1. Skanda Purāṇa (part 1 of 9)
अवन्तीखण्डः · रेवा खण्डम् — Adhyāya 159
अध्याय १५९
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज तीर्थं परमपावनम् ।
नर्मदायां सुदुष्प्रापं सिद्धं ह्यनरकेश्वरम् ॥ १५९.१ ॥
तस्मिंस्तीर्थे नरः स्नात्वा पापकर्मापि भारत ।
न पश्यति महाघोरं नरकद्वारसंज्ञिकम् ॥ १५९.२ ॥
युधिष्ठिर उवाच -
शुभाशुभफलैस्तात भुक्तभोगा नरास्त्विह ।
जायन्ते लक्षणैर्यैस्तु तानि मे वद सत्तम ॥ १५९.३ ॥
यथा निर्गच्छते जीवस्त्यक्त्वा देहं न पश्यति ।
तथा गच्छन्पुनर्देहं पञ्चभूतसमन्वितः ॥ १५९.४ ॥
त्वगस्थिमांसमेदोऽसृक्केशस्नायुशतैः सह ।
विण्मूत्ररेतःसङ्घाते का संज्ञा जायते नृणाम् ॥ १५९.५ ॥
एवमुक्तः स मार्कण्डः कथयामास योगवित् ।
ध्यात्वा सनातनं सर्वं देवदेवं महेश्वरम् ॥ १५९.६ ॥
मार्कण्डेय उवाच -
शृणु पार्थ महाप्रश्नं कथयामि यथाश्रुतम् ।
सकाशाद्ब्रह्मणः पूर्वमृषिदेवसमागमे ॥ १५९.७ ॥
गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।
इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ १५९.८ ॥
अचीर्णप्रायश्चित्तानां यमलोके ह्यनेकधा ।
यातनाभिर्वियुक्तानामनेकां जीवसन्ततिम् ॥ १५९.९ ॥
गत्वा मनुष्यभावे तु पापचिह्ना भवन्ति ते ।
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ॥ १५९.१० ॥
सहित्वा यातनां सर्वां गत्वा वैवस्वतक्षयम् ।
विस्तीर्णयातना ये तु लोकमायान्ति चिह्निताः ॥ १५९.११ ॥
गद्गदोऽनृतवादी स्यान्मूकश्चैव गवानृते ।
ब्रह्महा जायते कुष्ठी श्यावदन्तस्तु मद्यपः ॥ १५९.१२ ॥
कुनखी स्वर्णहरणाद्दुःश्चर्मा गुरुतल्पगः ।
संयोगी हीनयोनिः स्याद्दरिद्रोऽदत्तदानतः ॥ १५९.१३ ॥
ग्रामशूकरतां याति ह्ययाज्ययाजको नृप ।
खरो वै बहुयाजी स्याच्छ्वानिमन्त्रितभोजनात् ॥ १५९.१४ ॥
अपरीक्षितभोजी स्याद्वानरो विजने वने ।
वितर्जकोऽथ मार्जारः खद्योतः कक्षदाहतः ॥ १५९.१५ ॥
अविद्यां यः प्रयच्छेत बलीवर्दो भवेद्धि सः ।
अन्नं पर्युषितं विप्रे ददानः क्लीबतां व्रजेत् ॥ १५९.१६ ॥
मात्सर्यादथ जात्यन्धो जन्मान्धः पुस्तकं हरन् ।
फलान्याहरतोऽपत्यं म्रियते नात्र संशयः ॥ १५९.१७ ॥
मृतो वानरतां याति तन्मुक्तोऽथ गलाडवान् ।
अदत्त्वा भक्षयंस्तानि ह्यनपत्यो भवेन्नरः ॥ १५९.१८ ॥
हरन्वस्त्रं भवेद्गोधा गरदः पवनाशनः ।
प्रव्राजी गमनाद्राजन् भवेन्मरुपिशाचकः ॥ १५९.१९ ॥
वातको जलहर्ता च धान्यहर्ता च मूषकः ।
अप्राप्तयौवनां गच्छन् भवेत्सर्प इति श्रुतिः ॥ १५९.२० ॥
गुरुदाराभिलाषी च कृकलासो भवेच्चिरम् ।
जलप्रस्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः ॥ १५९.२१ ॥
अविक्रेयान् विक्रयन् वै विकटाक्षो भवेन्नरः ।
अयोनिगो वृको हि स्यादुलूकः क्रयवञ्चनात् ॥ १५९.२२ ॥
मृतस्यैकादशाहे तु भुञ्जानः श्वोपजायते ।
प्रतिश्रुत्य द्विजायार्थमददन्मधुको भवेत् ॥ १५९.२३ ॥
राज्ञीगमाद्भवेद्दुष्टतस्करो विड्वराहकः ।
परिवादी द्विजातीनां लभते काच्छपीं तनुम् ॥ १५९.२४ ॥
व्रजेद्देवलको राजन्योनिं चाण्डालसंज्ञिताम् ।
दुर्भगः फलविक्रेता वृश्चिको वृषलीपतिः ॥ १५९.२५ ॥
मार्जारोऽग्निं पदा स्पृष्ट्वा रोगवान्परमांसभुक् ।
सोदर्यागमनात्षण्ढो दुर्गन्धश्च सुगन्धहृत् ॥ १५९.२६ ॥
ग्रामभट्टो दिवाकीर्तिर्दैवज्ञो गर्दभो भवेत् ।
कुपण्डितः स्यान्मार्जारो भषणो व्यास एव च ॥ १५९.२७ ॥
स एव दृश्यते राजन्प्रकाशात्परमर्मणाम् ।
यद्वा तद्वापि पारक्यं स्वल्पं वा यदि वा बहु ॥ १५९.२८ ॥
कृत्वा वै योनिमाप्नोति तैरश्चीं नात्र संशयः ।
एवमादीनि चान्यानि चिह्नानि नृपसत्तम ॥ १५९.२९ ॥
स्वकर्मविहितान्येव दृश्यन्ते यैस्तु मानवाः ।
ततो जन्म ततो मृत्युः सर्वजन्तुषु भारत ॥ १५९.३० ॥
जायते नात्र सन्देहः समीभूते शुभाशुभे ।
स्त्रीपुंसोः सम्प्रयोगेण विषुद्धे शुक्रशोणिते ॥ १५९.३१ ॥
पञ्चभूतसमोपेतः सषष्ठः परमेश्वरः ।
इन्द्रियाणि मनः प्राणा ज्ञानमायुः सुखं धृतिः ॥ १५९.३२ ॥
धारणं प्रेरणं दुःखमिच्छाहङ्कार एव च ।
प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ ॥ १५९.३३ ॥
तस्येदमात्मनः सर्वमनादेरादिमिच्छतः ।
प्रथमे मासि स क्लेदभूतो धातुविमूर्छितः ॥ १५९.३४ ॥
मास्यर्बुदं द्वितीये तु तृतीये चेन्द्रियैर्युतः ।
आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रबलादिकम् ।
वायोस्तु स्पर्शनं चेष्टां दहनं रौक्ष्यमेव च ॥ १५९.३५ ॥
पित्तात्तु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशनम् ।
सलिलाद्रसनां शैत्यं स्नेहं क्लेदं समार्दवम् ॥ १५९.३६ ॥
भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च ।
आत्मा गृह्णात्यजः पूर्वं तृतीये स्पन्दते च सः ॥ १५९.३७ ॥
दौर्हृदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः ॥ १५९.३८ ॥
स्थैर्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः ।
षष्ठे बलं च वर्णश्च नखरोम्णां च सम्भवः ॥ १५९.३९ ॥
मनसा चेतनायुक्तो नखरोमशतावृतः ।
सप्तमे चाष्टमे चैव त्वचावान् स्मृतिवानपि ॥ १५९.४० ॥
पुनर्गर्भं पुनर्धात्रीमेनस्तस्य प्रधावति ।
अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते ॥ १५९.४१ ॥
नवमे दशमे वापि प्रबलैः सूतिमारुतैः ।
निर्गच्छते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥ १५९.४२ ॥
शरीरावयवैर्युक्तो ह्यङ्गप्रत्यङ्गसंयुतः ।
अष्टोत्तरं मर्मशतं तत्रास्था तु शतत्रयम् ॥ १५९.४३ ॥
सप्त शिरःकपालानि विहितानि स्वयम्भुवा ।
तिस्रः कोट्योऽर्धकोटी च रोम्णामङ्गेषु भारत ॥ १५९.४४ ॥
द्वासप्ततिसहस्राणि हृदयादभिनिसृताः ।
हितानाम हि ता नाड्यस्तासां मध्ये शशिप्रभा ॥ १५९.४५ ॥
एवं प्रवर्तते चक्रं भूतग्रामे चतुर्विधे ।
उत्पत्तिश्च विनाशश्च भवतः सर्वदेहिनाम् ॥ १५९.४६ ॥
गतिरूर्ध्वा च धर्मेण ह्यधर्मेण त्वधोगतिः ।
जायते सर्ववर्णानां स्वधर्मचलनान्नृप ॥ १५९.४७ ॥
देवत्वे मानवत्वे च दानभोगादिकाः क्रियाः ।
दृश्यन्ते या महाराज तत्सर्वं कर्मजं फलम् ॥ १५९.४८ ॥
स्वकर्म विहिते घोरे कामक्सोधार्जिते शुभे ।
निमज्जेन्नरके घोरे यस्योत्तारो न विद्यते ॥ १५९.४९ ॥
उत्तारणाय जन्तूनां नर्मदातटसंस्थितम् ।
एवमेतन्महातीर्थं नरकेश्वरमुत्तमम् ॥ १५९.५० ॥
नरकापहं महापुण्यं महापातकनाशनम् ।
तत्तीर्थं सर्वतीर्थानामुत्तमं भुवि दुर्लभम् ॥ १५९.५१ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत महेश्वरम् ।
महापातकयुक्तोऽपि नरकं नैव पश्यति ॥ १५९.५२ ॥
तत्र तीर्थे तु यो दद्याद्धेनुं वैतरणीं शुभाम् ।
स मुच्यते सुखेनैव वैतरण्यां न संशयः ॥ १५९.५३ ॥
युधिष्ठिर उवाच -
यमद्वारे महाघोरे या सा वैतरणी नदी ।
किंरूपा किंप्रमाणा सा कथं सा वहति द्विज ॥ १५९.५४ ॥
कथं तस्याः प्रमुच्यन्ते केषां वासस्तु संततम् ।
केषां तु सानुकूला सा ह्येतद्विस्तरतो वद ॥ १५९.५५ ॥
श्रीमार्कण्डेय उवाच -
धर्मपुत्र महाबाहो शृणु सर्वं मयोदितम् ।
या सा वैतरणी नाम यमद्वारे महासरित् ॥ १५९.५६ ॥
अगाधा पाररहिता दृष्टमात्रा भयावहा ।
पूयशोणिततोया सा मांसकर्दमनिर्मिता ॥ १५९.५७ ॥
तत्तोयं भ्रमते तूर्णं तापीमध्ये घृतं यथा ।
कृमिभिः सङ्कुलं पूयं वज्रतुण्डैरयोमुखैः ॥ १५९.५८ ॥
शिशुमारैश्च मकरैर्वज्रकर्तरिसंयुतैः ।
अन्यैश्च जलजीवैः सा सुहिंस्रैर्मर्मभेदिभिः ॥ १५९.५९ ॥
तपन्ति द्वादशादित्याः प्रलयान्त इवोल्बणाः ।
पतन्ति तत्र वै मर्त्याः क्रन्दन्तो भृशदारुणम् ॥ १५९.६० ॥
हा भ्रातः पुत्र हा मातः प्रलपन्ति मुहुर्मुहुः ।
असिपत्त्रवने घोरे पतन्तं योऽभिरक्षति ॥ १५९.६१ ॥
प्रतरन्ति निमज्जन्ति ग्लानिं गच्छन्ति जन्तवः ।
चतुर्विधैः प्राणिगणैर्द्रष्टव्या सा महानदी ॥ १५९.६२ ॥
तरन्ति तस्यां सद्दानैरन्यथा तु पतन्ति ते ।
मातरं ये न मन्यन्ते ह्याचार्यं गुरुमेव च ॥ १५९.६३ ॥
अवजानन्ति मूढा ये तेषां वासस्तु संततम् ।
पतिव्रतां साधुशीलामूढां धर्मेषु निश्चलाम् ॥ १५९.६४ ॥
परित्यजन्ति ये पापाः संततं तु वसन्ति ते ।
विश्वासप्रतिपन्नानां स्वामिमित्रतपस्विनाम् ॥ १५९.६५ ॥
स्त्रीबालवृद्धदीनानां छिद्रमन्वेषयन्ति ये ।
पच्यन्ते तत्र मध्ये वै क्रन्दमानाः सुपापिनः ॥ १५९.६६ ॥
श्रान्तं बुभुक्षितं विप्रं यो विघ्नयति दुर्मतिः ।
कृमिभिर्भक्ष्यते तत्र यावत्कल्पशतत्रयम् ॥ १५९.६७ ॥
ब्राह्मणाय प्रतिश्रुत्य यो दानं न प्रयच्छति ।
आहूय नास्ति यो ब्रूते तस्य वासस्तु संततम् ॥ १५९.६८ ॥
अग्निदो गरदश्चैव राजगामी च पैशुनी ।
कथाभङ्गकरश्चैव कूटसाक्षी च मद्यपः ॥ १५९.६९ ॥
वज्रविध्वंसकश्चैव स्वयंदत्तापहारकः ।
सुक्षेत्रसेतुभेदी च परदारप्रधर्षकः ॥ १५९.७० ॥
ब्राह्मणो रसविक्रेता वृषलीपतिरेव च ।
गोकुलस्य तृषार्तस्य पालीभेदं करोति यः ॥ १५९.७१ ॥
कन्याभिदूषकश्चैव दानं दत्त्वा तु तापकः ।
शूद्रस्तु कपिलापानी ब्राह्मणो मांसभोजनी ॥ १५९.७२ ॥
एते वसन्ति सततं मा विचारं कृथा नृप ।
सानुकूला भवेद्येन तच्छृणुष्व नराधिप ॥ १५९.७३ ॥
अयने विषुवे चैव व्यतीपाते दिनक्षये ।
अन्येषु पुण्यकालेषु दीयते दानमुत्तमम् ॥ १५९.७४ ॥
कृष्णां वा पाटलां वापि कुर्याद्वैतरणीं शुभाम् ।
स्वर्णशृङ्गीं रूप्यखुरां कांस्यपात्रस्य दोहिनीम् ॥ १५९.७५ ॥
कृष्णवस्त्रयुगाच्छन्नां सप्तधान्यसमन्विताम् ।
कुर्यात्सद्रोणशिखर आसीनां ताम्रभाजने ॥ १५९.७६ ॥
यमं हैमं प्रकुर्वीत लोहदण्डसमन्वितम् ।
इक्षुदण्डमयं बद्ध्वा ह्युडुपं पट्टबन्धनैः ॥ १५९.७७ ॥
उडुपोपरि तां धेनुं सूर्यदेहसमुद्भवाम् ।
कृत्वा प्रकल्पयेद्विद्वाञ्छत्त्रोपानद्युगान्विताम् ॥ १५९.७८ ॥
अङ्गुलीयकवासांसि ब्राह्मणाय निवेदयेत् ।
इममुच्चारयेन्मन्त्रं संगृह्यास्याश्च पुच्छकम् ॥ १५९.७९ ॥
ओं यमद्वारे महाघोरे या सा वैतरणी नदी ।
तर्तुकामो ददाम्येनां तुभ्यं वैतरणि नमः ।
इत्यधिवासनमन्त्रः ॥ १५९.८० ॥
गावो मे चाग्रतः सन्तु गावो मे सन्तु पृष्ठतः ।
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ १५९.८१ ॥
ओं विष्णुरूप द्विजश्रेष्ठ भूदेव पङ्क्तिपावन ।
सदक्षिणा मया दत्ता तुभ्यं वैतरणि नमः ।
इति दानमन्त्रः ॥ १५९.८२ ॥
ब्राह्मणं धर्मराजं च धेनुं वैतरणीं शिवाम् ।
सर्वं प्रदक्षिणीकृत्य ब्राह्मणाय निवेदयेत् ॥ १५९.८३ ॥
पुच्छं संगृह्य सुरभेरग्रे कृत्वा द्विजं ततः ॥ १५९.८४ ॥
धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये ।
उत्तितीर्षुरहं धेनो वैतरण्यै नमोऽस्तु ते ।
इत्यनुव्रजमन्त्रः ॥ १५९.८५ ॥
अनुव्रजेत गच्छन्तं सर्वं तस्य गृहं नयेत् ।
एवं कृते महीपाल सरित्स्यात्सुखवाहिनी ॥ १५९.८६ ॥
तारयते तया धेन्वा सा सरिज्जलवाहिनी ।
सर्वान्कामानवाप्नोति ये दिव्या ये च मानुषाः ॥ १५९.८७ ॥
रोगी रोगाद्विमुक्तः स्याच्छाम्यन्ति परमापदः ।
स्वस्थे सहस्रगुणितमातुरे शतसंमितम् ॥ १५९.८८ ॥
मृतस्यैव तु यद्दानं परोक्षे तत्समं स्मृतम् ।
स्वहस्तेन ततो देयं मृते कः कस्य दास्यति ।
इति मत्वा महाराज स्वदत्तं स्यान्महाफलम् ॥ १५९.८९ ॥
इत्येवमुक्तं तव धर्मसूनो दानं मया वैतरणीसमुत्थम् ।
शृणोति भक्त्या पठतीह सम्यक्स याति विष्णोः पदमप्रमेयम् ॥ १५९.९० ॥
श्रीमार्कण्डेय उवाच -
प्राप्ते चाश्वयुजे मासि तस्मिन्कृष्णा चतुर्दशी ।
स्नात्वा कृत्वा ततः श्राद्धं सम्पूज्य च महेश्वरम् ॥ १५९.९१ ॥
पितृभ्यो दीयते दानं भक्तिश्रद्धासमन्वितैः ।
पश्चाज्जागरणं कुर्यात्सत्कथाश्रवणादिभिः ॥ १५९.९२ ॥
ततः प्रभातसमये स्नात्वा वै नर्मदाजले ।
तर्पणं विधिवत्कृत्वा पित्ःणां देवपूर्वकम् ॥ १५९.९३ ॥
सौवर्णे घृतसंयुक्तं दीपं दद्याद्द्विजातये ।
पश्चात्संभोजयेद्विप्रान् स्वयं चैव विमत्सरः ॥ १५९.९४ ॥
एवं कृते नरश्रेष्ठ न जन्तुर्नरकं व्रजेत् ।
अवश्यमेव मनुजैर्द्रष्टव्या नारकी स्थितिः ॥ १५९.९५ ॥
अनेन विधिना कृत्वा न पश्येन्नरकान्नरः ।
तत्र तीर्थे मृतानां तु नराणां विधिना नृप ॥ १५९.९६ ॥
मन्वन्तरं शिवे लोके वासो भवति दुर्लभे ।
विमानेनार्कवर्णेन किंकिणीशतशोभिना ॥ १५९.९७ ॥
स गच्छति महाभाग सेव्यमानोऽप्सरोगणैः ।
भुनक्ति विविधान्भोगानुक्तकालं न संशयः ॥ १५९.९८ ॥
पूर्णे चैव ततः काल इह मानुष्यतां गतः ।
सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ १५९.९९ ॥
प्राप्य चाश्वयुजे मासि कृष्णपक्षे चतुर्दशीम् ।
अहोरात्रोषितो भूत्वा पूजयित्वा महेश्वरम् ।
महापातकयुक्तोऽपि मुच्यते नात्र संशयः ॥ १५९.१०० ॥
अष्टाविंशतिकोट्यो वै नरकाणां युधिष्ठिर ।
विमुक्ता नरकैर्दुःखैः शिवलोकं व्रजन्ति ते ॥ १५९.१०१ ॥
तत्र भुक्त्वा महाभोगान्दिव्यैश्वर्यसमन्वितान् ।
लभन्ते मानुषं जन्म दुर्लभं भुवि मानवाः ॥ १५९.१०२ ॥
॥ इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽनरकेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनषष्ट्युत्तरशततमोऽध्यायः ॥
काशीखण्डः — Adhyāya 74
।। स्कंद उवाच ।। ।।
शृणु वातापि संहर्तः काश्यां पातकतंकिनी ।।
पद्मकल्पे तु या वृत्ता दमनस्य द्विजन्मनः ।।१।।
भारद्वाजस्य तनयो दमनो नाम नामतः ।।
कृतमौंजीविधिः सोथ विद्याजातं प्रगृह्य च ।। २ ।।
संसारदुःखबहुलं जीवितं चापि चंचलम् ।।
विज्ञाय दमनो विद्वान्निर्जगाम गृहान्निजात् ।। ३ ।।
कांचिद्दिशं समालंब्य निर्वेदं परमं गतः ।।
प्रत्याश्रमं प्रतिनगं प्रत्यब्धि प्रतिकाननम् ।। ४ ।।
प्रतितीर्थं प्रतिनदि स बभ्राम तपोयुतः ।।
यावंत्यायतनानीह तिष्ठंति परितो भुवम् ।।५।।
अध्युवास स तावंति संयतेंद्रियमानसः ।।
परं न मनसः स्थैर्यं क्वापि प्रापि च तेन वै ।। ६ ।।
मनोरथोपदेष्टा च कुत्रचित्क्वापि नेक्षितः ।।
कदाचिद्दैवयोगात्स दमनो नाम तापसः ।।७।।
रेवातटे निरैक्षिष्ट तीर्थं चामरकंटकम् ।।
महदायतनं पुण्यमोंकारस्यापि तत्र वै ।।८।।
दृष्ट्वा हृष्टमना आसीच्चेतः स्थैर्यमवाप ह ।।
अथ पाशुपतांस्तत्र स निरीक्ष्य तपोधनान् ।। ९ ।।
विभूतिभूषिततनून्कृतलिंगसमर्चनान् ।।
विहितप्राणयात्रांश्च कृतागमविचारणान् ।। 4.2.74.१० ।।
स्वस्थोपविष्टान्स्वपुरोरग्रतोऽचलमानसान् ।।
प्रणम्योपाविशत्तत्र तदाचार्यस्य सन्निधौ ।। ११ ।।
प्रबद्धहस्तयुगलः प्रणमतरकंधरः ।।
अथ पाशुपताचार्यो गर्गो नाम महामुनिः ।। १२ ।।
वार्धकेन समाक्रांतस्तपसा कृशविग्रहः ।।
शंभोराराधनेनिष्ठः श्रेष्ठः सर्वतपस्विषु ।।१३।।
पप्रच्छ दमनं चेति कस्त्वं कस्मादिहागतः ।।
तरुणोपि विरक्तोसि कुतस्तद्वद सत्तम ।।।१४।।।
इति प्रणयपूर्वं स निशम्य दमनोऽब्रवीत् ।।
भगोः पाशुपताचार्य सर्वज्ञाराधनप्रिय ।। १५ ।।
कथयामि यथार्थं ते निजचेतोविचेष्टितम् ।।
अहं ब्राह्मणदायादो वेदशास्त्रकृतश्रमः ।। १६ ।।
संसारासारतां ज्ञात्वा वानप्रस्थमशिश्रियम् ।।
अनेनैव शरीरेण महासिद्धिमभीप्सता ।।१७।।
स्नातं बहुषु तीर्थेषु मंत्रा जप्तास्तु कोटिशः ।।
देवताः सेविता बह्व्यो हवनं च कृतं बहु ।। १८ ।।
शुश्रूषिताश्च गुरवो बहवो बह्वनेहसम् ।।
महाश्मशानेषु निशा भूयस्योप्यतिवाहिताः ।। १९ ।।
शिखराणि गिरींद्राणां मया चाध्युषितान्यहो ।।
दिव्यौषधि सहस्राणि मया संसाधितान्यपि ।।4.2.74.२०।।
रसायनानि बहुशः सेवितानि मया पुनः ।।
महासाहसमालंब्य सिद्धाध्युषितकंदराः ।। २१ ।।
मया प्रविष्टा बहुशः कृतांतवदनोपमाः ।।
तपश्चापि महत्तप्तं बहुभिर्नियमैर्यमैः ।। २२ ।।
परं किंचित्क्वचिन्नैक्षि सिद्ध्यंकुरमपि प्रभो ।।
इदानीं त्वामनुप्राप्य महीं पर्यटता मया ।। २३ ।।
मनसः स्थैर्यमापन्नमिव संप्राप्तसिद्धिना ।।
अवश्यं त्वन्मुखांभोजाद्यद्वचो निःसरिष्यति ।। ।। २४ ।।
तेनैव महती सिद्धिर्भवित्री मम नान्यथा ।।
तद्ब्रूहि सूपदेशं च कथं सिद्धिर्भवेन्मम ।। २५ ।।
अनेनैव शरीरेण पार्थिवेन प्रथीयसी ।।
दमनस्य निशम्येति गर्गाचार्यो वचस्तदा ।। २६ ।।
प्रत्यक्षदृष्टं प्रोवाच महदाश्चर्यमुत्तमम् ।।
सर्वेषां शृण्वतां तत्र शिष्याणां स्थिरचेतसाम् ।।
मुमुक्षूणां धृतवतां महापाशुपतं व्रतम् ।।२७।।
।। गर्ग उवाच ।। ।।
अनेनैवेह देहेन यदि त्वं सिद्धिकामुकः ।।
शृणुष्वावहितो भूत्वा तदा ते कथयाम्यहम् ।।२८।।
अविमुक्ते महाक्षेत्रे सर्वसिद्धिप्रदे सताम् ।।
धर्मार्थकाममोक्षाख्य रत्नानां परमाकरे ।। २९ ।।
समाश्रितानां जंतूनां सर्वेषां सर्वकर्मणाम् ।।
शलभानां प्रदीपाभे तमःस्तोम महाद्विपि ।। 4.2.74.३० ।।
कर्मभूरुह दावाग्नौ संसाराब्ध्यौर्वशोचिपि ।।
निर्वाणलक्ष्मी क्षीराब्धौ सुखसंकेतसद्मनि ।। ३१ ।।
दीर्घनिद्रा प्रसुप्तानां परमोद्बोधदायिनि ।।
यातायातश्रमापन्नप्राणिमार्गमहीरुहि ।। ३२ ।।
अनेकजन्मजनित महापापाद्रिवज्रिणि ।।
नामोच्चारकृतां पुंसां महाश्रेयो विधायिनि ।। ३३ ।।
विश्वेशितुः परेधाम्नि सीम्नि स्वर्गापवर्गयोः ।।
स्वर्धुनी लोलकल्लोला नित्यक्षालित भूतले ।। ३४ ।।
एवंविधे महाक्षेत्रे सर्वदुःखौघहारिणि ।।
प्रत्यक्षं मम यद्वृत्तं तद्ब्रवीमि महामते ।। ३५ ।।
यत्र कालभयं नास्ति यत्र नास्त्येनसो भयम् ।।
तत्क्षेत्रमहिमानं कः सम्यग्वर्णयितुं क्षमः ।। ३६ ।।
तीर्थानि यानि लोकेस्मिञ्जंतूनामघहान्यहो ।।
तानि सर्वाणि शुद्ध्यर्थं काशीमायांति नित्यशः ।। ३७ ।।
अपि काश्यां वसेद्यस्तु सर्वाशी सर्वविक्रयी ।।
स यां गतिं लभेन्मर्त्यो यज्ञैर्दानैर्न सान्यतः ।। ३८ ।।
रागबीजसमुद्भूतः संसारविटपो महान् ।।
दीर्घस्वाप कुठारेण च्छिन्नः काश्यां न वर्धते ।। ३९ ।।
सर्वेषामूषराणां तु काशी परम ऊषरः ।।
वप्तुर्बीजमिदं तस्मिन्नुप्तं नैव प्ररोहति ।। 4.2.74.४० ।।
स्मरिष्यंतीह ये काशीमवश्यं तेपि साधवः ।।
तेप्यघौघ विनिर्मुक्ता यास्यंति गतिमुत्तमाम् ।। ४१ ।।
विभूतिः सर्वलोकानां सत्यादीनां सुभंगुरा ।।
अभंगुरा विमुक्तस्य सा तु लभ्या शिवाज्ञया ।। ४२ ।।
कृमिकीटपतंगानामविमुक्ते तनुत्यजाम् ।।
विभूतिर्दृश्यते या सा क्वास्ति ब्रह्मांडमंडले ।। ४३ ।।
वाराणसी यदा प्राप्ता कदाचित्कालपर्ययात् ।।
स उपायो विधातव्यो येन नो निष्क्रमो बहिः ।। ४४ ।।
पूर्वतो मणिकर्णीशो ब्रह्मेशो दक्षिणे स्थितः ।।
पश्चिमे चैव गोकर्णो भारभूतस्तथोत्तरे ।।४५।।
इत्येतदुत्तमं क्षेत्रमविमुक्ते महाफलम् ।।
मणिकर्णी ह्रदे स्नात्वा दृष्ट्वा विश्वेश्वरंविभुम् ।।४६।।
क्षेत्रं प्रदक्षिणीकृत्य राजसूयफलं लभेत् ।।
तत्र श्राद्धप्रदातुश्च मुच्यंते प्रपितामहाः ।। ४७ ।।
अविमुक्त समं क्षेत्रमपि ब्रह्मांडगोलके ।।
न विद्यते क्वचित्सत्यं सत्यं साधकसिद्धिदम् ।।४८।।
रक्षंति सततं क्षेत्रं यत्र पाशासिपाणयः ।।
महापारिषदा उग्राः क्रूरेभ्योऽक्रूरबुद्धयः ।। ४९ ।।
प्राग्द्वारमट्टहासश्च गणकोटिपरीवृतः ।।
रक्षेदहर्निशं क्षेत्रं दुर्वृत्तेभ्यो विभीषणः ।। 4.2.74.५० ।।
तथैव भूतधात्रीशः क्षेत्रदक्षिणरक्षकः ।।
गोकर्णः पश्चिमद्वारं पाति कोटिगणावृतः ।। ५१ ।।
उदग्द्वारं तथा रक्षेद्घंटाकर्णो महागणः ।।
ऐशंकोणं छागवक्त्रो भीषणो वह्निदिग्दलम् ।।५२ ।।
रक्षः काष्ठां शंकुकर्णो दृमिचंडो मरुद्दिशम् ।।
इत्थं क्षेत्रं सदा पांति गणा एतेऽति भास्वराः ।।८५३।।
कालाक्षोरण भद्रस्तु कौलेयः कालकंपनः ।।
एते पूर्वेण रक्षंति गंगापारे स्थिता गणाः ।। ५४ ।।
वीरभद्रो नभश्चैव कर्दमालिप्तविग्रहः ।।
स्थूलकर्णो महाबाहुरसिपारे व्यवस्थिताः ।। ५५ ।।
विशालाक्षो महाभीमः कुंडोदरमहोदरौ ।।
रक्षंति पश्चिमद्वारं देहलीदेशसंस्थिताः ।।५६।।
नंदिसेनश्च पंचालः खरपादकरंटकः ।।
आनंदोगोपको बभ्रू रक्षंति वरणातटे ।।।। ५७ ।।
तस्मिन्क्षेत्रे महापुण्ये लिंगमोंकारसंज्ञकम्।।
तत्र सिद्धिं परां प्राप्ता देहेनानेन साधकाः ।। ५८ ।।
कपिलश्चैव सावर्णिः श्रीकंठः पिगलोंशुमान् ।।
एते पाशुपताः सिद्धास्तल्लिंगाराधनेन हि ।। ५९ ।।
एकदा तस्य लिंगस्य कृत्वा पंचापिपूजनम् ।।
नृत्यतः सहुडुत्कारं तस्मिँल्लिंगे लयं ययुः ।। 4.2.74.६० ।।
अन्यच्च ते प्रवक्ष्यामि तत्र यद्वृत्तमद्भुतम् ।।
निशामय महाबुद्धे दमन द्विजसत्तम ।। ६१ ।।
एका भेकी मुने तत्र चरंती लिंग सन्निधौ ।।
प्रदक्षिणं सदा कुर्यान्निर्माल्याक्षतभक्षिणी ।। ६२ ।।
सा तत्र मृत्युं न प्राप शिवनिर्माल्यभक्षणात् ।।
क्षेत्रादन्यत्र मरणं जातं तस्यास्तदेनसः ।। ६३ ।।
वरं विषमपिप्राश्यं शिवस्वं नैव भक्षयेत् ।।
विषमेकाकिनं हंति थिवस्वं पुत्रपौवकम् ।। ६४।।
शिवस्य परिपुष्टांगाः स्पर्शनीया न साधुभिः ।।
तेन कर्मविपाकेन ततस्ते रौरवौकसः ।।६५।।
कश्चित्काकः समालोक्य मंडूकीं तामितस्ततः ।।
पोप्लूयमानामादाय चंच्वा क्षेत्राद्बहिर्गतः ।।६६ ।।
वर्षाभ्वी तेन सा क्षिप्ता काकेन क्षेत्रबाह्यतः ।।
अथ सा कालतो भेकी तत्रैव क्षेत्रसत्तमे ।। ६७ ।।
प्रदक्षिणीकरणतो लिंगस्यस्पर्शनादपि।।
पुण्यापुण्यवतीजाता कन्यापुष्पबटोर्गृहे ।। ६८ ।।
शुभावयवसंस्थाना शुभलक्षणलक्षिता ।।
परं गृध्रमुखी जाता निर्माल्याक्षतभक्षणात् ।। ६९ ।।
सम्यग्गीतरहस्यज्ञा नितरां मधुरस्वरा ।।
सप्तस्वरास्त्रयो ग्रामा मूर्च्छनास्त्वैकविंशतिः ।।4.2.74.७० ।।
ताना एकोनपंचाश ताला एकोत्तरंशतम् ।।
रागाः षडेव तेषां तु पंचपंचापि चांगनाः।।७१ ।।
षड्विंशद्रागरागिण्य इति रागि मुदावहाः ।।
देशकाल विभेदेन पंचषष्टिस्तथा पराः ।। ७२ ।।
यावंत एव तालाः स्यु रागास्तावंत एव हि ।।
इति गीतोपनिषदा प्रत्यहं सा शुभव्रता ।। ७३ ।।
माधवी मधुरालापा सदोंकारं समर्चयेत् ।।
प्राप्याप्यनर्घ्यतारुण्यं सा तु पुष्पबटोः सुता ।। ७४ ।।
प्राग्जन्मवासनायोगादोंकारं बह्वमंस्त वै ।।
स्वभाव चंचलं चेतस्तस्यास्तल्लिंग सेवनात् ।। ७५ ।।
दमनस्थैर्यमगमद्योगेनेव महात्मनः ।।
न दिवा बाधयांचक्रे क्षुत्तृण्निद्रा क्षपा सुताम् ।। ७६ ।।
अतंद्रितमना आसीत्सा तल्लिंग निरीक्षणे ।।
अक्ष्णोर्निमेषा यावंतस्तस्या आसन्दिवानिशम् ।। ७७ ।।
तावत्कालस्तया साध्व्या महान्विघ्नोऽनुमीयते ।।
निमेषांतरितः कालो यो यो व्यथोंगतो मम ।।
लिंगानवेक्षणात्तत्र प्रायश्चित्तं कथं भवेत ।। ७८ ।।
इति संचितयंत्येव सेवां तत्याज नोंकृतेः ।।
जलाभिलाषिणी सा तु लिंगनामामृतं पिबेत् ।। ७९ ।।
नान्य द्दिदृक्षिणी तस्या अक्षिणी श्रुतिगे अपि ।।
विहाय लिंगमोंकारं हृद्विहायः स्थितं सताम् ।। 4.2.74.८० ।।
तस्याः शब्दग्रहौ नान्य शब्दग्रहणतत्परौ ।।
अतीव निपुणौ जातौ तत्सन्माल्यकरौकरौ ।। ८१ ।।
नान्यत्र चरणौ तस्याश्चरतः सुखवांछया ।।
त्यक्त्वोंकाराजिरक्षोणीं क्षुण्णां निर्वाणपद्मया ।। ८२ ।।
ओंकारं प्रणवं सारं परब्रह्मप्रकाशकम् ।।
शब्दब्रह्मत्रयीरूपं नादबिंदुकलालयम् ।। ८३ ।।
सदक्षरं चादिरूपं विश्वरूपं परावरम् ।।
वरं वरेण्यं वरदं शाश्वतं शांतमीश्वरम् ।। ८४ ।।
सर्वलोकैकजनकं सर्वलोकैकरक्षकम् ।।
सर्वलोकैकसंहर्तृ सर्वलोकैकवंदितम् ।। ८५ ।।
आद्यंतरहितं नित्यं र्शिवं शंकरमव्ययम् ।।
एकगुणत्रयातीतं भक्तस्वांतकृतास्पदम् ।। ८६ ।।
निरुपाधिं निराकारं निर्विकारं निरंजनम् ।।
निर्मलं निरहंकारं निष्प्रपंचं निजोदयम् ।। ८७ ।।
स्वात्माराममनंतं च सर्वगं सर्वदर्शिनम् ।।
सर्वदं सर्वभोक्तारं सर्वं सर्वसुखास्पदम् ।।८८।।
वागिंद्रियं तदीयं च प्रोच्चरत्तदहर्निशम् ।।
नामांतरं न गृह्णाति क्वचिदन्यस्यकस्यचित्।।८९।।
एतन्नामाक्षररसं रसयंती दिवानिशम् ।।
रसना नैव जानाति तस्या अन्यद्रसांतरम् ।। 4.2.74.९० ।।
संमार्जनं रंगमालाः प्रासादं परितः सदा ।।
विदध्यान्माधवी तत्र तथार्चा पात्रशोधनम् ।। ९१ ।।
तत्र पाशुपता ये वै प्रणवेशार्चने रताः ।।
तांश्च शुश्रूषयेन्नित्यं पितृबुद्ध्याति भक्तितः ।। ९२ ।।
वैशाखस्य चतुर्दश्यामेकदा सा तु माधवी ।।
रात्रौ जागरणं कृत्वा दिवोपवसान्विता ।। ९३ ।।
यात्रामिलितभक्तेषु प्रातर्यातेषु सर्वतः ।।
संमार्जनादिकं कृत्वा लिंगमभ्यर्च्य हर्षतः ।। ९४ ।।
गायंती मधुरं गीतं नृत्यंती निजलीलया।।
ध्यायंती लिंगमोंकारं तत्र लिंगे लयं ययौ ।। ९५ ।।
अनेनैव शरीरेण पार्थिवेन महामतिः ।।
अस्मदाचार्यमुख्यानां पश्यतां च तपस्विनाम् ।। ९६ ।।
प्रादुर्बभूव यल्लिंगाज्ज्योतिर्जटिलितांबरम् ।।
तत्र ज्योतिषि सा बाला ज्योतिर्मय्यपि साप्यभूत् ।। ९७ ।।
राधशुक्लचतुर्दश्यामद्यापि क्षेत्रवासिनः ।।
तत्र यात्रां प्रकुर्वंति महोत्सवपुरःसराः ।। ९८ ।।
तत्र जागरणं कृत्वा चतुर्दश्यामुपोषिताः ।।
प्राप्नुवंति परं ज्ञानं यत्रकुत्रापि वै मृताः ।। ९९ ।।
ब्रह्मांडोदर मध्ये तु यानि तीर्थानि सर्वतः ।।
तानि वैशाखभूतायामायांत्योंकृति दर्शने ।।4.2.74.१००।।
लिंगाग्रे श्रीमुखी नाम्नी गुहास्ति परमोत्तमा ।।
पातालस्य च तद्द्वारं तत्र सिद्धा वसंति हि ।। १ ।।
तिष्ठेयुः पंचरात्रं ये गुहायां तत्र सुव्रताः ।।
ते नागकन्याः पश्यंति ब्रूयुस्ताश्च शुभाशुभम् ।। २ ।।
कंदरोत्तरदिग्भागे तत्र कूपो रसोदकः ।।
आषण्मासं च तत्पीत्वा पिबेद्ब्रह्मरसायनम् ।। ३ ।।
तत्र नादेश्वरं लिंगं दृष्ट्वा नादनिदानभूः ।।
सर्वनादात्मकं विश्वं तच्छ्रवो गोचरी भवेत् ।। ४ ।।
तत्र मत्स्योदरीं स्नात्वा स्वर्धुनीं वरुणाप्लुताम् ।।
कृतकृत्यो भवेज्जंतुर्नैव शोचति कुत्रचित् ।। ५ ।।
असंख्याता गताः सिद्धिमोंकारेश्वरसेवकाः ।।
पार्थिवेनैव देहेन दिव्यभूतेन तत्क्षणात् ।। ६ ।।
अविमुक्तं परं क्षेत्रं ब्रह्मांडादपि सर्वतः ।।
ततोपि पर ओंकार उक्तो मत्स्योदरी तटे ।। ७ ।।
प्रणवेशोंऽग यैः काश्यां न नतो नापि चार्चितः ।।
किमर्थं ते समुत्पन्ना मातृतारुण्यहारिणः ।। ८ ।।
यदा प्रभृति विश्वेशो मंदरादागतोऽभवत् ।।
तस्मिन्नानंद गहने तदाप्रभृति सत्तम ।। ९ ।।
सर्वाण्यायतनान्याशु साब्धीनि स गिरीण्यपि ।।
स नदीनि स तीर्थानि स द्वीपानि ययुस्ततः ।। ।। 4.2.74.११० ।।
इदानीं मम भाग्येन स्मारितोहं त्वया मुने ।।
अहमप्यागमिष्यामि यामः काशीं शनैः शनैः ।। ११ ।।
एतेपि मम शिष्या ये महापाशुपतव्रताः ।।
काशीं यियासवस्तेपि यतः सर्वे मुमुक्षवः ।। १२ ।।
अपि वार्धकमासाद्य यैः काशी नैव शीलिता ।।
मानुषे दुर्लभे नष्टे कुतस्तेषां महासुखम् ।। १३ ।।
यावन्नेंद्रिय वैकल्यं यावन्नैवायुषः क्षयः ।।
तावत्सेव्यं प्रयत्नेन शंभोरानंदकाननम्।। १४ ।।
य आनंदवनं शंभोः शिश्रियुः श्रीनिकेतनम् ।।
अचलाश्रीर्न मुंचेत्तान्महासौख्यैकशेवधीन् ।। १५ ।।
इत्याख्याय कथां रम्यां गर्गः पाशुपतोत्तमः ।।
भारद्वाजेन सहितः प्राप वाराणसीं पुरीम् ।। १६ ।।
दमनोपि हि धर्मात्मा गर्गाचार्येण संयुतः ।।
आराध्य श्रीमदोंकारं तस्मिँल्लिंगे लयं गतः ।। १७ ।।
।। स्कंद उवाच ।। ।।
इल्वलारे परं स्थानमोंकारमविमुक्तके ।।
तत्र सिद्धिपरां जग्मुः साधका बहुशो मुने ।। १८ ।।
कलौ कलुषचित्तानां पुरो नाख्येयमेव हि ।।
प्रणवेश्वरमाहात्म्यं नास्तिकानां विशेषतः ।। १९ ।।
ये निंदंति महादेवं क्षेत्रं निंदंति येऽधियः ।।
पुराणं ये च निंदंति ते संभाष्या न कुत्रचित् ।। 4.2.74.१२० ।।
ओंकारसदृशं लिंगं न क्वचिज्जगतीतले ।।
इति गौर्यै समाख्यातं देवदेवेन निश्चितम् ।। १२१ ।।
इममध्यायमाकर्ण्य नरस्तद्गतमानसः ।।
विमुक्तः सर्वपापेभ्यः शिवलोकमवाप्नुयात् ।। १२२ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थेकाशीखंड उत्तरार्ध ओंकारमाहात्म्यं नाम चतुःसप्ततितमोऽध्यायः ।। ७४ ।। ।। छ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् १ — Adhyāya 1
।। श्रीगणेशाय नमः।। ।।
अथ श्रीमदरुणाचलमाहात्म्यपूर्वार्धः प्रारभ्यते।। ।।
ललाटे त्रैपुंड्री निटिलकृतकस्तूरितिलकः स्फुरन्मालाधारः स्फुरितकटिकौपीनवसनः ।।
दधानो दुस्तारं शिरसि फणिराजं शशिकलां प्रदीपः सर्वेषामरुणगिरियोगीविजयते ।।१।।
।। व्यास उवाच ।। ।।
अथाहुर्मुनयः सूतं नैमिषारण्यवासिनः ।।
अरुणाचलमाहात्म्यं त्वत्तः शुश्रूषवो वयम् ।। २ ।।
तन्माहात्म्यं वदेत्युक्तः सूतः प्रोवाच तान्मुनीन् ।।
।। श्रीसूत उवाच ।। ।।
एतदर्थं चतुर्वक्त्रं पप्रच्छ सनकः पुरा ।। ३ ।।
शृणुतावहिता यूयं तद्वो वक्ष्यामि सांप्रतम् ।।
यदाकर्णयतां भक्त्या नराणां पापनाशनम् ।। ४ ।।
सत्यलोके स्थितं पूर्वं ब्रह्माणं कमलासनम् ।।
सनकः परिपप्रच्छ प्रणतः प्रांजलिः स्थितः ।। ५ ।।
।। सनक उवाच ।। ।।
भुवनाधार देवेश वेदवेद्य चतुर्मुख ।।
आसीदशेषविज्ञानं प्रसादाद्भवतो मम ।। ६ ।।
भवद्भक्तिविभूत्या मे शोधिते चित्तदर्पणे ।।
बिंबते सकलं ज्ञानं सकृदेवोपदेशतः ।। ७ ।।
सारार्थं वेदवेदानां शिवज्ञानमनाकुलम् ।।
लब्धवानहमत्यंतं कटाक्षैस्ते जगद्गुरोः ।। ८ ।।
लिंगानि भुवि शैवानि दिव्यानि च कृपानिधे ।।
मानुषाणि च सैद्धानि भौतानि सुरनायक ।। ९ ।।
याल्लिङ्मममलं दिव्यमरिच्छेदनवैभवम् ।।
स्वयम्भु जाम्बवे द्वीपे तैजसं तव्ददस्व मे ।। १० ।।
नामस्मरणमात्रेण यत्पातकविनाशनम् ।।
शिवसारूप्यदं नित्यं मह्यं वद दयानिधे ।। ११ ।।
अनादिजगदाधारं यत्तेजः शैवमव्ययम् ।।
यच्च दृष्ट्वा कृतार्थः स्यात्तन्मह्यमुपदिश्यताम् ।। १२ ।।
इति भक्तिमतस्तस्य कौतूहलसमन्वितम् ।।
वाक्यमाकर्ण्य भगवान्प्रससाद तपोनिधिः ।। ।। १३ ।।
दध्यौ च सुचिरं शंभुं पंकजासनसंस्थितः ।।
अंतरंगसुखांभोधिमग्नचेताश्चतुर्मुखः ।। १४ ।।
दृष्ट्वा यदा पुरा दृष्टं तेजःस्तंभमयं शिवम् ।।
उत्तीर्णसकलाधारं न किंचित्प्रत्यबुध्यत ।। १५ ।।
पुनराज्ञां शिवाल्लब्धामनुपालयितुं प्रभुः ।।
निर्वर्त्त्य हृदयं योगात्सस्मार सुतमानतम् ।। १६ ।।
शिवदर्शनसंजातपुलकांकितविग्रहः ।।
आनंदवाष्पवन्नेत्रः सगद्गदमभाषत ।। १७ ।।
।। ब्रह्मोवाच ।। ।।
अतः संस्मारितः पुत्र भवताऽहं पुरातनम् ।।
शिवयोगमनुध्यायन्नस्मार्षं तव चादरात् ।।१८।।
शिवभक्तिः परा जाता तपोभिर्बहुभिस्तव ।।
तया मदीयं हृदयं व्यावर्त्तितमिव क्षणात् ।। १९ ।।
पावयंति जगत्सर्वं चरितैस्ते निराकुले ।।
येषां सदाशिवे भक्तिर्वर्द्धते सार्वकालिकी ।। 1.3.1.1.२० ।।
संभाषणं सहावासः क्रीडा चैव विमिश्रणम् ।।
दर्शनं शिवभक्तानां स्मरणं चाघनाशनम्।। २१ ।।
श्रूयतामद्भुतं शैवमाविर्भूतं यथा पुरा ।।
अव्याजकरुणापूर्णमरुणाद्र्यभिधं महः ।। २२ ।।
अहं नारायणश्चोभौ जातौ विश्वाधिकोदयात् ।।
बहु स्यामिति संकल्पं वितन्वानात्सदाशिवात् ।। २३ ।।
स्वभावेन समुद्भूतौ विवदंतौ परस्परम् ।।
न च श्रांतौ नियुध्यंतौ साहंकारौ कदाचन ।।२४।।
परस्परं रणोत्साहमावयोरतिभीषणम् ।।
आलोक्य करुणामूर्तिरचिंतयदथेश्वरः ।। २५ ।।
किमर्थमनयोर्युद्धं जायते लोकनाशनम् ।।
मया सृष्टमहं पातेति विवादमधितस्थुषोः ।। २६ ।।
समयेऽस्मिन्स्वयं लक्ष्यो मुग्धयोरनयोर्भृशम् ।।
यदि युद्धं न रोत्स्यामि तदा स्याद्भुवनक्षयः ।। २७ ।।
वेदेषु मम माहात्म्यं विश्वाधिकतया श्रुतम् ।।
न जानाते इमौ मुग्धौ क्रोधतो गलितस्मृती ।। २८ ।।
सर्वोपि जंतुरात्मानमधिकं मन्यते भृशम् ।।
अमतान्यसमाधिक्यस्त्वधः पतति दुर्मतिः ।। २९ ।।
यद्यहं क्वापि भुवने दास्यामि मितिमात्मनः ।।
तदा तद्रूपविज्ञानात्स आत्मा सोपि मामियात् ।। 1.3.1.1.३० ।।
इति निश्चित्य मनसा स्वयमेव सदाशिवः ।।
आवयोर्युध्यतोर्मध्ये वह्निस्तंभः समुद्यतः ।। ३१ ।।
अतीत्य सकलाँल्लोकान्सर्वतोऽग्निरिव ज्वलन् ।। ३२ ।।
अनाद्यंततया चाथ दृगार्तौ संव्यतिष्ठताम् ।।
तेजःस्तंभं ज्वलंतं तमालोक्य शिथिलाशयौ ।। ३३ ।।
आवयोः पुरतो जाता वाणी चाप्यशरीरिणी ।।
किमर्थं बालकौ युद्धं कल्प्यते मूढमानसौ ।। ३४ ।।
युवयोर्बलवैषम्यं शिव एव विवेक्ष्यते ।।
तेजःस्तभमयं रूपमिदं शंभोर्व्यवस्थितम् ।। ३५ ।।
आद्यंतयोर्यदि युवामीक्षिषाथां बलाधिकौ ।।
इति तां गिरमाकर्ण्य नियुद्धाद्विरतौ तदा ।। ३६ ।।
अहं विष्णुश्च गतिमान्विचेतुं तद्व्यवस्थितौ ।।
अग्निस्तंभमयं रूपं शंभोराद्यंतवर्जितम् ।। ३७ ।।
आलोकितुं व्यवसितावावामाद्यंतभागतः ।।
बिंबितं व्योमगं चंद्रं यथा बालौ जिघृक्षतः ।।३८।।
तथैवावां समुद्युक्तौ परिच्छेत्तुं च तन्महः।।
अथ विष्णुर्महोत्साहात्क्रोडोऽभूत्सुमहावपुः ।। ३९ ।।
तन्मूलविचयाऽयाच्च भूमिगर्भं व्यदारयत् ।।
अहं च हंसतां प्राप्तो महावेगं समुत्पतन् ।। 1.3.1.1.४० ।।
दिदृक्षुस्तच्छिरोभागं वियदूर्ध्वमगाहिषम् ।।
अधोधोदारयन्क्षोणिमशेषामपि माधवः ।। ४१ ।।
आविर्भूतमिवाधस्तादग्निस्तंभमवैक्षत ।।
अनेककोटिवर्षाणि विचिन्वन्नपि तेजसः ।। ४२ ।।
अपश्यन्नादिमक्षय्यमार्तरूपः स विह्वलः ।।
विशीर्णदंष्ट्रबलयो विगलत्संधिबंधनः ।। ४३ ।।
श्रमातुरस्तृषाक्रांतो नो यातुमशकद्धरिः ।।
वाराहं रूपमतुलं संधारयितुमक्षमः ।। ४४ ।।
विहंतुमपि विश्रांतो विषसाद रमापतिः ।।
अचिंतयदमेयात्मा परिश्रांतशरीरवान् ।। ४५ ।।
गलितश्रीः क्रियाश्रांतः शरण्यं शिवमाश्रयन् ।।
धिङ्ममेदं महन्मौग्ध्यमहंकारसमुद्भवम् ४८।।।
येनाहमात्मनो नाथमात्मानं नावबुद्धवान् ।।
अयं हि सर्ववेदानां देवानां जगतामपि ।। ४७ ।।
मूलभूतः शिवः साक्षान्मूलमस्य कथं भवेत् ।।
अस्मादेव समुद्भूतोऽस्म्यहमाद्यंतवर्जितात् ।। ४८ ।।
यन्मयान्वेष्टुमारब्धं शिवं पशुवपुर्धृता ।।
अव्याजकरुणाबन्धोः पितुः शंभोः प्रसादतः ।। ४९ ।
पुनरेवेदृशी लब्धा मतिर्मे स्वात्मबोधिना ।।
स्वयमेव महादेवः शंभुर्यं पातुमिच्छति ।। 1.3.1.1.५० ।।
तस्य सद्यो भवेज्ज्ञानमनहंकारमात्मजम् ।।
न शक्नोमि पुनः कर्तुं पूजामस्य जगद्गुरोः ।। ५१ ।।
निवेदयामि चात्मानं शरणं यामि शंकरम् ।।
इति दध्यौ शिवं विष्णुः स्तुत्यामर्पितचेतनः ।।। ।। ५२ ।।
सत्प्रसादाद्भूतपतेः पुनरेवोद्धुतः क्षितौ ।।
अहं च गगनेऽभ्राम्यमनेकानपि वत्सरान् ।। ५३ ।।
आघूर्णमाननयनः श्लथपक्षः श्रमं गतः ।।।
उपर्युपरि चापश्यं ज्वलनं पुरतः स्थितम् ।। ५४ ।।
तेजःस्तम्भं स्थूललिंगाभं शैवं तेजः सुरार्चितम् ।।
आहुः स्म केचिदालोक्य सिद्धास्तेजोंशसंभवाः ।। ५५ ।।
नित्यां शंभोः परां कोटिं दिदृक्षुं मां कृतोद्यमम् ।।
अहोऽयं सत्यमुग्धत्वमद्यापि च चिकीर्षति ।। ५६ ।।
आसन्नदेहपातोऽपि नाहंकारोऽस्य वै गतः ।।
विशीर्यमाणपक्षोऽयं श्रांत्वा विभ्रांतलोचनः ।। ५७ ।।
अपारतेजसि व्यर्थो विमोहोऽयं भविष्यति ।।
एवं व्याकुलचित्तोऽयं क्रोडरूपी जनार्दनः ।। ५८ ।।
व्यावर्त्तितः शिवेनैव निर्व्याजकरुणाजुषा ।।
ईदृशां ब्रह्ममुख्यानां सुराणां कोटिसंभवः ।। ५९ ।।
यत्तेजःपरमाणुभ्यस्तस्य पारं दिदृक्षते ।।
स्वात्मनो यो गतो ध्यात्वा समये भगवाञ्छिवः ।। 1.3.1.1.६० ।।
यदि बुद्धिं ददात्यस्मै तस्य नश्येदहंक्रिया ।।
इत्येवं वदतां तेषां सिद्धानां सदयं वचः ।। ६१ ।।
आकर्ण्य शीर्णाहंकारो ह्यहमात्मन्यचिंतयम् ।।
न वेदराशिविज्ञानात्तपस्तीर्थनिषेवणात् ।। ६२ ।।
संजायते शिवज्ञानमस्यैवानुग्रहादृते ।।
शीर्णेऽपि पक्षयुगले सीदत्यंगे ह्यचंचले ।। ६३ ।।
पुनरुत्सहते चेतः स्वाहंकारस्य संग्रहे ।।
धिङ्मामहं क्रियाक्रांतमनात्मबलवेदिनम् ।। ६४ ।।
शिवार्पितमनस्केभ्यः सिद्धेभ्यः सततं नमः ।।
येषां संसर्गलब्धेन तपसा शोधिताशयः ।। ६५ ।।
शिवमेनं विजानामि स्वात्महेतुं पुरःस्थितम् ।।
यत्प्रसादोपलब्धेन विभवेन समन्विताः ।। ६६ ।।
देवाः सर्वे भविष्यंति सततं शमितारयः ।।
यस्य वेदा न जानंति परमार्थं महागमैः ।। ६७ ।।
तमेव शरणं यामि शंभुं विश्वविलक्षणम् ।।
अवादिषमथाभाष्यं विष्णुं कमललोचनम् ।। ६८ ।।
लब्धदेहः शिवं भक्त्या संश्रितश्चन्द्रशेखरम् ।।
अहो किमिदमाश्चर्यमागतं शौर्यशालिनाम् ।। ६९ ।।
शंभुना यत्समुद्भूतमहंकारमुपाश्रितौ ।।
आवां परस्परं युद्धमाकर्ण्य विपुलं महत् ।। 1.3.1.1.७० ।।
स एव शंकरः सर्वमहंकारमथावयोः ।।
अपाहरदमेयात्मा स्वमाहात्म्यप्रकाशनात् ।। ७१ ।।
इममीश्वरमानतं सुरैरनलस्तम्भमयं सदाशिवम् ।।
अभिपूजयितुं प्रवर्तते स भवेद्वै भवसागरस्य नौः ।। ७२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मसनकसंवादे लिंगप्रादुर्भाववर्णनंनाम प्रथमोऽध्यायः ।। १ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् १ — Adhyāya 2
।। ब्रह्मोवाच ।। ।।
अथाहमुच्चरन्वेदानशेषैर्वदनैः शिवम् ।।
अस्तौषं भक्तिसंपूर्णं कृत्वा मानसमर्चनम् ।। १ ।।
नमः शिवाय महते सर्वलोकैकहेतवे ।।
येन प्रकाश्यते सर्वं ध्रियते सततं नमः ।। २ ।।
विश्वव्याप्तमिदं तेजः प्रकाशयति संततम् ।।
नेक्षंते त्वद्दयाहीना जात्यंधा भास्करं यथा ।। ३ ।।
भूलिंगममलं ह्येतद्दृश्यमध्यात्मचक्षुषा ।।
अंतस्स्थं वा बहिस्स्थं वा त्वद्भक्तैरनुभूयते ।। ४ ।।
अपरिच्छेद्यमाकारमंतरात्मनि योगिनः ।।
तदेतत्तव देवेश ज्वलितं दर्पणो यथा ।। ५ ।।
अथवा शांकरी शक्तिः सत्याऽणोरप्यणीयसी ।।
मत्तो नान्यतरः कश्चिद्यन्मय्यपि विलीयते ।। ६ ।।
अणुस्ते करुणापात्रं महत्त्वं ध्रुवमश्नुते ।।
नाधिकोऽस्ति परस्त्वत्तो न मत्तोऽपि तदाश्रयात् ।। ७ ।।
त्वय्यर्पितं मनस्त्वतो न वियोगमपेक्षते ।।
वाचः कथं प्रवृत्तिः स्यात्तव वैभवकीर्त्तने ।। ६ ।।
स्वयमीश महादेव प्रसीद भुवनाधिक ।।
आदिश प्रयतं भक्तमपेक्षितनियुक्तिषु ।। ९ ।।
इदं विज्ञाप्य विनयान्नमस्कृत्वा पुनःपुनः ।।
प्रांजलिर्देवदेवेशं न्यषीदं सविधे विभो ।।1.3.1.2.१०।।
अथ विष्णुर्नवांभोदगंभीरध्वनिरभ्यधात् ।।
वाचः कृतार्थन्भूयः शुक्लाः शंकरकीर्त्तनैः ।। ११ ।।
जय त्रिभुवनाधीश जय गंगाधर प्रभो ।।
जय नाथ विरूपाक्ष जय चंद्रार्द्धशेखर ।। १२ ।।
अव्याजममितं शंभो कारुण्यं तव वर्द्धते ।।
येन निर्धूतमखिलं भक्तेषु ज्ञानमाहितम् ।। १३ ।।
पालनं सर्वविद्यानां प्रापणं भूतिसंचयैः ।।
पुराणं च सपुत्राणां पितुरेव प्रवर्धनम् ।। ।। १४ ।।
शतानामपि मूर्तीनामेकामपि नवैः स्तवैः ।।
स्तोतुं न शक्नुमेशान समवायस्तु कि पुनः ।। १५ ।।
त्वमेव त्वामलं वेत्तुं यदि वा त्वत्प्रसादतः ।।
भ्रमरः कीटमाकृष्य स्वात्मानं किं न चानयेत् ।। १६ ।।
देवास्त्वदंशसंभूतिप्रभवो न भवन्ति किम् ।।
अप्यायस्याग्निकीलस्य दाहे शक्तिर्न किं भवेत् ।। १७ ।।
देशकालक्रियायोगाद्यथाग्नेर्भेदसम्भवः ।।
तथा विषयभेदेन त्वमेकोऽपि विभिद्यसे ।। १८ ।।
अनुग्रहपरो देव मूर्तिं दर्शय शंकर ।।
आवयोरखिलाधार नयनानंददायिनीम् ।। १९ ।।
एवं प्रणमतोर्देवः श्रद्धाभक्तिसमन्वितम् ।।
प्रससाद परं शंभुः स्तुवतोरावयोर्द्वयोः ।। 1.3.1.2.२० ।।
तेजःस्तंभात्पुनस्तस्माद्देवश्चन्द्रार्द्धशेखरः ।।
आविर्बभूव पुरुषः कपिलः कालकन्धरः ।। २१ ।।
परशुं बालहरिणं करैरभयविश्रमौ ।।
दधानः पुरुषोऽवादीत्पुत्रावावामिति प्रभुः।। २२ ।।
परितुष्टोऽस्मि युवयोर्भक्त्या युक्तात्मनोर्मयि।।
भवतं सर्वलोकानां सृष्टिरक्षाधिपौ युवाम् ।। २३ ।।
युवयोरिष्टसिद्ध्यर्थमाविर्भूतोऽस्म्यहं यतः ।।
वरं वृणुतमन्यं च वरदोऽहमुपागतः ।। २४ ।।
इति देवस्य वचनात्सप्रीतौ च कृतांजली ।।
विज्ञापयामासिवतौ स्वं स्वमर्थं पृथक्पृथक् ।। २५ ।।
अहं मन्त्रैः शिशुप्रायजगत्त्रयविधायकः ।।
संस्तुवन्वैदिकैर्मंत्रैरीशानमपराजितम् ।। ।। २६ ।।
नमस्येहमिदं रूपं शश्वद्वरदमीश्वरम् ।।
तेजोमयं महादेवं योगिध्येयं निरंजनम् ।। २७ ।।
आपूर्यमाणं भवता तेजसा गगनांतरम् ।।
परिपृच्छ्यः सुरावासः क्षणाद्देव भविष्यति ।। २८ ।।
सिद्धचारणगन्धर्वा देवाश्च परमर्षयः ।।
नावसन्दिवि संचारं लभेरंस्तेजसा तव ।। २९ ।।
पृथ्वी च सकला चैव तप्यमाना तवौजसा ।।
चराचरसमुत्पत्तिक्षमा नैव भविप्यति ।। 1.3.1.2.३० ।।
उपसंहृत्य तेजः स्वमरुणाचलसंज्ञया ।।
भव स्थावरलिंगं त्वं लोकानुग्रहकारणात् ।। ३१ ।।
ज्योतिर्मयमिदं रूपमरुणाचलसंज्ञितम् ।।
ये नमन्ति नरा भक्त्या ते भवन्त्यमराधिकाः ।। ३२ ।।
सेवंतां सकला लोकाः सिद्धाश्च परमर्षयः ।।
गणाश्च विविधा भूमौ मानुषं भावमास्थिताः ।। ३३ ।।
दिव्याराम समुद्भूतकल्पकाद्याः सुरद्रुमाः ।।
सेविनस्त्वां प्ररोहंतु भरिता विविधैः फलैः ।। ३४ ।।
दिव्यौषधिगणास्सर्वे सिंहाद्या मृगजातयः ।।
प्रशांताः परिवर्त्तंता पापकल्मषनाशनम् ।। ३५ ।।
अयनद्वयभिन्नेन गमनेनापि संयुतः ।।
न लंघयिष्यति रविः शृंगं लिंगतनोस्तव ।। ३६ ।।
दिव्य दुंदुभिशंखानां घोषैः पुष्पौघवृष्टिभिः ।।
सेवितो भव देव त्वमप्सरोनृत्यगीतिभिः ।। ३७ ।।
अमरत्वं च सिद्धत्वं रससिद्धीश्च निर्वृतिम् ।।
लभंतां मानुषा नित्यं त्वत्संनिधिमुपागताः ।। ३८ ।।
ईशत्वं च वशित्वं च सौभाग्यं कालवंचनम् ।।
त्वामाश्रित्य नरास्सर्वे लभंतामरुणाचल ।। ३९ ।।
सर्वावयवदानेन सर्वव्याधिविनाशनात् ।।
सर्वाभीष्टप्रदानेन दृश्यो भव महीतले ।।1.3.1.2.४०।।
तथेति वरदं देवमरुणाद्रिपतिं शिवम्।।
प्रणम्य कमलानाथः प्रार्थयन्निदमब्रवीत् ।। ४१ ।।
प्रसीद करुणापूर्ण शोणशैलेश्वर प्रभो ।।
महेश सर्वलोकानां हिताय प्रकटोदय ।। ४२ ।।
यदाहं त्वामुपाश्रित्य जगद्रक्षणदक्षिणः ।।
श्रीपतित्वमनुप्राप्तस्तदा भक्ता भवंतु ते ।। ४३ ।।
नाल्पपुण्यैरुपास्येत त्वद्रूपं महदद्भुतम् ।।
मया च ब्रह्मणा चैवमदृष्टपदशेखरः ।। ४४ ।।
प्रदक्षिणानमस्कारैर्नृत्यगीतैश्च पूजनैः ।।
त्वामर्चयंति ये मर्त्याः कृतार्थास्ते गतांहसः ।। ४५ ।।
उपवासैर्व्रतैः सत्रैरुपहारैस्तथार्चनैः ।।
त्वामर्चयंति मनुजाः सार्वभौमा भवंतु ते ।। ४६ ।।
आरामं मंडपं चापि कूपं विधिविशोधनम् ।।
कुर्वतामरुणाद्रीश संनिधाने पुनर्भव ।। ४७ ।।
अंगप्रदक्षिणं कुर्वन्नष्टैश्वर्यसमन्वितः ।।
अशेषपातकैः सद्यो विमुक्तो निर्मलाशयः ।। ४८ ।।
आवामप्यविमुंचंतौ सदा त्वत्पादपंकजम् ।।
ध्यातव्यं मनुजैः सर्वैस्तव संनिधिमागतैः ।। ४९ ।।
तथास्त्विति वरं दत्त्वा विष्णवे चंद्रशेखरः ।।
भरुणाचलरूपेण प्राप्तः स्थावरलिंगताम् ।। 1.3.1.2.५० ।।
तैजसं लिंगमेतद्धि सर्वलोकैककारणम् ।।
अरुणाद्रिरिति ख्यातं दृश्यते वसुधातले ।। ५१ ।।
युगांतसमये क्षुब्धैश्चतुर्भिरपि सागरैः ।।
अपि निर्मग्नलोकांतैरस्पृष्टांतिकभूतलम् ।। ५२ ।।
गजप्रमाणैः पृषतैः पूरयंतो जगत्त्रयम् ।।
पुष्कराद्या महामेघा विश्रांता यस्य सानुनि ।। ५३ ।।
प्रवृत्ते भूतसंहारे प्रकृतौ प्रतिसंचरे ।।
भविष्यत्सर्वबीजानि निषेदुर्यत्र निश्चयम् ।। ५४ ।।
मया चाहूयमानेभ्यः प्रलयानंतरं पुनः ।।
यत्पादसेविविप्रेभ्यो वेदाध्ययनसंग्रहः ।। ५५ ।।
सर्वासामपि विद्यानां कलानां शास्त्रसंपदाम् ।।
आगमानां च वेदानां यत्र सत्यव्यवस्थितिः ।। ५६ ।।
यद्गुहागह्वरांतस्स्था मुनयः शंसितव्रताः ।।
जटिनः संप्रकाशंते कोटिसूर्याग्नितेजसः ।। ५७ ।।
पंचब्रह्ममयैर्मंत्रैः पंचाक्षरवपुर्धरैः ।।
अकारपीठिकारूढो नादात्मा यः सदाशिवः ।। ५८ ।।
अष्टभिश्च सदा लिंगैरष्टदिक्पालपूजितः ।।
अष्टमूर्त्तितया योऽयमष्टसिद्धिप्रदायकः ।। ५९ ।।
यत्र सिद्धास्तथा लोकान्स्वान्स्वान्मुक्त्वा सुरेश्वराः।।
अपेक्षंते स्थिता मुक्तिं विहाय कनकाचलम् ।।1.3.1.2.६०।।
एवं वसुंधरापुण्यपरिपाकसमुच्चयः ।।
अरुणाद्रिरिति ख्यातो भक्तभक्तिवरप्रदः ।।६१।।
कैलासान्मेरुशिखरादागतैर्देवसंचयैः ।।
पूज्यते शोणशैलात्मा शंभुः सर्ववरप्रदः ।।६२।।
इति कमलजवक्त्रपद्मजां तं मुदितमनाः सनको निशम्य भक्त्या ।।
विरचितविनयः प्रणम्य पुत्रः पितरमपृच्छदशेषवेदसारम् ।। ६३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मविष्णुस्तुतिपूर्वकं शंकरस्य स्थावरलिंगमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ।। २ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् १ — Adhyāya 3
सनक उवाच ।। ।।
भगवन्नरुणाद्रीश माहात्म्यमिदमद्भुतम् ।।
श्रुतं शिवप्रसादेन दयया ते जगद्गुरोः ।। १ ।।
आश्चर्यमेतन्माहात्म्यं सर्वपापविनाशनम् ।।
आराधयन्पुनः के वा वरदं शोणपर्वतम् ।। २ ।।
अनादिरंतरहितः शिवः शोणचलाकृतिः ।।
युवयोस्तपसा देव वरदानाय संस्थितः ।। ।।३।।
सकृत्संकीर्तिते नाम्नि शोणाद्रिरिति मुक्तिदे ।।
सन्निधिः सर्वकामानां जायते चाघनाशनम् ।।४।।
शिवशब्दामृतास्वादः शिवार्चनकथाक्रमः।।
इति तद्वचनं श्रुत्वा देवदेवः पितामहः ।। ५ ।।
उवाच करुणामूर्तिररुणाद्रीशमानमन् ।।
।। ब्रह्मोवाच ।। ।।
श्रूयतां वत्स पार्वत्याश्चरितं यत्पुरातनम् ।। ६ ।।
अरुणाद्रीशमाश्रित्य यथा सा निर्वृताभवत् ।।
आससाद महादेवः कदाचित्पार्वतीपतिः ।। ७ ।।
रत्नसिंहासनं दिव्यं रत्नतोरणसंयुतम् ।।
रत्नपुष्पफलोपेत कल्पद्रुममनोहरम् ।। ८ ।।
परार्ध्य दृषदास्तीर्णं बद्धमुक्तावितानकम् ।।
विमुक्तपुष्पप्रकरदिव्यधूपोरुसौरभम् ।। ९ ।।
प्रलंबमालिकाजालनिनदद्भृंगसंकुलम् ।।
दिव्यतूर्यघनारावप्रनृत्यद्गुहवाहनम् ।। 1.3.1.3.१० ।।
पार्वतीसिंहसंचारपरित्रस्तमहागजम् ।।
अप्सरोभिः प्रनर्त्ताभिर्गायंतीभिश्च केवलम् ।। ११ ।।
आसेवितपुरोरंगं दिक्पालकनिषेवितम् ।।
ऋग्यजुःसामजैर्मंत्रैः स्तुवद्भिर्मुनिपुंगवैः ।। १२ ।।
ब्रह्मर्षिभिस्तथा देवैः सिद्धै राजर्षिभिवृतम् ।।
गणैश्च विविधाकारैर्भस्मालंकृतविग्रहैः ।। १३ ।।
रुद्राक्षधारसुभगैरापूर्णं शिवतत्परैः ।।
वीणावेणुमृदंगादितौर्यत्रिकजनिस्वनैः ।।।१४ ।।
घंटाटंकारसुभगैर्वेदध्वनिविमिश्रितैः ।।
मनोहरं महादिव्यमासनं पार्वतीसखः ।। १५ ।।
अलंचकार भगवन्भक्तानुग्रहकाम्यया ।।
आस्थाय विमलं रूपं सर्वतेजोमयं शिवम् ।। १६ ।।
अंबिकासहितः श्रीमान्विजहार दयानिधिः ।।
संगीतेन कथाभेदैर्द्यूतक्रीडाविकल्पनैः ।। १७ ।।
गणानां विकटैर्नृत्यै रमयामास पार्वतीम् ।।
विसृज्य सकलान्देवानृषींश्चापि सभासदः ।। १८ ।।
वरान्प्रदाय विविधान्भक्तलोकाय वाञ्छितान् ।।
आगमेषु विचित्रेषु सर्वर्तुकुसुमेषु च ।। १९ ।।
विजहारोमया सार्द्धं रत्नप्रासादपंक्तिषु ।।
वापिकासु मनोज्ञासु रत्नसोपानपंक्तिषु ।। 1.3.1.3.२० ।।
केलिपर्वतशृंगेषु हेमरंभावनांतरे ।।
गंगातरंगशीतेन फुल्लपंकजगंधिना ।। २१ ।।
वातेन मंदगतिना विहारविहतश्रमः ।।
स्वकामतः स्वयं देवः प्रेयसीमभ्यनन्दयत् ।। २२ ।।
रतिरूपां शिवां देवीं सर्वसौभाग्यसुन्दरीम् ।।
कदाचिद्रहसि प्रीता निजाज्ञावशवर्त्तिनम् ।। २३ ।।
रमणं जानती मुग्धा पश्चादभ्येत्य सादरम् ।।
कराभ्यां कमलाभाभ्यां त्रिणेत्राणि जगद्गुरोः ।। २४ ।।
पिदधे लीलया शंभोः किमेतदिति कौतुकात् ।।
चन्द्रादित्याग्निरूपेण पिहितेष्वक्षिषु क्रमात् ।। २५ ।।
अन्धकारोऽभवत्तत्र चिरकालं भयंकरः ।।
निमिषार्द्धेन देवस्य जग्मुर्वत्सरकोटयः ।। २६ ।।
देवीलीलासमुत्थेन तमसाभूज्जगत्क्षयः ।।
तमसा पूरितं विश्वमपारेण समन्ततः ।।२७।।
शून्यं ज्योतिः प्रचारेण विनाशं प्रत्यपद्यत ।।
न व्यजृंभत विबुधा न च वेदाश्चकाशिरे ।।२८।।
नापि जीवाः समभवन्नव्यक्तं केवलं स्थितम् ।।
जगतामपि सर्वेषामकाले वीक्ष्य संक्षयम् ।।२९।।
तपसा लब्धस्फूर्तीनां विचारः समपद्यत ।।
किमेतत्तमसो जन्म भुवनक्षयकारणम् ।। 1.3.1.3.३० ।।
भगवानपि सर्वात्मा न नूनं कालमाक्षिपत् ।।
देवी विनोदरूपेण पिधत्ते पुरजिद्दृशः ।। ३१ ।।
तेनेदमखिलं जातं निस्तेजो भुवनत्रयम् ।।
अकालतमसा व्याप्ते सकले भुवनत्रये ।। ३२ ।।
का गतिर्लब्धराज्यानां तपसो देवजन्मनाम् ।।
न यज्ञाः संप्रवर्तंते न पूज्यन्ते सुरा भुवि ।। ३३ ।।
इति निश्चित्य मनसा वीक्ष्य ते ज्ञानचक्षुषा ।।
नित्यास्ते सूरयो भक्त्या शंभुमागम्य तुष्टुवुः ।। ३४ ।।
नमः सर्वजगत्कर्त्रे शिवाय परमात्मने ।।
मायया शक्तिरूपेण पृथग्भावमुपेयुषे ।। ३५ ।।
अविनाभाविनी शक्तिराद्यैका शिवरूपिणी ।।
लीलया जगदुत्पत्तिरक्षासंहृतिकारिणी ।। ३६ ।।
अर्धांगी सा तव देव शिवशक्त्यात्मकं वपुः ।।
एक एव महादेवो न परे त्वद्विना विभो ।। ३७ ।।
लीलया तव लोकोयमकाले प्रलयं गतः ।।
करुणा तव निर्व्याजा वर्द्धतां लोकवर्द्धनी ।। ३८ ।।
भवतो निमिषार्द्धेन तेजसामुपसंहृतेः ।।
गतान्यनेकवर्षाणि जगतां नाशहेतवे ।। ३९ ।।
ततः प्रसीद करुणामूर्त्ते काल सदाशिव ।।
विरम प्रणयारब्धादमुष्माल्लोकसंक्षयात् ।। 1.3.1.3.४० ।।
इति तेषां वचः श्रुत्वा भक्तानां सिद्धिशालिनाम् ।।
विसृजाक्षोणि गौरीति करुणामूर्त्तिरब्रवीत् ।। ४१ ।।
विससर्ज च सा देवी पिधानं हरचक्षुषाम् ।।
सोमसूर्याग्निरूपाणां प्रकाशमभवज्जगत् ।। ४२ ।।
कियान्कालो गतश्चेति पृष्टैः सिद्धैश्च वै नतैः ।।
उक्तं त्वन्निमिषार्द्धेन जग्मुर्वत्सरकोटयः ।। ४३ ।।
अथ देवः कृपामूर्त्तिरालोक्य विहसन्प्रियाम् ।।
अब्रवीत्परमोदारः परं धर्मार्थसंग्रहम् ।। ४४ ।।
अविचार्य कृतं मुग्धे भुवनक्षयकारणात् ।।
अयुक्तमिह पश्यामि जगन्मातुस्तवैव हि ।। ४५ ।।
अहमप्यखिलाँल्लोकान्संहरिष्यामि संक्षये ।।
प्राप्ते काले त्वया मौग्ध्यादकाले प्रलयं गताः ।। ४६ ।।
केयं वा त्वादृशी कुर्यादीदृशं सद्विगर्हितम् ।।
कर्म नर्मण्यपि सदा कृपामूर्तिर्न बाधते ।। ४७ ।।
इति शम्भोर्वचः श्रुत्वा धर्मलोपभयाकुला ।।
किं करिष्यामि तच्छांत्या इत्यपृच्छत्स्म तं प्रिया ।। ४८ ।।
अथ देवः प्रसन्नात्मा व्याजहार दयानिधिः ।।
देव्यास्तेनानुतापेन भक्त्या च तोषितः शिवः ।। ४९ ।।
मन्मूर्तेस्तव केयं वा प्रायश्चित्तिरिहोच्यते ।।
अथापि धर्ममार्गोयं त्वयैव परिपाल्यते ।। 1.3.1.3.५० ।।
श्रुतिस्मृतिक्रियाकल्पा विद्याश्च विबुधादयः ।।
त्वद्रूपमेतदखिलं महदर्थोस्मि तन्मयः ।। ५१ ।।
मान्ययाभिन्नया देव्या भाव्यं लोकसिसृक्षया ।। ।। ५२ ।।
तस्माल्लोकानुरूपं ते प्रायश्चित्तं विधीयते ।।
षड्विधो गदितो धर्मः श्रुतिस्मृतिविचारतः ।। ५३ ।।
स्वामिना नानुपाल्येत यदि त्याज्योऽनुजीविभिः ।।
न त्वां विहाय शक्नोमि क्षणमप्यासितुं क्वचित् ।। ५४ ।।
अहमेव तपः सर्वं करिष्याम्यात्मनि स्थितः ।।
पृध्वी च सकला भूयात्तपसा सफला तव ।। ५५ ।।
त्वत्पादपद्मसंस्पर्शात्त्वत्तपोदर्शनादपि ।।
निरस्यंति स्वसान्निध्याद्दुष्टजातमुपद्रवम् ।। ५६ ।।
कर्मभूमेस्त्वमाधिक्यहेतवे पुण्यमाचर ।।
त्वत्तपश्चरणं लोके वीक्ष्य सर्वोपि संततम् ।। ५७ ।।
धर्मे दृढतरा बुद्धिं निबध्नीयान्न संशयः ।।
कृतार्थयिष्यति महीं दया ते धर्मपालनैः ।। ५८ ।।
त्वमेवैतत्सकलं प्रोक्ता वेदैर्देवि सनातनैः ।।
अस्ति कांचीपुरी ख्याता सर्वभूतिसमन्विता ।। ५९ ।।
या दिवं देवसंपूर्णा प्रत्यक्षयति भूतले ।।
यत्र कृतं तपः किंचिदनंतफलमुच्यते ।। 1.3.1.3.६० ।।
देवाश्च मुनयः सर्वे वासं वांछंति संततम् ।।
तत्र कंपेति विख्याता महापातकनाशिनी ।। ।।६१।।
यत्र स्थितानां मर्त्यानां कम्पन्ते पापकोटयः ।।
तत्र चूतद्रुमश्चैको राजते नित्यपल्लवः ।।६२।।
संपूर्णशीतलच्छायः प्रसूनफलपल्लवैः ।।
तत्र जप्तं हुतं दत्तमनन्तफलदं भवेत् ।। ६३ ।।
गणाश्च विविधाकारा डाकिन्यो योगिनीगणाः ।।
परितस्त्वां निषेवंतां विष्णुमुख्यास्तथा पराः ।।६४।।
अहं च निष्कलो भूत्वा तव मानसपंकजे ।।
सन्निधास्यामि मा भूस्त्वं देवि मद्विरहाकुला ।। ६५ ।।
इत्युक्ता देवदेवेन देवी कंपांतिकं ययौ ।।
तपः कर्तुं सखीयुक्ता विस्मयाक्रान्तलोचना ।।६६ ।।
कंपां च विमलां सिन्धुं मुनिसमघनिषेविताम् ।।
आलोक्य कोमलदलमेकाम्रं दृष्टिवारणम् ।। ६७ ।।
फलपुष्पसमाकीर्णं कोकिलालापसंकुलम् ।।
प्रससाद पुनर्देवं सस्मार च महेश्वरम् ।। ६८ ।।
कामाग्निपरिवीतांगी तपःक्षामेव साऽभवत् ।।
अभ्यभाषत सा गौरी विजयां पार्श्ववर्त्तिनीम् ।। ६९ ।।
कामशोकपरीतांगी पुरारिविरहाकुला ।। 1.3.1.3.७० ।।
इममघहरमागतानिशं स्वयमपि पूजयितुं तपोभिरीशम् ।।
अयमभिनवपल्लवप्रसूनः स्मरयति मां स्मरबन्धुरेकचूतः ।। ७१ ।।
कथमिव विरहः शिवस्य सह्यः क्षुभितधियात्र भृशं मनोभवेन ।।
तदपि च तरुणेंदुचूडपादस्मरणमहौषधमेकमेव दृष्टम् ।। ७२ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्द्धे पार्वत्याः शिवनेत्रमीलनेन तमसा क्षुब्धलोकपापभयेन कांच्यां कंपास्थितैकाम्रतले तपश्चर्यार्थमागमनंनाम तृतीयोऽध्यायः ।। ३ ।। ।। छ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् १ — Adhyāya 4
।। ब्रह्मोवाच ।। ।।
अथाभ्यधत्त विजया प्रणम्य जगदम्बिकाम् ।।
सांत्वयन्ती स्तुतिशतैरुपायैः शिवदर्शनैः ।। १ ।।
देवि त्वमविनाभूता सदा देवेन शंभुना ।।
प्राणेश्वरी त्वमेकासि शक्तिस्तस्य परात्मनः ।। २ ।।
तथा मायां त्वमात्मीयां संदर्शयितुमीहसे ।।
पृथग्भावमिवेशानः प्रकाशयति न स्वयम् ।। ३ ।।
आदेशं प्रतिगृह्यैव समुपेतासि पार्वति ।।
अलंघनीया सेवाज्ञा शांभवी सर्वदा त्वया ।।४ ।।
विधातव्यं तपः प्राप्तं स्थानेस्मिच्छिवकल्पिते ।।
निवृत्त्य निखिलान्कामाच्छंमुमाश्रितया त्वया ।। ५ ।।
अन्यथापि जगद्रक्षा त्वदधीना जगन्मयि ।।
धर्मसंरक्षणं भूयः शिवेन सहितं तव ।। ६ ।।
निष्कलं शिवमत्यंतं ध्यायंत्यात्मन्यवस्थितम् ।।
वियोगदुःखं कञ्चित्त्वं न स्मरिष्यसि पार्वति ।। ७ ।।
भक्तानां तव मुख्यानां तवैवाचारसंग्रहः ।।
उपदेशितया लोके प्रथतां धर्मवत्सले ।। ८ ।।
इति तस्या वचः श्रुत्वा गौरी सुस्थिरमानसा ।।
तपः कर्त्तुं समारेभे कंपा नद्यास्तटे शुभे ।। ९ ।।
विमुच्य विविधा भूषा रुद्राक्षगणभूषिता ।।
विसृज्य दिव्यं वसनं पर्यधाद्वल्कले शुभे ।। 1.3.1.4.१० ।।
अलकैः सहसा शिल्पमनयच्च कपर्दृताम् ।।
अलिंपत तनूं सर्वां भस्मना मुक्तकुंकुमा ।। ११ ।।
मृगेषु कृतसंतोषा शिलोंछीकृतवृत्तिषु ।।
जजाप नियमोपेता शिवपंचाक्षरं परम् ।। १२ ।।
कृत्वा त्रिषवणं स्नानं कम्पा पयसि निर्मले ।।
कृत्वा च सैकतं लिंगं पूजयामास सादरम् ।। १३ ।।
वृक्षप्ररोपणैर्दानैरशेषातिथिपूजनैः ।।
श्रांतिं हरंती जीवानां देवी धर्ममपालयत् ।। १४ ।।
ग्रीष्मे पंचाग्निमध्यस्था वर्षासु स्थंडिलेशया ।।
हेमन्ते जलमध्यस्था शिशिरे चाकरोत्तपः ।। १५ ।।
पुण्यात्मनां महर्षीणां दर्शनार्थमुपेयुषाम् ।।
विस्मयं जनयामास पूजयामास सादरम् ।। १६ ।।
कदाचित्स्वयमुच्चित्य वनांतात्पल्लवान्वितम् ।।
पुष्पोत्करं विशेषेण शोधितुं समुपाविशत् ।। १७ ।।
कृत्वा च सैकतं लिंगं कंपारोधसि पावने ।।
संपूजयितुमारेभे न्यासावाहनपूर्वकम् ।। १८ ।।
सूर्यमभ्यर्च्य विधिवद्रक्तैः पुष्पैश्च चंदनैः ।।
पंचावरणसंयुक्तं क्रमादानर्च शंकरम् ।। १९ ।।
धूपैर्दीपश्च नैवेद्यैर्भक्तिभावसमन्वितैः ।।
अपरोक्षितमीशानमालुलोके पुरोहितम् ।। 1.3.1.4.२० ।।
अथ देवः शिवः साक्षात्संशोधयितुमंबिकाम् ।।
कंपानद्याः प्रवाहेण महता पर्यवेष्टयत् ।। २१ ।।
अतिवृद्धं प्रवाहं तं कम्पायाः समुपस्थितम् ।।
आलोक्य नियमासीनामाहुः सख्यस्तदांबिकाम् ।।२२।।
उत्तिष्ठ देवि बहुलः प्रवाहोऽयं विजृंभते ।।
दिशां मुखानि संपूर्य तरसा प्लावयिष्यति ।। २३ ।।
इति तद्वचनं श्रुत्वा ध्यायंती मीलितेक्षणा ।।
उन्मील्य वेगमतुलं नद्यास्तं समवैक्षत ।। २४ ।।
अचिंतयच्च सा देवी पूजाविघ्नसमाकुला ।।
किं करोमि न शक्नोमि हातुमारब्धमर्चनम् ।। २५ ।।
श्रेयः प्राप्तुमविघ्नेन प्रायः पुण्यात्मनां भुवि ।।
घटते धर्मसंयोगो मनोरथफलप्रदः ।। २६ ।।
सैकतं लिंगमतुलप्रवाहाल्लयमेष्यति ।।
लिंगनाशे विमोक्तव्यः सद्भक्तैः प्राणसंग्रहः ।। २७ ।।
प्रवाहोऽयं समायाति शिवमायाविनिर्मितः ।।
विशोधयितुमात्मानं भक्तियुक्तं निजे पदे ।। २८ ।।
आलिंग्य सुदृढं दोर्भ्यामेतल्लिंगमनाकुलम् ।।
अहं वत्स्यामि याताशु सख्यो यूयं विदूरतः ।। २९ ।।
इत्युक्ता सैकतं लिगं गाढमालिंग्य सांबिका ।।
न मुमोच प्रवाहेन वेष्ट्यमानापि वेगतः ।। 1.3.1.4.३० ।।
स्तनचूचुकनिर्मग्नमुद्रादर्शितलांछनम् ।।
महालिंगं स्वसंयुक्तं प्रणनाम तदादरात् ।। ३१ ।।
निमीलितेक्षणा ध्याननिष्ठैकहृदया स्थिता ।।
पुलकांचितसर्वांगी सा स्मरंती सदाशिवम् ।। ३२ ।।
कंपस्वेदपरित्राणलज्जाप्रणयकेलिदात् ।।
क्षणमप्यचला लिंगान्न वियोगमपेक्षते ।। ३३ ।।
अथ तामब्रवीत्कापि दैवी वागशरीरिणी ।।
विमुंच बालिके लिंगं प्रवाहोऽयं गतो महान् ।।३४।।
त्वयार्चितमिदं लिंगं सैकतं स्थिरवैभवम् ।।
भविष्यति महाभागे वरदं सुरपूजितम् ।। ३५ ।।
तपश्चर्यां तवालोक्य रचितं धर्मपालनम् ।।
लिंगं चैतन्नमस्कृत्य कृतार्थाः संतु मानवाः ।। ३६ ।।
अहं हि तैजसं रूपमास्थाय वसुधातले ।।
वसामि चात्र सिद्ध्यर्थमरुणाचलसंज्ञया ।। ३७ ।।
रुणद्धि सर्वलोकेभ्यः परुषं पापसंचयम् ।।
रुणो न विद्यते यस्मिन्दृष्टे तेनारुणाचलः ।। ३८ ।।
ऋषयः सिद्धगंधर्वा महात्मानश्च योगिनः ।।
मुक्त्वा कैलासशिखरं मेरुं चैनमुपासते ।। ३९ ।।
मदंश जातयोः पूर्वं युध्यतोर्ब्रह्मकृष्णयोः ।।
अहं मोहमपाकर्त्तुं तेजोरूपो व्यवस्थितः ।। 1.3.1.4.४० ।।
ब्रह्मणा हंसरूपेण विष्णुना क्रोडरूपिणा ।।
अदृष्टशेखरपदः प्रणतो भक्तियोगतः ।। ४१ ।।
ततः प्रसन्नः प्रत्यक्षस्तस्यां वरमभीप्सितम् ।।
प्रादां जगत्त्रयस्यास्य संरक्षायां तु कौशलम् ।। ४२ ।।
प्रार्थितश्च पुनस्ताभ्यामरुणाचलसंज्ञया ।।
अनैषि तैजसं रूपमहं स्थावरलिंगताम् ।। ४३ ।।
गत्वा पृच्छ महाभागं मद्भक्तिं गौतमं मुनिम् ।।
अरुणाचलमाहात्म्यं श्रुत्वा तत्र तपश्चर ।। ४४ ।।
तत्र ते दर्शयिष्यामि तैजसं रूपमात्मनः ।।
सर्वपापनिवृत्त्यर्थं सर्वलोकहिताय च ।। ४५ ।।
इति वाचं समाकर्ण्य निष्कलात्कथितां शिवात् ।।
तथेति सहसा देवी गंतुं समुपचक्रमे ।। ४६ ।।
अथ देवानृषीन्सर्वान्पश्चात्सेवार्थमागतान् ।।
अवादीदंबिकालोक्य स्नेहपूर्णेन चक्षुषा ।। ४७ ।।
तिष्ठतात्रैव वै देवा मुनयश्च दृढव्रताः ।।
नियमांश्चाधितिष्ठंतः कंपारोधसि पावने ।। ४८ ।।
सर्वपापक्षयकरं सर्वसौभाग्यवर्द्धनम् ।।
पूज्यतां सैकतं लिंगं कुचकंकणलांछनम् ।। ४९ ।।
अहं च निष्कलं रूपमास्थायैतद्दिवानिशम् ।।
आराधयामि मंत्रेण शोणेश्वरं वरप्रदम् ।। 1.3.1.4.५० ।।
मत्तपश्चरणाल्लोके मद्धर्मपरिपालनात् ।।
मल्लिंगदर्शनाच्चैव सिध्यंत्विष्टविभूतयः ।। ।। ५१ ।।
सर्वकामप्रदानेन कामाक्षीमिति कामतः ।।
मां प्रणम्यात्र मद्भक्ता लभंतां वांछितं वरम् ।। ५२ ।।
अहं हि देवदेवस्य शंभोरव्याहतो जनः ।।
आदेशं पालयिष्यामि गत्वारुणमहीधरम् ।। ५३ ।।
तत्र गत्वा तपस्तीव्रं कृत्वा शंभुं प्रसाद्य च ।।
मां तु लब्धवरां यूयं पश्चाद्रक्ष्यथ संगताः ।। ५४ ।।
इति सर्वान्विसृज्याशु सद्भक्तान्पादसेविनः ।।
अरुणाद्रिं गता बाला तपसे शंकराज्ञया ।। ५५ ।।
नित्याभिसेविताऽकारि सखीभिरभियोगतः ।।
आससादारुणाद्रीशं दिव्यदुंदुभिनादितम् ।। ५६ ।।
अंतस्तेजोमयं शांतमरुणाचलनायकम् ।।
अप्सरोनृत्यगीतैश्च पूजितं पुष्पवृष्टिभिः ।। ५७ ।।
प्रणम्य स्थावरं लिंगं कौतूहलसमन्विता ।।
सिद्धानां योगिनां सार्थमृषीणां चान्ववैक्षत ।। ५८ ।।
अत्रिर्भृगुर्भरद्वाजः कश्यपश्चांगिरास्तथा ।।
कुत्सश्च गौतमश्चान्ये सिद्धविद्याधरामराः ।। ५९ ।।
तपः कुर्वंति सततमपेक्षितवराप्तये ।।
गंगाद्याः सरितश्चान्याः परितः पर्युपासते ।। 1.3.1.4.६० ।।
दिव्यलिंगमिदं पूज्यमरुणाद्रिरिति स्मृतम् ।।
वंदस्वेति सुरैः प्रोक्ता प्रणनाम पुनःपुनः ।। ६१ ।।
अभ्यर्थिता पुनः सर्वैरातिथ्यार्थे महर्षिभिः ।।
शिवाज्ञया गौतमो मे द्रष्टव्य इति सावदत् ।। ६२ ।।
अयमत्रर्षिभिर्भक्तैर्निर्दिष्टं तमथाभ्यगात् ।।
स मुनिः शिवभक्तानां प्रथमस्तपसां निधिः ।। ६३ ।।
वनांतरं गतेः प्रातः समित्कुशफलाहृतेः ।।
अतिथीनाश्रमं प्राप्तानर्चथेति दृढव्रतान् ।। ६४ ।।
शिष्यानादिश्य धर्मात्मा गतश्च विपिनांतरम् ।।
अथ सा गौतमं द्रष्टुमागता पर्णशालिकाम् ।।६५।।
क्व गतो मुनिरित्युक्तैरित आयास्यति क्षणात् ।।
शिष्यैरभ्यर्थितेत्युक्त्वा फलमूलैस्सुगंधिभिः ।। ६६ ।।
अभ्युत्थानेनासनेन पाद्येनार्घेण सूनृतैः ।।
वचनैः फलमृलेन सार्चिता शिष्यसंपदा ।। ६७ ।।
क्षणं क्षमस्वसूनुस्तामन्ये जग्मुस्तदन्तिकम् ।।
देव्यां प्रविष्टमात्रायां महर्षेराश्रमो महान् ।। ६८ ।।
अभवत्कल्पबहुलो मणिप्रासादसंकुलः ।।
वनांतरादुपावृत्त्य समित्कुशफलाहरः ।। ६९ ।।
अपश्यत्स्वाश्रमं दूरे विमानशतशोभितम् ।।
किमेतदिति साश्चर्यं चिंतयन्मुनिपुंगवः ।। 1.3.1.4.७० ।।
गौर्याः समागमं सर्वमपश्यज्ज्ञानचक्षुषा ।।
शीघ्रं निवर्तमानोऽसौ द्रष्टुं तां लोकमातरम् ।। ७१ ।।
शिष्यैः शीघ्रचरैर्वृत्तमावेदितमथाशृणोत् ।। ७२ ।।
अथ महर्षिरुपागतकौतुको निजतपःफलमेव तदागमम् ।।
शिवदयाकलितं परिचिन्तयन्नभजदाश्रममाश्रितवत्सलः ।। ७३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे पार्वत्याः कंपाया अरुणाचले गौतमाश्रमागमनंनाम चतुर्थोऽध्यायः।। ४ ।। ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् १ — Adhyāya 5
।। ब्रह्मोवाच ।। ।।
अरण्याद्गौतमं शांतमुटजद्वार आगतम् ।।
प्रत्याधातुं प्रववृते शिवभक्तिर्जगन्मयी ।।१।।
आलुलोके समायातं गौतमं शिष्यसेवितम् ।।
लंबमानशिरःश्मश्रुसम्पूर्णमुखमण्डलम् ।।२।।
जटाभिरतिताम्राभिस्तीर्थस्नानविशुद्धिभिः ।।
न्यस्तरुद्राक्षमणिभिर्ज्वालाभिरिव पावकम् ।।।। ३ ।।
भस्मत्रिपुण्ड्रकोपेतविशालनिटिलोज्वलम् ।।
शुक्लयज्ञोपवीतेन पूर्णं रुद्राक्षदामभिः ।। ४ ।।
दधानं वल्कले रक्ते तपः कृशितविग्रहम् ।।
जपंतं वैदिकान्मंत्रान्रुद्रप्रीतिकरान्बहून् ।। ५ ।।
शम्भुनावसितोदात्तसारूप्यमिव भाषितम् ।।
तेजोनिधिं दयापूर्णं प्रत्यक्षमिव भास्करम् ।। ६ ।।
आलोक्य तं महात्मानं वृद्धं शंभुपदाश्रयम् ।।
कृतांजलिपुटा गौरी प्रणन्तुमुपचक्रमे ।। ७ ।।
कृतांजलिं मुनिर्वीक्ष्य समस्तजगदम्बिकाम् ।।
किमेतदिति साश्चर्यं वारयन्प्रणनाम सः ।। ८ ।।
स्वागतं गौरि सुभगे लोकमातर्दयानिधे ।।
व्याजेन भक्तसंरक्षां कर्तुमत्रागतास्यहो ।। ९ ।।
अहो मान्ये मान्यमर्थं विज्ञायैव पुरा वयम् ।।
पृथग्भावमिवालंब्य शिष्यादिभिः समागताः ।। 1.3.1.5.१० ।।
यद्देवि ते न चेत्किंचिन्मायाविलसितन्निजम् ।।
ततः प्रपंचसंसिद्धिः कथमेव भविष्यति ।। ११ ।।
तिष्ठत्वशेषं मे वक्तुं मायाविलसितं तव ।।
न शक्यते यन्निर्णेतुं त्वदीयैश्च कदाचन ।। ।। १२ ।।
आस्यतां पावने शुद्धं आसने कुशनिर्मिते ।।
गृह्यतां पाद्यमर्घं च दत्तं च विधिवन्मया ।। १३ ।।
इति शिष्यैः समानीते दर्भांके परमासने।।
आसीनामंबिकां वृद्धो मुनिरानर्च भक्तिमान् ।।१४।।
निवेद्य सकलां पूजां भक्तिभावसमन्वितः ।।
गौर्या समभ्यनुज्ञातः स्वयमप्यासने स्थितः।।१५।।
उवाच दशनज्योत्स्नापरिधौतदिशामुखः ।।
पुलकांचितसर्वांगः सानंदाश्रु सगद्गदम् ।। १६ ।।
अहो देवस्य माहात्म्यं शम्भोरमिततेजसः ।।
सद्भक्त रक्षणाय त्वामादिशद्भक्तवत्सलः ।। १७ ।।
असिद्धमन्यल्लब्धव्यं किं वान्यत्तव विद्यते ।।
अम्बैतद्भक्तिमाहात्म्यं संदर्शयितुमीश्वरः ।। १८ ।।
कैलासशैलवृत्तांतः कंपातटतपःस्थितः ।।
अरुणाद्रिसमादेशः सर्वं ज्ञातमिदं मया ।। १९ ।।
आगतासि महाभागे भक्ताश्रममिमं स्वयम् ।।
स्नेहेन करुणामूर्ते कर्त्तव्यमुपदिश्यताम् ।। 1.3.1.5.२० ।।
इति तस्य वचः श्रुत्वा महर्षेः सर्ववेदिनः ।।
अंबिका प्राह कुतुकात्स्तुवन्ती तं महामुनिम् ।। २१ ।।
महावैभवमेतत्ते देवदेवः स्वयं शिवः ।।
मध्ये तपस्विनां त्वं तु द्रष्टव्य इति चादिशत् ।। २२ ।।
आगमानां शिवोक्तानां वेदानामपि पारगः ।।
तपसा शंभुभक्तानां त्वमेव शिवसंमतः ।। २३ ।।
अरुणाचल नाम्नाहं तिष्ठामीत्यब्रवीच्छिवः ।।।
अस्याचलस्य माहात्म्यं श्रोतव्यं च भवन्मुखात् ।। २४ ।।
प्राप्तास्म्यहं तपः कर्तुमरुणाचलसन्निधौ ।।
भवतां दर्शनादेव स्वयमीशः प्रसीदति ।। २५ ।।
शिवभक्तेन संभाषा शिवसंकीर्त्तनश्रवः ।।
शिवलिंगार्चनं लोके वपुर्ग्रहफलोदयः ।। २६ ।।
तस्मान्ममैतन्माहात्म्यं श्रोतव्यं भवतो मुखात् ।।
सुव्यक्तमुपदेशेन ज्ञानतोऽसि पिता मम ।। २७ ।।
इति तस्या वचः श्रुत्वा गौतमस्तपसां निधिः ।।
आचख्यौ गिरिशं ध्यायन्नरुणाचलवैभवम् ।। २८ ।।
अज्ञातमिव यत्किंचित्पृच्छ्यते च पुनस्त्वया ।।
अवैमि सर्वविद्यानां माया शैवी त्वमेव सा ।। २९ ।।
अथवा भक्तवक्त्रेण शिववैभवसंश्रवः ।।
शिक्षणं शांभवं तेषां तव तुष्टेश्च कारणम् ।। 1.3.1.5.३० ।।
पठितानां च वेदानां यदावृत्तफलावहम् ।।
वदतां शृण्वतां लोके शिवसंकीर्त्तनं तथा ।। ३१ ।।
सफलान्यद्य सर्वाणि तपांसि चरितानि मे ।।
यदहं शंभुनादिष्टं माहात्म्यं कीर्त्तये श्रुतम् ।। ३२ ।।
शिवाशिवप्रसादेन माहात्म्यमिदमद्भुतम् ।। ३३ ।।
अरुणाचलमाहात्म्यं दुरितक्षयकारणम् ।।
श्रूयतामनवद्यांगि पुरावृत्तमिदं महत् ।। ३४ ।।
अरुणाद्रिमयं लिंगमाविर्भूतं यथा पुरा ।।
न शक्यते पुनर्वक्तुमशेषं वक्त्रकोटिभिः ।। ३५ ।।
अरुणाचलमाहात्म्यं ब्रह्मणामपि कोटिभिः।।
ब्रह्मणा विष्णुना पूर्वं सोमभास्करवह्निभिः ।। ३६ ।।
इन्द्रादिभिश्च दिक्पालैः पूजितश्चाष्टसिद्धये ।।
सिद्धचारणगंधर्व यक्षविद्याधरोरगैः ।। ३७ ।।
खगैश्च मुनिभिर्दिव्यैः सिद्धयोगिभिरर्चितः ।।
तत्तत्पापनिवृत्त्यर्थं तत्तदीप्सितसिद्धये ।। ३८ ।।
आराधितोऽयं भगवानरुणाद्रिपतिः शिवः ।।
दृष्टो हरति पापानि सेवितो वांछितप्रदः ।। ३९ ।।
कीर्तितोपि जनैर्दूरैः शोणाद्रिरिति मुक्तिदः ।।
तेजःस्तंभमयं रूपमरुणाद्रिरिति श्रुतम् ।। 1.3.1.5.४० ।।
ध्यायन्तो योगिनश्चित्ते शिवसायुज्यमाप्नुयुः ।।
दत्तं हुतं च यत्किंचिज्जप्तं चान्यत्तपः कृतम् ।। ४१ ।।
अक्षय्यं भवति प्राप्तमरुणाचलसंनिधौ ।।
पुरा ब्रह्मा च विष्णुश्च शिवतेजोंशसंभवौ ।।४२।।
साहंकारौ युयुधतुः परस्परजिगीषया ।।
तथा तयोर्गर्वशांत्यै योगिध्येयः सदाशिवः ।। ४३।।
अग्नितेजोमयं रूपमादिमध्यांतवर्जितम् ।।
संप्राप्य तस्थौ तन्मध्ये दिशो दश विभासयन् ।। ४४ ।।
तेजःस्तंभस्य तस्याथ द्रष्टुमाद्यंतभागयोः ।।
हंसक्रोडतनू कृत्वा जग्मतुर्द्यां रसातलम् ।। ४५ ।।
तौ विषण्णमुखौ दृष्ट्वा भगवान्करुणानिधिः ।।
आविर्बभूव च तयोर्वरं प्रादादभीप्सितम् ।।४६।।
तत्प्रार्थितश्च देवेशो यातः स्थावरलिंगताम् ।।
अरुणाद्रिरिति ख्यातः प्रशांतः संप्रकाशते ।।४७।।
दिव्यदुन्दुभिनिर्घोषैरप्सरोगीतनर्त्तनैः।।
पूज्यते तैजसं लिंगं पुष्पवृष्टिशतैः सदा ।। ४८ ।।
ब्रह्मणामप्यतीतानां पुरा षण्णवतेः प्रभुः ।।
विष्णुनाभिसमुद्भूतो ब्रह्मा लोकान्ससर्ज हि ।। ४९ ।।
स कदाचित्तपोविघ्नं कर्तुकामेन योगिनाम् ।।
इंद्रेण प्रार्थितो ब्रह्मा ससर्ज ललितां स्त्रियम् ।। 1.3.1.5.५० ।।
लावण्यगुणसंपूर्णामालोक्य कमलेक्षणाम् ।।
मुमोह कंदर्पशरैः स विद्धहृदयो विधिः ।। ५१ ।।
स्प्रष्टुकामं तमालोक्य ब्रह्माणं कमलासनम् ।।
नत्वा प्रदक्षिणव्याजाद्गंतुमैच्छद्वराप्सराः ।। ५२ ।।
अस्यां प्रदक्षिणां भक्त्या कुर्वाणायां प्रजापतेः ।।
चतसृभ्योऽपि दिग्भ्योऽस्य मुखान्युदभवन्क्षणात् ।। ५३ ।।
सा बाला पक्षिणी भूत्वा गगनं समगाहत ।।
पुनश्च खगरूपेण समायांतं समीक्ष्य सा ।। ५४ ।।
शरणं याचमाना सा शोणाद्रिमिममाश्रयत् ।।
ब्रह्मणा विष्णुना च त्वमदृष्टपदशेखरः ।। ५५ ।।
रक्ष मामरुणाद्रीश शरण्य शरणागताम् ।।
इति तस्यां भयार्त्तायां क्रोशंत्यामरुणाचलात् ।। ५६ ।।
उदभूत्स्थावराल्लिंगाद्व्याधः कश्चिद्धनुर्द्धरः ।।
संधाय सायकं चापे समेघगगनद्युतिः ।। ५७ ।।
निषादे पुरतो दृष्टे मोहस्तस्य ननाश हि ।।
ततः प्रसन्नहृदयोतिनम्रः कमलोद्भवः।। ५८ ।।
नमश्चक्रे शरण्याय शोणाद्रिपतये तदा ।।
सर्वपापक्षयकृते नमस्तुभ्यं पिनाकिने ।। ५९ ।।
अरुणाचलरूपाय भक्ववश्याय शंभवे ।।
अजानतां स्वभक्तानामकर्मविनिवर्त्तने ।। 1.3.1.5.६० ।।
त्वदन्यः कः प्रभुः कर्तुमशक्यं चापि देहिनाम् ।।
उपसंहर मे देहं तेजसा पापनिश्चयम् ।। ६१ ।।
अन्यं वा सृज विश्वात्मन्ब्रह्माणं लोकसृष्टये ।।
अथ तस्य वचः श्रुत्वा शिवो दीनस्य वेधसः ।। ६२ ।।
उवाच करुणामूर्तिर्भूत्वा चंद्रार्द्धशेखरः ।।
दत्तः कालस्तव मया पुरैव न निवर्त्यते ।। ६३ ।।
कं वा रागादयो दोषा न बाधेरन्प्रभुस्थितम् ।।
तस्माद्दूरस्थितोऽप्येतदरुणाचलसंज्ञितम्।।६४।।
भजस्व तैजसं लिंगं सर्वदोषनिवृत्तये ।।
वाचिकं मानसं पापं कायिकं वा च यद्भवेत् ।।६५।।
विनश्यति क्षणात्सर्वमरुणाचलदर्शनात् ।।
प्रदक्षिणा नमस्कारैः स्मरणैरर्चनैः स्तवैः ।।६६।।
अरुणाद्रिरयं नृणां सर्वकल्मषनाशनः ।।
कैलासे मेरुशृंगे वा स्वस्थानेषु कलाद्रिषु ।।६७।।
संदृश्यः कश्चिदेवाहमरुणाद्रिरयं स्वयम् ।।
यच्छृंगदर्शनान्नॄणां चक्षुर्लाभेन केवलम् ।। ६८ ।।
भवेत्सर्वाघनाशश्च लाभश्च ज्ञानचक्षुषः ।।
मदंशसंभवो ब्रह्मा स्वनाम्ना ब्रह्मपुष्करे ।। ६९ ।।
अत्र स्नातः पुरा ब्रह्मन्मोहोऽगाज्जगतीपतेः ।।
स्नात्वा त्वं ब्रह्मतीर्थे मां समभ्यर्च्य कृतांजलिः ।। 1.3.1.5.७० ।।
मौनी प्रदक्षिणं कृत्वा विश्वात्मन्भव विज्वरः ।।७१।।
इति वचनमुदीर्य विश्वनाथं स्थितमरुणाचलरूपतो महेशम् ।।
अथ सरसि निमज्य पद्मजन्मा दुरितहरं समपूजयत्क्रमेण।।७२।।
इममरुणगिरीशमेष वेधा यमनियमादिविशुद्धचित्तयोगः ।।
स्फुटतरमभिपूज्य सोपचारं गतदुरितोऽथ जगाम चाधिपत्यम् ।।७३।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मपुष्करमाहात्म्यवर्णनंनाम पञ्चमोऽध्यायः।।५।। ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् १ — Adhyāya 6
।। गौतम उवाच ।। ।।
पुरा नारायणः कल्पे शयानः सलिलार्णवे ।।
शेषपर्यंकशयने कदाचिन्नैव बुध्यत ।। १ ।।
तमसा पूरितं विश्वमपज्ञातमलक्षणम् ।।
वीक्ष्य कल्पावसानेऽपि विषेदुर्नित्यसूरयः।।२।।
अहो कष्टमिदं रूपं तमसा विश्वमोहनम् ।।
येन कल्पावसानेपि विष्णुर्नाद्यापि बुध्यते ।।३।।
ज्योतिषः पुरुषं पूर्णमपश्यंतं सुरा अपि ।।
कथं वा तमसः शांतिं लभेरन्परिभाविनः ।।४।।
इति निश्चित्य मनसा देवदेवमुमापतिम् ।।
चिंतयामासुरात्मस्थं तेजोराशिं निरंजनम् ।। ५ ।।
ततः प्रसन्नो भगवांस्तेजोराशिर्महेश्वरः ।।
विश्वावनाय विज्ञप्तः प्रणतैर्नित्यसूरिभिः ।। ६ ।।
ततस्तेजोमयाच्छंभोः स्फुलिंगांशुसमुद्भवाः ।।
उदस्तंभंत देवानां त्रयस्त्रिंशच्च कोटयः ।।७।।
बोधितः सकलैर्देवैः समुत्थाय रमापतिः।।
प्रभातं वीक्ष्य सकलं मनस्येवमचिन्तयत् ।। ८ ।।
मया तमसि उद्रेकादकाले शयनं कृतम् ।।
प्रबोधाय परं ज्योतिः स्वयं दृष्टः सदाशिवः ।। ९ ।।
जगदुत्पत्तिकृत्यानि स्वयं कर्तुं व्यवस्यति ।।
किं मयात्र पुनः कार्यं ब्रह्मणा वा स्वयंभुवा।।। 1.3.1.6.१०।।
धिङ्मां स्थितमनात्मज्ञं निद्रया हृतचेतसम् ।।
अथवा सर्वकर्तारं शरणं यामि शंकरम् ।। १ १।।
सर्वदोषप्रशमनं सर्वाभीष्टफलप्रदम् ।।
पवित्रमल्पपुण्यानां दुर्लभं शंभुदर्शनम् ।।१२।।
चिंतयन्नेवमात्मस्थं ज्योतिर्लिंगं सदाशिवम् ।।
प्रणनाम हरिर्भक्त्या देवमष्टांगतो मुहुः।।१३।।
विश्वस्रष्टारमीशानं तुष्टाव दुरितच्छिदम् ।।
अथ तेजोमयः शंभुः शरण्यः शरणागतम् ।। १४।।
अनुगृह्य कटाक्षैस्तं समुत्तिष्ठेत्यभाषत ।।
उत्थाय करुणापूर्णं शंभुं चंद्रार्द्धशेखरम् ।।१५।।
नमस्त्रिभुवनेशाय त्रिमूर्तिगुणधारिणे ।।
त्रिदेववपुषे तुभ्यं त्रिदृशे त्रिपुरद्रुहे ।। १६ ।।
त्वमेव जगतामीशो निजांशैर्देवतामयैः ।।
कार्यकारणरूपेण करोषि स्वेच्छया क्रियाः ।। १७ ।।
मां नियुज्य जगद्गुप्तौ परिमोह्य च मायया ।।
न दोषमुत संकल्पं विहातुमपि नेच्छसि ।। १८ ।।
किं करोमि जगन्मूर्त्तौ न्यस्तभारोऽस्म्यहं त्वयि ।।
न दोषमीहसे नूनमकालशयनेन माम् ।। १९ ।।
हर शम्भो हरेरार्तिमनुतापं समीक्ष्य सः ।।
आदिदेश हरः श्रीमान्प्रायश्चित्तं हरेरिदम् ।। 1.3.1.6.२० ।।
अरुणाचलरूपेण तिष्ठामि वसुधातले ।।
तस्य दर्शनमात्रेण भविता ते तमः क्षयः ।। २१ ।।
पूर्वस्मै विष्णवे तत्र वरो दत्तो मया पुरा।।
तदैव तैजसं लिंगमरुणाचल संज्ञितम् ।।
तेजोमयमिदं रूपं प्रशांतं लोकरक्षणात्।।
यदग्निमयमव्यक्तमपारगुणवैभवम्।। २३।।
नदीनां निर्झराणां च मेघमुक्तांभसामपि ।।
अंतर्ज्योतिर्मयत्वेन लयस्तत्रैव दृश्यते ।। २४ ।।
अंधानां दृष्टिलाभेन पंगूनां पादसंचरैः ।।
अपुत्राणां च पुत्राप्त्या मूकानां वाक्प्रवृत्तिभिः ।। २५ ।।
सर्वसिद्धिप्रदानेन सर्वव्याधिविमोचनैः ।।
सर्वपापप्रशमनैर्यत्सर्ववरदं स्थितम् ।। २६ ।।
इत्युक्तांतर्दधे शम्भुर्हरिश्चैवारुणाचलम् ।।
आगत्य तप आस्थाय शोणाचलमुपास्त च ।। २७ ।।
तमद्रिं परितो दृष्ट्वा सुरान्काननसंश्रयान् ।।
ऋषीणामाश्रमान्पुण्यान्स्थापयामास वै हरिः ।।
वेदान्सांगोपनिषदान्समंतान्मूर्तिधारिणः ।। २८ ।।
ससर्ज दिव्यरूपाणां शतमप्सरसां कुलम् ।।
नृत्यैर्गीतैश्च वादित्रैस्सेवध्वमिति चादिशत् ।। २९ ।।
स्नात्वा ब्रह्मसरस्यस्मिन्विष्णुः कमललोचनः ।।
प्रदक्षिणं चकारामुमरुणाद्रिं समर्चितम् ।। 1.3.1.6.३० ।।
अपापः सर्वलोकानामाधिपत्यं च लब्धवान् ।।
रमया सहितो नित्यमभिरूपसुरूपया ।। ३१ ।।
भास्करस्तेजसां राशिरसुरैरपि पीडितः ।।
ब्रह्मोपदेशादानर्च भक्त्यारुणगिरीश्वरम् ।। ३२ ।।
निमज्ज्य विमले तीर्थे पावने ब्रह्मनिर्मिते ।।
प्रदक्षिणं चकारैनमरुणार्द्रि स्वयंप्रभुम् ।। ३३ ।।
अशेषदैत्यविजयं लब्ध्वा मेरुप्रदक्षिणम् ।।
लेभे च परमं तेजः परतेजःप्रणाशनम् ।। ३४ ।।
दक्षशापानलाक्रांतस्सोमः शिववचोबलात् ।।
अरुणाचलमभ्यर्च्य लब्धरूपोऽभवत्पुनः ।। ३५ ।।
अग्निर्ब्रह्मर्षिशापेन यक्ष्मरोगप्रपीडितः ।।
अपूतोऽपि पवित्रोऽभूदरुणाचलसेवया ।। ३६ ।।
शक्रो वृत्रं बलं पाकं नमुचिं जृंभमुद्धृतम् ।।
शिवलब्धवरान्दैत्यान्पुरा हत्वा जगत्पतीन् ।। ३७ ।।
पातकैश्च परिक्षीणस्तथा लोकांतमाश्रितः ।।
शम्भुं प्रसाद्य तपसा शिवेन परिचोदितः!।। ३८ ।।
अरुणाद्रिं समभ्यर्च्य विपापोऽभूत्सुराधिपः ।।
इष्ट्वा च हयमेधेन प्रीणयामास शंकरम् ।। ३९ ।।
लब्ध्वा चेन्द्रपदं शक्रः शतमप्सरसांकुलम् ।।
सेवार्थमादिशन्छ्रीमान्दिव्यदुंदभिसेवया ।। 1.3.1.6.४० ।।
पुष्पमेघान्समादिश्य दिव्याभिः पुष्पवृष्टिभिः ।।
समर्चयति शोणाद्रिं दिवि नित्यं च वंदते ।। ४१ ।।
शेषोऽपि शोणशैलेशं समभ्यर्च्य शिवाज्ञया ।।
अभजत्कामरूपत्वं महीमण्डलधारकः ।। ४२ ।।
अन्ये नागाश्च गन्धर्वाः सिद्धाश्चाप्सरसां गणाः ।।
दिक्पालाश्च तमभ्यर्च्य लेभिरेऽपेक्षितान्वरान् ।। ४३ ।।
देवैरशेषैर्दैत्यादीञ्जेतुकामैः समुद्यतैः ।।
प्रार्थितः सर्वतोऽभीष्टवरदोऽरुणभूधरः ।। ४४ ।।
त्वष्ट्रा विरचिताकार आदित्यस्तेजसा तपन् ।।
ग्रहनाथस्तु शोणाद्रिं विलंघयितुमुद्यतः ।। ४५ ।।
रथवाहाः पुनस्तस्य शक्तिहीनाः श्रमं गताः ।।
सोऽपि श्रिया विहीनश्च जातः गोणाद्रितेजसा ।। ४६ ।।
नाशक्नोच्च दिवं गन्तुं सर्वगत्यांशुमालिनः ।।
स तु ब्रह्मोपदेशेन समाराध्यारुणाचलम् ।। ४७ ।।
प्रीत्या तस्माद्विभोर्लेभे मार्गं व्योम्नो हयाञ्छुभान् ।।
ततः प्रभृति तिग्मांशुः स हि शोणाख्यपर्वतम् ।। ४८ ।।
न लंघयति किं त्वस्य प्रदक्षिणपरिक्रमैः ।।
दक्षयागपरिध्वस्ता हीनांगास्त्रिदशाः पुरा ।। ४९ ।।
अरुणाचलमाराध्य नवान्यंगानि लेभिरे ।।
पूषा दन्तं शिखी हस्तं भगो नेत्रं त्वखंडितम् ।। 1.3.1.6.५० ।।
घ्राणं वाणी च लेभे सा शोणाचलनिषेवणात् ।।
भार्गवः क्षीणनेत्रस्स विष्णुहस्तकुशाग्रतः ।। ५१ ।।
बलिदत्तावनीदानजलधारानिरोधतः ।।
स तु शोणाचलं गत्वा तपः कृत्वातिदुष्करम् ।। ५२ ।।
लेभे नेत्रं च पूतात्मा भास्कराख्ये गिरौ स्थितः ।।
अरुणाचलनाथस्य सेवया सूर्यसारथिः ।। ५३ ।।
प्रतर्दनाख्यो नृपतिर्ग्रहीतुं देवकन्यकाम् ।।
अरुणाद्रिपतेर्गानं कुर्वंतीं सादरोऽभवत् ।। ५४ ।।
क्षणात्कपिमुखो जातो मंत्रिभिश्चोदितो नृपः ।।
प्रत्यर्प्य तां पुनश्चान्याः प्रादादरुणभूभृते ।। ५५ ।।
ततश्चारुमुखोजातः प्रसादादरुणेशितुः ।।
सायुज्यमस्मै सकलं दत्तवान्भक्तिभावतः ।।५६।।
अरुणाचलनाथस्यसंनिधौ ज्ञानदुर्बलः ।।
गंधर्वः पुष्पकाख्यस्तु भक्तिहीनो ह्यगात्पुरा ।। ५७ ।।
ततो व्याघ्रमुखं दृष्ट्वा गंधर्वपरिचारकाः ।।
किमेतदिति साश्चर्यं पप्रछुस्ते परस्परम् ।। ५८ ।।
अथ नारद निर्दिष्टमवज्ञाफलमात्मनः ।।
बुद्ध्वारुणाद्रिं संपूज्य पुनश्च सुमुखोऽभवत् ।। ५९ ।।
शिवभूमिरियं ख्याता परितो योजनद्वयम् ।।
मुक्तिस्तत्र प्रमीतानां कदापि विलयो न हि ।। 1.3.1.6.६० ।।
सप्तर्षयः पुरा भूमौ शापदोषसमन्विताः ।।
सिषेविरेरुणाद्रिं वै नाथो ज्ञात्वा विनिश्चयम् ।। ६१ ।।
शापमोक्षं ददौ श्रीमान्सप्तर्षीणां महात्मनाम् ।।
सप्तर्षिभिः कृतं तीर्थं सर्वपापविनाशनम् ।। ६२ ।।
शोणाचलस्य निकटे दृश्यते पावनं शुभम् ।।
पंगुर्मुनिः शोणशैलात्पादौ लब्धुं समागतः ।। ६३ ।।
अंतर्हितप्रार्थितार्थो दारुहस्तपुटे वहन् ।।
जानुचंक्रमणव्यग्रः शोणनद्यास्तटं गतः ।। ६४ ।।
दारुहस्तपुटे तीर्थे निचिक्षेप पिपासतः ।।
जानुचंक्रमणे तस्मिन्धूर्तस्तोयं पिपासति ।। ६५ ।।
अथ शोणाचलं प्राप्तः कथं वा दारुहस्तकः ।।
किमेतदिति तं पृच्छन्नाधावत्कलितत्परः ।। ६६ ।।
लब्धपादश्च सहसा जगाम च निजालयम् ।।
नाद्राक्षीत्पुरुषं तत्र दारुहस्तौ पुरोगमौ ।। ६७ ।।
स्वयं गृहीत्वा चालोक्य ववंदेऽरुणपर्वतम् ।।
ननंद लब्धचरणो लब्धरूपो महामुनिः ।। ६८ ।।
विस्मयोत्फुल्लनयनैः शिवभक्तैर्महात्मभिः ।।
पूजितो लब्धपादः सञ्जगाम च यथागतम् ।। ६९ ।।
वाली शक्रसुतः श्रीमाञ्छ्रंगादुदयभूभृतः ।।
अस्ताचलस्य शिखरं प्रतिगन्तुं समुद्यतः ।। 1.3.1.6.७० ।।
आलुलोकेऽरुणगिरिं मध्ये देवनमस्कृतम् ।।
ऊर्ध्वं गंतुं समुद्युक्तः क्षीणवीर्योऽपतद्भुवि ।। ७१ ।।
पित्रा शक्रेण संगम्य चोदितः शोणपर्वतम् ।।
लिंगं तैजसमभ्यर्च्य लब्धवीर्योऽभवत्पुनः ।। ७२ ।।
नलः पूर्वं समभ्यर्च्य स्वसृष्टा मानवप्रियाः ।।
पालयामास धर्मात्मा नीतिसारसमन्वितः ।। ७३ ।।
इलः प्रविश्य सहसा गौरीवनमखंडितम् ।।
स्त्रीभावं समनुप्राप्तः पप्रच्छ स्वं पुरोधसम् ।। ७४ ।।
वशिष्ठेन समादिष्टः शोणाद्रिं समपूजयत् ।।
तपसाराध्य देवेशं पुनः पुंस्त्वमुपागतः ।। ७५ ।।
सोमोपदेशाद्भक्त्याथ सस्मारारुणपर्वतम् ।।
ईशानुग्रहतो लेभे शापमोक्षं तपोधिकः ।। ७६ ।।
लेभे च परमं स्थानमप्राप्यममरैरपि ।।
भरतो मृगशावस्य स्मरणादायुषोऽत्यये ।। ७७ ।।
न मुक्तिं प्राप योगेन मृगजन्मनि संगतः ।।
पत्नीविरहजं दुःखं प्राप्तवानमितं हरिः ।। ७८ ।।
पुनर्भृगूपदेशेन शोणाद्रिमिममर्चयन् ।।
अवतारेषु सर्वेषु सर्वदुःखान्यपाकरोत् ।। ७९ ।।
सरस्वती च सावित्री श्रीर्भूमिः सरितस्तथा ।।
अभ्यर्च्य शोणशैलेशमापदो निरतारिषुः ।। 1.3.1.6.८० ।।
भास्करः पूर्वदिग्भागे विश्वामित्रस्तु दक्षिणे ।।
पश्चिमे वरुणो भागे त्रिशूलं चोत्तराश्रयम् ।। ८१ ।।
योजनद्वयपर्यंते सीमाः शैलेषु संस्थिताः ।।
चतस्रो देवतास्त्वेताः सेवंते शोणपर्वतम्।। ८२ ।।
स्थिताः सीमावसानेषु शोणाद्रीशमवस्थितम् ।।
नमंति देवाश्चत्वारः शिवं शोणाचलाकृतिम् ।। ८३ ।।
अस्योत्तरस्मिञ्छिखरे दृश्यते वटभूरुहः ।।
सिद्धवेषः सदैवास्ते यस्य मूले महेश्वरः ।। ८४ ।।
यस्य च्छायातिमहती सर्वदा मण्डलाकृतिः ।।
लक्ष्यते विस्मयोपेतैः सर्वदा देवमानवैः ।। ८५ ।।
अष्टभिः परितो लिंगैरष्टदिक्पालपूजितैः ।।
अष्टासु संस्थितैर्दिक्षु शोभते ह्युपसेवितः ।। ८६ ।।
नृपाणां शम्भुभक्तानां शंकराज्ञानुपालिनाम् ।।
अत्रैव महदास्थानमादिदेवेन निर्मितम् ।। ८७ ।।
बकुलश्च महांस्तत्र सदार्थितफलप्रदः ।।
आगमार्थविदा मूले वामदेवेन सेव्यते ।। ८८ ।।
अगस्त्यश्च वशिष्ठश्च संपूज्यारुणभूधरम् ।।
संस्थाप्य लिंगे विमले तेपाते तादृशं तपः ।।८९।।
हिरण्यगर्भतनयः पुरा शोणनदः पुमान्।।
अत्र तीव्रं तपस्तप्त्वा गंगाभिमुखगोऽभवत ।। 1.3.1.6.९० ।।
अत्र शोणनदी पुण्या प्रवहत्यमलोदका ।।
वेणा च पुण्यतटिनी परितः सेवतेऽचलम् ।। ९१ ।।
वायव्याश्च दिशो भागे वायुतीर्थं च शोभते ।।
तत्र स्नात्वा मरुत्पूर्वं जगत्प्राणत्वमाप्तवान् ।। ९२ ।।
उत्तरेऽस्य गिरेस्तीर्थं सुवर्णकमलोज्ज्वलम् ।।
दिव्यसौगंधिकाकीर्णं हंसभृंगमनोहरम् ।। ९३ ।।
कौबेरं तीर्थमेशान्यामैशान्यं तीर्थमुत्तमम् ।। ९४ ।।
तस्यैव पश्चिमे भागे विष्णुः कमललोचनः ।।
स्नात्वा विष्णुत्वमभजत्कमलालालिताकृतिः ।। ९५ ।।
नवग्रहाः पुरा तत्र स्नात्वा ग्रहपदं गताः ।।
नवग्रहप्रसादश्च जायते तत्र मज्जताम् ।। ९६ ।।
दुर्गा विनायक स्कन्दो क्षेत्रपालः सरस्वती ।।
रक्षंति परितस्तीर्थं ग्राहयमेतदनन्तरम् ।। ९७ ।।
गंगा च यमुना चैव गोदावरी सरस्वती ।।
नर्मदासिन्धुकावेर्यः शोणः शोर्णनदी च सा ।। ९८ ।।
एता गूढा निषेवंते पूर्वाद्याशासु संततम् ।।
नश्यंत्यः सकलं पापमात्मक्षेत्रसमुद्भवम्।। ९९ ।।
अन्याश्च सरितो दिव्याः पार्थिव्यश्च शुभोदकाः ।।
उदजृंभंत सहसा शोणाद्रीशप्रसादतः ।। 1.3.1.6.१०० ।।
आगस्त्यं दक्षिणे भागे तीर्थं महदुदाहृतम् ।।
सर्वभाषार्थसंसिद्धिर्जायते तत्र मज्जताम् ।। १०१ ।।
अत्रागस्त्यः समागत्य स्नात्वा मुनिगणावृतः ।।
अभ्यर्चयति शोणाद्रिं मासि भाद्रपदे सदा ।। १०२ ।।
वाशिष्ठमुत्तरे भागे तीर्थं दिव्यं शुभोदयम् ।।
सर्ववेदार्थसंसिद्धिर्जायते तत्र मज्जनात् ।। १०३ ।।
अत्र मेरोः समागत्य वशिष्ठो भगवानृषिः ।।
करोत्याश्वयुजे मासि शोणाद्रीशनिषेवणम् ।। १०४ ।।
गंगानाम महत्तीर्थं पूर्वोत्तरदिशि स्थितम् ।।
तत्र स्नानाद्भवेन्नृणां सर्वपातकनाशनम् ।। १०५ ।।
गंगाद्याः सरितः सर्वाः कार्त्तिके मासि संगताः ।।
अत्रारुणाद्रिनाथस्य सेवां कुर्वंति सादरम् ।। १०६ ।।
ब्राह्म्यं नाम महातीर्थमरुणाद्रीशसन्निधौ ।।
तस्योपसंगमात्सद्यो ब्रह्महत्यादि नश्यति ।। १०७ ।।
मार्गे मासि समागत्य ब्रह्मलोकात्पितामहः ।।
स्नात्वा तत्प्रत्यहं देवमर्चयत्यरुणाचलम् ।।।। १०८ ।।
पौषे मासि समागत्य स्नात्वा तीर्थे निजैः सुरैः ।।
महेन्द्रः शोणशैलेशमभ्यर्चयति शंकरम् ।। १०९ ।।
शैवंनाम महातीर्थं संनिधौ तत्र वर्तते ।।
रुद्रो ब्रह्मकपालेन सह तत्र न्यमज्जत ।। 1.3.1.6.११० ।।
अत्र शम्भुर्गणैः सार्द्धं माघे मासि प्रसीदति ।।
प्रायश्चित्तानि सर्वाणि नॄणां सफलयन्भुवि ।। १११ ।।
आग्नेयमग्निदिग्भागे तीर्थं सौभाग्यदायकम् ।।
अग्निरत्र पुरा स्नात्वा स्वाहया संगतः सुखी ।। ११२ ।।
अनंगोपि स्मरः स्नात्वा फाल्गुने मासि संगतः ।।
अभ्यर्च्य शोणशैलेशमभूत्सर्वसुखाधिपः ।। ११३ ।।
दिशि दक्षिणपूर्वस्यां वैष्णवं तीर्थमद्भुतम् ।।
ब्रह्मर्षयः सदा तत्र वसंति कृतकौतुकाः ।। ११४ ।।
चैत्रे मासि समागत्य विष्णुस्तत्र रमापतिः ।।
स्नात्वाभ्यर्च्यारुणाद्रीशमभवल्लोकनायकः ।। ११५ ।।
सौरंनाम महातीर्थं कौबेरदिशि जृंभितम् ।।
सर्वरोगोपशांतिश्च जायते तत्र मज्जनात् ।। ।। ११६ ।।
वैशाखे मासि दिनकृत्स्नात्वात्रेशं निषेवते ।।
वालखिल्यैः समं श्रीमान्वेदैश्च सह संगतः ।। ११७ ।।
आश्विनं पावनं तीर्थमीशब्रह्मोत्तरे स्थितम् ।।
आप्लुतौ भिपजौ दस्रौ पूतावत्र निमज्जनात् ।। ११८ ।।
अत्राश्विनौ समागत्य स्नात्वाभ्यर्च्य च शंकरम् ।।
दक्षिणे शोण शैलस्य निकटे वर्त्तते शुभम् ।। ११९ ।।
कामदं मोक्षदं चैव तीर्थं पांडवसंज्ञितम् ।।
पुरा हि पांडवास्तत्र मजनात्क्षितिनायकाः ।। 1.3.1.6.१२० ।।
अत्र धात्री समागत्य सर्वौषधिफलान्विता ।।
ज्येष्ठे मासि समं देवैरार्चयच्चारुणाचलम् ।। १२१ ।।
आषाढे मासि संत्यक्ता विश्वेदेवा महाबलाः ।।
अभ्यर्च्य शोणशैलेशमागच्छन्मखराध्यताम् ।। १२२ ।।
वैश्वदेवं महातीर्थं सोमसूर्योत्तराश्रयम् ।।
विश्वाधिपत्यमतुलं लभ्यते तत्र मज्जनात् ।। ।। १२३ ।।
परितो लक्ष्यते तीर्थं पूर्वस्यां दिशि शोभने ।।
अत्र लक्ष्मीः पुरा स्नात्वा लेभे पुरुषमुत्तमम् ।। १२४ ।।
उत्तरस्यां दिशि पुरा पुण्या स्कंदनदी स्थिता ।।
अत्र स्नात्वा पुरा स्कंदः संप्राप्तो विपुलं बलम् ।। १२५ ।।
पश्चिमस्यां दिशि ख्याता परा कुंभनदी शुभा ।।
अगस्त्यः कुंभकः कुंभस्तत्र नित्यं व्यवस्थितः ।। १२६ ।।
गंगा च मूलभागस्था यमुना गगने स्थिता ।।
सोमोद्भवा शिरोभागे सेवंते शोणपर्वतम् ।। १२७।।
बहून्यपि च तीर्थानि संभूतानि समंततः ।।
तेषां भेदान्पुरा वेत्तुं मार्कण्डेयस्तु नाशकत् ।। १२८ ।।
तपोभिर्बहुभिस्सोयं शोणाद्रीशमतोषयत् ।।
प्रार्थयामास च वरं प्रीतात्तस्मान्मुनीश्वरः ।। १२९ ।।
।। मार्कण्डेय उवाच ।। ।।
भगवन्नरुणाद्रीश तीर्थभेदाः सहस्रशः ।।
प्रख्याताश्च प्रकाशंते दुर्बोधास्त्वल्पचेतसाम् ।। 1.3.1.6.१३० ।।
कथमेकत्र सांनिध्यं लभेरन्भुवि मानवाः ।।
अपर्याप्तश्च भवति पृथगेषां निषेवणे ।।१३१।।
अंतर्निगूढतेजास्त्वं गत्वा यस्सकलैः सुरैः ।।
आरण्यसे कुरु तथा शोणाद्रिस्पर्शभीरुभिः ।। १३२ ।।
अहं च शंभुमभ्यर्च्य तपसारुणपर्वतम् ।।
सर्वलोकोपकारार्थं सूक्ष्म लिंगमपूजयम् ।। १३३ ।।
विश्वकर्मकृतं दिव्यं विमानं विविधोत्सवम् ।।
संकल्प्य सकलान्भोगान्नित्यानजनयत्पुनः ।। १३४ ।।
धर्मशास्त्राणि विविधान्यवापुर्मुनिपुंगवाः ।।
शिवकार्याणि सर्वाणि चक्रुभक्तिसमन्विताः ।। १३५ ।।
मया च शंभुमभ्यर्च्य कृताग्न्याहुतिसंभवाः ।।
सप्त कन्या वरारोहाः पूजार्थं विनियोजिताः ।। १३६ ।।
हतशत्रुगणैभूपैर्लब्धराज्यैः पुरा नृपैः ।।
प्रत्येकं विविधैर्भोगैः शोणशैलाधिपोर्चितः ।। १३७ ।।
इदमनुभववैभवं विचित्रं दुरितहरं शिवलिंगमद्रिरूपम् ।।
अमलमनभिगम्यनामधेयं वरमरुणाद्रिनायकं भजस्व ।। १३८ ।।
अवनतजनरक्षणोचितस्य स्मरणनिराकृतविश्वकल्मषस्य ।।
भजनममितपुण्यराशियोगादरुणगिरेः कृतिनः परं लभस्व ।। १३९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणाचलस्थविविधतीर्थमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ।। ६ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् १ — Adhyāya 7
।। पार्वत्युवाच ।। ।।
कथमग्निमयं लिंगमभिगम्यमभूद्भुवि ।।
प्राणिनामपि सर्वेषामुपशांतिं कथं गतः ।। १ ।।
तीर्थानामुद्भवः पुण्यात्कथं चारुणपर्वतात् ।।
उपसंहृतसर्वांगः कथं वा वद मेऽचलः ।।२।।
।। गौतम उवाच।। ।।
कृते त्वग्निमयः शैलस्त्रेतायां मणिपर्वतः ।।
द्वापरं हाटकगिरिः कलौ मरकताचलः ।। ३ ।।
बहुयोजनपर्यंतं कृते वह्निमये स्थिते ।।
बहिः प्रदक्षिणं चक्रुः प्रशाम्यति महर्षयः ।।४।।
शनैः शांतोरुणाद्रीशः श्रीमानभ्यर्थितः सुरैः ।।
लोकगुप्त्यर्थमत्यर्थमुपशांतोऽरुणाचलः ।।५।।
अथ गौरी मुनिं प्राह कथं शांतोऽरुणाचलः ।।
कथं वा प्रार्थयामासुर्देवेशं त्रिदशा इमम्।।६।।
इति तस्या वचः श्रुत्वा गौतमस्त्वभ्यभाषत ।।
प्रशस्य भक्तिमतुलां तस्यास्तत्त्वार्थवेदिनीम् ।।७ ।।
।। गौतम उवाच ।। ।।
अग्निरूपं पुरा शैलमासादयितुमक्षमाः ।।
पुरा सुराः स्तुतिं चक्रुरभ्यर्च्य क्रतुसंभवैः ।। ८ ।।
भगवन्नरुणाद्रीश सर्वलोकहितावह ।।
अग्निरूपोऽपि संशांतः प्रकाशस्य महीतले ।। ९ ।।
असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ।।
इति त्वां सकला वेदाः स्तुवंति शिवविग्रहम् ।। 1.3.1.7.१० ।।
नमस्ताम्रायारुणाय शिवाय परमात्मने ।।
वेदवेद्य स्वरूपाय सोमाय सुखरूपिणे ।। ११ ।।
त्वद्रूपमखिलं देव जगदेतच्चराचरम् ।।
निधानमिव ते रूपं देवानामिदमीक्ष्यते ।।१२।।
वर्षतां च पयोदानां निर्झराणां च भूयसाम् ।।
सलिलोपायसंहारो युक्तस्ते युगसंक्षये ।।१३।।
अग्नेरापः समुद्भूतास्त्वत्तो हि परमात्मनः ।।
विश्वसृष्टिं वितन्वति विचित्रगुण वैभवात् ।। १४ ।।
शीतो भव महादेव शोणाचल कृपानिधे ।।
सर्वेषामपि जीवानामभिगम्यो भव प्रभो ।। १५ ।।
इति स्तुतः सुरैः सर्वेरानतैर्भक्तवत्सलः ।।
सद्यः शीतलतां गच्छन्नभिम्योऽभवत्प्रभुः ।। १६ ।।
प्रावर्त्तत पुनर्नद्यो निर्झराश्च बहूदकाः ।।
वर्षतामपि मेघानां न जग्राह जलं बहु ।। ।। १७ ।।
तथापि तरुणार्कोद्यत्कालाग्निशतकोटिभिः ।।
समानदीप्तिरभजज्जीवानामभिगम्यताम् ।।१८।।
विसृज्य विश्वसलिलं नदीश्च रसविक्षरैः ।।
संपूर्यः सकलैर्देवः सर्वदा संप्रकाशते ।। १९ ।।
तीर्थानि तानि तान्यासन्परितः प्रार्थनावशात् ।।
दिक्पालानां सुराणां च महर्षीणां महात्मनाम् ।।।। 1.3.1.7.२० ।।
।। ब्रह्मोवाच ।। ।।
इति तस्य वचः श्रुत्वा गौरी कुतुकसंयुता ।।
तीर्थानामुद्भवं सर्व श्रोतुं समुपचक्रमे ।। २१ ।।
।। पार्वत्युवाच ।। ।।
कानि तीर्थानि जातानि शोणाद्रेर्लोकगुप्तये ।।
भगवन्ब्रूहि सकलं तीर्थानामुद्भवं मम ।। २२ ।
इति तस्या वचः शृण्वन्गिरीशात्संश्रुतं पुरा ।।
तीर्थानामुद्भवं सर्वं व्याख्यातुमुपचक्रमे ।। २३ ।।
।। गौतम उवाच ।। ।।
ऐन्द्रं नाम महातीर्थमिंद्रभागे समुत्थितम् ।।
तत्र स्नात्वा पुरा शक्रो ब्रह्महत्यां व्यपोहयत् ।। २४ ।।
ब्रह्मतीर्थं पुनर्दिव्यं वह्निःकोणे समुत्थितम् ।।
परस्त्रीसंगमात्पापं वह्निः स्नात्वात्र चात्यजत् ।। २५ ।।
याम्यं नाम महातीर्थं यमभागे विजृंभते ।।
अत्र स्नात्वा यमोऽत्याक्षीद्भयं ब्रह्मास्त्रसंभवम् ।। २६ ।।
नैर्ऋतं तु महातीर्थं नैर्ऋत्यां दिशि शोभते ।।
भूतवेतालविजयं तत्र स्नात्वर्षयो गताः ।। २७ ।।
पश्चिमे वारुणं तीर्थं दिग्भागे च प्रकाशते ।।
शल्यकोशं पुरा लेभे स्नात्वात्र वरुणो निजम् ।। २८ ।।
वायवे वायवीयं च तीर्थमत्र प्रकाशते ।।
तत्र स्नात्वा ययौ वायुर्जगत्प्राणत्ववैभवम् ।। २९ ।।
उत्तरे चात्र दिग्भागे सोमतीर्थमिति स्मृतम् ।।
तत्र स्नात्वा पुरा सोमो यक्ष्मरोगादमुंचत ।। 1.3.1.7.३० ।।
ऐशाने चात्र दिग्भागे विष्णुतीर्थमिति स्मृतम् ।।
तत्र स्नात्वा पुरा विष्णुः श्रिया च सह संगतः ।। ३१ ।।
मार्कण्डेयः पुरा देवि प्रार्थयामास शंकरम् ।।
सदाशिव महादेव देवदेव जगत्पते ।। ३२ ।।
बहूनामिह तीर्थानामेकत्र स्यात्समागमः ।।
केनोपायेन भगवन्कृपया वद शंकर ।। ३३ ।।
इति तस्य वचः श्रुत्वा देवदेव उमापतिः ।।
उपायं दर्शयामास मुनये प्रीतमानसः।। ३४ ।।
।। महेश्वर उवाच ।। ।।
सदोपहारवेलायां सर्वतीर्थसमुच्चयः ।।
सन्निधिं मम संप्राप्तः सेवते गूढरूपतः ।। ३५ ।।
नान्यदन्वेषणीयं ते तीर्थमत्र महामुने ।।
ममोपहारवेलायां दृश्यते तीर्थसंचयः ।। ३६ ।।
तस्माद्भक्तियुतैर्नित्यं सर्वतीर्थसमागमः ।।
मुनिभिश्च सुरैः सर्वैर्नैवेद्यांते विलोक्यताम् ।। ३७ ।।
इति देवि पुरा देवो मार्कडेयाय शंकरः ।।
उपादिशदमेयात्मा तीर्थसंदर्शनक्रमम् ।। ३८ ।।
।। गौतम उवाच ।। ।।
सर्वाण्यपि च पुण्यानि तीर्थानि शिवसन्निधौ ।।
सदोपहारवेलायां दृश्यानि किल मानवैः ।। ३९ ।।
व्रतं तीर्थं तपो वेदा यज्ञाश्च नियमादयः ।।
योगाश्च शोणशैलेशदर्शनाद्दृष्टसंचराः ।। 1.3.1.7.४० ।।
निशम्य वाक्यं मुनिपुंगवस्य प्रसेदुषी पर्वतराजपुत्री ।।
अवोचदत्यद्भुतमेतदत्र त्वयोपदिष्टं भुवि तीर्थजालम् ।। ४१ ।।
अहं कृतार्था तपतां वरिष्ठ त्वत्संगमात्संप्रति तीर्थजालम् ।।
प्राप्ता नमस्तेऽस्तु तपोविशेष शिवोपि मेऽत्रादिशदेव कर्तुम् ।। ४२ ।।
कथं गिरीशः पुनरत्र देवः स्फुरन्महावह्निवपुर्धरोऽपि ।।
प्रशांतरूपः परमेश्वरोऽयमभ्यर्चनीयो भुवि मर्त्यवर्गैः ।। ४३ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे ऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणाचलस्थविविधतीर्थवर्णनंनाम सप्तमोऽध्यायः ।। ७ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् १ — Adhyāya 8
।। गौतम उवाच ।। ।।
शृणु देवि पुरावृत्तं कैलासे मेरुधन्विना ।।
आदिष्टस्तीर्थयात्रार्थमहं लिंगानि वीक्षितुम् ।। १ ।।
रुद्रक्षेत्रे च केदारे तथा बदरिकाश्रमे ।।
काश्यां पुण्येषु देशेषु तथा श्रीपर्वते शिवे ।। २ ।।
कांचीमुख्यासु पुण्यासु पुरीष्वप्यगमं तदा ।।
ऋषिभिर्विबुधैः सार्थैर्गणैर्योगिभिरुत्तमैः ।। ३ ।।
स्थापितानि च लिंगानि स्वयंभूनि च दृष्टवान् ।।
तत्रतत्र महाभागे तीर्थानि शिवसन्निधौ ।। ४ ।।
सेवमानः सशिष्योऽहं पर्यटन्पृथिवीमिमाम् ।।
एवं तीर्थानि सर्वाणि गाहमानो व्रतान्वितः ।। ५ ।।
तपांसि यज्ञकर्माणि कुर्वन्भूमिं समाचरन्।।
शिवस्मरणसंयुक्तः शिवलिंगानि सन्नमन् ।। ६ ।।
सर्वाणि भुवि पुण्यानि देशमेतमुपाश्रयम् ।।
अत्र देवं महादेवमविकेशं त्रियंबकम् ।। ७ ।।
अरुणाद्रिरितिख्यातं पर्वतं लिंगमैक्षिषि ।।
अत्र सिद्धा महात्मानो मुनयश्च दृढव्रताः ।। ८ ।।
कंदमूलफलाहारा दृष्टाः शोणाद्रि सेवकाः ।।
अस्तौषमादिमं लिंगमरुणाद्रिमयं महत् ।।९।।
आद्येन ब्रह्मणा पूर्वमर्चितं दिव्यचक्षुषा ।।
असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ।। ।। 1.3.1.8.१० ।।
इति वेदा स्तुवंति त्वामरुणाद्रीश संततम्।।
नमस्ताम्राय चारुणाय शिवाय परमात्मने ।। ११ ।।
सर्ववेदस्वरूपाय नित्यायामृतमूर्त्तये ।।
कालाय करुणार्द्राय दृष्टिपेयामृताब्धये ।।१२।।
भक्तवात्सल्यपूर्णाय पुण्याय पुरभेदिने ।।
दर्शनं तव देवेश सर्वधर्मफलप्रदम् ।।१३।।
भुवि लब्धवता भूयो नान्यत्कार्यं तपः क्वचित् ।।
भवता कर्मभूरेषा वर्ततेद्य निरोधिता ।। १४ ।।
प्रार्थयते स्वयं वासान्देवाश्चात्र त्वदाश्रये ।।
कालसंग्रहसंजातं फलं लब्धं मयाधुना ।। १५ ।।
अन्यत्कृतं तपः सर्वं त्वद्दर्शनफलं मम ।।
ईदृशं तव देवेश रूपमत्यद्भुतोदयम् ।। १६ ।।
एकमद्रिमयं लिंगं न क्वचिद्दृष्टवान्भुवि ।।
सूर्येंद्वग्निसुसंयुक्त कोणत्रयमनोहरम् ।। १७ ।।
त्रिमूर्तिरूप देवेश दृश्यते ते वपुर्महत् ।।
शक्तित्रयस्वरूपेण कालत्रयविधानकम् ।। १८ ।।
त्रिवेदात्मं त्रिकोणांगं लिंगं ते दृष्टमद्भुतम् ।।
त्रैलोक्यरक्षणार्थाय विततं रूपमास्थितः ।। १९ ।।
दृश्यते वसुधाभागे शोणाद्रिरिति विश्रुतः ।।
अजानतां च मर्त्यानां समालोकनमात्रतः ।। 1.3.1.8.२० ।।
वितरत्यखिलान्भोगान्व्याजकरुणानिधिः ।।
अर्चया रहितं लिंगमन्यं शून्यमुदाहृतम् ।। २१ ।।
इदं तु पूजितं देवैः सदा सर्ववरप्रदम् ।।
प्रसीद करुणापूर्ण शोणाचल महेश्वर ।। २२ ।।
त्रायस्व भवभीतं मां प्रपन्नं भक्तवत्सल ।।
द्रष्टव्यं द्रष्टमेतत्ते रूपमत्यद्भुतं महत् ।। २३ ।।
कृतार्थय कृपासिंधो शरण्य शरणागतम् ।।
इति संस्तूयमानो मे देवः शोणाचलेश्वरः ।। २४ ।।
अदर्शयत्परं रूपं दिव्यमेहीत्युवाच माम् ।।
प्रीतोऽस्मि भवतः स्तोत्रैर्भक्त्या च परया भृशम् ।। २५ ।।
अत्रैव भवतो वासो नित्यमस्तु ममांतिके ।।
संपूजय च मां नित्यं भुवि भोगैः सनातनैः ।। २६ ।।
तपसा तप सर्वेषां महत्त्वमिह दर्शय ।।
पूर्वं कैलासशिखरे वसंतं त्वां तपोन्वितम् ।। २७ ।।
आदिशं पृथिवीभागं शोणाद्रौ पूजयेति माम् ।।
सप्तर्षिपूजिता पूजा दिवि मे संप्रकाशते ।। २८ ।।
तथा नित्यार्चनायुक्त प्रकाशय धरातले ।।
सर्वेषामेव जंतूनां हिताय त्वं तपोऽधिकः ।। २९ ।।
भुवि मां पूजयार्चाभिरागमोक्ताभिरादरात् ।।
दिव्या मम महापूजा दृश्या हि दिवि दैवतैः ।। 1.3.1.8.३० ।।
प्रकाशनीया भवता पार्थिवी वसुधातले ।।
माहात्म्यं पूर्वमेवोक्तं यथाहमरुणाचलः ।। ३१ ।।
स्थितो वसुंधराभागे मया प्रीतं तु ते भृशम् ।।
ये वा संपूजयंति स्म पूर्वं मां सुकृताधिकाः ।। ३२ ।।
तेभ्यस्त्वमधिको भूमौ प्रकाशस्व शिवार्चनम् ।।
इत्यादिष्टो हि देवेशं प्रणम्य भवभक्तिमान् ।। ३३ ।।
अन्वपृच्छं दयापूर्णमरुणाद्रीशमानमन् ।।
अनासाद्यमिदं रूपमग्निरूपं महेश्वरम् ।। ३४ ।।
कथमद्यार्चयाम्येनं मर्त्यलोकोचितार्चनैः ।।
आदेशमिममन्वर्थं कथं वा कल्पयाम्यहम् ।। ३५ ।।
उपायमादिश श्रीमन्नभिगम्यो यथा भवान् ।।
इति विज्ञापितो देवः श्रीमाञ्छोणाचलेश्वरः ।। ३६ ।।
अन्वग्रहीदशेषात्मा प्रणतं मां दयानिधिः ।।
अहं तु सूक्ष्मलिंगानि प्रकाशिष्ये महीतले ।।।। ३७ ।।
आगमोक्तक्रियाभेदैः पूजां मे प्रतिपादय ।।
पंचावरणसंयुक्तं लिंगं मे सूक्ष्ममद्भुतम् ।। ३८ ।।
अरुणाद्रीश्वराभिख्यं संपूजय तपोबलैः ।।
इत्यादिश्य महादेवः स्वयंभु विमलं महत् ।। ३९ ।।
रूपं मे दर्शयामास सूक्ष्मलिंगात्मना शिवः ।।
आलोक्य विमलं लिंगं सूक्ष्मं तत्स्वयमुच्छ्रितम्।। 1.3.1.8.४० ।।
अशेषाऽऽवरणोपेतं कृतार्थहृदयोऽभवम् ।।
पुनर्व्यज्ञापयं देवं शम्भुमाश्रितवत्सलम् ।। ४१ ।।
आगमोक्तप्रकाराणामनिरीक्ष्यत्वमागतम् ।।
कथं तु तव रूपाणां नामभेदान्वियोजितान् ।। ४२ ।।
जानीयां करुणामूर्ते स्वयमीश्वर मत्प्रभो ।।
पूजकास्तव के वा स्युर्मंदिरं वात्र कीदृशम् ।। ४३ ।।
कथं स्तोत्रं कथं पूजा के वात्र परिचारकाः ।।
स्थानरक्षा कथं वा स्यात्के वात्मपरिरक्षकाः ।। ४४ ।।
कथं वा मानुषी पूजा नित्या संवर्धते तव ।।
आगता बहवो देवाः श्रद्धेयं मनुजैः कथम् ।। ४५ ।।
प्रसीद परमेशान स्वयमाज्ञापयाखिलम् ।।
एवं विज्ञापितो देवः शोणाद्रीशः स्वयं प्रभुः ।। ४६ ।।
आज्ञापयत्तदा देवो विश्वकर्माणमागतम् ।।
सृज त्वं नगरं दिव्यमरुणाख्यं गुणाधिकम् ।। ४७ ।।
मंदिरं मम दिव्यं च महामणिगणोज्ज्वलम् ।।
तौर्यत्रिकं सपर्यांगं तन्मे सर्वं प्रकल्पय ।। ४८ ।।
आबभाषे शिवः श्रीमान्नामभेदार्चनक्रमम् ।।
व्रतं च करुणामूर्त्तिररुणाद्रीश्वरः शिवः ।। ४९ ।।
शृणु तन्मे च ये सृष्टा पूजार्थं परिचारकाः ।।
शृणु गौतम सर्वं मे मानुषं पूजनक्रमम् ।। 1.3.1.8.५० ।।
य एष सर्वलोकानां क्षेमाय प्रथते भुवि ।।
इदं तेजोमयं लिंगमतुलं दृश्यते महत् ।।५१।।
अरुणाद्रीश्वराभिख्यं पूज्यतां सततं त्वया ।।
शक्तिर्ममोत्तरे भागे पूज्या नित्योदया मुदा ।। ।। ५२ ।।
दधती स्थानमाहात्म्यमपीतकुचनामिका ।।
अरुणाचलराजोयमविभागः प्रियान्वितः ।। ५३ ।।
उत्सवार्थो महादेवः पूज्यो भोगसुतावृतः ।।
बोधदो भक्तलोकस्य दत्ताभयकरः शिवः ।। ५४ ।।
सारंगं परशुं विभ्रत्प्रसन्नवदनः सदा ।।
उमास्कन्देश्वरः शम्भुर्दिव्यरत्नविभूषणः ।। ।। ५५ ।।
आभया भासयँल्लोकानविकुण्ठश्रियान्वितः ।।
शक्तेरुत्सवभद्रे च संपूज्या सुंदरेश्वरी ।। ५६ ।।
सर्वभूषणसंयुक्ता शृङ्गाररसवर्द्धनी ।।
बालो गणपतिः पूज्यः पुरस्ताद्भूतिनन्दनः ।। ५७ ।।
मदंतिकमलंकुर्वन्भक्ष्यैर्भोज्यैर्बहूदयैः ।।
मत्पार्श्वमविमुंचंती शोणरेखांचितेक्षणा ।। ५८ ।।
उत्सवार्था परा शक्तिरंतिकस्थैव पूज्यताम् ।।
मुखरांघ्रिपतिः श्रीमान्नृत्यंस्तांडवपण्डितः ।। ५९ ।।
उत्सवार्थं समभ्यर्च्यश्चक्षुरग्रेऽमृतेश्वरः ।।
शक्तिश्चान्या महाभागा संपूज्या भूविनायका ।। 1.3.1.8.६० ।।
द्वारे नन्दी महाकालः पुरस्तात्सूर्यसंनिभः ।।
भक्तानां मम सर्वेषां पूजनं चापि कल्प्यताम् ।। ६१ ।।
दक्षिणे मातरः पूज्या विघ्नशास्तृसमन्विताः ।।
संपूज्यो नैर्ऋते कोणे विघ्ननाशो विनायकाः ।। ६२ ।।
स्कन्दः शक्तिधरश्चैवैशानकोणे समर्च्यताम् ।।
लिंगानि च मनोज्ञानि पूजनीयान्यनन्तरम् ।। ६३ ।।
मंदिरं मम संपूज्य दक्षिणामूर्ति दक्षिणम् ।।
पश्चिमे विष्णुरूपांकमग्निरूपान्वितं तथा ।। ६४ ।।
उत्तरे ब्रह्मरूपांकं पूर्वे सारंगभूयुतम् ।।
सर्वदेवगुणोपेतं सर्वशक्तिसमन्वितम् ।।।। ६५ ।।
अपीतकुचनाथायाः सर्वशक्तिसमन्वितम् ।।
मंदिरं गुरु संपूज्य दिक्पालकवधूवृतम् ।। ६६ ।।
मंदिरस्यावनार्थाय देवीर्वैभवनायकाः ।। ।। ६७ ।।
क्षेत्रपालं तु संपूज्य सर्वावरणसंयुतम् ।।
पुत्रस्य त्राणमायाता पूज्यारुणगिरीश्वरी ।। ६८ ।।
काली बहुविधाश्चान्या देवता विधिपालकाः ।।
उत्सवा विविधाः कल्प्याः प्रतिमासमहोदयाः ।। ६९ ।।
सृजस्व कन्यका दिव्याः शिवदेवार्हणे रताः ।।
नृत्तगीतकलाभिज्ञा रूपसौभाग्यसंयुताः ।। ।। 1.3.1.8.७० ।।
चारुविभ्रमसंयुक्ताः कामदा नित्यपावनाः ।।
शिष्यानादिश वेदज्ञान्सदाचारसमुज्ज्वलान् ।। ७१ ।।
दिव्योपचारसंसिद्ध्यै सुभगाञ्छुद्धचेतसः ।।
दीक्षितान्विमलाञ्छुद्धाञ्छैवागमविशारदान् ।। ७२ ।।
शैवाचारप्रसिद्ध्यर्थमादिशाभ्यर्चने मम ।।
मार्द्दलाञ्छांखिकान्वैणांस्तालिकान्वेणुवादकान् ।। ७३ ।।
शौल्बिकान्सृज सद्विद्यांश्चतुर्विद्याविशारदान् ।।
क्षत्रियान्विविधान्वैश्याञ्छूद्रांश्च शिवसंमतान् ।। ७४ ।।
चत्वारश्च मठाः कल्प्याश्चतुर्दिक्तीर्थवासिनाम् ।।
मुनीनां शिवभक्तानां निराशानां निवासतः ।। ७५।।
तेषु स्थिता मुनींद्रा मे रक्षंतु शिवपूजनम् ।।
भिक्षमाणाः पुनः शैवा भक्ताः पाशुपता अपि ।। ७६ ।।
पालयंतु सदान्ये च युक्ताः कापालिका अपि ।।
सर्वेषां जायमानानां जातानां संभविष्यताम् ।। ७७ ।।
अव्याहताज्ञमारक्ष्यमिदं स्थानं महीभृताम् ।।
बकुलश्च महानत्र दृश्यते दिव्यभूरुहः ।। ७८ ।।
अत्र भक्ता वितन्वन्तु शिवकार्यविनिश्चयम् ।।
अत्र मे दीयते द्रव्यमप्रेक्षितपराप्तये ।। ७९ ।।
यत्तदक्षय्यफलदमारक्ष्यं शिवसेवकैः ।।
भक्तैर्विज्ञापितं चार्थं श्रोष्यामि पुरतः स्थितैः ।। 1.3.1.8.८० ।।
सर्वं संपादयिष्यामि तेषां चित्तानुकूलकम् ।।
अपराधसहस्राणि क्षंस्ये मां स्वर्चतामहम् ।। ८१ ।।
आगमोक्ता च पूजेयं मानुषी निर्मिता यतः ।।
ग्रहीष्ये तामहं सर्वामर्चां सर्वागमोदिताम् ।। ८२ ।।
संकल्पितं भवेत्कर्म प्रीतिकृन्मम सेवकैः ।।
आगमार्थानशेषांस्त्वमालोक्य समयोचितान् ।। ८३ ।।
विधायाभ्यर्चनाभेदाँल्लोकरक्षाकृते मुने ।।
कर्तव्या महती पूजा पौर्णमास्यां तु सादरम् ।। ८४ ।।
सत्राणि विविधान्यत्र कर्तव्यानि सहस्रशः ।।
विविधानि च दानानि शक्त्या चैवास्य सन्निधौ ।। ८५ ।।
अव्युच्छिन्नप्रदीपस्य दातारो मम सन्निधौ ।।
तेजोमयमिदं रूपं मम यांति न संशयः।। ।। ८६ ।।
जलजं तरुजं पुष्पं कक्षजं च लतोद्भवम् ।।
ददते ये च भक्त्या मे ते भविष्यंति भूभृतः ।। ८७ ।।
तेषां पुरोगतः साक्षादहं जेष्यामि विद्विषः ।।
यस्य यस्य तु देशस्य यो यो राजा तपोधिकः ।। ८८ ।।
तत्तत्समर्द्धितं रम्यं संभवं ददतेऽत्र मे ।।
मत्संनिधिमुपागत्य दुरात्मानोऽपि भूमिपाः ।। ८९ ।।
शिवभक्ता भृशं पूर्णा भविष्यंति न संशयः ।। 1.3.1.8.९० ।।
इति शंभुमुखोत्थितं वचः समुपश्रुत्य विधूतकल्मषः ।।
अहमानतवान्व्यजिज्ञपं कुतुकाच्छोणगिरीश्वरं शिवम् ।। ९१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणेश्वराराधनामाहात्म्यवर्णनंनामाष्टमोऽध्यायः ।। ८ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् १ — Adhyāya 9
।। गौतम उवाच ।। ।।
भगवन्नरुणाद्रीश नामधेयानि ते भृशम् ।।
विशेषाच्छ्रोतुमिच्छामि स्थानेऽस्मिन्सुरपूजिते ।। १ ।।
।। महेश्वर उवाच ।। ।।
नामानि शृणु मे ब्रह्मन्मुख्यानि द्विजसत्तम ।।
दुर्लभान्यल्पपुण्यानां कामदानि सदा भुवि ।। २ ।।
शोणाद्रीशोऽरुणाद्रीशो देवाधीशो जनप्रियः ।।
प्रपन्नरक्षको धीरः शिवसेवकवर्धकः ।। ३ ।।
अक्षिपेयामृतेशानः स्त्रीपुंभावप्रदायकः ।।
भक्तविज्ञप्तिसंधाता दीनबंदिविमोचकः ।। ४ ।।
मुखरांघ्रिपतिः श्रीमान्मृडो मृगमदेश्वरः ।।
भक्तप्रेक्षणकृत्साक्षी भक्तदोषनिवर्त्तकः ।। ५ ।।
ज्ञानसंबंधनाथश्च श्रीहलाहलसुंदकः ।।
आहवैश्वर्यदाता च स्मर्तृसर्वाघनाशनः ।। ६ ।।
व्यत्यस्तनृत्यद्धृजधृक्सकांतिर्नटनेश्वरः ।।
सामप्रियः कलिध्वंसी वेदमूर्तिर्निरंजनः ।। ७ ।।
जगन्नाथो महादेवस्त्रिनेत्रस्त्रिपुरांतकः ।।
भक्तापराधसोढा च योगीशो भोगनायकः ।। ८ ।।
बालमूर्त्तिः क्षमारूपी धर्मरक्षो वृषध्वजः ।।
हरो गिरीश्वरो भर्गश्चंद्ररेखावतंसकः ।। ९ ।।
स्मरांतकोंऽधकरिपुः सिद्धराजो दिगंबरः ।।
आगमप्रिय ईशानो भस्मरुद्राक्षलांछनः ।। 1.3.1.9.१० ।।
श्रीपतिः शंकरः स्रष्टा सर्वविद्येश्वरोऽनघः ।।
गंगाधरः क्रतुध्वंसो विमलो नागभूषणः ।। ११ ।।
अरुणो बहुरूपश्च विरूपाक्षोऽक्षराकृतिः ।।
अनादिरंतरहितः शिवकामः स्वयंप्रभुः ।। १२ ।।
सच्चिदानंदरूपश्च सर्वात्मा जीवधारकः ।।
स्त्रीसंगवामसुभगो विधिर्विहितसुंदरः ।। १३ ।।
ज्ञानप्रदो मुक्तिदश्च भक्तवांछितदायकः ।।
आश्चर्यवैभवः कामी निरवद्यो निधिप्रदः ।। १४ ।।
शूली पशुपतिः शंभुः स्वयंभुर्गिरिशो मृडः ।।
एतानि मम मुख्यानि नामान्यत्र महामुने ।। १५ ।।
अन्यानि दिव्यनामानि पुराणोक्तानि संस्मर ।।
प्रदक्षिणेन मां नित्यं विशेषात्त्वं समर्चय ।। १६ ।।
प्रदक्षिणप्रियो यस्मादहं शोणाचलाकृतिः ।।
इत्याज्ञप्तो महादेवमर्चयन्नरुणाचलम् ।।
अविमुंचन्निहावासं कृतवानहमद्रिजे ।। १७ ।।
।। गौर्युवाच ।। ।।
भगवन्सर्वधर्मज्ञ गौतमार्य्य मुनीश्वर ।।
प्रदक्षिणस्य माहात्म्यं ब्रूहि मे शोणभूभृतः ।। १८ ।।
कस्मिन्काले कथं कार्यं कैर्वा पूर्वं प्रदक्षिणम् ।।
कृतं शोणाद्रिनाथस्य प्राप्तमिष्टं परं पदम् ।। १९ ।।
।। ब्रह्मोवाच ।। ।।
इति पृष्टो मुनिः प्राह गौतमः शैलकन्यकाम् ।।
श्रूयतां देवि माहात्म्यमादिशन्मे महेश्वरः ।। 1.3.1.9.२० ।।
।। महादेव उवाच ।। ।।
अहं हि शोणशैलात्मा प्रकाशो वसुधातले ।। २१ ।।
परितो मां सुराः सर्वे वर्तंते मुनिभिः सह ।। २२ ।।
यानि कानि च पापानि जन्मांतरकृतानि च ।।
तानि तानि विनश्यंति प्रदक्षिणपदे पदे ।। २३ ।।
अश्वमेधसहस्राणि वाजपेयायुतानि च ।।
सिद्ध्यंति सर्वतीर्थानि प्रदक्षिणपदे पदे ।। २४ ।।
अपि प्रहीणस्य समस्तलक्षणैः क्रियाविहीनस्य निकृष्टजन्मनः ।।
प्रदक्षिणीकृत्य शशांकशेखरं प्रयास्यतः कस्य न सिद्धिरग्रतः ।। २५ ।।
समस्त तीर्थाभिगमेषु पुण्यं समस्तयज्ञागमधर्मजातम् ।।
अवाप्यते शोणमहीधरस्य प्रदक्षिणाप्रक्रमणेन सत्यम् ।। २६ ।।
पदेनैकेन भूलोकं द्वितीयेनांतरिक्षकम् ।।
तृतीयेन दिवं मर्त्यो जयत्यस्य प्रदक्षिणे ।। २७ ।।
एकेन मानसं पापं द्वितीयेन तु वाचिकम् ।।
कायिकं तु तृतीयेन पदेन क्षीयते नृणाम् ।। २८ ।।
पातकानि च सर्वाणि पदेनैकेन मार्जयेत् ।।
द्वितीयेन तपः सर्वं प्राप्नोत्यस्य प्रदक्षिणात् ।।२९।।
पर्णशाला महर्षीणां सिद्धानां च सहस्रशः ।।
सुराणां च तथाऽऽवासा विद्यंतेत्र सहस्रशः ।। 1.3.1.9.३० ।।
अत्र सिद्धः पुनर्नित्यं वसाम्यग्रे सुरार्चितः।।
ममांतरे गुहा दिव्या ध्यातव्या भोगसंयुता ।। ३१ ।।
अग्निस्तंभमयं रूपमरुणादिरिति श्रुतम् ।।
ध्यायँल्लिंगं मम बृहत्मन्दं कुर्यात्प्रदक्षिणम् ।। ३२ ।।
अष्टमूर्तिमयं लिंगमिदं यैस्तैजसं भृशम् ।।
ध्यात्वा प्रदक्षिणं कुर्वन्पातकानि विनिर्दहेत् ।।३३।।
न पुनः संभवस्तस्य यः करोति प्रदक्षिणाम् ।।
शोणाचलाकृतेर्नित्यं नित्यत्वं ध्रुवमश्नुते ।।३४।।
अस्य पादरजःस्पर्शात्पूयते सकला मही ।।
पदमेकं तु धत्ते यः शोणाद्रीशप्रदक्षिणे ।। ३५ ।।
नमस्कुर्वन्प्रतिदिशं ध्यायन्स्तौति कृतांजलिः ।।
असंसृष्टकरः कैश्चिन्मंदं कुर्यात्प्रदक्षिणम् ।।३६।।
आसन्नप्रसवा नारी यथा गच्छेदनाकुलम् ।।
तथा प्रदक्षिणं कुर्यादशृण्वंश्च पदध्वनिम् ।।३७।।
स्नातो विशुद्धवेषः सन्भस्मरुद्राक्षभूषितः ।।
शिवस्मरणसंसृष्टो मंदं दद्यात्पदं बुधः ।।३८।।
मनूनां चरतामग्रे देवानां च सहस्रशः ।।
अदृश्यानां च सिद्धानां नान्येषां वायुरूपिणाम् ।।३९।।
संघट्टमतिसंमर्दं मार्गरोधं विचिंतयन् ।।
अनुकूलेन भक्तः सञ्छनैर्दद्यात्पदं बुधः ।।1.3.1.9.४०।।
अथवा शिवनामानि संकीर्त्य वरगीतिभिः।।
शिवनृत्यं च रचयन्भक्तैः सार्द्धं परिक्रमेत् ।।४१।।
माहात्म्यं मम वा शृण्वन्ननन्यमतिरादरात् ।।
शनैः प्रदक्षिणं कुर्यादानन्दरसनिर्भरः ।। ४२ ।।
दानैश्च विविधैः पुण्यैरुपकारैस्तथार्थिनाम् ।।
यथामति दयापूर्ण आस्तिकः परितो व्रजेत् ।।४३।।
कृते त्वग्निमयं लिंगं त्रेतायां मणिपर्वतम् ।।
द्वापरे चिंतयेद्धैमं कलौ मरकताचलम् ।। ४४ ।।
अथवा स्फाटिकं रूपमरुणं तु स्वयंप्रभम् ।।
ध्यायन्विमुक्तः सकलैः पापैः शिवपुरं व्रजेत् ।। ४५ ।।
अवाङ्मनसगम्यत्वादप्रमेयतया स्वयम् ।।
अग्नित्वाच्च परं लिंगमनासाद्याचलाभिधम् ।। ४६ ।।
ध्यात्वा प्रदक्षिणं कर्तुरभिगम्योऽहमंजसा ।।
तस्य पादरजो नृणामजरामरकारणाम् ।। ४७ ।।
रूपमेकं तु धत्ते यः शोणाद्रीशप्रदक्षिणे ।।
वाहनानि सुरौघाणां प्रार्थयंते परस्परम् ।। ४८ ।।
कुर्वतां चरणं वोढुमरुणाद्रिप्रदक्षिणाम् ।।
छायाप्रदानं कुर्वंति कल्पकाद्याः सुरद्रुमाः ।। ४९ ।।
कुर्वतां भुवि मर्त्त्यानामरुणाद्रिप्रदक्षिणाम् ।।
देवगन्धर्वकाद्यानां सहस्रेण समावृताः ।। 1.3.1.9.५० ।।
सेवंते ते गणाकीर्णा विमानशतकोटयः ।।
मम प्रदक्षिणं भूमौ कुर्वतां पादपांसुभिः।। ५१ ।।
पाविता महती वीथी दृष्टा शिवपदप्रदा ।।
अंगप्रदक्षिणं कुर्वन्क्षणात्स्वर्ग्यतनुर्भवेत् ।। ५२ ।।
प्राप्तो वज्रशरीरत्वं न धृष्येत महीतले ।।
व्योमयानोत्सुका देवाः सिद्धाश्च परमर्षयः ।। ५३ ।।
अदृश्याः संचरंत्यत्र पश्यंते मम संनिधिम् ।।
विनयं मम भक्तिं च प्रदक्षिणपरिक्रमे ।। ५४ ।।
दृष्ट्वा हर्षसमायुक्ता मर्त्त्येभ्यो ददते वरम् ।।
अत्र देवास्त्रयस्त्रिंशत्पुरा कृत्वा प्रदक्षिणाम् ।। ५५ ।।
प्रत्यहं मार्गमासीनाः प्रत्येकं कोटितां गताः ।।
आदित्याद्या ग्रहाः सर्वे पुरा कृत्वा प्रदक्षिणाम् ।। ५६ ।।
संपूर्णजगतीभागे सर्वे ग्रहपतां गताः ।।
यः करोति नरो भूमौ सूर्यवारे प्रदक्षिणाम् ।। ५७ ।।
स सूर्यमडलं भित्त्वा मुक्तः शिवपुरं व्रजेत् ।।
सोमवारे नरः कुर्वन्नरुणाद्रिप्रदक्षिणाम् ।। ५८ ।।
अजरामरतां प्राप्तो नासौम्यो भवति क्षितौ ।।
भौमवारे नरः कुर्वन्नरुणाद्रिप्रदक्षिणाम् ।। ५९ ।।
आनृण्यमखिलं प्राप्य सार्वभौमो भवेद्ध्रुवम् ।।
बुधवारे नरः कुर्वञ्छोणाद्रीशप्रदक्षिणाम् ।। 1.3.1.9.६० ।।
सर्वज्ञतामनुप्राप्तः स वाचां पतितामियात् ।।
गुरुवारे नरः कुर्वन्सर्वदेवनमस्कृतः ।। ६१ ।।
प्रदक्षिणेन शोणाद्रेः स तु लोकगुरुर्भवेत् ।।
भृगुवारे नरः कुर्वन्नरुणाद्रिप्रदक्षिणाम् ।। ६२ ।।
संप्राप्य महतीं लक्ष्मीं लभते वैष्णवं पदम् ।।
मन्दवारे नरः कृत्वा शोणाद्रीशप्रदक्षिणाम् ।। ६३ ।।
विमुक्तो ग्रहपीडाभिः स विश्वविजयी भवेत् ।।
नक्षत्राणि च सर्वाणि पुरा तद्दैवतैः सह ।। ६४ ।।
मम प्रदक्षिणां कर्तुः पुण्यानि सहसा व्रजेत् ।।
तिथयः करणानीह योगाश्च मम संमताः ।। ६५ ।।
अभीष्टफलदा जाताः कुर्वतां मत्प्रदक्षिणाम् ।।
मुहूर्ता विविधा होराः सौम्याश्च सततोदयाः ।। ६६ ।।
मत्प्रदक्षिणकर्तॄणां जायंते सततं शुभाः।।
प्रच्छिनत्ति प्रकारोऽघं दकारो वांछितप्रदः ।।६७।।
क्षिकारात्क्षीयते कर्म णकारो मुक्तिदायकः।।
दुर्बलाः कार्श्यसंयुक्ता आधिव्याधिविजृंभिताः ।। ६८ ।।
मम प्रदक्षिणं कृत्वा मुच्यंते सर्वदुष्कृतैः ।।
मम प्रदक्षिणं कर्तुर्भक्त्या पादेन संततम् ।।६९।।
क्षणेन साध्वां पश्यामि त्रैलोक्यस्य प्रदक्षिणाम् ।।
लोकेशाश्च दिगीशाश्च ये चान्ये कारणेश्वराः।।1.3.1.9.७०।।
मम प्रदक्षिणां कृत्वा स्थिरा राज्ये पुराऽभवन् ।।
अहं च गणसंयुक्तः सर्वदेवर्षिसंयुतः ।।७१।।
उत्तरायणसंयोगे करोमि स्वप्रदक्षिणाम् ।।
मद्रूपं तैजसं लिंगमरुणाद्रिरिति श्रुतम् ।।७२।।
त्रैलोक्यस्य हितार्थाय करिष्यामि प्रदक्षिणाम् ।।
आगता च परांते च गौरी तप इहाद्भुतम् ।। ७३ ।।
कर्तुं प्रदक्षिणं कृत्वा मामेष्यत्यनघा पुनः ।।
कार्तिके मासि नक्षत्रे कृत्तिकाख्ये महातपाः ।। ७४ ।।
मम प्रदक्षिणां गौरी प्रदोषे रचयिष्यति ।।
नराणामल्पपुण्यानां दुर्लभं तत्प्रदक्षिणम् ।। ७५ ।।
ज्योतिर्लिगस्य दृष्टस्य देवी प्रार्थनया तथा ।।
मया समेता देवी सा प्राप्ताऽपीतकुचाभिधा ।। ७६ ।।
आश्वास्यति सुरान्सर्वानुत्तरायणसंगमे ।।
देवगन्धर्वयक्षाणां सिद्धानामपि रक्षसाम् ।। ७७ ।।
सर्वेषां देवयोनीनां भविता तत्र संगमः ।।
ये तदा मां समागत्य पूजयंति तपोधिकाः ।। ७८ ।।
सर्वजन्मकृताघौघ प्रायश्चित्तं व्रजंति ते ।।
दुर्ल्लभं तद्दिनं पुंसामुत्तरायणसंगमे ।। ७९ ।।
तदा मद्रूपमभ्यर्च्य कृतार्थाः सन्तु मानवाः ।।
प्रदक्षिणं तु मे दिव्यं कुर्वंति च महीभुजः ।। 1.3.1.9.८० ।।
तेषां पुरोगतः साक्षादहं जेष्यामि विद्विषः ।।
राजा यस्य तु देशस्य यो यो राजा तपोधिकः ।। ८१ ।।
स कारयेद्विप्रमुख्यैः श्रोत्रियैर्मे प्रदक्षिणाम् ।।
मंडलं मंडलार्द्धं वा संकल्पविधिपूर्वकम् ।। ६२ ।।
तस्य तस्य स्थिरं राज्यं शत्रूणां च पराहतिम् ।।
करिष्यामि मुने नित्यमहमेव पुरःस्थितः ।। ८३ ।।
न वाहनेन कुर्वीत मम जातु प्रदक्षिणाम् ।।
धर्मलुब्धमना जानञ्छिवाचारपरिप्लुतिम् ।। ८४ ।।
धर्मकेतुः पुरा राजा यमलोकादुपागतः ।।
मम प्रदक्षिणां कर्त्तुं तुरगेणाभ्यरोचयत् ।। ८५ ।।
क्षणेन तुरगो जातो गणनाथः सुरार्चितः ।।
प्रतिपेदे पदं शैवं विमुच्य धरणीपतिम् ।। ८६ ।।
वीक्ष्य तं वाहनं भूयो गणनाथवपुर्द्धरम् ।।
पादप्रदक्षिणां कृत्वा स्वयं च गणपोऽभवत् ।। ८७ ।।
तदाप्रभृति शक्राद्याः सुरा विष्णुसमन्विताः ।।
पादाभ्यामेव कुर्वंति मम सर्वे प्रदक्षिणाम् ।। ८८ ।।
स्वर्गान्निपातितः कोऽपि सिद्धः काले तपःक्षयात् ।।
प्रदक्षिणां ततः कृत्वा पुनर्लब्धपदोऽभवत् ।। ८९ ।।
स्खलितं पादजं रक्तं मम कर्तुः प्रदक्षिणम् ।।
मार्ज्यते तस्य देवेन्द्र मौलिमंदारकेसरैः ।। 1.3.1.9.९० ।।
प्रदक्षिणमहावीथी शिलाशकलघट्टितम् ।।
पदं संधार्यते पुंसां श्रीपयोधरकुंकुमैः ।। ९१ ।।
मणिपर्वतशृंगेषु कल्पद्रुमवनांतरे ।।
संचरंति सदा मर्त्या मम कृत्वा प्रदक्षिणम् ।। ९२ ।।
।। गौर्युवाच ।। ।।
उपचारप्रवृत्तानां फलं मे शंस सुव्रत ।।
यैर्वै जनः कृतार्थः स्याद्यथाशक्ति कृतादरः ।। ९३ ।।
।। मुनिरुवाच ।। ।।
उपचारफलं देवि शृणु वक्ष्याम्यहं तव ।।
यन्मह्यं कृपया पूर्वमुक्तवान्परमेश्वरः ।। ९४ ।।
लूती तंतुकजालानि संसृज्य क्वचिदेव मे ।।
जातिस्मरो महीध्रेऽस्मिन्सोंऽशुकैर्मां व्यवेष्टयत् ।। ९५ ।।
गजः कश्चितृषाक्रांतो विमुच्य च मधु क्वचित् ।।
वनपल्लवमुत्कीर्य मुक्तोऽभूद्गणनायकः ।। ९६ ।।
कृमयो विलुठन्तो मे पार्श्वे दुरितवर्जिताः ।।
सिद्धवेषाः पुनः सर्वे मम लोकं व्रजंति ते ।। ९७ ।।
अव्युच्छिन्नप्रदीपार्चिः क्षणमप्यादधाति यः ।।
स्वयंप्रकाशः स भवन्मम सारूप्यमश्नुते ।। ९८ ।।
हारीतः कोपि संप्राप्तः शाखानीडो ममांतिके ।।
खद्योतो दीपवन्नक्तं तावन्मुक्तिं समागतः ।। ९९ ।।
गावः प्रस्रवणैः सिक्ता वत्सस्मरणसंभवैः ।।
मत्पार्श्वे मुक्तिमापुस्ता मम लोकं समाश्रयन् ।। 1.3.1.9.१०० ।।
काकः पक्षजवातेन बलिग्रहणलोलुपः ।।
मार्जयन्मत्पुरोभागं मुक्तिं प्रापद्यत क्षणात् ।। १०१ ।।
मूषको मद्गुहाभागं मणिसंघविकर्षणैः ।।
प्रकाशयन्वितिमिरं मम रूपमपद्यत ।। १०२ ।।
छायावृक्षत्वमास्थातुं मुनयस्त्रिदशा अपि ।।
प्रार्थयंत्येव मत्पार्श्वे न पुनःसंभवेच्छया।।१०३।।
गोपुरं शिखरं शालां मण्डपं वापिकामपि ।।
कुर्वतां मत्पुरोभागे सिध्यंतीष्टार्थसंपदः ।। १०४ ।।
सदा मर्त्त्यैरनासाद्यमग्निलिंगमिदं मम ।।
अनासाद्याचलेशाख्यं पूज्यतां वसुधातले ।।१०५।।
वीक्षणस्पर्शनध्यानैः स्वभूतं निखिलं जगत् ।।
पोषयंती परा शक्तिः पूज्याऽपीतकुचाभिधा ।।१०६।।
सर्वलोकैकजननी संप्राप्ता नित्ययौवनम्।।
यौवनप्रार्थिभिः सेव्या सदाऽपीतकुचाभिधा ।। १०७।।
क्षणात्तस्य पुरोभागे वसतां प्राणिनामिह ।।
परत्र वात्र दुष्प्राप्यमिष्टवस्तु न विद्यते ।।१०८।।
अप्रमेयगुणाधारमपेक्षितवरप्रदम् ।।
अशेषभोगनिलयं शोणाद्रीशं समर्चय ।।१०९।।
लब्धकामा पुनः शम्भुमाश्रयिष्यसि सुव्रते ।।
तपश्चरणमप्येतत्तव लोकहितावहम् ।। 1.3.1.9.११० ।।
न केवलं तव तपः स्ववांछितफलप्रदम् ।।
तपस्यतामृषीणां च क्षेमायैव भविष्यति।।१११।।
कारणांतरमाशंक्य तपः कुर्वंति देवताः ।।
रहस्यं देवतानां तु फलेनैवानुमीयते ।। ११२ ।।
वयं च सहसंवासास्तव व्रतनिरीक्षणात् ।।
कृतार्थाः स्याम देवेशि तपसा नः कृतार्थता ।। ११३ ।।
इति तस्य मुनेर्वाक्यमर्थगर्भं निशम्य सा ।।
गौरी कौतुकसंयुक्ता प्रशशंस महामुनिम् ।। ११४ ।।
तपः किमन्यत्कर्तव्यं लब्धं तव तु दर्शनम् ।।
अरुणाद्रिरयं दृष्टः श्रुतं माहात्म्यमस्य च ।। ११५ ।।
अहो भूमेस्तु वैचित्र्यं यतो दृष्टा दिवोऽधिका ।।
यत्रैव तैजसं लिंगं देवतानां वरप्रदः ।। ११६ ।।
शिवः प्रसादसिद्धो मे दर्शितं स्थानमात्मनः ।।
अत्रैव शिवमाराध्य वशीकुर्यां जगद्गुरुम् ।। ११७ ।।
अविनाभूतमैक्यं मे देवेन भवतात्सदा ।।
त्वया कृतेन साह्येन भवेयं शिवनायिका ।। ११८ ।।
इति गौतमसंनिधौ तदानीं कृतसंवित्तप आदरेण कर्तुम् ।।
अभजद्रुचिरां च पर्णशालां मुनिना चानुमता तथेति भक्त्या ।। ११९ ।।
सुकुमारतनुः सरोरुहाक्षी घनतुंगस्तनकल्पितोत्तरीया ।।
जटिला हरिनीलरत्नकांतिर्गिरिजा राजति देहवत्तपःश्रीः ।। 1.3.1.9.१२० ।।
नियमैर्बहुभिस्तपोविशेषैः क्रतुषु प्राप्तविचित्रयोगबंधैः ।।
निगमागमदृष्टधर्ममार्गं सकलं सा तु कृतार्थतामनैषीत् ।। १२१ ।।
तपसा विविधेनतप्यमाना न कदाचित्परिखेदमाप तन्वी ।।
हरिरत्नमयी च कापि वल्ली नितरां दीप्तिमती बभूव बाला ।। १२२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणेश्वरप्रदक्षिणामाहात्म्यवर्णनंनाम नवमोऽध्यायः ।। ९ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् १ — Adhyāya 10
।। ब्रह्मोवाच ।। ।।
अथ देवा महीं हित्वा महिषासुरपीडिताः ।।
नत्वा गौरीं तपस्यंतीं जग्मुः शरणमाकुलाः ।। १ ।।
अथ तानभयं देहि देवीति भयविह्वलान् ।।
अमरान्वीक्ष्य सा देवी किं कार्यमिति चाभ्यधात् ।। २ ।।
ततो विज्ञापयामासुर्दैत्येंद्राद्भयमात्मनाम् ।।
देव्यै बद्धांजलिपुटा देवा इंद्रपुरोगमाः ।। ३ ।।
।। देवा ऊचुः ।। ।।
अप्सरोभिः परिवृतः सुखं क्रीडति नंदने ।।
ऐरावतमुखान्सर्वान्दिङ्नागान्निजमंदिरे ।। ४ ।।
आवसयन्विनोदार्थमंगनाभिः सहागतान् ।।
उच्चैःश्रवःपुरोगानामुपभोगं करोत्यसौ ।। ५ ।।
मंदुरास्वस्य रम्यासु दृश्यंते लक्षकोटयः ।।
हुताशवाहनं मेषं पुत्रारोहार्थमीप्सति ।। ६ ।।
याम्यं महिषमानीय शकटे सोऽभ्यवाहयत् ।।
सिद्धीराकृष्य सकला गृहकर्मणि चादिशत् ।। ७ ।।
अप्सरःसंघमखिलमात्मसेवार्थमानयत् ।।
अन्यत्किमपि यद्वस्तु रत्नभूतं जगत्त्रये ।। ८ ।।
अनाहृतं पुनर्हर्तुं न विश्राम्यति कोपवान् ।।
वयं च सेवका भूत्वा नित्यं भीतिसमन्विताः ।। ९ ।।
पूजयंतश्च तस्याज्ञां नान्यां वीक्षामहे गतिम् ।।
शरणागतसंत्राणं तपःफलमुदाहृतम् ।। 1.3.1.10.१० ।।
दुर्जयोऽयं वरो दैत्यः सर्वेषां बलिनामपि ।।
सुराणामपि दैत्यानां शिवाल्लब्धवरोदयः ।। ११ ।।
अस्य शृंगाहतः सिंधुर्व्यावर्जितमिति ब्रुवन् ।।
रत्नोपहारदानेन नित्यं तत्प्रीतिमिच्छति ।। १२ ।।
पर्वतांश्च समुत्क्षिप्य शृंगाग्रेण महोद्धतः ।।
क्रीडति क्षोदिताशेषधातुधूलिविलेपनैः ।। १३ ।।
न शक्यमतुलं तस्य बलमन्यदुरासदम् ।।
स्वयमेव विजानीहि हत्वा ते निजतेजसा ।। १४ ।।
शंभुशक्तिः परा सेयं स्त्रीरूपेणात्र दृश्यते ।।
त्वयैवायं निहंतव्यः शिवाल्लब्धवरो ह्ययम् ।। १५ ।।
न जानीमो वयं देवि किंचिच्छंभुविचेष्टितम् ।।
केवलं पालनीयाः स्म जगन्मात्रा सदा त्वया ।। १६ ।।
इति तेषां भयार्तानामाकर्ण्य वचनं शुभम् ।।
व्याजहार प्रसन्नात्मा देवी दत्त्वाभयं तदा ।। १७ ।।
शरणागतसंत्राणं तपसि स्थितया मया।।
कर्त्तव्यममराः कालात्क्षीणः शत्रुर्भविष्यति ।।१८।।
उपायेन समाकृष्य हनिष्यामि महासुरम् ।।
निरागसस्तु हननमद्य मे न हि युज्यते ।।१९।।
धर्मगे धर्मभेत्तारः शलभत्वं व्रजंति हि ।।
देवास्तद्वचनं श्रुत्वा प्रणम्य गिरिकन्यकाम् ।।1.3.1.10.२०।।
जग्मुर्यथागतं सर्वे निर्भया हृष्टचेतसः ।।२१।।
गतेषु तेषु देवेषु गौरी कमललोचना ।।
बभूव मोहिनी शक्तिः कांतियुक्ता ततोदरी ।।२२ ।।
सा देवी दिक्षु शैलेषु चतुर्ष्वरुणभूभृतः ।।
रक्षार्थं स्थापितवती चतुरो बटुकान्वरान् ।। २३ ।।
यदा कैलासशिखरादागता शैलकन्यका ।।
अन्वगच्छन्सेवमानाश्चतस्रो मातरस्तदा ।। २४ ।।
दुन्दुभिः सत्यवत्याख्या तथा चानवमी परा ।।
सुन्दरीति चतस्रस्तामन्वयुः परिचारिकाः ।। २५ ।।
विमुञ्चतातिथिं श्रांतं क्षुत्पिपासा समन्वितम् ।।
अरुणाद्रिमिमं द्रष्टुं नान्यमित्यब्रवीच्च तान् ।। २६ ।।
सीमाशलस्थितान्वीरांस्तानादिश्य बलाधिकान् ।।
तपश्चचाराद्रिकन्या गौतमाश्रमसन्निधौ ।। २७ ।।
तस्यां तपत्यां तन्वंग्यां न तापः कश्चिदप्यभूत् ।।
ववर्ष काले जलदः सफलाश्चाभवन्द्रुमाः ।। २८ ।।
विरोधीनि च सत्त्वानि मुमुचुः पूर्वमत्सरम् ।।
आश्रमः सर्वजन्तूनां शरण्योऽभूद्भयापहः ।। २९ ।।
योजनद्वयपर्यंतं सीमाशैलेषु संस्थितैः ।।
चतुभिर्वटकैः शूरै रक्षितश्चारुणाचलः ।। 1.3.1.10.३० ।।
नोदभूत्कश्चन त्रासो न च दृष्टो भयोदयः ।।
न व्याधिपीडनं चासीत्तत्र नारिविजृंभणम् ।। ३१ ।।
कृतार्था मुनयः सर्वे प्रशंसंतो नगात्मजाम् ।।
शिवलोकपदं केचित्प्रत्यशंसंस्तथाश्रमम् ।। ३२ ।।
सा च गौरी तपो घोरं कुर्वती च दिवानिशम् ।।
न तृप्तिमाययौ बाला शिवसंतोषकारकम् ।। ३३ ।।
महिषश्च महावीर्यो मृगयां कर्तुमुद्यतः ।।
चचार काननं सर्वं विदूरे शोणभूभृतः ।। ३४ ।।
दैत्यसैन्यसमायुक्तो मृगयूथान्यनेकशः ।।
वनेषु निघ्नस्तरसा विचचाराशु भक्षयन् ।। ३५ ।।
धन्विभिर्बलिभिर्वीरैर्मृगाः केचिदनुद्रुताः ।।
भयार्त्ताः परिधावंतः प्राविशंस्तं तथाश्रमम् ।। ३६ ।।
अनुव्रजन्तो दितिजा मृगांस्तान्हंतुमुद्यताः ।।
वारिता बटुकैर्वीरैर्मा यातात्रेति सत्वरैः ।। ३७ ।।
किमत्रेति तदा पृष्टा बटुका दुष्टदानवैः ।।
तपस्यति वरारोहा कन्यात्रेत्याहुरंजसा ।। ३८ ।।
न केनचित्प्रवेष्टव्यं बलिना मुनिसेवितम् ।।
तपःस्थानमिदं देव्याः शरणागतरक्षकम् ।। ३९ ।।
इति तेषां वचः श्रुत्वा बलिनो दुष्टदानवाः ।।
तथेति विनिवृत्त्याशु कर्त्तव्यं समचिंतयन् ।। 1.3.1.10.४० ।।
मायया पक्षिरूपास्ते प्रविश्याश्रममादरात् ।।
आरामवृक्षशाखासु निषेदुः खादिहेक्षितुम् ।। ४१ ।।
सा पुनर्ल्लसितारण्ये सर्वर्तुकुसुमान्विते ।।
तपस्यन्ती तदा दृष्टा माया दैत्यस्य सैनिकैः ।। ४२ ।।
रूपलावण्यते तस्या निश्चयं तपसि स्थितम् ।।
वीक्ष्य ते विस्मयोपेता गत्वा तस्मै न्यवेदयन् ।।४३।।
स स्मरार्तो वृद्धरूपः प्रविवेशाश्रमं तदा ।।
पूजितोऽस्याः सखीभिश्च गतश्रांतिरिव स्थितः ।। ४४ ।।
वृद्धोऽपृच्छत्किमर्थं तु तपोऽस्या इति तास्तथा ।।
बाला कांतप्रसादार्थं चिरमत्र तपस्यति ।। ४५ ।।
परं स बलवान्कांतो न कदापि प्रसीदति ।।
कार्यं विवाहसमये मनोरथं यथोचितम् ।। ४६ ।।
अपूर्वप्रभुणा तेन नवोपकरणं महत् ।।
सद्योजातकुलालेन सद्यः सृष्टैर्विपाचितैः ।। ४७ ।।
भाजनरपि साद्यस्कैर्न्यस्तः पक्वैश्च शालिभिः ।।
तादृशैः साधनैः सर्वैस्तादृशैर्द्रव्यसंचयैः ।। ४८ ।।
अपूर्वदृष्टविभवैः कार्यं स्यादुपकारणम् ।।
सिद्धे तथोपकरणेऽस्याः सद्योऽस्तु स्वयंवरः ।। ४९ ।।
इति तासां वचः श्रुत्वा विहसन्महिषोऽभ्यधात् ।।
तपःफलमहं प्राप्तः सत्यमस्या इति स्थितम् ।।
मदीया सकलां भूतिं शृणु बाले तपस्विनि ।। 1.3.1.10.५० ।।
महिषोऽहं महावीरो दैत्येन्द्रः सुरवंदितः ।।
जगत्त्रयमिदं सर्वं मयैव परिगृह्यते ।। ५१ ।।
अनन्यवीरसद्भावो मय्येव भुजशुष्मणा ।।
कामरूपोस्म्यहं बाले सर्वभोगप्रदायकः ।। ५२ ।।
भज मां तव भर्त्तारं प्राणिनां तपसः फलम् ।।
सर्वं संपादयिष्यामि कल्पवृक्षैः समाहृतैः ।। ५३ ।।
सृजामि तपसा चाहं विश्वकर्माणमादितः ।।
कामधेनुसहस्राणि सृजामि तपसा क्षणात् ।। ५४ ।।
नवभिर्निधिभिः प्राप्तैः पार्श्वस्थैर्नित्यदा मम ।।
अपेक्षितार्थसंसिद्धिः सहसैवोपपाद्यते ।। ५५ ।।
इति तस्य वचः श्रुत्वा स्मृतदेवाभवत्क्रमात् ।।
विसृज्य मौनं शनकैर्विहसंती तमब्रवीत् ।। ५६ ।।
अहं बलवतो भार्या भविष्यामि तपश्चिरम् ।।
करोमि यद्यसि बली बलं दर्शय मे निजम् ।।५७।।
विरच स्त्रीस्वभावं स्वं श्रुत्वा तद्वाक्यमुत्थितम् ।।
हते कोयमिति क्रोधान्ननर्द महिषासुरः ।।५८ ।।
जिघृक्षतं समायांतं वीक्ष्य तं महिषासुरम् ।।
अभूद्दुरासदा दुर्गा कन्या सा ज्वलनाकृतिः ।। ५९ ।।
महामायां समालोक्य ज्वलंती पुरतः स्थिताम् ।।
स्वयं स महिषाकारो ववृधे मेरुसन्निभः ।।1.3.1.10.६० ।।
कुलभूधरशृंगाणि शृंगाभ्यां मुहुराक्षिपन् ।।
आजुहाव निजां सेनामापूरितदिगंतराम् ।। ६१ ।।
अथ ब्रह्ममुखा देवाः प्रणम्य विविधायुधैः ।।
पूजयामासुरात्मीयैर्दुर्गां कालाग्निरूपिणीम् ।। ६२ ।।
पंचहेतीर्हरिः प्रादाद्दश चापि सदाशिवः ।।
ब्रह्मा चतस्रश्च तदा तस्यै मायातिरोहिताः ।। ६३ ।।
दिक्पालाश्च सुराश्चान्ये पर्वताश्च पयोधयः ।।
स्वीयैराभरणैः शस्त्रैरधृष्यास्तामपूजयन् ।। ६४ ।।
माया सा बहुभिर्हस्तैर्ज्वलदायुधसंचयैः ।।
आबद्धकवचा तूर्णं दुर्गाभूत्सिंहवाहना ।। ६५ ।।
आपूरितदिशाभोगा तेजस्तत्सोढुमक्षमः ।।
दुर्गाया घोरमालोक्य महिषस्तु पलायितः ।। ६६ ।।
अथ तेजो निजं घोरं प्रज्वलत्सोढुमक्षमम् ।।
पलायमानमालोक्य महिषं सा व्यचिंतयत् ।। ६७ ।।
उपायेन निहंतव्यो दुष्टोऽयं महिषासुरः ।।
मदपूर्वं निवृत्यंते मृगा मृगयुभिर्वने ।। ६८ ।।
दूतोक्तिभिः समाकृष्य मृद्वीभिर्मर्मवृत्तिभिः ।।
कोपमस्य समुद्भाव्य करिष्येभिमुखं क्षणात् ।। ६९ ।।
अधर्मवृत्तियुक्तानां धर्मवाक्यपरिश्रवात् ।।
कोपः समुद्भवेत्सद्यः स्वजीवक्षयकारणम् ।। 1.3.1.10.७० ।।
अथवा धर्मबुद्धिस्सन्यदि शांतो भविष्यति ।।
तदा हितोपदेशेन धर्मलोपो न संभवेत् ।। ७१ ।।
तपस्यद्भिः सदा कार्यः कोपत्यागः फलान्वितः ।।
धर्महानिर्न सोढव्या तत्कोपो हि तपः परम् ।। ७२ ।।
इति संचिंत्य सा गौरी नाम्ना सुरगुरुं मुनिम् ।।
संकल्प्य वानरमुखं प्राहिणोदसुरं प्रति ।। ७३ ।।
गच्छ त्वं मायया युक्तो महर्षे वानरानन ।।
महिषं बोधयित्वा च वचनं शीघ्रमाव्रज ।। ७४ ।।
मैव त्वमरुणाद्रीशमुपपीडय दुर्मते ।।
अत्र दुर्मनसां वीर्यमदृश्यं भवति क्षणात् ।। ७५ ।।
न कलेरुपतापोऽत्र नासुरैरपि पीडनम् ।।
न साहसं च शुभदं शिवभक्तिमतामपि ।। ७६ ।।
पूर्वजन्मकृतैः पुण्यैर्लब्धवीर्यमहोदयः ।।
मा त्वं शोणाचलेशाग्नौ शलभत्वं भजासुर ।। ७७ ।।
शिवेन दत्ता विभवास्तव पूर्वतपोबलात् ।।
दह्येरन्यत्र तरसा दाववह्नौ यथा द्रुमाः ।। ७८ ।।
अत्र धर्मात्मनां वासः शिवभक्तिमतां सदा ।।
परपीडाप्रसक्तानां भवेद्रोगशतावृतः ।। ७९ ।।
ऐश्वर्य्यमतुलं प्राप्तो बलमन्यद्दुरासदम् ।।
किमर्थं स्वल्पबुद्धिः सन्स्वदोषैर्नाशमेष्यसि ।। 1.3.1.10.८० ।।
मया कन्या पुनर्दृष्टा विशेषादबला मता ।।
अंतर्गतोरुणाद्रीश एतस्मात्सा विशिष्यते ।। ८१ ।।
अथवा युक्तिभेदैस्त्वं शास्त्रैर्वा शिवसंमतैः ।।
अनिग्राह्यमनोवृत्तिरात्मसैन्यं समानय ।। ८२ ।।
येन लोकान्समस्तांस्त्वं बाधसे बलगर्वितः ।।
तत्सैन्यं तव वृद्धं च क्षणाद्धक्ष्यामि तेजसा ।।८३।।
आनीय सकलं सैन्यमग्रे स्थापय सायुधम् ।।
सद्यस्त्वात्मबलैः सृष्टेः संहरिष्यामि तत्क्षणात् ।।८४।।
मच्छस्त्र परिकृत्तस्य ससैन्यस्य तवायुषः ।।
मुक्तिरत्रैव भविता को जानाति शिवेहितम् ।। ८५ ।।
वार्यमाणोऽपि पूर्वेण कर्मणा प्रेरितो जनः ।।
अवशः कर्म कुरुते भुंक्ते च सदृशं फलम् ।। ८६ ।।
त्वयापि करुणावाक्यं वक्तव्यं किल भूरिभिः ।।
अकार्यविनिवृत्त्यर्थं नित्यधर्मानुपालने ।। ८७ ।।
इति गौर्या समादिष्टा वाचं कपिमुखो मुनिः ।।
दूतः सन्सर्वमाचष्ट महिषस्याग्रतः स्थितः ।। ८८ ।।
सोऽपि सर्वं समाकर्ण्य क्रोधवेगसमाकुलः ।।
तं भक्षयितुमारेभे सोपि मायाबलाद्ययौ ।।८९।।
अथ सैन्यं निजं सर्वं समाहूय दुराशयः ।।
सन्नद्धं सायुधं योद्धुमादिशल्लोकभीषणम् ।।1.3.1.10.९०।।
युगांतसमयोद्वेलचतुरर्णवसंनिभम् ।।
सैन्यानां सैन्यमतुलं शोणाद्रिं पर्यवेष्टयत् ।। ९१ ।।
अथ गौरी समालोक्य दैत्यानां सैन्यमद्भुतम्।।
ससर्ज तैजसाञ्शूरान्घोरान्भूतगणान्बहून् ।।९२।।
एकपादाक्षिचरणा लंबकर्णपयोधराः ।।
पाणिपादशिरःकुक्षिवक्त्राः केचिद्विनिर्गताः ।। ९३ ।।
अहं ग्रसामि सकलमपर्याप्तमिदं मम ।।
अहमेव हनिष्यामि दैत्यसैन्यमशेषतः ।।९४।।
किं त्वयात्र पुनः कार्यं वीक्ष्य त्वं तिष्ठ केवलम् ।।
अहमेवात्र योत्स्यामीत्यभाषंत परस्परम्।। ।।९५।।
तेषां कथयतां शंखं गणानां योगिनीगणैः ।।
अधमत्सा भगवती हंतुं तद्दैत्यमंडलम् ।।९६।।
आलोक्य तां तथारूपामापतंस्तस्य सैनिकाः ।।
दर्शयंतः स्ववीर्याणि स्वामिनोग्रे धृतायुधाः ।। ९७ ।।
ववृषुः शस्त्रवर्षाणि दैत्याः प्रतिदिगन्तरम् ।।
बाणैः कार्मुकनिर्मुक्तैस्तानि सा तु न्यवारयत् ।। ।। ९८ ।।
रथानां वारणेंद्राणां हयानां लक्षकोटिभिः ।।
युयुधुर्भूतवेताला देव्या सृष्टास्तु दुर्जयाः ।। ९९ ।।
मातरो विविधाकारा डाकिन्यो योगिनीगणाः ।।
सृष्टाश्च तेजसा भूयः पिशाचाः प्रेतराक्षसाः ।। 1.3.1.10.१०० ।।
देव्या सृष्टेन सैन्येन दुर्जयेन महासुराः ।।
भक्षिताश्चूर्णिता भिन्ना दारिता निहताः क्षणात् ।। १०१ ।।
देवी च सायुधा दृष्टा ज्वलंती निहतासुरैः ।।
नृत्यद्भूतगणैर्भुक्तै रक्तैर्मांसैश्च तोषितैः ।। १०२ ।।
यदा कैलासशिखरात्प्राप्ता कर्त्तुं तपो भुवम् ।।
तदा समागताः काश्चिन्मातृका देहगुप्तये ।। १०३ ।।
दुंदुभिः सत्यवत्याख्या तथा चान्तवती परा ।।
सुंदरीति चतस्रस्ता अन्वयुः परिचारिकाः ।। १०४ ।।
देव्या सृष्टा च चामुंडा दंष्ट्रावलयभीपणा ।।
दैत्यकृत्तिवसा मांसरक्ततृप्ता चचार सा ।। १०५ ।।
असुरं कंचिदाक्रम्य नटनं सा चकार ह ।। १०६ ।।
अथ तां समवेक्ष्य दुर्मदो हि ज्वलयामास च कोपवह्निना सः ।।
अतितीव्रविवृत्तभीष्मनेत्रश्रुतिशृंगाग्रविभिन्नमेघजालः ।। ।। १०७ ।।
ज्वलदग्निशिखाभदीर्घजिह्वापरिलीढोन्नतशैलशृंगभागः ।।
अवनिं दलयन्खुराभिघातैरसकृत्पांसुभिरास्वनन्दिगंतान् ।।१०८।।
अतिघर्घर दीर्घघोरनादस्फुटदंडभ्रममोहितामरो यः ।।
धृतवालधिदंडताड्यमानप्रतिशीर्णामितशस्त्रवर्षसंघः ।।१०९।।
मृतये व्यगमद्बलित्रयाढ्यां मृगराजस्थितिभासुरां भवानीम्।।1.3.1.10.११०।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे देव्यास्तपश्चर्यायां महिषासुरेण सह युद्धवर्णनंनाम दशमोऽध्यायः ।।१०।।छ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् १ — Adhyāya 11
।। ब्रह्मोवाच ।। ।।
स तु सिंहस्थितां गौरीं ज्वलंती विविधायुधाम् ।।
शैलवर्षेण महता कुपितः समपूरयत् ।। १ ।।
शरवर्षेण महता तन्निवार्य विदूरतः ।।
बिभेद निशितैः शस्त्रैरशेषं तस्य विग्रहम् ।। २ ।।
भिद्यमानोऽपि दैत्येंद्रः शैलसारप्रदुर्धरः ।।
विषादं नागमत्किंचिद्ववृधे युद्धदुर्मदः ।। ३ ।।
भिद्यमानः स खड्गेन चक्रैरसिभिर्ऋष्टिभिः ।।
शूलेन चायुधैश्चान्यैरंतर्धानमगाहत ।।।। ४ ।।
ततः सिंहाकृतिर्भीमः प्रचंडनिनदाननः ।।
तीक्ष्णदंष्ट्रः शितनखः परिबभ्राम केसरी ।। ५ ।।
देवीसिंहश्चपेटेन ताडयामास पाणिना ।।
दैत्यसिंहस्य च नखैस्तस्य वक्षो व्यदारयत् ।। ६ ।।
अथ व्याघ्रतया प्राप्तः स्फुटव्यात्ताननो महान् ।।
तं हंतुं च बलाद्देवी वेगेन करमक्षिपत् ।। ७ ।।
दीर्घाभिर्न्नीलरेखाभिः पूर्णः पिंगलविग्रहः ।।
यानावलिभिराकीर्णः स्वर्णाद्रिरिव संचरन् ।। ८ ।।
मृगैरिव परित्रातुं मुच्यमानोऽग्रतो बली ।।
ज्वलंतमिव रोषाग्निं जिह्वाहेतिभिरावहन्।।९।।
आगच्छंतं रयाद्देवी भल्लेन शशिवर्चसा ।।
प्रतिविव्याध तं व्याघ्रं पुरत्रयमिवेश्वरः ।।1.3.1.11.१०।।
स बाणस्तन्मुखे मग्नस्तद्रक्तेन समुक्षितः ।।
जगाहे गगनं भित्त्वा देहमस्य विनिर्गतः ।। ११ ।।
स दैत्यो वारणो भूत्वा देवीमाश्वभ्युपागमत् ।।
बलिभिः पशुभिर्भिन्नैस्तस्याः प्रीतिमिवावहन् ।। १२ ।।
तं गजेंद्रं समायांतं मदक्लिन्नमहीतलम् ।।
देवीसिंहस्तदा दृष्ट्वा ननर्द च जघान च ।। १३ ।।
अथ खड्गधरो वीरश्चर्मपाणिः समुद्गतः ।।
वक्त्रं दधानो बभ्राम दंष्ट्राभ्रुकुटिभीषणम् ।। १४ ।।
देवी च विलसत्खड्गचक्रचक्रलसत्करा ।।
युयोध तेन वीरेण भग्नशीर्षाभ्यपद्यत ।। १५ ।।
भूयः स माहिषं रूपमास्थायासुरमायया ।।
देव्या योद्धुं प्रववृते यथापूर्वमनाकुलम् ।। १६ ।।
अथ देवैमुनींद्रैश्च चोदितो गौतमो मुनिः ।।
प्रबोधयितुमारेभे स्तुतिभिर्जगदंबिकाम् ।। १७ ।।
त्वयि सर्वस्य जगतः प्राणशक्तिः परा मता ।।
ओजःशक्तिर्ज्ञानशक्तिर्बलशक्तिश्च गम्यते ।। १८।।
किमेतदद्य मोहाय युद्धमारभ्यते त्वया ।।
उपसंह्रियतामेष दैत्यो भुवनगुप्तये ।। १९ ।।
भिन्नानामस्य देहानामुपसंहरणात्तव ।।
वलयश्चोपदिश्यन्ते निगमोक्ता वरप्रदाः ।।1.3.1.11.२०।।
अन्यथा तृणकल्पस्य शत्रोरस्य निबर्हणे ।।
कालाग्निवर्चसो देवि किमर्थं संभ्रमस्त्वियान् ।। २१ ।।
स्वशक्तिमवसंस्तभ्य समाकर्षयतां रिपोः ।।
प्राणशक्तिं त्रिशूलेन गुणत्रयवपुर्धृता ।। २२ ।।
इति स्म बोधितातेन पुरा भगवती तदा ।।
महिषासुरमाक्रम्य त्रिशूलेनाभ्यधारयत्।। २३ ।।
अनेकगिरिसंकाशं देव्या विग्रहमात्मनः।।
अशक्तस्तं धारयितुं ससाद महिषासुरः ।।२४।।
निष्पिष्टो विलुठन्क्रोशन्नाक्रांतश्च परिस्फुरन् ।।
निर्गंतुमुद्गतशिरा न शशाकासुराधिपः ।।२५।।
त्रिशूलमुखभिन्नांगरक्तधारासमुद्धतः ।।
समुद्र इव संजातः संध्यारुणकलेवरः ।। ।। २६ ।।
अथ खड्गेन तीक्ष्णेन कर्तयित्वा च तच्छिरः ।।
ननर्त्त तस्य शिरसि तिष्ठन्ती महिषार्दिनी ।। २७ ।।
दुर्गां सिद्धाश्च गन्धर्वाः प्रशशंसुर्महर्षयः ।।
पुष्पवृष्टिश्च महती देवैर्मुक्ता समंततः ।।
प्रणतः प्रांजलिर्देवीं तुष्टाव विबुधाधिपः ।। २८ ।।
।। इन्द्र उवाच ।। ।।
नमस्ते जगतां मात्रे भूतानां बीजसंविदे ।। २९ ।।
भक्तिः श्रद्धा च भजतां शक्तिश्चासि त्वमंबिके ।।
कारणं परमा कीर्तिः शातिर्दांतिः कला क्षमा ।। 1.3.1.11.३० ।।
एकैव विश्वरूपा त्वं नामभेदेर्निगद्यसे ।।
तेषुतेषु पदेष्वस्मांस्तपोऽनुगुणसिद्धिषु ।। ३१ ।।
नियुज्य शत्रुं निर्भिद्य शिवा ज्ञेया प्रकाशसे ।।
हतोयं महिषो दुष्टो विनिकृत्तश्च शांभवि ।। ३२ ।।
छिन्नमेतस्य तु शिरः सजीवमिव लक्ष्यते ।।
रक्तनेत्रं तीक्ष्णशृगं ज्वलज्जिह्वं चलं शिरः ।। ३३ ।।
आक्रम्य तव तिष्ठन्त्या रूपमेव सदास्तु नः ।।
चक्रशृंगधनुर्बाणखङ्गचर्मवराभयैः ।। ३४ ।।
शूलघण्टांकुशकशाकपालकुलिशादिभिः ।।
अशेषदेवतामूर्तिरशेषैदेंवतायुधैः ।। ३५ ।।
आपूरिता त्वमेवांब सर्वशत्रून्निहंसि नः ।।
आयुधानां सहस्राणि तन्मयास्ते विभूतयः ।। ३६ ।।
त्वज्जितारातयः सर्वे विविधायुधवाहनाः ।।
रथनागहयैर्युक्ताः ससैन्या अपि भूभृतः ।। ३७ ।।
क्षणेन दग्धवीर्याः स्युस्त्वत्प्रसादविवर्जिताः ।।
अपदोऽप्यल्पवीर्योऽपि त्वत्पादांबुजसेवकः ।। ३८ ।।
त्रिलोकनाथतां प्राप्तः प्रथते कीर्तिमण्डितः ।।
तद्रूपमिदमत्युग्रं ध्यायतामर्चतां सदा ।। ३९ ।।
न शत्रुभ्यो भयं किंचिद्भवेद्विजयशालिनाम् ।।
ईदृशं सर्वलोकेषु रूपं ते देववंदितम् ।। 1.3.1.11.४० ।।
पूज्यतामिष्टसिद्ध्यर्थं देवैर्भृत्यैश्च सर्वदा ।।
मातरश्च त्वया सृष्टाः सर्वाभीष्टफलप्रदाः ।। ४१ ।।
सगणाः प्रतिपूज्यंतां सर्वस्थानेषु सर्वदा ।।
अयं च निहतो दैत्यस्त्वत्पादकृतलांछनः ।। ४२ ।।
तव भक्तैः सदा पूज्यस्त्वत्प्रमादात्त्वदग्रतः ।।
इत्थं सुरेन्द्रप्रणुता सर्वर्षिसुरसेविता ।। ४३ ।।
तथेति वरदा देवी ससर्ज च दिवं प्रति ।।
स्वयमप्यात्मनस्तत्र तद्रूपं विविधायुधम् ।।।। ४४ ।।
संस्थाप्य मातृभिः सार्धं स्थानरक्षणमातनोत् ।।
संगृह्य विमलं रूपं सखीजनसमावृता ।। ४५ ।।
महिषस्य शिरोऽपश्यद्विकृतं खङ्गधारया ।।
कथयन्ती पुनस्तस्य चित्रं लोकविभूषणम् ।। ४६ ।।
सखीभिः सह सा बाला कण्ठं तस्य व्यलोकयत् ।।
अपश्यच्च तदा लिगं कर्त्तुं तस्य च पूजनम् ।। ४७ ।।
आदत्त सहसा गौरी लिगं तस्य गले स्थितम् ।।
आलोकयच्च सुचिरं रक्तधारापरिप्लुतम् ।। ४८ ।।
आसज्जत पुनर्लिंगमस्याः पाणितलं गतम् ।।
विमोचयितुमुद्युक्ता नाशक्नोल्लग्नमंजसा ।। ४९ ।।
अचिंतयच्च सा देवी किमेतदिति विस्मयात् ।।
विषादेन च संयुक्ता महर्षीणां पुरः स्थिता ।। 1.3.1.11.५० ।।
आहतः शिवभक्तोऽयमिति शोकं समाविशत् ।।
अगर्हत भृशं मौढ्यमात्मनः स्त्रीस्वभावजम् ।। ५१ ।।
अविचार समारब्धं शिवभक्तनिबर्हणम् ।।
उपतापपरीतांगी गौतमं मुनिसत्तमम् ।। ५२ ।।
उपगम्याब्रवीद्बाला साहसं कृतमात्मना ।।
भगवन्सर्वधर्मज्ञ गौतमार्य मुनीश्वर ।। ५३ ।।
मान्यया धर्मरूपेण कोऽप्यधर्मः प्रकल्पितः ।।
देवानां रक्षणं कर्तुमभयं दातुमुद्यता ।। ५४ ।।
अज्ञानान्महिषं दैत्यं शिवभक्तिममर्दयम् ।।
रजसाक्रान्तबुद्धीनां न भवेद्धर्मसंग्रहः ।। ५५ ।।
गुरुप्रसादसुलभः स्फुरद्विघ्नशताकुलः ।।
सुदुर्धर्षा निराचारदुर्दमाः शिवसंश्रयाः ।। ५६ ।।
विशेषतो लिंगधराः शिवस्तान्बहु मन्यते ।।
पुरा पुरत्रयावासा दैतेया लिंगधारका ।। ५७ ।।
अजिताः शंभुना पूर्वं मुक्तलिंगा निषूदिताः ।।
अस्य कंठस्थितं लिंगं मम पाणिं न मुंचति ।। ५८ ।।
कथं पापं निरस्यामि शिवभक्तवधाश्रितम् ।।
अस्य कंठस्थितं लिंगं धारयंती तपोन्विता ।। ५९ ।।
तीर्थयात्रां करिष्यामि यावच्छंभुः प्रसीदति ।।
पुनः कैलासमुख्येषु शंभुस्थानेषु भूरिषु ।। 1.3.1.11.६० ।।
तीर्थेषु रचितस्नाना लप्स्ये पापविशोधनम् ।।
इति तस्याः परिश्रांतिं दुर्धर्मपरिशंकया ।। ६१ ।।
आकर्ण्य शिवधर्मज्ञो भयार्त्तां तामवोचत ।।
मा भैषीर्गिरिजे मोहाच्छिवभक्तो हतस्त्विति ।। ६२ ।।
धर्मसूक्ष्मार्थवेत्तारौ दुर्लभा गिरिकन्यके ।।
सदा शिवस्य वदनैः सद्योजातादि संश्रितैः ।। ६३ ।।
आगमाः पंचभिः प्रोक्ता अष्टाविंशतिकोटयः ।।
निर्णयाः शिवभक्तानां शिवमार्गस्य शोभनाः ।। ।। ६४ ।।
तेषुतेषु मुनींद्रैश्च नत्वैव प्रतिपद्यते ।।
कालो मुखं च कंकालं शैवं पाशुपतं तथा ।। ६५ ।।
महाव्रतं पंच चैताः शिवमार्गप्रवृत्तयः ।।
भेदाश्च बहवस्तेषामन्योन्यस्य शिवे रताः ।। ६६ ।।
साध्य एको हि बलवान्सर्वैस्तैरनिशं शिवः ।।
सर्व एव सदा पूज्याः स्वधर्मपरिनिष्ठितैः ।। ६७ ।।
अमत्सरैः शिवे भक्तैः शिवाज्ञापरिपालकैः ।।
वेदैश्च बहुभिर्यज्ञैर्भक्त्या च परया शिवः ।। ६८ ।।
आराध्यते महादेवः सर्वदा सर्वदायकः ।।
जीवहिंसा न कर्त्तव्या विशेषण तपस्विभिः ।। ६९ ।।
शिवधर्मस्य भेत्तारो निहंतव्यास्तथांजसा ।।
न वेषजुषि वीक्षेत न लिगं नैव संभवम् ।। 1.3.1.11.७० ।।
शिवधर्मस्य भेत्तारं हन्यादेवाविचारयन् ।।
बहुभिः स्फूर्तया बुद्ध्या धर्मविद्भिर्निरूपिते ।। ७१ ।।
शिवधर्मस्य विलये सद्यः शक्तिः प्रवर्तते ।।
अस्य कर्म पुनर्दिष्टं लिंगमैश्वर्यचर्चितम् ।। ७२ ।।
न जेतुं शक्यते देवि तेनासौ सर्वदैवतैः ।।
यदयं निहतो देवि त्वया शंकरमान्यया।। ७३ ।।
आक्रांतः शापदोषेण महर्षीणां शिवाश्रयात् ।।
अथ ते कुपितास्तस्य वैषम्यादवमानतः ।। ७४ ।।
शेपुर्महिषवद्दुष्टो महिषोऽयं भवत्विति ।।
ततस्तद्वचनात्सद्यो महिषोऽभूत्क्षणात्तथा ।। ७५ ।।
प्रणम्य तोषयामास ययाचे शापमोचनम् ।।
दत्त्वा प्रकामरूपत्वं ददुरस्मै प्रसादिताः ।। ७६ ।।
महिषत्वेपि संहारं स्वयं देव्या शिवाज्ञया ।।
विषादो न च कर्त्तव्यो अंगदर्शनतस्त्वया ।। ७७ ।।
सिद्धानां शिवरूपाणामवज्ञा कं न बाधते ।।
महिषत्वे समुत्पन्ने दोषेण समुपस्थिते ।। ७८ ।।
सिद्धप्रसादाल्लब्धोऽयं शापनाशस्त्वया कृतः ।।
सर्वे लोकाश्च संत्राता दुष्टोयं परिरक्षितः ।। ७९ ।।
शापदोषसमुत्पन्ने महिषत्वे विमोचिते ।।
त्वया च गिरिशप्रीत्यै तपः कुर्वाणयाद्रिजे ।। 1.3.1.11.८० ।।
द्रष्टव्यं तैजसं लिंगमरुणाचलसंज्ञितम् ।।
पूर्वजन्मनि भक्तोऽयमरुणाद्रिपतेः स्फुटम् ।। ८१ ।।
महिषत्वे मदाक्रांतः परं लिंगेन संगतः ।।
भक्त्या लिंगधरं हंतुं कः समर्थो जगत्त्रये ।। ८२ ।।
दृष्टाः पुरत्रये पूर्वं रुद्रेण पूजितास्त्रयः ।।
त्वत्खड्गपरिकृत्तेन कंठेनास्य वरानने ।।८३।।
दीक्षादिरहितं लिंगं दत्तं हंतीति चोदितम् ।।
कृतं हि महिषेणापि भक्तितो लिंगधारणम् ।। ८४ ।।
कदाचित्क्षपणोक्तानां विभाषात्प्रत्ययं गतः।।
पूर्वजन्मतपोयोगात्स्मरणो लिंगधारणात् ।।८५।।
त्वत्पादपद्मसंस्पर्शादयं मुक्तो न संशयः।।
मदुक्तनिष्कृतीनां तु पातकानां च नाशनम् ।।८६।।
दर्शनं शैलवर्यस्य प्रायश्चित्तं परं मतम् ।।
संस्थाप्य विविधाञ्छैवाञ्छिवसिद्धांतवेदिनः ।।८७।।
आवाह्य सर्वतीर्थानि सर्वदोषनिवृत्तये।।
सरः किमपि संपाद्य स्नात्वा तत्र वरानने।।८८।।
अघमर्षणसंयुक्ता सलिंगा स्नानमाचर ।।
त्रिसंध्यं चैव मासांते देवयागमहोत्सवे ।। ८९ ।।
आराधयोपचारैस्त्वमरुणाद्रिमयं शिवम् ।। 1.3.1.11.९० ।।
एवं तस्य मुनेर्निशम्य वचनं शैवार्थसंभावितं प्रीता देवनमस्कृता गिरिसुता देवी जगद्रक्षिका ।।
शैवं धर्ममिमं विधातुमुचितं शोणाचलस्याग्रतस्तीर्थागाहनबुद्धिमाशु विदधे कर्तुं त्वघक्षालनम् ।। ९१ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे महिषासुरवधोत्तरं देवीपाणौ महिषासुरशिरःसंलग्रतावृत्तांतवर्णनंनामैकादशोऽध्यायः ।। ११ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् १ — Adhyāya 12
।। ब्रह्मोवाच ।। ।।
इति संभाषमाणे तु महर्षौ मुनि सेविते ।।
विजहौ गिरिजा शंकां शिवभक्तवधाश्रिताम् ।। १ ।।
अथांतरिक्षादुदभूद्वाणी कर्णमनोहरा ।।
मा गमः शैलकन्ये त्वं पापनिप्कृतिकारणात् ।। २ ।।
गंगा च यमुना सिंधुर्गोदापि च सरस्वती ।।
नर्मदा सा च कावेरी शोणः शोणनदी च सा ।। ३ ।।
अत्रैव नव तीर्थानि संभवंतु शिलातले ।।
त्वत्खड्गदारिते देवि कुरु तत्राघमर्षणम् ।। ४ ।।
अस्मिन्नाश्वियुजे मासि ज्येष्ठानक्षत्र आगते ।।
निमज्य खड्गतीर्थे त्वं सलिंगा मासमावस ।। ५ ।।
निवर्त्य सावनं मासमत्र दिक्पालसंमितम् ।।
ततः पाणिस्थितं लिंगं लब्ध्वा पापविशोधनम् ।। ६ ।।
प्रतिष्ठापय तीर्थाग्रे लोकानुग्रहकारणात् ।।
उत्तीर्य तीर्थवर्येऽस्मिन्स्नात्वा लिंगेऽर्चिते शिवे ।। ७ ।।
तापत्रयोपशांतिश्च त्रैलोक्यस्य न संशयः ।।
सर्वपापहरं लिंगं स्थावरं तीर्थसन्निधौ ।। ८ ।।
स्थापय स्थिरया भक्त्या सदालोकहिताय च ।।
नक्षत्रे वैश्वदैवत्ये देवक्याः संगमाचर ।। ९ ।।
महोत्सवसमायुक्तं यावद्दशदिनावधि ।।
कृत्वा चावभृथं पुण्यनक्षत्रे वह्निदैवते ।। 1.3.1.12.१० ।।
सायमभ्यर्च्य विधिवच्छोणाचलवपुर्मम ।।
ततस्ते दर्शयिष्यामि तैजसं रूपमात्मनः ।। ११ ।।
एतत्कृतं ते लोकानां रक्षायै संभविष्यति ।।
इति तद्वचनं श्रुत्वा महर्षिवचनं च सा ।। १२ ।।
उभयं कर्तुमारेभे तपसा शैलकन्यका ।।
खङ्गेन दारयामास शिलातलमनाकुला ।। १३ ।।
उदजृंभत तीर्थानां नवकं तत्र तत्क्षणात् ।।
तस्य कण्ठस्थितं लिगं ध्यायन्ती पर्वतात्मजा ।। १४ ।।
तीर्थे ममज्ज तस्मिन्सा मुनीनामभ्यनुज्ञया ।।
तीर्थानां नवकं तत्र संजातं स्फटिकप्रभम् ।। १५ ।।
अंतर्वसतितः कांत्या मेचकीकृतमंजसा ।।
वसंत्यां शैलकन्यायां तीर्थे त्रिंशद्दिनं त्वथ ।। १६ ।।
शम्भोर्विरहसंतप्तं मनश्चंचलतां ययौ ।।
तत्र श्रिया सरोजानि चक्षुषोत्पलकाननम् ।। १७ ।।
मंदस्मितेन कुमुदं ससर्ज सलिलस्य सा ।।
देव्यास्तेनोदवासेन लोकास्तु निरुपद्रवाः ।। १८ ।।
कृतार्थास्सहसा जातास्तत्तत्कालफलान्विताः ।।
मासांते सा समुत्तीर्य कृत्वा देव्युत्सवं तथा ।। १९ ।।
कार्तिके मासि नक्षत्रे कृत्तिकाख्ये निशोदये ।।
पूजयित्वा तपःसिद्धैरुपचारैर्बहूदयैः ।। 1.3.1.12.२० ।।
अरुणाद्रिमयं लिंगं तुष्टाव जगदंबिका ।।
नमस्ते विश्वरूपाय शोणाचलवपुर्भृते ।। २१ ।।
तेजोमयाद्रिलिंगाय सर्वपाततकनाशिने ।।
ब्रह्मणा विष्णुना च त्वं दुष्परिच्छेद्यवैभवः ।। २२ ।।
अग्निरूपोऽपि सञ्छांतो लोकानुग्रहक्लृप्तये ।।
शक्त्या च तत्त्वसंघातकरः कालानलाकृतिः ।। २३ ।।
अद्रिश्रेष्ठारुणाद्रीश रूपलावण्यवारिधे ।।
विचित्ररूपमेतत्ते वेदवेद्यसुरार्चितम् ।। २४ ।।
तेजसां देव सर्वेषां बीजभूतं निगद्यसे ।।
दिव्यं हि परमं तेजस्तव देव महेश्वर ।। २५ ।।
यत्पुरा ब्रह्मणा दृष्टं विष्णुना च विचिन्वता ।।
अद्य पूतास्मि देवेश तव संदर्शनादहम् ।।।। २६ ।।
तेजो दर्शय मे दिव्यं सर्वदोषहरं परम् ।।
प्रार्थयंत्यां तदा देव्यामरुणाद्रिमयः शिवः ।। २७ ।।
आविर्बभूव तेजोभिरापूर्य भुवनांतरम् ।।
कोटिसूर्योदयप्रख्यं तुल्यं पूर्णेंदुकोटिभिः ।। २८ ।।
कालाग्निकोटिसंकाशं तेजः परमदृश्यत ।।
प्रणम्य परया भक्त्या मुनिभिः सार्धमंबिका ।।।। २९ ।।
विस्मयाक्रांतहृदया ननंद नलिनेक्षणा ।।
अथ तेजोनिधेस्तस्मादरुणाद्रिः समुत्थितः ।। 1.3.1.12.३० ।।
हिरण्मयोऽब्रवीद्वाचं पुरुषः कलकन्धरः ।।
प्रसन्नोऽस्मि तपोभिस्ते स्थानेषु मम कल्पितैः ।। ३१ ।।
तेजोमयमिदं रूपमीक्षितं च त्वयाधुना ।।
कारणैर्बहुभिर्लोकान्रक्षेथास्त्वं जगन्मयि ।। ३२ ।।
तपांसि कुरुषे भूमौ किमन्यत्प्रार्थितं तव ।।
मल्लोचनत्विषा तेद्य तमोराशिः समुत्थितः ।। ३३ ।।
अशेषो हि प्रशांतोऽभूत्तेजसोऽस्य निरीक्षणात् ।।
अयं तु महिषो दुष्टो मद्भक्तिं लिंगपूजकः ।। ३४ ।।
जग्राह सहसा ह्येतत्तस्य लिंगं गले स्थितम् ।।
अनेन भक्षितं तच्च नास्तिकस्योपदेशतः ।। ३५ ।।
अकरोन्मय्यविश्वासं लिंगरूपे गले स्थिते ।।
क्रमेण सोपि संप्राप्तो मुनिजन्म मनोहरम् ।। ३६ ।।
मामेवाभ्यर्चयन्ध्यायन्गणनाथत्वमावसन् ।।
पूर्वजन्मनि भक्तोऽयं महिषोपि त्वया हतः ।। ३७ ।।
चिरं मल्लिंगधृग्यस्मात्सिद्धिरस्यापि देव्यतः ।।
शिवलिंगेष्वविश्वासः शिवभक्तावमाननम् ।। ३८ ।।
न कर्त्तव्यं सदा भक्तैस्तस्माद्वै मुक्तिकांक्षिभिः ।।
दीक्षया रहितं लिगं येन संधार्यते बलात् ।। ।। ३९ ।।
न तादृशं फलं दत्ते वज्रवत्तं निहंति च ।।
न दोषस्तत्र किंचित्ते शोणाचलनिरीक्षणात् ।। 1.3.1.12.४० ।।
सफला नयनावाप्तिः सर्वदोषविनाशनात् ।।
त्वत्पुत्रस्तन्यदानेन धात्र्योपकृतमात्मजे ।। ४१ ।।
त्वामपीतकुचां चक्रे वत्सलां भक्तरक्षिणीम् ।।
नक्षत्रे कृत्तिकाख्येऽत्र तव सन्निधिलोभतः।। ४२ ।।
प्रायश्चित्ताभिधानेन भवापीतकुचाभिधा ।।
पूजाशेषं समाधाय भक्तानुग्रहहेतवे ।। ४३ ।।
भज मां करुणामूर्तिरपीतकुचनायिका ।।
इति देवस्य वचनमाकर्ण्यात्यंतशीतलम् ।। ४४ ।।
प्रणम्य प्रार्थितवती प्रोवाच च तमंबिका ।।
देवदेव प्रसादेन त्वयानुग्रहशालिना ।। ४५ ।।
एतत्ते दर्शितं तेजो दृष्टं देवैश्च मानवैः ।।
प्रत्यक्षं कृत्तिकामासि मद्व्रतांतमहोत्सवे ।। ४६ ।।
नक्षत्रे कृत्तिकाख्येऽस्मिंस्तेजस्ते दृश्यतां परम् ।।
तद्वीक्षितमिदं तेजः परमं प्रतिवत्सरम् ।। ४७ ।।
दृष्ट्वा समस्तैर्दुरितैर्मुच्यतां सर्वजंतवः ।।
तथेति देवदेवेन प्रोचेऽथांतर्दधे गिरौ ।। ४८ ।।
प्रदक्षिणं चकारैनं सखीभिः सा ततोंऽबिका ।।
घनश्यामलया कांत्या परितो जृंभमाणया ।। ४९ ।।
अरुणाद्रिमयं लिंगं चक्रे मरकतप्रभम् ।।
मंदं चरन्ती जाताभिः प्रभाभिः पादपद्मयोः ।। 1.3.1.12.५० ।।
तस्तार परितो भूमिं पद्मपत्रैः सपल्लवैः ।।
प्रफुल्लकनकांभोजनीलोत्पलदलोत्करैः ।। ५१ ।।
अर्चयन्तीव शोणाद्रिमभितो दृष्टिकांतिभिः ।।
इन्द्रादिलोकपालानामंगनाभिर्निषेविता ।। ५२ ।।
प्रसादिता मातृगणैर्गंधदानविभूषणैः ।।
छत्रचामरभृंगारतालवृन्तफलाचिकाः ।। ५३ ।।
वहन्तीभिः सुरस्त्रीभिर्वृता मुनिवधूयुता ।।
प्रदक्षिणं चकारैनमरुणाद्रिं स्वयंप्रभम् ।।।। ५४ ।।
कांक्षन्ती शिवसायुज्यं विवाहाग्निमिवाद्रिजा ।।
तस्यां प्रदक्षिणं भक्त्या कुर्वाणायां पदेपदे ।। ५५ ।।
प्रेषिता शंभुना देवाः परिवव्रुः सुरेश्वराः ।।
सरस्वतीसमं धात्रा विष्णुना च समं रमा ।। ५६ ।।
सर्वदिक्पालकांताभिः समेता शैलबालिका ।।
निरुन्धतीव देवेन्द्रं सलिलैर्वरदानतः ।। ५७ ।।
अद्रिनाथस्वरूपस्य शीतत्वमिव कुर्वती ।।
तपस्ययाऽविनाभावाद्देवस्येव कृतस्मृतिः ।। ५८ ।।
दुष्करस्योदवासस्य बोधयन्तीव साधुताम् ।।
ऋषीणां देवमानानामुपदेष्टुमिव क्रमात् ।। ५९ ।।
क्रीडामिव पुराभ्यस्तां तपसापि च संगता ।।
आत्मानं विरहोत्तप्तामात्मस्थं तादृश शिवम् ।। 1.3.1.12.६० ।।
संचिंत्य चोभयोः कर्तुं शीतलत्वं जले स्थिता ।।
तीर्थानामिव सर्वेषामुद्भूतानां शिलातले ।। ६१ ।।
आधिक्यमथ लोकस्य वक्तुकामा स्वयं स्थिता ।।
दुरितघ्नं च पंचाग्निमर्थावासं सुदुष्करम् ।। ६२ ।।
अधिगम्य तपस्तस्य शांतिं कर्तुमिव स्थिता ।।
महिषासुरकंठोत्थरक्तधारापरिप्लुतम् ।। ६३ ।।
क्षालयंतीव लिंगं तदमलैस्तीर्थवारिभिः ।।
अरुणाख्यं पुरं रम्यं निर्मितं विश्वकर्मणा ।। ६४ ।।
अपीतकुचनाथेशशोणाद्रीश्वरतुष्टये ।।
शृंगेषु यस्य सौधेषु वसन्त्यो वारयोषितः ।। ६५ ।।
अधःकृताभ्रतडितो जिगीषंतीव चामरीः ।।
यत्तुंगसौधशृंगाग्रे गायंतीर्वारयोषितः ।। ६६ ।।
सिद्धचारणगंधर्वविद्याधरविराजितम् ।।
अष्टापदरथाक्रांतमष्टवीथिविराजितम् ।। ६७ ।।
अष्टापदपथाकारमष्टदिक्पालपूजितम् ।।
अष्टसिद्धियुतैः सिद्धैरष्टमूर्तिपदाश्रयैः ।। ६८ ।।
अष्टांगभक्तियुक्तैस्तैर्युक्तमष्टांगबुद्धिभिः ।।
चातुर्वर्ण्यगुणोपेतमुपवर्णं परिष्कृतम् ।। ६९ ।।
लसत्सुवर्णदुवर्णशालामालासमास्थितम् ।।
शंखदुंदुभिनिस्साणमृदंगमुरजादिभिः ।। 1.3.1.12.७० ।।
वीणावेणुमुखैस्तालैः सालापैरुपरंजितम् ।।
ब्रह्मघोषनिनादेन महर्षीणां शिवात्मनाम् ।। ७१ ।।
सेवितव्यं दिने दिव्यसमदर्शवृषध्वजम् ।।
नवरत्नप्रभाजालैर्नवग्रहसमोदयैः ।।७२।।
निशादिवसयोरेवं दर्शयन्निव सर्वदा ।।
विष्णुः स्थितश्च तं प्रीत्या सिषेवे पुरतो विभुम् ।। ७३ ।।
शक्रः सुरगणैः सार्धं सहस्राक्षः समाययौ ।।
पपात दिव्यगंधाढ्या पुष्पवृष्टिः समंततः ।। ७४ ।।
व्योमगंगाजलोत्संगशीतलो मरुदाववौ ।।
अतीव सौरभामोदवासिताखिलदिङ्मुखः ।। ७५ ।।
कनकांकितशृंगाग्रपरिधूतवनावलिः ।।
दर्पसंभ्रमसंनद्धो ननाद वृषभो मुहुः ।। ७६ ।।
वसंतप्रमुखाः सर्वे सहर्षमृतवः पुरः ।।
असेवंत प्रियकरैः पुष्पैः स्वयमथोचितैः ।। ७७ ।।
गणैश्च विविधाकाराः सिद्धाश्च परमर्षयः ।।
सुराश्च कुतुकोपेताः समागच्छन्दिदृक्षवः ।। ७८ ।।
कुंकुमक्षोदसंमिश्रकर्पूररजसान्वितः ।।
चर्यामुष्टिमहासारः समकीर्यत सर्वतः ।। ७९ ।।
अथ मृदंगकमर्दलझल्लरीपटहदुंदुभितालसमन्वितैः ।।
जलजकीचककाहलनिस्वनैः सुरकृतैर्भुवन समपूरयन् ।। 1.3.1.12.८० ।।
सुरवधूजननृत्तनिरंतरोल्लुलिततुंबरुगायनगीतिभिः ।।
अभिवृतो मुनिदेवगणान्वितो वृषगतः समदर्शि वृषध्वजः ।। ८१ ।।
सरसमेत्य शिवः करुणानिधिर्नतमुखीमपि तामपलज्जया ।।
ललितमंकमनंगरिपुः शिवां धृतिमहानधिरोप्य जहर्ष सः ।। ८२ ।।
ललितया निजया प्रिययान्वितः सुरमुनींद्रसमाजसमावृतः ।।
ललितमप्सरसां मुहुरादरान्नटनमैक्षत गीतिसमन्वितम् ।। ८३ ।।
अथ शिवः सुरराजसमर्पिताञ्छुभपटीरमुखानिलसौरभान् ।।
हिमगिरिप्रहितांश्च समग्रहीन्मृगमदैः सह गंधसमुच्चयान् ।। ८४ ।।
समनुलेपितहारसुमंडितावभिगतौ सिततां समलंकृतौ ।।
स्वयमपीतकुचाकुचकुड्मलावरणरंभणचञ्चलसत्करौ ।। ८५ ।।
कठिनतुंगघनस्तनकोरकस्थगितमंगलगंधमनोहराम् ।।
गिरिसुतामधिगम्य शिवः स्वयं विरहतापमशेषमपाकरोत् ।। ८६ ।।
अथ विनोदशतैरुपलक्षितां निजवियोगजताप कृशान्विताम् ।।
अरुणशैलपतिः स्वयमद्रिजां वरमभीप्सितमर्थय चेत्यशात् ।। ८७ ।।
सकुतुकं प्रणिपत्य नगात्मजा पुररिपुं भुवनत्रयगुप्तये ।।
इममयाचत शोणगिरीश्वरं वरमुदारमनुग्रहसंमुदम् ।। ८८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे देव्याः शिवसमागमवर्णनंनाम द्वादशोऽध्यायः ।। १२ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् १ — Adhyāya 13
।। ब्रह्मोवाच ।। ।।
अथ गौरी पुरारातिं प्रणम्य जगदंबिका ।।
अयाचत्तादृशा शंभुमविनाभावमात्मनः ।। १ ।।
इदं विज्ञापयामास लोकानुग्रहकारणात् ।।
कृपया परया पूर्णा गौरी संवादसुंदरी ।। २।।
न त्याज्यमेतत्ते रूपमत्र दृष्टिमनोहरम् ।।
अहं त्वया न च त्याज्या सापराधापि सर्वदा ।।
मनोहरमिदं रूपमेतत्ते लोकमंगलम् ।। ३ ।।
आलोक्यतां सदा सर्वैर्दिव्यगन्धसमन्वितम् ।।
भुजंगगरलब्रह्मकपालशिवभस्मभिः ।। ४ ।।
भीषणैरलमीशान जय वेषपरिग्रहैः ।।
सुकुमारो भवेर्दिव्यमाल्यगंधांबरादिभिः ।।।। ५ ।।
भूषितो रत्नभूषाभिर्विहरस्व महेश्वर ।।
आगता नित्यमीशान देवगन्धर्वकन्यकाः ।। ६ ।।
सेवंतामत्र देवेशं नृत्यवादित्रगीतिभिः ।।
गणाश्च मानुषा भूत्वा सेवंतां त्वामहर्निशम् ।। ७ ।।
त्वत्प्रसादादयं देव सुगंधिः पुष्टिवर्द्धनः ।।
आवयोः संगमो दृष्टो भूयात्सर्वार्थदायकः ।। ८ ।।
गृहीतमत्र देवेश सर्वमंत्रात्मकं वपुः ।।
चरितं तव कैंकर्यमस्तु भक्तिः सदा तव ।। ९ ।।
ज्ञानाज्ञानकृतं नित्यमपराधसहस्रकम् ।।
क्षम्यतां तव भक्तानामनन्यशरणेक्षणात् ।। 1.3.1.13.१० ।।
इति देव्या वचः श्रुत्वा शम्भुः शोणाचलेश्वरः ।।
तमेव वरदः प्रादाद्वरं सर्वमभीप्सितम् ।। ११ ।।
आभाष्य गौरीं कुतुकाद्रंतुकामः स्वयं शिवः ।।
धारय त्वं मृगमदं मनोज्ञमिदमूचिवान् ।। १२ ।।
।। महादेव उवाच ।। ।।
पुलकाख्यो महान्दैत्यो मृगरूपी तपोधिकम् ।।
कृत्वा प्राप वरं मत्तः सौगन्ध्यं परमाद्भुतम् ।। १३ ।।
लब्ध्वा वरं स्वगन्धेनामोहयत्सुरयोषितः ।।
तथैवाधर्मसंप्राप्तो बबाधे सकलं जगत् ।। १४ ।।
देवैरभ्यर्थितः सोहमाहूयासुरनायकम् ।।
विमुंच लोकरक्षार्थमासुरं देहमित्यशाम् ।। १५ ।।
।। पुलक उवाच ।। ।।
त्यक्ष्यामि देवदेवेश देहमेतं त्वदाज्ञया ।।
प्रणम्य भक्तिमनसा मामप्यर्चेदमूचिवान् ।। १६ ।।
मदंगसंभवं दिव्यं सौरभं विश्वमोहनम् ।।
धार्यतां देव देवेश सदा सादरचेतसा ।। १७ ।।
पुलकस्वेदजातो हि सदा प्रख्यायतां तव ।।
अयं मृगमदो लोके शृङ्गाररसवर्द्धनः ।। १८ ।।
त्वत्प्रियः कांतिसौभाग्यरूपलावण्यदायकः ।।
विसृजामि निजं देहं देवदेव जगत्पते ।। १९ ।।
सदा बहुमतो देव्या दिव्यसौरभलुब्धया ।।
मदंशसंभवा ये स्युर्मत्तपोलब्धसौरभाः ।। 1.3.1.13.२० ।।
लीयंतां तव देवेश मूर्तावालेपनच्छलात् ।।
तथेति मय्युक्तवति स दैत्यः पुलकाभिधः ।। २१ ।।
विससर्ज निजं देहं मयिसन्यस्तजीवितः ।।
ततस्तदंगसंभूतं मदं बहुलसौरभम् ।। २२ ।।
अधारयमहं प्रेम्णा शतशृंगारवर्द्धनम् ।।
तपसा देवदेवेशि तप्तं तव वपुः कृशम् ।। २३ ।।
मदंगं च वियोगात्त इदं निर्वापयाधुना ।।
इति प्रशस्य बहुधा पुलकस्नेहमद्भुतम् ।। २४ ।।
आलिलिंप महादेवः पार्वतीं प्रेममंदिराम् ।।
अपृच्छच्च हसन्देवः पार्वतीं ललनाकृतिम् ।। २५ ।।
किमेतदिति हस्तोत्थं दृष्ट्वा तं जगदंबिका ।।
अब्रवीदरुणाद्रीशमानम्य जगदंबिका ।। ।। २६ ।।
आगतिं तस्य पुष्पस्य सदा स्वकरवर्तिनः ।। २७ ।।
।। देव्युवाच ।। ।।
अहं कैलासशिखराद्देवदेव त्वदाज्ञया ।।
तपः कर्तुमनुप्राप्ता कांचीं कनकतोरणाम् ।। २८ ।।
अवाप्य मानसोद्भूतं कह्लारमिदमुत्तमम् ।।
आराधयं महादेवमम्लानगुरुसौरभम् ।। २९ ।।
यदक्षयमविश्रांतमर्चनायोजितं मया ।।
अविच्छिन्नमहादीप्तिः कामधेनुघृताप्लुतः ।। 1.3.1.13.३० ।।
अवेक्षणीयो भूपालैरनुपाल्यश्च सर्वदा ।।
धर्मलक्षणमाधेयं लोकरक्षार्थमादरात् ।। ३१ ।।
सर्वाभीप्सितसिद्ध्यर्थं मत्प्रीतिकरणाय च ।।
मया संस्थापिता धर्मा द्वात्रिंशल्लोकगुप्तये ।। ३२ ।।
रक्षणीया प्रयत्नेन तत्संनिधिमुपागतैः ।।
सर्वालंकारसंयुक्तं सर्वभोगकृतोत्सवम् ।।
आलोक्यतामिदं रूपं कन्यायां मम कांतिमत् ।। ३३ ।।
।। ब्रह्मोवाच ।। ।।
इति देव्या वचः श्रुत्वा शम्भुः शोणाचलेश्वरः ।। ३४ ।।
तथेति वरदः प्रादाद्वरं सर्वमभीप्सितम् ।।
एष शोणाचलः श्रीमान्दृश्यते लोकपूजितः ।। ।। ३५ ।।
सर्वदा वरदागौर्या सर्वभोगैश्च संवृतः ।।
य एतच्छांभवं रूपमरुणाद्रितया स्थितम् ।। ३६ ।।
संपश्यंति नमस्यंति कृतार्थाः सर्व एव ते ।।
अरुणाचलमाहात्म्यमेतच्छ्रण्वंति ये भुवि ।। ३७ ।।
भवंति सततं तेषां समग्राः सर्वसंपदः ।।
श्रीमत्त्वं वाक्पतित्वं च रूपमव्याहतं बलम् ।। ३८ ।।
लभंते पापनाशं च माहात्म्यस्यास्य धारणात् ।।
सर्वतीर्थाभिषवणं सर्वयज्ञक्रियाफलम् ।। ३९ ।।
सदाशिवप्रसादं च दत्ते शोणाद्रिदर्शनम् ।। 1.3.1.13.४० ।।
इति कैलासशिखरात्प्राप्ता देवी शिवाज्ञया ।।
शापमोक्षगतवती शोणाचलनिरीक्षणात् ।। ४१ ।।
स्थानेष्वन्येषु देवस्य विद्यमानेषु च क्षितौ ।।
दिवि चात्यंतपुण्येषु शंभुरत्र प्रसेदिवान् ।। ४२ ।।
अयं सदाशिवः साक्षादरुणाचलरूपतः ।।
दृश्यते परमं तेजः सर्गस्थित्यंतकारणम्।। ४३ ।।
एतत्तु तैजसं लिगं सर्वदेवनमस्कृतम् ।।
दृश्यते कर्मभूरेषा तेन धर्माधिका मता ।। ४४ ।।
अरुणाचलनाथस्य तेजसा धूतकल्मषाः ।।
भक्तिमंतो नरा लोके सुखमाप्स्यंति सर्वतः ।। ४५ ।।
प्रदक्षिणैर्नमस्कारैस्तपोभिर्नियमैरपि ।।
येऽर्चयंत्यरुणाद्रीशं तेषां शंभुर्वशंगतः ।। ४६ ।।
न तथा तपसा योगैर्दानैः प्रीणाति शंकरः ।।
यथा सकृदपि प्राप्तादरुणाचलदर्शनात् ।। ४७ ।।
स्वयंभुवः सदा वेदाः सेतिहासा दिवि स्थिताः ।।
परितो गिरिरूपास्ते स्तुवंत्यरुणपर्वतम् ।। ४८ ।।
एतस्य वैभवं सर्वं न मया न च शार्ङ्गिणा ।।
वचसा शक्यते वक्तुं वर्षकोटिशतैरपि ।। ४९ ।।
देवाश्च हरिमुख्यास्ते कल्पकाद्याः सुरद्रुमाः ।।
प्रच्छन्नरूपाः सेवंते सर्वदैवारुणाचलम् ।। 1.3.1.13.५० ।।
न तस्य कलिदोषः स्यान्नाधिव्याधिविजृंभणा ।।
यत्र संपूज्यते लिंगमरुणाचलसंज्ञितम् ।। ५१ ।।
इत्येतत्कथितं सर्वं तव शंभुपदाश्रयम् ।।
चरितं ह्यरुणस्यास्य कल्पपुण्यदुरासदम् ।। ५२ ।।
।। सूत उवाच ।। ।।
इति विधिमुखनिःसृतामुदारामरुणगिरीशकथासुधापगां हि ।।
श्रुतिपुटयुगलात्पिबन्मनोज्ञां सनकमुनिस्तपसां फलं स लेभे ।। ५३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे शिवेनारुणाचलस्य सर्वश्रैष्ठ्यवरप्रदानवर्णनंनाम त्रयोदशोऽध्यायः ।। १३ ।।।छ।।
अरुणाचलमाहात्म्यस्य पूर्वार्द्धं संपूर्णम् ।। ।।
इत्यरुणाचलमाहात्म्यपूर्वार्धं समाप्तम् ।। ( ३।१) ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 1
।। श्रीगणेशाय नमः ।।
अथारुणाचलमाहात्म्योत्तरार्धम्
।। व्यास उवाच ।।
वसंतो नैमिषारण्ये मुनयः सूतमब्रुवन् ।।
।। मुनय ऊचुः ।। ।।
स्थानानामुत्तमं शैवं यत्स्थलं तद्वदस्व नः ।। १ ।।
सूत उवाच ।। ।।
यूयं शृणुत यत्पूर्वं नंदीश्वरमुखाच्छ्रुतम्।।
मार्कण्डेयेन तद्वक्ष्ये मुनयः शृणुतादरात्।।२।।
।।मार्कंडेय उवाच ।।
नंदीश्वर त्वया प्रोक्तो महिमा माध्यमेश्वरः।।
मयाप्यवधृतः सर्वो भक्तिश्रद्धार्द्रचेतसा ।।३।।
तथापि वद मे भूयो देवदेव दयानिधे।।
अहं यत्परिपृच्छामि भवंतं विहितादरः ।।४।।
त्वयाप्यविदितं किंचिन्नास्त्यत्र भुवनत्रये ।।
सर्वागमपुराणेषु बाह्येष्वाभ्यंतरेषु च ।।५।।
स्वर्गापवर्गयोः पुंसां भूमिरेव विशिष्यते ।।
सर्वकर्माणि निर्मातुं तत्तत्फलपरायणैः ।।६।।
फलं च त्रिविधं पुंसां त्वयैव कथितं पुरा ।।
भूमौ सुखं स्वर्गभोगः कैवल्यमिति भेदतः ।। ७ ।।
पुण्यक्षयेण क्षीयेत प्रायः प्राथमिकं द्वयम्।।
क्षीयते न तृतीयं तु कर्मणामेव नाश्रयात् ।। ८ ।।
तत्सिद्धिस्तु त्वया प्रोक्ता विशुद्धज्ञानगोचरा ।।
सर्वेषां दुर्लभं शुद्धज्ञानं देहभृतां पुनः ।।९।।
तज्ज्ञानं कुत्र वा क्षेत्रे शास्त्रादिपठनं विना ।।
शिवपूजनमात्रेण सिद्ध्येत्सर्वशरीरिणाम् ।। 1.3.2.1.१० ।।
ज्ञानयोगक्रियाचर्यास्वशेषाणां शरीरिणाम् ।।
अपि शैवागमोक्तासु न बुद्धिः संप्रवर्त्तते ।। ११ ।।
यस्य स्थानस्य माहात्म्यादल्पैरपि शरीरिणः ।।
लप्स्यते नियमैः शुद्धज्ञानं तन्मम कथ्यताम् ।। १२ ।।
भस्मरुद्राक्षवहनादीश्वरस्मरणात्सकृत् ।।
यत्र मुग्धैरपि श्रेयो लभ्यं तत्स्थानमुच्यताम् ।। १३ ।।
अबुद्धिपूर्वकेणापि यत्र वासेन देहिनाम् ।।
अविघ्नं सेत्स्यते श्रेयः स्थानं तन्मेऽनुगृह्यताम् ।। १४ ।।
जातानां वर्णसांकर्य्ये तैरश्ची योनिमीयुषाम् ।।
स्थावराणामपि श्रेयो यत्र तत्क्षेत्रमुच्यताम् ।।१५।।
इतीरयित्वा स मृकंडुनंदनः समं मुनींद्रैरपरैर्महात्मभिः।।
पपात तस्यांघ्रिसरोरुहद्वये शिलादसूनोरखिलागमाब्धेः ।। १६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे स्थानमाहात्म्यप्रस्ताववर्णनंनाम प्रथमोऽध्यायः ।।।१।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 2
नंदिकेश्वर उवाच ।। ।।
स्थानं त्वया मुने पृष्टमस्ति माहेश्वराग्रणि।।
चराचराणां सर्वेषां भूतानामपि शर्मणे ।। १ ।।
प्रकल्पितं हि देवेन तत्तत्कर्मानुगुण्यतः ।।
शरीरभाजां जननं तासुतास्वपि योनिषु ।। २ ।।
त्वया शुश्रुषितं तेषां हिताय महते ह्यलम् ।।
अन्यथा संसृतेर्हानिः कल्पकोटिशतैर्नहि ।। ३ ।।
स्वल्पैर्हि कर्मभिर्ज्ञानैरपि प्राप्ता पुनःपुनः ।।
घटीयंत्रनयाज्जन्ममरणे नैव शाम्यतः ।। ४ ।।
कथं नु विरतो देही गर्भमोकसमागमात् ।।
विश्रांतये प्रकल्पेत विशुद्धज्ञानतो विना ।। ५ ।।
प्रदेशाः कथिताः पूर्वं प्रसंगवशतो मया ।।
ऋषिभेदादिकं तेषु निवासः कृत्तिवाससः ।। ६ ।।
केचित्तीरेषु गंगायाः केचित्सारस्वते तटे ।।
कालिंदीतीरयोरन्ये कतिचिच्छोणरोधसि ।।७।।
अपरे नर्मदातीरे परे गोदावरीतटे ।।
कतिचिद्गोमतीतीरेष्वन्ये हैमवतीतटे ।।८।।
समुद्रपार्श्वेष्वितरं द्वीपेष्वन्ये सरस्वताम् ।।
मुखेषु केचित्सिंधूनां संभेदेष्वपि केचन ।।९।।
कृष्णवेणीतटे केचित्तुंगभद्रांतिके परे ।।
उपवेण्यां कतिपये परे शक्त्यापगांतिके ।। 1.3.2.2.१० ।।
कावेरीतीर इतरे केचिद्वेगवतीतटे ।।
अन्ये तु ताम्रपर्ण्याश्च कतिचिन्मुरलातटे ।। ११ ।।
केचिदैरावतीतीरे त्वितरे यातुकांक्षिके ।। १२ ।।
कन्यातटेषु कतिचित्कतिचित्कुमारीतीरे परे च तमसावरुणांतिकेन्ये ।।
मंदाकिनीसविधयोरितरे परेऽपि शिप्रातटे परिसरेषु परे सरय्वाः ।। १३ ।।
विपाशाभ्याश इतरे शतद्रुतितटे परे ।।
चर्मण्वत्युपकंठेऽन्ये केचिद्भीमरथीतटे ।। १४ ।।
केचिद्बिंदुसरोभ्यर्णे परे पंपासरस्तटे ।।
अभ्यर्णकेपि भैरव्याः कतिचित्कौशिकीतटे।। १५ ।।
अपरे मालिनीतीरे परे गंधवतीतटे ।।
कतिचिन्मानसोपांते केचिदच्छोदरोधसि ।। १६ ।।
इंद्रद्युम्नसरस्यन्य एके तु मणिकर्णिके ।।
परे तु वरदातीरे ताप्यां कतिचनापरे ।।
पातालगंगासविधे शरावत्यंतिके परे ।। १७ ।।
लोहित्याकूलयोः केचित्कतिचित्कालमातटे ।।
वितस्तोपांतिके त्वन्ये चंद्रभागांतिके परे ।। १८ ।।
सुरलोपांतिके केचित्पयोष्णीतीरयोः परे ।।
केचिन्मधुमतीतीरे केचनानु पिनाकिनीम् ।। १९ ।।
उक्तं वाराणसीक्षेत्रं क्रोशपंचकपावनम् ।।
देवस्तत्राविमुक्ताख्यो विशालाक्ष्या समर्चितः ।। 1.3.2.2.२० ।।
कपालमोचनं यत्र यत्रास्ते कालभैरवः ।।
मृतानां यत्र रुद्रत्वं काशीं विद्धि हि तां मुने ।। २१ ।।
गयाप्रयागावपि ते कथितौ सर्वसिद्धिदौ ।।
यत्र पिंडप्रदानेन तुष्यंति पितरः किल ।। २२ ।।
आकर्णितं च केदारं यस्मिन्महिषरूपधृक् ।।
देवोपि च हतो देव्या सर्वश्रेयस्करो नृणाम् ।। २३ ।।
सर्वसिद्धिकरं पुंसां क्षेत्रं बदरिकाश्रमम् ।।
यत्रास्ते त्र्यंबको देव्या नरनारायणार्चितः ।। २४ ।।
श्रुतं हि नैमिषं क्षेत्रं त्वया यत्र महेश्वरः ।।
देवदेवाभिधः पुण्यो देवी सारंगधारिणी ।। २५ ।।
अमरेशमिति स्थानं प्रोक्तं सर्वार्थसाधकम् ।।
ॐकारनामा तत्रेशश्चंडिकाख्या महेश्वरी ।। २६ ।।
पुष्कराख्यं महास्थानं श्रुतं ते कथितं मया ।।
यत्र देवो रुजोगंधिः पुरुहूता महेश्वरी ।। २७ ।।
आषाढीनाम ते स्थानं पावनं कथितं मया ।।
आषाढेशो हरस्तत्र रतीशा परमेश्वरी ।। २८ ।।
दंडिमुंडी समाख्यं च स्थानं ते कथितं मया ।।
यत्र मुंडी महादेवो दंडिका परमेश्वरी ।।२९।।
लाकुलंनाम ते स्थानं संशुद्धं कथितं मया ।।
लाकुलीशो हरो यस्मिन्ननंगा सर्वमंगला ।। 1.3.2.2.३० ।।
भारभूतिरिति स्थानं भवतोऽभिहितं मया ।।
यत्र भाराभिधः शंभुर्भूत्याख्या भूधरात्मजा ।। ३१ ।।
अरालकेश्वरं नाम स्थानं ते कथितं मया ।।
यत्र सूक्ष्माभिधः शूली सूक्ष्माख्या शैलनंदिनी ।। ३२ ।।
गयानाम महाक्षेत्रं तव प्रस्तावितं मया ।।
मंगलाख्या शिवा यत्र शंकरः प्रपितामहः ।। ३३ ।।
कुरुक्षेत्रमिति स्थानं भवते विनिवेदितम् ।।
यत्र स्थाणुप्रिया देवी देवः स्थाणुसमाह्वयः ।। ३४ ।।
उक्तं कनखलंनाम मया ते स्थानमुत्तमम् ।।
उग्रो यत्र पुरारातिरुग्रा गिरिवरात्मजा ।। ३५ ।।
तालकाख्यं महाक्षेत्रं मार्कंडेय मयोदितम् ।।
देवी स्वायंभुवी यत्र स्वयंभूः परमेश्वरः ।। ३६ ।।
अट्टहासमिति प्रोक्तं महास्थानं मया तव ।।
यत्रार्कः पूजयित्वेशमासीत्पूर्णमनोरथः ।। ।। ३७ ।।
कृत्तिवासाभिधं क्षेत्रमुक्तं ते वेदवित्तम ।।
यः कैलासादपि श्लाघ्यो निवासः कृत्तिवाससः ।। ३८ ।।
भ्रमरांबिकया देव्या महेशो मल्लिकार्जुनः ।।
श्रीशैले सृष्टिसिद्धयर्थं पूजितः परमेष्ठिना ।। ३९ ।।
सुवर्णमुखरीतीरे कालहस्तीति शंकरः ।।
व्यासेनाराधितो भृंगमुखरालकयांबया ।। 1.3.2.2.४० ।।
कांच्यामेकाम्रमूलस्थः कामाक्ष्या कामशासनः ।।
तपस्यंत्याभिसंश्लिष्टो वलयेनांकितोऽभवत् ।। ४१ ।।
अस्ति व्याघ्रपुरंनाम तिल्लिकाननमध्यगम् ।।
यत्र नृत्यंतमीशानं पर्युपास्ते पतंजलिः ।। ४२ ।।
श्वेतारण्यमिति स्थानमुक्तं तव मया पुरा ।।
भग्नमैरावतो दंतं भेजे यत्र शिवार्चनात् ।। ४३ ।।
सेतुबंधमिति स्थानमवोचं तत्र राघवः ।।
रामनाथाख्यया देवमंहोघ्नं प्रत्यतिष्ठिपत् ।। ४४ ।।
गतप्रत्याह्वय स्थानं विद्यते वृषभध्वजः ।।
यत्र जंबूतरोर्मूले जगद्रक्षार्थमाश्रितः ।। ४५ ।।
मणिमुक्तानदीमन्वक्क्षेत्रे वृद्धाचलाह्वये ।।
नित्यं सन्निहितो देव इत्याकर्णित एव ते ।। ४६ ।।
श्रीमन्मध्यार्जुनंनाम श्रुतं स्थानमनुत्तमम् ।।
यस्मिन्वरप्रदो नित्यं गौरीसहचरो हरः ।। ४७ ।।
आस्थितं सोमनाथेन सोमतीर्थं त्वया श्रुतम् ।।
यत्र त्यक्तवतां देहं न भूयो भवबंधनम् ।।४८।।
आकर्णितं हि भवता क्षेत्रं सिद्धवटाह्वयम् ।।
यत्र सिद्धाः समर्चंति ज्योतिर्लिंगमनुत्तमम् ।। ४९ ।।
अश्रावि खलु ते क्षेत्रं कमलालयसंज्ञकम् ।।
वल्मीकेशार्चनाल्लेभे यत्र श्रीर्जीविता हरेः ।। 1.3.2.2.५० ।।
श्रुतवानसि कंकाद्रिं यत्र संनिहितो हरः ।।
इदानीमप्युपासाते मोक्षाय ब्रह्मकेशवौ ।।५१।।
श्रीमद्द्रोणपुरं वेत्सि यस्मिन्कलियुगक्षये ।।
नौकामारूढवानब्धौ क्षुभिते पार्वतीपतिः ।। ५२ ।।
श्रुतं ब्रह्मपुरंनाम क्षेत्रं यत्रेंद्रजित्पुरा ।।
आर्यपुष्करिणीतीरे स्थापयामास धूर्जटिम् ।। ५३ ।।
श्रीकोटिकाख्यं ज्ञानाभिक्षेत्रं यत्रेंदुशेखरः ।।
समाराधयतां पुंसां पापकोटीर्व्यपोहति ।। ५४ ।।
आकर्णितं च गोकर्णं शिवं यत्संनिधानतः ।।
आरिराधयिषुः स्वर्गं जामदग्न्यो न कांक्षति ।। ५५ ।।
त्रिपुरांतकमुक्तं ते क्षेत्रं यत्र त्रियंबकः ।।
निराकरोति निरयाद्भयं दृष्टवतां नृणाम् ।। ५६ ।।
उक्तं कालांजनं क्षेत्रं यद्वासी कालकंधरः ।।
निर्वापयति भक्तानां घोरसंसारसंज्वरम् ।। ५७ ।।
प्रियालवणमाख्यातं क्षेत्रं यत्रांबिकापतिः ।।
पयोर्थिने पयःसिंधुं विततारोपमन्यवे ।। ५८ ।।
क्षेत्रं प्रभासमुक्तं ते यत्र खंडेंदुशेखरः ।।
पूजितः शौरिसीरिभ्यां दत्तवानक्षयं फलम् ।। ५९ ।।
वेदारण्यं विजानीषे यस्मिन्प्रमथनायकः।।
अभ्यर्थितोऽभून्मोक्षार्थं दक्षेण प्राक्कृतागसा ।। 1.3.2.2.६० ।।
हेमकूटं त्वमश्रौषीः स्थानं विषमचक्षुषः ।।
पुंसां तपस्यतां यत्र पुनर्जननतो न भीः ।। ६१ ।।
क्षेत्रं वेणुवनंनाम विद्यते पापनाशनम् ।।
यत्र वंशलतागर्भाज्जातो मुक्तामणिः शिवा ।। ६२ ।।
जालंधरमिति स्थानमंधकारेस्त्वया श्रुतम् ।।
लेभे गणपतां तत्र तपस्याभिर्जलंधरः ।। ६३ ।।
ज्वालामुखमिति स्थानमज्ञासीः कथितं मया ।।
यत्र ज्वालामुखी देवी कालरुद्रमपूजयत् ।। ६४ ।।
अस्ति भद्रवटोनाम क्षेत्रमुक्तं श्रुतं त्वया ।।
त्र्यंबकं यत्र हेरंबः संपदे पर्यपूजयत् ।। ६५ ।।
न्यग्रोधारण्यमुक्तं ते यत्रोग्रो निर्ममे किल ।।
उच्चंडतांडवं काल्या साकं संघर्षमेयिवान् ।। ६६ ।।
गंधमादनसंज्ञं तत्क्षेत्रमाकर्णितं त्वया ।।
आंजनेयेन रचितं यत्र मृत्युंजयार्चनम् ।। ६७ ।।
गोपर्वतमिति स्थानं शंभोः प्रख्यापितं मया ।।
यत्र पाणिनिना लेभे वैयाकरणिकाग्र्यता ।। ६८ ।।
वीरकोष्ठमिति क्षेत्रस्थानं नन्ववधारितम् ।।
यत्र प्रचेतसा लेभे तपसा कविमुख्यता ।। ६९ ।।
महातीर्थमिति प्रोक्तं जानीषे यत्र शंभुना ।।
अध्यापितास्सुपर्वाणः सर्वेऽपि द्रुहिणादयः ।। 1.3.2.2.७० ।।
मयूरपुरमुक्तं ते क्षेत्रं माहेश्वरं मया ।।
लेभे यत्र व्रतस्थेन ह्रादिनी वज्रपाणिना ।। ७१ ।।
श्रीसुंदरमिति क्षेत्रमुक्तं वेगवती तटे ।।
कलावपि युगे यस्मिन्देवदेवेन दीप्यते ।। ७२ ।।
कुंभकोणमिति स्थानं शंभोर्वेत्सि हि यत्र सा ।।
गंगापि माघे सान्निध्यं कुरुते स्वाघशांतये ।। ७३ ।।
अनुगोदावरीतीरं त्र्यंबकंनाम ते श्रुतम् ।।
शक्तिं यत्र गुहो लेभे तारकासुरघातिनीम् ।। ७४ ।।
श्रीपाटलं व्याघ्रपुरमाख्यातं वेदवित्तम ।।
त्रिशंकुना जातिशुद्ध्यै यत्र गंगाधरोर्चितः ।। ७५ ।।
क्षेत्रं कदंबपुर्य्याख्यं भवता चावधारितम् ।।
त्वत्कृते यत्र शूलेन कृतांतं शम्भुरक्षिणोत् ।। ।। ७६ ।।
अविनाशाख्यमुक्तं ते क्षेत्रं यत्र वृषध्वजः ।।
सान्निध्यं पडिकण्ठाय विततार प्रसेदिवान् ।। ७७ ।।
रक्तैकाननमाख्यातं मया क्षेत्रं तवानघ ।।
मित्रावरुणयोर्यत्र रुद्रोऽजनि वरप्रदः ।। ७८ ।।
श्रीहाटकेश्वरं क्षेत्रं पातालस्थं त्वया श्रुतम् ।।
यत्र वैरोचनिर्देवं स्वपदप्राप्तयेर्चति ।। ७९ ।।
वेत्सि शंभोः प्रियावासं कैलासं नित्यसेवकः ।।
यत्र यक्षेश्वरस्त्र्यक्षमयर्चयति भक्तितः ।। 1.3.2.2.८० ।।
स्थानानि खंडपरशोरित्युक्तानि मया पुरा ।।
त्वयाप्यवधृतान्येव किं भूयः श्रोतुमिच्छसि ।। ८१ ।।
इत्यूचिवानेष शिलादनंदनो मुनेर्मृकण्डोस्तनयं मुनीश्वरम् ।।
भक्त्या नमंतं पदयोः करेण पस्पर्श मौलौ करुणारसार्द्रः ।। ८२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे महीमण्डलस्थविविधशिवक्षेत्रवर्णनंनाम द्वितीयोऽध्यायः ।। २ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 3
।। मार्कंडेय उवाच ।। ।।
भगवन्वंचनेनालं त्वदेकप्रवणे मयि ।।
किं मादृशोऽस्ति ते शिष्यस्त्वत्कृपैवात्र साक्षिणी ।। १ ।।
स्थानेषु प्राक्त्वदुक्तेषु फलानि च पृथक्पृथक् ।।
यत्र सर्वफलप्राप्तिः स्थानं तद्वद मे विभो ।। २ ।।
चराचराणां भूतानां जानतामप्यजानताम् ।।
यस्य स्मरणमात्रेण मुक्तिस्तद्वद देशिक ।। ३ ।।
पश्यैतेन मयैकेन भगवान्नानुराध्यसे ।।
सर्वैरप्येतदर्थं हि मुनिभिः परिवार्यसे ।। ४ ।।
पुलहेन पुलस्त्येन वशिष्ठेन मरीचिना ।।
अगस्त्येन दधीचेन नक्रुणा भृगुणात्रिणा ।। ५ ।।
जाबालिना जैमिनिना धौम्येन जमदग्निना ।।
उपयाजेन याजेन भरतेनार्वरीवता ।। ६ ।।
पिप्पलादेन कण्ठेन कुमुदेनोपमन्युना ।।
कुमुदाक्षेण कुत्सेन वत्सेन वरतंतुना ।। ७ ।।
विभांडकेन व्यासेन कण्वरीषेण कंडुना ।।
मांडव्येन मतंगेन कुक्षिणा मांडकर्णिना ।। ८ ।।
चंडकौशिकशांडिल्यशाकटायनकौशिकैः ।।
शातातपमधुच्छन्दोगर्गसौभरिरोमशैः ।। ९ ।।
आपस्तंबपृथुस्तंबभार्गवोदंकपर्वतैः ।।
भारद्वाजेन दाल्भ्येन दांतेन श्वेतकेतुना ।। 1.3.2.3.१० ।।
कौंडिन्यपुण्डरीकाभ्यां रैभ्येण तृणबिन्दुना ।।
वाल्मीकिना नारदेन वह्निना दृढमन्युना ।। ११ ।।
बोधायनसुबोधाभ्यां हारीतेन मृकण्डुना ।।
दुर्वाससातितीक्ष्णेन जालपादेन शक्तिना ।। १२ ।।
कांक्वार्येण नदन्तेन देवदत्तेन न्यंकुना ।।
सुश्रुता चाग्निवेश्येन गालवेन मरुत्वता ।। १३ ।।
लोकाक्षिणा विश्रवसा सैंधवेन सुमंतुना ।।
शिशुपायनमौद्गल्यपथ्यचावनमातुरैः ।। १४ ।।
ऋष्यशृङ्गैकपात्क्रौंचदृढगोमुखदेवलैः ।।
अंगिरोवामदेवौर्वपतंजलिकपिंजलैः ।। १५ ।।
सनत्कुमारसनकसनंदनसनातनैः ।।
हिरण्यनाभसत्याख्यवाताशनसुहोतृभिः ।। १६ ।।
मैत्रेयपुष्पजित्सत्यतपःशालीष्यशैशिरैः ।।
निदाघोतथ्यसंवर्त्तशौल्कायनिपराशरैः ।। १७ ।।
वैशंपायनकौशल्यशारद्वतकपिध्वजैः ।।
कुशस्वार्चिककैवल्ययाज्ञवल्क्याश्वलायनैः ।। १८ ।।
कृष्णातपोत्तमानंतकरुणामलकप्रियैः ।।
चरकेण पवित्रेण कपिलेन कणाशिना ।। १९ ।।
नरनारायणाभ्यां च दिव्यैश्चान्यैर्महर्षिभिः ।।
मत्प्रश्नोत्तरशुश्रूषातत्परैः प्रत्यवेक्ष्यसे ।। 1.3.2.3.२० ।।
माहेश्वराग्रगण्यस्त्वं समस्तागमपारगः ।।
व्याप्तश्च सर्वलोकेषु यस्मात्तदनुसाधि नः ।। २१ ।।
त्वन्मुखादेव भगवन्वयमेते सुशिक्षिताः ।।
पूर्वमेव त्वया देव किं वान्यदुपपद्यते ।। २२ ।।
दिव्यागमपुराणानि द्रष्टव्यः परमेश्वरः ।।
कात्यायनी वा स्कन्दो वा भगवान्वाथ वा भवान् ।। २३ ।।
त्वयि यद्यस्ति नो भक्तिर्दया चास्मासु ते यदि ।।
रहस्यमिदमुद्घाट्य प्रसादं कर्तुमर्हसि ।। २४ ।।
इत्थं मृकण्डुतनयेन स नंदिकेशो विज्ञापितः सविनयं स्मयमानवक्त्रम् ।।
तं प्राह चोन्नततरं शिवभक्तिमस्तु प्राग्भक्तितोषितशिवाप्तशरीरसिद्धिम् ।। २५ ।।
।। इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धेऽरुणाचलाख्यरहस्यस्थानप्रश्नवर्णनंनाम तृतीयोऽध्यायः ।। ३ ।। ।। ।। छ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 4
।। नंदिकेश्वर उवाच ।। ।।
मुने मनःपरीक्षार्थं तथा त्वं भाषितो मया ।।
तव चेन्नाभिधास्यामि कस्य वान्यस्य कथ्यते ।। १ ।।
त्वादृगन्योस्ति किं लोके शिवधर्मपरायणः ।।
येन स्वल्पायुषाप्येवं नित्येनाभावि भक्तितः ।। २ ।।
कस्यान्यस्य कृते देवः स्वस्यैवाज्ञाकरं यमम् ।।
क्रुद्धो नियंत्रयामास चरणांगुष्ठपीडितम् ।। ३ ।।
त्वमेव शांकरान्धर्मान्सर्वान्विद्धि रहस्यतः ।।
योग्रेऽसि कालवद्भ्रांतः परिपक्वोसि चेतसा ।। ४ ।।
त्वयैवान्येन केनाहमेवं शुश्रूषितश्चिरम् ।।
त्वयीव कस्मिन्नन्यस्मिन्ममापि प्रीतिरीदृशी ।। ५ ।।
उपदेक्ष्यामि ते क्षेत्रं गुप्तं तद्धर्मशासनैः ।।
भक्त्यावधारणीयं यद्भक्तिकैवल्यकांक्षिभिः ।। ६ ।।
आदरादनुयुंजानं शिष्यं यो देशिकः स्वयम् ।।
उपदेशेन संतुष्टं न करोति स किं गुरुः ।। ७ ।।
समाहितमना भूत्वा विश्वासं कुरु शाश्वतम् ।।
मयोपदिश्यमानेऽस्मिन्रहस्ये पारमेश्वरे ।। ८ ।।
स्मर स्मरांतकं देवं वंदस्वाध्याय शांकरीम् ।।
उपांशूच्चारयोंकारं श्रेयस्ते महदागतम् ।। ९ ।।
अस्ति दक्षिणदिग्भागे द्राविडेषु तपोधन ।।
अरुणाख्यं महाक्षेत्रं तरुणेंदुशिखामणेः ।। 1.3.2.4.१० ।।
योजनत्रयविस्तीणमुपास्यं शिवयोगिभिः ।।
तद्भूमेर्हृदयं विद्धि शिवस्य हृदयंगमम् ।। ११ ।।
तत्र देवः स्वयं शम्भुः पर्वताकारतां गतः ।।
अरुणाचलसंज्ञावानस्ति लोकहितावहः ।। १२ ।।
आवासः सर्वसिद्धानां महर्षीणां सुपर्वणाम् ।।
विद्याधराणां यक्षाणां गंधर्वाप्सरसामपि ।। १३ ।।
सुमेरोरपि कैलासादप्यसौ मन्दरादपि ।।
माननीयो महर्षीणां यः स्वयं परमेश्वरः ।। १४ ।।
स्पृहयंति यदीयेभ्यो जंतुभ्योपि दिवौकसः ।।
अयत्नलभ्यमुक्तिभ्यो दिवावासप्रवंचिताः ।। १५ ।।
न कल्पवृक्षाः सदृशा यत्रत्यानां महीरुहाम् ।।
पत्रपुष्पफलैर्नित्यं येर्चयंति गिरौ हरम् ।। १६ ।।
हिंसैकरुचयो व्याधा अपि रूपानुसारतः ।।
अनंता यत्र देवस्य प्रादक्षिण्यफलास्पदम्।। १७ ।।
यदुद्देशचरा मेघाः शिखराण्यभिबंधकाः ।।
गंगावतो हिमवतोऽप्यधिकं स्वं विजानते ।। १८ ।।
कलारावाः खगा यत्र क्वणंते कीचका अपि ।।
यक्षकिंनरगन्धर्वैलभ्यते दुर्लभं पदम् ।। १९ ।।
स्मरन्तो यत्र खद्योताः कृष्णपक्षे निशागमे ।।
आरार्तिकप्रदातॄणां देवस्याश्नुवते पदम् ।।1.3.2.4.२०।।
निष्प्रत्यूहकृताश्लेषा नित्यं यत्तटिनीरुहाः ।।
सौभीग्यगर्वतो देवीमपर्णामवमन्वते ।।२१।।
यस्योत्तुंगस्य शृंगाग्रसंगमा अपि तारकाः ।।
आत्मनो लब्धसामान्याश्चन्द्रेण बहु मन्वते ।। २२ ।।
मृगाः सर्वेपि सततं चरंतो यत्र सानुषु ।।
पाणिप्रणयिनं शम्भोरेणमप्यवजानते ।। २३ ।।
यस्य पादांतिकचरैः प्रायेण शबरैरपि ।।
निकुम्भकुम्भसादृश्यमयत्नादुपलभ्यते ।। २४ ।।
किं बहूक्त्याभ्यसूयंते द्वैमातुरकुमारयोः ।।
यदंगरूढास्तरवस्तिर्यंचः शबरा अपि ।। २५ ।।
सिंहव्याघ्रद्विपा यस्मिन्काले त्यक्तकलेवराः ।।
वासप्रदत्वान्मान्यंते ध्रुवं शोणाद्रिशम्भुना ।। २६ ।।
अस्य भास्करनामाद्रिः पूर्वस्यां दिशि दृश्यते ।।
यत्र स्थितः सदा वज्री सेवते शोणपर्वतम् ।।२७।।
प्रतीच्यां दिशि दंडाद्रिरिति कश्चिन्महीधरः ।।
प्राचेतसस्तदगगः सेवतेऽरुणपर्वतम् ।। २८ ।।
दक्षिणस्यां च शोणाद्रेरद्रिरस्त्यमराचलः ।।
कालः शोणाद्रिसेवार्थमध्यास्ते तदधित्यकाम् ।।२९।।
उत्तरेऽस्मिन्हरिद्भागे सिद्धाध्यासितकन्दरः ।।
विराजते त्रिशूलाद्रिः श्रीदेन परिपालितः ।। 1.3.2.4.३० ।।
तत्पर्यंतप्रभूतानामन्येषामपि भूभृताम् ।।
तटकेष्वपरे चैव दिक्पालाः पर्युपासते ।। ३१ ।।
धारिता येन सततं सर्वेपि धरणीरुहाः ।।
आराधनादप्यधिकमधिगच्छंति वैभवम् ।। ३२ ।।
यस्मिन्गिरीशे संदृष्टे मेनातुहिनभूभृतोः ।।
समानसंबंधतया प्रमोदो वर्द्धतेतराम् ।। ३३ ।।
तरुपल्लवलक्षेण लक्ष्यमाणजटाधरः ।।
स्थावरोयं स्वयं शम्भुरिहेश इव जंगमः ।। ३४ ।।
ज्योतिष्मत्तोयशृंगस्य द्विपार्श्वस्थेन्दुभास्करः ।।
व्यनक्ति स्वस्य लोकेभ्यस्तेजस्त्रितयनेत्रताम् ।। ३५ ।।
वर्षासु शिखराधस्तादभिनीलबलाहकः ।।
विराजते यः कण्ठेन कालकूटमिवोद्वहन् ।। ३६ ।।
सहस्रपादः साहस्रशीर्षो यः पर्वतेश्वरः ।।
उक्तो न केवलं श्रुत्या साक्षादप्युपलक्ष्यते ।। ३७ ।।
शिरोलीनामरसरित्स्रोताः प्रागिति नाद्भुतम् ।।
गिरीशोऽद्यापि यः शृंगलीनानेकसरिद्गणः ।। ३८ ।।
आसादितापकटकः शारदैर्यः पयोधरैः ।।
विडंबयति गोश्रेष्ठमारूढवृषपुंगवम् ।। ३९ ।।
यत्र शृङ्गाग्रसंलग्रसंलग्ननीललोहितः ।।
स्थाणुत्वं स्थावरत्वेन गहनत्वेन भीमताम् ।। 1.3.2.4.४० ।।
सुदुर्गमत्वादुग्रत्वमपि धत्ते न नामतः ।।
क्षुद्राः सरीसृपा यत्र कटकेषु कृतास्पदाः ।। ४१ ।।
तक्षकानंतसर्पाद्यैः स्पर्धन्ते भुजगेश्वरैः ।।
अष्टाभिर्योऽभितः कोणैराविभूर्तो विभूतिभिः ।। ४२ ।।
सुस्पष्टं विशिनष्टीव स्वकीयामष्टमूर्तिताम् ।।
येर्ण्याशक्तितरंगिण्यो इडापिंगलयोः स्वयम् ।। ४३ ।।
शिवस्य शृङ्गतो मध्ये सुषुम्ना कमलापगा ।।
ज्योतिःस्तंभस्वरूपस्य मूलाग्रे यस्य वीक्षतुम् ।। ४४ ।।
कोलहंसाकृती नालं ब्रह्मविष्णू बभूवतुः ।।
ताभ्यां च प्रार्थितः शम्भुस्तस्मिन्सांनिध्यवानभूत् ।। ४५ ।।
अरुणाचलनाथाख्यं प्रपन्नः प्रमदैः समम् ।।
गौतमस्तत्र योगींद्रः सहस्रं परिवत्सरान् ।। ४६ ।।
तप्त्वा तपांसि तीव्राणि साक्षाच्चक्रे सदाशिवम् ।।
प्रालेयशैलकन्यापि तत्र कृत्वा तपः पुरा ।। ४७ ।।
अलब्ध वामदेहार्द्धं मन्मथारेः प्रसेदुषः ।।
गौर्या प्रतिष्ठितं तत्र प्रवालाद्रीश्वराभिधम् ।। ४८ ।।
लिंगं भोगप्रदं पुंसां कैवल्याय प्रकल्पते ।।
तत्र गौरीनिदेशेन दुर्गा महिषमर्दिनी ।। ४९ ।।
साक्षाद्भूय सतां दत्ते मन्त्रसिद्धिमविघ्नतः ।।
खड्गतीर्थमिति ख्यातं तत्र गौर्याश्रमे नवम् ।। 1.3.2.4.५० ।।
सकृन्निमज्जनान्नॄणां पंचपातकनाशनम् ।।
दुर्गया चार्चितं लिंगं पापनाशननामकम् ।। ५१ ।।
सकृत्प्रणाममात्रेण सर्वपापप्रणाशनम् ।।
तत्र वज्रांगदो राजा वित्तसारो व्यतिक्रमात् ।। ५२ ।।
पुनस्तद्भक्तिमाहात्म्याच्छिवसायुज्यमाप्तवान् ।।
तस्य प्रदक्षिणेनैव कांतिशालिकलाधरौ ।। ५३ ।।
विद्याधरेश्वरौ मुक्तौ दुर्वासःशापबन्धनात् ।।
नास्ति शोणाद्रितः क्षेत्रं नास्ति पंचाक्षरान्मनुः ।। ५४ ।।
नास्ति माहेश्वराद्धर्मो नास्ति देवो महेश्वरात् ।।
नास्ति ज्ञानं शिवज्ञानान्नास्ति श्रीरुद्रतः श्रुतिः ।।५५ ।।
नास्ति शैवाग्रणीर्विष्णोर्नास्ति रक्षा विभूतितः ।।
नास्ति भक्तेः सदाचारो नास्ति रक्षाकराद्गुरुः ।। ५६ ।।
नास्ति रुद्राक्षतो भूषा नास्ति शास्त्रं शिवागमात् ।।
नास्ति बिल्वदलात्पत्रं नास्ति पुष्पं सुवर्णकात्।।५७।।
नास्ति वैराग्यतः सौख्यं नास्ति मुक्तेः परं पदम् ।।
नारुणाद्रेः समो मेरुर्न कैलासो न मंदरः ।। ५८ ।।
ते निवासा गिरिव्याप्ताः सोऽयं तु गिरिशः स्वयम् ।। ५९ ।।
इति वदति शिलादनंदने मुदितमनाः स मृकण्डुनंदनः ।।
पुनरपि बहुशः प्रणम्य तं चकितमना भवतो व्यजिज्ञपत् ।। ।। 1.3.2.4.६० ।।
किं किं नृणां कर्म भवाय जायते कथं नु तत्तन्नरकाय श्रूयते ।।
तेषां च तेषां च कथं प्रतिक्रिया कथं नु तत्तन्मम कथ्यतामिति ।। ६१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उतरार्धेऽरुणाचलस्थानमाहात्म्यवर्णनंनाम चतुर्थोऽध्यायः ।। ४ ।। ।। छ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 5
।। नंदिकेश्वर उवाच ।। ।।
शुद्धसत्त्वगुणोपेतो लोकेऽस्मिन्दुर्लभः पुमान् ।।
रजस्तमोगुणोपेता भवंति सुलभा नराः ।। १ ।।
सात्त्विकः पुण्यशीलत्वान्निःश्रेयसमवाप्नुयात् ।।
वैचित्र्यात्कर्मणामेषामनुभोगाय वेधसा ।। २ ।।
वैचित्र्याण्येव सृष्टानि नरकाण्यत्र तत्र च ।।
महारौरवभाग्भूत्वा खरः श्वा शूकरोऽपि वा ।। ३ ।।
चंडालो वा भवेत्प्रेत्य पुरुषो ब्रह्महत्यया ।।
चिरं रौरवसंरुद्धः कृमिकीटपतंगताम् ।।।। ४ ।।
प्राप्नुयात्कर्मकर्तृत्वं सुरापानेन च द्विजः ।।
ब्रह्मस्वहरणाद्ब्रह्मराक्षसत्वमवाप्नुयात् ।। ५ ।।
यद्यत्तु चोरयेत्तत्तच्छून्यं स्यादन्यजन्मनि ।।
असिपत्रवने पीडामवाप्य सुचिरं पुनः ।। ६ ।।
नपुंसकत्वं संगच्छेत्पुरुषो गुरुतल्पगः ।।
तप्तैः कालायसैर्दंडैः पीडितो यमकिंकरैः ।। ७ ।।
नरके कालसूत्राख्ये निवसेत्परदारगः ।।
अग्निदो निवसेद्घोरे सुघोरे गरदायकः ।। ८ ।।
महाघोरे च पिशुनोऽवीच्यां धर्मविनिंदकः ।।
वसेत्कराले मित्रध्रुग्भीमे हिंसैकतत्परः ।। ९ ।।
संहारे छन्नपापिष्ठो मृषावादी भयानके ।।
असिघोरे वसेद्वापि कूपक्षेत्रनरादिहृत् ।। 1.3.2.5.१० ।।
वज्रे परद्रोहरतो मांसाशी तरले द्विज ।।
तीक्ष्णे मातृपितृद्रोही तापने जपदूषकः ।। ११ ।।
अश्वघ्नोपि निरुच्छ्वासे वसेद्गोघ्नश्च दारुणे ।।
भ्रूणहा निवसेच्चंडे स्त्रीहत्याकृत्कुकूलके ।। १२ ।।
देवस्वहारी दहने घोरघोरे परस्वहृत् ।।
कृतांतदूता नरके सर्वानेव हि पापिनः ।। १३ ।।
बध्नंति पाशैर्निघ्नंति दंडैर्विध्यंति शंकुभिः ।।
तीक्ष्णायश्चंचवः कंकाः क्रूरदंष्ट्रा महोरगाः ।। १४ ।।
कालेयकाश्च व्याघ्राश्च हिंस्राश्चान्ये दशंत्यमून् ।।
शकलीकुर्वते शस्त्रैर्दहंतिदेहमेव च ।। १५ ।।
खनंति गहने श्वभ्रे कशाभिस्ताडयंति च ।।
तैलद्रोण्यां विपच्यंते तुद्यंते सूक्ष्मसूचिभिः ।। १६ ।।
बाह्यन्ते दुर्वहान्भारान्यमदूतैर्हि पापिनः ।।
ब्रह्महा क्षयरोगी स्यत्सुरापः श्यावदंतकः ।। १७ ।।
स्वर्णापहारी कुनखी दुश्चर्मा गुरुतल्पगः ।।
अपस्मारी गुरुद्रोही चंडालो वेददूषकः ।। १८ ।।
कूटसाक्षी चाक्षिरोगी मंदाग्निश्चाग्रभोजनः ।।
विद्यापहारी मूकः स्यादंधः पुस्तकचोरकः ।। १९ ।।
परदाररतः पंगु बधिरः परनिंदकः ।।
विड्वराहो निराचारो जिह्वारोगी च तस्करः ।। 1.3.2.5.२० ।।
अभ्यागतातिथित्यागी कपोलकंटको भवेत् ।।
पर्वसु स्त्रीरतो मेही पूत्यास्योऽभक्ष्यभक्षकः ।। २१ ।।
मर्यादाभेदको दासस्तटाकारामहृत्खरः ।।
प्रतिश्रुताप्रदाता स्यादल्पायुः श्वा विकत्थनः ।। २२ ।।
विष्णुद्रोही च सरठः शिवद्रोही च मूषकः ।।
एवं पापफलं ज्ञात्वा प्रायश्चित्तं समाचरेत् ।। २३ ।।
तच्चास्मिन्नरुणक्षेत्रे कर्तव्यः सम्यगास्तिकैः ।। २४ ।।
इति निशम्य स दुष्कृतकारिणां बहुविधां नरकेषु नृणां व्यथाम् ।।
चरणयोः पतितश्च तदा पुनःपुनरयाचत तच्छमनक्रियाम्।। २५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे कर्मविपाकवर्णनं नाम पंचमोध्यायः ।। ५ ।। ।। छ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 6
।। नंदिकेश्वर उवाच ।। ।।
विस्तरात्कथयाम्यद्य प्रायश्चित्तं महांहसाम् ।।
सर्वेषामवधत्स्व त्वमवलंब्यास्तिकीं धियम् ।। १ ।।
ब्रह्महा प्राप्य शोणाद्रिं निमग्नः खड्गतीर्थके ।।
जपन्पंचाक्षरं मंत्रं भस्मरुद्राक्षधारकः ।। २ ।।
कृतोपवासः संपूज्य प्रयतः परमेश्वरम् ।।
ब्राह्मणान्भोजयेद्वर्षं भिक्षाशी नियतेंद्रियः ।। ३ ।।
विशेषपूजाशुश्रूषां कुर्याद्देवस्य भक्तितः ।।
ब्रह्महत्या विनिर्मुक्तो ब्रह्मलोके महीयते ।। ४ ।।
सुरापोऽप्यरुणक्षेत्रे वर्षमेकं वसन्प्रति ।।
प्राग्वत्कृतसमाचारः संपूज्यैवं महेश्वरम् ।। ५ ।।
क्षीरेण स्नापयेद्देवं शतरुद्रीयमुच्चरन् ।।
सुरापानोद्भवेनाशु पापेन परिमुच्यते ।। ६ ।।
सुवर्णस्तेयकृच्छोणक्षेत्रे बिल्वदलैर्हरम् ।।
अभ्यर्च्य भोजयेद्विप्रान्पापान्मुच्येत दुष्करात् ।। ७ ।।
गुरुदाररतिर्गत्वा कृत्तिकास्वरुणाचलम् ।।
यथापूर्वं व्रती भूत्वा सहस्रेण प्रदीपकैः ।। ८ ।।
मासत्रयं समाराध्य श्रीशोणाचलशंकरम् ।।
प्रदद्याद्भूषितां कन्यां ब्राह्मणाय सुधीमते ।। ९ ।।
षडक्षरं जपेन्नित्यं तेन मुच्येत पाप्मना ।।
शिवलोके च निवसेदासंसारं न संशयः ।। 1.3.2.6.१० ।।
परदारापहर्त्ता च क्षेत्रेस्मिन्नियतेंद्रियः ।।
मासमेकं नवैः पुष्पैरभ्यर्च्यारुणशंकरम् ।। ११ ।।
माहेश्वराय वितरेद्धनं शक्त्यानुगुण्यतः ।।
तत्क्षणेन विनिर्मुक्तस्तस्मात्पापाद्भविष्यति ।। १२ ।।
गरदोऽप्यरुणक्षेत्रे व्रती भूत्वा यथापुरा ।।
क्षीरोपहारं देवाय दत्त्वा दोषेण मुच्यते ।। ।। १३ ।।
पिशुनोऽप्यरुणक्षेत्रे व्रती वेदरतो नरः ।।
अध्यापयेद्द्विजान्मुख्यांस्ततो निष्कल्मषो भवेत् ।। १४ ।।
अग्निदोऽप्यरुणक्षेत्रे त्रीन्मासान्पूर्ववद्व्रती ।।
दद्याच्छैवाय निर्माय्य गृहं तत्पापशांतये ।। १५ ।।
धर्मनिंदाकरः शोणक्षेत्रे वर्षं व्रती वसन् ।।
सत्रादिकं प्रकुर्वीत यथाशक्त्यघशांतये ।। १६ ।।
पितृद्रोह्यरुणक्षेत्रे तिष्ठन्मासमतंद्रितः ।।
गिरीशाय द्विजेभ्योपि प्रदद्याद्गाः सहस्रशः ।। १७ ।।
ग्रहोपरागकालेषु भोजयित्वा द्विजान्बहून्।।
विमुंचेद्वृषभं नीलं विमुच्येत ततोंऽहसः ।। १८ ।।
स्त्रीघ्नश्चापि शिशुघ्नोऽपि शोणक्षेत्रमुपेयिवान् ।।
व्यतीपाते तिलान्दद्याद्द्विजभ्यो दुरितच्छिदे ।। १९ ।।
प्रच्छन्नपापकृच्छोणक्षेत्रेऽस्मिन्नियतेंद्रियः ।।
गुप्तदानानि कुर्वीत भवेद्वै गतकल्मषः ।। 1.3.2.6.२० ।।
मृषाभाष्यरुणक्षेत्रे षण्मासान्निवसन्व्रती ।।
शोणाचलेश्वरस्तोत्रपाठेन स्यादकल्मषः ।। २१ ।।
कूपादिभेदकृच्छोणक्षेत्रमासाद्य भक्तितः ।।
तटाकान्खानयेत्तत्र ध्रुवं निर्वृजिनो भवेत् ।। २२ ।।
क्षेत्रापहारी देवाय क्षेत्रं दद्यान्महाफलम् ।।
आरामकंटकोप्यस्मै दद्यादुद्यानमुत्तमम् ।। २३ ।।
गृहापहारी कुर्वीत देवस्यायतनं नवम् ।।
अंहसा तेन निर्मुक्तः शिवसायुज्यमाप्नुयात् ।। २४ ।।
परद्रोही वसञ्छोणक्षेत्रे माहेश्वरान्धनैः ।।
प्रीणयित्वा पराँल्लोकान्निःसंशयमवाप्नुयात् ।। २५ ।।
पश्वादिमांसभुक्छोणक्षेत्रे पक्षत्रयं व्रती ।।
प्रीणयेदरुणेशानं सोपहारैर्मनोहरैः ।। २६ ।।
त्रिःशोणाचलनाथेति निनदन्ननघो भवेत्।।
निवसन्नरुणक्षेत्रे पूजयेदरुणेश्वरम् ।।२७।।
अरुणेश्वरमंत्रं च जपेन्मोक्षेच्छुरादरात्।।
यद्यस्याभिहितं तेन पद्भ्यामेव प्रदक्षिणाम्।।२८।।
कुर्वतारुणशैलस्य तत्प्राप्यं शुभमंजसा ।।
श्रुतेषु स्खलितेष्वत्याहिते दुःस्वप्नदर्शने ।। २९ ।।
प्रीत्युत्कर्षेऽपि च बुधैरुच्चार्योऽरुणशंकरः ।।
अपि वर्णाश्रमभ्रष्टः शिवद्रोहरतोऽपि वा ।। 1.3.2.6.३० ।।
त्रीण्यहान्यरुणक्षेत्रे वसन्मुच्येत पातकैः ।।
पार्थिवः शिवलोकोऽयं मूर्त्तमेतत्त्रयीशिरः ।।३१ ।।
एष दक्षिणकैलासो योसावरुणपर्वतः ।।
अन्येषु सिद्धक्षेत्रेषु तपोभिः सिद्धयो नृणाम् ।। ३२ ।।
अस्मिन्स्मरणमात्रेण तारतम्यं विचिंत्यताम् ।।
यद्गंगायां प्रयागे यत्काश्यां वै पुष्करेषु यत् ।। ३३ ।।
कर्म सेतौ च यत्पुंसां शोणक्षेत्रे ततोऽधिकम् ।।
अग्निष्टोमं वाजपेयं वैराजं सर्वतोमुखम् ।। ।। ३४ ।।
राजसूयाश्वमेधौ च कुर्याच्छोणाचले बुधः ।।
एकाहं वारुणक्षेत्रे नरो यत्स्यादुपोषितः ।। ३५ ।।
तस्य चांद्रायणशतं भवेत्सांतपनायुतम् ।।
षोडशापि महादानान्यरुणक्षेत्रसंनिधौ ।। ३६ ।।
अनुष्ठितानि कल्पोक्तं कुर्वंति द्विगुणं फलम् ।। ३७ ।।
इति नंदिकेश्वरमुखेन शुश्रुवान्मुनिनंदनोथ निरयप्रतिक्रियाम्।।
अभिनंद्य तं वद दिनर्तुवत्सरप्रमुखार्हणक्रममिति व्यजिज्ञपत् ।। ३८ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे पापापनोदकप्रायश्चित्तवर्णनंनाम षष्ठोऽध्यायः ।। ६ ।। ।। छ ।। ।। ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 7
।। नंदिकेश्वर उवाच ।। ।।
रक्तोत्पलैरर्कवारे यः शोणाद्रीशमर्चयेत् ।।
अवश्यं तस्य सिध्यंति सार्वभौममहर्द्धयः ।। १ ।।
सौम्यवारेऽरुणाद्रीशं कस्तूरीकरवीरकैः ।।
यः पूजयति तस्य स्यात्सत्यलोके सुखासिका ।। २ ।।
गुरुवारे सितांभोजैः शोणेशं वरिवस्यतः ।।
जनलोके चिरं वासः सिद्धैः सह भविष्यति ।। ३ ।।
चंपकैर्मल्लिकाभिश्च शुक्रवारे समर्चयेत् ।।
तपोलोकं प्रपद्येत ब्रह्मर्षिभिरभिष्टुतः ।। ४ ।।
सौरिवारे च जातीभिस्समाराध्यारुणेश्वरम् ।।
न जातु यमलोकानां पापीयानपि कल्पते ।। ५ ।।
प्रथमायां तिथौ देवस्योपहारं समर्पयेत् ।।
यः पायसेन स भवेद्धनधान्यसमृद्धिमान्।। ६ ।।
द्वितीयस्यां तिथौ भक्त्या यो दध्यन्नं निवेदयेत् ।।
स भवेद्भाग्यवाञ्छ्रेष्ठः सोमपाश्च भवेद्ध्रुवम् ।। ७ ।।
तृतीयायां च योऽपूपैः शोणेशं परितर्पयेत् ।।
तस्या व्याहतमारोग्यमाशरीरं भविष्यति ।। ८ ।।
चतुर्थ्यामरुणेशाय पूर्णकुम्भोत्करादिकम् ।।
निवेदयति यस्तस्य भवेत्पूर्णमनोरथः ।। ९ ।।
मुद्गौदनं च पंचम्यामुपहारं प्रकल्पयेत ।।
शोणेश्वराय भक्त्या यः स स्यादक्षय्यवैभवः ।। 1.3.2.7.१० ।।
षष्ठ्यां गुडौदनं दद्यादरुणाचलशम्भवे ।।
भक्त्या यस्तस्य सन्तानो न कदाचित्प्रहीयते ।। ११ ।।
तिलौदनं यस्सप्तम्यां शोणेशाय समर्पयेत् ।।
स दीनोऽप्यधमर्णत्वमयत्नेन व्यपोहति ।। १२ ।।
अष्टम्यां राजशाल्यन्नं यो दद्याच्छोणशम्भवे ।।
तस्य सेवां विनापि स्याद्राजलोको वशीकृतः ।। १३ ।।
गोधूमान्नं नवम्यां च शोणाद्रीशाय योऽर्पयेत् ।।
राजयक्ष्मादयस्तस्य न भविष्यंति जातु च ।। १४ ।।
दशम्यां शोणनाथाय यः करंभं निवेदयेत् ।।
स भवेत्सर्वलोकानां सदैव प्रीतिभाजनम् ।। १५ ।।
पृथुकैरुपहारान्य एकादश्यां प्रकल्पयेत् ।।
अरुणाचलनाथस्य स भवेदकुतोभयः ।। १६ ।।
द्वादश्यां शोणनाथाय सूपौदननिवेदनम् ।।
यः करोति भवेत्तस्य निर्विघातो मनोरथः ।। १७ ।।
यः सक्तूनरुणेशाय त्रयोदश्यां समर्पयेत् ।।
तस्या व्याकुलचित्त्वमश्रांतमपि जायते ।। १८ ।।
अर्पयेच्छोणनाथाय फलानि विविधानि यः ।।
चतुर्दश्यां स मूढोऽपि सिद्धसारस्वतो भवेत् ।। १९ ।।
यः पौर्णमास्यां शोणाद्रिनाथाय विनिवेदयेत् ।।
पनसस्य फलं तस्य चक्षूरोगो न जायते ।। 1.3.2.7.२० ।।
कुह्वां च संगमे भक्त्या कंदमूलादि योऽर्पयेत् ।।
शोणाचलेश्वरायास्य तुष्यंति पितरः किल ।। २१ ।।
अश्विन्यामरुणेशाय दद्याद्वासांसि भक्तिमान् ।।
भरण्यामरुणेशाय दद्यादाभरणान्यपि ।। २२ ।।
कृत्तिकासु प्रदीपांश्च रोहिण्यां रौप्यमर्पयेत् ।।
मृगशीर्षे मलयजमार्द्रायां हरिचंदनम् ।। २३ ।।
पुनर्वसौ मृगमदं पुष्ये कर्पूरमर्पयेत् ।।
काश्मीरोद्भवमाश्लेषे मघायां तुहिनोदकम् ।। २४ ।।
तांबूलं पूर्वफाल्गुन्यां धूपमुत्तरफाल्गुने ।।
कालागुरूंश्च हस्तर्क्षे चित्रायां यक्षकर्दमम् ।। २५ ।।
स्वात्यां सुवासिनीवृंदं विशाखायां प्रकीर्णकम् ।।
मैत्रे मुक्तातपत्रं च ज्येष्ठायां धैनुकान्यपि ।। २६ ।।
मूले मुक्तासरान्पूर्वाषाढे मुकुटमर्पयेत् ।।
रत्नानि चोत्तराषाढे श्रवणे भद्रपीठिकाम् ।। २७ ।।
अष्टापदं धनिष्ठायां वासः शतभिषज्यपि ।।
पूर्वाभाद्रपदे भोगानुत्तरायां तुरंगमान् ।। २८ ।।
रेवत्यां च रथं हैमं प्रदद्याच्छोणशंभवे ।।
दद्यात्कृत्वा महापूजां तत एवार्पयेन्नरः ।। २९ ।।
पूज्यो राशिषु मेषादिष्वरुणेथो विशेषतः ।।
सिंदुवारैः कुरबकैः ककुभैः पाटलैः क्रमात् ।। 1.3.2.7.३० ।।
कुटजैर्नीपकुसुमैर्जीवंतीमल्लिकादिभिः ।।
सरोरुहैर्दमनकैर्नद्यावर्तसरोरुहैः ।। ३१ ।।
पंचामृतेन स्नपयन्नुभयोरुपरागयोः ।।
पंचाक्षरेण कुर्वीत शोणनाथस्य भक्तितः ।। ३२ ।।
स्नपनं पञ्चगव्येन द्वयोरयनयोरपि ।।
