14. Patala 14
14.1
सिद्धिदिवसादिकर्तव्यविधिनिरूपणम् जय जय शिव शम्भो शान्तचन्दरार्ध१मौले करधृतमृगपोताभीतिशूलाखिलात्मन् । स्वयमपि सुखरूप! सच्चिदानन्दमूर्त भव मम हदि नित्यं पाहि मां पार्वतीश ॥ १॥
14.2
देव्युवाच रे नवैकादशपञ्चैकत्रिभागमय शङ्कर | सर्वानुगतविश्ेशाखण्डरूपाय ते नमः ।।२॥
14.3
उपदिष्टं महादेव साङ्गं सल्लक्षणान्वितम् | दीक्षाप्रभृतिनिर्याणयागान्तं योगिलिङ्गिनाम् ।। ३।।
14.4
मतेऽवान्तरभेदांश्चाधिकारस्तत्र तत्र तु । आचारश्च विधिर्देव सर्वमुक्तं त्वयानघ ।। ४॥
14.5
२साधु साधु कुलेशानि प्रश्नः सम्यक् कृतस्त्वया । सर्वस्य चापि शास्त्रस्य येन साफल्यमाप्यते 11 १०॥। 320 पारमेश्वरागमः [ एकोनविंशः अत्र पश्य महादेवि प्रमाणं वाचयामि ते । सुखेनैव ह्यसन्देहं मतस्य मम विक्रमम् ॥ ११।।
14.6
गुरुशिष्यसम्प्रदायपरम्परा लिङ्ग पञ्जक्षरी मन्त्रो यस्येष्ट उपदिश्यते ।। १२।।
14.7
स गुरुस्तत्र निर्णीतस्तस्य शिष्यस्य वै स च | एवं परतराः सर्वे सर्वेषां गुरवो मताः ।। १३।।
14.8
तस्य तस्य मते सर्वलिङ्किनां शङ्करात्मनाम् । गुरुः सर्वोऽपि विश्वेशः सर्वव्यापी न संशयः ।॥। १४।।
14.9
एवं सति जगद्धात्रि कोऽपि लिङ्गेन इज्यते । तस्मादेकस्य सर्वोऽपि गुरुरेव महा(दा)त्मकः ।। १५।।
14.10
अत्राहो खलु ते नास्ति संशयोऽथ ह्युदीरिते । शशण्वतः परमं सारं यत् त्वत्स्नेहेन कथ्यते ।। १६।।
14.11
वेदिकाक्षेत्रमाहात्म्यं प्रभावं मे मतस्य च । निर्णयं परमार्थस्य दत्तचित्ता भव प्रिये ॥ १७॥। . साध्य एव महाधर्म: शक्त्याल्पोऽपि यथामति । मृतानां तेन धर्मेण गतिभेद इहोच्यते ॥ १८॥
14.12
गतिभेदनिरूपणम् गृहमेधी भवेल्लिङ्गी यदि सालोक्यमश्नुते । भक्तलिङ्गी तु सामीप्यं सारूप्यं त्यक्तसंसृत्तिः ॥॥ १९॥।
14.13
ध्यानलिङ्गी तु सायुज्यं कैवल्यं ज्ञानयोगिनः | तारतम्येन विश्वेशि मद्भक्तानामियं गतिः ॥ २०॥
14.14
योगिनो ज्ञाननिष्ठस्य सिद्धैवेश्वरता स्वतः । भक्तिमात्रकृते धर्मे स्वस्य तादूकूपदप्रदम् ॥ RU गुरोः शिष्यस्य विहिता वेद्यां धर्मस्वनुष्ठितिः । स्वस्यानृण्यं भवेत्तेन चोभयोः सा गतिः समा ॥ २२॥
14.15
३२२ पारमेश्वरागमः [ एकोनविंशः वेद्यां मण्डपादिनिर्माणम् गहिणः पुत्रिणो वक्ष्ये कर्तव्यमपि तत्फलम् । निक्षिप्य वेदिकाक्षेत्रे Aga यदि चास्तिकः ।। २३।।
14.16
मण्डपं कारयेच्छक्त्या शिलादारुतृणादिभिः | यदि शोध्या भवेद् भूमिस्तत्रायं विहितो विधिः ।। २४।।
14.17
मतो यदि सपत्नीकस्तं च सानुगता यदि | श्तदस्थि मणिकर्ण्यादै क्षेपणेच्छा कृता क्वचित् ।। २५।।
14.18
तदा संशोधयेद् भूमिमाजलान्तं सगर्तकाम्। | समुद्धृत्यास्थि च तयोरेकस्यापि न संशयः ।। २६॥
14.19
कुर्यादेवं कुलस्त्रीणामन्यासां तु यथारुचि | विरक्तस्य च भक्तस्य देहमात्रं विसर्जयेत् 11 २७॥ योगिनो ज्ञाननिष्ठस्य यावद् गर्त विसर्जयेत् | सर्व लिङ्गमयं fafa देहवज्ज्ञानयोगिनः ।। २८।।
14.20
समुद्धरेद् यदि शिवे तद्गर्तमविवेकतः । लिङ्गमुत्पाटितं fafa स मृतो याति रौरवम् 11 २९॥ इष्टापूर्तविधानम् विशोध्य परितो भूमिं गुणावर्तनमाचरेत् | कारयेन्मण्डपमथ शिलादारुतृणादिभिः ।। 3011 गर्भगेहं च शिखरं स्वर्णकुम्भादिसंयुतम् । प्राकारगोपुरयुतं यथाविभवविस्तरम् ।। ३१।।
14.21
परितः कारयेद् रम्याण्युद्यानानि महीरुहैः । वापीकूपतडागादिप्रपाद्याः पुष्पवाटिकाः ॥ ३२॥
14.22
गोशालाऽऽरोग्यशालापि ह्यनाथ्चशयनार्थकम् । *रोगिणां दुर्बलानां च वासार्थं पशुपक्षिणाम् ॥ ३३॥।
14.23
्षेत्रापणपुरग्रामवृत्तिरीर्वसतिकादिकान् । धर्मान् समाचरेत्तत्र स्वल्पमप्यक्षयं धुवम् ॥। ३४।।
14.24
गृहाणि विधिरूपेण कारयित्वा समं भुवि । रथोत्सवादि कुर्वीत दद्याद् वर्षासनादिकम् ।। ३५॥
14.25
सेवकानां भृतिं दत्त्वा सर्वयात्रोत्सवादिकान् । छत्रव्यजनदीपादि वाद्यघण्टादि दापयेत् ।। ३६।।
14.26
३२४ पारमेश्वरागमः [ एकोनविशः तर्पयेदर्थिनः सर्वानन्नवस्त्रजलादिभिः । कृपणान् बलहीनादीन् लिङ्गिनस्तु विशेषतः ॥। ४४॥।
14.27
वर्घासनादिकं दत्त्वा स्वास्थ्याद्यावरसथादिकान् । धेन्वादि शाश्वत पूर्ण लिङ्गिनः स्थापयेद् बहून् ॥ ४५॥।
14.28
प्रवाचयेदभिञ्चेन शास्त्रं मन्मतसूचकम् | अन्यांश्च बोधयेद् भक्त्याऽनन्यान् भक्तिविवृद्धये 1 ४६॥ एकैकोऽत्र महादेवि धर्मः शक्त्यनुसारतः । अक्षय्यफलदः सर्ववंशानामुत्तरोत्तरम् ।। ४७।।
14.29
शक्तौ १द्रव्यवतां धर्म एष उद्दिष्ट ईदूश: । अशक्तेन आचरणीया धर्माः अशक्तो(क्तौ) भक्तिसद्भावे सद्यो धर्मस्तनुश्रमैः ॥। ४८॥
14.30
अन्येन स्थापितान् वृक्षान् लतादीन् पुष्पवाटिकाः । सेचयद् भक्तितस्तोयैः कर्तुः समफलं भवेत् ।। ४९॥।
14.31
३२६ पारमेश्वरागम: [एकोनविंशः पुण्यकालेषु चान्येघु धर्म शक्त्या समाचरेत् | कुलकोटिसमायुक्तो मम लोके महीयते ॥ ५६॥
14.32
पुराणं वाचयेत् तत्र ara जीवनहेतवे । दत्त्वा धनादिकं पूर्ण शिवचारित्रवाचकम् ।। ५७॥
14.33
कार्तिके मासि सम्प्राप्ते प्रत्यहं सोमवासरे । यथात्मनि तथा लिङ्गे मते मयि मदर्चने। विरक्तलिङ्गिनि ज्ञाननिष्ठे शास्त्रे मतिर्नृणाम् ॥ ५९॥
14.34
भक्त्या तादूशया देवि शक्त्या शाठऱ्यमदर्शयन् | वेदिकामण्डले धर्ममाचरेन्मद्धिया तथा ॥ ६०॥
14.35
भक्तिरेकैव मुख्यसाधनम् सर्वत्र भक्तिरेकैव भक्तानां मुख्यसाधनम् | गुरौ मते च शास्त्रे च मत्कैवल्याप्तये शिवे ॥ ६९॥
14.36
दया च सर्वभूतेषु प्राणिषु द्वेषवर्जनम्। समत्वमीश्वरान् वीक्ष्य सर्वत्र समया धिया ॥ ६२॥
14.37
३२८ _ पारमेश्वरागमः [ एकोनविंशः प्राणिद्रोहेछु वैमुख्यं वेदिकार्चनमादरः | एषा भक्तिमतां भक्तिः पूजा सल्लक्षणा मम ॥। ६३॥।
14.38
भक्त्या सन्तारयेत् सर्वमात्मानं वशमात्मनः । भित्वा चराचरं विश्वं शिवो भूत्वा सुखी भवेत् ।। ६४॥
14.39
कृत्वाऽग्रहारं विप्राणां भक्तानां योगिनामपि । संस्थाप्य वेदिकाक्षेत्रे कुटुम्बं ग्राममादिशेत् 1 ६५।। यद् ब्रह्मसाधितं धर्मलक्षणं कर्म सत्कृतम् । कर्ता तत्सर्वमाप्नोति देहान्ते च पदं मम NSRI सुकृते दुष्कृते चैव चत्वारः समभागिनः सुकृते दुष्कृते चैव चत्वारः समभागिनः । कर्ता कारयिता चैव प्रेरकश्चानुमोदकः 11 ६७॥ रूग्णान् दरिद्रिणोऽशक्तांच्छिवभक्तान् कुटुम्बिनः । स्थाप्ये(प्यै)कमपि लिङ्गस्य प्रतिष्ठाफलमश्नुते ।। ६८।।
14.40
धर्मस्य वेदिकाक्षेत्रे तारतम्येन साधने । प्राणिमात्रं दयापात्रं लिङ्गी तत्र विशिष्यते ॥ ६९॥
