Books / Parameshvara Tantra

2. Patala 2

2.1

दीक्षाप्रकरणे मतभेदनिरूपण नाम लिङ्गसज्जिकादिलक्षणम्‌ देव्युवाच त्रियम्बक नमस्तेऽस्तु त्रिपुरघ्न यमान्तक | वद मे करुणासिन्धो लिङ्गधारणलक्षणम्‌ 121 दीक्षादि क्रमशः सर्व सज्जिकादिगुणादिकम्‌ । शिवाग्निजननं चापि सर्व विस्तरतः प्रभो ॥ २॥. . ईश्वर उवाच शृणु देवि प्रवक्ष्यामि लिङ्गानां भेदमादितः । दीक्षायाः सञज्जिकादेश्च सर्व निगदतो (मम ॥। ३॥

2.2

लिङ्गलक्षणं भेदाश्च मम लिङ्गमिदं सर्व जगत्‌ स्थावरजङ्गमम्‌ | मम लिङ्गमिदं विद्धि \पाघाणादिविनिर्मितम्‌ ॥ ४॥

2.3

नादेयं शैलसंभूतं पुण्यक्षेत्रसमुद्धवम्‌ | गङ्गोद्धवं सागरजं लिङ्गं तन्मम संमतम्‌ ॥ ५॥

2.4

यद्देवि शिवनाभांख्यं लिङ्गं तत्परमुत्तमम्‌ | यद्दीयते हि गुरुणा लिङ्गं सर्वोत्तमोत्तमम्‌ ॥ ६॥

2.5

काम्यान्यन्यानि लिङ्गानि तत्तदिष्टार्थदानि हि । सौवर्णपारदादीनि स्थूलं स्थूलं प्रशस्यते ॥ ७॥

2.6

क्रमुकाकृतिमारभ्य यावदिच्छास्ति धारणे । उत्तराहुत्तर श्रेष्ठं मम लिङ्गं महेश्वरि uci पारदं? सर्वकामाय सौवर्ण वित्तकामिनः । राजतं तु प्रजाकामि ताम्रं शत्रुविनाशनम्‌ ei त्रपुजं रोगनाशाय सीसकं पापनाशनम्‌ । स्फाटिक ज्ञानदं पुण्यं रुद्राक्षं मोक्षदायकम्‌ ।। ol दारुजं सर्वनाशाय कांस्यं रोगार्तिदायकम्‌ | २२ पारमेश्वरागम: [ द्वितीय: सर्वोत्तमोत्तम लिङ्गं सर्वाभीष्टार्थदायकम्‌ । यदत्तं गुरुणा देवि लिङ्गं तदहमेव हि ॥ १२॥

2.7

बदरीफलमानं तु कृतं धर्माभिवृद्धिदम्‌ | क्रमुकीफलमानं तु Ad: सर्वार्थदायकम्‌ ॥ १३॥

2.8

जम्बीरफलमानं तु सर्वकामार्थदायकम्‌ | ततोऽधिकं प्रियं यावच्चतुर्वर्गफलप्रदम्‌ ॥। १४॥

2.9

न प्रमाणं तदन्तस्य शिवनाभस्य पार्वति । Sed गुरुणा तस्य सर्वलक्षणलक्षितम्‌॥ १५॥

2.10

सर्वसाधारणं देवि सर्वसौभाग्यदायकम्‌ । सर्वसिद्धिकरं लिङ्गं यच्च पाषाणनिर्मितम्‌ ॥ १६॥

2.11

सर्वोत्तमोत्तमं लिङ्गं यच्च श्रीशैलजं शिवे । केचन नियमाः दोषाश्च बहवः सन्ति (दृष्टचादीनि धरात्मजे 11 १७॥। अन्यलिङ्गेघु सर्वेषु नैव पाघाणसंभवे | जातके मृत्तकाशौचे मलमूत्रविसर्जने ॥ १८॥।

2.12

रतावशुद्धावुद्योगे रणे निद्रादिषु प्रिये । कर्मणा मनसा वाचा जाग्रत्स्वप्नसुषुप्तिषु ॥ १९॥

2.13

न लिङ्गमुत्सृजेत्‌ क्वापि प्राणैः कण्ठगतैरपि । न पूजापि परित्याज्या कृच्छेषपि कुलनायिके? ॥ २०॥

2.14

न सकृत्‌ स्मरणं वापि मम लिङ्गस्य सद्गुरोः । तेष्वेकतममादाय लिङ्गं स्वाभिमतं शिवे? ॥ २१॥

2.15

धारयेदात्मतादात्म्यं प्राणलिङ्गं ममेति तत्‌ । अथ कुर्यान्महादेवि सज्जिकाख्यं तदालयम्‌ ॥ २२॥

2.16

२४ पारमेश्वरागमः [ द्वितीयः जानास्येतत्स्वरूपं च चरलिङ्गस्य शाङ्करि । लक्षणं पूजनविधिमाचारं लिङ्गधारणम्‌ ॥ २४॥