षडक्षरेण कुर्वीत गव्येन स्नपनक्रियाम् ।। ३३ ।।
प्रणवेनैव कुर्वीत क्षीरेण स्नपनक्रियाम् ।।
अरुणाचलनाथस्य भक्त्या विषुवयोर्द्वयोः ।।।। ३४ ।।
प्राह्णे स्याद्रुद्रतुलसी मध्याह्ने कृतमालकम् ।।
अपराह्णे मल्लिका च शोणाद्रीशस्य शस्यते ।।३५।।
अद्धोदये च स्नपयेत्सहस्रकलशोदकैः ।।
शतरुद्रीयमुच्चार्य श्रीशोणाचलशंभवे ।। ३६ ।।
शिवरात्रौ विशेषेण त्रिशिखैर्बिल्वपत्रकैः ।।
कमलैः कर्णिकारैश्च जागरूको यतेंद्रियः ।। ३७ ।।
गीतवादित्रनृत्यैश्च दिव्यागमविधानतः ।।
पूजयेदपवर्गार्थं शोणशैले महेश्वरम् ।। ३८ ।।
मासि पौषे च देवस्य कुर्यादाग्नेयमुत्सवम् ।।
नवान्नैरुपदंशाद्यैर्व्याहृतीरुच्चरन्बुधः ।। ३९ ।।
वैशाखे च विशाखायां शिवतंत्रानुसारतः।।
शोणाचलेश्वरस्यास्य कुर्याद्दमनकोत्सवम् ।। 1.3.2.7.४० ।।
प्राबोधिक मार्गशीर्षे प्रातर्निर्माय सामभिः ।।
महापूजां प्रकुर्वीत शोणशैलस्य भक्तिमान् ।। ४१ ।।
शनिप्रदोषेष्वार्द्रासु व्यतीपातेषु पर्वसु ।।
सोमार्कवारयोश्चार्चेच्छोणाद्रीशं यथागमम ।। ४२ ।।
दीक्षोपनयनोद्वाहपुत्रजन्मादिकेष्वपि ।।
विशेषपूजां कुर्वीत शोणनाथस्य भक्तिमान् ।। ४३ ।।
अपि स्वजन्मनक्षत्रे संपत्स्वापत्सु भीतिषु ।।
प्रवेशनिर्गमनयोश्चार्चनीयोऽरुणेश्वरः ।। ४४ ।।
व्रतिचक्रागमे पादबंधने नववैभवे ।।
अरुणेशार्चनं कुर्यादभियानेषु च द्विषाम्।। ४५।।
स्मरेदतिदवीयांश्चेत्पश्येत्पर्यंतगो यदि ।।
स्थितश्चेदरुणक्षेत्रे त्रिकालं पूजयेच्छिवम् ।। ४६ ।।
किमन्यद्वद वत्सेति उद्धृत्य भुजमुच्यते ।।
अरुणक्षेत्रतो नान्यदलं स्वर्गापवर्गयोः ।। ४७ ।।
स्मरणेन मनःश्रोत्रे श्रवणाद्दर्शनादृशौः ।।
जिह्वां च कीर्त्तनाच्छोणक्षेत्रं सद्यः पुनात्यलम्।। ४८ ।।
अरुणेस्मिन्महाक्षेत्रे देहिभिर्लब्धजन्मभिः ।।
जीवद्भिर्लभ्यते भोगो मोक्षश्चोन्मुक्तजीवितैः ।। ४९ ।।
अन्यत्र मुक्तदेहानामप्यत्र श्राद्धकर्मणा ।।
अपि पापात्मनां पुंसामपवर्गो भविष्यति ।। 1.3.2.7.५० ।।
अयोध्यां मथुरां मायां काशीं कांचीमवंतिकाम् ।।
द्वारकां चारुणक्षेत्रमतिशेते न संशयः ।। ५१ ।।
इत्युक्तवंतं च शिलादपुत्रं मृकण्डुसूनुः पुनरप्युवाच ।।
माहात्म्यमेतन्महनीयकीर्ते भूयोपि पृच्छामि वदस्व मह्यम् ।। ५२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे काम्यकर्मवर्णनं नाम सप्तमोऽध्यायः।। ७ ।। ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 8
।। नंदिकेश्वर उवाच ।। ।।
अरुणाचलमाहात्म्यं विस्तरात्परिपृच्छता ।।
मार्कंडेय त्वया मन्ये मयि न्यस्तो महान्भरः ।। १ ।।
स्थाने कुतूहलाक्षिप्तं मनस्तव महामते ।।
यः शोणाद्रीशचरितं न वेत्ति स नरः पशुः ।। २ ।।
कथं वा शक्यते वक्तुं जानानरपि कार्त्स्न्यतः ।।
शोणाचलजुषः शंभोर्माहात्म्यं महितोदयम् ।।३।।
कथं वा श्रुतमप्येतदाश्चर्यरसभावितैः ।।
अशेषमवधार्येत प्रज्ञावत्प्रवरैरपि ।।४।।
इदानीं स्मर चित्रं तु चरित्रं स्मरवैरिणः ।।
परामृतानुभूत्येव सत्यं नृत्यति मे मनः ।। ५ ।।
अद्भुतं शिवचारित्रमास्कंदितमनोहरम् ।।
मम वर्णयितुं कार्त्स्न्यान्नैव शक्नोति शेमुषी ।। ६ ।।
तथाप्येष प्रवक्ष्येऽहमंशांशेन यथामति ।।
पुण्यं शोणाद्रिनाथस्य माहात्म्यं श्रूयतां मुने ।। ७ ।।
पुरादिदेवकल्पादौ निर्विकल्पो महेश्वरः ।।
स्वेच्छया सकलं विश्वं पुनरप्युदभावयत् ।। ८ ।।
उद्भावितं च तद्विश्वं स्रष्टुं पातुं च सर्वदा ।।
अन्विच्छन्नादिदेवोऽसौ ब्रह्मविष्णू विनिर्ममे ।। ९ ।।
असृजद्दक्षिणांगेन त्र्यंबकः परमेष्ठिनम् ।।
विष्टरश्रवसं देवो वामांगेन च सृष्टवान् ।। 1.3.2.8.१० ।।
ब्रह्माणं रजसा विष्णुं सत्त्वेन समयूयुजत् ।।
नियुक्तौ देवदेवेन तौ विरंच्यच्युतावुभौ ।। ११ ।।
ईशाते सर्वजगतां सृष्टिरक्षाविधानयोः ।।
मनसैव मरीच्यादीन्ससर्ज ब्राह्मणान्दश ।। १२ ।।
दक्षं च दक्षिणांगुष्ठात्सृष्ट्यै प्रावर्तयद्विधिः ।।
मुखेन ब्राह्मणान्दोर्भ्यां क्षत्रियानूरुतो विशः ।। १३ ।।
शूद्रांश्च पद्भ्यां निरमात्स्वयं च कमलासनः ।।
मरीचितनयाज्जज्ञुः कश्यपादसुरास्सुराः ।। १४ ।।
मरुतः फणिनो गृध्रा गंधर्वासरसोऽपि च ।।
मनुश्च यस्य संतानो मानवोऽयं प्रवर्त्तते ।। १५ ।।
नानाज्ञातित्वमापाद्य नानाकर्मप्रवर्तकाः ।।
अत्रेश्च समभूदार्षं क्षात्रं च द्विविधं कुलम् ।। १६ ।।
पुलस्त्यपुलहाभ्यां च जज्ञिरे यक्षराक्षसाः ।।
उतथ्यगीष्पतिमुखा जज्ञिरेंऽगिरिसो मुनेः ।। १७ ।।
भृगोरग्निः समुदभूच्च्यवनाद्यास्तथर्षयः ।।
वसिष्ठप्रमुखेभ्यश्च संबभूबुर्महर्षयः ।।
यत्पुत्रपौत्रैर्भुवनमिदमापूर्यतेऽखिलम् ।। १८ ।।
एवं ब्रह्माऽऽत्मजैः स्वीयैरिदमापूरयज्जगत् ।।
कालेन वैभवेनापि विसस्मार महेश्वरम् ।। १९ ।।
अच्युतोऽपि भृगोः पुत्रीमुद्वाह्य कमलालयाम् ।।
मत्स्यादिरूपो जगति भवन्नास्मरदीश्वरम् ।। 1.3.2.8.२० ।।
सृष्टिस्थितिभ्यां द्रुहिणाब्जनाभौ स्वाधीनतां नूनमुपागताभ्याम् ।।
अतीव गर्वं दधतुर्न कस्य मदोऽधिकारेण भवेन्नरस्य ।। २१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखंडेऽरुणाचलमाहात्म्य उत्तरार्धे सृष्टिवणर्नंनामाष्टमोऽध्यायः ।। ८ ।। छ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 9
।। नंदिकेश्वर उवाच ।। ।।
अहमेव प्रभुरिति प्ररूढाधिकगर्वयोः ।।
विरंच्यप्युतयोरासीद्विवादो मोहसंभवः ।। १ ।।
रजोविकाराभ्यधिको बाह्ये नील इवोत्थितः ।।
विश्वसृष्टिकरो विष्णुं विरंच्योऽब्रूत गर्वतः ।। २ ।।
।। ब्रह्मोवाच ।। ।।
कथं त्वमधिकश्चासि विष्णो जनयितुर्मम ।।
पितामहस्य लोकानां किमेवमतिमोहितः ।। ३ ।।
त्वत्त एवोदितौ दैत्यौ निहत्य मधुकैटभौ ।।
दैत्यारिरिति मुग्ध त्वं गर्वं वहसि केशव ।। ४ ।।
त्वामेव सृजतो नित्यं बहुधा मम वेधसः ।।
अद्याप्यायासजां पीडां न परित्यजतः करौ ।। ५ ।।
मम श्रमांभसोद्भूते महांभोधौ निमज्जतः ।।
नैयग्रोधं न चोत्पन्नं कुतस्तेऽस्त्ववलंबनम्।। ६ ।।
मदुपज्ञे महांभोधौ स्रवते कोऽपि पन्नगः ।।
तदाश्रयस्त्वमूर्ध्वं ते पद्मं तच्चासनं मम ।। ७ ।।
कुतस्तमोमये ब्रूहि त्वयि सत्त्वगुणोदयः।।
स वेत्सि किं त्वं प्रकृतिं निद्राजडिमनिर्भरः ।। ८ ।।
जलाशये प्रस्वपता दैत्यभीत्या जनार्दन ।।
कथं त्वया रक्षितासौ मदधीना जगत्त्रयी ।। ।। ९ ।।
चतुर्भ्यो मम वक्त्रेभ्यो वेदाः समुदयं गताः ।।
चैतन्यरूपिणी शक्तिः कलत्रं मे सरस्वती ।। 1.3.2.9.१० ।।
मया हि सृज्यते विश्वमिदं स्थावरजंगमम् ।।
रक्ष्यते च तदिन्द्राद्यैर्मामकैःपुत्रपौत्रकैः।।११।।
ततः कथय वैकुंठ मन्नियोज्येषु कश्चन ।।
जगतामीश्वरान्मत्तः कथं नामातिरिच्यसे ।।१२।।
।। ।। नंदिकेश्वर उवाच ।। ।।
इत्थं सरोषसंरंभे विधौ पौरुषभाषिणि ।।
नारायणोऽपि सासूयं स्मित्वैवं समभाषत ।। १३ ।।
।। विष्णुरुवाच ।। ।।
विरंचे मुंच संरंभं वृथा खलु विकत्थसे ।।
नाभीसरोजसंजातो मम त्वमवधारय ।। १४ ।।
योगनिद्रां मयोन्मुच्य पुरा ह मधुकैटभौ ।।
न चेद्यन्मथितौ ताभ्यां तथैव स्याः प्रणाशितः ।। १५ ।।
सोमकप्रमुखान्दैत्यान्हंतुमात्मेच्छया मम ।।
धृतमत्स्यादिरूपस्य को वान्यः सृष्टिकारणम् ।। १६ ।।
न किंचिदपि पश्यंति रजसारूढदृष्टयः ।।
रजोमयेन भवता किं निरूपयितुं क्षमम् ।। १७ ।।
अविनाभाविनी शक्तिर्ननु मे पद्मवासिनी ।।
यस्याः कटाक्षमात्रेण जगवितयमेधते ।। १८ ।।
भूतान्यमूनि कालोऽयमात्मनोप्यहमेव हि ।।
मया विरहितं कि वा त्रिषु लोकेषु विद्यते ।। १९ ।।
प्र आदित्या वसवो रुद्रा दिक्पाला मनवोऽप्यहम् ।।
भूर्भुवःस्वस्त्रयीमेनां मदधीनां विचिंतय ।। 1.3.2.9.२० ।।
ममैव विनियोगेन सृष्टिशक्तिः स्वयं स्थिता ।।
तन्मे त्रैलोक्यनाथस्यकि त्वंज्येष्ठः समोऽथवा ।। २१ ।।
।। नंदिकेश्वर उवाच ।। ।।
एवं मोहांधमनसोरन्योन्यं प्रतिगर्जतोः ।।
ययावनल्पसमयःसवर्तसदृशस्तयो. ।। २२ ।।
उदयास्तमयौ स्यातां न तदा चंद्रसूर्ययोः ।।
नक्षत्राणि च ताराश्च ग्रहाश्च क्षीणतां ययुः ।। २३ ।।
नाववुर्मरुतो वा न जज्वलुर्जातवेदसः ।।
नांतरिक्षं न च क्षोणी न दिशोऽपि चकाशिरे ।। २४ ।।
समुद्राश्चुक्षुभुस्सर्वे पर्वताश्च चकंपिरे ।।
औषध्यः शोषमासेदुरवसेदुश्च जंतवः ।। २५ ।।
पक्षमासर्तुवर्षादिकालस्य नियमो गतः ।।
अहोरात्रव्यवस्थापि प्रणाश समुपाययौ ।। २६ ।।
इन्द्रादयो लोकपाला मरीच्याद्या महर्षयः ।।
सर्वेप्यकाले संप्राप्तं कल्पांतं मेनिरे तदा ।। २७ ।।
एवं जाते महाक्षोभे भूताक्रन्दप्रचोदितः ।।
भूतनाथो जगज्जातमविद्यायामबुध्यत ।। २८ ।।
व्यचिंतयच्च विश्वात्मा विश्वसंरक्षणोद्यतः ।।
अवाह्यया दृशाऽपश्यदनयोमोहकारणम् ।। २९ ।।
स्वामिनं सकलैश्वर्यदातारं मां मदोद्धतौ ।।
विस्मृत्य स्वं स्वमेवैतावमंसेतां जगत्प्रभू ।। 1.3.2.9.३० ।।
अहो मोहस्य माहात्म्यं वदिमौ द्रुहिणाच्युतौ ।।
जानानावपि मां सम्यगभूतामेवमुद्धतौ ।। ३१ ।।
अज्ञानतिमिरोद्भूति दूषिताशयलोचनः ।।
जनः प्राप्तं स्तुतमपि प्रायो वस्तु न पश्यति ।। ३२ ।।
कृतापराधावप्येतौ निमग्नौ मोहसागरे ।।
मया नोपेक्षणीयौ हि लोकानां हितकाम्यया ।। ३३ ।।
इति निश्चित्य मनसा माया वैवश्यमेतयोः ।।
देवो दयामहांभोधिर्व्यपोहयितुमैहत ।। ३४ ।।
अहोऽनुकम्पा तरुणेंदुमौलेः स्वभावसिद्धा भुवनत्रयेऽस्मिन् ।।
असौ प्रमोहांबुधिमध्यतोभूदाविर्निरस्तावपि धातृविष्णू ।। ३५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शिवविष्णुविवादवर्णनंनाम नवमोऽध्यायः ।। ९ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 10
।। ।। मार्कण्डेय उवाच ।। ।।
आज्ञापय विभो मह्यं यथा शंभुः सनातनः ।।
अनुजग्राह मोहांधो वैकुण्ठपरमेष्ठिनौ ।। १ ।।
।। नंदिकेश्वर उवाच ।। ।।
शृणुष्व सर्वं वक्ष्यामि विस्तरेण यथातथम् ।।
यदेव देवो विदधे दयया भक्तवत्सलः ।। २ ।।
अथोदस्थात्तयोर्मध्ये तथा विवदमानयोः ।।
ज्योतिःस्तंभत्वमभ्येत्य रोदोरंध्रनिरोधकः ।। ३ ।।
महता जृंभमाणेन तस्य ब्रह्मांडभेदिनः ।।
अन्तरिक्षमतिश्यामं समुत्क्षिप्तमिवाभवत ।। ४ ।।
विष्वग्विवर्णता तस्य ज्योतिर्लिंगस्य तेजसा ।।
दिशो विरेजिरे सद्यो दूरविस्तारिता इव ।। ५ ।।
तीव्रैस्तस्य महाज्वालैः शोषिता इव सागराः ।।
विमुक्तवीचिसंक्षोभाः स्वामेव प्रकृतिं ययुः ।। ६ ।।
व्यद्योतंत दिवि प्राग्वद्वहास्तारागणैः सह ।।
तेजःस्तंभात्समुद्भिन्नाः स्फुलिंगा इव केचन ।।७।।
तेजसा तस्य शोणेन गैरिकेणेव रंजिताः ।।
भौमरविश्रियं सर्वेऽप्यवहन्नवनीभृतः ।।८।।
समुद्रास्तत्प्रतिच्छायानिर्भराश्लिष्ट यादसः ।।
पद्मरागशिलाखण्डे घटिता इव रेजिरे ।। ९ ।।
प्रवालगुच्छैः प्रत्यग्रैर्लंबिता इव पादपाः ।।
नद्यश्च निर्भरोत्फुल्लकह्लारा इव रेजिरे।। 1.3.2.10.१० ।।
मही कुंकुमलिप्तेव दिशः सिंदूरिता इव ।।
सर्वारुणमिव व्योम समगत्प्रत्यदृश्यत ।। ११ ।।
ब्रह्मांडकर्परमभूत्तन्महः पूरितांतरम् ।।
शोणितेनेव संपूर्णं कपालं कृत्तिवाससः ।। १२ ।।
एवं प्रवर्द्धमानेन तेजःस्तम्भेन तेन च ।।
अरुणाकारतां भेजे विश्वं स्थावरजंगमम् ।। १३ ।।
तेजोलिंगं तदाश्चर्यं दृष्ट्वा त्यक्तमिथः क्रुधौ ।।
अचिंतयेतामेकैकं चतुर्मुखचतुर्भुजौ ।। १४ ।।
किमेष वसुधां भित्त्वा शेषादीनां फणाभृताम् ।।
फणामाणिक्यमहसां राशिरुन्मुखतां गतः ।। १५ ।।
किं वा कल्पांतसुलभप्रादुर्भावाः प्रभाकराः ।।
द्वादशापि नभोभूम्योर्मध्ये युगपदुत्थिताः ।। १६ ।।
आहोस्विन्मेघ संघर्षाद्वितता व्योममध्यतः।।
अन्योन्यं मिलिताः क्षिप्रा निपतंत्यवनीतले ।। १७ ।।
प्रतिघ्नन्नेष तेजोभिरक्ष्णोः शक्तिमनुक्षणम् ।।
स्वनिर्विशेषिताशेषभूतजालः प्रवर्द्धते ।। १८ ।।
एष उद्दीप्यमानोऽपि संतापाय न कल्पते ।।
नेदीयांस्यपि भूतानि न निर्दहति वह्निवत् ।। १९ ।।
एतस्य कांतिसंक्रांत्या जगदेव न केवलम् ।।
मदीयमपि शोणत्वमनुप्राप्तमहो वपुः ।। 1.3.2.10.२० ।।
कस्मादेष समुत्पन्नः किं मूलः किमुपाधिकः ।।
कुतस्त्यः किमुपादानः कया भक्त्या प्रकाशते ।। २१ ।।
कियानवधिरेतस्य विष्वक्तिर्यगधोर्ध्वतः ।।
अवगाढश्च पातालं कियन्मात्रमसाविति ।। २२ ।।
तदेतदखिलं ज्ञातुं मनः पर्युत्सुकं मुहुः ।।
इच्छत्युत्पतितुं व्योम प्रवेष्टुं च रसातलम् ।। २३ ।।
इति चिंताभराक्रांतौ तेजःस्तंभावलोकनात् ।।
उभावप्यवकुलितौ वैकुण्ठपरमेष्ठिनौ ।। २४ ।।
अभाषत च गोविंदः सुतरामेव गर्वितम् ।।
हिरण्यगर्भमालोक्य स्मयमानमुखांबुजः ।। २५ ।।
।। विष्णुरुवाच ।। ।।
अयमेवावयोर्ब्रह्मन्नन्योन्योत्कर्षकांक्षिणोः ।।
सत्यमेव परीक्षायै निकषः समुपस्थितः ।। २६ ।।
अमुष्य तेजसां राशेरपरिच्छेद्यसंपदः ।।
आद्यंतौ ज्ञातुमेकेन न शक्यं ध्रुवमावयोः ।। २७ ।।
यः पश्येन्मूलमग्रं वा तेजसोस्य स्वयंभुवः ।।
स एव नावभ्यधिको जगतां नाथकोऽपि सः ।। २८ ।।
।। नंदिकेश्वर उवाच ।। ।।
इत्युभावपि विनिश्चिताशयौ मूलमग्रमपि तस्य वीक्षितुम् ।।
तेजसोतिमहतो बभूवतुः स्पर्धया विरचितोद्यमौ मिथः ।। २९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मविष्ण्वोर्मध्ये तेजोमयलिंगप्रादुर्भाववर्णनंनाम दशमोऽध्यायः ।। १० ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 11
।। नंदिकेश्वर उवाच ।। ।।
अथ हंसाकृतिं व्योमपदवीलंघनक्षमाम् ।।
भेजे विरंचिस्तस्याग्रं द्रक्ष्यामीति कृतोद्यमः ।। १ ।।
जग्राह विष्णुर्वाराहं विग्रहं दृढविग्रहः ।।
विश्वंभराविनिर्भेद क्रीडासुलभवैभवम् ।। २ ।।
मूलं तस्य परिज्ञाय प्रत्यावर्तितुमुत्सुकः ।।
कृत्रिमस्तब्धरोमैष दंष्ट्राभ्यामभिनन्महीम्।। ३।।
विदारयन्स पोत्रेण भूतधात्रीमवाङ्मुखः ।।
महावराहो ददृशे तेजस्तंभं नमन्निव ।। ४ ।।
क्रीडाक्रोडकठोरेण कंठघोषेण पूरयन् ।।
पातालं बहुलोत्साहः प्रवेष्टुमुपचक्रमे ।। ५ ।।
विवेश यत्रयत्रासौ तत्रतत्र तथास्थितम् ।।
अवैक्षिष्टानलस्तंभं तमेव कुहनाकिटिः ।। ६।।
विदारितान्महीरंधात्प्रत्यदृश्यंत भोगिनः ।।
प्ररोहा इव शेषाद्यास्तेजःस्तंभस्य केचन ।। ७।।
प्रत्यदृश्यत हेमाद्रेर्मूल कन्द इव स्थितः ।।
आधारतां गतो दृष्टो ह्यच्युतेनादिकच्छपः ।। ८ ।।
आराद्वसुन्धरागुल्फे धुरंधरतया स्थिताः ।।
दिक्सिंधुराश्च दृश्यंते मदमंथरबंधुराः ।। ९ ।।
मधुद्विषा च स महान्मंडूकोऽपि विलोकितः ।।
अखंडमंडलं भूमेर्यस्य पृष्ठे प्रतिष्ठितम् ।। 1.3.2.11.१० ।।
आधारशक्तिमपि तामभ्यपश्यदधोक्षजः ।।
यदनुग्रहतः शेषकूर्माद्या अपि धूर्वहाः ।। ११ ।।
अतलं वितलं चैष सुतलं नितलं तथा ।।
तलातलं च प्रतलं महातलमिति क्रमात् ।।।। १२ ।।
ददर्श सप्त पातालानपि वारिजलोचनः ।।
तत्रत्यान्विविधाकारान्सर्वानपि सविस्मयः ।। १३ ।।
अत्यगाद्भोगवत्याख्यां पुरीं वैरोचनीमपि ।।
जगाहेन्यांश्च दैत्यानामावासानतिगह्वरान् ।। १४ ।।
इदं दृष्टमिदं दृष्टमित्युपारूढकौतुकः ।।
मूलं मुग्धाशयस्तस्य विचिनोति स्म माधवः ।। १५ ।।
अधस्तादपि गाढेन पयोधेस्तेन पोत्रिणा ।।
तथैव तेजःस्तंभः स निर्विकारमवैक्ष्यत।। १६।।
दलिता केवलं पृष्वी पाथोराशिर्विलोलितः।।
नैवालोक्यत तन्मूलं कोलरूपेन विष्णुना ।। १७ ।।
इत्थं वर्षसहस्राणि भ्रांत्या संभ्रांतमानसः ।।
नालं बभूव तन्मूलं लीलाक्रोडो विलोकितुम्।। १८ ।।
अवरुग्णखुरः क्षुण्णदंष्ट्रो विध्वस्तविग्रहः ।।
भग्नपोत्रः स भूदारो जगाहे बहलं श्रमम् ।। १९ ।।
श्रांत्या निश्वसतस्तस्य तादृग्दर्पो विशृंखलः ।।
ननाश तत्क्षणात्साकं तन्मूलावेक्षणेच्छया ।। 1.3.2.11.२० ।।
अनिर्व्यूढप्रतिज्ञोऽपि प्रत्यावर्तितुमुत्सकः ।।
न चक्षमे सरोजाक्षश्चलितुं च पदात्पदम् ।। २१ ।।
श्रमांधचक्षुषस्तस्य पातालांतरवर्त्तिनः ।।
तत्तेज एव पंथानं पुनरप्युदभावयत् ।। २२ ।।
कथंकथंचिदुत्तीर्णो ऽप्यकूपारादपारतः ।।
स्वेदांभःसागरस्रावे मग्नोऽभूच्छद्मशूकरः ।। २३ ।।
रज्ज्वेव तेजःस्तंभस्य प्रभया सानुबद्धया ।।
लब्ध्वाचलं वनं कष्टं न्यवर्त्तिष्ट जनार्दनः ।। २४ ।।
नावैक्षि यन्मया मूलममुष्य महसां निधेः ।।
ततः स्रष्ट्रापि नो दृष्टः शिरोभागः कथंचन ।। २५ ।।
अमुष्य महसां राशेः प्रागभूद्यत्र संभवः ।।
ततो निवृत्त्य यास्यामि शरणं शिवमीश्वरम् ।।२६।।
स हि विश्वाधिको देवश्चिरं मोहांधचक्षुषा ।।
यद्विस्मृतो मया तस्माद्दुर्विपाकोऽजनीदृशः ।। २७ ।।
एवं विनिर्धार्य विमुक्तदर्पो निवृत्तवानाशु सरोरुहाक्षः ।।
तमेव देशं प्रबभूव यत्र स्तंभः स तेजोमयतां दधानः ।। २८ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे विष्णुना लिंगाधोभागशोधनवर्णनंनामैकादशोऽध्यायः ।।।। ११ ।। ।। छ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 12
।। नंदिकेश्वर उवाच ।। ।।
ततस्तेजोमयं स्तंभमनुसृत्य पितामहः ।।
उत्पपातोन्मुखो वेगान्निरालंबे नभस्तले ।।१।।
द्रुतमुत्पततस्तस्य पक्षावेगेन वारिताः ।।
व्यशीर्यत समुद्वर्ताः प्रणुन्ना इव वायुभिः।।२।।
स वेगादुत्पतन्दूरं नाक्ष्णोर्विषयतामगात् ।।
केवलं दीर्घदीर्घैव रेखा व्योम्नि व्यभाव्यत।।३।।
मायामरालो ददृशे तेजःस्तंभस्यपार्श्वतः।।
संध्यापयोधराभ्यर्णचारीव रजनीकरः।।४।।
प्रागत्यगादुत्पततां ततोऽध्वानं पयोमुचाम्।।
विमानपदवीं पश्चात्तारावर्तं ततः परम् ।।५।।
तेजसां यानि धामानि ह्यत्युच्चान्यूर्ध्वचारिणाम् ।।
अतिचक्राम वेगेन तान्यसौ कुहनाखगः ।। ।। ६ ।।
मरुतो मनसो वापि जवः सूक्ष्मतराकृतेः ।।
सोऽभूदधःकृतस्तेन हंसेन गमनादिना ।। ७ ।।
यथायथा चोत्पपात सुदूरं श्रमितच्छदः ।।
तथातथा च ददृशे तेजःस्तंभः समुन्नतः ।। ८ ।।
अतीत्य मरुतां स्कंधान्सप्त संप्राप्तविस्मयः ।।
बिभेदांडकटाहं च ज्वलंतं तमुदैक्षत ।। ९ ।।
कथं वाऽदृष्टमूलस्य स्थातव्यं पुरतो हरेः ।।
अविमोचयतः शौरेरसमासमशीर्षताम् ।। 1.3.2.12.१० ।।
अनिर्व्यूढप्रतिज्ञस्य दीर्घैः किं वा ममासुभिः ।।
तदत्रौपयिकं किं स्यात्कार्यं का मा गतिर्मम ।।११।।
अतिसंधित्सतो विष्णुं कस्सहायो भविष्यति ।।
आर्जवं नैव निर्जेतुं प्रतिवादिनमक्षमः ।। १२ ।।
छद्मना वा तिरस्कुर्यान्माना हि महतां धनम् ।।
इति संचितयत्येव विरिंचौ व्याकुलात्मनि ।। १३ ।।
आकाशे ददृशे नातिदूरे किमपि निर्मलम् ।।
ऐंदवी किमियं रेखा तस्याः कथमिहागमः ।। १४ ।।
यद्वा मृणालं तत्सिंधौ वियत्यस्यां कुतस्तु सः ।।
इति तस्मिन्ससंदेहे नेदीयस्तं तदागतम् ।। १५ ।।
अबोधि केतकीबर्हमिति राजीवजन्मना ।।
तत्पर्युषितमप्युद्यत्सौरभं वस्तुशक्तितः ।। १६ ।।
हिरण्यगर्भो विमलमगृह्णात्केतकच्छदम् ।।
गृहीतमात्रं तेनैतत्सचैतन्यं किलाब्रवीत् ।। १७ ।।
।। केतक उवाच ।। ।।
भो गृह्णासि किमर्थं त्वं मुंच मां विश्रमोद्यतम् ।।
वर्षाणां शतसाहस्रमुत्पत्यैवं विहायसा ।। १८ ।।
।। नंदीश उवाच ।। ।।
तथा समेधमानं तं दृष्ट्वा श्रममखिद्यत ।।
अचिंतयत्पद्मसूतिरत्यंतं विहताशयः ।। १९ ।।
अनिर्व्यूढप्रतिज्ञावान्नीचतामपि संश्रितः ।।
आक्रांतरोदोविवरः क्व राशिस्तेजसामसौ ।। 1.3.2.12.२० ।।
अहमेतत्परीक्षायां क्व परिच्छिन्न पौरुषः ।।
भज्येते इव मे पक्षौ दृशा चांधायते इव ।।
प्रध्वंसंत इवांगानि पतामीवाहमप्यधः ।। २१ ।।
किं वान्यद्बहुनोक्तेन सह निश्वासवायुभिः ।।
मम प्राणाश्च नियतं निर्गच्छंतीव सांप्रतम् ।। २२ ।।
अहंकारमदग्रंथिरयं त्रुटतु चित्ततः ।।
मुकुंदेन सह स्पर्धा सा च शीघ्ं प्रणश्यतु ।। २३ ।।
यदेष रोदःकुहरपरिणाहाधिकोद्यमः ।।
औन्नत्यमयतेऽद्यापि तेजस्तंभो यथा पुरा ।। २४ ।।
तदस्य तेजसां राशेर्नाहं नारायणोऽथवा ।।
कारणं दूरतश्चान्ये महेंद्रप्रमुखाः सुराः ।। २५ ।।
इतो नोत्पतितुं शक्तिरस्ति मे तन्निवर्त्तये ।।
इति निश्चित्य मनसा विधाता जातविस्मयः ।। २६ ।।
प्रत्यभाषत तं कस्त्वं कुतो वा प्राप्तवानिति ।।
स च प्रत्यब्रवीदेनं वेधसं केतकच्छदः ।। २७ ।।
केतकच्छद एवासं सचैतन्यः शिवाज्ञया ।।
तेजस्तंभात्मनः शंभोरस्य मूर्ध्नि चिरं स्थितः ।। २८ ।।
भूलोक इच्छया वस्तुं ततः संप्राप्तवानहम् ।।२९।।
इत्थं श्रुत्वा केतकीबर्हवाचं लब्ध्वाश्वासं तं किलांभोजभूतिः ।।
ब्रूहि त्वं मे तत्कियत्यंतरे वा तेजःस्तंभस्याग्रमित्यावभाषे ।। 1.3.2.12.३० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मणा लिंगोपरिभागशोधनवर्णनंनाम द्वादशोऽध्यायः ।। १२।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 13
।।नंदिकेश्वर उवाच ।। ।।
केतकीबर्हमप्येनं विहस्य पुनरब्रवीत् ।।
।। केतक्युवाच ।। ।।
अपि मूढ न किंचित्त्वं वेत्सि कस्त्वं कुतो न तत् ।। १ ।।
ईदृश्यः परितो लग्ना यस्मिन्ब्रह्मांडकोटयः ।।
तस्य प्रमाणमेतावदिति को वेदितुं क्षमः ।।२।।
चतुर्युगायुतैर्यातं ततो निपततो मम।।
इदानीमपि नाप्रोति तन्मध्यं किल भूतलम् ।।३।।
इति ब्रुवाणमेनं च नमस्कृत्य सरोजभूः।।
हित्वा निजमहंकारमभाषत कृतांजलिः।।४।।
ब्रह्मोवाच।।
महात्मन्सत्यमेवास्मि मूढोऽहं केतकच्छद।।
ब्रह्मणा हि मया स्पर्द्धा विष्णुना सह निर्मिता।। ५।।
द्वाभ्यामपीदमावाभ्यां विस्मृतं शिववैभवम्।।
यन्नौ महानभूद्गर्वस्सर्गसंत्राणमात्रतः।। ६।।
ह्रेपणी संकथा तावदास्तामद्याप्यहं यतः ।।
स्पर्द्धया न विमुक्तोऽस्मि बद्धया गरुडध्वजे ।। ७ ।।
सख्यं साप्तपदीनं हि कथ्यते तद्भवान्मयि ।। ८ ।।
असंस्तुतधियं हित्वा कर्तुमर्हस्यनुग्रहम् ।।
अहं विष्णुश्च मोहांधौ तेजःस्तंभस्य वीक्षणात् ।। ९ ।।
हंसकोलाकृती दध्वो मिथः साम्यं व्यपोहितुम् ।।
मूलं दिदृक्षुः स दशां कीदृशीं यातवानिति ।। 1.3.2.13.१० ।।
न जाने मम चास्याग्रं दिदृक्षोरीदृक्षी दशा ।।
गतमुड्डीयमानस्य मे सहस्रेण हायनेः ।। ।। ११ ।।
जातश्रमोऽस्मि नितरां वियुज्य इव चासुभिः ।।
दिष्ट्याद्य भद्र लब्धस्त्वं मयाऽऽलंबोवसीदताम्।। १२ ।।
तन्मे कुरुष्व मित्रस्य सफलां याचनामिमाम् ।।
सखाहं सहसंजल्पादस्मि दासोनुषंजनात् ।। १३ ।।
तत्त्वया करणीयैवं प्रार्थनैषा कृतांजलिः ।।
यदि पश्यति मूलं स जितोऽहममुना तदा ।। १४ ।।
यद्वा न पश्यति तदाप्यस्मि साम्यमुपेयिवान् ।।
इदं द्वयमपि प्रायो ममातिह्रेपणं सखे ।। १५ ।।
त्वयैव परिहार्यत्वमिदानीं समुपागतम् ।।
अनृतामभिभाष त्वमुचितां च सुहृत्कृते ।। १६ ।।
गिरमेकामिमामग्रे चक्रपाणेरुदीरय ।।
एष हंसाकृतिर्ब्रह्मा तेजःस्तंभस्वरूपिणः ।। १७ ।।
अत्युच्चं दृष्टवानग्रमत्र साक्ष्ये स्थितोऽस्म्यहम् ।।
तेनापि तेजःस्तम्भत्वमेयुषा चन्द्रमौलिना ।। १८ ।।
संभावितोयं सुतरां पित्रेव हि पितामहः ।।
अतोऽयमेवाभ्यधिको भवतो विष्टरश्रवाः ।। १९ ।।
इत्युक्त्वा मम साहाय्यं सुमहत्क्रियतां त्वया ।। 1.3.2.13.२० ।।
।। नंदिकेश्वर उवाच ।। ।।
एवं भूयः प्रार्थितोऽयं विधात्रा दाक्षिण्यार्द्रः केतकीबर्हकोपि ।।
तेजःस्तंभाभ्यर्णभाजे तथैव प्राहाशेषं विष्णवे ब्रह्मवाक्यम् ।। २१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मणाऽसत्यसाक्ष्यार्थं केतकच्छदप्राथनावर्णनंनाम त्रयोदशोऽध्यायः ।। १३ ।। ।। छ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 14
।। नंदिकेश्वर उवाच ।। ।।
सोऽपि ब्रह्माणमुद्वीक्ष्य तावता द्विगुणं स्मयन् ।।
नाग्रं दृष्टमनेनेति निश्चिकाय विवेकवान् ।। १ ।।
अनुग्रहीतुं मां मुग्धं हंतुं चास्य विधेर्मदम्।।
देवदेवः स एवालं भूतभर्तेत्यमन्यत ।। २ ।।
मूलसंदर्शनाशक्त्या तेजःस्तंम्भस्य मे मदः ।।
व्यपेत एव मन्येऽद्य यद्भक्तिस्त्र्यंबकेऽजनि ।। ३ ।।
स्तूयते वीतगर्वत्वात्स इदानीं महेश्वरः ।।
यस्य दक्षिणवामाभ्यामंगाभ्यां नौ समुद्भवौ ।। ४ ।।
अद्याप्यवीतगर्वत्वाल्लब्ध्वासौ कूटसाक्षिणम् ।।
हिरण्यगर्भो मामेवमतिसंधातुमिच्छति ।। ।। ५ ।।
तदद्य सकलस्यापि दुःखस्यापनये क्षमः ।।
स एव शरणत्वेन प्राप्तव्यः शंकरो मया ।। ६ ।।
तथा कृतापराधस्य कृतघ्नस्य गुरुद्रुहः ।।
तमृते रक्षिता कोऽन्यस्तमेव स्तौमि शंकरम् ।। ७ ।।
।। विष्णुरुवाच ।। ।।
जय पृध्वीमयाकार जय चापोमयाकृते ।।
जय प्रभाकराकार जयामृतकराकृते ।। ८ ।।
जय वैश्वानराकार जय गन्धवहाकृते ।।
जय होतृमयाकार जयाकाशमयाकृते ।। ९ ।।
रक्ष मां त्रिगुणातीत रक्ष मां कालविग्रह ।।
रक्ष मामक्षयैश्वर्य रक्ष मां करुणाकर ।। 1.3.2.14.१० ।।
स्रष्टा त्वं सर्वजगतां रक्षिता सर्वदेहिनाम् ।।
हर्ता च सर्वभूतानां त्वां विनैवास्ति कोऽपरः ।। ११ ।।
अणूनामप्यणीयांस्त्वं महांस्त्वं महतामपि ।।
अन्तर्बहिस्त्वमेवैतज्जगदाक्रम्य वर्तसे ।। १२ ।।
निगमास्तव निश्वासा विश्वं ते शिल्पवैभवम् ।।
स त्वं त्वदीय एवासि ज्ञानमात्मा तव प्रभो ।। १३ ।।
अमरा दानवा दैत्याः सिद्धा विद्याधरा नराः ।।
प्राणिनः पक्षिणः शैलाः शिखिनोऽपि त्वमेव हि ।। १४ ।।
स्वर्गस्त्वमपवर्गस्त्वं त्वमोंकारस्त्वमध्वरः ।।
त्वं योगस्त्वं परा संवित्किं त्वं न भवसीश्वर ।। १५ ।।
त्वमादिर्मध्यमंतश्च तस्थुषां जग्मुषामपि ।।
कालस्वरूपतां प्राप्य कलयस्यखिलं जगत् ।। १६ ।।
परेशः परतः शास्ता सर्वानुग्राहकः शिवः ।।
स एष मे कथंकारं साक्षाद्भवति धूर्जटिः ।। १७ ।।
यं दृष्ट्वा शरणं प्राप्तो निःश्रेयसमवाप्नुयात् ।।
अथ वा स्तौमि तद्धाम जातमात्रं यथामिति ।। १८ ।।
तच्छ्रुत्वैष कृपां कुर्यादवश्यं सर्वतः श्रुतिः ।।
इति निश्चित्य वैकुंठः स्तोतुं समुपचक्रमे ।। १९ ।।
तमेव तैजसं स्तंभं प्रणम्य परमेश्वरम् ।।
आदिमध्यांतरहितं मत्वा तं जगदीश्वरम् ।।
हठात्तेन विरंचेन वार्यमाणोपि सस्मितम् ।। 1.3.2.14.२० ।।
।। श्रीविष्णुरुवाच ।। ।।
जय देव महादेव वामदेव वृषध्वज ।।
कालांतक क्रतुध्वंसिन्नीलकंठेंदुशेखर ।। २१ ।।
जय शंभो शिवेशान शर्व त्र्यंबक धूर्जटे ।।
स्मरवैरिन्पुराराते स्थाणो भव महेश्वर ।। २२ ।।
जयेश खंडपरशो शूलिन्पशुपते हर ।।
सर्वज्ञ भर्ग भूतेश कपालिन्नीललोहित ।। २३ ।।
जय रुद्र मखाराते पिनाकिन्प्रमथाधिप ।।
गंगाधर व्योमकेश गिरीश परमेश्वर ।। २४ ।।
जय भीम मृगव्याध कृत्तिवासः कृपानिधे ।।
कृशानुरेतः कैलासे नित्यमेव हि वर्तसे ।। २५ ।।
त्वदाज्ञया मरुद्राति फणी वहति भूभरम् ।।
दीप्यतः सूर्यशशिनौ ब्रह्मांडं प्लवतेंऽबुधौ ।। २६ ।।
ज्योतींषि संचरंते खे सर्वं त्वच्छासनात्प्रभो ।।
अहं ब्रह्मा च जगतां सर्गसंत्राणयोरलम् ।। २७ ।।
विधाय कल्पसे पुष्ट्यै सूते सस्यानि मेदिनी ।।
नाक्रामंत्यव्ययः सीमां यच्च त्वन्महिरेव सः ।। २८ ।।
अणिमादिमहासिद्धिनिःसाधारणवैभवः ।।
कथं त्वाममरैरन्यैरुपेक्षे समभिष्टुतम् ।। २९ ।।
विशुक्त्वे विस्मरामस्त्वां स्मरामः संकटेपि च ।।
न रोषो जातु भक्तेषु प्रसादः सर्वदैव ते ।। 1.3.2.14.३० ।।
यदा विधित्सेर्भक्तिं त्वं यदा च प्रावृणोषि ताम् ।।
मोहबोधौ तदा पुंसां कल्पेते बंधमोक्षयोः ।। ३१ ।।
इति स्तुतस्सांजलिबद्धपाणिना पतिः पशूनामथ चक्रपाणिना ।।
कृतापहासे च सरोजसंभवे मदोद्धते प्रादुरभूद्दयानिधिः ।। ३२।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शंकरप्रादुर्भाववर्णनंनाम चतुर्दशोऽध्यायः ।। १४ ।। ।। छ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 15
।। नंदिकेश्वर उवाच ।। ।।
तेजःस्तंभं विनिर्भिद्य संध्याभ्रमिव चंद्रमाः ।।
कैलासकूटधवलं वृषेन्द्रमधितस्थिवान् ।। १ ।।
जटाजूटवता बालचंद्रचूडेन मौलिना ।।
कपालमालिकां वैधीं स्रजं चारग्वधी दधत् ।। २ ।।
नागकुंडलिभिः फालफलकोद्भासिलोचनैः ।।
पंचभिर्वदनैर्दीप्तैः क्ष्वेडकल्माषकंधरैः ।। ३ ।।
शूलं कपालं डमरुं सारंगं परशुं धनुः ।।
खट्वांगममलं खड्गं दोर्भिर्नागं च धारयन् ।। ४ ।।
श्वसितोद्धूलिताकारो गजचर्मोत्तरीयवान् ।।
सर्वालंकारसंपन्नः सर्वदेवैरभिष्टुतः ।। ५ ।।
परिधानीकृतव्याघ्रचर्मा ताभ्यामदर्शि सः ।।
रूपं दृष्ट्वा स आनंदं ननर्त्त नलिनेक्षणः ।। ६ ।।
न किंचिदपि जानानो मुमोह च सरोजभूः ।। ७ ।।
दृशाभिनंद्य माधवं प्रसन्नया महेश्वरः ।।
अथोदतिष्ठिपच्च तं सहुंक्रियश्चतुर्मुखम् ।। ८ ।।
जगाद चाधिकारितामदाद्युवां समुद्धतौ ।।
न लज्जितव्यमत्र वामयं क्रमोऽधिकारिणाम् ।। ९ ।।
परीक्ष्य वैभवं मम प्रबोधवानभूद्धरिः ।।
अयं न जातुपद्मभूश्छलन्मनो दुरात्मवान्।। 1.3.2.15.१० ।।
अशासि पंचवक्त्रता यदोपहासितो ह्यहम् ।।
पुनःस्वपुत्रिकारतिर्मयैष शिक्षितोऽभवत् ।। ११ ।।
तृतीय एष मंतुरप्यहो कथं नु सह्यते ।।
तदस्य तु प्रतिष्ठया क्वचिन्न भूयतां विधेः ।। १२ ।।
अयं च केतकच्छदो यदाप कूटसाक्षिताम् ।।
अतः परं न जातु तन्ममैतु मूर्ध्नि संस्थितिम् ।। १३ ।।
शप्त्वैवमेतौ गिरिशः प्रीत्या विष्णुमभाषत ।। ।। १४ ।।
।। श्रीमहेश्वर उवाच ।। ।।
वत्स मा भैः प्रसन्नोऽस्मि भवते भक्तिशालिने ।।
ननु त्वमंगान्मे जातस्सात्त्विकोऽसि विशेषतः ।।
माहेश्वराग्रगण्योऽसि जगत्यां हि यथा पुरा ।। १५ ।।
न तवातः परं जातु भक्तिहानिर्भवेन्मयि ।।
प्रतिक्षणं वर्द्धमाना कल्पते च विमुक्तये ।। ।। १६ ।।
इत्यनुग्रहकृतं त्रिलोचनं भक्तिभाजि निरहंक्रिये हरौ ।।
भीतिमानवनतः स्वयं विधिः स्तोतुमारभत क्लृप्तवंदनः ।। १७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये उत्तरार्धे ब्रह्मकृतशिवस्तुत्युद्यमवर्णनंनाम पञ्चदशोऽध्यायः ।। १५ ।। ।। छ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 16
।। ब्रह्मोवाच ।। ।।
देवदेव तवैश्वर्यं केन शक्येत वेदितुम् ।।
विना भायैक्यसुलभं भवदीयमनुग्रहम् ।। १ ।।
अकर्तृकाणि वाक्यानि ऐश्वर्यं ते निरत्ययम् ।।
न स्तोतुं शक्यते किं तु नमस्कुर्वंति दूरतः ।। २ ।।
को विष्णुः कोऽहमेते वा दिक्पाला वासवादयः ।।
त्वमेव देव कर्त्तासि जगत्सृजनरक्षयोः ।। ३ ।।
पतिस्त्वं पार्वतीनाथ पशवो वयमप्यमी ।।
बद्धं पाशेन मोक्तुं वा त्वमेवास्मान्प्रगल्भसे ।। ४ ।।
षड्विंशत्तत्त्वरूपस्त्वमभितश्चाभिवर्त्तसे ।।
कोविदः को विनिर्णेतुं तव याथात्म्यमीश्वरः ।।५।।
किरातः किल देवस्त्वं सारमेयैः किलागमैः ।।
षड्वर्गहिंस्रान्संहर्तुं करोष्याखेटकौतुकम् ।।६।।
देव दक्षाध्वरे पूर्वं वरिभद्रस्त्वदाज्ञया ।।
कांकां शिक्षामकार्षीन्न इति कापि विडम्बना ।। ७ ।।
तव कालाग्निरूपस्य सर्वब्रह्मांडदाहिनः ।।
पोषणात्पुष्पचापस्य प्रायो जिह्वेति शेमुषी ।। ८ ।।
कृतापराधः शूलेन त्वया दीर्णो जलंधरः ।।
अन्तकोंधकदैत्यश्च प्रतिवीरश्च कोऽस्ति ते ।।९।।
अधारयिष्यत्कण्ठेन कालकूटं न चेद्भवान् ।।
कथं च धारयिष्यामो वयं सर्वेऽपि जीवितम् ।। 1.3.2.16.१० ।।
देवदारुवने पूर्वं मुनीन्केवलकर्मठान् ।।
प्रक्षोभ्य धूर्तवेषस्त्वं दययान्वग्रहीस्तथा ।। ११ ।।
अंघ्रिणाक्रांतवान्नो चेदत्युग्रां त्वमपस्मृतिम् ।।
तयाक्रांतमिदं कृत्स्नमंधकारायते जगत् ।। १२ ।।
अर्धनारीश्वरं रूपं त्वया चेन्न प्रकाशितम् ।।
प्रभवामि कथं स्रष्टुं जगदेतच्चराचरम् ।। १३ ।।
भवता स्तंभितः शम्भो संरंभाज्जंभजिद्भुजः।।
कियंतं हंत कालं ते जयस्तंभ इव स्थितः।।१४।।
भिक्षोः कपालमापूर्य रुधिरेणात्मनो हरिः।।
शूलेनोत्क्षिप्य मुमुहे ह्येतत्त्वमवधारय।। १५।।
न चेदशिक्षयः सर्वशस्त्रास्त्राण्यनुकंपया ।।
निर्वापयेत्कथं वैरं क्रुद्धोपि जमदग्निभूः ।। १६ ।।
नृहरिं शरभाकारः समहार्षीन्न चेद्भवान् ।।
स एव संहरेद्विश्वं हिरण्यकशिपोरपि ।। १७ ।।
त्वमाचकृक्षः कल्पाब्धौ कैवर्त्तो मत्स्यकच्छपौ ।।
हरिं बद्ध्वाहिराट्सूत्रैर्नृसिंहमथ सूकरम् ।। १८ ।।
एकोने पद्मसाहस्रे स्वनेत्रेण कृतार्चनम् ।।
शूलिन्सुदर्शनं दत्त्वा दैत्यद्विषमतूतुपः ।। १९ ।।
।। नंदिकेश्वर उवाच ।। ।।
स्तुत्यैवमस्य विष्णोश्च प्रार्थनेन प्रसेदिवान् ।।
धूर्जटिः सृष्टिकर्तृत्वं पुनरस्याभ्यमन्यत ।। 1.3.2.16.२० ।।
समँज्यासु द्विजानां च पूजनं चानुशिष्टवान् ।।
उभावप्यब्रवीदेतौ वात्सल्याच्चद्रशेखरः।। २१ ।।
।। श्रीशिव उवाच ।। ।।
वत्सौ युवां न ज्ञात्वैवं भूयो भवतमुद्धतौ ।।
गुरुं स्मरतो मामेव जाग्रतं सृष्टिरक्षयोः ।। २२ ।।
इह प्रदेशे युवयोर्यन्मयानुग्रहः कृतः ।।
पुण्यक्षेत्रमिदं पुंसां ततो मोक्षाय कल्पताम् ।। २३ ।।
योजनत्रयमात्रेऽस्मिन्क्षेत्रे निवसतां नृणाम् ।।
दीक्षादिकं विनाप्यस्तु मत्सायुज्यं ममाज्ञया ।। २४ ।।
यद्वा तिरश्चामप्यत्र स्थावराणां च देहिनाम् ।।
अबुद्धिपूर्विका बुद्धिरपवर्गस्य जायताम् ।। २५ ।।
नृणां च दर्शनाद्दूरे कैवल्यं स्मरणेन वा ।।
अस्तु वेदांतविज्ञानं न साध्यं निष्प्रयासतः ।। २६ ।।
शुभाय तैजसी मूर्तिः स्थावरा मम शाश्वती ।।
अरुणाद्रिरिति ख्याता नित्यमेवात्र वर्त्तताम् ।। २७ ।।
युगात्ययेपि नैनं तु मज्जयेयुर्महाब्धयः ।।
न चालयेयुर्मरुतो न दहेयुश्च वह्नयः ।। २८ ।।
ज्योतिर्मयमिदं लिंगं ज्योतिःष्वपि न जातुचित्।।
क्रमंता निर्गमागत्या खेचराणि समंततः।। २९।।
यस्यानुग्रहमिच्छामि जंतो्तस्यात्र संभवः।।
देहांते कल्पतां मुक्त्यै विनौपनिषदीर्गिरः।। 1.3.2.16.३०।।
एष दूरात्प्रणामेन निकर्षाच्च प्रदक्षिणात्।।
अपि पापात्मनां पुंसामस्तु निश्रेयसप्रदः ।। ३१ ।।
अत्रैव नियतं वासाः संभवंति महात्मनाम् ।।
तस्मात्स्थलमिदं हित्वा न गंतव्यं कदाचन ।। ३२ ।।
शोणाचलमनादृत्य क्वचित्स्थित्वापि मुक्तये ।।
तस्माद्युवां विधिहरी वसतं चात्र नित्यशः ।। ३३ ।।
।। नंदिकेश्वर उवाच ।। ।।
इत्युक्तवंतं कामारिं प्रणम्य विधिमाधवौ ।।
तौ व्यज्ञापयतां देवं दूरीभवदहंक्रियौ ।। ३४ ।।
।। विधिमाधवावूचतुः ।। ।।
एवमेतज्जगदाधार जगदाधारतां गतः ।।
आस्तां गिरिरसौ किं तु तेजो ह्यस्य सुदुस्सहम् ।। ३५ ।।
अतोयमुत्तमो रुद्र तेजः सामान्यशैलवत् ।।
तिष्ठत्वभेद्यमहिमा निश्रेयसमहाखनिः ।। ३६ ।।
विवृणोति निजं ज्योतिर्विश्वस्यास्य समृद्धये ।।
प्रत्यब्दं कार्त्तिके मासि कृत्तिकासु दिनात्यये ।। ३७ ।।
शर्मदोपि नृणां देव शोणाद्रिस्तव शासनात् ।।
महत्त्वादर्चितुं शक्यो न स्याद्भक्तस्य कस्यचित्।।३८।।
एतस्योपत्यकायां तदद्यारभ्यास्मदर्थनात्।।
देवेन सन्निधातव्यमवन्यां लिंगरूपिणा।।३९।।
तच्चारुणगिरीशानमावामाराधयावहे।।
अभिषेकानुलेपाद्यैरुपचारैर्यथाविधि ।।1.3.2.16.४०।।
संत्यत्र केशराश्चूता नागपुंनागकेसराः।।
आरग्वधाः कुरबका मालूराः पाटला अपि ।। ४१ ।।
अत्रैव सन्निधातव्यं देवदेव दयानिधे ।।
यतस्त्वद्भक्तिदार्ढ्यं नौ भवतात्त्वदुपासनात्।।४२।।
नान्यथा चित्तशुद्धिर्न्नौ देवेऽप्येवं प्रसेदुषि ।।
अनाद्यविद्यावृतये यो भविष्यति नित्यशः ।। ४३ ।।
शोणाद्रेः पूर्वदिग्भागे स एष भृशमुन्नतः ।।
स एवालं निवासाय देवस्य हृदयंगमः ।।।।४४।।
सांगवेदा धर्मशास्त्रं पुराणानि शिवागमाः ।।
कृत्वा च सकलाः प्रोक्ता भवतैव भवावयोः ।।४५।।
निश्रेयसाय भक्तानां त्वयैव गुरुरूपिणा।।
अष्टाविंशतिराख्याता आगमाः शैवसंज्ञिताः ।। ४६ ।।
तेषु कस्य प्रकारेण कुर्वाणौ त्वदुपासनाम् ।।
कदाप्यज्ञानजामार्तिं नाधिगच्छाव शंकर ।। ४७ ।।
।। नंदिकेश्वर उवाच ।। ।।
इति तौ धातृगोविंदौ पादपद्मावलंबिनौ ।।
जगाद करुणामूर्त्तिर्जगतीभृत्सुतापतिः ।। ४८ ।।
।। श्रीमहादेव उवाच ।। ।।
युक्तमुक्तमिदं भद्रौ मयाप्येवं मनीषितम् ।।
कामिकोक्तेन मार्गेण मामर्चयितुमर्हथः ।। ४९ ।।
मोहतो विस्मृता मन्ये भवद्भ्यां शैवसंहिता ।।
अधुना मत्प्रसादेन पुनरुद्भासतां हृदि ।। 1.3.2.16.५० ।।
।। नन्दीश उवाच ।। ।।
इत्युक्त्वा श्रीशवागीशौ गिरिशोऽन्तरधादथ ।।
तदा प्रादुरभूत्तत्र लिंगं किमपि मंगलम् ।। ५१ ।।
तच्चावलोक्य साश्चर्य्यौ मुकुन्दकमलासनौ ।।
मुहुः प्रणम्य सानंदं प्रार्च्य तुष्टुवतुश्चिरम् ।। ५२ ।।
तावकारयतां शोणगिरिनाथस्य चालयम् ।।
नानाशिल्पाद्भुतं विश्वकर्मणा प्रचयेन च ।। ५३ ।।
खानयामासतुस्तत्र सरः किमपि पावनम् ।।
अभिषेकाय देवस्य सर्वतीर्थमयं नवम् ।। ५४ ।।
अरुणाख्यं पुरं चारात्कल्पयामासतुश्चिरम् ।।
सिद्ध्यै नोत्कंठते लब्ध्वा कैलासायापि धूर्जटिः ।।५५।।
तस्यां ब्रह्मर्षयो देवा गंधर्वा दिव्ययोषितः ।।
सिद्धविद्याधरा यक्षाः पौरत्वं समुपाययुः ।। ५६ ।।
तीर्थानि धार्य कूपत्वं गंगाद्याः सरितस्तथा ।।
नंदनादीनि च वनान्यभवन्निष्कुटत्वतः ।।५७।।
गोलोको गोगोष्ठतया नैगमत्वं किलागमाः ।।
शैलाश्च गोपुरादित्वं स्मृतयो विधितां ययुः ।।५८।।
भूताः प्रेताः पिशाचाश्च वेतालाः कटपूतनाः ।।
प्रपन्ना मानुषं देहं तस्यां किल पृथग्जनाः ।। ५९ ।।
देवोपि धूर्जटिस्तस्यां कौतुकी सिद्धरूपधृक् ।।
योगित्वं समुपास्थाय मात्राकौपीनमुण्डधृक् ।।1.3.2.16.६०।।
न केनचिदविज्ञातः सदा सर्वत्र दीप्यति ।।
तौ च केशवलोकेशौ जटिलौ भस्मगुण्ठितौ ।।६१।।
दांतौ शोणाद्रिनाथं तमर्चयामासतुश्चिरम् ।।
तत्रत्यानां च सर्वेषां वर्णानामानुगुण्यतः ।। ६२ ।।
दीक्षादिकानि चक्राते स्वयमाचार्यतां गतौ ।।
क्रमेण हृतनिर्माल्यौ सर्वागमरहोविदौ ।। ६३ ।।
प्रातः स्नात्वा समाहृत्य पुष्पपत्रादिकं फलम् ।।
मंत्रं चारुणनाथस्य तत एव रहः श्रुतम् ।। ६४ ।।
जंजल्पाकौ जजपतुः सर्वमंत्राधिकं सदा ।।
धूपप्रदीपनैवेद्यैर्गीतवादित्रनर्तनैः ।। ६५ ।।
प्रदक्षिणानमस्कारैर्मुद्राबंधैर्नवैर्नवैः ।।
आसनेन च मूर्त्त्या च मूलेन च यथाविधि ।। ६६ ।।
पंचब्रह्मषडंगाद्यैरर्चयामासतुः शिवम् ।।
एवं वर्षसहस्राणि षोडशारुणशंकरम् ।। ६७ ।।
वेधोविष्णू समाराध्य शिवज्ञानमवापतुः ।। ६८ ।।
इतीदमश्रावि मया रहस्यं पितुः शिलादस्य मुखात्पुरा यत् ।।
निवेदितं चाद्य तदेव तुभ्यं किमन्यदाकर्णयितुं मनीषा ।। ६९ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मविष्णुकृतारुणाचलेश मंदिरवर्णनंनाम षोडशोऽध्यायः ।। १६ ।। ।। छ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 17
।। सूत उवाच ।। ।।
इति श्रुत्वास्य वचनं मार्कंडेयोऽभ्यभाषत ।।
।। मार्कंडेय उवाच ।। ।।
श्रुतमेव मया देव श्रोतव्यं भवतो मुखात् ।। १ ।।
तथापि कौतुकेनाहमाक्रांतो मुनयोऽप्यमी ।।
गौर्या कथं तपस्तप्तं महादेव्यात्र कथ्यताम् ।। २ ।।
।। नंदिकेश्वर उवाच ।। ।।
कथयामि तदप्येतद्यथाऽधिगतमात्मना ।।
शृणु त्वमवधानेन मार्कंडेय महामते ।। ३ ।।
ननु जानासि तत्पूर्वं यथा दाक्षायणी शिवः ।।
उपयेमे सतीं नाम सतीनामधिदेवताम् ।। ४ ।।
यथा च सा क्रुधा भर्तुर्द्रुहि दक्षप्रजापतौ ।।
योगादहासीदात्मीयं वपुरित्यपि ते श्रुतम् ।। ५ ।।
तदा हराज्ञानिघ्नेन वीरभद्रेण यत्कृतम् ।।
अध्वरध्वंसनं दक्षस्यापि ते विदितं महत् ।। ६ ।।
अश्रौषीस्तस्य दक्षस्य गणैः शीर्षासखंडनम् ।।
ब्रह्माच्युतेंद्रमुख्यानां देवानामपि शिक्षणम् ।। ७ ।।
दंतघातं रवेः पाणिपाटनं जातवेदसः ।।
अदितिप्रभृतीनां च दिव्यस्त्रीणां पराभवम्।। ।। ८ ।।
सा च देवी पुनर्जन्म लेभे हिमवतो गृहे ।।
उमेति पार्वतीत्याख्यां द्वितीयां विभ्रती पुनः ।। ९ ।।
देवः स्थाणुवने तां च परिचर्यापरं रहः ।।
अरुरोचयिषुः काममधाक्षीत्कालवह्निना ।। 1.3.2.17.१० ।।
जितेंद्रियं च तं देवं क्वापि यातं गणैः सह ।।
तपोभिस्तोषयामास गौरी शिखरवासिनी ।। ११ ।।
उपयम्याथ तां देवो वृत्तांतैश्चित्तखंडिभिः ।।
रमयामास चैकांते मोदस्वेति विलासिनीम् ।। १२ ।।
वैधव्यखिन्नया रत्या प्रार्थिता शैलनंदिनी ।।
कामपीठे तपस्यंती कामं प्रत्युददीपयत् ।। १३ ।।
पुनश्च मेनया मात्रा पित्रा च हिमभूभृता ।।
आनीता भवनं भर्त्रा साकं चिरमरंस्त सा ।। १४ ।।
तदा शुंभनिशुंभाख्यौ लेभाते वेधसो वरम् ।।
देवदानवमर्त्येषु मास्तु नौ पुरुषान्मृतिः ।। १५ ।।
इति तद्वचनं श्रुत्वा जातत्रासैः सुपर्वभिः ।।
अभ्यर्थितोऽवदद्देवो रहश्चक्रधरादिभिः ।। १६ ।।
माभैष्ट भद्र कालेन तथा प्रतिविधीयते ।।
यथा निषूदितौ स्यातां तादृशौ दानवाविति ।। १७ ।।
दत्ताभयान्मुकुंदादीन्विसृज्यांधकसूदनः ।।
अंतःपुरगतो रेमे देव्या सह यथा पुरा ।। १८ ।।
कदाचिन्मर्मलक्ष्येण प्रीत्या कालीति निंदिता ।।
तस्य प्रीत्यै कालिका च त्वचमेवाजहान्निजाम् ।। १९ ।।
यत्रोत्क्षिप्तवती चर्म स्वेच्छया परमेश्वरी ।।
महाकाशीप्रपाताख्यं तदभूत्क्षेत्रमुत्तमम् ।। 1.3.2.17.२० ।।
सा च त्वक्कौशिकी नाम्ना काली विंध्याद्रिवासिनी ।।
तपस्यंती वृषस्यंतौ तो जघान महासुरौ ।। २१ ।।
देवी च गौरी शिखरे तस्मिन्नेव मनोहरे ।।
तपोभिर्लब्धगौरीत्वाद्भर्त्तारं समतोषयत् ।। २२ ।।
क्रमेण दौर्हृदवती भूत्वा प्रासूत पार्वती ।।
गजाननं च हेरंबं सेनान्यं च षडाननम् ।। २३ ।।
तौ चागमविदः प्राहुर्नारायणचतुर्मुखौ ।।
पूर्वापराधशुद्ध्यर्थं देवीगर्भसमुद्भवौ ।। २४ ।।
वर्धमानौ च तौ बालौ पित्रोरालोकमानयोः ।।
मग्नयोरिव वर्षाब्धौ प्रेमग्रंथिरभूद्दृढा ।। २५ ।।
जातु वीणानिनादेन कदाचिच्चित्रलेखनैः ।।
विजह्रतुश्शिवौ स्वैरमेकदा मंडनैर्मिथः ।। २६ ।।
जातु विद्यागमालापैः कदाचिच्चित्रवस्तुभिः ।।
एकदा लोकवृत्तांतैर्दंपतिभ्यां विनोदितम् ।। २७ ।।
पुष्पावचयनैर्जातु कदाचिद्वारिखेलनैः ।।
अदीव्यतां च रागार्द्रौ दोलाकेलिभिरेकदा ।। २८ ।।
मैनाकेनार्चितौ जातु मेनया जातु पूजितौ ।।
जात्वर्हितौ हिमवता दंपती तौ विनोदितौ ।।२९।।
जातु द्यूतविनोदेन गतिगोष्ठ्या कदाचन ।।
एकदा दानलीलाभिः शिवौ चिक्रीडतुश्चिरम् ।। 1.3.2.17.३० ।।
द्यूतनिर्जितमाच्छिद्य पत्युरुत्संगतां गतम् ।।
वलयीकृतमेणांकं ताटंकीकृतवत्युमा ।। ३१ ।।
इति तौ पितरौ चराचराणां निवसंतौ कनकाचलादिकेषु ।।
रुचिरेषु पदेषु कामभोगानतिहृद्यान्सुचिरं किलान्वभूताम् ।। ३२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शिवपार्वतीविहारवर्णनंनाम सप्तदशोऽध्यायः ।। १७ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 18
।। नंदिकेश्वर उवाच ।। ।।
गार्हस्थ्यं बिभ्रती भर्तुरेकाम्रतलवासिनः ।।
पक्वान्नपानैस्सा तत्र पर्य्यतर्पयत प्रजाः ।। १ ।।
जातु संध्यानुसंधानमुकुलीकृतलोचनम् ।।
बद्धांजलिपुटं देवमद्राक्षीदद्रिनंदिनी ।। २ ।।
ध्यायते नूनमधुना कापि सौभाग्यशालिनी ।।
क्रियते यन्मयि प्रेम तन्मन्ये वचनं महत् ।। ३ ।।
कथं विज्ञायते पुंसां कुटिला मानसी स्थितिः ।।
मिथ्योपचाराद्दक्षेण वंचितास्म्यमुना भृशम् ।। ४ ।।
मयि दाक्षिण्यमेवास्य मन्ये मनसि चेद्रहः ।।
जनः सौभाग्यवान्यस्माद्भवति स्नेहभाजनम् ।। ५ ।।
अद्यप्रभृति ते दासस्तपोभिः क्रीत इत्यपि ।।
मुग्धेंदुशेखरेणास्मि विप्रलब्धा स्मरारिणा ।। ६ ।।
असमानानुरागेषु नारीणां मूढचेतसाम् ।।
सौभाग्यगर्वो लोकेषु परिहासाय केवलम् ।। ७ ।।
इति प्रणयरोषेण देव्याः कलुषचेतसः ।।
हव्यवाहातपालीढमिवाननमलक्ष्यत ।। ८ ।।
वाष्पवारिप्लवे तस्या आताम्रे च विलोचने ।।
नीलोत्पले जलापूर्णे इव भूम्ना विरेजतुः ।। ९ ।।
यत्तस्याधीनतिलकं भ्रुवोर्युगमभज्यत ।।
द्वेधाकृतमिवादर्शि मन्मथस्य शरासनम्।। 1.3.2.18.१० ।।
अंतर्मन्युभरेणास्याः कंपते स्माधरच्छदः ।।
मुहुः प्रवालस्थायीव रक्ताशोकस्य पल्लवः ।।११।।
अतीव रज्यमाने तत्पार्वत्या गंडमंडलम् ।।
शाणावघर्षमाणिक्यदर्पणप्रतिमं बभौ ।। १२ ।।
अंतर्वेपधुतौ तस्याश्चकंपाते पयोधरौ ।।
पद्मकोशाविवांतःस्थ चंचरीकप्रचालितौ ।। १३ ।।
अचिंतयच्च संभूय सौभाग्याभावतो ननु ।।
ममायमन्यस्त्रीचिंतां कुरुते चंद्रभूषणः ।। १४ ।।
तदैषा क्वापि यास्यामि किमत्रास्त्येकया मम ।।
तपस्यते च सौभाग्यमर्जनीयं मयाधुना ।। १५ ।।
निमीलिताक्षिण्येवास्य गंतव्यं निभृतं मया ।।
न चेन्मां वारयत्येष कंठादुपरि भाषितैः ।। १६ ।।
वत्सौ तु वर्धयत्येव गंगेयमतिवत्सला ।।
देवस्तु न स्मरत्येव मामन्यस्त्रीपरायणः ।। १७ ।।
इति निश्चित्य देवस्य पार्श्वादाशु निवृत्त्य सा ।।
अनिर्दिश्य दिशं कांचिद्यातुं व्यग्रा प्रचक्रमे ।। १८ ।।
चलावती माल्यवती मालिनी विजया जया ।।
वारिता अपि संरंभात्स्वामिनीमन्वयुः स्वयम् ।। १९ ।।
तत्र सापि गिरीन्पुण्यान्वनानि नगराणि च ।।
सरांसि सरितश्चैषा विचचार समंततः ।। 1.3.2.18.२० ।।
भ्रमंती सह्यपादेषु द्राविडाख्ये सुनीवृति ।।
तीर्त्वा शक्त्यापगां देवी विजयां समभाषत ।। २१ ।।
दृश्योऽयं नातिदूरेण पुरस्तात्सकलारुणः ।।
शृंगैस्संलक्ष्यतेऽष्टाभिर्नूनं माहात्म्यवान्गिरिः ।। २२ ।।
उपत्यकासु चैतस्य दृश्यंते तापसाश्रमाः ।।
अतीव पावनाः शांताः पुण्यारण्यमनोहराः ।। २३ ।।
गत्वा निरूपयामस्तानिमान्पुण्याश्रमान्वयम् ।।
प्रसीदतितरां चेत एषां संदर्शनेन मे ।। २४ ।।
एवमाह्रादयत्यालि क्रमेण गिरिनंदिनी ।।
तस्याद्रेर्जग्मुषी पार्श्वमपश्यत्कंचिदाश्रमम् ।। २५ ।।
लूतास्तंतून्नयंत्यत्र कुम्भीराः शैवलान्यपि ।।
शिशून्पुष्णंति नीवारैः सफरान्भूरिमायवः ।। २६ ।।
हरंत्यवकरान्वालैश्चमराः स्फीतरोमभिः ।।
समीकुर्वंति चोद्भूतैर्विषाणैर्यत्र सैरिभाः ।। २७ ।।
वानराः फलपुष्पाणि मधुपत्राणि भल्लुकाः ।।
क्रोडाः स्नानीयमृत्स्नां च यत्रर्षिभ्यो नयंत्यहो ।। २८ ।।
काकोलूकैः शुकश्येनैर्मृगव्याघ्रैर्हरिद्विपैः ।।
कलापिसर्पैर्यत्रासुमार्जारैः सौहृदं श्रितम् ।। २९ ।।
हूयमानपुराडाशद्रव्यसौरभ्यहारिणी ।।
यत्र द्रुमांतरालेभ्यो धूम्या निर्याति पावनी ।। 1.3.2.18.३० ।।
पठंति शतरुद्रीयं यत्र वायसवैरिणः ।।
गृणंति काकाः स्तोत्राणि साम गायंति सारिकाः ।। ३१ ।।
शाकशालिषु शार्दूलाश्चरंति च तथैव गाः ।।
सिंचंति पुष्करांभोभिः कुंभिनी यत्र पादपान् ।। ।। ३२ ।।
क्वचिच्च शोभने देशे पुण्ये पुण्यमनोहरे ।।
ददर्श सा तपस्यन्तं यं कंचिद्दृषिसत्तमम् ।। ३३ ।।
अधस्तात्सप्तपर्णस्य चित्रव्याघ्रत्वगासने ।।
बद्धवीरासनं सम्यक्पावने कुशविष्टरे ।। ३४ ।।
शालिशूकारुणाभाभिर्जटाभिर्भस्मपांडुरम् ।।
अचंचलाभिर्विद्युद्भिरिव शारदवारिदम् ।। ३५ ।।
नासाग्रनिश्चलदृशं समप्रस्फुरिताधरम् ।।
आवर्त्तयन्तं रुद्राक्षमालिकामग्रपाणिना ।। ३६ ।।
प्रत्यग्रनिर्णेजनतो ह्यंत्यश्यानदशांचले ।।
वसानं वल्कलयुगे संध्याभ्रे भूभृतां यथा ।। ३७ ।।
षड्वर्गहिंस्रबंधाय स्थापितां वागुरामिव ।।
उपवीतत्रयीमारादुरोगर्तस्य बिभ्रतम् ।।
कृतोचितोपचारा सा तमप्राक्षीत्तपोधनम् ।। ३८ ।।
।। पार्वत्युवाच ।। ।।
कस्त्वं कोऽयं गिरिवरो यत्र त्वं कुरुषे तपः ।। ३९ ।।
स चाहारुणशैलोऽयं पुण्यक्षेत्रेषु पूजितः।।
गौतमोऽहं मुनिर्मुक्त्यै तपसाराधये शिवम् ।। 1.3.2.18.४० ।।
इत्युक्त्वा विजयादीनां मुखेनैनामुमां विदन् ।।
प्रणम्य भक्त्या बहुशो नीतवानुटजं निजम् ।। ४१ ।।
कन्दमूलफलाद्यैश्च कृतातिथ्यामिमां मुनिः ।।
जगन्मंगलमूलाय तपसे चान्वमन्यत ।। ४२ ।।
ज्योतिःस्तम्भस्य संभूतिमारभ्यानुक्रमेण सः ।।
जगाद चास्यै शोणाद्रेर्महिमानमशेषतः ।। ४३ ।।
शोणाद्रेः पूर्वदिग्भागे स्थलीश्वरमिति स्थलम् ।।
यत्र संनिहितः शंभुर्ज्योतिर्लिंगात्मतां गतः ।। ४४ ।।
वैकुण्ठपरमेष्ठ्यादि गीर्वाण निबिडीकृते ।।
न तत्र मे तपः कर्तुमव्याक्षेपेण शक्यते ।। ४५ ।।
अयं शोणगिरेः पादः प्रवालाचलनामवान्।।
पुण्यारण्योपरुद्धत्वाद्रहस्यत्वं विगाहते ।। ४६ ।।
तत एवाहमत्रैव प्रतिष्ठाप्य त्रिलोचनम् ।।
आराधये यथाशक्ति तपोभिः कल्पितात्मभिः ।। ४७ ।।
ममाश्रमसमीपेऽस्मिन्पुण्यक्षेत्रमिदं महत् ।।
क्रियतामाश्रमो देव्या कर्त्तव्यं हि तपश्चिरम् ।। ४८ ।।
मुनेरेवमनुज्ञानात्कृताश्रमपरिग्रहा ।।
उदयुंक्त तपः कर्त्तुं सुमहत्पर्वतात्मजा ।। ४९ ।।
आश्रमं रक्षितुं सत्यवतीं काननवासिनीम् ।।
शुभगां धुंधुमारिं च प्रागाद्याशास्वतिष्ठिपत् ।। 1.3.2.18.५० ।।
तपोवनस्य सर्वस्य रक्षार्थं सा समादिशत् ।।
दुर्गामनर्गलस्फूर्तिमाज्ञानिर्वाहणक्षमाम् ।। ।। ५१ ।।
अनंतरं सा धम्मिल्लं मंदारप्रसवोचितम् ।।
जटाभरत्वं तपसे गमयामास पार्वती ।। ५२ ।।
हंसचिह्नदशं हित्वा दुकूलं मिहकालघु ।।
परुषं सुकुमारांगी परिधत्तेस्म वल्कलम् ।। ५३ ।।
अपि प्रसूनावचयनिस्सहांगुलिपल्लवा ।।
अलावीदतितीक्ष्णाग्राण्यविकारं कुशानि सा ।। ५४ ।।
वज्रसूचिनिर्भरांगैरवच्छिन्नानि कंटकैः ।।
शिरीषमृद्वी शांडिल्यपल्लवान्युच्चिकाय या ।। ५५ ।।
पावन्यां कमलानद्यां प्रातर्विहितमज्जना ।।
अर्चयामास रक्ताब्जैर्यथाविधि विभाकरम् ।। ५६ ।।
दर्भाक्षततिलोन्मिश्रैर्गौरी श्रीनदिवारिभिः ।।
देवी निर्वर्तयामास देवर्षिपितृतर्पणम् ।। ५७ ।।
वालुकामंडले सूर्यमावाह्याभ्यर्च्य पंकजैः ।।
कृतप्रदक्षिणा गौरी प्रणनाम सहस्रशः ।। ५८ ।।
स्वयमेव प्रतिष्ठाप्य लिंगं किमपि शंकरम् ।।
आगमोक्तेन विधिना पूजयामास पार्वती ।। ५९ ।।
आसनेन च मूर्त्या च मूलेनांगैश्च सा रविम् ।।
दंडिपिंगलमुख्यांश्च शक्तीर्दीप्तादिका अपि ।। 1.3.2.18.६० ।।
तत्तद्दिक्षु च सोमादीन्ग्रहान्धेन्वादिमुद्रया ।।
तेजश्चंडे चार्चयित्वा निर्माल्यं च न्यवेदयत् ।। ६१ ।।
अर्घेणातीव शुद्धेन संप्रोक्ष्य च समंततः ।।
द्वारवास्तु समभ्यर्च्य न्यासानपि चकार सा ।। ६२ ।।
भूतशुद्धिं विधायान्वगंतर्यागं चकार सा ।।
हृदि पद्मासने चार्च्य ज्ञानधर्मादिकान्क्रमात् ।। ।। ६३ ।।
शक्तीर्दलेषु वामादीर्दलाग्रे सूर्यवेधसौ ।।
केसराग्रे सोमविष्णू कर्णिकाग्रेऽग्निधूर्जटी ।। ६४ ।।
तदूर्ध्वे शक्तिचक्रं च विन्यस्तब्रह्मपंचका ।।
अंगैर्दत्त्वा च पाद्यादीनुपचर्याभिषिच्य सा ।। ६५ ।।
प्रादाच्चंदनपुष्पादि धूपदीपप्रदायिनी ।।
भूयोपि पंचब्रह्माणि षडंगान्यप्यपूजयत् ।। ६६ ।।
तत्तद्दिक्षु च शक्रादीन्वज्रादींश्च विधानतः ।।
कृत्वा सर्वोपचारांश्च वितताराष्टपुष्पिकाम् ।। ६७ ।।
पंचवक्त्राणि चाभ्यर्च्य कृतचंडेश्वरार्चना ।।
प्रदक्षिणा प्रणामाद्यैर्नित्यं शिवमपूजयत् ।। ६८ ।।
शिवागमोक्तविधिना द्रव्यैः सौभाग्यदायिभिः ।।
सा जुहाव च पूजांते प्रणीते जातवेदसि ।। ६९ ।।
परिकल्पितोपचारा च कंदमूलफलादिकैः ।।
स्वयं कृतोपचारेयमतिथीनभ्यपूजयत् ।। 1.3.2.18.७० ।।
अंगुष्ठाग्रेण तिष्ठंती ग्रीष्ये पंचाग्निमध्यतः ।।
ह्रदे च शिशिरे चंद्रपीयूषाप्यायिताऽभवत् ।। ७१ ।।
वर्षरात्रीषु धाराभिः सह वारिधरा पुनः ।।
सौदामिनीव ददृशे तमसि स्तिमिता कृतिः ।। ७२ ।।
पाणिपादेन पद्मानि मुखेन च कलानिधिम् ।।
प्रदर्शयत्यनायासान्निन्ये सा हैमनीर्निशाः ।। ७३ ।।
नीवारबीजदानेन सा मृगानप्यपोषयत् ।।
अज्ञातहिंसाभिभवानाश्रमोपांतवर्तिनः ।। ७४ ।।
कृतालवालसलिलैः सुवालाकलशाहृतैः ।।
वात्सल्याद्वर्द्धयामास पूर्णानाश्रमपादपान्।। ७५ ।।
प्रदक्षिणां कृतवती शोणशैलं गिरींद्रजा ।।
सा मनोरथसंसिद्ध्यै नित्यं सह सखीजनैः ।। ७६ ।।
पंचाक्षरी जजापैषा शिवस्तोत्राण्युदैरयत्।।
दध्यौ च देवं मनसा शोणपर्वतरूपिणम् ।। ७७ ।।
अनुदिनमरुणाचलेश्वरं सा प्रणतवती विहितप्रदक्षिणाद्यैः ।।
शिवनिगमविधानवेदिनी सा व्यरचयदद्रिसुता चिरं तपस्याम् ।। ७८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे पार्वतीकृतारुणाचलेश्वरपरिचरणवर्णनंनामाऽष्टादशोऽध्यायः ।। १८ ।। ।। छ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 19
।। नंदिकेश्वर उवाच ।। ।।
तावत्कुतश्चिदाकर्ण्य तत्रस्थां महिषासुरः ।।
अवज्ञातसुरारातिर्विध्वंसितपुरंदरः ।। १ ।।
सर्वलोकजयी सिद्धविद्याधरभयावहः ।।
दुर्निग्रहो वरादासीच्छस्त्रास्त्रैरखिलैरपि ।। २ ।।
तीक्ष्णानामपि शापानामप्यगोचरतां गतः ।।
दर्पद्भिर्दानवैदैत्यैः कौणपैश्च निषेवितः ।। ३ ।।
दूषको मुनिपत्नीनां धर्ममार्गोपघातकः ।।
बलात्पुलोम्नो नमुचेर्वृत्रादपि बलाधिकः ।। ४ ।।
हिरण्यकशिपोर्वश्यो हिरण्याक्ष इवापरः ।।
तां विलोभयितुं कांचित्प्राहिणोत्किल दूतिकाम्।। ५ ।।
ततः सा तापसीवेषधारिणी गिरिजां प्रति ।।
सखीसमक्ष एवेदमुवाचानुचितं वचः ।। ६ ।।
अरारु भीषणे भीरो निवसस्यत्र किं वने ।।
विहर्तुमुचिता रम्येष्ववरोधनवेश्मसु ।। ७ ।।
किमर्थं वाद्य चित्तं ते यौवने भोगनिःस्पृहम् ।।
निवेशितं तपसि च दैवतैरपि दुष्करे ।। ८ ।।
हंसतूलमयीं शय्यां मुक्तामयवितानिकाम् ।।
हित्वा किमिति मृद्वंगि सुप्यते परुषाश्मसु ।। ९ ।।
तपोजडो मृडो दिष्ट्या प्रागेवास्ति त्वयोज्झितः ।।
तवानुरूपो नैवान्यो विद्यते दिविषत्सु च ।। 1.3.2.19.१० ।।
किं तु त्रैलोक्यनाथोऽस्ति महिषो दानवेश्वरः ।।
यदि द्रक्ष्यसि तं सुभ्र त्यक्ष्यस्येव क्षणात्तपः ।। ११ ।।
किं निह्नवेन नन्वेष श्रुत्वा सर्वं चिरात्प्रभुः ।।
स प्राहिणोदुपानेतुं दूतिकां मां स्मरातुरः ।। १२ ।।
इत्यत्यंतविरुद्धं तां ब्रुवाणामसमंजसम् ।।
देव्याश्चित्तस्थितिं ज्ञात्वा विजया निरकासयत् ।। १३ ।।
सा चातिरोषेण कृतप्रतिज्ञा दैत्यरूपिका ।।
गत्वा विदितवृत्तांतमकरोन्महिषासुरम् ।। १४ ।।
सोऽपि तत्सर्वमाकर्ण्य रुषातीवारुणेक्षणः ।।
देवीं जिघृक्षुरभ्यागाद्वृतो दैतेयकोटिभिः ।। ।। १५ ।।
स्यन्दनैर्द्विरदैरश्वैः पत्तिभिश्च समंततः ।।
भुवमाच्छादयामास ध्वजैश्च गगनांतरम् ।। १६ ।।
क्ष्वेलितैर्वाद्यघोषैश्च नभः स्फुटदिवाभवत् ।।
पादाघातैश्च दैत्यानां विदद्रे वसुधातलम् ।। १७ ।।
करालो दुर्द्धरस्तस्य विचष्णुर्विकरालकः ।।
बाष्कलो दुर्मुखश्चंडः प्रचंडश्चामरासुरः ।। १८ ।।
महाहनुर्महामौलिरुग्रास्यो विकटेक्षणः ।।
ज्वालास्यो दहनश्चेमे सेनान्योपि प्रतस्थिरे ।। १९ ।।
कोलाहलमिमं श्रुत्वा देवी नियमविघ्नतः ।।
शंकिता दैत्यसंहृत्यै दुर्गामादिशति स्म सा ।। 1.3.2.19.२० ।।
सारुणाद्रिरहोद्रोण्यामधिरूढा मृगाधिपम् ।।
दीप्तायुधधरैर्दोर्भिः कालिकेव महीं गता ।। २१ ।।
घनाघनरवोदग्रं सिंहनादमचीकरत् ।।
स्फुरद्दंतच्छदोपांतं वल्गदंगुलिपल्लवा ।। २२ ।।
स्वांगेभ्यो योगिनीचक्रं मातरोऽप्यसृजन्रुषा ।।
देव्याः प्रियाय दैतेयसंहारार्हाः सहस्रशः ।। २३ ।।
काश्चित्तत्रारुणच्छाया दंडिन्यो हंसवाहनाः ।।
मुखैश्चतुर्भिराजग्मुः कोपप्रस्फुरिताधरैः ।। ।। २४ ।।
निर्ययुः काश्चन क्रुद्धा ज्वलत्त्रिशिखपाणयः ।।
निस्वनद्भूषणाः पंसल्ललाटा वृषवाहनाः ।। २५ ।।
निर्जग्मुरपराः सेनासहिताः शिखिवाहनैः ।।
शक्तिदंडाभयकराः शतशः षड्भिराननैः ।। २६ ।।
निश्चक्रमुः परास्तार्क्ष्यमधिरुह्याधिकक्रुधा ।।
शंखचक्रधराः सूर्यचंद्रमोभ्यां दिवो यथा ।। ।। २७ ।।
प्रतिष्ठंते तथा व्याघ्रवाहाः कुवलयत्विषः ।।
पोत्रैः सद्घर्घरारावैर्बिभ्रत्यो मुसलं हलम् ।। २८ ।।
रोषारुणसहस्राक्ष्यो वलक्षद्विपवाहनाः ।।
प्रतस्थिरे शातकोटिशतकोटिधराः पराः ।। २९ ।।
अश्वारूढा समापेतुरेकाः सौदामिनीनिभाः ।।
खड्गखेटकधारिण्यः कोपेन कपिलाननाः ।। ।। 1.3.2.19.३० ।।
ताश्च कोटिचतुःषष्टिमसुरानाश्रमाद्बहिः ।।
अरुन्धन्प्रसभं ध्वांतराशीनिव रवेस्त्विषः ।। ३१ ।।
ततश्च योगिनीचक्रदानवानीकयोर्मिथः ।।
प्रावर्त्तत रणं घोरं मुष्टामुष्टि कचाकचि ।। ३२ ।।
सायकैर्योगिनीमुक्तैर्दलिता दैत्यमौलयः ।।
आच्छादयन्महीपृष्ठं स्थलजानीव सर्वतः ।। ३३ ।।
प्रसस्रू रक्तसरितो लगत्कैशिकशैवलाः ।।
लुठद्विपाठपाठीनाः स्मरैर्देवीमुखांबुजैः ।। ३४ ।।
वेतण्डतुण्डान्यारुह्य सौधानिव पिशाचिकाः ।।
प्रचण्ड तांडवाः पीतरक्तमद्याश्चकाशिरे ।। ३५ ।।
कपालैर्दैत्यवीराणामघासुरसृगासवान् ।।
क्रीडड्डमरुकाकारैर्डामरैर्योगिनीगणाः ।। ३६ ।।
परिजह्रुस्तथांत्राणि कंकौघाः पाशशंकया ।।
क्षुधिता अपि मांसानि सशल्यान्यजहुः शिवाः ।। ३७ ।।
सिद्धविद्याधरोन्मुक्तमंदारप्रसवासवैः ।।
इयाय शांतिं भूरेणुः संग्रामे क्षोभसम्भवः ।। ३८ ।।
विरेजुर्योगिनीमुक्तैर्देहलग्नैर्द्विषां हयाः ।।
अमर्षातिशयोत्क्षिप्तैः शल्यैः शल्यमृगा इव ।। ३९ ।।
दंडैः केचित्परे शूलैर्निशितैः केऽपि शक्तिभिः ।।
चक्रैरन्ये हलैरेके कतिचिच्छतकोटिभिः ।। 1.3.2.19.४० ।।
योगिनीनां परे खड्गैर्दलिता दानवेश्वराः ।।
निःशेषतामुपाजग्मुर्विना सेनाधिपान्निजान्।। ४१ ।।
ब्राह्मी स्वयमुपागम्य विहितायोधनावधीत् ।।
करालं विकरालेन दण्डेन ज्वलिता चिरात् ।। ४२ ।।
माहेश्वरी त्रिशूलेन सुचिरं कृतसंगरा ।।
चकर्त दुर्द्धरस्याशु मूर्द्धानमतिरोषणा ।। ४३ ।।
शक्त्या लुलाव कौमारी चिक्षुरासुरमस्तकम् ।।
चक्रेण चालुनान्मौलिं विकरालस्य वैष्णवी ।। ४४ ।।
बाष्कलस्याशु वाराही मुसलेनालुनाच्छिरः ।।
दुर्मुखं चाशु वज्रेण व्यधादैंद्री गतायुषम् ।। ४५ ।।
ख्यातं यस्याश्च नामेदं तयोरेव निदूषनात् ।।
चामुण्डा चण्डमुण्डौ च मण्डलाग्रेण चिच्छिदे ।। ४६ ।।
प्रचण्डचामरौ वीरौ महामौलिं महाहनुम् ।।
उग्रास्यविकटाक्षौ च ज्वालास्यदहनावपि ।। ४७ ।।
अनुजग्मुः क्रुधा यान्तं युद्धाय महिषासुरम् ।।
कालनेमिप्रभृतयो विप्रचित्तिमिवासुराः ।। ४८ ।।
शिरस्त्रवंतो रथिनः सुनिषंगा धनुर्धराः ।।
उद्भूतकटकाः प्रापुर्युद्धभूमिं चलद्ध्वजाः ।। ४९ ।।
समंतात्पूरितदिशः सिंहनादैर्भयंकरैः ।।
पृषत्कवर्षिणो मातृमंडलान्यभिदुद्रुवुः ।। 1.3.2.19.५० ।।
ताश्च तैर्बलिभिः कृत्वा संग्रामं निस्सहत्वतः ।।
दुर्गां प्रपेदिरे देवीं शरणं सिंहवाहनाम् ।। ५१ ।।
उक्त्वा मायालुलायस्य दुर्जयत्वं दुरात्मनः ।।
देवी तां तुष्टुवुर्दुर्गामेवं सप्तापि मातरः ।। ५२ ।।
योगनिद्रेति रूपेण विष्णोर्नयनपद्मयोः ।।
त्वया निलीयते देवि मधुकार्येव लीलया ।। ५३ ।।
अमूमुहस्तं न तथा मातश्च मधुकैटभौ ।।
कथं जघान तौ विष्णुस्तयोरेवाभ्यनुज्ञया ।। ५४ ।।
त्वं कौशिकी न चेज्जाता मृत्युः शुंभनिशंभयोः ।।
कथं तु लोकपालानामैश्वर्यं देवि एष्यति ।। ५५ ।।
विंध्यवासिनि विंध्येन किमवंध्यं कृतं तपः ।।
यत्र मैत्री किरातीभिरपि लभ्या त्वया समम् ।। ५६ ।।
कापिशायनमापीतं धनदोपायनीकृतम् ।।
त्वयांब नीतं दैत्यानां रसैर्नियतमानवैः ।। ५७ ।।
ब्रह्मणः सृष्टिशक्तिस्त्वं स्थितिशक्तिर्मधुद्विषः ।।
अंब संहारशक्तिश्च रुद्रस्यापि प्रगल्भसे ।। ५८ ।।
यशोदानंदजाता त्वमेकानंशेति नामतः ।।
कंसाद्यसुरसंहारे हरेः साह्यं करिष्यसि ।। ५९ ।।
त्वं विद्या त्वं महामाया त्वं लक्ष्मीस्त्वं सरस्वती ।।
त्वं देवी पार्वतीशापि दुर्गे किं वा न जायसे ।। 1.3.2.19.६० ।।
।। नन्दिकेश्वर उवाच ।। ।।
स्तोत्रेणानेन मातृभ्यो दुर्गा दत्ताभया स्वयम् ।।
महिषासुरयुद्धाय संतुष्टा निर्ययौ तदा ।। ६१ ।।
प्रचंडमंडलाग्रेण भिंडिपालेन चामरम् ।।
महामौलिं क्षुरिकया कर्परेण महाहनुम् ।। ६२ ।।
उग्रवक्त्रं कुठारेण शक्त्या विकटचक्षुषम् ।।
ज्वालामुखं मुद्गरेण दहनं मुसलेन च ।। ६३ ।।
निहत्य महिषस्याग्रे सरोषं युध्यती स्वयम् ।।
सिंहनादं महाघोरं चक्रेण मुदिताशया ।। ६४ ।।
अथात्यमर्षितो दुर्गां विशिखैर्महिषासुरः ।।
विव्याध फालफलके स्तनयोर्गडयोरपि ।। ६५ ।।
ततो दुर्गाथ संरंभात्प्रजहारासुरेश्वरम् ।।
बाह्वोर्वक्षसि वक्त्रे च क्षुरप्रैः प्रज्वलत्फलैः ।।६६।।
ततो दैत्यस्त्रिभिर्दुर्गां जघान विशिखैर्मुखे ।।
पंचभिः पंचभिर्बाह्वोर्द्वाभ्यां द्वाभ्यां च नेत्रयोः ।। ६७ ।।
एकेन सारथिं रथ्यानष्टभिः कार्मुकं त्रिभिः।।
चतुर्भिश्च ध्वजं तस्य दुर्गा चिच्छेद सायकैः ।। ६८ ।।
पदातिरथ दैत्येंद्रः शतघ्नीं ज्वलदाकृतिम् ।।
कालदंडप्रतीकाशां दुर्गां प्रति विमुक्तवान् ।। ६९।।
हाहाकुर्वस्तु देवेषु विद्राणे मातृमंडले ।।
तामापतंतीमादाय दुर्गा जग्राह लीलया ।।1.3.2.19.७० ।।
कृपाणमंकुशं पाशं भुशुंडीं करवालिकाम् ।।
शंकुं शक्तिं गदां चक्रं तोमरं फलकं सृणिम् ।। ७१ ।।
परश्वधं भिंडिपालं पट्टिशं लगुडं च सः ।।
दुर्गां प्रति विचिक्षेप क्षयांभोद इवाशनिम् ।। ७२ ।।
आपतंत्येव शस्त्राणि क्षिप्तान्यादाय वैरिणाम्।।
बभंज पाणिभिः स्वैरं करिणीवेक्षुकांडकम्।।७३।।
दुर्गोपवाह्यः सिंहोऽपि लांगूलाग्रेण मुद्रितम् ।।
दंष्ट्रया दारयामास प्रहरन्नखपंकजैः ।। ७४ ।।
क्षणं सिंहः क्षणं क्रोडः क्षणं व्याघ्रः क्षणं गजः ।।
क्षणं च महिषो भूत्वा दैत्यो दुर्गामयोधयत् ।। ७५ ।।
महिषोऽथ विषाणाभ्यां तीक्ष्णाभ्यामत्यमर्षितः ।।
ताडयामास सिंहं च देवीमपि मुहुर्मुहुः ।। ७६ ।।
क्षणं गगनमध्यस्थः क्षणं प्राप्तो महीतले ।।
क्षणं दिक्षु भ्रमन्प्राप्तः क्षणं चादृश्यतां गतः ।।७७।।
प्रार्थिता मातृचक्रेण दुर्गा महिषदानवम् ।।
अमोघेन त्रिशूलेन दारयामास सस्मिता ।। ७८ ।।
मुक्तघर्घरनिर्घोषो यावत्पतति दानवः ।।
तावदस्य हठेनांघ्रिं स्कंधपीठे न्यवेशयत् ।। ७९ ।।
कंठपीडनतो यातजीवितस्यामरद्रुहः ।।
छिन्नमूर्द्धानमादाय पाणिनाथ ननर्त्त सा ।। 1.3.2.19.८० ।।
इति दुर्गया समिति कासरासुरे दलिते समस्तभुवनैककंटके ।।
ननृतुः सुराः प्रजहृषुर्महर्षयो ववृषुश्च दिव्यकुमुमानि वारिदाः ।। ८१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्यउत्तरार्धे देव्यास्तपश्चर्यायां दुर्गाकृतमहिषासुरवधवर्णननामैकोनविंशोऽध्यायः ।। १९ ।। ।। छ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 20
।। मार्कंडेय उवाच ।। ।।
अहो महिषदैत्यस्य दुराचारत्वमीदृशम् ।।
अहो दुरितहारिण्या दुर्गायाश्च पराक्रमः ।। १ ।।
एवं तया भद्रकाल्या निहते महिषासुरे ।।
किं चकार गिरींद्रस्य नंदिनी तपसि स्थिता।। २ ।।
।। नंदिकेश्वर उवाच ।। ।।
अनंतरं सा हस्तेन दधती दैत्यमस्तकम् ।।
ननाम गौरीमन्येन पाणिना खङ्गधारिणा ।। ३ ।।
अथ हर्षेण नृत्यंतीं तामालोक्य दयार्द्रया ।।
दृष्ट्या देवी जगादैनां दंतांशुद्योतितांबरा ।। ४ ।।
त्वयातिदुष्करं कर्म निर्मितं विंध्यवासिनि ।।
जातं तव प्रभावेन निष्प्रत्यूहं च मे तपः ।। ५ ।।
अथैतन्माहिषं शीर्षमपवित्र भयंकरम् ।।
जगत्पवित्रचारित्रे त्यक्तुमर्हसि हस्ततः ।। ६ ।।
इति गौर्योदिता दुर्गा जुगुप्साकुलमानसा ।।
मूर्ध्नस्तस्य निपाताय व्यधुनोद्बहुशः करम् ।। ७ ।।
तीर्थमुत्पाद्यतां देवि नवं पापविनाशनम् ।।
तस्मिन्निमज्जनाद्दुर्गे प्रायश्चित्तं भविष्यति ।। ८ ।।
इतीरिता गौतमेन दुर्गा दुरितशंकिनी ।।
पाटयामास खङ्गेन शिलापट्टं पटीयसा ।। ९ ।।
पातालावधि निर्भिन्नात्पाषाणतलतस्ततः ।।
उदजृंभत्तरंगांभः सच्चित्तमिव निर्मलम् ।। 1.3.2.20.१० ।।
ममज्ज सापि गंभीरे तस्मिन्नंभसि पावने ।।
नमः शोणाद्रिनाथायेत्युक्त्वा मंत्रमनुत्तमम् ।। ११ ।।
तावन्महिषकंठस्थं लिंगं तद्गलितं तले ।।
तटे प्रतिष्ठितं जातं पापनाशनसंज्ञया ।। १२ ।।
उन्ममज्ज ततो दुर्गा तीर्थांभोधूतकल्मषा ।।
निपपाताथ तत्पाणेर्महिषासुरमस्तकम् ।। १३ ।।
कृतप्रदक्षिणा नत्वा पापनाशनमीश्वरम् ।।
पुरस्तादस्ति सा गौर्या गौतमेनाभिनंदिता।।१४।।
एवं प्रत्यक्षनिरतपापां तां वीक्ष्य पार्वती।।
जगाद दीर्घतपसं जगतीधरनंदिनी।।१५।।
महिषासुरसंहारेंऽजसा स्वनुमतिः कृता ।।
विंध्यवासिनीयमहो दुष्टमाहिषविग्रहम् ।। १६ ।।
गृहीत्वा भक्षयामास तस्य लिंगमिदं शिवम् ।।
प्रायश्चित्तं ततो ब्रूहि ममापि मुनिसत्तम ।।१७ ।।
।। गौतम उवाच ।। ।।
देवि सर्वजगत्सर्गस्थितिसंहारकारिणि ।।
त्वद्ध्यानमेव जगतां सर्वपातकनाशनम् ।। ।। १८ ।।
अथापि लौकिकं वृत्तमवलंब्य त्वयेरितम् ।।
स्वकृतापि हि मर्यादा न महद्भिर्विलंघ्यते ।। १९ ।।
अन्तःकरणकालुष्यक्षालिनी काचन क्रिया ।।
कथ्यतेऽद्य मया मातरवधानं विधीयताम् ।। 1.3.2.20.२० ।।
अरुणाद्रिरयं साक्षादनलाद्रिस्तिरोहितः ।।
ज्वलतिज्योतिषा स्वेन कृत्तिकापूर्णिमा निशि ।। २१ ।।
तत्सपर्यातपश्चर्या कार्या कात्यायनि त्वया ।।
तज्ज्योतिर्दर्शनात्सर्वमभीष्टं तव सिध्यति ।। २२ ।।
इत्युक्ता गौतमेनांबा तदाप्रभृति दारुणा ।।
इयं च शिवभक्ता हि शिवपूजारता तदा ।। २३ ।।
तपश्चचार पंचानामग्नीनां मध्यमाश्रिता ।।
चतुर्णां शिखिनां मध्ये स्थिता सूर्यनिविष्टदृक् ।। २४ ।।
रेजे हैमी शलाकेव द्योतमाना गिरींद्रजा ।।
अथाकृष्टेवपार्वत्याः प्रेमपाशैर्निरायतैः ।। २५ ।।
सा कार्त्तिकी पौर्णमासी समापेदे शुभा तिथिः ।।
ततस्तस्य दिनस्यांते शृंगे शोणमहीभृतः ।। २६ ।।
अदर्शि किमपि ज्योतिरनुपाधिकवैभवम् ।।
तदर्थोपगतैर्ब्रह्ममधुभिद्वासवादिभिः ।। २७ ।।
उपास्यमानमभितो देवैर्दिव्यर्षिसंगतैः ।।
तदनिंधनमस्नेहमदशावर्तिसंभवम् ।। २८ ।।
महाप्रदीपमालोक्य विस्मयं प्राप पार्वती ।।
कृतप्रदक्षिणा साथ प्रणमंती पदेपदे ।।
अरुणाद्रीश्वरं नाथं तुष्टा तुष्टाव शैलजा ।। २९ ।।
नमस्ते मेरुचापाय कैलासाचलवासिने ।।
नीहारशैलजामात्रे शोणक्ष्माधररूपिणे ।। 1.3.2.20.३० ।।
वरुणादिसुरार्च्याय तरुणादित्यवर्चसे ।।
अरुणाचलनाथाय करुणामूर्त्तये नमः ।। ।। ३१ ।।
जय जह्नुसुताचन्द्र लेखालंकृतशेखर ।।
सौंदर्यमोहिताशेषमुनिपत्नीजनाशय ।। ३२ ।।
जय शैलसुतासंगसंभृतानंगवैभव ।।
माया नारायणाभोगक्रीडाम्रेडनपंडित ।। ३३ ।।
जय संध्यासमोपेतसंभृतानंदतांडव ।।
जय गीर्वाणगंधर्वसिद्धविद्याधरार्चित ।। ३४ ।।
जय हेरंबजनक जय षण्मुखवत्सल ।।
जय हैमवतीप्रार्थ्य जय पार्थिवदुर्लभ ।। ३५ ।।
इति स्तुत्वा मुहुस्तस्मिञ्ज्योतिषि न्यस्तलोचनाम् ।।
दृष्ट्वा देवीं दयाव्याजाद्विलिल्ये वृषभध्वजः ।। ३६ ।।
लयित्वा निजमास्थाय रूपमुत्कटसुन्दरम् ।।
आस्थाय वृषभं दिव्यममूं दृष्ट्वा शिवां शुभाम् ।। ३७ ।।
मानातिरेकादपहाय सर्वमैश्वर्यमेवं तपसि प्रवृत्ताम् ।।
मुग्धां पुनः सांत्वयितुं गिरीशः प्रचक्रमे पर्वतराजपुत्रीम् ।। ३८ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे पार्वतीकृतारुणाचलेश्वरस्तुतिवर्णनंनाम विंशतितमोऽध्यायः ।।२०।।छ।। ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 21
।। नंदिकेश्वर उवाच ।। ।।
तदा ब्रह्मा सरस्वत्या महाविष्णुश्च पद्मया ।।
शक्रः पुलोमसुतया परे दिक्पालका अपि ।। १ ।।
गंधर्वाप्सरसां संघा वसवोऽपि सुरा अपि ।।
त्रयस्त्रिंशत्कोटिगणाः परे मुनि गणा अपि ।। २ ।।
एकादशमहारुद्रा आदित्या द्वादशापि च ।।
भैरवाश्च पिशाचाश्च वेतालाः कटपूतनाः ।। ३ ।।
यक्षरक्षोरगा भूता ये चान्ये शिवकिंकराः ।।
संतोषभाजः सर्वेऽपि विकटाकारवेष्टिताः ।। ४ ।।
परिवार्य महेशानं समाजग्मुः सहस्रशः ।।
तद्वीराशंसनं दृष्ट्वा योगिनीदानवैः कृतम् ।। ५ ।।
अतीव विस्मयं भेजुः सर्वे कल्पांतभीषणम् ।।
कृतसांनिध्यमालोक्य देवमानंदयंत्युमा ।। ६ ।।
चिररात्रप्ररूढां च तद्वियोगव्यथां जहौ ।।
रोमांचिता स्विन्नमुखी वेपमाना घनस्तनी ।। ७ ।।
पादांगुलीषु नयने विनिवेशयति स्म सा ।।
वृषभादवरुह्याथ गृहीत्वैनां करे शिवः ।।
स्मितशरीरकंठश्रीप्रणयेनैवमब्रवीत् ।। ८ ।।
।। शिव उवाच ।। ।।
व्याकुलीक्रियते देवि किमेवं कारणं विना ।। ९ ।।
सर्वैराराधनीयेति मयापि घटितोंजलिः ।।
किं न वेत्स्यावयोरैक्यं ज्योत्स्नाचंद्रमसोरिव ।। 1.3.2.21.१० ।।
अनादिसिद्धं देवेशि तवेदं मौग्ध्यमीदृशम् ।।
क्वेदं शिरीषमृद्वंगि शरीरं ते गिरीन्द्रजे ।। ११ ।।
तपः समाधयश्चेति क्व कर्कशजनोचिताः ।
नारायणोहं लक्ष्मीस्त्वं ब्रह्मास्मि त्वं सरस्वती ।। १२ ।।
वारुणी त्वं फणींद्रोहं रोहिणी त्वमहं शशी ।।
स्वाहा त्वं हव्यवाहोऽहं सूर्योऽहं त्वं सुवर्चला ।।१३।।
जाह्नवी त्वं समुद्रोऽहं मेरुरस्मि त्वमुर्वरा ।।
पुलोमजा त्वं शक्रोहं त्वं रतिश्चित्तभूरहम् ।। १४ ।।
बुद्धिस्त्वं राजराजोहं त्वं शमाऽहं समीरण ।।
पाथोधिपोऽहं वीचिस्त्वं प्रकृतिस्त्वं पुमानहम् ।। १५ ।।
विद्या त्वं वेदितव्योऽहं वाक्त्वमर्थोपि पार्वती ।।
ईश्वरोऽहं मदंशासि त्वयैवाज्ञास्वरूपया ।। १६।।
सृष्टि स्थित्युपसंहारविधानानुग्रहेश्वरे ।।
न भेदोऽतस्त्वया कार्यः पृथग्जनवदावयोः ।। १७ ।।
चित्प्रकाशात्मनोर्देवि स्वेच्छाधृतशरीरया ।।
व्याकुलीकुरुषे शश्वद्वृथैवेर्ष्यायसे हि माम् ।। १८ ।।
दृष्टाप्रतिक्रिया तस्य क्रियते याधुना मया।।
इत्युक्त्वेशो निषण्णस्तां पार्श्वदेशे न्यवेशयत् ।। १९ ।।
गौरीं स्वकीय एवांगे गूहमानामिव ह्रिया ।।
अंगद्वयं तयोरैक्यमगात्प्रेम्णा च लीनयोः ।। 1.3.2.21.२० ।।
अर्थद्वयमिवाह्नाय संनिकर्षोपलंभतः ।।
अर्धे कर्पूरधवलमर्धे सिंधूरपाटलम् ।। २१ ।।
तद्विचित्रमभूदंगं शिवयोरेकतां गतम् ।।
अर्धे कुंतलदामार्धहारमध्ये तु कुंचिका ।।२२ ।।
अंगादर्धेंदुचूडस्य वपुरर्धेन्दुकूलितम् ।।
एकनूपुरताटंकपरिहार्यमनोहरम् ।। २३ ।।
एकपिंगलसध्रीचो गात्रमेकस्तनं बभौ ।।
देव्यै दत्त्वा च धामार्थं वामदेवो जगाद ताम् ।। २४ ।।
अवकाशो रुषो देवि मा भूरतः परं तव ।।
स्तन्यार्थिनं गुहं हित्वा यातासि तपसे यतः ।। २५ ।।
तदपीतस्तनीनाम्ना निवसात्र ममांतिके ।।
त्वामपीतस्तनीं देवीं शोणाद्रीशं च मामपि ।। २६ ।।
जनाः सर्वे समाराध्य रमंतां भोगमोक्षयोः ।।
इयं त्वदंशजा देवी दुर्गा महिषसूदिनी ।। २७ ।।
अत्रैव सन्निधत्तां तु मंत्रसिद्धिप्रदा नृणाम् ।।
खड्गतीर्थमिदं पुण्यं सकृदेव निमज्जनात् ।। २८ ।।
सर्वरोगहरं पुंसामस्तु सर्वाघनाशनम्।।
प्रवालगिरिनाथश्च देवोऽयं पापनाशनः।।२९।।
भक्तिश्रद्धावतां नॄणां भूयास्तां भूतये भृशम्।।
अयं च गौतमो देवि त्वदनुग्रहभाजनम्।। ।।1.3.2.21.३०।।
तपोनुरूपं भजतां लोकेष्वाचंद्रतारकम् ।।
इमाश्च मातरः सप्त सप्तलोकैकमातरः ।।३१।।
अद्यप्रभृति कुर्वंतु सान्निध्यं जगतां श्रियै ।।
शास्तारो भैरवाः क्षेत्रपालका बटुका अपि ।। ३२ ।।
अरुणक्षेत्र एवात्र नित्यं कुर्वंतु संनिधिम् ।।
अत्राहमरुणक्षेत्रे निवसाम्यरुणाह्वयः ।। ३३ ।।
त्वयाप्यरुणया देव्या स्थातव्यं करुणार्द्रया ।।
ईप्सिनामरुणादेवौ सान्निध्यं कुरुतो यतः ।। ३४ ।।
तदस्मिन्नरुणक्षेत्रे सुलभाः सर्वसिद्धयः।। ३५ ।।
इदं कृतं पर्वतराजपुत्र्या प्रसादनं शोणगिरीश्वरस्य ।।
शृणोति यः स द्विषतो विधूय स्वर्गापवर्गौ सुलभावुपेयात् ।। ३६ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शिवकृतपार्वतीप्रशंसावर्णनंनामैकविंशतितमोऽध्यायः ।। २१ ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 22
।। मार्कंडेय उवाच ।। ।।
स्वामिन्नित्यशिवानन्द भगवन्नंदिकेश्वर ।।
आह्लादितोऽस्मि शोणेशमाहात्म्यसुधया त्वया ।। १ ।।
कथं वज्रांगदः पांड्यराजः शोणव्यतिक्रमम् ।।
चक्रे कथं तद्भक्त्यैव प्राप्तवान्संपदं पुनः ।। २ ।।
कथं विद्याधराधीशौ कांतिशालिकलाधरौ ।।
दुर्वासःशापनिर्विद्धाववितौ शोणशंभुना ।। ३ ।।
।। नंदिकेश्वर उवाच ।। ।।
दीर्घायुष्यत्वसाफल्यं लब्धवांस्त्वं मृकण्डुज ।।
यदियं स्थेयसी भक्तिर्भवतो भूतनायके ।। ४ ।।
वक्ष्ये वज्रांगदोदंतं वृत्तं विद्याभृतोरपि ।।
यतोऽभून्महितो लोके शोणाद्रीश्वरवैभवः ।। ५ ।।
आसीद्वज्रांगदोनाम पुरा पांड्येषु पार्थिवः ।।
आस्ते यस्य भुजस्तम्भे वसुधा सालभंजिका ।। ६ ।।
धार्मिको न्यायविज्ज्ञाता गंभीरो दक्षिणम् क्षमः ।।
शांतो विनयवान्धीमानेकदारव्रतः कृती ।। ७ ।।
शिवपूजार्चनरतः श्रीमाञ्छीलवतां वरः ।।
पृथ्वीमासेतुकेदाराच्छशास जितशात्रवः ।। ८ ।।
कदाचिन्मृगयाव्याजात्स चरन्सुतुरंगमः ।।
अरुणाचलपर्यंतं कांतारं समगाहत ।। ९ ।।
स तत्र बहलामोदं कंचित्कस्तूरिकामृगम् ।।
दृष्ट्वा तमन्वक्तुरगं प्रावर्तयत कौतुकात् ।। 1.3.2.22.१० ।।
स मृगोऽनुद्रुतस्तेन अभितः शोणपर्वतम् ।।
प्रादक्षिण्यात्परीयाय पपात च मनोजवः ।। ११ ।।
ततः स भग्नसारोपि राजा जातश्रमश्चरन् ।।
पपात वाहाद्विच्छायः क्षीणपुण्य इव द्युतः ।। १२ ।।
अज्ञातकारणेनैवं मातंगेनेव पीडितः ।।
नाज्ञासीत्क्षणमात्मानं राजा ग्रहगृहीतवत् ।। १३ ।।
अचिंतयच्च कोयं मे निर्हेतुः सत्त्वविप्लवः ।।
क्व गतः स ह्यकस्मान्मे उपवाह्यस्तुरंगमः ।। १४ ।।
इति चिंताकुले तस्मिंस्तज्ज्ञानेप्यपटीयसि ।।
तडित्तटजटालेव सहसा द्यौरदृश्यत ।। १५ ।।
निरीक्षमाण एवास्मिन्हित्वा तिर्यक्कलेवरम् ।।
तूर्णं तुरंगसारंगौ खेचरत्वमुपागतौ ।। १६ ।।
किरीटिनौ कुण्डलिनौ हारकेयूरधारिणौ ।।
क्षौमांतरीयोत्तरीयौ स्रग्विणौ च विरेजतुः ।। १७ ।।
अवोचतां च नृपतिमाश्चर्याकृष्टमानसम् ।।
हरंताविव दन्तांशुजालैस्त्वस्यार्त्तिजं तमः ।। १८ ।।
राजन्नलं विषादेन शोणाद्रीशप्रभावतः ।।
एतां जानीहि संजातां नवां नौ चेदृशी दशाम्।। १९ ।।
तदोवाच तयोः किंचिदाश्वस्तइव पार्थिवः ।।
कृतांजलिरभाषिष्ट तावुभौ विनयान्वितः ।।1.3.2.22.२०।।
कौ युवां निर्मितो याभ्यामभिषंगो ममेदृशः ।।
भद्रौ भणतमार्त्तानां त्राणं हि महतां गुणः ।। २१ ।।
इति तेन कृते प्रश्ने तमुवाच कलाधरः ।।
राजानं जनिताश्चर्यं निर्दिष्टः कांतिशालिना ।। २२ ।।
अवेहि राजन्नावां हि पुराविद्याधरेश्वरौ ।।
परस्परातिसौहार्दौ वसंतमदनाविव ।। २३ ।।
एकदा तु सुवर्णाद्रेः पार्श्वे दुर्वाससो मुनेः ।।
तपोवनमगच्छाव मनसोऽपि दुरासदम् ।।२४।।
क्रोशेद्धां तपसस्तस्य शिवाराधनसाधनीम् ।।
पुष्पोज्ज्वलामपश्याव पुण्यामारामवाटिकाम् ।।२५।।
विनीतावप्यसंजातौ तत्त्वोचितसुधीगणौ ।।
प्राविशाव तदुद्यानं प्रसूनावचयोत्सुकौ ।। २६ ।।
स्थलस्य तस्य सौहार्दात्कांतिशाल्यतिगर्वितः ।।
संचचार मुहुः पादन्यासैराघट्टयन्महीम् ।। २७ ।।
अहं तु तत्र पुष्पाणां गंधातिशयमोहितः ।।
विकस्वरेषु पुष्पेषु न्यस्तहस्तो दुराशयः ।। २८ ।।
ततः शांडिल्यमूलस्थो व्याघ्रचर्मासने स्थितः ।।
दुर्वासास्तपसां राशिर्ज्वलन्निव हुताशनः ।।२९ ।।
अमर्षोत्कर्षनीरंध्रस्पंदमानाधरच्छदः ।।
कराल भृकुटीबंधसारालितविशालभूः ।। 1.3.2.22.३० ।।
सरोषोऽभूत्तेजसाढ्यो घर्मदंतुरविग्रहः ।।
दहन्निव दृशा पश्यन्नभर्त्सयत नौ मुनिः ।। ३१ ।।
आः पापौ प्रच्युताचारौ कौ युवामतिगर्वितौ ।।
ज्वलतः कोपवह्नेर्मे शलभत्वमुपागतौ ।। ३२ ।।
तपोवनमिदं मत्कं पावनं भूतभावनम् ।।
पादैर्न स्पृशतः क्वापि सूर्याचंद्रमसावपि ।।३३।।
पुरवैरिसपर्यायाः पर्यायकमिदं वनम् ।।
न स्पंदतेऽत्र वातोपि न लिप्यंतेऽत्र षटपदाः ।। ३४ ।।
तदेतत्पादसंचारैर्दूषयन्नेष पातकी।।
हयो भवतु भूलोके परवाह्यत्वपीडितः ।। ३५ ।।
अपरोप्ययमत्युग्रे पतत्वचलकंदरे।
प्रसूनगंधलोभाद्यो गंधसारंगतां गतः ।।३६।।
इति तेनोग्ररोषेण शापवज्रे निपातिते ।।
तत्क्षणाद्विगलद्गर्वावावां तं शरणं गतौ ।। ३७ ।।
अभिधाय च तं देवमाहितांघ्रिपरिग्रहैः ।।
अमोघ एष त्वच्छापस्तदस्यांतो निवेद्यताम् ।। ३८ ।।
अथातिदीनमनसावावामालोक्य पार्थिव ।।
सानुग्रहोऽभून्मुनिराट् कारुण्यादतिशीतलः ।। ३९ ।।
अभाषत च मैवं भो भवतोः क्वापि दुर्धियोः ।।
शापस्य भविता शांतिररुणाद्रेः प्रदक्षिणात् ।। 1.3.2.22.४० ।।
पुरा खलु पुरारातिरध्यतिष्ठच्छुभां सभाम् ।।
पर्युपास्यत दिक्पालैरिंद्रोपेंद्रयमादिभिः ।। ४१ ।।
तदा च देवदेवाय नंदनारण्यदेवता ।।
उपायनीकृतवती फलं किमपि पाटलम् ।। ४२ ।।
बाल्यात्कुतूहलाक्रान्तौ गजाननषडाननौ ।।
पितरं तदयाचेतां लोभनीयतरं फलम् ।। ४३ ।।
अथ ताववदद्देवस्तनयौ फलतर्षितौ ।।
गोपयित्वा फलं पाणिसंपुटेन कुमारकौ ।। ४४ ।।
इमां समस्तां पृथिवीं लोकालोकेन वेष्टिताम् ।।
यो वां प्रदक्षिणीकर्तुमीष्टे तस्मै ददाम्यहम् ।। ४५ ।।
इत्युक्ते पार्वतीशेन स्मयमानमुखेंदुना ।।
स्कंदः प्रदक्षिणीकर्तुं मेदिनीमुपचक्रमे ।। ४६ ।।
लंबोदरस्तु देवस्य शोणशैलाकृतेः पितुः ।।
प्रदक्षिणं ततः कृत्वा पुरस्तादेव तत्क्षणात् ।। ४७ ।।
तद्दृष्ट्वा तस्य चातुर्यं हेरंबाय त्रियंवकः ।।
फलं वितीर्णवानस्मै प्रणयाघ्रातमस्तकः ।। ४८ ।।
अद्यप्रभृति सर्वेषां फलानामधिनायकः ।।
भवेत्यस्मै वरं दत्त्वा ह्येकदंताय शंकरः ।। ४९ ।।
बभाषे च सभास्तारान्सर्वानपि सुरासुरान् ।।
प्रसरद्दशनज्योत्स्नाकर्बुरीकृतमंदिरः ।।1.3.2.22.५० ।।
स्थावरोयं ममाकारः शोणाद्रिर्योऽस्य भक्तितः ।।
प्रदक्षिणां वितनुते स मे सारूप्यभाग्भवेत् ।। ५१ ।।
गिरेः प्रदक्षिणेनास्य यस्य धत्तः पदे रुजम् ।।
स सम्राट्सकलोत्कृष्टं लभते शाश्वतं पदम् ।। ५२ ।।
इति शासनतः शंभोः शोणशैलप्रदक्षिणम् ।।
विधाय सर्वगीर्वाणा लेभिरे स्वं स्वमीप्सितम् ।। ५३ ।।
युवामपि मदोद्भूतमालिन्यौ शिक्षितौ मया ।।
प्रदक्षिणेन शोणाद्रेः शापांतो वां भविष्यति ।। ५४ ।।
तिरश्चोरपि वां सिध्येदरुणाद्रेः प्रदक्षिणा ।।
वज्रांगदस्य पांड्यस्य नृपतेरनुबंधतः ।। ५५ ।।
इत्यमर्षणमहर्षिमहाब्धेः शापहालहल शोषितगात्रौ ।।
पातितौ बहुलपातकभारात्क्षिप्रमश्वमृगजातिषु जातौ ।। ५६ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ऽरुणाचलप्रदक्षिणामाहात्म्ये वज्रांगद वृत्तांतवर्णनं नाम द्वाविंशतितमोऽध्यायः ।। २२ ।। ।। ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 23
।। कलाधर उवाच ।। ।।
कांबोजेषु हयो भूत्वा कांतिशाली सुहृन्मम ।।
अयासीदौपवाह्यत्वं भवतो राजपुंगव ।। १ ।।
अहं च गंधमृगतां गतः स्वांगप्रसूतिना ।।
सुगंधिना मदेनास्य संचारं चाचरं गिरेः ।। २ ।।
धर्मात्मन्मृगयाव्याजादागतेन त्वयाधुना ।।
आवां शोणाद्रिनाथस्य प्रापितौ हि प्रदक्षिणाम् ।। ३ ।।
वाहारोहणदोषेण तवासीदीदृशी दशा ।।
पादप्रचारपुण्येन प्राप्तं नौ प्राक्तनं पदम्।। ४ ।।
राजेंद्र तव संबंधादस्मात्तिर्यक्त्वबंधनात् ।।
मुक्तावावां स्वकं धाम प्राप्तौ स्वस्त्यस्तु ते सदा।। ५ ।।
इत्युदीर्य निजं धाम यियासंतं कलाधरम् ।।
कांतिशालिनं च राजा जगाद रचितांजलिः ।। ६ ।।
एवं युवां शोणशैलशंकरस्य प्रभावतः ।।
शापार्णवं समुत्तीर्णौ कथं मे पुनरुच्छ्रयः ।।७।।
भ्राम्यतीव मम स्वांतमाधाय तदवेक्षणम् ।।
निर्यांतीव मम प्राणास्तत्र दैवं बलोत्तरम् ।। ८।।
कलाधरकांतिशालिनावूचतुः ।। ।।
अवधारय निस्तारं कथयाव तवास्यदम् ।।
समाहितेन मनसा निर्धूतनिखिलाधिना ।। ९ ।।
जगत्सर्गस्थितिध्वंसविधानानुग्रहेश्वरे ।।
अरुणाद्रीश्वरे चित्तं निधेहि करुणानिधौ ।।1.3.2.23.१०।।
प्रत्यक्षितं त्वयेदानीमस्य देवस्य वैभवम् ।।
तिरश्चोरावयोरेतदीदृशत्वं वितन्वतः ।। ११ ।।
कुरु प्रदक्षिणां पादचारी मृगमदादृतैः ।।
कल्हारैः पूजयेशानं देवं मृगमदप्रियम् ।। १२ ।।
यावती तव संपत्तिस्तावतीमखिलां विभो ।।
प्राकारगोपुरागारनवीकाराय कल्पय ।। १३ ।।
अचिरादेव सिद्धिस्ते भविष्यति गरीयसी ।।
मनुमांधातृनाभागभगीरथवदाधिका ।। १४ ।।
।। नंदिकेश्वर उवाच ।। ।।
इत्थं निशम्य च तयोर्निजमेव धाम विद्याभृतोः सपदि संश्रुतयोर्नरेन्द्रः ।।
निःसंशयेन मनसा निरतस्तदानीं भक्तिं बबंध भगवत्यरुणाद्रिनाथे ।।१५।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे कलाधरकांतिशालिवृत्तांतवर्णनंनाम त्रयोविंशतितमोऽध्यायः ।।२३।। ।।
खण्डः १ (माहेश्वरखण्डः) · अरुणाचलमाहात्म्यम् २ — Adhyāya 24
।। मार्कंडेय उवाच ।। ।।
भगवन्भवमाहात्म्यरत्नाकरसुधाकरम् ।।
नंदीश चित्रं चारित्रं श्रुतं विद्याभृतोर्द्वयोः ।। १ ।।
कदा वज्रांगदः सिद्धः कथं देवमपूजयत् ।।
कथं चान्वग्रहीत्प्रह्वं देवस्तमरुणेश्वरः ।। २ ।।
।। नंदिकेश्वर उवाच ।। ।।
निवर्त्तनेच्छां हित्वाथ नृपो निजपुरं प्रति ।।
तस्यैव पादपर्यंते स्वस्य वासमरोचयत् ।। ३ ।।
अथास्य महती सेना वाहमार्गानुसारिणी ।।
प्राप्ता शतांगमातंगतुरंगभटसंकुला ।। ४ ।।
समदृश्यत भूपालस्तादृशो धैर्यसागरः ।।
पुरोधोमंत्रिसामंतसेनापतिसुहृत्तमैः ।। ५ ।।
ततस्तामागतां सेनामवनीपतिरादृतः ।।
अरुणाद्रेश्च सीमाया बहिरेव न्यवेशयत् ।। ६ ।।
स्वकीयमखिलं कोशं देशानपि महाफलान् ।।
शोणाद्रिनाथपूजायै कल्पयामास भक्तिमान् ।। ७ ।।
गौतमस्याश्रमाभ्याशे स्वयं कृततपोवनः ।।
पुरोधोक्तः ससचिवः शिवार्चनरतोऽभवत् ।। ८ ।।
रत्नांगदाख्यं तनयं स्थापयित्वा निजे पदे ।।
तत्प्रेषितैरपर्याप्तैः शोणेशं पर्यतर्पयत् ।। ९ ।।
परितः शोणशैलस्य परिपूर्णजलाशयान् ।।
अग्रहारान्बहुफलान्ब्राह्मणेभ्योऽतिसृष्टवान् ।। 1.3.2.24.१० ।।
तेजसारुणनाथस्य ज्वलनस्तंभरूपिणः ।।
धन्वप्रायेऽपि देशेऽस्मिन्दीर्घिकाः शतशो व्यधात् ।। ११ ।।
सौंदर्यशालिनीरात्मपरिवारवरांगनाः ।।
सेवार्थं शोणनाथस्य दत्तवान्दीर्घदर्शनः ।। १२ ।।
अथागतेनागस्त्येन लोपामुद्रासखेन सः ।।
अभ्यनंद्यत शोणाद्रिनाथपूजापरायणः ।। १३ ।।
प्रत्यहं नवतीर्थाख्ये सरसि स्नानमाचरन् ।।
पापनाशप्रवालेशौ प्रयतः पर्यपूजयत् ।। १४ ।।
महिषासुरसंहारकारिणी मानवेश्वरः ।।
नित्यमाराधयामास दुर्गां दुर्ग्गार्तिहारिणीम् ।। ।। १५ ।।
प्रतिक्षणं ब्रह्मविष्णुपूज्यस्य लिंगरूपिणः ।।
आदिदेवस्य विविधाः सपर्याः पर्यकल्पयत् ।। १६ ।।
प्रत्युषस्युत्थितः स्नातः पादाभ्यामेव पार्थिवः ।।
जपन्पंचाक्षरीमंत्रमकार्षीत्त्रिः प्रदक्षिणाम् ।। १७ ।।
पौर्णमास्यां स कार्त्तिक्यां पार्वतीवल्लभप्रियम् ।।
महादीपोत्सवं चक्रे महितं भुवनत्रये ।। १८ ।।
सुगंधसारकह्लारकर्पूरजलपूरितः ।।
सहस्रैः स्वर्णकुंभानामभ्यषिंचत्त्रियंत्रकम् ।। १९ ।।
प्रतिमासध्वजारोहपूर्वं तीर्थोत्सवादिकम् ।।
त्रैलोक्याभ्यर्हितं चक्रे रथारोहं महोत्सवम्।। 1.3.2.24.२०।।
अंगं प्रदक्षिणं चास्य विदधे विशदाशयः।।
योजनत्रितयायामव्यापिनः शोणभूभृतः।।२१।।
अरुणाचलनाथेति करुणामृतसागरः।।
अरुणांवासनाथेति तुष्टाव च मुहुर्मुहुः।।२२।।
संलिप्य विविधैर्द्रव्यैर्नित्यं पंचामृतादिभिः।।
आचर्च यद्गंधसारपंकैः कर्पूरपांडुरैः ।। २३ ।।
अपूजयत कल्हारैः स्रवन्मृगमदद्रवैः ।। प्रा
तरारभ्य शोणाद्रिनायकं गणरूपिणम् ।। २४ ।।
इति वर्षत्रयं तस्य वशिनो वरिवस्यया ।।
अरुणाद्रीश्वरस्तुष्टः प्रत्यक्षत्वमगाहत ।।२५।।
नीहाराचलसंकाशमारूढो वृषपुंगवम्।।
अन्वगासीनया देव्या कृतगाढोपगूहनः।। २६।।
ब्रह्मर्षिभिर्वसिष्ठाद्यैर्नारदाद्यैर्महर्षिभिः।।
गणैर्निकुंभकुंभाद्यैः क्रियमाणजयस्तुतिः ।। २७।।
करुणासिंधुकल्लोलैः कमलावासवेश्मभिः ।।
कटाक्षपातैर्जगतां कालुष्यमिव वारयन् ।। २८ ।।
दृष्ट्वा च देवदेवं तमष्टांगं न्यस्य भूतले ।।
प्रणनाम परं हृष्टो वज्रांगदमहीपतिः ।। २९ ।।
व्यज्ञापयच्च भूपालो मौलीकृतशतांजलिः ।।
क्षालयन्निव दंतांशुजालैस्तत्पादपंकजे ।। 1.3.2.24.३० ।।
।। वज्रांगद उवाच ।। ।।
देवेश यदहं मोहाद्बहुपातकसंचयम् ।।
अचारिषं स एकोऽयं क्षम्यतां मे व्यतिक्रमः ।। ३१ ।।
इतिवादिनमत्यंतं दीनमेव दयानिधिः ।।
जगाद जगतीनाथो देवः शोणाचलेश्वरः ।। ३२ ।।
।। श्रीमहेश्वर उवाच ।। ।।
मा भैषीर्वत्स भद्रं ते संत्यष्टौ मम मूर्त्तयः ।।
ताः सर्वाः सर्वजंतूनामत्यर्थं परिकल्पिताः ।। ३३ ।।
पुरा पुरंदरस्त्वं हि कैलासशिखरे स्थितम् ।।
गर्वितो मामवामंस्थाः स्तंभितश्च तदा मया ।। ३४ ।।
क्षणं गलितगर्वस्त्वं स्तंभना व्रीडितस्तदा ।।
अयाचिष्ठाः शिवज्ञानमखिलैश्वर्यकारणम् ।। ३५ ।।
आदिष्टस्त्वं मया वज्रिन्नवतीर्यावनिं भवान्।।
राजा वज्रांगदो भूत्वा लप्स्यसे मत्कृपामिति।। ३६।।
जातं ततः प्रभावेण क्षेत्रमेतन्मदास्पदम्।।
शिक्षितोतीव मुग्धस्त्वं भक्तोसि च परं मयि ।। ३७ ।।
अधुनातिसपर्याभिस्त्वत्कृताभिरहर्निशम् ।।
परितुष्टोस्म्यहं राजन्नतस्त्वां बोधयाम्यहम् ।। ३८ ।।
खं वायुरनलो वारि भूः सूर्य शशिनौ पुमान् ।।
इति मन्मूर्त्तिभिर्विश्वं भासते सचराचरम् ।। ३९ ।।
कालो हि कालयाम्यर्थान्सत्त्वानध्वन एव च ।।
तत्त्वातीतः शिवश्चाहं न मत्तोस्तीह किंचन ।। 1.3.2.24.४० ।।
अपर्यंतचिदानंदसिंधोर्मे केचिदूर्मयः ।।
वेधोमुकुन्दरुद्रेंद्रमुखानाहुरुदित्वराः ।। ४१ ।।
वाणीलक्ष्मीक्षमाश्रद्धाप्रज्ञास्वाहास्वधादयः ।।
असंख्येयमहाशक्तेर्मम विसृष्टिशक्तयः ।। ४२ ।।
इयं मम महाशक्तिर्गौरी माया जगत्प्रसूः ।।
अनयाच्छाद्यते विश्वं शश्वद्विस्तार्यतेऽपि च ।। ४३ ।।
शक्त्यानयान्वितः सर्गरक्षासंहृतिविभ्रमः ।।
विचित्रमेतत्पश्यामि जगच्चित्रं निजेच्छया ।।४४।।
अपवाहितमोहस्त्वं महिमा मे विचारय ।।
आत्मानमविभिन्नं मे तरंगमिव वारिधेः ।। ४५ ।।
ततो मद्रूपशालिन्या आधिपत्यं क्षितेर्गतः ।।
मत्प्रसादेन राजेंद्र भुंक्ष्व भोगान्यथासुखम् ।। ४६ ।।
पुनः पुरंदरत्वेन भुक्तदिव्यसुखश्चिरम्।।
मदेकरूपतां राजन्निश्चयात्त्वमवाप्स्यसि ।। ४७ ।।
नंदिकेश्वर उवाच ।। ।।
इत्युक्त्वांतर्हिते देवे राजा वज्रांगदः कृती ।।
शोणेशं पूजयन्नेव सर्वान्भोगानवाप्तवान् ।। ४८ ।।
इत्थं ते कथितं साधो शिवभक्तविजृंभणम् ।।
प्रदक्षिणाफलं चैव शोणशैलस्य शाश्वतम् ।। ४९ ।।
किं वाचां विस्तरेणात्र शोणशैलप्रदक्षिणा ।।
महतामश्वमेधानां शतादपि विशिष्यते ।। 1.3.2.24.५० ।।
विषुवायनसंक्राति व्यतीपातादिपर्वसु ।।
प्रदक्षिणाच्छोणगिरेरसंख्येयं फलं लभेत् ।। ५१ ।।
न क्षेत्रमरुणादस्ति नास्ति देवोऽरुणेश्वरात् ।।
नापि प्रदक्षिणादन्यद्विपद्यतेऽभ्यधिकं तपः ।। ५२ ।।
इति कथयति नंदिकेश्वरेस्मिन्पुलकितसर्ववपुर्मृकण्डुपुत्रः ।।
मुहुरधिगतहर्षवाष्पवृष्टिर्महति निमग्न इवाभवत्सुधाब्धौ ।। ५३ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे वज्रांगदसद्गतिवर्णनंनाम चतुर्विंशतितमोऽध्यायः ।। २४ ।।
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 1
॥ अथ श्रीस्कान्दे महापुराणे प्रथमं माहेश्वरखण्डं प्रारभ्यते॥
॥श्रीगणेशाय नमः॥
ॐनमो भगवते वासुदेवाय॥
ॐनारायणं नमस्कृत्य नरं चैव नरोत्तमम्॥
देवीं सरस्वती चैव ततो जयमुदीरयेत्॥ १.१ ॥
॥व्यास उवाच॥
यस्याज्ञया जगत्स्रष्टाविरिंचिः पालको हरिः॥
संहर्ता कालरुद्राख्यो नमस्तस्मै पिनाकिने। १.१ ॥
तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम्॥
तत्रैव नैमिषारण्ये सौनकाद्यास्तपोधनाः॥
दीर्घसत्रं प्रकुर्वंतः सत्रिणः कर्मचेतसः॥ १.२ ॥
तेषां सदर्शनौत्सुक्यादागतो हि महातपाः॥
व्यासशिष्यो महाप्राज्ञो लोमशोनाम नामतः॥ १.३ ॥
तत्रागतं ते ददृशुर्मुनयो दीर्घसत्रिणः॥
उत्तस्थुर्युगपत्सर्वे सार्घ्यहस्ताः समुत्सुकाः॥ १.४ ॥
दत्त्वार्घ्यपाद्यं सत्कृत्य मुनयो वीतकल्मषाः॥
तं पप्रच्छुर्महाभागाः शिवधर्मं सविस्तरम्॥ १.५ ॥
॥ऋषय ऊचुः॥
कथयस्व महाप्राज्ञ देवदेवस्य शूलिनः॥
महिमानं महाभाग ध्यानार्चनसमन्वितम्॥ १.६ ॥
संमार्जने किं फलं स्यात्तथा रंगावलीषु च॥
प्रदाने दर्पणस्याथ तथा वै चामरस्य च॥ १.७ ॥
प्रदाने च वितानस्य तथा धारागृहस्य च॥
दीपदाने किं फलं स्यात्पूजायां किं फलं भवेत्॥ १.८ ॥
कानिकानि च पुण्यानि कथ्यतां शिवपूजने॥
इतिहासपुराणानि वेदाध्ययनमेव च॥ १.९ ॥
शिवस्याग्रे प्रकुर्वंति कारयन्त्यथ वा नराः॥
किं फलं च नृणां तेषां कथ्यतां विस्तरेण हि॥ १.१० ॥
शिवाख्यानपरोलोके त्वत्तो नान्योऽस्ति वै मुने॥ १.११ ॥
इति श्रुत्वा वचस्तेषां मुनीनां भावितात्मनाम्॥
उवाच व्यासशिष्योऽसौ शिवमाहात्म्यमुत्तमम्॥ १.१२ ॥
॥लोमश उवाच॥
अष्टादशपुराणेषु गीयते वै परः शिवः॥
तस्माच्छिवस्य माहात्म्यं वक्तुं कोऽपि न पार्यते॥ १.१३ ॥
शिवेति द्व्यक्षरं नाम व्याहरिइष्यंति ये जनाः॥
तेषां स्वर्गश्च मोक्षश्च भविष्यति न चान्यथा॥ १.१४ ॥
उदारो हि महादेवो देवानां पतिरिश्वरः॥
येन सर्वं प्रदत्तं हि तस्मात्सर्व इति स्मृतः॥ १.१५ ॥
ते धन्यास्ते महात्मानो ये भजंति सदा शिवम्॥ १.१६ ॥
विना सदाशिवं योहि संसारं तर्तुमिच्छति॥
स मूढो हि महापापः शिवद्वेषी न संशयः॥ १.१७ ॥
भक्षितं हि गरं येन दक्षयज्ञो विनाशितः॥
कालस्य दहनं येन कृतं राज्ञः प्रमोचनम्॥ १.१८ ॥
॥ऋषय ऊचुः॥
यथा गरं भक्षितं च यथा यज्ञो विनाशितः॥
दक्षस्य च तथा ब्रूहि परं कौतूहलं हि नः॥ १.१९ ॥
॥सूत उवाच॥
दाक्षायणी पुरा दत्ता शंकराय महात्मने॥
वचनाद्ब्रह्मणो विप्रा दक्षेण परमेष्ठिनः॥ १.२० ॥
एकदा हि स दक्षो वै नैमिषारण्यमागतः॥
यदृच्छावशमापन्न ऋषिभिः परिपूजितः॥ १.२१ ॥
स्तुतिभिः प्रणिपातैश्च तथा सर्वैः सुरासुरैः॥
तत्र स्थितो महादेवो नाभ्युत्थानाभिवादने॥
चकारास्य ततः क्रुद्धो दक्षो वचनब्रवीत्॥ १.२२ ॥
सर्वत्र सर्वे हि सुरासुरा भृशं नमंति मां विप्रवराः समुत्सुकाः॥
कथं ह्यसौ दुर्जनवन्महात्मा भूतादिभिः प्रेतपिशाचयुक्तः॥
श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना॥ १.२३ ॥
पाखंडिनो दुर्जनाः पापशीला विप्रं दृष्ट्वा चोद्धता उन्मदाश्च॥
वध्यास्त्याज्याः सद्भिरेवंविधा हि तस्मादेनं शापितुं चोद्यतोऽस्मि॥ १.२४ ॥
इत्येवमुक्त्वा स महातपास्तदा रुषान्वितो रुद्रमिदं बभाषे॥ १.२५ ॥
श्रृण्वंत्वमी विप्रतमा इदानीं वचो हि मे कर्तुमिहार्हथैतत्॥
रुद्रो ह्ययं यज्ञबाह्यो वृतो मे वर्णातीतो वर्णपरो यतश्च॥ १.२६ ॥
नंदी निशम्य तद्वाक्यं शैलादो हि रुषान्वितः॥
अब्रवीत्त्वरितो दक्षं शापदं तं महाप्रभम्॥ १.२७ ॥
॥नन्द्युवाच॥
यज्ञबाह्यो हि मे स्वामी महेशोऽयं कृतः कथम्॥
यस्य स्मरणमात्रेण यज्ञाश्च सफला ह्यमी॥ १.२८ ॥
यज्ञो दानं तपश्चैव तीर्थानि विविधानि च॥
यस्य नाम्ना पवित्राणि सोयं शप्तोऽधुना कथम्॥ १.२९ ॥
वृथा ते ब्रह्मचापल्याच्छप्तोऽयं दक्ष दुर्मते॥
येनेदं पालितं विश्वं सर्वेण च महात्मना॥
शप्तोऽयं स कथं पाप रुद्रोऽयं ब्राह्मणाधम॥ १.३० ॥
एवं निर्भार्त्सितस्तेन नंदिना हि प्रजापतिः॥
नंदिनं च शशापाथ दक्षो रोषसमन्वितः॥ १.३१ ॥
यूयं सर्वे रुद्रवरा वेदबाह्याश्च वै भृशम्॥
शप्ताहि वेदमार्गैश्च तथा त्यक्ता महर्षिभिः॥ १.३२ ॥
पाषंडवादसंयुक्ताः शिष्टऽऽचारबहिष्कृताः॥
कपालिनः पानरतास्तथा कालमुखा ह्यमी॥ १.३३ ॥
इति शप्तास्तदा तेन दक्षेण शिवकिंकराः॥
तदा प्रकुपितो नंदी दक्षं शप्तुं प्रचक्रमे॥ १.३४ ॥
शप्ता वयं त्वया विप्र साधवः शिवकिंकराः॥
वृथैव ब्रह्मचापल्यादहं शापं ददामि ते॥ १.३५ ॥
वेदवादरता यूयं नान्यदस्तीतिवादिनः॥
कामात्मानः स्वर्गपरा लोभमोहसमन्विताः॥ १.३६ ॥
वैदिकं च पुरस्कृत्य ब्राह्मणाः शूद्रयाजकाः॥
दरिद्रिणो भविष्यंति प्रतिग्रहरताः सदा॥ १.३७ ॥
दक्ष केचिद्भविष्यन्ति ब्राह्मणा ब्रह्मराक्षसाः॥
॥लोमश उवाच॥
विप्रास्ते शपितास्तेन नंदिना कोपिना भृशम्॥ १.३८ ॥
अथाकर्ण्येश्वरो वाक्यं नंदिनः प्रहसन्निव॥
उवाच वाक्यं मधुरं बोधययुक्तं सदाशिवः॥ १.३९ ॥
॥महादेव उवाच॥
कोपं नार्हसि वै कर्तुं ब्राह्मणान्प्रति वै सदा॥
ब्राह्मणागुरवो ह्येते वेदवादरताः सदा॥ १.४० ॥
वेदो मंत्रमयः साक्षात्तथा सूक्तमयो भृशम्॥
सूक्ते प्रतिष्ठितो ह्यात्मा सर्वेषामपि देहिनाम्॥ १.४१ ॥
तस्मान्नात्मविदो निन्द्या आत्मैवाहं न चेतरः॥
कोऽयं कस्त्वं क्व चाहं वै कस्माच्छप्ता हि वै द्विजाः॥ १.४२ ॥
प्रपंचरचनां हित्वा बुद्धो भव महामते॥
तत्त्वज्ञानेन निर्वर्त्य स्वस्थः क्रोधादिवर्जितः॥ १.४३ ॥
एवं प्रबोधितस्तेन शंभुना परमेष्ठिना॥
विवेकपरमो भूत्वा शैलादो हि महातपाः॥
शिवेन सह संगम्य परमानंदसंप्लुतः॥ १.४४ ॥
दक्षोपि हि रुषाऽऽविष्टऋषिभिः परिवारितः॥
ययौ स्थानं स्वकं तत्र प्रविवेश रुषाऽन्वितः॥ १.४५ ॥
श्रद्धां विहाय परमां शिवपूजकानां निंदापरः स हि बभूव नराधमश्च॥
सर्वैर्महर्षिभिरुपेत्य स तत्र शर्वं देवं निनिन्द न बभूव कदापि शान्तः॥ १.४६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे पुराणप्रस्तावदक्षवृत्तान्तवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 2
॥लोमश उवाच॥
एकदा तु तदा तेन यज्ञः प्रारंभितो महान्॥
तत्राहूतास्तदा सर्वे दीक्षितेन तपस्विना॥ २.१ ॥
ऋषयो विविधास्तत्र वशिष्ठाद्याः समागताः॥
अगस्त्यः कश्यपोऽत्रिश्च वामदेवस्तथा भृगुः॥ २.२ ॥
दधीचो भगवान्व्यासो भरद्वाजोऽथ गौतमः॥
एते चान्ये च बहवः समाजग्मुर्महर्षयः॥ २.३ ॥
तथा सर्वे सुरगणा लोकपालस्तथाऽपरे विद्याधराश्च गंधर्वाः किंनराप्सरसां गणाः॥ २.४ ॥
सप्तलोकात्समानीतो ब्रह्मा लोकपितामहः॥
वैकुंठाच्च तथा विष्णुः समानीतो मरवं प्रति॥ २.५ ॥
देवेन्द्रो हि समानीत इंद्राण्या सह सुप्रभः॥
तथा चंद्रो हि रोहिण्या वरुणः प्रिययया सह॥ २.६ ॥
कुबेरः पुष्पकारूढो मृगाऽऽरूढोऽथ मारुतः॥
बस्ताऽऽरूढः पावकश्च प्रेताऽऽरूढोऽथ निर्ऋति॥ २.७ ॥
एते सर्वे समायाता यज्ञवाटे द्विजन्मनः॥
ते सर्वे सत्कृतास्तेन दक्षेण च दुरात्मना॥ २.८ ॥
भवनानि महार्हाणि सुप्रभाणि महांति च॥
त्वष्ट्रा कृतानि दिव्यानि कौशल्येन महात्मना॥ २.९ ॥
तेषु सर्वेषु धिष्ण्येषु यथाजोषं समास्थिताः॥ २.१० ॥
वर्त्तमाने महायज्ञे तीर्थे कनखले तथा॥
ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः॥ २.११ ॥
दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः॥
भार्यया सहितो विप्रैः कृतस्वत्ययनो भृशम्॥ २.१२ ॥
रेजे महत्त्वेन तदा सुहृद्भिः परितः सदा॥
एतस्मिन्नंतरे तत्र दधीचिर्वाक्यमब्रवीत्॥ २.१३ ॥
॥दधीचिरुवाच॥
एते सुरेशा ऋषयो महत्तराः सलोकपालाश्च समागतास्तव॥
तथाऽपि यज्ञस्तु न शोभते भृशंपिनाकिना तेन महात्मना विना॥ २.१४ ॥
येनैव सर्वाण्यपि मंगलानि जातानि शंसंति महाविपश्चितः॥
सोऽसौ न दृष्टोऽत्र पुमान्पुराणो वृषध्वजो नीलकण्ठः कपर्दी॥ २.१५ ॥
अमंगलान्येव च मंगलानि भवंति येनाधिकृतानि दक्ष॥
त्रियंबकेनाथ सुमंगलानि भवंति सद्योह्यपमंगलानि॥ २.१६ ॥
तस्मात्त्वयैव कर्तव्यमाह्वानं परमेष्ठिना॥
त्वरितं चैव शक्रेण विष्णुना प्रभविष्णुना॥ २.१७ ॥
सर्वैरेव हि गंतव्यं यत्र देवो महेश्वरः॥ २.१८ ॥
दाक्षायण्या समेतं तमानयध्वं त्वरान्विताः॥
तेन सर्वं पवित्रं स्याच्छंभुना योगिना भृशम्॥ २.१९ ॥
यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत्॥
तस्मात्सर्वप्रयत्नेन समानेयो वृषध्वजः॥ २.२० ॥
तस्य तद्वचनं श्रुत्वा प्रहसन्नाह दुष्टधीः॥
मूलं विष्णुर्हि देवानां यत्र धर्मः सनातनः॥ २.२१ ॥
यस्मिन्वेदाश्च यज्ञाश्च कर्माणिविविधानि च॥
प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः॥ २.२२ ॥
सत्यलोकात्समायातो ब्रह्मा लोकपितामहः॥
वेदैश्चोपनिषद्भिश्च आगमैर्विविधैः सह॥ २.२३ ॥
तथा सुरगणैः साकमागतः सुरराट् स्वयम्॥
तथा यूयं समायाता ऋषयो वीतकल्मषाः॥ २.२४ ॥
येये यज्ञोचिताः शांतास्तेते सर्वे समागताः॥
वेदवेदार्थतत्त्वज्ञाः सर्वे यूयं दृढव्रताः॥ २.२५ ॥
अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम्.॥
कन्या दत्ता मया विप्रा ब्रह्मणा नोदितेन हि॥ २.२६ ॥
अकुलीनो ह्यसौ विप्रा नष्टो नष्टप्रियः सदा॥
भूतप्रेतपिशाचानां पतिरेको दुरत्ययः॥ २.२७ ॥
आत्मसंभावितो मूढःस्तब्धो मौनी समत्सरः॥
कर्मण्यस्मिन्नयोग्योऽसौ नानीतो हि मयाऽधुना॥ २.२८ ॥
तस्मात्त्वया न वक्तव्यं पुनरेवं वचोद्विज॥
सर्वैर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान्॥ २.२९ ॥
एतच्छ्रुत्वा वचस्तस्य दधीचिर्वाक्यमब्रवीत्॥ २.३० ॥
॥दधीचिरुवाच॥
सर्वेषामृषिवर्याणां सुराणां भावितात्मनाम्॥
अनयोऽयं महाञ्जातो विना तेन महात्मना॥ २.३१ ॥
विनाशोऽपि महान्सद्योह्यत्रत्यानां भविष्यति॥
एवमुक्त्वा दधीचोऽसावेक एव विनिर्गतः॥ २.३२ ॥
यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ॥
मुनौ विनिर्गते दक्षः प्रहसन्निदमब्रवीत्॥ २.३३ ॥
गतः शिवप्रियो वीरो दधीचिर्नाम नामतः॥
आविष्टचित्ता मंदाश्च मिथ्यावादरताः खलाः॥ २.३४ ॥
वेदबाह्य दुराचारास्त्याज्यास्ते ह्यत्र कर्मणि॥
वेदवादरता यूयं सर्वे विष्णुपुरोगमाः॥ २.३५ ॥
यज्ञं मे सफलं विप्राः कुर्वंतु ह्यचिरादिव॥
तदा ते देवयजनं चक्रुः सर्वे सहर्षयः॥ २.३६ ॥
एतस्मिन्नंतरे तत्र पर्वते गंधमादने॥
धारागृहे विमानेन सखीभिः परिवारिता॥ २.३७ ॥
दाक्षायणी महादेवी चकार विविधास्तदा॥
क्रीडा विमानमध्यस्ता कन्दुकाद्याः सहस्रशः॥ २.३८ ॥
क्रीडासक्ता तदा देवी ददर्शाथ महासती॥
यज्ञं प्रयांतं सोमं च रोहिण्या सहितं प्रभुम्॥ २.३९ ॥
क्व गमिष्यति चंद्रोऽयं विजये पृच्छ सत्वरम्॥
तयोक्ता विजया देवी तं पप्रच्छ यथोचितम्॥ २.४० ॥
कथितं तेन तत्सर्वं दक्षस्यैव मखादिकम्॥
तच्छ्रुत्वा त्वरिता देवी विजया जातसंभ्रमा॥
कथयामास तत्सर्वं यदुक्तं शशिना भृशम्॥ २.४१ ॥
विमृश्य कारणं देवी किमाह्वानं करोति न॥
दक्षः पिता मे माता च विस्मृता मां कुतोऽधुना॥ २.४२ ॥
पृच्छामि शंकरं चाद्य कारणं कृतनिश्चया॥
स्थापयित्वा सखीस्तत्र आगता शंकरं प्रति॥ २.४३ ॥
ददर्शतं सभामध्ये त्रिलोचनमवस्थितम्॥
गणैः परिवृतं सर्वैश्चंडमुंडादिभिस्तदा॥ २.४४ ॥
बाणो भृंगिस्तथा नंदी शैलादो हि महातपाः॥
महाकालो महाचंडो महामुंडो महाशिराः॥ २.४५ ॥
धूम्राक्षो धूम्रकेतुश्च धूम्रपादस्तथैव च॥
एते चान्ये च बहवो गणा रुद्रानुवर्तिनः॥ २.४६ ॥
केचिद्भयानका रौद्राः कबंधाश्च तथा परे॥
विलोचनाश्च केचिच्च वक्षोहीनास्तथा परे॥ २.४७ ॥
एवंभूताश्च शतशः सर्वे ते कृत्तिवाससः॥
जटाकलापसंभूषाः सर्वे रुद्राक्षभूषणाः॥ २.४८ ॥
जितेंद्रिया वीतरागाः सर्वे विषयवैरिणः॥
एभिः सर्वैः परिवृतः शंकरो लोकशंकरः॥
दृष्टस्तया उपाविष्ट आसने परामाद्भुते॥ २.४९ ॥
आक्षिप्तचित्ता सहसा जगाम शिवसंनिधिम्॥
शिवेन स्थापिता स्वांके प्रीतियुक्तेन वल्लभा॥ २.५० ॥
प्रेम्णोदिता वचोभिः सा बहुमानपुरःसरम्॥
किमागमनकार्यंमे वद शीघ्रं सुमध्यमे॥ २.५१ ॥
एवमुक्ता तदा तेन उवाचासितलोचना॥ २.५२ ॥
॥सत्युवाच॥
पितुर्मम महायज्ञे कस्मात्तव न रोचते॥
गमनं देवदेवश तत्सर्वं कथय प्रभो॥ २.५३ ॥
सुहृदामेष वै धर्मः सुहृद्भिः सह संगतिम्॥
कुर्वंति यन्महादेव सुहृदां प्रीतिवर्धिनीम्॥ २.५४ ॥
तसमात्सर्वप्रयत्नेन अनाहूतोऽपि गच्छ भोः॥
यज्ञवाटं पितुर्मेऽद्य वचनान्मे सदाशिव॥ २.५५ ॥
तस्यास्तद्वचनं श्रुत्वा ब भाषे सूनृतं वचः॥
त्वया भद्रे न गंतव्यं दक्षस्य यजनं प्रति॥ २.५६ ॥
तस्य ये मानिनः सर्वे ससुरासुकिंनराः॥
ते स्रेव यजनं प्राप्ताः पितुस्तव न संशयः॥ २.५७ ॥
अनाहूताश्च ये सुभ्रु गच्छंति परमन्दिरम्॥
अपमानं प्राप्नुवन्ति मरणादधिकं ततः॥ २.५८ ॥
परेषां मंदिरं प्राप्त इंद्रोपि लघुतां व्रजेत्॥
तस्मात्त्वाया न गंतव्यं दक्षस्य यजनं शुभे॥ २.५९ ॥
एवमुक्ता सती तेन महेशेन महात्मना॥
उवाच रोषसंयुक्तं वाक्यं वाक्यविदां वरा॥ २.६० ॥
यज्ञो हि सत्यं लोके त्वं स त्वं देववरेश्वर॥
अनाहूतोऽसि तेनाद्य पित्रा मे दृष्टचारिणा॥
तत्सर्वं ज्ञातुमिच्छामि तस्य भावं दुरात्मनः॥ २.६१ ॥
तस्माच्चाद्यैव गच्छामि यज्ञवाडं पितुर्म्मम॥
अनुज्ञां देहि मे नाथ देवदेव जगत्पते॥ २.६२ ॥
इत्युक्तो भगवान्रुद्रस्तया देव्या शिवः स्वयम्॥
विज्ञाताखिलदृग्द्रष्टा भगवान्भूतभावनः॥ २.६३ ॥
स तामुवाच देवेशो महेशः सर्वसिद्धिदः॥
गच्छ देवि त्वरायुक्ता वचनान्मम सुव्रते॥ २.६४ ॥
एतं नंदिनमारुह्य नानाविधगणान्विता॥
गणाः षष्टिसहस्राणि जग्मूरौद्राः शिवज्ञया॥ २.६५ ॥
तैर्गणैः संवृता देवी जगाम पितृमंदिरम्॥
निरीक्ष्य तद्बलं सर्वं महादेवोतिविस्मितः॥ २.६६ ॥
भूषणानि महार्हाणि तेभ्यो देव्यै परंतपः॥
प्रेषयामास चाव्यग्रो महादेवोऽनु पृष्ठतः॥ २.६७ ॥
देव्या गतं वै स्वपितुर्गृहं तदा विमृश्य सर्वं भगवान्महेशः॥
दाक्षायणी पित्रवमानिता सती न यास्यतीति स्वपुरं पुनर्जगौ॥ २.६८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे दक्षयज्ञं प्रति सतीदेव्यागमनवर्णनंनाम द्वितीयोऽध्यायः॥ २ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 3
॥लोमश उवाच॥
दाक्षायणी गता तत्र यत्र यज्ञो महानभूत्॥
तत्पितुः सदनं गत्वा ना नाश्चर्यसमन्वितम्॥ ३.१ ॥
द्वारि स्थिता तदा देवा अवतीर्य निजासनात्॥
नंदिनो हि महाभागा देवलोकं निरीक्ष्य च॥ ३.२ ॥
मातरं पितरं दृष्ट्वा सुहृत्संबंधि वांधवान्॥
अभिवाद्यैव पिरतं मातरं च मुदान्विता॥ ३.३ ॥
बभाषे वचनं देवी प्रस्तापसदृशं तदा॥
अनाहूतस्त्वया कस्माच्छंभुः परमशोभनः॥ ३.४ ॥
येन पूतमिदं सर्वं समग्रं सचराचरम्॥
यज्ञो यज्ञविदां श्रेष्ठो यज्ञांगो यज्ञदक्षिणः॥ ३.५ ॥
द्रव्यं मंत्रादिकं सर्वं हव्यं कव्यं च यन्मयम्॥
विना तेन कृतं सर्वमपवित्रं भविष्यति॥ ३.६ ॥
शंभुना हि विना तात कथं यज्ञः प्रवर्तते॥
एते कथं समायाता ब्रह्मणा सहिताः पितः॥ ३.७ ॥
हे भृगो त्वं न जानासि हे कश्यप महामते॥
अत्रे विशिष्ठ एकस्त्वं शक्र किं कृतमद्यते॥ ३.८ ॥
हे विष्णो त्वं महादेवं जानासि परमेश्वरम्॥
ब्रह्मन्किं त्वं न जानासि महादेवस्य विक्रमम्॥ ३.९ ॥
पुरा पंचमुखो भूत्वा गर्वितोसि सदाशिवम्॥
कृतश्चतुर्मुखस्तेन विस्मृतोऽसि तदद्भुतम्॥ ३.१० ॥
भिक्षाटनं कृतं येन पुरा दारुवने विभुः॥
शप्तोयं भिक्षुको रुद्रो भवद्भिः सखिभिस्तदा॥ ३.११ ॥
शप्तेनापि च रुद्रेण भवद्भिर्विस्मृतं कथम्॥
यस्यावयवमात्रेण पूरितं सचराचरम्॥ ३.१२ ॥
लिंगभूतं जगत्सर्वं जातं तत्क्षणमेव हि॥
लयानाल्लिंगमित्याहुः सर्वे देवाः सवासवाः॥ ३.१३ ॥
सर्वे देवाश्च संभूता यतो देवस्य शूलिनः॥
सोऽसौ वेदांतगो देवस्त्वया ज्ञातुं न पार्यते॥ ३.१४ ॥
तस्या वचनमाकर्ण्य दक्षः क्रुद्धोऽब्रवीद्वचः॥
किं त्वया बहुनोक्तेन कार्यं नास्तीह सांप्रतम्॥ ३.१५ ॥
गच्छ वा तिष्ठवा भद्रे कस्मात्त्वं हि समागता॥
अमंगलो हि भर्ता ते अशिवोसौ सुमध्यमे॥ ३.१६ ॥
अकुलीनो वेदबाह्यो भूतप्रेतपिशाचराट्॥
तस्मान्नाकारितो भद्रे यज्ञार्थं चारुभाषिणि॥ ३.१७ ॥
मया दत्तासि सुश्रोणि पापिना मंदबुद्धिना॥
रुद्रायाविदितार्थाय उद्धताय दुरात्मने॥ ३.१८ ॥
तस्मात्कायं परित्यज्य स्वस्था भव शुचिस्मिते॥
दक्षेणोक्ता तदा पुत्री सा सती लोकपूजिता॥ ३.१९ ॥
निंदायुक्तं स्वपितरं विलोक्य रुषिता भृशम्॥
चिंतयंती तदा देवी कथं यास्यामि मंदिरे॥ ३.२० ॥
शंकरं द्रष्टुकामांह किं वक्ष्ये तेन पृच्छिता॥
यो निंदति महादेवं निंद्यमानं श्रृणोति यः॥
तावुभौ नरके यातो यावच्चन्द्रदिवाकरौ॥ ३.२१ ॥
तस्मात्तयक्ष्याम्यहं देहं प्रवेक्ष्यामि हुताशनम्॥ ३.२२ ॥
एवं मीमांसमाना सा शिवरुद्रेतिभाषिणी॥
अपमानाभिभूता सा प्रविवेश हुताशनम्॥ ३.२३ ॥
हाहाकारेण महता व्याप्तमासीद्दिगंतरम्॥
सर्वे ते मंचमारूढाः शस्त्रैर्व्याप्ता निरंतराः॥ ३.२४ ॥
शस्त्रैः स्वैर्जध्नुरात्मानं स्वानि देहानि चिच्छिदुः॥
केचित्करतले गृह्य शिरांसि स्वानि चोत्सुकाः॥ ३.२५ ॥
नीराजयंतस्त्वरिता भस्मीभूताश्च जज्ञिरे॥
एवमूचुस्तदा सर्वे जगर्ज्जुरतिभीषणम्॥ ३.२६ ॥
शस्त्रप्राहारैः स्वांगानि चिच्छिदुश्चातिभीषणाः॥
ते तथा विलयं प्राप्ता दाक्षायण्या समं तदा॥ ३.२७ ॥
गणास्तत्रायूते द्वे च तदद्भुतमिवाभवत्॥
ते सर्व ऋषयो देवा इंद्राद्याः समरुद्गणाः॥ ३.२८ ॥
विश्वेऽश्वनौ लोकपालास्तूष्णींबूतास्तदाभवन्॥
विष्णुं वरेण्यं केचिच्च प्रार्थयंतः समंततः॥ ३.२९ ॥
एवं भूतस्तदा यज्ञो जातस्तस्य दुरात्मनः॥
दक्षस्य ब्रह्मबंधोश्च ऋषयो भयमागताः॥ ३.३० ॥
एतस्मिन्नंतरे विप्रा नारदेन महात्मना॥
कथितं सर्वमेवैतद्दक्षस्य च विचेष्टितम्॥ ३.३१ ॥
तदाकर्ण्येश्वरो वाक्यं नारदस्य मुखोद्गतम्॥
चुकोप परमं क्रुद्ध आसनादुत्पतन्निव॥ ३.३२ ॥
उद्धृत्य च जटां रुद्रो लोकसंहारकारकः॥
आस्फोटयामास रुषा पर्वतस्य शिरोपरि॥ ३.३३ ॥
ताडनाच्च समुद्भूतो वीरभद्रो महायशाः॥
तथा काली समुत्पन्ना भूतकोटिभिरावृता॥ ३.३४ ॥
कोपान्निःश्वसितेनैव रुद्रस्य च महात्मनः॥
जातं ज्वराणां च शतं सन्निपातास्त्रयोदश॥ ३.३५ ॥
विज्ञप्तो वीरभद्रेण रुद्रो रौद्रपराक्रमः॥
किं कार्यं भवतः कार्यं शीघ्रमेव वद प्रभो॥ ३.३६ ॥
इत्युक्तो भगवान्रुद्रः प्रेषयामास सत्वरम्॥
गच्छ वीर महा बाहो दक्षयज्ञं विनाशय॥ ३.३७ ॥
शासनं शिरसा धृत्वा देवदेवस्य शूलिनः॥
कालिकाऽऽलिहितो वीरः सर्वभूतैः समावृतः॥
वीरभद्रो महातेजा ययौ दक्षमखं प्रति॥ ३.३८ ॥
तदानीमेव सहसा दुर्निमित्तानि चाभवन्॥
रूक्षो ववौ तदा वायुः शर्कराभिः समावृतः॥ ३.३९ ॥
असृग्वर्षति देवश्च तिमिरेणाऽऽवृता दिवशः॥
उल्कापाताश्च बहवः पेतुरुर्व्यां सहस्रशः॥ ३.४० ॥
एवंविधान्यरिष्टानि ददृशुर्विबुधादयः॥
दक्षोऽपि भयमापन्नो विष्णुं शरणमाययौ॥ ३.४१ ॥
रक्षरक्ष महाविष्णो त्वं हि नः परमो गुरुः॥
यज्ञोऽसि त्वं सुरश्रेष्ठ भयान्मां परिमोचय॥ ३.४२ ॥
दक्षेण प्रार्थ्य मानो हि जगाद मधुसूदनः॥
मया रक्षा विदातव्या भवतो नात्र संशयः॥ ३.४३ ॥
अपूज्या यत्र पूज्यंते पूजनीयो न पूज्यते॥
त्रीणी तत्र प्रवर्तंते दुर्भिक्षं त्वया धर्ममजानताः॥
ईश्वरावज्ञया सर्वं विफलं च भविष्यति॥ ३.४४ ॥
अपूज्या यत्र पूज्यं ते पूजनीयो न पूज्यते॥
त्रीणी तत्र प्रवर्तंते दुर्भिक्षं मरणं भयम्॥ ३.४५ ॥
तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः॥
अमानितान्महेशात्त्वां महद्भयमुपस्थितम्॥ ३.४६ ॥
अधुनैव वयं सर्वे प्रभवो न भवामहे॥
भवतो दुर्न्नयेनेव नात्र कार्या विचारणा॥ ३.४७ ॥
विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिंतापरोऽभवत्॥
विविर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः॥ ३.४८ ॥
वीरभद्रो महाबाहू रुद्रेणैव प्रचोदितः॥
काली कात्यायनीशाना चामुंडा मुंडमर्द्दिनी॥ ३.४९ ॥
भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा॥
नवदुर्गादिसहितो भूतानां च गणो महान्॥ ३.५० ॥
शाकिनी डाकिनी चैव भूतप्रमथगुह्यकाः॥
तथैव योगिनीचक्रं चतुः षष्ट्या समन्वितम्॥ ३.५१ ॥
निजन्मुः सहसा तत्र यज्ञवाटं महाप्रभम्॥
वीरभद्रसमेता सर्वे हरपराक्रमाः॥
दशबाहवस्त्रिनेत्रा जटिला रुद्रभूषणाः॥ ३.५२ ॥
पार्षदाः शंकरस्यैते सर्वे रुद्रस्वरूपिणः॥
पंचवक्त्रा नीलकंठाः सर्वे ते शस्त्रपाणयः॥ ३.५३ ॥
छत्रचामरसंवीताः सर्वे हरपराक्रमाः॥
दशबाहवस्त्रिनेत्रा जटिला रुद्रभूषणाः॥ ३.५४ ॥
अर्धचंद्रधराः सर्वे सर्वे चैव महौजसः॥
सर्वे ते वृषभारूढाः सर्वे ते वेषभूषणाः॥ ३.५५ ॥
सहस्रबाहुर्भुजगाधिपैर्वृतस्त्रिलोचनो भीमबलो भयावहः॥
एभिः समेतश्च तदा महात्मा स वीरभद्रोऽभिजगाम यज्ञम्॥ ३.५६ ॥
युग्यानां च सहस्रेण द्विप्रमाणेन स्यंदनम्॥
सिंहानां प्रयुतेनैव वाह्यमानं च तस्य तत्॥ ३.५७ ॥
तथैव दंशिताः सिंहा बहवः पार्श्वरक्षकाः॥
शार्दूला मकरा मत्स्या गजाश्चैव सहस्रशः॥
छत्राणि विविधान्येव चामराणि तथैव च॥ ३.५८ ॥
मूर्द्धनिध्रियमाणानि सर्वतोग्राणि सर्वशः॥
ततो भेरीमहानादाः शंखाश्च विविधस्वनाः॥
पटहा गोमुखाश्चैव श्रृंगाणि विविधानि च॥ ३.५९ ॥
ततोऽवाद्यंत तान्येव घनानि सुषिराणि च॥
कलगानपराः सर्वे सर्वे मृदंगवादिनः॥ ३.६० ॥
अनेकलास्यसंयुक्ता वीरभद्राग्रतोभवन्॥
रणवादित्रनिर्घोषैर्जगर्जुरमितौजसः॥ ३.६१ ॥
तेन नादेन महता नादितं भुवनत्रयम्॥
एवं सर्वे समायाता गणा रुद्रप्रणोदिताः॥ ३.६२ ॥
यज्ञवाटं च दक्षस्य विनाशार्थं प्रहारिणः॥
रजसा चाऽऽवृतं व्योम तमसा च वृता दिशः॥ ३.६३ ॥
सप्तद्वीपवती पृथ्वी चचाल साद्रिकानना॥
ते दृष्ट्वा महदाश्चर्य्यं लोकक्षयकरं तदा॥ ३.६४ ॥
उत्तस्थुर्युगपत्सर्वे देवदैत्यनिशाचराः॥
ते वै ददृशुरायांतीं रुद्रसेना भयावहाम्॥ ३.६५ ॥
पृथ्वीं केचित्समायाता गगने केचिदागताः॥
दिशश्च प्रदिशश्चैव समावृत्य तथापरे॥ ३.६६ ॥
अनंता ह्यक्षयाः सर्वे शूरा रुद्रसमा युधि॥
एवंभूतं च तत्सैन्यं रुद्रैश्च परिवारितम्॥
दृष्ट्वो चुर्विस्मिताः सर्वे यामोऽद्य शस्त्रपाणयः॥ ३.६७ ॥
इंद्रो हि गजमारूढो मृगारूढः सदागतिः॥
यमो महिषमारूढो यमदंडसमन्वितः॥ ३.६८ ॥
कुबेरः पुष्पकारूढः पाशी मकरमेव च॥
अग्निर्बस्तमारूढो निर्ऋतिः प्रेतमेव च॥ ३.६९ ॥
तथान्ये सुरसंघाश्च यक्षचारणगुह्यकाः॥
आरुह्य वाहनान्येव स्वानिस्वानि प्रतिपिनः॥ ३.७० ॥
स्वेषामुद्योगमालोक्य दक्षश्चाश्रुमुखस्ततः॥
दंडवत्पतितो भूमौ सर्वानेवाभ्यभाषत॥ ३.७१ ॥
युष्मद्बलेनैव मया यज्ञः प्रारंभितो महान्॥
सत्कर्मसिद्धये यूयं प्रमाणं सुमहाप्रभाः॥ ३.७२ ॥
विष्णो त्वं कर्मणः साक्षाद्यज्ञानां परिपालकः॥
धर्मस्य वेदगर्भस्य ब्रह्मण्यस्त्वं च माधव॥ ३.७३ ॥
तस्माद्रक्षा विधातव्या यज्ञस्याऽस्य महाप्रभो॥
दक्षस्य वचनं श्रुत्वा उवाच मधुसूदनः॥ ३.७४ ॥
मया रक्षा विधातव्या धर्मस्य परिपालने॥
तत्सत्यं तु त्वयोक्तं हि किं तु तस्य व्यतिक्रमः॥ ३.७५ ॥
यातस्त्वद्यैव यज्ञस्य यत्त्वयोक्तं सदाशिवम्॥
नैमिषेऽनिमिषक्षेत्रे तदा किं न स्मृतं त्वया॥ ३.७६ ॥
योऽयं रुद्रो महातेजा यज्ञरूपः सदाशिवः॥
यज्ञबाह्यः कृतो मूढ तच्च दुर्म्मत्रितं तव॥ ३.७७ ॥
रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव॥
न पश्यामि च तं विप्र त्वां वै रक्षति दुर्म्मतिम्॥ ३.७८ ॥
किं कर्म्म किमकर्म्मेति तन्न पश्यसि दुर्म्मते॥
समर्थं केवलं कर्मन भविष्यति सर्वदा॥ ३.७९ ॥
सेश्वरं कर्म विद्ध्योतत्समर्थत्वेन जायते॥
न ह्यन्यः कर्म्मणो दाता ईश्वरेण विना भवेत्॥ ३.८० ॥
ईश्वरस्य च ये भक्ताः शांतास्तद्गतमानसाः॥
कर्म्मणो हि फलं तेषां प्रयच्छति सदाशिवः॥ ३.८१ ॥
केवलं कर्म चाश्रित्य निरीश्वरपरा जनाः॥
निरयं ते च गच्छंति कोटियज्ञशतैरपि॥ ३.८२ ॥
पुनः कर्ममयैः पाशैर्बद्धा जन्मनिजन्मनि॥
निरयेषु प्रपच्यंते केवलं कर्म्मरूपिणः॥ ३.८३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे वीरभद्रप्रादुर्भाववर्णनंनाम तृतीयोऽध्यायः॥ ३ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 4
॥लोमश उवाच॥
विष्णुनोक्तं वचः श्रुत्वा दक्षो वचनमब्रवीत्॥
वेदानामप्रमाणं च कृतं ते मधुसूदन॥ ४.१ ॥
वैदिकं कर्म चोत्सृज्य कथं सेश्वरतां व्रजेत्॥
तदुच्यतां महाविष्णो येन धर्मः प्रतिष्ठितः॥ ४.२ ॥
दक्षेणोक्तो महाविष्णुरुवाच परिसांत्वयन्॥
त्रैगण्यविषया वेदाः संभवंति न चान्यथा॥ ४.३ ॥
वेदोदितानि कर्माणि ईश्वरेण विना कथम्॥
सफलानि भविष्यंति विफलान्येव तानि च॥ ४.४ ॥
तस्मात्सर्वप्रयत्नेन ईश्वरं शरणं व्रऐजा॥
एवं ब्रुवति गोविन्द आगतः सैन्यसागरः॥
वीरभद्रेण सदृशो ददृशुस्तं तदा सुराः॥ ४.५ ॥
इंद्रोपि प्रहसन्विष्णुमात्मवादरतं तदा॥
वज्रपाणिः सुरैः सार्द्धं योद्धुकामोऽभवत्तदा॥ ४.६ ॥
भृगुणाचारितः शीघ्रमुच्चाटनपरेण हि॥
तदा गणाः सुरैः सार्धं युयुधुस्ते गणान्विताः॥ ४.७ ॥
शरतोमरनागचैर्जघ्नुस्ते च परस्परम्॥
नेदुःशंखाश्च बहुशस्तस्मिन्रणमहोत्सवे॥ ४.८ ॥
तथा दुन्दुभयो नेदुः पटहा डिंडिमादयः॥
तेन शब्देन महताश्लाघ्यमानास्तदा सुराः॥
लोकपालैश्च सहिता जघ्नुस्ताञ्छिवकिंकरान्॥ ४.९ ॥
खड्गैश्चापि हताः केचिद्गदाभिश्च विपोथिताः॥
देवैः पराजिताः सर्वे गणाः शतसहस्रशः॥ ४.१० ॥
इंद्राद्यौर्लोकपालैश्च गणास्ते च पराङ्गमुखाः॥
कृताश्च तत्क्षणादेव भृगोर्मंत्रबलेन हि॥ ४.११ ॥
उच्चाटनं कृतं तेषां भृगुणा यज्विना तदा॥
यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च॥ ४.१२ ॥
तेनैव देवा जयिनो जातास्तत्क्षणमेव हि॥
स्वानां पराजयं दृष्ट्वा वीरभद्रो रुपान्वितः॥ ४.१३ ॥
भूतान्प्रेतान्पिशाचांश्च कृत्वा तानेव पृष्ठतः॥
वृषभस्थान्पुरस्कृत्य स्वयं चैव महाबलः॥
तीक्ष्णं त्रिशूलमादाय पातयामास तान्रणे॥ ४.१४ ॥
देवान्यक्षान्पिशाचांश्च गुह्यकान्राक्षसां स्तथा॥
शूलघातैश्च ते सर्वे गणा देवान्प्रजघ्निरे॥ ४.१५ ॥
केचिद्द्विधाकृताः खङ्गैर्मुद्गरैश्चापि पोथिताः॥
परश्वधैः खंडशश्च कृताः केचिद्रणाजिरे॥ ४.१६ ॥
शूलैर्भिन्नाश्च शतशः केचिच्च शकलीकृताः॥
एवं पराजिताः सर्वे पलायनपरायणाः॥ ४.१७ ॥
परस्परं परिष्वज्य गतास्तेपि त्रिविष्टपम्॥
केवलं लोकपालाश्च इंद्राद्यास्तस्थुरुत्सुकाः॥
बृहस्पतिं पृच्छमानाः कुतोस्माकं जयो भवेत्॥ ४.१८ ॥
बृहस्पतिरुवाचेदं सुरेंद्रं त्वरितस्तदा॥
॥बृहस्पतिरुवाच॥
यदुक्तं विष्णुना पूर्वं तत्सत्यं जातमद्य वै॥ ४.१९ ॥
अस्ति चेदीश्वरः कश्चित्फलरूप्यस्य कर्म्मणः॥
कर्तारं भजते सोपि न ह्यकर्तुः प्रभुर्हिसः॥ ४.२० ॥
न मंत्रौषधयः सर्वे नाभिचारा न लौकिकाः॥
न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा॥ ४.२१ ॥
ज्ञातुमीशाः संभवंति भक्त्याज्ञेयस्त्वनन्यया॥
शांत्या च परया तृष्ट्या ज्ञातव्यो हि सदाशिवः॥ ४.२२ ॥
तेन सर्वं संभवंति सुखदुःझखात्मकं जगत्॥
परंतु संवदिष्यामि कार्याकार्यविवक्षया॥ ४.२३ ॥
त्वमिंद्र बालिशो भूत्वा लोकपालैः सहाद्य वै॥
आगतो बालिशो भूत्वा इदानीं किं करिष्यसि॥ ४.२४ ॥
एते रुद्रसहायाश्च गणाः परमशोभनाः॥
कुपिताश्च महाभागा न तु शेषं प्रकुर्वते॥ ४.२५ ॥
एवं बृहस्पतेर्वाक्यं श्रुत्वा तेऽपि दिवौकसः॥
चिंतामापेदिरे सर्वे लोकपाला महेश्वराः॥ ४.२६ ॥
ततोऽब्रवीद्वीरभद्रो गणैः परिवृतो भृशम्॥
सर्वे यूयं बालिशत्वादवदानार्थमागताः॥ ४.२७ ॥
अवदानानि दास्यामि तृप्त्यर्थं भवतां त्वरन्॥
एवमुक्त्वा शितैर्बाणैर्जघानाथ रुषान्वितः॥ ४.२८ ॥
तैर्बाणैर्निहताः सर्वे जग्मुस्ते च दिशो दश॥ ४.२९ ॥
गतेषु लोकपालेषु विद्रुतेषु सुरेषु च॥
यज्ञवाटे समायातो वीरभद्रो गणान्वतः॥ ४.३० ॥
तदा त ऋषयः सर्वे सर्वमेवेश्वरेश्वरम्॥
विज्ञप्तुकामाः सहसा ऊचुरेवं जनार्दनम्॥ ४.३१ ॥
रक्ष यज्ञं हि दक्षस्य यज्ञोसि त्वं न संशयः॥
एतच्छ्रुत्वा तु वचनमृषीणां वै जनार्दनः॥ ४.३२ ॥
योद्धुकामः स्थितो युद्धे विष्णुरध्यात्मदीपकः॥
वीरभद्रो महाबाहुः केशवं वाक्यमब्रवीत्॥ ४.३३ ॥
अत्र त्वयागतं कस्माद्विष्णो वेत्त्रा महाबलम्॥
दक्षस्य पक्षमाश्रित्य कथं जेष्यसि तद्वद॥ ४.३४ ॥
दाक्षायण्या कृतं यच्च न दृष्टं किं त्वयानघ॥
त्वं चापि यज्ञे दक्षस्य अवदानार्थमागतः॥
अवदानं प्रयच्छामि तव चापि महाभूज॥ ४.३५ ॥
एवमुक्त्वा प्रणम्यादौ विष्णुं सदृशरूपिणम्॥
वीरभद्रोऽग्रतो भूत्वा विष्णुं वाक्यमथाब्रवीत्॥ ४.३६ ॥
यथा शंभुस्तथा त्वं हि मम नास्त्यत्र संशयः॥
तथापि त्वं महाबाहो योद्धुकामोऽग्रतः स्तितः॥
नेष्याम्यपुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना॥ ४.३७ ॥
तस्य तद्वचनं श्रुत्वा वीरभद्रस्य धीमतः॥
उवाच प्रहसन्देवो विष्णुः सर्वेश्वरेश्वरः॥ ४.३८ ॥
॥विष्णुरुवाच॥
रुद्रतेजःप्रसूतोसि पवित्रोऽसि महामते॥
अनेन प्रार्थितः पूर्वं यज्ञार्थं च पुनः पुनः॥ ४.३९ ॥
अहं भक्तपराधीनस्तथा सोऽपि महेश्वरः॥
तेनैव कारणेनात्र दक्षस्य यजनं प्रति॥ ४.४० ॥
आगतोऽहं वीरभद्र रुद्रकोपसमुद्भव॥
अहं निवारयामि त्वां त्वं वा मां विनिवारय॥ ४.४१ ॥
इत्युक्तवति गोविंदे प्रहस्य स महाभुजः॥
प्रश्रयावनतो भूत्वा इदमाह जनार्दनम्॥ ४.४२ ॥
यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः॥
सेवकाश्च वयं सर्वे तव वा शंकरस्य च॥ ४.४३ ॥
तच्छ्रुत्वा वचनं तस्य सोऽच्युतः संप्रहस्य च॥
इदं विष्णुर्महावाक्यं जगाद परमेश्वरः॥ ४.४४ ॥
योधयस्व महाबाहो मया सार्धमशंकितः॥
तवास्त्रैः पूर्यमाणोऽहं गच्छामि भवनं स्वकम्॥ ४.४५ ॥
तथेत्युक्त्वा तु वीरोऽसौ वीरभद्रो महाबलः॥
गृहीत्वा परमास्त्राणि सिंहनादैर्जगर्ज ह॥ ४.४६ ॥
विष्णुश्चापि महाघोषं शंखनादं चकार सः॥
तच्छ्रुत्वा ये गता देवा रणं हित्वाऽऽययुः पुनः॥ ४.४७ ॥
व्यूहं चक्रुस्तदा सर्वे लोकपालाः सवासवाः॥
तदेन्द्रेण हतो नंदीवज्रेण शतपर्वणा॥ ४.४८ ॥
नंदीना च हतः शक्रस्त्रिशूलेन स्तनांतरे॥
वायुना च हतो भृंगी भृंगिणा वायुराहतः॥ ४.४९ ॥
शूलेन सितधारेण संनद्धो दण्डधारिणा॥
यमेन सह संग्रामं महाकालो बलान्वितः॥ ४.५० ॥
कुबेरेण च संगम्य कूष्मांडानां पतिः स्वयम्॥
वरुणेन समं युद्धं मुंडश्चैव महाबलः॥ ४.५१ ॥
युयुधे परयाशक्त्या त्रैलोक्यं विस्मयन्निव॥
नैर्ऋतेन समागम्य चंडश्चबलवत्तरः॥ ४.५२ ॥
युयुधे परमास्त्रेण नैर्ऋत्यं च विडंबयन्॥
योगिनीचक्रसंयुक्तो भैरवो नायको महान्॥ ४.५३ ॥
विदार्य देवानखिलान्पपौ शोणितमद्बुतम्॥
क्षेत्रपालास्तथा चान्ये भूतप्रमथगुह्यकाः॥ ४.५४ ॥
साकिनी डाकिनी रौद्रा नवदुर्गास्तथैव च॥
योगिन्यो यातुदान्यश्च तथा कूष्मांडकादयः॥
नेदुः पपुः शोणितं च बुभुजुः पिशितं बहु॥ ४.५५ ॥
भक्ष्यमाणं तदा सैन्यं विलोक्य सुरराट्स्वयम्॥
विहाय नंदिनं पश्चाद्वीरभद्रं समाक्षिपत्॥ ४.५६ ॥
वीरभद्रो विहायैव विष्णुं देवेन्द्रमास्थितः॥
तयोर्युद्धमभूद्धोरं बुधांगारकयोरिव॥ ४.५७ ॥
वीरभद्रं यदा शक्रो हंतुकामस्त्वरान्वितः॥
तावच्छंक्रं गजस्थं हि पुरयामास मार्गणैः॥ ४.५८ ॥
वीरभद्रो रुषाविष्टो दुर्निवार्यो महाबलः॥
तदेद्रेंणाहतः शीघ्रं वज्रेण शतपर्वणा॥ ४.५९ ॥
सगजं च सवज्रं च वासवं ग्रस्तुमुद्युतः॥
हाहाकारो महा नासीद्भूतानां तत्र पश्यताम्॥ ४.६० ॥
वीरभद्रं तताभूतं तथाभूतं हंतुकामं पुरंदरम्॥
तव्रमाणस्तदा विष्णुर्वीरभद्राग्रतः स्थितः॥ ४.६१ ॥
शक्रं च पृष्ठतः कृत्वा योधयामास वै तदा॥
वीरभद्रस्य विष्णोश्च युद्धं परमभूत्तदा॥ ४.६२ ॥
शस्त्रास्त्रैर्विविधाकारैर्योधयामासतुस्तदा॥
पुनर्नंदिनमालोक्य शक्रो युद्ध विशारदः॥ ४.६३ ॥
द्वंद्वयुद्धं सुतुमुलं देवानां प्रमथैः सह॥
प्रमथा मथिता देवैः सर्वे ते प्राद्रवन्रणात्॥ ४.६४ ॥
गणान्पराङ्मुखान्दृष्ट्वा सर्वे ते व्याधयो भृशम्॥
रुद्रकोपात्समुद्भूता देवाश्चापि प्रदुद्रुवुः॥ ४.६५ ॥
ज्वरैस्तु पीडितान्देवान्दृष्ट्वा विष्णुर्हसन्निव॥
जीवग्राहेण जग्राह देवांस्तांश्च पृथक्पृथक्॥ ४.६६ ॥
देवाश्चिनौ तदाहूय व्याधीन्हंतुं तदा भृतिम्॥
ददौ ताभ्यां प्रयत्नेन गणयित्वा सुबुद्धिमान्॥ ४.६७ ॥
ज्वरांश्च सन्निपातांश्च अन्ये भूतद्रुहस्तदा॥
तान्सर्वान्निगृहीत्वाथ अश्विनौ तौ मुदान्वितौ॥
विज्वरानथ देवांश्च कृत्वा मुमुदतुश्चिरम्॥ ४.६८ ॥
तैर्जितं योगिनीचक्रं भैरवं व्याकुलीकृतम्॥
तीक्ष्णाग्रैः पातयामासुः शरैर्भूतगणानपि॥ ४.६९ ॥
सुरैर्विद्रावितं सैन्यं विलोक्य पतितं भुवि॥
वीरभद्रो रुपाविष्टो विष्णुं वचनमब्रवीत्॥ ४.७० ॥
त्वं शूरोसि महाबाहो देवानां पालको ह्यसि॥
युध्यस्व मां प्रयत्नेन यदि ते मतिरीदृशी॥ ४.७१ ॥
इत्युक्त्वा तं समासाद्य विष्णुं सर्वेश्वरेश्वरम्॥
ववर्ष निशितैर्बाणैर्वीरभद्रो महाबलः॥ ४.७२ ॥
तदा चक्रेण भगवान्वीरभद्रं जघान सः॥
आयांतं चक्रमालोक्य ग्रसितं तत्क्षणाच्च तत्॥ ४.७३ ॥
ग्रसितं चक्रमालोक्य विष्णुः परपुरंजयः॥
मुखं तस्य परामृज्य विष्णुनोद्गिलितं पुनः॥ ४.७४ ॥
स्वचक्रमादाय महानुभावो दिवं गतोऽथो भुवनैकभर्ता॥
ज्ञात्वा च तत्सर्वमिदं च विष्णुः कृती कृतं दुष्प्रसहं परेषाम्॥ ४.७५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे वीरभद्रादीनां विष्ण्वादिभिः सह युद्धवर्णनंनाम चतुर्थोऽध्यायः॥ ४ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 5
॥लोमश उवाच॥
विष्णौ गते तदा सर्वे देवाश्च ऋषिभिः सह॥
विनिर्जिता गणैः सर्वे ये च यज्ञोपजीविनः॥ ५.१ ॥
भृगुं च पातयामास स्मश्रूणां लुंचनं कृतम्॥
द्विजांश्चोत्पाटयामास पूष्णो विकृतविक्रियान्॥ ५.२ ॥
विडंबिता स्वधा तत्र ऋषयश्च विडंबिताः॥
ववृषुस्ते पुरीषेण वितानाग्नौ रुपान्विताः॥ ५.३ ॥
अनिर्वाच्यं तदा चक्रुर्गणाः क्रोधसमन्विताः॥
अंतर्वेद्यंतरगतो दक्षो वै महतो भयात्॥ ५.४ ॥
तं निलीनं समाज्ञाय आनिनायरुषान्वितः॥
कपोलेषु गृहीत्वा तं खड्गेनोपहतं शिरः॥ ५.५ ॥
अभेद्यं तच्छिरो मत्वा वीरभद्रः प्रतापवान्॥
स्कंधं पद्भ्यां समाक्रम्य कधरेऽपीडयत्तदा॥ ५.६ ॥
गंधरात्पाट्यमानाच्च शिरश्छिन्नं दुरात्मनः॥
दक्षस्य च तदा तेन वीरभद्रेण धीमता॥
तच्छिरः सुहुतं कुंडे ज्वलिxxxxxxx॥ ५.७ ॥
ये चान्य ऋषयो देवाः पितरो यक्षराक्षसाः॥
गणैरुपद्रुताः सर्वे पलायनपरा ययुः॥ ५.८ ॥
चंद्रादित्यगणाः सर्वे ग्रहनक्षत्रतारकाः॥
सर्वे विचलिता ह्यासन्गणैस्तेपि ह्युपद्रुताः॥ ५.९ ॥
सत्यलोकं गतो ब्रह्मा पुत्रशोकेन पीडितः॥
चिंतयामास चाव्यग्रः किं कार्यं कार्यमद्य वै॥ ५.१० ॥
मनसा दूयमानेन शंन लेभे पितामहः॥
ज्ञात्वा सर्वं प्रयत्नेन दुष्कृतं तस्य पापिनः॥ ५.११ ॥
गमनाय मतिं चक्रे कैलासं पर्वतं प्रति॥
हंसारूढो महातेजाः सर्वदेवैः समन्वितः॥ ५.१२ ॥
प्रविष्टः पर्वतश्रेष्ठं स ददर्श सदाशिवम्॥
एकांतवासिनं रुद्रं शैलादेन समन्वितम्॥ ५.१३ ॥
कपर्द्दिनं श्रिया युक्तं वेदांगानां च दुर्गमम्॥
तथाविधं समालोक्य ब्रह्म क्षोभपरोऽभवत्॥ ५.१४ ॥
दंडवत्पतितो भूमौक्षमापयितुमुद्यतः॥
संस्पृशं स्तत्पदाब्जं च चतुर्मुकुटकोटिभिः॥
स्तुतिं कर्तुं समारेभे शिवस्य परमात्मनः॥ ५.१५ ॥
॥ब्रह्मोवाच॥
नमो रुद्राय शांताय ब्रह्मणे परमात्मने॥
त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः॥ ५.१६ ॥
नमो रुद्राय महते नीलकंठाय वेधसे॥
विश्वाय विश्वबीजाय जगदानंदहेतवे॥ ५.१७ ॥
ओंकारस्त्वं वषट्कारः सर्वारंभप्रवर्तकः॥
यज्ञोसि यज्ञकर्मासि यज्ञानां च प्रवर्तकः॥ ५.१८ ॥
सर्वेषां यज्ञकर्तॄणां त्वमेव प्रतिपालकः॥
शरण्योसि महादेव सर्वेषां प्राणिनां प्रभो॥
रक्ष रक्ष महादेव पुत्रशोकेन पीडितम्॥ ५.१९ ॥
॥महादेव उवाच॥
श्रृणुष्वावहितो भूत्वा मम वाक्यं पितामह॥
दक्षस्य यज्ञभंगोयं न कृतश्च मया क्वचित्॥ ५.२० ॥
स्वीयेन कर्मणा दक्षो हतो ब्रह्मन्न संशयः॥ ५.२१ ॥
परेषां क्लेशदं कर्म न कार्यं तत्कदाचन॥
परमेष्ठिन्परेषां यदात्मनस्तद्भविष्यति॥ ५.२२ ॥
एवमुक्त्वा तदा रुद्रो ब्रह्मणा सहितः सुरैः॥
ययौ कनखलं तीर्थं यज्ञवाटं प्रजापतेः॥ ५.२३ ॥
रुद्रस्तदा ददर्शाय वीरभद्रेण यत्कृतम्॥
स्वाहा स्वधा तथा पूषा भृगुर्मतिमतां वरः॥ ५.२४ ॥
तदान्य ऋषयः सर्वे पितरश्च तथाविधाः॥
येऽन्ये च बहवस्तत्र यक्षगंधर्वकिन्नराः॥ ५.२५ ॥
त्रोटिता लुंचिताश्चैव मृताः केचिद्रणाजिरे॥ ५.२६ ॥
शंभुं समागतं दृष्ट्वा वीरभद्रो गणैः सह॥
दंडप्रणामसंयुक्तस्तस्थावग्रे सदाशिवम्॥ ५.२७ ॥
दृष्ट्वा पुरः स्थितं रुद्रो वीरभद्रं महाबलम्॥
उपाच प्रहसन्वाक्यं किं कृतं वीर नन्विदम्॥ ५.२८ ॥
दक्षमानय शीघ्रं भो येनेदं कृतमीदृशम्॥
यज्ञे विलक्षणं तात यस्येदं फलमीदृशम्॥ ५.२९ ॥
एवमुक्तः शंकरेण वीरभद्रस्त्वरान्वितः॥
कबंधमानयित्वाथ शंभोरग्रे तदाक्षिपत्॥ ५.३० ॥
तदोक्तः शंकरेणैव वीरभद्रो महामनाः॥
शिरः केना पनीतं च दक्षस्यास्य दुरात्मनः॥ ५.३१ ॥
दास्यामि जीवनं वीर कुटिलस्यापि चाधुना॥
एवमुक्तः शंकरेण वीरभद्रोऽब्रवीत्पुनः॥ ५.३२ ॥
मया शिरो हुतं चाग्नौ तदानीमेव शंकर॥
अवशिष्टं शिरःशंभो पशोश्च विकृताननम्॥ ५.३३ ॥
इति ज्ञात्वा ततो रुद्रः कबंधोपरि चाक्षिपत्॥
शिरः पशोश्च विकृतं कूर्चयुक्तं भयावहम्॥ ५.३४ ॥
स दक्षो जीवितं लेभे प्रसादाच्छंकरस्य च॥
स दृष्ट्वाग्रे तदा रुद्रं दक्षो लज्जासमन्वितः॥
तुष्टाव प्रणतो भूत्वा शंकरं लोकशंकरम्॥ ५.३५ ॥
॥दक्ष उवाच॥
नमामि देवं वरदं वरेण्यं नमामि देवेश्वरं सनातनम्॥
नमामि देवाधिपमीश्वरं हरं नमामि शंभुं जगदेकबंधुम्॥ ५.३६ ॥
नमामि विश्वेश्वरविश्वरूपं सनातनं ब्रह्म निजात्मरूपम्॥
नमामि सर्वं निजभावभावं वरं वरेण्यं नतोऽस्मि॥ ५.३७ ॥
॥लोमश उवाच॥
दक्षेण संस्तुतो रुद्रो बभाषे प्रहसन्रहः॥ ५.३८ ॥
॥हर उवाच॥
चतुर्विधा भजंते मां जनाः सुकृतिनः सदा॥
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च द्विजसत्तम॥ ५.३९ ॥
तस्मान्मे ज्ञानिनः सर्वे प्रियाः स्युर्नात्र संशयः॥
विना ज्ञानेन मां प्राप्तुं यतंते ते हि बालिशः॥ ५.४० ॥
केवलं कर्मणा त्वं हि संसारात्तर्तुमिच्छसि॥ ५.४१ ॥
न वेदैश्च न दानैश्च न यज्ञैस्तपसा क्वचित्॥
न शक्नुवंति मां प्राप्तुं मूढाः कर्म्मवशानराः॥ ५.४२ ॥
तस्माज्ज्ञानपरो भूत्वा कुरु कर्म्म समाहितः॥
सुखदुःखसमो भूत्वा सुखी भव निरंतरम्॥ ५.४३ ॥
॥लोमश उवाच॥
उपदिष्टस्तदा तेन शंभुना परमेष्ठिना॥
दक्षं तत्रैव संस्थापाय ययो रुद्रः स्वपर्वतम्॥ ५.४४ ॥
ब्रह्मणापि तथा सर्वे भृग्वाद्याश्च महर्षयः॥
आश्वासिता बोधिताश्च ज्ञानिनश्चाभवन्क्षणात्॥ ५.४५ ॥
गतः पितामहो ब्रह्मा ततश्च सदनं स्वकम्॥ ५.४६ ॥
दक्षोपि च स्वयं वाक्यात्परं बोधमुपागतः।
शिवध्यानपरो भूत्वा तपस्तेपे महामनाः॥ ५.४७ ॥
तस्मात्सर्वप्रयत्नेन संक्षेव्यो भगवाञ्छिवः॥ ५.४८ ॥
संमार्जनं च कुर्वंति नरा ये च शिवांगणे॥
ते वै शिवपुरं प्राप्य जगद्वंद्या भग्सि च॥ ५.४९ ॥
ये शिवस्य प्रयच्छति दर्प्पणं सुमहाप्रभम्॥
भविष्यंति शिवस्याग्रे पार्षदत्वेन ते नराः॥ ५.५० ॥
चामराणि प्रयच्छंति देवदेवस्य शूलिनः॥
चामरैर्वीज्यपानास्ते भविष्यंति जगत्त्रय॥ ५.५१ ॥
दीपदानं प्रयच्छंति महादेवालये नराः॥
तेजस्विनो भविष्यंति ते त्रैलोक्यप्रदीपका॥ ५.५२ ॥
धूपं ये वै प्रयच्छन्ति शिवाय परमात्मने॥
यशस्विनो भविष्यंति उद्धरन्ति कुलद्वयम्॥ ५.५३ ॥
नैवेद्यं ये प्रयच्छंति भकया हरिहराग्रतः॥
सिक्थेसिक्थे क्रतुफलं प्राप्नुवंति हि ते नराः॥ ५.५४ ॥
भग्नं शिवालयं ये च प्रकुर्वंति नरोत्तमाः॥
प्राप्नुवति फल ते वै द्विगुणं नात्र संशयः॥ ५.५५ ॥
नूतनं ये प्रकृर्वंति इष्टकैरश्मनापि वा॥
स्वर्गे हि ते प्रमोदंते यावत्तिष्ठति निर्मलम्॥
यशो भूमौ द्विजश्रेष्ठा कार्या विचारणा॥ ५.५६ ॥
कारयंति च ये विप्राः प्रासादं बहुभूमिकम्॥
शिवस्याथ महाप्राज्ञाः प्राप्नुवंति परां गतिम्॥ ५.५७ ॥
शुद्धं धवलितं ये च कुर्वन्ति हरमंदिरम्॥
स्वीयं परकृतं चापि तेऽपि यांति परां गतिम्॥ ५.५८ ॥
वितानं ये प्रयच्छति नराः सुकृतिनोपि हि॥
तारयति कुलं कृत्स्नं शिवलोकं गताः पुनः॥ ५.५९ ॥
ये च नादमयीं घंटां निबध्नंति शिवालये॥
तेजस्विनः कीर्तिमंतो भविष्यंति जगत्त्रये॥ ५.६० ॥
एककालं द्विकालं वा त्रिकालं चानुपश्यति॥
आढ्यो वापि दरिद्रो वा सुखं दुःखात्प्रचुच्यते॥ ५.६१ ॥
श्रद्धावान्भजते यो वा शिवाय परमात्मने॥
कुलकोटिं समुद्धृत्य शिवेन सह मोदते॥ ५.६२ ॥
अत्रैवोदाहरंतीम मितिहासं पुरातनम्॥
ऐंद्रद्युम्नेश्च संवादं यमस्य च महात्मनः॥ ५.६३ ॥
पुरा कृतयुगे ह्यसीदिन्द्रसेनो नराधिपः॥
प्रतिष्ठानाधिपो वीरो मृगयारसिकः सदा॥ ५.६४ ॥
अब्रह्मण्यः सदा क्रूरः केवलासुतृपः सदा॥
परप्राणौर्निजप्राणान्पुष्णाति स खलः सदा॥ ५.६५ ॥
परस्त्रीलं पटोऽत्यंतं परद्रव्येषु लोलुपः॥
ब्राह्मणा घातितास्तेन सुरापश्च निरंतरम्॥ ५.६६ ॥
गुरुलत्पगतोत्यर्थं सदा सौवर्णतस्करः॥
तथाभूतानुगाः सर्वे राज्ञस्तस्य दुरात्मनः॥ ५.६७ ॥
एवं बहुविधं राज्यं चकार स दुरात्मवान्॥
ततः कालेन महता पंचत्वं प्राप दुर्मतिः॥ ५.६८ ॥
तदा याम्यैश्च नीतोऽसाविंद्रसेनो दुरात्मवान्॥
यमान्तिकमनुप्राप्तस्तदा राजा सकल्मषः॥ ५.६९ ॥
यमेन दृष्टस्तत्रासाविंद्रसेनोग्रतः स्थितः॥
अभ्युत्थानपरो भूत्वा ननाम शिरसा शिवम्॥ ५.७० ॥
दूतान्संभर्त्सयामास यमो धर्मभृतां वरः॥
पाशैर्बद्धं चंद्रसेनं मुक्त्वा प्रोवाच धर्मराट्॥ ५.७१ ॥
गच्छ पुण्यतमाँल्लोकान्भुंक्ष्व राजन्यसत्तम॥
यावदिंद्रश्च नाकेऽस्ति यावत्सूर्यो नभस्तले॥ ५.७२ ॥
पंचभूतानि यावच्च तावत्त्वं च सुखी भव॥
सुकृती त्वं महाराज शिवभक्तोऽसि नित्यदा॥ ५.७३ ॥
यमस्य वचनं श्रुत्वा इंद्रसेनोभ्यभाषत॥
अहं शिवं न जानामि मृगयारसिको ह्यहम्॥ ५.७४ ॥
तच्छ्रुत्वा वचनं तस्य यमो भाष्यमभाषत॥
आहर प्रहरस्वेति उक्तं चेदं सदा त्वया॥ ५.७५ ॥
तेन कर्मविपाकेन सदा पूतोसि मानद॥
तस्मात्त्वं गच्छ कैलासं पर्वतं शंकरं प्रति॥ ५.७६ ॥
एवं संभाषमाणस्य यमस्य च महात्मनः॥
आगताः शिवद्वतास्ते वृषारूढा महाप्रभाः॥ ५.७७ ॥
नीलकंठा दशभुजाः पंचवक्त्रास्त्रिलोचनाः॥
कपर्द्दिनः कुंडलिनः शशंकांकितमौलयः॥ ५.७८ ॥
तान्दृष्ट्वा सहसोत्थाय यमो धर्मभृतां वरः॥
पूजयामास तान्सर्वान्महेंद्रप्रतिमांस्तदा॥ ५.७९ ॥
त्वरीरेनैव ते सर्वे ऊचुर्वैवस्वतं यमम्॥
अत्रागतो महाभाग इंद्रसेनोऽमितद्युतिः॥
नाम्नाः प्रवर्त्तको नित्यं रुद्रस्य च महात्मनः॥ ५.८० ॥
श्रुत्वा च वचनं तेषां यमेन च पुरस्कृतः॥
इंद्रसेनो विमानस्थः प्रेषितो हि शिवालयम्॥ ५.८१ ॥
आनीतोयं तदा तैश्च पार्षदप्रवरोत्तमैः॥
शंभुना हि तदा दृष्ट इंद्रसेनोऽमितद्युतिः॥ ५.८२ ॥
अभ्युत्थायागतो रुद्रः परिष्वज्य तदा नृपम्॥
अर्द्धासनगतं कृत्वा इंद्रसेनं ततोऽब्रवीत्॥ ५.८३ ॥
किं दातव्यं नृपश्रेष्ठ प्रयच्छामि तवेप्सितम्॥
इति श्रुत्वा वचस्तस्य महेशस्य तदा नृपः॥
आनंदाश्रुकणान्मुंचन्प्रेम्णा नोवाच किंचन॥ ५.८४ ॥
तदा कृतो महेशेन पार्षदो हि महात्मना॥
चंडो नाम्नाच विख्यातोमुण्डस्य च सखा प्रियः॥ ५.८५ ॥
नामोच्चारणमात्रेण रुद्रस्य परमात्मनः॥
सिद्धिं प्राप्तो हि पापिष्ठ इद्रसेनो नराधिपः॥ ५.८६ ॥
रहेहरेति वै नाम्ना शंभोश्चक्रधरस्य च॥
रक्षिता बहवो मर्त्याः शिवेन परमात्मना॥ ५.८७ ॥
महेशान्नापरो देवो दृश्यतेभुवनत्रये॥
तस्मात्सर्वप्रयत्नेन पूजनीयः सदाशिवः॥ ५.८८ ॥
पत्रैःपुष्पैः फलैर्वापि जलैर्वा विमलैः सदा॥
करवीरैः पूज्यमानः शंकरो वरदो भवेत्॥ ५.८९ ॥
करवीराद्दशगुणमर्कपुष्पं विशिष्यते॥
विभूत्यादिकृतं सर्वं जगदेतच्चराचरम्॥ ५.९० ॥
शिवस्यांगणलग्ना या तस्मात्तां धारयेत्सदा॥
ततस्त्रिपुंड्रे यत्पुम्यं तच्छृणुध्वं द्विजोत्तमाः॥ ५.९१ ॥
सर्वपापहरं पुण्यं तच्छृणुध्वं द्विजोत्तमाः॥
स्तेनः कोऽपि महापापो घातितो राजदूतकैः॥ ५.९२ ॥
तं खादितुं समायातः श्वाशिरस्युपरिस्थितः॥
नखांतरालसंलग्ना रक्षा तस्यैव पापिनः॥ ५.९३ ॥
ललाटे पतिता तस्य त्रिपुंड्रांकिंतमुद्रया॥
चैतन्येन विना तस्य देहमात्रैकलग्नया॥ ५.९४ ॥
कैलासं तस्करो नीतो रुद्रदूतैस्ततस्तदा॥
विभूतेर्महिमानं तु को विशेषितुर्महति॥ ५.९५ ॥
विभूत्वा मंडितांगानां नराणां पुण्यकर्मणाम्॥
मुखे पंचाक्षरो येषां रुद्रास्ते नात्र संशयः॥ ५.९६ ॥
जटाकलापिनो ये च ये रुद्राक्षविभूषणाः॥
ते वै मनुष्यरूपेण रुद्रा नास्त्यत्र संशयः॥ ५.९७ ॥
तस्मात्सदाशिवः पुंभिः पूजनीयो हि नित्यशः॥
प्रातर्मध्याह्नकाले च सायं संध्या विशिष्यते॥ ५.९८ ॥
प्रातस्तु दर्शनाच्छंभोर्नैशमेनो व्यपोहति॥
मध्याह्ने दर्शनाच्छंभोः सप्तजन्मार्जितं नृणाम्॥
पापं प्रणाशमायाति निशायां नैव गण्यते॥ ५.९९ ॥
शिवेति द्व्यक्षरं नाम महा पापप्रणाशनम्॥
येषां मुखोद्गतं नॄणां तैरिदं धार्यते जगत्॥ ५.१०० ॥
शिवांगणे तु या भेरी स्थापिता पुण्यकर्मभिः॥
तस्या नादेन पूता वै ये च पापरता जनाः॥
पाषंडिनोऽप्यसद्वादास्तेऽपि यांति परां गतिम्॥ ५.१०१ ॥
पशोर्यस्य च संबद्धा चर्मणा च शिवालये॥
नृभिर्या स्थापिता भेरी मृदंगमुरजादि च॥
स पशुः शिवसान्निध्यमाप्नोत्यत्र न संशयः॥ ५.१०२ ॥
तस्मात्ततं च विततं घनं सुषिरमेव च॥
चामराणि महार्हाणि मंचकाः शयनानि च॥ ५.१०३ ॥
गाथाश्च इतिहासाश्च गायनं च यथाविधि॥
बहुरूपादिकं शंभोः प्रियान्येतानि कल्पयेत्॥ ५.१०४ ॥
कल्पयित्वा च गच्छंति शिवलोकं हि पापिनः॥
सुधर्माणो महात्मानः शिवपूजाविशारदाः॥ ५.१०५ ॥
गुरोर्मुखाच्च संप्राप्तशिवपूजारताश्च ये॥
शिवरूपेण ये विश्वं पश्यंति कृतनिश्चयाः॥ ५.१०६ ॥
सम्यग्बुद्ध्या समाचारा वर्णाश्रमयुता नराः॥
ब्राह्मणाः क्षत्रिया वैश्वयाः शूद्राश्चान्ये तथा नराः॥ ५.१०७ ॥
श्वपचोऽपि वरिष्ठः स शंभोः प्रियतरो भवेत्॥
शंभुनाधिष्ठितं सर्वं जगदेतच्चराचरम्॥ ५.१०८ ॥
तस्मात्सर्वं शिवमयं ज्ञातव्यं सुविशेषतः॥
वेदैः पुराणैः शास्त्रैश्च तथौपनिपदैरपि॥ ५.१०९ ॥
आगमैर्विविधैः शंभुर्ज्ञातव्यो नात्र संशयः॥
निष्कामैश्च सकामैश्च पूजनीयः सदा शिवः॥ ५.११० ॥
॥लोमश उवाच॥
कथयामि पुरावृत्तमितिहासं पुरातनम्॥
नंदी नाम पुरा वैश्यो ह्यवंतीपुरमावसत्॥ ५.१११ ॥
शिवध्यानपरो भूत्वा शिवपूजां चकार सः॥
नित्यं तपोवनस्थं हि लिंगमेकं समर्चयत्॥ ५.११२ ॥
उषस्युषसि चोत्थाय प्रत्यहं शिववल्लभः॥
नंदीलिंगार्च्चनरतो बभूवातिशयेन हि॥ ५.११३ ॥
लिंगं पंचामृतेनैव यथोक्तेनाभ्यषेचयत्॥
विप्रैः समावृतो नित्यं वेदवेदांगपारगैः॥ ५.११४ ॥
यथाशास्त्रेण विधिना लिंगार्चनपरोऽभवत्॥
स्नापयित्वा ततः पुष्पैर्नानश्चर्यसमन्वितैः॥ ५.११५ ॥
मुक्ताफलैरिंद्रनीलैर्गोमेदैश्च निरंतरम्॥
वैडूर्यैश्चैव नीलैश्च माणिक्यैश्च तथार्चयत्॥ ५.११६ ॥
एवं नंदी महाभागो बहून्यब्दानि चार्च्चयत्॥
विजनस्थं तदा लिंगं नानाभोगसमन्वितम्॥ ५.११७ ॥
एकदा मृगयासक्तः किरातो भूतहिंसकः॥
अविवेकपरो भूत्वा मृगयारसिकः सदा॥ ५.११८ ॥
पापी पापसमाचारो विचरन्गिरिकंदरे॥
अनेकश्वापदाकीर्णे हन्यमान इतस्ततः॥ ५.११९ ॥
एवं विचरमाणोऽसौ किरातो भूतहिंसकः॥
यदृच्छयागतस्तत्र यत्र लिंगं सुपूजितम्॥ ५.१२० ॥
उदकं वीक्षमाणोऽसौ तृषया पीडितो भृशम्॥
ततो वने सरः शीघ्रं दृष्ट्वा तोये समाविशत्॥ ५.१२१ ॥
तीरे संस्थाप्य दुष्टात्मा तत्सर्वं मृगयादिकम्॥
गंडूषोत्सर्जनं कृत्वा पीत्वा तोयं च निर्गतः॥ ५.१२२ ॥
शिवालयं ददर्शाग्रे अनेकाश्चर्यमंडितम्॥
दृष्टं सुपूजितं लिंगं नानारत्नैः पृथक्पृथक्॥ ५.१२३ ॥
तथा लिंगं समालक्ष्य यदा पूजां समाहरत्॥
रत्नानि सर्वभूतानि विधूतानि इतस्ततः॥ ५.१२४ ॥
स्नपनं तस्य लिंगस्य कृतं गंडूषवारिणा॥
करेणैकेन पूजार्थं बिल्वपत्राणि सोऽर्पयत्॥ ५.१२५ ॥
द्वितीयेन करेँणैव मृगमांसं समर्पयत्॥
दण्डप्रणामसंयुक्तः संकल्पं मनसाऽकरोत्॥ ५.१२६ ॥
अद्यप्रभृति पूजां वै करिष्यामि प्रयत्नतः॥
त्वं मे स्वामी च भक्तोहमद्यप्रभृति शंकर॥ ५.१२७ ॥
एवं नैयमिको भूत्वा किरातो गृहमागतः॥
नन्दी ददर्श तत्सर्वं किरातेन इतस्ततः॥ ५.१२८ ॥
चिंतायुक्तोऽभवन्नंदी जातं किं छिद्रमद्य मे॥
कथितानि च विघ्नानि शिवपूजारतस्य च॥
उपस्थितानि तान्येव मम भाग्यविपर्ययात्॥ ५.१२९ ॥
एवं विमृश्य सुचिरं प्रक्षाल्य शिवमंदिरम्॥
यथागतेन मार्गेण नंदी स्वगृहमागतः॥ ५.१३० ॥
ततो नंदिनमागत्य पुरोधा गतमानसम्॥
अब्रवोद्वचनं तं तु कस्मात्त्वं गतमानसः॥ ५.१३१ ॥
पुरोहितं प्रति तदा नन्दी वचनमब्रवीत्॥ ५.१३२ ॥
अद्य दृष्टं मया विप्र अमेध्यं शिवसंनिधौ॥
केनेदं कारितं तत्र न जानामि कथंचन॥ ५.१३३ ॥
ततः पुरोधा वचनं नन्दिनं चाब्रवीत्तदा॥
येन विस्खलितं तत्र रत्नादीनां प्रपूजनम्॥
सोऽपि मूढो न संदेहः कार्याकार्येषु मंदधीः॥ ५.१३४ ॥
तस्माच्चिंता न कर्तव्या त्वया अणुरपि प्रभो॥
प्रभाते च मया सार्द्धं गम्यतां तच्छिवालयम्॥ ५.१३५ ॥
निरीक्षणार्थं दुष्टस्य तत्कार्यं विदधाम्यहम्॥
एतच्छ्रुत्वा तु वचनं नन्दी तस्य पुरोधसः॥ ५.१३६ ॥
आस्थितः स्वगृहे नक्तं दूयमानेन चेतसा॥
तस्यां रात्र्यां व्यतीतायामाहूय च पुरोधसम्॥ ५.१३७ ॥
गतः शिवालयं नन्दी समं तेन महात्मना॥
ततो दृष्टं पूर्वदिने कृतंतेन दुरात्मना॥ ५.१३८ ॥
सम्यक्प्रपूजनं कृत्वा नानारत्नपरिच्छदम्॥
पञ्चोपचारसंयुक्तं चैकादस्यन्वितं तथा॥ ५.१३९ ॥
अनेकस्तुतिभिः स्तुत्वा गिरीशं ब्राह्मणैः सह॥
तदा यामद्वयं जातं स्तूयमानस्य नंदिनः॥ ५.१४० ॥
आयातो हि महाकालस्तथारूपो महाबलः॥
कालरूपो महारौद्रो धनुष्पाणिः प्रतापवान्॥ ५.१४१ ॥
तं दृष्ट्वा भयवित्रस्तो नन्दी स विललाप ह॥
पुरोधाश्चैव सहसा भयभीतस्तदाभवत्॥ ५.१४२ ॥
किरातेन कृतं तत्र यथापूर्वमविस्खलम्॥
तां पूजां प्रपदाहत्य बिल्वपत्रं समर्पयत्॥ ५.१४३ ॥
स्नपनं तस्य कृत्वा च ततो गंडूषवारिणा॥
नैवेद्यं तत्पलं चैव किरातः शिवमर्पयत्॥ ५.१४४ ॥
दण्डवत्पतितो भूमावुत्थाय स्वगृहं गतः॥
तद्दृष्ट्वा महदाश्चर्यं चिंतयामास वै चिरम्॥ ५.१४५ ॥
पुरोधसा सह तदा नंदीव्याकुलचेतसा॥
तेन चाकारिता विप्रा बहवो वेदवादिनः॥ ५.१४६ ॥
निवेद्य तेषु तत्सर्वं किरातेन च यत्कृतम्॥
किं कार्यमथ भो विप्राः कथ्यतां च यथातथम्॥ ५.१४७ ॥
संप्रधार्य ततः सर्वे मिलित्वा धर्मशास्त्रतः॥
ऊचुः सर्वे तदा विप्रा नंदिनं चातिशंकिनम्॥ ५.१४८ ॥
इदं विघ्नं समुत्पन्नं दुर्निवार्यं सुरैरपि॥
तस्मादानय लिंगं त्वं स्वगृहं वैश्यसत्तम॥ ५.१४९ ॥
तथेति मत्वासौ नंदी शिवस्योत्पाटनं तदा॥
कृत्वा स्वगृहमानीय प्रतिष्ठाप्य यताविधि॥ ५.१५० ॥
सुवर्णपीठिकां कृत्वा नवरत्नसुशोभिताम्॥
उपचारैरनेकैश्च पूजयामास वै तदा॥ ५.१५१ ॥
अथापरे द्युरायातः किरातः शिवमंदिरम्॥
यावद्विलोक्यामास लिंगमैशं न दृष्टवान्॥ ५.१५२ ॥
मौनं विहाय सहसा ह्याक्रोशन्निदमब्रवीत्॥
हे शंभो क्व गतोसि त्वं दर्शयात्मानमद्य वै॥ ५.१५३ ॥
न दृष्टोसि मया त्वं हि त्यजाम्यद्य कलेवरम्॥
हे शंभो हे जगन्नाथ त्रिपुरांतकर प्रभो॥ ५.१५४ ॥
हे रुद्र हे महादेव दर्शयात्मानमात्मना॥ ५.१५५ ॥
एवं साक्षेपमधुरैर्वाक्यैः क्षिप्तः सदाशिवः॥
किरातेन ततो रंगैर्वीरोसौ जठरं स्वकम्॥ ५.१५६ ॥
विभेदाशु ततो बाहूनास्फोट्यैव रुषाब्रवीत्॥
हे शंभो दर्शयात्मानं कुतो मां त्यज्य यास्यसि॥ ५.१५७ ॥
इति क्षिप्त्वा ततोंत्राणि मांसमुत्कृत्य सर्वतः॥
तस्मिन्गर्ते करेणैव किरातः सहसाक्षिपत्॥ ५.१५८ ॥
स्वस्थं च हृदयं कृत्वा सस्नौ तत्सरसि ध्रुवम्॥
तथैव जलमानीय बिल्वपत्त्रं त्वरान्वितः॥ ५.१५९ ॥
पूजयित्वा यथान्यायं दंडवत्पतितो भुवि॥ ५.१६० ॥
ध्यानस्थितस्ततस्तत्र किरातः शिवसंनिधौ॥
प्रादुर्भूतस्तदा रुद्रः प्रमथैः परिवारितः॥ ५.१६१ ॥
कर्पूरगौरो द्युतिमान्कपर्दी चंद्रशेखरः॥
तं गृहीत्वा करे रुद्र उवाच परिसांत्वयन्॥ ५.१६२ ॥
भोभो वीर महाप्राज्ञ मद्भक्तोसि महामते॥
वरं वृणीष्वात्महितं यत्तेऽभिलषितं महत्॥ ५.१६३ ॥
एवमुक्तः स रुद्रेण महाकालो मुदान्वितः॥
पपात दंडवद्भूमौ भक्त्या परमया युतः॥ ५.१६४ ॥
ततो रुद्रं बभाषे स वरं सम्प्रार्थयाम्यहम्॥
अहं दासोस्मि ते रुद्र त्वं मे स्वामी न संशयः॥ ५.१६५ ॥
एतद्बुद्धात्मनो भक्तिं देहि जन्मनिजन्मनि॥
त्वं माता च पिता त्वं च त्वं बंधुश्च सखा हि मे॥ ५.१६६ ॥
त्वं गुरुस्त्वं महामंत्रो मंत्रवेद्योऽसि सर्वदा॥
तस्मात्त्वदपरं नान्यत्त्रिषु लोकेषु किंचन॥ ५.१६७ ॥
निष्कामं वाक्यमाकर्ण्य किरातस्य तदा भवः॥
ददौ पार्षदमुख्यत्वं द्वारपालत्वमेव च॥ ५.१६८ ॥
तदा डमरुनादेन नादितं भुवनत्रयम्॥
भेरीभांकारशब्देन शंखानां निनदेन च॥ ५.१६९ ॥
तदा दुंदुभयो नेदुः पटहाश्च सहस्रशः॥
नंदी तं नादमाकर्ण्य विस्मयात्त्वरितो ययौ॥ ५.१७० ॥
तपोवनं यत्र शिवः स्थितः प्रमथसंवृतः॥
किरातो हि तथा दृष्टो नंदिना च तदा भृशम्॥ ५.१७१ ॥
उवाच प्रश्रितो वाक्यं स नंदी विस्मयान्वितः॥
किरातं स्तोतुकामऽसौ परमेण समाधिना॥ ५.१७२ ॥
इहानीतस्त्वया शंभुस्त्वं भक्तोसि परंतप॥
त्वं भक्तोऽहमिह प्राप्तो मां निवेदय शंकरे॥ ५.१७३ ॥
तच्छ्रुत्वा वचनं तस्य किरातस्त्वरयान्वितः॥
नंदिनं च करे गृह्य शंकरं समुपागतः॥ ५.१७४ ॥
प्रहस्य भगवान्रुद्रः किरातं वाक्यमब्रवीत्॥
कोऽयं त्वया समानीतो गणानामिह सन्निधौ॥ ५.१७५ ॥
॥किरात उवाच॥
विज्ञप्तोऽसौ किरातेन शंकरो लोकशंकरः॥
तव भक्तः सदा देव तव पूजारतो ह्यसौ॥ ५.१७६ ॥
प्रत्यहं रत्नमाणिक्यैः पुष्पैश्चोच्चावचैरपि॥
जीवितेन धनेनापि पूजितोऽसि न संशयः॥ ५.१७७ ॥
तस्माज्जानीहि मन्मित्रं नंदिनं भक्तवत्सल॥ ५.१७८ ॥
॥महादेव उवाच॥
न जानामि महाभाग नंदिनं वैश्यचर्चितम्॥
त्वं मे भक्तः सखा चेति महाकाल महामते॥ ५.१७९ ॥
उपाधिरहिता ये च येऽपि चैव मनस्विनः॥
तेऽतीव मे प्रिया भक्तास्ते विशिष्टा नरोत्तमाः॥ ५.१८० ॥
तव भक्तो ह्यहं तात स च मे प्रियकृत्तरः॥
तावुभौ स्वीकृतौ तेन पार्षदत्वेन शंभुना॥ ५.१८१ ॥
ततो विमानानि बहूनि तत्र समागतान्येव महाप्रभाणि॥
किरातवर्येण स वैश्यवर्य उद्धारितस्तेन महाप्रभेण॥ ५.१८२ ॥
कैलासं पर्वतं प्राप्तौ विमानैर्वेगवत्तरैः॥
सारूप्यमेव संप्राप्तावीश्वरेण महात्मना॥ ५.१८३ ॥
नीराजितौ गिरिजया शिवेन सहितौ तदा॥
उवाचेदं ततो देवी प्रहस्य गजगामिनी॥ ५.१८४ ॥
यथा त्वं हि महादेव तथा चैतौ न संशयः॥
स्वरूपेण च गत्या च हास्यभावैः सुपूजितौ॥ ५.१८५ ॥
मया त्वमेक एवासीः सेवितो वै न संशयः॥
देव्यास्तद्वचनं श्रुत्वा किरातो वैश्य एव च॥ ५.१८६ ॥
सद्यः पराङ्मुखौ भूत्वा शंकरस्य च पश्यतः॥
भवावस्त्वनुकंप्यौ च भवता हि त्रिलोचन॥ ५.१८७ ॥
तव द्वारि स्थितौ नित्यं भाववस्ते नमोनमः॥ ५.१८८ ॥
तयोर्भावं स भगवान्विदित्वा प्रहसन्भवः॥
उवाच परया भक्त्या भवतोरस्तु वांछितम्॥ ५.१८९ ॥
तदा प्रभृति तावेतौ द्वारपालौ बभूवतुः॥
शिवद्वारि स्थितौ विप्रा मध्याह्ने शिवदर्शिनौ॥ ५.१९० ॥
एको नंदी महाकालो द्वावेतौ शिववल्लभौ॥
ऊचतुस्तौ मुदायुक्तावेक एव सदाशिवः॥ ५.१९१ ॥
एकांगुलिं समुद्धृत्य महादेवोभ्यभाषत॥
तथा नंदी उवाचेदमुद्धृत्य स्वांगुलिद्वयम्॥ ५.१९२ ॥
एवं संज्ञान्वितौ द्वारि तिष्ठतस्तौ महात्मनः॥
शंकरस्य महाभागाः श्रृण्वंतु ऋषयो ह्यमी॥ ५.१९३ ॥
शैलादेन पुरा प्रोक्तं शिवधर्ममनंतकम्॥
प्राणिनां कृपया विप्राः सर्वेषां दुष्कृतात्मनाम्॥ ५.१९४ ॥
ये पापिनोऽप्यधर्मिष्ठा अंधा मूकाश्च पंगवः॥
कुलहीना दुरात्मानः श्वपचा अपि मानवाः॥ ५.१९५ ॥
यादृशास्तादृशाश्चान्ये शिवभक्तिपुरस्कृताः॥
तेऽपि गच्छंति सांनिध्यं देवदेवस्य शूलिनः॥ ५.१९६ ॥
लिंगं सिकतामयं ये पूजयंति विपश्चितः॥
ते रुद्रलोकं गच्छंति नात्र कार्या विचारणा॥ ५.१९७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवभक्तिमाहात्म्यवर्णनंनाम पंचमोऽध्यायः॥ ५ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 6
॥ऋषय ऊचुः॥
लिंगे प्रतिष्ठा च कथं शिवं हित्वा प्रवर्तिता॥
तत्कथ्यतां महाभाग परं शुश्रुषतां हि नः॥ ६.१ ॥
॥लोमश उवाच॥
यदा दारुवने शंभुर्भिक्षार्थं प्राचरत्प्रभुः॥ ६.२ ॥
दिगंबरो मुक्तजटाकलापो वेदांतवेद्यो भुवनैकभर्ता॥
स ईश्वरो ब्रह्मकलापधारो योगीश्वराणां परमः परश्च॥ ६.३ ॥
अणोरणीयान्महतो मही यान्महानुभावो भुवनाधिपो महान्॥
स ईश्वरो भिक्षुरूपी महात्मा भिक्षाटनं दारुवने चकार॥ ६.४ ॥
मध्याह्न ऋषयो विप्रास्तीर्थं जग्मुः स्वकाश्रमात्॥
तदानीमेव सर्वास्ता ऋषीभार्याः समागताः॥ ६.५ ॥
विलोकयंत्यः शंभुं तमाचख्युश्च परस्परम्॥
कोऽसौ भिक्षुकरूपोयमागतोऽपूर्वदर्शनः॥ ६.६ ॥
अस्मै भिक्षां प्रयच्छामो वयं च सखिभिः सह॥
तथेति गत्वा सर्वास्ता गृहेभ्य आनयन्मुदा॥ ६.७ ॥
भिक्षान्नं विविधं श्लक्ष्णं सोपचारं च शक्तितः॥
प्रदत्तं भिक्षितं तेन देवदेवेन शूलिना॥ ६.८ ॥
काचित्प्रियतमं शंभुं बभाषे विस्मयान्विता॥
कोसि त्वं भिक्षुको भूत्वा आगतोत्र महामते॥ ६.९ ॥
ऋषीणामाश्रमं शुद्धं किमर्थं नो निषीदसि॥
तयोक्तोऽपि तदा शंभुर्बभाषे प्रहसन्निव॥ ६.१० ॥
ईश्वरोहं सुकेशांते पावनं प्राप्तवानिमम्॥
ईश्वरस्य वचः श्रुत्वा ऋषिभार्या उवाच तम्॥ ६.११ ॥
ईश्वरोऽसि महाभाग कैलासपतिरेव च॥
एकाकिनः कथं देव भिक्षार्थमटनं तव॥ ६.१२ ॥
एवमुक्तस्तया शंभुः पुनस्तामब्रवीद्वचः॥
दाक्षायण्या विरहितो विचरामि दिगंबरः॥ ६.१३ ॥
भिक्षाटनार्थं सुश्रोणि संकल्परहितः सदा॥
तया सत्या विना किंचित्स्त्रीमात्रं मम भामिनि॥
न रोचते विशालाक्षि सत्यं प्रतिवदामि ते॥ ६.१४ ॥
तस्योक्तं वचनं श्रुत्वा उवाच कमलेक्षणा॥
स्त्रियो हि सुखसंस्पर्शाः पुरुषस्य न संशयः॥ ६.१५ ॥
तास्स्त्रियो वर्जिताः शंभो त्वादृशेन विपश्चिता॥ ६.१६ ॥
इति च प्रमदाः सर्वा मिलिता यत्र शंकरः॥
भिक्षापात्रं च तच्छंभोः पूरितं च महागुणैः॥ ६.१७ ॥
अन्नैश्चतुर्विधैः षड्भी रसैश्च परिपूरितम्॥
यदा संभुर्गंतुकामः कैलासं पर्वतं प्रति॥
तदा सर्वा विप्रपत्न्यो ह्यन्गच्छन्मुदान्विताः॥ ६.१८ ॥
गृहकार्यं परित्यज्य चेरुस्तद्गतमानसाः॥
गतासु तासु सर्वासु पत्नीषु ऋषिसत्तमाः॥ ६.१९ ॥
यावदाश्रममभ्येत्य तावच्छून्यं व्यलोकयन्॥
परस्परमथोचुस्ते पत्न्यः सर्वाः कुतो गताः॥ ६.२० ॥
न विदामोऽथ वै सर्वाः केन नष्टेन चाहृताः॥
एवं विमृश्यमानास्ते विचिन्वंतस्ततस्ततः॥ ६.२१ ॥
समपश्यंस्ततः सर्वे शिवस्यानुगताश्च ताः॥
शिवं दृष्ट्वा तु संप्राप्ता ऋषयस्ते रुषान्विताः॥ ६.२२ ॥
शिवस्याथाग्रतो भूत्वा ऊचुः सर्वे त्वरान्विताः॥
किं कृतं हि त्वया शंभो विरक्तेन महात्मना॥
परदारापहर्त्तासि त्वमृषीणां न संशयः॥ ६.२३ ॥
एवं क्षिप्तः शिवो मौनी गच्छमानोऽपि पर्वतम्॥
तदा स ऋषिभिः प्राप्तो महादेवोऽव्ययस्तथा॥
यस्मात्कलत्रहर्ता त्वं तस्मात्षंढो भव त्वरम्॥ ६.२४ ॥
एवं शप्तः स मुनिभिर्लिंगं तस्यापतद्भुवि॥
भूमिप्राप्तं च तल्लिंगं ववृधे तरसा महत्॥ ६.२५ ॥
आवृत्य सप्त पातालान्क्षणाल्लिंगमदोर्ध्वतः॥
व्याप्य पृथ्वीं समग्रां च अंतरिक्षं समावृणोत्॥ ६.२६ ॥
स्वर्गाः समावृताः सर्वे स्वर्गातीतमथाभवत्॥
न मही न च दिक्चक्रं न तोयं न च पावकः॥ ६.२७ ॥
न च वायुर्न वाकाशं नाहंकारो न वा महत्॥
न चाव्यक्तं न कालश्च न महाप्रकृतिस्तथा॥ ६.२८ ॥
नासीद्द्ववैतविभागं च सर्वं लीनं च तत्क्षणात्॥
यस्माल्लीनं जगत्सर्वं तस्मिँल्लिगे महात्मनः॥ ६.२९ ॥
लयनाल्लिंगमित्येवं प्रवदंति मनीषिणः॥
तथाभूतं वर्द्धमानं दृष्ट्वा तेऽपि सुरर्षयः॥ ६.३० ॥
ब्रह्मेंद्रविष्णुवाय्यग्निलोकपालाः सपन्नगाः॥
विस्मयाविष्टमनसः परस्परमथाब्रुवन्॥ ६.३१ ॥
किमायामं च विस्तारं क्व चांतः क्व च पीठिका॥
इति चिंतान्विता विष्णुमूचुः सर्वे सुरास्तदा॥ ६.३२ ॥
॥देवा ऊचुः॥
अस्य मूलं त्वया विष्णो पद्मोद्भव च मस्तकम्॥
युवाभ्यां च विलोक्यं स्यात्स्थाने स्यात्परिपालकौ॥ ६.३३ ॥
श्रुत्वा तु तौ महाभागौ वैकुंठकमलोद्भवौ॥
विष्णुर्गतो हि पातालं ब्रह्मा सर्वर्गं जगाम ह॥ ६.३४ ॥
स्वर्गं गतस्तदा ब्रह्मा अवलोकनतत्परः॥
नापस्यत्तत्र लिंगस्य मस्तकं च विचक्षमः॥ ६.३५ ॥
तथा गतेन मार्गेण प्रत्यावृत्त्याब्जसंभवः॥
मेरुपृष्ठमनुप्राप्तः सुरभ्या लक्षितस्ततः॥ ६.३६ ॥
स्थिता या केतकीच्छायामुवाच मधुरं वचः॥
तस्या वचनमाकर्ण्य सर्वलोकपितामहः॥
उवाच प्रहसन्वाक्यं छलोक्त्या सुरभिं प्रति॥ ६.३७ ॥
लिंगं महाद्भुतं दृष्टं येनव्याप्तं जगत्त्रयम्॥
दर्शनार्थं च तस्यांतं देवैः संप्रेषितोस्मयहम्॥ ६.३८ ॥
न दृष्टं मस्तकं तस्य व्यापकस्य महात्मनः॥
किं वक्ष्येऽहं च देवाग्रे चिंता मे चाति वर्तते॥ ६.३९ ॥
लिंगस्य मस्तकं दृष्टं देवानां च मृषा वदेः॥
ते सर्वे यदि वक्ष्यंति इंद्राद्या देवतागणाः॥ ६.४० ॥
ते संति साक्षिमो देवा अस्मिन्नर्थे वदत्वरम्॥
अर्थेऽस्मिन्भव साक्षी त्वं केतक्या सह सुव्रते॥ ६.४१ ॥
तद्वचः शिरसा गृह्य ब्रह्मणः परमेष्ठिनः॥
केतकीसहिता तत्र सुरभी तदमानयत्॥ ६.४२ ॥
एवं समागतो ब्रह्म देवाग्रे समुवाच ह॥ ६.४३ ॥
॥ब्रह्मोवाच॥
लिंगस्य मस्तकं देवा दृष्टवानहमद्भुतम्॥
समीचीनं चार्तितं च केतकीदल संयुतम्॥ ६.४४ ॥
विशालं विमलं श्लक्ष्णं प्रसन्नतरमद्भुतम्॥
रम्यं च रमणीयं च दर्शनीयं महाप्रभम्॥ ६.४५ ॥
एतादृशं मया दृष्टं न दृष्टं तद्विनाक्वचित्॥
ब्रह्मणो हि वचः श्रुत्वा सुरा विस्मयमाययुः॥ ६.४६ ॥
एवं विस्मयपूर्णास्ते इंद्राद्या देवतागणाः॥
तिष्ठंति तावत्सर्वेशो विष्णुरध्यात्मदीपकः॥ ६.४७ ॥
पातालादागतः सद्यः सर्वेषामवदत्त्वरम्॥
तस्याप्यंतो न दृष्टो मे ह्यवलोकनतत्परः॥ ६.४८ ॥
विस्मयो मे महाञ्जातः पातालात्परतश्चरन्॥
अतलं सुतलं चापि नितलं च रसातलम्॥ ६.४९ ॥
तथा गतस्तलं चैव पातालं च तथातलम्॥
तलातलानि तान्येनं शून्यवद्यद्विभाव्यते॥ ६.५० ॥
शून्यादपि च शून्यं च तत्सर्वं सुनिरीक्षितम्॥
न मूलं च न मध्यं च न चांतो ह्यस्य विद्यते॥ ६.५१ ॥
लिंगरूपी महादेवो येनेदं धार्यते जगत्॥
यस्य प्रसादादुत्पन्ना यूयं च ऋषयस्तथा॥ ६.५२ ॥
श्रुत्वा सुराश्च ऋषयस्तस्य वाक्यमपूजयन्॥
तदा विष्णुरुवाचेदं ब्रह्माणं प्रहसन्निव॥ ६.५३ ॥
दृष्टं हि चेत्त्वया ब्रह्मन्मस्तकं परमार्थतः॥
साक्षिणः के त्वया तत्र अस्मिन्नर्थे प्रकल्पिताः॥ ६.५४ ॥
आकर्ण्य वचनं विष्णोर्ब्रह्मा लोकपितामहः॥
उवाच त्वरितेनैव केतकी सुरभीति च॥ ६.५५ ॥
ते देवा मम साक्षित्वे जानीहि परमार्थतः॥
ब्रह्मणो हि वचः श्रुत्वा सर्वे देवास्त्वरान्विताः॥ ६.५६ ॥
आह्वानं चक्रिरे तस्याः सुरभ्याश्च तया सह॥
आगते तत्क्षमादेव कार्यार्थं ब्रह्मणस्तदा॥ ६.५७ ॥
इंद्राद्यैश्च तदा देवैरुक्ता च सुरभी ततः॥
उवाच केतकीसार्द्धं दृष्टो वै ब्रह्मणा सुराः॥ ६.५८ ॥
लिंगस्य मस्तको देवाः केतकीदलपूजितः॥
तदा नभोगता वाणी सर्वेषां श्रृण्वतामभूत्॥ ६.५९ ॥
सुरभ्या चैव यत्प्रोक्तं केतक्या च तथा सुराः॥
तन्मृषोक्तं च जानीध्वं न दृष्टो ह्यस्य मस्तकः॥ ६.६० ॥
तदा सर्वेऽथ विबुधाः सेंद्रा वै विष्णुना सह॥
शेपुश्च सुरभीं रोषान्मृषावादनतत्पराम्॥ ६.६१ ॥
मुखेनोक्तं त्वयाद्यैवमनृतं च तथा शुभे॥
अपवित्रं मुखं तेऽस्तु सर्वधर्मबहिष्कृतम्॥ ६.६२ ॥
सुगंधकेतकी चापि अयोग्या त्वं शिवार्चने॥
भविष्यसि न संदेहो अनृता चैव भामिनि॥ ६.६३ ॥
तदा नभो गता वाणी ब्रह्मणं च शशाप वै॥
मृषोक्तं च त्वया मंद किमर्थं बालिशेन हि॥ ६.६४ ॥
भृगुणा ऋषिभिः साकं तथैव च पुरोधसा॥
तस्माद्युयं न पूज्याश्च भवेयुः क्लेशभागिनः॥ ६.६५ ॥
ऋषयोऽपि च धर्मिष्ठास्तत्त्ववाक्यबहिष्कृताः॥
विवादनिरता मूढा अतत्त्वज्ञाः समत्सराः॥ ६.६६ ॥
याचकाश्चावदान्याश्च नित्यं स्वज्ञानघातकाः॥
आत्मसंभाविताः स्तब्धाः परस्परविनिंदकाः॥ ६.६७ ॥
एवं शप्ताश्च मुनयो ब्रह्माद्या देवतास्तथा॥
शिवेन शप्तास्ते सर्वे लिंगं शरणमाययुः॥ ६.६८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे श्रीशिवलिङ्गमाहात्म्ये ब्रह्मादिशापवृत्तान्तवर्णनं नाम षष्ठोऽध्यायः॥ ६ ॥छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 7
॥लोमश उवाच॥
तदा च ते सुराः सर्व ऋषयोपि भयान्विताः॥
ईडिरे लिंगमैशं च ब्रह्माद्या ज्ञानविह्वलाः॥ ७.१ ॥
॥ब्रह्मोवाच॥
त्वं लिंगरूपी तु महाप्रभावो वेदांतवेद्योसि महात्मरूपि॥
येनैव सर्वे जगदात्ममूलं कृतं सदानंदपरेण नित्यम्॥ ७.२ ॥
त्वं साक्षी सर्वलोकानां हर्ता त्वं च विचक्षणः॥
रक्षणोसि महादेव भैरवोसि जगत्पते॥ ७.३ ॥
त्वया लिंगस्वरूपेण व्याप्तमेतज्जगत्त्रयम्॥
क्षुद्राश्चैव वयं नाथ मायामोहितचेतसः॥ ७.४ ॥
अहं सुराऽसुराः सर्वे यक्षगंधर्वराक्षसाः॥
पन्नगाश्च पिशाचाश्च तथा विद्याधरा ह्यमी॥ ७.५ ॥
त्वंहि विश्वसृजां स्रष्टा त्वं हि देवो जगत्पतिः॥
कर्ता त्वं भुवनस्यास्य त्वं हर्ता पुरुषः परः॥ ७.६ ॥
त्राह्यस्माकं महादेव देवदेव नमोऽस्तु ते॥
एवं स्तुतो हि वै धात्रा लिंगरूपी महेश्वरः॥ ७.७ ॥
ऋषयः स्तोतुकामास्ते महेश्वरमकल्मषम्॥
अस्तुवन्गीर्भिरग्र्याभिः श्रुतिगीताभिरादृताः॥ ७.८ ॥
॥ऋषय ऊचुः॥
अज्ञानिनो वयं कामान्न विंदामोऽस्य संस्थितिम्॥
त्वं ह्यात्मा परमात्मा च प्रकृतिस्त्वं विभाविनी॥ ७.९ ॥
त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमे॥
त्वमीश्वरो वेदविदेकरूपो महानुभावैः परिचिंत्यमानः॥ ७.१० ॥
त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम्॥
सर्वं भवति यस्मात्त्वत्तस्मात्सर्वोऽसि नित्यदा॥ ७.११ ॥
यस्माच्च संभवत्येतत्तस्माच्छंभुरिति प्रभुः॥ ७.१२ ॥
त्वत्पादपंकजं प्राप्ता वयं सर्वे सुरादयः॥
ऋषयो देवगंधर्वा विद्याधरमहोरगाः॥ ७.१३ ॥
तस्माच्च कृपया शंभो पाह्यस्माञ्जगतः पते॥ ७.१४ ॥
॥महादेव उवाच॥
श्रृणुध्वं तु वचो मेऽद्य क्रियतां च त्वरान्वितैः॥
विष्णुं सर्वे प्रार्थयंतु त्वरितेन तपोधनाः॥ ७.१५ ॥
तस्य तद्वचनं श्रुत्वा शंकरस्य महात्मनः॥
विष्णुं सर्वे नमस्कृत्य ईडिरे च तदा सुराः॥ ७.१६ ॥
॥देव ऊचुः॥
विद्याधराः सुरगणा ऋषयश्च सर्वे त्रातास्त्वयाद्य सकलाजगदेकबंधो॥
तद्वत्कृपाकरजनान्परिपालयाद्य त्रैलोक्यनाथ जगदीश जगन्निवास॥ ७.१७ ॥
प्रहस्य भगवन्विष्णुरुवाचेदं वचस्तदा॥
दैत्यैः प्रपीडिता यूयं रक्षिताश्च पुरा मया॥ ७.१८ ॥
अद्यैव भयमुत्पन्नं लिंगादस्माच्चिरंतनम्॥
न शक्यते मया त्रातुमस्माल्लिंगभयात्सुराः॥ ७.१९ ॥
अच्युतेनैवमुक्तास्ते देवा श्चिंतान्विताभवन्॥
तदा नभोगता वाणी उवाचाश्वास्य वै सुरान्॥ ७.२० ॥
एतल्लिंगं संवृणुष्व पूजनाय जनार्दन॥
पिंडिभूत्वा महाबाहो रक्षस्व सचराचरम्॥
तथेति मत्वा बगवान्वीरभद्रोऽभ्यपूजयत्॥ ७.२१ ॥
ब्रह्मादिभः सुरगणैः सहितैस्तदानीं संपूजितः शिवविधानरतो महात्मा॥
स्रवीरभद्रः शशिशेखरोऽसौ शिवप्रियो रुद्रसमस्त्रिलोक्याम्॥ ७.२२ ॥
लिंगस्यार्चनयुक्तोऽसौ वीरभद्रोऽभवत्तदा॥
तद्रूपस्यैव लिंगस्य येन सर्वमिदं जगत्॥ ७.२३ ॥
उद्भाति स्थितिमाप्नोति तथा विलयमेति च॥
तल्लिंगं लिंगमित्याहुर्लयनात्तत्त्ववित्तमाः॥ ७.२४ ॥
ब्रह्माण्डागोलकैर्व्याप्तं तथा रुद्राक्षभूषितम्॥
तथा लिंगं महज्जातं सर्वेषां दुरतिक्रमम्॥ ७.२५ ॥
तदा सर्वेऽथ विबुधा ऋषो वै महाप्रभाः॥
तुष्टुवुश्च महालिंगं वेदावादैः पृथक्पृथक्॥ ७.२६ ॥
अणोरणीयांस्त्वं देव तथा त्वं महतो महान्॥
तस्मात्त्वया विधातव्यं सर्वैषां लिंगपूजनम्॥ ७.२७ ॥
तदानीमेव सर्वेण लिंगं च बहुशः कृतम्॥
सत्ये ब्रह्मेश्वरं लिंगं वैकुण्ठे च सदाशिवः॥ ७.२८ ॥
अमरावत्यां सुप्रतिष्ठममरेश्वरसंज्ञकम्॥
वरुणेश्वरं च वारुण्यां याम्यां कालेश्वरं प्रभुम्॥ ७.२९ ॥
नैर्ऋतेश्वरं च नैर्ऋत्यां वायव्यां पावनेश्वरम्॥
केदारं मृत्युलोके च तथैव अमरेश्वरम्॥ ७.३० ॥
ओंकारं नर्मदायां च महाकालं तथैव च॥
काश्यां विश्वेश्वरं देवं प्रयागे ललितेश्वरम्॥ ७.३१ ॥
त्रियम्बकं ब्रह्मगिरौ कलौ भद्रेश्वरं तथा॥
द्राक्षारामेश्वरं लिंगं गंगासागरसंगमे॥ ७.३२ ॥
सौराष्ट्रे च तथा लिंगं सोमेश्वरमिति स्मृतम्॥
तथा सर्वेश्वरं विन्ध्ये श्रीशैले शिखरेश्वरम्॥
कान्त्यामल्लालनाथं च सिंहनाथं च सिंगले॥ ७.३३ ॥
विरूपाक्षं तथा लिंगं कोटिशङ्करमेव च॥
त्रिपुरान्तकं भीमेशममरेश्वरमेव च॥ ७.३४ ॥
भोगेश्वरं च पाताले हाटकेश्वरमेव च॥
एवमादीन्यनेकानि लिंगानि भुवनत्रये॥
स्थापितानि तदा देवैर्विश्वोपकृतिहेतवे॥ ७.३५ ॥
लिंगेशैश्च तथा सर्वैः पूर्णमासीज्जगत्त्रयम्॥
तथा च वीरभद्रांशाः पूजार्थममरैः कृताः॥ ७.३६
तत्र विंशतिसंस्कारास्तेषामष्टाधिकाभवन्॥
कथिताः शंकरेणैव लिंगस्याचनसूचकाः॥ ७.३७ ॥
संति रुद्रेण कथिताः शिवधर्मा सनातनाः॥
वीरभद्रो यथा रुद्रस्तथान्ये गुरवः स्मृताः॥ ७.३८ ॥
गुरोर्जाताश्च गुरवो विख्याता भुवनत्रये॥
लिंगस्य महिमान तु नन्दी जानाति तत्त्वतः॥ ७.३९ ॥
तथा स्कन्दो हि भगवान्न्ये ते नामधारकाः॥
यथोक्ताः शिवधरमा हि नन्दिना परिकीर्त्तिताः॥ ७.४० ॥
शैलादेन महाभागा विचित्रा लिंगधारकाः॥
शवस्योपरि लिंगं च ध्रियते च पुरातनैः॥ ७.४१ ॥
लिंगेन सह पञ्चत्वं लिंगेन सह जीवितम्॥
एते धर्माः सुप्रतिष्ठाः शैलादेन प्रतिष्ठिताः॥ ७.४२ ॥
धर्मः पाशुपतः श्रेष्ठः स्कन्देन प्रतिपालितः॥ ७.४३ ॥
शुद्धापञ्चाक्षरीविद्याप्रासादी तदनन्तरम्॥
षडक्षरी तथा विद्या प्रासादस्य च दीपिका॥ ७.४४ ॥
स्कन्दात्तत्समनुप्राप्तमगस्त्येन महात्मना॥
पश्चादाचार्यभेदेन ह्यागमा बहवोऽभवन्॥ ७.४५ ॥
किं तु वै बहुनोक्तेन श्वि इत्यक्षरद्वयम्॥
उच्चारयंति स नित्यं ते रुद्रा नात्र संशयः॥ ७.४६ ॥
सतां मार्गं पुरस्कृत्य ये सर्वे ते पुरांतकाः॥
वीरा माहेश्वराज्ञेयाः पापक्षयकरा नृणाम्॥ ७.४७ ॥
प्रसंगेनानुपंक्षेण श्रद्वया च यदृच्छया॥
शिवभक्तिं प्रकुर्वन्ति ये वै ते यांति सद्गतिम्॥ ७.४८ ॥
श्रृणुध्वं कथयामीह इतिहासं पुरातनम्॥
कृतं शिवालयं यच्च पतंग्या मार्जनं पुरा॥ ७.४९ ॥
आगता भक्षणार्थं हि नैवेद्यं केन चार्पितम्॥
मार्जनं रजस्तस्याः पक्षाभ्यामभवत्पुरा॥ ७.५० ॥
तेन कर्मविपाकेन उत्तमं स्वर्गमागता॥
भुक्त्वा स्वर्गसुखं चोग्रं पुनः संसारमागता॥ ७.५१ ॥
काशिराजसुता जाता सुन्दरीनाम विश्रुता॥
पूर्वाभ्यासाच्च कल्याणी बभूव परमा सती॥ ७.५२ ॥
उषस्युषसि तन्वंगी शिवद्वाररता सदा॥
संमार्जनं च कुरुते भक्त्या परमया युता॥ ७.५३ ॥
स्वयमेव तदा देवी सुन्दरी राजकन्यका॥
तथाभूतां च तां दृष्ट्वा ऋषिरुद्दालकोऽब्रवीत्॥ ७.५४ ॥
सुकुमारी सती बाले स्वयमेव कथं शुभे॥
संमार्जनं च कुरुषे कन्यके त्वं शुचिस्मिते॥ ७.५५ ॥
दासी दास्यश्च बहवः संति देवि तवाग्रतः॥
तवाज्ञया करिष्यंति सर्वं संमार्जनादिकम्॥ ७.५६ ॥
ऋषेस्तद्वचनं श्रुत्वा प्रहस्येदमुवाच ह॥ ७.५७ ॥
शिवसेवां प्रकुर्वाणाः शिवभक्तिपुरस्कृताः॥
ये नराश्चैव नार्य्यश्च शिवलोकं व्रजंति वै॥ ७.५८ ॥
संमार्जनं च पाणिभ्यां पद्भ्यां यानं शिवालये॥
तस्मान्मया च क्रियते संमार्जनमतंद्रितम्॥ ७.५९ ॥
अन्यत्किञ्चिन्न जानामि एकं संमार्जनं विना॥
ऋषिस्तद्वचनं श्रुत्वा मनसा च विमृश्य हि॥ ७.६० ॥
अनया किं कृतं पूर्वं केयं कस्य प्रसादतः॥
तदा ज्ञानं च ऋषिणा तत्सर्वं ज्ञानचक्षुषा॥
विस्मयेन समाविष्टस्तूष्णींभूतोऽभवत्तदा॥ ७.६१ ॥
सविस्मयोऽभूदथ तद्विदित्वा उद्दालको ज्ञानवतां वरिष्ठः॥
शिवप्रभावं मनसा विचिंत्य ज्ञानात्परं बोधमवाप शांतः॥ ७.६२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे सप्तमोऽध्यायः॥ ७ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 8
॥लोमश उवाच॥
तस्करोऽपि पुरा ब्रह्मन्सर्वधर्मबाहिष्कृतः॥
ब्रह्मघ्नोऽसौ सुरापश्च सुवर्णस्य च तस्करः॥ ८.१ ॥
लंपटोहि महापाप उत्तमस्त्रीषु सर्वदा॥
द्यूतकारी सदा मंदः कितवैः सह संगतः॥ ८.२ ॥
एकदा क्रीडता तेन हारितं द्यूतमद्भुतम्॥
कितवैर्मर्द्यमानो हि तदा नोवाच किञ्चन॥ ८.३ ॥
पीडितोऽप्यभवत्तूष्णीं तैरुक्तः पापकृत्तमः॥
द्यूते त्वया च तद्द्रव्यं हारितं किं प्रयच्छसि॥ ८.४ ॥
नो वा तत्कथ्यतां शीघ्रं याथातथ्येन दुर्मते॥
यद्धारितं प्रयच्छामि रात्रावित्यब्रवीच्च सः॥ ८.५ ॥
तैर्मुक्तस्तेन वाक्येन गतास्ते कितवादयः॥
तदा निशीथसमये गतोऽसौ शिवमंदिरम्॥ ८.६ ॥
शिरोधिरुह्य शम्भोश्च घण्टामादातुमुद्यतः॥
तावत्कैलासशिखरे शंभुः प्रोवाच किंकरान्॥ ८.७ ॥
अनेन यत्कृतं चाद्य सर्वेषामधिकं भुवि॥
सर्वेषामेव भक्तानां वरिष्ठोऽयं च मत्प्रियः॥ ८.८ ॥
इति प्रोक्त्वान यामास वीरभद्रादिभिर्गणैः॥
ते सर्वे त्वरिता जग्मुः कैलासाच्छिववल्लभात्॥ ८.९ ॥
सर्वैर्डमरुनादेन नादितं भुवनत्रयम्॥
तान्दृष्ट्वा सहसोत्तीर्य तस्करोसौ दुरात्मवान्॥
लिंगस्य मस्तकात्सद्यः पलायनपरोऽभवत्॥ ८.१० ॥
पलायमानं तं दृष्ट्वा वीरभद्रः समाह्वयत्॥ ८.११ ॥
कस्माद्विभेपि रे मन्द देवदेवो महेस्वरः॥
प्रसन्नस्तव जातोद्य उदारचरितो ह्यसौ॥ ८.१२ ॥
इत्युक्त्वा तं विमाने च कृत्वा कैलासमाययौ॥
पार्षदो हि कृतस्तेन तस्करो हि महात्मना॥ ८.१३ ॥
तस्माद्भाव्या शिवे भक्तिः सर्वेषामपि देहिनाम्॥
पशवोऽपि हि पूज्याः स्युः किं पुनर्मानवाभुवि॥ ८.१४ ॥
ये तार्किकास्तर्कपरास्तथ मीमांसकाश्च ये॥
अन्योन्यवादिनश्चान्ये चान्ये वात्मवितर्ककाः॥ ८.१५ ॥
एकवाक्यं न कुर्वंति शिवार्चनबहिष्कृताः॥
तर्को हि क्रियते यैश्च तेसर्वे किं शिवं विना॥ ८.१६ ॥
तथा किं बहुनोक्तेन सर्वेऽपि स्थिरजंगमाः॥
प्राणिनोऽपि हि जायंते केवलं लिंगधारिणः॥ ८.१७ ॥
पिण्डीयुक्तं यथा लिंगं स्थापितं च यथाऽभवत्॥
तथा नरा लिंगयुक्ताः पिण्डीभूतास्तथा स्त्रियः॥ ८.१८ ॥
शिवशक्तियुतं सर्वं जगदेतच्चराचरम्॥
तं शिवं मौढ्यतस्त्यक्त्वा मूढाश्चान्यं भजंति ये॥ ८.१९ ॥
धर्ममात्यंतिकं तुच्छं नश्वरं क्षणभंगुरम्॥
यो विष्णुः स शिवो ज्ञेयो यः शिवो विष्णुरेव सः॥ ८.२० ॥
पीठिका विष्णुरूपं स्याल्लिंगरूपी महेश्वरः॥
तस्माल्लिंगार्चनं श्रेष्ठं सर्वेषामपि वै द्विजाः॥ ८.२१ ॥
ब्रह्मा मणिमयं लिंगं पूजयत्यनिशं शुभम्॥
इन्द्रो रत्नमयं लिंगं चन्द्रो मुक्तामयं तथा॥ ८.२२ ॥
भानुस्ताम्रमयं लिंगं पूजयत्यनिशं शुभम्॥
रौक्मं लिंगं कुबेरश्च पाशी चारक्तमेव च॥ ८.२३ ॥
यमो नीलमयं लिंगं राजतं नैर्ऋतस्तथा॥
काश्मीरं पवनो लिंगमर्चयत्यनिशं विभोः॥ ८.२४ ॥
एवं ते लिंगिताः सर्वे लोकपालाः सवासवाः॥
तथा सर्वेऽपि पाताले गंधर्वाः किंनरैः सह॥ ८.२५ ॥
दैत्यानां वैष्णवाः केचित्प्रह्लादप्रमुखा द्विजाः॥
तथाहि राक्षसानां च विभीषणपुरोगमाः॥ ८.२६ ॥
बलिश्च नमुचिश्चैव हिरण्यकशिपुस्तथा॥
वृषपर्वा वृषश्चैव संह्रादो बाण एव च॥ ८.२७ ॥
एते चान्ये च बहवः शिष्याः शुक्रस्य धीमतः॥
एवं शिवार्चनरताः सर्वे ते दैत्यदानवाः॥ ८.२८ ॥
राक्षसा एव ते सर्वे शिवपूजान्विताः सदा॥
हेतिः प्रहेतिः संयातिर्विघसः प्रघसस्तथा॥ ८.२९ ॥
विद्युज्जिह्वस्तीक्ष्णदंष्ट्रो धूम्राक्षो भीमविक्रमः॥
माली चैव सुमाली च माल्यवानतिभीषमः॥ ८.३० ॥
विद्युत्कैशस्तडिज्जिह्वो रावणश्च महाबलः॥
कुंभकर्णो दुराधर्षो वेगदर्शी प्रतापवान्॥ ८.३१ ॥
एते हि राक्षसाः श्रेष्ठा शिवार्चनरताः सदा॥
लिंगमभ्यर्च्य च सदा सिद्धिं प्राप्ताः पुरा तु ते॥ ८.३२ ॥
रावणेन तपस्तप्तं सर्वेषामपि दुःखहम्॥
तपोधिपो महादेवस्तुतोष च तदा भृशम्॥ ८.३३ ॥
वरान्प्रायच्छत तदा सर्वेषामपि दुर्लभान्॥
ज्ञानं विज्ञानसहितं लब्धं तेन सदाशिवात्॥ ८.३४ ॥
अजेयत्वं च संग्रामे द्वैगुण्यं शिरसामपि॥
पंचवक्त्रो महा देवो दशवक्त्रोऽथ रावणः॥ ८.३५ ॥
देवानृषीन्पितॄंश्चैव निर्जित्य तपसा विभुः॥
महेशस्य प्रसादाच्च सर्वेषामधिकोऽभवत्॥ ८.३६ ॥
राजा त्रिकूटाधिपतिर्महेशेन कृतो महान्॥
सर्वेषां राक्षसानां च परमासनमास्तितः॥ ८.३७ ॥
तपस्विनां परीक्षायै यदृषीणां विहिंसनम्॥
कृतं तेन तदा विप्रा रावणेन तपस्विना॥ ८.३८ ॥
अजेयो हि महाञ्जातो रावणो लोकरावणः॥
सृष्ट्यंतरं कृतं येन प्रसादाच्छंकरस्य च॥ ८.३९ ॥
लोकपाला जितास्तेन प्रतापेन तपस्विना॥
ब्रह्मापि विजितो येन तपसा परमेण हि॥ ८.४० ॥
अमृतांशुकरो भूत्वा जितो येन शशी द्विजाः॥
दाहकत्वाज्जितो वह्निरीशः कैलासतोलनात्॥ ८.४१ ॥
ऐश्वर्येण जितश्चेन्द्रो विष्णुः सर्वगतस्तथा॥
लिंगार्चनप्रसादेन त्रैलोक्यं च वशीकृतम्॥ ८.४२ ॥
तदा सर्वे सुरगणा ब्रह्मविष्णुपुरोगमाः॥
मेरुपृष्ठं समासाद्य सुमंत्रं चक्रिरे तदा॥ ८.४३ ॥
पीडिताः स्मो रावणेन तपसा दुष्करेण वै॥
गोकर्णाख्ये गिरौ देवाः श्रूयतां परमाद्भुतम्॥ ८.४४ ॥
साक्षाल्लिंगार्चनं येन कृतमस्ति महात्मना॥
ज्ञानज्ञेयं ज्ञानगम्यं यद्यत्परममद्भुतम्॥
तत्कृतं रावणेनैव सर्वेषां दुरतिक्रमम्॥ ८.४५ ॥
वैराग्यं परमास्थाय औदार्यं च ततोऽधिकम्॥
तेनैव ममता त्यक्ता रावणेन महात्मना॥ ८.४६ ॥
संवत्सरसहस्राच्च स्वशिरो हि महाभुजः॥
कृत्त्वा करेण लिंगस्य पूजनार्थं समर्पयत्॥ ८.४७ ॥
रावणस्य कबंधं च तदग्रे च समीपतः॥
योगधारणया युक्तं परमेण समाधिना॥ ८.४८ ॥
लिंगे लयं समाधाय कयापि कलया स्थितम्॥
अन्यच्छिरोविवृश्च्यैवं तेनापि शिवपूजनम्॥
कृतं नैवान्यमुनिना तथा चैवापरेणहि॥ ८.४९ ॥
एवं शिरांस्येव बहूनि तेन समर्पितान्येव शिवार्चनार्थे॥
भूत्वा कबंधो हि पुनः पुनश्च शिवोऽसौ वरदो बभूव॥ ८.५० ॥
मया विनासुरस्तत्र पिंडीभूतेन वै पुरा॥
वरान्वरय पौलस्त्य यथेष्टं तान्ददाम्यहम्॥ ८.५१ ॥
रावणेन तदा चोक्तः शिवः परममंगलः॥
यदि प्रसन्नो भगवन्देयो मे वर उत्तमः॥ ८.५२ ॥
न कामयेऽन्यं च वरमाश्रये त्वत्पदांबुजम्॥
यथा तथा प्रदातव्यं यद्यस्ति च कृपा मयि॥ ८.५३ ॥
तदा सदाशिवेनोक्तो रावणो लोकरावणः॥
मत्प्रसादाच्च सर्वं त्वं प्राप्स्यसे मनसेप्सितम्॥ ८.५४ ॥
एवं प्राप्तं शिवात्सर्वं रावणेन सुरेश्वराः॥
तस्मात्सर्वैर्भवद्भिश्च तपसा परमेण हि॥ ८.५५ ॥
विजेतव्यो रावणोयमिति मे मनसि स्थितम्॥
्च्युतस्य वचः श्रुत्वा ब्रह्माद्या देवतागणाः॥ ८.५६ ॥
चिंतामापेदिरे सर्वे चिरं ते विषयान्विताः॥
ब्रह्मापि चेंद्रियग्रस्तः सुता रमितुमुद्यतः॥ ८.५७ ॥
इंद्रो हि जारभावाच्च चंद्रो हि गुरुतल्पगः॥
यमः कदर्यभावाच्च चंचलत्वात्सदागतिः॥ ८.५८ ॥
पावकः सर्वभक्षित्वात्तथान्ये देवतागणाः॥
अशक्ता रावणं जेतुं तपसा च विजृंभितम्॥ ८.५९ ॥
शैलादो हि महातेजा गणश्रेष्ठः पुरातनः॥
बुद्धि मान्नीतिनिपुणो महाबलपराक्रमी॥ ८.६० ॥
शिवप्रियो रुद्ररूपी महात्मा ह्युवाच सर्वानथ चेंद्रमुख्यान्॥
कस्माद्यूयं संभ्रमादागताश्च एतत्सर्वं कथ्यतां विस्तरेण॥ ८.६१ ॥
नंदिना च तदा सर्वे पृष्टाः प्रोचुस्त्वरान्विताः॥ ८.६२ ॥
॥ देवा ऊचुः॥
रावणेन वयं सर्वे निर्जिता मुनिभिः सह॥
प्रसादयितुमायाताः शिवं लोकेश्वरेश्वरम्॥ ८.६३ ॥
प्रहस्य भगवान्नंदी ब्रह्माणं वै ह्युवाच ह॥
क्व यूयं क्व शिवः शंभुस्तपसा परमेण हि॥
द्रष्टव्यो हृदि मध्यस्थः सोऽद्य द्रष्टुं न पार्यते॥ ८.६४ ॥
यावद्भावा ह्यनेकाश्च इंद्रियार्थास्तथैव च॥
यावच्च ममताभावस्तावदीशो हि दुर्लभः॥ ८.६५ ॥
जितेंद्रियाणां शांतानां तन्निष्ठानां महात्मनाम्॥
सुलभो लिंगरूपी स्याद्भवतां हि सुदुर्लभः॥ ८.६६ ॥
तदा ब्रह्मादयो देवा ऋषयश्च विपश्चितः॥
प्रणम्य नंदिनं प्राहुः कस्मात्त्वं वानराननः॥
तत्सर्वं कथयान्यं च रावणस्य तपोबलम्॥ ८.६७ ॥
॥नंदीश्वर उवाच॥
कुबेरोऽधिकृतस्तेन शंकरेण महात्मना॥
धनानामादिपत्ये च तं द्रष्टुं रावणोऽत्र वै॥ ८.६८ ॥
आगच्छत्त्वरया युक्तः समारुह्य स्ववाहनम्॥
मां दृष्ट्वा चाब्रवीत्क्रुद्धः कुबेरो ह्यत्र आगतः॥ ८.६९ ॥
त्वया दृष्टोऽथ वात्रासौ कथ्यतामविलंबितम्॥
किं कार्यं धनदेनाद्य इति पृष्टो मया हि सः॥ ८.७० ॥
तदोवाच महातेजा रावणो लोकरावणः॥
मय्यश्रद्धान्वितो भूत्वा विषयात्मा सुदुर्मदः॥ ८.७१ ॥
शिक्षापयितुमारब्धो मैवं कार्यमिति प्रभो॥
यथाहं च श्रिया युक्त आढ्योऽहं बलवानहम्॥
तथा त्वं भव रे मूढ मा मूढत्वमुपार्जय॥ ८.७२ ॥
अहं मूढः कृतस्तेन कुबेरेण महात्मना॥
मया निराकृतो रोषात्तपस्तेपे स गुह्यकः॥ ८.७३ ॥
कुबेरः स हि नंदिन्किमागतस्तव मंदिरम्॥
दीयतां च कुबेरोद्य नात्र कार्या विचारणा॥ ८.७४ ॥
रावणस्य वचः श्रुत्वा ह्यवोचं त्वरितोऽप्यहम्॥
लिंगकोसि महाभाग त्वमहं च तथाविधः॥ ८.७५ ॥
उभयोः समनां ज्ञात्वा वृथा जल्पसि दुर्मते॥
यथोक्तः स त्ववादीन्मां वदनार्थे बलोद्धतः॥ ८.७६ ॥
यथा भवद्भिः पृष्टोऽहं वदनार्थे महात्मभिः॥
पुरावृत्तं मया प्रोक्तं शिवार्चनविधेः फलम्॥
शिवेन दत्तं सालूप्यं न गृहीतं मया तदा॥ ८.७७ ॥
याचितं च मया शंभोर्वदनं वानरस्य च॥
शिवेन कृपया दत्तं मम कारुण्यशालिना॥ ८.७८ ॥
निराभिमानिनो ये च निर्दभा निष्परिग्रहाः॥
शंभोः प्रियास्ते विज्ञेया ह्यन्ये शिववबहिष्कृताः॥ ८.७९ ॥
तथावदन्मया सार्द्धं रावणस्तपसो बलात्॥
मया च याचितान्येव दश वक्त्राणि धीमता॥ ८.८० ॥
उपहासकरं वाक्यं पौलस्त्यस्य तदा सुराः॥
मया तदा हि शप्तोऽसौ रावणो लोकरावणः॥ ८.८१ ॥
ईदृशान्येव वक्त्राणि येषां वै संभवंति हि॥
तैः समेतो यदा कोऽपि नरवर्यो महातपाः॥
मां पुरस्कृत्य सहसा हनिष्यति न संशयः॥ ८.८२ ॥
एवं शप्तो मया ब्रह्मन्रावणो लोकरावणः॥
अर्चितं केवलं लिंगं विना तेन महात्मना॥ ८.८३ ॥
पीठिकारूपसंस्थेन विना तेन सुरोत्तमाः॥
विष्णुना हि महाभागास्तस्मात्सर्वं विधास्यति॥ ८.८४ ॥
देवदेवो महादेवो विष्णुरूपी महेश्वरः॥
सर्वे यूयं प्रार्थयंतु विष्णुं सर्वगुहाशयम्॥ ८.८५ ॥
अहं हि सर्वदेवानां पुरोवर्ती भवाम्यतः॥
ते सर्वे नंदिनो वाक्यं श्रुत्वा मुदितमानसाः॥
वैकुंठमागता गीर्भिर्विष्णुं स्तोतुं प्रचक्रिरे॥ ८.८६ ॥
॥ देवा ऊचुः॥
नमो भगवते तुभ्यं देवदेव जगत्पते॥
त्वदाधारमिदं सर्वं जगदेतच्चराचरम्॥ ८.८७ ॥
एतल्लिंगं त्वया विष्णो धृतं वै पिण्डिरूपिणा॥
महाविष्णुस्वरूपेण घातितौ मधुकैटभौ॥ ८.८८ ॥
तथा कमठरूपेण धृतो वै मंदराचलः॥
वराहरूपमास्थाय हिरण्याक्षो हतस्त्वया॥ ८.८९ ॥
हिरण्यकशिपुर्दैत्यो हतो नृहरिरूपिणा॥
त्वया चैव बलिर्बद्धो दैत्यो वामनरूपिणा॥ ८.९० ॥
भृगूणामन्वये भूत्वा कृतवीर्यात्मजो हतः॥
इतोप्यस्मान्महाविष्णो तथैव परिपालय॥ ८.९१ ॥
रावमस्य भयादस्मात्त्रातुं भूयोर्हसि त्वरम्॥ ८.९२ ॥
एवं संप्रार्थितो देवैर्भगवान्भूतभावनः॥
उवाच च सुरान्सर्वान्वासुदेवो जगन्मयः॥ ८.९३ ॥
हे देवाः श्रूयतां वाक्यं प्रस्तावसदृशं महत्॥
शैलादिं च पुरस्कृत्य सर्वे यूयं त्वरान्विताः॥
अवतारान्प्रकुर्वन्तु वानरीं तनुमाश्रिताः॥ ८.९४ ॥
अहं हि मानुषो भूत्वा ह्यज्ञानेन समावृतः॥
संभविष्याम्ययोध्यायं गृहे दशरथस्य च॥
ब्रह्मविद्यासहायोस्मि भवतां कार्यसिद्धये॥ ८.९५ ॥
जनकस्य गृहे साक्षाद्ब्रह्मविद्या जनिष्यति॥
भक्तो हि रावणः साक्षाच्छिवध्यानपरायणः॥ ८.९६ ॥
तपसा महता युक्तो ब्रह्मविद्यां यदेच्छति॥
तदा सुसाध्यो भवति पुरुषो धर्मनिर्जितः॥ ८.९७ ॥
एवं संभाष्य भगवान्विष्णुः परममङ्गलः॥
वाली चेन्द्रांशसंभूतः सुग्रीवों शुमतः सुतः॥ ८.९८ ॥
तथा ब्रह्मांशसंभूतो जाम्बवान्नृक्षकुञ्जरः॥
शिलादतनयो नंदी शिवस्यानुचरः प्रियः॥ ८.९९ ॥
यो वै चैकादशो रुद्रो हनूमान्स महाकपिः॥
अवतीर्णः सहायार्थं विष्णोरमिततेजसः॥ ८.१०० ॥
मैंदादयोऽथ कपयस्ते सर्वे सुरसत्तमाः॥
एवं सर्वे सुरगणा अवतेरुर्यथा तथम्॥ ८.१०१ ॥
तथैव विष्णुरुत्पन्नः कौशल्यानंदवर्द्धनः॥
विश्वस्य रमणाच्चैव राम इत्युच्यते बुधैः॥ ८.१०२ ॥
शेषोपि भक्त्या विष्णोश्च तपसाऽवातरद्भुवि॥ ८.१०३ ॥
दोर्दण्डावपि विष्णोश्च अवतीर्णौ प्रतापिनौ॥
शत्रुघ्नभरताख्यौ च विख्यातौ भुवनत्रये॥ ८.१०४ ॥
मिथिलाधिपतेः कन्या या उक्ता ब्रह्मवादिभिः॥
सा ब्रह्मविद्यावतरत्सुराणां कार्य्यसिद्धये॥
सीता जाता लांगलस्य इयं भूमिविकर्षणात्॥ ८.१०५ ॥
तस्मात्सीतेति विख्याता विद्या सान्वीक्षिकी तदा॥
मिथिलायां समुत्पन्ना मैथितीत्यभिधीयते॥ ८.१०६ ॥
जनकस्य कुले जाता विश्रुता जनकात्मजा॥
ख्याता वेदवती पूर्वं ब्रह्मविद्याघनाशिनी॥ ८.१०७ ॥
सा दत्ता जनकेनैव विष्णवे परमात्मने॥ ८.१०८ ॥
तयाथ विद्यया सार्द्धं देवदेवो जगत्पतिः॥
उग्रे तपसि लीनोऽसौ विष्णुः परमदुष्करम्॥ ८.१०९ ॥
रावणं जेतुकामो वै रामो राजीवलोचनः॥
अरण्यवासमकरोद्देवानां कार्यसिद्धये॥ ८.११० ॥
शेषावतारोऽपि महांस्तपः परमदुष्करम्॥
तताप परया शक्त्या देवानां कार्यसिद्धये॥ ८.१११ ॥
शत्रुघ्नो भरतश्चैव तेपतुः परमं तपः॥ ८.११२ ॥
ततोऽसौ तपसा युक्तः सार्द्धं तैर्देवतागणैः॥
सगणं रावणं रामः षड्भिर्मासैरजीहनत्॥
विष्णुना घातितः शस्त्रैः शिवसारूप्यमाप्तवान्॥ ८.११३ ॥
सगमः स पुनः सद्यो बंधुभिः सह सुव्रताः॥ ८.११४ ॥
शिवप्रसादात्सकलं द्वैताद्वैतमवाप ह॥
द्वैताद्वैतविवेकार्थमृपयोप्यत्र मोहिताः॥
तत्सर्वं प्राप्नुवंतीह शिवार्चनरता नराः॥ ८.११५ ॥
येऽर्चयंति शिवं नित्यं लिंगरूपिणमेव च॥
स्त्रियो वाप्यथ वा शूद्राः श्वपचा ह्यंत्यवासिनः॥
तं शिवं प्राप्नुवंत्येव सर्वदुःखोपनाशनम्॥ ८.११६ ॥
पशवोऽपि परं याताः किं पुनर्मानुषादयः॥ ८.११७ ॥
ये द्विजा ब्रह्मचर्येण तपः परममास्थिताः॥
वर्षैरनेकैर्यज्ञानां तेऽपि स्वर्गपरा भवन्॥ ८.११८ ॥
ज्योतिष्टोमो वाजपेयो ह्यतिरात्रादयो ह्यमी॥
यज्ञाः स्वर्गं प्रयच्छंति सत्त्रीणां नात्र संशयः॥ ८.११९ ॥
तत्र स्वर्गसुखं भुक्त्वा पुण्यक्षयकरं महत्॥
पुण्यक्षयेऽपि यज्वानो मर्त्यलोकं पतंति वै॥ ८.१२० ॥
पतितानां च संसारे दैवाद्बुद्धिः प्रजायते॥
गुणत्रयमयी विप्रास्तासुतास्त्विह योनिषु॥ ८.१२१ ॥
यथा सत्त्वं संभवति सत्त्वयुक्तभवं नराः॥
राजसाश्च तथा ज्ञेयास्ता मसाश्चैव ते द्विजाः॥ ८.१२२ ॥
एवं संसारचक्रेऽस्मिन्भ्रमिता बहवो जनाः॥
यदृच्छया दैवगत्या शिवं संसेवते नरः॥ ८.१२३ ॥
शिवध्यानपराणां च नराणां यतचेतसाम्॥
मायानिरसनं सद्यो भविष्यति न चान्यथा॥ ८.१२४ ॥
मायानिरसनात्सद्यो नश्यत्येव गुणत्रयम्॥
यदा गुणत्रयातीतो भवतीति स मुक्तिभाक्॥ ८.१२५ ॥
तस्माल्लिङ्गार्चनं भाव्यं सर्वेषामपि देहिनाम्॥
लिङ्गरूपी शिवो भूत्वा त्रायते संचराचरम्॥ ८.१२६ ॥
पुरा भवद्भिः पृष्टोऽहं लिङ्गरूपी कथं शिवः॥
तत्सर्वं कथितं विप्रा याथातथ्येन संप्रति॥ ८.१२७ ॥
कथं गरं भक्षितवाञ्छिवो लोकमहेश्वरः॥
तत्सर्वं श्रूयतां विप्रा यतावत्कथयामि वः॥ ८.१२८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहास्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवलिङ्गार्चनमाहात्म्यकथने श्रीरामावतारकथावर्णनंनामाष्टमोऽध्यायः॥ ८ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 9
॥लोमश उवाच॥
एकदा तु सभामध्य आस्थितो देवराट् स्वयम्॥
लोकपालैः परिवृतो देवैश्च ऋषिभिस्तथा॥ ९.१ ॥
अप्सरोगणसंवीतो गंधर्वैश्च पुरस्कृतः॥
उपगीयमानविजयः सिद्धविद्याधरैरपि॥ ९.२ ॥
तदा शिष्यैः परिवृतो देवराजगुरुः सुधीः॥
आगतोऽसौ महाभागो बृहस्पति रुदारधीः॥ ९.३ ॥
तं दृष्ट्वा सहसा देवाः प्रणेमुः समुपस्थिताः॥
इंद्रोपि ददृशे तत्र प्राप्तं वाचस्पतिं तदा॥ ९.४ ॥
नोवाच किंचिद्दुर्मेधावचो मानुपुरःसरम्॥
नाह्वानं नासनं तस्य न विसर्जनमेव च॥ ९.५ ॥
शक्रं प्रमत्तं ज्ञात्वाथ मदाद्राज्यस्य दुर्मतिम्॥
तिरोधानमनुप्राप्तो बृहस्पती रुषान्वितः॥ ९.६ ॥
गते देवगुरौ तस्मिन्विमनस्काऽभवन्सुराः॥
यक्षा नागाः सगंधर्वा ऋषयोऽपि तथा द्विजाः॥ ९.७ ॥
गांधर्वस्या वसाने तु लब्धसंज्ञो हरिः सुरान्॥
पप्रच्छ त्वरितेनवै क्व गतो हि महातपाः॥ ९.८ ॥
तदैव नारदेनोक्तः शक्रो देवाधिपस्तथा॥
त्वया कृता ह्यवज्ञा च गुरोर्नस्त्यत्र संशयः॥ ९.९ ॥
गुरोरवज्ञया राज्यं गतं ते बलसूदन॥
तस्मात्क्षमापनीयोऽसौ सर्वभावेन हि त्वया॥ ९.१० ॥
एतच्छ्रुत्वा वचस्तस्य नारदस्य महात्मनः॥
आसनात्सहसोत्थाय तैः सर्वैः परिवारितः॥
आगच्छत्त्वरया शक्रो गुरोर्गेहमतंद्रितः॥ ९.११ ॥
पृष्ट्वा तारां प्रणम्यादौ क्व गतो हि महातपाः॥
न जानामीत्युवाचेदं तारा शक्रं निरीक्षती॥ ९.१२ ॥
तदा चिंतान्वितो भूत्वा शक्रः स्वगृहमाव्रजत्॥
एतस्मिन्नंतरे स्वर्गे ह्यनिष्टान्द्भुतानि च॥ ९.१३ ॥
अभवन्सर्वदुःखार्थे शक्रस्य च महात्मनः॥
पातालस्थेन बलिना ज्ञातं शक्रस्य चेष्टितम्॥ ९.१४ ॥
ययौ दैत्यैः परिवृतः पातालादमरावतीम्॥
तदा युद्धमतीवासीद्देवानां दानवैः सह॥ ९.१५ ॥
देवाः पराजिता दैत्यै राज्यं शक्रस्य तत्क्षणात्॥
संप्राप्तं सकलं तस्य मूढस्य च दुरात्मनः॥ ९.१६ ॥
नीतं सर्वप्रयत्नेन पातालं त्वरितं गताः॥
शुक्रप्रसादात्ते सर्वे तथा विजयिनोऽभवन्॥ ९.१७ ॥
शक्रोऽपि निःश्रिको जातो देवैस्त्यक्तस्ततो भृशम्॥
देवी तिरोधानगता बभूव कमलेक्षणा॥ ९.१८ ॥
ऐरावतो महानागस्तथैवोच्चैःश्रवा हयः॥
एवमादीनि रत्नानि अनेकानि बहून्यपि॥
नीतानि सहसा दैत्यैर्लोभादसाधुवृत्तिभिः॥ ९.१९ ॥
पुण्यभांजि च तान्येव पतितानि च सागरे॥
तदा स विस्मयाविष्टो बलिराह गुरुं प्रति॥ ९.२० ॥
देवान्निर्जित्य चास्माभिरानीतानि बहूनि च॥
रत्नानि तु समुद्रेऽथ पतितानि तदद्भुतम्॥ ९.२१ ॥
बलेस्तद्वचनं श्रुत्वा उशना प्रत्युवाच तम्॥
अश्वमेधशतेनैव सुरराज्यं भविष्यति॥
दीक्षितस्य न संदेहस्तस्माद्भोक्त स एव च॥ ९.२२ ॥
अश्वमेधं विना किंचित्स्वर्गं भोक्तं न पार्यते॥ ९.२३ ॥
गुरोर्वचनमाज्ञाय तूष्णींभूतो बलिस्ततः॥
बभूव देवैः सार्द्धं च यथोचितमकारयत्॥ ९.२४ ॥
इन्द्रोपि शोच्यतां प्राप्तो जगाम परमेष्ठिनम्.॥
विज्ञापयामास तथा सर्वं राज्यभयादिकम्॥ ९.२५ ॥
शक्रस्य वचनं श्रुत्वा परमेष्ठी उवाच ह॥ ९.२६ ॥
संमिलित्वा सुरान्सर्वांस्त्वया साकं त्वरान्विताः॥
आराधनार्थं गच्छामो विष्णुं सर्वेश्वरेश्वरम्॥ ९.२७ ॥
तथेति गत्वा ते सर्वे शक्राद्या लोकपालकाः॥
ब्रह्माणं च पुरस्कृत्य तटं क्षीरार्णवस्य च॥
प्राप्योपविश्य ते सर्वे हरिं स्तोतुं प्रचक्रमुः॥ ९.२८ ॥
॥ब्रह्मोवाच॥
देवदेव जगान्नाथ सुरासुरनमस्कृत॥
पुण्यश्लोकाव्ययानंत परमात्मन्नमोऽस्तु ते॥ ९.२९ ॥
यज्ञोऽसि यज्ञरूपोऽसि यज्ञांगोऽसि रमापते॥
ततोऽद्य कृपया विष्णो देवानां वरदो भव॥ ९.३० ॥
गुरोरवज्ञया चाद्य भ्रष्टराज्यः शतक्रतुः॥
जातः सुरर्षिभिः साकं तस्मादेनं समुद्धर॥ ९.३१ ॥
॥श्रीभगवानुवाच॥
दुकोकलज्ञया सर्वं नस्यतीति किमद्भुतम्॥
ये पापिनो ह्यधर्मिष्ठाः केवलं विषयात्मकाः॥
पितरौ निंदितौ यैश्च निर्दैवात्वेन संशयः॥ ९.३२ ॥
अनेन यत्कृतं ब्रह्मन्सद्यस्तत्फलमागतम्॥
कर्मणा चास्य शक्रस्य सर्वेषां संकटागमः॥ ९.३३ ॥
विपरीतो यदा कालः पुरुषस्य भवेत्तदा॥
भूतमैत्रीं प्रकुर्वंति सर्वकार्यार्थसिद्धये॥ ९.३४ ॥
तेन वै कारणेनेंद्र मदीयं वचनं कुरु॥
कार्यहेतोस्त्वया कार्यो दैत्यैः सह समागमः॥ ९.३५ ॥
एवं भगवतादिष्टः शक्रः परमबुद्धिमान्॥
अमरावतीं ययौ हित्वा सुतलं दैवतैः सह॥ ९.३६ ॥
इन्द्रं समागतं श्रुत्वा इंद्रसेनो रुषान्वितः॥
बभूव सह सैन्येन हंतुकामः पुरंदरम्॥ ९.३७ ॥
नारदेन तदा दैत्या बलिश्च बलिनां वरः॥
निवारितस्तद्वधाच्च वाक्यैरुच्चावचैस्तथा॥ ९.३८ ॥
ऋषेस्तस्यैव वचनात्त्यक्तमन्युर्बलिस्तदा॥
बभूव सह सैन्येन आगतो हि शतक्रतुः॥ ९.३९ ॥
इन्द्रसेनेन दृष्टोऽसौ लोकपालैः समावृतः॥
उवाच त्वरया युक्तः प्रहसन्निव दैत्यराट्॥ ९.४० ॥
कस्मादिहागतः शक्र सुतलं प्रति कथ्यताम्॥
तस्यैतद्वचनं श्रुत्वा स्मयमान उवाचतम्.। ९.४१ ॥
वयं कश्यपदायादा यूयं सर्वे तथैव च॥
यथा वयं तथा यूयं विग्रहो हि निरर्थकः॥ ९.४२ ॥
मम राज्यं क्षणेनैव नीतं दैववशात्तवया॥
तथा ह्येतानि तान्येन रत्नानि सुबहून्यपि॥
गतानि तत्क्षणादेव यत्नानीतानि वै त्वया॥ ९.४३ ॥
तस्माद्विमर्शः कर्तव्यः पुरुषेण विपश्चिता॥
विमर्शज्जायते ज्ञानं ज्ञानान्मोक्षो भविष्यति॥ ९.४४ ॥
किं तु मे बत उक्तेन जाने न च तवाग्रतः॥
शरणार्थी ह्यहं प्राप्तः सुरैः सह तवांतिकम्॥ ९.४५ ॥
एतच्छ्रुत्वा तु शक्रस्य वाक्यं वाक्यविदां वरः॥
प्रहस्योवाच मतिमाञ्छक्रं प्रति विदां वरः॥ ९.४६ ॥
त्वमागतोसि देवेंद्र किमर्थं तन्न वेद्मयहम्॥ ९.४७ ॥
शक्रस्तद्वचनं श्रुत्वा ह्यश्रुपूर्णाकुलेक्षणः॥
किंचिन्नोवाच तत्रैनं नारदो वाक्यमब्रवीत्॥ ९.४८ ॥
बले त्वं किं न जानासि कार्याकार्यविचारणाम्॥
धर्मो हि महतामेष शरणागतपालनम्॥ ९.४९ ॥
शरणागतं च विप्रं च रोगिणं वृद्धमेव च॥
यएतान्न च रक्षंति ते वै ब्रह्महणो नराः॥ ९.५० ॥
शरणागतशब्देन आगतस्तव सन्निधौ॥
संरक्षणाय योग्यश्च त्वया नास्त्यत्र संशयः॥
एवमुक्तो नारदेन तदा दैत्यपतिः स्वयम्॥ ९.५१ ॥
विमृश्य परया बुद्ध्या कार्याकार्यविचारणाम्॥
शक्रं प्रपूजयामास बहुमानपुरःसरम्॥
लोकपालैः समेतं च तथा सुरगणैः सह॥ ९.५२ ॥
प्रत्ययार्थं च सत्त्वानि ह्यनेकानि व्रतानि वै॥
बलिप्रत्ययभूतानि स चकारः पुरंदरः॥ ९.५३ ॥
एवं स समयं कृत्वा शक्रः स्वार्थपरायणः॥
बलिना सह चावासीदर्थशास्त्रपरो महान्॥ ९.५४ ॥
एवं निवसतस्तस्य सुतलेऽपि शतक्रतोः॥
वत्सरा बहवो ह्यासंस्तदा बुद्धिमकल्पयत्॥
संस्मृत्य वचनं विष्णोर्विमृश्य च पुनःपुनः॥ ९.५५ ॥
एकदा तु सभामध्य आसीनो देवराट्स्वयम्॥
उवाच प्रहसन्वाक्यं बलिमुद्दिश्य नीतिमान्॥ ९.५६ ॥
प्राप्तव्यानि त्वया वीर अस्माकं च त्वया बले॥
गजादीनि बहून्येव रत्नानि विविधानि च॥ ९.५७ ॥
गतानि तत्क्षणादेव सागरे पतितानि वै॥
प्रयत्नो हि प्रकर्तव्यो ह्यस्माभिस्त्वयान्वितैः॥ ९.५८ ॥
तेषां चोद्धरणे दैत्य रत्नानामिह सागरात्॥
तर्हि निर्मथनं कार्यं भवता कार्यसिद्धये॥ ९.५९ ॥
बलिः प्रवर्तितस्तेन शक्रेण सुरसूदनः॥
उवाच शक्रं त्वरितः केनेदं मथनं भवेत्॥ ९.६० ॥
तदा नभोगता वाणी मेघगंभीरनिःस्वना॥
उवाच देवा दैत्याश्च मंथध्वं क्षीरसागरम्॥ ९.६१ ॥
भवतां बलवृद्धिश्च भविष्यति न संशयः॥ ९.६२ ॥
मंदरं चैव मंथानं रज्जुं कुरुत वासुकिम्॥
पश्चाद्देवाश्च दैत्याश्च मेलयित्वा विमथ्यताम्॥ ९.६३ ॥
नभोगतां च तां वाणीं निशम्याथ तदाःसुराः॥
दैत्यैः सार्द्धं ततः सर्व उद्यमं चक्रुरुद्यताः॥ ९.६४ ॥
पातालान्निर्गताः सर्वे तदा तेऽथ सुरासुराः॥
आजग्मुरतुलं सर्वे मंदरं पर्वतोत्तमम्॥ ९.६५ ॥
दैत्याश्च कोटिसंख्याकास्तथा देवा न संशयः॥
उद्युक्ताः सहसा प्राऽयुर्मंदरं कनकप्रभम्॥ ९.६६ ॥
सरत्नं वर्तुलाकारं स्थूलं चैव महाप्रभम्॥
अनेकरत्नसंवीतं नानाद्रुमनिषेवितम्॥ ९.६७ ॥
चंदनैः पारिजातैश्च नागपुन्नागचंपकैः॥
नानामृगगणाकीर्णं सिंहशार्दूलसेवितम्॥ ९.६८ ॥
महाशैलं दृष्ट्वा ते सुरसत्तमाः॥
ऊचुः प्रांजलयः सर्वे तदा ते सुरसत्तमाः॥ ९.६९ ॥
॥देवा ऊचुः॥
अद्रे सुरा वयं सर्वे विज्ञप्तुमिह चागताः॥
तच्छृणुष्व महाशैल परेषामुपकारकः॥ ९.७० ॥
एवमुक्तस्तदा शैलो दवैर्दैत्यैः स मंदरः॥
उवाच निःसृतो भूत्वा परं विग्रहवान्वचः॥ ९.७१ ॥
तेन रूपेण रूपी स पर्वतो मंदराचलः॥
किमर्थमागताः सर्वे मत्समीपं तदुच्यताम्॥ ९.७२ ॥
तदा बलिरुवाचेदं प्रस्तावसदृशं वचः॥
इंद्रोपि त्वरया युक्तो बभाषे सूनृतं वचः॥ ९.७३ ॥
अस्माभिः सह कार्यार्थे भव त्वं मंदराचल॥
अमृतोत्पादनार्थे त्वं मंथानं भव सुव्रत॥ ९.७४ ॥
तथेति मत्वा तद्वाक्यं देवानां कार्यसिद्धये॥
ऊचे देवासुरांश्चेदमिन्द्रं प्रति विशेषतः॥ ९.७५ ॥
छेदितौ च त्वया पक्षौ वज्रेण शतपर्वणा॥
गंतुं कथं समर्थोऽहं भवतां कार्यसिद्धये॥ ९.७६ ॥
तदा देवासुराः सर्वे स्तूयमाना महाचलम्॥
उत्पाटयेयुरतुलं मंदरं च ततोद्भुतम्॥ ९.७७ ॥
क्षीरार्णवं नेतुकामा ह्यशक्तास्ते ततोऽभवन्॥
पर्वतः पतितः सद्यो देवदैत्योपरि ध्रुवम्॥ ९.७८ ॥
केचिद्भग्ना मृताः केचित्केचिन्मूर्छापरा भवन्॥
परीवादरताः केचित्केचित्क्लेशत्वमागताः॥ ९.७९ ॥
ेवं भग्नोद्यमा जाता असुराःसुरदानवाः॥
चेतनां परमां प्राप्तास्तुष्टुवुर्जगदीश्वरम्॥ ९.८० ॥
रक्षरक्ष महाविष्णो शरणागतवत्सल॥
त्वया ततमिदं सर्वं जंगमाजंगमं च यत्॥ ९.८१ ॥
देवानां कार्यसिद्ध्यर्थं प्रादुर्भूतो हरिस्तदा॥
तान्दृष्ट्वा सहसा विष्णुर्गरुडोपरि संस्थितः॥ ९.८२ ॥
लीलया पर्वतश्रेष्ठमुत्तभ्यारोपयत्क्षणात्॥
गरुत्मति तदा देवः सर्वेषामभयं ददौ॥ ९.८३ ॥
तत उत्थाय तान्देवान्क्षीरोस्योत्तरं तटम्॥
नीत्वा तं पर्वतं वृद्धं निक्षिप्याप्सु ततो ययौ॥ ९.८४ ॥
तदा सर्वे सुरगणाः स्वागत्य असुरैः सह॥
वासुकिं च समादाय चक्रिरे समयंच तम्॥ ९.८५ ॥
मंथानं मंदरं चैव वासुकिं रज्जुमेव च॥
कृत्वा सुराऽसुराः सर्वे ममंथुः श्रीरसागरम्॥ ९.८६ ॥
क्षीराब्धेर्मथ्यमानस्य पर्वतो हि रसातलम्॥
गतः स तत्क्षणादेव कूर्मो भूत्वा रमापतिः॥
उद्धृतस्तत्क्षणादेव तदद्भुतमिवाभवत्॥ ९.८७ ॥
भ्राम्यमाणस्ततः शैलो नोदितः सुरदानवैः॥
भ्रममाणो निराधारो बोधश्चेव गुरुं विना॥ ९.८८ ॥
परमात्मा तदा विष्णुराधारो मंदरस्य च॥
दोर्भिश्चतुर्भिः संगृह्य ममंथाब्धिं सुखावहम्॥ ९.८९ ॥
तदा सुरासुराः सर्वे ममंथुः क्षीरसागरम्॥
एकीभूत्वा बलेनैवमतिमात्रं बलोत्कटाः॥ ९.९० ॥
पृष्ठकंठोरुजान्वंतः कमठस्य महात्मनः॥
तथासौ पर्वतश्रेष्ठो वज्रसारमयो दृढः॥
उभयोर्घर्षणादेव वडवाग्निः समुत्थितः॥ ९.९१ ॥
हलाहलं च संजातं तदॄष्ट्वा नारदेन हि॥
ततो देवानुवाचेदं देवर्षिरमितद्युतिः॥ ९.९२ ॥
न कार्यं मथनं चाब्धेर्भवद्भिरधुनाऽखिलैः॥
प्रार्थयध्वं शिवं देवाः सर्वे दक्षस्य याजनम्॥
तद्विस्मृतिं च वोयातं वीरभद्रेण यत्कृतम्॥ ९.९३ ॥
तस्माच्छिवः स्मर्यतां चाशु देवाः परः पराणामपि वा परश्च॥
परात्परः परमानंदरूपो योगिध्येयो निष्प्रपंचो ह्यरूपः॥ ९.९४ ॥
ते मथ्यमानास्त्वरिता देवाः स्वात्मार्थसाधकाः॥
अभिलाषपराः सर्वे न श्रृण्वंति यतो जडाः॥ ९.९५ ॥
उपदेशैश्च बहुभिर्नोपदेश्याः कदाचन॥
ते रागद्वेषसंघाताः सर्वे शिवपराङ्मुखाः॥ ९.९६ ॥
केवलोद्यमसंवीता ममंथुः क्षीरसागरम्॥
अतिनिर्मथनाज्जातं क्षीराब्धेश्चहलाहलम्॥ ९.९७ ॥
त्रैलोक्यदहने प्रौढं प्राप्तं हंतुं दिवौकसः॥
अत ऊर्ध्वं दिशः सर्वा व्याप्तं कृत्स्नं नभस्तलम्॥
ग्रसितुं सर्वभूतानां कालकूटं समभ्ययात्॥ ९.९८ ॥
दृष्ट्वा बृहंतं स्वकरस्थमोजसा तं सर्पराजं सह पर्वतेन॥
तत्रैव हित्वापययुस्तदानीं पलायमाना ह्यसुरैः समेताः॥ ९.९९ ॥
तथैव सर्व ऋषयो भृग्वाद्याः शतशाम्यति॥
दक्षस्य यजनं तेन यथा जातं तथाभवत्॥ ९.१०० ॥
सत्यलोकं गताः सर्वे भुगुणा नोदिता भृशम्॥
वेदवाक्यैश्च विविधैः कालकूटं शतशस्ततः॥
देवा नास्त्यत्र संदेहः सत्यं सत्यं वदामि वः॥ ९.१०१ ॥
भृगुणोक्तं वचः श्रुत्वा कालकूटविषार्द्दिताः॥
सत्यलोकं समासाद्य ब्रह्माणं शरणं ययुः॥ ९.१०२ ॥
तदा जाज्वल्यमानं वै कालकूटं प्रभोज्जवलम्॥
दृष्ट्वा ब्रह्माथ तान्दृष्ट्वा ह्यकर्मज्ञानसुरासुरान्॥
तेषां शपितुमारेभे नारदेन निवारितः॥ ९.१०३ ॥
॥ब्रह्मोवाच॥
अकार्यं किं कृतं देवाः कस्मात्क्षोभोयमुद्यतः॥
ईश्वरस्य च जातोऽद्य नान्यथा मम भाषितम्॥ ९.१०४ ॥
ततो देवैः परिवृतो वेदोपनिषदैस्तथा॥
नानागमैः परिवृतः कालकूटभयाद्ययौ॥ ९.१०५ ॥
ततश्चिंतान्विता देवा इदमूचुः परस्परम्॥
अविद्याकामसंवीताः कुर्यामः शंकरं च कम्॥ ९.१०६ ॥
ब्रह्माणं च पुरस्कृत्य तदा देवास्त्वरान्विताः॥
वैकुण्ठमाव्रजन्सर्वे कालकूट भयार्द्दिताः॥ ९.१०७ ॥
ब्रह्मादयश्चर्षिगणाश्च तदा परेशं विष्णुं पुराणपुरुषं प्रभविष्णुमीशम्॥
वैकुण्ठमाश्रितमधोक्षजमाधवं ते सर्वे सुरासुरगणाः शरणं प्रयाताः॥ ९.१०८ ॥
तावत्प्रवृद्धं सुमहत्कालकूटं समभ्ययात्॥
दग्ध्वादो ब्रह्मणो लोकं वैकुण्ठं च ददाह वै॥ ९.१०९ ॥
कालकूटाग्निना दग्धो विष्णुः सर्वगुहाशयः॥
पार्षदैः सहितः सद्यस्तमालसदृशच्छविः॥ ९.११० ॥
वैकुण्ठं च सुनीलं च सर्वलोकैः समावृतम्॥
जलकल्मषसंवीताः सर्वे लोकास्तदाभवन्॥ ९.१११ ॥
अष्टावरणसंवीतं ब्रह्मांडं ब्रह्मणा सह॥
भस्मीभूतं चकाराशु जलकल्मषमद्भुतम्॥ ९.११२ ॥
नोभूमिर्न जलं चाग्निर्न वायुर्न नभस्तदा॥
नाहंकारो न च महान्मूलाविद्या तथैव च॥
शिवस्य कोपात्संजातं तदा भस्माकुलं जगत्॥ ९.११३ ॥
इति श्रीस्कांदे महापुराणं एकाशीतिसाहस्र्यां संहितायां प्रथममाहेश्वरखण्डान्तर्गते केदारखण्डे नवमोऽध्यायः॥ ९ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 10
॥मुनय ऊचुः॥
यत्त्वया कथितं ब्रह्मन्ब्रह्मांडं सचराचरम्॥
भस्मीभूतं रुद्रकोपात्कालकूटाग्निनाऽथ़खिलम्॥ १०.१ ॥
ब्रह्मांडांतरतः किं तु रुद्रं मन्यामहे वयम्॥
तदा चराचरं नष्टं ब्रह्मविष्णुपुरोगमम्॥ १०.२ ॥
भस्मीभूतं रुद्रकोपात्कथं सृष्टिः प्रवर्तिता॥
कुतो ब्रह्मा च विष्णुश्च कुतश्चंद्रपुरोगमाः॥ १०.३ ॥
अन्ये सुरा सुराः कुत्र भस्मीभूता लयं गताः॥
अत ऊर्ध्वं किमभवत्तत्सर्वं वक्तुमर्हसि॥ १०.४ ॥
व्यासप्रसादात्सकलं वेत्थ त्वं नापरो हि तत्॥
तस्माज्ज्ञानमयं शास्त्रं तज्जानासि न चापरः॥ १०.५ ॥
इति पृष्टस्तदा सर्वैर्मुनिभिर्भावितात्मभिः॥
सूतो व्यासं नमस्कृत्य वाक्यं चेदमथाब्रवीत्॥ १०.६ ॥
॥ लोमश उवाच॥
यदा ब्रह्मांडमध्यस्था व्याप्ता देवा विषाग्निना॥
हरिब्रह्मादयो ह्येते लोकपालाः सवासवाः॥
तदा विज्ञापितः शंभुर्हेरंबेन महात्मना॥ १०.७ ॥
॥हेरंब उवाच॥
हे रुद्र हे महादेव हे स्थाणो ह जगत्पते॥
मया विघ्नं विनोदेन कृतं तेषां सुदुर्जयम्॥ १०.८ ॥
भयेन मति मोहात्त्वां नार्च्चयंति च मामपि॥
उद्योगं ये प्रकुर्वन्ति तेषां क्लेशोऽधिको भवेत्॥ १०.९ ॥
एवमभ्यर्थितस्तेन पिनाकी वृषभध्वजः॥
विघ्नांधकारसूर्येण गणाधिपतिना तदा॥ १०.१० ॥
लिंगरूपोऽब्रवीच्छंभुर्निराकारो निरामयः॥
निरंजनो व्योमकेशः कपर्द्दी नीललोहितः॥ १०.११ ॥
॥महेश्वर उवाच॥
हेरंब श्रृणु मे वाक्यं श्रद्धया परया युतः॥
अहंकारात्मकं चैव जगदेतच्चराचरम्॥ १०.१२ ॥
स्थितिं करोत्यहंकारः प्रलयोत्पत्तिमेव च॥
जगदादौगणपते तदा विज्ञप्तिमात्रतः॥ १०.१३ ॥
मायाविरहितं शांतं द्वैताद्वैतपरं सदा॥
ज्ञप्तिमात्रस्वरूपं तत्सदानंदैकलक्षणम्॥ १०.१४ ॥
॥गणपतिरुवाच॥
यदि त्वं केवलो ह्यात्मा परमानन्दलक्षणः॥
तस्मात्त्वदपरं किंचिन्नान्यदस्ति परंतप॥ १०.१५ ॥
नानारूपं कथं जातं सुरासुरविलक्षणम्॥
विचित्रं मोहजननं त्रिभिर्द्देवैश्च लक्षितम्॥ १०.१६ ॥
भूतग्रामैश्चतुर्भिश्च नानाभेदैः समन्वितैः॥
जातं संसारचक्रं च नित्यानित्यविलक्षणम्॥ १०.१७ ॥
परस्परविरोधेन ज्ञानवादेन मोहिताः॥
कर्मवादरताः केचित्केचित्स्वगुणमाश्रिताः॥ १०.१८ ॥
ज्ञाननिष्ठाश्च ये केचित्परस्परविरोधिनः॥
एवं संशयमापन्नं त्राहि मां वृषभध्वज॥ १०.१९ ॥
अहं गणश्च कुत्रत्याः क्व चायं वृषभः प्रभो॥
एते चान्ये च बहवः कुतो जाताश्च कुत्र वै॥ १०.२० ॥
कृताः सर्वे महाभागाः सात्त्विका राजसाश्च वै॥
प्रहस्य भगवाञ्छंभुर्गणेशं वक्तुमुद्यतः॥ १०.२१ ॥
॥महेश्वर उवाच॥
कालशक्त्या च जातानि रजःसत्त्वतमांसि च॥
तैरावृतं जगत्सर्वं सदेवासुमानुषम्॥ १०.२२ ॥
परिदृश्यमानमेतच्चानश्वरं परमार्थतः॥
विद्ध्येतत्सर्वसिद्ध्यैव कृतकत्वाच्च नश्वरम्॥ १०.२३ ॥
॥ लोमश उवाच॥
यावद्गणेशसंयुक्तो भाषमाणः सदाशिवः॥
लिंगरूपी विश्वरूपः प्रादुर्भूता सदाशिवात्॥ १०.२४ ॥
शिवरूपा जगद्योनिः कार्यकारणरूपिणी॥
लिंगरूपी स भगवान्निमग्नस्तत्क्षणादभूत्॥ १०.२५ ॥
एका स्थिता परा शक्तिर्ब्रह्मविद्यात्मलक्षणा॥
गणेशो विस्मयाविष्टो ह्यवलोकनतत्परः॥ १०.२६ ॥
॥ऋषय ऊचुः॥
प्रकृत्यन्तर्गतं सर्वं जगदेतच्चराचरम्॥
गणेशस्य पृथक्त्वं च कथं जातं तदुच्यताम्॥ १०.२७ ॥
॥लोमश उवाच॥
साक्षात्प्रकृत्याः संभूतो गणेशो भगवानभूत्॥
यथारूपः शिवः साक्षात्तद्रूपो हि गणेश्वरः॥ १०.२८ ॥
शिवेन सह संग्रामो ह्यभूत्तस्य महात्मनः॥
अज्ञानात्प्रकृतो भूत्वा बहुकालं निरन्तरम्॥ १०.२९ ॥
तस्य दृष्ट्वा ह्यजेयत्वं गजारूढस्य तत्तदा॥
त्रिशूलेनाहनच्छंभुः सगजं तमपातयत्॥ १०.३० ॥
तदा स्तुतो महादेवः परशक्त्या परंतपः॥
परशक्तिमुवाचेदं वरं वरय शोभने॥ १०.३१ ॥
तदा वृतो महादेवो वरेण परमेण हि॥
योऽयं त्वया हतो देव मम पुत्रो न संशयः॥ १०.३२ ॥
त्वां न जानात्ययं मूढः प्रकृत्यंशसमुद्भवः॥
तस्मात्पुत्रं जीवयेमं मम तृष्ट्यर्थमेव च॥ १०.३३ ॥
प्रहस्य भगवान्रुद्रो मायापुत्रमजीवयत्॥
सिंधुरवदनेनैव मुखे स समयोजयत्॥ १०.३४ ॥
तदा गजाननो जातः प्रसादाच्छंकरस्य च॥
मायापुत्रोपि निर्मायो ज्ञानवान्संबभूव ह॥ १०.३५ ॥
आत्मज्ञानामृतेनैव नित्यतृप्तो निरामयः॥
समाधिसंस्थितो रौद्रः कालकालांतकोऽभवत्॥ १०.३६ ॥
योगदंडार्थमुत्पाट्य स्वकीयं दशनं महत्॥
करे गृह्य गणाध्यक्षः शब्धब्रह्मातिवर्त्तते॥
ऋद्धिसिद्धिद्वयेनैव एकत्वेन विराजितः॥ १०.३७ ॥
ये ते गणाश्च विघ्नाश्च ये चान्येऽभ्यधिका भुवि॥
तेषामपि पतिर्जातः कृतोऽसौ शंभुना तदा॥ १०.३८ ॥
तस्माद्वि लोकयामास प्रकृतिं विश्वरूपिणीम्॥
पृथक्स्थित्वाग्रतो जानाल्लिंगं प्रकृतिमेव च॥
ददर्श विमलं लिंगं प्रकृतिस्थं स्वभावतः॥ १०.३९ ॥
आत्मानं च गणैः साद्धं तथैव च जगत्त्रयम्॥
लीनं लिंगे समस्तं तद्धेरम्बो ज्ञानवानपि॥ १०.४० ॥
मुमोह च पुनः संज्ञां प्रतिलभ्य प्रयत्नतः॥
ननाम शिरसा ताभ्यामीशाभ्यां स गणेश्वरः॥ १०.४१ ॥
तदा ददर्श तत्रैव लोकसंहारकारकम्॥
ब्रह्माणं चैव रुद्रं च विष्णुं चैव सदाशिवम्॥ १०.४२ ॥
ददर्श प्रेततुल्यानि लिंगशक्त्यात्मकानि च॥
ब्रह्माण्डगोलकान्येव कोटिशः परमाणुवत्॥ १०.४३ ॥
लीयंते च विलीयंते महेशे लिंगरूपिणि॥
प्रकृत्यंतर्गतं लिंगं लिंगस्यांतर्गता च सा॥ १०.४४ ॥
शक्त्या लिंगं च संछन्नं तदा सर्वमदृश्यत॥
लिंगेन शक्तिः संछन्ना परस्परमवर्तत॥ १०.४५ ॥
शिवाभ्यां संश्रितं लोकं जगदेतच्चराचरम्॥
गणेशो वापि तज्ज्ञानं न परेऽपि तथाविदन्॥ १०.४६ ॥
तदोवाच महातेजा गणाध्यक्षो गणैः सह॥
सशक्तिकं स्तूयमानः शक्त्या च परया तदा॥ १०.४७ ॥
॥गणेश उवाच॥
नमामि देवं शक्त्यान्वितं ज्ञानरूपं प्रसन्नं ज्ञानात्परं परमंज्योतिरूपम्॥
रूपात्परं परमं तत्त्वरूपं तत्त्वात्परं परमं मंगलं च आनंदाख्यं निष्कलं निर्विषादम्॥ १०.४८ ॥
धूमात्परमयोवह्निर्धूमवत्प्रतिभासते॥
प्रकृत्यंतर्गस्त्वं हि लक्ष्यसे ज्ञानिसंभवः॥
प्रकृत्यंतर्गतस्त्वं हि मायाव्यक्तिरितीयसे॥ १०.४९ ॥
एवंविधस्त्वं भगवन्स्वमायया सृजस्यथोलुंपसि पासि विश्वम्॥
अस्माद्गरात्सर्वमिदं प्रनष्टं सब्रह्मविप्रेंद्रयुतं चराचरम्॥ १०.५० ॥
यथा पुरासीर्भगवान्महेशस्त्रैलोक्यनाथोऽसि चराचरात्मा॥
कुरुष्य शीघ्रं सहजीवकोशं चराचरं तत्सकलं प्रदग्धम्॥ १०.५१ ॥
॥ लोमश उवाच॥
एवं स्तुतो गणेशेन भगवान्भूतभावनः॥
यदुत्थितं कालकूटं लोकसंहारकारकम्॥ १०.५२ ॥
लिंगरूपेण तद्ग्रस्तं विमलं चाकरोत्तदा॥
सदेवासुरमर्त्याश्च सर्वाणि त्रिजगन्ति च॥
