4. Patala 4
4.1
शैवदीक्षाप्रकरणे १ होमप्रकरणं नाम लिङ्गधारणदीक्षानिरूपणम् अथ शृणु महादेवि दीक्षाबन्धनलक्षणम् | सज्जिकागुणलिङ्गानां संयोगक्रममादितः etl सज्जिकागुणलिङ्गानां संयोगक्रमः पुनः संपूज्य तल्लिङ्गं यथाशक्त्युपचारकैः । सज्जिकां च गुणं वस्त्रमुद्वास्य प्रणवेन तत् ॥ २॥
4.2
स्मृत्वा मां मूलमन्त्रेण गुरुरावाह्य सज्जिकाम् । अभिमन्त्र्यानुवाकैस्तैः स्वी कुर्याच्च गुणं ततः ॥। ३॥
4.3
द्विषड्वारं तु मूलेनाभिमन्त्र्याथ नियोजयेत् | सह तारेण मूलेन योजयेत् सज्जिकां गुणम् ॥। ४॥
4.4
तेनैवान्तस्तरेद् वस्त्रं लिङ्गं तेनैव पूजयेत्? | तेनैवोपरि सौवर्ण पूजयेत् पुष्यमुत्तमम् ।। ५॥
4.5
पटल; ] लिङ्गधारणदीक्षानिरूपणम् | ७१ सुवर्णरहितं लिङ्गं धारयेन्न कदाचन । ससुवर्णमभौष्टार्थ कार्य लिङ्गं न संशयः ॥ ६॥
4.6
कपाटं बन्थयेद् देवि मूलेनार्गलयोजनम् | मूलेन सस्त्रमाबद्धत्य सम्प्रदायगुरूक्तितः ॥ ७॥।
4.7
विशिष्ट पूजयेद् देवि ध्यायेत्तां सज्जिकां ततः । मम रूपं परं ध्यात्वा 'स्तुवीतानेन पार्वति ॥ ८॥
4.8
लिङ्गस्तुतिः नमः शिवाय रूद्राय शङ्कराय कपर्दिने | मूडाय नीलकण्ठाय नमो धूर्जटये' नमः ॥९॥
4.9
ॐ नमः परमेशाय नमः ॐकारणरूपिणे । घण्टाप्रियाय शर्वाय सर्वाय शशिमौलये ॥ १०॥
4.10
नमः फणीन्द्रभूषाय तरक्षुगजचर्मिणे । नमो ललाटनेत्राय नमस्ते त्वष्टमूर्तये ॥ १९॥
4.11
नमस्ते पञ्चवक्त्राय नमो मृत्युञ्जयाय तेरै । नमोऽन्धकद्विषे तुभ्यं नमस्ते मेरुधन्विने* ॥ १२॥
4.12
७२ पारमेश्वरागमः [ पञ्चमः नमस्ते पार्वतीशाय गणनायकसूनवे | नमः कुमारपुत्राय नमो गङ्गाधराय ते.॥ १३॥
4.13
नमस्त्रिपुरसंहत्रे नमो विष्णुधवाय ते। नमः शशाङ्कवर्णाय नमस्ते शम्भवे नमः ॥ १४॥
4.14
नम उग्राय वीराय नमः पशुपते हर । पाहि मां गिरिजानाथ क्षमस्व मम विप्रियम् ॥ १५॥
4.15
तिष्ठ देहे मम सदा मम देहे तवात्मताम् । देहि सायुज्यमीशान सौभाग्यं शिव शङ्कर ॥ ९६॥
4.16
इति स्तुत्वाथ तल्लिङ्गं सह सज्जिगुणांशुकम् |
4.17
निक्षिप्य पूर्ववत् पीठे स्तुत्वा नत्वाऽभिषेचयेत् ॥ १७॥।
4.18
लिङ्गाभिषेकः ऋत्विक्चतुष्टययुतो गुरुस्तत्कलशाम्भसा | पीठस्थं यजमानं तमभिषिञ्जेदिमैः क्रमात् ॥ १८॥
4.19
पञ्चानुबाकैस्तारेण मूलमन्त्रेण रुद्रतः । शुद्धवस्त्रधरं भक्तं सर्वालङ्कारसंयुतम् il सहतारेण मूलेन स्वाभिमन्त्याष्टधा गुरुः । विभूतिधारणं भक्तशरीरे स्वयमाचरेत् ॥ २॥
4.20
विभूतिधारणम् आदौ शिरसि मूलेन प्रणवेन! ललाटके | नमः कण्ठेऽक्षियुगले स्वाहा कर्णद्वयांसयोः ॥ २१॥
4.21
