Books / Saddharma Pundarika Sutra

2. Chapter 1

Verse 1.1

: निदानपरिवर्तः | एवं मया श्रुतम् | एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं द्वादशभिर्भिक्षुशतैः सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरमपारमिताप्राप्तैरभिज्ञाताभिज्ञातैर्महाश्रावकैः | तद्यथा - आयुष्मता च आज्ञातकौण्डिन्येन, आयुष्मता च अश्वजिता, आयुष्मता च बाष्पेण, आयुष्मता च महानाम्ना, आयुष्मता च भद्रिकेण, आयुष्मता च महाकाश्यपेन, आयुष्मता च उरुबिल्वकाश्यपेन, आयुष्मता च नदीकाश्यपेन, आयुष्मता च गयाकाश्यपेन, आयुष्मता च शारिपुत्रेण, आयुष्मता च महामौद्गल्यायनेन, आयुष्मता च महाकात्यायनेन, आयुष्मता च अनिरुद्धेन, आयुष्मता च रेवतेन, आयुष्मता च कप्फिनेन, आयुष्मता च गवांपतिना, आयुष्मता च पिलिन्दवत्सेन, आयुष्मता च बक्कुलेन, आयुष्मता च महाकौष्ठिलेन, आयुष्मता च भरद्वाजेन, आयुष्मता च महानन्देन, आयुष्मता च उपनन्देन, आयुष्मता च सुन्दरनन्देन, आयुष्मता च पूर्णमैत्रायणीपुत्रेण, आयुष्मता च सुभूतिना आयुष्मता च राहुलेन | एभिश्चान्यैश्च महाश्रावकैः - आयुष्मता च आनन्देन शैक्षेण | अन्याभ्यां च द्वाभ्यां भिक्षुसहस्राभ्यां शैक्षाशैक्षाभ्याम् | महाप्रजापतीप्रमुखैश्च षड्भिर्भिक्षुणीसहस्रैः | यशोधरया च भिक्षुण्या राहुलमात्रा सपरिवारया | अशीत्या च बोधिसत्त्वसहस्रैः सार्धं सर्वैरवैवर्तिकैरेकजातिप्रतिबद्धैर्यदुत अनुत्तरायां सम्यक्संबोधौ, धारणीप्रतिलब्धैर्महाप्रतिभानप्रतिष्ठितैरवैवर्त्यधर्मचक्रप्रवर्तकैर्बहुबुद्धशतपर्युपासितैर्बहुबुद्ध शतसहस्रावरोपितकुशलमूलैर्बुद्धशतसहस्रसंस्तुतैर्मैत्रीपरिभावितकायचित्तैस्तथागतज्ञानावतारणकुशलैर्महाप्रज्ञैः प्रज्ञापारमितागतिंगतैर्बहुलोकधातुशतसहस्रविश्रुतैर्बहुप्राणिकोटीनयुतशतसहस्रसंतारकैः | तद्यथा - मञ्जुश्रिया च कुमारभूतेन बोधिसत्त्वेन महासत्त्वेन, अवलोकितेश्वरेण च महास्थामप्राप्तेन च सर्वार्थनाम्ना च नित्योद्युक्तेन च अनिक्षिप्तधुरेण च रत्नपाणिना च भैषज्यराजेन च भैषज्यसमुद्गतेन च व्यूहराजेन च प्रदानशूरेण च रत्नचन्द्रेण च रत्नप्रभेण (वैद्य २) च पूर्णचन्द्रेण च महाविक्रामिणा च अनन्तविक्रामिणा च त्रैलोक्यविक्रामिणा च महाप्रतिभानेन च सततसमिताभियुक्तेन च धरणीधरेण च अक्षयमतिना च पद्मश्रिया च नक्षत्रराजेन च मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन, सिंहेन च बोधिसत्त्वेन महासत्त्वेन | भद्रपालपूर्वंगमैश्च षोडशभिः सत्पुरुषैः सार्धम् | तद्यथा - भद्रपालेन च रत्नाकरेण च सुसार्थवाहेन च नरदत्तेन च गुह्यगुप्तेन च वरुणदत्तेन च इन्द्रदत्तेन च उत्तरमतिना च विशेषमतिना च वर्धमानमतिना च अमोघदर्शिना च सुसंप्रस्थितेन च सुविक्रान्तविक्रामिणा च अनुपममतिना च सूर्यगर्भेण च धरणींधरेण च | एवंप्रमुखैरशीत्या च बोधिसत्त्वसहस्रैः सार्धम् | शक्रेण च देवानामिन्द्रेण सार्धं विंशतिदेवपुत्रसहस्रपरिवारेण | तद्यथा - चन्द्रेण च देवपुत्रेण सूर्येण च देवपुत्रेण समन्तगन्धेन च देवपुत्रेण रत्नप्रभेण च देवपुत्रेण अवभासप्रभेण च देवपुत्रेण | एवंप्रमुखैर्विशत्या च देवपुत्रसहस्रैः | चतुर्भिश्च महाराजैः सार्धं त्रिंशद्देवपुत्रसहस्रपरिवारैः | तद्यथा - विरूढकेन च महाराजेन, विरूपाक्षेण च महाराजेन, धृतराष्ट्रेण च महाराजेन, वैश्रवणेन च महाराजेन | ईश्वरेण च देवपुत्रेण च महेश्वरेण च देवपुत्रेण त्रिंशद्देवपुत्रसहस्रपरिवाराभ्याम् | ब्रह्मणा च सहांपतिना सार्धं द्वादशब्रह्मकायिकदेवपुत्रसहस्रपरिवारेण | तद्यथा - शिखिना च ब्रह्मणा ज्योतिष्प्रभेण च ब्रह्मणा | एवंप्रमुखैर्द्वादशभिश्च ब्रह्मकायिकदेवपुत्रसहस्रैः | अष्टाभिश्च नागराजैः सार्धं बहुनागकोटीशतसहस्रपरिवारैः | तद्यथा - नन्देन च नागराजेन, उपनन्देन च नागराजेन, सागरेण च वासुकिना च तक्षकेण च मनस्विना च अनवतप्तेन च उत्पलकेन च नागराजेन | चतुर्भिश्च किन्नरराजैः सार्धं बहुकिन्नरकोटीशतसहस्रपरिवारैः | तद्यथा - द्रुमेण च किन्नरराजेन, महाधर्मेण च किन्नरराजेन, सुधर्मेण च किन्नरराजेन, धर्मधरेण च किन्नरराजेन | चतुर्भिश्च गन्धर्वकायिकदेवपुत्रैः सार्धं बहुगन्धर्वशतसहस्रपरिवारैः | तद्यथा - मनोज्ञेन च गन्धर्वेण मनोज्ञस्वरेण च मधुरेण च मधुरस्वरेण च गन्धर्वेण | चतुर्भिश्चासुरेन्द्रैः सार्धं बह्वसुरकोटीशतसहस्रपरिवारैः | तद्यथा - बलिना च असुरेन्द्रेण, खरस्कन्धेन च असुरेन्द्रेण, वेमचित्रिणा च असुरेन्द्रेण, राहुणा च असुरेन्द्रेण | चतुर्भिश्च गरुडेन्द्रैः सार्धं बहुगरुडकोटीशतसहस्रपरिवारैः | तद्यथा - महातेजसा च गरुडेन्द्रेण, महाकायेन च महापूर्णेन च महर्द्धिप्राप्तेन च गरुडेन्द्रेण | राज्ञा च अजातशत्रुणा मागधेन वैदेहीपुत्रेण सार्धम् || तेन खलु पुनः समयेन भगवांश्चतसृभिः पर्षद्भिः परिवृतः पुरस्कृतः सत्कृतो गुरुकृतो मानितः पूजितो ऽर्चितो ऽपचायितो महानिर्देशं नाम धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं भाषित्वा तस्मिन्नेव महाधर्मासने पर्यङ्कमाभुज्य अनन्तनिर्देशप्रतिष्ठानं नाम समाधिं समापन्नो ऽभूदनिञ्जमानेन कायेन स्थितो ऽनिञ्जप्राप्तेन च चित्तेन | समनन्तरसमापन्नस्य खलु पुनर्भगवतो मान्दारवमहामान्दारवाणां मञ्जूषकमहामञ्जूषकाणां दिव्यानां पुष्पाणां महत्पुष्पवर्षमभिप्रावर्षत्, भगवन्तं ताश्च चतस्रः पर्षदो ऽभ्यवाकिरन् | (वैद्य ३) सर्वावच्च बुद्धक्षेत्रं षड्विकारं प्रकम्पितमभूच्चलितं संप्रचलितं वेधितं संप्रवेधितं क्षुभितं संप्रक्षुभितम् | तेन खलु पुनः समयेन तस्यां पर्षदि भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याः संनिपतिता अभूवन् संनिषण्णाः, राजानश्च मण्डलिनो बलचक्रवर्तिनश्चतुर्द्वीपकचक्रवर्तिनश्च | ते सर्वे सपरिवारा भगवन्तं व्यवलोकयन्ति स्म आश्चर्यप्राप्ता अद्भुतप्राप्ता औद्बिल्यप्राप्ताः || अथ खलु तस्यां वेलायां भगवतो भ्रूविवरान्तरादूर्णाकोशादेका रश्मिर्निश्चरिता | सा पूर्वस्यां दिशि अष्टादशबुद्धक्षेत्रसहस्राणि प्रसृता | तानि च सर्वाणि बुद्धक्षेत्राणि तस्या रश्मेः प्रभया सुपरिस्फुटानि संदृश्यन्ते स्म यावदवीचिर्महानिरयो यावच्च भवाग्रम् | ये च तेषु बुद्धक्षेत्रेषु षट्सु गतिषु सत्त्वाः संविद्यन्ते स्म, ते सर्वे ऽशेषेण संदृश्यन्ते स्म | ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति च, ते ऽपि सर्वे संदृश्यन्ते स्म | यं च ते बुद्धा भगवन्तो धर्मं देशयन्ति, स च सर्वो निखिलेन श्रूयते स्म | ये च तेषु बुद्धक्षेत्रेषु भिक्षुभिक्षुण्युपासकोपासिका योगिनो योगाचाराः प्राप्तफलाश्चाप्राप्तफलाश्च, ते ऽपि सर्वे संदृश्यन्ते स्म | ये च तेषु बुद्धक्षेत्रेषु बोधिसत्त्वा महासत्त्वा अनेकविविधश्रवणारम्बणाधिमुक्तिहेतुकारणैरुपायकौशल्यैर्बोधिसत्त्वचर्यां चरन्ति, ते ऽपि सर्वे संदृश्यन्ते स्म | ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तः परिनिर्वृताः, ते ऽपि सर्वे संदृश्यन्ते स्म | ये च तेषु बुद्धक्षेत्रेषु परिनिर्वृतानां बुद्धानां भगवतां धातुस्तूपा रत्नमयाः ते ऽपि सर्वे संदृश्यन्ते स्म || अथ खलु मैत्रेयस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत् - महानिमित्तं प्रातिहार्यं बतेदं तथागतेन कृतम् | को न्वत्र हेतुर्भविष्यति किं कारणं यद्भगवता इदमेवंरूपं महानिमित्तं प्रातिहार्यं कृतम्? भगवांश्च समाधिं समापन्नः | इमानि चैवंरूपाणि महाश्चर्याद्भुताचिन्त्यानि महर्द्धिप्रातिहार्याणि संदृश्यन्ते स्म | किं नु खल्वहमेतमर्थं परिप्रष्टव्यं परिपृच्छेयम्? को न्वत्र समर्थः स्यादेतमर्थं विसर्जयितुम्? तस्यैतदभूत् - अयं मञ्जुश्रीः कुमारभूतः पूर्वजिनकृताधिकारो ऽवरोपितकुशलमूलो बहुबुद्धपर्युपासितः | दृष्टपूर्वाणि च अनेन मञ्जुश्रिया कुमारभूतेन पूर्वकाणां तथागतानामर्हतां सम्यक्संबुद्धानामेवंरूपाणि निमित्तानि भविष्यन्ति, अनुभूतपूर्वाणि च महाधर्मसांकथ्यानि | यन्न्वहं मञ्जुश्रियं कुमारभूतमेतमर्थं परिपृच्छेयम् || तासां चतसृणां पर्षदां भिक्षुभिक्षुण्युपासकोपासिकानां बहूनां च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याणामिममेवंरूपं भगवतो महानिमित्तं प्रातिहार्यावभासं दृष्ट्वा आश्चर्यप्राप्तानामद्भुतप्राप्तानां कौतूहलप्राप्तानामेतदभवत् - किं नु खलु वयमिममेवंरूपं भगवतो महर्द्धिप्रातिहार्यावभासं कृतं परिपृच्छेम? अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वस्तस्मिन्नेव क्षणलवमुहूर्ते तासां चतसृणां पर्षदां चेतसैव चेतःपरिवितर्कमाज्ञाय आत्मना च धर्मसंशयप्राप्तस्तस्यां वेलायां मञ्जुश्रियं (वैद्य ४) कुमारभूतमेतदवोचत् - को न्वत्र मञ्जुश्रीर्हेतुः कः प्रत्ययो यदयमेवंरूप आश्चर्याद्भुतो भगवता ऋद्धयवभासः कृतः, इमानि चाष्टादशबुद्धक्षेत्रसहस्राणि विचित्राणि दर्शनीयानि परमदर्शनीयानि तथागतपूर्वंगमानि तथागतपरिणायकानि संदृश्यन्ते? अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो मञ्जुश्रियं कुमारभूतमाभिर्गाथाभिरध्यभाषत - किं कारणं मञ्जुशिरी इयं हि रश्मिः प्रमुक्ता नरनायकेन । प्रभासयन्ती भ्रमुकान्तरातु ऊर्णाय कोशादियमेकरश्मिः ॥ १.१ ॥

