक्येन मया भूमिर्द्विजन्मनः ।
लंघिता कोपमासाद्य दोषिता न हि कुत्रचित् २२।
मया तेनापराधेन स्वयमेव विधिस्ततः ।
जहार तत्क्षणादेव सर्वां राजश्रियं रुषा २३।
अथाहं गतसंपत्तिः शोकाग्निदग्धमानसः ।
कियिद्भिर्दिवसैः साध्वि यमराजवशं गतः २४।
मां दृष्ट्वा चित्रगुप्तेन तत्कर्मप्रकटीकृतम् ।
उक्तश्च भास्करिर्देवश्चारुहासगतिः प्रभुः २५।
धर्मबुद्धिरयं राजा कृतपुण्यक्रियः सदा ।
अस्त्यस्य दुरितं किञ्चित्तन्निशामय वच्म्यहम् २६।
पाखण्डैर्बोधितोऽयं तु जहार द्विजशासनम् ।
तेनैव कर्मणा स्थानं नरके चास्यदुत्तरे २७।
वृत्तिच्छेदः सूर्यपुत्र यस्य येन विधीयते ।
स तस्य वधमाप्नोति शास्त्रेषु इति निश्चितम् २८।
तस्मादयं पापकर्मा ब्रह्महा पृथिवीपतिः ।
एतस्य निरये स्थानं कल्पकोटिशतावधि २९।
आत्मदत्तां हरेद्यस्तु परदत्तां च मेदिनीम् ।
स कोटिकुलसंयुक्तः प्रयाति नरकं विभो ३०।
यो हरेच्च महीं तावद्देवस्य ब्राह्मणस्य च ।
न तस्य निष्कृतिर्दृष्टा कल्पकोटिशतावधि ३१।
परदत्तां क्षितिं यस्तु रक्षितुर्यस्तु रक्षति ।
स कोटिगुणमाप्नोति पुण्यं दातृगुणादपि ३२।
ततोऽहं शमनादेशाद्भुक्त्वा वै पूतिमृत्तिकाम् ।
कल्पयोनौ प्राणिहिंसा सर्वदैव मया कृता ३३।
गावश्च ब्राह्मणाश्चैव तथैवान्येऽपि जीविनः ।
मया दुष्टेन निहताः कोटिकोटिसहस्रशः ३४।
कालेन प्रेरिता साध्वि मां सर्वक्षयिताश्रयम् ।
खड्गयोनिं समुत्पन्नं भवती प्रजघान ह ३५।
गङ्गाब्धिसङ्गमं तीर्थं दुर्ल्लभं दैवतैरपि ।
स्थलेऽपि मृत्युमासाद्य यत्रेयं मम सद्गतिः ३६।
गच्छ सुश्रोणि भद्रं ते भविष्यति न संशयः ।
अचिरेणैव पतिना दर्शनं ते भविष्यति ३७।
व्यास उवाच-
तस्यैतद्वचनं श्रुत्वा सा कन्या परमाद्भुतम् ।
ववंदे चरणौ तस्य धर्मबुद्धिर्महीपतिः ३८।
ततो रथं समारुह्य स राजा त्रिदिवं ययौ ।
सोऽपि वीरवरो विप्र जगाम नृपतेः सभाम् ३९।
राजा च तं मृतं श्रुत्वा खड्गिनं भीमविक्रमम् ।
तस्यै ददौ विवाहेन जयंतीं निजकन्यकाम् ४०।
जयंतीं तां समादाय सा कन्या पुरुषाकृतिः ।
तपस्तप्तुं मनश्चक्रे गङ्गासागरसङ्गमे ४१।
गङ्गाब्धिसंगमे स्नात्वा प्रभाते द्विजसत्तम ।
गीतैर्वाद्यैश्च नृत्यैश्च यजेन्नारायणं प्रभुम् ४२।
निरामिषं हविष्यं च फलाहारं द्विजोत्तम ।
कदाचिदुपवासं सा कुरुते च वराङ्गना ४३।
एकाकिनीं समालोक्य कोऽग्रहीदत्र भूतले ।
मां नीचमिति मत्वासौ समारुह्य च वाजिनम् ४४।
भूय एव निजं राज्यं साजगाम वराङ्गना ।
माधवस्य वियोगेन तस्य विद्याधरस्य वा ४५।
मृता सा राजतनया यतोऽन्यं न भजत्यपि ।
तस्यां मृतायां भृत्योऽसौ निर्जगाम यदृच्छया ४६।
विलप्य बहुधा तत्र प्रचेष्टोऽत्यंत शोकभाक् ।
जगाम मरणार्थाय गङ्गासागरसङ्गमम् ४७।
गङ्गाब्धिसङ्गमे स्नात्वा तुलसीमृद्विभूषितः ।
कृताञ्जलिरिति प्राह प्रचेष्टो भीष्ममातरम् ४८।
पवित्रे त्वज्जले मातस्त्यजाम्यत्र कलेवरम् ।
सुलोचना मे कांतास्याद्यथातत्त्वं करिष्यसि ४९।
भूयोभूयो ब्रुवंतं तमिति तस्याश्च किंकराः ।
बध्वा पाशेन तं निन्युर्निरुक्तां तत्सभां प्रति ५० 7.6.50।
तप्ता वीरवरादेशात्किंकरास्ते सुदारुणाः ।
कारायां स्थापयामासुः प्रचेष्टमनुविह्वलम् ५१।
एतस्मिन्नेव काले तु दृष्ट्वा तत्कार्यमद्भुतम् ।
हाहाकारो महानासीत्तद्राज्ये द्विजसत्तम ५२।
एतच्छ्रुत्वाद्भुतं कर्म स च राजा गुणाकरः ।
आयातोऽत्यंत संतप्तो वदतीति द्विजोत्तम ५३।
निषंगिणश्च रथिनश्चर्मिणः खड्गिनस्तथा ।
धानुष्काश्च कौंतकाश्च कोटिकोटिसहस्रशः ५४।
स्थाने स्थाने पुरे तस्मिन्राजा वै शोकविह्वलः ।
नियोजयामास तदा रक्षायै द्विजसत्तम ५५।
तेनाज्ञप्तास्ततः सर्वे योद्धारोऽमितविक्रमाः ।
सत्वराः पतिरक्षासु तस्थुस्तस्मिन्पुरे रुषा ५६।
गीतानि गायकैः सर्वैर्नृत्यानि नर्तकैस्तथा ।
वाद्यानि वादकैश्चैव तत्र त्यक्तानि साध्वसैः ५७।
ततः स राजा विप्रर्षे समाहूय स्वमंत्रिणः ।
किमेतदिति पप्रच्छ शोकोपहतमानसः ५८।
मंत्रिण ऊचुः-
देवाद्भुतमिदं कर्म न दृष्टं न श्रुतं क्वचित् ।
एतावतां नृणां मध्ये पश्यतां क्व जगाम सा ५९।
कोऽपि जल्पति सा लक्ष्मीः शापेनागत्य भूतले ।
त्वदीयं सौधमेतर्हि स्वयमंतरधीयत ६०।
मायामयी सा रमणी मायया त्वद्गृहे स्थिता ।
मायां स्वकीयां दर्शित्वा गतेत्यन्ये वदंति वै ६१।
केचिद्वदंति रमणी सर्वलक्षणसंयुता ।
आगमिष्यति भूयोऽपि भगाङ्गो मघवा यतः ६२।
तन्मुखंचन्द्रवन्मत्वा विचिंत्यात्मानमात्मना ।
केचिद्वदंति चन्द्रेण नीता सुप्रतिपत्तये ६३।
वदंति केऽपि सा कन्या सद्गुणा दीर्घवासना ।
भ्रान्त्या चन्द्रमसा ग्रस्ता पूर्णचंद्रनिभानना ६४।
दिग्गजैर्नलिनी भ्रान्त्या प्रफुल्लकमलानना ।
विषदण्डप्रहस्ता च नीरजा कलिकाकुचा ६५।
केचिद्वदंति सृष्ट्वा सा स्रष्टुमन्यां स्त्रियं नृपं ।
तद्रूपादर्शनालोक्ये नीता रूपगुणास्थिता ६६।
केचिद्वदंति भूपाल त्वया सर्वदिशो जिताः ।
रूपैर्दैवांगना जेतुं गता सा त्रिदिवं प्रति ६७।
अथ ते मंत्रिणोऽन्योन्यमालोक्येति मुखश्रियः ।
स्तब्धा इवाभवन्सर्वे निरुत्साहाः ससाध्वसाः ६८।
भूपः सुलोचने पुत्रि क्व गतासि विहाय माम् ।
इत्युक्त्वा स महीपालः पृथिव्यां मूर्च्छितोऽपतत् ६९।
राजानं पतितं दृष्ट्वा शोकेन महता ततः ।
जज्ञे हाहारवस्तस्मिन्नगरे द्विजसत्तम ७०।
तत्क्रंदनध्वनिं विप्र प्रतिश्रुत्वा च जायते ।
उत्प्रेक्षते तत्र लोके क्रंदंति ककुभो दश ७१।
धूलिधूसरतां गंतुं नृपतिं मुक्तकेशकम् ।
विधृत्य मंत्रिणः सर्वे तरसा सौधमाययुः ७२।
अथ विद्याधरस्तत्र श्रीविक्रमदेवजः ।
तस्याः पीठं समालिङ्ग्य रुरोद करुणस्वनैः ७३।
हा प्रिये चंचलापाङ्गि सुवर्णकुसुमप्रभे ।
शोकाब्धौ पातयित्वा मां क्व गतासि वरानने ७४।
मम किं दूषणं दृष्टं त्वया निर्दोषया प्रिये ।
न ददासि कथं भद्रे दर्शनं कमलानने ७५।
न जीविष्याम्यंहं भद्रे क्षणमात्रं त्वया विना ।
अतो मे दर्शनं दत्वा क्रियतां प्राणरक्षणम् ७६।
किं धनैः किं जनैः किं मे मित्रैः किं वा धनैर्गृहैः ।
नाप्नोमि यदि भद्रे त्वां प्राणेभ्योऽपि गरीयसीम् ७७।
एतच्चान्यच्च विप्रर्षे स कृत्वा करुणं महत् ।
शोकान्मृत्युं विनिश्चिंत्य ययौ गङ्गाब्धिसङ्गमम् ७८।
तत्र गङ्गाम्भसि स्नात्वा समुद्रजलमिश्रिते ।
निवेद्य भास्करायार्घं गंगां नत्वाह मातरम् ७९।
गंङ्गे देवि जगन्मातस्त्वज्जले विमले तनुम् ।
त्यजामि तां यथा भूयः प्राप्नोमि तत्करिष्यसि ८०।
इति ब्रुवंतं तं विप्र तत्किंकरवरास्ततः ।
विधिं विनिन्युः सदृशं क्रुद्धा वीरवरस्य च ८१।
ततो वीरवरः प्राह कस्त्वं भोः कुत आगतः ।
कथमत्र तनुत्यागं कुरुषे तद्वदस्व मे ८२।
तद्वाक्यमेतदाकर्ण्य ततो विद्याधरोऽखिलाम् ।
तां कथां कथयामास शृण्वतां विस्मयप्रदाम् ८३।
अथ त्वं मूर्खलोकानां प्रवरोसि न संशयः ।
गान्धर्वी राक्षसी वापि पन्नगी वापि किन्नरी ८४।
शापागतेव सा कन्या तस्मादन्तर्हिता स्वयम् ।
सा देवरूपिणी कन्या देवानां निलयं गता ८५।
कथं तया समं भूयो दर्शनं ते भविष्यति ।
चकोरपेयं पीयूषं गगने रोहिणीपतेः ८६।
किं शक्नुवंति तं पापा वायसा बलिनोऽपि च ।
यदप्राप्यं न तत्प्राप्यं प्राप्यं यत्तच्च लभ्यते ८७।
जानंति तज्जनं कश्चिन्मोहं प्रति न गच्छति ।
केनापि दीयते कन्या कन्या केनापि गृह्यते ८८।
पूर्वजन्मनि या कन्या तां कन्यां लभते पतिः ।
पुत्रप्रयोजना भार्या पुत्राः पिण्डप्रयोजनाः ८९।
कुर्वंति दारग्रहणमतएव मनीषिणः ।
यथेह दीयते नार्या तथा नारी समश्नुते ९०।
क्रंदन्रजन्यामप्येष भृङ्गः कुमुदिनीं सहेत् ।
सद्रूपोऽपि पतिः स्त्रीणां संतोषाय भवेन्नहि ९१।
रवौ स्थितेऽपि पद्मिन्या मधूनि भ्रमरः पिबेत् ।
नारीषु सततं चित्तं विष्णुभक्तिष्वनादरः ९२।
शोकैः कैश्चित्तनुत्यागस्तिस्रः पुंसां विडंबनाः ।
दाराः पुत्रास्तथा भ्राता देशाश्च बांधवास्तथा ९३।
पुनर्लभ्या इमे सर्वे पुनर्लभ्या न चासवः ।
न मुक्तो विषयो धर्मो न च कर्म कृतं त्वया ९४।
वर्तमाने गते मूढ भविष्यं जन्म दुर्ल्लभम् ।
मम माता मम पिता भार्या भ्राता धनं मम ९५।
निष्फलं याति वै जन्म नृणां ममतया तया ।
एवं प्रबोधितः सम्यक्तेन धीरवरेण सः ९६।
दौर्मनस्यं परित्यज्य तस्थौ तत्रैव जैमिने ।
ततस्तु गन्धिनी प्रीत्या हसंती स्वगृहं गता ९७।
गत्वा च माधवं मंचे स्वपंतं सा ददर्श ह ।
गन्धिन्युवाच-
उत्तिष्ठोत्तिष्ठ दुर्बुद्धे भ्रमस्ते विफलोऽभवत् ९८।
विवाहकाले सा कन्या बभूवांतर्हिता स्वयम् ।
एवं तस्या वचः श्रुत्वा समुत्तस्थौ स माधवः ९९।
विललापाकुलः शोकैर्महद्भिः क्ष्मातले लुठन् ।
कन्याया दूषणं नास्ति नास्ति विद्याधरस्य वा १०० 7.6.100।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 7
श्रीव्यास उवाच-
भूय एव प्रवक्ष्यामि गङ्गामाहात्म्यमुत्तमम् ।
तच्छ्रुत्वा मानवाः सर्वे सर्वान्कामानवाप्नुयुः १।
येन नाचरितं स्नानं गङ्गायां लोकमातरि ।
आलोक्य तन्मुखं सद्यः कर्त्तव्यं सूर्यदर्शनम् २।
प्रभाते यः स्मरेद्भक्त्या गङ्गा इत्यक्षरद्वयम् ।
तस्य नश्यंति पापानि तमोवदरुणोदये ३।
न दृष्टा येन सरितां प्रवरा जह्नुकन्यका ।
तस्याग्राह्याणि सर्वाणि अन्नादि सलिलानि च ४।
शरीराणि परित्यज्य गङ्गास्नानं प्रकुर्वताम् ।
गात्राण्यायान्ति पापानि गङ्गास्नानमकुर्वताम् ५।
अहो चित्रमहो चित्रमहोचित्रमिदं पुनः ।
पतंति नरके मूढा गङ्गानाम्निस्थिते सति ६।
शिरसा यो वहेद्भक्त्या गङ्गाम्भः कणिकामपि ।
स मुच्यते महापापैर्ब्रह्महत्यादिभिर्द्विजः ७।
ललाटे दृश्यते यस्य गङ्गासैकतमुत्तमम् ।
स पुण्यात्मा जगत्सर्वं पुनाति नात्र संशयः ८।
गङ्गातीरात्समायांतं यः पश्येत्परमादरैः ।
सोऽश्वमेधसहस्राणि फलं प्राप्नोति मानवः ९।
गङ्गातीरमहं यामि त्वमागच्छेति वक्ति यः ।
तस्य विष्णुः प्रसन्नात्मा सर्वान्कामान्प्रयच्छति १०।
गंगेति नाम संस्मृत्य यस्तु कूपजलेऽपि च ।
करोति मानवः स्नानं गङ्गास्नानफलं लभेत् ११।
गङ्गाम्भः शीकरं यस्तु संमितं सर्षपस्य च ।
प्राप्नोति मृत्युकालेषु स गच्छेत्परमं पदम् १२।
अत्रैव शृणु विप्रर्षे इतिहासं पुरातनम् ।
यस्य श्रवणमात्रेण गङ्गादेवी प्रसीदति १३।
आसीत्त्रेतायुगे विप्रो धर्मस्वो नाम धार्मिकः ।
शांतो दांतो दयायुक्तो वेदवेदाङ्गपारगः १४।
सत्यवादी क्रोधहीनो हिंसाहीनो जितेन्द्रियः ।
सर्वभूतहितैषी च योगाभ्यसरतः सदा १५।
संसारसागरं तर्त्तुं स विप्रो वैष्णवो जनः ।
पूजयामास देवेशं क्रियायोगेन केशवम् १६।
कदाचित्प्राप्य पुण्याहं स च विप्रर्षभो द्विज ।
जगाम जाह्नवीतीरं मुमुक्षुः स्नानहेतवे १७।
तत्र गंगांभसि स्नात्वा कृत्वा च तर्पणादिकम् ।
गृहं गंतुं मनश्चक्रे गंगांभः कर्त्तरीं वहन् १८।
तस्मिन्काले ततो विप्र वैश्यो रत्नकराह्वयः ।
कृत्वा वाणिज्यमायांतं सकलैः किंकरैर्वृतः १९।
तस्यैकः किंकरो विप्रः कालकल्प इति स्मृतः ।
दंडहस्तः समायातो विहिताखिलपातकः २०।
अथवर्त्मश्रमश्रांतस्तस्य रत्नकरस्य च ।
सुष्वापैको बलीवर्द्दः पथि ब्राह्मणसत्तम २१।
पथि स्वपंतं तं दृष्ट्वा कालकल्पो वृषं ततः ।
दण्डेन ताडयामास बाहुधाऽत्यंतनिर्द्दयः २२।
तद्दण्डघातजनितक्रोधेन वृषभेन सः ।
विषाणाभ्यां सुतीक्ष्णाभ्यां समुत्थाय विदारितः २३।
तच्छृङ्गद्वयनिर्भिन्नवक्षाः स गतलोचनः ।
तत्सन्निधिं दयायुक्तो धर्मस्तु त्वरितो ययौ २४।
ततः कर्णात्समादाय तुलसीपत्रमुत्तमम् ।
गङ्गाम्भः शीकरैर्दिव्यैः सिक्तोसौ तेन धीमता २५।
गतप्राणं समालोक्य स विप्रः परमार्थवित् ।
विस्मितः स्वगृहं गंतुं मनश्चक्रे द्विजोत्तम २६।
अथ गच्छन्पथि प्राज्ञो गङ्गानामानि कीर्तयन् ।
यमदूतान्ददर्शाग्रे कोटिकोटि सहस्रशः २७।
छिन्नैकपादाः केचिच्च केचिच्छिन्नैकपाणयः ।
केऽपि केऽपि च्छिन्नकर्णाः केऽप्येकनयनास्तथा २८।
केचिच्च च्छिन्ननासाश्च च्छिन्नजिह्वाश्च केचन ।
भग्नदंताः केऽपि केऽपि केऽपि दंतविवर्जिताः २९।
केऽपि शोणितधाराभिर्लिप्तसर्वकलेवराः ।
विमुक्तकैशिकाः केऽपि केऽपि वक्त्रविवर्जिताः ३०।
केऽपि केऽपि तथा नग्नाः केऽपि निर्भिन्नवक्षसः ।
केऽपि जर्जरितांगाश्च महातीक्ष्णैः शिलीमुखैः ३१।
निषिद्धांगुलिहस्ताश्च दृढपाशैस्तथापरे ।
क्रंदंतो व्यथया केऽपि पलायनपरायणाः ३२।
एवंभूतान्यमप्रेष्यान्स विलोक्य द्विजोत्तमः ।
सकंपहृदयो भीत्या ततः स्तब्धइवाभवत् ३३।
अवलंब्य ततो धैर्यं स विप्रो हरिभक्तिकृत् ।
इत्यपृच्छन्मधुरया किरातान्यमकिंकरान् ३४।
धर्म उवाच-।
के यूयं विकृताकाराः पाशमुद्गरपाणयः ।
दंष्ट्राकरालवदना अंगारसदृशप्रभाः ३५।
यूयं सर्वे महावीर ज्वलत्पावकलोचनाः ।
कृता तथापि युष्माकमियं केनापि दुर्गतिः ३६।
यमदूता ऊचुः -
यमदूता वयं सर्वे यमाज्ञाहारिणः सदा ।
सदंडोऽयं द्विजास्माकं सुमहान्कदनोदयः ३७।
धर्मस्व उवाच-
अकस्मादागता यूयं महाबलपराक्रमाः ।
एतावत इयं केन कथं वा दुर्गतिः कृता ३८।
यमदूता ऊचुः-
भयं मुंच द्विजश्रेष्ठ वृत्तांतं सकलं शृणु ।
यथास्माकमिदं दुःखं बभूवात्यंतदुःसहम् ३९।
योऽसौ वृषेण शृङ्गाभ्यां कालकल्पो विदारितः ।
तं नेतुं धर्मराजेन प्रेरिताः किंकरा वयम् ४०।
तेनाज्ञप्ता वयं सर्वे समस्तायुधपाणयः ।
बद्ध्वा तं पापिनां श्रेष्ठं नेतुमिह समागताः ४१।
अथासौ प्राप्तकालश्च कालकल्पो दुराशयः ।
वृषेणहेतुभूतेन विषाणाभ्यां विदारितः ४२।
सदयेन तथा तत्र गङ्गापानीयसीकरैः ।
सिक्तः पातकिनां श्रेष्ठो गङ्गानामानि जल्पता ४३।
गङ्गाम्भः कणिकासेकैर्गतकल्मषमप्यमुम् ।
बद्ध्वा पाशैर्दृढं नेतुमुद्यमं प्रतिचक्रिरे ४४।
नेतुं तमपि देवेशः शरणागतपालकः ।
स्वदूतान्प्रेषयामास महाबलपराक्रमान् ४५।
केऽपि दूताः समागत्य ततो नारायणाज्ञया ।
सकोपाः प्राहुरित्यस्मान्पथि ब्राह्मणसत्तम ४६।
विष्णुदूता ऊचुः ।
के भवंतो महात्मानः कथमेनं महाशयम् ।
बद्ध्वा नयथ पाशेन यूयं वा कस्य किंकराः ४७।
विहायैनं महात्मानं पलायध्वं यथासुखम् ।
न चेच्छिरांसि युष्माकं छेत्स्यामश्चक्रधारया ४८।
तेषामेतानि वाक्यानि गर्वितानि द्विजोत्तम ।
संश्रुत्याच्युतदूतानां तेऽस्माभिरतिजल्पिताः ४९।
दण्डपाणेर्वयंदूताः सर्वे प्राणाधिपस्य वै ।
नीत्वैनं पापिनां श्रेष्ठं प्रयामः शमनालयम् ५० 7.7.50।
यूयं सर्वे महात्मानस्तुलसीमाल्यभूषिताः ।
स्फुटपद्मपलाशाक्षाबलिनो गरुडध्वजाः ५१।
दिव्यांबरधरा यूयं मयूरगलसुंदराः ।
शंखचक्रगदापद्मधारणाश्च चतुर्भुजाः ५२।
के यूयमीदृशाः सर्वे सर्वलक्षणसंयुताः ।
इमं पातकिनां श्रेष्ठं कथं वा नेतुमिच्छथ ५३।
विष्णुदूता ऊचुः-
वयं सर्वे विष्णुदूताः पुण्यात्मानमिमं नरम् ।
नेतुमत्र समायाता वैकुंठं प्रति संप्रति ५४।
इमं श्रीभगवद्भक्तं स्वजनं गतकल्मषम् ।
मुंचताशु यमप्रेष्या यदि जीवितुमिच्छथ ५५।
भूयस्तेषामिदं वाक्यं श्रुत्वा सर्वगतं द्विज ।
कोपाद्यदुक्तमस्माभिस्तदाकर्णय कथ्यते ५६।
अयं पापी दुराचारो ब्रह्महत्यासहस्रकृत् ।
कृतघ्नश्चैव गोघ्नश्च मित्रघ्नश्च दुराशयः ५७।
मेरुप्रमाणहेमानि हृतानि सुबहूनि च ।
परदारा हृता नित्यमनेनातिदुरात्मना ५८।
कोटिकोटिसहस्राणि जंतूनां विष्णुकिंकराः ।
कृताश्च बहुधा हत्याः स्त्रीहत्या च तथैव च ५९।
अयं न्यासापहरणं स्वमातृगमनं तथा ।
गोमांसभक्षणं चैव चकार प्रतिवासरम् ६०।
परहिंसाकृतानेन दाहश्च परवेश्मनः ।
सभायां परनिंदा च विधवागर्भपातनम् ६१।
गृहमायांतमतिथिं धनलोभेन सत्तम ।
अहनन्निशितैः खङ्गैर्निशायां यवनोपमः ६२।
एतान्यन्यानि पापानि महान्त्यगणितानि च ।
चकार नीचो मूढोऽसौ नाल्पमात्रं शुभावहम् ६३।
तस्मादयं महापापी नीयते यातनागृहम् ।
ज्ञेया हि पापिनो दंड्या धर्मराजस्य सत्तमाः ६४।
यूयं वै देवदेवस्य दूता भगवतो यदि ।
तदा कथमिमं नेतुं पापिनां श्रेष्ठमिच्छथ ६५।
विष्णुदूता ऊचुः ।
भविद्भः सत्यमेवोक्तं कोऽपि नास्त्यत्र संशयः ।
दण्ड्याः पातकिनः सर्वे जीविताधिपतेः सदा ६६।
अयं पापविनिर्मुक्तो गङ्गाशीकरसेचनात् ।
तस्मादेनं वयं सर्वे नेष्यामो हरिमंदिरम् ६७।
तावत्तिष्ठंति देहेषु पातकानि शरीरिणाम् ।
गङ्गाम्भः शीकरा यावन्न स्पृशंति सुदुर्ल्लभम् ६८।
चंद्रैककलया सर्वं तिमिरं हन्यते यथा ।
गङ्गाम्भः शीकरेणापि पातकं हन्यते तथा ६९।
गंगानामानि संस्मृत्य पापी मुच्येत पातकात् ।
साक्षात्तत्सलिलं दृष्ट्वा मुच्यतेऽत्र किमद्भुतम् ७०।
शीतमप्युदकं गाड्गं वह्निवत्पापकानने ।
यथाग्निवत्पद्मवने शीतं तोयं च दाहकृत् ७१।
तस्मादयं पुण्यकर्मा द्वितीय इव केशवः ।
गच्छध्वं शमनप्रेष्या यदि कल्याणमिच्छत ७२।
तेषां केशवदूतानां श्रुत्वास्माभिरिदं वचः ।
भूय एव निरुक्तं यद्विहस्योच्चैः शृणुष्व तत् ७३।
अहो चित्रमहो चित्रमयं कल्मषमंदिरः ।
गङ्गाम्भः सेचनादेव विमुक्तः सर्वपातकैः ७४।
स्वहस्तोपार्जितं कर्म शुभं वा यदि वाशुभम् ।
नाभुक्त्वा मुच्यते मर्त्यः कल्पकोटिशतैरपि ७५।
यमाज्ञया नेतुमिमं वयं सर्वे समागताः ।
कस्यायं वचसास्माभिस्त्यज्यते पापिनां वरः ७६।
विष्णुदूता ऊचुः ।
यूयं पापधियो नूनं विवेकपरिवर्जिताः ।
युष्माभिर्जह्नुकन्याया न ज्ञायंते यतो गुणाः ७७।
कार्यं वेदे निषिद्धं यत्तत्पातकमिति स्मृतम् ।
यद्वेदसंमतं कार्यं तदेव धर्म्यमुच्यते ७८।
देवो नारायणः साक्षात्स्वयंभूरिति शुश्रुम ।
यथा विष्णुस्तथा गंगा गंगैव सर्वपापहा ७९।
अशुभं वा शुभं कर्म स्वहस्तरचितं हरिः ।
हरौ प्रसन्ने पापानि कुत्र तिष्ठंति देहिनाम् ८०।
जन्मान्तरार्जितैः पापैर्गता यूयमिमां गतिम् ।
अद्यापि पापकर्माणः किमर्थं पापमिच्छथ ८१।
गङ्गानिन्दाकरा यूयं विष्णुनिंदाकरास्तथा ।
अतो युष्मान्हनिष्यामः पापिनश्चक्रधारया ८२।
इत्युक्त्वा विष्णुदूतास्ते कोपादरुणलोचनाः ।
चक्रिरे समरारंभमस्माभिः सह सत्तम ८३।
जीवेश दूता हन्यंतामिति प्रोचुश्च ते रुषा ।
भूयोभूयो वदंतोऽस्मान्निजघ्नुश्चक्रधारया ८४।
इत्युक्त्वा विष्णुदूतास्ते संग्रामेत्यंतदारुणाः ।
सर्वे शंखान्समादध्मुः सहसा हृष्टमानसाः ८५।
ततोऽस्माकं सिंहनादैः पयोदस्तनितैरिव ।
कोदंडानां च विस्तारैर्व्याप्तं विप्र जगत्त्रयम् ८६।
अथ वृक्षैः शिलाभिश्च तथा पर्वतवृष्टिभिः ।
अस्माभिर्विष्णुदूतास्ते बाणैश्च विदलीकृताः ८७।
ऋष्टिभिर्भिंदिपालैश्च बाणैश्च परिघैस्तथा ।
कुठारैश्छुरिकाभिश्च दंडैश्च शंकुभिस्तथा ८८।
खङ्गैश्च शक्तिभिश्चैव निशितैश्च शिलीमुखैः ।
गदाभिश्चक्रधाराभिर्नाराचैश्च सुभीषणैः ८९।
एतैरन्यैश्च विषमैरस्त्रैस्ते विष्णुकिंकराः ।
निजघ्नुर्बहुधा कोपाद्वज्रकल्पैर्महार्णवे ९०।
तदास्त्रजर्जराः सर्वे वयं भीत्या पलायिताः ।
निपेतुः केऽपि संग्रामे गतप्राणाः सहस्रशः ९१।
ततोऽस्मांस्ते समालोक्य पलायनपरायणान् ।
मुदा कंबून्समादध्मुर्बलिनो विष्णुकिंकराः ९२।
अथ च्छित्त्वा द्विजश्रेष्ठ कालकल्पस्य बंधनम् ।
विमाने तं समारोप्य जग्मुर्भगवतः पुरम् ९३।
गङ्गाशीकरसेकस्य प्रभावेनैव सत्तम ।
जगाम हरिसालोक्यं कालकल्पोऽति पातकी ९४।
स्थित्वा कल्पशतं तत्र भुक्त्वा भोगान्मनोहरान् ।
ज्ञानमासाद्य तत्रैव परमं मोक्षमाप्तवान् ९५।
गङ्गाप्रभावैरस्माकमेतद्दुःखं गतं प्रभो ।
गच्छ ब्राह्मण भद्रं ते सुप्रीतो निजमंदिरम् ९६।
इत्युक्त्वा यमदूतास्ते ययुर्यमपुरं द्विज ।
भूय एव स धर्मस्वः प्रीतो गङ्गातटं ययौ ९७।
गंगायां स्नानमाचर्य सर्वलोकस्य मातरि ।
बद्धाञ्जलिः स विप्रस्तां तुष्टाव परमेश्वरीम् ९८।
धर्मस्व उवाच-
गंगे समस्तजगदंब चलत्तरंगेऽनगादिचारुतरमस्तकपुष्पमाले ।
कंसारिचारुचरणद्वयरेणुहन्त्रि भक्त्या नमामि दुरितक्षयकारिणीं त्वाम् ९९।
मातः समस्तसुखदे प्रवरे नदीनां व्यासादिविप्रचयगीतगणे गुणाढ्ये ।
संसारभैरवमहार्णवमध्यनौके वंदेत वांघ्रियुगलं दुरितापहारि १०० 7.7.100।
यस्यास्तवांबुकणिकामपि जह्नुकन्ये सौदासनामनृपतिर्द्विजकोटिहत्याम् ।
संप्राप्य मुक्तिमगमत्त्रिसुरैरलभ्यां तां त्वां नमामि शिरसा वरदे प्रसीद १०१।
नारायणाच्युतजनार्द्दनकृष्णराम गङ्गादि नाम गदतो मम देवि मातः ।
संसारपातकनिवारिणि देहपातस्त्वद्वारिणीह भवतु त्वदनुग्रहेण २।
किं वा तपोभिरखिलेश्वरि किं जपैर्वा दानैश्च किं तुरगमे द्युमखैश्च किंवा ।
त्वन्नीरशीकरमवाप्य सुरैरलभ्यां मुक्तिं व्रजंति मनुजा अतिपापिनोऽपि ३।
स्वाहा त्वमेव परमेश्वरि या स्वधा त्वं गीर्वाणवृंदपितृलोकसुतृप्तिहेतोः ।
सत्वं रजस्तम इति त्रिगुणस्वरूपां सृष्टिस्थितिप्रलयकारिणि नौमि तां त्वाम् ४।
धत्ते ललाटफलके तव सैकतं यः पुण्ड्रं च देवि तव तीरमृदा सदैवम् ।
त्वन्नाम सर्वरसधामवदेच्च भक्त्या त्वत्पादरेणुरखिलोस्तु ममैव मूर्ध्नि ५।
त्वद्रोधसि त्रिपथगे वसतिं विधाय पीत्वा च वारि तव पातकनाशकारि ।
स्मृत्वा च नाम तव वीचिरसं च दृष्ट्वा संसारबंधनहरे मम जातु जन्म ६।
नाकं शुभे सुमहदुल्लसिता मनुष्याः कुर्वंति भीतिरतिदुर्गमवर्त्म मत्वा ।
व्यर्थेव सा किल यतोऽमृतदे त्वदीयं सोपानभूतमुदकं त्रिदिवप्रयाणे ७।
पापानि रोगनिकराश्च शरीरदेहे तिष्ठंति तावदखिलेश्वरि भुक्तिदात्रि ।
कुर्वंति यावदमलेषु तवोदकेषु स्नानं न हि त्रिपथगे सरितां प्रधाने ८।
यस्यास्तवाच्युत विरंचि शिवादयोऽपि शक्रादिदेवनिकरा व्रजितुं महिम्नाम् ।
पारं परे परममोक्षपदप्रदात्रीं तां त्वां वदंति तटिनीमितिकेऽपि मोहात् ९।
गङ्गे समस्तसुखदायिनि किंचिदेव जानाति ते पशुपतिर्भगवान्महत्त्वम् ।
यस्मादसौ सुमनसां प्रवरोऽतिभक्त्या धत्ते सदैव शिरसा जगदीश्वरीं त्वाम् ११०।
गंगे देवि जगन्मातः प्रसीद परमेश्वरि ।
परिपाहि नमस्तुभ्यं रक्ष मां सेवकं स्वकम् ११।
परब्रह्मस्वरूपां त्वां सर्वलोकैकमातरम् ।
शक्नोमि किमहं स्तोतुं भ्रांतचित्तोऽत्र मोक्षदे १२।
व्यास उवाच-
इति स्तुता जगद्धात्री तेन विप्रेण धीमता ।
आविर्बभूव सहसा गङ्गा मूर्तिमती द्विज १३।
ददर्श पुरतो गङ्गां द्विभुजां मकरासनाम् ।
कुन्देन्दुशङ्खधवलां सर्वालङ्कारभूषिताम् १४।
तां दृष्ट्वा पुरतो गङ्गां गङ्गागङ्गेति कीर्तयन् ।
ववंदे चरणौ तस्याः शिरसालिङ्ग्य मेदिनीम् १५।
मोहयंती स्मिता लोकैः सुप्रीता परमेश्वरी ।
तमुवाच ततो विप्र वरं वृण्विति जैमिने १६।
धर्मस्व उवाच-
मातस्त्वत्सलिलस्पर्शाद्ब्रह्महापि च मोक्षभाक् ।
मया त्वं दृश्यते साक्षात्साध्यं किमपरं मम ११७।
तथाप्येकं वरं याचे त्वन्नीरे परमेश्वरि ।
मृत्युर्भवतु मे देवि त्वन्नामस्मरतो मम ११८।
मया कृतेन स्तोत्रेण यस्त्वां स्तौति सदेश्वरि ।
सोऽपि भुक्त्वाखिलान्कामानंते यास्यति सद्गतिम् ११९।
गङ्गोवाच-
अनया भवतो भक्त्या संतुष्टास्मि द्विजोत्तम ।
शीघ्रं ते कुशलं सर्वं भविष्यति न संशयः १२०।
त्वया कृतमिदं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ।
तस्याहमपि संतुष्टा दास्यामि मुक्तिमुत्तमाम् १२१।
व्यास उवाच-
इति दत्वा वरं तस्मै सा देवी भक्तवत्सला ।
धर्मस्वनाम्ने विप्रेन्द्र तत्रैवांतरधीयत १२२।
स च विप्रो वरं प्राप्य कृतकृत्य इवाभवत् ।
गङ्गारोधसि तत्रैव तस्थौ विप्र मनोरमे १२३।
ततः कालेन महता विमले जाह्नवीजले ।
सुखमृत्युं समासाद्य जगाम पदमुत्तमम् १२४।
कालकल्पोऽपि पापात्मा सिक्तो गङ्गाम्बुशीकरैः ।
प्राप्तवानुत्तमं मोक्षमन्येषां का कथा द्विज १२५।
अनिच्छयापि गाङ्गेयं जलं स्पृष्ट्वा फलान्वितम् ।
स्पृशतां भक्तिभावेन किं भवेन्नहि वेद्मि तत् १२६।
गङ्गासमं नास्ति तीर्थं भूयोभूयो मयोच्यते ।
यदम्बुकणिकां स्पृष्ट्वा परमं धाम लभ्यते १२७।
ये भक्तिभावेन सरिद्वरायाः स्पृशंति येंऽभकणिकामपीह ।
ते यांति नूनं पदमच्युतस्य पापैर्विमुक्ताः सकलैर्महोग्रैः १२८।
इति श्रीपद्मपुराणे क्रियायोगसारे गङ्गाशीकरमाहात्म्ये सप्तमोऽध्यायः ७ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 8
व्यास उवाच-
पुनर्वक्ष्यामि विप्रेन्द्र गङ्गामाहात्म्यमुत्तमम् ।
गङ्गाकथासुधापानं कुरु मुक्तिं यदीच्छसि १।
दानं दत्तं तेन सर्वं तेन सर्वे मखाः कृताः ।
तेन प्रपूजितो विष्णुर्यद्भक्तिर्भीष्म मातरि २।
गङ्गायां धर्मकर्माणि क्रियंते यानि कानि च ।
अक्षयानि भवंत्यस्य तानि सर्वाणि जैमिने ३।
वहंतं जलमालोक्य गाङ्गेयानि जलानि यः ।
भक्त्या गच्छेत्समुत्थाय सोऽश्वमेधसहस्रकृत् ४।
गङ्गाजलेष्वागतेषु यो नो तिष्ठति भक्तितः ।
पशुता शाश्वती तस्य जन्मजन्मनि जैमिने ५।
गाङ्गेयं जलमासाद्य यो न गृह्णाति भक्तितः ।
जन्मकोट्यर्जितं पुण्यं क्षणादेव तु नश्यति ६।
गङ्गातीरं जिगमिषुं यस्तु वारयते द्विज ।
स कोटिकुलसंयुक्तो रौरवं नरकं व्रजेत् ७।
मूत्रं वाथ पुरीषं वा गंगातीरे करोति यः ।
न दृष्टा निष्कृतिस्तस्य कल्पकोटिशतैरपि ८।
श्लेष्माणं वापि निष्ठीवं दूषिकां वाश्रु वा मलम् ।
गंगातीरे त्यजेद्यस्तु स नूनं नारकी भवेत् ९।
उच्छिष्टं कफकं चैव गङ्गागर्भे च यस्त्यजेत् ।
स याति नरकं घोरं ब्रह्महत्यां च विंदति १०।
गङ्गारोधसि यः पापं कुरुते मूढधीर्नरः ।
तदक्षय भवेन्नूनं नान्यतीर्थेषु शाम्यति ११।
अन्यतीर्थे कृतं पापं गङ्गायां च विनश्यति ।
गङ्गायां यत्कृतं पापं तत्कुत्रापि न शाम्यते १२।
तस्मात्पापं न कर्तव्यं गङ्गायां शास्त्रकोविदैः ।
कर्मणा मनसा वाचा कर्तव्यो धर्मसंग्रहः १३।
न ते देशा न ते शैला न च तानि वनानि च ।
पापविध्वंसिनी यत्र न तिष्ठेत्सुरनिम्नगा १४।
गङ्गातीरं परित्यज्य मुहूर्तमपि जैमिने ।
न च स्थातव्यमन्यत्र यदि कार्यशतान्यपि १५।
भिक्षान्नमपि भुक्त्वा च स्थातव्यं जाह्नवीतटे ।
न चान्यत्र क्षणमपि प्राप्य भूपालतामपि १६।
संत्यज्य देहं गङ्गायां ब्रह्महापि विमुच्यते ।
अन्यत्र मुक्तये न स्यादश्वमेधसहस्रकृत् १७।
गङ्गातीरे वसन्यस्तु हरिपूजापरो भवेत् ।
जन्मजन्मांतरे येन कदाचिन्नार्चितो हरिः १८।
भक्तिर्भवति नैतस्य गङ्गायां लोकमातरि ।
श्रूयतां मानवाः सर्वे भूयोभूयो ब्रवीम्यहम् १९।
स्नानं विधाय गङ्गायां गम्यतां परमं पदम् ।
मृत्युकाले भजेद्यस्तु गङ्गागङ्गेति मानवः २०।
विमुक्तःपातकैः सर्वैर्दिवि देवयुगायुतम् ।
यस्य गङ्गाकथारम्भो मृत्युकाले भवेद्द्विज २१।
स गच्छेद्विष्णुभवनं गलिताखिल कल्मषः ।
यस्तु स्मरति वै प्राज्ञो मृत्युकाले द्विजोत्तम २२।
गङ्गेति मुक्तिदं नाम तस्य तुष्टो भवेद्धरिः ।
मृत्युकाले भवेद्यस्तु गङ्गामृत्पुण्ड्रमुत्तमम् २३।
गङ्गास्नायिनमालोक्य त्यजेद्यस्तु कलेवरम् ।
श्मशानेऽपि द्विजश्रेष्ठ स गङ्गामरणं लभेत् २४।
तिष्ठंत्यस्थीनि गङ्गायां यावत्कालं शरीरिणः ।
तावत्कल्पसहस्राणि विष्णुलोके महीयते २५।
यस्य मज्जन्ति गङ्गायां भस्मास्थीनि नखानि च ।
शिरोरुहाण्यपि प्राज्ञः स विष्णोर्भुवनं वसेत् २६।
स्थितेष्वस्थिषु गङ्गायां यत्कर्म लभते नरः ।
ब्रवीमि तत्फलं सर्वं शृणु नान्यमना द्विज २७।
एकदा भगवाञ्छक्रो नानालंकारभूषितः ।
क्रीडागृहं ययौ कामी युवत्या पद्मगंधया २८।
पद्मगंधा रसज्ञा सा संप्राप्त नवयौवना ।
नानारसप्रदानेन चकार सुरसं प्रति २९।
सपत्न्याः स्वर्णपर्यंके तस्याः शिशुमृगीदृशः ।
प्रीतः पादतले जिष्णुरुवास स्मरमोहितः ३०।
अथ तस्यै स्वयं शक्रो निर्माय स्वर्णवीटिकाम् ।
ददाति परमप्रीतस्तद्गुणाकृष्टमानसः ३१।
एतस्मिन्नेव काले तु पौलोमी वरसुन्दरी ।
भूषणैर्भूषिता सर्वैः स्वयं तद्गृहमाययौ ३२।
दृष्ट्वा तथाविधं शक्रं सर्वदेवाधिपं प्रभुम् ।
भृशं चुकोप पौलोमी प्राहेति च सुलक्षणा ३३।
शच्युवाच-
देव किं कुरुषे कांत त्वं समस्तसुराधिप ।
मम दासीस्वरूपायै ददासि स्वर्णवीटिकाम् ३४।
स्पृशंति त्रिदशाः सर्वे शिरसा चरणौ तव ।
त्वं कथं पद्मगन्धाया दास्याः पादतले प्रभोः ३५।
याचितश्च सुगन्धित्वाद्भृंगः स्यानचतद्यशः ।
सुंदरी कोटिभर्त्ता त्वं समस्तरसवित्प्रभो ३६।
कथमेवंविधं कर्म करोष्यत्यंतकुत्सितम् ।
निर्गुणे पद्मगन्धेहे दासिदूरं परिव्रज ३७।
त्वमीश्वरी च पर्यंके शक्रः पादतले तव ।
व्यास उवाच-
तया निर्भर्त्सिता साध्वी पौलोम्या बहुधा ततः ३८।
उवाच पद्मगन्धा सा क्रोधादिति वरांगना ।
पद्मगंधोवाच-
गुणं च मम दोषं च स्वयं स्वाम्येव वेत्ति वै ३९।
केनाधिकारेणागत्य त्वं मां निंदसि निर्गुणे ।
अन्ये नेत्रद्वयेनापि पश्यंति गुणदोषकौ ४०।
सहस्रनेत्रैरप्येष न पश्येत्किं दुराशये ।
यथा दोषो हि लोकानां प्रचरेन्न गुणं तथा ४१।
आदौ कलंकश्चन्द्रस्य दृश्यते गुणवज्जनैः ।
अनर्थभाषिणी क्रूरा कुमूर्त्तिर्गुणवर्जिता ४२।
यदाहं नास्मि गुणिनी भजतु त्वां तदा पतिः ।
व्यास उवाच-
इत्युक्त्वा पद्मगंधा सा क्रोधात्कोकनदेक्षणा ४३।
उत्तस्थौ स्वर्णपर्यङ्कात्कुर्वंती करुणं महत् ।
इन्द्र उवाच-
प्रिये प्राणेश्वरि श्रेष्ठे मां विहाय क्व गच्छसि ४४।
मया किमपराद्धं ते मम तद्वद सुंदरि ।
कांते दासोऽस्म्यहं नूनं दासकर्म करोमि ते ४५।
दासपत्नी भवेद्दासी वाक्यं त्वं न शृणोषि कम् ।
समुत्थाय ततः शक्रस्तन्मोहाकुलमानसः ४६।
अंके निवेशयामास भूयस्तां वरसुंदरीम् ।
शच्युवाच-
क्रौंचित्वज्जीवनं धन्यं व्यर्थं मज्जीवनं ध्रुवम् ४७।
त्वं स्वामिसुभगा नित्यं दुर्भगाहं वरांगना ।
यावत्पुण्यक्षयं क्रौंचि तत्पुण्यं यास्यते क्षयम् ४८।
क्रौंचवंशसमुत्पन्ना दुःखंभूयोऽपि भोक्ष्यसि ।
देवेन्द्रेणसमं तावत्कुरु केलि यथासुखम् ४९।
कियद्भिर्दिवसैः क्रौंचि न भवेत्तव निर्गुणे ।
अत्यद्भुतं वचस्तस्याः पद्मगन्धा निशम्य सा ५० 7.8.50।
द्वन्द्वभावं परित्यज्य प्रणम्योवाच तां सतीम् ।
पद्मगंधोवाच-
पुलोमजे वरारोहे चित्रमेतत्त्वयोदितम् ५१।
क्रौंची कथमहं ब्रूहि श्रोतुमिच्छामि यत्नतः ।
काहं कुत्रस्थिता चापि कथमत्रागता सती ५२।
कालैः कियद्भिर्मत्पुण्यं क्षीणत्वं प्रतियास्यति ।
शच्युवाच-
पद्मगन्धे पुरा त्वं हि क्रौंची पक्षिसमुद्भवा ५३।
अमेध्यमामिषं कीटान्भक्षयंती क्षितौ स्थिता ।
न्यग्रोधतरुरेकोऽस्ति गङ्गातीरे मनोरमे ५४।
तत्र नीडं विनिर्माय भवत्या वसतिः कृता ।
एकदा कृष्णसर्पेण तस्मिन्न्यग्रोधपादपे ५५।
नीडं प्रविश्य दष्टा त्वं सहसा पंचतां गता ।
क्रव्याणि तव सर्वाणि स सर्पो भक्षयत्क्रुधा ५६।
स्थितानि तत्रैवास्थीनि निर्मांसानि वरानने ।
कदाचित्पवनैर्भद्रे महद्भिः स च पातितः ५७।
भग्नः पपात गङ्गायां समूलोऽपि वरांगने ।
गङ्गायां पतिते तस्मिन्न्यग्रोधे धरणीरुहे ५८।
गङ्गाजलैः प्लावितानि तान्यस्थीनि तवोत्तमे ।
यावदस्थीनि गङ्गायां तावत्तिष्ठंति तानि च ५९।
तावत्त्वं स्वामिसुभगा भविष्यसि सदैव हि ।
इति ते कथितं सर्वं पद्मगंधे मयाधुना ६०।
येन पुण्यप्रभावेण शक्रोऽपि वशगस्तव ।
धन्या तु जाह्नवी देवी क्रौंची यस्याः प्रसादतः ६१।
त्वमस्पृश्यासि चाण्डालैरंकेस्वपिषि वज्रिणः ।
तेनापमानिता साध्वी शक्रेणापि पुलोमजा ६२।
परिम्लानमुखांभोजा सा जगाम यथागता ।
शक्रांक एव सा तस्थौ पद्मगन्धा वरांगना ६३।
तद्वाक्यं हृदये तस्या जागरूकमिवस्थितम् ।
अथैकदा सुराधीशः सुप्रीतस्तद्गुणैर्द्विज ६४।
वरं वरय सुश्रोणि स्वयं तामित्युवाच ह ।
पद्मगंधोवाच ।
त्वं सर्वदेवताधीशो नारीकोटिपतिस्थता ६५।
तथाप्यसि ममाधीनः स्वामिन्किमपरैर्वरैः ।
तथापि त्वं वरं दित्सुर्यदा नूनं सुरोत्तम ६६।
कर्मणा मनसा वाचा प्रतिज्ञां कुरु मत्पुरः ।
इंद्र उवाच-
जीवितं च धनं चैव राज्यं चैव परिच्छदम् ६७।
आज्ञापय किमेतद्वै तुभ्यं दास्यामि सुंदरि ।
सत्यं सत्यं पुनः सत्यं संदेहो नात्र विद्यते ६८।
यदीच्छसि मृगीनेत्रे तत्ते दास्याम्यहं ध्रुवम् ।
पद्मगंधोवाच-
नूनमेव प्रसन्नोऽसि यदि त्वं त्रिदशेश्वर ६९।
जन्म मे हस्तियोनौ च भूयो देहीति मे वरम् ।
इंद्र उवाच-
कृतप्रतिज्ञः सुश्रोणि वरं तेऽहं ददामि वै ७०।
किंतु दुःखानि यातानि बहूनि हृदये मम ।
त्वामदृष्ट्वा वरारोहे प्रीतिर्न प्राप्यते क्षणम् ७१।
कथं ते चिरविच्छेदं सोढुं शक्नोमि दुःसहम् ।
यदा मय्यनुकंपास्ति तव पीनपयोधरे ७२।
तदा कियद्दिनं तिष्ठ मया सह वराङ्गने ।
ततो देवाधिराजस्य वदंती बहुसंपदम् ७३।
वर्षाणामयुतं तस्थौ सा देवनिलये सती ।
पद्मगन्धोवाच-
आज्ञां देहि सुराधीश साधितुं सुमनोरथम् ७४।
व्रजाम्यहं कर्मभूमिं वंदे पादद्वयं तव ।
इन्द्र उवाच-
त्वत्प्रेमसिंधुमानेन मया चन्द्रनिभानने ७५।
स्थित्वा कतिदिनं पश्चाद्गमिष्यसि यथासुखम् ।
ततस्तुकौतुकागारे तेन सार्द्धमहर्निशम् ७६।
क्रीडंती पद्मगंधा सा तस्थौ वर्षायुतत्रयम् ।
सुराधीशं ततः सेति तदा प्राह मुदान्विता ७७।
आदेशं कुरु गच्छामि पृथिवीं प्रति संप्रति ।
इंद्र उवाच-
जाड्यं जहीहि सुश्रोणि तिष्ठात्रैव मया सह ७८।
त्वां त्यक्तुं न हि शक्नोमि प्राणेभ्योऽपि गरीयसीम् ।
पद्मगन्धोवाच-
पुण्यक्षये सुराधीश यदा यास्याम्यहं भुवि ७९।
तदा चिरं ते विच्छेदो भविष्यति मया सह ।
यद्विच्छेदे मया नाथ पुनर्गंतुं भुवं प्रति ८०।
इच्छाम्यहं पुनर्द्यौश्च पुण्योपार्जनहेतवे ।
कर्मभूमिमहं गत्वा येनोपायेन वासव ८१।
तत्करिष्यामि विच्छेदः कदाचित्स्यात्त्वया न मे ।
इन्द्र उवाच-
भद्रे त्वया यदा नूनं कर्मेदं कर्तुमिच्छितम् ८२।
तदा गच्छ पुनः शीघ्रमागमिष्यसि सुंदरि ।
सह नेत्राद्धि विगलद्वाष्पसिक्ततनुस्ततः ८३।
दोर्भ्यामालिङ्ग्य तां शक्रो गच्छेत्याह प्रिये वदन् ।
तदादेशात्ततः साध्वी कर्मभूमिं समागता ८४।
जाता च हस्तिनी योनौ भूत्वा जातिस्मरा द्विज ।
स्मरंती निजवृत्तांतं सा कियद्भिर्दिनैस्ततः ८५।
जगाम जाह्नवीतीरं हस्तियोनिसु संभवा ।
गङ्गायां स्नानमासाद्य गङ्गाकर्दमभूषिता ८६।
गंगागंगेति जल्पंती ह्रदं निम्नं विवेश सा ।
तस्मिन्गंगाह्रदे गत्वा हस्तिनी पर्वताकृतिः ८७।
निजां जातिं स्मरंती सा जगाम पंचतां पुनः ।
तस्याः साहसमालोक्य हस्तिनीं सर्वदेवताः ८८।
ववर्षुः पारिजाताद्यैः कुसुमैरुत्तमैर्मुदा ।
तामानेतुं ततः शक्रः सर्वदेवगणैर्वृतः ८९।
वेगात्तच्चिरविच्छेदात्कृष्णांगीं सुमना ययौ ।
पुष्पकेतां समालोक्य दिव्यदेहां सुराधिपः ९०।
कथयन्निजदुःखानि निजावासं जगाम ह ।
पुलोमजा च रंभा च प्रम्लोचा चोर्वशी तथा ९१।
सुंदर्योऽन्याश्च युवतीस्तस्यास्त्यक्त्वा मुदा गताः ।
शक्रस्य हृदयोत्साहं तन्वंती सा वरांगना ९२।
पुरंदरपुरे तस्थौ सुभगा प्रीतिवल्लभा ।
यस्यास्तिष्ठंति गङ्गायां यावदस्थीनि जैमिने ९३।
कुलकोटिशतं तावत्तस्थावास सुरालये ।
राजानो दिविराज्येषु ये ये भूतास्तपोबलात् ९४।
तेषांतेषां स्नेहभूमिर्भवत्यमरसुंदरी ।
गंगास्थिमज्जनादेव जैमिने फलमीदृशम् ९५।
गंगायां त्यजतो देहं फलं वक्तुं न शक्यते ।
मृतं शरीरं गंगायां यावदस्थीनि जैमिने ९६।
कल्पकोटिशतं तावत्तस्या वासः सुरालये ।
मृतं शरीरं गंगायां स्रोतोभिश्चलितं द्विज ९७।
दृश्यते देहिनस्तस्य तत्फलं शृणु जैमिने ।
स्वर्गे देवांगना त्रस्तचारुचामरवायुभिः ९८।
वीजितः स्वर्णपर्यंके सुप्तस्तिष्ठति कौतुकी ।
जाह्नवीसैकते यस्य शरीरं दृश्यते मृतम् ९९।
दिवाकरकरैस्तप्तं कुलं तस्य वदाम्यहम् ।
सुगन्धैश्चंदनैर्दिव्यैर्लिप्तसर्वकलेवरः १०० 7.8.100।
दिव्याङ्गनाभिः सहितो दिवि क्रीडतिसर्वदा ।
काकैर्गृध्रैश्च कंकैश्च शकुंतैर्भीष्ममातरि १०१।
वपुर्विदलितं यस्य दृश्यते तत्फलं शृणु ।
दिवि दिव्यांगनापीनप्रोत्तुङ्गरुचिरस्तनैः १०२।
श्लिष्टवक्षाश्च पर्यंके निद्राति नित्यमेव सः ।
पिपीलिकाभिः कीटैश्च मक्षिकाभिश्च वेष्टितः १०३।
गंगायां यस्य दृश्यंते अस्थीनि पतितानि च ।
