Books / Saddharma Pundarika Sutra

16. Chapter 15

Verse 15.1

: तथागतायुष्प्रमाणपरिवर्तः | अथ खलु भगवान् सर्वावन्तं बोधिसत्त्वगणमामन्त्रयते स्म - अवकल्पयध्वं मे कुलपुत्राः, अभिश्रद्दधध्वं तथागतस्य भूतां वाचं व्याहरतः | द्वितीयकमपि भगवांस्तान् बोधिसत्त्वानामन्त्रयते स्म - अवकल्पयध्वं मे कुलपुत्राः, अभिश्रद्दधध्वं तथागतस्य भुतां वाचं व्याहरतः | तृतीयकमपि भगवांस्तन् बोधिसत्त्वानामन्त्रयते स्म - अवकल्पयध्वं मे कुलपुत्राः, अभिश्रद्दधध्वं तथागतस्य भूतां वाचं व्याहरतः | अथ खलु स सर्वावान् बोधिसत्त्वगणो मैत्रेयं बोधिसत्त्वं महासत्त्वमग्रतः स्थापयित्वा अञ्जलिं प्रगृह्य भगवन्तमेतदवोचत् - भाषतु भगवानेतमेवार्थम्, भाषतु सुगतः | वयं तथागतस्य भाषितमभिश्रद्धास्यामः | द्वितीयकमपि स सर्वावान् बोधिसत्त्वगणो भगवन्तमेतदवोचत् - भाषतु भगवानेतमेवार्थम्, भाषतु सुगतः | वयं तथागतस्य भाषितमभिश्रद्धास्यामः | तृतीयकमपि स सर्वांवान् बोधिसत्त्वगणो भगवन्तमेतदवोचत् - भाषतु भगवानेतमेवार्थम्, भाषतु सुगतः | वयं तथागतस्य भाषितमभिश्रद्धास्याम इति || अथ खलु भगवांस्तेषां बोधिसत्त्वानां यावत्तृतीयकमप्यध्येषणां विदित्वा तान् बोधिसत्त्वानामन्त्रयते स्म - तेन हि कुलपुत्राः शृणुध्वमिदमेवंरूपं ममाधिष्ठानबलाधानम्, यदयं कुलपुत्राः सदेवमानुषासुरो लोक एवं संजानीते - सांप्रतं भगवता शाक्यमुनिना तथागतेन शाक्यकुलादभिनिष्क्रम्य गयाह्वये महानगरे बोधिमण्डवराग्रगतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धेति | नैवं द्रष्टव्यम् | अपि तु खलु पुनः कुलपुत्राः बहूनि मम कल्पकोटीनयुतशतसहस्राण्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य | तद्यथापि नाम कुलपुत्राः पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये पृथिवीधातुपरमाणवः, अथ खलु कश्चिदेव पुरुष उत्पद्यते | स एकं परमाणुरजं गृहीत्वा पूर्वस्यां दिशि पञ्चाशल्लोकधात्वसंख्येयशतसहस्राण्यतिक्रम्य तदेकं परमाणुरजः समुपनिक्षिपेत् | अनेन पर्यायेण कल्पकोटीनयुतशतसहस्राणि स पुरुषः सर्वांस्तांल्लोकधातून व्यपगतपृथिवीधातून् कुर्यात्, सर्वाणि च तानि पृथिवीधातुपरमाणुरजांसि अनेन पर्यायेण अनेन च लक्षनिक्षेपेण पूर्वस्यां दिश्युपनिक्षिपेत् | तत्किं मन्यध्वे कुलपुत्राः शक्यं ते लोकधातवः केनचिच्चिन्तयितुं वा गणयितुं वा तुलयितुं वा उपलक्षयितुं वा? एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्वः स च सर्वावान् बोधिसत्त्वगणो बोधिसत्त्वराशिर्भगवन्तमेतदवोचत् - असंख्येयास्ते भगवंल्लोकधातवः, अगणनीयाश्चित्तभूमिसमतिक्रान्ताः | सर्वश्रावकप्रत्येकबुद्धैरपि भगवन् आर्येण ज्ञानेन न शक्यं चिन्तयितुं वा गणयितुं वा तुलयितुं वा उपलक्षयितुं वा | अस्माकमपि तावद् भगवन् अवैवर्त्यभूमिस्थितानां बोधिसत्त्वानां महासत्त्वानामस्मिन् स्थाने चित्तगोचरो न प्रवर्तते | तावदप्रमेया भगवंस्ते लोकधातवो भवेयुरिति || एवमुक्ते भगवांस्तान् बोधिसत्त्वान् महासत्त्वानेतदवोचत् - आरोचयामि वः कुलपुत्राः, प्रतिवेदयामि वः | यावन्तः कुलपुत्रास्ते लोकधातवो येषु तेन पुरुषेण तानि परमाणुरजांस्युपनिक्षिप्तानि, येषु च नोपनिक्षिप्तानि, सर्वेषु तेषु कुलपुत्र लोकधातुकोटीनयुतशतसहस्रेषु न तावन्ति परमाणुरजांसि संविद्यन्ते, यावन्ति मम कल्पकोटीनयुतशतसहस्राण्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य | यतःप्रभृत्यहं कुलपुत्रा अस्यां सहायां लोकधातौ सत्त्वानां धर्मं देशयामि, अन्येषु च लोकधातुकोटीनयुतशतसहस्रेषु, ये च मया कुलपुत्रा अत्रान्तरा तथागता अर्हन्तः सम्यक्संबुद्धाः परिकीर्तिता दीपंकरतथागतप्रभृतयः, तेषां च तथागतानामर्हतां सम्यक्संबुद्धानां परिनिर्वाणानि, मयैव तानि कुलपुत्रा उपायकौशल्यधर्मदेशनाभिनिर्हारनिर्मितानि | अपि तु खलु पुनः कुलपुत्राः, तथागत आगतागतानां