2.17

क्रमेण शृणु तत्सर्वं तारतम्यफलं शिवे । स्थिरलिङ्गार्चको* लोके न शुद्धः पड्क्तिकर्मसु l २५॥ इष्टलिङ्गार्चकाः श्रेष्ठाः रध्वुतलिङ्गार्चकाः सर्वे पावनाः पङ्क्तिकर्मसु । रप॒थगू लिङ्गस्य स्थित्या तु स्वदेहस्याप्यशुद्धितः ॥ २६॥

2.18

स्प्रष्टुं न योग्यता लिङ्गं न चैवं शिवयोगिनः । ध्ृतलिङ्गशरीरत्वात्‌ ऽप्रदातुर््ञानसंभवात्‌ 11 २७॥ शुचिरेव सदा तस्य “नाशुद्धिर्नव चाशुचिः । गच्छन्‌ तिष्ठन्‌ स्वपन्‌ भुञ्जन्‌ जाग्रन्नपि हसन्नपि ।। २८॥।

2.19

खादन्नपि\पिबन्‌ वापि लिङ्गपूजां समाचरेत्‌ । यथोपविश्य पीठादौ शिवयोगी प्रवर्तते nei सर्वे पङ्क्तिकर्मादिकेषु च।।-कटि.। ३. पृथक्स्थत्वाच्च लिङ्गस्य स्वदेहस्याप्यशुद्धिमम्‌-ख. घ. ङ। तथोपविष्ट एवासौ धावन्‌ पूजितवानपि । न कायक्लेशसहनं नोपवासादिपीडनम्‌ ॥ ३०॥

2.20

चतुर्विधा मुक्ति: यथेच्छमपि भुञ्जानो भोगाल्लिङ्ग 'समर्चयेत्‌ । दया भूतेषु मद्भक्तिः सर्वत्र मम दर्शनम्‌ ॥ ३१॥

2.21

मल्लिङ्गधारणं नित्यं मुक्तिरेषा चतुर्विधा । चरलिङ्गरक्षाप्रकारः तस्मात्‌ सौलभ्यमीशानि तारतम्येन योगिनाम्‌ ॥ ३२॥

2.22

मतस्य मम चान्यस्य मन्मते लिङ्गधारणात्‌ । तस्य लिङ्गस्य विश्वेशि चरं कुर्याच्छिवालयम्‌ 11 33 11 पञ्चसूत्रोत्थलिङ्गस्य यावत्‌ पूर्ण तथा भवेत्‌ । सौवर्णमुत्तमं देवि यदि शक्तिस्तथाचरेत्‌ ॥ ३४॥

2.23

२६ पारमेश्वरागमः [ द्वितीयः 'राजतं पित्तलं ताम्रं नैव कांस्येन कारयेत्‌ | सीसेन त्रपुणा देवि तान्तवी पाटिकापि वा ॥ ३५॥

2.24

एतेष्वन्यतमं नित्यं नान्यत्‌ कुर्यादनापदिः । परित्यज्यापि यलेन प्राणमानधनादिकम्‌ ॥ ३६॥

2.25

संरक्षणीयं गिरिजे लिङ्गमेव न संशयः | संभावितेन द्रव्येण विना तन्तुपटोद्भवम्‌ ॥ ३७॥

2.26

सज्जिकालक्षणम्‌ कर्कटाद्याकृतिश्चान्याः यथाकामफलप्रदा । पञ्चसूत्रप्रमाणेन सज्जिका लिङ्करूपिणी ॥ ३८॥

2.27

तादूशस्य च लिङ्गस्य भोगमोक्षैकसाधनी | भोगस्वर्गापवर्गाय मम नन्दीश्वराकृतिः ॥ ३९॥

2.28

१, द्नारतम्‌-ख.1 २. ती रम्या-ख. ग. घ. ङ.। भोगमोक्षैकफलदा सज्जिकार्कफलाकृतिः । 'आयुरारोग्यफलदा याऽसौ चूतफलाकृतिः ॥ ४०॥

2.29

आयुष्मत्पुत्रसौभाग्यफलदा मोदकाकृतिः | ऐश्वर्यविजयायुष्यतेजःप्रज्ञाविलासकृत्‌ ॥४९॥

2.30

सज्जिका शिवलिङ्गस्य विल्बीफलसमाकृतिः | शिवलिङ्गाकृतिः सज्जा भोगमोक्षैकसाधनी ॥ ४२॥

2.31

यद्यदिष्टतमं देवि भूषणं मणिकाञ्जनम्‌। तदेव सर्जिकां कुत्वा सर्वकामं समश्नुते ॥ ४३॥

2.32

सका द्वारकपाटाढऱया पादत्रितयशोभिनी । सन्नद्धगुणसंबद्धा दूढा सन्तानशोभिनी ॥ ४४॥

2.33

चतुरस्रं पङ्कजाभं वर्तुलं बिम्बकोपमम्‌ । यथा संदितं देवि गुरुणा तत्तथाचरेत्‌॥ ४५॥

2.34

२८ पारमेश्वरागमः [ द्वितीयः सज्जिकागुणलक्षणम्‌ सौवर्णः स्याद्यदि गुणः सर्वसौभागयदायकः । राजतः पुत्रकीर्तिः स्यात्ताम्रश्चेद्‌ धनधान्यकृत्‌ ।। ४६॥।