तस्याक्षयं फलं विप्र वदतो मे निशामय १०४।
प्रणमत्त्रिदशव्यूह शिरोमुकुटभूषणैः ।
हतपादरजाः स्वर्गे स च शक्रायते चिरम् १०५।
अनिच्छयापि गङ्गायां यद्देहपतनं भवेत् ।
स विमुक्तोऽखिलैः पापैर्नरो नारायणो भवेत् १०६।
यस्यांगाराश्च दृश्यंते गङ्गायां चलिता जलैः ।
अङ्गारसङ्ख्यया स्वर्गे तिष्ठेत्कल्पशताधिकम् १०७।
सर्वेषामेव पुण्यानां कदाचित्क्षयमीक्षते ।
गङ्गायां पतिते देहे भवेत्पुण्यक्षयो न हि १०८।
बहुनात्र किमुक्तेन निश्चितं कथ्यतेऽधुना ।
गङ्गायां त्यक्तदेहस्य महिमा ज्ञायते नहि १०९।
विषमदुरितराशीनाशि गाङ्गं नरो यः स्पृशति भुवि कदाचिद्भावुको भक्तिभावैः ।
जगदुदधिजलं विलंघ्य घोरं व्रजति स पारमपारतुष्टि नावा ११०।
इति श्रीपद्मपुराणे क्रियायोगसारे गङ्गामाहात्म्येऽष्टमोऽध्यायः ८ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 9
जैमिनिरुवाच-
भूय एव गुरो ब्रूहि गङ्गामाहात्म्यमुत्तमम् ।
गङ्गाकथामृतं पातुं माधुर्यात्पुनरिष्यते १।
व्यास उवाच-
तदप्यहं ब्रवीमि त्वां गङ्गाभक्तो यतो भवान् ।
तौ पादौ सफलौ नॄणां जाह्नवीतटगामिनौ २।
गङ्गाकल्लोलनिनदश्राविणौ श्रवणौ च तौ ।
सा जिह्वा या च जानाति स्वादुभेदं तदंभसः ३।
ते नेत्रे जाह्नवी चारुतरंगदर्शने च ते ।
तल्ललाटमिति प्रोक्तं गङ्गामृत्पुण्ड्रधारि यत् ४।
तौ हस्तौ जाह्नवी तीरे हरि पूजापरायणौ ।
शरीरं सफलं तच्च विमले जाह्नवी जले ५।
पतितं तद्द्विजश्रेष्ठ चतुर्वर्गफलप्रदम् ।
स्वर्गस्थाः पितरः सर्वे गच्छंतो जाह्नवीतटे ६।
संदृश्य हृष्टाः शंसंति वदंत इति जैमिने ।
तत्पुण्यं कृतमस्माभिः सद्गतिप्राप्तये पुरा ७।
भविष्यत्यक्षयं तच्च यतः पुत्रोऽयमीदृशः ।
अनेन गाङ्गैः सलिलैर्वयं संप्रति तर्पिताः ८।
यास्यामः परमं धाम दुर्ल्लभं यत्सुरैरपि ।
गङ्गायां यानि द्रव्याणि दास्यत्यस्माकमात्मजः ९।
अस्मभ्यं तानि सर्वाणि भविष्यंत्यक्षयाणि वै ।
नरकस्थाश्च पितरः सर्वदुःखसमन्विताः १०।
वदंतीति सुतं दृष्ट्वा गच्छंतं जाह्नवीतटम् ।
कृतानि यानि पापानि नरकक्लेशदानि वै ११।
यास्यंति संक्षयं तानि पुत्रस्यापि प्रसादतः ।
विमुक्ता नरकक्लेशैर्वयं सर्वे सुदुःसहैः १२।
अथ पुत्रप्रसादेन यास्यामः परमां गतिम् ।
यात्रां विधाय यो मर्त्यो गृहं मोहान्निवर्तते १३।
निराशाः पितरस्तस्य यांति सर्वे यथा गताः ।
आमिषं मैथुनं चैव दोलामश्वं गजं तथा १४।
उपानहं चातपत्रं गंगायात्रासु वर्जयेत् ।
अध्वश्रमोद्भवं दुःखं दुष्करं न हि मन्यते १५।
गृहे पद्मसुखं तत्र गङ्गास्नाने स्मरेन्न च ।
असत्यभाषणं चैव पाखंडसंगमेव च १६।
द्विर्भोजनं च कलहं गंगायात्रासु वर्जयेत् ।
परनिंदां च लोभं च गर्वं च क्रोधमत्सरौ १७।
अत्यंतहास्यशोकं च गंगायात्रासु वर्जयेत् ।
मंचसुप्तमिवात्मानं चिंतयेद्भूमिशायिनम् १८।
गंगानाम सुनामानि वदेद्गच्छञ्जनः पथि ।
माहात्म्यं जाह्नवी देव्याः सर्वपापप्रणाशनम् १९।
सुखदं मोक्षदं चैव कथयन्पथि गच्छति ।
गङ्गे देवि जगन्मातर्देहि संदर्शनं मम २०।
वचोभिः कोमलैरेभिः कुर्याच्छ्रमनिवारणम् ।
हा कथं सदनं त्यक्तमागतं वा कथं मया २१।
श्रमैरिति वदेद्यस्तु संपूर्णं तत्फलं नहि ।
क्व पर्यंङ्कः क्व मे पत्नी क्व च मे च सुहृद्गृहम् २२।
स्वपामि प्रांतरे भूमौ कथं वाहं समागतः ।
धनधान्यादिवस्तूनां का गतिर्वा गृहे मम २३।
कियद्भिर्दिवसैर्भूयो गमिष्याम्यहमालयम् ।
इति चिंताकुला ये च पथि गच्छंति मानवाः २४।
गंगास्नानफलं तेषां संपूर्णं न भवेद्द्विज ।
गङ्गे गंतुं प्रतीतीरे यात्रेयं विहिता तव २५।
निर्विघ्नां सिद्धिमाप्नोमि त्वत्प्रसादात्सरिद्वरे ।
इमं मंत्रं समुच्चार्य यात्राकाले विशेषतः २६।
हर्षितो निलयाद्गच्छेद्वैष्णवैः सह जैमिने ।
नातिवेगेन गंतव्यं न तथा च शनैः शनैः २७।
गङ्गायात्रासु कर्त्तव्यं नान्यत्कर्म विचक्षणैः ।
गंगातीरे प्रयागे तु वाणिज्यप्रमुखानि च २८।
कार्याणि कुरुते यस्तु तत्पुण्यार्द्धं विनश्यति ।
जन्मजन्मार्जितं पापं स्वल्पं वा यदि वा बहु २९।
गंगादेवीप्रसादेन सर्वं मे यास्यति क्षयम् ।
इत्युक्त्वा परमप्रीतः प्राज्ञो गङ्गातटं व्रजेत् ३०।
दृष्ट्वा च मातरं गङ्गामिमं मंत्रमुदीरयेत् ।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ३१।
साक्षाद्ब्रह्मस्वरूपां त्वामपश्यमिति चक्षुषा ।
देवि त्वद्दर्शनादेव महापातकिनो मम ३२।
विनष्टमभवत्पापं जन्मकोटिसमुद्भवम् ।
इत्युक्त्वा सकलं देहं निपात्य पृथिवीतले ३३।
प्रणमेज्जाह्नवीं देवीं भक्तिभावसमन्वितः ।
ततः स्रोतःसमीपे च बद्धाञ्जलिरिमं पुनः ३४।
पठेन्मंत्रं भक्तिभावैः सुप्रीतो द्विजसत्तम ।
गंगे देवि जगद्धात्रि पादाभ्यां सलिलं तव ३५।
स्पृशामीत्यपराधं मे प्रसन्ना क्षंतुमर्हसि ।
स्वर्गारोहणसोपानं त्वदीयमुदकं शुभे ३६।
अतः स्पृशामि पादाभ्यां गंगे देवि नमो नमः ।
ततस्तु मस्तके धृत्वा गांगेयं वारि भक्तितः ३७।
स्नानार्थं प्रविशेत्स्रोतः प्राज्ञो गंगेति कीर्तयन् ।
त्वत्कर्दमैरतिस्निग्धैः सर्वपापप्रणाशनैः ३८।
मया संलिप्यते गात्रं मातर्मे हर पातकम् ।
गङ्गाकर्दमलिप्ताङ्गो गङ्गागङ्गेति कीर्तयन् ३९।
सर्वकल्मषनाशिन्यां गङ्गायां स्नानमाचरेत् ।
भूयः पूर्वोक्तमन्त्रेण गृहीत्वा मृत्तिकां ततः ४०।
वक्ष्यमाणेन मन्त्रेण गृहीत्वा मृत्तिकां पुनः ।
वक्ष्यमाणेन मंत्रेण भक्तितः स्नानमाचरेत् ४१।
ब्रह्मस्वरूपे हे गङ्गे स्नानमाचर्यते मया ।
त्वदीये निर्मले तोये यथोक्तफलदा भव ४२।
ततो निजेच्छया विप्र गङ्गायां लोकमातरि ।
स्नानं समाचरेत्प्राज्ञो गङ्गानारायणं स्मरन् ४३।
एवं स्नात्वा तु गङ्गायां गात्रं वस्त्रेण मार्जयेत् ।
परिधेयांबरांबूनि गङ्गास्रोतसि न त्यजेत् ४४।
न दंतधावनं कुर्याद्गङ्गागर्भे विचक्षणः ।
कुर्याच्चेन्मोहतः पुण्यं न गङ्गास्नानजं लभेत् ४५।
प्रभातेऽन्यत्र तां कृत्वा दंतकाष्ठादिकक्रियाम् ।
रात्रिवासं परित्यज्य गङ्गायां स्नानमाचरेत् ४६।
बाह्यभूमिमगत्वा यो गङ्गायां स्नानमाचरेत् ।
गङ्गास्नानफलं सोऽपि संपूर्णं च लभेन्नहि ४७।
स्नात्वा च गङ्गामृत्पुंड्रं स्थाने स्थाने नयेद्बुधः ।
ततः स्थिरमनाः कुर्याद्विधिना तर्पणादिकम् ४८।
गाङ्गेयैरुदकैर्यस्तु कुरुते पितृतर्पणम् ।
पितरस्तस्य तृप्यंति वर्षकोटिशतावधि ४९।
गङ्गायां कुरुते यस्तु पितृश्राद्धं द्विजोत्तम ।
पितरस्तस्य तिष्ठंति संतुष्टास्त्रिदशालयम् ५० 7.9.50।
समाप्य स्नानकर्माणि गङ्गायां समुपोषितः ।
दानं देवार्चनं चैव जयोऽन्याश्च क्रियास्तथा ।
कृतास्तु यास्तु गङ्गायां क्षयस्तासां न विद्यते ५१।
समाप्य स्नानकर्माणि गंगायां समुपोषितः ।
कृतपंचमहायज्ञो गंगापूजां समाचरेत् ५२।
गंगायाः प्रतिमां देव्याः श्रीविष्णोः प्रतिमां तथा ।
नालिकेरोदकैर्दिव्यैः स्नापयेद्भक्तितो बुधः ५३।
जाह्नवीप्रतिमाभावान्नालिकेरोदकानि वै ।
निक्षिपेज्जाह्नवीतोये जाह्नवीं हृदि संस्मरन् ५४।
दिव्यैर्गंधैश्च दीपैश्च घृतपूर्णसमुज्ज्वलैः ।
धूपैः सुवासितैश्चैव नानापुष्पमनोहरैः ५५।
नानाफलैः सुपक्वैश्च नैवेद्यैरुत्तमास्तथा ।
पाद्यार्घाचमनीयैश्च तांबूलैः खादिरान्वितैः ५६।
अन्यैरप्युपहारैश्च विशिष्टैर्निजभक्तितः ।
स्तवैर्नाना च नैवेद्यैर्गङ्गां विष्णुं च पूजयेत् ५७।
ततः संपूजितां देवीं विष्णुं च परमेश्वरम् ।
अंगप्रदक्षिणां कुर्याद्भक्त्या वारत्रयं बुधः ५८।
अथ स्थित्वा निराहारोऽपरेहनि सरिद्वरे ।
भोक्ष्यामि जह्नुतनये शरणं मे भवानघे ५९।
एवं संकल्प्य मतिमान्कर्मणा मनसा गिरा ।
रात्रौ जागरणं कुर्याज्जितनिद्रो ऽतिहर्षितः ६०।
अशक्त्या च द्विजश्रेष्ठ फलाहारो भवेदधः ।
अन्नमात्रं न भुंजीत न च कुर्याद्धि भोजनम् ६१।
प्रातर्गङ्गां च विष्णुं च पुनरभ्यर्च्य जैमिने ।
विप्राय दक्षिणां दद्याद्विभवस्यानुरूपतः ६२।
अर्चनं जागरं चैव यत्कृतं पुरतस्तव ।
अच्छिद्रमस्तु तत्सर्वं त्वत्प्रसादात्सरिद्वरे ६३।
इत्युक्त्वा तां नमस्कृत्य कृतनित्यक्रियो द्विजः ।
ततः सबंधुभिः सार्द्धं पारणं स्वयमाचरेत् ६४।
तीर्थोपवासमेवं यः कुरुते जाह्नवीतटे ।
तस्य पुण्यफलं वत्स वदतो मे निशामय ६५।
जन्मांतरार्जितैः पापैर्विमुक्तो विष्णुरूपधृक् ।
विष्णोः पुरं समासाद्य विष्णुना सह मोदते ६६।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
स्थित्वा विष्णुपुरं सर्वं सुखं भुंक्ते सुदुर्ल्लभम् ६७।
ततो नारायणादेशाद्ब्रह्मलोकं स गच्छति ।
ब्रह्मलोके सुखं भुंक्ते दुर्ल्लभं यत्सुरैरपि ६८।
तावत्कालं ब्रह्मलोके स्थित्वा ब्रह्मक्षयात्ततः ।
महादेवं ततो गच्छेद्रथमारुह्य शोभनम् ६९।
सुखं नानाविधं तत्र भुङ्क्तेऽत्यन्तसुदुर्ल्लभम् ।
गाणपत्यमवाप्नोति किमन्यैर्बहुभाषितैः ७०।
तावत्कालं शिवपुरे स्थित्वा वै पुण्यवान्नरः ।
इन्द्रलोकं ततो गच्छेद्द्वितीय इव वासवः ७१।
तेन पुण्यात्मना सार्द्धं वसेदेकासने ततः ।
तत्र भुक्त्वाखिलान्कामान्कल्पकोटिशतावधि ७२।
सूर्यलोकं ततो गच्छेद्द्वितीय इव चन्द्रमाः ।
तत्रामृतानि भुक्त्वा वै चिरं चन्द्रस्य सन्निधौ ७३।
पुनरागत्य पृथिवीं चक्रवर्ती नृपो भवेत् ।
पालयित्वा चिरं पृथ्वीं जित्वा वै सकलान्रिपून् ७४।
आयुषोंऽते च गङ्गायां सुखं मृत्युमवाप्नुयात् ।
भूयः स एवमारुह्य विमानं सुमहायशाः ७५।
पुरं भगवतो याति दैवतैरपि दुर्ल्लभम् ।
तत्र भुक्त्वाखिलान्भोगान्मन्वंतरचतुष्टयम् ७६।
परमं ज्ञानमासाद्य दुर्ल्लभं मोक्षमाप्नुयात् ।
जाह्नवीतीरयात्रायां दैवाद्यस्य भवेत्पथि ७७।
पंचता सोऽपि परमं धाम गच्छेन्न संशयः ।
सत्यधर्मो नाम राजा धार्मिकश्च प्रियंवदः ७८।
त्रेताद्वापरसंधौ च बभूव क्षितिमण्डले ।
विजया नाम महिषी तस्य भूमिपतेरभूत् ७९।
सुंदरी शीलयुक्ता सा पतिसेवापरायणा ।
सप्तवर्षसहस्राणि भुक्त्वा वसुमतीमिमाम् ८०।
कदाचित्प्राप्तकालोऽसौ सदारः पंचतां गतः ।
ततो यमभटैर्बद्धौ दंपती तौ भयंकरौ ८१।
दुःखप्रदेन मार्गेण जग्मतुर्यममंदिरम् ।
तौ दृष्ट्वा धर्मराजोऽपि चित्रगुप्तमुवाच ह ८२।
एतयोः सर्वकर्माणि चित्रगुप्त विचारय ।
तेनाज्ञप्तश्चित्रगुप्तस्तयोः कर्माणि जैमिने ८३।
मूलाद्विचारयामास प्राह चेति कृताञ्जलि ।
चित्रगुप्त उवाच-
एतयोः सकलं कर्म शृणु राजन्वदाम्यहम् ८४।
शुभं वाप्यशुभं कर्म यदेताभ्यां कृतं भुवि ।
किंचिदस्या नयोपायं वदामि तदहं शृणु ८५।
एकादा त्रासितो व्याघ्रैः कश्चिदेको मृगः प्रभो ।
वनाज्जीवनरक्षार्थमागतोऽस्य सभां प्रति ८६।
तमायांतं समालोक्य भूयोऽयं प्राप्तकौतुकः ।
जघने स्वयमुत्थाय खड्गेन तरसा मृगम् ८७।
जघान ह मृगं राजा शरणागतमप्यमुम् ।
तस्मात्सदारोभूपोऽयं दंडनीयस्त्वया प्रभो ८८।
यावंति तस्य रोमाणि संस्थितानि कलेवरे ।
मन्वंतरसहस्राणि मन्वंतरशतानि च ८९।
कोटिकोटिकुलैर्युक्ता नारकी स्यान्न संशयः ।
शरणागतरक्षां यः प्राणैरपि धनैरपि ९०।
कुरुते यो नरो ज्ञानी तस्य पुण्यं निशामय ।
सर्वपापैर्विनिर्मुक्तो ब्रह्महत्यामुखैरपि ९१।
आयुषोऽन्ते व्रजेन्मोक्षं योगिनामपि दुर्ल्लभम् ।
यमाज्ञया ततो दूतैः सदारोऽसौ महीपतिः ९२।
असिपत्रवने घोरे स्थापितोऽत्यंतदुःखदे ।
असितुल्यानि पत्राणि यतस्तेषां च शाखिनाम् ९३।
असिपत्रवनं प्राहुरतस्तद्वै मनीषिणः ।
स्थित्वासिपत्रविपिने युगकोटिशतानि च ९४।
सदारो नरकं भेजे व्याघ्रभक्ष्याह्वयं ततः ।
निरयं तं प्रविशति सर्वोपद्रवसंयुतम् ९५।
भवेच्च भक्ष्यो व्याघ्रेण व्याघ्रभक्ष्यस्ततः स्मृतः ।
युगकोटिसहस्राणि स्थित्वा तत्र स भूपतिः ९६।
सदारोऽजनि पापांते भेकयोनिं गतः क्षितौ ।
जातिस्मरौ ततस्तौ तु भेकीभेकौ सुदुःखितौ ९७।
तीरे तस्थतुरेकस्मिन्सततं कीटभोजिनौ ।
अथैकदा तेन पथा पुण्याहं प्राप्य मानवाः ९८।
गच्छंति जाह्नवीतीरं तांस्तौ ददृशतुर्द्विज ।
भेक उवाच-
वर्षाभ्वि मोहाद्यत्सर्वं पापं कर्म कृतं मया ९९।
अद्यापि कर्मणा तेन दुःखमावां न मुंचति ।
त्यक्त्वा शरीरं गंगायां मुक्ताः स्युः पापिनोऽपि च १०० 7.9.100।
तथाप्येवं विधं दुःखमनुभूयावहे कथम् ।
गंगायां त्यक्तुमिच्छामि संप्रत्येतत्कलेवरम् १०१।
का युक्तिर्ब्रूहि तां कांते तितीर्षुर्दुःखसागरम् ।
वर्षाभ्वी तद्वचः श्रुत्वा प्राहेति विनयान्विता १०२।
वर्षाभ्व्युवाच-
दुःखं न शक्यते सोढुं स्वामिन्नेतद् द्रुतं कुरु ।
ततस्तौ दंपती विप्र स्मृत्वा गंगां शुभप्रदाम् १०३।
सहसा चक्रतुर्यात्रां मरणायोपहर्षितौ ।
अथैतौ पथि गच्छंतौ चिरकालं बुभुक्षितौ १०४।
अपश्यत्पापकृत्क्ष्वेडः कालसर्पो भयंकरः ।
कालसर्प्प उवाच-
दर्दुरौ पापिनौ येथाः प्राप्तकालौ युवां ततः १०५।
अथ नूनं भक्षितव्यौ क्षुधितेन मया युवाम् ।
ततस्तावतिसंत्रस्तौ दंपती दुःखभागिनौ १०६।
इत्यूचतुर्वचो भक्त्या कालसर्पं पुरोगतम् ।
नास्ति मृत्युभयं सर्प स्वल्पमप्यावयोर्हृदि १०७।
अहमासं पुरा राजा सत्यधर्माह्वयः क्षितौ ।
इयं च विजया नाम महिषी संस्थिता मम १०८।
मया दुरात्मना मोहान्नितः शरणं गतः ?।
तेनैव कर्मणा भुक्तं चिरं दुःखं यमालये १०९।
भोक्तुं स्वकर्मणः शेषं भेकयोनौ स्त्रिया सह ।
सोऽहं यातोऽस्मि पापेन कृतं कर्म न मुंचति ११०।
सत्यमावां जिगमिषू परमं धाम पन्नग ।
व्रजावो जाह्नवीतीरं शरीरत्यागहेतवे १११।
त्यजाविवेकतां सर्प नरकक्लेशदायिनीम् ।
आवां संखाद्य भवतो भविष्यति सुखं कियत् ११२।
आवयोर्हृदये विष्णुस्तवापि हृदये हरिः ।
अतएव त्वया सार्द्धं शत्रुता का भुजंगम ११३।
प्राणिहिंसा न कर्तव्या कदापि च विचक्षणैः ।
क्रियतेऽपि च तद्धिंसां विदधाति स्वयं विधिः ११४।
आयुः पुत्राश्च दाराश्च संपदश्च यशांसि च ।
हिंसां दत्वा मनुष्याणां हरेद्दुष्टो विधिः स्वयम् ११५।
किं जपैः किं तपोभिर्वा किं दानैः किमु चाध्वरैः ।
हिंसेति वर्णद्वितयं यस्यास्ति हृदये सदा ११६।
यः प्राणिहिंसको मर्त्यः स एव हरिहिंसकः ।
सर्वप्राणिशरीरस्थो भगवान्कमलापतिः ११७।
आत्मानं बहुधा सृष्ट्वा भगवान्भूतभावनः ।
संसारकौतुकागारे क्रीडेच्छिशुरिव स्वयम् ११८।
शरीरिणः शरीरं हि निलयः परमात्मनः ।
परमात्मा स्वयं विष्णुरतो हिंसां विवर्जयेत् ११९।
परप्राणविनाशेन चात्मतुष्टिर्विधीयते १२०।
क्षणं स्यादात्मनस्तुष्टिरन्यस्य प्राणसंक्षयः ।
चरित्रमेतल्लोकानामत्यद्भुतमिव क्षितौ १२१।
आत्मतृप्तिं प्रकुर्वंति परं हत्वातियत्नतः ।
धीमान्नात्मपरिज्ञानं कदाचित्कुरुते नहि १२२।
अहं विष्णुरसौविष्णुरिति चेतसि भावयेत् ।
परदुःखेन यो दुःखी सुखी यश्च परश्रिया १२३।
संसारेऽस्मिन्स विज्ञेयः साक्षादेव हरिः स्वयम् ।
धिगस्तु तत्सुखं नॄणां मोहवंचितचेतसाम् १२४।
परहिंसाविधानेन सुखं यत्स्याद्भुजंगम ।
सुखानि वापि दुःखानि दीयंते यानि जंतवे १२५।
अचिरेणैव तानि स्म लभंते भुवि मानवाः ।
तस्माद्धिंसां परित्यज्य भुजंगम सुखी भव १२६।
त्वयि प्रसन्ने गच्छावः पारं दुःखमहोदधेः ।
सर्प उवाच-
यदा स्यात्परहिंसायां नूनं मे नातिपातकम् १२७।
तदा कथमहो सृष्टै वेधसा भक्ष्यभक्षकौ ।
परहिंसा न कर्तव्या सत्यमेतत्त्वयोदितम् १२८।
किंतु सर्वेषु भक्ष्येषु हिंसा संभाव्यते नहि ।
नारायणो विश्वरूपः सत्यमेतन्न संशयः १२९।
भक्ष्यभक्षकसंयुक्तं स्वयमेव ससर्ज ह ।
सृजति स्वयमात्मानमात्मानं रक्षति स्वयम् १३०।
आत्मानं स्वयमेवात्ति सृष्टिरेवंविधा हरेः ।
शक्तोऽहं किं युवां हंतुं कालरूपी स्वयं विधिः १३१।
संप्रति प्रेषयामास कार्येस्मिन्मां स्वयं हरिः ।
युवां ससर्ज यो देवो यश्च रक्षति वां सदा १३२।
कालरूपी स एवाद्य हंति हेतुं विधाय माम् ।
व्यास उवाच-।
ततस्तेन भुजंगेन भक्षितौ तौ च दंपती १३३।
गङ्गा गंगेति जल्पंतौ महत्या क्षुधया पथि ।
जाह्नवीतीरयात्रायां पादेपादे जनाविमौ १३४।
अश्वमेधाख्य यज्ञानां प्राप्तवंतौ महाफलम् ।
तस्मादेनौ महात्मानौ बह्वश्वमेधधारिणौ १३५।
एतयोः सदृशो नास्ति शतक्रतुरहं यतः ।
निजाधिकारेणैवान्यमवलंब्य पुरंदरः १३६।
अर्घ्यहस्तः पादचारी वृतो देवैः समाययौ ।
अथ रम्भोर्वशी चैव सुंदर्योऽन्याश्च हर्षिताः १३७।
अन्योन्यं कथयामासुर्निजयौवनगर्विताः ।
अयं पुण्यात्मनां श्रेष्ठो रसज्ञोऽत्यंतसुन्दरः १३८।
आयातोऽमुं करिष्यामि स्ववशं सेवितैः स्वकैः ।
काचित्कांचिद्वदत्येतज्जानामि सकलां कलाम् १३९।
अतएव भविष्यामि कांताहमस्य भूपतेः ।
काचित्कांचिदिति ब्रूयात्ते शक्रोपि वशो मम १४०।
किमत्र चित्रं वशगो भूपालोऽयं भविष्यति १४१।
भर्त्ता ममायं च पतिर्ममायं स्वामी ममायं मम नाथ एषः ।
इतीव सर्वाः परमप्रमोदैर्वदंति नार्योखिलसद्गुणज्ञाः १४२।
उच्चावचं विप्र निशम्य तासां जगाद काचिद्गुणिनी रसज्ञा ।
सौदास्यकांतां नृपतिः स्वयं यां भजत्ययं किं कलहेन नार्यः १४३।
सुन्दर्य्यस्तास्ततः सर्वाः संत्यज्य कलहं द्विज ।
आजग्मुर्हृदयोत्साहैः सर्वाभरणभूषिताः १४४।
अथ तं नृपतिश्रेष्ठ सदारं गतकल्मषम् ।
पाद्याद्यैः पूजयामासुः प्राहेति च पुरंदरः १४५।
रथे निवेशयामास पुष्पके स्त्रीसमन्वितम् ।
भेरीमृदंगमधुरी डिंडिमानकनिःस्वनैः १४६।
करकं कणनादैश्च करतालस्वनैस्तथा ।
जयशब्दैश्च देवानां नाकः शब्दमयोऽभवत् १४७।
देवाङ्गना चारुहस्त श्वेतचामरमारुतैः ।
वीजितः सरथारूढः सदारस्त्रिदिवं ययौ १४८।
ततः शक्रः स्वयं तस्मै सत्यधर्माय भूभुजे ।
दत्तवान्निजासनार्द्धं शुभो वै क्षयशंकया १४९।
शक्रेण सह भूपोऽसौ वसन्नेकासने सदा ।
शक्रत्वमकरोत्स्वर्गे केशवस्यानुकंपया १५० 7.9.150।
युगकोटिसहस्राणि दिवि भुक्त्वाखिलं सुखम् ।
रथमारुह्यवैकुंठं ययौ भगवदाज्ञया १५१।
तत्र मन्वंतरं भुक्त्वा सर्वभोगमनोरमम् ।
परमं ज्ञानमासाद्या सदारो मोक्षमाप्तवान् १५२।
जाह्नवीतीरयात्रायां शरीरं त्यजतः पथि ।
फलमेवंविधं विप्र मया सर्वं प्रकीर्तितम् १५३।
जाह्नवीतीरगमने मुनिभिस्तत्वदर्शिभिः ।
न कालनियमः प्रोक्तो नारदाद्यैर्महर्षिभिः १५४।
यदायदा द्विजश्रेष्ठ गङ्गायां स्नानमाचरेत् ।
तदातदाऽक्षयं पुण्यं लभते मानवो ध्रुवम् १५५।
गंगा सर्वाणि पापानि नाशयंतीति निश्चयः ।
कुर्यात्पुनःपुनः पापं न च गंगा पुनाति तम् १५६।
पापबुद्धिं परित्यज्य गंगायां लोकमातरि ।
स्नानं कुरुत हे लोका यदि सद्गतिमिच्छथ १५७।
यत्पुण्यं गंगास्नानात्तु मानवानां भवेद्दिवज ।
तत्पुण्यं प्राप्यते विप्र कर्मभिः कैः सुदुस्तरैः १५८।
आसाराणां भूमिरेणोः संख्यां कर्तुं तु शक्यते ।
भागीरथीगुणास्ते न शक्या वक्तुं न च द्विज १५९।
विचार्य सर्वशास्त्राणि त्वदीयानि मयोच्यते ।
गंगांभसि सकृत्स्नात्वा मोक्षमाप्नोति मानवः १६०।
स्नानं कूपजलेऽपि यस्तु कुरुते गंगां विचिंत्य प्रभुं देवानां सकलार्त्तशोकदुरितत्रासौघविध्वंसिनीम् ।
मुक्तः सोऽपि समस्तपातकचयैर्गोविप्रहत्यादिभिर्गच्छेद्विष्णुपुरं समस्तसुखदं गंगाप्रसादाद्दिवज १६१।
इति श्रीपद्मपुराणे क्रियायोगसारे गंगामाहात्म्ये नवमोऽध्यायः ९ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 10
जैमिनिरुवाच-
माहात्म्यमेतद्गङ्गायास्त्वत्प्रसादाच्छ्रुतं मया ।
इदानीं श्रोतुमिच्छामि विष्णुपूजाफलं गुरो १।
व्यास उवाच-
शृणु लक्ष्मीपतेर्वत्स सपर्या फलमुत्तमम् ।
यच्छ्रुत्वा मानवाः सर्वे लभंते ज्ञानमुत्तमम् २।
विप्र द्वादशमासेषु माघादिषु सनातनः ।
पूजितव्यो विधानैर्यैः शृणु तानि वदाम्यहम् ३।
माघेमासि समायाते सर्वमासोत्तमे शुभे ।
आमिषं मैथुनं चैव त्याजयेद्वैष्णवोत्तमः ४।
प्रातःस्नायी भवेन्नित्यं तैलान्यपि च वर्जयेत् ।
द्विर्भोजनं परान्नं च माघेमासि परित्यजेत् ५।
प्रातः शुक्लांबरधरः कृतपंच महाध्वरः ।
सपर्यामारभेद्विष्णोः स्थिरचित्तो हि मानवः ६।
ईषदुष्णजलैः शुद्धैः स्नापयेद्विष्णुमव्ययम् ।
अतिश्लथैश्चंदनैश्च विष्णोरङ्गानि लेपयेत् ७।
पूजयेज्जगदीशस्य देवदेवस्य चक्रिणः ।
प्रक्षालितानि पात्राणि जलहीनानि कारयेत् ८।
स्नापयित्वा जगन्नाथमीषदुष्णेन वारिणा ।
प्रोक्षितव्यं तच्छरीरं दिव्यवस्त्रेण यत्नतः ९।
सलिलैरीषदुष्णैश्च प्रस्नापयति केशवम् ।
माघेमासि द्विजश्रेष्ठ फलं तस्य मयोच्यते १०।
विमुक्तः पातकैः सर्वैर्जन्मजन्मांतरार्जितैः ।
इह भुंक्ते सुखं सर्वं शेषे याति हरेर्गृहम् ११।
यत्नात्प्रक्षाल्य पात्राणि कृत्वाशुद्धानिवारिभिः ।
यः पूजयेज्जगन्नाथं तस्य पुण्यं निशामय १२।
इह भुक्त्वाखिलान्कामान्सर्वव्याधिविवर्जितः ।
अंते युगसहस्राणि तिष्ठेत्केशवमंदिरम् १३।
प्रभाते विश्वसंध्यायां पुरतश्चक्रपाणिनः ।
ज्वलंतं स्थापयेद्वह्निं निर्द्धूमं वैष्णवो जनः १४।
शीतस्य वारणार्थाय सायंप्रातश्च वैष्णवः ।
माघे विष्ण्वग्रतो वह्निं ज्वालयेत्तत्फलंशृणु १५।
इह भुक्त्वाखिलान्कामान्पुत्रपौत्रसमन्वितः ।
अंते विष्णुपुरं याति दैवतैरपि दुर्ल्लभम् १६।
यथैवात्मा तथा विष्णुः संदेहोनात्र विद्यते ।
स्वपंतं देवदेवेशं पर्यंकोपरि केशवम् १७।
आत्मनः कुरुते मर्त्यो यथा शीतनिवारणम् ।
क्षीरेण स्नापयेद्यस्तु माघे मासि जनार्दनम् ।
तस्मै देवोत्तमो विष्णुः संतुष्टो न ददाति किम् १८।
तथा शीतक्षयं कुर्याद्दिव्यवस्त्रेण चक्रिणः १९।
यः पूजयेत्सकृन्माघे स्नापयित्वा चतुर्भुजम् ।
नालिकेरोदकैर्दुग्धैः फलं तस्य वदाम्यहम् २०।
नरकाब्धौ मज्जमानान्दुस्तरे स्वेन कर्मणा ।
उद्धृत्य कोटिपुरुषान्स याति चक्रिणः पदम् २१।
माघे मासे च शुक्लायां पंचम्यां द्विजसत्तम ।
एकादश्यां च पंचम्यां हरिपूजा विशेषतः २२।
दातव्यो देवदेवाय सपद्माय मुरारये ।
पायसो धूपसहितो माघेमासि दिने दिने २३।
सधूपपायसं यस्तु माघे यच्छति चक्रिणे ।
तस्य पुण्यफलं वच्मि शृणु वैष्णव जैमिने २४।
अंते विष्णुपुरं गत्वा मन्वंतरचतुष्टयम् ।
भुंक्ते मनोरमान्भोगान्प्रसादाच्चक्रपाणिनः २५।
पुनरागत्य धरणीं चक्रवर्ती नृपो भवेत् ।
भुंक्ते च भोगं सुचिरं मृतो याति हरेर्गृहम् २६।
पंचम्यां वापि सप्तम्यामेकादश्यां च जैमिने ।
अशक्तो वैष्णवो दद्यात्परमान्नं मुरारये २७।
कृष्णपक्षाद्दिवजश्रेष्ठ शुक्लपक्षे विशेषतः ।
शुक्लपक्षे तिथिष्वेषु दद्यादन्नं मुरारये २८।
एकाहमपि यो माघे विष्णवे दैत्यजिष्णवे ।
सपूपंपायसं दद्यान्न तस्य दुर्ल्लभो हरिः २९।
यत्किच्चिद्दिवजतुष्ट्यर्थं माघेमासि प्रदीयते ।
तदक्षयं भवेत्पुंसः कोऽपि नास्त्यत्र संशयः ३०।
माघे मासि कृतं कर्म शुभं वाशुभमेव वा ।
तस्य नास्ति क्षयं विप्र मन्वंतरशतैरपि ३१।
माघे चंपकपुष्पेण योऽर्चयेत्कमलापतिम् ।
स गच्छेत्परमं धाम विमुक्तः सर्वपातकैः ३२।
यावंति स्वर्णपुष्पाणि दीयंते चक्रपाणये ।
तावद्युगसहस्राणि स्थीयते विष्णुमंदिरम् ३३।
मेरुतुल्यसुवर्णानि दत्वा भवति यत्फलम् ।
एकेन स्वर्णपुष्पेण हरिं संपूज्य तत्फलम् ३४।
सुवर्णपुष्पं विप्रेन्द्र सर्वदा केशवप्रियम् ।
माघेमासि विशेषेण पवित्रं केशवप्रियम् ३५।
सुवर्णकुसुमैर्दिव्यैर्येन नाराधितो हरिः ।
रत्नैर्हीनः सुवर्णाद्यैः स भवेज्जन्मजन्मनि ३६।
फलं चंपकपुष्पस्य ब्रवीम्यहं विशेषतः ।
आकर्णय द्विजश्रेष्ठ सेतिहासमनुत्तमम् ३७।
सुवर्णो नाम भूपालो बलवान्सर्वशास्त्रवित् ।
आर्यावर्तेषु सर्वेषु बभूव विप्रवर्चसा ३८।
राजश्रिया विद्यया च वयसा च स भूपतिः ।
अतिप्रमत्तो विप्रर्षे सदा पापरतोऽभवत् ३९।
पाखंडमंत्रिणां वाक्यैर्विनादोषैरपि द्विज ।
धनलोभात्तेन राज्ञा दंड्यंते साधवो जनाः ४०।
अन्यायोपार्जितं वित्तं गीतवाद्यादिभिर्वृतः ।
समस्तं नाशयामास यज्ञदानविवर्जितः ४१।
न ज्ञातिपोषणं चक्रे न देवद्विजभोजनम् ।
न च याचकसंतुष्टिं सर्वदा पापमोहितः ४२।
न चकारातिथेः पूजां सदा पापपरायणः ।
ययौ च मंदिरान्नित्यं स भूपः पापमंदिरः ४३।
कृतानि तेन पापानि यान्यन्यान्यविवेकिनाम् ।
अपि वर्षशतैः शक्तः संख्यातुं जनितानि किम् ४४।
एकदा स महीपालः कामेन परिमोहितः ।
जगाम वेश्यानिलयं निशीथे दुरिताशयः ४५।
तमायांतं ततो दृष्ट्वा भूपालमुज्ज्वलाह्वया ।
सहसोत्थाय पर्यंके चक्रे तत्पादवंदनम् ४६।
प्रक्षाल्य तत्पादयुगं भृंगारसलिलैश्च सा ।
मंचे निवेशयामास दोर्भ्यामालिङ्ग्य तं नृपम् ४७।
तत्प्रेमामृतधाराभिः सिक्तोऽसौ पृथिवीपतिः ।
तस्मिन्नुवास पर्यंके तया सह कुतूहली ४८।
ततः सा गणिका प्रीत्या हसंती नवयौवना ।
ददौ चंपकपुष्पाणां तस्मै भूमिभुजे स्वयम् ४९।
पुष्पमाला पुष्पमेकं तस्माद्भूपति हस्ततः ।
पपात धरणीपृष्ठे गन्धव्याप्तदिगंतरम् ५० 7.10.50।
तच्च्युतं कुसुमं दृष्ट्वा स राजाऽत्यतसंभ्रमात् ।
नमोनारायणायेति जगादोङ्कारपूर्वकम् ५१।
नारायणायेति वाक्यात्सर्वाणि पातकानि च ।
स्वर्णपुष्पप्रदानेन तस्य नष्टानि भूभुजः ५२।
ग्रामीणा अथ सर्वेऽपि समागत्यातिदुर्जये ।
तस्यामेव निशायां तं जघ्नुर्वेश्यागृहे स्थितम् ५३।
नेतुं तमथ भूपालं सर्वपातकिनां वरम् ।
किंकरान्प्रेषयामास क्रुद्धो वैवस्वतो भृशम् ५४।
तेनाज्ञप्तास्ततो दूताः पाशमुद्गरपाणयः ।
अतिवेगात्समायाताः क्रोधसंरक्तलोचनाः ५५।
उद्यमं चक्रिरे नेतुं यमदूताः स्वमालयम् ।
ततो नारायणप्रेष्याः शङ्खचक्रगदाधराः ५६।
आयाता गरुडारूढास्तं नेतुं पृथिवीपतिम् ।
पाशे नियंत्रितं दृष्ट्वा तं भूपं विष्णुकिंकराः ५७।
जघ्नुश्चक्रैर्गदाभिश्च यमदूतान्महाबलाः ।
समारोप्य रथे दिव्ये शंखान्दध्मुरनुत्तमान् ५८।
तथा राजा रथारूढस्तुलसीमाल्यभूषितः ।
पीतकौशेयवासाश्च स्वर्णालंकारभूषितः ५९।
स्तूयमानो मुनिगर्णैर्वेदवेदाङ्गपारगैः ।
विष्णुदूतैः परिवृतो हरेः सालोक्यमाययौ ६०।
अथोत्थाय स्वयं विष्णुश्चतुर्भिर्दीर्घबाहुभिः ।
तमालिंगितवान्भूपं प्रोक्तवांश्च द्विजोत्तम ६१।
श्रीभगवानुवाच-
नृपते कुशलं ब्रूहि सर्वपुण्यात्मनां वर ।
किमस्ति साध्यं भवतस्तदाज्ञापय संप्रति ६२।
नमोनारायणायेति वारैकमपि यो वदेत् ।
नित्यं तस्यानुपाल्योऽहं स मे भ्राता स मे पिता ६३।
नारायणेति मन्नाम कदाचिद्यः स्मेरन्नरः ।
साधयाम्यखिलं तस्य पितुः पुत्र इवेप्सितम् ६४।
भक्तोऽसि नृपतिश्रेष्ठ तस्मान्निजमनोरथम् ।
प्रकाशयाद्भुतं तात किं ते दास्यामि चाधुना ६५।
राजोवाच-
सर्वमेव दयासिन्धो त्वया दत्तं न संशयः ।
पापिनापि मया प्राप्तं तव स्थानं सुदुर्ल्लभम् ६६।
तस्यानेन तु वाक्येन प्रसन्नः कमलापतिः ।
स्नेहान्निवेशयामास भूपालं तन्निशामय ६७।
ततः सुवर्णालंकारैर्विश्वकर्मविनिर्मितैः ।
चकार मण्डलं तस्य स्वयमेव दयामया ६८।
अथ नानाविधैर्भक्ष्यैर्दिव्यैरपि सुदुर्ल्लभैः ।
तोषितः स महीपालो विष्णुनाति सहिष्णुना ६९।
एवं प्रतिदिनं तस्थौ स राजा विष्णुमंदिरम् ।
मन्वन्तरसहस्राणि नव वर्ष शतानि च ७०।
प्रजानां पालनं चक्रे स राजा धर्मतत्परः ।
पूजयामास सततं भक्त्या परमया हरिः ७१।
चारु चंपकपुष्पैश्च नैवेद्यैर्विविधैश्च सः ।
आयुःशेषे स भूपालो मरणं जाह्नवी जले ७२।
समासाद्य ययौ मोक्षं प्रसादाच्चक्रपाणिनः ।
व्यास उवाच-
विप्र चंपकपुष्पस्य प्रभावोऽयं प्रकीर्तितः ७३।
चपंकैर्हरिमभ्यर्च्य मुक्ताः स्युः पापिनो जनाः ।
स्फुटचंपकपुष्पेण पूजितो भगवान्हरिः ७४।
अचिरेणैव विप्रर्षे ददाति परमं पदम् ।
ये यजंति परात्मानमिच्छया वाप्यनिच्छया ७५।
तेऽपि यांति परं धाम विमुक्ताः सर्वपातकैः ७६।
हरौ प्रसन्ने दुरितानिकोऽपि यतः स राजा कृतपातकोऽपि ।
जगाम मोक्षं कृपयामुरारेर्विश्वार्णवं निम्नमिमं वितीर्य ७७।
दिव्यैः सुगन्धैः कनकप्रसूनैर्नारायणं पद्मदलायताक्षम् ।
भक्त्या यजेद्यः परमादरेण मर्त्यो व्रजेत्तत्तु विहाय पापम् ७८।
इति श्रीपद्मपुराणे क्रियायोगसारे चंपकपुष्पमहिमानाम दशमोऽध्यायः १०।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 11
व्यास उवाच-
जैमिने विधिना येन पूजितव्यो हरिः सदा ।
तमहं वच्मि विप्रर्षे शृणु वत्स समाहितः १।
कल्य उत्थाय पर्यंकाद्गृहीत्वा पात्रमंभसाम् ।
बहिर्देशं व्रजेत्प्राज्ञः शीर्षमाच्छाद्य वाससा २।
तत्रोदीच्यां दिशि मौनी यज्ञसूत्राणि कर्णयोः ।
कृत्वोपविष्टः प्राज्ञस्तु मलमूत्रं विसर्जयेत् ३।
देवतायतने मार्गे गोष्ठेषु चत्वरेषु च ।
रथ्यायां कृष्टभूमौ च दर्भमूले तथांगणे ४।
तटिनी पुलिने चैत्त्यवृक्षमूले तथा वने ।
तडागवापीगर्भेषु मलमूत्रं च न त्यजेत् ५।
रविं चंद्रमसं चैव द्विजान्गाश्च दिशो दश ।
मलमूत्रं त्यजेद्यावत्तावत्प्राज्ञो न पश्यति ६।
खनितां मूषिकाद्यैश्च बिलाभ्यंतरवर्तिनीम् ।
फालकृष्टां मृदं चैव न गृह्णीयाच्छौचहेतवे ७।
जलाज्जलं समानीय शौचं कुर्याद्विचक्षणः ।
पादं जलेषु वै दत्वा न शौचं कुरुते बुधः ८।
दक्षिणाभिमुखो रात्रौ कुर्यात्प्राज्ञो बहिःक्रियाम् ।
शिरः प्रावृत्य वस्त्रेण ततः शौचं समाचरेत् ९।
मृत्तिकैका प्रदातव्या लिंगे तिस्रस्तु वै गुदे ।
सप्त सव्ये करे प्राज्ञैर्हस्तयोरुभयोर्दश १०।
पादयोः षट्प्रदातव्या मृत्तिका च विचक्षणैः ।
कृतशौचक्रियः प्राज्ञः कुर्याद्दंतस्य धावनम् ११।
जिह्वपामार्जनं चैव दशनाच्छादनादिभिः ।
दक्षिणाभिमुखो भूत्वा पश्चिमाभिमुखस्तथा १२।
न दंतधावनं कुर्यात्कुर्याच्चेन्नारकी भवेत् ।
मध्यमानामिकाभ्यां च वृद्धांगुष्ठेन च द्विज १३।
दंतस्य धावनं कुर्यान्न तर्जन्या कदाचन ।
अश्वत्थवटवृक्षाणां धात्र्या कैथिकया बुधः १४।
न दंतधावनं कुर्यात्तथेंद्रस्यसुरस्य च ।
नित्यं क्रियाफलं तस्य सर्वमेव विनश्यति १५।
यः स्नानसमये कुर्याज्जैमिने दंतधावनम् ।
निराशाः पितरो यांति तस्य देवाः सुरर्षयः १६।
दंतस्य धावनं कुर्याद्यो मध्याह्नापराह्णयोः ।
तस्य पूजां न गृह्णंति देवताः पितरो जलम् १७।
स्नानकाले पुष्करिण्यां यः कुर्याद्दंतधावनम् ।
ततो ज्ञेयः स चांडालो यावद्गंगां न पश्यति १८।
भगवत्युदिते सूर्ये यः कुर्याद्दंतधावनम् ।
तद्दंतकाष्ठं पितरो भुक्त्वा गच्छंति दुःखिनः १९।
उपवासदिने विप्र पितृश्राद्धदिने तथा ।
न तत्फलमवाप्नोति दंतधावनकृन्नरः २०।
प्रभाते मार्जयेद्दंतान्वाससा रसनां तथा ।
कुर्याद्द्वादश विप्रेंद्र कल्लोलानि जलैर्बुधः २१।
उपवासे पितृश्राद्धे विधिनाऽनेन जैमिने ।
दंतधावनकृन्मर्त्यः संपूर्णं लभते फलम् २२।
अनेन विधिना कृत्वा दीर्घदर्शी बहिः क्रियाम् ।
ततो निजगृहं गत्वा रात्रिवस्त्रं परित्यजेत् २३।
ततो देवगृहद्वारे चोपविष्टो बुधः शुचिः ।
स्मरेन्नारायणं देवमनंतं परमेश्वरम् २४।
रामश्यामतनो विष्णो नारायण दयामय ।
जनार्दन जगद्धाम पापं मे हर केशव २५।
पीतांबरधरानंत पद्मनाभ जगन्मय ।
वामन प्रणतस्येश विभो त्वं शरणं भव २६।
दामोदर यदुश्रेष्ठ श्रीकृष्ण करुणार्णव ।
कमलेक्षण देवेंद्र वासुदेव कृपां कुरु २७।
गरुडध्वज गोविंद विश्वंभर गदाधर ।
शंखपाणे चक्रपाणे पद्महस्त हरापदः २८।
लक्ष्मीविलास वैकुंठ हृषीकेश सुरोत्तम ।
पुरुषोत्तम कंसारे कैटभारे भयं हर २९।
श्रीपते श्रीधर विभो श्रीद श्रीकर माधव ।
परंब्रह्म परंधाम शरणं मे भवाव्यय ३०।
इत्थं कृत्वा द्विजश्रेष्ठ श्रीविष्णुस्मरणं बुधः ।
बद्धांजलिरिति ब्रूते प्रविश्य निलयं गतः ३१।
ईश्वर श्रीपते कृष्ण देवकीनंदन प्रभो ।
निद्रां मुंच जगन्नाथ प्रभातसमयोऽभवत् ३२।
अथोस्थितमिव प्राज्ञः पर्यंके देवकीसुतम् ।
निद्रां त्यक्त्वा सलक्ष्मीकं चिंतयेन्निज चेतसा ३३।
ततः कृतच्छदं दिव्यं पात्रं च जलपूरितम् ।
मुखप्रक्षालनार्थाय दद्यात्कृष्णाय वैष्णवः ३४।
ईश्वरं वर्तनार्थाय सेवंते सेवका यथा ।
तथैव मतिमंतोपि सेवंते परमेश्वरम् ३५।
यस्तु सेवकरूपेण सेवते जगदीश्वरम् ।
अचिरेणैव विप्रर्षे तस्य सिध्यति वांछितम् ३६।
यथेश्वरस्य सभयाः सेवां कुर्वंति चेटकाः ।
प्राज्ञास्तथैव सेवंते सर्वदैव हरिं प्रभुम् ३७।
निजेच्छयानया विष्णुं निर्भयः पूजयेन्नरः ।
कुसेवकः स एवास्ति तदा नहि भवेद्द्विज ३८।
अतएव द्विजश्रेष्ठ त्वरया कमलापतेः ।
कर्त्तव्या सर्वदा सेवा पुंसा कैवल्यमिच्छुना ३९।
निर्माल्यं रात्रिवस्त्रं च गंधं पर्युषितं तथा ।
हरेरुत्तारयेदंगात्प्रभाते वैष्णवो जनः ४०।
ततो देवालये तस्मिन्स्वयमेव हि मार्जयेत् ।
कुर्याच्छनैःशनैः प्राज्ञः संमार्जन्या परिष्क्रियाम् ४१।
यावंतो निलयात्तस्माद्गच्छंति रेणवो बहिः ।
तावन्मन्वंतरशतं तिष्ठेद्विष्णुगृहे नरः ४२।
यस्तु संमार्जनं कुर्याद्ब्रह्महापि हरेर्गृहे ।
सोपि याति परं धाम किमन्यैर्बहुभाषितैः ४३।
तथोपलेपनं कुर्यादूर्णकैर्गोमयैर्द्विज ।
तस्मिन्विष्णुगृहे प्राज्ञः स्मरेन्नारायणं प्रभुम् ४४।
यस्तूपलेपनं कुर्यात्केशवस्य च मंदिरे ।
तस्य पुण्यमहं वच्मि संक्षेपाच्छृणु जैमिने ४५।
रजांसि तत्र यावंति विनश्यंति द्विजोत्तम ।
तावत्कल्पसहस्राणि तिष्ठेद्विष्णुगृहे सुखी ४६।
संमार्जनं विष्णुगृहे जनः कृत्वोपलेपनम् ।
लभते परमं धाम किं पूजाफलवित्प्रभोः ४७।
देव राज विरोधेन न शक्नोति यदा स्वयम् ।
तदा विष्णुगृहे चापि धर्मपत्नीं नियोजयेत् ४८।
अथवा तनयं भक्तं सुचरित्रं तथात्मनः ।
भ्रातरं भगिनीं वापि देवागारे नियोजयेत् ४९ ।
हरेः सपर्यावस्तूनि सप्तधा शुद्धवारिभिः ।
प्रक्षालयेत्त्रिधा वापि स्वयमेवातियत्नतः ५० 7.11.50।
अम्लेन ताम्रपात्राणि कांस्यपात्राणि भस्मना ।
वह्निना लोहपात्राणि शुध्यंति नात्र संशयः ५१।
धनाढ्यो लोहपात्रस्थैर्यः स्नापयति वारिभिः ।
नारायणं जगन्नाथं तस्य तुष्टो न केशवः ५२।
अज्ञानाद्वापि चेत्तर्हि गंगास्नानेन शुद्ध्यति ।
संपदि ब्राह्मणश्रेष्ठ कर्त्तव्यो नियमः सदा ५३।
विपत्त्यां नियमो नास्ति शास्त्रेष्विति विनिश्चयः ।
यत्नात्प्रक्षालितः शङ्खो यदा भूमिं स्पृशेत्पुनः ५४।
तदा स शङ्खो विप्रेंद्र शतधौतेन शुध्यति ।
इत्थं प्रक्षाल्य यत्नेन पूजाद्रव्याणि चक्रिणः ५५।
गृहीत्वा स्नानवस्तूनि स्नानार्थं सरसीं व्रजेत् ।
अकृत्वा स्नानकर्माणि गृहमायाति यः पुनः ५६।
तस्मिन्दिने पितृगणस्तस्य नाप्नोति तर्पणम् ।
स्नानार्थं भोजनार्थं वा गच्छतो विघ्नकृद्भवेत् ५७।
यस्तु मोहाद्द्विजश्रेष्ठ स नूनं नारकी भवेत् ।
स्नानार्थं सरसीं गत्वा मलमूत्रं करोति यः ५८।
पितरस्तस्य विण्वमूत्रभोजिनः स्युर्न संशयः ।
ततः कृत्वा विधानेन स्नानं च तर्पणादिकम् ५९।
स्वकीयं गृहमागच्छेत्स्मरेन्नारायणं बुधः ।
ततश्च प्रांगणे विप्र प्रक्षाल्य चरणद्वयम् ६०।
प्रविशेद्देवतागारं शुचिर्ब्राह्मणसत्तमः ।
अप्रक्षालितपादो यः प्रविशेन्निलयं जनः ६१।
संवत्सरकृतं पुण्यं तस्य नश्यति तत्क्षणात् ।
स्नानं कृत्वा समागत्य प्रांगणेषु विचक्षणः ६२।
तस्मात्प्रक्षाल्य चरणौ प्रविशेद्देवतागृहम् ।
उपविश्य पादयुग्मं बुधः सव्येन पाणिना ६३।
यत्नात्प्रक्षालयेद्विप्र तथा पाणिद्वयं पुनः ।
पादेन पादं विप्रेंद्र तथा दक्षिणपाणिना ६४।
यश्च प्रक्षालयेन्मूढस्तं लक्ष्मीस्त्यजति ध्रुवम् ।
अथोपविष्टो मतिमान्केशवार्चनमारभेत् ६५।
अनन्यमानसो भूत्वा सर्वकामफलप्रदम् ।
मृगचर्मासने शुद्ध व्याघ्रचर्मासनेऽपि वा ६६।
वस्त्रासने केवले च तथा कुशमयासने ।
पुष्पासने चोपविष्टः पूजयेत्कमलापतिम् ६७।
काष्ठासने द्विजो विद्वान्न कुर्य्याद्विष्णुपूजनम् ।
विष्णुना त्वं धृता पृथ्वि सर्वेलोकास्त्वया धृताः ६८।
अतः सर्वसहे देहि वस्तुं मे स्थानमुत्तमम् ।
इत्युक्त्वासनमास्तीर्य वसेन्नारायणार्चकः ६९।
दक्षिणाभिमुखो भूत्वा न कुर्याद्विष्णुपूजनम् ।
शङ्खे कृत्वा तु पानीयं मंत्रपूतं सुवासितम् ७०।
स्नापयेत्कमलाकांतं कमलासहितं प्रभुम् ।
शङ्खेन स्नापयेद्यस्तु भगवंतं जनार्दनम् ७१।