सत्त्वानामिन्द्रियवीर्यवैमात्रतां व्यवलोक्य तस्मिंस्तस्मिन्नात्मनो नाम व्याहरति | तस्मिंस्तस्मिंश्चात्मनः परिनिर्वाणं व्याहरति, तथा तथा च सत्त्वान् परितोषयति नानाविधैर्धर्मपर्यायैः | तत्र कुलपुत्रास्तथागतो नानाधिमुक्तानां सत्त्वानामल्पकुशलमूलानां बहूपक्लेशानामेवं वदति - दहरो ऽहमस्मि भिक्षवो जात्याभिनिष्क्रान्तः | अचिराभिसंबुद्धो ऽस्मि भिक्षवो ऽनुत्तरां सम्यक्संबोधिम् | यत्खलु पुनः कुलपुत्राः, तथागत एवं चिराभिसंबुद्ध एवं व्याहरति - अचिराभिसंबुद्धो ऽहमस्मीति, नान्यत्र सत्त्वानां परिपाचनार्थम् | अवतारणार्थमेते धर्मपर्याया भाषिताः | सर्वे च ते कुलपुत्रा धर्मपर्यायास्तथागतेन सत्त्वानां विनयार्थाय भाषिताः | यां च कुलपुत्रास्तथागतः सत्त्वानां विनयार्थवाचं भाषते आत्मोपदर्शनेन वा परोपदर्शनेन वा, आत्मारम्बणेन वा परारम्बनेन वा यत्किंचित्तथागतो व्याहरति, सर्वे ते धर्मपर्यायाः सत्यास्तथागतेन भाषिताः | नास्त्यत्र तथागतस्य मृषावादः | तत्कस्य हेतोः? दृष्टं हि तथागतेन त्रैधातुकं यथाभूतम् | न जायते न म्रियते न च्यवते नोपपद्यते न संसरति न परिनिर्वाति, न भूतं नाभूतं न सन्तं नासन्तं न तथा नान्यथा न वितथा नावितथा | न तथा त्रैधातुकं तथागतेन दृष्टं यथा बालपृथग्जनाः पश्यन्ति | प्रत्यक्षधर्मा तथागतः खल्वस्मिन् स्थाने ऽसंप्रमोषधर्मा | तत्र तथागतो यां कांचिद्वाचं व्याहरति, सर्वं तत्सत्यं न मृषा नान्यथा | अपि तु खलु पुनः सत्त्वानां नानाचरितानां नानाभिप्रायाणां संज्ञाविकल्पचरितानां कुशलमूलसंजननार्थं विविधान् धर्मपर्यायान् विविधैरारम्बणैर्व्याहरति | यद्धि कुलपुत्रास्तथागतेन कर्तव्यं तत्तथागतः करोति | तावच्चिराभिसंबुद्धो ऽपरिमितायुष्प्रमाणस्तथागतः सदा स्थितः | अपरिनिर्वृतस्तथागतः परिनिर्वाणमादर्शयति वैनेयवशेन | न च तावन्मे कुलपुत्रा अद्यापि पौर्विकी बोधिसत्त्वचर्यां परिनिष्पादिता | आयुष्प्रमाणमप्यपरिपूर्णम् | अपि तु खलु पुनः कुलपुत्रा अद्यापि तद्द्विगुणेन मे कल्पकोटीनयुतशतसहस्राणि भविष्यन्ति आयुष्प्रमाणस्यापरिपूर्णत्वात् | इदानीं (वैद्य १९१) खलु पुनरहं कुलपुत्रा अपरिनिर्वायमाण एव परिनिर्वाणमारोचयामि | तत्कस्य हेतोः? सत्त्वानहं कुलपुत्रा अनेन पर्यायेण परिपाचयामि - मा हैव मे ऽतिचिरं तिष्ठतो ऽभीक्ष्णदर्शनेन अकृतकुशलमूलाः सत्त्वाः पुण्यविरहिता दरिद्रभूताः कामलोलुपा अन्धा दृष्टिजालसंछन्नाः तिष्ठति तथागत इति विदित्वा किलीकृतसंज्ञा भवेयुः, न च तथागते दुर्लभसंज्ञामुत्पादयेयुः - आसन्ना वयं तथागतस्येति | वीर्यं नारभेयुस्त्रैधातुकान्निःसरणार्थम्, न च तथागते दुर्लभसंज्ञामुत्पादयेयुः | ततः कुलपुत्राः तथागतः उपायकौशल्येन तेषां सत्त्वानां दुर्लभप्रादुर्भावो भिक्षवस्तथागत इति वाचं व्याहरति स्म | तत्कस्य हेतोः? तथा हि तेषां सत्त्वानां बहुभिः कल्पकोटीनयुतशतसहस्रैरपि तथागतदर्शनं भवति वा न वा | ततः खल्वहं कुलपुत्रास्तदारम्बणं कृत्वैवं वदामि - दुर्लभप्रादुर्भावा हि भिक्षवस्तथागता इति | ते भूयस्या मात्रया दुर्लभप्रादुर्भावांस्तथागतान् विदित्वा आश्चर्यसंज्ञामुत्पादयिष्यन्ति, शोकसंज्ञामुत्पादयिष्यन्ति | अपश्यन्तश्च तथागतानर्हतः सम्यक्संबुद्धान् तृषिता भविष्यन्ति तथागतदर्शनाय | तेषां तानि तथागतारम्बणमनस्कारकुशलमूलानि दीर्घरात्रमर्थाय हिताय सुखाय च भविष्यन्ति | एतमर्थं विदित्वा तथागतो ऽपरिनिर्वायन्नेव परिनिर्वाणमारोचयति सत्त्वानां वैनेयवशमुपादाय | तथागतस्यैष कुलपुत्रा धर्मपर्यायो यदेवं व्याहरति | नास्त्यत्र तथागतस्य मृषावादः || तद्यथापि नाम कुलपुत्राः कश्चिदेव वैद्यपुरुषो भवेत् पण्डितो व्यक्तो मेधावी सुकुशलः सर्वव्याधिप्रशमनाय | तस्य च पुरुषस्य बहवः पुत्रा भवेयुर्दश वा विंशतिर्वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा शतं वा | स च वैद्यः प्रवासगतो भवेत्, ते