: nidānaparivartaḥ | evaṃ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptairabhijñātābhijñātairmahāśrāvakaiḥ | tadyathā - āyuṣmatā ca ājñātakauṇḍinyena, āyuṣmatā ca aśvajitā, āyuṣmatā ca bāṣpeṇa, āyuṣmatā ca mahānāmnā, āyuṣmatā ca bhadrikeṇa, āyuṣmatā ca mahākāśyapena, āyuṣmatā ca urubilvakāśyapena, āyuṣmatā ca nadīkāśyapena, āyuṣmatā ca gayākāśyapena, āyuṣmatā ca śāriputreṇa, āyuṣmatā ca mahāmaudgalyāyanena, āyuṣmatā ca mahākātyāyanena, āyuṣmatā ca aniruddhena, āyuṣmatā ca revatena, āyuṣmatā ca kapphinena, āyuṣmatā ca gavāṃpatinā, āyuṣmatā ca pilindavatsena, āyuṣmatā ca bakkulena, āyuṣmatā ca mahākauṣṭhilena, āyuṣmatā ca bharadvājena, āyuṣmatā ca mahānandena, āyuṣmatā ca upanandena, āyuṣmatā ca sundaranandena, āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa, āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena | ebhiścānyaiśca mahāśrāvakaiḥ - āyuṣmatā ca ānandena śaikṣeṇa | anyābhyāṃ ca dvābhyāṃ bhikṣusahasrābhyāṃ śaikṣāśaikṣābhyām | mahāprajāpatīpramukhaiśca ṣaḍbhirbhikṣuṇīsahasraiḥ | yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā | aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvairavaivartikairekajātipratibaddhairyaduta anuttarāyāṃ samyaksaṃbodhau, dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitairavaivartyadharmacakrapravartakairbahubuddhaśataparyupāsitairbahubuddha śatasahasrāvaropitakuśalamūlairbuddhaśatasahasrasaṃstutairmaitrīparibhāvitakāyacittaistathāgatajñānāvatāraṇakuśalairmahāprajñaiḥ prajñāpāramitāgatiṃgatairbahulokadhātuśatasahasraviśrutairbahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ | tadyathā - mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena, avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca ratnaprabheṇa (vaidya 2) ca pūrṇacandreṇa ca mahāvikrāmiṇā ca anantavikrāmiṇā ca trailokyavikrāmiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇīdhareṇa ca akṣayamatinā ca padmaśriyā ca nakṣatrarājena ca maitreyeṇa ca bodhisattvena mahāsattvena, siṃhena ca bodhisattvena mahāsattvena | bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham | tadyathā - bhadrapālena ca ratnākareṇa ca susārthavāhena ca naradattena ca guhyaguptena ca varuṇadattena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṃprasthitena ca suvikrāntavikrāmiṇā ca anupamamatinā ca sūryagarbheṇa ca dharaṇīṃdhareṇa ca | evaṃpramukhairaśītyā ca bodhisattvasahasraiḥ sārdham | śakreṇa ca devānāmindreṇa sārdhaṃ viṃśatidevaputrasahasraparivāreṇa | tadyathā - candreṇa ca devaputreṇa sūryeṇa ca devaputreṇa samantagandhena ca devaputreṇa ratnaprabheṇa ca devaputreṇa avabhāsaprabheṇa ca devaputreṇa | evaṃpramukhairviśatyā ca devaputrasahasraiḥ | caturbhiśca mahārājaiḥ sārdhaṃ triṃśaddevaputrasahasraparivāraiḥ | tadyathā - virūḍhakena ca mahārājena, virūpākṣeṇa ca mahārājena, dhṛtarāṣṭreṇa ca mahārājena, vaiśravaṇena ca mahārājena | īśvareṇa ca devaputreṇa ca maheśvareṇa ca devaputreṇa triṃśaddevaputrasahasraparivārābhyām | brahmaṇā ca sahāṃpatinā sārdhaṃ dvādaśabrahmakāyikadevaputrasahasraparivāreṇa | tadyathā - śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā | evaṃpramukhairdvādaśabhiśca brahmakāyikadevaputrasahasraiḥ | aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ | tadyathā - nandena ca nāgarājena, upanandena ca nāgarājena, sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena | caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ | tadyathā - drumeṇa ca kinnararājena, mahādharmeṇa ca kinnararājena, sudharmeṇa ca kinnararājena, dharmadhareṇa ca kinnararājena | caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṃ bahugandharvaśatasahasraparivāraiḥ | tadyathā - manojñena ca gandharveṇa manojñasvareṇa ca madhureṇa ca madhurasvareṇa ca gandharveṇa | caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ | tadyathā - balinā ca asurendreṇa, kharaskandhena ca asurendreṇa, vemacitriṇā ca asurendreṇa, rāhuṇā ca asurendreṇa | caturbhiśca garuḍendraiḥ sārdhaṃ bahugaruḍakoṭīśatasahasraparivāraiḥ | tadyathā - mahātejasā ca garuḍendreṇa, mahākāyena ca mahāpūrṇena ca maharddhiprāptena ca garuḍendreṇa | rājñā ca ajātaśatruṇā māgadhena vaidehīputreṇa sārdham || tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūdaniñjamānena kāyena sthito 'niñjaprāptena ca cittena | samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat, bhagavantaṃ tāśca catasraḥ parṣado 'bhyavākiran | (vaidya 3) sarvāvacca buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūccalitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ saṃprakṣubhitam | tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca | te sarve saparivārā bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ || atha khalu tasyāṃ velāyāṃ bhagavato bhrūvivarāntarādūrṇākośādekā raśmirniścaritā | sā pūrvasyāṃ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā | tāni ca sarvāṇi buddhakṣetrāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma yāvadavīcirmahānirayo yāvacca bhavāgram | ye ca teṣu buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma, te sarve 'śeṣeṇa saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti ca, te 'pi sarve saṃdṛśyante sma | yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti, sa ca sarvo nikhilena śrūyate sma | ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāścāprāptaphalāśca, te 'pi sarve saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhaśravaṇārambaṇādhimuktihetukāraṇairupāyakauśalyairbodhisattvacaryāṃ caranti, te 'pi sarve saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ parinirvṛtāḥ, te 'pi sarve saṃdṛśyante sma | ye ca teṣu buddhakṣetreṣu parinirvṛtānāṃ buddhānāṃ bhagavatāṃ dhātustūpā ratnamayāḥ te 'pi sarve saṃdṛśyante sma || atha khalu maitreyasya bodhisattvasya mahāsattvasyaitadabhūt - mahānimittaṃ prātihāryaṃ batedaṃ tathāgatena kṛtam | ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtam? bhagavāṃśca samādhiṃ samāpannaḥ | imāni caivaṃrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṃdṛśyante sma | kiṃ nu khalvahametamarthaṃ paripraṣṭavyaṃ paripṛccheyam? ko nvatra samarthaḥ syādetamarthaṃ visarjayitum? tasyaitadabhūt - ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhaparyupāsitaḥ | dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanti, anubhūtapūrvāṇi ca mahādharmasāṃkathyāni | yannvahaṃ mañjuśriyaṃ kumārabhūtametamarthaṃ paripṛccheyam || tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇāmimamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānāmadbhutaprāptānāṃ kautūhalaprāptānāmetadabhavat - kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema? atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ (vaidya 4) kumārabhūtametadavocat - ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhayavabhāsaḥ kṛtaḥ, imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante? atha khalu maitreyo bodhisattvo mahāsattvo mañjuśriyaṃ kumārabhūtamābhirgāthābhiradhyabhāṣata - kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena / prabhāsayantī bhramukāntarātu ūrṇāya kośādiyamekaraśmiḥ (1.1)

Verse 1.2

।। मान्दारवाणां च महन्त वर्षं पुष्पाणि मुञ्चन्ति सुराः सुहृष्टाः । मञ्जूषकांश्चन्दनचूर्णमिश्रान् दिव्यान् सुगन्धांश्च मनोरमांश्च ॥ १.२ ॥

// māndāravāṇāṃ ca mahanta varṣaṃ puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ / mañjūṣakāṃścandanacūrṇamiśrān divyān sugandhāṃśca manoramāṃśca (1.2)

Verse 1.3

।। येही मही शोभतियं समन्तात् पर्षाश्च चत्वार सुलब्धहर्षाः । सर्वं च क्षेत्रं इमु संप्रकम्पितं षड्भिर्विकारेहि सुभीष्मरूपम् ॥ १.३ ॥

// yehī mahī śobhatiyaṃ samantāt parṣāśca catvāra sulabdhaharṣāḥ / sarvaṃ ca kṣetraṃ imu saṃprakampitaṃ ṣaḍbhirvikārehi subhīṣmarūpam (1.3)

Verse 1.4

।। सा चैव रश्मी पुरिमादिशाय अष्टादशक्षेत्रसहस्र पूर्णाः । अवभासयी एकक्षणेन सर्वे सुवर्णवर्णा इव भोन्ति क्षेत्राः ॥ १.४ ॥

// sā caiva raśmī purimādiśāya aṣṭādaśakṣetrasahasra pūrṇāḥ / avabhāsayī ekakṣaṇena sarve suvarṇavarṇā iva bhonti kṣetrāḥ (1.4)

Verse 1.5

।। यावानवीची परमं भवाग्रं क्षेत्रेषु यावन्ति च तेषु सत्त्वाः । षट्सू गतीषू तहि विद्यमाना च्यवन्ति ये चाप्युपपद्यि तत्र ॥ १.५ ॥