तत्फलं तस्य वक्ष्यामि शृणु विप्रेंद्र जैमिने ।
विप्र गो स्त्री भ्रूणहत्या सुरापानादिपातकैः ७२।
विमुक्तो याति वैकुंठं भुंक्ते हि सकलं सुखम् ।
यदि दृष्ट्वा हृषीकेशं पूजयेन्मानवो द्विज ७३।
लभते तत्तदेवाशु प्रसादात्कमलापतेः ।
शंखाभावे तु विप्रेंद्र सुगंधितोयकं बुधः ७४।
कृत्वा च तुलसीं पात्रे स्नापयेत्केशवं बुधः ।
ततो देवं स्नापयित्वा संस्थाप्य च वरासने ७५।
सुगन्धैश्चंदनैस्तस्य कुर्यात्सर्वांगलेपनम् ।
तुलसीकाष्ठपंके च चक्रिणो देहपालनम् ७६।
यः करोति जनस्तस्य प्रसन्नः सततं हरिः ।
तुलसीपत्रमालेयं निजगन्धसुखप्रदा ७७।
दीयते ते जगन्नाथ सुप्रीतो भव सर्वदा ।
मंत्रेणानेन विप्रेंद्र तुलसीपत्रमालया ७८।
अलंकृतो महाविष्णुः प्रसन्नो न ददाति किम् ।
ततस्तु वैदिकैर्मंत्रैः कर्तव्यं स्वस्तिवाचनम् ७९।
दिग्बंधनं च कर्तव्यं मंत्रैः पौराणिकैर्बुधैः ।
कृष्णो रक्षतु पूर्वस्यामाग्नेय्यां देवकीसुतः ८०।
याम्यां रक्षतु दैत्यारिर्नैरृत्यां मधुसूदनः ।
विदिक्षु रक्षतु श्रीमानूर्ध्वं च श्रीधरः प्रभुः ८१।
अधो रक्षतु विश्वात्मा कूर्ममूर्तिः कृपामयः ।
ये विघ्नकारकाः सर्वे पूजाकाले भवंति ह ८२।
दूरं गच्छंतु ते सर्वे हरिनामास्त्रताडिताः ।
इत्थं दिग्बंधनं कृत्वा ततः प्रह्वः कृतांजलि ८३।
वक्ष्यमाणेन मंत्रेण संकल्पं कुरुते दृढम् ।
मयारब्धामिमां पूजां देवदेव जनार्दन ८४।
सिंद्धिं प्रापय निर्विघ्नां प्रसीद परमेश्वर ।
ततस्तु कृतसंकल्पो वैष्णवः सर्वतत्ववित् ८५।
अंगन्यासादिकं कृत्वा ध्यायेन्नारयणं हृदा ।
नवीनमेघसंकाशं पुंडरीकनिभेक्षणम् ८६।
पीतांबरधरं देवं स्मितचारुतराननम् ।
कदंबपुष्पमालाभिर्भूषितं सुमहाभुजम् ८७।
बर्हिबर्ह(?)श्रेणिबद्धशिखंडधृतकुंडलम् ।
वंशी मधुरनादेन मोहयंतं दिशो दश ८८।
आवृतं गोपनारीभिश्चारुवृंदावने स्थितम् ।
एवं संचिंत्य देवेशं गोविंदं सर्वकामदम् ८९।
ततश्चावाहनं कुर्याद्भक्तिभावेन वैष्णवः ।
आवाहिताय कृष्णाय चतुर्वर्गप्रदायिने ९०।
पाद्यार्घ्याचमनीयानि तत्र दद्याद्विचक्षणः ।
कोमलैस्तुलसीपत्रै रम्यैर्वा कुसुमैर्बुधः ९१।
पूजयेत्सर्वदेवेशं श्रीकृष्णं देवकीसुतम् ।
नमो मत्स्याय कूर्माय वराहाय नमोनमः ९२।
नमोऽस्तु हरये तुभ्यं वामनाय नमोनमः ।
नमो रामाय रामाय रामाय बलिने नमः ९३।
नमो बुद्धाय शुद्धाय सकृपाय नमोनमः ।
नमोस्तु कल्किने तुभ्यं नमस्ते बहुमूर्त्तये ९४।
नारायणाय कृष्णाय गोविंदाय च शार्ङ्गिणे ।
दामोदराय देवाय देवदेवाय ते नमः ९५।
हृषीकेशाय शांताय व्योमपादाय वै नमः ।
नमोस्तु पद्मापतये नमस्ते पद्मचक्षुषे ९६।
अनंताय नमस्तुभ्यं गदाहस्ताय वै नमः ।
तार्क्ष्यध्वजाय वै तुभ्यं नमस्ते चक्रपाणये ९७।
पद्महस्ताय वै तुभ्यमच्युताय नमो नमः ।
नमो दैत्यारये तुभ्यं सर्वकामप्रदायिने ९८।
माधवाय सुरेशाय विष्णवे परमात्मने।
किरीटिने कुण्डलिने नमोऽस्तु हरये सदा ९९।
नमो भगवते तुभ्यं वाहनं गरुडाह्वयम् ।
ॐनमो गरुडायेति मंत्रेणैव विचक्षणः १०० 7.11.100।
नमः शंखाय चक्राय गदायै च नमोनमः ।
नमः पद्माय खड्गाय नंदकाय नमोनमः १०१।
इति संपूज्य देवेशं सदारं च सवाहनम् ।
सायुधं च ततो मंत्रं जपेदष्टाक्षरं बुधः १०२।
निजभक्त्या ततो जप्त्वा मंत्रमष्टाक्षरं बुधः ।
गोविंदाय ततो दद्यान्नानानैवेद्यमुत्तमम् १०३।
धूपं दीपं च तांबूलं देवदेवाय विष्णवे ।
अन्यान्यप्युपहाराणि प्रदद्याद्वैष्णवो जनः १०४।
यस्तु धूपं द्विजश्रेष्ठ चंदनागरुवासितम् ।
दद्यान्मुरारये तस्य द्रुतं सिध्यति वांछितम् १०५।
धूपं यच्छति यो विप्र हरये घृतवासितम् ।
स गच्छेद्विष्णुभवनं विमुक्तः पापकोटिभिः १०६।
नारायणाय यो धूपं दद्याद्गुग्गुलुवासितम् ।
स याति परमं धाम दुर्ल्लभं यत्सुरैरपि १०७।
घृतेन दीपं यो दद्यात्तिलतैलेन वा पुनः ।
निमेषात्सकलं तस्य पापं हरति केशवः १०८।
कर्पूरवासितं यस्तु तांबूलं चक्रपाणये ।
दद्यात्तस्य द्विजश्रेष्ठ मुक्तिर्भवति जैमिने १०९।
यस्तु यच्छति तांबूलं खदिरेण समन्वितम् ।
इह भुक्त्वाखिलान्भोगानंते याति हरेः पदम् ११०।
षष्ठी मधुरिकायुक्तं तथा जातिफलादिभिः ।
तांबूलं हरये दत्वा स्वर्गमाप्नोति मानवः १११।
शङ्खे कृत्वा तु पानीयं कुर्याद्विष्णुप्रदक्षिणाम् ।
वक्ष्यमाणेन मंत्रेण जैमिने वैष्णवो जनः ११२।
जनार्दन जगद्बंधो शरणागतपालक ।
त्वद्दासदासदासत्वं दासस्य देहि मे प्रभो ११३।
मंत्रेणानेन यः कुर्यान्नारायणप्रक्षिणाम् ।
तस्य पुण्यफलं वच्मि संक्षेपाच्छृणु जैमिने ११४।
ब्रह्महत्यादिपापानि यानि यानि महांति च ।
तानि तानि प्रणश्यंति प्रदक्षिणपदे पदे ११५।
यावत्पादं नरो भक्त्या गच्छेद्विष्णुप्रदक्षिणे ।
तावत्कल्पसहस्राणि विष्णुना सह मोदते ११६।
हरिप्रदक्षिणे यावत्पदं गच्छेच्छनैः शनैः ।
पदेपदेऽश्वमेधस्य फलं प्राप्नोति मानवः ११७।
प्रदक्षिणीकृत्य सर्वं संसारे यत्फलं भवेत् ।
हरिं प्रदक्षिणीकृत्य तस्मात्कोटिगुणं फलम् ११८।
अंगं प्रदक्षिणीकृत्य यस्तु नारायणाग्रतः ।
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ११९।
न लंघयेत्सोमसूत्रं धीमाञ्शंभुप्रदक्षिणे ।
लंघयित्वा यदा विप्र सा पूजा निष्फला भवेत् १२०।
प्रदक्षिणा कारतया वारैकं यो हरिं व्रजेत् ।
जन्मजन्मनि विप्रेंद्र सार्वभौमो भवेद्ध्रुवम् १२१।
यस्तु वारद्वयं विप्र कुर्याद्विष्णुप्रदक्षिणाम् ।
ऐंद्रं पदमवाप्नोति त्रिदिनेनात्र संशयः १२२।
विष्णुप्रदक्षिणं यस्तु कुर्याद्वारद्वयं जनः ।
विमुक्तः सकलैः पापैः प्रविशेन्माधवीं तनुम् १२३।
भ्रामयेत्सोदकं शङ्खं केशवोपरि जैमिने ।
अंते देवालयं गत्वा सभवेत्सुरवंदितः १२४।
प्रणमेद्दंडवद्भूमौ सप्तधा यस्तु केशवम् ।
पातकं तच्छरीरस्थं भस्मीभवति तत्क्षणात् १२५।
शिरस्यंजलिमाधाय प्रणमेद्यो जनार्दनम् ।
तस्मै लक्ष्मीपतिर्विष्णुर्ददाति परमं पदम् १२६।
भूमौ निपात्य सर्वांगं हरिं प्रणमतां नृणाम् ।
पुण्यप्रभावं विप्रर्षे वदतो मे निशामय १२७।
यावद्भूरेणुभिर्नृणां भूषितं स्यात्कलेवरम् ।
तावत्कल्पसहस्राणि तिष्ठंति हरिसंनिधौ १२८।
ततः केशवनिर्माल्यं वैष्णवेभ्यः प्रदीयते ।
वैष्णवांस्तान्प्रवक्ष्यामि शृणु सत्तम जैमिने १२९।
शुकः सूतस्तथा व्यासो नारदः कपिलो मुनिः ।
प्रह्लादश्चांबरीषश्च तथाक्रूरोद्धवावपि १३०।
बिभीषणो हनूमांश्च तथैवान्येऽपि वैष्णवाः ।
निर्माल्यं वासुदेवस्य गृह्णंतु सर्वकामदम् १३१।
इत्युक्त्वा विष्णुनिर्माल्यं निक्षिपेद्भुवि वैष्णवः ।
ततस्तु हरिनिर्माल्यं स्वयं गृह्णाति भक्तितः १३२।
मस्तके दृश्यते यस्य हरिनिर्माल्यमुत्तमम् ।
स विज्ञेयो द्विजश्रेष्ठ साक्षादेव हरिः स्वयम् १३३।
दुर्लभं विष्णुनैवेद्यं निर्माल्यं पापनाशनम् ।
गृह्णंति त्रिदशाः सर्वे मनुष्याणां च का कथा १३४।
जैमिने तुलसीपत्रं यस्तु जिघ्रति वैष्णवः ।
तस्य देहांतरस्थं हि सर्वं पापं विनश्यति १३५।
तुलसीपत्रगंधस्तु प्रविशेद्यस्य नासिकाम् ।
आपदस्तच्छरीरस्थाः सद्यो गच्छंति संक्षयम् १३६।
तुलसीछदनघ्राणमाघ्राय योऽभिनंदति ।
तस्यालये भवेन्नित्यमानंदो द्विजसत्तम १३७।
स्तवैः स्तुत्वा जगन्नाथं कमलाप्रियमच्युतम् ।
कृतांजलिस्ततः प्राज्ञ इमं मंत्रमुदीरयेत् १३८।
नारायण जगद्रूप गच्छ धाम जगत्पते ।
गच्छ देव निजस्थानं प्रसन्नो भव सर्वदा १३९।
येयं स्वशक्त्या देवेंद्र तव पूजा कृता मया ।
अच्छिद्रास्तु जगन्नाथ त्वत्प्रसादाज्जगन्मय १४०।
ततः पादोदकं प्राज्ञो महाविष्णोः परात्मनः ।
समस्तपातकध्वंसि गृह्णीयाद्भक्तिभावतः १४१।
कणमात्रं वहेद्यस्तु विष्णोः पादोदकं शुभम् ।
स स्नातः सर्वतीर्थेषु जैमिने सत्यमुच्यते १४२।
स्पृशेत्पादोदकं विष्णोर्गंगास्नानफलं भवेत् ।
गांगेयं सलिलं विप्र विष्णुपादोदकं यतः १४३।
अकालमरणं नास्ति नास्ति व्याधिभयं तथा ।
यः स्पृशेत्पादसलिलं केशवस्य महात्मनः १४४।
पापव्याधिविनाशार्थं विष्णुपादोदकौषधम् ।
पापिनोऽपि नरास्ते च पिबंतु प्रतिवासरम् १४५।
विष्णुपादोदकं विप्र यः पिबेद्वैष्णवो जनः ।
पातकं तच्छरीरस्थं क्षणादेव तु नश्यति १४६।
यथौषधेन देहस्थं हन्यते देहिनो भृशम् ।
तथैव पातकं सर्वं विष्णुपादोदकेन च १४७।
विष्णुपादोदकं शुद्धं तुलसीपत्रसंयुतम् ।
यो वहेच्छिरसा विप्र तस्य पुण्यं वदाम्यहम् १४८।
ब्रह्महत्यादिभिः पापैर्विमुक्तो विष्णुरूपधृक् ।
अंते विष्णुपुरं गत्वा विष्णुना सह मोदते १४९।
मेरुप्रमाण हेमानि दत्वा भवति यत्फलम् ।
विष्णुपादोदकं स्पृष्ट्वा तद्भवेदधिकं फलम् १५० 7.11.150।
अश्वकोटिप्रदानेन तत्फलं प्राप्यते जनैः ।
सप्तद्वीपां महीं दत्वा द्विजेभ्यो यत्फलं लभेत् १५१।
तत्फलं लभते मर्त्यो विष्णुपादोदकं स्पृशन् ।
अश्वमेधसहस्राणि कृत्वा भवति यत्फलम् १५२।
विष्णुपादोदकं स्पृष्ट्वा तद्भवेदधिकं फलम् ।
दीर्घिकाशतदानेन यत्पुण्यं परिकीर्तितम् १५३।
तस्मादप्यधिकं पुण्यं लभेत्पादोदकं स्पृशन् ।
बहुनात्र किमुक्तेन संक्षेपादुच्यते मया १५४।
विष्णुपादोदकस्पर्शान्मुक्तो भवति मानवः ।
भूयोभूयोपि विप्रेंद्र सुदृढं कथ्यते मया १५५।
पुनर्न लभते जन्म स्पृशन्पादोदकं हरेः ।
विष्णुनैवेद्यशेषं यः सर्वपापविनाशनम् १५६।
योऽश्नाति भक्तिभावेन स गच्छेत्परमं पदम् ।
दुर्लभं विष्णुनैवेद्य भुंजते द्विजसत्तम १५७।
देहं त्यजति पापानि ब्रह्महत्यामुखान्यपि ।
भुंजतो हरिनैवेद्यं दासीव वशगा भवेत् १५८।
मुक्तिभूमिः सुरश्रेष्ठ दैवतैरपि दुर्लभा ।
संपूज्य कमलाकांतं किंचिन्नैवेद्यमत्यजन् १५९।
अचिरेणैव तं विष्णुर्नयति स्वां तनुं प्रति ।
नैवेद्यस्य महाविष्णोर्गुणं किं कथयाम्यहम् १६०।
यद्भुंजतः केशवोऽपि स्यादधीनो द्विज प्रभो ।
अनेन विधिना विप्र प्रतिमासे जनार्दनम् १६१।
विधिहीनामपि श्रेष्ठां पूजां श्रीकमलापतेः ।
यः कुर्याद्भक्तिभावेन सोऽपि स्यात्केशवप्रियः १६२।
विधिज्ञो विधिना विष्णुमभ्यर्च्य यत्फलं लभेत् ।
यथोक्तविधिना विप्र नैवेद्यैर्बहुभिः प्रभो १६३।
पूजितोऽपि न तुष्टः स्याद्यदि भक्तिर्न तिष्ठति ।
यस्य वै यावती भक्तिर्देवदेवे जनार्दने १६४।
तावदेव फलावाप्तिस्तस्य नास्त्यत्र संशयः ।
अभक्त्याया हरेः पूजा क्रियते भुवि मानवैः १६५।
सा पूजा ब्राह्मणश्रेष्ठ पूजाकाले भवेत्किल ।
ज्ञानमूलं हरेर्भक्तिर्भक्तिमूलं जगत्पतेः १६६।
पूजा मोक्षद्रुमोत्पत्तौ मूलमाराधनं हरेः ।
अल्पमात्रमपि प्राज्ञ श्रद्धया कुरुते हि यत् १६७।
तदक्षयं भवेत्सर्वं श्रद्धायुक्ताखिला क्रिया ।
भक्त्या यः पूजयेद्विष्णुं वारिमात्रमपि द्विज १६८।
संस्थानं लभते विष्णोर्यतो भक्तवशो हरिः १६९।
असारमेतद्भुवनं समस्तं सारं हरेः पूजनमेव विप्र ।
तस्मान्मनुष्यो निजमंगलैषी भक्त्या यजेत्कृष्णमनंतमूर्तिम् १७०।
इति श्रीपद्मपुराणे क्रियायोगसारे हरिपूजाविधिर्नाम एकादशोऽध्यायः ११।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 12
व्यास उवाच-
फाल्गुने ब्राह्मणश्रेष्ठ श्रीकृष्णं सुरवंदितम् ।
पूजयेद्भक्तिभावेन प्रत्यहं वैष्णवो जनः १।
फाल्गुने स्नापयेद्यस्तु सर्पिषा देवकीसुतम् ।
फलं तस्य प्रवक्ष्यामि यतः सम्यङिनशामय २।
सर्वयज्ञफलं प्राप्य सर्वदानफलं तथा ।
अंते याति हरेः स्थानं सर्वपापविवर्जितः ३।
युगकोटिसहस्राणि भुक्त्त्वा भोगं हरेर्गृहे ।
तत्रैव मोक्षमाप्नोति संप्राप्य ज्ञानमुत्तमम् ४।
यस्तु यच्छति कृष्णाय शिशिरे गोपमूर्तये ।
तिलानां मोदकं दिव्यं स गच्छेद्धरिमंदिरम् ५।
यो दुग्धलड्डुकान्दद्यात्केशवाय महात्मने ।
स पिबेदमृतं स्वर्गे मन्वंतरशतावधि ६।
हरये ललितं खंडं यस्तु यच्छति जैमिने ।
तस्य विष्णुः प्रसन्नात्मा छिनत्ति भवबंधनम् ७।
विचित्रं फलितं दिव्यं दद्याद्भगवते द्विज ।
अंते शक्रपुरं गत्वा स भवेत्सुरवंदितः ८।
निर्मलां शर्करां यच्छेद्यस्तु कृष्णाय भक्तिमान् ।
स किं न लभते विप्र वासुदेवप्रसादतः ९।
सुपक्वं फाल्गुने मासि मधुरं बदरीफलम् ।
यस्तु यच्छति कृष्णाय फलं तस्य निशामय १०।
इह भुङ्क्ते सुखं सर्वं पुत्रपौत्रसमन्वितः ।
अंते हरेर्गृहं याति रथमारुह्य शोभनम् ११।
न दद्याद्गुडसंयुक्तं हरये बदरीफलम् ।
अज्ञानाद्ब्राह्मणश्रेष्ठ दद्याच्चेन्नारकीभवेत् १२।
फाल्गुने मासि यो दद्याद्धरये दाडिमीफलम् ।
सुपक्वं तत्फलं विप्र वदतो मे निशामय १३।
तत्र यावंति बीजानि तिष्ठंति दाडिमीफले ।
तावन्मन्वंतरं विष्णोर्गृहे तिष्ठति भाग्यवान् १४।
फाल्गुने मासि यो दद्याद्धरये गुडपिष्टकम् ।
स विज्ञेयो द्विजश्रेष्ठ वाजिमेधसहस्रकृत् १५।
चैत्रे मासि द्विजश्रेष्ठ मधुना मधुसूदनम् ।
स्नापयेल्लभते मर्त्यस्तद्विष्णोः परमं पदम् १६।
मधुना स्नापयेद्यस्तु नारायणमनामयम् ।
न चर्चा क्रियते तस्य कदाचिद्रविसूनुना १७।
चैत्रे किंशुकपुष्पेण योऽर्चयेत्कमलापतिम् ।
तन्नाम चित्रगुप्तेन पंजिकायां न लिख्यते १८।
चैत्रके जगतामीशं कृष्णं तिलकपुष्पकैः ।
पूजतो नास्ति वै जन्म पुनरस्मिन्महीतले १९।
कृष्णवंजुलपुष्पेण सर्वदेवशिरोमणिम् ।
पूजयन्मनुजो विप्र लभते नापदं क्वचित् २०।
वासंतीभिः सुगंधीभिर्वसंते यस्तु पूजयेत् ।
भगवंतं प्रसन्नात्मा स देवैरपि पूज्यते २१।
तथा किसलयैर्दिव्यैरखण्डैर्योऽर्चयेद्धरिम् ।
तं वंदते समुत्थाय स्वयं पीठासनोपि च २२।
धात्रीपत्रैर्नवैर्यस्तु कोमलैर्हरिमर्चयेत् ।
अचिरेणैव लभते सकलं वांछितं जनः २३।
शांडिल्या खंडपत्रैश्च धत्तूरैश्चार्कपुष्पकैः ।
योऽर्चयेद्विष्णुमीशं च स संसाराब्धिपारगः २४।
यो दद्याद्विष्णवे विप्र कदलीफलमुत्तमम् ।
शक्राद्यास्त्रिदशाः सर्वे वंदंते तमहर्निशम् २५।
यो दद्याच्चैत्रके मासि भक्त्या गोपालरूपिणे ।
गोधूमपिष्टकं विप्र सर्वपापैः प्रमुच्यते २६।
आयाते माधवे मासि पवित्रे माधव प्रिये ।
आमिषं मैथुनं तैलं विष्णुभक्तः परित्यजेत् २७।
प्राप्तः समाचरेत्स्नानं माधवे मासि वैष्णवः ।
परित्यजेत्परान्नं च न कुर्याच्च द्विभोजनम् २८।
प्रभाते पूजयेद्विष्णुंपू र्वोक्तविधिना द्विज ।
वैशाखे स्नापयेद्विष्णुं पुष्पवासितवारिणा २९।
स्नापयेच्छीततोयेषु संध्यापर्यंतमच्युतम् ।
त्रिसंध्यं पूजयेद्भक्त्या नैवेद्यैर्विविधैः प्रभुम् ३०।
वैशाखे दमनस्रग्भिर्लक्ष्मीपतिरलंकृतः ।
न किं ददाति विप्रर्षे प्रसन्नः परमेश्वरः ३१।
वैशाखे मासि यो दद्याद्यवान्नं चक्रपाणये ।
तस्य पुण्यानि संख्यातुं कः समर्थोऽस्ति पंडितः ३२।
यत्किंचिन्माधवे मासि माधवप्रीतिहेतवे ।
दीयते माधवायैव तत्सर्वमक्षयं भवेत् ३३।
यदन्यत्सुकृतं कर्म क्रियते मासि माधवे ।
माधवप्रीतये विप्र क्षयस्तस्य न विद्यते ३४।
वैशाखे मासि यः कुर्यात्प्रपां माधवतुष्टये ।
दिनेदिनेऽश्वमेधस्य फलमाप्नोति मानवः ३५।
वैशाखो दुर्ल्लभो मासः सर्वकर्मफलप्रदः ।
पूजितव्यो हरिस्तत्र हित्वा कर्मशतान्यपि ३६।
एकाहमपि यः पूजां वैशाखे कुरुते हरेः ।
षड्वर्षं हरिं पूजित्वा यत्फलं लभते स तत् ३७।
वैशाखे मासि यो नित्यं विष्णुमश्वत्थरूपिणम् ।
चतुर्वर्गफलप्राप्तिहेतवे वैष्णवो जनः ३८।
गण्डूषमात्रतो येन कुर्याद्योऽश्वत्थसेवनम् ।
सोऽपि याति परं स्थानं विमुक्तः कोटिपातकैः ३९।
अश्वत्थमूलं विप्रर्षे यो बध्नाति शिलादिभिः ।
अश्वत्थरूपी भगवान्किं किं तस्मै न यच्छति ४०।
अश्वत्थद्रुममालोक्य प्रणामं कुरुते यदि ।
सोऽपि याति परं स्थानमायुर्वृद्धिर्न संशयः ४१।
यदश्वत्थतले विप्र धर्मकर्म करोति यः ।
न्यूनातिरिक्तता न स्यात्तस्मिन्कर्मणि जैमिने ४२।
तत्र तीर्थानि सर्वाणि त्रिस्त्रोतादीनि जैमिने ।
यत्राश्वत्थतरुस्तिष्ठेदेकोपि शाखिनां वरः ४३।
अश्वत्थं पूजयेद्यस्तु स एव विष्णुपूजकः ।
अश्वत्थमूर्तिर्भगवान्स्वयमेव यतो द्विज ४४।
अवज्ञानाद्द्विजश्रेष्ठ योऽश्वत्थं हंति मूढधीः ।
संसारे नास्ति तत्कर्म यत्कृत्वा स च शुद्ध्यति ४५।
अश्वत्थो वृक्षराजोऽयं हरिमूर्तिः प्रकीर्तितः ।
तस्मादश्वत्थहंतॄणां त्राता कोऽपि न विद्यते ४६।
अश्वत्थं पश्यतो विप्र स्पृशतः परतस्तथा ।
देहस्थं पातकं सर्वं हरेत्प्रणमतो हरिः ४७।
विलोक्याश्वत्थहंतारं यः शक्तो न निवारयेत्।
तन्नेत्रयुग्मं बडिशैर्यमेनोत्पाट्यते स्वयम् ४८।
अश्वत्थच्छेदनं मूढो मा कुर्विति वदेन्न यः ।
तस्य जिह्वां छुरिकया स्वयं कृंतति प्रेतराट् ४९।
अश्वत्थशाखामेकां यः स्वल्पामपि निहंति वै ।
स कोटिब्रह्महत्यानां फलमाप्नोति मानवः ५० 7.12.50।
यत्पापं ब्रह्महत्यायां गुरुस्त्रीगमनेन च ।
सुरापाने तथास्तेये न्यासापहरणेऽपि च ५१।
यत्पापं भ्रूणहत्यायां गोहत्यायां द्विजोत्तम ।
स्त्रीहत्यायां च यत्पापं परस्त्रीगमने तथा ५२।
शरणागत हत्यायां हत्यायां सुहृदस्तथा ।
विश्वासवाक्याकथने पतिहिंसाविधौ च यत् ५३।
यत्पापं परनिंदायां हरिवासरभोजने ।
अश्वत्थच्छेदनाद्धोरं तत्पापं प्राप्यते जनैः ५४।
विष्णुमूर्त्तेर्जनो मोहादश्वत्थस्य निहंति यः ।
तत्तुल्यः पातकी कोऽपि न श्रुतः क्षितिमंडले ५५।
वदाम्यश्वत्थमाहात्म्यं सर्वपापविनाशनम् ।
सेतिहासं द्विजश्रेष्ठ शृणु वत्स समाहितः ५६।
पूर्वं धनंजयो नाम ब्राह्मणो हरिभक्तिकृत् ।
आसीत्त्रेतायुगे विप्र सर्वप्राणिहिते रतः ५७।
ज्ञातिपूजारतो नित्यं दीपदाने रतः सदा ।
सत्यवादी जितक्रोधो हिंसादंभविवर्जितः ५८।
मुमुक्षुः स द्विजश्रेष्ठ सर्वदा परमेश्वरम् ।
पूजयामास परया भक्त्या नारायणं प्रभुम् ५९।
तस्य भक्तिं ततो ज्ञात्वा महतीं सुदृढां प्रभुः ।
जहार सकलं वित्तं हेतुमात्रेण केनचित् ६०।
तथापि स द्विजश्रेष्ठः केशवस्य महात्मनः ।
पूजामनुदिने चक्रे भक्त्या परमया सुधीः ६१।
दुःखेनोपार्जितं वित्तं विनष्टं सकलं द्विज ।
दृष्ट्वापि तेन विप्रेण दुःखेनाचिंत्यचेतसा ६२।
भक्षणे वर्जनं चक्रे स विप्रः परमार्थवित् ।
महाविष्णुसपर्यायां दृढं बद्ध्वा मनो निजम् ६३।
भूयोऽपि तस्य विप्रस्य भक्तिं ज्ञात्वा जनार्दनः ।
चकार बंधुविच्छेदं सुदृढः शमदस्ततः ६४।
बांधवास्तस्य विप्रस्य विष्णुमायाविमोहिताः ।
हिंसामारेभिरे कर्तुं सर्वदैव द्विजोत्तम ६५।
ततो विप्रो हि निर्वृत्तो निर्बंधैः पुरुषोत्तमम् ।
पूजयामास सततं प्रीतः प्रचुरभक्तितः ६६।
परिकल्प्य च भूदेवो धनं केशवपूजने ।
माधवं च जगन्नाथं सबंधुशुचमत्यजत् ६७।
भूय एव महाविष्णुः कौतुकी तस्य जैमिने ।
जहार सानुकंपोऽपि पुत्रानपि दिने दिने ६८।
तथापि स द्विजश्रेष्ठः केशवं क्लेशनाशनम् ।
पूर्वद्विगुणया भक्त्या नित्यं विष्णुमपूजयत् ६९।
तस्य पत्नी ततो विप्र दुःखशोकातिदुःखिता ।
पितृगेहं गता विष्णोर्मायया परिमोहिता ७०।
अथैकाकी स भूदेवो विष्णुभक्तिपरायणः ।
विपदं चिंतयामास न कदापि सुचेतसा ७१।
एकदा स द्विजश्रेष्ठ विष्णुभक्तिमतां वरः ।
स्कंधे परशुमादाय काष्ठार्थं विपिने ययौ ७२।
वनात्काष्ठं समादाय नित्यमेव च स द्विजः ।
हिमागमे वस्त्रहीनः कुरुते शीतवारणम् ७३।
कदाचिद्विपिनं गंतुं नाशक्नोद्द्विजसत्तमः ।
जघान प्रांगणस्थस्य शाखामश्वत्थशाखिनः ७४।
अत्रांतरे महाविष्णुस्तस्मादश्वत्थ पादपात् ।
निश्चक्राम सुरश्रेष्ठो व्यथाव्यथितमानसः ७५।
ददर्श विष्णुं पुरतः स विप्रश्चतुर्भुजं पद्मदलायताक्षम् ।
पीतांबरं कुडलिनं सुकेशं दधानमब्जादि निजायुधानि ७६।
परिस्रवद्विस्तररक्तधारा संध्यासु शोणीकृतनव्यमेघम् ।
विभावसुं चैव सुखं परेशं संदृश्यते देवगणैरदृश्यम् ।
हर्षाश्रुधारा रुचिराक्षियुग्मस्तुष्टाव विप्रो मृदुलैर्वचोभिः ७७।
ब्राह्मण उवाच-
हरे मुरारे जगदेकनाथ गोविंद दामोदर माधवेति ।
लक्ष्मीपते केशवकेशिशत्रो नारायणानंत विभो प्रसीद ७८।
तवावतारं किमहं ब्रवीमि त्वया विना नास्ति भुवीह कोऽपि ।
किं वा गुणव्याप्तसमस्तलोकं किं वा दयां मित्रपरैकतुल्याम् ७९।
दत्वा स्वीयां कस्यचिदीश विष्णो भक्तिं हरस्य च्युतदेहसंस्थाम् ।
श्रियं समादाय मुदं प्रदास्ये भक्तिः प्रदत्तामहतः सुधन्या ८०।
मन्ये महात्मानमनंतमूर्त्ते पापात्मनां श्रेष्ठमिवानिशं यत् ।
तदर्थमेवांघ्रियुगं त्वदीयं न पातकी पश्यति दैवचिंत्यम् ८१।
यद्यप्यहं दुःखवतां वरिष्ठो मन्ये तथापीन्द्रमिवाद्य विष्णो ।
आत्मानमात्मा जगतां भवंतं साक्षात्समीक्षेयत ईक्षणाभ्याम् ८२।
पूजां तवाल्पामपि वेद्मि नाहं द्रव्यं कदापि न ददामि तुभ्यम् ।
तथापि चाग्रे मम मूर्तिमांस्त्वं दृष्टोसि मे केशव एक पूज्यः ८३।
दत्तस्त्वयायं ममभक्ति वृक्षो धमार्थकामत्रय एव सोऽयम् ।
त्वद्दर्शनांभो मयवृष्टिसिक्तः प्रभोऽद्यकैवल्यफलं दधार ८४।
मूर्धा मदीयोऽखिललोकमूर्ध्नां श्रेष्ठो भवेत्केशवविश्वमूर्तेः ।
त्वत्पादपाथोजयुगेमनो मे संयाति वै संप्रतिदेवदेव ८५।
व्यासउवाच-
इत्थं स्तुत्वा जगन्नाथं नारायणमनामयम् ।
कृतांजलिपुनःप्राह भक्त्या तमिति स द्विजः ८६।
ब्राह्मण उवाच-
देवदेव जगन्नाथ लोकानुग्रहकारक ।
कशाप्रहरणैरेतद्गात्रं ते रुधिरोक्षितम् ८७।
सर्वेषामेव दैत्यानां युधि वंशास्त्वया हताः ।
त्वां हंतुं कः क्षमः पृथ्व्यां प्रभोऽद्भुतमिदं महत् ८८।
भगवानुवाच-
वत्स सत्यमिदं प्रोक्तं त्वया नास्त्यत्र संशयः ।
दानवो राक्षसो वापि मां हंतुं कोऽपि न क्षमः ८९।
अश्वत्थमूतिरेवाहं कुठारेण हतस्त्वया ।
अतोऽजनि शरीरे मे रक्तपातोऽधुना द्विज ९०।
व्यास उवाच-
तस्यवाक्यमिदं श्रुत्वा स विप्रो भयविह्वलः ।
निनिंद स्वयमात्मानमात्मना बहुधा द्विजः ९१।
धिगस्तु तत्वतो भाग्यं सर्वपातकिनां वरम् ।
त्रैलोक्याधिपतेर्दाता हृदये महतीं व्यथाम् ९२।
सर्वपापहरो विष्णुः समया व्याधितः कृतः ।
एतत्पापं मया पारं कर्तुं नैकेन शक्यते ९३।
यस्मिंस्तुष्टे पापिनोऽपि भवंति सुरवंदिताः ।
मद्दत्तया स व्यथया व्यथितो हा हतोऽस्म्यहम् ९४।
प्रसादयंति यं देवा ब्रह्माद्या अतिभक्तितः ।
अहो मया पापवता तस्य दत्ता हृदि व्यथा ९५।
किं तपोभिर्जपैः किं वा किं गृहैर्जीवनैश्च मे ।
धर्मार्थकाममोक्षाणां दातैकोऽयं व्यथातुरः ९६।
इत्युक्त्वा स द्विजश्रेष्ठ तमेव परशुं निजे ।
दातुं कंठे मनश्चक्रे विष्णुप्रीणनहेतवे ९७।
तस्यभक्तिं दृढां ज्ञात्वा दयालुः कमलापतिः ।
तद्धस्तात्तत्परं निन्ये जवेन भक्तवत्सलः ९८।
श्रीभगवानुवाच-
कथं त्वमेव कुरुषे वत्स कर्मातिदारुणम् ।
आत्महत्याकृतां पुंसां तुष्टोस्मि न कदाप्यहम् ९९।
तव भक्त्यातितुष्टोऽस्मि भीतिं मा कुरुसत्तम ।
वरं वरय विप्रेन्द्र यत्ते मनसि वर्तते १०० 7.12.100।
ब्राह्मण उवाच-
मया व्यथाप्रदत्तेयं महती परमेश्वर ।
मा तिष्ठतु शरीरे ते याचे वरमिमं प्रभो १०१।
श्रीभगवानुवाच-
अज्ञानाद्भवता वत्स कर्मेदं विहितं द्विज ।
अतोऽपराधो नेतव्यो महानपि न ते यथा १०२।
नित्यं तवानुपाल्योऽस्मि भक्तश्रेष्ठो यतो भवान् ।
भवदीयानहं मन्ये दोषान्वत्स दिनेदिने १०३।
तथापि ममभक्तिस्ते ववृधे महती सदा ।
तस्माद्वत्स तवानृण्यं गंतुमिच्छामि संप्रति १०४।
विहाय सकलां भीतिं वंर वृणु ममाग्रतः ।
ब्राह्मण उवाच-
त्वयि सर्वसुरश्रेष्ठ मम जन्मनिजन्मनि १०५।
तिष्ठतां सुदृढा भक्तिर्हरे किमपरैर्वरैः ।
व्यास उवाच-
श्रुत्वा वाक्यमिदं तस्य केशवप्रणयोदितम् १०६।
निजकण्ठस्थितां मालां प्रीतस्तस्मै ददौ ततः ।
समालिङ्ग्य ततो विप्रं पिता पुत्रमिव प्रभुः १०७।
चतुर्भिर्बाहुभिर्दीर्घैरुवाच मृदुलं वचः ।
श्रीभगवानुवाच-
मद्भक्तोऽसि यदा विप्र तथा ते मत्प्रसादतः १०८।
अचिरेणैव सकलं भद्रं विप्र भविष्यति ।
अश्वत्थरूपं मां नित्यं क्रियायोगेन सत्तम १०९।
समाराधय सर्वं ते साधयिष्यामि वांछितम् ।
इत्युक्त्वा तं द्विजश्रेष्ठं भूयोऽप्यालिङ्ग्य केशवः ११०।
अभवत्सहसादृश्यस्तत्रैव करुणालयः ।
विष्णोः कंठस्रजं प्राप्य स विप्रो वैष्णवोत्तमः १११।
कृतकृत्यमिवात्मानं मत्वा तस्थौ निजेगृहे ।
ततः कुबेरो विप्रर्षे तस्य विप्रस्य सद्मनि ११२।
स्वयं ववर्ष वित्तानि बहूनि केशवाज्ञया ।
प्रासादो रचितस्तस्य शिल्पिना विश्वकर्मणा ११३।
नारायणाज्ञया तत्र वैजयंत इवोत्तमः ।
दासदासीसमायुक्तो नानावस्तुविभूषितः ११४।
गजाश्वकोटिसंकीर्णं विबभौ तस्य मन्दिरम् ।
बभुवुः संगतास्तस्य नष्टा अपि च बांधवाः ११५।
कृतावज्ञा च तत्पत्नी स्वयं तद्गृहमाययौ ।
मृतपुत्रापि तत्पत्नी केशवस्यानुकंपया ११६।
स्थिरप्रजाभवद्विप्र स्वामिभक्तिपरायणा ।
चिरं भुक्त्वाखिलान्भोगान्पुत्रपौत्रसमन्वितः ११७।
आयुषोंऽते ययौ मोक्षं सदारो विप्रसत्तमः ।
व्यास उवाच-
साक्षादेव स्वयं विष्णुरश्वत्थो वृक्षसत्तमः ११८।
तद्भक्तिं कुर्वतां पुंसां विद्यते नाशुभं क्वचित् ।
अश्वत्थं सेवते यस्तु विष्णुं ध्यात्वा नरोत्तम ११९।
तस्य प्रसन्नो भगवान्ददाति परमं पदम् १२०।
इति श्रीपद्मपुराणे क्रियायोगसारे अश्वत्थमाहात्म्ये द्वादशोऽध्यायः १२।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 13
व्यास उवाच-
ज्येष्ठे मासि द्विजश्रेष्ठ भगवंतं जनार्दनम् ।
पूजयेद्भक्तिभावेन जलैः संस्नाप्य शीतलैः १।
उद्वर्तनं च दातव्यं सुगन्ध्यामलकं तथा ।
तैलं सुंगंधं हरये ग्रीष्मकाले दिनेदिने २।
सुवासिते शीतले च मन्दिरेऽतिमनोरमे ।
प्रत्यहं कमलाकांतं स्थापयेज्जनमंडपे ३।
न रौद्रदेशे विप्रेन्द्र सधूमे इंधनालये ।
न सूतिकागृहे चैव स्थापयेत्कमलापतिम् ४।
चामरैर्वीजितः श्वेतैः सुदीर्घैः कमलापतिम् ।
ज्येष्ठे मासि द्विजश्रेष्ठ सुप्रीतः किं न यच्छति ५।
मयूरपुच्छव्यजनैर्निदार्घैर्वीजितो हरिः ।
ददात्यभिमतं सर्वमचिरेणैव सत्तम ६।
तालवृंतकवातेन पवित्रांबरवायुना ।
यै ग्रीष्मे वीज्यते विष्णुस्ते सर्वे स्वर्गगामिनः ७।
यो गात्रलेपनं कुर्यात्सुगन्धीयैश्च कर्दमैः ।
ग्रीष्मे हरिं चंदनैश्च स विशेन्माधवीं तनुम् ८।
उष्मागमे द्विजश्रेष्ठ स मुक्तो नात्र संशयः ।
प्रफुल्लकुसुमोद्याने तुलसीकानने तथा ९।
संध्यायां स्थापयेद्विष्णुं देशे धीरसमीरणे ।
स्रग्भिः पाटलपुष्पाणां येन विष्णुरलंकृतः १०।
ज्येष्ठे मासि स विज्ञेयो अश्वमेधसहस्रकृत् ।
यस्तु मुक्तावलिं दद्याद्ग्रीष्मे वै श्रीपतेर्जनः ११।
भूपालत्वं हरिस्तस्मै यच्छेज्जन्मनि जन्मनि ।
यस्तु मण्डयति ग्रीष्मे श्रीकृष्णं मणिमालया १२।
तस्य पुण्यफलं विप्र वदतो मे निशामय ।
यावद्ब्रह्मा सृजत्येतज्जैमिने सकलं जगत् १३।
तिष्ठेद्विष्णुपुरे तावन्मणिमालाविभूषितः ।
सुवर्णाभरणैर्यस्तु रजताभरणैस्तथा १४।
कृष्णं मंडयति ग्रीष्मे सोऽपि तत्फलमाप्नुयात् ।
विचित्रं यस्तु पर्यंकं सगंडूकं प्रयच्छति १५।
हरये देवदेवाय न स दुःखी कदाचन ।
ग्रीष्मकाले न देयानि गुरूणि वसनानि च १६।
हरये ब्राह्मणश्रेष्ठ देयं तन्वंशुंकं शुचि ।
यस्त्वच्युतफलैर्दिव्यैः सुगंधैः पूजयेद्धरिम् १७।
अंते शक्रपुरं गत्वा सपिबेदमृतं मुदा ।
प्रियालानां फलैर्दिव्यैर्योऽर्चयेत्कमलापतिम् १८।
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ।
निदाघे हरये यस्तु यवागूमतिशीतलाम् १९।
नानाव्यंजनसंयुक्तां श्रद्धया वैष्णवो जनः ।
आषाढे मासि विप्रेन्द्र देवदेवं जगद्गुरुम् २०।
दधिभिः स्नापयित्वा च पूजयेद्भक्तितो बुधः ।
मातुः पयोधरपयः पुनस्तेन न पीयते २१।
घनागमे घनश्यामं कदंबकुसुमैर्हरिम् ।
आराधयति विप्रर्षे पराङ्गतिमवाप्नुयात् २२।
कदम्बपुष्पमालाभिर्मण्डपं ज्वलनोपमम् ।
यस्तस्य ब्राह्मणश्रेष्ठ वाजिमेधफलं भवेत् २३।
सुगन्धैः केतकीपुष्पैः पूजितः कमलापतिः ।
सर्वदुःखं हरत्येव मानवानां द्विजोत्तम २४।
पनसानां फलैर्दिव्यैः सुपक्वैर्घृतमिश्रितैः ।
पूजितो भगवान्विष्णुर्दद्यादैश्वर्यमुत्तमम् २५।
आषाढे मासि दध्यन्नं हरये प्रतिवासरम् ।
श्रद्धया वैष्णवो दद्यान्मुक्तिमिच्छन्द्विजोत्तम २६।
कृष्णाय नवनीतं यो ददाति वैष्णवो जनः ।
विशुद्धः सकलैः पापैर्ब्रह्मलोकं स गच्छति २७।
शेफालिकाप्रसूनैश्च यूथिकाकुसुमैस्तथा ।
योऽर्चयेत्परमात्मानं सगच्छेत्परमं पदम् २८।
प्रफुल्लमालतीपुष्पैः सुगन्धैर्योऽर्चयेद्धरिम् ।
तत्पुण्येनास्य तत्पुण्यं येन नो भविता द्विज २९।
कंदपुष्पैश्च बकुलैर्जगद्बंधुं जनार्दनम् ।
अर्चयन्सकलं कामं प्राप्नोति भुवि मानवः ३०।
महामहाप्रसूनैश्च तथा कुरुबकैर्हरिम् ।
प्रफुल्लैः पूजयेद्यस्तु तस्य तुष्टः सदा हरिः ३१।
सैरीयकैश्च यो विष्णुं प्रसूपुष्पैश्च योऽर्चयेत् ।
करवीरप्रसूनैश्च स याति हरिसन्निधिम् ३२।
श्रावणे चैव यो दद्याल्लाजान्घृतसमन्वितान् ।
हरये तस्य विप्रर्षे गृहे श्रीःस र्वतोमुखी ३३।
भाद्रे मासि द्विजश्रेष्ठ नारायणमनामयम् ।
श्रद्धया पूजयेत्प्राज्ञश्चतुर्वर्गप्रदायकम् ३४।
निर्मिते नूतनागारे सर्वोपद्रववर्जिते ।
स्थापयेत्पुण्डरीकाक्षं भगवंतं जनार्दनम् ३५।
दंशैश्च मशकैश्चापि प्रकीर्णे मक्षिकादिभिः ।
हरिं पुरातनागारे स्थापयेन्न हि मानवः ३६।
सकर्दमे पतद्द्वारे गलद्भित्तौ गृहे तथा ।
हरिं न स्थापयेत्प्राज्ञो वर्षासु परमेश्वरम् ३७।
विष्ण्वाल्ये द्विजश्रेष्ठ प्रकुर्याद्यस्तु मानवः ।
चन्द्रातपं विचित्रं च चन्द्रलोकं स गच्छति ३८।
रात्रौ नानाविधैर्धूपैर्मन्दिरे जगतीपतेः ।
दंशाश्च मशकाश्चैव पूजाकाले निवारयेत् ३९।
मंसारिकाभिः प्रावृत्य मंचशायिनमच्युतम् ।
प्रावृषि स्थापयेद्विष्णुं निशायां दिव्यमंदिरे ४०।
कह्लारपत्रैर्देवेशं सुगंधैर्नूतनैस्तथा ।
मुमुक्षुः पूजयेन्मर्त्यो भाद्रे मासि दिनेदिने ४१।
न भाद्रे केतकीपुष्पैः पूजितव्यो जनार्दनः ।
यतो भाद्रपदेमासि केतकी स्यात्सुरा समा ४२।
पक्वैस्तालफलैर्दिव्यैर्योऽर्चयेद्यदुनंदनम् ।
गर्भवासमहादुःखं स भूयो लभते न च ४३।
संयुक्तं घृतदुग्धाभ्यां पक्वतालं मुरारये ।
यो दद्याच्छ्रद्धया मर्त्यः स गच्छेन्मन्दिरं हरेः ४४।
भाद्रे मासि द्विजश्रेष्ठ हरये तालपिष्टकम् ।
सघृतं वैष्णवो दद्यात्केवलप्राप्तिहेतवे ४५।
मासि भाद्रपदे विप्र न कुर्याच्छाकभक्षणम् ।
न रात्रौ भोजनं कुर्यान्मुमुक्षुर्वैष्णवो जनः ४६।
आश्विने मासि विप्रेन्द्र केशवं क्लेशनाशनम् ।
यत्तोयं दीयते विप्र पूर्वाह्णे हरये जनैः ४७।
पीयूषमिव तत्तोयं गृह्णाति कमलापतिः ।
मध्याह्ने दीयते यच्च तत्तोयं चक्रपाणये ४८।
तत्तोयमिव वेत्तव्यं तद्गृह्णाति द्विजोत्तम ।
अपराह्णे च यत्तोयं गोविन्दाय प्रदीयते ४९।
तत्तोयं रक्ततुल्यं स्यान्न गृह्णाति ततो हरिः ।
अतएव द्विजश्रेष्ठ पूर्वाह्णे हरिमर्चयेत् ५० 7.13.50।
समस्तं लभते कामं केशवस्यानुकंपया ।
एकवस्त्रेण विप्रेन्द्र न कुर्यात्पूजनं हरेः ५१।
कुर्याद्वापि तथा पूजां न गृह्णाति च केशवः ।
अधौतेन च वस्त्रेण यः पूजां कुरुते हरेः ५२।
विफला सा च पूजा स्यान्न च विष्णुः प्रसीदति ।
यैस्त्वबद्धशिखैः पूजा क्रियते चक्रिणो जनैः ५३।
पूजाफलं नाप्नुवंति बलिग्राह्या च सा भवेत् ।
असंस्कृतगृहे पूजा क्रियते जगतीपतेः ५४।
सा पूजा ब्राह्मणश्रेष्ठ बलिग्राह्या भवेत्खलु ।
स्नानं देवार्चनं चैव दानं च पितृपूजनम् ५५।
तिलकेन विना विप्र कुरुते न विचक्षणः ।
तिलकान्यगृहीत्वा यत्पुण्यकर्म विधीयते ५६।
भस्मीभवति तत्सर्वं कर्ता च नारकी भवेत् ।
शङ्खचक्रगदापद्मैरङ्कितं यस्य दृश्यते ५७।
शरीरं ब्राह्मणश्रेष्ठ विज्ञेयः सोऽच्युतः स्वयम् ।
यो लिखेद्दक्षिणे बाहौ शङ्ख पद्मे च वैष्णवः ५८।
सव्ये चक्रं गदां चैव स विष्णुर्नात्र संशयः ।
पङ्कजं दक्षिणे बाहौ शङ्खस्योपरि यो लिखेत् ५९।
पातकं सकलं तस्य क्षणादेव तु नश्यति ।
चक्रोपरि गदां यस्तु लिखेत्सव्ये भुजे द्विज ६०।
तं वंदंते द्विजश्रेष्ठ शक्राद्या अपि निर्जराः ।
मुरारिपादयुग्मं च स्वललाटे लिखेद्बुधः ६१।
पापात्मापि च तं दृष्ट्वा मुक्तो भवति पातकात् ।
अष्टाक्षरं महामंत्रं मत्स्यं कूर्मं च यो हृदि ६२।
लिखेत्स वैष्णवश्रेष्ठः पुनाति भुवनत्रयम् ।
कृष्णायुधांकितं यस्य शरीरं स्याद्दिनेदिने ६३।
तस्य कृष्णो जगन्नाथो ददाति परमं पदम् ।
कृष्णायुधांकिततनुर्यत्कर्म कुरुते नरः ६४।
शुभं वाप्यशुभं वापि तत्सर्वमक्षयं भवेत् ।
दानवा राक्षसाश्चैव भूतवेतालकास्तथा ६५।
पिशाचाः पन्नगाश्चापि यक्षविद्याधरास्तथा ।
किन्नरा गुह्यकाश्चैव ग्रहा बालग्रहास्तथा ६६।
कूष्माण्डाश्चैव डाकिन्यस्तथान्ये विघ्नकारकाः ।
सर्वे भीत्या पलायंते दृष्ट्वा कृष्णायुधाङ्कितम् ६७।
द्वीपाश्च द्वीपिनश्चैव तथान्ये वनवासिनः ।
दृष्ट्वैव प्रपलायंते भयात्कृष्णायुधांकितम् ६८।
कामलाद्या महारोगा देहदेहावपातिनः ।
कृष्णायुधांकिततनुं भक्त्या पश्यति यो जनः ६९।
कृष्णदर्शनतुल्यस्य फलं प्राप्नोति मानवः ।
त्रिपत्रीकृतदूर्वाभिरश्विने योऽर्चयेद्धरिम् ७०।
दूर्वावत्संततिस्तस्य अविच्छिन्ना प्रवर्तते ।
आश्विने मासि यो दद्याद्धरये कर्कटीफलम् ७१।
शोको न जायते तस्य कदाचिद्धृदये द्विज ।
कार्तिके च समायाते सर्वमासोत्तमे शुभे ७२।
दामोदरं देवदेवं भक्त्या प्राज्ञः प्रपूजयेत् ।
कार्तिके मासि विप्रेन्द्र विष्णुप्रीणनहेतवे ७३।
यथोक्तविधिना प्राज्ञः प्रातःस्नानं समाचरेत् ।
आमिषं मैथुनं चैव कार्तिके मासि यस्त्यजेत् ७४।
जन्मान्तरार्जितैः पापैर्मुक्तो याति पराङ्गतिम् ।
तुलाराशिगते सूर्ये प्रातःस्नानं द्विजोत्तम ७५।
हविष्यं ब्रह्मचर्यं च महापातकनाशनम् ।
आमिषं मैथुनं चैव कार्तिकेमासि सेवते ७६।
जन्मजन्मनि विप्रेन्द्र स भवेद्ग्रामशूकरः ।
द्विभोजनं परान्नं च तैलं च वैष्णवो जनः ७७।
आयाते कार्तिके मासि यत्नादपि परित्यजेत् ।
दामोदराय नभसि दीपं यस्तु प्रयच्छति ७८।
फलं तस्य प्रवक्ष्यामि समासेन शृणु द्विज ।
ब्रह्महत्यादिभिः पापैर्विमुक्तः क्लेशदायकैः ७९।
दामोदरपुरं गत्वा तिष्ठेत्कोटियुगावधि ।
दीपं ज्वलंतं नभसि त्रिदशा वासवादयः ८०।
विलोक्य हर्षिताः सर्वे वदंतीति परस्परम् ।
असौ पुण्यात्मनां श्रेष्ठः केशवार्चनतत्परः ८१।
प्रदीपं कार्तिके मासि यतो यच्छति चक्रिणे ।
कार्तिके मासि विप्रेन्द्र तस्य तुष्टः सदा हरिः ८२।
दद्यादक्षयदीपं यः कार्तिके हरिमंदिरे ।
दिनेदिनेऽश्वमेधस्य फलं प्राप्नोति मानवः ८३।
तुलसीदललक्षैर्यः कार्तिके पूजयेद्धरिम् ।
लक्षैकवाजिमेधस्य मानवो लभते फलम् ८४।
बिल्वस्य दललक्षेण योऽर्चयेद्विष्णुमव्ययम् ।
परमं मोक्षमाप्नोति प्रसादाज्जगतीपते ८५।
यत्किञ्चित्कार्तिकेमासि विष्णुमुद्दिश्य दीयते ।
तदक्षयं भवेत्सर्वं सत्यमेतन्मयोच्यते ८६।
घृताक्तं सुरपत्रं यः कार्तिके मासि वैष्णवे ।
दद्याद्दिनेदिने विप्र तस्य विष्णोः पुरे स्थितिः ८७।
प्रफुल्लपद्मपत्रेण सितेनाप्यसितेन वा ।
योऽर्चयेत्कमलाकांतं तस्य किं भुवि दुर्ल्लभम् ८८।
द्विजाग्र्यः कार्तिके मासि हरये येन पङ्कजम् ।
न दत्तं तेन किं विप्र विष्णवे दैत्यजिष्णवे ८९।
एकमेवांबुजं हृत्वा ददाति कैटभारये ।
तस्मै किं भगवान्विष्णुर्न ददाति श्रियः पतिः ९०।
कमलैः कार्तिके मासि येन नाराधितो हरिः ।
जन्मजन्मनि तद्गेहे कमला न हि तिष्ठति ९१।
पद्मबीजानि यो दद्यात्केशवाय महात्मने ।
स जायते विप्रकुले शुद्धे च प्रतिजन्मनि ९२।
ब्राह्मणस्य कुले जातश्चतुर्वेदसुहृद्भवेत् ।
धनवान्बहुपुत्रश्च कुटुंबानां च पोषकः ९३।
नास्ति पद्मसमं पुष्पं जैमिने सत्यमुच्यते ।
येन संपूज्य गोविन्दं पापात्मापि च मोक्षभाक् ९४।
पद्मपुष्पस्य माहात्म्यं विशेषादुच्यते मया ।
सेतिहासं द्विजश्रेष्ठ सावधानं निशामय ९५।
आसीदेकः प्रजा नाम ब्राह्मणः सर्वशास्त्रवित् ।
हरिपादांबुजे यस्य मनोभृङ्ग सदा स्थितिः ९६।