चास्य सर्वे पुत्रा गरपीडा वा विषपीडा वा भवेयुः | तेन गरेण वा विषेण वा दुःखाभिर्वेदनाभिरभितूर्णा भवेयुः | ते तेन गरेण वा विषेण वा दह्यमानाः पृथिव्यां प्रपतेयुः | अथ स तेषां वैद्यः पिता प्रवासादागच्छेत् | ते चास्य पुत्रास्तेन गरेण वा विषेण वा दुःखाभिर्वेदनाभिरार्ताः | केचिद्विपरीतसंज्ञिनो भवेयुः, केचिदविपरीतसंज्ञिनो भवेयुः | सर्वे च ते तेनैव दुःखेनार्तास्तं पितरं दृष्ट्वाभिनन्देयुः, एवं चैनं वदेयुः - दिष्ट्यासि तात क्षेमस्वस्तिभ्यामागतः | तदस्माकमस्मादात्मोपरोधाद् गराद्वा विषाद्वा परिमोचयस्व | ददस्व नस्तात जीवितमिति | अथ खलु स वैद्यस्तान् पुत्रान् दुःखार्तान् दृष्ट्वा वेदनाभिभूतान् दह्यतः पृथिव्यां परिवेष्टमानान्, ततो महाभैषज्यं समुदानयित्वा वर्णसंपन्नं गन्धसंपन्नं रससंपन्नं च, शिलायां पिष्ट्वा तेषां पुत्राणां पानाय दद्यात्, एवं चैनान् वदेत् - पिबथ पुत्रा इदं महाभैषज्यं वर्णसंपन्नं गन्धसंपन्नं रससंपन्नम् | इदं यूयं पुत्रा महाभैषज्यं पीत्वा क्षिप्रमेवास्माद् गराद्वा विषाद्वा परिमोक्ष्यध्वे, स्वस्था भविष्यथ अरोगाश्च | तत्र ये तस्य वैद्यस्य पुत्रा अविपरीतसंज्ञिनः ते भैषज्यस्य वर्णं च दृष्ट्वा गन्धं चाघ्राय रसं चास्वाद्य क्षिप्रमेवाभ्यवहरेयुः | ते चाभ्यवहरन्तस्तस्मादाबाधात् सर्वेण सर्वं विमुक्ता भवेयुः | ये पुनस्तस्य पुत्रा विपरीतसंज्ञिनः ते तं पितरमभिनन्देयुः, एनं चैवं वदेयुः - दिष्टयासि तात क्षेमस्वस्तिभ्यामागतो यस्त्वमस्माकं चिकित्सक इति | (वैद्य १९२) ते चैवं वाचं भाषेरन्, तच्च भैषज्यमुपनामितं न पिबेयुः | तत्कस्य हेतोः? तथा हि तेषां तया विपरीतसंज्ञ्या तद् भैषज्यमुपनामितं वर्णेनापि न रोचते, गन्धेनापि रसेनापि न रोचते | अथ खलु स वैद्यपुरुष एवं चिन्तयेत् - इमे मम पुत्रा अनेन गरेण वा विषेण वा विपरीतसंज्ञिनः | ते खल्विदं महाभैषज्यं न पिबन्ति, मां चाभिनन्दन्ति | यन्नवहमिमान् पुत्रानुपायकौशल्येन इदं भैषज्यं पाययेयमिति | अथ खलु स वैद्यस्तान् पुत्रानुपायकौशल्येन तद्भैषज्यं पाययितुकाम एवं वदेत् - जीर्णो ऽहमस्मि कुलपुत्राः, वृद्धो महल्लकः | कालक्रिया च मे प्रत्युपस्थिता | मा च यूयं पुत्राः शोचिष्ठ, मा च क्लममापध्वम् | इदं वो मया महाभैषज्यमुपनीतम् | सचेदाकाङ्क्षध्वे, तदेव भैषज्यं पिबध्वम् | स एवं तान् पुत्रानुपायकौशल्येन अनुशिष्य अन्यतरं जनपदप्रदेशं प्रक्रान्तः | तत्र गत्वा कालगतमात्मानं येषां ग्लानानां पुत्राणामारोचयेत्, ते तस्मिन् समये ऽतीव शोचयेयुः, अतीव परिदेवेयुः - यो ह्यस्माकं पिता नाथो जनको ऽनुकम्पकः सो ऽपि नामैकः कालगतः, ते ऽद्य वयमनाथाः संवृत्ताः | ते खल्वनाथभूतमात्मानं समनुपश्यन्तो ऽशरणमात्मानं समनुपश्यन्तो ऽभीक्ष्णं शोकार्ता भवेयुः | तेषां च तयाभीक्ष्णं शोकार्ततया सा विपरीतसंज्ञा अविपरीतसंज्ञा भवेत् | यच्च तद् भैषज्यं वर्णगन्धरसोपेतं तद्वर्णगन्धरसोपेतमेव संजानीयुः | ततस्तस्मिन् समये तद्भैषज्यमभ्यवहरेयुः | ते चाभ्यवहरन्तस्तस्मादाबाधात् परिमुक्ता भवेयुः | अथ खलु स वैद्यस्तान् पुत्रानाबाधविमुक्तान् विदित्वा पुनरेवात्मानमुपदर्शयेत् | तत्किं मन्यध्वे कुलपुत्रा मा हैव तस्य वैद्यस्य तदुपायकौशल्यं कुर्वतः कश्चिन्मृषावादेन संचोदयेत्? आहुः - नो हीदं भगवन्, नो हीदं सुगत | आह - एवमेव कुलपुत्राः अहमप्यप्रमेयासंख्येयकल्पकोटीनयुतशतसहस्राभिसंबुद्ध इमामनुत्तरां सम्यक्संबोधिम् | अपि तु खलु पुनः कुलपुत्राः अहमन्तरान्तरमेवंरूपाण्युपायकौशल्यानि सत्त्वानामुपदर्शयामि विनयार्थम् | न च मे कश्चिदत्र स्थाने मृषावादो भवति || अथ खलु भगवानिमामेव अर्थगतिं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमां गाथा अभाषत - अचिन्तिया कल्पसहस्रकोट्यो यासां प्रमाणं न कदाचि विद्यते । प्राप्ता मया एष तदाग्रबोधिर्धर्मं च देशेम्यहु नित्यकालम् ॥ १५.१ ॥