वषट् वौषट् भुजद्वन्हे हुं फट् तन्मध्यमाग्रयोः । प्रणवेन हृदीशानि हृदा कण्ठे पराभिधे ॥ २२॥
4.22
तारेण वक्षसि शिवे मूलेनोदरनाभिके | ऊरुजान्वडध्रिजङ्घासु प्रणवेनैव लेपयेत् ॥ २३॥
4.23
रुद्राक्षधारणम् यथाशक्त्याथ रुद्राक्षान् धारयेत्त स्वयं गुरुः | सम्प्रदायानुसारेण दीक्षा रुद्राक्षभस्मनोः ॥ २४॥
4.24
गुरुपूजनम् अथ भक्तो गुरु देवि पूजयेद् भक्तिशक्तितः | मणिकाञ्चनवस्त्राद्यैरर्चयेत् सर्वमीश्वरि ॥ २५॥
4.25
७४ पारमेश्वरागमः [ पञ्चमः गुरोर्दक्षिणपादस्य निबध्याङ्कष्ठमूलके । सूत्राग्रमन्यत् तस्याग्रं गृहीत्वा हस्तयुग्मतः ॥। २६॥
4.26
मन्त्रोपदेशः अथोपदेशं कुर्वीत गुरुः शिष्याय मे मनुम् । सम्प्रदायानुरूपेण यथोक्तेन विधानतः ॥ २७॥।
4.27
इत्थं निर्वर्त्य देवेशि दीक्षा पूर्वाङ्गसंयुताम् । संबघ्नीत गुरुलिंङ्गं देहे शिष्यस्य यत्नतः ॥ २८॥
4.28
कामनाभेदेन लिङ्गधारणस्थाननिर्देशः मोक्षार्थिनः शिखादेशे बाहुमध्ये तु धर्मिणः । कामार्थिनः कटीदेशे कण्ठे सर्वार्थिनः प्रिये ॥ २९॥
4.29
अष्टोत्तरशतं जप्त्वा मम मूलमहामनुम् । आबध्नीत गुरुलिङ्गं `देहे शिष्यस्य यत्नतः ॥। ३०॥
4.30
गायन्तीभिः पुरन्ध्रीभिः सर्ववाद्यविधूणितम् । सन्मङ्कलसमायुक्त यथा विभवविस्तरम् ॥ ३२॥
4.31
१-२. शिष्याय मम शैलजे-क. ख.। लिङ्गधारणदीक्षानिरूपणम् अथ शिष्यो गुरु भक्त्या प्रणमेद् भक्तितः पुरः^ । आशीर्वदेद् गुरुः शिष्यमस्तके हस्तसंयुतः ॥ ३२॥
4.32
सुपुत्रो धनसंपत्तिर्बली शौर्याधिको भव । अथार्चयेत्सभां देवि स्वशक्त्या शिवयोगिनाम् ॥ ३३॥
4.33
दक्षिणांशुकताम्बूलप्रणामाद्यैश्च भक्तितः । निर्मलैरन्नपानाद्चैभोजयेल्लिङ्गधारिणः ॥३४॥
4.34
लब्धदीक्षः शिष्यः सदा लिङ्गपूजां कुर्यात् यथाशक्ति यथाभक्ति सिद्धः शिवमयो जनः । तदाप्रभृति भक्तोऽसौ लिङ्गपूजापरायणः ॥ ३५॥
4.35
समबुद्द्वर्भवेदात्मगुरुलिङ्गशिवेषुः च । त्रिकालमर्चयेल्लिङ्गं रैन्यायार्जितधनादिभिः ॥ ३६॥
4.36
द्विकालमेककालं वा सर्वदा लिङ्गमर्चयेत् । न स्वस्थः संत्यजेत् पूजां नानापद्यनिमित्ततः 11 ३७॥ ७६ पारमेश्वरागमः [ पञ्चमः यदि त्यजति मूढात्मा रौरवं नरकं व्रजेत् | स्नानं तु भस्मना नित्यं सर्वाचारस्य पूर्तये ॥ ३८॥
4.37
नस्पृष्टिबुद्धचया स्नायीत यदि कुर्यात्स पातकी । लिङ्गं मम धृतं येन विनष्टाखिलकर्मणा ॥ ३९॥
4.38
जातिवर्णाश्रमादिनिषेधः ये सन्ति जातिभेदास्तानेकवच्छिवयोगिनः । पश्येदखिलजातिस्थानेकमातसहोदरान् ॥ ४०॥
4.39
न स्त्रीभेदो न पुंभेदो जाति'वर्णाश्रमादिकम् । सर्वातीतमिदं विद्धि वीरशैवमतं मम ॥ ४२॥