देवानां ब्राह्मणानां च गुरूणां चैव सर्वदा ।
कृता पूजा द्विजश्रेष्ठ कार्याकार्यशतान्यपि ९७।
परद्रव्यं विषं चैव परस्त्रीषु स्वमातृवत् ।
कृतं तेनैव यच्चैवं तथा मित्रे च शात्रवे ९८।
आयांतमतिथिं दृष्ट्वा स विप्रः परमार्थवित् ।
भृशं मानं न चाप्नोति याचकं च द्विजोत्तमम् ९९।
सर्वयज्ञाः कृतास्तेन व्रतानि सकलानि च ।
संसारसागरं घोरमपारंच तितीर्षुणा १०० 7.13.100।
एकदा स द्विजश्रेष्ठो हरिभक्तिपरायणः ।
स्वमृत्युं च निजां जातिं चिंतयामास चेतसा १०१।
अहं पूर्वं स्थितः को वा किं वा कर्म कृतं पुरा ।
कथं वा जन्म संप्राप्तं गमिष्यामि क्व वा पुनः १०२।
इति संचिंत्य विप्रोऽसौ निःश्वस्य च पुनः पुनः ।
विज्ञातुं पूर्ववृत्तांतं शिवक्षेत्रं जगाम ह १०३।
तत्र बद्धाञ्जलिर्विप्रो भक्त्या परमया युतः ।
तुष्टाव शंकरं देवं वाचा मधुरया शिवम् १०४।
ब्राह्मण उवाच-
नमस्तुभ्यं महादेव नमस्ते परमेश्वर ।
नमस्ते शंकरेशान नमस्ते वरद प्रभो १०५।
नमस्ते ज्ञानरूपाय नमस्ते ज्ञानदायिने ।
नमस्ते सर्वभूतानां हृदम्बुजनिवासिने १०६।
जगत्स्रष्ट्रे नमस्तुभ्यं जगत्पित्रे नमो नमः ।
नमः संहराकर्त्रे च पशूनां पतये नमः १०७।
मनस्ते वह्निनेत्राय नमस्ते वह्निचक्षुषे ।
नमस्ते चन्द्रनेत्राय सूर्यनेत्राय वै नमः १०८।
नमस्ते भस्मभूषाय नमस्ते कृत्तिवाससे ।
नमोऽस्थिमालिने तुभ्यं नीलकंठाय वै नमः १०९।
नमस्ते पंचक्त्राय नमस्ते शूलपाणिने ।
कन्दर्पदर्पविध्वंसकारिणे भीममूर्तये ११०।
नमस्ते देवदेवाय नमस्ते त्रिपुरारये ।
पार्वतीपतये तुभ्यं नमस्ते भीममूर्तये १११।
बाणभक्त्यातिसंतुष्ट मानसाय नमोस्तु ते ।
बहुरूपाय वै तुभ्यं विश्वरूपाय वै नमः ११२।
गङ्गाधराय वै तुभ्यं दक्षयज्ञविनाशिने ।
प्रेतानां पतये तुभ्यं नमस्तुभ्यं पिनाकिने ११३।
ईशानाय नमस्तुभ्यं मनीषाय नमो नमः ।
तुभ्यं नमोऽस्तु दृश्याय अदृश्याय नमो नमः ।
नमश्चिन्त्याय वै तुभ्यमचिन्त्याय नमोनमः ११४।
ब्रह्मा त्वमेव त्रिदशैकनाथस्त्वमेव विष्णुस्तपनस्त्वमेव ।
त्वमेव सोमः सकलार्त्तिहारी नमो नमस्ते परमेश्वराय ११५।
तस्यस्तवं समाकर्ण्य शंकरो लोकशंकरः ।
आविर्बभूव सहसा प्रसन्नः परमेश्वरः ११६।
आविर्भूतं समालोक्य सर्वदेवनमस्कृतम् ।
ववंदे चरणौ तस्य स विप्रोऽत्यंतभक्तिमान् ११७।
भूयोऽपि स द्विजश्रेष्ठो हर्षनिर्भरमानसः ।
कृताञ्जलिर्महादेवं तुष्टाव वरदं प्रभुम् ११८।
ब्राह्मण उवाच-
यं न पश्यंति देवेशं देवा अपि सवासवाः ।
पश्यामि तमहं साक्षान्महाभाग्यमिदं मम ११९।
ध्यानावस्थितचित्तेन योऽदृश्यः परमेश्वरः ।
पश्यामि तमहं साक्षान् साध्यं किमपरं मम १२०।
त्वन्नामस्मरणादेव महापातकिनोऽपि च ।
गच्छंति परमं स्थानं समीक्षे तमहं प्रभुम् १२१।
कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि च भाग्यवान् ।
नमस्तुभ्यं नमस्तुभ्यं प्रसीद परमेश्वर १२२।
महादेव उवाच-।
भवतोऽनेन वाक्येन तुष्टोऽस्मि द्विजसत्तम ।
वरं वृणु महाभाग वरं दित्सुरहं खलु १२३।
ब्राह्मण उवाच-
भवंतं परमात्मानमदृश्यं दैवतैरपि ।
साक्षात्पश्याम्यहं नाथ किं कार्यमपरैर्वरैः१२४।
तथापि त्वं महादेव वरं दित्सुः कृपामयः ।
पृच्छामि यदहं किंचित्तद्ब्रूहि परमेश्वर १२५।
कोऽहं तस्थौ पुरा देव किं वा कार्यं कृतं पुरा ।
संसारसागरे नाथ पतितोऽस्मि कथं प्रभो १२६।
कर्मणा प्राप्यते देहो देही पापेन लिप्यते ।
पुनः पापप्रभावेण प्राप्यते विषमा गतिः १२७।
प्रभावैः कर्मणां केषां जन्म प्राप्तमिदं मया ।
नानादुःखप्रदं नाथ प्रसन्नो ब्रूहि शंकर १२८।
पापमूलमिदं जन्म जन्म दुःखस्य कारणम् ।
ज्ञातुमिच्छाम्यहं तस्मात्पूर्ववृत्तांतमात्मनः १२९।
स्थितोऽहं जननी कुक्षौ जनठरानलतापितः ।
मूत्रविष्ठाप्रकीर्णे च विपाकेन च कर्मणाम् १३०।
गर्भवाससमं दुःखं संसारे न हि मन्यते ।
कथं मयानुभूतं तत्प्रभो भक्तार्तिनाशन १३१।
संसारेऽस्मिन्महाघोरे नानादुःखसमन्विते ।
असारे मायया विष्णोर्मोहिते पातकाश्रये १३२।
दुस्तरे बंधुहीने च कामक्रोधादिसंयुते ।
शोकरोगप्रदे चैव जन्ममृत्युप्रदे तथा १३३।
अपारे जगतामीश पतितोऽस्मि कथं शिव ।
एतत्सर्वं विभो ब्रूहि यदि ते मय्यनुग्रहः १३४।
महादेव उवाच-
यद्यप्येतद्दिवजश्रेष्ठ गुह्याद्गुह्यतरं महत् ।
अप्रकाश्यं तथापि त्वां भक्तं प्रतिवदाम्यहम् १३५।
पुरा त्वं ब्राह्मणः श्रेष्ठ शबरान्वयसंभव ।
दण्डपाणिरिति ख्यातः स्थितः सल्लोकदुःखदः १३६।
परलोकभयं त्यक्त्वा विवेकैः परिवर्जितः ।
दस्युवृत्तिं प्रपन्नार्ति परमक्लेशदायिनीम् १३७।
दस्युवृत्तिगतं दृष्ट्वा भवंतमतिनिर्दयम् ।
अपरे भ्रातरः सर्वे बभूवुस्ते च दस्यवः १३८।
तेषां नामानि विप्रेन्द्र भातॄणां निगदाम्यहम् ।
यैः सार्द्धं भवता पूर्वं भ्रातृभिर्दस्युता कृता १३९।
दंडी दंडायुधश्चैव दत्तवान्दत्तभूस्तथा ।
सुंदडो दंडकेतुश्च भ्रातरः षट्प्रकीर्तिताः १४०।
तैर्भ्रातृभिर्महाघोरैर्दयाभिः परिवर्जितः ।
दंडेन भवता नित्यं सर्वे व्यग्रीकृता जनाः १४१।
धनलोभेन भवता दुष्टैस्तैर्भ्रातृभिः सह ।
अरण्ये प्रांतरो विप्र हताः शतसहस्रशः १४२।
हत्वा च सायकैस्तीक्ष्णैर्वनस्थेन त्वया सदा ।
गवां क्रव्याणि भुक्त्वा च मदिराभिः सह द्विज १४३।
ततो यानविधिं सर्वे वणिजस्त्वद्भयात्तथा ।
तत्यजुर्विपिने तस्मिन्ननर्थः पतितः सदा १४४।
यस्य वित्तं न तद्वित्तं गृहं यस्य न तद्गृहम् ।
यस्य भार्या न तद्भार्या त्वयि दस्युत्वमागते १४५।
एवं स्वभ्रातृभिस्तैस्तु तस्मिन्नेव महावने ।
गतो वर्त्मश्रमश्रांतः स्नानार्थं सरसीं प्रति १४६।
तत्र स्नानं समाचर्य क्षुधितेन द्विजोत्तम ।
भक्षितानि मृणालानि भ्रातृभिस्तैर्जलानि च १४७।
अथ त्वया द्विजश्रेष्ठ कौतुकात्तत्र सत्तम ।
भुक्तानि पद्मपुष्पाणि प्रफुल्लानि बहूनि च १४८।
तस्मिन्नेव ततः काले ब्राह्मणो विपिनेचरः ।
सर्ववेदा इति ख्यातस्तत्र स्नानार्थमागतः १४९।
तत्र स्नात्वा स धर्मात्मा भगवंतं जनार्दनम् ।
यष्टुं त्वामकमंभोजं ययाचे विनयान्वितः १५० 7.13.150।
अथ त्वया च विप्रेन्द्र पद्ममेकं सुनिर्मलम् ।
दत्तं परमया भक्त्या पूजार्थं कमलापतेः १५१।
त्वया दत्तेन पद्मेन स च प्रीतो द्विजोत्तमः ।
पूजयामास तत्रैव विष्णुं सकलकारकम् १५२।
विष्णुपूजा परं दृष्ट्वा तं विप्रं सर्ववेदसम् ।
त्वमपि प्रहसन्विष्णुं ननन्थ च सुकामदम् १५३।
अथाभ्यर्च्य परात्मानं चतुर्वर्गफलप्रदम् ।
यथोक्तविधिना विप्र स जगाम यथागतः १५४।
तेनाम्बुजप्रदानेन प्रणामेन च सत्तम ।
विष्णुपूजादर्शनेन नष्टं ते सर्वपातकम् १५५।
ततः कियद्भिर्दिवसैस्तस्मिन्नेव महावने ।
संप्राप्तकालः पंचत्वं गतोऽसि त्वं द्विजोत्तम १५६।
तेनैव कर्मणा तुष्टो भगवान्करुणालयः ।
ददौ तुभ्यं परं स्थानं देवैरपि सुदुर्ल्लभम् १५७।
मन्वंतरसहस्राणि मन्वंतरशतानि च ।
भुक्तं नानासुखं तत्र कृपया कमलापतेः १५८।
ततः कर्मावसाने तु कर्मभूमिमिमां द्विज ।
आगत्य तैः पुण्यफलैर्जातोऽसि द्विजसंततौ १५९।
ब्राह्मणस्य कुले शुद्धे जन्म संप्राप्य सत्तम ।
सर्वगुणाश्रया लब्धा हरिभक्तिरचंचला १६०।
आराधितो महाविष्णुः क्रियायोगैस्त्वया प्रभुः ।
तुभ्यं दास्यति विज्ञानं ज्ञानान्मुक्तो भविष्यति १६१।
गच्छ ब्राह्मण भद्रं ते सुप्रीतो निजमंदिरम् ।
मद्दर्शनं त्वया प्राप्तं मुक्तोऽसि भवबंधनात् १६२।
व्यास उवाच-
इत्युक्त्वांतर्दधे विप्र तत्रैव जगदीश्वरः ।
कृतार्थो ब्राह्मणः सोऽपि जगाम भवनं स्वकम् १६३।
अथ स त्रिदिनं विष्णुं पद्मपुष्पैर्मनोरमैः ।
यत्नादाराधयामास स्तुत्यर्थं परमेश्वरम् १६४।
विष्णुं समाराध्य चिरं प्रसुप्तः पद्मप्रसूनैर्विचित्रैः सुपुष्पैः ।
ज्ञानं समासाद्य जगाम मोक्षं प्रसादतः श्रीगरुडध्वजस्य १६५।
अनिच्छयापि कमलं यच्छतः फलमीदृशम् ।
विष्णवे यच्छतो भक्त्या न जाने किं भवेदिति १६६।
सत्यं सत्यं पुनः सत्यं सत्यमेव मयोच्यते ।
कमलैर्हरिमभ्यर्च्य प्राप्यते परमं पदम् १६७।
एकमेवारविंदं यः प्रददाति मुरारये ।
तस्य नास्ति पुनर्जन्म संसारेषु भयावहे १६८।
नारायणं ये च प्रफुल्लवारिजैर्दयामयं कामदमर्चयंति ।
एकाहमप्युत्कटपापयुक्तास्ते यांति मुक्तिं प्रति पापिनोऽपि १६९।
इति श्रीपद्मपुराणे क्रियायोगसारे त्रयोदशोऽध्यायः १३।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 14
व्यास उवाच-
मार्गशीर्षे द्विजश्रेष्ठ महालक्ष्म्या समन्वितम् ।
पूजयेदव्ययं विष्णुं भक्तिभावेन वैष्णवः १।
म्लेच्छदेशे च विप्रेंद्र तथैव पतितालये ।
दुर्गंधैश्च परिव्याप्ते स्थाने विष्णुं न पूज्येत् २।
पाखंडानां समीपे च महापातकिनां तथा ।
असत्यभाषिणां चैव न कुर्याद्विष्णुपूजनम् ३।
क्रंदतां सन्निधौ चापि कलहानपि कुर्वताम् ।
तथोपहसतां स्थाने न कुर्यात्पूजनं हरेः ४।
प्रतिग्रहरतानां च स्थाने विष्णुं न पूजयेत् ।
कृपणानां गृहे चैव परवित्ताभिलाषिणाम् ५।
तथा कपटवृत्तीनां न कुर्याद्विष्णुपूजनम् ।
नारायणार्चने विप्र परं भक्तिपरायणः ६।
अन्यचित्तं परित्यज्य हरिध्यानपरो भवेत् ।
हाहाकारं च निश्वासं विस्मयं स द्विजोत्तम ७।
पाखंडजनसंभाषं न कुर्याद्धरिपूजनम् ।
अनन्यमानसो भूत्वा देवदेवं जगद्गुरुम् ८।
भस्मन्यपि च यत्पुष्पं दीयते लभते हरौ ।
चिंतागमशतश्रांतः शिलाचक्रेष्वपि द्विज ९।
पुष्पं ददाति यन्मर्त्यो न लभेदथ तत्प्रभुः ।
अनन्यमानसो भूत्वा भक्त्या विष्णुं यजेद्बुधः १०।
भ्रांतचित्तेन यत्कर्म क्रियते तच्च निष्फलम् ।
सर्वकर्म मनोधीनं मनोधीनं जगत्त्रयम् ११।
तस्मान्मनो दृढीकृत्य पूजयेत्कमलापतिम् ।
पूजान्यत्र मनोऽन्यत्र भवेद्यस्य द्विजोत्तम १२।
न च तस्य फलेत्कार्यं कल्पकोटिशतैरपि ।
यत्नाद्विहितशौचोऽपि विष्णुपूजापरोऽपि च १३।
मनःशुद्धिविहीनश्चेच्चांडाल इव गम्यते ।
अभक्त्या यत्तपस्तप्तं सुचिरं विधिना द्विज १४।
भवेन्निरर्थकं सर्वं केवलं कायशोधनम् ।
मेरुप्रमाणकं स्वर्णं ब्राह्मणाय कुटुंबिने १५।
दत्तमभ्यर्थनाशाय अभक्त्या श्रेयसेऽपि च ।
तस्मादेकमना भूत्वा भक्तिश्रद्धासमन्वितः १६।
सवास्तुकादि शाकं च दद्यात्सदसि वैष्णवे ।
नारंगस्य फलं दिव्यं सुपक्वं यस्तु यच्छति १७।
केशवाय द्विजश्रेष्ठ सोऽस्माभिरभिपूज्यते ।
यत्नेन नूतनं वस्तु प्रियं भगवतो हरेः १८।
तदेवाग्रयणे मासि भक्त्या दद्यान्मुरारये ।
पौषे मासि समायाते श्रीकृष्णं वरदं प्रभुम् १९।
देवमिक्षुरसैर्दिव्यैः स्नापयेद्वैष्णवो जनः ।
यः स्नापयति विप्रेन्द्र विष्णुमिक्षुरसैः प्रभुम् २०।
इह भुंक्ते सुखं सर्वं मृतो यातीक्षुसागरम् ।
यो दद्यादिक्षुनैवेद्यं देवदेवाय विष्णवे २१।
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ।
सुदुग्धपृथुकं पौषे दधिभिर्वा समन्वितम् २२।
दत्वा मुरारये मर्त्यः सर्वान्कामानवाप्नुयात् ।
सर्वैः पुरातनं वस्त्रं दूरीकृत्य मुरारये २३।
शीतस्य वारणार्थाय दद्याद्वस्त्रं च नूतनम् ।
पौषसंक्रमणे विप्र सलक्ष्मीकाय विष्णवे २४।
दद्यान्मुमुक्षुर्मनुजो दशवर्णं च पीठकम् ।
यस्तु शङ्खध्वनिं कुर्यात्संपूज्य कमलापतिम् २५।
तस्य पुण्यफलं वच्मि शृणु वत्स समाहितः ।
अगम्यागमनाद्यैश्च विमुक्तः सर्वपातकैः २६।
अंते विष्णुपुरं गत्वा विष्णुना सह मोदते ।
वैनतेयांकितां घंण्टां यस्तु वादयते हरेः २७।
पूजाकाले द्विजश्रेष्ठ तस्य पुण्यं वदाम्यहम् ।
अभक्ष्यभक्षणाद्यैश्च विमुक्तः सर्वपातकैः २८।
प्रयाति मंदिरं विष्णो रथमारुह्य शोभनम् ।
तत्र भुक्त्वाखिलान्कामान्कल्पकोटिशतावधि २९।
पुनरागत्य धरणीं चतुर्वेदी द्विजोत्तमः ।
तत्र भुक्त्वाखिलान्कामान्कल्पकोटिशतावधि ३०।
पुनर्विष्णुपुरं गत्वा मोक्षं प्राप्नोत्यनुत्तमम् ।
वीणां वादयते यस्तु पूजाकाले जगत्पतेः ३१।
पंडितानामग्रणीः स्यात्स मर्त्यः प्रतिजन्मनि ।
मृदंगवाद्यकृद्यस्तु पूजायां कैटभद्विषः ३२।
तस्य प्रसन्नो भगवान्ददात्यभिमतं फलम् ।
डमरुं डिडिमं चैव झर्झरीं मधुरीं तथा ३३।
पटहं दुंदुभिं चैव काहलं सिंधुवारकम् ।
कांस्यं च करतालं च वेणुं वादयते तु यः ३४।
पूजाकाले महाविष्णोस्तस्य पुण्यं निशामय ।
स्तेयार्थैः पातकैर्मुक्तो मंदिरं याति चक्रिणः ३५।
परमं ज्ञानमासाद्य तत्रैव परिमुच्यते ।
कलशब्दं च यः कुर्यात्पूजाकाले जगद्गुरोः ३६।
मुखवाद्यं च विप्रेन्द्र तस्य पुण्यं मयोच्यते ।
कोटिकोटिकुलैर्युक्तः प्रयाति मन्दिरं हरेः ३७।
ज्ञानमासाद्य तत्रैव मोक्षमक्षय्यमाप्नुयात् ।
विष्णोरायतने यस्तु भक्तियुक्तः प्रनृत्यति ३८।
स याति ब्राह्मणश्रेष्ठ तद्विष्णोः परमं पदम् ।
यस्तु गायति गीतानि भक्त्या नारायणाग्रतः ३९।
स नृपत्वमवाप्नोति गन्धर्वाणां पुरेषु च ।
स्तौति स्तोत्रैर्जगन्नाथं भक्त्या च वैष्णवो जनः ४०।
तस्य प्रसन्नो भगवान्सर्वान्कामान्प्रयच्छति ।
मासेमासे हरिं यस्तु विधिनानेन पूजयेत् ४१।
अचिरेणैव विप्रर्षे प्रसादयति सोऽच्युतः ४२।
जगदुदधिमिमं ये तर्तुमिच्छंति मर्त्याः प्रचुरतरगभीरं सर्वदुःखप्रदं च ।
परमपुरुषपादांभोजयुग्मं मनोज्ञं त्रिदशनिवह सेव्यंते च सर्वे यजंतु ४३।
इति श्रीपद्मपुराणे क्रियायोगसारे भगवत्पूजामाहात्म्यंनाम चतुर्दशोऽध्यायः १४ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 15
व्यास उवाच-
नारायणस्य माहात्म्यं पुनर्वच्मि शृणु द्विज।
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः १।
विष्ण्वंशभूतं सकलं जगदेतद्दिवजोत्तम।
तस्माद्विष्णुमयं धीराः पश्यंति परमार्थिनः २।
ब्रह्मशंकररुद्राद्या विष्ण्वंशाः सकलाः सुराः।
तस्मात्समस्तदेवार्चा विष्णुमेकं प्रपद्यते ३।
स्मरतां विष्णुनामानि सर्वपापहराणि च।
येनकेनाप्युपायेन विद्यते नाशुभं क्वचित् ४।
सर्वमेव द्विजश्रेष्ठ कर्मणा पापमुच्यते।
अनपायि इदं विष्णोः स्मरणं पापनाशनम् ५।
स्वपन्भुञ्जन्वदंस्तिष्ठन्नुत्तिष्ठंश्च व्रजंस्तथा।
स्मरेदविरतं विष्णुं मुमुक्षुर्वैष्णवोजनः६।
उत्तुंगैर्मुनिभिः सर्वैः स्मरणे कमलापतेः।
न कालनियमः प्रोक्तः सर्वदुःखविनाशनः ७।
नामप्रभावं विप्रर्षे केशवस्य महात्मनः।
ब्रवीम्यहं समासेन सेतिहासं निशामय ८।
आसीत्स परशुर्नाम पूर्वं कृतयुगे शुचिः।
वैश्यो वैश्यकुलश्रेष्ठः समस्तगुणपारगः ९।
स वैश्यो दैवयोगेन प्रथमे वयसि द्विज।
जगाम वशतां मृत्योः कासश्वासगदार्दितः १०।
जीवंती नाम तत्पत्नी सुमध्या नवयौवना।
मृते भर्तरि तातस्य जगाम निलयं यतः ११।
सा जीवंती द्विजश्रेष्ठ नवयौवनगर्विता।
गतिं चकार जारेषु बाध्यमानापि बांधवैः १२।
व्रतस्य नियमं वापि गृहव्यापारमेव च।
जारानुरक्तचित्ता सा तत्याज्य नवयौवना १३।
अंधीकृता सा कामेन सुश्रोणी पीवरस्तनी।
धर्ममार्गं द्विजश्रेष्ठ न कदाचिद्ददर्श ह १४।
दुःशीलां चैव तां दृष्ट्वा तत्पिता धर्मतत्परः।
अपकीर्तिभयाद्भीरुरित्याहात्यंत कोपवान् १५।
दुष्टे पापिनि मद्वंशे सर्वदोषविवर्जिते।
आसाद्य जन्म किमिति क्रियते पातकं त्वया १६।
यदि ते पातके चित्तं ह्यदितुं नैव एहि वै।
अभद्रे गच्छ सदनाज्जहीहि मम मंदिरम् १७।
तातेनेति निरुक्ता सा क्रोधारुणितलोचना।
पितुर्गेहं परित्यज्य साजगाम यथासुखम् १८।
अथ सा स्वेच्छया नारी भ्रमंती जारकांक्षया।
वेश्यावृत्तिं समाश्रित्य तस्थौ लज्जाविवर्जिता १९।
पुलिंदः शबरो वापि चाण्डालो वापि तद्गृहम्।
आयाति तस्यास्तेनापि मुदा क्रीडति साऽसती २०।
परलोकभयं विप्र कदाचिदपि चेतसा।
न चिंतयामास च सा वारनारी यथाक्रमात् २१।
कदाचिद्ब्राह्मणश्रेष्ठ कश्चिद्व्याधस्तदालये।
शुकशावं समादाय विक्रयार्थं समाययौ २२।
सापि वाराङ्गना तं च शुकशावकमुत्तमम्।
जगृहे परमप्रीत्या धनैः संपूज्य लुब्धकम् २३।
तद्योग्याहारदानेन वारस्त्री नित्यमेव सा।
शुकस्य पोषणं चक्रे तस्य जातकुतूहला २४।
वारांगनानपत्या सा तमेव शुकशावकम्।
मत्वा पुत्रमिवात्मानं चक्रे तत्प्रतिपालनम् २५।
सोऽपि पक्षी द्विजश्रेष्ठ नित्यमेव तदाज्ञया।
ज्ञातिवच्चित्तवात्सल्य व्यवहारं करोति च २६।
ततोऽसौ लब्धभावश्च शुको गणिकया तदा।
रामेति सततं नाम पाठ्यते सुंदराक्षरम् २७।
रामनाम परं ब्रह्म सर्वदेवाधिकं महत्।
समस्तपातकध्वंसि स शुकस्तु सदा पठन् २८।
रामोच्चारणमात्रेण तयोश्च शुकवेश्ययोः।
विनष्टमभवत्पापं सर्वमेव सुदारुणम् २९।
कदाचिद्वारमुख्या सा शुकोऽपि च द्विजोत्तम।
उभावपि च पंचत्वमेककाले गतौ ततः ३०।
समानेतुं ततस्तौ तु विहिताखिलपातकौ।
किंकरान्प्रेषयामास चंडाद्यान्धर्मराट्ततः ३१।
ततस्ते किंकराः सर्वे चंडाद्याः अतिवेगिनः।
यमाज्ञया समायाताः पाशमुद्गरपाणयः ३२।
आनेतुं तौ समायाताः सर्वे विष्णुपराक्रमाः।
पाशबद्धौ तु तौ दृष्ट्वा पतितौ विष्णुकिंकराः ३३।
ऊचुर्वाक्यमिदं क्रुद्धा यमदूतान्सुरासदान् ३४।
विष्णुदूता ऊचुः -
अहो चित्रमिदं वाक्यं यमदूता मुखाच्छ्रुतम् ३५।
भक्तावपि हरेरेतौ दंड्यौ भास्करसूनुना।
अहो चरित्रं दुष्टानां कदाचिदपि नोत्तमम् ३६।
यत्नादपि यतो हिंसां कुर्वंति सततं सताम्।
दुष्टानां कृतपापानां चरित्रमिदमद्भुतम् ३७।
निष्पापमपि पश्यन्ति पुण्यात्मानोऽखिलं जगत्।
पापिनस्तु न पश्यन्ति कृतपापमिवाखिलम् ३८।
श्रुत्वा पुण्यात्मनां पुण्यमभितृप्यंति धर्मिणः।
तृप्यंति पातकं श्रुत्वा पापिनां पापिनो जनाः ३९।
पापचर्चां समाकर्ण्य यथा तृप्यंति पापिनः।
न तृप्यन्ति यथा प्राप्य स्वर्णभारशतान्यपि ४०।
अहो बलवती माया महाविष्णोर्महात्मनः।
आत्मपीडाकरमपि पापं कुर्वंति ते द्विज ४१।
व्यास उवाच-
इत्युक्त्वा विष्णुदूतास्ते विष्णुभक्ति परायणाः।
छिन्नवंतस्तयोर्विप्र बंधनं चक्रधारया ४२।
ततस्तु शमनप्रेष्याः क्रुद्धास्ते वह्निसंन्निभाः।
ववर्षुः सहसा तत्र ज्वलदंगारसंचयान् ४३।
दंड उवाच-।
विहितं च मयाप्येवं शुकं वेश्यां च पापिनीम्।
नेतुं यूयं समायाता इत्यद्भुतमिवाभवत् ४४।
नूनमेतौ यदा नेतुं यूयमिच्छतसत्तमाः।
तदा कुरुत संग्राममस्माभिः सह संप्रति ४५।
इत्युक्त्वा रामदूतास्ते बलिनो विधृतायुधाः।
सिंहनादैर्दिशः सर्वे पूरयामासुरुद्धताः ४६।
विष्णुदूता महात्मानः सुप्रतीकादयस्तथा।
शङ्खनादैः सुललितैश्चक्रुः शब्दमयं जगत् ४७।
याम्यैस्ततो महादूतैर्धनुर्मुक्तैः शिलीमुखैः।
छादिता विष्णुदूतास्ते संग्रामेऽत्यंतदारुणे ४८।
शूलान्यध्यक्षिपुः केचिच्छक्तिं केचिन्महार्णवे।
केचिच्छरसहस्राणि केचिच्चक्राणि ते रुषा ४९।
तैर्मुक्तानि महास्त्राणि विष्णुदूता महामराः।
बाणान्विचूर्णयामासुर्गदाप्रहरणादिभिः ५० 7.15.50।
ततो भागवतैरेतैर्याम्यानां चक्रधारया।
केषांचिच्चरणाश्छिन्नाः केषांचिद्बाहवस्तथा ५१।
केचिद्विच्छिन्नशिरसः केचिन्निर्भिन्नवक्षसः।
अत्यद्भुत क्षताः केचिद्व्यास्याः पेतुर्गतासवः ५२।
छिन्नैकचरणाः केचित्केचिच्छिन्नैकपाणयः।
संत्यज्य सहसा याम्याः संग्रामाच्च प्रदुद्रुवुः ५३।
तानालोक्य ततो दूतान्पलायनपरायणान्।
प्रविवेश रुषा चंडः संग्रामं धृतमुद्गरः ५४।
यमदूतगणश्रेष्ठश्चंडोऽत्यंत प्रतापवान्।
ताडयामास शतशो मुद्गरैर्विष्णुकिङ्करान् ५५।
अथ भागवता दूता निशितायुधवर्षणैः।
ववर्षुस्तरसा क्रुद्धास्तं चंडं चंडविक्रमम् ५६।
मुद्गरेण ततश्चण्डो विष्णुदूतान्पृथक्पृथक्।
ताडयामास विगलद्रक्तसंसिक्तविग्रहः ५७।
चंडेन ताडितास्तेन दूता भगवतो युधि।
त्यक्तसत्वाः पृष्ठभागं सुप्रकाशस्य वै ययुः ५८।
सुप्रकाशस्ततः क्रुद्धो जपापुष्पनिभेक्षणः।
प्रविवेश रणे युद्धं गदापाणिर्महाबलः ५९।
ताडयामास संक्रुद्धो विष्णुतुल्यपराक्रमः।
मुद्गराच्चंडहस्ताच्च प्रेक्ष्य जनभयप्रदात् ६०।
समुत्तस्थौ महाभीष्मः सधूमः पूतिगन्धवान्।
स मुद्गरेण चंडेन ताडितस्तस्य वेगिना६१।
स्फुलिंगा वर्षणं सद्यो मुमोचात्यंतभीतिदम्।
ततः क्रुद्धेन चंडोऽसौ तेनैव मुद्गरेण च ६२।
ताडयामास विप्रर्षे सुप्रकाशं महाबलम्।
सुप्रकाशस्ततो विप्र व्यथां विस्मृत्य कोपवान् ६३।
गदया ताडयामास चंडं शमनकिंकरम्।
तेन प्रताडितश्चंडस्तत्र रक्तः परिप्लुतः ६४।
पपात मूर्च्छितो भूमौ बालार्क इव जैमिने।
याम्यदूतास्ततस्ते च चंडमादाय मूर्च्छितम् ६५।
हाहाकारं प्रकुर्वंतो युद्धाद्भीताः प्रदुद्रुवुः।
विष्णुदूतास्ततो विप्र सर्वे चातिप्रहर्षिताः ६६।
अथ शंखान्समादध्मुर्जैमिने द्विजसत्तम।
यमदूतास्ततस्ते च शोणितौघपरिप्लुताः ६७।
यमस्यसन्निधिं जग्मुः क्रंदंतो भयविह्वलाः ६८।
यमदूता ऊचुः-
सूर्यपुत्र महाबाहो तवाज्ञाकारिणो वयम्।
तथापि विष्णुदूतैर्नः कृता दुर्गतिरीदृशी ६९।
महापातकिनां श्रेष्ठौ प्रभो यद्यपि तौ खलु।
रामनामप्रभावेण गतौ नारायणालयम् ७०।
भवता दंडनीया ये दुरात्मानः कृतैनसः।
तेऽपि विष्णुपुरं यांति प्रभुत्वं तव किं तदा ७१।
नास्माकं विष्णुदूतात्स्तैः कृतः परिभवस्त्वयम्।
तवैव केवलं नाथ यतो वै किंकरा वयम् ७२।
यम उवाच-
दूताः स्मरंतौ तौ राम रामनामाक्षरद्वयम्।
तदा न मे दंडनीयौ तयोर्नारायणः प्रभुः ७३।
संसारे नास्ति तत्पापं यद्रामस्मरणैरपि।
न याति संक्षयं सद्यो दृढं शृणुत किंकराः ७४।
ये मानवाः प्रतिदिनं मधुसूदनस्य नामानि घोरदुरितौघविनाशनानि।
भक्त्या स्मरंति विबुधप्रवरार्चितस्य ते पापिनोऽपि हि भटा मम नैव दंड्याः ७५।
गोविन्द केशव हरे जगदीश विष्णो नारायणप्रणतवत्सलमाधवेति।
भक्त्या वदंति पुरुषाः सततं क्षितौ ये दंड्या न ते मम भटा अतिपापिनोऽपि ७६।
भक्तार्तिनाशनसुरेश्वरदीनबंधो लक्ष्मीपते सकलपापविनाशकारिन्।
एतद्वदांतसततं भुवि ये मनुष्यास्ते पापिनोऽपि न भटा मम दंडनीयाः ७७।
दामोदरेश्वरमुखामरवृन्दसेव्य श्रीवासुदेव पुरुषोत्तम माधवेति।
येषां वदंति वदनेषु सदैव शब्दा दूता नमाम्यहमपि प्रतिवासरं तान् ७८।
नारायणस्य जगदेकपतेर्मुरारेश्चर्चासु चित्तमतिहार्द्दि नृणां च येषाम्।
तेषामहं च सततं सुभटा ह्यधीनो ये ते प्रफुल्लकमलेक्षणरूपभाजः ७९।
ये विष्णुपूजनरता हरिभक्तभक्ता एकादशीव्रतरताः कपटैर्विहीनाः।
ये विष्णुपादसलिलं शिरसा वहंति ते पापिनोऽपि न भटा मम दंडनीयाः ८०।
ये भुञ्जते भगवतो मधुसूदनस्य नैवेद्यशेषमखिलौघविनाशकारि।
ये कर्णयोश्च शिरसिच्छदनं तुलस्या नित्यं वहंति च भटाः प्रणमाम्यहं तान् ८१।
ये कृष्णपादकमलार्चनतत्पराश्च ये ब्राह्मणार्चनरता गुणसेविनश्च।
ये दीनलोकहृदयातिसुखप्रदाश्च तेषामहं सततमेव भटा अधीनः ८२।
ये सत्यवाक्यकथनेषु सदानुरक्ता लोकप्रियाश्च शरणागतलोकपालाः।
पश्यंति ये च सततं विषवत्परस्वं ते मानवा मम भटा न हि दंडनीयाः८३।
ये चान्नदाननिरताः सलिलप्रदाश्च भूमिप्रदा निखिललोकहितैषिणश्च।
ये वृत्तिहीनजनतृप्तिकराः प्रशांता दूता न ते खलु कदापि च दंडनीयाः ८४।
ये ज्ञातिपोषणरताः प्रियवादिनश्च ये दम्भकोपमदमत्सरहीनचित्ताः।
ये पापदृष्टिरहिता विजितेंद्रियाश्च तेषामहं न विदधामि कदापि चर्चाम् ८५।
व्यास उवाच-
एवं प्रबोधितास्तेन यमेन यमकिंकराः।
ज्ञातवंतो जगद्भर्तुः प्रभावमतुलं हरेः ८६।
विष्णोर्नामानि विप्रेन्द्र सर्वदेवाधिकानि वै।
तेषां मध्ये तु तत्त्वज्ञा रामनामवरं स्मृतम् ८७।
रामेत्यक्षरयुग्मं हि सर्वं मंत्राधिकं द्विज।
यदुच्चारणमात्रेण पापी याति पराङ्गतिम् ८८।
रामनामप्रभावं हि सर्वदेवप्रपूजनम्।
महेश एव जानाति नान्यो जानाति जैमिने ८९।
विष्णोर्नामसहस्राणां पठनाल्लभते फलम्।
तत्फलं लभते मर्त्यो रामनामस्मरन्नपि ९०।
अहो चित्रं मनुष्याणां चरित्रमिदमुच्यते।
रामेति मुक्तिदं नाम न स्मरंति दुराशयाः ९१।
वक्तुं श्रमो न चाल्पोऽपि श्रोतुमत्यंतसुन्दरम्।
तथापि रामरामेति न वदंति दुराशयाः ९२।
अत्यंतदुःखलभ्यापि मुक्तिर्जगति मानवैः।
लभ्यते रामनाम्नैव कर्मास्ति किमतः परम् ९३।
तावत्तिष्ठंति पापानि देहेषु देहिनां वर।
रामरामेति यावद्वै न स्मरंति सुखप्रदम् ९४।
श्राद्धे च तर्पणे चैव बलिदाने तथोत्सवे।
यज्ञे दाने व्रते चैव देवताराधनेऽपि च ९५।
अन्येष्वपि च कार्येषु वैदिकेषु विचक्षणः।
स्मरेद्यस्तत्फलप्रेप्सू रामरामेति भक्तितः ९६।
नमो रामायेति विप्रेन्द्र मन्त्रमोङ्कारपूर्वकम्।
षडक्षरं जपेद्यस्तु सायुज्यं प्राप्यते हरेः ९७।
षडक्षरेण मंत्रेण हरिपूजनकृन्नरः।
सर्वान्कामानवाप्नोति प्रसादाच्चक्रपाणिनः ९८।
मृत्युकाले द्विजश्रेष्ठ रामरामेति यः स्मरेत्।
स पापिष्ठोऽपि परमं मोक्षमाप्नोति मानवः ९९।
रामेति नाम यात्रायां ये स्मरंति मनीषिणः।
सर्वसिद्धिर्भवेत्तेषां यात्रायां नात्र संशयः १०० 7.15.100।
अरण्ये प्रांतरेवापि श्मशाने यो भयानके।
रामनामस्मरेत्तस्य विद्यंते नापदो द्विज १०१।
राजद्वारे तथा दुर्गे विदेशे दस्युसंमुखे।
दुःस्वप्नदर्शने चैव ग्रहपीडासु जैमिने १०२।
औत्पातिके भये चैव वातरोगभये तथा।
रामनाम स्मरन्मर्त्यो लभते नाशुभं क्वचित् १०३।
रामनाम द्विजश्रेष्ठ सर्वाशुभनिवारणम्।
कामदं मोक्षदं चैव स्मर्तव्यं सततं बुधैः १०४।
रामनामेति विप्रर्षे यस्मिन्न स्मर्यते क्षणे।
क्षणः स एव व्यर्थः स्यात्सत्यमेव मयोच्यते १०५।
स्मरंतो हरिनामानि नावसीदंति मानवाः १०६।
जन्मकोटिदुरितक्षयमिच्छुः संपदं च लभते भुवि मर्त्यः।
विष्णुनाम सततं भुवि भक्त्या मोक्षदातिमधुरं स्मरति स्म १०७।
इति श्रीपद्मपुराणे क्रियायोगसारे पंचदशोऽध्यायः १५।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 16
व्यास उवाच-
भूय एव द्विजश्रेष्ठ महाविष्णोः परात्मनः ।
ब्रवीमि शृणु माहात्म्यं सर्वदुःखविनाशनम् १।
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चान्येन्त्यजास्तथा ।
हरिभक्तिं प्रपन्ना ये ते कृतार्था न संशयः २।
हरेरभक्तो विप्रोऽपि विज्ञेयः श्वपचाधिकः ।
हरिभक्तः श्वपाकोऽपि विज्ञेयो ब्राह्मणाधिकः ३।
स कथं ब्राह्मणो यस्तु हरिभक्तिविवर्जितः ।
स कथं श्वपचो यस्तु भगवद्भक्तिमानसः ४।
अव्याजेन यदा विष्णुः श्वपाकेनापि पूज्यते ।
तदा पश्येत्तमप्येवं चतुर्वेदद्विजाधिकम् ५।
पुरासीच्चक्रिको नाम शबरो लोककर्षकृत् ।
सुजातिवृत्तिहीनश्च युगे द्वापरसंज्ञके ६।
विप्रवादी जितक्रोधः परहिंसाविवर्जितः ।
दयालुर्द्दम्भहीनश्च पितृमातृपरायणः ७।
न कृतो वैष्णवोलापो मोक्षशास्त्रं न च श्रुतम् ।
तथापि जाता तच्चित्ते हरिभक्तिरचञ्चला ८।
हरे केशव गोविन्द वासुदेव जनार्दन ।
इत्यादीनि स्मरन्नित्यं स च नामानिचक्रिणः ९।
वन्यं फलं च यत्किञ्चित्प्राप्नोति द्विजसत्तम ।
आदौ ददाति तद्वक्त्रे निजे शबरवंशजः १०।
तन्माधुर्यं ततो ज्ञात्वा वक्त्रान्निष्कास्य तत्पुनः ।
ददाति हरये भक्त्या सुप्रीतः प्रतिवासरम् ११।
उच्छिष्टं वाप्यनुच्छिष्टं द्वयमेव न वेत्ति सः ।
निजजातिस्वभावो हि सततं मूर्घ्नि वर्तते १२।
कदाचित्स द्विजश्रेष्ठ काननाभ्यंतरे भ्रमन् ।
फलमेकं प्राप्य पक्वं प्रियालस्येति शाखिनः १३।
अथासौ हर्षितस्तस्य फलमप्राप्य चक्रिकः ।
स संरंभेण ज्ञात्वा वै निजवक्त्रांतरे ददौ १४।
स ददौ तत्फलं यावन्निजवक्त्रांतरे द्विज ।
प्रविवेश गलं तावत्तत्फलं शृणु जैमिने १५।
तावत्सव्येन हस्तेन गलरन्ध्रं बबंध सः ।
यत्नाद्विधृत्य सव्येन पाणिना सकलं द्विज १६।
चक्रिकश्चिन्तयामास हरिभक्तिपरायणः ।
फलमेतद्यदा तस्मै न ददामि मुरारये १७।
न जातः कोऽपि संसारे तदाहमिव पातकी ।
हरिं संचिंत्य बहुधा स चकार मतिं ततः १८।
तथापि तत्फलं तस्य न निष्क्रांतं गलाद्द्विज ।
हरेरेकांतभक्तोऽसौ छित्त्वा परशुना गलम् १९।
आनीय तत्फलं पक्वं ददौ देवाय विष्णवे ।
तत्सन्निधिं समायातस्तमेव हृदि चिंतयन् २०।
रुधिरोक्षितसर्वाङ्गः पतितः क्षितिमण्डले ।
तं दृष्ट्वा भगवान्विष्णुर्गतासुं व्यथितोऽभवत् २१।
एतस्य सदृशो भक्तो मम कोऽपि न विद्यते ।
यतो निजगलं छित्त्वा मम संतोषणं कृतम् २२।
यथा भक्तिमताऽनेन सात्विकं कर्म वै कृतम् ।
यद्दत्वानृण्यमाप्नोति तथा वस्तुकिमस्ति मे २३।
धन्योऽयमतिधन्योऽयं धन्योऽयं नात्र संशयः ।
प्राणानपि परित्यज्य ममसंतोषणं कृतम् २४।
ब्रह्मत्वं वा शिवत्वं वा चक्रित्वं वापि दीयते ।
तदाप्यानृण्यमेतस्य भक्तस्य न हि गम्यते २५।
इत्युक्त्वात्यंत संतुष्टो भगवान्गरुडध्वजः ।
स्वहस्तकमलेनास्य ततो मस्तकमस्पृशत् २६।
तद्धस्तकमलस्पर्शाच्छबरोऽसौ गतव्यथः ।
समुत्तस्थौ महासत्वो नारायणपरायणः २७।
व्यास उवाच-
ततोऽस्य भक्तश्रेष्ठस्य निजवस्त्रेण केशवः ।
पुत्रस्येव पिता गात्ररजः प्रोक्षितवान्द्विज २८।
चक्रिकस्तं समालोक्य मूर्तिमंतं जनार्दनम् ।
वाचा मधुरयाऽस्तौषीत्प्रह्वमस्तः कृताञ्जलिः २९।
चक्रिक उवाच-
गोविन्द केशव हरे जगदीश विष्णो जानामि यद्यपि न ते स्तुतियोगवाक्यम् ।
स्तोतुं तथापि रसना मम वांछति त्वां स्वामिन्प्रसीद हर दोषमिमं प्रवृद्धम् ३०।
त्यक्त्वा भवंतमखिलेश्वरचक्रपाणे अन्यं यजंति मनुजा जगतीह ये वै ।
मूढास्त एव दुरितप्रकरैकधाम सानुग्रहस्त्वमसि मय्यपि देव यस्मात् ३१।
जानाति देव भवतो भवनैकनाथ भक्त्यैव यद्यपि नृणांभवबंधहर्त्रीम् ।
एकांतपापशबरान्वयलब्धजन्मा विष्णोस्तथापि भगवान्मयि सुप्रसन्नः ३२।
यस्य प्रभो तव मनोज्ञ करारविंदं स्पर्शं चतुर्मुखमुखा अपि देववृन्दाः ।
न प्राप्नुवंति विदितस्य मयाद्य लब्धं त्वत्तो न कोऽपि सदयो निजसेवकेषु ३३।
येन त्वया भगवता त्रिदशाद्यवैरी कंसासुरो निमिसुतः कृतसर्वपापः ।
सेन्द्रामरप्रकरमर्त्यहिताय पूर्वं तस्मै नमः परममंगलदाय तुभ्यम् ३४।
येन त्वयातिबलिना यमलार्जुनौ तौ देवोत्तमेन निहतौ वसुदेवजेन ।
दुष्टश्च कालयवनो युधि धेनुकश्च तस्मै नमोऽस्तु नवमेघनिभाय तुभ्यम् ३५।
श्रीकृष्णदामोदरभो ह्यनंत येन त्वयामरपतेरचला विभूतिः ।
पूर्वं कृता भगवता परमेश्वरेण तस्मै नमोऽस्तु यदुवंशपराय तुभ्यम् ३६।
पारिजातो हृतो येन विजितोऽखंडलस्त्वया ।
लीलाजित महेशाय तस्मै तुभ्यं नमोनमः ३७।
कृत्वा वृकोदरं हेतुं जरासंधो निपातितः ।
बाणासुरस्य निहता बाहवो ये त्वया हताः ३८।
शिशुपालो हतो येन तस्मै नित्यं नमोनमः ।
भूमेरपहृतो भारस्त्वया येन महात्मना ३९।
क्षत्त्रियान्मायया हत्वा तस्मै नित्यं नमोनमः ।
व्यास उवाच-
इति तेन स्तुतो विष्णुश्चक्रिकेन महात्मना ४०।
उवाच परमप्रीतो वरं वृण्विति जैमिने ।
चक्रिक उवाच-
परं ब्रह्म परं धाम परमात्मन्कृपामय ४१।
पश्यामि त्वामहं साक्षाद्वरैः किमपरैर्द्विज ।
न ध्याता भवतो मूर्तिः पूजा च न कृता तव ४२।
नैवेद्यैर्दिव्यपुष्पैश्च दिव्यधूपैः प्रदीपकैः ।
न ते स्मृतानि नामानि कदाचिद्भवतो मया ४३।
त्वत्पादसलिलं स्वामिन्विधृतं न हि मूर्द्धनि ।
न भुक्तं तव नैवेद्यं त्वद्व्रतं न मया कृतम् ४४।
तथाप्यहमपश्यं त्वां किं करोम्यपरैर्वरैः ।
शबरान्वयजन्मास्मि सर्वधर्मबहिष्कृतः ४५।
तथापि पादपद्मं ते दैवतैरपि दुर्ल्लभम् ।
तदेवाद्य मया प्राप्तं वरैः किमपरैर्मम ४६।
तथापि कमलाकांत वरदित्सुर्यदा भवान् ।
त्वयि तिष्ठतु मे चित्तं न मज्जेत्त्वदनुग्रहात् ४७।
श्रीभगवानुवाच-
वचनाऽमृतवर्षेण त्वदीयेन महाशय ।
संप्राप्य महतीं तुष्टिं मया सेवकपापिना ४८।
यदिदं वत्स मे दत्तं त्वया कमलमुत्तमम् ।
अनेनात्यंततुष्टोऽस्मि भक्तिं गृह्णामि हर्षितः ४९।
व्यास उवाच-
इत्युक्त्वा भगवान्विष्णुर्भक्तिग्राही दयामयः ।
तमालिंगितवान्भक्तं चतुर्भिर्दीर्घबाहुभिः ५० 7.16.50।
श्रीभगवानुवाच-
तुष्टोऽस्मि भवतो भक्त्या वत्स चक्रिकसत्तम ।
यदिदं वत्स मे दत्तं क्षिप्रं भवति निश्चितम् ५१।
भूयोऽपि तं महाभक्तमालिङ्ग्य परमेश्वरः ।
तत्रैवांतर्द्दधे विप्र विश्वात्मा विश्वपालकः ५२।
स चक्रिकोऽतिसंतुष्टो हरिभक्तिपरायणः ।
पुत्रदारादिकं त्यक्त्वा जगाम द्वारकां पुरीम् ५३।
तत्र चैवं समासाद्य कृपया कमलापतेः ।
आयुषोऽन्ते ययौ मोक्षं देवानामपि दुर्ल्लभम् ५४।
तस्माद्भक्तवशो देवो भक्तिमात्रेण तुष्यति ।
न च स्तोत्रैर्न वित्तैश्च न तपोभिर्जपेन च ५५।
फलं यद्यपि चोच्छिष्टं दत्तं तेन द्विजोत्तम ।
तथापि तुष्टवान्विष्णुर्ज्ञात्वा भक्तिमचञ्चलाम् ५६।
तस्मान्नारायणो देवः संसारेऽस्मिन्मुमुक्षुभिः ५७।
ये यजंति दृढया किल भक्त्या वासुदेवचरणांबुजयुग्मम् ।
वासवादिविबुधप्रवरेज्यं ते व्रजन्ति मनुजाः किल मोक्षम् ५८।
इति श्रीपद्मपुराणे क्रियायोगसारे षोडशोऽध्यायः १६ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 17
जैमिनिरुवाच-
पुनरेव गुरो ब्रूहि माहात्म्यं कमलापतेः ।
हरेः कथामृतं पीत्वा तृप्तिर्वै कस्य जायते १।
श्रीव्यास उवाच-
त्वत्तुल्यः कोऽपि संसारे सुकृती न हि विद्यते ।
यतः केशवमाहात्म्यं श्रोतुमिच्छसि भक्तितः २।
नारायणकथा रम्या पुनात्येवं जगत्त्रयम् ।
श्रोतारं पृच्छकं चैव वक्तारं च द्विजोत्तम ३।
शृणु लक्ष्मीपतेर्वत्स माहात्म्यं पापनाशनम् ।
कथयामि समासेन चतुर्वर्गफलप्रदम् ४।
भक्त्या परमया विष्णुमेकाहमपि योऽर्चयेत् ।
जन्मकोटिकृतं पापं सद्यस्तस्य हरेद्धरिः ५।
पुण्यात्मा स कथं मर्त्यो येन नाराधितो हरिः ।
स कथं पातकी यस्य भक्तिर्नारायणे प्रभौ ६।
अस्ति सर्वपुरश्रेष्ठं पुरुषोत्तमसंज्ञकम् ।
पुरं सर्वगुणैर्युक्तं सर्वदेव गणाश्रयम् ७।
सर्वेषामेव तीर्थानां वरिष्ठं तन्निगद्यते ।
यतस्तस्मिन्पुरे रम्ये साक्षाद्वसति केशवः ८।
तत्र भद्रतनुर्नाम पूर्वमेकोऽभवद्द्विजः ।
सुन्दरः प्रियवादी च पवित्रकुलसंभवः ९।
संप्राप्तयौवनो विप्रः सुंदरः काममोहितः ।
परलोकभयं त्यक्त्वा वारस्त्रीनिरतोऽभवत् १०।
न वेदाध्ययनं चक्रे पुराणानि च सर्वशः ।
तत्याजोत्तमसंज्ञां च पाखंडजनसङ्गमात् ११।
अयाज्यदानग्राही च परद्रव्यापहारकः ।
अभवद्धर्मनिन्दी च स विप्रः पापतत्परः १२।
तत्याज ब्राह्मणाचारं तथैव सत्यभावनम् ।
गुरूणामतिथीनां च पूजनं ब्राह्मणाधमः १३।
यद्यत्पापतरं कर्म तत्तदेव विधीयते ।
न च पुण्यतमं कर्म कदाचित्तेन जैमिने १४।
एकदा कृतपापोऽसौ लोकलज्जाभयान्वितः ।
श्राद्धं चकार विप्रो वै श्राद्धभक्तिविवर्जितः १५।
वारनारीमिति प्राह गतः स निशि तद्गृहम् ।
ब्राह्मण उवाच-
एतद्विशालजघने पितृश्राद्धदिनं मम १६।
आयातस्त्वद्गुणैर्बद्धस्तथापि निलयं तव ।
पश्य रात्रिमिमां कांते सर्वलोकभयावहाम् १७।
स्रवदंबुदसंघातं परिव्याप्तं नभःस्थलात् ।
नवांबुलुप्तमार्गायां त्वद्गुणाकृष्टमानसः १८।
अस्यामपि विभावर्यां तवाहं गृहमागतः ।
मेघविद्युत्प्रतीपेन कामेनार्थोपदेशिना १९।
त्वद्गुणाध्यानविश्वास आगतोऽहं निशि प्रिये ।
त्वामदृष्ट्वा क्षणमपि प्रीतिर्मे नहि जायते २०।
अपि दुःखेन हे तन्वि त्वां द्रष्टुमहमागतः ।
तीर्थतोयाभिषेकेन कांते किं मे प्रयोजनम् २१।
त्वत्प्रेमतीर्थतोयेन सिक्तः प्राप्तोऽस्म्यहं दिवि ।
परत्र सुखदां सेवामाराध्य मम किं फलम् २२।
जीवतैव मया स्वर्गः प्राप्यते त्वत्प्रसादतः ।
अपकीर्तिभयात्कांते श्राद्धकर्मकृतं गृहे २३।
अस्मिञ्छ्राद्धे मम श्रद्धा स्वल्पापि न हि गम्यते ।
त्वं मे जपस्तपस्त्वं मे त्वं मे नीतिश्च सुन्दरि २४।
त्वामेकामेव संसारे सर्वभावेन सुन्दरि ।
प्रपन्नोऽसि सदाऽहं ते आज्ञापय करोमि किम् २५।
सुमध्यमोवाच-
त्वया पुत्रेण तातस्तु पुत्रहीन इवाभवत् ।
पितृश्राद्धदिनेऽपि त्वं मैथुनं कर्त्तुमिच्छसि २६।
दुर्मते मैथुनं यस्तु कुरुते पितृवासरे ।
रेतोभोजिन एव स्युः पितरस्तस्य सोऽपि च २७।
कुरुते मैथुनं मूढो मोहात्पितृदिने यदि ।
तच्छ्राद्धं राक्षसग्राह्यं भवेन्नास्त्यत्र संशयः २८।
मय्यद्धा गदितं यत्ते यथा स्नेहेन मानसम् ।