// yāvānavīcī paramaṃ bhavāgraṃ kṣetreṣu yāvanti ca teṣu sattvāḥ / ṣaṭsū gatīṣū tahi vidyamānā cyavanti ye cāpyupapadyi tatra (1.5)

Verse 1.6

।। कर्माणि चित्रा विविधानि तेषांगतीषु दृश्यन्ति सुखा दुखा च । हीना प्रणीता तथ मध्यमा च इह स्थितो अद्दशि सर्वमेतत् ॥ १.६ ॥

// karmāṇi citrā vividhāni teṣāṃgatīṣu dṛśyanti sukhā dukhā ca / hīnā praṇītā tatha madhyamā ca iha sthito addaśi sarvametat (1.6)

Verse 1.7

।। बुद्धांश्च पश्यामि नरेन्द्रसिंहान् प्रकाशयन्तो विवरन्ति धर्मम् । प्रशासमानान् बहुसत्त्वकोटीः उदाहरन्तो मधुरस्वरां गिरम् ॥ १.७ ॥

// buddhāṃśca paśyāmi narendrasiṃhān prakāśayanto vivaranti dharmam / praśāsamānān bahusattvakoṭīḥ udāharanto madhurasvarāṃ giram (1.7)

Verse 1.8

।। गम्भीरनिर्घोषमुदारमद्भुतं मुञ्चन्ति क्षेत्रेषु स्वकस्वकेषु । दृष्टान्तहेतूनयुतान कोटिभिः प्रकाशयन्तो इमु बुद्धधर्मम् ॥ १.८ ॥

// gambhīranirghoṣamudāramadbhutaṃ muñcanti kṣetreṣu svakasvakeṣu / dṛṣṭāntahetūnayutāna koṭibhiḥ prakāśayanto imu buddhadharmam (1.8)

Verse 1.9

।। दुःखेन संपीडित ये च सत्त्वा जातीजराखिन्नमना अजानकाः । तेषां प्रकाशेन्ति प्रशान्तनिर्वृतिं दुःखस्य अन्तो अयु भिक्षवे ति ॥ १.९ ॥

// duḥkhena saṃpīḍita ye ca sattvā jātījarākhinnamanā ajānakāḥ / teṣāṃ prakāśenti praśāntanirvṛtiṃ duḥkhasya anto ayu bhikṣave ti (1.9)

Verse 1.10

।। उदारस्थामाधिगताश्च ये नराः पुण्यैरुपेतास्तथ बुद्धदर्शनैः । प्रत्येकयानं च वदन्ति तेषां संवर्णयन्तो इम धर्मनेत्रीम् ॥ १.१० ॥

// udārasthāmādhigatāśca ye narāḥ puṇyairupetāstatha buddhadarśanaiḥ / pratyekayānaṃ ca vadanti teṣāṃ saṃvarṇayanto ima dharmanetrīm (1.10)

Verse 1.11

।। ये चापि अन्ये सुगतस्य पुत्रा अनुत्तरं ज्ञान गवेषमाणाः । विविधां क्रियां कुर्विषु सर्वकालं तेषां पि बोधाय वदन्ति वर्णम् ॥ १.११ ॥

// ye cāpi anye sugatasya putrā anuttaraṃ jñāna gaveṣamāṇāḥ / vividhāṃ kriyāṃ kurviṣu sarvakālaṃ teṣāṃ pi bodhāya vadanti varṇam (1.11)

Verse 1.12

।। शृणोमि पश्यामि च मञ्जुघोष इह स्थितो ईदृशकानि तत्र । अन्या विशेषाण सहस्रकोट्यः प्रदेशमात्रं ततु वर्णयिष्ये ॥ १.१२ ॥

// śṛṇomi paśyāmi ca mañjughoṣa iha sthito īdṛśakāni tatra / anyā viśeṣāṇa sahasrakoṭyaḥ pradeśamātraṃ tatu varṇayiṣye (1.12)

Verse 1.13

।। पश्यामि क्षेत्रेषु बहूषु चापि ये बोधिसत्त्वा यथ गङ्गवालिकाः । कोटीसहस्राणि अनल्पकानि विविधेन वीर्येण जनेन्ति बोधिम् ॥ १.१३ ॥

// paśyāmi kṣetreṣu bahūṣu cāpi ye bodhisattvā yatha gaṅgavālikāḥ / koṭīsahasrāṇi analpakāni vividhena vīryeṇa janenti bodhim (1.13)

Verse 1.14

।। ददन्ति दानानि तथैव केचिद् धनं हिरण्यं रजतं सुवर्णम् । मुक्तामणिं शङ्खशिलाप्रवालं दासांश्च दासी रथअश्वएडकान् ॥ १.१४ ॥

// dadanti dānāni tathaiva kecid dhanaṃ hiraṇyaṃ rajataṃ suvarṇam / muktāmaṇiṃ śaṅkhaśilāpravālaṃ dāsāṃśca dāsī rathaaśvaeḍakān (1.14)

Verse 1.15

।। शिबिकास्तथा रत्नविभूषिताश्च ददन्ति दानानि प्रहृष्टमानसाः । परिणामयन्तो इह अग्रबोधौ वयं हि यानस्य भवेम लाभिनः ॥ १.१५ ॥

// śibikāstathā ratnavibhūṣitāśca dadanti dānāni prahṛṣṭamānasāḥ / pariṇāmayanto iha agrabodhau vayaṃ hi yānasya bhavema lābhinaḥ (1.15)

Verse 1.16

।। त्रैधातुके श्रेष्ठविशिष्टयानं यद्बुद्धयानं सुगतेहि वर्णितम् । अहं पि तस्यो भवि क्षिप्र लाभी ददन्ति दानानि इमीदृशानि ॥ १.१६ ॥

// traidhātuke śreṣṭhaviśiṣṭayānaṃ yadbuddhayānaṃ sugatehi varṇitam / ahaṃ pi tasyo bhavi kṣipra lābhī dadanti dānāni imīdṛśāni (1.16)

Verse 1.17

।। चतुर्हयैर्युक्तरथांश्च केचित् सवेदिकान् पुष्पध्वजैरलंकृतान् । सवैजयन्तान् रतनामयानि ददन्ति दानानि तथैव केचित् ॥ १.१७ ॥

// caturhayairyuktarathāṃśca kecit savedikān puṣpadhvajairalaṃkṛtān / savaijayantān ratanāmayāni dadanti dānāni tathaiva kecit (1.17)

Verse 1.18

।। ददन्ति पुत्रांश्च तथैव पुत्रीः प्रियाणि मांसानि ददन्ति केचित् । हस्तांश्च पादांश्च ददन्ति याचिताः पर्येषमाणा इममग्रबोधिम् ॥ १.१८ ॥

// dadanti putrāṃśca tathaiva putrīḥ priyāṇi māṃsāni dadanti kecit / hastāṃśca pādāṃśca dadanti yācitāḥ paryeṣamāṇā imamagrabodhim (1.18)

Verse 1.19

।। शिरांसि केचिन्नयनानि केचिद् ददन्ति केचित्प्रवरात्मभावान् । दत्वा च दानानि प्रसन्नचित्ताः प्रार्थेन्ति ज्ञानं हि तथागतानाम् ॥ १.१९ ॥

// śirāṃsi kecinnayanāni kecid dadanti kecitpravarātmabhāvān / datvā ca dānāni prasannacittāḥ prārthenti jñānaṃ hi tathāgatānām (1.19)

Verse 1.20

।। पश्याम्यहं मञ्जुशिरी कहिंचित् स्फीतानि राज्यानि विवर्जयित्वा । अन्तःपुरान् द्वीप तथैव सर्वान् अमात्यज्ञातींश्च विहाय सर्वान् ॥ १.२० ॥

// paśyāmyahaṃ mañjuśirī kahiṃcit sphītāni rājyāni vivarjayitvā / antaḥpurān dvīpa tathaiva sarvān amātyajñātīṃśca vihāya sarvān (1.20)

Verse 1.21

।। उपसंक्रमी लोकविनायकेषु पृच्छन्ति धर्मं प्रवरं शिवाय । काषायवस्त्राणि च प्रावरन्ति केशांश्च श्मश्रूण्यवतारयन्ति ॥ १.२१ ॥

// upasaṃkramī lokavināyakeṣu pṛcchanti dharmaṃ pravaraṃ śivāya / kāṣāyavastrāṇi ca prāvaranti keśāṃśca śmaśrūṇyavatārayanti (1.21)

Verse 1.22

।। कांश्चिच्च पश्याम्यहु बोधिसत्त्वान् भिक्षू समानाः पवने वसन्ति । शून्यान्यरण्यानि निषेवमाणान् उद्देशस्वाध्यायरतांश्च कांश्चित् ॥ १.२२ ॥

// kāṃścicca paśyāmyahu bodhisattvān bhikṣū samānāḥ pavane vasanti / śūnyānyaraṇyāni niṣevamāṇān uddeśasvādhyāyaratāṃśca kāṃścit (1.22)

Verse 1.23

।। कांश्चिच्च पश्याम्यहु बोधिसत्त्वान् गिरिकन्दरेषु प्रविशन्ति धीराः । विभावयन्तो इमु बुद्धज्ञानं परिचिन्तयन्तो ह्युपलक्षयन्ति ॥ १.२३ ॥

// kāṃścicca paśyāmyahu bodhisattvān girikandareṣu praviśanti dhīrāḥ / vibhāvayanto imu buddhajñānaṃ paricintayanto hyupalakṣayanti (1.23)

Verse 1.24

।। उत्सृज्य कामांश्च अशेषतो ऽन्ये परिभावितात्मान विशुद्धगोचराः । अभिज्ञ पञ्चेह च स्पर्शयित्वा वसन्त्यरण्ये सुगतस्य पुत्राः ॥ १.२४ ॥

// utsṛjya kāmāṃśca aśeṣato 'nye paribhāvitātmāna viśuddhagocarāḥ / abhijña pañceha ca sparśayitvā vasantyaraṇye sugatasya putrāḥ (1.24)

Verse 1.25

।। पादैः समैः स्थित्विह केचि धीराः कृताञ्जली संमुखि नायकानाम् । अभिस्तवन्तीह हर्षं जनित्वा गाथासहस्रेहि जिनेन्द्रराजम् ॥ १.२५ ॥

// pādaiḥ samaiḥ sthitviha keci dhīrāḥ kṛtāñjalī saṃmukhi nāyakānām / abhistavantīha harṣaṃ janitvā gāthāsahasrehi jinendrarājam (1.25)

Verse 1.26

।। स्मृतिमन्त दान्ताश्च विशारदाश्च सूक्ष्मां चरिं केचि प्रजानमानाः । पृच्छन्ति धर्मं द्विपदोत्तमानां श्रुत्वा च ते धर्मधरा भवन्ति ॥ १.२६ ॥

// smṛtimanta dāntāśca viśāradāśca sūkṣmāṃ cariṃ keci prajānamānāḥ / pṛcchanti dharmaṃ dvipadottamānāṃ śrutvā ca te dharmadharā bhavanti (1.26)

Verse 1.27

।। परिभावितात्मान जिनेन्द्रपुत्रान् कांश्चिच्च पश्याम्यहु तत्र तत्र । धर्मं वदन्तो बहुप्राणकोटिनां दृष्टान्तहेतूनयुतैरनेकैः ॥ १.२७ ॥

// paribhāvitātmāna jinendraputrān kāṃścicca paśyāmyahu tatra tatra / dharmaṃ vadanto bahuprāṇakoṭināṃ dṛṣṭāntahetūnayutairanekaiḥ (1.27)