तत्क्षणाद्रक्षितान्येव कृपया परया युतः॥ १०.५३ ॥
ब्रह्मा विष्णुः सुरेंद्रश्च लोकपालाः सहर्षयः॥
यक्षा विद्याधराः सिद्धा गंधर्वाप्सरसां गणाः॥
उत्थिताश्चैव ते सर्वे निद्रापरिगता इव॥ १०.५४ ॥
विस्मयेन समाविष्टा बभूवुर्जातसाध्वसाः॥
सर्वे देवासुराश्चैव ऊचुराश्चर्यवत्ततः॥ १०.५५ ॥
क्व कालकूटं सुमहद्येन विद्राविता वयम्॥
मृतप्रायाः कृताः सद्यः सलोकपालका ह्यमी॥ १०.५६ ॥
इत्यब्रुवंस्तदा दैत्यास्तूष्णींभूतास्तदा स्थिताः॥
शक्रादयो लोकपाला विष्णुं सर्वेश्वरेश्वरम्॥
ब्रह्माणं च पुरस्कृत्य इदमूचुः समेधिता॥ १०.५७ ॥
केनेदं कारितं विष्णो न विदामोऽल्पमेधसः॥
तदा प्रहस्य भगवान्ब्रह्मणा सह तैः सुरैः॥ १०.५८ ॥
समाधिमगमन्सर्वेऽप्येकाग्रमनसस्तदा॥
तत्त्वज्ञानेन निर्हृत्य कामक्रोदादिकान्द्विजाः॥ १०.५९ ॥
तदात्मनि स्थितं लिंगमपश्यन्वि बुधादयः॥
विष्णुं पुरस्कृत्य तदा तुष्टुवुः परमार्थतः॥ १०.६० ॥
आत्मना परमात्मानं योगिनः पर्युपासते॥ १०.६१ ॥
लिंगमेव परं ज्ञानं लिंगमेव परं तपः॥
लिंगमेव परो धर्मो लिंगमेव परा गतिः॥
तस्माल्लिंगात्परतरं यच्च किंचिन्न विद्यते॥ १०.६२ ॥
एवं ब्रुवंतो हि तदा सुरासुराः सलोकपाला ऋषिभिश्च साकम्॥
विष्णुं पुरस्कृत्य तमालवर्णं शंभुं शरण्यं शरणं प्रपन्नाः॥ १०.६३ ॥
त्राहित्राहि महादेव कृपालो परमेश्वर॥
पुरा त्राता यथा सर्वे तथात्वं त्रातुमर्हसि॥ १०.६४ ॥
तद्देवदेव भवतश्चरणारविंदं सेवानुबंधमहिमानमनंतरूपम्॥
त्वदाश्रितं यत्परमानुकंपया नमोऽस्तु ते देववर प्रसीद॥ १०.६५ ॥
लिंगस्वरूपमध्यस्थो भगवान्भूतभावनः॥
सर्वैः सुरगणैः साकं बभाषेदं रमापतिः॥ १०.६६ ॥
त्वं लिंगरूपी भगवाञ्जगतामभयप्रदः॥
विष्णुना संस्तुतो देवो लिंगरूपी महेश्वरः॥ १०.६७ ॥
मृतास्त्राता गरात्सर्वे तस्मान्मृत्युंजय प्रभो॥
रक्षरक्ष महाकाल त्रिपुरांत नमोस्तु ते॥ १०.६८ ॥
विष्णुना संस्तुतो देवो लिंगरूपी महेश्वरः॥
प्रादुर्बभूव सांबोऽथ बोधयन्निव तान्सुरान्॥ १०.६९ ॥
हे विष्णो हे सुराः सर्व ऋषयः श्रूयतामिदम्॥
मन्यतेऽपि हि संसारे अनित्ये नित्यताकुलम्॥ १०.७० ॥
अविलोकयताऽऽत्मात्मना विबुधादयः॥
किं यज्ञैः किं तपोभिश्च किमुद्योगेन कर्मणाम्॥ १०.७१ ॥
एकत्वेन पृथक्त्वेन किंचिन्नैव प्रयोजनम्॥
यस्माद्भवद्भिर्मिलितैः कृतं यत्कर्म दुष्करम्॥ १०.७२ ॥
क्षीराब्धेर्मथनं तत्तु अमृतार्थं कथं कृतम्॥
मृत्युं जयं निराकृत्य अवज्ञाय च मां सदा॥ १०.७३ ॥
तस्मात्सर्वे मृत्युमुखं पतिता वै न संशयः॥
अस्माभिर्निर्मितो देवो गणेशः कार्यसिद्धये॥ १०.७४ ॥
न नमंति गणेशं च दुर्गां चैव तथाविधाम्॥
क्लेशभाजो भविष्यति नात्र कार्या विचारणा॥ १०.७५ ॥
यूयं सर्वे त्वधर्मिष्ठाः स्तब्धाः पंडितमानिनः॥
कार्याकार्यमविज्ञाय केवलं मानमोहिताः॥ १०.७६ ॥
तस्मात्कालमुखे सर्वे पतिता नात्र संशयः॥
सर्वे श्रुतिपरा यूयमिंद्राद्या देवतागणाः॥ १०.७७ ॥
प्ररोचनपराः सर्वे क्षुद्राश्चेंद्रादयो वृथा॥
नात्मानं च प्रपंचेन वेत्सि त्वं हि शचीपते॥ १०.७८ ॥
कृतः प्रयत्नो हि महानमृतार्थं त्वया शठ॥
अश्वमेधशतेनैव यद्राज्यं प्राप्तवानसि॥
अपि तच्च पराधीन तन्न जानासि दुर्मते॥ १०.७९ ॥
यैर्वदवाक्यैस्त्वं मूढ संस्तुतोऽसि तपस्विभिः॥
ते मूढास्तो षयंति त्वां तत्तद्रागपरायणाः॥ १०.८० ॥
विष्णो त्वं च पक्षपातान्न जानासि हिताहितम्॥
केचिदधतास्त्वया विष्णो रक्षिताश्चैव केचन॥ १०.८१ ॥
इच्छायुक्तस्त्वमत्रैव सदा बालकचेष्टितः॥
येऽन्ये च लोकपाः सर्वे तेषां वार्ता कुतस्त्विह॥ १०.८२ ॥
अन्यथा हि कृते ह्यर्थे अन्यथात्वं भविष्यति॥
कार्यसिद्धिर्भवेद्येन भवद्भिर्विस्मृतं च तत्॥ १०.८३ ॥
येनाद्य रक्षिताः सर्वे कालकूटमहाभयात्॥
येन नीलीकृतो विष्णुर्येन सर्वे पराजिताः॥ १०.८४ ॥
लोका भस्मीकृता येन तस्माद्येनापि रक्षिताः॥
तस्यार्च्चनाविधिः कार्यो गणेशस्य महात्मनः॥ १०.८५ ॥
कर्मारंभे तु विघ्नेशं ये नार्चंति गणाधिपम्॥
कार्यसिद्धिर्न तेषां वै भवेत्तु भवतां यथा॥ १०.८६ ॥
एतन्महेशस्य वचो निशम्य सुरासुराः किंनरचारणाश्च॥
पूजाविधानं परमार्थतोऽपि पप्रच्छुरेनं च तदा गिरीशम्॥ १०.८७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे समुद्रमंथनाख्याने शिवकृतविषभक्षणवृत्तान्तवर्णनंनाम दशमोऽध्यायः॥ १० ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 11
॥महेश्वर उवाच॥
प्रतिपक्षे चतुर्थ्यां तु पूजनीयो गणाधिपः॥
स्नात्वा शुक्लतिलैः शुद्धैः शुक्लपक्षे सदा नृभिः॥ ११.१ ॥
कृत्वा चावस्यकं सर्वं गणेशस्यार्चनक्रियाम्॥
प्रयत्नेनैव कुर्वीत गंधमाल्याक्षतादिभिः॥ ११.२ ॥
ध्यानमादौ प्रकर्तव्यं गणेशस्य यथाविधि॥
आगमा बहवो जाता गणेशस्य यथा मम॥ ११.३ ॥
बहुधोपासका यस्मात्तमः सत्त्वरजोन्विताः॥
गणभेदेन तान्येव नामानि बहुधाऽभवत्॥ ११.४ ॥
पंचवक्त्रो गणाध्यक्षो दशबाहुस्त्रिलोचनः॥
कांतस्फटिकसंकाशो नीलकंठो गजाननः॥ ११.५ ॥
मुखानि तस्य पंचैव कथयामि यतातथम्॥ ११.६ ॥
मध्यमं तु मुखं गौरं चतुर्दन्तं त्रिलोचनम्॥
शुंडादंडमनोज्ञं च पुष्करे मोदकान्वितम्॥ ११.७ ॥
तथान्यत्पीतवर्णं च नीलं च शुभलक्षणम्॥
पिंगलं च तथा शुभ्रं गणेशस्य शुभाननम्॥ ११.८ ॥
तथा दशभुजेष्वेव ह्यायुधानि ब्रवीमि वः॥
पाशं पस्शुपद्मे च अंकुशं दंतमेव च॥ ११.९ ॥
अक्षमालां लांगलं च मुसलं वरदं तथा॥
पूर्णं च मोदकैः पात्रं पाणिना च विचिंतयेत्॥ ११.१० ॥
लंबोदर विरूपाक्षं निवीतं मेखलान्वितम्॥
योगासने चोपविष्टं चंद्रलेखां कशेखरम्॥ ११.११ ॥
ध्यानं च सात्त्विकं ज्ञेयं राजसं हि नृणामिव॥
शुद्धचामीकराभासं गजाननमलौकिकम्॥ ११.१२ ॥
चतुर्भुजं त्रिनयनमेकदंतं महोदरम्॥
पाशांकुशधरं देवं दंतमोदकपात्रकम्॥ ११.१३ ॥
नीलं च तामसं ध्यानमेवं त्रिविधमुच्यते॥
ततः पूजा प्रकर्तव्या भवद्भिः शीघ्रमेव च॥ ११.१४ ॥
एकविंशतिदूर्वाभिर्द्वाभ्यां नाम्ना पृथक्पृथक्॥
सर्वनामभिरेकैव दीयते गणनायके॥ ११.१५ ॥
तथैव नामभिर्देया एकविंशतिमोदकाः॥
दशनामान्यहं वक्ष्ये पूजनार्थं पृथक्पृथक्॥ ११.१६ ॥
गणाधिप नमस्तेस्तु उमापुत्राघनाशन॥
विनायकेशपुत्रोति सर्वसिद्धिप्रदायक॥ ११.१७ ॥
एकदंतेभवक्त्रेति तथा मूषकवाहन॥
कुमारगुरवे तुभ्यं पूजनीयः प्रयत्नतः॥ ११.१८ ॥
एवमुक्त्वा सुरान्सद्यः परिष्वज्य च सादरम्॥
विष्णुं गुहाशयं सद्यो ब्रह्माणं च सदाशिवः॥ ११.१९ ॥
तिरोधान गतः सद्यः शंभुः परमशोभनः॥
प्रणम्य शंभुं ते सर्वे गणाध्यक्षार्च्चने रताः॥ ११.२० ॥
ततः संपूज्य विधिवद्गणाध्यक्षार्च्चने रताः॥
उपचारैरनेकैश्च दूर्वाभिश्च पृथक्पृथक्॥ ११.२१ ॥
संतुष्टो हि गणाध्यक्षो देवानां वरदोऽभवत्॥
प्रदक्षिणं नमस्कृत्य तैः सर्वैरभितोषितः॥ ११.२२ ॥
तमोगुणान्विताः सर्वे ह्यसुरा नाभ्यपूजयन्॥
उपहासपरास्ते वै देवान्प्रत्यसुरोत्तमाः॥ ११.२३ ॥
पूजयित्वा शांकरिं ते पुनः क्षीरार्णवं ययुः॥
ब्रह्मा विष्णुश्च ऋषयो देवदैत्याः सुरोत्तमाः॥ ११.२४ ॥
मंथानं मंदरं कृत्वा रज्जुं कृत्वाथ वासुकिम्॥
ममंथुश्च तदा देवा विष्णुं कृत्वाथ सन्निधौ॥ ११.२५ ॥
मथ्यमाने तदाब्धौ च निर्गतश्चंद्र अग्रतः॥
पीयूषपूर्णः सर्वेषां देवानां कार्यसिद्धये॥ ११.२६ ॥
॥ शौनक उवाच॥
अर्णवे किं पुरा चंद्रो निक्षिप्तः केन सुव्रत॥
गजादिकानि रत्नानि कथितानि त्वया पुरा॥ ११.२७ ॥
एतत्सर्वं समासेन आदौ कथय मे प्रभो॥
ज्ञात्वा सर्वे वयं सूत पश्चादावर्णयामहे॥ ११.२८ ॥
तेषां तद्वचनं श्रुत्वा सूतो वाक्यमुपाददे॥ ११.२९ ॥
चंद्र आपोमयो विप्रा अत्रिपुत्रो गुणान्वितः॥
उत्पन्नो ह्यनसूयायां ब्रह्मणोंऽशात्समुद्भवः॥
रुद्रस्यांशाद्धि दुर्वासा विष्णोरंशात्तु दत्तकः॥ ११.३० ॥
क्षीराब्धिं मथ्यमानं तु दृष्ट्वा चंद्रो मुदान्वितः॥
क्षीराब्धिरपि चंद्रं च दृष्ट्वा सोऽप्युत्सुकोऽभवत्॥ ११.३१ ॥
प्रविष्टश्चोभयप्रीत्या श्रृण्वतां भो द्विजोत्तमाः॥
चंद्रो ह्यमृत पूर्णोभूदग्रतो देवसन्निधौ॥ ११.३२ ॥
दृष्ट्वा च कांतिं त्वरितोऽथ चंद्रो नीराजितो देवगणैस्तदानीम्॥
वादित्रगोषैस्तुमुलैरनेकैर्मृदंगशंखैः पटहैरनेकैः॥ ११.३३ ॥
नमश्चक्रुश्च ते सर्वे ससुरासुरदानवाः॥
तदा गर्गं पृच्छमाना बलं चंद्रस्य तत्त्वतः॥ ११.३४ ॥
गर्गेणोक्तास्तदा सर्वेषां बलमद्य वै॥
केंद्रस्थानगताः सर्वे भवतामुत्तमा ग्रहाः॥ ११.३५ ॥
चंद्रं मुरुः समायातो बुधश्चैव समागतः॥
आदित्यश्च तथा शुक्रः शनिरंगारको महान्॥ ११.३६ ॥
तस्माच्चंद्रबलं श्रेष्ठं भवतां कार्यसिद्धये॥
गोमंतसंज्ञकोनाम मुहूर्तोऽयं जयप्रदः॥ ११.३७ ॥
एवमाश्वासिता देवा गर्गेणैव महात्मना॥
ममंथुरब्धिं त्वरिता गर्जमाना महाबलाः॥ ११.३८ ॥
द्विगुणं बलमापन्ना महात्मानो दृढव्रताः॥
महेशं स्मरमाणास्ते गणेशं च पुनः पुनः॥ ११.३९ ॥
निर्मथ्यमानादुदधेर्गर्जमानाच्च सर्वशः॥
निर्गता सुरभिः साक्षाद्देवानां कार्यसिद्धये॥ ११.४० ॥
तुष्टा कपिलवर्णां सा ऊधोभारेण भूयसा॥
तरंगोपरि गच्छंती शनकैः शनकैस्ततः॥ ११.४१ ॥
कामधेनुं समायांतीं दृष्ट्वा सर्वे सुरासुराः॥
पुष्पवर्षेण महता ववर्षुरमितप्रभाम्॥ ११.४२ ॥
तदा तूर्याण्यनेकानि नेदुर्वाद्यान्यनेकशः॥
आनीता जलमध्याच्च संवृता गोशतैरपि॥ ११.४३ ॥
तासु नीलाश्च कृष्णश्च कपिलाश्च कपिंजलाः॥
बभ्रवः श्यामका रक्ता जंबूवर्णाश्च पिंगलाः॥
आभिर्युक्ता तदा गोभिः सुरभिः प्रत्यदृश्यत॥ ११.४४ ॥
असुरासुरसंवीतां कामधेनुं ययाचिरे॥
ऋषयो हर्षसंयुक्ता देवान्दैत्यांश्च तत्क्षणात्॥ ११.४५ ॥
सर्वेभ्यश्चैव विप्रेभ्यो नानागोत्रेभ्य एव च॥
सुरभीसहिता गावो दातव्या नात्र संशयः॥ ११.४६ ॥
तैर्याचितास्तेऽत्र सुरासुराश्च ददुश्च ता गाः शिवतोषणाय॥
तैः स्वीकृतास्ता ऋषिभिः सुमंगलैर्महात्मभिः पुण्यतमैः सुरभ्यः॥ ११.४७ ॥
पुण्याहं मुनिभिः सर्वैः कारितास्ते तदा सुराः॥
देवानां कार्यसिद्ध्यर्थमसुराणां क्षयाय च॥ ११.४८ ॥
पुनः सर्वे सुसंरब्धा ममंथुः क्षीरसागरम्॥
मथ्यमानात्तदा तस्मादुदधेश्च तथाऽभवत्॥ ११.४९ ॥
कल्पवृक्षः पारिजातश्चूतः संतानकस्तथा॥
तान्द्रुमानेकतः कृत्वा गन्धर्वनगरोपमान्॥
ममंथुरुग्रं त्वरिताः पुनः क्षीरार्णवं बुधा॥ ११.५० ॥
निर्मथ्यमानादुदधेरभवत्सूर्यवर्चसम्॥
रत्नानामुत्तमं रत्नं कौस्तुभाख्यं महाप्रभम्॥ ११.५१ ॥
स्वकीयेन प्रकाशेन भासयंतं जगत्त्रयम्॥
चिंतामणिं पुरस्कृत्य कौस्तुभं ददृशुर्हि ते॥ ११.५२ ॥
सर्वे सुरा ददुस्तं वै कौस्तुभं विष्णवे तदा॥
चिंतामणि ततः कृत्वा मध्ये चैव सुरासुराः॥
ममंथुः पुनरेवाब्धिं गर्जंतस्ते बलोत्कटाः॥ ११.५३ ॥
मथ्यमानात्ततस्तस्मादुच्चैःश्रवाः समद्भुतम्॥
बभूव अश्वो रत्नानां पुनश्चैरावतो गजः॥ ११.५४ ॥
तथैव गजरत्नं च चतुःषष्ट्या समन्वितम्॥
गजानां पांडुराणां च चतुर्द्दन्तं मदान्वितम्॥ ११.५५ ॥
तान्सर्वान्मध्यतः कृत्वा पुनश्चैव ममंथिरे॥
निर्मथ्यमानादुदधेर्निर्गतानि बहून्यथ॥ ११.५६ ॥
मदिरा विजया भृंगी तथा लशुनगृंजनाः॥
अतीव उन्मादकरो धत्तूरः पुष्करस्तथा॥ ११.५७ ॥
स्थापिता नैकपद्येन तीरे नदनदीपतेः॥
पुनश्च ते तत्र महासुरेन्द्रा ममंथुरब्धिं सुरसत्तमैः सह॥ ११.५८ ॥
निर्मथ्यमानादुदधेस्तदासीत्सा दिव्य लक्ष्मीर्भुवनैकनाथा॥
आन्वीक्षिकीं ब्रह्मविदो वदंति तथआ चान्ये मूलविद्यां गृणंति॥ ११.५९ ॥
ब्रह्मविद्यां केचिदाहुः समर्थाः केचित्सिद्धिमृद्धिमाज्ञा मथाशाम्॥
यां वैष्णवीं योगिनः केचिदाहुस्तथा च मायां मायिनो नित्ययुक्ताः॥ ११.६० ॥
वदंति सर्वे केनसिद्धांतयुक्तां यां योगमायां ज्ञानशक्त्यान्विता ये॥ ११.६१ ॥
ददृशुस्तां महालक्ष्मीमायांती शनकैस्तदा॥
गौरां च युवतीं स्निग्धां पद्मकिंजल्कभूषणाम्॥ ११.६२ ॥
सुस्मितां सुद्विजां श्यामां नवयौवनभूषणाम्॥
विचित्रवस्त्राभरणरत्नानेकोद्यतप्रभाम्॥ ११.६३ ॥
बिंबोष्ठीं सुनसां तन्वीं सुग्रीवां चारुलोचनाम्॥
सुमध्यां चारुजघनां बृहत्कटितटां तथा॥ ११.६४ ॥
नानारत्नप्रदीपैश्च नीराजितमुखांबुजाम्॥
चारुप्रसन्नवदनां हारनूपूरशोभिताम्॥ ११.६५ ॥
मूर्द्धनि ध्रियमाणेन च्छत्रेणापि विराजिताम्॥
चामरैर्वीज्यमानां तां गंगाकल्लोललोहितैः॥ ११.६६ ॥
पांडुरं गजमारूढां स्तूयमानां महर्षिभिः॥
सुरद्रुमपुष्पमालां बिभ्रतीं मल्लिकायुताम्॥ ११.६७ ॥
कराग्रे ध्रियमाणां तां दृष्ट्वा देवाः समुत्सुकाः॥
आलोकनपरा यावत्तावत्तान्ददृशे ह्यसौ॥ ११.६८ ॥
देवांश्च दानवांश्चैव सिद्धचारणपन्नगान्॥
यथा माता स्वपुत्रांश्च महालक्ष्मीस्तथा सती॥ ११.६९ ॥
आलोकितास्तथा देवास्तया लक्ष्म्या श्रियान्विताः॥
सञ्जातास्तत्क्षणादेव राज्य लक्षणलक्षिताः॥
दैत्यास्ते निःश्रिका जाता ये श्रियाऽनवलोकिताः॥ ११.७० ॥
निरीक्ष्यमाणा च तदा मुकुन्दं तमालनीलं सुकपोलनासम्॥
विभ्राजमानं वपुषा परेण श्रीवत्सलक्ष्मं सदयावलोकम्॥ ११.७१ ॥
दृष्ट्वा तदैव सहसा वनमालयान्विता लक्ष्मीर्गजादवततार सुविस्मयंती॥
कंठे ससर्ज पुरुषस्य परस्य विष्णोर्मालां श्रिया विरचितां भ्रमरैरुपेताम्॥ ११.७२ ॥
वामांगमाश्रित्य तदा महात्मनः सोपाविशत्तत्र समीक्ष्य ता उभौ॥
सुराः सदैत्या मुदमापुरद्भुतां सिद्धाप्सरः किंनरचारणाश्च॥ ११.७३ ॥
सर्वेषामेव लोकानामैकपद्येन सर्वशः॥
हर्षो महानभूत्तत्र लक्ष्मीनारायणागमे॥ ११.७४ ॥
लक्ष्म्या वृतो महाविष्णुर्लक्ष्मीस्तेनैव संवृता॥
एवं परस्परं प्रीत्या ह्यवलोकनतत्परौ॥ ११.७५ ॥
शंखाश्च पटहाश्चैव मृदंगानकगोमुखाः॥
भेर्यश्च झर्झरीणां च स शब्दस्तुमुलोऽभवत्॥ ११.७६ ॥
बभूव गायकानां च गायनं सुमहत्तदा॥
ततानि विततान्येन घानानि सुषिराणि च॥ ११.७७ ॥
एवं वाद्यप्रभेदैश्च विष्णुं सर्वात्मना हरिम्॥
अतोषयन्सुगीतज्ञा गंधर्वाप्सरसां गणाः॥ ११.७८ ॥
तथा जगुर्नारदतुंबुरादयो गंधर्वयक्षाः सुरसिद्ध संघाः॥
संसेवमानाः परमात्मरूपं नारायणं देवमगाधबोधम्॥ ११.७९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे समुद्रमन्थनाख्याने लक्ष्मीप्रादुर्भाववर्णनंनामैकादशोऽध्यायः॥ ११ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 12
॥लोमश उवाच॥
प्रणम्य परमात्मानं रमायुक्तं जनार्द्दनम्॥
अमृतार्थं ममंथुस्ते सुरासुरगणाः पुनः॥ १२.१ ॥
उदधेर्मथ्यमानाच्च निर्गतः सुमहायशाः॥
धन्वंतरिरिति ख्यातो युवा मृत्युञ्जयः परः॥ १२.२ ॥
पाणिभ्यां पूर्णकलशं सुधायाः परिगृह्य वै॥
यावत्सर्वे सुराः सर्वे निरीक्षंते मनोहरम्॥ १२.३ ॥
तदा दैत्याः समं गत्वा हर्तुकामा बलादिव॥
सुधया पूर्णकलशं धन्वंतरिकरे स्थितम्॥ १२.४ ॥
यावत्तरंगमालाभिरावृतोऽभूद्भिषक्तमः॥
शनैः शनैः समायातो दृष्टोऽसौ वृषपर्वणा॥ १२.५ ॥
करस्थः कलशस्तस्य हृतस्तेन बलादिव॥
असुराश्च ततः सर्वे जगर्जुरतिभीषणम्॥ १२.६ ॥
कलशं सुधया पूर्णं गृहीत्वा ते समुत्सुकाः॥
दैत्याः पातालमाजग्मुस्तदा देवा भ्रमान्विताः॥ १२.७ ॥
अनुजग्मुः सुसंनद्धा योद्धुकामाश्च तैः सह॥
तदा देवान्समालोक्य बलिरेवमभाषत॥ १२.८ ॥
॥ बलिरुवाच॥
वयं तु केवलं देवाः सुधया परितोषिताः॥
शीघ्रमेव प्रगंतव्यं भवद्भिश्च सुरोत्तमैः॥ १२.९ ॥
त्रिविष्टपं मुदा युक्तैः किमस्माभिः प्रयोजनम्॥
पुरास्माभिः कृतं मैत्रं भवद्भिः स्वार्थतत्परैः॥
अधुना विदितं तत्तु नात्र कार्या विचारणा॥ १२.१० ॥
एवं निर्भार्त्सितास्तेन बलिना सुरसत्तमाः॥
यथागतेन मार्गेण जग्मुर्नारायणं प्रभुम्॥ १२.११ ॥
तं दृष्ट्वा विष्णुना सर्वे सुरा भग्नमनोरथा॥
आश्वासिता वचोभिश्च नानानुनयको विदैः॥ १२.१२ ॥
मा त्रासं कुरुतात्रार्थ आनयिष्यामि तां सुधाम्॥
एवमाभाष्य भगवान्मुकुन्दोऽनाथसंश्रयः॥ १२.१३ ॥
स्थापयित्वा सुरान्सर्वांस्तत्रैव मधुसूदनः॥
मोहनीरूपमास्थाय दैत्यनामग्रतोऽभवत्॥ १२.१४ ॥
तावद्दैत्याः सुसंरब्धाः परस्परमथाब्रुवन्॥
विवादः सर्वदैत्यानाममृतार्थे तदाऽभवत्॥ १२.१५ ॥
एवं प्रवर्तमाने तु मोहिनीरूपमाश्रिताम्॥
दृष्ट्वा योषां तदा दैवात्सर्वभूतमनोरमाम्॥ १२.१६ ॥
विस्मयेन समाविष्टा बभूवुस्तृषितेक्षणाः॥
तां संमान्य तदा दैत्यराजो बलिरुवाच ह॥ १२.१७ ॥
॥बलिरुवाच॥
सुधा त्वया विभक्तव्या सर्वेषां गतिहेतवे॥
शीघ्रत्वेन महाभागे कुरुष्व वचनं मम॥ १२.१८ ॥
एवमुक्ता ह्युवाचेदं स्मयमाना बलिं प्रति॥
स्त्रीणां नैव च विश्वासः कर्तव्यो हि विपश्चिता॥ १२.१९ ॥
अनृतं साहसं माया मूर्खत्वमति लोभता॥
अशौचं निर्घृणत्वं च स्त्रीणां दोषाः स्वभावजाः॥ १२.२० ॥
निःस्नेहत्वं च विज्ञेयं धूर्तत्वं चैव तत्त्वतः॥
स्वस्त्रीणां चैव विज्ञेया दोषा नास्त्यत्र संशयः॥ १२.२१ ॥
यथैव श्वापदानां च वृका हिंसापरायणाः॥
काका यतांडजानां च श्वापदानां च जंबुकाः॥
धूर्ता तथा मनुष्याणां स्त्रीज्ञेया सततं बुधैः॥ १२.२२ ॥
मया सह भवद्भिश्च कथं सख्यं प्रवर्तते॥
सर्वथात्र न विज्ञेयाः के यूयं चैव क ह्यहम्॥ १२.२३ ॥
तस्माद्भवद्भिः संचिंत्यकार्याकार्यविचक्षणैः॥
कर्तव्यं परया बुद्ध्या प्रयातासुरसत्तमाः॥ १२.२४ ॥
॥बलिरुवाच॥
अद्यामृतं च सर्वेषां विभजस्व यथातथम्॥
त्वया दत्तं च गृह्णीमः सत्यंसत्यं वदामि ते॥ १२.२८ ॥
एवमुक्ता तदा देवी मोहिनी सर्वमंगला॥
उवाचाथासुरान्सर्वान्रोचयँल्लौकिकीं स्थितिम्॥ १२.२९ ॥
॥ भगवानुवाच॥
यूयं सर्वे कृतार्थाश्च जाता दैवेन केनचित्॥
अद्योपावाससंयुक्ता अमृतस्याधिवासनम्॥ १२.३० ॥
क्रियतामसुराः श्रेष्ठाः शुभेच्छा किंचिदस्ति वः॥
श्वेभूते पारणं कुर्याद्व्रतार्चनरतिश्च वः॥ १२.३१ ॥
न्यायोपार्जितवित्तेन दशमांशेन धीमता॥
कर्तव्यो विनियोगश्च ईशप्रीत्यर्थहेतवे॥ १२.३२ ॥
तथेति मत्वा ते सर्वे यथोक्तं देवमायया॥
चक्रुस्तथैव दैतेया मोहिता नातिकोविदाः॥ १२.३३ ॥
मयासुरेण च तदा भवनानि कृतानि वै॥
मनोज्ञानि महार्हाणि सुप्रभाणि महांति च॥ १२.३४ ॥
तेषुपविष्टास्ते सर्वे सुस्नाताः समलंकृताः॥
स्थापयित्वा सुसंरब्धाः पूर्णं कलशमग्रतः॥ १२.३५ ॥
रात्रौ जागरणं सर्वैः कृतं परमया मुदा॥
अथोषसि प्रवृत्ते च प्रातःस्नानयुता भवन्॥ १२.३६ ॥
असुरा बलिमुख्याश्च पंक्तिभूता यताक्रमम्॥
सर्वमावश्यकं कृत्वा तदा पानरता भवन्॥ १२.३७ ॥
बलिश्च वृषपर्वा च नमुचिः शंख एव च॥
सुदंष्ट्रश्चैव संह्लादी कालनेमिर्विभीषणः॥ १२.३८ ॥
वातापिरिल्वलः कुम्भो निकुम्भः प्रच्छदस्तथा॥
तथा सुन्दोपसुन्दौ च निशुम्भः शुम्भ एव च॥ १२.३९ ॥
महिषो महिषाक्षश्च बिडालाक्षः प्रतापवान्॥
चिक्षुराख्यो महाबाहुर्जृभणोऽथ वृषासुरः॥ १२.४० ॥
विबाहुर्बाहुको घोरस्तथा वै घोरदर्शनः॥
एते चान्ये च बहवो दैत्यदानवराक्षसाः॥
यथाक्रमं चोपविष्टा राहुः केतुस्तथैव च॥ १२.४१ ॥
तेषां तु कोटिसंख्यानां दैत्यानां पंक्तिरास्थिता॥ १२.४२ ॥
ततस्तया तदा देव्या अमृतार्थं हि वै द्विजाः॥
यज्जातं तच्छृणउध्वं हि तया देव्या कृतं महत्॥ १२.४३ ॥
सर्वे विज्ञापिताः सद्यो गृहीतकलशा तदा॥
शोभया परया युक्ता साक्षात्सा विष्णुमोहिनी॥ १२.४४ ॥
करस्थेन तदा देवी कलशेन विराजिता॥
शुशुभे परया कांत्या जगन्मंगलमंगला॥ १२.४५ ॥
परिवेषधराः सर्वे सुरास्ते ह्यसुरांतिकम्॥
आगतास्तत्क्षणादेव यत्र ते ह्यसुरोत्तमाः॥ १२.४६ ॥
तान्दृष्ट्वा मोहिनी सद्य उवाच प्रमदोत्तमा॥ १२.४७ ॥
॥मोहिन्युवाच॥
एते ह्यतिथयो ज्ञेया धर्म्मसर्वस्वसाधनाः॥
एभ्यो देयं यताशक्त्या यदि सत्यं वचो मम॥
प्रमाणं भवतां चाद्य कुरुध्वं मा विलंबथ॥ १२.४८ ॥
परेषामुपकारं च ये कुर्वंति स्वशक्तितः॥
धन्यास्ते चैव विज्ञेयाः पवित्राः लोकपालकाः॥ १२.४९ ॥
केवलात्मोदरार्थाय उद्योगं ये प्रकुर्वते॥
ते क्लेशभागिनो ज्ञेया नात्र कार्या विचारणा॥ १२.५० ॥
तस्माद्विभजनं कार्यं मयैतस्य शुभव्रताः॥
देवेभ्यश्च प्रयच्छध्वं यद्धि चात्मप्रियाप्रियम्॥ १२.५१ ॥
इत्युक्ते वचने देव्या तथा चक्रुरतं द्रिताः॥
आह्वयामासुरसुराः सर्वान्देवान्सवासवान्॥ १२.५२ ॥
उपविष्टाश्च ते सर्वे अमृतार्थं च भो द्विजाः॥
तेषूपविश्यमानेषु ह्युवाच परमं वचः॥
मोहिनी सर्वधर्म्मज्ञा असुराणां स्मयन्निव॥ १२.५३ ॥
॥मोहिन्युवाच॥
आदौ ह्यभ्यागताः पूज्या इति वै वैदिकी श्रुतिः॥ १२.५४ ॥
तस्माद्यूयं वेदपराः सर्वे देवपरायणाः॥
ब्रुवंतु त्वरितेनैव आदौ केषां ददाम्यहम्॥
अमृतं हि महाभागा बलिमुख्या वदंतु भोः॥ १२.५५ ॥
बलिनोक्ता तदा देवी यत्ते मनसि रोचते॥
स्वामिनी त्वं न संदेहो ह्यस्माकं सुंदरानने॥ १२.५६ ॥
एवं संमानिता तेन बलिना भावितात्मना॥
परिवेषणकार्यार्थं कलशं गृह्य सत्वरा॥ १२.५७ ॥
तस्मान्नरेन्द्रकरभोरुलसद्दृकूला श्रोणीतटालसगतिर्मविह्वलांगी॥
सा कूजती कनकनूपुरसिंजितेन कुंभस्तनी कलशपाणिरथाविवेश॥ १२.५८ ॥
तदा तु देवी परिवेषयंती सा मोहिनी देवगणाय साक्षात्॥
ववर्ष देवेषु सुधारसं पुनः पुनः सुधाहाररसामृतं यथा॥ १२.५९ ॥
पुनश्च ते देवगणाः सुधारसं दत्तं तया परया विश्वमूर्त्या॥
बलिमुख्याः सह लोकपाला गंधर्वयक्षाप्सरसां गणाश्च॥ १२.६० ॥
सर्वे दैत्या आसनस्था पुनश्च ते देवगणाः सुधारसं दत्तं पीडिताश्च॥
तूष्णींभूता बलिमुख्या द्विजेंद्रा मनस्विनो ध्यानपरा बभूवुः॥ १२.६१ ॥
ततस्तथाविधान्दृष्ट्वा दैत्यांस्तान्मोहमाश्रितान्॥
तदा राहुश्च केतुश्च द्वावेतौ दैत्यपुंगवौ॥ १२.६२ ॥
देवानां रूपमास्थाय अमृतार्थं त्वरान्वितौ॥
उपविष्टौ तदा पङ्क्त्यां देवानाममृतार्थिनौ॥ १२.६३ ॥
यदामृतं पातुकामो राहुः परमदुर्जयः॥
चन्द्रार्काभ्यां प्रकथितो विष्णोरमिततेजसः॥ १२.६४ ॥
तदा तस्य शिरश्छिन्नं राहोर्दुर्विग्रहस्य च॥
शिरो गगनमापेदे कबंधं च महीतले॥
भ्रममाणं तदा ह्यद्रींश्चूर्णयामास वै तदा॥ १२.६५ ॥
साद्रिश्च सर्वभूलोकश्चूर्णितश्च तदाऽभवत्॥
तया तेन च देहेन चूर्णितं सचराचरम्॥ १२.६६ ॥
दृष्ट्वा तदा महादेवस्तस्योपरि तु संस्थितः॥
निवासः सर्वदेवानां तस्याः पादतलेऽभवत्॥ १२.६७ ॥
पीडनं तत्समीपेथ निवास इति नाम वै॥ १२.६८ ॥
महतामालयं यस्माद्यस्यास्तच्चरणांबुजम्॥
महालयेति विख्याता जगत्त्रयविमोहिनी॥ १२.६९ ॥
केतुश्च धूमरूपोऽसावाकाशे विलयं गतः॥
सुधां समर्प्य चंद्राय तिरोधानगतोऽभवत्॥ १२.७० ॥
वासुदेवो जगद्योनिर्जगतां कारणं परम्॥
विष्णोः प्रसादात्तज्जातं सुराणां कार्यसिद्धिदम्॥ १२.७१ ॥
असुराणां विनाशाय जातं दैवविपर्ययात्॥
विना दैवेन जानीध्वमुद्यमो हि निरर्थकः॥ १२.७२ ॥
यौगपद्येन तैः सर्वैः क्षीराब्धेर्मंथनं कृतम्॥
सिद्धिर्जाता हि देवानामसिद्धिरसुरान्प्रति॥ १२.७३ ॥
ततश्च ते देववरान्प्रकोपिता दैत्याश्च मायाप्रवि मोहिताः पुनः॥
अनेकशस्त्रास्त्रयुतास्तदाऽभवन्विष्णौ गते गर्जमानास्तदानीम्॥ १२.७४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे समुद्रमंथनाख्याने देवानाममृतप्राशनवर्णनंनाम द्वादशोऽध्यायः॥ १२ ॥ ।
छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 13
॥लोमश उवाच॥
ततस्ते गर्ज्जमानाश्च आक्षिपंतः सुरान्रणे॥
शतक्रतुप्रमुख्यांस्तन्महाबलपराक्रमान्॥ १३.१ ॥
विमानमारुह्य तदा महात्मा वैरोचनिः सर्वबलेन सार्द्धम्॥
दैत्यैः समेतो विविधैर्महाबलैः सुरान्प्रदुद्राव महाभयावहम्॥ १३.२ ॥
स्वानि रूपाणि बिभ्रंतः समापेतुः स हस्रशः॥
केचिद्व्याघ्रान्समारूढा महिषांश्च तथा परे॥ १३.३ ॥
अश्वान्केचित्समारूढा द्विपान्केचित्तथा परे॥
सिंहांस्तथा परे रूढाः शार्दूलाञ्छरभांस्तथा॥ १३.४ ॥
मयूरान्राजहंसांश्च कुक्कुटांश्च तथा परे॥
केचिद्धयान्समारूढा उष्ट्रानश्वतरानपि॥ १३.५ ॥
गजान्खरान्परे चैव शकटांश्च तथा परे॥
पादाता बहवो दैत्याः खङ्गशक्त्यृष्टिपाणयः॥ १३.६ ॥
परिघायुधिनः पाशशूलमुद्गरपाणयः॥
असिलोमान्विताः केचिद्भुशुंडीपरिघायुधाः॥ १३.७ ॥
हयनागरथाश्चान्ये समारूढाः प्रहारिणः॥
विमानानि समारूढा बलिमुख्याः सहस्रशः॥ १३.८ ॥
स्पर्द्धमानास्ततान्योन्यं गर्जंतश्च मुहुर्मुहुः॥
वृषपर्वा ह्युवा चेदं बलिनं दैत्यपुंगवम्॥ १३.९ ॥
त्वया कृतं महाबाहो इंद्रेण सह संगमम्॥
विश्वासो नैव कर्तव्यो दुर्हृदा च कथंचन॥ १३.१० ॥
ऊनेनापि हि तुच्छेन वैरिणापि कथंचन॥
मैत्री बुद्धिमता कार्या आपद्यपि निवर्तते॥ १३.११ ॥
न विश्वसेत्पूर्वविरोधिना क्वचित्पराजिताः स्मोऽथ बले त्वयाधुना॥
पुराणदुष्टाः कथमद्य वै पुनर्मंत्रं विकर्तुं न च ते यतेरन्॥ १३.१२ ॥
इत्यूचुस्ते दुराधर्षा योद्धुकामा व्यवस्थिताः॥
ध्वजैश्छत्रैः पताकैश्च रणभूमिममंडयन्॥ १३.१३ ॥
चामरैश्च दिशः सर्वा लोपितं च रणस्थलम्॥
तथा सर्वे सुरास्तत्र दैत्यान्प्रति समुत्सुकाः॥ १३.१४ ॥
पीत्वामृतं महाभागा वाहान्यारुह्य दंशिताः॥
गजारूढो महेंद्रोपि वज्रपाणिः प्रतापवान्॥
सूर्यश्चोच्चैः श्रवारूढो मृगा रूढश्च चन्द्रमाः॥ १३.१५ ॥
छत्रचामरसंवीताः शोभिता विजयश्रिया॥
प्रणम्य विष्णुं ते सर्व इंद्राद्या जयकांक्षिणः॥ १३.१६ ॥
ते विष्णुना ह्यनुज्ञाता असुरान्प्रति वै रुषा॥
असुराश्च महाकाया भीमाक्षा भीमविक्रमाः॥ १३.१७ ॥
तेषां बोरमभूद्युद्धं देवानां दानवैः सह॥
तुमुलं च महाघोरं सर्वभूतभयावहम्॥ १३.१८ ॥
शरधारान्वितं सर्वं बभूव परमाद्भुतम्॥
ततश्च टचटाशब्दा बभूवुश्च दिशोदश॥ १३.१९ ॥
ततो निमिषमात्रेण शरघातयुता भवन्॥
शरतोमरनाराचैराहताश्चापतन्भुवि॥ १३.२० ॥
विध्यमानास्तथा केचिद्विविधुश्चापरान्रणे॥
भल्लैर्भग्नाश्च पतिता नाराचैः शकलीकृताः॥ १३.२१ ॥
क्षुरप्रहारिताः केचिद्दैत्या दानवराक्षसाः॥
शिलीमुखैर्मारिताश्च भग्नाः केचिच्च दानवाः॥ १३.२२ ॥
एवं भग्नं दानवानां च सैन्यं दृष्ट्वा देवा गर्जमानाः समंतात्॥
हृष्टाः सर्वे संमिलित्वा तदानीं लब्ध्वा युद्धे ते जयं श्लाघयन्ते॥ १३.२३ ॥
शंखवादित्रघोषेण पूरितं च जगत्त्रयम्॥
देवान्प्रति कृतामर्षा दानवास्ते महाबलाः॥ १३.२४ ॥
बलिप्रभृतयः सर्वे संभ्रमेणोत्थिताः पुनः॥
विमानैः सूर्यसंकासैरनेकैश्च समन्विताः॥ १३.२५ ॥
द्वंद्वयुद्धं सुतुमुलं देवानां दानवैः सह॥
संप्रवृत्तं पुनश्चैव परस्परजिगीषया॥ १३.२६ ॥
बलिना दानवेंद्रेण महेंद्रो युयुधे तदा॥
तथा यमो महाबाहुर्नमुच्या सह संगतः॥ १३.२७ ॥
नैर्ऋतः प्रघसेनैव पाशी कुंभेन संगतः॥
निकुंभेनैव सुमहद्युद्धं चक्रे सदारयः॥ १३.२८ ॥
सोमेन सह राहुश्च युद्धं चक्रे सुदारुणम्॥
राहुणा चन्द्रदेहोत्थममृतं भक्षितं तदा॥
संपर्कादमृस्यैव यथा राहुस्तथाऽभवत्॥ १३.२९ ॥
तानि सर्वाणि दृष्टानि शंभुना परमेष्ठिना॥
आश्रयोऽहं च सर्वेषां भूतानां नात्र संशयः॥
असुराणां सुराणां च सर्वेषामपि वल्लभः॥ १३.३० ॥
एवमुक्तस्तदा राहुः प्रणम्य शिरसा शिवम्॥
मौलौ स्थितस्तदा चंद्रो अमृतं व्यसृजद्भयात्॥ १३.३१ ॥
तेन तस्य हि जातानि शिरांसि सुबहून्यपि॥
एकपद्येन तेषां च स्रजं कृत्वा मनोहराम्॥
बबंध शंभुः शिरसि शिरोभूषणवत्कृतम्॥ १३.३२ ॥
अशनात्कालकूटस्य नीलकंठोऽभवत्तदा॥
देवानां कार्यसिद्ध्यर्थं मुंडमाला तथा कृता॥ १३.३३ ॥
दधार शिरसा तां च मुण्डमालां महेश्वरः॥ १३.३४ ॥
तया स्रजाऽसौ शुशुभे महात्मा देवादिदेवस्त्रिपुरांतको हरः॥
गजासुरो येन निपातितो महानथांधको येन कृतश्च चूर्णः॥ १३.३५ ॥
गंगा धृता येन शिरस्सुमध्ये चंद्रं च चूडे कृतवान्भयापहः॥
वेदाः पुराणानि तथागमाश्च तथैव नानाश्रुतयोऽथ शास्त्रम्॥ १३.३६ ॥
जल्पंति नानागमभेदैर्मीमांसमानाश्च भवंति मूकाः॥
नानागमार्चायमतप्रभेदैर्निरूप्यमाणो जगदेकबंधुः॥ १३.३७ ॥
शिवं हि नित्यं परमात्मदैवं वेदैकवेद्यं परमात्मदिव्यम्॥
विहाय तं मूढजनाः प्रमत्ताः शिवं न जानंति परात्मरूपम्॥ १३.३८ ॥
येनैव सृष्टं विधृतं च येन येन श्रितं येन कृतं समग्रम्॥
यस्यांशभूतं हि जगत्कदाचिद्वेदांतवेद्यः परमात्मा शिवश्च॥ १३.३९ ॥
आढ्यो वापि दरिद्रो वा उत्तमो ह्यधमोऽपि वा॥
शिवभक्तिरतो नित्यं शिव एव न संशयः॥ १३.४० ॥
यो वा परकृतां पूजां शिवस्योपरि शोभिताम्॥
दृष्ट्वा संतोषमायाति दायं प्राप्नोति तत्समम्॥ १३.४१ ॥
ये दीपमालां कुर्वंति कार्तिक्यां श्रद्धयान्विताः॥
यावत्कालं प्रज्वलंति दीपास्ते लिंगमग्रतः॥
तावद्युगसहस्राणि दाता स्वर्गे महीयते॥ १३.४२ ॥
कौसुंभतैलसंयुक्ता दीपा दत्ताः शिवालये॥
दातारस्तेऽपि कैलासे मोदन्ते शिवसंनिधौ॥ १३.४३ ॥
अतसीतैलसंयुक्ता दीपा दत्ताः शिवालये॥
ते शिवं यांति संयुक्ताः कुलानां च शतेन वै॥ १३.४४ ॥
ज्ञानिनोऽपि हि जायंते दीपदानफलेन हि॥ १३.४५ ॥
तिलतैलेन संयुक्ता दीपा दत्ताः शिवालये॥
ते शिवं यांति संयुक्ताः कुलानां च शतेन वै॥ १३.४६ ॥
घृताक्ता यैः कृता दीपा दीपिताश्च शिवालये॥
ते यांति परमं स्थानं कुललक्षसमन्विताः॥ १३.४७ ॥
कर्पूरागुरुधूपैश्च ये यजंति सदा शिवम्॥
आरार्तिकां सकर्प्पूरां ये कुर्वंति दिनेदिने॥
ते प्राप्नुवंति सायुज्यं नात्र कार्या विचारणा॥ १३.४८ ॥
एककालं द्विकालं वा त्रिकालं ये ह्यतंद्रिताः॥
लिंगार्चनं प्रकुर्वंति ते रुद्रा नात्र संशयः॥ १३.४९ ॥
रुद्राक्षधारणं ये च कुर्वंति शिवपूजने॥
दाने तपसि तीर्थे च पर्वकाले ह्यतंद्रिताः॥
तेषां यत्सुकृतं सर्वमनंतं भवति द्विजाः॥ १३.५० ॥
रुद्राक्षा ये शिवेनोक्तास्ताच्छृणुध्वं द्विजोत्तमाः॥
आरम्भैकमुखं तावद्याबद्वक्त्राणि षोडश॥
एतेषां द्वौ च विज्ञेयौ श्रेष्ठौ तारयितुं द्विजाः॥ १३.५१ ॥
रुद्राक्षाणां पंचमुखखस्तथा चैकमुखः स्मृतः॥
ये धारयंत्येकमुखं रुद्राक्षमनिशं नराः॥
रुद्रलोकं च गच्छंति मोदन्ते रुद्रसंनिधौ॥ १३.५२ ॥
जपस्तपः क्रिया योगः स्नानं दानार्चनादिकम्॥
क्रियते यच्छृभं कर्म्म ह्यनंतं चाक्षधारणात्॥ १३.५३ ॥
शुनः कंठनिबद्धोऽपि रुद्राक्षो यदि वर्तते॥
सोऽपि संतारितस्तेन नात्र कार्या विचारणा॥ १३.५४ ॥
तथा रुद्राक्षसंबंधात्पापमपिक्षयं व्रजेत्॥
एवं ज्ञात्वा शुभं कर्म कार्यं रुद्राक्षबंधनात्॥ १३.५५ ॥
त्रिपुण्ड्रधारणं येषां विभूत्वा मन्त्रपूतया॥
ते रुद्रलोके रुद्राश्च भविष्यंति न संशयः॥ १३.५६ ॥
कपिलायाश्च संगृह्य गोमयं चांतरिक्षगम्॥
शुष्कं कृत्वाथ संदाह्यं विभूत्यर्थं शिवप्रियैः॥ १३.५७ ॥
विभूतीति समाख्याता सर्वपापप्रणाशिनी॥
ललाटेंऽगुष्ठरेखा च आदौ भाव्या प्रयत्नतः॥ १३.५८ ॥
मध्यमां वर्जयित्वा तु अंगुलीक्द्वयेन च॥
एवं त्रिरेखासंयुक्तो ललाटे यस्य दृश्यते॥
स शैवः शिववज्ज्ञेयो दर्शनात्पापनाशनः॥ १३.५९ ॥
जटाधराश्च ये शैवाः सप्त पंच तथा नव॥
जटा ये स्थापियिष्यंति शैवेन विधिना युताः॥ १३.६० ॥
ते शिवं प्राप्नुवं तीह नात्र कार्या विचारणा॥
रुद्राक्षधारणं कार्यं शिवभक्तैर्विशेषतः॥ १३.६१ ॥
अल्पेन वा महत्त्वेन पूजितो वा सदाशिवः॥
कुलकोटिं समुद्धृत्य शिवेन सह मोदते॥ १३.६२ ॥
तस्माच्छिवात्परतरं नास्ति किंचिद्द्विजोत्तमाः॥
यदैवमुच्यते शास्त्रे तत्सर्वं शिवकारणम्॥ १३.६३ ॥
शिवो दाता हि लोकानां कर्ता चैवानुमोदिता॥
शिवशक्त्यात्मकं विश्वं जानीध्वं हि द्विजोत्तमाः॥ १३.६४ ॥
शिवेति द्व्यक्षरं नाम त्रायते महतो भयात्॥
तस्माच्छिवश्चिंत्यतां वै स्मर्यतां च द्विजोत्तमाः॥ १३.६५ ॥
॥ऋषय ऊचुः॥
सोमनाथस्य माहात्म्यं ज्ञातं तस्य प्रसादतः॥
राहोः शिरोभयात्सर्वे रक्षिताः परमेष्ठिना॥ १३.६६ ॥
सुराश्चेंद्रादयश्चान्ये तस्मिन्युद्धे सुदारुणे॥
अत ऊर्ध्वं सुराः सर्वे किमकुर्वत उच्यताम्॥ १३.६७ ॥
शिवस्य महिमा सर्वः श्रुतस्तव मुखोद्गतः॥
अथ युद्धस्य वृत्तान्तः कथ्यतां परमार्थतः॥ १३.६८ ॥
॥लोमश उवाच॥
यदा हि दैत्यैश्च पराजिताः सुराः शम्भुं च सर्वे शरणं प्रपन्नाः॥
शिवं प्रणेमुः सहसा सुरोत्तमा युद्धाय सर्वे च मनो दधुस्तदा॥ १३.६९ ॥
तथैव दैत्या अपि युध्यमाना उत्साहयुक्तातिबलाश्च सर्वे॥
देवैः समेताश्च पुनः पुनश्च युद्धं प्रचक्रुः परमास्त्रयुक्ताः॥ १३.७० ॥
एवं च सर्वे ह्यसुराः सुराश्च शक्त्यृष्टिशूलैः परिघैः परश्वधैः॥
जयार्थिनोमर्षयुताः परस्परं सिंहा यथा हैमवतीं दुरात्ययाः॥
निहन्यमाना ह्यसुराः सुरैस्तदा नानास्त्रयोगैः परमैर्निपेतुः॥ १३.७१ ॥
चक्रुस्ते सकलामुर्वी मांसशोणितकर्दमाम्॥
महीं वृक्षाद्रिसंयुक्तां ससागरवनाकराम्॥ १३.७२ ॥
शिरांसि च कबन्धानि कवचानि महांति च॥
ध्वजारथाः पताकाश्च गजवाजिशिरांसि च॥ १३.७३ ॥
बहन्त्यश्चापगा ह्यासन्नद्यो भीरुभयावहाः॥
अगाधाः शोणितोदाश्च तरंतो ब्रह्मराक्षसाः॥
तयंति परान्भूतप्रतप्रमथराक्षसान्॥ १३.७४ ॥
शाकिनीडाकिनीसंघा यक्षिण्योऽथ सहस्रशः॥
नानाकेलिषु संयुक्ताः परस्परमुदान्विताः॥ १३.७५ ॥
एवं संक्रीडमानास्ते भूतप्रमथराक्षसाः॥
रणे तस्मिन्महारौद्रे देवासुरसमागमे॥ १३.७६ ॥
बलिना सह देवेन्द्रो युयुधेऽद्भुतविक्रमः॥
शक्त्या जघान देवेंद्रं वैरोचनिरमर्षणः॥ १३.७७ ॥
तां शक्तिं वञ्चयामास महेन्द्रो लघुविक्रमः॥
जघान स बलिं यत्नाद्दैत्येंद्रं परमेण हि॥ १३.७८ ॥
वज्रेण शितधारेण बाहुं चिच्छेद विक्रमी॥
गातासुरपतद्भूमौ विमानात्सूर्यसंन्निभात्॥ १३.७९ ॥
पतितं च बलिं दृष्ट्वा वृषपर्वा रूपान्वितः॥
ववर्ष शरधाराभिः पयोद इव पर्वतम्॥ १३.८० ॥
महेंद्रं सगजं चैव सहमानं शिताञ्छरान्॥
तदा युद्धमभूद्वोरं महेन्द्रवृषपर्वणोः॥ १३.८१ ॥
निपात्य वृषपर्वाणमिंद्रः परबलार्दनः॥ १३.८२ ॥
ततो वज्रेण महता दानवानवधीद्रणे॥
शिरसि च्छेदिताः केचित्केचित्कंधरतो हताः॥ १३.८३ ॥
विह्वलाश्च कृताः केचिदिंद्रेण कुपितेन च॥
तथा यमेन निहता वायुना वरुणेन च॥ १३.८४ ॥
कुबेरेण हताश्चान्ये नैर्ऋतेन तथा परे॥
अग्निना निहताः केचिदीशेनैव विदारिताः॥ १३.८५ ॥
एवं तदा तैर्निहता बलीयसो महासुरा विक्रमशानिनश्च॥
सुरैस्तु सर्वैः सह लोकपालैः शिवप्रसादा भिहतास्तदानीम्॥ १३.८६ ॥
ततो महादैत्यवरो दुरात्मा स कलानेमिः परमास्त्रयुक्तः॥
ययौ तदानीं सुरसत्तमांस्तान्हंतुं सदा क्रूरमतिः स एकः॥ १३.८७ ॥
सिंहारूढो दंशितश्च त्रिशुलेन हि संयुतः॥
दैत्यानामर्बुदेनैव सिंहारूढेन संवृतः॥ १३.८८ ॥
ते सिंहा दंशिताः सर्वे महाबलपराक्रमाः॥
तेषु सिंहेषु चारूढा महादैत्याश्च तत्समाः॥ १३.८९ ॥
आयांतीं दैत्यसेनां तां सर्वां सिंहविभूषिताम्॥
कालनेमियुतां दृष्ट्वा देवा इंद्रपुरोगमाः॥
भयमाजग्मुरतुलं तदा ध्यानपरा भवन्॥ १३.९० ॥
किं कुर्मोऽद्य वयं सर्वे कथं जेष्याम चाद्भुतम्॥
एतादृशमसंख्याकमनीकं सिंहसंवृतम्॥ १३.९१ ॥
एवं विचिंत्यमानास्ते ह्यागतस्तत्र नारदः॥
नारदेन च तत्सर्वं पुरावृत्तं महत्तरम्॥ १३.९२ ॥
कथितं च महेंद्राय कालनेमेस्तपोबलम्॥
अजेयत्वं च संग्रामे वरदानबलेन तु॥ १३.९३ ॥
विष्णुं विना वयं देवा अशक्ता रणमंडले॥
जेतुं च स ततो विष्णुः स्मर्यतां परमेश्वरः॥
तमालनीलो वरदः सर्वैर्विजयकांक्षिभिः॥ १३.९४ ॥
नारदस्य वचः श्रुत्वा तदा देवास्त्वरान्विताः॥
ध्यानेन च महाविष्णुं ततः परबलार्द्दनम्॥
स्मरंतः परमात्मानमिदमूचुश्च तं विभुम्॥ १३.९५ ॥
॥ देवा ऊचुः॥
नमस्तुभ्यं भगवते नमस्ते विश्वमंगलम्॥
श्रीनिवास नमस्तुभ्यं श्रीपते ते नमोनमः॥ १३.९६ ॥
अद्यास्मान्भयभीतांस्त्वं कालनेमिभयार्दितान्॥
त्रातुमर्हसि दैत्याच्च देवानामभयप्रद॥ १३.९७ ॥
एवं ध्यातः संस्मृतश्च प्रादुर्भूतो हरिस्तदा॥
नीलो गरुडमारुह्य जगतामभयप्रदः॥ १३.९८ ॥
चक्रपाणिस्तदायातो देवानां विजयाय च॥
गगनस्थं महाविष्णुं गरुडोपरि संस्थितम्॥
श्रीवासमेनं दुर्द्धर्षं योद्धुकामं ददर्शिरे॥ १३.९९ ॥
तथा दृष्ट्वा कालनेमिस्तदानीं प्रहस्यमानोऽतिरुषा बलान्वितः॥
कस्त्वं महाभाग वरेण्यरूपः श्यामो युवा वारणमत्तविक्रमः॥
करे गृहीतं निशितं महाप्रभं चक्रं च कस्मात्कथयस्व मे प्रभो॥ १३.१०० ॥
॥श्रीभगवानुवाच॥
युद्धार्थमिह चायातो देवानां कार्यसिद्धये॥
त्वं स्थिरो भव रे मंद दहाम्यद्य न संशयः॥ १३.१०१ ॥
श्रुत्वा भगवतो वाक्यं कालनेमिः प्रतापवान्॥
उवाच रुषितो भूत्वा भगवंतमधोक्षजम्॥ १३.१०२ ॥
मूलभूतो हि देवानां भगवान्युद्धदुर्मदः॥
युद्धं कुरु मया सार्द्धं यदि शूरोऽसि संप्रति॥ १३.१०३ ॥
प्रहस्य भगवान्विष्णुरुवाचेदं महाप्रभः॥
गगनस्थो भव त्वं हि महीस्थोऽहं भवामि वै॥ १३.१०४ ॥
अप्रशस्तं च विषमं युद्धं चैव यथा भवेत्॥
तथा कुरु महाबाहो गगनो वा महीतले॥ १३.१०५ ॥
तथेति मत्वा हि महानुभावो दैत्यैः समेतोऽर्बुदसंख्यकैश्च॥
सिंहोपरिस्थैश्च महानुभावैर्महाबलैः क्रूरतरैस्तदानीम्॥ १३.१०६ ॥
गगनमथ जगाहे मंदमंदं महात्मा ह्यसुरगणसमेतो विश्वरूपं जिघांसुः॥
त्रिशिखमपरमुग्रं गृह्य संदेशचेष्टादशनविकृतवक्त्रो योद्धुकामो हरिं सः॥ १३.१०७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे समुद्रमंथनाख्याने देवासुरसंग्रामवर्णनंनाम त्रयोदशोऽध्यायः॥ १३ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 14
॥लोमश उवाच॥
ततो युद्धमतीवासीदसुरैर्विष्णुना सह॥
ततः सिंहाः सपक्षास्ते दंशिताः परमाद्भुताः॥ १४.१ ॥
असुरैरुह्यमानास्ते रहुत्मंतं व्यदारयन्॥
सिंहास्ते दारितास्तेन खंडशश्च विदारिताः॥ १४.२ ॥
विष्णुना च तदा दैत्याश्चक्रेण शकलीकृताः॥
हतांस्तानसुरान्दृष्ट्वा कालनेमिः प्रतापवान्॥ १४.३ ॥
त्रिशूलेनाहनद्विष्णुं रोषपर्याकुलेक्षणः॥
तमायांतं च जगृहे मुकुंदोऽनाथसंश्रयः॥ १४.४ ॥
करेण वामेन जघान लीलया तं कालनेमिं ह्यसुरं महाबलम्॥
तेनैव शूलेन समाहतोऽसौ मूर्च्छान्वितोऽसौ सहसा पपात॥ १४.५ ॥
पतितः पुनरुत्थाय शनैरुन्मील्य लोचने॥
पुरतः स्थितमालोक्य विष्णुं सर्वगुहाशयम्॥ १४.६ ॥
लब्धसंज्ञोऽब्रवीद्वाक्यं कालनेमिर्महाबलः॥
तव युद्धं न दास्यामि नास्ति लोके स्पृहा मम॥ १४.७ ॥
ये येऽसुरा हता युद्धे अक्षयं लोकमाप्नुयुः॥
ब्रह्मणो वचनात्सद्य इंद्रेण सह संगताः॥ १४.८ ॥
भुंजतो विविधान्भोगान्देववद्विचरंति ते॥
इंद्रेण सहिताः सर्वे संसारे च पतंत्यथ॥ १४.९ ॥
तस्माद्युद्धेन मरणं न कांक्षे क्षणभंगुरम्॥
अन्यजन्मनि मे वीर वैरभावान्न संशयः॥
दातुमर्हसि मे नाथ कैवल्यं केवलं परम्॥ १४.१० ॥
तथेति दैत्यप्रवरो निपातितः परेण पुंसा परमार्थदेन॥
दत्त्वाऽभयं देवतानां तदानीं तथा सुधां देवताभ्यः प्रदत्त्वा॥ १४.११ ॥
कालनेमिर्हतो दैत्यो देवा जाता ह्यकटकाः॥
शल्यरूपो महान्सद्यो विष्णुना प्रभविष्णुना॥ १४.१२ ॥
तिरोधानं गतः सद्यो भगवान्कमलेक्षणः॥
इंद्रोऽपि कदनं कृत्वा दैत्यानां परमाद्भुतम्॥ १४.१३ ॥
पतितानां क्लीबरूपाणां भग्नानां भीतचेतसाम्॥
मुक्तकच्छशिखानां च चक्रे स कदनक्रियाम्॥ १४.१४ ॥
अर्थशास्त्रपरो भूत्वा महेंद्रो दुरातिक्रमः॥
दैत्यानां कालरूपोऽसौ शचीपतिरुदारधीः॥ १४.१५ ॥
एवं निहन्य्मानानामसुराणां शचीपतेः॥
निवारणार्थं भगवानागतो नारदस्तदा॥ १४.१६ ॥
॥ नारद उवाच॥
युद्धहताश्च ये वीरा ह्यसुरा रणमण्डले॥
तेषामनु कथं कर्ता भीतानां च विहिंसनम्॥ १४.१७ ॥
ये भीतांश्च प्रपन्नांश्चघातयंति मदोद्धताः॥
ब्रह्मघ्नास्तेऽपि विज्ञेया महापातकसंयुताः॥ १४.१८ ॥
तस्मात्त्वया न कर्त्तव्यं मनसापि विहिंसनम्॥
एवमुक्तस्तदा शक्रो नारदेन महात्मना॥ १४.१९ ॥
सुरसेनान्वितः सद्य आगतो हि त्रिविष्टपम्॥
तदा सर्वे सुरगणाः सुहृद्भ्यश्च परस्परम्॥
बभूवुर्मुदिताः सर्वे यक्षगंधर्वकिंनराः॥ १४.२० ॥
तदा इंद्रोऽमरावत्यां हस शच्याऽभिषेचितः॥ १४.२१ ॥
देवर्षिप्रमुखैश्चैव ब्रह्मर्षिप्रमुखैस्तथा॥
शक्रोऽपि विजयं प्राप्तः प्रसादाच्छंकरस्य च॥ १४.२२ ॥
तदा महोत्सवो विप्रा देवलोके महानभूत्॥
शंखाश्च पटहाश्चैव मृदंगा मुरजा अपि॥
तथानकाश्च भेर्यश्च नेदुर्दुंदुभयः समम्॥ १४.२३ ॥
गायकाश्चैव गंधर्वाः किन्नराश्चाप्सपोगणाः॥
ननृतुर्जगुस्तुष्टुवुश्च सिद्धचारणगुह्यकाः॥ १४.२४ ॥
एवं विजयमापन्नः शक्रो देवेस्वरस्तदा॥
देवैर्हतास्तदा दैत्याः पतितास्ते महीतले॥ १४.२५ ॥
गतासवो महात्मानो बलिप्रमुखतो ह्यमी॥
तपस्तप्तुं पुरा विप्रो भार्गवो मानसोत्तरम्॥ १४.२६ ॥
गतः शिष्यैः परिवृतस्तस्माद्युद्धं न वेद तत्॥
अवशेषाश्च ये दैत्यास्ते गता भार्गवं प्रति ॥ १४.२७ ॥
कथितं वै महद्धृत्तमसुराणां क्षयावहम्॥
निशम्य मन्युमाविष्टो ह्यागतो भृगुनंदनः॥ १४.२८ ॥
शिष्यैः परिवृतो भूत्वा मृतांस्तानसुरानपि॥
विद्यया मृतजीविन्या पतितान्समजीवयत्॥ १४.२९ ॥
निद्रापायगता यद्वदुत्थितास्ते तदाऽसुराः॥
उत्थितः स बलिः प्राह भार्गवं ह्यमितद्युतिम्॥ १४.३० ॥
जीवितेन किमद्यैव मम नास्ति प्रयोजनम्॥
पातितस्त्रिदशेंद्रेण यथा कापुरुषस्तथा॥ १४.३१ ॥
बलिनोक्तं वचः श्रुत्वा शुक्रो वचनमब्रवीत्॥
मनस्विनो हि ये शूराः पतंति समरे बुधा॥ १४.३२ ॥
ये शस्त्रेण हताः सद्यो म्रियमाणा व्रजंति वै॥
त्रिविष्टपं न संदेह इति वेदानुशासनम्॥ १४.३३ ॥
एवमाश्वासयामास बलिनं भृगुनंदनः॥
तपस्तताप विविधं दैत्यानां सिद्धिदायकम्॥ १४.३४ ॥
तथा दैत्य गताः सर्वे भृगुणा च प्रचोदिताः॥
पातालमवसन्सर्वे बलिमुख्याः सुखेन वै॥ १४.३५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे देवासुरसंग्रामे भार्गवेण मृतदैत्यसंजीवनवर्णनंनाम चतुर्दशोऽध्यायः॥ १४ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 15
॥ ऋषय ऊचुः॥
राज्यं प्राप्तो हि देवेंद्रः कथितस्ते गुरुं विना॥
गुरोरवज्ञया जातो राज्यभ्रंशो हि तस्य तु॥ १५.१ ॥
केन प्रणोदितश्चेंद्रो बभूव चिरमासने॥
तत्सर्वं कथयाशु त्वं परं कौतूहलं हि नः॥ १५.२ ॥
॥लोमश उवाच॥
गुरुणापि विना राज्यं कृतवान्स शचीपतिः॥
विश्वरूपोक्तविधिना इंद्रो राज्ये स्थितो महान्॥ १५.३ ॥
विश्वकर्मसुतो विप्रा विश्वरूपो महानृपः॥
पुरोहितोऽथ शक्रस्य याजकश्चाभवत्तदा॥ १५.४ ॥
तस्मिन्यज्ञेऽवदानैश्च यजने असुरान्सुरान्॥
मनुष्यांश्चैव त्रिशिरा अपरोक्षं शचीपतेः॥ १५.५ ॥
देवान्ददाति साक्रोशं दैत्यांस्तूष्णीमथाददात्॥
मनुष्यान्मध्यपातेन प्रत्यहं स ग्रहान्द्विजः॥ १५.६ ॥
एकदा तु महेंद्रेण सूचितो गुरुलाघवात्॥
अलक्ष्यमाणेन तदा ज्ञातं तस्य चिकीर्षितम्॥ १५.७ ॥
दैत्यानां कार्यसिद्ध्यर्थमवदानं प्रयच्छति॥
असौ पुरोहितोऽस्माकं परेषां च फलप्रदः॥ १५.८ ॥
इति मत्वा तदा शक्रो वज्रेण शतपर्वणा॥
चिच्छेद तच्छिरांस्येव तत्क्षणादभवद्वधः॥ १५.९ ॥
येनाकरोत्सोमपानमजायंत कपिंजलाः॥
ततोन्येन सुरापानात्कलविंका भवन्मुखात्॥ १५.१० ॥
अन्याननादजायंत तित्तिरा विश्वरूपिणः॥
एवं हतो विश्वरूपः शक्रेण मंदभागिना॥ १५.११ ॥
ब्रह्महत्या तदोद्भूता दुर्धर्षा च भयावहा॥
दुर्धर्षा दुर्मुखा दुष्टा चण्डालरजसान्विता॥ १५.१२ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः॥
इत्येषामप्यघवतामिदमेव च निष्कृतिः॥ १५.१३ ॥
नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः॥
त्रिशिरा धूम्रहस्ता सा शक्रं ग्रस्तुमुपाययौ॥ १५.१४ ॥
ततो भयेन महता पलायनपरोऽभवत्॥
पलायमानं तं दृष्ट्वा ह्यनुयाता भयावहा॥ १५.१५ ॥
यतो धावति साऽधावत्तिष्ठंतमनुतिष्ठति॥
अंगकृता यथा छाया शक्रस्यपरिवेष्टितुम्॥
आयाति तावत्सहसा इंद्रोऽप्यप्सु न्यमज्जत॥ १५.१६ ॥
शीघ्रत्वेन यथा विप्राश्चिरंतनजलेचरः॥ १५.१७ ॥
एवं दिव्यशतं पूर्णं वर्षाणां च शचीपतेः॥
वसतस्तस्य दुःखेन तथा चैव शतद्वयम्॥
अराजकं तदा जातं नाकपृष्ठे भयावहम्॥ १५.१८ ॥
तदा चिंतान्विता देवा ऋषयोऽपि तपस्विनः॥
त्रैलोक्यं चाऽऽपदा ग्रस्तं बभूव च तदा द्विजाः॥ १५.१९ ॥
एकोऽपि ब्रह्महा यत्र राष्ट्रे वसति निर्भयः॥
अकालमरणं तत्र साधूनामुपजायते॥ १५.२० ॥
राजा पापयुतो यस्मिन्राष्ट्रे वसति तत्र वै॥
दुर्भिक्षं चैव मरणं तथैवोपद्रवा द्विजाः॥ १५.२१ ॥
भवंति बहवोऽनर्थाः प्रजानां नाशहेतवे॥
तस्माद्राज्ञा तु कर्तव्यो धर्म्मः श्रद्धापरेण हि॥ १५.२२ ॥
तथा प्रकृतयो राज्ञः शुचजित्वेन प्रतिष्ठिताः॥
इन्द्रेण च कृतं पापं तेन पापेन वै द्विजाः॥
नानाविधैर्महातापैः सोपद्रवमभूज्जगत्॥ १५.२३ ॥
॥शौनक उवाच॥
अश्वमेधशतेनैव प्राप्तं राज्यं महत्तरम्॥
देवानामखिलं सूत कस्माद्विघ्रमजायत॥
शक्रस्य च महाभाग यथावत्कथयस्व न॥ १५.२४ ॥
॥सूत उवाच॥
देवानां दानवानां च मनुष्याणां विशेषतः॥
कर्म्मैव सुखदुःखानां हेतुभूतं न संशयः॥ १५.२५ ॥
इन्द्रेण च कृतं विप्रा महद्भूतं जुगुप्सितम्॥
गुरोरवज्ञा च कृता विश्वरूपवधः कृतः॥ १५.२६ ॥
गौतमस्य गुरोः पत्नी सेविता तस्य तत्फलम्॥
प्राप्तं महेंद्रेण चिरं यस्य नास्ति प्रतिक्रिया॥ १५.२७ ॥
ये हि दृष्कटतकर्म्माणो न कुर्वंति च निष्कृतिम्॥
दुर्दशां प्रप्नुवन्त्येते यथैवेन्द्रः शतक्रतुः॥ १५.२८ ॥
दुष्कृतोपार्जितस्या तः प्रायाश्चित्तं हि तत्क्षणात्॥
कर्तव्यं विधिवद्विप्राः सर्वपापोपशांतये॥ १५.२९ ॥
उपपातकमध्यस्तं महापातकतां व्रजेत्॥ १५.३० ॥
ततः स्वधर्मनिष्ठां च ये कुर्वंति सदा नराः॥
प्रातर्मध्याह्नसायाह्ने तेषां पापं विनश्यति॥ १५.३१ ॥
प्राप्नुवंत्युत्तमं लोकं नात्र कार्या विचारणा॥
तस्मादसौ दुराचारः प्राप्ते वै कर्मणः फलम्॥ १५.३२ ॥
स प्रधार्य तदा सर्वे लोकपालास्त्वरान्विताः॥
बृहस्पतिमुपागम्य सर्वमात्मनि धिष्ठितम्॥
कथयामासुरव्यग्रा इंद्रस्य च गुरुं प्रति॥ १५.३३ ॥
देवैरुक्तं वचो विप्रा निशम्य च बृहस्पतिः॥
अराजकं च संप्राप्तं चिंतयामास बुद्धिमान्॥ १५.३४ ॥
किं कार्यं चाद्य कर्तव्यं कथं श्रेयो भविष्यति॥
देवानां चाद्य लोकानामृषीणां भावितात्मनाम्॥ १५.३५ ॥
मनसैव च तत्सर्वं कार्याकार्यं विचार्य च॥
जगाम शक्रं त्वरितो देवैः सह महायशाः॥ १५.३६ ॥
प्राप्तो जलाशयं तं च यत्रास्ते हि पुरंदरः॥
यस्य तीरे स्थिता हत्या चंडालीव भयावहा॥ १५.३७ ॥
तत्रोविष्टास्ते सर्वे देवा ऋषिगणान्विताः॥
आह्वानं च कृतं तस्य शक्रस्य गुरुणा स्वयम्॥ १५.३८ ॥
समुत्थितस्ततः शक्रो ददर्श स्वगुरुं तदा॥
बाष्पपूरितवक्त्रो हि बृहस्पतिमभाषत॥ १५.३९ ॥
प्रणिपत्य च तत्रत्यान्कृताञ्जलिरभाषत॥
तदा दीनमुखो भूत्वा मनसा संविमृश्य च॥ १५.४० ॥
स्वयमेव कृतं पूर्वमज्ञानलक्षणं महत्॥
अधुनैव मया कार्यं किं कर्तव्यं वद प्रभो॥ १५.४१ ॥
प्रहस्योवाच भगवान्बृहस्पति रुदारधीः॥
पुरा त्वया कृतं यच्च तस्येदं कर्मणः फलम्॥ १५.४२ ॥
मां च उद्दिश्य भो इंद्र तद्भोगादेव संक्षयः॥
प्रायश्चितं हि हत्याया न दृष्टं स्मृतिकारिभिः॥ १५.४३ ॥
अज्ञानतो हि यज्जातं पापं तस्य प्रतिक्रिया॥
कथिता धर्म्मशास्त्रज्ञैः सकामस्य न विद्यते॥ १५.४४ ॥
सकामेन कृतं पापमकामं नैव जायते॥
ताभ्यां विषयभेदेन प्रायश्चित्तं विधीयते॥ १५.४५ ॥
मरणांतो विधिः कार्यो कामेन हि कृतेन हि॥
अज्ञानजनिते पापे प्रायश्चित्तं विधीयते॥ १५.४६ ॥
तस्मात्त्वया कृतं यच्च स्वयमेव हतो द्विजः॥
पुरोहितश्च विद्वांश्च तस्मान्नास्ति प्रतिक्रिया॥ १५.४७ ॥
यावन्मरणमप्येति तावदप्सु स्थिरो भव॥ १५.४८ ॥
शताश्वमेधसंज्ञं च यत्फलं तव दुर्मते॥
तन्नष्टं तत्क्षणादेव घातितो हि द्विजो यदा॥ १५.४९ ॥
सच्छिद्रे च यथा तोयं न तिष्ठति घटेऽण्वपि॥
तथैव सुकृतं पापे हीयते च प्रदक्षिणम्॥ १५.५० ॥
तस्माच्च दैवसंयोगात्प्राप्तं स्वर्गादिकं च यैः॥
यथोक्तं तद्भवेत्तेषां धर्मिष्ठानां न संशयः॥ १५.५१ ॥
एतच्छ्रुत्वा वचस्तस्य शक्रो वचनमब्रवीत्॥
कुकर्मणा मदीयेन प्राप्तमेतन्न संशयः॥ १५.५२ ॥
अमरावती माशु त्वं गच्छ देवर्षिबिः सह॥
लोकानां कार्यसिद्ध्यर्थे देवानां च बृहस्पते॥
इंद्रं कुरु महाभाग यस्ते मनसि रोचते॥ १५.५३ ॥
यथा मृतस्तथा हं वै ब्रह्महत्यावृतो महान्॥
रागद्वेषसमुत्थेन पापेनास्मि परिप्लुतः॥ १५.५४ ॥
तस्मात्त्वरान्विता यूयं देवराजानमाशुः वै॥
कुर्वतु मदनुज्ञाताः सत्यं प्रतिवदामि वः॥ १५.५५ ॥
एवमुक्तास्तदा सर्वे बृहस्पतिपुरोगमाः॥
एत्यामरावतीं तूर्णं पुरंदरविचेष्टितम्॥
कथयामासुरव्यग्रा शचीं प्रति यथा तथा॥ १५.५६ ॥
राज्यस्य हेतोः किं कार्यं विमृशंतः परस्परम्॥ १५.५७ ॥
एवं विमृश्यमानानां देवानां तत्र नारदः॥
यदृच्छयागतस्तत्र देवर्षिरमितद्युतिः॥ १५.५८ ॥
उवाच पूजितो देवान्कस्माद्यूयं विचेतसः॥
तेनोक्ताः कथयामासुः सर्वं शक्रस्य चेष्टितम्॥ १५.५९ ॥
गतमिंद्रस्य चेंद्रत्वमेनसा परमेण तु॥
ततः प्रोवाच तान्देवान्देवर्षिर्नारदो वचः॥ १५.६० ॥
यूयं देवाश्च सर्वज्ञास्तपसा विक्रमेण च॥
तस्मादिंद्रो हि कर्तव्यो नहुषः सोमवंशजः॥ १५.६१ ॥
सोऽस्मिन्राष्ट्रे प्रतिष्ठाप्यस्त्वरितेनैव निर्जराः॥
एकोनमश्वमेधानां शतं तेन महात्मना॥
कृतमस्ति महाभागा नहुषेण च यज्वना॥ १५.६२ ॥
शच्या श्रुतं च तद्वाक्यं नारदस्य मुखोद्गतम्॥
गतांतःपुरमव्यग्रा बाष्पपूरितलोचना॥ १५.६३ ॥
नारदस्य वचः श्रुत्वा सर्वे देवान्वमोदयन्॥ १५.६४ ॥
नहुषं राज्यमारोढुमैकपद्येन ते यदा॥
आनीतो हि तदा राजा नहुषो ह्यमरावतीम्॥ १५.६५ ॥
राज्यं दत्तं महेंद्रस्य सुरैः सर्वैर्महर्षिभिः॥
तदागस्त्यादयः सर्वे नहुषं पर्युपासत॥ १५.६६ ॥
गंधर्वाप्सरसो यक्षा विद्याधरमहोरगाः॥
यक्षाः सुपर्णाः पतगा ये चान्ये स्वर्गवासिनः॥ १५.६७ ॥
तदा महोत्सवो जातो देवपुर्यां निरंतरः॥
शंखतूर्यमृदंगानि नेदुर्दुंदुभयः समम्॥ १५.६८ ॥
गायकाश्च जगुस्तत्र तथा वाद्यानि वादकाः॥
नर्तका ननृतुस्तत्र तथा राज्यमहोत्सवे॥ १५.६९ ॥
अभिषिक्तस्तदा तत्र बृहस्पतिपुरोगमैः॥ १५.७० ॥
अर्चितो देवसूक्तैश्च यथा वद्ग्रहपूजनम्॥
कृतवांश्चैव ऋषिभिर्विद्वद्भिर्भावितात्मभिः॥ १५.७१ ॥
तथा च सर्वैः परिपूजितो महान्राजा सुराणां नहुषस्तदानीम्॥
इंद्रासने चेंद् समानरूपः संस्तूयमानः परमेण वर्चसा॥ १५.७२ ॥
सुगंधदीपैश्च सुवाससा युतोऽलंकारभोगैः सुविराजितांगः॥
बभौ तदानीं नहुषो मुनीद्रैः संस्तूयमानो हि तथाऽमरेंद्रैः॥ १५.७३ ॥
इति परमकलान्वितोऽसौ सुरमुनिवरगणैश्च पूज्यमानः॥
नहुषनृपवरोऽभवत्तदानीं हृदि महता हृच्छयेनतप्तः॥ १५.७४ ॥
॥नहुष उवाच॥
इंद्राणी कथमद्यैव नायाति मम सन्निधौ॥
तां चाह्वयत शीघ्रं भो मा विलंबितुमर्हथ॥ १५.७५ ॥
नहुपस्य वचः श्रुत्वा बृहस्पतिरुदारधीः॥
शचीभवनमासाद्य उवाच च सविस्तरम्॥ १५.७६ ॥
शक्रस्य दुर्निमित्तेन ह्यनीतो नहुषोऽत्र वै॥
राज्यार्ते भामिनि त्वं च अर्द्धासनगता भव॥ १५.७७ ॥
शची प्रहस्य चोवाच बृहस्पतिमकल्मषम्॥
असौ न परिपूर्णो हि यज्ञैः शक्रासने स्थितः॥
एकोनमश्वमेधानां शतं कृतमनेन वै॥ १५.७८ ॥
तस्मान्न योग्यो प्रहस्य चोवाच बृहस्पतिमकल्पणषम्॥
असौ न परिपूर्णो हि यज्ञैः शक्रासने स्थितः॥
अवाह्यवाहनेनैव अत्रागत्य लभेत माम्॥ १५.७९ ॥
तथेति गत्वा त्वरितो बृहस्पतिरुवाच तम्॥
नहुषं कामसंतप्तं शच्योक्तं च यथातथम्॥ १५.८० ॥
तथेति मत्वा राजासौ नहुषः काममोहितः॥
विमृश्य परया बुद्ध्या अवाह्यं किं प्रशस्यते॥ १५.८१ ॥
स बुद्ध्या च चिरं स्मृत्वा ब्राह्मणाश्चतपस्विनः॥
अवाह्याश्च भवंत्यस्मादात्मानं वाहयाम्यहम्॥ १५.८२ ॥
द्वाभ्यां च तस्याः प्राप्त्यर्थमिति मे हृदि वर्तते॥
शिबिकां च ददौ ताभ्यां द्विजाभ्यां काममोहितः॥ १५.८३ ॥
उपविश्य तदा तस्यां शिवबिकायां समाहितः॥
सर्पसर्पेति वचनान्नोदयामास तौ तदा॥ १५.८४ ॥
अगस्त्यः शिबिकावाही ततः क्रुद्धोऽशपन्नृपम्॥
विप्राणामवमंता त्वमुन्मत्तोऽजगरो भव॥ १५.८५ ॥
शापोक्तिमात्रतो राजा पतितो ब्राह्मणस्य हि॥
तत्रैवाजगरो भूत्वा विप्रशापो दुरत्ययः॥ १५.८६ ॥
यथा हि नहुषो जातस्तथा सर्वेऽपि तादृशाः॥
विप्राणामवमानेन पतिन्ति निरयेऽशुचौ॥ १५.८७ ॥
तस्मासर्वप्रयत्नेन पदं प्राप्य विचक्षणैः॥
अप्रमत्तैर्नरैर्भाव्यमिहामुत्र च लब्धये॥ १५.८८ ॥
तथैव नहुषः सर्प्पो जातोरण्ये महाभये॥
एवं चैवाभवत्तत्र देवलोके ह्यराजकम्॥ १५.८९ ॥
तथैव ते सुराः सर्वे विस्मयाविष्टचेतसः॥
अहो बत महत्कष्टं प्राप्तं राज्ञा ह्यनेन वै॥ १५.९० ॥
न मर्त्य लोको न स्वर्गो जातो ह्यस्य दुरात्मनः॥
सतामवज्ञया सद्यः सुकृतं दग्धमेव हि॥ १५.९१ ॥
याज्ञिको ह्यपरो लोके कथ्यतां च महामुने॥
तदोवाच महातेजा नारदो मुनिसत्तमः॥ १५.९२ ॥
ययातिं च महाभागा आनयध्वं त्वरान्विताः॥
देवदूतास्तु वै तूर्णं ययातिं द्रुतमानयन्॥ १५.९३ ॥
विमानमारुह्य तदा महात्मा ययौ दिवं देवदूतैः समेतः॥
पुरस्कृतो देववरैस्तदानीं तथोरगैर्यक्षगंधर्वसिद्धैः॥ १५.९४ ॥
आयातः सोऽमरावत्यां त्रिदशैरभितोषितः॥
इंद्रासने चोपविष्टो बभाषे च स सत्वरम्॥ १५.९५ ॥
नारदेनैवमुक्तस्तु त्वं राजा याज्ञिको ह्यसि॥
सतामवज्ञया प्राप्तो नहुषो दंदशूकताम्॥ १५.९६ ॥
ये प्राप्नुवंति धर्मिष्ठा दैवेन परमं पदम्॥
प्राक्तनेनैव मूढास्ते न पश्यंति शुभाशुभम्॥ १५.९७ ॥
पतंति नरके घोरे स्तब्धा वै नात्र संशयः॥ १५.९८ ॥
॥ययातिरुवाच॥
यैः कृतं पुण्यं तेषां विघ्नः प्रजायते॥
अल्पकत्वेन देवर्षे विद्धि सर्वं परं मम॥ १५.९९ ॥
महादानानि दत्तानि अन्नदानयुतानि च॥
गोदानानि बहून्येव भूमिदानयुतानि च॥ १५.१०० ॥
तथैव सर्वाण्यपि चोत्तमानि दानानि चोक्तानि मनीषिभिर्यदा॥
एतानि सर्वाणि मया तदैव दत्तानि काले च महाविधानतः॥ १५.१०१ ॥
यज्ञैरिष्टं वाजपेयातिरात्रैर्ज्योतिष्टोमै राजसूयादिभिश्च॥
शास्त्रप्रोक्तैरश्वमेधादिभिश्च यूपैरेषालंकृता भूः समंतात्॥ १५.१०२ ॥
देवदेवो जगन्नाथ इष्टो यज्ञैरनेकशः॥
गालवाय पुरे दत्ता कन्या त्वेषा च माधवी॥ १५.१०३ ॥
पत्नीत्वेन चतुर्भ्यश्च दत्ताः कन्या मुने तदा॥
गालवस्य गुरोरर्थे विश्वामित्रस्य धीमतः॥ १५.१०४ ॥
एवं भूतान्यनेकानि सुकृतानि मया पुरा॥
महांति च बहून्येव तानि वक्तुं न पार्यते॥ १५.१०५ ॥
भूयः पृष्टः सर्वदेवैः स राजा कृतं सर्वं गुप्तमेव यथार्थम्॥
विज्ञातुमिच्छाम यथार्थतोपि सर्वे वयं श्रोतुकामा ययाते॥ १५.१०६ ॥
वचो निशम्य देवानां ययातिरमितद्युतिः॥
कथयामास तत्सर्वं पुण्यशेषं यथार्थतः॥ १५.१०७ ॥
कथितं सर्वमेतच्च निःशेषं व्यासवत्तदा॥
स्वपुण्यकथनेनैव ययातिरपतद्भुवि॥ १५.१०८ ॥
तत्क्षणादेव सर्वेषां सुराणां तत्र पश्यताम्॥
एवमेव तथा जातमराजकमतंद्रितम्॥ १५.१०९ ॥
अन्यो न दृश्यते लोके याज्ञिको यो हि तत्र वै॥
शक्रासनेऽभिषे कार्यं श्रूयतां हि द्विजोत्तमाः॥ १५.११० ॥
सर्वे सुराश्च ऋषयोऽथ महाफणींद्रा गन्धर्वयक्षखगचारणकिंनराश्च॥
विद्याधराः सुरगणाप्सरसां गणाश्च चिंतापराः समभवन्मनुजास्तथैव॥ १५.१११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे देवेन्द्रस्वाराज्याभिषेकवृत्तान्ते देवेन्द्रस्य ब्रह्महत्ययोपद्रुतौ नहुषशापययातिभूषण्यवृत्तान्तवर्णनंनाम पंचदशोऽध्यायः॥ १५ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 16
॥लोमश उवाच॥
ततः शची तान्प्रोवाच वाचं धर्मार्थसंयुताम्॥
मा चिंता क्रियतां देवा बृहस्पतिपुरोगमः॥ १६.१ ॥
गच्छत त्वरिताः सर्वे शक्रं द्रष्टुं विचक्षणाः॥
ब्रह्महत्याभिभूतोऽसौ यत्रास्ते सुरसत्तमः॥ १६.२ ॥
बहूनां कारणेनैव विश्वरूपे हि मंदधीः॥
हतस्तेन महेंद्रेण सर्वैः सोऽपि निराकृतः॥ १६.३ ॥
तस्मात्सर्वैर्भवद्भिश्च गंतव्यं यत्र स प्रभुः॥
अवज्ञा हि कृता पूर्वं महेंद्रेण तवानघ॥ १६.४ ॥
अवज्ञामात्रक्षुबंधेन त्वया शप्तः पुरंदरः॥
तथैव शापितश्चासि मया त्वं हि बृहस्पते॥ १६.५ ॥
निरस्तोऽपि हि तस्मात्त्वमवसानपरो भव॥ १६.६ ॥
यथा मदर्थमानीतौ शक्रे जीवति तावुभौ॥
त्वयि जीवति भो ब्रहमन्कार्यं तव करिष्यति॥ १६.७ ॥
कोऽपि सौभाग्यवाँल्लोके तव क्षेत्रे जनिष्यति॥
पुत्रं विख्यातनामानमत्रनैवास्ति संशयः॥ १६.८ ॥
गच्छ शीघ्रं सुरैःसार्द्धं शक्रमानय म चिरम्॥
प्रयासि त्वरितो नो चेत्पुनः शापं ददामि ते॥ १६.९ ॥
शच्योक्तं वचनं श्रुत्वा सुरैः सार्द्धं जगाम सः॥
पुरंदरं गताः सर्वे ब्रह्महत्याभिपीडितम्॥ १६.१० ॥
सरसस्तीरमासाद्य ते शक्रं चाभ्यवादयन्॥
दृष्टाः शक्रेम ते सर्वे तदा ह्यप्सु स्थितेन वै॥ १६.११ ॥
उवाच देवानेदेवेशः कस्माद्यूयमिहागताः॥
अहं हि पातकग्रस्तो ब्रह्महत्यापरिप्सुतः॥
अप्सु तिष्ठामि भो देवा एकाकी तपसान्वितः॥ १६.१२ ॥
तच्छ्रुत्वा वचनं तस्य सर्वे देवाः शतक्रतोः॥
ऊचुर्विह्वलिता एनं देवराजानमद्भुतम्॥ १६.१३ ॥
एतादृशं न वाच्यं ते परेषामुपकारतः॥
कृतं त्वयैव यत्कर्म विश्वरूपवधादिकम्॥ १६.१४ ॥
विश्वकर्मसुतेनैव कृतं याजनमद्भुतम्॥
येन देवाः क्षयं यांति ऋषयोऽपि महाप्रभाः॥ १६.१५ ॥
तस्माद्वतस्त्वया देव परेषामुपकारतः॥
ततः सर्वे वयं प्राप्तास्त्वां नेतुममरावतीम्॥ १६.१६ ॥
एवं विवदमानेषु देवेषु च तदाऽब्रवीत्॥
ब्रह्महत्या त्वरायुक्ता देवेंद्रं वरयाम्यहम्॥ १६.१७ ॥
तदा बृहस्पतिर्वाक्यमुवाच सहसैव तु॥ १६.१८ ॥
॥बृहस्पतिरुवाच॥
वासार्थं च करिष्यामः स्थानानि तव सांप्रतम्॥
प्रसांत्विता तदा हत्या देवैस्तत्कार्यगौरवात्॥ १६.१९ ॥
विमृश्य सर्वे विभजुश्चतुर्द्धा हत्यां सुरास्ते ऋषयो मनीषिणः॥
यक्षाः पिशाचा उरगाः पतंगास्तथा च सर्वे सुरसिद्धचारणाः॥ १६.२० ॥
आदौ क्षमां प्रति तदा ऊचुः सर्वे दिवौकसः॥
हे क्षमेंऽशस्त्वया ग्राह्यो हत्यायाः कार्यसिद्धये॥ १६.२१ ॥
सुराणां तद्वचः श्रुत्वा धरित्री कंपिताऽवदत्॥
कथं ग्राह्ये मया ह्यंशो हत्यायास्तद्विमृश्यताम्॥ १६.२२ ॥
अहं हि सर्वभूतानां धात्री विश्वं धराम्यहम्॥
अपवित्रा भविष्यामि एनसा संवृता भृशम्॥ १६.२३ ॥
पृथ्वयास्तद्वचनं श्रुत्वा बृहस्पतिरुवाच ताम्॥
मा भौषीश्चारुसर्वांगि निष्पापासि न चान्यथा॥ १६.२४ ॥
यदा यदुकुले श्रीमान्वासुदेवो भविष्यति॥
तदा तत्पदविन्यासान्नष्पापा त्वं भविष्यसि॥ १६.२५ ॥
कुरु वाक्यं त्वमस्माकं नात्र कार्या विचारणा॥ १६.२६ ॥
इत्युक्ता पृथिवी तेषां निष्पापा साकरोद्वचः॥
ततो वृक्षान्समाहूय सर्वे देवाऽब्रुवन्वचः॥ १६.२७ ॥
हत्यांशो हि ग्रहीतव्यो भवद्भिः कार्यसिद्धये॥
एवमुक्ताऽब्रुवन्वबृक्षा देवान्सर्वे समागताः॥ १६.२८ ॥
वयं सर्वे तथा भूतास्तापसानां फलप्रदाः॥
तदा हत्यान्विताः सर्वे भविष्यंति तपस्विनः॥ १६.२९ ॥
पापिनो हि महाभागास्तस्मात्सर्वं विमृश्यताम्॥
तदा पुरोधसा चोक्ताः सर्वे वृक्षाः समागताः॥ १६.३० ॥
मा चिंता क्रियतां सर्वैः प्रसादाच्च शतक्रतोः॥
छेदिताश्चैव सर्वे वै ह्यनेकांशत्वमागताः॥ १६.३१ ॥
ततो विटपिनो नित्यं यूयं सर्वे भविष्यथ॥
इत्युक्तास्ते तदा सर्वेगृह्णन्हत्यां विभागशः॥ १६.३२ ॥
ततो ह्यपः समाहूय ऊचुः सर्वे दिवौकसः॥
अद्भिश्च गृह्यतामद्य हत्यांशः कार्यसिद्धये॥ १६.३३ ॥
तदा ह्यापो मिलित्वाथ ऊचुः सर्वाः पुरोधसम्॥
यानि कानि च पापानि तथा दुश्चरितानि च॥ १६.३४ ॥
अस्मत्संपर्कसंबंधात्स्नानशौचाशनादिभिः॥
पुनंति प्राणिनः सर्वे पापेन परिवेष्टिताः॥ १६.३५ ॥
तासां वचनमाकर्ण्य बृहस्पतिरुवाच ह॥
मा भयं क्रियतामाप एनसा दुस्तरेण हि॥ १६.३६ ॥
आपः पुनंतु सर्वेषां चराचरनिवासिनाम्॥
तदा स्त्रियः समाहूय बृहस्पतिरुवाच ह॥ १६.३७ ॥
अद्यैव ग्राह्ये हत्यांशः सर्वकार्यार्थसिद्धये॥
निशम्य तद्गुरोर्वाक्यमूचुः सर्वाश्चयोपितः॥ १६.३८ ॥
पापमाचरते योषा तेन पापेन नान्यथा॥
लिप्यंते बहवः पक्षा इति वेदानुशासनम्॥ १६.३९ ॥
श्रुतमस्ति न ते किंचिद्धेपुरोधो विमृश्यताम्॥
योषिद्भिः प्रोच्यमानोऽपि उवाचाथ बृहस्पतिः॥ १६.४० ॥
मा भयं क्रियतां सर्वाः पापादस्मात्सुलोचनाः॥
भविष्याणां तथान्येषां भविष्यति फलप्रदः॥
हत्यांशो यो हि सर्वासां यथाकामित्वमेव च॥ १६.४१ ॥
एवमंशाश्च त्यायाश्चत्वारः कल्पिताः सुरैः॥
निवासमकरोत्सद्यस्तेषुतेषु द्विजोत्तमाः॥ १६.४२ ॥
निष्पापो हि तदा जातो महेंद्रो ह्यभिषेचितः॥
देवपुर्यां सुरगणैस्तथैव ऋषभिः सह॥ १६.४३ ॥
शच्या समेतो हि तदा पुरंदरो बभूव विश्वाधिपतिर्महात्मा॥
देवैः समेतो हि महानुभावैर्मुनीश्वरैः सिद्धगणैस्तदानीम्॥ १६.४४ ॥
तदाग्नयः शोभना वायवश्च सर्वे ग्रहाः सुप्रभाः शांतियुक्ताः॥
जाताः सद्यः पृथिवी शोभमाना तथाद्रयो मणिप्रभवा बभूवुः॥ १६.४५ ॥
प्रसन्नानि तथा ह्यासन्मनांसि च मनस्विनाम्॥ १६.४६ ॥
नद्यश्चामृतवाहिन्यो वृक्षा ह्यासन्सदाफलाः॥
अकृष्टपच्यौषधयो बभूवुश्चमृतोपमाः॥ १६.४७ ॥
ऐकपद्येन सर्वेषामिंद्रलोकनिवासिनाम्॥
बभूव परमोत्साहो महामोदकरस्तथा॥ १६.४८ ॥
॥लोमश उवाच॥
एतस्मिन्नंतरे त्वष्टा दृष्ट्वा चेंद्रमहोत्सवम्॥
बभूव रुषि तोऽतीव पुत्रशोकप्रपीडितः॥ १६.४९ ॥
जगाम निर्वेदपरस्तपस्तप्तुं सुदारुणम्॥
तपसा तेन संतुष्टो ब्रह्मा लोकपितामहः॥ १६.५० ॥
त्वष्टारमब्रवीत्तुष्टो वरं वरय सुव्रत॥
तदा वव्रे वरं त्वष्टा सर्वलोकभयावहम्॥
वरं पुत्रो हि दात्वोय देवानां हि भयावहः॥ १६.५१ ॥
तथेति च वरो दत्तो ब्रह्मणा परमेष्ठिना॥
वरदानात्सद्य एव बभूव पुरुषस्तदा॥ १६.५२ ॥
वृत्रनामांकितस्तत्र दैत्यो हि परमाद्भुतः॥
धनुषां शतमात्रं हि प्रत्यहं ववृधेऽसुरः॥ १६.५३ ॥
पातालान्निर्गता दैत्या ये पुराऽमृतमंथने॥
घातिताः सुरसंघैश्च भृगुणा जीवितास्त्वरात्॥ १६.५४ ॥
सर्वं महीतलं व्याप्तं तेनैकेन महात्मना॥ १६.५५ ॥
तदा सर्वेऽपि ऋषयो वध्यमानास्तपस्विनः॥
ब्रह्माणं त्वरिताः सर्वे ऊचुर्व्यसनमागतम्॥ १६.५६ ॥
तथा चेंद्रादयो देवा गंधर्वाः समरुद्गणाः॥
ब्रह्मणा कथितं सर्वं त्वष्टुश्चैतच्चिकीर्षितम्॥ १६.५७ ॥
भवद्वधार्थं जनितस्तपसा परमेण तु॥
वृत्त्रोनाम महातेजाः सर्वदैत्यापिधो महान्॥ १६.५८ ॥
तथापि यत्नः क्रियतां यथा वध्यो भवेदसौ॥
निशम्य ब्रह्मणो वाक्यमूचुर्द्देवाः सवासवाः॥ १६.५९ ॥
॥ देवा ऊचुः॥
यदा इंद्रो हि हत्याया विमुक्तः स्थापितो दिवि॥
तदास्माभिरकार्यं वै कृतमस्ति दुरासदम्॥ १६.६० ॥
शस्त्राण्यस्त्राण्यनेकानि संक्षिप्तानि ह्यबुद्धितः॥
दधीच स्याश्रमे ब्रह्मन्किं कार्यं करवामहे॥ १६.६१ ॥
तच्छ्रुत्वा प्रहसन्वाक्यं देवान्ब्रह्मा तदाऽब्रवीत्॥
चिरं स्थितानि विज्ञायागच्छध्वं तानि वै सुराः॥ १६.६२ ॥
गत्वा देवास्तदा सर्वे नापश्यन्स्वं स्वमायुधम्॥
पप्रच्छुश्च दधीचिं ते सोऽवादीन्नैव वेद्भयहम्॥ १६.६३ ॥
पुनर्ब्रह्माणमागात्य ऊचुः सर्वे मुनेर्वचः॥ १६.६४ ॥
ब्रह्मोवाच तदा देवान्सर्वेषां कार्यसिद्धये॥
तस्यास्थीन्येव याचध्वं प्रदास्यति न संशयः॥ १६.६५ ॥
तच्छ्रुत्वा ब्राह्मणो वाक्यं शक्रो वचनमब्रवीत्॥ १६.६६ ॥
विश्वरूपो हतो देव देवानां कार्यसिद्धये॥
एक एव तदा ब्रह्मन्पापिष्ठोऽहं कृतः सुरैः॥ १६.६७ ॥
तथा पुरोधसा चैव निःश्रीकस्तत्क्षणात्कृतः॥
दिष्ट्या परमया चाहं प्रविष्टो निजमंदिरम्॥ १६.६८ ॥
दधीचं घातयित्वा वै तस्यास्थीनि बहून्यपि॥
अस्त्राणि तानि भगवन्कृतानि ह्यशुभानि वै॥ १६.६९ ॥
त्वष्ट्रा हि जनितो यो वै वृत्रो नामैष दैत्यराट्॥
कथं तं घातयाम्येवं सततं पापभीरुणा॥
शक्रेणोक्तं निशम्याथ ब्रह्मा वाक्यमुवाच ह॥ १६.७० ॥
अर्थशास्त्रपरेणैव विधिना तमबोधयत्॥
आततायिनमायांतं ब्राह्मणं वा तपस्विनम्॥
हंतुकामं जिघांसीयान्न तेन ब्रह्महा भवेत्॥ १६.७१ ॥
॥इन्द्र उवाच॥
दधीचस्य वधाद्ब्रह्मन्नहं भीतो न संशयः॥
तस्माद्ब्रह्मवधात्सत्यं महदेनो भविष्यति॥ १६.७२ ॥
अतो न कार्यमस्माभिर्ब्राह्मणानां तु हेलनम्॥
हेलनाद्बहवो दोषा भविष्यंति न चान्यथा॥ १६.७३ ॥
अदृष्टं परमं धर्म्यं विधिना परमेण हि॥
कर्तव्यं मनसा चैवं पुरुषेण विजानता॥ १६.७४ ॥
निःस्पृहं तस्य तद्वाक्यं श्रुत्वा ब्रह्मा ह्युवाच तम्॥
शक्रस्वबुद्ध्यावर्तस्व दधीचिं गच्छ सत्वरम्॥ १६.७५ ॥
याचस्व तस्य चास्थीनि दधीचेः कार्यगौरवात्॥
गुरुणा सहितः शक्रो देवैः सह समन्वितः॥ १६.७६ ॥
तथेति गत्वा ते सर्वे दधीचस्याश्रमं शुभम्॥
नानासत्त्वसमायुक्तं वैरबावविवर्जितम्॥ १६.७७ ॥
मार्जारमूषकाश्चैव परस्परमुदान्विताः॥
ऐकपद्येन सिंहाश्च गजिन्यः कलभैः सह॥ १६.७८ ॥
तथा जात्यश्च विविधाः क्रीडायुक्ताः परस्परम्॥
नकुलैः सह सर्पाश्च क्रीडायुक्ताः परस्परम्॥ १६.७९ ॥
एवंविधान्यनेकानि ह्यश्चर्याणि तदाश्रमे॥
पश्यंतो विबुधाः सर्वे विस्मयं परमं ययुः॥ १६.८० ॥
अथासने मुनिश्रेष्ठं ददृशुः परमास्थितम्॥
तेजसा परमेणैव भ्राजमानं यथा रविम्॥ १६.८१ ॥
विभावसुं द्वितीयं वा सुवर्चसहितं तदा॥
यथा ब्रह्मा हि सावित्र्या तथासौ मुनिसत्तमः॥ १६.८२ ॥
तं प्रणम्य ततो देवा वचनं चेदमब्रुवन्॥
त्वं दाता त्रिषु लोकेषु त्वत्सकाशमिहगताः॥ १६.८३ ॥
निशम्य वचनं तेषां देवानां भुनिरब्रवीत्॥
किमर्थ मागताः सर्वे वदध्वं तत्सुरोत्तमाः॥ १६.८४ ॥
प्रयच्छामि न संदेहो नान्यथा मम भाषितम्॥
तदोचुः सहिताः सर्वे दधीचिं स्वार्थकामुकाः॥ १६.८५ ॥
भयभीता वयं विप्र भवद्दर्शनकांक्षिणः॥
त्रातारं त्वां समाकर्ण्य ब्रह्मणा नोदिता वयम्॥ १६.८६ ॥
सम्प्राप्ता विद्धि तत्सर्वं दातुमर्होऽथ सुव्रत॥ १६.८७ ॥
निशम्य वचनं तेषां किं दातव्यं तदुच्यताम्॥ १६.८८ ॥
ततो देवाब्रुवन्विप्र दैत्यानां निधनायनः॥
शस्त्रनिर्माणकार्यार्थं तवास्थीनि प्रयच्छ वै॥ १६.८९ ॥
प्रहस्योवाच विप्रर्षिस्तिष्ठध्वं क्षणमेव हि॥
स्वयमेव त्वहं देवास्त्यक्ष्याम्यद्य कलेवरम्॥ १६.९० ॥
इत्युक्त्वा तानथो पत्नीं समाहूय सुवर्चसम्॥
प्रोवाच स महातेजाः श्रृणु देवी शुचिस्मिते॥ १६.९१ ॥
अस्थ्यर्थं याचितो देवैस्त्यजाम्येतत्कलेवरम्॥
ब्रह्मलोकं व्रजाम्यद्य परमेण समाधिना॥ १६.९२ ॥
मयि याते ब्रह्मलोकं त्वं स्वधर्मेण तत्र माम्॥
प्राप्स्यस्येव न संदेहो वृथा चिन्तां च मा कृथाः॥ १६.९३ ॥
इत्युक्त्वा तां स्वपत्नीं स प्रेषयामास चाश्रमम्॥
ततो देवाग्रतो विप्रः समाधिमगमत्तदा॥ १६.९४ ॥
समाधिना परेणैव विसृज्य स्वं कलेवरम्॥
ब्रह्मलोकं गतः सद्यः पुनर्नावर्तते यतः॥ १६.९५ ॥
दधीचिनामा मुनिवृंदवर्यः शिवप्रियः शिवदीक्षाभियुक्तः॥
परोपकारार्थमिदं कलेवरं शीघ्रं स विप्रोऽत्यजदात्मना तदा॥ १६.९६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे देवैरस्थिकृताऽभ्यर्थितस्य दधीचेर्योगेन स्वदेहविसर्जननाम षोडशोऽध्यायः॥ १६ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 17
॥लोमश उवाच॥
ततः सर्वे सुरगणा दृष्ट्वा तं विलयं गतम्॥
चिंतयंतः सुरगणाः कथं च विदधामहे॥ १७.१ ॥
सुरभिं चाह्वयित्वाथ तदोवाच शचीपतिः॥
कलेवरं दधीचस्य लिह्यास्त्वं वचनान्मम॥ १७.२ ॥
तथेति च वचोमत्वा तत्क्षणादेव लिह्य तत्॥
निर्मांसं च कृतं सद्यस्तया धेन्वा कलेवरम्॥ १७.३ ॥
जगृहुस्तानि चास्थीनि चक्रुः शस्त्राणि वै सुराः॥
तस्य वंशोद्भवं वज्रं शिरो ब्रह्मशिरस्तथा॥ १७.४ ॥
अन्यानि चास्थीनि बहूनि तस्य ऋषेस्तदानीं जगृहुः सुराश्च॥
तथा शिराजालमयांश्च पाशांश्चक्रुः सुरा वैरयुताश्च दैत्यान्॥ १७.५ ॥
शस्त्राणि कृत्वा ते सर्वे महाबलपराक्रमाः॥
ययुर्देवातस्त्वरायुक्ता वृत्रघातनतत्पराः॥ १७.६ ॥
ततः सुवर्च्चाश्च दधीचिपत्नी या प्रेषिता सा सुरकार्यसिद्धये॥
व्यलोकयत्तत्र समेत्य सर्वं मृतं पतिं देहमथो ददर्शतम्॥ १७.७ ॥
ज्ञात्वा च तत्सर्वमिदं सुराणां कृत्यं तदानीं च चुकोप साध्वी॥
ददौ सती शापमतीव रुष्टा तदा सुवर्चा ऋषिवर्यपत्नी॥ १७.८ ॥
अहो सुरा दुष्टतराश्च सर्वे सर्वे ह्यशक्ताश्च तथैव लुब्धाः॥
तस्माच्च सर्वेऽप्रजसो भवंतु दिवौकसोऽद्यप्रभृतित्युवाच सा॥ १७.९ ॥
एव शापं ददौ तेषां सुराणां सा तपस्विनी॥
प्रवीश्याश्वत्थमूले सा स्वोदरं दारयत्तदा॥ १७.१० ॥
निर्गतो जठराद्गर्भो दधीचस्य महात्मनः॥
साक्षाद्रुद्रावतारोऽसौ पिप्लादो महाप्रभः॥ १७.११ ॥
प्रहस्य जननी गर्भमुवाच रुषितेक्षणा॥
सुवर्चा तं पिप्पलादं चिरं तिष्ठास्य सन्निधौ॥ १७.१२ ॥
अश्वत्थस्य महाभाग सर्वेषां सफलो भवेः॥
तथैव भाषमाणा सा सुवर्चा तनयं प्रति॥
पतिमन्वगमत्साध्वी परमेण समाधिना॥ १७.१३ ॥
एवं दधीचपत्नी सा पतिना स्वर्गमाव्रजत्॥ १७.१४ ॥
ते देवाः कृतशस्त्रास्त्रा दैत्यान्प्रति समुत्सुकाः॥
आजग्मुश्चेंद्रमुख्यास्ते महाबलपराक्रमाः॥ १७.१५ ॥
गुरुं पुरस्कृत्य तदाज्ञया ते गणाः सुराणां बहवस्तदानीम्॥
भुवं समागत्य च मध्यदेशमूचुश्च सर्वे परमास्त्रयुक्ताः॥ १७.१६ ॥
समागतानुपसृत्य देवांश्चेंद्रपुरोगमान्॥
ययौ वृत्रो महादैत्यो दैत्यवृन्दसमावृतः॥ १७.१७ ॥
यथा मेरोश्च शिखरं परिपूर्णं प्रदृश्यते॥
तथा सोऽपि महातेजा विश्वकर्म्मसुतो महान्॥ १७.१८ ॥
तेन दृष्टो महेन्द्रश्च महेंद्रेण महासुरः॥
देवानां दानवानां च दर्शनं च महाद्भुतम्॥ १७.१९ ॥
तदा ते बद्धवैराश्च देवदैत्याः परस्परम्॥
अन्योन्यमभिसंरब्धा जगर्जुः परमाद्भुतम्॥ १७.२० ॥
वादित्राणि च भीमानि वाद्यमानानि सर्वशः॥
श्रूयंतेऽत्र गभीराणि सुरा सुरसमागमे॥ १७.२१ ॥
वाद्यमानेषु तूर्येषु ते सर्वे त्वरयान्विताः॥
अनेकैः शस्त्रसंघातैर्जघ्नुरन्योन्यमोजसा॥ १७.२२ ॥
तदा देवासुरे युद्धे त्रैलोक्यं सचराचरम्॥
भयेन महता युक्तं बभूव गतचेतनम्॥ १७.२३ ॥
छेदिताः स्फोटिताश्चैव केचिच्छस्त्रैर्द्विधा कृताः॥
नाराचैश्च तथा केचिच्छस्त्रास्त्रैः शकलीकृताः॥ १७.२४ ॥
भल्लैश्चेरुर्हताः केचिद्व्यंगभूता दिवौकसः॥
रश्मयो मेघसंभूताः प्रकाशंते नभस्स्विव॥ १७.२५ ॥
शिरांसि पतितान्येव बहूनिच नभस्तलात्॥
नक्षत्राणीव च यथा महाप्रलयसंकुलम्॥ १७.२६ ॥
प्रवर्तितं मध्यदेशे सर्वबूतक्षयावहम्॥
शक्रेण सह संग्रामं चकार नमुचिस्तदा॥ १७.२७ ॥
वज्रेण जघ्ने तरसा नमुचिं देवराट् स्वयम्॥
न रोमैकं च त्रुचितं तमुचेरसुरस्य च॥ १७.२८ ॥
वज्रेणापि तदा सर्वे विस्मयं परमं गताः॥
असुराश्च सुराश्चैव महेंद्रो व्रीडितस्तदा॥ १७.२९ ॥
गदया नमुचिं जघ्ने गदा सापि विचूर्णिता॥
नमुचेरंगलग्नापि पपात वसुधातले॥ १७.३० ॥
तथा शूलेन महता तं जघान पुरंदरः॥
तच्छूलं शतधा चूर्णं नमुचेरंगमाश्रितम्॥ १७.३१ ॥
एवं तं वविधैः शस्त्रैराजघान सुरारिहा॥
प्रहस्य मानो नमुचिर्न जघान पुरंदरम्॥ १७.३२ ॥
तूष्णींभूतस्तदा चेंद्रश्चिंतया परया युतः॥
किं कार्यं किमकार्यं वा इतींद्रो नाविदत्तदा॥ १७.३३ ॥
एतस्मिन्नंतरे तत्र महायुद्धे महाभये॥
जाता नभोगता वाणी इंद्रसुद्दिश्य सत्वरम्॥ १७.३४ ॥
जह्येनमद्याशु महेंद्र दैत्यं दिवौकसां घोरतरं भयावहम्॥
फेनेन चैवाशु महासुरेन्द्रमपां समीपेन दुरासदेन॥ १७.३५ ॥
अन्येन शस्त्रेण च आहतोऽसौ वध्यः कदाचिन्न भवत्ययं तु॥
तस्माच्च देवेश वधार्थमस्य कुरु प्रयत्नं नमुचेर्दुरात्मनः॥ १७.३६ ॥
निशम्य वाचं परमार्थयुक्तां दैवीं सदानंदकरीं शुभावहाम्॥
चक्रे परं यत्नवतां वरिष्ठो गत्वोदधेः पारमनंतवीर्यः॥ १७.३७ ॥
तत्रागतं समीक्ष्याथ नमुचिः क्रोधमूर्छितः॥
हत्वा शूलेन देवेंद्रं प्रहसन्निदमब्रवीत्॥ १७.३८ ॥
समुद्रस्य तटः कस्मात्सेवितः सुरसत्तम॥
विहाय रणभूमिं च त्यक्तशस्त्रोऽभवद्भवान्॥ १७.३९ ॥
त्वदीयेनैव वज्रेण किं कृतं मम दुर्मते॥ १७.४० ॥
तथान्यानि च शस्त्राणि अस्त्राणि सुबहूनि च॥
गृहीतानि पुरा मंद हंतुं मामेव चाधुना॥ १७.४१ ॥
किं करिष्यसि मां हंतुं युद्धाय समुपस्थितः॥
केन शस्त्रेण रे मंद योद्धुमिच्छसि संयुगे॥ १७.४२ ॥
त्वां गातयामि चाद्यैव यदि तिष्ठसि संयुगे॥
नो चेद्गच्छ मया मुक्तश्चिरं जीव सुखी भव॥ १७.४३ ॥
एवं स गर्वितं तस्य वाक्यमाहवशोभिनः॥
श्रुत्वा महेंद्रोऽपि रुषा जगृहे फेनमद्भुतम्॥ १७.४४ ॥
फेनं करस्थं दृष्ट्वा तु असुरा जहसुस्तदा॥ १७.४५ ॥
क्षयं गतानि चास्त्राणि पेनेनैव पुरंदरः॥
हंतुमिच्छति मामद्य शतक्रतुरुदारधीः॥ १७.४६ ॥
एवं प्रहस्य नमुचिरज्ञाय पुरंदरम्॥
सावज्ञं पुरतस्तस्थौ नमुचिर्दैत्यपुंगवः॥ १७.४७ ॥
तदैव तं स फेनेन शीघ्रमिंद्रो जघान ह॥ १७.४८ ॥
हते तु नमुचौ देवाः सर्वे चैव मुदान्विताः॥
साधुसाध्विति शब्देन ऋषयश्चाभ्यपूजयन्॥ १७.४९ ॥
तदा सर्वे जयं प्राप्ता हत्वा नमुचिमाहवे॥
दैत्यास्ते कोपसंरब्धा योद्धुकामा मुदान्विताः॥ १७.५० ॥
पुनः प्रववृते युद्धं देवानां दानवैः सह॥
शस्त्रास्त्रैर्बहुधा मुक्तैः परस्परवधैषिबिः॥ १७.५१ ॥
यदा ते ह्यसुरा देवैः पातिताश्च पुनःपुनः॥
तदा वृत्रो महातेजाः शतक्रतुमुपाव्रजत्॥ १७.५२ ॥
वृत्रं दृष्ट्वा तदा सर्वे ससुरासुरमानवाः॥
भयेन महताविष्टाः पतिता भुवि शेरते॥ १७.५३ ॥
एवं भीतेषु सर्वेषु सुरसिद्धेषु वै तदा॥
इंद्रश्चैरावणारूढो वज्रपाणिः प्रतापवान्॥ १७.५४ ॥
छत्रेण ध्रियमाणेन चामरेण विराजितः॥
तदा सर्वैः समेतो हि लोकपालैः प्रतापितः॥ १७.५५ ॥
वृत्रं विलोक्य ते सर्वे लोकपाला महेश्वराः॥
भयभीताश्च ते सर्वे शिवं शरणमन्वयुः॥ १७.५६ ॥
मनसाचिंतयन्सर्वे शंकरं लोकशंकरम्॥
लिंगं संपूज्य विधिवन्महेंद्रो जयकामुकः॥ १७.५७ ॥
गुरुणा विदितः सद्यो विश्वासेन परेण हि॥
उवाच च तदा शक्रं बृहस्पतिरुदारधीः॥ १७.५८ ॥
॥बृहस्पतिरुवाच॥
कार्तिके शुक्लपक्षे तु मंदवारे त्रयोदशी॥
समग्रा यदि लभ्येत सर्वप्राप्तयै न संशयः॥ १७.५९ ॥
तस्यां प्रदोषसमये लिंगरूपी सदाशिवः॥
पूजनीयो हि देवेंद्र सर्वकामार्थसिद्धये॥ १७.६० ॥
स्नात्वा मध्याह्नसमये तिलामलकसंयुतम्॥
शिवस्य कुर्याद्गंधपुष्पफलादिभिः॥ १७.६१ ॥
पश्चात्प्रदोषवेलायां स्थावरं लिंगमर्च्चयेत्॥
स्वयंभु स्थापितं चापि पौरुषेयमपौरुषम्॥ १७.६२ ॥
जने वा विजने वापि अरण्ये वा तपोवने॥
तल्लिंगमर्च्चयेद्भक्त्या प्रदोषे तु विशेषतः॥ १७.६३ ॥
ग्रामद्बहिः स्थितं लिंगं ग्रामाच्छतगुणं फलम्॥
ब्राह्मच्छतगुणं पुण्यमरण्ये लिंगमद्भुतम्॥ १७.६४ ॥
आरण्याच्छतगुणं पुण्यमर्चितं पार्वतं यथा॥
पार्वताच्चैव लिंगाच्च फलं चायुतसंज्ञितम्॥
तपोवनाश्रितं लिंगं पूजितं वा महाफलम्॥ १७.६५ ॥
तस्मादेतद्विभागेन शिवपूजनार्चनं बुधैः॥
कर्त्वयं निपुणत्वेन तीर्थस्नानादिकं तथा॥ १७.६६ ॥
पंचपिंडान्समुद्धृत्य स्नानमात्रेण शोभनम्॥
कूपे स्नानं प्रकुर्वीत उद्धृतेन विसेषतः॥ १७.६७ ॥
तडागे दश पिंडांश्च उद्धृत्य स्नानमाचरेत्॥
नदीस्नानं विश्ष्टं च महानद्यां विशेषतः॥ १७.६८ ॥
सर्वेषामपि तीर्थानां गंगास्नानं विशिष्यते॥
देवखाते च तत्तुल्यं प्रशस्तं स्नानमाचरेत्॥ १७.६९ ॥
प्रदीपानां सहस्रेण दीपनीयः सदाशिवः॥
तथा दीपशतेनापि द्वात्रिंशद्दीपमालया॥ १७.७० ॥
घृतेन दीपयेद्दीपाञ्छिवस्य परितुष्टये॥
तथा फलैश्च दीपैश्च नैवेद्यैर्गंधधूपकैः॥ १७.७१ ॥
उपचारैः षोडशभिर्लिंगरूपी सदा शिवः॥
पूज्यः प्रदोषवेलायां नृभिः सर्वार्थसिद्धये॥ १७.७२ ॥
प्रदक्षिणं प्रकुर्वीत शतमष्टोत्तरं तथा॥
नमस्कारान्प्रकुर्वीत तावत्संख्यान्प्रयत्नतः॥ १७.७३ ॥
प्रदक्षिणनमस्कारैः पूजनीयः सदाशिवः॥
नाम्नां शतेन रुद्रोऽसौ स्तवनीयो यताविधि॥ १७.७४ ॥
नमो रुद्राय भीमाय नीलकण्ठाय वेधसे॥
कपर्द्धिने सुरेशाय व्योमकेशाय वै नमः॥ १७.७५ ॥
वृषध्वजाय सोमाय नीलकण्ठाय वै नमः॥
दिगंबराय भर्गाय उमाकांतकपर्द्दिने॥ १७.७६ ॥
तपोमयाय व्याप्ताय शिपिविष्टाय वै नमः॥
व्यालप्रियाय व्यालाय व्यालानां पतये नमः॥ १७.७७ ॥
महीधराय व्याघ्राय पशूनां पतये नमः॥
त्रिपुरांतकसिंहाय शार्दूलोग्ररवाय च॥ १७.७८ ॥
मीनाय मीननाथाय सिद्धाय परमेष्ठिने॥
कामांतकाय बुद्धाय बुद्धीनां पतये नमः॥ १७.७९ ॥
कपोताय विशिष्टाय शिष्टाय परमात्मने॥
वेदाय वेदबीजाय देवगुह्याय वै नमः॥ १७.८० ॥
दीर्घाय दीर्घदीर्घाय दीर्घार्घाय महाय च॥
नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः॥ १७.८१ ॥
गजासुरविनाशाय ह्यंधकासुरभेदिने॥
नीललोहितशुक्लाय चण्डमुण्डप्रियाय च॥ १७.८२ ॥
भक्तिप्रियाय देवाय ज्ञानज्ञानाव्ययाय च॥
महेशाय नमस्तुभ्यं महादेवहराय च॥ १७.८३ ॥
त्रिनेत्राय त्रिवेदाय वेदांगाय नमोनमः॥
अर्थाय अर्थरूपाय परमार्थाय वै नमः॥ १७.८४ ॥
विश्वरूपाय विश्वाय विश्वनाताय वै नमः॥
शंकराय च कालाय कालावयवरूपिणे॥ १७.८५ ॥
अरूपाय च सूक्ष्माय सूक्ष्मसूक्ष्माय वै नमः॥
श्मशानवासिने तुभ्यं नमस्ते कृत्तिवाससे॥ १७.८६ ॥
शशांकशेखरायैव रुद्रविश्वाश्रयाय च॥
दुर्गाय दुर्गसाराय दुर्गावयवसाक्षिणे॥ १७.८७ ॥
लिंगरूपाय लिंगाय लिंगानां पतये नमः॥
प्रणवरूपाय प्रणवार्थाय वै नमः॥ १७.८८ ॥
नमोनमः कारणकारणाय ते मृत्युंजयायात्मभवस्वरूपिणे॥
त्रियंबकायासितकंठ भर्ग गौरिपते सकलमंगलहेतवे नमः॥ १७.८९ ॥
॥बृहस्पतिरुवाच॥
नाम्नां शतं महेशस्य उच्चार्यं व्रतिना तदा॥
प्रदक्षिणनमस्कारैरेतत्संख्यैः प्रयत्नतः॥
कार्यं प्रदोषसमये तुष्ट्यर्थं संकरस्य च॥ १७.९० ॥
एवं व्रतं समुद्दिष्टं तव शक्र महामते॥
शीघ्रं कुरु महाभाग पश्चाद्युद्धं कुरु प्रभो॥ १७.९१ ॥
शंभोः प्रसादात्सर्वं ते भविष्यति जयादिकम्॥ १७.९२ ॥
वृत्रो ह्ययं महातेजा दैतेयस्तपसा पुरा॥
शिवं प्रसादयामास पर्वते गंधमादने॥ १७.९३ ॥
नाम्ना चित्ररथो राजा वनं चित्ररथस्य तत्॥
एतज्जानीहि भो इन्द्र शिवपुर्याः समीपतः॥ १७.९४ ॥
यस्मिन्वने महाभाग न संति च षडूर्मयः॥
तस्माच्चैत्ररथं नाम वनं परममंगलम्॥
तस्य राज्ञः शिवेनैव दत्तं यानं महाद्भुतम्॥ १७.९५ ॥
कामगं किंकिणीयुक्तं सिद्धचारणसेवितम्॥
गंधर्वैरप्सरोयक्षैः किंनरैरुपशोभितम्॥ १७.९६ ॥
ततस्तेनैव यानेन पृथिवीं पर्यटन्पुरा॥
तथा गिरीशमुख्यांश्च द्वीपांश्च विविधांस्तथा॥ १७.९७ ॥
एकदा पर्यटन्राजा नाम्ना चित्ररथो महान्॥
कैलासमागतस्तत्र स ददर्श पराद्भुतम्॥ १७.९८ ॥
सभातलं महेशस्य गणैश्चैव विराजितम्॥
अर्द्धागलग्नया देव्या शोभितं च महेश्वरम्॥ १७.९९ ॥
निरीक्ष्य देव्या सहितं सदाशिवं देव्यान्वितं वाक्यमिदं बभाषे॥ १७.१०० ॥
वयं च शंभो विषयान्विताश्च मंत्र्यादयः स्त्रीजिताश्चापि चान्ये॥
न लोकमध्ये वयमेव चाज्ञाः स्त्रीसेवनं लज्जया नैव कुर्मः॥ १७.१०१ ॥
एतद्वाक्यं निशम्याथ महेशः प्रहसन्निव॥
उवाच न्यायसंयुक्तं सर्वेषामपि श्रृण्वताम्॥ १७.१०२ ॥
भयं लोकापवादाच्च सर्वेषामपि नान्यथा॥
ग्रासितं कालकूटं च सर्वेषामपि दुर्जरम्॥ १७.१०३ ॥
तथापि उपहासो मे कृतो राज्ञा हि दुर्जरः॥
तं चित्ररथमाहूय गिरिजा वाक्यमब्रवीत्॥ १७.१०४ ॥
॥गीरिजोवाच॥
रे दुरात्मन्कथं त्वज्ञ शंकरश्चोपहासितः॥
मया सहैव मंदात्मन्द्रक्ष्यसे कर्मणः फलम्॥ १७.१०५ ॥
साधूनां समचित्तानामुपहासं करोति यः॥
देवो वाप्यथ वा मर्त्यः स विज्ञेयोऽधमाधमः॥ १७.१०६ ॥
एते मुनींद्राश्च महानुभावास्तथा ह्यमी ऋषयो वेदगर्भाः॥
तथैव सर्वे सनकादयो ह्यमी अज्ञाश्च सर्वे शिवमर्चयंते?॥ १७.१०७ ॥
रे मूढ सर्वेषु जनेष्वभिज्ञस्त्वमेव एवाद्य न चापरे जनाः॥
तस्मादभिज्ञं हि करोमि दैत्यं देवैर्द्विजैश्चापि बहिष्कृतं त्वाम्॥ १७.१०८ ॥
एवं शप्तस्तया देव्या भवान्या राजसत्तमः॥
राजा चित्ररथः सद्यः पपात सहसा दिवः॥ १७.१०९ ॥
आसुरीं योनिमासाद्य वृत्रोनाम्नाऽभवत्तदा॥
तपसा परमेणैव त्वष्ट्रा संयोजितः क्रमात्॥ १७.११० ॥
तपसा तेन महता अजेयो वृत्र उच्यत॥
तस्माच्छंभुं समभ्यर्च्य प्रदोषे विधिनाऽधुना॥ १७.१११ ॥
जहि वृत्रं महादैत्यं देवानां कार्यसिद्धये॥
गुरोस्तद्वचनं श्रुत्वा उवाचाथ शतक्रतुः॥
सोद्यापनविधिं ब्रूहि प्रदोषस्य च मेऽधुना॥ १७.११२ ॥
॥बृहस्पतिरुवाच॥
कार्तिके मासि संप्राप्ते मंदवारे त्रयोदशी॥
संपूर्तिस्तु भवेत्तत्र संपूर्णव्रतसिद्धये॥ १७.११३ ॥
वृषभो राजतः कार्यः पृष्ठे तस्य सुपीठकम्॥
तस्योपरिन्यसेद्देवमुमाकांतं त्रिलोचनम्॥ १७.११४ ॥
पंचवक्त्रं दशभुजमर्द्धांगे गिरिजां सतीम्॥
एवं चोमामहेशं च सौवर्णं कारयेद्बुधः॥ १७.११५ ॥
सवृषं ताम्रपत्रे च वस्त्रेण परिगुंठिते॥
स्थापयित्वोमया सार्द्धं नानाबोगसमन्वितम्॥ १७.११६ ॥
विधिना जागरं कुर्याद्रात्रौ श्रद्धासमन्वितः॥
पंचामृतेन स्नपनं कार्यमादौ प्रयत्नतः॥ १७.११७ ॥
गोक्षीरस्नानं देवेश गोक्षीरेण मया कृतम्॥
स्नपनं देवदेवेश गृहाण परमेश्वर॥ १७.११८ ॥
दध्ना चैव मया देव स्नपनं क्रियतेऽधुना॥
गृहाम च मया दत्तं सुप्रसन्नो भवाद्य वै॥ १७.११९ ॥
सर्पिषा च मया देव स्नपनं क्रियतेऽधुना॥
गृहाण श्रद्धया दत्तं तव प्रीत्यर्थमेव च॥ १७.१२० ॥
इदं मधु मया दत्तं तव प्रीत्यर्थमेव च॥
गृहाम त्वं हि देवेश मम शांतिप्रदो भव॥ १७.१२१ ॥
सितया देवदेवेश स्नपनं क्रियतेऽधुना॥
गृहाण श्रद्धया दत्तां सुप्रसन्नो भव प्रभो॥ १७.१२२ ॥
एवं पंचामृतेनैव स्नपनीयो वृषध्वजः॥
पश्चादर्घ्यं प्रदातव्यं ताम्रपात्रेण धीमता॥
अनेनैव च मंत्रेण उमाकांतस्य तृष्टये॥ १७.१२३ ॥
अर्घ्योऽसि त्वमुमाकांत अर्घेणानेन वै प्रभो॥
गृहाण त्वं मया दत्तं प्रसन्नो भव शंकर॥ १७.१२४ ॥
मया दत्तं च ते पाद्यं पुष्पगंधसमन्वितम्॥
गृहाण देवदेवेश प्रसन्नो वरदो भव॥ १७.१२५ ॥
विष्टरं विष्टरेणैव मया दत्तं च वै प्रभो॥
शांत्यरथं तव देवेश वरदो भव मे सदा॥ १७.१२६ ॥
आचमनीयं मया दत्तं तव विश्वेश्वर प्रभो॥
गृहाण परमेशान तुष्टो भव ममाद्य वै॥ १७.१२७ ॥
ब्रह्मग्रन्थिसमायुक्तं ब्रह्मकर्मप्रवर्तकम्॥
यज्ञोपवीतं सौवर्णं मया दत्तं तव प्रभो॥ १७.१२८ ॥
सुगंधं चंदनं देव मया दत्तं च वै प्रभो॥
भक्त्या पर मया शंभो सुगंधं कुरु मां भव॥ १७.१२९ ॥
दीपं हि परमं शंभो घृतप्रज्वलितं मया॥
दत्तं गृहाण देवेश मम ज्ञानप्रदो भव॥ १७.१३० ॥
दीपं विशिष्टं परमं सर्वौषधिविजृंभितम्॥
गृहाण परमेशान मम शांत्यर्थमेव च॥ १७.१३१ ॥
दीपावलिं मया दत्तां कृहाण परमेश्वर॥
आरार्तिकप्रदानेन मम तेजः प्रदो भव॥ १७.१३२ ॥
फलदीपादिनैवेद्यतांबूलादिक्रमेण च॥
पूजनीयो विधानज्ञैस्तस्यां रात्रौ प्रयत्नतः॥ १७.१३३ ॥
पश्चाज्जागरणं कार्यं गृहे वा देवतालये॥
वितानमंडपं कृत्वा नानाश्चर्यसमन्वितम्॥
गीतवादित्रनृत्येन अर्चनीयः सदाशिवः॥ १७.१३४ ॥
अनेनैव विधानेन प्रदोषोद्यापने विधिः॥
कार्ये विधिमता शक्र सर्वकार्यार्थसिद्धये॥ १७.१३५ ॥
गुरुणा कथितं सर्वं तच्चकार शतक्रतुः॥
तेनैव च सहायेन इंद्रो युद्धपरायणः॥ १७.१३६ ॥
वृत्रं प्रति सुरैः सार्द्धं युयुधे च शतक्रतुः॥
तुमुलं युद्धमभवद्देवानां दानावैः सह॥ १७.१३७ ॥
तस्मिन्सुतुमुले गाढे देवदैत्यक्षयावहे॥
द्वंद्वयुद्धं सुतुमुलमतिवेलं भयावहम्॥ १७.१३८ ॥
व्योमो यमेन युयुधे ह्यग्निना तीक्ष्णकोपनः॥
वरुणेन महादंष्ट्रो वायुना च महाबलः॥ १७.१३९ ॥
द्वन्द्वयुद्ध रताः सर्वे अन्योन्यबलकांक्षिणः॥ १७.१४० ॥
तथैव ते देववरा महाभुजाः संग्रामशूरा जयिनस्तदाऽभवन्॥
पराजयं दैत्यवाराश्च सर्वे प्राप्तास्तदानीं परमं समंतात्॥ १७.१४१ ॥
दृष्ट्वा सुरैर्दैत्यवरान्पराजितान्पलायमानानथ कान्दिशीकान्॥
तदैव वृत्रः परमेण मन्युना महाबलो वाक्य मिदं बभाषे॥ १७.१४२ ॥
॥वृत्र उवाच॥
हे दैत्याः परमार्ताश्च कस्माद्यूयं भयातुराः॥
पलायनपराः सर्वे विसृज्य रणमद्भुतम्॥ १७.१४३ ॥
स्वंस्वं पराक्रमं वीरा युद्धाय कृतनिश्चयाः॥
दर्शयध्वं सुरगणास्सूदयध्वं महाबलाः॥ १७.१४४ ॥
गदाभिः पट्टिशैः खड्गैः शक्तितोमरमुद्गरैः॥
असिभिर्भि दिपालैश्च पाशतोमरमुष्टिभिः॥ १७.१४५ ॥
तदा देवाश्च युयुधुर्दधीचास्थिसमुद्भवैः॥
शस्त्रैरस्त्रैश्च परमैरसुरान्समदारयन्॥ १७.१४६ ॥
पुनर्दैत्या हता देवैः प्राप्तास्तेपि पराजयम्॥
पुनश्च तेन वृत्रेण नोद्यमानाः सुरान्प्रति॥ १७.१४७ ॥
यदा हि ते दैत्यवराः सुरेशैर्निहन्यमानाश्च विदुद्रुवुर्दिशः॥
केचिद्दृष्ट्वा दानवास्ते तदानीं भीतित्रस्ताः क्लीबरूपाः क्रमेणा॥ १७.१४८ ॥
वृत्रेण कोपिना चैवं धिक्कृता दैत्यपुंगवाः॥
हे पुलोमन्महाभाग वृषपर्वन्नमोस्तु ते॥ १७.१४९ ॥
हे धूम्राक्ष महाकाल महादैत्य वृकासुर॥
स्थूलाक्ष हे महादैत्य स्थूलदंष्ट्र नमोस्तु ते॥ १७.१५० ॥
स्वर्गद्वारं विहायैव क्षत्रियाणां मनस्विनाम्॥
पलायध्वे किमर्थं वा संग्रामाङ्गणमुत्तमम्॥ १७.१५१ ॥
संगरे मरणं येषां ते यांति परमं पदम्॥
यत्र तत्र च लिप्सेत संग्रामे मरणं बुधः॥ १७.१५२ ॥
त्यजन्ति संगरं ये वै ते यांति निरयं ध्रुवम्॥ १७.१५३ ॥
ये ब्राह्मणार्थे भृत्यार्थे स्वार्थे वै शस्त्रपाणयः॥
संग्रामं ये प्रकुर्वंति महापातकिनो नराः॥ १७.१५४ ॥
शस्त्रघातहता ये वै मृता वा संगरे तथा॥
ते यांति परमं स्थानं नात्र कार्या विचारणा॥ १७.१५५ ॥
शस्त्रैर्विच्छिन्नदेहा ये गवार्थे स्वामिकारणात्॥
रणे मृताः क्षता ये वै ते यांति परमां गतिम्॥ १७.१५६ ॥
तस्माद्रणेऽपि ये शूराः पापिनो निहताः पुरः॥
प्राप्नुवंति परं स्थानं दुर्लभं ज्ञानिनामपि॥ १७.१५७ ॥
अथवा तीर्थगमनं वेदाध्ययनमेव च॥
देवतार्चनयज्ञादिश्रेयांसि विविधानि च॥ १७.१५८ ॥
ऐकपद्येन तान्येव कलां नार्हंति षोडशीम्॥
संग्रामे पतितानां च सर्वशास्त्रेष्वयं विधिः॥ १७.१५९ ॥
तस्माद्युद्धावदानं च कर्तव्यमविशंकितैः॥
भवद्भिर्नान्यथा कार्यं देववाक्यप्रमाणतः॥ १७.१६० ॥
यूयं सर्वे शौरवृत्त्या समेताः कुलेन शीलेन महानुभावाः॥
पदानि तान्येव पलायमाना गच्छंत्यशूरा रणमंडलाच्च॥ १७.१६१ ॥
त एव सर्वे खलु पापलोकान्गच्छंति नूनं वचनात्स्मृतेश्च॥ १७.१६२ ॥
ये पापिष्ठास्त्वधर्म्मस्था ब्रह्मघ्ना गुरुतल्पगाः॥
नरकं यांति ते पापं तथैव रणविच्युताः॥ १७.१६३ ॥
तस्माद्भवद्भिर्योद्धव्यं स्वामिकार्यभरक्षमैः॥
एवमुक्तास्तदा तेन वृत्रेणापि महात्मना॥ १७.१६४ ॥
चक्रुस्ते वचंनं तस्य असुराश्च सुरान्प्रति॥
चक्रुः सुतुमुलं युद्धं सर्वलोकभयंकरम्॥ १७.१६५ ॥
तस्मिन्प्रवृत्ते तुमुले विगाढे वृत्रो महादैत्यपतिः स एकः॥
उवाच रोषेण महाद्भुतेन शतक्रतुं देववरैः समेतम्॥ १७.१६६ ॥
॥वृत्र उवाच॥
श्रृणु वाक्यं मया चोक्तं धर्म्मार्थसहितं हितम्॥
त्वं देवानां पतिर्भूत्वा न जानासि हिताहितम्॥ १७.१६७ ॥
किंबलार्थपरो भूत्वा विश्वरूपो हतस्त्वया॥
प्राप्तमद्यैव भो इंद्र तस्येदं कर्म्मणः फलम्॥ १७.१६८ ॥
ये दीर्घदर्शिनो मंदा मूढा धर्मबहिष्कृताः॥
अकल्पाः कार्यसिद्ध्यर्थं यत्कुर्वंति च निष्फलम्॥
तत्सर्वं विद्धि देवेंद्र मनसा संप्रधार्यताम्॥ १७.१६९ ॥
तस्माद्धर्म्मपरो भूत्वा युध्यस्व गतकल्मषः॥
भ्रातृहा त्वं ममैवेंद्र तस्मात्त्वा घातयाम्यहम्॥ १७.१७० ॥
मा प्रयाहि स्थिरो भूत्वा देवैश्च परिवारितः॥
एव मुक्तस्तु वृत्रेण शक्रोऽतीव रुषान्वितः॥
ऐरावतं समारुह्य ययौ वृत्रजिघांसया॥ १७.१७१ ॥
इंद्रमायांतमालोक्य वृत्रो बलवतां वरः॥
उवाच प्रहसन्वाक्यं सर्वेषां श्रृण्वतामपि॥ १७.१७२ ॥
आदौ मां प्रहरस्वेति तस्मात्त्वां घातयाम्यहम्॥ १७.१७३ ॥
इत्येवमुक्तो देवेंद्रो जघान गदया भृशम्॥
वृत्रं बलवतां श्रेष्ठं जानुदेशे महाबलम्॥ १७.१७४ ॥
तामापतंतिं जग्राह करेणैकेन लीलया॥
तयैवैनं जघानाशु गदया त्रिदिवेश्वरम्॥ १७.१७५ ॥
सा गदा पातयामास सवज्रं च पुरंदरम्॥
पतितं शक्रमालोक्य वृत्र ऊचे सुरान्प्रति॥ १७.१७६ ॥
नयध्वं स्वामिनं देवाः स्वपुरीममरावतीम्॥ १७.१७७ ॥
एतच्छ्रुत्वा वचः सत्यं वृत्रस्य च महात्नः॥
तथा चक्रुः सुराः सर्वे रणाच्चेंद्रं समुत्सुकाः॥ १७.१७८ ॥
अपोवाह्य गजस्थं हि परिवार्य भयातुराः॥
सुराः सर्वे रणं हित्वा जग्मुस्ते त्रिदिवं प्रति॥ १७.१७९ ॥
ततो गतेषु देवेषु ननर्त च महासुरः॥
वृत्रो जहास च परं तेना पूर्यत दिक्तटम्॥ १७.१८० ॥
चचाल च मही सर्वा सशैलवनकानना॥
चुक्षुभे च तदा सर्वं जंगमं स्थावरं तथा॥ १७.१८१ ॥
श्रुत्वा प्रयातं देवेंद्रं ब्रह्मा लोकपितामहः॥
उपयातोऽथ देवेंद्र स्वकमण्डलुवारिणा॥
अस्पृशल्लब्धसंज्ञोऽभूत्तत्क्षणाच्च पुरंदरः॥ १७.१८२ ॥
दृष्ट्वा पितामहं चाग्रे व्रीडायुक्तोऽभवत्तदा॥
महेंद्रं त्रपया युक्तं ब्रह्मोवाच पितामहः॥ १७.१८३ ॥
॥ब्रह्मोवाच॥
वृत्रो हि तपसा युक्तो ब्रह्मचर्यव्रते स्थितः॥
त्वष्टुश्च तपसा युक्तो वृत्रश्चायं महायशाः॥
अजेयस्तपसोग्रेण तस्मात्त्वं तपसा जय॥ १७.१८४ ॥
वृत्रासुरो दैत्यपतिश्च शक्र ते समाधिना परमेणैव जय्यः॥
निशम्य वाक्यं परमेष्ठिनो हरिः सस्मार देवं वृषभध्वजं तदा॥ १७.१८५ ॥
स्तुत्या तदातं स्तवमानो महात्मा पुरंदरो गुरुणा नोदितो हि॥ १७.१८६ ॥
॥इंद्र उवाच॥
नमो भर्गाय देवाय देवानामतिदुर्गम॥
वरदो भव देवेश देवानां कार्यसिद्धये॥ १७.१८७ ॥
एवं स्तितिपरो भूत्वा शचीपतिरुदारधीः॥
स्वकार्यदक्षो मंदात्मा प्रपंचाभिरतः खलु॥ १७.१८८ ॥
प्रपंचाभिरता मूढाः शिवभक्तिपरा ह्यपि॥
न प्राप्नुवंति ते स्थानं परमीशस्यरागिणः॥ १७.१८९ ॥
निर्मला निरहंकारा ये जनाः पर्युपासते॥
मृडं ज्ञानप्रदं चेशं परेशं शंभुमेव च॥ १७.१९० ॥
तेषां परेषां वरद इहामुत्र च शंकरः॥
महेंद्रेण स्तुतः शर्वो रागिणा परमेण हि॥ १७.१९१ ॥
रागिणां हि सदा शंभुर्दुर्लभो नात्र संशयः॥
तस्माद्विरागिणां नित्यं सन्मुखो हि सदाशिवः॥ १७.१९२ ॥
राजा सुराणां हि महानुरागी स्वकर्मसंसिद्धिमहाप्रवीणः॥
तस्मात्सदा क्लेशपरः शचीपतिः स्वकामभावात्मपरो हि नित्यम्॥ १७.१९३ ॥
स्तवमानं तदा चेंद्रमब्रवीत्कार्यगौरवात्॥
विज्ञायाखिलदृग्द्रष्टा महेशो लिंगरूपवान्॥ १७.१९४ ॥
इंद्र गच्छ सुरैः सार्द्धं वृत्रं वै दानवं प्रति॥
तपसैव च साध्योऽयं रणे जेतुं शतक्रतो॥ १७.१९५ ॥
॥इंद्र उवाच॥
केनोपायेन साध्योऽयं वृत्रो दैत्यवरो महान्॥
त्चछीघ्रं कथ्यतां शंभो येन मे विजयो भवेत्॥ १७.१९६ ॥
॥रुद्र उवाच॥
रणे न शक्यते हंतुमपि देववरैरपि॥
तस्मात्त्वया हि कर्तव्यं कुत्सितं कर्म चाद्य वै॥ १७.१९७ ॥
अस्य शापः पुरा दत्तः पार्वत्या मम सन्निधौ॥
असौ चित्ररथो नाम्ना विख्यातो भुवनत्रये॥ १७.१९८ ॥
पर्यटन्सु विमानेन मया दत्तेन भास्वता॥
उपहासादिमां योनिं संप्राप्तो दत्यपुंगवः॥ १७.१९९ ॥
तस्मादजेयं जानीहि रणे रणविदां वर॥
एवमुक्तो महेंद्रोऽयं शंभुना योगिना भृशम्॥ १७.२०० ॥
तथेति मत्वा शक्रोऽसौ नियमं तमुपाददे॥ १७.२०१ ॥
रंध्रं प्रतीक्ष्य वृत्रस्य तत्समीपे सहस्रकम्॥
वत्सराणां महाभागा वसन्हंतुं मनो दधे॥ १७.२०२ ॥
अंतर्वेद्यां बहिः स्थित्वा वज्रपाणिरनुज्ञया॥
गुरोः पुरोधसश्चैव स्वकार्यमकरोद्भृशम्॥ १७.२०३ ॥
एकदा नर्म्मदायां वै वृत्रो दानवपुंगवः॥
दैत्यैः परिवृतः सर्वैः समायातो यदृच्छया॥ १७.२०४ ॥
इंद्रः पराभवं प्राप्तो नीतो देवैर्द्दिवं प्रति॥
अहमेव हतारिश्च नान्योस्ति सदृशो मम॥ १७.२०५ ॥
मन्यमानः सदा वृत्रः पौरुषेण समन्वितः॥
प्रदोषसमये विप्रा नर्मदायामुपस्थितः॥ १७.२०६ ॥
दृष्टश्चेंद्रेण सुमहानसुरैः परिवारितः॥
वृत्रो बलवतां श्रेष्ठः प्रदोषसमये तदा॥ १७.२०७ ॥
तस्मिन्प्रदेषे संयुक्ता मंदवारे त्रयोदशी॥
नोदितो गुरुणा चेंद्रः करे गृह्य बृहस्पतिः॥ १७.२०८ ॥
प्रदक्षिणानमस्कारैर्यथोक्तविधिना तदा॥
पूजितो लिंगरूपी च ओंकारो नर्मदातटे॥ १७.२०९ ॥
प्रदोषव्रतमाहात्म्याद्वज्रपाणिः प्रतापवान्॥
संजातस्तत्क्षणादेव प्रसादाच्छंकरस्गयच॥ १७.२१० ॥
वृत्रोपि तपसा युक्तः प्रदोषसमये महान्॥
निद्रासक्तोऽभवत्तत्र शुंडेन प्रति बोधितः॥ १७.२११ ॥
स्वापात्प्रदोषवेलायां तपसा चार्जितं फलम्॥
प्रनष्टं तत्क्षणादेव निःश्रीकत्वमुपागतः॥ १७.२१२ ॥
देव्याः शापाच्च संजातो वृत्रो भग्नमनोरथः॥ १७.२१३ ॥
संध्यापादो गतो यावद्धृत्र स्तीर्थमुपाविशत्॥
परीतो विविधैर्द्दैत्यैत्यैर्नानायुधसमन्वितैः॥ १७.२१४ ॥
तस्य तत्कर्मणश्छिद्रं छिद्रान्वेषी शचीपतिः॥
ज्ञात्वा गतः शनैर्हतुमात्मशत्रुं शतक्रतुः॥ १७.२१५ ॥
तावद्दैत्याः सुसंरब्धा भीमा भीमपराक्रमाः॥
उत्तस्थुर्युगपत्सर्वे दुःसहाश्च शतक्रतुम्॥ १७.२१६ ॥
ततस्तैरभवद्युद्धमतिप्रबलदंडिभिः॥
सर्वे देवाः सहायार्थं तदाऽऽजग्मुः शतक्रतोः॥ १७.२१७ ॥
तदा दैत्याश्च देवाश्च युयुधुस्ते तरस्विनः॥
रात्रौ युद्धं समाभवत्सुरासुरविमर्दनम्॥ १७.२१८ ॥
अनेकशस्त्रसंवीतं महारौद्रमवर्तत॥
एवं प्रवर्तमाने तु संग्रमे रौद्रदारुणे॥
तदा वृत्रोऽथ सन्नद्धो गृहीत्वा शूलमुल्बणम्॥ १७.२१९ ॥
इंद्र प्रमुखतो भूत्वा जगर्जातिविभीषणम्॥
तस्य नादप्रणादेन त्रासितं भुवनत्रयम्॥ १७.२२० ॥
ऐरावणं समारुह्य महेंद्रः शुशुभे तदा॥
ध्रियमाणेनच्छत्रेण चंद्रमंडलशोभिना॥ १७.२२१ ॥
चामरैर्वीज्यमानोऽथ बभाषे दैत्यपुंगवम्॥ १७.२२२ ॥
॥इंद्र उवाच॥
संग्रामं कुरु मे वृत्र बलेन महता वृतः॥
शूरस्त्वमसि शूराणां तपसा परमेण हि॥ १७.२२३ ॥
एवमुक्तस्तदा तेन वृत्रो वाक्यमुवाच ह॥
आदौ प्रहर मामिंद्रपश्चात्त्वां घातयाम्यहम्॥ १७.२२४ ॥
तथेति मत्वा तदतीव दुःसहं वज्रं तदानीं शतधारमेव॥
स मोक्तुकामो हि तदा पुरंदरो निवारितस्तेन महाप्रभेण॥
पुरोधसा बुद्धिमतां वरेण तथेति मत्वा स चकार चेंद्रः॥ १७.२२५ ॥
गदां प्रगृह्य देवेंद्रो वृत्रं विव्याध तां गदाम्॥
वारयामास वृत्रोसा वतिथिं कृपणो यथा॥ १७.२२६ ॥
व्यार्थां च स्वगदां दृष्ट्वा इंद्रश्चिंतामवाप ह॥ १७.२२७ ॥
तं चिंत्यमानं स तदा पुरंदरं वृत्रो बभाषे परिभर्त्समानः॥
पुराकृतं शक्र महाद्भुतं त्वया जुगुप्सितं कर्म्म च विस्मृतं किम्॥
येनैव जातोऽसि सहस्रनेत्रः शापान्महर्षेरथ गौतमस्य॥ १७.२२८ ॥
ये शूराश्चेंद्रियग्रामं वर्तंते हि नियम्य तु॥
ते जयं प्राप्नुवंतीह नेतरे हि भवादृशाः॥ १७.२२९ ॥
रणाजिरं महाघोरं पापिनां नात्र संशयः॥ १७.२३० ॥
एवं निर्भर्त्सयामास देवेंद्रं दैत्यपुंगवः॥
त्रिशूलं धूनयामास देवेंद्रो हि तडित्समम्॥ १७.२३१ ॥
तेन शूलेन महता वृत्रोऽद्भुतपराक्रमः॥
बभौ तीव्रेण तपसा यथा रुद्रो युगांतकृत्॥ १७.२३२ ॥
तथाभूतं समालक्ष्य देवराजः शतक्रतुः॥
अभ्युद्ययौ हंतुकामो वृत्रे दानवपुंगवम्॥ १७.२३३ ॥
तमायांतमभिप्रेक्ष्य हंतुकामं पुरंदरम्॥
जहास परमं तत्र शक्रस्य च भयावहम्॥
मुखं प्रसार्य सुमहदागतो हि पुरंदरम्॥ १७.२३४ ॥
ग्रस्तुकामो महातेजा दैत्यानामधिपस्तदा॥
आगत्य सहसा शक्रं ग्रासयित्वा सकुंजरम्॥ १७.२३५ ॥
सवज्रं सकिरीटं च ननर्त च जगर्ज्ज च॥
निमिषांतरमात्रेण ग्रसितोऽसौ पुरंदरः॥ १७.२३६ ॥
हाहाकारो महानासीद्देवानां तत्र पश्यताम्॥
भूकम्पो हि तदा ह्यसीदुल्कापातः सहस्रशः॥ १७.२३७ ॥
तिमिरेणावृतं सर्वं जगत्स्थावरजंगमम्॥
नर्तमानस्तदा वृत्रो बभूव परमद्युतिः॥ १७.२३८ ॥
विध्यमानास्तदा सर्वे देवा ब्रह्माण मागताः॥
शशंसुः सर्वमेवैतद्वृत्रासुरविचेष्टितम्॥ १७.२३९ ॥
तच्छ्रुत्वा भगवान्ब्रह्मा व्यथितोऽतीव विस्मितः॥
कथं जातं महेंद्रस्य व्यसनं परमाद्भुतम्॥ १७.२४० ॥
देवैः सह तदा ब्रह्मा सर्वलोकपितामहः॥
तुष्टाव गिरिशं देवं परमेण समाधिना॥ १७.२४१ ॥
॥ब्रह्मोवाच॥
ॐनमो लिंगरूपाय महादेवाय वै नमः॥
विश्वरूपाय देवाय विरुपाक्षाय वै नमः॥ १७.२४२ ॥
त्राहित्राहि त्रिलोकेश वृत्रग्रस्तं पुरंदरम्॥
तदा नभोगतावाणी सर्वेषामेव श्रृण्वताम्॥ १७.२४३ ॥
उवाच हितकामाय विधिं लिंगार्चने सती॥
प्रदोषव्रतयुक्तेन इंद्रेण विकृतं कृतम्॥ १७.२४४ ॥
निर्माल्यं पीठिकां चैव च्छायाप्रासादमेव च॥
प्रदक्षिणां कृतवता पीठिकालंघनं कृतम्॥ १७.२४५ ॥
लंघयंति च ये मूढास्ते वै दंड्या न संशयः॥
चंडस्य गणमुख्यस्य तस्मात्कुर्यात्प्रयत्नतः॥
प्रदक्षिणानमस्कारौ लिंगार्च्चनसमन्वितः॥ १७.२४६ ॥
श्रेयःप्राप्तयेकबुद्ध्या वै प्रयत्नाल्लिंगपूजनम्॥
कार्यं दीक्षा परैर्नित्यं सर्वपापोपशांतये॥ १७.२४७ ॥
आशरीरं च तद्वाक्यं श्रुत्वा ब्रह्मादयः सुराः॥
पप्रच्छुस्ते प्रांजलयो नभोवाणीं शुभावहाम्॥ १७.२४८ ॥
कथमर्चामहे लिंगं केनैव विधिना ततः॥
प्रातर्मध्याह्नसमये सायंकाले तथैव च॥ १७.२४९ ॥
कानि पुष्पाणि सायाह्ने मध्याह्ने च तथैव हि॥
प्रातः काले तु तान्येन कथयस्व यथातथम्॥ १७.२५० ॥
तदा नभोगता वाणी कथयामास विस्तरम्॥ १७.२५१ ॥
करवीरं चार्कपुष्पं बृहतीपुष्पमेवच॥
धत्तूरकुसुमं चैव शतपत्रं तथैव च॥ १७.२५२ ॥
आरग्वधं च पुन्नागं बकुलं नागकेशरम्॥
ब्रध्नोत्पलं कदम्बं च मंदारकुसुमं तथा॥ १७.२५३ ॥
बहूनि वरपुष्पाणि बहूनि कमलान्यपि॥
त्रिकाले च पवित्राणि ज्ञेयानि सततं बुधैः॥ १७.२५४ ॥
जातीपुष्पं मल्लिकायाश्च पुष्पं पुष्पं मोगरकं नीलपुष्पं तथैव॥
तथा पुष्पं कुटजं कर्णिकारं कौसुम्भाख्यं वारिजं रक्तवर्णनम्॥ १७.२५५ ॥
एतान्येव य पुष्पाणि मध्याह्ने लिंगपूजने॥
विशिष्टानि मयोक्तानि सायाह्ने कथयाम्यहम्॥ १७.२५६ ॥
चं पकानि त्रिकाले च पवित्राणि न संशयः॥
रात्रौ मोगरकाण्येव पवित्राणि न संशयः॥ १७.२५७ ॥
एवमर्च्चनभेदांश्च ज्ञात्वा तल्लिंगपूजने॥
कार्यो विधिर्विधिज्ञैश्च सततं च शिवालये॥ १७.२५८ ॥
वृषभांतरितो भूत्वा पीठिकांतरमेव च॥
प्रदक्षिणां न कुर्वीत कुर्वन्किल्बिषमश्नुते॥ १७.२५९ ॥
तथा ह्यनेन शक्रेण कृतं चैव प्रदक्षिणम्॥
राजसं भावमाश्रित्य तस्माज्जातंच निष्फलम्॥ १७.२६० ॥
ग्रसितोऽद्यैव वृत्रेण सगजो हि पुरंदरः॥
भवद्भिरेव तत्कार्यं येन इन्द्रः प्रमुच्यते॥ १७.२६१ ॥
महारुद्रविधानेन मुक्तो भवति तत्क्षणात्॥
पुरंदरो ह्ययं देवा नात्र कार्या विचारणा॥ १७.२६२ ॥
तेनैव वचसा देवा रुद्रमभ्यर्च्य यत्नतः॥
यथोक्तेन विधानेन रुद्रसूक्तेन यत्नतः॥ १७.२६३ ॥
तथा चैकादशीरुद्र्या रुद्रमभ्यर्च्य वै सुराः॥
हवनं प्रत्यहं चक्रुर्द्दशांशेन द्विजोत्तमाः॥ १७.२६४ ॥
जपं च पूजां हवनं च चक्रुर्विमोक्तुकामाः सहसा पुरंदरम्॥
शंभोः प्रसादात्सहसा विनिर्गतः कुक्षिं भित्त्वा देवराजस्तदानीम्॥ १७.२६५ ॥
तं निर्गतं समीक्ष्याथ देवदेवेंद्रमोजसा॥
सगजं च स वज्रं च सकिरीटं सकुण्डलम्॥
श्रिया परमया युक्तं पुरंदरं महौजसम्॥ १७.२६६ ॥
देवदुंदुभयो नेदुस्तथा शंखा ह्यनेकशः॥
गंधर्वाप्सरसो यक्षा ऋषयश्च मुदान्विताः॥ १७.२६७ ॥
एकपद्येन सर्वेषां महाहर्षो दिवौकसाम्॥
संजातस्तत्क्षणादेव यदा मुक्तः पुरंदरः॥
तदा शची समायाता यत्र मुक्तः पुरंदरः॥ १७.२६८ ॥
तत्र शच्या समेतोऽसावभिषिक्तो महर्षिभिः॥
पुण्याहवाचनं तस्य कृतं सर्वैः प्रयत्नतः॥ १७.२६९ ॥
एवं तदाभिषिक्तोऽसौ महेंद्र ऋषिभिः पुनः॥
मही मंगलभूयिष्ठा तदा जाता द्विजोत्तमाः॥ १७.२७० ॥
दिशः प्रसन्नतां याता निर्मलं चाभवन्नभः॥
शांतास्तदाग्नयो ह्यासन्मनांसि च महात्मनाम्॥ १७.२७१ ॥
एवमादीन्यनेकानि मंगलानि ततोऽभवन्॥
मुक्ते शतक्रतौ तस्मिन्बभूव परमाद्भुतम्॥ १७.२७२ ॥
एवं प्रवर्तमाने तु महतां च महोत्सवे॥
तावद्वृत्रस्य पतितं शरीरं च भयानकम्॥ १७.२७३ ॥
तत्रैव ब्रह्महत्या च पापिष्ठा पतिता भुवि॥
गंगायमुनयोर्मध्ये अंतर्वेदीति कथ्यते॥ १७.२७४ ॥
पुण्यभूमिरिति ख्याता प्रसिद्धा लोकपावनी॥
वृत्रहत्याप्रतिष्ठा सा यस्मिदेशे स पापवान्॥ १७.२७५ ॥
मलस्य बहुसंभूत्या मालावेति प्रकीर्तिता॥
तस्यां तु मलभूम्यां वै वृत्रस्य च महच्छिरः॥ १७.२७६ ॥
षण्मासेष्वपतत्सर्वैः कृत्तं देवैः सवासवैः॥
एवं वृत्रवधं कृत्वा शक्रो जयमवाप ह॥ १७.२७७ ॥
इंद्रासने चोपविष्टो निरातंकः शचीपतिः॥
एतस्मिन्नंतरे दैत्याः पातालवासिनं बलिम्॥
शशंसुः सर्वमागत्य शक्रस्य च विचेष्टितम्॥ १७.२७८ ॥
तेषां तद्वचनं श्रुत्वा वैरोचनी रुषान्वितः॥
शुक्रं पप्रच्छ स तदा सथमिंद्रो वशी भवेत्॥ १७.२७९ ॥
तेनोक्तं बलये राजञ्जयस्यन्दनलब्धये॥
महायज्ञं कुरुष्वाद्य तेन ते विजयो भवेत्॥ १७.२८० ॥
तेनोक्तो भृगुणा चैवं बलिर्यज्ञार्थमुद्यतः॥
दधौ यानीह द्रव्याणि यज्ञयोग्यानि तानि वै॥
मेलयित्वा त्वरेणैव वैरोचनिरुदारधीः॥ १७.२८१ ॥
प्रवर्तितो महायज्ञो भार्गवेण महात्मना॥
दीक्षायुक्तो बलिरभूज्जुहुवे हघ्यवाहनम्॥ १७.२८२ ॥
हूयमाने तदाग्नौ तु कर्मणा विधिहेतुना॥
तस्माद्बलेः समुत्पन्नः स्यंदनः परमाद्भुतः॥ १७.२८३ ॥
हयैश्चतुर्भिः संयुक्तो ध्वजेसिंहो महाप्रभः॥
शस्त्रास्त्रैः संयुतः श्रीमान्हयैः श्वेतैरलंकृतः॥ १७.२८४ ॥
ततश्चावभृथस्नानं चक्रे शुक्रप्रणोदितः॥
स्यंदनं पूजयित्वाथ आरुरोह बलिस्तदा॥ १७.२८५ ॥
दैत्यैः परिवृतः सद्यो योद्धुकामः पुरंदरम्॥
सद्य एव दिवं प्राप्तो बलिर्वैरोचनो महान्॥ १७.२८६ ॥
आगत्य सेनया सार्द्धमारुरो हामरावतीम्॥
संरुद्धां तां पुरीं दृष्ट्वा तदा ते सुरसत्तमाः॥
विर्शयित्वा सुचिरमूचुः सर्वे बृहस्पतिम्॥ १७.२८७ ॥
किं कुर्मोऽद्य महाभाग आगता दैत्यपुंगवाः॥
योद्धुकामा महाघोराः सर्वे युद्धविशारदाः॥ १७.२८८ ॥
तेषां तद्वचनं श्रुत्वा बृहस्पतिरभाषत॥ १७.२८९ ॥
एते घृतमुखा घोरा भृगुणानोदिताः सुराः॥
अजेयाश्चैव ते सर्वे तपसा विक्रमेण च॥ १७.२९० ॥
एतन्निशम्य वचनं च गुणाभियुक्तं सर्वे सुराः समभवंस्त्रपयाभियुक्ताः॥
इंद्रोऽपि बुद्धिविकलः परिचिंतया च व्रीडायुतः समभवत्परिभर्त्स्यमानः॥ १७.२९१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे बलिदैत्यस्य संग्रामोद्योगवर्णनंनाम सप्तदशोऽध्यायः॥ १७ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 18
॥लोमश उवाच॥
कर्मणा परिभूतो हि महेंद्रो गुरुमब्रवीत्॥
विना यत्नेन संक्लेसात्तर्तुं कर्म्म किमुच्यताम्॥ १८.१ ॥
बृहस्पतिरुवाचेदं त्यक्त्वा चैवामरावतीम्॥
यास्यामोऽन्यत्र सर्वे वै सकुटुंबा जिगीपवः॥ १८.२ ॥
तथा चक्रुः सुराः सर्वे हित्वा चैवामरावतीम्॥
बर्हिणो रुपमास्थाय गतः सद्यः पुरंदरः॥ १८.३ ॥
काको भूत्वा यमः साक्षात्कृकलासो धनाधिपः॥
अग्निः कपोतको भूत्वा भेको भूत्वा महेश्वरः॥ १८.४ ॥
नैर्ऋतस्तत्क्षणादेव कपोतोऽभूत्ततो गतः॥
पाशी कपिंजलो भूत्वा वायुः पारावतोऽभवत्॥ १८.५ ॥
एवं नानातनुभृतो हित्वा ते त्रिदिवं गताः॥
कश्यपस्याश्रमं पुण्यं संप्राप्तास्ते भयातुराः॥ १८.६ ॥
अदितिं मातरं सर्वे शशंसुर्दैत्यचेष्टितम्॥ १८.७ ॥
अप्रियं तदुपाकर्ण्य ह्यदितिः पुत्रलालसा॥
उवाच कश्यपं सा तु सुराणां व्यसनं महत्॥
महर्षे श्रयतां वाक्यं श्रुत्वा तत्कर्तुमर्हसि॥ १८.८ ॥
दैत्यैः पराजिता देवा हित्वा चैवामरावतीम्॥
त्वदीयमाश्रमं प्राप्तास्तान्रक्षस्व प्रजापते॥ १८.९ ॥
तस्यास्तद्वचनं श्रुत्वा कश्यपो वाक्यमब्रवीत्॥
तपसा महता तन्वि जानीहि त्वं च भामिनि॥
अजेया ह्यसुराः साध्वि भृगुणा ह्यनुमोदिताः॥ १८.१० ॥
तेषां जयो हि तपसा उग्रेणाऽऽद्येन भामिनि॥
कुरु शीघ्रतरेणैव सुराणां कार्यसिद्धये॥ १८.११ ॥
व्रतमेतन्महाभागे कथयाम्यर्थसिद्धये॥
तत्कुरुष्व प्रयत्नेन यथोक्तविधिना शुभे॥ १८.१२ ॥
मासि भाद्रपदे देवि दशम्यां नियता शुचिः॥
एकभक्तं प्रकुर्वीत विष्णोः प्रीत्यर्थमेव च॥ १८.१३ ॥
प्रर्थनीयो हरिः साक्षात्सर्वकामवरेश्वरः॥
मंत्रेणानेन सुभगे तद्भक्तैर्वरवर्णिनि॥ १८.१४ ॥
तव भक्तोस्म्यहं नाथ दशम्यादिदिनत्रयम्॥
व्रतं चराम्यहं विष्णो अनुज्ञां दातुमर्हसि॥ १८.१५ ॥
अनेनैव च मंत्रेण प्रार्थनीयो जगत्पतिः॥
एकभक्तं प्रकुर्वीत तच्च भक्तं च केवलम्॥ १८.१६ ॥
रंभापत्रे च भोक्तव्यं वर्जितं लवणेन हि॥
एकादश्यां चोपवासं प्रकुर्वीत प्रयत्नतः॥ १८.१७ ॥
रात्रौ जागरणं कुर्यात्प्रयत्नेन सुमध्यमे॥
द्वादश्यां निपुणत्वेन पारणा तु विधानतः॥
कर्तव्या ज्ञातिभिः सार्द्धं भोजयित्वा द्विजीत्तमान्॥ १८.१८ ॥
एवं द्वादशमासांस्तु कुर्याद्व्रतमतंद्रितः॥
मासि भाद्रपदे प्राप्ते एकादश्यां प्रयत्नतः॥
विष्णुमभ्यर्च्य यत्नेन कलशोपरि संस्थितम्॥ १८.१९ ॥
सौवर्णं राजतं वापि यताशक्त्या प्रकल्पयेत्॥
श्रवणेन तु संयुक्तां द्वादशीं पापनाशिनीम्॥
व्रती उपवसेद्यत्नात्सर्वदोषप्रशांतये॥ १८.२० ॥
एवं हि कश्यपेनोक्तं श्रुत्वाऽदितिरथाचरत्॥
व्रतं सांवत्सरं यावन्नियमेन समन्वितता॥ १८.२१ ॥
वर्षांतेन व्रतेनैव परितुष्टो जनार्दनः॥
प्रादुर्बभूव द्वादश्यां श्रवणेन तदा द्विजाः॥ १८.२२ ॥
बटुरूपधरः श्रीशो द्विभुजः कमलेक्षमः॥
अतसीपुष्पसंकाशो वनमालाविभूषितः॥ १८.२३ ॥
तं दृष्ट्वा विस्मयाविष्टा पूजामध्येऽदितिस्तदा॥
कश्यपेन समायुक्ता साऽस्तौषीत्कमलेक्षणा॥ १८.२४ ॥
॥अदितिरुवाच॥
नमोनमः कारणकारणाय ते विश्वात्मने विश्वसृजे चिदात्मने॥
वरेण्यरूपाय परावरात्मने ह्यकुंठबोधाय नमोनमस्ते॥ १८.२५ ॥
इति स्मृतस्तदाऽदित्या देवानां परिरच्युतः॥
प्रहस्य भगवानाह अदितिं देवमातरम्॥ १८.२६ ॥
॥श्रीभगवानुवाच॥
तपसा परमेणैव प्रसन्नोहं तवानघे॥
अमुना वपुषा चैव देवानां कार्यसिद्धये॥ १८.२७ ॥
श्रुत्वा भगवतो वाक्यमदितिस्तमुवाचह॥
भगवन्पराजिता देवा असुरैर्बलवत्तरैः॥
तान्रक्ष शरणापन्नासुरान्सर्वाञ्जनार्दन॥ १८.२८ ॥
निशम्य वाक्यं किल तच्च तस्या विष्णुर्विकुंठाधिपतिः स एकः॥
ज्ञात्वा च सर्वं सुरचेष्टितं तदा बलेश्च सर्वं च चिकीर्षितं च॥ १८.२९ ॥
किं कार्यमद्यैव मया हि कार्यं येनैव देवा जयमाप्नुवंति॥
पराजयं दैत्यवराश्च सर्वे विष्णुः परात्मैव विचिंत्य सर्वम्॥ १८.३० ॥
गदमुवाच भगवान्गच्छस्वाद्य वधं प्रति॥
वैरोचनिं महाभागे घात यस्व त्वरान्विता॥ १८.३१ ॥
गदोवाच हृषीकेशं प्रहसन्तीव भामिनी॥
मया ह्यशक्यो वधितुं ब्रह्मण्यो हि बलिर्महान्॥ १८.३२ ॥
चक्रं प्रति तदा विष्मुरुवाच परिसांत्वयन्॥
त्वं गच्छ बलिनं हंतुं शीघ्रमेव सुदर्शन॥ १८.३३ ॥
तदोवाच त्वरेणैव चक्रपाणिं सुदर्शनम्॥
न शक्यते मया हंतुं बलिनं तं महाप्रभो॥ १८.३४ ॥
ब्रह्मण्योऽसि यथा विष्णो तथासौ दैत्यपुंगवः॥
धनुषा च तथैवोक्तः शार्ङ्गपाणिश्च विस्मितः॥
चिंतयामास बहुधा विमृश्य सुचिरं बहु॥ १८.३५ ॥
॥अत्रिरुवाच॥
तदा ते ह्यसुराः सर्वे किमकुर्वस्तदुच्यताम्॥ १८.३६ ॥
॥लोमश उवाच॥
तदा ते ह्यसुराः सर्वे बलिप्रभृतयो दिवि॥
रुरुधुर्नगरीं रम्यां योद्धुकामाः पुरंदरम्॥ १८.३७ ॥
न विदुर्ह्यसुराः सर्वे गतान्देवांस्त्रिविष्टपात्॥
नानारूपधरां स्तस्मात्कश्यपस्याश्रयं प्रति॥ १८.३८ ॥
प्राकारमारुह्य तदा हि संभ्रमाद्दैत्याः सुरेशं प्रति हंतुकामाः॥
यावत्प्रविष्टा ह्यमरावतीं तां शून्यामपश्यन्परितुष्टमानसाः॥ १८.३९ ॥
इंद्रासने च शुक्रेण ह्यभिषिक्तो बलिस्तदा॥
सहाभिषेकविधिना ह्यसुरैः परिवारितः॥ १८.४० ॥
तथैवाधिष्ठितो राज्ये बलिर्वैरोचनो महान्॥
शुशुभे परया भूत्या महेंद्राधिकृतस्तदा॥ १८.४१ ॥
नागैश्चासुरसंघैश्च सेव्यमानो महेंद्रवत्॥
सुरद्रुमो जितस्तेन कामधे नुर्मणिस्तथा॥ १८.४२ ॥
दानैर्द्दाता च सर्वेषां येऽन्ये दानित्वमागताः॥
सर्वेषामेव भूतानां दानैर्दाता बलिर्महान्॥ १८.४३ ॥
यान्यान्कामयते कामां स्तान्सर्वान्वितरत्यसौ॥
सर्वेभ्योऽपि स चार्थिभ्यो दानवानामधीश्वरः॥ १८.४४ ॥
॥शौनक उवाच॥
देवेंद्रो हि महाभाग न ददाति कदाचन॥
कथं बलिरसौ दाता कथयस्व यथातथम्॥ १८.४५ ॥
॥ लोमश उवाच॥
यत्नतो येन यत्किंचित्क्रियते सुकृतं नरैः॥
शुभं वाप्यशुभं वापि ज्ञातव्यं हि विपश्चिता॥ १८.४६ ॥
शक्रो हि याज्ञिको विप्रा अश्वमेधशतेन वै॥
प्राप्तराज्योऽमरावत्यां केवलं भोगलोलुपः॥ १८.४७ ॥
अर्थितं तत्फलं विद्धि पुनः कार्पण्यमाविशत्॥
पुनर्मरणमाविश्य क्षीणपुण्यो भविष्यति॥ १८.४८ ॥
य इंद्र कृमिरेव स्यात्कृमिरिंद्रो हि जायते॥
तस्माद्दानात्परतरं नान्यदस्तीह मोचनम्॥ १८.४९ ॥
दानाद्धि प्राप्यते ज्ञानं ज्ञानान्मोक्षो न संशयः॥
मोक्षात्परतरा भक्तिः शूलपाणौ हि वै द्वजाः॥ १८.५० ॥
ददाति सर्वं सर्वेशः प्रसन्नात्मा सदाशिवः॥
किंचिदल्पेन तोयेन परितुष्यति शंकरः॥ १८.५१ ॥
अत्रैवोदाहरंतीममितिहासं पुरातनम्॥
विरोचनसुतेनेदं कृतमस्ति न संशयः॥ १८.५२ ॥
कितवो हि महापापो देवब्राह्मणनिंदकः॥
निकृत्या परयोपेतः परदाररतो महान्॥ १८.५३ ॥
एकदा तु महापापात्कैतावाच्च जितं धनम्॥
गणिकार्थे च पुष्पाणि तांबूलं चंदनं तथा॥ १८.५४ ॥
कौपीनमात्रं तस्यैव कितवस्य प्रदृश्यते॥
कराभ्यां स्वस्तिकं कृत्वा गंधमाल्यादिकं च यत्॥ १८.५५ ॥
गणिकार्थमुपादाय धावमानो गृहं प्रति॥
तदा प्रस्खलितो भूमौ निपपात च तत्क्षणात्॥ १८.५६ ॥
पतनान्मूर्छया युक्तः क्षणमात्रं तदाऽभवत्॥
ततो मूर्छागतस्यास्य पापिनोऽनिष्टकारिणः॥ १८.५७ ॥
बुद्धिः सद्यः समुत्पन्ना कर्मणा प्राक्तनेन हि॥
निर्वेदं परमापन्नः कितवो दुःखसंयुतः॥ १८.५८ ॥
भूम्यां निपतितं यच्च गंधपुष्पादिकं महत्॥
समर्पितं शिवायेति कितवेनाप्यबुद्धिना॥ १८.५९ ॥
चित्रगुप्तेन चाख्यातं दत्तमस्ति त्वया पुनः॥
पतितं चैव देहांते शिवाय परमात्मने॥ १८.६० ॥
पचनीयोसि मे मंद नरकेषु महत्सु च॥
इत्युक्तो धर्मराजेन कितवो वाक्यमब्रवीत्॥ १८.६१ ॥
पापाचारो हि भगवन्कश्चिन्नैव मया कृतः॥
विमृश्यतां मे सुकृतं याथातथ्येन भो यम॥ १८.६२ ॥
चित्रगुप्तेन चाख्यातं द्त्तमस्ति त्वया पुनः॥
पतितं चैव देहांते शिवाय परमात्मने॥ १८.६३ ॥
तेन कर्मविपाकेन घटिकात्रयमेव च ॥
शचीपतेः पदं विद्धि प्राप्स्यसि त्वं न संशयः॥ १८.६४ ॥
आगतस्तत्क्षणाद्देवः सुर्वैः समन्वितः॥
ऐरावतं समारूढो नीतोऽसौ शक्रमंदिरम्॥
शक्रः प्रबोधितस्तेन गुरुणा भावितात्मना॥ १८.६५ ॥
घटिकात्रितयं यावत्तावत्कालं पुरंदर॥
निजासनेऽपि संस्थाप्यः कितवोऽपि ममाज्ञया॥ १८.६६ ॥
गुरोर्वचनमार्कर्ण्य कृत्वा शिरसि तत्क्षणात्॥
गतोऽन्वत्रैव शक्रोऽसौ कितवो हि प्रवेशितः॥
भवनं देवराजस्य नानाश्चर्यसमन्वितम्॥ १८.६७ ॥
शक्रासनेऽभिषिक्तोऽसौ राज्यं प्राप्तः शतक्रतोः॥
शंभोर्गंधप्रदानाच्च पुष्पतांबूलसंयुतम्॥ १८.६८ ॥
किं पुनः श्रद्धया युक्ताः शिवाय परमात्मने॥
अर्पयंति सदा भक्त्या गंधपूष्पादिकं महत्॥ १८.६९ ॥
शिवसायुज्यमायाताः शिवसेनासमन्विताः॥
प्राप्नुवंति महामोदं शक्रो ह्येषां च किंकरः॥ १८.७० ॥
शिवपूजारतानां च यत्सुखं शांतचेतसाम्॥
ब्रह्मशक्रादिकानां च तत्सुखं दुर्लभं महत्॥ १८.७१ ॥
वराकास्ते न जानंति मूढा विषयलोलुपाः॥
वंदनीयो महादेवो ह्यर्चनीयः सदाशिवः॥ १८.७२ ॥
पूजनीयो महादेवः प्राणिभिस्तत्त्ववेदिभिः॥
तस्मादिंद्रत्वमगमत्कितवो घटिकात्रयम्॥ १८.७३ ॥
पुरोधसाभिषिक्तोऽसौ पुरंदरपदे स्थितः॥
तदानीं नारदेनोक्तः कितवोऽसौ महायशाः॥ १८.७४ ॥
इन्द्राणीमानयस्त्वेति यथा राज्यं सुशोभितम्॥
ततः प्रहस्य चोवाच कितवः शिववल्लभः॥ १८.७५ ॥
इन्द्राण्या नास्ति मे कार्यं न वाच्यं ते महामते॥
एवमुक्त्वाथ कितवः प्रदातुमुपचक्रमे॥ १८.७६ ॥
ऐरावतमगस्त्याय प्रददौ शिववल्लभः॥
विश्वामित्राय कितवो ददौ हयमुदारधीः॥ १८.७७ ॥
उच्चैःश्रवससंज्ञं च कामधेनुं महायशाः॥
ददौ वशिष्ठाय तदा चिंतामणिं महाप्रभम्॥ १८.७८ ॥
गालवाय महातेजास्तदा कल्पतरुं च सः॥
कौंडिन्याय महाभागः कितवोपि गृहं तदा॥ १८.७९
एवमादीन्यनेकानि रत्नानि विविधानि च॥
ददावृषिभ्यो मुदितः शिवप्रीत्यर्थमेव च॥ १८.८० ॥
घटितकात्रितयं यावत्तावत्कालं ददौ प्रभुः॥
घटिकात्रितयादूध्व पूर्वस्वामी समागतः॥ १८.८१ ॥
पुरंदरोऽमरावत्यामुपविश्य निजासने॥
ऋषिभिः संस्तुतश्चैव शच्या सह तदाऽभवत्॥ १८.८२ ॥
शचीमुवाच दुर्मेधाः कितवेनासि भामिनि॥
भुक्ता ह्यस्यैव कथय याथातथ्येन शोभने॥ १८.८३ ॥
तदा प्रहस्य चोवाच पुरंदरमकल्मषा॥
आत्मौपम्येन सर्वत्र पश्यति त्वं पुरंदर॥ १८.८४ ॥
असौ महात्मा कितवस्वरूपी शिवप्रसादात्परमार्थविज्ञः॥
वै राग्ययुक्तो हि महानुभावो येनापि सर्वं परमं प्रपन्नम्॥ १८.८५ ॥
राज्यादिकं मोहमयं च पाशं त्यक्ता परेभ्यो विजयी स जातः॥ १८.८६ ॥
वचो निशम्य देवेश इंद्राण्याः स पुरंदरः॥
व्रीडायुक्तोऽभवत्तूष्णीमिंद्रासनगतस्तदा॥ १८.८७ ॥
बृहस्पतिमुवाचेदं वाक्यं वाक्यविदां वरः॥
ऐरावतो न दृश्येत तथैवोच्चैःश्रवा हयः॥ १८.८८ ॥
पारिजातादयः सर्वे पदार्थाः केन वा हृताः॥
गुरुरुवाचेदं कितवेन कृतं महत्॥ १८.८९ ॥
ऋषिभ्यो दत्त मद्यैव यावत्सत्ता हि तस्य वै॥
स्वसत्तायां महत्यां च स्वसत्ता ये भवंति च॥ १८.९० ॥
अप्रमात्ताश्च ये नित्यं शिवध्यानपरायणाः॥
ते प्रियाः शंकरस्यैव हित्वा कर्मफलानि वै॥
केवलं ज्ञानमाश्रित्य ते यांति परमं पदम्॥ १८.९१ ॥
एतच्छ्रुत्वा वचनं तस्य चेंद्रो बृहस्पतेर्वाक्यमिदं वभाषे॥
प्रायो यमो वक्ष्यति सर्वमेतत्समृद्धये ह्यात्मनश्चैव शक्रः॥ १८.९२ ॥
तथेति मत्वा गुरुणा सहैव राजा सुराणां सहसा जगाम॥
स्वकार्यकामो हि तथा पुरंदरो ययौ पुरीं संयमिनीं तदानीम्॥ १८.९३ ॥
यमेन पूज्यमानो हि शक्रो वाक्यमुवाच ह॥
त्वया दत्तं मम पदं कितवाय दुरात्मने॥ १८.९४ ॥
अनेनैतत्कृतं कर्म्म जुगुप्सितं महत्तरम्॥
मदीयानि च रत्नानि यानि सर्वाण्यनेन वै॥
एभ्य एभ्यः प्रदत्तानि धर्म्म जानीहि तत्त्वतः॥ १८.९५ ॥
त्वं धर्मनामासि कथं कितवाय प्रदत्तवान्॥
मम राज्यविनाशाय कृतमस्ति त्वयाऽधुना॥ १८.९६ ॥
आनयस्व महाभाग गजादीनि च सत्वरम्॥
अन्यानि चैव रत्नानि दत्तानि च यतस्ततः॥ १८.९७ ॥
निशम्य वाक्यं शक्रस्य यमो वचनमब्रवीत्॥
कितवं च रुषाविष्टः किं त्वया पापिना कृतम्॥ १८.९८ ॥
भोगार्थं चैव यद्दत्तं शक्रराज्यं त्वयाऽधुन्॥
प्रदत्तं च द्विजातिभ्यो ह्यन्यथा वै कृतं महत्॥ १८.९९ ॥
अकार्यं वै त्वया मूढ परद्रव्यापहारणम्॥
तेन पापेन महता निरयं प्रतिगच्छसि॥ १८.१०० ॥
यमस्य वचनं श्रुत्वा कितवो वाक्यमब्रवीत्॥
अहं निरयगामी च नात्र कार्या विचारणा॥ १८.१०१ ॥
यावत्स्वता मम विभो जाता शक्रासने तथा॥
तावद्दत्तं हि यत्किंचिद्द्विजेभ्यो हि यथातथम्॥ १८.१०२ ॥
॥ यम उवाच॥
दानं प्रशस्तं भूम्यां च दृश्यते कर्म्मणः फलम्॥
स्वर्गे दानं न दातव्यं केनचित्कस्यचित्क्वचित्॥
तस्माद्दंड्योऽसि रे मूढ अशास्त्रीयं कृतं त्वया॥ १८.१०३ ॥
गुरुरात्मवतां शास्ता राजा शास्ताः दुरात्मनाम्॥
सर्वेषां पापशीलानां शास्तऽहं नात्र संशयः॥ १८.१०४ ॥
एवं निर्भर्त्सयित्वा तं कितवं धर्मराट्स्वयम्॥
उवाच चित्रगुप्तं च नरके पच्यतामयम्॥
तदा प्रहस्य चोवाच चित्रगुप्तो यमं प्रति॥ १८.१०५ ॥
कथं निरयगामित्वं कितवस्य भविष्यति॥
येन दत्तो ह्यगस्त्याय गज ऐरावतो महान्॥ १८.१०६ ॥
तथाश्वो ह्यब्धिसंभूतो गालवाय महात्मने॥
विश्वामित्राय भद्रं ते चिंतामणिर्महाप्रभः॥ १८.१०७ ॥
एवमादीनि रत्नानि दत्तानि कितेवन हि॥
तेन कर्मविपाकेन पूजनीयो जगत्त्रये॥ १८.१०८ ॥
शिवमुद्दिश्य यदत्तं स्वर्गे मर्त्ये च यैर्नरैः॥
तत्सर्वं त्वक्षयं विद्यान्निश्छिद्रं कर्म चोच्यते॥
तस्मान्नरकगामित्वं कितवस्य न विद्यते॥ १८.१०९ ॥
यानियानि च पापानि कितवस्य महात्मनः॥
भस्मीभूतानि सर्वाणि जातानि स्मरणाच्च वै॥ १८.११० ॥
शंभोः प्रसादात्सर्वाणि सुकृतानि च तत्क्षणात्॥
तद्वचश्चित्रगुप्तस्य निशम्य प्रेतराट् स्वयम्॥ १८.१११ ॥
प्रहस्यावाङ्मुखो भूत्वा इद माह शतक्रतुम्॥
त्वं हि राजा सुरेंद्राणां स्थविरो राज्यलंपटः॥ १८.११२ ॥
अश्वमेधशतेनैव एकं जन्मार्जितं कृतम्॥
त्वया नास्त्यत्र संदेहो ह्यर्ज्जितं तेन वै महत्॥ १८.११३ ॥
प्रार्थयित्वा ह्यगस्त्यादीन्मुनीन्सर्वान्विशेषतः॥
अर्थेन प्रणिपातेन त्वया लभ्यानि तानि च॥
गजादिकानि रत्नानि येन त्वं च सुखी त्वरन्॥ १८.११४ ॥
तथेति मत्वा वचनं पुरंदरो गतः पुरीं स्वामविवेकदृष्टिः॥
अभ्यर्थयामास विनम्रकंधरश्चर्षीस्ततो लब्धवान्पारिजातम्॥ १८.११५ ॥
अनेनैव प्रकारेण लब्धराज्यः पुरंदरः॥
जातस्तदामरावत्यां राजा सह महात्मभिः॥ १८.११६ ॥
कितवस्य पुनर्जन्म दत्तं वैवस्वतेन हि॥
किंचितकर्मविपाकेन विरोचनसुतोऽभवत्॥ १८.११७ ॥
सुरुचिर्जननी तस्य कितवस्याभवत्तदा॥
विरोचनस्य महिषी दुहिता वृषपर्वणः॥
तस्थौ जठरमास्थाय तस्याः सोऽपि महात्मनः॥ १८.११८ ॥
तदाप्रभृति तस्यैव प्रह्लादस्यात्मजात्स वै॥
सुरुचेश्च तथाप्यासीद्धर्मेदाने महामतिः॥ १८.११९ ॥
तेनैव जठरस्थेन कृता मतिरनुत्तमा॥
कितवेन कृता विप्रा दुर्लभा या मनीषिणाम्॥ १८.१२० ॥
एकदा वै तदा शक्रो ययौ वैरोचनं प्रति॥
हंतुकामो हि दैत्येंद्रं विप्रो भूत्वाऽथ याचकः॥ १८.१२१ ॥
विरोचनगृहं प्राप्त इंद्रो वाक्यमुवाच ह॥
स्थविरो ब्राह्मणो भूत्वा देहीति मम सुव्रत॥
मनस्वी त्वं च दैत्येंद्र दाता च भुवनत्रये॥ १८.१२२ ॥
तव विप्रा महाभाग चरितं परमाद्भुतम्॥
वर्णयन्ति समा जेषु स्थित्वा कीर्ति च निर्मलाम्॥
याचकोऽहं च दैत्येंद्र दातुरर्महसि सुव्रत॥ १८.१२३ ॥
तस्य तद्वचनं श्रुत्वा दैत्येंद्रो वाक्यमब्रवीत्॥
किं दातव्यं तव विभो वद शीघ्रं ममाधुना॥ १८.१२४ ॥
इंद्रो हि विप्ररूपेण विरोचनमुवाच ह॥
याचयामि च दैत्येंद्र यदहं परिभावितः॥ १८.१२५ ॥
आत्मप्रीत्या च दातव्यं मम नास्त्यत्र संशयः॥
उवाच प्रहसन्वाक्यं प्रह्लादस्यात्मजोऽसुरः॥ १८.१२६ ॥
ददाम्यात्मशिरो विप्र यदि कामयसेऽधुना॥
इदं राज्यमनायासमियं श्रीर्नान्यगामिनी॥
अहं समर्पयिष्यामि तव नास्त्यत्र सशयः॥ १८.१२७ ॥
इत्युक्तस्तेन दैत्येन विमृश्य च तदा हरिः॥
उवाच देहि मे स्वीयं शिरो मुकुटसेवितम्॥ १८.१२८ ॥
एवमुक्ते तु वचने शक्रेण द्विजरूपिणा॥
त्वरन्महेंद्राय तदा शिवर उत्कृत्त्य वै मुदा॥
स्वकरेण ददौ तस्मै प्रह्लादस्यात्मजोऽसुरः॥ १८.१२९ ॥
प्रह्लादेन पुरा यस्तु कृतो धर्म्मः सुदुष्करः॥
केवलां भक्तिमाश्रित्य विष्णोस्तत्परचेतसा॥ १८.१३० ॥
दानात्परतरं चान्यत्क्वचिद्वस्तु न विद्यते॥
तद्दानं च महापुण्यमार्तेभ्यो यत्प्रदीयते॥ १८.१३१ ॥
स्वशक्त्या यच्च किंचिच्च तदानंत्याय कल्पते॥
दानात्परतरं नान्यत्त्रिषु लोकेषु विद्यते॥ १८.१३२ ॥
सात्त्विकं राजसं चैव तामसं च प्रकीर्तिततम्॥
तथा कृतमनेनैव दानं सात्त्विकलक्षणम्॥ १८.१३३ ॥
शिर उत्कृत्त्य चेंद्राय प्रदत्तं विप्ररूपिणे॥
किरीटः पतितस्तत्र मणयो हि महाप्रभाः॥ १८.१३४ ॥
ऐकपद्येन पतितास्ते जाता मंडलाय वै॥
दैत्यानां च नरेंद्राणां पन्नगानां तथैव च॥ १८.१३५ ॥
विरोचनस्य तद्दानं त्रिषु लोकेषु विश्रुतम्॥
गायंत्यद्यापि कवयो दैत्येंद्रस्य महात्मनः॥ १८.१३६ ॥
विरोचनस्य पुत्रोऽभूत्कितवोऽसौ महाप्रभः॥
मृते पितरि जातोऽसौ माता तस्य पतिव्रता॥ १८.१३७ ॥
कलेवरं च तत्याज पतिलोकं गता ततः॥
भार्गवेणाभिषिक्तोऽसौ जनकस्य निजासने॥ १८.१३८ ॥
नाम्ना बलिरिति ख्यातो बभूव च महायशाः॥
तेन सर्वे सुरगणास्त्रासिताः सुमहाबलाः॥ १८.१३९ ॥
गतस्ते कथिताः पूर्वं कश्यपस्याश्रमं शुभम्॥
तदा बलिरभूदिन्द्रो देवपुर्यां महायशाः॥ १८.१४० ॥
स्वयं तताप तपसा सूर्यो भूत्वा तदाऽसुरः॥
ईशो भूत्वा स्वयं चास्ते ऐशान्यां दिशि पालयन्॥ १८.१४१ ॥
तथा च नैर्ऋतो भूत्वा तथा त्वंबुपतिः स्वयम्॥
धनाध्यक्ष उदीच्यां वै स्वयमास्ते बलिस्तदा॥
एवमास्ते बलिः साक्षात्स्वयमेव त्रिलोकभुक्॥ १८.१४२ ॥
शिवार्चनरतेनैव कितवेन बलिर्द्विजाः॥
पूर्वाभ्यासेन तेनैव महादानरतोऽभवत्॥ १८.१४३ ॥
एकदा तु सभामध्ये आस्थितो भृगुणा सह॥
दैत्येंद्रैः संवृतः श्रीमाञ्छंडामर्कौ वचोऽब्रवीत्॥ १८.१४४ ॥
आवासः क्रियतामत्र क्रियतामत्र असुरैर्म्मम सन्निधौ॥
हित्वा पातालमद्यैव मा विलंबितुमर्हथ॥ १८.१४५ ॥
भार्गवस्तदुपश्रुत्य प्रहस्येदमुवाच ह॥
यज्ञैश्च विविधैश्चैव स्वर्गलोके महीयते॥ १८.१४६ ॥
याज्ञिकैश्च महाराज नान्यथा स्वर्गमेव हि॥
भोक्तुं हि पार्यते राजन्नान्यता मम भाषितम्॥ १८.१४७ ॥
गुरोर्वचनमाज्ञाय दैत्येंद्रो वाक्यमब्रवीत्॥
मया कॉतं च यत्कर्म तेन सर्वे महासुराः॥
स्वर्गे वसंतु सुचिरं नात्र कार्या विचारणा॥ १८.१४८ ॥
प्रहस्यो वाच भगवान्भार्गवाणां महातपाः॥
बलिनं बालिशं मत्वा शुक्रो बुद्धिमतां वरः॥ १८.१४९ ॥
यत्त्वयोक्तं च वचनं बले मम न रोचते॥
इहैव त्वं समा गत्य वस्तुं चेच्छसि सुव्रत॥ १८.१५० ॥
अश्वमेधशतेनैव यज त्वं जातवेदसम्॥
कर्म्मभूमिं गतो भूत्वा मा विलंबितुमर्हसि॥ १८.१५१ ॥
तथेति मत्वा स बलिर्महात्मा हित्वा तदानीं त्रिदिवं मनस्वी॥
दैत्यैः समेतो गुरुणा च संगतो ययौ भुवं सोनुचरैः समेतः॥ १८.१५२ ॥
तन्नर्मदाया गुरुकुल्यसंज्ञकं तीरे महातीर्थमुदारशोभम्॥
गत्वा तदा दैत्यपतिर्महात्मा जित्वा समग्रं वसुधावलं च॥ १८.१५३ ॥
ततोऽश्वमेधैर्बहुभिर्विचक्षणो गुरुप्रयुक्तः स महायशाबलिः॥
ईजे च दीक्षां परमामुपेतो वैरोचनिं सत्यवतां वरिष्ठः॥ १८.१५४ ॥
कृत्वा ब्राह्मणमाचार्यमृत्विजः षोडशाऽभवन्॥
सुपरीक्षितेन तेनैव भार्गवेण महात्मना॥ १८.१५५ ॥
यज्ञानामूनमेकेन शतं दीक्षापरेण हि॥
बलिना चाश्वमेधानां पूर्णं कर्तुं समादधे॥ १८.१५६ ॥
यावद्यज्ञशतं पूर्णं तस्य राज्ञो भविष्यति॥
पुरा प्रोक्तं मया चात्र ह्यदित्या व्रतमुत्तमम्॥ १८.१५७ ॥
व्रतेन तेन संतुष्टो भगवान्हरिरीश्वरः॥
बटुरूपेम महता पुत्रभूतो बभूव ह॥ १८.१५८ ॥
अदित्याः कश्यपेनैव उपनीतस्तदा प्रभुः॥
उपनीतेऽथ संप्राप्तो ब्रह्मा लोकपितामहः॥ १८.१५९ ॥
दत्तं यज्ञोपवीतं च ब्रह्मणा परमेष्ठिना॥
दंडकाष्ठं प्रदत्तं हि सोमेन च महात्मना॥ १८.१६० ॥
मेखला च समानीता अजिनं च महाद्भुतम्॥
तथा च पादुके चैव मह्या दत्ते महात्मनः॥ १८.१६१ ॥
तत्र भिक्षा समानीता भवान्या चार्थसिद्धये॥
एवं भगवते दत्तं विष्णवे बटुरूपिणे॥ १८.१६२ ॥
अभिवंद्य श्रीशो वामनो ह्दितिं तथा॥
कश्यपंच महातेजा यज्ञवाटं जगाम च॥
याज्ञिकस्य बलेराह च्छलनार्थं स्वयं प्रभुः॥ १८.१६३ ॥
तदा महेशः स जगाम स्वर्गं प्रकंपयन्गां प्रपदा भरेण॥
स वामनो बटुरूपी च साक्षाद्विष्णुः परात्मा सुरकार्यहेतोः॥ १८.१६४ ॥
गीर्भिर्यथार्थाभिरभिष्टुतो जनैर्मुनीश्वरैर्देवगणैर्महात्मा॥
त्वरेण गच्छन्स च यज्ञवाटं प्राप्तस्तदानीं जगदेकबंधुः॥ १८.१६५ ॥
उद्गापयन्साम यतो हि साक्षाच्चकार देवो बटुरूपवेषः॥
उद्गीयमानो भगवान्स ईश्वरो वेदांत वेद्यो हरिरीश्वरः प्रभुः॥ १८.१६६ ॥
ददर्श तं महायज्ञमश्वमेधं बलेस्तदा॥
द्वारि स्थितो महातेजा वामनो बटुरूपधृक्॥ १८.१६७ ॥
ब्रह्मरूपेण महता व्याप्तमासीद्दिगंतरम्॥
पवमानस्य च बटोर्वामनस्य महात्मनः॥ १८.१६८ ॥
तच्छ्रुत्वा च बलिः प्राह शंडामर्क्कौ च बुद्धिमान्॥
ब्राह्मणाः कतिसंख्याश्च आगताः संति ईक्ष्यताम्॥ १८.१६९ ॥
तथेति मत्वा त्वरितावुत्थितौ तौ तदा द्विजाः॥
शंडामर्कौ समागम्य मंडपद्वारि संस्थितौ॥ १८.१७० ॥
ददृशाते महात्मानं श्रीहरिं बटुरूपिणम्॥
त्वरितौ पुनरायातौ बलेः शंसयितुं तदा॥ १८.१७१ ॥
ब्रह्मचारी समायात एक एव न चापरः॥
पठनादौ महाराज चागतस्तव सन्निधौ॥
किमर्थं तन्न जानीमो जानीहि त्वं महामते॥ १८.१७२ ॥
एवमुक्ते तु वचने ताभ्यां स च महामनाः॥
उत्थितस्तत्क्षणादेव दर्शनार्थे बटुं प्रति॥ १८.१७३ ॥
स ददर्श महातेजा विरोचनसुतो महान्॥
दंडवत्पतितो भूमौ ननाम शिरसा बटुम्॥ १८.१७४ ॥
आनयित्वा बटुं सद्यः संनिवेश्यः निजासने॥
अर्घ्यपाद्येन महताभ्यर्चयामास तं बटुम्॥ १८.१७५ ॥
विनम्रकंधरो भूत्वा उवाच श्लक्ष्णया गिरा॥
कुतः कस्माच्च कस्यासि तच्छिघ्रं कथ्यतां प्रभो॥ १८.१७६ ॥
तच्छ्रुत्वा वचनं तस्य विरोचनसुतस्य वै॥
मनसा हृषितश्चासौ वामनो वक्तुमारभत्॥ १८.१७७ ॥
॥भगवानुवाच॥
त्वं हि राजा त्रिलोकेशो नान्यो भवितुमर्हसि॥
स्वकुलं न्यूनतां गच्छेद्यो वै कापुरुषः स्मृतः॥ १८.१७८ ॥
समं वा चाधिको वापि यो गच्छेत्पुरुषः स्मृतः॥
त्वया कृतं च यत्कर्म्म न कृतं पूर्वजैस्तव॥ १८.१७९ ॥
दैत्यानां च वरिष्ठा ये हिरण्यकसिपादयः॥
कृतं महत्तपो येन दिव्यं वर्षसहस्रकम्॥ १८.१८० ॥
शरीरं भक्षितं यस्य जुषाणस्य तपो महत्॥
पिपीलिकाभिर्बहुभिर्दंशैश्चैव समावृतम्॥ १८.१८१ ॥
अभवत्तस्य तज्ज्ञात्वा सुरेंद्रो ह्यगमत्पुरा॥
नगरं तस्य च तदा सैन्येन महता वृतः॥ १८.१८२ ॥
तत्सन्निधौ हताः सर्वे असुरा दैत्यशत्रुणा॥
विंध्या तु महिषी तस्य नीयमाना निवारिता॥ १८.१८३ ॥
नारदेन पुरा राजन्किंचित्कार्यं चिकीर्षुणा॥
शंभोः प्रसादादखिलं मनसा यत्समीक्षितम्॥
दैत्येंद्रेण च तत्सर्वं तपसैव वशीकृतम्॥ १८.१८४ ॥
तस्याः पुत्रो महातेजा येन नीतोऽभवत्सभाम्॥
तस्य पुत्रो महाभाग पिता ते पितृवत्सलः॥
नाम्ना विरोचनो विद्वानिंद्रो येन महात्मना॥ १८.१८५ ॥
दानेन तोषितो राजन्स्वेनैव शिरसा तदा॥
तस्यात्मजोसि भो राजन्कृतं ते परमं यशः॥ १८.१८६ ॥
यशोदीपेन महता दग्धाः शलभवत्सुराः॥
इंद्रोपि निर्जितो येन त्वया नास्त्यत्र संशयः॥ १८.१८७ ॥
श्रुतमस्ति मया सर्वं चरितं तव सुव्रत॥
अल्पकोऽहमिहायातो ब्रह्मचर्यव्रते स्थितः॥ १८.१८८ ॥
उटजार्थे च मे देहि भूमीं भूमिभृतांवर॥
बटोस्तस्यैव तद्वाक्यं श्रुत्वा बलिरभाषत॥ १८.१८९ ॥
हे बटो पंडितो भूत्वा यदुक्तं वचनं पुरा॥
शिशुत्वात्तन्न जानासि श्रुत्वा मन्ये यथार्थतः॥ १८.१९० ॥
वद शीघ्रं महाभाग कियन्मात्रां महीं तव॥
दास्यामि त्वरितेनैव मनसा तद्विमृश्यताम्॥ १८.१९१ ॥
तदाह वामनो वाक्यं स्मयन्मधुरया गिरा॥
असंतोषपरा ये च विप्रा नष्टा न संशयः॥ १८.१९२ ॥
संतुष्टा ये हि विप्रास्ते नान्ये वेषधरा ह्यमी॥
स्वधर्मनिरता राजन्निर्दंभा निरवग्रहाः॥ १८.१९३ ॥
निर्मत्सरा जितकोधावदान्या हि महामते॥
विप्रास्ते हि महाभाग तैरियं धार्यते मही॥ १८.१९४ ॥
मनस्वी त्वं बहुत्वाच्च दातासि भुवनत्रये॥
तथापि मे प्रदातव्या मही त्रिपदसंमिता॥ १८.१९५ ॥
बहुत्वे नास्ति मे कार्यं मह्या वै सुरसूदन॥
प्रवेशमात्रमुटजं तथा मम भविष्यति॥ १८.१९६ ॥
त्रिपदं पूर्यतेऽस्माकं वस्तुं नास्त्यत्र संशयः॥
देहि मे क्रमतो राजन्यावद्भूमिभविष्यति॥
तावत्संख्या प्रदातव्या यदि दातासि भो बले॥ १८.१९७ ॥
प्रहस्य तमुवाचेदं बलिर्वैरोचनात्मजः॥
दास्यामि ते महीं कृत्सां सशैलवनकाननाम्॥ १८.१९८ ॥
मदीयां वै महाभाग मया दत्तां गृहाम वै॥
याचकोऽसि बटो पश्य दानं दैत्याप्रयाचसे॥ १८.१९९ ॥
याचको ह्यल्पको वास्तु दाता सर्वं विमृश्य वै॥
तथा विलोक्य चात्मानं ह्यर्थिभ्यश्च ददाति वै॥ १८.२०० ॥
आत्मौपम्येन सर्वत्र यो ददाति ह्युदारधीः॥
तस्मान्न याचितव्यं हि अर्थिना मंदभागिना॥ १८.२०१ ॥
बटो ददाम्यहं तेऽद्य ससैलवनकाननाम्॥
पृथ्वीं सपर्वतां साब्धिं नान्यथा मम भाषितम्॥ १८.२०२ ॥
पुनः प्रोवाच स बटुर्विरोचनसुतं प्रति॥
पूर्यते मम दैत्येंद्र क्रमतो हि पदैस्त्रिभिः॥ १८.२०३ ॥
बटोस्तद्वचनं श्रुत्वा असुरेन्द्रो बलिस्तदा॥
उवाच प्रहसन्वाक्यं मन्यमानो बलिर्भृशम्॥
गृह्यतां च मया दत्तां पदैस्त्रिभिरलंकृताम्॥ १८.२०४ ॥
इत्युक्तो वामनः प्राह प्रहसन्नसुरं प्रति॥
संकल्प्य सकलां पृथ्वीं दातुमर्हसि सुव्रत॥ १८.२०५ ॥
तथेति मत्वा बलिना सुपूजितः स वामनः कश्यपनंदनो महान्॥
बलिस्तदानीं सहसा नितांतं संस्तूयमानस्त्वृषिभिर्मुनींद्रैः॥ १८.२०६ ॥
तं पूजयित्वा स बलिर्यावद्दातुं समुद्यतः॥
गुरुणा वारित स्तावद्विरोचनसुतो महान्॥ १८.२०७ ॥
न दातव्यं त्वया दानं विष्णवे बटुरूपिणे॥
इंद्रार्थमागतः सद्यो यज्ञविघ्नं करोति ते॥
तस्मात्त्वया न पूज्यो हि विष्णुरध्यात्मदीपकः॥ १८.२०८ ॥
पुरा कृतमनेनैव मोहिनीरूपधारिणा॥
देवेभ्यश्चामृतं दत्तं राहुर्येन हतो महान्॥ १८.२०९ ॥
येन विद्राविता दैत्याः कालनेमिर्हतो बली॥ १८.२१० ॥
एवंविधोऽयं पुरुषो महात्मा स ईश्वरो विश्वपतिः स एव॥
विमृश्य सर्वं मनसा महामते हिताहितं कर्तुमि हार्हसि त्वम्॥ १८.२११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे बलियज्ञे वामनगमनवर्णनं नामाष्टादशोऽध्यायः॥ १८ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 19
॥लोमश उवाच॥
एवं संबोधितो दैत्यो गुरुणा भार्गवेण हि॥
उवाच प्रहसन्वाक्यं मेघगंभीरया गिरा॥ १९.१ ॥
त्वयोक्तोहं हितार्थाय यैर्वाक्यैश्चालितोऽस्म्यहम्॥
तव वाक्यं मम प्रीत्यै हितमप्यहितं भवेत्॥ १९.२ ॥
दास्यामि भिक्षितं चास्मै विष्मवे बटुरूपिणे॥
पात्रीभूतो ह्ययं विष्णुः सर्वकर्मफलेश्वरः॥ १९.३ ॥
येषां हृदि स्थितो विष्णुस्ते वै पात्रतमा ध्रुवम्॥
यस्य नाम्ना सर्वमिदं पवित्रमिव चोच्यते॥ १९.४ ॥
येन वेदाश्च यज्ञाश्च मंत्रतंत्रादयो ह्यमी॥
सर्वे संपूर्णतां यांति सोऽयं विश्वेश्वरो हरिः॥ १९.५ ॥
आगतः कृपया मेद्य सर्वात्मा हरिरीश्वरः॥
उद्धर्तुं मां न संदेह एतज्जानीहि तत्त्वतः॥ १९.६ ॥
तस्य तद्वचनं श्रुत्वा चुकोप च रुषान्वितः॥
भार्गवः शप्तुमारेभे दैत्येंद्रं धर्म्मवत्सलम्॥ १९.७ ॥
मम वाक्यमतिक्रम्य दातुमिच्छस्यरिंदम॥
विगुणो भव रे मंद तस्मात्त्वं निःश्रिको भव॥ १९.८ ॥
एवं शशाप च तदा परमार्थविज्ञं शिष्यं महात्मानमगाधबोधम्॥
स वै जगामाथ महाकविस्त्वरात्स्वमाश्रमं धर्म्मविदां वरिष्ठः॥ १९.९ ॥
गते तु भार्गवे तस्मिन्बलिर्विरोचनात्मजः॥
वामनं चार्चयित्वा स महीं दातुं प्रचक्रमे॥ १९.१० ॥
विंध्यावलिः समागत्य बलेरर्द्धांगशोभिता॥
अवनिज्य बटोः पादौ प्रददौ विष्णवे महीम्॥ १९.११ ॥
संकल्पपूर्वेण तदा विधिना विधिकोविदः॥
संकल्पेनैव महता ववृधे भगवानजः॥ १९.१२ ॥
यदैकेन मही व्याप्ता विष्णुना प्रभविष्णुना॥
सर्वे स्वर्गा द्वितीयेन व्याप्तास्तेन महात्मना॥ १९.१३ ॥
सत्यलोकगतो विष्णोश्चरणः परमेष्ठिना॥
कमण्डलुगतेनैव अंभसा चावनेनिजे॥ १९.१४ ॥
तत्पादसंपर्कजलाच्च जाता भागीरथी सर्वसुमंगला च॥
यया त्रिलोकी च कृता पवित्रा यया च सर्वे सगराः समुद्धृताः॥
यया कपर्दः परिपूरितो वै शंभोस्तदानीं च भगीरथेन॥ १९.१५ ॥
तीर्थानां तीर्थमाद्यं च गंगाख्यमवतारितम्॥
तद्विष्णोश्चरणेनैव समेतं ब्रह्मणा कृतम्॥ १९.१६ ॥
त्रिविक्रमात्परो ह्यात्मा नाम्ना त्रिविक्रमोऽभवत्॥
त्रिविक्रमक्रमाक्रांतं त्रैलोक्यं च तदाऽभवत्॥ १९.१७ ॥
पदद्वयेन वा पूर्णं जगदेतच्चराचरम्॥
विहाय तत्स्वरूपं च देवदेवो जनार्द्दनः॥
पुनश्च बटुरूपोऽसावुपविश्य निजासने॥ १९.१८ ॥
तदा देवाः सगंधर्वा मुनयः सिद्धचारणाः॥
आगताश्च बलेर्यज्ञं द्रष्टुं यज्ञपतिं प्रभुम्॥ १९.१९ ॥
तत्र ब्रह्मा समागत्य स्तुतिं चक्रे परात्मनः॥
बलेस्तत्रैव चान्येन च दैत्येंद्राश्चागतास्त्वरम्॥ १९.२० ॥
एभिः सर्वैः परिवृतो वामनो बलिसद्मनि॥
उपविश्यासने सोऽथ उवाच गरुडं प्रति॥ १९.२१ ॥
दैत्योऽसौ बालिशो भूत्वा दत्तानेन मही मम॥
त्रिपदक्रमणेनैव गृहीतं च पदद्वयम्॥ १९.२२ ॥
पदमेकं प्रतिश्रुत्य न ददाति हि दुर्मतिः॥
तस्मात्त्वया गृहीतव्यं तृतीयं पदमेव च॥ १९.२३ ॥
इत्युक्तो गरुडस्तेन वामनेन महात्मना॥
वैरोचनिं विनिर्भर्त्स्य वाक्यं चेदमुवाच ह॥ १९.२४ ॥
रे बले किं त्वया मूढ कृतमस्ति जुगुप्सितम्॥
अविद्यमाने ह्यर्थे हि किं ददासि परमात्मने॥
औदार्येण हि किं कार्यमल्पकेन त्वयाधुना॥ १९.२५ ॥
इत्युक्तो बलिराविष्टः स्यमानः खगेश्वरम्॥
वक्ष्यमाणमिदं वाक्यं गरुत्मन्तं तदाऽब्रवीत्॥ १९.२६ ॥
समर्थोस्मि महापक्ष गृपणो न भवाम्यहम्॥
येनेदं कारितं सर्वं तस्मै किं प्रददाम्यहम्॥ १९.२७ ॥
असमर्थो ह्यहं तात कृतोऽनेन महात्मना॥
तदोवाच बलिं सोऽपि तार्क्ष्यपुत्रो महामनाः॥ १९.२८ ॥
जानन्नपि च दैत्येंद्र गुरुणापि निवारितः॥
विष्णवेऽपि महीं प्रादास्त्वया किं विस्मृतं महत्॥ १९.२९ ॥
दातव्यं तत्पदं विष्णोस्तृतीयं यत्प्रतिश्रुतम्॥
न ददासि कथं वीर निरयेच पतिष्यसि॥ १९.३० ॥
न ददासि तृतीयं च पदं मे स्वामिनः कथम्॥
बलाद्गृह्णामि रे मूढ इत्युक्त्वा तं महासुरम्॥
बबंध वारुणैः पाशैर्विरोचन सुतं तदा॥ १९.३१ ॥
नितरां निष्ठुरो भूत्वा गरुडो जयतां वरः॥
बद्धं स्वपतिमालोक्य विंध्यावलिः समभ्ययात्॥ १९.३२ ॥
बाणमेकं समारोप्य वामनस्याग्रतः स्थिता॥
वामनेन तदा पृष्टा केयं चात्राग्रतः स्थिता॥ १९.३३ ॥
तदोवाच महातेजाः प्रह्लादो ह्यसुराधिपः॥
बलेः पत्नीति त्वां प्राप्ता इयं विंध्यावली सती॥ १९.३४ ॥
प्रह्लादस्य वचः श्रुत्वा वामनो वाक्यमब्रवीत्॥
ब्रूहि विंध्यावले वाक्यं किं कार्यं ते करोम्यहम्॥
एवमुक्ता भगवता विंध्यावलिरभाषत॥ १९.३५ ॥
॥विन्ध्यावलिरुवाच॥
कस्माद्बद्धो मम पतिर्गरुडेन महात्मना॥
तत्कथ्यतां महाभाग त्वरन्नेव जनार्द्दन॥
तदोवाच महातेजा बटुवेषधरो हिः॥ १९.३६ ॥
॥श्रीभगवानुवाच॥
अनेनैव प्रदत्ता मे मही त्रिपदलक्षणा॥
पदद्वयेन च मयाक्रांतं त्रैलोक्यमद्य वै॥ १९.३७ ॥
अनेन मम दातव्यं तृतीयं पदमेव च॥
तस्माद्बद्धो मया साध्वि गरुडेनैव ते पतिः॥ १९.३८ ॥
श्रुत्वा भगवतो वाक्यमुवाच परमं वचः॥
प्रतिश्रुतमनेनैव न दत्तं हि तव प्रभो॥ १९.३९ ॥
क्रांतं त्रिभुवनं चाद्य त्वया विक्रमरूपिणा॥
तदस्माकं विजघ्नीथाः स्वर्गे वाप्यथवा भुवि॥ १९.४० ॥
किंचिन्न दत्ता हि विभो देवदेव जगत्पते॥
प्रहस्य भगवानाह तदा विंध्यावलिं प्रभुः॥ १९.४१ ॥
पदानि त्रीणि मे चाद्य दातव्यानि कुतोऽधुना॥
शीघ्रं वद विशालाक्षि यत्ते मनसि वर्त्तते॥
तदोवाच च सा साध्वी ह्युरुक्रममवस्थिता॥ १९.४२ ॥
त्वया कुतो वेयमुरुक्रमेण क्रांता त्रिलोकी भुवनैकनाथ॥
तथैव सर्वं जगदेकबंधो देयं किस्माभिरतुल्यरूपिणे॥ १९.४३ ॥
तस्माद्विहाय तद्विष्णो त्वमेवं कुरु संप्रति॥
प्रति श्रुतानि मे भर्त्रा पदानि त्रीणि चाधुना॥
ददाति मे पतिस्तेद्य नात्र कार्या विचारणा॥ १९.४४ ॥
निधेहि मे पदं त्वं हि शीर्ष्णि देववर प्रभो॥
द्वितीयं मे शिशोस्त्वं हि कुरु मूर्ध्नि जगत्पते॥ १९.४५ ॥
तृतीयं च जगन्नाथ कुरु शीर्ष्णि पतेर्मम॥
एवं त्रीणि पदानीश तव दास्यामि केशव॥ १९.४६ ॥
तस्यास्तद्वचनं श्रुत्वा परितुष्टो जनार्दनः॥
उवाच श्लक्ष्णया वाचा विरोचनसुतं प्रति॥ १९.४७ ॥
॥भगवानुवाच॥
सुतलंगच्छ दैत्येन्द्र मा विलंबितुमर्हसि॥
सर्वैश्चासुरसंघैश्च चिरं जीव सुखी भव॥ १९.४८ ॥
परितुष्टोऽस्म्यहं तात किं कार्यं करवाणि ते॥
सर्वेषामपि दातॄणां वरिष्ठोऽसि महामते॥ १९.४९ ॥
वरं वरय भद्रं ते सर्वान्कामान्ददामि ते॥
त्रिविक्रमेणैवमुक्तो विरोचनसुतस्तदा॥ १९.५० ॥
विमुक्तो हि परिष्वक्तो देवदेवेन चक्रिणा॥
तदा बलिरुवाचेदं वाक्यं वाक्यविशारदः॥ १९.५१ ॥
त्वया कृतमिदं सर्वं जगदेतच्चराचरम्॥
तस्मान्न कामये किंचित्त्वत्पदाब्जं विना प्रभो॥ १९.५२ ॥
भक्तिरस्तु पदांभोजे तव देव जनार्दन॥
भूयोभूयश्च देवेश भक्तिर्भवतु शाश्वती॥ १९.५३ ॥
एवमभ्यर्थितस्तेन भगवान्भूतभावनः॥
उवाच परमप्रीतो विरोचनसुतं तदा॥ १९.५४ ॥
॥भगवानुवाच॥
बले त्वं सुतलं याहि ज्ञातिसंबंधिभिर्वृतः॥
एवमुक्तस्तदा तेन असुरो वाक्यब्रवीत्॥ १९.५५ ॥
सुतले किं नु मे कार्यं देवदेव वदस्व मे॥
तिष्ठामि तव सांनिध्ये नान्यथा वक्तुमर्हसि॥ १९.५६ ॥
तदोवाच हृषीकेशो बलिं तं कृपयाऽन्विततः॥
अहं तव समीपस्थो भवामि सततं नृप॥ १९.५७ ॥
द्वारि स्थितस्तव विभो निवासामि नित्यं मा खिद्यतामसुरवर्य बले श्रृणुष्व॥
वाक्यं तु मे वर महो वरदस्तवाद्य वैकुंठवासिभिपलं च भजामि गेहम्॥ १९.५८ ॥
तच्छ्रुत्वा वचनं तस्य विष्मोरतुलतेजसः॥
जगाम सुतलं दैत्यौ ह्यसुरैः परिवारितः॥ १९.५९ ॥
तदा पुत्रशतेनैव बाणमुख्येन सत्वरम्॥
वसमानो महाबाहुर्दातॄणां च परा गतिः॥ १९.६० ॥
त्रैलोक्ये याचका ये च सर्वे यांति बलिं प्रति॥
द्वारि स्थितस्तस्य विष्णुः प्रयच्छति यथेप्सितम्॥ १९.६१ ॥
भुक्तिकामाश्च ये केचिन्मुक्तिकामास्तथा परे॥
येषां यज्ञे च ते विप्रास्तत्तेभ्यः संप्रयच्छति॥ १९.६२ ॥
एवंविधो बलिर्जातः प्रसादाच्छंकरस्य च॥
पुरा हि कितवत्वेन यद्दत्तं परमात्मने॥ १९.६३ ॥
अशुचिं भूमिमासाद्य गंधपुष्पादिकं महत्॥
पतितं चार्प्पितं तेन शिवाय परमात्मने॥ १९.६४ ॥
किं पुनः परया भक्त्या चार्चयंति महेश्वरम्॥
पुष्पं फलं तोयं ते यांति शिवसन्निधिम्॥ १९.६५ ॥
शिवात्परतरो नास्ति पूजनीयो हि भो द्विजाः॥
ये हि मूकास्तथांधाश्च पंगवो ये जडास्तथा॥ १९.६६ ॥
जातिहीनाश्च चंडालाः श्वपचा ह्यंत्यजा ह्यमी॥
शिवभक्तिपरा नित्यं ते यांति परमां गतिम्॥ १९.६७ ॥
तस्मात्सदाशिवः पूज्यः सर्वैरेवमनीषिभिः॥
पूजनीयो हि संपूज्यो ह्यर्चनीयः सदाशिवः॥ १९.६८ ॥
महेशं परमारथज्ञाश्चिंतयंति हृदि स्थितम्॥
यत्र जीवो भवत्येव शिवस्तत्रैव तिष्ठति॥ १९.६९ ॥
विना शिवेन यत्किंचिदशिवं भवति क्षणात्॥
ब्रह्मा विष्णुश्च रुद्रश्च गुणकार्यकरा ह्यमी॥ १९.७० ॥
रजोगुणान्वितो ब्रह्मा विष्णुः सत्त्वगुणान्वितः॥
तमोगुणाश्रितो रुद्रो गुणातीतो महेश्वरः॥ १९.७१ ॥
लिंगरूपो महादेवो ह्यर्चनीयो मुमुक्षुभिः॥
शिवात्परतरो नास्ति भुक्तिमुक्तिप्रदायकः॥ १९.७२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे बलये वरप्रदानवर्णनंनामैकोविंशोऽध्यायः॥ १९ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 20
॥ऋषय ऊचुः॥
ब्रह्मा विष्णुश्च रुद्रश्च सगुणाः कीर्तितास्त्वया॥
लिंगरूपी तथैवेशो निर्गुणोऽसौ कथं वद॥ २०.१ ॥
त्रिभिर्गुणैर्व्याप्तमिदं चराचरं जगन्महद्व्याप्यथ वाल्पकं वा॥
मायामयं सर्वमिदं विभाति लिंगं विना केन कुतोविभाति॥ २०.२ ॥
यद्दृश्यमानं महदल्पकं च तन्नश्वरं कृतकत्वाच्च सूत॥ २०.३ ॥
तस्माद्विमृश्य भोः सूत संशयं छेत्तुमर्हसि॥
व्यासप्रसादात्सकलं जानासि त्वं न चापरः॥ २०.४ ॥
॥सुत उवाच॥
व्यासेन कथितं सर्वमस्मिन्नर्थे शुकं प्रति॥
शुक उवाच॥
लिंगरूपी कथं शंभुर्निर्गुणः कथते त्वया॥
एतन्मे संशयं तात च्छेत्तुमर्हस्यशेषतः॥ २०.५ ॥
॥व्यास उवाच॥
श्रुणु वत्स ब्रवीम्येतत्पुरा प्रोक्तं च नंदिना॥
अगस्त्यं पृच्छमानं च येन सर्वं श्रुतं शुक॥ २०.६ ॥
निर्गुणं परमात्मानं विद्धि लिंगस्वरूपिणम्॥
परा शक्तिस्तथा ज्ञेया निर्गुणा शाश्वती सती ॥ २०.७ ॥
यया कृतिमिदं सर्वं गुणत्रयविभावितम्॥
एतच्चराचरं विश्वं नश्वरं परमार्थतः॥ २०.८ ॥
एक एव परो ह्यात्मा लिंगरूपी निरंजनः॥
प्रकृत्या सह ते सर्वे त्रिगुणा विलयं गताः॥ २०.९ ॥
यस्मिन्नेव ततो लिंगं लयनात्कथितं पुरा॥
तस्माल्लिंगे लयं प्राप्ता परा शक्तिः कुतोऽपरे॥ २०.१० ॥
लीना गुणाश्च रुद्रोक्त्या यैरिदं बद्धमेव च॥
चराचरं महाभाग तस्माल्लिंगं प्रपूजयेत्॥ २०.११ ॥
लिंगं च निर्गुणं साक्षाज्जानीध्वं भो द्रिजोतमाः॥
लयाल्लिंगस्य माहात्म्यं गुणानां परिकीर्त्यते॥ २०.१२ ॥
शंकरः सुखदाता हि उच्यमानो मनीषिभिः॥
सर्वो हि कथ्यते विप्राः सर्वेषामाश्रयो हि स॥ २०.१३ ॥
शंभुर्हि कथ्यते विप्रा यस्माच्च शुभसंभवः॥ २०.१४ ॥
एवं सर्वाणि नामानि सार्थकानि महात्मनः॥
तेनावृतं जगत्सर्वं शंभुना परमेष्ठिना॥ २०.१५ ॥
॥ऋषय ऊचुः॥
यदा दाक्षायणी चाग्नौ पतिता यज्ञकर्मणि॥
दक्षस्य च महाभागा तिरोधानगता सती॥ २०.१६ ॥
प्रादुर्भूता कदा सूत कथ्यतां तत्त्वयाऽधुना॥
परा शक्तिर्महेशस्य मिलिता च कथं पुनः॥ २०.१७ ॥
एतत्सर्वं महाभाग पूर्ववृत्तं च तत्त्वतः॥
कथनीयं च अस्माकं नान्यो वक्तास्ति कश्चन॥ २०.१८ ॥
॥सूत उवाच॥
जज्ञे दाक्षायणी ब्रह्मन्विदग्धावयवा यदा॥
विना शक्त्या महेशोऽपि तताप परमं तपः॥ २०.१९ ॥
लीलागृहीतवपुषा पर्वते हिमवद्गिरौ॥
भृंगिणा सह विश्वेन नंदिना च तथैव च॥ २०.२० ॥
तथा चंडेन मुंडेन तथान्यैर्बहुभिर्वृतः॥
दशभिः कोटिगुणितैर्गणैश्च परिवारितः॥ २०.२१ ॥
गणानां चैव कोट्या च तथा षष्टिसहस्रकैः॥
एवं तत्र गणैर्देव आवृतो वृषभध्वजः॥ २०.२२ ॥
तपो जुषाणः सहसा महात्मा हिमालयस्याग्रगतस्तथैव॥
गणैर्वृतो वीरभद्रप्रधानैः स केवलो मूलविद्याविहीनः॥ २०.२३ ॥
एतस्मिन्नंतरे दैत्याः प्रादुर्भूता ह्यविद्यया॥
विष्णुना हि बलिर्बद्धस्तथा ते वै महाबलाः॥ २०.२४ ॥
जाता दैत्यास्ततो विप्रा इंद्रोपद्रवकारकाः॥
कालखंजा महारौद्राः कालकायास्तथापरे॥ २०.२५ ॥
निवातकवचाः सर्वे रवरावकसंज्ञकाः॥
अन्ये च बहवो दैत्याः प्रजासंहारकारकाः॥ २०.२६ ॥
तारको नमुचेः पुत्रस्तपसा परमेण हि॥
ब्रह्माणं तोषयामास ब्रह्मा तस्य तुतोष वै॥ २०.२७ ॥
वरान्ददौ यथेष्टांश्च तारकाय दुरात्मने॥
वरं वृणीष्व भद्रं ते सर्वान्कामान्ददामि ते॥ २०.२८ ॥
तच्छत्वा वचनं तस्य ब्रह्मणः परमेष्ठिनः॥
वरयामास च तदा वरं लोकभयावहम्॥ २०.२९ ॥
यदि मे त्वं प्रसन्नऽसि अजरामरतां प्रभो॥
देहि मे यद्विजानासि अजेयत्वं तथैव च॥ २०.३० ॥
एवमुक्तस्तदा तेन तारकेण दुरात्मना॥
उवाच प्रहसन्वाक्यममरत्वं कुतस्तव॥ २०.३१ ॥
जातस्य हि ध्रुवो मृत्युरेतज्जानीहि तत्त्वतः॥
प्रहस्य तारकः प्राह अजेयत्वं च देहि मे॥ २०.३२ ॥
ब्रह्मोवाच तदा दैत्यजेयत्वं तवानघ॥
विनार्भकेण दत्तं वै ह्यर्भकस्त्वां विजेष्यते॥ २०.३३ ॥
तदा स तारकः प्राह ब्रह्माणं प्रणतः प्रभो॥
कृतार्थोऽहं हि देवेश प्रसादात्तव संप्रति॥ २०.३४ ॥
एवं लब्धवरो भूत्वा तारको हि महाबलः॥
देवान्युद्धार्थमाहूय युयुधे तैः सहासुरः॥ २०.३५ ॥
मुचुकुन्दं समाश्रित्य देवास्ते जयिनोऽभवन्॥
पुनः पुनर्विकुर्वाणा देवास्ते तारकेण हि॥ २०.३६ ॥
मुचुकुन्दबलेनैव जयमापुःसुरास्तदा॥
किं कर्तव्यं हि चास्माकं युध्यमानैर्निरंतरम्॥ २०.३७ ॥
भवितव्यमिति स्मृत्वा गतास्ते ब्रह्मणः पदम्॥
ब्रह्मणश्चाग्रतो भूत्वा ह्यब्रुवंस्ते सवासवाः॥ २०.३८ ॥
॥ देवा ऊचूः॥
बलिना सह पातालमास्तेऽसौ मधुसूदनः॥
विष्णुं विना हि ते सर्वे वृषाद्याः पतिताः परैः॥ २०.३९ ॥
दैत्येंद्रैश्च महाभाग त्रातुमर्हसि नः प्रभो॥
तदा नभोगता वाणी ह्युवाच परिसांत्व्य वै॥ २०.४० ॥
हे देवाः क्रियतामाशु मम वाक्यं हि तत्त्वतः॥
शिवात्मजो यदा देवा भविष्यति महाबलः॥ २०.४१ ॥
युद्धे पुनस्तारकं च वधिष्यति न संशयः॥
येनोपायेन भगवाञ्छंभुः सर्वगुहाशयः॥ २०.४२ ॥
दारापरिग्रही देवास्तथा नीतिर्विधीयताम्॥
क्रियतां च परो यत्नो भवद्भिर्नान्यथा वचः॥ २०.४३ ॥
यूयं देवा विजानीध्वमित्युवाचाशरीरवाक्॥
परं विस्मयमापन्ना ऊचुर्देवाः परस्परम्॥ २०.४४ ॥
श्रुत्वा नभोगतां वाणीमाजग्मुस्ते हिमालयम्॥
बृहस्पतिं पुरस्कृत्य सर्वे देवा वचोऽब्रुवन्॥२०.४५ ॥
हिमालयं महाभागाः सर्वे कार्यार्थगौरवात्॥
हिमालय महाभाग श्रूयतां नोऽधुना वचः॥ २०.४६ ॥
तारकस्त्रासयत्यस्मान्साहाय्यं तद्वधे कुरु॥
त्वं शरण्यो भवास्माकं सर्वेषां च तपस्विनाम्॥
तस्मात्सर्वे वयं याता महेंद्रसहिता विभो॥ २०.४७ ॥
॥ लोमश उवाच॥
एवमभ्यर्थितो देवैर्हिमवान्गिरिसत्तमः॥
उवाच देवान्प्रहसन्वाक्यं वाक्यविदां वरः॥ २०.४८ ॥
महेन्द्र मुद्दिश्य तदा ह्युपहाससमन्वितः॥
अक्षमाश्च वयं सर्वे महेन्द्रेण कृताः सुराः॥ २०.४९ ॥
किं कुर्मः सुरकार्यं च तारकस्य वधं प्रति॥
पक्षयुक्ता वयं सर्वे यदि स्याम सुरोत्तमाः॥ २०.५० ॥
तदा वयं घातयामस्तारकं सह बांधवैः॥
अचलोहं विपक्षश्च किं कार्यं करवाणि व॥ २०.५१ ॥
तस्य तद्वचनं श्रुत्वा सर्वे देवास्तमब्रुवन्॥
सर्वे यूयं वयं चैव असमर्था वधं प्रति॥
तारकस्य महाभाग एतत्कार्यं विचंत्यताम्॥ २०.५२ ॥
येन साध्यो भवेच्छत्रुस्तारको हि महाबलः॥
तदोवाच महातेजा हिमवान्स सुरान्प्रति॥ २०.५३ ॥
केनोपायेन भो देवास्तारकं हंतुमिच्छथ॥
कथयंतुत्वरेणैव कार्यं वेत्तुं ममैव हि॥ २०.५४ ॥
तदा सुरैः कथितं सर्वमेतद्वाण्या चोक्तं यत्पुरा कार्यहेतोः॥
श्रुतं तदा गिरिणा वाक्यमेत xxxxxxx हिमवान्पर्वतो हि॥ २०.५५ ॥
शिवस्य पुत्रेण च धीमता यदा वध्यो दैत्यस्तारको वै महात्मा॥
तदा सर्वं सुरगकार्यं शुभंस्याद्वाण्या चोक्तं सत्यमेतद्भवेच्च॥ २०.५६ ॥
तस्मात्तदेनत्क्रियतां भवद्भिर्यथा महेशः कुरुते परिग्रहम्॥
कन्या यथा तस्य शिवस्य योग्या निरीक्ष्यतामाशु सुरैरिदानीम्॥ २०.५७ ॥
तस्य तद्वचनं श्रुत्वा प्रहस्योचुः सुरास्तदा॥
जनितव्या त्वया कन्या शिवार्थं कार्यसिद्धये॥ २०.५८ ॥
सुराणां च गिरे वाक्यं कुरु शीघ्रं महामते॥
आधारस्त्वं तु देवानां भविष्यसि न संशयः॥ २०.५९ ॥
इत्युक्तो गिरिराजोऽथ देवैः स्वगृहमामाविशत्॥
पत्नीं मेनां च पप्रच्छ सुकार्यं समागतम्॥ २०.६० ॥
जनितव्या सुकन्यैका सुरकार्यार्थसिद्धये॥
देवानां च ऋषीणां च तथैव च तपस्विनाम्॥ २०.६१ ॥
प्रियं न भवति स्त्रीणां कन्याजननसेव च॥
तथापि जनितव्या च कन्यैका च वरानने॥ २०.६२ ॥
प्रहस्य मेना प्रोवाच स्वपतिं च हिमालयम्॥
यदुक्तं भवता वाक्यं श्रूयतां मे त्वयाऽधुना॥ २०.६३ ॥
कन्या सदा दुःखकरी नृणां पते स्त्रीणां तथा शोककरी महामते॥
तस्माद्विमृश्य सुचिरं स्वयमेव बुद्ध्या यथा हितं शैलपते तदुच्यताम्॥ २०.६४ ॥
हिमवांस्तदुपश्रुत्या प्रियाया वचनं तदा॥
उवाच वाक्यं मेधावी परोपकरणान्वितम्॥ २०.६५ ॥
येनयेन प्रकारेण परेषामुपजीवनम्॥
भविष्यति च तत्कार्यं धीमता पुरुषेण हि॥ २०.६६ ॥
स्त्रियापि चैव तत्कार्यं परोपकरणान्वितम्॥
एवं प्रवर्तिता तेन गिरिणा महिषी तदा॥
दधार जठरे कन्यां मेना भाग्यवती तदा॥ २०.६७ ॥
महाविद्या महामाया महामेधास्वरूपिणी॥
रुद्रकाली च अंबा च सती दाक्षायणी परा॥ २०.६८ ॥
तां विभूतिं विशालाक्षी जठरे परमां सती॥
बभार सा महाभागा मेना चारुविलोचना॥ २०.६९ ॥
स्तुतिं चक्रुस्तदा देवा ऋषयो यक्षकिन्नराः॥
मेनाया भूरिभाग्यायास्तथा हिमवतो गिरेः॥ २०.७० ॥
एतस्मिन्नंतरे जाता गिरिजा नाम नामतः॥
प्रादुर्भूता यदा देवी सर्वेषां च सुखप्रदा॥ २०.७१ ॥
देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः॥
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः॥ २०.७२ ॥
पुष्पवर्षेण महता ववृषुर्विबुधास्तथा॥
तदा प्रसन्नमभवत्सर्वं त्रैलोक्यमेव च॥ २०.७३ ॥
यदावतीर्णा गिरिजा महासती तदैव दैत्या भयमाविशंस्ते॥
प्राप्ता मुदं देवगणा महर्षयः सचारणाः सिद्धगणास्तथैव॥ २०.७४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे श्रीभवान्युत्पत्तिवर्णनंनाम विंशोऽध्यायः॥ २० ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 21
॥लोमश उवाच॥
वर्द्धमाना तदा साध्वी रराज प्रतिवासरम्॥
अष्टवर्षा यदा जाता हिमालयगृहे सती॥ २१.१ ॥
महेशो हिमवद्द्रोण्यां तताप परमं तपः॥
सर्वैर्गणैः परिवृतो वीरभद्रादिभिस्तदा॥ २१.२ ॥
एतत्तपो जुषाणं तं महेशं हिमवान्ययौ॥
तत्पादपल्लवं द्रष्टुं पार्वत्या सह बुद्धिमान्॥ २१.३ ॥
यावत्समागतो द्रष्टं नंदिनासौ निवारितः॥
द्वारि स्थिते च तदा क्षणमेकं स्थिरोऽभवत्॥ २१.४ ॥
पुनर्विज्ञापयामास नंदिना हिमवान्गिरिः॥
विज्ञप्तो नंदिना शंभुरचलो द्रष्टुमागतः॥ २१.५ ॥
तदाकर्ण्य वचस्तस्य नंदिनः परमेश्वरः॥
आनयस्व गिरिं चात्र नंदिनं वाक्यमब्रवीत्॥ २१.६ ॥
तथेति मत्वा नंदी तं पर्वतं च हिमाचलम्॥
आनयामास स तथा शंकरं लोकशंकरम्॥ २१.७ ॥
दृष्ट्वा तदानीं सकलेश्वरं प्रभुं तपो जुषाणं विनिमीलितेक्षणम्॥ २१.८ ॥
कपर्द्धिनं चंद्रकलाविभूषणं वेदांतवेद्यं परमात्मनि स्थितम्॥
ववंद शीर्ष्णा च तदा हिमाचलः परां मुदं प्रापदहीनसत्त्वः॥ २१.९ ॥
उवाच वाक्यं जगदेकमंगलं हिमालयो वाक्यविदां वरिष्ठः॥ २१.१० ॥
सभाग्योऽहं महादेव प्रसादात्तव शंकर॥
प्रत्यहं चागमिष्यामि दर्शनार्थं तव प्रभो॥ २१.११ ॥
अनया सह देवेश अनुज्ञां दातुर्महसि॥
श्रुत्वा तु वचनं तस्य देवदेवो महेश्वरः॥ २१.१२ ॥
आगंतव्यं त्वया नित्यं दर्शनार्थं ममाचल॥
कुमारीं च गृहे स्थाप्य नान्यथा मम दर्शनम्॥ २१.१३ ॥
अचलः प्रत्युवाचेदं गिरिशं नतकंधरः॥
कस्मान्मयानया सार्द्धं नागंतव्यं तदुच्यताम्॥
अचलं च व्रीत शंभुः प्रहसन्वाक्यमब्रवीत्॥ २१.१४ ॥
इयं कुमारी सुश्रोणी तन्वी चारुप्रभाषिणी॥
नानेतव्या मत्समीपे वारयामि पुनः पुनः॥ २१.१५ ॥
एतच्छ्रुत्वा वचनं तस्य शंभोर्निरामयं निःस्पृहनिष्ठुरं वा॥
तपस्विनोक्तं वचनं निशम्य उवाच गौरी च विहस्य शंभुम्॥ २१.१६ ॥
॥गौर्युवाच॥
तपःशक्त्यान्वितः शंभो करोषि विपुलं तपः॥
तव बुद्धिरियं जाता तपस्तप्तुं महात्मनः॥ २१.१७ ॥
कस्त्वं का प्रकृतिः सूक्ष्मा भगवंस्तद्विमृश्यताम्॥
पार्वत्यास्तद्वचः श्रुत्वा महेशो वाक्यमब्रवीत्॥ २१.१८ ॥
तपसा परमेणैव प्रकृतिं नाशयाम्यहम्॥
प्रकृत्या रहितः सुभ्रु अहं तिष्ठमि तत्त्वतः॥
तस्माच्च प्रकृते सिद्धैर् कार्यः संग्रहः क्वचित्॥ २१.१९ ॥
॥पार्वत्युवाच॥
यदुक्तं परया वाचा वचननं शंकर त्वया॥
सा किं प्रकृति र्नैव स्यादतीतस्तां भवान्कथम्॥ २१.२० ॥
यच्छृणोपि यदश्रासि यच्च पश्यसि शंकर॥
वाग्वादेन च किं कार्यमस्माके चाधुना प्रभो॥ २१.२१ ॥
तत्सर्वं प्रकृतेः कार्यं मिथ्यावादो निर्र्थकः॥
प्रकृतेः परतो भूत्वा किमर्थं तप्यते तपः॥ २१.२२ ॥
त्वया शंभोऽधुना ह्यस्मिन्गिरौ हिमवति प्रभो॥
प्रकृत्या मिलितोऽसि त्वं न जानासि हि शंकर॥ २१.२३ ॥
वाग्वादेन च किं कार्यमस्माकं चाधुना प्रभो॥
प्रकृतेः परतस्त्वं च यदि सत्यं वचस्तव॥
तर्हि त्वया न भेतव्यं मम शंकर संप्रति॥ २१.२४ ॥
प्रहस्य भगवान्देवो गिरिजां प्रत्युवाच ह॥ २१.२५ ॥
॥महादेव उवाच॥
प्रत्यहं कुरु मे सेवां गिरिजे साधुभाषिणि॥ २१.२७ ॥
इत्येवमुक्त्वा गिरिजां महेशो हिमालयं वाक्यमथो बभाषे॥
अत्रैव सोऽहं तपसा परेण चरामि भूम्यां परमार्थभावः॥ २१.२७ ॥
तपस्तप्तुमनुज्ञा मे दातव्या पर्वताधिप॥
अनुज्ञया विना किंचित्तपः कर्तुं न पार्यते॥ २१.२८ ॥
एतच्छ्रुत्वा वचस्तस्य देवदेवस्य शूलिनः॥
प्रहस्य हिमवाञ्छंभुमिदं वचनमब्रवीत्॥ २१.२९ ॥
त्वदीयं हि जगत्सर्वं सदेवासुरमानुषम्॥
किमहं तु महादेव तुच्छो भूत्वा ददामि ते॥ २१.३० ॥
एवमुक्तो हिमवता शंकरो लोकशंकरः॥
प्रहस्य गिरिराजं तं याहीति प्राह सादरम्॥ २१.३१ ॥
शंकरेणाब्यनुज्ञातः स्वगृहं हिमवान्ययौ॥
सार्द्धं गिरिजया सोऽपि प्रत्यहं दर्शने स्थितः॥ २१.३२ ॥
एवं कतिपयः कालो गतश्चोपासनात्तयोः॥ २१.३३ ॥
सुतापित्रोश्च तत्रैव शंकरो दुरतिक्रमः॥
पार्वतीं प्रति तत्रैव चिंतामापेदिरे सुराः॥ २१.३४ ॥
ते चिंत्यमानाश्च सुरास्तदानीं कथं महेशो गिरिजां समेष्यति॥
किं कार्यमद्यैव वयं च कुर्मो बृहस्पते तत्कथयस्व मा चिरम्॥ २१.३५ ॥
बृहस्पतिरुवाचेदं महेंद्रं प्रति सद्वचः॥
एवमेतत्त्वया कार्यं महेंद्र श्रूयतां तदा॥ २१.३६ ॥
एतत्कार्यं मदनेनैव राजन्नान्यः समर्थो भविता त्रिलोके॥
विप्लावितं तापसानां तपो हि तस्मात्त्वरात्प्रार्थनीयो हि मारः॥ २१.३७ ॥
गुरोर्वचनमाकर्ण्य आह्वयन्मदनं हरिः॥
आह्वानादाजगामाथ मदनः कार्यसाधकः॥ २१.३८ ॥
रत्या समेतः सह माधवेन स पुष्पधन्वा पुरतः सभायाम्॥
महेंद्रमागम्य उवाच वाक्यं सगर्वितं लोकमनोहरं च॥ २१.३९ ॥
अहमाकारितः कस्माद्ब्रूहि मेऽद्य शचीपते॥
किं कार्यं करवाण्यद्य कथ्यतां मा विलंबितम्॥ २१.४० ॥
मम स्मरणमात्रेण विभ्रष्टा हि तपस्विनः॥
त्वमेव जानासि हरे मम वीर्यपराक्रमौ॥ २१.४१ ॥
मम वीर्यं च जानाति शक्तेः पुत्रः पराशरः॥
एवं चानये च बहवो भृग्वाद्य ऋषयो ह्यमी॥ २१.४२ ॥
गुरुरप्यभिजानाति भार्योतथ्यस्य चैव हि॥
तस्यां जातो भरद्वाजो गुरुणा संकरो हि सः॥ २१.४३ ॥
भरद्वाजो महाभाग इत्युवाच गुरुस्तदा॥
जानाति मम वीर्यं च शौर्यं चैव प्रजापतिः॥ २१.४४ ॥
क्रोधो हि मम बंधुश्च महाबलपरक्रमः॥
उभाभ्यां द्रावितं विश्वं जंगमाजंगमं महत्॥
ब्रह्मादिस्तंबपर्यंतं प्लावितं सचराचरम्॥ २१.४५ ॥
॥देवा ऊचुः॥
मदनद्वं समर्थोसि अस्माञ्जेतुं सदैव हि॥
महेशं प्रति गच्छाशु सुरकार्यार्थसिद्धये॥
पार्वत्या सहितं शंभुं कुरुष्वाद्य महामते॥ २१.४६ ॥
एवमभ्यर्थितो देवैर्मदनो विश्वमोहनः॥
जगाम त्वरितो भूत्वा अप्सरोभिः समन्वितः॥ २१.४७ ॥
ततो जगामाशु महाधनुर्द्धरो विस्फार्य चापं कुसुमान्वितं महत्॥
तथैव बाणांश्च मनोरमांश्च प्रगृह्य वीरो भुवनैकजेता॥
तस्मिन्हिमाद्रौ परिदृश्यमानोऽवनौ स्मरो योधयतां वरिष्ठः॥ २१.४८ ॥
तत्रागता तदा रंभा उर्वशी पुंजिकस्थली॥
सुम्लोचा मिश्रकेशी च सुभगा च तिलोत्तमा॥ २१.४९ ॥
अन्याश्च विविधाः जाताः साहाय्ये मदनस्य च॥
अप्सरसो गणैर्दृष्टा मदनेन सहैव ताः॥ २१.५० ॥
सर्वे गणाश्च सहसा मदनेन विमोहिताः॥
भृंगिणा च तदा रंभा चण्डेन सह चोर्वशी॥ २१.५१ ॥
मेनका वीरभद्रेण चण्डेन पुंजिकस्थली॥
तिलोत्तमादयस्तत्र संवृताश्च गणैस्तदा॥ २१.५२ ॥
अमत्तभूतैर्बहुभिस्त्रपां त्यक्त्वा मनीषिभिः॥
अकाले कोकिला भिश्च व्याप्तामासीन्महीतलम्॥ २१.५३ ॥
अशोकाश्चंपकाश्चूता यूथ्यश्चैव कदंबकाः॥
नीषाः प्रियालाः पनसा राजवृक्षाश्चरायणाः॥ २१.५४ ॥
द्राक्षावल्लयः प्रदृश्यंते बहुला नागकेशराः॥
तथा कदल्यः केतक्यो भ्रमरैरुपशोभिताः॥ २१.५५ ॥
मत्ता मदनसंगेन हंसीभिः कलहंसकाः॥
करेणुभिर्गजाह्यासञ्छिखंडीभिः शिखंडिनः॥ २१.५६ ॥
निष्कामा ह्यतुरा ह्यासञ्छिवसंपर्कजैर्गुणैः॥
अकस्माच्च तथाभूतं कथं जातं विमृश्य च॥ २१.५७ ॥
शैलादो हि महातेजा नंदी ह्यमितविक्रमः॥
रक्षसं विबुधानां वा कृत्यमस्तीत्यचिंतयत्॥ २१.५८ ॥
एतस्मिन्नंतरे तत्र मदनो हि धनुर्द्धरः॥
पंचबाणान्समारोप्य स्वकीये धनुषि द्विजाः॥
तरोश्छायां समाश्रित्य देवदारुगतां तदा॥ २१.५९ ॥
निरीक्ष्य शंभुं परमासने स्तितं तपो जुषाणं परमेष्ठिनां पतिम्॥
गंगाधरं नीलतमालकंठं कपर्दिनं चन्द्रकलासमेतम्॥ २१.६० ॥
भुजंगभोगांकितसर्वगात्रं पंचाननं सिंहविशालविक्रमम्॥
कर्पूरगौरे परयान्वितं च स वेद्धुकामो मदनस्तपस्विनम्॥ २१.६१ ॥
दुरासदं दीप्तिमतां वरिष्ठं महेशमुग्रं सह माधवेन॥
यावच्छिवं वेद्धुकामः शरेण तावद्याता गिरिजा विश्वमाता॥
सखीजनैः संवृता पूजनार्थं सदाशिवं मंगलं मंगलानाम्॥ २१.६२ ॥
कनककुसुममालां संदधे नीलकंठे सितकिरणमनोज्ञादुर्ल्लभा सा तदानीम्॥
स्मितविकसितनेत्रा चारुवक्त्रं शिवस्य सकलजननित्री वीक्षमाणा बभूव॥ २१.६३ ॥
तावद्विद्धः शरेणैव मोहनाख्येन चत्वरात्॥
विध्यमानस्तदा शंभुः शनैरुन्मील्य लोचने॥
ददर्श गिरिजां देवोब्धिर्यथा शशिनः कलाम्॥ २१.६४ ॥
चारुप्रसन्नवदनां बिंबोष्ठीं सस्मितेक्षणाम्॥
सुद्विजामग्निजां तन्वीं विशालवदनोत्सवाम्॥ २१.६५ ॥
गौरीं प्रसन्नमुद्रां च विश्वमोहनमोहनाम्॥
यया त्रिलोकरचना कृता ब्रह्मादिभिः सह॥ २१.६६ ॥
उत्पत्तिपालनविनाशकरी च या वै कृत्वाग्रतः सत्त्वरजस्तमांसि॥
सा चेतनेन ददृशे पुरतो हरेण संमोहनी सकलमंगलमंगलैका॥ २१.६७ ॥
तां निरीक्ष्य भवो देवो गिरिजां लोकपावनीम्॥
मुमोह दर्शनात्तस्या मदनेनातुरीकृतः॥
विस्मयोत्फुल्लनयनो बभूव सहसा शिवः॥ २१.६८ ॥
एवं विलोकमानोऽसौ देवदेवो जगत्पतिः॥
मनसा दूयमानेन इदमाह सदाशिवः॥ २१.६९ ॥
अनया मोहितः कस्मात्तपःस्थोऽहं निरामयः॥
कुतः कस्माच्च केनेदं कृतमस्ति ममाप्रियम्॥ २१.७० ॥
ततो व्यलोकयच्छंभुर्द्दिक्षु सर्वासु सादरम्॥
तावद्दृष्टो दक्षिणस्यां दिशि ह्यात्तशरासनः॥ २१.७१ ॥
चक्रीकृतधनुः सज्जं चक्रे बेद्धुं सदाशिवम्॥
यावत्पुनः संधयति मदनो मदनांतकम्॥
तावद्दृष्टो महेशेन सरोषेण तदा द्विजाः॥ २१.७२ ॥
निरीक्षितस्तृतीयेन चक्षुषा परमेण हि॥
मदनस्तत्क्षणादेव ज्वालामालावृतोऽभवत्॥
हाहाकारो महानासीद्देवानां तत्र पश्यताम्॥ २१.७३ ॥
॥देवा ऊचुः॥
देवदेव महादेव देवानां वरदो भव॥
गिरिजायाः सहायार्थं प्रेषितो मदनोऽधुना॥ २१.७४ ॥
वृथा त्वयाथ दग्धोऽसौ मदनो हि महाप्रभः॥ २१.७५ ॥
त्वया हि कार्यं जगदेकबंधो कार्यं सुराणां परमेण वर्चसा॥
अस्यां समुत्पत्स्यति देव शंभो तेनैव सर्वं भवतीह कार्यम्॥ २१.७६ ॥
तारकेण महादेव देवाः संपीडिता भृशम्॥
तदर्थं जीवितं चास्य दत्त्वा च गिरिजां प्रभो॥ २१.७७ ॥
वरयस्व महाभाग देवाकार्ये भव क्षमः॥
गजासुरात्तवया त्राता वयं सर्वे दिवौकसः॥ २१.७८ ॥
कालकूटाच्च नूनं हि रक्षिताः स्मो न चान्यथा॥
भस्मासुराच्च सर्वेश त्वया त्राता न संशयः॥ २१.७९ ॥
मदनोयं समायातः सुराणां कार्यसिद्धये॥
तस्मात्त्वया रक्षणीय उपकारः परो हि नः॥ २१.८० ॥
विना तेन जगत्सर्वं नाशमेष्यति शंकर॥
निष्कामस्त्वं कथं शंभो स्वबुद्ध्या च विमृस्यताम्॥ २१.८१ ॥
तदोवाच रुषाविष्टो देवान्प्रति महेश्वरः॥
विना कामेन भो देवा भवितव्यं न चान्यथा॥ २१.८२ ॥
यदाःकामं पुरस्कृत्य सर्वे देवाः सवासवाः॥
पदभ्रष्टाश्च दुःखेन व्याप्ता दैन्यं समाश्रिताः॥ २१.८३ ॥
कामो हि नरकायैव सर्वेषां प्राणिनां ध्रुवम्॥
दुःखरूपी ह्यनंगोऽयं जानीध्वं मम भाषितम्॥ २१.८४ ॥
तारकोऽपि दुराचारो निष्कामोऽद्य भविष्यति॥
विनाकामेन च कथं पापमाचरते नरः॥ २१.८५ ॥
तस्मात्कामो मया दग्धः सर्वेषां शांतिहेतवे॥
युष्माभिश्च सुरैः सर्वैरसुरैश्च महर्षिभिः॥ २१.८६ ॥
अन्यैः प्राणिभिरेवात्र तपसे धीयतां मनः॥
कामक्रोधविहीनं च जगत्सर्वं मया कृतम्॥ २१.८७ ॥
तस्मादेनं पापिनं दुःखमूलं न जीवयिष्यामि सुराः प्रतीक्ष्यताम्॥
निरन्तरं चात्मसुखप्रबोधमानंदलक्षणमागाधमनन्यरूपम्॥ २१.८८ ॥
एवमुक्तास्तदा तेन शंभुना परमेष्ठिना॥
ऊचुर्महर्षयः सर्वे शकर लोकशंकरम्॥ २१.८९ ॥
यदुक्तं भवता शंभो परं श्रेयस्करं हि नः॥
किं तु वक्ष्याम देवेश श्रूयतां चावधार्यताम्॥ २१.९० ॥
यथा सृष्टमिदं विश्वं कामक्रोधसमन्वितम्॥
तत्सर्वं कामरूपं हि स कामो न तु हन्यते॥ २१.९१ ॥
धर्मार्थकामामोक्षाश्च चत्वारो ह्येकरूपताम्॥
नीतायेन महादेव स कामोऽयं न हन्यते॥ २१.९२ ॥
कथं त्वया हि संदग्धः कामो हि दुरतिक्रमः॥
येन संघटितं विश्वमाब्रह्मस्थावरात्मकम्॥ २१.९३ ॥
कामेन हीयते विश्वं कामेन पाल्यते॥
कामेनोत्पद्यते विश्वं तस्मात्कामो महाबलः॥ २१.९४ ॥
यस्मात्क्रोधो भवत्युग्रो येन त्वं च वशीकृतः॥
तस्मात्कामं महादेव संबोधयितुमर्हसि॥ २१.९५ ॥
त्वया संपादितो देव मदनो हि महाबलः॥
समर्थो हि समर्थत्वात्तत्सामर्थ्यं करिष्यति॥ २१.९६ ॥
ऋषिभिश्चैवमुक्तोऽपि द्विगुणं रूपमास्थितः॥
चक्षुषा हि तृतीयेन दग्धुकामो हरस्तदा॥ २१.९७ ॥
मुनिभिश्चारणैः सिद्धैर्गणैश्चापि सदाशिवः॥
स्तुतश्च वंदितो रुद्रः पिनाकी वृषवाहनः॥ २१.९८ ॥
मदनं च तथा दग्ध्वा त्यक्त्वा तं पर्वतं रुषा॥
हिमवंताभिधं सद्यस्तिरोधानगतोऽभवत्॥ २१.९९ ॥
तिरोधानगतं देवी वीक्ष्य दग्धं च मन्मथम्॥
सकोकिलं सचूतं च सभृंगं सहचंपकम्॥ २१.१०० ॥
तथैव दग्धं मदनं विलोक्य रत्या विलापं च तदा मनस्विनी॥
सबाष्पदीर्घं विमना विमृस्य कथं स रुद्रो वशगो भवेन्मम॥ २१.१०१ ॥
एवं विमृश्य सुचिरं गिरिजा तदानीं संमोहमाप च सती हि तथा बभाषे॥
संमुह्यमाना रुदतीं निरीश्यरतिर्महारूपवतीं मनस्विनीम्॥ २१.१०२ ॥
मा विषादं कुरु सखि मदनं जीवयाम्यहम्॥
त्वदर्थं भो विशालाक्षि तपसाऽऽराधयाम्यहम्॥ २१.१०३ ॥
हरं रुद्रं विरुपाक्षं देवदेवं जगद्गुरुम्॥
मा चिंतां कुरु सुश्रोमि मदनं जीवयाम्यहम्॥ २१.१०४ ॥
एवम श्वास्य तां साध्वी गिरिजां रतिरंजसा॥
तपस्तेपे च सुमहत्पतिं प्राप्तुं सुमध्यमा॥ २१.१०५ ॥
मदनो यत्र दग्धश्च रुद्रेण परमात्मना॥
तप्यमानां तपस्तत्र नारदो ददृशे तदा॥ २१.१०६ ॥
उवाच गत्वा सहसा भामिनीं रतिमंतिके॥
कस्यासि त्वं विशालाक्षि केन वा तप्यते तपः॥ २१.१०७ ॥
तरुणी रूपसंपन्ना सौभाग्येन परेण हि॥
नारदस्य वचः श्रुत्वा रोषेण महता तदा॥
उवाच वाक्यं मधुरं किंचिन्निष्ठुरमेव च॥ २१.१०८ ॥
॥रतिरुवाच॥
नारदोऽसि मया ज्ञातः कुमारस्त्वं न संशयः॥
स्वस्वरूपादर्शनं च कर्तुमर्हसि सुव्रत॥ २१.१०९ ॥
यथागतेन मार्गेण गच्छ त्वं मा विलंबितम्॥
बटो न किंचिज्जानासि केवलं कलिकृन्महान्॥ २१.११० ॥
परस्त्रीकामुकाः क्षुद्रा विटा व्यसनिनश्च ये॥
तथा ह्यकर्मिणः स्तब्धास्तेषां मध्ये त्वमग्रणीः॥ २१.१११ ॥
एवं निर्भर्त्सितो रत्या नारदो मुनिसत्तमः॥
स्वयं जगाम त्वरीतं शंबरं दैत्यपुंगवम्॥ २१.११२ ॥
शशंस दैत्यराजाय दग्धं मदनमेव च॥
रुद्रेण क्रोधयुक्तेन तस्य भार्या मनस्विनी॥ २१.११३ ॥
तामानय महाभाग भार्यां कुरु महाबल॥
अतीव रूपसंपन्ना या आनीतास्त्वयानघ॥
तासां मध्ये रूपवती रतिः सा मदनप्रिया॥ २१.११४ ॥
एवमाकर्ण्य वचनं देवर्षेर्भावितात्मनः॥
जगाम सहसा तत्र यत्रास्ते सा सुशोभना॥ २१.११५ ॥
तां दृष्ट्वा सु विशालाक्षीं रतिं मदनमोहिनीम्॥
उवाच प्रहसन्वाक्यं शंबरो देवसंकटः॥ २१.११६ ॥
एहि तन्वि मया सार्द्धं राज्यं भोगान्यथेष्टतः॥
भुंक्ष्व देवि प्रसादान्मे तपसा किं प्रयोजनम्॥ २१.११७ ॥
एवमुक्ता तदा तेन शंबरेण महात्मना॥
उवाच तन्वी मधुरं महिषी मदनस्य सा॥ २१.११८ ॥
विधवाहं महाबाहो नैवं भाषितुमर्हसि॥
राजा त्वं सर्वदैत्यानां लक्ष्णैः परिवारितः॥ २१.११९ ॥
एतत्तद्वचनं श्रुत्वा शंबरः काममोहितः॥
करे ग्रहीतु कामोऽसौ तदा रत्या निवारितः॥ २१.१२० ॥
विमृश्य मनसा सर्वमजेयत्वं च तस्य वै॥
मा स्पृश त्वं च रे मूढ मम संस्पर्शजेन वै॥ २१.१२१ ॥
संपर्केण च दग्धोऽसि नान्यथा मम भाषितम्॥
तदोवाच महातेजाः शंबरः प्रहसन्निव॥ २१.१२२ ॥
विभीषिकाभिर्बह्वीभिर्मां भीषयसि मानिनि॥
गच्छ शीघ्रं मम गृहं बहूक्त्या किं प्रयोजनम्॥ २१.१२३ ॥
इत्युच्यमानेन तदा नीता सा प्रसभं तथा॥
स्वपुरं परमं तन्वी शंबरेण मनस्विनी॥ २१.१२४ ॥
कृता महानसेऽध्यक्षा नाम्ना मायावतीति च॥ २१.१२५ ॥
॥ऋषय ऊचुः॥
पार्वत्याधिकृतं सर्वं मदनानयनं प्रति॥
संबरेण हृतातन्वी मदनस्य प्रिया सती॥
अत ऊर्ध्वं तदा सूत किं जातं तत्र वर्ण्यताम्॥ २१.१२६ ॥
॥सूत उवाच॥
गतं तदा शिवं दृष्ट्वा दग्ध्वा मदनमोजसा॥
पार्वती तपसा युक्ता स्थिता तत्रैव भामिनी॥ २१.१२७ ॥
पित्रा तेन तदा तन्वी मात्रा चैव विचारिता॥
बाले एहि गृहे शीघ्रं मा श्रमं कर्तुमर्हसि॥ २१.१२८ ॥
उक्ता ताभ्यां तदा साध्वी गिरिजा वाक्यमब्रवीत्॥ २१.१२९ ॥
॥पार्वत्युवाच॥
नागच्छामि गृहं मातस्तात मे श्रृणु तत्त्वतः॥
वाक्यं धर्मार्थयुक्तं च येन त्वं तोषमेष्यसि॥ २१.१३० ॥
शंभुः परेषां परमो दग्धो येन महाबलः॥
मदनो मम सान्निध्यमानयेऽत्रैव तं शिवम्॥ २१.१३१ ॥
दुर्लभोहि तदा शंभुः प्राणिनां गृहमिच्छताम्॥
नागच्छामि गृहं मातस्तस्मात्सर्वं विमृश्यताम्॥ २१.१३२ ॥
तदोवाच महातेजा हिमवान्स्वसुतां प्रति॥
दुराराध्यः शिवः साक्षात्सर्वदेवनमस्कृतः॥
त्वया प्राप्तुमशक्यो हि तस्मात्त्वं स्वगृहं व्रज॥ २१.१३३ ॥
सा बाष्पपूरितेनैव कंठेन स्वसुतां प्रति॥
उवाच मेना तन्वंगियाहि शीघ्रं गृहं प्रति॥ २१.१३४ ॥
तदा प्रहस्य चोवाच मातरं प्रति पार्वती॥
प्रतिज्ञां श्रृणु मे मातस्तपसा परमेण हि॥ २१.१३५ ॥
अत्रैव तं समानीय वरयामि विचक्षणम्॥
नाशयामि रुद्रस्य रुद्रत्वं वारवर्णिनि॥ २१.१३६ ॥
सुखरूपं परित्यज्य गिरिजा च मनस्विनी॥
शंभोरारधनं चक्रे परमेण समाधिना॥ २१.१३७ ॥
जया च विजया चैव माधवी च सुलोचना॥
सुश्रुता च श्रुता चैव तथैव च शुकी परा॥ २१.१३८ ॥
प्रम्लोचा सुभगा श्यामा चित्रांगी चारुणी स्वधा॥
एताश्चान्याश्च बहवः सख्यस्ता गिरिजां प्रति॥
उपासांचक्रिरे सा च देवगर्भा च भामिनी॥ २१.१३९ ॥
तपसा परमोग्रेण चरंती चारुहासिनी॥
मदनो यत्र दग्धश्च रुद्रेण च महात्मना॥
तत्रैव वेदिं कृत्वा च तस्योपरि सुसंस्थिता॥ २१.१४० ॥
त्यक्त्वा जलाशनं बाला पर्णादा ह्यभवच्च सा॥
ततः साऽर्द्राणि पर्णानि त्यक्त्वा शुष्काणि चाददे॥ २१.१४१ ॥
शुष्काणि चैव पर्णानि नाशितानि तया यदा॥
अपर्णेति च विख्याता बभुव तनुमध्यमा॥ २१.१४२ ॥
वायुपानरता जाता अंबुपानादनंतरम्॥
कालक्रमेण महता बभूव गिरिजा सती॥
एकांगुष्ठेन च तदा दधार च निजं वपुः॥ २१.१४३ ॥
एवमुग्रेण तपसा शंकराराधनं सती॥
चकार परया तुष्ट्या शंभोः प्रीत्यर्थमेव च॥ २१.१४४ ॥
परं भावं समाश्रित्य जगन्मंगलमंगला॥
तुष्ट्यर्थं च महेशस्य तताप परमं तपः॥ २१.१४५ ॥
एवं दिव्यसहस्राणि वर्षाणि च तताप वै॥
हिमा लयस्तदागत्य पार्वतीं कृतनिश्चयाम्॥ २१.१४६ ॥
सभार्यः स सुतामाप्त उवाच च महासतीम्॥
मा खिद्यतां महादेवि तपसानेन भामिनि॥ २१.१४७ ॥
क्व रुद्रो दृश्यते बाले विरक्तो नात्र संशयः॥
त्वं तन्वी तरुणी बाला तपसा च विमोहिता॥ २१.१४८ ॥
भविष्यति न संदेहः सत्यं प्रतिवदामि ते॥
तस्मादुत्तिष्ठ याह्याशु स्वगृहं वरवर्णिनि॥ २१.१४९ ॥
किं तेन तव रुद्रेण ये दग्धः पुराऽनघे॥
मदनो निर्विकारित्वात्तं कथं प्रार्थयिष्यसि॥ २१.१५० ॥
गगनस्थो यथा चंद्रो ग्रहीतुं न हि शक्यते॥
तथैव दुर्गमः शर्भुर्जानीहि त्वं शुचिस्मिते॥ २१.१५१ ॥
तथैव मेनया चोक्ता तथा सह्याद्रिणा सती॥
मेरुणा मंदरेणैव मैनाकेन तथैव च॥ २१.१५२ ॥
एभिरुक्ता तदा तन्वी पार्वती तपसि स्थिता॥
उवाच प्रहसन्त्तेव हिमवंतं शुचिस्मिता॥ २१.१५३ ॥
पुरा प्रोक्तं त्वया तात अंब किं विस्मृतं त्वया॥
अधुनैव प्रतिज्ञां च श्रृणुध्वं मम बांधवाः॥ २१.१५४ ॥
विरक्तोऽसौ महादेवो मदनो येन वै हतः॥
तं तोषयामि तपसा शंकरं लोकशंकरम्॥ २१.१५५ ॥
सर्वे यूयं च गच्छंतु नात्र कार्या विचारणा॥
दग्धो हि मदनो येन येन दग्धं गिरेर्वनम्॥ २१.१५६ ॥
तमानयामि चात्रैव तपसा केवलेन हि॥
तपोबलेन महता सुसेव्यो हि सदाशिवः॥ २१.१५७ ॥
तं जानीध्वं महाभागाः सत्यंसत्यं वदाम्यहम्॥ २१.१५८ ॥
संभाषमाणा जननीं तदानीं हिमालयं चैव तथा च मेनाम्॥
तथैव मेरुं मितभाषिणी तदा सा मंदरं पर्वतराजकन्या॥
जग्मुस्तदा तेन पथा च पर्वता यथागतेनापि विचक्षमाणाः॥ २१.१५९ ॥
गतेषु तेषु सर्वेषु सखीभिः परिवारिता॥
तत्रैव च तपस्तेपे परमार्था सती तदा॥ २१.१६० ॥
तपसा तेन महता तप्तमासीच्चराचरम्॥
तदा सुरासुराः सर्वे ब्रह्माणं शरणं गताः॥ २१-१६१ ॥
॥देवा ऊचुः॥
त्वया सृष्टमिदं सर्वं जगद्देव चराचरम्॥
त्रातुमर्हसि देवान्नस्त्वदन्यो नोपपद्यते॥ २१.१६२ ॥
अस्माकं रक्षणे शक्त इत्याकर्ण्य वचस्तदा॥
विमृश्य च तदा ब्रह्मा मनसा परमेण हि॥ २१.१६३ ॥
गिरिजातपसोद्भूतं दावाग्निं परमं महत्॥
ज्ञात्वा ब्रह्मा जगा माशु क्षीराब्धिं परमाद्भुतम्॥ २१.१६४ ॥
तत्र सुप्तं सुप्लयंके शेषाख्ये चातिशोभने॥
लक्ष्म्या पादोपयुगलं सेव्यमानं निरंतरम्॥ २१.१६५ ॥
दूरस्थेनापि तार्क्ष्येण नतकंधरधारिणा॥
सेव्यमानं श्रिया कांत्या क्षांत्या वृत्त्या दयादिभिः॥ २१.१६६ ॥
नवशक्तियुतं विष्णुं पार्पदैः परिवारितम्॥
कुमुदोथ कुमुद्वांश्च सनकश्च सनंदनः॥ २१.१६७ ॥
सनातनो महाभागः प्रसुप्तो विजयोऽरिजित्॥
जयंतश्च जयत्सेनो जयश्चैव महाप्रभः॥ २१.१६८ ॥
सनत्कुमारः सुतपा नारदश्चैव तुंबुरुः॥
पांचजन्यो महाशंखो गदा कौमोदकी तथा॥ २१.१६९ ॥
सुदर्शनं तथा चापं शार्ङ्गं च परमाद्भुतम्॥
एतानि वै रूपवंति दृष्टानि परमेष्ठिना॥ २१.१७० ॥
विष्णोः समीपे परमामनो भृशं समेत्य सर्वे सुरदानवास्तदा॥
विष्णुं चाहुः परमेष्ठिनां पतिं तीरे तदानीमुदधेर्महात्मनः॥ २१.१७१ ॥
त्राहित्राहि महाविष्णो तप्तान्नः शरणागतान्॥
तपसोग्रेण महता पार्वत्याः परमेण हि॥
शेषासने चोपविष्ट उवाच परमेश्वरः॥ २१.१७२ ॥
युष्माभिः सहितश्चापि व्रजामि परमेश्वरम्॥
महादेवं प्रार्थयामो गिरिजां प्रति वै सुराः॥ २१.१७३ ॥
पाणिग्रहार्थमधुना देवदेवः पिनाकधृक्॥
यथा नेष्यति तत्रैव करिष्यामोऽधुना वयम्॥ २१.१७४ ॥
तस्माद्वयं गमिष्यामो यत्र रुद्रो महाप्रभुः॥
तपसोग्रेण संयुक्तो ह्यास्ते परममंगलः॥ २१.१७५ ॥
विष्णोस्तद्वचनं श्रुत्वा ऊचुः सर्वे सुरासुराः॥
न यास्यामो वयं सर्वे विरूपाक्षं महाप्रभम्॥ २१.१७६ ॥
यदा दग्धः पुरा तेन मदनो दुरतिक्रमः॥
तथैव धक्ष्यत्यस्माकं नात्र कार्या विचारणा॥ २१.१७७ ॥
प्रहस्य भगवान्विष्णुरुवाच परमेश्वरः॥
मा भयं क्रियतां सर्वैः शिवरूपी सदाशिवः॥ २१.१७८ ॥
स न धक्ष्यति सर्वेषां देवानां भयनाशनः॥
तस्माद्भवद्भिर्गतव्यं मया सार्द्धं विचक्षणाः॥ २१.१७९ ॥
शंभुं पुराणं पुरुषं ह्यधीशं वरेण्यरूपं च परं पराणाम्॥
तपो जुषाणं परमार्थरूपं परात्परं तं शरणं व्रजामि॥ २१.१८० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे पार्वतीपश्चर्यावर्णनंनामैकविंशतितमोऽध्यायः॥ २१ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 22
॥सूत उवाच॥
एवमुक्तास्तदा देवा विष्णुना परमेष्ठिना॥
जग्मुः सर्वे महेशं च द्रष्टुकामाः पिनाकिनम्॥ २२.१ ॥
परे पारे परमेण समाधिना॥
योगपीठे स्धितं शंभुं गणैश्च परिवारितम्॥ २२.२ ॥
यज्ञोपवीतविधिना उरसा बिभ्रतं वृतम्॥
वासुकिं सर्पराजं च कंबलाश्वतरौ तथा॥ २२.३ ॥
कर्णद्वये धारयंतं तथा कर्कोटकेन हि॥
पुलहेन च बाहुभ्यां धारयंतं च कंकणे॥ २२.४ ॥
सन्नूपुरे शङ्खकपद्मकाभ्यां संधारयंतं च विराजमानम्॥
कर्पूरगौरं शितिकंठमद्भुतं वृषान्वितं देववरं ददर्शुः॥ २२.५ ॥
तदा ब्रह्मा च विष्णुश्च ऋषयो देवदानवाः॥
तुष्टुवुर्विविधैः सूक्तैर्वेदोपनिषदन्वितैः॥ २२.६ ॥
॥ब्रह्मोवाच॥
नमो रुद्राय देवाय मदनांतकराय च॥
भर्गाय भूरिभाग्याय त्रिनेत्राय त्रिविष्टपे॥ २२.७ ॥
शिपिविष्टाय भीमाय शेषशायिन्नमोनमः॥
त्र्यंबकाय जगद्धात्रे विश्वरूपाय वै नमः॥ २२.८ ॥
त्वं धाता सर्वलोकानां पिता माता त्वमीश्वरः॥
कृपया परया युक्तः पाह्यस्मांस्त्वं महेश्वर॥ २२.९ ॥
इत्थं स्तुवत्सु देवेषु नन्दी प्रोवाच तान्प्रति॥
किमर्थमागता यूयं किं वा मनसि वर्तते॥ २२.१० ॥
ते प्रोचुर्देवकार्यार्थं विज्ञप्तुं शंभुमागता॥
विज्ञप्तो नंदिना तेन शैलादेन महात्मना॥
ध्यानस्थितो महादेवः सुरकार्यार्थसिद्धये॥ २२.११ ॥
ब्रह्मादयः सुरगणाः सुरसिद्धसंघास्त्वां द्रष्टुमेव सुरवर्य विशेषयंति॥
कार्य्यार्थिनोऽसुरवरैः परिभर्त्स्यमाना अभ्यागताः सपदि शत्रुभिरर्दिताश्च॥ २२.१२ ॥
तस्मात्त्वया हि देवेश त्रातव्याश्चाधुना सुराः॥
एवं तेन तदा शंभुर्विज्ञप्तो नंदिना द्विजाः॥ २२.१३ ॥
शनैःशनैरुपरमच्छंभुः परमकोपनः॥
समाधेः परमात्माऽसावुवाच परमेश्वरः॥ २२.१४ ॥
॥महादेव उवाच॥
कस्माद्यूयं महाभागा ह्यागता मत्समीपगाः॥
ब्रह्मादयो ह्यमी देवा ब्रूत कारणमद्य वै॥ २२.१५ ॥
तदा ब्रह्मा ह्युवाचेदं सुरकार्यं महत्तरम्॥
तारकेण कृतं शंभो देवानां परमाद्भुतम्॥ २२.१६ ॥
कष्टात्कष्टतरं देव तद्विज्ञप्तुमिहागताः॥
हे शंभो तव पुत्रेण औरसेन हतो भवेत्॥
तारको देवशत्रुश्च नान्यथा मम भाषितम्॥ २२.१७ ॥
तस्मात्त्वया गिरिजा देव शंभो गृहीतव्या पाणिना दक्षिणेन॥
पाणिग्रहेणैव महानुभाव दत्ता गिरीन्द्रेण च तां कुरुष्व॥ २२.१८ ॥
ब्रह्मणो हि वचः श्रुत्वा प्रहसन्नब्रवीच्छिवः॥
यदा मया कृता देवी गिरिजा सर्वसुन्दरी॥ २२.१९ ॥
तदा सर्वे सुरेन्द्राश्च ऋषयो मुनयस्तथा॥
सकामाश्च भविष्यंति अक्षमाश्च परे पथि॥ २२.२० ॥
मदनो हि मया दग्धः सर्वेषां कार्यसिद्धये॥
मया ह्यधि कृता तन्वी गिरिजा च सुमध्यमा॥ २२.२१ ॥
तदानीमेव भो देवाः पार्वती मदनं च सा॥
जीवयिष्यति भो ब्रह्मन्नात्र कार्या विचारणा॥ २२.२२ ॥
एवं विमृश्य भो देवाः कार्या कार्यविचारणा॥
मदनेनैव दग्धेन सुरकार्यं महत्कृतम्॥ २२.२३ ॥
यूयं सर्वे च निष्कामा मया नास्त्यत्र संशयः॥
यथाहं च सुराः सर्वे तथा यूयं प्रयत्नतः॥ २२.२४ ॥
तपः परमसंयुक्ताः पारयामः सुदुष्करम्॥
परमानन्दसंयुक्ताः सुखिनः सर्व एव हि॥ २२.२५ ॥
यूयं समाधिना तेन मदनेन च विस्मृतम्॥
कामो हि नरकायैव तस्मात्क्रोधोऽभिजायते॥ २२.२६ ॥
क्रोधाद्भवति संमोहः संमोहाद्भ्रमते मनः॥
कामक्रोधौ परित्यज्य भवद्भिः सुरसत्तमैः॥
सर्वैरेव च मंतव्यं मद्वाक्यं नान्यथा क्वचित्॥ २२.२७ ॥
एवं विश्राव्य भगवान्स हि देवो वृषध्वजः॥
सुरान्प्रबोधयामास तथा ऋषिगणान्मुनीन्॥ २२.२८ ॥
तूष्णींभूतोऽभवच्छंभुर्ध्यानमाश्रित्य वै पुनः॥
आस्ते पुरा यथावच्च गणैश्च परिवारितः॥ २२.२९ ॥
ध्यानास्थितं च तं दृष्ट्वा नन्दौ सर्वान्विसृज्य तान्॥
सब्रह्मसेन्द्रान्विबुधानुवाच प्रहसन्निव॥ २२.३० ॥
यतागतेन मार्गेण गच्छध्वं मा विलंबितम्॥
तथेति मत्वा ते सर्वे स्वंस्वं स्थानमथाऽव्रजन्॥ २२.३१ ॥
गतेषु तेषु सर्वेषु समाधिस्थोऽभवद्भवः॥
आत्मानमात्मना कृत्वा आत्मन्येन विचंतयन्॥ २२.३२ ॥
परात्परतरं स्वच्छं निर्मलं निरवग्रहम्॥
निरञ्जनं निराभासं यस्मिन्मुह्यंति सूरयः॥ २२.३३ ॥
भानुर्नभात्यग्निरथो शशी वा न ज्योतिरेवं न च मारुतो न हि॥
यं केवलं वस्तुविचारतोऽपि सूक्ष्मात्परं सूक्ष्मतरात्परं च॥ २२.३४ ॥
अनिर्द्देश्य मचिन्त्यं च निर्विकारं निरामयम्॥
ज्ञप्तिमात्रस्वरूपं च न्यासिनो यांति तत्र वै॥ २२.३५ ॥
शब्दातीनं निर्गुणं निर्विकारं सत्तामात्रं ज्ञानगम्यं त्वगम्यम्॥
यत्तद्वस्तु सर्वदा कथ्यते वै वेदातीतैश्चागमैर्मन्त्रभूतैः॥ २२.३६ ॥
तद्वस्तुभूतो भगवान्स ईश्वरः पिनाकपाणिर्भगवान्वृध्वजः॥
येनैव साक्षान्मकरध्वजो हतस्तपो जुषाणः परमेश्वरः सः॥ २२.३७ ॥
॥लोमश उवाच॥
गिरिजा हि तदा देवी तताप परमं तपः॥
तपसा तेन रुद्रोऽपि उत्तमं भयमागतः॥ २२.३८ ॥
विजित्य तपसा देवी पार्वती परमेण हि॥
शम्भुं सर्वार्थदं स्थाणुं केवलं स्वस्वरूपिणम्॥ २२.३९ ॥
यदा जितस्तया देव्या तपसा वृषभध्वजः॥
समाधेश्चलितो भूत्वा यत्र सा पार्वती स्थिता॥ २२.४० ॥
जगाम त्वरितेनैव देवदेवः पिनाकधृक्॥
तत्रापश्यत्स्थितां देवीं सखीभिः परिवारिताम्॥ २२.४१ ॥
वेदिकोपरि विन्यस्तां यथैव शशिनः कलाम्॥
स देवस्तां निरीक्ष्याथ बटुर्भूत्वाथ तत्क्षणात्॥ २२.४२ ॥
ब्रह्मचारिस्वरूपेण महेशो भगवान्भवः॥
सखीनां मध्यमाश्रित्य ह्युवाच बटुरूपवान्॥
किमर्थमालिमध्यस्था तन्वी सर्वांगसुन्दरी॥ २२.४३ ॥
केयं कस्य कुतो याता किमर्थं तप्यते तपः॥
सर्वं मे कथ्यतां सख्यो याथातथ्येन संप्रति॥ २२.४४ ॥
तदोवाच जया रुद्रं तपसः कारणं परम्॥ २२.४५ ॥
हिमाद्रेर्दुहितेयं वै तपसा रुद्रमीश्वरम्॥
प्राप्तुकामा पतित्वन सेयमत्रोपविश्य च॥ २२.४६ ॥
तपस्तताप सुमहत्सर्वेषां दुरतिक्रमम्॥
बटो जानीहि मे वाक्यं नान्यथा मम भाषितम्॥ २२.४७ ॥
तच्छ्रुत्वा वचनं तस्याः प्रहस्येदमुवाच ह॥
श्रृण्वतीनां सखीनां वै महेशो बटुरूपवान्॥ २२.४८ ॥
मूढेयं पार्वती सख्यो न जानाति हिताहितम्॥
किमर्थं च तपः कार्यं रुद्रप्राप्त्यर्थमेव च॥ २२.४९ ॥
सोऽमंगलः कपाली च श्मशानालय एव च॥
अशिवः शिवशब्देन भण्यते च वृथाथ वै॥ २२.५० ॥
अनया हि वृतो रुद्रो यदा सख्यः समेष्यति॥
तदेयमशुभा तन्वी भविष्यति न संशयः॥ २२.५१ ॥
यो दक्षशापाद्विकृतो यज्ञबाह्योऽभवद्विटा॥
ये ह्यंगभूताः शर्वस्य सर्पा ह्यासन्महाविषाः॥ २२.५२ ॥
शवभस्मान्वितो रुद्रः कृत्तिवासा ह्यमंगलः॥
पिशाचैः प्रमथैर्भूतैरावृतो हि निरंतरम्॥ २२.५३ ॥
तेन रुद्रेण किं कार्यमनया सुकुमारया॥
निवार्यतां सखीभिश्च मर्तुकामा पिशाचवत्॥ २२.५४ ॥
इंद्रं हित्वा मनोज्ञं च यमं चैव महाप्रभम्॥
नैर्ऋतं च विशालाक्षं वरुणं च अपां पतिम्॥ २२.५५ ॥
कुबेरं पवनं चैव तथैव च विभावसुम्॥
एवमादीनि वाक्यानि उवाच परमेश्वरः॥
सखीनां श्रृण्वतीनां च यत्र सा तपसि स्थिता॥ २२.५६ ॥
इत्याकर्ण्य वचस्तस्य रुद्रस्य बटुरूपिणः॥
चुकोप च शिवा साध्वी महेशं बटुरूपिणम्॥ २२.५७ ॥
जये त्वं विजये साध्वि प्रम्लोचेऽप्यथ सुन्दरि॥
सुलोचने महाभागे समीचीनं कृतं हि मे॥ २२.५८ ॥
किमेतस्य बटोः कार्यं भवतीनामिहाधुना॥
बटुस्वरूपमास्थाय आगतो देवनिंदकः॥ २२.५९ ॥
अयं विसृज्यतां सख्यः किमनेन प्रयोजनम्॥
बटुस्वरूपिणं रुद्रं कुपिता सा ततोऽब्रवीत्॥ २२.६० ॥
बटो गच्छाशु त्वरितो न स्थेयं च त्वयाऽधुना॥
किमनेन प्रलापेन तव नास्ति प्रयोजनम्॥ २२.६१ ॥
बटुर्निर्भर्त्सितस्तत्र तया चैवं तदा पुनः॥
प्रहस्य वै स्थिरो भूत्वा पुनर्वाक्यमथाब्रवीत्॥ २२.६२ ॥
शनैः शनैरवितथं विजयां प्रति सत्वरम्॥
कस्मात्कोपस्तयातन्वि कृतः केनैव हेतुना॥ २२.६३ ॥
सर्वेषामपि तद्वाच्यं वचनं सूक्तमेव यत्॥
यथोक्तेन च वाक्येन कस्मात्तन्वी प्रकोपिता॥ २२.६४ ॥
यः शंभुरुच्यते लोके भिक्षुको भिक्षुकप्रियः॥
यदि मे ह्यनृतं प्रोक्तं तदा कोप इहोचितः॥ २२.६५ ॥
इयं तावत्सुरूपा च विरूपोऽसौ सदाशिवः॥
विशालाक्षी त्वियं बाला विरूपाक्षो भवस्तथा॥ २२.६६ ॥
एवंभूतेन रुद्रेण मोहितेयं कथं भवेत्॥
सभाग्यो हि पतिः स्त्रीणां सदा भाव्यो रतिप्रियः॥ २२.६७ ॥
इयं कथं मोहितास्ति निर्गुणेन युगात्मिका॥
न श्रुतो न च विज्ञातो न दृष्टः केन वा शिवः॥ २२.६८ ॥
सकामानां च भूतानां दुर्लभो हि सदाशिवः॥
तपसा परमेणैव गर्वितेयं सुमध्यमा॥ २२.६९ ॥
निःस्तंभो हि सदा स्थाणुः कथं प्राप्स्यति तं पतिम्॥
मयोक्तं किं विशालाक्षि कस्मान्मे रुषिताऽधुना॥ २२.७० ॥
यावद्रोषो भवेन्नॄणां नारीणां च विशेषतः॥
तेन रोषेण तत्सर्वं भस्मीभूतं भविष्यति॥ २२.७१ ॥
सुकृतं चोर्जितं तन्वि सत्यमेवोदितं सति॥
कामः क्रोधश्च लोभश्च दंभो मात्सर्यमेव च॥ २२.७२ ॥
हिंसेर्ष्या च प्रपंचश्च तेन सर्वं विनश्यति॥
तस्मात्तपस्विभिर्युक्तं कामक्रोधादिवर्जनम्॥ २२.७३ ॥
यदीश्वरो हृदि मध्ये विभाव्यो मनीषिभिः सर्वदा ज्ञप्तिमात्रः॥
तदा सर्वैर्मुनिवृत्त्या विभाव्यस्तपस्विभिर्नान्यथा चिंतनीयः॥ २२.७४ ॥
एतच्छ्रुत्वा वचनं तस्य शंभोस्तदाब्रवीद्विजया तं च सर्वम्॥
गच्छात्र किंचित्तव नास्ति कार्यं न वक्तव्यं वचनं बालिशान्यत्॥ २२.७५ ॥
एवं विवदमानं तं बटुरूपं सदाशिवम्॥
विसर्जयामास तदा विजया वाक्यकोविदा॥ २२.७६ ॥
तिरोधानं गतः सद्यो महेशो गिरिजां प्रति॥
अलक्ष्यमाणः सर्वासां सखीनां परमेश्वरः॥ २२.७७ ॥
प्रादुर्बभूव सहसा निजरूपधरस्तदा॥
यदा ध्यानस्थिता देवी निजध्यानपरा सती॥ २२.७८ ॥
तदा हृदिस्थो देवेशो बहिर्दृष्टिचरोभवत्॥
नेत्रे उन्मील्य सा साध्वी गिरिजायतलोचना॥
अपश्यद्देवदेवेशं सर्वलोकमहेश्वरम्॥ २२.७९ ॥
द्विभुजं चैकवक्त्रं कृत्तिवाससमद्भुतम्॥
कपर्दं चंद्ररेखांकं निवीतं गजचर्मणा॥ २२.८० ॥
कर्णस्थौ हि महानागौ कंबलाश्वतरौ तदा॥
वासुकिः सर्पराजश्च कृताहारो महाद्युतिः॥ २२.८१ ॥
वलयानि महार्हाणि तदा सर्पमयानि च॥
कृतानि तेन रुद्रेण तथा शोभाकराणि च॥ २२.८२ ॥
एवंभूतस्तदा शंभुः पार्वतीं प्रति चाग्रतः॥
उवाच त्वरया युक्तो वरं वरय भामिनि॥ २२.८३ ॥
व्रीडया परया युक्ता साध्वी प्रोवाच शंकरम्॥
त्वं नाथो मम देवेश त्वया किं विस्मृतं पुरा॥ २२.८४ ॥
दक्षयज्ञविनाशं च यदर्थं कृतवान्प्रभो॥
स त्वं साहं समुत्पन्ना मेनायां कार्यसिद्धये॥ २२.८५ ॥
देवानां देवदेवेश तारकस्य वधं प्रति॥
भवतो हि मया देव भविष्यति कुमारकः॥ २२.८६ ॥
तस्मात्त्वया हि कर्तव्यं मम वाक्यं महेश्वर॥
गंतव्यं हिमवत्पार्श्वं नात्र कार्या विचारणा॥ २२.८७ ॥
याचस्व मां महादेव ऋषिभिः परिवारितः॥
करिष्यति न संदेहस्तव वाक्यं च मे पिता॥ २२.८८ ॥
दक्षकन्या पुराहं वै पित्रा दत्ता यदा तव॥
यथोक्तविधिना तत्र विवाहो न कृतस्त्वया॥७२२.८९ ॥
न ग्रहाः पूजितास्तेन दक्षेण च महात्मना॥
ग्रहाणां विषयत्वेन सच्छिद्रोऽयं महानभूत्॥ २२.९० ॥
तस्माद्यथोक्तविधिना कर्तुमर्हसि सुव्रत॥
विवाहं स्वं महाभाग देवानां कार्यसिद्धये॥ २२.९१ ॥
तदोवाच महाबाहो गिरिजां प्रहसन्निव॥
स्वभावेनैव तत्सर्वं जंगमाजंगमं महत्॥
जातं त्वया मोहितं च त्रिगुणैः परिवेष्टितम्॥ २२.९२ ॥
अहंकारात्समुत्पन्नं महत्तत्त्वं च पार्वति॥
महत्तत्त्वात्तमो जातं तमसा वेष्टितं नभः॥ २२.९३ ॥
नभसो वायुरुत्पन्नो वायोरग्निरजायत॥
अग्नेरापः समुत्पन्ना अद्भ्यो जाता मही तदा॥ २२.९४ ॥
मह्यादिकानि स्थास्नूनि चराणि च वरानने॥
दृश्यं यत्सर्वमेवैतन्नश्वरं विद्धि मानिनि॥ २२.९५ ॥
एकोऽनेकत्वमापन्नो निर्गुणो हि गुणावृतः॥
स्वज्योतिर्भाति यो नित्यं परज्योत्स्नान्वितोऽभवत्॥
स्वतंत्रः परतंत्रश्च त्वया देवि महत्कृतम्॥ २२.९६ ॥
मायामयं कृतमिदं च जगत्समग्रं सर्वात्मना अवधृतं परया च बुद्ध्या॥
सर्वात्मभिः सुकृतिभिः परमार्थभावैः संसक्तिरिंद्रियगणैः परिवेष्टितं च॥ २२.९७ ॥
के ग्रहाः के उडुगणाः के बाध्यंते त्वया कृताः॥
विमुक्तं चाधुना देवि शर्वार्थं वरवर्णिनि॥ २२.९८ ॥
गुणकार्यप्रसंगेन आवां प्रादुर्भवः कृतः॥
त्वं हि वै प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी॥ २२.९९ ॥
व्यापारदक्षा सततमहं चैव सुमध्यमे॥
हिमालयं न गच्छामि न याचामि कथंचन॥ २२.१०० ॥
देहीति वचनात्सद्यः पुरुषो याति लाघवम्॥
इत्थं ज्ञात्वा च भो देवि किमस्माकं वदस्व वै॥ २२.१०१ ॥
कार्यं त्वदाज्ञया भद्रे तत्सर्वं वक्तुमर्हसि॥
तेनोक्तात्र तदा साध्वी उवाच कमलेक्षणा॥ २२.१०२ ॥
त्वमात्मा प्रकृतिश्चाहं नात्र कार्या विचारणा॥
तथापि शंभो कर्तव्यं मम चोद्वहनं महत्॥ २२.१०३ ॥
देहो ह्यविद्ययाक्षिप्तो विदेहो हि भवान्परः॥
तथाप्येवं महादेव शरीरावरणं कुरु॥ २२.१०४ ॥
प्रपंचरचनां शंभो कुरु वाक्यान्मम प्रभो॥
याचस्व मां महादेव सौभाग्यं चैव देहि मे॥ २२.१०५ ॥
इत्येवमुक्तः स तया महात्मा महेश्वरो लोकविडंबनाय॥
तथेति मत्वा प्रहसञ्जगाम स्वमालयं देववरैः सुपूजितः॥ २२.१०६ ॥
एतस्मिन्नंतरे तत्र हिमवान्गिरिभिः सह॥
मेनया भार्यया सार्द्धमाजगाम त्वरान्वितः॥ २२.१०७ ॥
पार्वतीदर्शनार्थं च सुतैश्च परिवारितः॥
तेन दृष्टा महादेवी सखीभिः परिवारिता॥ २२.१०८ ॥
पार्वत्या च तदा दृष्टो हिमवान्गिरिभिः सह॥
अभ्युत्थानपरा साध्वी प्रणम्य शिरसा तदा॥
पितरौ च तदा भ्रातॄन्बंधूंश्चैव च सर्वशः॥ २२.१०९ ॥
स्वमंकमारोप्य महायशास्तदा सुतां परिष्वज्य च बाष्पपूरितः॥
उवाच वाक्यं मधुरं हिमालयः किं वै कृतं साध्वि यथा तथेन॥ २२.११० ॥
तत्कथ्यतां महाभागे सर्वं शुश्रूषतां हि नः॥
तच्छ्रुत्वा मधुरं वाक्यमुवाच पितरं प्रति॥ २२.१११ ॥
तपसा परमेणैव प्रार्थितो मदनांतकः॥
शांतं च मे महात्कार्यं सर्वेषामपि दुर्ल्लभम्॥ २२.११२ ॥
तत्र तुष्टो महादेवो वरणार्थं समागतः॥
स मयोक्तस्तदा शंभुर्ममषाणिग्रहः कथम्॥ २२.११३ ॥
क्रियते च तदा शंभो मम पित्रा विनाधुना॥
यतागतेन मार्गेण गतोऽसौ त्रिपुरांतकः॥ २२.११४ ॥
तस्यास्तद्वचनं श्रुत्वा अवाप परमां मुदम्॥
बंधुभिः सह धर्मात्मा उवाच स्वसुतां पुनः॥ २२.११५ ॥
स्वगृहं चाद्य गच्छामो वयं सर्वे च भूधराः॥
अनया राधितो देवः पिनाकी वृषभध्वजः॥ २२.११६ ॥
इत्यूचुस्ते सुराः सर्वे हिमालयपुरोगमाः॥
पार्वतीसहिताः सर्वे तुष्टुवुर्वाग्भिरादृताः॥ २२.११७ ॥
तां स्तूयमानां च तदा हिमालयो ह्यारोप्य चांसं वरवर्णिनीं च॥
सर्वेथ शैलाः परिवार्य चोत्सुकाः समानयामासुरथ स्वमालयम्॥ २२.११८ ॥
देवदुंदुभयो नेदुः शंखतूर्याण्यनेकशः॥
वादित्राणि बहून्येव वाद्यमानानि सर्वशः॥ २२.११९ ॥
पुष्पवर्षेण महता तेनानीता गृहं प्रति॥ २२.१२० ॥
सा पूज्यमाना बहुभिस्तदानीं महाविभूत्युल्लसिता तपस्विनी॥
तथैव देवैः सह चारणैश्च महर्षिभिः सिद्धगणैश्च सर्वशः॥ २२.१२१ ॥
पूज्यमाना तदा देवी उवाच कमलासनम्॥
देवानृषीन्पितॄन्यक्षानन्यान्सर्वान्समागतान्॥ २२.१२२ ॥
गच्छध्वं सर्व एवैते येन्ये ह्यत्र समागताः॥
स्वंस्वं स्थानं यताजोषं सेव्यतां परमेश्वरः॥ २२.१२३ ॥
एवं तदानीं स्वपितुर्गृहं गता संशोभमाना परमेण वर्चसा॥
सा पार्वती देववरैः सुपूजिता संचिंतयंती मनसा सदाशिवम्॥ २२.१२४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे पार्वत्यै शंकरेण स्वरूपदर्शनंनामद्वाविंशोऽध्यायः॥ २२ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 23
॥लोमश उवाच॥
एतस्मिन्नंतरे तत्र महेशेन प्रणोदिताः॥
आजग्मुः सहसा सद्य ऋषयोऽपि हिमालयम्॥ २३.१ ॥
तान्दृष्ट्वा सहसोत्थाय हिमाद्रिः प्रतिमानसः॥
पूजयामास तान्सर्वानुवाच नतकंधरः॥ २३.२ ॥
किमर्थमागता यूयं ब्रूतागमनकारणम्॥
तदोचुः सप्त ऋषयो महेशप्रेरिता वयम्॥ २३.३ ॥
समागतास्त्वत्सकाशं कन्यायाश्च विलोकने॥
तानस्मान्विद्धि भोः शैल स्वां कन्यां दर्शयाशु वै॥ २३.४ ॥
तथेत्युक्त्वा ऋषिगणानानीता तत्र पार्वती॥
स्वोत्संगे परिगृह्याशु गिरीन्द्रः पुत्रवत्सलः॥
हिमवान्गिरिराजोऽथ उवाच प्रहसन्निव॥ २३.५ ॥
इयं सुता मदीया हि वाक्यं श्रुणुत मे पुनः॥
तपस्विनां वरिष्ठऽसौ विरक्तो मदनांतकः॥ २३.६ ॥
कथमुद्वहनार्थी च येनानंगः कृत स्मरः॥
अत्यासन्नेचातिदूरे आढ्ये धनविवर्जिते॥
वृत्तिहीने च मूर्खे च कन्यादानं न शस्यते॥ २३.७ ॥
मूढाय च विरक्ताय आत्मसंभाविताय च॥
आतुराय प्रमत्ताय कन्यादानं न कारयेत्॥ २३.८ ॥
तस्मान्मया विचार्यैव भवद्भिर्ऋषिसत्तमाः॥
प्रदातव्या महेशाय एतन्मे व्रतमुत्तमम्॥ २३.९ ॥
तच्छ्रुत्वा गिरिराजस्य वचनं ते महर्षयः॥
एकपद्येन ऊचुस्ते प्रहस्य च हिमालयम्॥ २३.१० ॥
यया कृतं तपस्तीव्रं यया चाराधितः शिवः॥
तपसा तेन संतुष्टः प्रसन्नोद्य सदाशिवः॥ २३.११ ॥
अस्यास्तस्य च भोः शैल न जानासि च किंचन॥
महिमानं परं चैव तस्मादेनां प्रयच्छ वै॥ २३.१२ ॥
शिवाय गिरिजामेनां कुरुष्य वचनं हि नः॥
तच्छ्रुत्वा वचनं तेषामृषीणां भावितात्मनाम्॥ २३.१३ ॥
उवाच त्वरया युक्तः पर्वतान्पर्वतेश्वरः॥
हे मेरो हे निषधकिं गन्धमादन मन्दर॥
मैनाक क्रियतामद्य शंसध्वं च यथातथम्॥ २३.१४ ॥
मेना तदा उवाचेदं वाक्यं वाक्यविशारदा॥
अधुना किं विमशन कृतं कार्यं तदैव हि॥ २३.१५ ॥
उत्पन्नेयं महाभागा देवकार्यार्थमेव च॥
प्रदातव्या शिवायेति शिवस्यार्थेऽवतारिता॥ २३.१६ ॥
अनयाराधितो रुद्रो रुद्रेण परिभाविता॥
इयं महाभागा शिवाय प्रतिदीयताम्॥ २३.१७ ॥
निमित्तमात्रं च कृतं तया वै शिवपूजने॥
एतच्छ्रुत्वा वचस्तस्यामेनायाः परिभाषितम्॥ २३.१८ ॥
परितुष्टो हिमाद्रिश्च वाक्यं चेदमुवाच ह॥
ऋषीन्प्रति निरीक्षंस्तां कन्येयं मम संप्रति॥ २३.१९ ॥
ततः समानीय सुलोचनां तां श्यामां नितंबार्षितमेखलां शुभाम्॥
वैडूर्यमुक्तावलयान्दधानां भास्वत्प्रभां चांद्रमसीं व रेखम्॥ २३.२० ॥
लावण्यामृतवापिकां सुवदनां गौरीं सुवासां शुभां दृष्ट्वा ते ह्यृषयोऽपि मोहमगन्भ्रांतास्तदा संभ्रमात्॥
नोचुः किंचना वाक्यमेव सुधियो ह्यासन्प्रमत्ता इव स्तब्धाः कान्तिमतीमतीव रुचिरां त्रैलोक्यनाथप्रियाम्॥ २३.२१ ॥
एवं तदा ते ह्यृषयोऽपि मोहिता रूपेण तस्याः किमुताथ देवताः॥
तथैव सर्वे च निरीक्ष्य तन्वीं सतीं गिरिन्द्रस्य सुतां शिवप्रियाम्॥ २३.२२ ॥
ततः पुनश्चैत्य शिवं शिवप्रियाः शशंसुरस्मा ऋषयस्तदानीम्॥ २३.२३ ॥
॥ऋषय ऊचुः॥
भूषिता हि गिरीन्द्रेण स्वसुता नास्ति संशयः॥
उद्वोढुं गच्छ देवेश देवैश्च परिवारितः॥ २३.२४ ॥
गच्छ शीघ्रं महादेव पार्वतीमात्मजन्मने॥
तच्छ्रुत्वा वचनं तेषां प्रहस्येदमुवाच ह॥ २३.२५ ॥
विवाहो हि महाभागा न दृष्टो न श्रुतोऽपि वा॥
मया पुरा च ऋषयः कथ्यतां च विशेषतः॥ २३.२६ ॥
तदोचुर्ऋषयः सर्वे प्रहसंतः सदाशिवम्॥
विष्णुमाह्वय वै देव ब्रह्मणं च शतक्रतुम्॥ २३.२७ ॥
तथा ऋषिगणांश्चैव यक्षगन्धर्वपन्नगान्॥
सिद्धविद्याधरांश्चैव किंनरांश्चाप्सरोगणान्॥ २३.२८ ॥
एतांश्चान्यांश्च सुबहूनानयस्वेति सत्वरम्॥
तदाकर्ण्य ऋषिप्रोक्तं वाक्यं वाक्यविशारदः॥ २३.२९ ॥
उवाच नारदं देवो विष्णुमानय सत्वरम्॥
ब्रह्माणं च महेन्द्रं च अन्यांश्चैव समानय॥ २३.३० ॥
शंभोर्वचनमादाय शिरसा लोकपावनः॥
जगाम त्वरितो भूत्वा वैकुण्ठं विष्णुवल्लभः॥ २३.३१ ॥
ददर्श देवं परमासने स्थितं श्रिया च देव्या परिसेव्यमानम्॥
चतुर्भुजं देववरं महाप्रभं नीलोत्पलश्यामतनुं वरेण्यम्॥ २३.३२ ॥
महार्हरत्नावृतचारुकुण्डलं महाकिरीटोत्तमरत्नभास्वतम्॥
सुवैजयंत्या वनमालया वृतं स नारदस्तं भुवनैकसुन्दरम्॥ २३.३३ ॥
उवाच नारदोऽभ्येत्य शंभोर्वाक्यमथादरात्॥
ब्रह्मवीणां वाद्यवीणां वाद्यमानः सर्वज्ञ ऋषिसत्तमः॥ २३.३४ ॥
एह्येहि त्वं महाविष्णो महादेवं त्वरान्वितः॥
उद्वाहनार्थं शंभोश्च त्वमेकः कार्यसाधकः॥ २३.३५ ॥
प्रहस्य भगवान्प्राह नारदं प्रति वै तदा॥
कथमुद्वहने बुद्धिरुत्पन्ना तस्य शूलिनः॥
विज्ञातार्थोऽपि भगवान्नारदं परिपृष्टवान्॥ २३.३६ ॥
॥नारद उवाच॥
तपसा महता रुद्रः पार्वत्या परितोषितः॥
स्वयमेवागतस्तत्र यत्रास्ते गिरिजा सती॥ २३.३७ ॥
दासोऽहमवदच्छंभुः पार्वत्या परितोषितः॥
पार्वतीं च समभ्यर्थ्य वरयस्व च भामिनि॥ २३.३८ ॥
त्वरितेनावदच्छंभुस्त्वामाह्वयति संप्रति॥
तस्य तद्वचनं श्रुत्वा देवदेवो जनार्दनः॥
नारदेन समायुक्तः पार्षदैः परिवारितः॥ २३.३९ ॥
सुपर्णमारुह्य तदा महात्मा योगीश्वराणां प्रभुरच्युतो महान्॥
ययौ तदाऽऽकाशपथा हरिः स्वयं सनारदो देववरैः समेतः॥ २३.४० ॥
तं दृष्ट्वा त्वरितं देवो योगिध्येयांघ्रिपंकजः॥
अभ्युत्थाय मुदा युक्तः परिष्वज्य च शार्ङ्गिणम्॥ २३.४१ ॥
तदा हरिहरौ देवावैकपद्येन तिष्ठतः॥
ऊचुतुः स्म तदान्योन्यं क्षेमं कुशलमेव च॥ २३.४२ ॥
॥ईश्वर उवाच॥
गिरिजातपसा विष्णो जितोऽहं नात्र संशयः॥
पाणिग्रहार्थमेवाद्य गंतुकामो हिमालयम्॥ २३.४३ ॥
यथार्थेन च भो विष्णो कथयामि तवाग्रतः॥
यदा दक्षेण भो विष्णो प्रदत्ता च पुरा सती॥ २३.४४ ॥
न च संकल्पविधिना मया पाणिग्रहः कृतः॥
अधुनैव मया कार्यं कर्मविस्तारणं बहु॥ २३.४५ ॥
यत्कार्यं तन्न जानामि सर्वं पाणिग्रहोचितम्॥
शंभोस्तद्वचनं श्रुत्वा प्रहस्य मधुसूदनः॥ २३.४६ ॥
यावद्वक्तुं समारेभे तावद्ब्रह्मा समागतः॥
इंद्रेण सह सर्वैश्च लोकपालैस्त्वरान्वितः॥ २३.४७ ॥
तथैव देवासुरयक्षदानवा नागाः पतंगाप्सरसो महर्षयः॥
समेत्य सर्वे परिवक्तुमीशमूचुस्तदानीं शिरसा प्रणम्य॥ २३.४८ ॥
गच्छगच्छ महादेव अस्माभिः सहितः प्रभो॥
ततो विष्णुरुवाचेदं प्रस्तावसदृशंवचः॥ २३.४९ ॥
गृह्योक्तविधिना शंभो कर्म कर्तुमिहार्हसि॥ २३.५० ॥
नांदीमुखं मण्डपस्थापनं च तथा चैतत्कुरु धर्मेण युक्तम्॥
महानदीसंगमं वर्जयित्वा कुर्वंति केचिद्वेदमनीषिणश्च॥ २३.५१ ॥
मण्डपस्थापनं चैव क्रियतां ह्यधुना विभो॥
तथोक्तो विष्णुना शंभुश्चकारात्महिताय वै॥ २३.५२ ॥
ब्रह्मादिभिः कृतं तेन सर्वमभ्युदयोचितम्॥
ग्रहाणां पूजनं चक्रे कश्यपो ब्रह्मणा युतः॥ २३.५३ ॥
तथात्रिश्च वशिष्ठश्च गौतमोथ गुरुर्भृगुः॥
कण्वो बृहस्पतिः शक्तिर्जमदग्निः पराशरः॥ २३.५४ ॥
मार्कंडेयः शिलावाकः शून्यपालोऽक्षतश्रमः॥
अगस्त्यश्च्यवनो गर्गः शिलादोऽथ महामुनिः॥ २३.५५ ॥
एते चान्ये च बहवो ह्यागताः शिवसन्निधौ॥
ब्रह्मणा नोदितास्तत्र चक्रुस्ते विधिवत्क्रियाम्॥ २३.५६ ॥
वेदोक्तविधिना सर्वे वेदवेदांगपारगाः॥
चक्रू रक्षां महेशस्य कृतकौतुकमंगलाम्॥ २३.५७ ॥
ऋग्यजुःसामसहितैः सूक्तैर्नानाविधैस्तथा॥
मंगलानि च भूरीणि ऋषयस्तत्त्ववेदिनः॥ २३.५८ ॥
अभ्यंजनादिकं सर्वं चक्रुस्तस्य परात्मनः॥
ख्यातः कपर्द्दस्तस्यैव शिवस्य परमात्मनः॥ २३.५९ ॥
अनेकैर्मौक्तिकैर्युक्ता मुण्डमालाऽभवत्तदा॥
ये सर्पा ह्यंगभूताश्च ते सर्वे तत्क्षणादिव॥
बभूवुर्मडनान्येव जातरूपमयानि च॥ २३.६० ॥
सर्वभूषणसंपन्नो देवदेवो महेश्वरः॥
ययौ देवैः परिवृतः शैलराजपुरं प्रति॥ २३.६१ ॥
चंडिका वरभगिनी तदा जाता भयावहा॥
प्रेतासना गता चण्डी सर्पाभरणभूषिता॥ २३.६२ ॥
हैमं कलशमादाय पूर्णं मूर्ध्ना महाप्रभा॥
परिवारैर्महाचंडी दीप्तास्या ह्युग्रलोचना॥ २३.६३ ॥
तत्र भूतान्यनेकानि विरूपाणि सहस्रशः॥
तैः समेताग्रतश्चंडी जगाम विकृतानना॥ २३.६४ ॥
तस्याः सर्वे पृष्ठतश्च गणाः परमदारुणाः॥
कोट्येकादशसंख्याका रौद्रा रुद्र प्रियाश्च ये॥ २३.६५ ॥
तदा डमरुनिर्घोषव्याप्तमासीज्जगत्त्रयम्॥
भेरीभांकारशब्देन शंखानां निनदेन च॥ २३.६६ ॥
तथा दुंदुभिनिर्घोषैः शब्दः कोलाहलोऽभवत्॥
गणानां पृष्ठतो भूत्वा सर्वे देवाः समुत्सुकाः॥
अन्वयुः सर्वसिद्धाश्च लोकपालैः समन्विताः॥ २३.६७ ॥
मध्ये व्रजन्महेंद्रोऽथ ऐरावतमुपास्थितः॥
शुभ्रेणो च्छ्रियमाणेन छत्रेण परमेण हि॥ २३.६८ ॥
चामरैर्वीज्यमानोऽसौ सुरैर्बहुभिरावृतः॥
तदा तु व्रजमानास्त ऋषयो बहवो ह्यमी॥ २३.६९ ॥
भरद्वाजादयो विप्राः शिवस्योद्वहनं प्रति॥
शाकिन्यो यातुधानाश्च वेताला ब्रह्मराक्षसाः॥ २३.७० ॥
भूतप्रेतपिशाचाश्च तथान्ये प्रमथादयः॥
पृच्छमानास्तदा चंडीं पृष्ठतोऽन्वगमंस्तदा॥ २३.७१ ॥
क्व गता साऽधुना चंडी धावमानास्तदा भृशम्॥
प्राप्ता गता व्रजंतीं तां प्रणिपत्य महाप्रभाम्॥ २३.७२ ॥
अथ प्रोचुस्तदा सर्वे चंडीं भैरवसंयुताम्॥
विनास्माभिः कुतो यासि वद चंडि यथा तथा॥ २३.७३ ॥
प्रहस्योवाच सा चंडी भूतानां तत्र श्रृण्वताम्॥
शंभोरुद्वहनार्थाय प्रेतारूढा व्रजाम्यहम्॥ २३.७४ ॥
हैमं कलशमादाय शिरसा बिभ्रती स्वयम्॥
करवालीस्वरूपेण चंडी जाता ततः स्वयम्॥ २३.७५ ॥
भूतैः परिवृता सर्वैः सर्वेषामग्रतोऽव्रजत्॥
गणास्तामनुजग्मुस्ते गणानां पृष्ठतः सुराः॥ २३.७६ ॥
इंद्रादयो लोकपाला ऋषयस्तेऽग्रपृष्ठतः॥
ऋषीणां पृष्ठतो भूत्वा पार्षदाश्च महाप्रभाः॥ २३.७७ ॥
विष्णोरमितभावज्ञा मुकुंदाच्च मनोरमाः॥
सर्वे पयोदसंकाशाः स्रग्विणो वनमालिनः॥
श्रीवत्सांकधराः सर्वे पीतवासोन्विताश्च ते॥ २३.७८ ॥
चतुर्भुजाः कुंडलिनः किरीटकटकांगदैः॥
हारनूपुरसूत्रैश्च कटिसूत्राङ्गुलीयकैः॥
शोभिताः सर्व एवैते महापुरुषलक्षणाः॥ २३.७९ ॥
तेषां मध्ये गतो विष्णुः श्रियोपेतः सुरारिहा॥ २३.८० ॥
बभौ त्रिलोकीकृतविश्वमंगलो महानुभावैर्हृदि कृत्य धिष्ठितः॥
शिवेन साकं परमार्थदस्तदा हरिः परात्मा जगदेकबंधुः॥ २३.८१ ॥
स तार्क्ष्यपुत्रोपरि संस्थितो महाँल्लक्ष्म्या समेतो भुवनैकभर्ता॥
स चामरैर्वीज्यमानो मुनींद्रैः सर्वैः समेतो हरिरीश्वरो महान्॥ २३.८२ ॥
तथा विरिंचिर्निजवाहनस्थो वेदैः समेतः सह षड्भिरंगैः॥
तथागमैः सेतिहासैः पुराणैः स संवृतो हेमगर्भो बभूव॥ २३.८३ ॥
