Books / Parameshvara Tantra

1. Patala 1

1.1

मतभेदस्वरूपनिरूपणम्‌ मङ्गलाचरणम्‌ वन्दे गिरीन्द्रतनयाद्विरदाननारिन- भूनन्दिभूङ्गिरिटिसेवितपादपदाम्‌ । पञ्चाननं फणिशशीभतरक्षुचर्म- भूषं महेशमनिशं शिरसा गिरीशम्‌ ॥ १॥

1.2

पाशाङ्कुशेष्टदविषाणकराग्रबीज- पूरोज्ज्चलं तरुणदिव्य'जटाप्रकाशम्‌ । कोटीरकोटिशशिरेखमुमातनूजं बन्दे गणोन्द्रमनिशं वरदानदक्षम्‌ ॥ २॥

1.3

कैलासशिखरे रम्ये सिद्धगन्धर्वसेविते? । सर्वकल्याणनिलये पुण्ये शङ्करमन्दिरे ॥ ३॥

1.4

एकदा रहसि प्रेम्णा पार्वती परमेश्वरम्‌ । सर्वलोकोपकाराय नमस्कृत्यैवमब्रवीत्‌ ॥ ४॥

1.5

गिरीन्द्रतनया (पार्वती), द्विरदानन (गणेश) अग्निभू (कुमार कार्तिकेय), नन्दी, 2 पारमेश्वरागमः - [प्रथमः पार्वत्युवाच `. मतभेदनिरूपणम्‌ देवदेव . महादेव चन्द्रशेखर धूर्जटे । मतभेदस्वरूपं मे बद तत्त्वेन सर्वशः ।। ५॥

1.6

' मतानि कतिभेदानि लक्षणं तस्य तस्य किम्‌ । . आचारश्च कथं तत्र प्रायश्चित्तं फलं त्वपि ॥ ६॥

1.7

ईश्वर उवाच | शृणु देवि प्रवक्ष्यामि मतानां लक्षणांदिकम्‌ | यज्ज्ञात्वा निर्वृतिं याति शिवः संजायते स्वयम्‌ ।। ७॥।

1.8

सौगत-वैदिक-सौर-वैष्णवमतानि . बौद्धसौगतचार्वाकजैनार्हतविभागतः- ` ॥८॥

1.9

  • तेषामिदं महामुख्यं मतं साधारण प्रिये | तारे तुत्तारतारे स्वाहेति शूऱ्यार्थको मनुः ।। ९॥।

1.10

१, त्क्रका x पारमेश्वरागमः i [ प्रथमः सप्तमं ज्ञानशैवाख्यं तत्र सर्वोत्तमोत्तमम्‌ | वीरशैवमितीशानि तदङ्गानीतराणि तु ॥। १७॥।

1.11

गाणपत्यादिमतानि नान्दिकेशं च कौमारं पैशाचमिति सप्तधा ॥। १८॥

1.12

अष्टकोटिमहाभेदं गाणपत्यमतं प्रिये । सप्तधा वीरभद्राख्यं भैरवं चाष्टघोदितम्‌ ॥ १९॥।

1.13

र्शारभं तत्पञ्जविधं नान्दिकेशं त्रिधोदितम्‌ | कौमारमिति पैशाचमतं तु त्रिविधं प्रिये ॥ २०॥

1.14

सौगतादीनि यावन्ति वैष्णवान्तमतानि तु । यच्च शैवं मम मतं सर्वेषामुत्तमोत्तमम्‌ ॥ २१॥

1.15

` षड्दर्शनानि तत्रं तु षड्विधं प्रोक्तं षड्दर्शनविभेदतः | वीरशैवं वैष्णवं च शाक्तं सौरं विनायकम्‌ 11 2211 कापालमिति विज्ञेयं दर्शनानि षडेव हि । “तत्तत्तन्त्रोक्तमार्गेण तत्तत्कर्म समाचरेत्‌? 11 २३॥। मतसाङ्कर्यनिषेधः शैवं पाशुपतं सोमं रेलाकुलं च चतुर्विधम्‌ । शैवभेदमिति ज्ञेयं संकरं न समाचरेत्‌ ॥। २४॥

1.16

अनादिशैवः प्रथम आदिशैवो द्वितीयकः । तृतीयस्तु महाशैवश्चतुर्थो ह्यनुशैवकः ॥ २५।॥। पञ्चमोऽवान्तरः शैवो“ योगशैवस्तु षष्ठकः | सप्तमो वीरशैवाख्यस्तत्तत्कर्म समाचरेत्‌^ ।। २६॥