: tathāgatāyuṣpramāṇaparivartaḥ | atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayate sma - avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ | dvitīyakamapi bhagavāṃstān bodhisattvānāmantrayate sma - avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhutāṃ vācaṃ vyāharataḥ | tṛtīyakamapi bhagavāṃstan bodhisattvānāmantrayate sma - avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ | atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvamagrataḥ sthāpayitvā añjaliṃ pragṛhya bhagavantametadavocat - bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ | vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ | dvitīyakamapi sa sarvāvān bodhisattvagaṇo bhagavantametadavocat - bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ | vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ | tṛtīyakamapi sa sarvāṃvān bodhisattvagaṇo bhagavantametadavocat - bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ | vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāma iti || atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ yāvattṛtīyakamapyadhyeṣaṇāṃ viditvā tān bodhisattvānāmantrayate sma - tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānam, yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte - sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti | naivaṃ draṣṭavyam | api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya | tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavaḥ, atha khalu kaścideva puruṣa utpadyate | sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇyatikramya tadekaṃ paramāṇurajaḥ samupanikṣipet | anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāṃllokadhātūna vyapagatapṛthivīdhātūn kuryāt, sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet | tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā? evamukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśirbhagavantametadavocat - asaṃkhyeyāste bhagavaṃllokadhātavaḥ, agaṇanīyāścittabhūmisamatikrāntāḥ | sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā | asmākamapi tāvad bhagavan avaivartyabhūmisthitānāṃ bodhisattvānāṃ mahāsattvānāmasmin sthāne cittagocaro na pravartate | tāvadaprameyā bhagavaṃste lokadhātavo bhaveyuriti || evamukte bhagavāṃstān bodhisattvān mahāsattvānetadavocat - ārocayāmi vaḥ kulaputrāḥ, prativedayāmi vaḥ | yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni, yeṣu ca nopanikṣiptāni, sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante, yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya | yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmi, anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu, ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayaḥ, teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni, mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni | api tu khalu punaḥ kulaputrāḥ, tathāgata āgatāgatānāṃ sattvānāmindriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati | tasmiṃstasmiṃścātmanaḥ parinirvāṇaṃ vyāharati, tathā tathā ca sattvān paritoṣayati nānāvidhairdharmaparyāyaiḥ | tatra kulaputrāstathāgato nānādhimuktānāṃ sattvānāmalpakuśalamūlānāṃ bahūpakleśānāmevaṃ vadati - daharo 'hamasmi bhikṣavo jātyābhiniṣkrāntaḥ | acirābhisaṃbuddho 'smi bhikṣavo 'nuttarāṃ samyaksaṃbodhim | yatkhalu punaḥ kulaputrāḥ, tathāgata evaṃ cirābhisaṃbuddha evaṃ vyāharati - acirābhisaṃbuddho 'hamasmīti, nānyatra sattvānāṃ paripācanārtham | avatāraṇārthamete dharmaparyāyā bhāṣitāḥ | sarve ca te kulaputrā dharmaparyāyāstathāgatena sattvānāṃ vinayārthāya bhāṣitāḥ | yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vā, ātmārambaṇena vā parārambanena vā yatkiṃcittathāgato vyāharati, sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ | nāstyatra tathāgatasya mṛṣāvādaḥ | tatkasya hetoḥ? dṛṣṭaṃ hi tathāgatena traidhātukaṃ yathābhūtam | na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti, na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā | na tathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti | pratyakṣadharmā tathāgataḥ khalvasmin sthāne 'saṃpramoṣadharmā | tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati, sarvaṃ tatsatyaṃ na mṛṣā nānyathā | api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhairārambaṇairvyāharati | yaddhi kulaputrāstathāgatena kartavyaṃ tattathāgataḥ karoti | tāvaccirābhisaṃbuddho 'parimitāyuṣpramāṇastathāgataḥ sadā sthitaḥ | aparinirvṛtastathāgataḥ parinirvāṇamādarśayati vaineyavaśena | na ca tāvanme kulaputrā adyāpi paurvikī bodhisattvacaryāṃ pariniṣpāditā | āyuṣpramāṇamapyaparipūrṇam | api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt | idānīṃ (vaidya 191) khalu punarahaṃ kulaputrā aparinirvāyamāṇa eva parinirvāṇamārocayāmi | tatkasya hetoḥ? sattvānahaṃ kulaputrā anena paryāyeṇa paripācayāmi - mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannāḥ tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyuḥ, na ca tathāgate durlabhasaṃjñāmutpādayeyuḥ - āsannā vayaṃ tathāgatasyeti | vīryaṃ nārabheyustraidhātukānniḥsaraṇārtham, na ca tathāgate durlabhasaṃjñāmutpādayeyuḥ | tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavastathāgata iti vācaṃ vyāharati sma | tatkasya hetoḥ? tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati vā na vā | tataḥ khalvahaṃ kulaputrāstadārambaṇaṃ kṛtvaivaṃ vadāmi - durlabhaprādurbhāvā hi bhikṣavastathāgatā iti | te bhūyasyā mātrayā durlabhaprādurbhāvāṃstathāgatān viditvā āścaryasaṃjñāmutpādayiṣyanti, śokasaṃjñāmutpādayiṣyanti | apaśyantaśca tathāgatānarhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya | teṣāṃ tāni tathāgatārambaṇamanaskārakuśalamūlāni dīrgharātramarthāya hitāya sukhāya ca bhaviṣyanti | etamarthaṃ viditvā tathāgato 'parinirvāyanneva parinirvāṇamārocayati sattvānāṃ vaineyavaśamupādāya | tathāgatasyaiṣa kulaputrā dharmaparyāyo yadevaṃ vyāharati | nāstyatra tathāgatasya mṛṣāvādaḥ || tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya | tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā | sa ca vaidyaḥ pravāsagato bhavet, te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ | tena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirabhitūrṇā bhaveyuḥ | te tena gareṇa vā viṣeṇa vā dahyamānāḥ pṛthivyāṃ prapateyuḥ | atha sa teṣāṃ vaidyaḥ pitā pravāsādāgacchet | te cāsya putrāstena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirārtāḥ | kecidviparītasaṃjñino bhaveyuḥ, kecidaviparītasaṃjñino bhaveyuḥ | sarve ca te tenaiva duḥkhenārtāstaṃ pitaraṃ dṛṣṭvābhinandeyuḥ, evaṃ cainaṃ vadeyuḥ - diṣṭyāsi tāta kṣemasvastibhyāmāgataḥ | tadasmākamasmādātmoparodhād garādvā viṣādvā parimocayasva | dadasva nastāta jīvitamiti | atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānān, tato mahābhaiṣajyaṃ samudānayitvā varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannaṃ ca, śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyāt, evaṃ cainān vadet - pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannam | idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve, svasthā bhaviṣyatha arogāśca | tatra ye tasya vaidyasya putrā aviparītasaṃjñinaḥ te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipramevābhyavahareyuḥ | te cābhyavaharantastasmādābādhāt sarveṇa sarvaṃ vimuktā bhaveyuḥ | ye punastasya putrā viparītasaṃjñinaḥ te taṃ pitaramabhinandeyuḥ, enaṃ caivaṃ vadeyuḥ - diṣṭayāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṃ cikitsaka iti | (vaidya 192) te caivaṃ vācaṃ bhāṣeran, tacca bhaiṣajyamupanāmitaṃ na pibeyuḥ | tatkasya hetoḥ? tathā hi teṣāṃ tayā viparītasaṃjñyā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate, gandhenāpi rasenāpi na rocate | atha khalu sa vaidyapuruṣa evaṃ cintayet - ime mama putrā anena gareṇa vā viṣeṇa vā viparītasaṃjñinaḥ | te khalvidaṃ mahābhaiṣajyaṃ na pibanti, māṃ cābhinandanti | yannavahamimān putrānupāyakauśalyena idaṃ bhaiṣajyaṃ pāyayeyamiti | atha khalu sa vaidyastān putrānupāyakauśalyena tadbhaiṣajyaṃ pāyayitukāma evaṃ vadet - jīrṇo 'hamasmi kulaputrāḥ, vṛddho mahallakaḥ | kālakriyā ca me pratyupasthitā | mā ca yūyaṃ putrāḥ śociṣṭha, mā ca klamamāpadhvam | idaṃ vo mayā mahābhaiṣajyamupanītam | sacedākāṅkṣadhve, tadeva bhaiṣajyaṃ pibadhvam | sa evaṃ tān putrānupāyakauśalyena anuśiṣya anyataraṃ janapadapradeśaṃ prakrāntaḥ | tatra gatvā kālagatamātmānaṃ yeṣāṃ glānānāṃ putrāṇāmārocayet, te tasmin samaye 'tīva śocayeyuḥ, atīva parideveyuḥ - yo hyasmākaṃ pitā nātho janako 'nukampakaḥ so 'pi nāmaikaḥ kālagataḥ, te 'dya vayamanāthāḥ saṃvṛttāḥ | te khalvanāthabhūtamātmānaṃ samanupaśyanto 'śaraṇamātmānaṃ samanupaśyanto 'bhīkṣṇaṃ śokārtā bhaveyuḥ | teṣāṃ ca tayābhīkṣṇaṃ śokārtatayā sā viparītasaṃjñā aviparītasaṃjñā bhavet | yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tadvarṇagandharasopetameva saṃjānīyuḥ | tatastasmin samaye tadbhaiṣajyamabhyavahareyuḥ | te cābhyavaharantastasmādābādhāt parimuktā bhaveyuḥ | atha khalu sa vaidyastān putrānābādhavimuktān viditvā punarevātmānamupadarśayet | tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tadupāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet? āhuḥ - no hīdaṃ bhagavan, no hīdaṃ sugata | āha - evameva kulaputrāḥ ahamapyaprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim | api tu khalu punaḥ kulaputrāḥ ahamantarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham | na ca me kaścidatra sthāne mṛṣāvādo bhavati || atha khalu bhagavānimāmeva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimāṃ gāthā abhāṣata - acintiyā kalpasahasrakoṭyo yāsāṃ pramāṇaṃ na kadāci vidyate / prāptā mayā eṣa tadāgrabodhirdharmaṃ ca deśemyahu nityakālam (15.1)