14.41
भस्मरुद्राक्षमात्रेण शिवनामस्मृतेरपि । लिङ्गार्चनेन मद्भक्तः९किं पुनर्लिङ्गधारणात् 11 ७०॥ शिवार्चकान् सन्तर्पयेत् तस्मात् सन्तर्पयेद्वेवि भक्त्या शक्त्या शिवार्चकान् । लिङ्गरुद्राक्षभस्माङ्कानेकं चापि १मदाप्तये ॥ ७१॥
14.42
विरक्तानर्चयेदन्यान् वैदिकान् पूजनोचितान् । सकृदभ्यर्च्य लिङ्गस्य यावत् पूजामुपैति सः 11 ७२॥। समाधि(वेदिका)क्षेत्रपूजनम् माघमासेऽर्चयेन्नित्यं त्रिकालं रैसायमेव वा । स्वशक्त्या वेदिकाक्षेत्रं शिवरात्रौ विशेषतः 1119311 शिवरात्रौ महालिङ्गं वेदिकाक्षेत्रमध्यगम् । 330 पारमेश्वरागमः [ एकोनविंशः दानं च शिवभक्तानां लिङ्गिनां च विशेषतः । भवत्या शक्त्या शिवे दत्त्वा स्वल्पमक्षयमश्नुते ।। ७५।।
14.43
वैशाखमासे महति छायां तत्र सुशीतलाम् । सम्पाद्य वेदिकाक्षेत्रे शक्त्या धर्म समाचरेत् ॥। ७६।।
14.44
समाधि(वदिका)क्षेत्रे दानादिमहिंमा पानकं पादुकाच्छत्रव्यजनादीनुपानहौ । शीतलोदकदध्यन्नं गन्धपुष्पादि शक्तितः ।। ७७॥
14.45
प्रदाय शिवभक्तेभ्यः शैवः कैवल्यमश्नुते | लिङ्गिभ्यो ज्ञानयोगिभ्यो यतिभ्यः शैवया धिया 11 ७८॥ प्रसूतिरहितां धेनुं कर्षणादिषु योजिताम् | विसर्जयित्वा भारात् तामुपेयाच्छिवरूपताम् ।। ७९॥
14.46
वृषभं 'लिङ्गमुद्राङ्कं भारवाहे च कर्षणे | मधुर पानक, पादुका, छत्र, व्यजन, उपानत् (जूता), शीतल जल, दधिमिश्रित अन्न, . तेन तद्देहपातान्ते कुलकोटिसमन्वित: | स्थित्वा लोके मम चिरमन्ते मत्केवलो भवेत् ॥ ८९॥
14.47
क्रणदारिद्रचरोगादिपीडितै लिङ्गधारिणम् । विमोचयेत् स्वशक्त्या य: पूज्यतेऽहमिव प्रिये ॥ ८२॥
14.48
सकृत् प्रदक्षिणं कूत्वा नमस्कृत्वापि वा सकृत् । वेदिकाक्षेत्रलिङ्गस्य तेन दत्ताखिला च भूः ॥ ८३॥
14.49
सम्पूज्य पितरौ पुत्रस्ताभ्यां मल्लोकमशनुते | गुरौ शिष्यो नुणां भूयो भक्त्या मत्केवलो ध्रुवम् ॥ ८४॥
14.50
अनाथानां तु संस्कारे लिङ्गिनां शिवरूपिणाम्। जित्वा मल्लोकमखिलं शिवः सञ्जायते स्वयम् ॥ ८५॥
14.51
समाधिक्षेत्रे विदुषः संस्थापयेत् परितो वेदिकाक्षेत्रे स्थाप्य षण्मतसम्मतान्। तत्तत्कृतमवाप्नोति धर्म॑ सर्वमपीश्चरि ॥ ८६॥
14.52
३३२ पारमेश्वरागमः [ एकोनविंश: १विशेषतो द्विजांस्तत्र वेदनिष्ठांच्छिवप्रियान् । धृतरुद्राक्षभस्माङ्कान् तद्धर्म सर्वमश्नुते ॥। ८७॥
14.53
अन्ये च शिवभक्ता ये साधवो लिङ्गधारिणः । संस्थाप्य तान् शिवो भूत्वा सत्यं सर्वमयो भवेत् ।। ८८।।
14.54
येनोह्यते मृतो लिङ्गी विमानान्दोलिकादिना | तहत्त्वा लिङ्गिनेऽनल्पमल्पं वा शिव एव सः ।। ८९॥
14.55
पूजयेद् गुरुपूजादावादराद् वेदिकामयम् । fag लिङ्गधिया साक्षाक्लिङ्गमेव भवत्यसौ 11 ९०॥। प्रतिसंवत्सरं वेदिं प्रदोषे भक्तितोऽर्चयेत् | यदैवाभ्यर्च्य मां देवि शिव एव भवेत्तदा ॥ ९१॥।
14.56
किमत्र बहुनोक्तेन शृणु तत्त्वमुमे मम । सर्वसारं प्रवक्ष्यामि कृतप्रश्नस्य चोत्तरम् ।। ९२।।
14.57
वेदिका(समाधि)पूजनमाहात्म्यम् यथाशक्ति यथाभक्ति पूज्य वेदिं मदात्मिकाम् । मृतं च मन्मयं कृत्वा मन्मयो भवति स्वयम् 11 ९३॥। अशक्तः स्वयमन्येषां प्रबोध्य धनिलिड्रिनाम् । कारयेत् पूजनं वेदेः सर्वे शङ्कररूपिणः 11 ९४॥। अन्तरायकर्तुरधःपातः आकलय्यान्तरायं यस्तद्दोषेण विघातयेत् | स जीवन्नेव चाण्डालो मृतोऽन्धं विशते तमः ॥। ९५।।
14.58
शतजन्मसु च श्वा स्याद् विष्ठायां क्रिमिको भवेत् | श्ततो ग्रामवराहः स्याद् दरिद्रो मानुषो भवेत् ॥। ९६॥
14.59
आशक्तानां समाधिशुध्रूषाक्रमः अशक्तानां च बालानां विधवावुद्धयोषिताम् । सम्मार्जनोपलेपाद्चै्वेदिशुश्रूषणं गतिः ॥ ९७॥।
14.60
सेचयेद् ग्रीष्मकाले तु यथाशीतं भवेत् स्थलम् । जलेन वेदेः परितो यदि सालोक्यमिच्छति ॥ ९८॥।
14.61
३३४ पारमेश्वरागमः [ एकोनविंशः भूत्वा पुमानथ भवेच्छिवभक्तो न संशयः । न दरिद्रो न वै रोगी सर्वकल्याणभाग् भवेत् ।। १००॥
14.62
दरिद्रः पूजयेद् वेदिं भक्त्या संवत्सरावधि | आचन्द्राक भवेल्लक्ष्मीश्चोत्तरोत्तरमुत्तमा 11 RRN सत्रीणां च भर्तृशुश्रूषा नान्यो? धर्मो महेश्वरि । शिवार्चनं च सततं मृते भर्तरि भामिनि ॥। १०२॥
14.63
सा नारी नरक याति \ हीत्याज्ञा च मया कृता ॥ १०३॥
14.64
वीरशैवारेगमस्थाया भर्ता चैव परः शिवः । मृते भर्तरि सा साध्वी तस्याशु प्रियतेऽनुगा ।। १०४॥
14.65
यदि पुत्रवती सा चेन्न प्रियेत तदा सती। . सा नारी लिङ्गपूजां च शिवचिन्तापरायणा ।। १०५।।
14.66
विरक्तानां लिङ्गवतामन्नदानपरायणा | भूशय्या नक्तभोजी च एकाहारा जितेन्द्रिया ।। १०६।।
14.67
त्रिकालं भस्मना स्नानं काषायाम्बरधारिणी । ` क्षमा दया सदा मौनं पुरुषालापवर्जनम् 11 १०७॥ इन्दुवारे च विधिवदुपवासः शिवार्चनम् । शिवपञ्जाक्षरी' जाप्यं सत्कथाश्रवणं मुदा 11 १०८1 शिवभक्तेषु वात्सल्यं भूतिरुद्राक्षधभारणम्। | शिवतीर्थानुगमनं रशिवभक्तिपरा वसेत् 11 20811 पतिमन्यं न गन्तव्यं गता चेन्नरकं ब्रजेत् |
14.68
इति संक्षेपतः प्रोक्तोरै मया धर्मः सनातनः ।। ११०।।
14.69
शिवो ध्येयः सदा देवि जाप्यं चापि षडक्षरम् । इदमेव मया देवि गुह्यं पापप्रणाशनम् ॥ अन्त्येष्टेर्मोक्षदीपाख्यं वक्ष्यामि शृणु वल्लभे ।। ११९॥
14.70
इति श्रीपारमेश्वरतन्त्रे “शिवाद्वैतसिद्धान्ते वीरशैवदीक्षा-
14.71
प्रकरणे एकोनविंशाः१ पटल: समाप्तः ।।९९।।
14.72
नास्ति-ग. घ. ङ.। ५. विशतिः-ग. घ. ड.। ६. 'समाप्तः' नास्ति-क. ख. ङ.। दीक्षाभेदविधानम् वेदवेदान्तसंवेद्य वेदान्तार्थप्रवर्तक । सच्चिन्मय सदानन्द शिव शम्भो नमोऽस्तु ते ॥ १॥।
14.73
देव्युवाच नमः '्कन्थानिषङ्काय नमस्ते त्वष्टमूर्तये | हदिस्थं संशयं छिन्धि शिष्याया मम ते प्रभो ।। २॥।
14.74
शैवदीक्षाप्रकारो मे भवतैव! निरूपितः । तदवान्तरभेदाश्च विधानं लक्षणादिकम् । ३॥
14.75
दीक्षाभेदाश्व सर्वेऽपि तारतम्यफलं त्वपि | शरुतं त्वधिगतं पृष्टं मया देव त्वयाऽखिलम् ।। 1 अनुशैवादिभेदानां षण्णां वीरान्तवर्त्मनाम् । एका चैवोदिता दीक्षा भेदस्तरतमत्वतः ।। ५॥।
14.76
सम्भवेद् यदि चैवं वा विशेषं तत्र मे बद । समानायां तु दीक्षायां लिङ्गनाशे तनुं त्यजेत् ॥ ६॥
14.77
विधिरेकस्य कथितः कथं वैषम्यमीश्वर । तस्यापि पूर्वमुदितः पन्थाः स्यान्निर्विशेषतः 1119 11 कूपां कुरु मयि स्वामिन् भक्तोद्धरणदीक्षित । भक्तायै चानुरक्तायै "प्रपन्नायै निरूपय ॥ ८॥