1.17

तत्तदागमकर्माणि तत्तद्दैवं न मिश्रयेत्‌ । गोपालं पञ्चरात्रं च नारसिंहं च वैष्णवम्‌ 11 २७॥। नारायणं पञ्चविधं संकरं न समाचरेत्‌ । नित्याऽनित्या शाबराख्या शक्तिश्चेति चतुर्विधा ।। २८।।

1.18

शाक्तभेदमिति ज्ञेयं संकरं न समाचरेत्‌ | ब्रह्न्द्रः सावनः सूर्य इति सौरश्चतुर्विधः ॥ २९॥।

1.19

६ पारमेश्वरागमः [ प्रथमः 1. जविर्नकार:, स पूर्वो यस्य तथाभूतो मरुद्रे अकार:। सर्गो विसर्गः, स च स्मरपूर्व:३, स्मरो मकारः। पार्श्व शकारः, स अक्षिसमायुग्‌ “इकारयुक्त:। वरुणो वकारः६, तत्र स्थितं अधनुराकारः। वही रेफ:*, तत: पूर्वो यकारः। ततो मन्त्रः नमः शिवाय। १. नः शद्विनी क्षमा दीर्घजिह्वानन्दाट्हासिनी। दोर्घद्रोणा च दीर्घाध्वा नादिनी नन्दिनी जविः।। २. अः श्रीकण्ठः सुरेशश्च ललाटं चैकमातृकः। कीतिर्निवृततिर्वागीशो नरकारिहरो मरुत्‌।। ३. म॑ महाकाल वैकुण्ठो नृणां बीजश्च मन्मथः। ४. शः शब्द: कामरूपी च कामरूपो महामतिः। वृपध्न: शयन: शान्तसुभगा विस्फुलिङ्गिनी।। पार्श्व देवो महालक्ष्मीमहिन्द्र: कुलकौलिनी। ५. इ: सूक्ष्मा शाल्मली विद्या चन्द्र: पूषाञक्षिगुहाक:। ६. वो वालो वारुणी सूक्ष्मा वरुणो मेदसंज्ञक:। ७. आकारो विजयोऽनन्तो धनुश्छायो विनायकः। ८. रो रक्तः क्रोधिनी रेफः पावकस्तैजसो मत:। क.पुस्तकटिप्पणीतः सर्वमेतदुद्धतम्‌। वह्मिपूर्व ततो देवि मन्त्रः साक्षान्मदात्मक: । सर्वेषामपि शैवानां सर्वसाधारणो मनुः ।। ३५॥।

1.20

देव्युवाच मततारतम्यविषयकः प्रश्नस्तत्समाधानं च उक्तान्येतानि देवेश सर्वाणि च समानि वा । तारतम्येन वा तत्र किं मतं चन्द्रशेखर ।। ३६।।

1.21

नोक्त शाक्तमतं देव ह्युत्तमं वाउधमं समम्‌ । तदद्य कथय स्वामिन्‌ यत्तु सर्वोत्तमोत्तमम्‌ 11 ३७॥। इश्वर उवाच सर्वाणि च महादेवि मतानि: तु? महान्त्यपि । ८ पारमेश्वरागमः [ प्रथमः वीरशैवमतवैशिष्टयम्‌ वित्तायासमहायतसाध्यान्यन्यानि पार्वति । महाफलं शुभकरं शैवमेव न संशयः 113811 तत्र वक्ष्ये शिवे वीरशैवं सर्वोत्तमोत्तमम्‌ । नान्यस्य तद्भवेद्योग्यं शाक्तेयं सर्वसंमतम्‌ ।। ४०।।

1.22

वीरशैवमतं सद्यो भोगमोक्षैकसाधनम्‌ । सर्वोत्तमं मम मतं यतः सर्वोत्तमोऽस्म्यहम्‌ ।। ४१।।

1.23

न वीरशैवसदूशं मतमस्ति जगत्त्रये । सर्वभोगप्रदं पुण्यं शिवसायुज्यदायकम्‌ ॥। ४२॥।

1.24

यथा मत्सदूशो नास्ति पुरुषाणां त्वया समा । स्त्रीणां तथा बीरशैवसदूशं नास्ति वै मतम्‌ 11 ४३॥ अपि पापशतं कृत्वा ज्ञानतोऽज्ञानतोऽपि वा | वीरशैवमतं प्राप्य शिव एव न संशयः ॥। ४४॥

1.25

नतस्यास्ति भयं पापान्नाधिक्यं पुण्यकर्मण: | स्वयं हि पुण्यपापानां निर्णेता च नियामक: ।। ४५।।