4.40
यदनायासतो देवि भोगमोक्षौ करस्थितौ । धारणान्मम लिङ्गस्य पूजनाच्च निरन्तरम् ॥ ४२॥
4.41
लिड्भधारणदीक्षानिरूपणम् लिङ्गपूजनमाहात्म्यम् नान्यत् कर्म न वै कार्य ब्रतमेतन्महच्छिवे | एकस्य द्रोणपुष्पस्य फलं मय्यर्पितस्य तत् ॥ ४३॥
4.42
वक्ष्यामि शृणु देवेशि तदद्वारे किङ्करोऽस्म्यहम् । यद्द्रोणकुसुमैः पूजा मम सन्निधिकारणम् ॥ ४४॥
4.43
ऋणात्तस्य न मोक्ष्यामि कल्पकोटिशतैरपि । यदेकमपि देवेशि बिल्वपत्रं समर्पयेत् ॥ ४५॥
4.44
मम लिङ्गे विशेषेण सदा तिष्ठाम्यसंशयम् । तिलाक्षतैः शमीपत्रैरपामागैः पयोरुहेः ॥ ४६॥
4.45
दूर्वाभिश्चार्चयेन्नित्यमन्यैरपि सुगन्धिभिः । न द्वेषं चिन्तयेल्लिङ्गधारिणे शिवयोगिने ॥ ४७॥
4.46
न बालयुववृद्धादितारतम्यधिया भजेत् । प्रत्युत्तिष्ठेत् तदान्योन्यं दृष्टमात्रेण लिङ्गिनः ॥। ४८॥
4.47
हि न्याय ७८ पारमेश्वरागमः | [ पञ्चमः लिङ्गधारिणामन्योन्यं भेदाभावः अभिवन्देत् तदान्योन्यं न भेदो लिङ्गधारिणाम् । न ब्रह्मचर्यनियमो न वानप्रस्थलक्षणम् ॥ ४९॥
4.48
न संन्यासो न वैराग्यं यदि लिङ्गार्चने रतिः । न मुण्डनं नापि शिखा न शुक्लो नारुणः पटः ॥ ५०॥
4.49
नानेकशाटचेकशाटिः* स्वेच्छाभोगा हि लिङ्गिनः । नित्य-नैमित्तिक-काम्यपूजनम् सामान्येनार्चयेल्लिङ्क नित्यं नित्यक्रमेण तत्^ ॥ ५९॥
4.50
नैमित्तिकेन कुर्वीत काम्यं कामानुसारतः । सार्वत्रिके नित्यपूजां घोडशैरुपचारकैः ॥ ५२॥
4.51
यावल्लब्धं यथाशक्ति नायासस्तत्र विद्यते । १, शारी:-क. ख. ग.। २. ततः-क.। अभिषेकादिकं यावच्छक्ति? कुर्याद् विशेषतः | पृथक्? पृथग् दधिमधुरैसिताक्षीरघृतादिभिः ॥ ५४॥
4.52
अभिषिञ्चेत् प्रयलेन मम लिङ्गं महेश्वरि । अभिषिञ्जेद यथाशक्ति नारिकेलफलोदकैः ॥ ५५॥
4.53
४अन्नेन नवनीतेन मुदुशर्करयापि च । पञ्चामृतैर्यथाशक्ति विशेषेणाभिषेचयेत् ॥ ५६॥
4.54
शीतलैः शुद्धतोयैश्च सुसंशुद्धैः सुगन्धिभिः । थूपदीपसुपुष्पाणि मृदु नैवेद्यमर्पयेत् ॥ ५७॥
4.55
लिङ्गधारिणामर्चनम् अन्नाद्यैरर्चयेद्भक्त्या स्वशक्त्या लिङ्गघारिणः । लिङ्गवस्त्रगुणादीनि दद्याद् यद्यदभीष्सितम् ॥ ५८॥
4.56
स्वर्णताम्बूलपुष्याद्यैर्यथाशक्त्या * समर्चयेत् । स्थाप्य पृच्छेत्ततः सर्व यदि स्यात् संनिधौ गुरोः ॥ ५९॥।
4.57
८० पारमेश्वरागमः [ पञ्चमः सम्पादितं स्वशक्त्या यत् तदुक्तं यत्तदाचरेत्। गुरोस्तु जन्मनक्षत्रे सिद्धिगतदिनेऽपि च॥ ६०॥
4.58
यथाशक्ति यथाभक्ति पूजयेल्लिङ्गधारिणः । न समीक्ष्य क्वचिद्वापि लिङ्गिनं शिवयोगिनम् ॥ R आचारी? वा ह्यनाचारी* लिङ्गी स्यात् स विशिष्यते । धृतलिङ्गमहाभस्मरुद्राक्षाः शिवयोगिनः ॥ ६२।।