2.35

पैत्तलः सर्वभोगाय कांस्यः कल्मषनाशनः । त्रषुसीसमयो वापि सर्वाभीष्टफलप्रदः ।। voll दारिद्रःयाय च संविद्धि पटजः सर्वदुःखकृत्‌ | कार्पटः सर्वभोगाय तान्तवः सर्वकामदः ॥ ४८॥।

2.36

शुक्लो ज्ञानप्रदस्तत्र रक्तो वश्यकरो गुण: | ` श्यामः शत्रुभयकरः पीतः पुत्रप्रदायकः ॥। ४९॥

2.37

चित्रो विचित्रफलदः सुदृढश्छेदवर्जितः | अग्रन्थिऋजुरूप: स्यादा नाभ्या कण्ठमध्यतः N ५०॥ यावदिच्छ? भवेद्‌ देवि सज्जिकागुण उत्तमः । तावदेव? प्रकुर्वीत सज्जिकागुणमीश्वरि ॥ ५१॥

2.38

सज्जिकाशिवसूत्रयोगमहिमा ध्या सज्जिका भवद्गूपा मद्रूपो यो गुण: शिवे । उभयोरावयोर्योगाज्जगदेतच्चराचरम्‌ ॥५२॥

2.39

पुंरूपमखिलं. देवि मम रूपं न संशय: | स्त्रीरूपमखिलं देवि तव रूपं न संशय: ॥ ५३॥

2.40

मया विना क्वचिन्नास्ति तव रूपं तथा मम । तदेकरूपलाभाय गुणयोगः प्रकीर्तितः ॥ ५४॥

2.41

शिवस्यैव भवेद्‌ द्वारमेकर स्यादेकमेव हि । सार्गलं तिर्यगररं सर्वमेकात्मकं शिवे ॥ ५५॥

2.42

यस्यरै द्वारयुगे देवि गौरी कात्यायनी उभे । पार्श्वयोः “शाङ्करी रौद्री भद्रकाल्युपरि त्वधः ॥ ५६॥

2.43

यस्याः पादत्रयं धर्मकामार्थात्मकमीश्वरि । “यस्या मदात्मकगुणो भोगमाक्षफलात्मकः ॥ ५७॥।

2.44

३० पारमेश्वरागमः [ द्वितीयः गुणस्याग्रद्वयोरेव संबद्धौ च! सुवर्तुलौ | पद्मकुड्मलसद्रूपौ प्रोक्तौ ज्ञानक्रियेति च ॥ ५८॥

2.45

तदुपर्येकमीशानि चित्रमेकं स्वरूपकम्‌ | आत्मपूर्वाग्रमाकुञ्च्य ह्यत्माग्रमवकुञ्जयेत्‌ ॥ ५९॥

2.46

पार्श्वद्वयाग्रे संयोज्य यथोक्त गुरुणा ततः | 3उक्तमेवं मया लिङ्घरै सज्जिकागुणलक्षणम्‌ ।। ६०॥।

2.47

दीक्षार्थं गुर्वाश्रयणम्‌ तद्धारणक्रमं वक्ष्ये दीक्षापूर्वं सुविस्तरम्‌ | यस्तु मत्करुणापात्रं चरमं जन्म यस्य वा ॥ ६१॥

2.48

तस्यैव जायते भक्तिर्मम लिङ्गस्य धारणे । निर्विष्टविषयः शान्तः सर्वत्र समदर्शनः ॥ ६२॥

2.49

मुमु्षुरीश्वरे भक्तः श्रीगुरुं शिवमाश्रयेत्‌ | गुरुलक्षणम्‌ सदाचाररतं शुद्धं शिवभक्तमलोलुपम्‌ । यथार्थवादिनं शान्तं द्वेषासूयादिवर्जितम्‌ ॥ ६४॥

2.50

विदिताखिलशास्त्रार्थमिङ्गितज्ञमनाकुलम्‌ । 'अनर्थातुरमात्मज्ञमकामुकमवञ्चकम्‌ ॥६५॥

2.51

वाग्मिनं शिवतत्त्वार्थबोधकं हृष्टमानसम्‌ | एतादुशगुणोपेतमुपेयाद्‌ गुरुमीश्वरम्‌ ॥ ६६॥

2.52

रिक्तहस्तेन नोपेयादुपसर्पन्‌ गुरुं शुचिः । नमस्कृत्य विधानेन साष्टाङ्गं भक्तिपूर्वकम्‌ 11 ६७॥ कूताञ्जलिपुटः स्थित्वा स्तुत्वा विज्ञापयेत्ततः । नमस्ते नाथ भगवन्‌ शिवाय गुरुरूपिणे ॥ ६८॥