Verse 1.28

।। प्रामोद्यजाताः प्रवदन्ति धर्मं समादपेन्तो बहुबोधिसत्त्वान् । निहत्य मारं सबलं सवाहनं पराहनन्ती इमु धर्मदुन्दुभिम् ॥ १.२८ ॥

// prāmodyajātāḥ pravadanti dharmaṃ samādapento bahubodhisattvān / nihatya māraṃ sabalaṃ savāhanaṃ parāhanantī imu dharmadundubhim (1.28)

Verse 1.29

।। पश्यामि कांश्चित् सुगतस्य शासने संपूजितान्नरमरुयक्षराक्षसैः । अविस्मयन्तान् सुगतस्य पुत्रान् अनुन्नतान् शान्तप्रशान्तचारीन् ॥ १.२९ ॥

// paśyāmi kāṃścit sugatasya śāsane saṃpūjitānnaramaruyakṣarākṣasaiḥ / avismayantān sugatasya putrān anunnatān śāntapraśāntacārīn (1.29)

Verse 1.30

।। वनषण्ड निश्राय तथान्यरूपा अवभासु कायातु प्रमुञ्चमानाः । अभ्युद्धरन्तो नरकेषु सत्त्वांस्तांश्चैव बोधाय समादपेन्ति ॥ १.३० ॥

// vanaṣaṇḍa niśrāya tathānyarūpā avabhāsu kāyātu pramuñcamānāḥ / abhyuddharanto narakeṣu sattvāṃstāṃścaiva bodhāya samādapenti (1.30)

Verse 1.31

।। वीर्ये स्थिताः केचि जिनस्य पुत्रा मिद्धं जहित्वा च अशेषतो ऽन्ये । चंक्रम्ययुक्ताः पवने वसन्ति वीर्येण ते प्रस्थित अग्रबोधिम् ॥ १.३१ ॥

// vīrye sthitāḥ keci jinasya putrā middhaṃ jahitvā ca aśeṣato 'nye / caṃkramyayuktāḥ pavane vasanti vīryeṇa te prasthita agrabodhim (1.31)

Verse 1.32

।। ये चात्र रक्षन्ति सदा विशुद्धं शीलं अखण्डं मणिरत्नसादृशम् । परिपूर्णचारी च भवन्ति तत्र शीलेन ते प्रस्थित अग्रबोधिम् ॥ १.३२ ॥

// ye cātra rakṣanti sadā viśuddhaṃ śīlaṃ akhaṇḍaṃ maṇiratnasādṛśam / paripūrṇacārī ca bhavanti tatra śīlena te prasthita agrabodhim (1.32)

Verse 1.33

।। क्षान्तीबला केचि जिनस्य पुत्रा अधिमानप्राप्तान क्षमन्ति भिक्षुणाम् । आक्रोश परिभाष तथैव तर्जनां क्षान्त्या हि ते प्रस्थित अग्रबोधिम् ॥ १.३३ ॥

// kṣāntībalā keci jinasya putrā adhimānaprāptāna kṣamanti bhikṣuṇām / ākrośa paribhāṣa tathaiva tarjanāṃ kṣāntyā hi te prasthita agrabodhim (1.33)

Verse 1.34

।। कांश्चिच्च पश्याम्यहु बोधिसत्त्वान् क्रीडारतिं सर्व विवर्जयित्वा । बालान् सहायान् परिवर्जयित्वा आर्येषु संसर्गरतान् समाहितान् ॥ १.३४ ॥

// kāṃścicca paśyāmyahu bodhisattvān krīḍāratiṃ sarva vivarjayitvā / bālān sahāyān parivarjayitvā āryeṣu saṃsargaratān samāhitān (1.34)

Verse 1.35

।। विक्षेपचित्तं च विवर्जयन्तान् एकाग्रचित्तान् वनकन्दरेषु । ध्यायन्त वर्षाण सहस्रकोट्यो ध्यानेन ते प्रस्थित अग्रबोधिम् ॥ १.३५ ॥

// vikṣepacittaṃ ca vivarjayantān ekāgracittān vanakandareṣu / dhyāyanta varṣāṇa sahasrakoṭyo dhyānena te prasthita agrabodhim (1.35)

Verse 1.36

।। ददन्ति दानानि तथैव केचित् सशिष्यसंघेषु जिनेषु संमुखम् । खाद्यं च भोज्यं च तथान्नपान्नं गिलानभैषज्य बहू अनल्पकम् ॥ १.३६ ॥

// dadanti dānāni tathaiva kecit saśiṣyasaṃgheṣu jineṣu saṃmukham / khādyaṃ ca bhojyaṃ ca tathānnapānnaṃ gilānabhaiṣajya bahū analpakam (1.36)

Verse 1.37

।। वस्त्राण कोटीशत ते ददन्ति सहस्रकोटीशतमूल्य केचित् । अनर्घमूल्यांश्च ददन्ति वस्त्रान् सशिष्यसंघान जिनान संमुखम् ॥ १.३७ ॥

// vastrāṇa koṭīśata te dadanti sahasrakoṭīśatamūlya kecit / anarghamūlyāṃśca dadanti vastrān saśiṣyasaṃghāna jināna saṃmukham (1.37)

Verse 1.38

।। विहार कोटीशत कारयित्वा रत्नामयांश्चो तथ चन्दनामयान् । प्रभूतशय्यासनमण्डितांश्च निर्यातयन्तो सुगतान संमुखम् ॥ १.३८ ॥

// vihāra koṭīśata kārayitvā ratnāmayāṃśco tatha candanāmayān / prabhūtaśayyāsanamaṇḍitāṃśca niryātayanto sugatāna saṃmukham (1.38)

Verse 1.39

।। आराम चौक्षांश्च मनोरमांश्च फलैरुपेतान् कुसुमैश्च चित्रैः । दिवाविहारार्थ ददन्ति केचित् सश्रावकाणां पुरुषर्षभाणाम् ॥ १.३९ ॥

// ārāma caukṣāṃśca manoramāṃśca phalairupetān kusumaiśca citraiḥ / divāvihārārtha dadanti kecit saśrāvakāṇāṃ puruṣarṣabhāṇām (1.39)

Verse 1.40

।। ददन्ति दानानिममेवरूपा विविधानि चित्राणि च हर्षजाताः । दत्वा च बोधाय जनेन्ति वीर्यं दानेन ते प्रस्थित अग्रबोधिम् ॥ १.४० ॥

// dadanti dānānimamevarūpā vividhāni citrāṇi ca harṣajātāḥ / datvā ca bodhāya janenti vīryaṃ dānena te prasthita agrabodhim (1.40)

Verse 1.41

।। धर्मं च केचित् प्रवदन्ति शान्तं दृष्टान्तहेतूनयुतैरनेकैः । देशेन्ति ते प्राणसहस्रकोटिनां ज्ञानेन ते प्रस्थित अग्रबोधिम् ॥ १.४१ ॥

// dharmaṃ ca kecit pravadanti śāntaṃ dṛṣṭāntahetūnayutairanekaiḥ / deśenti te prāṇasahasrakoṭināṃ jñānena te prasthita agrabodhim (1.41)

Verse 1.42

।। निरीहका धर्म प्रजानमाना द्वयं प्रवृत्ताः खगतुल्यसादृशाः । अनोपलिप्ताः सुगतस्य पुत्राः प्रज्ञाय ते प्रस्थित अग्रबोधिम् ॥ १.४२ ॥

// nirīhakā dharma prajānamānā dvayaṃ pravṛttāḥ khagatulyasādṛśāḥ / anopaliptāḥ sugatasya putrāḥ prajñāya te prasthita agrabodhim (1.42)

Verse 1.43

।। भूयश्च पश्याम्यहु मञ्जुघोष परिनिर्वृतानां सुगतान शासने । उत्पन्न धीरा बहुबोधिसत्त्वाः कुर्वन्ति सत्कारु जिनान धातुषु ॥ १.४३ ॥

// bhūyaśca paśyāmyahu mañjughoṣa parinirvṛtānāṃ sugatāna śāsane / utpanna dhīrā bahubodhisattvāḥ kurvanti satkāru jināna dhātuṣu (1.43)

Verse 1.44

।। स्तूपान पश्यामि सहस्रकोट्यो अनल्पका यथरिव गङ्गवालिकाः । येभिः सदा मण्डित क्षेत्रकोटियो ये कारिता तेहि जिनात्मजेहि ॥ १.४४ ॥

// stūpāna paśyāmi sahasrakoṭyo analpakā yathariva gaṅgavālikāḥ / yebhiḥ sadā maṇḍita kṣetrakoṭiyo ye kāritā tehi jinātmajehi (1.44)

Verse 1.45

।। रत्नान सप्तान विशिष्ट उच्छ्रिताः सहस्र पञ्चो परिपूर्ण योजना । द्वे चो सहस्रे परिणाहवन्तश्छत्रध्वजास्तेषु सहस्रकोटयः ॥ १.४५ ॥

// ratnāna saptāna viśiṣṭa ucchritāḥ sahasra pañco paripūrṇa yojanā / dve co sahasre pariṇāhavantaśchatradhvajāsteṣu sahasrakoṭayaḥ (1.45)

Verse 1.46

।। सवैजयन्ताः सद शोभमाना घण्टासमूहै रणमान नित्यम् । पुष्पैश्च गन्धैश्च तथैव वाद्यैः संपूजिता नरमरुयक्षराक्षसैः ॥ १.४६ ॥

// savaijayantāḥ sada śobhamānā ghaṇṭāsamūhai raṇamāna nityam / puṣpaiśca gandhaiśca tathaiva vādyaiḥ saṃpūjitā naramaruyakṣarākṣasaiḥ (1.46)

Verse 1.47

।। कारापयन्ती सुगतस्य पुत्रा जिनान धातुष्विह पूजमीदृशीम् । येभिर्दिशायो दश शोभिता यः सुपुष्पितैर्वा यथ पारिजातैः ॥ १.४७ ॥

// kārāpayantī sugatasya putrā jināna dhātuṣviha pūjamīdṛśīm / yebhirdiśāyo daśa śobhitā yaḥ supuṣpitairvā yatha pārijātaiḥ (1.47)

Verse 1.48

।। अहं चिमाश्चो बहुप्राणकोट्य इह स्थिताः पश्यिषु सर्वमेतत् । प्रपुष्पितं लोकमिमं सदेवकं जिनेन मुक्ता इयमेकरश्मिः ॥ १.४८ ॥

// ahaṃ cimāśco bahuprāṇakoṭya iha sthitāḥ paśyiṣu sarvametat / prapuṣpitaṃ lokamimaṃ sadevakaṃ jinena muktā iyamekaraśmiḥ (1.48)

Verse 1.49

।। अहो प्रभावः पुरुषर्षभस्य अहो ऽस्य ज्ञानं विपुलं अनास्रवम् । यस्यैकरश्मिः प्रसृताद्य लोके दर्शेति क्षेत्राण बहू सहस्रान् ॥ १.४९ ॥

// aho prabhāvaḥ puruṣarṣabhasya aho 'sya jñānaṃ vipulaṃ anāsravam / yasyaikaraśmiḥ prasṛtādya loke darśeti kṣetrāṇa bahū sahasrān (1.49)

Verse 1.50

।। आश्चर्यप्राप्ताः स्म निमित्त दृष्ट्वा इममीदृशं चाद्भुतमप्रमेयम् । वदस्व मञ्जुस्वर एतमर्थं कौतूहलं ह्यपनय बुद्धपुत्र ॥ १.५० ॥

// āścaryaprāptāḥ sma nimitta dṛṣṭvā imamīdṛśaṃ cādbhutamaprameyam / vadasva mañjusvara etamarthaṃ kautūhalaṃ hyapanaya buddhaputra (1.50)