4.59
शिवास्ते शिवभक्तत्वादागता इति चिन्तयेत् । यद्यस्ति दूरे वारै देवि शिवयोगी शिवार्चकः ॥ ६३॥
4.60
संप्रार्थ्य कारयेद् धर्मान् यदहं स उमे शृणु । अलाभे गृहिणो वापि ऽह्यर्चेल्लिङ्गिन एव हि ॥ ६४॥
4.61
दीक्षितनियमाः शक्तिमात्रं ५ विशेषेण ह्यशक्तो लिङ्गमर्चयेत् | न खातेन? खनेत् क्वापि न *च्छिन्द्यानौव बन्धयेत् । न वहेच्छिसा भारं न काष्ठं नेतरं लघु ॥ ६६॥
4.62
यदीच्छा कुसुमं धार्यं जटोष्णीषादिभूषणम् । दीक्षितो वीरशैवायां दीक्षायां धृतलिङ्गकः ॥ ६७॥
4.63
न नीचमाचरेत् कर्मर नायासं नापि कुत्सितम् । काम्यार्चनम् अथ काम्यानि कर्माणि वक्ष्यन्ते लिङ्गधारिणः ॥ ६८॥
4.64
यदि स्याद् योगिनीयुक्तस्तदेत्थं ब्रतमाचरेत्। सोमवारे प्रयत्नेन द्रोणपुष्याणि चाहरेत्॥ ६९॥
4.65
अभिमन्त्र्याथ मनुना तानि पञ्चाक्षरेण वै। एकवारं समुच्चार्य मन्त्रं मम समं पुनः ॥ ७०॥
4.66
एकं समर्पयेदेव॑ सहस्रं प्रतिवासरम्। नियमेनैकवर्षान्तमुपोष्या ऋक्षदर्शनात्॥। ७१॥
4.67
. [ पञ्चमः ८२ पारमेश्वरागमः निधिलाभः पुत्रलाभः शिव एव न संशयः । तथैव विल्वपत्रैस्तु भोगमोक्षार्थःसिद्धये ॥ ७२॥
4.68
दूर्वाभी राजसम्मानं कमलैरिष्टकामिनः | तुलसी शत्रुनाशाय धत्तूरै रोगनाशनम् ॥। ७३॥।
4.69
शमी शत्रुविनाशाय कीतिंदा हि तिलाक्षताः । शिवरात्र्यां महादेवि स्नायादस्तमये हृदे ॥ ७४॥
4.70
संस्थाप्य पुरतः? पीठे पूजयेल्लिङ्गमात्मनः | कन्यार्थी पूजयेदककैर्वश्यार्थी तु शमीदलैः ॥। ७५॥
4.71
मोक्षार्थी विल्वजैः पत्रैः स्वार्थी द्रोणसंभवैः | दूर्वाभी राजवश्याय वीर्यायोत्पलजैरपि ॥ ७६॥
4.72
वश्यकामी पयोजातैः सर्वार्थ्यब्जेन सुन्दरि । पुत्रकामी पाटलजैरर्करुच्चाटयेद् रिपून् 11 ७७॥ १, स्वर्गार्थ-ख. ग. घ.। २. करपीठे तु-ख.। श्करवीरैर्भवेद् ज्ञानं विद्या पुन्नागसंभवै: । 'कुरण्टकेर्धनप्राप्तिर्धचूरैर्मारयेदरीन् ॥ ७८॥
4.73
चूतैर्विषविनाशाय ` मधूकैः पशुवृद्धये । चम्पकैर्मित्रलाभाय नीपजैर्निधिसिद्धये ॥ ७९॥
4.74
जातीभिर्भोगसिद्धयर्थ मल्ली संपत्समृद्धये । सर्वाभीष्टार्थसिद्धचर्थ द्रोणपुष्पै: समर्चयेत् ॥ ८०1 तिलाक्षतैर्विल्वदलैर्नित्यपूजां समाचरेत् । अतिथिसत्कारः | यथाशक्त्यर्चयेदन्नैरतिथीन् शिवयोगिनः negu तोषयेत् सर्वयलेन यद्यत्काले समागतम् | प्रत्युत्थानाभिगमनं वन्दनं प्रियमाषणम् ॥ ८२॥
4.75