2.53

देहि शिष्याय मे वीरशैवदीक्षामभीष्टदाम्‌ ।

2.54

इति पृष्टोऽथ शिष्येण यदि दातुमना गुरुः ॥ ६९॥

2.55

३२ .पारमेश्वरागम: i [ द्वितीय: शिष्यकर्तव्यानि | | ३४ 'पारमेश्वरागम: [ द्वितीय: समर्प्य गुरवेऽश्नीयाद्‌ यद्यदिष्टं तथात्मनः | भावयेच्छ्ीगुरो रूपं जगदेतच्चराचरम्‌ ।। ८३॥

2.56

संस्मरेच्छीगुरोनाम जाग्रत्स्वप्नसुषुप्तिषु । कर्तव्ये तु नमस्कारे ज्येष्ठपूज्यशिवादिषु ॥ ८४॥।

2.57

प्रणमेद्यत्र कुत्रापि गुरुमेव हृदि स्मरन्‌ । इत्यादिगुणसंपन्नमुपपन्नं स्वभक्तितः ॥ ८५॥

2.58

परिगृह्य गुरुः शिष्यं शिवदीक्षासु योजयेत्‌ | दीक्षाक्रमः इषोर्जमार्गशीर्षषु तपस्यपि तपस्यके ॥ ८६॥

2.59

. माधवे शुक्लपक्षे तु पूर्णासु च विशेषतः । पञ्चम्यां तु प्रजावृद्धिर्दशम्यां पशुवृद्द्रिकृत्‌ | पौर्णमास्यां तु दीक्षा च चतुर्वर्गफलप्रदा ॥ ८८॥

2.60

रद्वादश्यां तु चतुर्दश्यां नवम्यामष्टमीदिने । शिवरात्र्याममायां च कार्तिके सोमवासरे ॥ ८९॥

2.61

शुक्रार्कभौमवारेषु मधघाद्ररिवतीषु च । श्रोणाश्विनीभरण्यग्निस्वातीमूलेन्दुधिष्णिषुर ॥ ९०॥

2.62

फाल्गुनीशंततारासु स्वजन्मर्क्ष गुरोस्तु वा । वैधृति च व्यतीपातमतिगण्डं च गण्डकम्‌ ॥ ९१॥

2.63

शूलव्याघातमितरे वर्जयित्वाऽखिलाः शुभा: | _ भद्रं बा करणं देवि किस्तुष्नमपि बालवम्‌ ॥ ९२॥

2.64

मुक्त्वेतराणि गिरिजे यथायोगं समाचरेत्‌ | सर्वलक्षणसंपन्ने दिने कुर्यात्‌ तथापि वा ॥ ९३॥

2.65

दोषाल्पत्वं गुणाधिक्यं वीक्ष्य दीक्षां प्रयोजयेत्‌ । अपूर्वदीक्षाकरणे विधिरेष उदाहतः ॥ ९४॥

2.66

३ ` पारमेश्वरागमः [ द्वितीयः लिङ्गादिनाशे इतिकर्तव्यता यद्यवान्तरदीक्षा चेत्‌ सर्वकालो न संशयः | यदि नश्येत्‌ प्रमादेन लिङ्गमन्यद्‌ यथाविधि ॥ ९५॥

2.67

दीक्षापूर्व प्रकर्तव्यं यदि सज्जिकया सह | स्फुटिते तु क्वचिल्लिङ्गे दीक्षां सद्यः समाचरेत्‌ ॥। ९६॥

2.68

मध्ये भेदे महादेवि तदगाधे जले क्षिपेत्‌ । एकरात्रिविधानेन विना होमाभिषेचनम्‌ ॥। ९७॥

2.69

संस्कृत्य धारयेल्लिङ्गं न दोषस्तत्र विद्यते । अथ चेत्सज्जिकानाशस्तदान्यां कारयेत्‌ पुनः 1। ९८॥

2.70

प्राणस्थापनमारभ्य शिष्टं संस्कारमाचरेत्‌ । गुणनाशे पुनर्देवि गुणमन्यं सुयोजयेत्‌ ॥ ९९॥

2.71

गुरुप्रदत्तलिङ्गस्य यावज्जीवं धारणम्‌ सञ्जिकागुणलिङ्गादौ यन्नष्टं *तत्तदाचरेत्‌ | यल्लिङ्गमादितो लब्धं यावज्जीवं तदेव हि ।। १००॥

2.72

नान्यक्तिङ्गं भवेन्मध्ये यदि स्यात्‌ स तु पातकी । सज्जिकागुणवस्त्रादि यदत्तं गुरुणा ततः 11 vl यावज्जीवं तदेव स्यादन्यथा याति रौरवम्‌ | यल्लिङ्गं गुरुणा दत्तं प्राणलिङ्गं तदेव हि ॥ १०२॥

2.73

मध्ये नष्टे प्रमादेन देहं त्यक्त्वा शिवं ब्रजेत्‌ । | गुर्वन्तराश्रयणनिषेधः अतिक्रम्य गुरु यस्तु गुरुमन्यं समाश्रयेत्‌ ।। ९०३॥।

2.74

स जीवन्नेव चाण्डालो मृतो नरकमश्नुते । गुरुभक्त्या महेशानि सदा मल्लङ्गघारणात्‌? ॥ ९०४॥