14.78
ईश्वर उवाच साधु पृष्टं त्वया देवि लोकोद्धरणहेतवे | श्रवणे कुशलाऽसि? त्वं दीक्षाभेदविधेरहो etl कर्तु शैवमतोद्धारं प्रश्नोऽयमचलात्मञे | भ्रश्येयुरखिला लोकास्त्वया यदि न पृच्छयते ।। १०॥
14.79
जञात्वैतन्मतभेदं तु शैवदीक्षाब्रते यदि । ३३८ पारमेश्वरागमः [ विशः महानस्ति विशेषोऽत्र संवेद्यः शृणु वक्ष्यते । गोपनीयं प्रयलेन यथा निधिरकिञ्जनैः ee अनधिकारिणे दीक्षाविधानं नोपदेश्यम् वदेदनधिकाराय न कार्याकाङ्किणे शिवे । नापरीक्ष्यापि षड्वर्ष न दत्तार्थाभिमानिने 1123 11 ज्ञानं विरक्ति वैदुष्यमाचारं शान्तचित्तताम् । नैस्पृह्यममपरीक्ष्याशु शिष्यं *नानुगृहेद् गुरुः ।। १४॥
14.80
दीक्षाभेदविधानं तन्नोपदेश्यं विशारदैः । दीक्षाधिकारिलक्षणम् बदेत् पूर्णाधिकाराय शान्ताय गुरुमानिने ।। १५।।
14.81
आस्तिकाय विशुद्धाय मद्भक्ताय मुमुक्षवे । जितेन्द्रियाय मृदवे सर्वत्रेश्वरभाविने ॥ १६॥।
14.82
अनुशैवादिभेदानां षण्णामेककलशा दीक्षा अनुशैवादिभेदानां षण्णामेका विधीयते N १७॥। १, चानु-क.। त्रिविधस्याथ' भेदस्य दीक्षाभेदो विधीयते । वीरशैवमतस्यास्यं क्रमेण शृणु पार्वति ॥। १८॥
14.83
वीरशैवमतप्रवेशाधिकारिलक्षणम् निर्वर्त्य षड्विधं भेदमादितः क्रमशस्ततः । प्रकृष्टपुण्योपचयाद् यदि कैवल्यमिच्छति 112211 प्रविशेद् वीरशैवाख्ये मते मम महत्तरे । ज्ञात्वा गुरुमुखात् सम्यगधिकारं च लक्षणम् ॥ २०॥ - शास्त्रदृष्टि? गुरोर्वाक्यं तृतीयं चात्मनिश्चयम् । लब्ध्वात्र स्थानसमतां मनीघी मनसा भवेत् । २१॥।
14.84
सन्त्यज्य पशुवित्तेघुरै देहप्राणादिषु स्पृहाम् । निर्विण्णो बन्धनाद्भीतो यदामुष्मिकमैहिकम् 112211 नित्यानित्यविवेकज्ञः षट्शमादिगुणान्वितः । मोक्षायत्तः परं बुद्ध्वा शिवं मामखिलं प्रभुम् ॥ २३॥
14.85
३४० पारमेश्वरागमः [ विंशः सर्वभूतदयोपेतः सर्वप्राणिष्वहिंसकः | कर्मणा मनसा वाचा सर्वमात्मवदीक्षयेत् ॥ २४॥
14.86
त्यजेद् यलेन नेहेत पापं चापि यदृच्छया | नेच्छेतेन्द्रियसन्तृप्ति न भवेत् सुखलम्पटः ।। २५॥
14.87
सहेत दुःखं दुर्धर्षं शीतवातोष्णसम्भवम् | सहेत मानावमानौ धिया देहात्मवादिनाम् ।। २६॥
14.88
नात्मस्वभावं? कुत्रापि परस्मै सम्प्रकाशयेत् । नानादोघगणान् क्वापि निन्देदपि नर संशयेत् ।। २७॥
14.89
देहेऽप्यनन्तकृच्छ्रेपि न तत्परिहरं स्मरेत्। अपि हस्तागतंरै भोगं सर्वातिशयितं त्यजेत् ॥। २८॥
14.90
विविक्तदेशमाश्रित्य सर्वभूतात्मभूतहत् | ध्यायेन्मामनिशं यत्नादन्तर्बहिरनन्तरम्* ।। २९॥
14.91
“मितभाषी मिताहारो मितचित्तो मितक्रियः | श्लोक:-ग. घ.] ६. रम्-ख. ड.। ३४२ पारमेश्वरागमः [ विंशः पञ्चजब्रह्मानुवाकश्च मनुः पञ्चाक्षरो Faq । इतरौ मध्यकुम्भस्य दक्षिणोत्तरयोर्न्यसेत्॥ ३७॥
14.92
शतरुद्रीयसूक्तेन १निधनेत्यनुवाकतः | पञ्चानुवाकपञ्जार्णप्रणवैरभिषेचयेत् TEAT सज्जिकागुणवस्त्रादिनाशे$न्यत् पुनराचरेत् । रलिङ्गनाशे पुनलिङ्गमन्यत् सर्व यथा पुरा ।॥। ३९॥
14.93
तुर्यवीरशैवस्य पञ्चकलशा दीक्षा यदि तुर्याभिधे शैवे मते लिड्रिन आदरात् । कुर्यात् तस्य गुरु: पञ्चकलशं दैक्षिकं विधिम् ॥ ४०॥
14.94
शतरुद्रीयपञ्चार्णानुवाकः प्रणवो मनुः । पूजानुवाकस्तोत्रादिः सर्वत्रैष विधिः स्मृतः ।। ४१॥
14.95
पूजायां शतरुद्रीयैरनुवाकैर्निषेचनम् । सह तारेण मूलेन ued तु लिङ्गिनः ॥ ४२॥
14.96
L. oe नम:। निधनपतान्तिकाय नम:' इत्यादि अनुवाक महानारायणोपनिषत् (१४.१) सहतारेण मूलेन होमकर्म समापयेत्। दीक्षाभिषेकं निर्वर्त्यं पट्टबन्धादनन्तरम् it ४३॥ जपेदष्टोत्तरशतं मूलमन्त्रं सतारकम् | गुरुपूजां च तेनैव यदि नित्यार्चनं त्वपि ॥ ४४॥।
14.97
तुर्यवीरशैवो विधिनिषेधातीतः नैमित्तिकं न, वै कार्य न कर्मादिकतापि वा । न प्रायश्चित्तमौन्नत्यं तुर्यशैवस्य लिङ्गिनः ॥ ४५॥
14.98
*नैवरे हर्षविषादाभ्यामालस्यं च विकारता | नार्थे नष्टे तु शोचेत न लाभे हर्षमाव्रजेत् ४६॥ विविक्तं देशमाश्रित्य व्यक्तभोगपरिग्रहः | त्यक्ताशो निर्भयः शान्तो मौनवान् विजितेन्द्रियः ।। ४७॥
14.99
साधयेत् संग्रहं चैतच्छक्त्या चोच्छ्वासधारणम् ॥ ४८ ॥।
14.100
३४४. पारमेश्वरागमः [ विंशः यदीच्छा पूजयेल्लिङ्गं 'जडताहरणाय तु । भक्त्या शास्त्र गुरोः प्राप्तमर्थ पूर्ण विचारयेत् ॥। ४९॥
14.101
संस्तुवीत गुरु नित्यं त्रिकालं मां महेश्वरम् | सर्वमात्मतया? पश्येदुच्चमध्यमनीचकम् ।। ५०॥
14.102
मयीक्षिताखिलं देवि मदात्मनि विभावयेत् | मदात्मजगतां _ भेदेऽप्यभेदेन विनिश्चयेत् ॥५१॥ , तुर्यवीरशैवचर्या नान्तर्ग्रामं विशेक्लिङ्गी तुर्यशैवमतः२ समः | वन एव वसेन्नित्यं न स्त्रीणां मुखमीक्षयेत् ।। ५२॥
14.103
नात्मानं दर्शयेत् स्त्रीणां न भावं च प्रकल्पयेत् | 1नोद्विजेत जनाल्लिड्री जनं चोद्वेजयेन्न तु ॥ ५३॥
14.104
' हर्षामर्षभयोद्वेगविमुक्तः समदूक् शुचिः | तुर्यवीरमतं प्राप्य स भवेदहमेव हि ॥५४॥
14.105
तुर्यवीरशैवो लिङ्गनाशे तनु त्यजेत् एतादूशाधिकारस्य तुर्यवीरस्य लिङ्गिनः । प्रमादाललिङ्गनाशे तु सह तेन तनुं त्यजेत् ॥ ५५॥
14.106
नित्यं सत्य भवेत् कर्म निद्रासनविसर्जनम् । मामेव चिन्तयेन्नूनं ` जडान्धबधिरोपमः ।। ५६॥
14.107
अष्टाङ्गमैथुनवर्जनम् स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिर्वृतिरिव च ॥ ५७॥
14.108
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥ ५८॥
14.109
अन्वीक्षितात्मनो `बन्धं मोक्षं मदनुचिन्तया । बद्ध(न्ध) इन्द्रियविक्षेपो मोक्ष एषां प्रसंयमः ।। ५९॥
14.110
न कुर्यात् प्राणिनो दुःखं स्वयं दुःखी न.चान्यतः । नोत्तिष्ठेत न वन्देत न स्तुवीतापि चोत्तमम् ।। ६०॥
14.111
३४६ पारमेश्वरागमः [ विंशः न दद्यान्न च गृह्णीयात् तुर्यशैव्रतोत्तमः । मध्ये दिक्षु च संस्थाप्य कलशानां च पञ्चकम् ।। ६१॥।
14.112
२आविष्टितऋत्विजस्तोकानुवाकशतरुद्रियैः । मूलेन क्रमशोऽनेन मध्यमादिप्रदक्षिणम् ।। ६२॥
14.113
होमकर्मविधानम् पूजयित्वा यथापूर्व विशेषो होमकर्मणि । शिवारिनजननं कुण्डमेखलादेवतार्चनम् ।। ६३॥
14.114
1ऋत्विज: पञ्च कुर्वीत मूलेनैव सतारतः | न गुरुदैक्षिकं कर्म क्वचिदप्याचरेद् धियारै ॥ ६४॥।
14.115
कारयेदुपदेष्ट्त्वाद् क्रत्विग्भिरपि पञ्चभिः । गुर्वाचार्यावुभौ कुम्भावात्मवामीतिर पञ्चकम् ।। ६५॥
14.116