तथा यदि भवेद्विष्णौ तदा प्राप्नोति किं नहि २९।
यमदंडांतरस्थायि जीवितं च शरीरिणाम् ।
तथापि पातकं मूढ कुरुषे निर्भयः सदा ३०।
जलबुद्बुदवन्मूढः क्षणविध्वंसि जीवितम् ।
किमर्थं शाश्वतधिया कुरुषेच्छुरितं सदा ३१।
ललाटे लिखितं यस्य मृत्युरित्यक्षरद्वयम् ।
स कथं कुरुते पापं समस्तक्लेशदायकम् ३२।
अहो माया महाविष्णोरेका बलवती क्षितौ ।
यतः पापं प्रकुर्वाणः सततं हर्षितो द्विज ३३।
स्थानं पापाय मे देहि निजदेहे दुराश्रये ।
दहत्याश्रममेधो हि वीतिहोत्र इव ज्वलन् ३४।
व्यास उवाच-
दैवप्रेरितपापाच्च तयेत्युक्तं सुवेश्यया ।
मनसा चिंतयामास ब्राह्मणः कृतपातकः ३५।
धिग्धिङ्मां च महापापं मूढं पातकिनां वरम् ।
वेश्याया एव तज्ज्ञानं तन्मे नास्ति दुरात्मनः ३६।
ब्राह्मणस्य कुले शुद्धे जन्म संप्राप्य वै मया ।
आत्मघातकरं पापं नित्यमेव कृतं महत् ३७।
जातो यदा ध्रुवो मृत्युर्मृते स्वामी यदा यमः ।
अविवेकतया पापं कथं तर्हि करोम्यहम् ३८।
जपस्तपस्तथा होमो वेदाध्ययनमेव च ।
विप्राचारोऽतिथेः पूजा गुरुभक्तिर्द्विजार्चनम् ३९।
पितृयज्ञादिकं कर्म पूजा च कमलापतेः ।
मया न चक्रे कस्माद्वै भविष्यत्युत्तमा गतिः ४०।
मार्कंडेयं महात्मानं सर्वधर्मविदां वरम् ।
तुष्टाव स द्विजो वाचा प्रणम्य भुवि दण्डवत् ४१।
ब्राह्मण उवाच-
नमस्तुभ्यं द्विजश्रेष्ठ दीर्घजीवनमोऽस्तुते ।
नारायणस्वरूपाय नमस्तुभ्यं महात्मने ४२।
नमो मृकण्डपुत्राय सर्वलोकहितैषिणे ।
ज्ञानार्णवाय वै तुभ्यं निर्विकाराय वै नमः ४३।
स्तुतस्तेनेति विप्रेण मार्कंडेयो महातपाः ।
उवाच परमप्रीतः सर्वशास्त्रार्थपारगः ४४।
मार्कंडेय उवाच-।
तव भक्त्याऽतितुष्टोऽस्मि महाभाग वरं वृणु ।
तवाभिलषितं सद्यः साधयिष्यामि नान्यथा ४५।
ब्राह्मण उवाच-
अहं पापात्मनां श्रेष्ठो द्विजाचारविवर्जितः ।
परहिंसान्वितो नित्यं परस्त्रीनिरतः सदा ४६।
मया मूढेन विप्रेन्द्र सदा पापं कृतं महत् ।
नामुत्रापि कृतं पुण्यं कदाचिदपि सादरम् ४७।
संसारसागरे घोरे दुःखदेऽत्यंत भैरवे ।
कथं भवति निस्तारो महापातकिनो मम ४८।
मार्कंडेय उवाच-
कृतपापोऽपि विप्रेन्द्र त्वं हि पुण्यात्मनां वरः ।
यतो बुद्धिरियं जाता त्वयि संसारदुर्ल्लभा ४९।
पुण्यात्मनां पुण्यदृष्टिर्वर्धते प्रतिवासरम् ।
पापात्मनां पापदृष्टिर्वर्द्धते तु दिनेदिने ५० 7.17.50।
पापत्मनापि भवता पापदृष्टिर्निवार्यते ।
अतस्तुभ्यं जगन्नाथः प्रसन्न इव लक्ष्यते ५१।
पापं कृत्वापि यो मर्त्यः पापाद्भूयो निवर्तते ।
तमुत्तरं नरं प्राहुः पूर्वजन्मार्चिताच्युतम् ५२।
निजभक्तं महाविष्णुर्दृष्ट्वा पापरतं प्रभुः ।
ददाति विपुलां बुद्धिं यथा भवति सद्गतिः ५३।
अतस्त्वं ब्राह्मणश्रेष्ठ प्रतिजन्माच्युतार्चकः ।
अचिरेणैव भद्रं ते भविष्यति न संशयः ५४।
यद्यत्पृष्टं त्वया विप्र मत्तः श्रोष्यसि तं नहि ।
यतो नित्यक्रियाकालो मम संप्रति वर्तते ५५।
दांतोनाम द्विजः कश्चिदस्ति सर्वार्थतत्ववित् ।
कथयिष्यति तत्सर्वं स च तस्याश्रमं व्रज ५६।
तेनोपदिष्टोऽसौ विप्रो मार्कंडेयेन धीमता ।
दांताश्रमं ययौ क्षिप्रं पवित्रमतिसुन्दरम् ५७।
अश्वत्थैश्चंपकैश्चैव बकुलैः प्रियकैस्तथा ।
अन्यैश्च पुष्पितैर्वृक्षैः शोभितं सुमनोहरम् ५८।
प्रफुल्लकुसुमामोदं परिव्याप्तदिगंतरम् ।
गुञ्जद्भ्रमरसंघातं फलशब्दातिशब्दितम् ५९।
मन्दंमन्दं वहद्वायुशीतलं चैव वारि च ।
शतश्वापदसंकीर्णं शिष्योपशिष्यसंकुलम् ६०।
तस्याश्रमं ततो विप्रः प्रविश्यातिमनोहरम् ।
ददर्श दांतं तत्वज्ञं सर्वशिष्यगणैर्वृतम् ६१।
स्तुत्वा तं ब्राह्मणश्रेष्ठ दांतं नारायणात्मकम् ।
ववंदे चरणौ तस्य शिरसा स द्विजोत्तमः ६२।
दांत उवाच-
कस्त्वं भद्र समायातः किमस्त्यत्र प्रयोजनम् ।
ब्रूहि तत्त्वं तु मां स्तौषि हेतुना केन सांप्रतम् ६३।
भद्रतनुरुवाच-।
ब्राह्मणोऽहं महाभाग ब्राह्मणाचारवर्जितः ।
नाम्ना भद्रतनुः ख्यातो विहिताखिलपातकः ६४।
संसारपापविच्छेदः कथं मे पापिनो भवेत् ।
एतन्मे कथय ब्रह्मन्यतस्त्वं सर्वतत्ववित् ६५।
दांत उवाच-
शृणु विप्र परं गुह्यं तवस्नेहान्मयोच्यते ।
येन संसारपाशस्य विच्छेदो भवते नृणाम् ६६।
त्यज पाखंडसंसर्गं संगं भज सतां सदा ।
कामं क्रोधं च मोहं च लोभं च दर्पमत्सरौ ६७।
असत्यं परहिसां च त्यज यत्नादपि द्विज ।
स्मरन्नामानि सततं महाविष्णोर्महात्मनः ६८।
संमार्जनं द्विजश्रेष्ठ तथोपलेपनं पुनः ।
मार्गशोभां च दीपं च केशवायतने कुरु ६९।
कुरु ब्राह्मणसेवां च ज्ञातिसेवां च सर्वदा ।
कुर्वन्न तोयदानं च नित्यं पंचमहाध्वरान् ७०।
कथां शृणु हरेर्मंत्रं जप त्वं द्वादशाक्षरम् ।
कर्माण्येतानि सवाणि कुर्वतस्तव सत्तम ७१।
भविष्यत्युत्तमं ज्ञानं ज्ञानान्मोक्षमवाप्स्यसि ७२।
ब्राह्मण उवाच-
यान्येतानि त्वया ब्रह्मन्प्रोक्तानि शुभदानि वै ।
तेषां विवरणं ब्रूहि किं मोहो दंभमत्सरौ ७३।
किमसत्यं च का हिंसा दयाशांतिर्दमश्च कः ।
समदृष्टिश्च का प्रोक्ता का पूजा कमलापतेः ७४।
अहोरात्रश्च कः प्रोक्तः किं विष्णुस्मरणं तथा ।
के वा पंचमहायज्ञाः को मंत्रो द्वादशाक्षरः ७५।
एषां विवरणं सर्वं ब्रूहि ब्राह्मणसत्तम ।
तथा तव प्रसादेन प्राप्नोमि परमं पदम् ७६।
दांत उवाच-।
ये वेदसंमतं कार्यं त्यक्त्वान्यत्कर्म कुर्वते ।
निजाचारविहीना ये पाखंडास्ते प्रकीर्तिताः ७७।
निजाचारग्राहिणो ये कुर्वते वेदसंमतम् ।
पापाभिलाषरहिताः सज्जनास्ते प्रकीर्तिताः ७८।
योऽभिलाषः सदा स्त्रीषु विभवोपार्जनादिषु ।
वर्त्तते ब्राह्मणश्रेष्ठ स काम इति कथ्यते ७९।
समाकर्ण्यात्मनो निन्दां यस्तापो हृदि जायते ।
स क्रोध इति विज्ञेयः सर्वधर्मावघातकः ८०।
परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते ।
अभिलाषो द्विजश्रेष्ठ स लोभ इति कीर्तितः ८१।
मम माता मम पिता ममेयं गृहिणी गृहम् ।
एतदन्यन्ममत्वं हि स मोह इति कीर्तितः ८२।
अहं महात्मा धनवान्न तुल्यः कोऽपि भूतले ।
इदं यज्जायते चित्ते मदः प्रोक्तः स कोविदैः ८३।
निंदंति मां सदा लोका धिगस्तु मम जीवनम् ।
इत्यात्मानं वदेद्यस्तु धिक्कारः स च मत्सरः ८४।
यथार्थकथनं यच्च सर्वलोकसुखप्रदम् ।
तत्सत्यमिति विज्ञेयमसत्यं तद्विपर्ययम् ८५।
ऐश्वर्यं दारपुत्राद्या यान्त्यमुष्यकदा क्षयम् ।
इति या जायते चित्ते सा हिंसा परिकीर्तिता ८६।
यत्नादपि परक्लेशं हर्तुं यद्धृदि जायते ।
इच्छाभूमिर्द्विजश्रेष्ठ सा दया परिकीर्तिता ८७।
या तुष्टिर्जायते चित्ते शान्तिः सा गद्यते बुधैः ।
कुत्सितात्कर्मणोऽन्यत्र यच्चित्ताविनिवारणम् ८८।
संकीर्तितो दमः प्राज्ञैः संमतस्तत्वदर्शिभिः ।
दुःखे सुखे च विप्रेन्द्र या तुष्टिर्वर्तसे सदा ८९।
तथा शत्रौ च मित्रे च समदृष्टिर्हि सा स्मृता ।
नैवेद्यगंधपुष्पाद्यैः श्रद्धया पुरुषो हरेः ९०।
योऽर्चनं कुरुते विप्र सा पूजा परिकीर्तिता ।
मध्याह्ने चैव रात्रौ च लंघनं यद्विधीयते ९१।
तद्विज्ञेयमहोरात्रं पूर्वापरदिनाशनम् ।
आत्मनः केशवस्यापि द्वयोरपि च सत्तम ९२।
यदेकीकरणं तच्च विष्णुस्मरणमुच्यते ।
ब्रह्मयज्ञो नृयज्ञश्च देवयज्ञश्च सत्तम ९३।
पितृयज्ञो भूतयज्ञः पंचयज्ञाः प्रकीर्तिताः ।
नमो भगवते वासुदेवायोङ्कारपूर्वकम् ९४।
महामंत्रमिमं प्राहुस्तत्वज्ञा द्वादशाक्षरम् ।
इति ते कथितं सर्वं पृष्टं ब्राह्मणसत्तम ९५।
यज्ज्ञात्वा मानवाः सर्वे लभंते ज्ञानमुत्तमम् ।
ततः प्रतिदिनं विप्र नाम्नामष्टोत्तरं शतम् ९६।
पठित्वा कमलाभर्तुर्दुर्ल्लभं मोक्षमाप्स्यसि ।
भद्रतनुरुवाच-
ब्रूहि लक्ष्मीपतेर्विष्णोर्नाम्नामष्टोत्तरं शतम् ९७।
दांत उवाच-
शृणु विप्र प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
सहस्रनाम चाकृष्य सारं विष्णोः परात्मनः ९८।
अष्टोत्तरशतं नाम्नां महापातकनाशनम् ।
पठितव्यं यथा ध्यात्वा शृणु ध्यानं मयोच्यते ९९।
अतसीकुसुमाकारं प्रफुल्लकमलेक्षणम् ।
गवांचरणधूलीभिर्भूषिताखिलविग्रहम् १०० 7.17.100।
गोपुच्छवालपाशेन मंडितोत्तममस्तकम् ।
वंशीध्वनिपरिन्यस्तरुचिरौष्ठपुटं प्रभुम् १०१।
गोगोष्ठवासिभिः स्निग्धैः शिशुभिः परिवारितम् ।
पीतांबरं स्मरमुखं ध्यायेत्कृष्णास्यमुत्तमम् १०२।
ॐनमोऽस्य कृष्णाष्टोत्तरशतनाम्नां वेदव्यासऋषिरनुष्टुप्छंदः ।
श्रीकृष्णो देवता श्रीकृष्णप्रीत्यर्थे जपे विनियोगः १०३।
नमः कृष्णः केशवश्च केशिशत्रुः सनातनः ।
कंसारिर्धेनुकारिश्च शिशुपालरिपुः प्रभुः १०४।
देवकीनन्दनः शौरिः पुण्डरीकनिभेक्षणः ।
दामोदरो जगन्नाथो जगत्कर्ता जगन्मयः १०५।
नारायणो बलिध्वंसी वामनोऽदितिनन्दनः ।
विष्णुर्यदुकुलश्रेष्ठो वासुदेवो वसुप्रदः १०६।
अनंतः कैटभारिश्च मल्लजिन्नरकांतकः ।
अच्युतः श्रीधरः श्रीमाञ्छ्रीपतिः पुरुषोत्तमः १०७।
गोविन्दो वनमाली च हृषीकेशोऽखिलार्तिहा ।
नृसिंहो दैत्यशत्रुश्च मत्स्यदेवो जगन्मयः १०८।
भूमिधारी महाकूर्मो वराहः पृथिवीपतिः ।
वैकुण्ठः पीतवासाश्च चक्रपाणिर्गदाधरः १०९।
शंखभृत्पद्मपाणिश्च नन्दकी गरुडध्वजः ।
चतुर्भुजो महासत्वो महाबुद्धिर्महाभुजः ११०।
महोत्सवो महातेजा महाबाहुप्रियः प्रभुः ।
विष्वक्सेनश्च शार्ङ्गी च पद्मनाभो जनार्दनः १११।
तुलसी वल्लभोऽपारः परेशः परमेश्वरः ।
परमक्लेशहारी च परत्र सुखदः परः ११२।
हृदयस्थोंऽबरस्थो यो मोहदो मोहनाशनः ।
समस्तपातकध्वंसी महाबलबलांतकः ११३।
रुक्मिणीरमणो रुक्मिप्रतिज्ञाखण्डनो महान् ।
दामबद्धः क्लेशहारी गोवर्द्धनधरो हरिः ११४।
पूतनारिर्मुष्टिकारिर्यमलार्जुनभञ्जनः ।
उपेन्द्रो विश्वमूर्तिश्च व्योमपादः सनातनः ११५।
परमात्मा परब्रह्म प्रणतार्तिविनाशनः ।
त्रिविक्रमो महामायो योगविद्विष्टरश्रवाः ११६।
श्रीनिधिः श्रीनिवासश्च यज्ञभोक्ता सुखप्रदः ।
यज्ञेश्वरो रावणारिः प्रलंबघ्नोऽक्षयोऽव्ययः ११७।
सहस्रनाम्नां चैतत्ते नाम्नामष्टोत्तरं शतम् ।
विष्णुप्रीतिकरं सर्वं सर्वपापविनाशनम् ११८।
दुःस्वप्ननाशनं चैव ग्रहपीडाविनाशनम् ।
सर्वरोगक्षयकरं परमैश्वर्यदं तथा ११९।
सर्वोपद्रवविध्वंसि सर्वकर्मफलप्रदम् ।
मया प्रोक्तं द्विजश्रेष्ठ वैष्णवप्रीतिहेतवे १२०।
त्रिसंध्यं यः पठेन्नित्यं भक्तितः पुरतो हरेः ।
शतमष्टोत्तरशतं नाम्नां तुष्टः सदा हरिः १२१।
श्राद्धे च यःपठेदेतद्भक्तिमान्वैष्णवो जनः ।
संतुष्टाः पितरस्तस्य प्रयांति परमं पदम् १२२।
यज्ञकाले पठेद्यस्तु देवताराधने तथा ।
दानकाले च यात्रायां स वै तत्फलमाप्नुयात् १२३।
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां स्तवस्यास्य प्रकीर्तनात् १२४।
ये पठंति हरेर्भक्त्या नाम्नामष्टोत्तरं शतम् ।
नाशुभं विद्यते तेषां कदाचिदपि भूतले १२५।
दांत उवाच-
गच्छ ब्राह्मण भद्रं ते प्रोक्तेन विधिना मया ।
समाराध्य हरिं भक्त्या परमं क्षेममाप्स्यसि १२६।
एवं प्रबोधितस्तेन दांतेन परमार्थिना ।
तस्मिन्क्षेत्रवरे पुण्ये हरिपूजापरोऽभवत् १२७।
नित्यं तु भक्त्या विप्रोऽसौ पंचाहानि च जैमिने ।
दांतप्रोक्तेन विधिना चकार हरिपूजनम् १२८।
ज्ञात्वा भक्तिं हरिस्तस्य सुदृढां करुणामयः ।
आविर्बभूव सहसा कोटिसूर्यइवांशुमान् १२९।
तं दृष्ट्वा जगतामीशं कमलाप्रियमच्युतम् ।
ववंदे शिरसा विप्रस्तत्पादकमलद्वये १३०।
अथासौ ब्राह्मणश्रेष्ठो हर्षनिर्भरमानसः ।
कृताञ्जलिर्जगन्नाथमस्तौषीत्कमलापतिम् १३१।
दृष्टिं हरे दुरितगामपि मे कृपालां भक्तिं निजां प्रति विभो शुभदामनैषीः ।
तस्मादहं विहितविस्तरपातकोऽपि ग्राम्यस्त्वयाकारि पुमानिवाद्य १३२।
रुष्टे त्वयि त्रिदशवंदितपादयुग्मे दृष्टिः प्रयाति दुरितं खलु मानवस्य ।
तुष्टे च याति सुकृतं प्रति सैव दृष्टिर्ज्ञातं मयैव परमेश्वर केवलं च १३३।
त्वां वच्मि नाथ भवतः स्मरणं प्रभावं यस्माद्व्रजामि निखिलार्जितपातकोऽपि ।
स्थानं जगाम परमं त्रिदशैकलभ्यमारुह्य शुद्धकनकच्छुरितं विमानम् १३४।
त्वत्पादपद्मसलिलस्य सदागुणाढ्यो व्याधः स वेत्ति कनिकः कृतसर्वपापः ।
त्वद्वेश्ममार्जनफलं जगदेकनाथ यज्ञध्वजः क्षितिपतिः सुरवंदितश्च १३५।
वेश्मोपलेपनफलं भवतो मुरारे सृष्टिस्थितिप्रलयकारण ईश्वरस्य ।
जानाति पन्नग रिपुध्वज यज्ञमाली भ्राता च तस्य कृतपापभयः सुमाली १३६।
हरिं प्रदक्षिणीकृत्य भवंतं यत्फलं भवेत् ।
धर्म एव स जानाति नान्यः कश्चिज्जगत्त्रये १३७।
तव चित्तं दयां नाथ गदितुं भुवि कः क्षमः ।
त्वां विद्ध्वापि शरैर्व्याधो जगाम परमं पदम् १३८।
निंदित्वापि जगन्नाथ भवंतं त्रिदशेश्वरम् ।
शिशुपालो ययौ मोक्षं तव भक्तस्य का कथा १३९।
ब्रह्मरूपेण येनासौ त्वया सृष्टमिदं जगत् ।
त्वयि तस्मिन्महाविष्णो रमतां मम मानसम् १४०।
सर्वो विष्णो त्वयानेन क्रियते जगतः क्षयः ।
रुद्र रूपेण संसारे तस्मै तुभ्यं नमोऽस्तु मे १४१।
यस्मादल्पतमं नास्ति यस्मान्नास्ति महत्तमम् ।
येन व्याप्तं जगत्सर्वं त्वया तस्मै नमोऽस्तु ते १४२।
नेत्राभ्यां यस्यदेवस्य सूर्योऽजनि दिवाकरः ।
मुखादग्निश्च जायेत तव तस्मै नमोऽस्तु ते १४३।
यस्य श्रोत्राद्वायवोऽपि जाताः प्राणाश्च केशव ।
तव तस्मै सुरश्रेष्ठ नमोऽस्तु मम सर्वदा १४४।
लक्ष्मीर्यस्य सदा क्रोडे श्यामाङ्गस्य सुनिर्वृता ।
सौदामिनीव मेघस्य तव तस्मै नमोऽस्तु ते १४५।
गंतुं महिम्नां सीमानं ब्रह्माद्या अपि निर्जराः ।
न शक्नुवंति वै यस्य तव तस्मै नमोऽस्तु ते १४६।
धर्माणां स्थापनार्थाय विनाशाय च पापिनाम् ।
युगेयुगे यः प्रभवेत्तस्मै तुभ्यं नमोऽस्तु मे १४७।
मायया मोहितं येन जगदेतन्महात्मना ।
क्षिणोति मायया शंभुर्यस्तस्मै ते नमोऽस्तु मे १४८।
भक्तिमात्रेण यस्तुष्टो न धनैर्न स्तवैस्तथा ।
न दानैर्न तपोभिश्च तस्मै तुभ्यं नमोऽस्तु मे १४९।
गवां च ब्राह्मणानां च साधूनां च हितं तथा ।
कृपां च कुरुते यस्तु तस्मै तुभ्यं नमोऽस्तु मे १५० 7.17.150।
अनाथानां च बंधूनां योगिनां दुःखिनां तथा ।
दुःखं हरति यो देवस्तस्मै तुभ्यं नमोऽस्तु मे १५१।
मनुष्येषु च देवेषु गजेषु सकलेषु च ।
वर्तते यः समत्वेन तस्मै तुभ्यं नमोऽस्तु मे १५२।
यस्मिंस्तुष्टे पर्वतोऽपि सद्य एव तृणायते ।
शैलीयते तृणं रुष्टे तस्मै तुभ्यं नमोऽस्तु मे १५३।
पुण्यानां च यथा पुण्ये निजे पुत्रे यथा पितुः ।
यथा पत्यौ सतीनां च तथा त्वयि ममास्तु वै १५४।
यूनां चित्तं यथा स्त्रीषु लुब्धानां च यथा धने ।
क्षुधितानां यथा चान्ने तथा त्वयि ममास्तु वै १५५।
घर्मार्तानां यथा चन्द्रे शीतार्तानां रवाविति ।
तृषार्तानां यथा तोये तथा त्वयि ममास्तु वै १५६।
यन्मया बुद्धिहीनेन गुरुस्त्रीगमनं कृतम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १५७।
अवध्यानां वधो यस्तु मायामोहवता कृतः ।
तत्पातकं क्षयं यातु भवंतंपश्यतो मम १५८।
अपेयपानं च मया विहितं परमेश्वर ।
तत्पातकं क्षयं यातु भवं तं पश्यतो मम १५९।
अप्सुयोनौ तथा तोये यद्रेतः सेचनं कृतम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १६०।
भ्रूणहत्या कृता या च रेतसां सेचनं भुवि ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम ६११।
विश्वासघातकं यञ्च अज्ञात्वा मा यया कृतम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १६२।
असत्यवचनं यच्च मया प्रोक्तं क्षणे क्षणे ।
तत्पातकं क्षयं यातु भवंतं पश्यतोमम १६३।
सतां निंदा कृता या च परहिंसा च सर्वदा ।
तत्पातकं क्षयंयातु भवंतं पश्यतो मम १६४।
श्लेष्मा च कफकं चैव यद्वक्त्रे च मया कृतम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १६५।
वनस्पतिगते सोमे यत्कृतं तरुघातनम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १६६।
पथि देवालये गोष्ठे मूलमंत्रं च यत्कृतम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १६७।
अभक्तिर्वितता या च पितुर्मातुश्च केशव ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १६८।
स्नानार्थं भोजनार्थं च गच्छन्यस्तु निवारितः ।
तत्पातकंक्षयंयातुभवंतंपश्यतोमम १६९।
एकादश्यांसुरश्रेष्ठयन्मयाभोजनंकृतम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७०।
अतिथिर्गृहमागच्छन्पूजितो न मया प्रभो ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७१।
द्वादश्यां च दशम्यां च कृतं यच्च द्विभोजनम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७२।
निवारणं कृतं यच्च पानार्थं धावती गवाम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७३।
असमाप्य परित्यक्तं व्रतमारभ्य यन्मया ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७४।
कूटसाक्ष्यं निरुक्तं यन्मित्रवात्सल्यतो मया ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७५।
ऋतुकालाभिगमनं निजपत्न्यां कृतं न यत् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७६।
असंस्कृते गृहे यच्च भोजनं विहितं मया ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७७।
ग्रामयाचकवृत्तिश्च या मया नृहरे कृता ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७८।
दण्ड्यमाने मया भूपे प्रभुत्वं यत्कृतं प्रभो ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १७९।
पौराणिककथामध्ये यो विघ्नो विहितो मया ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १८०।
आदरेण मया या च परपाककथा श्रुता ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १८१।
अश्वत्थच्छेदनं यच्च धात्र्याश्च च्छेदनं कृतम् ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १८२।
दधिदुग्धघृतानां च विक्रयो यः कृतो मया ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १८३।
आशां दत्वा परेभ्यश्च कृता सा निष्फला मया ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १८४।
द्विजाश्च याचकाश्चैव कोपदृष्ट्या मयेक्षिताः ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १८५।
जीवनोपायदातारः कोपान्निर्भर्त्सिता मया ।
तत्पातकं क्षयं यातु भवंतं पश्यतो मम १८६।
बहुनात्र किमुक्तेन बहुजन्मार्जितानि च ।
क्षयं गतानि पापानि भवंतं पश्यतो मम १८७।
कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं जगत्पते १८८।
इत्युक्त्वाऽसौ द्विजो भक्त्या पुलकांचितविग्रहः ।
पपात जैमिने विष्णोश्चारुपादांबुजद्वये १८९।
श्रीभगवानुवाच-
उत्तिष्ठोत्तिष्ठ ते विप्र तुष्टोऽस्मि तव भक्तितः ।
किंतेऽभिलषितं ब्रूहि तत्ते दास्याम्यहं ध्रुवम् १९०।
भद्रतनुरुवाच-
परमेश्वरगोविन्द दयालो परमाच्युत ।
यत्संप्रति मया प्राप्तं तत्केन भुवि लभ्यते १९१।
तथाप्येकं वरं याचे मुरारे तव सन्निधौ ।
जन्मजन्मनिमे भक्तिस्त्वय्यस्तु सुदृढा प्रभो १९२।
मया कृतमिदं स्तोत्रं यः पठेद्भक्तितो नरः ।
तस्याभिलषितं सर्वं प्रसन्नस्त्वं प्रदास्यसि १९३।
श्रीभगवानुवाच-
दत्तोऽयं ते वरः कोऽपि विप्र नास्त्यत्र संशयः ।
किंतु त्वया सह प्राज्ञ सख्यं कर्तुं मयेष्यते १९४।
न मे सेवकयोग्यास्ते भवानहमिह द्विज ।
अतः सख्यं प्रविवृतं त्वया सह मयाधुना १९५।
व्यास उवाच-
ततो नारायणो देवो दयालुर्भक्तवत्सलः ।
चकार जैमिने सख्यं तेन पुण्यात्मना सह १९६।
निजकण्ठगतां मालां ददौ तस्मै मुदा हरिः ।
सोऽपि विप्रो ददौ भक्त्या हरेस्तुलसिकास्रजम् १९७।
प्रसार्य चतुरो बाहूंस्तमालिंगितवान्हरिः ।
स विप्रोऽपि मुदा विष्णुं तमालिंगितवान्प्रभुः १९८।
इत्थं कृत्वा हरिः सख्यं तेनाग्रजन्मना सह ।
भक्तिग्राही दयालुः स तत्रैवांतरधीयत १९९।
ततः प्रतिदिनं तत्र क्षेत्रे च पुरुषोत्तमे ।
आरेभे कंदुकक्रीडां हरिस्तेनाग्रजन्मना २०० 7.17.200।
कदाचिद्दुर्बलं दृष्ट्वा तं विप्रं करुणामयः ।
उवाच वाचं विप्रर्षेमित्रवात्सल्यतो हरिः २०१।
श्रीभगवानुवाच-
सखे कथं दुर्बलस्त्वं हृतं केन धनं तव ।
हृदि का वा च ते चिन्ता सखे तद्वक्तुमर्हसि २०२।
भद्रतनुरुवाच-
त्वत्प्रीतये जगन्नाथ नित्यमेव मया तपः ।
क्रियते तेन मे गात्रं याति दुर्बलतां प्रभो २०३।
श्रीभगवानुवाच-
यथा त्वयि प्रसन्नोऽस्मि कस्मिंश्च न तथा सखे ।
कायक्लेशं पुनः कस्मात्करोषि द्विजसत्तम २०४।
दुर्बलं त्वां समालोक्य हृदि मे जायते व्यथा ।
कायक्लेशमतः सर्वं जहीहि द्विजसत्तम २०५।
निजोत्तरीयैर्निजवस्त्रभूषण्सुचारुचामीकरकुड्मलाभ्याम् ।
स्वहस्तराजद्वलयैश्च विप्रः स्वयं सुरेशेन च मंडितोऽसौ २०६।
किरीटमानीय निजाल्ललाटात्पादाच्च पादांगदयुग्ममीशः ।
सुवर्णहारं निजकंठदेशात्तस्मै ददौ विप्रवराय कृष्णः २०७।
तैर्भूषणैः श्रीहरिणा प्रदत्तैर्विभूषितोऽयं सुकृती द्विजन्मा ।
क्रीडेत्सदा कंदुककेलिवेत्ता कृष्णेन कृष्णांबुजसुंदरेण २०८।
तमेकदा भूषणभूषिताड्गं तांबूलरागारुचिरोष्ठयुग्मम् ।
दिव्यांबरं चारुतरोत्तरीयं स्मेराननं तत्र ददर्श दांतः २०९।
दांत उवाच-
भद्र भद्रतनोऽद्यापि पापदृष्टिं न मुंचसि ।
दृष्ट्वापि भवतः कार्यं निंदितं सकलैर्जनैः २१०।
शिष्यः कृतस्त्वं यस्मान्मे सर्वमेव हि भूषणम् ।
अहंयुश्चापि दुःशीलो निर्दयः पापतत्परः २११।
गुरुकीर्तिविनाशी च पंचैते शिष्यपांसुलाः ।
अभक्तो बहुभाषी च तथा चंचलमानसः २१२।
परोक्षगुरुनिंदाकृत्प्रोक्ताः शिष्याधमा इमे ।
चरित्रमुत्तमं ज्ञात्वा शिष्यः कार्यो विचक्षणैः २१३।
यतो दुर्जनगा विद्या गुरूणां चापि दुःखदा ।
कीर्तिदास्तैश्च या विद्या निरुक्तास्तत्वदर्शिभिः २१४।
ता वै दुर्जनगाः सद्यो गुरोर्घ्नंति यशस्तरुम् ।
पापेभ्यः पुण्यकर्माणि न रोचंते कदापि च २१५।
न रोचते मक्षिकाभ्यः सुगन्धिचंदनं यथा ।
यथा मिष्टान्नपानेन न हि तृप्यंति गर्दभा २१६।
दुर्जना न हि तृप्यंति यथा धर्मस्य चिंतया ।
अपकीर्तिभयाल्लक्ष्मीर्धर्मश्च सर्वकामदः २१७।
कदाचिन्न भजेद्दुष्टं भजेद्वा गच्छति क्षयम् ।
प्रतिजन्मनि या विद्या भाग्येन लभते परा २१८।
कदाचिल्लभते वापि तदा त्वं तरते विधिः २१९।
भद्रतनुरुवाच-
सत्यं ब्रवीषि विप्रर्षे नास्मि शास्त्रविशारदः ।
मया शिष्येण ते क्वापि नापकीर्तिर्भविष्यति २२०।
त्वत्प्रसादाद्दिवजश्रेष्ठ सर्वाभिलषितं मम ।
सिद्धिं प्रतिगतं यस्मात्त्वमेको भुवि दुर्ल्लभः २२१।
दांत उवाच-
किं तेऽभिलषितं विप्र सिद्धिं प्रतिगतं वद ।
अचिरेणैव तपसां कथमुद्यापनं कृतम् २२२।
भद्रतनुरुवाच-
स्वल्पश्रमैरपि प्राप्तं मया संदर्शनं हरेः ।
यस्याज्ञया गुरो त्यक्तं मया नित्यक्रियादिकम् २२३।
निजोत्तरीयं वस्त्रं च सुवर्णकलशद्वयम् ।
स्वहस्तवलयं चापि स्वललाटकिरीटकम् २२४।
निजपादतुलाकोटिं निजमुक्तावलीं ददौ ।
तथा मे भगवान्विष्णुः सुप्रीतो द्विजसत्तम २२५।
मया सह स कृत्वास्ते सख्यं सेवकदुःखहा ।
करोमि कंदुकाक्रीडां गुरो तेन सहानिशम् २२६।
एतन्मे वचनं श्रुत्वा गच्छामि न हि यद्यपि ।
प्रतीत्या च मया प्रोक्तं तथापि तव सन्निधौ २२७।
दांत उवाच-
सप्तवर्षसहस्राणि भक्त्या परमया मया ।
आराधितोऽपि मे विष्णुर्दर्शनं न ददौ विभुः २२८।
अहो विष्णुं समाराध्य पंचाहान्येव सत्तम ।
त्वया संदर्शनं प्राप्तं दैवतैरपि दुर्ल्लभम् २२९।
धन्योऽसि त्वं कृतार्थोऽसि साक्षाद्देवस्त्वमुच्यते ।
यतस्त्वया सह स्वामी प्रेम्णा सख्यं चकार ह २३०।
यदा मयि तव स्नेहो विद्यते द्विजसत्तम ।
कथं कथय मे विप्र दुर्ल्लभं विष्णुदर्शनम् २३१।
व्यास उवाच-
इत्युक्तो गुरुणा विप्रो विपिने निजमाश्रमम् ।
जगाम विस्मितो धीमान्विष्णुभक्तिपरायणः २३२।
अथान्यस्मिन्दिने गत्वा कंदुकक्रीडनं कृतम् ।
उवाचेति जगन्नाथं दयालुं विनयान्वितः २३३।
भद्रतनुरुवाच-
गुरुर्हि मम देवेंद्र तव दर्शनमिच्छति ।
काज्ञा ते तिष्ठतो ब्रूहि दयालो कमलापते २३४।
एकांतभक्तो विप्रोऽसौ तव पद्मनिभेक्षण ।
अतस्तस्मै सुरश्रेष्ठ दर्शनं दातुमर्हसि २३५।
श्रीभगवानुवाच-
अनेकजन्म विप्रेन्द्र भक्त्या परमया त्वया ।
पूजितोऽहमतो दत्तं दर्शनं ते मयाऽधुना २३६।
कतिचिद्दिवसांतेन मामभ्यर्च्य द्विजः स च ।
मां द्रष्टुमिच्छति प्राज्ञस्त्वदृश्यं दैवतैरपि २३७।
मम सोऽपि महाभक्तो मत्सपर्यापरायणः ।
मम संदर्शनं तस्मात्कदाचिद्द्विज लप्स्यति २३८।
व्यास उवाच-
इति तस्य वचः श्रुत्वा स विप्रः कमलापतिम् ।
इत्युवाच पुनर्भक्त्या केशवं क्लेशनाशनम् २३९।
भद्रतनुरुवाच-
अनुग्रहोस्ति देवेश यदा मयि जगत्पते ।
तदा मे संमुखे देहि दर्शनं भक्तवत्सल २४०।
अयाचत गुरुर्देव तव दर्शनदक्षिणाम् ।
अहो मे गुरवे दत्वा दर्शनं पाहि मां प्रभो २४१।
श्रीभगवानुवाच-
यदा नूनं त्वयोत्सृष्टा मत्संदर्शनदक्षिणा ।
तदा गुरुं समानीय दर्शनं मम कारय २४२।
इत्याज्ञप्तस्ततस्तेन गुरोराश्रममुत्तमम् ।
ययौ भद्रतनुः प्रीत्या पुनः स्वगुरुरागतः २४३।
तस्मिन्विप्रे समायाते दान्ते दातृवरे हरिः ।
आत्मानं दर्शयामास सर्वलक्षणसंयुतम् २४४।
ततो हरिं समालोक्य स विप्रो हरिभक्तिकृत् ।
बद्धाञ्जलिस्तमस्तौषीद्धर्षबाष्पविलोचनः २४५।
दांत उवाच-
दयालो कमलाकांत शरणागतपालक ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः २४६।
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
अद्य मे सफलं सर्वं प्राप्तं त्वद्दर्शनं मया २४७।
पूर्वमालोचितं यद्यद्वचनं श्रीपते प्रभो ।
सिंधुकोटिगभीरस्य प्रसृतं पुरतस्तव २४८।
स्तोत्रं तन्नास्ति संसारे वागीशस्य जगत्पतेः ।
येन स्तोत्रेण ते प्रीतिं जनयिष्यामि चेतसि २४९।
रक्षरक्ष प्रभो रक्ष मां प्रसीद जगत्पते ।
त्वद्दासदासदासानां दासत्वेनापि मां वृणु ।
व्यास उवाच-
ततः प्रहस्य देवेशो भक्तिग्राही दयामयः ।
करारविंदं तन्मूर्ध्नि दत्वा प्राहेति जैमिने २५० 7.17.250।
श्रीभगवानुवाच-
मद्भक्तोऽसि द्विजश्रेष्ठ प्राप्तं मद्दर्शनं त्वया ।
मत्प्रसादेन भद्रं ते सर्वमेव भविष्यति २५१।
व्यास उवाच-
तमालिङ्ग्य ततो दांतं प्रेम्णा भद्रतनुं च तम् ।
तत्रैवांतर्दधे विप्र सहसा परमेश्वर २५२।
तस्मिन्क्षेत्रवरे पुण्ये दुर्ल्लभे पुरुषोत्तमे ।
क्रियायोगैर्हरिन्दृष्ट्वा दांतो धाम परं ययौ २५३।
सोऽपि भद्रतनुर्विप्रो हरिभक्तिपरायणः ।
आयुषोंते ययौ मोक्षं देवानामपि दुर्ल्लभम् २५४।
एकाहमपि यो भक्त्या पूजयेत्परमेश्वरम् ।
बहुजन्मकृतं पापं प्रीतिः संवर्द्धते हरौ २५५।
अद्यापि त्रिदशाः सर्वे ब्रह्माद्या अपि जैमिने ।
प्रभावं न हि जानंति हरिभक्तस्य भूतले २५६।
कर्मभूमिरियं विप्र स्वर्गादपि च दुर्ल्लभा ।
यत्र विष्णुं समभ्यर्च्य मर्त्याः स्युः सुरवंदिताः २५७।
शक्राद्यास्त्रिदशाः सर्वे सुपुण्यक्षयभीरवः ।
अन्योन्यमपि जल्पंतोऽनिशं च द्विजसत्तम २५८।
भूय एव गमिष्यामः कर्मभूमिं कदा वयम् ।
कदा तत्र करिष्यामः पूजां श्रीकमलापतेः २५९।
अतिधन्या इमे लोका अस्मत्तोऽपि महत्तराः ।
दुर्ल्लभे भारते वर्षे पूजयंति हरिं प्रभुम् २६०।
अहो भारतवर्षस्य कः शक्तो गुणभाषणे ।
यत्राराध्य हरिं पूर्वं वयं देवत्वमागताः २६१।
इत्थं देवगणाः सर्वे वासवाद्या द्विजोत्तम ।
नित्यं भारतभूभागं प्रशंसंति शुभप्रदम् २६२।
तत्र जन्म समासाद्य येन नाराधितो हरिः ।
तत्तुल्यः कोऽपि संसारे कोऽपि दृष्टः श्रुतो न च २६३।
सत्यं सत्यं पुनरपि गद्यते सत्यमेव तत् ।
विश्वात्मानं सकृदपि मानवा येऽर्चयंति च २६४।
अप्यश्रांतं द्विज सुदृढया कर्मभूमौ च भक्त्या ।
मुक्ताः पापैः सुकररचितैर्यांति कैवल्यमाशु २६५।
इति श्रीपद्मपुराणे क्रियायोगसारे पुरुषोत्तमक्षेत्रे भद्रतनुवरप्रदानंनाम सप्तदशोऽध्यायः १७ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 18
जैमिनिरुवाच-
तीर्थश्रेष्ठमिति प्रोक्तं यत्त्वया पुरुषोत्तमम् ।
तन्माहात्म्यं गुरो ब्रूहि यदि ते मय्यनुग्रहः १।
व्यास उवाच-
पुरुषोत्तमस्य माहात्म्यं समासेन शृणु द्विज ।
सम्यग्वक्तुं जगत्यस्मिन्कः शक्तो विष्णुना विना २।
लवणांभोनिधेस्तीरं पुरुषोत्तमसंज्ञितम् ।
पुरं तद्ब्राह्मणश्रेष्ठ स्वर्गादपि च दुर्ल्लभम् ३।
स्वयमस्ति पुरे तस्मिन्यतः श्रीपुरुषोत्तमः ।
पुरुषोत्तममित्युक्तं तस्मात्तन्नामकोविदैः ४।
क्षेत्रं तद्दुर्ल्लभं विप्र समंताद्दशयोजनम् ।
तत्रस्थदेहिनो देवैर्दृश्यंते च चतुर्भुजाः ५।
प्रविशन्वै तु तत्क्षेत्रं सर्वे स्युर्विष्णुमूर्तयः ।
तस्माद्विचारणा तत्र न कर्त्तव्या विचक्षणैः ६।
चाण्डालेनापि संस्पृष्टं ग्राह्यं तत्रान्नमग्रजैः ।
साक्षाद्विष्णुर्यतस्तत्र चाण्डालो द्विजसत्तम ७।
तत्रान्नपाचिका लक्ष्मीः स्वयं भोक्ता जनार्द्दनः ।
तस्मात्तत्रौदनं विप्र दैवतैरपि दुर्ल्लभम् ८।
हरिभुक्तावशिष्टं यत्पवित्रं भुवि दुर्ल्लभम् ।
अन्नं ये भुञ्जते लोकास्तेषां मुक्तिर्न दुर्ल्लभा ९।
ब्रह्माद्यास्त्रिदशाः सर्वे तदन्नमतिदुर्ल्लभम् ।
भुञ्जते नित्यमागत्य मानुषाणां च का कथा १०।
न यस्य रमते चित्तं तस्मिन्नन्ने सुदुर्ल्लभे ।
तमेव विष्णुद्वेष्टारं प्राहुः सर्वमहर्षयः ११।
पवित्रं भुवि सर्वत्र यथा गङ्गाजलं द्विज ।
तथा पवित्रं सर्वत्र तदन्नं पापनाशनम् १२।
तदन्नं कोमलं दिव्यं यद्यपि द्विजसत्तम ।
कृकचस्योदरप्रायं तथाप्यघविदारणे १३।
पूर्वार्जितानि पापानि क्षयं यास्यंति यस्य वै ।
भक्तिः प्रवर्तते यस्य तस्मिन्नन्ने सुदुर्ल्लभे १४।
बहुजन्मार्जितं पुण्यं यस्य यास्यति संक्षयम् ।
तस्मिन्नन्ने द्विजश्रेष्ठ तस्य भक्तिर्न जायते १५।
इन्द्रद्युम्नस्य सरसि मार्कंडेयह्रदे तथा ।
रोहिण्यां च समुद्रे च श्वेतगङ्गाजलेषु च १६।
स्नानं ये कुर्वते मर्त्या भक्तिभावसमन्विताः ।
तेषां न विद्यते जन्म पुनरस्मिन्महीतले १७।
लवणांभोनिधेस्तोयैः पितरस्तर्पिता द्विज ।
सर्वदुःखविनिर्मुक्ता व्रजंति हरिमंदिरम् १८।
तीर्थराजः समुद्रो ऽसौ कीर्तितस्तत्वदर्शिभिः ।
तस्मात्तत्र कृतं कर्म सर्वमेवाक्षयं भवेत् १९।
पित्रर्चनं तथा दानं भगवच्चरणार्चनम् ।
जप यज्ञं तथान्यच्च तस्मिन्क्षेत्रे मनोरमे २०।
यत्कर्म कुरुते मर्त्यो विष्णुप्रीणनहेतवे ।
सर्वमेवाक्षयं तच्च भवेन्नास्त्यत्र संशयः २१।
बलभद्रं सुभद्रां च कृष्णं च कमलेक्षणम् ।
ये मानवाः प्रपश्यंति तेषां किंचिन्न दुर्ल्लभम् २२।
अदृष्ट्वा श्रीजगन्नाथं सुभद्रां च बलं तथा ।
मोक्षं न लभते मर्त्यः कुर्वन्पुण्यशतान्यपि २३।
तत्र वेत्रप्रहारेण शरीरं यस्य लोहितम् ।
तं वंदंते द्विजश्रेष्ठ देवाः शक्रादयोऽखिलाः २४।
स्थित्वांतरिक्षे शक्राद्याः सर्वदेवगणा द्विज ।
विमानचारिणोऽन्योन्यं प्रवदंतीति हर्षिताः २५अं।
कदा मानुष्यमस्मभ्यं दास्यते कमलापतिः ।
मनुष्य इव गच्छामस्तदा द्रष्टुं हरिं प्रभुम् २६।
कदा वेत्रप्रहारेण क्षेत्रे श्रीपुरुषोत्तमे ।
भविष्यंत्यस्मदीयानि लोहितानि वपूंषि च २७।
वासवाद्याः सुराः सर्वे तस्मिन्क्षेत्रे वरप्रदे ।
सदा वेत्रप्रहारांश्च वांछंति द्विजसत्तम २८।
तत्राक्षयवटं ये तु भक्त्या पश्यंति मानवाः ।
कोटिजन्मार्जितैः पापैर्मुक्ता यांति परां गतिम् २९।
सुभद्रां बलभद्रं च जगन्नाथमनामयम् ।
श्वेतं माधवदेवेशं मार्कंडेयह्रदं तथा ३०।
ज्यामेश्वरं हनूमंतं तत्राक्षय्यं वटं द्विज ।
पश्यंति भक्त्या ये मर्त्यास्तेषां मुक्तिर्हि शाश्वती ३१।
दोलायमानं गोविन्दं फाल्गुनेमासि तत्र ये ।
पश्यंति मानवा भक्त्या तेषां पुण्यं निशामय ३२।
विमुक्ताः सकलैः पापैरंते यांति हरेर्गृहम् ।
ज्ञानं संप्राप्य तत्रैव मोक्षं यांति सुदुर्ल्लभम् ३३।
चेत्रके मासि वारुण्यां यो जगन्नाथमीक्षते ।
स मृतः प्रविशेद्देहं जगन्नाथस्य जैमिने ३४।
वैशाखे चैव शुक्लायामेकादश्यां जगत्पतिम् ।
तृतीयायां च यः पश्येन्मुक्त एव स मानवः ३५।
प्रविशेद्यस्तु मनुजो महास्नानं जगत्पतेः ।
तस्य सिद्ध्यंति विप्रर्षे सर्व एव मनोरथाः ३६।
ब्रह्माद्यास्त्रिदशाः सर्वे स्थित्वाकाशे जगत्पतेः ।
महास्नानं प्रपश्यंति भक्तिभावसमन्विताः ३७।
महाज्येष्ठ्यां च विप्रर्षे जगन्नाथमनामयम् ।
आलोक्य लभते मर्त्यो विष्णोस्तत्परमं पदम् ३८।
गुंडिकामण्डपं यांतमाषाढे कमलापतिम् ।
बलभद्रं च यः पश्येत्स मुक्तो नात्र संशयः ३९।
यः पश्यति जगन्नाथं रथस्थं कमलेक्षणम् ।
तस्य नास्ति पुनर्जन्म संसारे सर्वदुःखदे ४०।
रथारूढां सुभद्रां च भक्त्या पश्यंति मानवाः ।
छिनत्ति भगवांस्तस्य दुःखदं भवबंधनम् ४१।
अपुत्रा मृतपुत्रा च या सुभद्रां प्रपश्यति ।
बह्वपत्या जीववत्सा सा नारी भवति द्विज ४२।
दुर्भगा काकवंध्या वा सुभद्रां या प्रपश्यति ।
सा स्वामिसुभगा नारी बह्वपत्या भवेत्खलु ४३।
गुंडिकामंडपस्थं च कृष्णं पश्यति यः पुमान् ।
बलभद्रं सुभद्रां च स याति परमं पदम् ४४।
रोगी दुःखी च यः पश्येद्गुण्डिकामंडपे हरिम् ।
रोगाच्छोकाच्च सहसा जैमिने स प्रमुच्यते ४५।
यस्त्वपुत्रो जगन्नाथं गुंडिकामण्डपे स्थितम् ।
पश्येत्स च द्विजश्रेष्ठ पुत्रं प्राप्नोति वैष्णवम् ४६।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
दारार्थी लभते दारान्मोक्षार्थी मोक्षमाप्नुयात् ४७।
भ्रष्टराज्यो नृपो यस्तु हरिं पश्यति भक्तितः ।
गुंडिकामंडपे विप्र निजराज्यं लभेत सः ४८।
शत्रुभिर्वर्जितो यस्तु गुंडिकामंडपे हरिम् ।
भक्त्या पश्यति विप्रर्षे तस्य नश्यंति शत्रवः ४९।
गुंडिकामंडपे पश्येद्यो राजपीडितो भृशम् ।
स सद्य एव राजानं स्वकीयं वशमानयेत् ५० 7.18.50।
सर्वासामेव यात्राणां गुंडिका प्रवरा मता ।
तस्मात्स मानवैः कार्या त्यक्त्वा कार्यशतान्यपि ५१।
शयने च तथोत्थाने तस्मिन्क्षेत्रे मनोरमे ।
हरिं पश्यति यो मर्त्यः स देवैरपि पूज्यते ५२।
पुरुषोत्तममाहात्म्यं वक्तुं शक्नोति कः क्षितौ ।
यस्य प्रवेशमात्रेण नरो नारायणो भवेत् ५३।
बहुनात्र किमुक्तेन संक्षेपादुच्यते मया ।
सर्वेषामेव तीर्थानां वरिष्ठं पुरुषोत्तमम् ५४।
संसारसिन्धुमतिनिम्नमिमं तितीर्षुः क्लेशप्रदं विषमपापगणाश्रयं यः ।
क्षेत्रे समस्तसुखदे पुरुषोत्तमाख्ये पश्येदमुं सुरवरं पुरुषोत्तमं च ५५।
इति श्रीपद्मपुराणे क्रियायोगसारे पुरुषोत्तममाहत्म्यंनाम अष्टादशोऽध्यायः १८ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 19
व्यास उवाच-
नारायणप्रपन्ना ये नराभक्तिसमन्विताः ।
कदाचिदशुभं तेषां विद्यते न द्विजोत्तम १।
पुनरेव प्रवक्ष्यामि माहात्म्यं कमलापतेः ।
यच्छ्रुत्वा मानवाः सर्वे लभंते परमं पदम् २।
वासुदेवस्य माहात्म्यं श्रुत्वा तृप्यंति वैष्णवाः ।
पाखण्डा न हि तृप्यंति नरके क्लेशभागिनः ३।
पाखण्डानां समीपे तु विष्णुमाहात्म्यमुत्तमम् ।
न वक्तव्यं द्विजश्रेष्ठ वक्तव्यं वैष्णवाग्रतः ४।
पूर्वं त्रेतायुगे विप्र उर्वीशुर्नाम जैमिने ।
आसीत्पापरतो नित्यं धर्मनिंदापरायणः ५।
ब्रह्मस्वहारी विप्रेन्द्र परस्त्रीगमनोद्यतः ।
गोमांसाशी सुरापी च वेश्याविभ्रमलोलुपः ६।
शरणागतहंता च परनिंदाकरः सदा ।
विश्वासघाती मित्रघ्नो ज्ञातिपीडाकरस्तथा ७।
असत्यभाषी क्रूरश्च पाखंडजनसङ्गभाक् ।
वृत्तिच्छेदी द्विजातीनां न्यासापहारकस्तथा ८।
तादृशं तं समालोक्य दुष्टं पापपरायणम् ।
आजग्मुर्ज्ञातयः सर्वे क्रुद्धास्तस्य निजंगृहम् ९।
ज्ञातय ऊचुः -
प्रतिष्ठोपार्जिता पूर्वैरस्माकं विमले कुले ।
सा प्रतिष्ठा त्वया मूढ विनाशं प्रतिनीयते १०।
धर्ममार्गं परित्यज्य कुरुषे पातकं सदा ।
मद्वंशकीर्तिहननं जातोऽसि ज्ञातिदुःखदः ११।
अतिविस्मयदा सृष्टिर्विधातुर्मन्यते त्वयि ।