2.75

इहामुत्र सुखं तस्य सौभाग्यं च पदे पदे । सज्जिकादिक्रमं देवि? लिङ्गधारणलक्षणमूरै ॥ ३८ पारमेश्वरागम: [ द्वितीय: उक्त तवाखिलं देवि किं भूयः श्रोतुमिच्छसि 11 १०५॥। तृतीय: पटल: दीक्षाविधिनिरूपणम्‌ देव्युवाच नमस्ते मेरुकोदण्डधारिणे फणिहारिणे | बद विश्वेश दीक्षाया विधानं परमेश्वर ei ईश्वर उवाच शृणु वक्ष्यामि देवेशि दीक्षाविधिमनुत्तमम्‌ । यस्य विज्ञानमात्रेण योग्यः स्याल्लिङ्गधारणे ॥ २॥

2.76

दीक्षाविधौ मण्डपनिर्माणम्‌ उपलिप्य गृहं सम्यगुक्तलक्षणके दिने । सुधादिशोभितं कुर्याद्‌ रङ्गवल्ल्याद्यलङ्कृतम्‌ ॥ ३॥

2.77

वितानतोरणैर्युक्तः धूपदीपविराजितम्‌ । सन्मङ्कलसमायुक्तं यथाविभवविस्तरम्‌ ॥ ४॥

2.78

४० पारमेश्वरागमः [ तृतीय: यथाशक्ति यथाभक्ति मनोमत्यर्थसंयुतम्‌ | कार्य हि वैभवं देवि वित्तशाठ्यं न कारयेत्‌ ॥ ५॥

2.79

यजमानकर्तव्यानि यजमानः समुत्थाय निर्वर्त्य प्रातराह्मिकम्‌ । मित्रबान्धवसंयुक्तो मङ्गलस्नानमाचरेत्‌ ॥ ६।।

2.80

सुशुभे सुसमे देशे गोमयेनोपलिप्य च । रक्तमृत्तिकया तत्र विलिप्य चतुरस्रकम्‌ ॥ ७॥

2.81

बाहुमात्रप्रमाणेन पञ्चव्णैर्विलेखयेत्‌ | . रङ्गकैश्चित्रकैः we: सर्वत्र समलङ्कृते ॥ ८॥

2.82

मण्डले नूतनं सस्त्रमाच्छाद्यतदुपर्यथ । पञ्चप्रस्थप्रमाणेन निक्षिपेच्छालितण्डुलान्‌ ॥ ९॥

2.83

तदुपर्यमलं कुम्भं निक्षिपेन्नूतनं दूढम्‌ । अनुलिप्य *सुधाभ्युक्तमापूरितजलं शिवे? 11 9011 ` पटलः ] दीक्षाविधिनिरूपणम्‌ ee टार पञ्चपल्लवसंयुक्त कृङ्कमाद्यैरलङ्कृतम्‌ । _ अश्चत्योदुम्बरप्लक्षवटचूतमहीरुहान्‌ TESA 'कलशोपरितः सूत्रं वेष्टयित्वा यथाविधि । तदन्तर्नवरलानि निक्षिपेद्‌ भक्तिशक्तित: ॥ १२॥

2.84

सुवर्ण वा यथाशक्ति तत्सर्व गुरकेऽर्पयेत्‌ । प्राणप्रतिष्ठा व्ुम्भस्य कुर्यान्मूलेन पार्वति ॥ १३॥

2.85

गुणितं पट्टवसनं निक्षिपेत्‌ कलशोपरि । आबद्धकण्ठहारिद्रमावेष्टितमहांशुकम्‌ ` ॥ १४॥

2.86

. कलशार्चनम्‌ . संवेष्ट्य मालिकाभिश्च दिव्यधूपैः सुधूपयेत्‌ । चत्वार ऋत्विजस्तत्र गुरुरेकस्तु पञ्चमः ॥९५॥

2.87

समर्चयेयुः कलशं विल्वपत्रैस्तिलाक्षत्ैः | दूर्वाभिः कोमलाग्राभिरद्रोणैश्च करवीरकैः ॥ १६॥

2.88

४२ पारमेश्वरागमः l [ तृतीयः पञ्चाक्षरेण तारेण पराप्रासादमन्त्रतः । . शक्तिपञ्चाक्षरेणैव पञ्चब्रह्मानुवाककैः N अर्चयन्ति पृथक्‌ चैते पञ्चैतक्तिङ्गमृत्विजः ॥ १७॥

2.89

१ध्यात्वाऽवाह्य महादेवं कलशोपरि ` पूजयेत्‌ । मामनाद्यन्तमीशानमुमया सहितं शिवम्‌रे ॥ १८॥

2.90

चतुर्भुजं चन्द्रकलावतंसं “वराभयैणोरुकुठारपाणिम्‌ | वामाङ्कसंशोभितशैलकन्यं भजेन्महेशं परमात्मरूपम्‌ 11 १९॥ अथ संपूज्य विधिवत्‌ षोडशैरुपचारकैः । यस्य स्मृत्यादिकर्मान्ति' समाप्य कलशार्चनम्‌ ॥ २०॥