वेधोहरिभ्यां च तदा सुरेद्रैः समावृतश्चर्षिभिः संपरीतः॥
वृषारूढो वृषकेतुर्दुरापोयोगीश्वरैरपि सर्वैरगम्यः॥ २३.८४ ॥
शुद्धस्फटिकसंकाशं वृषभं धर्मवत्सलम्॥
समेतो मातृभिश्चैव गोभिश्च कृतलक्षणम्॥ २३.८५ ॥
एभिस्समेतोऽसुरदानवैः सह ययौ महेशो विबुदैरलंकृतः॥
हिमालयं गिरिवर्यं तदानीं पाणिग्रहार्थं प्रमदोत्तमायाः॥ २३.८६ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे श्रीशिवस्य विवाहवर्णनंनाम त्रयोविंशोऽध्यायः॥ २३ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 24
॥लोमश उवाच॥
तथैव सर्वं परया मुदान्वितश्चक्रे गिरींद्रः स्वसुतार्थमेव॥
गर्गं पुरस्कृत्य महानुभावो मंगल्यभूमिं परया विभूत्या॥ २४.१ ॥
आहूय विश्वकर्माणं कारयामास सादरम्॥
मंडपं च सुविस्तीर्णं वेदिकाभिर्मनोरमम्॥ २४.२ ॥
अयुतेनैव विस्तारं योजनानां द्विजोत्तमाः॥
मंडपं च गुणोपेतं नानाश्चर्यसमन्विततम्॥ २४.३ ॥
स्थावरं जंगमं चैव सदृशं च मनोहरम्॥
जंगमं च जितं तत्र स्थावरेण तथैव च॥ २४.४ ॥
जंगमेन च तत्रैव जितं स्थावरमेव च॥
पयसा च जिता तत्र स्थलभूमिरभूत्तदा॥ २४.५ ॥
जलं किं नु स्थलं तत्र न विदुस्तत्त्वतो जनाः॥
क्वचित्सिंहाः क्वचिद्धंसाः सारसाश्च महाप्रभाः॥ २४.६ ॥
क्वचिच्छिखंडिनस्तत्र कृत्रिमाः सुमनोहराः॥
तथा नागाः कृत्रिमाश्च हयाश्चैव तथा मृगाः॥ २४.७ ॥
के सत्याः के असत्याश्च संस्कृता विश्वकर्मणा॥
तथैव चैवं विधिना द्वारपाः अद्भुताः कृताः॥ २४.८ ॥
पुंसो धनूंषि चोत्कृष्य स्थावरा जंगमोपमाः॥
तथाश्वाः सादिभिश्चैव गजाश्च गजसादिभिः॥ २४.९ ॥
चामरैर्वीज्यमानाश्च केचित्पुष्पांकुरान्विताः॥
केचिच्च पुरुषास्तत्र विरेजुः स्रग्विणस्तथा॥ २४.१० ॥
कृत्रिमाश्च तथा बह्व्यः पताकाः कल्पितास्तथा॥
द्वारि स्थिता महालक्ष्मीः क्षीरोदधिसमुद्भवा॥ २४.११ ॥
गजाः स्वलंकृता ह्यासन्कृत्रिमा ह्यकृतोपमाः॥
तथाश्वाः सादिभिश्चैव गजाश्च गजसादिभिः॥ २४.१२ ॥
रथा रथियुता ह्यासन्कृत्रिमा ह्यकृतोपमाः॥
सर्वेषां मोहनार्थाय तथा च संसदः कृताः॥ २४.१३ ॥
महाद्वारि स्थितो नंदी कृतस्तेन हि मंडपे॥
शुद्धस्फटिकसंकाशो यथा नंदी तथैव सः॥ २४.१४ ॥
तस्योपरि महद्दिव्यं पुष्पकं रत्नभूषितम्॥
राजितं पल्लवाच्छत्रैश्चामरैश्च सुशोभितम्॥ २४.१५ ॥
वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ॥
चतुर्दतौ षष्टिवर्षौ महात्मानौ महाप्रभौ॥ २४.१६ ॥
तथैव दक्षिणे पार्श्वे द्वावश्वौ दंशितौ कृतौ॥
रत्नालंकारसंयुक्ताँल्लोकपालांस्तथैव च॥ २४.१७ ॥
षोडशप्रकृतीस्तेन याथातथ्येन धीमता॥
सर्वे देवा यथार्थेन कृता वै विश्वकर्मणा॥ २४.१८ ॥
तथैव ऋषयः सर्वे भृग्वाद्यश्च तपोधनाः॥
विश्वे च पार्षदैः साकमिंद्रो हि परमार्थतः॥ २४.१९ ॥
कृताः सर्वे महात्मानो याथातथ्येन धीमता॥
एवंभूतः कृतस्तेन मंडपो दिव्यरूपवान्॥ २४.२० ॥
अनेकाश्चर्यसंभूतो दिव्यो दिव्यविमोहनः॥
एतस्मिन्नंतरे तत्र आगतो नारदोग्रतः॥ २४.२१ ॥
ब्रह्मणा नोदितस्तत्र हिमालयगृहं प्रति॥
नारदोथ ददर्शाग्रे आत्मानं विनयान्वितम्॥ २४.२२ ॥
भ्रांतो हि नारदस्तेन कृत्रिमेण महायशाः॥
अवलोकपरस्तत्र चरितं विश्वकर्मणः॥ २४.२३ ॥
प्रविष्टो मंडपं तस्य हिमाद्रे रत्नचित्रितम्॥
सुवर्णकलशैर्जुष्टं रंभाद्यैरुपशोभितम्॥ २४.२४ ॥
सहस्रस्तम्भसंयुक्तं ततोऽद्रिः स्वगणैर्वृतः॥
तमृषिं पूजयामास किं कार्यमिति पृष्टवान्॥ २४.२५ ॥
॥नारद उवाच॥
आगतास्ते महात्मानो देवा इन्द्रपुरोगमाः॥
तथा महर्षयः सर्वे गणैश्च परिवारिताः॥
महादेवो वृषारूढो ह्यागतोद्वहनं प्रति॥ २४.२६ ॥
ततस्तद्वचनं श्रुत्वा हिमवान्गिरिसत्तमः॥
उवाच नारदं वाक्यं प्रशस्तमधुरं महत्॥ २४.२७ ॥
पूजयित्वा यथान्यायं गच्छ त्वं शंकरं प्रति॥ २४.२८ ॥
ततस्तद्वचनं श्रुत्वा मुनिर्हिमवतो गिरेः॥
तथैव मत्वा वचनं शैलराजानब्रवीत्॥
मेनाकेन च सह्येन मेरुणा गिरिणा सह॥ २४.२९ ॥
एभिः समेतो ह्यधुनामहामते यतस्व शीघ्रं शिवमत्र चानय॥
देवैः समेतं च महर्षिवर्यैः सुरासुरैर्चितपादपंकजम्॥ २४.३० ॥
तथेति मत्वा स जगाम तूर्णां सहै व तैः पर्वतराजभिश्च॥
त्वरागतश्चैकपदेन शंभुं प्राप्नोदृषीणां प्रवरो महात्मा॥ २४.३१ ॥
तावद्दृष्टो महादेवो देवैश्च परिवारितः॥
तदा ब्रह्मा च विष्णुश्च रुद्रश्चैव सुरैः सह॥ २४.३२ ॥
पप्रचछुर्नारदं सर्वे येऽन्ये रुद्रचरा भृशम्॥
कथ्यतां पृच्छमानानामस्माकं कथ्यते न हि॥ २४.३३ ॥
एकैकस्यात्मजाः स्वाः स्वाः सह्यमैनाकमेरवः॥
कन्यां दास्यंति वा शंभोः किं त्विदानीं प्रवर्तते॥ २४.३४ ॥
ततोऽवोचन्महातेजा नारदश्चर्षिसत्तमः॥
ब्रह्माणं पुरतः कृत्वा विष्णुं प्रति सहेतुकम्॥ २४.३५ ॥
एकांतमाश्रित्य तदा सुरेन्द्रं स नारदो वाक्यमिदं बभाषे॥
त्वष्ट्रा कृतं वै भवनं महत्तरं येनैव सर्वे च विमोहिता वयम्॥ २४.३६ ॥
पुरा कृतं तस्य महात्मनस्त्वया किं विस्मृतं तत्सकलं शचीपते॥
तस्मादसौ त्वां विजिगीषुकामो गृहे वसंस्तस्यगिरेर्महात्मनः॥ २४.३७ ॥
अहो विमोहितस्तेन प्रतिरूपेण भास्वता॥
तथा विष्णुः कृतस्तेन शंखचक्रगदादिभृत्॥ २४.३८ ॥
ब्रह्मा चैव तथाभूतस्तं चैव कृतवानसौ॥ २४.३९ ॥
मायामयो वृषभस्तेन वेषात्कृतो हि नागोश्वतरस्तथैव॥
तथा चान्यान्याप्यनेनामरेन्द्र सर्वाण्येवोल्लिखितान्यत्र विद्धि॥ २४.४० ॥
तच्छ्रुत्वा वचनं तस्य देवेंद्रो वाक्यमब्रवीत्॥ २४.४१ ॥
विष्णुं प्रति तदा शीघ्रं दृष्ट्वा यामि वसात्र भोः॥
पुत्रशोकेन तप्तोऽसौ व्याजेनान्येन वाऽकरोत्॥ २४.४२ ॥
तस्य तद्वचनं श्रुत्वा देवदेवो जनार्द्दनः॥
उवाच प्रहसन्वाक्यं शक्रमाप्तभयं तदा॥ २४.४३ ॥
निवातकवचैः पूर्वं मोहितोऽसि शचीपते॥
विद्याऽमृता तत्र मया समानीतोपसत्तये॥ २४.४४ ॥
महाविद्याबलेनैव प्रविश्य मण्डपेऽधुना॥
पर्वतो हिमवानेष तथान्ये पर्वतोत्तमाः॥ २४.४५ ॥
विपक्षा हि कृताः सर्वे मम वाक्याच्च वासव॥
हेतुं स्मृत्वाथ वै त्वष्टा मायया ह्यकरोदिदम्॥ २४.४६ ॥
जयमिच्छंति वै मूढा न च भेतव्यमण्वपि॥ २४.४७ ॥
एवं विवदमानांस्तान्देवाञ्छक्रपुरोगमान्॥
सांत्वयामास वै विष्णुर्नारदं ते ततोऽब्रुवन्॥ २४.४८ ॥
ददाति वा न ददाति कन्यां गिरीन्द्रः स्वां वै कथ्यतां शीघ्रमेव॥
किं तेन दृष्टां किं कृतं चाद्य शंस तत्सर्वं भो नारद ते नमोऽस्तु॥ २४.४९ ॥
तच्छ्रुत्वा प्रहसञ्छंभुरुवाच वचनं तदा॥
कन्यां दास्यति चेन्मह्यं पर्वतो हि हिमालयः॥
मायया मम किं कार्यं वद विष्णो यथातथम्॥ २४.५० ॥
केनाप्वुपायेन फलं हि साध्यमित्युच्यते पंडितैर्न्यायविद्भिः॥
तस्मात्सर्वैर्गम्यतां शीघ्रमेव कार्यार्थोभिश्चेन्द्रपुरोगमैश्च॥ २४.५१ ॥
तदा शिवोऽपि विश्वात्मा पंचबाणेन मोहितः॥
महाभूतेन भूतेशस्त्वन्येषां चैव का कथा॥ २४.५२ ॥
एवं च विद्यमानेऽसौ शंभुः परमशोभनः॥
कृतो ह्यनंगेन वशे यथान्यः प्राकृतो जनः॥ २४.५३ ॥
मदनो हि बली लोके येन सर्वमिदं जगत्॥
जितमस्ति निजप्रौढ्या सदेवर्षिसमन्वितम्॥ २४.५४ ॥
सर्वेषामेव भूतानां देवानां च विशेषतः॥
राजा ह्यनंगो बलवान्यस्य चाज्ञा बलीयसी॥ २४.५५ ॥
पार्वतीस्त्रीस्वरूपेण अजेयो भुवनत्रये॥
तां दृष्ट्वा हि स्त्रियं सर्वे ऋषयोऽपि विचक्षणाः॥ २४.५६ ॥
देवा मनुष्या गन्धर्वाः पिशाचोरगराक्षसाः॥
आज्ञानुल्लंघिनः सर्वे मदनस्य महात्मनः॥ २४.५७ ॥
तपोबलेन महता तथा दानबलेन च॥
वेत्तुं न शक्यो मदंनो विनयेन विना द्विजाः॥ २४.५८ ॥
तस्मादनंगस्य महान्क्रोधो हि बलवत्तरः॥
ईश्वरं मदनेनैवं मोहितं वीक्ष्य माधवः॥ २४.५९ ॥
उवाच वाक्यं वाक्यज्ञो मा चिंतां कुरु वै प्रभो॥
यदुक्तं नारदेनैव मंडपं प्रति सर्वशः॥ २४.६० ॥
त्वष्ट्रा कृतं विचित्रं च तत्सर्वं मदनात्प्रभोः॥
तदानीं शंकरो वाक्यमुवाच मधुसूदनम्॥ २४.६१ ॥
अविद्यया वृतं तेन कृतं त्वष्ट्रा हि मण्डपम्॥
किं तु वक्ष्यामहे विष्णो मण्डपः केवलेन हि॥ २४.६२ ॥
विवाहो हि महाभाग अविद्यामूल एव च॥
तस्मात्सर्वे वयं याम उद्वाहार्थं च संप्रति॥ २४.६३ ॥
नारदं च पुरस्कृत्य सर्वे देवाः सवासवाः॥
हिमाद्रिसहिता जग्मुर्मन्दिरं परमाद्भुतम्॥
अनेकाश्चर्यसंयुक्तं विचित्रं विश्वकर्मणा॥ २४.६४ ॥
कृतं च तेनाद्य पवित्रमुत्तमं तं यज्ञवाटं बहुभिः पुरस्कृतम्॥
विचित्रचित्रं मनसो हरं च तं यज्ञवाटं स चकार बुद्धिमान्॥ २४.६५ ॥
प्रवेक्ष्यमाणास्ते सर्वे सुरेन्द्रा ऋषिभिः सह॥
दृष्टा हिमाद्रिणा तत्र अभ्युत्थानगतोऽभवत्॥ २४.६६ ॥
तथैव तेषां च मनोहराणि हर्म्याणि तेन प्रतिकल्पितानि॥
गन्धर्वयक्षाः प्रमथाश्च सिद्धा देवाश्च नागाप्सरसां गणाश्च॥
वसंति यत्रैव सुखेन तेभ्यः स तत्रतत्रोपवनं चकार॥ २४.६७ ॥
तेषामर्थे महार्हाणि धाराजिरगृहाणि च॥
अत्यद्भुतानि शोभंते कृतान्येव महात्मना॥ २४.६८ ॥
निवासार्थे कल्पितानि सावकाशानि तत्र वै॥
देवानां चैव सर्वेषामृषीणां भावितात्मनाम्॥ २४.६९ ॥
एवं विस्तारयामास विश्वकर्मा बहून्यपि॥
मन्दिराणि यथायोग्यं यत्र तत्रैव तिष्ठताम्॥ २४.७० ॥
भैरवाः क्षेत्रपालाश्च येऽन्ये च क्षेत्रवासिनः॥
श्मशानवासिनश्चान्ये येऽन्ये न्यग्रोधवासिनः॥ २४.७१ ॥
अश्वत्थसेविनश्चान्ये खेचराश्च तथा परे॥
येये यत्रोपविष्टाश्च तत्रतत्रैव तेन वै॥ २४.७२ ॥
कृतानि च मनोज्ञानि भवनानि महांतिवै॥
तेषामेवानुकूलानि भूतानां विश्वकर्मणा॥ २४.७३ ॥
तत्रैव ते सर्वगणैः समेता निवासितास्तेन हिमाद्रिणा स्वयम्॥
सेंद्राः सुरा यक्षपिशाचरक्षसां गन्धर्वविद्याप्सरसां समूहाः॥ २४.७४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे पार्वतीपरिणयने हिमाद्रिणा देवानां निवासस्थानकरणवर्णनंनाम चतुर्विंशोऽध्यायः॥ २४ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 25
॥लोमश उवाच॥
तत्रोपविविशुः सर्वे सत्कृताश्च हिमाद्रिणा॥
ते देवाः सपरिवाराः सहर्षाश्च सवाहनाः॥ २५.१ ॥
तत्रैव च महामात्रं निर्मितं विश्वकर्मणा॥
दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः॥ २५.२ ॥
तथैव विष्णोस्त्वपरं भवनं स्वयमेव हि॥
भास्वरं सुविचित्र च कृतं त्वष्ट्रा मनोरमम्॥
वण्डीगृहं मनोज्ञं च तथैव कृतवान्स्वयम्॥ २५.३ ॥
तथैव श्वेतं परमं मनोज्ञं महाप्रभं देववरैः सुपूजितम्॥
कैलासलक्ष्मीप्रभया महत्या सुशोभितं तद्भवनं चकार॥ २५.४ ॥
तत्रैव शंभुः परया विभूत्या स स्थापितस्तेन हिमाद्रिणा वै॥ २५.५ ॥
एतस्मिन्नंतरे मेना समायाता सखीगणैः॥
नीराजनार्थं शंभुं च ऋषिभिः परिवारिता॥ २५.६ ॥
तदा वादित्रदिर्घोपैर्नादितं भुवनत्रयम्॥
नीराजनं कृतं तस्य मेनया च तपस्विनः॥ २५.७ ॥
अवलोक्य परा साध्वी मेनाऽजानाद्धरं तदा॥
गिरिजोक्तमनुस्मृत्य मेना विस्मयमागता॥ २५.८ ॥
यद्वै पुरोक्तं च तया पार्वत्या मम सन्निधौ॥
ततोऽधिकं प्रपश्यामि सौंदर्यं परमेष्ठिनः॥
महेशस्य मया दृष्टमनिर्वाच्यं च संप्रति॥ २५.९ ॥
एवं विस्मयमापन्ना विप्रपत्नीभिरावृता॥
अहतां बरयुग्मेन शोभिता वरवर्णिनी॥ २५.१० ॥
कंचुकी परमा दिव्या नानारत्नैश्च शोभिता॥
अंगीकृता तदा देव्या रराज परया श्रिया॥ २५.११ ॥
बिभ्रती च तदा हारं दिव्यरत्नविभूषितम्॥
वलयानि महार्हाणि शुद्धचामीकराणि च॥ २५.१२ ॥
तत्रोपविष्टा सुभगा ध्यायंती परमेश्वरम्॥
सखीभिः सेव्यमाना सा विप्रपत्नीभिरेव च॥ २५.१३ ॥
एतस्मिन्नंतरे तत्र गर्गो वाक्यमभाषत॥
पाणिग्रहार्थं शंभुं च आनयध्वं स्वमंदिरम्॥
त्वरितेनैव वेलायामस्यामेव विचक्षणाः॥ २५.१४ ॥
तच्छ्रुत्वा वचनं तस्य गर्गस्य च महात्मनः॥
अभ्युत्थानपराः सर्वे पर्वताः सकलत्रकाः॥ २५.१५ ॥
महाविभूत्या संयुक्ताः सर्वे मंगलपाणयः॥
सालंकृतास्तदा तेषां पत्न्योलंकारमंडिताः॥ २५.१६ ॥
उपायनान्यनेकानि जगृहुः स्निग्धलोचनाः॥
तदा वादित्रघोषेण ब्रह्मघोषेण भूयसा॥ २५.१७ ॥
आजग्मुः सकलात्रास्ते यत्र देवो महेश्वरः॥
प्रमथैरावृतस्तत्र चंड्या चैवाभिसेवितः॥ २५.१८ ॥
तथा महर्षिभिस्तत्र तथा देवगणैः सह॥
एभिः परिवृतः श्रीमाञ्छंकरो लोकशंकरः॥ २५.१९ ॥
श्रुत्वा वादित्रनिर्घोषं सर्वे शंकरसेवकाः॥
उत्थिता ऐकापद्येन देवैर्ऋषिभिरावृताः॥ २५.२० ॥
तथोद्यतो योगिनाचक्रयुक्ता गणा गणानां गणानां पतिरेकवर्चसाम्॥
शिवंपुरस्कृत्य तदानुभावास्तथैव सर्वे गणनायकाश्च॥ २५.२१ ॥
तद्योगिनी चक्रमतिप्रचंडं टंकारभेरीरवनिस्वनेन॥
चंडीं पुरस्कृत्य भयानकां तदा महाविभूत्या समलंकृतां तदा॥ २५.२२ ॥
कंठे कर्कोटकं नागं हारभूतं च कार सा॥
पदकं वृश्चिकानां च दंदशूकांश्च बिभ्रती॥ २५.२३ ॥
कर्णावतंसान्सा दध्रे पाणिपादमयांस्तथा॥
रणे हतानां वीराणां शिरांस्युरसिचापरान्॥ २५.२४ ॥
द्वीपिचर्मपरीधाना योगिनीचक्रसंयुता॥
क्षेत्रपालावृता तद्वद्भैरवैः परिवारिता॥ २५.२५ ॥
तथा प्रेतैश्च भूतैश्च कपटैः परिवारिता॥
वीरभद्रादयश्चैव गणाः परमदारुणाः॥
ये दक्षयज्ञनाशार्थे शिवेनाज्ञापितास्तदा॥ २५.२६ ॥
तथा काली भैरवी च माया चैव भयावहा॥
त्रिपुरा च जया चैव तथा क्षेमकरी शुभा॥ २५.२७ ॥
अन्याश्चैव तथा सर्वाः पुरस्कृत्य सदाशिवम्॥
गंतुकामाश्चोग्रतरा भूतैः प्रेतैः समावृताः॥ २५.२८ ॥
एताः सर्वा विलोक्याथ शिवभक्तो जनार्द्दनः॥
महर्षीश्च पुरस्कृत्य ह्यमरांश्च तथैव च॥
अनसूयां पुरस्कृत्य तथैव च ह्यरुंधतीम्॥ २५.२९ ॥
॥विष्णुरुवाच॥
चण्डीं कुरु समीपस्थां लोकपालनतां प्रभो॥ २५.३० ॥
तदुक्तं विष्णुना वाक्यं निशम्य जगदीश्वरः॥
उवाच प्रहसन्नेव चंडीं प्रति सदाशिवः॥ २५.३१ ॥
अत्रैव स्थीयतां चंडीं यावदुद्वहनं भवेत्॥
मम भावान्विजानासि कार्याकार्ये सुशोभने॥ २५.३२ ॥
एवमाकर्ण्य वचनं शंभोरमिततेजसः॥
उवाच कुपिता चंडी विष्णुमुद्दिश्य सादरम्॥ २५.३३ ॥
तथान्ये प्रमथाः सर्वे विष्णुमूचुः प्रकोपिताः॥
यत्रयत्र शिवो भाति तत्रतत्र वयं प्रभो॥ २५.३४ ॥
त्वया निवारिताः कस्माद्वयमाभ्युदये परे॥
तेषां तद्वचनं श्रुत्वा केशवोवाक्यमब्रवीत्॥ २५.३५ ॥
चण्डीमुद्दिश्य प्रमथानन्यांश्चैव तथाविधान्॥
यूयं चैव मया प्रोक्ता मा कोपं कर्त्तुमर्हथ॥ २५.३६ ॥
एवमुक्तास्तदा तेन चंडीमुख्या गणास्तदा॥
एकांतमाश्रिताः सर्वे विष्णुवाक्याज्ज्वलद्धृदः॥ २५.३७ ॥
तावत्सर्वे समायाताः पर्वतेंद्रस्य मंत्रिणः॥
सकलत्राः संभ्रमेण महेशं प्रति सत्वरम्॥ २५.३८ ॥
पंचवाद्यप्रघोषेण ब्रह्मघोषेण भूयसा॥
योषिद्भिः संवृतास्तत्र गीतशब्देन भूयसा॥ २५.३९ ॥
एवं प्राप्ता यत्र शंभुः सकलैः परिवारितः॥
आगत्य कलशैः साकं स्नापितो हि सदाशिवः॥
स्त्रीभिर्मंगलगीतेन सर्वाभरणभूषितः॥ २५.४० ॥
ऋषयो देवगंधर्वास्तथान्ये पर्वतोत्तमाः॥
शंभ्यग्रगास्तदा जग्मुः स्त्रियश्चैव सुपूजिताः॥
बभौ छत्रेण महता ध्रिमाणेन मूर्द्धनि॥ २५.४१ ॥
चामरै वीर्ज्यमानोऽसौ मुकुटेन विराजितः॥
ब्रह्मा विष्णुस्तथा चंद्रो लोकपालस्तथैव च॥ २५.४२ ॥
अग्रगा ह्यपि शोभंतः श्रिया परमया युताः॥
तथा शंखाश्च भेर्यश्च पटहानकगोमुखाः॥ २५.४३ ॥
तथैव गायकाः सर्वे परममंगलम्॥
पुनः पुनरवाद्यंत वादित्राणि महोत्सवे॥ २५.४४ ॥
अरुंधती महाभागा अनसूया तथैव च॥
सावित्री च तथा लक्ष्मीर्मातृभिः परिवारिताः॥ २५.४५ ॥
एभिः समेतो जगदेकबंधुर्बभौ तदानीं परमेण वर्चसा॥
सचंद्रसूर्यानिलवायुना वृतः सलोकपालप्रवरैर्महर्षिभिः॥ २५.४६ ॥
स वीज्यमानः पवनेनः साक्षाच्छत्रं च तस्मै शशिना ह्यधिष्ठितम्॥
सूर्यः पुरस्तादभवत्प्रकाशकः श्रियान्वितो विष्णुरभूच्च सन्निधौ॥ २५.४७ ॥
पुष्पैर्ववर्षुर्ह्यवकीर्यमाणा देवास्तदानीं मुनिभिः समेताः॥
ययौ गृहं कांचनकुट्टिमं महन्महावि भूत्यापरिशोभितं तदा॥
विवेश शंभुः परया सपर्यया संपूज्यमानो नरदेवदानवैः॥ २५.४८ ॥
एवं समागतः शंभुः प्रविष्टो यज्ञमण्डपम्॥
संस्तूयमानो विबुधैः स्तुतिभिः परमेश्वरः॥ २५.४९ ॥
गजादुत्तारयामास महेशं पर्वतोत्तमः॥
उपविश्य ततः पीठे कृत्वा नीराजनं महत्॥ २५.५० ॥
मेनया सखिभिः साकं तथैव च पुरोधसा॥
मधुपर्कादिकं सर्वं यत्कृतं चैव तत्र वै॥ २५.५१ ॥
ब्रह्मणा नोदितः सद्यः पुरोधाः कृतवान्प्रभुः॥
मंगलं शुभकल्याणं प्रस्तावसदृशं बहु॥ २५.५२ ॥
अंतर्वेद्यां संप्रवेश्य यत्र सा पार्वती स्थिता॥
वेदिकोपरि तन्वंगी सर्वाभरणभूषिता॥ २५.५३ ॥
तत्रानीतो हरः साक्षाद्विष्णुना ब्रह्मणा सह॥
लग्नं निरीक्षमाणास्ते वाचस्पतिपुरोगमाः॥ २५.५४ ॥
गर्गो मुनिश्चोपविष्टस्तत्रैव घटिकालये॥
यावत्पूर्णा घटी जाता तावत्प्रणवभाषणम्॥ २५.५५ ॥
ॐपुण्येति प्रणिगदन्गर्गो वध्वंजलिं दधे॥
पार्वत्यक्षतपूर्णं च शिवोपरि ववर्ष वै॥ २५.५६ ॥
तया संपूजितो रुद्रो दध्यक्षतकुशादिभिः॥
मुदा परमया युक्ता पार्वती रुचिरानना॥ २५.५७ ॥
विलोकयंती शंभुं तं यदर्थे परमं तपः॥
कृतं पुरा महादेव्या परेषां परमं महत्॥ २५.५८ ॥
तपसा तेन संप्राप्तो जगज्जीवनजीवनः॥
नारदेन ततः प्रोक्तो महादेवो वृषध्वजः॥ २५.५९ ॥
तथा गंगादिभिश्चन्यैर्मुनिभिः सनकादिभिः॥
प्रति पूजां कुरु क्षिप्रं पार्वत्याश्च त्रिलोचन॥
तदा शिवेन सा तन्वी पूजितार्घ्याक्षतादिभिः॥ २५.६० ॥
एवं परस्परं तौ च पार्वतीपरमेश्वरौ॥
अर्च्यमानौ तदानीं च शुशुभाते जगन्मयौ॥ २५.६१ ॥
त्रैलोक्यलक्ष्म्या संवीतौ निरीक्षंतौ परस्परम्॥
तदा नीराजितौ लक्ष्म्या सावित्र्या च विशेषतः॥
अरुंधत्या तदा तौ च दंपती परमेश्वरौ॥ २५.६२ ॥
अनसूया तथा शंभुं पार्वतीं च यशस्विनीम्॥
दृष्ट्वा नीराजयामास प्रीत्युत्कलितलोचना॥ २५.६३ ॥
तथैव सर्वा द्विजयोषितश्च नीराजयामासुरहो पुनः पुनः॥
सतीं च शंभुं च विलोकयंत्यस्तथैव सर्वा मुदिता हसंत्यः॥ २५.६४ ॥
॥लोमश उवाच॥
एतस्मिन्नंतरे तत्र गर्गाचार्यप्रणोदितः॥
हिमवान्मेनया सार्द्धं कन्यां दातुं प्रचक्रमे॥ २५.६५ ॥
हैमं कलशमादाय मेना चार्द्धां गामाश्रिता॥
हिमाद्रेश्च महाभागा सर्वाभरणभूषिता॥ २५.६६ ॥
तदा हिमाद्रिणा प्रोक्तो विश्वनाथो वरप्रदः॥
ब्रह्मणा सह संगत्य विष्णुना च तथैव च॥ २५.६७ ॥
सार्द्धं पुरोधसा चैव गर्गेण सुमहात्मना॥
कन्यादानं करोम्यद्य देवदेवस्य शूलिनः॥ २५.६८ ॥
प्रयोगो भण्यतां ब्रह्मन्नस्मिन्समय आगते॥
तथेति मत्वा ते सर्वे कालज्ञा द्विजसत्तमाः॥ २५.६९ ॥
कथ्यतां तात गोत्रं स्वं कुलं चैव विशेषतः॥
कथयस्व महाभाग इत्याकर्ण्य वचस्तथा॥
सुमुखेन विमुखः सद्यो ह्यशोच्यः शोच्यतां गतः॥ २५.७० ॥
एवंविधः सुरवरैर्ऋषिभिस्तदानीं गंधर्वयक्षमुनिसिद्धगणैस्तथैव॥
दृष्टो निरुत्तरमुखो भगवान्महेशो हास्यं चकार सुभृशं त्वथ नारदश्च॥ २५.७१ ॥
वीणां प्रकटयामास ब्रह्मपुत्रोऽथ नारदः॥
तदानीं वारितो धीमान्वीणां मा वादय प्रभो॥ २५.७२ ॥
इत्युक्तः पर्वतेनैव नारदो वाक्यमब्रवीत्॥
त्वया पृष्टो भवः साक्षात्स्वगोत्रकथनं प्रति॥ २५.७३ ॥
अस्य गोत्रं कुलं चैव नाद एव परं गिरे॥
नादे प्रतिष्ठितः शंभुर्नादो ह्यस्मिन्प्रतिष्ठितः॥ २५.७४ ॥
तस्मान्नादमयः शंभुर्नादाच्च प्रतिलभ्यते॥
तस्माद्वीणा मया चाद्य वादिता हि परंतप॥ २५.७५ ॥
अस्य गोत्रं कुलं नाम न जानंति हि पर्वत॥
ब्रह्मादयो हि विवुधा अन्येषां चैव का कथा॥ २५.७६ ॥
त्वं हि मूढत्वमापन्नो न जानासि हि किंचन॥
वाच्यावाच्यं महेशस्य विषया हि बहिर्मुखाः॥ २५.७७ ॥
येये आगमिकाश्चाद्रे नष्टास्ते नात्र संशयः॥
अरूपोयं विरूपाक्षो ह्यकुलीनोऽयमुच्यते॥ २५.७८ ॥
अगोत्रोऽयं गिरिश्रेष्ठ जामाता ते न संशयः॥
न कर्त्तव्यो विमर्शोऽत्र भवता विबुधेन हि॥ २५.७९ ॥
न जानंति हरं सर्वे किं बहूक्त्या मम प्रभो॥
यस्याज्ञानान्महाभाग मोहिता ऋषयो ह्यमी॥ २५.८० ॥
ब्रह्मापि तं न जानाति मस्तकं परमेष्ठिनः॥
विष्णुर्गतो हि पातालं न दृष्टो हि तथैव च॥ २५.८१ ॥
तेन लिंगेन महता ह्यगाधेन जगत्त्रयम्॥
व्याप्तमस्तीति तद्विद्धि किमनेन प्रयोजनम्॥ २५.८२ ॥
अनयाराधितं नूनं तव पुत्र्या हिमालय॥
तत्त्वतो हि न जानासि कथं चैव महागिरे॥ २५.८३ ॥
आभ्यामुत्पाद्यते विश्वमाभ्यां चैव प्रतिष्ठितम्॥
एतच्छ्रुत्वा वचस्तस्य नारदस्य महात्मनः॥ २५.८४ ॥
हिमाद्रिप्रमुखाः सर्वे तथा चेंद्रपुरोगमाः॥
साधुसाध्विति ते सर्वे ऊचुर्विस्मितमानसाः॥ २५.८५ ॥
ईश्वरस्य तु गांभीर्यं ज्ञात्वा सर्वे विचक्षणाः॥
विस्मयेन समाश्लिष्टा ऊचुः सर्वे परस्परम्॥ २५.८६ ॥
॥ऋषय ऊचुः॥
यस्याज्ञया जगदिदं च विशालमेव जातं परात्परमिदं निजबोधरूपम्॥
सर्वं स्वतंत्रपरमेश्वरभागम्यं सोऽसौ त्रिलोकनिजरूपयुतो महात्मा॥ २५.८७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवपार्वतीविवाहवर्णनंनाम पंचविंशोऽध्यायः॥ २५ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 26
॥लोमश उवाच॥
अथ ते पर्वतश्रेष्ठा मेर्वाद्या जातसंभ्रमाः॥
ऊचुस्ते चैकपद्येन हिमवंतं महागिरिम्॥ २६.१ ॥
॥पर्वता ऊचुः॥
कन्यादानं क्रियतां चाद्य शैल श्रीमाञ्छम्भुर्भाग्यतस्तेऽद्य लब्धः॥
हृन्मध्ये वै नात्र कार्यो विमर्शस्तस्मादेषा दीयतामीश्वराय॥ २६.२ ॥
तच्छ्रुत्वा वचनं तेषां सुहृदां वै हिमालयः॥
सम्यक्संकल्पमकरोद्ब्रह्ममा नोदितस्तदा॥
इमां कन्यां तुभ्यमहं ददामि परमेश्वर॥ २६.३ ॥
भार्यार्थं प्रतिगृह्णीष्वमंत्रेणानेन दत्तवान्॥
अस्मै रुद्राय महते देवदवाय शंभव॥
कन्या दत्ता महेशाय गिरींद्रेण महात्मना॥ २६.४ ॥
वेद्यां च बहिरानीतौ दंपतीव कमलेक्षणौ॥
उपवेशितौ बहिर्वेद्यां पार्वतीपरमेश्वरौ॥ २६.५ ॥
आचार्येणाथ तत्रैव कश्यपेन महात्मना॥
आह्वानं हवनार्थाय कृतमग्नेस्तदा द्विजाः॥ २६.६ ॥
ब्रह्मा ब्रह्मासनगतो बभूव शिवसन्निधौ॥
प्रवर्तमाने हवन ऋषयश्च विचक्षणाः॥ २६.७ ॥
ऊचुः परस्परं तत्र नानादर्शनवेदिनः॥
वेदवादरताः केचिदवदन्संमतेन वै॥ २६.८ ॥
एवमेव न चाप्येवमेवमेव न चान्यथा॥
कार्यमेव न वा कार्यं कार्याकार्यं तथा परे॥ २६.९ ॥
इत्येवं ब्रुवतां शब्दः श्रूयते शिवसन्निधौ॥
स्वकीयं मतमास्थाय ह्यब्रुवंस्ते परस्परम्॥
तत्त्वज्ञानविहीनास्ते केवलं वेदबुद्धयः॥ २६.१० ॥
तेषां तद्वचनं श्रुत्वा परस्परजयैषिणाम्॥
प्रहस्य नारदो वाक्यमुवाच शिवसन्निधौ॥ २६.११ ॥
यूयं सर्वे वादिनश्च वेदवादरतास्तथा॥
मौनमास्थाय भोविप्रा हृदि कृत्य सदाशिवम्॥ २६.१२ ॥
आत्मानं परमात्मानं पराणां परमं च तत्॥
येनेदं कारितं विश्वं यतः सर्वं प्रवर्त्तते॥
यस्मिन्निलीयते विश्वं तस्मै सर्वात्मने नमः॥ २६.१३ ॥
सोऽयमास्तेऽधुना गेहे पर्वतेंद्रस्य भो द्विजाः॥
मुखादस्यैव संजाताः सर्वे यूयं विचक्षणाः॥ २६.१४ ॥
एवमुक्तास्तदा तेन नारदेन द्विजोत्तमाः॥
उपदेशकरैर्वाक्यैर्बोधितास्ते द्विजोत्तमाः॥ २६.१५ ॥
वर्त्तमाने च यज्ञे च ब्रह्मा लोकपितामहः॥
ददर्श चरणौ देव्या नखेंदुं च मनोहरम्॥ २६.१६ ॥
दर्शनात्स्खलितः सद्यो बभूवांबुजसंभवः॥
मदनेन समाविष्टो वीर्यं च प्राच्यवद्भुवि॥ २६.१७ ॥
रेतसा क्षरमाणेन लज्जितोऽभूत्पितामहः॥
चरणाभ्यां ममर्द्दाथ महद्गोप्यं दुरत्ययम्॥ २६.१८ ॥
बहवश्चर्षयो जाता वालखिल्याः सहस्रशः॥
उपतस्थुस्तदा सर्वेताततातेति चाब्रुवन्॥ २६.१९ ॥
नारदेन तदोक्तास्ते वालखिल्याः प्रकोपिना॥
गच्छंतु बटवो यूयं पर्वतं गंधमादनम्॥ २६.२० ॥
न स्थातव्यं भवद्भिश्च भवतां न प्रयोजनम्॥
इत्येवमुक्तास्ते सर्वे वालखिल्याश्च पर्वतम्॥
नारदेन समादिष्टा ययुः सर्वे त्वरान्विताः॥ २६.२१ ॥
नारदेन ततो ब्रह्माऽऽश्वासितो वचनैः शुभैः॥
तावच्च हवनं पूर्णं जातं तस्य महात्मनः॥ २६.२२ ॥
महेशस्य तथा विप्राः शांतिपाठपरा बभुः॥
ब्रह्मघोषेण महता व्याप्त मासीद्दिगंतरम्॥ २६.२३ ॥
ततो नीराजितो देवो देवपत्नीभिरुत्तमः॥
तथैव ऋषिपत्नीभिरर्चितः पूजितस्तथा॥ २६.२४ ॥
तथा गिरीन्द्रस्य मनोरमाः शुभा नीराजयामासुरथैव योषितः॥
गीतैः सुगीतज्ञविशारदाश्च तथैव चान्ये स्तुतिभिर्महर्षयः॥ २६.२५ ॥
रत्नानि च महार्हाणि ददौ तेभ्यो महामनाः॥
हिमालयो महाशैलः संहृष्टः परितोषयन्॥ २६.२६ ॥
बभौ तदानीं सुरसिद्धसंघैर्वेद्यां स्थितोऽसौ सकलत्रको विभुः॥
सर्वैरुपेती निजपार्षदैर्गणैः प्रहृष्टचेता जगदेकसुन्दराः॥ २६.२७ ॥
एतस्मिन्नंतरे तत्र ब्रह्मविष्णुपुरोगमाः॥
ऋषिगंधर्वयक्षाश्च येन्ये तत्र समागताः॥ २६.२८ ॥
सर्वान्समभ्यर्च्य तदा महात्मा महान्गिरीशः परमेण वर्चसा॥
सद्रत्नवस्त्राभरणानि सम्यग्ददौ च ताम्बूलसुगन्धवार्यपि॥ २६.२९ ॥
तदा शिवं पुरस्कृत्याभ्यव जह्रुः सुरेश्वराः॥
तथा सर्वे मिलित्वा तु ऐकपद्येन मोदिताः॥ २६.३० ॥
पंक्तीभूताश्च बुभुर्लिंगिना श्रृंगिणा सह॥
केचिद्गणाः पृथग्भूता नानाहास्यरसैर्विभुम्॥ २६.३१ ॥
अतोषयन्नारदाद्या अनेकालीकसंयुताः॥
तथा चण्डीगणाः सर्वे बभुजुः कृतभाजनाः॥ २६.३२ ॥
वैतालाः क्षेत्रपालाश्च बुभुजुः कृतभाजनाः॥
शाकिनी डाकिनी चैव यक्षिण्यो मातृकादयः॥ २६.३३ ॥
योगिन्योऽथ चतुः षष्टिर्योगिनो हि तथा परे॥
दश कोट्यो गणानां च कोट्येका च महात्मनाम्॥ २६.३४ ॥
एवं तु ऋषयः सर्वे तथानये विबुधादयः॥
योगिनो हि मया चान्ये कथिताः पूर्वमेव हि॥ २६.३५ ॥
योगिन्यश्चैव कथितास्तासां भक्ष्यं वदामि वः॥
खड्गानां केचिदानीय क्रव्यं पवित्रमेव च॥ २६.३६ ॥
भुंजंति चास्थिसंयुक्तं तथांत्राणि बुभुक्षिताः॥
आनीय केचिच्छीर्षाणि महिषाणां गुरूणि च॥ २६.३७ ॥
तथा केचिन्नृत्यमानास्तदानीं रोरूय्यमाणाः प्रमथाश्चैव चान्ये॥
केचित्तूष्णीमास्थिता रुद्ररूपाः परेचान्याँल्लोकमानास्तथैव॥ २६.३८ ॥
योगिनीचक्रमध्यस्थो भैरवो हि ननर्त च॥
तथान्ये भूतवेताला मामेत्येवं प्रलापिनः॥ २६.३९ ॥
एवं तेषामुद्धवं हि निरिक्ष्य मधुसूदनः॥
उवाच प्रहसन्वाक्यं शंकरं लोकशंकरम्॥ २६.४० ॥
एतान्गणान्वारय भो अत्र मत्तांश्च संप्रति॥
अस्मिन्काले च यत्कार्यं सर्वैस्तत्कार्यमे व च॥ २६.४१ ॥
पांडित्येन महादेव तस्मादेतान्निवारय॥
तच्छ्रुत्वा भगवान्रुद्रो वीरभद्रमुवाच ह॥ २६.४२ ॥
॥रुद्र उवाच॥
वारयस्व प्रमत्तांश्च क्षीबांश्चैव विशेषतः॥
तेनोक्तो वीरभद्रश्च शंभुना परमेष्ठिना॥ २६.४३ ॥
आज्ञापिताः प्रमत्ताश्च वीरभद्रेण धीमता॥
प्रमथा वारितास्तेन तूष्णीमाश्रित्य ते स्थिताः॥ २६.४४ ॥
निश्चला योगिनीमध्ये भूतप्रमथगुह्यकाः॥
शाकिन्यो यातुधानाश्च कूष्मांडाः कोपिकर्पटाः॥ २६.४५ ॥
तथान्ये भूतवेतालाः क्षेत्रपालाश्च भैरवाः॥
सर्वे शांताः प्रमत्ताश्च बभूवुः प्रमथादयः॥ २६.४६ ॥
एवं विस्तारसंयुक्तं कृतमुद्वहनं तदा॥
हिमाद्रिणा परं विप्राः सुमंगल्यं सुशोभनम्॥ २६.४७ ॥
चत्वारो दिवसा जाताः परिपूर्णेन चेतसा॥
हिमाद्रिणा कृता पूजा देवदेवस्य शूलिनः॥ २६.४८ ॥
वस्त्रालंकाराभरणै रत्नैरुच्चावचैस्ततः॥
पूजयित्वा महादेवं विष्णोर्वचनपरोऽभवत्॥ २६.४९ ॥
लक्ष्मीसमेतं विष्णुं च वस्त्रालंकरणैः शुभैः॥
पूजयामास हिमवांस्तथा ब्रह्माणमेव च॥ २६.५० ॥
इंद्रं पुरोधसा सार्द्धमिंद्राण्या सहितं विभुम्॥
तथैव लोकपालांश्च पूजयित्वा पृथक्पृथक्॥ २६.५१ ॥
तथैव पूजिता चंडी भूतप्रमथगुह्यकैः॥
वस्त्रालंकरणैश्चैव रत्नैर्नानाविधैरपि॥
ये चान्य आगतास्तत्र ते च सर्वे प्रपूजिताः॥ २६.५२ ॥
एवं तदानीं प्रतिपूजिताश्च देवाश्च सर्वे ऋषयश्च यक्षाः॥
गंधर्वविद्याधरसिद्धचारणास्तथैव मर्त्त्याप्सरसां गणाश्च॥ २६.५३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवपार्वतिविवाहमंगलोत्सववर्णनं नाम षड्विशोऽध्यायः॥ २६ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 27
॥लोमश उवाच॥
तथैव विष्णुना सर्वे पर्वताश्च प्रपूजिताः॥
सह्याचलश्च विंध्यश्च मैनाको गंधमादनः॥ २७.१ ॥
माल्यवान्मलयश्चैव महेंद्रो मंदरस्तथा॥
मेरुश्चैव प्रयत्नेन पूजितो विष्णुना तदा॥ २७.२ ॥
श्वेतः कृतः श्वेतगिरिर्निलाद्रिश्च तथैव च॥
उदयाद्रिश्च श्रृंगश्च अस्ताचलवरो महान्॥ २७.३ ॥
मानसाद्रिस्तथा शैलः कैलासः पर्वतोत्तमः॥
लोकालोकस्तथा शैलः पूजितः परमेष्ठिना॥ २७.४ ॥
एवं ते पर्वतश्रेष्ठाः पूजिताः सर्व एव हि॥
तथान्ये पूजितास्तेन सर्वे पर्वतवासिनः॥ २७.५ ॥
विष्णुना ब्रह्मणा सार्द्धं कृतं सर्वं यथोचितम्॥
अन्येहनि च संप्राप्ते वरयात्रा कृता तथा॥ २७.६ ॥
हिमाद्रिणा बंधुभिश्च पर्वतं गंधमादनम्॥
ययुः सर्वे सुरगणा गणाश्च बहवस्तथा॥ २७.७ ॥
प्रमथाश्च तथा सर्वे तथा चंडीगणाः परे॥
ये चान्ये बहवस्तत्र समायाता हिमालया॥ २७.८ ॥
शिवस्योद्वहनं विप्राः शिवेन परिभाविताः॥
परं हर्षं समापन्ना दृष्ट्वा तौ दंपती तदा॥ २७.९ ॥
पार्वतीसहितः शंभुः शंभुना सह पार्वती॥
पुष्पगन्धौ यथा स्यातां वागर्थाविव तत्त्वतः॥ २७.१० ॥
तथा प्रकृतिपुंसौ च ऐकपद्येन नान्यथा॥
दंपती तौ गजारूढौ शुशुभाते महाप्रभौ॥ २७.११ ॥
विमास्थस्तदा ब्रह्मा विष्णुश्च गरुडोपरि॥
ऐरावतगतश्चेंद्रः कुबेरः पुष्पकोपरि॥ २७.१२ ॥
पाशी च मकरा रूढो यमो महिषमेव च॥
प्रेतारूढो नैर्ऋतः स्यादग्निर्बस्तगतो महान्॥ २७.१३ ॥
मृगारूढोऽथ पवन ईशो वृषभमेव च॥
इत्येवं लोकपालाश्च सग्रहाः परमेष्ठिनः॥ २७.१४ ॥
स्वैः स्वैर्बलैः परिक्रांतास्तथान्ये प्रमथादयः॥
हिमाद्रिश्च महाशैल ऋषभो गंधमादनः॥ २७.१५ ॥
सह्याचलो नीलगिरिर्मंदरो मलयाचलः॥
कैलासो हि महातेजा मैनाकश्च महाप्रभः॥ २७.१६ ॥
एते चान्ये च गिरयः क्षीमंतो हि महाप्रभाः॥
सकलत्राश्च ते सर्वे ससुताश्च मनोरमाः॥ २७.१७ ॥
बलिनो रूपिणः सर्वे मेर्वाद्यास्तत्र पर्वताः॥
वरयात्राप्रसंगेन शिवार्चनपराभवन्॥ २७.१८ ॥
नंदिना ह्युपविष्टास्ते मेर्वाद्यास्तत्र पर्वताः॥
वरयात्रा कृता ते यथोक्ता च हिमाद्रिणा॥
सर्वैस्तैर्बंधुभिः सार्द्धं पुनरागमनं कृतम्॥ २७.१९ ॥
स्वकालयस्थो हिमवान्स रेजे हि महा यशा॥
शिवसंपर्कजेनैव महसा परमेम च॥
विख्यातो हि महाशैलस्त्रिषु लोकेषु विश्रुतः॥ २७.२० ॥
कन्यादानेन महता तुष्टो यस्य च शंकरः॥
ते धन्यास्ते महात्मानः कृतकृतत्यास्तथैव च॥ २७.२१ ॥
द्व्यक्षरं नाम येषां च जिह्वाग्रे संस्थितं सदा॥
शिवेति द्व्यक्षरं नाम यैर्हृदीरितमद्य वै॥
ते वै मनुष्यरूपेण रुद्रा एव न संशयः॥ २७.२२ ॥
किंचिद्दानेन संतुष्टः पत्रेणापि तथैव च॥
तोयेनापि हि संतुष्टो महादेवो निरन्तरम्॥ २७.२३ ॥
पत्रेण पुष्पेण तथा जलेन प्रीतो भवत्येष सदाशिवो हि॥
तस्माच्च सर्वैः प्रतिपूजनीयः शिवो मद्दाभाग्यकरो नृणामिह॥ २७.२४ ॥
एको महाञ्ज्योतिरजः परेशः परापराणां परमो महात्मा॥
निरंतरो निर्विकारो निरीशो निराबाधो निर्विकल्पो निरीहः॥ २७.२५ ॥
निरंजनो नित्यरूपो निरोधो नित्यानन्दो नित्यमुक्ताः सदेव॥
एवंभूतो देवदेवोऽर्च्चितश्च तैर्देवाद्यर्विश्ववेद्यो भवश्च॥
स्तुतो ध्यातः पूजितश्चिंतितश्च सर्वज्ञोऽसौ सर्वदा सर्वदश्च॥ २७.२६ ॥
यथा वरिष्ठो हिमवान्प्रसिद्धः सर्वैर्गुणैः सर्वगुणो महात्मा॥
विश्वेशवंद्यो हि तदा हिमालयो जातो गिरीणां प्रवरस्तदानीम्॥ २७.२७ ॥
मेनया सह धर्मात्मा यथास्थानगतस्ततः॥
सर्वान्विसर्जयामास पर्वतान्पर्वतेश्वरः॥ २७.२८ ॥
गतेषु तेषु हिमवान्पुत्रैः पौत्रैः प्रपौत्रकैः॥
राजा गिरीणां प्रवरो महादेवप्रसादतः॥ २७.२९ ॥
अथो गिरिजया सार्द्धं महेशो गन्धमादने॥
एकांते च मतिं चक्रे रमणार्थं स्वरूपवान्॥ २७.३० ॥
सुरतेनैव महता तपसा हि समागमे॥
द्वयोः सुरतमारब्धं तद्द्वयोश्च तदाऽभवत्॥ २७.३१ ॥
अनिष्टं महदाश्चर्यं प्रलयोपममेव च॥
तस्मिन्महारते प्राप्ते नाविंदंत सुखं परम्॥ २७.३२ ॥
सर्वे ब्रह्मादयो देवाः कार्याकार्यव्यवस्थितौ॥
रेतसा च जगत्सर्वं नष्टं स्थावरजंगमम्॥ २७.३३ ॥
सस्मार चाग्निं ब्रह्मा च विष्णुश्चाध्यात्मदायकः॥
मनसा संस्मृतः सद्यो जगामाग्निस्त्वरान्वितः॥ २७.३४ ॥
ताभ्यां संप्रेषितोऽपश्यद्रुचिरं शिवमांदिरम्॥
द्वारि स्थितं नंदिनं च ददर्शाग्रे महाप्रभम्॥ २७.३५ ॥
अग्निर्ह्रस्वस्तदा भूत्वा काश्मीरसदृशच्छविः॥
प्रविष्टोंतः पुरं शंभोर्नानाश्चर्यसमन्वितम्॥ २७.३६ ॥
अनेकरत्नसंवीतं प्रासादैश्च स्वलं कृतम्॥
तदंगणमनुप्राप्य उपविश्याह हव्यवाट्॥ २७.३७ ॥
पाणिपात्रस्य मे ह्यम्ब भिक्षां देह्यवरोधतः॥
तच्छ्रुत्वा वचनं तस्य पाणिपात्रस्य बालिका॥ २७.३८ ॥
यावद्दातुं च सारेभे भिक्षां तस्मै ततः स्वयम्॥
उत्थाय सुरतात्तस्माच्छिवो हि कुपितो भृशम्॥ २७.३९ ॥
रुद्रस्त्रिशूलमुद्यम्य भैरवो ह्यऽभवत्तदा॥
निवारितो गिरिजया वधात्तस्माच्छिवः स्वयम्॥
भिक्षां तस्मै ददौ वाचा अग्नये जातवेदसे॥ २७.४० ॥
पाणौ भिक्षां गृहीत्वाथ प्रत्यक्षं तेन चाग्निना॥
भिक्षिता कुपिता तं वै शशाप गिरिजा ततः॥ २७.४१ ॥
रे भिक्षो भविता शापात्सर्वभक्षो ममाशु वै॥
अनेन रेतसा सद्यः पीडां प्राप्स्यसि सर्वतः॥ २७.४२ ॥
इत्युक्तो भक्षयित्वाग्नी रेत ईशस्य हव्यवाट्॥
यत्र देवाः स्थिताः सर्वे ब्रह्माद्याश्चैव सर्वशः॥ २७.४३ ॥
आगत्याकथयत्सर्वं तद्रेतोभक्षणादिकम्॥
सर्वे सगर्भा ह्यभवन्निन्द्राद्या देवतागणाः॥ २७.४४ ॥
अग्नेर्यथा हविश्चैव सर्वेषामुपतिष्ठति॥
अग्नेर्मुखोद्भवेनैव रेतसा ते सुरेश्वराः॥ २७.४५ ॥
सगर्भाह्यभवन्सर्वे चिंतया चप्रपीडिताः॥
विष्णुं शरणमाजग्मुर्द्देवदेवेश्वरं प्रभुम्॥ २७.४६ ॥
॥देवा ऊचुः॥
त्वं त्राता सर्वदेवानां लोकानां प्रभुरेव च॥
तस्माद्रक्षा विधातव्या शरणागतवत्सल॥ २७.४७ ॥
वयं सर्वे मर्तुकामा रेतसानेन पीडिताः॥
असुरेभ्यः परित्रस्ता वयं सर्वे दिवौकसः॥ २७.४८ ॥
शरणं शंकरं याताः परित्रातुं कृतोद्वहाः॥
यदा पुत्रो हि रुद्रस्य भविष्यति तदा वयम्॥
सुखिनः स्याम सर्वे निर्भयाश्च त्रिविष्टपे॥ २७.४९ ॥
एवं विष्टभ्यमानानां सर्वेषां भयमागतम्॥
अनेन रेतसा विष्णो जीवितुं शक्यते कथम्॥ २७.५० ॥
त्रिवर्गो हि यथा पुंसां कृतो हि सुपरिष्कृतः॥
विपरीतो भवत्येव विना देवेन नान्यथा॥ २७.५१ ॥
तस्मात्तद्वै बलं मत्वा सर्वेषामपि देहिनाम्॥
कार्याकार्यव्यवस्थायां सर्वे मन्यामहे वयम्॥ २७.५२ ॥
तथा निशम्य देवानां परेशः परिदेवनम्॥
उवाच प्रहसन्वाक्यं देवानां देवतारिहा॥ २७.५३ ॥
स्तूयतां वै महादेवो महेशः कार्यगौरवात्॥ २७.५४ ॥
तथेति गत्वा ते सर्वे देवा विष्णुपुरोगमाः॥
तथा ब्रह्मादयः सर्व ईडिरे ऋषयो हरम्॥ २७.५५ ॥
ॐनमो भर्गाय देवाय नीलकंठाय मीढुषे॥
त्रिनेत्राय त्रिवेदाय लोकत्रितयधारिणे॥ २७.५६ ॥
त्रिस्वराय त्रिमात्राय त्रिवेदाय त्रिमूर्त्तये॥
त्रिवर्गाय त्रिधामाय त्रिपदाय त्रिशूलिने॥ २७.५७ ॥
त्राहित्राहि महादेव रेतसो जगतः पते॥ २७.५८ ॥
ब्रह्मणा तु स्तुतो यावत्तावद्देवो वृषध्वजः॥
प्रादुर्बभूव तत्रैव सुराणां कार्यसिद्धये॥ २७.५९ ॥
दृष्टस्तदानीं जगदेकबंधुर्महात्मभिर्देववरैः सुपूजितः॥
संस्तूयमानो विविधैर्वचोभिः प्रत्यग्रूपैः श्रुतिसंमतैश्च॥ २७.६० ॥
स्तुवतां चैव देवानामुवाच परमेश्वरः॥
त्रासं कुर्वंतु मा सर्वे रेतसानेन पीडिताः॥ २७.६१ ॥
वमनं वै भवद्भिश्च कार्यमद्यैव भोःसुराः॥
तथेति मत्वा ते सर्व इंद्राद्या देवतागणाः॥
वेमुः सर्वे तदा विप्रास्तद्रेतः शंकरस्य च॥ २७.६२ ॥
ऐकपद्येन तद्रेतो महापर्वतसन्निभम्॥
तप्तचामीकरप्रख्यं बभूव परमाद्भुतम्॥ २७.६३ ॥
सर्वे च सुखिनो जाता इंद्राद्या देवतागणाः॥
विना ह्यग्निं च ते सर्वे परितुष्टास्तदाऽभवन्॥ २७.६४ ॥
तेनाग्निनापि चोक्तस्तु शंकरो लोकशंकरः॥
किं मयाद्य महा देव कर्तव्यं देवतावर॥ २७.६५ ॥
तद्ब्रूहि मे प्रभोऽद्य त्वं येनाहं सर्वदा सुखी॥
भविष्यामि च येनाहं देवानां हव्यवाहकः॥ २७.६६ ॥
तदोवाच शिवः साक्षाद्देवानामिह श्रृण्वताम्॥
रेतो विसृज्यतां योनौ तदाग्निः प्रहसन्नवि॥ २७.६७ ॥
उवाच शंकरं देवं भवत्तेजो दुरासदम्॥
इदमुल्बणवत्तेजो धार्यते प्राकृतैः कथम्॥ २७.६८ ॥
ततः प्रोवाच भगवानग्निं प्रति महेश्वरः॥
मासिमासि प्रतप्तानां देहे तेजो विसृज्यताम्॥ २७.६९ ॥
तथेति मत्वा वचनं महाप्रभः स जातवेदाः परमेण वर्चसा॥
समुज्ज्वलंस्तत्र महाप्रभावो ब्राह्मे मुहूर्त्ते हि सचोपविष्टः॥ २७.७० ॥
तदा प्रातः समुत्थाय प्रातः स्नानपराः स्त्रियः॥
ययुः सदा ऋषीणां च सत्यस्ता जातवेदसम्॥ २७.७१ ॥
दृष्ट्वा प्रज्वलितं तत्र सर्वास्ताः शीतकर्षिताः॥
तप्तुकामास्तदा सर्व्वा ह्यरुधत्या निवारिताः॥ २७.७२ ॥
तया निवारिताश्चापि तास्तेपुः कृत्तिकाः स्वयम्॥
यावत्तेपुश्च ताः सर्व्वा रेतसः परमाणवः॥
विविशू रोमकूपेषु तासां तत्रैव सत्वरम्॥ २७.७३ ॥
नीरेतोग्निस्तदा जातो विश्रांतः स्वयमेव हि॥ २७.७४ ॥
ततस्ता ऋषिभार्या हि ययुः स्वभवनं प्रति॥
ऋषिभिस्तु तदा शप्ताः कृत्तिकाः खेचराभवन्॥ २७.७५ ॥
तदानीमेव ताः सर्वा व्यभिचारेण दुःखिताः॥
तत्ससर्जुस्तदा रेतः पृष्ठे हिमवतो गिरेः॥ २७.७६ ॥
एकपद्येन तद्रेतस्तप्तचामीकरप्रभम्॥
गंगायां च तदा क्षिप्रं कीचकैः परिवेष्टितम्॥ २७.७७ ॥
षण्मुखं बालकं ज्ञात्वा सर्वे देवा मुदान्विताः॥
गर्गेणोक्तास्तदंते वै सुखेन ह्रियतामिति॥ २७.७८ ॥
शंभोः पुत्रः प्रसादेन सर्वो भवति शाश्वतः॥
गंगायाः पुलिने जातः कार्त्तिकेयो महाबलः॥ २७.७९ ॥
उपविष्टोथ गांगेयो ह्यहोरात्रोषितस्तदा॥
शाखो विशाखोऽतिबलः षण्मुखोऽसौ महाबलः॥ २७.८० ॥
जातो यदाथ गंगायां षण्मुखः शंकरात्मजः॥
तदानीमेव गिरिजा संजाता प्रस्नुतस्तनी॥ २७.८१ ॥
शिवं निरीक्ष्य सा प्राह हे शंभो प्रस्नवो महान्॥
संजातो मे महादेव किमर्थस्तन्निरीक्ष्यताम्॥
सर्वज्ञोऽपि महादेवो ह्यब्रवीत्तामथाज्ञवत्॥ २७.८२ ॥
नारदस्तत्र चागत्य प्रोक्तवाञ्जन्म तस्य तत्॥
शिवाय च शिवायै च पुत्रो जातो हि सुंदरः॥ २७.८३ ॥
तदाकर्ण्य वचो विप्रा हर्षनिर्भरमानसाः॥
बभूवुः प्रमथाः सर्वे गंधर्वा गीततत्पराः॥ २७.८४ ॥
अनेकाभिः पताकाभिश्चैलपल्लवतोरणैः॥
तथा विमानैर्बहुभिर्बभौ प्रज्वलितो महान्॥
पर्वतः पुत्रजननाच्छंकरस्य महात्मनः॥ २७.८५ ॥
तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः रक्षोगंधर्वयक्षाश्च अप्सरोगणसेविताः॥ २७.८६ ॥
एकपद्येन ते सर्वे सहिताः शंकरेण तु॥
द्रष्टुं गांगेयमधिकं जग्मुः पुलिनसंस्थितम्॥ २७.८७ ॥
ततो वृषभमारुह्य ययौ गिरिजया सह॥
अन्यैः समेतो भगवान्सुरैरिंद्रादिभिस्तथा॥ २७.८८ ॥
तदा शंखाश्च भेर्यश्च नेदुस्तूर्यीण्यनेकशः॥ २७.८९ ॥
तदानीमेव सर्वेशं वीरभद्रादयो गणाः॥
अन्वयुः केलिसंरब्धा नानावादित्रवादकाः॥
वादयन्तश्च वाद्यानि ततानि विततानि च॥ २७.९० ॥
केचिन्नृत्यपरास्तत्र गायकाश्च तथा परे॥
स्तावकाः स्तूयमानाश्च चक्रुस्ते गुणकीर्तनम्॥ २७.९१ ॥
एवंविधास्ते सुरसिद्धयक्षा गंधर्वविद्याधरपन्नगा ह्यमी॥
शिवेन सार्द्धं परिहृष्टचित्ता द्रष्टुं ययुस्तं वरदं च शांकरिम्॥ २७.९२ ॥
यावत्समीक्षयामासुर्गांगेयं शंकरोपमम्॥
ददृशुस्ते महत्तेजो व्याप्तमासीज्जगत्त्रयम्॥ २७.९३ ॥
तत्तोजसावृतं बालं तप्तचामीकरप्रभम्॥
सुमुखं सुश्रिया युक्तं सुनसं सुस्मितेक्षणम्॥ २७.९४ ॥
चारुप्रसन्न वदनं तथा सर्वागसुंदरम्॥
तं दृष्ट्वा महदाश्चर्यं गांगेयं प्रथितात्मकम्॥ २७.९५ ॥
ववंदिरे तदा बालं कुमारं सूर्यवर्चसम्॥
प्रमथाश्च गणाः सर्वे वीरभद्रादयस्तथा॥ २७.९६ ॥
परिवार्योपतस्थुस्ते वामदक्षिणभागतः॥
तथा ब्रह्मा च विष्णुश्च इंद्रश्चापि सुरैर्वृतः॥ २७.९७ ॥
ऋषयो यक्षगंधर्वाः परिवार्य कुमारकम्॥
दंडवत्पितिता भूमौ केचिच्च नतकंधराः॥ २७.९८ ॥
प्रणेमुः शिरसा चान्ये मत्वा स्वामिनमव्ययम्॥
अवाद्यंत विचित्राणि वादित्राणि महोत्सवे॥
एवमभ्युदये तस्मिन्नृषयः शांतिमापठम्॥ २७.९९ ॥
एतस्मिन्नंतरे यातः शंकरो गिरिजापतिः॥
अवतीर्य वृषाच्छीघ्रं पार्वत्या सहसुव्रताः॥ २७.१०० ॥
पुत्रं निरैक्षत तदा जगदेकबंधुः प्रीत्या युतः परमया सह वै भवान्या॥
स्नेहान्वितो भुजगभोगयुतो हि साक्षात्सर्वेश्वरः परिवृतः प्रमथैः प्रहृष्टः॥ २७.१०१ ॥
उपगुह्य गुहं तत्र पार्वती जातसंभ्रमा॥
प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता॥ २७.१०२ ॥
तदा नीराजितो देवैः सकलत्रैर्मुदान्वितैः॥
जयशब्देन महता व्याप्तमासीन्नभस्तलम्॥ २७.१०३ ॥
ऋषयो ब्रह्मगोषेण गीतेनैव च गायकाः॥
वाद्यैश्च वादकाश्चैव उपतस्थुः कुमारकम्॥ २७.१०४ ॥
स्वमंकमारेप्य तदा गिरीशः कुमारकं तं प्रभया महाप्रभम्॥
बभौ भवानीपतिरेव साक्षाच्छ्रिया युतः पुत्रवतां वरिष्ठः॥ २७.१०५ ॥
दंपती तौ तदा तत्र ऐकपद्येन नंदतुः॥
अभिषिच्यमान ऋषिभिरावृतः सुरसत्तमैः॥ २७.१०६ ॥
कुमारः क्रीडयामास उत्संगे शंकरस्य च॥
कंठे स्थितं वासुकिं च पाणिभ्यां समपीडयत्॥ २७.१०७ ॥
मुखं प्रपीडयित्वाऽसौ पाणीनगणयत्तदा॥
एकं त्रीणिदशाष्टौ च विपरीतक्रमेण च॥ २७.१०८ ॥
प्रहस्य भगवाञ्छंभुरुवाच गिरिजां तदा॥ २७.१०९ ॥
मंदस्मितेन च तदा भगवान्महेशः प्राप्तो मुदंच परमां गिरिजासमेतः॥
प्रेम्णा सगद्गदगिरा जगदेकबंधुर्नोवाच किंचन तदा भुवनैकभर्ता॥ २७.११० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कार्त्तिकेयस्वामिकुमारोत्पत्तिवर्णनंनाम सप्तविंशोऽध्यायः॥ २७ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 28
॥लोमश उवाच॥
कुमारं स्वांकमारोप्य उवाच जगदीश्वरः॥
देवान्प्रति तदा रुद्रः सेंद्रान्भर्गः प्रतापवान्॥ २८.१ ॥
किं कार्यं कथ्यतां देवाः कुमारेणाधुना मम॥
तदोचुः सहिताः सर्वे देवं पशुपतिं प्रति॥ २८.२ ॥
तारकाद्भयमुत्पन्नं सर्वेषां जगतां विभो॥
त्राता त्वं जगतां स्वामी तस्मात्त्राणं विधीयताम्॥ २८.३ ॥
कुमारेण हतोऽद्यैव तारको भविता प्रभो॥
तस्मादद्यैव यास्यामस्तारकं हंतुमुद्यताः॥ २८.४ ॥
तथेति मत्वा सहसा निर्जग्मुस्ते तदा सुराः॥
कार्त्तिकेयं पुरस्कृत्य शंकरातमजमेव हि॥ २८.५ ॥
सर्वे मिलित्वा सहसा ब्रह्मविष्णुपुरोगमाः॥
देवानामुद्यमं श्रुत्वा तारकोऽपि महाबलः॥ २८.६ ॥
सैन्येन महता चैव ययौ योद्धुं सुरान्प्रति॥
देवैर्दृष्टं समायातं तारकस्य महद्बलम्॥ २८.७ ॥
तदा नभोगता वाणी ह्युवाच परिसांत्व्य तान्॥
शांकरिं च पुरस्कृत्य सर्वे यूय प्रतिष्ठिताः॥ २८.८ ॥
दैत्यान्विजित्य संग्रामे जयिनो हि भविष्यथ॥ २८.९ ॥
वाचं तु खेचरीं श्रुत्वा देवाः सर्वे समुत्सुकाः॥
कुमारं च पुरस्कृत्य सर्वे ते गतसाध्वसाः॥ २८.१० ॥
युद्धकामाः सुरा यावत्तावत्सर्वे समागताः॥
वरणार्थं कुमारस्य सुता मृत्योर्दुरत्यया॥ २८.११ ॥
ब्रह्मणा नोदिता पूर्वं तपः परममाश्रिता॥
तपसा तेन महता कुमारं प्रति वै तदा॥
आगता दुहिता मृत्योः सेना नामैकसुंदरी॥ २८.१२ ॥
तां दृष्ट्वा तेऽब्रुवन्सर्वे देवं पशुपतिं प्रति॥
एनं कुमारमुद्दिश्य आगता ह्यतिसुंदरी॥ २८.१३ ॥
ब्रह्मणो वचनाच्चैव कुमारेण तदा वृता॥
अथ सेनापतिर्जातः कुमारः शांकरिस्तदा॥ २८.१४ ॥
तदा शंखाश्च भेर्यश्च पटहानकगोमुखाः॥
तथा दुंदुभयो नेदुर्मृदंगाश्च महास्वनाः॥ २८.१५ ॥
तेन नादेन महता पूरितं च नभस्तलम्॥
तदा गौरी च गंगा च कृत्तिका मातरस्तथा॥
परस्परमथोचुस्ताः सुतो मम ममेति च॥ २८.१६ ॥
एवं विवादमापन्नाः सर्वास्ता मातृकादयः॥
निवारिता नारदेन मौढ्यं मा कुरुतेति च॥ २८.१७ ॥
पार्वत्यां शंकराज्जातो देवकार्यार्थसिद्धये॥
तूष्णींभूतास्तदा सर्वाः कृत्तिका मातृभिः सह॥ २८.१८ ॥
गुहेनोक्तास्तदा सर्वा ऋषिपत्न्यश्च कृत्तिकाः॥
नक्षत्राणि समाश्रित्य भवद्भिः स्थीयतां चिरम्॥ २८.१९ ॥
तथा मातृगणस्तेन स्वामिना स्थापितो दिवि॥
मृत्योः कन्यां च संगृह्य कार्त्तिकेयस्त्वरान्वितः॥ २८.२० ॥
इंद्रं प्रोवाच भगवान्कुमारः शंकरात्मजः॥
दिवं याहि सुरैः सार्द्धं राज्यं कुरु निरन्तरम्॥ २८.२१ ॥
इंद्रेणोक्तः कुमारो हि तारकेण प्रपीडिताः॥
स्वर्गाद्विद्राविताः सर्वे वयं याता दिशो दश॥ २८.२२ ॥
किं पृच्छसि महाभाग अस्मान्पदपरिच्युतान्॥
एवमुक्तस्तदा तेन वज्रिणाशंकरात्मजः॥
प्रहस्येंद्रं प्रति तदा मा भैषीत्यभयं ददौ॥ २८.२३ ॥
यावत्कथयतस्तस्य शांकरेश्च महात्नः॥
कैलासं तु गते रुद्रे पार्वत्या प्रमथैः सह॥ २८.२४ ॥
आजगाम महादैत्यो दैत्यसेनाभिरावृतः॥
रणदुंदुभयो नेदुस्तता प्रलयभीषणाः॥ २८.२५ ॥
रणकर्कशतूर्याणि डिंडिमान्यद्भुतानि च॥
गोमुखाः खरश्रृंगाणि काहलान्येव भूरिशः॥ २८.२६ ॥
वाद्यभेदा आवाद्यंत तस्मिन्दैत्यसमागमे॥
गर्जमानास्तदा वीरस्तारकेण सहैव तु॥ २८.२७ ॥
उवाच नारदो वाक्यं तारकं देवकण्टकम्॥ २८.२८ ॥
॥नारद उवाच॥
पुरा देवैः कृतो यत्नो वधार्थं नात्र संशयः॥
तवैव चासुरश्रेष्ठ मयोक्तं नान्यथा भवेत्॥ २८.२९ ॥
कुमारोऽयं च शर्वस्य तवार्थं चोपपादितः॥
एवं ज्ञात्वा महाबाहो कुरु यत्नं समाहितः॥ २८.३० ॥
नारदोक्तं निशम्याथ तारकः प्रहसन्निव॥
उवाच वाक्यं मेधावी गच्छ त्वं च पुरंदरम्॥ २८.३१ ॥
मम वाक्यं महर्षे त्वं वद शीघ्रं यथातथम्॥
कुमारं च पुरस्कृत्य मया योद्धुं त्वमिच्छसि॥ २८.३२ ॥
मूढभावं समाश्रित्य कर्तुमिच्छसि नान्यथा॥
मनुष्यमेकमाश्रित्य मुचुकुन्दाख्यमेव च॥ २८.३३ ॥
तत्प्रभावेऽमरावत्यां स्थितोऽसि त्वं न चान्यथा॥
कौमारं बलमाश्रित्य तिष्ठसे त्वं ममाग्रतः॥ २८.३४ ॥
त्वां हनिष्याम्यहं मन्दलोकपालैः सहैव हि॥
एवं कथय देवेन्द्रं देवर्षे नान्यथा वद॥ २८.३५ ॥
तथेति मत्वा भगवान्स नारदो ययौ सुराञ्छक्रपुरोगमांश्च॥
आचष्ट सर्वं ह्यसुरेन्द्रभाषितं सहोपहासं मतिमांस्तथैव॥ २८.३६ ॥
॥नारद उवाच॥
भवद्भिः श्रूयतां देवा वचनं मम नान्यथा॥
तारकेण यदुक्तं च सानुगे नावधार्यताम्॥ २८.३७ ॥
॥तारक उवाच॥
त्वां हनिष्यामि रे मूढ नान्यथा मम भाषितम्॥ २८.३८ ॥
मुचुकुन्दं समासाद्य लोकपालैश्च पूजितः॥
न त्वया भीरुणा योत्स्ये देवो भूत्वा नराश्रितः॥ २८.३९ ॥
तस्य वाक्यं निशम्योचुः सर्वे देवाः सवासवाः॥
कुमारं च पुरस्कृत्य नारदं चर्षिसत्तमम्॥ २८.४० ॥
जानासि त्वं हि देवर्षे कुमारस्य बलाबलम्॥
अज्ञो भूत्वा कथं वाक्यमुक्तं तस्य ममाग्रतः॥ २८.४१ ॥
प्रहस्य नारदो वाक्यमुवाच तस्य सन्निधौ॥
अहमप्युपहासं च वाक्यं तारकमुक्तवान्॥ २८.४२ ॥
जानीध्वममराः सर्वे कुमारं जयिनं सुराः॥
भविष्यत्यत्र मे वाक्यं नात्र कार्याविचारणा॥ २८.४३ ॥
नारदस्य वचः श्रुत्वा सर्वे देवा मुदान्विताः॥
ऐकपद्येन चोत्तस्थुर्योद्धुकामाश्च तारकम्॥ २८.४४ ॥
कुमारं गजमारोप्य देवेन्द्रो ह्यग्रगोऽभवत्॥
सुरसैन्येन महता लोकपालैः समावृतः॥ २८.४५ ॥
तदा दुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः॥
वीणावेणुमृदंगानि तथा गन्धर्वनि स्वनाः॥ २८.४६ ॥
गजं दत्त्वा महेंद्राय कुमारो यानमारुहत्॥
अनेकरत्नसंवीतं नानाश्चर्यसमन्वितम्॥
विचित्रचित्रं सुमहत्तथाश्चर्यसमन्वितम्॥ २८.४७ ॥
विमानमारुह्य तदा महायशाः स शांकरिः सर्वगणैरुपेतः॥
श्रिया समेतः परया बभौ महान्स वीज्यमानश्चमरैर्महाप्रभैः॥ २८.४८ ॥
प्राचे तसं छत्र महामणिप्रभं रत्नैरुपेतं बहुभिर्विराजितम्॥
धृतं तदा तेन कुमारमूर्द्धनि चन्द्रैः किरणैः सुशोभितम्॥ २८.४९ ॥
संमीलितास्तदा सव देवा इन्द्रपुरोगमाः॥
बलैः स्वैः स्वैः परिक्रांता योद्धुकामा महाबलाः॥ २८.५० ॥
यमेऽपि स्वगणैः सार्द्धं मरुद्भिश्च सदागतिः॥
पाथोभिर्वरुणस्तत्र कुबेरो गुह्यकैः सह॥
ईशोऽपि प्रमथैः सार्द्धं नैर्ऋतो व्याधिभिः सह॥ २८.५१ ॥
एवं तेऽष्टौ लोकपा योद्धुकामाः सर्वे मिलित्वा तारकं हंतुमेव॥
पुरस्कृत्वा शांकरिं विश्ववंद्यं सेनापतिं चात्मविदां वरिष्ठम्॥ २८.५२ ॥
एवं ते योद्धुकामा हि अवतेरुश्च भूतलम्॥
अंतर्वेद्यां स्थिताः सर्वे गंगा यमुनमध्यगाः॥ २८.५३ ॥
पातालाच्च समायातास्तारकस्योपजीविनः॥
चेरुरंगबलोपेता हन्तुकामाः सुरान्रणे॥ २८.५४ ॥
तारको हि समायातो विमानेन विराजितः॥
छत्रेण च महातेजा ध्रियमाणेन मूर्द्धनि॥ २८.५५ ॥
चामरैर्विज्यमानो हि शुशुभे दैत्यराट् स्वयम्॥ २८.५६ ॥
एवं देवाश्च दैत्याश्च अंतर्वेद्यां स्थितास्तदा॥
सैन्येन महता तत्र व्यूहान्कृत्वा पृथक्पृथक्॥ २८.५७ ॥
गजान्कृत्वा ह्येकतश्च हयांश्च विविधांस्तथा॥
स्यंदनानिविचित्राणि नानारत्नयुतानि च॥ २८.५८ ॥
पदाता बहवस्तत्र शक्तिशूलपरश्वधैः॥
खड्गतोमरनाराचैः पाशमुद्गरशोभिताः॥ २८.५९ ॥
ते सेने सुरदैत्यानां शुशुभाते परस्परम्॥
हंतुकामास्तदा ते वै स्तूयमानाश्च बन्धुभिः॥ २८.६० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे देवैः सह तारकासुरस्य संग्रामे देवदैत्यसेनाहवर्णनंनामाष्टाविंशोऽध्यायः॥ २८ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 29
॥लोमश उवाच॥
उभे सेने तदा तेषां सुराणां चामरद्विषाम्॥
अनेकाश्चर्यसंवीते चतुरंगबलान्विते॥
विरेजतुस्तदान्योऽन्यं गर्जतो वांबुदागमे॥ २९.१ ॥
एतस्मिन्नन्तरे तत्र वल्गमानाः परस्परम्॥
देवासुरास्तदा सर्वे युयुधुश्च महाबलाः॥ २९.२ ॥
युद्धं सुतुमुलं ह्यासीद्देवदैत्यसमाकुलम्॥
रुण्डमुण्डांकितं सर्वं क्षणेन समपद्यत॥ २९.३ ॥
भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः॥
केषांचिद्बाहविश्छिन्नाः खड्गपातैः सुदारुणैः॥ २९.४ ॥
मुचुकुंदो हि बलवांस्त्रैलोक्येऽमितविक्रमः॥ २९.५ ॥
तारको हि तदा तेन मुचुकुंदेन धीमता॥
खड्गेन चाहतास्तत्र सर्वप्राणेन वक्षसि॥
प्रसह्य तत्प्रहारं च प्रहसन्वाक्यमब्रवीत्॥ २९.६ ॥
किं रे मूढ त्वया चाद्य कृतमस्ति बलादिदम्॥
न त्वया योद्धुमिच्छामि मानुषेणैव लज्जया॥ २९.७ ॥
तारकस्य वचः श्रुत्वा मुचुकुंदोऽभ्यभाषत॥
मया हतोऽसि दैत्येंद्र नान्यो भवितुमर्हसि॥ २९.८ ॥
दृष्ट्वा मे खड्गसंपातं न त्वं तिष्ठसि चाग्रतः॥
त्वां हन्मि पश्य मे शौर्यं दैत्यराज स्थिरो भव॥ २९.९ ॥
एवमुक्त्वा तदा वीरो मुचुकुंदो महाबलः॥
यावज्जघान खड्गेन तावच्छक्त्या समाहतः॥
मांधातुस्तनयस्तत्र पपात रणमंडले॥ २९.१० ॥
पतितस्तत्क्षणादेव चोत्थितः परवीरहा॥ २९.११ ॥
स सज्जमानोतिमहाबलो वै हंतुं तदा दैत्यपतिं च तारकम्॥
ब्रह्मास्त्रमुद्यम्य धनुर्गृहीत्वा मांधातृपुत्रो भुवनैकजेता॥ २९.१२ ॥
स तारकं योद्धकामस्तरस्वी रुषान्वितोत्फुल्लविलोचनो महान्॥
स नारदो ब्रह्मसुतो बभाषे तदा नृवीरं मुचुकुंदमेवम्॥ २९.१३ ॥
न तारको हन्यते मानुषेण तस्मादेतन्मा विमोचीर्महास्त्रम्॥ २९.१४ ॥
निशम्य वचनं तस्य देवर्षेर्नारदस्य च॥
मुचुकुंद उवाचेदं भविता कोऽस्य मारकः॥ २९.१५ ॥
तदोवाच महातेजा नारदो दिव्यदर्शनः॥
एनं हंता कुमारश्च कुमारोऽयं शिवात्मजः॥ २९.१६ ॥
तस्माद्भवद्भिः स्थातव्यमैकपद्येन युध्यताम्॥
तिष्ठ त्वं चायतो भूत्वा मुचुकुंद महामते॥ २९.१७ ॥
निशम्य वाक्यं च मनोहरं शुभं ह्युदीरितं तेन महाप्रभेण॥
सर्वे सुराः शांतिपरा बभूवुस्तेनैव साकं नृवरेणयत्नात्॥ २९.१८ ॥
ततो दुंदुभयो नेदुः शंखाश्च कृतनिश्चयाः॥
ताडिता विविधैर्वाद्यैः सुरासुरसमन्वितैः॥ २९.१९ ॥
जगर्जुरसुरास्तत्र देवान्प्रति कृतोद्यमाः॥
शिवकोपोद्भवो वीरो वीरभद्रो रुषान्वितः॥ २९.२० ॥
गणैर्बहुभिरासाद्य तारकं च महाबलम्॥
मुचुकुंदं पृष्ठतः कृत्वा तथैव च सुरानपि॥ २९.२१ ॥
तदा ते प्रमथाः सर्वे पुरस्कृत्य कुमारकम्॥
युयुधुः संयुगे तत्र वीरभद्रादयो गणाः॥ २९.२२ ॥
त्रिशूलैर्ऋष्टिभिः पाशैः खड्गैः परशुपाट्टिशैः॥
निजघ्नुः समरेन्योन्यं सुरासुरविमर्द्दने॥ २९.२३ ॥
तारको वीरभद्रेण त्रिशूलेन हतो भृशम्॥
पपात सहसा तत्र क्षण मूर्छापरिप्लुतः॥ २९.२४ ॥
उत्थाय च मुहूर्त्ताच्च तारको दैत्यपुंगवः॥
लब्धसंज्ञो बलाविष्टो वीरभद्रं जघान च॥ २९.२५ ॥
स शक्तिं च महातेजा वीरभद्रो हि तारकम्॥
त्रिशूलेन च घोरेण शिवस्यानुचरो बली॥ २९.२६ ॥
एवं संयुध्यमानौ तौ जघ्नतुश्चेतरेतरम्॥
द्वंद्वयुद्धं सुतुमुलं तयोर्जातं महात्मनोः॥ २९.२७ ॥
सुरास्तत्रैव समरे प्रेक्षकाह्यभवंस्तदा॥
तयोर्भेरीमृदंगाश्च पटहानकगोमुखाः॥ २९.२८ ॥
तथा डमरूनादेन व्याप्तमासीज्जगत्त्रयम्॥
तेन घोषेण महता युद्यमानौ महाबलौ॥ २९.२९ ॥
शुशुभातेऽतिसंरब्धौ प्रहारैर्जरीकृतौ॥
अन्योन्यमभिसंरब्धौ तौ बुधांगारकाविव॥ २९.३० ॥
नारदेन तदा ख्यातो वीरभद्रस्य तद्वधः॥
न रोचते च तद्वाक्यं वीरभद्रस्य वै तदा॥ २९.३१ ॥
नारदेन यदुक्तं हि तारकस्य वधं प्रति॥
यथा रुद्रस्तथा सोऽपि वीरभद्रो महाबलः॥ २९.३२ ॥
एवं प्रयुध्यमानौ तौ जघ्नतुश्चेतरेतरम्॥
अन्योन्यं स्वर्द्धमानौ तौ गर्जंतौ सिंहयोरिव॥ २९.३३ ॥
एवं तदा तौ भुवि युध्यमानौ महात्मना ज्ञानवतां वरेण॥
स वीरभद्रो हि तदा निवारितो वाक्यैरनेकैरथ नारदेन॥ २९.३४ ॥
तथा निशम्य तद्वाक्यं नारदस्य मुखोद्गतम्॥
वीरभद्रो रुषाविष्टो नारदं प्रत्युवाच ह॥ २९.३५ ॥
तारकं च वधिष्यामि पश्य मेऽद्य पराक्रमम्॥
आनयंति च ये वीराः स्वामिनं रणसंसदि॥
ते पापिनो ह्यधर्मिष्ठा विमृशंतिरणं गताः॥ २९.३६ ॥
भीरवस्ते तु विज्ञेया न वाच्यास्ते कदाचन॥
त्वं न जानासि देवर्षे योधानां च प्रतिक्रियाम्॥ २९.३७ ॥
मृत्युं च पृष्ठतः कृत्वा रणभूमौ गतव्यथाः॥
शस्त्राशस्त्रैर्भिन्नगात्राः प्रशस्ता नात्र संशयः॥ २९.३८ ॥
इत्युक्त्वा चावदद्देवान्वीरभद्रो महाबलः॥
श्रुण्वंतु मम वाक्यानि देवा इन्द्रपुरोगमाः॥ २९.३९ ॥
अतारकां महीं चाद्य करिष्ये नात्र संशयः॥ २९.४० ॥
अथ त्रिशूलमादाय तारकेण युयोध सः॥
वृषारूढैरनेकैश्च त्रिशूलवरधारिभिः॥ २९.४१ ॥
कपर्द्दिनो वृषांकाश्च गणास्तेतिप्रहारिणः॥
वीरभद्रं पुरस्कृत्य वीरभद्रपराक्रमाः॥ २९.४२ ॥
त्रिशूलधारिणः सर्वे सर्वे सर्पागभूषणाः॥
सचंद्रशेखराः सर्वे जटाजूटविभूषिताः॥ २९.४३ ॥
निलकण्ठा दशभुजाः पञ्चकत्त्रास्त्रिलोचनाः॥
छत्रचामरसंवीताः सर्वे तेऽत्युग्रबाहवः॥ २९.४४ ॥
वीरभद्रं पुरस्कृत्य सर्वे हरपराक्रमाः॥
युयुधुस्ते तदा दैत्यास्ताकासुरजीविनः॥ २९.४५ ॥
पुनः पुनस्तैश्च तदा बभूवुर्गणैर्जितास्ते ह्यसुराः पराङ्मुखाः॥
बभूव तेषां च तदातिसंगरो महाभयो दैत्यवरैस्तदानीम्॥ २९.४६ ॥
अमृष्यमाणाः परमास्त्रकोविदैस्ततो गणास्ते जयिनो बभूवुः॥
गणैर्जितास्ते ह्यसुराः पराभवं तं तारकं ते व्यथिताः शशंसुः॥ २९.४७ ॥
विनाम्य चापं हि तथा च तारकः स योद्धुकामः प्रविवेश सेनाम्॥
यथा झषो वै प्रविवेश सागरं तथा ह्यसौ दैत्यवरो महात्मा॥ २९.४८ ॥
गणैः समेतो युयुधे तदानीं स वीरभद्रो हि महाबलश्च॥
सर्वान्सुरांश्चेंद्रमुखान्महाबलस्तथा गणान्यक्षपिशाचगुह्यकान्॥
स दैत्यवर्योऽतिरुषं प्रविष्टः संमर्दयामास महाबलो हि॥ २९.४९ ॥
ततः समभवद्युद्धं देवदानवसंकुलम्॥
देवदानवयक्षाणां सन्निपातकरं महत्॥ २९.५० ॥
तथा वृषा गर्जमाना अश्वाञ्जघ्नुश्च सादिभिः॥
रथिभिश्च रथाञ्जघ्नुः कुंजरान्सादिभिः सह॥ २९.५१ ॥
वृषारूढौः सरथैस्ते च सर्वे निष्पाटिता ह्यसुराः पोथिताश्च॥ २९.५२ ॥
क्षयं प्रणीता बहवस्तदानीं पेतुः पृथिव्यां निहताश्च केचित्॥
केचित्प्रविष्टा हि रसातलं च पलायमाना बहवस्तथैव॥ २९.५३ ॥
केचिच्च शरणं प्राप्ता रुद्रानुचरकिंकरान्॥
एवं नष्टं तदा सैन्यं विलोक्यासुरपालकः॥
तारको हि रुषाविष्टो हंतुं देवगणान्ययौ॥ २९.५४ ॥
भुजानामयुतं कृत्वा दैत्यराजो हि तारकः॥
आरुह्य सिंहं सहसा घातयामास तान्रणे॥ २९.५५ ॥
दंशितेन च सिंहेन वृषाः केचिद्विदारिताः॥
तथैव तारकेणैव घातिता बहवो गणाः॥ २९.५६ ॥
एवं कृतं तदा तेन तारकेण महात्मना॥
सर्वेषामेव देवानामशक्यस्तारको महान्॥ २९.५७ ॥
जातस्तदा महाबाहुस्त्रैलोक्यक्षयकारकः॥
तारकस्यानुगा दैत्या अजेया बलवत्तराः॥ २९.५८ ॥
महारूढा दंशिताश्च करालास्ते प्रहारिणः॥
तै राहृता गणाः सर्वे सिंहैश्च वृषभा हताः॥ २९.५९ ॥
एवं निहन्यमाना वै गणास्ते रणमण्डले॥
प्रहस्य विष्णुः प्रोवाच कुमारं शिववल्लभम्॥ २९.६० ॥
॥विष्णुरुवाच॥
नान्यो हंतास्य पापस्य त्वद्विना कृत्तिकासुत॥
तस्मात्त्वया हि कर्त्तव्यं वचनं च महाभुज॥ २९.६१ ॥
तारकस्य वधार्थाय उत्पन्नोऽसि शिवात्मज॥
तस्मात्त्वयैव कर्त्तव्य निधनं तारकस्य च॥ २९.६२ ॥
तच्छ्रुत्वा भगवान्क्रुद्धः पार्वतीनन्दनो महान्॥
उवाच प्रहसन्वाक्यं विष्णुं प्रति यथोचितम्॥ २९.६३ ॥
मया निरीक्ष्यते सम्यक्चित्रयुद्धं महात्मनाम्॥
अनिभिज्ञोऽस्म्यहं विष्णो कार्याकार्यविचारणे॥ २९.६४ ॥
केऽस्मदीयाः परे चैव न जानामि कथंचन॥
किमर्थं युध्यमाना वै परस्परवधे स्थिताः॥ २९.६५ ॥
कुमारस्य वचः श्रुत्वा नारदो वाक्यमब्रवीत्॥ २९.६६ ॥
॥नारद उवाच॥
कुमारोऽसि महाबाहो शंकरस्यांशसंभवः॥
त्वं त्राता जगतां स्वामी देवानां च परा गतिः॥ २९.६७ ॥
तारकेण पुरा वीर तपस्तप्तं सुदारुणम्॥
येनैव विजिता देवा येन स्वर्गस्तथा जितः॥ २९.६८ ॥
तपसा तेन चोग्रेण अजेयत्वमवाप्तवान्॥
अनेनापि जितश्चेंद्रो लोकपालास्तथैव च॥ २९.६९ ॥
त्रैलोक्यं च जितं सर्वं ह्यनेनैव रदुरात्मना॥
तस्मात्त्वया निहंतव्यस्तारकः पापपूरुषः॥ २९.७० ॥
सर्वेषां शं विधातव्यं त्वया नाथेन चाद्य वै॥
नारदस्य वचः श्रुत्वा कुमारः प्रहसन्महान्॥
विमाना दवतीर्याथ पदातिः परमोऽभवत्॥ २९.७१ ॥
पद्म्यां तदासौ परिधावमानः शिवात्मजोयं च कुमाररूपी॥
करे समादाय महाप्रभावां शक्तिं महोल्कामिव दीप्तियुक्ताम्॥ २९.७२ ॥
दृष्ट्वा तमायांतमतीव चंडमव्यक्तरूपं बलिनां वरिष्ठम्॥
दैत्यो बभाषे सुरसत्तमानमसौ कुमारो द्विषतां निहंता॥ २९.७३ ॥
अनेन सार्द्धं ह्यहमेव वीरो योत्स्यामि सर्वानहमेव वीरान्॥
गणांश्च सर्वानपि घातयामि महेश्वराँल्लोकपालांश्च सद्यः॥ २९.७४ ॥
इत्येवमुक्त्वा सततं महाबलः कुमारमुद्दिश्य ययौ च योद्धम्॥
जग्राह शक्तिं परमाद्भुतां च स तारको वाक्यमिदं बभाषे॥ २९.७५ ॥
॥तारक उवाच॥
कुमारो मेग्रतश्चाद्य भवद्भिश्च कथं कृतः॥
यूयं गतत्रपा देवा येषां राजा पुरंदरः॥ २९.७६ ॥
पुरा येन कृतं कर्म विदितं सर्वमेव तत्॥
प्रसुप्ताश्चार्द्दिता गर्भे जठरस्था निपातिताः॥ २९.७७ ॥
कश्यपस्यात्मजेनैव बहुरूपो हतोऽसुरः॥
नमुचिश्च हतो वीरो वृत्रश्चैव तथा हतः॥ २९.७८ ॥
कुमारं हंतुमोसौ देवेंद्रो बलघातकः॥
कुमारोऽयं मया देवा घातितोद्य न संशयः॥ २९.७९ ॥
पुरा हतास्त्वया विप्रा दक्षयज्ञे ह्यनेकशः॥
तत्कर्मणः फलं चाद्य वीरभद्र महामते॥
दर्शयिष्यामि ते वीर रणे रणविशारद॥ २९.८० ॥
इत्येवमुक्त्वा स तदा महात्मा दैत्याधिपो वीरवरः स एकः॥
जग्राह शक्तिं परमाद्भुतां च स तारको युद्धविदां वरिष्ठः॥ २९.८१ ॥
इति परमरुषभिभूतो दितितनयः परीवृतोऽसुरेंद्रैः॥
युधि मतिमकरोत्तदा निहंतुं समरविजयी स तारको बलीयान्॥ २९.८२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे सुरतारकासुरसंग्रामवर्णनंनामैकोनत्रिंशोऽध्यायः॥ २९ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 30
॥लोमश उवाच॥
वल्गमानं तमायांतं तारका सुरमोजसा॥
आजघान च वज्रेण इंद्रो मतिमतां वरः॥ ३०.१ ॥
तेन वज्रप्रहारेण तारको विह्वलीकृतः
पतितोऽपि समुत्थाय शक्त्या तं प्राहरद्द्विपम्॥ ३०.२ ॥
पुरंदरं गजस्थं हि अपातया भूतले॥
हाहाकारो महानासीत्पतिते च पुरंदरे॥ ३०.३ ॥
तारकेणापि तत्रैव यत्कृतं तच्छृणु प्रभो॥
पतितं च पदाक्रम्य हस्ताद्वज्रं प्रगृह्य च॥ ३०.४ ॥
हतं देवेंद्रमालोक्य तारको रिपुसूदनः॥
वज्रघातेन महताऽताडयत्तु पुरंदरम्॥ ३०.५ ॥
त्रिशूलमुद्यम्य महाबलस्तदा स वीरभद्रो रुषितः पुरंदरम्॥
संरक्षमाणो हि जघान तारकं शूलेन दैत्यं च महाप्रभेण॥ ३०.६ ॥
शूलप्रहाराभिहतो निपपात महीतले॥
पतितोऽपि महातेजास्तारकः पुनरुत्थितः॥ ३०.७ ॥
जघान परया शक्त्या वीरभद्रं तदोरसि॥
वीरभद्रोपि पतितः शक्तिघातेन तस्य वै॥ ३०.८ ॥
सगणाश्चैव देवाश्च गंधर्वोरगराक्षसाः॥
हाहाकारेण महता चुक्रुशुश्च पुनःपुनः॥ ३०.९ ॥
तदोत्थितः सहसा महाबलः स वीरभद्रो द्विषतां निहंता॥
त्रिशूलमुद्यम्य तडित्प्रकाशं जाज्वल्यमानं प्रभया निरंतरम्॥
स्वरोचिषा भासितदिग्वितानं सूयदुबिंबाग्न्युडुमण्डलाभम्॥ ३०.१० ॥
त्रिशूलेन तदा यावद्धंतुकामो महाबलः॥
निवारितः कुमारेण मावधीस्त्वं महामते॥ ३०.११ ॥
जगर्ज च महातेजाः कार्त्तिकेयो महाबलः॥ ३०.१२ ॥
तदा जयेत्यभिहितो भूतैराकाशसंस्थितैः॥
शक्त्या परमया वीरस्तारकं हंतुमुद्यतः॥ ३०.१३ ॥
तारकस्य कुमारस्य संग्रामस्तत्र दुःसहः॥
जातस्ततो महाघोरः सर्वभूतभयंकरः॥ ३०.१४ ॥
शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम्॥
शक्तिभ्यां भिन्नहस्तौ तौ महासाहससंयुतौ॥ ३०.१५ ॥
परस्परं वंचयंतौ सिंहाविव महाबलौ॥
वैतालिकीं समाश्रित्य तथा वै खेचरीं गतिम्॥ ३०.१६ ॥
पार्वतं मतमाश्रित्य शक्त्या शक्तिं निजघ्नतुः॥
एभिर्मतैर्महावीरौ चक्रतुर्युद्धमुत्तमम्॥ ३०.१७ ॥
अन्योन्यसाधकौ भूत्वा महाबलपराक्रमौ॥
जघ्नतुः शक्तिधाराभी रणे रणविशारदौ॥ ३०.१८ ॥
मूर्ध्नि कण्ठे तथा बाह्वोर्जान्वोश्चैव कटीतटे॥
वक्षस्युरसि पृष्ठे च चिच्छिदतुः परस्परम्॥ ३०.१९ ॥
तदा तौ युध्यमानौ च हन्तुकामौ महाबलौ॥
प्रेक्षका ह्यभवन्सर्वे देवगन्धर्वगुह्यकाः॥ ३०.२० ॥
ऊचुः परस्परं सर्वे कोऽस्मिन्युद्धे विजेष्यते॥
तदा नभोगता वाणी उवाच परिसांत्व्य वै॥ ३०.२१ ॥
तारकं हि सुराश्चाद्य कुमारोऽयं हनिष्यति॥
मा शोच्यतां सुराः सर्वैः सुखेन स्थीयतां दिवि॥ ३०.२२ ॥
श्रुत्वा तदा तां गगने समीरितां तदैव वाचं प्रमथैः परीतः॥
कुमारकस्तं प्रति हंतुकामो दैत्याधिपं तारकमुग्ररूपम्॥ ३०.२३ ॥
शक्त्या तया महाबाहुराजघान स्तनांतरे॥
तारकं ह्यसुरश्रेष्ठं कुमारो बलवत्तरः॥ ३०.२४ ॥
तं प्रहारमना दृत्य तारको दैत्यपुंगवः॥
कुमारं चाऽपि संक्रुद्धः स्वशक्त्या चाजघान वै॥ ३०.२५ ॥
तेन शक्तिप्रहारेण शांकरिर्मूर्च्छितोऽभवत्॥
मुहूर्ताच्चेतनां प्राप्तः स्तूयमानो महर्षिभिः॥ ३०.२६ ॥
यथा सिंहो मदोन्मत्तो हंतुकामस्तथैव च॥
कुमारस्तारकं दैत्यमाजघान प्रतापवान्॥ ३०.२७ ॥
एवं परस्परेणैव कुमारश्चैव तारकः॥
युयुधातेऽतिसंरब्धौ शक्तियुद्धपरायणौ॥ ३०.२८ ॥
अभ्यासपरमावास्तामन्योन्यविजिगीषया॥
तथा तौ युध्यमानौ च चित्ररूपौ तपस्विनौ॥ ३०.२९ ॥
धाराभिश्च अणीभीश्च सुप्रयुक्तौ च जघ्नतुः॥
अवलोकपराः सर्वे देवगन्धर्वकिन्नराः॥ ३०.३० ॥
विस्मयं परमं प्राप्ता नोचुः किंचन तस्य वै॥
न ववौ च तदावायुर्निष्प्रभोऽभूद्दिवाकरः॥ ३०.३१ ॥
हिमालयोऽथ मेरुश्च श्वेतकूटश्च दर्दुरः॥
मलयोऽथ महाशैलो मैनाको विंध्यपर्वतः॥ ३०.३२ ॥
लोकालोकौ महाशैलौ मानसोत्तरपर्वतः॥
कैलासो मन्दरो माल्यो गन्धमादन एव च॥ ३०.३३ ॥
उदयाद्रिर्महेंद्रश्च तथैवास्तगिरिर्महान्॥ ३०.३४ ॥
एते चान्ये च बहवः पर्वताश्च महाप्रभाः॥
स्नेहार्द्दितास्तदाजग्मुः कुमारं च परीप्सवः॥ ३०.३५ ॥
ततः स दृष्ट्वा तान्सर्वान्भयभीतांश्च शांकरिः॥
पर्वतान्गिरिजापुत्रो बभाषे प्रतिबोधयन्॥ ३०.३६ ॥
॥कुमार उवाच॥
मा खिद्यत महाभागा मा चिंता क्रियतां नगाः॥
घातयाम्यद्य पापिष्ठं सर्वेषामिह पश्यताम्॥ ३०.३७ ॥
एवं समाश्वास्य तदा मनस्वी तान्पर्वतान्देवगणैः समेतान्॥
प्रणम्य शंभुं मनसा हरिप्रियः स्वां मातरं चैव नतः कुमारः॥ ३०.३८ ॥
कार्त्तिकेयस्ततः शक्त्या निचकर्त रिपोः शिरः॥
तच्छिरो निपपातोर्व्यां तारकस्य च तत्क्षणात्॥
एवं स जयमापेदे कार्त्तिकेयो महाप्रभुः॥ ३०.३९ ॥
ददृशुस्तं सुरगणा ऋषयो गुह्यकाः खगाः॥
किंनराश्चारणाः सर्पास्तथा चैवाप्सरो गणाः॥ ३०.४० ॥
हर्षेण महताविष्टास्तुष्टुवुस्तं कुमारकम्॥
विद्याधर्यश्च ननृतुर्गायकाश्च जगुस्तदा॥ ३०.४१ ॥
एवं विजयमापन्नं दृष्ट्वा सर्वे मुदा युताः॥
ततो हर्षात्समागम्य स्वांकमारोप्य चात्मजम्॥ ३०.४२ ॥
परिष्वज्य तु गाढेन गिरिजापि तुतोष वै॥
स्वोत्संगे च समारोप्य कुमारं सूर्यवर्चसम्॥ ३०.४३ ॥
लालयामास तन्वंगी पार्वती रुचिरेक्षणा॥
ऋषीभिः सत्कृतः शंभुः पार्वत्या सहितस्तदा॥ ३०.४४ ॥
आर्यासनगता साध्वी शुशुभे मितभाषिणी॥
संस्तूयमाना मुनिभिः सिद्धचारणपन्नगैः॥ ३०.४५ ॥
नीराजिता तदा देवैः पार्वती शंभुना सह॥
कुमारेण सहैवाथ शोममाना तदा सती॥ ३०.४६ ॥
हिमालयस्तदागत्य पुत्रैश्च परिवारितः॥
मेर्वाद्यैः पर्वतैश्चैव स्तूयमानः परोऽभवत्॥ ३०.४७ ॥
तदा देवगणाः सर्व इन्द्राद्य ऋषिभिः सह॥
पुष्पवर्षेण महात ववर्षुरमितद्युतिम्॥
कुमारमग्रतः कृत्वा नीराजनपरा बभुः॥ ३०.४८ ॥
गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा॥
संस्तूयमानो विविधैः सूक्तैर्वेदविदां वरैः॥ ३०.४९ ॥
कुमारविजयंनाम चरित्रं परमाद्भुतम्॥
सर्वपापहरं दिव्यं सर्वकामप्रदं नृणाम्॥ ३०.५० ॥
ये कीर्त्तयंति शुचयोऽमितभाग्ययुक्ताश्चानंत्यरूपमजरामरमादधानाः॥
कौमारविक्रममहात्म्यमुदारमेतदानंददायकमनोर्थकरं नृणां हि॥ ३०.५१ ॥
यः पठेच्छृणुयाद्वापि कुमारस्य महात्मनः॥
चरितं तारकाख्यं च सर्वपापैः समुच्यते॥ ३०.५२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे तारकासुरवधपूर्वकं स्वामिकार्त्तिकेयविजयोत्सववर्णनं नाम त्रिंशोऽध्यायः॥ ३० ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 31
॥शोनक उवाच॥
हत्वा तं तारकं संख्ये कुमारेण महात्मना॥
किं कृतं सुमहद्विप्र तत्सर्वं वक्तुमर्हसि॥ ३१.१ ॥
कुमारो ह्यपरः शंभुर्येन सर्वमिदं ततम्॥
तपसा तोषितः शंभुर्ददाति परमं पदम्॥ ३१.२ ॥
कुमारो दर्शनात्सद्यः सफलो हि नृणां सदा॥
ये पापिनो ह्यधर्म्मिष्ठाः श्वपचा अपि लोमश॥
दर्शनाद्धूतपापास्ते भवंत्येव न संशयः॥ ३१.३ ॥
शौनकस्य वचः श्रुत्वा उवाच चरितं तदा॥
व्यास शिष्यो महाप्रज्ञः कुमारस्य महात्मनः॥ ३१.४ ॥
॥लोमश उवाच॥
ह्ताव तं तारकं संख्ये देवानामजयं ततः॥
अवध्यं च द्विजश्रेष्ठाः कुमारो जयमाप्तवान्॥ ३१.५ ॥
महिमा हि कुमारस्य सर्वशास्त्रेषु कथ्यते॥
वेदैश्च स्वागमैश्चापि पुराणैश्च तथैव च॥ ३१.६ ॥
तथोपनिषदैश्चैव मीमांसाद्वितयेन तु॥
एवंभूतः कुमारोयमशक्यो वर्णितुं द्विजाः॥ ३१.७ ॥
यो हि दर्शनमात्रेण पुनाति सकलं जगत्॥
त्रातारं भुवनस्यास्य निशम्य पितृराट्स्वयम्॥ ३१.८ ॥
ब्रह्माणं च पुरस्कृत्य विष्णुं चैव सवासवम्॥
स ययौ त्वरितेनैव शंकरं लोकशंकरम्॥
तृष्टाव प्रयतो भूत्वा दक्षिणाशापतिः स्वयम्॥ ३१.९ ॥
नमो भर्गाय देवाय देवानां पतये नमः॥
मृत्युंजयाय रुद्राय ईशानाय कपर्द्दिने॥ ३१.१० ॥
नीलकंठाय शर्वाय व्योमावयवरूपिणे॥
कालाय कालनाथाय कालरूपाय वै नमः॥ ३१.११ ॥
यमेन स्तूयमानो हि उवाच प्रभुरीश्वरः॥
किमर्थमागतोऽसि त्वं तत्सर्वं कथयस्व नः॥ ३१.१२ ॥
॥यम उवाच॥
श्रूयतां देवदेवेश वाक्य वाक्यविशारद॥
तपसा परमेणैव तुष्टिं प्राप्तोसि शंकर॥ ३१.१३ ॥
कर्मणा परमेणैव ब्रह्मा लोकपितामहः॥
तुष्टिमेति न संदेहो वराणां हि सदा प्रभुः॥ ३१.१४ ॥
तथा विष्णुर्हि भगवान्वेदवेद्यः सनातनः॥
यज्ञैरनेकैः संतुष्ट उपवासव्रतैस्तथा॥ ३१.१५ ॥
ददाति केवलं भावं येन कैवल्यमाप्नुयुः॥
नराः सर्वे मम मतं नान्यता हि वचो मम॥ ३१.१६ ॥
ददाति तुष्टो वै भोगं तथा स्वर्गादिसंपदः॥
सूर्यो नमस्ययाऽरोग्यं ददातीह न चान्यथा॥ ३१.१७ ॥
गणेशो हि महादेव अर्घ्यपाद्यादिचंदनैः॥
मंत्रावृत्त्या तथा शंभो निर्विघ्नं च करिष्यति॥ ३१.१८ ॥
तथान्ये लोकपाः सर्वे यथाशक्त्या फलप्रदाः॥
यज्ञाध्ययनदानाद्यैः परितुष्टाश्च शंकर॥ ३१.१९ ॥
महदाश्चर्य संभूतं सर्वेषां प्राणिनामिह॥
कृतं च तव पुत्रेण स्वर्गद्वारमपावृताम्॥ ३१.२० ॥
दर्शनाच्च कुमारस्य सर्वे स्वर्गैकसो नराः॥
पापिनोऽपि महादेव जाता नास्त्यत्र संशयः॥ ३१.२१ ॥
मया किं क्रियतां देव कार्याकार्यव्यवस्थितौ॥
ये सत्यशीलाः शांताश्च वदान्या निरवग्रहाः॥ ३१.२२ ॥
जितेंद्रिया अलुब्धाश्च कामरागविवर्जिताः॥
याज्ञिका धर्मनिष्ठाश्च वेदवेदांगपारगाः॥ ३१.२३ ॥
यां गतिं यांति वै शंभो सर्वे सुकृतिनोपि हि॥
तां गतिं दर्शनात्सर्वे श्वपचा अधमा अपि॥ ३१.२४ ॥
कुमारस्य च देवेश महदाश्चर्यकर्मणः॥
कार्त्तिक्यां कृत्तिकायोगसहितायां शिवस्य च॥ ३१.२५ ॥
शिवस्य तनयं दृष्ट्वा ते यांति स्वकुलैः सह॥
कोटिभिर्बहुभिश्चैव मत्स्थानं परिमुच्य वै॥ ३१.२६ ॥
कुमारदर्शनात्सर्वे श्वपचा अपि यांति वै॥
सद्गतिं त्वरितेनैव किं क्रियेत मयाधुना॥ ३१.२७ ॥
यमस्य वचनं श्रुत्वा शंकरो वाक्यमब्रवीत्॥ ३१.२८ ॥
॥शंकर उवाच॥
येषां त्वंतगतं पापं जनानां पुण्यकर्मणाम्॥
विशुद्धभावो भो धर्म्म तेषां मनसि वर्त्तते॥ ३१.२९ ॥
सत्तीर्थगमनायैव दर्शनार्थं सतामिह॥
वांछा च महती तेषां जायते पूर्वकारिता॥ ३१.३० ॥
बहूनां जन्मनामंते मयि भावोऽनुवर्त्तते॥
प्राणिनां सर्वभावेन जन्माभ्यासेनभो यम॥ ३१.३१ ॥
तस्मात्सुकृतिनः सर्वे येषां भावोऽनुवर्त्ते॥
जन्मजन्मानुवृत्तानां विस्मयं नैव कारयेत्॥ ३१.३२ ॥
स्त्रीबालशूद्राः श्वपचाधमाश्च प्राग्जन्मसंस्कारवशाद्धि धर्म्म॥
योनिं पापिषु वर्त्तमानास्तथापि शुद्धा मनुजा भवंति॥ ३१.३३ ॥
तथा सितेन मनसा च भवंति सर्वे सर्वेषु चैव विषयेषु भवंति तज्ज्ञाः॥
दैवेन पूर्वचरितेन भवंति सर्वे सुराश्चेंद्रादयो लोकपालाः प्राक्तनेन॥ ३१.३४ ॥
जाता ह्यमी भूतगणाश्च सर्वे ह्यमी ऋषयो ह्यमी देवताश्च॥ ३१.३५ ॥
विस्मयो नैव कर्त्तव्यस्त्वया वापि कुमारके॥
कुमारदर्शने चैव धर्मराज निबोध मे॥ ३१.३६ ॥
वचनं कर्मसंयुक्तं सर्वेषां फलदायकम्॥
सर्वतीर्थानि यज्ञाश्च दानानि विविधानि च॥
कार्याणि मनःशुद्ध्यर्थं नात्र कार्या विचारणा॥ ३१.३७ ॥
मनसा भावितो ह्यात्मा आत्मनात्मानमेव च॥
आत्मा अहं च सर्वेषआं प्राणिनां हि व्यवस्थितः॥ ३१.३८ ॥
अहं सदा भावयुक्त आत्मसंस्थो निरंतरः॥
जंगमाजंगमानां च सत्यं प्रति वदामि ते॥ ३१.३९ ॥
द्वंद्वातीतो निर्विकल्पो हि साक्षात्स्वस्थो नित्यो नित्ययुक्तो निरीहः॥
कूटस्थो वै कल्पभेदप्रवादैर्बहिष्कृतो बोधबोध्यो ह्यनन्तः॥ ३१.४० ॥
विस्मृत्य चैनं स्वात्मानं केवलं बोधलक्षणम्॥
संसारिणो हि दृश्यंते समस्ता जीवराशयः॥ ३१.४१ ॥
अहं ब्रह्मा च विष्णुश्च त्रयोऽमी गुणकारिणः॥
सृष्टिपालनसंहारकारका नान्यथा भवेत्॥ ३१.४२ ॥
अहंकारवृतेनैव कर्मणा कारितावयम्॥
यूयं च सर्वे विबुधा मनुष्याश्च खगादयः॥ ३१.४३ ॥
पश्वादयः पृथग्भूतास्तथान्ये बहवो ह्यमी॥
पृथक्पृथक्समीचीना गुणवतश्च संसृतौ॥ ३१.४४ ॥
पतिता मृगतृष्णायां मायया च वशीकृताः॥
वयं सर्वे च विबुधाः प्राज्ञाः पंडितमानिनः॥ ३१.४५ ॥
परस्परं दूषयंतो मिथ्यावादरताः खलाः॥ ३१.४६ ॥
त्रैगुणा भवसंपन्ना अतत्तवज्ञाश्च रागिणः॥
कामक्रोधभयद्वेषमदमात्सर्यसंयुताः॥ ३१.४७ ॥
परस्परं दूषयंतो ह्यतत्त्वज्ञा बहिर्मुखाः॥
तस्मादेवं विदित्वाथ असत्यं गुणभेदतः॥ ३१.४८ ॥
गुणातीते च वस्त्वर्थे परमार्थैकदर्शनम्॥ ३१.४९ ॥
यस्मिन्भेदो ह्यभेदं च यस्मिन्रागो विरागताम्॥
क्रोधो ह्यक्रोधतां याति तद्वाम परमं श्रृणु॥ ३१.५० ॥
न तद्भासयते शब्दः कृतकत्वाद्यथा घटः॥
शब्दो हि जायते धर्म्मः प्रवृत्तिपरमो यतः॥ ३१.५१ ॥
प्रवृत्तिश्च निवृत्तिश्च तथा द्वंद्वानि सर्वशः॥
विलयं यांति यत्रैव तत्स्थानं शाश्वतं मतम्॥ ३१.५२ ॥
निरंतरं निर्गुणं ज्ञप्तिमात्रं निरंजनं निर्विकाशं निरीहम्॥
सत्तामात्रं ज्ञानगम्यं स्वसिद्धं स्वयंप्रभं सुप्रभं बोधगम्यम्॥ ३१.५३ ॥
एतज्ज्ञानं ज्ञानविदो वदंति सर्वात्मभावेन निरीक्षयंति॥
सर्वातीतं ज्ञानगम्यं विदित्वा येन स्वस्थाः समबुद्ध्या चरंति॥ ३१.५४ ॥
अतीत्य संसारमनादिमूलं मायामयं मायया दुर्विचार्यम्॥
मायां त्यक्त्वा निर्ममा वीतरागा गच्छंति ते प्रेतराणिनर्विकल्पम्॥ ३१.५५ ॥
संसृतिः कल्पनामूलं कल्पना ह्यमृतोपमा॥
यैः कल्पना परित्यक्ता ते यांति परमां गतिम्॥ ३१.५६ ॥
शुक्त्यां रजतबुद्धिश्च रज्जुबुद्धिर्यर्थोरणे॥
मरीचौ जलबुद्धिश्च मिथ्या मिथ्यैव नान्यथा॥ ३१.५७ ॥
सिद्धिः स्वच्छंदवर्त्तित्वं पारतंत्र्यं हि वै मृषा॥
बद्धो हि परतंत्राख्यो मुक्तः स्वातंत्र्यभावनः॥ ३१.५८ ॥
एको ह्यात्मा विदित्वाथ निर्ममो निरवग्रहः॥
कुतस्तेषां बंधनं च यथाखे पुष्पमेव च॥ ३१.५९ ॥
शशविषाणमेवैतज्त्रानं संसार एव च॥
किं कार्यं बहुनोक्तेन वचसा निष्फलेन हि॥ ३१.६० ॥
ममतां च निराकृत्य प्राप्तुकामाः परं पदम्॥
ज्ञानिनस्ते हि विद्वांसो वीतरागा जितेंद्रियाः॥ ३१.६१ ॥
यैस्त्यक्तो ममताभावो लोभकोपौ निराकृतौ॥
ते यांति परमं स्थानं कामक्रोधविवर्जिताः॥ ३१.६२ ॥
यावत्कामश्च लोभश्च रागद्वेषौ व्यवस्थितौ॥
नाप्नुवंति च तां सिद्धिं शब्दमात्रैकबोधकाः॥ ३१.६३ ॥
॥यम उवाच॥
शब्दाच्छब्दः प्रवर्त्तेत निःशब्दं ज्ञानमेव च॥
अनित्यत्वं हि शब्दस्य कथं प्रोक्तं त्वया प्रभो॥ ३१.६४ ॥
अक्षरं ब्रह्मपरमं शब्दो वै ह्यरात्मकः॥
तस्माच्छब्दस्त्वया प्रोक्तो निरीक्षक इति श्रुतम्॥ ३१.६५ ॥
प्रतिपाद्यं हि यत्किंचिच्छब्देनैव विना कथम्॥
तत्सर्वं कथ्यतां शंभो कार्याकार्यव्यवस्थितौ॥ ३१.६६ ॥
॥शंकर उवाच॥
श्रृणुष्वावहितो भूत्वा परमार्धयुतं वचः॥
यस्य श्रवणमात्रेण ज्ञातव्यं नावशिष्यते॥ ३१.६७ ॥
ज्ञानप्रवादिनः सर्व ऋषयो वीतकल्मषाः॥
ज्ञानाभ्यासेन वर्त्तंते ज्ञानं ज्ञानविदो विदुः॥ ३१.६८ ॥
ज्ञानं ज्ञेयं ज्ञानगम्यं ज्ञात्वा च परिगीयते॥
कथं केन च ज्ञातव्यं किं तद्वक्तुं विवक्षितम्॥ ३१.६९ ॥
एतत्सर्वं समासेन कथयामि निबोध मे॥
एको ह्यनेकधा चैव दृश्यते भेदभावनः॥ ३१.७० ॥
यथा भ्रमरिकादृष्टा भ्रम्यते च मही यम॥
तथात्मा भेदबुद्ध्या च प्रतिभाति ह्यनेकधा॥ ३१.७१ ॥
तस्माद्विमृश्य तेनैव ज्ञातव्यः श्रवणेन च॥
मंतव्यः सुप्रयोगेण मननेन विशेषतः॥ ३१.७२ ॥
निर्द्धार्य चात्मनात्मानं सुखं बंधात्प्रमुच्यते॥
मायाजालमिदं सर्वं जगदेतच्चाराचरम्॥ ३१.७३ ॥
मायामयोऽयं संसारो ममतालक्षणो महान्॥
ममतां च बहिः कृत्वा सुखं बंधात्प्रमुच्यते॥ ३१.७४ ॥
कोऽहं कस्त्वं कुतश्चान्ये महामायावलंबिनः॥
अजागलस्तनस्येव प्रपंचोऽयं निरर्थकः॥ ३१.७५ ॥
निष्फलोऽयं निराभासो निःसारो धूमडंबरः॥
तस्मात्सर्वप्रयत्नेन आत्मानं स्मर वै यम॥ ३१.७६ ॥
॥लोमश उवाच॥
एवं प्रचोदितस्तेन शंभुना प्रेतराट्स्वयम्॥
बुद्धो भूत्वा यमः साक्षादात्मभूतोऽभवत्तदा॥ ३१.७७ ॥
कर्म्मणां हि च सर्वेषां शास्ता कर्मानुसारतः॥
बभूव डंबरो नॄणां भूतानां च समाहितः॥ ३१.७८ ॥
॥ऋषय ऊचुः॥
हत्वा तु तारकं युद्धे कुमारेण महात्मना॥
अत ऊर्ध्वं कथ्यतां भोः किं कृतं महदद्भुतम्॥ ३१.७९ ॥
॥सूत उवाच॥
हते तु तारके दैत्ये हिमवन्प्रमुखाद्रयः॥
कार्त्तिकेयं समागत्य गीर्भी रम्याभिरैडयन्॥ ३१.८० ॥
॥गिरय ऊचुः॥
नमः कल्याणरूपाय नमस्ते विश्वमंगल॥
विश्वबंधो नमस्तेऽस्तु नमस्ते विश्वभावन॥ ३१.८१ ॥
वरीष्ठाः श्वपचा येन कृता वै दर्शनात्त्वया॥
त्वां नमामो जगद्बंधुं त्वां वयं शरणागताः॥ ३१.८२ ॥
नमस्ते पार्वतीपुत्र शंकरात्मज ते नमः॥
नमस्ते कृत्तिकासूनो अग्निभूत नमोस्तु ते॥ ३१.८३ ॥
नमोस्तु ते देववरैः सुपूज्य नमोऽस्तु ते ज्ञानविदां वरिष्ठ॥
नमोऽस्तु ते देववर प्रसीद शरण्य सर्वार्तिविनाशदक्ष॥ ३१.८४ ॥
एवं स्तुतो गिरिभिः कार्त्तिकेयो ह्युमासुतः॥
तान्गिरीन्सुप्रसन्नात्मा वरं दातुं समुत्सुकः॥ ३१.८५ ॥
॥कार्त्तिकेय उवाच॥
भोभो गिरिवरा यूयं श्रृणुध्वं मद्वचोऽधुना॥
कर्मिभिर्ज्ञानिभिश्चैव सेव्यमाना भविष्यथ॥ ३१.८६ ॥
भवत्स्वेव हि वर्त्तते दृषदो यत्नसेविताः॥
पुनंतु विश्चं वचनान्मम ता नात्र संशयः॥ ३१.८७ ॥
पर्वतीयानि तीर्थानि भविष्यंति न चान्यथा॥
शिवालयानि दिव्यानि दिव्यान्यायतनानि च॥ ३१.८८ ॥
अयनानि विचित्राणि शोभनानि महांति च॥
भविष्यंति न संदेहः पर्वता वचनान्मम॥ ३१.८९ ॥
योऽयं मातामहो मेऽद्य हिमवान्पर्वतोत्तमः॥
तपस्विनां महाभागः फलदो हि भविष्यति॥ ३१.९० ॥
मेरुश्च गिरिराजोऽयमाश्रयो हि भविष्यति॥
लोकालोको गिरिवर उदयाद्रिर्महायशः॥ ३१.९१ ॥
लिंगरूपो हि भगवान्भविष्यति न चान्यथा॥
श्रीशैलो हि महेंद्रश्च तथा सह्याचलोगिरिः॥ ३१.९२ ॥
माल्यवान्मलयो विन्ध्यस्तथासौ गंधमादनः॥
श्वेतकूटस्त्रिकूटो हि तथा दर्दुरपर्वतः॥ ३१.९३ ॥
एते चान्ये च बहवः पर्वता लिंगरूपिणः॥
मम वाक्याद्भविष्यंति पापक्षयकरा ह्यमी॥ ३१.९४ ॥
एवं वरं ददौ तेभ्यः पर्वतेभ्यश्च शांकरिः॥
ततो नंदीह्युवाचाथ सर्वागमपुरस्कृतम्॥ ३१.९५ ॥
॥नंद्युवाच॥
त्वया कृता हि गिरयो लिंगरूपिण एव ते॥
शिवालयाः कथं नाथ पूज्याः स्युःसर्वदैवतैः॥ ३१.९६ ॥
॥कुमार उवाच॥
लिंगं शिवालयं ज्ञेयं देवदेवस्य शूलिनः॥
सर्वैर्नृभिर्दैवतैश्च ब्रह्मादिभिरतांद्रितैः॥ ३१.९७ ॥
नीलं मुक्ता प्रवालं च वैडूर्यं चंद्रमेव च॥
गोमेदं पद्मरागं च मारतं कांचनं तथा॥ ३१.९८ ॥
राजतं ताम्रमारं च तथा नागमयं परम्॥
रत्नधातुमयान्येव लिंगानि कथितानि ते॥ ३१.९९ ॥
पवित्राण्येव पूज्यानि सर्वकामप्रदानि च॥
एतेषामपि सर्वेषां काश्मीरं हि विशिष्यते॥ ३१.१०० ॥
ऐहिकामुष्मिकं सर्वं पूजाकर्तुः प्रयच्छति॥ ३१.१०१ ॥
॥नंद्युवाच॥
लिंगानामपि पूज्यं स्याद्बाणलिंगं त्वया कथम्॥
कथितं चोत्तमत्वेन तत्सर्वं वदसुव्रत॥ ३१.१०२ ॥
॥कुमार उवाच॥
रेवायां तोयमध्ये च दृश्यंते दृषदो हि याः॥
शिवप्रसादात्तास्तु स्युर्लिंगरूपा न चान्यथा॥ ३१.१०३ ॥
श्लक्ष्णमूलाश्च कर्तव्याः पिंडिकोपरि संस्थिताः॥
पूजनीयाः प्रयत्नेन शिवदीक्षायुतेन हि॥ ३१.१०४ ॥
पिंडीयुक्तं च शास्त्रेण विधिना च यजेच्छिवम्॥
वरदो हि जगन्नाथः पूजकस्य न चान्यथा॥ ३१.१०५ ॥
पंचाक्षरी यस्य मुखे स्थिता सदा चेतोनिवृत्तिः शिवचिंतने च॥
भूतेषुः साम्यं परिवादमूकता षंढत्वमेव परयोषितासु॥ ३१.१०६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे कार्त्तिकेयप्रोक्तशिवलिंगमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः॥ ३१ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 32
॥लोमश उवाच॥
एवं ते शिवधर्माश्च कथितास्तेन वै द्विजाः॥
सविशेषाः पाशुपताः प्रसादाच्चैव विस्तरात्॥ ३२.१ ॥
अनेकागमसंवीता यथातत्त्वमुदाहृताः॥
कापालिकानां भेदाश्च प्रोक्ता व्याससमासतः॥ ३२.२ ॥
धर्मा नानाविधाः प्रोक्ता नंदिनं प्रति वै तदा॥ ३२.३ ॥
॥ऋषय ऊचुः॥
श्रुतं कुमारचरितमविशेषं सुमंगलम्॥
अस्माभिश्च महाभागकिंचित्पृच्छामहे वयम्॥ ३२.४ ॥
श्वेतस्य राजसिंहस्य चरितं परमाद्भुतम्॥
येन संतोषितो रुद्रः शिवो भक्त्याऽप्रमेयया॥ ३२.५ ॥
ते भक्तास्ते महात्मानो ज्ञानिनस्ते च कर्मिणः॥
येऽर्चयंति महाशंभुं देवं भक्त्या समावृताः॥ ३२.६ ॥
तस्मात्पृच्छामहे सर्वे चरितं शंकरस्य च॥
व्यासप्रसादात्सर्वं यज्जानासि त्वं न चापरः॥ ३२.७ ॥
निशम्य वचनं तेषां मुनीनां लोमशोऽब्रवीत्॥ ३२.८ ॥
॥लोमश उवाच॥
आकर्ण्यतां महाभागाश्चरितं परमाद्भुतम्॥
तस्य राज्ञो हि भजतो राजभोगांश्च सर्वशः॥
मतिर्द्धिर्मे समुत्पन्ना श्वेतस्य च महात्मनः॥ ३२.९ ॥
पृथिवीं पालयामास प्रजा धर्मेण पालयन्॥
ब्रह्मण्यः सत्यवाक्छूरः शिवभक्तो निरंतरम्॥ ३२.१० ॥
राज्यं शशासाथ स शक्तितो नृपो भक्त्या तदा चैव समर्चयत्सदा॥
शंभुं परेशं परमं परात्परं शांतं पुराणं परमात्मरूपम्॥ ३२.११ ॥
आयुस्तस्य परिक्षीणमर्चतः परमेश्वरम्॥
अथैतच्च महाभाग चरितं श्रूयतां मम॥ ३२.१२ ॥
वाणी शिवकथायुक्ता परमाश्चर्यसंयुता॥
न वाऽऽधयो हि तस्यैव व्याधयो हि महीपतेः॥ ३२.१३ ॥
तस्य राज्ञो न बाधंते तथा चोपद्रवास्त्वमी॥
निरीतिको जनो ह्यासीन्निरुपद्रव एव च॥ ३२.१४ ॥
अकृष्टपच्यौषधयस्तस्य राज्ञोऽभवन्भुवि॥
तपस्विनो ब्राह्मणाश्च वर्णाश्रमयुता जनाः॥ ३२.१५ ॥
न पुत्रमरणे दुःखं नापमानं न मारकाः॥
न दारिद्र्यं च ते सर्वे प्राप्नुवन्ति कदाचन॥ ३२.१६ ॥
एवं बहुतरः कालस्तस्य राज्ञो महात्मनः॥
गतो हि सफलो विप्राः शिवपूजारतस्य वै॥ ३२.१७ ॥
एकदा पूजमानं तं शंकरं परमार्थदम्॥
यमो हि प्रेषयामास यमदूतान्नृपं प्रति॥ ३२.१८ ॥
वचनाच्चित्रगुप्तस्य श्वेत आनीयतामिति॥
तथेति मत्वा ते दूता आगताः शिवमंदिरम्॥ ३२.१९ ॥
राजानं नेतुकामास्ते पाशहस्ता महाभयाः॥
यावत्समागता याम्या राजानं ददृशुस्त्वरात्॥ ३२.२० ॥
न चक्रिरे तदा दूता आज्ञां धर्मस्य चैव हि॥
ज्ञात्वा सर्वं यमश्चैव आगतः स्वयमेव हि॥ ३२.२१ ॥
उद्धृत्य दंडं सहसा नेतुकामस्तदा नृपम्॥
ददर्श च महाबाहुः शिवध्यानपरायणम्॥ ३२.२२ ॥
शिवभक्तियुतं शांतं केवलं ज्ञानसंयुतम्॥
यमोऽपि दृष्ट्वा राजानं परं क्षोभमुपागमत्॥ ३२.२३ ॥
चित्रस्थो ह्यभवत्स्द्यः प्रेतराजोऽतिविह्वलः॥
कालरूपश्च यो नित्यं प्रजानां क्षयकारकः॥ ३२.२४ ॥
आगतस्तत्क्षणादेव नृपं प्रति रुषान्वितः॥
खड्गेन सितधारेण चर्मणा परमेम हि॥ ३२.२५ ॥
तावत्तं ददृशे सोऽपि स्थितं द्वारि भयावृतम्॥
उवाच कालो हि तदा यमं वैवस्वतं प्रति॥ ३२.२६ ॥
कस्मात्त्वया धरमराज नो नीतोऽयं नृपो महान्॥
यम दूतसहायश्च भीतवत्प्रतिभासि मे॥ ३२.२७ ॥
कालात्ययो न कर्त्तव्यो वचनान्मम सुव्रत॥
कालेनोक्तस्तदा धर्म उवाच प्रस्तुतं वचः॥ ३२.२८ ॥
तवाज्ञां च करिष्यामि नात्र कार्या विचारणा॥
असौ हुरत्ययोऽस्माकं शिवभक्तो निरंतरम्॥ ३२.२९ ॥
चित्रस्था इव तिष्ठाम भयाद्देवस्य शूलिनः॥
यमस्य वचनं श्रुत्वा कालः क्रोधसमन्वितः॥
राजानं हंतुमारेभे त्वरितः खड्गमाददे॥ ३२.३० ॥
त्रिगुणाष्टाक्रसंकाशं प्रविवेश शिवालयम्॥
यावत्कोपेन महता तावद्दृष्टः पिनाकिना॥
स्वभक्तं हंतुकामोसौ श्वेतराजानमुत्तमम्॥ ३२.३१ ॥
ध्यानस्थितं चात्मनि तं विशुद्धज्ञानप्रदीपेन विशुद्धचित्तम्॥
आत्मानमात्मात्मतया निरंतरं स्वयंप्रकाशं परमं पुरस्तात्॥ ३२.३२ ॥
एवंविधं तं प्रसमीक्ष्य कालं संचिंत्यमानं मनसाऽचलेन॥
शैवं पदं यत्परमार्थरूपं कैवल्यसायुज्यकरं स्वरूपतः॥ ३२.३३ ॥
सदाशिवेन दृष्टोऽसौ कालः कालांतकेन च॥
उच्छृंखलः खलो दर्पाद्विशमानो निजांतिके॥ ३२.३४ ॥
नंदिकेश्वरमध्यस्थो यावद्दृष्टो निजांतिके॥
शिवेन जगदीशेन भक्तवत्सलबंधुना॥ ३२.३५ ॥
निरीक्षितस्तृतीयेन चक्षुषा परमेष्ठिना॥
स्वभक्तं रक्षमाणेन भस्मसादभवत्क्षणात्॥ ३२.३६ ॥
ददाह तं कालमनेकवर्णं व्यात्ताननं भीमबहूग्ररूपम्॥
ज्वालावलीभिः परिदह्यमानमतिप्रचंडं भुवनैकभक्षणम्॥ ३२.३७ ॥
ददर्शिरे देवगणाः समेताः सयक्षगंधर्वपिशाचगुह्यकाः॥
सिद्धाप्सरःसर्वखगाश्च पन्नगाः पतत्रिणो लोकपालास्तथैव॥ ३२.३८ ॥
ज्वालामालावृतं कालमीश्वरस्याग्रतः स्थितम्॥
लब्धसंज्ञस्तदा राजा कालं स्वं हंतुमागतम्॥ ३२.३९ ॥
पुनः पुनर्द्ददर्शाथ दह्यमानं कृशानुना॥
प्रार्थयामास स व्यग्रो रुद्रं कालाग्निसन्निभम्॥ ३२.४० ॥
॥राजोवाच॥
नमो रुद्राय शांताय स्वज्योत्स्नायात्मवेधसे॥
निरंतराय सूक्ष्माय ज्योतिषां पतये नमः॥ ३२.४१ ॥
त्राता त्वं हि जगन्नाथ पिता माता सुहृत्सखा॥
त्वमेव बंधुः स्वजनो लोकानां प्रभुरीश्वरः॥ ३२.४२ ॥
किं कृतं हि त्वया शंभो कोऽसौ दग्धो ममाग्रतः॥
न जानामि च किं जातं कृतं केन महत्तरम्॥ ३२.४३ ॥
एवं प्रार्थयतस्तस्य श्रुत्वा च परिदेवनम्॥
उवाच शंकरो वाक्यं बोधयन्निव तं नृपम्॥ ३२.४४ ॥
॥रुद्र उवाच॥
मया दग्धो ह्ययं कालस्तवार्थे च तवाग्रतः॥
दह्यमानो हि दृष्टस्ते ज्वाला मालाकुलो महान्॥ ३२.४५ ॥
एवमुक्तस्तदा तेन शंभुना राजसत्तमः॥
उवाच प्रश्रितो भूत्वा वचनं शिवमग्रतः॥ ३२.४६ ॥
किमनेन कृतं शंभो अकृत्यं वद तत्त्वतः॥
य इमां प्राप्तितोऽवस्थां प्राणात्ययकरीं भव॥ ३२.४७ ॥
एवं विज्ञापितस्तेन ह्युवाच परमेश्वरः॥
भक्षकोऽयं महाराज सर्वेषां प्राणिनामिह॥ ३२.४८ ॥
भक्षणार्थं तव विभो सोऽयं क्रूरोऽधुनाऽऽगतः॥
ममांतिकं महाराज तस्माद्दग्धो मया विभो॥ ३२.४९ ॥
बहूनां क्षेममन्विच्छंस्तवार्थेऽन्हं विशेषतः॥ ३२.५० ॥
ये पापिनो ह्यधर्मिष्ठा लोकसंहारकारकाः॥
पाषंडवादसंयुक्ता वध्यास्ते मम चैव हि॥
वाक्यं निशम्य रुद्रस्य श्वेतो वचनमब्रवीत्॥ ३२.५१ ॥
कालेनैव हि लोकोऽयं पुण्यमाचरते सदा॥
धर्मनिष्ठाश्च केचित्तु भक्त्या परमया युताः॥ ३२.५२ ॥
उपासनारताः केचिज्ज्ञानिनो हि तथा परे॥
केचिदध्यात्मसंयुक्ताश्चान्ये मुक्ताश्च केचन॥ ३२.५३ ॥
कालो हि हर्ता च चराचराणां तथा ह्यसौ पालकोऽप्यद्वितीयः॥
स स्रष्टा वै प्राणिनां प्राणभूतस्तस्मादेनं जीवयस्वाशु भूयः॥ ३२.५४ ॥
यदि सृष्टिपरोऽसि त्वं कालं जीवय सत्वरम्॥
यदि संहारभूतोऽसि सर्वेषां प्राणिनामिह॥ ३२.५५ ॥
तर्ह्येवं कुरु शंभो त्वं कालस्य च महात्मनः॥
विना कालेन यत्किंचिद्भविष्यति न शंकर॥ ३२.५६ ॥
इति विज्ञापितस्तेन राज्ञा शंभुः प्रतापिना॥
चकार वचनं तस्य भक्तस्य च चिकीर्षितम्॥ ३२.५७ ॥
शंभुः प्रहस्याथ तदा महेशः संजीवयामास पिनाकपाणिः॥
चकार रूपं च यथा पुरासीदालिंगतोसौ यमदूतमध्ये॥ ३२.५८ ॥
उपस्थितोऽसौ त्वथ लज्जमानस्तुष्टाव देवं वृषभध्वजं तम्॥
नत्वा पुरःस्थाग्निमयं हि कालः सविस्मयो वाक्यमिदं बभाषे॥ ३२.५९ ॥
॥काल उवाच॥
कालांतक त्रिपुरेश त्रिपुरांतकर प्रभो॥
मदनो हि त्वया देव कृतोऽनंगो जगत्पते॥ ३२.६० ॥
दक्षयज्ञविनाशश्च कृतो हि परमाद्भुतः॥
कालकूटं दुःप्रसहं सर्वेषां क्षयकृन्महत्॥ ३२.६१ ॥
ग्रसितं तत्त्वया शंभो अन्येषामपि दुर्द्धरम्॥
लिंगरूपेण महता व्याप्तमासीज्जगत्त्रयम्॥ ३२.६२ ॥
लयनाल्लिंगमित्युक्तं सर्वैरपि सुरा सुरैः॥
यस्यांतं न विदुर्द्देवा ब्रह्मविष्णुपुरोगमाः॥ ३२.६३ ॥
लिंगस्य देवदेवस्य महिमानं परस्य च॥
नमस्ते परमेशाय नमस्ते विश्वमंगल॥
नमस्ते शितिकण्ठाय नमस्तस्मै कपर्दिने॥ ३२.६४ ॥
नमोनमः कारणकारणाय ते नमोनमो मंगलमंगलात्मने॥
ज्ञानात्मने ज्ञानविदां मनीषिणां त्वमादिदेवोऽसि पुमान्पुराणः॥ ३२.६५ ॥
त्वमेव सर्वं जगदेवबंधो वेदांतवेद्योऽसि महानुभावः॥
महानुभावैः परिकीर्त्तनीयस्त्वमेव विश्वेश्वर विश्वमान्यः॥ ३२.६६ ॥
त्वं पासि लुंपसि जगत्त्रितयं महेश स्रष्टासि भूतपतिरेव न कश्चिदन्यः॥ ३२.६७ ॥
इति स्तुतस्तदा तेन कालेन जगदीश्वरः॥
उवाच कालो राजानं श्वेतं संबोधयन्निव॥ ३२.६८ ॥
॥काल उवाच॥
मनुष्यलोके सकले नान्यस्त्वत्तो हि विद्यते॥
येन त्वया जितो देवो ह्यजेयो भुवनत्रये॥ ३२.६९ ॥
मया हतमिदं विश्वं जगदेतच्चराचरम्॥
जेताहं सर्वदेवानां सर्वेषां दुरतिक्रमः॥ ३२.७० ॥
स हि ते चानुगो जातो महाराज प्रयच्छ मे॥
अभयं देवदेवाच्च शूलिनः परमेष्ठिनः॥ ३२.७१ ॥
एवमुक्तस्तदा तेन श्वेतः कालेन चैव हि॥
उवाच प्रहसन्वाचा मेघनादगभीरया॥ ३२.७२ ॥
॥राजोवाच॥
शिवस्य परमं रूपं त्वमेको नास्ति संशयः॥
कालस्त्वमसि भूतानां स्थितिसंहाररूपवान्॥ ३२.७३ ॥
तस्मात्पूज्यतमोऽसि त्वं सर्वेषां च नियामकः॥
त्वद्भयात्कृतिनः सर्वे शरणं परमेश्वरम्॥
व्रजंति विविधैर्भार्वैरात्मलक्षणतत्पराः॥ ३२.७४ ॥
॥सुत उवाच॥
तेनैवं रक्षिततः कालो राज्ञा परमधर्मिणा॥
शिवप्रसादमात्रेण लब्धसंज्ञो बभूवह॥ ३२.७५ ॥
तदा यमेन स्तवितो मृत्युना यमदूतकैः॥
शिवं प्रणम्य संस्तुत्य श्वेतं राजानमेव च॥
ययौ स्वमालयं विप्रा मेने स्वं जनितं पुनः॥ ३२.७६ ॥
मायया सह पत्न्या च शिवस्य चरितं महत्॥
अनुसंस्मृत्य संस्मृत्य विस्मयं परमं ययौ॥ ३२.७७ ॥
कथयामास सर्वेषां दूतानां स्वयमेव हि॥
आकर्ण्यतां मम वचो हे दूतास्त्वरितेन हि॥ ३२.७८ ॥
कर्त्तव्यं च प्रयत्नेन नान्यथा मम भाषितम्॥ ३२.७९ ॥
॥काल उवाच॥
ये त्रिपुण्ड्रंधारयंति तथा ये वै जटाधराः॥
ये रुद्राक्षधराश्चैव तथा ये शिवनामिनः॥ ३२.८० ॥
उपजीवनहेतोश्च भिया ये ह्यपि मानवाः॥
पापिनोऽपि दुराचाराः शिववेषधरा ह्यमी॥ ३२.८१ ॥
नानेतव्या भवद्भिश्च मम लोकं कदाचन॥
वर्ज्यास्ते हि प्रयत्नेन पापिनोऽपि सदैव हि॥ ३२.८२ ॥
अन्येषां का कथा दूता येऽर्चयंति सदाशिवम्॥
भक्त्या परमया शंभुं रुद्रास्ते नात्र संशयः॥ ३२.८३ ॥
रुद्राक्षमेकं शिरसा बिभर्ति यस्तथा त्रिपुंड्रं च ललाटमध्यके॥
पंचाक्षरीं ये प्रजपंति साधवः पूज्य भवद्भिश्च न चान्यथा क्वचित्॥ ३२.८४ ॥
यस्मिन्राष्ट्रोऽथ वा देशे ग्रामे चापि विचक्षणः॥
शिवभक्तो न दृश्येत स्मशानात्तु विशिष्यते॥
तद्राष्ट्रं देशमित्याहुः सत्यं प्रतिवदामि वः॥ ३२.८५ ॥
यस्मिन्न संति नित्यं हि शिवभक्तिसमन्विताः॥
तद्ग्रमस्था जनाः सर्वे शासनीया न संशयः॥ ३२.८६ ॥
एवमाज्ञापयामास यमोऽपि निजकिंकरान्॥
तथेति मत्वा ते सर्वे तूष्णी मासन्सुविस्मिताः॥ ३२.८७ ॥
एवंविधोऽयं भुवनैकभर्ता सदाशिवो लोकगुरुः स एकः॥
दाता प्रहर्ता निजभावयुक्तः सनातनोऽयं जगदेकबंधुः॥ ३२.८८ ॥
दग्ध्वा कालं महादेवो निर्भयं च ददौ विभुः॥
श्वेतस्य राजराजस्य महीपालवरस्य च॥ ३२.८९ ॥
तदा निर्भयमापन्नः श्वेतराजो महामनाः॥
भक्त्या च परया मुक्तो बभूव कृतनिश्चयः॥ ३२.९० ॥
तदा देवैः पूज्यमान ऋषिभिः पन्नगैस्तथा॥
श्वतो राजन्यवर्योऽसौ शिवसायुज्यमाप्तवान्॥ ३२.९१ ॥
एवं भक्तिपराणां च महेशे च जगद्गुरौ॥
सिद्धिः करतले तेषां सत्यं प्रतिवदामि वः॥ ३२.९२ ॥
श्वपचोऽपि वरिष्ठः स्यात्प्रसादाच्छं करस्य च॥
तस्मात्सर्वप्रयत्नेन पूजनीयो हि शंकरः॥ ३२.९३ ॥
बहूनां जनमनामंते शिवभक्तिः प्रजायते॥ ३२.९४ ॥
ज्ञानिनां कृतबुद्धीनां जन्मजन्मनिशंकरः॥
किं मया बहुनोक्तेन पूजनीयः सदाशिवः॥ ३२.९५ ॥
अत्रैवोदाहरंतीममितिहासं पुरातनम्॥
किरातेन कृतं व्रतं च परमाद्भुतम्॥
येनैव तारितं विश्वं जगदेतच्चराचरम्॥ ३२.९६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे श्वेतराजचरिते शिवभक्तिप्रभावेण कालदहनवृत्तान्तवर्णनंनाम द्वात्रिंशोऽध्यायः॥ ३२ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 33
॥ऋषय ऊचुः॥
किन्नामा च किरातोऽभूत्किं तेन व्रतमाहितम्॥
तत्त्वं कथय विप्रेंद्र परं कौतूहलं हि नः॥ ३३.१ ॥
तत्सर्वं श्रोतुमिच्छामो याथातथ्येन कथ्यताम्॥
न ह्यन्यो विद्यते लोके त्वद्विना वदतां वरः॥
तस्मात्कथ भो विप्र सर्वं शुश्रूषतां हि नः॥ ३३.२ ॥
एवमुक्तस्तदा तेन शौनकेन महात्मना॥
कथयामास तत्सर्वं पुष्कसेन कृतं यत्॥ ३३.३ ॥
॥लोमश उवाच॥
आसीत्पुरा महारौद्रश्चडोनाम दुरात्मवान्॥
क्रूरसंगो निष्कृतिको भूतानां भयवाहकः॥ ३३.४ ॥
जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं खलु॥
भल्लैर्मृगाञ्छापदांश्च कृष्णसारांश्च शल्लकान्॥ ३३.५ ॥
खड्गांश्चैव च दुष्टात्मा दृष्ट्वा कांश्चिच्च पापवान्॥
पक्षिणोऽघातयत्क्रुद्धो ब्राह्मणांश्च विशेषतः॥ ३३.६ ॥
लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः॥
भार्या तथाविधआ तस्य पुष्कसस्य महाभया॥ ३३.७ ॥
एवं विहरतस्तस्य बहुकालोत्यवर्तत॥
गते बहुतिथेकाले पापौघनिरतस्य च॥ ३३.८ ॥
निषंगे जलमादाय क्षुत्पिपासार्द्दितो भृशम्॥
एकदा निशि पापीयाच्छ्रीवृक्षोपरि संस्थितः॥
कोलं हंतुं धनुष्पाणिर्जाग्रच्चानिमिषेण हि॥ ३३.९ ॥
माघमासेऽसितायां वै चतुर्दश्यामथाग्रतः॥
मृगमार्गविलोकार्थी बिल्वपत्राण्यपातयत्॥ ३३.१० ॥
श्रीवृक्षपर्णानि बहूनि तत्र स च्छेदयामास रुषान्वितोपि॥
श्रीवृक्षमूले परिवर्तमाने लिंगं तस्योपरिदृष्टभावः॥ ३३.११ ॥
ववर्ष गंडूषजलं दुरात्मा यदृच्छया तानि शिवे पतंति॥
श्रीवृक्षपर्णानि च दैवयोगाज्जातं च सर्वं शिवपूजनं तत्॥ ३३.१२ ॥
गंडूषवारिणा तेन स्नपनं च कृतं महत्॥
बिल्वपत्रैरसंख्यातैरर्चनं महत्कृतम्॥ ३३.१३ ॥
अज्ञानेनापि भो विप्राः पुष्कसेन दुरात्मना॥
माघमासेऽसिते पक्षे चतुर्दश्यां विधूदये॥ ३३.१४ ॥
पुष्कसोऽथ दुराचारो वॉक्षादवततार सः॥
आगत्य जलसंकाशं मत्स्यान्हंतुं प्रचक्रमे॥ ३३.१५ ॥
लुब्ध कस्यापि भार्याभून्नाम्ना चैव घनोदरी॥
दुष्टा सा पापनिरता परद्रव्यापहारिणी॥ ३३.१६ ॥
गृहान्निर्गत्य सायाह्ने पुरद्वारबहिः स्थिता॥
वनमार्गं प्रपश्यंती पत्युरागमनेच्छया॥ ३३.१७ ॥
चिराद्भर्तरी नायाते चिन्तयामास लुब्धकी॥
अद्य सायाह्नवेलायामागताः सर्वलुब्धकाः॥ ३३.१८ ॥
तमः स्तोमेन संछन्नाश्चतस्रो विदिशो दिशः॥
रात्रौ यामद्वयं यातं किं मतंगः समागतः॥ ३३.१९ ॥
किं वा केसरलोभेन सिंहेनैव विदारितः॥
किं भुजंगफणारत्नहारी सर्पविषार्दितः॥ ३३.२० ॥
किं वा वराहदंष्ट्राग्रघातैः पंचत्वमागतः॥
मधुलोभेन वृक्षाग्रात्स वै प्रपतितो भुवि॥ ३३.२१ ॥
क्वान्वेषयामि पृच्छामि क्व गच्छामि च कं प्रति॥
एवं विलप्य बहुधा निवृत्ता स्वं गृहं प्रति॥ ३३.२२ ॥
नैवान्नं नो जलं किंचिन्न भुक्तं तद्दिने तया॥
चिंतयंती पतिं चापि लुब्धकी त्वयन्निशाम्॥ ३३.२३ ॥
अथ प्रभाते विमले पुष्कसी वनमाययौ॥
अशनार्थं च तस्यान्नमादाय त्वरिता सती॥ ३३.२४ ॥
भ्रममाणावने तस्मिन्ददर्श महतीं नदीम्॥
तस्यास्तीरे समासीनं स्वपतिं प्रेक्ष्य हर्षिता॥ ३३.२५ ॥
तदन्नं कूलनः स्थाप्य नदीं तर्तुं प्रचक्रमे॥
निरीक्ष्य चाथ मत्स्यान्स जालप्रोतान्समानयत्॥ ३३.२६ ॥
तावत्तयोक्तश्चण्डोऽसावेहि शीघ्रं च भक्षय॥
अन्नं त्वदर्थमानीतमुपोष्य दिवसं मया॥ ३३.२७ ॥
कृतं किमद्य रे मंद गतेऽहनि च किं कृतम्॥
नाऽशितं च त्वया मूढ लंघितेनाद्य पापिना॥ ३३.२८ ॥
नद्यां स्नातौ तथा तौ च दम्पती च शुचि व्रतौ॥
यावद्गतश्च भोक्तुं स तावच्छ्वा स्वयमागतः॥ ३३.२९ ॥
तेन सर्वं भक्षितं च तदन्नं स्वयमेव हि॥
चंडी प्रकुपिता चैव श्वानं हंतुमुपस्थिता॥ ३३.३० ॥
आवयोर्भक्षितं चान्नमनेनैव च पापिना॥
किं च भक्षयसे मूढ भविताद्य वुभुक्षितः॥ ३३.३१ ॥
एवं तयोक्तश्चण्डोऽसौ बभाषे तां शिवप्रियः॥
यच्छुना भक्षितं चान्नं तेनाहं परितोषितः॥ ३३.३२ ॥
किमनेन शरीरेण नश्वरेण गतायुषा॥
शरीरं दुर्लभं लोके पूज्यते क्षणभंगुरम्॥ ३३.३३ ॥
ये पुष्णंति निजं देहं सर्वभावेन चाहताः॥
मूढास्ते पापिनो ज्ञेया लोकद्वयबहिष्कृताः॥ ३३.३४ ॥
तस्मान्मानं परित्यज्य क्रोधं च दुरवग्रहम्॥
स्वस्था भव विमर्शेन तत्त्वबुद्ध्या स्थिरा भव॥ ३३.३५ ॥
बोधिता तेन चंडी सा पुष्कसेन तदा भृशम्॥
जागरादि च संप्राप्तः पुष्कसोऽपि चतुर्दशीम्॥ ३३.३६ ॥
शिवरात्रिप्रसंगाच्च जायते यद्ध्यसंशयम्॥
तज्ज्ञानं परमं प्राप्तः शिवरात्रिप्रसंगतः॥ ३३.३७ ॥
यामद्वयं च संजातममावास्यां तु तत्र वै॥
आगताश्च गणास्तत्र बहवः शिवनोदिताः॥ ३३.३८ ॥
विमानानि बहून्यत्र आगतानि तदंतिकम्॥
दृष्टानि तेन तान्येव विमानानि गणास्तथा॥ ३३.३९ ॥
उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति॥
कस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः॥ ३३.४० ॥
विमानस्थाश्च केचिच्च वृषारूढाश्च केचन॥
सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्द्धशेखराः॥ ३३.४१ ॥
कपर्द्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः॥
श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतात्मनोचितम्॥ ३३.४२ ॥
पुष्कसेन तदा पृष्टा ऊचुः सर्वे च पार्पदाः॥
रुद्रस्य देवदेवस्य संनम्राः कमलेक्षणाः॥ ३३.४३ ॥
॥गणा ऊचुः॥
प्रेषिताः स्मो वयं चंड शिवेन परमेष्ठिना॥
आगच्छ त्वरितो भुत्वा सस्त्रीको या नमारुह॥ ३३.४४ ॥
लिंगार्च्चनं कृतं यच्च त्वया रात्रौ शिवस्य च॥
तेन कर्मविपाकेन प्राप्तोऽसि शिवसन्निधिम्॥ ३३.४५ ॥
तथोक्तो वीरभद्रेण उवाच प्रहसन्निव॥
पुष्कसोऽपि स्वया बुद्ध्या प्रस्तावसदृशं वचः॥ ३३.४६ ॥
॥पुष्कस उवाच॥
किं मया कृतमद्यैव पापिना हिंसकेन च॥
मृगयारसिकेनैव पुष्कसेन दुरात्मना॥ ३३.४७ ॥
पापाचारो ह्यहं नित्यं कथं स्वर्गं व्रजाम्यहम्॥
कथं लिंगार्चनमिदं कृतमस्ति तदुच्यताम्॥ ३३.४८ ॥
परं कौतुकमापन्नः पृच्छामि त्वां यथातथम्॥
कथयस्व महाभाग सर्वं चैव यथाविधि॥ ३३.४९ ॥
इत्येवं पृच्छतस्तस्य पुष्कसस्य यथाविधि॥
कथयामास तत्सर्वं शिवधर्म मुदान्वितः॥ ३३.५० ॥
॥वीरभद्र उवाच॥
देवदेवो महादेवो देवानां पतिरीश्वरः॥
परितुष्टोऽद्य हे चंड स महेश उमापतिः॥ ३३.५१ ॥
प्रासंगिकतया माघे कृतं लिंगार्चनं त्वया॥
शिवतुष्टिकरं चाद्य पूतोऽसि त्वं न संशयः॥
शिवरात्र्यां प्रसंगेन कृतमर्चनमेव च॥ ३३.५२ ॥
कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि॥
च्छेदितानि त्वया चंड पतितानि तदैव हि॥
लिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो॥ ३३.५३ ॥
ततश्च जागरो जातो महान्वृक्षोपरि ध्रुवम्॥
तेनैव जागरेणैव तुतोष जगदीश्वरः॥ ३३.५४ ॥
छलेनैव महाभाग कोलसंदर्शनेन हि॥
शिवरात्रिदिने चात्र स्वप्नस्ते न च योषितः॥ ३३.५५ ॥
तेनोपवासेन च जागरेण तुष्टो ह्यसौ देववरो महात्मा॥
तव प्रसादाय महानुभावो ददाति सर्वान्वरदो महांश्च॥ ३३.५६ ॥
एवमुक्तस्तदा तेन वीरभद्रेण धीमता॥
पुष्कसोऽपि विमानाग्र्यमारुहोह च पश्यताम्॥ ३३.५७ ॥
गणानां देवतानां च सर्वेषां प्राणिनामपि॥
तदा दुंदुभयो नेदुर्भेर्यस्तूर्याण्यनेकशः॥ ३३.५८ ॥
वीणावेणुमृदंगानि तस्य चाग्रे गतानि च॥
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः॥ ३३.५९ ॥
विद्याधरगणाः सर्वे तुष्टुवुः सिद्धचारणाः॥
चामरैवर्वीज्यमानो हि च्छत्रैश्च विविधैरपि॥
महोत्सवेन महता आनीतो गंधमादनम्॥ ३३.६० ॥
शिवसान्निध्यमागच्चंडोसौ तेन कर्मणा॥
शिवरात्र्युपवासेन परं स्थानं समागमत्॥ ३३.६१ ॥
पुष्कसोऽपि तथा प्राप्तः प्रसंगेन सदाशिवम्॥
किं पुनः श्रद्धया युक्ताः शिवाय परमात्मने॥ ३३.६२ ॥
पुष्पादिकं फलं गंधं तांबूलं भक्ष्यमृद्धिमत्॥
ये प्रयच्छंति लोकेऽस्मिन्रुद्रास्ते नात्र संशयः॥ ३३.६३ ॥
चंडेन वै पुष्कसेन सफलं तस्य चाभवत्॥
प्रसंगेनापि तेनैव कृतं तच्चाल्पबुद्धिना॥ ३३.६४ ॥
॥ऋषय ऊचुः॥
किं फलं तस्य चोद्देशः केन चैव पुना कृतम्॥
कस्माद्व्रतमिदं जातं कृतं केन पुरा विभो॥ ३३.६५ ॥
॥लोमश उवाच॥
यदा सृष्टं जगत्सर्वं ब्रह्मणा परमेष्ठिना॥
कालचक्रं तदा जातं पुरा राशिमन्विताम्॥ ३३.६६ ॥
द्वादश राशयस्तत्र नक्षत्राणि तथैव च॥
सप्तविंशतिसंख्यानि मुख्यानि xxxxxx सिद्धये॥ ३३.६७ ॥
एभिः सर्वं प्रचंडं च राशिभिरुडुभिस्तथा॥
कालचक्रान्वितः कालः क्रीडयन्सृजते जगत्॥ ३३.६८ ॥
आब्रह्मस्तंबपर्यंतं सृजत्य वति हंति च॥
निबद्धमस्ति तेनैव कालेनैकेन भो द्विजाः॥ ३३.६९ ॥
कालो हि बलवाँल्लोके एक एव न चापरः॥
तस्मात्कालात्मकं सर्वमिदं नास्त्यत्र संशयः॥ ३३.७० ॥
आदौ कालः कालनाच्च लोकनायकनायकः॥
ततो लोका हि संजाताः सृष्टिश्च तदनंतरम्॥ ३३.७१ ॥
सृष्टेर्लवो हि संजातो लवाच्च क्षणमेव च॥
क्षणाच्च निमिषं जातं प्राणिनां हि निरंतरम्॥ ३३.७२ ॥
निमिषाणां च षष्ट्या वै फल इत्यभिधीयते॥
पंचदश्या अहोरात्रैः पक्षइत्यभिधीयते॥ ३३.७३ ॥
पक्षाभ्यां मास एव स्यान्मासा द्वादश वत्सरः॥
तं कालं ज्ञातुकामेन कार्यं ज्ञानं विचक्षणैः॥ ३३.७४ ॥
प्रतिपद्दिनमारभ्य पौर्णमास्यंतमेव च॥
पक्षं पूर्णो हि यस्माच्च पूर्णिमेत्यभिधीयते॥ ३३.७५ ॥
पूर्णचंद्रमसी या तु सा पूर्णा देवताप्रिया॥
नष्टस्तु चंद्रो यस्यां वा अमा सा कथिता बुधैः॥ ३३.७६ ॥
अग्निष्वात्तादिपितॄणां प्रियातीव बभूव ह॥
त्रिंशद्दिनानि ह्येतानि पुण्यकालयुतानि च॥
तेषां मध्ये विशेषो यस्तं श्रृणुध्वं द्विजोत्तमाः॥ ३३.७७ ॥
योगानां वा व्यतीपात ऊडूनां श्रवणस्तथा॥
अमावास्या तिथीनां च पूर्णिमा वै तथैव च॥ ३३.७८ ॥
संक्रांतयस्तथाज्ञेयाः पवित्रा दानकर्मणि॥
तथाष्टमी प्रिया शंभोर्गणेशस्य चतुर्थिका॥ ३३.७९ ॥
पञ्चमी नागराजस्य कुमारस्य च षष्ठिका॥
भानोश्च सप्तमी ज्ञेया नवमी चण्डिकाप्रिया॥ ३३.८० ॥
ब्रह्मणो दशमी ज्ञेया रुद्रस्यैकादशी तथा॥
विष्णुप्रिया द्वादशी च अंतकस्य त्रयोदशी॥ ३३.८१ ॥
चतुर्द्दशी तथा शंभोः प्रिया नास्त्यत्र संशयः॥
निशीथसंयुता या तु कृष्णपक्षे चतुर्द्दशी॥
उपोष्या सा तिथिः श्रेष्ठा शिवसायुज्यकारिणी॥ ३३.८२ ॥
शिवरात्रितिथिः ख्याता सर्वपापप्रणाशिनी॥
अत्रैवोदाहरंतीममितिहासं पुरातनम्॥ ३३.८३ ॥
ब्राह्मणी विधवा काचित्पुरा ह्यासीच्च चंचला॥
श्वपचाभिरता सा च कामुकी कामहेतुतः॥ ३३.८४ ॥
तस्यां तस्य सुतो जातः श्वपचस्य दुरात्मनः॥
दुः सहो दुष्टनामात्मा सर्वधर्मबहिष्कृतः॥ ३३.८५ ॥
महापापप्रयोगाच्च पापमारभते सदा॥
कितवश्च सुरापायी स्तेयी च गुरुतल्पगः॥ ३३.८६ ॥
मृगयुश्च दुरात्मासौ कर्मचण्डाल एव सः॥
अधर्मिष्ठो ह्यसद्वृत्तः कदाचिच्च शिवालयम्॥
शिवरात्र्यां च संप्राप्तो ह्युषितः शिवसन्निधौ॥ ३३.८७ ॥
श्रवणं शैवशास्त्रस्य यदृच्छाजातमंतिके॥
शिवस्य लिंगरूपस्य स्वयंभुवो यदा तदा॥ ३३.८८ ॥
स एकत्रोषितो दुष्टः शिवरात्र्यां तु जागरात्॥
तेन कर्मविपाकेन पुण्यां योनिमवाप्तवान्॥ ३३.८९ ॥
भुक्त्वा पुण्यतामाँल्लोकानुषित्वा शाश्वतीः समाः॥
चित्रांगदस्य पुत्रोभूद्भूपालेश्वरलक्षणः॥ ३३.९० ॥
नाम्ना विचित्रवीर्योऽसौ सुभगः संदुरी प्रियः॥
राज्यं महत्तरं प्राप्य निःस्तंभो हि महानभूत्॥ ३३.९१ ॥
शिवे भक्तिं प्रकुर्वाणः शिवकर्मपरोऽभवत्॥
शैवशास्त्रं पुरस्कृत्य शिवपूजनतत्परः॥
रात्रौ जागरणं यत्नात्करोति शिवसन्निधौ॥ ३३.९२ ॥
शिवस्य गाथा गायंस्तु आनंदाश्रुकणान्मुहुः॥
प्रमुंचंश्चैव नेत्राभ्यां रोमांचपुलकावृतः॥ ३३.९३ ॥
आयुष्यं च गतं तस्य शिवध्यानपरस्य च॥
शिवो हि सुलभो लोके पशूनां ज्ञाननिनामपि॥ ३३.९४ ॥
संसेवितुं सुखप्राप्त्यै ह्येक एव सदाशिवः॥
शिवरात्र्युपवासेन प्राप्तो ज्ञानमनुत्तमम्॥ ३३.९५ ॥
ज्ञानात्सर्वमनुप्राप्तं भूतसाम्यं निरंतरम्॥
सर्वभूतात्मकं ज्ञात्वा केवलं च सदा शिवम्॥
विना शिवेन यत्किंचिन्नास्ति वस्त्वत्र न क्वचित्॥ ३३.९६ ॥
एवं पूर्णं निष्प्रपंचं ज्ञानं प्राप्नोति दुर्लभम्॥
प्राप्तज्ञानस्तदा राजा जातो हि शिववल्लभः॥ ३३.९७ ॥
मुक्तिं सायुज्यतां प्राप्तः शिवरात्रेरुपोषणात्॥
तेन लब्धं शिवाज्जन्म पुरा यत्कथितं मया॥ ३३.९८ ॥
दाक्षायणीवीयो गाच्च जटाजूटेन विस्तरात्॥
य उत्पन्नो मस्तकाच्च शिवस्य परमात्मनः॥
वीरभद्रेति विख्यातो दक्षयज्ञविनाशनः॥ ३३.९९ ॥
शिवरात्रिव्रतेनैव तारिता बहवः पुरा॥
प्राप्ताः सिद्धिं पुरा विप्रा भरताद्याश्च देहिनः॥ ३३.१०० ॥
मांधाता धुन्धुमारिश्च हरिश्चन्द्रादयो नृपाः॥
प्राप्ताः सिद्धिमनेनेव व्रतेन परमेण हि॥ ३३.१०१ ॥
ततो गिरीशो गिरिजासमेतः क्रीडान्वितोऽसौ गिरिराजमस्तके॥
द्यूतं तथैवाक्षयुतं परेशो युक्तो भवान्या स भृशं चकार॥ ३३.१०२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्त्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवरात्रिव्रतमाहात्म्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः॥ ३३ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 34
॥लोमश उवाच॥
राज्यं चकार कैलास दवदवा जगत्पतिः॥
गणैः समेतो बहुभिर्वीरभद्रान्वितो महान्॥ ३४.१ ॥
ऋषिभिः सहितो रुद्रो देवैरिन्द्रादिभिः सह॥
ब्रह्मा यस्य स्तुतिपरो विष्णुः प्रेष्यवदास्थितः॥ ३४.२ ॥
इंद्रो देवगणैः सार्द्धं सेवाधर्मपरोऽभवत्॥
यस्य च्छत्रधरश्चंद्रो वायुश्चामरधृक्तथा॥ ३४.३ ॥
सूपान्नकर्ता सततं जातवदा निरन्तरम्॥
गंधर्वा गायका यस्य स्तावकाश्च पिनाकिनः॥ ३४.४ ॥
विद्याधराश्च बहवस्तथा चाप्सरसां गणाः॥
ननृतुश्चाग्रगा यस्य सोऽसौ कैलासपर्वते॥ ३४.५ ॥
पुत्रैर्गणेशस्कंदाद्यैस्तथा गिरिजया सह॥
राज्यं प्रतापिभिश्चक्रेऽशंकश्चंक्रमणेन च॥ ३४.६ ॥
येनांधको महा दैत्यः स देवानामरिर्महान्॥
दुष्टो विद्धस्त्रिशूलेन गगने स्थापितश्चिरम्॥ ३४.७ ॥
हत्वा गजासुरं येन उत्कृत्त्य चर्म वै कृतम्॥
चिरं प्रावरणं दिव्यं तथा त्रिपुरदीपनम्॥
विष्णुना पाल्यभूतेन रेजे सर्वांगसुन्दरः॥ ३४.८ ॥
तं द्रष्टुकामो भगवान्नारदो दिव्य र्शनः॥
ययौ च पर्वतश्रेष्ठं कैलासं चन्द्रपांडुरम्॥ ३४.९ ॥
सुधया परया चापि सेवितं परमाद्भुतम्॥
कर्पूरगौरं च तदा दृष्ट्वा तं सुमहाबलम्॥
नारदो विस्मयाविष्टः प्रविष्टो गन्धमादनम्॥ ३४.१० ॥
अनेकाश्चर्यसंयुक्तं तपनैश्च सुशोभितम्॥
गायद्विद्याधरीभिश्च पूरितं च महाप्रभम्॥ ३४.११ ॥
कल्पद्रुमाश्च बहवो लताभिः परिवेष्टिताः॥
घनच्छायासू तास्वेव विशिष्टा कामधेनवः॥ ३४.१२ ॥
पारिजातवनामोदलंपटा बहवोऽलयः॥
कलहंसाश्च बहवः क्रीडमानाः सरस्तु च॥ ३४.१३ ॥
शिखंडिनो महच्चक्रुस्तत्र केकारवं मुदा॥
पंचमालापिनः सर्वे विहंगाः संमदान्विताः॥ ३४.१४ ॥
करिणः करिणीभिश्च मोदमानाः सुवर्चसः॥
सिंहास्तथा गर्जमानाः शार्दूलैः सह संगताः॥ ३४.१५ ॥
वृषभा नंदिमुख्याश्च रेभमाना निरन्तरम्॥
देवद्रुमाश्च बहवस्तथा चंदनवाटिकाः॥ ३४.१६ ॥
नागपुंनागबकुलाश्चंपका नागकेसराः॥
तथा च वनजंब्वश्च तथा कनककेतकाः॥ ३४.१७ ॥
कह्लाराः करवीरिश्च कुमुदानि ह्यनेकशः॥
मंदाराश्च बदर्यश्च क्रमुकाः पाटलास्तथा॥ ३४.१८ ॥
तथान्ये बहवो वृक्षाः शम्भोस्तोषकराह्यमी॥
ऐकपद्येन दृष्टास्ते नानाद्रुमलतान्विताः॥
आरामा बहवस्तत्र द्विगुणाश्च बभूविरे॥ ३४.१९ ॥
गगनान्निस्सृतः सद्यो गंगौघः परमाद्भुतः॥
पतितो मस्तके तस्य पर्वतस्य सुशोभिते॥ ३४.२० ॥
कूपो हि पयसां ये न पवित्रं वर्तते जगत्॥
सोपि द्विधा तदा दृष्टो नारदेन महात्मना॥ ३४.२१ ॥
सर्वं तदा द्विधाभूतं दृष्टं तेन महात्मना॥
नारदेन तदा विप्राः परमेण निरीक्षितः॥ ३४.२२ ॥
एवं विलोकमानोऽसौ नारदो भगवानृषिः॥
त्वरितेन तथा यातः शिवालोकनतत्परः॥ ३४.२३ ॥
यावद्द्वारि स्थितोपश्यन्महदाश्चर्यमेव च॥
द्वारपालौ तदा दृष्टौ कृतकौ विश्वक्मणा॥ ३४.२४ ॥
नारदो मोहितो ह्यासीत्पप्रच्छ च स तौ तदा॥
अहं प्रवेष्टुमिच्छामि शिवदर्शनलालसः॥ ३४.२५ ॥
तस्मादनुज्ञा दातव्या दर्शनार्थं शिवस्य च॥
अश्रृण्वन्तौ तदा दृष्ट्वा नारदो विस्मितोऽभवत्॥ ३४.२६ ॥
ज्ञानदृष्ट्या विलोक्याथ दूष्णींभूतोऽभवत्तदा॥
कृत्रिमौ हि च तौ ज्ञात्वा प्रविष्टो हि महामनाः॥ ३४.२७ ॥
तथान्ये तत्सरूपाश्च दृष्टास्तेन महात्मना॥
ऋषिः प्रणमितस्तैश्च नारदो भगवान्मुxx॥ ३४.२८ ॥
एवमादीन्यनेकानि आश्चर्याणि ददर्श सः॥
ददर्शाथ च सुव्यक्तं त्र्यंबकं गिरिजान्वितम्॥ ३४.२९ ॥
अर्धासनगता साध्वी शंकरस्य महात्मनः॥
तनया गिरिराज्य यया व्याप्तं जगत्त्रयम्॥ ३४.३० ॥
गौरी सितेक्षणा बाला तन्वंगी चारुलोचना॥
यया रूपी कृतः शम्भुरुपादेयः कृतो महान्॥ ३४.३१ ॥
निर्विकानि विकारैश्च बहुभिर्विकलीकृतः॥
अर्द्धागलग्ना सा देवी दृष्टा तेन शिवस्य च॥ ३४.३२ ॥
नारदेन तथा शम्भुर्दृष्टस्त्रिभुवनेश्वरः॥
शुद्धचामी करप्रख्यः सेव्यमानः सुरासुरैः॥ ३४.३३ ॥
शंखेन भोगिवर्येण सेवितं चांघ्रिपंकजम्॥
धृतराष्ट्रेण च तथा तक्षकेण विशेषतः॥
तथा पद्मेन महा शेषेणापि विशेषतः॥ ३४.३४ ॥
अन्यैश्च नागवर्यैश्च सेवितो हि निरंतरंम्॥
वासुकिः कंठलग्नो हि हारभूतो महाप्रभः॥ ३४.३५ ॥
कंबलाश्वतरौ नित्यं कर्णभूषणभूषितौ॥
जटामूलगताश्चान्ये महाफणिवरा ह्यमी॥ ३४.३६ ॥
अनेकजातिसंवीता नानावर्णाश्च पद्मिनः॥
तक्षकः कुलिकः शंखो धृतराष्ट्रो महाप्रभः॥ ३४.३७ ॥
पद्मो दंभः सुदंभश्च करालो भीषणस्तथा॥
एते चान्ये च बहवो नागाश्चाशीविषा ह्यमी॥ ३४.३८ ॥
अंगभूता हरस्या सन्पूज्यस्यास्य जगत्त्रये॥
फणैकया शोभमानाः केचिद्धि पन्नगोत्तमाः॥ ३४.३९ ॥
फणानां द्वितयं केषां त्रितयं च महाप्रभम्॥
चतुष्क पंचकषट्कं सप्तकं चाष्टकं तथा॥ ३४.४० ॥
नवकं दशकं चैव तथैकादशकं त्वथ॥
द्वादशकं चाष्टादशकमेकोनविंशकं तथा॥ ३४.४१ ॥
चत्वारिंशत्फणाः केऽपि पंचाशत्कं च षष्टिकम्॥
सप्ततिश्चाप्यशीतिश्च नवतिश्च तथैव च॥ ३४.४२ ॥
तथा शतसहस्राणि ह्ययुतप्रयुतानि च॥
अर्बुदानि च रत्नानि तथा शङ्खमितानि च॥ ३४.४३ ॥
अनंताश्च फणा येषां ते सर्पाः शिवभूषणाः॥
दृष्टास्तदानीं ते सर्वे नारदेन महात्मना॥ ३४.४४ ॥
विद्यावंतोऽपि ते सर्वे भोगिनोऽपि सुशोभिताः॥
हारभूषणभूतास्ते मणिमंतोऽमितप्रभाः॥ ३४.४५ ॥
अर्द्धचंद्रांकितो यस्य कपर्द्दस्त्वतिसुंदरः॥
चक्षुषा च तृतीयेन भालस्थेन विराजितः॥ ३४.४६ ॥
पंचवक्त्रो महादेवो बाहुभिर्द्दशभिर्वृतः॥
तथा मरकतश्यामकंधरोऽतीवसुंदरम्॥ ३४.४७ ॥
उरो यस्य विशालं च तथोरुजघनं परम्॥
चरणद्वयं च रुद्रस्य शोभितं परमं महत्॥ ३४.४८ ॥
तद्दृष्टं चरणारविंदमतुलं तेजोमयं सुंदरं संध्यारागसुमंगलं च परमं तापापनुत्तिंकरम्॥
तेजोराशिकरं परात्परमिदं लावण्यलीलस्पदं सर्वेषां सुखवृद्धिकारणपरं शंभोः पदं पावनम्॥ ३४.४९ ॥
तथैव दृष्ट्वा परमं पराणां परा सती रूपवती च सुंदरी॥
सौभाग्यलावण्यमहाविभूत्या विराजमाना ह्यतिसुंदरी शुभा॥ ३४.५० ॥
दृष्ट्वा तौ दपती शुद्धौ राजमानौ जगत्त्रये॥
अभिन्नौ भेदमापन्नौ निर्गुणौ गुणिनौ च तौ॥ ३४.५१ ॥
साकारौ च निराकारौ निरातंकौ सुखप्रदौ॥
ववंदे च मुदा तौ स नारदो भगवत्प्रियः॥
उत्थायोत्थाय च तदा तुष्टाव जगदीश्वरौ॥ ३४.५२ ॥
॥नारद उवाच॥
नतोस्म्यहं देववरौ युवाभ्यां परात्पराभ्यां कलया तथापि॥
दृष्टौ मया दंपती राजमानौ यौ वीजभूतौ सचराचरस्य ॥ ३४.५३ ॥
पितरौ सर्वललोकस्य ज्ञातौ चाद्यैव तत्त्वतः॥
मया नास्त्यत्र संदेहो भवतोः कृपया तथा॥ ३४.५४ ॥
एवं स्तुतौ तदा तेन नारदेन महात्मना॥
तुतोष भगवाञ्छंभुः पार्वत्या सहितस्तदा॥ ३४.५५ ॥
॥महादेव उवाच॥
सुखेन स्थीयते ब्रह्मन्किं कार्यं करवाणि ते॥
तच्छ्रुत्वा वचनं शंभोर्नारदो वाक्यमब्रवीत्॥ ३४.५६ ॥
दर्शनं जातमद्यैव तेन तुष्टोऽस्म्यहं विभो॥
दर्शनात्सर्वमेवाद्य शंभो मम न संशयः॥ ३४.५७ ॥
क्रीडनार्थमिहायातः कैलासं पर्वतोत्तमम्॥
हृदिस्थो हि सदा नॄणामास्थितो भगवन्प्रभो॥ ३४.५८ ॥
तथापि दर्शनं भाव्यं सततं प्राणिनामिह॥ ३४.५९ ॥
॥गिरिजोवाच॥
का क्रीडा हि त्वया भाव्या वद शीघ्रं ममाग्रतः॥
तस्यास्तद्वचनं श्रुत्वा उवाच प्रहसन्निव॥ ३४.६० ॥
द्यूतक्रीडा महादेव दृश्यते विविधात्र च॥
भवेद्द्वाभ्यां च द्यूते हि रमणाच् महत्सुखम्॥ ३४.६१ ॥
इत्येवमुक्त्वो परतं सती भृशमुवाच वाक्यं कुपिता ऋषिं प्रति॥
कथं विजानासि परं प्रसिद्धं द्यूतं च दुष्टोदरकं मनस्विनाम्॥ ३४.६२ ॥
त्वं ब्रह्मपुत्रोऽसि मुनिर्मनीषिणां शास्ता हि वाक्यं विविधैः प्रसिद्धैः॥
चरिष्यमाणो भुवनत्रये न हि त्वदन्यो ह्यपरो मनस्वी॥ ३४.६३ ॥
एवमुक्तस्तदा देव्या नारदो देवदर्शनः॥
उवाच वाक्यं प्रहसन्गिरिजां शिवसन्निधौ॥ ३४.६४ ॥
॥नारद उवाच॥
द्यूतं न जानामि न चाश्रयामि ह्यहं तपस्वी शिवकिंकरश्च कथं च मां पृच्छसि राजकन्यके योगीश्वराणां परमं पवित्रे॥ ३४.६५ ॥
निशम्य वाक्यं गिरिजा सती तदा ह्युवाच वाक्यं च विहस्य तं प्रति॥
जानासि सर्वं च बटोऽद्य पश्य मे द्यूतं महेशेन करोमि तेऽग्रतः॥ ३४.६६ ॥
इत्येवमुक्त्वा गिरिराजकन्यका जग्राह चाक्षान्भुवनैकसुंदरी॥
क्रीडां चकाराथ महर्षिसाक्ष्यके तत्रास्थिता सा हि भवेन संयुता॥ ३४.६७ ॥
तौ दंपती क्रीडया सज्जमानौ दृष्टौ तदा ऋषिणा नारदेन॥
सविस्मयोत्फुल्लमना मनस्वी विलोकमानोऽतितरां तुतोष॥ ३४.६८ ॥
सखीजनेन संवीता तदा द्यूतपरा सती॥
शिवेन सह संगत्य च्छलाद्द्यूतमकारयत्॥ ३४.६९ ॥
स पणं च तदा चक्रे छलेन महता वृतः॥
जिता भवानी च तदा शिवेन प्रहसन्निव॥ ३४.७० ॥
नारदोऽस्याः शिवेनाथ उपहासकरोऽभवत्॥
निशम्य हारितं द्यूतमुपहासं निशम्य च॥ ३४.७१ ॥
नारदस्य दुरुक्तैश्च कुपिता पार्वती भृशम्॥
उवाच त्वरिता चैव दत्त्वा चैवार्द्धचंद्रकम्॥ ३४.७२ ॥
तथा शिरोमणी चैव तरले च मनोहरे॥
मुखं सुखोभनं चैव तथा कुपितसुंदरम्॥
दृष्टं हरेण च पुनः पुनर्द्यूतमकारयत्॥ ३४.७३ ॥
तथा गिरिजया प्रोक्तः शंकरो लोकशंकरः॥
हारितं च मया दत्तः पण एव च नान्यथा॥ ३४.७४ ॥
क्रियते च त्वया शंभो कः पणो हि तदुच्यताम्॥
ततः प्रहस्य चोवाच पार्वतीं च त्रिलोचनः॥ ३४.७५ ॥
मया पणोऽयं क्रियते भवानि त्वदर्थमेतच्च विभूषणं महत्॥
सा चंद्रलेखा हि महान्हि हारस्तथैव कर्णोत्पलभूषणद्वयम्॥ ३४.७६ ॥
इदमेव त्वया तन्वि मां जित्वा गृह्यतां सुखम्॥
ततः प्रवर्तितं द्यूतं शंकरेण सहैव च॥ ३४.७७ ॥
एवं विक्रीडमानौ तावक्षविद्याविशारदौ॥
तदा जितो भवान्याथ शंकरो बहुभूषणः॥ ३४.७८ ॥
प्रहस्य गौरी प्रोवाच शंकरं त्वतिसुंदरी॥
हारितं च पणं देहि मम चाद्यैव शंकर॥ ३४.७९ ॥
तदा महेशः प्रहसन्सत्यं वाक्यमुवाच ह॥
न जितोऽहं त्वया तन्वि तत्त्वतो हि विमश्यताम्॥ ३४.८० ॥
अजेयोऽहं प्राणिनां सर्वथैव तस्मान्न वाच्यं तु वोच हि साध्वि॥
द्यूतं कुरुष्वाद्य यथेष्टमेव जेष्यामि चाहंच पुनः प्रपश्या॥ ३४.८१ ॥
तदाम्बिकाह स्वपतिं महेशं मया जितोऽस्यद्य न विस्मयोऽत्र॥
एवमुक्त्वा तदा शंभुं करे गृह्य वरानना॥
जितोऽसि त्वं न संदेहस्त्वं न जानासि शंकर॥ ३४.८२ ॥
एवं प्रहस्य रुचिरं गिरिजा तु शंभुं सा प्रेक्ष्या नर्मवचसा स तयाभिभूतः॥
देहीति म सकलमंगलमंगलेश यद्धारितं स्मररिपो वचसानुमोदितम्॥ ३४.८३ ॥
॥शिव उवाच॥
अजेयोऽहं विशालाक्षि तव नास्त्यत्र संशयः॥
अहंकारेण यत्प्रोक्तं तत्त्वतस्तद्विमृश्यताम्॥ ३४.८४ ॥
तस्य तद्वचनं श्रुत्वा प्रोवाच च विहस्य सा॥
अजेयो हि महादेवः सर्वेषामपि वै प्रभो॥ ३४.८५ ॥
मयैकया जितोऽसि त्वं द्यूतेन विमलेन हि॥
न जानासि च किंचिच्च कार्याकार्यं विवक्षितम्॥॥ ३४.८६ ॥
एवं विवदमानौ तौ दंपती परमेश्वरौ॥
नारदः प्रहसन्वाक्यमुवाच ऋषिसत्तमः॥ ३४.८७ ॥
॥नारद उवाच॥
आकर्णयाऽऽकर्णविशालनेत्रे वाक्यं तदेकं जगदेकमंगलम्॥
असौ महाभाग्यवतां वरेण्यस्त्वया जितः किं च मृषा ब्रवीषि॥ ३४.८८ ॥
अजितो हि महादेवो देवानां परमो गुरुः॥
अरूपोऽयं सुरूपोयं रूपातीतोऽयमुच्यते॥ ३४.८९ ॥
एक एव परं ज्योतिस्तेषामपि च यन्महः॥
त्रैलोक्यनाथो विश्वात्मा शंकरो लोकशंकरः॥ ३४.९० ॥
कथं त्वया जितो देवि ह्यजेयो भुवनत्रये॥
शिवमेनं न जानासि स्त्रीभावाच्च वरानने॥ ३४.९१ ॥
नारदेनैवमुक्ता सा कुपिता पार्वती भृशम्॥
बभाषे मत्सरग्रस्ता साक्षेपं वचनं सती॥ ३४.९२ ॥
॥पार्वत्युवाच॥
चापल्याच्च न वक्त्व्यं ब्रह्मपुत्र नमोस्तु ते ॥
तव भीतास्मि भद्रं ते देवर्षे मौनमावह॥ ३४.९३ ॥
कथं शिवो हि देवर्ष उक्तोऽतो हि त्वया बहु॥
मत्प्रसादा स्छवो जात ईश्वरो यो हि पठ्यते॥ ३४.९४ ॥
मया लब्धप्रतिष्ठोऽयं जातो नास्त्यत्र संशयः॥ ३४.९५ ॥
एवं बहुविधं श्रुत्वा नारदो मौनमाश्रयत्॥
पस्थितं च तद्दृष्ट्वा भृंगी वाक्यमथाब्रवीत्॥ ३४.९६ ॥
॥भृंग्युवाच॥
त्वया बहु न वक्तव्यं पुनरेव च भामिनि॥
अजेयो निर्विकारो हि स्वामी मम सुमध्यमे॥ ३४.९७ ॥
स्त्रीभावयुक्तासि वरानने त्वं देवं न जानासि परं पराणाम्॥
कामं पुरस्कृत्य पुरा भवानि समागतास्येव महेशमुग्रम॥ ३४.९८ ॥
यथा कृतं तेन पिनाकिना पुरा एतत्स्मृतं किं सुभगे वदस्व नः॥
कृतो ह्यनंगो हि तदा ह्यनेन दग्धं वनं तस्य गिरेः पितुस्ते॥ ३४.९९ ॥
xxxवात्त्वयाराधित एव एष शिवः पराणां परमः परात्मा॥ ३४.१०० ॥
भृंगिणेत्येवमुक्ता सा ह्युवाच किपिता भृशम्॥
श्रृण्वतो हि महेशस्य वाक्यं पृष्टा च भृंगिणम्॥ ३४.१०१ ॥
॥पार्वत्युवाच॥
हं भृंगिन्पक्षपातित्वाद्यदुक्तं वचनं मम॥
शिवप्रियोऽसि रे मन्द भेदबुद्धिरतो ह्यसि॥ ३४.१०२ ॥
अहं शिवात्मिका मूढ शिवो नित्यं मयि स्थितः॥
कथं शिवाभ्यां भिन्नत्वं त्वयोक्तं वाग्बलेन हि॥ ३४.१०३ ॥
श्रुतं च वाक्यं शुभदं पार्वत्या भृंगिणा तदा॥
उवाच पार्वतीं भृंगी रुषितः शिवसन्निधौ॥ ३४.१०४ ॥
पुतुर्यज्ञे च दक्षस्य शिवनिंदा त्वया श्रुता॥
अप्रियक्षवणात्सद्यस्त्वया त्यक्तं कलेवरम्॥ ३४.१०५ ॥
तत्क्षणादेव नन्वंगि ह्यधुना किं कृतं त्वया॥
संभ्रमात्किं न जानासि शिवनिंदकमेव च॥ ३४.१०६
कथं वा पर्वतश्रेष्ठाज्जाता से वरवर्णिनि॥
कथं वा तपसोग्रेण संतप्तासि सुमध्यमे॥ ३४.१०७ ॥
सप्रेमा च शिवे भक्तिस्तव नास्तीह संप्रातम्॥
शिवप्रियासि तन्वंगि तस्नादेवं ब्रवीमि ते॥ ३४.१०८ ॥
शिवात्परतरं नान्यत्त्रिषु लोकेषु विद्यते॥
शिवे भक्तिस्त्वया कार्या सप्रेमा वरवर्णिनि॥ ३४.१०९ ॥
भक्तासि त्वं महादेवि महाभाग्यवतां वरे॥
संसेव्यतां प्रयत्नेन तपसोपार्जितस्त्वया॥ ३४.११० ॥
शिवो वरेण्यः सर्वेशो नान्यथा कर्तुमर्हसि॥
भृंगिणो वचनं श्रुत्वा गिरिजा तमुवाचह॥ ३४.१११ ॥
॥गिरिजोवाच॥
रे भृंगिन्मौनमालंब्य स्थिरो भवाथ वा व्रज॥
वाच्यावाच्यं न जानासि किं ब्रवीषि पिशाचवत्॥ ३४.११२ ॥
तपसा केन चानीतः कया चापि शिवो ह्ययम्॥
काहं कोऽसौ त्वया ज्ञातो भेदबुद्ध्या ब्रवीषि मे॥ ३४.११३ ॥
कोऽसि त्वं केन युक्तोऽसि कस्माच्च बहु भाषसे॥
शापं तव प्रदास्यामि शिवः किं कुरुतेऽधुना॥ ३४.११४ ॥
भृंगिणोक्ता तिरस्कृत्य तदा शापं ददौ सती॥
निमामो भव रे मन्द रे भृंगिञ्छिंकरप्रिय॥ ३४.११५ ॥
एवमुक्त्वा तदा देवी पार्वती शंकरप्रिया॥
अथ कोपेन संयुक्ता पार्वती शंकरं तदा॥ ३४.११६ ॥
कर गृह्य च तन्वंगी भुजंगं वासुकिं तथा॥
उदतारयत्कंठात्सा तथान्यानि बहूनि च॥ ३४.११७ ॥
शंभोर्जग्राह कुपिता भूषणानि त्वरान्विता॥
हृत चंद्रकला तस्य गजाजिनमनुत्तमम्॥ ३४.११८ ॥
कंबलाश्वतरौ नागौ महेशकृतभूषणौ॥
हृतौ तया महादेव्या छलोक्त्यां च प्रहस्य वै॥ ३४.११९ ॥
कौपीनाच्छा दनं तस्या च्छलोक्त्या च प्रहस्य वै॥
तदा गणाश्च सख्यश्च त्रपया पीडिता भवन्॥ ३४.१२० ॥
पराङ्गमुखाश्च संजाता भृङ्गी चैव महातपाः॥
तथा चण्डो हि मुण्डश्च महालोमा महोदरः॥ ३४.१२१ ॥
एते चान्ये च बहवो गणास्ते दुःखिनोऽभवन्॥
तांश्च दृष्ट्वा तथाभूतन्महेशो लज्जितोऽभवत्॥ ३४.१२२ ॥
उवाच वाक्यं रुषितः पार्वतीं प्रति शंकरः॥ ३४.१२३ ॥
॥रुद्र उवाच॥
उपहासं प्रकुर्वंति सर्वे हि ऋषयो भृशम्॥
तथा ब्रह्मा च विष्णुश्च तथा चेन्द्रादयो ह्यमी॥ ३४.१२४ ॥
उपहासपराः सर्वे किं त्वयाद्य कृतं शुभे॥
कुले जातासि तन्वंगि कथमेवं करिष्यसि॥ ३४.१२५ ॥
त्वया जितो ह्यहं सुभ्रु यदि जानासि तत्त्वतः॥
तर्ह्येवं कुरु मे देहि कौपीनाच्छादनं परम्॥
देहि कौपी नामात्रं मे नान्यथा कर्तुमर्हसि॥ ३४.१२६ ॥
एवमुक्ता सती तेन शंभुना योगिना तदा॥
प्रहस्य वाक्यं प्रोवाच पार्वती रुचिरानना॥ ३४.१२७ ॥
किं कौपीनेन ते कार्यं मुनिना भावितात्मना॥
दिगम्बरेणैव तदा कृतं दारुवनं तथा॥ ३४.१२८ ॥
भिक्षाटनमिषेणैव ऋषिपत्न्यो विरोहिताः॥
गच्छ तस्ते तदा शंभो पूजनं तैर्महत्कृतम्॥ ३४.१२९ ॥
कौपीनं पतितं तत्र मुनिभिर्नान्यथोदितम्॥
तस्मात्त्वया प्रहातव्यं द्यूतोहारितमेव तत्॥ ३४.१३० ॥
तच्छ्रुत्वा कुपितो रुद्रः पार्वतीं परमेश्वरः॥
निरीक्षमाणोऽतिरुषा तृतीयेनैव चक्षुषा॥ ३४.१३१ ॥
कुपितं शंकरं दृष्ट्वा सर्व देवगणास्तदा॥
भयेन महताविष्टास्तथा गणकुमारकाः॥ ३४.१३२ ॥
ऊचुः सर्वे शनैस्तत्र शंकितेन परस्परम्॥
अद्यायं कुपितो रुद्रो गिरिजां प्रति संप्रति॥ ३४.१३३ ॥
यथा हि मदनो दग्धस्तथेयं नान्यथा वचः॥
एवं मीमांसमानास्ते गणा देवर्षयस्तदा॥ ३४.१३४ ॥
विलोकितास्तया देव्या सर्वे सौभाग्यमुद्रया॥
उवाच प्रहसन्नेव सती सत्पुरुषं तदा॥ ३४.१३५ ॥
किमालोकपरो भूत्वा चक्षुषा परमेण हि॥
नाहं कालो न कामोऽहं नाहं दभस्य वै मखः॥ ३४.१३६ ॥
त्रिपुरो नैव वै शंभो नांधको वृषभध्वज॥
वीक्षितेनैव किं तेन तव चाद्य भविष्यति॥
वृथैव त्वं विरूपाक्षो जातोऽसि मम चाग्रतः॥ ३४.१३७ ॥
एवमादीन्यनेकानि हयुवाच परमेश्वरी॥
निशम्य देवो वाक्यानि गमनाय मनो दधे॥ ३४.१३८ ॥
वनमेव वरं चाद्य विजनं परमार्थतः॥
एकाकी यतचित्तात्मा त्यक्तसर्वपरिग्रहः॥ ३४.१३९ ॥
स सुखी परमार्थज्ञः स विद्वान्स च पंडितः॥
येन मुक्तौ कामरागौ स मुक्तः स सुखी भवेत्॥ ३४.१४० ॥
एवं विमृश्य च तदा गिरिजां विहाय श्रीशंकरः परमकारुणिकस्तदानीम्॥
यातः प्रियाविरहितो वनमद्भुतं च सिद्धाटवीं परमहंसयुतां तथैव॥ ३४.१४१ ॥
निर्गतं शंकरं दृष्ट्वा सर्वे कैलासवासिनः॥
निर्ययुश्च गणाः सर्वे वीरभद्रादयोऽनु तम्॥ ३४.१४२ ॥
छत्रं भृंगी समादाय जगाम तस्य पृष्ठतः॥
चामरे वीज्यमाने च गंगायमुनसन्निभे॥ ३४.१४३ ॥
ताभ्यां युक्तस्तदा नंदी पृष्ठतोऽन्वगमत्सुधीः॥
वृषभों ह्यग्रतो भूत्वा पुष्पकेण विराजितः॥ ३४.१४४ ॥
शोभमानो महादेव एभिः सर्वैः सुशोभनैः॥
अंतःपुरगता देवी पार्वती सा हि दुर्मनाः॥ ३४.१४५ ॥
सखीभिर्बहुभिस्तत्र तथान्याभिः सुसंवृता॥
गिरिजा चिंतयामास मनसा परमेश्वरम्॥ ३४.१४६ ॥
ततो दूरं गतः शंभुर्विसृज्य च गणांस्तदा॥
गणेशं च कुमारं च वीरभद्रं तथाऽपरान्॥ ३४.१४७ ॥
भृंगिणं नंदिनं चंडं सोमनंदिनमेव च॥
एतानन्यांश्च सर्वांश्च कैलासपुरवासिनः॥ ३४.१४८ ॥
विसृज्य च महादेव एक एव महातपाः॥
गतो दूरं वनस्यांते तथा सिद्धवटं शिवः॥ ३४.१४९ ॥
काश्मीररत्नोपलसिद्धरत्नवैदूर्यचित्रं सुधया परिष्कृतम्॥
दिव्यासनं तस्य च कल्पितं भुवा तत्रास्थितो योगपतिर्महेशः॥ ३४.१५० ॥
पद्मासने चोपविष्टो महेशो योगवित्तमः॥
केवलं चात्मनात्मानं दध्यौ मीलितलोचनः॥ ३४.१५१ ॥
शुशुभे स महादेवः समाधौ चंद्रशेखरः॥
योगपट्टः कृतस्तेन शेषस्य च महात्मनः॥
वासुकिः सर्पराजश्च कटिबद्धः कृतो महान्॥ ३४.१५२ ॥
आत्मानमात्मात्मतया च संस्तुतो वेदांतवेद्यो न हि विश्वचेष्टितः॥
एको ह्यनेको हि दुरंतपारस्तथा ह्यर्क्यो निजबोधरूपः॥
स्थितस्तदानीं परमं पराणां निरीक्षमाणो भुवनैकभर्ता॥ ३४.१५३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवपार्वतीद्यूतप्रसंगेन पार्वतीहारितसर्वस्वस्य शिवस्य कैलासं विहाय तपोवनगमनवर्णनंनाम चतुस्त्रिंशोऽध्यायः॥ ३४ ॥ छ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · केदारखण्डः — Adhyāya 35
॥लोमश उवाच॥
वनं गते महादेवे गिरिजा विरहातुरा॥
सुखं न लेभे तन्वंगी हर्म्येष्वायतनेषु वा॥ ३५.१ ॥
चिंतयंती शिवंतन्वी सर्वभावेन शोभना॥
चिंतमानां शिवां ज्ञात्वा ह्युवाच विजया सखी॥ ३५.२ ॥
॥विजयोवाच॥
तपसा महता चैव शिवं प्राप्तासि शोभने॥
मृषशा द्यूतं कृतं तेन शंकरेण तपस्विना॥ ३५.३ ॥
द्यूते हि वहवो दोषा न श्रुताः किं त्वयाऽनघे॥
क्षमा पय शिवं तन्वि त्वरेणैव विचक्षणे॥ ३५.४ ॥
अस्माभिः सहिता देवि गच्छगच्छ वरानने॥ ३५.५ ॥
यावच्छंभुर्दूरतो नाभिगच्छेत्तावद्गत्वा शंकरं क्षामयस्व॥
नो चेतन्वि क्षामयेथाः शिवं त्वं दुःखं पश्चात्ते भविष्यत्यवश्यम्॥ ३५.६ ॥
निशम्य वाक्य विजयाप्रयुक्तं प्रहस्यामाना समधीरचेताः॥
उवाच वाक्यं विजयां सखीं च आश्चर्यभूतं परमार्थयुक्तम्॥ ३५.७ ॥
मया जितोऽसौ निरपत्रपश्च पुरा वृतो वै परया विभूत्या॥
किंचिच्च कृत्यं मम नास्ति सद्यो मया विनासौ च विरूप आस्थितः॥ ३५.८ ॥
रूपीकृतो मया देवो महेशो नान्यथा वद॥
मया तेन वियोगश्च संयोगो नैव जायते॥ ३५.९ ॥
साकारो हि निराकारो महेशो हि मया कृतः॥ ३५.१० ॥
कृतं मया विश्वमिदं समग्रं चराचरं देववरैः समेतम्॥
क्रीडार्थमस्योद्भववृत्तिहेतुभिश्चिक्रीडितं मे विजये प्रपश्य॥ ३५.११ ॥
एवमुक्त्वा तदा देवी गिरिजा सर्वमंगला॥
शबरीरूपमास्थाय गंतुकामा महेश्वरम्॥ ३५.१२ ॥
श्यामा तन्वी शिखरदशना बिंबबिंबाधरोष्ठी सुग्रीवाढ्या कुचभरनता गिरिजा स्निग्धकेशी॥
मध्ये क्षामा पृथुकटितटा हेमरंभोरुगौरी पल्लीयुक्ता वरवलयिनी बर्हिबर्हावतंसा॥ ३५.१३ ॥
पाणौ मृणालसदृशं दधती च चापं पृष्ठे लसत्कृतककेतकिबाणकोशम्॥
सा तं निरीशमलोकयति स्म तत्र संसेविता सुवदना बहुभिः सखीभिः॥ ३५.१४ ॥
भृंगीनादेन महता नादयंती जगत्त्रयम्॥
गिरिजा मन्मथं सद्यो जीवयंती पुनःपुनः॥ ३५.१५ ॥
सकामना राजहंसा बभूवुस्तत्क्षणादपि॥
द्विरेफा बर्हिणश्चैव सर्वे ते हृच्छयान्विताः॥ ३५ १६ ॥
एकाकी संस्थितो यत्र यमाधिस्थो महेश्वरः॥
दृष्टस्ततस्तया देव्या भृंगीनादेन मोहितः॥ ३५.१७ ॥
प्रबद्धो हि महादेवो निरीक्ष्य शबरीं तदा॥
समाधेरुत्थितः सद्यो महेशो मदनान्वितः॥ ३५.१८ ॥
यावत्करे गृह्यमाणो गिरिजां स समीपगः॥
तावत्तस्य पुरः सद्यस्तिरोधानं गता सती॥ ३५.१९ ॥
तद्दृष्ट्वा तत्क्षणादेव देवो भ्रांतिविनाशनः॥
भ्रममाणस्तदा शंभुर्नापश्यदसितेक्षणाम्॥ ३५.२० ॥
विरहेण समायुक्तो हृच्छयेन समन्वितः॥
मदनारिस्तदा शंभुर्ज्ञानरूपो निरंतरम्॥ ३५.२१ ॥
निर्मोहो मोहमापन्नो ददर्श गिरिजां पुनः॥
उवाच वाक्यं शबरीं प्रस्ताव सदृशं महत्॥ ३५.२२ ॥
॥शिव उवाच॥
वाक्यं मे श्रृणु तन्वंगि श्रुत्वा तत्कर्तुमर्हसि॥
कासि कस्यासि तन्वंगि किमर्थमटनं वने॥
तत्कथ्यतां महाभागे याथातथ्यं सुमध्यमे॥ ३५.२३ ॥
॥शिवोवाच॥
पतिमन्वेषयिष्यामि सर्वज्ञं सकलार्थदम्॥
स्वतंत्रं निर्विकारं च जगतामीश्वरं वरम्॥ ३५.२४ ॥
इत्युक्तः प्रत्युवाचेदं गिरिजां वृषभध्वजः॥
अहं तवोचितो भद्रे पतिर्नान्यो हि भामिनि॥ ३५.२५ ॥
विमृश्यतां वरारोहे तत्त्वतो हि वरानने॥
वचो निशम्य रुद्रस्य स्मितपूर्वमभाषत॥ ३५.२६ ॥
मयार्थितो महाभाग पतिस्त्वं नान्यथा वद॥
किं तु वक्ष्यामि भद्रं ते निर्गुणोऽसि परंतपः॥ ३५.२७ ॥
यया पुरा वृतोऽसि त्वं तपसा च परेण हि॥
परित्यक्ता त्वयारण्ये क्षणमात्रेण भामिनी॥ ३५.२८ ॥
दुराराध्योऽसि सततं सर्वेषां प्राणिनामपि॥
तस्मान्न वाच्यं हि पुनर्यदुक्तं ते ममाग्रतः॥ ३५.२९ ॥
शबर्या वचनं श्रुत्वा प्रत्युवाच वृषध्वजः॥
मैवं वद विशालाक्षि न त्यक्ता सा तपस्विनी॥
यदि त्यक्ता मया तन्वि किं वक्तुमिह पार्यते॥ ३५.३० ॥
एवं ज्ञात्वा विशालाक्षि कृपणं कृपणप्रियम्॥
तस्मात्त्वया हि कर्तव्यं वचनं मे सुमध्यमे॥ ३५.३१ ॥
एवमभ्यर्थिता तेन बहुधा शूलपाणिना॥
प्रहस्य गिरिजा प्राह उपहासपरं वच॥ ३५.३२ ॥
तपोधनोऽसि योगीश विरक्तोऽसि निरंजनः॥
आत्मारामो हि निर्द्वंद्वो मदनो येन घातितः॥ ३५.३३ ॥
स त्वं साक्षाद्विरूपाक्षो मया दृष्टोसि चाद्य वै॥
अशक्यो हि मया प्राप्तुं सर्वेषां दुरतिक्रमः॥
तस्मात्त्वया न वक्तव्यं यदुक्तं च पुरा मम॥ ३५.३४ ॥
तस्यास्तद्वचनं श्रुत्वा प्रोवाच मदनांतकः॥
मम भार्या भव त्वं हि नान्यथा कर्तुमर्हसि॥ ३५.३५ ॥
इत्युक्त्वा तां करेऽगृह्णाच्छबरीं मदनातुरः॥
उवाच तं स्मयंती सा मुंचमुंचेति सादरम्॥ ३५.३६ ॥
नोचितं भगवान्कर्तुं तापसेन बलादिदम्॥
याचयस्व पितुर्मे त्वं नान्यथाभिभविष्यसि॥ ३५.३७ ॥
॥महादेव उवाच॥
पितरं कथयाशु त्वं स्थितः कुत्र शुभानने॥
द्रक्ष्यामि तं विशालाक्षि प्रणिपातपुरःसरम्॥ ३५.३८ ॥
एतदुक्तं तदा तेन निशम्यासितनेत्रया॥
आनीतो हि तया तन्व्या पितरं वृषभध्वजः॥ ३५.३९ ॥
स्थितं कैलासशिखरे हिमवंतं नगोत्तमम्॥
अहिभिर्बहुभिश्चैव संवृतं च महाप्रभम्॥ ३५.४० ॥
द्वारि स्थितं तया देव्या दर्शितं शंकरस्य च॥
असौ मम पिता देव याचस्व विगतत्रपः॥
ददाति मां न संदेहस्तपस्विन्मा विलंबितम्॥ ३५.४१ ॥
तथेति मत्वा सहसा प्रणम्य हिमालयं वाक्यमिदं बभाषे॥
प्रयच्छ तां चाद्य गिरीशवर्य ह्यार्ताय कन्यां सुभगां महामते॥ ३५.४२ ॥
कृपणं वाक्यमाकर्ण्य समुत्थाय हिमालयः॥
महेशं च समादाय ह्युवाच गिरिराट् स्वयम्॥ ३५.४३ ॥
किं जल्पसि हि भो देव तावयुक्तं च सांप्रतम्॥
त्वं दाता त्रिषु लोकेषु त्वं स्वामी जगतां विभो॥ ३५.४४ ॥
त्वया ततमिदं विश्वं जगदेतच्चराचरम्॥
एवं स्तुतिपरोऽभूच्च हिमालयागिरिर्महान्॥
आगतो नारदस्तत्र ऋषिभिः परिवारितः॥ ३५.४५ ॥
उवाच प्रहसन्वाक्यं शूलपाणे नमः प्रभो॥
हे शंभो श्रृणु मे वाक्यं तत्त्वसारमयं परम्॥ ३५.४६ ॥
योषिद्भिः संगति पुंसां विडंबायोपकल्पते॥
त्वं स्वामी जगतां नाथः पराणां परमः परः॥
विमृश्य सर्वं देवेश यथावद्वक्तुमर्हसि॥ ३५.४७ ॥
एवं प्रबोधितस्तेन नारदेन महात्मना॥
प्रबोधमगमच्छंभुर्जहास परमेश्वरः॥ ३५.४८ ॥
॥शिव उवाच॥
सत्यमुक्तं त्वया चात्र नान्यथा नारदक्वचित्॥
योषित्संगतिमात्रेण नृणां पतनमेव च॥ ३५.४९ ॥
भविष्यति न संदेहो नान्यथा वचनं तव॥
अनया मोहितोऽद्याहमानीतो गंधमादनम्॥ ३५.५० ॥
पिशाचवत्कृतमिदं चरितं परमाद्भुतम्॥ ३५.५१ ॥
तस्मान्न तिष्ठामि गिरेः समीपे व्रजामि चाद्यैव वनांतरं पुनः॥
इत्येवमुक्त्वा स जगाम मार्गं दुरत्ययं योगेनामप्यगम्यम्॥ ३५.५२ ॥
निरालंबं स विज्ञाय नारदो वाक्यमब्रवीत्॥
गिरिजां च गिरींद्रं च पार्षदान्प्रति सत्वरम्॥ ३५.५३ ॥
वंदनीयश्च स्तुत्यश्च क्षाम्यतां परमार्थतः॥
महेशोऽयं जगन्नाथस्त्रिपुरारिर्महायशाः॥ ३५.५४ ॥
एतच्छ्रुत्वा तु वचनं नारदस्य मुखोद्गतम्॥
गिरिजां पुरतः कृत्वा गिरयो हि महाप्रभाः॥ ३५.५५ ॥
दण्डवत्पतिताः सर्वे शंकरं लोकशंकरम्॥
तुष्टुवुः प्रणताः सर्वे प्रमथा गुह्यकादयः॥ ३५.५६ ॥
स्तूयमानो हि भगवानागतो गंधमादनम्॥
अंगिरसा हि सर्वेशो ह्यभिषिक्तो महात्मभिः॥ ३५.५७ ॥
तदा दुन्दुभयो नेदुर्वादित्राणि बहूनि च॥
इन्द्रादयः सुराः सर्वे पुष्पवर्षं ववर्षिरे॥ ३५.५८ ॥
ब्रह्मादिभिः सुरगणैर्बहुभिः परीतो योगीश्वरो गिरिजया सह विश्ववंद्यः॥
अभ्यर्थितः परममंगल मंगलैश्च दिव्यासनोपरि रराज महाविभूत्या॥ ३५.५९ ॥
एवंविधान्यनेकानि चरितानि महात्मनः॥
महेशस्य च भो विप्राः पापहारीणि श्रृण्वताम्॥ ३५.६० ॥
यानियानीह रुद्रस्य चरितानि महांत्यपि॥
श्रुतानि परमाण्येव भूयः किं कथयामि वः॥ ३५.६१ ॥
॥ऋषय ऊचुः॥
एव मुक्तं त्वया सूत चरितं शंकरस्य च॥
अनेन चरितेनैव संतृप्ताः स्मो न संशयः॥ ३५.६२ ॥
॥सूत उवाच॥
व्यासप्रसादाच्छ्रुतमस्ति सर्वं मया ततं शंकररूपमद्भुतम्॥
सुविस्तृतं चाद्भुतवेदगर्भं ज्ञानात्मकं परमं चेदमुक्तम्॥ ३५.६३ ॥
श्रद्धया परयोपेताः श्रावयंति शिवप्रियम्॥
श्रृण्वंति चैव ये भक्त्या शंभेर्माहात्म्यमद्भुतम्॥
शिवशास्त्रमिदं प्रीत्या ते यांति मरमां गतिम्॥ ३५.६४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे पार्वत्या शबरीरूपेण शिवस्य गन्धमादनपर्वतं प्रत्यानयनपूर्वकं बृहस्पतिकृतशिवराज्याभिषेकवर्णनं नाम पञ्चत्रिंशोऽध्यायः॥ ३५ ॥ छ ॥
॥ इति श्रीस्कान्दमहापुराणे प्रथमे माहेश्वरखण्डे प्रथमः केदारखण्डः समाप्तः॥ १ ॥
वर्गः:केदारखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 1
॥अथ श्रीस्कांदे महापुराणे प्रथमे माहेश्वरखण्डे कौमारिकाखण्डः प्रारभ्यते॥ २ ॥
श्रीगणेशाय नमः॥
ॐ नमो बृहस्पतये॥
नमतस्मै ब्रह्मणे॥
विष्णवे नमः॥
॥श्रीमुनय ऊचुः॥
दक्षिणार्णवतीरेषु यानि तीर्थानि पंच च॥
तानि ब्रूहि विशालाक्ष वर्णयंत्यति तानि च॥ १.१ ॥
सर्वतीर्थफलं येषु नारदाद्य वदंति च॥
तेषां चरितमाहात्म्यं श्रोतुमिच्छामहे वयम्॥ १.२ ॥
॥उग्रश्रवा उवाच॥
श्रृणुध्वचत्यद्भुतपुण्यसत्कथं कुमारनाथस्य महाप्रभावम्॥
द्वैपायनो यन्मम चाह पूर्वं हर्षाबुरोमोद्गमचर्चितांगः॥ १.३ ॥
कुमारगीता गाथात्र श्रूयतां मुनिसत्तमाः॥
या सर्वदेवैर्मुनिभिः पितृभिश्च प्रपूजिता॥ १.४ ॥
मध्वाचारस्तं भतीर्थं यो निषेवेत मानवः॥
नियतं तस्य वासः स्याद्ब्रह्मलोके यथा मम॥ १.५ ॥
ब्रह्मलोकाद्विष्णुलोकस्तस्मादपि शिवस्य च॥
पुत्राप्रियत्वात्तस्यापि गुहलोको महत्तमः॥ १.६ ॥
अत्राश्चर्यकथा या च फाल्गुनस्य पुरेरिता॥
नारदेन मुनिश्रेष्ठास्तां वो वक्ष्यामि विस्तरात्॥ १.७ ॥
पुरा निमित्ते कस्मिंश्चित्करीटी मणिकूटतः॥
समुद्रे दक्षिणेऽभ्यागात्स्नातुं तीर्थानि पंच च॥ १.८ ॥
वर्जयंति सदा यानि भयात्तीर्थानि तापसाः॥
कुमारेशस्य पूर्वं च तीर्थमस्ति मुनेः प्रियम्॥ १.९ ॥
स्तंभेशस्य द्वितीयं च सौभद्रस्य मुनेः प्रियम्॥
बर्करेश्वरमन्यच्च पौलोमीप्रियमुत्तमम्॥ १.१० ॥
चतुर्थं च महाकालं करंधम नृपप्रिययम्॥
भरद्वाजस्य तीर्थं च सिद्धेशाख्यं हि पंचमम्॥ १.११ ॥
एतानि पंच तीर्थानि ददर्श कुरुपुंगवः॥
तपस्विभिर्वर्जितानि महापुण्यानि तानि च॥ १.१२ ॥
दृष्ट्वा पार्श्वे नारदीयानपृच्छत महामुनीन्॥
तीर्थानीमानि रम्याणि प्रभावाद्भुतवंति च॥ १.१३ ॥
किमर्थं ब्रूत वर्ज्यंते सदैव ब्रह्मवादिभिः॥
॥तापसा ऊचुः॥
ग्राहः पंच वसंत्येषु हरंति च तपोधनान्॥ १.१४ ॥
अत एतानि वर्ज्यंते तीर्थानि कुरुनंदन॥
इति श्रुत्वा महाबाहुर्गमनाय मनो दधे॥ १.१५ ॥
ततस्तं तापसाः प्रोचुत्हंतुं नार्हसि फाल्गुन॥
बहवो भक्षिता ग्राहै राजानो मुनयस्तथा॥ १.१६ ॥
तत्त्व द्वारशवर्षाणि तीर्थानामर्बुदेष्वपि॥
स्नातः किमेतैस्तीर्थैस्ते मा पतंगव्रतो भव॥ १.१७ ॥
॥अर्जुन उवाच॥
यदुक्तं करुणासारैः सारं किं तदिहोच्यताम्॥
धर्मार्थी मनुजो यश्च न स वार्यो महात्मभिः॥ १.१८ ॥
धर्मकामं हि मनुजं यो वारयति मंदधीः॥
तदाश्रितस्य जगतो निःश्वासैर्भस्मसाद्भवेत्॥ १.१९ ॥
यज्जीवितं चाचिरांशुसमानक्षणभंगुरम्॥
तच्चेद्धर्मकृते याति यातु दोषोऽस्ति को ननु॥ १.२० ॥
जीवितं च धनं दाराः पुत्राः क्षेत्रगृहाणि च॥
यान्ति येषआं धर्मकृते त एव भुवि मानवाः॥ १.२१ ॥
॥तापसा ऊचुः॥
एवं ते ब्रुवतः पार्थ दीर्घमायुः प्रवर्धताम्॥
सदा धर्मे रतिर्भूयाद्याहि स्वं कुरु वांछितम्॥ १.२२ ॥
एवमुक्तः प्रणम्यैतानाशीर्भिरभिसंस्तुतः॥
जगाम तानि तीर्थानि द्रष्टुं भरतसत्तमः॥ १.२३ ॥
ततः सौभद्रमासाद्य महर्षेस्तीर्थुमुत्तमम्॥
विगाह्य तरसा वीरः स्नानं चक्रे परंतपः॥ १.२४ ॥
अथ तं पुरुषव्याघ्रमंतर्जलचरो महान्॥
निजग्राह जले ग्राहः कुंतीपुत्रं धनंजयम्॥ १.२५ ॥
तमादायैव कौतेयो विस्फुरंतं जलेचरम्॥
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः॥ १.२६ ॥
उद्धृतश्चैव तु ग्राहः सोऽर्जुनेन यशस्विना॥
बभूव नारी कल्याणी सर्वाभरणभूषिता॥ १.२७ ॥
दीप्यमानशिखा विप्रा दिव्यरूपा मनोरमा॥
तदद्भुतं महद्दृष्ट्वा कुंतीपुत्रो धनंजयः॥ १.२८ ॥
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत्॥
का वै त्वमसि कल्याणि कुतो वा जलचारिणी॥ १.२९ ॥
किमर्थं च महात्पापमिदं कृतवती ह्यसि॥
॥नार्युवाच॥
अप्सरा ह्यस्मि कौतेय देवारण्यनिवासिनी॥ १.३० ॥
इष्टा धनपतेर्नित्यं वर्चानाम महाबल॥
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः॥ १.३१ ॥
ताभिः सार्धं प्रयातास्मि देवराजनिवेशनात्॥
ततः पश्यामहे सर्वा ब्राह्मणं चानिकेतनम्॥ १.३२ ॥
रूपवंतमधीयानमेकमेकांतचारिणम्॥
तस्य वै तपसा वीर तद्वनं तेजसावृतम्॥ १.३३ ॥
आदित्य इव तं देशं कृत्स्नमेवान्व भासयत्॥
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम्॥ १.३४ ॥
अवतीर्णास्ति तं देशं तपोविघ्नचिकीर्षया॥
अहं च सौरभेयी च सामेयी बुद्बुदालता॥ १.३५ ॥
यौगपद्येन तं विप्रमभ्यगच्छाम भारत॥
गायंत्यो ललमानाश्च लोभयंत्यश्च तं द्विजम्॥ १.३६ ॥
स च नास्मासु कृतवान्मनोवीरः कथंचन॥
नाकंपत महातेजाः स्थितस्तपसि निर्मले॥ १.३७ ॥
सोऽशपत्कुपितोऽस्मासु ब्राह्मणः क्षत्रियर्षभ॥
ग्राहभूता जले यूयं भविष्यथ शतं समाः॥ १.३८ ॥
ततो वयं प्रव्यथिताः सर्वा भरतसत्तम॥
आयाताः शरणं विप्रं तपोधनमकल्मषम्॥ १.३९ ॥
रूपेण वयसा चैव कंदर्पेण च दर्पिताः॥
अयुक्तं कृतवत्यः स्म क्षंतुमर्हसि नो द्विज॥ १.४० ॥
एष एव वधोऽस्माकं स पर्याप्तस्तपोधन॥
यद्वयं शंसितात्मानं प्रलोब्धुं त्वामुपागताः॥ १.४१ ॥
अवध्याश्च स्त्रियः सृष्टा मन्यंते धर्मचिंतकाः॥
तस्माद्धर्मेण धर्मज्ञ एष वादो मनीषिणाम्॥ १.४२ ॥
शरणं च प्रपन्नानां शिष्टाः कुर्वंति पालनम्॥
शरण्यं त्वां प्रपन्नाः स्मस्तस्मात्त्वं क्षंतुमर्हसि॥ १.४३ ॥
एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत्॥
प्रसादं कृतवाञ्छूररविसोमसमप्रभः॥ १.४४ ॥
॥ब्राह्मण उवाच॥
भवतीनां चरित्रेण परिमुह्यामि चेतसि॥
अहो धार्ष्ट्यमहो मोहो यत्पापाय प्रवर्तनम्॥ १.४५ ॥
मस्त कस्थायिनं मृत्युं यदि पश्येदयं जनः॥
आहारोऽपि न रोचेत किमुताकार्यकारिता॥ १.४६ ॥
आहो मानुष्यकं जन्म सर्वजन्मसु दुर्लभम्॥
तृणवत्क्रियते कैश्चिद्योषिन्मूढैर्दुराधरैः॥ १.४७ ॥
तान्वयं समपृच्छामो जनिर्वः किंनिमित्ततः॥
को वा लाभो विचार्यैतन्मनासा सह प्रोच्यताम्॥ १.४८ ॥
न चैताः परिनिन्दामो जनिर्यार्भ्यः प्रवर्तते॥
केवलं तान्विनिंदामो ये च तासु निरर्गलाः॥ १.४९ ॥
यतः पद्मभुवा सृष्टं मिथुनं विश्ववृद्धये॥
तत्तथा परिपाल्यं वै नात्र दोषोऽस्ति कश्चन॥ १.५० ॥
या बांधवैः प्रदत्ता स्याद्वह्निद्विजसमागमे॥
गार्हस्थ्यपालनं धन्यं तया साकं हि सर्वदम्॥ १.५१ ॥
यथाप्रकृति पुंयोमो यत्नेनापि परस्परम्॥
साध्यामानो गुणाय स्यादगुणायाप्यसाधितः॥ १.५२ ॥
एवं यत्नात्साध्यमानं स्वकं गार्हस्थ्यमुत्तमम्॥
गुणाय महते भूयादगुणायाप्यसाधितम्॥ १.५३ ॥
पुरे पंचमुखे द्वाःस्थ एकादशभटैर्युतः॥
साकं नार्या बह्वपत्यः स कथं स्यादचेतनः॥ १.५४ ॥
यश्चस्त्रिया समायोगः पंचयज्ञादिकर्मभिः॥
विश्वोपकृतये सृष्टा मूढैर्हा साध्यतेऽन्यथा॥ १.५५ ॥
अहो श्रृणुध्वं नो चेद्वः शुश्रूषा जायते शुभा॥
तथापि बाहुमुद्धृत्य रोरूयामः श्रृणोति कः॥ १.५६ ॥
षड्धातुसारं तद्वीर्यं समानं परिहाय च॥
विनिक्षेपे कुयोनौ तु तस्येदं प्रोक्तवान्यमः॥ १.५७ ॥
प्रथमं चौषधीद्रोग्धा आत्मद्रोग्धा ततः पुनः॥
पितृद्रोग्धा विश्वद्रोग्धा यात्यंधं शाश्वतीः समाः॥ १.५८ ॥
मनुष्यं पितरो देवा मुनयो मानवास्तथा॥
भृतानि चोपजीवंति तदर्थं नियतो भवेत्॥ १.५९ ॥
वचसा मनसा चैव जिह्वया करश्रोत्रकैः॥
दांतमाहुर्हि सत्तीर्थं काकतीर्थमतः परम्॥ १.६० ॥
काकप्राये नरे यस्मिन्रमंते तामसा जनाः॥
हंसोऽयमिति देवानां कोऽर्थस्तेन विचिंत्यताम्॥ १.६१ ॥
एवंविधं हि विश्वस्य निर्माणं स्मरतोहृदि॥
अपि कृते त्रिलोक्याश्च कथं पापे रमेन्मनः॥ १.६२ ॥
तदिदं चान्यमर्त्यानां शास्त्रदृष्टमहो स्त्रियः॥
यमलोके मया दृष्टं मुह्ये प्रत्यक्षतः कथम्॥ १.६३ ॥
भवतीषु च कः कोपो ये यदर्थे हि निर्मिताः॥
ते तमर्थं प्रकुर्वंति सत्यमस्तुभमेव च॥ १.६४ ॥
शतं सहस्रं विश्वं च सर्वमक्षय वाचकम्॥
परिमाणं शतं त्वेव नैतदक्षय्यवाचकम्॥ १.६५ ॥
यदा च वो ग्राहभूता गृह्णतीः पुरुषाञ्जले॥
उत्कर्षति जलात्कश्चित्स्थले पुरुषसत्तमः॥ १.६६ ॥
तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ॥
अनृतं नोक्तपूर्वं मे हसतापि कदाचन॥
कल्याणस्य सुपृक्तस्य शुद्धिस्तद्वद्वरा हि वः॥ १.६७ ॥
॥नार्युवाच॥
ततोभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम्॥ १.६८ ॥
अचिंतयामापसृत्य तस्माद्देशात्सुदुःखिताः॥
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम्॥ १.६९ ॥
समागच्छेम यो नः स्वं रूपमापादयेत्पुनः॥
ता वयं चिंतयित्वेह मुहूर्तादिव भारत॥ १.७० ॥
दृष्टवत्यो महाभागं देवर्षिमथ नारदम्॥
सर्वा दृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम्॥ १.७१ ॥
अभिवाद्य च तं पार्थ स्थिताः स्मो व्यथिताननाः॥
स नोऽपृच्छद्दृःखमूलमुक्तवत्यो वयं च तम्॥ १.७२ ॥
श्रुत्वा तच्च यथातत्त्वमिदं वचनमब्रवीत्॥
दक्षिणे सागरेऽनूपे पंच तीर्थानि संतिवै॥ १.७३ ॥
पुण्यानि रमणीयानि तानि गच्छत मा चिरम्॥
तत्रस्थाः पुरुषव्याघ्रः पांडवो वो धनंजयः॥ १.७४ ॥
मोक्षयिष्यति शुद्धात्मा दुःखा दस्मान्न संशयः॥
तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः॥ १.७५ ॥
त्वमिदं सत्यवचनं कर्तुमर्हसि पांडव॥
त्वद्विधानां हि साधूनां जन्म दीनोपकारकम्॥ १.७६ ॥
श्रुत्वेति वचनं तस्याः सस्नौ तीर्थेष्वनुक्रमात्॥
ग्राहभूताश्चोज्जहार यथापूर्वाः स पांडवः॥ १.७७ ॥
ततः प्रणम्य ता वीरं प्रोच्यमाना जयाशिषः॥
गंतुं कृताभिलाषाश्च प्राह पार्थो धनंजयः॥ १.७८ ॥
एष मे हृदि संदेहः सुदृढः परिवर्तते॥
कस्माद्वोनारदमुनिरनुजज्ञे प्रवासितुम्॥ १.७९ ॥
सर्वः कोऽप्यतिहीनोऽपि स्वपूज्यस्यार्थसाधकः॥
स्वपूज्यतीर्थेष्वावासं प्रोक्तवान्नारदः कथम्॥ १.८० ॥
तथैव नवदुर्गासु सतीष्वतिबलासु च॥
सिद्धेशे सिद्धगणपे चापि वोऽत्र स्थितिः कथम्॥ १.८१ ॥
एकैक एषां शक्तो हि अपि देवान्निवारितुम्॥
तीर्थसंरोधकारिण्यः सर्वा नावारयत्कथम्॥ १.८२ ॥
इति चिंतयते मह्यं भृशं दोलायते मनः॥
महन्मे कौतुकं जातं सत्यं वा वक्तुमर्हथ॥ १.८३ ॥
॥अप्सरस ऊचुः॥
योग्यं पृच्छसि कौन्तेय पुनः पश्योत्तरां दिशम्॥ १.८४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे पार्थेन पञ्चाप्सरः समुद्धरणंनाम प्रथमोऽध्यायः॥ १ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 2
॥सूत उवाच॥
ततो द्विजौः परिवृतं नारदं देवपूजितम्॥
अभिगम्योपजग्राह सर्वानथ स पाण्डवः॥ २.१ ॥
ततस्तं नारदः प्राह जयारातिधनंजय॥
धर्मे भवति ते बुद्धिर्देवेषु ब्राह्मणेषु च॥ २.२ ॥
कच्चिदेतां महायात्रां वीर द्वादशवारषिकीम्॥
आचरन्खिद्यसे नैवमथ वा कुप्यसे न च॥ २.३ ॥
मुनीनामपि चेतांसि तीर्थयात्रासु पांडव॥
खिद्यंति परिकृप्यंति श्रेयसां विघ्नमूलतः॥ २.४ ॥
कच्चिन्नैतेन दोषेण समाश्लिष्टोऽसि पांडव॥
अत्र चांगिरसा गीतां गाथामेतां हि शुश्रुम॥ २.५ ॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्॥
निर्विकाराः क्रियाः सर्वाः स तीर्थफलमश्नुते॥ २.६ ॥
तदिदं हृदि धार्यं ते किं वा त्वं तात मन्यसे॥
भ्राता युधिष्ठिरो यस्य सखा यस्य स केशवः॥ २.७ ॥
पुनरेतत्समुचितं यद्विप्रैः शिक्षणं नृणाम्॥
वयं हि धर्मगुरवः स्थापितास्तेन विष्णुना॥ २.८ ॥
विष्णुना चात्र श्रृणुमो गीतां गाथां द्विजान्प्रति॥ २.९ ॥
यस्यामलामृतयशःश्रवणावगाहः सद्यः पुनाति जगदा श्वपचाद्विकुंठः॥
सोहं भवद्भिरुपलब्ध सुतीर्थकीर्तिश्छद्यां स्वबाहुमपि यः प्रतिकूलवर्ती॥ २.१० ॥
प्रियं च पार्थ ते ब्रूमो येषां कुशलकामुकः॥
सर्वे कुशलिनस्ते च यादवाः पांडवास्तथा॥ २.११ ॥
अधुना भीमसेनेन कुरूणामुपतापकः॥
शासनाद्धृतराष्ट्रस्य वीरवर्मा नृपो हतः॥ २.१२ ॥
स हि राज्ञामजेयोऽभूद्यथापूर्वं बलिर्बली॥
कंटकं कंटकेनेव धृतराष्ट्रो जिगाय तम्॥ २.१३ ॥
इत्यादिनारदप्रोक्तां वाचमाकर्ण्य फाल्गुनः॥
अतीव मुदितः प्राह तेषामकुशलं कुतः॥ २.१४ ॥
ये ब्राह्मणमते नित्यं ये च ब्राह्मणपूजकाः॥
अहं च शक्त्या नियतस्तीर्थानि विचरन्ननु॥ २.१५ ॥
आगतस्तीर्थमेतद्धि प्रमोदोऽतीव मे हृदि॥
तीर्थानां दर्शनं धन्यमवगाहस्ततोऽधिकः॥ २.१६ ॥
माहात्म्यश्रवणं तस्मादौर्वोपि मुनिरब्रवीत्॥
तदहं श्रोतुमिच्छामि तीर्थस्यास्य गुणान्मुने॥ २.१७ ॥
एतेनैव श्राव्यमेतद्यत्त्वयांगीकृतं मुने॥
त्वं हि त्रिलोकीं विचरन्वेत्सि सर्वां हि सारताम्॥ २.१८ ॥
तदेतत्सर्वतीर्थेभ्योऽधिकं मन्ये त्वदा हृतम्॥ २.१९ ॥
॥नारद उवाच॥
उचितं तव पार्थैतद्यत्पृच्छसि गुणिन्गुणान्॥
गुणिनामेव युज्यन्ते श्रोतुं धर्मोद्भवा गुणाः॥
साधूनां धर्मश्रवणैः कीर्तनैर्याति चान्वहम्॥ २.२० ॥
पापानामसदालापैरायुर्याति यथान्वहम्॥
तदहं कीर्तयिष्यामि तीर्थस्यास्य गुणान्बहून्॥ २.२१ ॥
यथा श्रुत्वा विजानासि युक्तमंगीकृतं मया॥
पुराहं विचरन्पार्थ त्रिलोकीं कपिलानुगः॥ २.२२ ॥
गतवान्ब्रह्मणो लोकं तत्रापश्यं पितामहम्॥
स हि राजर्षिदेवर्षिमूर्तामूर्तैः सुसंवृतः॥ २.२३ ॥
विभाति विमलो ब्रह्मा नक्षत्रैरुडुराडिव॥
तमहं प्रणिपत्याथ चक्षुषा कृतस्वागतः॥ २.२४ ॥
उविष्टः प्रमुदितः कपिलेन सहैव च॥
एतस्मिन्नंतरे तत्र वार्तिकाः समुपागताः॥ २.२५ ॥
प्रहीयंते हि ते नित्यं जगद्द्रष्टुं हि ब्रह्मणा॥
कृतप्रणामानथ तान्समासीनान्पितामहः॥ २.२६ ॥
चक्षुषामृतकल्पेन प्लावयन्निव चाब्रवीत्॥
कुत्र कुत्र विचीर्णं वो दृष्टं श्रुतमथापि वा॥ २.२७ ॥
किंचिदेवाद्भुतं ब्रूत श्रवणाद्येन पुण्यता॥
एवमुक्ते भगवता तेषां यः प्रवरो मतः॥ २.२८ ॥
सुश्रवानाम ब्रह्माणं प्रणिपत्येदमूचिवान्॥
प्रभोरग्रे च विज्ञप्तिर्यथा दीपो रवेस्तथा॥ २.२९ ॥
तथापि खलु वाच्यं मे परार्थं प्रेरितेन ते॥
मुनिः कात्यायनोनाम श्रुत्वा धर्मान्पुनर्बहून्॥ २.३० ॥
सारजिज्ञासया तस्थावेकांगुष्ठः शतं समाः॥
ततः प्रोवाच तं दिव्या वाणी कात्यायन श्रृणु॥ २.३१ ॥
पुण्ये सरस्वतीतीरे पृच्छ सारस्वतं मुनिम्॥
स ते सारं धर्मसाध्यं धर्मज्ञोऽभिवदिष्यति॥ २.३२ ॥
इति श्रुत्वा मुनिवरो मुनिश्रेष्ठमुपेत्य तम्॥
प्रणम्य शिरसा भूमौ पप्रच्छेदं हृदि स्थितम्॥ २.३३ ॥
सत्यं केचित्प्रशंसंतितपः शौचं तथा परे॥
सांख्यं केचित्प्रशंसंति योगमन्ये प्रचक्षते॥ २.३४ ॥
क्षमां केचित्प्रशंसंति तथैव भृशमार्ज्जवम्॥
केचिन्मौनं प्रशंसंति केचिदाहुः परं श्रुतम्॥ २.३५ ॥
सम्यग्ज्ञानं प्रशंसंति केचिद्वैराग्यमुत्तमम्॥
अग्निष्टोमादिकर्माणि तथा केचित्परं विदुः॥ २.३६ ॥
आत्मज्ञानं परं केचित्समलोष्टाश्मकांचनम्॥
इत्थं व्यवस्थिते लोके कृत्याकृत्यविधौ जनाः॥ २.३७ ॥
व्यामोहमेव गच्छंति किं श्रेय इति वादिनः॥
यदेतेषु परं कृत्यम् नुष्ठेयं महात्मभिः॥ २.३८ ॥
वक्तुमर्हसि धर्मज्ञ मम सर्वार्थसाधकम्॥ २.३९ ॥
॥सारस्वत उवाच॥
यन्मां सरस्वती प्राह सारं वक्ष्यामि तच्छृणु॥
छायाकारं जगत्सर्वमुत्पत्तिक्षयधर्मि च॥
वारांगनानेत्रभंगस्वद्वद्भंगुरमेव तत्॥ २.४० ॥
धनायुर्यौवनं भोगाञ्जलचंद्रवदस्थिरान्॥
बुद्ध्या सम्यक्परामृश्य स्थाणुदानं समाश्रयेत्॥ २.४१ ॥
दानवान्पुरुषः पापं नालं कर्तुमिति श्रुतिः॥
स्थाणुभक्तो जन्ममृत्यू नाप्नोतीति श्रुति स्तथा॥ २.४२ ॥
सावर्णिना च गाथे द्वे कीर्तिते श्रृणु ये पुरा॥
वृषो हि भगवान्धर्मो वृषभो यस्य वाहनम्॥ २.४३ ॥
पूज्यते स महादेवः स धर्मः पर उच्यते॥
दुःखावर्ते तमोघोरे धर्माधर्मजले तथा॥ २.४४ ॥
क्रोधपंके मदग्राहे लोभबुद्बदसंकटे॥
मानगंभीरपाताले सत्त्वयानविभूषिते॥ २.४५ ॥
मज्जंतं तारयत्येको हरः संसारसागरात्॥
दानं वृत्तं व्रतं वाचः कीर्तिधर्मौ तथायुषः॥ २.४६ ॥
परोपकरणं कायादसारात्सारमुद्धरेत्॥
धर्मे रागः श्रुतौ चिंता दाने व्यसनमुत्तमम्॥ २.४७ ॥
इंद्रियार्थेषु वैराग्यं संप्राप्तं जन्मनः फलम्॥
देशेऽस्मिन्भारते जन्म प्राप्य मानुष्यमध्रुवम्॥ २.४८ ॥
न कुर्यादात्मनः श्रेयस्तेनात्मा वंचतश्चिरम्॥
देवासुराणां सर्वेषां मानुष्यमतिदुर्लभम्॥ २.४९ ॥
तत्संप्राप्य तथा कुर्यान्न गच्छेन्नरकं यथा॥
सर्वस्य मूलं मानुष्यं तथा सर्वार्थसाधकम्॥ २.५० ॥
यदि लाभे न यत्नस्ते मूलं रक्ष प्रयत्नतः॥
महता पुण्यमूल्येन क्रीयते कायनौस्त्वया॥ २.५१ ॥
गंतुं दुःखोदधेः पारं तर यावन्न भिद्यते॥
अविकारिशरीरत्वं दुष्प्राप्यं वै ततः॥ २.५२ ॥
नापक्रामति संसारादात्महा स नराधमः॥
तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः॥
दानानि चात्र दीयंते परलोकार्थमादरात्॥ २.५३ ॥
॥कात्यायन उवाच॥
दानस्य तपसो वापि भगवन्किं च दुष्करम्॥
किं वा महत्फलं प्रेत्य सारस्वत ब्रवीहि तत्॥ २.५४ ॥
॥सारस्वत उवाच॥
न दानाद्दुष्करतरं पृथिव्यामस्ति किंचन॥
मुने प्रत्यक्षमेवैतद्दृश्यते लोकसाक्षिकम्॥ २.५५ ॥
परित्यज्य प्रियान्प्राणान्धनार्थे हि महाभयम्॥
प्रविशंति महालोभात्समुद्रमटवीं गिरिम्॥ २.५६ ॥
सेवामन्ये प्रपद्यंते श्ववृत्तिरिति या स्मृता॥
हिंसाप्रायां बहुक्लेशां कृषिं चैव तथा परे॥ २.५७ ॥
तस्य दुःखार्जितस्येह प्राणेभ्योपि गरीयसः॥
आयासशतलब्धस्य परित्यागः सुदुष्करः॥ २.५८ ॥
यद्ददाति यदश्नाति तदेव धनिनो धनम्॥
अन्ये मृतस्य क्रीडंति दारैरपि धनैरपि॥ २.५९ ॥
अहन्यहनि याचंतमहं मन्ये गुरुं यथा॥
मार्जनं दर्पणस्येव यः करोति दिनेदिने॥ २.६० ॥
दीयमानं हि नापैति भूय एवाभिवर्धते॥
कूप उत्सिच्यमानो हि भवेच्छुद्धो बहूदकः॥ २.६१ ॥
एकजन्मसुखस्यार्थे सहस्राणि विलापयेत्॥
प्राज्ञो जन्मसहस्रेषु संचिनोत्येकजन्मनि॥ २.६२ ॥
मूर्खो हि न ददात्यर्थानिह दारिद्र्यशंकया॥
प्राज्ञस्तु विसृजत्यर्थानमुत्र तस्य शंकया॥ २.६३ ॥
किं धनेन करिष्यंति देहिनो भंगुराश्रयाः॥
यदर्थं धनमिच्छंति तच्छरीरमशाश्वतम्॥ २.६४ ॥
अक्षरद्वयमभ्यस्तं नास्तिनास्तीति यत्पुरा॥
तदिदं देहिदेहिति विपरीतमुपस्थितम्॥ २.६५ ॥
बोधयंति च यावंतो देहीति कृपणं जनाः॥
अवस्थेयमदानस्य मा भूदेवं भवानपि॥ २.६६ ॥
दातुरेवोपकाराय वदत्यर्थीति देहि मे॥
यस्माद्दाता प्रयात्यूर्ध्वमधस्तिष्ठेत्प्रतिग्रही॥ २.६७ ॥
दरिद्रा व्याधिता मूर्खाः परप्रेष्यकराः सदा॥
अदत्तदानाज्जायंते दुःखस्यैव हि भाजनाः॥ २.६८ ॥
धनवंतमदातारं दरिद्रं वाऽतपस्विनम्॥
उभावंभसि मोक्तव्यौ कंठे बद्धा महाशिलाम्॥ २.६९ ॥
शतेषु जायते शूरः सहस्रेषु च पंडितः॥
वक्ता शतसहस्रेषु दाता जायेत वा न वा॥ २.७० ॥
गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः॥
अलुब्धैर्दानशीलैश्च सप्तभिर्धार्यते मही॥ २.७१ ॥
शिबिरौशीनरोङ्गानि सुतं च प्रियमौरसम्॥
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः॥ २.७२ ॥
प्रतर्द्दनः काशिपति प्रदाय नयने स्वके॥
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते॥ २.७३ ॥
निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम्॥
ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वीं सपत्तनाम्॥ २.७४ ॥
अवर्षति च पर्जन्ये सर्वभूतनिवासकृत्॥
वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः॥ २.७५ ॥
ब्रह्मदत्तश्च पांचाल्यो राजा बुद्धिमतां वरः॥
निधिं शंखं द्विजाग्र्येभ्यो दत्त्वा स्वर्गमवाप्तवान्॥ २.७६ ॥
सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः॥
ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान्॥ २.७७ ॥
एते चान्ये च बहवः स्थाणोर्दानेन भक्तितः॥
रुद्रलोकं गता नित्यं शान्तात्मानो जितेन्द्रियाः॥ २.७८ ॥
एषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी॥
इति संचिंत्य सारार्थी स्थाणुदानपरो भव॥ २.७९ ॥
सोऽपि मोह परित्यज्य तथा कात्यायनोऽभवत्॥ २.८० ॥
॥नारद उवाच॥
एवं सुश्रवसा प्रोक्तां कथामाकर्ण्य पद्मभूः॥
हर्षाश्रुसंयुतोऽतीव प्रशशंस मुहुर्मुहुः॥ २.८१ ॥
साधु ते व्याहृतं वत्स एवमेतन्न चान्यथा॥
सत्यं सारस्वतः प्राह सत्या चैवं तथा श्रुतिः॥ २.८२ ॥
दानं यज्ञानां वरूथं दक्षिणा लोके दातारँसर्वभूतान्युपजीवंति दानेनारातीरँपानुदंत दानेन द्विषंतो मित्रा भवंति दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदंतीति॥ २.८३ ॥
संसारसागरे घोरे धर्माधर्मोर्मिसंकुले॥
दानं तत्र निषेवेत तच्च नौरिव निर्मितम्॥ २.८४ ॥
इति संचिंत्य च मया पुष्करे स्थापिता द्विजाः॥
गङ्गायमुनयोर्मध्ये मध्यदेशे द्विजाः सृते॥ २.८५ ॥
स्थापिताः श्रीहरिभ्यां तु श्रीगौर्या वेदवित्तमाः॥
रुद्रेण नागराश्चैव पार्वत्या शक्तिपूर्भवाः॥ २.८६ ॥
श्रीमाले च तथा लक्ष्म्या ह्येवमादिसुरोत्तमैः॥
नानाग्रहाराः संदत्ता लोकोद्धरणकांक्षया॥ २.८७ ॥
न हि दानफले कांक्षा काचिन्नऽस्ति सुरोत्तमाः॥
साधुसंरक्षणार्थं हि दानं नः परिकीर्तितम्॥ २.८८ ॥
ब्राह्मणाश्च कृतस्थाना नानाधर्मोपदेशनैः॥
समुद्धरंति वर्णांस्त्रींस्ततः पूज्यतमा द्विजाः॥ २.८९ ॥
दानं चतुर्विधं दानमुत्सर्गः कल्पितं तथा॥
संश्रुतं चेति विविधं तत्क्रमात्परिकीर्तितम्॥ २.९० ॥
वापीकूपतडागानां वृक्षविद्यासुरौकसाम्॥
मठप्रपागृहक्षेत्रदानमुत्सर्ग इत्यसौ॥ २.९१ ॥
उपजीवन्निमान्यश्च पुण्यं कोऽपि चरेन्नरः॥
षष्ठमंशं स लभते यावद्यो विसृजेद्द्विजः॥ २.९२ ॥
तदेषामेव सर्वेषां विप्रसंस्थापनं परम्॥
देवसंस्थापनं चैव धर्मस्तन्मूल एव यत्॥ २.९३ ॥
देवतायतनं यावद्यावच्च ब्राह्मणगृहम्॥
तावद्दातुः पूर्वजानां पुण्यांशश्चोपतिष्ठति॥ २.९४ ॥
एतत्स्वल्पं हि वाणिज्यं पुनर्बहुफलप्रदम्॥
जीर्णोद्धारे च द्विगुणमेतदेव प्रकीर्तितम्॥ २.९५ ॥
तस्मादिदं त्वहमपिब्रवीमि सुरसत्तमाः॥
नास्ति दानसमं किंचित्सत्यं सारस्वतो जगौ॥ २.९६ ॥
॥नारद उवाच॥
इति सारस्वतप्रोक्तां तथा पद्मभुवेरिताम्॥
साधुसाध्वित्यमोदंत सुराश्चाहं सुविस्मिताः॥ २.९७ ॥
ततः सभाविसर्गांते सुरम्ये मेरुमूर्धनि॥
उपविश्य शिलापृष्ठे अहमेतदचिंतयम्॥ २.९८ ॥
सत्यमाह विरंचिस्तु स किमर्थं तु जीवति॥
येनैकमपि तद्धृत्तं नैव येन कृतार्थता॥ २.९९ ॥
तदहं दानपुण्यं हि करिष्यामि कथं स्फुटम्॥
कौपीनदण्डात्मधनो धनं स्वल्पं हि नास्ति मे॥ २.१०० ॥
अनर्हते यद्ददाति न ददाति तथार्हते॥
अर्हानर्हपरिज्ञानाद्दानधर्मो हि दुष्करः॥ २.१०१ ॥
देशेकाले च पात्रे च शुद्धेन मनसा तथा॥
न्यायार्जितं च यो दद्याद्यौवने स तदश्नुते॥ २.१०२ ॥
तमोवृतस्तु यो दद्यात्क्रोधात्तथैव च॥
भुंक्ते दान फलं तद्धि गर्भस्थो नात्र संशयः॥ २.१०३ ॥
बालत्वेऽपि च सोऽश्राति यद्दत्तं दम्भकारणात्॥
दत्तमन्यायतो वित्तं वै चार्थकारणम्॥ २.१०४ ॥
वृद्धत्वे हि समश्राति नरो वै नात्र भविष्यति॥
तस्माद्देशे च काले च सुपात्रे विधिना नरः॥
शुभार्जितं प्रयुञ्जीत श्रद्धया शाठ्यवर्जितः॥ २.१०५ ॥
तदेतन्निर्धनत्वाच्च कथं नाम भविष्यति॥
सत्यमाहुः पुरा वाक्यं पुराणमुनयोऽमलाः॥ २.१०६ ॥
नाधनस्यास्त्ययं लोको न परश्च कथंचन॥
अभिशस्तं प्रपश्यंति दरिद्रं पार्श्वतः स्थितम्॥ २.१०७ ॥
दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति॥
पतितः शोच्यते सर्वैर्निर्धनश्चापि शोच्यते॥ २.१०८ ॥
यः कृशाश्वः कृशधनः कृशभृत्यः कृशातिथिः॥
स वै प्रोक्तः कृशोनाम न शरीरकृशः कृशऋ॥ २.१०९ ॥
अर्थवान्दुष्कुलीनोऽपि लोके पूज्यतमो नरः॥
शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते॥ २.११० ॥
ज्ञानवृद्धास्तपोवृद्धा ये च वृद्धा बहुश्रुताः॥
ते सर्वे धनवृद्धस्य द्वारि तिष्ठन्ति किंकराः॥ २.१११ ॥
यद्यप्ययं त्रिभुवने अर्थोऽस्माकं पराग्नहि॥
तथाप्यन्यप्रार्थितो हि तस्यैव फलदो भवेत्॥ २.११२ ॥
अथवैतत्पुरा सर्वं चिंतयिष्यामि सुस्फुटम्॥
विलोकयामि पूर्वं तु किंचिद्योग्यं हि स्थानकम्॥ २.११३ ॥
स चिंतयित्वेति बहुप्रकारं देशांश्च ग्रामान्नगराणि चाश्रमान्॥
बहूनहं पर्यटन्नाप्तवान्हि स्थानं हितं स्थापये यत्र विप्रान्॥ २.११४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे नारदार्जुनसंवादे दानप्रशंसावर्णनंनाम द्वितीयऽध्यायः॥ २ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 3
॥सूत उवाच॥
एवं स्थानानि पुण्यानि यानियानीह वै भुवि॥
निरीक्षंस्तत्र तत्राहं नारदो वीरसत्तम॥ ३.१ ॥
विचरन्मेदिनीं सर्वां प्राप्तोऽहमाश्रमं भृगोः॥
यत्र रेवानदी पुण्या सप्तकल्पस्मरा वरा॥ ३.२ ॥
महापुण्या पवित्रा च सर्वतीर्थमयी शुभा॥
पुनानि कीर्तनेनैव दर्शनेन विशेषतः॥ ३.३ ॥
तत्रावगाहनात्पार्थ मुच्यते जंतुरंहसा॥
यथा सा पिङ्गला नाडी देहमध्ये व्यवस्थिता॥ ३.४ ॥
इयं ब्रह्मांडपिण्डस्य स्थाने तस्मिन्प्रकीर्तिता॥
तत्रास्ते शुक्लतीर्थाख्यं रेवायां पापनाशनम्॥ ३.५ ॥
यत्र वै स्नानमात्रेण ब्रह्महत्या प्रणश्यति॥
तस्यापि सन्निधौ पार्थ रेवाया उत्तरे तटे॥ ३.६ ॥
नानावृक्षसमाकीर्णं लतागुल्मोपशोभितम्॥
नानापुष्पफलो पेतं कदलीखंडमंडितम्॥ ३.७ ॥
अनेकाश्वापदाकीर्णं विहगैरनुनादितम्॥
सुगंधपुष्पशोभाढ्यं मयूररवनादितम्॥ ३.८ ॥
भ्रमरैः सर्वमुत्सृज्य निलीनं रावसंयुतम्॥
यथा संसारमुत्सृज्य भक्तेन हरपादयोः॥ ३.९ ॥
कोकिला मधुरैः स्वानैर्नादयंति तथा मुनीन्॥
यथा कथामृताख्यानैर्ब्राह्मणा भवभीरुकान्॥ ३.१० ॥
यत्र वृक्षा ह्लादयंति फलैः पुष्पैश्च पत्रकैः॥
छायाभिरपि काष्ठैश्च लोकानिव हरव्रताः॥ ३.११ ॥
पुत्रपुत्रेति वाशंते यत्र पुत्रप्रियाः खगाः॥
यथा शिवप्रियाः शैवा नित्यं शिवशिवेति च॥ ३.१२ ॥
एवंविधं मुनेस्तस्य भृगोराश्रममंडलम्॥
विप्रैस्त्रैविद्यसंयुक्तैः सर्वतः समलंकृतम्॥ ३.१३ ॥
ऋग्यजुः सामनिर्घोपैरारूरितदिगन्तरम्॥
रुद्रभक्तेन धीरेण यथैव भुवनत्रयम्॥ ३.१४ ॥
तत्राहं पार्थ संप्राप्तो यत्रास्ते मुनिसत्तमः॥
भृगुः परमधर्मात्मातपसा द्योतितप्रभः॥ ३.१५ ॥
आगच्छंतं तु मां दृष्ट्वा दीनं च मुदितं तथा॥
अभ्युत्थानं कृतं सर्वैर्विप्रैर्भृगुपुरोगमैः॥ ३.१६ ॥
कृत्वा सुस्वागतं दत्त्वा अर्घाद्यं भृगुणा सह॥
आसनेषूपविष्टास्ते मुनींद्रा ग्राहिता मया॥ ३.१७ ॥
विश्रांतं तु ततो ज्ञात्वा भृगुर्मामप्युवाचह॥
क्व गंतव्यं मुनिश्रेष्ठ कस्मादिह समागतः॥ ३.१८ ॥
आगमनकारणं सर्वं समाचक्ष्व परिस्फुटम्॥
ततस्तं चिंतयाविष्टो भृगुं पार्थाहमब्रुवम्॥ ३.१९ ॥
श्रूयतामभिधास्यामि यदर्थमहामागतः॥
मया पर्यटिता सर्वा समुद्रांता च मेदिनी॥ ३.२० ॥
द्विजानां भूमिदानार्थं मार्गमाणः पदेपदे॥
निर्दोषां च पवित्रां च तीर्थेष्वपि समन्विताम्॥ ३.२१ ॥
रम्यां मनोरमां भूमिं न पश्यामि कथंचन॥
॥भृगुरुवाच॥
विप्राणां स्थापनार्थाय मयापि भ्रमता पुरा॥ ३.२२ ॥
पृथ्वी सागरपर्यंता दृष्टा सर्वा तदानघ॥
महीनाम नदी पुण्या सर्वतीर्थमयी शुभा॥ ३.२३ ॥
दिव्या मनोरमा सौम्या महापापप्रणाशिनी॥
नदीरूपेण तत्रैव पृथ्वी सा नात्र संशयः॥ ३.२४ ॥
पृथिव्यां यानि तीर्थानि दृष्टादृष्टानि नारद॥
तानि सर्वाणि तत्रैव निवसंति महीजले॥ ३.२५ ॥
सा समुद्रेण संप्राप्ता पुण्यतोया महानदी॥
संजातस्तत्र देवर्षे महीसागरसंगमः॥ ३.२६ ॥
स्तंभाख्यं तत्र तीर्थं तु त्रिषु लोकेषु विश्रुतम्॥
तत्र ये मनुजाः स्नानं प्रकुर्वंति विपश्चितः॥ ३.२७ ॥
सर्वपापविनिर्मुक्ता नोपसर्पंति वै यमम्॥
तत्राद्भुतं हि दृष्टं मे पुरा स्नातुं गतेन वै॥ ३.२८ ॥
तदहं कीर्तयिष्यामि मुने श्रृणु महाद्भुतम्॥
यावत्स्नातुं व्रजाम्यस्मिन्महीसागरसंगमे॥ ३.२९ ॥
तीरे स्थितं प्रपश्यामि मुनींद्रं पावकोपमम्॥
प्रांशुं वृद्धं चास्थिशेषं तपोलक्ष्म्या विभूषितम्॥ ३.३० ॥
भुजावूर्ध्वौ ततः कृत्वा प्ररुदंतं मुहुर्मुहुः॥
तं तथा दुःखितं दृष्ट्वा दुःखितोऽहमथाभवम्॥ ३.३१ ॥
सतां लक्षणमेतद्धि यद्दृष्ट्वा दुःखितं जनम्॥
शतसंख्य तस्य भवेत्तथाहं विललाप ह॥ ३.३२ ॥
अहिंसा सत्यमस्तेयं मानुष्ये सति दुर्लभम्॥
ततस्तमुपसंगम्य पर्यपृच्छमहं तदा॥ ३.३३ ॥
किमर्थं रोदिशि मुने शोके किं कारणं तव॥
सुगुह्यमपि चेद्बूहि जिज्ञासा महती हि मे॥ ३.३४ ॥
मुनिस्ततो मामवदद्भृगो निर्भाग्यवानहम्॥
तेन रोदिमि मा पृच्छ दुर्भाग्यं चालपेद्धि कः॥ ३.३५ ॥
तमहं विस्मयाविष्टः पुनरेवेदमब्रुवम्॥
दुर्लभं भारते जन्म तत्रापि च मनुष्यता॥ ३.३६ ॥
मनुष्यत्वे ब्राह्मणत्वं मुनित्वं तत्र दुर्लभम्॥
तत्रापि च तपःसिद्धिः प्राप्यैतत्पंचकं परम्॥ ३.३७ ॥
किमर्थं रोदिषि मुने विस्मयोऽत्र महान्मम॥
एवं संपृच्छते मह्यमेतस्मिन्नेव चांतरे॥ ३.३८ ॥
सुभद्रोनाम नाम्ना च मुनिस्तत्राभ्युपाययौ॥
स हि मेरुं परित्यज्य ज्ञात्वा तीर्थस्य सारताम्॥ ३.३९ ॥
कृताश्रमः पूजयति सदा स्तंभेश्वरं मुनिः॥
सोऽप्येवं मामि वापृच्छन्मुनिं रोदनकारणम्॥ ३.४० ॥
अथाहाचम्य स मुनिः श्रूयतां कारणं मुनी॥
अहं हि देवशर्माख्यो मुनिः संयतवाङ्मनाः॥ ३.४१ ॥
निवसामि कृतस्थानो गंगासागरसंगमे॥
तत्र दर्शेतर्पयामि सदैव च पितॄनहम्॥ ३.४२ ॥
श्राद्धांते ते च प्रत्यक्षा ह्याशिषो मे वदंति च॥
ततः कदाचित्पितरः प्रहृष्टा मामथाब्रवन्॥ ३.४३ ॥
वयं सदात्र चायामो देवशर्मंस्तवांतिके॥
स्थानेऽस्माकं कदाचित्त्वं न चायासि कुतः सुतः॥ ३.४४ ॥
स्थानं दिदृक्षुस्तच्चाहं न शक्तोऽस्मि निवोदितुम्॥
ततः परममित्युक्त्वा गतवान्पितृभिः सह॥ ३.४५ ॥
पितॄणां मंदिरं पुण्यं भौमलोकसमास्थितम्॥
तत्रतत्र स्थितश्चाहं तेजोमण्डलदुर्दृशान्॥ ३.४६ ॥
दृष्ट्वाग्रतः पूजयाढ्यानपृच्छं स्वान्पितॄनिति॥
के ह्यमी समुपायांति भृशं तृप्ता भृशार्चिताः॥
भृशंप्रमुदिता नैव तथा यूयं यथा ह्यमी॥ ३.४७ ॥
॥पितर ऊचुः॥
भद्रं ते पितरः पुण्याः सुभद्रस्य महामुनेः॥
तर्पितास्तेन मुनिना महीसागरसंगमे॥ ३.४८ ॥
सर्वतीर्थमयी यत्र निलीना ह्युदधौ मही॥
तत्र दर्शे तर्पयति सुभद्रस्तानमून्सुत॥ ३.४९ ॥
इत्याकर्ण्य वचस्तेषां लज्जितोऽहं भृशंतदा॥
विस्मितश्च प्रणम्यैतान्पितॄन्स्वं स्थानमागतः॥ ३.५० ॥
यथा तथा चिंतितं च तत्र यास्याम्यहं श्फुटम्॥
पुण्यो यत्रापि विख्यातो महीसागरसंगमः॥ ३.५१ ॥
कृताश्रमश्च तत्रैव तर्पयिष्ये निजान्पितॄन्॥
दर्शेदर्शे यथा चासौ स्तुत्यनामा सुभद्रकः॥ ३.५२ ॥
किं तेन ननु जातेन कुलांगारेण पापिना॥
यस्मिञ्जीवत्यवि निजाः पितरोऽन्यस्पृहाकराः॥ ३.५३ ॥
इति संचिंत्य मुदितो रुचिं भार्यामथाब्रवुम्॥
रुचे त्वया समायुक्तो महीसागगरसंगमम्॥ ३.५४ ॥
गत्वा स्थास्यामि तत्रैव शीघ्रं त्वं सम्मुखीभव॥
पतिव्रतासि शुद्धासिकुलीनासि यशस्विनि॥
तस्मादेतन्मम शुभे कर्तुमर्हसि चिंतितम्॥ ३.५५ ॥
॥रुचिरुवाच॥
हता तस्य जनिर्नाभूत्कथं पाप दुरात्मना॥ ३.५६ ॥
श्मशानस्तंभ येनाहं दत्ता तुभ्यं कृतंत्वाय॥
इह कंदफलाहारैर्यत्किं तेन न पूर्यते॥ ३.५७ ॥
नेतुमिच्छसि मां तत्र यत्र क्षारोदकं सदा॥
त्वमेव तत्र संयाहि नंदंतु तव पूर्वजाः॥ ३.५८ ॥
गच्छ वा तिष्ठ वा वृद्ध वस वा काकवच्चिरम्॥
तथा ब्रुवन्त्यां तस्यां तु कर्णावस्मि पिधाय च॥ ३.५९ ॥
विपुलं शिष्यमादिश्य गृह एकोऽत्र आगतः॥
सोऽहं स्नात्वात्र संतर्प्य पितॄञ्छ्रद्धापरायणः॥ ३.६० ॥
चिंतां सुविपुलां प्राप्तो नरके दुष्कृती यथा॥
यदि तिष्ठामि चात्रैव अर्धदेहधरो ह्यहम्॥ ३.६१ ॥
नरो हि गृहिणीहीनो अर्धदेह इति स्मृतः॥
यथात्मना विना देहे कार्यं किंचिन्न सिध्यति॥ ३.६२ ॥
अनयोर्हि फलं ग्राह्यं सारता नात्र काचन॥
अर्धदेही च मनुजस्त्वसंस्पृश्यः सतांमतः॥ ३.६३ ॥
अनयोर्हिफलं ग्राह्यं सारता नात्र काचन॥
अर्धदेही च मनुजस्त्वसंस्पृश्यः सतांमतः॥ ३.६४ ॥
औत्तानपादिरस्पृश्य उत्तमो हि सुरैः कृतः॥
अथ चेत्तत्र संयामि न महीसागरस्ततः॥ ३.६५ ॥
यामि वा तत्कथं पादौ चलतो मे कथंचन॥
एतस्मिन्मे मनो विद्धं खिद्यतेऽज्ञानसंकटे॥ ३.६६ ॥
अतोऽहमतिमुह्यामि भृशं शोचामि रोदिमि॥
इतिश्रुत्वा वचस्तस्य भृशं रोमांचपूरितम्॥ ३.६७ ॥
साधुसाध्वित्यथोवाच तं सुभद्रोऽप्यहं तथा॥
दण्डवच्च प्रणमितो महीसागरसङ्गमम्॥ ३.६८ ॥
चिन्तयावश्च मनसि प्रतीकारं मुनेरुभौ॥
यो हि मानुष्यमासाद्य जलबुद्बुदभंगुरम्॥ ३.६९ ॥
परार्थाय भवत्येष पुरुषोऽन्ये पुरीषकाः॥
ततः संचिंत्य प्राहेदं सुभद्रो मुनिसत्तमम्॥ ३.७० ॥
मा मुने परिखिद्यस्व देवशर्मन्स्थिरो भव॥
अहं ते नाशयिष्यामि शोकं सूर्यस्तमो यथा॥ ३.७१ ॥
गमिष्याम्याश्रमं त्वं च नात्रापि परिहास्यते॥
श्रृणु तत्कारणं तुभ्यं तर्पयिष्ये पितॄनहम्॥ ३.७२ ॥
॥देवशर्मोवाच॥
एवं ते वदमानस्य आयुरस्तु शतं समाः॥
यदशक्यं महत्कर्म कर्तुमिच्छसि मत्कृते॥ ३.७३ ॥
हर्षस्थाने विषादश्च पुनर्मां बाधते श्रृणु॥
अपि वाक्यं शुभं सन्तो न गृह्णन्ति मुधा मुने॥ ३.७४ ॥
कथमेतन्महत्कर्म कारयामि मुधावद॥
पुनः किंचित्प्रवक्ष्यामि यथा मे निष्कृतिर्भवेत्॥ ३.७५ ॥
शापितोऽसि मया प्राणैर्यथा वच्मि तथा कुरु॥
अहं सदा करिष्यामि दर्शे चोद्दिश्यते पितॄन्॥ ३.७६ ॥
श्राद्धं गंगार्णवे चात्र मत्पितॄणां त्वमाचर॥
अहं चैवापि तपसः संचितस्यापि जन्मना॥
चतुर्भागं प्रदास्यामि एवमेवैतदाचर॥ ३.७७ ॥
॥सुभद्र उवाच॥
यद्येवं तव संतोषस्त्वेवमस्तु मुनीश्वर॥
साधूनां च यथा हर्षस्तथा कार्यं विजानता॥ ३.७८ ॥
॥भृगुरुवाच॥
देवशर्मा ततो हृष्टो दत्त्वा पुण्यं त्रिवाचिकम्॥
चतुर्थाशं ययौ धाम स्वं सुभद्रोऽपि च स्थितः॥ ३.७९ ॥
एवंविधो नारदासौ मही सागरसंगमः॥
यमनुस्मरतो मह्यं रोमांचोऽद्यापि वर्तते॥ ३.८० ॥
॥नारद उवाच॥
इति श्रुत्वा फाल्गुनाहं हर्षगद्गदया गिरा॥
मृतोमृत इवा वोचं साधुसाध्विति तंभृगुम्॥ ३.८१ ॥
यूयं वयं गमिष्यामो महीतीरं सुशोभनम्॥
आवामीक्षावहे सर्वं स्थानकं तदनुत्तमम्॥ ३.८२ ॥
मम चैवं वचः श्रुत्वा भृगुः सह मयययौ॥
समस्तं तु महापुण्यं महीकूलं निरीक्षितम्॥ ३.८३ ॥
तद्दृष्ट्वा चातिहृष्टोहमासं रोमांचकंचुकः॥
अब्रवं मुनिशार्दूलं हर्षगद्गदया गिरा॥ ३.८४ ॥
त्वत्प्रसादात्करिष्यामि भृगो स्थानमनुत्तमम्॥
स्वस्थानं गम्यतां ब्रह्मन्नतः कृत्यं विचिंतये॥ ३.८५ ॥
एवं भृगुं चास्मिविसर्जयित्वा कल्लोलकोलाहलकौतुकीतटे॥
अथोपविश्येदमचिंतयं तदा किं कृत्यमात्मानमिवैकयोगी॥ ३.८६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारीकाखंडे नारदार्जुनसंवादे महीसागरसंगमतीर्थमाहात्म्ये तृतीयोऽध्यायः॥ ३ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 4
॥ नारद उवाच॥
ततस्त्वहं चिंतयामि कथं स्थानमिदं भवेत्॥
ममायत्तं यतो राज्ञां भूमिरेषा सदा वशे॥ ४.१ ॥
यत्त्वहं धर्मवर्णाणं गत्वा याचे ह मेदिनीम्॥
अर्पयत्येव स च मे याचितो न पुनः परः॥ ४.२ ॥
तथा हि मुनिभिः प्रोक्तं द्रव्यं त्रिविधमुत्तमम्॥
शुक्लं मध्यं च शबलमधमं गृष्णमुच्यते॥ ४.३ ॥
श्रुतेः संपादनाच्छिष्यात्प्राप्तं शुक्लं च क्न्ययया॥
तथा कुसीदवाणिज्यकृषियाचितमेव च॥ ४.४ ॥
शबलं प्रोच्यते सद्भिर्द्यूतचौर्येण साहसैः॥
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम्॥ ४.५ ॥
शुक्लवित्तेन यो धर्मं प्रकुर्याच्छ्रद्धयान्वितः॥
तीर्थं पात्रं समासाद्य देवत्वे तत्समश्नुते॥ ४.६ ॥
राजसेन च भावेन वित्तेन शबलेन च॥
प्रदद्याद्दानमर्थिभ्यो मानुष्यत्वे तदश्नुते॥ ४.७ ॥
तमोवृतस्तु यो दद्यात्कृष्णवित्तेन मानवः॥
तिर्यक्त्वे तत्फलं प्रेत्य समश्राति नराधमः॥ ४.८ ॥
तत्तु याचितद्रव्यं मे राजसं हि स्फुटं भवेत्॥
अथ ब्राह्मणभावेन नृपं याचे प्रतिग्रहम्॥ ४.९ ॥
तदप्यहो चातिकष्ट हेतुना तेन मे मतम्॥
अयं प्रतिग्रहो घोरो मध्वास्वादो विषोपमः॥ ४.१० ॥
प्रतीग्रहेण संयुक्तं ह्यमीवमाविशोद्द्विजम्॥
तस्मादहं निवृत्तश्च पापादस्मात्प्रतिग्रहात्॥ ४.११ ॥
ततः केनाप्युपायेन द्वयोरन्यतरेण तु॥
स्वायत्तं स्थानक कुर्म एतत्सञ्चिंतये मुहुः॥ ४.१२ ॥
यथा कुभार्यः पुरुषश्चिन्तांतं न प्रपद्यते॥
तथैव विमृशंश्चाहं चिंतांतं न लभाम्यणु॥ ४.१३ ॥
एतस्मिन्नन्तरे पार्थ स्नातुं तत्र समागताः॥
बहवो मुनयः पुण्ये महीसागरसंगमे॥ ४.१४ ॥
अहं तानब्रवं सर्वान्कुतो यूयं समागताः॥
ते मामूचुः प्रणम्याथ सौराष्ट्रविषये मुने॥ ४.१५ ॥
धर्मवर्मेति नृपतिर्योऽस्य देशस्य भूपतिः॥
स तु दानस्य तत्त्वार्थी तेपे वर्षगणान्बहून्॥ ४.१६ ॥
ततस्तं प्राह खे वाणी श्लोकमेकं नृप श्रृणु॥
द्विहेतु षडधिष्ठानं षडंगं च द्विपाकयुक्॥ ४.१७ ॥
चतुःप्रकारं त्रिविधं त्रिनाशं दानमुच्यते॥
इत्येकं श्लोकमाभाष्य खे वाणी विरराम ह॥ ४.१८ ॥
श्लोकस्यार्थं नावभाषे पृच्छमानापि नारद॥
ततो राजा धर्मवर्मा पटहेनान्वघोषयत्॥ ४.१९ ॥
यस्तु श्लोकस्य चैवास्य लब्धस्य तपसा मया॥
करोति सम्यगव्याख्यानं तस्य चैतद्ददाम्यहम्॥ ४.२० ॥
गवां च सप्त नियुतं सुवर्णं तावदेव तु॥
सप्तग्रामान्प्रयच्छामि श्लोकव्याख्यां करोति यः॥ ४.२१ ॥
पटहेनेति नृपतेः श्रुत्वा राज्ञो वचो महत्॥
आजग्मुर्बहुदेशीया ब्राह्मणाः कोटिशो मुने॥ ४.२२ ॥
पुनर्दुर्बोधविन्यासः श्लोकस्तैर्विप्रपुंगवैः॥
आख्यातुं शक्यते नैव गुडो मूकैर्यथा मुने॥ ४.२३ ॥
वयं च तत्र याताः स्मो धनलोभेन नारद॥
दुर्बोधत्वान्नमस्कृत्य श्लोकं चात्र समागताः॥ ४.२४ ॥
दुर्व्याख्येयस्त्वयं श्लोको धनं लभ्यं न चैव नः॥
तीर्थयात्रां कथं यामीत्येवाचिंत्यात्र चागताः॥ ४.२५ ॥
एवं फाल्गुन तेषां तु वचः श्रुत्वा महात्मनाम्॥
अतीव संप्रहृष्टोऽहं तान्विसृज्येत्यचिंतयम्॥ ४.२६ ॥
अहो प्राप्त उपायो मे स्थानप्राप्तौ न संशयः॥
श्लोकं व्याख्याय नृपतेर्लप्स्ये स्थानं धनं तथा॥ ४.२७ ॥
विद्यामूल्येन नैवं च याचितः स्यात्प्रतिग्रहः॥
सत्यमाह पुराणार्षिर्वासुदेवो जगद्गुरुः॥ ४.२८ ॥
धर्मस्य यस्य श्रद्धा स्यान्न च सा नैव पूर्यते॥
पापस्य यस्य श्रद्धास्यान्न च सापि न पूर्यते॥ ४.२९ ॥
एवं विचिंत्य विद्वांसः प्रकुर्वंति यथारुचि॥
सत्यमेतद्विभोर्वाक्यं दुर्लभोऽपि यथा हि मे॥ ४.३० ॥
मनोरथोऽयं सफलः संभूतोंकुरितः स्फुटम्॥
एनं च दुर्विदं श्लोकमहं जानामि सुस्फुटम्॥ ४.३१ ॥
अमूर्तैः पितृभिः पूर्वमेव ख्यातो हि मे पुरा॥
एवं हर्षान्वितः पार्थ संचिंत्याऽहं ततो मुहुः॥ ४.३२ ॥
प्रणम्य तीर्थं चलितो महीसागरसंगमम्॥
वृद्धब्राह्मणरूपेण ततोहं यातवान्नृपम्॥ ४.३३ ॥
इदं भणितवानस्मि श्लोकव्याख्यां नृप श्रृणु॥
यत्ते पटहविख्यातं दानं च प्रगुणीकुरु॥ ४.३४ ॥
एवमुक्ते नृपः प्राह प्रोचुरेवं हि कोटिशः॥
द्विजोत्तमाः पुनर्नस्यं प्रोक्तुमर्थो हि शक्यते॥ ४.३५ ॥
के द्विहेतू षडाख्यातान्यधिष्ठानानि कानि च॥
कानि चैव षडंगानि कौ द्वौ पाकौ तथा स्मृतौ॥ ४.३६ ॥
के च प्रकाराश्चत्वारः किंस्वित्तत्त्रिविधं द्विज॥
पयो नाशाश्च के प्रोक्ता दानस्यैतत्स्फुटं वद॥ ४.३७ ॥
स्फुटान्प्रश्नानिमान्सप्त यदि वक्ष्यसि ब्राह्मण॥
ततो गवां सप्तनियुतं सुवर्णं तावदेव तु॥ ४.३८ ॥
सप्त ग्रामांश्च दास्यामि नो चेद्यास्यसि स्वं गृहम्॥
इत्युक्त्वा वचनं पार्थ सौराष्ट्रस्वामिनं नृपम्॥ ४.३९ ॥
धर्मवर्माणमस्त्वेवं प्रावोचमवधारय॥
श्लोकव्याख्यां स्फुटां वक्ष्ये दानहेतू च तौ श्रृणु॥ ४.४० ॥
अल्पत्वं वा बहुत्वं वा दानस्याभ्युदयावहम्॥
श्रद्धा शक्तिश्च दानानां वृद्ध्यक्षयकरेहि ते॥ ४.४१ ॥
तत्र श्रद्धाविषये श्लोका भवन्ति॥
कायक्लेशैश्च बहुभिर्न चैवारथस्य राशिभिः॥ ४.४२ ॥
धर्मः संप्राप्यते सूक्ष्मः श्रद्धा धर्मोऽद्भुतं तपः॥
श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्वमिदं जगत्॥ ४.४३ ॥
सर्वस्वं जीवितं चापि दद्यादश्रद्धया यदि॥
नाप्नुयात्स फलं किंचिच्छ्रद्दधानस्ततो भवेत्॥ ४.४४ ॥
श्रद्धया साध्यते धर्मो महद्भिर्नार्थराशिभिः॥
अकिंचना हि मुनयः श्रद्धावंतो दिवं गताः॥ ४.४५ ॥
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा॥
सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु॥ ४.४६ ॥
यजंते सात्त्विका देवान्यक्षरक्षांसि राजसाः॥
प्रेतान्भूतपिशाचांश्च यजंते तामसा जनाः॥ ४.४७ ॥
तस्माच्छ्रद्धावता पात्रे दत्तं न्यायार्जितं हि यत्॥
तेनैव भगवान्रुद्रः स्वल्पकेनापि तुष्यति॥ ४.४८ ॥
शक्तिविषये च श्लोका भवंति॥
कुटुंबभुक्तवसनाद्देयं यदतिरिच्यते॥
मध्वास्वादो विषं पश्चाद्दातुर्धर्मोऽन्यथा भवेत्॥ ४.४९ ॥
शक्ते परजने दाता स्वजने दुःखजीविनि॥
मध्वापानविषादः स धर्माणां प्रतिरूपकः॥ ४.५० ॥
भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदैहिकम्॥
तद्भवत्यसुखोदकं जीवतोऽस्य मृतस्य च॥ ४.५१ ॥
सामान्यं याचितं न्यासमाधिर्दाराश्च दर्शनम्॥
अन्वाहितं च निक्षेपः सर्वस्वं चान्वये सति॥ ४.५२ ॥
आपत्स्वपि न देयानि नववस्तूनि पंडितैः॥
यो ददाति स मूढात्मा प्रायाश्चित्तीयते नरः॥ ४.५३ ॥
इति ते गदितौ राजन्द्वौ हेतू श्रूयतामतः॥
अधिष्ठानानि वक्ष्यामि षडेव श्रृणु तान्यपि॥ ४.५४ ॥
धर्ममर्थं च कामं च व्रीडाहर्षभयानि च॥
अधिष्ठानानि दानानां षडेतानि प्रचक्षते॥ ४.५५ ॥
पात्रेभ्यो दीयते नित्यमनपेक्ष्य प्रयोजनम्॥
केवलं धर्मबुद्ध्या यद्धर्मदानं तदुच्यते॥ ४.५६ ॥
धनिनं धनलोभेन लोभयित्वार्थमाहरेत्॥
तदर्थदानमित्याहुः कामदानमतः श्रृणु॥ ४.५७ ॥
प्रयोजनमपेक्ष्यैव प्रसंगाद्यत्प्रदीयते॥
अनर्हेषु सरागेण कामदानं तदुच्यते॥ ४.५८ ॥
संसदि व्रीडयाऽऽश्रुत्य आर्थिभ्यः प्रददाति च॥
प्रतिदीयते च यद्दानं व्रीडादानमिति श्रुतम्॥ ४.५९ ॥
दृष्ट्वा प्रियाणि श्रुत्वा वा हर्षवद्यत्प्रदीयते॥
हर्षदानमिति प्रोक्तं दानं तद्धर्मचिंतकैः॥ ४.६० ॥
आक्रोशानर्थहिंसानां प्रतीकाराय यद्भवेत्॥
दीयतेऽनुपकर्तृभ्यो भयदानं तदुच्यते॥ ४.६१ ॥
प्रोक्तानि षडधिष्ठानान्यंगान्यपि च षट्च्छ्रुणु॥
दाता प्रतिग्रहीता च शुद्धिर्देयं च धर्मयुक्॥ ४.६२ ॥
देशकालौ च दानानामंगान्येतानि षड्विदुः॥
अपरोगी च धर्मात्मा दित्सुरव्यसनः शुचिः॥ ४.६३ ॥
अनिंद्याजीवकर्मा च षड्भिर्दाता प्रशस्यते॥
अनृजुश्चाश्रद्दधानोऽशांतात्मा धृष्टभीरुकः॥ ४.६४ ॥
असत्यसंधो निद्रालुर्दातायं तामसोऽधमः॥
त्रिशुक्लः कृशवृत्तिश्च घृणालुः सकलेंद्रियः॥ ४.६५ ॥
विमुक्तो योनिदोषेभ्यो ब्राह्मः पात्रमुच्यते॥
सौमुख्यादभिसंप्रीतिरर्थिनां दर्शने सदा॥
सत्कृतिश्चानसूया च तदा शुद्धिरिति स्मृता॥ ४.६६ ॥
अपराबाधमक्लेशं स्वयत्नेनार्जितं धनम्॥
स्वल्पं वा विपुलं वापि देयमित्यभिधीयते॥ ४.६७ ॥
तेनापि किल धर्मेण उद्दिश्य किल किंचन॥
देयं तद्धर्मयुगिति शून्ये शून्यं फलं मतम्॥ ४.६८ ॥
न्यायेन दुर्लभं द्रव्यं देशे कालेपि वा पुनः॥
दानार्हौ देशकालौ तौ स्यातां श्रेष्ठौ न चान्यथा॥ ४.६९ ॥
षंडगानीति चोक्तानि द्वौ च पाकावतः श्रृणु॥
द्वौ पाकौ दानजौ प्राहुः परत्राथ त्विहोच्यते॥ ४.७० ॥
सद्भ्यो यद्दीयते किंचित्तत्परत्रोपतिष्ठति॥
असत्सु दीयते किंचित्तद्दानमिह भुज्यते॥ ४.७१ ॥
द्वौ पाकाविति निर्दिष्टौ प्रकारांश्चतुरः श्रृणु॥
ध्रुवमाहुस्त्रिकं काम्यं नैमित्तिकमिति क्रमात्॥ ४.७२ ॥
वैदिको दानमार्गोऽयं चतुर्धा वर्ण्यते द्विजैः॥
प्रपारामतडागादिसर्वकामफलं ध्रुवम्॥ ४.७३ ॥
तदाहुस्त्रिकामित्याहुर्दीयते यद्दिनेदिने॥
अपत्यविजयैश्वर्यस्त्रीबालार्थं प्रदीयते॥ ४.७४ ॥
इच्छासंस्थं च यद्दानं काम्यमित्यभिधीयते॥
कालापेक्षं क्रियापेक्षं गुणापेक्षमिति स्मृतौ॥ ४.७५ ॥
त्रिधा नौमित्तिकं प्रोक्तं सदा होमविवर्जितम्॥
इति प्रोक्ताः प्रकारास्ते त्रैविध्यमभिधीयते॥ ४.७६ ॥
अष्टोत्तमानि चत्वारि मध्यमानि विधानतः॥
कानीयसानि शेषाणि त्रिविधत्वमिदं विदुः॥ ४.७७ ॥
गृहप्रासादविद्याभूगोकूपप्राणहाटकम्॥
एतान्युत्तमदानानि उत्तमद्रव्यदानतः॥ ४.७८ ॥
अन्नारामं च वासांसि हयप्रभृतिवाहनम्॥
दानानि मध्यमानीति मध्यमद्रव्यदानतः॥ ४.७९ ॥
उपानच्छत्रपात्रादिदधिमध्वासनानि च॥ ४.८० ॥
दीपकाष्ठोपलादीनि चरमं बहुवार्षिकम्॥
इति कानीयसान्याहुर्दाननाशत्रयं श्रृणु॥ ४.८१ ॥
यद्दत्त्वा तप्यते पश्चादासुरं तद्धृथा मतम्॥
अश्रद्धया यद्ददाति राक्षसं स्याद्वृथैव तत्॥ ४.८२ ॥
यच्चाक्रुश्य ददात्यंग दत्त्वा वाक्रोशति द्विजम्॥
पैशाचं तद्वृथा दानंदाननाशास्त्रयस्त्वमी॥ ४.८३ ॥
इति सप्तपदैर्बद्धं दानमाहात्म्य मुत्तमम्॥
शक्त्या ते कीर्तितं राजन्साधु वाऽसाधु वा वद॥ ४.८४ ॥
॥धर्मवर्मोवाच॥
अद्य मे सफलं जन्म अद्य मे सफलं तपः॥
अद्य ते कृतकृत्योऽस्मि कृतः कृतिमतां वर॥ ४.८५ ॥
पठित्वा सकलं जन्म ब्रह्मचारि यथा वृथा॥
बहुक्लेशात्प्राप्तभार्यः सावृथाऽप्रियवादिनी॥ ४.८६ ॥
क्लेशेन कृत्वा कूपं वा स च क्षारोदको वृथा॥
बहुक्लेशैर्जन्म नीतं विना धर्मं तथा वृथा॥ ४.८७ ॥
एवं मे यद्वृथा नाम जातं तत्सफलं त्वया॥
कृतं तस्मान्नमस्तुभ्यं द्विजेभ्यश्च नमोनमः॥ ४.८८ ॥
सत्यमाह पुरा विष्णुः कुमारान्विष्णुसद्भनि॥ ४.८९ ॥
नाहं तथाद्भि यजमानहविर्वितानश्चयोतद्घृतप्लुतमदन्हुतभुङ्मुखेन॥
यद्ब्राह्मणस्य मुखतश्चरतोनुघासं तुष्टस्य मय्यवहितैर्निजकर्मपाकैः॥ ४.९० ॥
तन्मयाऽशर्मणा वापि यद्विप्रेष्वप्रियं कृतम्॥
सर्वस्य प्रभवो विप्रास्तत्क्षमतां प्रसादये॥ ४.९१ ॥
त्वं च कोसि न सामान्यः प्रणम्याहं प्रसादये॥
आत्मानं ख्यापय मुने प्रोक्तश्चेत्यब्रवं तदा॥ ४.९२ ॥
॥नारद उवाच॥
नारदोऽस्मि नृपश्रेष्ठ स्थानकार्थी समागतः॥
प्रोक्तं च देहि मे द्रव्यं भूमिं च स्थानहेतवे॥ ४.९३ ॥
यद्यपीयं देवतानां भूमिर्द्रव्यं च पार्थिव॥
तथापि यस्मिन्यः काले राजा प्रार्थ्यः स निश्चितम्॥ ४.९४ ॥
सहीश्वरस्यावतारो भर्त्ता दाताऽभयस्य सः॥
तथैव त्वामहं याचे द्रव्यशुद्धिप्सया॥
पूर्व ममालयं देहि देयार्थे प्रार्थनापरः॥ ४.९५ ॥
॥राजोवाच॥
यदि त्वं नारदो विप्र राज्यमस्त्वखिलं तव॥
अहं हि ब्राह्मणानां ते दास्यं कर्ता न संशयः॥ ४.९६ ॥
॥नारद उवाच॥
यद्यस्माकं भवान्भक्तस्तत्ते कार्यं च नो वचः॥ ४.९७ ॥
सर्वं यत्तद्देहि मे द्रव्यमुक्तं भुवं च मे सप्तगव्यूतिमात्राम्॥
भूयात्त्वत्तोप्यस्य रक्षेति सोऽपि मेने त्वहं चिंतये चार्थशेषम्॥ ४.९८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारि काखण्डे नारदार्जुनसंवादे दानभेदप्रशंसावर्णनंनाम चतुर्थोऽध्यायः॥ ४ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 5
ऽ
॥ नारद उवाच॥
ततोऽहं धर्मवर्माणं प्रोच्य तिष्ठेद्धनं त्वयि॥
कृत्यकाले ग्रहीष्यामीत्यागमं रैवतं गिरिम्॥ ५.१ ॥
आसं प्रमुदितश्चाहं पश्यंस्तं गिरिसत्तमम्॥
आह्वयानं नरान्साधून्भूमेर्भुजमिवोच्छ्रितम्॥ ५.२ ॥
यस्मिन्नानाविधा वृक्षाः प्रकाशंते समंततः॥
साधुं गृहपतिं प्राप्य पुत्रभार्यादयो यथा॥ ५.३ ॥
मुदिता यत्र संतृप्ता वाशंते कोकिलादयः॥
सद्गुरोर्ज्ञानसंपन्ना यथा शिष्यगणा भुवि॥ ५.४ ॥
यत्र तप्त्वा तपो मर्त्या यथेप्सितमवाप्नुयुः॥
श्रीमहादेवमासाद्य भक्तो यद्वन्मनोरथम्॥ ५.५ ॥
तस्याहं च गिरेः पार्थ समासाद्य महाशिलाम्॥
शीतसौरभ्यमंदेन प्रीणीतोऽचिंतयं हृदि॥ ५.६ ॥
तावन्मया स्थानमाप्तं यदतीव सुदुर्लभम्॥
इदानीं ब्राह्मणार्थेऽहं कुर्वे तावदुपक्रमम्॥ ५.७ ॥
ब्राह्मणाश्च विलोक्य मे ये हि पात्रतमा मताः॥
तथा हि चात्र श्रूयंते वचांसि श्रुतिवादिनाम्॥ ५.८ ॥
न जलोत्तरणे शक्ता यद्वन्नौः कर्णवर्जिता॥
तद्वच्छ्रेष्ठोऽप्यनाचारो विप्रो नोद्धरणक्षमः॥ ५.९ ॥
ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति॥
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते॥ ५.१० ॥
दानपात्रमतिक्रम्य यदपात्रे प्रदीयते॥
तद्दत्तं गामतिक्रम्य गर्दभस्य गवाह्निकम्॥ ५.११ ॥
ऊषरे वापितं बीजं भिन्नभांडे च गोदुहम्॥
भस्मनीव हुतं हव्यं मूर्खे दानमशाश्वतम्॥ ५.१२ ॥
विधिहीने तथाऽपात्रे यो ददाति प्रतिग्रहम्॥
न केवलं हि तद्याति शेषं पुण्यं प्रणश्यति॥ ५.१३ ॥
भूराप्ता गौस्तथा भोगाः सुवर्णं देहमेव च॥
अश्वश्चक्षुस्तथा वासो घृतं तेजस्तिलाः प्रजाः॥ ५.१४ ॥
घ्नंति तस्मादविद्वांस्तु बिभियाच्च प्रतिग्रहात्॥
स्वल्पक केनाप्यविद्वांस्तु पंके गौरिव सीदति॥ ५.१५ ॥
तस्माद्ये गूढतपसो गूढस्वाध्यायसाधकाः॥
स्वदारनिरताः शांतास्तेषु दत्तं सदाऽक्षयम्॥ ५.१६ ॥
देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम्॥
पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम्॥ ५.१७ ॥
न विद्यया केवलया तपसा वापि पात्रता॥
यत्र वृत्तिमिमे चोभे तद्वि पात्रं प्रचक्षते॥ ५.१८ ॥
तेषां त्रयाणां मध्ये च विद्या मुख्यो महागुणः॥
विद्यां विनांधवद्विप्राश्चक्षुष्मंतो हि ते मताः॥ ५.१९ ॥
तस्माच्चक्षुष्मतो विद्वान्देशे देशे परीक्षयेत्॥
प्रश्रान्ये मम वक्ष्यंति तेभ्यो दास्याम्यहं ततः॥ ५.२० ॥
इति संचिंत्य मनसा तस्माद्देशात्समुत्थितः॥
आश्रमेषु महर्षीणां विचराम्यस्मि फाल्गुन॥ ५.२१ ॥
इमाञ्छ्लोकान्गायमानः प्रश्ररूपाञ्छृणुष्व तान्॥
मातृकां को विजानाति कतिधा कीदृशाक्षराम्॥ ५.२२ ॥
पंचपंचाद्भुतं गेहं को विजानाति वा द्विजः॥
बहुरूपां स्त्रियं कर्तुमेकरूपां च वेत्ति कः॥ ५.२३ ॥
को वा चित्रकथाबंधं वेत्ति संसारगोचरः॥
को वार्णवमहाग्राहं वेत्ति विद्यापरायणः॥ ५.२४ ॥
को वाष्टविधं ब्राह्मण्यं वेत्ति ब्राह्मणसत्तमः॥
युगानां च चतुर्णां वा को मूलदिवसान्वदेत्॥ ५.२५ ॥
चतुर्दशमनूनां वा मूलवासरं वेत्ति कः॥
कस्मिंश्चैव दिने प्राप पूर्वं वा भास्करो रथम्॥ ५.२६ ॥
उद्वेजयति भूतानि कृष्णाहिरिव वेत्ति कः॥
को वास्मिन्घोरसंसारे दक्षदक्षतमो भवेत्॥ ५.२७ ॥
पंथानावपि द्वौ कश्चिद्वेत्ति वक्ति च ब्राह्मणः॥
इति मे द्वादश प्रश्रान्ये विदुर्ब्राह्मणोत्तमाः॥ ५.२८ ॥
ते मे पूज्यतमास्तेषामहामाराधकश्चिरम्॥
इत्यहं गायमानो वै भ्रमितः सकलां महीम्॥ ५.२९ ॥
ते चाहुर्दुःखदाः ख्याताः प्रश्रास्ते कुर्महे नमः॥
इत्यहं सकलां पृथ्वीं विचिंत्यालब्धब्राह्मणः॥ ५.३० ॥
हिमाद्रिशिखरासीनो भूयश्चिंतामवाप्तवान्॥
सर्वे विलोकिता विप्राः किमतः कर्तुमुत्सहे॥ ५.३१ ॥
ततो मे चिंतयानस्य पुनर्जाता मतिस्त्वियम्॥
अद्यापि न गतश्चाहं कलापग्राममुत्तमम्॥ ५.३२ ॥
यस्मिन्विप्राः संवसंति मूर्तानीव तपांसि च॥
चतुराशीतिसाहस्राः श्रुताध्ययनशालिनः॥ ५.३३ ॥
स्थाने तस्मिन्गमिष्यामीत्युक्त्वाहं चलितस्तदा॥
खेचरो हिममाक्रम्य परं पारं गतस्ततः॥ ५.३४ ॥
अद्राक्षं पुण्यभूमिस्थं ग्रामरत्नमहं महत्॥
शतयोजनविस्तीर्णं नानावृक्षसमाकुलम्॥ ५.३५ ॥
यत्र पुण्यवतां संति शतशः प्रवराश्रमाः॥
सर्वेषामपि जीवानां यत्रान्योन्यं न दुष्टता॥ ५.३६ ॥
यज्ञभाजां मुनीनां यदुपकारकरं सदा॥
सतां धर्मवतां यद्वदुपकारो न शाम्यति॥ ५.३७ ॥
मुनीनां यत्र परमं स्थानं चाप्यविनाशकृत्॥
स्वाहास्वधावषट्कार हन्तकारो न नश्यति॥ ५.३८ ॥
यत्र कृतयुगस्तार्थं बीजं पार्थावशिष्यते॥
सूर्यस्य सोमवंशस्य ब्राह्मणानां तथैव च॥ ५.३९ ॥
स्थानकं तत्समासाद्य प्रविष्टोऽहं द्विजाश्रमान्॥
तत्र ते विविधान्वादान्विवदंते द्विजोत्तमाः॥ ५.४० ॥
परस्परं चिंतयाना वेदा मूर्तिधरा यथा॥
तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम्॥ ५.४१ ॥
विचिक्षिपुर्महात्मानो नभोगतमिवामिषम्॥
तत्राऽहं करमुद्यम्य प्रावोचं पूर्यतां द्विजाः॥ ५.४२ ॥
काकारावैः किमतैर्वो यद्यस्ति ज्ञानशालिता॥
व्याकुरुध्वं ततः प्रश्रान्मम दुर्विषहान्बहून्॥ ५.४३ ॥
॥ब्राह्मणा ऊचुः॥
वद ब्राह्मण प्रश्रान्स्वाञ्छ्रुत्वाऽऽधास्यामहे वयम्॥
परमो ह्येष नो लाभः प्रश्नान्पृच्छति यद्भवान्॥ ५.४४ ॥
अहं पूर्विकया ते वै न्यषेधंत परस्परम्॥
अहं पूर्वमहं पूर्वमिति वीरा यथा रणे॥ ५.४५ ॥
ततस्तानब्रवं प्रश्रानहं द्वादश पूर्वकान्॥
श्रुत्वा ते मामवोचंत लीलायंतो मुनीश्वराः॥ ५.४६ ॥
किं ते द्विज बालप्रश्नैरमीभिः स्वल्पकैरपि॥
अस्माकं यन्निहीनं त्वं मन्यसे स ब्रवीत्वमून्॥ ५.४७ ॥
ततोतिविस्मितश्चाहं मन्यमानः कृतार्थताम्॥
तेषां निहीनं संचिंत्य प्रावोचं प्रब्रवीत्वयम्॥ ५.४८ ॥
ततः सुतनुनामा स बालोऽबालोऽभ्युवाच माम्॥
मम मंदायते वाणी प्रश्नैः स्वल्पैस्तव द्विज॥
तथापि वच्मि मां यस्मान्निहीनं मन्यते भवान्॥ ५.४९ ॥
॥सुतनुरुवाच॥
अक्षरास्तु द्विपंचाशन्मातृकायाः प्रकीर्तिताः॥ ५.५० ॥
ॐकारः प्रथमस्तत्र चतुर्दश स्वरास्तथा॥
स्पर्शाश्चैव त्रयस्त्रिंशदनुस्वारस्तथैव च॥ ५.५१ ॥
विसर्ज्जनीयश्च परो जिह्वामूलीय एव च॥
उपध्मानीय एवापि द्विपंचाशदमी स्मृताः॥ ५.५२ ॥
इति ते कथिता संख्या अर्थं चैषां श्रृणु द्विज॥
अस्मिन्नर्थे चेतिहासं तव वक्ष्यामि यः पुरा॥ ५.५३ ॥
मिथिलायां प्रवृत्तोऽभूद्ब्राह्मणस्य निवेशने॥
मिथिलायां पुरा पुर्यां ब्राह्मणः कौथुमाभिधः॥ ५.५४ ॥
येन विद्याः प्रपठिता वर्तंते भुवि या द्विज॥
एकत्रिंशत्सहस्राणि वर्षाणां स कृतादरः॥ ५.५५ ॥
क्षणमप्यनवच्छिन्नं पठित्वा गेहवानभूत्॥
ततः केनापि कालेन कौथुमस्याभवत्सुतः॥ ५.५६ ॥
जडवद्वर्त्तमानः स मातृकां प्रत्यपद्यत॥
पठित्वा मातृकामन्यन्नाध्येति स कथंचन॥ ५.५७ ॥
ततः पिता खिन्नरूपी जडं तं समभाषत॥
अधीष्व पुत्रकाधीष्व तव दास्यामि मोदकान्॥ ५.५८ ॥
अथान्यस्मै प्रदास्यामि कर्णावुत्पाटयामि ते॥ ५.५९ ॥
॥पुत्र उवाच॥
तात किं मोदकार्थाय पठ्यते लोभहेतवे॥
पठनंनाम यत्पुंसां परामार्थं हि तत्स्मृतम्॥ ५.६० ॥
॥कौथुम उवाच॥
एवं ते वदमानस्य आयुर्भवतु ब्रह्मणः॥
साध्वी बुद्धिरियं तेऽस्तु कुतो नाध्येष्यतः परम्॥ ५.६१ ॥
॥पुत्र उवाच॥
तात सर्वं परिज्ञेयं ज्ञानमत्रैव वै यतः॥
ततः परं कंठशोषः किमर्थं क्रियते वद॥ ५.६२ ॥
॥पितोवाच॥
विचित्रं भाषसे बाल ज्ञातोऽत्रार्थश्च कस्त्वया॥
ब्रूहि ब्रूहि पुनर्वत्स श्रोतुमिच्छामि ते गिरम्॥ ५.६३ ॥
॥पुत्र उवाच॥
एकत्रिंशत्सहस्राणि पठित्वापि त्वया पितः॥
नानातर्कान्भ्रांतिरेव संधिता मनसि स्वके॥ ५.६४ ॥
अयमयं चायमिति धर्मो यो दर्शनोदितः॥
तेषु वातायते चेतस्तव तन्नाशयामि ते॥ ५.६५ ॥
उपदेशं पठस्येव नैवार्थज्ञोऽसि तत्त्वतः॥
पाठमात्रा हि ये विप्रा द्विपदाः पशवो हि ते॥ ५.६६ ॥
तत्ते ब्रवीमि तद्वाक्यं मोहमार्तंडमद्भुतम्॥ ५.६७ ॥
अकारः कथितो ब्रह्मा उकारो विष्णुरुच्यते॥
मकारश्च स्मृतो रुद्रस्त्रयश्चैते गुणाः स्मृताः॥ ५.६८ ॥
अर्धमात्रा च या मूर्ध्नि परमः स सदाशिवः॥
एवमोंकारमाहात्म्यं श्रुतिरेषा सनातनी॥ ५.६९ ॥
ॐकारस्य च माहात्म्यं याथात्म्येन न शक्यते॥
वर्षाणामयुतेनापि ग्रंथकोटिभिरेव वा॥ ५.७० ॥
पुनर्यत्सारसर्वस्वं प्रोक्तं तच्छ्रूयतां परम्॥
अःकारांता अकाराद्या मनवस्ते चतुर्दश॥ ५.७१ ॥
स्वायंभुवश्च स्वारोचिरौत्तमो रैवतस्तथा॥
तामसश्चाक्षुषः षष्ठस्तथा वैवस्वतोऽधुना॥ ५.७२ ॥
सावर्णिर्ब्रह्मसावर्णी रुद्रसावर्णिरेव च॥
दक्षसावर्णिरेवापि धर्मसावर्णिरेव च॥ ५.७३ ॥
रौच्यो भौत्यस्तथा चापि मनवोऽमी चतुर्दश॥
श्वेतः पांडुस्तथा रक्तस्ताम्रः पीतश्च कापिलः॥ ५.७४ ॥
कृष्णः श्यामस्तथा धूम्रः सुपिशंगः पिशंगकः॥
त्रिवर्णः शबलो वर्णैः कर्कंधुर इति क्रमात्॥ ५.७५ ॥
वैवस्वतः क्षकारश्च तात कृष्णः प्रदृश्यते॥
ककाराद्य हकारांतास्त्रयस्त्रिंशच्च देवताः॥ ५.७६ ॥
thumb|500px|सप्तचक्र
ककाराद्याष्ठकारांता आदित्या द्वादश स्मृताः॥
धाता मित्रोऽर्यमा शक्रो वरुणाश्चांशुरेव च॥ ५.७७ ॥
भगो विवस्वान्पूषा च सविता दशमस्तथा॥
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते॥ ५.७८ ॥
जघन्यजः स सर्वेषामादित्यानां गुणाधिकः॥
डकाराद्या बकारांता रुद्राश्चैकादशैव तु॥ ५.७९ ॥
कपाली पिंगलो भीमो विरुपाक्षो विलोहितः॥
अजकः शासनः शास्ता शंभुश्चण्डो भवस्तथा॥ ५.८० ॥
भकाराद्याः षकारांता अष्टौ हि वसवो मताः॥
ध्रुवो घोरश्च सोमश्च आपश्चैव नलोऽनिलः॥ ५.८१ ॥
प्रत्यूषश्च प्रभासश्च अष्टौ ते वसवः स्मृताः॥
सौ हश्चेत्यश्विनौ ख्यातौ त्रयस्त्रिंशदिमे स्मृताः॥ ५.८२ ॥
अनुस्वारो विसर्गश्च जिह्वामूलीय एव च॥
उपध्मानीय इत्येते जरायुजास्तथांडजाः॥ ५.८३ ॥
स्वेदजाश्चोद्भिजाश्चेति तत जीवाः प्रकीर्तिताः॥
भावार्थः कथितश्चायं तत्त्वार्थं श्रृणु सांप्रतम्॥ ५.८४ ॥
ये पुमांसस्त्वमून्देवान्समाश्रित्य क्रियापराः॥
अर्धमात्रात्मके नित्ये पदे लीनास्त एव हि॥ ५.८५ ॥
चतुर्णां जीवयोनीनां तदैव परिमुच्यते॥
यदाभून्मनसा वाचा कर्मणा च यजेत्सुरान्॥ ५.८६ ॥
यस्मिञ्छास्त्रे त्वमी देवा मानिता नैव पापिभिः॥
तच्छास्त्रं हि न मंतव्यं यदि ब्रह्मा स्वयं वदेत्॥ ५.८७ ॥
अमी च देवाः सर्वत्र श्रौते मार्गे प्रतिष्ठिताः॥
पाषण्डशास्त्रे सर्वत्र निषिद्धाः पापकर्मभिः॥ ५.८८ ॥
तदमून्ये व्यतिक्रम्य तपो दानमथो जपम्॥
प्रकुर्वंति दुरात्मानो वेपते मरुतः पथि॥ ५.८९ ॥
अहो मोहस्य माहात्म्यं पश्यताविजितात्मनाम्॥
पठंति मातृकां पापा मन्यंते न सुरानिह॥ ५.९० ॥
॥सुतनुरुवाच॥
इति तस्य वचः श्रुत्वा पिताभूदतिविस्मितः॥
पप्रच्छ च बहून्प्रश्रान्सोप्यवादीत्तथातथा॥ ५.९१ ॥
मयापि तव प्रोक्तोऽयं मातृकाप्रश्र उत्तमः॥
द्वितीयं श्रृणु तं प्रश्नं पंचपंचाद्भुतं गृहम्॥ ५.९२ ॥
पंचभूतानि पञ्चैव कर्मज्ञानेंद्रियाणि च॥
पंच पंचापि विषया मनोबुद्ध्यहमेव च॥ ५.९३ ॥
प्रकृतिः पुरुषश्चैव पञ्चविंशः सदाशिवः॥
पञ्चपञ्चभिरेततैस्तु निष्पन्नं गृहमुच्यते॥ ५.९४ ॥
देहमेतदिदं वेद तत्त्वतो यात्यसौ शिवम्॥
बहुरूपां स्त्रियं प्राहुर्बुद्धिं वेदांतवादिनः॥ ५.९५ ॥
सा हि नानार्थभजनान्नानारूपं प्रपद्यते॥
धर्मस्यैकस्य संयोगाद्बहुधाप्येकिकैव सा॥ ५.९६ ॥
इति यो वेदे तत्त्वार्थं नासौ नरकमाप्नुयात्॥
मुनिभिर्यश्च न प्रोक्तं यन्न मन्येत दैवतान्॥ ५.९७ ॥
वचनं तद्बुधाः प्रहुर्बंधं चित्रकथं त्विति॥
यच्च कामान्वितं वाक्यं पंचमं वाप्यतः श्रुणु॥ ५.९८ ॥
एको लोभो महान्ग्राहो लोभात्पापं प्रवर्तते॥
लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते॥ ५.९९ ॥
लोभान्मोहश्च माया च मानः स्तम्भः परेष्सुता॥
अविद्याऽप्रज्ञता चैव सर्वं लोभात्प्रवर्तते॥ ५.१०० ॥
हरणं परवित्तानां परदाराभिमर्शनम्॥
साहसानां च सर्वेषामकार्याणआं क्रियास्तथा॥ ५.१०१ ॥
स लोभः सह मोहेन विजेतव्यो जितात्मना॥
दम्भो द्रोहश्च निंदा च पैशुन्यं मत्सरस्तथा॥ ५.१०२ ॥
भवन्त्येतानि सर्वाणि लुब्धानामकृतात्मनाम्॥
सुमहां त्यपि सास्त्राणि धारयंति बहुश्रुताः॥ ५.१०३ ॥
छेत्तारः संशयानां च लोभग्रस्ता व्रजंत्यधः॥
लोभक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः॥ ५.१०४ ॥
अन्तःक्षुरा वाङ्मधुराः कूपाश्धन्नास्तृणौरिव॥
कुर्वते ये बहून्मार्गांस्तांस्तान्हेतुबलन्विताः॥ ५.१०५ ॥
सर्वमार्गं विलुंमपंति लोभाज्जातिषु निष्ठुराः॥
धर्मावतंसकाः क्षुद्रा मुष्णंति ध्वजिनो जगत्॥ ५.१०६ ॥
एतेऽतिपापिनो ज्ञेया नित्यं लोभसमन्विताः॥
जनको युवनाश्वश्च वृषादर्भिः प्रसेनजित्॥ ५.१०७ ॥
लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये जनाधिपाः॥
तस्मात्त्यजंति ये लोभं तेऽतिक्रामंति सागरम्॥ ५.१०८ ॥
संसाराख्यमतोऽनये ये ग्राहग्रस्ता न संशयः॥
अथ ब्राह्मणभेदांस्त्वमष्टो विप्रावधारय॥ ५.१०९ ॥
मात्रश्च ब्राह्मणश्चैव श्रोत्रियश्च ततः परम्॥
अनूचानस्तथा भ्रूण ऋषिकल्प ऋषिर्मुनिः॥ ५.११० ॥
एते ह्यष्टौ समुद्दिष्टा ब्राह्मणाः प्रथमं श्रुतौ॥
तेषां परः परः श्रेष्ठो विद्यावृत्तविशेषतः॥ ५.१११ ॥
ब्राह्मणानां कुले जातो जातिमात्रो यदा भवेत्॥
अनुपेतः क्रियाहीनो मात्र इत्यभिधीयते॥ ५.११२ ॥
एकोद्देश्यमतिक्रम्य वेदस्याचारवानृजुः॥
स ब्राह्मण इति प्रोक्तो निभृतः सत्यवाग्घृणी॥ ५.११३ ॥
एकां शाखां सकल्पां च षड्भिरंगैरधीत्य च॥
षट्कर्मनिरतो विप्रः श्रोत्रियोनाम धर्मवित्॥ ५.११४ ॥
वेदवेदांगतत्त्वज्ञः शुद्धात्मा पापवर्जितः॥
श्रेष्ठः श्रोत्रियवान्प्राज्ञः सोऽनूचान इति स्मृतः॥ ५.११५ ॥
अनूचानगुणोपेतो यज्ञस्वाध्याययंत्रितः॥
भ्रूण इत्युच्यते शिष्टैः शेषभोजी जितेंद्रियः॥ ५.११६ ॥
वैदिकं लौकिकं चैव सर्वज्ञानमवाप्य यः॥
आश्रमस्थो वशी नित्यमृषिकल्प इति स्मृतः॥ ५.११७ ॥
ऊर्ध्वरेता भवत्यग्र्यो नियताशी नसंश यी॥
शापानुग्रहयोः शक्तः सत्यसंधो भवेदृषिः॥ ५.११८ ॥
निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः॥
ध्यानस्थानिष्क्रियो दांतस्तुल्यमृत्कांचनो मुनिः॥ ५.११९ ॥
एवमन्वयविद्याभ्यां वृत्तेन च समुच्छ्रिताः॥
त्रिशुक्लानाम विप्रेंद्राः पूज्यन्ते सवनादिषु॥ ५.१२० ॥
इत्येवंविधविप्रत्वमुक्तं श्रृणु युगादयः॥
नवमी कार्तिके शुक्ला कृतादिः परिकीर्तिता॥ ५.१२१ ॥
वैशाखस्य तृतीया या शुक्ला त्रेतादिरुच्यते॥
माघे पञ्चदशीनाम द्वापरादिः स्मृता बुधैः॥ ५.१२२ ॥
त्रयोदशी नभस्ये च कृष्णा सा हि कलेः स्मृता॥
युगादयः स्मृता ह्येता दत्तस्याक्षयकारकाः॥ ५.१२३ ॥
एताश्चतस्रस्तिथयो युगाद्या दत्तं हुतं चाक्षयमाशु विद्यात्॥
युगेयुगे वर्षशतेन दानं युगादिकाले दिवसेन तत्फलम्॥ ५.१२४ ॥
युगाद्याः कथिता ह्येता मन्वाद्याः श्रृणु सांप्रतम्॥
अश्वयुक्छुक्लनवमी द्वादशी कार्तिके तथा॥ ५.१२५ ॥
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च॥
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा॥ ५.१२६ ॥
आषाढस्यापि दशमी माघमासस्य सप्तमी॥
श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा॥ ५.१२७ ॥
कार्तिकी फाल्गुनी चैत्री ज्येष्ठे पञ्चदशी सिता॥
मन्वंतरादयश्चैता दत्तस्याक्षयकारकाः॥ ५.१२८ ॥
यस्यां तिथौ रथं पूर्वं प्राप देवो दिवाकरः॥
सा तिथिः कथिता विप्रैर्माघे या रथसप्तमी॥ ५.१२९ ॥
तस्यां दत्तं हुतं चेष्टं सर्वमेवाक्षयं मतम्॥
सर्वदारिद्र्यशमनं भास्करप्रीतये मतम्॥ ५.१३० ॥
नित्योद्वेजकमाहुर्यं बुधास्तं श्रृणु तत्त्वतः॥
यश्च याचनिको नित्यं न स स्वर्गस्य भाजनम्॥ ५.१३१ ॥
उद्वेजयति भूतानि यथा चौरास्तथैव सः॥
नरकं याति पापात्मा नित्योद्वेगकरस्त्वसौ॥ ५.१३२ ॥
इहोपपत्तिर्मम केन कर्मणा क्व च प्रयातव्यमितो मयेति॥
विचार्य चैवं प्रतिकारकारी बुधैः स चोक्तो द्विज दक्षदक्षः॥ ५.१३३ ॥
मासैरष्टभिरह्ना च पूर्वेण वयसायुषा॥
तत्कर्म पुरुषः कुर्याद्येनांते सुखमेधते॥ ५.१३४ ॥
अर्चिर्धूमश्च मार्गौ द्वावाहुर्वेदांतवादिनः॥
अर्चिषा याति मोक्षं च धूमेनावर्तते पुनः॥ ५.१३५ ॥
यज्ञैरासाद्यते धूमो नैष्कर्म्येणार्चिराप्यते॥
एतयोरपरो मार्गः पाखंड इति कीर्त्यते॥ ५.१३६ ॥
यो देवान्मन्यते नैव धर्मांश्च मनुसूचितान्॥
नैतौ स याति पंथानौ तत्त्वार्थोऽयं निरूपितः॥ ५.१३७ ॥
इते ते कीर्तिताः प्रश्राः शक्त्या ब्राह्मणसत्तम॥
साधु वाऽसाधु वा ब्रूही ख्यापयात्मानमेव च॥ ५.१३८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कलापग्रामवासिसुतनुब्राह्मणेन नारदप्रश्नोत्तरकथनंनाम पंचमोऽध्यायः॥ ५ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 6
॥श्रीनारद उवाच॥
इति श्रुत्वा फाल्गुनाहं रोमांचपुलकीकृतः॥
स्वरूपं प्रकटीकृत्य ब्राह्मणानिदमब्रवम्॥ ६.१ ॥