` १. अविच्छि-घ.। २. अत्र ६६ संख्याकः श्लोकः स्थापितः-ग. घ.। ३. वा इति-ग. घ.। 1. “ऋत्विक्शब्दः-- “अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान् मखान्। यः करोति वृतो यस्य स तस्यात्विगिहोच्यते। ।” (२.१४३) इति मनूक्ते: स्वानुष्ठेयवैदिकादिकर्मकरे। आचार्यपदार्थस्तूक्तोञ्यत्र- “आम्नायतत्त्वविज्ञानाच्चराचरसमानतः। यमादियोगसिद्धत्वादाचार्यं इति कथ्यते।।'' (इति)। मनुस्मृतौ “उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः। सकल्पं सरहस्यं च तमाचार्य प्रचक्षते।।” (२.१४०)। सिद्धान्तशिखामणौ-- “आचिनोति च शास्त्रार्थानाचारे स्थापयत्यलम्। स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते।।” (१५.९) इति- ख. टिप्पणी (पू. २४६)। मध्यं दक्षिणमार्गेण प्रादक्षिण्येन पूजयेत् | आचार्यः स्वात्मनः कुम्भं गुरोस्तस्य नियोजयेत् ।। ६६॥
14.117
उपकुम्भे ततः शिष्यं लिङ्गिनं त्वभिषेचयेत् । नस्वीकुर्याद् गुरुः शिष्याइक्षिणार्थ वसु क्वचित्॥ अस्ति चेद् भूतिविश्राण्यस्त्यक्तसङ्गः सुखी भवेत् ॥ ६७।।
14.118
यदि प्रमादाद् विषये तुर्यलिङ्गी विशिष्यते । आरूढपत्तितं मूढं धिक् तं मानुषगर्दभम् । ६८॥
14.119
दीक्षामवाप्य तुर्यवीरशैवः सुखं विचरेत एवं . ब्रतधरस्तुर्यशैबलिङ्गी महत्तरः। दीक्षाविशेषमारभ्य विचरेत् सर्वतः सुखी ॥ ६९॥
14.120
न तस्य कर्तृता कर्म करणीयं च तत्फलम्। तद्भोगस्त्वनुषङ्गो वा किञ्चिदस्ति मदात्मनः 110 11 विचरेत यथाकामं कामिनीकामकण्टकैः१ | ३४८ 'पारमेश्वरागम: [ विंशः मदनुग्रहसदवज्तनुत्रपरिरक्षित = l प्रबुद्धचेदचिरादेव 'मतस्पृत्या मत त्यजेत् ॥ ७२॥।
14.121
यदि बुद्ध्या समारूढः पतेद्विषय आतुरः । तद्वशादान्थ्यमासाद्य दुःखाहुःखं समुत्तरेत्॥ ७३॥
14.122
अणिमाद्यखिला भोगा तव लीलाविजुम्भिताः । षड्भिर्हता विकृतिभिरतो मामेव संश्रयेत् ॥ ७४॥
14.123
राजसेन विकारेण भिन्ना हामृतवद् विषाः । स्म्रायासम्पाद्यमानस्य कालक्षेपणहेतवः ।। ७५॥
14.124
त्यक्त्वा विलोक्य विरमेदिहामुत्र चिकीर्षितात् । ध्वस्तसंकल्पविज्ञानः सर्व आत्मानमीक्षयेत् 11 ७६॥। निर्विघ्नेन वरारोहे मम लोकं यदीच्छति | सुखेन कर्तुमलसो भवेन्मदनुचिन्तने । ७७॥
14.125
मनोवाक्कायकृत्येषु जाग्रत्स्वप्नसुषुप्तिषु । मदनुस्मरण मुक्त्वा नयेत् कालमपि क्षणम् ॥ ७८ ॥
14.126
समाहितो दूरगतश्रमः सुखी निरस्तसर्वैषण आत्मनिश्चयः | उदीरितं मार्गमिमं समाश्रयेद् 1नान्योऽस्य पन्था अयनाय विद्यते ॥ ७९॥
14.127
देव्युवाच सांख्याभासाय सांख्याय भासयेश नमोऽस्तु ते ॥ Zo N विधानमुदितं सर्व तुर्यशैवस्य लिङ्गिनः । इतरेषां च विश्वेश विशेषस्तत्र पृच्छत्चते 112211 मतेषु तारतम्यविषयकः प्रश्न: भवन्मते प्रतिष्ठस्याऽनादिशैवक्रमेण वै । तुर्यशैवप्रतिष्ठस्य नान्यथा मुक्तिराप्यते ॥ ८२॥
14.128
३५० पारमेश्वरागमः [ विशः यद्युक्तक्रमतो वापि गच्छतस्तन्मते प्रभो । मुक्तिर्वा पतनं बन्ध उत्तरोत्तरवर्त्मना\ ।। ८३॥
14.129
भेदकल्पनमासाद्य तारतम्येन शङ्करः । दीक्षासामान्यमादिश्य त्वदभिप्राय उच्यताम् ॥ ८४॥।
14.130
ईश्वर उवाच शुणु देवि प्रवक्ष्यामि प्रश्नः साधु कृतस्त्वया | शक्ताशक्तानुसारेण तारतम्येन पार्वति ॥ ८५॥
14.131
अनादिशैवः क्रमेण व्युत्क्रमेण वा तुर्यपदमधिगच्छति तत्प्राप्तस्यापि चैकत्वे मतभेद उदाहृतः | क्रमो विवक्षितो नैव धीरस्य मम चेतसः 11281 शक्तिशचेद् व्युत्क्रमेणापि शक्यते गन्तुमीश्वरि । मनोधैर्य विरक्तिश्च ज्ञानं भक्तिश्च पूजनम् ॥ ८७॥।
14.132
श्रद्धा सत्यं प्रियोक्त्यादि सर्वेषां सममेव हि । मनसो धैर्यमात्रेण दीक्षाभेदः कुतो भवेत् ॥ ८८ l अनादिशैवादिमतानां परस्परं वैशिष्ट्यम् तुर्यस्य लिंङ्गनाशे तु देहत्यागो विशेषतः | अनादिशैवनिष्ठस्य स्वपुण्योपचयाद् यदि ॥ ८९॥
14.133
श्रद्धादानदयाभक्तिदाढचैंस्तत्रैव मुच्यते । आद्यादिमतभेदास्तु तत्राप्यर्थाय कल्पिता: 110 l शक्तोऽप्युत्क्रमतश्चापि ह्यशक्तः क्रमतो व्रजेत् । अन्यथाप्युत्क्रमा द् गत्वा पतेक्लिङ्गी महाभये? ॥ ९९॥
14.134
तदाश्रयेद् गुरु नित्यं मत्कैवल्यं यदीच्छति । ज्ञानकर्मानुसारेण विधिरेष उदाहतः ॥ ९२ o सानकर्मानुसारेण विधिरेष उदाइतः॥ ९२ 0 ३५२ पारमेश्वरागमः [ विश: लिङ्गसज्जादिनाशे तु दीक्षा तत्तत्पुनः कृतिः । 'लिङ्गार्चनं जपस्तोत्रं गुरुपादोपसेवनम् ॥ ९३॥
14.135
स्मरणां मत्कृतिध्यानं प्रायश्चित्तमुदाहतम् | : तुर्यस्य लिङ्गनाशे तु देहत्यागो हि तत्क्षणम् ।। ९४॥
14.136
मत्कैवल्यमवाप्नोति नान्यथार्थाभिलाषिणः । त्वत्पृष्टमीरितं सर्वं भवता(त्या) परमेश्वरि ॥ दीक्षाभेदादिकं स्पष्टं किं भूयः श्रोतुमिच्छसि ।। ९५॥
14.137
इति श्रीपारमेश्वरतन्त्रे श्शिवाद्वैतसिद्धान्ते वीरशैव-
14.138
दीक्षाप्रकरणे विंशः पटल: 11 एकविंशः पटल: ज्ञानयोगस्वरूपनिरूपणम् पञ्चवक्त्राय पञ्चाय पञ्चकृत्वस्तनूभृते । प्रपञ्चसाक्षिणे तुभ्यमीश्वराय नमो नम: en देव्युवाच तिरस्कृताणिमाद्याय द्याष्टैश्वर्यप्रदायिने । त्रिपुटीभोगतुष्टाय पुष्टानां पतये नमः 1211 जगद्वन्द्य जगन्नाथ जय सर्वोत्तमोत्तम | जगदात्मन् जगन्मूल जाहूवीजटिल प्रभो ॥ ३॥
14.139
दयां कुरु महादेव शिष्यायां मयि शङ्कर । वात्सल्यं दर्शय स्वामिन् त्वदनुग्रहपात्रतः ।। ४॥
14.140
त्वया निरूपितं सर्व वीरशैवमतं महत् । महदन्वाद्यनादीनि श्रुतान्यधिगतानि मे ॥५॥
14.141
३५४ पारमेश्वरागमः [ एकविंशः कर्माधिकारिणां तानि सूचितानि स्फुटं महत् । र ज्ञानयोगस्वरूपविषयकः प्रश्नः इदानीं श्रोतुमिच्छामि स्वरूपं ज्ञानयोगयोः ।। ६॥
14.142
निरूपय सविस्तारं सर्वलोकोपकारकम् | चेत्ता तव स्वरूपस्य त्वदन्यो नास्ति कश्चन ।। ७॥।
14.143
त्वं ब्रह्म परमं साक्षादाद्यन्तमनवाप्य च । त्वन्मायाजालनिहिताः* परे कृष्णादयोऽखिलाः 1। ८11 ईश्वर उवाच साधु साधु कुलेशानि समुद्धर्तुमिहेच्छसि | भक्तान् मत्करुणापात्रानपत्यानीव निश्चितम् ।। S इदानीं तव वक्ष्यामि सयोगं ज्ञानमुत्तमम् | स्वयोनिरिव कल्याणि गोपनीयं कुलस्त्रिया ।। १०।।
14.144
` च्चैव जानन्ति मद्रूपं हरिब्रह्ममहर्षयः | ˆ गजाननोऽपि स्कन्दोऽपि विना मद्वाक्यमुत्तमम् ।। RR I भवत्या च प्रवक्तव्यमास्तिकायैव साधवे | गुरुभक्ताय शान्ताय सर्वप्राणिदयालवे ॥ १२॥
14.145