Verse 15.2

।। समादपेमी बहुबोधिसत्त्वान् बौद्धस्मि ज्ञानस्मि स्थपेमि चैव । सत्त्वान कोटीनयुताननेकान् परिपाचयामी बहुकल्पकोट्यः ॥ १५.२ ॥

// samādapemī bahubodhisattvān bauddhasmi jñānasmi sthapemi caiva / sattvāna koṭīnayutānanekān paripācayāmī bahukalpakoṭyaḥ (15.2)

Verse 15.3

।। निर्वाणभूमिं चुपदर्शयामि विनयार्थ सत्त्वान वदाम्युपायम् । न चापि निर्वाम्यहु तस्मि काले इहैव चो धर्मु प्रकाशयामि ॥ १५.३ ॥

// nirvāṇabhūmiṃ cupadarśayāmi vinayārtha sattvāna vadāmyupāyam / na cāpi nirvāmyahu tasmi kāle ihaiva co dharmu prakāśayāmi (15.3)

Verse 15.4

।। तत्रापि चात्मानमधिष्ठहामि सर्वांश्च सत्त्वान तथैव चाहम् । विपरीतबुद्धी च नरा विमूढाः तत्रैव तिष्ठन्तु न पश्यिषू माम् ॥ १५.४ ॥

// tatrāpi cātmānamadhiṣṭhahāmi sarvāṃśca sattvāna tathaiva cāham / viparītabuddhī ca narā vimūḍhāḥ tatraiva tiṣṭhantu na paśyiṣū mām (15.4)