1.26

ये वीरशैवे देवेशि दीक्षिताः शिवयोगिनः | तान्‌ दृष्ट्वैव पलायन्ते दूरतो यमकिङ्कराः ।। ४६।।

1.27

भस्मरद्राक्षलिङ्गधारणमाहात्म्यम्‌ सभस्मरुद्राक्षतनुं सलिङ्ग शिवयोगिनम्‌ । दुष्ट्वा सद्यो विमुच्यन्ते पापिनोऽपि न संशयः ।। ४७॥।

1.28

यस्य भस्म ललादेसस्ति कण्ठे लिङ्गं मदात्मकम्‌ । रुद्राक्षधारणं देहे सोऽहं देवि न संशयः ॥। ४८॥।

1.29

य इच्छेन्मम सारूप्यं सोऽर्चयेच्छिवयोगिनम्‌ | य इच्छेद्रौरवं घोरं स निन्देच्छिवयोगिनम्‌ i vei नित्यं पश्येद्‌ वीरशैवदीक्षितं शिवयोशिनम्‌ । यस्य कण्ठगतोऽहं वै स(न) तस्मादुत्तमः प्रिये ।। ५०।।

1.30

यादूशी भावना कार्या मयि त्वयि शिवे तथा । तथैव कार्या वै वीरशैवदीक्षित उत्तमे ।। ५१।।

1.31

तस्य पूजा मम शिवे तन्निन्दा च ममैव हि । यद्यस्ति मयि सद्भक्तिरर्चयेच्छिवयोगिनम्‌ ।। ५२।।

1.32

निमिषं निमिषार्धं वा यत्र स्युः शिवयोगिनः । तत्कैलासं परं विद्धि तत्र काशी शिवोऽप्यहम्‌ः 114311 मम यो धारयेल्लिङ्गं यथोक्तं गुरुणा शिवे । चाण्डालस्परष्टदोषोऽपि स्मरतो नश्यति क्षणात्‌ ।। ५४॥।

1.33

न तस्य जातिभेदोऽस्ति न शुच्यशुचिकल्पना । न स्पृष्टिर्नापि वाउ्शुरिद्रि: सर्व शिवमयं यतः ।। ५५।।

1.34

भुक्त्वाऽवशिष्टपात्रं यत्तदुच्छिष्टधिया शिवे । क्षालयेच्छिवयोगी यः स याति नरक ध्रुवम्‌ ।। ५६।।

1.35

न स्पृष्टिर्न रजोदोषो न स्त्रीबालादिकल्पना । | न जन्ममरणाशौचं न स्नानादिविधिर्यत: ।। ५७।।

1.36

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चान्यजातयः । लिङ्गधारणमात्रेण शिवा एव न संशयः ॥। ५८।।

1.37

स्त्रियो बालास्तथा वृद्धा खञ्जा: कुन्जा्पङ्गवः । उन्मत्ता बधिराः “काणाः शठा धूर्ताश्च वञ्चकाः ।। ५९।। . चोरा जारास्तथा वेश्या आचाण्डालान्तसंभवाः । मल्लिङ्कधारणादेव मद्रूपा एव ते शिवे॥। ६०।।

1.38

न बालवृद्धभेदोऽस्ति नमस्कारादिपूजने | सर्वेऽपि वन्दनीया हि वरिधवापुष्पिणीमुखाः 11 ६१॥। यस्यास्ति भक्तिरीशानि वीरशैवमताश्रये । भक्तिमात्रपवित्रा हि सर्व \एवाधिकारिणः ॥। ६२।।

1.39

देव्युवाच वीरपदनिर्वचनविषयकः प्रश्नः जय शङ्कर सर्वेश सर्वज्ञ सकलोत्तम | यौगिकं रूढिकं. वेदमुपचारोऽपि वा प्रभो | तदद्य कथयेशान नास्ति चान्यस्य चेटूशम्‌ ।। ६४।।

1.40

१२ पारमेश्वरागमः [ प्रथमः ईश्वर उवाच साधु पृष्टं त्वया देवि सर्वलोकहितं त्विदम्‌ | महारहस्यमेतत्‌ ते वक्ष्ये मोहवशार्दितः ।। ६५॥।

1.41

वीरपदनिर्वचनम्‌ वीरत्वं नाम विश्वेशि तुरीया यत्र यत्र वै । गुरूक्तमार्गनिरता मते वीरपदाभिधे ॥। ६६।।