शनास्तिकाय न दुष्टाय नाभक्तायोग्रचेतसे । नाशास्त्रगुरुसत्याय न वदेत् कार्यवादिने 112311 वटपत्रशायिना कृष्णेन पुराऽयमेव प्रश्नः कृतः एवमेव पुरा देवि प्रलये १दिनसंक्षये । वटपत्रशयी कृष्णो वेधसा मामपृच्छत ।। १४॥
14.146
उपास्य बहुधा भक्त्या “शक्तितो हृदि मां परम् । स्तुत्वा सम्पूज्य मज्ज्ञानं योगरूपं सविस्तरम् 11 १५ ॥। उपदिष्टं मया तस्मै ज्ञानं योगं स्वरूपतः । तदेतदेव वक्ष्यामि soy दत्तमनाः शिवे ॥ १६॥
14.147
ज्ञानलक्षणम् 1नवैकादशपञ्जत्रीन् भावान् भूतेषु येन मे । ज्ञानेनानुगतान् पश्येत् तज्ज्ञानं मद्विवेकत: ॥ १७॥
14.148
३५६ पारमेश्वरागमः [ एकविशः शास्त्रादुरुमुखात् सम्यङनिश्चिता मतिरात्मनः । अहं सर्वोत्तम इति केवलः शिव एव हि ॥ १८॥
14.149
शिवस्वरूपवर्णनम् आदिमध्यान्तरहितादित्यवर्ण तमः परम् । सर्वसन्निधिसंस्थानं सर्वसाक्षिणमीश्वरम् ॥ १९॥
14.150
पालकं च नियन्तारं कारणं कारणात्मनाम् । अनादिमादिमन्यस्यानन्तमन्तं जनुष्मताम् ।। २०॥
14.151
अरूपं सर्वरूपाढयमप्रमेयमणोरणुम् | महतोऽपि महान्तं मामशब्दं शब्दकारणम् ।। RR N अमूलमेकमव्यक्तं व्यक्ताधारं वियत्परम् | सर्वान्तर्यामिणं देवः सच्चिदू्घनमयं विभुम् ॥। २२।।
14.152
ज्योतिर्विञ्चानसन्मात्रमादिमध्यान्तवर्जितम्र । ४घडूर्मिरहितं शम्भुं षड्विकारविवर्जितम् ॥ २३॥
14.153
षड्गुणैश्वर्यसम्पन्नं न? निरस्ताणिमादिकम् | प्रमाणातीतमचलं हेतुदृष्टान्तवर्जितम् 1 २४॥। स्वप्रकाशं स्वदूग्दूश्यं सर्वाधिष्ठानमद्भुतम् | केबलं गगनाकारं दुःखातीतं निरामयम् ॥ २५॥
14.154
तत्त्वमस्यादिलक्ष्यार्थमेकं नित्यमनाकुलम् | अमलं भावनातीतं गुणत्रयविवर्जितम्.॥। २६॥
14.155
अवस्थात्रितयातीतमसङ्कं सर्वसङ्गिनम् । भोज्यं च भोजक भोक्तृ सर्वदेहाभिमानिनम् ॥ २७॥
14.156
न दृश्यमातिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । शेमनीषिणो ये मनसाभिक्लुप्त- मेनं विदुस्ते ह्यमृता भवन्ति ॥२८॥
14.157
३५८ पारमेश्वरागमः [ एकर्विशः अपाणिपाद॑ जविनमदूश्यं सर्वदर्शनम् | अश्रोत्रमखिलश्रोत्रं सर्वदा Wad समम् ॥ २९॥
14.158
भोक्तासमक्षरं शुद्धं निर्विकल्पं निरञ्जनम् | Seed परमानन्दं हर्षामर्षविवर्जितम् ॥। ३०॥
14.159
नित्यबद्धं नित्यमुक्तं निरुपद्रवमव्ययम् | बीजं निर्बीजमनघं पूर्णव्याप्तिमखण्डकम् 1138 11 ज्ञात्वैवमादिभिर्देवि लक्षणैर्मामधीश्वरम् । निश्चितं मनसः स्थैर्य ज्ञानं ज्ञानविदो fag: ।। ३२॥।
14.160
सोऽहं स्वय्नंज्योतिरजोऽप्रमेयो ` महानुभूतिः सकलानुभूतिः । एकोऽद्वितीयो वचसां विरामे येनेरितार वा मनवश्चरन्ति 1331 सर्वाशयसमावर्ती सर्वभूतान्यहं शिवे । सर्वेश्वरोऽहं सर्वज्ञः सर्वव्यापी सनातनः ॥। ३४॥
14.161
शिव एव सर्वम् शिवोउहमीश्चरो रुद्रः सदाशिवहरीर विधि: । कालो जीवाभिधोऽव्यक्तं गुणा बुद्धिरहङ्कृतिः ।। ३५ ॥
14.162
मनश्चित्तं महाव्योम वायुरग्निजलानि भूः । गन्धः शब्दो रसः स्पर्शो रूपमित्यहमेव हि ॥ ३६॥
14.163
सवनत्रितयं चाहं कालाश्च प्रातरादिकाः । हविर्यज्ञः क्रतुरहं देवाः १शक्रादयोऽप्यहम् ॥ ३७॥
14.164
राक्षसा यक्षरक्षांसि मनुष्याः पशवः खगाः । क्रिमिकीटपतङ्काद्या अहमेव वरानने ॥ ३८॥
14.165
सूर्यादयो ग्रहा भानि कृत्तिकादीन्यहं शिवे । कालभेदाश्च 'तुटचाद्या मेषाद्या राशयोऽप्यहम् ॥ ३९॥
14.166
ज्योत्स्ना प्रकाशस्तिमिरमुत्पत्तिश्च लयः स्थितिः | लोकाश्च स्थावरं देवि जङ्गमं चाहमेव हि ॥ ४०॥
14.167
श्रुतयश्च पुराणानि स्मृतयो धर्मसंहिताः | आश्रमा जातयः सर्वा अहमेव परः शिवः ॥ ४१॥।
14.168
३६० पारमेश्वरागमः [ एकविंशः धर्माधर्मौ सुखं दुःखं सद्योगस्तत्फलं त्वहम् | भूतं भवद्भविष्यच्च सर्वमप्यहमीश्वरि ॥ ४२॥
14.169
संसारी चापि संसारोऽप्यहं संसरणं शिवे । भोक्तारं प्रेरकं भोज्यं मां विज्ञाय विमुच्यते ।। ४३॥
14.170
ज्ञानयोगाभ्यां संसिद्धिः १विद्धि ज्ञानं मद्विवेको योगो मत्प्राप्तिरीश्वरि । ताभ्यामुभाभ्यां संसिद्धिः सोऽहमेव शिवः शिवे ॥। ४४॥
14.171
देव्युवाच निरीश्वर निरातङ्क निराहार निरन्तर । नमस्तुभ्यं पशुपते संशयं छिन्धि मे शिव ॥ ४५॥
14.172
परंब्रह्म कथं जीवस्वरूपं धत्ते अनन्तमव्ययं शुद्धं सच्चिज््योतिः सुखप्रदम् | पूर्णमेवाप्तकामस्त्वं परंब्रह्म परात्परम्? ।। ४६॥
14.173
भोक्ता विकारी निर्बन्धः शरीरी सुखदुःखभुक् । जायते प्रियते जीवः कथं जीवस्त्वमीश्चर ॥ ४७॥
14.174
लोकाल्लोकं प्रयात्येष अर्थवांश्च दरिद्रवत् | नैव संगच्छते देव मनसो मम शङ्कर ॥ ४८॥
14.175
ईश्वर उवाच अहमेव वरारोहे निर्विकल्पादिलक्षणः | भवत्या मम शक्त्यैवं विक्रीडामि यथासुखम् ॥ ४९॥
14.176
शिवशक्त्यात्मकं जगत् शिवोऽहं त्वमुमे शक्तिस्त्वमेवाहमहँ त्वमु । स्त्र्यात्मा त्वं वै पुमात्माहं शिवशक्त्यात्मकं जगत् 11 ५०॥ त्वयि दर्पणभूतायां बुद्धो(द्वौ) जीवोऽहमीश्वरः । असङ्गः प्रतिबिम्बोऽस्मि न भोक्ता केवलः शिवः ।॥। ५१॥।
14.177
३६२ पारमेश्वरागमः [ एकविंशः शोकहर्षभयक्रोधलोभमोहस्पृहादयः । अहङ्कारस्य दूश्यन्ते जन्म मृत्युश्च नात्मनः ॥ ५२॥।
14.178
जीवात्मलक्षणम् जीबोऽव्ययोऽगुणः शुद्धः स्वयंज्योतिरपावृतः । अग्निवद् धातुवद् देवि न भोक्ता जीव ईश्वरः ।। ५३॥
14.179
सुखत्वमपि दुः खत्वं कार्श्यस्थौल्याद्यनेकधा । भावा अहंमतेर्धर्मा जीवाध्यासादभूत् तनुः ।। ५४ ॥।
14.180
यथा स्वप्नगता धर्मा आरोप्यन्ते स्व आत्मनि । अज्ञेन देहतादात्म्यात् तयैवास्य शरीरिणः ।॥। ५५॥
14.181
न जायते प्रियते वा कदाचि- न्नायं १भूतो भविता वा न भूयः | अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे II मायामोहितो जीव आत्मानमन्यथा पश्यति निर्लेपो$हं यथा देवि निःसंगश्चाप्यकामनः | तथैव जीवो मद्विम्बो न बिम्बप्रतिबिम्बयो: ।। ५७॥।
14.182
भेद: प्रसिद्ध एवासौ दृश्यते गिरिनन्दिनि । मन्मायामोहितो जीव: पश्यत्यात्मानमन्यथा ।। ५८ ॥
14.183
नृत्यतो गायतः पश्यन् यदैवान्यत् करोति तान् । एवं बुद्द्रिगुणान् पश्यन्ननीहोऽप्यनुकार्यते 1149 11 कल्पितेयं व्यवहृतिः पुरुषस्यार्थसिद्धये | आत्मतत्ते प्रतिज्ञाते नैको भोक्ताऽपि? लभ्यते 11 ६०॥ . तिष्ठत्युपैति संजाता बहुधा बुद्धिरेव मे। शक्तिर्भवद्विभूतिः स पुमान् भोक्तेव दृश्यते ।। ६९॥
14.184
शुद्धो हि स्फटिको देवि जपाकुसुमसन्निधेः? । रक्तस्फटिकवद् भाति तद्वदौपाधिकी भृतिः ॥। ६२॥
14.185