Verse 15.5

।। परिनिर्वृतं दृष्ट्व ममात्मभावं धातूषु पूजां विविधां करोन्ति । मां चा अपश्यन्ति जनेन्ति तृष्णां ततोर्जुकं चित्त प्रभोति तेषाम् ॥ १५.५ ॥

// parinirvṛtaṃ dṛṣṭva mamātmabhāvaṃ dhātūṣu pūjāṃ vividhāṃ karonti / māṃ cā apaśyanti janenti tṛṣṇāṃ tatorjukaṃ citta prabhoti teṣām (15.5)

Verse 15.6

।। ऋजू यदा ते मृदुमार्दवाश्च उत्सृष्टकामाश्च भवन्ति सत्त्वाः । ततो अहं श्रावकसंघ कृत्वाः आत्मान दर्शेम्यहु गृध्रकूटे ॥ १५.६ ॥

// ṛjū yadā te mṛdumārdavāśca utsṛṣṭakāmāśca bhavanti sattvāḥ / tato ahaṃ śrāvakasaṃgha kṛtvāḥ ātmāna darśemyahu gṛdhrakūṭe (15.6)

Verse 15.7

।। एवं च हं तेष वदामि पश्चात् इहैव नाहं तद आसि निर्वृतः । उपायकौशल्य ममेति भिक्षवः पुनः पुनो भोम्यहु जीवलोके ॥ १५.७ ॥

// evaṃ ca haṃ teṣa vadāmi paścāt ihaiva nāhaṃ tada āsi nirvṛtaḥ / upāyakauśalya mameti bhikṣavaḥ punaḥ puno bhomyahu jīvaloke (15.7)

Verse 15.8

।। अन्येहि सत्त्वेहि पुरस्कृतो ऽहं तेषां प्रकाशेमि ममाग्रबोधिम् । यूयं च शब्दं न शृणोथ मह्यं अन्यत्र सो निर्वृतु लोकनाथः ॥ १५.८ ॥

// anyehi sattvehi puraskṛto 'haṃ teṣāṃ prakāśemi mamāgrabodhim / yūyaṃ ca śabdaṃ na śṛṇotha mahyaṃ anyatra so nirvṛtu lokanāthaḥ (15.8)

Verse 15.9

।। पश्याम्यहं सत्त्व विहन्यमानान् न चाहु दर्शेमि तदात्मभावम् । स्पृहेन्तु तावन्मम दर्शनस्य तृषितान सद्धर्मु प्रकाशयिष्ये ॥ १५.९ ॥

// paśyāmyahaṃ sattva vihanyamānān na cāhu darśemi tadātmabhāvam / spṛhentu tāvanmama darśanasya tṛṣitāna saddharmu prakāśayiṣye (15.9)

Verse 15.10

।। सदाधिष्ठानं मम एतदीदृशं अचिन्तिया कल्पसहस्रकोट्यः । न च च्यवामी इतु गृध्रकूटात् अन्यासु शय्यासनकोटिभिश्च ॥ १५.१० ॥

// sadādhiṣṭhānaṃ mama etadīdṛśaṃ acintiyā kalpasahasrakoṭyaḥ / na ca cyavāmī itu gṛdhrakūṭāt anyāsu śayyāsanakoṭibhiśca (15.10)

Verse 15.11

।। यदापि सत्त्वा इम लोकधातुं पश्यन्ति कल्पेन्ति च दह्यमानम् । तदापि चेदं मम बुद्धक्षेत्रं परिपूर्ण भोती मरुमानुषाणाम् ॥ १५.११ ॥

// yadāpi sattvā ima lokadhātuṃ paśyanti kalpenti ca dahyamānam / tadāpi cedaṃ mama buddhakṣetraṃ paripūrṇa bhotī marumānuṣāṇām (15.11)

Verse 15.12

।। क्रीडा रती तेष विचित्र भोति उद्यानप्रासादविमानकोट्यः । प्रतिमण्डितं रत्नमयैश्च पर्वतैर्द्रुमैस्तथा पुष्पफलैरुपेतैः ॥ १५.१२ ॥

// krīḍā ratī teṣa vicitra bhoti udyānaprāsādavimānakoṭyaḥ / pratimaṇḍitaṃ ratnamayaiśca parvatairdrumaistathā puṣpaphalairupetaiḥ (15.12)

Verse 15.13

।। उपरिं च देवाभिहनन्ति तूर्यान् मन्दारवर्षं च विसर्जयन्ति । ममं च अभ्योकिरि श्रावकांश्च ये चान्य बोधाविह प्रस्थिता विदू ॥ १५.१३ ॥

// upariṃ ca devābhihananti tūryān mandāravarṣaṃ ca visarjayanti / mamaṃ ca abhyokiri śrāvakāṃśca ye cānya bodhāviha prasthitā vidū (15.13)

Verse 15.14

।। एवं च मे क्षेत्रमिदं सदा स्थितं अन्ये च कल्पेन्तिमु दह्यमानम् । सुभैरवं पश्यिषु लोकधातुं उपद्रुतं शोकशताभिकीर्णम् ॥ १५.१४ ॥