आसनं चान्नपानादि यथाशक्त्यर्चयेच्छिवे । सर्वाभाकेऽप्यशक्तो वा विनयादिभिरर्चयेत् 112311 ८४ पारमेश्वरागमः [ पञ्चमः कल्याणीं वा वदेद् बाणीं प्रमादः स्यादथान्यथा । यदि चेदवमानेन निराशो निर्गतोऽतिथिः ॥ ८४॥
4.76
इष्टं पूर्त हुतं दत्तं सर्वमादाय गच्छति । अहमेब महेशानि धृत्वा जङ्गमविग्रहम् ॥ ८५॥
4.77
सद्भक्तानुग्रहार्थाय पर्यटामि महीतले । तस्माद्भक्त्या यथाशक्ति पूजयेच्छिवयोगिनः nce जङ्गमार्चनम् थ्यो विजानाति गिरिजे स मामेव न संशयः | अर्चयेज्जङ्गमं धन्यः सन्ध्यायां गृहमागतम् ॥ ८७॥
4.78
लब्धमात्रेण च गृहे शिष्टेन स्वात्मजीवनात् | योऽर्चयेज्जङ्गमान् भक्त्या मामेवार्चितवान् रहि सः ॥ ८८॥
4.79
१, श्लोकयोः (८७-८८) विपर्ययः-ख. ग. घ. ड.। २. नसौ-ख., स हि-ङ.। पटल: | लिङ्गधारणदीक्षानिरूपणम् ८५ ८६ पारमेश्वरागमः [ पञ्चमः नापसव्यं व्रजेदू योगी शिवलिड्री विलोकयन् । श्नाधिरोहेदनड्वाहं रथं वा तुरगं गजम् ।। ९४।॥। यथेच्छं विहरेल्लिङ्गी ह्युपानत्पादुकादिभिः | वृषभं लिङ्गमुद्राङ्कं दृष्ट्या भूमौ खनेन्मृतम् ।। ९५॥
4.80
न स्पर्शयेच्च नोपेक्षेच्छ्बादिभिर्मासलोलुपैः | शैवदीक्षाश्रितो लिङ्गी नैवालिङ्गिनमर्चयेत् ॥ ९६॥
4.81
नैवापेक्षेत तत्पूजामर्चयेदेव लिङ्गिनम् । पूज्योऽपि पूजको वापि लिङ्गिनामेव लिङ्गिभिः ।। ९७॥
4.82
नान्यैर्भयं न चान्येषामाचारोऽयं हि लिङ्गिनाम् । असमानतयाउनर्हान्मन्मताश्रयवर्जनात् IKAT पूज्यपूजककर्मादौ यदयोग्या ह्यालिङ्गिनः | तदद(र्च)ने वा पूजायां दर्शने भाषणेऽपि वा 11 ९९।। संबन्धे संगमे वापि सल्लापे सहभोजने | शयने सहयाने वा सुखदुःखादिषु प्रिये ।। १००।।
4.83
लिङ्गिनां शिवभक्तानां योग्या एव हि लिङ्गिनः । ज्ञानविज्ञानसंपन्नः सर्वसाधनवानपि 11 RI! अशुद्ध एव देवेशि यदालिड्री भवेज्जनः | अशिष्टो 'वा विशिष्टो वा भक्तोऽभक्तोऽपि वा यदि ॥ 20211 अलिङ्गिभ्यो वरो लिङ्गी लोहानामिव काञ्चनम् । किमत्र बहुनोक्तेन शृणु तत्त्वमुमे मम ॥ all वीरशैवमतस्य श्रेष्ठत्वम् सर्वसिद्धान्तसारो हि मन्मताश्रयिणांः TOA यथा देवेष्वहं श्रेष्ठो यथा त्वमनधघे स्त्रियाम् ॥ १०४॥।
4.84
यथाऽपवर्गः प्राप्येषु तथा शैवमतं मम। तत्र सप्तविधानां तु वीरशैवमनुत्तमम्रे ॥ १०५।।
4.85
तदाश्रयाटूते देवि न पुंभिर्लभ्यते सुखम् । र आया जी जा 42 पारमेश्वरागमः [ पञ्चमः शद्वीरशैबमतं तत्र विशेषेण समाश्रयेत् |
4.86
इति ते कथितं देवि वीरशैवमतोत्तमम् ।
4.87
आचारं लक्षणयुतं किं भूयः श्रोतुमिच्छसि 11 १०७॥
4.88
इति श्रीयारमेश्वरतन्त्र शिवाद्वैतसिद्धान्ते वीरशैवदीक्षा-
4.89
पञ्चमः पटलः समाप्तः" ।।५ 11