2.91

उपस्थानं प्रकर्तव्यं ऋत्विग्भिरपि पञ्चभिः । श्रीरद्रस्यानुवाकेन मूलेन मनुना शिवे ॥ २९॥

2.92

एवं दिनत्रयं कुर्यात्‌ प्रत्यहं कलशार्चनम्‌ | षड्रसैरन्नपानाद्यैर्भोजयेल्लिङ्गधारिणः NRN आबद्धकङ्कणो देवि नियतो नियतेन्द्रिय: | एकाहारो भवेन्नित्यं यजमान: पयोव्रती ir दीक्षाक्रमः अथ तदृक्षिणे भागे कुम्भस्थापनदेशत: | वितानादिसमोपेते (सुकृते वेदिकोपरि ॥ २४॥

2.93

निक्षिप्य पीठममलं मूलमन्त्रेण तद्गुरुः । सद्योजातेन तदुपर्याच्छाद्यांशुकमुत्तमम्‌ ॥ २५॥।

2.94

वामदेवेन तदुपर्येतक्तिङ्गं विनिक्षिपेत्‌ । अघोरेणाथ लिङ्गस्य सज्जिकाया गुणस्य च ॥ २६॥

2.95

तत्पुरुषस्यानुवाकेन ईशानस्यानुबाकतः । क्रमेण कुर्यात्‌ तत्प्राणप्रतिष्ठां गुरुराद्रात्‌ ॥ २७॥

2.96

पूर्वोक्तमेव॑ ध्यायेत? लिङ्गरूपां तनुं मम । आवाहनादि Halt गुरुऋत्विक्समन्वितः ।॥। २८॥

2.97

लिङ्गार्चनम्‌ मूलेनावाहनं कुर्यादासनं शम्भवे नमः | xx | पारमेश्वरागम: ` [ तृतीय: दद्यादाचमनं स्नानं महादेवाय ते नमः । पञ्चामृतस्नानमथ कुर्यात्‌ पञ्चानुवाककैः ॥। ३०॥

2.98

आपो हिष्ठेति शुद्धो दस्नानंलिङ्गाय कारयेत्‌ | दद्यात्‌ कपर्दिने वस्त्रमुत्तरीयं त्रिशूलिने ॥ ३९॥

2.99

यज्ञसूत्रं ततो १दद्यान्नमः पशुपतये शिवे । गन्धं कामान्तकायेति चाक्षतान्‌ मृत्युघातिने ॥ ३२॥ पुष्पं वृषध्वजायेति समर्प्याङ्गानि पूजयेत्‌ । शिवाय पादौ गुरवे गुल्फौ जङ्घे मूडाय च ॥ ३३॥ जानुनी, शङ्करायेति नम ऊरू भवाय च | कटिं पिनाकहस्ताय नाभिं मेरुधनुर्भते -।। ३४॥।

2.100

हृदयं पार्वतीशाय वक्षः कैलासवासिने ॥ ३५॥ . कण्ठंतु नीलकण्ठाय स्कन्धौ स्कन्दसुताय ते । अनन्तबाहवे बाहून्‌ हस्तान्‌ हस्तित्वचे नमः 1 ३६॥। अद्भुलीरड़जहते कक्षं पञ्चमुखाय ते | कर्णो दिकंकरणिने देवि नासिकां सर्वगन्धिने ॥ ३७॥

2.101

वक्त्रं तु सर्ववक्त्राय नेत्राणि त्रिदूशे नमः । भ्रुवौ भूभारभङ्ाय ललाट'मलिकाक्षिणे ॥ ३८॥

2.102

शिरः सर्वोत्तमायेति सर्वाङ्गं शशिमौलिने । पूजयित्वाऽखिलाङ्गानि महापूजामथाचरेत्‌ 113811 सहस्रनामभिर्देवि रुद्रसूक्तोक्तनामभिः । मूलमन्त्रेण चान्यैर्वा स्तोत्रमन्त्रैः समर्चयेत्‌ ॥। ४०॥

2.103

पूजोपयोगीनि पुष्पाणि पञ्च पुष्पाणि पूजायामवश्यं विधिनाऽर्चयेत्‌ । द्रोणं च विल्वपत्रं च नित्यं नित्यार्चने शिवे ॥ ४९॥

2.104

तिलाक्षतैस्तण्डुलैर्वा नित्यपूजां समाचरेत्‌ । यान्यन्यानि सुगन्धीनि वन्यानि ग्रामजानि वा ॥ ४२॥

2.105

४६ पारमेश्वरागमः [ तृतीयः मल्तिकाभिर्जयाथी tag दूर्वाभिः कीर्तिकामनः ॥ ५०॥

2.106

आरोग्यकाम्युत्पलजैः पुत्रकामी कुरुण्टकैः । पुन्नागैः पशुकामी `चेत्‌ सर्वार्थी सर्वसंभवैः ॥ ५१॥

2.107

लिङ्गार्चनक्रमः एवं संपूज्य विश्वेशि प्रत्यहं तु दिनत्रयम्‌ । तथाष्टाङ्कयुत्तं धूपं गन्धावग्रहकारिणे ॥ ५२॥