३६४ पारमेश्वरागमः [ एकविशः गुणोरगभ्रमाद् भीतो “गुण ज्ञात्वा भयं त्यजेत् । मामन्तर्व्यापिनं ज्ञात्वा जीवो मुच्येत बन्धनात् ।। ६३॥।
14.186
अनावृतस्यापारस्य परिच्छेदः कुतो भवेत् । भूमाविव गृहेऽल्पत्वं बुद्धया कल्पितमीश्वरि 11 ६४॥ अनाद्यविद्यायुक्तस्य॒ पुरुषस्यात्मवेदनम् | स्वतो न सम्भवेदन्यस्तत्त्वज्ञो ज्ञानदो भवेत् ।। ६५॥।
14.187
पुरुषेश्वरयोरण्वपि वैलक्षण्यं नास्ति पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि | तदन्यकल्पना ज्ञानमज्ञानं प्रकृतेर्गुणः ।। ६६॥
14.188
देव्युवाच अनावृतस्यानन्तस्यानन्तरस्य चिदात्मनः | लोकाल्लोकगतिर्देव तवान्तर्यामिणः कथम् 11 GO 'पटल: ] ज्ञानयोगस्वरूपनिरूपणम् ३६५ कथमखण्ड आत्मा लोकाल्लोकान्तरं गच्छति अविद्यावशतः स्याच्चेदखण्डस्य तदात्मन: । तस्याश्चापि कथं देव पूर्वदेशस्य व्युत्क्रमः ।॥ N एतन्मे संशयं शम्भो छेत्नुमर्हस्यशेषतः | त्वदन्यः संशयस्यास्य 'भेत्ता मे नोपपद्यते ।। ६९॥
14.189
दयालो जगदाधार ह्यात्माधिष्ठानमीश्वर । मत्प्राणवल्लभ स्वामिन् निरूपय महेश्वर || ७०॥ ईश्वर उवाच अनावृतोऽस्म्यनन्तोऽस्मि परिपूर्णोऽस्म्यसंशयम् । तादृश्येव हि मच्छक्तिः समस्तापि शृणु प्रिये ॥ ७१॥
14.190
अखण्डाविद्याशक्तेरयं विलासः न पूर्वदेशसन्त्यागोऽस्त्यविद्याया अपि क्वचित् । त्वद्विभूतेरखण्डाया विलासस्तादृगुन्नतः 11192 १. छेत्ता-कटि.। ३६६ पारमेश्वरागमः [ एकविंशः मद्विम्बस्यास्य जीवस्य दर्शनस्य चमत्कृतिः | तत्र तत्र गताऽविद्या तत्तत्कार्य सृजत्यलम्ः 11193 11 महाम्बुधेरिवाम्भांसि तरङ्गायन्त एकधा । उत्पद्यन्ते ब्रजन्त्यन्यदेशं यान्ति लयं त्वपि ॥। ७४॥।
14.191
तत्र तत्र गतो देवि ममात्मा प्रतिबिम्बितः । जीवत्वमेत्य मच्छास्त्रत् प्रकृतिं चानुगच्छति ।। ७५॥
14.192
देव्युवाच चननेत्रत्रितयं शम्भो रविचन्द्रकृशानवः | नमस्तस्मै महेशाय गुरवे परमेष्ठिने । ७६॥।
14.193
अध्यासः कथं प्रवर्तति २अत्रैव तनु विश्वात्मन् संशयग्रन्थिभेदनम् । अध्यासः कथमीशान तव सत्यचिदात्मनः 11 ७७॥। ईश्वर उवाच बिम्बप्रतिबिम्बन्यायेनाध्यास: प्रवर्तते आभासरूपिणो भोक्तुर्न मे साक्षाच्चिदात्मन: । परिच्छिन्नत्वमायातमायातस्य विकारिता ॥ ७८॥
14.194
अस्ति दिङ्मुखवैषम्यं न बिम्बप्रतिबिम्बयो: | अप्येकरूपतां प्राप्य क्व भेदो बिम्बयोः शिवे ॥ ७९॥
14.195
जीवो मदंशो ज्ञानात्मा साक्ष्यज्ञानीव दूश्यते । मदिच्छयास्य जगतस्त्वहमेवाखिलं शिवे con देव्युवाच तारकब्रह्मणे तुभ्यमाघाढाय मह्यते । नमः पञ्चाक्षरेशायः गुरवेऽस्तु कपर्दिने ॥ ८१॥
14.196
३६८ पारमेश्वरागमः [ एकविंशः. सुमुखो भव विश्वेश निर्भेदो मे विषह्यताम् | निरूपयात्र विश्वात्मन् संशयच्छेदनं वचः URN निस्तरङ्गसुखाम्भोधेः कथं दुःखित्वम् निस्तरङ्गसुखाम्भोधेरनन्तस्य चिदात्मनः | निमित्ततो वेच्छया वा दुःखिंत्वमणुता कथम् ।। ८३॥
14.197
प्राबल्यं यदि मायाया ईश्वरत्वं कुतस्तव । न च स्वाधीनजाडचेच्छा निरीहस्य जगत्पते ।। ८४॥
14.198
ईश्वर उवाच ममाभिन्नाया शक्तेस्तव नटनाव्यापारोऽयम् तस्य मे तदहं भद्रे निरीहत्वादिलक्षणः | मम शक््तिर्विभूतिस्तेः नटत्येवमनेकधा 1124 1 न स्वातन्त्यमधीनाया व्यवहारार्थमीश्चरि । ˆ नाधीनता नियन्तुस्ते विनटन्त्या यथेच्छया ।। ८६॥।
14.199
१. तिः सा-कटि.। सुखदुःखाधिका? वा तु नटनान्तरचारिणी | तिसृणां मम शक्तीनां नामरूपक्रियात्मनाम् ॥ ८७॥
14.200
यह्ठिज्ञाते स्वके तत्त्वे भज्यते सा न संशयः । यावन्न जानात्यात्मानमात्मना तं मदात्मकम् ॥ ८८॥
14.201
विद्येत? वृत्तिवैचित्र्यमनन्ताया अहम्मतेः। | मतः साक्षिप्रमो वायुनामाद्यानन्तरूपिणी ॥ ८९॥
14.202
मच्छरीरमिदं जगत् जगदित्यहमित्यन्य इति भेदो न कश्चन॥ ९०॥
14.203
उत्पत्त्यादिस्वरूपेण मदन्यस्यावलोकनम् । तिष्ठति स्थितये ज्ञत्वं व्यवहारः स देहिनः ॥ ९१॥।
14.204
न दुःखं न सुखं प्रीतिरनिशं प्रीतिकारिणी ९ । तदीयरुचिलाभाय दुःखवन्नटनं धियः ॥ ९२॥
14.205
३७० पारमेश्वरागमः [ एकविशः सुखदुःखादिकं धियो नटनाव्यापारः श्य्चैव देहिनामिष्टो हेमन्तत्तौ हुताशनः | ग्रीष्मे 'चशीतलाच्छाया एवं हि सुखदुःखयोः ॥। ९३॥।
14.206
दृष्टस्वप्नस्य निद्रालोररिभीत्या पलायनम् | प्रबुद्धस्य न वै तस्य तथेयं संसृतिस्त्वतः २ ॥। ९४॥
14.207
त्वमेकापि नामरूपक्रियात्मना नटसि एकाप्यनन्तभेदेन नामरूपक्रियात्मना | नटसि त्वं कुलेशानि विचित्रास्तव वैभवाः ॥ ९५॥।
14.208
शुण्वितः परमं गुह्यं वक्ष्यामि तव पार्वति | ४ंशक्ताया अनसूयाया" दत्तचित्ता भव प्रिये ॥ ९६॥।
14.209
इति श्रीपारमेश्वरतन्त्रे (ज्ञानयोगस्वरूपनिरूयण
14.210
नाम) एकविंशति:* पटल: ।।२१।।
14.211
तिश्चित:-ड.। ४. भक्ताया अन-ग. घ. ड.। ५. यायां-क. ख. ग.। ६. तितम:-ख.। द्वाविशः पटल: भक्तिमाहात्म्यप्रतिपादनम् ईश्वर उवाच सांख्ययोगापेक्षया भक्तेर्गरीयस्त्वम् न साधयति मां योग: सांख्यधर्मस्त्वनुष्ठित: । स्वाध्यायोऽपि तपस्तीर्थ क्षेत्राणि नियमादय: 11211 ब्रतानि यज्ञाश्छन्दांसि जातयश्चाश्रमा अपि । विना भक्त्या सुटूढया मय्येव निरपेक्षया ।। २॥
14.212
सदाचाररतं धीरं सदयं धर्मतत्परम् । मनस्विनं वा विद्वांसमपि नो रक्षयेत् प्रिये ॥ ३॥
14.213
जञानं ध्यानं च शुश्रूषा यलः सर्वोऽपि साधितः । यदि मद्भक्तिरहितं न पुनात्यपि वा क्वचित् ॥ ४॥
14.214
अनाचारोऽपि साचारो वृत्तिः शुद्धापि वा न वा । ३७२ पारमेश्वरागमः [ द्वाविंशः निरपेक्षो भक्तः सर्वोत्तमः भक्त: सर्वोत्तमो देवि निरपेक्षो ह्यकिञ्चनः | अप्युत्कटेभ्यः कर्मभ्यो महदादिभ्य एव च ॥ ६॥
14.215
यथा नदीषु मन्दाकिन्यमरेषु शचीपतिः । भवती गिरिजा स्त्रीषु पुरुषेष्वहमीश्वरः । ७॥।
14.216
सर्वासां मद्विभूतीनां भक्त एव तथा वरः। . न बिभेमि कुत्रापि यथा भक्तादहं प्रिये ॥ ८॥
14.217
भक्तिमहिमा अतिप्राणिविहिंस्त्रं वा ह्यतिपातककारिणम् । अतिनिन्दितकर्माणं मम भक्तिः पुनाति हिं ॥। ९॥
14.218
भक्त्या देव्यनपायिन्या निरघे मय्यमायया | भक्तिर्माता पिता वित्तं बन्धुरापदिः सोदरः । गुरुमित्रै सुहृद् भोगो? मोक्षश्च पुरुषार्थराट् 112211 पत्रं पुष्यं फलं वन्यं ग्राम्यं वा दुर्बलोचितम् । समर्पितं समानीय भक्तेन मम तत्प्रियम् ॥ १२॥
14.219