अहो धन्यः पितास्माकं यस्य सृष्टस्य पालकाः॥
युष्मद्विधा ब्राह्मणेंद्राः सत्यमाह पुरा हरिः॥ ६.२ ॥
मत्तोऽप्यनंतात्परतः परस्मात्समस्तभूताधिपतेर्न किंचित्॥
तेषां किमुस्यादितरेण येषां द्विजेश्वराणां मम मार्गवादिनाम्॥ ६.३ ॥
तत्सर्वथाद्या धन्योऽस्मि संप्राप्तं जन्मनः फलम्॥
यद्भवन्तो मया दृष्टाः पापोपद्रववर्जिताः॥ ६.४ ॥
ततस्ते सहसोत्थाय शातातपपुरोगमाः॥
अर्घ्यपाद्यादिसत्कारैः पूजयामासुर्मां द्विजाः॥ ६.५ ॥
प्रोक्तवन्तश्च मां पार्थ वचः साधुजनो चितम्॥
धन्या वयं हि देवर्षे त्वमस्मान्यदिहागतः॥ ६.६ ॥
कुतो वाऽऽगमनं तुभ्यं गन्तव्यं वा क्व सांप्रतम्॥
अत्राप्यागमने कार्यमुच्यतां मुनिसत्तम॥ ६.७ ॥
श्रुत्वा प्रीतिकरं वाक्यं द्विजानामिति पांडव॥
प्रत्यवोचं मुनीन्द्रांस्ताञ्छ्रूयतां द्विजसत्तमाः॥ ६.८ ॥
अहं हि ब्रह्मणो वाक्याद्विप्राणां स्थानकं शुभम्॥
दातुकामो महातीर्थे महीसागरसंगमे॥ ६.९ ॥
परीक्षन्ब्राह्मणानत्र प्राप्तो यूयं परीक्षिताः॥
अहं वः स्थायिष्यामि चानुजानीत तद्द्विजाः॥ ६.१० ॥
एवमुक्तो विलोक्यैव द्विजाञ्छातातपोऽब्रवीत्॥
देवानामपि दुष्प्राप्यं सत्यं नारद भारतम्॥ ६.११ ॥
किं पुनश्चापि तत्रैव मही सागरसंगमः॥
यत्र स्नातो महातीर्थफलं सर्वमुपाश्नुते॥ ६.१२ ॥
पुनरेको महान्दोषो बिभीमो नितरां यतः॥
तत्र चौराः सुबहवो निर्घृणाः प्रियसाहसाः॥ ६.१३ ॥
स्पर्शेषु षोडशं चैकविंशं गृह्णंति नो धनम्॥
धनेन तेन हीनानां कीदृशं जन्म नो भवेत्॥ ६.१४ ॥
वरं बुभुक्षया वासो मा चौरकरगा वयम्॥
॥अर्जुन उवाच॥
अद्भुतं वर्ण्यते विप्र के हि चौराः प्रकीर्तिताः॥ ६.१५ ॥
किं धनं च हरंत्येते येभ्यो बिभ्यति ब्राह्मणाः॥
॥नारद उवाच॥
कामक्रोधादयश्चौरास्तप एव धनं तथा॥ ६.१६ ॥
तस्यापहारभीतास्ते मामूचुरिति ब्राह्मणाः॥
तानहं प्राब्रवं पश्चाद्वि जानीत द्विजोत्तमाः॥ ६.१७ ॥
जाग्रतां तु मनुष्याणां चौराः कुर्वंति किं खलाः॥
भयभीतश्चालसश्च तथा चाशुचिरेव यः॥ ६.१८ ॥
तेन किं नाम संसाध्यं भूमिस्तं ग्रसते नरम्॥ ६.१९ ॥
॥शातातप उवाच॥
वयं चौरभयाद्भीतास्ते हरंति धनं महत्॥
कर्तुं तदा कथं शक्यमंग जागरणं तथा॥ ६.२० ॥
खलाश्चौरा गताः क्वापि ततो नत्वाऽऽगता वयम्॥
तस्मासर्वं संत्यजामो भयभीता वयं मुने॥ ६.२१ ॥
प्रतिग्रहश्च वै घोरः षष्ठांऽशफलदस्तथा॥
एवं ब्रुवति तस्मिंश्च हारीतोनाम चाब्रवीत्॥ ६.२२ ॥
मूढबुद्ध्या हि को नाम महीसागरसंगमम्॥
त्यजेच्च यत्र मोक्षश्च स्वर्गश्च करगोऽथ वा॥ ६.२३ ॥
कलापादिषु ग्रामेषु को वसेत विचक्षणः॥
यदि वासः स्तम्भतीर्थे क्षणार्धमपि लभ्यते॥ ६.२४ ॥
भयं च चौरजं सर्वं किं करिष्यति तत्र न॥
कुमारनाथं मनसि पालकं कुर्वतां दृढम्॥ ६.२५ ॥
साहसं च विना भूतिर्न कथंचन प्राप्यते॥
तस्मान्नारद तत्राहमायास्ये तव वाक्यतः॥ ६.२६ ॥
षड्विंशतिसहस्राणि ब्राह्मणा मे परिग्रहे॥
षट्कर्मनिरताः शुद्धा लोभदम्भविवर्जिताः॥ ६.२७ ॥
तैः सार्धमागमिष्यामि ममेदं मतमुत्तमम्॥
इत्युक्ते वचने तांश्च कृत्वाहं दंडमूर्धनि॥ ६.२८ ॥
निवृत्तः सहसा पार्थ खेचरोऽतिमुदान्वितः॥
शतयोजनमात्रं तु हिममार्गमतीत्य च॥ ६.२९ ॥
केदारं समुपायातो युक्तस्तैर्द्विजसत्तमैः॥
आकाशेन सुशक्यश्च बिलेनाथ स देशकः॥ ६.३० ॥
अतिक्रांतुं नान्यथा च तथा स्कंदप्रसादतः॥ ६.३१ ॥
॥अर्जुन उवाच॥
क्व कलापं च तद्ग्रामं कथं शक्यं बिलेन च॥
कथं स्कंदप्रसादः स्यादेतन्मे ब्रूहि नारद॥ ६.३२ ॥
॥नारद उवाच॥
केदाराद्धिमसंयुक्तं योजनानां शतं स्मृतम्॥
तदंते योजनशतं विस्तृतं तत्कलापकम्॥ ६.३३ ॥
तदंते योजनशतं वासुकार्णव मुच्यते॥
शतयोजनमात्रः स भूमिस्वर्गस्ततः स्मृतः॥ ६.३४ ॥
बिलेन च यथा शक्यं गंतुं तत्र श्रृणुष्व तत्॥
निरन्नं वै निरुदकं देवमाराधयेद्गुहम्॥ ६.३५ ॥
दक्षिणायां दिशि ततो निष्पापं मन्यते यदा॥
तदा गुहोऽस्य स्वप्ने गच्छेति भारत॥ ६.३६ ॥
ततो गुहात्पश्चिमतो बिलमस्ति बृहत्तरम्॥
तत्र प्रविश्य गंतव्यं क्रमाणां शतसप्तकम्॥ ६.३७ ॥
तत्र मारकतं लिंगमस्ति सूर्यसमप्रभम्॥
तदग्रे मृत्तिका चास्ति स्वर्णवर्णा सुनिर्मला॥ ६.३८ ॥
नमस्कृत्य च तल्लिंगं गृहीत्वा मृत्तिकां च ताम्॥
आगंतव्यं स्तंभतीर्थे समाराध्य कुमारकम्॥ ६.३९ ॥
कोलं वा कूपतो ग्राह्यं भूतायां निशि तज्जलम्॥
तेनोदकेन मृत्तिकया कृत्वा नेत्रद्वयाञ्जनम्॥ ६.४० ॥
उद्वर्तनं च देहस्य कदाचित्षष्टिमे पदे॥
नेत्रांजनप्रभावाच्च बिलं पश्यति शोभनम्॥ ६.४१ ॥
तन्मध्येन ततो याति गात्रोद्वर्त्तप्रभावतः॥
कारीषैर्नाम चात्युग्रैर्भक्ष्यते नैव कीटकैः॥ ६.४२ ॥
बिलमध्ये च संपश्यन्सिद्धान्भास्करसन्निभान्॥
यात्येवं यात्यसौ पार्थ कलापं ग्राममुत्तमम्॥ ६.४३ ॥
तत्र वर्षसहस्राणि चत्वार्यायुःप्रकीर्तितम्॥
फलानां भोजनं च स्यात्पुनः पुण्यं च नार्ज्जयेत्॥ ६.४४ ॥
इत्येतत्कथितं तुभ्यमतश्चाभूच्छृणुष्व तत्॥
तपः सामर्थ्यतः सूक्ष्मान्दण्डस्याग्रे निधाय तान्॥ ६.४५ ॥
द्विजानहं समायातो महीसागरसंगमम्॥ ६.४६ ॥
तदोत्तार्य मया मुक्तास्तीरे पुण्यजलाशये॥
ततो मया कृतं स्नानं सह तैर्द्विजसत्तमैः॥ ६.४७ ॥
निःशेषदोषदावाग्नौ महीसागरसंगमे॥
पितॄणां देवतानां च कृत्वा तर्पणसत्क्रियाः॥ ६.४८ ॥
जपमानाः परं जप्यं निविष्टाः संगमे वयम्॥
भास्करं समवेक्षंतश्चिंतयंतो हरिं हृदि॥ ६.४९ ॥
तस्मिंश्चैवांतरे पार्थ देवाः शक्रपुरोगमाः॥
आदित्याद्या ग्रहाः सर्वे लोकपालाश्च संगताः॥ ६.५० ॥
देवानां योनयो ह्यष्टौ गंधर्वाप्सरसां गणाः॥
महोत्सवे ततस्तस्मिन्गीतवादित्र उत्तमे॥ ६.५१ ॥
पादप्रक्षालनं कर्तुं विप्राणामुद्यतस्त्वहम्॥
तस्मिन्काले चाश्रृणवमहमातिथ्यवाक्यताम्॥ ६.५२ ॥
सामध्वनिसमायुक्तां तृतीयस्वरनादिताम्॥
अतीव मनसो रम्यां शिव भक्तिमिवोत्तमाम्॥ ६.५३ ॥
विप्रैरुत्थाय संपृष्टः कस्त्वं विप्र क्व चागतः॥
किं वा प्रार्थयसे ब्रूहि यत्ते मनसि रोचते॥ ६.५४ ॥
॥विप्र उवाच॥
मुनिः कपिलनामाहं नारदाय निवेद्यताम्॥
आगतः प्रार्थनायैव तच्छ्रुत्वाहमथाब्रवम्॥ ६.५५ ॥
धन्योहं यदिहायातः कपिल त्वं महामुने॥
नास्त्यदेयं तवास्माभिः पात्रं नास्ति तवाधिकम्॥ ६.५६ ॥
॥कपिल उवाच॥
ब्रह्मपुत्र त्वया देयं यदि मे त्वं श्रृणुष्व तत्॥
अष्टौ विप्रसहस्राणि मम देहीति नारद॥ ६.५७ ॥
भूमिदानं करिष्यामि कलापग्रामवासिनाम्॥
ब्राह्मणानामहं चैषां तदिदं क्रियतां विभो॥ ६.५८ ॥
ततो मया प्रतिज्ञातमेवमस्तु महामुने॥
त्वयापि क्रियतां स्थानं कापिलं कपिलोत्तमम्॥ ६.५९ ॥
श्राद्धे वा प्राप्तकाले वा ह्यतिथिर्विमुखीभवेत्॥
यस्याश्रममुपायातस्यस्य सर्वं हि निष्फलम्॥ ६.६० ॥
स गच्छेद्रौरवाँल्लोकान्योऽतिथिं नाभिपूजयेत्॥
अतिथिः पूजितो येन स देवैरपि पूज्यते॥ ६.६१ ॥
दानैर्यज्ञैस्त तस्तस्मिन्भोजितः कपिलो मुनिः॥
ततो महामुनिः श्रीमान्हारीतो ह्वयितस्तदा॥ ६.६२ ॥
पादप्रक्षालनार्थाय सिद्धदेवसमागमे॥
हारीतश्च पुरस्कृत्य वामपादं तदा स्थितः॥ ६.६३ ॥
ततो हासो महाञ्जज्ञे सिद्धाप्सरः सुपर्वणाम्॥
विचिंत्य बहुधा पृथ्वीं साधु साधुकृता द्विजाः॥ ६.६४ ॥
ततो ममापि मनसि शोकवेगो महानभूत्॥
सत्यां चैव तथा मेने गाथां पूर्वबुधेरिताम्॥ ६.६५ ॥
सर्वेष्वपि च कार्येषु हेतिशब्दो विगर्हितः॥
कुर्वतामतिकार्याणि शिलापातो ध्रुवं भवेत्॥ ६.६६ ॥
ततोहमब्रंवं विप्रान्यूयं मूर्खा भविष्यथ॥
धनधान्याल्पसंयुक्ता दारिद्र्यकलिलावृताः॥ ६.६७ ॥
एवमुक्ते प्रहस्यैव हारीतः प्राब्रवीदिदम्॥
तवैवेयं मुने हानिर्यदस्माञ्छपते भवान्॥ ६.६८ ॥
कः शापो दीयते तुभ्यं शापोयमयमेव ते॥
ततो विमृश्य भूयोऽहब्रवं किमहंद्विज॥ ६.६९ ॥
तथाविधस्य भवतो वामपादप्रदानतः॥ ६.७० ॥
॥हारीत उवाच॥
श्रृणु तत्कारणं धीमञ्छून्यता मे यतो भवेत्॥ ६.७१ ॥
इति चिंतयतश्चित्ते हा दुःखोऽयं प्रतिग्रहः॥
प्रतिग्रहेण विप्राणां ब्राह्म्यं तेजो हि शाम्यति॥ ६.७२ ॥
महादानं हि गृह्णानो ब्राह्मणः स्वं शुभं हि यत्॥
ददाति दातुर्दाता च अशुभं यच्छति स्वकम्॥ ६.७३ ॥
दाता प्रतिग्रहीता च वचनं हि परस्परम्॥
मन्यतेऽधःकरो यस्य सोऽल्पबुद्धिः प्रहीयते॥ ६.७४ ॥
इति चिंतयतो मह्यं शून्यताभूद्धि नारद॥
निद्रार्तश्च भयार्तश्च कामार्तः शोकपीडितः॥ ६.७५ ॥
हृतस्वश्चान्यचित्तश्च शून्याह्येते भवंति च॥
तदेषु मतिमान्कोपं न कुर्वीत यदि त्वया॥ ६.७६ ॥
कृतः कोपस्ततस्तुभ्यमेवं हानिरियं मुने॥
ततस्तापान्वितश्चाहं तान्वि प्रानब्रवं पुनः॥ ६.७७ ॥
धिङ्मामस्तु च दुर्बुद्धिमविमृश्यार्थकारिणम्॥
कुर्वतामविमृश्यैव तत्किमस्ति न यद्भवेत्॥ ६.७८ ॥
सहसा न क्रियां कुर्यात्पदमेतन्महापदाम्॥
विमृश्यकारिणं धीरं वृणते सर्वसंपदः॥ ६.७९ ॥
सत्यमाह महाबुद्धिश्चिरकारी पुरा हि सः॥
पुरा हि ब्राह्मणः कश्चित्प्रख्यातों गिरसां कुले॥ ६.८० ॥
चिरकारि महाप्राज्ञो गौतमस्याभवत्सुतः॥
चिरेण सर्वकार्याणि यो विमृश्य प्रपद्यते॥ ६.८१ ॥
चिरकार्याभिसंपतेश्चिरकारी तथोच्यते॥
अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते॥ ६.८२ ॥
बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना॥
व्यभिचारेण कस्मिन्स व्यतिक्रम्या परान्सुतान्॥ ६.८३ ॥
पित्रोक्तः कुपितेनाथ जहीमां जननीमिति॥
स तथेति चिरेणोक्तः स्वभावाच्चिरकारकः॥ ६.८४ ॥
विमृश्य चिरकारित्वाच्चिं तयामास वै चिरम्॥
पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम्॥ ६.८५ ॥
कथं धर्मच्छलेनास्मिन्निमज्जेयमसाधुवत्॥
पितुराज्ञा परो धर्मो ह्यधर्मो मातृरक्षणम्॥ ६.८६ ॥
अस्वतंत्रं च पुत्रत्वं किं तु मां नात्र पीडयेत्॥
स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत्॥ ६.८७ ॥
पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात्॥
अनवज्ञा पितुर्युक्ता युक्तं मातुश्च रक्षणम्॥ ६.८८ ॥
क्षमायोग्यावुभावेतौ नातिवर्तेत वै कथम्॥
पिता ह्यात्मानमाधत्ते जायायां जज्ञिवानिति॥ ६.८९ ॥
शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च॥
सोऽहमात्मा स्वयं पित्रा पुत्रत्वे परिकल्पितः॥ ६.९० ॥
जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि॥
पर्याप्तः स दृढीकारः पितुर्गौरवलिप्सया॥ ६.९१ ॥
शरीरादीनि देयानि पिता त्वेकः प्रयच्चति॥
तस्मात्पितुर्वचः कार्यं न विचार्यं कथंचन॥ ६.९२ ॥
पातकान्यपि चूर्यंते पितुर्वचनकारिणः॥
पिता स्वर्गः पिता धर्मः पिता परमकं तपः॥ ६.९३ ॥
पितरि प्रीतिमापन्ने सर्वाः प्रीणंति देवताः॥
आशिषस्ता भजंत्येनं पुरुषं प्राह याः पिता॥ ६.९४ ॥
निष्कृतिः सर्वपापानां पिता यदभिनंदति॥
मुच्यते बंधनात्पुष्पं फलं वृंतात्प्रमुच्यते॥ ६.९५ ॥
क्लिश्यन्नपि सुतः स्नेहं पिता स्नेहं न मुंचति॥
एतद्विचिंत्यतं तावत्पुत्रस्य पितृगौरवम्॥ ६.९६ ॥
पिता नाल्पतरं स्थानं चिंतयिष्यामि मातरम्॥
यो ह्ययं मयि संघातो मर्त्यत्वे पांचभौतिकः॥ ६.९७ ॥
अस्य मे जननी हेतुः पावकस्य यथारणिः॥
माता देहारणिः पुंसः सर्वस्यार्थस्य निर्वृतिः॥ ६.९८ ॥
मातृलाभे सनाथत्वमनाथत्वं विपर्यये॥
न स शोचति नाप्येनं स्थावर्यमपि कर्षति॥ ६.९९ ॥
श्रिया हीनोऽपि यो गेहे अंबेति प्रतिपद्यते॥
पुत्रपौत्रसमापन्नो जननीं यः समाश्रितः॥ ६.१०० ॥
अपि वर्षशतस्यांते स द्विहायनवच्चरेत्॥
समर्थं वाऽसमर्थं वा कृशं वाप्यकृशं तथा॥ ६.१०१ ॥
रक्षयेच्च सुतं माता नान्यः पोष्यविधानतः॥
तदा स वृद्धो भवति तदा भवति दुःखितः॥ ६.१०२ ॥
तदा शुन्यं जगत्तस्य यदा मात्रा वियुज्यते॥
नास्ति मातृसमा च्छाया नास्ति मातृसमा गतिः॥ ६.१०३ ॥
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा॥
कुक्षिसंधारणाद्धात्री जननाज्जननी तथा॥ ६.१०४ ॥
अंगानां वर्धनादंबा वीरसूत्वे च वीरसूः॥
शिशोः शुश्रूषणाच्छ्वश्रूर्माता स्यान्माननात्तथा॥ ६.१०५ ॥
देवतानां समावापमेकत्वं पितरं विदुः
मर्त्यानां देवतानां च पूगो नात्येति मातरम्॥ ६.१०६ ॥
पतिता गुरवस्त्याज्या माता च न कथंचन॥
गर्भधारणपोषाभ्यां तेन माता गरीयसी॥ ६.१०७ ॥
एवं स कौशिकीतीरे बलिं राजानमीक्षतीम्॥
स्त्रीवृत्तिं चिरकालत्वाद्धन्तुं दिष्टः स्वमातरम्॥ ६.१०८ ॥
विमृश्य चिरकालं हि चिंतांतं नाभ्यपद्यत॥
एतस्मिन्नंतरे शक्रो रूपमास्थितः॥ ६.१०९ ॥
गायन्गाखामुपायातः पितुस्तस्याश्रमांतिके॥
अनृना हि स्त्रियः सर्वाः सूत्रकारो यदब्रवीत्॥ ६.११० ॥
अतस्ताभ्यः फलं ग्राह्यं न स्याद्दोषेक्षणः सुधीः॥
इति श्रुत्वा तमानर्च मेधातिथिरुदारधीः॥ ६.१११ ॥
दुःखितश्चिंतयन्प्राप्तो भृशमश्रूणि वर्तयन्॥
अहोऽहमीर्ष्ययाक्षिप्तो मग्नोऽहं दुःखसागरे॥ ६.११२ ॥
हत्वा नारीं च साध्वीं च को नु मां तारयिष्यति॥
सत्वरेण मयाज्ञप्तश्चिरकारी ह्युदारधीः॥ ६.११३ ॥
यद्ययं चिरकारी स्यात्स मां त्रायेत पातकात्॥
चिरकारिक भद्रं ते भद्रं ते चिरकारिक॥ ६.११४ ॥
यदद्य चिरकारी त्वं ततोऽसि चिरकारिकः॥
त्राहि मां मातरं चैव तपो यच्चार्जितं मया॥ ६.११५ ॥
आत्मानं पातके विष्टं शुभाह्व चिरकारिक॥
एवं स दुःखितः प्राप्तो गौतमोऽचिंतयत्तदा॥ ६.११६ ॥
चिरकारिकं ददर्शाथ पुत्रं मातुरुपांतिके॥
चिरकारी तु पितरं दृष्ट्वा परमदुःखितः॥ ६.११७ ॥
शस्त्रं त्यक्त्वा स्थितो मूर्ध्ना प्रसादायोपचक्रमे॥
मेधातिथिः सुतं दृष्ट्वा शिरसा पतितं भुवि॥ ६.११८ ॥
पत्नीं चैव तु जीवंतीं परामभ्यगमन्मुदम्॥
हन्यादिति न सा वेद शस्त्रपाणौ स्थिते सुते॥ ६.११९ ॥
बुद्धिरासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम्॥
शस्त्रग्रहणचापल्यं संवृणोति भयादिति॥ ६.१२० ॥
ततः पित्रा चिरं स्मृत्वा चिरं चाघ्राय मूर्धनि॥
चिरं दोर्भ्यां परिष्वज्य चिरंजीवेत्यु दाहृतः॥ ६.१२१ ॥
चिरं मुदान्वितः पुत्रं मेधातिथिरथाब्रवीत्॥
चिरकारिक भद्रं ते चिरकारी भवेच्चिरम्॥ ६.१२२ ॥
चिराय यत्कृतं सौम्य चिरमस्मिन् दुःखितः॥
गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः॥ ६.१२३ ॥
चिरेण मंत्रं संधीयाच्चिरेम च कृतं त्यजेत्॥
चिरेण विहतं मित्रं चिरं धारणमर्हति॥ ६.१२४ ॥
रोगे दर्पे च माने च द्रोहे पापे च कर्मणि॥
अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते॥ ६.१२५ ॥
बंधूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च॥
अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते॥ ६.१२६ ॥
चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम्॥
चिरमन्वास्य विदुषश्चिरमिष्टानुपास्य च॥ ६.१२७ ॥
चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम्॥
ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम्॥ ६.१२८ ॥
चिरं पृच्छेच्च श्रृणुयाच्चिरं न परिभूयते॥
धर्मे शत्रौ शस्त्रहस्ते पात्रे च निकटस्थिते॥ ६.१२९ ॥
भये च साधुपूजायां चिरकारी न शस्यते॥
एवमुक्त्वा पुत्रभार्यासहितः प्राप्य चाश्रमम्॥ ६.१३० ॥
ततश्चिरमुपास्याथ दिवं यातिश्चिरं मुनिः॥
वयं त्वेवं ब्रुवन्तोऽपि मोहेनैवं प्रतारिताः॥ ६.१३१ ॥
कलौ च भवतां विप्रा मच्छापो निपतिष्यति॥
केचित्सदा भविष्यंति विप्राः सर्वगुणैर्युताः॥ ६.१३२ ॥
पादप्रक्षालनं कृत्वा ततोऽहं धर्मवर्मणः॥
समीपे साक्षिणो देवान्कृत्वा संकल्पमाचरम्॥ ६.१३३ ॥
कांचनैरर्नोप्रदानैश्च गृहदानैर्धनादिभिः॥
भार्याभूषणवस्त्रैश्च कृतार्था ब्राह्मणाः कृताः॥ ६.१३४ ॥
ततः करं समुद्यम्य प्राहेन्द्रो देवसंगमे॥
हरांगरुद्धवामार्द्ध यावद्देवी गिरेः सुता॥ ६.१३५ ॥
गणाधीशो वयं यावद्यावत्त्रिभुवनं त्विदम्॥
तावन्नन्द्यादिदे स्थानं नारदस्थापितं सुराः॥ ६.१३६ ॥
ब्रह्मशापो रुद्रशापो विष्णुशापस्तथैव च॥
द्विजशापस्तथा भूयादिदं स्थानं विलुंपतः॥ ६.१३७ ॥
ततस्तथेति तैः सर्वैर्हृष्टैस्तत्र तथोदितम्॥
एवं मया स्थापिते स्थानकेऽस्मिन्संस्थापयामास च कापिलं मुनिः॥
स्थाने उभे देवकृते प्रसन्नास्ततो ययुर्देवता देवसद्म॥ ६.१३८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे नारीयस्थानप्रतिष्ठावर्णनंनाम षष्ठोऽध्यायः ६ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 7
॥ अर्जुन उवाच॥
महीसागरमाहात्म्यमद्भुतं कीर्तितं त्वया॥
विस्मयः परमो मह्यं प्रहर्षश्चोपजायते॥ ७.१ ॥
तदहं विस्तराच्छ्रोतुमिदमिच्छामि नारद॥
कस्य यज्ञे मही ग्लाना वह्नितापाभितापिता॥ ७.२ ॥
॥नारद उवाच॥
महादाख्यानमाख्यास्ये यथा जाता महीनदी॥
श्रृण्वन्नेतां कथां पुण्यां पुण्यमाप्स्यसि पांडव॥ ७.३ ॥
पुराभूद्भूपतिर्भूमाविन्द्रद्युम्न इति श्रुतः॥
वदान्यः सर्वधर्मज्ञो मान्यो मानयिता प्रभुः॥ ७.४ ॥
उचितज्ञो विवेकस्य निवासो गुणसागरः॥
न तदस्ति धरापृष्ठे नगरं ग्रामपत्तनम्॥ ७.५ ॥
तदीयपूर्तधर्मस्य चिह्नेन न यदंकितम्॥
कन्यादानानि बहुधा ब्राह्मेण विधिना व्यधात्॥ ७.६ ॥
भूपालोऽसौ ददौ दानमासहस्राद्धनार्थिनाम्॥
दशमीदिवसे रात्रौ गजपृष्ठेन दुन्दुभिः॥ ७.७ ॥
ताड्यते तत्पुरे प्रातः कार्यमेकादशीव्रतम्॥
यज्वना तेन भूपेन विच्छिन्नं सोमपायिनाम्॥ ७.८ ॥
स्वरणैरास्तृता दर्भैर्द्व्यंगुलोत्सेधिता मही॥
गंगायां सिकता धारा वर्षतो दिवि तारकाः॥ ७.९ ॥
शक्या गणयितुं प्राज्ञैस्तदीयं सुकृतं न तु॥
ईदृशैः सुकृतैरेष तेनैव वपुषा नृपः॥ ७.१० ॥
धाम प्रजापतेः प्राप्तो विमानेन कुरूद्वह॥
बुभुजे स तदा भोगान्दुर्लभानमरैरपि॥ ७.११ ॥
अथ कल्पशतस्यांते व्यतीते तं महीपतिम्॥
प्राह प्रजापतिः सेवावसरायातमात्मनः॥ ७.१२ ॥
॥ब्रह्मोवाच॥
इंद्रद्युम्न द्रुतं गच्छ धरापृष्ठं नृपोत्तम॥
न स्तातव्यं मदीयेद्य लोके क्षणमपि त्वया॥ ७.१३ ॥
॥इंद्रद्युम्न उवाच॥
कस्माद्ब्रह्मन्नितो भूमौ मां प्रेषयसि सम्प्रति॥
सति पुण्ये मदीये तु बहुले वद कारणम्॥ ७.१४ ॥
॥ब्रह्मोवाच॥
न पुण्यं केवलं राजन्गुप्तं स्वर्गस्य साधकम्॥
विना निष्कल्मषां कीर्ति त्रिलोकीतलविस्तृताम्॥ ७.१५ ॥
तव कीर्तिसमुच्छेदः सांप्रतं वसुधातले॥
संजातश्चिरकालेन गत्वा तां कुरु नूतनाम्॥ ७.१६ ॥
यदि वांछा महीपाल मम धामनि संस्थितौ॥ ७.१७ ॥
॥इन्द्रद्युम्न उवाच॥
मदीयं सुकृतं ब्रह्मन्कथं भूमौ भवेदिति॥
किं कर्तव्यं मया नैतन्मम चेतसि तिष्ठति॥ ७.१८ ॥
॥ब्रह्मोवाच॥
बलवानेष भूपाल कालः कलयति स्वयम्॥ ७.१९ ॥
ब्रह्मांडान्यपि मां चैव गणना का भवादृशाम्॥
तदेतदेव मन्येऽहं तव भूपाल सांप्रतम्॥ ७.२० ॥
यत्कीर्तिमात्मनो व्यक्तिं नीत्वाभ्येहि पुनर्दिवम्॥
शुश्रुवानिति वाचं स ब्रह्मणः पृथिवीपतिः॥ ७.२१ ॥
पश्यतिस्म तथात्मानं महीतलमुपागतम्॥
कांपिल्यनगरे भूयः पप्रच्छात्मानमात्मना॥ ७.२२ ॥
नगरं स तदा देशमप्राक्षीदिति विस्मितः॥
॥जना ऊचुः॥
न जानीमो वयं भूपमिंद्रद्युम्नं न तत्पुरम्॥ ७.२३ ॥
यत्त्वं पृच्छसि भो भद्र कञ्चित्पृच्छ चिरायुषम्॥
॥इन्द्रद्युम्न उवाच॥
कः संप्रति धरापृष्ठे चिरायुः प्रथितो जनाः॥ ७.२४ ॥
पृथिवीजयराज्येस्मिन्यत्र प्रबूत मा चिरम्॥
॥जना ऊचुः॥
श्रूयते नैमिषारण्ये सप्तकल्पस्मरो मुनिः॥ ७.२५ ॥
मार्कंडेय इति ख्यातस्तं गत्वा पृच्छ संशयम्॥
तथोपदिष्टस्तैर्गत्वा तत्र तं मुनिपुंगवम्॥ ७.२६ ॥
निशम्य प्रणिपत्याह नृपः स्वहृदयस्थितम्॥
॥इंद्रद्युम्न उवाच॥
चिरायुर्भगवान्भूमौ विश्रुतः सांप्रतं ततः॥ ७.२७ ॥
पृच्छाम्यहं भवान्वेत्ति इंद्रद्युम्नं नृपं न वा॥ ७.२८ ॥
॥श्रीमार्कंडेय उवाच॥
सप्तकल्पान्तरे नाभूत्कोपींद्रद्युम्नसंज्ञितः॥
भूपाल किमहं वच्मि तवान्यत्पृच्छ संशयम्॥ ७.२९ ॥
स निराशस्तदाकर्ण्य वचो भूपोग्निसाधने॥
समुद्योगं तदा चक्रे तं दृष्ट्वाह तदा मुनिः॥ ७.३० ॥
॥मार्कंडेय उवाच॥
मा साहसमिदं कार्षीर्भद्र वाचं श्रृणुष्व मे॥
एति जीवंतमानंदो नरं वर्षशतादपि॥ ७.३१ ॥
तत्करोमि प्रतीकारं तव दुःखोपशांतये॥
श्रृणु भद्र ममास्तीह बको मित्रं चिरंतनः॥ ७.३२ ॥
नाडीजंघ इति ख्यातः स त्वा ज्ञास्यत्यसंशयम्॥
तस्मादेहि द्रुतं यावदावां तत्र व्रजावहे॥ ७.३३ ॥
परोपकारैकफलं जीवितं हि महात्मनाम्॥
यदि ज्ञास्यत्यसंदिग्धमिंद्रद्युम्नं स वक्ष्यति॥ ७.३४ ॥
तौ प्रस्थिताविति तदा विप्रेंद्रनृपपुंगवौ॥
हिमाचलं प्रति प्रीतौ नाडीजंघालयं प्रति॥ ७.३५ ॥
बकोऽथ मित्रं स्वं वीक्ष्य चिरकालादुपागतम्॥
मार्कंडेयं ययौ प्रीत्युत्कंठितः सम्मुखं द्विजैः॥ ७.३६ ॥
कृतसंविदभूत्पूर्वं कुशलस्वागतादिना॥
पप्रच्छानंतरं कार्यं वदागमनकारणम्॥ ७.३७ ॥
मार्कंडेयोथ तं प्राह बकं प्रस्तुतमीप्सितम्॥
इंद्रद्युम्नं भवान्वेत्ति भूपालं पृथिवीतले॥ ७.३८ ॥
एतस्य मम मित्रस्य तेन ज्ञातेन कारणम्॥
नो वायं त्यजति प्राणान्पुरा वह्निप्रवेशनात्॥ ७.३९ ॥
एतस्य प्राणरक्षार्थं ब्रूहि जानासि चेन्नृपम्॥ ७.४० ॥
॥नडीजंघ उवाच॥
चतुर्दश स्मराम्यस्मि कल्पान्विप्रेंद्र सांप्रतम्॥
आस्तां तद्दर्शनं वार्तामपि वा न स्मराम्यहम्॥ ७.४१ ॥
इंद्रद्युम्नो महीपालः कोऽपि नासीन्महीतले॥
एतावन्मात्रमेवाहं जानामि द्विजपुंगव॥ ७.४२ ॥
॥नारद उवाच॥
ततः स विस्मयाविष्टस्तस्यायुरिति शुश्रुवान्॥
पप्रच्छ राजा को हेतुर्दानस्य तपसोऽथ वा॥
यदायुरीदृशं दीर्घं संजातमिति विस्मितः॥ ७.४३ ॥
॥नाडीजंघ उवाच॥
घृतकंबलमाहात्म्यान्मम देवस्य शूलिनः॥
दीर्घमायुरिदं विप्र शापाद्बकवपुः श्रृणु॥ ७.४४ ॥
पुरा जन्मन्यहं बालो ब्राह्मणस्याभवं भुवि॥
पाराशर्यसगोत्रस्य विश्वरूपस्य सन्मुनेः॥ ७.४५ ॥
बालको बक इत्येवं प्रतीतोऽतिप्रियः पितुः॥
चपलोऽतीव बालत्वे निसर्गादेव भद्रक॥ ७.४६ ॥
अथ मारकतं लिंगं देवतावसरात्पितुः॥
चापल्याद्वालभावाच्चापहृत्य निहितं मया॥ ७.४७ ॥
घृतस्य कुंभे संक्रांतौ मकरस्योत्तरायणे॥
अथ प्रातर्व्यतीतायां निशि यावत्पिता मम॥ ७.४८ ॥
निर्माल्यापनयं चक्रे तावच्छून्यं शिवालयम्॥
निशम्य कांदिशीको मां पप्रच्छ मधुरस्वरम्॥ ७.४९ ॥
वत्स क्व नु त्वया लिंगं नूनं विनिहितं वद॥
दास्यामि वांछितं यत्ते भक्ष्यमन्यत्तवेप्सितम्॥ ७.५० ॥
ततो मया बालभावाद्भक्ष्यलुब्धेन तत्पितुः॥
घृतकुंभांतराकृष्य भद्रलिंगं समर्पितम्॥ ७.५१ ॥
अथ काले तु संप्राप्ते प्रमीतोऽहं नृपालये॥
जातो जातिस्मारस्तावदानर्ताधिपतेः सुतः॥ ७.५२ ॥
घृतकंबलमाहात्म्यान्मकरस्थे दिवाकरे॥
अपि बाल्यादवज्ञानात्संयोगाद्घृतलिंगयोः॥ ७.५३ ॥
ततः संस्थापितं लिंगं प्राग्जन्म स्मरता मया॥
ततः प्रभृति लिंगानि घृतेनाच्छादयाम्यहम्॥ ७.५४ ॥
पितृपैतामहं प्राप्य राज्यं शक्त्यनुरूपतः॥
ततः प्रसन्नो भगवान्पार्वतीपतिराह माम्॥ ७.५५ ॥
पूर्वजन्मनि तुष्टोऽहं घृतकंबलपूजया॥
प्रयच्छाम्यस्मि त राज्यमधुनाभिमतं वृणु॥ ७.५६ ॥
ततो मया वृतः प्रादाद्गाणपत्यं मदीप्सितम्॥
कैलासे मां शिवो नित्यं संतुष्टः प्राह चेति च॥ ७.५७ ॥
तेनैव हि शरिरेण प्रणतं पुरतः स्थितम्॥
अद्यप्रभृति संक्रांतौ मकरस्यापरोपि यः॥ ७.५८ ॥
घृतेन पूजां कर्तासौ भावी मम गणः स्फुटम्॥
इत्युक्त्वा मां शिवो भद्र गणकोटीश्वरं व्यधात्॥ ७.५९ ॥
प्रतीपपालकंनाम संस्थितं शिवशासनम्॥
ततः कामादिभिः षड्भिः पदैश्चंक्रमणात्मिकाम्॥ ७.६० ॥
निसर्गचपलां प्राप्य भ्रमरीमिव तां श्रियम्॥
नैवालमभवं तस्या धारणे दैवयोगतः॥ ७.६१ ॥
विचचार तदा मत्तः किलाहं वारणो यथा॥
कृत्याकृत्यविचारेण विमुक्तोऽतीव गर्वितः॥ ७.६२ ॥
विद्यामभिजनं लक्ष्मीं प्राप्य नीचनरो यथा॥
आपदां पात्रतामेति सिंधूनामिव सागरः॥ ७.६३ ॥
अथ काले व्यतिक्रांते कियन्मात्रे यदृच्छया॥
विचरन्नगमं शैलं हिमानीरुद्धकंदरम्॥ ७.६४ ॥
तपस्यति मुनिस्तत्र गालवो भार्यया सह॥
सदैव तीव्रतपसा कृशो धमनिसंततः॥ ७.६५ ॥
ब्राह्मणस्य हि देहोयं नैवैहिकफलप्रियः॥
कृच्छ्राय तपसे चेह प्रेत्यानंतसुखाय च॥ ७.६६ ॥
तस्य भार्याऽतिरूपेण विजिग्ये विश्ववर्णिनी॥
तन्वी श्यामा मृगाक्षी सा पीनोन्नतपयोधरा॥ ७.६७ ॥
हंसगद्गदसंभाषा मत्तमातंगगामिनी॥
विस्तीर्णजघना मध्ये क्षामा दीर्घशिरोरुहा॥ ७.६८ ॥
निम्ननाभिर्विधात्रैषा निर्मिता संदिदृक्षुणा॥
विकीर्णमिव सौंदर्यमेकपात्रमिव स्थितम्॥ ७.६९ ॥
ततोऽविनीतस्तां वीक्ष्य भद्र गालववल्लभाम्॥
अहमासं शरव्रातैस्ताडितः पुष्पधन्विना॥
विवेकिनोऽपि मुनयस्तावदेव विवेकिनः॥ ७.७० ॥
यावन्न हरिणाक्षीणामपांगविवरेक्षिताः॥
मया व्यवसितं चित्ते तदानीं तां जिहीर्षुणा॥ ७.७१ ॥
इति चेति हरिष्यामि तपसा रक्षितां मुनेः॥
अस्याः कृते यदि शपेन्मुनिस्तत्र पराभवः॥ ७.७२ ॥
मम भावी भवेदेषा भार्या मृत्युरुतापि मे॥
तस्माच्छिष्यो भवाम्यस्य शुश्रूषानिरतो मुनेः॥ ७.७३ ॥
प्राप्यांतरं हरिष्यामि नास्य योग्येयमंगना॥
इति व्यवस्य विद्यार्थिमूर्तिमास्थाय गालवम्॥ ७.७४ ॥
नमस्कृत्य वचोऽवोचमिति भाव्यर्थनोदितः॥
तथा मतिस्तथा मित्रं व्यवसायस्तथा नृणाम्॥ ७.७५ ॥
भवेदवश्यं तद्भावि यथा पुंभिः पुरा कृतम्॥
विवेकवैराग्ययुतो भगवंस्त्वासमुपस्थितः॥ ७.७६ ॥
शिष्योऽहं भवता पाठ्यं कर्णधारं महामुनिम्॥
अपारपारदं विष्णुं विप्रमूर्तिमुपाश्रितम्॥ ७.७७ ॥
नमस्ये चेतनं ब्रह्मा प्रत्यक्षं गालवाख्यया॥
अविद्याकृष्णसर्पेण दष्टं तद्विषपीडितम्॥ ७.७८ ॥
उपदेशमहामंत्रैर्मां जांगुलिक जीवय॥
महामोहमहा वृक्षो हृद्यावापसमुत्थितः॥ ७.७९ ॥
त्वद्वाक्यतीक्ष्णधारेण कुठारेण क्षयं व्रजेत्॥
अपवर्गपथव्यापी मूढसंसर्गसेचनः॥ ७.८० ॥
छिद्यतां सूत्रधारेण विद्यापरशुनाधुना॥
भजामि तव शिष्योऽहं वरिवस्यापरश्चिरम्॥ ७.८१ ॥
समिद्दर्भान्मूलफलं दारूणि जलमेव च॥
आहरिष्येऽनुगृह्णीष्व विनीतं मामुपस्थितम्॥ ७.८२ ॥
इत्थं पुरा बकाभिख्यं बकवृत्तिमुपाश्रितम्॥
तदाऽऽर्जवे कृतमतिरनुजग्राह मां मुनिः॥ ७.८३ ॥
ततोऽतीव विनीतोऽहं भूत्वा तं ब्राह्मणीयुतम्॥
विश्वासनाय सुदृढं तोषयामि दिनेदिने॥ ७.८४ ॥
स च जानन्मुनिः पत्नीं पात्रभूतामविश्वसन्॥
स्त्रीचरित्रविदंके तां विधाय स्वपिति द्विजः॥ ७.८५ ॥
अथान्यस्मिन्दिने साभूद्ब्राह्मण्यथ रजस्वला॥
तद्दूरशायिनी रात्रौ विश्वासान्मे तपस्विनी॥ ७.८६ ॥
इदमन्तरमित्यंतर्विचिंत्याहं प्रहर्षितः॥
मलिम्लुचाकृतिर्भूत्वा निशीथे तामथाहरम्॥ ७.८७ ॥
विललाप तदा बाला ह्रियमाणा मयोच्चकैः॥
मैवं मैवमिति ज्ञात्वा मां स्वरेणाब्रवीन्मुनिम्॥ ७.८८ ॥
बकवृत्तिरयं दुष्टो धर्मकंचुकमाश्रितः॥
हरते मां दुराचारस्तस्मात्त्वं त्राहि गालव॥ ७.८९ ॥
तव शिष्यः पुरा भूत्वा कोप्वेषोद्य मलिम्लुचः॥
मां जिहीर्षति तद्रक्ष शरण्य शरणं भव॥ ७.९० ॥
तद्वाक्यसमकालं स प्रबुद्धो गालवो मुनिः॥
तिष्ठतिष्ठेति मामुक्त्वा गतिस्तम्भं व्यधान्मम॥ ७.९१ ॥
ततश्चित्राकृतिरहं स्तम्भितो मुनिनाऽभवम्॥
व्रीडितं प्रविशामीव स्वांगानि किल लज्जया॥ ७.९२ ॥
ततः प्रकुपितः प्राह मामभ्येत्याथ गालवः॥
तद्वज्रदुःसहं वाक्यं येनाहमभवं बकः॥ ७.९३ ॥
॥गालव उवाच॥
बकवृत्तिमुपाश्रित्य वंचितोऽहं यतस्त्वया॥
तस्माद्बकस्त्वं भविता चिरकालं नराधम॥ ७.९४ ॥
इति शप्तोऽहमभवं मुनिनाऽधर्ममाश्रितः॥
परदारोपसेवार्थमनर्थमिममागतः॥ ७.९५ ॥
न हीदृशमनायुष्यं लोके किंचन विद्यते॥
यादृशं पुरुषस्येह परदारोपसेवनम्॥ ७.९६ ॥
ततः सती सा मत्स्पर्शदूषितांगी तपस्विनी॥
मया विमुक्ता स्नात्वा मां तथैवानुशशाप ह॥ ७.९७ ॥
एवं ताभ्यामहं शप्तो ह्यश्वत्थपर्णवद्भयात्॥
कंपमानः प्रणम्योभाववोचं तत्र दम्पती॥ ७.९८ ॥
गणोऽहमीश्वरस्यैव दुर्विनीततरो युवाम्॥
निरोधमेवं कुरुतं भगवंतावनुग्रहम्॥ ७.९९ ॥
वाचि क्षुरो नावनीतं हृदयं हि द्विजन्मनाम्॥
प्रकुप्यंति प्रसीदंति क्षणेनापि प्रसादिताः॥ ७.१०० ॥
त्वयि विप्रतिपन्नस्य त्वमेव शरणं मम॥
भूमौ स्खलितपादानां भूमिरेवावलंबनम्॥ ७.१०१ ॥
गणाधिपत्यमपि मे जातं परिभवास्पदम्॥
विषदंता हि जायन्ते दुर्विनीतस्य सम्पदः॥ ७.१०२ ॥
विदुरेष्यद्धियाऽपायं परतोऽन्ये विवेकिनः॥
नैवोभयं विदुर्नीचा विनाऽनुभवमात्मनः॥ ७.१०३ ॥
दुर्वीनीतः श्रियं प्राप्य विद्यामैश्वर्यमेव वा॥
न तिष्ठति चिरं स्थाने यथाहं मदगर्वितः॥ ७.१०४ ॥
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः॥
एते मदा मदांधानामेत एव सतां दमाः॥ ७.१०५ ॥
नोदर्कशालिनी बुद्धिर्येषामविजितात्मनाम्॥
तैः श्रियश्चपला वाच्यं नीयंते मादृशैर्जनैः॥ ७.१०६ ॥
तत्प्रसीद मुनिश्रेष्ठ शापांतं मेऽधुना कुरु॥
दुर्विनीतेष्वपि सदा क्षमाचारा हि साधवः॥ ७.१०७ ॥
इत्थं वचसि विज्ञप्ते विनीतेनापि वै मया॥
प्रसादप्रवणो भूत्वा शापांतं मे तदा व्यधात्॥ ७.१०८ ॥
॥गालव उवाच॥
छन्नकीर्तिसमुद्धारसहायस्त्वं भविष्यसि॥
यदेन्द्रद्युम्नभूपस्य तदा मोक्षमवाप्स्यसि॥ ७.१०९ ॥
इत्यहं मुनिशापेन तदाप्रभृति पर्वते॥
हिमाचले बको भूत्वा काश्यपेयो वसामि च॥ ७.११० ॥
राज्यं चिरायुरिति मे घृतकम्बलस्य जातिस्मरत्वमधुनापि तथानु भावान्॥
शापाद्बकत्वमभवन्मुनिगालवस्य तद्भद्र सर्वमुदितं भवताद्य पृष्टम्॥ ७.१११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे महीप्रादुर्भावे सप्तमोऽध्यायः॥ ७ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 8
॥नारद उवाच॥
नाडीजंघबकेनोक्तां वाचमाकर्ण्यभूपतिः॥
मार्कंडेयेन संयुक्तो बभूवातीव दुःखितः॥ ८.१ ॥
तं निशम्य मुनिर्भूपं दुःखितं साश्रुलोचनम्॥
समानव्यसनः प्राह तदर्थं स पुनर्बकम्॥ ८.२ ॥
विधायाशां महाभाग त्वदंतिकमुपागतौ॥
आवां चिरायुर्ज्ञातांशाविन्द्रद्युम्नमिति द्विज॥ ८.३ ॥
निष्पन्नं नास्य तत्कार्यं प्राणानेष मुमुक्षति॥
वह्निप्रवेशेन परं वैराग्यं समुपागतः॥ ८.४ ॥
तन्मामुपागतोऽहं च त्वां सिद्धं नास्य वांछितम्॥
तदेनमनुयास्यामि मरणेन त्वया शपे॥ ८.५ ॥
आशां कृत्वाभ्युपायातं निराशं नेक्षितुं क्षमाः॥
भवंति साधवस्तस्माज्जीवितान्मरणं वरम्॥ ८.६ ॥
प्रार्थितं चामुना हृत्स्थं मया चास्मै प्रतिश्रुतम्॥
त्वां मित्रं तत्परिज्ञाने धृत्वा हृदि चिरायुषम्॥ ८.७ ॥
असंपादयतो नार्थं प्रतिज्ञातं ममायुषा॥
कलुषेणार्थिना माशापूरकेण सखेधुना॥ ८.८ ॥
प्रतिश्रुतं कृतं श्लाघ्या दासतांत्यजपक्वणे॥
हरिश्चंद्रस्येव नृणां न श्लाघ्या सत्यसंधता॥ ८.९ ॥
मित्रस्नेहस्य पर्यायस्तच्च साप्तपदं स्मृतम्॥
स्नेहः स कीदृशो मित्रे दुःखितो यो न दृश्यते॥ ८.१० ॥
तदवश्यमहं साकमधुना वह्निसाधनम्॥
करिष्ये कीर्तिवपुषः कृते सत्यमिदं सखे॥ ८.११ ॥
अनुजानीहि मामेतद्दर्शनं तव पश्चिमम्॥
त्वया सह महाभाग नाडीजंघ द्विजोत्तम॥ ८.१२ ॥
॥नारद उवाच॥
वज्रवद्दुःसहां वाचं मार्कंडेयसमीरिताम्॥
शुश्रुवान्स क्षणं ध्यात्वा प्रतीतः प्राह तावुभौ॥ ८.१३ ॥
॥नाडीजंघ उवाच॥
यद्येवं तदिदं मित्रं विशंतं ज्वलनेऽधुना॥
निवारय मुनिश्रेष्ठ मत्तोऽस्ति चिरजीवितः॥ ८.१४ ॥
प्राकारकर्णनामासावुलूकः शिवपर्वते॥
स ज्ञास्यति महीपालमिंद्रद्युम्नं न संशयः॥ ८.१५ ॥
तस्मादहं त्वया सार्धममुना च शिवालयम्॥
व्रजामि तं शिखरिणं मित्रकार्यप्रसिद्धये॥ ८.१६ ॥
इत्येव मुक्त्वा ते जग्मुस्त्रयोऽपि द्विजपुंगवाः॥
कैलासं ददृशुस्तत्र तमुलूकं स्वनीडगम्॥ ८.१७ ॥
कृतसंविदसौ तेन बकः स्वागतपूजया॥
पृष्टश्च तावुभौ प्राह तत्सर्वमभिवांछितम्॥ ८.१८ ॥
चिरायुरसि जानीषे यदीन्द्रद्युम्नभूपतिम्॥
तद्ब्रूहि तेन ज्ञानेन कार्यं जीवामहे वयम्॥ ८.१९ ॥
इति पृष्टः स विमना मित्रकार्यप्रसाधनात्॥
कौशिकः प्राह जानामि नेन्द्रद्युम्नमहं नृपम्॥ ८.२० ॥
अष्टाविंशत्प्रमाणा मे कल्पा जातस्य भूतले॥
न दृष्टो न श्रुतो वासाविंद्रद्युम्नो नृपः क्षितौ॥ ८.२१ ॥
तच्छ्रुत्वा विस्मितो भूपस्तस्यायुरतिमात्रतः॥
दुःखितोऽपि तदा हेतुं पप्रच्छासौ तदायुषः॥ ८.२२ ॥
एवमायुर्यदि तव कथं प्राप्तं ब्रवीहि तत्॥
उलूकत्वं कथमिदं जुगुप्सितमतीव च॥ ८.२३ ॥
॥प्राकारकर्ण उवाच॥
श्रृणु भद्र यथा दीर्घमायुर्मेशिवपूजनात्॥
जुगुप्सितमुलूकत्वं शापेन च महामुनेः॥ ८.२४ ॥
वसिष्ठकुलसंभूतः पुराहमभवं द्विजः॥
घंट इत्यभिविख्यातो वाराणस्यां शिवेरतः॥ ८.२५ ॥
धर्मश्रवणनिष्ठस्य साधूनां संसदि स्वयम्॥
श्रुत्वास्मि पूजयामीशं बिल्वपत्रैरखंडितैः॥ ८.२६ ॥
न मालती न मंदारः शतपत्रं न मल्लिका॥
तथा प्रियाणि श्रीवृक्षो यथा मदनविद्विषः॥ ८.२७ ॥
अखंडबिल्वपत्रेण एकेन शिवमूर्धनि॥
निहितेन नरैः पुण्यं प्राप्यते लक्षपुष्पजम्॥ ८.२८ ॥
अखंडितैर्बिल्वपत्रैः श्रद्धया स्वयमाहृतैः॥
लिंगप्रपूजनं कृत्वा वर्षलक्षं वसेद्दिवि॥ ८.२९ ॥
सच्छास्त्रेभ्य इति श्रुत्वा पूजयाम्यहमीश्वरम्॥
त्रिकालं श्रद्धया पत्रैः श्रीवृक्षस्य त्रिभिस्त्रिभिः॥ ८.३० ॥
ततो वर्षशतस्यांते तुतोष शशिशेखरः॥
प्रत्यक्षीभूय मामाह मेघगंभीरया गिरा॥ ८.३१ ॥
॥ईश्वर उवाच॥
तुष्टोस्मि तव विप्रेंद्राखंडबिल्वदलार्चनात्॥
वृणीष्वाभिमतं यत्ते दास्यम्यपि च दुर्लभम्॥ ८.३२ ॥
अखंडबिल्वपत्रेण महातुष्टिः प्रजायते॥
एकनापि यथान्येषां तथा न मम कोटिभिः॥ ८.३३ ॥
इत्युक्तोऽहं भगवता शंभुना स्वमनः स्थितम्॥
वृणोमि स्म वरं देव कुरु मामजरामरम्॥ ८.३४ ॥
अथ लीलाविलासो मां तथेत्युक्त्वाऽविचारितम्॥
ययावदर्शनं प्रीतिमहं च महतीं गतः॥ ८.३५ ॥
कृतकृत्यं तदात्मानमज्ञासिपमहं क्षितौ॥
एतस्मिन्नेव काले तु भृगुवंश्योऽभवद्द्विजः॥ ८.३६ ॥
अवदातत्रिजन्मासवक्षविच्चाक्षरार्थवित्॥
सुदर्शनेति प्रथिता प्रिया तस्याभवत्सती॥ ८.३७ ॥
अतीव मुदिता पत्युर्मुखं प्रेक्ष्यास्य दर्शनात्॥
तनया देवलस्यैपा रूपेणाप्रतिमा भुवि॥ ८.३८ ॥
तस्यां तस्मादभूत्कन्या निर्विशेषा निजारणेः॥
निवृत्तबालभावाभूत्कुमारी यौवनोन्मुखी॥ ८.३९ ॥
नालं बभूव तां दातुं तनयां गुणशालिनीम्॥
कस्यापि जनकः सा च वयःसंधौ मयेक्षिता॥ ८.४० ॥
प्रविश्द्यौवनाभोगभावैरतिमनोहरा॥
निर्वास्यमानैरपरैस्तिलतंदुलिताकृतिः॥ ८.४१ ॥
क्रीडमाना वयस्याभिर्लावण्यप्रतिमेव सा॥
व्यचिंतयमहं विप्र तां निरीक्ष्य सुमध्यमाम्॥ ८.४२ ॥
अनन्याकृतिमन्योऽसौ विधिर्येनेति निर्मिता॥
ततः सात्त्विकभावानां तत्क्षणादस्मि गोचरम्॥ ८.४३ ॥
प्रापितो लीलयाहत्य बाणैः कुसुमधन्विना॥
ततो मया स्खलद्वालं पृष्टा कस्येति तत्सखी॥ ८.४४ ॥
प्राहेति भृगुवंश्यस्य कन्येयं द्विजजन्मनः॥
अनूढाद्यापि केनापि समायातात्र खेलितुम्॥ ८.४५ ॥
ततः कुसुमबाणेन शरव्रातैर्भृशं हतः॥
पितरं प्रणतो गत्वा ययाचे तां भृगूद्वहम्॥ ८.४६ ॥
स च मां सदृशं ज्ञात्वा शीलेन च कुलेन च॥
अतीव चार्थिनं मह्यं ददौ वाचा पुरः क्रमात्॥ ८.४७ ॥
ततः सा तनया तस्य भार्गवस्या श्रृणोदिति॥
दत्तास्मि तस्मै विप्राय विरूपायेति जल्पताम्॥ ८.४८ ॥
रोरूयमाणा जननीमाह पश्य यथा कृतम्॥
अतीवानुचितं दत्त्वा जनकेन तथा वरे॥ ८.४९ ॥
विषमालोड्य पास्यामि प्रवेक्ष्यामि हुताशनम्॥
वरं न तु विरूपस्योद्वोढुर्भार्या कथंचन॥ ८.५० ॥
ततः संबोध्य जननी तां सुतामाह भार्गवम्॥
न देयास्मै त्वया कन्या विरूपायेति चाग्रहात्॥ ८.५१ ॥
स वल्लभावचः श्रुत्वा धर्मशास्त्राण्यवेक्ष्य च॥
दत्तामपि हरेत्पूर्वां श्रेयांश्चेद्वर आव्रजेत्॥ ८.५२ ॥
अर्वाक्छिलाक्रमणतो निष्ठा स्यात्सप्तमे पदे॥
इति व्यवस्य प्रददावन्यस्मै तां द्विजः सुताम्॥ ८.५३ ॥
श्वोभाविनि विवाहे तु तच्च सर्वं मया श्रुतम्॥
ततोतीव विलक्ष्योहं वयस्यानां पुरस्तदा॥ ८.५४ ॥
नाशकं वदनं भद्र तथा दर्शयितुं निजम्॥
कामार्तोतीव तां सुप्तामर्वाग्निशि तदाहरम्॥ ८.५५ ॥
नीत्वा दुर्गतमैकांतेऽकार्षमौद्वाहिकं विधिम्॥
गांधर्वेण विवाहेन ततोऽकार्षं हृदीप्सितम्॥ ८.५६ ॥
अनिच्छंतीं तदा बालां बलात्सुरतसेवनम्॥
अथानुपदमागत्य तत्पिता प्रातरेव माम्॥ ८.५७ ॥
निश्वस्य संवृतो विप्रास्तां वीक्ष्योद्वाहितां सुताम्॥
शशाप कुपितो भद्र मां तदानीं स भार्गवः॥ ८.५८ ॥
॥भार्गव उवाच॥
निशाचरस्य धर्मेण यत्त्वयोद्वाहिता सुता॥
तस्मान्निशाचरः पाप भव त्वमविलंबितम्॥ ८.५९ ॥
इति शप्तः प्रण्म्यैनं पादोपग्रहपूर्वकम्॥
हाहेति च ब्रुवन्गाढं साश्रुनेत्रं सगद्गदम्॥ ८.६० ॥
ततोहमब्रवं कस्माददोषं मां भवानिति॥
शपते भवता दत्ता मम वाचा पुरा सुता॥ ८.६१ ॥
सोद्वाहिता मया कन्या दानं सकृदिति स्मृतिः॥
सकृज्जल्पंति राजानः सकृज्जल्पंति पण्डिताः॥ ८.६२ ॥
सकृत्कन्याः प्रदीयंते त्रीण्येतानि सकृत्सकृत्॥
किं च प्रतिश्रुतार्थस्य निर्वाहस्तत्सतां व्रतम्॥ ८.६३ ॥
भवादृशानां साधूनां साधूनां तस्य त्यागो विगर्हितः॥
प्रतिश्रुता त्वया लब्धा तदा कालमियं मया॥ ८.६४ ॥
उद्वोढा चाधुना नाहमुचितः शापभाजनम्॥
वृथा शपन्ति मह्यं च भवंतस्तद्विचार्यताम्॥ ८.६५ ॥
यो दत्त्वा कन्यकां वाचा पश्चाद्धरति दुर्मतिः॥
स याति नरकं चेति धर्मशास्त्रेषु निश्चितम्॥ ८.६६ ॥
तदाकर्ण्य व्यवस्यासौ तथ्यं मद्वचनं हृदा॥
पश्चात्तापसमोपेतो मुनिर्मामित्यथाब्रवीत्॥ ८.६७ ॥
न मे स्यादन्यथा वाणी उलूकस्त्वं भविष्यति॥
निशाचरो ह्युलूकोऽपि प्रोच्यते द्विजसत्तम॥ ८.६८ ॥
यदेंद्रद्युम्नविज्ञाने सहायस्तंव भविष्यसि॥
तदा त्वं प्रकृतिं विप्र प्राप्स्यसीत्यब्रवीत्स माम्॥ ८.६९ ॥
तद्वाक्यसमकालं च कौशिकत्वमिदं मम॥
एतावंति दिनान्यासीदष्टाविंशद्दिनं विधेः॥ ८.७० ॥
बिल्वीदलौरिति पुरा शशिशेखरस्य संपूजनेन मम दीर्घतरं किलायुः॥
संजातमत्र च जुगुप्सितमस्य शापात्कैलासरोधसि निशाचररूपमासीत्॥ ८.७१ ॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां माहेश्वरखण्डे कौमारिकाखण्डे महीनदीप्रादुर्भावे बिल्वदलमाहात्म्यवर्णनंनामाष्टमोऽध्यायः॥ ८ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 9
॥ उलूक उवाच॥
इतीदमुक्तमखिलं पूर्वजन्मसमुद्भवम्॥
स्वरूपमायुषो हेतुः कौशिकत्वस्य चेति मे॥ ९.१ ॥
इत्युक्त्वा विरते तस्मिन्पुरूहूतसनामनि॥
नाडीजंघो बको मित्रमाह तं दुःखितो वचः॥ ९.२ ॥
॥नाडीजंघ उवाच॥
यदर्थं वयमायातास्तन्न सिद्धं महामते॥
कार्यं तन्मरणं नूनं त्रयाणामप्युपागतम्॥ ९.३ ॥
इंद्रद्युम्नापरिज्ञाने भद्रकोऽयं मुमूर्षति॥
तस्यानु मित्रं मार्कंडस्तं चान्वहमपि स्फुटम्॥ ९.४ ॥
मित्रकार्ये विनिर्वृत्ते म्रियमाणं निरीक्षते॥
यो मित्रं जीवितं तस्य धिगस्निग्धं दुरात्मनः॥ ९.५ ॥
तदेतावनुयास्यामि म्रियमाणावहं द्विज॥
आपृच्छे त्वां नमस्कार आश्लेषश्चाथपश्चिमः॥ ९.६ ॥
प्रतिज्ञातमनिष्पाद्य मित्रस्याभ्यागतस्य च॥
कथंकारं न लज्जंते हताशा जीवितेप्सवः॥ ९.७ ॥
तस्माद्वह्निं प्रवेक्ष्यामि सार्धमाभ्यामसंशयम्॥
आपृष्टोऽस्यधुना स्नेहान्मम देहि जलांजलिम्॥ ९.८ ॥
इत्युक्तवत्युलूकोऽसौ नाडीजंघे सगद्गदम्॥
साश्रुनेत्रं स्थिरीभूय प्राह वाचं सुधासमुचम्॥ ९.९ ॥
॥उलूक उवाच॥
मयि जीवति मित्रे मे भवान्मरणमेति च॥
अद्यप्रभृति कस्तर्हि हृदा मम लभिष्यति॥ ९.१० ॥
अस्त्युपायो महानत्र गन्धमादनपर्वते॥
मत्तश्चिरायुर्मित्रोस्ति गृध्रः प्राणसमः सुहृत्॥ ९.११ ॥
स विज्ञास्यति वोऽभीष्टमिंद्रद्युम्नं महीपतिम्॥
इत्युक्त्वा पुरतस्तस्थावुलूकः स च भूपतिः॥ ९.१२ ॥
मार्कंडेयो बकश्चैव प्रययुर्गंधमादनम्॥
तमायांतमथालोक्य वयस्यं पुरतः स्थितम्॥ ९.१३ ॥
स्वकुलायात्प्रहृष्टोऽसौ गृध्रः संमुखमाययौ॥
कृतसंविदसौ पूर्वं स्वागतासनभोजनैः॥ ९.१४ ॥
उलूकं गृध्रराजश्च कार्यं पप्रच्छ तं तथा॥
म चाचख्यावयं मित्रं बको मेऽस्य मुनिः किल॥ ९.१५ ॥
मुनेरपि तृतीयोऽयं मित्रं चार्थोयमुद्यतः॥
इंद्रद्युम्नपरिज्ञाने स्वयं जीवति नान्यथा॥ ९.१६ ॥
वह्निं प्रवेक्ष्यते व्यक्तमयं तदनु वै वयम्॥
मया निषिद्धोऽयं ज्ञात्वा त्वां चिरंतनमात्मना॥ ९.१७ ॥
तच्चेज्जानासि तं ब्रूहि चतुर्णां देहि जीवितम्॥
संरक्ष्याप्नुहि सत्कीर्तिं क्षयं चाखिलपाप्मनः॥ ९.१८ ॥
॥गृध्र उवाच॥
षट्पंचाशद्व्यतीता मे कल्पा जातस्य कौशिक॥
न दृष्टो न श्रुतोऽस्माभिरिंद्रद्युम्नो महीपतिः॥ ९.१९ ॥
तच्छ्रुत्वा विस्मयाविष्ट इंद्रद्युम्नोऽपि दुःखितः॥
पप्रचछ जीविते हेतुमतिमात्रे विहंगमम्॥ ९.२० ॥
॥गृध्र उवाच॥
श्रृणु भद्रै पुरा जातो मर्कटोऽहं च चापलः॥
आसं कदाचिदभवद्वसंतोऽथ ऋतुः क्रमात्॥ ९.२१ ॥
तत्राग्रे देवदेवस्य वनमध्ये शिवालये॥
भवोद्भवस्य पुरतो जगद्योगेश्वराभिधे॥ ९.२२ ॥
चतुर्दशीदिने हस्तनक्षत्रे हर्षणाभिधे॥
योगे चैत्रे सिते पक्ष आसीद्दमनकोत्सवः॥ ९.२३ ॥
अत्र सौवर्ण्यदोलायां लिंग आरोपिते जनैः॥
निशायामधिरूह्याऽहं दोलां तां च व्यचालयम्॥ ९.२४ ॥
निसर्गाज्जतिचापल्याच्चिरकालं पुनःपुनः॥
अथ प्रभात आयाता जनाः पूजाकृते कपिम्॥ ९.२५ ॥
दोलाधिरूढमालोक्य लकुटैर्मां व्यताडयन्॥
दोलासंस्थित एवाहं प्रमीतः शिवमंदिरे॥ ९.२६ ॥
तेषां प्रहारैः सुदृढैर्बहुभिर्वज्रदुःसहैः॥
शिवांदोलनमाहात्म्याज्जातोऽहं नृपमंदिरे॥ ९.२७ ॥
काशीश्वरस्य तनयः प्रतीतोऽस्मि कुशध्वजः॥
जाति स्मरस्ततो राज्ये क्रमात्प्राप्याहमैश्वरम्॥ ९.२८ ॥
कारयामि धरापृष्ठे चैत्रे दमनकोत्सवम्॥
यथा यथा दोलयति शिवं दोलास्थितं नरः॥ ९.२९ ॥
तथा तथाऽशुभं याति पुण्यमायाति भद्रक॥
शिवदीक्षामुपागम्याखिलसंस्कारसंस्कृतः॥ ९.३० ॥
शिवाचार्यैर्विमुक्तोऽहं पशुपाशैस्तदागमात्॥
निर्वाहदीक्षापर्यंतान्संस्कारान्प्राप्य सर्वतः॥ ९.३१ ॥
आराधयामि देवेशं प्रत्यक्चित्तमुमापतिम्॥
समस्तक्लेशविच्छेदकारणं जगतां गुरुम्॥ ९.३२ ॥
चित्तवृत्तिनिरोधेन वैराग्याभ्यासयोगतः॥
जपन्नुद्गीतमस्यार्थं भावयन्नष्टमं रसम्॥ ९.३३ ॥
ततो मां प्रणिधानेनाभ्यासेन दृढभूमिना॥
अन्तरायानुपहतं ज्ञात्वा तुष्टोऽब्रवीद्धरः॥ ९.३४ ॥
॥ईश्वर उवाच॥
कुशध्वजाहं तुष्टोद्य वरं वरय वांछितम्॥
न हीदृशमनुष्ठानं कस्याप्यस्ति महीतले॥ ९.३५ ॥
श्रुत्वेत्युक्तो मया शम्भुर्भूयासं ते गंणो ह्यहम्॥
अनेनैव शरीरेण तथेत्येवाह गां प्रभुः॥ ९.३६ ॥
ततः कैलासमानीय विमानं मम चादिशत्॥
सर्वरत्नमयं दिव्यं दिव्याश्चर्यसमावृतम्॥ ९.३७ ॥
विचरामि प्रतीतोऽहं तदारूढो यदृच्छया॥
अथ काले कियन्मात्रे व्यतीतेऽत्रैवं पर्वते॥ ९.३८ ॥
गवाक्षाधिष्ठितोऽपश्यं वसंते मुनिकन्यकाम्॥
प्रवाति दक्षिणे वायौ मदनाग्निप्रदीपितः॥ ९.३९ ॥
अग्निवेश्यसुतां भद्र विवस्त्रां जलमध्यगाम्॥
उद्भिन्नयौवनां श्यामां मध्यक्षामां मृगेक्षणाम्॥ ९.४० ॥
विस्तीर्णजघनाभोगां रंभोरुं संहतस्तनीम्॥
तामंकुरितलावण्यां जलसेका दिवाग्रतः॥ ९.४१ ॥
प्रोन्निद्रपंकजमुखीं वर्णनीयतमाकृतिम्॥
यथाप्रज्ञानयाथात्म्याद्विद्विद्भिरपि वर्णिनीम्॥ ९.४२ ॥
प्रोद्यत्कटाक्षविक्षेपैः शरव्रातैरिव स्मरः॥
स्वयं तदंगमास्थाय ताडयामास मां दृढम्॥ ९.४३ ॥
वयस्यासंवृचामेवं खेलमानां यदृच्छया॥
अवतीर्याहमहरं विमानान्मदनातुरः॥ ९.४४ ॥
सा गृहीता मया दीर्घं प्रकुर्वाणा महास्वनम्॥
तातेति च विमानस्था रुरोदातीव भद्रक॥ ९.४५ ॥
ततो वयस्यास्ता दीना मुनिमाहुः प्रधाविताः॥
वैमानिकेन केनापि ह्रियते तव पुत्रिका॥ ९.४६ ॥
रुदन्तीं भगवन्नेतां त्राह्युत्तिष्ठेति सर्वतः॥
तासां तदाकर्ण्य वचो मुनिर्भद्रतपोनिधिः॥ ९.४७ ॥
अग्निवेश्योऽभ्यगात्तस्या व्योमन्युपपदं त्वरन्॥
तिष्ठतिष्ठेति मामुक्त्वा संस्तभ्य तपसा गतिम्॥ ९.४८ ॥
ततः प्रकुपितः प्राह मुनिमामति दुःसहम्॥
॥अग्निवेश्य उवाच॥
यस्मान्मदीया तनया मांसपेशीव ते हृता॥ ९.४९ ॥
गृध्रेणेवाऽधुना व्योम्नि तस्माद्गध्रो भव द्रुतम्॥
अनिच्छंती मदीयेयं सुता बाला तपस्विनी॥ ९.५० ॥
त्वया हृताधुनास्यैतत्फलमाप्नुहि दुर्मते॥
इत्याकर्ण्य भयाविष्टो लज्जयाधोमुखो मुनेः॥ ९.५१ ॥
पादौ प्रगृह्य न्यपतं रुदन्नतितरां तदा॥
न मयेयं परिज्ञाय हृता नाद्यापि धर्षिता॥ ९.५२ ॥
प्रसादं कुरु ते शापं व्यावर्तय तपोनिधे॥
प्रणतेषु क्षमावन्तो निसर्गेण तपोधनाः॥ ९.५३ ॥
भवंति संतस्तद्गृध्रो मा भवेयं प्रसीद मे॥
इति प्रपन्नेन मया प्रणतोऽसौ महामुनिः॥ ९.५४ ॥
प्रसन्नः प्राह नो मिथ्या मम वाक्यं भवेत्क्वचित्॥
किं त्विंद्रद्युम्नभूपालपरिज्ञाने सहायताम्॥ ९.५५ ॥
यदा यास्यसि शापस्य तदा मुक्तिमवाप्स्यसि॥ ९.५६ ॥
इत्युक्त्वा स मुनिः प्रायाद्गृहीत्वा निजकन्यकाम्॥
अखण्डशीलां स्वावासमहं गृध्रोऽभवं तदा॥ ९.५७ ॥
एवं तदा दमनकोत्सव ईश्वरस्य आंदोलनेन नृपवेश्मनि मेऽवतारः॥
शम्भोर्गणत्वमभवच्च तथाग्निवेश्यशापेन गृध्र इह भद्र तवेदमुक्तम्॥ ९.५८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे महीप्रादुर्भावे दमनकमाहात्म्यंनाम नवमोऽध्यायः॥ ९ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 10
॥ नारद उवाच॥
गृध्रस्यैतद्वचः श्रुत्वा दुःखविस्मयसंयुतः॥
इन्द्रद्युम्नस्तमा पृच्छय मरणायोपचक्रमे॥ १०.१ ॥
ततस्तमालोक्य तथा मुमूर्षुं कौशिकादिभिः॥
स संहितं विचिंत्याह दीर्घायुषमथात्मनः॥ १०.२ ॥
मैवं कार्षीः श्रुणु गिरं भद्रक त्वं चिरंतनः॥
मत्तोऽप्यस्ति स्फुटं चैव ज्ञास्यति त्वदभीप्सितम्॥ १०.३ ॥
मानसे सरसि ख्यातः कूर्मोमंथरकाख्यया॥
तस्य नाविदितं किंचिदेहि तत्र व्रजामहे॥ १०.४ ॥
ततः प्रतीतास्ते भूपमुनिगृध्रबकास्तथा॥
उलूकसहिता जग्मुः सर्वे कूर्मदिदृक्षवः॥ १०.५ ॥
सरस्तीरे स्थितः कूर्मस्तान्निरीक्ष्य विदूरगान्॥
कांदिशीको विवेशासौ जलं शीघ्रतरं तदा॥ १०.६ ॥
कौशिकोऽथ तमाहेदं प्रहस्य वचनं स्वयम्॥
कस्मात्कूर्म प्रनष्टोद्य विमुखोऽभ्यागतेष्वपि॥ १०.७ ॥
अग्निर्द्विजानां विप्रश्च वर्णानां रमणः स्त्रियाम्॥
गुरुः पिता च पुत्राणां सर्वस्याभ्यागतो गुरुः॥ १०.८ ॥
विहाय तमिमं धर्ममातिथ्यविमुखः कथम्॥
गृह्णासि पापं सर्वेषां ब्रूहि कूर्माधुनोत्तरम्॥ १०.९ ॥
॥कूर्म उवाच॥
चिरंतनो हि जानामि कर्त्तुमातिथ्यसत्क्रियाम्॥
अभ्यागतेष्वपचितिं धर्मशास्त्रेषु निश्चितम्॥ १०.१० ॥
सुमहत्कारणं चात्र श्रूयतां तद्वदामि वः॥
नाहं पराङ्मुखो जात एतावंति दिनान्यपि॥ १०.११ ॥
अभ्यागतस्य कस्यापि सर्वसत्कारसद्व्रती॥
किं त्वेष पंचमो यो वो दृश्यते सरलाकृतिः॥ १०.१२ ॥
इंद्रद्युम्नो महीपालो बिभोम्यस्मादलंतराम्॥
अमुना यजमानेन रौचकाख्ये पुरा पुरे॥ १०.१३ ॥
यज्ञपावकदग्धा मे पृष्ठिर्नाद्यापि निर्व्रणा॥
तन्मे भयं पुनर्जातं किमयं पुनरेव माम्॥ १०.१४ ॥
आसुतीवलमाधाय भुवि धक्ष्यति संप्रति॥
इति वाक्यावसाने तु कूर्मस्य कुरुसत्तम॥ १०.१५ ॥
पपात पुष्पवृष्टिः खाद्विमुक्ताप्सरसां गणैः॥
सस्वनुर्देववाद्यानि कीर्त्युद्धारे महीपतेः॥ १०.१६ ॥
विस्मितास्ते च ददृशुर्विमानं पुरतः स्थितम्॥
इंद्रद्युम्नकृते देवदूतेनाधिष्ठितं तदा॥ १०.१७ ॥
अयातयामाः प्रददुराशिषोऽस्मै सुरद्विजाः॥
साधुवादो दिवि महानासीत्तस्य महीपतेः॥ १०.१८ ॥
ततो विमानमालंब्य देवदूतस्तमुच्चकैः॥
इंद्रद्युम्नमुवाचेदं श्रृण्वतां नाकवासिनाम्॥ १०.१९ ॥
॥देवदूत उवाच॥
नवीकृताधुना कीर्तिस्तव भूपाल निर्मला॥
त्रिलोक्यामपि तच्छीघ्रं विमानमिदमारुह॥ १०.२० ॥
गम्यतां ब्रह्मणो लोकमाकल्पं तपसोर्जितम्॥
प्रेषितोऽहमनेनैव तवानयनकारणात्॥ १०.२१ ॥
यावत्कीर्तिर्मनुष्यस्य पृथिव्यां प्रथिता भवेत्॥
तावानेव भवेत्स्वर्गी सति पुण्ये ह्यनंतके॥ १०.२२ ॥
सुरालयसरोवापीकूपारामादिकल्पना॥
एतदर्थं हि पूर्ताख्या धर्मशास्त्रेषु निश्चिता॥ १०.२३ ॥
॥इंद्रद्युम्न उवाच॥
अमी ममैव सुहृदो मार्कंडबककौशिकाः॥
गृध्रकूर्मौ प्रभावोऽयममीषां मम वृद्धये॥ १०.२४ ॥
तच्चेदमी मया साकं ब्रह्मलोकं प्रयांत्युत॥
पुरःस्थितास्तदायास्ये ब्रह्मलोकं च नान्यथा॥ १०.२५ ॥
परेषामनपेक्ष्यैव कृतप्रतिकृतं हि यः॥
प्रवर्तते हितायैव स सुहृत्प्रोच्यते बुधैः॥ १०.२६ ॥
स्वार्थोद्युक्तधियो ये स्युरन्वर्थास्तेप्यसुंधराः॥
मरणं प्रकृतिश्चैव जीवितं विकृतिर्यदा॥ १०.२७ ॥
प्राणिनां परमो लाभः केवलं प्राणिसौहृदम्॥
दरिद्रा रागिणोऽसत्यप्रतिज्ञाता गुरुद्रुहः॥ १०.२८ ॥
मित्रावसानिनः पापाः प्रायो नरकमंडनाः॥
परार्थनष्टास्तदमी पंच संप्रति साधवः॥ १०.२९ ॥
मम कीर्तिसमुद्धारः स प्रभावो महात्मनाम्॥
अमीषां यदि ते स्वर्गं प्रयास्यन्ति मया सह॥
तदाहमपि यास्यामि देवदूतान्यथा न हि॥ १०.३० ॥
॥देवदूत उवाच॥
एते हरगणाः सर्वेशापभ्रष्टाः क्षितिं गताः॥ १०.३१ ॥
शापांते हरपार्श्वे तु यास्यंति पृथिवीपते॥
विहायेमानतो भूप त्वमागच्छ मया सह॥ १०.३२ ॥
न चैषां रोचते स्वर्गो हित्वा देवं महेश्वरम्॥
॥इंद्रद्युम्न उवाच॥
यद्येवं गच्छ तद्दूत नायास्येहं त्रिविष्टपम्॥ १०.३३ ॥
तथा तथा यति ष्यामि भविष्यामि यथा गणः॥
अविशुद्धिक्षयाधिक्यदूषणैरेष निंदितः॥ १०.३४ ॥
स्वर्गः सदानुश्रविकस्तस्मादेनं न कामये॥
तत्रस्थास्य पुनः पातो भयं न व्येति मानसात्॥ १०.३५ ॥
पुनः पातो यतः पुंसस्तस्मात्स्वर्गं न कामये॥
सति पुण्ये स्वयं तेन पातितो निजलोकतः॥ १०.३६ ॥
चतुर्मुखेन वैलक्ष्यं गतोऽस्मि कथमेमि तम्॥
इतीदमुक्त्वा दूतं तं श्रृण्वतोऽस्यैव विस्मयात्॥ १०.३७ ॥
अप्राक्षीद्भूपतिः कूर्मं तदायुःकारणं तदा॥
इदमायुः कथं जातं कूर्म दीर्घतमं तव॥ १०.३८ ॥
सुहृन्मित्रं गुरुस्त्वं मे येन कीर्तिर्ममोद्धृता॥ १०.३९ ॥
॥कूर्म उवाच॥
श्रृणु भूप कथां दिव्यां श्रवणात्पापनाशिनीम्॥
कथां सुमधुरामेतां शिवमाहात्म्यसंयुताम्॥ १०.४० ॥
श्रृण्वन्निमामपि कथां नृपते मनुष्यः सुश्रद्धया भवति पापविमुक्तदेहः॥
शंभोः प्रसादमभिगम्य यथायुरेवमासीत्प्रसादत इयं मम कूर्मता च॥ १०.४१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्त्रायां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीप्रादुर्भावे दशमोऽध्यायः॥ १० ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 11
॥कूर्म उवाच॥
शांडिल्य इति विख्यातः पुराहमभवं द्विजः॥
बालभावे मया भूप क्रीडमानेन निर्मितम्॥ ११.१ ॥
पुरा प्रावृषि पांशूत्थं शिवायतनमुच्छ्रितम्॥
जलार्द्रवालुकाप्रायं प्रांशुप्राकारशोभितम्॥ ११.२ ॥
पंचायतनविन्यासमनोहरतरं नृप॥
विनायकशिवासूर्यमधुसूदनमूर्तिमत्॥ ११.३ ॥
पीतमृत्स्वर्णकलशं ध्वजमालाविभूषितम्॥
काष्ठतोरणविन्यस्तं दोलकेन विभूषितम्॥ ११.४ ॥
दृढप्रांशुसमुद्भूतसोपानश्रेणिभासुरम्॥
सर्वाश्चर्यमयं दिव्यं वयस्यैः संवृतेन मे॥ ११.५ ॥
तत्र जागेश्वरं लिंगं गृत्वाथ विनिवेशितम्॥
बाल्यादुपलरूपं तद्वर्षावारिविशुद्विमत्॥ ११.६ ॥
बकपुष्पैस्तथान्यैश्च केदारोत्थैः समाहृतैः॥
कोमलैरपरैः पुष्पैर्वृतिवल्लीसमुद्भवैः॥ ११.७ ॥
कूष्मांडैश्चैव वर्णाद्यैरुन्मत्तकुसुमायुतैः॥
मंदारैर्बिल्वपत्रैश्च दूर्वाद्यैश्च नवांकुरैः॥ ११.८ ॥
पूजा विरचिता रम्या शंभोरिति मया नृप॥
ततस्तांडवमारब्धमनपेक्षितसत्क्रियम्॥ ११.९ ॥
शिवस्य पुरतो बाल्याद्गीतं च स्वस्वर्जितम्॥
अकार्षं सकृदेवाहं बाल्ये शिशुगणावृतः॥ ११.१० ॥
ततो मृतोऽहं जातश्च विप्रो जातिस्मरो नृप॥
वैदिशे नगरेऽकार्षं शिवपूजां विशेषतः॥ ११.११ ॥
शिवदीक्षामुपागम्यानुगृहीतः शिवागमैः॥
शिवप्रासाद आधाय लिंगं श्रद्धासमन्वितः॥ ११.१२ ॥
कल्पकोटिं वसेत्स्वर्गेयः करोति शिवालयम्॥
यावंति परमाणूनि शिवस्यायतने नृप॥ ११.१३ ॥
भवंति तावद्वर्षाणि करकः शिवसद्मनि॥
इति पौराणवाक्यानि स्मरञ्छैलं शिवालयम्॥ ११.१४ ॥
अकारिषमहं रम्यं विश्वकर्मविधानतः॥
मृन्मयं काष्ठनिष्पन्नं पाक्वेष्टं शैलमेव वा॥ ११.१५ ॥
कृतमायतनं दद्यात्क्रमाद्दशगुणं फलम्॥
भस्मशायी त्रिषवणो भिक्षान्नकृतभोजनः॥ ११.१६ ॥
जटाधरस्तपस्यंश्च शिवाराधनतत्परः॥
इत्थं मे कुर्वतो जातं पुनर्भूप प्रमापणम्॥ ११.१७ ॥
जातो जाति स्मरस्तत्र कारिता तृतीयेहं भवांतरे॥
सार्वभौमो महीपालः प्रतिष्ठाने पुरोत्तमे॥ ११.१८ ॥
जयदत्त इति ख्यातः सूर्यवंशसमुद्भवः॥
ततो मया बहुविधाः प्रासादाः कारिता नृप॥ ११.१९ ॥
तस्मिन्भवांतरे शंभोराराधनपरेण च॥
ततो निरूपिता जाता बकपुष्पपुरस्सराः॥ ११.२० ॥
सौवर्णै राजतै रत्ननिर्मितैः कुसुमैर्नृप॥
तथाविधेऽन्नदानादि करोमि नृपसत्तम॥ ११.२१ ॥
केवलं शिवलिंगानां पूजां पुष्पैः करोम्यहम्॥
ततो मे भगवाञ्छंभुः संतुष्टोऽथ वरं ददौ॥ ११.२२ ॥
अजरामरतां राजंस्तेनैव वपुषावृतः॥
ततस्तथाविधं प्राप्यानन्यसाधारणं वरम्॥ ११.२३ ॥
विचरामि महीमेतां मदांध इव वारणः॥
शिवभक्तिं विहायाथ नृपोऽहं मदनातुरः॥ ११.२४ ॥
प्रधर्षयितुमारब्धः स्त्रियः परपरिग्रहाः॥
आयुषस्तपसः कीर्तेस्तेजसो यशसः श्रियः॥ ११.२५ ॥
विनाशकारणं मुख्यं परदारप्रधर्षणम्॥
सकर्णः श्रुतिहीनोऽसौ पश्यन्नंधो वदञ्जडः॥ ११.२६ ॥
अचेतनश्चेतनावान्मूर्खो विद्वानपि स्फुटम्॥
तदा भवति भूपाल पुरुषः क्षणमात्रतः॥ ११.२७ ॥
यदैव हरिणाक्षीणां गोचरं याति चक्षुषाम्॥
मृतस्य निरये वासो जीवतश्चेश्वराद्भयम्॥ ११.२८ ॥
एवं लोकद्वयं हंत्री परदारप्रधर्षणा॥
जरामरणहीनोहमिति निश्चयमास्थितः॥ ११.२९ ॥
ऐहिकामुष्मिकभयं विहायांह ततः परम्॥
प्रधर्षयितुमारब्धस्तदा भूप परस्त्रियः॥ ११.३० ॥
अथ मां संपरिज्ञाय मर्यादारहितं यमः॥
वरप्रदानादीशस्य तदंतिकसुपाययौ॥
व्यजिज्ञपन्मदीयं च शंभोर्धर्मव्यतिक्रमम्॥ ११.३१ ॥
॥यम उवाच॥
नाहं तवानुभावेन गुप्तस्यास्य विनिग्रहम्॥ ११.३२ ॥
शक्रोमि पापिनो देव मन्नियोगेऽन्यमादिश॥
जगदाधारूपा हि त्वयेशोक्ताः पतिव्रताः॥ ११.३३ ॥
गावो विप्राः सनिगमा अलुब्धा दानशीलिनः॥
सत्यनिष्ठा इति स्वामिंस्तेषां मुख्यतमा सती॥ ११.३४ ॥
तास्तेन धर्षिता लुप्तं मदीयं धर्मशासनम्॥
वरदानप्रमत्तेन तवैव परिभूय माम्॥ ११.३५ ॥
जयदत्तेन देवेश प्रतिष्ठानाधिवासिना॥
इमां धर्मस्य भगवान्गिरमाकर्ण्य कोपितः॥
शशाप मां समानीय वेपमानं कृतांजलिम्॥ ११.३६ ॥
॥ईश्वर उवाच॥
यस्माद्दुष्टसमाचार धर्षितास्ते पतिव्रताः॥ ११.३७ ॥
कामार्तेन मया शप्तस्तस्मात्कूर्मः क्षणाद्भव॥
ततः प्रणम्य विज्ञप्तः शापतापहरो मया॥ ११.३८ ॥
प्राह षष्टितमे कल्पे विशापो भविता गणः॥
मदीय इति संप्रोच्य जगामादर्शनं शिवः॥ ११.३९ ॥
अहं कूर्मस्तदा जातो दशयोजनविस्तृतः॥
समुद्रसलिले नीतस्त्वयाहं यज्ञसाधने॥ ११.४० ॥
पुरस्ताद्यायजूकेन स्मरंस्तच्च बिभेमि ते॥
दग्धस्त्वयाहं पृष्ठेत्र व्रणान्येतानि पश्य मे॥ ११.४१ ॥
चयनानि बहून्यत्र कल्पसूत्रविधानतः॥
पृष्ठोपरि कृतान्यासन्निंद्रद्युम्न तदा त्वया॥ ११.४२ ॥
भूयः संतापिता यज्ञैः पृथिवी पृथिवीपते॥
सुस्राव सर्वतीर्थानां सारं साऽभून्महीनदी॥ ११.४३ ॥
तस्यां च स्नानमात्रेण सर्वपापैः प्रमुच्यते॥
ततो नैमित्तिके कस्मिन्नपि प्रलय आगतः॥ ११.४४ ॥
प्लवमानमिदं राजन्मानसं शतयोजनम्॥
षट्पंचाशत्प्रमाणेन कल्पा मम पुरा नृप॥ ११.४५ ॥
व्यतीता इह चत्वारः शेषे मोक्षस्ततः परम्॥
एवमायुरिदं दीर्घमेवं शापाच्च कूर्मता॥ ११.४६ ॥
ममाभूदीश्वरस्यैव सतीधर्मद्रुहो नृप॥
ब्रूहि किं क्रियतां शत्रोरपि ते गृहगामिनः॥ ११.४७ ॥
मम पृष्ठिश्चिरं भूप त्वया दग्धाग्निनाऽपुरा॥
अहं ज्वलंतीमिव तां पश्याम्यद्यापि सत्रिणा॥ ११.४८ ॥
इदं विमानमायातं त्वया कस्मान्निराकृतम्॥
देवदूतसमायुक्तं भुंक्ष्व भोगान्निजार्जितान्॥ ११.४९ ॥
॥इंद्रद्युम्न उवाच॥
चतुर्मुखेन तेनाहं स्वर्गान्निर्वासितः स्वयम्॥
विलक्ष्योन प्रयास्यामि पाताधिक्यादिदूषिते॥ ११.५० ॥
तस्माद्विवेकवैराग्यमविद्यापापनाशनम्॥
आलिंग्याहं यतिष्यामि प्राप्य बोधं विमुक्तये॥ ११.५१ ॥
तन्मे गृहगतस्याद्य यथातिथ्यकरो भवान्॥
तदादिश यथाऽपारपारदः कोपि मे गुरुः॥ ११.५२ ॥
॥कूर्म उवाच॥
लोमशोनाम दीर्घायुर्मत्तोऽप्यस्ति महामुनिः॥
मया कलापग्रामे स पूर्वं दृष्टः क्वचिन्नृप॥ ११.५३ ॥
॥इंद्रद्युम्न उवाच॥
तस्मादागच्छ गच्छामस्तमेव सहितावयम्॥
प्राहुः पूततमां तीर्थादपि सत्संगतिं बुधाः॥ ११.५४ ॥
इत्थं निशम्य नृपतेर्वचनं तदानीं सर्वेऽपि ते षडथ तं मुनिमुख्यमाशु॥
चित्ते विधाय मुदिताः प्रययुर्द्विजेंद्रं जिज्ञासवः सुचिरजीवितहेतुमस्य॥ ११.५५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीप्रादुर्भावे कूर्माख्यानंनामैकादशोऽध्यायः॥ ११ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 12
॥ नारद उवाच॥
अथ ते ददृशुः पार्थ संयमस्थं महामुनिम्॥
क्रियायोगसमायुक्तं तपोमूर्तिधरं यथा॥ १२.१ ॥
जटास्त्रिषवणस्नानकपिलाः शिरसा तदा॥
धारयन्तं लोमशाख्यमाज्यसिक्तमिवानलम्॥ १२.२ ॥
सव्यहस्ते तृणौघं च च्छायार्थे विप्रसत्तमम्॥
दक्षिणे चाक्षमालां च बिभ्रतं मैत्रमार्गगम्॥ १२.३ ॥
अहिंसयन्दुरुक्ताद्यैः प्राणिनो भूमिचारिणः॥
यः सिद्धिमेति जप्येन स मैत्रो मुनिरुच्यते॥ १२.४ ॥
बकभूपद्विजोलूकगृध्रकूर्मा विलोक्य च॥
नेमुः कलापग्रामे तं चिरंतनतपोनिधिम्॥ १२.५ ॥
स्वागतासनसत्कारेणामुना तेऽति सत्कृताः॥
यथोचितं प्रतीतास्तमाहुः कार्यं हृदि स्थितम्॥ १२.६ ॥
॥कूर्म उवाच॥
इन्द्रद्युम्नोऽयमवनीपतिः सत्रिजनाग्रणीः॥
कीर्तिलोपान्निरस्तोऽयं वेधसा नाकपृष्ठतः॥ १२.७ ॥
मार्कंडेयादिभिः प्राप्य कीर्त्युद्धारंच सत्तम॥
नायं कामयते स्वर्गं पुनःपातादिभीषणम्॥ १२.८ ॥
भवतानुगृहीतोऽयमिहेच्छति महोदयम्॥
प्रणोद्यस्तदयं भूपः शिष्यस्ते भगवन्मया॥
त्वत्सकाशमिहानीतो ब्रूहि साध्वस्य वांछितम्॥ १२.९ ॥
परोपकरणं नाम साधूनां व्रतमाहितम्॥
विशेषतः प्रणोद्यानां शिष्यवृत्तिमुपेयुषाम्॥ १२.१० ॥
अप्रणोद्येषु पापेषु साधु प्रोक्तमसंशयम्॥
विद्वेषं मरणं चापि कुरुतेऽन्यतरस्य च॥ १२.११ ॥
अप्रमत्तः प्रणोद्येषु मुनिरेष प्रयच्छति॥
तदेवेति भवानेवं धर्मं वेत्ति कुतो वयम्॥ १२.१२ ॥
॥लोमश उवाच॥
कूर्म युक्तमिदं सर्वं त्वयाभिहितमद्य नः॥
धर्मशास्त्रोपनतं तत्स्मारिताः स्म पुरातनम्॥ १२.१३ ॥
ब्रूहि राजन्सुविश्रब्धं सन्देहं हृदयस्थितम्॥
कस्ते किमब्रवीच्छेषं वक्ष्याम्यहं न संशयः॥ १२.१४ ॥
॥इन्द्रद्युम्न उवाच॥
भगवन्प्रथमः प्रश्रस्तावदेव ममोच्यताम्॥
ग्रीष्मकालेऽपि मध्यस्थै रवौ किं न तवाश्रमः॥ १२.१५ ॥
कुटीमात्रोऽपि यच्छाया तृणैः शिरसि पाणिगैः॥ १२.१६ ॥
॥लोमश उवाच॥
मर्तव्यमस्त्यवश्यं च काय एष पतिष्यति॥
कस्यार्थे क्रियते गेहमनित्यभवमध्यगैः॥ १२.१७ ॥
यस्य मृत्युर्भवेन्मित्रं पीतं वाऽमृतमुत्तमम्॥
तस्यैतदुचितं वक्तुमिदं मे श्वो भविष्यति॥ १२.१८ ॥
इदं युगसहस्रेषु भविष्यमभविद्दिनम्॥
तदप्यद्यत्वमापन्नं का कथामरणावधेः॥ १२.१९ ॥
कारणानुगतं कार्यमिदं शुक्रादभूद्वपुः॥
कथं विशुद्धिमायाति क्षालितांगारवद्वद॥ १२.२० ॥
तदस्यापि कृते पापं शत्रुषड्वर्गनिर्जिताः॥
कथंकारं न लज्जन्ते कुर्वाणा नृपसत्तम॥ १२.२१ ॥
तद्ब्रह्मण इहोत्पन्नः सिकताद्वयसम्भवः॥
निगमोक्तं पठञ्छृण्वन्निदं जीविष्यते कथम्॥ १२.२२ ॥
तथापि वैष्णवी माया मोहयत्यविवेकिनम्॥
हृदयस्थं न जानंति ह्यपि मृत्यु शतायुषः॥ १२.२३ ॥
दन्ताश्चलाश्चला लक्ष्मीर्यौवनं जीवितं नृप॥
चलाचलमतीवेदं दानमेवं गृहं नृणाम्॥ १२.२४ ॥
इति विज्ञाय संसारसारं च चलाचलम्॥
कस्यार्थे क्रियते राजन्कुटजादि परिग्रहः॥ १२.२५ ॥
॥इन्द्रद्युम्न उवाच॥
चिरायुर्भगवानेव श्रूयते भुवनत्रये॥
तदर्थमहमायातस्तत्किमेवं वचस्तव॥ १२.२६ ॥
॥लोमश उवाच॥
प्रतिकल्पं मच्छरीरादेकरोमपरिक्षयः॥
जायते सर्वनाशे च मम भावि प्रमापणम्॥ १२.२७ ॥
पश्य जानुप्रदेशं मे द्व्यंगुलं रोमवर्जितम्॥
जातं वपुस्तद्बिभेमि मर्तव्ये सति किं गृहैः॥ १२.२८ ॥
॥नारद उवाच॥
इत्थं निशम्य तद्वाक्यं स प्रहस्यातिविस्मितः॥
भूपालस्तस्य पप्रच्छ कारणं तादृशायुषः॥ १२.२९ ॥
॥इन्द्रद्युम्न उवाच॥
पृच्छामि त्वामहं ब्रह्मन्यदायुरिदमीदृशम्॥
तव दीर्घं प्रभावोऽसौ दानस्य तपसोऽथवा॥ १२.३० ॥
॥लोमश उवाच॥
श्रृणु भूप प्रवक्ष्यामि पूर्वजन्मसमुद्भवाम्॥
शिवधर्मयुतां पुण्यां कथां पापप्रणाशनीम्॥ १२.३१ ॥
अहमासं पुरा शूद्रो दरिद्रोऽतीवभूतले॥
भ्रमामि वसुधापृष्ठे ह्यशनपीडितो भृशम्॥ १२.३२ ॥
ततो मया महल्लिंगं जालिमध्यगतं तदा॥
मध्याह्नेऽस्य जलाधारो दृष्टश्चैवा विदूरतः॥ १२.३३ ॥
ततः प्रविश्य तद्वारि पीत्वा स्नात्वा च शांभवम्॥
तल्लिंगं स्नापितं पूजा विहिता कमलैः शुभैः॥ १२.३४ ॥
अथ क्षुत्क्षामकंठोऽहं श्रीकंठं तं नमस्य च॥
पुनः प्रचलितो मार्गे प्रमीतो नृपसत्तम॥ १२.३५ ॥
ततोऽहं ब्राह्मणगृहे जातो जातिस्मरः सुतः॥
स्नापनाच्छिवलिंगस्य सकृत्कमलपूजनात्॥ १२.३६ ॥
स्मरन्विलसितं मिथ्या सत्याभासमिदं जगत्॥
अविद्यामयमित्येवं ज्ञात्वा मूकत्वमास्थितः॥ १२.३७ ॥
तेन विप्रेण वार्धक्ये समाराध्य महेश्वरम्॥
प्राप्तोऽहमिति मे नाम ईशान इति कल्पितम्॥ १२.३८ ॥
ततः स विप्रो वात्सल्यादगदान्सुबहून्मम॥
चकार व्यपनेष्यामि मूकत्वमिति निश्चयः॥ १२.३९ ॥
मंत्रवादान्बहून्वैद्यानुपायानपरानपि॥
पित्रोस्तथा महामायासंबद्धमनसोस्तथा॥ १२.४० ॥
निरीक्ष्य मूढतां हास्यमासीन्मनसि मे तदा॥
तथा यौवनमासाद्य निशि हित्वा निजं गृहम्॥ १२.४१ ॥
संपूज्य कमलैः शंभुं ततः शयनमभ्यगाम्॥
ततः प्रमीते पितरि मूढइत्यहमुज्झितः॥ १२.४२ ॥
संबंधिभिः प्रतीतोऽथ फलाहारमवस्थितः॥
प्रतीतः पूजयामीशमब्जैर्बहुविधैस्तथा॥ १२.४३ ॥
अथ वर्षशतस्यांते वरदः शशिशेखरः॥
प्रत्यक्षो याचितो देहि जरामरणसंक्षयम्॥ १२.४४ ॥
॥ईश्वर उवाच॥
अजरामरता नास्ति नामरूपभृतोयतः॥
ममापि देहपातः स्यादवधिं कुरु जीविते॥ १२.४५ ॥
इति शंभोर्वचः श्रुत्वा मया वृतिमिदं तदा॥
कल्पांते रोमपातोऽस्तु मरणं सर्वसंक्षये॥ १२.४६ ॥
ततस्तव गणो भूयामिति मेऽभीप्सितो वरः॥
तथेत्युक्त्वा स भगवान्हरश्चादर्शनं गतः॥ १२.४७ ॥
अहं तपसिनिष्ठश्च ततः प्रभृति चाभवम्॥
ब्रह्महत्यादिभिः पापैर्मुच्यते शिवपूजनात्॥ १२.४८ ॥
ब्रध्नाब्जैरितरैर्वपि कमलैर्नात्र संशयः॥
एवं कुरु महाराज त्वमप्याप्स्यसि वांछितम्॥ १२.४९ ॥
हरभक्तस्य लोकस्य त्रिलोक्यां नास्ति दुर्लभम्॥
बहिःप्रवृत्तिं सगृह्य ज्ञानकर्मेन्द्रियादि च॥ १२.५० ॥
लयः सदाशिवे नित्यमतर्यो गोऽयमुच्यते॥
दुष्करत्वाद्वहिर्योगं शिव एव स्वयं जगौ॥ १२.५१ ॥
पंचभिश्चार्चनं भूतैर्विशिष्टफलदं ध्रुवम्॥
क्लेशकर्मविपाकाद्यैराशयैश्चाप्य संयुतम्॥ १२.५२ ॥
ईशानमाराध्य जपन्प्रणवं मुक्तिपाप्नुयात्॥
सर्वपापक्षये जाते शिवे भवति भावना॥ १२.५३ ॥
पापोपहतबुद्धीनां शिवे वार्तापि दुर्लभा॥
दुर्लभं भारते जन्म दुर्लभं शिवपूजनम्॥ १२.५४ ॥
दुर्लभं जाह्नवीस्नानं शिवे भक्तिः सुदुर्लभा॥
दुर्लभं ब्राह्मणे दानं दुर्लभं वह्निपूजनम्॥ १२.५५ ॥
अल्पपुण्यैश्च दुष्प्रापं पुरुषोत्तमपूजनम्॥ १२.५६ ॥
लक्षेण धनुषां योगस्तदर्धेन हुताशनः॥
पात्रं शतसहस्रेण रेवा रुद्रश्च षष्टिभिः॥ १२.५७ ॥
इति दमुक्तमखिलं मया तव महीपते॥
यथायुरभवद्दीर्घं समाराध्य महेश्वरम्॥ १२.५८ ॥
न दुर्लभं न दुष्प्रापं न चासाध्यं महात्मनाम्॥
शिवभक्तिकृतां पुंसां त्रिलोक्यामिति निश्चितम्॥ १२.५९ ॥
नंदीश्वरस्य तेनैव वपुषा शिवपूजनात्॥
सिद्धिमालोक्य को राजञ्छंकरं न नमस्यति॥ १२.६० ॥
श्वेतस्य च महीपस्य श्रीकंठं च नमस्यतः॥
कालोपि प्रलयं यातः कस्तमीशं न पूजयेत्॥ १२.६१ ॥
यदिच्छया विश्वमिदं जायते व्यवतिष्ठते॥
तथा संलीयते चांते कस्तं न शरणं व्रजेत्॥ १२.६२ ॥
एतद्रहस्यमिदमेव नृणां प्रधानं कर्तव्यमत्र शिवपूजनमेव भूप॥
यस्यांतरायपदवीमुपयांति लोकाः सद्योः नरः शिवनतः शिवमेव सत्यम्॥ १२.६३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीप्रादुर्भावे लोमशवृत्तान्ते शिवपूजनमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः॥ १२ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 13
॥नारद उवाच॥
इति तस्य मुनींद्रस्य भूपतिः शुश्रुवान्वचः॥
प्राह नाहं गमिष्यामि त्वां विहाय नरं क्वचित्॥ १३.१ ॥
लिंगमाराधयिष्येऽद्य सर्वसिद्धिप्रदं नृणाम्॥
त्वयैवानुगृहीतोऽद्य यांतु सर्वे यथागतम्॥ १३.२ ॥
तद्भूपतिवचः श्रुत्वा बको गृध्रोऽथ कच्छपः॥
उलूकश्च तथैवोचुः प्रणता लोमशं मुनिम्॥ १३.३ ॥
स च सर्वसुहृद्विप्रस्तथेत्येवाह तांस्तदा॥
प्रणोद्यान्प्रणतान्सर्वाननुजग्राह शिष्यवत्॥ १३.४ ॥
शिवदीक्षाविधानेन लिंगपूजां समादिशत्॥
तेषामनुग्रहपरो मुनिः प्रमतवत्सलः॥
तीर्थादप्यधिकं स्थाने सतां साधुसमागमः॥ १३.५ ॥
पचेलिमफलः सद्यो दुरंतकलुपापहः॥
अपूर्वः कोऽपि सद्गोष्ठीसहस्रकिरणोदयः॥ १३.६ ॥
य एकांततयात्यंतमंतर्गततमोपहः॥
साधुगोष्ठीसमुद्भूतसुखामृतरसोर्मयः॥ १३.७ ॥
सर्वे वराः सुधाकाराः शर्करामधुषड्रसाः॥
ततस्ते साधुसंसर्गं संप्राप्ताः शिवशासनात्॥ १३.८ ॥
आरेभिरे क्रियायोगं मार्कंडनृपपूर्वकाः॥
तेषां तपस्यतामेवं समाजग्मे कदाचन॥
तीर्थयात्रानुषंगेन लोमशालोकनोत्सुकः॥ १३.९ ॥
मुख्या पुरुषयात्रा हि तीर्थयात्रानुषंगतः॥
सद्भिः समाश्रितो भूप भूमिभागस्तथोच्यते॥ १३.१० ॥
कृतार्हणातिथ्यविधिं विश्रांतं मां च फाल्गुन॥
प्रणम्य तेऽथ पप्रच्छुर्नाडीजंघपुरः सराः॥ १३.११ ॥
॥त उचुः॥
शापभ्रष्टा वयं ब्रह्मंश्चत्वारोऽपि स्वकर्मणा॥
तन्मुक्तिसाधनार्थाय स्थानं किंचित्समादिश॥ १३.१२ ॥
इयं हि निष्फला भूमिः शपलं भारतं मुने॥ १३.१३ ॥
तत्रापि क्वचिदेकत्र सर्वतीर्थफलं वद॥
इति पृष्टस्त्वहं तैश्च तानब्रवमिदं तदा॥ १३.१४ ॥
संवर्तं परिपृच्छध्वं स वो वक्ष्यति तत्त्वतः॥
सर्वतीर्थफलावाप्तिकारकं भूप्रदेशकम्॥ १३.१५ ॥
॥त उचुः॥
कुत्रासौ विद्यते योगी नाज्ञासिष्म वयं च तम्॥
संवर्तदर्शनान्मुक्तिरिति चास्मदनुग्रहः॥ १३.१६ ॥
यदि जानासि तं ब्रूहि सुहृत्संगो न निष्फलः॥
ततोऽहमब्रवं तांश्च विचार्येदं पुनःपुनः॥ १३.१७ ॥
वाराणस्यामसावास्ते संवर्तो गुप्तलिंगभृत्॥
मलदिग्धो विवसनो भिक्षाशी कुतपादनु॥ १३.१८ ॥
करपात्रकृताहारः सर्वथा निष्परिग्रहः॥
भावयन्ब्रह्म परमं प्रणवाभिधमीश्वरम्॥ १३.१९ ॥
भुक्त्वा निर्याति सायाह्ने वनं न ज्ञायते जनैः॥
योगीश्वरोऽसौ तद्रूपाः सन्त्यन्ये लिंगधारिणः॥ १३.२० ॥
वक्ष्यामि लक्षणं तस्य ज्ञास्यथ तं मुनिम्॥
प्रतोल्या राजमार्गे तु निशि भूमौ शवं जनैः॥ १३.२१ ॥
अविज्ञातं स्थापनीयं स्थेयं तदविदूरतः॥
यस्तां भूमिमुपागम्य अकस्माद्विनिर्वतते॥ १३.२२ ॥
स संवर्तो न चाक्रामत्येष शल्यमसंशयम्॥
प्रष्टव्योऽभिमतं चासावुपाश्रित्य विनीतवत्॥ १३.२३ ॥
यदि पृच्छति केनाहमाख्यात इति मां ततः॥
निवेद्य चैतद्वक्तव्यं त्वामाख्यायाग्निमाविशत्॥ १३.२४ ॥
तच्छ्रुत्वा ते तथा चक्रुः सर्वेपि वचनं मम॥
प्राप्य वाराणसीं दृष्ट्वा संवर्तं ते तथा व्यधुः॥ १३.२५ ॥
शवं दृष्ट्वा च तैर्न्यस्तं संवर्तो वै न्यवर्तत॥
क्षुत्परीतोऽपि तं ज्ञात्वा ययुस्तमनु शीघ्रगम्॥ १३.२६ ॥
तिष्ठ ब्रह्मन्क्षणमिति जल्पंतो राजमार्गगम्॥
याति निर्भर्त्सयत्येष निवर्तध्वमिति ब्रुवन्॥ १३.२७ ॥
समया मामरे भोऽद्य नागंतव्यं न वो हितम्॥
पलायनमसौ कृत्वा गत्वा दूरतरं सरः॥
कुपितः प्राह तान्सर्वान्केनाख्यातोऽहमित्युत॥ १३.२८ ॥
निवेदयत शीघ्रं मे यथा भस्म करोमि तम्॥
शापाग्निनाथ वा युष्मान्यदि सत्यं न वक्ष्यथ॥ १३.२९ ॥
अथ प्रकंपिताः प्राहुर्नारदेनेति तं मुनिम्॥
स तानाह पुनर्यातः पिशुनः क्व नु संप्रति॥ १३.३० ॥
लोकानां येन सापाग्नौ भस्मशेषं करोमि तम्॥
ब्रह्मबंधुमहं प्राहुर्भीतास्ते तं पुनर्मुनिम्॥ १३.३१ ॥
॥त ऊचुः॥
त्वं निवेद्य स चास्माकं प्रविष्टो हव्यवाहनम्॥
तत्कालमेव विप्रेंद्र न विद्मस्तत्र कारणम्॥ १३.३२ ॥
॥संवर्त उवाच॥
अहमप्येवमेवास्य कर्ता तेन स्वयं कृतम्॥
तद्ब्रूत कार्यं नैवात्र चिरं स्थास्यामि वः कृते॥ १३.३३ ॥
॥अर्जुन उवाच॥
यदि नारद देवर्षे प्रविष्टोऽसि हुताशनम्॥
जीवितस्तत्कथं भूय आश्चर्यमिति मे वद॥ १३.३४ ॥
॥नारद उवाच॥
न हुताशः समुद्रो वा वायुर्वा वृक्षपर्वतः॥
आयुधं वा न मे शक्ता देहपाताय भारत॥ १३.३५ ॥
पुनरेतत्कृतं चापि संवर्तो मन्यते यथा॥
अहं सन्मानितश्चेति वह्निं प्राप्याप्यगामहम्॥ १३.३६ ॥
यथा पुष्पगृहे कश्चित्प्रविशत्यंग फाल्गुन॥
तथाहमग्निं संविश्य यातवानुत्तरं श्रृणु॥ १३.३७ ॥
संवर्तस्तान्पुनः प्राह मार्कंडेयमुखानिति॥
विशल्यः पंथाः क्षुधितोऽहं पुनः पुरीम्॥
भिक्षार्थं पर्यटिष्यामि प्रश्रं प्रब्रूत चैव मे॥ १३.३८ ॥
॥त ऊचुः॥
शापभ्रष्टा वयं मोक्षं प्राप्स्यामस्तवदनुग्रहात्॥
प्रतीकारं तदाख्याहि प्रणतानां महामुने॥ १३.३९ ॥
यत्र तीर्थे सर्वतीर्थफलं प्राप्नोति मानवः॥
तत्तीर्थं ब्रूहि संवर्त तिष्ठामो यत्र वै वयम्॥ १३.४० ॥
॥संवर्त उवाच॥
नमस्कृत्य कुमाराय दुर्गाभ्यश्च नरोत्तमाः॥
तीर्थं च संप्रवक्ष्यामि महीसागरसंगमम्॥ १३.४१ ॥
अमुना राजसिंहेन इंद्रद्युम्नेन धीमता॥
यजनाद्द्व्यंगुलोत्सेधा कृतेयं वसुधायदा॥ १३.४२ ॥
तदा संताप्यमानाया भुवः काष्ठस्य वै यथा॥
सुस्राव यो जलौघश्च सर्वदेवनमस्कृतः॥ १३.४३ ॥
महीनाम नदी च पृथिव्यां यानिकानिचित्॥
तीर्थानि तेषां सलिलसंभवं तज्जलं विदुः॥ १३.४४ ॥
महीनाम समुत्पन्ना देशे मालवकाभिधे॥
दक्षिणं सागरं प्राप्ता पुण्योभयतटाशिवा॥ १३.४५ ॥
सर्वतीर्थमयी पूर्वं महीनाम महानदी॥
किं पुनर्यः समायोगस्तस्याश्च सरितां पतेः॥ १३.४६ ॥
वाराणसी कुरुक्षेत्रं गंगा रेवा सरस्वती॥ १३.४७ ॥
तापी पयोष्णी निर्विध्या चन्द्रभागा इरावती॥
कावेरी शरयूश्चैव गंडकी नैमिषं तथा॥ १३.४८ ॥
गया गोदावरी चैव अरुणा वरुणा तथा॥
एताः पुण्याः शतशोन्या याः काश्चित्सरितो भुवि॥ १३.४९ ॥
सहस्रविंशतिश्चैव षट्शतानि तथैव च॥
तासां सारसमुद्भुतं महीतोयं प्रकीर्तितम्॥ १३.५० ॥
पृथिव्यां सर्वतीर्थेषु स्नात्वा यत्फलमाप्यते॥
तन्महीसागरे प्रोक्तं कुमारस्य वचो यथा॥ १३.५१ ॥
एकत्र सर्वतीर्थानां यदि संयोगमिच्छथ॥
तद्गच्छथ महापुण्यं महीसागरसंगमम्॥ १३.५२ ॥
अहं चापि च तत्रैव बहून्वर्षगणान्पुरा॥
अवसं चागतश्चात्र नारदस्य भयात्तथा॥ १३.५३ ॥
स हि तत्र समीपस्थः पिशुनश्च विशेषतः॥
मरुत्तः कुरुते यत्नं तस्मै ब्रूयादिदं भयम्॥ १३.५४ ॥
अत्र दिग्वाससां मध्ये बहूनां तत्समस्त्वहम्॥
निवसाम्यतिप्रच्छन्नो मरुत्तादतिभीतवत्॥ १३.५५ ॥
पुनरत्रापि मां नूनं कथयिष्यति नारदः॥
तथाविधा हि चेष्टास्य पिशुनस्य प्रदृश्यते॥ १३.५६ ॥
भवद्भिश्च न चाप्यत्र वक्तानां कस्यचित्क्वचित्॥
मरुत्तः कुरुते यत्नं भूपालो यज्ञसिद्धये॥ १३.५७ ॥
देवाचार्येण संत्यक्तो भ्रात्रा मे कारणां तरे॥
गुरुपुत्रं च मां ज्ञात्वा यज्ञार्त्विज्यस्य कारणात्॥ १३.५८ ॥
अविद्यांतर्गतैर्यज्ञकर्मभिर्न प्रयोजनम्॥
मम हिंसात्मकैरस्ति निगमोक्तैरचेतनैः॥ १३.५९ ॥
समित्पुष्पकुशप्रायैः साधनैर्यद्यचेतनैः॥
क्रियते तत्तथा भावि कार्यं कारणवन्नृणाम्॥ १३.६० ॥
तद्यूयं तत्र गच्छध्वं शीघ्रमेव नृपानुगाः॥
अस्ति विप्रः स्वयं ब्रह्मा याज्ञवल्क्यश्च तत्र वै॥ १३.६१ ॥
स हि पूर्वं मिथेः पुर्यां वसन्नाश्रममुत्तमम्॥
आगच्छमानं नकुलं दृष्ट्वा गार्गीं वचोऽब्रवीत्॥ १३.६२ ॥
गार्गि रक्ष पयो भद्रे नकुलोऽयमुपेति च॥
पयः पातुं कृतिमतिं नकुलं तं निराकुरु॥ १३.६३ ॥
इत्युक्तो नकुलः क्रुद्धः स हि क्रुद्धः पुराऽभवत्॥
जमदग्नेः पूर्वजैश्च शप्तः प्रोवाच तं मुनिम्॥ १३.६४ ॥
अहो वा धिग्धिगित्येव भूयो धिगिति चैव हि॥
निर्लज्जता मनुष्याणां दृश्यते पापकारिणाम्॥ १३.६५ ॥
कथं ते नाम पापानि प्रकुर्वंति नराधमाः॥
मरणांतरिता येषां नरके तीव्रवेदना॥ १३.६६ ॥
निमेषोऽपि न शक्येत जीविते यस्य निश्चितम्॥
तन्मात्रपरमायुर्यः पापं कुर्यात्कथं स च॥ १३.६७ ॥
त्वं मुने मन्यसे चेदं कुलीनोऽस्मीति बुद्धिमान्॥
ततः क्षिपसि मां मूढ नकुलोऽयमिति स्मयन्॥ १३.६८ ॥
किमधीतं याज्ञवल्क्य का योगेश्वरता तव॥
निरपराधं क्षिपसि धिगधीतं हि तत्तव॥ १३.६९ ॥
कस्मिन्वेदं स्मृतौ कस्यां प्रोक्तमेतद्ब्रवीहि मे॥
परुषैरिति वाक्यैर्मां नकुलेति ब्रवीषि यत्॥ १३.७० ॥
किमिदं नैव जानासि यावत्यः परुषा गिरः॥
परः संश्राव्यते तावच्छंकवः श्रोत्रतः पुनरा॥ १३.७१ ॥
कंठे यमानुगाः पादं कृत्वा तस्य सुदुर्मतेः॥
अतीव रुदतो लोहशंकून्क्षेप्स्यंति कर्णयोः॥ १३.७२ ॥
वावदूकाश्च ध्वजिनो मुष्णंति कृपणाञ्जनान्॥
स्वयं हस्तसहस्रेण धर्मस्यैवं भवद्विधाः॥ १३.७३ ॥
वज्रस्य दिग्धशस्त्रस्य कालकूटस्य चाप्युत॥
समेन वचसा तुल्यं मृत्योरिति ममाभवत्॥ १३.७४ ॥
कर्णनासिकनाराचान्निर्हरंति शरीरतः॥
वाक्छल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः॥ १३.७५ ॥
यंत्रपीडैः समाक्रम्य वरमेष हतो नरः॥
न तु तं परुषैर्वाक्यैर्जिघांसेत कथंचन॥ १३.७६ ॥
त्वया त्वहं याज्ञवल्क्य नित्यं पंडितमानिना॥
नकुलोसीति तीव्रेण वचसा ताडितः कुतः॥ १३.७७ ॥
॥संवर्त उवाच॥
इति श्रुत्वा वचस्तस्य भृशं विस्मितमानसः॥
याज्ञवल्क्योऽब्रवीदेतत्प्रबद्धकरसंपुटः॥ १३.७८ ॥
नमोऽधर्माय महते न विद्मो यस्य वै भवम्॥
परमाणुमपि व्यक्तं कोत्र विद्यामदः सताम्॥ १३.७९ ॥
विरंचिविष्णुप्रसमुखाः सोमेंद्रप्रमुखास्तथा॥
सर्वज्ञास्तेऽपि मुह्यति गणनास्मादृशं च का॥ १३.८० ॥
धर्मज्ञोऽस्मीति यो मोहादात्मानं प्रतिपद्यते॥
स वायुं मुष्टिना बद्धुमीहते कृपणो नरः॥ १३.८१ ॥
केचिदज्ञानतो नष्टाः केचिज्ज्ञानमदादपि॥
ज्ञानं प्राप्यापि नष्टाश्च केचिदालस्यतोऽधमाः॥ १३.८२ ॥
वेदस्मृतीतिहासेषु पुराणेषु प्रकल्पितम्॥
चतुःपादं तथा धर्मं नाचरत्यधमः पशुः॥ १३.८३ ॥
स पुरा शोचते व्यक्तं प्राप्य तच्चांतकं गृहम्॥
तथाहि गृह्यकारेण श्रुतौ प्रोक्तमिदं वचः॥ १३.८४ ॥
नकुलं सकुलं ब्रूयान्न कंचिन्मर्मणि स्पृशेत्॥
प्रपठन्नपि चैवाहमिदं सर्वं तथा शुकः॥ १३.८५ ॥
आलस्येनाप्यनाचाराद्वृथाकार्येकमंग तत्॥ १३.८६ ॥
केवलं पाठ मात्रेण यश्च संतुष्यते नरः॥
तथा पंडितमानी च कोन्यस्तस्मात्पशुर्मतः॥ १३.८७ ॥
न च्छंदांसि वृजिनात्तारयंति मायाविनं माययाऽऽवर्तमानम्॥
नीडं शकुंता इव जातपक्षाश्छंदास्येनं प्रजहत्यंतकाले॥ १३.८८ ॥
स्वार्गाय बद्धकक्षो यः पाठमात्रेण ब्राह्मणः॥
स बालो मातुरंकस्थो ग्रहीतुं सोममिच्छति॥ १३.८९ ॥
तद्भवान्सर्वथा मह्यमनयं सोढुमर्हसि॥
सर्वः कोऽपि वदत्येवं तन्मयैवमुदाहृतम्॥ १३.९० ॥
॥नकुल उवाच॥
वृथेदं भाषितं तुभ्यं सर्वलोकेन यत्समम्॥
आत्मानं मन्यसे नैतद्वक्तुं योग्यं महात्मनाम्॥ १३.९१ ॥
वाजिवारणलोहानां काष्ठपाषाणवाससाम्॥
नारीपुरुषतोयानामंतरं महदंतरम्॥ १३.९२ ॥
अन्ये चेत्प्राकृता लोका बहुपापानि कुर्वते॥
प्रधानपुरुषेणापि कार्यं तत्पृष्ठतोनु किम्॥ १३.९३ ॥
सर्वार्थं निर्मितं शास्त्रं मनोबुद्धी तथैव च॥
दत्ते विधात्रा सर्वेषां तथापि यदि पापिनः॥ १३.९४ ॥
ततो विधातुः को दोषस्त एव खलु दुर्भगाः॥
ब्राह्मणेन विशेषेण किं भाव्यं लोकवद्यतः॥ १३.९५ ॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः॥
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥ १३.९६ ॥
तस्मात्सदा महद्भिश्च आत्मार्थं च परार्थतः॥
सतां धर्मो न संत्याज्यो न्याय्यं तच्छिक्षणं तव॥ १३.९७ ॥
यस्मात्त्वया पीडितोऽहं घोरेण वचसा मुने॥
तस्माच्छीघ्रं त्वां शप्स्यामि शापयोग्यो हि मे मतः॥ १३.९८ ॥
नकुलोऽसीति मामाह भवांस्तस्मात्कुलाधमः॥
शीघ्रमुत्पत्स्यसे मोहात्त्वमेव नकुलो मुने॥ १३.९९ ॥
॥संवर्त उवाच॥
इति वाचं समाकर्ण्य भाव्यर्थकृतनिश्चयः॥
याज्ञवल्क्यो मरौ देशे विप्रस्याजायतात्मजः॥ १३.१०० ॥
दुराचारस्य पापस्य निघृणस्यातिवादिनः॥
दुष्कुलीनस्य जातोऽसौ तदा जातिस्मरः सुतः॥ १३.१०१ ॥
सोऽथ ज्ञानात्समालोक्य भर्तृयज्ञ इति द्विजः॥
गुप्तक्षेत्रं समापन्नो महीसागरसंगमम्॥ १३.१०२ ॥
तत्र पाशुपतो भूत्वा शिवाराधनतत्परः॥
स्वायंभुवं महाकालं पूजयन्वर्ततेऽधुना॥ १३.१०३ ॥
यो हि नित्यं महाकालं श्रद्धया पूजयेत्पुमान्॥
स दौष्कुलीनदोषेभ्यो मुच्यतेऽहिरिव त्वचः॥ १३.१०४ ॥
यथायथा श्रद्धयासौ तल्लिंगं परिपश्यति॥
तथातथा विमुच्येत दोषैर्जन्मशतोद्भवैः॥ १३.१०५ ॥
भर्तृयज्ञस्तु तत्रैव लिंगस्याराधनात्क्रमात्॥
बीजदोषाद्विनिर्मुक्तस्तल्लिंगमहिमा त्वसौ॥ १३.१०६ ॥
बभ्रुं च नकुलं प्राह विमुक्तो दुष्टजन्मतः॥
यस्मात्तस्मादिदं तीर्थं ख्यातं वै बभ्रु पावनम्॥ १३.१०७ ॥
तस्माद्व्रजध्वं तत्रैव महीसागरसंगमम्॥
पंच तीर्थानि सेवन्तो मुक्तिमाप्स्यथ निश्चितम्॥ १३.१०८ ॥
इत्येवमुक्त्वा संवर्तो ययावभिमतं द्विजः॥
भर्तृयज्ञं मुनिं प्राप्य ते च तत्र स्थिताभवन्॥ १३.१०९ ॥
ततस्तानाह स ज्ञात्वा गणाञ्ज्ञानेन शांभवान्॥
महद्वो विमलं पुण्यं गुप्तक्षेत्रे यदत्र वै॥ १३.११० ॥
भवन्तोऽभ्यागता यत्र महीसागरसंगमः॥
स्नानं दानं जपो होमः पिंडदानं विशेषतः॥ १३.१११ ॥
अक्षयं जायते सर्वं महीसागर संगमे॥
कृतं तथाऽक्षयं सर्वं स्नानदानक्रियादिकम्॥ १३.११२ ॥
यदात्र स्तानकं चक्रे देवर्षिर्नारदः पुरा॥
तदा ग्रहैर्वरा दत्ताः शनिना च वरस्त्वसौ॥ १३.११३ ॥
शनैश्चरेण संयुक्ता त्वमावास्या यदा भवेत्॥
श्राद्धं प्रकुर्वीत स्नानदानपुरः सरम्॥ १३.११४ ॥
यदि श्रावणमासस्य शनैश्चरदिने शुभा॥
कुहूर्भवति तस्यां तु संक्रांतिं कुरुते रविः॥ १३.११५ ॥
तस्यामेव तिथौ योगो व्यतीपातो भवेद्यदि॥
पुष्करंनाम तत्पर्व सूर्यपर्वशताधिकम्॥ १३.११६ ॥
सर्वयोगसमावापः सथंचिदपि लभ्यते॥
तस्मिन्दिने शनिं लोहं कांचनं भास्करं तथा॥ १३.११७ ॥
महीसागरसंसर्गे पूजयीत यथाविधि॥
शनिमंत्रैः शनिं ध्यात्वा सूर्यमंत्रैर्दिवाकरम्॥ १३.११८ ॥
अर्घ्यं दद्याद्भाकरस्य सर्वपापप्रशांतये॥
प्रयागादिधिकं स्नानं दानं क्षेत्रात्कुरोरपि॥ १३.११९ ॥
पिंडदानं गयाक्षेत्रादधिकं पांडुनंदन॥
इदं संप्राप्यते पर्व महद्भिः पुण्यराशिभिः॥ १३.१२० ॥
पितॄणामक्षया तृप्तिर्जायते दिवि निश्चितम्॥
यथा गयाशिरः पुण्यं पितॄणां तृप्तिदं परम्॥ १३.१२१ ॥
तथा समधिकः पुण्यो महीसागरसंगमः॥ १३.१२२ ॥
अग्निश्च रेतो मृडया च देहे रेतोधा विष्णुरमृतस्य नाभिः॥
एवं ब्रुवञ्छ्रद्धया सत्यवाक्यं ततोऽवगाहेत महीसमुद्रम्॥ १३.१२३ ॥
मुखं च यः सर्वनदीषु पुण्यः पाथोधिरंबा प्रवरा मही च॥
समस्ततीर्थाकृतिरेतयोश्च ददामि चार्घ्यं प्रणमामि नौमि॥ १३.१२४ ॥
ताम्रा रस्याः पयोवाहाः पितृप्रीतिप्रदाः शभाः॥
सस्यमाला महासिन्धुर्दातुर्दात्री पृथुस्तुता॥
इन्द्रद्युम्नस्य कन्या च क्षितिजन्मा रावती॥ १३.१२५ ॥
महीपर्णा महीशृंगा गंगा पश्चिमवाहिनी॥
नदी राजनदी चेति नामाष्टाशमालिकाम्॥ १३.१२६ ॥
स्नानकाले च सर्वत्र श्राद्धकाले पठेन्नरः॥
पृथुनोक्तानि नामानि यज्ञमूर्तिपदं व्रजेत्॥ १३.१२७ ॥
महीदोहे महानंदसंदोहे विश्वमोहिनि॥
जातासि सरितां राज्ञि पापं हर महीद्रवे॥
॥इत्यर्घ्यमंत्रः॥ १३.१२८ ॥
कंकणं रजतस्यापि योऽत्र निक्षिपते नरः॥
स जायते महीपृष्ठे धनधान्ययुते कुले॥ १३.१२९ ॥
महीं च सागरं चैव रौप्यकंकण पूजया॥
पूजयामि भवेन्मा मे द्रव्यानाशो दरिद्रता॥ १३.१३० ॥
॥कंकणक्षेपणम्॥
यत्फलं सर्वतीर्थेषु सर्वयज्ञैश्च यत्फलम्॥
तत्फलं स्नानदानेन महीसागरसंगमे॥ १३.१३१ ॥
विवादे च समुत्पन्ने अपराधी च यो मतः॥
जलहस्तः सदा वाच्यो महीसागरसंगमे॥ १३.१३२ ॥
संस्नाप्याघोरमंत्रेण स्थाप्य नाभिप्रमाणके॥
जले करं समुद्धृत्य दक्षिणं वाचयेद्द्रुतम्॥ १३.१३३ ॥
यदि धर्मोऽत्र सत्योऽस्ति सत्यश्चेत्संगमस्त्वसौ॥
सत्याश्चेत्क्रतुद्रष्टारः सत्यं स्यान्मे शुभाशुभम्॥ १३.१३४ ॥
एवमुक्त्वा करं क्षिप्य दक्षिणं सकलं ततः॥
निःसृतः पापकारी चेज्ज्वरेणापीड्यते क्षणात्॥ १३.१३५ ॥
सप्ताहाद्दृश्यते चापि तावन्निर्दोषवान्मतः॥
अत्र स्नात्वा च जप्त्वा च तपस्तप्त्वा तथैव च॥ १३.१३६ ॥
रुद्रलोकं सुबहवो गताः पुण्येन कर्मणा॥
सोमवारे विशेषेण स्नात्वा योत्र सुभक्तितः॥ १३.१३७ ॥
पंच तीर्थानि कुरुते मुच्यते पंचपातकैः॥
इत्याद्युक्तं बहुविधं तीर्थमाहात्म्यमुत्तमम्॥ १३.१३८ ॥
भर्तृयज्ञः शिवस्यो च तेषामाराधने क्रमम्॥
शिवागमोक्तमादिश्य पूजायोगं यथाविधि॥ १३.१३९ ॥
शिवभक्तिसमुद्रैकपूरितः प्राह तान्मुनिः॥
न शिवात्परमो देवः सत्यमेतच्छिवव्रताः॥ १३.१४० ॥
शिवं विहाय यो ह्यान्यदसत्किंचिदुपासते॥
करस्थं सोऽमृतं त्यक्त्वा मृगतृष्णां प्रधावति॥ १३.१४१ ॥
शिवशक्तिमयं ह्येतत्प्रत्यक्षं दृश्यते जगत्॥
लिंगांकं च भगांकं च नान्यदेवांकितं क्वचित्॥ १३.१४२ ॥
यश्च तं पितरं रुद्रं त्यक्त्वा मातरमं बिकाम्॥
वर्ततेऽसौ स्वपितरं त्यक्तोदपितृपिंडकः॥
यस्य रुद्रस्य माहात्म्यं शतरुद्रीयमुत्तमम्॥ १३.१४३ ॥
श्रृणुध्वं यदि पापानामिच्छध्वं क्षालनं परम्॥
ब्रह्मा हाटकलिंगं च समाराध्य कपर्दिनः॥ १३.१४४ ॥
जगत्प्रधानमिति च नाम जप्त्वा विराजते॥
कृष्णमूले कृष्णलिंगं नाम चार्जितमेव च॥ १३.१४५ ॥
सनकाद्यैश्च तल्लिंगं पूज्याजयुर्जगद्गतिम्॥
दर्भांकुरमयं सप्त मुनयो विश्वयोनिकम्॥ १३.१४६ ॥
नारदस्त्वंतरिक्षे च जदद्बीजमिदं गृणन्॥
वज्रमिद्रो लिंगमेवं विश्वात्मानं च नाम च॥ १३.१४७ ॥
सूर्यस्ताम्रं तथा लिंगं नाम विश्वसृजं जपन्॥
चंद्रश्च मौक्तिकं लिंगं जपन्नाम जगत्पतिम्॥ १३.१४८ ॥
इंद्रनीलमयं वह्निर्नाम विश्वेश्वरं जपन्॥
पुष्परागं गुरुलिंगं विश्वयोनिं जपन्हरम्॥ १३.१४९ ॥
पद्मरागमयं शुक्रो विश्वकर्मेति नाम च॥
हेमलिंगं च धनदो जपन्नाम्ना तथेश्वरम्॥ १३.१५० ॥
रौप्यजं विश्वदेवाश्च नामापि जगतांपतिम्॥
वायवो रीतिजं लिंगं शंभुमित्येव नाम च॥ १३.१५१ ॥
काशजं वसवो लिंगं स्वयंभुमिति नाम च॥
त्रिलोहं मातरो लिंगं नाम भूतेशमेव च॥ १३.१५२ ॥
लौहं च रक्षसां नाम भूतभव्यभवोद्भवम्॥
गुह्यकाः सीसजं लिंगं नाम योगं जपंति च॥ १३.१५३ ॥
जैगीषव्यो ब्रह्मरन्ध्रं नाम योगेश्वरं जपन्॥
निमिर्नयनयोर्लिंगे जपञ्शर्वेति नाम च॥ १३.१५४ ॥
धन्वंतरिर्गोमयं च सर्वलोकेश्वरेश्वरम्॥
गंधर्वा दारुजं लिंगं सर्वश्रेष्ठेति नाम च॥ १३.१५५ ॥
वैडूर्यं राघवो लिंगं जगज्ज्येष्ठेति नाम च॥
बाणो मारकतं लिंगं वसिष्ठमिति नाम च॥ १३.१५६ ॥
वरुणः स्फाटिकं लिंगं नाम्ना च परमेश्वरम्॥
नागा विद्रुमलिंगं च नाम लोकत्रयंकरम्॥ १३.१५७ ॥
भारती तारलिंगं च नाम लोकत्रयाश्रितम्॥
शनिश्च संगमावर्ते जगन्नाथेति नाम च॥ १३.१५८ ॥
शनिदेशे मध्यरात्रौ महीसागरसंगमे॥
जातीजं रावणो लिंगं जपन्नाम सुदुर्जयम्॥ १३.१५९ ॥
सिद्धाश्च मानसं नाम काममृत्युजरातिगम्॥
उंछजं च बलिर्लिंगं ज्ञानात्मेत्यस्य नाम च॥ १३.१६० ॥
मरीचिपाः पुष्पजं च ज्ञानगम्येति नाम च॥
शकृताः शकृतं लिंगं ज्ञानज्ञेयेति नाम च॥ १३.१६१ ॥
फेनपाः फेनजं लिंगं नाम चापि सुदुर्विदम्॥
कपिलो वालुकालिंगं वरदं च जपन्हरम्॥ १३.१६२ ॥
सारस्वतो वाचिलिंगं नाम वागीश्वरेति च॥
गणा मूर्तिमयं लिंगं नाम रुद्रेति चाब्रुवन्॥ १३.१६३ ॥
जांबूनदमयं देवाः शितिकण्ठेति नाम च॥
शंखलिंगं बुधो नाम कनिष्ठमिति संजपन्॥ १३.१६४ ॥
अश्विनौ मृन्मयं लिंगं नाम्ना चैव सुवेधसम्॥
विनायकः पिष्टलिंगं नाम्ना चापि कपर्दिनम्॥ १३.१६५ ॥
नावनीतं कुजो लिंगं नाम चापि करालकम्॥
तार्क्ष्य ओदनलिंगं च हर्यक्षेति हि नाम च॥ १३.१६६ ॥
गौडं कामस्तथा लिंगं रतिदं चेति नाम च॥
शची लवणलिंगं तु बभ्रुकेशेति नाम च॥ १३.१६७ ॥
विश्वकर्मा च प्रासादलिंगं याम्येति नाम च॥
विभीषणश्च पांसूत्थं सुहृत्तमेति नाम च॥
वंशांकुरोत्थं सगरो नाम संगतमेव च॥ १३.१६८ ॥
राहुश्च रामठं लिंगं नाम गम्येति कीर्तयन्॥
लेप्यलिंगं तथा लक्ष्मीर्हरिनेत्रेति नाम च॥ १३.१६९ ॥
योगिनः सर्वभूतस्थं स्थाणुरित्येव नाम च॥
नानाविधं मनुष्याश्च पुरुषंनाम नाम च॥ १३.१७० ॥
तेजोमयं च ऋक्षाणि भगं नाम च भास्वरम्॥
किंनरा धातुलिंगं च सुदीप्तमिति नाम च॥ १३.१७१ ॥
देवदेवेति नामास्ति लिंगं च ब्रह्मराक्षसाः॥
दंतजं वारणा लिंगं नाम रंहसमेव च॥ १३.१७२ ॥
सप्तलोकमयं साध्या बहूरूपेति नाम च॥
दूर्वांकुरमयं लिंगमृतवः सर्वनाम च॥ १३.१७३ ॥
कौंकुममप्सरसो लिंगं नाम शंभोः प्रियेति च॥
सिंदूरजं चोर्वशी च नाम च प्रियवासनम्॥ १३.१७४ ॥
ब्रह्मचारि गुरुर्लिंगं नाम चोष्णीषिणं विदुः॥
अलक्तकं च योगिन्यो नाम चास्य सुबभ्रुकम्॥ १३.१७५ ॥
श्रीखंडं सिद्धयोगिन्यः सहस्राक्षेति नाम च॥
डाकिन्यो मांस लिंगं च नाम चास्य च मीढुषम्॥ १३.१७६ ॥
अप्यन्नजं च मनवो गिरिशेति च नाम च॥
अगस्त्यो व्रीहिजं वापि सुशांतमिति नाम च॥ १३.१७७ ॥
यवजं देवलो लिंगं पतिमित्येव नाम च॥
वल्मीकजं च वाल्मीकिश्चिरवासीति नाम च॥ १३.१७८ ॥
प्रतर्दनो बाणलिंगं हिरण्यभुजनाम च॥
राजिकं च तथा दैत्या नाम उग्रेति कीर्तितम्॥ १३.१७९ ॥
निष्पावजं दानवाश्च लिंगनाम च दिक्पतिम्॥
मेघा नीरमयं लिंगं पर्जन्यपतिनाम च॥ १३.१८० ॥
राजमाषमयं यक्षा नाम भूतपतिं स्मृतम्॥
तिलान्नजं च पितरो नाम वृषपतिस्तथा॥ १३.१८१ ॥
गौतमो गोरजमयं नाम गोपतिरेव च॥
वानप्रस्थाः फलमयं नाम वृक्षावृतेति च॥ १३.१८२ ॥
स्कंदः पाषाणलिंगं च नाम सेनान्य एव च॥
नागश्चाश्वतरो धान्यं मध्यमेत्यस्य नाम च॥ १३.१८३ ॥
पुरोडाशमयं यज्वा स्रुवहस्तेति नाम च॥
यमः कालायसमयं नाम प्राह च धन्विनम्॥ १३.१८४ ॥
यवांकुरं जामदग्न्यो भर्गदैत्येति नाम च॥
पुरूरवाश्चाश्चान्नमयं बहुरूपेति नाम च॥ १३.१८५ ॥
मांधाता शर्करालिंगं नाम बाहुयुगेति च॥
गावः पयोमयं लिंगं नाम नेत्रसहस्रकम्॥ १३.१८६ ॥
साध्या भर्तृमयं लिंगं नाम विश्वपतिः स्मृतम्॥
नारायणो नरो मौंजं सहस्रशिरनाम च॥ १३.१८७ ॥
तार्क्ष्यं पृथुस्तथा लिंगं सहस्रचरणाभिधम्॥
पक्षिणो व्योमलिंगं च नाम सर्वात्मकेति च॥ १३.१८८ ॥
पृथिवी मेरुलिंगं च द्वितनुश्चास्य नाम च॥
भस्मलिंगं पशुपतिर्नाम चास्य महेश्वरः॥ १३.१८९ ॥
ऋषयो ज्ञानलिंगं च चिरस्थानेति नाम च॥
ब्राह्मणा ब्रह्मलिंगं च नाम ज्येष्ठेति तं विदुः॥ १३.१९० ॥
गोरोचनमयं शेषो नाम पशुपतिः स्मृतम्॥
वासुकिर्विषलिंगं च नाम वै शंकरेति च॥ १३.१९१ ॥
तक्षकः कालकूटाख्यं बहुरूपेति नाम च॥
हालाहलं च कर्कोट एकाक्ष इति नाम च॥ १३.१९२ ॥
श्रृंगी विषमयं पद्मो नाम धूर्जटिरेव च॥
पुत्रः पितृमयं लिंगं विश्वरूपेति नाम च॥ १३.१९३ ॥
पारदं च शिवा देवी नाम त्र्यम्बक एव च॥
मत्स्याद्याः शास्त्रलिंगं च नाम चापि वृषाकपिः॥ १३.१९४ ॥
एवं किं बहुनोक्तेन यद्यत्सत्त्वं विभूतिमत्॥
जगत्यामस्ति तज्जातं शिवाराधनयोगतः॥ १३.१९५ ॥
भस्मनो यदि वृक्षत्वं ज्ञायते नीरसेवनात्॥
शिवभक्तिविहीनस्य ततोऽस्य फलमुच्यते॥ १३.१९६ ॥
धर्मार्थकाममोक्षाणां यदि प्राप्तौ भवेन्मतिः॥
ततो हरः समाराध्यस्त्रिजगत्याः प्रदो मतः॥ १३.१९७ ॥
य इदं शतरुद्रीयं प्रातःप्रातः पठिष्यति॥
तस्य प्रीतः शिवो देवः प्रदास्यत्यखिलान्वरान्॥ १३.१९८ ॥
नातः परं पुण्यतमं किंचिदस्ति महाफलम्॥
सर्ववेदरहस्यं च सूर्येणोक्तमिदं मम॥ १३.१९९ ॥
वाचा च यत्कृतं पापं मनसा वाप्युपार्जितम्॥
पापं तन्नाशमायाति कीर्तिते शतरुद्रिये॥ १३.२०० ॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्॥
भयान्मुच्येत भीतश्च जपेद्यः शतरुद्रियम्॥ १३.२०१ ॥
नाम्नां शतेन यः कुम्भैः पुष्पैस्तावद्भिरीश्वरम्॥
प्रणामानां शतेनापि मुच्यते सर्वपातकैः॥ १३.२०२ ॥
लिंगानां शतमेतच्च शतमाराधकास्तथा॥
नामानि च शतं सर्वदोषसंनाशकं स्मृतम्॥ १३.२०३ ॥
विशेषादेषु लिंगेषु यः पठिष्यति पंचसु॥
पंचभिर्विषयोद्भूतैः स दोषैः परिमुच्यते॥ १३.२०४ ॥
॥नारद उवाच॥
निशम्यैवं प्रार्थ्यतेऽपि गुप्तक्षेत्रे मुदान्विताः॥
पंचलिंगानयर्चयंतः शिवध्यानपराभवन्॥ १३.२०५ ॥
ततो बहुतिथे काले प्रत्यक्षीभूय शंकरः॥
प्राहतान्मुदितो देवस्तेषां भक्तिविशेषतः॥ १३.२०६ ॥
॥शिव उवाच॥
बकोलूकगृध्रकूर्मा इन्द्रद्युम्न च पार्थिव॥
सारूप्यां मुक्तिमापन्ना मल्लोके निवसिष्यथ॥ १३.२०७ ॥
लोमशश्चापि मार्कंडो जीवन्मुक्तौ भविष्यतः॥
इत्युक्ते देवदेवेन लिंगं स्थापितवान्नृपः॥ १३.२०८ ॥
इन्द्रद्युम्नेश्वरं नाम महाकालाख्यमित्युत॥
ज्ञात्वा तीर्थगुणान्राजा कीर्तिमिच्छंश्चिरंतनीम्॥ १३.२०९ ॥
त्रिरम्यमतुलं लिंगं संस्थाप्येदमुवाच ह॥
यावच्चंद्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी॥ १३.२१० ॥
इन्द्रद्युम्नेश्वरं लिंगं नंदताच्छाश्वतीः समाः॥
ततस्तथेति भगवाच्छिवः प्रोच्याब्रवीत्पुनः॥ १३.२११ ॥
अत्र यो नियतं लिंगमैंद्रद्युम्नं प्रपूजयेत्॥
स गणो जायते नूनं मम लोके निवत्स्यति॥ १३.२१२ ॥
इत्युक्त्वा सह तैश्चैव पंचभिः शशिशेखरः॥
रुद्रलोकम गाद्देवस्तेऽपि जाता गणाः पुनः॥ १३.२१३ ॥
एवं प्रभावो राजाभूदिंद्रद्युम्नो महीपतिः॥
यजता येन वीरेण निर्मितेयं महीनदी॥ १३.२१४ ॥
एवंविधःस पुण्योऽयं महीसागरसंगमः॥
अभूत्ततोऽपि संक्षेपात्तव पार्थ प्रकीर्तितः॥ १३.२१५ ॥
स्नात्वात्र संगमे यश्च इन्द्रद्युम्नेश्वरं नरः॥
पूजयेत्तस्य वासः स्याद्यत्रेशः पार्वतीपतिः॥ १३.२१६ ॥
सर्वबन्धहरं लिंगं गाणपत्यप्रदं त्विदम्॥
यतो बन्धान्विहायैव स्थापितं तेन फालल्गुन॥ १३.२१७ ॥
इतीदमुक्तं तव पुण्यकारि माहात्म्यमस्योत्तमसंगमस्य॥
माहात्म्यमत्यद्बुतपुण्यमिन्द्रद्युम्नेश्वरस्यापि च पुण्यकारि॥ १३.२१८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीसागरसंगममाहात्म्यशतरुद्रियलिंगमाहात्म्येन्द्रद्युम्नेश्वरलिंगमाहात्म्य वर्णनंनाम त्रयोदशोऽध्यायः॥ १३ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 14
॥अर्जुन उवाच॥
कुमारनाथमाहात्म्यं यत्त्वयोक्तं कथांतरे॥
तदहं श्रोतुमिच्छामि विस्तरेण महामुने॥ १४.१ ॥
॥नारद उवाच॥
तारकं विनिहत्यैव वज्रांगतनयं प्रभुः॥
गुहः संस्थापयामास लिंगमेतच्च फाल्गुन॥ १४.२ ॥
दर्शनाच्छ्रवणाद्ध्यानात्पूजया श्रुतिवंदनैः॥
सर्वपापापहः पार्थ कुमारेशो न संशयः॥ १४.३ ॥
॥अर्जुन उवाच॥
अत्याश्चर्यमयी रम्या कथेयं पापनाशिनी॥
विस्तरेण च मे ब्रूहि याथातथ्येन नारद॥ १४.४ ॥
वज्रांगः कोप्यसौ दैत्यः किंप्रभावश्च तारकः॥
कथं स निहतश्चैव जातश्चैव कथं गुहः॥ १४.५ ॥
कथं संस्थापितं लिंगं कुमारेश्वरसंज्ञितम्॥
किं फलं चास्य लिंगस्य ब्रूहि तद्विस्तरान्मम॥ १४.६ ॥
॥नारद उवाच॥
प्रणिपत्य कुमाराय सेनान्ये चेश्वराय च॥
श्रृणु चैकमनाः पार्थ कुमारचरितं महत्॥ १४.७ ॥
मानसो ब्रह्मणः पुत्रो दक्षो नाम प्रजापतिः॥
षष्टिं सोऽजनयत्कन्या वीरिण्यां नाम फाल्गुन॥ १४.८ ॥
ददो स दश धर्माय कश्यपाय त्रयोदश॥
सप्तविंशतिं सोमाय चतस्रोरिष्टनेमिने॥ १४.९ ॥
भूतांगिरः कृशाश्वेभ्यो द्वेद्वे चैव ददौ प्रभुः॥
नामधेयान्यमूषां च सपत्नीनां च मे श्रृणु॥ १४.१० ॥
यासां प्रसूतिप्रभवा लोका आपूरितास्त्रयः॥
भानुर्लम्बा ककुद्भूमिर्विश्वा साध्या मरुत्वती॥ १४.११ ॥
वसुर्सुहूर्ता संकल्पा धर्मपत्न्यः सुताञ्छृणु॥
भानोस्तु देवऋषभ सुतोऽभवत्॥ १४.१२ ॥
विद्योत आसील्लंबायां ततश्च स्तनयित्नवः॥
ककुदः शकटः पुत्रः कीकटस्तनयो यतः॥ १४.१३ ॥
भुवो दुर्गस्तथा स्वर्गो नंदश्चैव ततोऽभवत्॥
विश्वेदेवाश्च विश्वाया अप्रजांस्तान्प्रचक्षते॥ १४.१४ ॥
साध्या द्वादश साध्याया अर्थसिद्धिस्तु तत्सुतः॥
मरुत्वान्सुजयंतश्च मरुत्वत्या बभूवतुः॥ १४.१५ ॥
नरनारायणौ प्राहुर्यौ तौ ज्ञानविदो जनाः॥
वसोश्च वसवश्चाष्टौ मुहूर्तायां मुहूर्तकाः॥ १४.१६ ॥
ये वै फलं प्रयच्छंति भूतानां स्वं स्वकालजम्॥
संकल्पायाश्च संकल्पः कामः संकल्पजः सुतः॥ १४.१७ ॥
सुरूपासूत तनयान्रुद्रानेकादशैव तु॥
कपाली पिंगलो भीमो विरुपाक्षो विलोहितः॥ १४.१८ ॥
अजकः शासनः शास्ता शंभुश्चांत्यो भवस्तथा॥
रुद्रस्य पार्षदाश्चान्ये विरूपायाः सुताः स्मृताः॥ १४.१९ ॥
प्रजापतेरंगिरसः स्वधा पत्नी पितॄनथ॥
जज्ञे सनी(ची?)तथा पुत्रमथर्वागिरसं प्रभुम्॥ १४.२० ॥
कृशाश्वस्य च द्वे भार्ये अर्चिश्च दिषणा तथा॥
अस्त्रगामो ययोः पुत्रः ससंहारः प्रकीर्तितः॥ १४.२१ ॥
पतंगी यामिनी ताम्रा तिमिश्चारिष्टनेमिनः॥
पतंग्यसूत पतगान्यामिनी शलभानथ॥ १४.२२ ॥
ताम्रायाः श्येनगृध्राद्यास्तिमेर्यादोगणास्तथा॥
अथ कश्यपपत्नीनां यत्प्रसूदमिदं जगत्॥ १४.२३ ॥
श्रृणु नामानि लोकानां मातॄणां शंकराणि च॥
अदितिर्दितिर्दनुः सिंही दनायुः सुरभिस्तथा॥ १४.२४ ॥
अरिष्टा विनता ग्रावा दया क्रोधवशा इरा॥
कद्रुर्मुनिश्च ते चोभे मातरस्ताः प्रकीर्तिताः॥ १४.२५ ॥
आदित्याश्चादितेः पुत्रा दितेर्दैत्याः प्रकीर्तिताः॥
दनोश्च दानवाः प्रोक्ता राहुः सिंहीसुतो ग्रहः॥ १४.२६ ॥
दनायुषस्तथा जातो दनायुश्च गणो बली॥
गावश्च सुरभेर्जातारिष्टापुत्रा युगंधराः॥ १४.२७ ॥
विनतासूत अरुणं गरुडं च महाबलम्॥
ग्रावायाः श्वापदाः पुत्रा गणः क्रोधवशस्तथा॥ १४.२८ ॥
जातः क्रोधवशायाश्च इराया भूरुहाः स्मृताः॥
कद्रूसुताः स्मृता नागा मुनेरप्सरसां गणाः॥ १४.२९ ॥
तत्र द्वौ तनयौ यौ च दितेस्तौ विष्णुना हतौ॥
हिरण्यकशिपुर्वीरो हिरण्याक्षस्तथाऽपरः॥ १४.३० ॥
ततो निहतपुत्रा सा दितिराराध्य कश्यपम्॥
अयाचत वरं देवी पुत्रमन्यं महाबलम्॥ १४.३१ ॥
समरे शक्रहंतारं स तस्या अददात्प्रभुः॥
नियमे चापि वर्तस्व वर्षाणां च सहस्रकम्॥ १४.३२ ॥
इत्युक्ता सा तथा चक्रे पुष्करस्था समाहिता॥
वर्तंत्या नियमे तस्याः सहस्राक्षः समाहितः॥ १४.३३ ॥
उपासामाचरद्भक्त्या सा चैनमन्वमन्यत॥
दशवत्सरशेषस्य सहस्रस्य तदा दितिः॥ १४.३४ ॥
उवाच शक्रं सुप्रीता भक्त्या शक्रस्य तोषिता॥
॥दितिरुवाच॥
अत्रोत्तीर्णव्रतप्रायां विद्धि देवसत्तम॥ १४.३५ ॥
भविष्यति तव भ्राता तेन सार्धमिमां श्रियम्॥
भोक्ष्यसे त्वं यथानयायं त्रैलोक्यं हतकंटकम्॥ १४.३६ ॥
इत्युक्त्वा निद्रयाविष्टा चरणाक्रांतमूर्धजा॥
दिवा सुप्ता दितिर्देवी भाव्यर्थबलनोदिता॥ १४.३७ ॥
तत्तु रंध्रमवेक्ष्यैव योगमूर्तिस्तदाविशत्॥
जठरस्थं दितेर्गर्भं चक्रे वज्रेण सप्तधा॥ १४.३८ ॥
एकैकं च पुनः खण्डं चकार मघवा ततः॥
सप्तधा सप्तधा कोपादुद्बुध्य च ततो दितिः॥ १४.३९ ॥
न हंतव्यो न हंतव्य इति सा शक्रमब्रवीत्॥
वज्रेण कृत्त्यमानानां बुद्धा सा रोदनेन च॥ १४.४० ॥
ततः शक्रश्च मा रोदीरिति तांस्तान्यथाऽवदत्॥
निर्गत्य जठरात्तस्मात्ततः प्रांजलिरग्रतः॥ १४.४१ ॥
उवाच वाक्यं चात्रस्तो मातरं रिषपूरिताम्॥
दिवास्वापं कृथा मातः पादाक्रांतशिरोरुहा॥ १४.४२ ॥
सुप्ताथ सुचिरं वाते धिन्नो गर्भो मया तव॥
कृता एकोनपंचाशद्भागा वज्रेण ते सुताः॥ १४.४३ ॥
सत्यं भवतु ते वाक्यं सार्धं भोक्ष्यामि तैः श्रियम्॥
दास्यामि तेषां स्थानानि दिवि यावदहं दिते॥ १४.४४ ॥
मा रोदीरिति मे प्रोक्ताः ख्याताश्च मरुतस्त्विति॥
इत्युक्ता सा च सव्रीडा दितिर्जाता निरुत्तरा॥ १४.४५ ॥
सार्धं तैर्गतवानिंद्रो दिगंते वायवः स्मृताः॥
ततः पुनश्च भर्तारं दितिः प्रोवाच दुःखिता॥ १४.४६ ॥
पुत्रं मे भगवन्देहि शक्रहंतारमूर्जितम्॥
यो नास्त्रशस्त्रैर्वध्यत्वं गच्छेत्त्रिदिववासिनाम्॥ १४.४७ ॥
न ददास्युत्तरं विद्धि मृतामेव प्रजापते॥
इत्युक्तः स तदोवाच तां पत्नीमतिदुःखिताम्॥ १४.४८ ॥
दशवर्षसहस्राणि तपोनिष्ठा तु तप्स्यसे॥
वज्रसारमयैरंगैरच्छेद्यैरायसैर्दृढैः॥ १४.४९ ॥
वज्रांगोनाम पुत्रस्ते भविता धर्मवत्सलः॥
सा तु लब्धवरा देवी जगाम तपसे वनम्॥ १४.५० ॥
दशवर्षसहस्राणि तपो घोरं समाचरत्॥
तपसोंऽते भगवती जनयामास दुर्जयम्॥ १४.५१ ॥
पुत्रमप्रतिकर्माणमजेयं वज्रदुश्छिदम्॥
स जातामात्र एवाभूत्सर्वशा स्त्रार्थपारगः॥ १४.५२ ॥
उवाच मातरं भक्त्या मातः किं करवाण्यहम्॥
तमुवाच ततो हृष्टा दितिर्दैत्याधिपं सुतम्॥ १४.५३ ॥
बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक॥
तेषआमपचितिं कर्तुमिच्छे शक्रवधादहम्॥ १४.५४ ॥
बाढमित्येव सं प्रोच्य जगाम त्रिदिवं बली॥
ससैन्यं समरे शक्रं स च बाह्वायुधोऽजयत्॥ १४.५५ ॥
पादेनाकृष्य देवेंद्रं सिंहः क्षुद्रमृगं यथा॥
मातुरंतिकमागच्छद्याचमानं भयातुरम्॥ १४.५६ ॥
एतस्मिन्नंतरे ब्रह्मा कश्यपश्च महातपाः॥
आगता तत्र संत्रस्तावथो ब्रह्मा जगाद तम्॥ १४.५७ ॥
मुंचामुं पुत्र याचंतं किमनेन प्रयोजनम्॥
अवमानो वधः प्रोक्तो वीरसंभावितस्य च॥ १४.५८ ॥
अस्मद्वाक्येन यो मुक्तो जीवन्नपि मृतो हि सः॥
शत्रुं ये घ्नंति समरे न ते वीराः प्रकीर्तिताः॥ १४.५९ ॥
कृत्वा मानपरिग्लनिं ये मुंचंति वरा हि ते॥
यतामान्यतमं मत्वा त्वया मातुर्वचः कृतम्॥ १४.६० ॥
तथा पितुर्वचः कार्यं मुंचामुं पुत्र वासवम्॥
एतच्छ्रुत्वा तु वज्रांगः प्रणतो वाक्यमब्रवीत्॥ १४.६१ ॥
न मे कृत्यमनेनास्ति मातुराज्ञा कृता मया॥
त्वं सुरासुरनाथो वै मम च प्रपितामहः॥ १४.६२ ॥
करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः॥
न च कांक्षे शक्रभुक्तामिमां त्रैलोक्यराजताम्॥ १४.६३ ॥
परभुक्ता यथा नारी परभुक्तामिवस्रजम्॥
यच्च त्रिभुवनेष्वस्ति सारं तन्मम कथ्यताम्॥ १४.६४ ॥
॥ब्रह्मोवाच॥
तपसो न परं किंचित्तपो हि महतां धनम्॥
तपसा प्राप्यते सर्वं तपोयोग्योऽसि पुत्रक॥ १४.६५ ॥
॥वज्रांग उवाच॥
तपसे मे रतिर्देव न विघ्नं तत्र मे भवेत्॥
त्वत्प्रसादेन भगवन्नित्युक्त्वा विरराम सः॥ १४.६६ ॥
॥ब्रह्मोवाच॥
क्रूरभावं परित्यज्य यदीच्छसि तपः सुत॥
अनया चित्तबुद्ध्या तत्त्वयाप्तं जन्मनः फलम्॥ १४.६७ ॥
इत्युक्त्वा पद्मजः कन्यां ससर्ज्जयतलोचनाम्॥
तामस्मै प्रददौ देवः पत्न्यर्थं पद्मसंभवः॥ १४.६८ ॥
वरांगीति च नामास्याः कृतवांश्च पितामहः॥
जगाम च ततो ब्रह्मा कश्यपेन समं दिवम्॥ १४.६९ ॥
वज्रांगोऽपि तया सार्धं जगाम तपसे वनम्॥
ऊर्द्धूबाहुः स दैत्येंद्रोऽतिष्ठदब्दसहस्रकम्॥ १४.७० ॥
कालं कमलपत्राक्षः शुद्धबुद्धिर्महातपाः॥
तावानधोमुखः कालं तावत्पंचाग्निसाधकः॥ १४.७१ ॥
निराहारो घोरतपास्तपोराशिरजायत॥
ततः सोंऽतर्जले चक्रे कालं वर्षसहस्रकम्॥ १४.७२ ॥
जलांतरप्रविष्टस्य तस्य पत्नी महाव्रता॥
तस्यैव तीरे सरसस्तत्परा मौनमाश्रिता॥ १४.७३ ॥
निराहारं पतिं मत्वा तपस्तेपे पतिव्रता॥
तस्यास्तपसि वर्तंत्या इंद्रश्चक्रे विभीषिकाम्॥ १४.७४ ॥
भूत्वा तु मर्कटाकारस्तस्याअभ्याशमागतः॥
अपविध्य दृशं तस्या मूत्रविष्ठे चकार सः॥ १४.७५ ॥
तथा विलोलवसनां विलोलवदनां तथा॥
विलोलकेशां तां चक्रे विधित्सुस्तपसः क्षतिम्॥ १४.७६ ॥
ततश्च मेषरूपेण क्लेशं तस्याश्चकार सः॥
ततो भुजंगरूपेण बद्धा चरणयोर्द्वयोः॥ १४.७७ ॥
अपाकर्षत दूरं स तस्माद्देवभृतस्तथा॥
तपोबालाच्च सा तस्य न वध्यत्वं जगाम ह॥ १४.७८ ॥
क्षमया च महाभागा क्रोधमण्वपि नाकरोत्॥
ततो गोमायुरूपेण तमदूषयदाश्रमम्॥ १४.७९ ॥
अग्निरूपेण तस्याश्च स ददाह महाश्रमम्॥
चकर्ष वायुरूपेण महोग्रेण च तां शुभाम्॥
एवं सिहवृकाद्याभिर्भीषिकाभिः पुनःपुनः॥ १४.८० ॥
विरराम यदा नैव वज्रांगमहिषी तदा॥
शैलस्य दुष्टतां मत्वा शापं दातुं व्यवस्यत॥ १४.८१ ॥
तां शापाभिमुखीं दृष्ट्वा शैलः पुरुषाविग्रहः॥
उवाच तां वरारोहां त्वरयाथ सुलोचनाम्॥ १४.८२ ॥
॥शैल उवाच॥
नाहं महाव्रते दुष्टः सेव्योऽहं सर्वदेहिनाम्॥
अतिखेदं करोत्येष ततः क्रुद्धस्तु वृत्रहा॥ १४.८३ ॥
एतस्मिन्नंतरे जातः कालो वर्षसहस्रिकः॥
तस्मिन्याते स भगवान्काले कमलसंभवः॥ १४.८४ ॥
तुष्टः प्रोवाच वज्रांगं तमागम्य जलाशये॥ १४.८५ ॥
॥ब्रह्मोवाच॥
ददामि सर्वकामांस्ते उत्तिष्ठ दितिनन्दन॥
एवमुक्तस्तदोत्थाय दैत्येंद्रस्तपसो निधिः॥
उवाच प्रांजलिर्वाक्यं सर्वलोकपितामहम्॥ १४.८६ ॥
॥वज्रांग उवाच॥
आसुरो मेऽस्तु मा भावः शक्रराज्ये च मा रतिः॥
तपोधर्मरतिश्चास्तु वृणोम्येतत्पितामह॥ १४.८७ ॥
एवमस्त्विति तं ब्रह्मा प्राह विस्मितमानसः॥
उपेक्षते च शक्रं स भाव्यर्थं कोऽतिवर्तते॥ १४.८८ ॥
ऋषयो मनुजा देवाः शिवब्रह्ममुखा अपि॥
भाव्यर्थं नाति वर्तंते वेलामिव महोदधिः॥ १४.८९ ॥
इति चिंत्य विरिंचोऽपि तत्रैवांतरधीयत॥
वज्रांगोऽपि समाप्ते तु तपसि स्थिरसंयमः॥ १४.९० ॥
आहारमिच्छन्स्वां भार्यां न ददर्शाश्रमे स्वके॥
भार्याहीनोऽफलश्चेति स संचिंत्य इतस्ततः॥ १४.९१ ॥
विलोकयन्स्वकां भार्यां विधित्सुः कर्म नैत्यकम्॥
विलोकयन्ददर्शाथ इहामुत्र सहयिनीम्॥ १४.९२ ॥
रुदन्तीं स्वां प्रियां दीनां तरुप्रच्छादिताननाम्॥
तां विलोक्य ततो दैत्यः प्रोवाच परिसांत्वयन्॥ १४.९३ ॥
॥वज्रांग उवाच॥
केन तेऽपकृतं भीरु वर्तंत्यास्तपसि स्वके॥
कथं रोदिषि वा बाले मयि जीवति भर्तरि॥
कं वा कामं प्रयच्छामि शीघ्रं प्रब्रूहि भामिनि॥ १४.९४ ॥
गृहेश्वरीं सद्गुणभूषितां शुभां पंग्वंधयोगेन पतिं समेताम्॥
न लालयेत्पूरयेन्नैव कामं स किं पुमान्न पुमान्मे मतोस्ति॥ १४.९५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये वज्रांगेतिहासवर्णनं नाम चतुर्दशोऽध्यायः॥ १४ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 15
॥वरांग्युवाच॥
नाशितास्म्यपविद्धास्मि त्रासिता पीडितास्मि च॥
रौद्रोण देवनाथेन नष्टनाथेन भूरिशः॥ १५.१ ॥
दुःखपारमपश्यंती प्राणांस्त्यक्तुं व्यवस्थिता॥
पुत्रं मे घोरदुःखस्य तारकं देहि चेत्कृपा॥ १५.२ ॥
एवमुक्तस्तु दैत्येंद्रो दुःखितोऽचिंतयद्धृदि॥
आसुरेष्वपि भावेषु स्पृहा यद्यपि नास्ति मे॥ १५.३ ॥
तथापि मन्ये शास्त्रैभ्यस्त्वनुकंप्या प्रियेति यत्॥
सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान्॥ १५.४ ॥
व्यसनार्णवमत्येति जलयानैरिवार्णवम्॥
यामाश्रित्येंद्रियारातीन्दुर्जयानितराश्रयैः॥ १५.५ ॥
गेहिनो हेलया जिग्युर्दस्यून्दूर्ग पतिर्यथा॥
न केऽपि प्रभवस्तां चाप्यनुकर्तुं गृहेश्वरीम्॥ १५.६ ॥
अथायुषा वा कार्त्स्न्येन धर्मे दित्सुर्यथैव च॥
यस्यां भवति चात्मैव ततो जाया निगद्यते॥ १५.७ ॥
भर्तव्या एव यस्माच्च तस्माद्भार्येति सा स्मृता॥
सा एव गृहमुक्तं च गृहीणी सा ततः स्मृता॥ १५.८ ॥
संसारकल्मषात्त्रात्री कलत्रमिति सा ततः॥
एवंविधां प्रियां को वै नानुकंपितुमर्हति॥ १५.९ ॥
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत्॥
भार्या कर्म च विद्या च संसाध्यं यत्नतस्त्रयम्॥ १५.१० ॥
तदेनां पीडितां चेद्यः पतिर्भूत्वा न पालये॥
ततो यास्ये शास्त्रवादान्नरकांतं न संशयः॥ १५.११ ॥
अह मप्येनमिंद्रं वै शक्तो जेतुं यथाऽनृणाम्॥
पुनः कामं करिष्येऽस्या दास्ये पुत्रऊं महाबलम्॥ १५.१२ ॥
इति संचिंत्य वज्रांगः कोपव्याकुललोचनः॥
प्रतिकर्तुं महेंद्राय तपो भूयो व्यवस्यत॥ १५.१३ ॥
ज्ञात्वा तु तस्य संकल्पं ब्रह्मा क्रूरतरं पुनः॥
आजगाम त्वरायुक्तो यत्राऽसौ दितिनंदनः॥ १५.१४ ॥
उवाचैनं स भगवान्प्रभुर्मधुरया गिरा॥ १५.१५ ॥
॥ब्रह्मोवाच॥
किमर्थं भूय एव त्वं नियमं क्रूरमिच्छसि॥
आहाराभिमुखो दैत्य तन्मे ब्रूहि महाव्रतः॥ १५.१६ ॥
यावदब्दसहस्रेण निराहारेण वै फलम्॥
त्यजता प्राप्तमाहारं लब्धं ते क्षणमात्रतः॥ १५.१७ ॥
त्यागो ह्यप्राप्तकामानां न तथा च गुरुः स्मृतः॥
यथा प्राप्तं परित्यज्य कामं कमललोचन॥
श्रुत्वैतद्ब्रह्मणो वाक्यं दैत्यः प्रांजलिरब्रवीत्॥ १५.१८ ॥
॥दैत्य उवाच॥
पत्न्यर्थेऽहं करिष्यामि तपो घोरं पितामह॥
पुत्रार्थमुद्यतश्चाहं यः स्याद्गीर्वाणदर्पहा॥ १५.१९ ॥
एतच्छ्रुत्वा वचो देवः पद्मगर्भोद्भवस्तदा॥
उवाच दैत्यराजानं प्रसन्नश्चतुराननः॥ १५.२० ॥
॥ब्रह्मोवाच॥
अलं ते तपसा वत्स मा क्लेशे विस्तरे विश॥
पुत्रस्ते तारकोनाम भविष्यति महाबलः॥ १५.२१ ॥
देवसीमंतिनीकाम्यधम्मिल्लकविमोक्षणः॥
इत्युक्तो दैत्यराजस्तु प्रणम्य प्रपितामहम्॥ १५.२२ ॥
विसृज्य गत्वा महिषीं नंदया मास तां मुदा॥
तौ दंपती कृतार्थौ च जग्मतुश्चाश्रमं तदा॥ १५.२३ ॥
आहितं च ततो गर्भं वरांगी वरवर्णिनी॥
पूर्णं वर्षसहस्रं तु दधारोदर एव हि॥ १५.२४ ॥
ततो वर्षसहस्रांते वरांगी समसूयत॥
जायमाने तु दैत्येंद्रे तस्मिँल्लोकभयंकरे॥ १५.२५ ॥
चचाल सकला पृथ्वी प्रोद्धूताश्च महार्णवा॥
चेलुर्धराधराश्चापि ववुर्वाता विभीषणाः॥ १५.२६ ॥
जेपुर्जप्यं मुनिवरा व्याधविद्धा मृगा इव॥
जहुः कांतिं च सूर्याद्या नीहाराश्छांदयन्दिशः॥ १५.२७ ॥
जाते महासुरे तस्मिन्सर्व एव महासुराः॥
आजग्मुर्हर्षितास्तत्र तथा चासुरयोषितः॥ १५.२८ ॥
जगुर्हर्षसमाविष्टा ननृतुश्चासुरांगनाः॥
ततो महोत्सवे जाते दानवानां पृथासुत॥ १५.२९ ॥
विषण्णमनसो देवाः समहेंद्रास्तदाभवन्॥
जातामात्रस्तु दैत्येंद्रस्तारकश्चंडविक्रमः॥ १५.३० ॥
अभिषिक्तोऽसुरो दैत्यैः कुरंगमहिषादिभिः॥
सर्वासुरमहाराज्ये युतः सर्वैर्महासुरैः॥ १५.३१ ॥
स तु प्राप्तमहाराज्यस्तारकः पांडुसत्तम॥
उवाच दानवश्रेष्ठान्युक्तियुक्तमिदं वचः॥ १५.३२ ॥
श्रृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः॥
श्रुत्वा वः स्थेयसी बुद्धिः क्रियतां वचने मम॥ १५.३३ ॥
अस्माकं जातिधर्मेण विरूढं वैरमक्षयम्॥
करिष्याम्यहं तद्वैरं तेषां च विजयाय च॥ १५.३४ ॥
किं तु तत्तपसा साध्यं मन्येहं सुरसंगमम्॥
तस्मादादौ करिष्यामि तपो घोरं दनोः सुताः॥ १५.३५ ॥
ततः सुरान्विजेष्यामो भोक्ष्यामोऽथ जगत्त्रयम्॥
युक्तोपायोऽहि पुरुषः स्थिरश्रीरेव जायते॥ १५.३६ ॥
अयुक्तश्चपलः प्राप्तामपि रक्षितुमक्षमः॥
तच्छ्रुत्वा दानवाः सर्वे वाक्यं तस्यासुरस्य तु॥ १५.३७ ॥
साधुसाध्वित्यथोचुस्ते वचनं तस्य विस्मिताः॥
सोऽगच्छत्पारियात्रस्य गिरेः कंदरमुत्तमम्॥ १५.३८ ॥
सर्वर्तुकुसुमाकीर्णनानौषधिविदिपितम्॥
नानाधातुरसस्राविचित्रनानागृहाश्रयम्॥ १५.३९ ॥
अनेकाकारबहुलं पृथक्पक्षिकुलाकुलम्॥
नानाप्रस्रवणोपेतं नानाविधजलाशयम्॥ १५.४० ॥
प्राप्य तत्कंदरं दैत्यश्चकार विपुलं तपः॥
वहन्पाशुपतीं दीक्षां पंच मंत्राञ्जजाप सः॥ १५.४१ ॥
निराहारः पंचतपा वर्षायुतमभूत्किल॥
ततः स्वदेहादुत्कृत्त्य कर्षंकर्षं दिनेदिने॥ १५.४२ ॥
मांसस्याग्नौ जुहावैव ततो निर्मांसतां गतः॥
ततो निर्मांसदेहः स तपोराशिरजायत॥ १५.४३ ॥
जज्वलुः सर्वभूतानि तेजसा तस्य सर्वतः॥
उद्विग्नाश्च सुराः सर्वे तपसा तस्य भीषिताः॥ १५.४४ ॥
एतस्मिन्नंतरे ब्रह्मा परमं तोषमागतः॥
तारकस्य वरं दातुं जगाम शिखरं गिरेः॥ १५.४५ ॥
प्राप्य तं शैलराजानं हंसस्यंदनमास्थितः॥
उवाच तारकं देवो गिरा मधुरया तदा॥ १५.४६ ॥
॥ब्रह्मोवाच॥
उत्तिष्ठ पुत्र तपसो नास्त्यसाध्यं तवाधुना॥
वरं वृणीष्वाभिमतं यत्ते मनसि वर्तते॥ १५.४७ ॥
इत्युक्तस्तारको दैत्यः प्रांजलिः प्राह तं विभुम्॥ १५.४८ ॥
॥तारक उवाच॥
वयं प्रभो जातिधर्माः कृतवैराः सहमरैः॥
तैश्च निःशेषिता दैत्याः कृताः क्रूरैनृशं सवत्॥ १५.४९ ॥
तेषामहं समुद्धर्ता भवेयमिति मे मतिः॥
अवध्यः सर्वभूतानामस्त्राणां च महौजसाम्॥ १५.५० ॥
स्यामहं चामरैश्चैष वरो मम हृदिस्थितः॥
एतन्मे देहि देवेश नान्यं वै रोचये वरम्॥ १५.५१ ॥
तमुवाच ततो दैत्यं विरंचोऽमरनायकः॥
न युज्यते विना मृत्युं देहिनो देहधारणम्॥
जातस्य हि ध्रुवो मृत्युः सत्यमेतच्छ्रुतीरितम्॥ १५.५२ ॥
इति संचिंत्य वरय वरं यस्मान्न शंकसे॥
ततः संचिंत्य दैत्येंद्रः शिशुतः सप्तवासरात्॥ १५.५३ ॥
॥तारक उवाच॥
वासराणां च सप्तानां वर्जयित्वा तु बालकम्॥
देवानामप्यवध्योऽहं भूयासं तेन याचितः॥ १५.५४ ॥
वव्रे महासुरो मृत्युं ब्रह्माणं मानमोहितः॥
ब्रह्मा प्रोचे ततस्तं च तथेति हरवाक्यतः॥ १५.५५ ॥
जगाम त्रिदिवं देवो दैत्योऽपि स्वकमालयम्॥
उत्तीर्णं तपसस्तं च दैत्यं दैत्येश्वरास्तदा॥ १५.५६ ॥
परिवव्रुः फलाकीर्णं वृक्षं शकुनयो यथा॥
तस्मिन्महति राज्यस्थे तारके दितिनंदने॥ १५.५७ ॥
ब्रह्मणाभिहि तस्थाने महार्णवतटोत्तरे॥
तरवो जज्ञिरे पार्थ तत्र सर्वर्तवः शुभाः॥ १५.५८ ॥
कांतिर्द्युतिर्धृतिर्मेधा श्रीरखंडा च दानवम्॥
परिवव्रुर्गुणा कीर्णं निश्छिद्राः सर्व एव हि॥ १५.५९ ॥
कालागरुविलिप्तांगं महामुकुटमंडितम्॥
रुचिरांगदसन्नद्धं महासिंहासने स्थितम्॥ १५.६० ॥
नृत्यंत्यप्सरसः श्रेष्ठा गन्धर्वा गाययंति च॥
चन्द्रार्कौ दीपमार्गेषु व्यजनेषु च मारुतः॥
ग्रहा अग्रेसरास्तस्य जीवादेशप्रभाषिणः॥ १५.६१ ॥
एवं स्वकाद्बाहुबलात्स दैत्यः संप्राप्य राज्यं परिमोदमानः॥
कदाचिदाभाष्य जगाद मंत्रिणः प्रोद्धृत्तसर्वांगबलेन दर्पितः॥ १५.६२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकखण्डे कुमारेशमाहात्मये तारकासुरोत्पत्तिवर्णनंनाम पंचदशोऽध्यायः॥ १५ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 16
॥ तारक उवाच॥
राज्येन बुद्बुदाभेन स्त्रीभिरक्षैश्च पानकैः॥
मोहितो जन्म लब्ध्वात्र त्यजते पौरुषं नरः॥ १६.१ ॥
जन्म तस्य वृथा सर्वमाकल्पांतं न संशयः॥ १६.२ ॥
मातापितृभ्यां न करोति कामान्बन्धूनशोकान्न करोति यो वा॥
कीर्तिं हि वा नार्जयते न मानं नरः स जातोऽपि मृतोऽत्र लोके॥ १६.३ ॥
तस्माज्जयायामरपुंगवानां त्रैलोक्यलक्ष्मीहरणाय शीघ्रम्॥
संयोज्यतां मे रथमष्टचक्रं बलं च मे दुर्जयदैत्यचक्रम्॥ १६.४ ॥
ध्वजं च मे कांचनपट्टबन्धं छत्रं च मे मौक्तिकजालबद्धम्॥
अद्याहमासां सुरकामिनीनां धम्मील्लकांश्चाग्रथितान्करिष्ये॥ १६.५ ॥
यथा पुरा मर्कटको जनन्यास्तस्याश्च सत्येन तु तारकः स्याम्॥ १६.६ ॥
॥नारद उवाच॥
तारकस्य वचः श्रुत्वा ग्रसनोनाम दानवः॥
सेनानीर्दैत्यराजस्य तथा चक्रेऽविलंबितम्॥ १६.७ ॥
आहत्य भेरीं गम्भीरां दैत्यानाहूय सत्वरः॥
सज्जं चक्रे रथं दैत्यो दैत्यराजस्य धीमतः॥ १६.८ ॥
गरुडानां सहस्रेण गरुडोपमितत्विषा॥
ते हि पुत्राः सुपर्णस्य संस्थिता मेरुकन्दरे॥ १६.९ ॥
विजित्य दैत्यराजेन वाहनत्वे प्रकल्पिताः॥
अष्टाष्टचक्रः सरथश्चतुर्योजनविस्तृतः॥ १६.१० ॥
नानाक्रीडागृहयुतो गीतवाद्यमनोहरः॥
गंधर्वनगराकारः संयुक्तः प्रत्यदृस्यत॥ १६.११ ॥
आजग्मुस्तत्र दैत्याश्च दशा चंडपराक्रमाः॥
कोटिकोटिपरिवारा अन्ये च बहवो रणे॥ १६.१२ ॥
तेषामग्रेसरो जम्भः कुजम्भोनंतरस्तथा॥
महिषः कुञ्जरो मेषः कालनेमिर्निमिस्तथा॥ १६.१३ ॥
मथनो जंभकः शुम्भो दैत्येंद्रा दश नायकाः॥
दैत्येंद्रा गिरिवर्ष्माणः संति चंडपराक्रमाः॥ १६.१४ ॥
नानाविधप्रहरणा नानाशस्त्रास्त्रपारगाः॥
तारकस्याभवत्केतुर्बहूरूपो महाभयः॥ १६.१५ ॥
क्वचिच्च राक्षसो घोरः पिशाचध्वांक्षगृध्रकः॥
एवं बहुविधाकारः स केतुः प्रत्यदृश्यत॥ १६.१६ ॥
केतुना मकरेणापि सेनानीर्ग्रसनो बभौ॥
पैशाचं यत्र वदनं जंभस्यासीदयस्मयम्॥ १६.१७ ॥
खरो विधुतलांगूलः कुजम्भस्याभवद्ध्वजे॥
महिषस्य च गोमायुः कांतो हैमस्तथां बभौ॥ १६.१८ ॥
गृध्रो वै कुंजरस्यासीन्मेषस्याभूच्च राक्षसः॥
कालनेमेर्महाकालो निमेरासीन्महातिमिः॥ १६.१९ ॥
राक्षसी मथनस्यापि ध्वांक्षोऽभूज्जंभकस्य च॥
महावृकश्च शुम्भस्य ध्वजा एवंविधा बभुः॥ १६.२० ॥
अनेकाकारविन्यासादन्येषां च ध्वजा भवन्॥
शतेन शीघ्रवेगानां व्याघ्राणां हेममालिनाम्॥ १६.२१ ॥
ग्रसनस्य रथो युक्तो महामेघरवो बभौ॥
शतेन चापि सिंहानां रथो जंभस्य योजितः॥ १६.२२ ॥
कुजंभस्य रथो युक्तः पिशाचवदनैः खरैः॥
तावद्भिर्महिषस्योष्टैर्गजस्य च हयैर्युतः॥ १६.२३ ॥
मेषस्य द्वीपिभिर्भीमैः कुञ्जरैः कालनेमिनः॥
पर्वतं वै समारूढो निश्चित्य विधृतं गजैः॥ १६.२४ ॥
चतुर्दंष्ट्रैर्गंधवद्भिश्चर्भिर्मेघसन्निभैः॥
शतहस्तायते कृष्णे तुरंगे हेमभूषणे॥ १६.२५ ॥
सितचामरजालेन शोभिते पुष्पदामनि॥
मथनोनाम दैत्येन्द्रः पाशहस्तो व्यराजत॥ १६.२६ ॥
किंकिणीमालिनं चोष्ट्रमारूढोऽभूच्च जंभकः॥
कालमुंचं महामेघमारूढः शुम्भदानवः॥ १६.२७ ॥
अन्ये च दानवा वीरा नानावाहनहेतयः॥
प्रचण्डचित्रवर्माणः कुण्डलोष्णीषभूषिताः॥ १६.२८ ॥
नानाविधोत्तरासंगा नानामाल्यविभूषणाः॥
नानासुगंधगंधाढ्या नानाबंधिशतस्तुताः॥ १६.२९ ॥
नानावाद्यपरिस्यंदसाग्रेसरमहारथाः॥
नानाशौर्यकथासक्तास्तस्मिन्सैन्ये महारथाः॥ १६.३० ॥
तद्बलं दैत्यसिंहस्य भीमरूपं व्यदृश्यत॥
भूमिरेणुसमालिंगत्तुरंगरथपत्तिकम्॥ १६.३१ ॥
स च दैत्येश्वरः क्रुद्धः समारूढो महारथम्॥
दशभिः शुशुबे दैत्यैर्दशबाहुरिवेश्वरः॥
जगद्धंतुं प्रवृत्तो वा प्रतस्थेऽसौ सुरान्प्रति॥ १६.३२ ॥
एतस्मिन्नंतरे वायुर्देवदूतः सुरालयम्॥
दृष्ट्वा तद्दानव बलं जगामेंद्रस्य शंसितुम्॥ १६.३३ ॥
स गत्वा तु सभां दिव्यां महेंद्रस्य महात्मनः॥
शशंस मध्ये देवानामिदं कार्यमुपस्थितम्॥ १६.३४ ॥
तच्छ्रुत्वा देवराजः स निमीलितविलोचनः॥
बृहस्पतिमुवाचेदं वाक्यं काले महामतिः॥ १६.३५ ॥
॥इन्द्र उवाच॥
संप्राप्तोऽतिविमर्दोऽयं देवानां दानवैः सह॥
कार्यं किमत्र तद्ब्रुहि नीत्युपायोपबृंहितम्॥ १६.३६ ॥
एतच्छ्रुत्वा च वचनं महेंद्रस्य गिरांपतिः॥
प्रत्युवाच महाभागो बॉहस्पति रुदारधीः॥ १६.३७ ॥
॥बृहस्पतिरुवाच॥
सामपूर्वं स्मृता नीतिश्चतुरंगामनीकिनीम्॥
जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी॥ १६.३८ ॥
साम दानं च भेदश्च चतुर्थो दंड एव च॥
नीतौ क्रमात्प्रयोज्याश्च देशकालविशेषतः॥ १६.३९ ॥
तत्र साम प्रयोक्तव्यमार्येषु गुणवत्सु च॥
दानं लुब्धेषु भेदश्च शंकितोष्वितो निश्चयः॥ १६.४० ॥
दण्डश्चापि प्रयोक्तव्यो नित्यकालं दुरात्मसु॥
साम दैत्येषु नैवास्ति निर्गुणत्वाद्दुरात्मसु॥ १६.४१ ॥
श्रिया तेषां च किं कार्यं समृद्धानां तथापि यत्॥
जातिधर्मेण चाभेद्या विधातुरपि ते मताः॥ १६.४२ ॥
एको ह्युपायो दंडोऽत्र भवतां यदि रोचते॥
दुर्जनः सुजनत्वाय कल्पते न कदाचन॥ १६.४३ ॥
लालितः पालितो वापि स्वस्वभावं न मुंचति॥
एवं मे मन्यते बुद्धिर्भवंतो यद्व्यवस्यताम्॥ १६.४४ ॥
एवमुक्तः सहस्राक्ष एवमेवेत्युवाच ह॥
कर्तव्यतां च संचिंत्य प्रोवाचामरसंसदि॥ १६.४५ ॥
बहुमानेन मे वाचं श्रृणुध्वं नाकवासिनः॥ १६.४६ ॥
भवंतो यज्ञभोक्तारः सतामिष्टाश्च सात्त्विकाः॥
स्वेस्वे पदे स्थिता नित्यं जगतः पालने रताः॥ १६.४७ ॥
भवतां च निमित्तेन बाधंते दानवेश्वराः॥
तेषां समादि नैवास्ति दंड एव विधीयताम्॥ १६.४८ ॥
क्रियतां समरे बुद्धिः सैन्यं संयोज्यतामिति॥
आवाद्यंतां च शस्त्राणि पूज्यं तां शस्त्रदेवताः॥ १६.४९ ॥
इत्युक्ताः समनह्यंत देवानां ये प्रधानतः॥
वाजिनामयुतेनाजौ हेमपट्टपरिष्कृताः॥ १६.५० ॥
वाहनानि विमानानि योजयंतु ममामराः॥
यमं सेनापतिं कृत्वा शीघ्रं निर्यात देवताः॥ १६.५१ ॥
नानाश्चर्यगुणोपेता दुर्जया देवदानवैः॥
रथो मातलिना युक्तो महेंद्रस्याप्यदृश्यत॥ १६.५२ ॥
यमो महिषमास्थाय सेनाग्रे समवर्तत॥
चंडकिंकिणिवृंदेन सर्वतः परिवारितः॥ १६.५३ ॥
कल्पकालोज्जवालापूरितांबरगोचरः॥
हुताश उरणारूढः शक्तिहस्तो व्यवस्थितः॥ १६.५४ ॥
पवनोंऽकुशपाणिस्तु विस्तारितमहाजवः॥
महाऋक्षं समारूढं सेनाग्रे समदृश्यत॥ १६.५५ ॥
भुजगेन्द्रं समारूढो जलेशो भगवान्स्वयम्॥
महापाशधरो वीरः सेनायां समवर्तत॥ १६.५६ ॥
नरयुक्ते रथे दिव्ये धनाध्यक्षो व्यचीचरत्॥
महासिंहरवो युद्धे गदाहस्तो व्यवस्थितः॥ १६.५७ ॥
राक्षसेशोऽथ निर्ऋती रथे रक्षोमुखैर्हयैः॥
धन्वी रक्षोगणवृतो महारावो व्यदृश्यत॥ १६.५८ ॥
चंद्रादित्यावश्विनौ च वसवः साध्यदेवताः॥
विश्वेदेवाश्च रुद्राश्च सन्नद्धास्तस्थुराहवे॥ १६.५९ ॥
हेमपीठत्तरासंगाश्चित्रवर्मायुधध्वजाः॥
गंधर्वाः प्रत्यदृश्यन्त कृत्वा विश्वावसुं मुखे॥ १६.६० ॥
तथा रक्तोत्तरासंगा निर्मलायोविभूषणाः॥
गृध्रध्वजा अदृश्यंत राक्षसा रक्तमूर्धजाः॥ १६.६१ ॥
तथा भीमाशनिकराः कृष्णवस्त्रा महारथाः॥
यक्षास्तत्र व्यदृश्यंत मणिभद्रादिकोटिशः॥ १६.६२ ॥
ताम्रोलूकध्वजा रौद्रा द्वीपिचर्मांबरास्तथा॥
पिशाचास्तत्र राजंते महावेगपुरःसराः॥ १६.६३ ॥
तथैव श्वेतवसनाः सितपट्टपताकिनः॥
मत्तेभवाहनप्रायाः किंनरास्तस्थुराहवे॥ १६.६४ ॥
मुक्ताजाल पिरष्कारो हंसो हारसमप्रभः॥
केतुर्जलधिनाथस्य सौम्यरूपो व्यराजत॥ १६.६५ ॥
पंचरागमहारत्नविटंको धनदस्य च॥
ध्वजः समुत्थितो भाति यातुकाम इवांबरम्॥ १६.६६ ॥
कार्ष्णलोहमयो ध्वांक्षो यमस्याभून्महाध्वजः॥
राक्षसेशस्य वदनं प्रेतस्य ध्वज आबभौ॥ १६.६७ ॥
हेमसिंहध्वजौ देवौ चन्द्रार्कवमितद्युति॥
कुंभेन चित्रवर्णेन केतुराश्विनयोरभूत्॥ १६.६८ ॥
मातंगो हेमरचितश्चित्ररत्नपरिष्कृतः॥
ध्वजः शतक्रतोरासीत्सितचा मरसंस्थितः॥ १६.६९ ॥
अन्येषां च ध्वजास्तत्र नानारूपा बभू रणे॥
सनागयक्षगंधर्वमहोरगनिशाचरा॥ १६.७० ॥
सेना सा देवराजस्य दुर्जया प्रत्यदृश्यत॥
कोटयस्तास्त्रयस्त्रिंशन्नानादेवकायिनाम्॥ १६.७१ ॥
हैमाचलाभे सितकर्णचामरे सुवर्णपद्मामलसुंदरस्रजि॥
कृताभिरामोज्ज्वलकुंकुमांकुरे कपोललीताविविमुक्तरावे॥ १६.७२ ॥
श्रितस्तदैरावणनामकुंजरे महाबलश्चित्रविशेषितांबरः॥
विशालवज्रांगवितानभूषितः प्रकीर्णकेयूरभुजाग्रमंडलः॥ १६.७३ ॥
सहस्रदृग्बंदिसहस्रसंस्तुतस्त्रिविष्टपेऽशोभत पाकशासनः॥ १६.७४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारीकाखण्डे तारकासुरदेवेन्द्रयुद्धोपक्रमवर्णनंनाम षोडशोऽध्यायः॥ १६ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 17
॥नारद उवाच॥
ततस्तयोः समायोगः सेनयोरुभयोरभूत्॥
युगांते समनुप्राप्ते यथा क्षुब्धसमुद्रयोः॥ १७.१ ॥
सुरासुराणां संमर्दे तस्मिन्परमदारुणे॥
तुमुलं सुमहत्क्रांते सेनयोरुभयोरपि॥ १७.२ ॥
गर्जतां देवदैत्यानां शंखभेरीरवेण च॥
तूर्याणां चैव निर्घोषैर्मातंगानां च बृंहितैः॥ १७.३ ॥
हेषितैर्हयवृंदानां रथनेमिस्वनेन च॥
घोषेण चैव तूर्याणां युगांत इव चाभवत्॥ १७.४ ॥
रोषेणाबिपरीतांगास्त्यक्तजीवितचेतसः॥
समसज्जन्त तेन्योन्यं प्रक्रमेणातिलोहिताः॥ १७.५ ॥
रथा रथैः समासक्ता गजाश्चापि महागजैः॥
पत्तयः पत्तिभिश्चैव हयाश्चापि महाहयैः॥ १७.६ ॥
ततः प्रासाशनिगदाभिंडिपालपरश्वधैः॥
शक्तिभिः पट्टिशैः शूलैर्मुद्गरैः कणयैर्गुडैः॥ १७.७ ॥
चक्रैश्च शक्तिभिश्चैव तोमरैरंकुशैरपि॥
कर्णिनालीकनाराचवत्सदंतार्द्धचंद्रकैः॥ १७.८ ॥
भल्लैर्वेतसपत्रैश्च शुकतुंडैश्च निर्मलैः॥
वृष्टिभिश्चाद्भुताकारैर्गगनं समपद्यत॥ १७.९ ॥
संप्रच्छाद्य दिशः सर्वास्तमोमयमिवाभवत्॥
प्राज्ञायंत न तेऽन्योन्यं तस्मिंस्तमसि संकुले॥ १७.१० ॥
अदृश्यभूतास्तमसि न्यकृंतंत परस्परम्॥
ततो भुजैर्ध्वजैश्छत्रैः शिरोभिश्च सकुंडलैः॥ १७.११ ॥
गजैस्तुरंगैः पादातैः पतद्भिः पतितैरपि॥
आकाशशिरसो भ्रष्टैः पंकजैरिव भूश्चिता॥ १७.१२ ॥
भग्नदंता भिन्नकुंभाश्छिन्नदीर्घमहाकराः॥
गजाः शैलनिभाः पेतुर्धरण्यां रुधिरस्रवाः॥ १७.१३ ॥
भग्नैषाश्च रथाः पेतुर्भग्नाक्षाः शकलीकृताः॥
पत्तयः कोटिशः पेतुस्तुरंगाश्च सहस्रशः॥ १७.१४ ॥
ततः शोणितनद्यश्च हर्षदाः पिशिताशिनाम्॥
वैतालानंददायिन्यो व्यजायंत सहस्रशः॥ १७.१५ ॥
तस्मिंस्तथाविधे युद्धे सेनानीर्ग्रसनोऽरिहा॥
बाणवर्षेण महता देवसैन्यमकंपयत्॥ १७.१६ ॥
ततो ग्रसनमालोक्य यमः क्रोधविमूर्छितः॥
ववर्ष शरवर्षेण विशेषादग्निवर्चसा॥ १७.१७ ॥
स विद्धो बहुभिर्षाणैर्ग्रसनोऽतिपराक्रमः॥
कृतप्रतिकृताकांक्षी धनुरानम्य भैरवम्॥ १७.१८ ॥
शरैः सहस्रैश्च पञ्चलक्षैश्चैव व्यताडयत्॥
ग्रसनेन विमुक्तांस्ताञ्छरान्सोपि निवार्य च॥ १७.१९ ॥
बाणवृष्टिभिरुग्राभिर्यमो ग्रसनमर्दयत्॥
कृतांतशरवृष्टीनां संततीः प्रतिसर्पतीः॥
चिच्छेद शरवर्षेण ग्रसनो दानवेश्वरः॥ १७.२० ॥
विफलां तां समालोक्य यमः स्वशरसंततिम्॥ १७.२१ ॥
प्राहिणोन्मुद्गरं दीप्तं ग्रसनस्य रथं प्रति॥
स तं मुद्गरमायांतमुत्पत्य रथसत्तमात्॥ १७.२२ ॥
जग्राह वामहस्तेन लीलया ग्रसनोऽरिहा॥
तेनैव मुद्गरेणाथ यमस्य महिषं रुषा॥ १७.२३ ॥
ताडयामास वेगेन स पपात महीतले॥
उत्पत्याथ यमस्तस्मान्महिषान्निपतिष्यतः॥ १७.२४ ॥
प्रासेन ताडयामास ग्रसनं वदने दृढम्॥
स तु प्राप्तप्रहारेण मूर्छितो न्यपतद्भुवि॥ १७.२५ ॥
ग्रसनं पतित दृष्ट्वा जंभो भीमपराक्रमः॥
यमस्य भिंडिपालेन प्रहारमकरोद्धृदि ॥ १७.२६ ॥
यमस्तेन प्रहारेण सुस्राव रुधिरं मुखात्॥
अतिगाढ प्रहारार्त्तः कृतांतोमूर्छितोऽभवत्॥ १७.२७ ॥
कृतांतमर्दितं दृष्ट्वा गदापाणिर्धनादिपः॥
वृतो यक्षायुतगणैर्जंभं प्रत्युद्ययौ रुषआ॥ १७.२८ ॥
जंभो रुषा तमायांतं दानवा नीकसंवृतः॥
जग्राह वाक्यं राज्ञस्तु यता स्निग्धेन भाषितम्॥ १७.२९ ॥
ग्रसनो लब्धसंज्ञोऽथ यमस्य प्राहिणोद्गदाम्॥
मणिहेमपरिष्कारां गुर्वी परिघमर्दिनीम्॥ १७.३० ॥
तामापतंतीं संप्रेक्ष्य गदां महिषवाहनः॥
गदायाः प्रतिघातार्थं जगज्ज्वलनभैरवम्॥ १७.३१ ॥
दंडं मुमोच कोपेन ज्वालामालासमाकुलम्॥
स गदां वियति प्राप्य ररासांबुधरोद्धतम्॥ १७.३२ ॥
संवट्टश्चाभवत्ताभ्यां शैलाभ्यामिव दुःसहः॥
ताभ्यां निष्पेषनिर्ह्राद जडीकृतदिगंतरम्॥ १७.३३ ॥
जगद्व्याकुलतां यातं प्रलयागमशंकया॥
क्षणात्प्रशांतनिर्ह्रादं ज्वलदुल्कासमाचितम्॥ १७.३४ ॥
निष्पेषणं तयोर्भीमम भूद्गनगोचरम्॥
निहत्याथ गदां दण्डस्ततो ग्रसनमूर्धनि॥ १७.३५ ॥
पपात पौरुषं हत्वा यथा दैवं पुरार्जितम्॥
सतु तेन प्रहारेण दृष्ट्वा सतिमिरादिशः॥ १७.३६ ॥
पपात भूमौ निःसंज्ञो भूमिरेणुविभूषितः॥
ततो हाहारवो घोरः सेनयोरुभयोरभूत्॥ १७.३७ ॥
ततो महूर्तमात्रेण ग्रसनः प्राप्य चेतनाम्॥
अपश्यत्स्वां तनुं ध्वस्तां विलोलाभरणांबराम्॥ १७.३८ ॥
स चापि चिंतयामास कृतप्रतिकृतक्रियाम्॥
धिगस्तु पौरुषं मह्यं प्रभोरग्रेसरः कथम्॥ १७.३९ ॥
मय्याश्रितानि सैन्यानि जिते मयि जितानि च॥
असंभावितरूपो हि सज्जनो मोदते सुखम्॥ १७.४० ॥
संभावितस्त्वशक्तश्चेत्तस्य नायं परोऽपि वा॥
एवं संचिंत्य वेगेन समुत्तस्थौ महाबलः॥ १७.४१ ॥
मुद्गरं कालदण्डाभं गृहीत्वा गिरिसंनिभम्॥
ग्रसनो घोरसंकल्पः संदष्टौष्ठपुटच्छदः॥ १७.४२ ॥
रथेन त्वरितोऽगच्छदाससादांतकं रणे॥
समासाद्य यमं युद्धे ग्रसनो भ्राम्य मुद्गरम्॥ १७.४३ ॥
वेगेन महता रौद्रं चिक्षेप यममूर्धनि॥
विलोक्य मुद्गरं दीप्तं यमः संभ्रांतलोचनः॥ १७.४४ ॥
वंचयामास दुर्द्धर्षं मुद्गरं तं महाबलः॥
तस्मिन्नपसृते दूरं चंडानां भीमकर्मणाम्॥ १७.४५ ॥
याम्यानां किंकराणां च अयुतं निष्पिपेष ह॥
ततस्तदयुतं दृष्ट्वा हतं किंकरवाहिनी॥ १७.४६ ॥
दशार्बुदमिता क्रुद्धा ग्रसनायान्वधावत॥
ग्रसनस्तु समालोक्य तां किंकरमयां शुभाम्॥ १७.४७ ॥
मेने यमसहस्राणि तादृग्रूपबला हि सा॥
विगाह्य ग्रसनं सेना ववर्ष शरवृष्टिभिः॥ १७.४८ ॥
कल्पांतघोरसंकाशो बभूव स महारणः॥
केचिच्छैलेन बिभिदुः केचिद्बाणैरजिह्यगैः॥ १७.४९ ॥
पिपिषुर्गदया केचित्कोचिन्मुद्गरवृष्टिभिः॥
केचित्प्रासप्रहारैश्च ताडयामासुरुद्धताः॥ १७.५० ॥
अपरे किंकरास्तस्य ललंबुर्बाहुमंडले॥
शिलाभिरपरे जघ्नुर्द्रुमैरन्ये महोच्छ्रयैः॥ १७.५१ ॥
तस्यापरे च गात्रेषु दशनांश्चन्यपातयन्॥
अपरे मुष्टिभिः पृष्ठं किंकरास्ताडयंति च ॥ १७.५२ ॥
एवं चाभिद्रुतस्तैः स ग्रसनः क्रोधमूर्छितः॥
उत्साद्य गात्रं भूपृष्ठे निष्पिपेष सहस्रशः॥ १७.५३ ॥
कांश्चिदुत्थाय जघ्नेऽसौ मुष्टिभिः किंकरान्रणे॥
कांश्चित्पादप्रहारेण धावन्नन्यानचूर्णयत्॥ १७.५४ ॥
क्षणैकेन स तान्निन्ये यमलोकायभारत॥
स च किंकरयुद्धेन ववृधेऽग्निरिवैधसा॥ १७.५५ ॥
तमालोक्य यमोऽश्रांतं श्रांतंस्तांश्च हतान्स्वकान्॥
आजगाम समुद्यम्य दंडं महिषवाहनः॥ १७.५६ ॥
ग्रसनस्तु तमायांतमाजघ्ने गदयोरसि॥
अचिंतयित्वा तत्कर्म ग्रसनस्यांतकोऽरिहा॥ १७.५७ ॥
व्याघ्रान्दंडेन संजघ्ने स रथान्न्य पतद्भुवि॥
ततः क्षणेन चोत्थाय संचिंत्यात्मानमुद्धतः॥ १७.५८ ॥
वायुवेगेन सहसा ययौ यमरथं प्रति॥
पदातिः स रथं तं च समारुह्य यमं तदा॥ १७.५९ ॥
योधयामास बाहुभ्यामाकृष्य बलिनां वरः॥
यमोऽपि शस्त्राण्युत्सृज्च बाहुयुद्धे प्रवर्तते॥ १७.६० ॥
ग्रसनं कटिवस्त्रे तु यमं गृह्य बलोत्कटः॥
भ्रामयामास वेगेन संभ्रमाविष्टचेतसम्॥ १७.६१ ॥
विमोच्याथ यमः कष्टात्कंठेऽवष्टभ्य चासुरम्॥
बाहुभ्यां भ्रामयामास सोऽप्यात्मानममोचयत्॥ १७.६२ ॥
ततो जघ्नतुरन्योन्यं मुष्टिभिर्निर्दयौ च तौ॥
दैत्येंद्रस्यातिवीर्यत्वात्परिश्रांततरो यमः॥ १७.६३ ॥
स्कंधे निधाय दैत्यस्य मुखं विश्रांतिमैच्छत॥
तमा लक्ष्य ततो दैत्यः श्रांतमुत्पाट्य चौजसा॥ १७.६४ ॥
निष्पिपेष महीपृष्ठे विनिघ्नन्पार्ष्णिपाणिभिः॥
ततो यमस्य वदनात्सुस्राव रुधिरं बहु॥ १७.६५ ॥
निर्जीवमिति तं दृष्ट्वा ततः संत्यज्य दानवः॥
जयं प्राप्योद्धतं नादं मुक्त्वा संत्रास्य देवताः॥ १७.६६ ॥
स्वकं सैन्यं समासाद्य तस्थौ गिरिरिवाचलः॥ १७.६७ ॥
नादेन तस्य ग्रसनस्य संख्ये महायुधैश्चार्दितसर्वगात्राः॥
गते कृथांते वसुधां च निष्प्रभे चकंपिरे कांदिशिकाः सुरास्ते॥ १७.६८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्त्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे तारकसैन्यदेवसैन्ययोर्मध्ये यमग्रसनयोर्युद्धवर्णनं नाम सप्तदशोऽध्यायः॥ १७ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 18
॥नारद उवाच॥
धनाधिपस्य जंभेन सायकैर्मर्मभेदिभिः॥
दिशोपरुद्धाः क्रुद्धेन सैन्यं चाभ्यर्दितं भृशम्॥ १८.१ ॥
तद्दृष्ट्वा कर्म दैत्यस्य धनाध्यक्षः प्रतापवान्॥
आकर्णाकृष्टचापस्तु जंभमाजौ महाबलम्॥ १८.२ ॥
हृदि विव्याध बाणानां सहस्रेणाग्निवर्चसाम्॥
स प्रहस्य ततो वीरो बाणानामयुतत्रयम्॥ १८.३ ॥
नियुतं च तथा कोटिमर्बुदं चाक्षिपत्क्षणात्॥
तस्य तल्लाघ्रवं दृषट्वा क्रुद्धो गृह्य महागदाम्॥ १८.४ ॥
धनाध्यक्षः प्रचिक्षेप स्वर्गेप्सुः स्वधनं यथा॥
मुक्तायां वै नादोऽभूत्प्रलये यथा॥ १८.५ ॥
भूतानां बहुधा रावा जज्ञिरे खे महाभयाः॥
वायुश्च सुमहाञ्जज्ञे खमायान्मेघसंकुलम्॥ १८.६ ॥
सा हि वैश्रवणस्यास्ते त्रैलोक्याभ्यर्चिता गदा॥
आयांतीं तां समालोक्य तडित्संघातदुर्द्दशाम्॥ १८.७ ॥
दैत्यो गदाविघातार्थं शस्त्रवृष्टिं मुमोच ह॥
चक्राणि कुणपान्प्रासाञ्छतघ्नीः पट्टिशांस्तथा॥ १८.८ ॥
परिघान्मुशलान्वृक्षान्गिरींश्चातुलविक्रमः॥
कदर्थीकृत्य शस्त्राणि तानि सर्वाणि सा गदा॥ १८.९ ॥
कल्पांतभास्करो यद्वन्न्यपतद्दैत्यवक्षसि॥
स तया गाढभिन्नः सन्सफेनरुधिरं वमन्॥ १८.१० ॥
निःपपात रथाज्जंभो वसुधां गतचेतनः॥
जंभं निपतितं दृष्ट्वा कुजंभो घोरनिश्चयः॥ १८.११ ॥
धनाधिपस्य संक्रुद्धो नादेनापूरयन्दिशः॥
चक्रे बाणमयं जालं शकुंतस्येव पंजरम्॥ १८.१२ ॥
विच्छिद्य बाणजालं च मायाजालमिवोत्कटम्॥
मुमोच बाणानपरांस्तस्य यक्षाधिपो बली॥ १८.१३ ॥
चिच्छेद लीलया तांश्च दैत्यः क्रोधीव सद्वचः॥
निष्फलांस्तांस्ततो दृष्ट्वा बाणान्क्रुद्धो धनाधिपः॥ १८.१४ ॥
शक्तिं जग्राह दुर्धर्षां शतघंटामहास्वनाम्॥
प्रेषिता सा तदा शक्तिर्दारयामास तं हृति॥ १८.१५ ॥
यथाल्पबोधं पुरुषं दुःखं संसारसंभवम्॥
तथास्य हृदयं भित्त्वा जगाम धरणीतलम्॥ १८.१६ ॥
निमेषात्सोभिसंस्तम्भ्य दानवो दारुणाकृतिः॥
जग्राह पट्टिशं दैत्यो गिरीणामपि भेदनम्॥ १८.१७ ॥
स तेन पट्टिसेनाजौ धनदस्य स्तनांतरम्॥
वाक्येन तीक्ष्णरूपेण मर्माक्षरविसर्पिणा॥ १८.१८ ॥
निर्बिभेदाभिजातस्य हृदयं दुर्जनो यथा॥
तेन पट्टिश घातेन धनेशः। परिमूर्छितः॥ १८.१९ ॥
निषसाद रथोपस्थे दुर्वाचा सुजनो यथा॥
तथागतं तु तं दृष्ट्वा धनेशं वै मृतं यथा॥ १८.२० ॥
राक्षसो निर्ऋतिर्देवो निशाचरबलानुगः॥
अभिदुद्राव वेगेन कुजंभं भीमविक्रमम्॥ १८.२१ ॥
अथ दृष्ट्वातिदुर्धर्षं कुजंभो राक्षसेश्वरम्॥
नोदयामास दैत्यान्स राक्षसेशरथं प्रति॥ १८.२२ ॥
स दृष्ट्वा नोदितां सेनां प्रबलास्त्रां सुभीषणाम्॥
रथादाप्लुत्य वेगेन निर्ऋती राक्षसेश्वरम्॥ १८.२३ ॥
खड्गेन तीक्ष्णधारेण चर्मपाणिरधावत॥
प्रविश्य दानवानीकं गजः पद्मसरो यथा॥ १८.२४ ॥
लोडयामास बहुधा विनिष्कृत्य सहस्रशः॥
चिच्छेद कांश्चिच्छतशो बिभेदान्यान्वरासिना॥ १८.२५ ॥
संदष्टौष्ठमुखैः पृथ्वीं दैत्यानां सोऽभ्यपूरयत्॥
ततो निःशेषितप्रायां विलोक्य स्वां चमूं तदा॥ १८.२६ ॥
मुक्त्वा धनपतिं दैत्यः कुजंभो निर्ऋतिं ययौ॥
लब्धसंज्ञस्तु जंभोऽपि धनाध्यक्षपदानुगान्॥ १८.२७ ॥
जीवग्राहं स जग्राह बद्धा पाशैः सहस्रधा॥
मूर्तिमंति च रत्ननि पद्मादींश्च निधींस्तथा॥ १८.२८ ॥
वाहनानि च दिव्यानि विमानानि च सर्वशः॥
धनेशो लब्धसंज्ञस्तु तामवस्थां विलोक्य सः॥ १८.२९ ॥
निःश्वसन्दीर्घमुष्णं च रोषात्ताम्रविलोचनः॥
ध्यात्वास्त्रं गारुडं दिव्यं बाणं संधाय कार्मुके॥ १८.३० ॥
मुमोच दानवानीके तं बाणं शत्रुदारणम्॥
प्रथमं कार्मुकं तस्य वह्निज्वालमदृश्यत॥ १८.३१ ॥
निश्चेरुर्विस्फुलिंगानां कोटयो धनुषस्तथा॥
ततो ज्वालाकुलं व्योम चक्रे चास्त्रं समंततः॥ १८.३२ ॥
तदस्त्रं सहसा दृष्ट्वा जंभो भीमपराक्रमः॥
संवर्तं मुमुचे तेन प्रशांतं गारुडं तदा॥ १८.३३ ॥
ततस्तं दानवो दृष्ट्वा कुबेरं रोषविह्वलः॥
अभिदुद्राव वेगेन पदातिर्धनदं नदन्॥ १८.३४ ॥
अथाभिमुखमायांतं दैत्यं दृष्ट्वा धनाधिपः॥
बभूव संभ्रमाविष्टः पलायनपरायणः॥ १८.३५ ॥
ततः पलायतस्तस्य मुकुटो रत्नमंडितः॥
पपात भूतले दीप्तो रविबिंबमिवांबरात्॥ १८.३६ ॥
यक्षणामभिजातानां भग्नं प्रववृते रणात्॥
मर्तुं संग्राम शिरसि युक्तं नो भूषणाय तत्॥ १८.३७ ॥
इति व्यवस्य दुर्धर्षा नानाशस्त्रास्त्रपाणयः॥
युयुत्सवस्तथा यक्षा मुकुटं परिवार्य ते॥ १८.३८ ॥
अभिमान धना वीरा धनस्य पदानुगाः॥
तानमर्षाच्च संप्रेक्ष्य दानवश्चंडपौरुषः॥ १८.३९ ॥
भुशुण्डीं भीषणाकारां गृहीत्वा शैलगौरवाम्॥
रक्षिणो मुकुटस्याथ निष्पिपेष निशाचरान्॥ १८.४० ॥
तान्प्रमथ्याथ नियुतं मुकुटं तं स्वके रथे॥
समारोप्यामररिपुर्जित्वा धनदमाहवे॥ १८.४१ ॥
धनानि च निधीन्गृह्य स्वसैन्येन समावृतः॥
नादेन महता देवान्द्रावयामास सर्वशः॥ १८.४२ ॥
धनदोऽपि धनं सर्वं गृहीतो मुक्तमूर्धजः॥
पदातिरेकः सन्त्रस्तः प्राप्यैवं दीनवत्स्थितः॥ १८.४३ ॥
कुजंभेनाथ संसक्तो रजनीचरनंदनः॥
मायाममोघामाश्रित्य तामसीं राक्षसेश्वरः॥ १८.४४ ॥
मोहयामास दैत्येन्द्रो जगत्कृत्वा तमोमयम्॥
ततो विफलनेत्राणि दानवानां बलानि च॥ १८.४५ ॥
न शेकुश्चलितुं तत्र पदादपि पदं तदा॥
ततो नानास्त्रवर्षेण दानवानां महाचमूः॥ १८.४६ ॥
जघान निर्ऋतिर्देवस्तमसा संवृता भृशम्॥
हन्यमानेषु दैत्येषु कुजंभे मूढचेतसि॥ १८.४७ ॥
महिषो दानवेन्द्रस्तु कल्पांतां भोदसन्निभः॥
अस्त्रं चकार सावित्रमुल्कासंघातमंडितम्॥ १८.४८ ॥
विजृंभत्यथ सावित्रे परमास्त्रे प्रातपिनि॥
प्रणासमगमत्तीव्रं तमो घोरमनंतरम्॥ १८.४९ ॥
ततोऽस्त्रविस्फुलिंगांकं तमः शुक्लं व्यजायत॥
प्रोत्फुल्लारुणपद्मौघं शरदीवामलं सरः॥ १८.५० ॥
ततस्तमसि संशांते दैत्येन्द्राः प्राप्तचक्षुषः॥
चक्रुः क्रुरेण तमसा देवानीकं महाद्भुतम्॥ १८.५१ ॥
अथादाय धनुर्घोरमिषुं चाशीविषोपमम्॥
कुजंभोऽधावत क्षिप्रं रक्षोदेवबलं प्रति॥ १८.५२ ॥
राक्षसेन्द्रस्तथायांतं दृषट्वा तं स पदानुगः॥
विव्याध निशितैर्बाणैः कालाशनिसमस्वनैः॥ १८.५३ ॥
नादानं न च सन्धानं न मोक्षो वास्य लक्ष्यते॥
चिच्छेदोग्रैः शरव्रातैस्ताञ्छरानतिलाघवात्॥ १८.५४ ॥
ध्वजं शरेण तीक्ष्णेन निचकर्तामरद्विषः॥
सारथिं चास्य भल्लेन रथनीडादपाहरत्॥ १८.५५ ॥
कालकल्पेन बाणेन तं च वक्षस्याताडयत्॥
स तु तेन प्रहारेण चकम्पे पीडितो भृशम्॥ १९.५६ ॥
दैत्येंद्रो राक्षसेन्द्रेण क्षितिकंपेनगो यथा॥
स सुहूर्तात्समाश्वास्य मत्वा तं दुर्जयं रणे॥ १८.५७ ॥
पदातिरासाद्य रथं रक्षो वामकरेण च॥
केशेषु निर्ऋतिं गृह्य जानुनाक्रम्य च स्थितः॥ १८.५८ ॥
ततः खड्गेन च शिरश्छेत्तुमैच्छदमर्षणः॥
ततः कलकलो जज्ञे देवानां सुमहांस्तदा॥
कुजंभस्य वशं प्राप्तं दृष्ट्वा निर्ऋतिमाहवे॥ १८.५९ ॥
एतस्मिन्नन्तरे देवो वरुणः पाशभृद्धृतः॥
पाशेन दानवेंद्रस्य बबन्धाशु भुजद्वयम्॥ १८.६० ॥
ततो बद्धभुजं दैत्यं विफलीकृतपौरुषम्॥
ताडयामास गदया दयामुत्सृज्य पाशभृत्॥ १८.६१ ॥
स तु तेन प्रहारेण स्रोतोभिः क्षतजं स्रवन्॥
दधार कालमेघस्य रूपं विद्युल्लताभृतम्॥ १८.६२ ॥
तदवस्थागतं दृष्ट्वा कुजंभं महिषासुरः॥
व्यावृत्तवदनारावो भोक्तुमैच्छत्सुरावुभौ॥ १८.६३ ॥
निर्ऋति वरुणं चैव तीक्ष्णदंष्ट्रोत्कटाननः॥
तावभिप्रायमा लोक्य तस्य दैत्यस्य दूषितम्॥ १८.६४ ॥
त्यक्त्वा रथावुभौ भीतौ पदाती प्रद्रुतौ द्रुतम्॥
जग्मतुर्महिषाद्भीतौ शरणं पाकशासनम्॥ १८.६५ ॥
क्रुद्धोऽथ महिषो दैत्यो वरुणं समुपाद्रवत्॥
तमंतकमुखासन्नमालोक्य हिमदीधितिः॥ १८.६६ ॥
चक्रे शस्त्रं विसृष्टं हि हिमसंघातमुल्बणम्॥
वायव्यं चास्त्र मतुलं चंद्रश्चक्रे द्वितीयकम्॥ १८.६७ ॥
वायुना तेन चंडंन संशुष्केण हिमेन च॥
महाहिमनिपातेन शस्त्रैश्चंद्रप्रणोदितैः॥ १८.६८ ॥
गात्राण्यसुरसैन्यानामदह्यंत समंततः॥
व्यथिता दानवाः सर्वे सीतच्छादितपौरुषाः॥ १८.६९ ॥
न शेकुश्चलिंतुं तत्र नास्त्राण्यादातुमेव च॥
महिषो निष्प्रयत्नश्च शीतेनाकंपिताननः॥ १८.७० ॥
अंसमालिंग्य पाणिभ्यामुपविष्टो ह्यधोमुखः॥
सर्वे ते निष्प्रतीकारा दैत्याश्चंद्रमसा जिताः॥ १८.७१ ॥
रणेच्छां दूरतस्त्यक्त्वा तस्थुस्ते जीवितार्थिनः॥
तत्राब्रवीत्कालनेमिर्दैत्यान्क्रोधविदीपितः॥ १८.७२ ॥
भोभोः श्रृंगारिणः क्रूराः सर्वशस्त्रास्त्रपारगाः॥
एकैकोऽपि जगत्कृस्नं शक्तस्तुलयितुं भुजैः॥ १८.७३ ॥
एकैकोऽपि क्षमो ग्रस्तुं जगत्सर्वं चराचरम्॥
एकैकस्यापि पर्याप्ता न सर्वेऽपि दिवौकसः॥ १८.७४ ॥
किं त्रस्तनयनाश्चैव समरे परिनिर्जिताः॥
न युक्तमेतच्छूराणां विशेषाद्दैत्यजन्मनाम्॥ १८.७५ ॥
राज्ञश्च तारकस्यापि दर्शयिष्यथ किं मुखम्॥
विरतानां रणाच्चासौ क्रुद्धः प्राणान्हरिष्यति॥ १८.७६ ॥
इति ते प्रोच्यमानापि नोचुः किंचिन्महासुराः॥
शीतेन नष्टश्रुतयो भ्रष्टवाक्याश्च ते तथा॥ १८.७७ ॥
मूकास्तथाभवन्दैत्या मृतकल्पा महारणे॥
तान्दृष्ट्वा नष्टचेतस्कान्दैत्याञ्छीतेन पीडितान्॥ १८.७८ ॥
मत्वा कालक्षमं कार्यं कालनेमिर्महासुरः॥
आश्रित्य मानवीं मायां वितत्य च महावपुः॥ १८.७९ ॥
पूरयामास गगनं विदिश एव च॥
निर्ममे दानवेन्द्रोऽसौ शरीरेभास्करायुतम्॥ १८.८० ॥
दिशश्च विदिशश्चैव पूरयामास पावकैः॥
ततो ज्वालाकुलं सर्वं त्रैलोक्यमभवत्क्षणात्॥ १८.८१ ॥
तेन ज्वालासमूहेन हिमां शुरगमद्द्रुतम्॥
ततः क्रमेण विभ्रष्टं शीतदुर्दिनमाबभौ॥ १८.८२ ॥
तद्बलं दानवेंद्राणां मायया कालनेमिनः॥
तद्दृष्ट्वा दानवानीकं लब्धसंज्ञं दिवाकरः॥
उवाचारुणमत्यर्थं कोपरक्तांतलोचनः॥ १८.८३ ॥
॥दिवाकर उवाच॥
नयारुण रथं शीघ्रं कालनेमिरथो यतः॥ १८.८४ ॥
विमर्दे तत्र विषमे भविता भूतसंक्षयः॥
जित एषशशांकोऽथ वयं यद्बलमाश्रिताः॥ १८.८५ ॥
इत्युक्तश्चोदयामास रथं गरुडपूर्वजः॥
रथे स्थितोऽपि तैरश्वैः सितचामरधारिभिः॥ १८.८६ ॥
जगद्दीपोऽथ भगवाञ्जग्राह विततं धनुः॥
शरौघो वै पांडुपुत्र क्षिप्रमासीद्विषद्युतिः॥ १८.८७ ॥
शंबरास्त्रेण संधाय बाणमेकं ससर्ज ह॥
द्वितीयं चेन्द्रजालेनायोजितं प्रमुमोच ह॥ १८.८८ ॥
शंबरास्त्रं क्षणाच्चक्रे तेषांरूपविपर्ययम्॥
देवानां दानवं रूपं दानवानां च दैविकम्॥ १८.८९ ॥
मत्वा सुरान्स्वकानेव जघ्ने घोरास्त्रलाघवात्॥
कालनेमी रुषाविष्टः कृतांत इव संक्षये॥ १८.९० ॥
कांश्चित्खड्गेन तीक्ष्णेन कांश्चिन्नाराचवृष्टिभिः॥
कांश्चिद्गदाभिर्घोराभिः कांश्चिद्धोरैः परश्वधैः॥ १८.९१ ॥
शिरांसि केषाचिदपातयद्रथाद्भुजांस्तथा सारथींस्चोग्रवेगान्॥
कांश्चित्पिपेषाथरथस्य वेगात्कांश्चित्तथात्यद्भुतमुष्टिपातैः॥ १८.९२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिका खण्डे तारकसैन्यदेवसैन्ययोर्युद्धवर्णनंनामाष्टादशोऽध्यायः॥ १८ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 19
॥नारद उवाच॥
कालनेमी रुषाविष्टस्तेषां रूपं न बुद्धवान्॥
ततो निमिं च दैत्येन्द्रं मत्वा देवं महाजवः॥ १९.१ ॥
केशेषु गृह्य तं वीरं चकर्ष च ननाद च॥
ततो निमिरुवाचेदं कालनेमिं महाबलम्॥ १९.२ ॥
अहं निमिः कालनेमे सुतं मत्वा वधस्व मा॥
भवता मोहितेनाजौ देवान्मत्वासुराः स्वकाः॥ १९.३ ॥
सुरैः सुदुर्जयाः कोट्यो निहतादश विद्धि तत्॥
सर्वास्त्रवारणं मुंच ब्रह्ममस्त्रं त्वरान्वितः॥ १९.४ ॥
स तेन बोधितो दैत्यो मुक्त्वा तं संभ्रमाकुलः॥
बाणं ब्रह्मास्त्रविहितं मुमोच त्वरयान्वितः॥ १९.५ ॥
ब्रह्मास्त्रं तत्प्रजज्वाल ततः खे सुमहाद्भुतम्॥
देवानां चाभवत्सैन्यं सर्वमेव भयाकुलम्॥ १९.६ ॥
शंबरास्त्रं ततः शांतं ब्राह्मप्रतिहतं तदा॥
तस्मिन्प्रतिहते ह्यस्त्रे भास्करः प्रभुः॥ १९.७ ॥
महेंद्रजालमास्ताय चक्रे भीषणां तनुम्॥
विस्फूर्जत्करसंघातसमाक्रांतजगत्त्रयः॥ १९.८ ॥
तताप दानवानीकं गलन्मज्जाङ्घ्रिशोणितम्॥
चक्षूंषि दानवेन्द्राणां चकारांधानि स प्रभुः॥ १९.९ ॥
गजानामगलन्मेदः पेतुश्चापि रथा भुवि॥
तुरंगमाः श्वसंतश्च घर्मार्ता रथिनोपि च॥ १९.१० ॥
इतश्चेतश्च सलिलं प्रार्थयंतस्तृषातुराः॥
गिरिद्रोणीश्च पादांश्च गिरिणां गहनानि च॥ १९.११ ॥
तेषां प्रार्थयतां शीघ्रमन्योन्यं च विसर्पिणाम्॥
दावाग्निरज्वलत्तीव्रो घोरो नर्दग्धपादपः॥ १९.१२ ॥
तोयार्थिनः पुरो दृष्ट्वा तोयं कल्लो लमालितम्॥
पुरःस्थितमपि प्राप्तुं न शेकुरुपसादितुम्॥ १९.१३ ॥
अप्राप्य सलिलं भूमावभ्याशे द्रुतमेव ते॥
तत्रतत्र व्यदृश्यन्त मृता दैत्येश्वराभुवि॥ १९.१४ ॥
रथा गजाश्च पतितास्तुरंगाश्च श्रमान्विताः॥
स्थिता वमंतो धावंतो गलद्द्रुतवसास्रजः॥ १९.१५ ॥
दानवानां कोटिकोटि व्यदृश्यतमृतं तदा॥
एवं क्षयो जानवानां तस्मिन्महति वर्तिते॥ १९.१६ ॥
प्रकोपोद्भूतताम्राक्षः कालनेमी रुषातुरः॥
बभूव कालमेधाभः स्फुरद्रोमशतह्रदः॥ १९.१७ ॥
गंभीरास्फोटनिर्ह्रादजगद्धृदयकंपनः॥
प्रच्छाद्य गगनं सूर्यप्रभां सर्वां व्यनाशयत्॥ १९.१८ ॥
ववर्ष शीतं च जलं दानवेन्द्रबलं प्रति॥
दैत्यास्तां वृष्टिमासाद्य समाश्वस्तास्ततः क्रमात्॥ १९.१९ ॥
बीजांकुरा इव म्लानाः प्राप्य वृष्टिं धरातले॥
ततः स मेघरूपेण कालनेमिर्महासुराः॥ १९.२० ॥
शस्त्रवृष्टिं ववर्षोग्रां देवनीकेषु दुर्जयः॥
तया वृष्ट्या पीड्यमाना दैत्यैरन्यैश्च देवताः॥ १९.२१ ॥
गतिं कांचिन्न पश्यन्ति गावः शीतार्दिता इव॥
परस्परं व्यलीयंत गजेषु तुरगेषु च॥
रथेषु च भयत्रस्तास्तत्रतत्र निलिल्यिरे॥ १९.२२ ॥
एवं ते लीयमानाश्च निहताः कालने मिना॥
दृश्यंते पतिता देवाः शस्त्रभिन्नंगसंधयः॥ १९.२३ ॥
विभिन्ना भिन्नमूर्धानस्तथा भिन्नोरुजानवः॥
विपर्यस्तं रथांगैश्च पतितं ध्वजशक्तिभिः॥ १९.२४ ॥
तुरंगाणां सहस्राणि गजानामयुतानि च॥
रक्तेन तेषां घोरेण दुस्तरा चाभवन्मही॥ १९.२५ ॥
एवमाजौ महादैत्यः कालनेमिर्महासुरः॥
जघ्ने मुहुर्तमात्रेण गंधर्वाणां दशायुतम्॥ १९.२६ ॥
यक्षाणां पंचलक्षाणि किंनराणां तथैव च॥
जघ्ने पिशाचमुख्यानां सप्तलक्षाणि निर्भयः॥ १९.२७ ॥
इतरेषां न संख्यास्ति सुरजातिनिकायिनाम्॥
जघ्ने स कोटिशः क्रद्धः कालनेमिर्मदोत्कटः॥ १९.२८ ॥
एवं प्रतिभये भीमे तदामर महाक्षये॥
संक्रुद्धावश्विनौ वीरौ चित्रास्त्रकवचोज्जवलौ॥ १९.२९ ॥
जघ्नतुस्तौ रणे दैत्यमेकैकं षष्टिभिः शरैः॥
निर्भिद्य ते महादैत्यं सपुंखा विविशुर्महीम्॥ १९.३० ॥
ताभ्यां बाणप्रहारैस्तु किंचित्सोऽवाप्तचेतनः॥
जग्राह चक्रं लक्षारं तैलधौतं रणेऽधिकम्॥ १९.३१ ॥
तेन चक्रेण सोश्विभ्यां चिच्छेद रथकूबरम्॥
जग्राहाथ धनुर्दैत्यः शरांश्चाशीविषोपमान्॥ १९.३२ ॥
ववर्ष भिषजोर्मूर्ध्नि संछाद्याकाशगोचरम्॥
तावप्यस्त्रैः स्मृतैः सर्वाश्छेदतुर्दैत्यसायकान्॥ १९.३३ ॥
तच्च करम तयोर्दृष्ट्वा विस्मितः कोपमाविशत्॥
जग्राह मुद्गरं भीम कालदंडविभीषणम्॥ १९.३४ ॥
स तदमुद्भ्राम्य वेगेन चिक्षेपास्य रथं प्रति॥
तं तु मुद्गरमायांतमालोक्यांबरगोचरे॥ १९.३५ ॥
मुक्त्वा रथावुभौ वेगादाप्लुतौ तरसाश्विनौ॥
तौ रथौ स तु निष्पिष्य मुद्गरोऽचलसंनिभः॥ १९.३६ ॥
दारयामास धरणीं हेमजालपरिष्कृतः॥
तस्य कर्माथ तद्दृष्ट्वा भिषजौ चित्रयोधिनौ॥ १९.३७ ॥
वज्रास्त्रं च प्रकुर्वाणौ दानवेंद्रमयुध्यताम्॥
घोरवज्रप्रहारैस्तु दानवः स परिक्षतः॥ १९.३८ ॥
रथो ध्वजो धनुश्चैव छत्रं च कवचं तथा॥
क्षणेन शतधा भूतं सर्वसैन्यस्य पश्यतः॥ १९.३९ ॥
तद्दृष्ट्वा दुकरं कर्म सोऽश्विभ्यां भीमविक्रमः॥
नारायणास्त्रं बलवान्मुमोच रणमूर्धनि॥ १९.४० ॥
ततः शशाम वज्रास्त्रं कालनेमिस्ततो रुषा॥
जीवग्राहं ग्राहयितुमश्विनौ तौ प्रचक्रमे॥ १९.४१ ॥
तावभिप्रायमालक्ष्य संत्यज्य समरांगणम्॥
पदाती वेपमानांगौ प्रद्रुतौ वासवोयतः॥ १९.४२ ॥
तयोरनुगतो दैत्यः कालनेमिर्नदन्मुहुः॥
प्राप्येंद्रस्य बलं क्रूरो दैत्यानीकपदानुगः॥ १९.४३ ॥
स काल इव कल्पांते यदा वासवमाद्रुतः॥
तं दृष्ट्वा सर्वभूतानि विविशुर्विह्वलानि तु॥ १९.४४ ॥
हाहारावं प्रकुर्वाणास्तदा देवाश्च मेनिरे॥
पराजयं महेंद्रस्य सर्वलोकक्षयावहम्॥ १९.४५ ॥
चेलुः शिखरिणो मुख्याः पेतुरुल्का नभस्तलात्॥
जगर्जुर्जलदा दिक्षु संभूतश्च महारवः॥ १९.४६ ॥
तां भूताविकृतिं दृष्ट्वा देवाः सेंद्रा भयावहाः॥
मनसा शरणं जग्मुर्वासुदेवं जगत्पतिम्॥ १९.४७ ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च॥
जगद्धिताय कृष्णाय गोविंदाय नमोनमः॥ १९.४८ ॥
स नो रक्षतु गोविंदो भयार्तास्ते जगुः सुराः॥
सुराणां चिंतितं ज्ञात्वा भगवान्गरुडध्वजः॥ १९.४९ ॥
विबुध्यैव च पर्यंकाद्योगनिद्रां विहाय सः॥
लक्ष्मीकरयुगांभोजलालितांघ्रिसरोरुहः॥ १९.५० ॥
शारदंबरनीराब्जकांतिदेहच्छविः प्रभुः॥
कौस्तुभोद्भासिहृदयः कांतकेयूरभास्करः॥ १९.५१ ॥
विमृश्य सुरसंक्षोभं वैनतेयमाताह्वयत्॥
आहूतेऽविस्थितेतस्मिन्गरुडे दुःखिते भृशम्॥ १९.५२ ॥
दिव्यनानास्त्रतीक्ष्णार्चिरारुह्यागात्सुराहवम्॥
तत्रापश्यत देवेंद्रं भयभीतमभिद्रुतम्॥ १९.५३ ॥
दानवेंद्रैर्नवांभोदसच्छायैः सर्वथोत्कटैः॥
यथा हि पुरुषं घोरैरभाग्यैरर्थकांक्षिभिः॥ १९.५४ ॥
तत्त्राणायाव्रजद्विष्णुः स्तूयमानो मुहुः सुरैः॥
अभाग्येभ्यः परित्रातुं सुकृतं निर्मलं यथा॥ १९.५५ ॥
अथापश्यत दैत्येंद्रो वियति द्युतिमंडलम्॥
स्फुरंतमुदयाच्छीघ्रं कांतं सूर्यशतं यथा॥ १९.५६ ॥
प्रभवं ज्ञातुमिच्छंतो दानवास्तस्य तेजसः॥
गरुडं तमथा पश्यन्कल्पांतानलभैरवम्॥ १९.५७ ॥
तत्र स्थितं चतुर्बाहुं हरिं चानुपमद्युतिम्॥
तमालोक्यासुरेंद्रास्तु हर्षसंपूर्णमानसाः॥ १९.५८ ॥
अयं स देवः सर्वेषां शरणं केशवोऽरिहा॥
अस्मिञ्जिते जिताः सर्वा देवता नात्र संशयः॥ १९.५९ ॥
एनमाश्रित्य लोकेशा यज्ञभागभुजोऽमराः॥
इत्युक्त्वा ते समागम्य सर्व एव ततस्ततः॥ १९.६० ॥
तं जघ्नुर्विविधैः शस्त्रैः परिवार्य समंततः॥
कालनेमिप्रभृतयो दश दैत्यमहारथाः॥ १९.६१ ॥
षष्ट्या विव्याधबाणानां कालनेमिर्जनार्दनम्॥
निमिः शतेन बाणानां मथनोऽशीतिभिः शरैः॥ १९.६२ ॥
जंभकश्चैव सप्तत्या शुंभो दशभिरेव च॥
शेषा दैत्ये श्वराः सव विष्णुमेकैकशः शरैः॥ १९.६३ ॥
दशभिर्दशभिः शल्यैर्जघ्नुः सगरुडं रणे॥
तेषाममृष्यत्तत्कर्म विष्णुर्दानवसूदनः॥ १९.६४ ॥
एकैकं दानवं जघ्ने षड्भिः पड्भिरजिह्नगैः॥
आकर्णकृष्टैर्भूयश्च कालनेमिस्त्रिभिः शरैः॥ १९.६५ ॥
विष्णुं विव्याध हृदये रोषाद्रक्तविलोचनः॥
तस्याशोभंत ते बाणा हृदये तप्तकांचनाः॥ १९.६६ ॥
मयूखा इव संदीप्ताः कौस्तुभस्य स्फुरत्त्विषः॥
तैर्बाणैः किंचिदायस्तो हरिर्जग्राह मुद्गरम्॥ १९.६७ ॥
स तमुद्ग्राह्य वेगेन दानवाय मुमोच वै॥
दानवेन्द्रस्तमप्राप्तं वियत्येव शतैः शरैः॥ १९.६८ ॥
चिच्छेद तिलशः क्रुद्धो दर्शयन्पाणिलाघवम्॥
ततो विष्णुः प्रकुपितः प्रासं जग्राह भैरवम्॥ १९.६९ ॥
तेन दैत्यस्य हृदयं ताडयामास वेगतः॥
क्षणेन लब्धसंज्ञस्तु कालनेमिर्महासुरः॥ १९.७० ॥
शक्तिं जग्राह तीक्ष्णाग्रां हेमघंटाट्टहासिनीम्॥
तया वामं भुजं विष्णोर्बिभेद दितिनंदनः॥ १९.७१ ॥
भिन्नं शक्त्या भुजं तस्य स्रुतशोणितमाबभौ॥
नीले बला हके विद्युद्विद्योतंती यथा मुहुः॥ १९.७२ ॥
ततो विष्णुः प्रकुपितो जग्राह विपुलं धनुः॥
सप्तदश च नाराचांस्तीक्ष्णाग्रान्मर्मभेदिनः॥ १९.७३ ॥
दैत्यस्य हृदयं षड्भिर्विव्याध च शरैस्त्रिभिः॥
चतुर्भिः सारथिं चास्य ध्वजं चैकेन पत्रिणा॥ १९.७४ ॥
द्वाभ्यां धनुर्ज्याधनुषी भुजं चैकेन पत्रिणा॥
स विद्धो हृदये गाढं दोषैर्मूढो यथा नरः॥ १९.७५ ॥
स्रुतरक्तारुणः प्रांशुः पीडाचलितमानसः॥
चकंपे मारुतेनेव चोदितः किंशुकद्रुमः॥ १९.७६ ॥
ततः कंपितमालक्ष्य गदां जग्राह केशवः॥
तां च वेगेन चिक्षेप कालनेमिवधं प्रति॥ १९.७७ ॥
सा पपात शिरस्युग्रा सहसा कालनेमिनः॥
संचूर्णितोत्तमां गस्तु निष्पिष्टमुकुटोसुरः॥ १९.७८ ॥
स्रुतरक्तौघरंध्रश्च स्रुतधातुरिवाचलः॥
पपात स्वे रथे भग्नो विसंज्ञः शिष्टजीवनः॥ १९.७९ ॥
पतितस्य रथोपस्थे दानवस्याच्युतोऽरिहा॥
स्मितपूर्वमुवाचेदं वाक्यं चक्रायुधः प्रभुः॥ १९.८० ॥
गच्छासुर विमुक्तोऽसि सांप्रतं जीव निर्वृतः॥
ततः स्वल्पेन कालेन अहमेव तवांतकः॥ १९.८१ ॥
एवं वचस्तस्य निशम्य विष्णोः सर्वेश्वरस्याथ रथं निमेषात्॥
निनाय दूरं किल कालनेमिनो भीतस्तदा सारथिर्लोकनाथात्॥ १९.८२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे देवासुरासंग्रामे कालनेमिकृतयुद्धसंमर्दे विष्णुना सह कालनेमियुद्धवर्णनंनामैकोनविंशोऽध्यायः॥ १९ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 20
॥नारद उवाच॥
तं दृष्ट्वा दानवाः सर्वे क्रुद्धाः स्वैःस्वैर्बलैर्वृताः॥
सरघा इव माक्षिकं रुरुधुः सर्वतस्ततः॥ २०.१ ॥
पर्वताभे गजे भीमे मदस्राविणि दुर्दमे॥
सितचित्रपताके तु प्रभिन्नकरटामुखे॥ २०.२ ॥
स्वर्णवर्णांचिते यद्वन्नगे दावाग्निसंवृते॥
आरुह्यजौ निमिर्दैत्यो हरिं प्रत्युद्ययौ बली॥ २०.३ ॥
तस्यासन्दानवा रौद्रा गजस्य परिरक्षिणः॥
सप्तविंशतिकोट्यश्च किरीटकवचोज्जवलाः॥ २०.४ ॥
अश्वमारुह्य शैलाभं हरिमाद्रवत्॥
पंचयोजनप्रग्रीवमुष्ट्रमास्थाय जंभकः॥ २०.५ ॥
शुम्भो मेषं समारुह्याव्रजद्द्वादशयोजनम्॥
अपरे दानवेन्द्राश्च यत्ता नानास्त्रापाणयः॥ २०.६ ॥
आजग्मुः समरे क्रुद्धा विष्णुमक्लिष्टकारिणम्॥
परघेण निमिर्दैत्यो मथनो मुद्गरेण च॥ २०.७ ॥
शुम्भः शूलेन तीक्ष्णेन प्रासेन ग्रसनस्तथा॥
चक्रेण क्रथनः क्रुद्धो जंभः शक्त्या महारणे॥ २०.८ ॥
जघ्नुर्नारायणं शेषा विशिखैर्मर्मभेदिभिः॥
तान्यस्त्राणि प्रयुक्तानि विविशुः पुरुषोत्तमम्॥ २०.९ ॥
उपदेशा गुरोर्यद्वत्सच्छिष्यं बहुधेरिताः॥
ततः क्रुद्धो हरिर्गृह्य धनुर्बाणांश्च पुष्कलान्॥ २०.१० ॥
ममर्द दैत्यसेनां तद्धर्ममर्थवचो यथा॥
निमिं विव्याध विंशत्या वाणैरनलवर्चसैः॥ २०.११ ॥
मथनं दशभिश्चैव शुम्भं पंचभिरेव च॥
शतेन महिषं क्रुद्धो विव्याधोरसि माधवः॥ २०.१२ ॥
जंभं द्वादशभिस्तीक्ष्णैः सर्वांश्चैकैक शोऽष्टभिः॥
तस्य तल्लाघवं दृष्ट्वा दानवाः क्रोधमूर्छिताः॥ २०.१३ ॥
चक्रुर्गाढतरं यत्नमावृण्वाना हरिं शरैः॥
चिच्छेदाथ धनुर्ज्यां च निमिर्भल्लेन दानवः॥ २०.१४ ॥
हस्ताच्चापं च संरंभाच्चिच्छेद महिषासुरः॥
षीडयामासा गरुडं जंभो बाणायुतैस्त्रिभिः॥ २०.१५ ॥
भुजावस्य च विव्याध शंभो बाणायुतेन वै॥
ततो विस्मितचित्तस्तु गदां जग्राह माधवः॥ २०.१६ ॥
तां प्राहिणोत्स वेगेन मथनाय महाहवे॥
तामाप्राप्तां निमिर्बाणैर्मुशलाभैः सहस्रशः॥ २०.१७ ॥
आहत्य पातयामास विनदन्कालमेघवत्॥
ततोंऽतरिक्षे हाहेति भूतानां जज्ञिरे कथाः॥ २०.१८ ॥
नैतदस्ति बलं व्यक्तं यत्राशीर्यत सा गदा॥
तां हरिः पतितां दृष्ट्वा अस्थाने प्रार्थनामिव॥ २०.१९ ॥
जग्राह मुद्गरं घोरं दिव्यरत्नपरिष्कृतम्॥
तं मुमोचातिवेगेन निमिमुद्दिश्य दानवम्॥ २०.२० ॥
तमायांतं वियत्येव त्रयो दैत्या ह्यवारयन्॥
गदया दंभदैत्यस्तु ग्रसनः पट्टिशेन तु॥ २०.२१ ॥
शक्त्या च महिषो दैत्यो विनदंतो महाररवम्॥
निराकृतं तमालोक्य दुर्जनैः सुजनं यथा॥ २०.२२ ॥
जग्राह शक्तिमुग्रोग्रां शतघंटामहास्वनाम्॥
जंभाय तां समुद्दिश्य प्राहिणोद्भीषणेरणे॥ २०.२३ ॥
तामायान्तीमथालोक्य जंभोऽन्यस्य रथात्त्वरात्॥
आप्लुत्य लीलया गृह्णन्कामिनीं कामुको यथा॥ २०.२४ ॥
तयैव गरुडं मूर्ध्नि जघ्ने स प्रहसन्बली॥
ततो भूयो रथं प्राप्य घनुर्गृह्यभ्ययोजयत्॥ २०.२५ ॥
विचेताश्चाभवद्युद्धे गरुडः शक्तिपीडितः॥
ततः प्रहस्य तं विष्णुः साधुसाध्विति भारत॥ २०.२६ ॥
करस्पर्शेन कृतवान्विमोहं विनतात्मजम्॥
समाश्वास्य च तं वाग्भिः शक्तिं दृष्ट्वा च निष्फलाम्॥ २०.२७ ॥
कुभार्यस्य यथा पुंसः सर्वंस्याच्चिंतितं वृथा॥
दृठसारमहामौर्वीमन्यां संयोजयत्ततः॥ २०.२८ ॥
कृत्वा च तलनिर्घोषं रौद्रमस्त्रं मुमोच सः॥
ततोऽस्त्रतेजसा सर्वमाकाशं नैव दृश्यते॥ २०.२९ ॥
भूमिर्दिशश्च विदिशो बामजालमया बुभुः॥
दृष्ट्वा तदस्त्रमाहात्म्यं सेनानीर्ग्रसनोऽसुरः॥ २०.३० ॥
ब्राह्ममस्त्रं चकाराशु सर्वास्त्रविनिवारणम्॥
तेन तत्प्रशमं यातं रौद्रास्त्रं लोकभीषणम्॥ २०.३१ ॥
अस्त्रे प्रतिहते तस्मिन्विष्णुर्दानवसूदनः॥
कालदंडास्त्रमकरोत्सर्वलोकभयंकरम्॥ २०.३२ ॥
संधीयमानेस्त्रे तस्मिन्मारुतः परुषो ववौ॥
चकंपे च मही देवी भिन्नाश्चांबुधयोऽभवन्॥ २०.३३ ॥
तदस्त्रमुग्रं दृष्ट्वा तु दानवा युद्धदुर्मदाः॥
चक्रुरस्त्राणि दिव्यानि नानारूपाणि संयुगे॥ २०.३४ ॥
नारायणांस्त्रं ग्रसनस्तु चक्रे त्वाष्ट्रं निमिश्चास्त्रवरं मुमोच॥
ऐषीकमस्त्रं च चकार जंभो युद्धस्य दण्डास्त्र निवारणाय॥ २०.३५ ॥
यावच्च संधानवशं प्रयांति नारायणादीनि निवारणाय॥
तावत्क्षणेनैव जघान कोटींदैत्येश्वराणां किल कालदंडः॥ २०.३६ ॥
अनंतरं शांतभयं तदस्त्रं दैत्यास्त्रयोगेन च कालदण्डम्॥
शांतं तदालोक्य हरिः स्वमस्त्रं कोपेन कालानलतुल्यमूर्तिः॥ २०.३७ ॥
जग्राह चक्रं तपना युतप्रभमुग्रारमात्मानमिव द्वितीयम्॥
चिक्षेप सेनापतये ज्वलंतं चतुर्भूजः संयति संप्रगृह्य॥ २०.३८ ॥
तदाव्रजच्चक्रमथो विलोक्य सर्वात्मना दैत्यवराः स्ववीर्यात्॥
नाशक्नुन्वारयितुं प्रचंडं दैवं यथा पूर्वमिवोपपन्नम्॥ २०.३९ ॥
तदप्रतर्क्यं नवहेतितुल्यं चक्रं पपात ग्रसनस्य कण्ठे॥
तद्रक्तधारा रुणघोरनाभि जगाम भूयोपि करं मुरारेः॥ २०.४० ॥
चक्राहतः संयति दानवश्च पपात भूमौ प्रममार चापि॥
दैत्याश्च शेषा भृशशौकमापुः क्रोधं च केचित्पिपिषुर्भुजांश्च॥ २०.४१ ॥
ततो विनिहते दैत्ये ग्रसने बलनायके॥
निर्मर्यादमयुध्यंत हरिणा सह दानवाः॥ २०.४२ ॥
पट्टिशैर्मुशलैः प्रासैग्नि दाभिः कणपैरपि॥
तीक्ष्णाननैश्च नाराचैश्चक्रैः शक्तिभिरेव च॥ २०.४३ ॥
तदस्त्रजालं तैर्मुक्तं लब्धलक्षो जनार्दनः॥
एकैकं शतधा चक्रे बाणैरग्नि शिखोपमैः॥ २०.४४ ॥
जघान तेषां संक्रुद्धः कोटिकोटिं जनार्दनः॥
ततस्ते सहसा भूत्वा न्यपतन्केशवोपरि॥ २०.४५ ॥
गरुडं जगृहुः केचित्पादयोः शतशोऽसुराः॥
ललंबिरे च पक्षाभ्यां मुखे चान्ये ललंबिरे॥ २०.४६ ॥
केशवस्यापि धनुषि भुजयोः शीर्ष एव च॥
ललंबिरे महादैत्या निनदंतो मुहुर्मुहुः॥ २०.४७ ॥
तदद्भुतं महद्दृष्ट्वा सिद्धचारणवार्तिकाः॥
हाहेति मुमुचुर्नादसंबरे चास्तुवन्हरिम्॥ २०.४८ ॥
ततो हरिर्विनिर्धूय पातयामास तान्भुवि॥
यथा प्रबुद्धः पुरुषो दोषान्संसारसंभवान्॥ २०.४९ ॥
विकोशं च ततः नंदकं खड्गमुत्तमम्॥
चर्म चाप्यमलं विष्णुः पदातिस्तानधावत॥ २०.५० ॥
ततो मुहूर्तमात्रेण पद्मानि दश केशवः॥
चकर्त्त मार्गे बहुभिर्विचरन्दैत्यसत्तमान्॥ २०.५१ ॥
ततो निमिप्रभृतयो विनद्यासुरसत्तमाः॥
अधावंत महेष्वासाः केशवं पादचारिणम्॥ २०.५२ ॥
गरुत्मांश्चाभ्ययात्तूर्णमारुरोह च तं हरिः॥
उवाच च गरुत्मंतं तस्मिंश्च तुमुले रणे॥ २०.५३ ॥
अश्रांतो यदि तार्क्ष्यासि मथनं प्रति तद्व्रज॥
श्रांतश्चेच्च मुहूर्तं त्वं रणादपसृतो भव॥ २०.५४ ॥
॥तार्क्ष्य उवाच॥
न मे श्रमोऽस्ति लोकेश किंचित्संस्मरतश्च मे॥
यन्मे सुतान्वाहनत्वे कल्पयामास तारकः॥ २०.५५ ॥
इति ब्रवन्रणे दैत्यं मथनं प्रति सोऽगमत्॥
दैत्यस्तवभिमुखं दृष्ट्वा शंखचक्रगदाधरम्॥ २०.५६ ॥
जघान भिंडिपालेन शितधारेण वक्षसि॥
तं प्रहारमचिंत्यैव विष्णुस्तस्मिन्महाहवे॥ २०.५७ ॥
जघान पंचभिर्बाणैर्गिरींद्रस्यापि भेदकैः॥
आकर्णकृष्टैर्दशभिः पुनर्विद्धः स्तनांतरे॥ २०.५८ ॥
विचेतनो मुहूर्तात्स संस्तभ्य मथनः पुनः॥
गृहीत्वा परिघं मूर्ध्नि जनार्दनमताडयत्॥ २०.५९ ॥
विष्णुस्तेन प्रहारेण किंचिदाघूर्णितोऽभवत्॥
ततः कोपविवृत्ताक्षो गदां जग्राह माधवः॥ २०.६० ॥
तया संताडयामास मथनं हृदये दृढम्॥
स पपात तथा भूमौ चूर्णितांगो ममार च॥ २०.६१ ॥
तस्मिन्निपतिते भूमौ मथने मथिते भृशम्॥
अवसादं युयुर्दैत्याः सर्वे ते युद्धमण्डले॥ २०.६२ ॥
ततस्तेषु विषण्णेषु दानवेष्वतिमानिषु॥
चुकोप रक्तनयनो महिषो दानवेश्वरः॥ २०.६३ ॥
प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमाश्रितः॥
रीक्ष्णधारेण शूलेन महिषो हरिमर्दयन्॥ २०.६४ ॥
शक्त्या च गरुडं वीरो हृदयेऽभ्यहनद्दृढम्॥
ततो विवृत्य वदनं महामलगुहानिभम्॥ २०.६५ ॥
ग्रस्तुमैच्छद्रणे दैत्यः सगरुत्मंतमच्युतम्॥
अथाच्युतोऽपि विज्ञाय दानवस्य चिकीर्षितम्॥ २०.६६ ॥
वदनं पूरयामास दिव्यैस्त्रैर्महाबलः॥
स तैर्बाणैरभिहतो महिषोऽचलसंनिभः॥ २०.६७ ॥
परिवर्तितकायार्धः पपाताथ ममार च॥
महिषं पतितं दृष्ट्वा जीवयित्वा पुनर्हरिः॥ २०.६८ ॥
महिषं प्राह मत्तस्त्वं वधं नार्हसि दानव॥
योषिद्वध्यः पुरोक्तस्त्वं साक्षात्कमलयोनिना॥ २०.६९ ॥
उत्तिष्ठ गच्छ मन्मुक्तो द्रुतमस्मान्महारणात्॥
इत्युक्तो हरिणा तस्माद्देशादपगतोऽसुरः॥ २०.७० ॥
तस्मिन्पराङ्मुखे दैत्ये महिषे शुंभदानवः॥
संदष्टौष्ठपुटाटोपो भृकुटीकुटिलाननः॥ २०.७१ ॥
निर्मध्य पाणिना पाणिं धनुरादाय भैरवम्॥
सज्जीकृत्य महाघोरान्मुमोच शतशः शरान्॥ २०.७२ ॥
स चित्रयोधी दृढमुष्टिपातस्ततश्व विष्णुं च दैत्यः॥
बाणैर्ज्वलद्वह्निशिखानिकाशैः क्षिप्तैरसंख्यैः प्रतिघाहीनैः॥ २०.७३ ॥
विष्णुश्च दैत्येंद्रशरार्दितो भृशं भुशुंडिमादाय कृतांततुल्याम्॥
तया मुखं चास्य पिपेष संख्ये शुंभस्य जत्रुं च धराधराभम्॥ २०.७४ ॥
ततस्त्रिभिः शंभुभुजं द्विषष्ट्या सूतस्य शीर्षं दशक्षिश्च केतुम्॥
विष्णुर्विकृष्टैः श्रवणावसानं दैत्यस्य बाणैर्ज्वलनार्कवर्णैः॥ २०.७५ ॥
स तैश्च विद्धो व्यथितो बभूव दैत्येश्वरो विस्रुतशोणिताक्तः॥
ततोऽस्य किंचिच्चलितस्य धैर्यादुवाच शंखांबुजसार्ङ्गपाणिः॥ २०.७६ ॥
योषित्सुवध्योऽसि रणं विभुंच शुंभाऽशुभ स्वल्पतरैरहोभिः॥
मत्तोर्हसि त्वं न वृथैव मूढ ततोऽपयातः स च शंभदानवः॥ २०.७७ ॥
जम्भोऽथ तद्विष्णुमुखान्निशम्य जगर्ज चोच्चैः कृतसिंहनादः॥
प्रोवाच वाक्यं च सलीलमाजौ महाट्टहासेन जगद्विकंप्य॥ २०.७८ ॥
किमेभिस्ते जलावास दैत्यैर्हीनपराक्रमैः॥
मामासादय युद्धेऽस्मिन्यदि ते पौरुषं क्वचित्॥ २०.७९ ॥
यत्ते पूर्वं हता दैत्या हिरण्याक्षमुखाः किल॥
जंभस्तदाभवन्नैव पश्य मामद्य संस्थितम्॥ २०.८० ॥
पश्य तालप्रती काशौ भुजावेतौ हरे मम॥
वक्षो वा वज्रकठिनं मयि प्रहर तत्सुखम्॥ २०.८१ ॥
इत्युक्तः केशवस्तेन सृक्किणी संलिहन्रुषा॥
मुमोच परिघंघोरं विरीणामपि दारणम्॥ २०.८२ ॥
ततस्तस्याप्यनुपदं कालायसमयं दृढम्॥
मुमोच मुद्गरं विष्णुर्द्वितीयं पर्वतं यथा॥ २०.८३ ॥
तदायुधद्वयं दृष्ट्वा जंभो न्यस्य रथे धनुः॥
आप्लुत्य परिघं गृह्य गरुडं तेन जघ्निवान्॥ २०.८४ ॥
द्वितीयं मुद्गरं चानु गृहीत्वा विनदन्रणे॥
सर्वप्राणेन गोविंदं तेन मूर्ध्नि जघान सः॥ २०.८५ ॥
ताभ्यां चातिप्रहाराभ्यामुभौ गरुडकेशवौ॥
मोहाविष्टौ विचेतस्कौ मृतकल्पाविवासताम्॥ २०.८६ ॥
तदद्भुतं महद्दृष्ट्वा जगर्जुर्दैत्यसत्तमाः॥
नैतान्हर्षमदोद्धूतानिदं सेहे जगत्तदा॥ २०.८७ ॥
सिंहनादैस्तलोन्नाहैर्धनुर्नादैश्च बाणजैः॥
जंभं ते हर्षयामासुर्वासांस्यादुधुवुश्च ते॥ २०.८८ ॥
शंखांश्च पूरयामासुश्चिक्षिपुर्देवता भृशम्॥ २०.८९ ॥
संज्ञामवाप्याथ महारणे हरिः सवैनतेयः परिरभ्य जंभम्॥
पराङ्मुखः संयुगादप्रधृष्यात्पलायनं वेगपरश्चकार॥ २०.९० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे दैत्यैः सह विष्णोर्युद्धवर्णनंनाम विंशोऽध्यायः॥ २० ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 21
॥नारद उवाच॥
तमालोक्य पलायंतं विध्वस्तध्वजकार्मुकम्॥
दैत्यांश्च मुदितानिंद्रः कर्तव्यं नाध्यगच्छत॥ २१.१ ॥
अथायान्निकटं विष्णोः सुरेशस्त्वरयान्वितः॥
उवाच चैनं मधुरमुत्साहपरिबृंहितम्॥ २१.२ ॥
किमेभिः क्रीडसे देव दानवैर्दुष्टमानसैः॥
दुर्जनैर्लब्धरंध्रस्य पुरुषस्य कुतः क्रियाः॥ २१.३ ॥
शक्तेनोपेक्षितो नीचो मन्यते बलमात्मनः॥
तस्मान्न नीचं मतिमानुषेक्षेत कथंचन॥ २१.४ ॥
अथाग्रेसरसंपत्त्या रथिनो जयमाययुः॥
कस्ते सखाभवत्पूर्वं हिरण्याक्षवधे विभो॥ २१.५ ॥
हिरण्यकशिपुर्दैत्यो वीर्यशाली मदोद्धतः॥
प्राप्य त्वां तृमवन्नष्टस्तत्र कोऽग्रेसरस्तव॥ २१.६ ॥
पूर्वं प्रतिबला दैत्या मधुकैटभसन्निभाः॥
निविष्टास्त्वां तु संप्राप्य शलभा इव पावकम्॥ २१.७ ॥
युगेयुगे च दैत्यानां त्वत्तो नाशोऽभवद्धरे॥
तथैवाद्येह भीतानां त्वं हि विष्णो सुराश्रयः॥ २१.८ ॥
एवं संनोदितो विष्णुर्व्यवर्धत महाभुजः॥
बलेन तेजसा ऋद्ध्या सर्वभूताश्रयोऽरिहा॥ २१.९ ॥
अथोवाच सहस्राक्षं केशवः प्रहसन्निव॥
एवमेतद्यथा प्राह भवानस्मद्गतं वचः॥ २१.१० ॥
त्रैलोक्यदानवान्सर्वान्दग्धुं शक्तः क्षणादहम्॥
दुर्जस्तारकः किं तु मुक्त्वा सप्तदिनं शिशुम्॥ २१.११ ॥
महिषश्चैव शुंभश्च उभौ वध्यौ च योषिता॥
जंभो दुर्वाससा शप्तः शक्रवध्यो भवानिति॥
तस्मात्त्वं दिव्यवीर्येण जहि जंभं मदोत्कटम्॥ २१.१२ ॥
अवध्यः सर्वभूतानां त्वामृते स तु दानवः॥ २१.१३ ॥
मया गुप्तो रणे जंभो जगत्कंटकमुद्धर॥
तद्वैकुंठवचः श्रुत्वा सहस्राक्षोमरारिहा॥ २१.१४ ॥
समादिशत्सुराध्यक्षान्सैन्यस्य रचनां प्रति॥
ततश्चाभ्यर्थितो देवैर्विष्णुः सैन्यमकल्पयत्॥ २१.१५ ॥
यत्सारं सर्वलोकस्य वीर्यस्य तपसोऽपि च॥
तदैकादश रुद्रांश्च चकाराग्रेसरान्हरिः॥ २१.१६ ॥
व्यालीढांगा महादेवा बलिनो नीलकंधराः॥
चंद्रखंडत्रिपुंड्राश्च पिंगाक्षाः शूलपाणयः॥ २१.१७ ॥
पिंगोत्तुंगजटाजूटाः सिंहचर्मावसायिनः॥
भस्मोद्धूलितगात्राश्च भुजमंडलभैरवाः॥ २१.१८ ॥
कपालीशादयो रुद्रा विद्रावितमहाऽसुराः॥
कपाली पिंगलो भीमो विरुपाक्षो विलोहितः॥ २१.१९ ॥
अजकः शासनः शास्ता शंभुश्चंद्रो भवस्तथा॥
एत एकादशनंतबला रुद्राः प्रभाविनः॥ २१.२० ॥
अपालयंत त्रिदशान्विगर्जंत इवांबुदाः॥
हिमाचलाभे महति कांचनांबुरुहस्रहि॥ २१.२१ ॥
प्रचंचलमहाहेमघंटासंहतिमंडिते॥
ऐरावते चतुर्दंते मत्तमातंग आस्थितः॥ २१.२२ ॥
महामदजलस्रावे कामरूपे शतक्रतुः॥
तस्थौ हिमगिरेः श्रृंगे भानुमानिव दीप्तिमान्॥
तस्यारक्षत्पदं सव्यं मारुतोऽमितविक्रमः॥ २१.२३ ॥
जुगोपापरमग्निश्च ज्वालापूरितदिङ्मुखः॥
पृष्ठरक्षोऽभव द्विष्णुः समरेशः शतक्रतोः॥ २१.२४ ॥
आदित्या वसवो विश्वे मरुतश्चाश्विनावपि॥
गंधर्वा राक्षसा यक्षाः सकिंनरमहोरगाः॥ २१.२५ ॥
कोटिशःकोटिशः गृत्वा वृंदं चिह्नोपलक्षितम्॥
विश्रावयंतः स्वां कीर्तिं बंदिवृन्दैः पुरः सरैः॥ २१.२६ ॥
चेलुर्दैत्यवधे दृप्ता नानावर्णायुधध्वजाः॥ २१.२७ ॥
शतक्रतोरमरनिकायपालिता पताकिनी याननिनादनादिता॥
सितोन्नतध्वजपटकोटिमंडिता बभूव सा दितिसुतोकवर्धिनी॥ २१.२८ ॥
आयांतीं तां विलोक्याथ सुरसेनां गजासुरः॥
गजरूपी महांश्चैव संहारांभोधिविक्रमः॥ २१.२९ ॥
परश्वधायुधो दैत्यो दशनौष्ठकसंपुटः॥
ममर्द चरणे देवांश्चिक्षेपान्यान्करेण च॥ २१.३० ॥
परान्परशुना जघ्ने दैत्येंद्रो रौद्रविक्रमः॥
तस्यैवं निघ्नतः क्रुद्धा देवगन्धर्वकिंनराः॥ २१.३१ ॥
मुमुचुः संहताः सर्वे चित्रशस्त्रास्त्रसंहतिम्॥
परश्वधांश्च चक्राणि भिण्डिपालान्समुद्गरान्॥ २१.३२ ॥
कुन्तान्प्रासाञ्छरांस्तीक्ष्णान्मुद्गरांश्चापि दुःसहान्॥
तान्सर्वान्सोग्रसद्दैत्यो यूथपः कवलानिव॥ २१.३३ ॥
कोपस्फुरितदंष्ट्राग्रः करस्फोटेन नादयन्॥
सुरान्नघ्नंश्चराराजौ दुष्प्रेक्ष्यः सोऽथ दानवः॥ २१.३४ ॥
यस्मिन्यस्मिन्निपतति सुर वृंदे गजासुरः॥
तस्मिस्तीस्मिन्महाशब्दो हाहाकारो व्यजायत॥ २१.३५ ॥
अथ विद्रवमानं तब्लं प्रेक्ष्व समंततः॥
रुद्राः परस्परं प्रोचुरहंकारोत्थितार्चिषः॥ २१.३६ ॥
भोभो गृह्णत दैत्येंद्रं भिंदतैनं महाबलाः॥
कर्षतैनं शितैः शूलैर्भञ्जतैनं हि मर्मसु॥ २१.३७ ॥
कपाली वाक्यमाकर्ण्य शूलं सितशितंमुखे॥
संमार्ज्य वामहस्तेन संरंभाद्विवृतेक्षणः॥ २१.३८ ॥
प्रोत्फुल्लारुणनीलाब्जसंहतिः सर्वतो दिशः॥
अथागाद्भुकुटीवक्रो दैत्येंद्राभिमुखो रणे॥ २१.३९ ॥
दृढेन मुष्टिबन्धेन शूलं विषृभ्य निर्मलः॥
जघान कुम्भदेशे तु कपाली गजदानवम्॥ २१.४० ॥
ततो दशापि ते रुद्रा निर्मलायोमयै रणे॥
जघ्नुः शूलैस्तु दैत्येंद्रं शैलवर्ष्माणमाहवे॥ २१.४१ ॥
सुस्राव शोणितं पश्चात्सर्वस्रोतस्सु तस्य वै॥
शूलरक्तेन रुद्रस्य शुशुभे गजदानवः॥ २१.४२ ॥
प्रोत्फुल्लामलनीलाब्जं शरदीवामलं सरः॥
भस्मशुभ्रतनुच्छायै रुद्र र्हंसैरिवावृतम्॥ २१.४३ ॥
क्रुद्धं कपालिनं दैत्यः प्रचलत्कर्णपल्लवः॥
भवं च दन्तैर्बिभिदे नाभिदेशे जगासुरः॥ २१.४४ ॥
दृष्ट्वानुरक्तं रुद्राभ्यां नवरुद्रास्ततो द्रुतम्॥
विव्यधुर्विशिखैः शूलैः शरीरममरद्विषः॥ २१.४५ ॥
ततः कपालिनं त्यक्त्वा भवं चासुरपुंगवः॥
वेगेन कुपितो दैत्यो नव रुद्रानुपाद्रवत्॥
ममर्द चरणाघातैर्दन्तैश्चापि करेण च॥ २१.४६ ॥
ततोऽसौ शूलयुद्धेन श्रममासादितो यदा॥
तदा कपाली जग्राह करमस्यामरद्विषः॥ २१.४७ ॥
भ्रामयामास चातीव वेगेन च गजासुरम्॥
दृष्ट्वाश्रमातुरं दैत्यं किंचिच्च्यावितजीवितम्॥ २१.४८ ॥
निरुत्साहं रणे तस्मिन्गतयुद्धोत्सवोऽभवत्॥
ततो भ्रमत एवास्य चर्म उत्कृत्त्य भैरवम्॥ २१.४९ ॥
स्रवत्सर्वांगर क्तौघं चकारांबरमात्मनः॥
तुष्टुवुस्तं तदा देवा बहुधा बहुभिः स्तवैः॥ २१.५० ॥
ऊचुश्चैनं चयो हन्यात्स म्रियेत ततस्त्वसौ॥
दृष्ट्वा कपालिनो रूपं गजचर्मांबरावृतम्॥ २१.५१ ॥
वित्रेसुर्दुद्रुवुर्जघ्नुर्निपेतुश्च सहस्रशः॥
एवं विलुलिते तस्मिन्दानवेन्द्रे महाबले॥ २१.५२ ॥
गजं मत्तमथारुह्य शतदुन्दुभिनादितम्॥
निमिरभ्यपतत्तूर्णं सुरसैन्यानि लोडयन्॥ २१.५३ ॥
यांयां निमिगजो याति दिशं तांतां सवाहनाः॥
दुद्रुवुश्चुक्रुशुर्देवा भयेनाकंपिता मुहुः॥ २१.५४ ॥
गन्धेन सुरमातंगा दुद्रुवुस्तस्य हस्तिनः॥
पलायितेषु सैन्येषु सुराणां पाकशासनः॥ २१.५५ ॥
तस्थौ दिक्पालकैः सार्धमष्टभिः केशवेन च॥
संप्राप्तस्तस्य मातंगो यावच्छक्रगजं प्रति॥ २१.५६ ॥
तावच्छक्रगजो भीतो मुक्त्वा नादं सुभैरवम्॥
ध्रियमाणोऽपि यत्नेन चकोर इव तिष्ठति॥ २१.५७ ॥
पलायति गजे तस्मिन्नारूढः पाकशासनः॥
विपरीतमुखं युद्धं दानवेन्द्रेण सोऽकरोत्॥ २१.५८ ॥
शतक्र तुस्तु शूलेन निमिं वक्षस्यताडयत्॥
गदया दंतिनं तस्य गल्लदेशेहनद्भृशम्॥ २१.५९ ॥
तं प्रहारचिंत्यैव निमिर्निर्भयपौरुषः॥
ऐरावतं कटीदेशे मुद्गरेणाभ्यताडयत्॥ २१.६० ॥
स हतो मुद्गरेणाथ शक्रकुञ्जर आहवे॥
जगाम पश्चात्पद्भ्यां च पृथिवीं भूधराकृतिः॥ २१.६१ ॥
लाघवात्क्षिप्रमुत्थाय ततोऽमरमहागजः॥
रणादपससर्पाथ भीषितो निमिहस्तिना॥ २१.६२ ॥
ततो वायुर्ववौ रूक्षो बहुशर्करपांशुलः॥
सम्मुखो निमिमातंगोऽकंपनोऽचलकंपनः॥
स्रुतरक्तो बभौ शैलो घनधातुह्रदो यता॥ २१.६३ ॥
धनेशोऽपि गदां गुर्वी तस्य दानवहस्तिनः॥
मुमोच वेगान्न्यपतत्सा गदा तस्य मूर्धनि॥ २१.६४ ॥
गजो गदानिपातेन स तेन परिमूर्छितः॥
दंतैर्भित्वा धरां वेगात्पपाताचलसन्निभः॥ २१.६५ ॥
पतिते च गजे तस्मिन्सिंहनादो महानभूत्॥
सर्वतः सुरसैन्यानां गजबृंहितबृंहितः॥ २१.६६ ॥
हेषारवेण चाश्वानां राणास्फोटैश्च धन्विनाम्॥
गजं तं निहतं दृष्ट्वा निमिं चापि पराङ्मुखम्॥ २१.६७ ॥
सुराणां सिंहनादं च सन्नादितदिगंतरम्॥
जंभो जज्वाल कोपेन संदीप्त इव पावकः॥ २१.६८ ॥
ततः स कोपरक्ताक्षो ध्नुष्यारोप्य सायकम्॥
तिष्ठेति चाब्रवीत्तारं सारथिं चाप्यनंदयत्॥ २१.६९ ॥
तमायांतमभिप्रेक्ष्य धनुष्याहितसा यकम्॥
शतक्रतुरदीनात्मा दृढमादत्त कार्मुकम्॥ २१.७० ॥
बाणं च तैलधौताग्रमर्धचंद्रमजिह्मगम्॥ २१.७१ ॥
तेनास्यट सशरं चापं चिच्छेद बलवृत्रहा॥
अपास्य तद्धनुश्छिन्नं जंभो दानवनंदनः॥ २१.७२ ॥
अन्यत्कार्मुकादाय वेगवद्भारसाधनम्॥
शरांश्चाशीविषाकारांस्तैलधौताजिह्मगान्॥ २१.७३ ॥
शक्रं विव्याध दशभिर्जत्रुदेशे च पत्रिबिः॥
हृदये च त्रिभिश्चैव द्वाभ्यां च स्कन्धयोर्द्वयोः॥ २१.७४ ॥
शक्रोपि दानवेन्द्राय बाणजालम भीरयन्॥
अप्राप्तान्दानवेन्द्रस्तु शराश्छक्रभुजेरितान्॥ २१.७५ ॥
चिच्छेद शतधाऽऽकाशे शरैरग्निशिखोपमैः॥
ततश्च शरजालेन देवेन्द्रो दानवेश्वरम्॥ २१.७६ ॥
आच्छादयत यत्नेन वर्षास्विव घनैर्नभः॥
दैत्योऽपि बाणजालेन विव्याध सायकैः शितैः॥ २१.७७ ॥
यथा वायुर्घनाटोपं यदवार्यं दिशां मुखे॥
शक्रोऽथ क्रोधसंरंभान्न विशेषयते यदा॥ २१.७८ ॥
दानवेन्द्रं तदा चक्रे गंधर्वास्त्रं महाद्भुतम्॥
ततोऽस्य तेजसा व्याप्तमभूद्गनगोचरम्॥ २१.७९ ॥
गन्धर्वनगरैश्चापि नानाप्राकारतोरणैः॥
मुंचद्भिरद्भुताकारैरस्त्रवृष्टिं समंततः॥ २१.८० ॥
तयास्त्रवृष्ट्या दैत्यानां हन्यमाना महाचमूः॥
जंभं शरणमागच्छत्त्राहित्राहीति भारत॥ २१.८१ ॥
ततो जंभो महावीर्यो विनद्य प्रहसन्मुहुः॥
स्मरन्साधुसमाचारं दैत्यानामभयं ददौ॥ २१.८२ ॥
ततोऽस्त्रं मौशलंनाम मुमोच सुमहाभयम्॥
अथोग्रमुसलैः सर्वमभवत्पूरितं जगत्॥ २१.८३ ॥
तैश्च भग्नानि सर्वाणि गंधर्वनगराणि च॥
अथोग्रैक प्रहारेण रथमश्वं गजं सुरम्॥ २१.८४ ॥
चूर्णयामास तत्क्षिप्रं शतशोऽथ सहस्रशः॥
ततः सुराधिपः सक्रस्त्वाष्ट्रमस्त्रमुदैरयत्॥ २१.८५ ॥
संध्यमाने ततश्चास्त्रे निश्चेरुः पावकार्चिषः॥
ततो यंत्रमया विद्याः प्रादुरासन्सहस्रशः॥ २१.८६ ॥
तैर्यंत्रैरभवद्युद्धमंतरिक्षं वितारकम्॥
तैर्यंत्रैर्मौशलं भग्नं हन्यंते चासुरास्तदा॥ २१.८७ ॥
शैलास्त्रं मुमुचे जंभो यंत्रसंघातचूर्णनम्॥
व्यामप्रमाणैरुपलैस्ततो वर्षः प्रवर्तत॥ २१.८८ ॥
त्वाष्ट्रोण निर्मितान्याशु यानि यंत्राणि भारत॥
तेनोपल निपातेन गतानि तिलशस्ततः॥ २१.८९ ॥
ततः शिरस्सु देवानां शिलाः पेतुर्महाजवाः॥
दारयंत्यश्च वसुधां चतुरंगबलं च तत्॥ २१.९० ॥
ततो वज्रास्त्रमकरोत्सस्राक्षः पुरंदरः॥
शिलामहार्षंव्यशीर्यत समंततः॥ २१.९१ ॥
ततः प्रशांतैः शैलास्त्रैर्जंभो भूधरसन्निभः॥
ऐषीकमस्त्रमकरोच्चूर्णितान्यपराक्रमः॥ २१.९२ ॥
ऐषीकेणागमन्नाशं वज्रास्त्रं गिरिदारणम्॥
विजृंभत्यथ चैषीके परमास्त्रेऽतिदारुणे॥ २१.९३ ॥
जज्वलुर्देवसैन्यानि सस्यंदनगजानि च॥
दह्यमानेष्व नीकेषु तेजसास्त्रस्य सर्वतः॥ २१.९४ ॥
आग्नेयमस्त्रमकरोद्बलहा पाकशासनः॥
तेनास्त्रेण च तन्नाशमैषीकमगमत्तदा॥ २१.९५ ॥
तस्मिन्प्रतिहते चास्त्रे पावकास्त्रं व्यजृंभत॥
जज्वाल सेना जंभस्य रथः सारथिरेव च॥ २१.९६ ॥
तः प्रतिहतास्त्रोऽसौ दैत्येंद्रः प्रतिभानवान्॥
वारुणास्त्रं मुमोचाथशमनं पावकार्चिषाम्॥ २१.९७ ॥
ततो जलधरैर्व्योम स्फुरद्विद्युल्लताकुलैः॥
गंभीराक्षसमाधारैश्चाभ्यपूर्यत मोदिनी॥ २१.९८ ॥
करींद्रकरतुल्याभिर्धाराभिः पूरितं जगत्॥
शांतमाग्नेयमस्त्रं च विलोक्येंद्रश्चकार ह॥ २१.९९ ॥
वायव्यमस्त्रमतुलं तेन मेघा ययुः क्षयम्॥
वायव्यास्त्रबलेनाथ निर्धूते मेघमंडले॥ २१.१०० ॥
बभूवानाविलं व्योम नीलोत्पलदलप्रभम्॥
वायुना चातिरूपेण कंपिताश्चैव दानवाः॥ २१.१०१ ॥
न शेकुस्तत्र ते स्थातुं रणेऽपि बलिनोऽपि ये॥
जभस्ततोऽभवच्छौलो दशयोजनविस्तृतः॥ २१.१०२ ॥
मारुतप्रतिघातार्थं दानवानां बलाधिपः॥
नानाश्चर्यसमायुक्तो नानाद्रुमलतावृतः॥ २१.१०३ ॥
ततः प्रशमिते वायौ दैत्येंद्र पर्वताकृतौ॥
महाशनिं वज्रमयीं मुमोचाशु शतक्रतुः॥ २१.१०४ ॥
तयाशन्या पतितया दैत्यस्याच लरूपिणः॥
कंदराणि व्यशीर्यंतं समंतान्निर्झराणि च॥ २१.१०५ ॥
ततः सा दानवेंद्रस्य शैलमाया न्यवर्तत॥
निवृत्तशैलमायोऽथ दानवेंद्रो मदोत्कटः॥ २१.१०६ ॥
बभूव कुंजरो भीमो महाशैलमयाकृतिः॥
ममर्द च सुरानीकं दंतैश्चाभ्यहनत्सुरान्॥ २१.१०७ ॥
बभंज पृष्ठतः कांश्चित्करेणाकृष्य दानवः॥
ततः क्षपयतस्तस्य सुरसैन्यानि वृत्रहा॥ २१.१०८ ॥
अस्त्रं त्रैलोक्यदुर्धर्षं नारसिंहं मुमोच ह॥
ततः सिंहसस्राणि निश्चेरुर्मंत्रतेजसा॥ २१.१०९ ॥
हृष्टदंष्ट्राट्टहासानि क्रकचाभनखानि च॥
तैर्विपाटितगात्रोऽसौ गजमायां व्यपोहयत्॥ २१.११० ॥
ततश्चाशीविषो घोरोऽभवत्फणसमाकुलः॥
विषनिःश्वासनिर्दग्धसुरसैन्यमहारथः॥ २१.१११ ॥
ततोऽस्त्रं गारुडं चक्रे शक्रः संप्रहरन्रॅणे॥
ततस्तस्माद्गरुत्मंतः सहस्राणि विनिर्ययुः॥ २१.११२ ॥
तैर्गरुत्मद्भिरासाद्य जंभं भुजगरूपिणम्॥
कृतस्तु संढशो दैत्यः सास्य माया व्यनश्यत॥ २१.११३ ॥
मायायाम च प्रनष्टायां ततो जंभो महासुरः॥
चकार रूपमतुलं चंद्रादित्यपदानुगम्॥ २१.११४ ॥
विवृत्तनयनो ग्रस्तुमियेष सुरपुंगवान्॥
ततोऽस्य प्रविशद्वक्त्र समहारथकुंजरा॥ २१.११५ ॥
सुरसेनाऽभवद्भीमं पातालोत्तालतालुकम्॥
सैन्येषु ग्रस्यमानेषु दानवेन बलीयसा॥ २१.११६ ॥
शक्रो दीनत्वमापन्नः श्रांतवाहनवाहनः॥
कर्तव्यतां नाध्यगच्छत्प्रोवाचेदं जनार्दनम्॥ २१.११७ ॥
किमनंतरमेवास्ति कर्तव्यं नो विशेषतः॥
तदादिश घटामोऽस्य दानवस्य युयुत्सतः॥ २१.११८ ॥
ततो हरिरुवाचेदं वज्रायुधमुदारधीः॥
न सांप्रतं रणं त्याज्यं शत्रुकातरभैरवम्॥ २१.११९ ॥
मा गच्छ मोहं मा गच्छ क्षिप्रमस्त्रं स्मर प्रभो॥
नारायणास्त्रं प्रयतः श्रुत्वेति मुमुचे स च॥ २१.१२० ॥
एतस्मिन्नंतरे दैत्यो विवृतास्योऽग्रसत्क्षणात्॥
त्रीणित्रीणि च लक्षाणि किंनरोरगरक्षसाम्॥ २१.१२१ ॥
ततो नारायणास्त्रं च निपपातास्य वक्षसि॥
महास्त्रभिन्नहृदयः सुस्राव रुधिरं च सः॥ २१.१२२ ॥
ततः स्वतेजसा रूपं तस्य दैत्यस्य नाशितंम्॥
ततश्चां तर्दधे दैत्यः कृत्वा हासं महोत्कटम्॥ २१.१२३ ॥
गगनस्थः स दैत्येन्द्रः शस्त्राशनिमतींद्रियः॥
मुमोच सुरसैन्यानां सहारकरणीं पराम्॥ २१.१२४ ॥
तथा परश्वधांश्चक्रवज्रबाणान्समुद्गरान्॥
कुंतान्खड्गान्भिंडिपालानयोमुखगुडांस्तथा॥ २१.१२५ ॥
ववर्ष दानवो रोषादवध्यानक्षयानपि॥
तैरस्त्रैर्दानवोन्मुक्तैर्देवानीकेषु भीषणैः॥ २१.१२६ ॥
बाहुभिर्धरणी पूर्णा शिरोभिश्च सकुंडलैः॥
ऊरुभिर्गजहस्ताभैः करींद्रैश्चाचलोपमैः॥ २१.१२७ ॥
भग्नेषा दंडचक्राक्षै रथैभिः सह॥
दुःसंचाराभवत्पृथ्वी मांसशोणितकर्दमा॥ २१.१२८ ॥
रुधिरौघह्रदावर्ता गजदेहशिलोच्चया॥
कबंधनृत्यबहुला महा सुरप्रवाहिनी॥ २१.१२९ ॥
श्रृगालगृध्रध्वांक्षाणां परमानंदकारिणी॥
पिशाचजातिभिः कीर्णं पीत्वाऽऽमिषं सशोणितम्॥ २१.१३० ॥
असंभ्रमाभिर्भार्याभिः सह नृत्यद्भिरुद्धता॥
काचित्पत्नी प्रकुपिता गजकुंभांतमौक्तिकैः॥ २१.१३१ ॥
पिशाचो यत्र चाश्वानां खुरानेकत्र चाकरोत्॥
कर्णपूरेषु मोदंते पश्यंत्यन्याः सरोषतः॥ २१.१३२ ॥
प्रसादयंति बहुधा महाकर्णार्थकोविदाः॥
केचिद्वदन्ति भो देवा भो दैत्याः प्रार्थयामहे॥ २१.१३३ ॥
आकल्पमेवं योद्धव्यमस्माकं तृप्तिहेतवे॥
केचिदूचुरयं दैत्यो देवोयमतिमांसलः॥ २१.१३४ ॥
म्रियते यदि संग्रामे धातुर्दद्भोऽपयाचितम्॥
केचिद्युध्यत्सु वीरेषु सृक्किणी संलिहंति च॥ २१.१३५ ॥
एतेन पयसा विद्मो दुर्जनः सुजनो यथा॥
केचिद्रक्तनदीनां च तीरेष्वास्तिक्यबुद्धयः॥ २१.१३६ ॥
पितॄन्देवांस्तर्पयंति शोणितैश्चामिषैः शुभैः॥
केचिदामिषराशिस्था दृष्ट्वान्यस्य करामिषम्॥ २१.१३७ ॥
देहिदेहीति वाशांतो धनिनः कृपणा यथा॥
केचित्स्वयं प्रतृप्ताश्च दृष्ट्वा वै खादतः परान्॥ २१.१३८ ॥
सरोषमोष्ठौ निर्भुज्य पश्यंत्येवात्यसूयया॥
केचित्स्वमुदरं क्रुद्धा निंदंति ताडयंति च॥ २१.१३९ ॥
सर्वभक्षमभीप्संतस्तृप्ताः परधनं यथा॥
केचिदाहुरद्य एव श्लाघ्या सृष्टिस्तु वेधसः॥ २१.१४० ॥
सुप्रभातं सुनक्षत्रं पूर्वमासीद्धृथैव तत्॥
एवं बहुविधालापे पलादानां ततस्ततः॥ २१.१४१ ॥
अदृश्यः समरे जंभो देवाञ्ठस्त्रैरचूर्णयत्॥
ततः शक्रोधनेशश्च वरुणः पवनोऽनलः॥ २१.१४२ ॥
यमोऽथ निर्ऋतिश्चापि दिव्यास्त्राणि महाबलाः॥
आकाशे मुमुचुः सर्वे दानवायाभिसंध्य तु॥ २१.१४३ ॥
व्यर्थतां जग्मुरस्त्राणि देवानां दानवं प्रति॥
यथातिक्रूरचित्तानामार्ये कृत्यशतान्यपि॥ २१.१४४ ॥
गतिं न विविदुश्चापि श्रांता दैत्याश्च देवताः॥
दैत्यास्त्रभिन्नसर्वांगा गावः शीतार्दिता इव॥ २१.१४५ ॥
परस्परं व्यलीयंत हाहाकिंभाविवादिनः॥
तामवस्थां हरिर्दृष्ट्वा देवाञ्छक्रमुवाच ह॥ २१.१४६ ॥
अघोरमंत्रं स्मर देवराज अस्त्रं हि यत्पाशुपतप्रभावम्॥
रुद्रेण तुष्टेन तव प्रदत्तमव्याहतं वीरवराभिघाति॥ २१.१४७ ॥
एवं स शक्रो हरिबोधितस्तदा प्रणम्य देवं वृषकेतुमीश्वरम्॥
समाददे बाणममित्रघातनं संपूजितं दैवरणेऽर्द्धचंद्रम्॥ २१.१४८ ॥
धनुष्यजय्ये विनियोज्य बुद्धिमान्न्ययोजयत्तत्र अघोरमंत्रम्॥ २१.१४९ ॥
ततो वधायाशु मुमोच तस्य वा आकृष्य कर्णांतमकुंठदीधितिम्॥
अथासुरः प्रेक्ष्य महास्त्रमापतद्विसृज्य मायां सहसा व्यवस्थितः॥ २१.१५० ॥
प्रवेपमानेन मुखेन युज्यताचलेन गात्रेण च संभ्रमाकुलः॥
ततस्तु तस्यास्त्रवराभिमंत्रितः शरोर्धचंद्रः प्रसभं महारणे॥ २१.१५१ ॥
पुरंदरस्येष्वसनप्रमुक्तो मध्यार्कविंवं वपुषा विडंबयन्॥ २१.१५२ ॥
किरीटकूटस्फुरकांतिसंकुलं सुगंधिनानाकुसुमाधिवासितम्॥
प्रकीर्णधूमज्वलनाभमूर्धजं न्यपातयज्जंभिशिरः सकुंडलम्॥ २१.१५३ ॥
तस्मिन्निंद्रहते जंभे प्रशशंसुः सुरा बहु॥
वासुदेवोऽपि भगवान्साधु साध्विति चाब्रवीत्॥ २१.१५४ ॥
ततो जंभं हतं दृष्ट्वा दानवेन्द्राः पराङ्मुखाः॥
सर्वे ते भग्नसंकल्पा दुद्रुवुस्तारकं प्रति॥ २१.१५५ ॥
तांश्च त्रस्तान्समालोक्य श्रुत्वा स चतुरो हतान्॥
सारथिं प्रेरयामास याहींद्रं लघु संगरे॥ २१.१५६ ॥
तथेत्युक्त्वा स च प्रायात्तारके रथमास्थिते॥
सावलेपं च सक्रोधं सगर्वं सपराक्रमम्॥ २१.१५७ ॥
साविष्कारं सधिक्कारं प्रयातो दानवेश्वरः॥
स युक्तं रथमास्थाय सहस्रेण गरुत्मताम्॥ २१.१५८ ॥
सर्वायुधपरिष्कारं सर्वास्त्रपरिरक्षितम्॥
त्रैलोक्यऋद्धिसंपन्नं कल्पांतांतकनादितम्॥ २१.१५९ ॥
सैन्येन महता युक्तो नादयन्विदिशो दिशः॥
सहस्राक्षश्च तं दृष्ट्वा त्यक्त्वा वाहनदंतिनम्॥ २१.१६० ॥
रथं मातलिना युक्तं तप्तहेमपरिष्कृतम्॥
चतुर्योजनविस्तीर्णं सिद्धसंघपरिष्कृतम्॥ २१.१६१ ॥
गंधर्वकिंनरोद्गीतमप्सरोनृत्यसंकुलम्॥ २१.१६२ ॥
सर्वायुधमहाबाधं महारत्नसमाचितम्॥
अध्यतिष्ठत्तं रथं च परिवार्य समंततः॥ २१.१६३ ॥
दांशिता लोकपालाश्च तसथुः सगरुडध्वजाः॥
ततश्चचाल वसुधा ववौ रूक्षो मरुद्गणैः॥ २१.१६४ ॥
चेलुश्च सागराः सप्त तथाऽनश्यद्रवेः प्रभा॥
ततो जज्वलुरस्त्राणि ततोऽकंपंत वाहनाः॥ २१.१६५ ॥
ततः समस्तमुद्वृत्तं ततोदृस्यत तारकः॥
एकतस्तारको दैत्यः सुरसंघास्तथैकतः॥ २१.१६६ ॥
लोकावसाद मेकत्र लोकोद्धरणमेकतः॥
चराचराणि भूतानि भयविस्मयवंति च॥ २१.१६७ ॥
प्रशशंसुः सुराः पार्थ तदा तस्मिन्समागमे॥ २१.१६८ ॥
अस्त्राणि तेजांसि धनानि योधा यशो बलं वीरपराक्रमाश्च॥
सत्त्वौजसान्यंग बभूवुरेषां देवासुराणां तपसः परं तु नः॥ २१.१६९ ॥
अथाभिमुखमायांतं देवा विनतर्पवभिः॥
बाणैरनलकल्पाग्रार्विव्यधुस्तारकं प्रति॥ २१.१७० ॥
स तानचिंत्य दैत्येंद्रो देवबाणक्षतान्हृदि॥
बाणैर्व्योम दिशः पृथ्वीं पूरयामास दानवः॥ २१.१७१ ॥
नारायणं च सप्तत्या नवत्या च हुताशनम्॥
दशभिर्मारुतं मूर्ध्नि यमं दशभिरेव च॥ २१.१७२ ॥
धनदं चैव सप्त्या वरुणं च तथाष्टभिः॥
विंशत्या निर्ऋतिं दैत्यः पुनश्चाष्टभिरेव च॥ २१.१७३ ॥
विव्याध पुनरेकैकं दशभिर्मर्मभेदिभिः॥
तथा च मातलिं दैत्यो विव्याध त्रिभिराशुगैः॥ २१.१७४ ॥
गरुडं दशभिश्चैव महिषं नवभिस्तथा॥
पुनर्दैर्त्योऽथ देवानां तिलशो नतपर्वभिः॥ २१.१७५ ॥
चकार वर्मजालानि चिच्छेद च धनूंषि च॥
ततो विकवचा देवा विधनुष्काः प्रपीडिताः॥ २१.१७६ ॥
चापान्यन्यानि संगृह्य यावन्मुंचंति सायकान्॥
तावद्बाणं समाधाय कालानलसमप्रभम्॥ २१.१७७ ॥
ताडयामास शक्रं स हृदि सोपि मुमोचह॥
ततोंऽतरिक्षमालोक्य दृष्ट्वा सूर्यशताकृती॥ २१.१७८ ॥
तार्क्ष्यविष्णू समाजघ्ने शराभ्यां तावमुह्यताम्॥
प्रेतनाथस्य वह्नेश्च वरुणस्य शितैः शरैः॥ २१.१७९ ॥
निर्ऋतेश्चाकरोत्कार्यं भीतबीतं विमोहयन्॥
निरुच्छ्वासं समाहृत्य चक्रे बाणैः समीरणम्॥ २१.१८० ॥
ततः प्राप्य हरिः संज्ञां प्रोत्साह्य च दिशां पतीन्॥
बाणेन सारथेः कायाच्छिरोऽहार्षीत्सकुण्डलम्॥ २१.१८१ ॥
धूमकेतोर्ज्वलात्क्रुद्धस्तस्य च्छित्त्वा न्यपातयत्॥
दैत्यराजकिरीटयं च चिच्छेद वासवस्ततः॥ २१.१८२ ॥
धनेशश्च धनुः क्रुद्धो बिभेदबहुधा शरैः॥
वायुश्चक्रे च तिलशो रथं वा क्षोणिकूबरम्॥ २१.१८३ ॥
निर्ऋतिस्तिलशो वर्ण चक्रे बाणैस्ततो रणे॥
कृत्वैतदतुलं कर्मतिष्ठतिष्ठेति चाब्रुवन्॥ २१.१८४ ॥
लिहंतः सृक्किणीं देवा वासुदेवादयस्तदा॥
दृष्ट्वा तत्कर्म देवानां तारकोऽतुलविक्रमः॥ २१.१८५ ॥
मुमोच मुद्गरं भीमं सहस्राक्षाय संगरे॥
दृष्ट्वा मुद्गरमायांतमनिवार्यं रणाजिरे॥ २१.१८६ ॥
रथादाप्लुत्य धरणीमगमत्पाकशासनः॥
मुद्गरोऽपि रथोपस्थे पपात परुषस्वनः॥ २१.१८७ ॥
स रथं चूर्णयामास न ममार च मातलिः॥
गृहीत्वा पट्टिशं दैत्यो जधानोरसि केशवम्॥ २१.१८८ ॥
स्कन्धे गरुत्मतः सोऽपि निषसाद विचेतनः॥
खड्गेन राक्षसेन्द्रं च भित्त्वा भूमावपातयत्॥ २१.१८९ ॥
यमं च पातयामास भूमौ दैत्यो मुखे हतम्॥
वह्निं च भिंडिपालेन चक्रे हत्वा विचेतनम्॥ २१.१९० ॥
वायुं पदा तदाक्षिप्य पातयामास भूतले॥
धनेशं तद्धनुष्कोट्या कुट्टयामास कोपनः॥ २१.१९१ ॥
ततो देवनिकायानामेकैकं क्षणमात्रतः॥
तेषामेव जघानासौ शस्त्रैर्बालान्यथा गुरुः॥ २१.१९२ ॥
लब्धसंज्ञस्ततो विष्णुश्चक्रं जग्राह दुर्धरम्॥
रानवेंद्रवसामेदोरुधिरेणाभिरंजितम्॥ २१.१९३ ॥
मुमोच दानवेंद्रस्य दृढं वक्षसि केशवः॥
पपात चक्रं दैत्यस्य पतितं भास्करद्युति॥ २१.१९४ ॥
व्यशीर्यताथ कायेऽस्य नीलोत्पलमिवाश्मनि॥
ततो वज्रं महेन्द्रोऽपि प्रमुमोचार्चितं चिरम्॥ २१.१९५ ॥
तस्मिञ्जयाशा शक्रस्य दानवेन्द्राय संयुगे॥
तारकस्य च संप्राप्य शरीरं शौर्यशालिनः॥ २१.१९६ ॥
विशीर्यत विकीर्णार्चिः शतधा खण्डशो गतम्॥
ततो वायुरदीनात्मा वेगेन महता नदन्॥ २१.१९७ ॥
ज्वलितज्वलनाभासमंकुशं प्रमुमोच ह॥
विशीर्णं तस्य तच्चांगे दृष्ट्वा वायुर्महारुषा॥ २१.१९८ ॥
ततः शैलेन्द्रमुत्पाट्य पुष्पितद्रुमकंदरम्॥
चिक्षेप दानवेन्द्राय दशयोजनविस्तृतम्॥ २१.१९९ ॥
महीधरं तमायांतं सस्मितं दैत्यपुंगवः॥
जग्राह वामहस्तेन बालः कन्दुकलीलया॥ २१.२०० ॥
ततस्तेनैव चाहत्य पातयामास चांतकम्॥
दण्डं ततः समुद्यम्य कृतांतः क्रोधमूर्छितः॥ २१.२०१ ॥
दैत्येन्द्रमूर्ध्नि चिक्षेप भ्राम्य वेगेन दुर्जयम्॥
सोऽसुरस्यापतन्मूर्ध्नि दैत्यस्तं जगृहे स्मयन्॥ २१.२०२ ॥
कल्पांतलोकदहनो ज्वलनो रोषसंज्वलन्॥
शक्तिं चिक्षेपदुर्धर्षां दानवेन्द्राय संयुगे॥ २१.२०३ ॥
ततः शिरीषमालेव सास्य वक्षस्यराजत॥
ततः खड्गं समाकृष्य कोशादाकाशनिर्मलम्॥ २१.२०४ ॥
द्युति भासितत्रैलोक्यं लोकपालोऽपि निर्ऋतिः॥
चिक्षेप दानवेन्द्राय तस्य मूर्ध्नि पपात ह॥ २१.२०५ ॥
पतितश्चागमत्खड्गः स शीघ्रं शतखण्डताम्॥
जलेशश्च ततः क्रुद्धो महाभैरवरूपिणम्॥ २१.२०६ ॥
मुमोच पाशं दैत्येन्द्रभुजबन्धाबिलाषुकः॥
स दैत्यभुजमासाद्य पाशः सद्यो व्यपद्यत॥ २१.२०७ ॥
स्फुटितः क्रकचक्रूरदशनालिरहीश्वरः॥
ततोऽश्विनौ सचंद्रार्कौ साध्याश्च वसवश्च ये॥ २१.२०८ ॥
यक्षराक्षसगनधर्वाः सर्पाश्चास्त्रैः पृथग्विधैः॥
जघ्नुर्दैत्येश्वरं सर्वे भूयशस्ते महाबलाः॥ २१.२०९ ॥
न चास्त्राण्यस्यासज्जन्त गात्रे वज्राचलोपमे॥
ततो देवनवप्लुत्य तारको दानवादिपः॥ २१.२१० ॥
जघान कोटिशः क्रुद्धो मुष्टिपार्ष्णिभिरेव च॥
तथाविधं तस्य वीर्यमालोक्य भगवान्हरिः॥ २१.२११ ॥
पलायध्वमहो देवा वदन्नन्तर्हितोऽभवत्॥
शक्रादयस्ततो देवाः पलायनकृतादराः॥ २१.२१२ ॥
कालनेमिमुखैर्दैत्येरुपरुद्धा मदोत्कटैः॥
मुष्टिभिः पादघातैश्च केशष्वाकृष्य तैर्मुदा॥ २१.२१३ ॥
तारिताः शुष्कसरितं देवमार्गाश्च दंशिताः॥
बहुधा चाप्यकृष्यंत लोकपाला महासुरैः॥ २१.२१४ ॥
ततो निनादः संजज्ञे दैत्यानां बलशालिनाम्॥
कम्पयन्पृथिवीं द्यां च पातालानि च भारत॥ २१.२१५ ॥
जयेति मुदिता दैत्यास्तुष्टुवुस्तारकं तदा॥
शंखांश्च पूरयामासुः कुन्देन्दुसदृशप्रभान्॥ २१.२१६ ॥
धनुर्बाणरवांश्चोग्रान्कराघातांश्च चक्रिरे॥
भृशं हर्षान्विता दैत्या नेदुश्च ननृतुर्मुहुः॥ २१.२१७ ॥
ततो देवान्पुरस्कृत्य पशुपालः पशूनिव॥
दैत्येन्द्रो रथमास्थाय जगाम सहितोऽसुरैः॥ २१.२१८ ॥
महीसागरकूलस्थं तारकः स पुरं बली॥
योजनद्वादशायामं ताम्रप्राकारशोभितम्॥ २१.२१९ ॥
प्रासादर्बहुभिः कीर्णं दिव्याश्चर्योपशोभितम्॥
यत्र शब्दास्त्रयो नैव जीर्यंते चानिशंपुरे॥ २१.२२० ॥
गीतघोषश्च व्याघोषो भुज्यंतां विषयास्त्विति॥
तत्प्रविश्य पुरं राजा जगाम स्वकमालयम्॥ २१.२२१ ॥
महोत्सवेन महता पुत्रस्त्रीप्रतिनंदितः॥
तत्र दिव्यां सभां राजा प्राप्य सिंहासनस्थितः॥ २१.२२२ ॥
स्तूयमानो दितिसुतैरप्सरोभिर्विनोदितः॥
दिव्यासनस्थैर्दैत्येंद्रैर्वृतः सिंहैरिव प्रभुः॥ २१.२२३ ॥
एतस्मिन्नंतरे काचि द्दिव्यस्त्री तत्पुरेऽभवत्॥
विस्मितस्तैर्वृतो दैत्यैः प्रोवाचेदं स्मयन्निव॥ २१.२२४ ॥
रूपेणानुपमा पार्थ नानाभरणभूषिता॥
तां दृष्टवा तारको राजा भृशं वै विस्मितोऽभवत्॥ २१.२२५ ॥
कासि देवी मम ब्रूहि किं मया रूपसुंदरि॥
त्वत्समां योषितं नैव दृष्टवंतः पुरा वयम्॥ २१.२२६ ॥
॥स्त्र्युवाच॥
अहं त्रैलोक्यलक्ष्मीति विद्धि मां दैत्यसत्तम॥
अर्जिता तपसा चास्मि त्वया वीर्येण वा विभो॥ २१.२२७ ॥
वीर्यवंतं त्वनलसं तपस्विनमकातरम्॥
दातारं चापि भोक्तारं युक्त्या सेवामि तं नरम्॥ २१.२२८ ॥
भीरुं निर्विण्ण्मत्यर्थं साध्वीपीडाकरं नरम्॥
सर्वातिशंकिनं सद्यस्त्यजामि दितिनंदन॥ २१.२२९ ॥
महेंद्रण च माता ते यदा सा व्यपमानिता॥
तदैव त्यक्तप्रायोऽसाविदानीं तव संवशे॥ २१.२३० ॥
तारकश्च ततः प्राह परमं चेति तां तदा॥
सा चाविवेश तं देवी त्रिजगत्पूजिता रमा॥ २१.२३१ ॥
ततो दैत्याधिपं नार्यो दानवानां विभूषिताः॥
वीरकांस्यमुपादाय वर्धयांचक्रिरे मुदा॥ २१.२३२ ॥
देवाश्च द्वारि तिष्ठंति बद्धा दैत्यैर्भृशातुराः॥
उपहस्यमाना नारीभिर्दैत्यैरन्यैश्च नागरैः॥ २१.२३३ ॥
एतस्मिन्नंतरे विष्णुर्दैत्यरूपं समास्थितः॥
उपहासकमध्यस्थो गाथे द्वे प्राह बुद्धिमान्॥ २१.२३४ ॥
इदमल्पतरंनाम यदमीषां च दृश्यते॥
मातृक्रोधं स्मरन्राजा किंकिं यन्न करिष्यति॥ २१.२३५ ॥
बलीयांसं समासाद्य न नमेद्यो न चास्ति सः॥
मर्कवच्छ्वेतबाकीयैरुपायैः स्थीयतां सुराः॥ २१.२३६ ॥
उपहासमुखेनामी उपदेशं हरेर्मुखात्॥
समाकर्ण्य ततो देवा मर्क्करूपेण संस्थिताः॥ २१.२३७ ॥
नृत्यंतस्ते च बहुधा दैत्याश्चासुरयोषितः॥
भृशं च नोदयामासुर्मुदा भोज्यानि ते ददुः॥ २१.२३८ ॥
विष्णुर्दैत्यप्रतीहारं ततः प्रोवाच बुद्धिमान्॥
विनोदाय महाराज्ञो मर्कानेतान्प्रकीर्तय॥ २१.२३९ ॥
प्रतीहारस्ततो हृष्टः सभामध्ये विवेश सः॥
जानुभ्यां धरणीं गत्वा बद्धा च करसंपुटम्॥ २१.२४० ॥
उवाचानाविलं वाक्यमल्पाक्षरपरिस्फुटम्॥
दैत्येंद्र मर्कवृंदानि द्वारि तिष्ठंति ते प्रभो॥ २१.२४१ ॥
भृशं विनोदकारिणि स्पृहा चेद्द्रष्टुमर्हसि॥
तन्निशम्याब्रवीद्राजा किं चिरं क्रियते त्वया॥ २१.२४२ ॥
क्षत्ता चेति वचः श्रुत्वा कालनेमिं तदाब्रवीत्॥
मर्कानेतान्महाराजो द्रष्टुमिच्छति शीघ्रतः॥ २१.२४३ ॥
रक्षपाल सहैभिस्त्वं राजानमनुकूलय॥
कालनेमिरुपादाय मर्कान्यातो नृपं ततः॥ २१.२४४ ॥
मर्कमध्ये विष्णुमर्को यातस्त्यक्त्वा च दैत्यताम्॥
ततस्तारकदैत्यस्य पुरतो ननृतुर्भृशम्॥ २१.२४५ ॥
मर्का दैत्यकरोत्तालैर्हर्षनादविनोदितैः॥
ततोऽतिमुदितो राजा तेषां नृत्येन सोऽब्रवीत्॥ २१.२४६ ॥
अभयं वो मर्कदेवास्तुष्टो यच्छाम्यहं त्विदम्॥
मद्गृहे स्थीयतामेव न च कार्यं भयं हृदि॥ २१.२४७ ॥
इति श्रुत्वा विष्णुमर्कः प्रनृत्यन्नि दमब्रवीत्॥
राजन्विज्ञातुमिच्छामस्तव गेहावधिं वयम्॥ २१.२४८ ॥
एवमुक्ते प्रहस्याह तारको दैत्यसत्तमः॥
त्रिभूमिकं हि मे गेहमिदं यद्भुवनत्रयम्॥ २१.२४९ ॥
हरिमर्कस्ततः प्राह यद्येवं स्वं वचः स्मर॥
त्रैलोक्ये विचरंत्वेते मर्का राजन्सुनिर्भयाः॥ २१.२५० ॥
अश्वमेधशतस्यापि सत्यं राजन्विशिष्यते॥
धर्ममेनं स्मरन्सत्यं वचनं कुरु दैत्यप॥ २१.२५१ ॥
ततः सुविस्मितो दैत्यः प्राहेदं वचनं तदा॥
मर्कटाहो प्रबुद्धोऽसि सत्यं ब्रूहि च को भवान्॥ २१.२५२ ॥
॥श्रीभगवानुवाच॥
अहं नारायणोनाम यदि श्रोत्रमुपागतः॥
देवानां रक्षणार्थाय मर्करूपमुपाश्रितः॥ २१.२५३ ॥
तच्चेन्मान्यतमो धर्मस्तव तद्वचनं स्वकम्॥
परिपालय ते गेहं विचरंतु सुरास्त्वमी॥ २१.२५४ ॥
अवलोपश्च राजेंद्र न कर्तव्यस्त्वया हृदी॥
वीरोऽहमिति संचिन्त्य पश्यता कालजं बलम्॥ २१.२५५ ॥
पर्यायैर्हन्यमानानामभिहंता न विद्यते॥
मौढ्यमेतत्तु यद्द्वेष्टा कर्ताहमिति मन्यते॥ २१.२५६ ॥
ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने मुनींश्च॥
कं वापदो नोपनमंति काले कालस्य वीर्यं न तु कर्तुरेतत्॥ २१.२५७ ॥
न मंत्रबलवीर्येण प्रज्ञया पौरुषेण वा॥
अलभ्यं लभ्यते काले काले सुप्तोपि विंदति॥ २१.२५८ ॥
न मातृपितृशुश्रूषा न च दैवतपूजनम्॥
नान्यो गुणसमाचारः पुरषस्य सुखावहः॥ २१.२५९ ॥
न विद्या न तपो दानं न मित्राणि न वांधवाः॥
शक्नुवंति परित्रातुं नरं कालेन पीडितम्॥ २१.२६० ॥
नागामिगमनार्थं हि प्रतिघातशतैरपि॥
शक्नुवंति प्रतिव्योढुमृते कालबलं नराः॥ २१.२६१ ॥
देहवत्पुण्यकर्माणि जीववत्काल उच्यते॥
द्वयोः समागमे दैत्य कार्याणां सिद्धिरिष्यते॥ २१.२६२ ॥
अहो दैत्य त्वद्विशिष्टा दैत्यानां कोटयः पुरा॥
शाल्मलेस्तूलवत्क्षिप्ताः कालवातेन दुर्दशाः॥ २१.२६३ ॥
इदं तु लब्ध्वा त्वं स्थानमात्मानं बहु मन्यसे॥
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम्॥ २१.२६४ ॥
न चेदमचलं स्थानमनंतं चापि कस्यचित्॥
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे॥ २१.२६५ ॥
अविश्वास्ये विश्वसिषि मन्यसे चाऽध्रुवं ध्रुवम्॥
ममेदमिति मोहात्त्वं त्रिलोकीश्रियमीप्ससि॥ २१.२६६ ॥
नेयं तव न चास्माकं न चान्येषां स्थिरा मता॥
अतिक्रम्य बहून्यांस्त्वयि तावदियं स्थिता॥ २१.२६७ ॥
कंचित्कालमियं स्थित्वा त्वयि तारक चंचला॥
पुंश्चलीवातिचपला पुनरन्यं गमिष्यति॥ २१.२६८ ॥
सरत्नौषदिसंपन्नं ससरित्पर्वताकरम्॥
तानिदानीं न पश्यामि यैर्भुक्तं भुवनत्रयम्॥ २१.२६९ ॥
हिरण्यकशिपुर्वीरो हिरण्याक्षश्च दुर्जयः॥
प्रह्रादो नमुचिर्वीरो विप्रचित्तिर्विरोचनः॥ २१.२७० ॥
कीर्तिः शूरश्च वीरश्च वातापिरिल्वलस्तथा॥
अश्वग्रीवः शंबरश्च पुलोमा मधुकैटभौ॥ २१.२७१ ॥
विश्वजित्प्रमुखाश्चान्ये दानवेंद्रा महाबलाः॥
कालेन निहताः सर्वे कालो हि बलवत्तरः॥ २१.२७२ ॥
सर्वैर्वर्षायुतं तप्तं न त्वमेको महातपाः॥
सर्वे सत्यव्रतपराः सर्वे चासन्बहुश्रुताः॥ २१.२७३ ॥
सर्वे यथार्हदातारः सर्वे दाक्षायणीसुताः॥
ज्वलंतः प्रजयंतश्च कालेन प्रतिसंहताः॥ २१.२७४ ॥
मुंचेच्छां कामभोगेषु मुंचेमं श्रीभवं मदम्॥
एतदैश्वर्यनाशे त्वां शोकः संपीडयिष्यति॥ २१.२७५ ॥
शोककाले शुचो मात्वं हर्षकाले च मा हृषः॥
अतीतानागते हि त्वा प्रत्युत्पन्नेन वर्तय॥ २१.२७६ ॥
इंद्रं चेदागतः कालः सदा युक्त मतंद्रितम्॥
क्षमस्व न चिराद्दैत्य त्वामप्युपगमिष्यति॥ २१.२७७ ॥
को हि स्थातुमलं लोके मम क्रुद्धस्य संयुगे॥
कालस्तु बलवान्प्राप्तस्तेन तिष्ठामि तारक॥ २१.२७८ ॥
त्वमेव वेत्सि मां दैत्य योहं यादृक्पराक्रमः॥
कल्पेकल्पे महादैत्याः कोटिशोऽर्बुदशोहताः॥ २१.२७९ ॥
येषां त्वं कोटिभागेऽपि परिपूर्णो न तारक॥
कल्पेकल्पे सृजामीदं ब्रह्मादि सकलं जगत्॥ २१.२८० ॥
इच्छन्संजीवयाम्येतदनिच्छन्नाशये क्षणात्॥
न हि त्वां नोत्सहे हंतुं सर्वदैत्यसमायुतम्॥ २१.२८१ ॥
अंगुल्यग्रेण दैत्येंद्र पुनर्धर्मं नलोपये॥
यद्यहं प्रवरो भूत्वा धर्मं ब्रह्मवरात्मकम्॥ २१.२८२ ॥
लोपयामि ततः कं च धर्मोऽयं शरणं व्रजेत्॥
अहं कर्तेति मा मंस्थाः कर्तायस्तु सदा प्रभुः॥ २१.२८३ ॥
सोऽयं कालः पचेद्विश्वं वृक्षे फलमिवागतम्॥
यैरेव कर्मभिः सौख्यं दुःखं तैरेवकर्मभिः॥ २१.२८४ ॥
प्राप्नोति पुरुषो दैत्य पश्य कालस्य चित्रताम्॥
सर्वं कालवशादेव बोद्वव्यं धीर्युतेर्नरैः॥ २१.२८५ ॥
स्वकर्मपरिपाकस्य फलदं वै विदुर्बुधाः॥
तस्मात्कर्म शुभं कार्यं पुण्यात्पुण्यात्मकं च यत्॥ २१.२८६ ॥
पुण्येन तत्र सोख्यं स्याद्दृःखं पापेन निश्चितम्॥
इति संचिंत्य दैत्येंद्र स्वं वचः परिपालय॥
मदुक्तं वचनं सर्वं यदि मंतुमिहार्हसि॥ २१.२८७ ॥
॥तारक उवाच॥
मामत्र संस्थितं दृष्ट्वा कालनेमिमुखैर्युतम्॥ २१.२८८ ॥
कस्येह न व्यथेद्बुर्मृत्योरपि जिवांसतः॥
सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी॥ २१.२८९ ॥
ब्रवीषि यद्यत्त्वं वाक्यं ततथैव न संशयः॥
को हि विश्वासमर्थेषु शरीरे वा शरीरभृत्॥ २१.२९० ॥
कर्तुमुत्सहते लोके दृष्ट्वा संप्रस्थितं जगत्॥
अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम्॥ २१.२९१ ॥
कालाग्नावाहितं घोरे गुह्ये सततगत्वरे॥
इदमद्य करिष्यामि श्वःकर्तास्मीतिवादिनः॥ २१.२९२ ॥
कालो हरति संप्राप्ते नदीवेग इवोन्मुखान्॥
इदानीं तावदेवासौ मया दृष्टो न विस्मृतः॥ २१.२९३ ॥
कालेन ह्रियमाणानां प्रलापः श्रूयते नृणाम्॥
ईर्ष्याभिमानलोभेषु कामक्रो धभयेषु च॥ २१.२९४ ॥
स्पृहामोहातिवादेषु लोकः सक्तो न बुध्यते॥
गुरुं वाप्यगुरुं वापि कृत्याकृत्यं च केशव॥ २१.२९५ ॥
जानामि त्वामहं विष्णो सर्वभूतवरं प्रभुम्॥
किं कुर्मः स्वस्वभावेन बलिना त्वां न मन्महे॥ २१.२९६ ॥
केचिद्भजंति त्वां भक्त्या वैरेण हेलया परे॥
सर्वेनुकंप्यास्ते तुभ्यमतरात्मासि देहिनाम्॥ २१.२९७ ॥
पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः॥
मामालंब्य मया मुक्ता यांतु सर्वे दिवौकसः॥ २१.२९८ ॥
पुनर्मर्कस्वरूपेण भ्रांतव्यं भुवनत्रयम्॥
स्पृहापि यज्ञभागानां न कार्या समयस्त्वयम्॥ २१.२९९ ॥
एवमुक्ते तारकेण देवा हर्षं प्रपेदिरे॥
मुच्यते हृतलोमापि मेषो लाभो हि सौनिकात्॥ २१.३०० ॥
॥श्रीभगवानुवाच॥
दैत्येंद्र भव तत्त्वज्ञो विद्याज्ञानतपोन्वितः॥
कालं पश्यसि सुव्यक्तं पाणावामलकं यथा॥ २१.३०१ ॥
कालचारित्रतत्त्वज्ञ शिवभक्त महामते॥
वज्रांगसुत धन्योऽसि स्पृहणीयोऽसि धीमताम्॥ २१.३०२ ॥
यावत्ते तपसो वीर्यं तावद्भुंक्ष्वजगत्त्रयम्॥
एतेन समयेनैते चरिष्यंति सुरा जगत्॥ २१.३०३ ॥
इत्युक्त्वा मर्कयूथेन वृतो नारायणः प्रभुः॥
स्थानादस्मादपाक्रम्य मेरुं प्रति ययौ तदा॥ २१.३०४ ॥
ततो मेरुं समागम्य प्रोवाच वचनं हरिः॥
भवंतो यांतु ब्रह्मणं स धास्यति च वो हितम्॥ २१.३०५ ॥
अप्रमत्तैः सदा भाव्यं पाल्यश्च समयस्तथा॥
इत्युक्त्वा भगवान्विष्णुस्तत्रैवांतरधीयत॥ २१.३०६ ॥
प्रणतः संस्तुतो देवैर्ब्रह्माणं च सुरा ययुः॥ २१.३०७ ॥
दिव्योत्तमैस्तत्र गतैरभिष्टुतो विदीप्ततेजा भुवनत्रयेऽपि॥
वज्रांगपुत्रोऽपि मुमोद वीरः शिवप्रसादेन महर्द्धिमाप्य॥ २१.३०८ ॥
स्वयमिन्द्रो निमिर्वह्निः कालनेमिर्यमोऽपि च॥
स्तम्भश्च निर्ऋतिस्थाने महिषो वरुणास्तथा॥ २१.३०९ ॥
मेषो वाताधिकारि च कुजंभो धनदोऽभवत्॥
अन्येषां चाधिकारांश्च दैत्यानां तारको ददौ॥ २१.३१० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे देवासुरसंग्रामे तारकविजयवर्णननामैकविंशतितमोऽध्यायः॥ २१ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 22
॥नारद उवाच॥
एवं विप्रकृता देवा महेंद्रसहितास्तदा॥
ययुः स्वायंभुवं दाम मर्करूपमुपाश्रिताः॥ २२.१ ॥
ततश्च विस्मितो ब्रह्मा प्राह तान्सुरपुंगवान्॥
स्वरूपेणेह तिष्ठध्वं नात्र वस्तारकाद्भयम्॥ २२.२ ॥