1.42

सर्वेऽपि वीरा देवेशि तुरीयास्तत्रः तत्र ये । किन्तु मे शैवभेदो यो वीरशैवः स उच्यते 11 ६७॥ अन्यत्र कर्मबाहुल्यादाचारस्य व्यतिक्रमात्‌ । न चित्तशुद्धयलाभाच्च भेद'सद्भावतः सुखम्‌ ।। ६८॥।

1.43

लिङ्गधारणमाहात्म्यम्‌ अत्र वक्ष्ये विशेषं ते लिङ्गथारणवैभवात्‌ | भक्तिमात्रेण कल्याणि सुखं दुःखाम्बुधिं तरेत्‌ ।। ६९॥।

1.44

प्रवेशमात्रेण मते मम शैवे मतोत्तमे । अनायासेन सुसुखं? लिङ्गधारणवैभवात्‌॥। ७०॥

1.45

अन्यत्र नास्ति मल्लिङ्गधारणं मतवर्तिषु । शैवस्थ एव कुर्वीत लिङ्गधारणमीश्वरि ॥। ७१॥

1.46

मतान्तरस्थो यो मूढः कुर्यान्मल्लिङ्गधारणम्‌ । स जीवन्नेव चाण्डालो मृतो नरकमश्नुते ।। ७२॥

1.47

१ यो विना गुरुकारुण्यमिच्छया लिङ्गधारणम्‌ । स जीवन्नेव चाण्डालो मृतो नरकमश्नुते 1110311 योऽन्यधर्मः परं धर्ममाचरेदिच्छयाऽन्वितः | स जीवन्नेव चाण्डालो मृतो नरकमश्नुते ।। ७४।।

1.48

यदि भक्ति्दूढा देवि मम लिङ्गस्य धारणे । शिवयोगिनमाश्रित्य तं गुरुं शिवमर्चयेत्‌ ॥ ७५॥

1.49

____ दीक्षां विना लिङ्गधारणे दोषः स याति नरकं घोरं सस्त्यजेत्तदभक्तिंतः ।। ७६॥।

1.50

(त 290 पारमेश्वरागमः [ प्रथमः विना विधानमीशानि न कुर्याल्लिङ्गधारणम्‌ | कृतं चेदकृतं fafa न तच्छैवमतं भवेत्‌ ।। ७७॥।

1.51

वीरशैवमतोत्कर्षः लिङ्गधारणमात्रेण शिवत्वप्राप्तरिव ` हि। शैवं मम मतं देवि सद्योमुक्तिविधायकम्‌ ।। ७८॥

1.52

. . तस्माच्छैवमतं सर्वमतानामुत्तमोत्तमम्‌ । मम स्वरूपं देवेशि मल्लिड्गस्य च धारणात्‌ ।। ७९।।

1.53

विना नानुग्रहं तेषां मम शैवमते शिवे । भक्तिः सम्पद्यते क्वापि तत्पुनर्भबभाजनम्‌ ।। ८०॥।

1.54

सकृत्‌ प्रविश्य च नरो गतेषु बहुजन्मसु | मम शैवमते देवि सोऽहमेव न संशयः ।। ८९॥

1.55

| पञ्जक्षरमन्त्रमाहात्म्यम्‌ यथा नदीनां सर्वासां पुण्या भागीरथी शिवे । यथैव भवती सर्वयोषितां पुरुषेष्वहम्‌ ।। ८२।।

1.56

यथैव काशी क्षेत्राणार तीर्थेषु मणिकर्णिका । मम पञ्चाक्षरीमन्त्रः सर्वमन्त्रेषु वै यथा ॥ ८३॥

1.57

यथैव सर्वलोकेषु कैलासस्थानमावयोः | तथा शैवमतं देवि विद्धि सर्वोत्तमोत्तमम्‌ ।। ८४॥।

1.58

मम सर्वोत्तमत्वेन मत्सुष्टत्वात्‌ परस्य च। तदेव तारतम्यं ते मते मम परत्र तु॥। ८५॥

1.59

यथा वर्धयते राजा भृत्यं कर्मानुसारतः। तारतम्यपदं दत्त्वा तथैवाहं मते मम ।। ८६॥

1.60

शिवलिङ्गमहिमा विशेषं तत्र वक्ष्यामि रहस्यं गोप्यतां त्वया | न प्रकाशय व्छुत्रापि विना भक्त सुलक्षणम्‌ ॥ ८७॥

1.61

देवालयादिषु यथा चित्रादिषु यथा गहे । दूश्यते चाकृतिर्यस्य तज्ञानं जायते स्फुटम्‌ ।। ८८॥

1.62

१६ पारमेश्वरागमः [ प्रथमः एवं शहि वीरमन्त्रे तु सर्वपापैः प्रमुच्यते । लिङ्गस्य दर्शनाद्‌ देवि मम ज्ञानं प्रजायते ।। ८९।।