// evaṃ ca me kṣetramidaṃ sadā sthitaṃ anye ca kalpentimu dahyamānam / subhairavaṃ paśyiṣu lokadhātuṃ upadrutaṃ śokaśatābhikīrṇam (15.14)

Verse 15.15

।। न चापि मे नाम शृणोन्ति जातु तथागतानां बहुकल्पकोटिभिः । धर्मस्य वा मह्य गणस्य चापि पापस्य कर्मस्य फलेवरूपम् ॥ १५.१५ ॥

// na cāpi me nāma śṛṇonti jātu tathāgatānāṃ bahukalpakoṭibhiḥ / dharmasya vā mahya gaṇasya cāpi pāpasya karmasya phalevarūpam (15.15)

Verse 15.16

।। ल्यदा तु सत्त्वा मृदु मार्दवाश्च उत्पन्न भोन्तीह मनुष्यलोके । उत्पन्नमात्राश्च शुभेन कर्मणा पश्यन्ति मां धर्मु प्रकाशयन्तम् ॥ १५.१६ ॥

// lyadā tu sattvā mṛdu mārdavāśca utpanna bhontīha manuṣyaloke / utpannamātrāśca śubhena karmaṇā paśyanti māṃ dharmu prakāśayantam (15.16)

Verse 15.17

।। न चाहु भाषामि कदाचि तेषां इमां क्रियामीदृशिकीमनुत्तराम् । तेनो अहं दृष्ट चिरस्य भोमि ततो ऽस्य भाषामि सुदुर्लभा जिनाः ॥ १५.१७ ॥

// na cāhu bhāṣāmi kadāci teṣāṃ imāṃ kriyāmīdṛśikīmanuttarām / teno ahaṃ dṛṣṭa cirasya bhomi tato 'sya bhāṣāmi sudurlabhā jināḥ (15.17)

Verse 15.18

।। एतादृशं ज्ञानबलं मयेदं प्रभास्वरं यस्य न कश्चिदन्तः । आयुश्च मे दीर्घमनन्तकल्पं समुपार्जितं पूर्व चरित्व चर्याम् ॥ १५.१८ ॥

// etādṛśaṃ jñānabalaṃ mayedaṃ prabhāsvaraṃ yasya na kaścidantaḥ / āyuśca me dīrghamanantakalpaṃ samupārjitaṃ pūrva caritva caryām (15.18)

Verse 15.19

।। मा संशयं अत्र कुरुध्व पण्डिता विचिकित्सितं चो जहथा अशेषम् । भूतां प्रभाषाम्यहमेत वाचं मृषा ममा नैव कदाचि वाग् भवेत् ॥ १५.१९ ॥

// mā saṃśayaṃ atra kurudhva paṇḍitā vicikitsitaṃ co jahathā aśeṣam / bhūtāṃ prabhāṣāmyahameta vācaṃ mṛṣā mamā naiva kadāci vāg bhavet (15.19)

Verse 15.20

।। यथा हि सो वैद्य उपायशिक्षितो विपरीतसंज्ञीन सुतान हेतोः । जीवन्तमात्मान मृतेति ब्रूयात् तं वैद्यु विज्ञो न मृषेण चोदयेत् ॥ १५.२० ॥

// yathā hi so vaidya upāyaśikṣito viparītasaṃjñīna sutāna hetoḥ / jīvantamātmāna mṛteti brūyāt taṃ vaidyu vijño na mṛṣeṇa codayet (15.20)

Verse 15.21

।। यमेव हं लोकपिता स्वयंभूः चिकित्सकः सर्वप्रजान नाथः । विपरीत मूढांश्च विदित्व बालान् अनिर्वृतो निर्वृत दर्शयामि ॥ १५.२१ ॥

// yameva haṃ lokapitā svayaṃbhūḥ cikitsakaḥ sarvaprajāna nāthaḥ / viparīta mūḍhāṃśca viditva bālān anirvṛto nirvṛta darśayāmi (15.21)

Verse 15.22

।। किं कारणं मह्यमभीक्ष्णदर्शनाद् विश्रद्ध भोन्ती अबुधा अजानकाः । विश्वस्त कामेषु प्रमत्त भोन्ती प्रमादहेतोः प्रपतन्ति दुर्गतिम् ॥ १५.२२ ॥

// kiṃ kāraṇaṃ mahyamabhīkṣṇadarśanād viśraddha bhontī abudhā ajānakāḥ / viśvasta kāmeṣu pramatta bhontī pramādahetoḥ prapatanti durgatim (15.22)

Verse 15.23

।। चरिं चरिं जानिय नित्यकालं वदामि सत्त्वान तथा तथाहम् । कथं नु बोधावुपनामयेयं कथ बुद्धधर्माण भवेयु लाभिनः ॥ १५.२३ ॥

// cariṃ cariṃ jāniya nityakālaṃ vadāmi sattvāna tathā tathāham / kathaṃ nu bodhāvupanāmayeyaṃ katha buddhadharmāṇa bhaveyu lābhinaḥ (15.23)