ततो देवाः स्वरूपस्थाः प्रम्लानवदनांबुजाः॥
तुष्टुवुः प्रणताः सर्वे पितरं पुत्रका यथा॥ २२.३ ॥
नमो जगत्प्रसूत्यै ते हेतवे पालकाय च॥
संहर्त्रे च नमस्तुभ्यं तिस्रोऽवस्थास्तव प्रभो॥ २२.४ ॥
त्वमपः प्रथमं सृष्ट्वा तासु वीर्यमवासृजः॥
तदण्डमभवद्धैमं यस्मिल्लोकाश्चराचराः॥ २२.५ ॥
वेदेष्वाहुर्विराड्रूपं त्वामेकरूपमीदृशम्॥
पातालं पादमूलं च पार्ष्णिपादे रसातलम्॥ २२.६ ॥
महातलं चास्य गुल्फौ जंघे चापि तलातलम्॥
सुतलं जानुनी चास्य ऊरू च वितलातले॥ २२.७ ॥
महीतलं च जघनं नाभिश्चास्य नभस्तलम्॥
ज्योतिः पदमुरः स्थानं स्वर्लोको बाहुरुच्यते॥ २२.८ ॥
ग्रीवा महश्चवदनं जनलोकः प्रकीर्त्यते॥
ललाटं च तपोलोकः शीर्ष सत्यमुदाहृतम्॥ २२.९ ॥
चन्द्रसूर्यौ च नयने दिशः श्रोत्रे नासिकाश्विनौ॥
आत्मानं ब्रह्मरंध्रस्थमाहुस्त्वां वेदवादिनः॥ २२.१० ॥
एवं ये ते विराड्रूपं संस्मरंत उपासते॥
जन्मबन्धविनिर्मुक्ता यांति त्वां परमं पदम्॥ २२.११ ॥
एवं स्थूलं प्राणिमध्यं च शूक्ष्मं भावेभावे भावितं त्वां गृणंति॥
सर्वत्रस्थं त्वामतः प्राहुर्वेदास्तस्मै तुभ्यं पदम्ज इद्विधेम॥ २२.१२ ॥
एवं स्तुतो विरंचिस्तु कृपयाभिपरिप्लुतः॥
जानन्नपि तदा प्राह तेषामाश्वासहेतवे॥ २२.१३ ॥
सर्वे भवन्तो दुःखार्ताः परिम्लानमुखांबुजाः॥
भ्रष्टायुदास्तथाऽकस्माद्भ्रष्टा भरणवाससः॥ २२.१४ ॥
ममैवयं कृतिर्देवा भवतां यद्वडम्बना॥
यद्वैराजशरीरे मे भवन्तो बाहुसंज्ञकाः॥ २२.१५ ॥
यद्यद्विभूतिमत्सत्त्वं धार्मिकं चोर्जितं महत्॥
तत्रासीद्बाहुनाशो मे बाहुस्थाने च ते मम॥ २२.१६ ॥
तन्नूनं मम भग्नौ च बाहू तेन दुरात्मना॥
येन चोपहृतं देवास्तन्ममाख्यातु मर्हथ॥ २२.१७ ॥
॥देवा ऊचुः॥
योऽसौ वज्रांगतनयस्त्वया दत्तवरः प्रभो॥
भृशं विप्रकृतास्तेन तत्त्वं जानासि तत्त्वतः॥ २२.१८ ॥
यत्तन्महीसमुद्रस्य तटं शार्विकतीर्थकम्॥
तदाक्रम्य कृतं तेन मरुभूमिसमं प्रभोः॥ २२.१९ ॥
ऋद्धयः सर्वदेवानां गृहीतास्तेन सर्वतः॥
महाभूतस्वरूपेण स एव च जगत्पतिः॥ २२.२० ॥
चंद्रसूर्यौ ग्रहास्तारा यच्चान्यद्देवपक्षतः॥
तच्च सर्वं निराकृत्य स्थापितो दैत्यपक्षकः॥ २२.२१ ॥
वयं च विधृता स्तेन बहूपहसितास्तथा॥
प्रसादान्मुक्ताश्च कथंचिदिव कष्टतः॥ २२.२२ ॥
तद्वयं शरणं प्राप्ताः पीडिताः क्षुत्तृषार्दिताः॥
धर्मरक्षा कराश्चेति संचिंत्य त्रातुमर्हसि॥ २२.२३ ॥
इत्युक्तः स्वात्मभूर्देवः सुरैर्दैत्यविचेष्टितम्॥
सुरानुवाच भगवानतः संचिंत्य तत्त्वतः॥ २२.२४ ॥
अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः॥
यस्य वध्यश्च नाद्यापि स जातो भगवान्पुनः॥ २२.२५ ॥
मया च वरदानेन च्छन्दयित्वा निवारितः॥ २२.२६ ॥
तपसा स हिदीप्तोऽभूत्त्रैलोक्यदहनात्मकः॥
स च वव्रे वधं दैत्यः शिशतः सप्तवासरात्॥ २२.२७ ॥
स च सप्तदिनो बालः शंकराद्यो भविष्यति॥
तारकस्य च वीरस्य वधकर्ता भविष्यति॥ २२.२८ ॥
सतीनामा तु या देवी विनष्टा दक्षहेलया॥
सा भविष्यति कल्याणी हिमाचलशरीरजा॥ २२.२९ ॥
शंकरस्य च तस्याश्च यत्नः कार्यः समागमे॥
अहमप्यस्य कार्यस्य शेषं कर्ता न संशयः॥ २२.३० ॥
इत्युक्तास्त्रिदशास्तेन साक्षात्कलयोनिना॥
जग्मुर्मेरुं प्रणम्येशं मर्करूपेण संवृताः॥ २२.३१ ॥
ततो गतेषु देवेषु ब्रह्मा लोकपितामहः॥
निशां सस्मार भगवान्स्वां तनुं पूर्वसंभवाम्॥ २२.३२ ॥
ततो भगवती रात्रिरुपतस्थे पितामहम्॥
तां विविक्ते समालोक्य तथोवाच विभावरीम्॥ २२.३३ ॥
विभावरि महाकार्यं विबुधानामुपस्थितम्॥
तत्कर्तव्यं त्वया देवि श्रृणु कार्यस्य निश्चयम्॥ २२.३४ ॥
तारकोनाम दैत्येंद्रः सुरकेतुरनिर्ज्जितः॥
तस्याभावाय भगवाञ्जनयिष्यति यं शिवः॥ २२.३५ ॥
सुतः स भविता तस्य तारकस्यांतकारकः॥
अहं त्वादौ यदा जातस्तदापश्यं पुरःस्थितम्॥ २२.३६ ॥
अर्धनारीश्वरं देवं व्याप्य विश्वमवस्थितम्॥
दृष्ट्वा तमब्रुवं देवं भजस्वेति च भक्तितः॥ २२.३७ ॥
ततो नारी पृथग्जाता पुरुषश्च तथा पृथक्॥
तस्याश्चैवांशजाः सर्वाः स्त्रियस्त्रिभुवने स्मृताः॥ २२.३८ ॥
एकादश च रुद्राश्च पुरुषास्तस्य चांशजाः॥
तां नारीमहामालोक्य पुत्रं दक्षमथा ब्रवम्॥ २२.३९ ॥
भजस्व पुत्रीं जगती ममापि च तवापि च॥
पुंदुःखनकात्त्रात्री पुत्री ते भाविनी त्वियम्॥ २२.४० ॥
एवमुक्तो मया दक्षः पुत्रीत्वे परि कल्पिताम्॥
रुद्राय दत्तवान्भक्त्या नाम दत्त्वा सतीति यत्॥ २२.४१ ॥
ततः काले चँ कस्मिंश्चिदवमेने च तां पिता॥
मुमूर्षुः पापसंकल्पो दुरात्मा कुलकज्जलः॥ २२.४२ ॥
ये रुद्रं नैव मन्यंते ते स्फुटं कुलकज्जलाः॥
पिशाचास्ते दुरात्मानो भवंति ब्रह्मराक्षसाः॥ २२.४३ ॥
अवमानेन तस्यापि यथा देवी जहौ तनुम्॥
यथा यज्ञः स च ध्वस्तो भवेन विदितं हि ते'॥ २२.४४ ॥
अधुना हिमशैलस्य भवित्री दुहिता च सा॥
महेश्वरं पतिं सा च पुनः प्राप्स्यति निश्चितम्॥ २२.४५ ॥
तदिदं च त्वया कार्यं मेनागर्भे प्रविश्य च॥
तस्याश्छविं कुरु कृष्णां यथा काली भवेत्तु सा॥ २२.४६ ॥
यदा रुद्रोपहसिता तपस्तप्स्यति सा महत्॥
समाप्तनियमा देवी यदा चोग्रा भविष्यति॥ २२.४७ ॥
स्वयमेव यदा रूपं सुगौरं प्रतिपत्स्यते॥
विरहेण हरश्चास्या मत्वा शून्यं जगत्त्रयम्॥ २२.४८ ॥
तस्यैव हिमशैलस्य कंदरे सिद्धसेविते॥
प्रतीक्षमाणस्तां देवीमुग्रं संतप्स्यते तपः॥ २२.४९ ॥
तयोः सुतप्ततपसोर्भविता यो महान्सुतः॥
भविष्यति स दैत्यस्य तारकस्य निवारकः॥ २२.५० ॥
तपसो हि विना नास्ति सिद्धिः कुत्रापि शोभने॥
सर्वासां कर्मसिद्धीनां मूलं हि तप उच्यते॥ २२.५१ ॥
त्वयापि दानवो देवि देहनिर्गतया तदा॥
चंडमुंडपुरोगाश्च हंतव्या लोकदुर्जयाः॥ २२.५२ ॥
यस्माच्चंडं च मुंडं च त्वं देवि निहनिष्यसि॥
चामुंडेति ततो लोके ख्याता देवि भविष्यसि॥ २२.५३ ॥
ततस्त्वां वरदे देवी लोकः संपूजयिष्यति॥
भेदेर्बहुविधाकारैः सर्वगां कामसाधनीम्॥ २२.५४ ॥
ॐकारवक्त्रां गायत्रीं त्वामर्चंति द्विजोत्तमाः॥
ऊर्जितां बलदां पापि राजानः सुमहाबलाः॥ २२.५५ ॥
वैश्याश्च भूतिमित्येव शिवां शूद्रास्तथा शुभे॥
क्षांतिर्मुनीनामक्षोभ्या दया नियमिनामपि॥ २२.५६ ॥
त्वं महोपाय सन्दोहा नीतिर्नयविसर्पिणाम्॥
परिस्थितिस्त्वमर्थानां त्वमहो प्राणिका मता॥ २२.५७ ॥
त्वं युक्तिः सर्वभूतानां त्वं गतिः सर्वदेहिनाम्॥
रतिस्त्वं रतिचित्तानां प्रीतिस्त्वं हृद्यदर्शिनाम्॥ २२.५८ ॥
त्वं कांतिः शुभरूपाणां त्वं शांति शुभकर्मिणाम्॥
त्वं भ्रांतिर्मूढचित्तानां त्वं फलं क्रतुयाजिनाम्॥ २२.५९ ॥
जलधीनां महावेला त्वं च लीला विलासिनाम्॥
संभूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकपालिनी॥ २२.६० ॥
त्वं कालरात्रिर्निःशेष भुवनावलिनाशिनी॥
प्रियकंठग्रहानन्ददायिनी त्वं विभावरी॥ २२.६१ ॥
प्रसीद प्रणतानस्मान्सौम्यदृष्ट्या विलोकय॥ २२.६२ ॥
इति स्तुवंतो ये देवि पूजयिष्यंति त्वां शुभे॥
ते सर्वकामानाप्स्यंति नियता नात्र संशयः॥ २२.६३ ॥
इत्युक्ता तु निशादेवी तथेत्युक्त्वा कृताञ्जलिः॥
जगाम त्वरिता पूर्वं गृहं हिमगिरेर्महत्॥ २२.६४ ॥
तत्राऽऽसीनां महाहर्म्ये रत्नभित्तिसमाश्रये॥
ददर्श मेनामापांडुच्छविवक्त्रसरोरुहाम्॥ २२.६५ ॥
किंचिच्छयाममुखोदग्रस्तनभागावनामिताम्॥
महौषधिगणबद्धमंत्रराजनिषेविताम्॥ २२.६६ ॥
ततः किंचित्प्रमिलिते मेनानेत्रांबुजद्वये॥
आविवेशमुखं रात्रिर्ब्रह्मणो वचनात्तदा॥ २२.६७ ॥
जन्मदाया जगन्मातुः क्रमेण जठरांतरम्॥
अरंजयच्छविं देव्या गुहमातुर्विभावरी॥ २२.६८ ॥
ततो जगन्मं गलदा मेना हिमगिरेः प्रिया॥
ब्राह्मे मुहूर्ते सुभगे प्रासूयत शुभाननाम्॥ २२.६९ ॥
तस्यां तु जायमानायां जंतवः स्थाणुजंगमाः॥
अभवन्सुखिनः सर्वे सर्वलोकनिवासिनः॥ २२.७० ॥
अभवत्क्रूरसत्त्वानां चेतः शांतं च देहिनाम्॥
ज्योतिषामपि तेजस्त्वमभवत्सुतरां तदा॥ २२.७१ ॥
वनाश्रिताश्चौषधयः स्वादवंति फलानि च॥
गंधवंति च माल्यानि विमलं च नभोऽभवत्॥ २२.७२ ॥
मारुतश्च सुखस्पर्शो दिशश्च सुमनोहराः॥
विस्मृता नि च शास्त्राणि प्रादुर्भावं प्रपेदिरे॥ २२.७३ ॥
प्रभावस्तीर्थमुख्यानां तदा पुण्यतमोऽभवत्॥
सत्ये धर्मे चाध्ययने यज्ञे दाने तपस्यपि॥ २२.७४ ॥
सर्वेषामभवच्छ्रद्धा जन्मकाले गुहारणेः॥
अंतरिक्षेमराश्चापि प्रहर्षोत्फुल्ललोचनाः॥ २२.७५ ॥
हरिब्रह्ममहेंद्रार्कवायुवह्निपुरोगमाः॥
पुष्पवृष्टिं प्रमुमुचुस्तस्मिन्मेनागृहे शुभे॥ २२.७६ ॥
मेरुप्रभृतयश्चापि मूर्तिमंतो महानगाः॥
तस्मिन्महोत्सवे प्राप्ता वीरकांस्योपशोभिताः॥ २२.७७ ॥
सागराः सरितश्चैव समाजग्मुश्च सर्वशः॥ २२.७८ ॥
हिमशैलोऽभवल्लोके तदा सर्वैश्चराचरैः॥
सेव्यश्चाप्यभिगम्यश्च पूजनीयश्च भारत॥ २२.७९ ॥
अनुभूयोत्सवं ते च जग्मुः स्वानालयांस्तदा॥ २२.८० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कुमारेश माहात्म्ये पार्वतीजन्मवर्णनंनाम द्वाविंशोऽध्यायः॥ २२ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 23
॥नारद उवाच॥
ततश्च शैलजा देवी चिक्रीड सुभगा तदा॥
देवगंधर्वकन्याभिर्नगकिंनरसंभवाः॥
मुनीनां चापि याः कन्यास्ताभिः सार्धं च शोभना॥ २३.१ ॥
कदाचिदथ मेरुस्थो वासवः पांडुनंदन॥
सस्मारा मां ययौ चाहं संस्मृतो वासवं तदा॥ २३.२ ॥
मां दृष्ट्वा च सहस्राक्षः समुत्थायातिहर्षितः॥
पूजयामास तां पूजां प्रतिगृह्याहमब्रुवम्॥ २३.३ ॥
महासुर महोन्मादकालानल दिवस्पते॥
कुशलं विद्यते कच्चिच्च नंदसि॥ २३.४ ॥
पृष्टस्त्वेवं मया शक्रः प्रोवाच वचनं स्मयन्॥
कुशलस्यांकुरस्तावत्संभूतो भुवनत्रये॥ २३.५ ॥
तत्फलोदयसंपत्तौ तद्भवान्संस्मृतो मुने॥
वेत्सि सर्वमतं त्वं वै तथापि परिनोदकः॥ २३.६ ॥
निर्वृतिं परमां याति निवेद्यार्थं सुहृज्जने॥ २३.७ ॥
तद्भवाञ्छैलजां देवीं शैलंद्रं शैलवल्लभाम्॥
हरं संभावय वरं यन्नान्यं रोचयंति ते॥ २३.८ ॥
ततस्तद्वाक्यमाकर्ण्य गतोऽहं शैलसत्तमम्॥
ओषधिप्रस्थनिलयं साक्षादिव दिवस्पतिम्॥ २३.९ ॥
तत्र हैमे स्वयं तेन महाभक्त्या निवेदिते॥
महासने पूजितोहमुपविष्टो महासुखम्॥ २३.१० ॥
गृहीतार्घ्यं ततो मां च पप्रच्छ श्लक्ष्णया गिरा॥
कुशलं तपसः शैलः शनैः फुल्लाननांबुजः॥ २३.११ ॥
अहमप्यस्य तत्प्रोच्य प्रत्यवोचं गिरीश्वरम्॥
त्वया शैलेंद्र पूर्वां वाप्यपरां च दिशं तथा॥ २३.१२ ॥
अवगाह्य स्थितवता क्रियते प्राणिपालना॥
अहो धन्योसि विप्रेंद्राः साहाय्येन तवाचल॥ २३.१३ ॥
तपोजपव्रतस्नानौः साध्यंत्यात्मनः परम्॥
यज्ञांगसाधनैः कांश्चित्कंदादिफलदानतः॥ २३.१४ ॥
त्वं समुद्धरसि विप्रान्किमतः प्रोच्यते तव॥
अन्येऽपि जीव बहुधात्वामुपाश्रित्य भूधर॥ २३.१५ ॥
मुदिताः प्रतिवर्तंते गृहस्थमिव प्राणिनः॥
शीतमातपवर्षांश्च क्लेशान्नानाविधान्सहन्॥ २३.१६ ॥
उपाकरोषि जंतूनामेवंरूपा हि साधवः॥
किमतः प्रोच्यते तुभ्यं धन्यस्त्वं पृथिवीधर॥ २३.१७ ॥
कंदरं यस्य चाध्यास्ते स्वयं तव महेश्वरः॥
इत्युक्तवति वाक्यं च यथार्थं मयिफाल्गुन॥ २३.१८ ॥
हिमशैलस्य महिषी मेना आगाद्दिदृक्षया॥
अनुयाता दुहित्रा च स्वल्पाश्च परिचारिकाः॥ २३.१९ ॥
लज्जयानतसर्वांगी प्रविवेश सदो महत्॥
ततो मां शैलमहिषी ववंदे प्रणिपत्य सा॥ २३.२० ॥
वस्त्रनिर्गूढवदना पाणिपद्मकृतांजलिः॥
तामहं सत्यरूपाभिराशीर्भिः समवर्धयम्॥ २३.२१ ॥
पतिव्रता शुभाचारा सुबगा वीरसूः शुभे॥
सदा वीरवती चापि भव वंशोन्नतिप्रद॥ २३.२२ ॥
ततोऽहं विस्मिताक्षीं च हिमवद्गिरिपुत्रिकाम्॥
मृदुवाण्या प्रत्यवोचमेहि बाले ममांतिकम्॥ २३.२३ ॥
ततो देवी जगन्माता बालबावं स्वकं मयि॥
दर्शयंती स्वपितरं कंठे गृह्यांकमावि शत्॥ २३.२४ ॥
उवाच वाचं तां मंदं मुनिं वंदय पुत्रिके॥
मुनेः प्रसादतोऽवश्यं पतिमाप्स्यसि संमतम्॥ २३.२५ ॥
इत्युक्ता सा ततो बाला वस्त्रांतपि हितानना॥
किंचित्सहुंकृतोत्कंपं प्रोच्य नोवाच किंचन॥ २३.२६ ॥
ततो विस्मितचित्तोहमुपचारविदांवरः॥
प्रत्यवोचं पुनर्देवीमेहि दास्यामि ते शुभे॥ २३.२७ ॥
रत्नक्रीडनकं रम्यं स्तापितं सुचिरं मया॥
इत्युक्ता सा तदोत्थाय पितुरंकात्सवेगतः॥ २३.२८ ॥
वंदमाना च मे पादौ मया नीतांक मात्मनः॥
मन्यता तां जगत्पूज्यामुक्तं बाले तवोचितम्॥ २३.२९ ॥
न तत्पश्यामि यत्तुभ्यं दद्म्याशीः का तवोचिता॥
इत्युक्ते मातृवात्सल्याच्छैलेन्द्र महिषी तदा॥ २३.३० ॥
नोदयामास मां मंदमानशीःशंकिता तदा॥
भगवन्वेत्सि सर्वं त्वमतीतानागतं प्रभो॥ २३.३१ ॥
तदहं ज्ञातुमिच्छामि कीदृशोऽस्याः पतिर्भवेत्॥
श्रुत्वेति सस्मितमुखः प्रावोचं नर्मवल्लभः॥ २३.३२ ॥
न जातोऽस्याः पतिर्भद्रे वर्तते च कुलक्षणः॥
नग्नोऽतिनिर्धनः क्रोधीवृतः क्रूरैश्च सर्वदा॥ २३.३३ ॥
श्रुत्वेति संभ्रमाविष्टो ध्वस्तवीर्यो हिमाचलः॥
मां तदा प्रत्युवाचेदं साश्रुकण्ठो महागिरिः॥ २३.३४ ॥
अहो विचित्रः सं सारो दुर्वेद्यो महतामपि॥
प्रवरस्त्वपि शक्त्या यो नरेषु न कृपायते॥ २३.३५ ॥
यत्नेन महता तावत्पुण्यैर्बहुविधैरपि॥
साधयत्यात्मनो लोको मानुष्य मतिदुर्लभम्॥ २३.३६ ॥
अध्रुवं तद्ध्रवत्वे च कथंचित्परिकल्प्यते॥
तत्रापि दुर्लभानाम समानव्रतचारिणी॥ २३.३७ ॥
साध्वी महाकुलोत्पन्ना भार्याया स्यात्पतिव्रता॥
तत्रापि दुर्लभं यच्च तया धर्मनिषेवणम्॥ २३.३८ ॥
सह वेदपुराणोक्तं जगत्त्रयहितावहम्॥
एतत्सुदुर्लभं यच्च तस्यां चैव प्रजायते॥ २३.३९ ॥
तदपत्यमपत्यार्थं संसारे किल नारद॥
एतेषां दुर्लभानां हि किंचित्प्राप्नोति पुण्यवान्॥ २३.४० ॥
सर्वमेतदवाप्नोति स कोपि यदिवा न वा॥
किंचित्केनापि हि न्यूनं संसारः कुरुते नरम्॥ २३.४१ ॥
अथ संसारिको दोषः स्वकृतं यत्र भुज्यते॥
गार्हस्थ्यं च प्रशंसंति वेदाः सर्वेऽपि नारद॥ २३.४२ ॥
नेति केचित्तत्र पुनः कथं ते यदि नो गृही॥
अतो धात्रा च शास्त्रेषु सुतलाभः प्रशंसितः॥ २३.४३ ॥
पुनश्चसृष्टिवृद्ध्यर्थं नरकत्राणनाय च॥
तत्र स्त्रीणां समुत्पत्तिं विना सृष्टिर्न जायते॥ २३.४४ ॥
सा च जातिप्रकृत्यैव कृपणा दैन्यभागिनी॥
तासामुपरि मावज्ञा भवेदिति च वेधसा॥
शास्त्रेषूक्तमसंदिग्धं वाक्यमेतन्महात्फलम्॥ २३.४५ ॥
दशपुत्रसमा कन्या दशपुत्रान्प्रवर्द्धयन्॥
यत्फलं लभते मर्त्यस्तल्लभ्यं कन्ययैकया॥ २३.४६ ॥
तस्मात्कन्या पितुः शोच्या सदा दुःखविवर्धिनी॥ २३.४७ ॥
यापि स्यात्पूर्णसर्वार्था पतिपुत्रधनान्विता॥
त्वयोक्तं च कृते ह्यस्यास्तद्वाक्यं मम शोकदम्॥ २३.४८ ॥
केन दोषेण मे पुत्री न योग्या आशिषामता॥
न जातोऽस्याः पतिः कस्माद्वर्तते वा कुलक्षणः॥ २३.४९ ॥
निर्धनश्च मुने कस्मात्सर्वेषां सर्वदः कुतः॥
इति दुर्घटवाक्यं ते मनो मोहयतीव मे॥ २३.५० ॥
इति तं पुत्रवात्सल्यात्सभार्यं शोकसंप्लुतम्॥
अहमाश्वासयं वाग्भिः सत्याभिः पांडुनंदन॥ २३.५१ ॥
मा शुचः शैलराज त्वं हर्षस्थानेऽतिपुण्यभाक्॥
श्रृणु तद्वचनं मह्यं यन्मयोक्तं च ह्यर्थवत्॥ २३.५२ ॥
जगन्माता त्वियं बाला पुत्री ते सर्वसिद्धिदा॥
पुरा भवेऽभवद्भार्या सतीनाम्ना भवस्य या॥ २३.५३ ॥
तदस्याः किमहं दद्मि रवेर्दीपमिवाल्पकः॥
संचिंत्येति महादेव्या नाशिषं दत्तवानहम्॥ २३.५४ ॥
न जातोऽभवद्भार्या पतिश्चेति वर्तते च भवो हि सः॥
न स जातो महादेवो भूतभव्यभवोद्भवः॥ २३.५५ ॥
शरण्यः शाश्वतः शास्ता शंकरः परमेश्वरः॥ २३.५६ ॥
सर्वे देवा यत्पदमामनंति वेदैश्च सर्वैरपि यो न लभ्यः॥
ब्रह्मादिविश्वं ननु यस्य शैल बालस्य वा क्रीडनकं वदंति॥ २३.५७ ॥
स चामंगल्यशीलोऽपि मंगलां यतनो हरः॥
निर्धनः सर्वदश्चासौ वेद स्वं स्वयमेव सः॥ २३.५८ ॥
स च देवोऽचलः स्थाणुर्महादेवोऽजरो हरः॥
भविष्यति पतिः सोऽस्यास्तत्किमर्थं तु शोचसि॥ २३.५९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेशमाहात्म्ये हिमवदाश्वासनंनाम त्रयोविंशोऽध्यायः॥ २३ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 24
॥नारद उवाच॥
एवं श्रुत्वा सभार्यः स प्रमोदप्लुतमानसः॥
प्रणम्य मामिति प्राह यद्येवं पुण्यवानहम्॥ २४.१ ॥
पुनः किंचित्प्रवक्ष्यामि पुत्र्या मे दक्षिणः करः॥
उत्तानः कारणं किं तच्छ्रोतुमिच्छामि नारद॥ २४.२ ॥
इति पृष्टोऽस्मि शैलेन प्रावोचं कारणं तदा॥
सर्वदैव करो ह्यस्याः सर्वेषां प्राणिनां प्रति॥ २४.३ ॥
अभयस्य प्रदाताऽसावुत्तानस्तु करस्ततः॥
एषा भार्या जगद्भर्तुर्वृषांकस्य महीधर॥ २४.४ ॥
जननी सर्वलोकस्य भाविनी भूतभाविनी॥
तद्यथा शीघ्रमेवैषा योगं यातु पिनाकिना॥ २४.५ ॥
त्वया विधेयं विधिवत्तथा शैलेन्द्रसत्तम॥
अस्त्यत्र सुमहतकार्यं देवानां हिमभूधर॥ २४.६ ॥
इति प्रोच्य तमापृच्छ्य प्रावोचं वासवाय तत्॥
मम भूयस्तु कर्तव्यं तन्मया कृतमेव हि॥ २४.७ ॥
किं तु पंचशरः प्रेर्यः कार्यशेषेऽत्र वासव॥
इत्यादिश्य गतश्चाहं तारकं प्रति फाल्गुन॥ २४.८ ॥
कलिप्रियत्वात्तस्यैनमर्थं कथयितुं स्फुटम्॥
हिमाद्रिरपि मे वाक्यप्रेरितः पार्वतीं प्रति॥ २४.९ ॥
भवस्याराधनां कर्तुं ससखीमादिशत्तदा॥
सा तं परिचचारेशं तस्या दृष्ट्वा सुशीलताम्॥ २४.१० ॥
पुष्पतोयफलाद्यानि नियुक्ता पार्वती व्यधात्॥
महेन्द्रोपि च मद्वाक्यात्स्मरं सस्मार भारत॥ २४.११ ॥
स च तत्स्मरणं ज्ञात्वा वसंतरतिसंयुतः॥
चूतांकुरास्त्रःऋ सहसा प्रादुरासीन्मनोभवः॥ २४.१२ ॥
तमाह च वचो धीमान्स्मरन्निव च तं स्पृशन्॥
उपदेशेन बहुना किं त्वां प्रति रतिप्रिय॥ २४.१३ ॥
चित्ते वससि तेन त्वं वेत्सि भूतमनोगतम्॥
तथापि त्वां वदिष्यामि स्वकार्यपरतां स्मरन्॥ २४.१४ ॥
ममैकं सुमहत्कार्यं कर्तुमर्हसि मन्मथ॥
महेश्वरं कृपानाथं सतीभार्यावियोजितम्॥ २४.१५ ॥
संयोजय पुनर्देव्या हिमाद्रिगृहजातया॥
देवी देवश्च तुष्टौ ते करिष्यत इहेप्सितम्॥ २४.१६ ॥
॥मदन उवाच॥
अलीकमेतद्देवेन्द्र स हि देवस्य पोरतिः॥
नान्यासादयितव्यानि तेजांसि मुनरब्रवीत्॥ २४.१७ ॥
वेदान्तेषु च मां विप्रा गर्हसंयति पुनःपुनः॥
महाशनो महापाप्मा कामोऽयम नलो गहान्॥ २४.१८ ॥
आवृतं ज्ञानमेतेन ज्ञानिनां नित्यवैरिणा॥
तस्मादयं सदा त्याज्यः कामऽहिरिव सत्तमैः॥ २४.१९ ॥
एवं शीलस्य मे कस्मात्प्रतुष्यति महेश्वरः॥
मद्यपस्येव पापस्य वासुदेवो जगद्गुरः॥ २४.२० ॥
॥इंद्र उवाच॥
मैवं ब्रूहि महाभाग त्वां विनाकः पुमान्भुवि॥
धर्ममर्थं तथा कामं मोक्षं वा प्राप्तुमीश्वरः॥ २४.२१ ॥
यत्किंचित्साध्यते लोके मूलं तस्य च कामना॥
कथं कामं विनिंदति तस्मात्ते मोक्षसाधकाः॥ २४.२२ ॥
सत्यं चापि श्रुतेर्वाक्यं तव रूपं त्रिधागतम्॥
तामसं राजसं चैव सात्त्विकं चापि मन्मथ॥ २४.२३ ॥
अमुक्तितः कामनया रूपं तत्तामसं तव॥
सुखबुद्ध्या स्पृहा या च रूपं तद्राजसं तव॥ २४.२४ ॥
केवलं यावदर्थार्थं तद्रूपं सात्त्विकं तव॥
तत्ते रूपत्रयमिदं ब्रूहि नोपासते हि के॥ २४.२५ ॥
त्वं साक्षात्परमः पूज्यः कुरु कार्यमिदं हि नः॥
अथ वा पीडितान्दृष्ट्वा सामान्यानपि पंडिताः॥
स्वप्राणैरपि त्रायांति परमेतन्महाफलम्॥ २४.२६ ॥
इति संचिंत्य कार्यं त्वं सर्वथा कुरु तत्स्फुटम्॥ २४.२७ ॥
इत्या कर्ण्य तथेत्युक्त्वा वसंतरतिसंयुतः॥
पिकादिसैन्यसंपन्नो हिमाद्रिं प्रययौ स्मरः॥ २४.२८ ॥
तत्रापश्यत शंभोः स पुण्यमाश्रममंडलम्॥
नानावृक्षसमाकीर्णं शांतसत्त्वसमाकुलम्॥ २४.२९ ॥
तत्रापश्यत्त्रिनेत्रस्य वीरकंनाम द्वारपम्॥
यथा साक्षान्महेशानं गणआंश्चायुतशोऽस्य च॥ २४.३० ॥
ददर्श च महेशानं नासाग्रकृतलोचनम्॥
देवदारुद्रुमच्छायावेदिका मध्यमाश्रितम्॥
समाकायं सुखासीनं समाधिस्थं महेश्वरम्॥ २४.३१ ॥
निस्तरंगं विनिर्गृह्य स्थितमिंद्रियगोचरान्॥
आत्मानमात्मना देवं प्रविष्टं तपसो निधिम्॥ २४.३२ ॥
तं तथाविधमालोक्य सोंतर्भेदाय यत्नवान्॥
भ्रमरध्वनिव्याजेन विवेश मदनो मनः॥ २४.३३ ॥
एतस्मिन्नंतरे देवो विकासितविलोचनः॥
सस्मार नगराजस्य तनयां रक्तमानसः॥ २४.३४ ॥
निवेदिता वीरकेण विवेश च गिरेः सुता॥
तस्मिन्काले महाभागा सदा यद्वदुपैति सा॥ २४.३५ ॥
ततस्तस्यां मनः स्वीयमनुरक्तमवेक्ष्य च॥
निगृह्य लीलया देवः स्वकं पृष्ठमवैक्षत॥
तावदापूर्णधनुषमपश्यत रतिप्रियम्॥ २४.३६ ॥
तन्नाशकृपया देवो नानास्थानेषु सोऽगमत्॥
तावत्पस्यति पृष्ठस्तमाकृष्य धनुषः शरम्॥ २४.३७ ॥
स नदीः पर्वताश्चैव आश्रमान्सरसीस्तथा॥
परिभ्रमन्महादेवः पृष्ठस्थं तमवैक्षत॥ २४.३८ ॥
जगत्त्रयं परिभ्रम्य पुनरागात्स्वमाश्रमम्॥
पृष्ठस्थमेव तं वीक्ष्य निःश्वासं मुमुचे हरः॥ २४.३९ ॥
ततस्तृतीयनेत्रोत्थवह्निना नाकवासिनाम्॥
क्रोशतां गमितः कामो भस्मत्वं पांडुनंदन॥ २४.४० ॥
सस तु तं भस्मसात्कृत्वा हरनेत्रोद्भवोऽनलः॥
व्यजृंभत जगद्दग्धुं ज्वालापूरितदिङ्मुखः॥ २४.४१ ॥
ततो भवो जगद्धेतोर्व्यभजज्जातवेदसम्॥
साहंकारे जने चंद्रे सुमनस्सु च गीतके॥ २४.४२ ॥
भृंगेषु कोकिलास्येषु विहारेषु स्मरानलम्॥
तत्प्राप्तौ स्नेहसंयुक्तं कामिनां हृदयं किल॥ २४.४३ ॥
ज्वालयत्यनिशं सोऽग्निर्दुश्चिकित्स्योऽसुखावहः॥
विलोक्य हरनिःश्वासज्वालाभस्मीकृतं स्मरम्॥ २४.४४ ॥
विललाप रतिर्द्दीना मधुना बंधुना सह॥
विलपंती सुबहुशो मधुना परिसांत्विता॥ २४.४५ ॥
रत्याः प्रलापमाकर्ण्य देवदेवो वृषध्वजः॥
कृपया परया प्राह कामपत्नीं निरीक्ष्य च॥ २४.४६ ॥
अमूर्तोऽपि ह्ययं भद्रे कार्यं सर्वं पतिस्तव॥
रतिकाले ध्रुवं बाले करिष्यति न संशयः॥ २४.४७ ॥
यदा विष्णुश्च भविता वसुदेवात्मजो विभुः॥
तदै तस्य सुतो यः स्यात्सपतिस्ते भविष्यति॥ २४.४८ ॥
सा प्रणम्य ततो रुद्रमिति प्रोक्ता रतिस्ततः॥
जगाम स्वेच्छया गत्या वसंतादिभिरन्विता॥ २४.४९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कामदहनोनाम चतुर्विशोऽध्यायः॥ २४ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 25
॥अर्जुन उवाच॥
देवर्षे वर्ण्यते चेयं कथा पीयूषसोदरा॥
पुनरेतन्मुने ब्रूहि यदा वेत्ति महेश्वरः॥ २५.१ ॥
भगवान्स्वां सतीं भार्यां वधार्थं चापि तारकम्॥
सत्याश्च विरहात्तप्यन्ददाह किमसौ स्मरम्॥ २५.२ ॥
त्वयैवोक्तं स विरहात्सत्यास्तप्यति वै तपः॥
हिमाद्रिमास्थितो देवस्तस्याः संगमवांछया॥ २५.३ ॥
॥नारद उवाच॥
सत्यमेतत्पुरा पार्थ भवस्येदं मनीषितम्॥
अतप्ततपसा योगो न कर्तव्यो मयाऽनया॥ २५.४ ॥
तपो विना शुद्धदेहो न कथंचन जायते॥
असुद्धदेहेन समं संयोगो नैव दैहिकः॥ २५.५ ॥
महत्कर्माणि यानीह तेषां मूलं सदा तपः॥
नातप्ततपसां सिद्धिर्महत्कर्माणि यांति वै॥ २५.६ ॥
एतस्मात्कारणाद्देवो दर्पितं तं ददाह तु॥
ततो दग्धे स्मरे चापि पार्वतीमपि व्रीतिताम्॥ २५.७ ॥
विहाय सगणो देवः कैलासं समपद्यत॥
देवी च परमोद्विग्ना प्रस्खलंती पदेपदे॥ २५.८ ॥
जीवितं स्वं विनिंदंती बभ्रामेतस्ततश्चसा॥
हिमाद्रिरपि स्वे श्रृंगे रुदतीं पृष्टवान्रतिम्॥ २५.९ ॥
कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि॥
पृष्टा सा च रतिः सर्वं यथावृत्तं न्यवेदयत्॥ २५.१० ॥
निवेदिते तथा रत्या शैलः संभ्रांतमानसः॥
प्राप्य स्वां तनयां पाणावादायागात्स्वकं पुरम्॥ २५.११ ॥
सा तत्र पितरौ प्राह सखीनां वदनेन च॥
दुर्भगेन शरीरेण किमनेन हि कारणम्॥ २५.१२ ॥
देहवासं परित्यक्ष्ये प्राप्स्ये वाभिमतं पतिम्॥
असाध्यं चाप्यभीष्टं च कथं प्राप्यं तपो विना॥ २५.१३ ॥
नियमैर्विविधैस्तस्माच्छोषयिष्ये कलेवरम्॥
अनुजानीत मां तत्र यदि वः करुणा मयि॥ २५.१४ ॥
श्रुत्वेति वचनं माता पिता च प्राह तां शुभाम्॥
उ मेति चपले पुत्रि न क्षमं तावकं वपुः॥ २५.१५ ॥
सोढुं क्लेशात्मरूपस्य तपसः सौम्यदर्शने॥
भावीन्यप्यनि वार्याणि वस्तूनि च सदैव तु॥ २५.१६ ॥
भाविनोर्था भवंत्येव नरस्यानिच्छतोपि हि॥
तस्मान्न तपसा तेऽस्ति बाले किंचित्प्रयोजनम्॥ २५.१७ ॥
॥श्रीदेव्युवाच॥
यदिदं भवतो वाक्यं न सम्यगिति मे मतिः॥
केवलं न हि दैवेन प्राप्तुमर्थो हि शक्यते॥ २५.१८ ॥
त्किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वभावतः॥
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम्॥ २५.१९ ॥
ब्रह्मणा चापि ब्रह्मत्वं प्राप्तं किलतपोबलात्॥
अन्यैरपि च यल्लब्धं तन्नसंख्यातुमुत्सहे॥ २५.२० ॥
अध्रुवेण शरीरेण यद्यभीष्टं न साध्यते॥
पश्चात्स शोच्यते मंदः पतितेऽस्मिञ्छरीरके॥ २५.२१ ॥
यस्य देहस्य धर्मोऽयं क्वचिज्जायेत्क्वचिन्म्रियेत्॥
क्वचिद्गर्भगतं नश्येज्जातमात्रं क्वचित्तथा॥ २५.२२ ॥
बाल्ये च यौवने चापि वार्धक्येपि विनश्यति॥
तेन चंचलदेहेन कोऽर्थः स्वार्थो न चेद्भवेत्॥ २५.२३ ॥
इत्युक्त्वा स्वसखीयुक्ता पितृभ्यां साश्रु वीक्षिता॥
श्रृंगं हिमवतः पुण्यं नानाश्चर्यं जगाम सा॥ २५.२४ ॥
तत्रां बराणि संत्यज्य भूषणानि च शैलजा॥
संवीता वल्कलैर्दिव्यैस्तपोऽतप्यत संयता॥ २५.२५ ॥
ईश्वरं हृदि संस्थाप्य प्रणवाभ्यसनादृता॥
मुनीनामप्य भून्मान्या तदानीं पार्थ पार्वती॥ २५.२६ ॥
त्रिस्नाता पाटलापत्रभक्षकाभूच्छतं समाः॥
शंत च बिल्वपत्रेण शीर्णोन कृतभोजना॥ २५.२७ ॥
जलभक्षा शतं चाभूच्छतं वै वायुभोजना॥
ततो नियममादाय पादांगुष्ठस्थिताभवत्॥ २५.२८ ॥
निराहारा ततस्तापं प्रापुस्तत्तपसो जनाः॥
ततो जगत्समालोक्य तदीयतपसोर्जितम्॥ २५.२९ ॥
हरस्तत्राययौ साक्षाद्ब्रह्मचारिवपुर्द्धरः॥
वसानो वल्कलं दिव्यं रौरवाजिनसंवृतः॥ २५.३० ॥
सुलक्षणाषाढधरः सद्वृत्तः प्रति भानवान्॥
ततस्तं पूजयामासुस्तत्सख्यो बहुमानतः॥ २५.३१ ॥
वक्तुमिच्छुः शैलपुत्रीं सखीभिरिति चोदितः॥
ब्रह्मन्नियं महाभागा गृहीतनियमा शुभा॥ २५.३२ ॥
मुहूर्तपंचमात्रेण नियमोऽस्याः समाप्यते॥
तत्प्रतीक्षस्व तं कालं पश्चादस्मत्सखीसमम्॥ २५.३३ ॥
नानाविदा धर्मवार्ताः प्रकरिष्यसि ब्राह्मण॥
इत्युक्त्वा विजयाद्यास्ता देवीचरितवर्णनैः॥ २५.३४ ॥
अश्रुमुख्यो द्विजस्याग्रे निन्युः कालं च तं तदा॥
ततः काले किंचिदूने ब्रह्मचारी महामतिः॥ २५.३५ ॥
विलोकनमिषेणागादाश्रमोपस्थितं ह्रदम्॥
निपपात च तत्रासौ चुक्रोशातितरां ततः॥ २५.३६ ॥
अहमत्र निमज्जामि कोऽपि मामुद्धरेत भोः॥
इति तारेण क्रोशंतं श्रुत्वा तं विजयादिकाः॥ २५.३७ ॥
आजग्मुस्त्वरया युक्ता ददुस्तस्मै करं च ताः॥
स चुक्रोश ततो गाढं दूरेदूरे पुनःपुनः॥ २५.३८ ॥
नाहं स्पृशाम्यसंसिद्धां म्रिये वा नानृतं त्विदम्॥
ततः समाप्तनियमा पार्वती स्वयमाययौ॥ २५.३९ ॥
सव्यं करं ददावस्य तं चासौ नाभ्यनन्दत॥
भद्रे यच्छुचि नैव स्याद्यच्चैवावज्ञया कृतम्॥ २५.४० ॥
सदोषेण कृतं यच्च तदादद्यान्न कर्हिचित्॥
सव्यं चाशुचि ते हस्तं नावलंबामि कर्हिचित्॥ २५.४१ ॥
इत्युक्ता पार्वती प्राह नाहं दत्तं च दक्षिणम्॥
ददामि कस्यचिद्विप्र देवदेवाय कल्पितम्॥ २५.४२ ॥
दक्षिणं मे करं देवो ग्रहीता भव एव च॥
शीर्यते चोग्रतपसा सत्यमेतन्मयोदितम्॥ २५.४३ ॥
॥विप्र उवाच॥
यद्येवमवलेपस्ते गमनं केन वार्यते॥
यथा तव प्रतिज्ञेयं ममापीयं तथाचला॥ २५.४४ ॥
रुद्रस्यापि वयं मान्याः कीदृशं ते तपो वद॥
विषमस्थं यत्र विप्रं म्रियमाणमुपेक्षसि॥ २५.४५ ॥
अवजा नासि विप्रांस्त्वं तच्छीघ्रं व्रज दर्शनात्॥
यदि वा मन्यसे पूज्यांस्ततोऽभ्युद्धर नान्यथा॥ २५.४६ ॥
ततो विचार्य बहुधा इति चेति च सा शुभा॥
विप्रस्योद्धरणं सर्वधर्मेभ्योऽमन्यताधिकम्॥ २५.४७ ॥
ततः सा दक्षिणं दत्त्वा करं तं प्रोज्जहार च॥
नरं नारी प्रोद्धरति सज्जन्तं भववारिधौ॥
एतत्सन्दर्शनार्थाय तथा चक्रे भवोद्भवः॥ २५.४८ ॥
प्रोद्धृत्य च ततः स्नात्वा बद्ध्व योगासनं स्थिता॥ २५.४९ ॥
ब्रह्मचारी ततः प्राह प्रहसन्किमिदं शुभे॥
कर्तुकामासि तन्वंगि दृढयोगासनस्थिता॥ २५.५० ॥
देवी प्राह ज्वालयिष्ये शरीरं योगवह्निना॥
महादेवकृतमतिरुच्छिष्टाहं यतोऽभवम्॥ २५.५१ ॥
ब्रह्मचारी ततः प्राह काश्चिद्ब्राह्मणकाम्यया॥
कृत्वा वार्तास्ततः स्वीयमभीष्टं कुरु पार्वति॥ २५.५२ ॥
नोपहन्यां कदाचिद्वि साधुभिर्विप्रकामना॥
धर्ममेनं मन्यसे चेन्मुहूर्तं ब्रूहि पार्वति॥ २५.५३ ॥
देवी प्राह ब्रूहि विप्र मुहूर्तं संस्थिता त्वहम्॥
ततः स्वयं व्रती प्राह देवीं तां स्वसखीयुताम्॥ २५.५४ ॥
किमर्थमिति रम्भोरु नवे वयसि दुश्चरम्॥
तपस्त्वया समारब्धं नानुरूपं विभाति मे॥ २५.५५ ॥
दुर्लभं प्राप्य मानुष्यं गिरिराजगृहेऽधुना॥
भोगांश्च दुर्लभान्देवि त्यक्त्वा किं क्लिश्यते वपुः॥ २५.५६ ॥
अतीव दूये वीक्ष्य त्वां सुकुमारतराकृतिम्॥
अत्युग्रतपसा क्लिष्टा पद्मिनीव हिमर्दिता॥ २५.५७ ॥
इदं चान्यत्त्व शुभे शिरसो रोगदं मम॥
यद्देहं त्यक्तुकामा त्वं प्रबुद्धा नासि बालिके॥ २५.५८ ॥
वामः कामो मनुष्येषु सत्यमेतद्वचो यतः॥
स्पृहणीयासि सर्वेषामेवं पीडयसे वपुः॥ २५.५९ ॥
अविज्ञातान्वयो नग्नः शूली भूतगणाधिपः॥
श्मशाननिलयो भस्मोद्धूलनो वृषवाहनः॥ २५.६० ॥
गजाजिनो द्विजिह्वाद्यलंकृतांगो जटाधरः॥
विरूपाक्षः कथंकारं निर्गुणः स्यात्तवोचितः॥ २५.६१ ॥
गुणा ये कुलशीलाद्य वराणामुदिता बुधैः॥
तेषामेकोऽपि नैवास्ति तस्मिंस्तन्नोचितः स ते॥ २५.६२ ॥
शोचनीयतमा पूर्वमासीत्पार्वति कौमुदी॥
त्वं संवृत्ता द्वितीयासि तस्यास्तत्संगमाशया॥ २५.६३ ॥
तपोधनाः सर्वसमा वयं यद्यपि पार्वति॥
दुनोत्येव तवारंभः शूलायां यूपसत्क्रिया॥ २५.६४ ॥
वृषभारोहणं वासः श्मशाने पाणिसंग्रहः॥
सव्यालपाणिना क्षौमगजत्वग्बंधनः कथम्॥ २५.६५ ॥
जनहास्यकरं सर्वं त्वयारब्धमसांप्रतम्॥
स्त्रीभावाद्भूतिसंपर्क्कः कथं चाभिमतस्तव॥ २५.६६ ॥
निवर्तय मनस्तस्मादस्मात्सर्वविरोधिनः॥
मृगाक्षि मदनारातेर्मर्कटाक्षस्य प्रार्थनात्॥ २५.६७ ॥
विरुद्धवादिनं चैवं ब्रह्मचारिणमीश्वरम्॥
निशम्य कुपिता देवी प्राह वाचा सगद्गदम्॥ २५.६८ ॥
मा मा ब्राह्मण भाषिष्ठा विरुद्धमिति शंकरे॥
महत्तमो याति पुमान्देवदेवस्य निंदया॥ २५.६९ ॥
न सम्यगभिजानासि तस्य देवस्य चेष्टितम्॥
श्रृणु ब्राह्मण त्वं पापाद्यथास्मात्परिमुच्यसे॥ २५.७० ॥
स आदिः सर्वजगतां कोस्य वेदान्वयं ततः॥
सर्वं जगद्यस्य रूपं दिग्वासाः कीर्त्यते ततः॥ २५.७१ ॥
गुणत्रयमयं शूलं शूली यस्माद्बिभार्ते सः॥
अबद्धाः सर्वतो मुक्ता भूता एव च तत्पतिः॥ २५.७२ ॥
श्मशानं चापि संसारस्तद्वासी कृपयार्थिनाम्॥
भूतयः कथिता भूतिस्तां बिभर्ति स भूतिभृत्॥ २५.७३ ॥
वृषो धर्म इति प्रोक्तस्तमारूढस्ततो वृषी॥
सर्पाश्च दोषाः क्रोधाद्यास्तान्बिभर्ति जगन्मयः॥ २५.७४ ॥
नानाविधाः कर्मयोगा जटारूपा बिभर्ति सः॥
वेदत्रयी त्रिनेत्राणि त्रिपुरं त्रिगुणं वपुः॥ २५.७५ ॥
भस्मीकरोति तद्देवस्त्रिपुरध्नस्ततः स्मृतः॥
एवंविध महादेवं विदुर्ये सूक्ष्मदर्शिनः॥ २५.७६ ॥
कथंकारं हि ते नाम भजंते नैव तं हरम्॥
अथ वा भीतसंसाराः सर्वे विप्र यतो जनाः॥ २५.७७ ॥
विमृश्य कुर्वते सर्वं विमृश्यैतन्मया कृतम्॥
शुभं वाप्यशुभं वास्तु त्वमप्येनं प्रपूजय॥ २५.७८ ॥
इति ब्रुवंत्यां तस्यां तु किंचित्प्रस्फुरिताधरम्॥
विज्ञाय तां सखीमाह किमप्येष विवक्षुकः॥ २५.७९ ॥
वार्यतामिति विप्रोऽयं महद्दूषणबाषकः॥
न केवलं पापभागी श्रोता वै स्यान्न संशयः॥ २५.८० ॥
अथ वा किं च नः कार्यं वादेन सह ब्राह्मणैः॥
कर्णौ पिधाय यास्यामो यथा यः स्यात्ततास्तु सः॥ २५.८१ ॥
इत्युक्त्वोत्थाय गच्छंत्यां पिधाय श्रवणावुभौ॥
स्वरूपं समुपाश्रित्य जगृहे वसनं हरः॥ २५.८२ ॥
ततो निरीक्ष्य तं देवं संभ्रांता परमेश्वरी॥
प्रणिपत्य महेशानं तुष्टावावनता उमा॥ २५.८३ ॥
प्राह तां च महादेवो दासोऽस्मि तव शोभने॥
तपोद्रव्येण क्रीतश्च समादिश यथेप्सितम्॥ २५.८४ ॥
॥देव्युवाच॥
मनसस्त्वं प्रभुः शंभो दत्तं तच्च मया तव॥
वपुषः पितरावीशौ तौ सम्मानयितुमर्हसि॥ २५.८५ ॥
॥महादेव उवाच॥
पित्रा हि ते परिज्ञातं दृष्ट्वा त्वां रूपशालिनीम्॥
बालां स्वयंवरं पुत्री महं दास्यामि नान्यथा॥ २५.८६ ॥
तत्तस्य सर्वमेवास्तु वचनं त्वं हिमाचलम्॥
स्वयंवरार्थं सुश्रोणि प्रेरय त्वां वृणे ततः॥ २५.८७ ॥
इत्युक्त्वा तां महादेवः शुचिः शुचिषदो विभुः॥
जगामेष्टं तदा देशं स्वपुरं प्रययौ च सा॥ २५.८८ ॥
दृष्ट्वा देवीं तदा हृष्टो मेनया सहितोऽचलः॥ २५.८९ ॥
आलिंग्याघ्राय पप्रच्छ सर्वं सा च न्यवेदयत्॥
दुहितुर्देवदेवेन आज्ञप्तं तु हिमाचलः॥ २५.९० ॥
स्वयंवरं प्रमुदितः सर्वलोकेष्वघोषयत्॥
अश्विनो द्वादशादित्या गन्धर्वरुडोरगाः॥ २५.९१ ॥
यक्षाः सिद्धास्तथा साध्या दैत्याः किंपुरुषा नगाः॥
समुद्राद्याश्च ये केचित्त्रैलोक्यप्रवरास्च ये॥ २५.९२ ॥
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च॥
त्रयस्त्रिंशच्च ये देवास्त्रयस्त्रिंशच्च कोटयः॥ २५.९३ ॥
जग्मुर्गिरीन्द्रपुत्र्यास्तु स्वयंवरमनुत्तमम्॥
आमंत्रितस्तथा विष्णुर्मेरुमाह हसन्निव॥ २५.९४ ॥
तातास्माकं च सा देवी मेरो गच्छ नमामि ताम्॥
अथ शैलसुता देवी हैममारुह्य शोभनम्॥ २५.९५ ॥
विमानं सर्वतोभद्रं सर्वरत्नैरलंकृतम्॥
अप्सरोभिः प्रनृत्यद्भिः सर्वाभरणभूषिता॥ २५.९६ ॥
गंधर्वसंघैर्विविधैः किंनरैश्च सुशोभनैः॥
बंदिभिः स्तूयमाना च वीरकांस्यधरा स्थिता॥ २५.९७ ॥
सितातपत्ररत्नांशुमिश्रितं चावहत्तदा॥
शालिनी नाम पार्वत्याः संध्यापूर्णेदुमंडला॥ २५.९८ ॥
चामरासक्तहस्ताभिर्दिव्यस्त्रीभिश्च संवृता॥
मालां प्रगृह्य सा तस्थौ सुरद्रुमसमुद्भवाम्॥ २५.९९ ॥
एवं तस्यां स्थितायां तु स्थिते लोकत्रये तदा॥
शिशुर्भूत्वा महादेवः क्रीडार्थं वृषभध्वजः॥ २५.१०० ॥
उत्संगतलसंगुप्तो बभूव भगवान्भवः॥
जयेति यत्पदं ख्यातं तस्य सत्यार्थमीश्वरम्॥ २५.१०१ ॥
अथ दृष्ट्वा शिशुं देवास्तस्य उत्संगवर्तिनः॥
कोयमत्रेति संमंत्र्य चुक्रुशुर्भृशरोषिताः॥ २५.१०२ ॥
वज्रमाहारयत्तस्य बाहुमुद्यम्य वृत्रहा॥
स बाहुरुद्यतस्तस्य तथैव समतिष्ठत॥ २५.१०३ ॥
स्तंभितः शिशुरूपेण देवदेवेन लीलया॥
वज्रं क्षेप्तुं न शक्नोति बाहुं चालयितुं तदा॥ २५.१०४ ॥
वह्निः शक्तिं तदा क्षेप्तुं न शशाक तथोत्थितः॥
यमोऽपि दंडं खड्गं च निर्ऋतिस्तं शिशुं प्रति॥ २५.१०५ ॥
पाशं च वरुणो राजा ध्वजयष्टिं समीरणः॥
सोमो गुडं धनेशश्च गदां सुमहतीं दृढाम्॥ २५.१०६ ॥
नानायुधानि चादित्या मुसलं वसवस्तथा॥
महाघोराणि शस्त्राणि तारकाद्याश्च दानवाः॥ २५.१०७ ॥
स्तंभिता देवदेवेन तथान्ये भुवनेषु ये॥
पूषा दंतान्दशन्दंर्बालमैक्षत मोहितः॥ २५.१०८ ॥
तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शंभुना॥
भगश्च नेत्रे विकृते चकार स्फुटिते च ते॥ २५.१०९ ॥
बलं तेजश्च योगांश्च सर्वेषां जगृहे प्रभुः॥
अथ तेषु स्थितेष्वेव मन्युमत्सु सुरेष्वपि॥ २५.११० ॥
ब्रह्मा ध्यानमुपाश्रित्य बुबोध हरचेष्टितम्॥
सोऽभिगम्य महादेवं तुष्टाव प्रयतो विधिः॥ २५.१११ ॥
पौराणैः सामसंगीतैर्वेदिकैर्गुह्यनामभिः॥
नमस्तुभ्यं महादेव महादेव्यै नमोनमः॥ २५.११२ ॥
प्रसादात्तव बुद्ध्यादिर्जगदेतत्प्रवर्तते॥
मूढाश्च देवताः सर्वा नैनं बुध्यत शंकरम्॥ २५.११३ ॥
महादेवमिहायातं सर्वदेवनमस्कृतम्॥
गच्छध्वं शरणं शीघ्रं यदि जीवितुमिच्छत॥ २५.११४ ॥
ततः संभ्रम संपन्नास्तुष्टुवुः प्रणताः सुराः॥
नमोनमो महादेव पाहिपाहि जगत्पते॥ २५.११५ ॥
दुराचारान्भवानस्मानात्मद्रोहपरायणान्॥
अहो पश्यत नो मौढ्यं जानंतस्तव भाविनीम्॥ २५.११६ ॥
भार्यामुमां महादेवीं तथाप्यत्र समागताः॥
युक्तमेतद्यदस्माकं राज्यं गृह्येत चासुरैः॥ २५.११७ ॥
येषामेवंविधाबुद्धिरस्माभिः किं कृतं त्विदम्॥
अथ वा नो न दोषोऽस्ति पशवो हि वयं यतः॥ २५.११८ ॥
त्वयैव पतिना सर्वे प्रेरिताः कुर्महे विभो॥
ईश्वरः सर्व भूतानां पतिस्त्वं परमेश्वरः॥ २५.११९ ॥
भ्रामयस्यखिलं विश्वं यन्त्रारूढं स्वमायया॥
येन विभ्रामिता मूढाः समायाताः स्वयंवरम्॥ २५.१२० ॥
तस्मै पशुनां पतये नमस्तुभ्यं प्रसीद नः॥
अथ तेषां प्रसन्नऽभूद्देवदेवास्त्रियंबकः॥ २५.१२१ ॥
यथापूर्वं चकारैतान्संस्तवाद्ब्रह्मणः प्रभुः॥
तारकप्रमुखा दैत्याः संक्रुद्धास्तत्र प्रोचिरे॥ २५.१२२ ॥
कोयमंग महादेवो न मन्यामो वयं च तम्॥
ततः प्रहस्य बालोऽसौ हुंकारं लीलया व्यधात्॥ २५.१२३ ॥
हुंकारेणैव ते दैत्याः स्वमेव नगरं गताः॥
विस्मृतं सकलं तेषां स्वयंवरमुखं च तत्॥ २५.१२४ ॥
महादेवप्रभावेन दैत्यानां घोरकर्मणाम्॥
एवं यस्य प्रभावो हि देवदैत्येषु फाल्गुन॥ २५.१२५ ॥
कथमीश्वरवाक्यार्थस्तस्मादन्यत्र मुच्यते॥
असंशयं विमुढास्ते पश्चात्तापः पुरा महान्॥ २५.१२६ ॥
ईश्वरं भुवनस्यास्य ये भजंते न त्र्यंबकम्॥
ततः संस्तूयमानः स सुरैः पद्मभुवादिभिः॥ २५.१२७ ॥
वपुश्चकार देवेशस्त्र्यंबकः परमाद्भुतम्॥
तेजसा तस्य देवास्ते सेंद्रचंद्रदिवाकराः॥ २५.१२८ ॥
सब्रह्मकाः ससाध्याश्च वसुर्विश्वे च देवताः॥
सयमाश्च सरुद्राश्च चक्षुरप्रार्थयन्प्रभुम्॥ २५.१२९ ॥
तेभ्यः परतमं चक्षुः स्ववपुर्द्रष्टुमुत्तमम्॥
ददावम्बापतिः शर्वो भवान्याश्चालस्य च॥ २५.१३० ॥
लब्ध्वा रुद्रप्रसादेन दिव्यं चक्षुरनुत्तमम्॥
सब्रह्यकास्तदा देवास्तमपश्यन्महेश्वरम्॥ २५.१३१ ॥
ततो जगुश्च मुनयः पुष्पवृष्टिं च खेचराः॥
मुमुचुश्च तदा नेदुर्देवदुंदुभयो भृशम्॥ २५.१३२ ॥
जगुगधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः॥
मुमुदुर्गणपाः सर्वे मुमोदांबा च पार्वती॥ २५.१३३ ॥
ब्रह्माद्या मेनिरे पूर्णां भवानीं च गिरीश्वरम्॥
तस्य देवी ततो हृष्टा समक्षं त्रिदिवौकसाम्॥ २५.१३४ ॥
पादयोः स्थापयामास मालां दिव्यां सुगंधिनीम्॥
सादुसाध्विति संप्रोच्य तया तं तत्र चर्चितम्॥ २५.१३५ ॥
सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः॥
सर्वे सब्रह्मका देवा जयेति च मुदा जगुः॥ २५.१३६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये श्रीमहादेववैवाहिकोत्सावर्णनंनाम पञ्चविंशोऽध्यायः॥ २५ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 26
॥नारद उवाच॥
अथ ब्रह्मा महादेवमभिवाद्य कृतांजलिः॥
उद्वाहः क्रियतां देव इत्युवाच महेश्वरम्॥ २६.१ ॥
तस्य तद्वचनं श्रुत्वा प्राहेदं भगवान्हरः॥
पराधीना वयं ब्रह्मन्हिमाद्रेस्तव चापि यत्॥ २६.२ ॥
यद्युक्तं क्रियतां तद्धि वयं युष्मद्वशेऽधुना॥
ततो ब्रह्मा स्वयं दिव्यं पुरं रत्नमयं शुभम्॥ २६.३ ॥
उद्वाहार्थं महेशस्य तत्क्षणात्समकल्पयत्॥
शतयोजनविस्तीर्णं प्रासादशतशोभितम्॥ २६.४ ॥
पुरेतस्मिन्महादेवः स्वयमेव व्यतिष्ठत॥
ततः सप्तमुनीन्देवश्चिंतिताब्यागतान्पुरः॥ २६.५ ॥
प्राहिणोदंबिकायाश्च स्थिरपत्रार्थमीश्वरः॥
सारुंधतीकास्ते तत्र ह्लादयंतो हिमाचलम्॥ २६.६ ॥
सभार्यामीश्वरगुणैः स्थिरपत्राणि चादधुः॥
ततः संपूजितास्तेन पुनरागम्य तेऽचलात्॥ २६.७ ॥
न्यवेदयंस्र्यंबकाय स च तानभ्यनंदत॥
उद्वाहार्थं ततो देवो विश्वं सर्वं न्यमंत्रयत्॥ २६.८ ॥
समागतं च तत्सव विना दैत्यैर्दुरात्मभिः॥
स्थावरं जंगमं यच्च विश्वं विष्णुपुरोगमम्॥ २६.९ ॥
सब्रह्यकं पुरारातेर्महिमानमवर्धयत्॥
ततस्तं विधिराहेदं गन्धमादनपर्वते॥ २६.१० ॥
पुरे स्थितं विवाहस्य देव कालः प्रवर्तते॥
ततस्तस्य जटाजूटे चंद्रखंडं पितामहः॥ २६.११ ॥
बबंध प्रणयोदारविस्फारितविलोचनः॥
कपर्द्दं शोभनं विष्णुः स्वय चक्रेऽस्य हर्षतः॥ २६.१२ ॥
कपालमालां विपुलां चामुण्डा मूर्ध्न्यबंधत॥
उवाच चापि गिरिशं पुत्रं जनय शंकर॥ २६.१३ ॥
यो दैत्येंद्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति॥
सूर्यो ज्वलच्छिखारक्तं भाबासितजगत्त्रयम्॥ २६.१४ ॥
बबंध देवदेवस्यच स्वयमेव प्रमोदतः॥
शेषवासुकिमुख्याश्च ज्वलंतस्तेजसा शुभाः॥ २६.१५ ॥
आत्मानं भूषणस्थाने स्वयं ते चक्रुरीश्वरे ॥
वायवश्च ततस्तीक्ष्णश्रृंगं हिमगिरिप्रभम्॥ २६.१६ ॥
वृषं विभूषयामासुर्नानारत्नोपपत्तिभिः॥
शक्रो गजजिनं गृह्य स्वयमग्रे व्यवस्थितः॥ २६.१७ ॥
विना भस्म समाधाय कपाले रजतप्रभम्॥
मनुजास्थिमयीं मालां प्रेतनाथश्च वन्दनम्॥ २६.१८ ॥
वह्निस्तेजोमयं दिव्यमजिनं प्रददौ स्थितः॥
एवं विभूषितः सर्वैर्भृत्यैरीशो बभौ भृशम्॥ २६.१९ ॥
ततो हिमाद्रेः पुरुषा वीरकं प्रोचिरे वचः॥
मा भूत्कालात्ययः शीघ्रं भवस्यैतन्निवेद्यताम्॥ २६.२० ॥
ततो देवं प्रणम्याह वीरकः करसंपुटी॥
त्वरयंति महेशानं हिमाद्रेः पुरुषास्त्वमी॥ २६.२१ ॥
इति श्रुत्वा वचो देवः शीघ्रमित्येव चाब्रवीत्॥
सप्त वारिधयस्तस्य चक्रुर्दर्पणदर्शनम्॥ २६.२२ ॥
तत्रैक्षत महादेवः स्वरूपं स जगन्मयम्॥
ततो बद्धांजलिर्धीमान्स्थाणुं प्रोवाच केशवः॥ २६.२३ ॥
देवदेव महादेव त्रिपुरांतक शंकर॥
शोभसेऽनेन रूपेण जगदानंददायिना॥ २६.२४ ॥
महेश्वर यथा साक्षादपरस्त्वं महेश्वरः॥
ततः स्मयन्महादेवो जयेति भुवने श्रुतः॥ २६.२५ ॥
करमालंब्य विष्णोश्च वृषभं रुरुहेशनैः॥
ततश्च वसवो देवाः शूलं तस्य न्यवेदयन्॥ २६.२६ ॥
धनदो निदिभिर्युक्तः समीपस्थस्ततोऽभवत्॥
स शूलपाणिर्विश्वात्मा संचचाल ततो हरः॥ २६.२७ ॥
देवदुंदुभिनादैश्च पुष्पासारैश्च गीतकैः॥
नृत्यद्भिरप्सरोभिश्च जयेति च महास्वनैः॥ २६.२८ ॥
सव्यदक्षिणसंस्थानौ ब्रह्मविष्णूतु जग्मतुः॥
हंसं च गरुडं चैव समारुह्य महाप्रभौ॥ २६.२९ ॥
अथादितिर्दितिः सा च दनुः कद्रूः सुपर्णजा॥
पौलोमी सुरसा चैव सिंहिका सुरभिर्मुनिः॥ २६.३० ॥
सिद्धिर्माया क्षमा दुर्गा देवी स्वाहा स्वधा सुधा॥
सावित्री चैव गायत्री लक्ष्मीः सा दक्षिणा द्युतिः॥ २६.३१ ॥
स्पृहामतिर्धृतिर्बुद्धिर्मंथिर्ऋद्धिः सरस्वती॥
राका कुहूः सिनीवाली देवी भानुमती तथा॥ २६.३२ ॥
धरणी धारणी वेला राज्ञी चापि च रोहिणी॥
इत्येताश्चान्यदेवानां मातरः पत्नयस्तथा॥ २६.३३ ॥
उद्वाहं देवदेवस्य जग्मुः सर्वा मुदान्विताः॥
उरगा गरुडा यक्षा गंधर्वाः किंनरा नराः॥ २६.३४ ॥
सागरा गिरयो मेघा मासाः संवत्सरास्तथा॥
वेदा मंत्रास्तथा यज्ञाः श्रौता धर्माश्च सर्वशः॥ २६.३५ ॥
हुंकाराः प्रणवाश्चैव इतिहासाः सहस्रशः॥
कोटिशश्च तथा देवा महेंद्राद्याः सवाहनाः॥ २६.३६ ॥
अनुजग्मुर्महादेवं कोटिशोऽर्बुदशश्च हि॥
गणाश्च पृष्ठतो जग्मुः शंखवर्णाश्च कोटिशः॥ २६.३७ ॥
दशभिः केकराख्याश्च विद्युतोऽष्टाभिरेव च॥
चतुःषष्ट्या विशाखाश्च नवभिः पारियात्रिकाः॥ २६.३८ ॥
षड्भिः सर्वांतकः श्रीमांस्तथैव विकृताननः॥
ज्वालाकेशो द्वादशभिः कोटिभिः संवृतो ययौ॥ २६.३९ ॥
सप्तभिः समदः श्रीमान्दुंदुभोष्ठाभिरेव च॥
पंचभिश्च कपालीशः षड्भिः संह्रादकः शुभः॥ २६.४० ॥
कोटिकोटिभिरेवैकः कुंडकः कुंभकस्तथा॥
विष्टंभोऽष्टाभिरेवेह गणपः सर्वसत्तमः॥ २६.४१ ॥
पिप्पलश्च सहस्रेण सन्नादश्च तथा बली॥
आवेशनस्तथाष्टाभिः सप्तभिश्चंद्रतापनः॥ २६.४२ ॥
महाकेशः सहस्रेण नंदिर्द्वादशभिस्तथा॥
नगः कालः करालश्च महाकालः शतेन च॥ २६.४३ ॥
अग्निकः शतकोट्या वै कोट्याग्निमुख एव च॥
आदित्यमूर्धा कोट्या च कोट्या चैव धनावहः॥ २६.४४ ॥
सन्नागश्च शतेनैव कुमुदः कोटिभिस्त्रिभिः॥
अमोघः कोकिलश्चैव कोटिकोट्या सुमंत्रकः॥ २६.४५ ॥
काकपादस्तता षष्ट्या षष्ट्या संतानको गणः॥
महाबलश्च नवभिर्मधुपिंगश्च पिंगलः॥ २६.४६ ॥
नीलो नवत्या सप्तत्या चतुर्वक्त्रश्च पूर्वपात्॥
वीरभद्रश्चश्चतुःषष्ट्या करणो बालकस्तथा॥ २६.४७ ॥
पंचाक्षः शतमन्युश्च मेघमन्युश्च विंशतिः॥
काष्ठकोटिश्चतुःषष्ट्या सुकोशो वृषभस्तथा॥ २६.४८ ॥
विश्वरूपस्तालकेतुः पंचाशच्च सिताननः॥
ईशानो वृद्धदेवश्च दीप्तात्मा मृत्युहा तथा॥ २६.४९ ॥
विषादो यमहा चैव गणो भृंगरिटिस्तथा॥
अशनी हासकश्चैव चतुःषष्ट्या सहस्रपात्॥ २६.५० ॥
एते चान्ये च गणपा असंख्याता महाबलाः॥
सर्वे सहस्रहस्ताश्च जटामुकुटधारीणः॥ २६.५१ ॥
चंद्रलेखावतंसाश्च नीलकंठास्त्रिलोचनाः॥
हारकुंडलकेयूरमुकुटाद्यैरलंकृताः॥ २६.५२ ॥
अणिमादिगुणैर्युक्ताः शक्ताः शापप्रसादयोः॥
सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः॥ २६.५३ ॥
पातालांबरभूमिस्थाः सर्वलोकनिवासिनः॥
तुंबुरुर्नारदो हाहा हूहूश्चैव तु सामगाः॥ २६.५४ ॥
तंत्रीमादाय वाद्यांश्चाऽवादयञ्छंकरोत्सवे॥
ऋषयः कृत्स्नशश्चैव वेदगीतांस्तपोधनाः॥ २६.५५ ॥
पुण्यान्वैवाहिकान्मंत्राञ्जेषुः संहृष्टमानसाः॥
एवं प्रतस्थेगिरिशो वीज्यमानश्च गंगया॥ २६.५६ ॥
तथा यमुनया चापांपतिना धृतच्छत्रया॥
स्त्रीभिर्नानाविधालापैलाजाभिश्चानुमोदितः॥ २६.५७ ॥
महोत्सवेन देवेशो गिरिस्थानं विवेश सः॥
प्रभासत्स्वर्णकलशं तोरणानां शतैर्युतम्॥ २६.५८ ॥
वैडूर्यबद्धभूमिस्थं रत्नजैश्च गृहैर्युतम्॥
तत्प्रविश्य स्तूयमानो द्वारमभ्याससाद ह॥ २६.५९ ॥
ततो हिमाचलस्तत्र दृश्यते व्याकुलाकुलः॥
आदिशदात्मभृत्यानां महादेव उपस्थिते॥ २६.६० ॥
ततो ब्रह्माणमचलो गुरुत्वे प्रार्थयत्तदा॥
कृत्यानां सर्वभारेषु वासुदेवं च बुद्धिमान्॥ २६.६१ ॥
प्रत्याह च विवाहऽस्मिन्कुमारीभ्रातरं विना॥
भविष्यति कथं विष्णो लाजहोमादिकर्मसु॥ २६.६२ ॥
सुतो हि मम मैनाकः स प्रविष्टोऽर्णवे स्थितः॥
इति चिंताविषण्णं तं विष्णुराहमहामतिः॥ २६.६३ ॥
अत्र चिंता न कर्तव्या गिरिराज कथंचन॥
अहं भ्राता जगन्मातुरेतदे वं च नान्यथा॥ २६.६४ ॥
ततः प्रमुदितः शैलः पार्वतीं च स्वलंकृताम्॥
सखीभिः कोटिसंख्याभिर्वृतां प्रवेशयत्सदः॥ २६.६५ ॥
ततो नीलमयस्तंभं ज्वलत्कांचनकुट्टिमम्॥
मुक्ताजालपरिष्कारं ज्वलितौ षधिदीपितम्॥ २६.६६ ॥
रत्नासनसहस्राढ्यं शतयोजनविस्तृतम्॥
विवाहमंडपं शर्वो विवेशानुचरावृतः॥ २६.६७ ॥
ततः शैलः सपत्नीकः पादौ प्रक्षाल्य हर्षितः॥
भवस्य तेन तोयेन सिषिचे स्वं जगत्तथा॥ २६.६८ ॥
पाद्यमाचमनं दत्त्वा मधुपर्कं च गां तथा॥
प्रदानस्य प्रयोगं च संचिंतयंति ब्राह्मणाः॥ २६.६९ ॥
दौहित्रीं कव्यवाहानां दद्मि पुत्रीं स्वकामहम्॥
इत्युक्त्वा तस्थिवाञ्छैलो न जानाति हरस्य सः॥ २६.७० ॥
ततः सर्वानपृच्छत्स कुलं कोऽपि न वेद तत्॥
ततो विष्णुरिदं प्राह पृछ्यंतेऽन्ये किमर्थतः॥ २६.७१ ॥
अज्ञातकुलतां तस्य पृछ्यतामयमेव च॥
अहिरेव अहेः पादान्वेत्ति नान्यो हिमाचल॥ २६.७२ ॥
स्वगोत्रं यदि न ब्रूते न देया भगिनी मम॥
ततो हासस्तदा जज्ञे सर्वेषां सुमहास्वनः॥ २६.७३ ॥
निवृत्तश्च क्षणाद्भूयः किं वक्ष्यति हरस्त्विति॥
ततो विमृश्य बहुधा किंचिद्भीताननो यता॥ २६.७४ ॥
लज्जाजडः स्मितं चक्रे ततः पार्थ स वै हरः॥
ततो विशिष्टा ब्रुवति शीघ्रं कालोऽतिवर्तते॥ २६.७५ ॥
हरिः प्राह महेशानं बिभ्यदावेद्मयहं तव॥
मातामहं च पितरं प्रयोगं श्रृणु भूधर॥ २६.७६ ॥
आत्मपुत्राय ते शंभो आत्मदौहित्रकाय ते॥
इत्युक्ते विष्णुना सर्वे साधुसाध्विति ते जगुः॥ २६.७७ ॥
देवोऽप्युदाहरेद्वुद्धिं सर्वेभ्योऽप्यधिकां वराम्॥
ततः शैलस्तथा चोक्त्वा दत्त्वा देवीं च सोदकम्॥ २६.७८ ॥
आत्मानं चापि देवाय प्रददौ सोदकं नगः॥
ततः सर्वे तुष्टुवुस्तं विवाहं विस्मयान्विताः॥ २६.७९ ॥
दाता महीभृतां नाथो होता देवश्चतुर्मुखः॥
वरः पशुपतिः साक्षात्कन्या विश्वरणिस्तथा॥ २६.८० ॥
ततः स्तुवत्सु मुनिषु पुष्पवर्षे महत्यपि॥
नदत्सु देवतूर्येषु करं जग्राह त्र्यम्बकः॥ २६.८१ ॥
देवो देवीं समालोक्य सलज्जां हिमशैलजाम्॥
न तृप्यति न चाह्लादत्सा च देवां वृषध्वजम्॥ २६.८२ ॥
तत्र ब्रह्मादिमुनयो देवीमद्भुतरूपिणीम्॥
पश्यंतः शरणं जग्मुर्मनसा परमेश्वरम्॥ २६.८३ ॥
मा मुह्याम पार्वतीं च यथा नारदपर्वतौ॥
ततस्तथैव तच्चक्रे सर्वेषामीप्सितं वचः॥ २६.८४ ॥
ततो देवैश्च मुनिभिः संस्तुतः परमेश्वरः॥
प्रविवेश शुभां वेदीं मूर्तिमज्ज्वलनाश्रिताम्॥ २६.८५ ॥
वेधाः श्रुतीरितैर्मं त्रैर्मूर्तिमद्भिरुपस्थितैः॥
मूर्तमग्निं जुहाव त्रिः परिक्रम्य च तं हरः॥ २६.८६ ॥
लाजाहोम उमाभ्राता प्राह तं सस्मितं हरिः॥
बहवो मिलिताः संति लोकाः संमर्द ईश्वर॥ २६.८७ ॥
सावधानेन रक्ष्याणि भूषणानि त्वया हर॥
ततो हरश्च तं प्राह स्वजने माऽतिगोपय॥ २६.८८ ॥
किंचित्प्रार्थय दास्यामि प्राह विष्णुस्ततो वरम्॥
त्वयि भक्तिर्दृढा मेऽस्तु स च तद्दुर्लभं ददौ॥ २६.८९ ॥
ददतुः सृष्टिसंरक्षां ब्रह्मणे दक्षिणामुभौ॥
अग्नये यज्ञभागांश्च प्रीतौ हरजनार्दनौ॥ २६.९० ॥
भृग्वादीनां ततो दत्त्वा श्रुतिरक्षणदक्षिणाम्॥
ततो गीतैश्च नृत्यैश्च भोजनैश्च यथेप्सितैः॥ २६.९१ ॥
महोत्सवैरनेकैश्च विस्मयं समपद्यत॥
विसृज्य लोकं तं सर्वं किमिच्छादानकैर्भवः॥ २६.९२ ॥
सरस्वत्या च पितरौ देव्याश्चाऽऽश्वास्य दुःखितौ॥
आमंत्र्य हिमशैलेंद्रं ब्रह्मणं च सकेशवम्॥ २६.९३ ॥
जगाम मंदरगिरिं गिरिणा यानुगोर्चितः॥ २६.९४ ॥
ततो गते भगवति नीललोहिते सहोमया गिरिममलं हि भूधरः॥
सबांधवो रुदिति हि कस्य नो मनो विसंष्ठँलं जगति हि कन्यकापितुः॥ २६.९५ ॥
इमं विवाहं गिरिराजपुत्र्याः श्रृणोति चाध्येति च यो नरः शुचिः॥
विशेषतश्चापि विवाहमंगले स मंगलं वृद्धिमवाप्नुते चिरम्॥ २६.९६ ॥
इति श्रीस्कांदे महापुराम एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारेशमाहात्म्ये हरगौरीविवाहवर्णनंनाम षडिंशोऽध्यायः॥ २६ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 27
॥नारद उवाच॥
ततो निरुपमं दिव्यं सर्वरत्नमयं शुभम्॥
ईशाननिर्मितं साक्षात्सह देव्याविशद्गृहम्॥ २७.१ ॥
तत्रासौ मंदरगिरौ सह देव्या भगाक्षहा॥
प्रासादे तत्र चोद्याने रेमे संहृष्टमानसः॥ २७.२ ॥
एतस्मिन्नंतरे देवास्तारकेणातिपीडिताः॥
प्रोत्साहितेन चात्यर्थं मया कलिचिकीर्षुणा॥ २७.३ ॥
आसाद्य ते भवं देवं तुष्टुबुर्बहुधा स्तवैः॥
एतस्मिन्नंतरे देवी प्रोद्वर्तयत गात्रकम्॥ २७.४ ॥
उद्वर्तनमलेनाथ नरं चक्रे गजाननम्॥
देवानां संस्तवैः पुण्यैः कृपयाभिपरिप्लुता॥ २७.५ ॥
पुत्रेत्युवाच तं देवी ततः संहृष्टमानसा॥
एतस्मिन्नंतरे शर्वस्तत्रागत्य वचोऽब्रवीत्॥ २७.६ ॥
पुत्रस्तवायं गिरिजे श्रृणु यादृग्भविष्यति॥
विक्रमेण च वीर्येण कृपया सदृशो मया॥ २७.७ ॥
यथाहं तादृशश्चासौ पुत्रस्ते भविता गुणैः॥
ये च पापा दुराचारा वेदान्धर्मं द्विषंति च॥ २७.८ ॥
तेषामामरणांतानि विघ्नान्येष करिष्यति॥
ये च मां नैव मन्यंते विष्णुं वापि जगद्गुरुम्॥ २७.९ ॥
विघ्निता विघ्नराजेन ते यास्यंति महत्तमः॥
तेषां गृहेषु कलहः सदा नैवोपसाम्यति॥ २७.१० ॥
पुत्रस्य तव विघ्नेन समूलं तस्य नश्यति॥
येषां न पूज्याः पूज्यंते क्रोधासत्यपराश्च ये॥ २७.११ ॥
रौद्रसाहसिका ये च तेषां विघ्नं करिष्यति॥
श्रुतिधर्माञ्ज्ञातिधर्मान्पालयंति गुरूंश्च ये॥ २७.१२ ॥
कृपालवो गतक्रोधास्तेषां विघ्नं हरिष्यति॥
सर्वे धर्माश्च कर्माणि तथा नानाविधानि च॥ २७.१३ ॥
सविघ्नानि भिवष्यंति पूजयास्य विना शुभे॥
एवं श्रुत्वा उमा प्राह एवमस्त्विति शंकरम्॥ २७.१४ ॥
ततो बृहत्तनुः सोऽभूत्तेजसा द्योतयन्दिशः॥
ततो गणैः समं शर्वः सुराणां प्रददौ च तम्॥
यावत्तार कहंता वो भवेत्तावदयं प्रभुः॥ २७.१५ ॥
ततो विघ्नपतिर्देवैः संस्तुतः प्रमतार्तिहा॥
चकार तेषां कृत्यानि विघ्नानि दितिजन्मनाम्॥ २७.१६ ॥
पार्वती च पुनर्देवी पुत्रत्वे परिकल्प्य च॥
अशोकस्यांकुरं वार्भिरवर्द्धयत स्वादृतैः॥ २७.१७ ॥
सप्तर्षीनथ चाहूय संस्कारमंगलं तरोः॥
कारयामास तन्वंगी ततस्तां मुनयोऽब्रुवन्॥ २७.१८ ॥
त्वयैव दर्शिते मार्गे मर्यादां कर्तुमर्हसि॥
किं फलं भविता देवि कल्पितैस्तरुपुत्रकैः॥ २७.१९ ॥
॥देव्युवाच॥
यो वै निरुदके ग्रामे कूपं कारयते बुधः॥
यावत्तोयं भवेत्कूपे तावत्स्वर्गे स मोदते॥ २७.२० ॥
दशकूपसमावापी दशवापी समं सरः॥
दशसरःसमा कन्या दशकन्यासमः क्रतुः॥ २७.२१ ॥
दशक्रतुसमः पुत्रो दशपुत्रसमो द्रुमः॥ २७.२२ ॥
एषैव मम मर्यादा नियता लोकभाविनी॥
जीर्णोद्धारे कृते वापि फलं तद्द्विगुणं मतम्॥ २७.२३ ॥
॥इति गणेशोत्पत्तिः॥
ततः कदाचिद्भगवानुमया सह मंदरे॥
मंदिरे हर्षजनने कलधौतमये शुभे॥ २७.२४ ॥
प्रकीर्णकुसुमामोदमहालिकुलकूजिते॥
किंनरोद्गीतसंगीत प्रतिशब्दितमध्यके॥ २७.२५ ॥
क्रीडामयूरैर्हसैश्च श्रुतैश्चैवाभिनादिते॥
मौक्तिकैर्विविध रत्नैर्विनिर्मितगवाक्षके॥ २७.२६ ॥
तत्र पुण्यकथाभिश्च क्रीडतो रुभयोस्तयोः॥
प्रादुरभून्महाञ्छब्दः पूरितांबरगोचरः॥ २७.२७ ॥
तं श्रुत्वा कौतुकाद्देवी किमेतदिति शंकरम्॥
पर्यपृच्छच्छुभतनूर्हरं विस्मयपूर्वकम्॥ २७.२८ ॥
तामाह देवीं गिरिशो दृष्टपूर्वास्तु ते त्वया॥
एते गणा मे क्रीडंति शैलेऽस्मिंस्त्वत्प्रियाः शुभे॥ २७.२९ ॥
तपसा ब्रह्मचर्येण क्लेशेन क्षेत्रसाधनैः॥
यैरहं तोषितः पृथ्व्यां त एते मनुजोत्तमाः॥ २७.३० ॥
मत्समीपमनुप्राप्ता मम लोकं वरानने॥
चराचरस्य जगतः सृष्टिसंहारणक्षमाः॥ २७.३१ ॥
विनैतान्नैव मे प्रीतिर्नैभिर्विरहितो रमे॥
एते अहमहं चैते तानेतान्पस्य पार्वति॥ २७.३२ ॥
इत्युक्ता विस्मिता देवी ददृशे तान्गवाक्षके॥
स्थिता पद्मपलाशाक्षी महादेवेन भाषिता॥ २७.३३ ॥
केचित्कृशा ह्रस्वदीर्घाः केचित्स्थूलमहोदराः॥
व्याघ्रेभमेषाजमुखा नानाप्राणिमहामुखाः॥ २७.३४ ॥
व्याघ्रचर्मपरीधाना नग्ना ज्वालामुखाः परे॥
गोकर्णा गजकर्णाश्च बहुपादमुखेक्षणाः॥ २७.३५ ॥
विचित्रवाहनाश्चैव नानायुधधरास्तथा॥
गीतवादित्रतत्त्वज्ञाः सत्त्वगीतरसप्रियाः॥ २७.३६ ॥
तान्दृष्ट्वा पार्वती प्राह कतिसंख्याभिधास्त्वमी॥ २७.३७ ॥
॥श्रीशंकर उवाच॥
असंख्ये यास्त्वमी देवी असंख्येयाभिधास्तथा॥
जगदापूरितं सर्वमेतैर्भीमैर्महाबलैः॥ २७.३८ ॥
सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेश्मसु॥
दानवानां शरीरेषु बालेषून्मत्तकेषु च॥ २७.३९ ॥
एते विशति मुदिता नानाहारविहारिणः॥
ऊष्मपाः फेनपाश्चैव धूम्रपा मधुपायिनः॥
मदाहाराः सर्वभक्ष्यास्तथान्ये चाप्यभोजनाः॥ २७.४० ॥
गीतनृत्योपहाराश्च नानावाद्यरवप्रियाः॥
अनंतत्वादमीषां च वक्तुं शक्या न वै गुणाः॥ २७.४१ ॥
॥श्रीदेव्युवाच॥
मनःशिलेन कल्केन य एष च्छुरिताननः॥
तेजसा भास्कराकारो रूपेण सदृशस्तव॥ २७.४२ ॥
आकर्ण्याकर्ण्य ते देव गणैर्गीतान्महागुणान्॥
मुहुर्नृत्यति हास्यं च विदधाति मुहुर्मुहुः॥ २७.४३ ॥
सदाशिवशिवेत्येवं विह्वलो वक्ति यो मुहुः॥
धन्योऽमीदृशी यस्य भक्तिस्त्वयि महेश्वरे॥ २७.४४ ॥
एनं विज्ञातुमिच्छामि किंनामासौ गणस्तव॥
॥श्रीशंकर उवाच॥
स एष वीरक देवी सदा मेद्रिसुते प्रियः॥ २७.४५ ॥
नानाश्चर्यगुणाधारः प्रतीहारो मतोंऽबिके॥
॥देव्युवाच॥
ईदृशस्य सुतस्यापि ममोऽकंठा पुरांतक॥ २७.४६ ॥
कदाहमीदृशं पुत्रं लप्स्याम्यानंददायकम्॥
॥शर्व उवाच॥
एष एव सुतस्तेस्तु यावदीदृक्परो भवेत्॥ २७.४७ ॥
इत्युक्ता विजयां प्राह शीघ्रमानय वीरकम्॥
विजया च ततो गत्वा वीरकं वाक्यमब्रवीत्॥ २७.४८ ॥
एहि वीरक ते देवी गिरिजा तोषिता शुभा॥
त्वममाह्वयति सा देवी भवस्यानुमते स्वयम्॥ २७.४९ ॥
इत्युक्तः संभ्रमयुतो मुखं संमार्ज्य पाणिना॥
देव्याः समीपमागच्छज्जययाऽनुगतः शनैः॥ २७.५० ॥
तं दृष्ट्वा गिरिजा प्राह गिरामधुरवर्णया॥
एह्येहि पुत्र दत्तस्त्वं भवेन मम पुत्रकः॥ २७.५१ ॥
इत्युक्तो दंडवद्देवीं प्रणम्यावस्थितः पुरः॥
माता ततस्तमालिंग्य कृत्वोत्संगे च वीरकम्॥ २७.५२ ॥
चुचुंब च कपोले तं गात्राणि च प्रमार्जयत्॥
भूषयामास दिव्यैस्तं स्वयं नानाविभूषणैः॥ २७.५३ ॥
एवं संकल्प्य तं पुत्रं लालयित्वा उमाचिरम्॥
उवाच पुत्र क्रीडेति गच्छ सार्धं गणैरिति॥ २७.५४ ॥
ततश्चिक्रीड मध्ये स गणानां पार्वतीसुतः॥
मुहुर्मुहुः स्वमनसि स्तुवन्भक्तिं स शांकरीम्॥ २७.५५ ॥
प्रणम्य सर्वभूतानि प्रार्थयाम्यस्मि दुष्करम्॥
भक्त्या भजध्वमीशानं यस्या भक्तेरिदं फलम्॥ २७.५६ ॥
क्रीडितुं वीरके याते ततो देवी च पार्वती॥
नानाकथाभिस्चिक्रीड पुनरेव जटाभृता॥ २७.५७ ॥
ततो गिरिसुताकण्ठे क्षिप्तबाहुर्महेश्वरः॥
तपसस्तु विशेषार्थं नर्म देवीं किलाब्रवीत्॥ २७.५८ ॥
स हि गौरतनुः शर्वो विशेषाच्छशिशोभितः॥
रंजिता च विभावर्या देवी नीलोत्पलच्छविः॥ २७.५९ ॥
॥शर्व उवाच॥
शरीरे मम तन्वंगी सिते भास्यसितद्युतिः॥
भुजंगीवासिता शुभ्रे संश्लिष्टा चन्दने तरौ॥ २७.६० ॥
चंद्रज्योत्स्नाभिसंपृक्ता तामसी रजनी यथा॥
रजनी वा सिते पक्षे दृष्टिदोषं ददासि मे॥ २७.६१ ॥
इत्युक्ता गिरिजा तेन कण्ठं शर्वाद्विमुच्य सा॥
उवाच कोपरक्ताक्षी भृकुटीविकृतानना॥ २७.६२ ॥
स्वकृतेन जनः सर्वो जनेन परिभूयते॥
अवश्यमर्थी प्राप्नोति खण्डनां शशिखंडभृत्॥ २७.६३ ॥
तपोभिर्दीप्तचरितैर्यत्त्वां प्रार्थितवत्यहम्॥
तस्य मे नियमस्यैवमवमानः पदेपदे॥ २७.६४ ॥
नैवाहं कुटिला शर्व विषमा न च धूर्जटे॥
स्वदोषैस्त्वं गतः क्षांतिं तथा दोषाकरश्रियः॥ २७.६५ ॥
नाहं मुष्णामि नयने नेत्रहंता भवान्भव॥
भगस्तत्ते विजानाति तथैवेदं जगत्त्रयमा॥ २७.६६ ॥
मूर्ध्नि शूलं जनयसे स्वैर्दोषैर्मामदिक्षिपन्॥
यत्त्वं मामाह कृष्णेति महाकालोऽसि विश्रुतः॥ २७.६७ ॥
यास्याम्यहं परित्यक्तुमात्मानं तपसा गिरिम्॥
जीवंत्या नास्ति मे कृत्यं धूर्तेन परिभूतया॥ २७.६८ ॥
निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं भवः॥
उवाचाथ च संभ्रांतो दुर्ज्ञेयचरितो हरः॥ २७.६९ ॥
न तत्त्वज्ञासि गिरिजे नाहं निंदापरस्तव॥
चाटूक्तिबुद्ध्या कृतवांस्त वाहं नर्मकीर्तनम्॥ २७.७० ॥
विकल्पः स्वच्छचित्तेति गिरिजैषा मम प्रिया॥
प्रायेण भूतिलिप्तानामन्यथा चिंतिता हृदि॥ २७.७१ ॥
अस्मादृशानां कृष्णांगि प्रवर्तंतेऽन्यथा गिरः॥
यद्येवं कुपिता भीरु न ते वक्ष्याम्यहं पुनः॥ २७.७२ ॥
नर्मवादी भविष्यामि जहि कोपं सुचिस्मिते॥
शिरसा प्रणतस्तेऽहं रचितस्ते मयाञ्जलिः॥ २७.७३ ॥
दीनेनाप्यपमानेन निंदिता नमि विक्रियाम्॥
वरमस्मि विनम्रोऽपि न त्वं देवि गुणान्विता॥ २७.७४ ॥
इत्यनेकैश्चाटुवाक्यैः सूक्तैर्देवेन बोधिता॥
कोपं तीव्रं न तत्याज सती मर्मणि घट्टिता॥ २७.७५ ॥
अवष्टब्धावथ क्षिप्त्वा पादौ शंकरपाणिना॥
विपर्यस्तालका वेगाद्गन्तुमैच्छत शैलजा॥ २७.७६ ॥
तस्यां व्रजन्त्यां कोपेन पुनराह पुरांतकः॥
सत्यं सर्वैरवयवैः सुतेति सदृशी पितुः॥ २७.७७ ॥
हिमाचलस्य श्रृंगैस्तैर्मेघमालाकुलैर्मनः॥
तथा दुरवागाह्योऽसौ हृदयेभ्यस्तवाशयः॥ २७.७८ ॥
काठिन्यं कष्टमस्मिंस्ते वनेभ्यो बहुधा गतम्॥
कुटिलत्वं नदीभ्यस्ते दुःसेव्यत्वं हिमादपि॥ २७.७९ ॥
संक्रांतं सर्वमेवैतत्तव देवी हिमाचलात्॥
इत्युक्ता सा पुनः प्राह गिरिशं सैलजा तदा॥ २७.८० ॥
कोपकंपितधूम्रास्या प्रस्फुरद्दशनच्छदा॥
मा शर्वात्मोपमानेन निंद त्वं गुणिनो जनान्॥ २७.८१ ॥
तवापि दुष्टसंपर्कात्संक्रांतं सर्वमेवहि॥
व्यालेभ्योऽनेकजिह्वत्वं भस्मनः स्नेहवन्ध्यता॥ २७.८२ ॥
हृत्कालुष्यं शशांकात्ते दुर्बोधत्वं वृषादपि॥
अथवा बहुनोक्तेन अलं वाचा श्रमेण मे॥ २७.८३ ॥
श्मशानवास आसीस्त्वं नग्नत्वान्न तव त्रपा॥
निर्घृणत्वं कपालित्वादेवं कः शक्नुयात्तवं॥ २७.८४ ॥
इति श्रीस्कांदे महापुराण एकाशी तिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये पार्वतीप्रकोपवर्णनंनाम सप्तविंशोऽध्यायः॥ २७ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 28
॥नारद उवाच॥
व्रजंती गिरिजाऽपश्यत्सखीं मातुर्महाप्रभाम्॥
कुसुमामोदिनींनाम तस्य शैलस्य देवताम्॥ २८.१ ॥
सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा॥
क्वपुनर्गच्छसीत्युच्चैरालिंग्योवाच देवता॥ २८.२ ॥
सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम्॥
पुनश्चोवाच गिरिजा देवतां मातृसंमताम्॥ २८.३ ॥
नित्यं शैलाधिराजस्य देवता त्वमनिंदिते॥
सर्वं च सन्निधानं च मयि चातीव वत्सला॥ २८.४ ॥
तदहं संप्रवक्ष्यामि यद्विधेयं तवाधुना॥
अथान्य स्त्रीप्रवेशे तु समीपे तु पिनाकिनः॥ २८.५ ॥
त्वयाख्येयं मम शुबे युक्तं पश्चात्करोम्यहम्॥
तथेत्युक्ते तया देव्या ययौ देवी गिरिं प्रति॥ २८.६ ॥
रम्ये तत्र महाशृंगे नानाश्चर्योपशोभिते॥
विभूषणादि सन्यस्य वृक्षवल्कलधारिणी॥ २८.७ ॥
तपस्तेपे गिरिसुता पुत्रेण परिपालिता॥
ग्रीष्मे पंचाग्निसंतप्ता वर्षासु च जलोषिता॥ २८.८ ॥
यथा न काचित्प्रविशेद्योषिदत्र हरांतिके॥
दृष्ट्वा परां स्त्रियं चात्र वदेथा मम पुत्रक॥ २८.९ ॥
शीघ्रमेव करिष्यामि ततो युक्तमनंतरम्॥
एवमस्त्विति तां देवीं वीरकः प्राह सांप्रतम्॥ २८.१० ॥
मातुराज्ञा सुतो ह्लाद प्लावितांगो गतज्वरः॥
जगाम त्र्यक्षं संद्रष्टुं प्रणिपत्य च मातरम्॥ २८.११ ॥
गजवक्त्रं ततः प्राह प्रणम्य समवस्थितम्॥
साश्रुकंठं प्रयाचंतं नय मामपि पार्वति॥ २८.१२ ॥
गजवक्त्रं हि त्वां बाल मामिवोपहसिष्यति॥
तदागच्छ मया सार्धं या गतिर्मे तवापि सा॥ २८.१३ ॥
पराभवाद्धि धूर्तानां मरणं साधु पुत्रक॥
एवमुक्त्वा समादाय हिमाद्रिं प्रति सा ययौ॥ २८.१४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये पार्वत्यस्तपोर्थं गमनवर्णनंनामाष्टाविंशोऽध्यायः॥ २८ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 29
॥नारद उवाच॥
व्रजंती गिरिजाऽपश्यत्सखीं मातुर्महाप्रभाम्॥
कुसुमामोदिनींनाम तस्य शैलस्य देवताम्॥ २९.१ ॥
सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा॥
क्वपुनर्गच्छसीत्युच्चैरालिंग्योवाच देवता॥ २९.२ ॥
सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम्॥
पुनश्चोवाच गिरिजा देवतां मातृसंमताम्॥ २९.३ ॥
नित्यं शैलाधिराजस्य देवता त्वमनिंदिते॥
सर्वं च सन्निधानं च मयि चातीव वत्सला॥ २९.४ ॥
तदहं संप्रवक्ष्यामि यद्विधेयं तवाधुना॥
अथान्य स्त्रीप्रवेशे तु समीपे तु पिनाकिनः॥ २९.५ ॥
त्वयाख्येयं मम शुभे युक्तं पश्चात्करोम्यहम्॥
तथेत्युक्ते तया देव्या ययौ देवी गिरिं प्रति॥ २९.६ ॥
रम्ये तत्र महाशृंगे नानाश्चर्योपशोभिते॥
विभूषणादि संन्यस्य वृक्षवल्कलधारिणी॥ २९.७ ॥
तपस्तेपे गिरिसुता पुत्रेण परिपालिता॥
ग्रीष्मे पंचाग्निसंतप्ता वर्षासु च जलोषिता॥ २९.८ ॥
स्थंडिलस्था च हेमंते निराहारा तताप सा॥
एतस्मिन्नंतरे दैत्यो ह्यंधकस्य सुतो बली॥ २९.९ ॥
ज्ञात्वा गतां गिरिसुतां पितुर्वैरमनुस्मरन्॥
आडिर्नाम बकभ्राता रहस्यांतरप्रेक्षकः॥ २९.१० ॥
जिते किलांधके दैत्ये गिरिशेनामरद्विषि॥
आडिश्चकार विपुलं तपो हरजिगीषया॥ २९.११ ॥
तमागत्याब्रवीद्ब्रह्मा तपसा परितोषितः॥
ब्रूहि किं वासुरश्रेष्ठ तपसा प्राप्तुमिच्छसि॥ २९.१२ ॥
ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे॥
॥ब्रह्मोवाच॥
न कश्चिच्च विना मृत्युं जंतुरासुर विद्यते॥ २९.१३ ॥
यतस्ततोऽपि दैत्येंद्र मृत्युः प्राप्यः शरीरिणा॥
इत्युक्तस्तं तथेत्याह तुष्टः कमलसंभवम्॥ २९.१४ ॥
रूपस्य परिवर्तो मे यदा स्यात्पद्मसंभव॥
तदा मृत्युर्मम भवेदन्यथा त्वमरो ह्यहम्॥ २९.१५ ॥
इत्युक्तस्तं तथेत्याह तुष्टः कमलसंभवः॥
इत्युक्तोऽमरतां मेने दैत्यराज्यस्थितोऽसुरः॥ २९.१६ ॥
आजगाम स च स्थानं तदा त्रिपुरघातिनः॥
आगतो ददृशे तं च वीरकं द्वार्यवस्थितम्॥ २९.१७ ॥
तं चासौ वंचयित्वा च आडिः सर्पशरीरभृत्॥
अवारितो वीरकेण प्रविवेश हरांतिकम्॥ २९.१८ ॥
भुजंगरूपं संत्यज्य बभूवाथ महासुरः॥
उमारूपी छलयितुं गिरिशं मूढचेतनः॥ २९.१९ ॥
कृत्वोमायास्ततो रूपमप्रतर्क्यमनोहरम्॥
सर्वावयवसंपूर्णं सर्वाभिज्ञानसंवृतम्॥ २९.२० ॥
चक्रे भगांतरे दैत्यो दंतान्वज्रोपमान्दृढान्॥
तीक्ष्णाग्रान्बुद्धिमोहेन गिरिशं हंतुमुद्यतः॥ २९.२१ ॥
कृत्वोमारूपमेवं स स्थितो दैत्यो हरांतिके॥
तां दृष्ट्वा गिरिशस्तुषुटः समालिंग्य महासुरम्॥ २९.२२ ॥
मन्यमानो गिरिसुतां सर्वै रवयवांतरैः॥
अपृच्छत्साधु ते भावो गिरिपुत्री ह्यकृत्रिमा॥ २९.२३ ॥
या त्वं मदशयं ज्ञात्वा प्राप्तेह वरवर्णिनि॥
त्वया विरहितः शून्यं मन्योस्मिन्भुवनत्रये॥ २९.२४ ॥
प्राप्ता प्रसन्ना या त्वं मां युक्तमेवंविधं त्वयि॥
इत्युक्ते गूहयंश्चेष्टामुमारूप्यसुरोऽब्रवीत्॥ २९.२५ ॥
यातास्मि तपसश्चर्तुं कालीवाक्यात्तवातुलम्॥
रतिश्च तत्र मे नाभूत्ततः प्राप्ता तवांतिकम्॥ २९.२६ ॥
इत्युक्तः शंकरः शंकां किंचित्प्राप्यवधारयत्॥
कुपिता मयि तन्वंगी प्रत्यक्षा च दृढव्रता॥ २९.२७ ॥
अप्राप्तकामा संप्राप्ता किमेतत्संशयो मम॥
रहसीति विचिंत्याथ अभिज्ञानाद्विचारयन्॥ २९.२८ ॥
नापश्यद्वामपार्श्वे तु तस्यांकं पद्मलक्षणम्॥
लोम्नामावर्तचरितं ततो देवः पिनाकधृक्॥ २९.२९ ॥
बुद्धा तां दानवीं मायां किंचित्प्रहसिताननः॥
मेढ्रे रौद्रास्त्रमाधाय चक्रे दैत्यमनोरथम्॥ २९.३० ॥
स रुदन्भैरवान्रावानवसादं गतोऽसुरः॥
अबुध्यद्वीरको नैतदसुरेंद्रनिषूदनम्॥ २९.३१ ॥
हते च मारुतेनाशुगामिना नगदेवता॥
अपरिच्छिन्नतत्त्वार्था शैलपुत्र्यां न्यवेदयत्॥ २९.३२ ॥
श्रुत्वा वायुमुखाद्देवी क्रोधरक्तातिलोचना॥
अपस्यद्वीरकं पुत्रं हृदयेन विदूयता॥ २९.३३ ॥
मातरं मां परित्यज्य यस्मात्त्वं स्नेहविह्वलाम्॥
विहितावसरः स्त्रीणां शंकरस्य रहोविधौ॥ २९.३४ ॥
तस्मात्ते परुषा रूक्षा जडा हृदय वर्जिता॥
गणेशाक्षरसदृशा शिला माता भविष्यति॥ २९.३५ ॥
एवमुत्सृष्टशापाया गिरिपुत्र्यास्त्वनंतरम्॥
निर्जगाम मुखात्क्रोधः सिंहरूपी महाबलः॥ २९.३६ ॥
पश्चात्तापं समश्रित्य तया देव्या विसर्जितः॥
स तु सिंहः करालास्यो महाकेसरकंधरः॥ २९.३७ ॥
प्रोद्धूतबललांगूलदंष्ट्रोत्कट गुहामुखः॥
व्यावृतास्यो ललज्जिह्वः क्षामकुक्षिश्चिखादिषुः॥ २९.३८ ॥
तस्यास्ये वर्तितुं देवी व्यवस्यत सती तदा॥
ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः॥ २९.३९ ॥
आजगामाश्रमपंद संपदामाश्रयं ततः॥
आगम्योवाच तां ब्रह्मा गिरिजां मृष्टया गिरा॥ २९.४० ॥
किं देवी प्राप्तुकामासि किमलभ्यं ददामि ते॥
तच्छ्रुत्वोवाच गिरिजा गुरुगौरवगर्भितम्॥ २९.४१ ॥
तपसा दुष्करेणाप्तः पतित्वे शंकरो मया॥
स मां श्यामलवर्णेति बहुशः प्रोक्तवान्भवः॥ २९.४२ ॥
स्यामहं कांचनाकारा वाल्लभ्येन च संयुता॥
भर्तुर्भूतपतेरंगे ह्येकतो निर्विशंकिता॥ २९.४३ ॥
तस्यास्तद्भाषितं श्रुत्वा प्रोवाच जलजासनः॥
एवं भवतु भूयस्त्वं भर्तुर्देहार्धधारिणी॥ २९.४४ ॥
ततस्तस्याः शरीरात्तु स्त्री सुनीलांबुजत्विषा॥
निर्गता साभवद्भीमा घंटाहस्ता त्रिलोचना॥ २९.४५ ॥
नानाभरणपूर्णांगी पीतकौशेयवासिनी॥
तामब्रवीत्ततो ब्रह्मा देवीं नीलांबुजत्विषम्॥ २९.४६ ॥
अस्माद्भूधरजा देहसंपर्कात्त्वं ममाज्ञया॥
संप्राप्ता कृतकृत्यत्वमेकानंशा पुराकृतिः॥ २९.४७ ॥
य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने॥
स तेस्तु वाहनो देवी केतौ चास्तु महाबलः॥ २९.४८ ॥
गच्छ विंध्याचले तत्र सुरकार्यं करिष्यति॥
अत्र शुंभनिशुंभौ च हत्वा तारकसैन्यपौ॥ २९.४९ ॥
पांचालोनाम यक्षोऽयं यक्षलक्षपदानुगः॥
दत्तस्ते किंकरो देवी महामायाशतैर्युतः॥ २९.५० ॥
इत्युक्ता कौशिकी देवी तथेत्याह पितामहम्॥
निर्गतायां च कौशिक्यां जाता स्वैराश्रिता गुणैः॥ २९.५१ ॥
सर्वैः पूर्वभवोपात्तैस्तदा स्वयमुपस्तितैः॥
उमापि प्राप्तसंकल्पा पश्चात्तापपरायणा॥ २९.५२ ॥
मुहुः स्वं परिनिंदंती जगाम गिरिशांतिकम्॥
संप्रयांतीं च तां द्वारी अपवार्य समाहितः॥ २९.५३ ॥
रुरोध वीरको देवीं हेमवेत्रलताधरः॥
तामुवाच च कोपेन तिष्ठ तिष्ठ क्व यासि च॥ २९.५४ ॥
प्रयोजनं न तेऽस्तीह गच्छ यावन्न भर्त्स्यसे॥
देव्या रूपधरो दैत्यो देवं वंचयितुं त्विह॥ २९.५५ ॥
प्रविष्टो न च दृष्टोऽसौ स च देवेन घातितः॥
घातिते चाहमाक्षिप्तो नीलकण्ठेन धीमता॥ २९.५६ ॥
कापि स्त्री नापि मोक्तव्या त्वया पुत्रेति सादरम्॥
तस्मात्त्वमत्र द्वारिस्था वर्षपूगान्यनेकशः॥ २९.५७ ॥
भविष्यसि न चाप्यत्र प्रवेशं लप्स्यसे व्रज॥
एका मे प्रविशेदत्र माता या स्नेहवत्सला॥ २९.५८ ॥
नगाधिराजतनया पार्वती रुद्रवल्लभा॥
इत्युक्ता तु ततो देवी चिंतयामास चेतसा॥ २९.५९ ॥
न सा नारी तु दैत्योऽसौ वायोर्नैवावबासत॥
वृथैव वीरकः शप्तो मया क्रोधपरीतया॥ २९.६० ॥
अकार्यं क्रियते मूढैः प्रायः क्रोधसमन्वितैः॥
क्रोधेन नश्यते कीर्तिः क्रोधो हंति स्थिरां श्रियम्॥ २९.६१ ॥
अपरिच्छिन्नसर्वार्था पुत्रं शापितवत्यहम्॥
विपरीतार्थबोद्धॄणां सुलभा विपदो यतः॥ २९.६२ ॥
संचिंत्यैवमुवाचेदं वीरकं प्रति शैलजा॥
अधो लज्जाविकारेण वदनेनांबुजत्विषा॥ २९.६३ ॥
अहं वीरक ते माता मा तेऽस्तु मनसो भ्रमः॥
शंकरस्यास्मि दयिता सुता तु हिमभूभृतः॥ २९.६४ ॥
मम गात्रस्थितिभ्रांत्या मा शंकां पुत्र भावय॥
तुष्टेन गौरता दत्ता ममेयं पद्मयोनिना॥ २९.६५ ॥
मया शप्तोऽस्यविदिते वृत्तांते दैत्यनिर्मिते॥
ज्ञात्वा नारीप्रवेशं तु शंकरे रहसि स्तिते॥ २९.६६ ॥
न निवर्तयितुं शक्यः शापः किं तु ब्रवीमि ते॥
मानुष्यां तु शिलायां त्वं शिलादात्संभविष्यसि॥ २९.६७ ॥
पुण्ये चाप्यर्बुदारण्ये स्वर्गमोक्षप्रदे नृणाम्॥
अचलेश्वरलिंगं तु वर्तते यत्र वीरक॥ २९.६८ ॥
वाराणस्यां विश्वनाथसमं तत्फलदं नृणाम्॥
प्रभासस्य च यात्राभिर्दशभिर्यत्फलं नृणाम्॥ २९.६९ ॥
तदेकयात्रया प्रोक्तमर्बुदस्य महागिरेः॥
यत्र तप्त्वा तपो मर्त्या देहधातून्विहाय च॥ २९.७० ॥
संसारी न पुनर्भूयान्महेश्वरवचो यथा॥
अर्बुदो यदि लभ्येत सेवितुं जन्मदुःखितैः॥ २९.७१ ॥
वाराणसीं च केदारं किं स्मरंति वृथैव ते॥
तत्राराध्य भवं देवं भवान्नन्दीति नामभृत्॥ २९.७२ ॥
शीघ्रमेष्यसि चात्रैव प्रतीहारत्वमाप्स्यसि॥
एवमुक्ते हृष्टरोमा वीरकः प्रणिपत्य ताम्॥ २९.७३ ॥
संस्तूय विविधैर्वाक्यैर्मातरं समभाषत॥
धन्योऽहं देवि यो लप्स्ये मानुष्यमतिदुर्लभम्॥ २९.७४ ॥
शापोऽनुग्रहरूपोऽयं विशेषादर्बुदाचले॥
समीपे यस्य पुण्योऽस्ति महीसागरसंगमः॥ २९.७५ ॥
ऊधः पृथिव्या देशोऽयं यो गिरेश्चार्णवांतरे॥
तत्र गत्वा महत्पुण्यमवाप्य भवभक्तितः॥ २९.७६ ॥
पुनरेष्यामि भो मातरित्युक्त्वाभूच्छिलासुतः॥
देवी च प्रविवेशाथ भवनं शशिमौलिनः॥ २९.७७ ॥
॥इत्यार्बुदाख्यानम्॥
ततो दृष्ट्वा च तां प्राह धिग्नार्य इति त्र्यंबकः॥ २९.७८ ॥
सा च प्रण्म्य तं प्राह सत्यमेतन्न मिथ्यया॥
जडः प्रकृतिभागोयं नार्यश्चार्हंति निन्दनाम्॥ २९.७९ ॥
पुरुषाणां प्रसादेन मुच्यंते भवसागरात्॥
ततः प्रहृष्टस्तामाह हरो योग्याऽधुना शुभे॥ २९.८० ॥
पुत्रं दास्यामि येन त्वं ख्यातिमाप्स्यसि शोभने॥
ततो रेम हि देव्या स नानाश्चर्यालयो हरः॥ २९.८१ ॥
ततो वर्षसहस्रेषु देवास्त्वरितमानसाः॥
ज्वलनं नोदयामासुर्ज्ञातुं शंकरचेष्टितम्॥ २९.८२ ॥
द्वारि स्थितं प्रतिहारं वंचयित्वा च पावकः॥
पारावतस्य रूपेण प्रविवेश हरांतिकम्॥ २९.८३ ॥
ददृशे तं च देवेशो विनतां प्रेक्ष्य पार्वतीम्॥
ततस्तां ज्वलनं प्राह नैतद्योग्यं त्वया कृतम्॥ २९.८४ ॥
यदिदं भुक्षुतं स्थानान्मम तेजो ह्यनुत्तमम्॥
गृहाण त्वं सुदुर्बुद्धे नो वा धक्ष्यामि त्वां रुषा॥ २९.८५ ॥
भीतस्ततोऽसौ जग्राह सर्वदेवमुखं च सः॥
तेन ते वह्निसहिता विह्वलाश्च सुराः कृताः॥ २९.८६ ॥
विपाट्य जठराण्येषां वीर्यं माहेश्वरं ततः॥
निष्क्रांतं तत्सरो जातं पारदं शतयोजनम्॥ २९.८७ ॥
वह्निश्च व्याकुलीभूतो गंगायां मुमुचे सकृत्॥
दह्यमाना च सा देवी तरंगैर्वहिरुत्सृजत्॥ २९.८८ ॥
जातस्त्रिभुवनक्यातस्तेन च श्वेतपर्वतः॥
एतस्मिन्नंतरे वह्निराहूतश्च हिमालये॥ २९.८९ ॥
सप्तर्षिभिर्वह्निहोमं कुर्वद्भिर्मंत्रवीर्यतः॥
आगत्य तत्र जग्राह वह्निर्भागं च तं हुतम्॥ २९.९० ॥
गतेऽह्न्यत्वस्मिंश्च तत्रस्थः पत्नी स्तेषामपश्यत॥
सुवर्णकदलीस्तंभनिभास्ताश्चंद्रलेखया॥ २९.९१ ॥
पश्यमानः प्रफुल्लाक्षो वह्निः कामवशं गतः॥
स भूयश्चिंतयामास न न्याय्यं क्षुभितोऽस्मि यत्॥ २९.९२ ॥
साध्वीः पत्नीर्द्विजेंद्राणामकामाः कामयाम्यहम्॥
पापमेतत्कर्म चोग्रं नश्यामि तृमवत्स्फुटम्॥ २९.९३ ॥
कृत्वैतन्नश्यते कीर्तिर्यावदाचंद्रतारकम्॥
एवं संचिंत्य बहुधा गत्वा चैव वनांतरम्॥ २९.९४ ॥
संयन्तुं नाभवच्छक्त उपायैर्बहुभिर्मनः॥
ततः स कामसंतप्तो मूर्छितः समपद्यत॥ २९.९५ ॥
ततः स्वाहा च भार्यास्य बुबुधे तद्विचेष्टितम्॥
ज्ञात्वा च चिंतयामास प्रहृष्टा मनसि स्वयम्॥ २९.९६ ॥
स्वां भार्यामथ मां त्यक्त्वा बहुवासादवज्ञया॥
भार्याः कामयते नूनं सप्तर्षीणां महात्मनाम्॥ २९.९७ ॥
तदासां रूपमाश्रित्य रमिष्ये तेन चाप्यहम्॥
ततस्त्वंगिरसो भार्या शिवानामेति शोभना॥ २९.९८ ॥
तस्या रूपं समाधाय पावकं प्राप्य साब्रवीत्॥
मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि॥ २९.९९ ॥
न चेत्करिष्यसे देव मृतां मामुपधारय॥
अहमंगिरसो भार्या शिवानाम हुताशन॥ २९.१०० ॥
सर्वाभिः सहिता प्राप्ता ताश्च यास्यंत्यनुक्रमात्॥
अस्माकं त्वं प्रियो नित्यं त्वच्चित्ताश्च वयं तथा॥ २९.१०१ ॥
ततः स कामसंतप्तः संबभूव तया सह॥
प्रीते प्रीता च सा देवी निर्जगाम वनांतरात्॥ २९.१०२ ॥
चिंतयंती ममेदं चेद्रूपं द्रक्ष्यंति कानने॥
ते ब्राह्मणीनामनृतं दोषं वक्ष्यंति पावकात्॥ २९.१०३ ॥
तस्मादेतद्रक्षमाणा गरुडी संभवाम्यहम्॥
सुपर्णा सा ततो भूत्वा ददृशे श्वेतपर्वतम्॥ २९.१०४ ॥
शरस्तंबैः सुसंपृक्तं रक्षोभिश्च पिशाचकैः॥
सा तत्र सहसा गत्वा शैलपूष्ठं सुदुर्गमम्॥ २९.१०५ ॥
प्राक्षिपत्कांचने कुंडे शुक्रं तद्धारणेऽक्षमा॥
शिष्टानामपि देवीनां सप्तर्षीणां महात्मनाम्॥ २९.१०६ ॥
पत्नीसरूपतां कृत्वा कामयामास पावकम्॥
दिव्यं रूपमरूंधत्याः कर्तुं न शकितं तया॥ २९.१०७ ॥
तस्यास्तपःप्रभावेण भर्तुः शुश्रूषणेन च॥
षट्कृत्वस्तत्तु निक्षिप्तमग्निरेतः कुरुद्वह॥ २९.१०८ ॥
कुंडेऽस्मिंश्चैत्रबहुले प्रतिपद्येव स्वाहया॥
ततश्च पावको दुःखाच्छुशोच च मुमोह च॥ २९.१०९ ॥
आः पापं कृतमित्येव देहन्यासेऽकरोन्मतिम्॥
ततस्तं खेचरी वाणी प्राह मा मरणं कुरु॥ २९.११० ॥
भाव्यमेतच्च भाव्यर्थात्को हि पावक मुच्यते॥
भाव्यर्थेनापि यत्ते च परदारोप सेवनम्॥ २९.१११ ॥
कृतं तच्चेतसा तेन त्वामजीर्णं प्रवेक्ष्यति॥
श्वेतकेतोर्महायज्ञे घृतधाराभितर्पितम्॥ २९.११२ ॥
शोकं च त्यज नैतास्ताः स्वाहै वेयं तव प्रिया॥
श्वेतपर्वतकुंडस्थं पुत्रं त्वं द्रष्टुमर्हसि॥
ततो वह्निस्तत्र गत्वा ददृशे तनयं प्रभुम्॥ २९.११३ ॥
॥अर्जुन उवाच॥
कस्मात्स्वाहा करोद्रूपं षण्णां तासां महामुने॥ २९.११४ ॥
यत्ता भर्तृपराः साध्व्यस्तपस्विन्योग्निसंनिभाः॥
न बिभेति च किं ताभ्यः षड्भ्यः स्वाहाऽपराधिनी॥
भर्तृभक्त्या जगद्दग्धुं यतः शक्ताश्च ता मुने॥ २९.११५ ॥
॥नारद उवाच॥
सत्यमेतत्कुरुश्रेष्ठ श्रृणु तच्चापि कारणम्॥
येन तासां कृतं रूपं न वा शापं ददुश्च ताः॥ २९.११६ ॥
यत्र तद्वह्निना क्षिप्तं रुद्रतेजः सकृत्पुरा॥
गंगायां तत्र सस्नुस्ताः षटत्न्योऽज्ञनाभावतः॥ २९.११७ ॥
ततस्ता विह्वलीभूतास्तेजसा तेन मोहिताः॥
लज्जया च स्वभर्तॄणां गंगातीरस्थिता रहः॥ २९.११८ ॥
एतदंतमालोक्य चिकीर्षंती मनीषितम्॥
स्वाहा शरीरमाविश्यतासां तेजो जहार तत्॥ २९.११९ ॥
चिक्रीड वह्निजायापि यथा ते कथितं मया॥ २९.१२० ॥
उपकारमिमं ताभिः स्मरंतीभिश्च भारत॥
न शप्ता सा यतः शापो न देयश्चोपकारिणि॥ २९.१२१ ॥
ततः सप्तर्षयो ज्ञात्वा ज्ञानेनासुचितां गताः॥
तत्यजुः षट् तदा पत्नीर्विना देवीमरुंधतीम्॥ २९.१२२ ॥
विश्वामित्रस्तु भगवान्कुमारं शरणं गतः॥
स्तवं दिव्यं संप्रचक्रे महासेनस्य चापि सः॥ २९.१२३ ॥
अष्टोत्तरशतं नाम्नां श्रृणु त्वं तानि फाल्गुन॥
जपेन येषां पापानि यांति ज्ञानमवाप्नुयात्॥ २९.१२४ ॥
त्वं ब्रह्मवादी त्वं ब्रह्मा ब्राह्मणवत्सलः॥
ब्रह्मण्यो ब्रह्मदेवश्च ब्रह्मदो ब्रह्मसंग्रहः॥ २९.१२५ ॥
त्वं परं परमं तेजो मंगलानां च मंगलम्॥
अप्रमेयगुणश्चैव मंत्राणां मंत्रगो भवान्॥ २९.१२६ ॥
त्वं सावित्रीमयो देव सर्वत्रैवापराजितः॥
मंत्र शर्वात्मको देवः षडक्षरवतां वरः॥ २९.१२७ ॥
माली मौली पताकी च जटी मुंडी शिखंड्यपि॥
कुण्डली लांगली बालः कुमारः प्रवरो वरः॥ २९.१२८ ॥
गवांपुत्रः सुरारिघ्नः संभवो भवभावनः॥
पिनाकी शत्रुहा श्वेतो गूढः स्कन्दः कराग्रणीः॥ २९.१२९ ॥
द्वादशो भूर्भुवो भावी भुवः पुत्रो नमस्कृतः॥
नागराजः सुधर्मात्मा नाकपृष्ठः सनातनः॥ २९.१३० ॥
त्वं भर्ता सर्वभूतात्मा त्वं त्राता त्वं सुखावहः॥
शरदक्षः शिखी जेता षड्वक्त्रो भयनाशनः॥ २९.१३१ ॥
हेमगर्भो महागर्भो जयश्च विजयेश्वरः॥
त्वं कर्ता त्वं विधाता च नित्यो नित्यारिमर्दनः॥ २९.१३२ ॥
महासेनो महातेज वीरसेनश्च भूपतिः॥
सिद्धासनः सुराध्यक्षो भीमसेनो निरामयः॥ २९.१३३ ॥
शौरिर्यदुर्महातेजा वीर्यवान्सत्यविक्रमः॥
तेजोगर्भोऽसुररिपुः सुरमूर्तिः सुरोर्ज्जितः॥ २९.१३४ ॥
कृतज्ञो वरदः सत्यः शरण्यः साधुवत्सलः॥
सुव्रतः सूर्यसंकाशो वह्निगर्भः कणो भुवः॥ २९.१३५ ॥
पिप्पली शीघ्रगो रौद्री गांगेयो रिपुदारणः॥
कार्त्तिकेयः प्रभुः क्षंता नीलदंष्ट्रो महामनाः॥ २९.१३६ ॥
निग्रहो निग्रहाणां च नेता त्वं सुरनंदनः॥
प्रग्रहः परमानंदः क्रोधघ्नस्तार उच्छ्रितः॥ २९.१३७ ॥
कुक्कुटी बहुली दिव्यः कामदो भूरिवर्धनः॥
अमोघोऽमृतदो ह्यग्निः शत्रुघ्नः सर्वमोदनः॥ २९.१३८ ॥
अव्ययो ह्यमरः श्रीमानुन्नतो ह्यग्निसंभवः॥
पिशाचराजः सूर्याभः शिवात्मा शिवनंदनः॥ २९.१३९ ॥
अपारपारो दुर्ज्ञेयः सर्वभूतहिते रतः॥
अग्राह्यः कारणं कर्ता परमेष्ठी परं पदम्॥ २९.१४० ॥
अचिंत्यः सर्वभूतात्मा सर्वात्मा त्वं सनातनः॥
एवं स सर्वभूतानां संस्तुतः परमेश्वरः॥ २९.१४१ ॥
नाम्नामष्टशतेनायं विश्वामित्रमहर्षिणा॥
प्रसन्नमूर्तिराहेदं मुनींद्रं व्रियतामिति॥ २९.१४२ ॥
मम त्वया द्विजश्रेष्ठ स्तुतिरेषा निरूपिता॥
भविष्यति मनोऽभीष्टप्राप्तये प्राणिनां भुवि॥ २९.१४३ ॥
विवर्धते कुले लक्ष्मीस्तस्य यः प्रपठेदिमम्॥
न राक्षसाः पिशाचा वा न भूतानि न चापदः॥ २९.१४४ ॥
विघ्नकारीणि तद्गेहे यत्रैव संस्तुवंति माम्॥
दुःस्वप्नं च न पश्येत्स बद्धो मुच्यते बंधनात्॥ २९.१४५ ॥
स्तवस्यास्य प्रभावेण दिव्यभावः पुमान्भवेत्॥
त्वं च मां श्रुतिसंस्कारैः सर्वैः संस्कर्तुमर्हसि॥ २९.१४६ ॥
संस्काररहितं जन्म यतश्च पशुवत्स्मृतम्॥
त्वं च मद्वरदानेन ब्रह्मर्षिश्च भविष्यसि॥ २९.१४७ ॥
ततो मुनिस्तस्य चक्रे जातकर्मादिकाः क्रियाः॥
पौरोहित्यं तथा भेजे स्कंदस्यैवाज्ञया प्रभुः॥ २९.१४८ ॥
ततस्तं वह्निरभ्यागाद्ददर्श च सुतं गुहम्॥
षट्छीर्षं द्विगुणश्रोत्रं द्वादशाक्षिभुजक्रमम्॥ २९.१४९ ॥
एकग्रीवं चैककायं कुमारं स व्यलोकयत्॥
कलिलं प्रथमे चाह्नि द्वितीये व्यक्तितां गतम्॥ २९.१५० ॥
दृतीयायां शिशुर्जातश्चतुर्थ्यां पूर्ण एवच॥
पंचम्यां संस्कृतः सोऽभूत्पावकं चाप्यपश्यत॥ २९.१५१ ॥
ततस्तं पावकः पार्थ आलिलिंग चुचुंब च॥
पुत्रेति चोक्त्वा तस्मै स शक्त्यस्त्रम ददात्स्वयम्॥ २९.१५२ ॥
स च शक्तिं समादाय नमस्कृत्य च पावकम्॥
श्वेतश्रृंगं समारूढो मुखैः पश्यन्दिशो दश॥ २९.१५३ ॥
व्यनदद्भैरवं नादं त्रास यन्सासुरं जगत्॥
ततः श्वेतगिरेः श्रृंगं रक्षः पद्मदशावृतम्॥ २९.१५४ ॥
बिभेद तरसा शक्त्या शतयोजनविस्तृतम्॥
तदेकेन प्रहारेण खंडशः पतितं भुवि॥ २९.१५५ ॥
चूर्णीकृता राक्षसास्ते सततं धर्मशत्रवः॥
ततः प्रव्यथिता भूमिर्व्यशीर्यत समंततः॥ २९.१५६ ॥
भीताश्च पर्वताः सर्वे चुक्रुशुः प्रलयाद्यथा॥
भूतानि तत्र सुभृशं त्राहित्राहीति चोज्जगुः॥ २९.१५७ ॥
एवं श्रुत्वा ततो देवा वासवं सह तेऽब्रुवन्॥
येनैकेन प्रहारेण त्रैलोक्यं व्याकुली कृतम्॥ २९.१५८ ॥
स संक्रुद्धः क्षणाद्विश्वं संहरिष्यति वासव॥
वयं च पालनार्थाय सृष्टा देवेन वेधसा॥ २९.१५९ ॥
तच्च त्राणं सदा कार्यं प्राणैः कंठगतैरपि॥
अस्माकं पश्यतामेवं यदि संक्षोभ्यते जगत्॥ २९.१६० ॥
धिक्ततो जन्म वीराणां श्लाघ्यं हि मरणं क्षणात्॥
तदस्माभिः सहैनं त्वं क्षतुमर्हसि वासव॥ २९.१६१ ॥
एवमुक्तस्तथेत्युक्त्वा देवैः सार्धं तमभ्ययात्॥
विधित्सुस्तस्य वीर्यं स शक्रस्तूर्णतरं तदा॥ २९.१६२ ॥
उग्रं तच्च महावेगं देवानीकं दुरासदम्॥
नर्दमानं गुहऋ प्रेक्ष्य ननाद जलधिर्यथा॥ २९.१६३ ॥
तस्य नादेन महता समुद्धूतोदधिप्रभम्॥
बभ्राम तत्रतत्रैव देव सैन्यमचेतनम्॥ २९.१६४ ॥
जिघांसूनुपसंप्राप्तान्देवान्दृष्ट्वा स पावकिः॥
विससर्ज्ज मुखात्तत्र प्रवृद्धाः पावकार्चिषः॥ २९.१६५ ॥
अदहद्देवसैन्यानि चेष्ट मानानि भूतले॥
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः॥ २९.१६६ ॥
प्रच्युताः सहसा भांति दिवस्तारागणा इव॥
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम्॥ २९.१६७ ॥
देवा वज्रधरं प्रोचुस्त्यज वज्रं शतक्रतो॥
उक्तो देवैस्तदा शक्रः स्कंदे वज्रवासृजत्॥ २९.१६८ ॥
तद्विसृष्टं जघानाशु पार्श्व स्कंदस्य दक्षिणम्॥
बिभेद च कुरुश्रेष्ठ तदा तस्य महात्मनः॥ २९.१६९ ॥
वज्रप्रहारात्स्कंदस्य संजातः पुरुषोऽपरः॥
युवा कांचनसन्नाहः शक्तिधृग्दिव्य कुंडलः॥ २९.१७० ॥
शाख इत्यभिविख्यातः सोपि व्यनददद्भुतम्॥
ततश्चेंद्रः पुनः क्रुद्धो हृदि स्कंदं व्यदारयत्॥ २९.१७१ ॥
तत्रापि तादृशो जज्ञे नैगमेय इति श्रुतः॥
ततो विनद्य स्कंदाद्याश्चत्वारस्तं तदाभ्ययुः॥ २९.१७२ ॥
तदेंद्रो वज्रमुत्सृज्य प्रांजलिः शरणं ययौ॥
तस्याभयं ददौ स्कंदः सहसैन्यस्य सत्तमः॥ २९.१७३ ॥
ततः प्रहृष्टास्त्रभिदशा वादित्राण्यभ्यवादयन्॥
वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः॥ २९.१७४ ॥
या हरं ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः॥
काकी च हिलिमा चैव रुद्रा च वृषभा तथा॥ २९.१७५ ॥
आया पलाला मित्रा च सप्तैताः शिशुमातरः॥
एतासांवीर्यसंपन्नः शिशुश्चाभूत्सुदारुणः॥ २९.१७६ ॥
स्कंदप्रसादजः पुत्रो लोहिताक्षो भयंकरः॥
एष वीराष्टकः प्रोक्तः स्कंदमातृगणोऽद्भुतः॥ २९.१७७ ॥
पूजनीयः सदा भक्त्या सर्वापस्मारशांतिदः॥
उपातिष्ठत्ततः स्कंदं हिरण्यकवचस्रजम्॥ २९.१७८ ॥
लोहितांबरसंवीतं त्रैलोक्यस्यापि सुप्रभम्॥
युवानं श्रीः स्वयं भेजे तं प्रणम्य शरीरिणी॥ २९.१७९ ॥
श्रिया जुष्टं च तं प्राहुः सर्वे देवाः प्रणम्य वै॥
हिरण्यवर्ण्ण भद्रं ते लोकानां शंकरो भव॥ २९.१८० ॥
भवानिंद्रोऽस्तु नो नाथ त्रैलोक्यस्य हिताय वै॥ २९.१८१ ॥
॥स्कंद उवाच॥
किमिंद्रः सर्वलोकानां करोतीह सुरोत्तमाः॥
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः॥ २९.१८२ ॥
॥देवा ऊचुः॥
इंद्रो दिशति भूतानां बलं तेजः प्रजाः सुखम्॥
प्रज्ञां प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः॥ २९.१८३ ॥
दुर्वृत्तानां स हरति वृत्तस्थानां प्रयच्छति॥
अनुशास्ति च भूतानि कार्येषु बलवत्तरः॥ २९.१८४ ॥
असूर्ये च भवेत्सूर्यस्तथाऽचंद्रे च चंद्रमाः॥
भवत्यग्निश्च वायुश्च पृथिव्यां जीवकारणम्॥ २९.१८५ ॥
एतदिंद्रेण कर्तव्यमिंद्रो हि विपुलं बलम्॥
त्वं चेंद्रो भव नो वीर तारकं जहि ते नमः॥ २९.१८६ ॥
॥इंद्र उवाच॥
त्वं भवेंद्रो महाबाहो सर्वेषां नः सुखावहः॥
प्रणम्य प्रार्थये स्कंद तारकं जहि रक्ष नः॥ २९.१८७ ॥
॥स्कंद उवाच॥
शाधि त्वमेव त्रैलोक्यं भवानिंद्रोस्तु सर्वदा॥
करिष्ये चेंद्रकर्माणि न ममेंद्रत्वमीप्सितम्॥ २९.१८८ ॥
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च॥
करोमि किं च ते शक्रशासनं ब्रूहि तन्मम॥ २९.१८९ ॥
॥इंद्र उवाच॥
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया॥
अभिषिच्छस्व देवानां सैनापत्ये महाबल॥
अहमिंद्रो भविष्यामि तव वाक्याद्यशोऽस्तु ते॥ २९.१९० ॥
॥स्कंद उवाच॥
दानवानां विनाशाय देवानामर्थसिद्धये॥
गोब्राह्मणस्य चार्थाय एवमस्तु वचस्तव॥ २९.१९१ ॥
इत्युक्ते सुमहानादः सुराणामभ्यजायत॥
भूतानां चापि सर्वेषां त्रैलोक्यांकपकारकः॥ २९.१९२ ॥
जयेति तुष्टुवुश्चैनं वादित्राण्यभ्यवादयन्॥
ननृस्तष्टुवुश्चैवं कराघातांश्च चक्रिरे॥ २९.१९३ ॥
तेन शब्देन महता विस्मिता नगनंदिनी॥
शंकरं प्राह को देव नादोऽयमतिवर्तते॥ २९.१९४ ॥
॥रुद्र उवाच॥
अद्य नुनं प्रहृष्टानां सुराणां विविधा गिरः॥
श्रूयंते च तथा देवी यथा जातः सुतस्तव॥ २९.१९५ ॥
गवां च ब्राह्मणानां च साध्वीनां च दिवौकसाम्॥
मार्जयिष्यति चाश्रूणि पुत्रस्ते पुण्यवत्यपि॥ २९.१९६ ॥
एवं वदति सा देवी द्रष्टुं तमुत्सुकाऽभवत्॥
शंकरश्च महातेजाः पुत्रस्नेहाधिको यतः॥ २९.१९७ ॥
वृषभं तत आरुह्य देव्या सह समुत्सुकः॥
सगणो भव आगच्छत्पुत्र दर्शनलालसः॥ २९.१९८ ॥
ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत्॥
अभिगच्छ महादेवं पितरं मातरं प्रभो॥ २९.१९९ ॥
अनयोर्वीर्यसंयोगात्तवोत्पत्तिस्तु प्राथमी॥
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम्॥ २९.२०० ॥
अपूजयदमेयात्मा पितरं मातरं च ताम्॥
ततस्तमालिंग्य सुतं चिरं संयोज्य चाशिषः॥ २९.२०१ ॥
चिरं जहृषतुश्चोभौ पार्वतीपरमेश्वरौ॥
सिद्धसारस्य तत्त्वं च ददौ तुष्टोऽस्य शंकरः॥ २९.२०२ ॥
देवी प्रकृतिमोक्षं च तुष्टा हर्षपरिप्लुता॥
एतस्मिन्नेव काले तु षड्देव्यस्तं समागमन्॥ २९.२०३ ॥
ऋषिभिस्ताः परित्यक्तास्तं पुत्रेति जगुस्तदा॥
पार्वती च ततः प्राह मम पुत्रो न वस्त्वयम्॥ २९.२०४ ॥
स्वाहा ममेति च प्राह पावकश्च ममेति च॥
रुद्रो ममेति च प्राह मम देवनदीति च॥ २९.२०५ ॥
चक्रुस्ते कलहं घोरं विवदंतः परस्परम्॥
पुत्रस्नेहो हि बलवान्पार्थ किंकिं न कारयेत्॥ २९.२०६ ॥
ततस्तान्प्रहसन्नाह विवादो युज्यते न च॥
सर्वेषां वो गुहः पुत्रो मत्तो वै व्रियतां वरः॥ २९.२०७ ॥
ततः प्राहुश्च षड्देव्यः स्वर्गो नो ह्यक्षयो भवेत्॥
तथेति ता गुहः प्राह शक्रस्तत्रांतरेऽब्रवीत्॥ २९.२०८ ॥
रोहिण्याश्चानुजा स्कंद स्पर्धमानाभिजित्खला॥
इच्छंती ज्येष्ठतां देवी पृथक्त्वं च तपोरता॥ २९.२०९ ॥ तु. लक्ष्मीनारायणसंहिता २.३२.१४
ततः प्रभृति मूढोऽस्मि तत्स्थाने स्थापय प्रभो॥
ततस्तथेति च प्रोक्ते कृत्तिकास्ता दिवं गताः॥ २९.२१० ॥
नक्षत्रं सप्तशीर्षाभं भाति तद्वह्निदैवतम्॥
अथैनमब्रवीत्स्वाहा प्रिया नाहं महार्चिषः॥
तदग्नेः प्रियतां देहि सहवासं सदैव च॥ २९.२११ ॥
॥स्कंद उवाच॥
हव्यं कव्यं च यत्किंचिद्द्विजा होष्यंति पावके॥ २९.२१२ ॥
तत्ते नाम्ना प्रदास्यंति वासः सार्धं भवेत्तव॥
पावकः प्रार्थयामास यज्ञभागान्पुनः सुतान्॥ २९.२१३ ॥
स चाप्याहाद्यप्रभृति यज्ञभागानवाप्नुहि॥
इतरे प्रार्थयामासुः ख्यातो नस्त्वं सुतो भव॥ २९.२१४ ॥
एवमेवेति तानाह स्कंदस्तद्धि सुदुर्लभम्॥
ततस्तं योगिनः सर्वे संभूय सनकादयः॥
अभ्यषिंचन्गिरौ तस्मिन्योगिनामादिपत्यके॥ २९.२१५ ॥
योगीश्वरमिति प्राहुस्ततस्तं योगिनस्तथा॥
जहृपुर्देवताश्चैव नानावाद्यन्यवादयन्॥ २९.२१६ ॥
अभिषिक्तेन तेनासौ शुशुभे श्वेतपर्वतः॥
आदित्येनेवांशुमता सुरम्य उदयाचलः॥ २९.२१७ ॥
ततो देवाः सगन्धर्वा नृत्यंत्यप्सरसस्तथा॥
हृष्टानां सर्वभूतानां श्रूयते निनदो महान्॥ २९.२१८ ॥
एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम्॥
प्रहृष्टं प्रेक्ष्य तं स्कन्दं न च तृप्यति दर्शनात्॥ २९.२१९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये स्कन्दकुमारस्य सर्वदेवसैनाधिपत्यभिषेकोत्सववर्मनंनामैकोनत्रिंशोऽध्यायः॥ २९ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 30
॥नारद उवाच॥
ततः स्कन्दः सुरैः सार्धं श्वेतपर्वत मस्तकात्॥
उत्तीर्य तारकं हन्तुं दक्षिणां स दिशं ययौ॥ ३०.१ ॥
ततः सरस्वतीतीरे यानि भूतानि नारद॥
ग्रहाश्चोपग्रहाश्चैव वेतालाः शाकिनी गणाः॥ ३०.२ ॥
उन्मादा ये ह्यपस्माराः पलादाश्च पिशाचकाः॥
देवैस्तेषामाधिपत्ये सोऽभ्यषिच्यत पावकिः॥ ३०.३ ॥
यथा ते नैव मर्यादां संत्यजंति दुराशयाः॥
एतैस्तस्मात्समाक्रांतः शरण्यं पावकिं व्रजेत्॥ ३०.४ ॥
अप्रकीर्णेन्द्रियं दांतं शुचिं नित्यमतंद्रितम्॥
आस्तिकं स्कन्दभक्तं च वर्जयंति ग्रहादिकाः॥ ३०.५ ॥
महेश्वरं च ये भक्ता भक्ता नारायणं च ये॥
तेषां दर्शनमात्रेण नश्यंते ते विदूरतः॥ ३०.६ ॥
ततः सर्वैः सुरैः सार्धं महीतीरं ययौ गुहः॥
तत्र देवैः प्रकथितं महीमाहात्म्यमुत्तमम्॥ ३०.७ ॥
श्रृण्वन्विसिष्मिये स्कन्दः प्रणनाम च तां नदीम्॥
ततो महीदक्षिणतस्तीरमाश्रित्य धिष्ठितम्॥ ३०.८ ॥
प्रणम्य शक्रप्रमुखा गुहं वचनमब्रुवन्॥
अभिषिक्तं विना स्कन्द सेनापतिमकल्मषम्॥ ३०.९ ॥
न शर्म लभते सेना तस्मात्त्वमभिषेचय॥
महीसागरसंभूतैः पुण्यैश्चापि शिवैर्जलैः॥ ३०.१० ॥
अभिषेक्ष्यामहे त्वां च तत्र नो द्रष्टुमर्हसि॥
यथा हस्तिपदे सर्वपदांतर्भाव इष्यते॥ ३०.११ ॥
सर्वतीर्थान्तरस्थानं तथार्णवमहीजले॥
सर्वभूतमयो यद्वत्र्यंबकः परिकीर्त्यते॥ ३०.१२ ॥
सर्वतीर्थमयस्तद्वन्महीसागरसंगमः॥
अर्धनारीश्वरं रूपं यथा रुद्रस्य सर्वदम्॥ ३०.१३ ॥
तथा महीसमुद्रस्य स्नानं सर्वफलप्रदम्॥
येनात्र पितरः स्कन्द तर्पिता भक्तिभावतः॥ ३०.१४ ॥
तेन सर्वेषु तीर्थेषु तर्पिता नात्र संशयः॥
न चैतद्धृदि मंतव्यं क्षारमेतज्जलं हि यत्॥ ३०.१५ ॥
यथा हि कटुतिक्तादि गवा ग्रस्तं हि क्षीरदम्॥
एवमेतत्त्विदं तोयं पितॄणां तृप्ति दायकम्॥ ३०.१६ ॥
एवं ब्रुवत्सु देवेषु कपिलोऽपि मुनिर्जगौ॥
सत्यमेतदुमापुत्र सर्वतीर्थमयी मही॥ ३०.१७ ॥
कर्दमो यस्त्वहमपि ज्ञात्वा तीर्थमहा गुणान्॥
सर्वां भुवं परित्यज्य कृत्वा ह्यश्रममास्तितः॥ ३०.१८ ॥
ततो महेश्वरः प्राह सत्यमेतत्सुरोदितम्॥
ब्रह्माद्यास्तं तथा प्राहुरत्र भूयोऽप्यथो गुरुः॥ ३०.१९ ॥
अत्राभिषेकं ते वीर करिष्यामः समादिश॥
ततः सुविस्मितस्तत्र स्नात्वा स्कन्दो महामनाः॥ ३०.२० ॥
अभिषिञ्चन्तु मां देवा इति तानब्रवीद्वचः॥
ततोऽभिषेकसंभारान्सर्वान्संभृत्य शास्त्रतः॥ ३०.२१ ॥
जुहुवुर्मंत्रपूतेऽग्नौ चत्वारो मुख्यऋत्विजः॥
ब्रह्मा च कपिलो जीवो विश्वामित्रश्चतुर्थकः॥ ३०.२२ ॥
अन्ये च शतशस्तत्र मुनयो वेदपारगाः॥
तत्राद्भुतं महादेवो दर्शयामास भारत॥ ३०.२३ ॥
यदग्निकुण्डमध्यस्थो लिंगमूर्तिर्व्यदृश्यत॥
अहमेवाग्निमध्यस्थो हविर्गृह्णामि नित्यशः॥ ३०.२४ ॥
एतत्संदर्शनार्थाय लिंगमूर्तिरभूद्विभुः॥
तल्लिंगमतुलं देवा नमश्चक्रुर्मुदान्विताः॥ ३०.२५ ॥
सर्वपापापहं पार्थ सर्वकामफलप्रदम्॥
तत्र होमावसाने च दत्ते हिमवता शुभे॥ ३०.२६ ॥
दिव्यरत्नान्विते स्कन्दो निषण्णः परमासने॥
सर्वमंगलसंभारैर्विधिमंत्रपुरस्कृतम्॥ ३०.२७ ॥
अभ्यषिंचंस्ततो देवाः कुमारं शंकरात्मजम्॥
इंद्रो विष्णुर्महावीर्यो ब्रह्मरुद्रौ च फाल्गुन॥ ३०.२८ ॥
आदित्याद्य ग्रहाः सर्वे तथोभावनिलानलौ॥
आदित्या वसवो रुद्राः साध्याश्चैवाश्विनावुभौ॥ ३०.२९ ॥
विश्वेदेवाश्च मरुतो गंधर्वाप्सरसस्तथा॥
देवब्रह्मर्षयश्चैव वालखिल्या मरीचिपाः॥ ३०.३० ॥
विद्याधरा योगसिद्धाः पुलस्त्यपुलहादयः॥
पितरः कश्यपोऽत्रिश्च मरीचिर्भृगुरंगिराः॥ ३०.३१ ॥
दक्षोऽथ मनवो ये च ज्योतींषि ऋतवस्तथा॥
मूर्तिमत्यश्च सरितो महीप्रभृतिकास्तथा॥ ३०.३२ ॥
लवणाद्याः समुद्राश्च प्रभासाद्याश्च तीर्थकाः॥
पृथिवी द्यौर्दिशश्चैव पादपाः पार्वतास्तथा॥ ३०.३३ ॥
आदित्याद्या मातरश्च कुर्वंत्यो गुहमंगलम्॥
वासुकिप्रमुखा नागास्थथोभौ गरुडारुणौ॥ ३०.३४ ॥
वरुणो धनदश्चैव यमः सानुचरस्तथा॥
राक्षसो निर्ऋतिश्चैव भूतानि च पलाशनाः॥ ३०.३५ ॥
धर्मो बृहस्पतिश्चैव कपिलो गाधिनंदनः॥
बहुलत्वाच्च ये नोक्ता विविधा देवतागणाः॥ ३०.३६ ॥
ते च सर्वे महीकूले ह्यभ्यषिंचन्मुदा गुहम्॥
ततो महास्वनामुग्रां देवदैत्यादिदर्पहाम्॥ ३०.३७ ॥
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम्॥
विष्णुर्ददौ वैजयंतीं मालां बलविवर्धिनीम्॥ ३०.३८ ॥
उमा ददौ चारजसी वाससी सूर्यसप्रभा॥
गंगा कमंडलुं दिव्यममृतोद्भवमुत्तमम्॥ ३०.३९ ॥
मही महानदी तस्य चाक्षमालां ससागरा॥
ददौ मुदा कुमाराय दंडं चैव बृहस्पतिः॥ ३०.४० ॥
गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम्॥
अरुणस्ताम्रचूडं च प्रददौ चरणायुधम्॥ ३०.४१ ॥
छागं च वरुणो राजा बलवीर्यसमन्वितम्॥
कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ जयम्॥ ३०.४२ ॥
चतुरोऽनुचरांश्चैव महावीर्यान्बलोत्कटान्॥
नंदिसेनं लोहिताक्षं घण्टाकर्णं च मानसान्॥ ३०.४३ ॥
चतुर्थं चाप्यतिबलं ख्यातं कुसुममालिनम्॥
ततः स्थाणुर्ददौ देवो महापारिषदं क्रतुम्॥ ३०.४४ ॥
स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम्॥
जघान दोर्भ्यां संक्रुद्धः प्रयुतानि चतुर्दश॥ ३०.४५ ॥
यमः प्रादादनुचरौ यमकालोपमौ तदा॥
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती॥ ३०.४६ ॥
सुभ्राजौ भास्करस्यैव यौ सदा चानुयायिनौ॥
तौ सूर्यः कार्तिकेयाय ददौ पार्थ मुदान्वितः॥ ३०.४७ ॥
कैलासश्रृङ्गसंकाशौ श्वेतमाल्यानुलेपनौ॥
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च॥ ३०.४८ ॥
ज्वालजिह्वं ज्योतिषं च ददावग्निर्महाबलौ॥
परिघं च बलं चैव भीमं च सुमहाबलम्॥ ३०.४९ ॥
स्कंदाय त्रीननुचरान्ददौ विष्णुरुरुक्रमः॥
उत्क्रोशं पंचजं चैव वज्रदण्डधरावुभौ॥ ३०.५० ॥
ददौ महेशपुत्राय वासवः परवीरहा॥
तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून्॥ ३०.५१ ॥
वर्धनं बंधनं चैव आयुर्वेदविशारदौ॥
स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ॥ ३०.५२ ॥
बलं चातिबलं चैव महावक्त्रौ महाबलौ॥
प्रददौ कार्तिकेयाय वायुश्चानुचरावुभौ॥ ३०.५३ ॥
घसं चातिघसं वीरौ वरुणश्च ददौ प्रभुः॥
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम्॥ ३०.५४ ॥
हिमवान्प्रददौ पार्थ साक्षाद्दौहित्रकाय वै॥
कांचनं च ददौ मेरुर्मेघमालिनमेव च॥ ३०.५५ ॥
उच्छ्रितं चातिशृंगं च महापाषाणयोधिनौ॥
स्वाहेयाय ददौ प्रीतः स विंध्यः पार्षदौ शुभौ॥ ३०.५६ ॥
संग्रहं विग्रहं चैव समुद्रोऽपि गधाधरौ॥
प्रददौ पार्षदौ विरौ महीनद्या समन्वितः॥ ३०.५७ ॥
उन्मादं पुष्पदंतं च शंकुकर्णं तथैव च॥
प्रददावग्निपुत्राय पार्वती शुभदर्शना॥ ३०.५८ ॥
जयं महाजयं चैव नागौ ज्वलनसूनवे॥
प्रददुर्बलिनां श्रेष्ठौ सुपर्णः पार्षदावुभौ॥ ३०.५९ ॥
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा॥
सर्वे जगति ये मुख्या ददुः स्कंदाय पार्षदान्॥ ३०.६० ॥
नानावीर्यान्महावीर्यान्नानायुधविभूषणान्॥
बहुलत्वान्न शक्यंते संख्यातुं ते च फाल्गुन॥ ३०.६१ ॥
मातश्च ददुस्तस्मै तदा मातृगणान्प्रभो॥
याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः॥ ३०.६२ ॥
प्रभावती विशालाक्षी गोपाला गोनसा तथा॥
अप्सुजाता बृहद्दंडी कालिका बहुपुत्रका॥ ३०.६३ ॥
भयंकरी च चक्रांगी तीर्थनेमिश्च माधवी॥
गीतप्रिया अलाताक्षी चटुला शलभामुखी॥ ३०.६४ ॥
विद्युज्जिह्वा रुद्रकाली शतोलूखलमेखला॥
शतघंटाकिंकिणिका चक्राक्षी चत्वरालया॥ ३०.६५ ॥
पूतना रोदना त्वामा कोटरा मेघवाहिनी॥
ऊर्ध्ववेणीधरा चैव जरायुर्जर्जरानना॥ ३०.६६ ॥
खटखेटी दहदहा तथा धमधमा जया॥
बहुवेणी बहुशीरा बहुपादा बहुस्तनी॥ ३०.६७ ॥
शतोलूकमुखी कृष्णा कर्णप्रावरणा तथा॥
शून्यालया धान्यवासा पशुदा धान्यदा सदा॥ ३०.६८ ॥
एताश्चान्याश्च बह्व्यश्च मातरो भरतर्षभ॥
बहुलत्वादहं तासां न संख्यातुमिहोत्सहे॥ ३०.६९ ॥
वृक्षचत्वरवासिन्यश्चतुष्पथनिवेशनाः॥
गुहास्मशानवासिन्यः शैलप्रस्रवणालयाः॥ ३०.७० ॥
नानाभरणवेषास्ता नानामूर्तिधरास्तथा॥
नानाभाषायुधधराः परिवव्रुस्तदा गुहम्॥ ३०.७१ ॥
ततः स शुशुभे श्रीमान्गुहो गुह इवापरः॥
सैनापत्ये चाभिषिक्तो देवैर्नानामुनीश्वरैः॥ ३०.७२ ॥
ततः प्रणम्य सर्वांस्ता नेकैकत्वेन पावकिः॥
व्रियतां वर इत्याह भवब्रह्मपुरोगमान्॥ ३०.७३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कार्तिकेयस्य सेनानीत्वेऽभिषेकवर्णनंनाम त्रिंशोऽध्यायः॥ ३० ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 31
॥नारद उवाच॥
ते चैनं योज्य चाशीर्भिरयाचंत वरं गुहम्॥
एष एव वरोऽस्माकं यत्पापं तारकं जहि॥ ३१.१ ॥
एवमस्त्विति तानुक्त्वा योगोयोग इति ब्रुवन्॥
तारकारिमहातेजा मयूरं चाध्यरोहत॥ ३१.२ ॥
शक्तिहस्तो विनद्याथ गुहो देवांस्तदाब्रवीत्॥
यद्यद्य तारकं पापं नाहं हन्मि सुरोत्तमाः॥ ३१.३ ॥
गोब्राह्मणावमन्तॄणां ततो यामि गतिं स्फुटम्॥
एवं तेन प्रतिज्ञाते शब्दोऽतिसुमहानभूत्॥ ३१.४ ॥
योगोयोग इति प्राहुराज्ञया शरजन्मनः॥
अरजो वाससी रक्ते वसानः पार्वतीसुतः॥ ३१.५ ॥
अथाग्रे सर्वदेवानां स्थितो वीरो ययौ मुदा॥
तस्य केतुरलं भाति चरणायुधशोभितः॥ ३१.६ ॥
चरणाभ्यां चरणाभ्यां गिरीञ्छक्तो यो विदारयितुं रणे॥
या चेष्टा सर्वभूतानां प्रभा शांतिर्बलं यथा॥ ३१.७ ॥
तन्मया गुहशक्तिः सा भृशं हस्ते व्यरोचत॥
यद्दार्ढ्यं सर्वलोकेषु तन्मयं कवचं तथा॥ ३१.८ ॥
योत्स्यमानस्य वीरस्य देहेप्रादुरभूत्स्वयम्॥
धर्मः सत्यमसंमोहस्तेजः कांतत्वमक्षतिः॥ ३१.९ ॥
बलमोजः कृपा चव बद्धा करयुगं तथा॥
आदेशकारीण्यग्रेऽस्य स्वयं तस्थुर्महात्मनः॥ ३१.१० ॥
तमग्रे चापि गच्छंतं पृष्ठतोनुययौ हरः॥
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः॥ ३१.११ ॥
निर्मितेन हरेणैव स्वयमीशेन लीलया॥
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे॥ ३१.१२ ॥
अभीषून्पुरुषव्याघ्र ब्रह्मा च जगृहे स्वयम्॥
ते पिबंत इवाकाशं त्रासयंतश्चराचरम्॥ ३१.१३ ॥
सिंहा रथस्य गच्छंतो नदंतश्चारुकेसराः॥
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह॥ ३१.१४ ॥
विद्युता मेडितः सूर्यः सेंद्रचापघनो यथा॥
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह॥ ३१.१५ ॥
आस्थाय रुचिरं याति पुष्पकं नरवाहनः॥
ऐरावणं समास्ताय शक्रश्चापि सुरैः सह॥ ३१.१६ ॥
पृष्ठतोनुययौ यांतं वरदं वृषभध्वजम्॥
तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः॥ ३१.१७ ॥
गच्छंति वसुभिः सार्धं रुद्रैश्च सह संगताः॥
यमश्च मृत्युना सार्धं सर्वतः परिवारितः॥ ३१.१८ ॥
घोरैर्व्याधिशतैश्चापि सव्यतो याति कोपितः॥
यमस्य पृष्ठतश्चापि घोरस्त्रिशिखरः सितः॥ ३१.१९ ॥
विजयोनाम रुद्रस्य याति शूलः स्वयं कृतः॥
तमुग्रपाशो भगवन्वरुणः सलिलेश्वरः॥ ३१.२० ॥
परिवार्य शतैयाति यादोभिर्विविधैर्वृतः॥
पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः॥ ३१.२१ ॥
गदामुशलशक्त्याद्यैर्वरप्रहरणैर्वृतः॥
पट्टिशं चान्वगात्पार्थ अस्त्रं पाशुपतं महत्॥ ३१.२२ ॥
बहुशीर्षं महाघोरमेकपादं बहूदरम्॥
कमंडलुश्चास्य पश्चान्महर्षिगणसेवितः॥ ३१.२३ ॥
तस्य दक्षिणतो भाति दण्डो गच्छञ्छ्रिया वृतः॥
भृग्वंगिरोभिः सहितो देवैरप्य भिपूजितः॥ ३१.२४ ॥
राक्षसाश्चान्यदेवाश्च गन्धर्वा भुजगास्तथा॥
नद्यो नदाः समुद्राश्च मुनयोऽप्सरसां गणाः॥ ३१.२५ ॥
नक्षत्राणि ग्रहाश्चैव जंगमं स्थावरं तथा॥
मातरश्च महादेवमनुजग्मुः क्षुधान्विताः॥ ३१.२६ ॥
सर्वेषां पृष्ठतश्चासीत्तार्क्ष्यस्थो बुद्धिमान्हरिः॥
पालयन्पृतनां सर्वां स्वपरीवारसंवृतः॥ ३१.२७ ॥
एवं सैन्यसमोपेत उत्तरं तटमागतः॥
ताम्रप्राकारमाश्रित्य तस्थौ त्र्यंबकनंदनः॥ ३१.२८ ॥
स तारकपुरस्यापि पश्यनृद्धि मनुत्तमाम्॥
विसिष्मिये महासेनः प्रशशंस तपोऽस्य च॥ ३१.२९ ॥
स्थितः पश्यन्स शुशुभे मयूरस्थो गुहस्तदा॥
छत्रेण ध्रियमाणेन स्वयं सोमसमस्त्विषा॥ ३१.३० ॥
वीज्यमानश्चामराभ्यां वाय्वग्रिभ्यां महाद्युतिः॥
मातृभिश्च सुरैर्दत्तैः स्वैर्गणैरपि संवृतः॥ ३१.३१ ॥
ततः प्रणम्य तं शक्रो देव मध्ये वचोऽब्रवीत्॥
पश्यपश्य महासेन दैत्यानां बलशालिनाम्॥ ३१.३२ ॥
ये त्वां कालं न जानंति मर्त्या गृहरता इव॥
एतेषां च गृहे दूतो यस्त्वां शंसतु तारकम्॥ ३१.३३ ॥
वीराणामुचितं त्वेतत्कीर्तिदं च महाजने॥
अनुज्ञया ततः स्कन्दभक्तं शक्रो धनंजय॥ ३१.३४ ॥
मामादिश्यासुरेन्द्राय प्राहिणोद्दौत्ययोग्यकम्॥
अहं स्वयं गन्तुकामः शक्रेणापि च प्रेषितः॥ ३१.३५ ॥
प्रासादे स्त्रीसहस्राणां प्रावोचं मध्यतोऽप्यहम्॥
असुराधमदुर्बुद्धे शक्रस्त्वामाह तच्छृणु॥ ३१.३६ ॥
यज्जगद्दलनादाप्तं किल्बिषं दानव त्वया॥
तस्याहं नाशकस्तेऽद्य पुरुषश्चेद्भविष्यसि॥ ३१.३७ ॥
शीघ्रं निःसर पापिष्ठ निःसरिष्यसि चेन्न हि॥
क्षणात्तव पुरं क्षेप्स्ये पावित्र्यायैव सागरे॥ ३१.३८ ॥
इति श्रुत्वा रूक्षवाचं क्रुद्धः स्त्रीगणसंवृतः॥
मुष्टिमुद्यम्यमाऽधावद्भीतश्चाहं पलायितः॥ ३१.३९ ॥
व्याकुलस्तत्र वृत्तांतं कुमाराय न्यवेदयम्॥
मयि चाप्यागते दैत्यश्चिंतयामास चेतसि॥ ३१.४० ॥
नालब्ध संश्रयः शक्रो वक्तुमेतदिहार्हति॥
निमित्तानि च घोराणि संत्रासं जनयंति मे॥ ३१.४१ ॥
एवं विचिंत्य चोत्थाय गवाक्षं सोध्यरोहत॥
सहस्रभौमिकावासश्रृङ्गवातायनस्थितः॥ ३१.४२ ॥
अपश्यद्देवसैन्यं स दिवं भूमिं च संवृतम्॥
रतैर्गजैर्हयैश्चापि नादिताश्च दिशो दश॥ ३१.४३ ॥
विमानैश्चाद्भुताकारैः किंनरोद्गीतनादितैः॥
दुन्दुभिभिर्गोविषाणैस्तालैः शंखैश्च नादितैः॥ ३१.४४ ॥
अक्षोभ्यामिव तां सेनां दृष्ट्वा सोऽचिंतयत्तदा॥
एते मया जिताः पूर्वं कस्माद्भूयः समागताः॥ ३१.४५ ॥
इति चिंतापरो दैत्यः शुश्राव कटुकाक्षरम्॥
देवबंदिभिरुद्वुष्टं घोरं हृदयदारणम्॥ ३१.४६ ॥
जयातु लशक्तिदीधितिपिंजररुचारुणमंडलभुजोद्भासितदेवसैन्य पुरवनकुमुदकाननविकासनेंदो कुमारनाथ जय दितिकुलमहोदधिवडवानल मधुररवमयूररवासुरमुकुटकूटकुट्टितचरणनखांकुर महासेन तारकवंशशुष्कतृमदावानल योगीश्वरयॉ योगिजनहृदयगगनविततचिंतासंतानसंतमसनोदनखरकिरणकल्पनखनिकरविराजितचरणकमल स्कन्द जय बाल सप्तवासर भुवनावलिशोकसंदहन॥ ३१.४७ ॥
नमो नमस्तेस्तु मनोरमाय नमोस्तु ते साधुभयापहाय॥
नमोस्तु ते बालकृताचलाय नमोनमो नाशय देवशत्रून्॥ ३१.४८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कुमारस्य तारकासुनरनगरं प्रति गमनवर्णनंनामैकत्रिंशोऽध्यायः॥ ३१ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 32
॥नारद उवाच॥
श्रुत्वैतं संस्तवं दैत्यः संघुष्टं देवबंदिभिः॥
सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितम्॥ ३२.१ ॥
श्रुत्वा स क्लिन्नसर्वांगो द्वाःस्थं राजा वचोऽब्रवीत्॥
अमात्यान्द्रष्टुमिच्छामि शीघ्रमानय मा चिरम्॥ ३२.२ ॥
ततस्ते राजवचनात्कालनेमि मुखागताः॥
प्राह तांस्तारको दैत्यः किमिदं वो विचेष्टितम्॥ ३२.३ ॥
यैः शत्रुसंभवा वार्ता कापि न श्रीवितस्त्वहम्॥
मदिराकाममत्तानां मंत्रित्वं वो न युज्यते॥
हितं मन्त्रयते राज्ञस्तेन मंत्री निगद्यते॥ ३२.४ ॥
॥अमात्या ऊचुः॥
को जानाति सुरान्दीनान्दैत्यानामिति नो मतिः॥ ३२.५ ॥
मा विषीद महाराज वयं जेष्यामहे सुरान्॥
बालादपि भयं किं वा लज्जायै चिंतितं त्विदम्॥ ३२.६ ॥
सर्वमेतत्सुसाध्यं च भेरी संताड्यतां दृढम्॥
ततो दैत्येन्द्रवचनात्संनाहजननी तदा॥ ३२.७ ॥
भृशं संताडिता भेरी कंपयामास सा जगत्॥
स्मरणाद्दैत्यराजस्य पर्वतेभ्यो महासुराः॥ ३२.८ ॥
निम्नगाभ्यः समुद्रेभ्यः पातालेभ्योंऽबरादपि॥
सहसा समनुप्राप्ता युगांतानलसप्रभाः॥ ३२.९ ॥
कोटिकोटिसहस्रैस्तु परार्धैर्दशभिः शतैः॥
सेनापतिः कालनेमिः शीघ्रं देवानुपाययौ॥ ३२.१० ॥
चतुर्योजनविस्तीर्णे नानाश्चर्यसमन्विते॥
रथे स्थितो मनाग्दीनस्तारकः समदृश्यत॥ ३२.११ ॥
एतस्मिन्नंतरे पार्थ क्रुद्धैः स्कन्दस्य पार्षदैः॥
प्राकारः पातितः सर्वो भग्नान्युपवनानि च॥ ३२.१२ ॥
ततश्चचाल वसुधा देवी सवनकानना॥
जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम्॥ ३२.१३ ॥
तमोभूतं जगच्चसीद्गृध्रैर्व्याप्तं नभोऽभवत्॥
ततो नानाप्रहरणं प्रलयांबुदसन्निभम्॥ ३२.१४ ॥
कालनेमिमुखं पार्थ अदृश्यत महद्बलम्॥
तद्धि घोरमसंख्येयं जगर्ज विविधा गिरः॥ ३२.१५ ॥
अभ्यद्रवद्रणे देवान्भगवंतं च शंकरम्॥
विनदद्भिस्ततो दैत्यैन्देवानीकं महायुधैः॥ ३२.१६ ॥
पर्वतैश्च शतघ्नीभिरायसैः परिधैरपि॥
क्षणेन द्रावितं सर्वं विमुखं चाप्यदृश्यत॥ ३२.१७ ॥
असुरैर्वध्यमाने तु पावकैरिव काननम्॥
अपतद्दावभूमिष्ठ महाद्रुमवनं यथा॥ ३२.१८ ॥
ते भिन्नास्थिशि रोदेहाः प्राद्रवंत दिवौकसः॥
न नाथमध्यगच्छंत वध्यमाना महासुरैः॥ ३२.१९ ॥
अथ तद्विद्रुतं सैन्यं दृष्ट्वाः पुरंदरः॥
आश्वासयन्नुवाचेदं बलवद्दानवार्दितम्॥ ३२.२० ॥
भयं त्यजत भद्रं वः शुराः शस्त्राणि गृह्णत॥
कुरुध्वं विक्रमे बुद्धि मा च काचिद्व्यथास्तु वः॥ ३२.२१ ॥
एष कालानलप्रख्यो मयूरं समुपस्थितः॥
रक्षिता वो महासेनः कथं भीतिस्तथापि वः॥ ३२.२२ ॥
शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवोकसः॥
दानवान्प्रत्ययुध्यंत शक्रं कृत्वा व्यपाश्रयम्॥ ३२.२३ ॥
कालनेमिर्महेन्द्रेण संयुगे समयुज्यत॥
सहस्राक्षौहिणीयुक्तो जंभकः शंकरेण च॥ ३२.२४ ॥
कुजंभो विष्णुना चैव तावत्य क्षौहिणीवृतः॥
अन्ये च त्रिदशाः सव मरुतश्च महाबलाः॥ ३२.२५ ॥
प्रत्ययुध्यंतं दैत्येंद्रेः साध्याश्च वसुभिः सह॥
ततो बहुविधं युद्धं कालनेमिर्विधायच॥ ३२.२६ ॥
उत्सृज्य सहसा पार्थ ऐरावणशिरःस्थितः॥
स तु पादप्रहारेण मुष्टिना चैव तं गजम्॥ ३२.२७ ॥
शक्रं च चघ्ने विनदन्पेततुस्तावुभौ भुवि॥
ततः शक्रं समादाय कालनेमिर्विचेतसम्॥ ३२.२८ ॥
रथमाश्रित्य भूयोपि तारकाभिमुखो ययौ॥
अथ क्रुद्धं तदा देवैः सहसा चांतकादिभिः॥ ३२.२९ ॥
ह्रियते ह्रियते राजा त्राता कोऽपि न विद्यते॥
एतस्मिन्नंतरे शर्वं पिनाकधनुषश्च्युतैः॥ ३२.३० ॥
बाणैः ससैन्यं कृत्वा च जंभकं गृध्रमोदनम्॥
कालनेमिं समागम्य रथस्थो वाक्यमब्रवीत्॥ ३२.३१ ॥
किमेतेन महेन्द्रेण मया युध्यस्व दानव॥
वीरंमन्य सुदुर्बुद्धे ततो ज्ञास्यसि वीरताम्॥ ३२.३२ ॥
॥कानेमिरुवाच॥
नग्नेन सह को युध्येद्धतेनापि च येन वा॥
शंसत्सु दैत्यवीराणामुपहासः प्रजायते॥ ३२.३३ ॥
आत्मनस्तु समं किंचिद्विलोक्य सुदुर्मते॥
तदाकर्ण्य च सावज्ञं वचः शर्वो विसिष्मिये॥ ३२.३४ ॥
ततः कुमारः सहसा मयूरस्थोऽभ्यधावत॥
कुजंभं सानुगं हत्वा वासुदेवोप्यधावत॥ ३२.३५ ॥
ततो हरिः स्कंदमाह किमेतेन तव प्रभो॥
दैत्याधमेन पापेन मुहूर्तं पश्य मे बलम्॥ ३२.३६ ॥
एवमुक्त्वा निवार्यैनं केशवो गरुडस्थितः॥
शार्ङ्गकोदंडनिर्मुक्तैर्बाणैर्दैत्यमवाकिरत्॥ ३२.३७ ॥
स तैर्बाणैस्ताड्यमानो वज्रैरिव महासुरः॥
विमुच्य वासवं क्रुद्धो बाणांस्तान्व्यधमच्छरैः॥ ३२.३८ ॥
यान्यान्बाणान्हरिर्दिव्यानस्त्राणि च मुमोच ह॥
निवारयति दैत्यस्तान्प्रहसँल्लीलयैव च॥ ३२.३९ ॥
ततः कौमोदकीं गृह्य क्षिप्रकारी जनार्दनः॥
मुमोच सैन्यनाथाय सारथिं च व्यचूर्णयत्॥ ३२.४० ॥
ततो रथादवप्लुत्य विवृत्य वदनं महत्॥
गरुडं चंचुनादाय स विष्णुं क्षिप्तवान्मुखे॥ ३२.४१ ॥
ततोऽभूत्सर्वदेवानां विमोहो जगतामपि॥
चचाल वसुधा चेलुः पर्वताः सप्त चार्णवाः॥ ३२.४२ ॥
कालनेमिर्नश्चैव प्रानृत्यत महारणे॥
असंमूढस्ततो विष्णुस्त्वराकाल उपस्थिते॥ ३२.४३ ॥
कुक्षिं विदार्य चक्रेण भास्करोऽभादिवोदितः॥
बहिर्भूतो हरिश्चैनं महोयित्वा स्वनिन्दया॥ ३२.४४ ॥
पातालस्य तलं निन्ये तत्र शिश्ये स काष्ठवत्॥
ततश्चक्रेण दैत्यानां निहता दशकोट्यः॥ ३२.४५ ॥
प्रमोदितास्तथा देवा विमोहास्तत्क्षणाद्बभुः॥
ततःशर्वस्तमालिंग्य साधुसाधु जनार्दन॥ ३२.४६ ॥
त्वया यद्विहितं कर्म तत्कर्तान्यो न विद्यते॥
महिषाद्याः सुदुर्जेया देव्या ये विनिपतिताः॥ ३२.४७ ॥
तेषामतिबलो ह्येष त्वया विष्णो विनिर्जितः॥
तारकामयसंग्रामे वध्यस्तेसौ जनार्दन॥ ३२.४८ ॥
कंसरूपः पुनस्तेऽयं हंतव्योऽष्टमजन्मनि॥
एवं प्रशंसमानास्ते वासुदेवं जगद्गुरुम्॥ ३२.४९ ॥
शस्त्रजालैर्लब्धसंज्ञान्दैत्यसैन्याननाशयत्॥
तानि दैत्यशरीराणि जर्जराणि महायुधैः॥ ३२.५० ॥
अपतन्भूतले पार्थ च्छिन्नाभ्राणीव सर्वशः॥
ततस्तद्दानवं सैन्यं हतनाथमभूत्तदा॥ ३२.५१ ॥
देवैः स्कंदानुगैश्चैव कृतं शस्त्रैः पराङ्मुखम्॥
अथो क्रुष्टं तदा हृष्टैः सर्वैर्देवैर्मुदायुतैः॥ ३२.५२ ॥
संहतानि च सर्वाणि तदा तूर्याण्यवादयन्॥
अथ भग्नं बलं प्रेक्ष्य हतवीरं महारणे॥ ३२.५३ ॥
देवानां च महामोदं तारकः प्राह सारथिम्॥
सारथे पश्य सैन्यानि द्राव्यमाणानि मे सुरैः॥ ३२.५४ ॥
येस्माभिस्तृणवद्दृष्टाः पश्य कालस्य चित्रताम्॥
तन्मे वाहय शीघ्रं त्वं रथमेनं सुरान्प्रति॥ ३२.५५ ॥
पश्यंतु मे बलं बाह्वोर्द्रवंतु च सुराधमाः॥
ब्रुवन्नेवं सारथिं स विधुन्वन्सुमहद्धनुः॥ ३२.५६ ॥
क्रोध रक्तेक्षणो राजा देवसैन्यं समाविशत्॥
आगच्छमानं तं दृष्ट्वा हरिः स्कंदमथाब्रवीत्॥ ३२.५७ ॥
कुमार पश्य दैत्येंद्रं कालं यद्वद्युगात्यये॥
अयं स येन तपसा घोरेणाराधितः शिवः॥ ३२.५८ ॥
अयं स येन शक्राद्याः कृता मर्काः समार्बुदम्॥
अयं स सर्वशस्त्रैगैर्योऽस्माभिर्न जितो रणे॥ ३२.५९ ॥
नावज्ञया प्रद्रष्टव्यस्तारकोऽयं महासुरः॥
सप्तमं हि दिनं तेऽद्य मध्याह्नोऽयं च वर्तते॥ ३२.६० ॥
अर्वागस्तमनादेनं जहि वध्योऽन्यथा नहि॥
एवमुक्त्वा स शक्रादींस्त्वरितः केशवोऽब्रवीत्॥ ३२.६१ ॥
आयासयत दैत्येंद्रं सुखवध्यो यथा भवेत्॥
ततस्ते विष्णुवचनाद्विनदन्तो दिवौकसः॥ ३२.६२ ॥
तमासाद्य शरव्रातैर्मुदिताः समवाकिरन्॥
प्रहसन्निव देवांस्तान्द्रावयामास तारकः॥ ३२.६३ ॥
यथा नास्तिकदुर्वृत्तो नानाशास्त्रोपदेशकान्॥
सोढुं शक्ता न ते वीरं महति स्यंदने स्थितम्॥ ३२.६४ ॥
महापस्मारसंक्रांतं यथैवाप्रियवादिनम्॥
विधूय सकलान्देवान्क्षणमात्रेण तारकः॥ ३२.६५ ॥
आजगाम कुमाराय विधुवन्स महाधनुः॥
आगच्छमानं तं दृष्ट्वा स्कंदः प्रत्युद्ययौ ततः॥ ३२.६६ ॥
तस्यारक्षद्भवः पार्श्वं दक्षिणं चैव तं हरिः॥
पृष्ठे च पार्षदास्तस्य कोटिशोऽर्बदशस्तथा॥ ३२.६७ ॥
ततस्तौ सुमहायुद्धे संसक्तौ देवदैत्ययौः॥
धर्माधर्माविवोदग्रौ जगदाश्चर्यकारकौ॥ ३२.६८ ॥
ततः कुमारमासाद्य लीलया तारकोऽब्रवीत्॥
अहो बालातिबालस्त्वं यत्त्वं गीर्वाणवाक्यतः॥ ३२.६९ ॥
आसादयसि मां युद्धे पतंग इव पावकम्॥
वधेन तव को लाभो मम मुक्तोऽसि बालक॥ ३२.७० ॥
पिष क्षीरं गृहाणेमं कंदुकं क्रीड लीलया॥
एवमुक्तः प्रहस्याह तारकं योगिनां गुरुः॥ ३२.७१ ॥
शिशुत्वं मावमंस्था मे शिशुः कष्टो भुजंगमः॥
दुष्प्रेक्ष्यो भास्करो बालो दुःस्पर्शोऽल्पोऽपि पावकः॥ ३२.७२ ॥
अल्पाक्षरो न मंत्रः किं सस्फुरो दैत्य दृश्यते॥
एवमुक्त्वा दैत्यमुक्तं गृहीत्वा कंदुकं च तम्॥ ३२.७३ ॥
तस्मिञ्छक्त्यस्त्रमादाय दैत्याय प्रमुमोच ह॥
तस्य तेन प्रहारेम रथश्चूर्णिकृतोऽभवत्॥ ३२.७४ ॥
चतुर्योजनमात्रो यो नानाश्चर्यसमन्वितः॥
गरुडस्य सुता ये च शीर्यमाणे रथोत्तमे॥ ३२.७५ ॥
मुक्ताः कथंचिदुत्पत्य सागरांतरमाविशन्॥
ततः क्रुद्धस्तारकश्च मुद्गरं क्षिप्तवान्गुहे॥ ३२.७६ ॥
विंध्याद्रिमिव तं स्कंदो गृहीत्वा तं व्यताडयत्॥
स्थिरे तस्योरसि व्यूढे मुद्गरः शतधाऽगमत्॥ ३२.७७ ॥
मेने च दुर्जयं दैत्यस्तदा षड्वदनं रणे॥
चिंतयामास बुद्ध्या च प्राप्तं तद्ब्रह्मणो वचः॥ ३२.७८ ॥
तं भीतमिव चालक्ष्य दैत्यवीराश्च कोटिशः॥
नदंतोऽतिमहासेनं नानाशस्त्रैरवाकिरन्॥ ३२.७९ ॥
क्रुद्धस्तेषु ततः स्कंदः शक्तिं घोरामथाददे॥
अभ्यस्यमाने शक्त्यस्त्रे स्कंदनामिततेजसा॥ ३२.८० ॥
उल्काजालं महाघोरं पपात वसुधातले॥
चाल्यमाना तथा शक्तिः सुघोरा भवसूनुना॥ ३२.८१ ॥
ततः कोट्यो विनिष्पेतुः शक्तीनां भर्तर्षभ॥
स शक्त्यस्त्रेण बलवान्करस्थेनाहनत्प्रभुः॥ ३२.८२ ॥
अष्टौ पद्मानि दैत्वानां दशकोटिशतानि च॥
तथा नियुतसाहस्रं वाहनं कोटिरेव च॥ ३२.८३ ॥
ह्रंदोदरं च दैत्येंद्रं निखर्वैर्दशभिर्वृतम्॥
तत्राकुर्वन्सुतुमुलं नादं वध्येषु शत्रुषु॥ ३२.८४ ॥
कुमारानुचराः पार्थ पूरयंतो दिशो दश॥
शक्त्यस्त्रस्यार्चिः संभूतशक्तिभिः केऽपि सूदिताः॥ ३२.८५ ॥
पताकयावधूताश्च हताः केचित्सहस्रशः॥
केचिद्धंटारवत्रस्ताश्छिन्नभिन्नहृदोऽपतन्॥ ३२.८६ ॥
केचिन्मयूरपक्षाभ्यां चरणाभ्यां च सूदिताः॥
कोटिशस्ताम्रचूडेन विदार्यैव च भक्षिताः॥ ३२.८७ ॥
पार्षदैर्मातृभिः सार्धं पद्मशो निहताः परे॥
एवं निहन्यमानेषु दानवेषु गुहादिभिः॥ ३२.८८ ॥
अभाग्यैरिव लोकेषु तारकः स्कंदमाययौ॥
जग्राह च गदां दिव्यां लक्षघंटादुरासदाम्॥ ३२.८९ ॥
तया मयूरमाजघ्ने मयूरो विमुखोऽभवत्॥
दृष्ट्वा पराङ्मुखं लोकेषु वासुदेवोऽब्रवीत्त्वरन्॥ ३२.९० ॥
देवसेनापते शीघ्रं शक्तिं मुंच महासुरे॥
प्रतिज्ञामात्मनः पाहि लंबते रविमंडलम्॥ ३२.९१ ॥
॥स्कंद उवाच॥
त्वयैव रुद्रभक्तोऽयं जनार्दन ममेरितम्॥
वधार्थं रुद्रभक्तस्य बाहुः शक्तिं मुंचति॥ ३२.९२ ॥
नारुद्रः पूजयेद्रुद्रं भक्तरूपस्य यो हरः॥
रुद्ररूपममुं हत्वा कीदृशं जन्मनो भवेत्॥ ३२.९३ ॥
तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ताः प्रपीडिताः॥
रुद्रभक्ताः कुलं सर्वं निर्दहंति हताः किमु॥ ३२.९४ ॥
एष चेद्धंति तद्भद्रं हन्यतामेष मां रणे॥
रुद्रभक्ते पुनर्विष्णो नाहं शस्त्रमुपाददे॥ ३२.९५ ॥
॥श्रीभगवानुवाच॥
नैतत्तवोचितं स्कंद रुद्रभक्तो यथा श्रृणु॥
द्वे तनू गिरिजाभर्तुर्वेदज्ञा मुनयो विदुः॥ ३२.९६ ॥
एका जीवात्मिका तत्र प्रत्यक्षा च तथापरा॥
द्रोग्धा भूतेषु भक्तश्च रुद्रभक्तो न स स्मृतः॥ ३२.९७ ॥
भक्तो रुद्रो कृपावांश्च जंतुष्वेव हरव्रतः॥
तदेनं भूतमर्त्येषु द्रोग्धारं त्वं पिनाकिनः॥ ३२.९८ ॥
जहि नैवात्र पश्यामि दोषं कंचन ते प्रभो॥
श्रुत्वेति वाचं गोविंदात्सत्यार्थामपि भारत॥ ३२.९९ ॥
हंतुं न कुरुते बुद्धिं रुद्रभक्त इति स्मरन्॥
तारकस्तु ततः क्रुद्धो ययौ वेगेन केशवम्॥ ३२.१०० ॥
प्राह चैवं सुदुर्बुद्धे हन्मि त्वां पश्य मे बलम्॥
देवानां चापि धर्माणां मूलं मतिमतां तथा॥
हत्वा त्वामद्य सर्वांस्तांश्छेत्स्ये पश्याद्य मे बलम्॥ ३२.१०१ ॥
॥विष्णुरुवाच॥
दैत्येंद्र तव चास्माभिः किमहो श्रृणु सत्यताम्॥ ३२.१०२ ॥
रथे य एष शर्वोऽयं हतेऽस्मिन्सकलं हतम्॥
श्रुत्वेति तारकः क्रुद्धस्तूर्णं रुद्ररथं ययौ॥ ३२.१०३ ॥
अभिसृत्य स जग्राह रुद्रस्य रथकूबरम्॥
यदा स कूबरं क्रुद्धस्तारकः सहसाऽग्रहीत्॥ ३२.१०४ ॥
रेसतू रोदसी तूर्णं मुमुहुश्च महर्षयः॥
व्यनदंश्च महाकाया दैत्या जलधरोपमाः॥ ३२.१०५ ॥
आसीच्च निश्चितं तेषां जितमस्माभिरित्युत॥
तार कस्याप्यभिप्रायं भगवान्वीक्ष्य शंकरः॥ ३२.१०६ ॥
उमया सह संत्यक्त्वा रथं वृषभमावहत्॥
ओमित्यथ जपन्ब्रह्मा आकाशं सहसाश्रितः॥ ३२.१०७ ॥
ततस्तं शतसिंहं च रथं रुद्रेण निर्मितम्॥
उत्क्षिप्य पृथ्व्यामास्फोट्य चूर्णयामास तारकः॥ ३२.१०८ ॥
शूलपाशुपतादीनि सहसोपस्थितानि च॥
वारयामास गिरिशो भवः साध्य इति ब्रुवन्॥ ३२.१०९ ॥
ततः स्ववंचितं ज्ञात्वा रुद्रेणात्मानमीर्ष्यया॥
विनदन्सहसाऽधावद्वृषभस्थं महेश्वरम्॥ ३२.११० ॥
ततो जनार्दनोऽधावच्चक्रमुद्यम्य वेगतः॥
वज्रमिंद्रस्तथोद्यम्य दंडं चापि यमो नदन्॥ ३२.१११ ॥
गदां धनेश्वरः क्रुद्धः पाशं च वरुणो नदन्
वायुर्महांकुशं घोरं शक्तिं वह्निर्महाप्रभाम्॥ ३२.११२ ॥
निर्ऋतिर्निशितं खड्गं रुद्राः शूलानि कोपिताः॥
धनूंषि साध्या देवाश्च परिघान्वसवस्तथा॥ ३२.११३ ॥
विश्वेदेवाश्च मुसलं चंद्रार्कौ स्वप्रभामपि॥
ओषधीश्चाश्विनौ देवौ नागाश्च ज्वलितं विषम्॥ ३२.११४ ॥
हिमाद्रि प्रमुखाश्चापि समुद्यम्य महीधरान्॥
भृशमुन्नदतो देवान्धावतो वीक्ष्य तारकः॥ ३२.११५ ॥
निवृत्तः सहसा पार्थ महागज इवोन्नदन्॥
स वज्रमुष्टि नाहत्य भुजे शक्रमपातयत्॥ ३२.११६ ॥
दंडं यमादुपादाय मूर्ध्न्याहत्य न्यपातयत्॥
उरसाहत्य सगदं धनदं भुव्यपातयत्॥ ३२.११७ ॥
वरुणात्पाशमादाय तेन बद्धा न्यपातयत्॥
महांकुशेन वायुं च चिरं मूर्ध्नि जघान सः॥ ३२.११८ ॥
फूल्कारैरुद्धतं वह्निं शमयामास तारकः॥
निर्ऋतिंखड्गमादाय हत्वा तेन न्यपातयत्॥ ३२.११९ ॥
शूलैरेव तथा रुद्राः साध्याश्च धनुषार्दिताः॥
परिघैरेव वसवो मुशलैरेव विश्वकाः॥ ३२.१२० ॥
रेणुनाच्छाद्य चंद्रार्कौ वल्मीकस्थाविवेक्षितौ॥
महोग्राश्चौषधीस्तालैरश्विभ्यां सोऽभ्यवर्तयत्॥ ३२.१२१ ॥
सविषाश्च कृता नागा निर्विषाः पादकुट्टनैः॥
पर्वताः पर्वतैरेव निरुच्छ्वासा भृशं कृताः॥ ३२.१२२ ॥
एवं तद्देवसैन्यं च हाहाभूतमचेतनम्॥
कृत्वा मुहूर्तादाधावच्चक्रपाणिं तमुन्नदन्॥ ३२.१२३ ॥
ततश्चांतर्दधे सद्यः प्रहसन्निव केशवः॥
कुयोगिन इव स्वामी सदा बुद्धिमतां वरः॥ ३२.१२४ ॥
अपश्यंस्तारको विष्णुं पुनर्वृषभवा हनम्॥
आधावत्कुपितो दैत्यो मुष्टिमुद्यम्य वेगतः॥ ३२.१२५ ॥
अचिरांशुरिवालक्ष्यो लक्ष्योथ भगवान्हरिः॥
आबभाषे ततो देवान्बाहुमुद्यम्यचोच्चकैः॥ ३२.१२६ ॥
पलायध्वमहो देवाः शक्तिश्चेद्वः पलायितुम्॥
विमूढा हि वयं सर्वे ये बालवचसागताः॥ ३२.१२७ ॥
किं न श्रुतः पुरा गीतः श्लोकः स्वायंभुवेन यः॥
यथा बालेषु निक्षिप्ताः स्त्रीषु षंडितकेषु च॥
अपस्मारीषु चैवापि सर्वे ते संशयं गताः॥ ३२.१२८ ॥
प्रत्यक्षं तदिदं सर्वमाधुना चात्र दृस्यते॥ ३२.१२९ ॥
अज्ञासिष्म पुरैवैतद्रुद्रभक्तं न हंत्यसौ॥
यत्प्रतिज्ञां नाकरिष्यन्न स्यान्नः कदनं महत्॥ ३२.१३० ॥
अथैष यदि दैत्येंद्रं न निहंति कुबुद्धिमान्॥
मा भयं वो महाभागा निहनिष्यामि वो रिपून्॥ ३२.१३१ ॥
अद्य मे विपुलं बाह्वोर्बलं पश्यत दैत्याधमं नाशयामि मुष्टिनैकेन पश्यत॥ ३२.१३२ ॥
मया हि दक्षिणो बाहुर्दत्तश्च भवतां सदा॥
रिपून्वा निहनिष्यामि सत्यं तत्परिपालये॥ ३२.१३३ ॥
येंऽबरे ये च पाताले भुवि ये च महासुराः॥
क्षणात्तान्नासयिष्यामि महावातो घनानिव॥ ३२.१३४ ॥
एवमुक्ता जगन्नाथो मुष्टिमुद्यम्य दक्षिणम्॥
निरायुधस्तार्क्ष्यपृष्ठादवप्लुत्याभ्यधावत॥ ३२.१३५ ॥
तस्मिन्धावति गोविंदे चचाल भुवनत्रयम्॥
विमूर्छितमभूद्विश्वं देवा भीतिं परां ययुः॥ ३२.१३६ ॥
धावतश्चापि कल्पांतं रुद्रकल्पस्य तस्य याः॥
मुखात्समुद्यजुर्ज्वालास्ताबिः खर्वशतं हतम्॥ ३२.१३७ ॥
ततोंऽतरिक्षे वाचश्च प्रोचुः सिद्धाः स्वयं तदा॥
जहि कोपं वासुदेव त्वयि क्रुद्धे क्व वै जगत्॥ ३२.१३८ ॥
अनादृत्येव तद्वाक्यं ब्रुवन्नान्यत्करोम्यहम्॥
आह्वयंश्च महादैत्यं क्रुद्धो हरिरधावत॥ ३२.१३९ ॥
उवाच वाचं साधूंश्च यत्नात्पालयतां फलम्॥
दुष्टान्विनिघ्नतां चैव तत्फलं मम जायताम्॥ ३२.१४० ॥
अथापश्यन्महासेनो रुद्रं यांतं च तारकम्॥
तारकं चान्वधावन्तं पुरामपुरुषं हरिम्॥ ३२.१४१ ॥
जगच्च क्षुब्धमत्यर्थं स्वां प्रतिज्ञां पुरा कृताम्॥
पश्चिमां प्रतिलंबंतं भास्करं चापि लोहितम्॥ ३२.१४२ ॥
आकाशवाणीं श्रृण्वंश्च किं स्कन्द त्वं विषीदसी॥
पश्चात्तापो यदि भवेत्कृत्वा ब्रह्मवधं त्वयि॥ ३२.१४३ ॥
स्थापयेर्लिगमीशस्य मोक्षो हत्याशतैरपि॥
आविवेश महाक्रोधं दिधक्षुरिव मेदिनीम्॥ ३२.१४४ ॥
अथोत्प्लुत्य मयूरात्स प्रहसन्निव केशवम्॥
बाहुभ्यामप्युपादाय प्रोवाच भवनंदनः॥ ३२.१४५ ॥
जानामि त्वामहं विष्णो महाबुद्धिपराक्रमम्॥
भूतभव्यविष्यांश्च दैत्यान्हंस्यपि हूंकृतैः॥ ३२.१४६ ॥
त्वमेव हंता दैत्यानां देवानां परिपालकः॥
धर्मसंस्थापकश्च त्वमेव ते रचितोंऽजलिः॥ ३२.१४७ ॥
क्षणार्धं पश्य मे वीर्यं भास्करो लोहितायते॥
एवं प्रणम्य स्कन्देन वासुदेवः प्रसादितः॥ ३२.१४८ ॥
विरोषोऽभूत्तमालिंग्य वचनं केशवोऽब्रवीत्॥
सनाथस्त्वद्य धर्मोऽयं सुराश्चैव त्वया गुह॥ ३२.१४९ ॥
स्मरात्मानं यदर्थं त्वमुत्पन्नोऽसि महेश्वरात्॥
साधूनां पालनार्थाय दुष्टसंहरणाय च॥
सुरविप्रकृते जन्म जीवितं च महात्मनाम्॥ ३२.१५० ॥
रुद्रस्य देव्या गंगायाः कृत्तिकानां च तेजसा॥
स्वाहावह्नेश्च जातस्त्वं तत्तेजः सफलीकुरु॥
साधूनां च कृते यस्य धनं वीर्यं च संपदः॥ ३२.१५१ ॥
सफलं तस्य तत्सर्वं नान्यथा रुद्रनंदन॥ ३२.१५२ ॥
अद्य धर्मश्च देवाश्च गावः साध्याश्च ब्राह्मणाः॥
नंदंतु तव वीर्येण प्रदर्शय निजं बलम्॥ ३२.१५३ ॥
॥स्कन्द उवाच॥
या गतिः शिवत्यागेन त्वत्त्यागेन च केशव॥
तां गतिं प्राप्नुयां क्षिप्रं हन्मि चेन्न हि तारकम्॥ ३२.१५४ ॥
या गतिः श्रुतित्यागेन साध्वी भार्यातिपीडनात्॥
साधूनां च परित्यागाद्वृथा जीवितसाधनात्॥
निष्ठुरस्य गतिर्या च तां गतिं यामि केशव॥ ३२.१५५ ॥
इत्युक्ते सुमहान्नादः संप्रजज्ञे दिवौकसाम्॥
प्रशशंसुर्गुहं केचित्केचिन्नारायणं प्रभुम्॥ ३२.१५६ ॥
ततस्तार्क्षअयं समारुद्य हरिस्तस्मिन्महारणे॥
ताम्रचूडं महासेन स्तारकं चाप्यधावताम्॥ ३२.१५७ ॥
लोहितांबरसंवीतो लोहितस्रग्विभूषणः॥
लोहिताक्षो महाबाहुर्हिरण्यकवचः प्रभुः॥ ३२.१५८ ॥
भुजेन तोलयञ्छक्तिं सर्वभूतानि कम्पयन्॥
प्राप्य तं तारकं प्राह महासेनो हसन्निव॥ ३२.१५९ ॥
तिष्ठतिष्ठ सुदुर्बुद्धे जीवितं ते मयि स्थितम्॥
सुहृष्टः क्रियतां लोको दुर्लभः सर्वसिद्धिदः॥ ३२.१६० ॥
यत्ते सुनिष्ठुरत्वं च धर्मे देवेषु गोषु च॥
तस्य ते प्रहराम्यद्य स्मर शस्त्रं सुशिक्षितम्॥ ३२.१६१ ॥
एवमुक्ते गुहेनाथ निवृत्तस्यास्य भारत॥
तारकस्य शिरोदेशात्कापि नारी विनिर्ययौ॥ ३२.१६२ ॥
तेजसा भासयंती तमध ऊर्ध्वं दिशो दश॥
दृष्ट्वा नारीं गुहः प्राह कासि कस्माच्च निर्गता॥ ३२.१६३ ॥
॥नार्युवाच॥
अहं शक्तिर्गुहाख्याता भूतलेषु सदा स्थिता॥
अनेन दैत्यराजेन महता तपसार्ज्जिता॥ ३२.१६४ ॥
सुरेषु सर्वेषु वसामि चाहं विप्रेषु शास्त्रार्थरतेषु चाहम्॥
साध्वीषु नारीषु तथा वसामि विना गुणान्नास्मि वसामि कुत्रचित्॥ ३२.१६५ ॥
तदस्य पुण्यसंघस्य संप्राप्तोद्यावधिर्गुह॥
तदेनं त्यज्य यास्यामि जह्येनं विश्वहेतवे॥ ३२.१६६ ॥
तस्यां ततो निर्गतायां दैत्यशीर्षं व्यकम्पयत्॥
कंपितं चास्य तद्देहं गतवीर्योऽभवत्क्षणात्॥ ३२.१६७ ॥
एतस्मिन्नंतरे शक्तिं सोऽक्षिपद्गिरिजात्मजः॥
उल्काज्वाला विमुञ्चंतीमतिसूर्याग्निसप्रभाम्॥ ३२.१६८ ॥
कल्पांभोधिसमुन्नादां दिधक्षंतीं जगद्यथा॥
तारकस्यांतकालाय अभाग्यस्य दशामिव॥ ३२.१६९ ॥
दारणीं पर्वतानां च सर्वसत्त्वबलाधिकाम्॥
उत्क्षिप्य तां विनद्योच्चैरमुञ्चत्कुपितो गुहः॥ ३२.१७० ॥
धर्मश्चेद्बलवाँल्लोके धर्मो जयति चेत्सदा॥
तेन सत्येन दैत्योयं प्रलयं यात्वितीरयन्॥ ३२.१७१ ॥
सा कुमारभुजोत्सृष्टा दुर्निवार्या दुरासदा॥
विभेद हृदयं चास्य भित्त्वा च धरणिं गता॥ ३२.१७२ ॥
निःसृत्य जलकल्लोलपूर्विका स्कंदमाययौ॥
स च संताडितः शक्त्या विभिन्नहृदयोसुरः॥
नादयन्वसुधां सर्वां पपातायोमुखो मृतः॥ ३२.१७३ ॥
एवं प्रताप्य त्रैलोक्यं निर्जित्य बहुशः सुरान्॥
महारणे कुमारेण निहतः पार्थ तारकः॥ ३२.१७४ ॥
एतस्मिन्निहते दैत्ये प्रहर्षं विश्वमाययौ॥ ३२.१७५ ॥
ववुर्वातास्तथा पुण्याः सुप्रभोभूद्दिवाकरः॥
जज्वलुश्चाग्नयः शांताः शांता दिग्जनितस्वनाः॥ ३२.१७६ ॥
ततः पुनः स्कंदमाह प्रहृष्टः केशवोऽरिहा॥
स्कंदस्कंद महाबाहो बाणोनाम बलात्मजः॥ ३२.१७७ ॥
क्रौंचपर्वतमादाय देवसंघान्प्रबाधते॥
सोऽधुना ते भयाद्वीर पलायित्वा नगं गतः॥
जहि तं पापसंकल्पं क्रौंचस्थं शक्तिवेगतः॥ ३२.१७८ ॥
ततः क्रौंचं महातेजा नानाव्यालविनादितम्॥
शक्त्या बिभेद बहुभिर्वृक्षैर्जीवैश्च संकुलम्॥ ३२.१७९ ॥
तत्र व्यालसहस्राणि दैत्यकोट्ययुतं तथा॥
ददाह बाणां च गिरं भित्त्वा शक्तिर्महारवा॥ ३२.१८० ॥
अद्यापि छिद्रं तत्पार्थ क्रौंचस्य परिवर्तते॥ ३२.१८१ ॥
येन हंसाश्च क्रौंचाश्च मानसाय प्रयांति च॥
हत्वा बाणं महाशक्तिः पुनः स्कंदं समागता॥
प्रत्यायाति मनः साधोराहृतं प्रहितं तथा॥ ३२.१८२ ॥
ततो हरींद्रप्रमुखाः प्रतुष्टुवुर्ननृतुश्च रंभाप्रमुखा वरांगनाः॥
वाद्यानि सर्वाणि च वादयंतस्तं साधुसाध्वित्यमरा जगुर्भुशम्॥ ३२.१८३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेस्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कुमारकृततारकवधवर्णनंनाम द्वात्रिंशोऽध्यायः॥ ३२ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 33
॥नारद उवाच॥
ततस्तं गिरिवर्ष्माणं पतितं वसुधोपरि॥
आलिंगितमिव पृथ्व्या गुणिन्या गुणिनं यथा॥ ३३.१ ॥
दृष्ट्वा देवा विस्मितास्ते जयं जगुस्तथा मुहुः॥
केचित्समीपमागंतुं बिभ्यति त्रिदिवौकसः॥ ३३.२ ॥
उत्थाय तारको दैत्यः कदा चिन्नो निहंति चेत्॥
तं तथा पतितं दृष्ट्वा वसुधामण्डले गुहः॥ ३३.३ ॥
आसीद्दीनमनाः पार्थ शुशोच च महामतिः॥
स्तवनं चापि देवानां वारयित्वा वचोऽब्रवीत्॥ ३३.४ ॥
शोच्यं पातकिनं मां च संस्तुवध्वं कथं सुराः॥
पंचानामपि यो भर्ता प्राकृतोऽसौ न कीर्त्यते॥ ३३.५ ॥
स तु रुद्रांशजः प्रोक्तस्तस्य द्रुह्यन्न रुद्रँवत्॥
स्वायंभुवेन गीतश्च श्लोकः संश्रूयते तथा॥ ३३.६ ॥
वीरं हि पुरुषं हत्वा गोसहस्रेण मुच्यते॥
यथाकथंचित्पुरुषो न हंतव्यस्ततो बुधैः॥ ३३.७ ॥
पापशीलस्य हनने दोषो यद्यपि नास्ति च॥
तथापि रुद्रभक्तोऽयं संस्मरन्निति शोचिमि॥ ३३.८ ॥
तदहं श्रोतुमिच्छामि प्रायाश्चित्तं च किंचन॥
प्रायश्चित्तैरपैत्येनो यतोपि महदर्जितम्॥ ३३.९ ॥
इति संशोचतस्तस्य शिवपुत्रस्य धीमतः॥
वासुदेवो गुरुः पुंसां देवमध्ये वचोऽब्रवीत्॥ ३३.१० ॥
श्रुतिः स्मृतिश्चेतिहासाः पुराणं च शिवात्मज॥
प्रमाणं चेत्ततो दुष्टवधे दोषो न विद्यते॥ ३३.११ ॥
स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः पुमान्॥
तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान्॥ ३३.१२ ॥
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्या पचारिणी॥
गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम्॥ ३३.१३ ॥
पापिनं पुरुषं यो हि समर्थो न निहंति च॥
तस्य तावंति पापानि तदर्धं सोऽप्यवाश्रुते॥ ३३.१४ ॥
पापिनो यदि वध्यंते नैव पालनसंस्थितैः॥
ततोऽयमक्षमो लोकः कं याति शरणं गुह॥ ३३.१५ ॥
कथं यज्ञाश्च वेदाश्च वर्तते विश्वधारकाः॥
तस्मात्त्वया पुण्यमाप्तं न च पापं कथंचन॥ ३३.१६ ॥
अथ चेद्रुद्रभक्तेषु बहुमानस्तव प्रभो॥
तत्र ते कीर्तयिष्यामि प्रायश्चित्तं महोत्तमम्॥ ३३.१७ ॥
आजन्मसंभवैः पापैः पुमान्येन विमुच्यते॥
आकल्पांत च वा येन रुद्रलोके प्रमोदते॥ ३३.१८ ॥
कृते पापेऽनुतापो वै यस्य स्कन्द प्रजायते॥
रुद्राराधनतोऽन्यच्च प्रायश्तित्तं परं न हि॥ ३३.१९ ॥
न यस्यालमपि ब्रह्मामहिमानं विवर्णितुम्॥
श्रुतिश्च भीता यं वक्ति किं तस्मात्परमं भवेत्॥ ३३.२० ॥
अकांडे यच्च ब्रह्मांडक्षयोद्युक्तं हलाहलम्॥
कण्ठे दधार श्रीकण्ठः कस्तस्मात्परमो भवेत्॥ ३३.२१ ॥
दुःखतांडवदीनोऽभूदण्डसंकीर्णमानसः॥
मारमारश्च यो देवः कस्तस्मात्परमो भवेत्॥ ३३.२२ ॥
वियद्व्यापी सुरसरित्प्रवाहो विप्रुषाकृतिः॥
बभूव यस्य शिरसि कस्तस्मात्परमो भवेत्॥ ३३.२३ ॥
यज्ञादिकाश्च ये धर्मा विना यस्यार्चनं वृथा॥
दक्षोऽत्र सत्यदृष्टांतः कस्तस्मात्परमो भवेत्॥ ३३.२४ ॥
क्षोणी रथो विधिर्यंता शरोऽहं मन्दरो धनुः॥
रथांगे चापि चंद्रार्कौ युद्धे यस्य च त्रैपुरे॥ ३३.२५ ॥
आराधनं तस्य केचिद्योगमार्गेण कुर्वते॥
दुःखसाध्यं हि तत्तेषां नित्यं शून्यमुपासताम्॥ ३३.२६ ॥
तस्मात्तस्यार्चयेल्लिंगं भुक्तिमुक्ती य इच्छति॥
सृष्ट्यादौ लिंगरूपी स विवादो मम ब्रह्मणः॥ ३३.२७ ॥
अभूद्यस्य परिच्छेदे नालमावां बभूविव॥
चराचरं जगत्सर्वं यतो लीनं सदात्र च॥ ३३.२८ ॥
तस्माल्लिंगमिति प्रोक्तं देवै रुद्रस्य धीमतः॥
तोयेन स्नापयेल्लिंगं श्रद्धया शुचिना च यः॥ ३३.२९ ॥
ब्रह्मादितृणपर्यंतं तेनेदं तर्पितं जगत्॥
पंचामृतेन तल्लिंगं स्नापयेद्यश्च बुद्धिमान्॥ ३३.३० ॥
तर्पितं तेन विश्वं स्यात्सुधया पितृभिः समम्॥
पुष्पैरभ्यर्चयेल्लिंगं यथाकालोद्भवैश्चयः॥ ३३.३१ ॥
तेन संपूजितं विश्वं सकलं नात्र संशयः॥
नैवेद्यं तत्र यो दद्याल्लिंगस्याग्रे विचक्षणः॥ ३३.३२ ॥
भोजितं तेन विश्वं स्याल्लिंगस्यैवं फलं महत्॥
किमत्र बहुनोक्तेन स्वल्पं वा यदि व बहु॥ ३३.३३ ॥
लिंगस्य क्रियते यच्च तत्सर्वं विश्वप्रीतिदम्॥
तच्च लिगं स्थापयेद्यः शुचौ देशे सुभक्तितः॥ ३३.३४ ॥
स सर्वपापनिर्मुक्तो रुद्रलोके प्रमोदते॥
यन्नित्यं यजतो यज्ञैः फलमाहुर्मनीषिणः॥ ३३.३५ ॥
तच्च स्थापयतो लिंगं शिवस्य शुभलक्षणम्॥
यथाग्निः सर्वदेवानां मुखं स्कन्द प्रकीर्त्यते॥ ३३.३६ ॥
तथैव सर्वजगतां मुखं लिंगं न संशयः॥
प्रारंभान्मुच्यते पापैः सर्वजन्मकृतैरपि॥ ३३.३७ ॥
अतीतं च तथागामि कुलानां तारयेच्छतम्॥
मृन्मयं काष्ठनिष्पन्नं पक्वेष्टं शैलमेव च॥ ३३.३८ ॥
कृतमायतनं दद्यात्क्रमाच्छतगुणं फलम्॥
कलशं तत्र चारोप्य एकविंशत्कुलैर्युतः॥ ३३.३९ ॥
आकल्पांतं रुद्रलोके मोदते रुद्रवत्सुखी॥
एवंविधफलं लिंगमतो भूयोऽप्यधो न हि॥ ३३.४० ॥
तस्मादत्र महासेन लिंगं स्थापितुमर्हसि॥
यदुक्तमेतदश्लीलं यदि किंचन चात्र चेत्॥ ३३.४१ ॥
तद्ब्रवीतु महा सेन स्वयं साक्षी महेश्वरः॥
एवं वदति गोविंदे साधुवादो महानभूत्॥ ३३.४२ ॥
महादेवो ह्यथालिंग्य स्कन्दं वचनब्रवीत्॥
यद्भवान्मम भक्तेषु प्रकरोति कृपां पराम्॥ ३३.४३ ॥
तेनापि परमा प्रीतिर्मम जाता तवोपरि॥
किं तु यद्भगवानाह वासुदेवो जगद्गुरुः॥ ३३.४४ ॥
तत्त्था नान्यथा किंचिदत्र प्रोक्तं हि विष्णुना॥
यो ह्यहं स हरिर्ज्ञेयो यो हरिः सोऽहमित्युता॥ ३३.४५ ॥
नावयोरंतरं किंचिद्दीपयोरिव सुव्रत॥
एनं द्वेष्टि स मां द्वेष्टियोन्वेत्येनं स माऽनुगः॥ ३३.४६ ॥
इति स्कन्द विजानाति स मद्भक्तोन्यथा न हि॥ ३३.४७ ॥
॥स्कन्द उवाच॥
एवमेवास्मि जानामि त्वां च विष्णुं च शंकर॥ ३३.४८ ॥
यच्च लिंगकृते प्राह हरिर्मां धर्मवत्सलः॥
खे वाणी तारकवधे एवमेव पुराह माम्॥ ३३.४९ ॥
लिंगं संस्थापयिष्यामि सर्वपापा पहं ततः॥
एकं यत्र प्रतिज्ञा मे गृहीतास्य वधाय च॥ ३३.५० ॥
द्वितीयं यत्र निःसत्त्वसत्यक्तः शक्त्याऽसुरोऽभवत्॥
तृतीयं यत्र निहतो हत्या पापोपशांतिदम्॥ ३३.५१ ॥
इत्युक्त्वा विश्वकर्माणमाहूय प्राह पावकिः॥
त्रीणि लिंगानि शुद्धानि शीघ्रं त्वं कर्तुमर्हसि॥ ३३.५२ ॥
वचनाद्बाहुलेयस्य निर्ममे देववर्द्धकिः॥
त्रीणि लिंगानि शुद्धानि न्यवेदयत तानि च॥ ३३.५३ ॥
ततो ब्रह्मादिभिः सार्धं विष्णुना शंकरेण च॥
पूर्वं संस्थापयामास पश्चिमायामदूरतः॥ ३३.५४ ॥
प्रतिज्ञेश्वरमित्येव लिंगं परमशोभनम्॥
अष्टम्यां बहुले चात्र चैत्रे स्नात्वा उपोष्य च॥ ३३.५५ ॥
पूजां च जागरं कृत्वा मुच्येत्पारुष्यपापतः॥
इत्याह स्कंदप्रीत्यर्थं स्वयं तत्र महेश्वरः॥ ३३.५६ ॥
ततो द्वितीयं लिंगं तु वह्निकोणाश्रितं तथा॥
स्थापयामास सरसो यत्र शक्तिर्विनिर्ययौ॥ ३३.५७ ॥
कपालेश्वरमित्येव लिंगं पापापहं शुभम्॥
शक्तिं च तामभिष्टूय स्थापयामास तत्र च॥ ३३.५८ ॥
कपालेश्वरसांनिध्यं देवीं कापालिकेश्वरीम्॥
तत्र चोत्तरदिग्भागे शक्तिच्छिद्रं प्रचक्षते॥ ३३.५९ ॥
पातालगंगा यत्रास्तिं सर्वपापहरा शिवा॥
तत्र स्नात्वा ददौ स्कंदः कृपयाभिपरिप्लुतः॥ ३३.६० ॥
तदा तोयं तारकाय सहितः सर्वदैवतैः॥ ३३.६१ ॥
काश्यपेयाय वज्रांगतनयाय महात्मने॥
रुद्रभक्ताय सतिलमक्षय्योदकमस्त्विति॥ ३३.६२ ॥
ततो महेश्वरः प्रीतः प्राह स्कंदस्य श्रृण्वतः॥
चतुर्दश्यां कृष्णपक्षे मधौ चैवात्र यो नरः॥
स्नात्वोपोष्य समभ्यर्च्य कपालेश्वरमीश्वरीम्॥ ३३.६३ ॥
तेजोवधसमुद्भूतपातकेन स मुच्यते॥ ३३.६४ ॥
अस्यामेव तिथौ सोमः शिवयोगश्च तैतिलम्॥
षड्योगः शक्तिच्छिद्रेयो दिनं रुद्रं जपन्निशि॥
स्नात्वात्र सशरीरो वै रुद्रलोकं व्रजीष्यति॥ ३३.६५ ॥
कपालेशस्य सांनिध्ये शक्तिच्छिद्रं हि कीर्त्यते॥
तस्य तुल्यं परं तीर्थं पृथिव्यां नैव विद्यते॥ ३३.६६ ॥
इति श्रुत्वा रुद्रवाक्यं स्कंदः प्रीतोऽभवद्भृशम्॥
देवाश्च मुदिताः सर्वे साधुसाध्विति ते जगुः॥ ३३.६७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारस्थापितज्ञेश्वरशक्तिच्चिद्रेश्वर माहात्म्यवर्णनं नाम त्रयस्त्रिंशो.़ध्यायः॥ ३३ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 34
॥नारद उवाच॥
ततस्तृतीयलिंगस्य चिकीर्षु स्थापनं गुहम्॥
ब्रह्मा प्राहास्य प्रीत्यर्थं स्वयमन्यं प्रकुर्महे॥ ३४.१ ॥
यद्यप्येतच्छुभं लिंगं सर्वदोषविवर्जितम्॥
तथाप्यन्यत्करिष्येऽहं सर्वश्रेष्ठतमं हि यत्॥ ३४.२ ॥
ततो ब्रह्मा सर्वदोषविमुक्तं निर्ममे स्वयम्॥
दृष्टिकांतं मनःकांतं फलकांतं सुलिंगकम्॥ ३४.३ ॥
तत्र स्कंदस्य प्रीत्यर्थं सर्वदेवैर्निनिर्मितम्॥
सरः सुरम्यं तीर्थानि तत्र ते निदधुस्तथा॥ ३४.४ ॥
गंगादिकानि तीर्थानि यानि प्रोचुर्दिवौकसः॥
इदं यावत्सरस्तावत्सर्वैरत्र समुष्यताम्॥ ३४.५ ॥
एवमस्त्विति तान्यूचुः प्रीत्यर्थं शरजन्मनः॥
ततो ब्रह्मा स्वयं तत्र रौद्रैर्मंत्रैर्हुताशनम्॥
गाधिपुत्रादिभिर्विप्रैस्तर्पयामास संयुतः॥ ३४.६ ॥
ततो वैशाखमासस्य चतुर्द्दश्यां शुभे दिने॥
प्रतिष्ठां चक्रिरे लिंगे चिरं विप्रमुका द्विजाः॥ ३४.७ ॥
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः॥
ततः स्कंदः प्रीतियुक्तः स्नात्वा सरसि शोभने॥ ३४.८ ॥
सर्वतीर्थोदकैः स्नाप्य तल्लिंगं भक्तिसंयुतः॥
विविधैः पूजयामास पुष्पैर्मंत्रैश्च पंचभिः॥ ३४.९ ॥
पूजाकाले स्वयं तत्र लिंगमध्येस्थितो हरः॥
जंगमा जंगमैः सार्धं स्वयं जग्राह पूजनम्॥ ३४.१० ॥
ततस्तं पूजयन्प्राह स्कंदो भक्तिपरिप्लुतः॥
केन केनोपहारेण त्वयि दत्तेन किं फलम्॥ ३४.११ ॥
॥श्रीमहादेव उवाच॥
मम यः स्थापयेल्लिंगं शुभं सद्म च कारयेत्॥
मल्लोके वसतेऽसौ च वावच्चंद्रदिवाकरौ॥ ३४.१२ ॥
मम सद्म सुधाशुभ्रं यावत्संख्यं करोति यः॥
तावंत्येव च जन्मानि यशसासौ विराजते॥ ३४.१३ ॥
ध्वजभूतो ध्वजं दत्त्वा विपापः स्यात्पताकया॥
विधाय चित्रविन्यास गंधर्वैः सह मोदते॥ ३४.१४ ॥
रजःसंशोधनं कृत्वा नरो रोगैः प्रमुच्यते॥
प्राप्नोति देहं हार्दं च सुरसद्मानुलेपनात्॥ ३४.१५ ॥
पुष्पक्षीरादि भिर्दत्तैस्तिलाभोऽक्षतदर्भकैः॥
शंभोः शिरसि दत्त्वार्घ्य दिवि वर्षायुतं वसेत्॥ ३४.१६ ॥
घृतेन हतपापः स्यान्मधुना सुभगो भवेत्॥
विरोगो दधिदुग्धाभ्यां लिंगं संस्नाप्य जायते॥ ३४.१७ ॥
पानीयदधिदुग्धाद्यैः क्रमाद्दशगुणं फलम्॥
मासं संस्नाप्य वै भक्त्या पिष्टाद्यैश्च विरूक्षयेत्॥ ३४.१८ ॥
कपिलापंचगव्येन सुरसिंधुजलेन वा॥
मां च संस्नाप्य चाभ्यच्च मल्लोकमधिगच्छति॥ ३४.१९ ॥
कुशोदकाद्गंधजलं तस्मात्तीर्थोदकं वरम्॥
तीर्थेभ्यश्च जलं दर्शे महीसागरसंभवम्॥ ३४.२० ॥
कपिलां दत्त्वा यदाप्नोति तत्फलं कलशे पृथक्॥
मृत्ताम्ररौप्यसौवर्णैः क्रमाच्छतगुणं फलम्॥ ३४.२१ ॥
श्रीखंडागरुकाश्मीरशशिनः क्रमशोऽधिकाः॥
मां च तैश्च समालभ्य स्याच्छ्रीमान्सुभगः सुखी॥ ३४.२२ ॥
प्रशस्तो गुग्लुलो धूपस्तस्माच्चंद्रोऽगरुर्वरः॥
धूपानेतान्नरो दत्त्वा सुखं स्वर्गमवाप्नुयात्॥ ३४.२३ ॥
दीपदः कीर्तिमाप्नोति चक्षुरुत्तममेव च॥
नैवेद्यस्य प्रदानेन नरो मृष्टाशनो भवेत्॥ ३४.२४ ॥
पुष्पेण हेमकर्णस्य प्रबद्धेन द्विसंगुणम्॥
फलमाप्नोति पुरुषः सत्यसंधश्च जायते॥ ३४.२५ ॥
अखंडैर्बिल्वपत्रैश्च पुष्पैर्वा विविधैरपि॥
लिंगं प्रपूरणं कृत्वा लक्ष्मेकं वसेद्दिवि॥ ३४.२६ ॥
यस्तु पुष्पगृहं कुर्यान्नरः शुद्धाशयो भवेत्॥
पुष्पकेण विमानेन दिवि संक्रीडते चिरम्॥ ३४.२७ ॥
भूषणांबरदानेन नरो भवति भोगभाक्॥
सच्चामरप्रदानेन जायते पार्थिवो नरः॥ ३४.२८ ॥
रम्यं वितानं यो दद्याच्छत्रुभिर्नाभूयते॥
गीतं वाद्यं प्रनृत्यं च कृत्वा शुद्धो व्रजेत्स माम्॥ ३४.२९ ॥
शंखघंटाप्रदानेन विद्वान्भवति शब्दवान्॥
विधाय रथयात्रां च चिरं शोकैः प्रमुच्यते॥ ३४.३० ॥
नमस्कारं प्रणामं च कृत्वा जायेन्महाकुले॥
वाचयंश्चाग्रतः शास्त्रं मम ज्ञानी प्रजायते॥ ३४.३१ ॥
विमुच्यते मनोमोहैर्भक्त्या स्तुत्वा च मां नरः॥
गोदानफलमाप्नोति निर्माल्यस्फेटनान्मम॥ ३४.३२ ॥
आरार्तिकं भ्रामयित्वा अर्तिहीनः प्रजायते॥
कृत्वा शीतलिकां तापैर्मुच्यते दोष संभवैः॥ ३४.३३ ॥
नत्वा दत्त्वाथ शक्त्या च दानं लिंगस्य संनिधौ॥
फलं शतगुणं प्राप्य इह चामुत्र मोदते॥ ३४.३४ ॥
प्रणामात्पंचदश च स्नानाद्विंशतिं पूजया॥
शतं यथाप्रोक्तविधेरपराधानहं क्षमे॥ ३४.३५ ॥
एतत्सर्वं यथोद्दिष्टं कुमारात्र भविष्यति॥
ये मां प्रपूजयिष्यंति कुमारेश्वर संस्थितम्॥ ३४.३६ ॥
वाराणस्यां यथा वत्स विश्वनाथोऽस्मि संस्थितः॥ ३४.३७ ॥
गुप्तक्षेत्रे तथा स्थास्ये कुमारेश्वरमध्यतः॥ ३४.३८ ॥
श्रुत्वेति वचनं रुद्राद्देवानां श्रृण्वतां गुहः॥
विस्मितः प्रणिपत्यैनं तुष्टाव गिरिजापतिम्॥ ३४.३९ ॥
नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय॥
नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय॥ ३४.४० ॥
नमो भवायास्तु भवोद्भवाय नमोस्तु ते ध्वस्तमनोभवाय॥
नमोऽस्तु ते गूढमहाव्रताय नमोऽस्तु मायगहनाश्रयाय॥ ३४.४१ ॥
नमोस्तु शर्वाय नमः शिवाय नमोस्तु सिद्धाय पुरातनाय॥
नमोस्तु कालाय नमः कलाय नमोऽस्तु ते कालकलातिगाय॥ ३४.४२ ॥
नमो निसर्गात्मकभूतिकाय नमोऽस्त्वमेयोक्षमहर्द्धिकाय॥
नमः शरण्याय नमोऽगुणाय नमोऽस्तु ते भीमगुणानुगाय ॥ ३४.४३ ॥
नमोऽस्तु नानाभुवनाधिकर्त्रे नमोऽस्तु भक्ताभिमतप्रदात्रे॥
नमोऽस्तु कर्मप्रसावाय धात्रे नमः सदा ते भगवन्सुकर्त्रे॥ ३४.४४ ॥
अनंतरूपाय सदैव तुभ्यमसह्यकोपाय सदैव तुभ्यम्॥
अमेयमानाय नमोस्तु तुभ्यं वृषेंद्रयानाय नमोऽस्तु तुभ्यम्॥ ३४.४५ ॥
नमः प्रसिद्धाय महौषधाय नमोऽस्तु ते व्याधिगणापहाय॥
चराचरायाथ विचारदाय कुमारनाथाय नमः शिवाय॥ ३४.४६ ॥
ममेश भूतेश महेश्वरोसि कामेश वागीश बलेश धीश॥
क्रोधेश मोहेश परापरेश नमोस्तु मोक्षेश गुहशयेश॥ ३४.४७ ॥
इति संस्तूय वरदं शूलपाणिमुमापतिम्॥
प्रणिपत्य उमापुत्रो नमोनम उवाच ह॥ ३४.४८ ॥
एवं भक्तिपराक्रांतमात्मयोग्यं स्तवं शिवः॥
अभिनन्द्य चिरं कालमिदं वचनमब्रवीत्॥ ३४.४९ ॥
त्वया दुःखं न संचिंत्यं मम भक्तवधात्मकम्॥
कर्मणानेन श्लाघ्योऽसि मुनीनामपि पुत्रक॥ ३४.५० ॥
ये च सायं तथा प्रातस्त्वत्कृतेन स्तवेन माम्॥
स्तोष्यंति परया भक्त्या श्रुणु तेषां च यत्फलम्॥ ३४.५१ ॥
न व्याधिर्न च दारिद्र्यं न चैवेष्टवियोजनम्॥
भुक्त्वा भोगान्दुर्लभांश्च मम यास्यंति सद्म ते॥ ३४.५२ ॥
तथान्यानपि दास्यामि वरान्परमदुर्लभान्॥
भक्त्या तवातितुष्टोऽहं प्रीत्यर्थं तव पुत्रक॥ ३४.५३ ॥
महीसा गरकूले तु ये मां स्तोष्यंति पूजया॥
तेषां दतक्षयं सर्वं वैशाख्यां दानपूजनम्॥ ३४.५४ ॥
सरस्यत्र च ये स्नानं प्रकरिष्यंति मानवाः॥
सर्वतीर्थफला वाप्तिर्वैशाख्यां प्रभविष्यति॥ ३४.५५ ॥
कुमारेशं तु मां भक्त्या महीसागरसंगमे॥
स्नात्वा संपूजयेन्नित्यं तस्य जातिस्मृतिर्भवेत्॥ ३४.५६ ॥
जातिस्मृतिरियं पुत्र यस्यां जातौ प्रजायते॥
स्मरतेऽस्याः प्रकर्तव्यं श्रेयोरूपं सुदुर्लभम्॥ ३४.५७ ॥
यस्मिन्काले ह्यनावृष्टिर्जायते कृत्तिकासुत॥
स्नापयेद्विधिवन्मां च कलशैर्विविधैः शुभैः॥ ३४.५८ ॥
एकरात्रं त्रिरात्रं वा पञ्चरात्रं च सप्त वा॥
स्नापयेद्गंधतोयेन कुंकुमेन विलेपयेत्॥ ३४.५९ ॥
करवीरै रक्तपुष्पैर्जपापुष्पैस्तथैव च॥
अर्चयेत्पुष्पमालाभिः परिधायारुणवाससी॥ ३४.६० ॥
भोजयेद्ब्रह्णांश्चैव तापसाञ्छंसिवव्रतान्॥
लक्षहोमं प्रकुर्वीत शिवहोमं ग्रहादिकम्॥ ३४.६१ ॥
भूमिदानं ततः कुर्यात्तत्तो दद्याद्गवाह्निकम्॥
आघोषयेच्छिवां शांतिं रुद्रजाप्यं हि कारयेत्॥ ३४.६२ ॥
अनेनैव विधानेन कृतेन तु द्विजोत्तमैः॥
आगर्भितास्तदा मेघा वर्षते नात्र संशयः॥ ३४.६३ ॥
विविधैः पूर्यते धान्यः शाद्वलैश्च वसुन्धरा॥
आरोग्यं हि भवेच्चैव जने गोपकुले तथा॥ ३४.६४ ॥
धर्मयुक्तो भवेद्राजा परचक्रैर्न पीड्यते॥
गृतेन स्नापयेन्मां च अर्कक्रांतौ नरोऽत्र यः॥ ३४.६५ ॥
कन्यादान फलं तस्य नात्र कार्या विचारणा॥
क्षीरेण स्नापयेद्देवं तथा पंचामृतेन यः॥ ३४.६६ ॥
अग्निष्टोमस्य यज्ञस्य फलं तस्योपजायते॥
कुमारेश्वरतीर्थेयः प्राणत्यागं करोति हि॥ ३४.६७ ॥
रुद्रलोके वसेत्तावद्यावदाभूतसंप्लवम्॥
अयने विषुवे चैव ग्रहणे चंद्रसूर्ययोः॥ ३४.६८ ॥
पौर्णमास्याममावास्यां संक्रांतौ वैधृते तथा॥
कुमारेशं नरः स्नात्वा महीसागरसंगमे॥ ३४.६९ ॥
भक्त्या योभ्यर्चयेन्मां च तस्य पुण्यफलं श्रृणु॥
यन्महीतलतीर्थेषु स्नाने स्यात्तु महत्फलम्॥३४.७० ॥
यच्चर्चितेषु लिंगेषु सर्वेषु स्यात्फलं च तत्॥
आरोग्यं पुत्रलाभं च धनलाभं सुखंसुतम्॥ ३४.७१ ॥
निश्चितं लभते मर्त्यः कुमारेश्वरसेवया॥
ब्रह्मचारी शुचिर्भूत्वा यस्तिष्ठेदत्र तापसः॥ ३४.७२ ॥
परं पाशुपतं योगं प्राप्य याति लयं मयि॥
पापात्मनां च मर्त्यानां सद्योऽस्मि फलदर्शकः॥ ३४.७३ ॥
दिव्येनाष्टविधेनात्र कोशः साधारणोऽत्र च॥
अघोराद्यैः पंचमंत्रैः स्नाप्य लिंगं महोज्जवलम्॥ ३४.७४ ॥
अघोरेणैव तत्तोयं दद्याद्दिव्यस्य कारणे॥
पिबेदेतदुदीर्या प्रसृतित्रयमेव च॥ ३४.७५ ॥
यदि धर्मस्तथा सत्यमीश्वरोऽत्र जगत्त्रये॥
कोशपानात्फलं सद्यो द्रक्ष्याम्यस्मि शुभा शुभम्॥ ३४.७६ ॥
यास्ये चेति कुलं हन्याद्गमने च कुटुम्बकम्॥
दर्शने च शुभं पाने हन्याद्देहं च मिथ्यया॥ ३४.७७ ॥
त्रिभिर्दिनैस्त्रिभिः पक्षैस्त्रिभिर्मासैस्त्रिभिः समैः॥
अत्युग्रपुण्यपापानां मानेन फलमश्नुते॥ ३४.७८ ॥
एते वरामया लिंगे दत्तात्रं स्थापिते त्वया॥
तव प्रीत्यभिवृद्ध्यर्थं ब्रूहि भूयोऽप्युमात्मज॥ ३४.७९ ॥
॥स्कन्द उवाच॥
कृतकृत्यो वरैर्दत्तैस्त्वया चैतैर्महेश्वर॥
नमोनमो नमस्तेस्तु नात्र त्याज्यं त्वया विभो॥ ३४.८० ॥
एवं प्रणम्य देवं स मातरं प्रणतोऽब्रवीत्॥
त्वयापि मातर्नैवात्र त्याज्यं मम प्रियेप्सया॥ ३४.८१ ॥
त्वामप्यत्र स्थापयिष्ये वरदा भव पर्वति॥ ३४.८२ ॥
॥श्रीदेव्युवाच॥
यत्र शर्वः स्वभावेन तत्र तिष्ठाम्यहं सुत॥ ३४.८३ ॥
तव भक्त्या विशेषेण स्थास्ये स्त्रीणां वरप्रदा॥
युद्धेषु तवकर्माणि रुद्रभक्तेषु ते कृपाम्॥ ३४.८४ ॥
पश्यंति पुत्रिणां मुख्या प्रीणिता च भृशं त्वया॥
गर्भक्लेशः स्त्रियो मन्ये साफल्यं भजते तदा॥ ३४.८५ ॥
सुतो यदा रुद्रभक्तः सानंदं सद्भिरीर्यते॥
भव तस्मात्प्रियार्थाय तिष्ठाम्यत्र षडानन॥ ३४.८६ ॥
स्त्रीभिराराधिता दास्ये सौभाग्यं सुपतिं सुतान्॥
चैत्रे चापि तृतीयायां स्नात्वा शीतेन वारिणा॥ ३४.८७ ॥
अर्चयिष्यंति मां याश्च पुष्पैर्धूपैर्विलेपनैः॥
दास्यामि चाष्टसौभाग्यं या नारी भक्तितत्परा॥ ३४.८८ ॥
पितरौ श्वशुरौ पुत्रान्पतिं सौभाग्यसंपदः॥
कुंकुमं पुष्पश्रीखंडं तांबूलांजनमिक्षवः॥ ३४.८९ ॥
सप्तमं लवणं प्रोक्तमष्टमं च सुजीरकम्॥
तोलयेत्तुलया वापि सांघ्रिश्च तुलिता भवेत्॥ ३४.९० ॥
सुवर्मेनाथ सौगन्ध्यद्रव्यैः शुभफलैरपि॥
भुंक्ते वा लवणं पश्चान्नासौ वै विधवा भवेत्॥ ३४.९१ ॥
माघे वा कार्तिके वापि चैत्रे स्नात्वार्चयेत् माम्॥
दौर्भाग्यदुःखदारिद्र्यैर्न सा संयोगमाप्नुयात्॥ ३४.९२ ॥
श्रुत्वेति गिरिजावाचं सानंदः पार्वतीसुतः॥
स्थापयित्वा गिरिसुतां कपर्दिनमथाब्रवीत्॥ ३४.९३ ॥
पुष्पैर्धूपैर्मोदकैश्च पूर्वमभ्यर्च्य त्वां प्रभो॥
पुजयंति कुमारेशं तेषां विघ्नहरो भव॥ ३४.९४ ॥
॥कपर्द्युवाच॥
भ्रातस्त्वया स्थापितेऽस्मिँल्लिंगे भक्ताश्च ये नराः॥
न तेषां मम विघ्नानि मम वागनुगामिनी॥ ३४.९५ ॥
एवमुक्ते विघ्नराज्ञा प्रतीतेऽस्थापयच्च तम्॥
तस्मादसौ सदाभ्यर्च्यश्चतुर्थ्यां च विशेषतः॥ ३४.९६ ॥
एवं स्थाप्य कुमारेशं लब्ध्वा चैतान्वराञ्छिवात्॥
मनसा कृतकृत्यं चात्मानं मेने षडाननः॥ ३४.९७ ॥
तस्थावंशेन तत्रैव कुमारेश्वरसंनिधौ॥
अत्र स्थितं कुमारं ये पश्यन्ति स्वामियात्रिमः॥ ३४.९८ ॥
सफला स्वामियात्रा च तेषां भवति भारत॥
कार्तिक्यां च विशेषेण कार्तिकेयं समर्चयेत्॥ ३४.९९ ॥
यत्फलं स्वामियात्रायां तत्फलं समावाप्नुयात्॥
एवंविधमिदं पार्थ महीसागरसंगमम्॥ ३४.१०० ॥
निमित्तीकृत्य चात्मानं साध्वर्थे लिंगमर्चितम्॥
रोगाभिभूतो रोगैर्वा नाम्नामष्टोत्तरं शतम्॥ ३४.१०१ ॥
जप्त्वा शुचिर्ब्रह्मचारी मासं मुच्येत पातकात्॥
एतदाराध्य संजाता रजिरामादयः पुरा॥ ३४.१०२ ॥
शतसंख्याबलं राज्यं रुद्रलोक च भेजिरे॥
जामदग्न्यस्त्विदं लिंगमाराध्य च समायुतम्॥ ३४.१०३ ॥
लेभे कुठारमुज्जह्ने येनार्जुनभुजान्युधि॥
अग्रतो देवदेवस्य ज्ञात्वा तीर्थे महागुणान्॥ ३४.१०४ ॥
रामेश्वरमिति ख्यातं स्थापितं लिंगमुत्तमम्॥
तच्च योऽभ्यर्चयेद्भक्त्या रुद्रलोकं स गच्छति॥ ३४.१०५ ॥
प्रीतः स्यात्तस्य रामश्च कुमारेशश्च फाल्गुन॥
इति संक्षेपतः प्रोक्तं कुमारेशस्य वर्णनम्॥ ३४.१०६ ॥
कुमारेशस्य माहात्म्यं कीर्तयेद्यस्तदग्रतः॥
ये च श्रृण्वंत्यनुदिनं रुद्रलोके वसंति ते॥ ३४.१०७ ॥
अस्य लिंगस्य माहात्म्यं श्राद्धकाले तु यः पठेत्॥
पितॄणामक्षयं जायते नात्र संशयः॥ ३४.१०८ ॥
अस्य लिंगस्य माहात्म्यं गुर्विणीं श्रावयेद्यदि॥
गुणवाञ्जायते पुत्रः कन्या चापि पतिव्रता॥ ३४.१०९ ॥
एतत्पुण्यं पापहरं धर्म्यं चाह्लादकारकम्॥
पठतां चापि सर्वाभीष्टफल प्रदम्॥ ३४.११० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेशस्थापनपूर्वकमाहात्म्यवर्णनं नाम चतुस्त्रिंशोऽध्यायः॥ ३४ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 35
॥नारद उवाच॥
कुमारेण स्थापितोऽत्र कुमारेशस्ततः सुराः॥
प्रणम्य गुहमूचुश्च प्रबद्धकरसंपुटाः॥ ३५.१ ॥
किंचिद्विज्ञापयष्यामो वयं त्वां श्रृणु तत्त्वतः॥
पूर्वप्रसिद्ध आचारः प्रोच्यते जयिनामयम्॥ ३५.२ ॥
जयंति ये रणे शत्रूंस्तैः कार्यः स्तंभचिह्नकः॥
तस्मात्तव जयोद्द्योतनिमित्तं स्तंममुत्तमम्॥ ३५.३ ॥
नक्षिपाम वयं यावत्त्मनुज्ञातुमर्हसि॥
विश्वकर्मकृतं यच्च तृतीयं लिंगमुत्तमम्॥ ३५.४ ॥
तस्य स्तंभाग्रतसतं च संस्थापय शिवात्मज॥
एवमुक्ते सुरैः स्कन्दस्ततेत्याह महामनाः॥ ३५.५ ॥
ततो हृष्टाः सुरगणाः शक्राद्याः स्तंभमुत्तमम्॥
जांबूनदमयं शुभ्रं रणभूमौ विनिक्षिपुः॥ ३५.६ ॥
परितः स्थंडिलं दिक्षु सर्वरत्नमयं तु ते॥
तत्र हृष्टाश्चाप्सरसो ननृतुर्दशधा शुभाः॥ ३५.७ ॥
मातरो मंगलान्यस्य जगुः स्कन्दस्य नंदिताः॥
इंद्राद्या ननृतुस्तत्र स्वयं विष्णुश्च वादकः॥ ३५.८ ॥
पेतुः खात्पुष्पवर्षाणि देववाद्यानि सस्वनुः॥
एवं स्तंभं समारोप्य जयाख्यं विश्वनंदकः॥ ३५.९ ॥
स्तम्भेश्वरस्ततो देवः स्थापितस्त्र्यक्षसूनुना॥
विरिंचिप्रमुखैर्देवैर्जातानन्दैः समं तदा॥ ३५.१० ॥
हरिहरादित्युक्तैस्तैः सेन्द्रैर्मुनिगणैरपि॥
तस्यैव पश्चिमे भागे शक्त्यग्रेण महात्मना॥ ३५.११ ॥
गुहेन निर्मितः कूपो गंगा तत्र तलोद्भवा॥
माघस्य च चतुर्दश्यां कृष्णायां पितृतर्पणम्॥ ३५.१२ ॥
कूपे स्नानं नरः कृत्वा भक्त्या यः पांडुनंदन॥
गयाश्राद्धेन यत्पुण्यं तत्फलं लभते स्फुटम्॥ ३५.१३ ॥
स्तंभेश्वरं ततो देवं गन्धपुष्पैः प्रपूजयेत्॥
वाजपेयफलं प्राप्य मोदते रुद्रसद्मानि॥ ३५.१४ ॥
पौर्णमास्याममावास्यां महीसागरसंगमे॥
श्राद्धं कृत्वा च योऽभ्यर्च्चेंत्स्तंभेश्वरमकल्मषः॥ ३५.१५ ॥
पितरस्तस्य तृप्यंति तृप्ता यच्छंति चाशिषः॥
स भित्त्वा सर्वपापानि रुद्रलोके महीयते॥ ३५.१६ ॥
इत्याह भगवान्रुद्रः स्कन्दस्य प्रीतये पुरा॥
एवमेव चतुर्थं च स्थापितं लिंगमुत्तमम्॥ ३५.१७ ॥
प्रणेमुर्देवताः सर्वे साधुसाध्विति ते जगुः॥ ३५.१८ ॥
इति स्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे स्तंभेश्वरमाहात्म्यवर्णन नाम पंचत्रिंशोऽध्यायः॥ ३५ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 36
॥नारद उवाच॥
एवं दृष्ट्वा क्षितौ तानि लिंगानि हरसूनुना॥
हरिब्रह्मेंद्रप्रमुखा देवाः प्रोचुः परस्परम्॥ ३६.१ ॥
अहो धन्यः कुमारोऽयं महीसागरसंगमे॥
येन चत्वारी लिंगानि स्तापितानि सुदुर्लभे॥ ३६.२ ॥
वयमप्यत्र शुद्ध्यर्थं तोषार्थं स्कन्दरुद्रयोः॥
साध्वर्थे चात्मलाभाय कुर्मो लिंगपरंपराम्॥ ३६.३ ॥
अथवा कोटिशो देवा मुनयो नैव संख्यया॥
सर्वे चेत्स्थापयिष्यंति लिंगान्यत्र महीतटे॥ ३६.४ ॥
पूजा तेषां कतं भावि बहुत्वाच्चात्र पठ्यते॥
यस्य राष्ट्रे रुद्रलिंगं पूज्यते नैव शक्तितः॥ ३६.५ ॥
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः॥
संभूय स्थापयिष्यामो लिंगमेकं ततः शुभम्॥ ३६.६ ॥
इति कृत्वा मतिं सर्वे प्राप्यानुज्ञां महेश्वरात्॥
प्रहर्षिता सुहश्चैव हरिब्रह्ममुखाः सुराः॥ ३६.७ ॥
भूमिभागं शुभं वीक्ष्य विजने लिंगमुत्तमम्॥
स्थापयामासुरथ ते स्वयं ब्रह्मविनिर्मितम्॥ ३६.८ ॥
सिद्धार्थैः स्तापितं यस्मा द्देवैर्ब्रह्मादिभिः स्वयम्॥
सिद्धेश्वरमिति प्राह नाम लिंगस्य वै गुहः॥ ३६.९ ॥
सर्वैर्देवैस्तत्र लिंगे खानितं सर उत्तमम्॥
सर्वतीर्थोदकैः शुभ्रैः पूरितं च महात्मभिः॥ ३६.१० ॥
एतस्मिन्नंतरे पार्थ पातालाच्छेषनंदनः॥
कुमुदोनाम आगत्य प्राह शेषाहिपन्नगान्॥ ३६.११ ॥
अस्मिंस्तारकयुद्धे तु प्रलंबोनाम दानवः॥
पलायित्वा स्कंदभीत्या पापः पातालमाविशत्॥ ३६.१२ ॥
स वो वसूनि पुत्रांश्च भार्याः कन्या गृहाणि च॥
विध्वंसयति नागेंद्राः शीघ्रं धावतधावत॥ ३६.१३ ॥
शेषात्मजस्य तद्वाक्यं कुमदस्य निशम्यते॥
औत्सुक्यमापुर्नागेंद्रा यामयामेति वादिनः॥ ३६.१४ ॥
तान्निवार्य ततः स्कंदः क्रुद्धः शक्तिमथाददे॥
पातालाय मुमोचाथ प्रोच्य दैत्यो निहन्यताम्॥ ३६.१५ ॥
ततः स्कंदभुजोत्सृष्टा भुवं निर्भिद्य वेगतः॥
प्रविष्टा सहसा शक्तिर्यथा दैवं नरं प्रति॥ ३६.१६ ॥
सा तं हत्वा प्रलंबं च कोटिभिर्दशभिर्वृतम्॥
नंदयित्वा गता नागाञ्जलकल्लोपूर्विका॥ ३६.१७ ॥
यांत्या शक्त्या तया पार्थ यत्कृतं विवरं भुवि॥
पातालगंगातोयेन पूरितं पापहारिणा॥ ३६.१८ ॥
तस्य नाम ददौ स्कंदः सिद्धकूप इति स्मृतः॥
कृष्माष्टम्यां चतुर्दश्यामुपवासी नरः स्वयम्॥ ३६.१९ ॥
स्नात्वा कूपेऽर्चयेदीशं सिद्धेश्वरमनन्यधीः॥
प्रभूतभवसंभूतपापं तस्य विलीयते॥ ३६.२० ॥
सिद्धकुंडे च यः स्नात्वा श्राद्धं कुर्याद्विचक्षणः॥
सर्वकल्मषनिर्मुक्तो भक्तियोग्यो भवेभवे॥ ३६.२१ ॥
वृश्चाप्यक्षयस्तस्य तुष्टो रुद्रो वरं ददौ॥
प्रयाग वटतुल्योऽयमेतत्सत्यं न संशयः॥ ३६.२२ ॥
अत्रागत्य महाभागः क्षाद्धं कुर्यात्सुभक्तितः॥
पितॄणामक्षयं तच्च सर्वेषां पिंडपातनम्॥ ३६.२३ ॥
ततो ब्रह्मादयो देवाः स्कंदेन सहितास्तदा॥
सिद्धांबिकां महाशक्तिं प्रार्थयामासुरीश्वरीम्॥ ३६.२४ ॥
त्वयाविष्टो हि भगवान्मत्स्यरूपी जनार्दनः॥
जगदुद्धारणार्थाय चक्रे कर्माम्यनेकशः॥ ३६.२५ ॥
इति तां प्रार्थयामासुरत्र त्याज्यं न ते शुभे॥
अत्र स्थिताः सर्व इमे क्षेत्रपाला महाबलाः॥ ३६.२६ ॥
अष्टम्यां वा चतुर्दश्यां बलिपुष्पैश्च त्वां शुभे॥
ये पूजयंति ते पाल्याः सर्वापत्सु च या सदा॥ ३६.२७ ॥
एवमुक्ता सिद्धमाता तथेति प्रत्यपद्यत॥
स्थापयामासुरथ तां लिंगादुत्तरभागतः॥ ३६.२८ ॥
ततः क्षेत्रपतीन्देवाश्चतुःषष्टिं महेश्वरम्॥
सिद्धेयं नाम क्षेत्रस्य रक्षार्थं निदधुः स्वयम्॥ ३६.२९ ॥
त्वां च ये पूजयिष्यंति कार्यारभेषु सर्वदा॥
वर्षे वर्षे राजमाषबलिना च विशेषतः॥ ३६.३० ॥
तानसौ पालयेत्तुष्टः पिता लोकानिव स्वकान्॥
सिद्धिकृतो देवास्तत्र सिद्धिविनायकम्॥ ३६.३१ ॥
कपर्दितनयं प्रार्थ्य स्थापयाचक्रिरे मुदा॥
तं च ये पूजयंत्यत्र कार्यारंभेषु सर्वदा॥ ३६.३२ ॥
तेषां सिद्धिं ददात्येष प्रबलो विघ्नराड्भवः॥
यद्यत्र पूजयेद्यस्तु सततं सिद्धसप्तकम्॥ ३६.३३ ॥
पश्येद्वा स्मरते वापि सर्वदोषैर्विमुच्यते॥
सिद्धेश्वरः सिद्धवटश्च साक्षात्सिद्धांबिका सिद्धविनायकश्च॥
सिद्धेयक्षेत्राधिपतिश्च सिद्धसरस्तथा सिद्धकूपश्च सप्त॥ ३६.३४ ॥
अत्र तुष्टो ददौ रुद्रः सुराणां दुर्लभान्वरान्॥
वैशाखमासस्याष्टम्यां कृष्णायां सिद्धकूपके॥ ३६.३५ ॥
स्नात्वा पिंडान्वटे कृत्वा पूजयन्मां च सिद्धभाक्॥
सदा योऽभ्यर्चयेन्मां च ब्रह्मचारी जितेंद्रियः॥ ३६.३६ ॥
अष्टाविष्टकरा नित्यं भवेयुस्तस्य सिद्धयः॥
मंत्रजाप्यं बलिं होममत्र यः कुरुते नरः॥ ३६.३७ ॥
एकचित्तः शुचिर्भूत्वा सोऽभूष्टां सिद्धिमाप्नुयात्॥
समाहितमनाश्चाथ सिद्धेशं यस्तु पश्यति॥ ३६.३८ ॥
तस्य सिद्धिर्भवत्येव विघ्नैर्यदि न हन्यते॥
सिद्धांबिका महादेवी ह्यत्र संनिहितास्ति या॥ ३६.३९ ॥
सिद्धिदा साधकेंद्राणां महाविद्यां जपंति ये॥
धीरेभ्यो ब्रह्मचारिभ्यः सत्यचित्तेभ्य एव च॥ ३६.४० ॥
मंत्रजाप्याद्ददात्येषा सर्वसिद्धीर्यथोप्सिताः॥
पातालस्य बिलं चैतद्गुहशक्त्या कृतं महत्॥ ३६.४१ ॥
सिद्धां बिकाप्रसादेन विघ्नक्षेत्रपयोर्मम॥
प्रत्यक्षं भविता यत्र नानाश्चर्याणि भूरिशः॥ ३६.४२ ॥
अत्र सिद्धिं प्रयास्यंति कोटिशः पुरुषाः सुराः॥
विद्याधरत्वं देवत्वं गंधर्वत्वं च नागता॥ ३६.४३ ॥
यक्षत्वं चामरत्वं च प्राप्स्यंत्यत्र च साधकाः॥
अत्र वै विजयोनाम स्थंडिलस्य प्रभावतः॥ ३६.४४ ॥
सिद्धांबिकां समाराध्य सिद्धिमाप्स्यति दुर्लभाम्॥
यो मां द्रक्ष्यति चात्रस्थं यश्च मां पूजयिष्यति॥
वादप्रचारतो वापि पुण्यावाप्तिर्भविष्यति॥ ३६.४५ ॥
॥नारद उवाच॥
त्र्यंबकेण वरेष्वेवं दत्तेष्वपि सुरोत्तमाः॥ ३६.४६ ॥
प्रहृष्टाः समपद्यंत गाथां चेमां जगुस्तदा॥
तेन यज्ञैर्जपैःस्तोत्रैस्तपो भिस्तोषिता वयम्॥ ३६.४७ ॥
सर्वे देवाः सिद्धिलिंगं यो नरः पूजयिष्यति॥
सर्वकामफलावाप्तिरित्येवं शंकरोऽब्रवीत्॥ ३६.४८ ॥
इत्युक्त्वा ते जयं प्राप्ताः स्कंदेन सहिताः सुराः॥
काराय्यं रम्यप्रासादान्रम्यैस्तारकसंभवैः॥ ३६.४९ ॥
चतुर्वर्गफलावाप्तिं दत्त्वा क्षेत्रस्य संययुः॥
केचित्स्कंदं प्रशंसंतस्तीर्थमन्ये हरिं परे॥ ३६.५० ॥
केचिल्लिंगानि पंचापि युद्धं केचिद्दिवं ययुः॥
ततोंऽतरिक्षे चालिंग्य महासेनं हरोऽब्रवीत्॥ ३६.५१ ॥
सप्तमे मारुतस्कंधे व स नित्यं प्रियात्मज॥
कार्येष्वहं त्वया पुत्र संप्रष्टव्यः सदैव हि॥ ३६.५२ ॥
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि॥
स्तंभतीर्थे च वत्स्येऽहं न विमोक्ष्यामि कर्हिचित्॥ ३६.५३ ॥
इत्युक्त्वा विससर्जैनं परिष्वज्य महेश्वरः॥
ब्रह्मविष्णुमुखांश्चैव भक्त्या तैरभिनंदितः॥ ३६.५४ ॥
विसर्जिताः सुराजग्मुः स्वानिस्वान्यालयानि च॥
शर्वो जगाम कैलासं स्कंधं वै सप्तमं गुहः॥ ३६.५५ ॥
इत्येतत्कथितं पार्थ लिंगपंचकसंभवम्॥
यः पठेत्स्कंदसंबद्धां कथां मर्त्यो महामतिः॥ ३६.५६ ॥
श्रृणुयाच्छ्रावयेद्वापि स भवेत्कीर्तिमान्नरः॥
बह्वायुः सुभगः श्रीमान्कांतिमाञ्छुभदर्शनः॥ ३६.५७ ॥
भूतेभ्यो निर्भयश्चापि सर्वदुःखविवर्जितः॥
शुचिर्भूत्वा पुमान्यश्च कुमारेश्वरसन्निधौ॥ ३६.५८ ॥
श्रृणुयात्स्कंदचरितं महाधनपतिर्भवेत्॥
बालानां व्याधिदुष्टानां राजद्वारोपसेविनाम्॥ ३६.५९ ॥
इदं तत्परमं धन्यं सर्वदोषहरं सदा॥
तनुक्षये च सायुज्यं षण्मुखस्य व्रजेन्नरः॥ ३६.६० ॥
वरमेनं ददुर्देवाः स्कंदस्याथ गता दिवम्॥ ३६.६१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे पंचलिंगोपाख्यानसमाप्तिवर्णनंनाम षट्त्रिंशोऽध्यायः॥ ३६ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 37
॥श्रीनारद उवाच॥
बर्बरीतीर्थमाहात्म्यमथो वक्ष्यामि तेऽर्जुन॥
यथा बर्बरिका जाता शतश्रृंगा नृपात्मजा॥ ३७.१ ॥
कुमारिकेति विख्याता तस्या नाम्ना प्रकथ्यते॥
इदं कौमारिकाखंडं चतुर्वर्गफलप्रदम्॥ ३७.२ ॥
यया कृता पृथिव्यां च नानाग्रामादिकल्पना॥
इदं भरतखंडं च यया सम्यक्प्रकल्पितम्॥ ३७.३ ॥
॥धनंजय उवाच॥
महदेतन्ममाश्चर्यं श्रोतव्यं परमं मुने॥
कुमारीचरितं सर्वं ब्रूहि मह्यं सविस्तरम्॥ ३७.४ ॥
कथं विश्वमिदं जातं कर्मजातिप्रकल्पितम्॥
कथं वा भारतं खंडं शुश्रूषेय सदा मम॥ ३७.५ ॥
॥नारद उवाच॥
अव्यक्तोऽस्मिन्निरालोके प्रधानपुरुषावुभौ॥
अजौ समागतावेकौ केवलं श्रृणुमो वयम्॥ ३७.६ ॥
ततः स्वभावकालाभ्यां स्वरूपाभ्यां समीरितम्॥
ईक्षणेनैव प्रकृतेर्महत्तत्त्वमजायत॥ ३७.७ ॥
महत्तत्त्वाद्विकुर्वाणादहंतत्त्वं व्यजायत॥
त्रिधा तन्मुनिभिः प्रोक्तं सत्त्वरासतामसम्॥ ३७.८ ॥
तामसात्पंच जातानि तन्मात्राणि वुदुर्बुधाः॥
तन्मात्रेभ्यश्च भूतानि वेशेषाः पंच तद्भवाः॥ ३७.९ ॥
सात्त्विकाच्चाप्यहंकाराद्विद्वि कर्मेद्रियाणि च॥
एकादशं मनश्चैव राजसं च द्वयोर्विदुः॥ ३७.१० ॥
चतुर्विशतितत्त्वानि जातानीति पुरा विदुः॥
सदाशिवेन वै पुंसा तानि दृष्टानि भारत॥ ३७.११ ॥
बुद्बुदाकारतां जग्मुरंडं जातं ततः शुभम्॥
शकतोटिप्रमाणं च ब्रह्मांडमिदमुच्यते॥ ३७.१२ ॥
आत्मास्य कथितो ब्रह्मा व्यभजत्स त्रिधा त्विदम्॥
ऊर्ध्वं तत्र स्थिता देवा मध्ये चैव च मानवाः॥ ३७.१३ ॥
नागा दैत्याश्च पाताले त्रिधैतत्परिकल्पितम्॥
ऐकैकं सप्तधाभूय ततस्तेन प्रकल्पितम्॥ ३७.१४ ॥
पातालानि च द्वीपानि स्वर्लोकाः सप्तसप्त च॥
सप्त द्वीपानि वक्ष्यामि श्रृणु तेषां प्रकल्पनाम्॥ ३७.१५ ॥
लक्षयोजनविस्तारं जंबूद्वीपं प्रकीर्त्यते॥
सूर्यबिंबसमाकारं तावत्क्षारार्णवावृतम्॥ ३७.१६ ॥
शाकद्वीपं द्विगुणतो जंबूद्वीपात्ततः परम्॥
तावता क्षीरतोयेन समुद्रेण परीवृतम्॥ ३७.१७ ॥
सुरातोयेन दैत्यानां मोहकार्यर्णवेन हि॥
पुष्करं तु ततो द्वीपं द्विगुणं तावता वृतम्॥ ३७.१८ ॥
कुशद्वीपं द्विगुणतस्ततस्तत्परतः स्मृतम्॥
दधितोयेन परितस्तावदर्णवसंवृतम्॥ ३७.१९ ॥
ततः परं क्रौञ्चसंज्ञं द्विगुणं हि घृताब्धिना॥
ततः शाल्मलिद्वीपं च द्विगुणं तावतैव च॥ ३७.२० ॥
इक्षुसारस्वरूपेण समुद्रेण परिवृतम्॥
गोमेदं तस्य परितो द्विगुणं तावता वृतम्॥ ३७.२१ ॥
स्वादुतोयेन रम्येण समुद्रेण समंततः॥
एवं कोटिद्वयं पार्थ लक्षपंचाशतत्रयम्॥ ३७.२२ ॥
पंचाशच्च सहस्राणि सप्तद्वीपाः ससागराः॥
दशोत्तराणि पंचैव अंगुलानां शतानि च॥ ३७.२३ ॥
अपां वृद्धिक्षयो दृष्टः पक्षयोः शुक्लकृष्णयोः॥
ततो हेममयी भूमिर्दशकोट्यः कुरूद्वह॥ ३७.२४ ॥
देवानां क्रीडनस्थानं लोकालोकस्ततः परम्॥
पर्वतो वलयाकारो योजनायुतविस्तृतः॥ ३७.२५ ॥
अस्य बाह्ये तमो घोरं दुष्प्रेक्ष्यं जीववर्जितम्॥
पंचत्रिंशत्स्मृताः कोट्यो लक्षाण्येकोनविंशतिः॥ ३७.२६ ॥
चत्वारिंशत्सहस्राणि योजनानां च फाल्गुन॥
सप्तसागरमानस्तु गर्भोदस्तदनंतरम्॥ ३७.२७ ॥
कोटियोजनविस्तारः कटाहऋ संव्यवस्थितः॥
ब्रह्मणोंऽडं कटाहेन संयुक्तं मेरुमध्यतः॥ ३७.२८ ॥
पंचाशत्कोटयो ज्ञेया दशदिक्षु समंततः॥
जंबुद्वीपस्य मध्ये तु मेरुनामास्ति पर्वतः॥ ३७.२९ ॥
स लक्षयोजनो ज्ञेयो ह्यधश्चोर्ध्वं प्रमाणतः॥
षोडशैव सहस्राणि योजनानामधः स्थितः॥ ३७.३० ॥
उच्छ्रयश्चतुराशीतिर्द्वात्रिंशन्मूर्ध्नि विस्तृतः॥
त्रिभिः शृंगैः समायुक्तः शरावाकृतिमस्तकः॥ ३७.३१ ॥
मध्यशृंगे ब्रह्मवास ऐशान्यां त्र्यंबकस्य च॥
नैर्ऋत्ये वासुदेवस्य हेमशृंगं च ब्रह्मणः॥ ३७.३२ ॥
रत्नजं शंकरस्यापि राजतं केशवस्य च॥
मेरुदिक्षु चतसृषु विष्कंभा गिरयः स्मृताः॥ ३७.३३ ॥
पूर्वेण मंदरो नामदक्षिणे गंधमादनः॥
विपुलः पश्चिमो ज्ञेयः सुपार्श्वस्तु तथोत्तरे॥ ३७.३४ ॥
कदंबो मंदरे ज्ञेयोजंबुर्वै गंधमादने॥
अश्वत्थो विपुले चैव सुपार्श्वेच वटोमतः॥ ३७.३५ ॥
एकादशशतायामाश्चत्वारो गिरिकेतवः॥
एतेषां संति चत्वारि वनानि जयमूर्धसु॥ ३७.३६ ॥
पूर्वं चैत्ररथं नामदक्षिणे गंधमादनम्॥
वैभ्राजंपश्चिमे ज्ञेयमुदक्चित्ररथं वनम्॥ ३७.३७ ॥
सरांसि चापि चत्वारि चतुर्दिक्षु निबोध मे॥
प्राच्येऽरुणोदसंज्ञं तु मानसं दक्षिणे सरः॥ ३७.३८ ॥
प्रत्यक्छीतो दकंनाम उत्तरे च महाह्रदः॥
विष्कंभगिरयो ह्येत उच्छ्रिताः पंचविंशतिः॥ ३७.३९ ॥
योजनानां सहस्राणि सहस्रं पिंडतः स्मृतम्॥
अन्ये च संति बहुशस्तत्र वै केसराचलाः॥ ३७.४० ॥
मेरोर्दक्षिणतश्चैव त्रयो मर्यादपर्वताः॥
निषधो हेमकूटश्च हिमवानिति ते त्रयः॥ ३७.४१ ॥
लक्षयोजनदीर्घाश्च विस्तीर्णा द्विसहस्रकम्॥
त्रयश्चोत्तरतो मेरोर्नीलः श्वेतोऽथ श्रृंगवान्॥ ३७.४२ ॥
माल्यवान्पूर्वतो मेरोर्गंधाख्यः पश्चिमे तथा॥
इत्येते गिरयः प्रोक्ता जंबुद्वीपे समंततः॥ ३७.४३ ॥
गंधमादनसंस्थाया महागजप्रमाणतः॥
फलानि जंबवास्तन्नाम्ना जंबूद्वीपमिति स्मृतम्॥ ३७.४४ ॥
आसीत्स्वायंभुवोनाम मनुराद्यः प्रजापतिः॥
आसीत्स्त्री शतरूपा तामुदुवोढ प्रजापतिः॥
प्रियव्रतोत्तानपादौ तस्याऽऽस्तां तनयावुभौ॥ ३७.४५ ॥
ध्रुवश्चोत्तानपादस्य पुत्रः परमधार्मिकः॥
भक्त्या स विष्णुमाराध्य स्थानं चैवाक्षयं गतः॥ ३७.४६ ॥
प्रियव्रतस्य राजर्षेरुत्पन्ना दश सूनवः॥
त्रयः प्रव्रजितास्तत्र परंब्रह्म समाश्रिताः॥ ३७.४७ ॥
सप्त सप्तसु द्वीपेषु तेन पुत्राः प्रतिष्ठिताः॥
जंबूद्वीपाधिपो ज्येष्ठ आग्नीध्र इति विश्रुतः॥ ३७.४८ ॥
तस्यासन्नव सुताः पार्थ नववर्षेश्वराः स्मृताः॥
तेषां नाम्ना च ते वर्षास्तिष्ठंत्यद्यापि चांकिताः॥ ३७.४९ ॥
योजनानां सहस्राणि नव प्रत्येकशः स्मृताः॥
मेरोश्चतुर्दशं खंडं गंधमाल्यवतोर्द्वयोः॥ ३७.५० ॥
अंतरे हेमभूमिष्ठमिलावृतमिहोच्यते॥
माल्यवत्सागरांतस्य भद्राश्वमिति प्रोच्यते॥ ३७.५१ ॥
गंधवत्सागरांतस्य केतुमालमिति स्मृतम्॥ ३७.५२ ॥
श्रृंगवज्जलधेरंतः कुरुखंडमिति स्मृतम्॥
श्रृंगवच्छ्वेतमध्ये च खण्डं प्रोक्तं हिरण्मयम्॥ ३७.५३ ॥
सुनीलश्वेतयोर्मध्ये खंडमाहुश्च रम्यकम्॥
निषधो हेमकूटश्च हरिखंडं तदंतरा॥ ३७.५४ ॥
हिमवद्धिमकूटांतः खण्डं किंपुरुषं स्मृतम्॥
हिमाद्रिजलधेरन्तर्नाभि खण्डमिति स्मृतम्॥ ३७.५५ ॥
नाभिखण्डं च कुरवो द्वे वर्षे धनुपाकृती॥
हिमवांश्च गिरिश्रृंगी ज्यास्थाने परिकीर्तितौ॥ ३७.५६ ॥
नाभेः पुत्रश्च ऋषभ ऋषभाद्बरतोऽभवत्॥
तस्य नाम्ना त्विदं वर्षं भारतं चेति कीर्त्यते॥ ३७.५७ ॥
अत्र धर्मार्थकामानां मोक्षस्य च उपार्जनम्॥
अन्यत्र भोगभूमिश्च सर्वत्र कुरुनंदन॥ ३७.५८ ॥
शाकद्वीपे च शाकोऽस्ति योजनानां सहस्रकः॥
तस्य नाम्ना च तद्वर्षं शाकद्वीपमिति स्मृतम्॥ ३७.५९ ॥
तस्य च प्रियव्रत एवाधिपतिर्नाम्ना मेधातिथिरिति॥ ३७.६० ॥
तस्य पुरोजवमनोजववेपमानधूम्रानीकचित्ररेफबहुरूपविश्वचारसंज्ञानि पुत्रनामानि सप्त वर्षाणि॥ ३७.६१ ॥
शाकद्वीपे च वर्ष ऋतव्रतसत्यव्रतानुव्रतनामानो वाय्यवात्कमं भगवंतं जपंति॥ ३७.६२ ॥
अंतः प्रविश्य भूतानि यो विभज्यात्मकेतुभिः॥
अंतर्यामीश्वरः साक्षात्पातु नो यद्वशे जगत्॥ ३७.६३ ॥
॥इति जपः॥
कुशद्वीपे कुशस्तंबो योजनानां सहस्रकः॥
तच्चिह्नचिह्नितं तस्मात्कुशद्वीपं ततः स्मृतम्॥ ३७.६४ ॥
तद्द्वीपपतिश्च प्रैयव्रतो हिरण्यरोमा तत्पुत्रवसुवसुदानदृढकविनाभिगुप्तसत्यव्रतवामदेवनामांकितानि सप्त वर्षाणि॥
वर्णाश्च कुलिशकोविदाभियुक्तकुलकसंज्ञा जातवेदसं भगवंतं स्तुवंति॥ ३७.६५ ॥
परस्य ब्रह्णः साक्षाज्जातवेदासि हव्यवाट्॥
देवानां पुरुषांगानां यज्ञेन पुरुषं यजः॥ ३७.६६ ॥
॥इति स्तुतिः॥
क्रौंचद्वीपे क्रौंचनामा पर्वतो योजनायतः॥
योऽसौ गुहेन निर्भिन्नस्तच्चिह्नं क्रौंचद्वीपकम्॥ ३७.६७ ॥
तत्र च प्रैयव्रतो घृतपृष्टिनामा तत्पुत्राममधुरुहमेघपृष्ठस्वदामऋताश्वलोहितार्णववनस्पतिइतिसप्तपुत्रनामांकितानि सप्त वर्षाणि॥ ३७.६८ ॥
वर्णाश्च गुरुऋषभद्रविणदेवकसंज्ञाः॥ ३७.६९ ॥
आपोमयं भगवंतं स्तुवंति॥ ३७.७० ॥
आपः पुरुषवीर्याश्च पुनंतीर्भूर्भूवःस्वश्च॥
तैः पुनरमीवघ्नाःसंस्पृशेतात्मना भुवः॥ ३७.७१ ॥
॥इति जपः॥
शाल्मलेर्नाम वृक्षस्य तत्रवासः सहस्रं योजनानां तच्चिह्नं शाल्मलिद्विपमुच्यते॥ ३७.७२ ॥
तस्याधिपतिः प्रैयव्रतो यज्ञबाहुस्तत्पुत्रसुरोचनसौमनस्यरमणकदेवबर्हिपारिभद्राप्यायनाभिज्ञाननामानि सप्तवर्षाणि॥ ३७.७३ ॥
वर्णाश्च श्रुतधरवीर्यवसुंधरइषंधरसंज्ञा भगवंतं सोमं यजंति॥ ३७.७४ ॥
स्वयोनिः पितृदेवेभ्यो विभजञ्छुक्लकृष्णयोः॥
अधः प्रजानां सर्वासां राजा नः सोमोस्तु॥ ३७.७५ ॥
इति जपः गोमेदनामा प्लक्षोस्ति सुरम्यो यस्य च्छायया॥
मोदोवृद्धिं गतं लौल्याद्गोमेदं द्वीपमुच्यते॥ ३७.७६ ॥
तत्र प्रैयव्रत इध्मजिह्वः पतिस्तत्पुत्रसिवसुरम्यसुभद्र शांत्यशप्तमृताभयनामांकितानि सप्त वर्षाणि॥ ३७.७७ ॥
वर्णाश्च हंसपतंगोर्ध्वांचनसत्यांगसंज्ञाश्चत्वारो भगवंतं सूर्यं यजंते॥ ३७.७८ ॥
प्रश्रस्य विष्णुरूपंयत्तत्रोत्थस्य ब्रह्मणोऽमृतस्य च॥
मृत्योश्च सूर्यमात्मानं धीमहि॥ ३७.७९ ॥
॥इति जपः॥
स्वर्णपत्राणि नियुतं योजनानां सहस्रकम्॥
पुष्करं ज्वलदा भाति तच्चिह्नं द्वीपपुष्करम्॥ ३७.८० ॥
तस्याधिपतिः प्रैयव्रतो वीतहोत्रनामा तत्पुत्रौ रमणकघातकौ॥ ३७.८१ ॥
तन्नामचिह्नतं खंडद्वयम्॥ ३७.८२ ॥
तयोरंतरालेमानसाचलो नाम वलयाकारः पर्वतो यस्मिन्भ्रमति भगवान्भास्कर इति॥ ३७.८३ ॥
तत्र वर्णाश्च न संति केवलं समानास्ते ब्रह्म ध्यायंति॥ ३७.८४ ॥
यद्यत्कर्ममयं लिंगं ब्रह्मलिंगं जनोर्चयन्॥
भेदेनैकांतमद्वैतं तस्मै भगवते नमः॥ ३७.८५ ॥
॥इति जपः॥
नैषु क्रोधो न मात्सर्यं पुण्यपापार्जनेन च॥
अयुतं द्विगुणं चापि क्रमादायुः प्रकीर्तितम्॥ ३७.८६ ॥
जपंतः कामिनीयुक्ता विहरंत्यमरा इव॥
अथ ते संप्रवक्ष्यामि ऊर्ध्वलोकस्य संस्थितिम्॥ ३७.८७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारिकाख्याने भूसंस्थितिवर्णनंनाम स्पतत्रिंशोऽध्यायः॥ ३७ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 38
॥नारद उवाच॥
भूमेर्योजनलक्षे च कौरव्य रविमंडलम्॥
योजनानां सहस्राणि भास्करस्य रथो नव॥ ३८.१ ॥
ईषादंडस्ततैवास्य द्विगुणः परिकीर्तितः॥
सार्धकोटिस्तथा सप्त नियुतानि विवस्वतः॥ ३८.२ ॥
योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम्॥
त्रिनाभि तच्च पंचारं षण्नेमि परिकीर्तितम्॥ ३८.३ ॥
चत्वारिंशत्सहस्राणि द्वितीयोऽक्षोऽपि विस्तृतः॥
पंच चान्यानि सार्द्धानि स्यन्दनस्य तु पांडव॥ ३८.४ ॥
अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः॥
ह्रस्वोऽक्षस्तद्युगार्द्धं च ध्रुवाधारं रथस्य वै॥ ३८.५ ॥
द्वितीयोऽक्षस्तथा सव्ये चक्रं तन्मानसे स्थितम्॥
हयाश्च सप्त च्छांदांसि तेषां नामानि मे श्रृणु॥ ३८.६ ॥
गायत्री च बृहत्युष्णिग्जगती त्रिष्टुवेव च॥
अनुष्टुप्पंक्तिरित्युक्ताश्छंदांसि हरयो रवेः॥ ३८.७ ॥
नैवास्तमनमर्कस्य नोदयः सर्वदा सतः॥
उदयास्तमनाक्यं हि दर्शनादर्शनं रवेः॥ ३८.८ ॥
शक्रदीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम्॥
विकीर्णोऽतो विकर्णस्थस्त्रिकोणार्धपुरे तथा॥ ३८.९ ॥
अयनस्योत्तरस्यादौ मकरं याति भास्करः॥
ततः कुम्भं च मीनं च राशे राश्यंतरं तथा॥ ३८.१० ॥
त्रिष्वेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम्॥
प्रयाति सविता कुर्वन्नहोरात्रं च तत्समम्॥ ३८.११ ॥
ततो रात्रिः क्षयं याति वर्धते तु दिनं दिनम्॥
ततश्च मिथुनस्यांते परां काष्ठामुपागतः॥ ३८.१२ ॥
राशिं कर्कटकं प्राप्य कुरुते दक्षिणायांनम्॥
कुलालचक्रपर्यंतो यथा शीघ्रं निवर्तते॥ ३८.१३ ॥
दक्षिणायक्रमे सूर्यस्तथा शीघ्रं निवर्तते॥
अतिवेगितया कालं वायुमार्गबलाच्चरन्॥ ३८.१४ ॥
तस्मात्प्रकृष्टां भूमिं स कालेनाल्पेन गच्छति॥
कुलालचक्रमध्यस्थो यता मंदं प्रसर्पति॥ ३८.१५ ॥
तथोदगयने सूर्यः सर्पते मंदविक्रमः॥
तस्माद्दीर्घेण कालेन भूमिमल्पं निगच्छति॥ ३८.१६ ॥
संध्याकाले च मंदेहाः सूर्यमिच्छंति खादितुम्॥
प्रजापतिकृतः शापस्तेषां फाल्गुन रक्षसाम्॥ ३८.१७ ॥
अक्षयत्वं शरीराणां मरणं च दिनेदिने॥
ततः सूर्यस्य तैर्युद्धं भवत्यत्यंतदारुणम्॥ ३८.१८ ॥
ततो गायत्रिपूतं यद्द्विजास्तोयं क्षिपंति च॥
तेन दह्यंति ते पापाः संध्योपासनतः सदा॥ ३८.१९ ॥
ये संध्यां नाप्युपासंते कृतघ्ना यांति रौरवम्॥
प्रतिमासं पृथक्सूर्य ऋषिगन्धर्वराक्षसैः॥ ३८.२० ॥
अप्सरोग्रामणीसर्पैरथो याति च सप्तभिः॥
धातार्यमा मित्रवरुणौ विवस्वानिन्द्र एव च॥ ३८.२१ ॥
पूषा च सविता सोऽथ भगस्त्वष्टा च कीर्तितः॥
विष्णुश्चैत्रादिमासेषु आदित्या द्वादश स्मृताः॥ ३८.२२ ॥
ततो दिवाकरस्थानान्मंडलं शशिनः स्थितम्॥
लक्षमात्रेण तस्यापि त्रिचक्रो रथ उच्यते॥ ३८.२३ ॥
कुंदाभा दश चैवाश्वा वामदक्षिणतो युताः॥
पूर्णे शतसहस्रे च योजनानां निशाकरात्॥ ३८.२४ ॥
नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते॥
चतुर्दश चार्बुदान्यप्यशीतिः सरितांपतिः॥ ३८.२५ ॥
विंशतिश्च तथा कोट्यो नक्षत्राणां प्रकीर्तिताः॥
द्वे लक्षे चोत्तरे तस्माद्बुधो नक्षत्रमण्डलात्॥ ३८.२६ ॥
वाय्वग्निद्रव्यसंभूतो रथश्चंद्रसुतस्य च॥
पिशंगैस्तुर--- सोष्टाभिर्वायवेगिभिः॥ ३८.२७ ॥
द्विलक्षश्चोत्तरे तस्माद्बुधाच्चाप्युशना स्मृतः॥
शुक्रस्यापि रथोष्टाभिर्युक्तोऽभूत्संभवैर्हयैः॥ ३८.२८ ॥
लक्षद्वयेन भौमस्य स्मृतो देवपुरोहितः॥
अष्टाभिः पांडुरैरश्वैर्युक्तोऽस्य कांचनोरथः॥ ३८.२९ ॥
सौरिर्बृहस्पतेश्चोर्ध्वं द्विलक्षे समुपस्थितः॥
आकाशसंभवैरश्वैरष्टाभिः शबलै रथः॥ ३८.३० ॥
स्वर्भानोस्तुरगाश्चाष्टौ भृंगाभा धूसरारथम्॥
वहंति च सकृद्युक्ता आदित्याधःस्थितास्तथा॥ ३८.३१ ॥
सौरेर्लक्षं स्मृतं चोर्ध्वं ततः सप्तर्षिमण्डलम्॥
ऋषिभ्यश्चापि लक्षेण ध्रुवश्चोर्ध्वं व्यवस्थितः॥ ३८.३२ ॥
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः॥
ध्रुवोऽपि शिंशुमारस्य पुच्छाधारे व्यवस्थितः॥ ३८.३३ ॥
यमाहुर्वासुदेवस्य रूपमात्मानमव्ययम्॥
वायुपाशैर्ध्रुवे बद्धं सर्वमेतच्च फाल्गुन॥ ३८.३४ ॥
नवयोजनसाहस्रं मण्डलं सवितुः स्मृतम्॥
द्विगुणं सूर्यविस्तारान्मण्डलं शशिनः स्मृतम्॥ ३८.३५ ॥
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति॥
उद्धृत्य पृथिवीच्छायां निर्मलां मण्डलाकृतिः॥ ३८.३६ ॥
चन्द्रस्य षोडशो भागो भार्गवश्च विधीयते॥
भार्गवात्पादहीनस्तु विज्ञेयोऽथ बृहस्पतिः॥ ३८.३७ ॥
बृहस्पतेः पादहीनौ वक्रसौरी बुधस्तथा॥
शतानि पंच चत्वारित्रीणि द्वे चैकयोजनम्॥ ३८.३८ ॥
योजनार्धप्रमाणानि भानि ह्रस्वं न विद्यते॥
भूमिलोकश्च भूर्लोकः पादगम्यः प्रकीर्तितः॥ ३८.३९ ॥
भूमिसूर्यांतरं तच्च भुवर्लोकः प्रकीर्तितः॥
ध्रुवसूर्यांतरं तच्च नियुतानि चतुर्दश॥ ३८.४० ॥
स्वर्लोकः सोऽपि गदितो लोकसंस्थानचिंतकैः॥
ध्रुवादूर्ध्वं तथा कोटचिर्महर्लोकः प्रकीर्तितः॥ ३८.४१ ॥
द्वे कोट्यौ च जनो यत्र निवसंति चतुःसनाः॥
चतुर्भिश्चापि कोटीभिस्तपोलोकस्ततः स्मॉतः॥ ३८.४२ ॥
वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः॥
षड्गुणेन तपोलोकात्सत्यलोको विराजते॥ ३८.४३ ॥
अपुनर्मरका यत्र ब्रह्मलोको हि स स्मृतः॥
अष्टादस तथा कोट्यो लक्षाण्यशीतिपंच च॥ ३८.४४ ॥
शुभं निरुपमं स्थानं तदूर्ध्वं संप्रकाशते॥
भूर्भूवःस्वरिति प्रोक्तं त्रैलोक्यं कृतकं त्विदम्॥ ३८.४५ ॥
जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम्॥
कृतकाकृतयोर्मध्ये मर्हर्लोक इति स्मृतः॥ ३८.४६ ॥
शून्यो भवति कल्पांते योत्यंतं न विनश्यति॥
एते सप्त समाख्याता लोकाः पुण्यैरुपार्जिताः॥ ३८.४७ ॥
यज्ञैर्दानैर्जपैर्होमैस्तीर्थैर्व्रतसमुच्चयैः॥
वेदादिप्रोक्तैरन्यैश्च साध्याँल्लोकानिमान्विदुः॥ ३८.४८ ॥
ततश्चांडस्य शिरसो धारा नीरमयी शिवा॥
सर्वलोकान्समाप्लाव्य गंगा मेरावुपागता॥ ३८.४९ ॥
ततो महीतलं सर्वं पातालं प्रविवेश सा॥
अंडमूर्ध्नि स्थिता देवी सततं द्वारवासिनी॥ ३८.५० ॥
देवीनां कोटिकोटीभिः संवृता पिंगलेन च॥
तत्र स्थिता सदा रक्षां कुरुतेऽण्डस्य सा शुभा॥ ३८.५१ ॥
निहंति दुष्टसंघातान्महाबलपराक्रमा॥
वायुस्कंधानि सप्तापिश्रृणुयद्वत्स्थितान्यपि॥ ३८.५२ ॥
पृथिवीं समभिक्रम्य संस्थितो मेघमंडले॥
प्रवहोनाम यो मेघान्प्रवहत्यतिशक्तिमान्॥ ३८.५३ ॥
धूमजाश्वोष्मजा मेघाः सामुद्रैयन पूरिताः॥
तोयैर्भवंति नीलांगा वर्षिष्ठाश्चैव भारत॥ ३८.५४ ॥
द्वितीयश्चावहो नाम निबद्धः सूर्यमंडले॥
तेन बद्धं ध्रुवेणेदं भ्राम्यते सूर्यमंडलम्॥ ३८.५५ ॥
तृतीयश्चोद्वहो नाम चंद्रस्कंधे प्रतिष्ठितः॥
बद्धं ध्रुवेण येनेदं भ्राम्यते चंद्रमंडलम्॥ ३८.५६ ॥
चतुर्थः संवहो नाम स्थितो नक्षत्रमण्डले॥
वातरश्मिभिराबद्धं ध्रुवेण सह भ्राम्यते॥ ३८.५७ ॥
ग्रहेषु पंचमः सोऽपि विवहो नाम मारुतः॥
ग्रहचक्रमिदं येन भ्राम्यते ध्रुवसंधितम्॥ ३८.५८ ॥
षष्ठः परिवहो नाम स्थितः सप्तर्षिमंडले॥
भ्रमंति ध्रुवसंबद्धा येन सप्तर्षयो दिवि॥ ३८.५९ ॥
सप्तमश्च ध्रुवे बद्धो वायुर्नाम्ना परावहः॥
येन संस्थापितं ध्रौव्यं चक्रं चान्यानि भारत॥ ३८.६० ॥
यं समासाद्य वेगेन दिशामंतं प्रपेदिरे॥
दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः॥ ३८.६१ ॥
एवमेते दितेः पुत्राः सप्तसप्त व्यवस्थिताः॥
अनारमंतः संवांति सर्वगाः सर्वधारिणः॥ ३८.६२ ॥
ध्रुवादूर्ध्वमसूर्यं चाप्यनक्षत्रमतारकम्॥
स्वतेजसा स्वशक्त्या चाधिष्ठितास्ते हि नित्यदा॥ ३८.६३ ॥
इत्यूर्ध्वं ते समाख्यांतं पातालान्यथ मे श्रृणु॥ ३८.६४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहास्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारिकाक्याने लोकव्यवस्थितिवर्मनंनामाष्टत्रिंशोऽध्यायः॥ ३८ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 39
॥नारद उवाच॥
सहस्रसप्तत्युच्छ्राये पातालानि परस्परम्॥
अतलं वितलं चैव नितलं च रसातलम्॥ ३९.१ ॥
तलातलं च सुतलं पातालं चापि सप्तमम्॥
कृष्णशुक्लारुणाः पीताः शर्कराशैलकांचनाः॥ ३९.२ ॥
भूमयो यत्र कौरव्य वरप्रासादशोभिताः॥
तेषु दानवदैतेयनागाश्चैव सहस्रसः॥ ३९.३ ॥
स्वर्लोकादपि रम्याणि दृष्टानि बहुशो मया॥
आह्लादकारिणो नानामण्यो यत्र पन्नगः॥ ३९.४ ॥
दैत्यदानवकन्याभिर्महारूपाभिरन्विते॥
पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते॥ ३९.५ ॥
यत्र नोष्णं न वा शीतं न वर्षं दुःखमेव च॥
भक्ष्यभोज्यमहाभोगकालो यत्रापि जायते॥ ३९.६ ॥
पाताले सप्तमे चास्ति लिंगं श्रीहाटकेश्वरम्॥
ब्रह्मणा स्थापितं पार्थ सहस्रयोजनोच्छ्रितम्॥ ३९.७ ॥
हाटकस्य तु लिंगस्य प्रासादो योजनायुतः॥
सर्वरत्नमयो दिव्यो नानाश्चयविभूषितः॥ ३९.८ ॥
तच्चार्यंति तल्लिंगं नानानागेन्द्रसत्तमाः॥
तदधस्ताज्जलं भूरि तस्याधो नरकाः स्मृताः॥ ३९.९ ॥
पापिनो येषु पात्यंते ताञ्छृणुष्व महामते॥
कोटयः पंचपंचाशद्राजानश्चैकविंशति॥ ३९.१० ॥
रौरवः शूकरो रोधस्तालो विशसनस्तथा॥
महाज्वालस्तप्तकुम्भो लवणोथ विमोहकः॥ ३९.११ ॥
रुधिरांधो वैतरणी कृमिशः कृमिभोजनः॥
असिपत्रवनं कृष्णो लालाभक्ष्यश्च दारुमः॥ ३९.१२ ॥
तथा पूयवहः पापो वह्निज्वालोऽप्यधःशिराः॥
संदंशः कृष्णसूत्रश्च तमश्चावीचिरेवच॥ ३९.१३ ॥
श्वभोजनो विसूचिश्चाप्यवीचिश्च तथाऽपरः॥
कूटसाक्षी रौरवं च रोधं गोविप्ररोधकः॥ ३९.१४ ॥
सुरापः सूकरं याति तालं मिथ्याम नुष्यहा॥
गुरुतल्पी तप्तकुम्भं तप्तलोहं च भक्तहा॥ ३९.१५ ॥
गुरूणामवमंता यचो महाज्वाले निपात्यते॥
लवणं शास्त्रहंता च निर्मर्यादो विमोहके॥ ३९.१६ ॥
कृमिभक्ष्ये देवद्वेष्टा कृमिशे तु दुरिष्टकृत्॥
पितृदेवात्पूर्वमश्रल्लाँलाभक्ष्ये प्रयाति च॥ ३९.१७ ॥
मिथ्याजीवविरोधी विशसने कूटशस्त्रकृत्॥
अधोमुखे ह्यसद्ग्राही एकाशी पूयवाहके॥ ३९.१८ ॥
मार्ज्जारकुक्कुटश्वानपक्षिपोष्टा प्रयाति च॥
बधिरांधगृहक्षेत्रतृणधान्यादिज्वालकः॥ ३९.१९ ॥
नक्षत्ररंगजीवी च याति वैतरणीं नरः॥
धनयौवनमत्तो यो धनहा कृष्णमेति सः॥ ३९.२० ॥
असिपत्रवनं याति वृक्षच्छेदी वृथैव यत्॥
कुहकाजीविनः सर्वे वह्निज्वाले पतंति ते॥ ३९.२१ ॥
परस्त्रीं च परान्नं च गच्छन्संदंशमेति च॥
दिवास्वप्नपरा ये व्रतलोपपराश्च ये॥ ३९.२२ ॥
शरीरमदमत्ताश्च यांति चैते श्वभोजनम्॥
शिवं हरिं न मन्यंते यांत्यवीचिनमेव च॥ ३९.२३ ॥
इत्येवमादिभिः पापैरशास्त्रौघस्य सेवनैः॥
पतंत्येव महाघोरनरकेषु सहस्रशः॥ ३९.२४ ॥
तस्माद्य इच्छेदेतेभ्यो विमोक्षं बुद्धिमान्नरः॥
श्रुतिमार्गेण तेनार्च्यौ देवौ हरिहरावुभौ॥ ३९.२५ ॥
नरकाणामधोभागे स्थितः कालाग्निसंज्ञकः॥
तदधो हट्टकश्चैव अनंतस्तदधः स्मृतः॥ ३९.२६ ॥
यस्यैतत्सकलं विश्वं मूर्धाग्रे सर्षपायते॥
इत्यनंतप्रभावात्स ह्यनंत इति कीर्त्यते॥ ३९.२७ ॥
दिशां गजास्तत्र पद्मकुमुदांजनवामनाः॥
तदधोंऽडकटाहश्च एकवीरास्ति तत्र च॥ ३९.२८ ॥
चतुर्लक्षसहस्राणि नवतिश्च शतानि च॥
एतनैव प्रमाणेन उदकं च ततः स्मृतम्॥ ३९.२९ ॥
तदधो नरकाः कोट्यो द्विकोट्योऽग्निस्ततो महान्॥
चत्वारिंशत्सहस्रैश्च तदधस्तम उच्यते॥ ३९.३० ॥
चत्वारिंश्च्चकोट्यस्तु चतस्रश्च ततः पराः॥
एकोननवतिर्लक्षाः सहस्राशीतिरेव च॥ ३९.३१ ॥
तदधोंऽडकटाहोथ कोटिमात्रस्तथापरः॥
देवी युक्ता कपालीशा दंडहस्तेन चापि सा॥ ३९.३२ ॥
देवीनां कोटिकोटीभिः संवृता तत्र पालिनी॥
संकर्षणस्य निःश्वासप्रेरितो दाहकोऽनलः॥ ३९.३३ ॥
कालाग्निं प्रेरयत्येव कल्पांते दह्यते जगत्॥
एवंविधमधःसूत्रं निर्मितं चात्र भारत॥ ३९.३४ ॥
मध्यसूत्रे कटाहे च पालकांस्ताञ्छृणुष्व मे॥
वसुधामा स्थितः पूर्वे शंखपालश्च दक्षिणे॥ ३९.३५ ॥
तक्षकेशः स्थितः पश्चादुत्तरे केतुमानिति॥
हरसिद्धिः सुपर्णाक्षी भास्करा योगनंदिनी॥ ३९.३६ ॥
कोटिकोटी युता देवी देवीनां पालयत्यदः॥
एवमेतन्महाश्चर्यं ब्रह्मांडं स्थापितं च यैः॥ ३९.३७ ॥
नमामि तानहं नित्यं ब्रह्मविष्णुमहेश्वरान्॥
विष्णुलोको रुद्रलोको बहिश्चास्मात्प्रकीर्त्यते॥ ३९.३८ ॥
तं च वर्णयितुं ब्रह्मा शक्तो नैवास्मदादयः॥
विमुक्ता यत्र संयांति नित्यं हरिहरव्रताः॥ ३९.३९ ॥
ब्रह्मांडं संवृतं ह्येतत्कटाहेन समंततः॥
कपित्थस्य यथा बीजं कटाहेन सुसंवृतम्॥ ३९.४० ॥
दशोत्तरेण पयसा वृतं तच्चापि तेजसा॥
तेजश्च वायुना वायुर्नभ साहंतया च तत्॥ ३९.४१ ॥
अहंकारश्च महता तं चापि प्रकृतिः परा॥
दशोत्तराणि सर्वाणि षडाहुः सप्तमं च तत्॥ ३९.४२ ॥
प्राकृतं चरणं पार्थ तदनंतं प्रकीर्तितम्॥
अंडानां तु सहस्राणां सहस्राण्ययुतानि च॥ ३९.४३ ॥
ईदृशानां तथा चात्र कोटिकोटिशतानि च॥
सर्वाण्येवंविधान्येव यादृशं कीर्तितंत्विदम्॥ ३९.४४ ॥
यस्यैवं वैभवं पार्थ तं नमामी सदाशिवम्॥
अहो मंदः स पापात्मा को वा तस्मादचेतनः॥ ३९.४५ ॥
य एवंविधसंमोहतारकं न शिवं भजेत्॥
अथ ते कीर्थयिष्यामि कालमानं निबोध तत्॥ ३९.४६ ॥
काष्ठा निमेषा दश पंच चाहुस्त्रिंशच्च काष्ठा गणयेत्कला हि॥
त्रिंशत्कलाश्चापि भवेन्मुहुर्त्तं तत्त्रिंशता रात्र्यहनी उभे च॥ ३९.४७ ॥
दिवसे पंच कालाः स्युस्त्रिमुहूर्ताः श्रृणुष्व तान्॥
प्रातस्ततः संगवश्च मध्याह्नश्चापराह्णकः॥ ३९.४८ ॥
सायाह्नः पंचमश्चापि मुहूर्ता दश पंच च॥
अहोरात्राः पंचदश पक्ष इत्यभिधीयते॥ ३९.४९ ॥
मासः पक्षद्वयेनोक्तो द्वौ मासौ चार्कजावृतुः॥
ऋतुत्रयं चाप्ययनं द्वेयने वर्षमुच्यते॥ ३९.५० ॥
चतुर्भेदं मासमाहुः पंचभेदं च वत्सरम्॥
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः॥ ३९.५१ ॥
इद्वत्सरस्तृतीयोऽसौ चतुर्थश्चानुवत्सरः॥
पंचमश्च युगोनाम गणनानिश्चयो हि सः॥ ३९.५२ ॥
मासेन च मनुष्याणामहोरात्रं च पैतृकम्॥
कृष्णपक्षस्त्वहः प्रोक्तः शुक्लपक्षश्च शर्वरी॥ ३९.५३ ॥
मानुषेण च वर्षेण दैविको दिवसः स्मृतः॥
अहस्तत्रो दगयनं रात्रिः स्याद्दक्षिणायनम्॥ ३९.५४ ॥
वर्षेण चैव देवानां मतः सप्तर्षिवासरः॥
सप्तर्षीणां च वर्षेण ध्रौवश्च दिवसः स्मृतः॥ ३९.५५ ॥
मनुष्याणां च वर्षाणि लक्षासप्तदशैव तु॥
अष्टाविंशतिसहस्राणि कृतं त्रेतायुगं ततः॥ ३९.५६ ॥
लक्षद्वादशसाहस्रषण्नवत्यधिकाः पराः॥
अष्टौ लक्षाश्चतुःषष्टिसहस्राणि च द्वापरः॥ ३९.५७ ॥
चतुर्लक्षं तु द्वात्रिंशत्सहस्राणि कलिः स्मृतः॥
चतुर्भिरेतैर्देवानां युगामित्यभिधीयते॥ ३९.५८ ॥
आयुर्मनोर्युगानां च साधिका ह्येकसप्ततिः॥
चतुर्दशमनूनां च कालेन ब्रह्मणो दिनम्॥ ३९.५९ ॥
युगानां च सहस्रेण स च कल्पः श्रृणुष्व तान्॥
भवोद्भवस्तपभव्य ऋतुर्वह्निर्वराहकः॥ ३९.६० ॥
सावित्र आसिकश्चापि गांधारः कुशिकस्तथा॥
ऋषभश्च तथा खड्गो गांधारीयश्च मध्यमः॥ ३९.६१ ॥
वैराजश्च निषादश्च मेघवाहनपंचमौ॥
चित्रको ज्ञान आकूतिर्मोनो दंशश्च बृंहकः॥ ३९.६२ ॥
श्वेतो लोहितरक्तौ च पीतवासाः शिवः प्रभुः॥
सर्वरूपश्च मासोऽयमेवं वर्षशतावधिः॥ ३९.६३ ॥
पूर्वार्धमपरार्धं च ब्रह्ममानमिदं स्मृतम्॥
विष्णोश्च शंकरस्यापि नाहं शक्तश्च वर्णने॥ ३९.६४ ॥
क्वाहमल्पमतिः पार्थ क्वापरौ हरित्र्यंबकौ॥
देविकेनैव मानेन पातालेष्वपि गण्यते॥ ३९.६५ ॥
इति ते सूचितं बुद्ध्या श्रृणु तत्प्राकृतं पुनः॥ ३९.६६ ॥
इति वैधात्रव्यवस्थितिः॥
॥श्रीनारद उवाच॥
ऋषभोनाम यन्नाम्ना नानापाषंड कल्पनाः॥
कलौ पार्थ भविष्यंति लोकानां मोहनात्मिकाः॥ ३९.६७ ॥
तस्य पुत्रस्तु भरतः शतश्रृंगस्तु तत्सुतः॥
तस्य पुत्राष्टकं जातं तथैकाच कुमारिका॥ ३९.६८ ॥
इंद्रद्वीपः कसेरुश्च ताम्रद्वीपो गभस्तिमान्॥
नागः सौम्यश्च गांधर्वो वरुणश्च कुमारिका॥ ३९.६९ ॥
वदनं चापि कन्यायाः पार्थ बर्करिकाकृति॥
श्रृणु तत्कारणं सर्वं महाश्चर्यसमन्वितम्॥ ३९.७० ॥
महीसागरपर्यंतं वृक्षराजिविराजिते॥
जालीगुल्मलताकीर्णे स्तंभतीर्थस्य संनिधौ॥ ३९.७१ ॥
अजासमजतो मध्यात्काचिदेका च बर्करी॥
भ्रांता सती समायाता प्रदेशे तत्र दुश्चरे॥ ३९.७२ ॥
इतस्ततो भ्रमंति सा जालिमध्ये समंततः॥
निर्गंतुं नैव शक्नोति क्षुत्पिपासार्दिता शुभा॥ ३९.७३ ॥
विलग्ना जालिमध्ये तु ततः पंचत्वमागता॥
कालेन कियता तस्य त्रुटित्वा शिरसो ह्यधः॥ ३९.७४ ॥
पपात शनिदर्शे च महीसागरसंगमे॥
सर्वतीर्थमये तत्र सर्वपापप्रमोचने॥ ३९.७५ ॥
शिरस्तु तदवस्थं हि समग्रं तत्र संस्थितम्॥
जालिगुल्मावलग्नं च तस्या नैवापतज्जले॥ ३९.७६ ॥
शेषकायप्रपातेन महीसागरसंगमे॥
तत्तीर्थस्य प्रभावेन बर्करीसा कुरूद्वह॥ ३९.७७ ॥
शकश्रृंगस्य वै राज्ञः सिंहलेष्वभवत्सुता॥
मुखं बर्करिकातुल्यं व्यक्तं तस्या व्यजायत॥ ३९.७८ ॥
दिव्यनारी शुभाकारा शेषकाये बभौ शुभा॥
पूर्वं तस्याप्यपुत्रस्य राज्ञः पुत्रशतोपमा॥ ३९.७९ ॥
पुत्री जाता प्रमोदेन स्वजनानंदवर्धिनी॥
ततस्तस्या विलोक्याथ मुखं वर्करिकाकृति॥ ३९.८० ॥
विस्मयं समनुप्राप्ताः सर्वे ते राजपूरुषाः॥
विषादं परमापन्नो राजा सांतःपुरस्तदा॥ ३९.८१ ॥
खिन्नाः प्रकृतयः सर्वास्तादृग्रूपविलोकनात्॥
तत्किमित्येतदाश्चर्यमूचुः पौराः सुविस्मिताः॥ ३९.८२ ॥
ततः सा यौवनं प्राप्ता साक्षाद्देवसुतोपमा॥
स्वमुखं दर्पणे वीक्ष्यस्मृतः पूर्वो भवस्तया॥ ३९.८३ ॥
तत्तीर्थस्य प्रभावेण मातृपित्रोर्निवेदितम्॥
विषादो नैव कर्तव्यो मदर्थे तात निश्चितम्॥ ३९.८४ ॥
मा शोकं कुरु मे मातः पूर्वजन्मार्जितं फलम्॥
ततः पूर्वं स्ववृत्तांतमुक्त्वा सा च कुमारिका॥ ३९.८५ ॥
पूर्वजन्मोद्भवः कायस्यस्या यत्रापतत्तथा॥
गमनाय तमुद्देशं विज्ञप्तौ पितरौ तया॥ ३९.८६ ॥
अहं तात गमिष्यामि महीसागरसंगमम्॥
भवामि तत्र संप्राप्ता यथा कुरु तथा नृप॥ ३९.८७ ॥
ततः पित्रा प्रतिज्ञातं शतश्रृंगेण तत्तथा॥
तस्याः संवाहनं चक्रे राजा पोतैः सरत्नकैः॥ ३९.८८ ॥
स्तंभतीर्थं ततः साऽपि प्राप्य पोतार्यसंयुता॥
भूरिदानं ततश्चक्रे दानं सर्वस्वलक्षणम्॥ ३९.८९ ॥
जालिगुल्मांतरेऽन्विष्य ततो दृष्टं निजं शिरः॥
अस्थिचर्मावशेषं च तदादाय प्रयत्नतः॥ ३९.९० ॥
दग्ध्वा संगमसांनिध्ये क्षिप्तान्यस्थीनि संगमे॥
ततस्तीर्थप्रभावेण मुखं जातं शशिप्रभम्॥ ३९.९१ ॥
न तादृग्देवकन्यानां न तादृङनागयोषिताम्॥
न तादृङमर्त्यनारीणां तस्या यादृङमुखं मुखम्॥ ३९.९२ ॥
सुरासुरनराः सर्वे तस्या रूपेण मोहिताः॥
बहुधा प्रार्थयंत्येनां न सा वरमभीप्सति॥ ३९.९३ ॥
कष्टं तया मुदा तत्र प्रारब्धं दुश्चरं तपः॥
ततः संवत्सरे पूर्णे देवदेवो महेश्वरः॥ ३९.९४ ॥
प्रत्यक्षतां गतस्तस्यै वरदोऽस्मीति चाब्रवीत्॥
ततस्तं पूजयित्वा च कुमारी वाक्यमब्रवीत्॥ ३९.९५ ॥
यदि तुष्टोऽसि देवेश यदि देयो वरो मम॥
सांनिध्यं क्रियतामत्र सर्वकालं हि शंकर॥ ३९.९६ ॥
एवमस्त्विति शर्वेण प्रोक्ते हृष्टा कुमारिका॥
यत्र दग्धं शिरस्तस्या बर्कर्याः कुरुसत्तम॥ ३९.९७ ॥
बर्करेशः शिवस्तत्र तया संस्थापितस्तदा॥
मन्मुखान्महादाश्चर्यं श्रुत्वेदं च तलातलात्॥ ३९.९८ ॥
स्वस्तिकोनाम नागेंद्रः कुमारीं द्रष्टुमागतः॥
शिरसा गच्छता तेन यत्रोत्क्षिप्ता च भूरभूत्॥ ३९.९९ ॥
ईशाने बर्करेशस्य कूपोऽभूत्स्वस्तिकाभिधः॥
पूरितो गंगया पार्थसर्वतीर्थफलप्रदः॥ ३९.१०० ॥
दृष्ट्वा च स्थापितं लिंगं शिवस्तुष्टो वरं ददौ॥
येषां मृतशरीराणामत्र दाहः प्रजायते॥ ३९.१०१ ॥
क्षिप्यंतेब्धौ तथा स्थीनि तेषां स्यादक्षया गतिः॥
ते स्वर्गे सुचिरं कालं वसित्वात्र समागताः॥ ३९.१०२ ॥
राजानः सर्वसंपूर्णाः सप्रतापा भवंति ते॥
बर्करेशं च यो भक्त्या संपूजयति मानवः॥ ३९.१०३ ॥
स्नात्वार्णवमहीतोये तस्य स्यान्मनसेप्सितम्॥
कार्तिके च चतुर्द्देश्यां कृष्णायां श्रद्धयान्वितः॥ ३९.१०४ ॥
कूपे स्नानं नरः कृत्वा संतर्प्य च पितॄन्निजान्॥
पूजयेद्बर्करेशं यः सर्पपापैः स मुच्यते॥ ३९.१०५ ॥
एवं लब्ध्वा वरान्सर्वान्सा पुनः सिंहलं ययौ॥
शतश्रृङ्गाय पित्रे च वृत्तांतं स्वं न्यवेदयत्॥ ३९.१०६ ॥
तच्छ्रुत्वा विस्मितो राजा लोकाः सर्वे च फाल्गुन॥
प्रशशंसुर्महीतीर्थमाजग्मुश्च कृतादराः॥ ३९.१०७ ॥
स्नात्वा दत्त्वा च दानानि विविधानि च ते ततः॥
सिंहलं च ययुर्भूयस्तीर्थमाहात्म्यहर्षिताः॥ ३९.१०८ ॥
अनिच्छंत्यां कुमार्यां च वरं द्रव्यं च पार्थिवः॥
तथान्यदपि प्रीत्यासौ यद्ददौ नृपतिः श्रृणु॥ ३९.१०९ ॥
इदं भारतखंडं च नवधैव विभज्य सः॥
ददावष्टौ स्वपुत्राणां कुमार्यै नवमं तथा॥ ३९.११० ॥
तेषां विभेदान्वक्ष्यामि पर्वतैरुपशोभितान्॥
पुत्रनामानि वर्षाणि पर्वतांश्च श्रृणुष्व मे॥ ३९.१११ ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः॥
विंध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः॥ ३९.११२ ॥
महेन्द्रपरतश्चैव इन्द्रद्वीपो निगद्यते॥
पारियात्रस्य चैवार्वाक्खण्डं कौमारिकं स्मृतम्॥ ३९.११३ ॥
सहस्रमेकमेकं च सर्वखण्डान्यमूनि च॥
नदीनां संभवं चापि संक्षेपाच्छृणु फाल्गुन॥ ३९.११४ ॥
वेदस्मृतिमुखा नद्यः पारियात्रोद्भवा मताः॥
नर्मदासरसाद्याश्च नद्यो विंध्याद्विनिर्गताः॥ ३९.११५ ॥
शतद्रूचन्द्रभागाद्या ऋक्षपर्वतसंभवाः॥
ऋषिकुल्याकुमार्याद्याः शुक्तिमत्पादसंभवाः॥ ३९.११६ ॥
तापी पयोष्णी निर्विध्या कावेरी च महीनदी॥
कृष्णा वेणी भीमरथी सह्यपादोद्भवाः स्मृताः॥ ३९.११७ ॥
कृतमालाताम्रपर्णीप्रमुखा मलयोद्भवाः॥
त्रिसामऋष्यकुल्याद्या महेन्द्रप्रभवाः स्मृताः॥ ३९.११८ ॥
एवं विभज्य पुत्रेभ्यः कुमार्यै च महीपतिः॥
शतशृंगो गिरं गत्वा उदीच्यां तप्तवांस्तपः॥ ३९.११९ ॥
तत्र तप्त्वा तपो घोरं ब्रह्मलोकं जगाम सः॥
शतश्रृंगो नृपश्रेष्ठः शतश्रृंगे नगोत्तमे॥ ३९.१२० ॥
यत्र जातोऽसि कौतेय पांडोस्त्वं सोदरैः सह॥
कुमारी च महाभागा स्तंभतीर्थस्थिता सती॥ ३९.१२१ ॥
खंडोद्भवेन द्रव्येण तेपे दानानि यच्छती॥
ततः केनापि कालेन भ्रातृभ्योऽष्टभ्य एव च॥ ३९.१२२ ॥
महावीर्यबलोत्साहा जाता नव नवात्मजाः॥
ते समेत्य समागम्य कुमारीं प्रोचिरे ततः॥ ३९.१२३ ॥
कुलदेवी त्वमस्माकं प्रसादं कुरु नः शुभे॥
अष्टौ खण्डानि चास्माकं विभज्य स्वयमेव च॥
देही द्वासप्ततीनां नो विभेदः स्याद्यथा न नः॥ ३९.१२४ ॥
इत्युक्ता सर्वधर्मज्ञा विज्ञाने ब्रह्मणा समा॥
द्वासप्ततिविभेदैः सा नव खंडान्यचीकरत्॥ ३९.१२५ ॥
तेषां नामानि ग्रामांश्च पत्तनानि च फाल्गुन॥
वेलाकूलानि संख्यां च वक्ष्यामि तव तत्त्वतः॥ ३९.१२६ ॥
कोटिश्चतस्रो ग्रामाणां नीवृदासीच्च मंडले॥
सार्धकोटिद्वयग्रामैर्देशो बालाक जच्यते॥ ३९.१२७ ॥
सपादकोटिर्ग्रामाणां पुरसाहणके विदुः॥
लक्षाश्चत्वार एवापि ग्रामाणामंधके स्मृताः॥ ३९.१२८ ॥
एको लक्षश्च नेपाले ग्रामाणां परिकीर्तितः॥
षट्त्रींशल्लक्षमानं तु कान्यकुब्जे प्रकीर्तितम्॥ ३९.१२९ ॥
द्वासप्ततिस्तथा लक्षा ग्रामा गाजणके स्मृताः॥
अष्टादश तथा लक्षा ग्रामाणां गौडदेशके॥ ३९.१३० ॥
कामरूपे च ग्रामाणां नवलक्षाः प्रकीर्तिताः॥
डाहले वेदसंज्ञे तु ग्रामाणां नवलक्षकम्॥ ३९.१३१ ॥
नवैव लक्षा ग्रामाणां कांतिपुरे प्रकीर्तिताः॥
नवलक्षास्तथा चैव माचिपुरे प्रकीर्तिताः॥ ३९.१३२ ॥
ओड्डियाणे तथा देशे नवलक्षाः प्रकीर्तिताः॥
जालंधरे तथा देशे नवलक्षाः प्रकीर्तिताः॥ ३९.१३३ ॥
लोहपूरे तथा देशे लक्षाः प्रोक्ता नवैव च॥
ग्रामाणां सप्तलक्षं च पांबीपुरे प्रकीर्तितम्॥ ३९.१३४ ॥
ग्रामाणां सप्तलक्षं च रटराजे प्रकीर्तितम्॥
हरीआले च ग्रामाणां लक्षपंचकसंमितम्॥ ३९.१३५ ॥
सार्धलक्षत्रयं प्रोक्तं द्रडस्य विषये तथा॥
सार्धलक्षत्रयं प्रोक्तं तथावंभणवाहके॥ ३९.१३६ ॥
एकविंशतिसाहस्रं ग्रामणां नीलपूरके॥
तथामलविषये पार्थ ग्राममाणामेकलक्षकम्॥ ३९.१३७ ॥
नरेंदुनामदेशे तु लक्षमेकं सपादकम्॥
अतिलांगलदेशे च लक्षः प्रोक्तः सपादकः॥ ३९.१३८ ॥
लक्षाष्टादशसाहस्रं नवती द्वे च मालवे॥
सयंभरे तथा देशे लक्षः प्रोक्तः सपादकः॥ ३९.१३९ ॥
मेवाडे च तथा प्रोक्तो लक्षश्चैकःसपादकः॥
अशीतिश्च सहस्राणि वागुरिः परिकीर्तितः॥ ३९.१४० ॥
ग्रामसप्ततिसाहस्रो गुर्जरात्रः प्रकीर्तितः॥
तथा सप्ततिसाहस्रः पांडर्विषय एव च॥ ३९.१४१ ॥
जहाहुतिसहस्राणि द्वाचत्वारिंशदेव च॥
अष्टषाष्टसहस्राणि प्रोक्तं काश्मीरमंडलम्॥ ३९.१४२ ॥
षष्टित्रिंशत्सहस्राणि ग्रामाणां कौंकणे विदुः॥
चतुर्दशशतं द्वे च विंशतीलघुकौंकणम्॥ ३९.१४३ ॥
सिंधुः सहस्रदशके ग्रामाणां परिकीर्तितः॥ ३९.१४४ ॥
चतुर्दशशते द्वे च विंशतिः कच्छमंडलम्॥
पंचपंचाशत्सहस्रं ग्रामाः सौराष्ट्रमुच्यते॥ ३९.१४५ ॥
एकविंशतिसहस्रो लाडदेशः प्रकीर्तितः॥
अतिसिंधुश्च ग्रामाणां दशसहस्र उच्यते॥
तथा चाश्वमुखं पार्थ दशसाहस्रमुच्यते॥ ३९.१४६ ॥
सहस्रदशकं चापि एकपादः प्रकीर्तितः॥ ३९.१४७ ॥
तथैव दशसाहस्रो देशः सूर्यमुखः स्मृतः॥
एकबाहुस्तथा देशो दशसाहस्रमुच्यते॥ ३९.१४८ ॥
सहस्रदशकं चैव संजायुरिति देशकः॥
शिवनामा तथा देशः सहस्रदशकः स्मृतः॥
सहस्राणि दश ख्यातं तथा कालहयंजयः॥ ३९.१४९ ॥
लिंगोद्भवस्तथा देशः सहस्राणि दशैव च॥
भद्रश्च देवभद्रश्च प्रत्येकं दशकौ स्मृतौ॥ ३९.१५० ॥
षट्त्रिंशच्च सहस्राणि स्मृतौ चटविराटकौ॥
षट्त्रिंशच्च सहस्राणि यमकोटिः प्रकीर्तिता॥ ३९.१५१ ॥
अष्टादश तथा कोट्यो रामको देश उच्यते॥
तोमरश्चापि कर्णाटो युगलश्च त्रयस्त्विमे॥ ३९.१५२ ॥
सपादलक्षग्रामाणां प्रत्येकं परिकीर्तितः॥
पंचलक्षाश्च ग्रामाणां स्त्रीराज्यं परिकीर्तितम्॥ ३९.१५३ ॥
पुलस्त्यविषयश्चापि दशलक्षक उच्यते॥
प्रत्येकं लक्षदशकौ देशौ कांबोजकोशलौ॥ ३९.१५४ ॥
ग्रामाणां च चतुर्लक्षो बाल्हिकः परिकीर्त्यते॥
षट्त्रिंशच्च सहस्राणि लंकादेशः प्रकीर्तितः॥ ३९.१५५ ॥
चतुःषष्टिसहस्राणि कुरुदेशः प्रकीर्तितः॥
सार्धलक्षस्तथा प्रोक्तः किरातविजयो जयः॥ ३९.१५६ ॥
पंच प्राहुस्तथा लक्षान्विदर्भायां च ग्रामकान्॥
चतुर्दशसहस्राणि वर्धमानं प्रकीर्तितम्॥ ३९.१५७ ॥
सहस्रदशकं चापि सिंहलद्वीपमुच्यते॥
षट्त्रिंशच्च सहस्राणि ग्रामाणां पांडुदेशकः॥ ३९.१५८ ॥
लक्षैकं च तथा प्रोक्तं ग्रामाणां तु भयाणकम्॥
षट्षष्टिं च सहस्राणि देशो मागध उच्यते॥ ३९.१५९ ॥
षष्टिसहस्राणि तथा ग्रामाणां पांगुदेशकः॥
त्रिंशत्साहस्र उक्तश्च ग्रामाणां च वरेंदुकः॥ ३९.१६० ॥
पंचविंशतिसाहस्रं मूलस्थानं प्रकीर्तितम्॥
चत्वारिंशत्सहस्राणि ग्रामाणां यावनः स्मृतः॥ ३९.१६१ ॥
चत्वार्येव सहस्राणि पक्षबाहुरुदीर्यते॥
द्वासप्ततिरमी देशाः ग्रामसंख्याः प्रकीर्तिताः॥ ३९.१६२ ॥
एवं भरतखंडेऽस्मिन्षण्णवत्येव कोटयः॥
द्वासप्ततिस्तथा लक्षाः पत्तनानां प्रकीर्तिताः॥ ३९.१६३ ॥
षट्त्रिंशच्च सहस्राणि वेलाकूलानि भारत॥
एवं विभज्य खंडानि भ्रातृव्याणां ददौ नव॥ ३९.१६४ ॥
आत्मीयमपि सा देवी अनिच्छुष्वपि तेषु च॥
यतो मान्येति भगिनी प्रति क्रुध्यंति भ्रातरः॥ ३९.१६५ ॥
भ्रातॄन्प्रति भगिनी च विचार्यैव ददौ शुभा॥
तत्कृत्वा सानुमान्यैतान्स्तंभतीर्थमुपागता॥ ३९.१६६ ॥
तदा तेषु च देशेषु चतुर्वर्गस्य साधनम्॥