Verse 1.51

।। चत्वारिमा पर्ष उदग्रचित्तास्त्वां चाभिवीक्षन्तिह मां च वीर । जनेहि हर्षं व्यपनेहि काङ्क्षां त्वं व्याकरोही सुगतस्य पुत्र ॥ १.५१ ॥

// catvārimā parṣa udagracittāstvāṃ cābhivīkṣantiha māṃ ca vīra / janehi harṣaṃ vyapanehi kāṅkṣāṃ tvaṃ vyākarohī sugatasya putra (1.51)

Verse 1.52

।। किमर्थमेषः सुगतेन अद्य प्रभास एतादृशको विमुक्तः । अहो प्रभावः पुरुषर्षभस्य अहो ऽस्य ज्ञानं विपुलं विशुद्धम् ॥ १.५२ ॥

// kimarthameṣaḥ sugatena adya prabhāsa etādṛśako vimuktaḥ / aho prabhāvaḥ puruṣarṣabhasya aho 'sya jñānaṃ vipulaṃ viśuddham (1.52)

Verse 1.53

।। यस्यैकरश्मी प्रसृताद्य लोके दर्शेति क्षेत्राण बहून् सहस्रान् । एतादृशो अर्थ अयं भविष्यति येनैष रश्मी विपुला प्रमुक्ता ॥ १.५३ ॥

// yasyaikaraśmī prasṛtādya loke darśeti kṣetrāṇa bahūn sahasrān / etādṛśo artha ayaṃ bhaviṣyati yenaiṣa raśmī vipulā pramuktā (1.53)

Verse 1.54

।। ये अग्रधर्मा सुगतेन स्पृष्टास्तद बोधिमण्डे पुरुषोत्तमेन । किं तेह निर्देक्ष्यति लोकनाथो अथ व्याकरिष्यत्ययु बोधिसत्त्वान् ॥ १.५४ ॥

// ye agradharmā sugatena spṛṣṭāstada bodhimaṇḍe puruṣottamena / kiṃ teha nirdekṣyati lokanātho atha vyākariṣyatyayu bodhisattvān (1.54)

Verse 1.55

।। अनल्पकं कारणमेत्त भेष्यति यद्दर्शिताः क्षेत्रसहस्र नेके । सुचित्रचित्रा रतनोपशोभिता बुद्धाश्च दृश्यन्ति अनन्तचक्षुषः ॥ १.५५ ॥

// analpakaṃ kāraṇametta bheṣyati yaddarśitāḥ kṣetrasahasra neke / sucitracitrā ratanopaśobhitā buddhāśca dṛśyanti anantacakṣuṣaḥ (1.55)

Verse 1.56

।। पृच्छेति मैत्रेयु जिनस्य पुत्र स्पृहेन्ति ते नरमरुयक्षराक्षसाः । चत्वारिमा पर्ष उदीक्षमाणा मञ्जुस्वरः किं न्विह व्याकरिष्यति ॥ १.५६ ॥

// pṛccheti maitreyu jinasya putra spṛhenti te naramaruyakṣarākṣasāḥ / catvārimā parṣa udīkṣamāṇā mañjusvaraḥ kiṃ nviha vyākariṣyati (1.56)

Verse 1.57

।। अथ खलु मञ्जुश्रीः कुमारभूतो मैत्रेयं बोधिसत्त्वं महासत्त्वं तं च सर्वावन्तं बोधिसत्त्वगणमामन्त्रयते स्म - महाधर्मश्रवणसांकथ्यमिदं कुलपुत्रास्तथागतस्य कर्तुमभिप्रायः, महाधर्मवृष्ठयभिप्रवर्षणं च महाधर्मदुन्दुभिसंप्रवादनं च महाधर्मध्वजसमुच्छ्रयणं च महाधर्मोल्कासंप्रज्वालनं च महाधर्मशङ्खाभिप्रपूरणं च महाधर्मभेरीपराहणनं च महाधर्मनिर्देशं च अद्य कुलपुत्रास्तथागतस्य कर्तुमभिप्रायः | यथा मम कुलपुत्राः प्रतिभाति, यथा च मया पूर्वकाणां तथागतानामर्हतां सम्यक्संबुद्धानामिदमेवंरूपं पूर्वनिमित्तं दृष्टमभूत्, तेषामपि पूर्वकाणां तथागतानामर्हतां सम्यक्संबुद्धानामेवं रश्मिप्रमोचनावभासो ऽभुत् | तेनैवं प्रजानामि - महाधर्मश्रवणसांकथ्यं तथागतः कर्तुकामो महाधर्मश्रवणं श्रावयितुकामः, यथेदमेवंरूपं पूर्वनिमित्तं प्रादुष्कृतवान् | तत्कस्य हेतोः? सर्वलोकविप्रत्यनीयकधर्मपर्यायं श्रावयितुकामस्तथागतो ऽर्हन् सम्यक्संबुद्धः, यथेदमेवंरूपं महाप्रातिहार्यं रश्मिप्रमोचनावभासं च पूर्वनिमित्तमुपदर्शयति || अनुस्मराम्यहं कुलपुत्रा अतीते ऽध्वनि असंख्येयैः कल्पैरसंख्येयतरैर्विपुलैरप्रमेयैरचिन्त्यैरपरिमितैरप्रमाणैस्ततःपरेण परतरं यदासीत् - तेन कालेन तेन समयेन चन्द्रसूर्यप्रदीपो नाम (वैद्य १२) तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् | स धर्मं देशयति स्म आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम् | स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म | यदुत श्रावकाणां चतुरार्यसत्यसंप्रयुक्तं प्रतीत्यसमुत्पादप्रवृत्तं धर्मं देशयति स्म जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासानां समतिक्रमाय निर्वाणपर्यवसानम् | बोधिसत्त्वानां च महासत्त्वानां च षट्पारमिताप्रतिसंयुक्तमनुत्तरां सम्यक्संबोधिमारभ्य सर्वज्ञज्ञानपर्यवसानं धर्मं देशयति स्म || तस्य खलु पुनः कुलपुत्राः चन्द्रसूर्यप्रदीपस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परेण परतरं चन्द्रसूर्यप्रदीप एव नाम्ना तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि | इति हि अजित एतेन परंपरोदाहारेण चन्द्रसूर्यप्रदीपनामकानां तथागतानामर्हतां सम्यक्संबुद्धानामेकनामधेयानामकेकुलगोत्राणां यदिदं भरद्वाजसगोत्राणां विंशतितथागतसहस्राण्यभूवन् | तत्र अजित तेषां विंशतितथागतसहस्राणां पूर्वकं तथागतमुपादाय यावत् पश्चिमकस्तथागतः, सो ऽपि चन्द्रसूर्यप्रदीपनामधेय एव तथागतो ऽभूदर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् | सो ऽपि धर्मं देशितवान् आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम् | स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशितवान् | यदुत श्रावकाणां चतुरार्यसत्यसंयुक्तं प्रतीत्यसमुत्पादप्रवृत्तं धर्मं देशितवान् जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासानां समतिक्रमाय निर्वाणपर्यवसानम् | बोधिसत्त्वानां च महासत्त्वानां च षट्पारमिताप्रतिसंयुक्तमनुत्तरां सम्यक्संबोधिमारभ्य सर्वज्ञज्ञानपर्यवसानं धर्म देशितवान् || तस्य खलु पुनरजित भगवतश्चन्द्रसूर्यप्रदीपस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पूर्वं कुमारभूतस्यानभिनिष्क्रान्तगृहावासस्य अष्टौ पुत्रा अभूवन् | तद्यथा - मतिश्च नाम राजकुमारो ऽभूत् | सुमतिश्च नाम राजकुमारो ऽभूत् | अनन्तमतिश्च नाम, रत्नमतिश्च नाम, विशेषमतिश्च नाम, विमतिसमुद्धाटी च नाम, घोषमतिश्च नाम, धर्ममतिश्च नाम राजकुमारो ऽभूत् | तेषां खलु पुनरजित अष्टानां राजकुमाराणां तस्य भगवतश्चन्द्रसूर्यप्रदीपस्य तथागतस्यपुत्राणां विपुलर्द्धिरभूत् | एकैकस्य चत्वारो महाद्वीपाः परिभोगो ऽभूत् | तेष्वेव च राज्यं कारयामासुः | ते तं भगवन्तमभिनिष्क्रान्तगृहावासं विदित्वा अनुत्तरां च सम्यक्संबोधिमभिसंबुद्धं श्रुत्वा सर्वराज्यपरिभोगानुत्सृज्य तं भगवन्तमनु प्रव्रजिताः | सर्वे च अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थिता धर्मभाणकाश्चाभुवन् | सदा च ब्रह्मचारिणो बहुबुद्धशतसहस्रावरोपितकुशलमूलाश्च ते राजकुमारा अभुवन् || तेन खलु पुनरजित समयेन स भगवांश्चन्द्रसूर्यप्रदीपस्तथागतो ऽर्हन् सम्यक्संबुद्धो महानिर्देशं नाम धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं भाषित्वा (वैद्य १३) तस्मिन्नेव क्षणलवमुहूर्ते तस्मिन्नेव पर्षत्संनिपाते तस्मिन्नेव महाधर्मासने पर्यङ्कमाभुज्य अनन्तनिर्देशप्रतिष्ठानं नाम समाधिं समापन्नो ऽभूदनिञ्जमानेन कायेन स्थितेन अनिञ्जमानेन चित्तेन | समनन्तरसमापन्नस्य खलु पुनस्तस्य भगवतो मान्दारवमहामान्दारवाणां मञ्जूषकमहामञ्जूषकाणां च दिव्यानां पुष्पाणां महत्पुष्पवर्षमभिप्रावर्षत् | तं भगवन्तं सपर्षदमभ्यवाकिरत्, सर्वावच्च तद् बुद्धक्षेत्रं षड्विकारं प्रकम्पितमभूत् चलितं संप्रचलितं वेधितं संप्रवेधितं क्षुभितं संप्रक्षुभितम् | तेन खलु पुनरजित समयेन तेन कालेन ये तस्यां पर्षदि भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याः संनिपतिता अभूवन् संनिषण्णाः, राजानश्च मण्डलिनो बलचक्रवर्तिनश्चतुर्द्वीपकचक्रवर्तिनश्च, ते सर्वे सपरिवारास्तं भगवन्तं व्यवलोकयन्ति स्म आश्चर्यप्राप्ता अद्भुतप्राप्ता औद्बिल्यप्राप्ताः | अथ खलु तस्यां वेलायां तस्य भगवतश्चन्द्रसूर्यप्रदीपस्य तथागतस्य भ्रूविवरान्तरादूर्णाकोशादेका रश्मिर्निश्चरिता | सा पूर्वस्यां दिशि अष्टादशबुद्धक्षेत्रसहस्राणि प्रसृता | तानि च बुद्धक्षेत्राणि सर्वाणि तस्या रश्मेः प्रभया सुपरिस्फुटानि संदृश्यन्ते स्म, तद्यथापि नाम अजित एतर्ह्येतानि बुद्धक्षेत्राणि संदृश्यन्ते || तेन खलु पुनरजित समयेन तस्य भगवतो विंशतिबोधिसत्त्वकोट्यः समनुबद्धा अभुवन् | ये तस्यां पर्षदि धर्मश्रवणिकाः, ते आश्चर्यप्राप्ता अभूवन् अद्भुतप्राप्ता औद्बिल्यप्राप्ताः कौतूहलसमुत्पन्ना एतेन महारश्म्यवभासेनावभासितं लोकं दृष्ट्वा || तेन खलु पुनरजित समयेन तस्य भगवतः शासने वरप्रभो नाम बोधिसत्त्वो ऽभूत् | तस्याष्टौ शतान्यन्तेवासिनामभूवन् | स च भगवांस्ततः समाधेर्व्युत्थाय तं वरप्रभं बोधिसत्त्वमारभ्य सद्धर्मपुण्डरीकं नाम धर्मपर्यायं संप्रकाशयामास | यावत् परिपूर्णान् षष्ट्यन्तरकल्पान् भाषितवान् एकासने निषण्णो ऽसंप्रवेधमानेन कायेन अनिञ्जमानेन चित्तेन | सा च सर्वावती पर्षदेकासने निषण्णा तान् षष्ट्यन्तरकल्पांस्तस्य भगवतो ऽन्तिकाद्धर्मं शृणोति स्म | न च तस्यां पर्षदि एकसत्त्वस्यापि कायक्लमथो ऽभूत्, न च चित्तक्लमथः || अथ स भगवांश्चन्द्रसूर्यप्रदीपस्तथागतो ऽर्हन् सम्यक्संबुद्धः षष्टयन्तरकल्पानामत्ययात् तं सद्धर्मपुण्डरीकं धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं निर्दिश्य तस्मिन्नेव क्षणलवमुहूर्ते परिनिर्वाणमारोचितवान् सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः पुरस्तात् - अद्य भिक्षवो ऽस्यामेव रात्र्यां मध्यमे यामे तथागतो ऽनुपधिशेषे निर्वाणधातौ परिनिर्वास्यतीति || अथ खल्वजित स भगवांश्चन्द्रसूर्यप्रदीपस्तथागतो ऽर्हन् सम्यक्संबुद्धः श्रीगर्भं नाम बोधिसत्त्वं महासत्त्वमनुत्तरायां सम्यक्संबोधौ व्याकृत्य तां सर्वावतीं पर्षदमामन्त्रयते स्म - अयं भिक्षवः श्रीगर्भो बोधिसत्त्वो ममानन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते | विमलनेत्रो नाम तथोगतो ऽर्हन् सम्यक्संबुद्धो भविष्यति || अथ खल्वजित स भगवांश्चन्द्रसूर्यप्रदीपस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तस्यामेव रात्र्यां मध्यमे यामे ऽनुपधिशेषे निर्वाणधातौ परिनिर्वृतः | तं च सद्धर्मपुण्डरीकं धर्मपर्यायं स वरप्रभो बोधिसत्त्वो महासत्त्वो धारितवान् | अशीतिं चान्तरकल्पांस्तस्य भगवतः परिनिर्वृतस्य शासनं स वरप्रभो बोधिसत्त्वो महासत्त्वो धारितवान् संप्रकाशितवान् | तत्र अजित ये तस्य भगवतो ऽष्टौ पुत्रा अभूवन्, मतिप्रमुखाः, ते तस्यैव वरप्रभस्य बोधिसत्त्वस्यान्तेवासिनो ऽभूवन् | ते तेनैव परिपाचिता अभूवन्ननुत्तरायां सम्यक्संबोधौ | तैश्च ततः पश्चाद्बहूनि बुद्धकोटीनयुतशतसहस्राणि दृष्टानि सत्कृतानि च | सर्वे च ते ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः | पश्चिमकश्च तेषां दीपंकरो ऽभूत्तथागतो ऽर्हन् सम्यक्संबुद्धः || तेषां च अष्टानामन्तेवासिशतानामेको बोधिसत्त्वो ऽधिमात्रं लाभगुरुको ऽभूत् सत्कारगुरुको ज्ञातगुरुको यशस्कामः | तस्योद्दिष्टोद्दिष्टानि पदव्यञ्जनान्यन्तर्धीयन्ते न संतिष्ठन्ते स्म | तस्य यशस्काम इत्येव संज्ञाभूत् | तेनापि तेन कुशलमूलेन बहूनि बुद्धकोटीनयुतशतसहस्राण्यारागितान्यभूवन् | आरागयित्वा च सत्कृतानि गुरुकृतानि मानितानि पूजितान्यर्चितान्यपचायितानि | स्यात्खलु पुनस्ते अजित काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यः स तेन कालेन तेन समयेन वरप्रभो नाम बोधिसत्त्वो महासत्त्वो ऽभूद्धर्मभाणकः | न खलु पुनरेवं द्रष्टव्यम् | तत्कस्य हेतोः? अहं स तेन कालेन तेन समयेन वरप्रभो नाम बोधिसत्त्वो महासत्त्वो ऽभूद्धर्मभाणकः | यश्चासौ यशस्कामो नाम बोधिसत्त्वो ऽभूत् कौसीद्यप्राप्तः, त्वमेव अजित स तेन कालेन तेन समयेन यशस्कामो नाम बोधिसत्त्वो ऽभूत् कौसीद्यप्राप्तः | इति हि अजित अहमनेन पर्यायेणेदं भगवतः पूर्वनिमित्तं दृष्ट्वा एवंरूपां रश्मिमुत्सृष्टामेवं परिमीमांसे, यथा भगवानपि तं सद्धर्मपुण्डरीकं धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं भाषितुकामः || अथ खलु मञ्जुश्रीः कुमारभूत एतमेवार्थं भूयस्या मात्रया प्रदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत - अतीतमध्वानमनुस्मरामि अचिन्तिये अपरिमितस्मि कल्पे । यदा जिनो आसि प्रजान उत्तमश्चन्द्रस्य सूर्यस्य प्रदीप नाम ॥ १.५७ ॥