2.108

कर्पूरादिसुदीपांश्च सोमसूर्याग्निचक्षुषे । नैवेद्यं षड्रसोपेतं यद्यद्‌ योग्यं ममादरात्‌ ॥ ५३॥

2.109

अन्नानां पतये तुभ्यमिति मन्त्रेण निर्मलम्‌ । रेतत्सर्वमर्पयेद्‌ देवि लिङ्गरूपे मयि प्रिये ॥ ५४॥

2.110

ताम्बूलं च सकर्धूरं रसज्ञायेति मन्त्रतः । घृताक्तवर्तिसंयुक्तं नीराजनमथाचरेत्‌॥ ५५॥

2.111

४८ 'पारमेश्वरागम: [ तृतीय: मन्त्रपुष्पं ततो दद्यात्‌ त्र्यम्बकेति सुमन्त्रतः | प्रदक्षिणां नमस्कारान्‌ कृत्वा स्तोत्रैः *स्तुवेदथ ॥ ५६॥

2.112

क्षमापनं प्रार्थनां च यस्य स्मृत्या क्षमापयेत्‌ । रात्रौ जागरणं कुर्यान्मम लिङ्गस्य सन्निधौ ॥ ५७॥

2.113

सज्जिकागुणसंस्कारः लिङ्गेन सह कुर्वीत सज्जिकाया गुणस्य च । प्राणस्थापनमारभ्य यथा लिङ्गस्य तत्तथा ॥ ५८॥

2.114

यदि तन्तुपटोत्पन्नौ न चैवं सज्जिकागुणौ । यदि लोहमयी सज्जा यदि वा तादूशो गुण: ॥ ५९॥

2.115

लिङ्गेन सह संस्कारं कुर्यादेवमतन्द्रितः । शैथिल्ये सज्जिकादेस्तु संस्कृत्य पुनरन्यतः ॥। ६०॥।

2.116

अष्टबन्धे विशीर्णे तु पुनर्बन्धं च कारयेत्‌ | यदि मोहात्‌ त्यजेद्देहं स चाण्डालो भविष्यति ॥ ६९॥।

2.117

यन्नष्टं तत्प्रकुर्वीत यथाशास्त्रं गुरोर्वचः । न तिष्ठेन्नियमेनासौ लिङ्गसंपूजनादूते ।। ६२॥

2.118

५० पारमेश्वरागमः | i [ तृतीय: पुण्यकालेषु योगेषु विशेषेण समर्चयेत्‌ | संक्रान्तौ विषुवे चैव स्वजन्मत्रितये दिने ecu नवम्यां च चतुर्दश्यां सितायां सोमवासरे । यथाशक्त्यर्चयेल्लिङ्गं पौर्णमास्यां विशेषतः ॥ ६९॥

2.119

१अर्धोदयादियोगेषु ग्रहणे चन्द्रसूर्ययोः | व्यतीपाते कुहूयोगे प्रदोषे च विशेषतः 1 ७०॥ प्रतित्रयोदशीरात्रौ शनियोगे विशेषतः | कुष्णभौमचतुर्दश्यां गुरूणां च मृतेऽहनि ॥ ७९॥

2.120

पित्रोः सिद्धिङ्गतदिने विशेषेण समर्चयेत्‌ | १. “अर्धोदयस्य लक्षणं महाज्योतिषे- अमार्कश्रवणे पाते युक्ता चेत्‌ पुष्यमाघयो:। अर्धोदयः स विज्ञेयः किञ्चिल्यूनो महोदय: | Nok 11 कृष्णपक्षे त्रयोदश्यां मघास्विन्दुः करे रवि: | यदा तदा गजच्छाया श्राद्धे सर्वैरवाप्यते।।७२।। नभस्यसितपक्षे च षष्ठी कुजदिने यदा। रोहिणीपातयोगेन सा षष्ठी कपिला स्मृता।।७३।।' इत्ययमधिकः पाठो दृश्यते- ग. घ. ड.। श्नृत्यवादित्रगीतादोर्यथाविभवविस्तरम्‌॒ ।७२॥

2.121

घण्टानादमहिमा दरिद्रः करतालैर्वा घण्टानादेन चार्चयेत्‌ | कोटयो ब्रह्महत्यानामगम्यागमकोटयः २ 1 ७३॥। श्रवणेनैव घण्टाया नादस्यायान्ति संक्षयम्‌ । श्रूयते हि जनैर्याबद्‌ घण्टानादः समन्ततः ॥। ७४॥

2.122

तावत्पापानि रक्षांसि रेशक्ताः स्थातुंनहि क्षणम्‌ । तस्मात्‌ प्रयत्नतो देवि घण्टानादं सुसाधयेत्‌ ॥ ७५॥।

2.123

तथैव यततो देवि ताडयेज्जयघण्टिकाम्‌ | तदभावेऽपि यलेन कांस्यनादं समाचरेत्‌ NI लिङ्गधारी विशेषेण शङ्खनादेन पूजयेत्‌ igo! सर्वाभावेऽपि यत्नेन यतः शङ्खो मम प्रियः । दीपान्‌ प्रज्वालयेद्‌ देवि मम लिङ्गस्य सन्निधौ ॥। ७८॥