सर्वेषां प्रवरं प्रोक्तं कुमारीश्वरमेव च॥ ३९.१६७ ॥
तत्रापि गुप्तक्षेत्रं च वेदैतत्सा कुमारिका॥
गुप्तक्षेत्रे कुमारेशं पूजयंति महाव्रता॥ ३९.१६८ ॥
तस्थौ स्नायंती षट्सु चैवापि संगमे॥
ततः कालप्रकर्षाच् प्रासादे स्कंदनिर्मिते॥ ३९.१६९ ॥
जीर्णे नव्यं स्वर्णमयं प्रासादं साप्यकारयत्॥
ततस्तुष्टो महादेवस्तस्या भक्त्यातितोषितः॥ ३९.१७० ॥
कुमारलिंगादुत्थाय प्रत्यक्षस्तामवोचत॥
भद्रे तवाहं भक्त्या च विज्ञानेन च तोषितः॥ ३९.१७१ ॥
जीर्णः पुनरुद्धृतोऽयं प्रासादस्तेन तोषितः॥
तव नाम्ना च विख्यातो भविष्यामि कुमारिके॥ ३९.१७२ ॥
कर्ता चापि तथोद्धर्ता द्वौ वै समफलौ स्मृतौ॥
कुमारेशः कुमारीश इति वक्ष्यंति मां ततः॥ ३९.१७३ ॥
बर्करेशे च ये दत्त वरा दत्ताः सदैव ते॥
तवापि प्राप्तः कालश्च समीपे वरवर्णिनि॥ ३९.१७४ ॥
अभर्तृकाया नार्याश्च न स्वर्गो मोक्ष एव च॥
यथैव वृद्धकन्यायाः सरस्वत्यास्तटे शुभे॥ ३९.१७५ ॥
तस्मात्त्वमत्र तीर्थे च महाकालमिति स्मृतम्॥
सिद्धिं गतं वृणु भद्रे पतित्वे वरवर्णिनि॥ ३९.१७६ ॥
ततः सा रुद्रवाक्येन वरयामास तं पतिम्॥
रुद्रलोकं ययौ चापि महाकालसन्विता॥ ३९.१७७ ॥
तत्र तां पार्वती प्राह समालिंग्य प्रहर्षिता॥
यस्मात्त्वया चित्रवच्च लिखिता पृथिवी शुभे॥ ३९.१७८ ॥
चित्रलेखेतिनाम्ना त्वं तस्माद्भव सखी मम॥
ततः सखी समभवच्चित्रलेखेति सा शुभा॥ ३९.१७९ ॥
ययानिरुद्धः कथित उषायाः पतिरुत्तमः॥
योगिनीनां वरिष्ठा या महाकालस्य वल्लभा॥ ३९.१८० ॥
अप्सुसा वार्षिकं बिंदुं पूर्णे वर्षशते पपौ॥
तपश्चरंती तस्मात्सा प्रोच्यते चाप्सरा दिवि॥ ३९.१८१ ॥
एवंविधा कुमारी सा लिंगमेतद्धि फाल्गुन॥
स्थापयामास शिवदं बर्करेश्वरसंज्ञितम्॥ ३९.१८२ ॥
तस्मादत्र नृणां दाहश्चास्थिक्षेपश्च भारत॥
प्रयागादधिकौ प्रोक्तौ महेशस्य वचो यथा॥ ३९.१८३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बर्करेश्वरमाहात्म्यवर्णनंनामैकोनचत्वारिंशोऽध्यायः॥ ३९ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 40
॥अर्जुन उवाच॥
महाकालस्त्वसौ कश्च कथं सिद्धिमुपागतः॥
अस्मिंस्तीर्थे मुनिश्रेष्ठ महदाश्चर्य मत्र मे॥ ४०.१ ॥
सर्वमेतत्समाख्याहि श्रद्दधानाय पृच्छते॥ ४०.२ ॥
॥नारद उवाच॥
नमस्कृत्य महाकालं वरदं स्थाणुमव्ययम्॥
शक्तितश्चरितं तस्य वक्ष्ये पांडुकुलोद्वह॥ ४०.३ ॥
वाराणस्यां पुरि पुरा बभूव जपतां वरः॥
रुद्रजापी महाभागो मांटिर्नाम महायशाः॥ ४०.४ ॥
तस्यापुत्रस्य पुत्रार्थे रुद्रान्संजपतः किल॥
गतं वर्षशतं तुष्टस्ततस्तं प्राह शंकरः॥ ४०.५ ॥
मांटे तव सुतो धीमान्मत्प्रभावपराक्रमः॥
वंशस्य तव सर्वस्य समुद्धर्ता भविष्यति॥ ४०.६ ॥
इति श्रुत्वा रुद्रवचो मांटिर्हर्षं परं गतः॥
ततः काले कियन्मात्रे पत्नी मांटेर्महात्मनः॥ ४०.७ ॥
दधार गर्भं चटिका तपोमूर्तिधरा यथा॥
तस्य गर्भस्य वर्षाणि चत्वारि किल संययुः॥ ४०.८ ॥
न पुनर्मातुरुदरंत्यक्त्वा निर्गच्छते बहिः॥
ततो मांटिरुपामंत्र्य सामभिस्तमवोचत॥ ४०.९ ॥
वत्स सामान्यपुत्रोऽपि पित्रोः सुखकरः सदा॥
शुद्धायां मातरि भवो मत्तः किं पीडयस्यलम्॥ ४०.१० ॥
वत्स मानुष्यवासस्य स्पृहा तुभ्यं कथं न हि॥
यत्र धर्मार्थकामानां मोक्षस्यापि च संततिः॥ ४०.११ ॥
कदा मनुष्या जायेम पूजा यत्र महाफला॥
पितॄणां देवतानां च नानाधर्माश्च यत्र हि॥ ४०.१२ ॥
इति भूतानि शोचंति नानायोनिगतान्यपि॥
तत्त्वं मानुष्यमतुलं स्पृहणीयं दिवौकसाम्॥
अनादृत्य कथं ब्रूहि स्थितश्चोदर एव च॥ ४०.१३ ॥
॥गर्भ उवाच॥
तात जानाम्यहं सर्वमेतत्परम दुर्लभम्॥
किं तु बिभेमि चातिमात्रं कालमार्गस्य नित्यशः॥ ४०.१४ ॥
द्वौ मार्गौ किल वेदेषु प्रोक्तौ कालोऽर्चिरेव च॥
अर्चिषा मोक्षमायांति कालमार्गेण कर्मणि॥ ४०.१५ ॥
स्वर्गे वा नरके वापि कालमार्गगतो ह्ययम्॥
न शर्म लभते क्वापि व्याधविद्धमृगो यथा॥ ४०.१६ ॥
तस्यैव हेतोः प्रयतेत्कोविदो यन्न दुःखवित्॥
कालेन घोररूपेण गंभीरेण समाहितः॥ ४०.१७ ॥
तच्चेन्मम मनस्तात नानादोषैर्न मोह्यते॥
ततोऽहं दुर्लभं जन्म मानुष्यं शीघ्रमाप्नुयाम्॥ ४०.१८ ॥
ततस्तस्य पिता पार्थ कांदिशीको महेश्वरम्॥
जगाम शरणं देवं त्राहित्राहि महेश्वर॥ ४०.१९ ॥
त्वां विना कोऽपरो देव पुत्रस्याभीष्टदोऽस्ति मे॥
त्वयैव दत्तस्त्वं चामुं जन्म प्रापय मे सुतम्॥ ४०.२० ॥
ततस्तस्यातिभक्त्यासौ प्राह तुष्टो महेश्वरः॥
विभूतीः स्वा धर्मज्ञानवैराग्यैश्वर्यमेव च॥ ४०.२१ ॥
विपरीतश्च शीघ्रं भो मांटिपुत्रः प्रबोध्यताम्॥
ततस्ता द्योतयंत्यश्च विभूत्यो गर्भमूचिंरे॥ ४०.२२ ॥
महामते मांटिपुत्र न धार्यं ते भयं हृदि॥
चत्वारस्त्वां हि धर्माद्या मनस्त्यक्ष्यामहे न ते॥ ४०.२३ ॥
ततोऽपरास्त्वधर्माद्याः प्रोचुर्नैव तथा वयम्॥
भविष्यामो मनस्तुभ्यमस्मत्तव भयं न हि॥ ४०.२४ ॥
इत्युक्ते स विभूतीभिः शीघ्रमेव कुमारकः॥
निःससार बहिर्जातश्चकंपेति रुरोद च॥ ४०.२५ ॥
ततो विभूतयः प्राहुर्मांटे तव सुतस्त्वसौ॥
अद्यापि कालमार्गस्य भीतः कम्पति रोदिति॥ ४०.२६ ॥
कालभीतिरिति ख्यातस्तस्मादेष भविष्यति॥
इति दत्त्वा वरं ताश्च महादेवांतिकं ययुः॥ ४०.२७ ॥
सोऽपि बालः प्रववृधे शुक्लपक्ष इवोडुपः॥
संस्कृतः स च संस्कारैर्धीमान्पशुपतिव्रती॥ ४०.२८ ॥
पंचमंत्राञ्जपञ्छुद्धस्तीर्थयात्रापरोऽभवत्॥
रुद्रक्षेत्रेषु सस्नौ स जपन्मन्त्रांश्च भारत॥ ४०.२९ ॥
कालभीतिगुप्तक्षेत्रगुणाञ्छ्रुत्वाभ्युपाययौ॥
स्नात्वा ततो महीतोये जप्त्वा मन्त्रांश्च कोटिशः॥ ४०.३० ॥
निवृत्तो नातिदूरेथ बिल्ववृक्षं ददर्श सः॥
दृष्ट्वा तं तस्य चाधस्तल्लक्षमेकं जजाप सः॥ ४०.३१ ॥
जपतस्तस्य विप्रस्य इंद्रियाणि लयं ययुः॥
केवलं परमानंदस्वरूपोऽसावभूत्क्षणात्॥ ४०.३२ ॥
तस्यानंदस्य नौपम्यं स्वर्गादीनां भवेत्क्वचित्॥
गंगोदकस्येव मानं केवलं सोऽप्यसावपि॥ ४०.३३ ॥
तत्र लीनो मुहुर्तेन पुनश्चाभूद्यथा पुरा॥
ततो विसिष्मिये पार्थ कालभीतिरुवाच ह॥ ४०.३४ ॥
नायं मम महानन्दो वाराणस्यां न नमिषे॥
न प्रभासे न केदारे न चाप्यमरकण्टके॥ ४०.३५ ॥
श्रीपर्वते न चान्यत्र यादृशोद्यप्रवर्त्तते॥
निर्विकाराणि स्वच्छानि गंगांबांसीवखानि मे॥ ४०.३६ ॥
भूतेषु परमा प्रीतिस्त्रिजगद्द्योतते स्फुटम्॥
धर्ममेकं परं मह्यं चेतश्चाप्यवगच्छति॥ ४०.३७ ॥
अहो स्थानप्रभावोऽयं स्फुटं चाप्यत्र प्रोच्यते॥
निर्दोषं यच्छुचि स्तान सर्वोपद्रववर्जितम्॥ ४०.३८ ॥
तत्र स्थितस्य धर्मार्थस्तद्वद्भूयात्सहस्रधा॥
तदस्माच्च प्रभावाद्धि जानामीतः स्वचेतसि॥ ४०.३९ ॥
विशिष्टं काशिमुख्येभ्यस्तीर्थेभ्यः स्थानकं त्विदम्॥
तस्मादत्रैव संस्थोहं तपस्तप्स्यामि पुष्कलम्॥ ४०.४० ॥
इदं चेदं तीर्थमिति सदा यस्तृषितश्चरेत्॥
न स सिद्धिमवाप्नोति क्लेशेनैव म्रियेत सः॥ ४०.४१ ॥
इति संचिंत्य बिल्वस्य वृक्षस्याधो व्यवस्थितः॥
जजाप मन्त्रान्रुद्रस्य अंगुष्ठाग्रेण धिष्ठितः॥ ४०.४२ ॥
गृहीत्वा नियमं तोयबिंदुं वर्षशतेऽग्निवत्॥
ततो वर्षशते याते जपतस्तस्य भारत॥ ४०.४३ ॥
कश्चित्तोयभृतं कुम्भं गृहीत्वा नर आव्रजत्॥
सतं प्रणम्य प्राहेदं कालभीतिं प्रहर्षतः॥ ४०.४४ ॥
अद्य ते नियमः पूर्णस्तोयमेतन्महामते॥
गृहाण सफलं मह्यं श्रमं कर्तुमिहार्हसि॥ ४०.४५ ॥
॥कालभीतिरुवाच॥
को भवान्वर्णतो ब्रूहि किमाचारश्च तत्त्वतः॥
जन्माचारौ विदित्वा ते ग्रहीष्याम्यन्यथा न हि॥ ४०.४६ ॥
॥नर उवाच॥
न जाने पितरौ स्वीयौ नष्टौ वा सर्वथा न हि॥
एवमेवापि पश्यामि सर्वदाऽहं स एव च॥ ४०.४७ ॥
आचारैश्चापि धर्मैश्च न कार्यं मम किंचन॥
तस्माद्वक्ष्यामि नाप्येतन्न चाप्यस्मि समाचरे॥ ४०.४८ ॥
॥कालभीतिरुवाच॥
यद्येवं नोदकं तुभ्यं ग्रहीष्याम्यस्मि कर्हिचित्॥
श्रृणुष्वात्र वचो यन्मे गुरुराह श्रुतीरितम्॥ ४०.४९ ॥
न ज्ञायते कुलं यस्य बीजशुद्धिं विना ततः॥
तस्य खादन्पिबन्वापि साधुः सीदति तत्क्षणात्॥ ४०.५० ॥
यश्च रुद्रं न जानाति रुद्रभक्तश्च यो नहि॥
अन्नोदकं तस्य भुञ्जन्पातकी स्यान्न संशयः॥ ४०.५१ ॥
अज्ञात्वा यः शिवं भुंक्ते कथ्यते सोऽत्र ब्रह्महा॥
मार्ष्टि च ब्रह्महान्नादे तस्मात्तस्य न भक्षयेत्॥ ४०.५२ ॥
गंगोदकुम्भः स्याद्यद्वत्तन्मध्ये मद्यबिंदुना॥
अशिवज्ञस्य यो भुंक्ते शिवज्ञोऽपि तथैव सः॥ ४०.५३ ॥
हीनवर्णश्च यः स्याद्धि शिवभक्तोऽपि नैव सः॥
प्रतिगृह्यौ गुणौ तस्माद्विलोक्यौ द्वौ प्रतिग्रहे॥ ४०.५४ ॥
॥नर उवाच॥
एतेन तव वाक्येन हास्यं संजायते मम॥
अहो मुग्धोऽसि मिथ्या त्वमपस्मारी जडोऽपि च॥ ४०.५५ ॥
सदा सर्वेषु भूतेषु शिवो वसति नित्यशः॥
साध्वसाधु ततो वाक्यं नैव निन्दा शिवस्य सा॥ ४०.५६ ॥
आत्मनश्च परस्यापि यः करोत्यंतरो हरम्॥
तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम्॥ ४०.५७ ॥
अथवा का हि पानीये भवेदशुचिता वद॥
मृत्तिकोद्भवकुम्भोऽयं पावकेनापि पाचितः॥ ४०.५८ ॥
पूर्णश्च पयसा कस्मिन्नेषामशुचिता कुतः॥ ४०.५९ ॥
अथ चेन्मम संसर्गादशुचित्वं च मीयते॥
तदस्यां संस्थितः पृथ्व्यामहंत्वं च कुतो वद॥ ४०.६० ॥
कुतः पृथिव्यां चरसि खे त्वं नैव चरस्युत॥
एवं विचार्यमाणे ते भाषितं मुग्धवद्भवेत्॥ ४०.६१ ॥
॥कालभीतिरुवाच॥
सर्वभूतेषु चेदेवं शिव एवेति चोच्यते॥
नास्तिकां मृत्तिका कस्माद्भक्षयंति नभस्यके॥ ४०.६२ ॥
शुद्ध्यर्थं तेन विश्वस्य स्थापिता संस्थितिर्यथा॥
फलेन पालिता सा च नान्यथा तां श्रृणुष्व च॥ ४०.६३ ॥
ससर्जेति पुरा धाता रूपात्मकमिदं जगत्॥
तच्च नामप्रपञ्चेन बद्धं दाम्ना च गौर्यथा॥ ४०.६४ ॥
स च नामप्रपञ्चस्तु चतुर्द्धा भिद्यते किल॥
ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्टयम्॥ ४०.६५ ॥
तत्र ध्वनिर्नादमयो वर्णाश्चाकारपूर्वकाः॥
पदं `श वमि' ति प्रोक्तं वाक्यं चेति शिवं' भजेत्॥ ४०.६६ ॥
तच्चापि वाक्यं त्रिविधं भवेदिति श्रुतेर्मतम्॥
प्रभुसम्मतमेकं च सुहृत्संमतमेव च॥ ४०.६७ ॥
कांतासंमतमेवापि वाक्यं हि त्रिविधं विदुः॥
प्रभुः स्वामी यथा भृत्यमादिशत्येतदाचर॥ ४०.६८ ॥
तथा श्रुतिस्मृती चोभे प्राहतुः प्रभुसंमतम्॥
इतिहासपुराणादि सुहृत्संमतमुच्यते॥ ४०.६९ ॥
सुहृद्वत्प्रतिबोध्यैनं प्रवर्तयति तत्त्वतः॥
काव्यालापादिकं यच्च कांतासंमतमुच्यते॥ ४०.७० ॥
प्रभुवाक्यं स्मृतं यच्च सबाह्याभ्यंतरं शुचि॥
सुहृद्वाक्यं तथा शौचं पालयेत्स्वर्गकांक्षया॥ ४०.७१ ॥
तदेतत्पालनीयं स्याद्भूमिजानां श्रुतिर्वदेत्॥
त्वया नास्तिक्यवाक्येन चेदेतदभिधीयते॥ ४०.७२ ॥
एतेन श्रुतिशास्त्राणि पुराणं च वृतैव किम्॥
अग्रे सप्तर्षिपूर्वा ये ब्राह्मणाः क्षत्रिया भवन्॥ ४०.७३ ॥
मुग्धाः सर्वेऽभवन्दक्षा ये हि वेदं गता ह्यनु॥
तथा वेदांतवचनं सत्त्वस्था ह्यूर्ध्वगामिनः॥ ४०.७४ ॥
तिष्ठंति राजसा मध्ये ह्यधो गच्छंति तामसाः॥
सत्त्वाहारैः सत्त्ववृत्त्या स्वर्गगामी भवेत्ततः॥ ४०.७५ ॥
न चैतदप्य सूयामो यद्भूतेषु शिवो न हि॥
अस्त्येव सर्वभूतेषु श्रृण्वत्राप्युपमानकम्॥ ४०.७६ ॥
यथा सुवर्णजातानि भूषणानि बहूनि च॥
कानिचिच्छुद्धरूपाणि हीनरूपाणि कानिचित्॥ ४०.७७ ॥
स्वर्णं सर्वेषु चास्त्येव तथैव स सदाशिवः॥
हीनरूपं शोधितं सच्छुद्धिमेति न चैकताम्॥ ४०.७८ ॥
तथेदं शोधितं देहं शुद्धं दिवि व्रजेत्स्फुटम्॥
तस्मात्सर्वात्मना हीनान्न ग्राह्यं बत धीमता॥ ४०.७९ ॥
चेदिदं शोधयेद्देहं नैव ग्राह्यं समंततः॥
सर्वतो यः प्रतिग्राही निहाराहारयोर्न च॥ ४०.८० ॥
शुचिः स्यादल्पदिवसात्पाषाणोऽसौ भवेत्स्फुटम्॥
तस्मात्सर्वात्मना नैव ग्रहीष्येहं जलं स्फुटम्॥ ४०.८१ ॥
साधुवाप्यथवाऽसाधु प्रमाणं नः श्रुतिः परा॥
एवमुक्ते स च नरः प्रहसन्दक्षिणेन च॥ ४०.८२ ॥
अंगुष्ठेन लिखन्भूमिं चक्रे गर्तं महोत्तमम्॥
तत्र चिक्षेप तत्तोयं तेन गर्तः स्म पूरितः॥ ४०.८३ ॥
अत्यरिच्यत तोयं च चक्रे पादेन संलिखन्॥
चक्रे सरः पूरितं चाप्यतिरिक्तजलेन तत्॥ ४०.८४ ॥
तदद्भुतं महद्दृष्ट्वा नैव विप्रो विसिष्मिये॥
यतो बहुविधं चित्रं भवेद्भूताद्युपासिषु॥ ४०.८५ ॥
तच्चित्रेण न जह्याच्च श्रुतिमार्गं सनातनम्॥ ४०.८६ ॥
॥नर उवाच॥
अतिमूर्खोसि विप्र त्वं प्रज्ञावादांश्च भाषसे॥
किं न श्रुतस्त्वया श्लोकः पुराविद्भिरुदीरितः॥
कूपोन्यस्य घटोऽन्यस्य रज्जुरन्यस्य भारत॥ ४०.८७ ॥
पायंत्यन्ये पिबंत्यन्ये सर्वे ते समभागिनः॥
तज्जलं मम कस्मात्त्वं धर्मज्ञो न पिबस्यसि॥ ४०.८८ ॥
॥नारद उवाच॥
ततो विममृशे श्लोको बहुधा समभागिनाम्॥
अनिश्चयाद्विचार्यासौ घटाद्यैः समभागिता॥ ४०.८९ ॥
बहुपोतद्रव्यक्षेपः सर्वैः सा समभागिता॥
एवं कर्तुः फलैः सर्वैः समं स्याच्च पुनःपुनः॥ ४०.९० ॥
यः शुचिश्च शिवं ध्यायन्प्रासादकूपकर्तरि॥
जलप्रतिग्रहाभावात्पिबतोऽस्य समं फलम्॥ ४०.९१ ॥
इति निश्चित्य प्रोवाच कालभीतिर्नरं च तम्॥
सत्यमेत्किं तु कुंभपयसा गर्तपूरणे॥ ४०.९२ ॥
दृष्ट्वा प्रत्यक्षतो मादृक्कथं पिबति भो वद॥
साधु वाप्यथवाऽसाधु न पिबेयं कथंचन॥ ४०.९३ ॥
एवं विनिश्चयं दृष्ट्वास्य स्थिरं कुरुनंदन॥
पुरुषोऽसौ प्रहस्यैव क्षणादंतर्दधे ततः॥ ४०.९४ ॥
कालभीतिश्च परमं विस्मयं समुपागतः॥
वृत्तांतः कोयमित्येव चिंतयामास भूयसा॥ ४०.९५ ॥
ततश्चिंतयतस्तस्य बिल्वाधस्तात्सुशोभनम्॥
उच्छ्रितं सुमहालिंगं पृथिव्या द्योतयद्दिशः॥ ४०.९६ ॥
प्रादुर्भावे ततस्तस्य महालिंगस्य भारत॥
ननर्त खेप्सरोवृंदं गधर्वा ललितं जगुः॥ ४०.९७ ॥
पारिजातमयीं पुष्पवृष्टिमिंद्रो मुमोच ह॥
जयेति देवा मुनयस्तुष्टुवुर्विविधैः स्तवैः॥ ४०.९८ ॥
तस्मिन्महति कौरव्य वर्तमाने महोत्सवे॥
कालभीतिः प्रमुदितः प्रणम्य स्तोत्रमैरयत्॥ ४०.९९ ॥
पापस्य कालं भवपंककालं कलाकलं कालमार्गस्य कालम्॥
देवं महाकालमहं प्रपद्ये श्रीकालकंठं भवकालरूपम्॥ ४०.१०० ॥
ईशानवक्त्रं प्रणमामि त्वाहं स्तौति श्रुतिः सर्वविद्येश्वरस्त्वम्॥
भूतेश्वरस्त्वं प्रपितामहस्त्वं तस्मै नमस्तेस्तु महेश्वराय॥ ४०.१०१ ॥
यं स्तौति वेदस्तमहं प्रपद्ये तत्पुरुषसंज्ञं शरणं द्वितीयम्॥
त्वां विद्महे तच् नस्त्वं प्रदेहि श्रीरुद्र देवेश नमोनमस्ते॥ ४०.१०२ ॥
अघोरवक्त्रं त्रितयं प्रपद्ये अथर्वजुष्टं तव रूपकाणि॥
अघोरघोराणि च घोरघोराण्यहं सदानौमि भूतानि तुभ्यम्॥ ४०.१०३ ॥
चतुर्थवक्त्रं च सदा प्रपद्ये सद्योभिजाताय नमोनमस्ते॥
भवेभवेनादिभवो भवस्व भवोद्भवो मां शिव तत्रतत्र॥ ४०.१०४ ॥
नमोस्तु ते वामदेवाय ज्येष्ठरुद्राय कालाय कलाविकारिणे॥
बलंकरायापि बलप्रमाथिने भूतानि हंत्रे च मनोन्मनाय॥ ४०.१०५ ॥
त्रियंबकं त्वां च यजामहे वयं सुपुण्यगंधैः शिवपुष्टिवर्धनम्॥
उर्वारुकं पक्वमिवोग्रबंधनाद्रक्षस्व मां त्र्यंबक मृत्युमार्गात्॥ ४०.१०६ ॥
षडक्षरं मंत्रवरं तवेश जपंति ये मुनयो वीतरागाः॥
तेषां प्रसन्नोऽसि जपामहेतं त्वोंकारपूर्वं च नमः शिवाय॥ ४०.१०७ ॥
एवं स्तुतो महादेवो लिंगान्निःसृत्य भारत॥
त्रिजगद्द्योतयन्मभासा प्रत्यक्षः प्राह च द्विजम्॥ ४०.१०८ ॥
यत्त्वयात्र महातीर्थे भृशमाराधितो द्विज॥
तेनाति तुष्टस्ते वत्स नेशः कालः कथंचन॥ ४०.१०९ ॥
अहं च नररूपी यो दृष्ट्वा ते धर्मसंस्थितिम्॥
धन्यस्तद्धर्ममार्गोऽयं पाल्यते यद्भवद्विधैः॥ ४०.११० ॥
सर्वतीर्थोदकैर्गरतः पूरितो मे सरस्तथा॥
जलमेतन्महापुण्यं त्वदर्थं मे समाहृतम्॥ ४०.१११ ॥
सप्तमंत्ररहस्यं च यत्कृतं स्तवनं मम॥
अनेन पठ्यमानेन सप्तमंत्रफलं भवेत्॥ ४०.११२ ॥
अभीष्टं च वरं मत्तो वृणीष्व मनसेप्सितम्॥
त्वयातितोषितो ह्यस्मिनादेयं विद्यते तव॥ ४०.११३ ॥
॥कालभीतिरुवाच॥
धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वं तुष्टोऽसि शंकर॥
त्वत्तोषात्सफला धर्माः श्रमायैवान्यतामताः॥ ४०.११४ ॥
यदि तुष्टोऽसि सांनिद्यं लिंगेऽत्र क्रियतां सदा॥
अक्षयं तत्कृतं चास्तु यल्लिंगे क्रियतेऽत्र च॥ ४०.११५ ॥
जपतो यत्फलं देवपंचमंत्रायुतेन च॥
तत्फलं जायतां नणामस्य लिंगस्य दर्शने॥ ४०.११६ ॥
कालमार्गादहं यस्मान्मोचितोऽहं महेश्वर॥
महाकालमिति ख्यातं लिंगं तस्माद्भवत्विदम्॥ ४०.११७ ॥
अस्मिंश्च कूपे यो मर्त्यः स्नात्वा तर्पयते पितॄन्॥
सर्वतीर्थफलं चास्तु पितॄणामक्षया गतिः॥ ४०.११८ ॥
इति तस्यवचः श्रुत्वा प्रीतस्तं शंकरोऽब्रवीत्॥
स्वायंभुवं यत्र लिंगं तत्र नित्यं वसाम्यहम्॥ ४०.११९ ॥
स्वयंभुबाणरत्नोत्थदातुपाषाणलोहजम्॥
लिंगं क्रमेण फलदमंत्यात्पूर्वं दशोत्तरम्॥ ४०.१२० ॥
आकाशे तारकालिंगं पाताले हाटकेश्वरम्॥
स्वायंभुवं धारपृष्ठे तदेतत्त्रितयं समम्॥ ४०.१२१ ॥
विशेषात्प्रार्थितं यच्च तच्च भविष्यति॥
अत्र पुष्पं फलं पूजा नैवेद्यं स्तवनक्रिया॥ ४०.१२२ ॥
दानं वान्यश्च यत्किंचिदक्षयं तद्भविष्यति॥
माघासितचतुर्दश्यां शिवयोगे च पुत्रक॥ ४०.१२३ ॥
लिंगाच्च पूर्वतः कूपेस्नात्वा यस्तर्पयेत्पितॄन्॥
सर्वतीर्थफलावाप्तिः पितॄणां चाक्षया गतिः॥ ४०.१२४ ॥
तस्यां रात्रौ महाकालं यामेयामे प्रपूजयेत्॥
यः क्षिपेत्सर्वलिंगेषु स जागरफलं लभेत्॥ ४०.१२५ ॥
जितेंद्रियश्च यो नित्यं मां लिंगेत्र प्रपूजयेत्॥
भुक्तिमुक्ती न दूरस्थे तस्य नित्यं द्विजोत्तम॥ ४०.१२६ ॥
माघे चतुर्दश्यष्टम्यां सोमवारे च पर्वणि॥
स्नात्वा सरसि योऽभ्यर्च्य लिंगमेतच्छिवं व्रजेत्॥ ४०.१२७ ॥
दानं तपो रुद्रजापः सर्वमक्षयमेव च॥
त्वं च नन्दी द्वितीयो मे प्रतीहारो भविष्यसि॥ ४०.१२८ ॥
कालमार्गजयाद्वत्स महाकाला भिधश्चिरम्॥
करंधमोऽत्र राजर्षिरचिरादागमिष्यति॥ ४०.१२९ ॥
तस्य प्रोच्य भवान्धर्मांस्ततो मल्लोकमाव्रज॥
इत्युक्त्वा भगवान्रुद्रो लिंगमध्ये न्यलीयत॥ ४०.१३० ॥
महाकालोऽपि मुदितस्तत्र तेपे महत्तपः॥ ४०.१३१ ॥
॥इति महाकालप्रादुर्भावः॥
॥नारद उवाच॥
अथ केनापि कालेन पार्थ राजा करंधमः॥
विशेषमिच्छुर्धर्मेषु श्रुत्वा तीर्थमहागुणान्॥ ४०.१३२ ॥
महाकालचरित्रं च तत्रैव समुपाययौ॥
महीसागर तोयेऽसौ स्नात्वा लिंगान्यथार्चयत्॥ ४०.१३३ ॥
महाकालमनुप्राप्य परमां प्रीतिमागतः॥
स पश्यन्सुमहालिंगं नातृप्यत जनेश्वरः॥ ४०.१३४ ॥
यथा दरिद्रः कृपणो निधिकुम्भमवाप्य च॥
सफलं जीवितं मेने महाकालं निरीक्ष्य सः॥ ४०.१३५ ॥
पंचमंत्रायुतजपफलं यस्येह दर्शनात्॥
ततः सपर्ययाक्ष्यर्च्य महत्यासौ प्रणम्य च॥ ४०.१३६ ॥
श्रुत्वा च लिंगप्रवरं महाकालमुपासदत्॥
ततो रुद्रवचः स्मृत्वा महाकालः स्मयन्निव॥ ४०.१३७ ॥
प्रत्युद्गम्य नृपं पूजामर्घं च प्रत्यपादयत्॥
ततः कुशलप्रश्नादि कृत्वा शांतमुखं नृपः॥ ४०.१३८ ॥
महाकालमुपामंत्र्य कथांते वाक्यमब्रवीत्॥
भगवन्संशयो मह्यं सदाऽयं परिवर्तते॥ ४०.१३९ ॥
यदिदं तर्पणंनाम पितॄणां क्रियते नृभिः॥
जलमध्ये जलं याति कथं तृप्यंति पूर्वजाः॥ ४०.१४० ॥
एवं पिंडादिपूजा च सर्वमत्रैव दृश्यते॥
कथमेवं स्म मन्यामः पित्राद्यैरुपभुज्यते॥ ४०.१४१ ॥
न चैतदस्ति यत्तेषां नोपतिष्ठति किंचन॥
स्वप्ने यथाक्रम्य नरं दृश्यंते याचकाश्च ते॥ ४०.१४२ ॥
देवानां चापि दृश्यंते प्रत्यक्षाः प्रत्ययाः सदा॥
तत्कथं प्रतिगृह्णन्ति मनो मेऽत्र प्रमुह्यति॥ ४०.१४३ ॥
॥महाकाल उवाच॥
योनिरेवंविदा तेषां पितॄणां च दिवौकसाम्॥
दूरोक्तं दूरपूजा च दूरस्तुतिरथापि यत्॥ ४०.१४४ ॥
भव्यं भूतं भविष्यच्च सर्वं जानंति यांति च॥
पंचतन्मात्ररूपं च मनोबुद्धिरहंजडाः॥ ४०.१४५ ॥
नवतत्त्वमयं देहं दशमः पुरुषो मतः॥
तस्माद्गंधेन तृप्यंति रसतत्त्वेन ते तथा॥ ४०.१४६ ॥
शब्दतत्त्वेन तुष्यंति स्पर्शतत्त्वं च गृह्णते॥
शुचि दृष्ट्वा त तुष्यंति नात्र राजन्भवेन्मृषा॥ ४०.१४७ ॥
यथा तृणं पशूनां च नराणामन्नमुच्यते॥
एवं दैवतयोनीनामन्नसारस्य भोजनम्॥ ४०.१४८ ॥
शक्तयः सर्वभावानामचिंत्या ज्ञानगोचराः॥
तस्मात्तत्त्वं प्रगृह्णन्ति शेषमत्रैव दृश्यते॥ ४०.१४९ ॥
॥करंधम उवाच॥
पितृभ्यो दीयते श्राद्धं स्वकर्मवशगाश्च ते॥
स्वर्गस्था नरकस्था वा कथं तैरुपभुज्यते॥ ४०.१५० ॥
अथ स्वर्गेऽथ नरेक स्थिताः कर्माभियंत्रिताः॥
शक्नुवंति वरानेतान्दातुं ते चेश्वराः कथम्॥ ४०.१५१ ॥
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुकानि च॥
प्रयच्छन्तु तथा राज्यं प्रीता नॄणां पितामहाः॥ ४०.१५२ ॥
॥महाकाल उवाच॥
सत्यमेततस्वकर्मस्थाः पितरो यन्नृपोत्तम॥
किं तु देवासुराणां च यक्षादीनाममूर्तकाः॥ ४०.१५३ ॥
मूर्ताश्चतुर्णां वर्णानां पितरः सप्तधा स्मृताः॥
ते हि सर्वे प्रयच्छंति दातुं सर्वं यतोप्सितम्॥ ४०.१५४ ॥
एकत्रिंशद्गणा येषां पितॄणां प्रबला नृप॥
कृतं च तदिदं श्राद्धं तर्पयेत्तान्परान्पितॄन्॥ ४०.१५५ ॥
ते तृप्तास्तर्पयन्त्यस्य पूर्वजान्यत्र संस्थितान्॥
एवं स्वानां चोपतिष्ठेच्छ्राद्धं यच्छंति ते वरान्॥ ४०.१५६ ॥
॥राजोवाच॥
भूतादिभ्यो यथा विप्र नाम्ना वोद्दिश्य दीयते॥
सुरादीनां कथं चैव संक्षेपेण न दीयते॥ ४०.१५७ ॥
इदं पितृभ्यो देवेभ्यो द्विजेभ्यः पावकाय च॥
एवं कस्माद्विस्तराः स्युर्मनः कायादिकष्टदाः॥ ४०.१५८ ॥
॥महाकाल उवाच॥
उचिता प्रतिपत्तिश्च कार्या सर्वेषु नित्यशः॥
प्रतिपत्तिं चोचितां ते विना गृह्णन्ति नैव च॥ ४०.१५९ ॥
यथा श्वा गृहद्वारस्थो बलिं गृह्णाति किं तथा॥
प्रधानपुरुषो राजन्गृह्णाति च शुना समः॥ ४०.१६० ॥
एवं ते भूतवद्देवा न हि गृह्णन्ति कर्हिचित्॥
शुचि कामं जुषंते न हविरश्रद्दधानतः॥ ४०.१६१ ॥
विना मंत्रैश्च यद्दत्तं न तद्गृह्णन्ति तेऽमलाः॥
श्रुतिरप्यत्र प्राहेदं मंत्राणां विषये नृप॥ ४०.१६२ ॥
"मंत्रा दैवता यद्यद्विद्वान्मन्त्रवत्करोति देवताभिरेव तत्करोति यद्ददानि देवताभिरेव तद्ददाति यत्प्रतिगृह्णाति देवताभिरेव तत्प्रतिगृह्णाति तस्मान्नामन्त्रवत्प्रतिगृह्णीयात् नामन्त्रवत्प्रतिपद्यते" इति॥ ४०.१६३ ॥
तस्मान्मंत्रैः सदा देयं पौराणैर्वैदिकैरपि॥
अन्यथा ते न गृह्णन्ति भूतानामुपतिष्ठति॥ ४०.१६४ ॥
॥राजोवाच॥
दर्भांस्तिलानक्षतांश्च तोयं चैतैः सुसंयुतम्॥
कस्मात्प्रदीयते दानं ज्ञातुमिच्छामि कारणम्॥ ४०.१६५ ॥
॥महाकाल उवाच॥
पुरा किल प्रदत्तानि भूमेर्दानानि भूरिशः॥
प्रत्यगृह्णन्त दैत्याश्च प्रविश्याभ्यंतरं बलात्॥ ४०.१६६ ॥
ततो देवाश्च पितरः प्रत्यूचुः पद्मसंभवम्॥ ४०.१६७ ॥
स्वामिन्नः पश्यतामेव सर्वं दैत्यैः प्रगृह्यते॥
विधेहि रक्षां तेषां त्वं न नष्टः स्मो यथा वयम्॥ ४०.१६८ ॥
ततो विमृश्यैव विधी रक्षोपायमचीकरत्॥
तिलैर्युक्तं पितॄणां च देवानामक्षतैः सह॥ ४०.१६९ ॥
तोयं दर्भांश्च सर्वत्र एवं गृह्णन्ति नासुराः॥
एतान्विना प्रदत्तं यत्फलं दैत्यैः प्रगृह्यते॥ ४०.१७० ॥
निःश्वस्य पितरो देवा यांति दातुः फलं न हि॥
तस्माद्युगेषु सर्वेषु दानमेव प्रदीयते॥ ४०.१७१ ॥
॥करंधम उवाच॥
चतुर्युगव्यवस्थानं श्रोतुमिच्छमि तत्त्वतः॥
महतीयं विवित्सा मे सदैव परिवर्तते॥ ४०.१७२ ॥
॥महाकाल उवाच॥
आद्यं कृतयुगं विद्धिततस्त्रेतायुगं स्मृतम्॥
द्वापरं च कलिश्चेति चत्वारश्च समासतः॥ ४०.१७३ ॥
सत्त्वं कृतं रजस्त्रेता द्वापरं च रजस्तमः॥
कलिस्तमस्तु विज्ञेयं युगवृत्तं युगेषु च॥ ४०.१७४ ॥
ध्यानं परं कृतयुगे त्रेतायां यज्ञ उच्यते॥
वृत्तं च द्वापरे सत्यं दानमेव कलौ युगे॥ ४०.१७५ ॥
कृते तु मानसी सृष्टिर्वृत्तिः साक्षाद्रसोल्लसा॥
तेजोमय्यः प्रजास्तृप्ताः सदानंदाश्च भोगिनः॥ ४०.१७६ ॥
अधमोत्तमो न तासां ता निर्विशेषाः प्रजाः शुभाः॥
तुल्यमायुः सुखं रूपं तासां तस्मिन्कृते युगे॥ ४०.१७७ ॥
न चाप्रीतिर्न च द्वंद्वो न द्वेषो नापि च क्लमः॥
पर्वतोदधिवासिन्यो ह्यनुक्रोशप्रियास्तु ताः॥ ४०.१७८ ॥
वर्णाश्रमव्यवस्था च तदासीन्न हि संकरः॥
एकमन्यं न ध्यायंति परमं ते सदा शिवम्॥ ४०.१७९ ॥
चतुर्थे च ततः पादे नष्ट साऽभूद्रसोल्लसा॥
प्रादुरासंस्ततस्तासां वृक्षाश्वगृहसंज्ञिताः॥ ४०.१८० ॥
वस्त्राणि च प्रसूयंते फलान्याभरणानि च॥
तेष्वेव जायते तासां गंधवर्णरसान्वितम्॥ ४०.१८१ ॥
सुमाक्षिकं महावीर्यं पुटके पुटके मधु॥
तेन ता वर्तयंति स्म कृतस्यांते प्रजास्तदा॥ ४०.१८२ ॥
हृष्टपुष्टास्तथा वृद्धाः प्रजा वै विगतज्वराः॥
ततः कालेन केनापि तासां वृद्धे रसेंद्रिये॥ ४०.१८३ ॥
युगभावात्तथा ध्याने स्वल्पीभूते शिवस्य च॥
वृक्षांस्तान्पर्यगृह्णंत मधु वा माक्षिकं बलात्॥ ४०.१८४ ॥
तासां तेनोपचारेण लोभदोषकृतेन वै॥
प्रनष्टा मधुना सार्धं कल्पवृक्षाः क्वचित्क्वचित्॥ ४०.१८५ ॥
तस्यां चाप्यल्पशिष्टायां द्वंद्वान्यभ्युत्थितानि वै॥
शीतातपैर्मनोदुःखैस्ततस्ता दुःखिता भृशम्॥ ४०.१८६ ॥
चक्रुरावरणार्थं हि केतनानि ततस्ततः॥
ततः प्रदुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः॥ ४०.१८७ ॥
वृष्ट्या बभूवुरौषध्यो ग्राम्यारण्याश्चतुर्दश॥
अकृष्टपच्यानूप्तास्तोयभूमिसमागमात्॥ ४०.१८८ ॥
ऋतु पुष्पफलैश्चैव वृक्षगुल्माश्च जज्ञिरे॥
तैश्च वृत्तिरभूत्तासां धान्यैः पुष्पैः फलैस्तथा॥ ४०.१८९ ॥
ततः पुनरभूत्तासां रागो लोभश्च सर्वतः॥
कालवीर्येण वा गृह्य नदीक्षेत्राणि पर्वतान्॥ ४०.१९० ॥
वृक्षगुल्मौषधीश्चैव प्रसह्याशु यथाबलम्॥
विपर्ययेण चौषध्यः प्रनष्टाश्च चतुर्दश॥ ४०.१९१ ॥
नत्वा धरां प्रविष्टास्ता ओषध्यः पीडिताः प्रजाः॥
दुदोह गां पृथुर्वैन्यः सर्वभूतहिताय वै॥ ४०.१९२ ॥
तदा प्रभृति चौषध्यः फालकृष्टाः प्रजास्ततः॥
वार्त्तया वर्तयंति स्म पाल्यमानाश्च क्षत्रियैः॥ ४०.१९३ ॥
वर्णाश्रमप्रतिष्ठा च यज्ञस्त्रेतासु चोच्यते॥
सदाशिवध्यानमयं त्यक्त्वा मोक्षमचेतनाः॥ ४०.१९४ ॥
पुष्पितां वाचमाश्रित्य रागात्स्वर्गमसाधयन्॥
द्वापरे च प्रवर्तंते मतिभेदास्ततो नृणाम्॥ ४०.१९५ ॥
मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिध्यति॥
लोभोऽधृतिः शिवं त्यक्त्वा धर्माणां संकरस्तथा॥ ४०.१९६ ॥
वर्णाश्रमपरिध्वंसाः प्रवर्तंते च द्वापरे॥
तदा व्यासैश्चतुर्द्धा च व्यस्यते द्वापरात्ततः॥ ४०.१९७ ॥
एको वेदश्चतुष्पादैः क्रियते द्विजहेतवे॥
इतिहासपुराणानि भिद्यंते लोकगौरवात्॥ ४०.१९८ ॥
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा॥
तथान्यन्नारदीय च मार्कंडेयं च सप्तमम॥ ४०.१९९ ॥
आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं स्मृतम्॥
दशमं ब्रह्मवैवर्तं लैंगमेकादशं तथा॥ ४०.२०० ॥
वाराहं द्वादशं चैव स्कांदं चैव त्रयोदशम्॥
चतुर्दशं वामनं च कौर्मं पंचदशं स्मृतम्॥ ४०.२०१ ॥
मात्स्यं षोडशकं प्रोक्तं गारुडं च ततः परम्॥
अतः परं तु ब्रह्मांडमेवञ्चाष्टादशानि हि॥ ४०.२०२ ॥
अस्मिन्वाराहकल्पे च व्यासानाकर्णयस्व च॥
ऋतुः सत्यो भार्गवश्च अंगिराः सविता तथा॥ ४०.२०३ ॥
मृत्युः शतक्रतुर्धीमान्वसिष्ठो भविताऽधुना॥
सारस्वतस्त्रिधामा च वेदवित्त्रिवृतो मुनिः॥ ४०.२०४ ॥
शततेजाः स्वयं विष्णुर्नारायण इति स्मृतः॥
करकश्चारुणिर्धीमास्तथा देव ऋतंजयः॥ ४०.२०५ ॥
कृतंजयो भरद्वाजो गौतमः कविसत्तमः॥
वाजश्रवा मुनिश्चैव तथा युष्मायणो मुनिः॥ ४०.२०६ ॥
तृणबिंदुस्तथा ऋक्षः शक्तिः पाराशरस्तथा॥
जातूकर्ण्योऽथ विष्णुश्च स्वयंद्वैपायनो मुनिः॥ ४०.२०७ ॥
अश्वत्थाममुखाश्चैते भविष्याः सूचितास्तव॥
धर्मशास्त्राणि लोकार्थं भिद्यंते चापि द्वापरे॥ ४०.२०८ ॥
मन्वत्रिविष्णुहारितयाज्ञवल्क्योशनोंगिराः॥
यमापस्तंबसंवर्ताः कात्यायनबृहस्पती॥ ४०.२०९ ॥
पराशरव्यासशंखलिखिता दक्षगौतमौ॥
शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः॥ ४०.२१० ॥
ततो द्वापरसंध्यायां प्रवर्तति कलौ युगे॥
नश्यमाने शैवयोगे जायंते योगनंदनाः॥ ४०.२११ ॥
आद्ये श्वेतकलौरुद्रः सुतारस्तारणस्तथा॥
सुहोत्रः कंकणश्चैव लोकाख्यश्च महामुनिः॥ ४०.२१२ ॥
जैगीषव्यश्च भाव्यो वै भगवान्दधिवाहनः॥
ऋषभश्च मुनिर्धर्मउग्रश्चात्रिः सबालकः॥ ४०.२१३ ॥
गौतमौ वेदशीर्णश्च गोकर्णश्च शिखंडिभृत्॥
गृहावासी जटामाली अट्टहासश्च दारुणः॥ ४०.२१४ ॥
लांगली संयमी शूली डिंडी जुण्डीश्वरः स्वयम्॥
सहिष्णुः सोमशर्मा च लकुलीशश्च पार्थिव॥ ४०.२१५ ॥
कायावरोहणो भावीत्याद्या योगेश्वराः क्रमात्॥
एते संक्षिप्त वक्ष्यंति शिवधर्मं कलौ युगे॥ ४०.२१६ ॥
एवं कलियुगे राजञ्छास्त्रसंक्षेप उच्यते॥
श्रृणु तिष्यप्रवृत्तिं च हर्षोद्वेगकरीं किल॥ ४०.२१७ ॥
तिष्ये मायामसूयां च वधं चैव तपस्विनाम्॥
साधयंति नरास्तत्र तमसा व्याकुलेंद्रियाः॥ ४०.२१८ ॥
कलौ प्रमाथको रागः सततं क्षुद्भयानि च॥
अनावृष्टिभयं घोरं देशानां च विपर्ययः॥ ४०.२१९ ॥
न प्रमाणं श्रुतेरस्ति नृणां चाधर्मसेवनात्॥
अधार्मिकास्त्वनाचारा महाकोपाल्पतेजसः॥ ४०.२२० ॥
अनृतं ब्रुवते लुब्धा नारीप्रायाश्च दुष्प्रजाः॥
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः॥ ४०.२२१ ॥
विप्राणां कर्मदोषैश्च प्रजानां जायते क्षयः॥
उत्सीदंति क्षत्रविशो वर्धंते शूद्रविप्रकाः॥ ४०.२२२ ॥
शूद्रा विप्रैः सहासंते शयनासनभोजनैः॥
शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः॥ ४०.२२३ ॥
राजवृत्त्यां स्थिताश्चौराश्चौराचाराश्च पार्थिवाः॥
एकपत्न्यो न शिष्यंति वर्धयंत्यभिसारिकाः॥ ४०.२२४ ॥
तदा ह्यल्पफला भूमिः क्वचिच्चापि महाफला॥
अरक्षितारो हर्तारो राजानः पापनिर्भयाः॥ ४०.२२५ ॥
अक्षत्रियास्तु राजानो विप्राः शूद्रोपजीविनः॥
शूद्रा विवादिनः सर्वे ब्राह्मणैरभिनंदिताः॥ ४०.२२६ ॥
आसनस्थान्द्विजान्दृष्ट्वा चलंत्यत्यल्पबुद्धयः॥
आस्ये निधाय वै हस्तं कर्णे शूद्रास्य च द्विजाः॥ ४०.२२७ ॥
नीचस्यापि तदा वाक्यं वक्ष्यंति विनयेन तम्॥
उच्चासनस्थाञ्छूद्रांश्च द्विजानां पश्यतामपि॥ ४०.२२८ ॥
ज्ञात्वा न हिंसते राजा पश्य कालबलं नृप॥
पुष्पैः शुभसितैश्चैव तथान्यैर्मंडनैर्द्विजाः॥ ४०.२२९ ॥
शूद्रानभ्यर्चयंत्यल्पश्रुतभाग्यबलान्विताः॥
पाषंडिनां च गृह्णंति ब्राह्मणाः कुप्रतिग्रहम्॥ ४०.२३० ॥
येन ते रौरवं यांति सुदुस्तारं द्विजाधमाः॥
तपोयज्ञफलानां च विक्रेतारो द्विजास्तथा॥ ४०.२३१ ॥
यतयश्च भविष्यंति बहवः कोटिशः कलौ॥
पुरुषाल्पबहुस्त्रीको नृणां चापत्यसंभवः॥ ४०.२३२ ॥
निंदंति वेदवाक्यानि वेदार्थांश्च कलौ युगे॥
शूद्रैः स्वयं निर्मितं यत्प्रमाणं शास्त्रमेव तत्॥ ४०.२३३ ॥
श्वापदप्रबलत्वं च गवां चापि परिक्षयः॥
कस्यचिद्दानप्रभृतिधर्मस्यास्ति न शुद्धता॥ ४०.२३४ ॥
साधूनां बहवो नाशाः पार्थिवाश्चाप्यरक्षिणः॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः॥ ४०.२३५ ॥
प्रमदाः केशशूलिन्यो भविष्यंति कलौ युगे॥
स्त्रीप्रधानानि गेहानि कुचैलास्ताश्च कर्कशाः॥ ४०.२३६ ॥
बहुभक्ष्यावलिप्ताश्च कृत्या इव भवंति च॥
सर्वे वणिग्जनाश्चापि चित्रवर्षी च वासवः॥ ४०.२३७ ॥
कुशीलचर्यापाषंडैर्वृथारूपैः समावृतः॥
बहुयाचनको लोको भविष्यति परस्परी॥ ४०.२३८ ॥
अशंकश्चैव पापेषु तदा लोको भविष्यति॥
हर्तारः पररत्नानां परदारप्रधर्षकाः॥ ४०.२३९ ॥
ऊनषोडशवर्षाश्च प्रजायंते युगक्षये॥
तथा द्वादशवर्षाश्च प्रसवंति स्त्रियस्तदा॥ ४०.२४० ॥
चौराश्चौरस्य हर्तारो हर्तुर्हर्त्ता तथापरः॥
ज्ञानकर्मण्युपरते लोके निष्क्रियतां गते॥ ४०.२४१ ॥
कीटमूषकसर्पाश्च धर्षयिष्यंति मानवान्॥
वर्णाश्रमाणां ये चान्ये पाषंडाः परिपंथिनः॥ ४०.२४२ ॥
ते तदा प्रोद्भविष्यंति तेषआं वृद्धिश्च पार्थिव॥
दुःखं पुत्रकलत्राद्यं देहोत्सादः सरोगता॥ ४०.२४३ ॥
अधर्माभिनिवेशत्वात्तमसो जायते कलौ॥
कलेर्दोषनिधेश्चैव श्रृणुष्वैवं महागुणम्॥ ४०.२४४ ॥
तदाल्पेनैव काले न सिद्धिं गच्छंति मानवाः॥
त्रियुगीना वदंत्येवं धन्या धर्मं चरंति ये॥ ४०.२४५ ॥
श्रुतिस्मृतिपुराणोक्तं कलौ श्रद्धापरायणाः॥
त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः॥ ४०.२४६ ॥
यथा क्लेशं चरन्प्राज्ञस्तदह्ना प्राप्यते कलौ॥
युगत्रयेण तावंतः सिद्धिं गच्छंति पार्थिवः॥ ४०.२४७ ॥
यावंतः सिद्धिमायांति कलौ हरिहरव्रताः॥
अष्टाविंशे कलौ यच्च भावि तत्त्वं निबोध मे॥ ४०.२४८ ॥
त्रिषु वर्षसहस्रेषु कलेर्यातेषु पार्थिवः॥
त्रिशतेषु दशन्यूनेष्वस्यां भुवि भविष्यति॥ ४०.२४९ ॥
शूद्रकोनाम वीराणामधिपः सिद्धिमत्र सः॥
चर्चितायां समाराध्य लप्स्यते भूभरापहः॥ ४०.२५० ॥
ततस्त्रिषु सहस्रेषु दशाधिकशतत्रये॥
भविष्यं नंदराज्यं च चाणक्यो यान्हनिष्यति॥ ४०.२५१ ॥
शुक्लतीर्थे सर्वपापनिर्मुक्तिं योऽभिलप्स्यति॥
ततस्त्रिषु सहस्रेषु विंशत्या चाधिकेषु च॥ ४०.२५२ ॥
भविष्यं विक्रमादित्यराज्यं सोऽथ प्रलप्स्यते॥
सिदधिप्रसादाद्दुर्गाणां दीनान्यो ह्युद्धरिष्यति॥ ४०.२५३ ॥
ततः शतसहस्रेषु शतेनाप्यधिकेषु च॥
शकोनाम भविष्यश्च योऽतिदारिद्र्यहारकः॥ ४०.२५४ ॥
ततस्त्रिषु सहस्रेषु षट्शतैरधिकेषु च॥
मागधे हेमसदनादंजन्यां प्रभविष्यति॥ ४०.२५५ ॥
विष्णोरंशो धर्मपाता बुधः साक्षात्स्वयं प्रभुः॥
तस्य कर्माणि भूरिणि भविष्यंति महात्मनः॥ ४०.२५६ ॥
ज्योतिर्बिदुमुखानुग्रान्स हनिष्यति कोटिशः॥
चतुःषष्टिं स वर्षाणि भुक्त्वा द्वीपानि सप्त च॥ ४०.२५७ ॥
भक्तेभ्यः स्वयशो मुक्त्वा दिवं पश्चाद्गमिष्यति॥
सर्वेषां चावताराणआं गुणैः समधिको यतः॥ ४०.२५८ ॥
ततो वक्ष्यंति तं भक्त्या सर्वपापहरं बुधम्॥
चतुर्षु च सहस्रेषु शतेष्वपि चतुर्षु च॥ ४०.२५९ ॥
साधिकेषु महान्राजा प्रमितिः प्रभविष्यति॥
गोत्रेषु वै चंद्रमसो बहुसेनापतिर्बली॥ ४०.२६० ॥
म्लेच्छान्स कोटिशो हत्वा पाषंडानि च सर्वशः॥
वैदिकं केवलं शुद्धं सद्धर्मं वर्तयिष्यति॥ ४०.२६१ ॥
गंगायमुनयोर्मध्ये निष्ठां यास्यति पार्थिवः॥
ततः प्रजाश्च कालेन केनापि भृशपीडिताः॥ ४०.२६२ ॥
घोरं वा धर्ममाश्रित्य शाठ्येन च भवंति ताः॥
अप्रग्रहास्ततस्ता वै लोभाविष्टाश्च वृंदशः॥ ४०.२६३ ॥
उपहिंसंति चान्योन्यं व्याकुलाः श्रमपीडिताः॥
नष्टे श्रौते तथा स्मार्ते परस्परहतास्तदा॥ ४०.२६४ ॥
निर्मर्यादा निष्करुणा निस्स्नेहा निरपत्रपाः॥
गृहदाराणि संत्यज्य ह्रस्वकाः पंटविंशतिः॥ ४०.२६५ ॥
हाहाभूताश्चरिष्यंति विषादव्याकुलेंद्रियाः॥
अनावृष्टिहताश्चैव वार्तामुत्सृज्य दुःखिताः॥ ४०.२६६ ॥
प्रत्यंतांस्ता निषेवंति हित्वा जनपदान्स्वकान्॥
सरित्सागरकूलांश्च सेवंते पर्वतांस्तथा॥ ४०.२६७ ॥
मांसैर्मूलफलैस्चैव वर्तयंति सुदुःखिताः॥
चीरपत्राजिनधरा निष्क्रिया निष्परिग्रहाः॥ ४०.२६८ ॥
धर्मस्य वासमात्रं च शाल्वो म्लेच्छो हनिष्यति॥
उत्तमाधममध्यत्वं सर्वमुच्छिद्य घोरकृत्॥ ४०.२६९ ॥
ततस्तस्य वधार्थाय विष्णुः साक्षाज्जगत्पतिः॥
शंभले विष्णुयशसो भूत्वा पुत्रो नृपोत्तम॥ ४०.२७० ॥
द्विजोत्तमैः परिवृतः शाल्वं तं संहरिष्यति॥
कोटिशोऽर्बुदशः पापान्निहत्य च निखर्वशः॥ ४०.२७१ ॥
पालयिष्यति तं धर्मं यो धर्मः श्रुतिपूर्वकः॥ ४०.२७२ ॥
कृत्वा पोतं धर्मरूपं साधूनां परमेश्वरः॥
गमिष्यति परं लोकं कृत्वा कर्माणि भूरिशः॥ ४०.२७३ ॥
ततः कृतयुगं भूयः प्रवर्तिष्यति पार्थिव॥
आद्यं कृतयुगं चान्यं तदन्येभ्यो विशिष्यते॥ ४०.२७४ ॥
अष्टाविंशकलिश्चैव शेषः प्रावर्त अन्यतः॥
ततः कृते सूर्यवंशः प्रवत्स्यति॥ ४०.२७५ ॥
मरुराजाच्च देवापेः श्रुतदेवाच्च ब्राह्मणाः॥
इति चातुर्युगी राजन्व्यवस्था परिवर्तते॥
चतुर्युगे च ते धन्या ये भजंति हराच्युतौ॥ ४०.२७६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महाकालकरन्धमसंवादे चतुर्युगव्यवस्थावर्णनंनाम चत्वारिंशत्तमोऽध्यायः॥ ४० ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 41
॥करधम उवाच॥
केचिच्छिवं समाश्रित्य विष्णुमाश्रित्य वेधसम्॥
वर्णयंति परे मोक्षं त्वं तु कस्मात्तु मन्यसे॥ ४१.१ ॥
॥महाकाल उवाच॥
अपारवैभवा देवास्त्रयोऽप्येते नरर्षभ॥
योगींद्राणामपि त्वत्र चेतो मुह्यति किं मम॥ ४१.२ ॥
पुरा किलैवं मुनयो नैमिषारण्यवासिनः॥
संदिह्यांतः श्रेष्ठतायां ब्रह्मलोकमुपागमन्॥ ४१.३ ॥
तस्मिन्क्षणे विरिंचोऽपि श्लोकं प्रह्वोऽब्रवीत्किल॥
अनंताय नमस्तस्मै यस्यांतो नोपलभ्यते॥ ४१.४ ॥
महेशाय च भक्ते द्वौ कृपायेतां सदा मयि॥
ततः श्रेष्ठं च तं मत्वा क्षीरोदं मुनयो ययुः॥ ४१.५ ॥
तत्र योगेश्वरः श्लोकं प्रबुध्यन्नमुमब्रवीत्॥
ब्रह्माणं सर्वभूतेषु परमं ब्रह्मरूपिणम्॥ ४१.६ ॥
सदाशिवं च वंदे तौ भवेतां मंगलाय मे॥
ततस्ते विस्मिता विप्रा अपसृत्य ययुः पुनः॥ ४१.७ ॥
कैलासे ददृशुः स्थाणुं वदंतं गिरिजां प्रति॥
एकादश्यां प्रनृत्यानि जागरे विष्णुसद्मनि॥ ४१.८ ॥
सदा तपस्यां चरामि प्रीत्यर्थं हरिवेधसोः॥
श्रुत्वेति चापसृत्यैव खिन्नास्ते मुनयोऽब्रुवन्॥ ४१.९ ॥
यद्वा देवा न संयांति पारं ये च परस्परम्॥
तत्सृष्टसृष्टसृष्टेषु गणना काऽस्मदादिषु॥ ४१.१० ॥
उत्तमाधममध्यत्वममीषां वर्णयंति ये॥
असत्यवादिनः पापास्ते यांति निरयं ध्रुवम्॥ ४१.११ ॥
एवं ते निश्चियामासुर्नैमिषेया स्तपस्विनः॥
सत्यमेतच्च राजेंद्र ममापीदं मतं स्फुटम्॥ ४१.१२ ॥
जापकानां सहस्राणि वैष्णवानां तथैव च॥
शैवानां च विधिं विष्णुं स्थाणुं चाप्यन्वमूमुचन्॥ ४१.१३ ॥
तस्माद्यस्य मनोरागो यस्मिन्देवे भवेत्स्फुटम्॥
स तं भजेद्विपापः स्यान्ममेदं मतमुत्तमम्॥ ४१.१४ ॥
॥करंधम उवाच॥
कानि पापानि विप्रेंद्र यैस्तु संमूढचेतसः॥
न वेदेषु न धर्मेषु रतिमापद्यते मनः॥ ४१.१५ ॥
॥महाकाल उवाच॥
अधर्मभेदा विज्ञेयाश्चित्तवृत्तिप्रभेदतः॥
स्थूलाः सूक्ष्मा असूक्ष्माश्च कोटिभेदैरनेकशः॥ ४१.१६ ॥
तत्र ये पापनिचयाः स्थूला नरकहेतवः॥
ते समासेन कथ्यंते मनोवाक्कायसाधनाः॥ ४१.१७ ॥ तु. महाभारत अनुशासन १३.२
परस्त्रीद्रव्यसंकल्पश्चेतसानिष्टचिंतनम्॥
अकार्याभिनिवेशश्च चतुर्द्धा कर्म मानसम्॥ ४१.१८ ॥
अनिबद्धप्रलापित्वमसत्यं चाप्रियं च यत्॥
परापवादपैशुन्यं चतुर्धा कर्म वाचिकम्॥ ४१.१९ ॥
अभक्ष्यभक्षणं हिंसा मिथ्या कामस्य सेवनम्॥
परस्वानामुपादानं चतुर्धा कर्म कायिकम्॥ ४१.२० ॥
इत्येतद्द्वादशविधं कर्म प्रोक्तं त्रिसंभवम्॥
अस्य भेदान्पुनर्वक्ष्ये येषां फलमनंतकम्॥ ४१.२१ ॥
ये द्विषंति महादेवं संसारार्णवतारकम्॥
सुमहात्पातकोपेतास्ते यांति नरकाग्निषु॥ ४१.२२ ॥
महांति पातकान्याहुर्निरंतरफलानि षट्॥
नाभिनंदंति ये दृष्ट्वा शंकरं न स्तुवंति ये॥ ४१.२३ ॥
यथेष्टचेष्टा निःशंकाः संतिष्ठंति रमंति च॥
उपचारविनिर्मुक्ताः शिवस्य गुरुसंनिधौ॥ ४१.२४ ॥
शिवाचारं न मन्यंते शिवभक्तान्द्विषंति षट्॥
गुरुमार्त्तमशक्तं वा विदेशप्रस्थितं तथा॥ ४१.२५ ॥
अरिभिः परिभूतं वा यस्त्यजति स पापकृत्॥
तद्भार्यापुत्रमित्रेषु यश्चावज्ञां करोति वा॥ ४१.२६ ॥
इत्येतत्पातकं ज्ञेयं गुरुनिंदासमं महत्॥
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः॥ ४१.२७ ॥
महापातकिनस्त्वेते तत्संसर्गी च पंचमः॥
क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणस्य वदंति ये॥ ४१.२८ ॥
मर्मांतिकं महादोषं ब्रह्मघ्नः स प्रकीर्तितः॥
ब्राह्मणं यः समाहूय याचमानमकिंचनम्॥ ४१.२९ ॥
पश्चान्नास्तीति यो ब्रूयात्स च वै ब्रह्महा स्मृतः॥
यश्च विद्याभिमानेन निस्तेजयति सद्द्विजम्॥ ४१.३० ॥
उदासीनः सभामध्ये ब्रह्महा स प्रकीर्तितः॥
मिथ्यागुणैः स्वमात्मानं नयत्युत्कर्षतां बलात्॥ ४१.३१ ॥
विरुद्धं गुरुभिः सार्धं ब्रह्मघ्नः स प्रकीर्तितः॥
क्षुत्तृष्णातप्तदेहानां द्विजानां भोक्तुमिच्छताम्॥ ४१.३२ ॥
यः समाचरते विघ्नं तमाहुर्ब्रह्मगातकम्॥
पिशुनः सर्वलोकानां छिद्रान्वेषणतत्परः॥ ४१.३३ ॥
उद्वेगजननः क्रूरः स च वै ब्रह्महा स्मृतः॥
गवां तृषाभिभूतानां जलार्थमुपसर्पताम्॥ ४१.३४ ॥
यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम्॥
परदोषं परिज्ञाय नृपकर्णे जपेत यः॥ ४१.३५ ॥
पापीयान्पिशुनः क्रूरस्तमाहुर्ब्रह्मघातकम्॥
न्यायेनोपार्जितं विप्रैस्तद्द्रव्यहरणं च यत्॥ ४१.३६ ॥
छद्मना वा बलाद्वापि ब्रह्महत्यासमं मतम्॥
अधीत्य यश्च शास्त्राणि परित्यजति मूढधीः॥ ४१.३७ ॥
सुरापानसमं ज्ञेयं जीवनायैव वा पठेत्॥
अग्निहोत्रपरित्यागः पंचयज्ञोपकर्मणाम्॥ ४१.३८ ॥
मातृपितृपरित्यागः कूटसाक्षी सुहृद्वधः॥
अभक्ष्यभक्षणं वन्यजंतूनां काम्यया वधः॥ ४१.३९ ॥
ग्रामं वनं गवावासं यश्च क्रोधेन दीपयेत्॥
इति घोराणि पापानि सुरापानसमानि च॥ ४१.४० ॥
दीनसर्वस्वहरणं नरस्त्रीगजवाजिनाम्॥
गोभूरत्नसुवर्णानामौषधीनां रसस्य च॥ ४१.४१ ॥
चंदनागरुकर्पूरकस्तूरीपट्टवाससाम्॥
हस्तन्यासापहरणं स्कमस्तेयसमं स्मृतम्॥ ४१.४२ ॥
कन्यानां वरयोग्यानामदानं सदृशे वरे॥
पुत्रमित्रकलत्रेषु गमनं भगिनीषु च॥ ४१.४३ ॥
कुमारीसाहसं घोरमंत्यजस्त्रीनिषेवणम्॥
सवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम्॥ ४१.४४ ॥
द्विजायार्थं प्रतिश्रुत्य न प्रयच्छति यः पुनः॥
न च चस्मारयते विप्रं तुल्यं तदुपपपातकम्॥ ४१.४५ ॥
अभिमानोतिकोपश्च दांभिकत्वं कृतघ्नता॥
अत्यंतविषयासक्तिः कार्पण्यं शाठ्यमत्सरम्॥ ४१.४६ ॥
भृत्यानां च परित्यागः साधुबंधुतपस्विनाम्॥
गवां क्षत्रियवैश्यानां स्त्रीशूद्राणां च ताडनम्॥ ४१.४७ ॥
शिवाश्रमतरूणां च पुष्पारामविनाशनम्॥
अयाज्यानां याजनं चाप्ययाच्यानां च याचनम्॥ ४१.४८ ॥
यज्ञारामतडागादिदारापत्यस्य विक्रयः॥
तीर्थयात्रोपवासानां व्रतायतनकर्मणाम्॥ ४१.४९ ॥
स्त्रीधनान्युपजीवंति स्त्रीभिरत्यंतनिर्जिताः॥
अरक्षणं च नारीणां मद्यपस्त्रीनिषेवणम्॥ ४१.५० ॥
ऋणानामप्रदानं च मिथ्याघृद्ध्युपजीवनम्॥
निंदितानां धनादानं साद्वीकन्योक्तिदूषणम्॥ ४१.५१ ॥
विषमारणयंत्राणां प्रोयगो मूलकर्मणाम्॥
उच्चाटनाभिचाराश्च रागविद्वेषणक्रिया॥ ४१.५२ ॥
जिह्वाकामोपभो गार्थं यस्यारंभः स्वकर्मसु॥
मूल्येनाध्यापयेद्यस्तु मूल्येनाधीयते च ये॥ ४१.५३ ॥
व्रात्यता व्रतसंत्यागः सर्वाहारनिषेवणम्॥
असच्छास्त्राभिगमनं शुष्कतर्काव लंबनम्॥ ४१.५४ ॥
देवाग्निगुरुसाधूनां निंदा गोब्राह्मणस्य च॥
प्रत्यक्षं वा परोक्षं वा राज्ञां मंडलिनामपि॥ ४१.५५ ॥
उत्सन्नपतृदेवेज्याः स्वकर्मत्यागिनश्च ये॥
दुःशीला नास्तिकाः पापा न सदा सत्यवादिनः॥ ४१.५६ ॥
पर्वकाले दिवा चाप्सु वियोनौ पशुयोनिषु॥
रजस्वलास्वयोनौ च मैथुनं यः समाचरेत्॥ ४१.५७ ॥
स्त्रीपुत्रमित्रसुहृदामाशाच्छेदकराश्च ये॥
जनस्याप्रियवक्तारः क्रूराः समयभेदिनः॥ ४१.५८ ॥
भेत्ता तडागकूपानां संक्रमाणांरसस्य च॥
एकपंक्तिस्थितानां च पाकभेदं करोति यः॥ ४१.५९ ॥
इत्येतैश्च नराः पापैरुपपातकिनः स्मृताः॥
युक्तास्तदुनकैः पापैः पापिनस्तान्निबोध मे॥ ४१.६० ॥
ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम्॥
अन्तरं यांति कार्येषु ते स्मृताः पापिनो नराः॥ ४१.६१ ॥
परश्रियाभितप्यंते हीनां सवंति ये स्त्रियाम्॥
पंक्त्यर्थं ये न कुर्वंति दानयज्ञादिकाः क्रियाः॥ ४१.६२ ॥
गोष्ठाग्निजलरथ्यासु तरुच्छायानगेषु च॥
त्यजंति ये पुरीषाद्यमारामायतनेषु च ॥ ४१.६३ ॥
गीतवाद्यरता नित्या मत्ताः किलकिलापराः॥
कूटवेषक्रियाचाराः कूटसंव्यवहारिणः॥ ४१.६४ ॥
कूटशासनकर्तारः कूटयुद्धकराश्च ये॥
निर्दयोऽतीव भृत्येषु पशूनां दमनश्च यः॥ ४१.६५ ॥
मिथ्याप्रसादितो वाक्यमाकर्णयति यः शनैः॥
चपलश्चापि मायावी शठो मिथ्याविनीतकः॥ ४१.६६ ॥
यो भार्यापुत्रमित्राणि बालवृद्धकृशातुरान्॥
भृत्यानतिथिबंधूंश्च त्यक्त्वाश्नाति बुभुक्षितान्॥ ४१.६७ ॥
यः स्वयं मृष्टमश्नाति विप्रायान्यत्प्रयच्छति॥
वृथापाकः स विज्ञेयो ब्रह्मवादिविगर्हितः॥ ४१.६८ ॥
नियमान्स्वयमादाय ये त्यजंत्यजितेंद्रियाः॥
ये ताडयंति गां नित्यं वाहयंति मुहुर्मुहुः॥ ४१.६९ ॥
दुर्बलान्नैव पुष्णंति प्रणष्टार्था द्विषंति च॥
पीडयन्त्यभिचारेण सक्षतान्वाहयंति च॥ ४१.७० ॥
तेषा मदत्त्वा चाश्रंति चिकित्संति न रोगिणः॥
अजाविको माहिषिकः समुद्री वृषलीपतिः॥ ४१.७१ ॥
हीनवर्णात्मवृत्तिश्च वैद्यो धर्मध्वजी च यः॥
यश्च शास्त्रमतिक्रम्य स्वेच्छयैवाहरेत्करम्॥ ४१.७२ ॥
सदा दण्डरुचिर्यश्च यो वा दण्डरुचिर्न हि॥
उत्कोचकैरधिकृतैस्तस्करैस्च प्रपीड्यते॥ ४१.७३ ॥
यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः॥
अचौरं चौरवत्पश्येच्चौरं वाऽचौररूपिणम्॥ ४१.७४ ॥
आलस्योपहतो राजा व्यसनी नरकं व्रजेत्॥
एवमादीनि चान्यानि पापान्याहुः पुराविदः॥ ४१.७५ ॥
यद्वातद्वा परद्रव्यमपि सर्षपमात्रकम्॥
अपहृत्य नरः पापो नारकी नात्र संशयः॥ ४१.७६ ॥
एवमाद्यैर्नरः पापैरुत्क्रान्तैः समनंतरम्॥
शरीरं यातनार्थाय पूर्वाकारमवाप्नुयात्॥ ४१.७७ ॥
तस्मात्त्रिविधमप्येतन्नारकीयं विवर्जयेत्॥
सदाशिवं च शरणं व्रजेत्सच्छ्रद्धया युतः॥ ४१.७८ ॥
नमस्कारः स्तुतिः पूजा नामसंकीर्तनं तथा॥
संपर्कात्कौतुकाल्लोभान्न तस्य विफलं भवेत्॥ ४१.७९ ॥
॥करंधम उवाच॥
संक्षेपाच्छिवपूजाया विधानं वक्तुमर्हसि॥
कृतेन येन मनुजः शिवपूजाफलं लभेत्॥ ४१.८० ॥
॥महाकाल उवाच॥
प्रातर्मध्याह्नसायाह्ने शंकरं सर्वदा भजेत्॥
दर्शनात्स्पर्शनान्मर्त्यः कृततृत्यो भवेत्स्फुटम्॥ ४१.८१ ॥
आदौ स्नानं प्रकुर्वित भस्मस्नानमथापि वा॥
आपद्गतः कण्ठस्नानं मन्त्रस्नानमथापि वा॥ ४१.८२ ॥
आविकं परिदध्याच्च ततो वासः सितं च वा॥
धातुरक्तमथो नव्यं मलिनं संधितं न च॥ ४१.८३ ॥
उत्तरीयं च संदध्याद्विना तन्निष्फलार्चनम्॥
भस्मत्रिपुण्ड्रधारी च ललाटे हृति चांसयोः॥ ४१.८४ ॥
पूजयेद्यो महादेवं प्रीतः पश्यति तं मुहुः॥
सर्वदोषान्बहिः क्षिप्य शिवायतनमाविशेत्॥ ४१.८५ ॥
प्रविश्य च प्रणम्येशं ततो गर्भगृहं विशेत्॥
पाणी प्रक्षाल्य तच्चित्तो निर्माल्यमवरोपयेत्॥ ४१.८६ ॥
येन रुद्रायते भक्त्या कुरुते मार्जनक्रियाम्॥
तस्मान्मार्जयते त्वेवं स्थाणुनैतत्परस्परम्॥ ४१.८७ ॥
रुद्रभक्त्या च संतिष्ठेनमालिन्यं मार्जयेत्ततः॥
भक्तिर्देवस्य तिष्ठेन्न मालिन्यं मार्जतः सदा॥ ४१.८८ ॥
गडुकान्पूरयेत्पश्चान्निर्मलेन जलेन वै॥
गडुकास्तु समाः सर्वे सर्वे च शुभदर्शनाः॥ ४१.८९ ॥
निर्व्रणाः सौम्यरूपाश्च सर्वे चोदकपूरिताः॥
वस्त्रपूतजलैः पूर्णागन्धधूपैश्च वासिताः॥ ४१.९० ॥
क्षालिताः पूरिता नीताः षडक्षरजपेन च॥
गडुकाष्चशतं कुर्यादथवाप्यष्टविंशतिः॥ ४१.९१ ॥
अष्टादशापि चतुरस्ततोन्यूनं न कारयेत्॥
पयो दधि घृतं चैव क्षौद्रमिक्षुरसं तथा॥ ४१.९२ ॥
एवं सर्वं च तद्द्रव्यं वामतः संन्यसेद्भवात्॥
ततो बहिर्विनिष्क्रम्य पूजयेत्प्रतिहारकान्॥ ४१.९३ ॥
सर्वेषां वाचका मन्त्राः कथ्यंतेऽतः परं क्रमात्॥ ४१.९४ ॥
ॐगं गणपतये नमः॥ ॐक्षां क्षेत्रपालाय नमः॥ ॐगं गुरुभ्यो नमः॥ इति आकाशे॥ ॐकौं कुलदेव्यै नमः॥ ॐ नंदिने नमः॥ ॐमहाकालाय नमः॥ ॐधात्रे विधात्रै नमः॥
ततः प्रविस्य लिंगाच्च किञ्चिद्दक्षिणतः शुचिः॥
उदङ्मुखः क्षणं ध्यायेत्समकायासनस्थितः॥ ४१.९५ ॥
दर्भादिभिः परिवृतं मध्यपद्मार्कमंडलम्॥
सोममण्डलमध्यस्थं ध्यायेद्वै वह्निमंडलम्॥ ४१.९६ ॥
तन्मध्ये विश्वरूपं च वामाद्यष्टादिशक्तिकम्॥
पंचवक्त्रं दशभुजं त्रिनेत्रं चंद्रभूषितम्॥ ४१.९७ ॥
वामांकगिरिजं देवं ध्यायेत्सिद्धैः स्तुतं मुहुः॥
ततः पूर्वं प्रदद्याच्च पाद्यार्घं शंभवे नृप॥ ४१.९८ ॥
पानीयमक्षता दर्भा गंधपूष्पं ससर्पिषम्॥
क्षीरं दधि मधु पुनर्नवांगोऽर्घः प्रकीर्तितः॥ ४१.९९ ॥
ततः श्रद्धार्द्रचित्तस्य स्नानं लिंगस्य चाचरेत्॥
गृहीत्वा गडुकं पूर्वं मलस्नानं समाचरेत्॥ ४१.१०० ॥
अर्द्धेन स्नापयेत्पूर्वं कुर्याच्च मलघर्षणम्॥
सर्वेण स्नापयेत्पश्चात्पूजयेत्स्नापयेत्ततः॥ ४१.१०१ ॥
प्रणम्य च ततो भक्त्या स्नापयेन्मूलमंत्रतः॥
ॐहूं विश्वमूर्तये शिवाय नम॥
इति द्वादशाक्षरो मूलमंत्रः॥ ४१.१०२ ॥
वारिक्षरदधिक्षौद्रघृतेनेक्षुरसेन च॥
स्नापयेन्मूलमन्त्रेण जलधूपार्चनात्पृथक्॥ ४१.१०३ ॥
गडुकैः स्नापयेत्सर्वैः स्नातं गन्धैर्विरूक्षयेत्॥ ४१.१०४ ॥
विरूक्षितं ततः स्नाप्य श्रीखण्डेन विलेपयेत्॥
पूजयेद्विविधैः पुष्पैर्विधिना येन तच्छृणु॥ ४१.१०५ ॥
आग्नेयपादे॥ ॐधर्माय नमः॥ नैर्ऋतके॥ ॐज्ञानाय नमः॥ वायव्ये॥ ॐवैराग्याय नमः॥ ईशानपादे॥ ॐऐश्वर्याय नमः॥ पूर्वपादे॥ ॐअधर्माय नमः॥ दक्षिणे॥ ॐअज्ञानाय नमः॥ पश्चिमे॥ ॐअवैराग्याय नमः॥ उत्तरे ॐअनैश्वर्याय नमः॥ ॐअनन्ताय नमः॥ ॐपद्माय नमः ॐअर्कमण्डला नमः॥ ॐसोममण्डलाय नमः॥ ॐवह्निमण्डला नमः॥ ॐवामाज्येष्ठादिपंचमन्त्रशक्तिभ्यो नमः॥ ॐपरमप्रकृत्यै देव्यै नमः॥ ॐईशानतत्पुरुषाघोरवामदेवसद्योजातपञ्चवक्त्राय रुद्रसाध्यवस्वादित्यविश्वेदेवादिदेवविश्वरूपाय अण्डजस्वेदजोद्भिज्जजरायुजरूपस्थावरजङ्गममूर्तये परमेश्वराय ॐहूं विश्वमूर्तये शिवाय नमस्त्रिशूलधनुःखड्गकपालदण्डकुठारेभ्यः॥ ४१.१०६ ॥
ततो जलाधारमुखे चण्डीश्वराय नमः॥
एवं संपूज्य विधिवत्ततोऽर्घं संनिवेशयेत्॥ ४१.१०७ ॥
पानीयमक्षताः पुष्पमेतैर्युक्तं फलोत्तमैः॥
गृहाणार्घ्यं महादेव पूजासंपूर्तिहेतवे॥ ४१.१०८ ॥
अर्घादनंतरं शक्तः पूजयेद्वसुपूजया॥
धूपं दीपं च नैवेद्यं क्रमात्पश्चान्निवेदयेत्॥ ४१.१०९ ॥
घण्टां च वादयेत्तत्र ततो नीराजनं चरेत्॥
भ्रामयेद्देवदेवस्य शंखवादित्रनिःस्वनैः॥ ४१.११० ॥
नीराजनं च यः पश्ये द्देवदेवस्य शूलिनः॥
स मुच्येत्पातकैः सर्वैः किं पुनर्यः करिष्यति॥ ४१.१११ ॥
नृत्यं गीतं च वाद्यं च अलीकमपि यश्चरेत्॥
तस्य तुष्येदनंतंहि गीतवाद्यफलं यतः॥ ४१.११२ ॥
स्तोत्रैस्ततश्च संस्तूय दण्डवत्प्रणमेद्भुवि॥
क्षमापयेच्च देवेशं सुकृतं कुकृतं क्षम॥ ४१.११३ ॥
य एवं यजते रुद्रमस्मिँल्लिंगे विशेषतः॥
पितरं पितामहं चैव तथैव प्रपितामहम्॥ ४१.११४ ॥
सर्वात्पापात्समुत्तार्य रुद्रलोके वसेच्चिरम्॥
एवं माहेश्वरो भूत्वा सदाचारव्रतस्थितः॥ ४१.११५ ॥
पशुपाशविमोक्षार्थं पूजयेत्तन्मना यदि॥
य एवं यजते रुद्रं तेनैतत्तर्पितं जगत्॥ ४१.११६ ॥
किं त्वेतत्सफलं राजन्नाचारयो न लंघयेत्॥
आचारात्फलते धर्मो ह्याचारात्स्वर्गमश्नुते॥ ४१.११७ ॥
आचाराल्लभते ह्यायुराचारो हंत्यलक्षणम्॥
यज्ञदानतपांसीह पुरुषस्य न भूतये॥ ४१.११८ ॥
भवन्ति यः सदाचारं समुल्लंघ्य प्रवर्तते॥
तस्य किञ्चित्समुद्देशं वक्ष्ये तं श्रृणु पार्थिव॥ ४१.११९ ॥
त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना॥
तत्संसिद्धौ गृहस्थस्य सिद्धिरत्र परत्र च॥ ४१.१२० ॥
ब्राह्मे मुहूर्ते बुध्येन धर्मार्थौ चापि चिन्तयेत्॥
समुत्थाय तथाचम्य दंतधावनपूर्वकम्॥ ४१.१२१ ॥
सन्ध्यामुपासीत बुधः संशांतः प्रयतः शुचिः॥
पूर्वां सन्ध्यां सनक्षत्रां पश्चिमां सदिवाकराम्॥ ४१.१२२ ॥
उपासीत यथान्यायं नैनां जह्यादनापदि॥
वर्जयेदनृतं चासत्प्रलापं परुषं तथा॥ ४१.१२३ ॥
असत्सेवां ह्यसद्वादं ह्यसच्छास्त्रं च पार्थिव॥
आदर्शदर्शनं दंतधावनं केशसाधनम्॥ ४१.१२४ ॥
देवार्चनं च पूर्वाह्णे कार्याण्याहुर्महर्षयः॥
पालाशमासनं चैव पादुके दंतधावनम्॥
वर्जयेदासनं चैव पदा नाकर्षयेद्बुधः॥ ४१.१२५ ॥
जलमग्निं च निनयेद्यगपन्न विचक्षणः॥ ४१.१२६ ॥
पादौ प्रसारयेन्नैव गुरुदेवाग्निसंमुखौ॥
चतुष्पथं चैत्यतरुं देवागारं तथा यतिम्॥ ४१.१२७ ॥
विद्याधिकं गुरुं वृद्धं कुर्यादेतान्प्रदक्षिणान्॥ ४१.१२८ ॥
आहारनीहारविहारयोगाः सुसंवृता धर्मविदानुकार्याः॥
वाग्बुद्धिवीर्याणि तपस्तथैव वार्तायुषी गुप्ततमे च कार्ये॥ ४१.१२९ ॥
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः॥
दक्षिणाभिमुखो रात्रौ ह्येवमायुर्न रिष्यते॥ ४१.१३० ॥
प्रत्यग्निं प्रति सूर्यं च प्रति गां व्रतिनं प्रति॥
प्रति सोमोदकं सन्ध्यां प्रज्ञा नश्यति मेहतः॥ ४१.१३१ ॥
भोजने शयने स्थाने उत्सर्गे मलमूत्रयोः॥
रथ्याचंक्रमणे चार्द्रपञ्चकश्चाचमेत्सदा॥ ४१.१३२ ॥
न नद्यां मेहनं कुर्यान्न श्मशाने नभस्मनि॥
न गोमये न कृष्टे च नैवालूने न शाड्वले॥ ४१.१३३ ॥
उद्धृत्ताभिस्तथाद्भिस्तु शौचं कुर्याद्विचक्षणः॥
अंतर्जलाद्देवकुलाद्वल्मीकान्मूषकस्थलात्॥ ४१.१३४ ॥
अपविद्धापशौचाश्च वर्जयेत्पंच मृत्तिकाः॥
गन्धलेपापहरणं शौचं कुर्यात्तथा बुधः॥ ४१.१३५ ॥
नात्मानं ताडयेन्नैव दद्याद्दुः खेभ्य एव च॥
उभाभ्यामपि पाणिभ्यां कण्डूयेन्नात्मनः शिरः॥ ४१.१३६ ॥
रक्षेद्दारांस्त्यजेदीष्यां तासु निष्कारणं बुधः॥
सूर्यास्तं न विनाकाश्चित्क्रिया नैवाचरेत्तथा॥ ४१.१३७ ॥
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः॥
शिवचित्तोर्जयोद्वित्तं न चातिकृपणो भवेत्॥ ४१.१३८ ॥
नेर्ष्युः स्यान्न कृतघ्नः स्यान्न परद्रोहकर्मधीः॥
न पाणिपादचपलो न नेत्रचपलोऽनृजुः॥ ४१.१३९ ॥
न च वागङ्गचपलो न चाशिष्टस्य गोचरः॥
न शुष्कवादं कुर्वीत शुष्क्रवैरं तथैव च॥ ४१.१४० ॥
उपायैः साधयेदर्थान्दण्डस्त्वगतिका गतिः॥
भिन्नाशनं भिन्नशय्यां वर्जयेद्भिन्नभाजनम्॥ ४१.१४१ ॥
अंतरेण न गच्छेन द्वयोर्ज्वलनलिंगयोः॥
नाग्न्योर्न विप्रयोश्चैव न दंपत्योर्नृपोत्तम॥ ४१.१४२ ॥
न सूर्यव्योमयोर्नैव हरस्य वृषभस्य च॥
एतेषामंतरं कुर्वन्यतः पापमवाप्नुयात्॥ ४१.१४३ ॥
नैकवस्त्रश्च भुंजीत नाग्नौ होममथाचरेत्॥
न चार्चयेद्द्विजान्नैव कुर्याद्देवार्चनं बुधः॥ ४१.१४४ ॥
खंडनं पेषणं मार्ष्टिं जलसंशोधनं तथा॥
रंधनं भोजनं स्वाप उत्थानं गमनं क्षुतम्॥ ४१.१४५ ॥
कार्यारंभं समाप्तिं च वचः प्रोच्य तथा प्रियम्॥
पिबञ्जिघ्रन्स्पृशञ्छृण्वन्विवक्षुर्मैथुनं तथा॥ ४१.१४६ ॥
शुचित्वं च जपं स्थाणुं यः कुर्याद्विंशतिं तथा॥
माहेश्वरः स विज्ञेयः शेषोन्यो नामधारकः॥ ४१.१४७ ॥
स वै रुद्रमयो भूत्वा ततश्चांते शिवं व्रजेत्॥
परस्त्रियं नाभिभाषेत्तथा संभाषयेद्यदि॥ ४१.१४८ ॥
मातः स्वसरथो पुत्रि आर्येति च वदेद्बुधः॥
उचछिष्टो नालभेत्किंचिन्न च सूर्यं विलोकयेत्॥ ४१.१४९ ॥
नेन्दुं न तारकाश्चैव नादयेन्नात्मनः शिरः॥
स्वस्रा दिहित्रा मात्रा वा नैकांतासन माचरेत्॥ ४१.१५० ॥
दुर्जयो हींद्रियग्रामो मुह्यते पंडितोऽपि सन्॥
गुरुमभ्यागतं गेहे स्वयमुत्थाय यत्नतः॥ ४१.१५१ ॥
आसनं कल्पयेत्तस्य कुर्यात्पादाभिवंदनम्॥
नोदक्छिराः स्वपेज्जातु न च प्रत्यक्छिरा बुधः॥ ४१.१५२ ॥
शिरस्यगस्त्यमाधाय तथैव च पुरंदरम्॥
उदक्यादर्शनं स्पर्शं वर्ज्यं संभाषणं तथा॥ ४१.१५३ ॥
नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत्॥
कृत्वा विभवतो देवमनुष्यर्षिसमर्चनाम्॥ ४१.१५४ ॥
पितॄणां च ततः शेषं भोक्तुं माहेश्वरोऽर्हति॥
वाग्यतः शुचिराचांतः प्राङ्मुखोदङ्मुखोऽपि वा॥ ४१.१५५ ॥
अन्तर्जानुश्च तच्चित्तो भुञ्जीतान्नमकुत्सयन्॥
नोपघातं विना दोषान्न तस्योदाहरेद्बुधः॥ ४१.१५६ ॥
नग्नस्नानं न कुर्वीत न शयीत व्रजेत वा॥
दुष्कृतं न गुरोर्ब्रूयात्क्रुद्धं चैनं प्रसादयेत्॥ ४१.१५७ ॥
परिवादं न श्रृमुयादन्येषामपि जल्पताम्॥
सदा चा कर्णयेद्धमास्त्यक्त्वा कृत्यशतान्यपि॥ ४१.१५८ ॥
नित्यं नित्यं हि संमार्ष्टि गेहदर्पणयोरिव॥
शुक्लायां च चतुर्दश्यां नक्तभोजी सदा भवेत्॥ ४१.१५९ ॥
तिस्रो रात्रीर्न शक्तश्चेदेवं माहेश्वरो भवेत्॥
संयावकृशरामांसं नात्मानमुपसाधयेत्॥ ४१.१६० ॥
सायंप्रातश्च भोक्तव्यं कृत्वा ह्यतिथि भोजनम्॥
स्वप्नाध्ययनभोज्यानि संध्ययोश्च विवर्जयेत्॥ ४१.१६१ ॥
भुंजानः संध्ययोर्मोहादसुरावसथो भवेत्॥
स्नातो न धूनयेत्केशान्क्षुते निष्ठीवितेऽध्वनि॥ ४१.१६२ ॥
आलभेद्दक्षिणं कर्णं सर्वभूतानि क्षामयेत्॥
न चापि नीलीवासाः स्यान्न विपर्यस्तवस्त्रधृक्॥ ४१.१६३ ॥
वर्ज्यं च मलिनं वस्त्रं दशाभिश्च विवर्जितम्॥
प्रक्षाल्य मुखहस्तौ च पादौ चाप्युपविश्य च॥ ४१.१६४ ॥
अंतजानुस्त्रिराचामेद्दिर्मुखं परिमार्जयेत्॥
तोयेन स्पर्शयेत्खानि स्वमूर्धानं तथैव च॥ ४१.१६५ ॥
आचम्य पुनराचम्य क्रियाः कुर्वीत सर्वशः॥
क्षुते निष्ठीविते चैव दंतलग्ने तथैव च॥ ४१.१६६ ॥
पतितानां च संभाषे कुर्यादाचमनिक्रियाम्॥
अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता॥ ४१.१६७ ॥
धर्मतो धनमाहार्य यष्टव्यं चापि यत्नतः॥
हीनेभ्योपि न युंजीत त्वंकारं कर्हिचिद्बधः॥
त्वंकारो वा वधो वापि गुरूणामुभयं समम्॥ ४१.१६८ ॥
सत्यं वाच्यं नित्यमैत्रेण भाव्यं कार्यं त्याज्यं नित्यमायासकारि॥
लोकेऽमुष्मिन्यद्दिनं स्यात्तथास्मिन्नात्मा योगे येजनीयो गभीरैः॥ ४१.१६९ ॥
तीर्थस्नानैः सोपवासैर्व्रतैश्च पात्रे दानैर्होमजप्यैश्चयज्ञैः॥
भवार्चनैर्देवपूजाविशेषैरात्मा नित्यं शोधनीयो मलाक्तः॥ ४१.१७० ॥
यत्रापि कुर्वतो नात्मा जुगुप्सामेति पार्थिव॥
तत्कर्तव्यसमसंगेन यन्नगोप्यं महाजने॥ ४१.१७१ ॥
इति ते वै समुद्देशः कीर्तितः किंचिदेव च॥
शेषः स्मृतिपुराणेभ्यस्त्वया श्रोतव्य एव च॥ ४१.१७२ ॥
एवमाचरतो धर्मं महेशस्य गृहे सतः॥
धर्मार्थकामसंप्राप्तौ परत्रेह च शोभनम्॥ ४१.१७३ ॥
एवं नानाविधान्धर्मान्महाकालस्य फाल्गुन॥
वदतो ध्वनिराकाशे सुमहानभ्यजायत॥ ४१.१७४ ॥
यावत्पश्यंति ये तत्र समाजग्मुः श्रृणुष्व तान्॥
ब्रह्मा विष्णुः स्वयं रुद्रो दे वी रुद्रगणास्तथा॥ ४१.१७५ ॥
इंद्रादयस्तथा देवा वसिष्ठाद्या मुनीश्वराः॥
तुंबरुप्रवराश्चापि गंधर्वाप्सरसां गणाः॥ ४१.१७६ ॥
तान्महेशमुखान्सर्वान्महाकालो महामतिः॥
अर्चयामास बहुधा भक्त्युद्रेकातिपूरितः॥ ४१.१७७ ॥
ततो ब्रह्मादिभिर्देवैर्वरे रत्नमयासने॥
उपविष्टोऽभिषिक्तश्च महीसागरसंगमे॥ ४१.१७८ ॥
ततो देव्या समालिंग्य नीत्वोत्संगं स्वकं मुदा॥
पुत्रत्वे कल्पितः पार्थ महाकालो महामतिः॥ ४१.१७९ ॥
उक्तञ्च यावद्ब्रह्माण्डमिदमास्ते शिवव्रत॥
तावत्तिष्ठ शिवस्थाने शिववच्छिवभक्तितः॥ ४१.१८० ॥
देवेन च वरो दत्तस्त्वल्लिंगं योऽर्चयिष्यति॥
जितेन्द्रियः शुचिर्भूत्वा ऊर्ध्वं मल्लोकमेष्यति॥ ४१.१८१ ॥
दर्शनं स्तवनं पूजा प्रणामश्च ततो जपः॥
दानं चात्र कृतं लिंगे ममातितृप्तिकारणम्॥ ४१.१८२ ॥
इत्युक्ते विस्मिता देवाः साधु साध्विति ते जगुः॥
ब्रह्मविष्णुमुखाश्चैव महाकालं प्रतुष्टुवुः॥ ४१.१८३ ॥
ततः सुरैःस्तूयमानो वंद्यमानश्च चारणैः॥
नृत्यद्भिरप्सरोभिश्च कीतैर्गंधर्वजैः शुभैः॥ ४१.१८४ ॥
कोटिकोटिगणैश्चैव स्तुवद्भिः सर्वतो वृतः॥ ४१.१८५ ॥
महाकालो रुद्रभवनं गतो भवपुरस्सरः॥
एवमेतन्महालिंगमुत्पन्नं कुरुनंदन॥ ४१.१८६ ॥
कूपश्चापि सरः पुण्यं महाकालस्य सिद्धिदम्॥
अत्र ये मनुजाः पार्थ लिंगस्याराधने रताः॥ ४१.१८७ ॥
महाकालः समालिंग्य ताञ्छिवाय निवेदयेत्॥
एतदत्यद्भुतं लिंगं त्रिषु लोकेषु विश्रुतम्॥ ४१.१८८ ॥
दृष्टं स्पृष्टं पूजितं च गतास्ते भवसद्म तत् एवमेतानि लिंगानि सप्त जातानि फाल्गुन॥ ४१.१८९ ॥
ये श्रृण्वंति गृणंत्येतत्तेपि धन्या नरोत्तमाः॥ ४१.१९० ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीमहाकालमाहात्म्ये महाकालकरंधमसंवादे शिवपूजनविधिनित्यकर्तव्यधर्मनिरूपणपूर्वकमहाकालशिवलोकप्राप्तिवर्णनंनामैकचत्वारिंशोऽध्यायः॥ ४१ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 42
॥नारद उवाच॥
ततो मया स्थापिते च स्थाने कालांतरेण ह॥
चिंतितं हृदये भूयो द्विजानुग्रहकाम्यया॥ ४२.१ ॥
वासुदेवविहीनं हि तीर्थमेतन्न रोचते॥
असूर्यं हि जगद्यद्वत्स हि भूषण भूषणम्॥ ४२.२ ॥
यत्र नैव हरिः स्वामी तीर्थे गेहेऽथ मानसे॥
शास्त्रे वा तदसत्सर्वं हांसं तीर्थं न वायसम्॥ ४२.३ ॥
तस्मात्प्रसाद्य वरदं तीर्थेऽस्मिन्पुरुषोत्तमम्॥
आनेष्ये कलया साक्षाद्विश्वनुग्रहकाम्यया॥ ४२.४ ॥
इति संचिंत्य कौरव्य ततोऽहं चात्र संस्थितः॥
ज्ञानयोगेन योगींद्रं शतं वर्षाण्यतोषयम्॥ ४२.५ ॥
अष्टाक्षरं जपन्मंत्रं संनिगृह्येंद्रियाणि च॥
वासुदेवमयो भूत्वा सर्वभूतकृपापरः॥ ४२.६ ॥
एवं मयाराध्यमानो गरुडं हरिरास्थितः॥
गणकोटिपरिवृतः प्रत्यक्षः समजायत॥ ४२.७ ॥
तमहं प्रांजलिर्भूत्वा दत्त्वार्घ्यं विधिवद्धरेः॥
प्रत्यवोचं प्रमम्याथ प्रबद्धकरसं पुटः॥ ४२.८ ॥
श्वेतद्वीपे पुरा दृष्टं मया रूपं तव प्रभो॥
अजं सनातनं विष्णो नरनारायणात्मकम्॥ ४२.९ ॥
तद्रूपस्य कलामेकां स्थापयात्र जनार्दन॥
यदि तुष्टोऽसि मे विष्णो तदिदं क्रियतां त्वया॥ ४२.१० ॥
एवं मया प्रार्थितोऽथ प्रोवाच गरुडध्वजः॥
एवमस्तु ब्रह्मपुत्र यत्त्वयाभीप्सितं हृदि ॥ ४२.११ ॥
तत्तथा भविता सर्वमप्यत्रस्थं सदैव हि॥
एवमुक्त्वा गते विष्णौ निवेश्य स्वकलां प्रभो॥ ४२.१२ ॥
मया संस्थापितो विष्णुर्लोकानुग्रहकाम्यया॥
यस्मात्स्वयं श्वेतद्वीपनिवास्यत्र हरिः स्थितः॥ ४२.१३ ॥
वृद्धो विश्वस्य विश्वाख्यो वासुदेवस्ततः स्मृतः॥
कार्तिके शुक्लपक्षे या भवत्ये कादशी शुभा॥ ४२.१४ ॥
स्नानं कृत्वा विधानेन तोयप्रस्रवणादिषु॥
योर्चयेदच्युतं भक्त्या पंचोपचारपूजया॥ ४२.१५ ॥
उपोष्य जागरं कुर्याद्गीतवाद्यं हरेः पुरः॥
कथां वा वैष्णवीं कुर्याद्दंभक्रोधविवर्जितः॥ ४२.१६ ॥
दानं दद्याद्यथाशक्त्या नियतो हृष्टमानसः॥
अनेकभवसंभूतात्कल्मषादखिलादपि॥ ४२.१७ ॥
मुच्यतेऽसौ न संदेहो यद्यपि ब्रह्मघातकः॥
गारुडेन विमानेन वैकुंठं पदमाप्नुयात्॥ ४२.१८ ॥
कुलानां तारयेत्पार्थ शतमेकोत्तरं नरः॥
श्रद्धायुक्तं मुदा युक्तं सोत्साहं सस्पृहं तथा॥ ४२.१९ ॥
अहंकारविहीनं च स्नानं धूपानुपनम्॥
पुष्पनैवेद्यसंयुक्तमर्घदानसमन्वितम्॥ ४२.२० ॥
यामेयामे महाभक्त्या कृतारार्तिकसंयुतम्॥
चामराह्लादसंयुक्तं भेरीनादपुरस्कृतम्॥ ४२.२१ ॥
पुराणश्रुतिसंपन्नं भक्तिनृत्यसमन्वितम्॥
विनिद्रंक्षृत्तृषास्वादस्पृहाहीनं च भारत॥ ४२.२२ ॥
तत्पादसौरभघ्राणसंयुतं विष्णुवल्लभम्॥
सगीतं सार्चनकरं तत्क्षेत्रगमनान्वितम्॥ ४२.२३ ॥
पायुरोधेन संयुक्तं ब्रह्मचर्यसमन्वितम्॥
स्तुतिपाठेन संयुक्तं पादोदकविभूषितम्॥ ४२.२४ ॥
सत्यान्वितं सत्ययोगसंयुतं पुण्यवार्तया॥
पंचविंशतिभिर्युक्तं गुणैर्यो जागरं नरः॥
एकादश्यां प्रकुर्वीत पुनर्न जायते भुवि॥ ४२.२५ ॥
अत्र तीर्थवरे पूर्वमैतरेय इति द्विजः॥
सिद्धिं प्राप्तो महाभागो वासुदेवप्रसादतः॥ ४२.२६ ॥
॥अर्जुन उवाच॥
ऐतरेयः कस्य पुत्रो निवासः क्वास्य वा मुने॥
कथं सिद्धिमागाद्धीमान्वासुदेवप्रसादतः॥ ४२.२७ ॥
॥नारद उवाच॥
अस्मिन्नेव मम स्थाने हारीतस्यान्वयेऽभवत्॥ ४२.२८ ॥
मांडूकिरिति विप्राग्र्यो वेदवेदांगपारगः॥ ४२.२९ ॥
तस्यासी दितरा नाम भार्या साध्वीगुणैर्युता॥
तस्यामुत्पद्यत सुतस्त्वैतरेय इति स्मृतः॥ ४२.३० ॥
स च बाल्यात्प्रभृत्येव प्राग्जन्मन्यनुशिक्षितम्॥
जजापमंत्रं त्वनिशं द्वादशाक्षरसंज्ञितम्॥ ४२.३१ ॥
न श्रृणोति न वक्त्येव मनसापि च किंचन॥
एवंप्रभावः सोऽभूच्च बाल्ये विप्रसुतस्तदा॥ ४२.३२ ॥
ततो मूकोऽयमित्येव नानोपायैः प्रबोधितः॥
पित्रा यदा न कुरुते व्यवहाराय मानसम्॥ ४२.३३ ॥
ततो निश्चित्य मनसा जडोयमिति भारत॥
अन्यां विवाहयामास दारान्पुत्रांस्तथादधे॥ ४२.३४ ॥
पिंगानाम च सा भार्या तस्याः पुत्राश्च जज्ञिरे॥
चत्वारः कर्मकुशला वेदवेदांगवादिनः॥ ४२.३५ ॥
यज्ञेषु शांतिहोमेषु द्विजैः सर्वत्र पूजिताः॥
ऐतरेयोपि नित्यं च त्रिकालं हरिकंदिरे॥ ४२.३६ ॥
जजाप परमं जाप्यं नान्यत्र कुरुते श्रमम्॥
ततो माता निरीक्ष्यैव सपत्नीतनयांस्तथा॥ ४२.३७ ॥
दार्यमाणेन मनसा तनयं वाक्यमब्रवीत्॥
क्लेशायैव च जातोऽसि धिग्मे जन्म च जीवितम्॥ ४२.३८ ॥
नार्यास्तस्या नृलोकेऽत्र वरैवाजननिः स्फुटम्॥
विमानिता या भर्त्रास्यान्न पुत्रः स्याद्गुणैर्युतः॥ ४२.३९ ॥
पिंगेयं कृतपुण्या वै यस्याः पुत्रा महागुणाः॥
वेदवेदांगतत्त्वज्ञाः सर्वत्राभ्यर्चिता गुणैः॥ ४२.४० ॥
तदहं पुत्र दुर्भाग्या महीसागरसंगमे॥
निमज्जीष्ये वरं मृत्युर्जीविते किं फलं मम॥
त्वमप्येवं महामौनी नन्द भक्तो हरेश्चिरम्॥ ४२.४१ ॥
॥नारद उवाच॥
इति मातुर्वचः श्रुत्वा प्रहसन्नैतरेयकः॥ ४२.४२ ॥
ध्यात्वा मुहुर्तं धर्मज्ञो मातरं प्रणतोऽब्रवीत्॥
मातर्मिथ्याभिभूतासि अज्ञाने ज्ञानवत्यसि॥ ४२.४३ ॥
अशोच्ये शोचसि शुभे शोच्ये नैवाऽपि शोचसि॥
देहस्यास्य कृते मिथ्यासंसारे किं विमुह्यसि॥ ४२.४४ ॥
मूर्खाचरितमेतद्धि मन्मातुरुचितं न हि॥
अन्यत्संसारसारं च सारमन्यच्च मोहिताः॥ ४२.४५ ॥
प्रपश्यंति यथा रात्रौ खद्योतं दीपवत्स्थितम्॥
यदिदं मन्यसे सारं श्रृणु तस्याप्यसारताम्॥ ४२.४६ ॥
एवंविधं हि मानुऽयमा गर्भादिति कष्टदम्
अस्थिपट्टतुलास्तम्भे स्नायुबन्धेन यंत्रिते॥ ४२.४७ ॥
रक्तमांसमदालिप्ते विण्मूत्रद्रव्यभाजने॥
केशरोमतृणच्छन्ने सुवर्णत्वक्सुधूतके॥ ४२.४८ ॥
वदनैकमहाद्वारे षड्गवाक्षवितभूषिते॥
ओष्ठद्वयकाटे च तथा दंतार्गलान्विते॥ ४२.४९ ॥
नाडीस्वेदप्रवाहे च कालवक्त्रानलस्थिते॥
एवंविधे गृहे गेही जीवो नामास्ति शोभने॥ ४२.५० ॥
गुणत्रयमयी भार्या प्रकृतिस्तस्य तत्र च॥
बोधाहंकारकामाश्च क्रोधलोभादयोऽपि च ॥ ४२.५१ ॥
अपत्यान्यस्य हा कष्टमेवं मूढः प्रवर्तते॥
तस्य योयो यथा मोहस्तथा तं श्रृणु तत्त्वतः॥ ४२.५२ ॥
स्रोतांसि यस्य सततं प्रस्रवंति गिरेरिव॥
कफमूत्रादिकान्यस्य कृते देहस्य मुह्यति॥ ४२.५३ ॥
सर्वाशुचिनिधानस्य शरीरस्य न विद्यते॥
शुचिरेकप्रदेशोऽपि विण्मूत्रस्य दृतेरिव॥ ४२.५४ ॥
स्पृष्ट्वा स्वदेहस्रोतांसि मृत्तोयैः शोध्यते करः॥
तथाप्यशुचिभांडस्य न विरज्यति किं नरः॥ ४२.५५ ॥
कायः सुगन्धतोयाद्यैर्यत्नेनापि सुसंस्कृतः॥
न जहाति स्वकं भावं श्वपुच्छमिव नामितम्॥ ४२.५६ ॥
स्वदेहाशुचिगंधेन न विरज्यति यो नरः॥
विरागे कारणं तस्य किमन्यदु पदिश्यते॥ ४२.५७ ॥
गन्धलेपापनोदार्थं शौचं देहस्य कीर्तितम्॥
द्वयस्यापगमात्पश्चाद्भावशुद्ध्या विशुध्यति॥ ४२.५८ ॥
गंगातोयेन सर्वेण मृद्भारैः पर्वतोपमैः॥
आ मृत्योराचरञ्छौचं भावदुष्टो न शुध्यति॥ ४२.५९ ॥
तीर्थस्नानैस्तपोभिर्वा दुष्टात्मा नैव शुध्यति॥
स्वेदितः क्षालितस्तीर्थे किं शुद्धिमधिगच्छति॥ ४२.६० ॥
अंतर्भावप्रदुष्टस्य विशतोऽपि हुताशनम्॥
न स्वर्गो नापपर्गश्च देहनिर्दहनं परम्॥ ४२.६१ ॥
भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु॥
अन्यथालिंग्यते कांता भावेन दुहिताऽन्यथा॥ ४२.६२ ॥
अन्यथैव स्तनं पुत्रश्चिंतयत्यन्यथा पतिः॥
चित्तं विशोधयेत्तस्मात्किमन्यैर्बाह्यशोधनैः॥ ४२.६३ ॥
भावतः संविशुद्धात्मा स्वर्गं मोक्षं च विंदति॥
ज्ञानामलांभसा पुंसः सद्वैराग्यमृदा पुनः॥ ४२.६४ ॥
अविद्यारागविण्मूत्रलेपगंधविशोधनम्॥
एवमेतच्छरीरं हि निसर्गादशुचि विदुः॥ ४२.६५ ॥
त्वङ्मात्रसारनिःसारं कदलीसारसंनिभम्॥
ज्ञात्वैवं दोषवद्देहं यः प्राज्ञः शिथिलीभवेत्॥ ४२.६६ ॥
स निष्क्रामति संसारे दृढग्राही स तिष्ठति॥
एवमेतन्महाकष्टं जन्म दुःखं प्रकीर्तितम्॥ ४२.६७ ॥
पुंसामज्ञातदोषेण नानाकर्मवशेन च॥
यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति॥ ४२.६८ ॥
यथा जरायुणा देही दुःखं तिष्ठति वेष्टितः॥
पतितः सागरे यद्वद्दृःखमास्ते समाकुलः॥ ४२.६९ ॥
गर्भोदकेन सिक्तांगस्तथाऽऽस्ते व्याकुलः पुमान्॥
लोहकुम्भे यथान्यस्त पच्यते कश्चिदग्निना॥ ४२.७० ॥
गर्भकुम्भे तथा क्षिप्तः पच्यते जठराग्निना॥
सूचीभिरग्निवर्णाभिर्विभिन्नस्य निरन्तरम्॥ ४२.७१ ॥
यद्दुःखं जायते तस्य तद्गर्भेऽष्टगुणं भवेत्॥
इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम्॥ ४२.७२ ॥
चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः॥
तत्रस्थस्य च सर्वेषां जन्मनां स्मरणं भवेत्॥ ४२.७३ ॥
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः॥
नानायोनिसहस्राणि मया दृष्टान्वनेकधा॥ ४२.७४ ॥
अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च॥
ततः श्रेयः करिष्यामि येन गर्भो न संभवेत्॥ ४२.७५ ॥
अध्येष्यामि हरेर्ज्ञानं संसारविनिवर्तनम्॥
एवं संचिंतयन्नास्ते मोक्षोपायं विचिन्तयन्॥ ४२.७६ ॥
गभात्कोटिगुणं दुःखं जायमानस्य जायते॥
गर्भवासे स्मृतिर्यासीत्सा जातस्य प्रणश्यति॥ ४२.७७ ॥
स्पृष्टमात्रस्य बाह्येन वायुना मूढता भवेत्॥
संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः॥ ४२.७८ ॥
स्मृतिभ्रंशात्ततस्तस्य पूर्वकर्मवशेन च॥
रतिः संजायते तूर्णं जंतोस्तत्रैव जन्मनि॥ ४२.७९ ॥
रक्तो मूढश्च लोकोयमकार्ये संप्रवर्तते॥
तत्रात्मानं न जानाति न परं न च दैवतम्॥ ४२.८० ॥
न श्रृणोति परं श्रेयः सति चक्षुषि नेक्षते॥
समे पथि समैर्गच्छन्स्खलतीव पदेपदे॥ ४२.८१ ॥
सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि॥
संसारे क्लिश्यते तेन रागमोहवशानुगः॥ ४२.८२ ॥
गर्भस्मृतेरभावेन शास्त्रमुक्तं महर्षिभिः॥
तद्दृःखकथनार्थाय स्वर्गमोक्षप्रसाधकम्॥ ४२.८३ ॥
ये शास्त्रज्ञाने सत्यस्मिन्सर्वकर्मार्थसाधके॥
न कुर्वंत्यात्मनः श्रेयस्तदत्र परमद्भुतम्॥ ४२.८४ ॥
अव्यक्तेन्द्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः॥
इच्छन्नपि न शक्नोति वक्तुं कर्तुं च किञ्चन॥ ४२.८५ ॥
दंतोत्थाने महद्दुःखं मौलेन व्याधिना तथा॥
बालरोगैश्च विविधैः पीडा बालग्रहैरपि॥ ४२.८६ ॥
तृड्बुभुक्षापरीतांगः क्वचित्तिष्ठति रारटन्॥
विण्मूत्रभक्षणाद्यं च मोहाद्बालः समाचरेत्॥ ४२.८७ ॥
कौमारे कर्णवेधेन मातापित्रोर्विताडनैः॥
अक्षराध्ययनाद्यैश्च दुःखं स्याद्गुरुशासनात्॥ ४२.८८ ॥
प्रमत्तेंद्रियवृत्तैश्च कामरागप्रपीडनात्॥
रागोद्वृत्तस्य सततं कुतः सौख्यं हि यौवने॥ ४२.८९ ॥
ईर्ष्यया सुमहद्दुःखं मोहाद्रक्तस्य जायते॥
मत्तस्य कुपितस्यैव रागो दोषाय केवलम्॥ ४२.९० ॥
न रात्रौ विंदते निद्रा कामाग्निपरिखेदितः॥
दिवापि हि कुतः सौख्यमर्थोपार्जनचिंतया॥ ४२.९१ ॥
नारीषु त्वनुभूतासु सर्वदोषाश्रयासु च॥
विण्मुत्रोत्सर्गसदृशं सौख्यं मैथुनजं स्मृतम्॥ ४२.९२ ॥
सन्मानमपमानेन वियोगेनेष्टसंगमः॥
यौवनं जरया ग्रस्तं क्व सौख्यमनुपद्रवम्॥ ४२.९३ ॥
वलीपलितकायेन शिथिलीकृतविग्रहः॥
सर्वक्रियास्वशक्तश्च जरयाजर्ज्जरीकृतः॥ ४२.९४ ॥
स्त्रीपुंसोर्यौवनं रूपं यदन्योन्याश्रयं पुरा॥
तदेवं जरया ग्रस्तमुभयोरपि न प्रियम्॥ ४२.९५ ॥
जराभिभूतःपुरुषः पत्नीपुत्रादिबांधवैः॥
अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते॥ ४२.९६ ॥
धर्ममर्थं च कामं च मोक्षं च नातुरो यतः॥
शक्तः साधयितुं तस्माद्युवा धर्मं समाचरेत्॥ ४२.९७ ॥
वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते॥
वातादीनां समूहश्च देहोऽयं परिकीर्तितः॥ ४२.९८ ॥
तस्माद्व्याधिमयं ज्ञेयं शरीरमिदमात्मनः॥
रोगैर्नानाविधैर्यांति देहे दुःखान्यनेकशः॥ ४२.९९ ॥
तानि न स्वात्मवेद्यानि किमन्यत्कथयाम्यहम्॥
एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्ठितम्॥ ४२.१०० ॥
तत्रैकः कालसंयुक्तः शेषास्त्वागंतवः स्मृताः॥
ये त्विहागंतवः प्रोक्तास्ते प्रशाम्यन्ति भेषजैः॥ ४२.१०१ ॥
जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति॥
विविधा व्याधयः शस्ताः सर्पाद्याः प्राणिनस्तथा॥ ४२.१०२ ॥
विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम्॥
पीडितं सर्परोगाद्यैरपि धन्वंतरिः स्वयम्॥ ४२.१०३ ॥
स्वस्थीकर्तुं न शक्नोति कालप्राप्तं हि देहिनम्॥
नैषधं न तपो मंत्रा न मित्राणि न बांधवाः॥ ४२.१०४ ॥
शक्नुवंति परित्रातुं नरं कालेन पीडितम्॥
रसायनतपोजप्यैर्योगसिद्धैर्महात्मभिः॥ ४२.१०५ ॥
कालमृत्युरपि प्राज्ञैर्नीयते नापि संयुतैः॥
नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयम्॥ ४२.१०६ ॥
नास्ति मृत्युसमस्रासः सर्वेषामपि देहिनाम्॥
सद्भार्यापुत्रमित्राणि राज्यैश्वर्यसुखानि च॥ ४२.१०७ ॥
आबद्धानि स्नेहपाशैर्मृत्युः सर्वाणि कृंतति॥
किं न पश्यसि मातस्त्वं सहस्रस्यापि मध्यतः॥ ४२.१०८ ॥
जनाः शतायुषः पंचभवंति न भवन्ति वा॥
अशीतिका विपद्यन्ते केचित्सप्ततिका नराः॥ ४२.१०९ ॥
परमायुः स्थिता षष्टिस्तदप्यस्ति न निष्ठितम्॥
तस्य यावद्भवेदायुर्देहिनः पूर्वकर्म भिः॥ ४२.११० ॥
तस्यार्धमायुषो रात्रिर्हरते मृत्युरूपिणी॥
बालभावेन मोहेन वार्धके जरया तथा॥ ४२.१११ ॥
वर्षाणां विंशतिर्याति धर्मकामार्थवर्जितः॥
आगन्तुकैर्भवैः पुंसां व्याधिशोकैरनेकधा॥ ४२.११२ ॥
ह्रियतेर्द्धं हि तत्रापि यच्छेषं तद्धि जीवितम्॥
जीवितांतेच मरणं महाघोरमवाप्नुयात्॥ ४२.११३ ॥
जायते योनिकोटीषु मृतः कर्मवशात्पुनः॥
देहभेदेन यः पुंसां वियोगः कर्मसंख्यया॥ ४२.११४ ॥
मरणं तद्विनिर्द्दिष्टं न नाशः परमार्थतः॥
महातमःप्रविष्टस्य च्छिद्यमानेषु मर्मसु॥ ४२.११५ ॥
यद्दुःखं मरणं जंतोर्न तस्येहोपमा क्वचित्॥
हा तात मातर्हा कांते क्रंदत्येवं सुदुःखितः॥ ४२.११६ ॥
मण्डूक इव सर्पेण गीर्यते मृत्युना जनः॥
बांधवैः संपरित्यक्तः प्रियैश्च परिवारितः॥ ४२.११७ ॥
निःश्वसन्दीर्घमुष्णं च मुकेन परिशुष्यता॥
चतुरंतेषु खट्वायाः परिवर्तन्मुहुर्मुहुः॥ ४२.११८ ॥
संमूढः क्षिपतेत्यर्थं हस्तपादावितस्ततः॥
खट्वातो वांछते भूमिं भूमेः खट्वां पुनर्महीम्॥ ४२.११९ ॥
विवस्त्रो मुक्तलज्जश्च विष्ठानुलेपितः॥
याचमानश्च सलिलं शुष्ककण्ठोष्ठतालुकः॥ ४२.१२० ॥
चिंतयानः स्ववित्तानि कस्यैतानि मृते मयि॥
पंचावटान्खनमानः कालपाशेन कर्षितः॥ ४२.१२१ ॥
म्रियते पश्यतामेव गले घुर्घुररावकृत्॥
जीवस्तृणजलूकेव देहाद्देहं विशेत्क्रमात्॥ ४२.१२२ ॥
संप्राप्योत्तरमंशेन देहं त्यजति पूर्वकम्॥
मरणात्प्रार्थना दुःखमधिकं हि विवेकिनः॥ ४२.१२३ ॥
क्षणिकं मरणे दुःखमनंतं प्रार्थनाकृतम्॥
ज्ञातं मयैतदधुना मृतो भवति यद्गुरुः॥ ४२.१२४ ॥
न परः प्रार्थयेद्भूयस्तृष्णा लाघवकारणम्॥
आदौ दुःखं तथा मध्ये ह्यन्त्ये दुःखं च दारुणम्॥ ४२.१२५ ॥
निसर्गात्सर्वभूतानामिति दुःखपरंपरा॥
क्षुधा च सर्वरोगाणां व्याधिः श्रेष्ठतमः स्मृतः॥ ४२.१२६ ॥
स चान्नौषधिलेपेन क्षणमात्रं प्रशाम्यति॥
क्षुद्ध्याधेर्वेदना तीव्रा निःशेषबलकृन्तनी॥ ४२.१२७ ॥
तयाभिभूतो म्रियते यथान्यैर्व्याधिभिर्न्नरः॥
राज्ञोऽभिमानमात्रं हि ममैव विद्यते गृहे॥ ४२.१२८ ॥
सर्वमाभरणं भारं सर्वमालेपनं मम॥
सर्वं प्रलापितं गीतं नित्यमुन्मत्तचेष्टितम्॥ ४२.१२९ ॥
इत्येवं राज्यसंभोगैः कुतः सौख्यं विचारतः॥
नृपाणां व्यग्रचित्तानामन्योन्यविजिगीषया॥ ४२.१३० ॥
प्रायेण श्रीमदालेपान्नहुषाद्या महानृपाः॥
स्वर्गं प्राप्यापि पतिताः कः श्रियो विंदते सुखम्॥ ४२.१३१ ॥
उपर्युपरि देवानामन्योन्यातिशये स्थितम्॥
नरैः पुण्यफलं स्वर्गे मूलच्छेदेन भुज्यते॥ ४२.१३२ ॥
न चान्यत्क्रियते कर्म सोऽत्र दोषः सुदारुणः॥
छिन्नमूलतरुर्यद्वदवशः पतते क्षितौ॥ ४२.१३३ ॥
पुण्यमूलक्षये तद्वत्पातयंति दिवौकसः॥
इति स्वर्गेपि देवानां नास्ति सौख्यं विचारतः॥ ४२.१३४ ॥
तथा नारकिणां दुःखं प्रसिद्धं किं च वर्ण्यते॥
स्थावरेष्वपिदुःखानि दावाग्निहिमशोषणम्॥ ४२.१३५ ॥
कुठारैश्ठेदनं तीव्रं वल्कलानां च तक्षणम्॥
पर्णशखाफलानां च पातनं चंडवायुना॥ ४२.१३६ ॥
अपमर्दश्च सततं गजैर्वन्यैश्च देहिभिः॥
तृड्बुभुक्षा च सर्पाणां क्रोधो दुःखं च दारुणम्॥ ४२.१३७ ॥
दुष्टानां घातनं लोके पाशेन च निबन्धनम्॥
एवं सरीसृपाणां च दुःखं मातर्मुहुर्मुहुः॥ ४२.१३८ ॥
अकस्माज्जन्ममरणं कीटादीनां तथाविधम्॥
वर्षाशीतातपैर्दुःखं सुकष्टं मृगपक्षिणाम्॥ ४२.१३९ ॥
क्षुत्तृट्क्लेशेन महता संत्रस्ताश्च सदा मृगाः॥
पशुनागनिकायानां श्रृणु दुःखानि यानि च॥ ४२.१४० ॥
क्षुत्तृट्छीतादिदमनं वधबन्धनताडनम्॥
नासाप्रवेधनं त्रासः प्रतोदांकुशताडनम्॥ ४२.१४१ ॥
वेणुकुन्तादिनिगडमुद्गरांऽकुशताडनम्॥
भारोद्वहनसंक्लेशं शिक्षायुद्धादिपीडनम्॥ ४२.१४२ ॥
आत्मयूथवियोगश्च वने च नयनादिकम्॥
दुर्भिक्षं दुर्भगत्वं च मूर्खत्वं च दरिद्रता॥ ४२.१४३ ॥
अधरोत्तरभावश्च मरणं राष्ट्रविभ्रमः॥
अन्योन्याभिभवाद्दुःखमन्योन्यातिशयात्पुनः॥ ४२.१४४ ॥
अनित्यता प्रभावाणामुच्छ्रयाणां च पातनम्॥
इत्येवमादिभिर्दुःखैर्यस्माद्व्याप्तं चराचरम्॥ ४२.१४५ ॥
निरयादिमनुष्यांतं तस्मात्सर्वं त्यजेद्बुधः॥
स्कन्धात्सकन्धं नयेद्भारं विश्रामं मन्यतेन्यथा॥ ४२.१४६ ॥
तद्वत्सर्वमिदं लोके दुःखं दुःखेन शाम्यति॥
एवमेतज्जगत्सर्वमन्योन्यातिशयोच्छ्रितम्॥ ४२.१४७ ॥
दुःखैराकुलितं ज्ञात्वा निर्वेदं परमाप्नुयात्॥
निर्वेदाच्च विरागः स्याद्विरागाज्ज्ञानसंभवः॥ ४२.१४८ ॥
ज्ञानेन तं परं ज्ञात्वा विष्णुं मुक्तिमवाप्नुयात्॥
नाहमेतादृशे लोके रमेयं जननि क्वचित्॥ ४२.१४९ ॥
राजहंसो यथा शुद्धः काकामेध्यप्रदर्शकः॥
श्रृणु मातर्यत्र संस्थो रमेयं निरुपद्रवः॥ ४२.१५० ॥
अविद्यायनमत्युग्रं नानाकर्मातिशाखिनम्॥
संकल्पदंशमकरं शोकहर्षहिमातपम्॥ ४२.१५१ ॥
मोहांधकारतिमिरं लोभव्यालसरीसृपम्॥
विषयानन्यथाध्वानं कामक्रोधविमोक्षकम्॥ ४२.१५२ ॥
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम्॥
न तत्प्रविश्य शोचंति न प्रदुष्यंति तद्विदः॥ ४२.१५३ ॥
न च बिभ्यति केषांचिन्नास्य बिभ्यति केचन॥ ४२.१५४ ॥
तस्मिन्वने सप्तमहाद्रुमास्तु सप्तैव नद्यश्च फलानि सप्त॥
सप्ताश्रमाः सप्त समाधयश्च दीक्षाश्च सप्तैतदरण्यरूपम्॥ ४२.१५५ ॥
पंचवर्णानि दिव्यानि चतुर्वर्णानि कानिचित्॥
त्रिद्विवर्णैकवर्णानि पुष्पाणि च फलानि च॥ ४२.१५६ ॥
सृजंतः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्॥ ४२.१५७ ॥
सप्त स्त्रियस्तत्र वसंति सत्यस्त्ववाङ्मुख्यो भानुमतो भवंति॥
ऊर्ध्वं रसानाददते प्रजाभ्यः सर्वाश्च तास्तत्त्वतः कोपि वदे॥ ४२.१५८ ॥
सप्तैव गिरयश्चात्र धृतं यैर्भुवनत्रयम्॥
नद्यश्च सरितः सप्त ब्रह्मवारिवहाः सदा॥ ४२.१५९ ॥
तेजश्चाभयदानत्वमद्रोहः कौशलं तथा॥
अचापल्यमथाक्रोधः प्रियवादश्च सप्तमः॥ ४२.१६० ॥
इत्येते गिरयो ज्ञेयास्तस्मिन्विद्यावने स्थिताः॥
दृढनिश्चयस्तथा भासा समता निग्रहो गुणः॥ ४२.१६१ ॥
निर्ममत्वं तपश्चात्र सन्तोषः सप्तमो ह्रदः॥
भगवद्गुणविज्ञानाद्भक्तिः स्यात्प्रथमा नदी॥ ४२.१६२ ॥
पुष्पादिपूजा द्वितीया तृतीया च प्रदक्षिणा॥
चतुर्थी स्तुतिवाग्रूपा पञ्चमी ईश्वरार्पणा॥ ४२.१६३ ॥
षष्ठी ब्रह्मैकता प्रोक्ता सप्तमी सिद्धिरेव च॥
सप्त नद्योऽत्र कथिता ब्रह्मणा परमेष्ठिना॥ ४२.१६४ ॥
ब्रह्मा धर्मो यमश्चाग्निरिंद्रो वरुण एव च॥ ४२.१६५ ॥
धनदश्च ध्रुवादीनां सप्तकानर्चयंत्यमी॥
नदीनां संगमस्तत्र वैकुंठसमुपह्वरे॥ ४२.१६६ ॥
आत्मतृप्ता यतो यांति शांता दांताः परात्परम्॥
केचिद्द्रुमाः स्त्रियः केचित्केचित्तत्त्वविदोऽपरे॥ ४२.१६७ ॥
सरितः केचिदाहुः स्म सप्तैव ज्ञानवित्तमाः॥
अनपेतव्रतकामोऽत्र ब्रह्मचर्यं चरामि च॥ ४२.१६८ ॥
ब्रह्मैव समिधस्तत्र ब्रह्माग्निर्ब्रह्म संस्तरः॥
आपो ब्रह्म गुरुब्रह्म ब्रह्मचर्यमिदं मम॥ ४२.१६९ ॥
एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः॥
गुरुं च श्रृणु मे मातर्यो मे विद्याप्रदोऽभवत्॥ ४२.१७० ॥
एकः शास्ता न द्वितीयोऽस्ति शास्ता हृद्येव तिष्ठन्पुरुषं प्रशास्ति॥
तेनाभियुक्तः प्रणवादिवोदकं यता नियुक्तोस्मि तथाचरामि॥ ४२.१७१ ॥
एको गुरुर्नास्ति तथा द्वितीयो हृदि स्थितस्तमहं नृ ब्रवीमि॥
यं चावमान्यैव गुरुं मुकुन्दं पराभूता दानवाः सर्व एव॥ ४२.१७२ ॥
एको बंधुर्नास्ति ततो द्वितीयो हृदी स्थितं तमहमनुब्रवीमि॥
तेनानुशिष्टा बांधवा बंधुमंतः सप्तर्षयः सप्त दिवि प्रभांति॥ ४२.१७३ ॥
ब्रह्मचर्यं च संसेव्यं गार्हस्थ्य श्रृणु यादृशम्॥
पत्नी प्रकृतिरूपा मे तच्चित्तो नास्मि कर्हिचित्॥ ४२.१७४ ॥
मच्चित्ता सा सदा मातर्मम सर्वार्थसाधनी॥
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पंचमम्॥ ४२.१७५ ॥
मनो बुद्धिश्च सप्तैते दीप्यंते पावका मम॥
गंधो रसश्च रूपं च शब्दः स्पर्शश्च पंचमम्॥ ४२.१७६ ॥
मंतव्यमथ बोद्धव्यं सप्तैताः समिधो मम॥
हुतं नारायणध्यानाद्भुंक्ते नारायणः स्वयम्॥ ४२.१७७ ॥
एवंविधेन यज्ञेन यजाम्यस्मि तमीश्वरम्॥
अकामयानस्य च सर्वकामो भवेदद्विषाणस्य च सर्वदोषः॥ ४२.१७८ ॥
न मे स्वभावेषु भवंति लेपास्तोयस्य बिंदोरिव पुष्करेषु॥
नित्यस्य मे नैव भवंत्यनित्या निरीक्षमाणस्य बहुस्यभावात्॥ ४२.१७९ ॥
न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम्॥ ४२.१८० ॥
एवंविधेन पुत्रेण मा मातर्दुःखिनी भव॥
तत्पदं त्वा च नेष्यामि न यत्क्रतुशतैरपि॥ ४२.१८१ ॥
इति पुत्रवचः श्रुत्वा विस्मिता इतराभवत्॥
चिंतयामास यद्येवं विद्वान्मम सुतो दृढम्॥ ४२.१८२ ॥
लोकेषु ख्यातिमायाति ततो मे स्याद्यशः परम्॥
इत्यादि चिंतयंत्यां च रजन्यां भगवान्हरिः॥ ४२.१८३ ॥
प्रहृष्टस्तस्य तैर्वाक्यैर्विस्मितः प्रादुरास च॥
मूर्तेः स्वयं विनिष्क्रम्य शंखचक्रगदाधराः॥ ४२.१८४ ॥
जगदुद्भासयन्भासा सूर्यकोटिसमप्रभः॥
ततो निष्पत्य धरणीं हृष्टरोमाश्रुद्गदः॥ ४२.१८५ ॥
मूर्ध्नि बद्धांजलिं धीमानैतरेयोऽथ तुष्टुवे॥ ४२.१८६ ॥
नमस्तुभ्यं भगवते वासुदेवाय धीमहि॥
प्रद्युम्नायानिरुद्धाय नमः संकर्षणाय च॥ ४२.१८७ ॥
नमो विज्ञानमात्राय परमानंदमूर्तये॥
आत्मारामाय शांताय निवृत्तद्वैतदृष्टये॥ ४२.१८८ ॥
आत्मानंदानुरुद्धाय सम्यक्तयक्तोर्मये नमः॥
हृषीकेशाय महते नमस्तेऽनंतशक्तये॥ ४२.१८९ ॥
वचस्युपरते प्राप्यो य एको मनसा सह॥
अनामरूपचिन्मात्रः सोऽव्यान्नः सदसत्परः॥ ४२.१९० ॥
यस्मिन्निदं यतश्चेदं तिष्ठत्यपैति जायते॥
मृन्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः॥ ४२.१९१ ॥
यं न स्पृशंति न विदुर्मनोबुद्धींद्रियासवः॥
अंतर्बहिश्च विततं व्योमवत्प्रणतोऽस्म्यहम्॥ ४२.१९२ ॥
देहेंद्रियप्राणमनोधियोऽमी यदंशब्द्धाः प्रचरंति कर्मसु॥
नैवान्यदालोहमिव प्रतप्तं स्थानेषु तद्दृष्टपदेन एते॥ ४२.१९३ ॥
चतुर्भिश्च त्रिभिर्द्वाभ्यामेकधा प्रणमामि तम्॥
पूर्वापरापरयुगे शास्तारं परमीश्वरम्॥ ४२.१९४ ॥
हित्वा गतीर्मोक्षकामा यं भजंति दशात्मकम्॥
तं परं सत्यममलं त्वां वयं पर्युपास्महे॥ ४२.१९५ ॥
ॐनमो भगवते महापुरुषाय महानुभावाय विभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलोत्पलकुड्मलोपलालितचरणारविंदयुगल परमपरमेष्ठिन्नमस्ते॥ ४२.१९६ ॥
तवाग्निरास्यं वसुधांघ्रियुग्मं नभः शिरश्चंद्ररवी च नेत्रे॥
समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते॥ ४२.१९७ ॥
जन्मानि तावंति न संति देव निष्पीड्य सर्वाणि च सर्वकालम्॥
भूतानि यावंति मयात्र भीमे पीतानि संसारमहासमुद्रे॥ ४२.१९८ ॥
संपच्छिलानां हिमवन्महेंद्रकैलासमेर्वादिषु नैव तादृक्॥
देहाननेकाननुगृह्णतो मे प्राप्तास्ति संपन्महती तथेश॥ ४२.१९९ ॥
न संतिते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः॥
भूत्वा मया येषु न जंतवश्च संभक्षितो वा न च भूतसंघैः॥ ४२.२०० ॥
शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणं पतितं भवेषु॥
तावत्प्रमाणं न जलं पयोदा मुंचंति दिव्यैरपि वर्षलक्षैः॥ ४२.२०१ ॥
मन्ये धरित्रीपरमाणुसंख्यामुपैति पित्रोर्गणना न मह्यम्॥
मित्राव्यमित्राण्यनुजीव्यबंधून्संख्यातुमीशोऽस्मिन देवदेव॥ ४२.२०२ ॥
त्वय्यर्पितं नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्द्धरारि॥
कामो वशं क्रधमुखैः सहायैः करोति किं तद्भगवन्करोमि॥ ४२.२०३ ॥
सोऽहं भृशार्तः करुणाकरस्त्वं संसारगर्ते पतितस्य विष्णो॥
महात्मनां संश्रयमभ्युपेतो नैवावसीदत्यपि दुर्गतोऽपि॥ ४२.२०४ ॥
परायणं रोगवतो हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य॥
बालस्य मातापितरौ सुघोरसंसारखिन्नस्य हरे त्वमेव॥ ४२.२०५ ॥
प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार॥
मामुद्धरास्मादुरुदुःखसंघात्संसारगर्तात्स्वपरिग्रहेण॥ ४२.२०६ ॥
क्षृत्तृट्त्रिधातुभिरिमं मुहुरर्द्यमानं शीतोष्ण वातसलिलैरितरेतराच्च॥
कामाग्निनाच्युत रुषा च सुदुर्भरेण संपश्यतो मम उरुक्रम सीदतो हि॥ ४२.२०७ ॥
भवंतु भद्राणि समस्तदोषाः प्रयांतु नाशं जगतोऽखिलस्य॥
मयाद्य भक्त्या परमेश्वरे प्रभौ स्तुते जगद्धातरि वासुदेवे॥ ४२.२०८ ॥
ये भूतले ये दिवि चांतरिक्षे रसातले प्राणिगणाश्च केचित्॥
भवंतु ते सिद्धियुजो मयाद्य स्तुते जगद्धातरि वासुदेवे॥ ४२.२०९ ॥
अज्ञानिनो ज्ञानविदो भवंतु प्रशान्तिभाजः सततोग्रचित्ताः॥
मया च विश्वंभरणे ह्यनंते स्तुते जगद्धातरि वासुदेवे॥ ४२.२१० ॥
श्रृण्वंति ये मे स्तुवतस्तथान्ये पश्यंति ये मामिदमीरयंतम्॥
देवासुराद्या मनुजास्तिरश्चो भवंतु तेऽप्यच्युतयोगभाजः॥ ४२.२११ ॥
ये चापि मूका विकलेंद्रियत्वात्पठंति नो नैव विलोकयंति॥
पश्वादयः कीटपिपीलिकाद्या भवंतु तेऽप्यच्युतयोगभाजः॥ ४२.२१२ ॥
नश्यंतु दुःखानि जगत्यपेतु लोभादिको दोषगणः प्रजाभ्यः॥
यथात्मनि भ्रातरि चात्मजे वा तथा नरस्यास्तु जनेपि भावः॥ ४२.२१३ ॥
संसारवैद्यैऽखिलदोषहानिविचक्षणे निर्वृतिहेतुभूते॥
संसारबंधाः शिथिलीभवंतु हृदि स्थिते सर्वजनस्य विष्णौ॥ ४२.२१४ ॥
पापं प्रणाशं मम च प्रयातु यन्मानसं यच्च करोमि वाचा॥
शरीरमप्याचरितं च यन्मे स्मृते जगद्धातरि वासुदेवे॥ ४२.२१५ ॥
यथा हि वा वासुदेवेति प्रोक्ते संकीर्त्तने विष्णुभक्तस्य वापि॥
स्मृते हरौ वापि प्रयाति पापं सत्येन मे नश्यतां तेन पापम्॥ ४२.२१६ ॥
मूढोऽयमल्पमतिरल्पविचेष्टितोऽयं क्लिष्टं मनोऽपि विषयैर्मयि न प्रसंगि॥
इत्थं कृपां कुरु मयि प्रणतेऽखिलेश त्वां स्तोतुमंबुजभवोऽपि हि देव नेशः॥ ४२.२१७॥
स त्वं प्रसीद भगवन्कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः किल त्वम्॥
संसारसागरनिमग्नमनंत दीनमुद्धर्तुमर्हसि हरे पुरुषोत्तमोसि॥ ४२.२१८ ॥
इत्थं स्तुतः स भगवानैतरेयेण भारत॥
वासुदेवो विशालात्मा सानंदमिदमाह तम्॥ ४२.२१९ ॥
वत्सैतरेय तुष्टोस्मि भक्त्यानेन स्तवेन ते॥
वरं वृणुष्व मत्तस्त्वं दुर्लभं यदभीप्सितम्॥ ४२.२२० ॥
॥ऐतरेय उवाच॥
एष एव वरो नाथमम नित्यमभीप्सितः॥
मज्जतो घोरसंसारे कर्णधारो हरे भव॥ ४२.२२१ ॥
॥श्रीभगवानुवाच॥
मुक्त एवासि संसाराद्यस्य ते भक्तिरीदृशी॥
ग्रहैर्महाग्रहैर्बद्धो नैव ते द्वित्रयोदशी॥ ४२.२२२ ॥
यश्च स्तोत्रेण सततं गुप्तक्षेत्रसमीहितम्॥
स्तोष्यते वासुदेवं मां स पापक्षयमाप्स्यति॥ ४२.२२३ ॥
यस्मादेतेन स्तोत्रेण पापं नाशमवाप्स्यति॥
अघनाशनमित्येव तस्मात्ख्यातिमवाप्स्यति॥ ४२.२२४ ॥
एकादश्यामुपोष्यैव ममाग्रे यः पठिष्यति॥
स्तवमेनं स पूतात्मा मम लोकमवाप्स्यति॥ ४२.२२५ ॥
सर्वेषामेव क्षेत्राणां गुप्तक्षेत्रं प्रियं यथा॥
तथा सर्वस्तवानां च स्तवोयं सुप्रियोमम॥ ४२.२२६ ॥
यानि चोद्दिश्य भूतानि जप्यतेऽसौ महात्मभिः॥
तानि शांतिं भगं प्रज्ञां प्राप्स्यंति कृपया मम॥ ४२.२२७ ॥
त्वं च वत्स श्रौतधर्मान्सम्यगाचर श्रद्धया॥
न तैर्बंधं मयि न्यस्तैराप्स्यस्यनभिसंधितैः॥ ४२.२२८ ॥
यज यज्ञैरवाप्यैव दारान्नन्दय मातरम्॥
मयि ध्यानेन तीव्रेण मामवाप्स्यस्यसंशयम्॥ ४२.२२९ ॥
बुद्धिर्मनोथ भूतानि बुद्धिकर्मेन्द्रियाणि च॥
त्रयोदशग्रहैर्ये स्युस्त्रयोदश महाग्रहाः॥ ४२.२३० ॥
बोद्धव्यमथ मंतव्यमहंता शब्द एव च॥
स्पर्शो रसो रूपगन्धौ वचनादानमेव च॥ ४२.२३१ ॥
विहृत्युत्सर्ग आनंदस्त्रयोदश महाग्रहाः॥
एतान्महाग्रहन्पुत्र शुद्धाञ्छुद्धैः स्वकैर्ग्रहैः॥ ४२.२३२ ॥
गृहाण ध्यानयोगेन ममैवं मोक्षमाप्स्यसि॥
एवं त्वं कर्मभिर्वीर नैष्कर्म्यं समवाप्स्यसि॥ ४२.२३३ ॥
शुल्बंरसेन संविद्धं दक्षो हेम यथाश्नुते॥
वर्णाश्रमाचारवता मयि संन्यस्तकर्मणा॥ ४२.२३४ ॥
मदनुध्यानयुक्तेन मोक्षो नास्तीह दुर्लभः॥
तस्मादेवं वर्तमानो नन्द व्रतपरायणः॥ ४२.२३५ ॥
उद्धृत्य सप्तपुरुषाल्लँयं मयि गमिष्यसि॥
सांप्रतं प्रतिभास्यंति वेदश्चापठिता अपि॥ ४२.२३६ ॥
ततस्त्वं कोटितीर्थे च यज्ञे वै हरिमेधसः॥
याहि तत्र भविष्यं ते सर्वं मातुरभीप्सितम्॥ ४२.२३७ ॥
इत्युक्त्वा भगवान्विष्णुर्मूर्तिमध्ये विवेश ह॥
विलोक्य मानो निमिषं मात्रा चैव सुतेन च॥ ४२.२३८ ॥
ततो मूर्ति नमस्कृत्य वासुदेवस्य विस्मितः॥
ऐतरेयः स्वजननीं मुदितो वाक्यमब्रवीत्॥ ४२.२३९ ॥
पुराहमभवं शूद्रो भीतः संसारदोषतः॥
परिनिष्ठागतं धर्मं ब्राह्मणं शरणं गतः॥ ४२.२४० ॥
स कृपालुर्मम प्राह मन्त्रं वै द्वादशाक्षरम्॥
सदेमं जपचेत्युक्त्वा तमहं जप्तवान्सदा॥ ४२.२४१ ॥
तेन जाप्यप्रभावेन ममोत्पत्तिस्तवोदरात्॥
जातस्मृतिर्विष्णुभक्तिः स्थितिरत्र च सर्वदा॥ ४२.२४२ ॥
इदानीं च प्रयाम्येष यज्ञं तं हरिमेधसः॥
त्वद्रूपं विष्णुप्रीत्यर्थं प्रणम्य त्वां प्रसादये॥ ४२.२४३ ॥
ततो महीनगरकाख्ये कोटितीर्थतलस्थितम्॥
यजन्तं संवृतं विप्रैः कोटिशस्तमुपागमत्॥ ४२.२४४ ॥
गेहाय मातरं प्रोच्य स यज्ञे प्रोक्तवान्द्विजः॥
नमस्तस्मै भगवते विष्णवेऽकुण्ठमेधसे॥ ४२.२४५ ॥
यन्मायामोहितधियो भ्रमामः कर्मसागरे॥
इति श्लोकं महार्थं ते हरिमेधमुखा द्विजाः॥ ४२.२४६ ॥
आकर्ण्यासनपूजाद्यैः पूजयामासुरंग तम्॥
ततो वेदार्थनैपुण्यैस्तेन ते तोषिता द्विजाः॥ ४२.२४७ ॥
प्रददुर्दक्षिणां सर्वां हरिमेधाः सुतामपि॥
द्रव्यं कन्यां च संगृह्य स्वगृहं समुपागमत्॥ ४२.२४८ ॥
वन्दयित्वा स्वजननीं पुत्रानुत्पाद्य चामलान्॥
इष्ट्वा यज्ञैरैतरेयो द्वादशीव्रततत्परः॥ ४२.२४९ ॥
वासुदेवानुध्यानेन मोक्षं पश्चादुपागतः॥
एवंविधो वासुदेवः स्वयमत्रास्ति भारत॥ ४२.२५० ॥
योर्ययेत्पूजयेत्स्तौति सर्वं तस्याक्षयं विदुः॥
शिवधर्मेषु यत्प्रोक्तं फलं पूर्वं मया तव॥ ४२.२५१ ॥
तादृशं लभते मर्त्यो वासुदेवप्रसादतः॥ ४२.२५२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीवृद्धवासुदेवमाहात्म्यवर्णन ऐतरेयब्राह्मणचरित्रवर्णनंनाम द्विचत्वारिंशोऽध्यायः॥ ४२ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 43
॥श्रीनारद उवाच॥
ततोऽहं पार्थ भूयोऽपि जनानुग्रहकाम्यया॥
प्रत्यक्षदेवं मार्तंडमत्रानेतुमियेष ह॥ ४३.१ ॥
सर्वेषां प्राणिनां यस्मादुडुपो भगवान्रविः॥
इहामुत्र च कौंतेय विश्वद्धारी रविर्मतः॥ ४३.२ ॥
ये स्मरंति रविं भक्त्या कीर्तयंति च ये नराः॥
पूजयंति च ये नित्यं कृतार्थास्ते न संशयः॥ ४३.३ ॥
सूर्यभक्तिपरा ये च नित्यं तद्गतमानसाः॥
ये स्मरंति सदा सूर्यं न ते दुःखस्य भाजिनः॥ ४३.४ ॥
भवनानि मनोज्ञानि विविधाभरणाः स्त्रियः॥
धनं चादृष्टपर्यंतं सूर्यपूजाविधेः फलम्॥ ४३.५ ॥
दुर्लभा भक्तिः सूर्ये वा दुर्लभं तस्य चार्चनम्॥
दानं च दुर्लभं तस्मै ततो होमश्च दुर्लभः॥ ४३.६ ॥
नमस्कारादिसंयुक्तं रविरित्यक्षरद्वयम्॥
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम्॥ ४३.७ ॥
इत्यहं हृदि संचिंत्य माहात्म्यं रविजं महत्॥
पूर्णं वर्षशतं पार्थ रविं भक्त्या ह्यतोषयम्॥ ४३.८ ॥
जपेन सुविशुद्धेन च्छन्दसां वायुभोजनः॥
ततः खाद्द्वितीयां मूर्तिं कृत्वा योगबलाद्विभुः॥ ४३.९ ॥
तेजसा दुर्दृशो भास्वान्प्रत्यक्षः समजायत॥ ४३.१० ॥
तमहं प्रांजलिर्भूत्वा नमस्कृत्य रविं प्रभुम्॥
सामभिर्विविधैर्देवं पर्यतोषयमीश्वरम्॥ ४३.११ ॥
तुष्टो मामाह वरदो देवर्षे सुचिरं त्वया॥
तपसाराधितोऽस्मीति वरं वृणु यथेप्सितम्॥ ४३.१२ ॥
इत्युक्तोऽहं लोकनाथं प्रांजलिः प्रास्तुवं वचः॥
यदि तुष्टो भवान्मह्यं यदि देयो वरो मम॥ ४३.१३ ॥
ततस्ते कामरूपे या कला नाथ प्रवर्तते॥
राजवर्धनराज्ञा याऽऽराधिता च जनैः पुरा॥ ४३.१४ ॥
तया च कलया भानो सदात्र स्थातुमर्हसि॥
ततस्तथेति देवेन प्रोक्ते तुष्टेन भारत॥ ४३.१५ ॥
अस्थापयमहं सूर्यं भट्टादित्याभिधानकम्॥
भट्टेनस्थापितं यस्मान्मया तस्माद्रविर्जगौ॥ ४३.१६ ॥
ततः संपूज्य तं पुष्पैः कृतावेशमहं रविम्॥
भक्त्युद्रेकाप्लुतांगोऽथ स्तुतिमेतामथाचरम्॥ ४३.१७ ॥
सर्ववेदरहस्यैश्च नामभिश्च शताष्टभिः॥
सप्तसप्तिरचिंत्यात्मा महाकारुणिकोत्तमः॥ ४३.१८ ॥
संजीवनो जयो जीवो जीवनाथो जगत्पतिः॥
कालाश्रयः कालकर्ता महायोगी महामतिः॥ ४३.१९ ॥
भूतांतकरणो देवः कमलानन्दनन्दनः॥
सहस्रपाच्च वरदो दिव्यकुण्डलमण्डितः॥ ४३.२० ॥
धर्मप्रियोचितात्मा च सविता वायुवाहनः॥
आदित्योऽक्रोधनः सूर्यो रश्मिमाली विभावसुः॥ ४३.२१ ॥
दिनकृद्दिनहृन्मौनी सुरथो रथिनांवरः॥
राज्ञीपतिः स्वर्णरेताः पूषा त्वष्टा दिवाकरः॥ ४३.२२ ॥
आकाशतिलको धाता संविभागी मनोहरः॥
प्रज्ञः प्रजापतिर्धन्यो विष्णुः श्रीशो भिषग्वरः॥ ४३.२३ ॥
आलोककृल्लोकनाथो लोकपालनमस्कृतः॥
विदिताशयश्च सुनयो महात्मा भक्तवत्सलः॥ ४३.२४ ॥
कीर्तिकीर्तिकरो नित्यो रोचिष्णुः कल्मषापहः॥
जितानन्दो महावीर्यो हंसः संहारकारकः॥ ४३.२५ ॥
कृतकृत्यः सुसंगश्च बहुज्ञो वचसां पतिः॥
विश्वपूज्यो मृत्युहारि घृणी धर्मस्य कारणम्॥ ४३.२६ ॥
प्रणतार्तिहरोऽरोग आयुष्यमान्सुखदः सुखी॥
मङ्गलं पुण्डरीकाक्षो व्रती व्रतफलप्रदः॥ ४३.२७ ॥
शुचिः पूर्णो मोक्षमार्गदाता भोक्ता महेश्वरः॥
धन्वंतरिः प्रियाभाषी धनुर्वेदविदेकराट॥ ४३.२८ ॥
जगत्पिता धूमकेतुर्विधूतो ध्वांतहा गुरुः॥
गोपतिश्च कृतातिथ्यः शुभाचारः शुचिप्रियः॥ ४३.२९ ॥
सामप्रियो लोकबन्धुर्नैकरूपो युगादिकृत्॥
धर्मसेतुर्लोकसाक्षी खेटतऋ सर्वदः प्रभुः॥ ४३.३० ॥
मयैवं संस्तुतो भानुर्नाम्नामष्टशतेन च॥
तुष्यतां सर्वलोकानां सर्वलोकप्रियो विभुः॥ ४३.३१ ॥
इत्येवं संस्तवात्प्रीतो भास्करो मामवोचत॥
सदात्र कलया स्थास्ये देवर्षे त्वत्प्रियेप्सया॥ ४३.३२ ॥
यो मामत्र महाभक्त्या भट्टादित्यं प्रपूजयेत्॥
सहस्रशः का मरूपे संपूज्याप्नोति तत्फलम्॥ ४३.३३ ॥
मामुद्दिश्य च यो विप्रः स्वल्पं वा यदि वा बहु॥
दास्यतेऽत्राक्षयं तच्च ग्रहीष्ये करजं यथा॥ ४३.३४ ॥
रक्तोत्पलैश्च कह्लारैः केसरैः करवीरकैः॥
शतत्रयैर्महाप्दमै रविवारेण मानवः॥ ४३.३५ ॥
सप्तम्यामथ षष्ठ्यां वा येऽर्चयिष्यंति मामिह॥
यान्यान्प्रार्थयते कामांस्तांतान्प्राप्स्यति निश्चितम्॥ ४३.३६ ॥
दर्शनान्मम भक्त्या च नाशो व्याधिदरिद्रयोः॥
प्रणामात्स्वर्गमाप्नोति श्रुत्वा मोक्षं च नित्यशः॥ ४३.३७ ॥
अभक्तिं यश्च कर्ता मे स गच्छेन्निश्चिंतं क्षयम्॥
अष्टोत्तरशतं नाम ममाग्रे यत्त्वयेरितम्॥ ४३.३८ ॥
त्रिकालमेककालं वा पठतः श्रृणुयत्फलम्॥
कीर्तिमान्सुभगो विद्वान्सुसुखी प्रियदर्शनः॥ ४३.३९ ॥
भवेद्वर्षशतायुश्च सर्वरोगविवर्जितः॥
यस्त्विदं श्रृणुयान्नित्यं पठेद्वा प्रयतः शुचिः॥ ४३.४० ॥
अक्षयं स्वल्पमप्यन्नं भवेत्तस्योपसाधितम्॥
विजयी च भवेन्नित्यं तथा जातिस्मरो भवेत्॥ ४३.४१ ॥
तस्मादेतत्त्वया जाप्यं परं स्वस्त्ययनं महत्॥
तथा ममाग्रे कुंडं च कुरु स्नानार्थमुत्तमम्॥ ४३.४२ ॥
कामरूपकला यत्र तत्र कुंडं वने भवेत्॥
एवं दत्त्वा वरान्भानुस्तत्रैवां तरधीयत॥ ४३.४३ ॥
ततो भास्करवाक्येन सिद्धेशस्य च सव्यतः॥
वनमध्ये मया कुंडं कृतं दर्भशलाकया॥ ४३.४४ ॥
कामरूपभवं कुंडं वृक्षास्ते चापि भारत॥
संलीनास्तन्महाश्चर्यं ममाजायत चेतसि॥ ४३.४५ ॥
माघमासस्य शुक्लायां सप्तम्यां स्त्री नरोऽपि वा॥
स्नानं कुंडे शुभं कृत्वा भट्टादित्यं प्रपश्यति॥ ४३.४६ ॥
तस्यानंतं भवेत्पुण्यं रथं यश्च प्रपूजयेत्॥
रथयात्रां च कुरुते यस्मिन्यस्मिन्नसौ पथि॥ ४३.४७ ॥
ये च पश्यंति लोकास्ते धन्याः सर्वे न संशयः॥
पुत्रधान्यधनैर्युक्ता नीरुजस्तेजसाऽन्विताः॥ ४३.४८ ॥
भविष्यंति नरास्ते ये कारयंति रथोत्सवम्॥
गंगादिसर्वतीर्थेषु यत्फलं कीर्तितं बुधैः॥ ४३.४९ ॥
भट्टादित्यस्य कुंडे च तत्फलं सप्तमीदिने॥
तत्र कुंडे च यः स्नात्वा सूर्यार्घ्यं प्रयच्छति॥
कपिला गोशतस्यासौ दत्तस्य फलमश्नुते॥ ४३.५० ॥
॥अर्जुर उवाच॥
वासुदेवादयः सर्वे वदंत्येवं महामुने॥ ४३.५१ ॥
भास्करार्घं विना पातः कृतं सर्वं च निष्फलम्॥
तस्याहं श्रोतुमिच्छामि विधिं विधिविदां वर॥ ४३.५२ ॥
॥नारद उवाच॥
यथा ब्रह्मादयो देवा यच्छंत्यर्घं महात्मने॥
भास्कराय श्रृणु त्वं तं विधिं सर्वाघनाशनम्॥ ४३.५३ ॥
प्रथमं तावत्प्रत्युषे उदिते सूर्ये शुचिर्भूत्वा गोमयकृतमंडलस्योपरि रक्तचंदनेन मंडलकं कृत्वा ततस्ताम्रपात्रे रक्तचंदनोदकश्वेतचंदनादिद्रव्यैः प्रपूरणं कृत्वा तन्मध्ये हेमाक्षतदूर्वादधिसर्पीषि परिक्षिप्य स्थापयेत्॥ ४३.५४ ॥
स्वशरीरमालभेत् अनेन मंत्रेण॥
ॐखखोल्काय नमः॥
सप्तवारानुच्चार्य स्थातव्यम्॥
तेन शुद्धिरुपसंजायते देहस्यार्चार्हता भवति॥
पश्चादासनस्थं देवं सवितारं मंडलमध्ये द्वादशात्मकं सुरादिभिः संपूज्यमानं ध्यात्वा पूर्वोक्तमर्घपात्रं शिरसि कृत्वा भूमौ जानुनी निपात्य सूर्याभिमुखस्तद्गतमनाभूत्वार्घमंत्रमुदाहरेत्॥
तदुच्यते सूर्यवक्त्राद्विनिर्गतमिति॥ ४३.५५ ॥
यस्योच्चारणशब्देन रथं संस्थाप्य भास्करः॥
प्रतिगृह्णाति चैवार्घ्यं वरमिष्टं च यच्छति॥ ४३.५६ ॥
ॐयस्याहुः सप्त च्छंदांसि रथे तिष्ठंति वाजिनः॥
अरुणः सारथिर्यस्य रथवाहोऽग्रतः स्थितः॥ ४३.५७ ॥
जया च विजया चैव जयंती पापनाशनी॥
इडा च पिंगला चैव वहंतोऽश्वमुखास्तथा॥ ४३.५८ ॥
डिंडिश्च शेषनागश्च गणाध्यक्षस्तथैव च॥
स्कंदरेवंततार्क्ष्याश्च तथा कल्माषपक्षिणौ॥ ४३.५९ ॥
राज्ञी च निक्षुभा देवी ललिता चैव संज्ञिका॥
तथा यज्ञभुजो देवा ये चान्ये परिकीर्तिताः॥ ४३.६० ॥
एभिः परिवृतो योऽसावधरोत्तरवासिभिः॥
तमहं लोककर्तारमाह्वयामि तमोपहम्॥ ४३.६१ ॥
अम्मयो भगवान्भानुरमुं यज्ञं प्रवर्तयन्॥
इदमर्घ्यं च पाद्यं च प्रगृहाण नमोनमः॥ ४३.६२ ॥
॥आवाहनम्॥
सहस्रकिरण वरद जीवनरूप ते नमः॥
इति सांनिध्यकरणम्॥
ॐवषट् इत्युच्चार्य सूर्यस्य चरणयुगलं पश्यन् भुवि पद्म्यां पात्रीं निर्वापयेत् पाद्यं तदुच्यते॥
एवं पाद्यं दत्त्वा बद्धांजलिः सुस्वागतमिति कुर्यात्॥
स्वागतं भगवन्नेहि मम प्रसादं विधाय आस्यताम्॥
इह गृहाण पूजां च प्रसादं च धिया कुरु॥
तिष्ठ त्वं तावदत्रैव यावत्पूजां करोम्यहम्॥ ४३.६३ ॥
एवं विज्ञापनं दद्यादनेन मंत्रेण कमलासनम्॥
तत्कमलासनं कमलनंदन उपाविशति॥
आसन उपविष्टस्य शेषां पूजां नियोजयेत् अनेन विधानेन॥
ॐसोममूर्तिक्षीरोदपतये नमः॥
इति क्षीरादिस्नपनम्॥
ॐभास्कराय नीरव सिने नमः॥
॥इति जलस्नानम्॥
ततो वासोयुगं शुभ्रं दद्यात् अनेन मंत्रेण॥
इदं वासोयुगं सूर्य गृहाण कृपया मम॥
कटिभूषणमेकं ते द्वितीयं चांगप्रावरणम्॥ ४३.६४ ॥
ततो यज्ञोपवीतं दद्यात् अनेन मंत्रेण॥
सूत्रतंतुमयं शुद्धं पवित्रमिदमुत्तमम्॥
यज्ञोपवीतं देवेश प्रगृहाण नमोऽस्तु ते॥ ४३.६५ ॥
ततो यथाशक्ति श्वेतमुकुटमुद्रिकादिभूषणानि दद्यात् अनेन मंत्रेण॥
मुकुटो रत्ननद्धोऽयं मुद्रिकां भूषणानि च॥
अलंकारं गृहणेमं मया भक्त्या समर्पितम्॥ ४३.६६ ॥
एवमलंकारं निवेद्य पश्चात्केशरकुंकुमकर्पूररक्तचंदनमिश्रमनुलेपनं दद्यात्॥ ४३.६७ ॥
ॐतवातिप्रिय वृक्षाणां रसोऽयं तिग्मदीधिते॥
स तवैवोचितः स्वामिन्गृहाण कृपया मम॥ ४३.६८ ॥
ततश्चंपकजपाकरवीरकर्णककेसरकोकनदादिभिः पूजां कुर्यात्॥ ४३.६९ ॥
ॐवनस्पतिरसो दिव्यो गंधाढ्यो गंध उत्तमः॥
आहारः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥ ४३.७० ॥
॥शल्लकीधूपमंत्रः॥
ततः पायसादिनिष्पन्नं नैवेद्यं निवेदयेदनेन मंत्रेण॥
नैवेद्यममृतं सर्वभूतानां प्राणवर्धनम्॥
पूर्णपात्रे मया दत्तं प्रतिगृह्ण प्रसीद मे॥ ४३.७१ ॥
ततः शौचोदकतांबूलदीपारार्तिकशीतलिकापुनः पूजादि निवेद्य यथाशक्त्या स्तुत्वा सुकृतं दुष्कृतं वा क्षमस्वेति प्रोच्य विसर्जयेत्॥
ततो भूयो नमस्य हेमवस्त्रोपवीतालंकारान् ब्राह्मणाय निवेद्य निर्माल्यं संहृत्यांभसि निक्षिपेत्॥ ४३.७२ ॥
॥इत्यर्घ्यदानविधिः॥
य एवं भास्करायार्घ्यं मूर्तौ मंडलकेऽपि वा॥
नित्यं निवेदयेत्प्रातः स्याद्रवेरात्मवत्प्रियः॥ ४३.७३ ॥
अनेन विधिना कर्णो भास्करार्घ्यं प्रयच्छति॥
ततः सूर्यस्य पार्थासावात्मवद्वल्लभो मतः॥ ४३.७४ ॥
अशक्तश्चेन्नित्यमेकमर्घ्यं दद्याद्दिवाकृते॥
ततोऽत्र रथसप्तम्यां कुंडे देयः प्रयत्नतः॥ ४३.७५ ॥
अश्वमेधफलं प्राप्य सूर्यलोक मवाप्नुयात्॥
तस्मात्सर्वप्रयत्नेन दातव्योऽर्घोऽत्र भारत॥ ४३.७६ ॥
एवंविधस्त्वसौ देवो भट्टादित्योऽत्र तिष्ठति॥
भूयानतोऽपि बहुशः पापहा धर्मवर्धनः॥ ४३.७७ ॥
दिव्यमष्टविधं चात्र सद्यः प्रत्ययकारकम्॥
पापानां चोपभुक्तं हि यथा पार्थ हलाहलम्॥ ४३.७८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे सागरसंगमे भट्टादित्यमाहात्म्यवर्णनंनाम त्रिचत्वारिंशोऽध्यायः॥ ४३ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 44
॥अर्जुन उवाच॥
दिव्यप्राकारमिच्छामि श्रोतुं चाहं मुनीश्वर॥
कथं कार्याणि कानीह स्फुटं यैः पुण्यपापकम्॥ ४४.१ ॥
॥नारद उवाच॥
शपषाः पोशघटकौ विषाग्न तप्तमाषकौ॥
फलं च तंदुलं चैव दिव्यान्यष्टौ विदुर्बुधाः॥ ४४.२ ॥
असाक्षिकेषु चार्थेषु मिथो विवदमानयोः॥
राजद्रोहाभिशापेषु साहसेषु तथैव च॥ ४४.३ ॥
अविदस्तत्त्वतः सत्यं शपथेनाभिलंघयेत्॥
महर्षिभिश्च देवैश्च सत्यार्थाः शपथाः कृताः॥ ४४.४ ॥
जवनो नृपतिः क्षीणो मिथ्याशपथमाचरेत्॥
वसिष्ठाग्रे वर्षमध्ये सान्वयः किल भारत॥ ४४.५ ॥
अंधः शत्रुगृहं गच्छेद्यो मिथ्याशपथांश्चरेत्॥
रौरवस्य स्वयं द्वारमुद्धाटयति दुर्मतिः॥ ४४.६ ॥
मन्यंते वै पापकृतो न कश्चितपश्यतीति नः॥
तांश्च देवाः प्रपश्यंति स्वस्यैवांतरपौरुषाः॥ ४४.७ ॥
आदित्यचंद्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च॥
अहश्च रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम्॥ ४४.८ ॥
एवं तस्मादभिज्ञाय सत्यर्थशपथांश्चरेत्॥
वृथा हि शपथान्कुर्वन्प्रेत्य चेह विनश्यति॥ ४४.९ ॥
इदं सत्यं वदामीति ब्रुवन्साक्षी भवान्यतः॥
शुभाशुभफलं देहि शुचिः पादौ रवेः स्वृशेत्॥ ४४.१० ॥
अथ शास्त्रस्य विप्रोऽपि शस्त्रस्यापि च क्षत्रियः॥
मां संस्पृशंस्तथा वैश्यः शुद्रः स्वगुरुमेव च॥ ४४.११ ॥
मातरं पितरं पूज्यं स्पृशेत्साधारणं त्विदम्॥
कोशस्य रूपं पूर्वं ते व्याख्यातं पांडुनंदन॥ ४४.१२ ॥
विप्रवर्ज्यं तथा केशं वर्णिनां दापयेन्नृपः॥
यो यो यद्देवताभक्तः पाययेत्तस्य तं नरम्॥ ४४.१३ ॥
समभक्तं च देवानामादित्यस्यैव पाययेत्॥
सर्वेषां चोग्रदेवानां स्नापयेदायुधास्त्रकम्॥ ४४.१४ ॥
स्नानोदकं वा संकल्पं गृहीत्वा पाययेन्नवम्॥
त्रिसप्तरात्रमध्ये च फलं कोशस्य निर्दिशेत्॥ ४४.१५ ॥
अतः परं महादिव्यविधानं श्रृणु यद्भवेत्॥
संशयच्छेदि सर्वेषां धार्ष्ट्यत्तद्दिव्यमेव च॥ ४४.१६ ॥
सशिरस्कंप्रदातव्यमिति ब्रह्मा पुराब्रवीत्॥
महोग्राणां च दातव्यमशिरस्कमपि स्फुटम्॥ ४४.१७ ॥
साधूनां वर्णिनां राजा न शिरस्कं प्रदापयेत्॥
न प्रवातेधटं देयं नोष्णकाले हुताशनम्॥ ४४.१८ ॥
वर्णिनां च तथा कालं तंदुलं मुखरोगिणाम्॥ ४४.१९ ॥
कुष्ठपित्तार्दितानां च ब्राह्मणानां च नो विषम्॥
तप्तमाषकमर्हंति सर्वे धर्म्यं निरत्ययम्॥ ४४.२० ॥
न व्याधिमरके देशे शपथान्कोशमेव च॥
दिव्यान्यासुरकैर्मंत्रैः स्तंभयंतीह केचन॥ ४४.२१ ॥
प्रतिघातविदस्तेषां योजयेद्धर्मवत्सलान्॥
दिव्यानां स्तभकाञ्ज्ञात्वा पापान्नित्यं महीपतिः॥ ४४.२२ ॥
विवासयेत्स्वकाद्राष्ट्रात्ते हि लोकस्य कंटकाः॥
तेषामन्वेषणे यत्नं राजा नित्यं समाचरेत्॥ ४४.२३ ॥
ते हि पापसमाचारास्तस्करेभ्योऽपि तस्कराः॥
प्राग्दृष्टदोषान्स्वल्पेषु दिव्येषु विनियोजयेत्॥ ४४.२४ ॥
महत्स्वपि न चार्थेषु धर्मज्ञान्धर्मवत्सलान्॥
न मिथ्यावचनं येषां जन्मप्रभृति विद्यते॥ ४४.२५ ॥
श्रद्दध्यात्पार्थिवस्तेषां वचना देव भारत॥
ज्ञात्वा धर्मिष्ठतां राजा पुरुषस्य विचक्षणः॥ ४४.२६ ॥
क्रोधाल्लोभात्कारयंश्च स्वयमेव प्रदुष्यति॥
तस्मात्पापिषु दिव्यं स्यात्तत्रादौ प्रोच्यते धटे॥ ४४.२७ ॥
सुसमायां पृथिव्यां च दिग्भागे पूर्वदक्षिणे॥
यज्ञियस्य तु वृक्षस्य स्थाप्यं स्यान्मुंडकद्वयम्॥ ४४.२८ ॥
स्तंभकस्य प्रमाणं च सप्तहस्तं प्रकीर्तितम्॥
द्वौ हस्तौ निखनेत्काष्ठं दृश्यं स्याद्धस्तपंचकम्॥ ४४.२९ ॥
अंतरं तु तयोः कार्यं तथा हस्तचतुष्टयम्॥
मुंडकोपरि काष्ठं च दृढं कुर्याद्विचक्षणः॥ ४४.३० ॥
चतुर्हस्तं तुलाकाष्ठमव्रणं कारयेत्स्थिरम्॥
खदिरार्जुनवृक्षाणां शिंशपाशालजं त्वथ॥ ४४.३१ ॥
तुलाकाष्ठे तु कर्तव्यं तथा वै शिक्यकद्वयम्॥
प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस्तथा॥ ४४.३२ ॥
पाषाणस्यापि जायेत् स्तंभेषु च धटस्तथा॥
वणिक्सुवर्णकारो वा कुशलः कांस्यकारकः॥ ४४.३३ ॥
तुलाधारधरः कार्यो रिपौ मित्रे च यः समः॥
श्रावयेत्प्राड्विवाकोऽपि तुलाधारं विचक्षणः॥ ४४.३४ ॥
ब्रह्मघ्ने ये स्मृता लोका ये च स्त्रीबालघातके॥
तुलाधारस्य ते लोकास्तुलां धारयतो मृषा॥ ४४.३५ ॥
एकस्मिंस्तोलयेच्छिक्ये ज्ञातं सूपोषितं नरम्॥
द्वितीये मृत्तिकां शुभ्रां गौरां तु तुलयेद्बुधः॥ ४४.३६ ॥
इष्टिकाभस्मपाषाणकपालास्थीनि वर्जयेत्॥
तोलयित्वा ततः पूर्वं तस्मात्तमवतारयेत्॥ ४४.३७ ॥
मूर्ध्नि पत्रं ततो न्यस्य न्यस्तपत्रं निवेशयेत्॥
पत्रे मंत्रस्त्वयं लेख्यो यः पुरोक्तः श्वयंभुवा॥ ४४.३८ ॥
ब्रह्मणस्त्वं सुता देवी तुलानाम्नेति कथ्यते॥
तुकारो गौरवे नित्यं लकारो लघुनि स्मृतः॥ ४४.३९ ॥
गुरुलाघवसंयोगात्तुला तेन निगद्यसे॥
संशयान्मोचयस्वैनमभिशस्तं नरं शुभे॥ ४४.४० ॥
भूय आरोपयेत्तं तु नरं तस्मिन्सपत्रकम्॥
तुलितो यदि वर्धेत शुद्धो भवति धर्मतः॥ ४४.४१ ॥
हीयमानो न शुद्धः स्यादिति धर्मविदो विदुः॥
शिक्यच्छेदे तुलाभंगे पुनरारोपयेन्नरम्॥ ४४.४२ ॥
एवं निःसंशयं ज्ञानं यच्चान्यायं न लोपयेत्॥
एतत्सर्वं रवौ वारे कार्यं संपूज्य भास्करम्॥ ४४.४३ ॥
अथातः संप्रवक्ष्यामि विषदिव्यं श्रृणुष्व मे॥ ४४.४४ ॥
द्विप्रकारं च तत्प्रोक्तं घटसर्पविषं तथा॥
शृंगिणो वत्सनाभस्य हिमशैलभवस्य वा॥ ४४.४५ ॥
यवाः सप्त प्रदातव्या अथवा षड्घृतप्लुताः॥
मूर्ध्नि विन्यस्तपत्रस्य पत्रे चैवं निवेशयेत्॥ ४४.४६ ॥
त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थितः॥
त्रायस्वैनं नरं पापात्सत्येनास्य भवामृतम्॥ ४४.४७ ॥
येन वेगैर्विना जीर्णं छर्दिमूर्च्छाविवर्जितम्॥
तं तु शुद्धं विजानीयादिति धर्मविदो विदुः॥ ४४.४८ ॥
क्षुधितं क्षुधितः सर्पं घटस्थं प्रोच्य पूर्ववत्॥
संस्पृशेत्तालिकाः सप्त न दशेच्छुध्यतीति सः॥ ४४.४९ ॥
अग्निदिव्यं यथा प्राह विरंचिस्तच्छृणुष्व मे॥
सप्तमंडलकान्कुर्याद्देवस्याग्रे रवेस्तथा॥ ४४.५० ॥
मंडलान्मंडलं कार्यं पूर्वेणेति विनिश्चयः॥
षोडशांतुलकं कार्यं मंडलात्तावदं तरम्॥ ४४.५१ ॥
आर्द्रवाससमाहूय तथा चैवाप्युपोपितम्॥
कारयेत्सर्वदिव्यानि देवब्राह्मणसंनिधौ॥ ४४.५२ ॥
प्रत्यक्षं कारयेद्दिव्यं राज्ञो वाधिकृतस्य वा॥
ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च॥ ४४.५३ ॥
पश्चिमे दिनकाले हि प्राङ्मुखः प्राञ्जलिः शुचिः॥
चतुरस्रे मंडलेऽन्ये कृत्वा चैव समौ करौ॥ ४४.५४ ॥
लक्षयेयुः कृतादीनि हस्तयोस्तस्य हारिणः॥
सप्ताश्वत्थस्य पत्राणि भध्नीयुः करयोस्ततः॥ ४४.५५ ॥
नवेन कृतसूत्रेण कार्पासेन दृढं यथा॥
ततस्तु सुसमं कृत्वा अष्टांगुलमथायसम्॥ ४४.५६ ॥
पिंडं हुताशसंतप्तं पंचाशत्पलिकं दृढम्॥
आदौ पूजां रवेः कृत्वा हुताशस्याथ कारयेत्॥ ४४.५७ ॥
रक्तचंदनधूपाभ्यां रक्तपुष्पैस्तथैव च॥
अभिशस्तस्य पत्रं च बध्नीयाच्चैव मूर्धनि॥ ४४.५८ ॥
मंत्रेणानेन संयुक्तं ब्राह्मणाभिहितेन च॥
त्वमग्ने वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे॥ ४४.५९ ॥
पापं पुनासि वै यस्मात्तस्मात्पावक उच्यसे॥
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम्॥ ४४.६० ॥
जठरस्थोऽसि भूतानां ततो वेत्सि शुभाशुभम्॥
पापेषु दर्शयात्मानमर्चिष्मान्भव पावक॥ ४४.६१ ॥
अथवा शुद्धभावेषु शीतो भवमहाबल॥
ततोऽभिशस्तः शनकैर्मंडलानि परिक्रमेत्॥ ४४.६२ ॥
परिक्रम्य शनैर्जह्याल्लोहपिंडं ततः क्षितौ॥
विपत्रहस्तं तं पश्चात्कारयेद्व्रीहिमर्दनम्॥ ४४.६३ ॥
निर्विकारौ करौ दृष्ट्वा शुद्धो भवति धर्मतः॥
भयाद्वा पातयेद्यस्तु तदधो वा विभाव्यते॥ ४४.६४ ॥
पुनस्त्वाहारयेल्लोहं विधिरेष प्रकीर्तितः॥
अथातः संप्रऐवक्ष्यामि तप्तमाषविधिं श्रृणु॥ ४४.६५ ॥
कारयेदायसं पात्रं ताम्रं वा षोडशांगुलम्॥
चतुरंगुलखातं तु मृन्मयं वापि कारयेत्॥ ४४.६६ ॥
पूरयेद्घृततैलाभ्यां पलैर्विशतिभिस्ततः॥
सुतप्ते निक्षिपेत्तत्र सुवर्णस्य तु माषकम्॥ ४४.६७ ॥
वह्न्युक्तं विन्यसेन्मंत्रमभिशस्तस्य मूर्धनि॥
अंगुष्ठांगुलियोगेन तप्तमाषं समुद्धरेत्॥ ४४.६८ ॥
शुद्धं ज्ञेयमसंदिग्धं विस्फोटादिविवर्जितम्॥
फालशुद्धिं प्रवक्ष्यामि तां श्रृणु त्वं धनंजय॥ ४४.६९ ॥
आयसं द्वादशपलं घटितं फालमुच्यते॥
अष्टांगुलमदीर्घं च चतुरंगुलविस्तृतम्॥ ४४.७० ॥
वह्न्युक्तं विन्यसेन्मंत्रमभिशस्तस्य मूर्धनि॥
त्रिःपरावर्तयेज्जिह्वा लिहन्नस्मात्षडंगुलम्॥ ४४.७१ ॥
गवां क्षीरं प्रदातव्यं जिह्वाशोधनमुत्तमम्॥
जिह्वापरीक्षणं कुर्याद्दग्धा चेन्न तु विमोच्यते॥ ४४.७२ ॥
तं विशुद्धं विजानीयाद्विशुद्धा चेत्तु जायते॥
तंदुलस्याथ वक्ष्यामि विधिधर्मं सनातनम्॥ ४४.७३ ॥
चौर्ये तु तंदुला देया न चान्यत्र कथंचन॥
तंदुलानुदके सिक्त्वा रात्रौ तत्रैव स्थापयेत्॥ ४४.७४ ॥
प्रभाते कारिणे देया भक्षणाय न संशयः॥
त्रिःकॉत्वः प्राङ्मुखश्चैव पत्रे निष्ठीवयेत्ततः॥ ४४.७५ ॥
पिप्पलस्याथ भूर्जस्य न त्वन्यस्य कथंचन॥
तांस्तु वै कारयेच्छुद्धांस्तंदुलाञ्छालिसंभवान्॥ ४४.७६ ॥
मृन्मये भाजने कृत्वा सवितुः पुरतः स्थितः॥
तन्दुलान्मंत्रयेच्छुद्धान्मन्त्रेणानेन धर्मतः॥ ४४.७७ ॥
दीयसे धर्मतत्त्वज्ञैर्मानुषाणां विशोधनम्॥
स्तुतस्तन्दुल सत्येन धर्मतस्त्रातुमर्हसि॥ ४४.७८ ॥
निष्ठीवने कृते तेषां सवितुः पुरतः स्थिते॥
शोणितं दृश्यते यस्य तमशुद्धं विनिर्दिशेत्॥ ४४.७९ ॥
एवमष्टविधं दिव्यं पापसंशयच्छेदनम्॥
भट्टादित्यस्य पुरतो जायते कुरुनंदन॥ ४४.८० ॥
जलदिव्यं तथा प्राहुर्द्विप्रकारं पुराविदः॥
जलहस्तं स्मृतं चैकं मज्जनं चापरं विदुः॥ ४४.८१ ॥
बाणक्षेपस्तथादानं यावद्वीर्यवता कृतम्॥
तावत्तं मज्जयेज्जीवेत्तथा तच्छुद्धिमादिशेत्॥ ४४.८२ ॥
एवंविधमिदं स्थानं भट्टादित्यस्य भारत॥
ममैव कृपया भानोर्जातमेतन्महीतले॥ ४४.८३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे भट्टादित्यमाहात्म्ये दिव्यवर्णनंनाम चतुश्चत्वारिंशोऽध्यायः॥ ४४ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 45
॥नारद उवाच॥
तथा बहूदकस्थाने कथामाकर्णयाद्भुताम्॥
यस्माद्बहूदकं कुण्डं कामरूपे यदस्ति च॥ ४५.१ ॥
तदस्ति चात्र संक्रांतं तस्मात्प्रोक्तं बहूदकम्॥
कपिलेनात्र तप्त्वा च वर्षाणि सुबहून्यपि॥ ४५.२ ॥
स्थापितं शोभनं लिंगं कपिलश्वरसंज्ञितम्॥
तच्च लिगं सदा पार्थ नन्दभद्र इति समृतः॥ ४५.३ ॥
वणिक्संपूजयामास त्रिकालं च कृतादरः॥
सर्वधर्मविशेषज्ञः साक्षाद्धर्म इवापरः॥ ४५.४ ॥
नाज्ञातं तस्य किंचिच्च यद्धर्मेषु प्रकीर्त्यते॥
सर्वेषां च सुहृन्नित्यं सर्वेषां च हिते रतः॥ ४५.५ ॥
कर्मणा मनसा वाचा धर्ममेनमुपाश्रितः॥
न भूतो न भविष्यश्च न स धर्मोऽस्ति किंचन॥ ४५.६ ॥
विदोषो यो हि सर्वत्र निश्चित्यैवं व्यवस्थितः॥
अस्य धर्मसमुद्रस्य संप्रवृद्धस्य सर्वतः॥ ४५.७ ॥
निर्मथ्य नन्दभद्रेण आहृतं तन्निशामय॥
वाणिज्यं मन्यते श्रेष्ठं जीवनाय तदा स्थितः॥ ४५.८ ॥
परिच्छिन्नैः काष्ठतृणैः शरणं तेन कारितम्॥
मद्यवर्जं भेदवर्जं कूटवर्जं समं तथा॥ ४५.९ ॥
सर्वभूतेषु वाणिज्यमल्पलाभेन सोऽचरत्॥
अमायया परेभ्योऽसौ गृहीत्वैव क्रयाणकम्॥ ४५.१० ॥
अमाययैव भूतेभ्यो विक्रीणात्यस्य सद्व्रतम्॥
केचिद्यज्ञं प्रशंसंति नन्दभद्रो न मन्यते॥ ४५.११ ॥
दोषमेनं विनिश्चित्य श्रृणु तं पांडुनन्दन॥
लुब्धोऽनृती दांभीकश्च स्वप्रशंसापरायणः॥ ४५.१२ ॥
यजन्यज्ञैर्जगद्धंति स्वं चांधतमसं नयेत्॥
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते॥ ४५.१३ ॥
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः॥
यद्यदा यजमानस्य ऋत्विजो द्रव्यमेव च॥ ४५.१४ ॥
चौरप्रायस्य कलुषाज्जन्म जायेज्जनस्य हि॥
अदक्षिणे वृथा यज्ञे कृते चाप्यविधानतः॥ ४५.१५ ॥
पशवो लकुटैर्हन्युर्यजमानं मृतं हताः॥
तस्माच्छुद्धैर्यवद्रव्यैर्यजमानः शुभः स्मृतः॥ ४५.१६ ॥
यज्ञ एवं विचार्यासौ यज्ञसारं समास्थितः॥
श्रद्धया देवपूजा या नमस्कारः स्तुतिः शुभा॥ ४५.१७ ॥
नैवेद्यं हविषश्चैव यज्ञोऽयं हि विकल्मषः॥
स एव यज्ञः प्रोक्तो वै येन तुष्यन्ति देवताः॥ ४५.१८ ॥
केचिच्छंसन्ति संन्यासं नन्दभद्रो न मन्यते॥
यो हि संन्यस्य विषयान्मनसा गृह्यते पुनः॥ ४५.१९ ॥
उभयभ्रष्ट एवासौ भिन्ना भूमिर्विनश्यति॥
संन्यासस्य तु यत्सारं तत्तेनावृतमुत्तमम्॥ ४५.२० ॥
कस्यचिन्नैव कर्माणि शपते वा प्रशंसति॥
नानामार्गस्थिताँल्लोकांश्चन्द्रवल्लीयते क्षितौ॥ ४५.२१ ॥
न द्वेष्टि नो कामयते न विरुद्धोऽनुरुध्यते॥
समाश्मकांचनो धीरस्तुल्यनिंदात्मसंस्तुतिः॥ ४५.२२ ॥
अभयः सर्वभूतेभ्यो यथांधबधिराकृतिः॥
न कर्मणां फलाकांक्षा शिवस्याराधनं हि तत्॥ ४५.२३ ॥
कारणाद्धर्ममन्विच्छन्न लोभं च ततश्चरन्॥ ४५.२४ ॥
विविच्य नंदभद्रस्तत्सारं मोक्षेषु जगृहे॥
कृषिं केचित्प्रशंसंति नंदभद्रो न मन्यते॥ ४५.२५ ॥
यस्यां छिंदंति वृषणा वृषाणां चैव नासिकाम्॥
कर्षयंति महाभारान्बध्नंति दमयंति च॥ ४५.२६ ॥
बहुदंशमयान्देशान्नयंति बहुकर्दमान्॥
वाहसंपीडिता धुर्याः सीदंत्यविधिना परे॥ ४५.२७ ॥
मन्यंते भ्रूणहत्यापि विशिष्टा नास्य कर्मणः॥
अघ्न्या इति गवां नाम श्रुतौ ताः पीडयेत्कथम्॥ ४५.२८ ॥
भूमिं भूमिशयांश्चैव हंति काष्ठमयोमुखम्॥
पंचेंद्रियेषु जीवेषु सर्वं वसति दैवतम्॥ ४५.२९ ॥
आदित्यश्चंद्रमा वायुः प्रभूत्यैव च तांस्तु यः॥
विक्रीणाति सुमूढस्य तस्य का नु विचारणा॥ ४५.३० ॥
अजोऽग्निर्वरुणो मेषः सूर्यश्च पृथिवी विराट्॥
धेनुर्वत्सश्च सोमो वै विक्रीयैतान्न सिध्यति॥ ४५.३१ ॥
एवंविधसहस्रैश्च युता दोषैः कृषिः सदा॥
अष्टागवं स्याद्धि हलं त्रिंशद्भागं त्यजेत्कृषेः॥ ४५.३२ ॥
धर्मे दद्यात्पशून्वृद्धान्पुष्यादेषा कृषिः कुतः॥
सारमेतत्कृषेस्तेन नंदभद्रेण चादृतम्॥ ४५.३३ ॥
विसाधितव्यान्यन्नानि स्वशक्त्या देवपितृषु॥
मनुष्य द्विजभूतेषु नियुज्याश्नीत सर्वदा॥ ४५.३४ ॥
केचिच्छंसंति चैश्वर्यं नंदभद्रो न मन्यते॥
मानुषा मानुषानेव दासभावेन भुंजते॥ ४५.३५ ॥
वधबंधनिरोधेन पीडयंति दिवानिशम्॥
देहं किमेतद्धातुः स्वं मातुर्वा जनकस्य वा॥ ४५.३६ ॥
मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा॥
इति संचिंत्य व्यहरन्नमरा इव ईश्वराः॥ ४५.३७ ॥
ऐश्वर्यमदपापिष्ठा महामद्यमदादयः॥
ऐश्वर्यमदमत्तो हि ना पतित्वा हि माद्यति॥ ४५.३८ ॥
आत्मवत्सर्वभृत्येषु श्रिया नैव च माद्यति॥ ४५.३९ ॥
आत्मप्रत्ययवान्देही क्वेश्वरश्चेदृशोऽस्ति हि॥
ऐश्वर्यस्यापि सारं स जग्राहैतन्निशामय॥ ४५.४० ॥
स्वशक्त्या सर्व भूतेषु यदसौ न पराङ्मुखः॥
तीर्थायेके प्रशंसंति नंदभद्रो न मन्यते॥ ४५.४१ ॥
श्रमेण संकरात्तापशीतवातक्षुधा तृषा॥
क्रोधेन धर्मगेहस्य नापि नाशमवाप्नुयात्॥ ४५.४२ ॥
सौख्येन वा धनस्यापि श्रद्धया स्वल्पगोर्थवान्॥
समर्थो हि महत्पुण्यं शक्त आप्तुं क्व वास्ति सः॥ ४५.४३ ॥
सदा शुचिर्देवयाजी तीर्थसारं गृहेगृह॥
नापः पुनंति पापानि न शैला न महाश्रमाः॥ ४५.४४ ॥
आत्मा पुनाति पापानि यदि पापान्निवर्तते॥
एवमेव समाचारं प्रादुर्भूतं ततस्ततः॥ ४५.४५ ॥
एकीकृत्य सदा धीमान्नंदभद्रः समास्थितः॥
तस्यैवं वर्ततः साधोः स्पृहयंत्यपि देवताः॥ ४५.४६ ॥
वासवप्रमुखाः सर्वे विस्मयं च परं ययुः॥
अत्रैव स्थानके चापि शूद्रोऽभूत्प्रतिवेश्मकः॥ ४५.४७ ॥
स नंदभद्रं धर्मिष्ठं पुनः पुनरसूयत॥
नास्तिकः स दुराचारः सत्यव्रत इति श्रुतः॥ ४५.४८ ॥
स सदा नंदभद्रस्य विलोकयति चांतरम्॥
छिद्रं चेदस्य पश्यामि ततो धर्मान्निवर्तये॥ ४५.४९ ॥
स्वभाव एव क्रूराणां नास्तिकानां दुरात्मनाम्॥
आत्मानं पातयंत्येव पातयंत्यपरं च यत्॥ ४५.५० ॥
ततस्त्वेवं वर्ततोऽस्य नंदभद्रस्य धीमतः॥
एकोऽभूत्तनयः कष्टाद्वार्धिके सोऽप्यनश्यत॥ ४५.५१ ॥
तच्च दैवकृतं मत्वा न शुशोच महामतिः॥
देवो वा मानवो वापि को हि देवाद्विमुच्यते॥ ४५.५२ ॥
ततोऽस्य सुप्रिया भार्या सर्वैः साध्वीगुणैर्युता॥
गृहधर्मस्य मूर्तिर्या साक्षादिव अरुंधती॥ ४५.५३ ॥
विनाशमागता पार्थ कनकानाम नामतः॥
ततो यतेंद्रियोऽप्येष गृहधर्मविनाशतः॥ ४५.५४ ॥
शुशोच हा कष्टमिति पापोहमिति चासकृत्॥
तत्तस्य चांतरं दृष्ट्वाऽहृष्यत्यव्रतश्चिरात्॥ ४५.५५ ॥
उपाव्रज्य च हा कष्टं ब्रुवंस्तं नंदभद्रकम्॥
दधिकर्ण इवासाद्य नंदभद्रमुवाच सः॥ ४५.५६ ॥
हा नंदभद्र यद्येवं तवाप्येवंविधं फलम्॥
एतेन मन्ये मनसि धर्मोप्येष वृथैव यत्॥ ४५.५७ ॥
इत्यादि बहुधा प्रोच्य तत्तद्वाक्यं ततस्ततः॥
सत्यव्रतस्ततः प्राह नंदभद्रं कृपान्वितः॥ ४५.५८ ॥
नंदभद्र सदा तुभ्यं वक्तुकामोस्मि किंचन॥
प्रस्तावस्याप्यभावाच्च नोदितं च मया क्वचित्॥ ४५.५९ ॥
अप्रस्तावं ब्रुवन्वाक्यं बृहस्पतिरपिध्रुवम्॥
लभते बुद्ध्यवज्ञानमवमानं च हीनवत्॥ ४५.६० ॥
॥नन्दभद्र उवाच॥
ब्रूहिब्रूहि न मे किंचित्साधु गोप्यं प्रियं परम्॥
वचोभिः शुद्धसत्त्वानां न मोक्षोऽप्युपमीयते॥ ४५.६१ ॥
॥सत्यव्रत उवाच॥
नवभिर्नवभिश्चैव विमुक्तं वाग्विदूषणैः॥
नवभिर्बुद्धिदोषैश्च वाक्यं वक्ष्याम्यदोषवत्॥ ४५.६२ ॥
सौक्ष्म्यं संख्याक्रमश्चापि निर्णयः सप्रयोजनः॥
पंचैतान्यर्थजातानि यत्र तद्वाक्यमुच्यते॥ ४५.६३ ॥
धर्ममर्थं च कामं च मोक्षं चोद्दिश्य चोच्यते॥
प्रयोजनमिति प्रोक्तं प्रथमं वाक्यलक्षणम्॥ ४५.६४ ॥
धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः॥
इदं तदिति वाक्यांते प्रोच्यते स विनिर्णयः॥ ४५.६५ ॥
इदं पूर्वमिदं पश्चाद्वक्तव्यं यत्क्रमेण हि॥
क्रमयोगं तमप्याहुर्वाक्यतत्तविदो बुधाः॥ ४५.६६ ॥
दोषाणां च गुणानां च प्रमाणं प्रविभागतः॥
उभयार्थमपि प्रेक्ष्य सा संख्येत्युपधार्यताम्॥ ४५.६७ ॥
वाक्यज्ञेयेषु भिन्नेषु यत्राभेदः प्रदृश्यते॥
तत्रातिशयहेतुत्वं तत्सौक्ष्म्यमिति निर्दिशेत्॥ ४५.६८ ॥
इति वाक्यगुणानां च वाग्दोषान्द्विनव श्रृणु॥
अपेतार्थमभिन्नार्थमपवृत्तं तथाधिकम्॥ ४५.६९ ॥
अश्लक्ष्णं चापि संदिग्धं पदांते गुरु चाक्षरम्॥
पराङ्मुखमुखं यच्च अनृतं चाप्यसंस्कृतम्॥ ४५.७० ॥
विरुद्धं यत्त्रिवर्गेण न्यूनं कष्टातिशब्दकम्॥
व्युत्क्रमाभिहृतं यच् सशेषं चाप्यहेतुकम्॥ ४५.७१ ॥
निष्कारणं च वाग्दोषान्बुद्धिजाञ्छृणु त्वं च यान्॥
कामात्क्रोधाद्भयाच्चैव लोभाद्दैन्यादनार्यकात्॥ ४५.७२ ॥
हीनानुक्रोशतो मानान्न च वक्ष्यामि किंचन॥
वक्ता श्रोता च वाक्यं च यदा त्वविकलं भवेत्॥ ४५.७३ ॥
सममेति विवक्षायां तदा सोऽर्थः प्रकाशते॥
वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते॥ ४५.७४ ॥
श्रोता चाप्यथ वक्तारं तदा वाक्यं न रोहति॥
अथ यः स्वप्रियं ब्रूयाच्छ्रोतुर्वोत्सृज्ययदृतम्॥ ४५.७५ ॥
विशंका जायते तस्मिन्वाक्यं तदपि दोषवत्॥
तस्माद्यः स्वप्रियं त्यक्त्वा श्रोतुश्चाप्यथ यत्प्रियम्॥ ४५.७६ ॥
सत्यमेव प्रभाषेत स वक्ता नेतरो भुवि॥
मिथ्यावादाञ्छास्त्रजालसंभवान्यद्विहाय च॥ ४५.७७ ॥
सत्यमेव व्रतं यस्मात्तस्मात्सत्यव्रतस्त्वहम्॥
सत्यं ते संप्रवक्ष्यामि मंतुमर्हसि तत्तथा॥ ४५.७८ ॥
यदाप्रभृति भद्र त्वं पाषाणस्यार्चने रतः॥
तदाप्रभृति किंचिच्च न हि पश्यामि शोभनम्॥ ४५.७९ ॥
एकः सोऽपि सुतो नष्टो भार्या चार्याऽप्यनश्यत॥
कूटानां कर्मणां साधो फलमेवंविधं भवेत्॥ ४५.८० ॥
क्व देवाः संति मिथ्यैतद्दृश्यंते चेद्भवंत्यपि॥
सर्वा च कूटविप्राणां द्रव्यायैषा विकल्पना॥ ४५.८१ ॥
पितॄनुद्दिश्य यच्छंति मम हासः प्रजायते॥
अन्नस्योपद्रवं यच्च मृतो हि किमशिष्यत॥ ४५.८२ ॥
यत्त्विदं बहुधा मूढा वर्णयंति द्विजाधमाः॥
विश्वनिर्माणमखिलं तथापि श्रृणु सत्यतः॥ ४५.८३ ॥
उत्पत्तिश्चापि भंगश्च विश्वस्यैतद्द्वयं मृषा॥
एवमेव हि सर्वं च सदिदं वर्तते जगत्॥ ४५.८४ ॥
स्वभावतो विश्वमिदं हि वर्तते स्वभावतः सूर्यमुखा भ्रमंत्यमी॥
स्वभावतो वायवो वांति नित्यं स्वभावतो वर्षति चांबुदोऽयम्॥ ४५.८५ ॥
स्वभावतो रोहति धान्यजातं स्वभावतो वर्षशीतातपत्वम्॥
स्वभावतः संस्थिता मेदिनी च स्वभावतः सरितः संस्रवंति॥ ४५.८६ ॥
स्वभावतः पर्वता भांति नित्यं स्वभावतो वारिधिरेष संस्थितः॥
स्वभावतो गर्भिणी संप्रसूते स्वभावतोऽमी बहवश्च जीवाः॥ ४५.८७ ॥
यथा स्वभावेन भवंति वक्रा ऋतुस्वबावाद्बदरीषु कण्टकाः॥
तथा स्वभावेन हि सर्वमेतत्प्रकाशते कोऽपि कर्ता न दृश्यः॥ ४५.८८ ॥
तदेवं संस्थिते लोके मूढो मुह्यति मत्तवत्॥
मानुष्यमपि यद्धूर्ता वदंत्यग्र्यं श्रृणुष्वतत्॥ ४५.८९ ॥
मानुष्यान्न परं कष्टं वैरिणां नो भवेद्धि तत्॥
शोकस्थानसहस्राणि मनुष्यस्य क्षणेक्षणे॥ ४५.९० ॥
मानुष्यं हि स्मृताकारं सभाग्योऽस्माद्विमुच्यते॥
पशवः पक्षिणः कीटाः कृमयश्च यथासुखम्॥ ४५.९१ ॥
अबद्धा विहरंत्येते योनिरेषां सुदुर्लभा॥
निश्चिंताः स्थावरा ह्येते सौख्यमेषां महद्भुवि॥ ४५.९२ ॥
बहुना किं मनुष्येभ्यः सर्वो धन्योऽन्ययोनिजः॥
स्वभावमेव जानीहि पुण्यापुण्यादिकल्पना॥ ४५.९३ ॥
यदेके स्थावराः कीटाः पतंगा मानुषादिकाः॥
तस्मान्मित्या परित्यज्य नंदभद्र यथासुखम्॥
पिब क्रीडनकैः सार्धं भोगान्सत्यमिदं भुवि॥ ४५.९४ ॥
॥नारद उवाच॥
इत्येतैरमुखैर्वाक्यैरयुक्तैरसमंजसैः॥ ४५.९५ ॥
सत्यव्रतस्य नाकम्पन्नंदभद्रो महामनाः॥
प्रहसन्निव तं प्राह स्वक्षोभ्यः सागरो यथा॥ ४५.९६ ॥
यद्भवानाह धर्मिष्ठाः सदा दुःखस्य भागिनः॥
तन्मिथ्या दुःखजालानि पश्यामः पापिनामपि॥ ४५.९७ ॥
वधबंधपरिक्लेशाः पुत्रदारादि पंचता॥
पापिनामपि दृश्यंते तस्माद्धर्मो गुरुर्मतः॥ ४५.९८ ॥
अयं साधुरहो कष्टं कष्टमस्य महाजनाः॥
साधोर्वदंत्येतदपि पापिनां दुर्लभं त्विदम्॥ ४५.९९ ॥
दारादिद्रव्यलोभार्यं विशतः पापिनो गृहे॥
भवानपि बिभेत्यस्माद्द्वेष्टि कुप्यति तद्वृथा॥ ४५.१०० ॥
यथास्य जगतो ब्रूषे नास्ति हेतुर्महेश्वरः॥
तद्बालभाषितं तुभ्यं किं राजानं विना प्रजाः॥ ४५.१०१ ॥
यच्च ब्रवीषि पाषाणं मिथ्या लिंगं समर्चसि॥
तद्भवाँल्लिंगमाहात्म्यं वेत्ति नांधो यथा रविम्॥ ४५.१०२ ॥
ब्रह्मादायः सुरा सर्वे राजानश्च महर्द्धिकाः॥
मानवा मुनयश्चैव सर्वे लिंगं यजंति च॥ ४५.१०३ ॥
स्वनामकानि चिह्नानि तेषां लिंगानि संति च॥
एते किं त्वभवत्मूर्खास्त्वं तु सत्यव्रतः सुधीः॥ ४५.१०४ ॥
प्रतिष्ठाप्य पुरा ब्रह्मा पुष्करे नीललोहितम्॥
प्राप्तवान्परमां सिद्धिं ससर्जेमाः प्रजाः प्रभुः॥ ४५.१०५ ॥
विष्णुनापि निहत्याजौ रावणं पयसांनिधेः॥
तीरे रामेश्वरं लिंगं स्थापितं चास्ति किं मुधा॥ ४५.१०६ ॥
वृत्रं हत्वा पुरा शक्रो महेंद्रे स्थाप्य शंकरम्॥
लिंगं विमुक्तपापोऽथ त्रिदिवेद्यापि मोदते॥ ४५.१०७ ॥
स्थापयित्वा शिवं सूर्यो गंगासागरसंगमे॥
निरामयोऽभूत्सोमश्च प्रभासे पश्चिमोदधौ॥ ४५.१०८ ॥
काश्यां यमश्च धनदः सह्ये गरुडकश्यपौ॥
नैमिषे वायुवरुणौ स्थाप्य लिंगं प्रमोदिताः॥ ४५.१०९ ॥
अस्मिन्नेव स्तंभतीर्थे कुमारेणं गुहो विभुः॥
लिंगं संस्थापयामास सर्वपापहरं न किम्॥ ४५.११० ॥
एवमन्यैः सुरैर्यानि पार्थिवैर्मुनिभिस्तथा॥
संस्तापितानि लिंगानि तन्न संख्यातुमुत्सहे॥ ४५.१११ ॥
पृथिवीवासिनः सर्वे ये च स्वर्गनिवासिनः॥
पातालवासिनस्तृप्ता जायंते लिंगपूजया॥ ४५.११२ ॥
यच्च ब्रवीषि गीर्वाणा न संति सन्ति चेत्कुतः॥
कुत्रापि नैव दृश्यंते तेन मे विस्मयो महान्॥ ४५.११३ ॥
रंकवत्किं स्म ते देवा याचंतां त्वां कुलत्थवत्॥
यमिच्छिसि महाप्राज्ञ साधको हि गुरुस्तव॥ ४५.११४ ॥
स्वबावान्नैव सर्वार्थाः संसिद्धा यदि ते मते॥
भोजनादि कथं सिध्येद्वद कर्तारमंतरा॥ ४५.११५ ॥
बदरीमंतरेणापि दृश्यंते कण्टका न हि॥
तस्मात्कस्यास्ति निर्माणं यस्य यावत्तथैव तत्॥ ४५.११६ ॥
यच्च ब्रवीषि पश्वाद्याः सुखिनो धन्यकास्त्वमी॥
त्वदृते नेदमुक्तं च केनापि श्रुतमेव वा॥ ४५.११७ ॥
तामसा विकला ये च कष्टं तेषां च श्लाघ्यताम्॥
सर्वेंद्रिययुताः श्रेष्ठाः कुतो धन्या न मानुषाः॥ ४५.११८ ॥
सत्यं तव व्रतं मन्ये नरकाय त्वयाऽऽदृतम्॥
अत्यनर्थे न भीः कार्या कामोयं भविताचिरात्॥ ४५.११९ ॥
आदावाडंबरेणैव ध्रुवतोऽज्ञानमेव मे॥
इत्थं निःसारता व्यक्तमादावाडंबारात्तु यत्॥ ४५.१२० ॥
मायाविनां हि ब्रुवतां वाक्यं चांडबरावृतम्॥
कुनाणकमिवोद्दीप्तं परीक्षेयं सदा सताम्॥ ४५.१२१ ॥
आदौ मध्ये तथा चांते येषां वाक्यमदोषवत्॥
कषदाहैः स्वर्णमिव च्छेदेऽपि स्याच्छुभं शुभम्॥ ४५.१२२ ॥
त्वयान्यथा प्रतिज्ञातमुक्तं चैवान्यथा पुनः॥
त्वद्दोषो नायमस्माकं तद्वचः श्रृणुमो हि ये॥ ४५.१२३ ॥
नास्तिकानां च सर्पाणां विषस्य च गुणस्त्वयम्॥
मोहयंति परं यच्च दोषो नैषपरस्य तु॥ ४५.१२४ ॥
आपो वस्त्रं तिलास्तैलं गंधो वा स यथा तथा॥
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः॥ ४५.१२५ ॥
मोहजालस्य यो योनिर्मूढैरिह समागमः॥
अहन्यहनि धर्मस्य योनिः साधुसमागमः॥ ४५.१२६ ॥
तस्मात्प्राज्ञैश्च वृद्धैश्च शुद्धभावैस्तपस्विभिः॥
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः॥ ४५.१२७ ॥
न नीचैर्नाप्यविद्वद्भिर्नानात्मज्ञैर्विशेषतः॥
येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च॥ ४५.१२८ ॥
तांश्च सेवेद्विशेषेण शास्त्रं येषां हि विद्यते॥
असतां दर्शनस्पर्शसंजल्पासनभोजनैः॥ ४५.१२९ ॥
धर्माचारात्प्रहीयंते न च सिध्यंति मानवाः॥
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्॥ ४५.१३० ॥
मध्यैश्च मध्यतां याति श्रेष्ठतां याति चोत्तमैः॥
इति धर्मं स्मरन्नाहं संगमार्थी पुनस्तव॥
यन्निन्दसि द्विजानेव यैरपेयोऽर्णवः कृतः॥ ४५.१३१ ॥
वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम्॥
नैतत्त्रयं यस्य भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम्॥ ४५.१३२ ॥
इतीरयित्वा वचनं महात्मा स नंदभद्रः सहसा तदैव॥
गृहाद्विनिःसृत्य जगाम पुण्यं बहूदकं भट्टरवेस्तु कुंडम्॥ ४५.१३३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कपिलेश्वरतीर्थमाहात्म्ये नंदभद्रवणिग्वृत्तान्तवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः॥ ४५ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 46
॥नारद उवाच॥
बहूदकस्य कुंडस्य तीरस्थं लिंगमुत्तमम्॥
कपिलेश्वरमभ्यर्च्य नंदभद्रस्ततः सुधी॥ ४६.१ ॥
प्रणम्य चाग्रतस्तस्थौ प्रबद्धकरसंपुटः॥
संसारचरितैः किंचिद्दुःखी गाथां व्यगायत॥ ४६.२ ॥
स्रष्टारमस्य जगतश्चेत्पश्यामि सदाशिवम्॥
नानापृच्छाभिरथ तं कुर्यां नाथं विलज्जितम्॥ ४६.३ ॥
अपूर्यमाणं तव किं जगत्संसृजनं विना॥
निरीह बहुधा यत्ते सृष्टं भार्गववज्जगत्॥ ४६.४ ॥
सचेतनेन शुद्धेन रागादिरहितेन च॥
अथ कस्मादात्मसदृशं न सृष्टं निर्मितं जडम्॥ ४६.५ ॥
निर्वैरेण समेनाथ सुखदुःखभवाभवैः॥
ब्रह्मादिकीटपर्यन्तं किमेव क्लिश्यते जगत्॥ ४६.६ ॥
कांश्चित्स्वर्गेथ नरके पातयंस्त्वं सदाशिव॥
किं फलं समवाप्नोषि किमेवं कुरुषे वद॥ ४६.७ ॥
इष्टैः पुत्रादिभिर्नाथ वियुक्ता मानवा ह्यमी॥
क्रंदंति करुणासार किं घृणापि भवेन्न ते॥ ४६.८ ॥
अतीव नोचितं सर्वमेतदीश्वर सर्वथा॥
यत्ते भक्ताः समं पापैर्मज्जंते दुःखसागरे॥ ४६.९ ॥
एवंविधेन संसारचारित्रेण विमोहिताः॥
स्थानां तरं न यास्यामि भोक्ष्ये पास्यामि नोदकम्॥ ४६.१० ॥
मरणांतमेव यास्यामि स्थास्ये संचिंतयन्नदः॥
स एवं विमृशन्नेव नंदभद्रः स्वयं स्थितः॥ ४६.११ ॥
ततश्चतुर्थे दिवसे बहूकतटे शुभे॥
कश्चिद्बालः सप्तवर्षः पीडापीडित आययौ॥ ४६.१२ ॥
कृशोतीव गलत्कुष्ठी प्रमुह्यंश्च पदेपेद॥
नंदभद्रमुवाचेदं कृच्छ्रात्संस्तभ्य बालकः॥ ४६.१३ ॥
अहो सुरूपसर्वांग कस्माद्दुःखी भवानपि॥
ततोस्य कारणं सर्वं व्याचष्ट नंदभद्रकः॥ ४६.१४ ॥
श्रुत्वा तत्कारणं सर्वं बालो दीनमना ब्रवीत्॥
अहो हा कष्टमत्युग्रं बुधानां यदबुद्धिता॥ ४६.१५ ॥
संपूर्णेंद्रियगात्रा यन्मर्तुमिच्छंति वै वृथा॥
मुहूर्ताद्ध्यत्र खट्वांगो मोक्षमार्गमुपागतः॥ ४६.१६ ॥
तदहो भारतं खंडं सत्यायुषि त्यजेद्धि कः॥
अहमेव दृढो मन्ये पितृभ्यां यो विवर्जितः॥ ४६.१७ ॥
अशक्तश्चलितुं वापि मर्तुमिच्छामि नापि च॥
सर्वे लाभाः सातिमाना इति सत्या बत श्रुतिः॥ ४६.१८ ॥
संतोषोऽप्युचितस्तुभ्यं देहं यस्य दृढं त्विदम्॥
शरीरं नीरुजं चेन्मे भवेदपि कथंचन॥ ४६.१९ ॥
क्षणेक्षणे च तत्कुर्यां भुज्यते यद्युगेयुगे॥
इंद्रियाणि वशे यस्य शरीरं च दृढं भवेत्॥ ४६.२० ॥
सोऽप्यन्यदिच्छते चेच्च कोऽन्यस्तस्मादचेतनः॥
शोकस्थानसहस्राणि हर्षस्थानशतानि च॥ ४६.२१ ॥
दिवसे दिवसे मूढमावशंति न पंडितम्॥
न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु॥ ४६.२२ ॥
मूलघातिषु सज्जंते बुद्धिमंतो भवद्विधाः॥
अष्टांगां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम॥ ४६.२३ ॥
श्रुतिस्मृत्यविरुद्धा सा बुद्धिस्त्वय्यस्ति निर्मला॥
अथ कृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च॥ ४६.२४ ॥
शारीरमानसैर्दुःखैर्न सीदंति भवद्विधाः॥
नाप्राप्यमभिवांछंति नष्टं नेच्छंति शोचितुम्॥ ४६.२५ ॥
आपत्सु च न मुह्यंति नराः पंडितबुद्धयः॥
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्पितं जगत्॥ ४६.२६ ॥
तयोर्व्याससमासाभ्यां शमोपायमिमं श्रृणु॥
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविसर्जनात्॥ ४६.२७ ॥
चतुर्भिः कारणैर्दुःखं शीरीरं मानसं च यत्॥
मानसं चाप्यप्रियस्य संयोगः प्रियवर्जनम्॥ ४६.२८ ॥
द्विप्रकारं महाकष्टं द्वयोरेतदुदाहृतम्॥
मानसेन हि दुःखेन शरीरमुपतप्यते॥ ४६.२९ ॥
अयःपिंडेन तप्तेन कुंभसंस्थमिवोदकम्॥
तदाशु प्रति काराच्च सततं च विवर्जनात्॥ ४६.३० ॥
व्याधेराधेश्च प्रशमः क्रियायोगद्वयेन तु॥
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवांबुना॥ ४६.३१ ॥
प्रशांते मानसे ह्यस्य शारीरमुपशाम्ति॥
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते॥ ४६.३२ ॥
स्नेहाच्च सज्जनो नित्यं जन्तुर्दुःखमुपैति च॥
स्नेहमूलानि दुःखानि स्नेहजानि भायानि च॥ ४६.३३ ॥
शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते॥ ४६.३४ ॥
स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा॥
अश्रेयस्कावुभावतौ पूर्वस्तत्र गुरुः स्मृतः॥ ४६.३५ ॥
त्यागी तस्मान्न दुःखी स्यान्नर्वैरो निरवग्रहः॥
अत्यागी जन्ममरणे प्राप्नोतीह पुनःपुनः॥ ४६.३६ ॥
तस्मात्स्नेहं न लिप्सेन मित्रेभ्यो धनसंचयात्॥
स्वशरीरसमुत्थं च ज्ञानेन विनिर्वतयेत्॥ ४६.३७ ॥
ज्ञानान्वितेषु सिद्धेषु शास्त्रूज्ञेषु कृतात्मसु॥
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्॥ ४६.३८ ॥
रागाभिभूतः पुरुषः कामेन परिकृष्यते॥
इच्छा संजायते चास्य ततस्तृष्णा प्रवर्धते॥ ४६.३९ ॥
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी मता॥
अधर्मबहुला चैव घोररूपानुबंधिनी॥ ४६.४० ॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यतः॥
यासौ प्राणांतिको रोगस्तां तृष्णां त्यजतः सुखम्॥ ४६.४१ ॥
अनाद्यंता तु सा तृष्णा ह्यंतर्देहगता नृणाम्॥
विनाशयति संभूता लोहं लोहमलो यथा॥ ४६.४२ ॥
यथैवैधः समुत्थेन वह्निना नाशमृच्छति॥
तथाऽकृतात्मा लोबेन स्वोत्पन्नेन विनश्यति॥ ४६.४३ ॥
तस्माल्लोभो न कर्तव्यः शरीरे चात्मबंधुषु॥
प्राप्तेषु व न हृष्येत नाशो वापि न शोचयेत्॥ ४६.४४ ॥
॥नंदभद्र उवाच॥
अहो बाल न बालस्त्वं मतो मे त्वां नमाम्यहम्॥
त्वद्वाक्यैरतितृप्तोऽहं त्वां तु प्रक्ष्यामि किंचन॥ ४६.४५ ॥
कामक्रोधावहंकारमिंद्रियाणि च मानवाः॥
निंदंति तत्र मे नित्यं विवक्षेयं प्रजायते॥ ४६.४६ ॥
अहमेष ममेदं च कार्यमीदृशकस्त्वहम्॥
इत्यादि चात्मविज्ञानमहंकार इति स्मृतः॥ ४६.४७ ॥
परिहार्यः य चेत्तं च विनोन्मत्तः प्रकीर्यते॥
कामोऽभिलाष इत्युक्तः सं चेत्पुंसा विवर्ज्यते॥ ४६.४८ ॥
कथं स्वर्गो मुमुक्षा वा साध्यते दृषदा यथा॥
क्रोधो वा यदि संत्याज्यस्ततः शत्रुक्षयः कथम्॥ ४६.४९ ॥
बाह्यानामांतराणां वा विना तं तृणवद्विदुः॥
इंद्रियाणि निगृह्यैव दुष्टानीति निपीडयेत्॥ ४६.५० ॥
कथं स्याद्धर्मश्रवणं कथं वा जीवनं भवेत्॥
एतस्मिन्मे मनो विद्धंखिद्यतेऽज्ञानसंकटे॥ ४६.५१ ॥
तथा कस्मादिदं सृष्टं जडं विश्वं चिदात्मना॥
एवं यद्बहुधा क्लेशः पीड्यते हा कुतस्त्विदम्॥ ४६.५२ ॥
॥बाल उवाच॥
सम्यगेतद्यथा पृष्टं यत्र मुह्यंति जंतवः॥
श्रृण्वेकाग्रमना भूत्वा ज्ञातं द्वैपायनान्मया॥ ४६.५३ ॥
प्रकृतिः पुरुषश्चैव अनादी श्रृणुमः पुरा॥
साधर्म्येणावतिष्ठेते सृष्टेः प्रागजरामरौ॥ ४६.५४ ॥
ततः कालस्वबावाभ्यां प्रेरिता प्रकृतिः पुरा॥
पुंसः संयोगमैच्छत्सा तदभावात्प्रकुप्यत॥ ४६.५५ ॥
ततस्तमोमयी सा च लीलया देववीक्षिता॥
राजसी समभूद्दूष्टा सात्त्विकी समजायत॥ ४६.५६ ॥
एवं त्रिगुणतां याता प्रकृतिर्देवदर्शनात्॥
तां समास्थाय परमस्त्रिमूर्तिः समजायत॥ ४६.५७ ॥
तस्याः प्रोच्चारणार्थं च प्रवृत्तः स्वांशतस्ततः॥
असूयत महत्तत्त्वं त्रिगुणं तद्विदुर्बुधाः॥ ४६.५८ ॥
अहंकार स्ततो जातः सत्त्वराजसतामसः॥
तमो रजस्त्वमापद्य रजः सत्त्वगुणं नयेत्॥ ४६.५९ ॥
शुद्धसत्त्वे ततो मोक्षं प्रवदंति मनीषिणः॥
तमसो रजसस्त स्मात्संशुद्ध्यर्थं च सर्वशः॥ ४६.६० ॥
जीवात्मसंज्ञान्स्वीयांशान्व्यभजत्परमेश्वरः॥
तावंतस्ते च क्षेत्र्ज्ञा देहा यावंत एव हि॥ ४६.६१ ॥
निःसरंति यथा लोहात्तप्तल्लिंगात्स्फुलिंगकाः॥
तन्मात्रभूतसर्गोयमहंकारात्तु तामसात्॥ ४६.६२ ॥
इंद्रियाणां सात्त्विकाच्च त्रिगुणानि च तान्यपि॥
एतैः संसिद्धयंत्रेण सच्चिदानन्दवीक्षणात्॥ ४६.६३ ॥
रजस्तमश्च शोध्यंते सत्त्वेनैव मुमुक्षुभिः॥
तस्मात्कामं च क्रोधं च इंद्रियाणां प्रवर्तनम्॥ ४६.६४ ॥
अहंकारं च संसेव्य सात्त्विकीं सिद्धिमश्नुते॥
राजसास्तामसाश्चैव त्याज्याः कामादयस्त्वमी॥ ४६.६५ ॥
सात्त्विकाः सर्वदा सेव्याः संसारविजिगीषुभिः॥
गुणत्रयस्य वक्ष्यामि संक्षेपाल्लक्षणं तव॥ ४६.६६ ॥
सास्त्राभ्यासस्ततो ज्ञानं शौचमिंद्रियनिग्रहः॥
धर्मक्रियात्मचिंता च सात्त्विकं गुण लक्षणम्॥ ४६.६७ ॥
अन्यायेन धनादानं तंद्री नास्तिक्यमेव च॥
क्रौर्यं च याचकाद्यं च तामसं गुणलक्षणम्॥ ४६.६८ ॥
तस्माद्बुद्धिमुकैस्त्वतैः सात्त्विकैर्देवतां भजेत्॥
राजसैर्मानवत्वं च तामसैः स्थाणुयोनिता॥ ४६.६९ ॥
बुद्ध्याद्यैरेव मुक्तिः स्यादेतैरेव च यातना॥ ४६.७० ॥
अमीषां चाप्य भावे वै न किंचिदुपपद्यते॥
कलादो हि कलादीनां सुवर्णं शोधयेद्यथा॥ ४६.७१ ॥
तथा रजस्तमश्चैव संशोध्ये सात्त्विकैर्गुणैः॥
अस्मादेव गुणानां च समवायादनादिजात्॥ ४६.७२ ॥
सुखिनो दुःखिनश्चैव प्राणिनः शास्त्रदर्शिनः॥
अष्टाविंशतिलक्षैश्च गुणमेकैकमीश्वरः॥ ४६.७३ ॥
व्यभजच्चतुरा शीतिलक्षास्ता जीवयोनयः॥
सकाशान्मनसस्तद्वदात्मनः प्रभवंति हि॥ ४६.७४ ॥
ईश्वरांशाश्च ते सर्वे मोहिताः प्राकृतैर्गुणैः॥
क्लेशानासादयंत्येव यथैवाधिकृता विभोः॥ ४६.७५ ॥
अन्नानां पयसां चापि जीवानां चाथ श्रेयसे॥
मानुष्यमाहुस्तत्त्वज्ञाः शिवभावेन भावितम्॥ ४६.७६ ॥
॥नंदभद्र उवाच॥
एवमेतत्किं तु भूयः प्रक्ष्याम्येतन्महामते॥
ईश्वराः सर्वदातारः पूज्यंते यैश्च देवताः॥ ४६.७७ ॥
स्वभक्तांस्तान्न दुःखेभ्यः कस्माद्रक्षंति मानवान्॥
विशेषात्केपि दृश्यंते दुःखमग्नाः सुरान्रताः॥ ४६.७८ ॥
इति मे मुह्यते बुद्धिस्त्वं वा किं बाल मन्यसे॥ ४६.७९ ॥
॥बाल उवाच॥
अशुचिश्च शुचिश्चापि देवभक्तो द्विधा स्मृतः॥
कर्मणा मनसा वाचा तद्रतो भक्त उच्यते॥ ४६.८० ॥
अशुचिर्देवताश्चैव यदा पूजयते नरः॥
तदा भूतान्या विशंति स च मुह्यति तत्क्षणात्॥ ४६.८१ ॥
विमूढश्चाप्टयकार्याणि तानि तानि निषेवते॥
ततो विनश्यति क्षिप्रं नाशुचिः पूजयेत्ततः॥
शुचिर्वाभ्यर्चयेद्यश्च तस्य चेदशुभं भवेत्॥ ४६.८२ ॥
तस्य पूर्वकृतं व्यक्तं कर्मणां कोटि मुच्यते॥
महेश्वरो ब्रह्महत्याभयाद्यत्र ततस्ततः॥ ४६.८३ ॥
सस्नौ तीर्थेषु कस्माच्च इतरो मुच्यते कथम्॥
अम्बरीषसुतां हृत्वा पर्वतान्नारदात्तथा॥ ४६.८४ ॥
सीतापहारमापेदे रामोऽन्यो मुच्यते कथम्॥
ब्रह्मापि शिरसश्छेदं कामयित्वा सुतामगात्॥ ४६.८५ ॥
इंद्रचंद्ररविविष्णुप्रमुखाः प्राप्नुयुः कृतम्॥
तस्मादवश्यं च कृतं भोज्यमेव नरैः सदा॥ ४६.८६ ॥
मुच्यते कोऽपि स्वकृतान्नैवेति श्रुतिनिर्णयः॥
किं तु देवप्रसादेन लभ्यमेकं सुरव्रतैः॥ ४६.८७ ॥
बहुभिर्जन्मभिर्भोज्यं भुज्येतैकेन जन्मना॥
तच्च भुक्त्वात तस्त्वर्थो भवेदिति विनिश्चयः॥ ४६.८८ ॥
ये तप्यंते गतैः पापैः शुचयो देवताव्रताः॥
इह ते पुत्रपौत्रैश्च मोदंतेऽमुत्र चेह च॥ ४६.८९ ॥
तस्माद्देवाः सदा पूज्याः शुचिभिः श्रद्धयान्वितैः॥
प्रकृतिः शोधनीया च स्ववर्णोदितकर्मभिः॥ ४६.९० ॥
स्वनुष्ठितोऽपि धर्मः स्यात्क्लेशायैव विनाशिवम्॥
दुराचारस्य देवोपि प्राहेति भगवान्हरः॥ ४६.९१ ॥
भोक्तव्यं स्वकृतं तस्मात्पूजनीयः सदाशिवः॥
स्वाचारेण परित्याज्यौ रागद्वेषाविदं परम्॥ ४६.९२ ॥
॥नन्दभद्र उवाच॥
शुद्धप्रज्ञ किमेतच्च पापिनोऽपि नरा यदा॥
मोदमानाः प्रदृश्यन्ते दारैरपि धनैरपि॥ ४६.९३ ॥
॥बाल उवाच॥
व्यक्तं तैस्तमसा दत्तं दानं पूर्वेषु जन्मसु॥
रजसा पूजितः शंभुस्तत्प्राप्तं स्वकृतं च तैः॥ ४६.९४ ॥
किं तु यत्तमसा कर्म कृतं तस्य प्रभावतः॥
धर्माय न रतिर्भूयात्ततस्तेषां विदांवर॥ ४६.९५ ॥
भुक्त्वा पुण्यफलं याति नरकं संशयः॥
अस्मिंश्च संशये प्रोक्तं मार्कंडेयेन श्रूयते॥ ४६.९६ ॥
इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह॥
इह चामुत्र चैकस्य नामुत्रैकस्य नो इह॥ ४६.९७ ॥
पूर्वोपात्तं भवेत्पुण्यं भुक्तिर्नैवार्जयन्त्यपि॥
इह भोगः स वै प्रोक्तो दुर्भगस्याल्पमेधसः॥ ४६.९८ ॥
पूर्वोपात्तं यस्य नास्ति तपोभिश्चार्जयत्यपि॥
परलोके तस्य भोगो धीमतः स क्रियात्स्फुटम्॥ ४६.९९ ॥
पूर्वोपात्तं यस्य नास्ति पुण्यं चेहापि नार्जयेत्॥
ततश्चोहामुत्र वापि भो धिक्तं च नराधमम्॥ ४६.१०० ॥
इति ज्ञात्वा महाभागत्यक्त्वा शल्यानि कृत्स्नशः॥
भज रुद्रं वर्णधर्मं पालयास्मात्परं न हि॥ ४६.१०१ ॥
योहि नष्टेष्वभीष्टेषु प्राप्तेष्वपि च शोचति॥
तृप्येत वा भवेद्बन्धो निश्चितं सोऽन्यजन्मनः॥ ४६.१०२ ॥
॥नन्दभद्र उवाच॥
नमस्तुभ्यमबालाय बालरूपाय धीमते॥
को भवांस्तत्त्वतो वेत्तुमिच्छामि त्वां शुचिस्मितम्॥ ४६.१०३ ॥
बहवोऽपि मया वृद्धा दृष्टाश्चोपासिताः सदा॥
तेषामीदृशका बुद्धिर्न दृष्टा न श्रुतामया॥ ४६.१०४ ॥
येन मे जन्मसंदेहा नाशिता लीलयैव च॥
तस्मात्सामान्यरूपस्त्वं निश्चितं न मतं मम॥ ४६.१०५ ॥
॥बाल उवाच॥
महदेतत्समाख्येयमेकाग्रः श्रृणु तत्त्वतः॥
इतः सप्ताधिके चापि सप्तमे जन्मनि त्वहम्॥ ४६.१०६ ॥
वैदिशे नगरे विप्रो नाम्नाऽसं धर्मजालिकः॥
वेदवेदांगतत्त्वत्रः स्मृतिशास्त्रार्थविद्वरः॥ ४६.१०७ ॥
व्याख्याता धर्मशास्त्राणां यथा साक्षाद्बृहस्पतिः॥
किं त्वहं विविधान्धर्माल्लोंकानां वर्णये भृशम्॥ ४६.१०८ ॥
स्वयं चातिदुराचारः पापिनामपि पापराट्॥
मंसाशी मद्यसेवी च परदाररतः सदा॥ ४६.१०९ ॥
असत्यभाषी दम्भीच सदा धर्मध्वजी खलः॥
लोभी दुरात्मा कथको न कर्ता कर्हिचित्क्वचित्॥ ४६.११० ॥
यस्माज्जालिकवज्जालं लोकेभ्योऽहं क्षिपामि च॥
तत्त्वज्ञा मां ततः प्राहुर्धर्मजालिक इत्युत॥ ४६.१११ ॥
सोऽहं तैर्बहुभिश्चीर्णैः पातकैरंत आगते॥
मृतो गतो यमस्थानं पातितः कूटशाल्मलीम्॥ ४६.११२ ॥
यमदुतैस्ततः कृष्टः स्मार्यमामः स्वचेष्टितम्॥
खड्गैश्च कृत्यमानोऽहं जीवामि प्रमियामि च॥ ४६.११३ ॥
आत्मानं बहुधा निंदञ्छाश्वतीर्न्यवसं समाः॥
नरके या मतिर्भूयाद्धर्मं प्रति प्रपीडतः॥ ४६.११४ ॥
सा चेन्मुहूर्तमात्रं स्यादपि धन्यस्ततः पुमान्॥
नमोनमः कर्मभूम्यै सुकृतं दुष्कृतं च वा॥ ४६.११५ ॥
यस्यां मुहूर्तमात्रेण युगैरपि न नश्यति॥
ततो विपश्चिज्जनको मोक्षयामास नारकात्॥ ४६.११६ ॥
तैः सहाहं प्रमुक्तश्च कथंचिदवपीडितः॥
स्थाणुत्वमनुभूयाथ क्लेशानासाद्य भूरिशः॥ ४६.११७ ॥
कीटोहमभवं पश्चात्तीरे सारस्वते शुभे॥
तत्र मार्गे सुखमिव संसुप्तोहं यदृच्छया॥ ४६.११८ ॥
आगच्छतो रथस्यास्य शब्दमश्रौषमुन्नतम्॥
तं मेघनिनदं श्रुत्वा भीतोहं सहसा जवात्॥ ४६.११९ ॥
मार्गमुत्सृज्य दूरेण प्रपलायनमाचरम्॥
एतस्मिन्नंतरे व्यासस्तत्र प्राप्तो यदृच्छया॥ ४६.१२० ॥
स मामपश्यत्त्रस्तं च कृपया संयुतो मुनिः॥
यन्मया सर्वलोकानां नानाधर्माः प्रकीर्तिताः॥ ४६.१२१ ॥
विप्रजन्मनि तस्यैव प्रभावाद्व्याससंगमः॥
ततः सर्वरुतज्ञो मां प्राहार्च्यः कीटभाषया॥ ४६.१२२ ॥
किमेवं नश्यसे कीट कस्मान्मृत्योर्बिभेषि च॥
अहो समुचिता भीतिर्मनुष्यस्य कुतस्तव॥ ४६.१२३ ॥
इत्युक्तो मतिमान्पूर्वपुण्याद्व्यासं तदोचिवान्॥
न मे भयं जगद्वंद्य मृत्योरस्मात्कथंचन॥ ४६.१२४ ॥
एतदेव भयं मान्य गच्छेयमधमां गतिम्॥
अस्या अपि कुयोनेश्च संत्यन्याः कोटिशोऽधमाः॥ ४६.१२५ ॥
तासु गर्भादिकक्लेशभीतस्त्रस्तोऽस्मि नान्यथा॥ ४६.१२६ ॥
॥व्यास उवाच॥
मा भयं कुरु सर्वाभ्यो योनिभ्यश्च चिरादिव॥
मोक्षयिष्यामि ब्राह्मण्यं प्रापयिष्यामि निश्चितम्॥ ४६.१२७ ॥
इत्युक्तोहं कालियेन तं प्रणम्य जगद्गुरुम्॥
मार्गमागत्य चक्रेण पीडितो मृत्युमागमम्॥ ४६.१२८ ॥
ततः काकश्रृगालादियोनिष्वस्मि यदाऽभवम्॥
तदातदा समागम्य व्यासो मां स्मारयच्च तत्॥ ४६.१२९ ॥
ततो बहुविधा योनीः परिक्रम्यास्मि कर्षितः॥
ब्राह्मणस्य च गेहेस्यां योनौ जातोऽतिदुःखितः॥ ४६.१३० ॥
ततो जन्मप्रभृत्यस्मि पितृभ्यां परिवर्जितः॥
गलत्कुष्ठी महापीडामेतां योऽनुभवामि च॥ ४६.१३१ ॥
ततो मां पंचमे वर्षे व्यास आगत्य जप्तवान्॥
कर्णे सारस्वतं मंत्रं तेनाहं संस्मरामि च॥ ४६.१३२ ॥
अनधीतानि शास्त्राणि वेदान्धर्मांश्च कृत्स्नशः॥
उक्तं व्यासेन चेदं मे गच्छ क्षेत्रं गुहस्य च॥
तत्र त्वं नंदभद्रं च आश्वासयमहामतिम्॥ ४६.१३३ ॥
त्यत्क्वा बहूदके प्राणानस्थिक्षेपं महीजले॥
काराय्य त्वं ततो भावी मैत्रेय इति सन्मुनिः॥ ४६.१३४ ॥
गमिष्यसि ततो मोक्षमिति मां व्यास उक्तवान्॥
आगतश्च ततश्चात्र वाहीकेभ्योऽयोऽतिक्लेशतः॥ ४६.१३५ ॥
इति ते कथितं सर्वमात्मनश्चरितं मया॥
पापमेवंविधं कष्टं नंदभद्र सदा त्यज॥ ४६.१३६ ॥
॥नंदभद्र उवाच॥
अहो महाद्भुतं तुभ्यं चरितं येन मे हृदि॥
भूयः शतगुणं जातं धर्मायदृढमानसम्॥ ४६.१३७ ॥
किं तु त्वयोक्तधर्मस्य कर्तुकामोस्मि निष्कृतिम्॥
धर्मं स्मर भवांस्तस्मात्किंचिदादिश निश्चितम्॥ ४६.१३८ ॥
॥बाल उवाच॥
अत्र तीर्थे च सप्ताहं निराहारस्त्वहं स्थितः॥
सूर्यमंत्राञ्जमिष्यामि त्यक्ष्यामि च ततस्त्वसून्॥ ४६.१३९ ॥
ततो बर्करिकातीर्थे दग्धव्योहं त्वया तटे॥
अस्थीनि सागरे चापि मम क्षेप्याणि चात्र हि॥ ४६.१४० ॥
यदि सापह्नवं चित्तं मय्यतीव तवास्ति चेत्॥
ततस्त्वां गुरुकार्यार्थमादेक्ष्यामि श्रृणुष्व तत्॥ ४६.१४१ ॥
अस्मिन्बहूदके तीर्थे यत्र प्राणांस्त्यजाम्यहम्॥
तत्र मन्नामचिह्नस्ते संस्थाप्यो भास्करो विभुः॥ ४६.१४२ ॥
आरोग्यं धनधान्यं च पुत्रदारादिसंपदः॥
भास्करो भगवांस्तुष्टो दद्यादेतच्छ्रुतेर्वचः॥ ४६.१४३ ॥
सविता परमो देवः सर्वस्वं वा द्विजन्मनाम्॥
वेदवेदांगगीतश्च त्वमप्येनं सदा भज॥ ४६.१४४ ॥
बहूदकमिदं कुंडं संसेव्यं च सदा त्वया॥
माहात्म्यमस्य वक्ष्यामि संक्षेपाद्व्यास सूचितम्॥ ४६.१४५ ॥
बहूदके कुंडवरे स्नाति यो विधिवन्नरः॥
आरोग्यं धनधान्याद्यं तस्य स्यात्सर्वजन्मसु॥ ४६.१४६ ॥
बहूदके च यः स्नात्वा सप्तम्यां माघमासके॥
दद्यात्पिंडं पितॄणां च तेऽक्ष्यां तृप्तिमाप्नुयुः॥ ४६.१४७ ॥
बहूदकस्य तीरे यः शुचिर्यजति वै क्रतुम्॥
शतक्रतुफलं तस्य नास्ति काचिद्विचारणा॥ ४६.१४८ ॥
अत्र यस्त्यजति प्राणान्बहूदकतटे नरः॥
मोदते सूर्यलोकेऽसौ धर्मिणां च सुतो भवेत्॥ ४६.१४९ ॥
बहूदकस्य तीरे च यः कुर्य्याज्जपसाधनम्॥
सर्वं लक्षगुणं प्रोक्तं जपो होमश्च पूजनम्॥ ४६.१५० ॥
बहूदकस्य तीरे च द्विजमेकं च भोजयेत्॥
यो मिष्टान्नेन तस्य स्याद्विप्रकोटिश्च भोजिता॥ ४६.१५१ ॥
बहूदकस्य तीरे या नारी गौरिणिकाः शुभाः॥
संभोजयति तस्याश्च कुर्यात्सुस्वागतं ह्युमा॥ ४६.१५२ ॥
बहूदकस्य तीरे च यः कुर्याद्योगसाधनम्॥
षण्मासाभ्यन्तरे सिद्धिर्भवेत्तस्य न संशयः॥ ४६.१५३ ॥
बहूदकस्य तीरे च प्रेतानुद्दिश्य दीयते॥
यत्किंचिदक्षयं तेषामुपतिष्ठेन्न चान्यथा॥ ४६.१५४ ॥
स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम्॥
कृतं बहूदकतटे सर्वं स्यात्सुमहात्फलम्॥ ४६.१५५ ॥
त्वयैतद्धृदि संधार्य फलं व्यासेन सूचितम्॥
बहूदकस्य कुंडस्य नंदभद्र महामते॥ ४६.१५६ ॥
इत्युक्त्वा सोऽभवन्मौनी स्नात्वा कुंडे ततः शुचिः॥
तीरे प्रस्तरमाश्रित्य स्वयं मंत्राञ्जाप ह॥ ४६.१५७ ॥
॥श्रीनारद उवाच॥
ततः स सप्तरात्रांते जहौ बालो निजानसून्॥
संस्कारितो यथोक्तं च नंदभद्रेण ब्राह्मणैः॥ ४६.१५८ ॥
यत्र बालः स च प्राणाञ्जहौ जपपरायणः॥
बालादित्यमिति ख्यातं तत्रास्थापयत प्रभुम्॥ ४६.१५९ ॥
बहूदके च यः स्नात्वा बालादित्यं प्रपूजयेत्॥
तस्य स्याद्भास्करस्तुष्टो मोक्षोपायं च विंदति॥ ४६.१६० ॥
नंदभद्रो ऽप्यथान्यस्यां भार्यायामपरान्सुतान्॥
उत्पाद्यात्मसमन्धीमाञ्छिवसूर्यपरायणः॥ ४६.१६१ ॥
रुद्रदेहं ययौ पार्थ पुनरावृत्तिदुर्लभम्॥
एवमेतन्महाकुंडं बहूदकमिति स्मृतम्॥ ४६.१६२ ॥
अस्य तीरे स्वमंशं च वल्लीनाथः प्रमेक्ष्यति॥
दत्तात्रेयस्य यो योगी ह्यवतारो भविष्यति॥ ४६.१६३ ॥
अर्चयित्वा च तं देवं योगसिद्धिमवाप्नुयात्॥
पशूनामृद्धिमाप्नोति गोशरण्यो ह्यसौ प्रभुः॥ ४६.१६४ ॥
पश्चिमायां बुधसुतस्तथा क्षेत्रं स भारत॥
पुरूरवादित्यमिति स्थापयामास पार्थिवः॥ ४६.१६५ ॥
सर्वकामप्रदश्चासौ भट्टदित्यसमो रिवः॥
बहूदकक्षेत्रसमं तस्य क्षेत्रं च भारत॥ ४६.१६६ ॥
अस्य तीर्थस्य माहात्म्यं जप्तव्यं कर्णमूलके॥
पुत्रस्य वापि शिष्यस्य न कथंचन नास्तिकः॥ ४६.१६७ ॥
श्रृणोतीदं श्रद्धया यस्तस्य तुष्येश्च भास्करः॥
धारयन्हृदये मोक्षंमुच्यते भवसागरात्॥ ४६.१६८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बहूदकमाहात्म्य बालादित्यवृत्तान्तवर्णनंनाम षट्चत्वारिंशोऽध्यायः॥ ४६ ॥ छ ॥
वर्गः:कौमारिकाखण्डः
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 47
।। नारद उवाच ।। ।।
ततो मयास्य तीर्थस्य रक्षणाय पुनर्जय ।।
समाराध्य यथा देव्यः स्थापितास्तच्छृणुष्व भोः ।।१।।
यथात्मा सर्वभूतेषु व्यापकः परमेश्वरः ।।
तथैव प्रकृतिर्नित्या व्यापका परमेश्वरी ।। २ ।।
शक्ति प्रसादादाप्नोति वीर्यं सर्वाश्च संपदः ।।
ईश्वरी सर्वभूतेषु सा चैवं पार्थ संस्थिता ।। ३ ।।
बुद्धिह्रीपुष्टिलज्जेति तुष्टिः शांतिः क्षमा स्पृहा ।।
श्रद्धा च चेतना शक्तिर्मंत्रोत्साहप्रभूद्भवा ।। ४ ।।
इयमेव च बंधाय मोक्षायेयं च सर्वदा ।।
एनामाराध्य चैश्वर्यमिन्द्राद्याः समवाप्नुयुः ।। ५ ।।
ये च शक्तिं न मन्यंते तिरस्कुर्वंति चाधमाः ।।
योगीन्द्रा अपि ते व्यक्तं भ्रश्यंते काशिजा यथा ।। ६ ।।
वाराणस्यां किल पुरा सिद्धयोगीश्वराः पुनः ।।
अवमन्य च ते शक्तिं पुनर्भ्रंशमुपागताः ।। ७ ।।
तस्मात्सदा देहिनेयं शक्तिः पूज्यैव नित्यदा ।।
तुष्टा ददाति सा कामान्रुष्टा संहरते क्षणात् ।। ८ ।।
परमा प्रकृतिः सा च बहुभेदैर्व्यवस्थिता ।।
तासां मध्ये महादेव्यो ह्यत्र संस्थापिताः शृणु ।।९।।
चतस्रस्तु महाशक्त्यश्चतुर्दिक्षु व्यवस्थिताः ।।
सिद्धांबिका तु पूर्वस्यां स्थापिता सा गुहेन च ।। 1.2.47.१० ।।
जगदादौ मूलूप्रकृतेरुत्पन्ना सा प्रकीर्त्यते ।।
आराधिता यतः सिद्धैस्तस्मात्सिद्धांबिका च सा ।।११।।
दक्षिणस्यां तथा तारा संस्थिता स्थापिता मया ।।
तारणार्थाय देवानां यस्मात्कूर्मं समाश्रिता ।। १२ ।।
ययाविष्टः समुज्जह्रे वेदान्कूर्मो जगद्गुरुः ।।
अनयाविष्टदेहश्च बुधो बौद्धान्हनिष्यति ।।१३।।
कोटिशो वेदमार्गस्य ध्वंसकान्पापकर्मिणः।।
इयं मया समाराध्य समानीता गिरेः सुता ।। १४ ।।
कोटिसंख्याभिरत्युग्रदेवीभिः संवृता च सा ।।
दक्षिणां दिशमाश्रित्य संस्थिता मम गौरवात् ।।१५।।
पश्चिमायां तथा देवी संस्थिता भास्करा शुभा ।।
ययाविष्टानि भासंते भास्करप्रमुखानि च।।१६।।
बिंबानि सर्वताराणां गच्छन्त्यायांति च द्रुतम् ।।
सैषा महाबला शक्तिर्भास्वरा कुरुनन्दन ।।१७।।
मयाराध्य समानीता कटाहादत्र संस्थिता ।।
कोटिकोटिवृता नित्यं त्रायते पश्चिमां दिशम् ।। १८ ।।
उत्तरस्यां तथा देवी संस्थिता योगनंदिनी ।।
परमप्रकृतेर्देहात्पूर्वं निःसृतया यया ।। १९ ।।
दृष्ट्या दृष्टा निर्मलया योगमापुश्चतुःसनाः ।।
योगीश्वरी च सा देवी सनकाद्यैः सुतोषिता ।। 1.2.47.२० ।।
सैव चांडकटाहान्मे समाराध्यात्र प्रापिता ।।
योगिनीभिः परिवृता संस्थिता चोत्तरां दिशम् ।। २१ ।।
एवमेता महाशक्त्यश्चतस्रः संस्थिताः सदा ।।
पूजिताः कामदा नित्यं रुष्टाः संहरणक्षमाः ।। २२ ।।
ततश्च नव मे दुर्गाः समानीताः शृणुध्व ताः ।। २३ ।।
त्रिपुरानाम परमा देवी स्थाणुर्यया पुरा ।।
आविष्टस्त्रिपुरं निन्ये भस्मत्वं जगदीश्वरः ।। २४ ।।
त्रिपुरेति ततस्तां तु प्रोक्तवान्भगवान्हरः ।।
तुष्टाव च स्वयं तस्मात्पूज्या सा जगतामपि ।। २५ ।।
सा चाराध्य समानीता मयामरेश्वरपर्वतात् ।।
भक्तानां कामदा सास्ति भट्टादित्यसमीपतः ।। २६ ।।
अपरा चापि कोलंबा महाशक्तिः सनातनी ।।
कोलरूपी ययाविष्टः केशवश्चोज्जहार गाम् ।। २७ ।।
तस्मात्सा विष्णुना चोक्ता कोलंबेति स्तुतार्चिता ।।
सा च देवी मया पार्थ भक्तियोगेन तोषिता ।। २८ ।।
वाराहगिरिसंस्था मां समानीता च साब्रवीत् ।।
यत्राहं नारद सदा तिष्ठामि कृपयार्थिनाम् ।। ।। २९ ।।
तत्र कूपेन संस्थेयं रुद्राणीसंस्थितेन वै ।।
तं हि कूपं विना मह्यं न रतिर्जायते क्वचित् ।।1.2.47.३०।।
तस्माद्भवान्कूपवरं स्वयमत्र खन द्विज ।।
एवमुक्ते पार्थ देव्या दर्भमूलेन मे तदा ।। ३१ ।।
कूपोऽखनि यत्र साक्षाद्रुद्राणी कूप आबभौ ।।
ततो मया तत्र देवाः स्नात्वा जप्त्वा च तर्पिताः।।३२।।
पूजिता च ततो दैवी कोलंबा जगदीश्वरी ।।
परितुष्टा तदा देवी प्रणतं मा ततोऽब्रवीत् ।। ३३ ।।
सदात्र चाहं स्थास्यामि प्रसादं प्रापिता त्वया ।।
ये च कूपेत्र संस्नात्वा माघाष्टम्यां विशेषतः ।।३४।।
पूजयिष्यंति मां मर्त्यास्तेषां छेत्स्यामि दुष्कृतम् ।।
सर्वतीर्थमयी यश्च सर्वर्तुकवनेस्थितः ।। ३५ ।।
मेरोः समीपे रुद्राण्याः कूप एष स एव च ।।३६।।
प्रयागादपि गंगाया गयायाश्च विशेषतः ।।
कूपेस्मिन्नधिकं स्नानं मया नारद कीर्तितम् ।। ३७ ।।
तदहं तव वाक्येन संस्थितात्र तपोधन ।।
गुहेनाथ सरः पुण्यं पालयिष्याम्यतंद्रिता ।। ३८ ।।
कुमारेशं पूजयित्वा पूजयिष्यंति ये च माम् ।।
देवीभिः षष्टिकोटीभिर्युता तेषामभीष्टदा ।। ३९ ।।
।। नारद उवाच ।। ।।
इत्युक्तोऽहं पार्थ देव्या तदानीं प्रीयमाणया ।।
प्रत्यब्रवं प्रमुदितः कोलंबां विश्वमातरम् ।। 1.2.47.४० ।।
अत्रास्य माता त्वं देवि गुप्तक्षेत्रस्यकारणम् ।।
तीर्थयात्रा वृथा तेषां नार्च्चयंतीह त्वां च ये ।। ४१ ।।
इदं च यत्सरः पुण्यं त्वन्नाम्ना ख्यातिमेष्यति ।।
ईश्वरी सरसोऽस्य त्वं तीर्थस्यास्य तथेश्वरी ।। ४२ ।।
एवं दीर्घं तपस्तप्त्वा स्थापिता मयका शुभा ।।
महादुर्गा नरैस्तस्मात्पूज्येयं सततं बुधैः ।। ४३ ।।
तृतीया च दिशि तस्यां स्थिता संस्थापिता मया ।।
गुहेन च कपालेश्याः प्रभावोस्याः पुरेरितः ।। ४४ ।।
धन्यास्ते ये प्रपश्यंति नित्यमेनां नरोत्तमाः ।।
कपालेश्वरमभ्यर्च्य विश्वशक्तिरियं यतः ।। ४५ ।।
एवमेतास्तिस्रो दुर्गाः पूर्वस्यां दिशि संस्थिताः ।।
पश्चिमायां प्रवक्ष्यामि तिस्रो दुर्गा महोत्तमा ।। ४६ ।।
सुवर्णाक्षी तु या देवी ब्रह्मांडपरिपालिनी ।।
सा मयात्र समाराध्य तीर्थे देवी निवेशिता ।। ।। ४७ ।।
ये चैनां प्रणमिष्यंति पूजयिष्यंति भक्तितः ।।
त्रयस्त्रिंशद्भिः कोटीभिर्देवीभिः पूजिता च तैः ।। ४८ ।।
अपरा च महादुर्गा चर्चिता चेति संस्थिता ।
रसातलतलात्तत्र मयानीता सुभक्तितः ।। ४९ ।।
इयमर्च्या च चिंत्या च वीरत्वं समभीप्सुभिः ।।
बहुभिर्देवदैतेयैर्ददौ तेभ्यश्च वीरताम् ।। 1.2.47.५० ।।
इयमेव महादुर्गा शूद्रकं वीरसत्तमम् ।
चौरैर्बद्धं कलौ चाग्रे मोक्षयिष्यति विक्रमात् ।। ५१ ।।
ततस्त्वेतां स चाराध्य वीरेंद्रत्वमवाप्स्यति ।।
निहनिष्यति चाक्रम्य कालसेनमुखान्रिपून् ।। ५२ ।।
तस्मादियं समाराध्या वीर्यकामैर्नरैः सदा ।।
चर्चिता या महादुर्गा पश्चिमायां दिशि स्थिता ।। ५३ ।।
तथा त्रैलोक्यविजया तृतीयस्यां दिशि स्थिता ।
यामाराध्य जयं प्राप्तस्त्रिलोक्यां रोहिणीपतिः ।।
सोमलोकान्मयानीता पूजिता जयदा सदा ।। ५४ ।।
एवमेताः पश्चिमायामुत्तरस्यामतः शृणु ।।
तिस्रो देव्यश्चोत्तरस्यामेकवीरामुखाः स्थिताः ।। ५५ ।।
एकवीरेति या देवी साक्षात्सा शिवपूजिता ।।
ययाविष्टो जगत्सर्वं संहरत्येष भूतराट् ।। ५६ ।।
वीर्येणाद्येकवीरायाः कृत्वा लोकांश्च भस्मसात् ।।
युगैकादशपूर्णत्वे विलक्षोऽभूत्स भस्मनि ।। ५७ ।।
एवंविधा त्वेकवीरा शक्तिरेषा सनातनी ।।
पूजिताराधिता चैव सर्वाभीप्सितदा नृणाम् ।। ।। ५८ ।।
ब्रह्मलोकात्समानीता मयाराध्यात्र भारत ।।
नामकीर्तनमप्यस्या दुष्टानां घातनं विदुः ।। ५९ ।।
द्वितीया हरसिद्ध्याख्या देवी दुर्गा महाबला ।।
शीकोत्तरात्समाराध्य मयानीतात्र पांडव ।। 1.2.47.६० ।।
यदा शीकोत्तरस्थेन पार्वत्या प्रार्थितेन च ।।
रुद्रेण डाकिनीमंत्रः प्रोक्तो देव्याः कृपालुना ।। ६१ ।।
तदा मंत्रप्रभावेण मोहिता गिरिजा सती ।।
तमेवाक्रम्य मांसं च शोणितं च भवं पपौ ।। ६२ ।।
ततो रुद्रशरीरात्तु विनिष्क्रांतार्तिनाशिनी ।।
हरसिद्धिर्महादुर्गा महामंत्रविशारदा ।। ६३ ।।
सा सहस्रभुजा देवी समाक्रम्याभिपीड्य च ।।
मोक्षयामास गिरिशमशापयत तां तथा ।। ६४ ।।
ततः प्रभृति सा लोके हरसिद्धिः प्रकीर्त्यते ।।
देवीनां षष्टिकोटीभिरावृता पूज्यते सुरैः ।। ६५ ।।
एतामाराध्य सुग्रीवप्रमुखा दोषनाशिनीम्।।।
अभूवन्त्सुमहावीर्या डाकिनीसंघनाशनाः ।। ६६ ।।
तस्मादेतां पूजयेत्तु मनोवाक्कायकर्मभिः ।।
डाकिन्याद्या न सर्पंति हरसिद्धेरनंतरम् ।। ६७ ।।
तृतीयेशानकोणस्था चंडिका नवमी स्थिता ।।
वागीशोऽपि लभेत्पारं नैव यस्याः प्रवर्णने ।। ६८ ।।
या पुरा पार्वतीदेहाद्विनिःसृत्य महासुरौ ।।
चंडमुंडौ निहत्यैव भक्षयामास क्रोधतः ।। ६९ ।।
अक्षौहिणीशतं त्वेकं चंडमुंडौ च तावुभौ ।।
नापूर्यतैकग्रासोऽस्याः किंलक्ष्या यात्वियं हि सा ।। 1.2.47.७० ।।
इयमेवांधकानां च तृषिता शोणितं पुनः ।।
पपौ ततो निजग्राह चांधकं भगवान्भवः ।। ७१ ।।
इयं च रक्तबीजानां कृत्वा पानं च रक्तजम् ।।
अर्पयामास तं देव्याश्चामुण्डापीतशोणितम् ।। ७२ ।।
एषा तृप्यति भक्तानां प्रणामेनापि भारत ।।
अर्बुदानां च कोटीभिर्दैत्यानां पापकर्मिणाम् ।। ७३ ।।
कुण्डं चास्या मया देव्याः पुण्यं निष्पादितं शुभम् ।।
यत्र वै स्पर्शमात्रेण सर्वतीर्थफलं लभेत् ।। ७४ ।।
हरसिद्धिर्देवसिद्धिर्धर्मसिद्धिश्च भारत ।।
विविधा प्राप्यते सिद्धिस्तीर्थेऽस्मिंश्चंडिकारतैः ।। ७५ ।।
यश्च पूजयते देवीं स्वल्पेन बहुनापि वा ।।
कात्यायनी कोटिशतैर्वृता तस्य विभूतिदा ।। ७६ ।।
एवमेता महादुर्गा नवतीर्थेऽत्र संस्थिताः ।।
चतस्रश्चापि दिग्देव्यो नित्यमर्च्याः शुभेप्सुभिः ।।७७।।
आश्विनस्य च मासस्य नवरात्रे विशेषतः ।।
उपोष्य चैकभक्तैर्वा देवीस्त्वेताः प्रपूजयेत् ।। ७८ ।।
बलिपूपकनैवेद्यैस्तर्पणैर्धूपगंधिभिः ।।
तस्य रक्षां चरंत्येता रथ्यासु त्रिकचत्वरे ।। ७९ ।।
भूतप्रेतपिशाचाद्या नोपकुर्युः प्रपीडनम् ।।
आपदो विद्रवंत्याशु योगिन्यो नंदयंति तम् ।। 1.2.47.८० ।।
पुत्रार्थी लभते पुत्रान्धनार्थी धनमाप्नुयात् ।।
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।। ८१ ।।
आसां यः कुरुते भक्तिं नरो नारी च श्रद्धया ।।
सर्वान्कामानवाप्नोति यांश्चिंतयति चेतसि ।। ८२ ।।
कामगव्य इमा देव्यश्चिन्तामणिनिभास्तथा ।।
कल्पवल्ल्योऽऽथ भक्तानां प्रतिच्छन्दोऽत्र नव हि ।। ८३ ।।
तथात्र भूतमातास्ति हरसिद्धेस्तु दक्षिणे ।।
तस्या माहात्म्यमतुलं संक्षेपात्प्रब्रवीमि ते ।। ८४ ।।
पूर्वं किल गुहो विद्वान्पुण्ये सारस्वते तटे।।
भूतप्रेतपिशाचानामाधिराज्येऽभ्यषिच्यत ।। ८५ ।।
स च सर्वाणि भूतानि मर्यादायामधारयत् ।।
एतदन्नं प्रदायैव कृपया भगवान्गुहः ।। ८६ ।।
यदमंत्रहुतं किंचिद्वेदबाह्यं च यत्कृतम् ।।
अश्रद्धया च क्रोधेन तद्वस्तृप्त्यै भविष्यति ।। ८७ ।।
ततस्त्वनेन भोगेन तानि नंदंति कृत्स्नशः ।।
ततः केनापि कालेन श्रद्धयाऽश्रद्धया कृतम् ।। ८८ ।।
पुण्यं तान्येव भूतानि ग्रसंत्याक्रम्य देवताः ।।
ततो देवाः क्षुधार्त्तास्ते गुहायैतन्न्यवेदयन् ।। ८९ ।।
स वै तदाकर्ण्य क्रुद्धो गुहः काल इवाभवत् ।।
तस्य क्रुद्धस्य भ्रूपद्ममध्यात्काचिद्विनिर्गता ।। 1.2.47.९० ।।
ज्वालामाला सुदुर्दर्शा नारी द्वादशलोचना ।।
सा च प्रणम्य तं प्राह तव शक्तिरहं प्रभो ।।
शीघ्रमादिश मां कृत्ये किं करोमि तवेप्सितम्।। ९१ ।।
।। स्कन्द उवाच ।। ।।
एतैर्भूतगणैः पापैरुल्लंघ्य मम शासनम् ।। ९२ ।।
मनुष्यदत्तं सकलं भुज्यते स्वेच्छयाधमैः ।।
शीघ्रमेतानि त्वं तस्मान्मर्यादायामुपानय ।। ९३ ।।
एतास्त्वानुव्रजिष्यंति देव्यः कोटिशतं शुभे ।।
ततस्तथेति सा चोक्ता देवीभिः संवृता तदा ।। ९४ ।।
मयूरं समुपास्थाय गुहशक्तिः समागता ।।
सरोजवनमासाद्य भूतसंघानपश्यत ।। ९५ ।।
जघान च समासाद्य देवी नानाविधायुधैः ।।
ततः प्रेतपिशाचाद्या हन्यमाना महारणे ।। ९६ ।।
प्रसादयंति तां देवीं नानावेषैः सुदीनवत् ।।
केचिद्ब्राह्मणवेषैश्च तापसानां तथो क्तिभिः ।। ९७ ।।
नृत्यंति देवि पद्माक्षि प्रसीदेति पुनःपुनः ।।
ततः प्रसन्ना सा देवी व्रियतां स्वेच्छयाऽऽह तान् ।। ९८ ।।
तां ते प्रोचुस्त्राहि नस्त्वं भूतमाता भवेश्वरि ।।
मर्यादां नैव त्यक्ष्यामो वयं स्कन्दविनिर्मिताम् ।। ९९ ।।
ये चैवं त्वां तोषयन्ति तेषां देहि वरान्सदा ।। 1.2.47.१०० ।।
।। श्रीदेव्युवाच ।। ।।
वैशाखे दर्शदिवसे ये चैवं तोषयंति माम् ।।
अरिष्टाभरणैः पुष्पैर्दधिभक्तैश्च पूजनैः ।।
तेषां सर्वोपसर्गा वै यास्यंति विलयं स्फुटम् ।। १०१ ।।
एवं दत्त्वा वरं देवी मुमुदे भूतसंवृता ।।
एवंप्रभावा सा देवी मयानीतात्र भारत ।। १०२ ।।
य एनां प्रणमेन्मर्त्यः सर्वारिष्टैर्विमुच्यते ।। १०३ ।।
एवं प्रभावाः परिकीर्तिता मया समासतस्तीर्थवरेऽत्र देव्यः ।।
चतुर्दशैवार्जुन पूजिता याश्चतुर्दशस्थानवरैर्नृमुख्यैः ।। १०४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीदेव्याख्यानवर्णनंनाम सप्तचत्वारिंशत्तमोऽध्यायः ।। ४७ ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 48
।। नारद उवाच ।। ।।
अथातः संप्रवक्ष्यामि सोमनाथमहिं स्फुटम् ।।
शृण्वन्यां कीर्त यिष्यामि पापमोक्षमवाप्नुयात् ।। १ ।।
पुरा त्रेतायुगे पार्थ चौडदेशसमुद्भवौ ।।
ऊर्जयंतश्च प्रालेयो विप्रावास्तां महाद्युती ।। २ ।।
तावेकदा पुराणार्थे श्लोकमेकमपश्यताम् ।।
तं दृष्ट्वा सर्वशास्त्रज्ञावास्तां कंटकितत्वचौ ।। ३ ।।
प्रभासाद्यानि तीर्थानि पुलस्त्यायाह पद्मभूः ।
न यैस्तत्राप्लुतं चैव किं तैस्तीर्थमुपासितम् ।। ४ ।।
इति श्लोकं पठित्वा तौ पुनःपुनरभिष्टुतम् ।।
तर्ह्येव च प्रभासाय निःसृतौ स्नातुमुत्तमौ ।। ५ ।।
तौ वनानि नदीश्चैव व्यतिक्रम्य शनैःशनैः ।।
महर्षिगणसंकीर्णामुत्तीणौ नर्मदां शिवाम् ।। ६ ।।
गुप्तक्षेत्रस्य माहात्म्यं महीसागरसंगमम् ।।
तत्र स्नात्वा प्रभासाय तन्मध्येन प्रतस्थतुः ।। ७ ।।
ततो मार्गस्य शून्यत्वात्तृट्क्षुधापीडितौ भृशम् ।।
आस्तां विचेतनौ विप्रौ सिद्धलिंगसमीपतः ।। ८ ।।
सिद्धनाथं नमस्कृत्य संप्रयातौ सुधैर्यतः ।।
क्षुधावेगेन तीव्रेण तृषा मध्यार्कतापितौ ।। ९ ।।
सहसा पतितौ भूमौ स्थूणपादौ विमूर्छितौ ।।
ततो मुहूर्तात्प्रालेय ऊर्जयंतमभाषत ।। 1.2.48.१० ।।
किंचिद्विश्वस्य धैर्याच्च सखे किं न श्रुतं त्वया ।।
यथा यथा विवर्णांगो जायते तीर्थयात्रया ।। ११ ।।
तथातथा भवेद्दानैर्दीनः सोमेश्वरो हरः ।।
तथाऽऽस्तां लुंठमानौ तावेवमुक्ते श्रुतेऽपि च ।। १२ ।।
लुंठमानो जगामैव प्रालेयः किंचिदंतरे ।।
उत्थितं सहसा लिंगं भूमिं भित्त्वा सुदुर्दृशम् ।। १३ ।।
खे वाणी चाभवत्तत्र पुष्पवर्षपुरःसरा ।।
प्रालेय तव हेतोस्तु सोमनाथसमं फलम् ।।
उत्थितं सागरतटे लिंगं तिष्ठात्र सुव्रत ।। १४ ।।
।। प्रालेय उवाच ।। ।।
यद्येवं सत्यमेतच्च तथाप्यात्मा प्रकल्पितः ।। १५ ।।
प्रभासाय प्रयातव्यं यदाऽऽ मृत्योर्मया स्फुटम् ।।
ततश्चैवोर्ज्जयंतोऽपि मूर्छाभावाल्लुठन्पुरः ।। १६ ।।
अपश्यदुत्थितं लिंगं स चैवं प्रत्यपद्यत ।।
ततः प्रत्यक्षतां प्राप्तो भवश्चक्रे तयोर्दृढे ।। १७ ।।
दृष्ट्या तनू ततो यातौ प्रभासं शिवसद्म च ।।
तावेतौ सोमनाथौ द्वौ सिद्धेश्वरसमीपतः ।। १८ ।।
ऊर्जयंतः प्रतीच्यां च प्रालेयस्येश्वरोऽपरः ।।
सोमकुडांभसि शनैः स्नात्वार्णवमहीजले ।। १९ ।।
सोमनाथद्वयं पश्येज्जन्मपापात्प्रमुच्यते ।।
ब्रह्मात्र स्थापयित्वा तु हाटकेश्वर संज्ञितम् ।। 1.2.48.२० ।।
महीनगरके लिंगं पातालात्सुमनोहरम् ।।
तुष्टाव देवं प्रयतः स्तुतिं तां शृणु पांडव ।। २१ ।।
नमस्ते भगवन्रुद्र भास्करामिततेजसे ।।
नमो भवाय रुद्राय रसायांबुमयाय ते ।। २२ ।।
शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ।।
ईशाय वायवे तुभ्यं संस्पर्शाय नमोनमः ।। २३ ।।
पशूनां पतये चापि पावकायातितेजसे ।।
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ।। २४ ।।
महादेवाय सोमाय अमृताय नमोऽस्तु ते ।।
उग्राय यजमानाय नमस्ते कर्मयोगिने ।। २५ ।।
इत्येवं नामभिर्दिव्यैः स्तव एष उदीरितः ।।
यः पठेच्छृणुयाद्वापि पितामहकृतं स्तवम् ।। २६ ।।
हाटकेश्वरलिंगस्य नित्यं च प्रयतो नरः ।।
अष्टमूर्तेः स सायुज्यं लभते नात्र संशयः ।। २७ ।।
हाटकेश्वरलिंगं च प्रयतो यः स्मरेदपि ।।
तस्य स्याद्वरदो ब्रह्मा तेनेदं स्थापितं जय ।। २८ ।।
एवंविधानि तीर्थानि महीसागरसंगमे ।।
बहूनि संति पुण्यानि संक्षेपाद्वर्णितानि मे ।। २९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे स्तम्भतीर्थमाहात्म्ये सोमनाथवृत्तांतवर्णनंनामाष्टचत्वारिंशोऽध्यायः ।। ४८ ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 49
।। अर्जुन उवाच ।। ।।
अत्यद्भुतानि तीर्थानि लिंगानि च महामुने ।।
श्रुत्वा तव मुखांभोजाद्भृशं मे हृष्यते मनः ।। १ ।।
महीनगरकस्यापि स्थापितस्य त्वया मुने ।।
यानि तीर्थानि मुख्यानि तानि वर्णय मे प्रभो ।। २ ।।
।। नारद उवाच ।। ।।
श्रीमन्महीनगरके यानि तीर्थानि फाल्गुन ।।
तानि वक्ष्यामि यत्रास्ते जया दित्यो रविः प्रभुः ।। ३ ।।
जयादित्यस्य यो नाम कीर्तयेदिह मानवः ।।
सर्वरोगविनिर्मुक्तो लभेत्सोऽपि हृदीप्सितम् ।। ४ ।।
यस्य संदर्शनादेव कल्याणैरपि पूर्यते ।।
मुच्यते चाप्यकल्याणैः श्रद्धावान्पार्थ मानवः ।। ५ ।।
तस्य देवस्य चोत्पत्तिं शृणु पार्थ वदामि ते ।।
शृण्वन्वा कीर्तयन्वापि प्रसादं भास्कराल्लभेत् ।। ६ ।।
अहं संस्थाप्य संस्थानमेतत्कालेन केनचित् ।।
प्रयातो भास्करं लोकं दर्शनार्थी यदृच्छया ।। ७ ।।
स मां प्रणतमासीनमभ्यर्च्यार्घेण भास्करः ।।
प्रहसन्निव प्राहेदं देवो मधुरया गिरा ।। ८ ।।
कुत आगम्यते विप्र क्व च वा प्रतिगम्यते ।।
क्व चायं नारदमुने कालस्ते विहृतोऽभवत् ।। ९ ।।
।। नारद उवाच ।। ।।
एवमुक्तो भास्करेण तं तदा प्राब्रवं वचः ।।
भारते विहृतः खण्डे महीनगरकादपि ।।
दर्शनार्थं तव विभो समायातोऽस्मि भास्कर ।। 1.2.49.१० ।।
।। रविरुवाच ।। ।।
यत्त्वया स्थापितं स्थानं तत्र ये संति ब्राह्मणाः ।।
तेषां गुणान्मम ब्रूहि किंगुणा ननु ते द्विजाः ।। ११ ।।
।। नारद उवाच ।। ।।
एवं पृष्टो भगवता पुनरेवाब्रवं वचः ।। १२ ।।
यदि तान्भोः प्रशंसामि स्वीयान्स्तौतीति वाच्यता ।।
निंदाम्यनर्हान्कस्माद्वा कष्टमेवोभयत्र च ।। १३ ।।
अथवा पारमाहात्म्ये सति तेषां महात्मनाम् ।।
अल्पे कृते वर्णने स्याद्दोष एव महान्मम ।। १४ ।।
मदर्चितद्विजेंद्राणां यदि स्याच्छ्रवणेप्सुता ।।
ततः स्वयं विलोक्यास्ते गत्वेदं मे मतं रवे ।। १५ ।।
इति श्रुत्वा मम वचो रविरासीत्सुविस्मितः ।।
स्वयं द्रक्ष्यामि चोवाच पुनःपुनरहर्पतिः ।। १६ ।।
सोऽथ विप्रतनुं कृत्वा मां विसर्ज्यैव भास्करः ।।
प्रतपन्दिवि योगाच्च प्रयातोर्णवरोधसि ।। १७ ।।
जटां त्रिषवणस्नानपिंगलां धारयन्नथ ।।
वृद्धद्विजो महातेजा ददृशे ब्राह्मणैर्मम ।। १८ ।।
ततो हारीतप्रमुखाः प्रहर्षोत्फुल्ललोचनाः ।।
उत्थाय ब्रह्मशालायास्ते द्विजा द्विजमाद्रवन् ।।१९।।
नमस्कृत्य द्विजाग्र्यं ते प्रहर्षादिदमब्रुवन् ।।1.2.49.२०।।
अद्य नो दिवसः पुण्यः स्थानमद्योत्तमं त्विदम् ।।
यत्त्वया विप्रप्रवर स्वयमागमनं कृतम् ।। २१ ।।
धन्यस्य हि गृहस्थस्य कृपयैव द्विजोत्तमाः ।।
आतिथ्यवेषेणायांति पावनार्थं न संशयः ।।२२।।
तत्त्वं गेहानि चास्माकं पादचंक्रमणेन च ।।
दर्शनाद्भोजनात्स्थानादस्माभिः सह पावय ।।२३।।
।। अतिथिरुवाच ।। ।।
भोजनं द्विविधं विप्रा प्राकृतं परमं तथा ।।
तदहं सम्यगिच्छामि दत्तं परमभोजनम् ।।२४ ।।
इत्येतदतिथेः श्रुत्वा हारीतः पुत्रमब्रवीत् ।।
अष्टवर्षं तु कमठं वेत्सि पुत्र द्विजोदितम् ।।२५।।
।।कमठ उवात्र।। ।।
तात प्रणम्य त्वां वक्ष्ये तादृक्परमभोजनम् ।।
द्विजं च तर्पयिष्यामि दत्त्वा परमभोजनम् ।। ।।२६।।
सुतेन किल जातेन जायते चानृणः पिता।।
सत्यं करिष्ये तद्वाक्यं संतर्प्यातिथिमुत्तमम्।।२७।।
भोजनं द्विप्रकारं च प्रविभागस्तयोरयम् ।।
प्राकृतं प्रोच्यते त्वेवमन्यत्परमभोजनम् ।। २८ ।।
तत्र यत्प्राकृतं नाम प्रकृतिप्रमुखस्य तत्।।
चतुर्विंशतितत्त्वानां गणस्योक्तं हि तर्पणम् ।। २९ ।।
षड्रसं भोजनं तच्च पंचभेदं वदंति च ।।
येन भुक्तेन तृप्तं स्यात्क्षेत्रं यद्देहलक्षणम् ।। 1.2.49.३० ।।
यथापरं परंनाम प्रोक्तं परमभोजनम् ।।
परमः प्रोच्यते चात्मा तस्य तद्भोजनं भवेत् ।। ३१ ।।
ततो नानाप्रकारस्य धर्मस्य श्रवणं हि यत् ।।
तदन्नं प्रोच्यते भोक्ता क्षेत्रज्ञः श्रवणौ मुखम् ।। ३२ ।।
तद्दास्यामि द्विजाग्र्याय पृच्छ विप्र यदिच्छसि ।।
शक्तितस्तर्पयिष्यामि त्वामहं विप्रसंसदि ।। ३३ ।।
।। नारद उवाच ।। ।।
कमठस्यैतदाकर्ण्य सोऽतिथिर्वचनं महत् ।।
मनसैव प्रशस्यामुं प्रश्नमेनमथाकरोत् ।। ३४ ।।
कथं संजायते जंतुः कथं चापि प्रलीयते ।।
भस्मतामथ संप्राप्य क्व चायं प्रति पद्यते ।। ३५ ।।
।। कमठ उवाच ।। ।।
गुरवे प्राङ्नमस्कृत्य धर्माय तदनंतरम् ।।
छंदोगीतममुं प्रश्नं शक्त्या वक्ष्यामि ते द्विज ।। ३६ ।।
जनने त्रिविधं कर्म हेतुर्जंतोर्भवेत्किल ।।
पुण्यं पापं च मिश्रं च सत्त्वराजसतामसम् ।। ३७ ।।
तत्र यः सात्त्विको नाम स स्वर्गं प्रतिपद्यते ।।
स्वर्गात्कालपरिभ्रष्टो धनी धर्मी सुखी भवेत्।। ३८ ।।
तथा यस्तामसो नाम नरकं प्रतिपद्यते ।।
भुक्त्वा बह्वीर्यातनाश्च स्थावरत्वं प्रपद्यते ।। ३९ ।।
महतां दर्शनस्पर्शैरुपभोगसहासनैः ।।
महता कालयोगेन संसरन्मानवो भवेत् ।। 1.2.49.४० ।।
सोऽपि दुःखदरिद्राद्यैर्वेष्टितो विकलेंद्रियः ।।
प्रत्यक्षः सर्व लोकानां पापस्यैतद्धि लक्षणम्।। ४१ ।।
अथ यो मिश्रकर्मा स्यात्तिर्यक्त्वं प्रतिपद्यते ।।
महतामेव संसर्गात्संसरन्मानवो भवेत् ।। ४२ ।।
यस्य पुण्यं पृथुतरं पापमल्पं हि जायते ।।
स पूर्वं दुःखितो भूत्वा पश्चात्सौख्यान्वितो भवेत् ।। ४३ ।।
पापं पृथुतरं यस्य पुण्यमल्पतरं भवेत् ।।
पूर्वं सुखी ततो दुःखी मिश्रस्यैतद्धि लक्षणम् ।। ४४ ।।
तत्र मानुषसंभूतिं शृणु यादृगसौ भवेत् ।।
पुरुषस्य स्त्रियाश्चैव शुक्रशोणितसंगमे ।। ४५ ।।
सर्वदोषविनिर्मुक्तो जीवः संसरते स्फुटम्।।
गुणान्वितमनोबुद्धिशुभाशुभसमन्वितः ।। ४६ ।।
जीवः प्रविष्टो गर्भं तु कलले प्रतितिष्ठति ।।
मूढश्च कलले तत्र मासमात्रं च तिष्ठति ।। ४७ ।।
द्वितीयं तु तथा मासं घनीभूतः स तिष्ठति ।।
तस्यावयवनिर्माणं तृतीये मासि जायते ।। ४८ ।।
अस्थीनि च तथा मासि जायंते च चतुर्थके ।।
त्वग्जन्म पंचमे मासि पष्ठे रोम्णां समुद्भवः ।। ४९ ।।
सप्तमे च तथा मासि प्रबोधश्चास्य जायते ।।
मातुराहारपीतं च सप्तमे मास्युपाश्नुते ।। 1.2.49.५० ।।
अष्टमे नवमे मासि भृशमुद्विजते ततः ।।
जरायुणा वेष्टितांगो मुखे बद्धकरांगुलिः ।।५१।।
मध्ये क्लीबस्तु वामे स्त्री दक्षिणे पुरुषस्तथा ।।
तिष्ठत्युदरभागे च पृष्ठेरग्निमुखः किल ।। ५२।।
यस्यां तिष्ठत्यसौ योनौ तां च वेत्ति न संशयः ।।
सर्वं स्मरति वृत्तांतं बहूनां जन्मनामपि ।। ५३ ।।
अंधे तमसि किं दृश्यो गंधान्मोहं दृढं लभेत् ।।
शीते मात्रा जले पीते शीतमुष्णं तथोष्णके ।। ५४ ।।
व्यायामे लभते मातुः क्लेशं व्याधेश्च वेदनाम् ।।
अलक्ष्याः पितृमातृभ्यां जायंते व्याधयः पराः ।। ५५ ।।
सौकुमार्याद्रुजं तीव्रां जनयंति च तस्य ते ।।
स्वल्पमप्यथ तं कालं वेत्ति वर्षशतोपमम् ।। ५६ ।।
संतप्यते भृशं गर्भे कर्मभिश्च पुरातनैः ।।
मनोरथांश्च कुरुते सुकृतार्थं पुनःपुनः ।। ५७।।
जन्म चेदहमाप्स्यामि मानुष्ये जीवितं तथा ।।
ततस्तत्प्रकरिष्यामि येन मोक्षो भवेत्स्फुटम्।।५८।।
एवं तु चिंतयानस्य सीमंतोन्नयनादनु।।
मासद्वयं तद्व्रजति पीडतस्त्रियुगाकृति ।। ५९ ।।
ततः स्वकाले संपूर्णे सूतिमारुतचालितः ।।
भवत्यवाङ्मुखो जंतुः पीडामनुभवन्पराम् ।। ।।1.2.49.६०।।
अधोमुखः संकटेन योनिद्वारेण निःसरेत्।।
पीडया पीडमानोऽपि चर्मोत्कर्तनतुल्यया ।। ६१ ।।
करपत्रसमस्पर्शं करसंस्पर्शनादिकम् ।।
असौ जातो विजानाति मासमात्रं विमोहितः ।। ६२ ।।
प्राक्कर्मवशगस्यास्य गर्भज्ञानं च नश्यति ।।
ततः करोति कर्माणि श्वेतरक्तासितानि च ।। ६३ ।।
अस्थिपट्टतुलास्तंभस्नायुबंधेन यंत्रितम् ।।
रक्तमांसमृदालिप्तं विण्मूत्रद्रव्यभाजनम् ।। ६४ ।।
सप्तभित्तिसुसंबद्धं छन्नं रोम तृणैरपि ।।
वदनैकमहाद्वारं गवाक्षाष्टविभूषितम् ।। ६५ ।।
ओष्ठद्वयकपाटं च दंतार्गलविमुद्रितम् ।।
नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम् ।। ।। ६६ ।।
जराशोकसमाविष्टं कालवक्त्रानलस्थितम् ।।
रागद्वेषादिभिर्ध्वस्तं षट्कौशिकसमुद्भवम् ।। ६७ ।।
एवं संजायते पुंसो देहगेहमिदं द्विज ।।
यस्मिन्वसति क्षेत्रज्ञो गृहस्थो बुद्धिगेहिनी ।। ६८ ।।
मोक्षं स्वर्गं च नरकमास्ते संसाधयन्नपि ।। ६९ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कमठसूर्यसंवादे जीवस्य देहोत्पत्तिवर्णनंनामैकोनपञ्चाशत्तमोऽध्यायः ।। ४९ ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 50
।। अतिथिरुवाच ।। ।।
साध्वबालमते बाल कमठैतत्त्वयोच्यते ।।
शरीरलक्षणं श्रोतुं पुनरिच्छामि तद्वद ।। १ ।।
।। कमठ उवाच ।। ।।
यथैतद्वेद ब्रह्मांडं शरीरं च तथा शृणु ।।
पादमूलं च पातालं प्रपदं च रसातलम् ।। २ ।।
तलातलं तथा गुल्फौ जंघे चास्य महातलम् ।।
जानुनी सुतलं चोरू वितलं चातलं कटिम् ।। ३ ।।
नाभिं महीतलं प्राहुर्भुवर्लोकमथोदरम् ।।
उरःस्थलं च स्वर्लोकं महर्ग्रीवा मुखं जनम् ।। ४ ।।
नेत्रे तपः सत्यलोकं शीर्षदेशं वदंति च ।।
तद्यथा सप्त द्वीपानि पृथिव्यां संस्थितानि च ।। ५ ।।
तथात्र धातवः सप्त नामतस्तान्निबोध मे ।।
त्वगसृङ्मांस मेदोऽस्थिमज्जाशुक्राणि धातवः ।। ६ ।।
अस्थ्नामत्र शतानि स्युस्त्रीणि षष्ट्यधिकानि च ।।
त्रिंशच्छतसहस्राणि नाडीनां कथितानि च ।। ७ ।।
षट्पंचाशत्सहस्राणि तथान्यानि नवैव तु ।।
ता वहंति रसं देहे जलं नद्यो यथा भुवि ।।८।।
सार्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः ।।
शरीरं स्थूलसूक्ष्माभिर्दृश्यादृश्या हि ताः स्मृताः ।।९।।
षडंगानि प्रधानानि कथ्यमानानि मे शृणु ।।
द्वौ बाहू सक्थिनी द्वे च मूर्धा जठरमेव च ।। 1.2.50.१० ।।
अंत्राण्यत्र तथा त्रीणि सार्धव्यामत्रयाणि च ।।
त्रिव्यामानि तथा स्त्रीणामाहुर्वेदविदो द्विजाः ।। ११ ।।
ऊर्ध्वनालमधोवक्त्रं हृदि पद्मं प्रकीर्त्यते ।।
हृत्पद्मवामतः प्लीहो दक्षिणे स्यात्तथा यकृत् ।। १२ ।।
मज्जातो मेदसश्चैव वसायाश्च तथा द्विज ।।
मूत्रस्य चैव पित्तस्य श्लेष्मणः शकृतस्तथा ।। ।। १३ ।।
रक्तस्य चरमस्यात्र गर्ता द्व्यंजलयः स्मृताः ।।
गेयः प्रवर्तमानास्ते देहं संधारयंत्युत ।। १४ ।।
सीवन्यश्च तथा सप्त पंच मूर्धानमास्थिताः ।।
एका मेढ्रं गता चैका तथा जिह्वां गता द्विज ।। १५ ।।
नाड्यः सर्वाः प्रवर्तंते नाभिपद्मात्तथात्र च ।।
यासां श्रेष्ठा शिरो याता सुषुम्नेडाऽथ पिंगला ।। १६ ।।
नासिकाद्वारमासाद्य संस्थिते देहवर्धने ।।
वायुरग्निश्चंद्रमाश्च पंचधा पंचधात्र च ।। १७ ।।
प्राणापानसमानाश्च उदानो व्यान एव च ।।
पंच भेदाः स्मृता वायोः कर्मार्ण्येषां वदंति च ।। १८ ।।
उच्छ्वासश्चैव निःश्वासो ह्यन्नपानप्रवेशनम् ।।
आकंठाच्छीर्षसंस्थास्य प्राणकर्म प्रकीर्तितम् ।। १९ ।।
त्यागो विण्मूत्रशुक्राणां गर्भविस्रवणं तथा ।।
अपानकर्म निर्दिष्टं स्थानमस्य गुदोपरि ।। 1.2.50.२० ।।
समानो धारयत्यन्नं विवेचयति चाप्यथ ।।
रसयंश्चैव चरति सर्वश्रोणिष्ववारितः ।। २१ ।।
वाक्प्रवृत्तिप्रदोद्गारे प्रयत्ने सर्वकर्मणाम् ।।
आकंठसुरसंस्थानमुदानस्य प्रकीर्त्यते ।। २२ ।।
व्यानो हृदि स्थितो नित्यं तथा देहचरोपि च ।।
धातुवृद्धिप्रदः स्वेदलालोन्मेषनिमेषकृत् ।। २३ ।।
पाचको रजकश्चैव साधकालोचकौ तथा ।।
भ्राजकश्च तथा देहे पञ्चधा पावकः स्थितः ।। २४ ।।
पाचकस्तु पचत्यन्नं नित्यं पक्वाशये स्थित. ।।।
आमाशयस्थोऽपि रसं रंजकः कुरुते त्वसृक् ।। २५ ।।
साधको हृदिसंस्थश्च बुद्ध्याद्युत्साहकारकः ।।
आलोचकश्च दृक्संस्थो रूपदर्शनशक्ति कृत ।। २६ ।।
त्वक्संस्थो भ्राजको देहं भ्राजयेन्निर्मलीकृतः ।।
क्लेदको बोधकश्चैव तर्पणः श्लेष्मणस्तथा ।। २७ ।।
आलंबकस्तथा देहे पंचधा सोम उच्यते ।।
क्लेदकः क्लेदयत्यन्नं नित्यं पक्वाशये स्थितः ।।२८।।
बोधको रसनास्थश्च रसानामवबोधकः ।।
शिरःस्थश्चक्षुरादीनां तर्पणात्तर्पणः स्मृतः ।। २९ ।।
सर्वसंधिगतश्चैव श्लेष्मणः श्लेष्मकृत्तथा ।।
उरःस्थः सर्वगात्राणि स वै ह्यालंबकः स्थितः ।।1.2.50.३०।।
एवं वाय्वग्निसोमैश्च देहः संधारितस्त्वसौ ।।
आकाशजानि स्रोतांसि तथा कोष्ठविविक्तता ।। ३१ ।।
पार्थिवानीह जानीहि घ्राणकेशनखानि च ।।
अस्थीनि धैर्यं गुरुता त्वङ्मांस हृदयं गुदम् ।। ३२ ।।
नाभिर्मेदो यकृन्मज्जा अंत्रमामाशयः शिरा ।।
स्नायुः पक्वाशयश्चैव प्राहुर्वेदविदो द्विजाः ।। ३३ ।।
नेत्रयोर्मडलं शुक्लं कफाद्भवति पैतृकम् ।।
कृष्णं च मण्डलं वातात्तथा भवति मातृकम् ।। ३४ ।।
पक्ष्ममण्डलमेकं तु द्वितीयं चर्ममण्डलम् ।।
शुक्लं तृतीयं कथित चतुर्थं कृष्णमण्डलम् ।। ३५ ।।
दृङ्मण्डलं पंचमं तु नेत्रं स्यात्पंचमण्डलम् ।।
अपरे नेत्रभागे द्वे उपांगोऽपांग एव च।। ३६ ।।
उपांगो नेत्रपर्यंतो नासा मूलमपांगकः ।।
वृषणौ च तथा प्रोक्तौ मेदोसृक्कफमांसकौ ।। ३७ ।।
असृङ्मांसमयी जिह्वा सर्वेषामेव देहिनाम् ।।
हस्तयोरोष्ठयोर्मेढ्रे ग्रीवायां षट् च कूर्चकाः ।। ३८ ।।
एवमत्र स्थिते जीवो देहेऽस्मिन्सप्तसप्तके ।।
पंचविंशतिको व्याप्य देहं वासोऽस्य मूर्धनि ।। ३९ ।।
त्वगसृग्मांसमित्याहुस्त्रिकं मातृसमुद्भवम् ।।
मेदोमज्जास्थिकं प्रोक्तं पितृजं षट्च कौशिकम् ।। 1.2.50.४० ।।
एवं भूतमयं देहं पंचभूतसमुद्भवैः ।।
अन्नैर्यथा वृद्धिमेति तदहं वर्णयामि ते ।।४१।।
तदन्नं पिण्डकवलैर्ग्रासैर्भुक्तं च देहिभिः ।।
पूर्वं स्थूलाशये वायुः प्राणः प्रकुरुते द्विधा।। ४२।।
संप्रविश्यान्नमध्ये तु पृथगन्नपृथग्जलम्।।
अग्नेरूर्ध्वं जलं स्थाप्य तदन्नं तज्जलोपरि ।। ४३ ।।
जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः ।।
वायुना धम्यमानोग्निरत्युष्णं कुरुते जलम्।। ४४ ।।
तदन्नमुष्णतोयेन समंतात्पच्यते पुनः ।।
द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसम् ।। ४५ ।।
मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्व्रजेत् ।।
कर्णाक्षिनासिकाजिह्वादताः शिश्नं गुदं नखाः ।। ४६ ।।
रोमकूपाणि चैव स्युर्द्वादशैते मलाश्रयाः।।
हृत्पद्मप्रतिबद्धाश्च सर्वा नाड्यः समंततः ।। ४७ ।।
तासां मुखेषु तं सूक्ष्मं व्यानः स्थापयते रसम् ।।
रसेन तेन ता नाडीः समानः पूरयेत्पुनः ।। ४८ ।।
ततः प्रयांति संपूर्णास्ताश्च देहं समंततः ।।
ततः स नाडिमध्यस्थो रञ्जकेनोष्मणा रसः ।। ४९ ।।
पच्यते पच्यमानस्तु रुधिरत्वं भजेत्पुनः ।।
ततस्त्वग्लोमकेशाश्च मांसं स्नायु शिरास्थि च ।। 1.2.50.५० ।।
नखा मज्जा खवैमल्यं शुक्रवृद्धिः क्रमाद्भवेत् ।।
एवं द्वादशधान्नस्य परिणामः प्रकीर्त्यते ।। ५१ ।।
एवमेतद्विनिष्पन्नं शरीरं पुण्यहेतवे ।।
यथैव स्यंदनः शुभ्रो भारसंवाहनाय च ।। ५२ ।।
तैलाभ्यंगादिभिर्यत्नैर्बहुभिः पाल्यते न चेत् ।।
किं कृत्यं साध्यते तेन यदि भारं वहेन्न हि ।। ५३ ।।
एवमेतेन देहेन किं कृत्यं भोजनोत्तमैः ।।
वर्धितेन न चेत्पुण्यं कुरुते पशुवच्च तत् ।। ५४ ।।
भवंति चात्र श्लोकाः ।।
यस्मिन्काले च देशे च वयसा यादृशेन च ।।
कृतं शुभाशुभं कर्म तत्तथा तेन भुज्यते ।। ५५ ।।
तस्मात्सदा शुभं कार्यमविच्छिन्नसुखार्थिभिः ।।
विच्छिद्यंतेऽन्यथा भोगा ग्रीष्मे कुसरितो यथा ।। ५६ ।।
यस्मात्पापेन दुःखानि तीव्राणि सुबहून्यपि ।।
तस्मात्पापं न कर्तव्यमात्मपीडाकरं हि तत् ।। ५७ ।।
एवं ते वर्णितः साधो प्रश्नोऽयं शक्तितो मया ।।
यथा संजायते प्राणी यथा शृणु प्रलीयते ।। ५८ ।।
आयुष्ये कर्मणि क्षीणे संप्राप्ते मरणे नृणाम्।।
स्वकर्मवशगो देही कृष्यते यमकिंकरैः ।। ५९ ।।
पंचतन्मात्रसहितः समनोबुद्ध्यहंकृतिः ।।
पुण्यपापमयैः पाशैर्बद्धो जीवस्त्यजे द्वपुः ।। 1.2.50.६० ।।
शीर्ष्णश्च सप्तभिश्छिद्रैर्निर्गच्छेत्पुण्यकर्मणाम् ।।
अधश्च पापिनां यांति योगिनां ब्रह्मरंध्रतः ।। ६१ ।।
तत्क्षणात्सोऽथ गृह्णाति शारीरं चातिवाहिकम् ।।
अंगुष्ठपर्वमात्रं तु स्वप्राणैरेव निर्मितम् ।। ६२ ।।
ततस्तस्मिन्स्थितं जीवं देहे यमभटास्तदा ।।
बद्ध्वा नयंति मार्गेण याम्येनाति यथाबलम्।। ६३ ।।
तप्तांबरीषतुल्येन अयोगुडनिभेन च ।।
प्रतप्तसिकतेनापि ताम्रपात्रनिभेन च ।। ६४ ।।
षडशीतिसहस्राणि योजनानां महीतलात् ।।
कृष्यमाणो यमपुरीं नीयते पापकृद्भटैः।।६५।।
क्वचिच्छीतं महादुर्गमन्धकारं क्वचिन्महत्।।
अग्निसंस्पर्शवदनैः काककाकोलजंबुकैः ।६६।।
मक्षिकादंशमशकैर्भक्ष्यते सर्पवृश्चिकैः ।।
भक्ष्यमाणोऽपि तैर्जंतुः क्रंदते म्रियते न हि ।। ६७ ।।
क्वचिच्च भक्ष्यते घोरै राक्षसैः कृष्यतेऽस्यते ।।
दह्यमानोतिघोरेण सैकतेन च नीयते ।। ६८ ।।
मुहूतैर्दशभिर्याति तं मार्गमतिदुस्तरम् ।।
तं कालं सुमहद्वेत्ति पुरुषो वर्षसंमितम् ।। ६९ ।।
तार्यते च नदीं घोरां पूयशोणितवाहिनीम् ।।
नदीं वैतरणीं नाम केशशैवलशाद्वलाम् ।। 1.2.50.७० ।।
ततो यमस्य पुरतः स्थाप्यते यमकिंकरैः ।।
पापी महाभयं पश्येत्कालांतकमुखैर्वृतम् ।। ७१ ।।
पुण्यकर्मा सौम्यरूपं धर्मराजं तदा किल ।।
मनुष्या एव गच्छंति यमलोकेन चापरे ।। ।। ७२ ।।
मरणानंतरं तेषां जंतूनां योनिपूरणम् ।।
तथाहि प्रेता मनुजाः श्रूयंते नान्यजंतवः ।। ७३ ।।
धार्मिकः पूज्यते तत्र पापः पाशगलो भवेत् ।।
धार्मिकश्च यथा याति तं मार्गं शृणु वच्मि ते ।। ७४ ।।
आरामद्रुमदातारः फलपुष्पवता पथा ।।
छायया च सुखं यांति तथा ये च्छत्रदा नराः ।। ।। ७५ ।।
उपानहप्रदा यानैर्वितृषाः पूर्तधर्मिणः ।।
विमानैर्यानदा यांति तथा शय्यासनप्रदाः ।। ७६ ।।
भक्ष्यभोज्यैस्तथा तृप्ता यांति भोजनदायिन ।।
दीपप्रदाः प्रकाशेन गोप्रदास्तां नदीं सुखम् ।।७७।।
श्रीसूर्यं श्रीमहादेवं भक्ता ये पुरुषोत्तमम् ।।
जन्मप्रभृति ते यांति पूज्यमाना यमानुगैः ।। ७८ ।।
महीं गां कांचनं लोहं तिलान्कार्पासमेव च ।।
लवणं सप्तधान्यं च दत्त्वा याति सुखं नरः ।।७९।।
तेषां तत्र गतानां च पापिनां पुण्यकर्मिणाम् ।।
चित्रगुप्तः प्रेतपाय निरूपयति वै ततः ।। 1.2.50.८० ।।
प्रेतलोके स वसति ततः संवत्सरं नरः ।।
वत्सरेण च तेनास्य शरीरमभिजायते ।। ८१ ।।
सोदकुम्भमथान्नाद्यं बांधवैर्यत्प्रदीयते ।।
दिनेदिने स तद्भुक्त्वा तेन वृद्धिं प्रयाति च ।। ८२ ।।
पूर्वदत्तमथान्नाद्यं प्राप्नोति स्वयमेव च ।।
स्वयं येन न दत्तं च तथा दाता न विद्यते ।। ८३ ।।
न चाप्युदकदातासौ क्षुत्तृड्भ्यामतिपीड्यते ।।
बांधवैस्तूदकं दत्तं नदीभूत्वोपतिष्ठति ।। ८४ ।।
मासिमासि च यच्छ्राद्धं षोडशश्राद्धपूर्वकम् ।।
अत्र न क्रियते यस्य प्रेतत्वात्स न मुच्यते ।। ८५ ।।
मानुषेण दिनेनैव प्रेतलोके दिनं स्मृतम् ।।
तस्माद्दिनेदिने देयं प्रेतायान्नं च वत्सरम् ।। ८६ ।।
तं च स्माशानिकानाम गणा याम्या भयावहाः ।।
शीतवातातपोपेतं तत्र रक्षंति पापिनम् ।। ८७ ।।
यथेह बन्धने कश्चिद्रक्ष्यते विषमैर्नरैः ।।
प्रेतपिंडा न दीयंते षोडशश्राद्धपूर्वकाः ।। ८८ ।।
यस्य तस्य न मोक्षोऽस्ति प्रेतत्वाद्वै युगैरपि ।।
ततः सपिण्डीकरणे बांधवैः सुकृते नरः ।। ८९ ।।
पूर्णे संवत्सरे देहं संपूर्णं प्रतिपद्यते ।।
पापात्मा घोररूपं तु धार्मिको दिव्यमुत्तमम् ।। 1.2.50.९० ।।
ततः स नरकं याति स्वर्गं वा स्वेन कर्मणा ।।
रौरवाद्याश्च नरकाः पातालतलसंस्थिताः ।।९१।।
सुराद्याः सत्यपर्यंताः स्वर्लोकस्योर्ध्वमाश्रिताः ।।
इतिहासपुराणेषु वेदस्मृतिषु यच्छुतम् ।। ९२ ।।
पुण्यं तेन भवेत्स्वर्गो नरकस्तद्विपर्ययात् ।।
तत्रापि कालवसति कर्मणामनुरूपतः ।।९३।।
अर्वाक्सपिंडीकरणं यस्य वर्षाच्च वा कृतम् ।।
प्रेतत्वमपि तस्यापि प्रोक्तं संवत्सरं धुवम् ।। ९४ ।।
यैरिष्टं च त्रिभिर्मेधैरर्चितं वा सुरत्रयम् ।।
प्रेतलोकं न ते यांति तथा ये समरे हताः।।९५।।
शुद्धेन पुण्येन दिवं च शुद्धां पापेन शुद्धेन तथा तमोंधम्।।
मिश्रेण स्वर्गं नरकं च याति देहस्तथैवास्य भवेच्च तादृक्।। ९६ ।।
प्रश्नत्रयं चेति तव प्रणीतमुत्पत्तिमृत्यू परलोकवासः ।।
यथा गुरुर्मे समुदाजहार किं भूय इच्छत्युत तद्वदामि ।। ९७ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्ड कौमारिकाखण्डे आदित्यकमठसंवादे जीवस्य पारलौकिकगत्यादिवर्णनंनाम पंचाशत्तमोऽध्यायः ।। ५० ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 51
।। अतिथिरुवाच ।। ।।
यदेतत्परलोकस्य स्वरूपं व्याहृतं त्वया ।।
आगमं समुपाश्रित्य तत्तथैव न संशयः ।। १ ।।
किंत्वत्र नास्तिकाः पापाः सन्दिह्यन्तेऽल्पचेतनाः ।।
तेषां निःसंशयकृते वद कर्मफलं हि यत् ।।२ ।।
इहैव कस्य कस्यैव कर्मणः पापकस्य च ।।
प्रभावात्कीदृशो जायेत्कमठैतद्वदास्ति चेत् ।। ३ ।।
।। कमठ उवाच ।। ।।
सर्वमेतत्प्रवक्ष्यामि स्थिरो भूत्वा शृणुष्व तत् ।।
यथा मम गुरुः प्राह यन्मे चेतसि संस्थितम् ।। ४ ।।
ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदंतकः ।।
सुवर्णचौरः कुनखी दुश्चर्मा गुरुतल्पगः ।। ५ ।।
संसर्गी सर्वरोगी स्यात्पंचपातकिनस्त्वमी ।।
निंदामाकर्ण्य साधूनां बधिरः संप्रजायते ।। ६ ।।
स्वयं प्रकीर्तयेच्चापि मूकः पापोऽभिजायते ।।
आज्ञालोपी गुरूणां च अपस्मारी भवेन्नरः ।। ७ ।।
अवज्ञाकारकस्तेषां कृमिरेवाभिजायते ।।
उपेक्षतः पूज्यकार्यं दुष्प्रज्ञत्वं च जायते ।। ८ ।।
चौर्याय साधुद्रव्याणां दद्याद्यावत्पदानि च ।।
तावद्वर्षाणि पंगुत्वं स प्राप्नोति नराधमः ।। ९ ।।
दत्त्वा हरति तद्भूयो जायते कृकलासकः ।।
कुपितानप्रसाद्यैव पूज्यान्स्याच्छीर्षरोगवान् ।। 1.2.51.१० ।।
रजस्वलामभिगच्छंश्च चंडालः संप्रजायते ।।
वस्त्रापहारी चित्री स्यात्कृष्णकुष्ठी तथाग्निदः ।। ११ ।।
दर्दुरो रूप्यहारी स्यात्कूटसाक्षी मुखारुजः ।।
परदारांश्च कामेन द्रष्टा स्यादक्षिरोगवान् ।। १२ ।।
प्रतिज्ञायाप्रयच्छन्यो ह्यल्पायुर्जायते नरः ।।
विप्रवृत्त्यपहारी स्यादजीर्णी सर्वदाऽधमः ।। १३ ।।
नैष्ठिकान्नाशनाद्भूयो निवृत्तो रोगवान्सदा ।।
पत्नीबहुत्वे त्वेकस्यां रेतोमोक्षः क्षयी भवेत्।।१४।।
स्वामिना धर्मयुक्तो यस्त्वन्यायेन समाचरेत्।।
स्वयं वा भक्षयेद्द्रव्यं स मूढः स्याज्जलोदरी।।१५।।
दुर्बलं पीड्यमानं यो बलवान्समुपेक्षते।।
अंगहीनः स च भवेदन्नहृत्क्षुधितो भवेत्।।१६।।
व्यवहारे पक्षपाती जिह्वारोगी भवेन्नरः।।
धर्मप्रवृत्तिं सञ्चार्य पत्न्यादीष्टवियोगकृत् ।। १७ ।।
स्वयं पाकाग्रभोजी यो गलरोगमवाप्नुयात् ।।
पंचयज्ञानकृत्वैव भुञ्जानो ग्रामशूकरः ।। १८ ।।
पर्वमैथुन कृन्मेही परित्यज्य स्वगेहिनीम् ।।
वेश्यादिरक्तो मूढात्मा खल्वाटो जायते नरः ।। १९ ।।
परिक्षीणान्मित्रबन्धून्स्वामिनं दयितानुगान् ।।
अवमन्य निवृत्तात्मा क्लिष्टवृत्तिः सदा भवेत् ।। 1.2.51.२० ।।
छद्मनोपचरेद्यस्तु पितरौ स्वामिनं गुरून् ।।
प्राप्तव्यार्थस्यातिकष्टात्परिभ्रंशोर्थजो भवेत् ।। २१ ।।
विश्रब्धस्यापहारी तु दुःखानां भाजनं भवेत् ।।
धार्मिके क्षुद्रकारी यो नरः स वामनो भवेत् ।। २२ ।।
दुर्बलवृषवाही यः कटिलूती भवेत्स च ।। २३ ।।
जात्यंधश्चापि यो गोघ्नो निःपशुर्दुःखकृद्गवाम् ।।
निर्दयो गोषु घाताद्यैः सदा सोध्वसु कष्टगः ।। २४ ।।
निस्तेजकः सभायां यो गलगण्डी स जायते ।।
सदा क्रोधी च चंडालः पूतिवक्त्रश्च सूचकः ।। २५ ।।
अजविक्रयकृद्व्याधः कुण्डाशी भृतको भवेत् ।।
नास्तिकस्तिल पिंडी स्यादश्रद्धो गीतजीवनः ।। २६ ।।
अभक्ष्यादो गण्डमाली स्त्रीखादी चाऽऽसुतस्य कृत् ।।
अन्यायतो ज्ञानग्राही मूर्खो भवति मानवः ।। २७ ।।
शास्त्रचौरः केकराक्षः कथां पुण्यां च द्वेष्टि यः ।।
कृमिवक्त्रः स च भवेद्विभ्रष्टो नरकात्कुधीः ।। २८ ।।
देवद्विजगवां वृत्तिहारको वांतभक्षकृत् ।।
तडागारामभेत्ता यो भवेद्विकलपाणिकः ।। २९ ।।
व्यवहारे च्छलग्राही भृत्यग्रस्तो भवेन्नरः ।।
सदा पुरुषरोगी स्यात्परदाररतो नरः ।। 1.2.51.३० ।।
वात रोगी कुवैद्यः स्याद्दुश्चर्मा गुरुतल्पगः ।।
मधुमेही खरीगामी गोत्रस्त्रीमैथुनोऽप्रसूः ।। ३१ ।।
स्वसारं मातरं पुत्रवधूं गच्छन्नबीजवान् ।।
कृतघ्नः सर्व कार्याणां वैफल्यं समुपाश्नुते ।। ३२ ।।
इत्येष लक्षणोद्देशः पापिनां परिकीर्तितः ।।
चित्रगुप्तोऽपि मुह्येत सकलस्यानुवर्णने ।। ३३ ।।
एते नरक विभ्रष्टा भुक्त्वा योनीः सहस्रशः ।।
एवंविधैश्चिह्निताश्च जायंते लक्षणैर्नराः ।। ३४ ।।
ये हि धर्मं न मन्यंते तथा ये व्यसनैर्जिताः ।।
अनुमानेन बोद्धव्यं यदेते शेषपापिनः ।। ३५ ।।
येषां त्वंतगतं पापं स्वर्गाद्वा ये समागताः ।।
सर्वव्यसननिर्मुक्ता धर्ममेकं भजन्ति ते ।। ३६ ।।
भवंति चात्र श्लोकाः ।।
धर्मादनवमं सौख्यमधर्माद्दुःखसम्भवः ।।
तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विवर्जयेत् ।। ३७ ।।
लोकद्वयेऽपि यत्सौख्यं तद्धर्मात्प्रोच्यते यतः ।।
धर्ममेकमतः कुर्यात्सर्वकार्यार्थसिद्धये ।। ३८ ।।
मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा ।।
न कल्पमपि जीवेत लोकद्वयविरोधिना ।। ३९ ।।
इति पृष्टं त्वया विप्र यथाशक्त्या मयेरितम् ।।
असूक्तं सूक्तमथवा क्षंतव्यं किं वदामि च ।। 1.2.51.४० ।।
।। नारद उवाच ।। ।।
कमठस्यैतदाकर्ण्य अष्टवर्षस्य भाषितम् ।।
भगवान्भास्करः प्रीतो बभूवातीव विस्मितः ।। ४१ ।।
प्रशशंस च तान्विप्रान्हारीतप्रमुखांस्तदा ।।
अहो वसुमती धन्या द्विजैरेवंविधोत्तमैः ।। ४२ ।।
अथ प्रजापतिर्धन्यो यन्मर्यादाभिपाल्यते ।।
अमीभिर्ब्राह्मणवरैर्धन्या वेदाश्च संप्रति ।। ४३ ।।
येषां मध्ये बालबुद्धिरियमेतादृशी स्फुटा ।।
हारीतप्रमुखानां हि का वै बुद्धिर्भविष्यति।। ४४ ।।
असंशयं त्रिलोकस्थमेषामविदितं न हि ।।
यथैतान्नारदः प्राह भूयस्तस्मादमी बहु ।। ४५ ।।
इति प्रशस्य तान्विप्रान्प्रहृष्टो रविरव्रवीत् ।।
अहं सूर्यो विप्रमुख्या युष्माकं दर्शनात्कृते ।। ४६ ।।
समागतः सूर्यलोकात्प्राप्तं नेत्रफलं च मे ।।
भवद्विधैर्विप्रमुख्यैः संजल्पनसहासनात्।।४७।।
अंत्यजा अपि पूयन्ते किं पुनर्मादृशा द्विजाः ।।
सर्वथा नारदो धन्यो योऽसौ त्रैलोक्यतत्त्ववित्।। ४८ ।।
युष्माभिर्बध्यते श्रेयो यस्य वै धूतकिल्विषैः ।।
प्रणमामि च वः सर्वान्मनोबुद्धिसमाधिभिः ।।
तपो विद्या च वृत्तं च यतो वार्द्धक्यकारणम्।।४९।।
वरं मत्तो वृणीध्वं च दुर्लभं यं हृदीच्छत।।
यूयं स्वयं हि वरदा मत्संगो मास्तु निष्फलः।।1.2.51.५०।।
देवतानां हि संसर्गो निष्फलो नोपजायते ।।
तस्मान्मत्तो वरं किंचिद्वृणुध्वं प्रददामि वः ।।५१।।
।। श्रीनारद उवाच।। ।।
इति सूर्यवचः श्रुत्वा प्रहृष्टास्ते द्विजोत्तमाः ।।५२।।
संपूज्य परया भक्त्या पाद्यार्घ्यस्तुतिवंदनैः ।।
मंडलादीन्महाजप्यान्गृणंतः प्रोचिरे रविम्।।५३।।
जयादित्य जय स्वामिञ्जय भानो जयामल।।
जय वेदपते शश्वत्तारयास्मानहर्पते ।। ५४ ।।
विप्राणां त्वं परो देवो विप्रसर्गोऽपि त्वन्मयः ।।
नितरां पूतमेतन्नः स्थानं देव त्वयेक्षितम् ।। ५५ ।।
अद्य नः सफला वेदा अद्य नः सफलाः क्रियाः ।।
अद्य नः सफलं गेहं त्वया संगम्य गोपते ।। ५६ ।।
वरं यदि प्रदातासि तदेनं प्रवृणीमहे ।।
आस्माकीनमिदं स्थानं न हि त्याज्यं कथंचन ।। ५७ ।।
।। श्रीसूर्य उवाच ।। ।।
यस्माद्भवद्भिः पूर्वं हि जयादित्येति चोदितम् ।।
जयादित्य इति ख्यातस्तस्मात्स्थास्येऽत्र सर्वदा ।। ५८ ।।
यावन्मही समुद्राश्च पर्वता नगराणि च ।।
तावत्स्थानमिदं विप्रा न हि त्यक्ष्यामि कर्हिचित्।।५९।।
दारिद्र्यरोगसंघातान्दद्रवो मंडलानि च ।।
कुष्ठादीन्नाशयिष्यामि भजतामत्र संस्थितः ।। 1.2.51.६० ।।
यो मामत्र स्थितं चापि पूजयिष्यति मानवः ।।
सूर्यलोकमिवागम्य पूजां तस्य भजाम्यहम् ।। ६१ ।।
।। श्रीनारद उवाच ।। ।।
एवमुक्ते भगवता हारीताद्या द्विजोत्तमाः ।।
मूर्तिं संस्थापयामासुर्वेदोदितविधानतः ।। ६२ ।।
ततो द्विजाः प्राहुरेवं कमठं त्वत्कृते रविः ।।
अत्र स्वामी स्थितस्तस्मात्प्रथमं स्तुहि त्वं रविम्।। ६३ ।।
इत्युक्तो ब्राह्मणैः सर्वैः कमठो वाग्ग्मिनां वरः ।
प्रणिपत्य जयादित्यं महास्तोत्रमिदं जगौ ।। ६४ ।।
न त्वं कृतः केवलसंश्रुतश्च यजुष्येवं व्याहरत्यादिदेव ।।
चतुर्विधा भारती दूरदूरं धृष्टः स्तौमि स्वार्थकामः क्षमैतत् ।। ६५ ।।
मार्तंडसूर्यांशुरविस्तथेन्द्रो भानुर्भगश्चार्यमा स्वर्णरेताः ।। ६६ ।।
दिवाकरो मित्रविष्णुश्च देव ख्यातस्त्वं वै द्वादशात्मा नमस्ते ।।
लोकत्रयं वै तव गर्भगेहं जलाधारः प्रोच्यसे खं समग्रम् ।। ६७ ।।