यस्मिन्सिंधौ शशी जातस्तत्र क्ष्वेडोद्भवोऽपि च १२।
अहो शक्तिः कुपुत्राणां संख्यातुं न च शक्यते ।
अनेकैः पुरुषैः कीर्तिं संचितां हंति तत्क्षणात् १३।
जाते पुत्रोत्तमे वंशः श्रेष्ठः स्यादधमोऽपि च ।
पुत्रेधमेतु श्रेष्ठोऽपि वंशो गच्छति हीनताम् १४।
व्यास उवाच-
इत्युक्त्वा ज्ञातयस्ते च तं सर्वे पापिनां वरम् ।
अपकीर्तिभयात्क्रुद्धास्तत्यजुः सहसा द्विज १५।
ज्ञातिभिः स परित्यक्तो जनैः सर्वैश्च धिक्कृतः ।
प्रपेदे दस्युतां दुःखी विभ्रष्टाखिलवैभवः १६।
तं दस्युकर्मकुर्वंतं निर्द्दयं परहिंसकम् ।
धृत्वा जनपदाः सर्वे भूपालाय न्यवेदयन् १७।
तेन भूमिभुजा तस्य पितृस्नेहाद्दिवजोत्तम ।
न हतोऽसौ दुराचारो निजदेशाद्वहिष्कृतः १८।
ततोऽसौ वनमाश्रित्य दस्युभिः सह निर्द्दयः ।
पांथस्वहरणार्थाय तस्थौ बहुभिरुद्धतैः १९।
कदाचित्तटिनीतीरं दस्युभिः सह जैमिने ।
वनपर्यटने श्रांतो जगाम स्नानहेतवे २०।
तस्यां तटिन्यां भगवत्परिचर्यापरायणान् ।
असौ ददर्श दुष्टात्मा ब्राह्मणाकृतिनो बहून् २१।
अथ ते ब्राह्मणाः सर्वे समाराध्य जनार्दनम् ।
अन्योन्यं कथयामासुर्विहिता अति कौतुकात् २२।
अद्य चंपकपुष्पाणि मया त्यक्तानि तानि वै ।
कश्चिद्वदति तांबूलं मया दत्तं मुरारये २३।
न खादितव्यं तांबूलं कदाचिदपि जन्मनि ।
मयाद्य हरये दत्तं कदलीफलमुत्तमम् २४।
जन्मजन्मानि च मया भक्ष्यं च कदलीफलम् ।
कोऽपि वक्ति मया दत्तं हरये दाडिमीफलम् २५।
कोऽपि वक्ति मया दत्तं रसालफलमुत्तमम् ।
अन्योऽन्यमेतद्वदतां तेषां श्रुत्वा वचांसि च २६।
उर्वीशुश्चिन्तयामास किं प्रदास्यामि विष्णवे ।
संसारे यानि वस्तूनि भक्ष्याणि संति तान्यहम् २७।
न हि शक्नोमि संत्यक्तुं किं दास्यामि मुरारये ।
नित्यं वनांतरस्थोऽहं चौरो राजभयाकुलः २८।
शकटारोहणे नास्ति ह्यधिकारः कदापि मे ।
व्यास उवाच-
इत्युक्त्वा दस्युना तेन भूयोभूयो द्विजोत्तम २९।
शकटं हरये दत्तं चतुर्वर्गप्रदायिने ।
अथ तेब्राह्मणाः सर्वे जग्मुर्विप्र यथागताः ३०।
सोऽपि दस्युर्दस्युभिश्च जगाम निजमाश्रयम् ।
एकदा गुडकंडोलं तेनैव खलु वर्त्मना ३१।
गृहीत्वा पथिकः कश्चित्काकीमंडलमागतः ।
ततोऽसौ सहसा दस्युर्निर्भयः परहिंसकः ३२।
जहार गुडकंडोलमध्वनीनस्य तस्य च ।
अथ ते दस्यवश्चक्रुर्गुडकंडोल भंजनम् ३३।
उर्वीशुश्चापतद्भागे शकटं गुडनिर्मितम् ।
उर्वीशुः शकटं गौडं समासाद्य द्विजोत्तम ३४।
मनसा चिंतयामास वचःस्मरणपूर्वकम् ।
अनो मया पुरा दत्तं स्वयमेव मुरारये ३५।
तस्मादनो न मे ग्राह्यं कदाचिदिह जन्मनि ।
विचिन्त्येति हृदा दातुं तदनो गुडनिर्मितम् ३६।
दत्तं विप्राय कस्मैचिन्माधवप्रीतिहेतवे ।
तां भक्तिं तस्य विज्ञाय महापातकिनो द्विज ३७।
जहार सकलं पापं सद्यः प्रीतो जनार्दनः ।
तस्मिन्नेव दिने विप्र प्रविश्य च महावनम् ३८।
हतः पौरजनैः सर्वैरथ क्रुद्धैः स उर्विशुः ।
भगवानथ तं नेतुं विमानं स्वर्णनिर्मितम् ३९।
दूतांश्च प्रेषयामास नानाभरणभूषितान् ।
अथ ते भगवद्दूतास्तमुर्वीशुं गतैनसम् ४०।
समारोप्य विमाने तं सद्यो जग्मुः पुरं हरेः ।
ततौऽसौ हरिसान्निध्यं प्राप्य पुण्यात्मनां वरः ४१।
पुनर्मन्वंतरशतं स्थित्वा केशवसन्निधिम् ।
परमं ज्ञानमासाद्य स विवेश तनुं हरेः ४२।
व्यास उवाच-
येन केनाप्युपायेन हरिभक्तिकरो नरः ।
संसारजलधेः पारं राजहंस इव व्रजन् ४३।
क्षणमेव हरेर्भक्तिर्वर्तते यस्य चेतसि ।
तत्पदं परमं याति स पापात्मापि गच्छति ४४।
एकमप्युत्तमं वस्तु दत्वाऽसौ तन्मुरारये ।
स्वयमेव हि भोक्तव्यं पश्चात्पापोपशांतये ४५।
यद्वस्तु हरये दत्तं तच्च दद्याद्दिवजातये ।
किंचिच्छेषं न भोक्तव्यं तस्यावश्यं स्वयं बुधैः ४६।
वस्तूनि ब्राह्मणश्रेष्ठमिष्टानि यानि कानि च ।
अदत्वा विष्णवे तानि न भोक्तव्यानि वैष्णवैः ४७।
विष्णुनैवेद्यमाहात्म्यं सर्वपापप्रणाशनम् ।
सेतिहासं पुनर्वच्मि शृणु विप्र समाहितः ४८।
आसीत्सर्वजनिर्नाम ब्राह्मणः शुद्धवंशजः ।
शांतो दांतो दयायुक्तो गुरुब्राह्मणपूजकः ४९।
हरेः पूजापरश्चैव हरिस्मरणतत्परः ।
प्रपन्नक्लेशविध्वंसी सत्यवादी जितेन्द्रियः ५० 7.19.50।
प्रातःस्नायी निजाचारग्राही हिंसा विवर्जितः ।
एकादशीव्रतरतो ज्ञातिपूजापरायणः ५१।
कदाचित्स द्विजश्रेष्ठः स्वप्नेऽपश्यच्च केशवम् ।
श्यामं विरजपद्माक्षं स्मेरास्यं पीतवाससम् ५२।
स्वर्णकुण्डलमञ्जीरकिरीटोज्ज्वलविग्रहम् ।
कौस्तुभोद्भासितोरस्कं वनमालाविभूषितम् ५३।
चतुर्बाहुं शङ्खचक्रगदापद्मधरं प्रभुम् ।
समस्तैर्लक्षणैर्युक्तं स्वर्णयज्ञोपवीतिनम् ५४।
संप्राप्य दर्शनं स्वप्ने स विप्रो जगतीपतेः ।
कृताञ्जलिस्तमस्तौषीद्रोमांचिततनुर्मुदा ५५।
तुभ्यं नमोऽस्तु जगतः सकलस्यभर्त्त्रे सल्लोकशोकभयरोगविनाशनाय ।
नारायणाय कमलाहृदयप्रियाय धर्मार्थकामपरमामृतदाय तुभ्यम् ५६।
पापानि चैव सकलानि मया कृतानि मत्तेन मोहवशगेन सदा मुरारे ।
तस्माद्बिभेमि जगदंबुनिधेर्गभीरान्मामुद्धरस्व निजभक्तितरीं प्रदाय ५७।
जानामि यद्यपि हरे दुरितं मनुष्यो व्यामोहमाशुचलभे भुवि कैटभारे ।
पापं तथापि च मुदा सततं करोमि तस्मान्न कोऽप्यहमिवास्ति जनो विमूढः ५८।
पुण्यद्रुमः सुखफलं सहसैव धत्ते किं वेद्मि नेति नृहरे कृतपातकोऽहम् ।
पुष्पद्रुमार्पणविधौ न ममास्ति वित्तं नाथ प्रसीद भगवन्किमहं करोमि ५९।
त्वत्पादपद्मयुगलं परमामृतस्य स्थानं विहाय मम चित्तमधुव्रतोऽयम् ।
नारीमुखं व्रजति देवमृतिप्रदं यच्छ्लेष्मप्रकीर्णमनिशं कमलभ्रमेण ६०।
पाणिःप्रदानरहितोऽनृतभाषिवक्त्रं कर्णौ च पापश्रवणाय सदैव दक्षौ ।
दोषानिमान्मम हरे हर सेवकस्य यस्मान्नु नाथ शरणागतदोषहंता ६१।
संसारघोरजलधौ नृहरे कदाचित्त्वद्भक्तिनौरिह मया सुदृढा च लब्धा ।
तत्रापि दैववशगोऽहमहो दुरात्मा वर्तेत एव सततं ममदुःखकालः ६२।
संसारपारगमनाय लसत्पथोऽस्ति किं सर्वदुःखरहितः सदयः प्रसन्नः ।
अंधीकृतस्य मम मोहमहत्तमिस्रैर्दृष्टिस्त्वयीह न कदापि च याति विष्णो ६३।
पापात्मनोऽपि मम चित्तमिदं मुरारे नष्टं विनष्टजनकष्टविनष्टिकारि ।
यस्त्वां समस्तसुरवंदितपादपद्म स्वप्नेऽपि केशिमथनाद्य विभो समीक्षे ६४।
व्यास उवाच-
इति तेन स्तुतो देवो भगवान्कमलापतिः ।
उवाच वाक्यं वाक्यज्ञः संसारार्णवतारकः ६५।
श्रीभगवानुवाच-
भक्तिभिस्तव विप्रेंद्र तुष्टोऽहं नित्यमेव च ।
तस्मात्तवाचिरेणैव सर्वं भद्रं भविष्यति ६६।
पापिनोऽपि तवोद्धारो मया पूर्वं कृतो द्विज ।
अधुना मम भक्तोऽसि न विपत्तिर्भविष्यति ६७।
ब्राह्मण उवाच।
कोऽहं तस्थौ पुरा विष्णो किं वा पापं मया कृतम् ।
पापिनोऽपि ममोद्धारः कथं पूर्वं त्वया कृतः ६८।
संसारेऽस्मिन्कथं जातो जनितोऽहं कथं त्वया ।
एतत्सर्वं विभो ब्रूहि यतस्त्वं सदयः सदा ६९।
श्रीभगवानुवाच-
अप्रकाश्यमिदं गुह्यं यद्यपि द्विजसत्तम ।
तथापि तव वात्सल्यान्निगदामि निशामय ७०।
पुरा त्वं ब्राह्मणश्रेष्ठ पक्षिवंशसमुद्भवः ।
भूतोऽसि भूमिभागेषु निजकर्मविपाकतः ७१।
क्षुधया तृषया वापि सततं व्याकुलो भवान् ।
बभ्राम भक्षयन्कीटान्निर्झरोष्णोदकं तथा ७२।
नानादुःखं सदा भुंजन्पक्षियोनौ समुद्भवः ।
चतुर्वर्षसहस्राणि स्थितोऽसि त्वं पुरा क्षितौ ७३।
एकदा कुलभद्राख्यो ब्राह्मणः सर्वतत्ववित् ।
पूजयामास मां भक्त्या नैवेद्याद्यैर्नदीतटे ७४।
समभ्यर्च्य स विप्रेंद्रो मम नैवेद्यतंदुलम् ।
ययौ तत्रैव निक्षिप्य भूय एव निजं गृहम् ७५।
ततो वृक्षात्समागत्य क्षुधिना पक्षिणा त्वया ।
मम नैवेद्यसंबंधि भक्षितं सर्वतंदुलम् ७६।
भुक्त्वैव सद्यो मुक्तोऽसि पातकैरतिदारुणैः ।
कदाचित्प्राप्तकालस्त्वं कालधर्मगतो द्विज ७७।
त्वामानेतुं मया दूताः प्रेषिताः सर्वथा निजाः ।
ततो रथे समारोप्य भवंतं नष्टकल्मषम् ७८।
सद्यो दूतगणाः सर्वे समायाताः परं पदम् ।
युगकोटिसहस्राणि स्थितोऽसि मम सन्निधौ ७९।
भुंजन्सुखानि सर्वाणि दुर्ल्लभानि सुरैरपि ।
ततो यातोऽसि विप्रेन्द्र विशुद्धे ब्राह्मणान्वये ८०।
तत्रापि मयि भक्तिस्ते जातातिसुदृढा पुनः ।
क्रियायोगेन मां नित्यं समाराध्य द्विजोत्तम ८१।
आयुषोंते मत्प्रसादान्मामकं पदमाप्स्यसि ।
यदा तुष्टोऽस्म्यहं विप्र सपापात्मापि मुक्तिभाक् ८२।
कदाचिद्यस्य रुष्टोस्मि पुण्यात्मापि च पापभाक् ।
तस्माद्ब्राह्मण भद्रं ते भक्तोऽसि मम सुव्रत ८३।
दास्यामि ते परं स्थानं यदलभ्यं सुरैरपि ।
ब्राह्मण उवाच-
त्वत्प्रसादाच्छ्रुतं नाथ पूर्ववृत्तांतमात्मनः ८४।
इदानीं श्रोतुमिच्छामि यत्किञ्चिद्ब्रूहि तत्प्रभो ।
कस्य तुष्टोऽसि देवेन्द्र कस्य रुष्टोऽसि वा प्रभो ८५।
महत्या कृपया सर्वमेतन्मे वक्तुमर्हसि ।
श्रीभगवानुवाच-
कर्मणा येनविप्रेन्द्र तुष्टिर्मे हृदि जायते ८६।
क्रोधश्च तत्समस्तं च कथयामि समासतः ।
यो दयावान्द्विजश्रेष्ठ सर्वभूतेषु सर्वदा ८७।
अहंकारविहीनश्च तस्य तुष्टोऽस्म्यहं सदा ।
कर्म कुर्यान्मदर्थं यो धर्मभक्तिसमन्वितः ८८।
ब्रूते मदर्थं यः शांतं तस्य तुष्टोऽस्म्यहं सदा ।
मिष्टं वस्तु समासाद्य दत्वा मे यश्च मानवः ८९।
मानापमाने सदृशस्तस्य तुष्टोऽस्म्यहं सदा ।
सर्वभूतशरीरस्थं यो मां जानाति मानवः ९०।
परहिंसाविहीनो यस्तस्य तुष्टोऽस्म्यहं सदा ।
कर्माणि कुरुते यस्तु सुविचार्य पुनः पुनः ९१।
गोब्राह्मणहितैषी यस्तस्य तुष्टोऽस्म्यहं सदा ।
स्वयं निरुक्तं वचनं यत्नाद्यः परिपालयेत् ९२।
प्रपन्नं याति यत्नाद्यस्तस्य तुष्टोऽस्म्यहं सदा ।
ददात्यनुपकारिभ्यो दानानि द्विजसत्तम ९३।
मयि चित्तं सदा यस्य तस्य तुष्टोऽस्म्यहं सदा ।
कर्मणा येनतुष्टोऽस्मि निरुक्तं तत्समासतः ९४।
रुष्टोऽस्मि कर्मणा येन विप्र वच्मि शृणुष्वतम् ।
परहिंसारतो यस्तु निर्द्दयः सर्वजंतुषु ९५।
अहंयुः सर्वदा क्रुद्धः समां नयति शत्रुताम् ।
असत्यभाषीक्रूरश्च परनिंदापरस्तु यः ९६।
कविवर्तनविध्वंसी समां नयति शत्रुताम् ।
अदृष्टदोषौ पितरौ स्त्रीभ्रातृभगिनी तथा ९७।
मोहात्त्यजति यो मूढः समां नयति शत्रुताम् ।
पितृभिर्भर्त्सनं यस्तु कुरुते मूढधीर्नरः ९८।
गुर्ववज्ञाकरो विप्र समां नयति शत्रुताम् ।
आरामच्छेदिनो ये च जलाशयविलायिनः ९९।
ग्रामनाशकरायेचतेमांनयंतिशत्रुताम् ।
परस्त्रियं समालोक्य विषादं यान्ति ये जनाः १०० 7.19.100।
शृण्वंति पापचर्चां च तेषां रुष्टोस्म्यहं सदा ।
द्विषंति नाथं ये मूढा अनाथस्वं हरंति ये १०१।
विश्वासघातिनो ये च तेषां रुष्टोऽस्म्यहं सदा ।
ये च गोवीर्यहंतारो वृषलीपतयश्च ये १०२।
अश्वत्थघातिनो ये च तेषां रुष्टोऽस्म्यहं सदा ।
ब्रह्मविष्णुमहेशानां मध्ये ये भेदकारिणः १०३।
परदारातिरक्ता ये तेषां रुष्टोऽस्म्यहं सदा ।
एकादश्यां भुंजते ये लोभात्पापधियो नराः १०४।
वेदनिंदाकरा ये च तेषांरुष्टोऽस्म्यहं सदा ।
पापबुद्धिरता ये च मित्रद्रोहरतास्तथा १०५।
धात्रीतरुं च ये घ्नंति तेषां रुष्टोऽस्म्यहं सदा ।
दिवसे मैथुनं ये च कुर्वंते काममोहिताः १०६।
रजस्वला स्त्रियां चैव तेषां रुष्टोऽस्म्यहं सदा ।
ये चादृष्टार्तवां नारीं मोहाद्गच्छंति सत्तम १०७।
व्रतस्थां च सदा जाल्मास्ते मां नयंति शत्रुताम् ।
अमावास्यातिथौ ये च कुर्वंते निशिभोजनम् १०८।
भोजनद्वयमेवार्के तेषां रुष्टोऽस्म्यहं सदा ।
आमिषं मैथुनं तैलममावास्यादिने द्विजाः १०९।
न ये त्यजंति विप्रेन्द्र तेषां रुष्टोऽस्म्यहं सदा ।
बहुनात्र किमुक्तेन संक्षेपात्ते वदाम्यहम् ११०।
निंदंति वैष्णवान्ये च तेषां रुष्टोस्म्यहं सदा ।
व्यास उवाच-
इत्युक्त्वा भगवान्विष्णुरदृश्यः सहसाऽभवत् १११।
स च विप्रः समुत्तस्थौ त्यक्तनिद्रस्तु मंचतः ।
केशवोक्तेन वाक्येन स विप्रो हरिभक्तिकृत् ११२।
संत्यज्य सकलं कार्यं क्रियायोगरतोऽभवत् ।
नारायणस्य नैवेद्यं भुंजतोऽपि फलं त्विदम् ११३।
हरिपूजाकृतां पुंसां न जाने किं भवेदिति ।
समासेन ब्रवीमि त्वां शृणु सत्तम जैमिने ११४।
सकृत्कृत्वा हरेः पूजां प्राप्यते परमं पदम्।
मानुष्यं दुर्ल्लभं लोके पूजा तत्रापि चक्रिणः ११५।
भक्तिस्तत्रापि विप्रेन्द्र दुर्ल्लभा परिकीर्तिता ११६।
संसाराब्धिं सर्वदुःखप्रपूर्णं तर्तुं वांछा यस्य चित्तेस्ति पुंसः ।
भक्त्या नित्यं वासुदेवस्य पूजां कुर्यादार्यः कर्मणां सोऽखिलानाम् ११७।
इति श्रीपद्मपुराणे क्रियायोगसारे एकोनविंशतितमोऽध्यायः १९ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 20
व्यास उवाच-
विष्णुपूजाफलं विप्र संक्षेपात्कथितं मया ।
इदानीं वच्मि दानानि निशामय समाहितः १।
दानं तपो द्वयोर्मध्ये दानमेकं परं स्मृतम् ।
तपसा पापमित्युक्तं न पापो दानकर्मणि २।
तपः कृतयुगे श्रेष्ठं त्रेतायां ध्यानमेव च ।
सपर्या द्वापरे श्रेष्ठा दानं श्रेष्ठं कलौ युगे ३।
तस्मात्कलियुगे दानं प्रीतये कमलापतेः ।
कर्तव्यं सततं प्राज्ञैरिच्छद्भिः परमं पदम् ४।
कलया कलया चन्द्र कलां संवर्द्धते तथा ।
दानस्य सा गतिः प्रोक्ता तपसश्च मनीषिभिः ५।
पलादपि द्विजश्रेष्ठ कर्तव्यो वित्तसंग्रहः ।
संचितं तु धनं प्राज्ञो दानकर्मणि संक्षिपेत् ६।
धने स्थितोपि यो मर्त्यो नाश्नाति न ददाति यः ।
दरिद्र सः च विज्ञेयो दानभोगविवर्जितः ७।
वित्तं केन सहायाति याति तेन तु को द्विज ।
आयाति तत्पुरा दत्तमिह पंचत्वमागते ८।
दत्वा दत्वा सदा दानं मानवा ये दरिद्रति ।
न ते दरिद्रा विज्ञेयाः परलोके महेश्वराः ९।
धनं रक्षंति कार्पण्याद्ये ते ज्ञेयाः सुदुःखिताः ।
अंते त्यक्त्वा च तत्सर्वं निराशा यांति जैमिने १०।
परलोके द्विजश्रेष्ठः साधुसद्बलवर्जितः ।
निर्द्धने बंधुहीने च नादत्तमुपतिष्ठते ११।
स्तोकं स्तोकं च विप्रेन्द्र भक्तिश्रद्धासमन्वितः ।
नित्यं देयानि दानानि वैष्णवैर्निजभक्तितः १२।
सर्वेषामेव दानानामन्नदानं द्विजोत्तम ।
जलदानं च तत्वज्ञैरतिश्रेष्ठं प्रकीर्तितम् १३।
विनान्नेन न तिष्ठंति प्राणा देहेषु देहिनाम् ।
अन्नदः प्राणदो ज्ञेयः प्राणदः सकलप्रदः १४।
तस्मात्समस्तदानानामन्नदो लभते फलम् ।
अन्नदानसमं दानं जलदानं च जैमिने १५।
विना तोयेन नान्नं स्यादतस्तोयं प्रदीयते ।
क्षुधा तृषापि विप्रेन्द्र द्वे तुल्ये तु प्रकीर्तिते १६।
तस्माद्दत्वा च तोयं च श्रेष्ठं प्रोक्तं मनीषिभिः ।
जीवनं जीवनं नॄणां जीवनं न च जीवनम् १७।
अतो जीवनरक्षार्थं जीवनं प्राज्ञ उत्सृजेत् ।
अन्नं तोयं च विप्रेन्द्र दत्तं येन महीतले १८।
तेन सर्वाणि दानानि कृतानि नात्र संशयः ।
अन्नदानस्य माहात्म्यं जलदानस्य वै शृणु १९।
बभूव हास्तिनपुरे कुबेर इव वित्तवान् ।
तस्मिन्नेव पुरे वेश्या बभूव सुरसुंदरी २०।
ख्याता रतिविदग्धेति सर्वलक्षणसंयुता ।
तत्र क्षेमंकरी नाम ब्राह्मणी श्रेष्ठवंशजा २१।
समस्तगुणसम्पन्ना विधवासीद्द्विजात्मजा ।
सा ब्राह्मणी द्विजश्रेष्ठ जारानुरक्तमानसा २२।
निषिद्धं कर्म कुर्वंती त्यक्त्वा यात्यविवेकताम् ।
तया संनिहिता विप्र वेश्यापि ब्राह्मणी च सा २३।
चकार सख्यं स्नेहेन वेश्यावृत्तिमुपेत्य सा ।
सा वेश्या ब्राह्मणी चापि द्वेऽप्येकत्र दिने दिने २४।
पापानि चक्रतुः प्रीत्या असंख्यातानि जैमिने ।
ततो रतिविदग्धा सा वृद्धभावमुपागता २५।
ब्राह्मणी चापि विप्रेन्द्र दुःशीलात्यंतपापिनी ।
कदाचिद्वारमुख्या सा जरंती तां निजां सखीम् २६।
प्राहेति विस्मिता विप्र वचनं विनयान्विता ।
रतिविदग्धोवाच -
सखि त्वया सहानेकं दारुणं पातकं कृतम् २७।
अद्यापि पातके दृष्टिर्महती वर्तते मम ।
सौन्दर्यं च बलं चैव सर्वं मे जरया हृतम् २८।
इत्थमस्वास्थ्यकृन्नित्यमाशां त्यक्तुं न शक्यते ।
स्थावरं सुमहत्प्राप्तं कृतपातकया मया २९।
समागतमिवैतर्हि समीक्ष्य मरणं गतम् ।
उपार्जितेन पापेन यानि वित्तानि वै मया ३०।
रक्षिष्यंत्यनपत्यायां मृतायां मयि तानि के ।
तस्मात्सर्वाणि वित्तानि अन्यायोपार्जितानि च ३१।
दातुमिच्छामि विप्रेभ्यो यदि त्वं मन्यसे सखि ।
ब्राह्मण्युवाच-
मया यावन्ति वित्तानि पश्येति संचितानि च ३२।
असत्पात्रेषु दत्तानि तानि सर्वाणि नित्यशः ।
तस्मादहं धनैर्हीना किं दास्यामि द्विजातये ३३।
अस्ति चेद्यदि वित्तं ते दानमाशु तदा कुरु ।
तस्या एवं वचः श्रुत्वा सा वेश्यात्यंतहर्षिता ३४।
वित्तेन सकलेनैव अन्नदानं चकार ह ।
हरिशर्मा च विप्रेन्द्रो धनवानतिभक्तितः ३५।
पूजयामास सततं भगवंतं जनार्दनम् ।
जितेन्द्रियो जितक्रोधो हिंसादम्भविवर्जितः ३६।
प्रीतये कमलाभर्तुः स तेपे सुमहत्तपः ।
गंधपुष्पैश्च बलिभिर्घृतधूपैः प्रदीपकैः ३७।
पूजयामास देवेशं नित्यमेव जनार्दनम् ।
धनवानपि विप्रोऽसौ वित्तस्य क्षयशंकितः ३८।
पिपीलिकामूषिकाश्च तथान्येऽपि च जंतवः ।
कृपणस्य द्विजश्रेष्ठ गृहे नित्यं बुभुक्षिताः ३९।
उपार्जितं धनं सर्वं स्वयमेव दिनेदिने ।
बुभुजे ब्राह्मणश्रेष्ठ दानकर्मविवर्जितः ४०।
सुहृदां ब्राह्मणानां च बांधवानां कदापि सः ।
चकार न च संभाषामर्थप्रार्थनशंकया ४१।
विगणय्य स्ववित्तानि सुबहूनि निजालये ।
मत्वा श्रेष्ठमिवात्मानं मोदतेऽसौ द्विजोत्तम ४२।
कदाचित्प्राप्तकालोऽसौ ब्राह्मणोऽत्यंतवित्तवान् ।
गणिका ब्राह्मणी सा च एककाले मृता द्विज ४३।
अथ दूताः समायातास्तान्नेतुमतिभीषणाः ।
धर्मराजस्य देवस्य पाशमुद्गरपाणयः ४४।
ते च चण्डादयो दूतास्तान्समादाय जैमिने ।
ययुर्धर्मपुरं सद्यो दुर्गमेन पथा ततः ४५।
चण्ड उवाच-
आनीतो हरिशर्मा च वेश्या च ब्राह्मणी च सा ।
तवाज्ञया जीवितेश पश्यैतान्पुरतः स्थितान् ४६।
तान्समालोक्य जीवेशः प्रहस्य द्विजसत्तम ।
चित्रगुप्तमिति प्राह सर्वकार्यविचक्षणम् ४७।
यम उवाच-
एतेषां सर्वकार्याणि शुभदान्यशुभानि च ।
मूलाद्विचारय प्राज्ञ चित्रगुप्त महामते ४८।
यमादेशात्ततस्तेषां चित्रगुप्तो विचक्षणः ।
सर्वं विचारयामास शुभकर्माशुभं तथा ४९।
चित्रगुप्त उवाच-
देवाकर्णय वक्ष्यामि पुण्यं च पातकं तथा ।
इयं वेश्या ब्राह्मणी च हरिशर्मा चकार यत् ५० 7.20.50।
एषा रतिविदग्धाख्या गणिकाति दुराशया ।
चकार यानि पापानि वक्तुं तानि न शक्यते ५१।
अन्यायोपार्जितैर्वित्तैरखिलैरेव सूर्यज ।
अन्नदानं चकारेयं गणिका गतयौवना ५२।
अन्नदानप्रभावेण यातनागृहवासदैः ।
त्यक्तेयं पातकैः सर्वैः कोटिजन्मार्जितैरपि ५३।
अन्नदानं महाराज ये कुर्वंति जनाः क्षितौ ।
ते पापिनोऽपि गच्छंति तद्विष्णोः परमं पदम् ५४।
यावन्त्यन्नानि यच्छंति मानवाः क्षितिमण्डले ।
तावंत्यो ब्रह्महत्याश्च तस्य नश्यंत्यसंशयः ५५।
अन्नानि यच्छतां त्यक्त्वा शरीराणि च पातकम् ।
गृह्णतामेव पात्राणि सहसा याति सूर्यज ५६।
तस्मात्पापिनामन्नानि न गृह्णंति विचक्षणाः ।
मोहाद्गृह्णंति ये मूढास्त एव पापभागिनः ५७।
शुभकर्माशुभं वापि वेश्यायाः कथितं प्रभो ।
ब्राह्मण्याः शृणु कर्माणि शुभानि चाशुभानि च ५८।
इयं क्षेमंकरी नाम ब्राह्मणी शुद्धवंशजा ।
भद्रकीर्तिप्रिया सर्वं चकार दुरितं प्रभो ५९।
त्यक्त्वा निजाश्रमाचारं निजयौवनगर्विता ।
बभूवात्यंतपापिष्ठा जारसंगमलोलुपा ६०।
कदाचिच्छैशवे राजन्खेलंती शिशुभिः सह ।
रथ्यायां खननं चक्रे चतुष्कोणसमन्वितम् ६१।
तस्मिन्नेव दिने मेघ उदकानि ववर्ष च ।
पूरितं तज्जलैः खातं तया विनिर्मितं प्रभो ६२।
ततो मध्याह्नसमये गौरेकस्तृषितो नृप ।
अपिबत्तत्र पानीयं तापितस्तपनातपैः ६३।
तेनैव सर्वपापानि विनष्टानि महांति वै ।
तस्याः सूर्यसुत प्राज्ञ जलदानप्रभावतः ६४।
विमुक्ताः सकलैः पापैर्व्रजेन्नारायणालयम् ।
कृतपापा हि देवेश ब्राह्मणीयं दुराशया ६५।
विमुक्ता सकलैः पापैर्जलदानप्रभावतः ।
अयं विप्रो महाभक्तो देवदेवस्य चक्रिणः ६६।
ततोऽस्योपरि जीवेश प्रभुरेकोऽच्युतः स्मृतः ।
व्यास उवाच-
चित्रगुप्तस्य तद्वाक्यं समाकर्ण्य स दंडभृत् ६७।
तां वेश्यां ब्राह्मणीं चापि ववंदे ब्राह्मणं च तम् ।
दिव्यैः सुवर्णालंकारैर्वस्त्रैर्नानाविधैस्तथा ६८।
तेषां पूजां यमः श्रुत्वा कुटुंबिनां च जैमिने ।
उवाच प्रहसन्वाक्यं सुप्रीतो मृदुलाक्षरम् ८९।
यम उवाच-
यूयं सर्वे महात्मानो विनष्टाखिलपातकाः ।
समस्तसुखदं स्थानं गच्छत श्रीपतेः प्रभोः ७०।
तानारोप्य ततो दिव्ये यमः कांचननिर्मिते ।
राजहंसयुते स्थाने प्रेषयामास चक्रिणः ७१।
ततो दिव्यरथारूढाः सर्वाभरणभूषिताः ।
पुरं भगवतो जग्मुस्ते सर्वे गतपातकाः ७२।
गणिका ब्राह्मणी सा च विनष्टाखिलकल्मषा ।
सान्निध्यं प्राप्य देवस्य तस्थौ विप्र चिरं सुखम् ७३।
हरिशर्माणमालोक्य समायांतं जनार्द्दनः ।
ददौ वरासनं तस्मै स्नेहात्कनकनिर्मितम् ७४।
पाद्यार्घ्याचमनीयैश्च तमभ्यर्च द्विजोत्तमम् ।
वरासनोपविष्टं च पप्रच्छेति मुदा हरिः ७५।
श्रीभगवानुवाच-
द्विजन्म कुशलं ब्रूहि मद्भक्तप्रवरोऽसि यत् ।
चिरं मे मंदिरं तिष्ठ सर्वोपद्रववर्जिते ७६।
ब्राह्मण उवाच-
त्वां स्मृत्वापीक्षितो देव लभते कुशलं प्रभो ।
त्वत्सान्निध्यं मया प्राप्तं कुशलं किमतः परम् ७७।
व्यास उवाच-
एतस्य वचनं श्रुत्वा भगवान्प्रणयोदितम् ।
दत्तवान्निजसारूप्यं प्रीतस्तस्मै द्विजन्मने ७८।
ददौ तस्मै सुखं सर्वं दुर्ल्लभं कमलापतिः ।
आहारमात्रं न ददौ तत्कार्पण्यं स्मरन्प्रभुः ७९।
दिनद्वयांतरे विप्रो निराहारः क्षुधाकुलः ।
प्रोवाच विष्णुं देवेशं विनयावनतः स्थितः ८०।
ब्राह्मण उवाच-
प्रभोप्राप्तंतवस्थानमनेकतपसांफलैः ।
अत्रापि क्षुधया नित्यं विफलोऽस्मि कथं प्रभो ८१।
देवकन्या गणैर्दिव्यैः संप्राप्तनवयौवनैः ।
श्वेतचामरवातेन मंचेष्वपि निवीजितः ८२।
सुगंधानां प्रसूनानां महास्रग्भिरलंकृतः ।
चंदनैर्लिप्तसर्वांगो राजश्रेष्ठ इव प्रभो ८३।
चार्वङ्गीभिः कामिनीभिर्नित्यं मत्पुरतः प्रभो ।
गीतेन नृत्यते चापि नारायण तवाज्ञया ८४।
वासवाद्याः सुराः सर्वे रजांसि मम पादयोः ।
शिरः किरीटशोभीनि नित्यमेव वहंति वै ८५।
देवदेवर्षयश्चापि मुनयश्च जगत्पते ।
स्तुवंति मां स्तवैर्नित्यं किंकरा इव सर्वदा ८६।
चतुर्बाहुरहं श्यामः शङ्खचक्रगदाब्जभृत् ।
प्रफुल्लपुण्डरीकाक्षः पीतवासाः सुकुण्डलः ८७।
स्वर्णयज्ञोपवीती च किरीटी कुण्डली तथा ।
दृश्ये त्वमिव देवाद्यैर्द्वितीयो गरुडध्वजः ८८।
सुखान्येतानि दत्तानि दुर्ल्लभानि त्वया प्रभो ।
ददासि कथमाहारं न मह्यं परमेश्वर ८९।
क्षुधाग्निना च सुमहच्छरीरं मम दह्यते ।
यथैव ज्वलितो वृक्षः कोटरस्थेन वह्निना ९०।
सुखमेतत्त्वया दत्तं हरे मह्यं न रोचते ।
प्रज्वलज्जठराग्नौ तु विह्वलाङ्गाय केशव ९१।
कर्मणा मनसा वाचा त्वां विना जगदीश्वरम् ।
न पूजितो मया कश्चिद्देवदेव गणार्चितः ९२।
स्वप्नेनापि जगन्नाथ तस्य भक्तिः कृता नहि ।
आहारं केन दोषेण ददासि नहि मे प्रभो ९३।
व्यास उवाच-
अथासौ भगवान्विष्णुः कौतुकी समुवाच तम् ।
गच्छ ब्राह्मण भद्रं ते ब्रह्माणं प्रति सत्वरम् ९४।
इति श्रुत्वा वचो विप्रः शीघ्रं ब्रह्माणमाययौ ।
ब्रह्मा तं प्रति प्रोवाच कार्पण्यं तस्य दर्शयन् ९५।
ब्रह्मोवाच-
दुःखादुपार्जितं कर्म दीयते यन्न भूसुरे ।
स्वयं न भुंजते तच्च नष्टमेव न संशयः ९६।
कारणं तव दुःखस्य सर्वमेव मयोदितम् ।
गच्छ ब्राह्मण भद्रं ते निःसंदेहोयमागतः ९७।
ब्राह्मण उवाच-
निजकर्मविपाकोऽयं त्वत्प्रसादाच्छ्रुतोऽखिलः ।
इदानीं ब्रूहि दानानि कानि देयानि मानवैः ९८।
ब्रह्मोवाच-
बहूनि संति दानानि तानि वक्तुं न शक्यते ।
संक्षेपात्कथ्यते विप्र निशामय समाहितः ९९।
भूमिदानं द्विजश्रेष्ठ सर्वदानोत्तमोत्तमम् ।
कृतं पुण्यात्मना येन स ज्ञेयः सर्वदानकृत् १०० 7.20.100।
गोचर्ममात्रं भूमिं यो ददाति द्विजसत्तम ।
स गच्छेत्परमं स्थानं विमुक्तः सर्वपातकैः १०१।
भूमिं सस्यसमेतां यो दरिद्राय द्विजातये ।
ददाति ब्राह्मणश्रेष्ठ तस्य पुण्यं निशामय १०२।
सर्वपापविनिर्मुक्तो नारायणपुरं व्रजेत् ।
तत्र भुंक्ते सुखं सर्वं यावदिंद्राश्चतुर्दश १०३।
भूयो भूमिं समासाद्य सार्वभौमो नृपो भवेत् ।
चिरं भुक्त्वा महीं कृत्स्नां नरो नारायणो भवेत् १०४ ।
यस्माद्भूमिर्द्विजैर्ग्राह्या त्यक्त्वा दानशतान्यपि ।
भूमिदो भूमिनेता च द्वावपि स्वर्गगामिनौ १०५।
मंदबुर्द्धिर्द्विजो यस्तु भूमिदानं परित्यजेत् ।
प्रतिजन्मनि विप्रेन्द्र स भवेदतिदुःखितः १०६।
अन्येभ्योऽपि समादाय भूमिदानं य आचरेत् ।
तस्य विष्णुरति प्रीतो ददाति परमं पदम् १०७।
ग्रामं यच्छति यो विप्र दरिद्राय द्विजातये ।
दापयत्यपि वा तस्य पुण्यं वापि निशामय १०८।
यावंतो रेणवो भूमौ यावंतो वृष्टिबिंदवः ।
मन्वंतराणि तावंति विष्णुलोके वसेत्सुधीः १०९।
धेनुं पयस्विनीं यस्तु सवत्सां यच्छति द्विज ।
तस्य ब्रवीम्यहं पुण्यमाकर्णय महात्मनः ११०।
सप्तद्वीपां महीं दत्वा ससस्यां यत्फलं लभेत् ।
तत्फलं लभते मर्त्यो धेनुं यच्छन्द्विजातये १११।
ददाति वृषभं यस्तु ब्राह्मणाय कुटुंबिने ।
विमुक्तः पातकै रुद्रै रुद्रलोकं स गच्छति ११२।
तस्य यावंति रोमाणि शरीरे वृषभस्य च ।
तावत्कल्पसहस्राणि रुद्रेण सह मोदते ११३।
यस्तु वेदविदे धेनुं दद्यादुभयतोमुखीम् ।
न तस्य पुनरावृत्ती रुद्रलोकात्कदाचन ११४।
वृषं तिलसमायुक्तं कृष्णं यस्तु प्रयच्छति ।
स रुद्रभवने तिष्ठेद्द्विजेन्द्र तिलसंख्यया ११५।
तिलप्रमाणमपि च स्वर्णं दद्याद्द्विजातये ।
स याति विष्णुभवनं कुलकोटिसमन्वितः ११६।
यो भक्त्या रजतं यच्छेद्दरिद्राय द्विजातये ।
चंद्रलोकं समासाद्य सुधापानं करोति सः ११७।
हीरकं मौक्तिकं चापि प्रवालं च मणिं तथा ।
यो ददाति द्विजश्रेष्ठ शक्रलोकं स गच्छति ११८।
अश्वदानं द्विजश्रेष्ठ यः करोति महाशयः ।
गन्धर्वराजराजत्वं स प्राप्नोति न संशयः ११९।
ददाति वारणं यस्तु युवानं दोषवर्जितम् ।
देवराज्ये विभागी स भवेदिन्द्र इव द्विज १२०।
नरदोलां च यो दद्याद्ब्राह्मणाय सदक्षिणाम् ।
सोऽपीन्द्रपदमासाद्य वसेत्कल्पचतुष्टयम् १२१।
शालिग्रामशिलादानं यो ददाति द्विजातये ।
तस्य पुण्यं प्रवक्ष्यामि समासेन शृणु द्विज १२२।
सप्तद्वीपां महीं दत्वा सशैलवनकाननाम् ।
यत्फलं तच्च लभते शालग्रामशिलाप्रदः १२३।
तुलापुरुषदानेन यत्फलं प्राप्यते नरैः ।
शालग्रामशिलां यच्छंस्तस्मात्कोटिगुणं लभेत् १२४।
शालग्रामशिला येन प्रदत्ता द्विजसत्तम ।
नूनं तेन प्रदत्तानि भुवनानि चतुर्दश १२५।
तुलापुरुषदानं यः प्रकरोति नरोत्तम ।
दिवि दिव्यांबरधरश्चिरं स च महीपतिः १२६।
जननीजठरे भूयस्तस्य जन्म न विद्यते ।
ददाति यस्तु वै कन्यां सालंकारां नरोत्तमः १२७।
स गच्छेद्विष्णुभवनं पुनरावृत्तिवर्जितः ।
यः कन्याविक्रयं मूढो मोहात्प्रकुरुते नरः १२८।
स गच्छेन्नरकं घोरं पुरीषह्रदसंज्ञकम् ।
विक्रीतायाश्च कन्याया यः पुत्रो जायते द्विज १२९।
स चांडाल इव ज्ञेयः सर्वधर्मबहिष्कृतः ।
कन्याविक्रयिणः पुंसो मुखं पश्येन्न शास्त्रवित् १३०।
पश्येदज्ञानतो वापि कुर्याद्भास्करदर्शनम् ।
यत्किंचित्क्रियते कर्म कन्याविक्रयिणः पुरः १३१।
शुभं तत्सकलं कर्म गच्छेद्विफलतां द्विज ।
कन्याविक्रयिणो नास्ति नरकान्निष्कृतिः पुनः १३२।
कन्यादानकृतो नास्ति स्वर्गादागमनं पुनः ।
बहुनात्र किमुक्तेन संक्षेपेण ब्रवीमि ते १३३।
हीरकक्षितिकन्यानां फलं स्याच्च शताधिकम् ।
उपानहं चातपत्रं यस्तु यच्छति भूतले १३४।
शृणु तस्य तु वै पुण्यं संक्षेपेण ब्रवीमि ते ।
इह वर्षशतं जीवेत्सर्वसंपत्समन्वितः १३५।
मृतः शक्रपुरं प्राप्य शतकल्पचतुष्टयम् ।
ददाति नूतनं वस्त्रं स याति परमां गतिम् १३६।
वस्त्रं पुरातनं यच्छेद्धेनुं च रजतीं तथा ।
कन्यां रजस्वलां यस्तु स सदा नरकं व्रजेत् १३७।
फलदो मानवो विप्र गच्छति त्रिदशालयम् ।
भुंक्ते कल्पसहस्राणि फलं तत्रामृतोपमम् १३८।
शाकप्रदो याति विप्र शंभोर्भगवतः पदम् ।
तत्र कल्पद्वयं भुंक्ते पायसं दुर्ल्लभं सुरैः १३९।
दुग्धदो दधिदश्चैव घृतदस्तक्रदस्तथा ।
प्राप्नोति वै सुधापानं पुरो भगवतो हरेः १४०।
पुष्पदो मनुजो विप्र गन्धदश्च सुरालयम् ।
तिष्ठेद्युगसहस्राणि पुष्पगन्धविभूषितः १४१।
शय्यादानं द्विजश्रेष्ठ यः करोति द्विजोत्तम ।
स ब्रह्मलोकमागत्य पर्यंकशयनश्चिरम् १४२।
दीपदः पीठदश्चैव सर्वपापविवर्जितः ।
दिव्यसिंहासनस्थश्च जलदीपावलीवृतः १४३।
तांबूलदो नरो राजन्भुवि भुंक्तेऽखिलं शुभम् ।
दिवि देवाङ्गनाक्रोडे सुप्तस्तांबूलमत्ति वै १४४।
विद्यादानं द्विजश्रेष्ठ यः करोति नरोत्तम ।
संप्राप्य संनिधिं विष्णोस्तिष्ठेद्युगशतद्वयम् १४५।
ततो ज्ञानं समासाद्य तत्रैव द्विजसत्तम ।
प्राप्नोति दुर्ल्लभं मोक्षं प्रसादात्कमलापतेः १४६।
अनाथं ब्राह्मणं यस्तु पाठयत्यतिदुःखितम् ।
स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम् १४७।
कुलीनोऽपि द्विजश्रेष्ठो न भाति विद्यया विना ।
तस्माद्दिवजं पाठयंतः प्रयांति परमं पदम् १४८।
भुवि प्रत्यक्षदेवोऽपि ब्राह्मणो देवताश्रयः ।
सर्ववर्णगुरुर्नैव विद्याहीनो विराजते १४९।
संसारे यानि दानानि संति हेमादिकानि च ।
तानि तेन प्रदत्तानि ब्राह्मणो येन पाठितः १५० 7.20.150।
कुर्यात्पुस्तकदानं यो नरो भक्तिसमन्वितः ।
तस्य पुण्यं द्विजश्रेष्ठ संक्षेपात्ते वदाम्यहम् १५१।
तत्राक्षराणि यावंति पत्रे पत्रे च पुस्तके ।
प्रत्यक्षरे लभेत्पुण्यं कपिलाकोटिदानजम् १५२।
यावद्दिनं पुस्तकं तत्प्रपठंति द्विजातयः ।
तावन्मन्वंतरं तिष्ठेद्वैकुंठे पुस्तकप्रदः १५३।
एवमादीन्यनेकानि संति दानानि भूसुर ।
सम्यग्वक्तुं जगत्यस्मिन्कः शक्तो द्विशतैरपि १५४।
ब्रह्महत्यादि पापानि क्रियंते यानि मानवैः ।
हन्यंते तानि पापानि तस्माद्दानं समाचरेत् १५५।
आत्मपुण्येन यद्दानं दीयते च त्रिभिर्जनैः ।
यावद्द्रव्यं फलं तस्मात्तस्य दानस्य लभ्यते १५६।
प्रीतये कमलाभर्तुर्यद्दानं दीयते जनैः ।
तस्यकोटिगुणं पुण्यं लभते नात्र संशयः १५७।
तस्मान्नारायणप्रीतिहेतवे मतिमान्नरः ।
दानं समाचरेद्विप्र भक्तिकर्मसमन्वितः १५८।
तपसोऽपि परं दानं निरुक्तं तत्वदर्शिभिः ।
अतो यत्नादपि प्राज्ञो दानकर्मसमाचरेत् १५९।
दानं तपो द्वे अपि यः प्रकरोति नरोत्तमः ।
तस्य तुल्यो जगत्यस्मिन्विद्यते न हि भूसुर १६०।
इति श्रीपद्मपुराणे क्रियायोगसारे सर्वदानमाहात्म्यंनाम विंशोऽध्यायः २० ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 21
व्यास उवाच-
ब्रह्मणो वचनं श्रुत्वा हरिशर्मा द्विजोत्तमः ।
भूयोऽपि तं नमस्कृत्य भक्त्या प्राहेति जैमिने १।
हरिशर्मोवाच-
प्रोक्तानि यानि दानानि सुखहूनि त्वया प्रभो ।
कस्मै देयानि दानानि तन्मे गदितुमर्हसि २।
ब्रह्मोवाच-
सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः ।
तस्मै देयानि दानानि भक्तिश्रद्धासमन्वितैः ३।
सर्वदेवाश्रयो विप्रः प्रत्यक्षस्त्रिदशो भुवि ।
स तारयति दातारं दुस्तरे विश्वसागरे ४।
ब्राह्मण उवाच-
सर्ववर्णगुरुर्विप्रस्त्वया प्रोक्तः सुरोत्तम ।
तेषां मध्ये तु कः श्रेष्ठः कस्मै दानं प्रदीयते ५।
ब्रह्मोवाच-
सर्वेऽपि ब्राह्मणाः श्रेष्ठाः पूजनीयाः सदैव हि ।
स्तेयादिदोषतप्ता ये ब्राह्मणा ब्राह्मणोत्तम ६।
अस्माकं द्वेषिणस्ते च परेभ्यो न कदाचन ।
अनाचारा द्विजाः पूज्या न च शूद्रा जितेन्द्रियाः ।
अभक्ष्यभक्षका गावो लोकानां मातरः स्मृताः ७।
माहात्म्यं भूमिदेवानां विशेषादुच्यते मया ।
तव स्नेहाद्द्विजश्रेष्ठ निशामय समाहितः ८।
क्षत्त्रियाणां च वैश्यानां शूद्राणां गुरवो द्विजाः ।
अन्योन्यं गुरवो विप्राः पूजनीयाश्च भूसुराः ९।
ब्राह्मणं पूजयेद्यस्तु विष्णुबुद्ध्या नरोत्तम ।
आयुः पुत्रश्च कीर्तिश्च संपत्तिस्तस्य वर्द्धते १०।
संचिनोति द्विजं यस्तु मूढधीर्मानवो भुवि ।
सुदर्शनेन तच्छीर्षं हंतुमिच्छति केशवः ११।
पुष्पहस्तं पयोहस्तं देवहस्तं च जैमिने ।
न नमेद्ब्राह्मणं प्राज्ञस्तैलाभ्यंगितविग्रहम् १२।
जलस्थं देववेश्मस्थं ध्यानमज्जितचेतसम् ।
देवपूजां प्रकुर्वंतं न नमेद्ब्राह्मणं बुधः १३।
बहिष्क्रियां प्रकुर्वंतं भुंजानं च द्विजोत्तम ।
तथा सामानि गायंतं न नमेद्ब्राह्मणं बुधः १४।
ब्राह्मणा यत्र तिष्ठंति बहबो द्विजसत्तम ।
प्रत्येकं तु नमस्कारस्तत्र कार्यो न धीमता १५।
कृताभिवादनं विप्रं भक्त्या यो नाभिवादयेत् ।
स चाण्डालसमो ज्ञेयो नाभिवाद्यः कदाचन १६।
कृतप्रणामंतनयंनमेतांपितरौनच ।
कृतप्रणामाः सर्वेऽपि नमस्कार्या द्विजैर्द्विजाः १७।
कृतदोषान्द्विजान्गाश्च न द्विषन्ति विचक्षणाः ।
द्विषंति वापि मोहेन तेषां रुष्टः सदा हरिः १८।
याचकान्ब्राह्मणान्यस्तु कोपदृष्ट्या प्रपश्यति ।
सूचीप्ररोपणं तस्य नेत्रयोः कुरुते यमः १९।
विप्रनिर्भर्त्सनं मूढा येन वक्त्रेण कुर्वते ।
तस्मिन्वक्त्रे यमस्तप्तं लोहदंडं ददाति वै २०।
ब्राह्मणो यद्गृहं भुंक्ते तद्गृहे केशवः स्वयम् ।
देवताः सकला ये च पितरश्च सुरर्षयः २१।
विप्रपादोदकं यस्तु कणमात्रं वहेद्बुधः ।
देहस्थं पातकं तस्य सर्वमेवाशु नश्यति २२।
कोटिब्रह्माण्डमध्येषु संति तीर्थानि यानि वै ।
तीर्थानि तानि सर्वाणि विप्रपादे तु दक्षिणे २३।
विप्रपादोदकैर्नित्यं सिक्तं स्याद्यस्य मस्तकम् ।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः २४।
सर्वपापानि घोराणि ब्रह्महत्यादिकानि च ।
सद्यस्तस्य विनश्यंति विप्रपादांबुधारणात् २५।
क्षयाद्या व्याधयः सर्वाः परमक्लेशदायिकाः ।
गच्छंति विलयं सद्यो विप्रपादांबुधारणात् २६।
पित्रर्थं यानि तोयानि दीयंते विप्रपादयोः ।
तैस्तृप्ताः पितरः स्वर्गे तिष्ठंत्याचंद्रतारकम् २७।
प्रक्षाल्य विप्रचरणौ दूर्वाभिर्योऽर्चयेद्बुधः ।
तेनार्चितो जगत्स्वामी विष्णुः सर्वसुरोत्तमः २८।
विप्राणां पादनिर्माल्यं यो मर्त्यः शिरसा वहेत् ।
सत्यं सत्यमहं वच्मि तस्य मुक्तिर्हि शाश्वती २९।
विप्रं प्रदक्षिणीकृत्ये वंदते यो नरोत्तमः ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ३०।
यो दद्यात्फलतांबूलं विप्राणां पादसेचनात् ।
रोगी रोगात्प्रमुच्येत पापी मुच्यत पातकात् ३१।
मुच्यते बन्धनाद्बद्धो विप्राणां पादसेचने ।
अनपत्याश्च या नार्यो मृता पत्याश्च याः स्त्रियः ३२।
बह्वपत्या जीववत्सा विप्रपादस्य सेचनात् ।
माहाम्त्यं शृणु विप्रेन्द्र सर्वपापप्रणाशनम् ३३।
द्विजांघ्रिसेचनस्याहं समासेन ब्रवीमि ते ।
पूर्वं भद्रक्रियो नाम पवित्रकुलसंभवः ३४।
बभूव ब्राह्मणो विष्णोः परिचर्यापरायणः ।
वेदवित्सदयः शांतः पितृभक्तिपरायणः ३५।
अतिथीनां कृता पूजा ज्ञातिपूजाकरस्तथा ।
एकदा स द्विजश्रेष्ठस्तैलाभ्यंगितविग्रहः ३६।
जगाम सरसीं स्नातुं गृहीतस्नानवस्त्रकः ।
कृतस्नानः स विप्रेन्द्रो विधिना तर्पणादिकम् ३७।
चकार सर्वशास्त्रज्ञः सर्वलोकहिते रतः ।
समाप्य स्नानकर्माणि हरिनामानि कीर्तयन् ३८।
आजगाम स्वके गेहे हरिपूजापरोऽभवत् ।
पादौ प्रक्षालयामास पानीयैरतिशीतलैः ३९।
प्रक्षालितांघ्रिहस्तोऽसौ ब्राह्मणो ब्राह्मणार्चकः ।
स्थापयामास सर्वाणि स्नानोपकरणानि च ४०।
द्वारदेशे द्विजश्रेष्ठ निदाघतपनातपैः ।
तापितो भषकः कश्चिदग्निकल्पैः समागतः ४१।
विप्रपादोदके तस्मिन्प्रसुप्तोत्यंतशीतले ।
विप्रपादोदकस्पर्शाद्भषक्तोऽत्यंतपातकी ४२।
विमुक्तः पातकैः सर्वैः कोटिजन्मकृतैरपि ।
स सुप्तो मन्दिरद्वारि भषको विकलस्तृषा ४३।
पानीयं याचयामास ताडितो द्विजकिंकरैः ।
जगाम पंचतां सद्यस्तत्रैव भषको द्विजः ४४।
द्विजाङ्घ्रिसेचनस्पर्शाद्भषको वीतकल्मषः ।