1.63

गतेघु बहुसंख्येषु दुःखरूपेघु जन्मसु । मत्कारुण्येन तस्यान्ते जायते लिङ्गदर्शनम्‌ ।। ९०॥

1.64

यदीदमित्ि? जानाति लिङ्गं मम महेश्वरि । मज्जञानाहुर्शनात्सद्यो मल्लिङ्गस्य च सोऽस्म्यहम्‌ 11 ९९॥। धृते तु तस्मिन्‌ स्वतनौ सर्वा लिङ्गमयी तनुः ।। ९२।।

1.65

लीलार्थकमपि त्वीशि यत्तल्लिङ्गमुदाहृतम्‌ | तल्लिङ्गमयमित्येतच्छरीरं तस्य धारणात्‌ 11 ९३।। देव्युवाच किमर्थ सर्वे लिङ्गधारणं न कुर्वन्तीति प्रश्नस्तत्समाधानं च वृषध्वज वृषारूढ विरूपाक्ष विषादन | न ते कुर्वन्ति किं सर्वे लिङ्गधारणमीश्वर ।। ९४॥।

1.66

ईश्वर उवाच कथं भविष्यति शिवे विना मत्करुणां नृणाम्‌ । कर्मपूरितदृष्टीनां मन्मायामोहितात्मनाम्‌ ।। ९५॥।

1.67

लिङ्गपूजाविधानम्‌ : तदनुष्ठानमात्रेण विधूयाखिलबन्धनम्‌ । सर्वकल्याणनिलयं मम सायुज्यमेति सः ॥ ९६॥

1.68

ज्ञानतोऽज्ञानतो वापि शक्त्याऽशक्त्यादिनापि वा । यज्यूनमतिरिक्त वाऽवस्थात्रययुतोऽपि वा ॥। ९७॥

1.69

विगुणा? यान्ति सादगुण्यं शैवस्थशिवयोगिनः । सर्वत्र मम दर्शित्वं भक्तिरेकान्तरूपिणी । मन्मतस्थस्य? मत्प्राप्त्यै द्वयमेव हि साधनम्‌ ।। ९९॥

1.70

न रेपुष्पिणी त्यजेत्‌ पूजां न भुक्त्वा नाशुचिस्त्वपि । १८ पारमेश्वरागमः [ प्रथमः स्मरणात्‌ कीर्तनाद्‌ देवि मम लिङ्गस्य धारणात्‌ । अनायासेनातिशयं फलं स्याहुत्तमोत्तमम्‌।। १०१।।

1.71

न मेऽस्ति यस्मिन्‌ कारुण्यं न तस्यात्र रुचिर्भवित्‌ । यदैव स्यादत्र रुचिस्तदा मुक्तो न संशयः 11 १०२॥ अतो 'महारहस्यं हि मतमेतन्महत्तरम्‌। शैवं पाशुपतं चेति यदेकं नामभेदतः ।। १०३॥।

1.72

तत्र सप्तविधेष्वेषु वीरशैवं महत्तरम्‌। शैवे वीरत्वमात्रेण किं पुनर्लिङ्गधारणात्‌ 11 १०४।। शिवयोगिमहिमा ada दर्शनाल्लोके शिखरस्य शिवालये । नश्यन्त्यनेकपापानि शिवत्वं ज्ञानसंभवात्‌ ।। १०५।।

1.73

तथैव दर्शनाल्लिङ्गधारिणः शिवयोगिनः । सद्यो नश्यन्ति पापानि तमः सूर्योदये यथा ।। 208 11 अत एव महादेवि गुप्तं मतमिदं कलौ । मन्मतज्ञानमात्रेण मुच्येयुरपि पापिनः 11 १०७॥। लाभ: शैवमतस्यैको वीरशैवप्रवर्तनम्‌ । भक्तिर्भूतदया चेति मत्कैवल्यं चतुर्विधम्‌ ।। 02 11 यदि चास्त्यधिक मत्तस्तदा स्यान्मन्मतात्‌ परम्‌ । यदि स्यान्मत्परं देवि मत्स्वातन्त्र्यं कुतस्तदा ।। १०९।।

1.74

इत्थं ते कथितं देवि मतभेदमतः परम्‌ । तारतम्यं फलं चापि किं भूयः श्रोतुमिच्छसि 11 RoN

1.75

इति श्रीपारमेश्वरतन्त्रे शिवाद्वैतसिद्धान्ते वीरशौव-

1.76

प्रथमः पटलः समाप्तः 11९ ।।