सुगन्धि वाप्यगन्धं वा तुलसीकुसुमादिकम् । समर्पितं भवेत् तृप्त्यै भक्तानां? काङ्क्षितेन मे 11 १३॥। भक्तः सर्वाधिकः प्रियः मत्तस्त्वत्तोऽपि कैलासान्नन्दीशाच्च गजाननात् । स्कन्दादिकात् ततश्चापि भक्त एव प्रियो मम 11 १४॥। अकिञ्चनस्य दान्तस्य शान्तस्य! समचेतसः । सर्वभूतात्मभूतस्य निरपेक्षं मदात्मनः ॥ १५॥
14.220
निस्तरङ्गमहानन्दपारगाः शैवसत्तमाः | नांशांशमपि जानन्ति कामितस्य मम प्रिये ।। १६॥
14.221
- “पाचे प्रथमे सृष्टिखण्डे एकोनविंशाध्याये--अपमाने न कुप्येत संमानेन प्रहष्यति। समदुःखसुखो धोर: स शान्त इति कथ्यते।। इति"-ख. टिप्पणी (पृ. २५६)। ३७४ पारमेश्वरागमः [ द्वाविशः भक्त्या समर्पितमक्षय्यं भवति सुगन्धि शीतलं स्वच्छं वस्त्रपूतं पयो बहु । चुलुकं वा यथाशक्ति तदक्षय्यं मदर्षितम् 11 १७॥ करवीरैविल्वपत्रैर्दूर्वाभिस्तुलसीदलैः । ्रोणैर्मामर्चयेन्नित्यं पञ्ञभि: कुसुमैः शिवे ॥ १८॥
14.222
अशक्तस्तु यथाशक्ति स्तोत्रपूजाजपादिकम् । स्मरणं कीर्तनं ध्यानं नर्तनं चाप्यमायया 1129 11 कर्मणा मनसा वाचा सर्वाशक्तस्य सुन्दरि । नामानुस्मरणं चैव लभ्यं तच्च ममाप्तये ।। Roll तत्राप्यशक्तो यो नित्यं यदश्नाति पिबत्यपि । मम तीर्थप्रसादात्मा मद्युक्तो मामुपैष्यति ।। २९॥
14.223
सद्भक्तिः परमो लाभः अनुष्ठानारसमर्थस्य शक्तस्य तनुदण्डने । सद्भक्तिः परमो लाभो दरिद्रस्य निधिर्यथा ।। २२॥
14.224
औषधं भवरोगस्य पापदावानलाम्बुदः | मद्भक्तिः खभोक्तृणां? भवसन्तप्तचेतसाम् ।। २३॥
14.225
कृतानि यानि धीपूर्वमत्युग्राणि च कोटिशः । मद्भक्तिवडवाग्नौ तु तृणायन्ते न संशयः ।। २४॥
14.226
मोहान्धतमसे घोरे दुःखवैभवकानने | संविधानसमाविष्टः सन्मार्ग भक्तिरेव मे ॥ २५॥
14.227
आलस्येनापि कार्येण परिहासेनरे मायया । मद्भक्तः सन्तरेद् दुःखं व्याजेनाप्यखिलात्मना ॥ २६॥
14.228
सुखेच्छुरभ्यसेद् भक्ति रोगीवौषधमादरात् | ममानपेक्षामव्यग्रः पाथेयमिंव मार्गगः ॥ २७॥
14.229
भक्तो भक्त्या भजेन्मां वै निःसङ्गमतिमाश्रितः । बिज्ञायाखिलवर्णानां योघाचारमिव प्रियम् ॥ २८॥
14.230
३७६ ` पपारमेश्वरागमः [ द्वाविशः ्त्रीपुमानपुमानीशा भक्तिमेवाश्रयन्तु मे। नरके वाधिकारोऽस्ति ऋते मद्भक्तिमुत्तमाम् ।। २९॥
14.231
बहुनात्र किमुक्तेन वक्तव्यं ग्रन्थकोटिभिः | वक्ष्ये शुण्वेकवाक्येन मद्भक्तिः परमा गतिः 1 ३०॥ देव्युवाच रधचीर्न ते नटना लोके चतुरं ते प्रवर्तनम् । धीमयं धीगतिं देवरे धीमहीशानमीश्वरम् 11 ३९॥ देवदेवोत्तम स्वामिन् दीप्यद्द्वादशकोटये | शशिकोटिसुशीताय त्वत्तेजःखनये नमः ॥। ३२॥
14.232
वदात्र परमेशान भक्तिलक्षणमीश्चर । यया ज्ञातभवद्रूपः परामेष्यति निर्वृतिम् ॥ ३३॥
14.233
ईश्वर उवाच भक्तिलक्षणनिरूपणम् कर्मणा मनसा वाचा जाग्रत्स्वप्नसुषुप्तिषु । मदनुस्मरणं !ध्यानं स्तुतिः पूजा रतिः सदा ॥ ३४॥
14.234
मल्लिड्रधारणं भक्तपूजनं लिङ्गपूजनम्ः । अहिंसा सर्वभूतेषु दया मदनुवीक्षणम् ॥ ३५॥
14.235
मल्लिङ्गलिङ्गचिह्वानां दर्शने मयि भक्तितः । अमाययाऽनपेक्षातः शसाष्टाङ्गमभिवादनम् ॥ ३६॥
14.236
गतिं प्रदक्षिणं सर्वां मम सर्वत्र सर्वदा । भावयेच्छयनं सुभ्रु प्रणामं मयि सर्वशः ॥। ३७॥
14.237
उच्चारणं चाक्षराणां मन्नामस्मरणं त्विति । भुक्तपीतादिकं सर्व मत्प्रसादधियाश्नुते 1132 1 1. “शैवे वायवीयसंहितोत्तरभागे एकोनत्रिशाध्याये -“ध्यै चिन्तायां स्मृतो धातुः शिवचिन्ता मुहुर्मुहु:। अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते।।"-ख. टि. (पृ. २५७)। 2. “आगमे-दोर्भ्यां पद्भयां च जानुभ्यामुरसा शिरसा दृशा। मनसा वचसा चेति प्रणामोऽष्टाङ्ग ` :।।' इति। अन्यत्र “पद्भयां कराभ्यां जानुभ्यामुरसा शिरसा दृशा। वचसा मनसा चैव प्रणामोऽष्टाङ्ग ईरितः।।' इति। पञ्चाङ्गप्रणामो यथा- “बाहुभ्यां चैव जानुभ्यां शिरसा वचसा दृशा। पञ्चाङ्गोऽयं प्रणामः स्यात् पूजासु प्रबराविमौ।। जानुभ्यां चैव बाहुभ्यां शिरसा वचसा धिया। पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराविमौ।।"- ख. टिप्पणी (पृ. २५७)। ३७८ पारमेश्वरागमः [ द्वाविंशः सर्वामैन्द्रियकीं वृत्ति मत्सेवायै नियोजयेत् | सम्ग्राप्तमखिलं भोगं मदर्थमिति चार्पयेत् ॥। ३९।।
14.238
कृच्छ्रेपि मनसि क्लेशं न सम्ग्राप्तमनुस्मरेत् | अतिमानुषसम्पत्तावप्युपसर्पेत न क्वचित् । ४०॥
14.239
पुत्रदारधनादीनां सङ्गमः पान्थसङ्गमः | अनुदेहं नियन्त्येते स्वप्नो निद्रानुगो यथा ।। ४९॥
14.240
नेहामुत्र फलं किञ्जिदिच्छेद् भक्तो मम प्रिये । अपि कैवल्यमीशानि मया दत्तमपि क्वचित् N ४२॥। कियती सार्वभौमादिसम्पत्तिश्चाणिमादिका | तृणीकृताणिमाद्यष्टसिद्धेवै भक्तिरंहसाः॥। ४३॥
14.241
दुष्टं श्रुतमनुध्यातं यद् बुद्धया वा कुलेश्वरि । सर्वं मदात्मना? पश्येद् रेयोषाचारमिव प्रियम् ।। ४४ !॥ _ १. सिद्धौ भक्तिमतीशि सा-क. ख.। २. सातू-क.। ३. यथा-क. ख.। दरिद्रस्य 'धनप्राप्तौ यथा स्यात् तन्मतिः शिवे। कामुकस्य यथा काम उभे 'तत्प्रीतिलक्षणे।। ४५॥
14.242
कार्या पदार्थसम्प्रीतिर्भक्तेमोहमयी मतिः। मय्यकामेन सा शुद्धा भक्ति्वै सात्त्विकी मति: 1। ४६ ॥।
14.243
भक्तिदन्तिनमारुह्ण भवश्रभ्यः कदाचन। न बिभेति क्वचिद्धीमान् भक्तिमान् मयि निस्पृहः ।। ४७॥
14.244
जात्यन्धस्य यथा दृष्टिर्दरिद्रस्य यथा निधिः। मूकस्य वचनं रोगपीडितस्यरे यथौषधम्।। ४८॥
14.245
प्राणस्य जीवबनजलमधीरस्य स्वतन्त्रता। तथा दुःखतितीर्षोर्म भक्तिलाभः परः शिवे॥ ४९॥
14.246
व्यबहारस्त्रिरूपोऽपि मयि भक्तिमतः सुखम्। अभक्तस्य परं: दुःखमेष सर्वत्र निश्चयः॥। ५०॥
14.247
३८० पारमेश्वरागमः [ द्वाविंशः देव्युवाच : इदं ma तुभ्यं महदाधाररूपिणे । नमोऽस्तुः जयरूपाय शम्भवे चेतनात्मने URI भक्तिः कथमुत्पद्यते सन्तरेदापदं भक्त्या निरूपितमिति प्रभो | कथमुत्पद्यते सास्य यामाश्रित्य' भवत्प्रियः ॥ ५२॥
14.248
ईश्वर उवाच अपेष्ष्य कामिनीं कामी कुर्यात् कामपदांरै कृतिम् । ता एवान्तवतीर्भुक्त्वा तदन्ते दुःखभाग् भवेत् ।। ५३॥
14.249
भक्तिलाभाय गुरुशुश्रूषणमपेक्षितम् पुरा कृतेन पुण्येन निर्विण्णः सुखसङ्गमे | गुरुं समाश्रयेद् भक्त्या दुःखोत्तरणहेतवे ।। ५४॥
14.250
प्राणार्थमानवसुभिरादरार्थमनुक्रमैः । उपासयित्वा सन्तोष्य जानीयान्मामशेषतः ।। ५५॥
14.251
प्रसाद्य सेवया भक्तो? गुरुं शुश्रूषया प्रिये । त्यक्त्वैषणामसम्यगज्ञः श्रयेद्धक्ति परां मयि? ।। ५६॥
14.252
अशक्तः कामनात्यागे न रेग्रहीतुमपीच्छति । मध्यस्थः श्रीगुरुमुखाज्ज्ञात्वा मामेव संश्रयेत् ॥ ५७॥