तमालोक्य महात्मानं मूर्तिमंतमिवेश्वरम् ४५।
विनयावनतः प्राह ब्राह्मणोऽसौ तपोधनः ।
ब्राह्मण उवाच-
कस्त्वं ब्रूहि महाभाग केन दुःखी तु कर्मणा ।
भषकस्य कुले जातो नानादुःखसमाकुले ४६।
ब्रह्मोवाच-
वचनं तस्य विप्रर्षेः समाकर्ण्य महायशाः ।
कथयामास वृत्तांतं मूलतः सर्वमात्मनः ४७।
अहमासं सर्वभौमः शङ्खनामा महाबलः ।
चतुर्वर्षसहस्राणि महीं कृत्स्नामपालयम् ४८।
मयाज्ञया कृताः सर्वे जिताश्च रिपवो युधि ।
दत्तानि सर्वदानानि पालिताज्ञा तयोनिजाः ४९।
एकदाऽहं महाभागं संधितः स्मरसायकैः ।
बलाज्जनवधूं कांचिज्जहार भृशसुंदरीम् ५० 7.21.50।
तेन पापप्रभावेण मम श्रीः संशयं गता ।
ततस्समस्तैर्लोकैश्च निरस्तोऽहं महाबलः ५१।
ततस्तु भ्रष्टराज्योऽहं काननाभ्यंतरे स्थितः ।
क्षुधातृषापरिश्रांतःकदाचित्पंचतां गतः ५२।
अंतकस्य पुरं गत्वा दुःखं भुक्तं मया चिरम् ।
तदाकर्ण्य विप्रेन्द्र शृण्वतां चित्तदुःखदम् ५३।
संतप्तलोहशस्त्रायां तप्ता ताम्रमयीं महीम् ।
संरेमे प्रज्वलद्वह्निं शिखाततिसुभीषणाम् ५४।
ततस्तु शमनादेशाल्लोहस्तंभं सुभीषणम् ।
ज्वलता वह्निना तप्तं समालिङ्ग्य स्थितोऽस्म्यहम् ५५।
शीते क्षुरांबुधाराभिः सिक्तोऽहं यमकिङ्करैः ।
दुःखमन्यच्च सुमहद्भुक्तं तत्र यमालये ५६।
ततो नरकशेषे च जन्मासाद्य मुहुर्मुहुः ।
पापयोनौ मया दुःखमनुभूतं चिरं महत् ५७।
त्वत्पादजलसंसर्गान्मुक्तोऽहं पापरज्जुना ।
गच्छामि परमं धाम दुर्ल्लभं योगिनामपि ५८।
त्वं मे गुरुर्द्विजश्रेष्ठ नमस्तेऽस्तु महात्मने ।
त्वत्प्रसादाद्विमुक्तोऽहं पापैर्यामि पुरं हरेः ५९।
भद्रक्रिय उवाच-
पूर्वजन्मकथा राजन्मनुष्यो न कदाचन ।
अतस्तु तनयं त्यक्त्वा सर्वदा नीतिमाचरेत् ६०।
नीतिग्राही नृपो यस्तु विपत्तिर्नास्ति तस्य वै ।
चिरं भुनक्ति पृथिवीं कंटकैः परिवर्जिताम् ६१।
यस्मै न रोचते नीतिर्भूपालाय दुरात्मने ।
भ्रष्टश्रीरचिरेणापि स भवेन्नात्र संशयः ६२।
आयुर्बलं यशो मित्रं विजयं सुखमिच्छता ।
मंत्रिणः पंडिता राज्ञा नियोज्याः सर्वदैव हि ६३।
अवज्ञाय महीभर्तुस्त्यजंते सादरं बुधाः ।
सभायां बुधहीनायां नीतिर्बलवती नहि ६४।
ततो नीतौ विनष्टायां सहसा धरणीपतेः ।
राजश्रियो विनश्यंति सकोशबलवाहनाः ६५।
ब्राह्मणान्गणकांश्चैव वैद्यांश्च बांधवांस्तथा ।
नृपाः कल्याणमिच्छंति न द्विषंति कदाचन ६६।
गतश्रीर्गणकद्वेष्टा वैद्यद्वेष्टायुवर्जितः ।
ज्ञातिद्वेष्टानिष्कुलः स्याद्द्विजद्वेष्टाखिलार्तिभाक् ६७।
राजानः पितरः प्रोक्ताः पुत्रा जानपदास्तथा ।
ततो भूपाः पालयंति प्रजाः पुत्रमिवौरसान् ६८।
पौरलोके तथा कुर्याद्यथा स्नेहो निजात्मजे ।
प्रजापीडाकरा ये च भूपाला अतिपापिनः ६९।
शिरःस्था विपदस्तेषां विज्ञेया दीर्घदर्शिभिः ।
विवेकिनो महीपालाः पालयंति यथा प्रजाः ७०।
तथा तानपि देवेशः पालयत्यनिशं हरिः ।
प्रजानां पालनं दंडं द्वेऽपि राज्ञे शुभावहे ७१।
द्वाभ्यां विवर्जिता भूपास्ते विज्ञेया नृपाधमाः ।
दुष्टानां शासनं चैव शिष्टानां प्रतिपालनम् ७२।
प्रकुर्वंतो महीपालाश्चिरं नंदंति भूतले ।
न्यायेनोपार्जितं वित्तं यत्नाद्रक्षेन्महीपतिः ७३।
दुर्वृत्तो हि महीपालो विपत्तौ न हि विस्तरेत् ।
नृपाः कल्याणमिच्छंतो निजराज्यं शुभाशुभम् ७४।
पश्यंति नित्यं विप्रेन्द्र सत्वराश्चारचक्षुषा ।
परचक्रभयं यावन्नायाति चिंतयेद्भयम् ७५।
आगते तु भये भूप आचरेन्निर्भयोऽपि च ।
ज्ञातौ वापि च मित्रे वा पुत्रे वापि च मंत्रिणि ७६।
कुर्यान्मुखेन गांभीर्यं मनसा प्रेमकेवलम् ।
मंत्रिणो ज्ञातयः पुत्राः प्रजाश्च भ्रातरस्तथा ७७।
गांभीर्यहीनं भूपालं मन्यंते नहि भूपवत् ।
तिष्ठंति प्रथमं दूरे न संति पुरतस्तथा ७८।
लोकाश्रयं न हीच्छन्ति त्यक्तगांभीर्यभूपतेः ।
एकश्च मंत्री राजा वै चिरं राज्यत्वमिच्छता ७९।
कर्तव्यः सकले राज्ये वृद्धये न हि भूसुर ।
अत्यंतबुद्धिवृत्तीनां भृत्यानां सपदं हरेत् ८०।
तस्मात्संसदि भूपालो भृत्यमन्यं नियोजयेत् ।
मूर्खस्त्रीविजितो राजा गीतवाद्यरतः सदा ८१।
तुरंगवाहनैर्हीनः सहसा विपदं व्रजेत् ।
आचारग्रहणं सत्यं स्ववाक्यप्रतिपालनम् ८२।
गांभीर्यं चेति भूपानां लक्षणानि द्विजोत्तम ।
स कथं नृपतिर्यस्तु प्रतापेन विवर्जितः ८३।
स कथं नृपतिर्येनाऽनिर्जिता परमेदिनी ।
जितायां परमेदिन्यां यावत्पादं व्रजेन्नृपः ८४।
प्रतिपादेऽश्वमेधस्य फलं प्राप्नोति चाक्षयम् ।
परभूमिजयाकांक्षी हतो नृपतिभिर्युधि ८५।
तदागच्छेत्परं स्थानं विमुक्तः सर्वपातकैः ।
युधि प्राप्तजयो राजा प्राप्नोति परमं पदम् ८६।
संग्रामे प्राप्तमृत्युर्वा दिवीन्द्र संपदं लभेत् ।
त्यक्तशस्त्रं त्यक्तसत्वं पलायनपरायणम् ८७।
योद्धारं यदि यो हंति स भूपो यात्यधोगतिम् ।
पलायनपरो युद्धे तद्धंता च द्विजोत्तम ८८।
तावुभावपि तिष्ठेतां नरकेऽत्यंतदुःसहे ।
युद्ध्येत्साहसवान्योद्धा तद्धंता च द्विजोत्तम ८९।
तिष्ठेतां तावपि स्वर्गे यावच्चन्द्र दिवाकरौ ।
बहुनात्र किमुक्तेन संक्षेपादुच्यते मया ९०।
प्रजापालनकृद्राजा कदाचिन्नावसीदति ।
ब्रह्मोवाच-
इति ब्रुवति भूपाले तस्मिन्गलितकल्मषे ९१।
पुष्पवृष्टिरभूत्तस्मिन्महती गगनाद्द्विज ।
अथ दूताः समायाताः केशवस्य महात्मनः ९२।
राजहंसयुतं दिव्यं रथमादाय सुन्दरम् ।
रथं स तं समारुह्य दिव्यं कनकनिर्मितम् ९३।
जगाम विष्णुभवनं स राजा गतकल्मषः ।
विप्रपादोदकस्यैतन्माहात्म्यं ते प्रकीर्तितम् ९४।
तच्छ्रुत्वा भक्तिभावेन नरो निर्वाणमाप्नुयात् ।
इति ते कथितं सर्वं श्रोतुं यद्वांछितं त्वया ९५।
गच्छ ब्राह्मण भद्रं ते चक्रिणो निलयं प्रति ।
हरिशर्मोवाच-
क्षुधानलेन महता शरीरं मम दह्यते ९६।
केनोपायेन भगवन्क्षुधाशांतिर्भवेन्मम ।
एतन्मे वद देवेश भक्तस्त्वं भक्तवत्सलः ९७।
प्राप्नोमि सुमहद्दुःखं नित्यं दग्धक्षुधानलैः ।
ब्रह्मोवाच-
यच्छरीरं त्वया पुष्टं सततं भोजनैः कृतम् ९८।
भुंक्ष्व तस्य शरीरस्य मांसानि द्विजसत्तम ।
आत्मतृप्तिं प्रकुर्वन्ति भोजनेन परस्य ये ।
मांसानि स्वशरीराणां भुंजते तेपरत्र हि ९९।
व्यास उवाच-
ब्रह्मणो वचनं श्रुत्वा निष्ठुरं द्विजसत्तमः ।
पुनस्तुष्टाव तं देवं वचनैः कोमलाक्षरैः १०० 7.21.100।
ब्राह्मण उवाच-।
प्रसीद देवदेवेश शरणागतपालक ।
क्षमस्व सकलं दोषं सुरश्रेष्ठ नमोऽस्तु ते १०१।
मलमूलप्रकीर्णानि वपूंषि वहतां नृणाम् ।
सर्व एव प्रभो दोषाः संति केचिद्गुणा न च १०२।
कृतं मया मोहवता दूषणं क्षंतुमर्हसि ।
शरणापन्नलोकानां सद्भिर्दोषो न चेक्ष्यते १०३।
आत्मदेहस्य मांसानि भोक्तुं ब्रह्मन्न शक्यते ।
देहिनां वद यद्योग्यं संतुष्टिर्जायते यतः १०४।
इत्येवमुक्तं वचनं भक्त्या तेनाग्रजन्मना ।
उवाच सदयो ब्रह्मा सर्वज्ञो ब्राह्मणप्रियः १०५।
ब्रह्मोवाच-
शोकं मा कुरु विप्रेन्द्र शृणु मे वचनं शुभम् ।
आहारो लभते येन प्रकारेणात्र संप्रति १०६।
आत्मनो जायते पुत्रो यथैवात्मा तथा सुतः ।
तस्मात्पुत्रकृतं कर्म लभंते पितरः खलु १०७।
चिरं तिष्ठसि देवस्य भवनेऽत्यंतशोभने ।
एवमुक्तस्ततस्तेन स विप्रः क्षुधयाकुलः १०८।
स्वप्ने संदर्शनं दत्वा पुत्रं वचनमब्रवीत् ।
ब्राह्मण उवाच-
दीक्षितोऽसि सुतश्रेष्ठ तथास्तु परमां शिवम् १०९।
तवास्मि जनकः सौम्य ममदुःखं निशामय ।
तपःप्रभावैः परमं धाम प्राप्तं मया सुत ११०।
क्षुधानलेन संतप्तस्तत्र सीदाम्यहं सदा ।
यदा मयि पितृस्नेहस्तवास्ति सुत संप्रति १११।
तदान्नमुदकं चापि मदर्थं दीयतां द्विज ।
यत्किंचिद्दीयते पुत्रैः पित्रर्थं क्षितिमंडले ११२।
लभंते पितरस्तच्च यत्पुत्राः पितृदेहजाः ।
पुरा परमया भक्त्या पूजितो भगवान्मया ११३।
गीतैर्वाद्यैश्चनृत्यैश्च स्तवपाठैश्च शोभनैः ।
गंधैर्धूपैश्च नैवेद्यैर्घृतपूर्णप्रदीपकैः ११४।
पाद्यार्घ्याचमनीयैश्च ध्यानैरावाहनादिभिः ।
न दत्तं जगदीशाय कृपणेन मयात्मज ११५।
अन्नमत्रमपि क्वापि नैवेद्यं पापहारिणे ।
अतिथेर्न कृता पूजा तोयैरन्यैः कदाचन ११६।
ज्ञातीनां याचकानां च संतुष्टिर्न कृता मया ।
तेनैव कर्मणा पुत्र नारायणगृहेऽपि च ११७।
क्षुधानलेन संतप्तः सीदामि प्रतिवासरे ।
अतोऽन्नतोयदानानि दरिद्राय द्विजातये ११८।
दत्वा क्षिप्रं सुरश्रेष्ठ प्राणरक्षां कुरुष्व भोः ।
अथवा न करोषि त्वं निष्ठुरत्वाद्यदा भवान् ११९।
स्वमांसान्येव भोक्ष्यामि तदा वै विष्णुमंदिरे ।
अथाऽसौ क्षुधितो विप्रः शुष्ककंठोष्ठतालुकः १२०।
इत्युक्त्वा दीक्षितं पुत्रमदृश्यः सहसाऽभवत् ।
ततः प्रभाते विमले प्रादुर्भूते दिवाकरे १२१।
स्वप्ने यदुक्तं पित्रा तु चिंतयामास दीक्षितः ।
आत्मनः कर्मदोषेण परलोकेऽपि मत्पिता १२२।
क्षुधया दग्धसर्वाङ्गः सीदति प्रतिवासरम् ।
धिगस्तु मां मंदधियं कृपणप्रवरञ्जनम् १२३।
मयापि पितृपुण्येन न किञ्चिदपि दीयते ।
इति संचिंत्य बहुधा दीक्षितोऽपि द्विजोत्तम १२४।
ददौ दानानि विप्रेभ्यः श्रद्धाभक्तिसमन्वितः ।
तेन पुण्यप्रभावेण तृषयारहितः क्षुधा १२५।
तस्थौ नारायणागारे यावत्कालं शृणुष्व तत् ।
चतुर्युगसहस्राणि ब्रह्मणोऽहं प्रकीर्तितम् १२६।
भवंति तस्मिन्नेवाह्नि मनवश्च चतुर्दश ।
इंद्राश्चतुर्द्दश प्रोक्तास्तस्मिन्नेव दिने च ते १२७।
भुंजते ब्राह्मणः श्रेष्ठ विषयान्स्वान्पृथक्पृथक् ।
एकस्मिन्ब्रह्मदिवसे भुक्त्वा स्वान्विषयाञ्छुभान् १२८।
इन्द्राश्च मनवश्चैव विनश्यंति चतुर्दश ।
विष्णुलोके स्थिते तस्मिन्हरिशर्मातिभास्वरे १२९।
समस्तसुखदे रम्ये ब्रह्मणो दिवसो गतः ।
तत्रासौ कालमेतावद्भुक्त्वा भोगान्मनोरमान् १३०।
परमं ज्ञानमासाद्य प्रविवेश हरेस्तनुम् ।
व्यास उवाच-
अन्नतोयसमं दानं संसारे नास्ति जैमिने १३१।
सर्वदानफलान्येव अन्नतोयप्रदानतः ।
न च पात्रपरीक्षा च न कालनियमः क्वचित् २३२।
अन्नतोयप्रदानेषु निरुक्तस्तत्वदर्शिभिः ।
अन्नतोयप्रदानानि कर्तव्यानि सदैव हि १३३।
एतत्पठंति मनुजाः परमादरेण माहात्म्यमन्नजलयोश्च तथा द्विजानाम् ।
ते प्राप्य चान्नजलदानफलं ततोंऽते नारायणस्य निलयं सुखदं प्रयांति १३४।
इति श्रीपद्मपुराणे क्रियायोगसारे अन्नदानजलदानमाहात्म्यंनाम एकविंशतितमोऽध्यायः २१ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 22
जैमिनिरुवाच-
गङ्गायाः शुभ माहात्म्यं विष्णुपूजाफलं तथा ।
अन्नदानस्य माहात्म्यं जलदानस्य चोत्तमम् १।
विप्रपादोदकस्यापि माहात्म्यं पापनाशनम् ।
त्वत्प्रसादाच्छ्रुतं सर्वं सेतिहासं गुरो मया २।
इदानीं मुनिशार्दूल श्रोतुमिच्छामि सादरम् ।
एकादश्याः फलं सर्वं सर्वपातकनाशनम् ३।
कस्मादेकादशी श्रेष्ठा तस्याः को वा विधिः स्मृतः ।
कदाचित् क्रियते किं वा फलं तस्या वदस्व मे ४।
का वा पूज्यतमा तत्र देवता सद्गुणार्णव ।
अकुर्वतः स्यात्को दोषस्तन्मे वक्तुमिहार्हसि ५।
व्यास उवाच-
एकादश्याः फलं सर्वं वक्तुं नारायणादृते ।
शक्नोति नान्यो विप्रर्षे तस्माद्वच्मि समासतः ६।
सृष्ट्वादौ पुरुषश्रेष्ठः संसारं सचराचरम् ।
सर्वेषां दमनार्थाय सृष्टवान्पापपूरुषम् ७।
द्विजातिहत्यामूर्द्धानं मदिरापानलोचनम् ।
स्वर्णस्तेयं च वदनं गुरुतल्पगतिः श्रुतिः ८।
स्त्रीहत्या नासिकं चैव गोहत्यादोष बाहुकम् ।
न्यासापहारण ग्रीवं भ्रूणहत्या गलं तथा ९।
परस्त्रीगतबुक्काग्रं सुहृल्लोकवधोदरम् ।
शरणापन्नहत्यादि नाभिगर्तावधिं कटिम् १०।
गुरुनिंदा सक्थिभागं कन्याविक्रय शेफसम् ।
विश्वासवाक्यकथनं पायुं प्रीतिवधांघ्रिकम् ११।
उपपातकरोमाणं महाकायं भयंकरम् ।
कृष्णवर्णं पिंगनेत्रं स्वाश्रयात्यंतदुःखदम् १२।
तं दृष्ट्वा पापपुरुषमत्युग्रं पुरुषोत्तमम् ।
सदयश्चिंतयामास प्रजाक्लेशहरः प्रभुः १३।
सृष्टोऽयं दुर्जनः क्रूरः स्वाश्रयक्लेशदायकः ।
प्रजानां दमनार्थाय सृजाम्येतस्य कारणम् १४।
अथासौ भगवान्विष्णुर्बभूव स्वयमंतकः ।
ससर्ज रौरवादींश्च निरयान्पापिदुःखदान् १५।
पापं यः सेवते मूढो न याति परमं पदम् ।
यमाज्ञया व्रजेत्तत्र नरकं रौरवादिकम् १६।
एकदा भगवान्विष्णुः प्रजानां दुःखनाशनः ।
वैनतेयं समारुह्य जगाम यममंदिरम् १७।
तं दृष्ट्वा जगतामीशं नारायणमनामयम् ।
धूपाद्यैः पूजयामास भास्करिस्तुष्टमानसः १८।
यमेनाभ्यर्चितो विष्णुः सर्वलोकैकनायकः ।
उवास द्विजशार्दूल पीठे कनकनिर्मिते १९।
तत्रोपविष्टो भगवान्यमेन सह दैत्यहा ।
शुश्राव क्रंदनं ध्यानं दक्षिणस्यां दिशि प्रभो २०।
अथासौ कमलाकांतो विस्मयाविष्टमानसः ।
उवाचेति यमं तेषां कुतोऽयं क्रंदनध्वनिः २१।
यम उवाच-
देवपातकिनो मर्त्या निरयेऽत्यंतदुःखदे ।
स्वहस्तार्जितदोषेण सीदंति च ममालये २२।
पापवृक्षफलं विष्णो भोक्तुमत्यंतदुःखदम् ।
रुदंति पापिनस्तस्मात्तेषां ध्वनिरसौ महान् २३।
इत्युक्तः सूर्यपुत्रेण कृष्णः कमललोचनः ।
जगाम सहसा तत्र पापवंतो रुदंति ते २४।
तान्दृष्ट्वा पापिनो मर्त्यान्रौरवादिषु संस्थितान् ।
भगवांश्चिंतयामास हृदिजातदयः प्रभुः २५।
मया सृष्टाः प्रजाः सर्वा दोषेण निजकर्मणाम् ।
मयि स्थितेऽपि नरके सीदंत्येकांतदुःखदे २६।
एतच्चान्यच्च विप्रेन्द्र विचिंत्य करुणामयः ।
बभूव सहसा तत्र स्वयमेकादशी तिथिः २७।
ततस्तान्पापिनः सर्वान्कारयामास तच्छ्रुतम् ।
ते च सर्वे परं धाम ययुर्गलितकल्मषाः २८।
तस्मादेकादशीं विष्णोमूर्तिं विद्धि परात्मनः ।
समस्तदुष्कृतिश्रेष्ठं व्रतानां व्रतमुत्तमम् २९।
एकादशीं तिथिं कृत्वा पावयंतीं जगत्त्रयम् ।
शंकितः पापपुरुषो विष्णुं स्तोतुमुपाययौ ३०।
ततो बद्धाञ्जलिर्भक्त्या स पापपुरुषो द्विज ।
तुष्टाव कमलाकांतं भगवंतं जनार्दनम् ३१।
तस्यस्तवं समाकर्ण्य प्रसन्नः परमेश्वरः ।
उवाचाहं प्रसन्नोऽस्मि किंतेऽभिमतमुच्यताम् ३२।
पापपुरुष उवाच-
सृष्टो भगवता विष्णो निजानुग्रहदुःखदः ।
एकदश्याः प्रभावेण क्षयं प्राप्नोमि सांप्रतम् ३३।
मृते मयि जगत्यस्मिन्सर्वे ते च शरीरिणः ।
भविष्यंति विनिर्मुक्ता भवबंधैः शरीरिणः ३४।
सर्वेषु च विमुक्तेषु देहिश्रेष्ठेषु पूरुषम् ।
संसारकौतुकागारे कैस्त्वं क्रीडिष्यसे प्रभो ३५।
क्रीडितुं यदि ते वांछा जगत्कौतुकमंदिरे ।
एकादशी तिथि भयात्तदा मां त्राहि केशव ३६।
अन्यैः पुण्यसहस्रैस्तु मां हंतुं न हि शक्यते ।
शक्नोत्येकादशी पुण्या मां हंतुं वरदो भव ३७।
मनुष्यपशुकीटेषु तथाऽन्येषु च जंतुषु ।
पर्वतेषु च वृक्षेषु स्थानेषु च जलेषु च ३८।
नदीषु च समुद्रेषु वनेषु प्रांतरेषु च ।
स्वर्गे मर्त्ये च पाताले देवगंधर्वपक्षिषु ३९।
एकादशीतिथि भयाद्भूयान्विष्णो पलायितः ।
कुत्रापि निर्भयस्थानं न च तेन च कुत्रचित् ४०।
कोटिब्रह्माण्डमध्येषु देवदेव सनातन ।
एकादश्यां तिथौ स्थातुं मया स्थानं न लभ्यते ४१।
एकादश्यामहं कुत्र वत्स्यामि निर्भयः प्रभो ।
तन्मे कथय देवेश त्वयासृष्टोऽस्म्यहेतुकः ४२।
व्यास उवाच-
इत्युक्त्वा पापपुरुषः क्लेशनाशनमच्युतम् ।
भूमौ निपत्य चक्रंद स्रवद्वाष्पविलोचनः ४३।
ततः प्रहस्य भगवान्मधुकैटभमर्दनः ।
एकादशी भयात्त्रस्तमुवाच पापपूरुषम् ४४।
श्रीभगवानुवाच-
उत्तिष्ठ पापपुरुष त्यज शोकं मुदं कुरु ।
एकादश्यां तिथौ यत्र तव स्थानं वदामि ते ४५।
एकादश्यां समायांत्यां प्रपुनन्त्यां जगत्त्रयम् ।
स्थातव्यमन्नमाश्रित्य भवता पापपूरुषः ४६।
अन्नमाश्रित्य तिष्ठंतं भवंतं पापपूरुषम् ।
न हनिष्यति मन्मूर्तिरियमेकादशी तिथिः ४७।
ततो देवोऽपि विप्रर्षे तत्रैवांतर्हितोऽभवत् ।
कृतार्थः पापपुरुषो ययौ च स यथागतः ४८।
तस्मादन्नं न भोक्तव्यं कदाचिदपि सत्तमैः ।
आत्मनो हितमिच्छद्भिः संप्राप्ते हरिवासरे ४९।
संसारे यानि पापानि तान्येवैकादशीदिने ।
अन्नमाश्रित्य तिष्ठंति श्रीमन्नारायणाज्ञया ५० 7.22.50।
कुर्वतां सर्वपापानि नरकान्निष्कृतिर्भवेत् ।
येचान्नं भुञ्जतेऽत्रापि ते ज्ञेयाः पापिनां वराः ५१।
भूयोभूयो दृढं वच्मि श्रूयतां श्रूयतां जनाः ।
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं कदाचन ५२।
ब्रह्मक्षत्रियविट्शूद्रैरन्यैश्च द्विजसत्तम ।
सर्वैरेकादशी कार्या चतुर्वर्गफलप्रदा ५३।
अष्टादशनिमेषास्तु काष्ठा प्रोक्ता मनीषिभिः ।
क्षणं त्रिंशत्कलाभिः स्यान्मुहूर्तो द्वादशक्षणैः ।
त्रिंशन्मुहूर्ता लोकानामहोरात्रः प्रकीर्तितः ५५।
तैः पंञ्चदशभिः पक्षो विज्ञेयो द्विजसत्तम ।
पक्षाभ्यां शुक्लकृष्णाभ्यां मासस्तु परिकल्पितः ५६।
तस्मिन्मासे द्विजश्रेष्ठ पक्षयोः शुक्ल कृष्णयोः ।
महापातकयुक्तोऽपि करोत्येकादशीं यदि ५७।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ।
माता न प्रोच्यते माता माता ह्येकादशी तिथिः ५८।
इहैव पालयेन्माता सर्वत्रैकादशी तिथिः ।
एकादशीव्रतं त्यक्त्वा व्रतमन्यत्करोति यः ५९।
स्वकरस्थं मणिं त्यक्त्वा लोष्ठं गृह्णाति मूढधीः ।
एकादशीव्रतं यैस्तु कृतं भक्तिसमन्वितैः ६०।
तैस्तु यज्ञा कृताः सर्वे व्रतानि सकलानि च ।
एकादश्यां च भुञ्जन्ति ये मोहात्पापिनो नराः ६१।
शुक्लायां वापि कृष्णायां तेषां रुष्टः सदा हरिः ।
तेन धर्माः कृताः सर्वे लङ्घिता येन सा तिथिः ६२।
यथा समस्तदेवानां श्रेष्ठो विष्णुः प्रकीर्तितः ।
तथा सर्वव्रतानां च श्रेष्ठमेकादशी व्रतम् ६३।
आदित्यानां यथा सूर्यो नक्षत्राणां यथा शशी ।
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ६४।
वृक्षाणां च यथाश्वत्थो वेदानां साम कीर्तितम् ।
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ६५।
कवीनामुशना श्रेष्ठो वर्णानां ब्राह्मणो यथा ।
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ६६।
व्यासः श्रेष्ठो मुनीनां च देवर्षीणां च नारदः ।
तथा व्रतानां सर्वेषां श्रेष्ठमेकादशीव्रतम् ६७।
यथा समस्तदानानामन्नदानं वरं स्मृतम् ।
तथा सर्वव्रतश्रेष्ठं प्रोक्तमेकादशीव्रतम् ६८।
यथा पुण्यसमं मित्रं नास्ति शास्त्रसमो गुरुः ।
तथैवैकादशी तुल्यं व्रतं नास्ति जगत्त्रये ६९।
इन्द्रियाणां यथा श्रेष्ठं मनः प्रोक्तं मनीषिभिः ।
मासानां कार्तिकः श्रेष्ठः पाण्डवानां यथार्जुनः ७०।
यथा समस्तशास्त्राणां श्रेष्ठा वेदाः प्रकीर्तिताः ।
तथा व्रतानां प्रवरं स्मृतमेकादशीव्रतम् ७१।
वेदागमपुराणेषु शास्त्रेष्वन्येषु च द्विज ।
कुत्राप्येकादशीतुल्यं व्रतं प्रोक्तं न कोविदैः ७२।
निर्भया मानवाः सर्वे तिष्ठंति क्षितिमण्डले ।
एकादशीव्रतं कृत्वा किं करिष्यति भास्करिः ७३।
एकामेकादशीं सम्यक्कुर्वतां किंकरो यमः ।
एकादशीव्रतं तस्मात्कर्तव्यं हि शुभप्रदम् ७४।
एकादशीव्रतविधिं संक्षेपात्कथयाम्यहम् ।
समाहितमना भूत्वा शृणु सत्तम जैमिने ७५।
दशम्यां प्रातरुत्थाय कर्तव्यं दंतधावनम् ।
ततस्तैलादृते स्नानं कर्तव्यमन्नवर्जनैः ७६।
ततो विष्णुं समभ्यर्च्य पाद्याद्यैर्जगदीश्वरम् ।
हरिध्यानपरो भूत्वा एकभोजनमाचरेत् ७७।
आमिषं लवणं चैव तथा मांसं मसूरकम् ।
बृहन्माषं तथा शाकं दशम्यां परिवर्जयेत् ७८।
द्विर्भोजनं परान्नं च मधूनि मैथुनं तथा ।
भोजनं कांस्यपात्रेषु दशम्यां परिवर्जयेत् ७९।
निम्बपत्रं च वृंताकं दग्धं जंबीरमेव च ।
घृतहीनं तथा गव्यं दशम्यां परिवर्जयेत् ८०।
अत्यन्तभोजनं चैव अत्यन्ताशनभोजनम् ।
तांबूलभक्षणं चैव दशम्यां परिवर्जयेत् ८१।
दशम्यां यानि वस्तूनि निषिद्धानि द्विजोत्तम ।
द्वादश्यामपि तान्येव निषिद्धानि न संशयः ८२।
दशम्यां विप्रशार्दूल द्वादश्यामपि वैष्णवः ।
सम्यग्व्रतफलप्रेप्सुर्न कुर्यान्निशि भोजनम् ८३।
अतो हविष्यं कृत्वा तु दशम्यां सत्वरो व्रती ।
अपराह्णे पुनः कुर्याद्विधिना दंतधावनम् ८४।
सायं देवालयं गत्वा गृहीत्वा कुसुमाञ्जलिम् ।
केशवं मनसा ध्मायन्मंत्रमेतमुदीरयेत् ८५।
एतद्गृहीतं गोविंद मया त्वत्पुरतो व्रतम् ।
सिद्धिं गच्छतु निर्विघ्नं तव पादानुकंपया ८६।
अतिचंचलचित्तोऽहं लोभमोहमयो नरः ।
शक्नोम्येतद्व्रतं कर्तुं किं तवानुग्रहादृते ८७।
इमौ मंत्रौ पठित्वा तु तमेव कुसुमांजलिम् ।
दत्वा नारायणायाथ दंडवत्प्रणमेद्भुवि ८८।
तस्मिन्नेव गृहे विष्णोर्विष्णुस्मरणतत्परः ।
कुशेन शय्यामास्तीर्य भूमौ शयनमाचरेत् ८९।
ततः प्रभाते विमले न कुर्याद्दंतधावनम् ।
कल्लोलैर्मुखशुद्धिं तु कुर्याद्द्वादशभिर्बुधः ९०।
नित्यक्रियां प्रकुर्वीत विष्णुपूजादिकक्रियाम् ।
ततो निशायां विप्रेन्द्र सकलैर्व्रतिभिर्जनैः ९१।
एकत्र जागरं कुर्यात्पुरतो जगतांपतेः ।
समातृकः सभार्यश्च सभ्राता सपिता तथा ९२।
तथा सपुत्रमित्रश्च कुरुते जागरं हरेः ।
स तिष्ठेद्विष्णुभवने चिरं व्रतकरो द्विज ९३।
शङ्खचक्रादिकं चित्रं यो लिखेद्विष्णुमंदिरे ।
बहुजन्मकृतं पापं हरेत्तस्य जनार्दनः ९४।
तंडूलचूर्णपंकेन विष्णोरायतनेषु च ।
अन्यैर्वन्यैश्च वा चित्रं लिखेत्तस्य फलं शृणु ९५।
पुत्रपौत्रप्रपौत्रैश्च भुङ्क्ते च सकलं शुभम् ।
शेषे विष्णुपुरं गत्वा तत्र मोक्षमवाप्नुयात् ९६।
वासरे कमलाभर्तुर्ध्वजारोपणकृन्नरः ।
उद्धृत्य कोटिपुरुषान्नारायणपुरं व्रजेत् ९७।
पताकावल्लिभिर्युक्तं विष्णोरायतनं जनः ।
मण्डयत्यवनीपालः स लभेत्प्रतिजन्मनि ९८।
पताकाप्रचलंती च यावद्भवति वायुना ।
तत्कर्तुः पातकं सर्वं तावदेव विनश्यति ९९।
पताकावलयाः प्राज्ञैर्नानावर्णा हरेर्गृहे ।
स्थापितव्याः परं स्थानमिच्छद्भिर्हरिवासरे १०० 7.22.100।
विष्णोः शिरसि यच्छत्रं धत्ते चारुतरं जनः ।
प्रतिजन्मनि विप्रर्षे क्षत्त्री भवति स क्षितौ १०१।
वासरे वासुदेवस्य पुष्पमंडपकृन्नरः ।
प्रतिपुष्पं लभेत्पुण्यं वाजिमेधशतोत्तरम् १०२।
वासुदेवदिने पुष्पैः सुंगधैर्मंडयन्बुधः ।
यत्नादपि च कर्तव्यं चतुर्वर्गफलाप्तये १०३।
यो वस्त्रगृहनिर्माणं कुरुते हरिवासरे ।
स सौधवासी विप्रर्षे भवति त्रिदशालये १०४।
निर्माय वस्त्रभवनं तत्र बध्नाति मानवः ।
श्वेतं वा लोहितं वापि कृष्णं वासोऽच्युतप्रियः १०५।
शालिग्रामशिलां तत्र प्रतिमां वा श्रियःपतेः ।
पञ्चामृतेन संस्नाप्य स्थापयेद्भक्तितो व्रती १०६।
आदौ स्वस्त्ययनं कुर्यात्संकल्पं च तथा बुधः ।
यत्नादपि च कर्तव्यं चतुर्वर्गफलाप्तये १०७।
भूतशुद्धिं निजां विप्र विधानं शास्त्रभाषितैः ।
ततश्चैकमना भूत्वा गृहीत्वा पुष्पमुत्तमम् १०८।
ध्यायन्नारायणं देवं हृदयांभोजवासिनम् ।
आसीनं हेमपीठे च तथा मणिमयेऽपि च १०९।
आसीनं हेमपीठे मणिमयज्वलनालंकृतं क्रीडवेशं बिभ्रल्ले।
खोज्ज्वलाभ्रद्युतिरुचिरतनुं दीर्घदोर्भिश्चतुर्भिः ।
नित्यं विभ्राजमानं सकलकरलयैः सायुधैः पद्मनेत्रैः ।
पश्यंतं श्रीमुखं तच्छ्रमनुदमनिशं तं भजेऽपाङ्गदृष्ट्या ११०।
आगच्छ भगवन्देवसहितः श्रीपतेः प्रिय ।
कर्तव्या हि मया भक्त्या सपर्यास्मिन्व्रते तव १११।
सर्वलक्षणसंपन्न लक्ष्म्या सह जगद्गुरो ।
अस्मिन्वरासने तिष्ठ यावत्पूजां करोमि ते ११२।
समस्तलोकविख्यात कीर्ते नारायणप्रभो ।
कच्चित्ते कुशलं सर्वं सर्वं वद सुरार्चित ११३।
पाद्यं गृहाण देवेश नारायणसुवासितम् ।
पादद्वयरजोहारि पवित्रमतिशीतलम् ११४।
अर्घ्यं ददामि ते विष्णो दूर्वापल्लवसंयुतम् ।
अखंडतंडुलोपेतं पुंडरीकनिभेक्षण ११५।
इदमाचमनीयं ते सुपवित्रं ददाम्यहम् ।
गृहाण परमानंद परमानंदवर्द्धनम् ११६।
मया दत्तेन गंधेन जरासंधविनाशन ।
तवास्तु भूषितं गात्रं लक्ष्मीनाथ सुगंधिना ११७।
ददाम्यहं पवित्रार्थं जगतामादिकारकम् ।
इदमाचमनं देव तद्गृहाण सुरेश्वर ११८।
सृष्टोऽयं विधिना पूर्वं देवानां तुष्टिवृद्धये ।
अतस्तुभ्यं सुरश्रेष्ठ धूपोऽयं दीयते मया ११९।
तमसः स्तोमसंहर्ता घृतपूर्णो जनार्दन ।
तवास्तु प्रीतये देव एष दीपो जनार्दन १२०।
सोत्तरीयमिदं वस्त्रं बस्तिश्रोणिसुशोभनम् ।
ददाम्यहं ते देवेश सोपवीतं जगद्गुरो १२१।
अन्नं चतुर्विधं स्वादुरसैः षड्भिः समन्वितम् ।
मया निवेदितं भक्त्या गृहाण परमेश्वर १२२।
मुखदुर्गन्धहरणं कर्पूरखदिरान्वितम् ।
गृहाण विष्णो तांबूलं कैवल्यद महामते १२३।
विधिनानेन गोविन्दमुपहारैरनुत्तमैः ।
पूजयेत्संवृतो भक्त्या प्रहरेषु चतुर्ष्वपि १२४।
नानोपहारान्हरये यो यच्छेद्धरिवासरे ।
वित्तशाठ्यं न कर्तव्यं कर्मणां फलमिच्छता १२५।
ततस्तु व्रतिभिः सर्वैर्नारायणपरायणैः ।
निशि जागरणं कार्य्यं नृत्यगीतस्तवादिभिः १२६।
प्रदक्षिणं द्विजश्रेष्ठ नामानि कमलापतेः ।
सर्वपापविनाशीनि स्मर्तव्यानि व्रते रतैः १२७।
स्फुरंतं प्रतिवक्त्रेभ्यो हरिनामध्वनिं जनाः ।
शृण्वंति ते विमुक्ताः स्युर्महद्भिः पापसंचयैः १२८।
न पाखंण्डजनालापः कर्तव्यो हरिवासरे ।
पाखंडालापमात्रेण सर्वधर्मो विनश्यति १२९।
नारायणयशोगीतं प्रतिकंठं विनिःसृतम् ।
श्रुत्वा मूढा न तृप्यंति श्वानो वीणाक्वणं यथा १३०।
संतो हर्षं समायांति श्रुत्वा गीतं जगत्पतेः ।
समस्तपापविध्वंसि वीणाक्वाणं यथा मृगाः १३१।
गायंतं हरिगीतानि नृत्यंति नृत्यमुत्तमम् ।
तृप्यंति व्रतिनो दृष्ट्वा तृप्यंति कमलापतेः १३२।
व्रतिनो येन तृप्यंति विष्णोरायतने द्विज ।
प्रतिजन्मनि वै तेषां पशुता शाश्वती भवेत् १३३।
न ये गीतानि गायंति व्रतिनो हरिवासरे ।
विहीना वचनैस्ते च भ्रमंति प्रतिजन्मनि १३४।
मृदंगादीनि वाद्यानि कर्तव्यानि हरेः पुरः ।
यतो वाद्यैर्भवेत्तुष्टो भगवान्मधुसूदनः १३५।
कुर्वंति जागरं विष्णोर्वेदाध्ययनमुत्तमम् ।
पुराणपठनं वापि कर्तव्यं वैष्णवैर्जनैः १३६।
रामायणं भागवतं भारतं व्यासभाषितम् ।
अन्यानि च पुराणानि पाठ्यानि हरिवासरे १३७।
ये पठंति पुरो विष्णोर्ये शृण्वन्ति हरेर्दिने ।
प्रत्यक्षरे लभंते ते कपिलादानजं फलम् १३८।
निशि जागरणं कुर्यात्सानंदो वैष्णवो जनः ।
जितनिद्रो भवेत्सम्यग्ध्यायते केशवं हृदा १३९।
प्रदक्षिणाकारतया भूयोभूयो हरेर्द्दिने ।
निपत्य दण्डवद्भूमौ प्रणमेच्च जनार्द्दनम् १४०।
ततः प्रभाते विमले कृतपंचमहाध्वरः ।
हरिं संस्नाप्य दुग्धेन पूजयेद्भक्तिमान्व्रती १४१।
व्रतस्य दक्षिणां दद्यान्निजशक्त्या द्विजन्मने ।
ततस्तु द्वादशीमध्ये व्रती पारणमाचरेत् १४२।
पारणं कुरुते यस्तु विलंघ्य द्वादशीतिथिम् ।
जन्मकोट्यर्जितं पुण्यं तस्य चैव विनश्यति १४३।
द्वादशीतिथिमध्ये तु कर्तव्यं पारणं बुधैः ।
न कदाचित्त्रयोदश्यां व्रतस्य फलमिच्छुभिः १४४।
उपवासदिने विप्र निशायामपि वैष्णवः ।
उपवासफलप्रेप्सुर्यत्नात्स्वापं विवर्जयेत् १४५।
विना जागरणं नूनमुपवासो निरर्थकः ।
अतो जागरणं कार्य्यमुभयोरपि पक्षयोः १४६।
एकादशीव्रतं येन विधिनानेन कुर्वते ।
सत्यं सत्यं द्विजश्रेष्ठ सर्वे ते मोक्षगामिनः १४७।
जन्ममृत्युहरणैकनिदानं सेंद्र देवनिकरैरपि कार्यम् ।
वासुदेवदिवसव्रतसारं जैमिने त्वमनिशं कुरु यत्नात् १४८।
इति श्रीपद्मपुराणे क्रियायोगसारे एकादशीमाहात्म्ये द्वाविंशोऽध्यायः २२ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 23
व्यास उवाच-
पूर्वं कोचरशोनाम राजाऽभूत्क्षितिमंडले ।
शांतः परमधर्मज्ञो राजनीतिविदांवरः १।
सत्यवादी जितक्रोधो जितवैरि समुच्चयः ।
नारायणार्चनपरो हरिसेवा रतः परः २।
सुप्रज्ञा नाम महिषी तस्यासीत्प्रियवादिनी ।
सर्वलक्षणसंपन्ना पतिसेवापरायणा ३।
एकादशीव्रतरता सर्वप्राणिहितैषिणी ।
जातिस्मरा महाभागा सुशीला वरवर्णिनी ४।
स राजा दशमीं कृत्वा सदारः परमार्थवित् ।
एकादशीं निशीथिन्यां जागरं कर्तुमुद्यतः ५।
तत्रांतरे द्विजः कश्चिच्छौरिर्नाम महीपतेः ।
आजगाम महातेजास्तस्य जागरमण्डपम् ६।
तमायांतं स भूपालो नारायणपरायणः ।
पाद्याद्यैः पूजयामास सदारोऽत्यंतहर्षितः ७।
तेषां मध्ये सूपविष्ठः स विप्रोऽखिलतत्ववित् ।
विष्णुपूजापरांस्तत्र ददर्श व्रतिनो बहून् ८।
पूजयंति हरिं केचिन्नानापुष्पैर्मनोरमैः ।
गंधैर्धूपैस्तथादीपैरुपहारैरनुत्तमैः ९।
गङ्गामृद्भूषिताकेचित्तुलसीपत्रमालया ।
अलंकृता हरेरग्रे नृत्यंति व्रतिनो मुदा १०।
केचिद्गायंति गीतानि ललितानि हरेः पुनः ।
करतालं समादाय व्रतिनो भगवत्प्रियाः ११।
स्तवैरनुत्तमैः केचिन्नारायणमनामयम् ।
स्तुवंति जगतामीशं दिव्यार्थैः कोमलाक्षरैः १२।
श्वेतचामरवातेन शीतलेन जगत्पतेः ।
वीजयंति हरेः प्रीतिं केचिच्च महतीं तथा १३।
केचिद्वीणादिकं वाद्यं ललितं शुचिमंगलम् ।
वादयंतो महात्मानः केचिद्गायंति केशवम् १४।
स राजा राजमहिषी द्वावप्यत्यंतहर्षितौ ।
गायतां ललितं गीतं नृत्यतां नृत्यमुत्तमम् १५।
तौ दंपती महात्मानौ नृत्यगीतादिकारिणौ ।
वाचा मधुरया प्राह स शौरिर्ब्राह्मणोत्तमः १६।
शौरिरुवाच-
धन्योऽसि त्वं महीपाल धन्या च महिषी तव ।
चरित्रं युवयोरेतन्मङ्गलं भुविदुर्ल्लभम् १७।
त्वां वक्ष्यामि यतः कश्चिन्न दृष्टो वैष्णवोत्तमः ।
त्वया भूमिभुजा पृथ्वी धन्येयं नात्र संशयः १८।
एकादशीव्रतमिदं पवित्रं भगवत्प्रियम् ।
सदारः कुरुषे भूप तस्मात्त्वं वैष्णवाग्रणीः १९।
सप्तद्वीपैकनाथश्च सदारस्त्वं नृपोत्तम ।
नारायणाग्रतः प्रीत्या यतो नृत्यसि गायसि २०।
चरित्रं युवयोरेतद्दंपत्योर्दृष्टमद्भुतम् ।
कस्माद्बुद्धिरियं जाता युवयोरतिनिर्मला २१।
व्यास उवाच-
तस्येदं वाक्यमाकर्ण्य शौरिनाम्नो द्विजन्मनः ।
ईषद्धास्यमुखीप्राह सुप्राज्ञा तमथो द्विजम् २२।
सुप्राज्ञोवाच-
एकादशीप्रभावेन पूर्वमावां द्विजोत्तम ।
अतिपातकिनौ मुक्तौ सूर्यजेन महात्मना २३।
जातिस्मृतिप्रभावेण दिव्यमेकादशीव्रतम् ।
कुर्वः संप्रति विप्रेन्द्र परमस्थानकाङ्क्षया २४।
शौरिरुवाच-
यदि नूनं वरारोहे पूर्वां जातिं त्वमात्मनः ।
वेत्सि मे ब्रूहि तां श्रोतुं जायते कौतुकं हृदि २५।
पूर्वं स्थिता का भवती पतिर्वा कः स्थितस्तव ।
कथं भास्करिणा त्यक्तौ युवां पातकिनावपि २६।
सुप्राज्ञोवाच-
अप्रकाश्यमिदं वाक्यं यद्यपि द्विजसत्तम ।
स्थितास्मि वारमुख्याऽहं रतिशास्त्रविशारदा २७।
तस्मिञ्जन्मनि पापानि घोराणि सुबहूनि च ।
मया कृतानि विप्रेन्द्र नरकक्लेशदानि वै २८।
अयं नित्योदयो नाम शूद्र स्वाःचारवर्जितः ।
परदारहरः क्रूरः परद्रव्यापहारकः २९।
सुरापो मित्रहंता च भ्रूणहा परहिंसकः ।
अत्यहंकारयुक्तश्च धर्मनिंदाकरः सदा ३०।
एकदा ज्ञातिभिः सर्वैः परित्यक्तो हि सद्व्रतैः ।
आजगाम ममागारं वेश्याविभ्रमलोलुपः ३१।
युवानं सुंदरं दृष्ट्वा तमेनं द्विजसत्तम ।
मयापि प्रीतिमासाद्य संतुष्टः सुरतैरपि ३२।
ततोऽनुभूय सुरतं मया सह तपोधन ।
अयमाह च मां प्रेम्णा विनयावनतो वचः ३३।
अहं सुरतशास्त्रज्ञः परित्यक्तः स्वबंधुभिः ।
यदि त्वं मन्यसे तस्मिंस्तिष्ठाम्यत्र त्वया सह ३४।
विनयावनतं वाक्यमिदं शुश्राव तद्दिवज ।
दंपतीभावमासाद्य सहानेन स्थितास्म्यहम् ३५।
कदाचिद्दिवजशार्दूल एकादश्यां तिथौ हरेः ।
महद्भिः पीडिताहं च देहदेहावघातकैः ३६।
तस्मिन्नेव द्विजश्रेष्ठ ज्वरजर्जरदेहया ।
न पीतमुदकं नान्नं भुक्तं च परया भिया ३७।
ममस्नेहोदयोऽयं च तस्मिन्नेव दिने हरेः ।
तत्याजान्नं च तोयं च विषण्ण इव जन्मना ३८।
अथ रात्रौ द्विजश्रेष्ठ दीपं प्रज्वाल्य सर्पिषा ।
मया कृतं जागरणं ज्वरापहतचेतसा ३९।
नारायण हरेकृष्ण रक्ष मामिति जल्पता ।
मुहुर्मुहुरनेनापि कृतं जागरणं निशि ४०।
उपवासप्रभावेण केशवोच्चारणेन च ।
आवयोः सकलं पापं विनष्टमभवद्दिवज ४१।
ततः प्रभाते विमले भगवत्युदिते रवौ ।
ज्वरार्दिताहं पंचत्वं गता ब्राह्मणसत्तम ४२।
संप्राप्तपंचतां दृष्ट्वा मामयं च ततः शुचिः ।
सहत्या मरणं भेजे निंदितः सकलैर्जनैः ४३।
सूर्य्यजस्य ततः प्रेष्यैर्ज्वलदग्निनिभेक्षणैः ।
बद्ध्वा दृढेन पाशेन नीतौ दुर्गमवर्त्मना ४४।
शुभकर्मा शुभं वापि चित्रगुप्तो यमाज्ञया ।
सर्वं विचारयामास मूलात्स तु विचक्षणः ४५।
चित्रगुप्त उवाच-
यद्यप्येतौ महाबाहो महापातकिनां वरौ ।
तथापि पातकैर्मुक्तौ ह्येकादश्यामुपोषणात् ४६।
अनिच्छयापि यः कुर्यात्पुण्यमेकादशीव्रतम् ।
सोऽपि गच्छेत्परंस्थानं सर्वपापविवर्जितः ४७।
इत्युक्तश्चित्रगुप्तेन धर्मराजो महायशाः ।
आसनात्सहसोत्थाय ववंदे ताममुंच सः ४८।
सुगंधैश्चंदनैर्दिव्यैर्धूपैः पुष्पैश्च मृत्युना ।
सुवर्णाभरणैरेव मंडितौ पापवर्जितौ ४९।
फलैर्नानाविधैस्तत्र मधुरैरमृतोपमैः ।
भास्करिः कारयामास प्रीत्या भोजनमावयोः ५० 7.23.50।
अथ स्तुत्वा स्तवैर्दिव्यैः स्वयमावां यमः प्रभुः ।
समारोप्य रथे दिव्ये प्रोवाचेति कृताञ्जलि ५१।
यम उवाच-
युवां पुण्यवतां श्रेष्ठौ सर्वपापविवर्जितौ ।
यत्रास्ते भगवान्विष्णुर्गंच्छेतां तत्र संप्रति ५२।
इत्युक्तौ धर्मराजेन विनयावनतेन वै ।
अथैतदुक्तमावाभ्यां नत्वा तत्पादपङ्कजे ५३।
गंतव्यं नान्यथा देव तद्विष्णोः परमं पदम् ।
किंत्वस्ति नरकं द्रष्टुं त्वद्गृहस्थं स्पृहावयोः ५४।
यमाज्ञया ततो विप्र रथमारुह्य शोभनम् ।
दुष्प्रेक्ष्या निरया दृष्टा आवाभ्यां तत्र विस्तराः ५५।
ब्राह्मण उवाच-
तत्रावस्था पापवतां या या दृष्टाः पतिव्रते ।
विस्तरेण समाख्यातुं तास्ताः सर्वास्त्वमर्हसि ५६।
पुण्यात्मानः पथा येन व्रजन्ति यममंदिरम् ।
पापात्मानश्च सुश्रोणि तन्मे कथय विस्तरात् ५७।
पुण्यात्मा कीदृशं पश्येत्तत्र वैवस्वतं प्रभुम् ।
पुण्यात्मनां पापिनां च पंथानं सुखदुःखदम् ५८।
सुप्राज्ञोवाच-
आदौ ब्रवीमि पंथानं नृणां पुण्यवतामहम् ।
शृणुष्व द्विजशार्दूल शृण्वतां प्रीतिवर्द्धनम् ५९।
प्रस्तरैर्विस्तरैर्बद्धो दिव्यवस्त्रैः समावृतः ।
भाति पुण्यवतां पंथाः सर्वोपद्रववर्जितः ६०।
क्वचिद्गंधर्वकन्याभिर्गीयते गानमद्भुतम् ।
क्वचिन्मञ्जुशरीराभिरप्सरोभिश्च नृत्यते ६१।
क्वचिद्वीणाक्वणं नाना वाद्यं चक्रुर्मनोरमम् ।
क्वचित्कुसुमवृष्टिश्च क्वचिद्वायुश्च शीतलः ६२।
क्वचित्प्रपा शीततोया क्वचिच्च भुक्तिशालिकाः ।
क्वचिद्देवाश्च गंधर्वाः पठंति स्तवमुत्तमम् ६३।
क्वचित्क्वचिद्दीर्घिकाश्च फुल्लपद्माः सुशोभनाः ।
सुच्छायाः पादपाः क्वापि पुष्पिता वंजुलादयः ६४।
ततस्तु सुखसम्पन्नाः पथि गच्छंति मानवाः ।
पुण्यात्मानो द्विजश्रेष्ठ सुखमृत्युमवाप्य च ६५।
केचित्तुरंगमारूढा नानालंकारभूषिताः ।
उद्दण्डधवलच्छत्रैर्गच्छंत्यावृत्य मस्तकम् ६६।
केचिद्यांति गजारूढा रथारूढाश्च केचन ।
यानारूढा जनाः केचित्सुखेन यममंदिरम् ६७।
केचिद्देवाङ्गना हस्त न्यस्तचामरवायुभिः ।
गच्छंति वीजिता मर्त्याः स्तूयमानाः सुरर्षिभिः ६८।
केचिद्दिव्यायुधधराः स्रक्चन्दनविभूषिताः ।
भुंजंतो यांति तांबूलं पुण्यात्मानो यमालयम् ६९।
निजगात्रत्विषा केचिज्ज्वालयंतो दिशो दश ।
व्रजंति शमनागारं जलग्रहनिवासिनः ७०।
केचिच्च पायसं दिव्यं भुंजतो यांति सत्तम ।
सुभक्षणं प्रकुर्वंतः पथि यांतः सुखेन च ७१।
केचिद्दुग्धं पिबंतश्च केचिदिक्षुरसं तथा ।
केचित्तक्रं पिबंतश्च गच्छंति यममंदिरम् ७२।
केचिद्दधीनि भक्षंतः केचिन्नानाफलानि च ।
केचिन्मधुपिबंतश्च पुण्यवंतो व्रजंति वै ७३।
तानागतांस्ततो दृष्ट्वा बहून्धर्मपरायणान् ।
भास्करीं प्रीतिमासाद्य स्वयं नारायणो भवेत् ७४।
चतुर्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः ।
शङ्खचक्रगदापद्मधारी गरुडवाहनः ७५।
स्वर्णयज्ञोपवीती च स्मरचारुमहाननः ।
किरीटी कुण्डली चैव वनमालाविभूषितः ७६।
चित्रगुप्तो महाप्राज्ञश्चंडाद्या यमकिंकराः ।
सर्वे नारायणाकारा बभूवुर्मधुरोक्तयः ७७।
ततः स्वयं धर्मराजस्तान्सर्वान्मनुजोत्तमान् ।
परमां प्रीतिमासाद्य मित्रवच्चार्चयेद्द्विज ७८।
दिव्यरत्नैः फलैश्चैव तेषां पुण्यवतां नृणाम् ।
भोजनं कारयित्वा तु तानुवाचाथ भास्करिः ७९।