// atha khalu mañjuśrīḥ kumārabhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattvagaṇamāmantrayate sma - mahādharmaśravaṇasāṃkathyamidaṃ kulaputrāstathāgatasya kartumabhiprāyaḥ, mahādharmavṛṣṭhayabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ | yathā mama kulaputrāḥ pratibhāti, yathā ca mayā pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmidamevaṃrūpaṃ pūrvanimittaṃ dṛṣṭamabhūt, teṣāmapi pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃ raśmipramocanāvabhāso 'bhut | tenaivaṃ prajānāmi - mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ, yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān | tatkasya hetoḥ? sarvalokavipratyanīyakadharmaparyāyaṃ śrāvayitukāmastathāgato 'rhan samyaksaṃbuddhaḥ, yathedamevaṃrūpaṃ mahāprātihāryaṃ raśmipramocanāvabhāsaṃ ca pūrvanimittamupadarśayati || anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarairvipulairaprameyairacintyairaparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt - tena kālena tena samayena candrasūryapradīpo nāma (vaidya 12) tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | sa dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam | svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma | yaduta śrāvakāṇāṃ caturāryasatyasaṃprayuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam | bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭpāramitāpratisaṃyuktamanuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharmaṃ deśayati sma || tasya khalu punaḥ kulaputrāḥ candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa parataraṃ candrasūryapradīpa eva nāmnā tathāgato 'rhan samyaksaṃbuddho loka udapādi | iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmekanāmadheyānāmakekulagotrāṇāṃ yadidaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan | tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ, so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | so 'pi dharmaṃ deśitavān ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam | svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśitavān | yaduta śrāvakāṇāṃ caturāryasatyasaṃyuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam | bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭpāramitāpratisaṃyuktamanuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharma deśitavān || tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan | tadyathā - matiśca nāma rājakumāro 'bhūt | sumatiśca nāma rājakumāro 'bhūt | anantamatiśca nāma, ratnamatiśca nāma, viśeṣamatiśca nāma, vimatisamuddhāṭī ca nāma, ghoṣamatiśca nāma, dharmamatiśca nāma rājakumāro 'bhūt | teṣāṃ khalu punarajita aṣṭānāṃ rājakumārāṇāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasyaputrāṇāṃ vipularddhirabhūt | ekaikasya catvāro mahādvīpāḥ paribhogo 'bhūt | teṣveva ca rājyaṃ kārayāmāsuḥ | te taṃ bhagavantamabhiniṣkrāntagṛhāvāsaṃ viditvā anuttarāṃ ca samyaksaṃbodhimabhisaṃbuddhaṃ śrutvā sarvarājyaparibhogānutsṛjya taṃ bhagavantamanu pravrajitāḥ | sarve ca anuttarāṃ samyaksaṃbodhimabhisaṃprasthitā dharmabhāṇakāścābhuvan | sadā ca brahmacāriṇo bahubuddhaśatasahasrāvaropitakuśalamūlāśca te rājakumārā abhuvan || tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā (vaidya 13) tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūdaniñjamānena kāyena sthitena aniñjamānena cittena | samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat | taṃ bhagavantaṃ saparṣadamabhyavākirat, sarvāvacca tad buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūt calitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ saṃprakṣubhitam | tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca, te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ | atha khalu tasyāṃ velāyāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇākośādekā raśmirniścaritā | sā pūrvasyāṃ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā | tāni ca buddhakṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma, tadyathāpi nāma ajita etarhyetāni buddhakṣetrāṇi saṃdṛśyante || tena khalu punarajita samayena tasya bhagavato viṃśatibodhisattvakoṭyaḥ samanubaddhā abhuvan | ye tasyāṃ parṣadi dharmaśravaṇikāḥ, te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā || tena khalu punarajita samayena tasya bhagavataḥ śāsane varaprabho nāma bodhisattvo 'bhūt | tasyāṣṭau śatānyantevāsināmabhūvan | sa ca bhagavāṃstataḥ samādhervyutthāya taṃ varaprabhaṃ bodhisattvamārabhya saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ saṃprakāśayāmāsa | yāvat paripūrṇān ṣaṣṭyantarakalpān bhāṣitavān ekāsane niṣaṇṇo 'saṃpravedhamānena kāyena aniñjamānena cittena | sā ca sarvāvatī parṣadekāsane niṣaṇṇā tān ṣaṣṭyantarakalpāṃstasya bhagavato 'ntikāddharmaṃ śṛṇoti sma | na ca tasyāṃ parṣadi ekasattvasyāpi kāyaklamatho 'bhūt, na ca cittaklamathaḥ || atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭayantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇamārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt - adya bhikṣavo 'syāmeva rātryāṃ madhyame yāme tathāgato 'nupadhiśeṣe nirvāṇadhātau parinirvāsyatīti || atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ śrīgarbhaṃ nāma bodhisattvaṃ mahāsattvamanuttarāyāṃ samyaksaṃbodhau vyākṛtya tāṃ sarvāvatīṃ parṣadamāmantrayate sma - ayaṃ bhikṣavaḥ śrīgarbho bodhisattvo mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate | vimalanetro nāma tathogato 'rhan samyaksaṃbuddho bhaviṣyati || atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhastasyāmeva rātryāṃ madhyame yāme 'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ | taṃ ca saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān | aśītiṃ cāntarakalpāṃstasya bhagavataḥ parinirvṛtasya śāsanaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān saṃprakāśitavān | tatra ajita ye tasya bhagavato 'ṣṭau putrā abhūvan, matipramukhāḥ, te tasyaiva varaprabhasya bodhisattvasyāntevāsino 'bhūvan | te tenaiva paripācitā abhūvannanuttarāyāṃ samyaksaṃbodhau | taiśca tataḥ paścādbahūni buddhakoṭīnayutaśatasahasrāṇi dṛṣṭāni satkṛtāni ca | sarve ca te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ | paścimakaśca teṣāṃ dīpaṃkaro 'bhūttathāgato 'rhan samyaksaṃbuddhaḥ || teṣāṃ ca aṣṭānāmantevāsiśatānāmeko bodhisattvo 'dhimātraṃ lābhaguruko 'bhūt satkāraguruko jñātaguruko yaśaskāmaḥ | tasyoddiṣṭoddiṣṭāni padavyañjanānyantardhīyante na saṃtiṣṭhante sma | tasya yaśaskāma ityeva saṃjñābhūt | tenāpi tena kuśalamūlena bahūni buddhakoṭīnayutaśatasahasrāṇyārāgitānyabhūvan | ārāgayitvā ca satkṛtāni gurukṛtāni mānitāni pūjitānyarcitānyapacāyitāni | syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā - anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo 'bhūddharmabhāṇakaḥ | na khalu punarevaṃ draṣṭavyam | tatkasya hetoḥ? ahaṃ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo 'bhūddharmabhāṇakaḥ | yaścāsau yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ, tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ | iti hi ajita ahamanena paryāyeṇedaṃ bhagavataḥ pūrvanimittaṃ dṛṣṭvā evaṃrūpāṃ raśmimutsṛṣṭāmevaṃ parimīmāṃse, yathā bhagavānapi taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitukāmaḥ || atha khalu mañjuśrīḥ kumārabhūta etamevārthaṃ bhūyasyā mātrayā pradarśayamānastasyāṃ velāyāmimā gāthā abhāṣata - atītamadhvānamanusmarāmi acintiye aparimitasmi kalpe / yadā jino āsi prajāna uttamaścandrasya sūryasya pradīpa nāma (1.57)