2.124

अभिषेकः प्रकर्तव्यो यथाशक्त्यमलोदकंः । चुलुकोदकमारभ्य यावच्छक्त्यभिषेचने ॥ ७९॥

2.125

५२ पारमेश्वरागमः [ तृतीयः तावदासेचयेक्लिङ्गमधिकस्याधिकं फलम्‌ | साधयेद्‌ यत्नतो गन्धं कस्तूर्यादि स्वशक्तितः ॥ oN अशक्तः सर्वयलेन द्रोणपुष्पैः समर्चयेत्‌ | सर्वदा सर्वयत्नेन सर्व त्यक्त्वा तु पार्वति ॥ ८१॥॥

2.126

ससर्वाल्लाभात्‌ परं मत्वा लिङ्गार्चनपरो भवेत्‌ । | चतुर्थदिनकृत्यम्‌ श्यथाशक्ति यथाभक्ति यथाकालं यथासुखम्‌ ॥ ८२॥

2.127

यथासंभावितैर््रव्यैर्लिङ्गपूजापरो भवेत्‌ | चतुर्थे तु दिने देवि कुृत्वोषस्यवगाहनम्‌ nai यथेच्छा यजमानस्य मङ्गलस्नानमाचरेत्‌ | समेत्य बहुभिर्वृद्धैः शिवतत्त्वार्थवेदिभिः ॥८४॥

2.128

१. इतः परम्‌ गरनथान्तरेऽष्टगन्धस्य लक्षणं लिख्यते-- कस्तूरी कुङ्कम गन्ध॑ कर्पूरं च सुशोभनम्‌। उशीरं चागरुः कोष्ठं तमालदलमेव च।। शिवाष्टगन्धमेत्तत्तु ह्यष्टमूर्तिस्वरूपकम्‌।।” इत्ययमधिकः पाठ-ग. घ. ड.। २. सर्वला-ग. घ. ३. “चतुर्थे... यथाशक्ति... यथासंभा....'' इत्ययं पङ्क्तिक्रमः-ग. घ.। शिवयोगिभि: पालनीया नियमा: लिङ्गपूजासु निरतैर्लिङ्गिभिः शिवयोगिभिः । पीठे पुराणं 'लैङ्ग मे नन्दीशं पूजयेच्छिवे ॥ ८५॥

2.129

नन्यूर्मिका सदा धार्या भक्तस्यादुष्ठपर्वणि । नोच्छिष्टदोषश्चान्योन्यं भुञ्जतां श्रतलिङ्गिनाम्‌ः ॥ ८६॥

2.130

न च प्रक्षालनं पाण्योस्तदुच्छिष्टधिया शिवे । शयानः श्रीगुरोः पादपद्याग्रे शयिता भवेत्‌ ॥ ८७॥

2.131

यथा शिवे तथा लिङ्गे यथा लिङ्गे तथा गुरौ । यथा गुरौ तथा प्राणे तथा प्राणेऽनुशासने ॥ ८८॥

2.132

एकाभिमानः सद्भक्ति्वीरशैवमते मम ॥ ८९॥

2.133

uy पारमेश्वरागमः | [ तृतीयः लिङ्ग-विभूति-रुदराक्षधारणमहिमा लिङ्गधारणमात्रेण कुतोऽसौ मानुषः शिवे । सदा विभूतिसंपर्कात्‌ सदा रुद्राक्षधारणात्‌ ॥। ९०॥।

2.134

धारणान्मम लिङ्गस्य सोऽहमेव न संशयः | `अणुमात्रमपीशानि ललाटे यस्य दूश्यते ॥ ९१॥।

2.135

तन्नामपाविता भूतिः सोऽहं रुद्रो न संशयः | धृतसद्धूतिसर्वाड्र ये पश्यन्त्यपिः पापिनः ।। ९२।।

2.136

त एव धन्या गिरिजे ते चान्यान्‌ पावयन्ति च । यस्य देहेऽस्ति रुद्राक्षो यावद्भक्त्यैक एव वा ।। ९३।।

2.137

तं दृष्ट्वा दूरतो यान्ति पापानि विविधानि च । विभूतिरपि रुद्राक्षं लिङ्गं यस्य त्रयं तनौ ॥। ९४॥।

2.138

स साक्षाद्‌ रुद्र ईशानि सोऽहमेव न संशयः । मम लिङ्गार्चनाभूतिरुद्राक्षमनुजापनैः ।। ९५॥

2.139

एकैकमेव मत्प्राप्त्यै किं फलं सर्वसन्निधौ | ललाटे भस्मना पुण्डूं "करे रुद्राक्षजापनम्‌ ॥ कण्ठे च लिङ्गाभरणं 'सो5हं देवि न संशय: ॥ ९६॥

2.140

इति श्रीयारमेश्वरतन्त्रे शिवाद्वैतसिद्धान्ते

2.141

ततीयः पटलः AAT: N