यम उवाच-
यूयं सर्वे महात्मानो नरकक्लेशभीरवः ।
निजकर्मप्रभावेण गम्यतां परमं पदम् ८०।
संसारे जन्म संप्राप्य पुण्यं यः कुरुते नरः ।
स मे पिता स मे भ्राता स मे बंधुसमः सुहृत् ८१।
इत्युक्ता धर्मराजेन ते सर्वे द्विजसत्तम ।
दिव्यं रथं समारुह्य नारायणपुरं गताः ८२।
पुण्यात्मनां गतिः प्रोक्ता समासेन द्विजोत्तम ।
पापात्मनां शृणु गतिं विस्तरेण वदाम्यहम् ८३।
षडशीतिसहस्राणि योजनानि दुरात्मनाम् ।
प्रोक्तो मार्गस्य विस्तारः सर्वदुःखान्वितः स च ८४।
कुत्रचिद्वह्निवृष्टिश्च कुत्रचिच्चाश्मवर्षणम् ।
क्वचित्क्वचिद्द्विजश्रेष्ठ संतप्तं तप्तवालुकम् ८५।
क्वचित्क्वचित्तीक्ष्णशिलाः क्वचित्तप्तशिलास्तथा ।
क्वचित्क्वचिच्छस्त्रवृष्टिः क्वचिदंगारवर्षणम् ८६।
क्वचिदग्निरिवातीव संतप्ता वांति मारुताः ।
गंभीरांधकराः क्वापि तृणावर्तमुखा द्विज ८७।
क्वचित्कंटकवृष्टिश्च नाराचमयकंटकैः ।
पाषाणश्रेणयः क्वापि दुःखरोहाः सपन्नगाः ८८।
गच्छंति पापिनस्तत्र शुष्ककंठोष्ठतालुकाः ।
एवं बहुविधक्लेशे छायाजलविवर्जिते ८९।
तस्मिन्मार्गे द्विजश्रेष्ठ पापिनो यांति दुःखिताः ।
नाम्ना विमुक्तकेशाश्च प्रेताकारा भयंकराः ९०।
रुधिरौघप्लुताः केचित्केचित्कर्दमभूषिताः ।
केचित्केचिच्च कृष्णांगाः पथि गच्छंति पापिनः ९१।
क्रंदंतो व्यथया केचित्स्रवद्बाष्पाकुले क्षणाः ।
शोचंतः स्वानि कर्माणि केचिद्गच्छंति पापिनः ९२।
कस्यचिच्चर्मपाशस्य बंधनं पापिनां गले ।
कंकाले कस्यचिद्बद्धाः कस्यचिच्च पदद्वये ९३।
गले सूचीसमुत्कीर्णे पाशं दत्वा दृढं रुषा ।
आकृष्यंते यमप्रेष्याः केषांचिच्च कृतैनसाम् ९४।
वर्त्मस्थान्गुरुपाषाणान्वहंतः कर्णरन्ध्रकैः ।
अयोभारांश्च शीर्षाग्रैर्व्रजंति पथि पापिनः ९५।
कांश्चिद्भुजेषु पाशेषु नयंति यमकिंकराः ।
ग्रीवासु पापिनः केचित्करप्रहरणैर्दृढैः ९६।
क्षिप्तक्षिप्ता यमप्रेष्या नयंति यमकिंकराः ।
यांत्यधः शिरसः केचिदूर्ध्वपादास्तथापरे ९७।
गच्छंति बाहुभिः केचिदेकपादाश्च केचन ।
इत्येवं विकृताकारा आर्तरावविरावणाः ९८।
यमदूतैस्ताड्यमानाः पापिनो यांति तत्पथे ।
तेष्वागतेषु सर्वेषु पापात्मा सुरुषा यमः ९९।
दिव्यां मूर्तिं परित्यज्य बभूवात्यंतभैरवः ।
त्रिंशद्योजनदीर्घांगो वापीसदृशलोचनः १०० 7.23.100।
धूम्रवर्णो महातेजाः प्रलंबो घर्घरध्वनिः ।
सुदीर्घदशनश्रेणिः शूर्पोपम नखावलिः १०१।
प्रचण्डमहिषारूढः संदष्टदशनच्छदः ।
दंडहस्तश्चर्मपाशो भ्रुकुटी कुटिलाननः १०२।
चित्रगुप्तो महामायः क्रोधारुणितलोचनः ।
अट्टाट्टहासं कुर्वाणः समवर्ती विराजते १०३।
चंडाद्याः किंकराः सर्वे पाशमुद्गरपाणयः ।
बभूवुर्भैरवाः क्रुद्धा गर्जंतो जलदा इव १०४।
जहि जह्याशु पापिष्ठान्भिन्धि च्छिंदय विंधय ।
समंतादेव धावंतो वल्गंति यमकिंकराः १०५।
तानाह पततः सर्वान्पापिनो धर्मराट्प्रभुः ।
तर्जयेत्कालदंडेन त्यजन्हुंकारनिःस्वनम् १०६।
यम उवाच-
रेरे पापा दुराचारा युष्माभिरविवेकिभिः ।
अहो कृतानि पापानि आत्मपीडाकराण्यपि १०७।
मस्तकोपरि तिष्ठंतं नेक्षध्वं समवर्तिनम् ।
ज्ञात्वापि मां जीवितेशं युष्माभिः पातकं कृतम् १०८।
पुण्यात्मनामहं बंधुरहं पापात्मनां रिपुः ।
इति कुत्रापि युष्माभिर्न श्रुतं श्रवणैः स्वकैः १०९।
निरया दुःसहाः संति नानादुःखसमन्विताः ।
पापिनो भुंजते तांश्च युष्माभिर्नेति विश्रुतम् ११०।
मत्वा मिथ्यैव युष्माभिश्चर्चा मम दुराशयाः ।
अद्य सैव स्वकैर्नेत्रैर्दृश्यतां कृतपातकाः १११।
वित्तांध्येन वचो मत्ता यूयं सर्वे सदैव हि ।
चक्रिरे पापजालानि युष्माभिः सततं यथा ११२।
तथा पापफलं दुष्टा भुंजतां क्रंदनेन किम् ।
सुप्राज्ञोवाच-
इत्युक्त्वा भास्करिर्देवश्चित्रगुप्तमुवाच ह ११३।
एतेषां पापकर्माणि महाभाग विचारय ।
धर्मराजवचः श्रुत्वा चित्रगुप्तो महत्तदा ११४।
तेषां यावंति पापानि तावंति प्राह चोदितः ।
ततस्ते पापिनः सर्वे क्रंदंति द्विजसत्तम ११५।
इत्यूचुः शमनं भीताश्चर्मपाशे नियंत्रिताः ।
पापिन ऊचुः
अस्माभिर्यानि पापानि कृतानि भास्करात्मज ११६।
के स्थिताः साक्षिणस्तत्र के वा यूयं निवेदिताः ।
अशुभं वा शुभं वापि यतोऽस्माभिः कृतं पुरा ११७।
तथा च दृष्टं केनात्र पुरोऽस्माकं निगद्यताम् ।
ततः प्रहस्य भगवान्कोपेन महता द्विज ११८।
आहूय साक्षिणः सर्वानिदं वचनमब्रवीत् ।
यम उवाच-
यूयं सर्वे यथावृत्तं संनिधौ साक्षिणस्तथा ११९।
आकाशं पृथिवीं चैव जलं च तिथयस्तथा ।
दिनं रात्रिरुभे संध्ये धर्मश्चैते तु साक्षिणः १२०।
तेषां पापात्मनामूचुः सर्वं कर्मशुभाशुभम् ।
यस्य यस्य च वेलायां कर्म यद्यदिकारितम् १२१।
स स साक्षी तस्य तस्य जगाद यमसन्निधौ ।
तच्छ्रुत्वा पापिनः सर्वे साध्वसा कृष्टमानसाः १२२।
सकंपहृदयास्तस्थुर्मेघं दृष्ट्वा मृगा इव ।
ततस्तु दंतावलिभिः कुर्वन्कडकडध्वनिम् १२३।
धर्मराट्कालदंडेन ताञ्जघान पृथक्पृथक् ।
ताडिता धर्मराजेन ते सर्वे कृतपातकाः १२४।
क्रंदंति निजकर्माणि शोचंतः प्राप्तसाध्वसाः ।
ततस्तान्पापिनः सर्वान्दूताश्चंडादयो रुषा १२५।
नरकेषु यमादेशाद्रौरवादिषु चिक्षिपुः ।
तपने चिक्षिपुः कांश्चिदवीचौ कृतपातकान् १२६।
संघाते कालसूत्रे च महारौरवके तथा ।
संतप्ते वालुकाकुंडे कुंभीपाके तथापरान् १२७।
निरुच्छ्वासे महाघोरे चिक्षिपुश्च प्रमर्द्दने ।
असिपत्रवने घोरे नानाभक्षेषु पापिनः १२८।
वैतरण्यां तथा केऽपि चिक्षिपुर्यमकिंकराः ।
घोरे विष्ठाह्रदे कांश्चित्तुषांगारास्थिकंटकैः १२९।
पूर्णे नितांतसंतप्ते चिक्षिपुर्यमकिंकराः ।
पुरीषलेपने चैव पुरीषभोजने तथा १३०।
स्वमांसभोजने चैव स्थापिता यमकिंकरैः ।
श्लेष्माणं भुंजते केचित्केचिद्वीर्यं च भुंजते १३१।
पिबंति केचिन्मूत्राणि केचिद्रक्तानि पापिनः ।
केषांचिद्वदनेष्वेव जलौकाः पन्नगोपमाः १३२।
पूर्यंते पन्नगाश्चैव यमदूतैर्भयंकरैः ।
उत्पाद्यंतेऽतिसंतप्तैर्जिह्वाश्च द्विजसत्तम १३३।
केषांचित्कर्णरंध्रेषु मुखेषु च कृतैनसाम् ।
तप्ततैलानि पूर्यंते निर्द्दयैर्यमकिंकरैः १३४।
केषांचित्खङ्गधाराभिर्बाहुं च चरणं तथा ।
कर्णादिनासिकाश्चैव च्छिंदंति च दुरात्मनाम् १३५।
शयनं कुर्वते केचिज्ज्वलदंगारसंचये ।
केचिन्नाराचतुल्येषु शयनं कंटकेषु च १३६।
कर्दमेषु च तप्तेषु कांश्चिच्छमनकिंकराः ।
पातयंति द्विजश्रेष्ठ केशेष्वाकृष्य पापिनः १३७।
वमनेषु च केषांचिन्नखसंधिषु पापिनाम् ।
तप्तसूचीसहस्राणि प्रक्षिपंति मुहुर्मुहुः १३८।
संतप्तलोहशूलाग्रे कांश्चिदारोपयंति वै ।
क्रंदंति कंटकैस्तीक्ष्णैः केषांचिन्मस्तकानि वै १३९।
गृहीत्वा हस्तपादेषु शाल्मलिद्रुमकंटकैः ।
निष्कुषंति रुषा कांश्चिदार्त्तरावविराविणः १४०।
बद्ध्वा गलेषु पाषाणं कांश्चिच्छमनकिंकराः ।
रक्तगर्ते पयोगर्ते पातयंति पुनः पुनः १४१।
याम्यैर्दूतैरुद्गिरंति शिरांसि पापिनां नृणाम् ।
चूर्णयंत्युपलैर्याम्या मुहुर्मुहुरतिक्रुधा १४२।
वक्षोमध्येषु केषांचिल्लोहकीलकसंचयान् ।
आरोपयंति लोकानां क्रंदतां दुरितात्मनाम् १४३।
चक्षूंषि बडिशैः केषामुत्पाट्यंते कृतैनसाम् ।
केषांचिन्नासिका एव पूर्य्यंते वृश्चिकैर्द्विज १४४।
केषांचिद्वृक्षशाखायां बद्ध्वा पादांश्च पाशकैः ।
ज्वालयंति तले वह्निं सधूमं यमकिंकराः १४५।
धूमपानं प्रकुर्वन्ति ते तत्र कृतकिल्विषाः ।
अधोमुखा ऊर्ध्वपादास्तस्थुराचन्द्र तारकम् १४६।
मुसलैर्मुद्गरैः केचित्ताड्यमानाः पुनः पुनः ।
याम्यैर्दूतैरुद्गिरन्ति शोणितानि व्यथाकुलाः १४७।
अन्धकारमये गेहे पूतिगन्धवति द्विज ।
दंशैश्च मशकैश्चैव केचित्सीदंति पापिनः १४८।
भस्मानि भुञ्जते केचित्कृमीन्केचिच्च भुञ्जते ।
केचिद्दुर्गन्धमांसानि केचिच्च पूतिमृत्तिकाम् १४९।
श्वभिर्व्याघ्रैः शृगालैश्च वज्रदन्तनखैस्तथा ।
ऋक्षैः केचिद्भक्ष्यमाणाः क्रंदन्ति रुधिराप्लुताः १५० 7.23.150।
नितांतोग्रविषैः सर्पैर्भक्ष्यमाणास्तथापरे ।
अन्ये महिषशृंगाग्रनिर्भिन्नवक्षसो द्विज १५१।
पतन्ति मूर्च्छिताः पृथ्वीं सिंचंतो रुधिरैर्महीम् ।
यमदूतधनुर्मुक्तैर्घोरैराशीविषोपमैः १५२।
जर्जराखिलदेहाश्च लुठंत्यन्ये महीतले ।
तप्तायः पिण्डनिलयं तप्तपाषाणमेव च १५३।
दंशशस्त्रेण केषांचित्कुष्णंति वदनेषु च ।
नासारन्ध्रेषु केषांचिद्यमदूता मुखेषु च १५४।
श्वासानिलनिरोधार्थं नासारन्ध्रं वयंति वै ।
केषांचित्तीक्ष्णधाराभिर्यमशाक्तिभिरुद्धतैः १५५।
उत्पाट्यंतेंगचर्माणि यमदूतैर्महाबलैः ।
कांश्चिद्गृहीत्वा केशेषु निपात्य पृथिवीतले १५६।
कीलैः पादादिभिर्घातैस्ताडयंति सदैव हि ।
केचित्क्षारांबुधाराभिः संतप्ताः कृतपातकाः १५७।
क्षारांबुपानं कुर्वंति क्रंदंतो बहुधा द्विज ।
पित्तपानं महाभाग केचित्कुर्वन्ति पापिनः १५८।
स्नुहीक्षीराणि केचिच्च पिबंति पापिनां वराः ।
केषांचित्स्वपतां भूमौ वक्षःसु यमकिंकरैः १५९।
दीयंते गुरुपाषाणाः संतप्ताः पर्वतोपमाः ।
काष्ठखंडद्वयं दत्वा ग्रीवायां च गले तथा १६०।
उदग्रमुखं बध्नन्ति केषांचिद्दृढपाशकैः ।
आरोप्य वृक्षशाखायां कांश्चिद्भूमौ क्षिपंति च १६१।
उत्थापयंति भूमौ च प्रक्षिपंति पुनः पुनः ।
एवं ते पापिनः सर्वे क्षुधितास्तृषितास्तथा १६२।
त्राहि त्राहीति जल्पंतो रुदंति यातनागृहे ।
युगकल्पांतपर्यंतं भुक्त्वा निरययातनाम् १६३।
नातिभुक्त्वा पापशेषे जायंते पापयोनिषु ।
पापयोनौ समुत्पन्ना भवंति व्याधिपीडिताः १६४।
हीनांगा अधिकांगाश्च दुःखिनः पापसेवकाः ।
अपुत्रा अतिमूर्खाश्च परहिंसापरायणाः १६५।
अल्पायुषोऽल्पमतयः कुभार्यापतयस्तथा ।
नित्यं पापानि कर्माणि कर्मणा मनसा गिरा १६६।
पुनः पापप्रभावेन निरयं यांति पूर्ववत् ।
तस्मात्पापं न कर्तव्यं कदाचिदपि सत्तमैः १६७।
नराणां कृतपापानां नरकान्नास्ति निष्कृतिः ।
संक्षेपात्पापिनां दुःखं निरुक्तं द्विजसत्तम १६८।
सम्यग्वक्तुं कः क्षमोस्ति वर्षायुतशतैरपि ।
दुर्गतीनां ततो दृष्ट्वा मनुजानां कृतैनसाम् १६९।
आवां विमानमारुह्य नारायणपुरं गतौ ।
कल्पकोटिसहस्राणि भुक्त्वा भोगान्हरेर्गृहे १७०।
जातौ वै राजवंशेऽस्मिन्विशुद्धे द्विजसत्तम ।
अत्र भुक्त्वाखिलान्भोगान्सर्वसंपत्समन्वितान् १७१।
सुखमृत्युं समासाद्य गंतव्यं परमं पदम् ।
एकादशीव्रतसमं व्रतं नास्ति जगत्त्रये १७२।
अनिच्छयापि यत्कृत्वा गतिरेवंविधाऽवयोः ।
एकादशीव्रतं ये तु भक्तिभावेन कुर्वते १७३।
न जाने किं भवेत्तेषां वासुदेवानुकम्पया ।
इति ते कथितं सर्वं पृष्टं ब्राह्मणसत्तम १७४।
विष्णोर्दिवसमाहात्म्यं किमन्यच्छ्रोतुमर्हसि ।
व्यास उवाच-
तस्यैतद्वचनं श्रुत्वा स विप्रः परमार्थवित् १७५।
एकादशीव्रते चित्तं चकार सुदृढं निजम् ।
स राजा राजमहिषी चिरं भुक्त्वा वसुंधराम् १७६।
अंते विष्णुपुरं गत्वा प्राप्तवंतौ परं पदम् ।
व्रतराजस्य माहात्म्यं ये शृण्वंति पठंति च १७७।
पापजालैर्विनिर्मुक्ता लभंते हरिसन्निधौ १७८।
इति श्रीपद्मपुराणे क्रियायोगसारे एकादशीमाहात्म्ये त्रयोविंशतितमोऽध्यायः २३ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 24
सूत उवाच-
एकादश्याः फलं श्रुत्वा सुप्रीतो जैमिनिस्ततः ।
कृताञ्जलिरुवाचेदं कृष्णद्वैपायनं प्रभुम् १।
जैमिनिरुवाच-
विष्णोर्देवस्य माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया ।
तुलस्या ब्रूहि माहात्म्यं शृण्वतां पापनाशनम् २।
व्यास उवाच-
इन्द्राद्यैर्दैवतैः सर्वैस्तुलसी भगवत्यसौ ।
संसेव्या सर्वदा विप्र चतुर्वर्गफलप्रदा ३।
स्वर्गे मर्त्ये च पाताले तुलसी दुर्ल्लभा सताम् ।
चतुर्वर्गफलप्राप्तिस्तस्यां भक्तिः करोति वै ४।
यत्रैकस्तुलसीवृक्षस्तिष्ठत्यपि च सत्तम ।
तत्रैव त्रिदशाः सर्वे ब्रह्मविष्णुशिवादयः ५।
केशवः पत्रमध्ये च पत्राग्रे च प्रजापतिः ।
पत्रवृंते शिवस्तिष्ठेत्तुलस्याः सर्वदैव हि ६।
लक्ष्मी सरस्वती चैव गायत्री चंडिका तथा ।
सर्वाश्चान्या देवपत्न्यस्तत्पत्रेषु वंसति च ७।
इन्द्रो ऽग्नि शमनश्चैव नैरृतिर्वरुणस्तथा ।
पवनश्च कुबरेश्च तच्छाखायां वसंत्यमी ८।
आदित्यादि ग्रहाः सर्वे विश्वेदेवाश्च सर्वदा ।
वसवो मुनयश्चैव तथा देवर्षयोऽखिलाः ९।
कोटिब्रह्माण्डमध्येषु यानि तीर्थानि भूतले ।
तुलसीदलमाश्रित्य तान्येव निवसंति वै १०।
तुलसीं सेवते यस्तु भक्तिभावसमन्वितः ।
सेवितास्तेन तीर्थाश्च देवा ब्रह्मादयस्तथा ११।
छिन्दंति तृणजालानि तुलसीमूलजानि ये ।
तद्देहस्थां ब्रह्महत्यां क्षिणत्ति तत्क्षणाद्धरिः १२।
ग्रीष्मकाले द्विजश्रेष्ठ सुगंधैः शीतलैर्जलैः ।
तुलसीसेचनं कृत्वा नरो निर्वाणमाप्नुयात् १३।
चन्द्रातपं वा छत्रं वा तस्यै यस्तु प्रयच्छति ।
विशेषतो निदाघेषु स मुक्तः सर्वपातकैः १४।
वैशाखेऽक्षतधाराभिरद्भिर्यस्तुलसीं जनः ।
सिंचयेत्सोऽश्वमेधस्य फलं प्राप्नोति नित्यशः १५।
प्रसृतोदकमात्रेण तुलसीं यस्य सेचयेत् ।
सोऽपि स्वर्गमवाप्नोति सर्वपापविवर्जितः १६।
कदाचित्तुलसीं दुग्धैः सेचयेद्यो नरोत्तमः ।
तस्य वेश्मनि विप्रर्षे लक्ष्मीर्भवति निश्चला १७।
गोमयैस्तुलसीमूलं यः कुर्यादुपलेपनम् ।
संमार्जनं च विप्रर्षे तस्य पुण्यफलं शृणु १८।
रजांसि तत्र यावंति दूरीभूतानि जैमिने ।
तावत्कल्पसहस्राणि मोदते विष्णुना सह १९।
प्रदीपं यस्तु संध्यायां स्थापयेत्तुलसीतले ।
स याति मंदिरं विष्णोः कुलकोटिसमन्वितः २०।
गोभ्यः श्वभ्यः खरेभ्यश्च मनुष्येभ्यश्च रक्षति ।
शिशुभ्यस्तुलसीं यस्तु तं रक्षेत्केशवः सदा २१।
तुलस्यारोपणं यस्तु भक्तितः कुरुते नरः ।
स मृतः परमं मोक्षं प्राप्नोत्येव न संशयः २२।
प्रभाते तुलसीं पश्येद्भक्तिमान्यो नरोत्तमः ।
स विष्णुदर्शनस्यैव फलं प्राप्नोति चाक्षयम् २३।
तुलसीं प्रणमेद्यस्तु नरो भक्तिसमन्वितः ।
आयुर्बलं यशोवित्तं संततिस्तस्य वर्द्धते २४।
तुलसीस्मरणेनैव सर्वपापं विनश्यति ।
तुलसीस्पर्शनेनैव नश्यंति व्याधयो नृणाम् २५।
योऽश्नाति तुलसीपत्रं सर्वपापहरं शुभम् ।
तच्छरीरांतरस्थायि पापं नश्यति तत्क्षणात् २६।
तुलसीकाष्ठसंभूतां मालां वहति यो नरः ।
तद्देहे पातकं नास्ति सत्यमेतन्मयोच्यते २७।
तुलसीपत्रगलितं यस्तोयं शिरसा वहेत् ।
गंगायाः स्नानजं पुण्यं लभते नात्र संशयः २८।
दूर्वाभिरक्षतैः पुष्पैर्नैवेद्यैस्तुलसीं शुभाम् ।
समाराध्य नरो भक्त्या विष्णुपूजा फलं लभेत् २९।
येनार्चिता भगवती तुलसी कदाचिन्नैवेद्य पुष्पवरधूपघृतप्रदीपैः ।
धर्मार्थकामपरमामृतदायि विप्राः किं तस्य विष्णुचरणापचितिप्रयोगैः ३०।
स्थानेषु दोषरहितेषु सुरौघसेव्यामारोपयंति तुलसीं हरितुष्टिकर्त्रीम् ।
तुष्टो हरिस्त्रिजगतामधिपोऽमुरारिस्तेभ्यो ददाति परमं पदमाशु विप्र ३१।
यज्ञं व्रतं च पितृपूजनमच्युतार्च्चां दानं यदन्यदपि कर्मशुभं मनुष्याः ।
कुर्वंति दोषरहिते तुलसीतले च तान्यक्षयाणि सकलानि भवंति नूनम् ३२।
यद्धर्मकर्मकुरुते मनुजः पृथिव्यां नारायणप्रियतमां तुलसीं विना च ।
तत्सर्वमेव विफलं भवति द्विजेन्द्र पद्मेक्षणोऽपि न हि तुष्यति देवदेवः ३३।
यात्रासु पश्यति शुभां तुलसीं पवित्रां यो भक्तिभावसहितो मनुजो हि नूनम् ।
यात्राफलं सकलमेव हरिप्रसादात्तस्याशु सिद्ध्यति वचः सुदृढं ममैतत् ३४।
त्यक्त्वा सुगन्धिकुसुमं भुवनैकनाथो मंदारकुन्दनलिनादिकमप्यनंतः ।
गृह्णाति सद्गुणमयीं तुलसीं प्रमोदैः शुष्कामपि प्रचुरपापविनाशरक्षाम् ३५।
उत्पाट्य चैव तुलसीं भुवि निक्षिपंति पापाशयाऽमृतलताभ निदानभूताम् ।
अज्ञानतो नरहरिस्तुलसीप्रियोऽसौ तेषां श्रियं हरति संततमेव सत्यम् ३६।
मूत्रं पुरीषं तुलसीतलेषु कुर्वंति येऽपि च मलं सततं मनुष्याः ।
देवाश्रये संचित पातकानां तेषां हरत्याशु हरिर्धनानि ३७।
नारायणस्यपूजार्थं चिनोमि त्वां नमोस्तुते ।
कुसुमैः पारिजाताद्यैर्गंधाद्यैरपि केशवः ३८।
त्वया विना नैति तृप्तिं चिनोमि त्वामतः शुभे ।
त्वया विना महाभागे समस्तं कर्म निष्फलम् ३९।
अतस्तु तुलसी देवि चिनोमि वरदा भव ।
चयनोद्भव दुःखं ते यद्देवि हृदि जायते ४०।
तत्क्षमस्व जगन्नाथे तुलसि त्वां नमाम्यहम् ।
कृताञ्जलिरिमान्मन्त्रान्पठित्वा वैष्णवो जनः ४१।
करतालद्वयं दत्वा चिनोति तुलसीदलम् ।
यथा न कंपते शाखा तुलस्या द्विजसत्तम ४२।
पत्रस्य चयने देवी भग्नशाखा यदा भवेत् ।
तदा हृदि व्यथा विष्णोर्ज्जायते तुलसीपतेः ४३।
शाखाग्रात्पतितं भूमौ पत्रं पत्रं पुरातनम् ।
तेनापि पूज्यो गोविन्दो मधुकैटभमर्द्दनः ४४।
कोमलैस्तुलसीपत्रैर्योऽर्चयेदच्युतं प्रभुम् ।
सर्वं स लभते शीघ्रं यद्यदिच्छति चेतसा ४५।
जैमिनिरुवाच-
तुलसीवृक्षसदृशः कोवृक्षोऽस्ति द्विजर्षभ ।
तमहं ज्ञातुमिच्छामि ब्रूहि सत्यवतीसुत ४६।
व्यास उवाच-
यथा प्रियतमा विष्णोस्तुलसी सततं द्विज ।
तथा प्रियतमा धात्री सर्वपापप्रणाशिनी ४७।
तुलसीवृक्षमासाद्य या यास्तिष्ठंति देवताः ।
आमलक्यास्तले तास्ता निवसंति द्विजोत्तम ४८।
गंगादीनि च तीर्थानि तत्रैव द्विजसत्तम ।
विष्णुप्रियतमा धात्री पवित्रा यत्र तिष्ठति ४९।
अशुभं वाशुभं वापि यत्कर्मामलकीतले ।
क्रियते मानवैर्विंप्र भवेत्तत्सत्यमक्षयम् ५० 7.24.50।
पवित्रैर्नूतनेः पत्रैर्धात्र्या यः पूजयेद्धरिम् ।
स मुक्तः पापजालेन सायुज्यं लभते हरेः ५१।
धात्री च तुलसीदेवी न तिष्ठेद्यत्र जैमिने ।
स्थानं तदपवित्रं स्यान्न च क्रियाफलं लभेत् ५२।
न तिष्ठत्याश्रमे यस्य धात्री च तुलसी शुभा ।
तेन कर्म कृतं सर्वं नूनं गच्छति निष्फलम् ५३।
धात्र्या तुलस्या हीनं च निलयं यस्य भूसुर ।
अलक्ष्मीः पातकं सर्वं कलिश्च तेन तोषितः ५४।
स्थाने तस्मिन्द्विजश्रेष्ठ न धात्री तुलसी न च ।
श्मशानतुल्यं स्थानं तद्विज्ञेयं तत्वदर्शिभिः ५५।
धात्री च तुलसी यत्र तिष्ठेत्तत्राखिलाः सुराः ।
न धात्री तुलसी पत्रं तत्रैवाखिलपातकम् ५६।
धात्रीफलस्रजं यस्तु पापहर्त्रीं वहेद्बुधः ।
तस्याश्रित्य तनुं विष्णुः सदा तिष्ठेच्छ्रिया सह ५७।
धात्रीकाष्ठस्य मालां च यो वहेन्मतिमान्नरः ।
तस्य देहं समाश्रित्य तिष्ठंति सर्वदेवताः ५८।
धात्रीफलस्रजं गृह्णन्यत्कर्म कुरुते नरः ।
तत्सर्वमक्षयं प्रोक्तं शुभं वा यदि वाशुभम् ५९।
यस्तु धात्रीफलं भुंक्ते मानवोऽखिलतत्ववित् ।
तद्देहाभ्यंतरस्थायि सर्वं पापं विनश्यति ६०।
धात्रीफलमयीं मालां यो वहेद्दिवजसत्तम ।
ब्रवीमि शृणु माहात्म्यं सर्वपापहरं परम् ६१।
श्मशानेऽपि यदा मृत्युस्तस्य स्याद्दैवयोगतः ।
गङ्गामरणजं पुण्यं संप्राप्नोति न संशयः ६२।
तं दृष्ट्वा पापिनः सर्वे पापजालैः सुदारुणैः ।
सद्य एव प्रमुच्यंते जन्मकोटिशतैरपि ६३।
नित्यं गृह्णाति विप्रेंद्र यो धात्रीफलकर्द्दमम् ।
दिने दिने लभेत्पुण्यं संप्राप्नोति न संशयः ६४।
धात्रीतरुं च यो हंति सर्वदेवगणाश्रयम् ।
स ददाति हरेरंगे घातं नास्त्यत्र संशयः ६५।
सर्वदेवमयी धात्री विशेषात्केशवप्रिया ।
सम्यग्वक्तुं गुणं तस्या ब्रह्मणापि न शक्यते ६६।
धात्र्यास्तुलस्या विदधाति भक्तिं यो मानवो ज्ञातसमस्ततत्वः ।
भुक्त्वा च भोगान्सकलां स्ततोंऽते स मुक्तिमाप्नोति हरेः प्रसादात् ६७।
इति श्रीपद्मपुराणे क्रियायोगसारे तुलसीमाहात्म्यं नाम चतुर्विंशोऽध्यायः २४ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 25
जैमिनिरुवाच-
भूय एव महाभाग तुलस्याः पापनाशनम् ।
अतिथेः पूजनस्यापि माहात्म्यं ब्रूहि विस्तरात् १।
सूत उवाच-
ततो व्यासो महातेजास्तुलस्या द्विजसत्तम ।
माहात्म्यं वक्तुमारेभे शृण्वतां पापनाशनम् २।
व्यास उवाच-
इयं साक्षान्महालक्ष्मीस्तुलसी भगवत्प्रिया ।
तस्मादिमां न पश्यंति वृक्षज्ञानेन जैमिने ३।
सदैव तुलसीं मर्त्यो यथैव भुवि सेवते ।
तथैव सेन्द्रा विबुधाः सेवंते तं सुरालये ४।
परब्रह्मस्वरूपेयं तुलसी यत्र तिष्ठति ।
तत्रैव कुशलं सर्वं सुदृढं प्रोच्यते मया ५।
प्राप्नोति मृत्युकाले यस्तोयं पातकवानपि ।
तुलसीपत्रगलितं स याति हरिसन्निधिम् ६।
तुलसीमृत्तिकापुण्ड्रं यो मृत्युसमये वहेत् ।
स मुक्तः सकलैः पापैः पुरं गच्छति चक्रिणः ७।
यस्य स्यात्तुलसीपत्रं मुखे शिरसि कर्णयोः ।
मृत्युकाले द्विजश्रेष्ठ तस्य स्वामी न भास्करिः ८।
पवित्रनामा सुमतिर्बभूव परमार्थवित् ।
बभूव ब्राह्मणी तस्य बहुला नाम धारिणी ९।
सद्वंशप्रभवा साध्वी पतिसेवापरायणा ।
अनपत्यपतिर्नाम तत्रैकोस्ति द्विजोत्तमः १०।
सख्यं तेन पवित्रोऽसौ चकार द्विजसेविना ।
ततोऽनपत्यपतिना कथालोभेन सत्तमः ११।
उपविष्टः पवित्रोऽसौ स्नेहादेकवरासने ।
तत्रांतरे महातेजा लोमशो नाम स द्विजः १२।
कथयंतौ कथाश्चित्राः समागत्य ददर्श तौ ।
अथ तं लोमशं विप्रं विप्रावुत्थाय पीठतः १३।
पाद्यार्घ्याचमनीयाद्यैः पूजयामासतुश्च तौ ।
सुप्रीतो लोमशस्ताभ्यां नारायणपरायणः १४।
उवास ब्राह्मणश्रेष्ठ आसने कीर्तयन्हरिम् ।
आसनस्थं महात्मानं लोमशं तं कृताञ्जलिम् १५।
पवित्रानापत्यमुनी भक्त्या प्राहतुर्लोमशम् ।
भगवन्सर्वधर्मज्ञ त्वत्पादयुगलैर्नृभिः १६।
सद्भिर्ग्राह्यैराश्रमोऽयं पूतोऽभून्नूनमावयोः ।
कृतानि यानि पापानि आवाभ्यां मोहतः पुरा १७।
तानि सर्वाणि नष्टानि त्वत्पादयुगदर्शनात् ।
भवान्नारायणः साक्षात्पूजनीयोऽमरैरपि १८।
सम्यक्ते पूजनं कर्तुं किमावां मानुषौ क्षमौ ।
अतिथेर्या कृता पूजा तेऽस्माभिर्निजशक्तितः १९।
अनया भव सुप्रीतः क्षमस्व दोषमावयोः ।
इत्युक्त्वा तौ महात्मानौ तस्यागंतोः पदद्वये ।
निपेततुर्द्विजश्रेष्ठ वयस्यौ गृहमेधिनौ २०।
व्यास उवाच-
ततो भक्त्या सुसंतुष्टो लोमशो विदुषांवरः ।
युवां विनयिनां श्रेष्ठौ द्विजाग्र्यौ धर्मतत्परौ २१।
आप्यायितोऽस्मि सुतरां युवयोर्विनयोक्तिभिः ।
साक्षाद्ब्रह्मा शिवो विष्णुरतिथिः प्रोच्यते बुधैः २२।
तस्मिन्नेतावतीभक्तिर्युवयोरस्तु मङ्गलम् ।
आराधितोऽस्म्यहंसम्यगतिथिर्भूरिभोजनैः २३।
व्यास उवाच-
तत उत्थाय तौ विप्रौ तत्पादकमलद्वये ।
भूयोऽपि तं नमस्कृत्य प्राहतुर्लोमशं मुनिम् २४।
ब्राह्मणावूचतुः
ब्रह्मन्नतिथिपूजाया माहात्म्यं वक्तुमर्हसि ।
यां कृत्वा प्राप्यते मुक्तिर्दुःखलभ्यापि मानवैः २५।
कोऽतिथिः प्रोच्यते लोके तस्य पूजा च कीदृशी ।
आतिथेयोऽतिथिश्चेमौ लभेते कामुभौ गतिम् २६।
लोमश उवाच-
वानप्रस्थो ब्रह्मचारी भिक्षुश्चैषां प्रपूजनात् ।
निरुच्यते गृहं श्रेष्ठमाश्रमेषु चतुर्ष्वपि २७।
चतुराश्रममध्येषु प्रधाना गृहिणो मताः ।
तैश्चातिथीनां कर्तव्या पूजा भक्तिसमन्वितैः २८।
गृहिणां परमो धर्मः प्रोक्तश्चातिथिपूजनम् ।
आश्रमाचारतोऽभ्रष्टास्ततस्ते गृहिणो मताः २९।
वंहत्यतिथिपूजायां दक्षतां गृहिणो यदि ।
तदा प्रयोजनं तेषां किमन्यैः पुण्यकर्मभिः ३०।
यस्य न श्रूयते नाम न च गोत्रं न च स्थितिः ।
अकस्माद्गृहमागच्छेत्सोऽतिथिः प्रोच्यते बुधैः ३१।
ब्राह्मणाः क्षत्रिया वापि वैश्या वा वृषलास्तथा ।
गृहागताः पूजिताश्च विष्णुवत्तत्त्वदर्शिभिः ३२।
चाण्डालप्रमुखा येऽन्ये हीनवर्णसमुद्भवाः ।
विष्णुवत्पूजितव्यास्ते पाद्यार्घ्यैर्भूरिभोजनैः ३३।
समागतेष्वतिथिषु प्रयाणं कुरुते गृही ।
अपि स त्वरया दद्यात्पाद्यार्घ्यादीनि च द्विजः ३४।
कुर्याच्च कुशलं प्रश्नं वचनैः कोमलाक्षरैः ।
कारयेद्भोजनं वापि दिव्यरत्नैर्मुदा गृही ३५।
सुखदे मन्दिरे तस्य शयनं कारयेद्बुधः ।
प्रातर्जिगमिषुं दृष्ट्वा तमायांतं विवर्जयेत् ३६।
यदि कर्मविपाकेन गृही भवति वित्तवान् ।
अतिथ्येनातिथिः पूज्यस्तदहं वच्मि सत्तमौ ३७।
समागतेष्वतिथिषु भक्त्या दद्यात्तृणादिकम् ।
तृणाभावेन वै ब्रूयाद्भूमौ तिष्ठेति भक्तितः ३८।
पादप्रक्षालनार्थं तुदद्यादुदकमुत्तमम् ।
अतो मधुरया वाचा पृच्छेच्च कुशलादिकम् ३९।
फलादिकं ततो दद्याद्भक्त्या भोजनहेतवे ।
तदभावेन मतिमान्मुदा विप्र प्रकाशयेत् ४०।
वदेच्चाहं महापापी दरिद्र प्रवरोऽतिथे ।
कर्त्तुमिच्छामि भक्तिं ते दैवतंत्रंविरोधकम् ४१।
अनेन विधिना दीनः सत्यक्त्वातिथिपूजनम् ।
स्वाचारपतितो नान्यो यथोक्तं फलमाप्नुयात् ४२।
अनर्चितोऽतिथिर्यस्य गच्छेद्वै गृहिणो गृहात् ।
जन्मकोट्यर्जितं पुण्यं तस्य गच्छति संक्षयम् ४३।
एक एवातिथिर्येन भक्तिभावेन पूज्यते ।
हरेत्तस्य हरिः सद्यो पातकं कोटिजन्मजम् ४४।
सत्यं वच्मि हितं वच्मि दृढं वच्मि प्रयत्नतः ।
विनातिथिसपर्याभिर्गृहिणो नास्ति वा गतिः ४५।
सत्यं सत्यं पुनः सत्यमागंतुपूजया विना ।
गतिर्नास्त्येव नास्त्येव नास्त्येव गृहिधर्मिणाम् ४६।
ज्ञातिधर्म इति ख्यातो वल्लभो द्वापरे युगे ।
बभूव सर्वधर्मज्ञस्तस्य श्रीवल्लभाह्वया ४७।
तेन सर्वाणि कर्माणि कृतानि ज्ञातिसेविना ।
सौराष्ट्रे वसतिं चक्रे तया सह सभार्यया ४८।
तत्र दुर्ग्रहसंचाराद्द्वादशाब्दं च वासवः ।
न ववर्षांबु तेनासीद्दुर्भिक्षं सुमहद्द्विजौ ४९।
तस्मिन्महति दुर्भिक्षे लोकास्तद्देशवासिनः ।
बभूवुर्दुःखिताः सर्वे मर्यादामपि तत्यजुः ५० 7.25.50।
ज्ञानभद्रो महायोगी युगे द्वापर संज्ञके ।
दुर्भिक्षहृतसंपत्तिर्बभूवात्यन्तदुःखितः ५१।
क्षुधाकुलान्सुतान्दृष्ट्वा दारांश्च द्विजसंमतौ ।
फलमूलादनार्थाय जगामोत्पत्यकां गिरेः ५२।
गिरेरुपत्यकाप्रांते चिरायुः स बुभुक्षितः ।
कूष्माण्डफलमेकं च लेभे ब्राह्मणसत्तमौ ५३।
समादाय फलं तच्च हर्षितोऽसौ निजालयम् ।
जवैर्जगाम विप्रेन्द्रो ज्ञानभद्रो महायशाः ५४।
एतस्मिन्नन्तरे विप्र मेघैर्न्नीलपदैरिव ।
आवृते गगने वृष्टिर्महासारैर्बभूव ह ५५।
स मुनिश्च तया वृष्ट्या प्लाविताखिलविग्रह ।
वनाद्वनचरः कश्चिच्छीतार्तश्चाययौ गृहम् ५६।
दृष्ट्वातिथिं तु शीतार्तं ववंदे शिरसा ततः ।
ददौ तृणासनं भक्त्या तस्मै पाद्यादिकं ततः ५७।
ततो मधुरया वाचा तेनैवातिथिना सह ।
तस्थौ स्वस्थेन मनसा प्रज्ञालापं प्रकुर्वता ५८।
गृहिण्या सह गोपेन स्वामिसेवा सुदक्षया ।
ततः कूष्माण्डकं नव्यं पक्वमत्यंत यत्नतः ५९।
संप्राप्य हर्षिता साध्वी ददौ भागं विधाय सा ।
अथासौ दुर्बलो गोपो दिनविंशमुपोषणात् ६०।
आतिथेयो महाभागं ददौ चातिथये मुदा ।
ततस्तद्गृहिणी साध्वी स्वामिभक्तिपरायणा ६१।
ददौ सा पतितं भागं तस्मै चातिथये मुदा ।
अथातिथेस्तयोस्तत्र दंपत्योः सुमहात्मनोः ६२।
अभूद्भागद्वयं भुक्त्वा सुप्रीतो द्विजसत्तम ।
विष्णुवत्पूजितस्ताभ्यां सोऽतिथिर्दृढभक्तितः ६३।
विश्रामं रात्रौ तत्रैव प्रातः स्नात्वा चिरं ययौ ।
गतैवमुपवासेन दिनानामेकविंशतिः ६४।
दंपती तौ महात्मानौ पंचतां ययतुस्ततः ।
तेन पुण्यप्रभावेण दंपती तौ महाशयौ ६५।
प्रापतुर्विष्णुसायुज्यं दुर्ल्लभं योगिनामपि ।
तयोः पुण्यप्रभावेण विहितातिथिपूजया ६६।
तस्मिन्राज्ये तु दुर्भिक्षं विनष्टमभवत्ततः ।
अत्यंतसुखिनोलोकाः शोकव्याधिविवर्जिताः ६७।
धनधान्यादिसम्पन्ना बभूवुर्धर्मतत्पराः ।
विनष्टा दस्यवस्तत्र नृपोऽभूल्लोकपालकः ६८।
निजाचाररतालोका जलदाः कामवर्षिणः ।
पूर्वजाः कोटिपुरुषास्तथैवापरजास्तयोः ६९।
तेनैव कर्मणा मुक्तिं जग्मुः पापविवर्जिताः ।
निर्दोषा धनसंपन्नाः सर्वलोकैकपूजिताः ७०।
शोकव्याधिविहीना च ववृधे संततिस्तयोः ।
लोमश उवाच-
आगंतुपूजामाहात्म्यं सेतिहासं मयोदितम् ७१।
युवयोः प्रीतयोर्विप्रौ किमन्यच्छ्रोतुमिच्छथ ।
व्यास उवाच-
इति ब्रुवति वै तस्मिँल्लोमशे तपसां धने ७२।
कालग्रस्तः कृष्णआखुस्तत्रोत्तस्थौ बिलान्निजात् ।
तमुत्थितं बिलात्कृष्णमूषकं क्रोधविह्वलः ७३।
पवित्रस्तत्र चोत्तस्थौ वदन्निति मुहुर्मुहुः ।
अयं पापाशयो दुष्टो मूषको निशि चाश्रमम् ७४।
खनते तीक्ष्णदंतौघैर्गृहद्रव्यं च कृंतति ।
सर्वेषामेव वर्णानां कृपा श्रेष्ठा प्रकीर्तिता ७५।
सा च सर्वेषु कर्तव्या न च दुष्टेषु जंतुषु ।
इत्युक्त्वासौ मूषिकं तं द्विजश्रेष्ठ कृतैनसम् ७६।
नाराचेनातितीक्ष्णेन प्राप्तकालं जघान ह ।
स्रवच्छोणितधाराभिः प्लाविताङ्गः स मूषकः ७७।
पपात भूमौ विप्रर्षे व्यथया हतचेतनः ।
आखौ निपतिते तस्मिन्दयालुर्द्विजसत्तमः ७८।
हाहाकारं ततः कृत्वा समुत्तस्थौ जवेन सः ।
निजकर्णात्समानीय तुलसीपत्रमुत्तमम् ७९।
तस्याखोर्वदने शीर्षे कर्णयोश्च प्रदत्तवान् ।
मातस्तु तुलसीदेवि गोविन्दह्लादकारिणि ८०।
अस्याखोः कृतपापस्य कुरु त्वं गतिमुत्तमाम् ।
इत्युक्त्वा सद्विजश्रेष्ठ सर्वलोकोपकारकः ८१।
हरेनारायणानन्त इत्युच्चैरकरोद्ध्वनिम् ।
तुलसीपत्रसंस्पर्शान्मूषको वीतकल्मषः ८२।
श्रवणाद्धरिनाम्नश्च मुक्तोऽभूद्भवबंधनात् ।
ततो दूता महाविष्णोः सर्वलक्षणसंयुताः ८३।
आजग्मुः सुरथैः शीघ्रं नेतुं तं गतकल्मषम् ।
समारुह्य रथं दिव्यं विष्णुदूतगणैर्वृताः ८४।
जगाम परमं स्थानं मूषको द्विजसत्तम ।
युगकोटिसहस्राणि स्थित्वा नारायणाश्रमे ८५।
ज्ञानमासाद्य तत्रैव मोक्षमाखुर्जगाम सः ।
व्यास उवाच-
माहात्म्यं तुलसीदेव्याः कथितं ते द्विजोत्तम ८६।
इदानीं ब्रूहि किं श्रोतुं महाभाग त्वमिच्छसि ८७।
इति श्रीपद्मपुराणे क्रियायोगसारे पंचविंशोऽध्यायः २५ ।
खण्डः ७ (क्रियाखण्डः) — Adhyāya 26
जैमिनिरुवाच-
कलौ युगे महाभाग समायाते सुदारुणे ।
भविष्यंति जनाः सर्वे कीदृशास्तद्वदस्व मे १।
व्यास उवाच-
आद्यं सत्ययुगं प्राहुस्तत्र विप्रादयो जनाः ।
नारायणार्चनपराः शोकव्याधिविवर्जिताः २।
सत्योक्तिभाषिणः सर्वे सदया दीर्घजीविनः ।
धनधान्यादिसम्पन्ना हिंसादंभविवर्जिताः ३।
परोपकरणाश्चैव सर्वशास्त्रविदस्तथा ।
एवंविधाः सत्ययुगे सर्वे लोका द्विजोत्तम ४।
राजधर्मग्राहिणश्च भूपाला जनपालनाः ।
अहो सत्ययुगस्यास्ति को व्याख्यातुं गुणं यशः ५।
अधर्मोच्चारणं यत्र जनाः केऽपि न कुर्वते ।
त्रेतायुगे समायाते धर्मः पादोनकं गतः ६।
अल्पशोकान्विता लोकाः केचित्केचिदघाश्रयाः ।
विष्णुध्यानरता लोका यज्ञदानपरायणाः ७।
वर्णाश्रमाचाररताः सुखिनः स्वस्थचेतसः ।
क्षेत्रभूमिकृतः शूद्राः सर्वेब्राह्मणसेविनः ८।
ब्राह्मणाश्च महात्मानो वेदवेदाङ्गपारगाः ।
प्रतिग्रहनिवृत्ताश्च सत्यसन्धा जितेन्द्रियाः ९।
तपोव्रतरता नित्यं दातारो विष्णुसेविनः ।
त्रेतायुगस्यावसाने द्वापरे युग आगते १०।
द्विपादहीनो धर्मः स्यात्सुखदुःखान्विता नराः ।
केचित्केचित्पापरताः केचित्केचिच्च धर्मिणः ११।
केचित्केचिद्गुणैर्हीनाः केचित्केचिन्महागुणाः ।
अत्यन्तदुःखिनः केचित्केचिच्च सुखिनस्तथा १२।
प्रतिग्रहे ब्राह्मणश्च कदाचित्कुरुते स्पृहाम् ।
भूभुजैर्धनलोभेन कदाचित्पीड्यते प्रजा १३।
विष्णुपूजापरा विप्राः शूद्राश्च द्विजसेविनः ।
यदा युगेयुगे धर्मः पादोनतां गतो द्विज १४।
तदा व्यासो विष्णुरूपी वेदभागं चकार ह ।
कलौयुगे च विप्रेन्द्र सर्वपापैकमंदिरे १५।
एकपादो भवेद्धर्मः सर्वे पापरता जनाः ।
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राः पापपरायणाः १६।
अत्यंतकामिनः क्रूरा भविष्यंति कलौ युगे ।
वेदनिंदाकराश्चैव द्यूतचौर्यकरास्तथा १७।
विधवासंगमग्नाश्च भविष्यंति कलौ युगे ।
वृत्त्यर्थब्राह्मणाः केचिन्महाकपटधर्मिणः १८।
सर्वे स्त्रैणा भविष्यंति मादकद्रव्यसेविनः ।
सदा स्त्रीयोनिनिरताः परद्रव्यं हरंति च १९।
परान्नलोलुपा नित्यं तपोव्रतपराङ्मुखाः ।
पाखण्डसङ्गबद्धाश्च भविष्यंति कलौ युगे २०।
रक्ताम्बरा भविष्यंति ब्राह्मणाः शूद्रधर्मिणः ।
कलौ यास्यंति निर्वृत्ता उत्तमा अति नीचताम् २१।
नीचाश्च धनसम्पन्ना यास्यंत्युच्चपदं प्रति ।
प्रदास्यंत्युपकारिभ्यो दानानि सकला जनाः २२।
यत्नादपि च नेष्यंति वृषला विप्रवर्त्तनम् ।
मित्रस्नेहाद्वदिष्यंति कूटसाक्ष्यं कलौ जनाः २३।
अधर्मबुद्धिलपना धर्मबुद्धिविलापिनः ।
परोक्षनिंदकाः क्रूराः संमुखे प्रियवादिनः २४।
साध्वीवादं वदिष्यंति भर्तारं पुंश्चली स्त्रियः ।
परस्त्रीहिंसकाश्चैव गोत्रविक्रयिणो द्विजाः २५।
कन्याविक्रयिणश्चैव भविष्यंति कलौ युगे ।
स्त्रीजिताः पुरुषाः सर्वे स्त्रियोऽप्यत्यंतचञ्चलाः २६।
कलौयुगे भविष्यंति कलौ मर्त्या दुराशयाः ।
अल्पसस्या वसुमती मेघाः स्वल्पोदकास्तथा २७।
अकालवर्षिणश्चापि भविष्यंति कलौ युगे ।
कलौ विड्भोजिनो गावः स्वल्पक्षीराश्च जैमिने २८।
घृतहीनं च तत्क्षीरं भविष्यंति न संशयः ।
आत्मस्तुतिपरा लोकाः परनिंदापरायणाः २९।
भविष्यंति च खर्वाङ्गा बाला बह्वन्नभोजनाः ।
पितृयज्ञं करिष्यंति दंभार्थं ब्राह्मणाः कलौ ३०।
सर्वे वचःस्नेहिनः स्युर्यावत्कार्यं न सिद्ध्यति ।
नरान्धर्मपरान्दृष्ट्वा सर्वे चोपहसंति वै ३१।
वर्धंत्यधर्मतो लोकास्तस्मात्पापरता जनाः ।
दशद्वादशवर्षे च समूलोऽप्येति संक्षयम् ३२।
जलस्येव भविष्यंति यथा वर्षासु वृद्धयः ।
ततो लोका भविष्यंति कलौ गलितयौवनाः ३३।
पंचमे वापि षष्ठे वा वर्षे स्त्री गर्भधारिणी ।
बह्वपत्याश्च पुरुषा भविष्यंत्यतिदुःखिनः ३४।
नेतुकामाश्च सर्वेऽपि दातुकामा न केऽपि च ।
कलौ म्लेच्छा भविष्यंति राजानः पापतत्पराः ३५।
एकवर्णा भविष्यंति विषयार्थं कलौ जनाः ।
कलेः प्रथमसंध्यायां हरिं निंदंति मानवाः ३६।
कलेर्मध्ये न पश्यंति हरेर्नामानि केवले ।
ब्राह्मणाः क्षत्त्रिया वैश्या वृषलाश्च कलौ युगे ३७।
एकवर्णा भविष्यंति वर्णाश्चत्वार एव च ।
यदायदा द्विजश्रेष्ठ हानिः सुकृतिनां भवेत् ३८।
वृद्धिश्च पापिनां नॄणां ज्ञेया वृद्धिस्तदा कलौ ।
यद्यप्ययं कलिर्घोरो मया प्रोक्तो द्विजोत्तम ३९।
तथाप्यस्ति महानस्य गुणो गुणवतां वर ।
सत्ये द्वादशभिर्वर्षैर्भवेत्पुण्यस्य साधनम् ४०।
तदर्धेन च त्रेतायां मासेन द्वापरे भवेत् ।
अहोरात्रेणैव विप्र भवेत्तच्च कलौ युगे ४१।
तस्मात्कलियुगे नॄणां मर्त्येनैवोत्तमा गतिः ।
द्वादशाब्दैर्युगेऽन्यस्मिन्हरिमभ्यर्च्य यत्फलम् ४२।
तत्फलं लभते मर्त्यो हरिमुच्चार्य वै कलौ ।
हरेर्नामैकमप्यत्र कलौ वदति यो नरः ४३।
कलिर्न बाधते तं च सत्यं सत्यं न संशयः ।
जैमिनिरुवाच-
मनः शुद्धिविहीनत्वात्समस्तं कर्मनिष्फलम् ४४।
इति पूर्वं त्वया प्रोक्तं मनो विस्मयदं मम ।
कलौ सर्वे भविष्यंति मनःशुद्धिविवर्जिताः ४५।
तेषां यथा भवेत्कर्म सकलं ब्रूहि तद्गुरो ।
व्यास उवाच-
यत्किंचित्कुरुते कर्म मर्त्यो धर्मं कलौ युगे ४६।
तदर्पयेन्महाविष्णौ भक्तिभावसमन्वितः ।
विष्णौ समर्पितं कर्म सर्वमेवाक्षयं भवेत् ४७।
व्यास उवाच-
इति ते कथितं सर्वं वृत्तं ब्राह्मणसत्तम ।
यच्छ्रुत्वा भक्तिभावेन नरो मोक्षमवाप्नुयात् ४८।
सूत उवाच-
एवं प्रबोधितस्तेन जैमिनिः परमात्मना ।
क्रियायोगरतो भूत्वा जगाम परमं पदम् ४९।
इमं क्रियायोगसारं व्यासेनोक्तं महात्मना ।
ये पठंति जना भक्त्या शृण्वंति च मुमुक्षवः ५० 7.26.50।
ते सर्वे पातकैर्घोरैर्बहुजन्मार्जितैरपि ।
विमुक्ताः परमां मुक्तिं लभंते नात्र संशयः ५१।
यद्यदिष्टं पठंत्येतच्छृण्वन्ति च मुमुक्षवः ।
लभंते तत्तदेवाशु प्रसादात्कमलापतेः ५२।
श्लोकार्द्धं श्लोकमेकं वा श्लोकपादमथापि वा ।
नरः पठित्वा श्रुत्वा च लभते वांछितं फलम् ५३।
लिखित्वा लेखयित्वा वा यः शास्त्रमिदमर्चयेत् ।
स विष्णुपूजनस्यैव फलं प्राप्नोति मानवः ५४।
इदमतिशयगुह्यं निःसृतं व्यास वक्त्राद् ??चिरतरपुराणं प्रीतिदं वैष्णवानाम् ।
चिरममरवराद्यैर्वंदितांघ्रेर्मुरारेः सकलभुवनभर्त्तुश्चक्रिणः प्रीतयेऽस्तु ५५।
इति श्रीपद्मपुराणे क्रियायोगसारखण्डे व्यासजैमिनिसंवादे युगधर्मनिरूपण।
पूर्वकं पुराणमाहात्म्यवर्णनंनाम षड्विंशतितमोऽध्यायः २६ ।