Verse 1.58

।। सद्धर्म देशेति प्रजान नायको विनेति सत्त्वान अनन्तकोट्यः । समादपेती बहुबोधिसत्त्वानचिन्तियानुत्तमि बुद्धज्ञाने ॥ १.५८ ॥

// saddharma deśeti prajāna nāyako vineti sattvāna anantakoṭyaḥ / samādapetī bahubodhisattvānacintiyānuttami buddhajñāne (1.58)

Verse 1.59

।। ये चाष्ट पुत्रास्तद तस्य आसन् कुमारभूतस्य विनायकस्य । दृष्ट्वा च तं प्रव्रजितं महामुनिं जहित्व कामांल्लघु सर्वि प्राव्रजन् ॥ १.५९ ॥

// ye cāṣṭa putrāstada tasya āsan kumārabhūtasya vināyakasya / dṛṣṭvā ca taṃ pravrajitaṃ mahāmuniṃ jahitva kāmāṃllaghu sarvi prāvrajan (1.59)

Verse 1.60

।। धर्मं च सो भाषति लोकनाथो अनन्तनिर्देशवरं ति सूत्रम् । नामेव वैपुल्यमिदं प्रवुच्यति प्रकाशयी प्राणिसहस्रकोटिनाम् ॥ १.६० ॥

// dharmaṃ ca so bhāṣati lokanātho anantanirdeśavaraṃ ti sūtram / nāmeva vaipulyamidaṃ pravucyati prakāśayī prāṇisahasrakoṭinām (1.60)

Verse 1.61

।। समनन्तरं भाषिय सो विनायकः पर्यङ्क बन्धित्व क्षणस्मि तस्मिन् । अनन्तनिर्देशवरं समाधिं धर्मासनस्थो मुनिश्रेष्ठ ध्यायी ॥ १.६१ ॥

// samanantaraṃ bhāṣiya so vināyakaḥ paryaṅka bandhitva kṣaṇasmi tasmin / anantanirdeśavaraṃ samādhiṃ dharmāsanastho muniśreṣṭha dhyāyī (1.61)

Verse 1.62

।। दिव्यं च मान्दारववर्षमासीदघट्टिता दुन्दुभयश्च नेदुः । देवाश्च यक्षाश्च स्थितान्तरीक्षे कुर्वन्ति पूजां द्विपदोत्तमस्य ॥ १.६२ ॥

// divyaṃ ca māndāravavarṣamāsīdaghaṭṭitā dundubhayaśca neduḥ / devāśca yakṣāśca sthitāntarīkṣe kurvanti pūjāṃ dvipadottamasya (1.62)

Verse 1.63

।। सर्वं च क्षेत्रं प्रचचाल तत्क्षणम् आश्चर्यमत्यद्भुतमासि तत्र । रश्मिं च एकां प्रमुमोच नायको भ्रुवान्तरात्तामतिदर्शनीयाम् ॥ १.६३ ॥

// sarvaṃ ca kṣetraṃ pracacāla tatkṣaṇam āścaryamatyadbhutamāsi tatra / raśmiṃ ca ekāṃ pramumoca nāyako bhruvāntarāttāmatidarśanīyām (1.63)

Verse 1.64

।। पूर्वां च गत्वा दिश सा हि रश्मिरष्टादशक्षेत्रसहस्र पूर्णा । प्रभासयं भ्राजति सर्वलोकं दर्शेति सत्त्वान च्युतोपपादम् ॥ १.६४ ॥

// pūrvāṃ ca gatvā diśa sā hi raśmiraṣṭādaśakṣetrasahasra pūrṇā / prabhāsayaṃ bhrājati sarvalokaṃ darśeti sattvāna cyutopapādam (1.64)

Verse 1.65

।। रत्नामया क्षेत्र तथात्र केचिद्वैडूर्यनिर्भास तथैव केचित् । दृश्यन्ति चित्रा अतिदर्शनीया रश्मिप्रभासेन विनायकस्य ॥ १.६५ ॥

// ratnāmayā kṣetra tathātra kecidvaiḍūryanirbhāsa tathaiva kecit / dṛśyanti citrā atidarśanīyā raśmiprabhāsena vināyakasya (1.65)

Verse 1.66

।। देवा मनुष्यास्तथ नाग यक्षा गन्धर्व तत्राप्सरकिन्नराश्च । ये चाभियुक्ताः सुगतस्य पूजया दृश्यन्ति पूजेन्ति च लोकधातुषु ॥ १.६६ ॥

// devā manuṣyāstatha nāga yakṣā gandharva tatrāpsarakinnarāśca / ye cābhiyuktāḥ sugatasya pūjayā dṛśyanti pūjenti ca lokadhātuṣu (1.66)

Verse 1.67

।। बुद्धाश्च दृश्यन्ति स्वयं स्वयंभुवः सुवर्णयूपा इव दर्शनीयाः । वैडूर्यमध्ये च सुवर्णबिम्बं पर्षाय मध्ये प्रवदन्ति धर्मम् ॥ १.६७ ॥

// buddhāśca dṛśyanti svayaṃ svayaṃbhuvaḥ suvarṇayūpā iva darśanīyāḥ / vaiḍūryamadhye ca suvarṇabimbaṃ parṣāya madhye pravadanti dharmam (1.67)

Verse 1.68

।। तहि श्रावकाणां गणना न विद्यते ते चाप्रमाणाः सुगतस्य श्रावकाः । एकैकक्षेत्रस्मि विनायकानां रश्मिप्रभा दर्शयते हि सर्वान् ॥ १.६८ ॥

// tahi śrāvakāṇāṃ gaṇanā na vidyate te cāpramāṇāḥ sugatasya śrāvakāḥ / ekaikakṣetrasmi vināyakānāṃ raśmiprabhā darśayate hi sarvān (1.68)

Verse 1.69

।। वीर्यैरुपेताश्च अखण्डशीला अच्छिद्रशीला मणिरत्नसादृशाः । दृश्यन्ति पुत्रा नरनायकानां विहरन्ति ये पर्वतकन्दरेषु ॥ १.६९ ॥

// vīryairupetāśca akhaṇḍaśīlā acchidraśīlā maṇiratnasādṛśāḥ / dṛśyanti putrā naranāyakānāṃ viharanti ye parvatakandareṣu (1.69)

Verse 1.70

।। सर्वस्वदानानि परित्यजन्तः क्षान्तीबला ध्यानरताश्च धीराः । बहुबोधिसत्त्वा यथ गङ्गवालिकाः सर्वे ऽपि दृश्यन्ति तया हि रश्म्या ॥ १.७० ॥

// sarvasvadānāni parityajantaḥ kṣāntībalā dhyānaratāśca dhīrāḥ / bahubodhisattvā yatha gaṅgavālikāḥ sarve 'pi dṛśyanti tayā hi raśmyā (1.70)

Verse 1.71

।। अनिञ्जमानाश्च अवेधमानाः क्षान्तौ स्थिता ध्यानरताः समाहिताः । दृश्यन्ति पुत्राः सुगतस्य औरसा ध्यानेन ते प्रस्थित अग्रबोधिम् ॥ १.७१ ॥

// aniñjamānāśca avedhamānāḥ kṣāntau sthitā dhyānaratāḥ samāhitāḥ / dṛśyanti putrāḥ sugatasya aurasā dhyānena te prasthita agrabodhim (1.71)

Verse 1.72

।। भूतं पदं शान्तमनास्रवं च प्रजानमानाश्च प्रकाशयन्ति । देशेन्ति धर्मं बहुलोकधातुषु सुगतानुभावादियमीदृशी क्रिया ॥ १.७२ ॥

// bhūtaṃ padaṃ śāntamanāsravaṃ ca prajānamānāśca prakāśayanti / deśenti dharmaṃ bahulokadhātuṣu sugatānubhāvādiyamīdṛśī kriyā (1.72)

Verse 1.73

।। दृष्ट्वा च ता पर्ष चतस्र तायिनश्चन्द्रार्कदीपस्य इमं प्रभावम् । हर्षस्थिताः सर्वि भवित्व तत्क्षणमन्योन्य पृच्छन्ति कथं नु एतत् ॥ १.७३ ॥

// dṛṣṭvā ca tā parṣa catasra tāyinaścandrārkadīpasya imaṃ prabhāvam / harṣasthitāḥ sarvi bhavitva tatkṣaṇamanyonya pṛcchanti kathaṃ nu etat (1.73)

Verse 1.74

।। अचिराच्च सो नरमरुयक्षपूजितः समाधितो व्युत्थित लोकनायकः । वरप्रभं पुत्र तदाध्यभाषत यो बोधिसत्त्वो विदु धर्मभाणकः ॥ १.७४ ॥

// acirācca so naramaruyakṣapūjitaḥ samādhito vyutthita lokanāyakaḥ / varaprabhaṃ putra tadādhyabhāṣata yo bodhisattvo vidu dharmabhāṇakaḥ (1.74)

Verse 1.75

।। लोकस्य चक्षुश्च गतिश्च त्वं विदुर्वैश्वासिको धर्मधरश्च मह्यम् । त्वं ह्यत्र साक्षी मम धर्मकोशे यथाहु भाषिष्यि हिताय प्राणिनाम् ॥ १.७५ ॥

// lokasya cakṣuśca gatiśca tvaṃ vidurvaiśvāsiko dharmadharaśca mahyam / tvaṃ hyatra sākṣī mama dharmakośe yathāhu bhāṣiṣyi hitāya prāṇinām (1.75)

Verse 1.76

।। संस्थापयित्वा बहुबोधिसत्त्वान् हर्षित्व संवर्णिय संस्तवित्वा । प्रभाषते तज्जिन अग्रधर्मान् परिपूर्ण सो अन्तरकल्प षष्टिम् ॥ १.७६ ॥

// saṃsthāpayitvā bahubodhisattvān harṣitva saṃvarṇiya saṃstavitvā / prabhāṣate tajjina agradharmān paripūrṇa so antarakalpa ṣaṣṭim (1.76)

Verse 1.77

।। यं चैव सो भाषति लोकनाथो एकासनस्थः प्रवराग्रधर्मम् । तं सर्वमाधारयि सो जिनात्मजो वरप्रभो यो अभु धर्मभाणकः ॥ १.७७ ॥

// yaṃ caiva so bhāṣati lokanātho ekāsanasthaḥ pravarāgradharmam / taṃ sarvamādhārayi so jinātmajo varaprabho yo abhu dharmabhāṇakaḥ (1.77)