14.253
शिवोऽहमिति सम्भाव्य शिव एव भवेद् ध्रुवम् ॥ ५८॥
14.254
तद्यावज्ज्ञायते भकितिर्जानीयान्मामशेषतः । गुरु परिचरेत् तावन्नीचवृत्त्यापि दासवत् ॥ ५९॥
14.255
तदुक्तः परमो मन्त्रः क्रिया तच्चोदिता परा । करणत्रयभावेन विश्वसेद् गुरुमीश्वरम्* ॥। ६०॥
14.256
भकत्यभ्यासाज्ज्ञानयोगयोः समुत्पत्तिः भक्त्यभ्यासात् समुत्पन्नं ज्ञानं च सुटूढं भवेत् । ज्ञानेन योगमाप्नोति ताभ्यां सिद्धो विमुच्यते 11 ६९॥ ३८२ 'पारमेश्वरागम: [ द्वाविश: अभक्तस्योदिता संविद् दुर्लभानर्थकारिणी । तुषापघातिन इव विशेषस्तस्य वै क्रम: ॥ ६२॥
14.257
त्यक्त्वा भक्तिमयी नाकमुत्तर्तुममरापगाम् । 'पारादिवेषन्ः बाहुभ्यामतरिभ्यां महाल्पधीः ।। ६३॥
14.258
विशेषमत्र वक्ष्यामि शृणु देवि समाहिता | कर्मभक्तिचिदात्मानस्त्वधिकारास्त्रयः स्फुटाः ` ।। ६४॥
14.259
आलम्बः कामिनः कर्म ज्ञानं निष्कामिनःरै परम् । विरक्तस्य त्वशक्तस्य भक्तियोगः शिवे मयि । ६५॥
14.260
नेहोतोत्तरसम्भोगमादिप्राप्तेन सज्जते । भुञ्जन् प्रारब्धतः ऽप्राप्तान् मयि भक्तो भवेदश्रुवम् 11 ६६॥। “सुसुखं ज्ञानमुत्पन्नं भक्तस्य सुटूढं भवेत् । न किञ्चिजज्ञानिनः कर्म निषेधो विधिरेव ar | विधियों ज्ञाननिष्ठोऽभूत्स च निस्सङ्गितात्मनः ॥ ६८॥।
14.261
भक्तस्य तु यथाशक्ति निषिद्धं यत्नतस्त्यजेत् । कुर्याद विधेयं प्राबल्ये भक्तिमेवाश्रयेत् सुखी ।। ६९॥
14.262
अन्यथा करणे कार्य प्रायश्चित्तं तु कामिनः । ज्ञानी ज्ञानेन सद्भक्त्या भक्तश्च मयि शुद्धये ॥ ७०॥
14.263
न कर्माधीनता बन्धो' भक्तस्य ज्ञानिनो मम । न विरक्तिर्न चासक्तिः प्रायः श्रेयो भवेत् प्रिये ॥ ७१॥
14.264
देबदानवगन्धर्वयक्षराक्षसमानुषाः | मद्भक्त्यैव तरन्त्युग्रै स्त्रीशूद्रपणुपक्षिण: ।। ७२॥
14.265
न मृत्युर्न जरारोगभयक्लेशाञ्च, हि क्वचित् । भयं पीतामृतस्यैव भक्तस्य 'सुखमेधते 11193 11 ३८४ पारमेश्वरागमः [ द्वाविंश: 1तपस्विभ्योषधिको ज्ञानी ज्ञानिभ्यश्ष मतोऽधिकः । ` कर्मिभ्यक्षापि गिरिजे 'तन्मद्धक्तः सुखी भवेत् 1 ७४॥ अभक्ता दुर्गति लभन्ते दुर्वासनानुबन्धेन विषयत्यागकातराः । मन्मायामोहितधियः पुरुषाः पूर्वकर्मतः ॥। ७५॥।
14.266
राजसा घोरसंकल्पाः कामुका ह्यहिमन्यवः । मोहधूमान्धचक्षुष्काः स्वर्लोकं न विदन्ति ते ॥ ७६॥
14.267
नैव ते मां विजानन्ति हृदिस्थं य रेइमं यत: । अक्षशस्त्रा ह्यसुतृप्ता यथा नीहारचक्षुषः ॥ ७७॥
14.268
अहिता आतुरा वाचा परं पुष्पितयाखिलाः | बध्यन्ते सङ्कटे घोरे मांसलुब्धा इवाण्डजाः ।। ७८॥।
14.269
न रुचिः कर्म 'बन्धानां ज्ञानभक्त्योर्मम प्रिये । ` *चर्माम्भस्तृप्तकुक्षीनां शुनामिव घृतं शुभम् ॥ ७९॥
14.270
अनुपास्य गुरुं भक्त्या त्वनभ्यस्यागमं त्वपि । अभक्ताज्ञानिनः श्रेयः कुत ईयुः परं मम ॥ ८०॥
14.271
भक्ति: सुसाधनं साध्यं ज्ञानं योगाद्विमुक्तये । ` तत्सिद्धस्य वृथा कर्म नीरोगिण इवौषिधम् ॥ ८१॥
14.272
देव्युवाच न कर्म साधनं मुक्तेरभक्तिज्ञनमप्युत | | न एवं यदि मते भेदास्तव शम्भो कथं वद् ॥ ८२॥ | अभक्तलिङ्गधारणान्मुक्तिर्भवति वा? प्राबल्येन विभोर्भक्तिः साध्यते मुक्तिरीश्वर । लिङ्गधारणतः किं स्यादभक्तस्योक्तभक्तितः 1123 11 १, बद्धा-कटि. ख.। २. चर्माम्भा:-क., चर्मास्थि-कटि.। ३८६ पारमेश्वरागमः [ द्वाविश: इदं निरूपय विभो करुणाकर शङ्कर । मम बन्धो दयासिन्धो गन्धेभाजिनभूषण ।। ८४॥।
14.273
ईश्वर उवाच सत्यमुक्तं त्वया देवि शृण्वत्र परमं वचः | मतभेदेषु *चोक्तेषु विशेषं लिङ्गधारणम् tou N लिङ्गधारणतः संसृतिसागरं तरति कर्मादिकारिणः कामं कामिनः कमलानने । कर्मबन्धविमोक्षाय कल्पितो मार्ग ईदूश: ।। ८६॥
14.274
लिङ्गधारणसन्नावी तरेत् संसृतिसागरम् | तत्केन जीयते देवि गहना कर्मणो गतिः ॥। ८७॥
14.275
मतभेदाः सोपानमार्गाः न त्यक्तुं शक्यते यावदेकदैव तनूभृता | तत्सोपानप्रसिद्धयर्थ मतभेदा निरूपिताः ।। ८८॥
14.276
निर्विघ्नेन फलप्राप्त्यै लाभदाढर्यादिसिद्धये | निर्विघ्नाय विशोकाय कर्तव्यं लिङ्गधारणम् ॥ ८९॥
14.277
पूजार्चनादिको भेदश्चोदयायैव शाङ्करि । भक्तेर्ज्ञानस्य दाढर्चाय केवलं त्वाप्तये स्फुटम् 11 ९०॥ परिज्ञानं गुरोः शास्त्रात् स्वरूपस्य ममापि च । पुरुषार्थः परो देवि बन्धनायाखिलं परम् ॥ ९१॥
14.278
आब्रह्मकीटपर्यन्तं भूतजातं मयीक्षयेत् । ममात्मनि द्वित्रितयमेकं चाखण्डमव्ययम् 119211 परं गुह्यं ज्ञानं तदङ्गानि च एतज्ज्ञानं परं गुह्यमन्यदज्ञानमेव तत् । एतदङ्कानि सर्वाणि गुरुशास्त्रमुखानि\ हि ॥ ९३॥
14.279
३८८ पारमेश्वरागमः [ द्वाविंशः विविक्तदेशः “सन्तोषस्तृप्तिराचार्यसेबनम् | अनीहाचारमौनानि स्वाध्यायस्तप आर्जवम् ।। ९४॥
14.280
अहिंसास्तेयसत्यानि 'दयात्मसमताखिले । तितिक्षा चाप्रमादश्च ब्रहमचर्यत्रतं' प्रियम्? ॥ ९५॥
14.281
असन्नीताखिलापेक्षा हीरहंमतिवर्जनम् । स्जातिक्रमविभेदाश्च सुखत्यागोऽन्यसंमतम् ॥ ९६॥।
14.282
यदूच्छालाभविजयस्त्वनपेक्षापि . हस्तगे । स्मृतिरीश्वरचिन्ता च तुष्टिः परहितक्रिया ॥ ९७॥।
14.283
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । सुखदुःखात्मसमता परेषां च द्विषामपि ॥९८॥।
14.284
साक्ष्यवस्थात्रये चापि परोपकृतिचेतनम् | २आत्महितार्थनिर्बन्धः प्रतीकारानपेक्षिता ॥ ९९॥।
14.285
गुरुशास्त्रेशसद्भक्तिरादरो भक्तभक्तिषु | ध्यानं ममाभिधानानामनुस्मरणमन्वहम् ।। १००॥
14.286
तेजस्वितापि वाग्मित्वमप्रागल्भ्यप्रदर्शनम् । असङ्ग आत्मचिन्तानां शिश्नोदरतृषांरे क्वचित् ।। १०१॥।
14.287
अहेरिब गुणाद् भीतिः सङ्गमान्मरणादिव । व्लुणपादिव योषिद्धचो धैर्य पुत्रिषु तेष्वपि ।। १०२॥
14.288
साङ्गस्यैवात्र सम्पूत्तिर्निरङ्गस्याङ्गिता कुतः । ३९० पारमेश्वरागमः [ द्वाविशः शिवे मनःस्थैर्यमेव परमो योगः सर्वथा शृणु विश्वेश परमार्थविनिर्णयम्। सर्वयलेन मनसा? स्थिरीकुर्यान्मनो मयि i १०४॥। एष बै परमो योगो मनसः सङ्ग्रहः शिवे । दम्यस्यैवार्ततो यत्नादुपलब्ध्या मनोज्ञया ॥ १०७५॥।
14.289
जगन्मिथ्येति बुद्ध्वा शिवो भवति एतन्निरूपितं देवि गुणत्रयविकारकम्। जगन्मिथ्यामयं बुद्ध्वा मामाश्रित्य भवेदहम्र 11 १०६॥
14.290
इति श्रीपारमेश्वरतन्त्रे ्श्रीवीरशैवदीक्षाप्रकरणे शिवाद्वैत-
14.291
सिद्धान्ते द्वाविंशतितमः पटलः समाप्तः ।।२२।।