Verse 1.78

।। सो चो जिनो भाषिय अग्रधर्मं प्रहर्षयित्वा जनतामनेकाम् । तस्मिंश्च दिवसे वदते स नायकः पुरतो हि लोकस्य सदेवकस्य ॥ १.७८ ॥

// so co jino bhāṣiya agradharmaṃ praharṣayitvā janatāmanekām / tasmiṃśca divase vadate sa nāyakaḥ purato hi lokasya sadevakasya (1.78)

Verse 1.79

।। प्रकाशिता मे इय धर्मनेत्री आचक्षितो धर्मस्वभाव यादृअशः । निर्वाणकालो मम अद्य भिक्षवो रात्रीय यामस्मिह मध्यमस्मिन् ॥ १.७९ ॥

// prakāśitā me iya dharmanetrī ācakṣito dharmasvabhāva yādṛaśaḥ / nirvāṇakālo mama adya bhikṣavo rātrīya yāmasmiha madhyamasmin (1.79)

Verse 1.80

।। भवथाप्रमत्ता अधिमुक्तिसारा अभियुज्यथा मह्य इमस्मि शासने । सुदुर्लभा भोन्ति जिना महर्षयः कल्पान कोटीनयुतान अत्ययात् ॥ १.८० ॥

// bhavathāpramattā adhimuktisārā abhiyujyathā mahya imasmi śāsane / sudurlabhā bhonti jinā maharṣayaḥ kalpāna koṭīnayutāna atyayāt (1.80)

Verse 1.81

।। संतापजाता बहुबुद्धपुत्रा दुःखेन चोग्रेण समर्पिताभवन् । श्रुत्वान घोषं द्विपदोत्तमस्य निर्वाणशब्दं अतिक्षिप्रमेतत् ॥ १.८१ ॥

// saṃtāpajātā bahubuddhaputrā duḥkhena cogreṇa samarpitābhavan / śrutvāna ghoṣaṃ dvipadottamasya nirvāṇaśabdaṃ atikṣiprametat (1.81)

Verse 1.82

।। आश्वासयित्वा च नरेन्द्रराजा ताः प्राणकोट्यो बहवो अचिन्तियाः । मा भायथा भिक्षव निर्वृते मयि भविष्यथ बुद्ध ममोत्तरेण ॥ १.८२ ॥

// āśvāsayitvā ca narendrarājā tāḥ prāṇakoṭyo bahavo acintiyāḥ / mā bhāyathā bhikṣava nirvṛte mayi bhaviṣyatha buddha mamottareṇa (1.82)

Verse 1.83

।। श्रीगर्भ एषो विदु बोधिसत्त्वो गतिं गतो ज्ञानि अनास्रवस्मिन् । स्पृशिष्यते उत्तममग्रबोधिं विमलाग्रनेत्रो ति जिनो भविष्यति ॥ १.८३ ॥

// śrīgarbha eṣo vidu bodhisattvo gatiṃ gato jñāni anāsravasmin / spṛśiṣyate uttamamagrabodhiṃ vimalāgranetro ti jino bhaviṣyati (1.83)

Verse 1.84

।। तामेव रात्रिं तद यामि मध्यमे परिनिर्वृतो हेतुक्षये व दीपः । शरीर वैस्तारिकु तस्य चाभूत् स्तूपान कोटीनयुता अनन्तका ॥ १.८४ ॥

// tāmeva rātriṃ tada yāmi madhyame parinirvṛto hetukṣaye va dīpaḥ / śarīra vaistāriku tasya cābhūt stūpāna koṭīnayutā anantakā (1.84)

Verse 1.85

।। भिक्षुश्च तत्रा तथ भिक्षुणीयो ये प्रस्थिता उत्तममग्रबोधिम् । अनल्पकास्ते यथ गङ्गबालिका अभियुक्त तस्यो सुगतस्य शासने ॥ १.८५ ॥

// bhikṣuśca tatrā tatha bhikṣuṇīyo ye prasthitā uttamamagrabodhim / analpakāste yatha gaṅgabālikā abhiyukta tasyo sugatasya śāsane (1.85)

Verse 1.86

।। यश्चापि भिक्षुस्तद धर्मभाणको वरप्रभो येन स धर्म धारितः । अशीति सो अन्तरकल्प पूर्णां तहि शासने भाषति अग्रधर्मान् ॥ १.८६ ॥

// yaścāpi bhikṣustada dharmabhāṇako varaprabho yena sa dharma dhāritaḥ / aśīti so antarakalpa pūrṇāṃ tahi śāsane bhāṣati agradharmān (1.86)

Verse 1.87

।। अष्टाशतं तस्य अभूषि शिष्याः परिपाचिता ये तद तेन सर्वे । दृष्टा च तेभिर्बहुबुद्धकोट्यः सत्कारु तेषां च कृतो महर्षिणाम् ॥ १.८७ ॥

// aṣṭāśataṃ tasya abhūṣi śiṣyāḥ paripācitā ye tada tena sarve / dṛṣṭā ca tebhirbahubuddhakoṭyaḥ satkāru teṣāṃ ca kṛto maharṣiṇām (1.87)

Verse 1.88

।। चर्यां चरित्वा तद आनुलोमिकीं बुद्धा अभूवन् बहुलोकधातुषु परस्परं ते च अनन्तरेण अन्योन्य व्याकर्षु तदाग्रबोधये ॥ १.८८ ॥

// caryāṃ caritvā tada ānulomikīṃ buddhā abhūvan bahulokadhātuṣu parasparaṃ te ca anantareṇa anyonya vyākarṣu tadāgrabodhaye (1.88)

Verse 1.89

।। तेषां च बुद्धान परंपरेण दीपंकरः पश्चिमको अभूषि । देवातिदेवो ऋषिसंघपूजितो विनीतवान् प्राणिसहस्रकोट्यः ॥ १.८९ ॥

// teṣāṃ ca buddhāna paraṃpareṇa dīpaṃkaraḥ paścimako abhūṣi / devātidevo ṛṣisaṃghapūjito vinītavān prāṇisahasrakoṭyaḥ (1.89)

Verse 1.90

।। यश्चासि तस्यो सुगतात्मजस्य वरप्रभस्यो तद धर्म भाषतः । शिष्यः कुसीदश्च स लोलुपात्मा लाभं च ज्ञानं च गवेषमाणः ॥ १.९० ॥

// yaścāsi tasyo sugatātmajasya varaprabhasyo tada dharma bhāṣataḥ / śiṣyaḥ kusīdaśca sa lolupātmā lābhaṃ ca jñānaṃ ca gaveṣamāṇaḥ (1.90)

Verse 1.91

।। यशोर्थिकश्चाप्यतिमात्र आसीत् कुलाकुलं च प्रतिपन्नमासीत् । उद्देश स्वाध्यायु तथास्य सर्वो न तिष्ठते भाषितु तस्मि काले ॥ १.९१ ॥

// yaśorthikaścāpyatimātra āsīt kulākulaṃ ca pratipannamāsīt / uddeśa svādhyāyu tathāsya sarvo na tiṣṭhate bhāṣitu tasmi kāle (1.91)

Verse 1.92

।। नामं च तस्यो इममेवमासीद् यशकामनाम्ना दिशतासु विश्रुतः । स चापि तेनाकुशलेन कर्मणा कल्माषभूतेनभिसंस्कृतेन ॥ १.९२ ॥

// nāmaṃ ca tasyo imamevamāsīd yaśakāmanāmnā diśatāsu viśrutaḥ / sa cāpi tenākuśalena karmaṇā kalmāṣabhūtenabhisaṃskṛtena (1.92)

Verse 1.93

।। आरागयी बुद्धसहस्रकोट्यः पूजां च तेषां विपुलामकार्षीत् । चीर्णा च चर्या वर आनुलोमिकी दृष्टश्च बुद्धो अयु शाक्यसिंहः ॥ १.९३ ॥

// ārāgayī buddhasahasrakoṭyaḥ pūjāṃ ca teṣāṃ vipulāmakārṣīt / cīrṇā ca caryā vara ānulomikī dṛṣṭaśca buddho ayu śākyasiṃhaḥ (1.93)

Verse 1.94

।। अयं च सो पश्चिमको भविष्यति अनुत्तरां लप्स्यति चाग्रबोधिम् । मैत्रेयगोत्रो भगवान् भविष्यति विनेष्यति प्राणसहस्रकोट्यः ॥ १.९४ ॥

// ayaṃ ca so paścimako bhaviṣyati anuttarāṃ lapsyati cāgrabodhim / maitreyagotro bhagavān bhaviṣyati vineṣyati prāṇasahasrakoṭyaḥ (1.94)

Verse 1.95

।। कौसीद्यप्राप्तस्तद यो बभूव परिनिर्वृतस्य सुगतस्य शासने । त्वमेव सो तादृशको बभूव अहं च आसीत्तद धर्मभाणकः ॥ १.९५ ॥

// kausīdyaprāptastada yo babhūva parinirvṛtasya sugatasya śāsane / tvameva so tādṛśako babhūva ahaṃ ca āsīttada dharmabhāṇakaḥ (1.95)

Verse 1.96

।। इमेन हं कारणहेतुनाद्य दृष्ट्वा निमित्तं इदमेवरूपम् । ज्ञानस्य तस्य प्रथितं निमित्तं प्रथमं मया तत्र वदामि दृष्टम् ॥ १.९६ ॥

// imena haṃ kāraṇahetunādya dṛṣṭvā nimittaṃ idamevarūpam / jñānasya tasya prathitaṃ nimittaṃ prathamaṃ mayā tatra vadāmi dṛṣṭam (1.96)

Verse 1.97

।। ध्रुवं जिनेन्द्रो ऽपि समन्तचक्षुः शाक्याधिराजः परमार्थदर्शी । तमेव यं इच्छति भाषणाय पर्यायमग्रं तदद्यो मया श्रुतः ॥ १.९७ ॥

// dhruvaṃ jinendro 'pi samantacakṣuḥ śākyādhirājaḥ paramārthadarśī / tameva yaṃ icchati bhāṣaṇāya paryāyamagraṃ tadadyo mayā śrutaḥ (1.97)

Verse 1.98

।। तदेव परिपूर्ण निमित्तमद्य उपायकौशल्य विनायकानाम् । संस्थापनं कुर्वति शाक्यसिंहो भाषिष्यते धर्मस्वभावमुद्राम् ॥ १.९८ ॥

// tadeva paripūrṇa nimittamadya upāyakauśalya vināyakānām / saṃsthāpanaṃ kurvati śākyasiṃho bhāṣiṣyate dharmasvabhāvamudrām (1.98)

Verse 1.99

।। प्रयता सुचित्ता भवथा कृताञ्जली भाषिष्यते लोकहितानुकम्पी । वर्षिष्यते धर्ममनन्तवर्षं तर्पिष्यते ये स्थित बोधिहेतोः ॥ १.९९ ॥

// prayatā sucittā bhavathā kṛtāñjalī bhāṣiṣyate lokahitānukampī / varṣiṣyate dharmamanantavarṣaṃ tarpiṣyate ye sthita bodhihetoḥ (1.99)

Verse 1.100

।। येषां च संदेहगतीह काचिद् ये संशया या विचिकित्स काचित् । व्यपनेष्यते ता विदुरात्मजानां ये बोधिसत्त्वा इह बोधिप्रस्थिताः ॥ १.१०० ॥

// yeṣāṃ ca saṃdehagatīha kācid ye saṃśayā yā vicikitsa kācit / vyapaneṣyate tā vidurātmajānāṃ ye bodhisattvā iha bodhiprasthitāḥ (1.100)