नक्षत्रमाला कुसुमाभिमाला तस्मै नमो व्योमलिंगाय तुभ्यम् ।। ६८ ।।
त्वं देवदेवस्त्वमनाथनाथस्त्वं प्राप्यपालः कृपणे कृपालुः ।।
त्वं नेत्रनेत्रं जनबुद्धिबुद्धिराकाशकाशो जय जीवजीवः ।। ६९ ।।
दारिद्र्यदारिद्र्य निधे निधीनाममंगलामंगल शर्मशर्म ।।
रोगप्ररोगः प्रथितः पृथिव्यां चिरं जयादित्य जयाप्रमेय ।।1.2.51.७०।।
व्याधिग्रस्तं कुष्ठरोगाभिभूतं भग्न प्राणं शीर्णदेहं विसंज्ञम् ।।
माता पिता बांधवाः संत्यजंति सर्वैस्त्यक्तं पासि कोस्ति त्वदन्यः ।। ७१ ।।
त्वं मे पिता त्वं जननी त्वमेव त्वं मे गुरुर्बान्धवाश्च त्वमेव ।।
त्वं मे धर्मस्त्वं च मे मोक्षमार्गो दासस्तुभ्यं त्यज वा रक्ष देव ।।७२।।
पापोऽस्मि मूढोऽस्मि महोग्रकर्मा रौद्रोऽस्मि नाचारनिधानमस्मि ।।
तथापि तुभ्यं प्रणिपत्य पादयोर्जयं भक्तानामर्पय श्रीजयार्क ।। ७३ ।।
।। नारद उवाच ।। ।।
एवं स्तुतो जयादित्यः कमठेन महात्मना ।।
स्निग्धगंभीरया वाचा प्राह तं प्रहसन्निव ।। ७४ ।।
जयादित्याष्टकमिदं यत्त्वया परिकीर्तितम् ।।
अनेन स्तोष्यते यो मां भुवि तस्य न दुर्लभम् ।। ७५ ।।
रविवारे विशेषेण मां समभ्यर्च्य यः पठेत् ।।
तस्य रोगा न शिष्यंति दारिद्र्यं च न संशयः ।। ७६ ।।
त्वया च तोषितो वत्स तव दद्मि वरंत्वमुम् ।।
सर्वज्ञो भुवि भूत्वा त्वं ततो मुक्तिमवाप्स्यसि ।। ७७ ।।
त्वत्पिता स्मृतिकारश्च भविष्यति द्विजार्चितः ।।
स्थानस्यास्य न नाशश्च कदाचित्प्रभविष्यति ।। ७८ ।।
न चैतत्स्थानकं वत्स परित्यक्ष्यामि कर्हिचित् ।।
एवमुक्ता स भगवान्ब्राह्मणैरर्चितः स्तुतः ।। ७९ ।।
अनुज्ञाप्य द्विजेद्रांस्तांस्तत्रैवांतर्दधे प्रभुः ।।
एवं पार्थ समुत्पन्नो जयादित्योऽत्र भूतले ।। 1.2.51.८० ।।
आश्विने मासि संप्राप्ते रविवारे च सुव्रत ।।
आश्विने भानुवारेण यो जयादित्यमर्चयेत् ।।८१।।
कोटितीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति।।
पूजनाद्रक्तमाल्यैश्च रक्तचंदनकुंकुमैः।।८२।।
लेपनाद्गंधधूपाद्यै नैवेद्येर्घृतपायसैः ।।
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।। ८३ ।।
मुच्यते सर्वपापेभ्यः सूर्यलोकं च गच्छति ।।
पुत्रदारधनान्यायुः प्राप्य सां सारिकं सुखम् ।। ८४ ।।
इष्टकामैः समायुक्तः सूर्यलोके चिरं वसेत् ।। ८५ ।।
सर्वेषु रविवारेषु जयादित्यस्य दर्शनम् ।।
कीर्तनं स्मरणं वापि सर्व रोगोपशांतिदम् ।। ८६ ।।
अनादिनिधनं देवमव्यक्तं तेजसां निधिम् ।।
ये भक्तास्ते च लीयंते सौरस्थाने निरामये ।। ८७ ।।
सूर्योपरागे संप्राप्ते रविकूपे समाहितः ।।
स्नानं यः कुरुते पार्थ होमं कुर्यात्प्रयत्नतः ।। ८८ ।।
दानं चैव यथाशक्त्या जयादित्याग्रतः स्थितः ।।
तस्य पुण्यस्य माहात्म्यं शृणुष्वैकमना जय ।। ८९ ।।
कुरुक्षेत्रेषु यत्पुण्यं प्रभासे पुष्करेषु च ।।
वाराणस्यां च यत्पुण्यं प्रयागे नैमिषेऽपि वा ।।
तत्पुण्यं लभते मर्त्यो जयादित्यप्रसादतः ।। 1.2.51.९० ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे जयादित्य माहात्म्यवर्णनंनामैकपंचाशत्तमोऽध्यायः ।। ५१ ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 52
।। अर्जुन उवाच ।। ।।
कोटितीर्थं कथं जातं केन वा निर्मितं मुने ।।
कस्माद्वा कोटितीर्थानां फलमत्रोच्यते मुने ।। १ ।।
।। नारद उवाच ।। ।।
यदा मे स्थापितं स्थानं प्रसाद्याथ मया प्रभुः ।।
ब्रह्मलोकात्समानीतः साक्षाद्ब्रह्मा पितामहः ।। २ ।।
ततो मध्याह्नसमये स्नानार्थे भगवान्विधिः ।।
सस्मार कोटितीर्थानां स्मृतान्यत्रागतानि च ।। ३ ।।
स्वर्गात्त्रिदशलक्षाणि सप्ततिश्च महीतलात् ।।
पातालाद्विंशलक्षाणि स्मृतान्यभ्यागतानि च ।। ४ ।।
अनेन प्रविभागेन लिंगान्यपि कुरूद्वह ।।
आयातानि यथा पूजां विदधाति पितामहः ।। ५ ।।
ततोऽभिषेचनं कृत्वा लिंगान्यभ्यर्च्य पद्मभूः ।।
मध्याह्नकृत्यं संसाध्य मम प्रेम्णा वरं ददौ ।। ६ ।।
ततो भगवता ह्यत्र मनसा निर्मितं सरः ।।
भगवानर्चितस्तीर्थैरिदमूचे प्रजापतिः ।। ७ ।।
किं कुर्म भगवन्धातरादेशं देहि नः प्रभो ।।
तेषां तद्वचनं श्रुत्वा ब्रह्मा प्राह प्रजापतिः ।। ८ ।।
एतस्मिन्सरसि स्थेयं तीर्थैः सर्वैरथात्र च ।।
एकस्मिंश्च तथा लिंगे सर्वलिंगैर्ममार्चनात् ।। ९ ।।
कोटीनामेव तीर्थानां लिंगानां स्नानपूजया ।।
दानेन च फलं त्वत्र यदि सत्यं वचो मम ।। 1.2.52.१० ।।
यः श्राद्धं कुरुते चात्र पिंडदानं यथाविधि ।।
पितॄणामक्षया तृप्तिर्जायते नात्र संशयः ।। ११ ।।
स्नात्वा योऽभ्यर्चयेद्देवं कोटीश्वरमनन्यधीः ।।
कोटिलिंगार्चनफलं व्यक्तं तस्योपजायते ।। १२ ।।
त्रैलोक्ये यानि तीर्थानि गंगाद्याः सरितस्तथा ।।
तेषां स फलमाप्नोति कोटितीर्थावगाहनात् ।। १३ ।।
एवं दत्त्वा वरं ब्रह्मा ब्रह्मलोकं ययौ प्रभुः ।।
कोटितीर्थं च संजातं ततः प्रभृति विश्रुतम् ।।१४।।
अस्य तीरे पुरा पार्थ ब्रह्माद्यैर्देवसत्तमैः ।।
यज्ञान्बहुविधान्कृत्वा ततः सिद्धिं परां ययुः ।। १५ ।।
वसिष्ठाद्यैर्मुनिवरैस्तपश्चीर्णं पुरानघ ।।
मनसोऽभीप्सितान्कामान्प्रापुरन्ये तपोधनाः ।। १६ ।।
अत्र तीर्थे पुरा पार्थ अत्रिणा विहितं तपः ।।
कोटितीर्थाद्दक्षिणतः स्थापितं लिंगमुत्तमम् ।। १७ ।।
अत्रीश्वराभिसंज्ञं तु महापापहरं परम् ।।
स्थापयित्वा च तल्लिंगमग्रे चक्रे सरोवरम् ।। १८ ।।
तत्र स्नात्वा च यो मर्त्यः श्राद्धं कुर्यात्प्रयत्नतः ।।
अत्रीश्वरं समभ्यर्च्य रुद्रलोके वसेच्चिरम् ।।१९।।
भरद्वाजेन मुनिना कोटितीर्थे सरोवरे ।।
तपश्चीर्णं महाबाहो यज्ञाश्च विहिताः किल ।। 1.2.52.२० ।।
भरद्वाजेश्वरं लिंगं स्थापितं सुमनोहरम् ।।
तत्र कृत्वा सरो रम्यं परां मुदमवाप्तवान् ।। २१ ।।
तत्र स्नात्वा नरो भक्त्या श्राद्धं कुर्याद्विधानतः ।।
भरद्वाजेश्वरं पूज्य शिवलोके महीयते ।। २२ ।।
ततश्च कोटितीर्थेऽस्मिन्गौतमो भगवानृषिः ।।
अतप्यत तपो घोरमहल्यासंगमाशया ।। २३ ।।
तं कामं प्राप्तवान्धीमान्परां मुदमुपागतः ।।
अहल्यया समायोगमेतत्तीर्थप्रभावतः ।। २४ ।।
अस्मिन्क्षेत्रे महालिंगं गौतमेश्वरसंज्ञितम् ।।
स्थापयामास भगवानहल्यासरसस्तटे ।। २५ ।।
।। अर्जुन उवाच ।। ।।
अहल्यया कदा ब्रह्मन्खानितं वै महत्सरः ।।
तन्मम ब्रूहि सकलमहल्यासरःकारणम् ।। २६ ।।
।। नारद उवाच ।। ।।
अहल्या शापमापन्ना गौतमात्किल फाल्गुन ।।
पुरा चेंद्रसमायोगे परं दुःखमुपागता ।। २७ ।।
ततो दुःखार्तः स मुनिः कोटितीर्थेऽकरोत्तपः ।।
तपसा तेन वै पार्थाहल्यया सह संगतः ।। २८ ।।
ततः साध्वी परं हृष्टा अत्र क्षेत्रे सरोवरम् ।।
चकार सुमहत्पुण्यं तीर्थोदैः परिपूरितम् ।। २९ ।।
अहल्यासरसि स्नानं पिंडदानं समाचरेत् ।।
गौतमेशं च संपूज्य ब्रह्मलोकं स गच्छति ।। 1.2.52.३० ।।
कोटितीर्थे नरश्रेष्ठ अनेके मुनयोऽमलाः ।।
तपस्तप्त्वा सुघोरं च परां सिद्धिमपागताः ।। ३१ ।।
राजभिर्बहुभिः पूर्वं तपो दानं तथाध्वराः ।।
अस्मिंस्तीर्थे सुविहिताः परां सिद्धिमुपागताः ।। ३२ ।।
अस्य तीरे द्विजं चैकं मृष्टान्नैर्यश्च तर्पयेत् ।।
तेन श्रद्धासहायेन कोटिर्भवति तर्पिता ।। ३३ ।।
अस्य तीरे नरः पार्थ रत्नानि विविधानि च ।।
गोभूमितिलधान्यानि वासांसि विविधानि च ।। ३४ ।।
श्रद्धया परया पार्थ द्विजेभ्यः संप्रयच्छति ।।
शतकोटिगुणं पुण्यं कोटितीर्थप्रभावतः ।।
कोटितीर्थे प्रतिश्रुत्य द्विजेभ्यो न प्रयच्छति ।। ३५ ।।
नरके पातयित्वा च कुलमेकोत्तरं शतम् ।।
आत्मानं पातयेत्पश्चाद्दारुणं रौरवं महत् ।। ३६ ।।
माघमासे तु संप्राप्ते प्रातःकाले तथाऽमले ।।
यः स्नाति मकरादित्ये तस्य पुण्यं शृणुष्व मे ।। ३७ ।।
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम्।।
सर्वदानव्रतैर्यच्च कोटि तीर्थे दिनेदिने ।। ३८ ।।
तत्पुण्यं लभते मर्त्यो नात्र कार्या विचारणा ।।
कन्यागते सवितरि यः श्राद्धं कुरुते नरः ।। ३९ ।।
पितरस्तस्य तुष्यंति गयाश्राद्धशतैर्न तु ।।
कार्तिके मासि संप्राप्ते स्नानादि कुरुते यदि ।। 1.2.52.४० ।।
तदक्षयफलं सर्वं ब्रह्मणो वचनं यथा ।।
इष्ट्वात्र यज्ञमेकं तु कोटियज्ञफलं लभेत् ।। ४१ ।।
कन्यां ब्राह्मेण विधिना दत्त्वा कोटिगुणं फलम् ।।
सर्वदानं कोटिगुणं कोटितीर्थे भवेद्यतः ।। ४२ ।।
कोटि तीर्थे त्यजेत्प्राणान्हृदि कृत्वा तु माधवम् ।।
तस्य पार्थ चिरं स्वर्गे ह्यक्षया शाश्वती गतिः ।। ४३ ।।
कोटितीर्थे तीर्थवरे देहत्यागं करोति यः ।।
तस्य पूजां प्रकुर्वंति ब्रह्माद्या देवतागणाः ।। ४४ ।।
अस्य तीरे देहदाहो यस्य कस्य प्रजायते ।।
अस्थिक्षेपो यस्य भवेन्महीसागरसंगमे ।। ४५ ।।
तत्फलं गदितुं पार्थ वागीशोऽपि न वै क्षमः ।।
एतज्ज्ञात्वा परं पार्थ कोटितीर्थं प्रसेवते ।। ४६ ।।
दिनेदिने फलं तस्य कापिलं गोसहस्रकम् ।।
स्वर्गे मर्त्ये च पाताले तस्मादेतत्सुदुर्लभम् ।। ४७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कोटितीर्थमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ।। ५२ ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 53
।। नारद उवाच ।। ।।
अथान्यत्संप्रवक्ष्यामि शालामाहात्म्य मुत्तमम् ।।
संस्थापिते पुरा स्थाने प्रोक्तोहं द्विजपुंगवैः ।। १ ।।
स्थानस्य रक्षणार्थाय उपायं कुरु सुव्रत ।।
ततो मया प्रतिज्ञातं करिष्ये स्थान रक्षणम् ।। २ ।।
आराधिता मया पश्चाद्ब्रह्मविष्णुमहेश्वराः ।।
त्रयस्त्वेकाग्रचित्तेन ततस्तुष्टाः सुरोत्तमाः ।। ३ ।।
समागम्याथ मां प्रोचुर्नारद व्रियतां वरः ।।
प्रोक्तं तानार्च्य च मया क्रियतां स्थानरक्षणम् ।। ४ ।।
अयमेव वरो मह्यं देयो देवैः सुतोषितैः ।।
स्थानलोपो यथा न स्याद्यथा कीर्तिर्भवेन्मम ।। ५ ।।
एवमस्त्विति देवेशैः प्रतिज्ञातं तदा मुने ।।
स्वांशेन प्रकरिप्याम द्विजानां तव रक्षणम् ।। ६ ।।
एवमुक्त्वा कला मुक्ता देवैस्त्रिपुरुषैः स्वयम् ।।
अंतर्धानं ततः प्राप्ताः सर्वेऽपि सुरसत्तमाः ।। ७ ।।
ततो मया द्विजैः सार्धं शालाग्रे स्थानरक्षणम् ।।
स्थापिताश्च पृथग्देवास्त्रयस्त्रिभुवनेश्वराः ।। ८ ।।
पीड्यमाना यदा विप्राः केनापि च भवंति हि ।।
पूर्वाह्ने चापि ऋग्वेदं मध्याह्ने च यजूं ष्यथ ।। ९ ।।
यामे तृतीये सामानि तारस्वरमधीत्य च ।।
शापं यस्य प्रदास्यंति शालाग्रे भृशरोषिताः ।। 1.2.53.१० ।।
सप्ताहाद्वर्षमध्याद्वा त्रिवर्षाद्भस्मतां व्रजेत् ।।
प्रतिज्ञाता स्थानरक्षा यदि वो नारदाग्रतः ।। ११ ।।
सत्येन तेन नो वैरी भस्मीभवतु ह क्षणात् ।।
अनेन शाप मंत्रेण भस्मीभवति निश्चितम् ।। १२ ।।
शालां त्रिपुरुषां तत्र यः पश्यति दिनेदिने ।।
अर्चयेत्तोषयेच्चासौ स्वर्गलोके महीयते ।। १३ ।।
इति त्रिपुरुषशालामाहात्म्यम् ।। ।।
नारद उवाच ।। ।।
अथान्यत्संप्रवक्ष्यामि मदीयसरसो महत् ।। १४ ।।
माहात्म्यमतुलं पार्थ देवानामपि दुर्लभम् ।।
मया पूर्वं सरः खातं दर्भांकुरशलाकया ।। १५ ।।
मृत्तिका ताम्रपात्रेण त्यक्ता बाह्ये ततः स्वयम् ।।
सर्वेषामेव तीर्थानामाहृत्योदक मुत्तमम् ।। १६ ।।
तत्तत्र सरसि क्षिप्तं तेन संपूरितं सरः ।।
आश्विने मासि संप्राप्ते भानुवारे नरः शुचिः ।। १७ ।।
श्राद्धं यः कुरुते तत्र स्नात्वा दानं विशेषतः ।।
पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम् ।। १८ ।।
नारदीयं सरो ह्येतद्विख्यात जगतीतले ।।
महता पुण्ययोगेन देवैरपि हि लभ्यते ।। १९ ।।
यदत्र दीयते दानं हूयते यच्च पावके ।।
सर्वं तदक्षयं विद्याज्जपानशनसाधनात् ।। 1.2.53.२० ।।
नारदीये सरःश्रेष्ठे स्नात्वा यो नारदेश्व रम् ।।
पूजयेच्छ्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ।। २१ ।।
अत्र तीर्थे पुरा पार्थ सर्वनागैस्तपः कृतम् ।।
कद्रूशापस्य मोक्षार्थमात्मनो हितका म्यया ।। २२ ।।
ततः सिद्धिं परां प्राप्ता एतर्त्तार्थप्रभावतः ।।
ततो नागेश्वरं लिंगं स्थापयामासुरूर्जितम् ।। २३ ।।
नारदादुत्तरे भागे सर्वे नागाः प्रहर्षिताः ।।
नारदीये सरःश्रेष्ठे यः स्नात्वा पूजयेद्धरम् ।। २४ ।।
नागेश्वरं महाभक्त्या तस्य पुण्यमनन्तकम् ।।
तेषां सर्पभयं नास्ति नागानां वचनं यथा ।। २५ ।।
इति नारदीयसरोमाहात्म्यम् ।।
।। नारद उवाच ।। ।।
अपरद्वारकानाम देवी चात्रास्ति पांडव ।। २६ ।।
सा च ब्रह्मांडद्वारे वै सदैव विहितालया ।।
चतुर्विंशतिकोटीभिर्देवीभिः परिरक्षिता ।। २७ ।।
ततो दीर्घं तपस्तप्त्वा मयानीतात्र तोषिता ।।
अपरस्मिंस्ततो द्वारे स्था पिता परमेश्वरी ।। २८ ।।
पूर्वस्मिन्नगरद्वारे स्थापिता द्वारवासिनी ।।
नवमी चैत्रमासस्य कृष्णपक्षे भवेत्तु या ।। २९ ।।
कुण्डे स्नानं नरः कृत्वा तां च देवीं प्रपूजयेत् ।।
बलिबाकुलनैवेद्यैर्गन्धधूपादिपूजनैः ।। 1.2.53.३० ।।
सप्तजन्मकृतं पापं नाशमायाति तत्क्षणात् ।।
यान्यान्प्रार्थयते कामांस्तांस्ताना प्नोति मानवः ।। ३१ ।।
वन्ध्या च लभते पुत्रं स्नानमात्रेण तत्र वै ।।
नवम्यां चैत्रमासस्य पुष्पधूपार्घ्यपूजया ।। ३२ ।।
विघ्नानि नाशयेद्देवी सर्व सिद्धिं प्रयच्छति ।।
भक्तानां तत्क्षणादेव सत्यमेतन्न संशयः ।। ३३ ।।
उत्तरद्वारकां चापि पूज्यैवं विधिवन्नरः ।।
एतदेव फलं सोपि प्राप्नुयान्मान वोत्तमः ।। ३४ ।।
पूर्वद्वारे तु वै देवी या स्थिता द्वारवासिनी ।।
तस्याः पूजनमात्रेण प्राप्नुयाद्वांछितं फलम् ।। ३५ ।।
आश्विने मासि संप्राप्ते नव रात्रे विशेषतः ।।
उपोष्य नवरात्रं च स्नात्वा कुण्डे समाहितः ।। ३६ ।।
पूजयेद्देवतां भक्त्या पुष्पधूपान्नतर्पणैः ।।
अपुत्रो लभते पुत्रान्निर्धनो लभते धनम् ।। ३७ ।।
वन्ध्या प्रसूयते पार्थ नात्र कार्या विचारणा ।। ३८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वर खण्डे कौमारिकाखंडे कोटितीर्थादिमाहात्म्यवर्णनंनाम त्रिपंचाशत्तमोऽध्यायः ।। ५३ ।। ।।।५।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 54
।। नारद उवाच ।। ।।
ममापि पार्थ तत्रास्ति मूर्तिर्ब्राह्मणकाम्यया ।।
तत्र नाहं त्यजाम्यंग च्छत्रदण्डविभूषिताम् ।। १ ।।
कार्तिकस्य तु या शुक्ला भवत्येकादशी शुभा ।।
तस्यां मदर्चनं कृत्वा कलिदोषैर्विमुच्यते ।। २ ।।
।। अर्जुन उवाच ।। ।।
बाल्यात्प्रभृति संदेहो ममायं हृदि वर्तते ।।
पृच्छतस्तं च मे विप्र न क्रोधं कर्तुमर्हसि ।। ३ ।।
सदा त्वं मोक्षधर्मेषु परिनिष्ठां परां गतः ।।
सर्वभूतसमो दांतो रागद्वेषविवर्जितः ।। ४ ।।
त्यक्तनिंदास्तुतिर्मौनी मोक्षस्थः परिकीर्त्यसे ।।
त्वं च नारद लोकेषु वायुवच्चपलो मुने ।। ५ ।।
सौदामिनीव विचरन्दृश्यसे प्राज्ञसंमतः ।।
सदा कलिकरो लोके निर्दयः सर्वप्राणिषु ।। ६ ।।
बहूनां हि सहस्राणि देवगंधर्वरक्षसाम् ।।
राज्ञां मुनीन्द्रदैत्यानां कलेर्नष्टानि तेऽभवन् ।। ७ ।।
कस्मात्तदेषा चेष्टा ते संदेहं मे हर द्विज ।।
संदेहान्न सुखं शेते बाणविद्धो मृगो यथा ।। ८ ।।
।। सूत उवाच ।। ।।
शौनकेदं वचः श्रुत्वा फाल्गुनान्नारदो मुनिः ।।
प्रहसन्निव बाभ्रव्यवदनं स निरैक्षत ।। ९ ।।
स च बाभ्रव्यनामा वै हारीतस्यान्वयोद्भवः ।।
ब्राह्मणो नारदमुनेः समीपे वर्तते सदा ।। 1.2.54.१० ।।
स च ज्ञात्वा महाबुद्धिर्नारदस्य मनीषितम् ।।
प्रहसन्निव प्रोवाच फाल्गुनं स्निग्धया गिरा ।। ११ ।।
।। बाभ्रव्य उवाच ।। ।।
सत्यमेतद्यथात्थ त्वं नारदं प्रति पांडव ।।
सर्वोऽपि चात्र वृत्तांते संशयं याति मानवः ।। १२ ।।
तदहं ते प्रवक्ष्यामि यथा कृष्णान्मया श्रुतम् ।।
स्तोककालांतरे पूर्वं सर्वं यादवनंदनः ।। १३ ।।
महीसागरयात्रायां कृष्णस्तत्राययौ प्रभुः ।।
उग्रसेनेन सहितो वसुदेवेन बभ्रुणा ।। १४ ।।
रामेण रौक्मिणेयेन युयुधानादिभिस्तदा ।।
स च ज्ञात्वा ज्ञातिसमं महीसागरसंगमे ।। १५ ।।
पिंडदानादिकं कृत्वा दत्त्वा दानानि भूरिशः ।।
गुहेश्वरादिलिंगानि यत्नतः प्रतिपूज्य च ।। १६ ।।
स्नानं कृत्वा कोटितीर्थे जयादित्यं समर्च्य च ।।
पूजयन्नारदमुनिं युक्तः कृष्णो महामनाः ।। १७ ।।
उग्रसेनेन राज्ञा वै पूर्वजेन जटायुना ।।
मदादिविप्रमुख्यानां बहूनां चोपशृण्वताम् ।।
उग्रसेनो महाराजः कृष्णं प्रोवाच संसदि ।। १८ ।।
।। उग्रसेन उवाच ।। ।।
कृष्ण प्रक्ष्यामि त्वामेकं संशयं वद तं मम ।। १९ ।।
योऽयं नाम महाबुद्धिर्नारदो विश्ववंदितः ।।
कस्मादेषोऽतिचपलो वायुवद्भ्रमते जगत् ।।
कलिप्रियश्च कस्माद्वा कस्मात्त्वय्यतिप्रीतिमान् ।। 1.2.54.२० ।।
।। श्रीकृष्ण उवाच ।। ।।
सत्यं राजंस्त्वया पृष्टमेतत्सर्वं वदामि ते ।।
दक्षेण तु पुरा शप्तो नारदो मुनिसत्तमः ।। २१ ।।
सृष्टिमार्गांस्तु तान्वीक्ष्य नारदेन विचालितान् ।।
नावस्थानं च लोकेषु भ्रमतस्ते भविष्यति ।। २२ ।।
पैशुन्य वक्ता च तथा द्वितीयानां प्रचालनात् ।।
इति शापद्वयं प्राप्य द्विविधात्मजचालनात् ।। २३ ।।
निराकर्तुं समर्थोऽपि मुनिर्मेने तथैव तत् ।।
एतावान्साधुवादो हि यतश्च क्षमते स्वयम् ।। २४ ।।
विनाशकालं चावेक्ष्य कलिं वर्धयते यतः ।।
सत्यं च वक्ति तस्मात्स न च पापेन लिप्यते ।।२५।।
भ्रमतोऽपि च सर्वत्र नास्य यस्मात्पृथङ्मनः ।।
ध्येयाद्भवति नैव स्याद्भ्रमदोषस्ततोस्य च ।।
यच्च प्रीतिर्मयि तस्य परमा तच्छृणुष्व च ।। २६ ।।
अहं हि सर्वदा स्तौमि नारदं देवदर्शनम् ।।
महेंद्रगदितेनैव स्तोत्रेण शृणु तन्नृप ।। २७ ।।
श्रुतचारित्रयोर्जाता यस्याहंता न विद्यते ।।
अगुप्तश्रुत चारित्रं नारदं तं नमाम्यहम् ।। २८ ।।
अरतिक्रोधचापल्ये भयं नैतानि यस्य च ।।
अदीर्घसूत्रं धीरं च नारदं तं नमाम्यहम् ।। २९।।
कामाद्वा यदि वा लोभाद्वाचं यो नान्यथा वदेत् ।।
उपास्यं सर्वजंतूनां नारदं तं नमाम्यहम् ।। 1.2.54.३० ।।
अध्यात्मगतितत्त्वज्ञं क्षांतं शक्तं जितेंद्रियम् ।।
ऋजुं यथार्थ वक्तारं नारदं तं नमाम्यहम् ।।३१।।
तेजसा यशसा बुद्ध्या नयेन विनयेन च ।।
जन्मना तपसा वृद्धं नारदं तं नमाम्यहम् ।।३२।।
सुखशीलं सुखं वेषं सुभोजं स्वाचरं शुभम् ।।
सुचक्षुषं सुवाक्यं च नारदं तं नमाम्यहम् ।। ३३ ।।
कल्याणं कुरुते गाढं पापं यस्य न विद्यते ।।
न प्रीयते परानर्थे यो ऽसौ तं नौमि नारदम् ।। ३४ ।।
वेदस्मृतिपुराणोक्तधर्मे यो नित्यमास्थितः ।।
प्रियाप्रियविमुक्तं तं नारदं प्रणमाम्यहम् ।। ३५ ।।
अशनादिष्वलिप्तं च पंडितं नालसं द्विजम् ।।
बहुश्रुतं चित्रकथं नारदं प्रणमाम्यहम् ।। ३६ ।।
नार्थे क्रोधे च कामे च भूतपूर्वोऽस्य विभ्रमः ।।
येनैते नाशिता दोषा नारदं तं नमाम्यहम् ।। ३७ ।।
वीतसंमोहदोषो यो दृढभक्तिश्च श्रेयसि ।।
सुनयं सत्रपं तं च नारदं प्रणमाम्यहम् ।। ३८ ।।
असक्तः सर्वसंगेषु यः सक्तात्मेति लक्ष्यते ।।
अदीर्घसंशंयो वाग्ग्मी नारदं तं नमाम्यहम् ।। ३९ ।।
न त्यजत्यागमं किंचिद्यस्तपो नोपजीवति ।।
अवंध्यकालो यस्यात्मा तमहं नौमि नारदम् ।। 1.2.54.४० ।।
कृतश्रमं कृतप्रज्ञं न च तृप्तं समाधितः ।।
नित्यं यत्नात्प्रमत्तं च नारदं तं नमाम्यहम् ।। ।। ४१ ।।
न हृष्यत्यर्थलाभेन योऽलाभे न व्यथत्यपि ।।
स्थिरबुद्धिरसक्तात्मा तमहं नौमि नारदम् ।। ४२ ।।
तं सर्वगुणसंपन्नं दक्षं शुचिमकातरम् ।।
कालज्ञं च नयज्ञं च शरणं यामि नारदम् ।।४३।।
इमं स्तवं नारदस्य नित्यं राजन्पठाम्यहम् ।।
तेन मे परमा प्रीतिं करोति मुनिसत्तमः ।। ४४ ।।
अन्योपि यः शुचिर्भूत्वा नित्यमेतां स्तुतिं जपेत् ।।
अचिरात्तस्य देवर्षिः प्रसादं कुरुते परम् ।। ४५ ।।
एतान्गुणान्नारदस्य त्वमथाकर्ण्य पार्थिव ।।
जप नित्यं स्तवं पुण्यं प्रीतस्ते भविता मुनिः ।। ४६ ।।
।। बाभ्रव्य उवाच ।। ।।
इति कृष्णमुखाच्छ्रुत्वा नारदस्य गुणान्नृपः ।।
बभूव परमप्री तश्चक्रे तच्च तथा वचः ।। ४७ ।।
ततो नारदमानर्च दत्त्वा दानं च पुष्कलम् ।।
नारदीयद्विजाग्र्याणां नारदः प्रीयतामिति ।। ४८ ।।
ययौ द्वारवतीं कृष्णः सभ्रातृजातिबांधवः ।।
तीर्थयात्रामिमां कृत्वा विधिवत्पुरुषोत्तमः ।। ४९ ।।
तथा त्वमपि कौरव्य नारदस्य गुणानिमान् ।।
श्रुत्वा श्रद्धामयो भूत्वा शृणु कृत्यं यदत्र च ।। 1.2.54.५० ।।
कार्तिके शुक्लद्वादश्यां प्रबोधिन्यामसौ मुनिः ।।
विष्णोर्ध्यानसमाधेश्च प्रबुद्धो जायते सदा ।। ५१ ।।
तस्मिन्दिने नारदेन निर्मितेऽत्रैव कूपके ।।
स्नानं कृत्वा प्रयत्नेन श्राद्धं कुर्यात्समाहितः ।। ५२ ।।
तपो दानं जपश्चात्र कूपे भवति चाक्षयम् ।। ५३ ।।
इदं विष्ण्विति मंत्रेण ततो विष्णुं प्रबोधयेत् ।।
नारदं च मुनिं पश्चान्मन्त्रेणानेन पांडव ।। ५४ ।।
योगनिद्रा यथा त्यक्ता हरिणा मुनिसत्तम ।।
तथा लोकोपकाराय भवानपि परित्यज ।। ५५ ।।
इति मंत्रेण चोत्थाप्य नारदं परिपूजयेत् ।।
कृष्णप्रोदितया स्तुत्या छत्रधोत्रार्चनैः शुभैः ।।५६।।
शक्त्या द्विजानां देयं च छत्रं धोत्रं कमंडलुम् ।।
प्रणम्य ब्राह्मणान्भक्त्या नारदः प्रीयतामिति ।। ५७ ।।
एवं कृते प्रसादात्स मुनेः पापेन मुच्यते ।।
जायते न कलिस्तस्य न चासौख्यं भवेदिह।। ५८ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे नारदमाहात्म्यवर्णनंनाम चतुःपंचाशत्तमोऽध्यायः ।। ५४ ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 55
।। सूत उवाच ।। ।।
इति बाभ्रव्यवचनमाकर्ण्य कुरुनन्दनः ।।
प्राणमन्नारदं भक्त्या विस्मितः पुलकान्वितः ।। १ ।।
प्रशस्य च चिरं कालं पुनर्नारदमब्रवीत् ।। २ ।।
गुप्तक्षेत्रस्य माहात्म्यं शृण्वानस्त्वन्मुखान्मुने ।।
तृप्तिं नैवाधिगच्छामि भूयस्तद्वक्तुमर्हसि ।। ३ ।।
।। नारद उवाच ।। ।।
महालिंगस्य वक्ष्यामि महिमानं कुरूद्वह ।।
गौतमेश्वर लिंगस्य सावधानः शृणुष्व तत् ।। ४ ।।
अक्षपादो महायोगी गौतमाख्योऽभवन्मुनिः ।।
गोदावरीसमानेता अहल्यायाः पतिः प्रभुः ।। ५ ।।
गुप्त क्षेत्रस्य माहात्म्यं स च ज्ञात्वा महोत्तमम् ।।
योगसंसाधनं कुर्वन्नत्र तेपे तपो महत् ।। ६ ।।
योगसिद्धिं ततः प्राप्य गौतमेन महात्मना ।।
अत्र संस्थापितं लिंगं गौतमेश्वरसंज्ञया ।। ७ ।।
संस्नाप्यैतन्महालिंगं चन्दनेन विलिप्य च ।।
संपूज्य पुष्पैर्विविधैर्गुग्गुलं दाहयेत्पुरः ।।
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ।। ८ ।।
।। अर्जुन उवाच ।। ।।
योगस्वरूपमिच्छामि श्रोतुं नारद तत्त्वतः ।।
योगं सर्वे प्रशंसंति यतः सर्वोत्तमोत्तमम् ।। ।। ९ ।।
।। नारद उवाच ।। ।।
समासात्तव वक्ष्यामि योगतत्त्वं कुरूद्वह ।।
श्रवणादपि नैर्मल्यं यस्य स्यात्सेवनात्किमु ।। 1.2.55.१० ।।
चित्तवृत्तिनिरोधाख्यं योगतत्त्वं प्रकीर्त्यते।।
तदष्टांगप्रकारेण साधयंतीह योगिनः।।११।।
यमश्च नियमश्चैव प्राणायामस्तृतीयकः।।
प्रत्याहारो धारणा च ध्येयं ध्यानं च सप्तमम् ।। १२ ।।
समाधिरिति चाष्टांगो योगः संपरिकीर्तितः ।।
प्रत्येकं लक्षणं तेषामष्टानां शृणु पांडव ।। ।। १३ ।।
अनुक्रमान्नरो येषां साधनाद्योगमश्नुते ।।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।।१४।।
एते पंच यमाः प्रोक्ताः शृण्वेषामपि लक्षणम् ।।
आत्मवत्सर्वभूतेषु यो हिताय प्रवर्तते ।। १५ ।।
अहिंसैषा समाख्याता वेदसंविहिता च या ।।
दृष्टं श्रुतं चानुमितं स्वानुभूतं यथार्थतः ।। १६ ।।
कथनं सत्यमित्युक्तं परपीडाविवर्जितम् ।।
अनादानं परस्वानामापद्यपि कथंचन ।। १७ ।।
मनसा कर्मणा वाचा तदस्तेयं प्रकीर्तितम् ।।
अमैथुनं यतीनां च मनोवाक्कायकर्मभिः ।। १८ ।।
ऋतौ स्वदारगमनं गेहिनां ब्रह्मचर्यता ।।
यतीनां सर्वसंन्यासो मनोवाक्कायकर्मणा ।। १९ ।।
गृहस्थानां च मनसा स्मृत एषोऽपरिग्रहः ।।
एते यमास्तव प्रोक्ताः पंचैव नियमाञ्छृणु ।।1.2.55.२०।।
शौचं तुष्टिस्तपश्चैव जपो भक्तिर्गुरोस्तथा ।।
एतेषामपि पंचानां पृथक्संशृणु लक्षणम् ।। २१ ।।
बाह्यमाभ्यतरं चैव द्विविधं शौचमुच्यते ।।
बाह्यं तु मृज्जलैः प्रोक्तमांतरं शुद्धमानसम् ।। २२ ।।
न्यायेनागतया वृत्त्या भिक्षया वार्तयापि च ।।
संतोषो यस्य सततं सा तुष्टिरिति चोच्यते ।। २३ ।।
चांद्रायणादीनि पुनस्तपांसि विहितानि च ।।
आहारलाघवपरः कुर्यात्तत्तप उच्यते ।। २४ ।।
स्वाध्यायस्तु जपः प्रोक्तः प्रणवाभ्यसनादिकः ।।
शिवे ज्ञाने गुरौ भक्तिर्गुरुभक्तिरिति स्मृता ।। ।। २५ ।।
एवं संसाध्य नियमान्संयमांश्च विचक्षणः ।।
प्राणायामाय संदध्यान्नान्यथा योगसाधकः ।। २६ ।।
यतोऽशुचिशरीरस्य वायुकोपो महान्भवेत् ।।
वायुकोपात्कुष्ठता च जडत्वादीनुपाश्नुते ।। २७ ।।
तस्माद्विचक्षणः शुद्धं कृत्वा देहं यतेत्परम् ।।
प्राणायामस्य वक्ष्यामि लक्षणं शृणु पांडव ।। २८ ।।
प्राणापाननिरोधश्च प्राणायामः प्रकीर्तितः ।।
लघुमध्योत्तरीयाख्यः स च धीरैस्त्रिधोदितः ।। २९ ।।
लघुर्द्वादशमात्रस्तु मात्रा निमिष उन्मिषः ।।
द्विगुणो मध्यमश्चोक्तस्त्रिगुणश्चोत्तमः स्मृतः ।। 1.2.55.३० ।।
प्रथमेन जयेत्स्वेदं मध्यमेन तु वेपथुम् ।।
विषादं च तृतीयेन जयेद्दोषाननुक्रमात् ।। ३१ ।।
पद्माख्यमासनं कृत्वा रेचकं पूरकं तथा ।।
कुंभकं च सुखासीनः प्राणायामं त्रिधाऽभ्यसेत् ।। ३२ ।।
प्राणानामुपसंरोधात्प्राणायाम इति स्मृतः ।।
यथा पर्वतधातूनां ध्मातानां दह्यते मलः ।। ३३ ।।
तथेंद्रियवृतो दोषः प्राणायामेन दह्यते ।।
गोशतं कापिलं दत्त्वा यत्फलं तत्फलं भवेत् ।। ३४ ।।
प्राणायामेन योगज्ञस्तस्मात्प्राणं सदा यमेत् ।।
प्राणायामेन सिद्ध्यन्ति दिव्याः शान्त्यादयः क्रमात् ।। ।। ३५ ।।
शांतिः प्रशान्तिर्दीप्तिश्च प्रसादश्च यथाक्रमम् ।। स
हजागंतुकामानां पापानां च प्रवर्तताम् ।।३६।।
वासनाशांतिरित्याख्यः प्रथमो जायते गुणः ।।
लोभमोहात्मकान्दोषान्निराकृत्यैव कृत्स्नशः ।। ३७ ।।
तपसां च यदा प्राप्तिः सा शांतिरिति चोच्यते ।।
सर्वेन्द्रियप्रसादश्च बुद्धेर्वै मरुतामपि ।। ३८ ।।
प्रसाद इति स प्रोक्तः प्राप्यमेवं चतुष्टयम् ।।
एवंफलं सदा योगी प्राणायामं समभ्यसेत् ।। ३९ ।।
मृदुत्वं सेव्यमानास्तु सिंहशार्दूलकुंजराः ।।
यथा यान्ति तथा प्राणो वश्यो भवति साधितः ।। 1.2.55.४० ।।
प्राणायामस्त्वयं प्रोक्तः प्रत्याहारं ततः शृणु ।।
विषयेषु प्रवृत्तस्य चेतसो विनिवर्तनम् ।। ४१ ।।
प्रत्याहारं विनिर्दिष्टतस्य संयमनं हि यत् ।।
प्रत्याहारस्त्वयं प्रोक्तो धारणालक्षणं शृणु ।। ४२ ।।
यथा तोयार्थिनस्तोयं पत्रनालादिभिः शनैः ।।
आपिबेयुस्तथा वायुं योगी नयति साधितम् ।। ४३ ।।
प्राग्नाभ्यां हृदये वायुरथ तालौ भ्रुवोंऽतरे ।।
चतुर्दले षड्दशे च द्वादशे षोडशद्विके ।। ४४ ।।
आकुंचनेनैव मूर्द्धमुन्नीय पवनं शनैः ।।
मूर्धनि ब्रह्मरंध्रे तं प्राणं संधारयेत्कृती ।। ४५ ।।
प्राणायामा दश द्वौ च धारणैषा प्रकीर्त्यते ।।
दशैता धारणाः स्थाप्य प्राप्नोत्यक्षरसाम्यताम् ।। ४६ ।।
धारणास्थस्य यद्ध्येयं तस्य त्वं शृणु लक्षणम् ।।
ध्येयं बहुविधं पार्थ यस्यांतो नोपलभ्यते ।। ४७ ।।
केचिच्छिवं हरिं केचित्केचित्सूर्यं विधिं परे ।।
केचिद्देवीं महद्भूतामुत ध्यायन्ति केचन ।। ४८ ।।
तत्र यो यच्च ध्यायेत स च तत्र प्रलीयते ।।
तस्मात्सदा शिवं देवं पंचवक्त्रं हरं स्मरेत् ।। ४९ ।।
पद्मासनस्थं तं गौरं बीजपूरकरं स्थितम् ।।
दशहस्तं सुप्रसन्नवदनं ध्यानमास्थितम् ।। 1.2.55.५० ।।
ध्येयमेतत्तव प्रोक्तं तस्माद्ध्यानं समाचरेत् ।।
ध्यानस्य लक्षणं चैतन्निमेषार्धमपि स्फुटम् ।। ५१ ।।
न पृथग्जायते ध्येयाद्धारणां यः समास्थितः ।।
एवमेतां दुरारोहां भूमिमास्थाय योगवित् ।। ५२ ।।
न किंचिच्चिंतयेत्पश्चात्समाधिरिति कीर्त्यते ।।
समाधेर्लक्षणं सम्यग्ब्रुवतो मे निशामय ।। ५३ ।।
शब्दस्पर्शरसैर्हीनं गंधरूपविवर्जितम् ।।
परं पुरुषं संप्राप्तः समाधिस्थः प्रकीर्तितः ।। ५४ ।।
तां तु प्राप्य नरो विघ्नैर्नाभिभूयेत कर्हिचित् ।।
समाधिस्थश्च दुःखेन गुरुणापि न चाल्यते ।।५५।।
शंखाद्याः शतशस्तस्य वाद्यन्ते यदि कर्णयोः ।।
भेर्यश्च यदि हन्यंते शब्दं बाह्यं न विंदति ।। ५६ ।।
कशाप्रहाराभिहतो वह्निदग्धतनुस्तथा ।।
शीताढ्येव स्थितो घोरे स्पर्शं बाह्यं न विन्दति ।। ।। ५७ ।।
रूपे गंधे रसे बाह्ये तादृशस्य तु का कथा ।।
दृष्ट्वा य आत्मनात्मानं समाधिं लभते पुनः ।। ५८ ।।
तृष्णा वाथ बुभुक्षा वा बाधेते तं न कर्हिचित् ।। ५९ ।।
न स्वर्गे न च पाताले मानुष्ये क्व च तत्सुखम् ।।
समाधिं निश्चलं प्राप्य यत्सुखं विंदते नरः ।। 1.2.55.६० ।।
एवमारूढयोगस्य तस्यापि कुरुनदन ।।
पंचोपसर्गाः कटुकाः प्रवर्तंते यथा शृणु ।। ६१ ।।
प्रातिभः श्रावणो दैवो भ्रमावर्तोऽथ भीषणः ।।
प्रतिभा सर्वशास्त्राणां प्रातिभोऽयं च सात्त्विकः ।। ६२ ।।
तेन यो मदमादद्याद्योगी शीघ्रं च चेतसः ।।
योजनानां सहस्रेभ्यः श्रवणं श्रावणस्तु सः ।। ६३ ।।
द्वितीयः सात्विकश्चायमस्मान्मत्तो विनश्यति ।
अष्टौ पश्यति योनीश्च देवानां दैव इत्यसौ ।। ६४ ।।
अयं च सात्त्विको दोषो मदादस्माद्विनश्यति ।।
आवर्त इव तोयस्य जनावर्ते यदाकुलः ।। ६५ ।।
आवर्ताख्यस्त्वयं दोषो राजसः स महाभयः ।।
भ्राम्यते यन्निरालम्बं मनो दोषैश्च योगिनः ।। ६६ ।।
समस्ताधारविभ्रंशाद्भ्रमाख्यस्तामसो गुणः ।।
एतैर्नाशितयोगाश्च सकला देवयोनयः ।। ६७ ।।
उपसर्गैर्महाघोरैरावर्त्यंते पुनः पुनः ।।
प्रावृत्य कंबलं शुक्लं योगी तस्मान्मनोमयम् ।। ६८ ।।
चिंतयेत्परमं ब्रह्म कृत्वा तत्प्रवणं मनः ।।
आहाराः सात्त्विकाश्चैव संसेव्याः सिद्धिमिच्छता ।। ६९ ।।
राजसैस्तामसैश्चैव योगी सिद्धयेन्न कर्हिचित् ।।
श्रद्दधानेषु दांतेषु श्रोत्रियेषु महात्मसु ।। 1.2.55.७० ।।
स्वधर्मादनपेतेषु भिक्षा याच्या च योगिना ।।
भैक्षं यवान्नं तक्रं वा पयो यावकमेव वा ।। ७१ ।।
फलमूलं विपक्वं वा कणपिण्याकसक्तवः ।।
श्रुता इत्येत आहारा योगिनां सिद्धिकारकाः ।। ७२ ।।
मृत्युकालं विदित्वा च निमित्तैर्योगसाधकः ।।
योगं युञ्जीत कालस्य वंचनार्थं समाहितः ।। ७३ ।।
निमित्तानि च वक्ष्यामि मृत्युं यो वेत्ति योगवित् ।।
रक्तकृष्णांबरधरा गायंतीह सती च यम् ।। ७४ ।।
दक्षिणाशां नयेन्नारी स्वप्ने सोऽपि न जीवति ।।
नग्नं क्षपणकं स्वप्ने हसमानं प्रदृश्य च ।। ७५ ।।
एनं च वीक्ष्य वल्गन्तं तं विद्यान्मृत्युमागतम् ।।
ऋक्षवानरयुग्यस्थो गायन्यो दक्षिणां दिशम् ।। ।। ७६ ।।
याति मज्जेदधौ पंके गोमये वा न जीवति ।।
केशांगारैस्तथा भस्मभुजंगैर्निजलां नदीम् ।। ७७ ।।
एषामन्यतमैः पूर्णां दृष्ट्वा स्वप्ने न जीवति ।।
करालैर्विकटै रूक्षैः पुरुषैरुद्यतायुधैः ।। ७८ ।।
पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं भजेन्नरः ।।
सूर्योदये यस्य शिवा क्रोशंती याति सम्मुखम् ।। ७९ ।।
विपरीतं परीतं वा स सद्यो मृत्युमृच्छति ।।
दीपाधिगंधं नो वेत्ति वमत्यग्निं तथा निशि ।। 1.2.55.८० ।।
नात्मानं परनेत्रस्थं वीक्षते न स जीवति ।।
शक्रायुधं चार्धरात्रे दिवा वा ग्रहणं तथा ।। ८१ ।।
दृष्ट्वा मन्येत स क्षीणमात्मजीवितमाप्तवान् ।।
नासिका वक्रतामेति कर्णयोर्न्नमनोन्नती ।। ८२ ।।
नेत्रं च वामं स्रवति यस्य तस्यायुरुद्गतम् ।।
आरक्ततामेति मुखं जिह्वा चाप्यसिता यदा ।। ८३ ।।
तदा प्राज्ञो विजानीयादासन्नं मृत्युमात्मनः ।।
उष्ट्ररासभयानेन स्वप्ने यो याति दक्षिणाम् ।। ८४ ।।
दिशं कर्णौ पिधायापि निर्घोषं शृणुयान्न च ।।
न स जीवेत्तथा स्वप्ने पति तस्य पिधीयते ।। ८५ ।।
द्वारं न चोत्तिष्ठति च शुभ्रा दृष्टिश्च लोहिता ।।
स्वप्नेऽग्निं प्रविशेद्यश्च न च निष्क्रमते पुनः ।। ८६ ।।
जलप्रवेशादपि वा तदंतं तस्य जीवितम् ।।
यश्चाभिहन्यते दुष्टैर्भूतै रात्रावथो दिवा ।। ८७।।
प्रकृतैर्विकृतैर्वापि तस्यासन्नौ यमांतकौ ।।
देवतानां गुरूणां च पित्रोर्ज्ञानविदां तथा ।। ८८ ।।
निन्दामवज्ञां कुरुते भक्तो भूत्वा न जीवति ।।
एवं दृष्ट्वा निमित्तानि विपरीतानि योगवित् ।। ८९ ।।
धारणां सम्यगास्थाय समाधावचलो भवेत् ।।
यदि नेच्छति ते मृत्युं ततो नासौ प्रपद्यते ।। 1.2.55.९० ।।
विमुक्तिमथवा वांछेद्विसृजेद्ब्रह्ममूर्धनि ।।
संति देहे विमुक्ते च उपसर्गाश्च ये पुनः ।। ९१ ।।
योगिनं समुपायांति शृणु तानपि पांडव ।।
ऐशान्ये राक्षसपुरे यक्षो गन्धर्व एव च ।। ९२ ।।
ऐन्द्रे सौम्ये प्रजापत्ये ब्राह्मे चाष्टसु सिद्धयः ।।
भवंति चाष्टौ शृणु ताः पार्थिवी या च तैजसी ।। ९३ ।।
वायवी व्योमात्मिका चैव मानसाहम्भवा मतिः ।।
प्रत्येकमष्टधा भिन्ना द्विगुणा द्विगुणा क्रमात।९४।।
पूर्वे चाष्टौ चतुःषष्टिरन्ते शृणुष्व तद्यथा ।।
स्थूलता ह्रस्वता बाल्यं वार्धक्यं योवनं तथा ।।९५।।
नानाजाति स्वरूपं च चतुर्भिर्देहधारणम् ।।
पार्थिवांशं विना नित्यमष्टौ पार्थिवसिद्धयः ।। ९६ ।।
विजिते पृथिवीतत्त्वे यदैशान्ये भवन्ति च ।।
भूमाविव जले वासो नातुरोऽर्णवमापिबेत् ।। ९७ ।।
सर्वत्र जलप्राप्तिश्च अपि शुष्कं द्रवं फलम् ।।
त्रिभिर्देहस्य धरणं नदीर्वा स्थापयेत्करे ।। ९८ ।।
अव्रणत्वं शरीरस्य कांतिश्चाथाष्टकं स्मृतम् ।।
अष्टौ पूर्वा इमाश्चाष्टौ राक्षसानां पुरे स्मृताः ।। ९९ ।।
देहादग्निविनिर्माणं तत्तापभयवर्जनम् ।।
शक्तिदत्वं च लोकानां जलमध्येग्निज्वालनम् ।। 1.2.55.१०० ।।
अग्निग्रहश्च हस्तेन स्मृतिमात्रेण पावनम् ।।
भस्मीभूतस्य निर्माणं द्वाभ्यां देहस्य धारणम् ।।१०१।।
पूर्वाः षोडश चाप्यष्टौ तेजसो यक्षसद्मनि ।।
मनोगतित्वं भूतानामन्तर्निवेशनं तथा।।१०२।।
पर्वतादिमहाभारवहनं लीलयैव च ।।
लघुत्वं गौरवत्वं च पाणिभ्यां वायुवारणम्।।१०३।।
अंगुल्यग्रनिपातेन भूमेः सर्वत्र कम्पनम् ।।
एकेन देहनिष्पत्तिर्गांधर्वे वांति सिद्धयः ।।१०४।।
चतुर्विंशतिः पूर्वाश्चाप्यष्टावेताश्च सिद्धयः ।।
गन्धर्वलोके द्वात्रिंशदत ऊर्ध्वं निशामय ।। १०५ ।।
छायाविहीननिष्पत्तिरिंद्रियाणामदर्शनम् ।।
आकाशगमनं नित्यमिंद्रियादिशमः स्वयम् ।। १०६ ।।
दूरे च शब्दग्रहणं सर्वशब्दावगाहनम् ।।
तन्मात्रलिंगग्रहणं सर्वप्राणिनिदर्शनम् ।। १०७ ।।
अष्टौ वातात्मिकाश्चैन्द्रे द्वात्रिंशदपि पूर्वकाः ।।
यथाकामोपलब्धिश्च यथाकामविनिर्गमः ।।१०८।।
सर्वत्राभिभवश्चैव सर्वगुह्यनिदर्शनम् ।।
संसारदर्शनं चापि मानस्योऽष्टौ च सिद्धयः ।। १०९ ।।
चत्वारिंशच्च पूर्वाश्च सोमलोके स्मृतास्त्विमाः ।।
छेदनं तापनं बन्धः संसारपरिवर्तनम् ।। 1.2.55.११० ।।
सर्वभूत प्रसादत्वं मृत्युकालजयस्तथा ।।
अहंकारोद्भवश्चाष्टौ प्राजापत्ये च पूर्विकाः ।। १११ ।।
आकारेण जगत्सष्टिस्तथानुग्रह एव च ।।
प्रलयस्याधिकारं च लोकचित्रप्रवर्तनम् ।। ११२ ।।
असादृश्यमिदं व्यक्तं निर्वाणं च पृथक्पृथक् ।।
शुभेतरस्य कर्तृत्वमष्टौ बुद्धिभवास्त्वमी ।। ११३ ।।
षट्पंचाशत्तथा पूर्वाश्चतुःषष्टिरिमे गुणाः ।।
ब्राह्मये पदे प्रवर्तंते गुह्यमेतत्तवेरितम् ।। ११४ ।।
जीवतो देहभेदे वा सिद्ध्यश्चैतास्तु योगिनाम् ।।
संगो नैव विधातव्यो भयात्पतनसंभवात् ।। ११५ ।।
एतान्गुणान्निराकृत्य युञ्जतो योगिनस्तदा ।।
सिद्धयोऽष्टौ प्रवर्तंते योगसंसिद्धिकारकाः ।। ११६ ।।
अणिमा लघिमा चैव महिमा प्राप्तिरेव च ।।
प्राकाम्यं च तथेशित्वं वशित्वं च तथापरे ।। ११७ ।।
यत्र कामावसायित्वं माहेश्वरपदस्थिताः ।।
सूक्ष्मात्सूक्ष्मत्वमणिमा शीघ्रत्वाल्लघिमा स्मृता ।। ११८ ।।
महिमा शेषपूज्यत्वात्प्राप्तिर्नाप्राप्यमस्य यत्।।
प्राकाम्यमस्य व्यापित्वादीशित्वं चेश्वरो यतः।।११९।।
वशित्वाद्वशिता नाम सप्तमी सिद्धिरुत्तमा ।।
यत्रेच्छा तत्र च स्थानं तत्र कामावसायिता ।। 1.2.55.१२० ।।
ऐश्वरं पदमाप्तस्य भवंत्येताश्च सिद्धयः ।।
ततो न जायते नैव वर्धते न विनश्यति ।।१२१।।
एष मुक्त इति प्रोक्तो य एवं मुक्तिमाप्नुयात् ।।
यथा जलं जलेनैक्यं निक्षिप्तमुपगच्छति।।१२२।।
तथैवं सात्म्यमभ्येति योगिनामात्मा परात्मना ।।
एवं ज्ञात्वा फलं योगी सदा योगं समभ्यसेत् ।। १२३ ।।
अत्रोपमां व्याहरंति योगार्थं योगिनोऽ मलाः ।।
शशांकरश्मिसंयोगादर्ककांतो हुताशनम् ।। १२४ ।।
समुत्सृजति नैकः सन्नुपमा सास्ति योगिनः ।।
कपिंजलाखुनकुला वसंति स्वामिव द्गृहे ।। १२५ ।।
ध्वस्ते यांत्यन्यतो दुःखं न तेषां सोपमा यतेः ।।
मृद्देहकल्पदेहोऽपि मुखाग्रेण कनीयसा ।। १२६ ।।
करोति मृद्भागचयमुपदेशः स योगिनः ।।
पशुपक्षिमनुष्याद्यैः पत्रपुष्पफलान्वितम् ।। १२७ ।।
वृक्षं विलुप्यमानं च लब्ध्वा सिध्यंति योगिनः ।।
रुरुगात्रविषाणाग्रमालक्ष्य तिलकाकृतिम् ।। १२८ ।।
सह तेन विवर्धेत योगी सिद्धिमुपाश्नुते ।।
द्रव्यं पूर्णमुपादाय पात्रमारोहते भुवः ।। १२९ ।।
तुंगमार्गं विलोक्यैवं विज्ञातं कि न योगिनाम् ।।
तद्गेहं यत्र वसति तद्भोज्यं येन जीवति ।। 1.2.55.१३० ।।
येन निष्पाद्यते चार्थः स्वयं स्याद्योगसिद्धये ।।
तथा ज्ञानमुपासीत योगी यत्कार्यसाधकम् ।। १३१ ।।
ज्ञानानां बहुता येयं योगविघ्नकरी हि सा ।।
इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् ।। १३२ ।।
अपि कल्पसहस्रायुर्नैव ज्ञेयमवाप्नुयात्।।
त्यक्तसंगो जितक्रोधो लब्धाहारो जितेंद्रियः ।।१३३।।
पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत् ।।
आहारं सात्त्विकं सेवेन्न तं येन विचेतनः ।।१३४।।
स्यादयं तं च भुंजानो रौरवस्य प्रियातिथिः ।।
वाग्दण्डः कर्मदण्डश्च मनोदंडश्च ते त्रयः।।१३५।।
यस्यैते नियता दंडाः स त्रिदंडी यतिः स्मृतः।।
अनुरागं जनो याति परोक्षे गुणकीर्तनम् ।।१३६ ।।
न बिभ्यति च सत्त्वानि सिद्धेर्लक्षणमुच्यते ।। १३७ ।।
अलौल्यमारोग्यमनिष्ठुरत्वं गंधः शुभो मूत्रपुरीषयोश्च ।।
कांतिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ।। १३८ ।।
समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथैकांतरतिर्जितेन्द्रियः ।।
समाप्नुयाद्योगमिमं महामना विमुक्तिमाप्नोति ततश्च योगतः ।। १३९ ।।
कुलं पवित्रं जननी कृतार्था वसुन्धरा भाग्यवती च तेन ।।
अवाह्यमार्गे सुखसिन्धुमग्नं लग्नं परे ब्रह्मणि यस्य चेतः ।। 1.2.55.१४० ।।
विशुद्धबुद्धिः समलोष्टकांचनः समस्तभूतेषु वसन्समो हि यः ।।
स्थानं परं शाश्वतमव्ययं च यतिर्हि गत्वा न पुनः प्रजायते ।। १४१ ।।
इदं मया योगरहस्यमुक्तमेवंविधं गौतमः प्राप योगम् ।।
तेनैतच्च स्थापितं पार्थ लिंगं संदर्शनादर्चनात्कल्मषघ्नम् ।। १४२ ।।
यश्चाश्विने कृष्णचतुर्दशीदिने रात्रौ समभ्यर्चति लिंगमेतन् ।।
स्नात्वा अहल्यासरसि प्रधाने श्रद्धाय सर्वं प्रविधाय भक्तितः ।। १४३ ।।
महोपकारेण विमुक्तपापः स याति यत्रास्ति स गौतमो मुनिः ।। १४४ ।।
इदं मया पार्थ तव प्रणीतं गुप्तस्य क्षेत्रस्य समासयोगात् ।।
माहात्म्यमेतत्सकलं शृणोति यः स स्याद्विशुद्धः किमु वच्मि भूयः ।। १४५ ।।
य इदं शृणुयाद्भक्त्या गौतमाख्यानमुत्तमम् ।।
पुत्रपौत्रप्रियं प्राप्य स याति पदमव्ययम् ।। १४६ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे गौतमेश्वरमाहात्म्यसविस्तरयोगलक्षणवर्णनंनाम पञ्चपंचाशत्तमोऽध्यायः ।। ५५ ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 56
।। नारद उवाच ।। ।।
अतः परं प्रवक्ष्यामि ब्रह्मेशं लिंगमुत्तमम् ।।
यस्य स्मरणमात्रेण वाजपेयफलं भवेत् ।। १ ।।
एकदा तु पुरा पार्थ सृष्टि कामेन ब्रह्मणा ।।
तपः सुचरितं घोरं सार्धवर्षसहस्रकम् ।। २ ।।
तपसा तेन सन्तुष्टः पार्वतीपतिशंकरः ।।
वरमस्मै ततः प्रादाल्लोककर्त्रे स्ववांछितम् ।। ३ ।।
ततो हृष्टः प्रमुदितः कृतकृत्यः पितामहः ।।
ज्ञात्वा क्षेत्रस्य माहात्म्यं स्वयं लिंगं चकार ह ।।४।।
चखान च सरः पुण्यं नाम्ना ब्रह्मसरः शुभम ।।
महीनगरकात्पूर्वे महापातकनाशनम् ।। ५ ।।
अस्य तीरे महालिंगं स्थापयामास वै विभुः ।।
तत्र देवः स्वयं साक्षाद्विद्यते किल शंकरः ।। ।। ६ ।।
पुष्करादधिकं तीर्थं ब्रह्मेशंनाम फाल्गुन ।।
तत्र स्नात्वा नरो भक्त्या पिण्डदानं समाचरेत् ।। ७ ।।
दानं चैव यथाशक्त्या कार्तिक्यां च विशेषतः ।।
देवं प्रपूजयेद्भक्त्या ब्रह्मेशं हृष्टमानसः ।। ८ ।।
पितरस्तस्य तुष्यंति यावदाभूतसंप्लवम् ।।
पुष्करेषु च यत्पुण्यं कुरुक्षेत्रे रविग्रहे ।। ९ ।।
गंगादिपुण्यतीर्थेषु यत्फलं प्राप्यते नरैः ।।
तत्फलं समवाप्नोति तीर्थस्यास्यावगाहनात् ।। 1.2.56.१० ।।
मोक्षलिंगस्य माहात्म्यं शृणु पार्थ महाद्भुतम् ।।
मया स्थानहितार्थं च समाराध्य महेश्वरम् ।। ११ ।।
स्थापितं प्रवरं लिंगं नाम्ना मोक्षेश्वरं हरम् ।।
दर्भाग्रेण ततः पार्थ कूपं खनितवानहम् ।।१२।।
प्रसाद्य लोककर्तारं ब्रह्माणं परमेष्ठिनम् ।।
कमण्डलोर्ब्रह्मणश्च समानीता सरस्वती ।। १३ ।।
कूपेऽस्मिन्मोक्षनाथस्य लोकानां प्रेतमुक्तये ।।
कार्तिकस्य तु मासस्य शुक्लपक्षे चतुर्दशी ।। १४ ।।
कूपे स्नात्वा नरस्तस्यां तिलपिण्डं समाचरेत् ।।
प्रेतानुद्दिश्य नियतं मोक्षतीर्थफलं भवेत् ।। १५ ।।
कुले न जायते तस्य प्रेतः पार्थ न संशयः ।।
प्रेता मोक्षं प्रगच्छन्ति तीर्थस्यास्य प्रभावतः ।। १६ ।।
जयादित्यकूपवरे नरः स्नात्वा प्रयत्नतः ।।
गर्भेश्वरं नमस्कृत्य न स गर्भेषु मज्जति ।।१७।।
इदं मया पार्थ तव प्रणीतं गुप्तस्य क्षेत्रस्य समासयोगात् ।।
माहात्म्यमेतत्सकलं शृणोति यः स्याद्विशुद्धः किमु वच्मि भूयः ।। १८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखंडे कौमारिकाखंडे ब्रह्मेश्वरमोक्षेश्वर गर्भश्वरमाहात्म्यवर्णनंनाम षट्पंचाशत्तमोऽध्यायः ।।५६।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 57
।। नारद उवाच ।। ।।
ततो विप्रा नारदश्च समाराध्य महेश्वरम् ।।
महीनगरके पुण्ये स्थापयामास शंकरम् ।। १ ।।
लोकानां च हितार्थाय केदारं लिंगमुत्तमम् ।।
अत्रीशादुत्तरे भागे महापातकनाशनम् ।। २ ।।
अत्रिकुण्डे नरः स्नात्वा श्राद्धं कृत्वा यथाविधि ।।
अत्रीशं च नमस्कृत्य केदारं यः प्रपश्यति ।।३।।
मातुः स्तन्यं पुनर्नैव स पिबेन्मुक्तिभाग्भवेत् ।।
ततो रुद्रो नीलकंठं नारदाय महात्मने ।।४।।
स्वयं दत्त्वा स्वयं तस्थौ महीनगरके शुभे ।।
कोटितीर्थे नरः स्नात्वा नीलकंठं प्रपश्यति ।। ५ ।।
जयादित्यं नमस्कृत्य रुद्रलोकमवाप्नुयात् ।।
जयादित्यं पूजयंति कूपे स्नात्वा नरोत्तमाः ।। ६ ।।
न तेषां वंशनाशोऽस्ति जयादित्यप्रसादतः ।।
इदं ते कथितं पार्थ महीनगरकस्य च ।। ७ ।।
आख्यानं सकलं श्रुत्वा सर्वपापैः प्रमुच्यते ।। ८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे नीलकंठमाहात्म्यवर्णनंनाम सप्तपञ्चाशत्तमोऽध्यायः ।। ५७ ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 58
।। अर्जुन उवाच ।। ।।
गुप्तक्षेत्रमिदं कस्मात्कस्माद्गुप्तं च नारद ।।
यस्य प्रभावः सुमहान्नैव कस्यापि संस्तुतः ।। १ ।।
।। नारद उवाच ।। ।।
पुरातनामत्र कथां गुप्तक्षेत्रस्य कारणे ।।
शृणु पांडव शापेन गुप्तमासीदिदं यथा ।। २ ।।
पुरा निमित्ते कस्मिंश्चित्सर्वतीर्थाधिदैवताः ।।
प्रणामाय ब्रह्मसदो ब्रह्माणं सहिता ययुः ।। ३ ।।
पुष्करस्य प्रभासस्य निमिषस्यार्बुदस्य च ।।
कुरुक्षेत्रस्य क्षेत्रस्य धर्मारण्यस्य देवताः ।। ४ ।।
वस्त्रापथस्य श्वेतस्य फल्गुतीर्थं स्य चापि याः ।।
केदारस्य तथान्येषां क्षेत्राणां कोटिशोऽपि याः ।। ५ ।।
सिंधुसागरयोगस्य महीसागरकस्य च ।।
गंगासागरयोगस्य अधिपाः सूकरस्य च ।। ६ ।।
गंगारेवामुखीनां तु नदीनामधिदेवताः ।।
शोणह्रदपुरोगाणां ह्रदानां चाधिदेवताः ।। ७ ।।
ते सर्वे संघशो भूत्वा श्रैष्ठ्य ज्ञानाय चात्मनः ।।
समुपाजग्मुरमला महतीं ब्रह्मणः सभाम् ।। ८ ।।
तत्र तीर्थानि सर्वाणि समायातानि वीक्ष्य सः ।।
उत्तस्थौ सहितः सर्वैः सभासद्भिः पितामहः ।। ९ ।।
प्रणम्य सर्वतीर्थेभ्यः प्रबद्धकरसंपुटः ।।
तीर्थानि भगवानाह विस्मयोत्फुल्ललोचनः ।। 1.2.58.१० ।।
अद्य नः सद्म सकलं युष्माभिरतिपावितम् ।।
वयं च पाविता भूयो युष्माकं दर्शनादपि ।। ११ ।।
तीर्थानां दर्शनं श्रेयः स्पर्शनं स्नानमेव च ।।
कीर्तनं स्मरणं चापि न स्यात्पुण्यं विना परम् ।।१२।।
महापापान्विता रौद्रास्त्वपि ये स्युः सुनिष्ठुराः ।।
तेऽपि तीर्थैः प्रपूयंते किं पुनर्धर्मसंस्थिताः ।।१३।।
एवमुक्त्वा पुलस्त्यं स पुत्रमभ्यादिदेश ह ।।
शीघ्रमर्घं तीर्थहेतोः समानय यथार्चये ।। १४ ।।
।। पुलस्त्य उवाच ।।
असंख्यानीह तीर्थानि दृश्यंते पद्मसंभव ।।
यथा दिशसि मां तात अर्घमेकमुपानये ।। १५ ।।
धर्मप्रवचने श्लोको यत एष प्रगीयते ।। १६ ।।
भवेयुर्यद्यसंख्याता अर्घयोग्याः समर्चने ।।
ततस्तेषां वरिष्ठाय दातव्योऽर्घः किलैकतः ।। १७ ।।
।। ब्रह्मोवाच ।। ।।
साभिप्रायं साधु वत्स त्वया प्रोक्तमिदं वचः ।।
एवं कुरुष्वैकमर्घमानय त्वं सुशीघ्रतः ।। १८ ।।
।। नारद उवाच ।। ।।
ततः पुलस्त्यो वेगेन समानिन्येऽर्घमुत्तमम् ।।
तं च ब्रह्मा करे गृह्य तीर्थान्याहेति भारतीम् ।। १९ ।।
सर्वैर्भवद्भिः संहत्य मुख्यस्त्वेकः प्रकीर्त्यताम् ।।
तस्मै चार्घं प्रयच्छामि नैवं मामनयः स्पृशेत् ।। 1.2.58.२० ।।
।। तीर्थान्यूचुः ।। ।।
न वयं श्रेष्ठतां विद्मः कथंचन परस्परम् ।।
अस्माद्धेतोश्च संप्राप्ता ज्ञात्वा देहि त्वमेव तत् ।। २१ ।।
।। ब्रह्मोवाच ।। ।।
नाहं वेद्मि श्रेष्ठतां वः कथंचन नमोऽस्तु वः ।।
सर्वे चापारमाहात्म्यं स्वयं मे वक्तुमर्हथ ।। २२ ।।
यत्र गंगा गया काशी पुष्करं नैमिषं तथा ।।
कुरुक्षेत्रं तथा रेवा महीसागरसंगमः ।। २३ ।।
प्रभासाद्यानि शतशो यत्र नस्तत्र का मतिः ।। २४ ।।
।। नारद उवाच ।। ।।
एवमुक्ते पद्मभुवा कोपि नोवाच किंचन ।।
चिरेणेदं ततः प्राह महीसागरसंगमः ।। २५ ।।
ममैनमर्घं त्वं यच्छ चतुरानन शीघ्रतः ।।
यतः कोटिकलायां वा मम कोऽपि न पूर्यते ।। २६ ।।
यतश्चेन्द्रद्युम्नराज्ञा ताप्यमाना वसुंधरा ।।
सर्वतीर्थद्रवीभूता महीनामाभवन्नदी ।। २७ ।।
सा च सर्वाणि तीर्थानि संयुक्तानि मया सह ।।
सर्वतीर्थमयस्तस्मादस्मि ख्यातो जगत्त्रये ।। २८ ।।
गुहेन च महालिंगं कुमारेश्वरमीश्वरम् ।।
संस्थाप्य तीर्थमुख्यत्वं मम दत्तं महात्मना ।। २९ ।।
नारदेनापि मत्तीरे स्थानं संस्थाप्य शोभनम् ।।
सर्वेभ्यः पुण्यक्षेत्रेभ्यो दत्तं श्रैष्ठ्यं पुरा मम ।। 1.2.58.३० ।।
एवं त्रिभिर्हेतुवरैर्ममेवार्घः प्रदीयताम् ।।
गुणैकदेशेऽपि समं मम तीर्थं न वै परम् ।। ३१ ।।
इत्युक्ते वचने पार्थ तीर्थराजेन भारत।।
सर्वे नोचुः किंचनापि किं ब्रह्मा वक्ष्यतीति यत् ।। ३२ ।।
ततो ब्रह्मसुतो ज्येष्ठः श्वेतमाल्यानुलेपनः ।।
दक्षिणं बाहुमुद्धत्य धर्मो वचनमब्रवीत् ।। ३३ ।।
अहो कष्टमिदं कूक्तं तीर्थराजेन मोहतः ।।
सन्तोऽपि न गुणा वाच्याः स्वयं सद्भिः स्वका यतः ।। ३४ ।।
स्वीयान्गुणान्स्वयं यो हि सम्पत्सु प्रक्षिपन्परान् ।।
ब्रवीति राजसस्त्वेष ह्यहंकारो जुगुप्सितः ।। ३५ ।।
तस्मादस्मादहंकारात्सत्स्वप्येषु गुणेषु च ।।
अप्रख्यातं ध्वस्तरूपमिदं तीर्थं भविष्यति ।।३६।।
स्तंभतीर्थमिति ख्यातं स्तम्भो गर्वः कृतो यतः ।।
स्तंभस्य हि फलं सद्यो ब्रह्मापि प्राप किं परः ।। ३७ ।।
इत्युक्ते धर्मदेवेन हाहेति रव उत्थितः ।।
ततः शीघ्रं समायातो योगीशोऽहं च पांडव ।। ३८ ।।
गुहस्ततो वचः प्राह धर्मदेवसमागमे ।।
अयुक्तमेतच्छापोऽयं दत्तो यद्धर्म धार्ष्ट्यतः ।। ३९ ।।
ब्रवीतु कोऽपि सर्वेषां तीर्थानां तेषु वर्तताम् ।।
यद्यैश्वर्यं नार्हतेसौ महीसागरसंगमः ।। 1.2.58.४० ।।
तिष्ठत्वात्मगुणो यच्च तीर्थराजेन वर्णितः ।।
तत्र को विगुणो नाम मिथ्यावादी यतो गुणः ।। ४१ ।।
अहो न युक्तं पालानां यदि तेऽप्यविमृश्य च ।।
एवमर्थान्करिष्यंति कं यांति शरणं प्रजाः ।। ४२ ।।
एवमुक्ते गुहेनाथ धर्मो वचनमब्रवीत् ।।
सत्यमेतद्यदर्होऽयं महीसागरसंगमः ।। ४३ ।।
मुख्यत्वं सर्वतीर्थानामर्घं चापि पितामहात् ।।
किंतु नात्मगुणा वाच्याः सतामेतत्सदा व्रतम् ।।
परोक्षेपि स्वप्रशंसा ब्रह्माणमपि चालयेत् ।। ४४ ।।
स्वप्रशंसां प्रकुर्वाणः पराक्षेपसमन्विताम् ।।
किं दिवः पृथिवीं पूर्वं ययातिर्न पपात ह ।।
यानि पूर्वं प्रमाणानि कृतानीशेन धीमता ।।४५।।
तानि सम्पालनीयानि तानि कोऽति क्रमेद्बुधः ।।
तव पित्रा समादिश्य यदर्थं स्थापिता वयम् ।। ४६ ।।
पालयामास एतच्च त्वं पालयितुमर्हसि ।।
ईश्वराः स्वप्रमाणेन भवंतो यदि कुर्वते ।। ४७ ।।
तदस्माभिरिदं युक्तं शासनं दिश्यतां परम् ।।
एवमुक्त्वा स्वीयमुद्रां मोक्तुकामं वृषं तदा ।।४८।।
अहं प्रस्तावमन्वीक्ष्य वाक्यमेतदुदैरयम्।।
नमो धर्माय महते विश्वधात्रे महात्मने ।। ४९।।
ब्रह्मविष्णुशिवैर्नित्यं पूजितायाघनाशिने ।।
यदि मुद्रां भवान्धर्म परित्यक्ष्यति कर्हिचित् ।। 1.2.58.५० ।।
तदस्माकं कुतो भावो मा विश्वं नाशय प्रभो ।।
योगीश्वरं गुहं चापि संमानयितुमर्हसि ।। ५१ ।।
शिववन्माननीयो हि यतः साक्षाच्छिवात्मजः ।।
त्वां च देवो गुहः स्वामी संमानयितुमर्हति।।५२।।
युवयोरैक्यभावेन सुखं जीवेदिदं जगत् ।।
त्वया प्रदत्तः शापोऽयं मा प्रत्याख्यातिलक्षणः।।५३।।
अनुग्रहश्च क्रियतां तीर्थराजस्य मानद।।५४।।
एवमुच्चरमाणं मां प्रशस्याहापि पद्मभूः।।
साध्वेतन्नारदेनोक्तं धर्मैतद्वचनं कुरु।। ५५ ।।
सम्मानय गुहं चापि गुहः स्वामी यतो हि नः।।
एवमुक्ते ब्रह्मणा च धर्मो वचनमब्रवीत्।। ५६ ।।
नमो गुहाय सिद्धाय किंकरायस्य ते वयम्।।
मदीयां स्कन्द विज्ञप्तिं नाथैनामवधारय ।।५७।।
स्तंभादेतन्महातीर्थमप्रसिद्धं भविष्यति ।।
स्तंभतीर्थमिति ख्यातं सुप्रसिद्धं भविष्यति ।।५८ ।।
स्तम्भतीर्थमिति ख्यातं सर्वतीर्थफलप्रदम् ।।
यश्चात्र स्नानदानानि प्रकरिष्यति मानवः ।। ५९ ।।
यथोक्तं च फलं तस्य स्फुटं सर्वं भविष्यति ।।
शनिवारे ह्यमावास्या भवेत्तस्याः फलं च यत् ।। 1.2.58.६० ।।
महीसागरयात्रायां भवेत्तच्चावधारय ।।
प्रभासदशयात्राभिः सप्तभिः पुष्करस्य च ।। ६१ ।।
अष्टाभिश्च प्रयागस्य तत्फलं प्रभविष्यति ।।
पंचभिः कुरुक्षेत्रस्य नकुलीशस्य च त्रिभिः ।। ६२ ।।
अर्बुदस्य च यत्षड्भिस्तत्फलं च भविष्यति ।।
वस्त्रापथस्य तिसृभिर्गंगायाः पंचभिश्च यत् ।। ६३ ।।
कूपोदर्याश्चतुर्भिश्च तत्फलं प्रभविष्यति ।।
काश्याः षड्भिस्तथा यत्स्याद्गोदावर्याश्च पंचभिः ।। ६४ ।।
तत्फलं स्तंभतीर्थे वै शनिदर्शे भविष्यति ।।
एवं दत्ते वरे स्कंदस्तदा प्रीतमनाभवत् ।। ६५ ।।
ब्रह्मापि स्तंभतीर्थाय ददावर्घं समाहितः ।।
ददौ च सर्वतीर्थानां श्रेष्ठत्वममितद्युतिः ।। ६६ ।।
तीर्थानि च गुहं नाथं सम्मान्य विससर्ज सः ।।
एवमेतत्पुरा वृत्तं गुप्तक्षेत्रस्य कारणम् ।। ६७ ।।
भूयश्चापि प्रसिद्ध्यर्थं प्रेषिताप्सरसोऽत्र मे ।।
विमोक्षिता ग्राहरूपात्त्वया ताश्च कुरूद्वह ।। ६८ ।।
यतो धर्मस्य सर्वस्य नानारूपैः प्रवर्ततः ।।
परित्राणाय भवतः कृष्णस्य च भवो भवे ।।६९।।
तदिदं वर्णितं तुभ्यं सर्वतीर्थफलं महत् ।।
श्रुत्वैतदादितः पूर्वं पुमान्पापैः प्रमुच्यते ।।1.2.58.७०।।
।। सूत उवाच ।। ।।
श्रुत्वेति विजयो धीमान्प्रशशंस सुविस्मितः ।।
विसृष्टो नारदाद्यैश्च द्वारकां प्रति जग्मिवान् ।।७१।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे महीसागरमाहात्म्यवर्णनेऽर्जुनतीर्थयात्रापरिसमाप्तिवर्णनंनामष्टपंचाशत्तमोऽध्यायः ।। ५८ ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 59
।। शौनक उवाच ।। ।।
अत्यद्भुतमिदं सूत गुप्तक्षेत्रस्य पावनम् ।।
महन्माहात्म्यमतुलं कीर्तितं हर्षवर्धनम् ।। १ ।।
पुनर्यत्सिद्धलिंगस्य पूर्वं माहात्म्यकीर्तने ।।
इत्युक्तं यत्प्रसादेन सिद्धमातुस्तु सेत्स्यति ।। २ ।।
विजयोनाम पुण्यात्मा साहाय्याच्चंडिलस्य च ।।
को न्वसौ चंडिलोनाम विजयोनाम कस्तथा।। ।। ३ ।।
कथं च प्राप्तवान्सिद्धिं सिद्धमातुः प्रसादतः ।।
एतदाचक्ष्व तत्त्वेन श्रोतुं कौतूहलं हि नः ।।४।।
सतां चरित्रश्रवणे कौतुकं कस्य नो भवेत् ।। ।।
।। उग्रश्रवा उवाच ।। ।।
साधु पृष्टमिदं विप्रा दूरांतरितमप्युत ।। ५ ।।
श्रुता द्वैपायनमुखात्कथां वक्ष्यामि चात्र वः ।।
पुरा द्रुपदराजस्य पुत्रीमासाद्य पांडवाः ।। ६ ।।
धृतराष्ट्रमते पश्चादिंद्रप्रस्थं न्यवेशयन् ।।
रक्षिता वासुदेवेन कदाचित्तत्र पांडवाः ।।७।।
उपविष्टाः सभामध्ये कथाश्चक्रुः पृथग्विधाः ।।
देवर्षिपितृभूतानां राज्ञां चापि प्रकीर्तने ।। ८ ।।
क्रियमाणेऽथ तत्रागाद्भीमपुत्रो घटोत्कचः ।।
तं दृष्ट्वा भ्रातरः पंच वासुदेवश्च वीर्यवान् ।। ९ ।।
उत्थाय सहसा पीठादालिलिंगुर्मुदा युताः ।।
स च तान्प्रणतः प्रह्वो ववंदे भीमनंदनः ।। 1.2.59.१० ।।
साशिषं च ततो राज्ञा स्वोत्संग उपवेशितः ।।
आघ्राय स्नेहतो मूर्ध्नि प्रोक्तश्च जनसंसदि ।। ११ ।।
।। युधिष्ठिर उवाच ।। ।।
कुत आगम्यते पुत्र क्व चायं विहृतस्त्वया ।।
कालः क्वचित्सुखं राज्यं कुरुषे मातुलं तव ।। १२ ।।
कश्चिद्देवेषु विप्रेषु गोषु साधुषु सर्वदा ।।
हैडंबे नापकुरुषे प्रियमेतद्धरेश्च नः ।। १३ ।।
हेडंबस्य वनं सर्वं तस्य ये सैन्यराक्षसाः ।।
पाल्यमानास्त्वया साधो वर्धंते जनक्षेमकाः ।। १४ ।।
कच्चिन्नंदति ते माता भृशं नः प्रियकारिणी ।।
कन्यैव या पुरा भीमं त्यक्त्वा मानं पतिं श्रिता ।। १५ ।।
इति पृष्टो धर्मराज्ञा स्मयन्हैडंबिरब्रवीत् ।।
हते तस्मिन्दुराचारे मातुलेऽस्मि नियोजितः ।। १६ ।।
तद्राज्यं शासने स्थाप्य दुष्टान्निघ्नंश्चराम्यहम् ।।
माता कुशलिनी देवी तपो दिव्यमुपाश्रिता ।। १७ ।।
मामुवाच सदा पुत्र पितॄणां भक्तिकृद्भव ।।
सोऽहं मातुर्वचः श्रुत्वा मेरुपादात्समागतः ।। १८ ।।
प्रणामायैव भवतां भक्तिप्रह्वेण चेतसा ।।
आत्मानं च महत्यर्थे कस्मिंश्चित्तु नियोजितम् ।।
भवद्भिरहमिच्छामि फलं यस्मादिदं महत् ।। १९ ।।
यदाज्ञापालनं पुत्रः पितॄणां सर्वदा चरेत् ।।
अथोर्द्ध्वलोकान्स जयेदिह जायेत कीर्तिमान् ।। 1.2.59.२० ।।
।। सूत उवाच ।। ।।
इत्युक्तवंतं तं राजा परिरभ्य पुनःपुनः ।।
उवाच धर्मराट् पुत्रमानंदाश्रुः सगद्गदम् ।। २१ ।।
त्वमेव नो भक्तिकारी सहायश्चापि वर्तसे ।। २२ ।।
एतदर्थं च हैडंबे पुत्रानिच्छंति साधवः ।।
इहामुत्र तारयंते तादृशाश्चापि पुत्रकाः ।। २३ ।।
अवश्यं यादृशी माता तादृशस्तनयो भवेत् ।।
माता च ते भक्तिमती दृढं नस्त्वं च तादृशः ।। २४ ।।
अहो सुदुष्करं देवी कुरुते मे प्रिया वधूः ।।
या भर्तृश्रियमुल्लंघ्य तप एव समाश्रिता ।। २५ ।।
नूनं कामेन भोगैर्वा कृत्यं वध्वा न मे मनाक् ।।
या पुत्रसुखमन्वीक्ष्य परलोकार्थमाश्रिता ।। २६ ।।
दुष्कुलीनापि या भक्ता सूतेऽपत्यं च भक्तिमत् ।।
कुलीनमेव तन्मन्ये ममेदं मतमुत्तमम् ।।२७।।
एवं बहूनि वाक्यानि तानि तानि वदन्नृपः ।।
धर्मराजः समाभाष्य केशवं वाक्यमब्रवीत् ।। २८ ।।
पुंडरीकाक्ष जानासि यथा भीमादभूदयम् ।।
जातमात्रस्तु यश्चासीद्यौवनस्थो महाबलः ।। २९ ।।
अष्टानां देवयोनीनां यतो जन्म च यौवनम् ।।
सद्य एव भवेत्तस्मात्सद्योऽस्यासीच्च यौवनम् ।। ।। 1.2.59.३० ।।
तदस्योचितदारार्थे सदा चिंतास्ति कृष्ण मे ।।
उचितं बत हैडंबेः क्व कलत्रं करोम्यहम् ।। ३१ ।।
तद्भवान्कृष्णसर्वज्ञ त्रिलोकीमपि वेत्सि च ।।
हैडंबेरुचिता दारान्वक्तुमर्हसि यादव ।। ३२ ।।
।। सूत उवाच ।। ।।
एवमुक्तो धर्मराज्ञा क्षणं ध्यात्वा जनार्दनः ।।
धर्मराजमिदं वाक्यं पदांतरितमब्रवीत् ।। ३३ ।।
अस्ति राजन्प्रवक्ष्यामि दारानस्योचितां शुभाम् ।।
सांप्रतं संस्थिता रम्ये प्राग्ज्योतिषपुरे वरे ।। ३४ ।।
सा च पुत्री मुरोः पार्थ दैत्यस्याद्भुतकर्मणः ।।
योऽसौ नरकदैत्यस्य प्राणतुल्यः सखाऽभवत् ।। ३५ ।।
स च मे निहतो घोरः पाशदुर्गसमन्वितः ।।
नरकश्च दुराचारस्त्वमेतद्वेत्सि सर्वशः ।। ३६ ।।
ततो हते मुरौ दैत्ये मया तस्य सुताव्रजत् ।।
योद्धुं मामतिवीर्यत्वाद्घोरा कामकटंकटा ।। ३७ ।।
तां ततोऽहं महायुद्धे खड्गखेटकधारिणीम् ।।
अयोधयं महाबाणैः सुशार्ङ्गधनुषश्च्युतैः ।। ३८ ।।
खड्गेन चिच्छेद बाणान्मम सा च मुरोः सुता ।।
समागम्य च खड्गेन गरुडं मूर्ध्न्यताडयत् ।। ३९ ।।
स च मोहसमाविष्टो गरुडोऽभूदचेतनः ।।
ततस्तस्या वधार्थाय मया चक्रं समुद्यतम् ।। 1.2.59.४० ।।
चक्रं समुद्यतं दृष्ट्वा मया तस्मिन्रणाजिरे ।।
कामाख्या नाम मां देवी पुरः स्थित्वा वचोऽब्रवीत् ।। ४१ ।।
नैनां हंतुं भवानर्हो रक्षैतां पुरुषोत्तम ।।
अजेयत्वं मया ह्यस्या दत्तं खड्गं च खेटकम् ।। ४२ ।।
बुद्धिरप्रतिमा चापि शक्तिश्च परमा रणे ।।
ततस्त्वया त्रिरात्रेऽपि न जितासीन्मुरोः सुता ।। ४३ ।।
एवमुक्ते तदा देवीं वचनं चाहमब्रवम् ।।
अयमेष निवृत्तोऽस्मि वारयैनां च त्वं शुभे ।। ४४ ।।
ततश्चालिंग्य तां भक्तां कामाख्या वाक्यमब्रवीत् ।।
भद्रे रणान्निवर्तस्व नायं हंतुं कथंचन ।।४५।।
शक्यः केनापि समरे माधवो रणदुर्जयः ।।
नाभूदस्ति भविष्यो वा य एनं संयुगे जयेत् ।।४६।।
अपि वा त्र्यंबकः पुत्रि नैनं शक्तः कुतोऽन्यकः ।।
तस्मादेनं नमस्कृत्य भाविनं श्वशुरं शुभे ।। ४७ ।।
रणादस्मान्निवर्तस्व तवोचितमिदं स्फुटम् ।।
अस्य भ्रातुर्हि भीमस्य स्नुषा त्वं च भविष्यसि ।। ४८ ।।
तस्मात्त्वं श्वशुरं भद्रे सम्मानय जनार्दनम् ।।
न च शोकस्त्वया कार्यः पितरं प्रति पंडिते ।। ४९ ।।
जातस्य हि ध्रुवो मृत्युर्ध्रुव जन्म मृतस्य च ।।
बहवश्चाऽस्य वेत्तारो वद केनापि वार्यते ।। 1.2.59.५० ।।
ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यविद्यान्पुरुषान्नृपांश्च ।।
कान्मृत्युरेको न पतेत काले परावरज्ञोऽत्र न मुह्यते क्वचित् ।। ५१ ।।
श्लाघ्य एव हि ते मृत्युः पितुरस्माज्जनार्दृनात् ।।
सर्वपातकनिर्मुक्तो गतोऽसौ धाम वैष्णवम् ।। ५२ ।।
एवं कामाख्यया प्रोक्ता सा च कामकटंकटा ।।
त्यक्त्वा क्रोधं च संवृत्य गात्राणि प्रणता च माम् ।। ५३ ।।
तामहं साशिषं चापि प्रावोचं भरतर्षभ ।।
अस्मिन्नेव पुरे तिष्ठ भगदत्तप्रपूजिता ।। ५४ ।।
मया देव्या पृथिव्या च भगदत्तः कृतो नृपः ।।
स ते पूजां बहुविधां करिष्यति स्वसुर्यथा ।। ५५ ।।
वसंती चात्र तं वीरं हैडिंबं पतिमाप्स्यसि ।।
एवमाश्वास्य तां देवीं मौर्वीं चाहं व्यसर्जयम् ।। ५६ ।।
सा स्थिता च पुरे तत्र गतोऽहं शक्रसद्म च ।।
ततो द्वारवतीं प्राप्य त्वया सह समागतः ।। ५७ ।।
एवमेषोचिता दारा हैडंबेर्विद्यते शुभा ।।
कामाख्ये च रणे घोरा या विद्युदिव भासते ।। ५८ ।।
न च रूपं वर्णितं मे श्वशुरस्योचितं यतः ।।
साधोर्हि नैतदुचितं सर्वस्त्रीणां प्रवर्णनम् ।। ५९ ।।
पुनरेकश्च समयः कृतस्तं शृणु यस्तया ।।
यो मां निरुत्तरां प्रश्ने कृत्वैव विजयेत्पुमान् ।। 1.2.59.६० ।।
यो मे प्रतिबलश्चापि स मे भर्ता भविष्यति ।।
एवं च समयं श्रुत्वा बहवो दैत्यराक्षसाः ।। ६१ ।।
तस्या जयार्थमगमंस्तेऽपि जित्वा हतास्तया ।।
यो य एनां गतः पूर्वं न स भूयो न्यवर्तत ।। ६२ ।।
वह्नेरिव प्रभां दीप्तां पतंगानां समुच्चयः ।।
एवमेतादृशीं मौर्वीं जेतुमुत्सहते यदि ।। ६३ ।।
घटोत्कचो महावीर्यो भार्यास्य नियतं भवेत् ।। ६४ ।।
।। युधिष्ठिर उवाच ।। ।।
अलं सर्वगुणैस्तस्या यस्यास्त्वेको गुणो महान् ।।
क्रियते किं हि क्षीरेण यदि तद्विषमिश्रितम् ।। ६५ ।।
प्राणाधिकं भैमसेनिं कथं केवलसाहसात् ।।
क्षिपेयं तव वाक्यानां शुद्धानां चाथ कोविदम् ।। ६६ ।।
अन्या अपि स्त्रियः संति देशे देशे जनार्दन ।।
बह्व्यस्तासां वरां कांचिद्योषितं वक्तुमर्हसि ।।६७।।
।। भीम उवाच ।। ।।
सम्यगुक्तं केशवेन वाक्यं बह्वर्थमुत्तमम् ।।
राज्ञा पुनः स्नेहवशाद्यदुक्तं तन्न भाति मे ।। ६८ ।।
कार्ये दुःसाध्य एव स्यात्क्षत्रियस्य पराक्रमः ।।
करींद्रस्येव यूथेषु गजानां न मृगेषु च ।। ६९ ।।
आत्मा प्रख्यातिमानेयः सर्वथा वीरपुंगवैः ।।
सा च ख्यातिः कथं जायेद्दुःसाध्यकरणादृते ।। 1.2.59.७० ।।
न ह्यात्मवशगं पार्थ हैडंबेरस्य रक्षणम् ।।
येन दत्तस्त्वयं धात्रा स एनं पालयिष्यति ।। ७१ ।।
सर्वथोच्चपदारोहे यत्नः कार्यो विजानता ।।
तन्न सिध्यति चेद्दैवान्नासौ दोषो विजानतः ।। ७२ ।।
यथा देवव्रतस्त्वेको जह्रे काशिसुताः पुरा ।।
तथैक एव हैडंबिर्मौर्वीं प्राप्नोतु मा चिरम् ।। ७३ ।।
।। अर्जुन उवाच ।। ।।
केवलं पौरुषपरं भीमेनोक्तमिदं वचः ।।
अबलं दैवहेतुत्वात्प्रबलं प्रतिभाति मे ।। ७४ ।।
न मृषा हि वचो ब्रूते कामाख्या या पुराऽब्रवीत् ।।
भीमसेनसुतः पाणिं तव भद्रे ग्रहीष्यति ।। ७५ ।।
अनेन हेतुना यातु शीघ्रं तत्र घटोत्कचः ।।
इति मे रोचते कृष्ण तव किं ब्रूहि रोचते ।। ७६ ।।
।। कृष्ण उवाच ।। ।।
रोचते मे वचस्तुभ्यं भीमस्य च महात्मनः ।।
न हि तुल्यो भैमसेनेर्बुद्धौ वीर्ये च कश्चन ।। ७७ ।।
अंतरात्मा च मे वेत्ति प्राप्तामेव मुरोः सुताम् ।।
तच्छीघ्रं यातु हैडंबिस्त्वं च किं पुत्र मन्यसे ।। ७८ ।।
।। घटोत्कच उवाच ।। ।।
न हि न्याय्याः स्वका वक्तुं पूज्यानामग्रतो गुणाः ।।
प्रवृत्ता एव भासंते सद्गुणाश्च रवेः कराः ।। ७९ ।।
सर्वथा तत्करिष्यामि पितरो येन मेऽमलाः ।।
लज्जिष्यंति न संसत्सु मया पुत्रेण पांडवाः।।1.2.59.८०।।
एवमुक्त्वा महाबाहुरुत्थाय प्रणनाम तान् ।।
जयाशीर्भिश्च पितृभिर्वर्द्धितो गंतुमैच्छत ।।८१।।
तं गतुकाममाहेदमभिनंद्य जनार्दनः ।।
कथाकथनकाले मां स्मरेथास्त्वं जयावहम् ।।८२।।
यथा बुद्धिं सुदुर्भेद्यां वर्धयामि बलं च ते ।।
इत्युक्त्वालिंग्य तं कृष्णो व्यससर्जत साशिषम् ।। ८३ ।।
ततो हिडंबातनयो महौजाः सूर्याक्षकालाक्षमहोदरानुगः ।।
वियत्पथं प्राप्य जगाम तत्पुरं प्राग्ज्योतिषं नाम दिनव्यपाये ।। ८४ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बर्बरिकोपा ख्याने घटोत्कचस्य प्राग्ज्योतिषपुरं प्रति गमनवर्णनंनामैकोनषष्टितमोऽध्यायः ।। ५९ ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 60
।। सूत उवाच ।। ।।
सोऽथ प्राग्ज्योतिषाद्बाह्ये महोपवनसंस्थितम् ।।
सहस्रभूमिकं गेहमपश्यत हिरण्मयम् ।। १ ।।
वेणुवीणामृदंगानां निःस्वनैः परिपूरितम् ।।
दशसाहस्रसंख्याभिश्चेटीभिः परिपूरितम् ।। २ ।।
आयाद्भिः प्रतियाद्भिश्च भगदत्तस्य किंकरैः ।।
किमिच्छन्तीति भगिनी पृच्छकैरभिपूरितम् ।। ३ ।।
तदासाद्य स हैडंबिर्मेरोः शिखरवद्ग्रहम् ।।
द्वारि स्थितां संददर्श कर्णप्रावरणां सखीम् ।। ४ ।।
तामाह ललितं वीरो भद्रे सा क्व मुरोः सुता ।।
कामुको द्रष्टुमिच्छामि दूरदेशागतोऽतिथिः ।। ५ ।।
।। कर्णप्रावरणोवाच ।। ।।
किं तवास्ति महाबाहो तया मौर्व्या प्रयोजनम् ।।
कोटिशो निहताः पूर्वं तया कामुक कामुकाः ।। ६ ।।
तव रूपमहं दृष्ट्वा घटहासं सदोत्कचम् ।।
प्रणम्य पादयोर्वीर स्थिता ते वचनंकरी ।। ७ ।।
तन्मया सह मोदस्व भुंक्ष्व भोगांश्च कामुक ।।
दास्याम्यनुचराणां ते त्रयाणां च प्रियात्रयम् ।। ८ ।।
।। घटोत्कच उवाच ।। ।।
कल्याणि किंवदंती ते प्रमुक्ता स्वोचिता शुभे ।।
पुनर्नैतद्वचस्तुभ्यं विशते मम चेतसि ।। ९ ।।
वामः कामो यतो भद्रे यस्मिन्नुपनिबद्ध्यते ।।
स चात्र नैव बध्नाति तद्वयं कि प्रकुर्महे ।। 1.2.60.१० ।।
अद्य ते स्वामिनी दृष्टा जिता वा क्रीडते मया ।।
तया वा विजितो यास्ये पूर्वेषां कामिनां गतिम् ।। ११ ।।
कर्णप्रावरणे तस्माच्छीघ्रमेव निवेद्यताम् ।।
यथा दर्शनमात्रेण पूजयंत्यतिथिं खलु ।। १२ ।।
इति भैमेर्वचः श्रुत्वा प्रस्खलंती निशाचरी ।।
प्रासादशिखरस्थां तां मौर्वीमेवं वचोवदत् ।। १३ ।।
देवि कोऽपि युवा श्रीमांस्त्रैलोक्येष्वमितप्रभः ।।
कामातिथिस्तव द्वारि वर्तते दिश तत्परम् ।। १४ ।।
।। कामकटंकटोवाच ।। ।।
मुच्यतां शीघ्रमेवासौ किमर्थं वा विलंबसे ।।
कदाचिद्देवसंगत्या समयो मेऽभिपूर्यते ।। १५ ।।
इत्युक्तवचनाच्चेटी प्राप्यावोचद्घटोत्कचम् ।।
व्रज शीघ्रं कामुक त्वं तस्या मृत्योश्च सन्निधौ ।। १६ ।।
इत्युक्तः स प्रहस्यैव तत्रोत्सृज्य स्वकानुगान् ।।
प्रविवेश गृहं भैमिः सिंहो मेरुगुहामिव ।। १७ ।।
स पश्यञ्छुकसंघातान्पारावतगणांस्तथा ।।
सारिकाश्च मदोन्मत्ताश्चेटीस्तां चाप्यपश्यत ।। १८ ।।
रूपेण वयसः चैव रतेरपि रतिंकरीम् ।।
आंदोलकसुखासीनां सर्वाभरणभूषिताम् ।। १९ ।।
तां विद्युतमिवोन्नद्धां दृष्ट्वा भैमिरचिंतयत ।।
अहो कृष्णेन पित्रा मे निर्दिष्टेयं ममोचिता ।। 1.2.60.२० ।।
न्याय्यमेतत्कृते पूर्वं नष्टा यत्कामिनां गणाः ।।
शरीरक्षयपर्याप्तं क्षीयते यदि कामिनाम् ।। २१ ।।
कामिनीनां कृते येषां क्षीयते गणनात्र का ।।
एवं बहुविधं कामी चिंतयन्नाह भीमभूः ।। २२ ।।
निष्ठुरे वज्रहृदये प्राप्तोऽहमतिथिस्तव ।।
उचितां तत्सतां पूजां कुरु या ते हृदि स्थिता ।। २३ ।।
इति हैडंबिवचनं श्रुत्वा कामकटंकटा ।।
विस्मिताभूत्तस्य रूपात्स्वं निनिंद च बालिशम् ।। २४ ।।
धिगहं यन्मया पूर्वं समयः स कृतोऽभवत् ।।
न कृतोऽभूद्यदि पुरा अभविष्यदसौ पतिः ।। २५ ।।
इति संचिन्तयन्ती सा भैमिं वचनमब्रवीत् ।।
वृथा त्वमागतो भद्र जीवन्याहि पुनः सुखी ।। २६ ।।
अथ कामयसे मां त्वं तत्कथां शीघ्रमुच्चर ।।
कथामाभाष्य यदि मां सन्देहे पातयिष्यसि ।।
ततोऽहं वशगा जाता हतो वा स्वप्स्यसे मया ।। २७ ।।
।। सूत उवाच ।। ।।
इत्युक्तवचनामेतां नेत्रोपांतेन वीक्ष्य सः।।२८।।
स्मृत्वा चराचरगुरुं कृष्णमारब्धवान्कथाम् ।।
कस्यांचिदभवत्पत्न्यां युवा कोऽप्यजितेद्रियः ।।२९।।
तस्य चैका सुता जज्ञे भार्या तस्य मृताऽभवत् ।।
ततो बालकिकां पुत्रीं ररक्ष च पुपोष च ।। 1.2.60.३० ।।
सा यदाभूद्यौवनगा व्यंजितावयवा शुभा ।।
प्रोल्लसत्कुचमध्यांगी प्रोल्लसन्मुखपंकजा ।। ३१ ।।
तदास्य कामलुलितमालानं प्रजहौ मनः ।।
प्रोवाच तां च तनयां समालिंग्य दुराशयः ।। ३२ ।।
प्रातिवेश्मकपुत्री त्वं मयानीयात्र पोषिता ।।
भार्यार्थं सुचिरं कालं तत्कार्यं साधय प्रिये ।। ३३ ।।
इत्युक्ता सा च मेने च तत्तथैव वचस्तदा ।।
पतित्वेन च भेजे तं भार्यात्वेन स तां तथा ।। ३४ ।।
ततस्तस्यां सुता जज्ञे तस्मान्मदनरासभात् ।।
वद सा तस्य भवति किं दौहित्री सुताऽथवा ।।
एनं प्रश्नं मम ब्रूहि शीघ्रं चेच्छक्तिरस्ति ते ।। ३५ ।।
।। सूत उवाच ।। ।।
इति प्रश्नं सा च श्रुत्वा चिंतयद्बहुधा हृदि ।। ३६ ।।
न च पश्यति निर्द्धारं प्रश्नस्यास्य कथंचन ।।
ततः प्रश्नेन विजिता स्वां शक्तिं समुपाददे ।। ३७ ।।
अताडयद्रुक्मरज्जुं कराभ्यां दोलकस्य च ।।
ततो रक्षांसि निष्पेतुः कोटिशो भीषणान्यति ।। ३८ ।।
सिंहव्याघ्रवराहाश्च महिषाश्चित्रका मृगाः ।।
समीक्ष्य तानसंख्येयान्खादितुं धावतो रुषा ।। ३९ ।।
अवादयन्नखौ भैमिः कनिष्ठांगुष्ठजौ हसन् ।।
ततो विनिःसृतास्तत्र द्विगुणा राक्षसादयः ।। 1.2.60.४० ।।
तैर्मौर्वीनिर्मिताः सर्वे क्षणादेव स्म भक्षिताः ।।
विजितायां स्वशक्तौ च बलशक्तिमथाददे ।। ४१ ।।
उत्थाय सहसा दोलात्खड्गमादातुमैच्छत ।।
उत्तिष्ठंतीं च तां भैमिरनुसृत्य जवादिव ।। ४२ ।।
केशेष्वादाय सव्येन पाणिनाऽपातयद्भुवि ।।
ततः कंठे सव्यपादं दत्त्वादाय च कर्तिकाम् ।।४३।।
दक्षिणेन करेणास्याश्छेत्तुमैच्छत नासिकाम्।।
विस्फुरंती ततो मौर्वी मंदमाह घटोत्कचम् ।।४४।।
प्रश्नेन शक्त्या च बलेन नाथ त्रिधा त्वयाहं विजिता नमस्ते ।।
तन्मुंच मां कर्मकरी तवास्मि समादिश त्वं प्रकरोमि तच्च ।। ४५ ।।
।। घटोत्कच उवाच ।। ।।
यद्येवं तर्हि मुक्तासि भूयो दर्शय यद्बलम् ।।
एवमुक्त्वा मुमोचैनां मुक्ता चाह प्रणम्य सा ।। ४६ ।।
जानामि त्वां महाबाहो वीरं शक्तिमतां वरम् ।।
सर्वराक्षसभर्तारं त्रैलोक्येऽमितविक्रमम् ।। ४७ ।।
गुह्यकाधिपतिस्त्वं हि कालनाभ इति स्मृतः ।।
षष्टिकोटिपतिर्जातो यक्षरक्षाकृते भुवि ।। ४८ ।।
इति मां प्राह कामाख्या सर्वं तत्संस्मराम्यहम् ।।
इदं गेहं सानुगं मे दत्तं मयात्मना तव ।। ४९ ।।
समादिश प्राणनाथ कमादेशं करोमि ते ।।
।। घटोत्कच उवाच ।। ।।
प्रच्छन्नस्तस्य घटते न विवाहः कथंचन ।। 1.2.60.५० ।।
मोर्वि यस्य हि वर्तंते पितरौ बांधवास्तथा ।।
तन्मां शीघ्रं वह शुभे शक्रप्रस्थाय संप्रति ।। ५१ ।।
अयं कुलक्रमोऽस्माकं यद्भार्या पतिमुद्वहेत् ।।
तत्रानुज्ञां समासाद्य परिणेष्यामि त्वामहम् ।। ५२ ।।
भगदत्तमथो नाथं ततो मौर्वी न्यवेदयत् ।।
समादाय बहुद्रव्यं विससर्जाथ भ्रातरम् ।। ५३ ।।
ततः पृष्ठिं समारोप्य घटोत्कचमनिंदिता ।।
नानाद्रव्यपरीवारा शक्रप्रस्थं समाव्रजत् ।। ५४ ।।
ततोऽसौ वासुदेवेन पांडवैश्चाभिनंदितः ।।
शुभे लग्ने पाणिमस्या जगृहे भीमनंदनः ।। ५५ ।।
कुरूणां राक्षसानां च प्रोक्तोत्तमविधानतः ।।
उद्वाह्य तां तद्धनैश्च तर्पयामास पांडवान् ।। ५६ ।।
कुंती च द्रौपदी चोभे मुमुदाते नितांततः ।।
मंगलान्यस्य चक्राते मौर्व्याश्च धन तर्पिते ।। ५७ ।।
ततो विवाहे निर्वृत्ते प्रतिपूज्य घटोत्कचम् ।।
भार्यया सहितं राजा स्वराज्याय समादिशत् ।। ५८ ।।
मौर्व्याऽऽज्ञां शिरसा गृह्य हैडंबिर्भार्ययान्वितः ।।
शुभं हिडम्बस्य वने स्वराज्यं समुपाव्रजत् ।।५९।।
ततो राक्षसयोषाभिर्वीरकांस्यैः प्रवर्धितः।।
महोत्सवेन महता स्वराज्ये प्रमुमोद सः ।।1.2.60.६०।।
ततो वनेषु चित्रेषु निम्नगापुलिनेषु च ।।
रेमे सह तया भैमिर्मंदोदर्येव रावणः ।। ६१ ।।
एवं विक्रीडतस्तस्य गर्भो जज्ञे महाद्युतेः।।
हेडंबै राक्षसव्याघ्राद्बालसूर्यसमप्रभः ।। ६२ ।।
स जातमात्रो ववृधे क्षणाद्यौवनगोऽभवत् ।।
नीलमेघचयप्रख्यो घटास्यो दीर्घलोचनः ।। ६३ ।।
ऊर्ध्वकेशश्चोर्ध्वरोमा पितरौ प्रणतोऽब्रवीत् ।।
प्रणमामि युवां चोभौ जातस्य पितरौ गुरू ।। ६४ ।।
भवतोर्हि प्रियं कृत्वा अनृणः स्यां सदा ह्यहम् ।।
भवद्भ्यां दत्तमिच्छामि अभिधानं यथात्मनः।।६५।।
अतः परं तु यच्छ्रेयं कर्तव्यं प्रोन्नतिप्रदम्।।
ततो भेमिस्तमालिंग्य पुत्रं वचनमब्रवीत् ।।६६।।
बर्बराकारकेशत्वाद्बर्बरीकाभिधो भवान् ।।
भविष्यति महाबाहो कुलस्यानन्दवर्धनः ।। ६७ ।।
श्रेयश्च ते यत्परमं दृढं च तत्कीर्त्यते बहुधा विप्र मुख्यैः ।।
प्रक्ष्यावहे तद्यदुवंशनाथं गत्वा पुरीं द्वारकां वासुदेवम् ।। ६८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे बर्बरीकोत्पत्तिवर्णनंनाम षष्टितमोऽध्यायः ।। ६० ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 61
।। सूत उवाच ।। ।।
ततो घटोत्कचो मुक्त्वा तत्र कामकटंकटाम्।।
पुत्रेणानुगतो धीमान्वियता द्वारकां ययौ ।। १ ।।
आगच्छन्तं च तंदृष्ट्वा राक्षसं राक्षसानुगम् ।।
द्वारकावासिनो योधाश्चक्रुरत्युल्बणं रवम् ।। २ ।।
ग्रामे ग्रामे सुसंनद्धा नवलक्षमिता रथाः ।।
राक्षसौ द्वौ समायातौ पात्येतां विशिखैरिति ।। ३ ।।
तान्गृहीतायुधान्दृष्ट्वा यदुवीरान्घटोत्कचः ।।
प्रगृह्य विपुलं बाहुं जगौ तारस्वरेण सः ।। ४ ।।
राक्षसं वित्त मां वीरा भीमपुत्रं घटोत्कचम् ।।
सुप्रियं वासुदेवस्य प्रणामार्थमुपागतम् ।। ५ ।।
निवेदयत मां प्राप्तं यादवेन्द्राय सात्मजम् ।।
इति तस्य वचः श्रुत्वा ते कृष्णाय न्यवेदयन् ।। ६ ।।
आह देवः सभास्थश्च शीघ्रमत्राव्रजत्वसौ ।।
ततः प्रवेशयामासुर्द्वारकां ते घटोत्कचम् ।। ७ ।।
सपुत्रः सोऽपि रम्याणि वनान्युपवनानि च ।।
क्रीडाशैलांश्च हर्म्याणि संपश्यन्नागतः सभाम् ।।८।।
स तत्र उग्रसेनं च वसुदेवं च सात्यकिम् ।।
अक्रूररामप्रमुखान्ववन्दे कृष्णमेव च ।। ९ ।।
तं पादयोर्निपतितं समालिंग्य सहात्मजम् ।।
साशिषं स्वसमीपस्थमुपवेश्येदमब्रवीत् ।। 1.2.61.१० ।।
पुत्र राक्षसशार्दूल कुरूणां कुलवर्धन ।।
कुशलं सर्वतः कच्चित्किमर्थस्ते समागमः ।। ।। ११ ।।
।। घटोत्कच उवाच ।। ।।
देव युष्मत्प्रसादेन सर्वतः कुशलं मम ।।
श्रूयतां कारणं स्वामिन्यदर्थमहमागतः ।। १२ ।।
देवोपदिष्ट भार्यायां जातोऽयं तनयो मम ।।
स च प्रश्नं वक्ष्यति त्वां श्रूयतामागतस्त्वतः ।। १३ ।।
।। श्रीकृष्ण उवाच ।। ।।
वत्स मौर्वेय ब्रूहि त्वं सर्वं पृच्छ यदिच्छसि ।।
यथा घटोत्कचो मह्यं सुप्रियश्च तथा भवान् ।। १४ ।।
।। बर्बरीक उवाच ।। ।।
प्रणम्य त्वामादिदेवं मनोबुद्धिसमाधिभिः ।।
प्रक्ष्यामि केन श्रेयः स्याज्जंतोर्जातस्य माधव ।। १५ ।।
केचिच्छ्रेयो धर्ममाहुरैश्वर्यं त्यागभोजनम् ।।
केचिद्दमं तपो द्रव्यं भोगान्मुक्तिं च केचन ।। १६ ।।
तदेवं शतसंख्येषु श्रेयस्सु पुरुषोत्तम ।।
मम चैवं कुलस्यास्य श्रेयो यद्ब्रूहि निश्चितम् ।। १७ ।।
।। श्रीकृष्ण उवाच ।। ।।
वत्स पृथक्पृथक्प्रोक्तं वर्णानां श्रेय उत्तमम् ।।
ब्राह्मणानां तपो मूलं दमोऽध्ययनमेव च ।। १८ ।।
धर्मप्रकटनं चापि श्रेय उक्तं मनीषिभिः ।।
बलं साध्यं पूर्व मेव क्षत्रियाणां प्रकीर्तितम् ।। १९ ।।
दुष्टानां शासनं चापि साधूनां परिपालनम् ।।
पाशुपाल्यं च वैश्यानां कृषिर्विज्ञानमेव च ।। 1.2.61.२० ।।
शूद्रस्य द्विजशुश्रूषा तया जीवन्वणिग्भवेत् ।।
शिल्पैर्वा विविधैर्जीवेद्द्विजातिहितमाचरन् ।। २१ ।।
भार्यारतिर्भृत्यपोष्टा शुचिः श्रद्धा परायणः ।।
नमस्कारेण मन्त्रेण पंचयज्ञान्न हापयेत् ।। २२ ।।
तद्भवान्क्षत्रियकुले जातोऽसि कुरु तच्छृणु ।।
बलं साधय पूर्वं त्वमतुलं तेन शिक्षय ।। २३ ।।
दुष्टान्पालय साधूंश्च स्वर्गमेवमवाप्स्यसि ।।
बलं च लभ्यते पुत्र देवीनां सुप्रसादतः ।। २४ ।।
तद्भवान्बलप्राप्त्यर्थं देव्याराधनमाचर ।। २५ ।।
।। बर्बरीक उवाच ।। ।।
कस्मिन्क्षेत्रे च कां देवीं कथमाराधयाम्यहम् ।।
एतत्प्रसादप्रवणं मनः कृत्वा निवेदय ।। २६ ।।
।। सूत उवाच ।। ।।
इति पृष्टः क्षणं ध्यात्वा प्राह दामोदरो विभुः ।।
वत्स क्षेत्रं प्रवक्ष्यामि यत्र तप्स्यसि तत्तपः ।।
गुप्तक्षेत्रमिति ख्यातं महीसागरसंगमे ।। २७ ।।
तत्र त्रिभुवने याश्च संति देव्यः पृथग्विधाः ।।
नारदेन समानीतास्ताश्चैक्यं सुमहात्मना ।। २८ ।।
चतस्रस्तस्य दिग्देव्यो नव दुर्गाश्च संति याः ।।
समाराधय ता गत्वा तासामैक्यं हि दुर्लभम् ।। २९ ।।
नित्यं पूजय ताः पुत्र पुष्पधूपविलेपनैः ।।
स्तुतिभिश्चोपहारैश्च यथा तुष्यति तास्तव ।। 1.2.61.३० ।।
तुष्टासु देवीषु बलं धनं च कीर्तिश्च पुत्राः सुभगाश्च दाराः ।।
स्वर्गस्तथा मुक्तिपदं च सत्सुखं न दुर्लभं सत्यमेतत्तवोक्तम् ।। ३१ ।।
।। सूत उवाच ।। ।।
एवमुक्त्वा बर्बरीकं कृष्णः प्राह घटोत्कचम् ।।
घटोत्कचार्य पुत्रस्ते दृढं सुहृदयो ह्यसौ ।। ३२ ।।
तस्मात्सुहृदयेत्येवं दत्तं नाम मया द्विकम् ।।
एवमुक्त्वा समालिंग्य संतर्ज्य विविधैर्धनैः ।। ३३ ।।
गुप्तक्षेत्राय भगवान्बर्बरीकं समादिशत् ।।
सोऽथ कृष्णं नमस्कृत्य पितरं यादवांश्च तान् ।। ३४ ।।
अनुज्ञाप्य च तान्सर्वान्गुप्तक्षेत्रं समाव्रजत् ।।
घटोत्कचोऽपि कृष्णेन विसृष्टः स्ववनं ययौ ।। ३५ ।।
स्मरन्पुत्रगुणान्पत्न्या स्वराज्यं समपालयत् ।।
ततः सुहृदयो धीमान्दग्धस्थल्यां कृताश्रमः ।। ३६ ।।
त्रिकालं पूजयामास देवीः कर्मसमाधिभिः ।।
नित्यं पुष्पैश्च धूपैश्च उपहारैः पृथग्विधैः ।। ३७ ।।
तस्याराधयतो देव्यस्तुतुषुर्हायनैस्त्रिभिः ।।
ततः प्रत्यक्षतो भूत्वा बलात्तस्य महात्मनः ।। ३८ ।।
बलं यत्त्रिषु लोकेषु कस्यचिन्नास्ति दुर्लभम् ।।
ऊचुश्च कंचित्कालं त्वं वसात्रैव महाद्युते ।। ३९ ।।
संगत्या विजयस्य त्वं भूयः श्रेयो ह्यवाप्स्यसि ।।
इत्युक्तः सर्वदेवीभिः स तत्रैव व्यवस्थितः ।।1.2.61.४० ।।
आजगामाथ विजयो नाम्ना मागधब्राह्मणः ।।
स सर्वां पृथिवीं कृत्वा पादाक्रांतां द्विजोत्तमः ।। ४१ ।।
काश्यां विद्याबलं प्राप्य साधनार्थमुपाययौ ।।
गुहेश्वरमुखान्येष सप्तलिंगान्यपूजयत् ।। ।।४२।।
आराधयामास चिरं देवीर्विद्याफलाप्तये।।
ततस्तुष्टास्तस्य देव्यः स्वप्ने प्रोचुरिदं वचः।।४३।।
विद्यां साधय त्वं साधो सिद्धमातुः पुरोंऽगणे ।।
अयं भक्तः सुहृदयः साहाय्यं ते करिष्यति ।। ४४ ।।
ततस्तद्वचनं श्रुत्वा विजयः स्वप्नमध्यतः ।।
उत्थाय गत्वा देव्यास्तं वव्रे भीमात्म जात्मजम् ।। ४५ ।।
सोऽपि देवीवचः श्रुत्वा मेने साहाय्यकारणम् ।।
ततः कृष्णचतुर्दश्यामुपोष्य विजयः शुचिः ।। ४६ ।।
स्नात्वाभ्यर्च्यैव लिंगानि देवीश्चैवार्चयत्पृथक् ।।
कृत्वा स्नानमुपोष्यैव बर्बरीकोंऽतिकेऽभवत् ।। ४७ ।।
प्रथमायां ततो रात्रौ ययौ सिद्धांबिकापुरः ।।
मंडलं तत्र कृत्वा च भगाकारं करान्नव ।। ४८ ।।
अष्टदिक्ष्वष्टकीलांश्च निखन्यैव ससूत्रकान् ।।
कृष्णाजिनधरो भूत्वा बर्बरीकसमन्वितः ।। ४९ ।।
शिखामाबद्ध्य दिग्बंधं कृत्वा रेभे ततो विधिम् ।।
मध्ये वै मंडलस्यापि कुंडे शुभ्रे त्रिमेखलं ।। 1.2.61.५० ।।
समर्प्य च ततः खड्गं खादिरं मंत्रतेजितम् ।।
संस्थाप्य कीलानभितो बर्बरीकमथाब्रवीत् ।। ५१ ।।
शुचिर्विनिद्रः संतिष्ठ स्तवं देव्याः समुद्गिरन् ।।
यावत्कर्म करोम्येष यथा विघ्नं न जायते ।। ५२ ।।
इत्युक्ते संस्थिते तत्र बर्बरीके महाबले ।।
विजयः शोषणं दाहं प्लावनं कृतवान्यमी ।। ५३ ।।
ततः सुखासनो भूत्वा गुंगुरुभ्यो नमः इति ।।
मंत्रमष्टोत्तरशतं जप्त्वा गुरुभ्यः प्रणम्य च ।।
ततो गणेश्वरविधानमारब्धवान् ।। ५४ ।।
अथातः संप्रवक्ष्यामि मंत्रं गणपतेः परम् ।। ५५ ।।
सर्वकार्यकरं स्वल्पं महार्थं सर्वसिद्धिदम् ।। ५६ ।।
ॐगांगींगूंगैंगौंगः सप्ताक्षरोऽयं महामंत्रः ।।
ॐगणपतिमंत्रस्य गणको नाम ऋषिः विघ्नेश्वरो देवता गं बीजम् ॐशक्तिः पूजार्थे जपार्थे वा तिलकार्थे वा मनस ईप्सितार्थे होमार्थे वा विनियोग इति ।।
साध कस्य पूर्वं तिलककरणम् ।।
ॐगांगणपतये नमः ।।
इति तिलकस्योपरि अक्षतान्दद्यात् अनेन मन्त्रेण ।।
ॐ गांगणपतये नमः ।।
इति तिलकमंत्रः ।।
ॐगां गणपतये नमः ।।
अनेन मंत्रेण गणेशाय पुष्पांजलित्रयं दद्यात् ।।
मूलमंत्रेणात्र चंदनगंधपुष्पधूपदीपनैवेद्यपूगीफल तांबूलादिकं दद्यात् ।।
अत ऊर्ध्वं मूलमन्त्रेण जपं कुर्यात् ।।
अष्टोत्तरशतं सहस्रं लक्षं कोटिं चेति यथाशक्ति जप्त्वा दशांशहोमार्थे गणेशाग्नये आवाहयामीति अग्निमावाह्य ।।
ॐ गां गणपतये स्वाहेति मन्त्रेण गुग्गुलगुटिकाभिर्होमं विदध्याद्विनियोगं चेति गाणेश्वरो ता?कल्पः ।।
य एवं सर्व विघ्नेषु साधयेन्मन्त्रमुत्तमम् ।।
सर्वविघ्नानि नश्यंति मनोभीष्टं च सिध्यति ।। ५७ ।।
डाकिन्यो यातुधानाश्च प्रेताद्याश्च भयंकराः ।।
शत्रूणां जायते नाशो वशीकरणमेव च ।। ५८ ।।
इमं गाणेश्वरं कल्पं विजानन्विजयोऽपि च ।।
तिलकं विधिना कृत्वा जप्त्वा चाष्टोत्तरं शतम् ।। ५९ ।।
दशांशं गुटिका हुत्वा पूज्य सिद्धिविनायकम् ।।
सिद्धेयक्षेत्रपालस्य चक्रे पूजां ततो निशि ।। 1.2.61.६० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महाविद्यासाधने गाणेश्वरकल्पवर्णनंनामैकषष्टितमोऽध्यायः ।। ६१ ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 62
।। शौनक उवाच ।। ।।
सूत श्रुता पुरास्माभिरुत्पत्तिर्गणपस्य च ।।
क्षेत्रनाथः कथं जज्ञे वदैतच्छृण्वतां हि नः ।। १ ।।
।। सूत उवाच ।। ।।
यदा दारुकदैत्येन पीड्यमाना दिवौकसः ।।
शिवं देव्या सहासीनं प्रणिपत्येदमब्रुवन् ।। २ ।।
देव दैत्येन घोरेण दुर्जयेन सुरासुरैः ।।
पीडिता दारुकेण स्मः स्वस्थानाच्चापि च्याविताः ।। ३ ।।
न विष्णुना न चंद्रेण न चान्येनापि केनचित् ।।
शक्यो हंतुं स दुष्टात्मा अर्धनारीश्वरं विना ।। ४ ।।
तेन संपीड्यमानानामस्माकं शरणं भव ।।
इत्युक्त्वा रुरुदुर्देवास्त्राहित्राहीति चाब्रुवन् ।। ५ ।।
ततोऽतिकृपयाविष्टहरकंठस्य कालिमाम् ।।
गृहीत्वा पार्वती चक्रे नारीमेकां महाभयाम् ।। ६ ।।
आत्मशक्तिं तत्र मुक्त्वा प्रोवाचेदं वचः शुभा ।।
यस्मादतीव कालासि नाम्ना त्वं कालिका भव ।। ७ ।।
देवारिं च दुरात्मानं शीघ्रं नाशय शोभने ।।
एवमुक्ता महारावा कालिका प्राप्य तं तदा ।। ८ ।।
रवेणैव मृतं चक्रे सानुगं स्फुटितहृदम् ।।
ततोवन्ती श्मशानस्था महारावानमुंचत ।। ९ ।।
यैरासन्विकला लोकास्त्रयोऽपि प्रमृता यथा ।।
ततो रुद्रो बालरूपं कृत्वा विश्वकृते विभुः ।। 1.2.62.१० ।।
रुदंस्तस्याः समीपे चाप्यागतः प्रेतसद्मनि ।।
रुदंतं च ततो बालं कृत्वोत्संगे कृपान्विता ।। ११ ।।
कालिकाऽपाययत्स्तन्यं मा रुदेति प्रजल्पती ।।
स्तन्य व्याजेन बालोऽपि पपौ क्रोधं तदंगजम् ।। १२ ।।
योऽसौ हरकंठभवविषादासीत्सुदुर्धरः ।।
पीतक्रोधस्वभावे च सौम्यासीत्कालिका तदा ।। १३ ।।
बालोऽपि बालरूपं तत्त्यक्तुमैच्छत्कृतक्रिहया: ।। १४ ।।
ततो देवाः कालिकायाः शंकमानाः पुनर्भयम् ।।
ऊचुर्मा बाल बालत्वं परित्यज कृपां कुरु ।। १५ ।।
।। बाल उवाच ।। ।।
न भेतव्यं कालिकायाः सौम्या देवी यतः कृता ।।
अस्ति चेद्भवतां भीतिरन्यान्स्रक्ष्यामि बालकान् ।।
चतुःषष्टिक्षेत्रपालानित्युक्त्वा सोऽसृजन्मुखात् ।। १६ ।।
प्राह तान्बालरूपांश्च बालरूपी महेश्वरः ।।
स्वर्गेषु पंचविशानां पातालेषु च तावताम् ।। १७ ।।
चतुर्दशानां भूर्लोके वासो वः पालनं तथा ।।
अयमेव श्मशानस्थो भविता श्वा च वाहनम् ।। १८ ।।
नैवेद्यं भवतां राजमाषतंदुलमिश्रकाः ।।
अनभ्यर्च्य च यो युष्मान्किंचित्कृत्यं विधास्यति ।। १९ ।।
तस्य तन्निष्फलं भावि भुक्तं प्रेतैश्च राक्षसैः ।।
इत्युक्त्वा भगवान्रुद्रस्तत्रैवां तरधीयत ।। 1.2.62.२० ।।
क्षेत्रपालाः स्थिताश्चैव यथास्थाने निरूपिताः ।।
इति वः क्षेत्रपालानां सृष्टिः प्रोक्ता समासतः ।। २१ ।।
आराधनं प्रवक्ष्यामि येन प्रीता भवंति ते ।। २२ ।।
ॐक्षां क्षेत्रपालाय नमः ।।
इति नवाक्षरो महामंत्रः ।।२३।।
अनेनात्र चंदनादि दत्त्वा राजमाषतण्डुलमिश्रकाश्च चतुःषष्टिकृतभागान्वटकान्निवेद्य तावत्यो दीपिकास्तावन्ति पत्राणि पूगानि निवेद्य दण्डवत्प्रणम्य महास्तुतिमेतां जपेत् ।। २४ ।।
ॐऊर्ध्वकेशा विरू पाक्षा नित्यं ये घोररूपिणः ।।
रक्तनेत्राश्च पिंगाक्षाः क्षेत्रपालान्नमामि तान् ।। २५ ।।
अह्वरो ह्यापकुम्भश्च इडाचारस्तथैव यः ।।
इंद्रमूर्तिश्च कोलाक्ष उपपाद ऋतुंसनः ।। २६ ।।
सिद्धेयश्चैव वलिको नीलपादेकदंष्ट्रिकः ।।
इरापतिश्चाघहारी विघ्नहारी तथांतकः ।। २७ ।।
ऊर्ध्वपादः कम्बलश्च खंजनः खर एव च ।।
गोमुखश्चैव जंघालो गणनाथश्च वारणः ।। २८ ।।
जटालोप्यजटालश्च नौमि स्वःक्षेत्रपालकान् ।।
ऋकारो हठकारी च टंकपाणिः खणिस्तथा ।। २९ ।।
ठंठंकणो जंबरश्च स्फुलिंगास्यस्तडिद्रुचिः ।।
दंतुरो घननादश्च नन्दकश्च तथा परः ।। 1.2.62.३० ।।
फेत्कारकारी पंचास्यो बर्बरी भीमरूपवान् ।।
भग्नपक्षः कालमेघो युवानो भास्करस्तथा ।। ३१ ।।
रौरवश्चापि लंबोष्ठो वणिजः सुजटालिकः ।।
सुगंधो हुहुकश्चैव नौमि पातालरक्षकान् ।। ३२ ।।
सर्वलिंगेषु हुंकारः स्मशानेषु भयावहः ।।
महालक्षो वने घोरे ज्वालाक्षो वसतौ स्थितः ।। ३३ ।।
एकवृक्षश्च वृक्षेषु करालवदनो निशि ।।
घण्टारवो गुहावासी पद्मखंजो जले स्थितः ।। ३४ ।।
चत्वरेषु दुरारोहः पर्वते कुरवस्तथा ।।
निर्झरेषु प्रवाहाख्यो माणिभद्रो निधिष्वपि ।। ३५ ।।
रसक्षेत्रे रसाध्यक्षो यज्ञवाटेषु कोटनः ।।
चतुर्दश भुवं व्याप्य स्थिताश्चैवं नमामि तान् ।। ३६ ।।
एवं चतुःषष्टिमिताञ्छरणं यामि क्षेत्रपान् ।।
प्रसीदंतु प्रसीदंतु तृप्यंतु मम पूजया ।। ३७ ।।
सर्वकार्येषु यश्चैवं क्षेत्रपानर्चयेच्छुचिः ।।
क्षेत्रपास्तस्य तुष्यंति यच्छंति च समीहितम् ।। ३८ ।।
इमं क्षेत्रपकल्पं च विजानन्विजयस्तथा ।।
यथोक्तविधिनाभ्यर्च्य सिद्धेयं तुष्टुवे च तम् ।। ३९ ।।
प्रणम्य च ततो देवीमानर्च वटयक्षिणीम् ।।
पुरा यदा नारदेन कलापग्रामतो द्विजाः ।। 1.2.62.४० ।।
समानीतास्तैश्च साकं सुनंदा नाम ब्राह्मणी ।।
विधवाभ्यागता तत्र तपस्तप्तुं महीतटे ।। ४१ ।।
सा कृच्छ्राणि पराकांश्च अतिकृच्छ्राणि कुर्वती ।।
ज्यैष्ठे भाद्रपदे चक्रे सावित्र्या द्वे त्रिरात्रिके ।। ४२ ।।
मासोपवासं च तथा कार्तिके कुलनंदिनी ।।
सप्तलिंगानि संपूज्य देवीपूजां सदा व्यधात् ।। ४३ ।।
दर्शे स्नानं तथा चक्रे महीसागरसंगमे ।।
इत्यादिबहुभिस्तैस्तैर्नित्यं नियमपालनैः ।। ४४ ।।
धूतपापा ययौ लोकमुमायाः कृतस्वागता ।।
अंशेन च तटे तस्मिन्संभूता वटयक्षिणी ।। ४५ ।।
तस्यास्तुष्टो वरं प्रादात्सिद्धलिंगस्थितो हरः ।।
अनभ्यर्च्य य एनां च मत्पूजां प्रकरिष्यति ।। ४६ ।।
तस्य तन्निष्फलं सर्वमित्युक्तं पाल्यमेव मे ।।
तस्मात्प्रपूजयेन्नित्यं वटस्थां वटयक्षिणीम् ।।
पुष्पैर्धूपैस्तु नैवेद्यैर्मंत्रेणानेन भक्तितः ।। ४७ ।।
सुनंदे नंदनीयासि पूजामेतां गृहाण मे ।।
प्रसीद् सर्वकालेषु मम त्वं वटयक्षिणि ।। ४८ ।।
एवं संपूज्य तां नत्वा क्षमाप्य वटयक्षिणीम् ।।
सर्वान्कामानवाप्नोति नरो नारी च सर्वदा ।। ४९ ।।
विजयश्चापि माहात्म्यमिदं जानन्महामतिः ।।
आनर्च वटवृक्षस्थां भक्तितो वटयक्षिणीम् ।। 1.2.62.५० ।।
ततः सिद्धांबिकां स्तुत्वा जप्तवानपराजिताम् ।।
महाविद्यां वैष्णवीं तु साधनेन समन्विताम् ।। ५१ ।।
यस्याः स्मरणमात्रेण सर्वदुःखक्षयो भवेत् ।।
तां विद्यां कीर्तयिष्यामि शृणुध्वं विप्रपुंगवाः ।। ५२ ।।
ॐ नमो भगवते वासुदेवाय नमोऽनंताय सहस्रशीर्षाय क्षीरोदार्णवशायिने शेषभोगपर्यंकाय गरुडवाहनाय पीतवाससे वासुदेव संकर्षण प्रद्युम्नानिरुद्ध हयशिरो वराह नरसिंह वामन त्रिविक्रम राम राम वरप्रद नमोऽस्तु ते नमोऽ स्तुते असुरदैत्यदानवयक्षराक्षस भूतप्रेतपिशाचकुंभांड सिद्धयोगिनी डाकिनी स्कंदपुरोगमान्ग्रहान्नक्षत्रग्रहांश्चान्यांश्च हन २ दह २ पच २ मथ २ विध्वंसय २ विद्रावय २ शंखेन चक्रेण वज्रेण गदया मुशलेन हलेन भस्मीकुरु सहस्रबाहवे सहस्रचरणायुध जय २ विजय २ अपराजित अप्रतिहत सहस्रनेत्र ज्वल २ प्रज्वल २ विश्वरूप बहुरूप मधुसूदन महावराह महापुरुष वैकुंठ नारायण पद्मनाभ गोविंद दामोदर हृषीकेश सर्वासुरो त्सादन सर्वभूतवशंकर सर्वदुःखप्रभेदन सर्वयंत्रप्रभंजन सर्वनागप्रमर्दन सर्वदेवमहेश्वर सर्वबंधविमोक्षण सर्वाहितप्रमर्दन सर्वज्वरप्रणाशन सर्वग्रह निवारण सर्वपापप्रशमन जनार्दन जनानंदकर नमोऽस्तु ते स्वाहा ।। ५३ ।।
इमामपराजितां परमवैष्णवीं महाविद्यां जपति पठति शृणोति स्मरति धारयति कीर्तयति न च तस्य वाय्वग्निवज्रोपलाशनिवर्षभयं न समुद्रभयं न ग्रहभयं न च चौरभयं न च श्वापदभयं वा भवेत् ।। ५४ ।।
क्वचिद्रात्र्यंधकारस्त्रीराजकुलविषोपविषगरदवशीकरण विद्वेषणोच्चाटनवधबंधभयं वा न भवेदेतैर्मंत्रपदैरुदाहृतैर्हृदा बद्धैः संसिद्धपूजितैः ।। ५५ ।।
तद्यथा ।।
नमोनमस्तेऽस्तु अभये अनघे अजिते अत्रसिते अमृते अपराजिते पठितसिद्धे स्मरितसिद्ध एकानंशे उमे ध्रुवे अरुंधति सावित्रि गायत्रि जातवेदसि मानस्तोके सरसि सरस्वति धरणि धारिणि सौदामिनि अदिते विनते गौरि गांधारि मातंगि कृष्णे यशोदे सत्यवादिनि ब्रह्मवादिनि कालि कपालिनि सद्योवयवचयनकरि स्थलगतं जलगतमंतरिक्षगतं वा रक्ष २ सर्वभूतभयोपद्रवेभ्यो रक्ष २ स्वाहा ।।५६।।
यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि ।।
म्रियंते बालका यस्याः काकवंध्या च या भवेत् ।।
धारयेत इमां विद्यामेभिर्दोषैर्न लिप्यते ।।५७ ।।
रणे राजकुले द्यूते नित्यं तस्य जयो भवेत् ।।
शस्त्र धारयते ह्येषां समरे कांडधारिणी ।। ५८ ।।
गुल्मशूलाक्षिरोगाणां नित्यं नाशकरी तथा ।।
शिरोरोगज्वराणां च नाशनी सर्वदेहिनाम् ।। ५९ ।।
तद्यथा ।।
हन २ कालि सर २ कालि सर २ गौरि धम २ गौरि धम २ विद्ये आले ताले माले गंधे वधे पच २ विद्ये नाशय पापं हन् दुःस्वप्नं विनाशय कष्टनाशिनि रजनि संध्ये दुंदुभिनादे मानसवेगे शंखिनि चक्रिणि वज्रिणि शूलिनि अपमृत्युविनाशिनि विश्वेश्वरि द्रविडि द्राविडि केशवदयिते पशुपतिमहिते दुर्द्दमदमिनि शर्वरि किराति मातंगि ॐह्राँह्रँह्रँह्रँक्राँक्रँक्रँक्रँत्वर २ ये मां द्विषति प्रत्यक्षं परोक्षं वा सर्वान्दम २ मर्द्द २ तापय २ पातय २ शोषय २ उत्सादय २ ब्रह्माणि माहेश्वरि वाराहि विनायकि ऐंद्रि आग्नेयि चामुंडे वारुणि प्रचंडविद्योते इंदोपेंद्रभगिनि विजये शांतिस्वस्तिपुष्टिविवर्धिनि कामांकुशे कामदुधे सर्वकामवरप्रदे सर्वभूतेषु वासिनि प्रति विद्यां कुरु २ आकर्षिणि वेशिनि ज्वालामालिनि रमणि रामणि धरणि धारिणि मानोन्मानिनि रक्ष २ वायव्ये ज्वालामालिनि तापनि शोषणि नीलपताकिनि महागौरि महाश्रये महामयूरि आदित्यरश्मि जाह्नवि यमधंटे किणि २ चिंतामणि सुरभि सुरोत्पन्ने कामदुघे यथा मनीषितं कार्यं तन्मम सिध्यतु स्वाहा ॐस्वाहा ॐभूः स्वाहा ॐभुवः स्वाहा ॐस्वः स्वाहा ॐभूर्भुवःस्वःस्वाहा यत्रैवागतं पापं तत्रैव प्रतिगच्छतु स्वाहा ॐबले महाबले उासिद्धसाधिनि स्वाहा ।। 1.2.62.६० ।।
इतीमां साधयामास वैष्णवीमपरा जिताम् ।।
विजयः संयतो भूत्वा मनोबुद्धिसमाधिभिः ।। ६१ ।।
य इमां पठते नित्यं साधनेन विनापि च ।।
तस्यापि सर्वविघ्नानि नश्यंति द्विजपुंगवाः ।। ६२ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बर्बरिकोपाख्याने महाविद्या साधनवर्णनंनाम द्विषष्टितमोऽध्यायः ।। ६२ ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 63
।। सूत उवाच ।। ।।
अश्वत्थलाक्षावह्नौ च सर्षपान्केसरप्लुतान् ।।
जुह्वतो मंत्रमुख्यैश्च बलातिबलसंज्ञकैः ।। १ ।।
यामे तु प्रथमे याते काचिन्नारी समाययौ ।।
शोणिताक्तैकवसना महोच्चोर्ध्वशिरोरुहा ।। २ ।।
दारुणाक्षी शुक्लदन्ती भयस्यापि भयंकरी ।।
सा रुरोद महारावं प्राप्य तां होमभूमिकाम् ।। ३ ।।
तां दृष्ट्वा चुक्षुभे सद्यो विजयो भीतिमानिव ।।
बर्बरीकश्च निर्भीतिस्तस्याः संमुखमाययौ ।। ४ ।।
ततः कण्ठं समाश्लिष्य तस्या मतिमतां वरः ।।
रुरोद द्विगुणं वीरो मेघवन्नादयन्बहु ।। ५ ।।
तं दृष्ट्वा विस्मिता सा च यावन्मुंचति कर्तिकाम्।।
तावन्निष्पीडिते कंठे मोक्तुं तस्मिन्न चाशकत्।।६।।
पीड्यमाने च बलिना कंठे तस्या मुहुर्मुहुः।।
मुमुोच विविधाञ्छब्दान्वज्राहत इवाचलः ।। ७ ।।
क्षणं रावांस्ततो मुक्त्वा त्राहि मुञ्चेति वक्त्यणु ।।
ततः कृपालुना मुक्ता पादयोः पतिताऽब्रवीत् ।। ८ ।।
शरणं ते प्रपन्नास्मि दासी कर्मकरी तव ।।
महाजिह्वेति मां विद्धि राक्षसीं कामरूपिणीम् ।। ९ ।।
काशीश्मशाननिलयां देवदानवदर्पहाम् ।।
ददासि यदि मे वीर दुर्लभां प्राणदक्षिणाम् ।। 1.2.63.१० ।।
ततस्तपश्चरिष्यामि सर्वभूताभयप्रदा ।।
अस्मिन्नर्थे स्वदेवस्य शपथा मे तथात्मनः ।। ११ ।।
यद्येतद्व्यत्ययं कुर्यां भस्मीभूयां ततः क्षणम् ।।
एवं ब्रुवाणां तां वीरो निगृह्य शपथैर्दृढम् ।। १२ ।।
मुमोच सापि संहृष्टा कृच्छ्रा- न्मुक्ता ययौ वनम् ।।
सोऽपि वीरः खङ्गधारी तत्रैवावस्थितोऽभवत् ।। १३ ।।
ततो मध्यमरात्रौ च गर्जितं श्रूयते महत् ।।
अन्धकारं च संजज्ञे तमोंऽधनरकप्रभम् ।। १४ ।।
ददृशे च ततः शैलः शतशृंगोऽतिविस्तरः ।।
नानाशिलाः प्रमुमुचे नानावृक्षांश्च सोच्छ्रयान् ।। १५ ।।
नानानिर्झर संघोषं ववृषे शोणितं वहु ।।
तं तथा नगमालोक्य निर्भीतो भैमिनंदनः ।। १६ ।।
पर्वतो द्विगुणो भूत्वा पर्वतं सहसाप्लुतः ।।
तदाभिजघ्ने संहृत्य पर्वतं स्वेन भूभृता ।। १७ ।।
तदा विशीर्णः सोऽभूच्च पर्वतो भूमिमंडले ।।
ततो योजनदेहात्मा शतशीर्षः शतोदरः ।। १८ ।।
वक्त्रैर्मुंचन्महाज्वालां रेपलेन्द्रोऽभ्यधावत ।।
तं धावमानं दृष्ट्वैव बर्बरीको महाबलः ।। १९ ।।
विधाय तादृशं रूपं नर्दन्तं चाप्यधावत ।।
ततो मध्यमरात्रौ ती लघु चित्रं च सुष्ठु च ।। 1.2.63.२० ।।
युयुधाते बाणजालैर्यथा प्रावृषि तोयदौ ।।
छिन्नचापौ च खङ्गाभ्यां छिन्नखड्गौ च मुष्टिभिः ।। ।। २१ ।।
पर्वताविव सत्पक्षौ चिरं युयुधतुः स्थिरम् ।।
ततः कक्षे समुत्पाट्य भ्रामयित्वा मुहूर्तकम् ।। २२ ।।
भूमौ प्रधर्षयामास प्रसृतं च मुमोच ह ।।
चिक्षेप चाग्निकोणे तं महीसागररोधसि ।। २३ ।।
तद्दूरे रेपलेन्द्राख्यं ग्राममद्यापि वर्तते ।।
एवं स रेपलोनाम वृत्रतुल्यपराक्रमः ।। २४ ।।
नाथः श्मशानस्यावन्त्या विघ्नकृन्निहतोऽभवत् ।।
तं निहत्य पुनर्वीरो बर्बरीकः स्थितोऽभवत् ।। २५ ।।
ततस्तृतीययामे च प्रतीच्या दिश आययौ ।।
पर्वताभा महानादा पादैः कम्पयतीव भूः ।। २६ ।।
दुहद्रुहाख्याश्वतरी मेघभ्रष्टा तडिद्यथा ।।
तामायांतीं तथा दृष्ट्वा सूर्यवैश्वानरप्रभाम् ।। २७ ।।
उपसृत्य जवाद्भैमी रुरोह प्रहसन्निव ।।
वेगात्ततः प्रद्रवतीं तुण्डे प्राहत्य मुष्टिभिः ।। २८ ।।
स्थापयामास तत्रैव तस्थौ सा चातिपीडिता ।।
ततः क्रुद्धा महारावं कृत्वाप्लुत्य दुहद्रुहा ।। २९ ।।
जगत्यामाशु चिक्षेप बर्बरीकं तथेच्छकम् ।।
ततो नदित्वा चातीव पादघातममुंचत ।। 1.2.63.३० ।।
पादौ च वीरः संगृह्य चिक्षेप भुवि लीलया ।।
ततः पुनः समुत्थाय धावंतीं तां निगृह्य सः ।। ।। ३१ ।।
मुष्टिना पातयित्वैव दंतान्कंठमपीडयत् ।।
क्लिन्नं वास इवापीड्य प्राणानत्याजयद्द्रुतम् ।। ३२ ।।
एवं सीकोत्तरस्थाने स्मशानैकपदो द्भवा ।।
शाकिनीनामधीशा सा बर्बरीकेण सूदिता ।। ३३ ।।
हत्वा तां चापि चिक्षेप प्रतीच्यामेव लीलया ।।
दुहद्रुहाख्यमद्यापि तत्र ग्रामं स्म वर्तते ।। ३४ ।।
ततस्तथैव संतस्थौ बर्बरीकोऽभिरक्षणे ।।
ततश्चतुर्थे यामे च प्राप्तः क्षपणकोऽद्भुतः ।। ३५ ।।
मुंडी नग्नो मयूराणां पिच्छधारी महाव्रतः ।।
प्रोवाच चेदं वचनं हाहा कष्टमतीव भोः ।। ३६ ।।
अहिंसा परमो धर्मस्तदग्निर्ज्वाल्यते कुतः ।।
हूयमाने यतो वह्नौ सूक्ष्मजीववधो महान् ।। ३७ ।।
श्रुत्वेदं वचनं तस्य बर्बरीकोऽब्रवीत्स्मयन् ।।
वदने सर्वदेवानां हूयमाने स्म पावके ।। ३८ ।।
अनृतं भाषसे पाप शिक्षायोग्योऽसि दुर्मते ।।
इत्युक्त्वा सहसोत्पत्य कक्षामध्ये स्थिरोऽस्य च ।। ३९ ।।
दन्तान्मुष्टिप्रहारैश्च समाहत्याभ्यपातयत् ।।
रुधिराविलवक्त्रं तं मुमोच पतितं भुवि ।। 1.2.63.४० ।।
स क्षणाच्चेतनां प्राप्य घोरदैत्यवपुर्धरः ।।
भयाद्भैमेः प्रदुद्राव गुहाविवरमाविशत् ।। ४१ ।।
बहुप्रभेति नगरी षष्टियोजनमायता ।।
तस्यां विवेश सहसा तं चानु बर्बरीककः ।। ४२ ।।
बर्बरीकं ततो दृष्ट्वा नादोऽभूच्च पलाशिनाम् ।।
धावध्वं हन्यतामेष छिद्यतां भिद्यतामिति ।। ४३ ।।
तच्छ्रुत्वा दैत्यवीराणां कोटयो नव भीषणाः ।।
नानायुधधरा वीरं बर्बरीकमुपाद्रवन् ।। ४४ ।।
दृष्ट्वा तान्कोटिशो दैत्यान्क्रुद्धो भीमात्मजात्मजः ।।
निमील्य सहसा नेत्रे तेषां मध्यमधावत ।। ४५ ।।
पादघातैस्ततः कांश्चिद्भुजाघातैस्तथापरान् ।।
हृदयस्याभिघातैश्च क्षणान्निन्ये यमक्षयम् ।। ४६ ।।
यथा नलवनं क्र्रुद्धः कुर्याद्भूमिसमं करी ।।
नवकोटीस्तथा जघ्ने सह तेन पलाशिना ।। ४७ ।।
ततो नागाः समागम्य वासुकिप्रमुखास्तदा ।।
तुष्टुबुर्विविधैर्वाक्यैरूचुः सुहृदयं च ते ।। ४८ ।।
नागानां परमं कृत्यं कृतं ते भैमिनंदन ।।
पलाशीनाम दैत्योयं नीतो यत्सानुगो यमम् ।। ।। ४९ ।।
अनेन हि वयं वीर सानुगेन दुरात्मना ।।
पीडिता विविधोपायैः पातालादप्यधः कृताः ।। 1.2.63.५० ।।
वरं वृणीष्व त्वं तस्मान्नागेभ्योऽभिमतं परम् ।।
वरदाः सर्व एव स्म वयं तुभ्यं सुतोषिताः ।। ५१ ।।
।। सुहृदय उवाच ।। ।।
यदि देयो वरो मह्यं तदेनं प्रवृणोम्यहम् ।।
सर्वविघ्नविनिर्मुक्तो विजयः सिद्धिमाप्नुयात् ।। ५२ ।।
ततस्तथेति तं प्रोचुः प्रहृष्टा वायुभोजनाः ।।
स च तेभ्यः पुरीं दत्त्वा निवृत्तो नागपूजितः ।। ५३ ।।
विवरस्य च मध्येन समागच्छन्महाप्रभम् ।।
सर्वरत्नमयं लिंगं स्थितं कल्पतरोरधः ।। ५४ ।।
अर्च्यमानं सुवह्नीभिर्नागकन्याभिरैक्षत ।।
ततोऽसौ विस्मयाविष्टो नागकन्या ह्यपृच्छत ।। ५५ ।।
केनेदं स्थापितं लिंगं सूर्यवैश्वानरप्रभम् ।।
लिंगादपि चतुर्दिक्षु मार्गाश्चेमे तु कीदृशाः ।। ५६ ।।
इति वीरवचः श्रुत्वा बृहत्कटिपयोधरा ।।
सव्रीडं सस्मितापांगनिर्मोक्षमिदमब्रवीत् ।। ५७ ।।
सर्वपन्नगराजेन शेषेण सुमहात्मना ।।
तप स्तप्त्वा महालिंगमिदमत्र प्रतिष्ठितम् ।। ५८ ।।
दर्शनात्स्पर्शनाद्ध्यानादर्चनात्सर्वसिद्धिदम् ।।
लिंगात्पूर्वेण मार्गोयं याति श्रीपर्वतं भुवि ।। ५९ ।।
एलापत्रेण विहितो नागानां तत्र प्राप्तये ।।
दक्षिणेन च मार्गोऽयं याति शूर्पारकं भुवि ।।1.2.63.६०।।
कर्कोटकेन नागेन कृतोऽयं तत्र प्राप्तये ।।
पश्चिमेन च मार्गोऽयं प्रभासं याति सुप्रभम् ।।६१।।
ऐरावतेन विहितो नागानां गमनाय च ।।
उत्तरेण च मार्गोयं येन यातुं भवान्स्थितः।।६२।।
गुप्तक्षेत्रे सिद्धलिंगं याति शक्तिगुहाऽऽकृतः ।।
विहितस्तक्षकेणासौ यातुं तत्र महात्मना ।।६३।।
इतीदं वर्णितं वीर विज्ञप्तिः श्रूयतां मम।।
को भवानधुनैवेतो दैत्यपृष्ठ गतोऽभवत् ।।
अधुनैव तथैकाकी समायातोऽत्र नो वद ।।६४।।
वयं च सर्वास्ते दास्यस्त्वां पतिं प्रवृणीमहे ।।
अस्माभिः सहितः क्रीड विविधास्वत्र भूमिषु ।। ६५ ।।
।। बर्बरीक उवाच ।। ।।
अहं कुरुकुलोत्पन्नः पांडुपुत्रस्य पौत्रकः ।।
बर्बरीक इति ख्यातस्तं दैत्यं हंतुमागतः ।। ६६ ।।
स च दैत्यो हतः पापः पुनर्यास्ये महीतलम् ।।
भवतीभिश्च मे नास्ति कृत्यं भोभोः कथंचन ।। ६७ ।।
ब्रह्मचारिव्रतं यस्मादहं सततमास्थितः ।।
इत्युक्त्वाभ्यर्च्य तल्लिंगं प्रणिपत्य च दण्डवत् ।। ६८ ।।
ऊर्ध्वमाचक्रमे वीरः कातरं ताभिरीक्षितः।।
ततो बहिः समागत्य सप्रकाशं मुखं तदा ।।६९।।
प्रहर्षेणैव पूर्वस्या विजयं ददृशे दिशः ।।
तस्मिन्काले च विजयः कर्म सर्वं समाप्तवान् ।। 1.2.63.७० ।।
कांत्या सूर्यसमाभास ऊर्ध्वमाचक्रमे क्षणात् ।।
ततो वियद्गतं देवैः पुष्पवर्षमभून्महत् ।। ७१ ।।
जगुर्गंधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः ।।
विजयो बर्बरीकं च ततो वचनमब्रवीत् ।। ७२ ।।
तव प्रसादाद्वीरेश सिद्धिः प्राप्ता मयातुला ।।
चिरं जीव चिरं नंद चिरं वस चिरं जय ।। ७३ ।।
अत एव हि साधृनां संगमिच्छंति साधवः ।।
औषधं सर्वदोषाणां भवेत्सत्यं गमो यतः ।। ७४ ।।
त्वं च होमस्थितं भस्म सिंदूरसदृशप्रभम् ।।
निःशल्यं सविवरकं पूर्यमाणं गृहाण च ।। ७५ ।।
अक्षय्यमेतत्संग्रामे प्रथमं ते प्रमुंचतः ।।
शत्रूणां स्थानकं मृत्योर्देहं ध्वस्तं करिष्यति ।। ७६ ।।
एवं सुखेन विजयः शत्रूणां ते भविष्यति ।। ७७ ।।
।। बर्बरीक उवाच ।। ।।
उपकुर्यान्निराकांक्षो यः स साधुरितीर्यते ।।
साकांक्षमुपकुर्याद्यः साधुत्वे तस्य को गुणः ।। ७८ ।।
तद्देहि भस्म चान्यस्मै केनाप्यर्थो न मेऽण्वपि ।।
प्रसादसुमुखां दृष्टिं विना नान्यद्वृणोमि ते ।। ७९ ।।
।। देवा ऊचुः ।। ।।
कुरूणां पांडवानां च भविष्यति महान्रणः ।।
ततो भूमिस्थितं भस्म प्राप्स्यंति यदि कौरवाः ।। 1.2.63.८० ।।
महाननर्थो भविता पांडवानां ततः स्फुटम् ।।
तस्माद्गृहाण त्वं भस्म सोपि चक्रे तथो वचः ।। ८१ ।।
देवीभिः सहिता देवाः संमान्य विजयं च ते ।।
सिद्धैश्वर्यं ददुस्तस्मै सिद्धसेनेति नाम च ।। ८२ ।।
एवं स विजयो विप्रः सिद्धिं लेभे सुदुर्लभाम् ।।
बर्बरीकश्च कृत्वैतद्देवीभक्तिरतोऽवसत् ।। ८३ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कार्यसिद्धिवर्णनंनाम त्रिषष्टितमोऽध्यायः ।। ६३ ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 64
एवं तत्र स्थिते तीरे देव्याराधनतत्परे ।।
सप्तलिंगार्चनरते भीमनन्दननन्दने ।। १ ।।
ततः कालेन केनापि पांडवा द्यूतनिर्जिताः ।।
तत्राजग्मुश्च क्रमतस्तीर्थस्नानकृते भुवम् ।। २ ।।
प्रागेव चंडिकां देवीं क्षेत्रादीशानतः स्थिताम् ।।
आसेदुर्मार्गखिन्नास्ते द्रौपदीपंचमास्तदा ।। ३ ।।
तत्रैव चोपविष्टोऽभूत्तदानीं चंडिकागणः ।।
बर्बरीकश्च तान्वीरान्समायातानपश्यत ।। ४ ।।
परं नासौ वेद पाण्डून्पाण्डवास्तं च नो विदुः ।।
आजन्म यस्मान्नैवाभूत्पाण्डूनां चास्य संगमः ।। ५ ।।
ततः प्रविश्य वै तस्मिन्देवीमासाद्य पांडवाः ।।
पिंडकाद्यं तत्र मुक्त्वा तृषा प्रैक्षि जलं तदा।।६।।
ततो भीमः कुण्डमध्यं जलं पातुं विवेश ह ।।
प्रविशंतं च तं प्राह युधिष्ठिर इदं वचः ।।७।।
उद्धृत्य भीम तोयं त्वं पादौ प्रक्षाल्य भो बहिः ।।
ततः पिबाऽन्यथा दोषो महांस्त्वामुपपत्स्यते ।। ८ ।।
एतद्राज्ञो वचो भीमस्तृषा व्याकुललोचनः ।।
अश्रुत्वैव विवेशासौ कुण्डमध्ये जलेच्छया ।। ९ ।।
स च दृष्ट्वा जलं पातुं तत्रैव कृतनिश्चयः ।।
मुखं हस्तौ च चरणौ क्षालयामास शुद्धये ।। 1.2.64.१० ।।
यतः पीतं जलं पुंसामप्रक्षाल्य च यद्भवेत् ।।
प्रेताः पिशाचास्तद्रूपं संक्रम्य प्रपिबंति तत् ।। ११ ।।
एवं प्रक्षालयाने च पादौ तत्र वृकोदरे ।।
उपरिस्थस्तदा प्राह सत्यं सुहृदयो वचः ।। १२ ।।
दुर्मते भोः किमेतत्त्वं कुरुषे पापनिश्चयः ।।
देवीकुण्डे क्षालयसि मुखं पादौ करौ च यत् ।। १३ ।।
यतो देवी सदानेन जलेन स्नाप्यते मया ।।
दत्र प्रक्षिपंस्तोयं मलपापान्न बिभ्यसि ।। १४ ।।
मलाक्ततोयं यन्नाम अस्पृश्यं तन्नरैरपि ।।
कुतो देवैश्च तत्पापं स्पृश्यते तत्त्वतो वद ।। १५ ।।
शीघ्रं च त्वं निःसरास्मात्कुण्डाद्भूत्वा बहिः पिब ।।
यद्येवं पाप मूढोऽसि तीर्थेषु भ्रमसे कुतः ।। १६ ।।
।। भीम उवाच ।। ।।
किमेतद्भाषसे क्रूर परुषं राक्षसाधम ।।
यतस्तोयानि जंतूनामुपभो गार्थमेव हि ।। १७ ।।
तीर्थेषु कार्यं स्नानं चेत्युक्तं मुनिवरैरपि ।।
अंगप्रक्षालनं स्नानमुक्तं मां निंदसे कुतः ।। १८ ।।
यदि न क्रियते पानमंगप्रक्षालनं तथा ।।
तत्किमर्थं पूर्तधर्माः क्रियन्ते धर्मशालिभिः ।। १९ ।।
।। सुहृदय उवाच ।। ।।
स्नातव्यं तीर्थमुख्येषु सत्यमेतन्न संशयः ।।
चरेषु किं तु संविश्य स्थावरेषु बहिः स्थितः ।। 1.2.64.२० ।।
स्थावरेष्वपि संविश्य तन्न स्नानं विधीयते ।।
न यत्र देवस्नानार्थं भक्तैः संगृह्यते जलम् ।।२१।।
यच्च हस्तशतादूर्ध्वं सरस्तत्र विधीयते ।।
संवेशेऽपि क्रमश्चायं पादौ प्रक्षाल्य यद्बहिः ।। २२ ।।
ततः स्नानं प्रकर्तव्यमन्यथा दोष उच्यते ।।
किं न श्रुतस्त्वया प्रोक्तः श्लोकः पद्मभुवा पुरा ।। २३ ।।
मलं मूत्रं पुरीषं च श्लेष्म निष्ठीनाश्रु च ।।
गंडूषाश्चैव मुञ्चति ये ते ब्रह्महणैः समाः ।। २४ ।।
तस्मान्निःसर शीघ्रं त्वं यद्येवमजितेन्द्रियः ।।
तत्किमर्थं दुराचार तीर्थेष्वटसि बालिश ।। २५ ।।
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्।।
निर्विकाराः क्रियाः सर्वाः स हि तीर्थफलं लभेत् ।। २६ ।।
।। भीम उवाच ।। ।।
अधर्मो वापि धर्मोऽस्तु निर्गंतुं नैव शक्नुयाम् ।।
क्षुधा तृषा मया नित्यं वारितुं नैव शक्यते ।। २७ ।।
।। सुहृदय उवाच ।। ।।
जीवितार्थे भवान्कस्मात्पापं प्रकुरुते वद ।।
किं न श्रुतस्त्वया श्लोकः शिबिना यः समीरितः ।। २८ ।।
मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा ।।
न कल्पमपि जीवेत लोकद्वयविरोधिना ।। २९ ।।
।। भीम उवाच ।। ।।
काकारवेण ते मह्यं कर्णौ बधिरतां गतौ ।।
पास्याम्येव जलं चात्र कामं विलप शुष्य वा ।। 1.2.64.३० ।।
।। सुहृदय उवाच ।। ।।
क्षत्रियाणां कुले जातस्त्वहं धर्माभिरक्षिणाम् ।।
तस्मात्ते पातकं कर्तुं न दास्यामि कथंचन ।। ३१ ।।
तद्वराकाथ शीघ्रं त्वमस्मात्कुंडाद्विनिःसर ।।३२।।
इष्टकाशकलैः शीघ्रं चूर्णयिष्येऽन्यथा शिरः ।।
इत्युक्त्वा चेष्टकां गृह्य मुमोच शिरसः प्रति ।। ३३ ।।
भीमश्च वंचयित्वा तामुत्प्लुत्य बहिराव्रजत् ।।
भर्त्सयंतौ ततश्चोभावन्योन्यं भीमविक्रमौ ।। ३४ ।।
युयुधाते प्रलंबाभ्यां बाहुभ्यां युद्धपारगौ ।।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ।। ३५ ।।
मुष्टिभिः पार्ष्णिघातैश्च जानुभिश्चाभिजघ्नतुः ।।
ततो मुहूर्तात्कौरव्यः पर्यहीयत पांडवः ।। ३६ ।।
हीयमानस्ततो भीम उद्यतोऽभूत्पुनः पुनः ।।
अहीयत ततोऽप्यंग ववृधे बर्बरीककः ।। ३७ ।।
ततो भीमं समुत्पाट्य बर्बरीको बलादिव ।।
निष्पिपेष ततः क्रुद्धस्तदद्भुतमिवाभवत् ।। ३८ ।।
मूर्छितं चैवमादाय विस्फुरन्तं पुनःपुनः ।।
सागराय प्रचलितः क्षेप्तुं तत्र महांभसि ।। ३९ ।।
ददृशुः पांडवा नैतद्देव्या नयनयंत्रिताः ।। 1.2.64.४० ।।
तथा गृहीते कुरुवीरमुख्ये वीरेण तेनाद्भुतविक्रमेण ।।
आश्चर्यमासीद्दिवि देवतानां देवीभिराकाशतले निरीक्ष्य तम् ।। ४१ ।।
सागरस्य ततस्तीरे बर्बरीकं गतं तदा ।।
निरीक्ष्य भगवान्रुद्रो वियत्स्थः समभाषत ।। ४२ ।।
भोभो राक्षसशार्दूल बर्बरीक महाबल ।।
मुंचैनं भरतश्रेष्ठं भीमं तव पितामहम् ।। ४३ ।।
अयं हि तीर्थयात्रायां विचरन्भ्रातृभिर्युतः ।।
कृष्णया चाप्यदस्तीर्थं स्नातुमेवाभ्युपाययौ ।। ४४ ।।
सम्मानं सर्वथा तस्मादर्हः कौरवनंदनः ।।
अपापो वा सपापो वा पूज्य एव पितामहः ।। ४५ ।।
।। सूत उवाच ।। ।।
इति रुद्रवचः श्रुत्वा सहसा तं विमुच्य सः ।।
न्यपतत्पादयोर्हा धिक्कष्टं कष्टं च प्राह सः ।। ४६ ।।
क्षम्यतां क्षम्यतां चेति पुनः पुनरवोचत ।।
शिरश्च ताडयन्स्वीयं रुरोद च मुहुर्मुहुः ।। ४७ ।।
तं तथा परिशोचंतं मुह्यमानं मुहुर्मुहुः ।।
भीमसेनः समालिंग्य आघ्राय च वचोऽब्रवीत् ।। ४८ ।।
वयं त्वां नैव जानीमस्त्वं चास्माञ्जन्मकालतः ।।
अत्र वासश्च ते पुत्र भैमेः कृष्णाच्च संश्रुतः ।। ४९ ।।
परं नो विस्मृतं सर्वं नानादुःखैः प्रमुह्यताम् ।।
दुःखितानां यतः सर्वा स्मृतिर्लुप्ता भवेत्स्फुटम् ।। 1.2.64.५० ।।
तदस्माकमिदं दुःखं सर्वकालविधानतः ।।
मा शोचस्त्वं च तनय न ते दोषोऽस्ति चाण्वपि ।। ५१ ।।
यतः सर्वः क्षत्रियस्य दंड्यो विपथिसंस्थि तः ।।
आत्मापिदंड्यः साधूनां प्रवृत्तः कुपथाद्यदि ।। ५२ ।।
पितृमातृसुहृद्भ्रातृपुत्रादीनां किमुच्यते ।।
अतीव मम हर्षोऽयं धन्योहं पूर्वजाश्च मे ।। ।। ५३ ।।
यस्य त्वीदृशकः पौत्रो धर्मज्ञो धर्मपालकः ।।
वरार्हस्त्वं प्रशंसार्हो भवान्येषां सतां तथा ।। ५४ ।।
तस्माच्छोकं विहायेमं स्वस्थो भवि तुमर्हसि ।। ५५ ।।
बर्बरीक उवाच ।। ।।
पापं मां ताततात त्वं ब्रह्मघ्नादपि कुत्सितम् ।।
अप्रशस्यं नार्हसीह द्रष्टुं स्प्रष्टुमपि प्रभो ।। ५६ ।।
सर्वेषामेव पापानां निष्कृतिः प्रोच्यते बुधैः ।।
पित्रोरभक्तस्य पुनर्निष्कृतिर्नैव विद्यते ।। ५७ ।।
तद्येन देहेन मया ताततातोऽभिपीडितः ।।
तत्त्वमेव समुत्स्रक्ष्ये महीसागरसंगमे ।। ५८ ।।
मैवं भवेयमन्येषु अपि जन्मसु पातकी ।।
न मामस्मादभिप्रायादर्हः कोऽपि निवर्तितुम् ।। ५९ ।।
यतोंऽशेन विलुप्येत प्रायश्चित्तान्निवारकः ।।
एवमुक्त्वा समुत्प्लुत्य ययौ चैवार्णवं बली ।। 1.2.64.६० ।।
समुद्रोऽपि चकंपे च कथमेनं निहन्म्यहम् ।।
ततः सिद्धांबिकायाश्च देव्यस्तत्र चतुर्दश ।। ६१ ।।
समालिंग्य च संस्थाप्य रुद्रेण सहिता जगुः ।।
अज्ञातविहिते पापे नास्ति वीरेंद्र कल्मषम् ।। ६२ ।।
शास्त्रेषूक्तमिदं वाक्यं नान्यथा कर्तुमर्हसि ।।
अमुं च पृष्ठलग्नं त्वं पश्य भोः स्वं पितामहम् ।। ६३ ।।
पुत्रपुत्रेति भाषंतमनु त्वा मरणोन्मुखम् ।।
अधुना चेत्स्वकं देहं वीर त्वं परित्यक्ष्यसि ।। ६४ ।।
ततस्त्यक्ष्यति भीमोऽपि पातकं तन्महत्तव ।।
एवं ज्ञात्वा धारय त्वं स्वशरीरं महामते ।। ६५ ।।
अथ चेत्त्यक्तुकामस्त्वं तत्रापि वचनं शृणु ।।
स्वल्पेनैव च कालेन कृष्णाद्देवकिनंदनात् ।। ६६ ।।
देहपातस्तव प्रोक्तस्तं प्रतीक्ष यदीच्छ सि ।।
यतो विष्णुकराद्वत्स देहपातो विशिष्यते ।। ६७ ।।
तस्मात्प्रतीक्ष तं कालमस्माकं प्रार्थितेन च ।।
एवमुक्तो निववृते बर्बरीकोऽपि दुर्मनाः ।। ६८ ।।
रुद्रं देवीश्च चामुंडां सोपालंभं वचोऽब्रवीत् ।।
त्वमेव देवि जानासि रक्ष्यते शार्ङ्गधन्विना ।। ६९ ।।
पांडवा भूमिलाभार्थे तत्ते कस्मादुपेक्षितम् ।।
त्वया च समुपागत्य रक्षितोऽयं वृकोदरः ।। 1.2.64.७० ।।
।। देव्युवाच ।। ।।
अहं च रक्षयिष्यामि स्वभक्तं कृष्णमृत्युतः ।।
यस्माच्च चंडिकाकृत्ये कृतोऽनेन महारणः ।।
तस्माच्चंडिलनाम्नायं विश्वपूज्यो भविष्यति ।। ७१ ।।
एवमुक्त्वा गताः सर्वे देवा देव्यस्त्वदृश्यताम् ।।
भीमोऽपि तं समादाय पांडुभ्यः सर्वमूचिवान् ।। ७२ ।।
विस्मिताः पांडवास्तं च पूजयित्वा पुनः पुनः ।।
यथोक्तविधिना चक्रुस्तीर्थस्नानमतंद्रिताः ।। ७३ ।।
भीमोपि यत्र रुद्रेण मोक्षितस्तत्र सुप्रभम् ।।
लिंगं संस्थापयामास भीमेश्वरमिति श्रुतम् ।। ७४ ।।
ज्येष्ठमासे कृष्णपक्षे चतुर्दश्यामुपोषितः ।।
रात्रौ संपूज्य भीमेशं जन्मपापाद्विमुच्यते ।। ७५ ।।
यथैव लिंगानि सुपूजितानि सप्तात्र मुख्यानि महाफलानि ।।
भीमेश्वरं लिंगमिदं तथैव समस्तपापापहरं सुपूज्यम् ।। ७६ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे भीमेश्वरमाहात्म्यवर्णनंनाम चतुःषष्टितमोऽध्यायः ।। ६४ ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 65
।। सूत उवाच ।। ।।
उषित्वा सप्तरात्राणि तीर्थेस्मिन्भ्रातृभिः सह ।।
युधिष्ठिरो महातेजा गमनायोपचक्रमे ।। १ ।।
प्रभाते विमले स्नात्वा देवीर्लिंगान्यथार्च्य च ।।
कृत्वा प्रदक्षिणं क्षेत्रं देवीस्तोत्रं जजाप सः ।।
प्रयाणकालेषु सदा जप्यं कृष्णेन कीर्तितम् ।। २ ।।
।। युधिष्ठिर उवाच ।। ।।
देवि पूज्ये महाशक्ते कृष्णस्य भगिनि प्रिये ।।
नत्वा त्वां शरणं यामि मनोवाक्कायकर्मभिः ।। ३ ।।
संकर्षणाभयदाने कृष्णच्छविसमप्रभे ।।
एकानंशे महादेवि पुत्रवत्त्राहि मां शिव ।। ४ ।।
त्वया ततमिदं विश्वं जगदव्यक्तरूपया ।।
इति मत्वा त्वां गतोऽस्मि शरणं त्राहि मां शुभे ।। ५ ।।
कार्यारम्भेषु सर्वेषु सानुगेन मया तव ।।
स्व आत्मा कल्पितो भद्रे ज्ञात्वैतदनुकंप्यताम ।। ६ ।।
।। सूत उवाच ।। ।।
इति ब्रुवाणं राजानं शिरोबद्धाजलिं तदा ।।
वायुपुत्रः प्रहस्यैव सासूयमिदमब्रवीत् ।। ७ ।।
ये त्वां राजन्वदंत्येवं सर्वज्ञोऽयं युधिष्ठिरः ।।
वृथैव वचनं तेषां यतस्त्वं वेत्सि नाण्वपि ।। ८ ।।
को हि प्रज्ञावतां मुख्यः सर्वशास्त्रविदांवरः ।।
स्त्रीणां शरणमापद्येदृजुर्बुद्धिर्यथा भवान् ।। ९ ।।
यतस्त्वमेव वेत्सीदं सर्वशास्त्रेषु कीर्त्यते ।।
जडेयं प्रकृतिर्मूढा यया संमोह्यते जगत् ।। 1.2.65.१० ।।
सचेतनं च पुरुषं प्रकृतिं च विचेतनाम् ।।
प्राहुर्बुधा नराध्यक्ष पुंसश्चप्रकृतिः प्रिया ।। ११ ।।
तत्स्वयं पुरुषो भूत्वा युधिष्ठिर वृथामते ।।
प्रकृतिं नौषि नत्वा तां हासो मेऽतीव जायते ।। १२ ।।
आरोहयेच्छिरो नैव क्वचिद्धित्वा उपानहौ ।।
यथा स मूढो भवति देवीभक्तिरतस्तथा ।। १३ ।।
यदि ते बन्दिवत्पार्थ तिष्ठेद्वाण्यनिवारिता ।।
तत्किमर्थं महादेवं न स्तौषि त्रिपुरान्तकम् ।। १४ ।।
अलक्ष्यमिति वा मत्वा महेशानं महामते ।।
ततः किमर्थ दाशार्हं न स्तौषि पुरुषोत्तमम् ।। १५ ।।
यस्य प्रसादादस्माभिः प्राप्ता द्रुपदनंदिनी ।।
इन्द्रप्रस्थे तथा राज्यं राजसूयस्त्वया कृतः ।। १६ ।।
विजयेन धनुर्लब्धं जरासन्धो मया हतः ।।
प्रत्याहर्तुं तथेच्छामः कौरवेभ्यः स्वकां श्रियम् ।। १७ ।।
यस्य प्रसादात्तं मुक्त्वा कृष्णं हा स्तौषि यज्जयी ।।
अथ स्वयं कौरवाणामुत्पन्नं कुलसत्तमे ।। १८ ।।
जानन्नात्मानमल्पत्वाद्बुद्धेर्न स्तौषि यादवम् ।।
तत्किमर्थं महावीर्यं न स्तौष्यर्जुनमुत्तमम् ।। १९ ।।
येन विद्धं पुरा लक्ष्यं येन कर्णादयो जिताः ।।
येन तत्खांडवं दग्धं यज्ञे येन नृपा जिताः ।। 1.2.65.२० ।।
श्रूयते येन विक्रम्य महेशानोऽपि निर्जितः ।।
स्वर्लोकसंस्थितस्यास्य शरणं याहि स्तौषि च ।। २१ ।।
अथवा तेन शक्रेण राज्यं मे नार्पितं कुतः ।।
इति मत्वा वृथैव त्वं न स्तौषि भ्रातरं मम ।। २२ ।।
ततो मां वा कथं वीरं न स्तौषि त्वं युधिष्ठिर ।।
येन त्वं रक्षितः पूर्वं लाक्षागेहाग्निमध्यतः ।। २३ ।।
वृक्षेणाहत्य मद्रेशो नदीं शुष्कां प्रसारितः ।।
राजराजस्तथा येन जरासंधो निपातितः ।। २४ ।।
पूर्वा दिङ्निर्जिता येन येन पूर्वं बको हतः ।।
हिडम्बश्च महावीरः किर्मीरश्चाधुना वने ।।२५।।
कालेकाले च रक्षामि त्वामेवाहं सदानुगः ।।
न तां पश्यामि रक्षंतीं नत्वा यां स्तौषि भारत।।२६।।
अथ क्षुधाबलं ज्ञात्वा मामौदरिकसत्तमम्।।
क्रूरं साहसिकं चैव न स्तौषि क्षमिणां वरः।।२७।।
ततः सुसंयतो भूत्वा प्रणवं समुदीरयन्।।
कथं न यासि मार्गे त्वं वृथालापो हि दोषभाक्।।२८।।
प्रेताः पिशाचा रक्षांसि वृथालापरतं नरम् ।।
आविशंति तदाविष्टो वक्ताबद्धं पुनः पुनः ।।२९।।
वृथालापी यदश्नाति यत्करोति शुभं क्वचित् ।।
प्रेतादितृप्तये सर्वमिति शास्त्रविनिश्चयः ।।1.2.65.३०।।
नायं तस्यास्ति वै लोकः कुत एव परो भवेत् ।।
तस्माद्विजानता यत्नात्त्याज्यमेव वृथा वचः ।। ३१ ।।
एवं संस्मारितोऽपि त्वं यदि भूयः प्रवर्तसे ।।
भूताविष्टश्चिकित्स्यो नो विविधैरौषधैर्भवान् ।। ३२ ।।
।। सूत उवाच ।। ।।
इति प्रवर्णितां श्रुत्वा भीमसेनेन भारतीम् ।।
पटीमिव प्रविततां विहस्याह युधिष्ठिरः ।। ३३ ।।
नूनं त्वमल्पविज्ञानो वेदाधीतास्त्वया वृथा ।।
मातरं सर्वभूतानामंबिकां यन्न मन्यसे ।। ३४ ।।
स्त्रीपक्ष इति मत्वा तामवजानासि भोः कथम् ।।
स्त्री सती न प्रणम्या किं त्वया कुन्ती वृकोदर ।। ३५ ।।
यदि न स्यान्महामाया ब्रह्मविष्णुशिवार्चिता ।।
तव देहोद्भवः पार्थ कथं स्यात्तत्त्वतो वद ।। ३६ ।।
ईश्वरः परमात्मा तां त्यक्तुं शक्तः कथं न हि ।।
पुनर्भेजे यतो देवीं तेन मन्ये महोर्जिताम् ।। ३७ ।।
वासुदेवोऽपि नित्यं तां स्तौति शक्तिं परात्पराम् ।।
अहं यदि चिकित्स्यः स्यां चिकित्स्यः सोऽपि किं भवान् ।। ३८ ।।
नैवं भूयः प्रवक्तव्यं मौर्ख्यात्प्रति महेश्वरीम् ।।
भूमौ निपत्य शरणं याहि चेत्सुखमिच्छसि ।। ३९ ।।
।। भीम उवाच ।। ।।
सर्वोपायैर्बोधयंति चाटा हस्तगतं नरम् ।।
इदमेवौषधं तत्र तैः सार्धं जल्पनं न हि ।। 1.2.65.४० ।।
मुण्डे मुण्डे मतिर्भिन्ना सत्यमेतन्नृप स्फुटम् ।।
स्वाभीष्टं कुरुते सर्वः कुर्मोऽभीष्टं वयं तथा ।। ४१ ।।
नागायुतसमप्राणो वायुपुत्रो वृकोदरः ।।
न स्त्रियं शरणं गच्छेद्वाङ्मात्रेण कथंचन ।। ४२ ।।
इत्युक्त्वा वचनं भीमो ह्यनुवव्राज तं नृपम् ।।
राजापि सानुगो यातो न साध्विति मुहुर्ब्रुवन् ।। ४३ ।।
ततः क्षणेन विकलस्त्वितश्चेतश्च प्रस्खलत् ।।
उवाच वचनं भीमः सुसंभ्रांतो नृपं प्रति ।। ४४ ।।
धर्मराज महाबुद्धे पश्य मां नृपसत्तम ।।
चक्षुर्भ्यां नैव पश्यामि वैकल्यं किमिदं मम ।। ४५ ।।
।। राजोवाच ।।
भीमभीम ध्रुवं देवी कुपिता ते महेश्वरी ।।
तेन नष्टे चक्षुषी ते महासाहसवल्लभ ।। ४६ ।।
तत्सांप्रतमभिप्रैहि शरणं परमेश्वरीम् ।।
पुनः प्रसन्ना ते दद्यात्कदाचिन्नयने पुनः ।। ४७ ।।
।। भीम उवाच ।। ।।
अहमप्यंग जानामि समो देव्या न कश्चन ।।
प्रभावप्रत्ययार्थं हि सदा निन्दामि तां पुनः ।। ४८ ।।
तस्मात्प्रभावं दृष्ट्वैवं निपत्य वसुधातले ।।
मनोवाग्बुद्धिभिर्नत्वा शरणं स्तौमि मातरम् ।। ४९ ।।
।। सूत उवाच ।। ।।
इत्युक्त्वा भ्रातरं ज्येष्ठं साष्टांगं प्रणिपत्य च ।।
गत्वैव देव्याः शरणं भीमस्तुष्टाव मातरम् ।। 1.2.65.५० ।।
।। भीम उवाच ।। ।।
सर्वभूतांबिके देवि ब्रह्मांडशतपूरके ।।
बालिशं बालकं स्वीयं त्राहित्राहि नमोऽस्तु ते ।। ५१ ।।
त्वं ब्राह्मी ब्रह्मणः शक्तिर्वैष्णवी त्वं च शांभवी ।।
त्रिमूर्तिः शक्तिरूपा त्वं रक्षरक्ष नमोऽस्तु ते ।। ५२ ।।
त्वमैन्द्री च त्वमाग्नेयी त्वं याम्या त्वं च नैर्ऋती ।।
त्वं वारुणी त्वं वायव्या त्वं कौबेरी नमोऽस्तु ते ।।५३ ।।
ऐशानि देवि वाराहि नारसिंहि जयप्रदे ।।
कौमारि कुलकल्याणि कृपेश्वरि नमोऽस्तु ते ।। ५४ ।।
त्वं सूर्ये त्वं तथा सोमे त्वं भौमे त्वं बुधे गुरौ ।।
त्वं शुक्रे त्वं स्थिता राहौ त्वं केतुषु नमोऽस्तु ते ।। ५५ ।।
वससि ध्रुवचक्रे त्वं मुनिचक्रे च ते स्थितिः ।।
भचक्रेषु खचक्रेषु भूचक्रे च नमोऽस्तु ते ।। ५६ ।।
सप्तद्वीपेषु त्वं देवि समुद्रेषु च सप्तसु ।।
सप्तस्वपि च पातालेष्ववसंस्थे नमोऽस्तु ते ।। ५७ ।।
त्वं देवि चावतारेषु विष्णोः साहाय्यकारिणी ।।
विष्णुनाभ्यर्थ्यसे तस्मात्त्राहि मातर्नमोऽस्तु ते ।। ५८ ।।
चतुर्भुजे चतुर्वक्त्रे फलदे चत्वरप्रिये ।।
चराचरस्तुते देवि चरणौ प्रणमामि ते ।। ५९ ।।
महाघोरे कालरात्रि घंटालि विकटोज्वले ।।
सततं सप्तमीपूज्ये नेत्रदे शरणं भव ।। 1.2.65.६० ।।
मेरुवासिनि पिंगाक्षि नेत्रत्राणैककारिणि ।।
हुंहुंकारध्वस्तदैत्ये शरण्ये शरणं भव ।। ६१ ।।
महानादे महावीर्ये महा मोहविनाशिनि ।।
महाबन्धापहे देवि देहि नेत्रत्रयं मम ।। ६२ ।।
सर्वमंगलमंगल्या यदि त्वं सत्यतोंबिके ।।
ततो मे मंगलं देहि नेत्रदानान्नमोस्तु ते ।। ६३ ।।
यदि सर्वकृपालुभ्यः सत्यतस्त्वं कृपावती ।।
ततः कृपां कुरु मयि देहि नेत्रे नमोऽस्तु ते ।। ६४ ।।
पापोयमिति यद्देवि प्रकुप्यसि वृथैव तत् ।।
त्वं मां मोहयसि त्वेवं न ते तत्किं नमोऽस्तु ते ।। ६५ ।।
स्वयमुत्पाद्य यो रेणुं वेष्टितस्तेन कुप्यति ।।
तथा कुप्यसि मे मातरनाथस्यास्य दर्शय ।। ६६ ।।
इति स्तुता पांडवेन देवी कृष्णच्छविच्छविः ।।
रामा रामाभिवदना प्रत्यक्षा समजायत ।। ६७ ।।
विद्युत्कोटिसमाभास मुकुटेनातिशोभिता ।।
सूर्यबिंबप्रभाभ्यां च कुण्डलाभ्यां विभूषिता ।। ६८ ।।
प्रवाहेनेव हारेण सुरनद्या विराजिता ।।
कल्पद्रुमप्रसूनैश्च पूर्णावतंसमंडिता। ।। ६९ ।।
दन्तेन्दुकांतिविध्वस्तभक्तमोहमहाभया ।।
खड्गचर्मशूलपात्रचतुर्भुजविराजिता ।। 1.2.65.७० ।।
वाससा तडिदाभेन मेघलेखेव वेष्टिता ।।
मालया सुममालिन्या भ्राजिता सालिमालया ।। ७१ ।।
सतां शरणदाभ्यां च पद्भ्यां नूपुरराजिता ।।
जयेति पुष्पवर्षैश्च शक्राद्यैरभिपूजिता।। ७२ ।।
गणैर्देवीभिराकीर्णा शतपद्मैर्महामलैः ।।
तां तादृशीं व्योम्नि दृष्ट्वा मातरं व्योमवाहिनीम् ।। ७३ ।।
भूमौ निपत्य राजेंद्रो नमोनम इति स्थितः ।।
भीमोपि मातरं दृष्ट्वा यथा बालोऽभिधावति ।। ७४ ।।
तथा सम्मुखमाधावज्जय मातरिति ब्रुवन् ।।
दर्शनेनैव देव्याश्च शुभनेत्रत्रयस्तदा ।। ७5 ।।
प्रणिपत्य नमस्तुभ्यं नमस्तुभ्यं मुहुर्जगौ ।।
प्रसीद देवि पद्माक्षि पुनर्मातः प्रसीद मे ।। ७६ ।।
पुनः प्रसीद पापस्य क्षमाथीले प्रसीद मे ।। ७७ ।।
एवं स्तुता भगवती स्वयमुत्थाय पार्थिवम् ।।
भीमं चोत्संगमारोप्य कृपयेदं वचोऽब्रवीत् ।। ७८ ।।
।। श्रीदेव्युवाच ।। ।।
यत्त्वयाभिहितं स्तोत्रं तेन तुष्टा तवोपरि ।।
अतो नेत्रत्रयं दत्तं द्वे बाह्ये चांतरं परम् ।। ७९ ।।
नाहं कोपं यत्र तत्र दर्शयामि वृकोदर ।।
त्वं तु प्रमाणपुरुषस्त्वत्तः क्रोधमदर्शयम् ।। 1.2.65.८० ।।
नैतत्प्रियं च कृष्णस्य भ्रातुर्मे क्रोधमाचरम् ।।
भवन्तो वासुदेवस्य यत्र प्राणा बहिश्चराः ।। ८१ ।।
त्वं च निन्दसि मां नित्यं तच्च जाने वृकोदर ।।
मत्प्रभावपरिज्ञानहेतवे कीदृशस्त्विति ।। ८३ ।।
तदेवं नैव भूयस्ते प्रकर्तव्यं कथंचन ।।
अक्षिक्षेपो हि पूज्यानामावहत्यधिकं रुजम् ।। ८४ ।।
तदिदानीं सर्वमेवं क्षन्तव्यं च परस्परम् ।।
यच्च ब्रवीमि त्वां वीर तन्निशामय भारत ।। ८५ ।।
यदा यदा हि धर्मस्य ग्लानिराविर्भवेद्धरिः ।।
तदातदावतीर्याहं विष्णोरस्य सहायिनी ।। ८६ ।।
इदानीं च हरिर्जातो वसुदेवसुतो भुवि ।।
अहं च गोपनन्दस्य एकानंशाभिधा सुता ।। ८७ ।।
तद्यथा भगवान्कृष्णो मम भ्राताभिपूजितः ।।
भवन्तोऽपि तथा मह्यं भ्रातरः पांडवा सदा ।। ८८ ।।
ये भीमभगिनीत्येवं मां स्तोष्यंति नरोत्तमाः ।।
आबाधा नाशयिष्यामि तेषां हर्षसमन्विता ।। ८९ ।।
त्वं च भ्रातुर्जयं वीर प्रदास्यसि महारणे ।।
भुजयोस्ते वसिष्यामि धार्तराष्ट्रनिपातने ।। 1.2.65.९० ।।
कृत्वा राज्यं च वर्षाणि षट्त्रिंशत्तदनन्तरम् ।।
महाप्रस्थानधर्मेण पृथिवीं परिचरिष्यथ ।। ९१ ।।
अस्मिन्नेव ततो देशे लोहोनाम महासुरः ।।
भवतां न्यस्तशस्त्राणां वधार्थं प्रक्रमिष्यति ।। ९२ ।।
ततस्तं सर्वभूतानामवध्यं भवतां कृते ।।
अन्धं कृत्वा पातयिष्ये ततो यूयं प्रयास्यथ ।। ९३ ।।
निस्तीर्य च हिमं सर्वं निमग्नाः बालुकार्णवे ।।
स्वर्गं यास्यति राजैकः सशरीरो गमिष्यति ।। ९४ ।।
अन्धो यत्र कृतो लोहो लोहाणाभिधया पुरम् ।।
भविष्यति च तत्रैव स्थास्येऽहं कलया सदा ।।९५।।
ततः कलियुगे प्राप्ते केलो नाम भविष्यति ।।
मम भक्तस्तस्य नाम्ना भाव्या केलेश्वरीत्यहम् ।। ९६ ।।
वैलाकश्चापरो भक्तो भविष्यति ममोत्तमः ।।
तस्याराधनतः ख्यातिं प्रयास्यामि कलौ युगे ।। ९७ ।।
लोहाणासंस्थितां चैव येर्चयिष्यंति मां जनाः ।।
श्रद्धया सितसप्तम्यां तैश्च सर्वत्र पूजिता ।। ९८ ।।
अंधानां च प्रदास्यामि भावीनि नयनान्यहम् ।।
तस्मिन्दिने तर्पिताहं भक्तिभावेन पांडव ।। ९९ ।।
पादांगुष्ठेन च भवांस्तत्र कुंडं विधास्यति ।।
सर्वतीर्थस्नान तुल्यं तत्र स्नानं च तद्दिने ।। 1.2.65.१०० ।।
मत्स्यानां नेत्रनेत्रस्थतेजस्तन्मात्रमुत्तमम् ।।
उद्धृत्य योजयिष्यामि प्रत्यक्षं तद्भविष्यति ।। १०१ ।।
एवं मम महास्थानं कलौ ख्यातं भविष्यति ।। १०२ ।।
लोहाणाख्यं महाबाहो नाम केलेश्वरीति च ।।
दुर्गमाख्यं ततो हत्वा अस्मिन्क्षेत्रे च भारत।।१०३।।।
दुर्गा नाम भविष्यामि महीसागरपूर्वतः ।।
धर्मारण्ये वसिष्यामि भवतां त्राणकारणात् ।। १०४ ।।
धर्मारण्ये स्थितां चैव येऽर्चयिष्यंति मानवाः ।।
आश्विने मासि चैत्रे वा नवम्यां शुक्लपक्षके ।। १०५ ।।
स्नात्वा महीसागरे च तेषां दास्यामि वांछितम् ।।
विधिना येऽर्चयिष्यंति मां च श्रद्धास मन्विताः ।। १०६ ।।
पुत्रपौत्रान्प्रदास्यामि स्वर्गं मोक्षं न संशयः ।।
प्रवेशे च कलेः काले भवतां वंशसंभवः ।।
वत्सराजः पांडवानां तोषयिष्यति यत्नतः ।। १०७ ।।
यस्य नाम्ना ततः ख्याता भविष्यामि कलौ युगे ।।
वत्सेश्वरीति वत्सस्य राज्ञः सर्वार्थदायिनी ।।१०८।।
मत्प्रसादात्स राजा वै भवनोत्तापकारिणीम् ।।
अट्टालयांनाम तदा राक्षसीं निहनिष्यति ।। १०९ ।।
तस्याश्चापि वधस्थानमट्टालजमिति स्थितम् ।।
भविष्यति पुरं तत्र मां च संस्थापयिष्यति ।। 1.2.65.११० ।।
अट्टालयाजग्रामे मामर्चयिष्यंति ये जनाः ।।
वत्सेश्वरीं सिताष्टम्यामाश्विने तैः सदार्चिता ।। १११ ।।
वत्सेश्वरीं च ये देवीं पूजयिष्यंति मानवाः ।।
तेषां सर्वफलावाप्तिर्भविष्यति न संशयः ।। ११२ ।।
इत्थमट्टालये वासो लोहाणे च भविष्यति ।।
धर्मारण्ये महाक्षेत्रे महीसागरसंनिधौ ।। ११३ ।।
मम लोकहितार्थाय लोहस्य च निशम्यताम् ।।
अधीकृतो मया लोहो बह्वीस्तप्तां तपः समाः ।। ।। ११४ ।।
वृत्रासुर इवाजेयो लोकानुत्सादयिष्यति ।।
तं च विश्वपतिर्धीमानवतीर्य बुधो हरिः ।। ११५ ।।
यत्र हंता तत्र ग्रामं लोहाटीति भविष्यति ।।
गयोनाम महादैत्यो भवतां विघ्नकृत्तदा ।।११६।।
प्रस्थाने लोहवद्भावी करिष्ये तं नपुंसकम् ।।
गयत्राडेति मां तत्र पूजयिष्यंति मानवाः ।। ।। ११७ ।।
ग्रामं चापि गयत्राडं तत्र ख्यातं भविष्यति ।।
गयत्राडे गयत्राडां येऽर्चयिष्यंति मानवाः ।। ११८ ।।
माघाष्टम्यां न शिष्यंति तस्य सर्वेऽप्युपद्रवाः ।।
ये च मां कोपयिष्यंति पांडवाराधितां सदा ।। ११९ ।।
तेषां पुंस्त्वं हरिष्यामि महारौद्राधितिष्ठति ।।
परिवारश्च मे चात्र षण्ढः सर्वो भविष्यति ।। 1.2.65.१२० ।।
तस्मिन्कलियुगे घोरे रौद्रे रुद्रेऽतिनिर्घृणे ।।
एवं तृतीयं तन्मह्यं स्थानमत्र भविष्यति ।। १२१ ।।
भवत्सु च स्वर्गतेषु गयोऽपि सुमहत्तपः ।।
तप्त्वा प्राप्य पुनः पुंस्त्वं लोकान्संपीडयिष्यति ।। १२२ ।।
गयातीर्थं गतं तं च गयाध्वंसनकाम्यया ।।
बुध एव जगत्स्वामी तत्र तं सूदयिष्यति ।। १२३ ।।
इत्थं श्रीमान्पीतवासा अवतीर्य बुधः प्रभुः ।।
बहूनि कृत्वा कर्माणि स्वस्थानं प्रतिपत्स्यते ।। १२४ ।।
इति संक्षेपतः प्रोक्तं भविष्यं पांडवा मया ।।
भवतां चित्तनिर्वृत्यै श्रूयतां भूय एव च ।। १२५ ।।
इदं तीर्थवरं मह्यं संसेव्यं सर्वदा प्रियम् ।।
कृतं यदत्रागमनं तेन प्रीतिः परा मम ।। १२६ ।।
भीमस्य चापि पौत्रेण दृढं संतोषिताऽस्मि च ।।
देव्यः सर्वाश्च मद्रूपं नैतज्ज्ञेयम तोऽन्यथा ।। १२७ ।।
व्रजध्वं चापि तीर्थानि यानि वो न कृतानि च ।।
आबाधास्वस्मि सर्वासु स्मरणीया स्वसेव च ।। १२८ ।।
आपृच्छे चापि वः सर्वान्यूयं कृष्णसमा मम ।। १२९ ।।
।। सूत उवाच ।। ।।
इति देव्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनाः ।।
पुनःपुनः प्रणम्यैनां नापश्यन्दीपवद्गताम् ।। 1.2.65.१३० ।।
ततस्ते बर्बरीकं च संस्थाप्यात्रैव निष्ठितम् ।।
आगच्छ योगे चोक्त्वेदं चक्रुस्तीर्थानि मुख्यशः ।। १३१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बर्बरीकोपाख्याने केलेश्वरी वत्सेश्वरीदुर्गादेवीगयत्राडामाहात्म्यवर्णनंनाम पञ्चषष्टितमोऽध्यायः ।। ६५ ।।
खण्डः १ (माहेश्वरखण्डः) · कौमारिकाखण्डः — Adhyāya 66
।। सूत उवाच ।। ।।
ततस्त्रयोदशे वर्षे व्यतीते समये तदा ।।
उपप्लवे संगतेषु सर्वराजसु पांडवाः ।। १ ।।
योद्धुमागत्य संतस्थुः कुरुक्षेत्रं महारथाः ।।
कौरवाश्चापि संतस्धुर्दुर्योधनपुरोगमाः ।।२।।
ततो भीष्मेण प्रोक्तां च नरैः श्रुत्वा युधिष्ठिरः ।।
रथातिरथसंख्यां तु राज्ञां मध्ये वचोऽब्रवीत् ।।३।।
भीष्मेण विहिता कृष्ण रथातिरथवर्णना ।।
ततो दुर्योधनोऽपृच्छदिदं स्वीयान्महारथान्।।४।।
ससैन्यान्पांडवानेतान्हन्यात्कालेन केन कः ।।
मासेन तु प्रतिज्ञातं भीष्मेण च कृपेण च ।।५।।
पक्षं द्रोणेन चाह्नां च दशभिर्द्रौणिना रणे ।।
षड्भिः कर्णेन च तथा सदा ममभयंकृता ।। ६ ।।
तदहं स्वांश्च पृच्छामि केन कालेन हंति कः ।।
एतच्छ्रुत्वा वचो राज्ञः फाल्गुनो वाक्यमब्रवीत् ।। ७ ।।
अयुक्तमेतद्भीष्माद्यैः प्रतिज्ञातं युधिष्ठिर ।।
ततो जये च विजये निश्चयो हि मृषैव तत् ।। ८ ।।
तवापि ये संति नृपाः सन्नद्धा रणसंस्थिताः ।।
पश्यैतान्पुरुषव्याघ्रान्कालकल्पान्दुरासदान् ।। ९ ।।
द्रुपदं च विराटं च धृष्टकेतुं च कैकयम् ।।
सहदेवं सात्यकिं च चेकितानं च दुर्जयम्।। 1.2.66.१० ।।
धृष्टद्युम्नं सपुत्रं च महावीर्यं घटोत्कचम् ।।
भीमादींश्च महेष्वासान्केशवं चापराजितम् ।। ११ ।।
मन्येहमेकस्त्वेतेषां हन्यात्कौरववाहिनीम् ।।
सन्नद्धाः प्रतिदृश्यंते भीष्माद्या बहवो रथाः ।। १२ ।।
तेभ्यो भयं न कार्यं ते फल्गवोऽमी मृगा इव ।। १३ ।।
अस्माकं धनुषां घोषैरिदानीमेव भारत ।।
कौरवा विद्रविष्यंति सिंहत्रस्ता मृगा इव ।। १४ ।।
वृद्धाद्भीष्माद्द्विजाद्वृद्धाद्द्रोणादपि कृपादपि।।
बालिशात्किं भयं द्रौणेः सूतपुत्राच्च दुर्मतेः ।। १५ ।।
अथवा चित्तनिर्वृत्यै ज्ञातुमिच्छसि भारत ।।
शत्रूणां प्रत्यनीकेषु संधावच्छृणु मे वचः ।।१६।।
एकोऽहमेव संग्रामे सर्वे तिष्ठंतु ते रथाः ।।
एकाह्ना क्षपये सर्वान्कौरवान्सैन्यसंयुतान् ।। १७ ।।
इत्यर्जुनवचः श्रुत्वा स्मयन्दामोदरोऽब्रवीत् ।।
एवमेतद्यथा प्राह फाल्गुनोऽयं मृषा न तत् ।। १८ ।।
ततश्च शंखान्भेरीश्च शतशश्चैव पुष्करान् ।।
निवार्य राजमध्यस्थो बर्बरीको वचोऽब्रवीत् ।। ।। १९ ।।
येन तप्तं गुप्तक्षेत्रे येन देव्यः सुतोषिताः ।।
यस्यातुलं बाहुबलं तेन चोक्तं निशम्यताम् ।। 1.2.66.२० ।।
यद्ब्रवीमि वचः सत्यं शृणुध्वं तन्नराधिपाः ।।
आत्मनो वीर्यसदृशं केवलं न तु दर्पतः ।। २१ ।।
यदार्येण प्रतिज्ञातमर्जुनेन महात्मना ।।
न मर्षयामि तद्वाक्यं कालक्षेपो महानयम् ।। २२ ।।
सर्वे भवंतस्तिष्ठंतु सार्जुनाः सहकेशवाः ।।
एको मुहूर्ताद्भीष्मादीन्सर्वान्नेष्ये यमक्षयम् ।। २३ ।।
मयि तिष्ठति केनापि शस्त्रग्राह्यं न क्षत्रियैः ।।
स्वधर्मशपथो वोऽस्तु मृते ग्राह्यं ततो मयि ।। २४ ।।
पश्यध्वं मे बलं बाह्वोर्देव्याराधनसंभवम् ।।
माहात्म्यं गुप्तक्षेत्रस्य तथा भक्तिं च पांडुषु ।। २५ ।।
पश्यध्वं मे धनुर्घोरं तूणीरावक्षयौ तथा ।।
खड्गं च देव्या यद्दत्तं ततो वच्मि वचस्त्विदम् ।। २६ ।।
इति तस्य वचः श्रुत्वा क्षत्रिया विस्मयं ययुः ।।
अर्जुनश्च कटाक्षेपे लज्जितः कृष्णमैक्षत ।। २७ ।।
तमाह ललितं कृष्णः फाल्गुनं परमं वचः ।।
आत्मौपयिकमेवेदं भैमि पुत्रोऽभ्यभाषत ।। २८ ।।
नवकोटियुतोऽनेन पलाशी निहतः पुरा ।।
क्षणादेव च पाताले श्रूयते महदद्भुतम् ।। २९ ।।
पुनः प्रक्ष्यामदे त्वेनं क्वेनोपायेन कौरवान्।।
मुहूर्ताद्धंसि ब्रूहीति पृच्छयतां चाह तं जयः ।। 1.2.66.३० ।।
ततः स्मरन्यादवेंद्रो भैमिपुत्रमभाषत ।। ३१ ।।
भीप्मद्रोणकृपद्रौणिकर्णदुर्योधनादिभिः ।।
गुप्तां त्र्यंबकदुर्जेयां सेनां हंसि कथं क्षणात् ।। ३२ ।।
अयं महान्विस्मयस्ते वचसो भैमिनंदन ।।
संभूतः सर्वराज्ञां च फाल्गुनस्य च धीमतः ।। ३३ ।।
तद्ब्रूहि केनोपायेन मुहूर्ताद्धंसि कौरवान् ।।
उपायवीर्यं ते ज्ञात्वा मंस्यामो वयमप्युत ।। ३४ ।।
।। सूत उवाच ।। ।।
इत्युक्तो वासुदेवेन सर्वभूतेश्वरेण च ।।
सिंहवक्षाः पर्वताभो नानाभूषणभूषितः ।। ३५ ।।
घटास्यो घटहासश्च ऊर्ध्वकेशोऽतिदीप्ति मान् ।।
विद्युदक्षो वायुजवो यश्चेच्छेन्नाशयेज्जगत् ।। ३६ ।।
देवीदत्तातुलबलो बर्बरीकोऽभ्यभाषत ।।
यदि वो मानसं वीरा उपायस्य प्रदर्शने ।। ३७ ।।
तदहं दर्शयाम्येष पश्यध्वं सहकेशवाः ।।
इत्युक्त्वा धनुरारोप्य संदधे विशिखं त्वरन् ।।
निःशल्यं चापि संपूर्णं सिंदूराभेण भस्मना ।।३८।।
आकर्णमाकृप्य च तं मुमोच मुखादथोद्भूतमभूच्च भस्म ।। ३९ ।।
सेनाद्वये तच्च पपात शीघ्रं यस्यैव यत्रास्ति च मृत्युमर्म ।।
सर्वरोमसु भीष्मस्य कंठे राधेयद्रोणयोः ।। 1.2.66.४० ।।
ऊरौ दुर्योधनस्यापि शल्यस्यापि च वक्षसि ।।
कंठे च शकुनेर्दीप्तं भगदत्तस्य चापतत् ।। ४१ ।।
कृष्णस्य पादतल लके कंठे द्रुपदमत्स्ययोः ।।
शिखंडिनस्तथा कट्यां कंठे सेनापतेस्तथा ।। ४२ ।।
पपात रक्तं तद्भस्म यत्र येषां च मर्म च ।।
केवलं चैव पांडूनां कृपद्रोण्योश्च नास्पृशत ।। ४३ ।।
इति कृत्वा ततो भूयो बर्बरीकोऽभ्यभाषत ।।
दृष्टं भवद्भिरेवं यन्मया मर्म निरीक्षितम् ।। ४४ ।।
अधुना पातयिष्यामि मर्मस्वेषां शिताञ्छरान् ।।
देवीदत्तानमोघाख्यान्यैर्मरिष्यंत्यमी क्षणात् ।। ४५ ।।
शपथा वः स्वधर्मस्य शस्त्रं ग्राह्यं न वः क्वचित् ।।
मुहूर्तात्पातयिष्यामि शत्रूनेताञ्छितैः शरैः ।। ४६ ।।
ततो विस्मितचित्तानां युधिष्ठिरपुरोगिणाम् ।।
आसीन्निनादः सुमहान्साधुसाध्विति शंस ताम् ।। ४७ ।।
वासुदेवश्च संक्रुद्धश्चक्रेण निशितेन च ।।
एवं ब्रुवत एवास्य शिरश्छित्त्वा न्यपातयत् ।। ४८ ।।
ततः क्षणात्सर्वमासीदाविग्रं राजमं डलम् ।।
व्यलोकयन्केशवं ते विस्मिताश्चाभवन्भृशम् ।। ४९ ।।
किमेतदिति प्राहुश्च बर्बरीकः कुतो हतः।।
पांडवाश्चापि मुमुचुरश्रूणि सहपार्थिवाः ।। 1.2.66.५० ।।
हाहा पुत्रेति च गृणन्प्रस्खलंश्च पदेपदे ।।
घटोत्कचोऽपतद्दीनः पुत्रोपरि विमूर्छितः ।। ५१ ।।
एतस्मिन्नंतरे देव्यश्चतुर्दश समाययुः ।। ५२ ।।
सिद्धांबिका क्रोडमाता कपाली तारा सुवर्णा च त्रिलोकजेत्री ।।
भाणेश्वरी चर्चिका चैकवीरा योगेश्वरी चंडिका त्रैपुरा च ।।५३।।
भूतांबिका हरसिद्धिस्तथामूः संप्राप्य तस्थुर्नृपविस्मयंकराः ।।
श्रीचंडिकाऽऽश्वास्य ततौ घटोत्कचं प्रोवाच वाक्यं महता स्वरेण ।। ५४ ।।
शृणुध्वं पार्थिवाः सर्वे कृष्णेन विदितात्मना ।।
हेतुना येन निहतो बर्बरीको महाबलः ।। ५५ ।।
मेरुमूर्ध्नि पुरा पृथ्वी समवेतान्दिवौकसः ।।
भाराक्रांता जगादैतान्भारोऽप ह्रियतां हि मे ।। ५६ ।।
ततो ब्रह्मा प्राह विष्णुं भगवंस्त्वमिदं शृणु ।।
देवास्त्वानुगमिष्यंति भारं हर भुवः प्रभो ।। ५७ ।।
ततस्तथेति तन्मेने वचनं विष्णुरव्ययः ।।
एतस्मिन्नंतरे बाहुमुद्धृत्योच्चैरभाषत ।। ५८ ।।
सूर्यवर्चेति यक्षेंद्रश्चतुराशीतिकोटिपः ।।
किमर्थं मानुषे लोके भवद्भिर्जन्म कार्यते ।। ५९ ।।
मयि तिष्ठति दोषाणामनेकानां महास्पदे ।।
सर्वे भवंतो मोदंतु स्वर्गेषु सह विष्णुना ।। 1.2.66.६० ।।
अहमेकोऽवतीर्यैतान्हनिष्यामि भुवो भरान् ।।
स्वधर्मशपथा वो वै संति चेज्जन्म प्राप्स्यथ ।। ६१ ।।
इत्युक्तवचने ब्रह्मा क्रुद्धस्तं समभाषत ।।
दुर्मते सर्वदेवानामविषह्यं महाभरम् ।।६२।।
स्वसाध्यं ब्रूषे मोहात्त्वं शापयोग्योऽसि बालिश ।।
देशकालोचितं स्वीयं परस्य च बलं हृदा ।। ६३ ।।
अविचार्यैव प्रभुषु वक्ति सोऽर्हति दंडनम् ।।
तस्माद्भूभारहरणे युद्धस्योपक्रमे सति ।। ६४ ।।
शरीरनाशं कृष्णात्त्वमवाप्स्यसि न संशयः ।।
एवं शप्तो ब्रह्मणाऽसौ विष्णुमेतदयाचत ।। ६५ ।।
यद्येवं भविता नाशस्तदेकं देव प्रार्थये ।।
जन्मप्रभृति मे देहि मतिं सर्वार्थसाधनीम् ।। ६६ ।।
ततस्तथेति तं प्राह केशवो देवसंसदि ।।
शिरस्ते पूजयिष्यंति देव्याः पूज्यो भविष्यसि ।। ६७ ।।
इत्युक्त्वा चावतीर्णोऽसौ सह देवैर्हरिस्तदा ।।
हरिर्नाम स कृष्णोऽसौ भवंतस्ते तथा सुराः ।। ६८ ।।
सूर्यवर्चाः स चायं हि निहतो भैमिपुत्रकः ।।
प्राक्छापं ब्रह्मणः स्मृत्वा हतोनेन महात्मना ।।
तस्माद्दोषो न कृष्णेऽस्मिन्द्रष्टव्यः सर्वभू मिपैः ।।६९।।
।। श्रीकृष्ण उवाच ।। ।।
यदुक्तं भूमिपा देव्या तत्तथैव न संशयः ।। 1.2.66.७० ।।
यद्येनमधुना नैव हन्यां ब्रह्मवचोऽन्यथा ।।
ततो भवेदिति स्मृत्वा मयासौ विनिपातितः ।। ७१ ।।
गुप्तक्षेत्रे मयैवाऽसौ नियुक्तो देव्यनुस्मृतौ ।।
पूर्वं दत्तं वरं स्वीयं स्मरता देवसंसदि ।।७२ ।।
इत्युक्ते चंडिका देवी तदा भक्तशिरस्त्विदम् ।।
अभ्युक्ष्य सुधया शीघ्रमजरं चामरं व्यधात् ।। ७३ ।।
यथा राहुशिरस्तद्वत्तच्छिरः प्रणनाम तान् ।।
उवाच च दिदृक्षामि युद्धं तदनुमन्यताम् ।। ७४ ।।
ततः कृष्णो वचः प्राह मेघगंभीरवाक्प्रभुः ।।
यावन्मही सनक्षत्रा यावच्चंद्रदिवाकरौ ।। ७५ ।।
तावत्त्वं सर्वलोकानां वत्स पूज्यो भविष्यसि ।।
देवीलोकेषु सर्वेषु देवीवद्विचरिष्यसि ।।७६।।
स्वभक्तानां च लोकेषु देवीनां दास्यसे स्थितिम् ।।
बालानां ये भविष्यंति वातपित्तकफोद्भवाः ।।
पिटकास्ताः सुखेनैव शामयिष्यसि पूजनात् ।। ७७ ।।
इदं च शृंगमारुह्य पश्य युद्धं यथा भवेत् ।। ७८ ।।
धावंतः कौरवास्त्वस्मान्वयं यामस्त्वमूनिति ।।
इत्युक्ते वासुदेवेन देव्योऽथांबरमाविशन् ।। ७९ ।।
बर्बरीकशिरश्चैव गिरिशृंगमवाप्य तत् ।।
देहस्य भूमिसंस्काराश्चाभवच्छिरसो नहि ।।
ततो युद्धं महदभूत्कुरुपांडवसेनयोः ।।1.2.66.८०।।
अष्टादशाहेन हता ये च द्रोणवृषादयः ।।
दुर्योधने हते क्रूरे अष्टादशदिनात्यये ।। ८१ ।।
युधिष्ठिरो ज्ञातिमध्ये गोविंदं समभाषत ।।
पुरुषोत्तम संग्रामममुं संतारिता वयम् ।। ८२ ।।
त्वयैव नाथेन हरे नमस्ते पुरुषोत्तम ।।
श्रुत्वा तस्यापि सासूयमिदं भीमो वचोऽब्रवीत् ।। ८३ ।।
येन ध्वस्ता धार्तराष्ट्रास्तं निराकृत्य मां नृप ।।
पुरुषोत्तमं कृष्णमिति ब्रवीषि किमु मूढवत् ।। ८४ ।।
धृष्टद्युम्नं फाल्गुनं च सात्यकिं मां च पांडव ।।
निराकृत्य ब्रवीष्येव सूतं धिक्त्वा युधिष्ठिर ।। ८५ ।।
।। अर्जुन उवाच ।। ।।
मैवं मैवं ब्रूहि भीम न त्वं वेत्सि जनार्दनम् ।।
न मया न त्वया पार्थ नान्येनाप्यरयो हताः ।। ८६ ।।
अहं हि सर्वदाग्रस्थं नरं पश्यामि संयुगे ।।
निघ्नंतं शात्रवांस्तत्र न जाने कोऽप्यसाविति ।। ८७ ।।
।। भीम उवाच ।। ।।
विभ्रांतोऽसि ध्रुवं पार्थ नात्र हंता नरोऽपरः ।।
अथ चेदस्ति त्वत्पौत्रमुच्चस्थं वच्मि हंत कः ।। ८८ ।।
उपसृत्य ततो भीमो बर्बरीकमपृच्छत ।।
ब्रूह्येते केन निहता धार्तराष्ट्रा हि शत्रवः ।। ८९ ।।
।। बर्बरीक उवाच ।। ।।
एको मया पुमान्दृष्टो युध्यमानः परैः सह ।।
सव्यतः पंचवक्त्रः स दक्षिणे चैकवक्त्रतः ।। 1.2.66.९० ।।
सव्यतो दशहस्तश्च धृतशूलाद्युदायुधः ।।
दक्षिणे च चतुर्हस्तो धृतचक्राद्युदायुधः ।। ९१ ।।
सव्यतश्च जटाधारी दक्षिणे मुकुटोच्चयः ।।
सव्यतो भस्मधारी च दक्षिणे धृतचंदनः ।। ९२ ।।
सव्यतश्चंद्रधारी च दक्षिणे कौस्तुभद्युतिः ।।
ममापि तद्दर्शनतो महद्भयमजायत ।। ९३ ।।
ईदृशो मे नरो दृष्टो न चान्यो यो जघान तान् ।।
इत्युक्ते पुष्पवर्षं तु खादासीत्सुमहाप्रभम् ।। ९४ ।।
सस्वनुर्देववाद्यानि साधुसाध्विति वै जगुः ।।
विस्मिताः पांडवाश्चासन्प्रणेमुः पुरुषोत्तमम् ।। ९५ ।।
विलक्षश्चाभवद्भीमो निश्वासांश्चाप्यमुंचत ।।
तं ततः केशवः स्वामी समादाय करे दृढे ।। ९६ ।।
कुरुशार्दूल एहीति प्रोच्य सस्मार काश्यपिम् ।।
आरुह्य गरुडं पश्चात्स्मृतमात्रमुपस्थितम् ।। ९७ ।।
भीमेन सहितो व्योम्नि प्रयातो दक्षिणां दिशम् ।।
ततोऽर्णवमतीत्यैव सुवेलं च महागिरिम् ।। ९८ ।।
लंकासमीपे दृष्ट्वैव सरः कृष्णोऽब्रवीद्वचः ।।
कुरुशार्दूल पश्येदं सरो द्वादशयोजनम् ।। ९९ ।।
यदि शूरोऽसि तच्छीघ्रमानयास्यतलान्मृदम् ।।
इत्युक्तो गरुडाच्छीघ्रं न्यपतत्तज्जले बली ।। 1.2.66.१०० ।।
योजनं वायुजवाद्गच्छन्नधो नांतमपश्यत ।।
ततो भीमो विनिःसृत्य भग्नवीर्योऽभ्यभाषत ।। १०१ ।।
अगाधमेतत्सुमहत्सरः कैश्चिन्महाबलैः ।।
अहं खादितुमारब्धः कथंचिच्चापि निर्गतः ।।१०२।।।
एवमुक्तो हसन्कृष्ण उच्चिक्षेप महत्सरः ।।
स्वेनांगुष्ठेन तेजस्वी तदर्धार्धमजायत ।।१०३।।
तदृष्ट्वा विस्मितः प्राह किमिदं कृष्ण ब्रूहि मे ।। १०४ ।।
।। श्रीकृष्ण उवाच।।
कुम्भकर्ण इति ख्यातः पूर्वमासीन्निशाचरः ।।
रामबाणहतस्याभूच्छिरश्छिन्नं सुदुर्मतेः ।। १०५ ।।
शिरसस्तस्य तालुक्यखंडमेतद्वृकोदर ।।
योजनद्वादशायामं मृदु क्षिप्तं विचूर्णितम् ।। १०६ ।।
विधृतस्त्वं च यैस्ते तु सरोगेयाभिधाः सुराः ।।
त्रिकूटस्य शिला भिश्च चूर्णिता ये च कोटिशः ।। १०७ ।।
एते हि विश्वरिपवो निहताः स्युरुपायतः ।।
गच्छामः पांडवान्भीम द्रौणिर्हि त्वरते दृढम् ।। १०८ ।।
ततो भीमः प्रणम्याह मनोवाक्कायवृद्धिभिः ।।
कृतमाजन्मतः सव कुकृतं क्षम केशव ।। १०९ ।।
पुरुषोत्तम भवान्नाथ बालिशस्य प्रसीद मे ।।
ततः क्षांतमिति प्रोच्य भीमेन सहितो हरिः ।। 1.2.66.११० ।।
रणाजिरं भूय एत्य बर्बरीकं वचोऽब्रवीत् ।।
चरन्नेवं सुहृदय सर्वलोकेषु नित्यशः ।। १११ ।।
पूजितः सर्वलोकैस्त्वं यच्छंस्तेषां वरान्वृतान् ।।
गुप्तक्षेत्रं च न त्याज्यं सर्वक्षेत्रोत्तमोत्तमम् ।। ११२ ।।
देहिस्थल्यां तथा वासी क्षमस्व दुष्कृतं च यत् ।।
इत्युक्तस्तान्नमत्कृत्य भैमिः स्वैरं ययौ मुदा ।। ११३ ।।
वासुदेवोऽपि कार्याणि सर्वाण्यूर्ध्वमकारयत् ।।
इति वो वर्णितोत्पत्तिर्बर्बरीकस्य वाडवाः ।।
स्तवं चास्य प्रवक्ष्यामि येन तुष्यति यक्षराट् ।। ११४ ।।
जयजय चतुरशीतिकोटिपरिवार सूर्यवर्चाभिधान यक्षराज जय भूभारहरणप्रवृत्त लघुशापप्राप्तनैर्ऋतियोनिसंभव जय कामकटंकटाकुक्षिराजहंस जय घटोत्कचानंदवर्धन बर्बरीकाभिधान जय कृष्णोपदिष्टश्रीगुप्तक्षेत्रदे वीसमाराधनप्राप्तातुलवीर्य जय विजयसिद्धिदायक जय पिंगलारेपलेन्द्रदुहद्रुहानवकोटीश्वर पलाशनदावानल जय भूपातालांतराले नागकन्यापरि हारक जय भीममानमर्दन जय सकलकौरवसेनावधमुहूर्तप्रवृत्त जय श्रीकृष्णवरलब्धसर्ववरप्रदानसामर्थ्य जयजय कलिकालवंदितनमोनमस्ते पा हिपाहीति ।। ११५ ।।
अनेन यः सुहृदयं श्रावणेऽभ्यर्च्य दर्शके ।।
वैशाखे च त्रयोदश्यां कृष्णपक्षे द्विजोत्तमाः ।।
शतदीपैः पूरिकाभिः संस्तवेत्तस्य तुष्यति ।। ११६ ।।
ततो विप्रा नारदश्च समाराध्य महेश्वरम् ।।
महीनगरके पुण्ये स्थापयामास शंकरम् ।। ११७ ।।
लोकानां च हितार्थाय केदारं लिङ्गमुत्तमम् ।।
अत्रीशादुत्तरे भागे महापापप्रणाशनम् ।। ११८ ।।
अत्र कुण्डे नरः स्नात्वा श्राद्धं कृत्वा यथाविधि ।।
अत्रीशं च नमस्कृत्य केदारं च प्रपश्यति ।। ११९ ।।
मातुः स्तन्यं पुनर्नैव स पिबेन्मुक्तिभाग्भवेत् ।।
ततो रुद्रो नीलकण्ठो नारदाय महात्मने ।। 1.2.66.१२० ।।
वरं दत्त्वा स्वयं तस्थौ महीनगरके शुभे ।।
कोटितीर्थे नरः स्नात्वा नीलकण्ठं प्रपश्यति ।। १२१ ।।
जयादित्यं नमस्कृत्य रुद्रलोकमवाप्नुयात् ।।
जयादित्यं पूजयंति कूपे स्नात्वा नरोत्तमाः ।। १२२ ।।
न तेषां वंशनाशोऽस्ति जयादित्यप्रसादतः ।।
तेषां कुले न रोगः स्यान्न दारिद्र्यं न लाञ्छनम् ।। १२३ ।।
पुत्रपौत्रसमायुक्ता धनधान्यसमायुताः ।।
भुक्त्वा भोगानिह बहून्सूर्यलोके वसन्ति ते ।। १२४ ।।
इति प्रोक्तं मया विप्रा गुप्तक्षेत्रं समासतः ।।
सप्तक्रोशप्रमाणं च क्षेत्रस्यास्य पुरा द्विजाः ।।
स्वयंभुवा प्रोक्तमिदं सर्वकामार्थसिद्धिदम् ।। १२५ ।।
इति वो वर्णितः पुण्यो महीसागरसम्भवः ।।
शृण्वन्संकीर्तयंश्चैव सर्वपापैः प्रमुच्यते ।। १२६ ।।
य इदं श्रावयेद्विद्वान्महामाहात्म्यमुत्तमम् ।।
सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति ।। १२७ ।।
गुप्तक्षेत्रस्य माहात्म्यं सकलं श्रावयेद्यदि ।।
सर्वैश्वर्यमवाप्नोति ब्रह्महत्यां व्यपोहति ।। १२८ ।।
कोटितीर्थस्य माहात्म्यं महीनगरकस्य च ।।
शृणोति श्रावयेद्यस्तु ब्रह्मभूयाय कल्पते ।। १२९ ।।
कोटितीर्थे नरः स्नात्वा श्राद्धं कृत्वा प्रयत्नतः ।।
दानं दद्याद्यथाशक्त्या शृणुध्वं तत्फलं हि मे ।। 1.2.66.१३० ।।
स्वर्गपातालमर्त्येषु यानि तीर्थानि सन्ति वै ।।
तेषु दानेषु यत्पुण्यं तत्फलं प्राप्यते नरैः ।। १३१ ।।
अश्वमेधादिभिर्यज्ञैरिष्टैश्चैवाप्तदक्षिणैः ।।
सर्वव्रततपोभिश्च कृतैर्यत्पुण्यमाप्यते ।। १३२ ।।
तत्पुण्यं प्राप्यते विप्राः कोटितीर्थे न संशयः ।। १३३ ।।
इदं पवित्रं खलु पुण्यदं सदा यशस्करं पापहरं परात्परम् ।।
शृणोति भक्त्या पुरुषः स पुण्यभागसुक्षये रुद्रसलोकतां व्रजेत्।। १३४ ।।
धन्यं यशस्यं नियतं सुपुण्यं स्वर्मोक्षदं पापहरं नराणाम् ।।
शृणोति नित्यं नियतः शुचिः पुमान्भित्त्वा रविं विष्णु पदं प्रयाति ।। १३५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे गुप्तक्षेत्रमाहात्म्यपरि समाप्तिवर्णनंनाम त्रिषष्टितमोऽध्यायः ।।६३।। ।।
अत ऊर्ध्वं कापिलस्थानोपाख्यानं भविष्यति ।।?।।
इति श्रीस्कन्दपुराणीयप्रथममाहेश्वरखण्डान्तर्गतो द्वितीयः कौमारिकाखण्डः समाप्तः ।।
खण्डः २ (वैष्णवखण्डः) · अयोध्यामाहात्म्यम् — Adhyāya 1
।। अयोध्यामाहात्म्यं प्रारभ्यते ।। ।।
जयति पराशरसूनुः सत्यवतीहृदयनंदनो व्यासः ।।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति ।। १ ।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ।। २ ।।
।। व्यास उवाच ।। ।।
हिमवद्वासिनः सर्वे मुनयो वेदपारगाः ।।
त्रिकालज्ञा महात्मानो नैमिषारण्यवासिनः ।। ३ ।।
येऽर्बुदारण्यनिरता दण्डकारण्यवासिनः ।।
महेन्द्राद्रिरता ये वै ये च विन्ध्यनिवासिनः ।। ४ ।।
जंबूवनरता ये च ये गोदावरिवासिनः ।।
वाराणसीश्रिता ये च मथुरावासिनस्तथा ।। ५ ।।
उज्जयिन्यां रता ये च प्रथमाश्रमवासिनः ।।
द्वारावतीश्रिता ये च बदर्य्याश्रयिणस्तथा।। ६ ।।
मायापुरीश्रिता ये च ये च कान्तीनिवासिनः ।।
एते चान्ये च मुनयः सशिष्या बहवोऽमलाः ।। ७ ।।
कुरुक्षेत्रे महाक्षेत्रे सत्रे द्वादशवार्षिके ।।
वर्तमाने च रामस्य क्षितीशस्य महात्मनः ।।
समागताः समाहूताः सर्वे ते मुनयोऽमलाः ।। ८ ।।
सर्वे ते शुद्धमनसो वेदवेदांगपारगाः ।।
तत्र स्नात्वा यथान्यायं कृत्वा कर्म जपादिकम् ।। ९ ।।
भारद्वाजं पुरस्कृत्य वेदवेदांगपारगम् ।।
आसनेषु विचित्रेषु बृष्यादिषु ह्यनुक्रमात् ।। 2.8.1.१० ।।
उपविष्टाः कथाश्चक्रुर्नानातीर्थाश्रितास्तदा ।।
कर्मांतरेषु सत्रस्य सुखासीनाः परस्परम् ।। ११ ।।
कथांतेषु ततस्तेषां मुनीनां भावितात्मनाम् ।।
आजगाम महातेजास्तत्र सूतो महामतिः ।। १२ ।।
व्यासशिष्यः पुराणज्ञो समः हर्षणसंज्ञकः ।।
तान्प्रणम्य यथान्यायं मुनीनुपविवेश सः ।।
उपविष्टो यथान्यायं मुनीनां वचनेन सः ।। १३ ।।
व्यासशिष्यं मुनिवरं सूतं वै रोमहर्षणम् ।।
तं पप्रच्छुर्मुनिवरा भारद्वाजादयोऽमलाः ।। १४ ।।
।। ऋषय ऊचुः ।। ।।
त्वत्तः श्रुता महाभाग नानातीर्थाश्रिताः कथाः ।।
सरहस्यानि सर्वाणि पुराणानि महामते ।। १५ ।।
सांप्रतं श्रोतुमिच्छामः सरहस्यं सनातनम् ।।
अयोध्याया महापुर्या महिमानं गुणोज्ज्वलम् ।। १६ ।।
कीदृशी सा सदा मेध्याऽयोध्या विष्णुप्रियापुरी ।।
आद्या सा गीयते वेदे पुरीणां मुक्तिदायिका ।। १७ ।।
संस्थानं कीदृशं तस्यास्तस्यां के च महीभुजः ।।
कानि तीर्थानि पुण्यानि माहात्म्यं तेषु कीदृशम् ।। १८ ।।
अयोध्यासेवनान्नृणां फलं स्यात्सूत कीदृशम् ।।
किं चरित्रं सूत तस्याः का नद्यः के च संगमाः ।।१९।।
तत्र स्नानेन किं पुण्यं दानेन च महामते ।।
तत्सर्वं श्रोतुमिच्छामस्त्वत्तः सूत गुणाधिक।। 2.8.1.२० ।।
एतत्सर्वं क्रमेणैव तथ्यं त्वं वेत्थ सांप्रतम्।।
अयोध्याया महापुर्य्या माहात्म्यं वक्तुमर्हसि ।। २१ ।।
।। सूत उवाच ।। ।।
व्यासप्रसादाज्जानामि पुराणानि तपोधनाः ।।
सेतिहासानि सर्वाणि सरहस्यानि तत्त्वतः ।। २२ ।।
तं प्रणम्य प्रवक्ष्यामि माहात्म्यं भवदग्रतः ।।
अयोध्याया महापुर्या यथावत्सरहस्यकम् ।। २३ ।।
विद्यावन्तं विपुलमतिदं वेदवेदांगवेद्यं श्रेष्ठं शान्तं शमितविषयं शुद्धतेजोविशालम् ।।
वेदव्यासं सततविनतं विश्ववेद्यैकयोनिं पाराशर्य्यं परमपुरुषं सर्वदाऽहं नमामि ।।२४।।
ॐ नमो भगवते तस्मै व्यासायामिततेजसे ।।
यस्य प्रसादाज्जानामि ह्ययोध्यामहिमामहम् ।।२५।।
शृण्वन्तु मुनयः सर्वे सावधानाः सशिष्यकाः ।।
माहात्म्यं कथयिष्यामि अयोध्याया महोदयम् ।। २६ ।।
उदीरितमगस्त्याय स्कन्देनाश्रावि नारदात् ।।
अगस्त्येन पुरा प्रोक्तं कृष्णद्वैपायनाय तत् ।।२७।।
कृष्णद्वैपायनाच्चैतन्मया प्राप्तं तपोधनाः ।।
तदहं वच्मि युष्मभ्यं श्रोतुकामेभ्य आदरात् ।। २८ ।।
नमामि परमात्मानं रामं राजीवलोचनम्।।
अतसीकुसुमश्यामं रावणांतकमव्ययम् ।।२९।।
अयोध्या सा परा मेध्या पुरी दुष्कृतिदुर्ल्लभा ।।
कस्य सेव्या च नाऽयोध्या यस्यां साक्षाद्धरिः स्वयम् ।। 2.8.1.३० ।।
सरयूतीरमासाद्य दिव्या परमशोभना ।।
अमरावतीनिभा प्रायः श्रिता बहुतपोधनैः ।।३१।।
हस्त्यश्वरथपत्त्याढ्या संपदुच्चा च संस्थिता ।।
प्राकाराढ्यप्रतोलीभिस्तोरणैः कांचनप्रभैः ।। ३२ ।।
सानूपवेषैः सर्वत्र सुविभक्तचतुष्टया ।।
अनेकभूमिप्रासादा बहुभित्तिसुविक्रिया ।।३३।।
पद्मोत्फुल्लशुभोदाभिर्वापीभिरुपशोभिता।।
देवतायतनैर्दिव्यैर्वेदघोषैश्च मण्डिता ।।३४ ।।
वीणावेणुमृदंगादिशब्दैरुत्कृष्टतां गता।
शालैस्तालैर्नालिकेरैः पनसामलकैस्तथा।। ३५।।
तथैवाम्रकपित्थाद्यैरशोकैरुपशोभिता ।।
आरामैर्विविधैर्युक्ता सर्वर्तुफलपादपैः।। ३६ ।।
मालतीजातिबकुलपाटलीनागचंपकैः ।।
करवीरैः कर्णिकारैः केतकीभिरलंकृता ।। ३७ ।।
निम्बजंवीरकदलीमातुलिंगमहाफलैः ।।
लसच्चंदनगंधाढ्यैर्नागरैरुपशोभिता ।।३८।।
देवतुल्यप्रभायुक्तैर्नृपपुत्रैश्च संयुता ।।
सुरूपाभिर्वरस्त्रीभिर्देवस्त्रीभिरिवावृता।। ३९।।
श्रेष्ठैः सत्कविभिर्युक्ता बृहस्पतिसमैर्द्विजैः।।
वणिग्जनैस्तथा पौरैः कल्पवृक्षैरिवावृता।। 2.8.1.४०।।
अश्वैरुच्चैःश्रवस्तुल्यैर्दंतिभिर्दिग्गजैरिव।।
इति नानाविधैर्भावैरुपेतेन्द्रपुरी समा।।४१ ।।
यस्यां जाता महीपालाः सूर्यवंशसमुद्भवाः।।
इक्ष्वाकुप्रमुखाः सर्वे प्रजापालनतत्पराः।। ४२।।
यस्यास्तीरे पुण्यतोया कूजद्भृंगविहंगमा ।।
सरयूर्नाम तटिनी मानसप्रभवोल्लसा ।।४३।।
धर्मद्रवपरीता सा घर्घरोत्तमसंगमा ।।
मुनीश्वराश्रिततटा जागर्ति जगदुच्छ्रिता ।। ४४ ।।
दक्षिणाच्चरणांगुष्ठान्निःसृता जाह्नवी हरेः ।।
वामांगुष्ठान्मुनिवराः सरयूर्निर्गता शुभा ।। ४५ ।।
तस्मादिमे पुण्यतमे नद्यौ देवनमस्कृते ।।
एतयोः स्नानमात्रेण ब्रह्महत्यां व्यपोहति ।। ४६ ।।
तामयोध्यामथ प्राप्तोऽगस्त्यः कुम्भोद्भवो मुनिः ।।
यात्रार्थं तीर्थमाहात्म्यं ज्ञात्वा स्कन्दप्रसादतः ।। ।। ४७ ।।
आगत्य तु इतः सोऽपि कृऽत्वा यात्रां क्रमेण च ।।
यथोक्तेन विधानेन स्नात्वा संतर्प्य तान्पितॄन् ।। ४८ ।।
पूजयित्वा यथान्यायं देवताः सकला अपि ।।
सर्वाण्यपि च तीर्थानि नमस्कृत्य यथाविधि ।।४९।।
कृतकृत्योर्ज्जितानन्दस्तीर्थमाहात्म्यदर्शनात् ।।
अभूदगस्त्यो रूपेण पुलकां चितविग्रहः ।। 2.8.1.५० ।।
स त्रिरात्रं स्थितस्तत्र यात्रां कृत्वा यथाविधि ।।
स्तुवन्नयोध्यामाहात्म्यं प्रतस्थे मुनिसत्तमः ।। ५१ ।।
तमायांतं विलोक्याशु बहुलानन्दसुन्दरम् ।।
कृष्णद्वैपायनो व्यासः पप्रच्छानंदकारणम् ।। ५२ ।।
।। व्यास उवाच ।। ।।
कुतः समागतो ब्रह्मन्सांप्रतं मुनिसत्तमः ।।
परमानंदसंदोहः समभूत्सांप्रतं तव ।। ५३ ।।
कस्मादानंदपोषोऽभूत्तव ब्रह्मन्वदस्व मे ।।
ममापि भवदानंदात्प्रमोदो हृदि जायते ।। ५४ ।। ।।
।। अगस्त्य उवाच ।। ।।
अहो महदथाश्चर्य्यं विस्मयो मुनिसत्तम ।।
दृष्ट्वा प्रभावं मेऽद्याभूदयोध्यायास्तपोधन ।। ५५ ।।
तस्मादानंदसंदोहः समभून्मम सांप्रतम् ।।
तच्छ्रुत्वागस्त्यवचनं व्यासः प्रोवाच तं मुनिम् ।। ५६ ।।
।। व्यास उवाच ।। ।।
भगवन्ब्रूहि तत्त्वेन विस्तरात्सरहस्यकम् ।।
अयोध्याया महापुर्या महिमानं गुणाधिकम् ।। ५७ ।।
कः क्रमस्तीर्थयात्रायाः कानि तीर्थानि को विधिः ।।
कि फलं स्नानतस्तत्र दानस्य च महामुने ।।
एतत्सर्वं समाचक्ष्व विस्तराद्वदतां वर ।। ५८ ।।
।। अगस्त्य उवाच ।। ।।
अहो धन्यतमा बुद्धिस्तव जाता तपोधन ।।
दृश्यते येन पृच्छा ते ह्ययोध्यामहिमाश्रिता ।। ५९ ।।
अकारो ब्रह्म च प्रोक्तं यकारो विष्णुरुच्यते ।।
धकारो रुद्ररूपश्च अयोध्यानाम राजते ।। 2.8.1.६० ।।
सर्वोपपातकैर्युक्तैर्ब्रह्महत्यादिपातकैः ।।
नायोध्या शक्यते यस्मात्तामयोध्यां ततो विदुः ।। ६१ ।।
विष्णोराद्या पुरी येयं क्षितिं न स्पृशति द्विज ।।
विष्णोः सुदर्शने चक्रे स्थिता पुण्यकरी क्षितौ ।। ६२ ।।
केन वर्णयितुं शक्यो महिमाऽस्यास्तपोधन ।।
यत्र साक्षात्स्वयं देवो विष्णुर्वसति सादरः ।। ६३ ।।
सहस्रधारामारभ्य योजनं पूर्वतो दिशि ।।
प्रतीचि दिशि तथैव योजनं समतोवधिः ।। ६४ ।।
दक्षिणोत्तरभागे तु सरयूतमसावधिः ।।
एतत्क्षेत्रस्य संस्थानं हरेरन्तर्गृहं स्थितम् ।।
मत्स्याकृतिरियं विप्र पुरी विष्णोरुदीरिता ।। ६५ ।।
पश्चिमे तस्य मूर्द्धा तु गोप्रतारासिता द्विज ।। ६६ ।।
पूर्वतः पृष्ठभागो हि दक्षिणोत्तरमध्यमः ।।
तस्यां पुर्य्यां महाभाग नाम्ना विष्णुर्हरिः स्वयम् ।।
पूर्वंदृष्टप्रभावोऽसौ प्राधान्येन वसत्यपि ।। ६७ ।।
।। व्यास उवाच ।। ।।
भगवन्किं प्रभावोऽसौ योऽयं विष्णुहरिस्त्वया ।।
कीर्तितो मुनिशार्दूल प्रसिद्धिं गतवान्कथम् ।।
एतत्सर्वं समाचक्ष्व विस्तरेण ममाग्रतः ।। ६८ ।।
।। ।। अगस्त्य उवाच ।। ।।
विष्णुशर्मेति विख्यातः पुराभूद्ब्राह्मणोत्तमः ।।
वेदवेदांगतत्त्वज्ञो धर्मकर्मसमाश्रितः ।। ६९ ।।
योगध्यानरतो नित्यं विष्णुभक्तिपरायणः ।।
स कदाचित्तीर्थयात्रां कुर्वन्वैष्णवसत्तमः ।।
अयोध्यामागतो विष्णुर्विष्णुःसाक्षाद्वसेदिति ।। 2.8.1.७० ।।
चिंतयन्मनसा वीरस्तपः कर्तुं समुद्यतः ।।
स वै तत्र तपस्तेपे शाकमूलफलाशनः ।। ७१ ।।
ग्रीष्मे पंचाग्निमध्यस्थो ह्यतपत्स महातपाः ।।
वार्षिके च निरालम्बो हेमन्ते च सरोवरे ।। ७२ ।।
स्नात्वा यथोक्तविधिना कृत्वा विष्णोस्तथार्चनम् ।।
वशीकृत्येन्द्रियग्रामं विशुद्धेनांतरात्मना ।। ७३ ।।
मनो विष्णौ समावेश्य विधाय प्राणसंयमम् ।।
ॐकारोच्चारणाद्धीमान्हृदि पद्मं विकासयन् ।। ७४ ।।
तन्मध्ये रविसोमाग्निमण्डलानि यथाविधि ।।
कल्पयित्वा हरिं मूर्तं यस्मिन्देशे सनातनम् ।। ७५ ।।
पीतांबरधरं विष्णुं शंखचक्रगदाधरम् ।।
तं च पुष्पैः समभ्यर्च्य मनस्तस्मिन्निवेश्य च ।। ७६ ।।
ब्रह्मरूपं हरिं ध्यायञ्जपन्वै द्वादशाक्षरम् ।।
वायुभक्षः स्थितस्तत्र विप्रस्त्रीन्वत्सरान्वसन् ।। ७७ ।।
ततो द्विजवरो ध्यात्वा स्तुतिं चक्रे हरेरिमाम् ।।
प्रणिपत्य जगन्नाथं चराचरगुरुं हरिम् ।।
विष्णुशर्माथ तुष्टाव नारायणमतंद्रितः ।। ७८ ।।
।। विष्णुशर्म्मोवाच ।। ।।
प्रसीद भगवन्विष्णो प्रसीद पुरुषोत्तम ।।
प्रसीद देवदेवेश प्रसीद कमलेक्षण ।। ७९ ।।
जय कृष्ण जयाचिंत्य जय विष्णो जयाव्यय ।।
जय यज्ञपते नाथ जय विष्णो पते विभो ।। 2.8.1.८० ।।
जय पापहरानंत जय जन्मज्वरापह ।।
नमः कमलनाभाय नमः कमलमालिने ।।८१।।
नमः सर्वेश भूतेश नमः कैटभसूदन ।।
नमस्त्रैलोक्यनाथाय जगन्मूल जगत्पते ।। ८२ ।।
नमो देवाधिदेवाय नमो नारायणाय वै ।।
नमः कृष्णाय रामाय नमश्चक्रायुधाय च ।। ८३ ।।
त्वं माता सर्वलोकानां त्वमेव जगतः पिता ।।
भयार्त्तानां सुहृन्मित्रं त्वं पिता त्वं पितामहः ।। ८४ ।।
त्वं हविस्त्वं वषट्कारस्त्वं प्रभुस्त्वं हुताशनः ।।
करणं कारणं कर्त्ता त्वमेव परमेश्वरः ।। ८५ ।।
शंखचक्रगदापाणे मां समुद्धर माधव ।। ८६ ।।
प्रसीद मंदरधर प्रसीद मधुसूदन ।।
प्रसीद कमलाकान्त प्रसीद भुवनाधिप ।। ८७ ।।
।। अगस्त्य उवाच ।। ।।
इत्येवं स्तुवतस्तस्य मनोभक्त्या महात्मनः ।।
आविर्बभूव विश्वात्मा विष्णुर्गरुडवाहनः ।। ८८ ।।
शंखचक्रगदापाणिः पीतांबरधरोऽच्युतः ।।
उवाच स प्रसन्नात्मा विष्णुशर्माणमव्ययः ।। ८९ ।।
।। श्रीभगवानुवाच ।। ।।
तुष्टोऽस्मि भवतो वत्स महता तपसाऽधुना ।।
स्तोत्रेणानेन सुमते नष्टपापोऽसि सांप्रतम् ।।2.8.1.९०।।
वरं वरय विप्रेन्द्र वरदोऽहं तवाग्रतः ।।
नाऽतप्ततपसा द्रष्टुं शक्यः केनाप्यहं द्विज ।। ९१ ।।
।। विष्णुशर्म्मोवाच ।। ।।
कृतकृत्योऽस्मि देवेश सांप्रतं तव दर्शनात् ।।
त्वद्भक्तिमचलामेकां मम देहि जगत्पते ।। ९२ ।।
।। ।। श्रीभगवानुवाच ।। ।।
भक्तिरस्त्वचला मे वै वैष्णवी मुक्तिदायिनी ।।
अत्रैवास्त्वचला मे वै जाह्नवी मुक्तिदायिनी ।। ९३ ।।
इदं स्थानं महाभाग त्वन्नाम्ना ख्यातिमेष्यति ।। ९४ ।।
।। अगस्त्य उवाच ।। ।।
इत्युक्त्वा देवदेवेशश्चक्रेणोत्खाय तत्स्थलम् ।।
जलं प्रकटयामास गांगं पातालमंडलात् ।। ९५ ।।
जलेन तेन भगवान्पवित्रेण दयांबुधिः ।।
नीरजस्तु भूमितलं क्षणाच्चक्रे कृपावशात् ।। ९६ ।।
चक्रतीर्थमिति ख्यातं ततः प्रभृति तद्द्विज ।।
जातं त्रैलोक्यविख्यातमघौघध्वंसकृच्छुभम् ।। ९७ ।।
तत्र स्नानेन दानेन विष्णुलोकं व्रजेन्नरः ।। ९८ ।।
ततः स भगवान्भूयो विष्णुशर्माणमच्युतः ।।
कृपया परया युक्त उवाच द्विजवत्सलः ।। ९९ ।।
।।श्रीभगवानुवाच ।। ।।
त्वन्नामपूर्विका विप्र मन्मूर्तिरिह तिष्ठतु ।।
विष्णुहरीति विख्याता भक्तानां मुक्तिदायिनी ।।2.8.1.१००।।
।। अगस्त्य उवाच ।। ।।
इति श्रुत्वा वचो विप्रो वासुदेवस्य बुद्धिमान्।।
स्वनामपूर्विकां मूर्तिं स्थापयामास चक्रिणः ।।१०१।।
ततः प्रभति विप्रेश शंखचक्रगदाधरः ।।
पीतवासाश्चतुर्बाहुर्नाम्ना विष्णुहरिः स्थितः।।१०२।।
कार्तिके शुक्लपक्षस्य प्रारभ्य दशमी तिथिम् ।।
पूर्णिमामवधिं कृत्वा यात्रा सांवत्सरी भवेत् ।। १०३ ।।
चक्रतीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते ।।
बहुवर्षसहस्राणि स्वर्गलोके महीयते ।। १०४ ।।
पितॄनुद्दिश्य यस्तत्र पिंडान्निर्वापयिष्यति ।।
तृप्तास्तु पितरो यान्ति विष्णुलोकं न संशयः ।। १०५ ।।
चक्रतीर्थे नरः स्नात्वा दृष्ट्वा विष्णुहरिं विभुम् ।।
सर्वपापक्षयं प्राप्य नाकपृष्ठे महीयते ।। १०६ ।।
स्वशक्त्या तत्र दानानि दत्त्वा निष्कल्मषो नरः ।।
विष्णुलोके वसेद्धीमान्यावदिन्द्राश्चतुर्दश ।। १०७ ।।
अन्यदापि नरस्तत्र चक्रतीथे जितेंद्रियः ।।
दृष्ट्वा सकृद्धरिं देवं सर्वपापैः प्रमुच्यते ।। १०८ ।।
इति सकलगुणाब्धिर्ध्येयमूर्तिश्चिदात्मा हरिरिह परमूर्त्या तस्थिवान्मुक्तिहेतोः ।।
तमिह बहुलभक्त्या चक्रतीर्थाभिषेकी वसति सुकृतिमूर्त्तिर्योऽर्चयेद्विष्णुलोके ।। ।। १०९ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखंडेऽयोध्यामाहात्म्ये विष्णुहरिमाहात्म्यवर्णनंनाम प्रथमोऽध्यायः ।। १ ।।
खण्डः २ (वैष्णवखण्डः) · अयोध्यामाहात्म्यम् — Adhyāya 2
।। सूत उवाच ।। ।।
अगस्त्यमुनिरित्युक्त्वा चक्रतीर्थाश्रयां कथाम् ।।
विभोर्विष्णुहरेश्चापि पुनराह द्विजोत्तमाः ।। १ ।।
।। ।। अगस्त्य उवाच ।। ।।
पुरा ब्रह्मा जगत्स्रष्टा विज्ञाय हरिमच्युतम् ।।
अयोध्यावासिनं देवं तत्र चक्रे स्थितिं स्वयम् ।। २ ।।
आगत्य कृतवांस्तत्र यात्रां ब्रह्मा यथाविधि ।।
यज्ञं च विधिवच्चक्रे नानासंभारसंयुतम् ।। ३ ।।
ततः स कृतवांस्तत्र ब्रह्मा लोकपितामहः ।।
कुण्डं स्वनाम्ना विपुलं नानादेवसमन्वितम् ।। ४ ।।
विस्तीर्णजलकल्लोलकलितं कलुषापहम् ।।
कुमुदोत्पलकह्लारपुंडरीककुलाकुलम् ।। ५ ।।
हंससारसचक्राह्व विहंगममनोहरम् ।।
तटांतविटपोल्लासि पतत्त्रिगणसंकुलम् ।। ६ ।।
तत्र कुण्डे सुराः सर्वे स्नाताः शुद्धिसमन्विताः ।।
बभूवुरद्धा विगतरजस्का विमलत्विषः ।। ७ ।।
तदाश्चर्य्यं महद्दृष्ट्वा ते सर्वे सहसा सुराः ।।
ब्रह्माणं प्रणिपत्योचुर्भक्त्या प्रांजलयस्तदा ।। ८ ।।
।। देवा ऊचुः ।। ।।
भगवन्ब्रूहि तत्त्वेन माहात्म्यं कमलासन ।।
अस्य कुण्डस्य सकलं खातस्य विमलत्विषः ।। ९ ।।
अत्र स्नानेन सर्वेषामस्माकं विगतं रजः ।।
महदाश्चर्यमेतस्य दृष्ट्वा कुंडस्य विस्मिताः ।।
सर्वे वयं सुरश्रेष्ठ कृपया त्वमतो वद ।। 2.8.2.१० ।।
।। ब्रह्मोवाच ।। ।।
शृण्वन्तु सर्वे त्रिदशाः सावधानाः सविस्मयाः ।।
कुण्डस्यैतस्य माहात्म्यं नानाफलसमन्वितम् ।। ११ ।।
अत्र स्नानेन विधिवत्पापात्मानोऽपि जंतवः ।।
विमानं हंससंयुक्तमास्थाय रुचिरांबराः ।।
निवसंति ब्रह्मलोके यावदाभूतसंप्लवम् ।। १२ ।।
अत्र दानेन होमेन यथाशक्त्या सुरोत्तमाः ।।
तुलाश्वमेधयोः पुण्यं प्राप्नुयुर्मुनिसत्तम ।। १३ ।।
ममास्मिन्सरसि श्रीमाञ्जायते स्नानतो नरः ।।
तस्मादत्र विधानेन स्नानं दानं जपादिकम् ।। १४ ।।
सर्वयज्ञसमं स्याद्वै महापातकनाशनम्।।
ब्रह्मकुण्डमिति ख्यातिमितो यास्यत्यनुत्तमाम्।।१५।।
अस्मिन्कुण्डे च सांनिध्यं भविष्यति सदा मम ।।
कार्त्तिके शुक्लपक्षस्य चतुर्दश्यां सुरोत्तमाः ।। १६ ।।
यात्रा भविष्यति सदा सुराः सांवत्सरी मम ।।
शुभप्रदा महापापराशिनाशकरी तदा ।। १७ ।।
स्वर्णं चैव सदा देयं वासांसि विविधानि च ।।
निजशक्त्या प्रकर्तव्या सुरास्तृप्तिर्द्विजन्मनाम्।।१८।।
।। अगस्त्य उवाच ।। ।।
इत्युक्त्वा देवदेवोऽयं ब्रह्मा लोकपितामहः ।।
अन्तर्दधे सुरैः सार्द्धं तीर्थं दृष्ट्वा तपोधन ।। १९ ।।
तदाप्रभृति तत्कुण्डं विख्यातं परमं भुवि ।।
चक्रतीर्थाच्च पूर्वस्यां दिशि कुण्डं स्थितं महत् ।। 2.8.2.२० ।।
।। ।। सूत उवाच ।। ।।
इत्युक्त्वा स तपोराशिरगस्त्यः कुंभसंभवः ।।
पुनः पृष्टो मुनिवरो व्यासायावीवदत्कथाम् ।। २१ ।।
।। अगस्त्य उवाच ।। ।।
अन्यच्छृणु महाभाग तीर्थं दुष्कृतिदुर्ल्लभम् ।।
ऋणमोचनसंज्ञं तु सरयूतीरसंगतम् ।। २२ ।।
ब्रह्मकुण्डान्मुनिवर धनुःसप्तशतेन च ।।
पूर्वोत्तरदिशाभागे संस्थितं सरयूजले ।। २३ ।।
तत्र पूर्वं मुनिवरो लोमशो नाम नामतः ।।
तीर्थयात्राप्रसंगेन स्नानं चक्रे विधानतः ।। २४ ।।
ततः स ऋणनिर्मुक्तो बभूव गतकल्मषः ।।
तदाश्चर्यं महद्दृष्ट्वा मुनीन्सानन्दमब्रवीत् ।। २५ ।।
पश्यन्त्वेतस्य महतो गुणांस्तीर्थवरस्य वै ।।
भुजावूर्ध्वं तथा कृत्वा हर्षेणाहाऽश्रुलोचनः ।। २६ ।।
।। लोमश उवाच ।। ।।
ऋणमोचनसंज्ञं तु तीर्थमेतदनुत्तमम् ।।
यत्र स्नानेन जंतूनामृणनिर्यातनं भवेत् ।। २७ ।।
ऐहिकं पारलौकिक्यं यदृणत्रितयं नृणाम् ।।
तत्सर्वं स्नानमात्रेण तीर्थेऽस्मिन्नश्यति क्षणात् ।।।। २८ ।।
सर्वतीर्थोत्तमं चैतत्सद्यः प्रत्ययकारकम् ।।
मया चास्य फलं सम्यगनुभूतमृणादिह ।। २९ ।।
तस्मादत्र विधानेन स्नानं दानं च शक्तितः ।।
कर्त्तव्यं श्रद्धया युक्तैः सर्वदा फलकांक्षिभिः ।। 2.8.2.३० ।।
स्नातव्यं च सुवर्णं च देयं वस्त्रादि शक्तितः ।। ३१ ।।
।। ।। अगस्त्य उवाच ।। ।।
इत्युक्त्वा तीर्थमाहात्म्यं लोमशो मुनिसत्तमः ।।
अन्तर्दधे मुनिश्रेष्ठः स्तुवंस्तीर्थगुणान्मुदा ।। ३२ ।।
इत्येतत्कथितं विप्र ऋणमोचनसंज्ञकम् ।।
यत्र स्नानेन जन्तूनामृणं नश्यति तत्क्षणात् ।।
ऋणमोचनतीर्थं तु पूर्वतः सरयूजले ।। ३३ ।।
धनुर्द्विशत्या तीर्थं च पापमोचनसंज्ञकम्।।
सर्वपापविशुद्धात्मा तत्र स्नानेन मानवः ।।
जायते तत्क्षणादेव नात्र कार्या विचारणा ।। ३४ ।।
मया तत्र मुनिश्रेष्ठ दृष्टं माहात्म्यमुत्तमम् ।। ३५ ।।
पांचालदेशसंभूतो नाम्ना नरहरिर्द्विजः ।।
असत्संगप्रभावेन पापात्मा समजायत ।। ३६ ।।
नाना विधानि पापानि ब्रह्महत्यादिकानि च ।।
कृतवान्पापिसंगेन त्रयीमार्गविनिन्दकः ।। ३७ ।।
स कदाचित्साधुसंगात्तीर्थयात्राप्रसंगतः ।।
अयोध्यामागतो विप्र महापातककृद्द्विजः ।। ३८ ।।
पापमोचनतीर्थे तु स्नातः सत्संगतो द्विजः ।।
पापराशिर्विनष्टोऽस्य निष्पापः समभूत्क्षणात् ।। ३९ ।।
दिवः पपात तन्मूर्ध्नि पुष्पवृष्टिर्मुनीश्वर ।।
दिव्यं विमानमारुह्य विष्णुलोके गतो द्विजः ।। 2.8.2.४० ।।
तद्दृष्ट्वा महदाश्चर्यं मया च द्विजपुंगव ।।
श्रद्धया परया तत्र कृतं स्नानं विशेषतः ।।४१।।
माघकृष्णचतुर्दश्यां तत्र स्नानं विशेषतः ।।
दानं च मनुजैः कार्य्यं सर्वपापविशुद्धये ।।४२।।
अन्यदा(?) तु कृते स्नाने सर्वपापक्षयो भवेत् ।। ४३ ।।
पापमोचनतीर्थे तु पूर्वं तु सरयूजले ।।
धनुःशतप्रमाणेन वर्त्तते तीर्थमुत्तमम् ।। ४४ ।।
सहस्रधारासंज्ञं तु सर्वकिल्बिषनाशनम् ।।
यस्मिन्रामाज्ञया वीरो लक्ष्मणः परवीरहा ।।
प्राणानुत्सृज्य योगेन ययौ शेषात्मतां पुरा ।। ४५ ।।
सार्द्धंहस्तत्रयेणैव प्रमाणं धनुषो विदुः ।।
चतुर्भिर्हस्तकैः संख्या दण्ड इत्यभिधीयते ।। ४६ ।।
।। सूत उवाच ।। ।।
इत्थं तदा समाकर्ण्य कुम्भयोनिमुनेस्तदा ।।
कृष्णद्वैपायनो व्यासः पुनः पप्रच्छ कौतुकात् ।। ४७ ।।
।। व्यास उवाच ।। ।।
सहस्रधारामाहात्म्यं विस्तराद्वद सुव्रत ।।
शृण्वंस्तीर्थस्य माहात्म्यं न तृप्यति मनो मम ।। ४८ ।।
।। अगस्त्य उवाच ।। ।।
सावधानः शृणु मुने कथां कथयतो मम ।।
सहस्रधारातीर्थस्य समुत्पत्तिं महोदयात् ।। ४९ ।।
पुरा रामो रघुपतिर्देवकार्यं विधाय वै ।।
कालेन सह संगम्य मंत्रं चक्रे नरेश्वरः ।। 2.8.2.५० ।।
आवां मन्त्रयमाणौ हि यः पश्येदन्तिकागतः।।४९।।
मया त्याज्यो भवेत्क्षिप्रमित्थं चक्रे स संविदम् ।।५१।।
तस्मिन्मंत्रयमाणे हि द्वारे तिष्ठति लक्ष्मणे ।।
आगतः स तपोराशिर्दुर्वासास्तेजसां निधिः ।। ५२ ।।
आगत्य लक्ष्मणं शीघ्रं प्रीत्योवाच क्षुधाऽऽकुलः।। ५३ ।।
।। दुर्वासा उवाच ।। ।।
सौमित्रे गच्छ शीघ्रं त्वं रामाग्रे मां निवेदय ।।
कार्यार्थिनमिदं वाक्यं नान्यथा कर्तुमर्हसि ।। ५४ ।।
।। अगस्त्य उवाच ।। ।।
शापाद्भीतः स सौमित्रिर्द्रुतं गत्वा तयोः पुरः ।।
मुनिं निवेदयामास रामाग्रे दर्शनार्थिनम् ।।
दुर्वाससं तपोराशिमत्रिनन्दनमागतम् ।। ५५ ।।
रामोऽपि कालमामंत्र्य प्रस्थाप्य च बहिर्ययौ ।।
दृष्ट्वा मुनिं तं प्रणतः संभोज्य प्रभुरादरात् ।। ५६ ।।
दुर्वाससं मुनिवरं प्रस्थाप्य स्वयमादरात् ।।
सत्यभंगभयाद्वीरो लक्ष्मणं त्यक्तवांस्तदा ।। ५७ ।।
लक्ष्मणोऽपि तदा वीरः कुर्वन्नवितथं वचः ।।
भ्रातुर्ज्येष्ठस्य सुमतिः सरयूतीरमाययौ ।। ५८ ।।
तत्र गत्वाथ च स्नात्वा ध्यानमास्थाय सत्वरम् ।।
चिदात्मनि मनः शान्तं संगम्यावस्थितस्तदा ।। ५९ ।।
ततः प्रादुरभूत्तत्र सहस्रफणमण्डितः ।।
शेषश्चक्षुःश्रवाः श्रेष्ठः क्षितिं भित्त्वा सहस्रधा ।।
सुरलोकात्सुरेन्द्रोऽपि समागादमरैः सह ।। 2.8.2.६० ।।
ततः शेषात्मतां यातं लक्ष्मणं सत्यसंगरम् ।।
उवाच मधुरं शक्रः सुराणां तत्र पश्यताम् ।। ६१ ।।
।। ।। इन्द्र उवाच ।। ।।
लक्ष्मणोत्तिष्ठ शीघ्रं त्वमारोह स्वपदं स्वकम् ।।
देवकार्यं कृतं वीर त्वया रिपुनिषूदन ।। ६२ ।।
वैष्णवं परमं स्थानं प्राप्नुहि त्वं सनातनम् ।।
भवन्मूर्तिः समायातः शेषोऽपि विलसत्फणः ।। ६३ ।।
सहस्रधा क्षितिं भित्त्वा सहस्रफणमण्डलैः ।।
क्षितेः सहस्रच्छिद्रेषु यस्माद्भित्त्वा समुद्गताः ।। ६४ ।।
फणसाहस्रमणिभिर्दग्धाः शेषस्य सुव्रत ।।
तस्मादेतन्महातीर्थं सरयूतीरगं शुभम् ।।
ख्यातं सहस्रधारेति भविष्यति न संशयः ।। ६५ ।।
एतत्क्षेत्रप्रमाणं तु धनुषां पञ्चविंशतिः ।।
अत्र स्नानेन दानेन श्राद्धेन श्रद्धयान्वितः ।।
सर्वपापविशुद्धात्मा विष्णुलोकं व्रजेन्नरः ।। ६६ ।।
अत्र स्नातो नरो धीमाञ्छेषं संपूज्य चाव्ययम् ।।
तीर्थं संपूज्य विधिवद्विष्णुलोकमवाप्नुयात् ।। ६७ ।।
तस्मादत्र प्रकर्तव्यं स्नानं विधिपुरःसरम् ।।
शेषरूपाहिवद्ध्येयाः पूज्या विप्रा विशेषतः ।। ६८ ।।
स्वर्णं चान्नं च वासांसि देयानि श्रद्धयान्वितैः ।।
स्नानं दानं हरेः पूजा सर्वमक्षयतां व्रजेत् ।। ६९ ।।
तस्मादेतन्महातीर्थं सर्वकामफलप्रदम् ।।
क्षितौ भविष्यति सदा नात्र कार्या विचारणा ।। 2.8.2.७० ।।
श्रावणे शुद्धपक्षस्य या तिथिः पञ्चमी भवेत् ।।
तस्यामत्र प्रकर्तव्यो नागानुद्दिश्य यत्नतः ।। ७१ ।।
उत्सवो विपुलः सद्भिः शेषपूजापुरःसरम् ।।
उत्सवे तु कृते तत्र तीर्थे महति मानवैः ।। ७२ ।।
सन्तोष्य च द्विजान्भक्त्या नागपूजापुरस्सरम् ।।
सन्तुष्टाः फणिनः सर्वे पीडयन्ति न मानुषान् ।। ७३ ।।
वैशाखमासे ये स्नानं कुर्वंत्यत्र समाहिताः ।।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।। ७४ ।।
तस्मादत्र प्रकर्तव्यं माधवे यत्नतो नरैः ।।
स्नानं दानं हरिः पूज्यो ब्राह्मणाश्च विशेषतः ।।
तीर्थे कृतेऽत्र मनुजैः सर्वकामफलप्रदः ।। ७५ ।।
विष्णुमुद्दिश्य यो दद्यात्सालंकारां पयस्विनीम् ।।
सवत्सामत्र सत्तीर्थे सत्पात्राय द्विजन्मने ।। ७६ ।।
तस्य वासो भवेन्नित्य विष्णुलोके सनातने ।।
अक्षयं स्वर्गमाप्नोति तीर्थ स्नानेन मानवः ।। ७७ ।।
अत्र पूज्यौ विशेषेण नरैः श्रद्धासमन्वितः ।।
वैशाखे मास्यलंकारैर्वस्त्रैश्च द्विजदंपती ।। ७८ ।।
लक्ष्मीनारायणप्रीत्यै लक्ष्मीप्रात्यै विशेषतः ।।
वैशाखे मासि तीर्थानि पृथिवीसंस्थितानि वै ।। ७९ ।।
सर्वाण्यपि च संगत्य स्थास्यंत्यत्र न संशयः ।।
तस्मादत्र विशेषेण वैशाखे स्नानतो नृणाम् ।।
सर्वतीर्थावगाहस्य भविष्यति फलं महत् ।। 2.8.2.८० ।।
।। अगस्त्य उवाच ।। ।।
इत्युक्त्वा मुनिराजेंद्रो लक्ष्मणं सुरसं गतम् ।।
शेषं संस्थाप्य तत्तीर्थे भूभारहरणक्षमम् ।।
लक्ष्मणं यानमारोप्य प्रतस्थे दिवमादरात् ।। ८१ ।।
तदाप्रभृति तत्तीर्थं विख्यातिं परमां ययौ ।।
वैशाखे मासि तीर्थस्य माहात्म्यं परमं स्मृतम् ।। ८२ ।।
पञ्चम्यामपि शुक्लायां श्रावणस्य विशेषतः ।।
अन्यदा पर्वणि श्रेष्ठं विशेषं स्नानमाचरेत् ।।
सहस्रधारातीर्थे च नरः स्वर्गमवाप्नुयात्।। ८३ ।।
विधिवदिह हि धीमान्स्नानदानानि तीर्थे नरवर इह शक्त्या यः करोत्यादरेण ।।
स इह विपुलभोगान्निर्मलात्मा च भक्त्या भजति भुजगशायिश्रीपतेरात्मनैक्यम् ।। ८४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये ब्रह्मकुण्डसहस्रधारातीर्थमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ।। २ ।।
खण्डः २ (वैष्णवखण्डः) · अयोध्यामाहात्म्यम् — Adhyāya 3
।। सूत उवाच ।। ।।
इति श्रुत्वा वचो धीमानादरात्कुंभजन्मनः ।।
प्रोवाच मधुरं वाक्यं कृष्णद्वैपायनो मुनिः ।। १ ।।
।। व्यास उवाच ।। ।।
भगवन्नद्भुतमिदं तीर्थमाहात्म्यमुत्तमम्।।
श्रुत्वा त्वत्तो मम मनः परमानंदमाययौ ।। २ ।।
अन्यत्तीर्थवरं ब्रूहि तत्त्वेन मम शृण्वतः ।।
न तृप्तिरस्ति मनसः शृण्वतो मम सुव्रत ।। ३ ।।
।। ।। अगस्त्य उवाच ।। ।।
शृणु विप्र प्रवक्ष्यामि तीर्थमन्यदनुत्तमम् ।।
स्वर्गद्वारमिति ख्यातं सर्वपापहरं सदा ।। ४ ।।
स्वर्गद्वारस्य माहात्म्यं विस्तराद्वक्तुमीश्वरः ।।
नहि कश्चिदतो वत्स संक्षेपाच्छृणु सुव्रत ।। ५ ।।
सहस्रधारामारभ्य पूर्वतः सरयूजले ।।
षट्त्रिंशदधिका प्रोक्ता धनुषां षट्शती मितिः ।। ६ ।।
स्वर्गद्वारस्य विस्तारः पुराणज्ञैर्विशारदैः ।।
स्वर्गद्वारसमं तीर्थं न भूतं न भविष्यति ।। ७ ।।
सत्यंसत्यं पुनः सत्यं नासत्यं मम भाषितम्।।
स्वर्गद्वारसमं तीर्थं नास्ति ब्रह्माण्डगोलके ।। ८ ।।
हित्वा दिव्यानि भौमानि तीर्थानि सकलान्यपि ।।
प्रातरागत्य तिष्ठन्ति तत्र संश्रित्य सुव्रत ।। ९ ।।
तस्मादत्र प्रकर्तव्यं प्रातः स्नानं विशेषतः ।।
सर्वतीर्थावगाहस्य फलमात्मन ईप्सता ।। 2.8.3.१० ।।
त्यजंति प्राणिनः प्राणान्स्वर्गद्वारांतरे द्विज ।।
प्रयांति परमं स्थानं विष्णोस्ते नात्र संशयः ।। ११ ।।
मुक्तिद्वारमिदं पश्य स्वर्गप्राप्तिकरं नृणाम् ।।
स्वर्गद्वारमिति ख्यातं तस्मात्तीर्थमनुत्तमम् ।। १२ ।।
स्वर्गद्वारं सुदुष्प्राप्यं देवैरपि न संशयः ।।
यद्यत्कामयते तत्र तत्तदाप्नोति मानवः ।। १३ ।।
स्वर्गद्वारे परा सिद्धिः स्वर्गद्वारे परा गतिः ।।
जप्तं दत्तं हुतं दृष्टं तपस्तप्तं कृतं च यत् ।।
ध्यानमध्ययनं सर्वं दानं भवति चाक्षयम् ।। १४ ।।
जन्मांतरसहस्रेण यत्पापं पूर्वसंचितम्।।
स्वर्गद्वारप्रविष्टस्य तत्सर्वं व्रजति क्षयम् ।। १५ ।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वर्णसंकराः।।
कृमिम्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः।१६।।
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः।।
कालेन निधनं प्राप्ताः स्वर्गद्वारे शृणु द्विज ।।१७।।
कौमोदकीकराः सर्वे पक्षिणो गरुडध्वजाः ।।
शुभे विष्णुपुरे विष्णुर्जायते तत्र मानवाः ।। १८ ।।
अकामो वा सकामो वा अपि तीर्थगतोपि वा ।।
स्वर्गद्वारे त्यजन्प्राणान्विष्णुलोके महीयते ।। १९ ।।
मुनयो देवताः सिद्धाः साध्या यक्षा मरुद्गणाः ।।
यज्ञोपवीतमात्रेण विभागं चक्रिरे तु ये ।। 2.8.3.२० ।।
मध्याह्नेऽत्र प्रकुर्वंति सान्निध्यं देवतागणाः ।।
तस्मात्तत्र प्रकुर्वंति मध्याह्ने स्नानमादरात् ।। २१ ।।
कुर्वंत्यनशनं ये तु स्वर्गद्वारे जितेंद्रियाः ।।
प्रयांति परमं स्थानं ये च मासोपवासिनः ।। २२ ।।
अन्नदानरता ते च रत्नदा भूमिदा नराः ।।
गोवस्त्रदाश्च विप्रेभ्यो यांति ते भवनं हरेः ।।२३।।
यत्र सिद्धा महात्मानो मुनयः पितरस्तथा ।।
स्वर्गं प्रयांति ते सर्वे स्वर्गद्वारं ततः स्मृतम् ।। २४ ।।
चतुर्द्धा च तनुं कृत्वा देवदेवो हरिः स्वयम् ।।
अत्र वै रमते नित्यं भ्रातृभिः सह राघवः ।। २५ ।।
ब्रह्मलोकं परित्यज्य चतुर्वक्त्रः सनातनः ।।
अत्रैव रमते नित्यं देवैः सह पितामहः ।। २६ ।।
कैलासनिलयावासी शिवस्तत्रैव संस्थितः ।। २७ ।।
मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः ।।
स्वर्गद्वारं समासाद्य स सर्वो व्रजति क्षयम् ।। २८ ।।
या गतिर्ज्ञानतपसां या गतिर्यज्ञयाजिनाम्।।
स्वर्गद्वारे मृतानां तु सा गतिर्विहिता शुभा ।। २९ ।।
ऋषिदेवासुरगणैर्जपहोमपरायणैः ।।
यतिभिर्मोक्षकामैश्च स्वर्गद्वारो निषेव्यते ।। 2.8.3.३० ।।
षष्टिवर्षसहस्राणि काशीवासेषु यत्फलम् ।।
तत्फलं निमिषार्द्धेन कलौ दाशरथीं पुरीम् ।। ३१ ।।
या गतिर्योगयुक्तानां वाराणस्यां तनुत्यजाम्।।
सा गतिः स्नानमात्रेण सरय्वां हरिवासरे ।। ३२ ।।
स्वर्गद्वारे मृतः कश्चिन्नरकं नैव पश्यति ।।
केशवानुगृहीता हि सर्वे यांति परां गतिम् ।। ३३ ।।
भूलोके चांतरिक्षे च दिवि तीर्थानि यानि वै ।।
अतीत्य वर्तते तानि तीर्थान्येतद्द्विजोत्तम ।। ३४ ।।
विष्णुभक्तिं समासाद्य रमन्ते तु सुनिश्चिताः ।।
संहृत्य शक्तितः कामं विषयेषु हि संस्थितम् ।।३५ ।।
शक्तितः सर्वतो युक्त्वा शक्तिस्तपसि संस्थिता ।।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।। ३६ ।।
हन्यमानोऽपि यो विद्वान्वसेच्छस्त्रशतैरपि ।।
स याति परमं स्थानं यत्र गत्वा न शोचति ।।३७।।
स्वर्गद्वारे वियुज्येत स याति परमां गतिम् ।।
उत्तरं दक्षिणं वापि अयनं न विकल्पयेत् ।। ३८ ।।
सर्वस्तेषां शुभः कालः स्वर्गद्वारं श्रयंति ये ।।
स्नानमात्रेण पापानि विलयं यांति देहिनाम् ।। ३९ ।।
यावत्पापानि देहेन ये कुर्वंति जनाः क्षितौ ।।
अयोध्या परमं स्थानं तेषामीरितमादरात् ।। ।। 2.8.3.४० ।।
ज्येष्ठे मासि सिते पक्षे पंचदश्यां विशेषतः ।।
तस्य सांवत्सरी यात्रा देवैश्चन्द्रहरेः स्मृता ।। ४१ ।।
तस्मिन्नुद्यापनं चन्द्रसहस्रं व्रतयोगिभिः ।।
कार्यं प्रयत्नतो विप्र सर्वयज्ञफलाधिकम्।। ४२ ।।
तस्मिन्कृते महापापक्षयात्स्वर्गो भवेन्नृणाम् ।। ४३।।
।। श्रीव्यास उवाच ।। ।।
भगवन्ब्रूहि तत्त्वेन तस्य चन्द्रहरेः शुभाम्।।
उत्पत्तिं च तथा चंद्रव्रतस्योद्यापने विधिम् ।। ४४ ।।
।। अगस्त्य उवाच ।। ।।
अयोध्यानिलयं विष्णुं नत्वा शीतांशुरुत्सुकः ।।
आगच्छत्तीर्थमाहात्म्यं साक्षात्कर्तुं सुधानिधिः ।।
अत्रागत्य च चन्द्रोऽथ तीर्थयात्रां चकार सः ।। ४५ ।।
क्रमेण विधिपूर्वं च नानाश्चर्यसमन्वितः ।।
समाराध्य ततो विष्णुं तपसा दुश्चरेण वै ।। ४६ ।।
तत्प्रसादं समासाद्य स्वाभिधानपुरस्सरम् ।।
हरिं संस्थापयामास तेन चंद्रहरिः स्मृतः ।। ४७ ।।
वासुदेवप्रसादेन तत्स्थानं जातमद्भुतम् ।।
तद्धि गुह्यतमं स्थानं वासुदेवस्य सुव्रत ।। ४८ ।।
सर्वेषामिव भूतानां भर्तुर्मोक्षस्य सर्वदा ।।
अस्मिन्सिद्धाः सदा विप्र गोविंदव्रतमास्थिताः ।। ४९ ।।
नानालिंगधरा नित्यं विष्णुलोकाभिकांक्षिणः ।।
अभ्यस्यंति परं योगं मुक्तात्मानो जितेंद्रियाः ।।2.8.3.५०।।
यथा धर्ममवाप्नोति अन्यत्र न तथा क्वचित् ।।
दानं व्रतं तथा होमः सर्वमक्षयतां व्रजेत ।।५१।।
सर्वकामफलप्राप्तिर्जायते प्राणिनां सदा ।।
तस्मादत्र विधातव्यं प्राणिभिर्यत्नतः क्रमात् ।।
दानादिकं विप्रपूजा दंपत्योश्च विशेषतः ।। ५२ ।।
सर्वयज्ञाधिकफलं सर्वतीर्थावगाहनम् ।।
सर्वदेवावलोकस्य यत्पुण्यं जायते नृणाम् ।। ५३ ।।
तत्सर्वं जायते पुण्यं प्राणिनामस्य दर्शनात् ।।
तस्मादेतन्महाक्षेत्रं पुराणादिषु गीयते ।। ५४ ।।
उद्यापनविधिश्चात्र नृभिर्द्विजपुरस्सरम् ।।
अग्रे चंद्रहरेश्चन्द्र सहस्रव्रतसंज्ञकः ।। ५५ ।।
गते वर्षद्वये सार्द्धे पंचपक्षे दिनद्वये ।।
दिवसस्याऽष्टमे भागे पतत्येकोऽधिमासकः ।। ५६ ।।
त्र्यधिके वा अशीत्यब्दे चतुर्मासयुते ततः ।।
भवेच्चन्द्रसहस्रं तु तावज्जीवति यो नरः ।।
उद्यापनं प्रकर्त्तव्यं तेन यात्रा प्रयत्नतः ।। ५७ ।।
यत्पुण्यं परमं प्रोक्तं सततं यज्ञयाजिनाम्।।
सत्यवादिषु यत्पुण्यं यत्पुण्यं हेमदायिनि ।।
तत्पुण्यं लभते विप्र सहस्राब्दस्य जीविभिः ।। ५८ ।।
सर्वसौख्यप्रदं तादृक्पुण्यव्रतमिहोच्यते ।। ५९ ।।
चतुर्दश्यां शुचिः स्नात्वा दन्तधावनपूर्वकम् ।।
चरितब्रह्मचर्य्यश्च जितवाक्कायमानसः ।।
पौर्णमास्यां तथा कृत्वा चंद्रपूजां च कारयेत् ।। 2.8.3.६० ।।
पूर्वं च मातरः पूज्या गौर्यादिकक्रमेण च ।।
ऋत्विजः पूजयेद्भक्त्या वृद्धिश्राद्धपुरस्सरम् ।। ६१ ।।
प्रयतैः प्रतिमा कार्या चंद्रमंडलसन्निभा ।।
सहस्रसंख्या ह्यथवा तदर्द्धं वा तदर्द्धकम् ।।
निजवित्तानुमानेन तदर्धेन तदर्द्धिकम् ।। ६२ ।।
ततः श्रद्धानुमानाद्वा कार्या वित्तानुमानतः ।।
अथवा षोडश शुभा विधातव्याः प्रयत्नतः ।। ६३ ।।
चंद्रपूजां ततः कुर्यादागमोक्तविधानतः ।।
माषैः षोडशभिः कार्या प्रत्येकं प्रतिमा शुभा ।। ६४ ।।
सोममंत्रेण होमस्तु कार्यो वित्तानुमानतः ।।
प्रतिमास्थापनं कुर्यात्सोममंत्रमुदीरयेत् ।। ६५ ।।
सोमोत्पत्तिं सोमसूक्तं पाठयेच्च प्रयत्नतः ।।
चंद्रपूजां ततः कुर्यादागमोक्तविधानतः ।। ६६ ।।
चंद्रन्यासं कलान्यासं कारयेन्मंडले जलम् ।।
एकादशेंद्रियन्यासं तथैव विधिपूर्वकम् ।। ६७ ।।
चंद्रबिंबनिभं कार्य्यं मंडलं शुभतंडुलैः।।
मध्ये च कलशः स्थाप्यो गव्येन पयसाप्लुतः ।। ६८ ।।
चतुरस्रेषु संपूर्णान्कलशान्स्थापयेद्बहिः ।।
मंडले चंद्रपूजा च कर्तव्या नामभिः क्रमात् ।। ६९ ।।
हिमांशवे नमश्चैव सोमचंद्राय वै नमः ।। ५४ ।।
चंद्राय विधवे नित्यं नमः कुमुदबंधवे ।। 2.8.3.७० ।।
सुधांशवे च सोमाय ओषधीशाय वै नमः ।।
नमोऽब्जाय मृगांकाय कलानां निधये नमः ।। ७१ ।।
नमो नक्षत्रनाथाय शर्वरीपतये नमः ।।
जैवातृकाय सततं द्विजराजाय वै नमः ।। ७२ ।।
एवं षोडशभिश्चंद्रः स्तोतव्यो नामभिः क्रमात् ।। ७३ ।।
ततो वै प्रयतो दद्याद्विधिवन्मंत्रपूर्वकम् ।।
शंखतोयं समादाय सपुष्पं फलचंदनम् ।। ७४ ।।
नमस्ते मासमासांते जायमान पुनःपुनः ।।
गृहाणार्घ्यं शशांक त्वं रोहिण्या सहितो मम ।।७५।।
एवं संपूज्य विधिवच्छशिनं प्रणतो भवेत् ।।
षोडशान्ये च कलशा दुग्धपूर्णाः सरत्नकाः ।।७६।।
सवस्त्राच्छादनाः शांत्यै दातव्यास्ते द्विजन्मने ।।
अभिषेकं ततः कुर्यात्पायसेन जलेन तु ।। ७७ ।।
ऋत्विजां मनसस्तुष्टिः कार्या वित्तानुमानतः ।।
ब्राह्मणं भोजयेत्तत्र सकुटुंबं विशेषतः ।। ७८ ।।
पूजनीयौ प्रयत्नेन वस्त्रैश्च द्विजदंपती ।।
कर्तव्यं च ततो भूरिदक्षिणादानमुत्तमम् ।। ७९ ।।
प्रतिमाश्च प्रदातव्या द्विजेभ्यो धेनुपूर्विकाः ।।
सुवर्णं रजतं वस्त्रं तथान्नं च विशेषतः ।।
दातव्यं चंद्रसुप्रीत्यै हर्षादेवं द्विजन्मने ।। 2.8.3.८० ।।
उपवासविधानेन दिनशेषं नयेत्सुधीः ।।
अनंतरे च दिवसे कुर्याद्भगवदर्चनम् ।।
बांधवैः सह भुञ्जीत नियमं च विसर्ज्जयेत् ।। ८१ ।।
एवं च कुरुते चंद्रसहस्रं व्रतमुत्तमम् ।।
ब्रह्मघ्नोऽपि सुरापोऽपि स्तेयी च गुरुतल्पगः ।।
व्रतेनानेन शुद्धात्मा चंद्रलोकं व्रजेन्नरः ।। ८२ ।।
यादृशश्च भवेद्विप्र प्रियो नारायणस्य च ।।
एवं करोति नियतं कृतकृत्यो भवेन्नरः ।। ८३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये चन्द्रसहस्रव्रतोद्यापनविधिवर्णनं नाम तृतीयोऽध्यायः ।। ३ ।।
खण्डः २ (वैष्णवखण्डः) · अयोध्यामाहात्म्यम् — Adhyāya 4
।। अगस्त्य उवाच ।। ।।
तस्माच्चंद्रहरिस्थानादाग्नेय्यां दिशि संस्थितः ।।
देवो धर्महरिर्न्नाम कलिकल्मषनाशकः ।। १ ।।
वेदवेदाङ्गतत्त्वज्ञः स्वकर्मपरिनिष्ठितः ।।
पुरा समागतो धर्मस्तीर्थयात्राचिकीर्षया ।। २ ।।
आगत्य च चकारोच्चैर्यात्रां तत्रादरेण सः ।।
दृष्ट्वा माहात्म्यमतुलमयोध्यायाः सविस्मयः ।। ३ ।।
विधाय स्वभुजावूर्ध्वौ विप्रोऽवोचन्मुदान्वितः ।।
अहो रम्यमिदं तीर्थमहो माहात्म्यमुत्तमम् ।। ४ ।।
अयोध्यासदृशी कापि दृश्यते नापरा पुरी ।।
या न स्पृशति वसुधां विष्णुचक्रस्थिताऽनिशम् ।।।। ५ ।।
यस्यां स्थितो हरिः साक्षात्सेयं केनोपमीयते ।।
अहो तीर्थानि सर्वाणि विष्णुलोकप्रदानि वै ।। ६ ।।
अहो विष्णुरहो तीर्थमयोध्याऽहो महापुरी ।।
अहो माहात्म्यमतुलं किं न श्लाघ्यमिहास्थितम् ।। ७ ।।
इत्युक्त्वा तत्र बहुशो ननर्त प्रमदाकुलः ।।
धर्मो माहात्म्यमालोक्य अयोध्याया विशेषतः ।। ८ ।।
तं तथा नर्तमानं वै धर्मं दृष्ट्वा कृपान्वितः ।।
आविर्बभूव भगवान्पीतवासा हरिः स्वयम् ।।
तं प्रणम्य च धर्मोऽथ तुष्टाव हरिमादरात् ।। ९ ।।
।। धर्म उवाच ।। ।।
नमः क्षीराब्धिवासाय नमः पर्यंकशायिने ।।
नमः शंकरसंस्पृष्टदिव्यपादाय विष्णवे ।। 2.8.4.१० ।।
भक्त्यार्च्चितसुपादाय नमोऽजादिप्रियाय ते ।।
शुभांगाय सुनेत्राय माधवाय नमो नमः ।। ११ ।।
नमोऽरविन्दपादाय पद्मनाभाय वै नमः ।।
नमः क्षीराब्धिकल्लोलस्पृष्टगात्राय शार्ङ्गिणे ।। १२ ।।
ॐ नमो योगनिद्राय योगर्क्षैर्भावितात्मने ।।
तार्क्ष्यासनाय देवाय गोविन्दाय नमोनमः ।। १३ ।।
सुकेशाय सुनासाय सुललाटाय चक्रिणे ।।
सुवस्त्राय सुवर्णाय श्रीधराय नमोनमः ।। १४ ।।
सुबाहवे नमस्तुभ्यं चारुजंघाय ते नमः ।।
सुवासाय सुदिव्याय सुविद्याय गदाभृते ।। १५ ।।
केशवाय च शांताय वामनाय नमोनमः ।।
धर्मप्रियाय देवाय नमस्ते पीतवाससे ।। १६ ।।
।। अगस्त्य उवाच ।। ।।
इति स्तुतो जगन्नाथो धर्मेण श्रीपतिर्मुदा ।।
उवाच स हृषीकेशः प्रीतो धर्ममुदारधीः ।। १७ ।।
।। श्रीभगवानुवाच ।। ।।
तुष्टोऽहं भवतो धर्म स्तोत्रेणानेन सुव्रत ।।
वरं वरय धर्मज्ञ यस्ते स्यान्मनसः प्रियः ।। १८ ।।
स्तोत्रेणानेन यः स्तौति मानवो मामतन्द्रितः ।।
सर्वान्कामानवाप्नोति पूजितः श्रीयुतःसदा।। १९ ।।
।। धर्म उवाच ।। ।।
यदि तुष्टोसि भगवन्देवदेव जगत्पते ।।
त्वामहं स्थापयाम्यत्र निजनाम्ना जगद्गुरो ।। 2.8.4.२० ।।
।। अगस्त्य उवाच ।। ।।
एवमस्त्विति संप्रोच्याभवद्धर्महरिर्विभुः ।।
स्मरणादेव मुच्येत नरो धर्महरेर्विभोः ।। २१ ।।
सरयूसलिले स्नात्वा सुचिंताकुलमानसः ।।
देवं धर्महरिं पश्येत्सर्वपापैः प्रमुच्यते ।। २२ ।।
अत्र दानं तथा होमं जपो ब्राह्मणभोजनम् ।।
सर्वमक्षयतां याति विष्णुलोके निवासकृत् ।। २३ ।।
अज्ञानाज्ज्ञानतो वापि यत्किंचिद्दुष्कृतं भवेत् ।।
प्रायश्चित्तं विधातव्यं तन्नाशाय प्रयत्नतः ।। २४ ।।
प्रायश्चित्तेन विधिना पापं तस्य प्रणश्यति।।
तस्मादत्र प्रकर्त्तव्यं प्रायश्चित्तं विधानतः ।। २५ ।।
अज्ञानाज्ज्ञानतो वापि राजादेर्निग्रहात्तथा ।।
नित्यकर्मनिवृत्तिः स्याद्यस्य पुंसोऽवशात्मनः ।।
तेनाप्यत्र विधातव्यं प्रायश्चित्तं प्रयत्नतः ।। २६ ।।
अत्र साक्षात्स्वयं देवो विष्णुर्वसति सादरः ।।
तस्माद्वर्णयितुं शक्यो महिमा न हि मानवैः ।। २७ ।।
आषाढे शुक्ल पक्षस्य एकादश्यां द्विजोत्तम ।।
तस्य सांवत्सरी यात्रा कर्तव्या तु विधानतः ।। २८ ।।
स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा धर्महरिं विभुम् ।।
सर्वपापविशुद्धात्मा विष्णुलोके वसेत्सदा ।। २९ ।।
तस्माद्दक्षिणदिग्भागे स्वर्णस्य खनिरुत्तमा ।।
यत्र चक्रे स्वर्णवृष्टिं कुबेरो रघुजाद्भयात् ।। 2.8.4.३० ।। ।।
।। व्यास उवाच ।। ।।
भगवन्ब्रूहि तत्त्वज्ञ स्वर्णवृष्टिरभूत्कथम् ।।
कुबेरस्य कथं भीतिरुत्पन्ना रघुभूपतेः ।। ३१ ।।
एतत्सर्वं समाचक्ष्व विस्तरान्मम सुव्रत ।।
श्रुत्वा कथारहस्यानि न तृप्यति मनो मम ।। ३२ ।।
।। अगस्त्य उवाच ।। ।।
शृणु विप्र प्रवक्ष्यामि स्वर्णस्योत्पत्तिमुत्तमाम् ।।
यस्य श्रवणतो नृणां जायते विस्मयो महान् ।। ३३ ।।
आसीत्पुरा रघुपतिरिक्ष्वाकुकुलवर्द्धनः ।।
रघुर्निजभुजोदारवीर्यशासितभूतलः ।। ३४ ।।
प्रतापतापितारातिवर्गव्याख्यातसद्यशाः ।।
प्रजाः पालयता सम्यक्तेननीतिमता सता ।।३५।।
यशःपूरेण समलिप्ता दिशो दश सितत्विषा ।।
स चक्रे प्रौढविभवसाधनां विजयक्रमात् ।। ३६ ।।
नानादेशान्समाक्रम्य चतुरंगबलान्वितः ।।
भूतानि वशमानीय वसु जग्राह दण्डतः।।३७।।
उत्कृष्टान्नृपतीन्वीरो दंडयित्वा बलाधिकान् ।।
रत्नानि विविधान्याशु जग्राहातिबलस्तदा ।।३८।।
स विजित्य दिशः सर्वा गृहीत्वा रत्नसंचयम्।।
अयोध्यामागतो राजा राजधानीं च तां शुभाम्।। ३९ ।।
तत्रागत्य च काकुत्स्थो यज्ञायोत्सुकमानसः ।।
चकार निर्मलां बुद्धिं निजवंशोचितक्रियाम।।2.8.4.४०।।
वसिष्ठं मुनिमाज्ञाय वामदेवं च कश्यपम् ।। ४१ ।।
अन्यानपि मुनिश्रेष्ठान्नानातीर्थसमाश्रितान् ।।
समानयद्विनीतेन द्विजवर्येण भूपतिः ।। ४२ ।।
दृष्ट्वा स्थितान्स तान्सर्वान्प्रदीप्तानिव पावकान् ।।
तानागतान्विदित्वाथ रघुः परपुरंजयः ।।
निश्चक्राम यथान्यायं स्वयमेव महायशाः ।। ४३ ।।
ततो विनीतवत्सर्वान्काकुत्स्थो द्विजसत्तमान् ।।
उवाच धर्मयुक्तं च वचनं यज्ञसिद्धये ।। ४४ ।।
।। रविरुवाच ।।
मुनयः सर्व एवैते यूयं शृणुत मद्वचः ।।
यज्ञं विधातुमिच्छामि तत्राज्ञां दातुमर्हथ ।। ४५ ।।
सांप्रतं मामको यज्ञो युक्तः स्यान्मुनिसत्तमाः ।।
एतद्विचार्य्य तत्त्वेन ब्रूत यूयं मुनीश्वराः ।। ।। ४६ ।।
।। मुनय ऊचुः ।। ।।
राजन्विश्वजिदाख्यातो यज्ञानां यज्ञ उत्तमः ।।
सांप्रतं कुरु तं यत्नान्मा विलंबं वृथा कृथाः ।। ४७ ।। ।।
।। अगस्त्य उवाच ।।
नृपश्चक्रे ततो यज्ञं विश्वदिग्जयसंज्ञितम् ।।
नानासंभारमधुरं कृतसर्वस्वदक्षिणम् ।। ४८ ।।
नानाविधेन दानेन मुनिसंतोषहर्षकृत् ।।
सर्वस्वमेव प्रददौ द्विजेभ्यो बहुमानतः ।।४९।।
तेषु विश्वेषु यातेषु पूजितेषु गृहान्स्वकान् ।।
बन्धुष्वपि च तुष्टेषु मुनिषु प्रणतेषु च ।। 2.8.4.५० ।।
तेन यज्ञेन विधिवद्विहितेन नरेश्वरः ।।
शुशुभे शोभनाचारः स्वर्गे देवेंद्रवत्क्षणात् ।। ५१ ।।
तत्रांतरे समभ्यायान्मुनिर्यमवतां वरः ।।
विश्वामित्रमुनेरंतेवासी कौत्स इति स्मृतः ।। ५२ ।।
दक्षिणार्थं गुरोर्द्धीमान्पावितुं तं नरेश्वरम् ।।
चतुर्दशसुवर्णानां कोटीराहर सत्वरम् ।। ।। ५३ ।।
मद्दक्षिणेति गुरुणा निर्बन्धाद्याचितो रुषा ।।
आगतः स मुनिः कौत्सस्ततो याचितुमादरात् ।।
रघुं भूपालतिलकं दत्तसर्वस्वदक्षिणम् ।। ।। ५४ ।।
तमागतमभिप्रेत्य रघुरादरतस्तदा ।।
उत्थाय पूजयामास विधिवत्स परंतपः ।।
सपर्य्यासीत्तस्य सर्वा मृत्पात्रविहितक्रिया ।। ५५ ।।
पूजासंभारमालोक्य तादृशं तं मुनीश्वरः ।।
विस्मितोऽभून्निरानन्दो दक्षिणाऽऽशां परित्यजन् ।।
उवाच मधुरं वाक्यं वाक्यज्ञानविशारदः ।। ।। ५६ ।।
।। कौत्स उवाच ।। ।।
राजन्नभ्युदयस्तेऽस्तु गच्छाम्यन्यत्र सांप्रतम् ।। ५७ ।।
गुर्वर्थाहरणायैव दत्तसर्वस्वदक्षिणम् ।।
त्वां न याचे धनाभावादतोऽन्यत्र व्रजाम्यहम् ।। ५८ ।।
।। अगस्त्य उवाच ।। ।।
इत्युक्तस्तेन मुनिना रघुः परपुरंजयः ।।
क्षणं ध्यात्वाऽब्रवीदेनं विनयाद्विहितांजलिः ।। ५९ ।।
।। रघुरुवाच ।। ।।
भगवंस्तिष्ठ मे हर्म्ये दिनमेकं मुनिव्रत ।।
यावद्यतिष्ये भगवन्भवदर्थार्थमुच्चकैः ।। 2.8.4.६० ।।
।। अगस्त्य उवाच ।। ।।
इत्युक्त्वा परमोदारवचो मुनिमुदारधीः ।।
प्रतस्थे च रघुस्तत्र कुबेरविजिगीषया ।। ६१ ।।
तमायांतं कुबेरोऽथ विज्ञाप्य वचनोदितैः ।।
प्रसन्नमनसं चक्रे वृष्टिं स्वर्णस्य चाक्षयाम् ।। ६२ ।।
स्वर्णवृष्टिरभूद्यत्र सा स्वर्णखनिरुत्तमा ।।
स मुनिं दर्शयामास खनिं तेन निवेदिताम्।। ६३ ।।
तस्मै समर्पयामास तां रघुः खनिमुत्तमाम् ।।
मुनीन्द्रोऽपि गृहीत्वाशु ततो गुर्वर्थमादरात् ।। ६४ ।।
राज्ञे निवेदयामास सर्वमन्यद्गुणाधिकः ।।
वरानथ ददौ तुष्टः कौत्सो मतिमतां वरः ।। ६५ ।।
।। कौत्स उवाच ।। ।।
राजँल्लभस्व सत्पुत्रं निजवंशगुणान्वितम् ।।
इयं स्वर्णखनिस्तूर्णं मनोभीष्टफलप्रदा ।। ६६ ।।
भूयादत्र परं तीर्थं सर्वपापहरं सदा ।।
अत्र स्नानेन दानेन नृणां लक्ष्मीः प्रजायते ।। ६७ ।।
वैशाखे शुक्लद्वादश्यां यात्रा सांवत्सरी स्मृता ।।
नानाभीष्टफलप्राप्तिर्भूयान्मद्वचसा नृणाम् ।। ६८ ।।
।। अगस्त्य उवाच ।। ।।
इति दत्त्वा वरान्राज्ञे कौत्सः संतुष्टमानसः ।।
प्रतस्थे निजकार्यार्थे गुरोराश्रममुत्सुकः ।। ६९ ।।
राजा स कृतकृत्योऽथ शेषं संगृह्य तद्धनम्।।
द्विजेभ्यो विधिवद्दत्त्वा पालयामास वै प्रजाः ।। 2.8.4.७० ।।
एवं स्वर्णखनेर्जातं माहात्म्यं च मुनीश्वरात् ।। ७१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये धर्महरिस्वर्णखनिमाहात्म्यवर्णनंनाम चतुर्थोऽध्यायः ।। ४ ।।
खण्डः २ (वैष्णवखण्डः) · अयोध्यामाहात्म्यम् — Adhyāya 5
।। व्यास उवाच ।। ।।
भगवन्ब्रूहि तत्त्वेन कथं निर्बंधतो मुनिः ।।
विश्वामित्रो निजं शिष्यं कौत्सं क्रोधेन तादृशम् ।। १ ।।
दुष्प्राप्यमर्थं यत्नेन बहु प्रार्थितवांस्तदा ।।
एतत्सर्वं च कथय मयि यद्यस्ति ते कृपा ।। २ ।।
।। अगस्त्य उवाच ।। ।।
शृणु द्विज कथामेतां सावधानेंद्रियः स्वयम् ।।
विश्वामित्रो मुनिश्रेष्ठः स दिव्यज्ञानलोचनः ।। ३ ।।
निजाश्रमे तपो दुर्गं चकार प्रयतो व्रती ।।
एकदा तमथो द्रष्टुं दुर्वासा मुनिरागतः ।। ४ ।।
आगत्य च क्षुधाक्रांत उच्चैः प्रोवाच स द्विजः ।।
भोजनं दीयतां मह्यं क्षुधापीडितचेतसे ।।
पायसं शुचि चोष्णं च शीघ्रं क्षुधार्त्तिने द्विज ।। ५ ।।
इति श्रुत्वा वचः क्षिप्रं विश्वामित्रः प्रयत्नतः ।।
स्थाल्यां पायसमादाय तं समर्प्य ततः स्वयम्।। ६ ।।
तदादायोत्थितं दृष्ट्वा दुर्वासास्तं विलोकयन् ।।
उवाच मधुरं वाक्यं मुनिं लक्षणतत्परः ।। ७ ।।
क्षणं सहस्व विप्रेन्द्र यावत्स्नात्वा व्रजाम्यहम् ।।
तिष्ठतिष्ठ क्षणं तिष्ठ आगच्छाम्येष साप्रतम् ।। ८ ।।
इत्युक्त्वा स जगामैव दुर्वासाः स्वाश्रमं तदा ।। ९ ।।
विश्वामित्रस्तपोनिष्ठस्तदा सानुरिवाऽचलः ।।
दिव्यं वर्षसहस्रं स तस्थौ स्थिरमतिस्तदा ।। 2.8.5.१० ।।
तस्य शुश्रूषणपरो मुनिः कौत्सो यतव्रतः ।।
बभूव परमोदारमतिर्विगतमत्सरः ।। ११ ।।
पुनरागत्य स मुनिर्दुर्वासा गतकल्मषः ।।
भुक्त्वा च पायसं सद्यः स जगाम निजाश्रमम् ।। १२ ।।
तस्मिन्गते मुनिवरे विश्वामित्रस्तपोनिधिः ।।
कौत्सं विद्यावतां श्रेष्ठं विससर्ज गृहान्प्रति ।। १३ ।।
स विसृष्टो गुरुं प्राह दक्षिणा प्रार्थ्यतामिति ।।
विश्वामित्रस्तु तं प्राह किं दास्यसि दक्षिणाम् ।।
दक्षिणा तव शुश्रूषा गृहं व्रज यतव्रत ।। १४ ।।
पुनःपुनर्गुरुं प्राह शिष्यो निर्बन्धवान्यदा ।।
तदा गुरुर्गुरुक्रुद्धः शिष्यं प्राह च निष्ठुरम् ।। १५ ।।
सुवर्णस्य सुवर्णस्य चतुर्दश समाहर ।।
कोटीर्मे दक्षिणा विप्र पश्चाद्गच्छ गृहं प्रति ।। १६ ।।
इत्युक्तो गुरुणा कौत्सो विचार्य समुपागमत् ।।
काकुत्स्थं दिग्विजेतारं ययाचे गुरुदक्षिणाम्।। १७ ।।
इत्युक्तं ते मुनिवर त्वया पृष्टं हि यत्पुनः ।।
अतोऽन्यच्छृणु ते वच्मि तीर्थकारणमुत्तमम् ।। १८ ।।
तस्माद्दक्षिणदिग्भागे संभेदः सिद्धसेवितः ।।
तिलोदकीसरय्वोश्च संगत्या भुवि संश्रुतः ।। १९ ।।
तत्र स्नात्वा महाभाग भवन्ति विरजा नराः ।।
दशानामश्वमेधानां कृतानां यत्फलं भवेत् ।।
तदाप्नोति स धर्मात्मा तत्र स्नात्वा यतव्रतः ।। 2.8.5.२० ।।
स्वर्णादिकं च यो दद्याद्ब्राह्मणे वेदपारगे ।।
शुभां गतिमवाप्नोति अग्निवच्चैव दीप्यते ।। २१ ।।
तिलोदकीसरय्वोश्च संगमे लोकविश्रुते ।।
दत्त्वान्नं च विधानेन न स भूयोऽभिजायते ।। २२ ।।
उपवासं च यः कृत्वा विप्रान्संतर्पयेन्नरः ।।
सौत्रामणेश्च यज्ञस्य फलमाप्नोति मानवः ।। २३ ।।
एकाहारस्तु यस्तिष्ठेन्मासं तत्र यतव्रतः ।।
यावज्जीवकृतं पापं सहसा तस्य नश्यति ।। २४ ।।
नभस्य कृष्णामावस्यां यात्रा सांवत्सरी भवेत् ।।
रामेण निर्मिता पूर्वं नदी सिंधुरिवापरा ।। २५ ।।
सिंधुजानां तुरंगाणां जलपानाय सुव्रत ।।
तिलवच्छ्याममुदकं यतस्तस्यां सदा बभौ ।। २६ ।।
तिलोदकीति विख्याता पुण्यतोया सदा नदी ।।
संगमादन्यतो यस्यां तिलोदक्यां शुचिव्रतः ।।
स्नातो विमुच्यते पापैः सप्तजन्मार्जितैरपि ।। २७ ।।
तस्मात्तिलोदकीस्नानं सर्वपापहरं मुने ।।
कर्त्तव्यं सुप्रयत्नेन प्राणिभिर्धर्मकांक्षिभिः ।।
स्नानं दानं व्रतं होमं सर्वमक्षयतां व्रजेत् ।। २८।।
इति विविधविधानैस्तीर्थयात्रांक्रमेण प्रथितगुणविकासः प्राप्तपुण्योविधाय ।।
हरिमुपहृतभावः पूजयन्सर्वतीर्थं व्रजति परमधाम न्यस्तपापः कथञ्चित् ।। २९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोयामाहात्म्ये तिलोदर्काप्रभाववर्णनंनाम पञ्चमोऽध्यायः ।। ५ ।।
खण्डः २ (वैष्णवखण्डः) · अयोध्यामाहात्म्यम् — Adhyāya 6
।। अगस्त्य उवाच ।। ।।
तस्मात्संगमतो विप्र पश्चिमे दिक्तटे स्थितम् ।।
सीताकुण्डमितिख्यातं सर्वकामफलप्रदम् ।। १ ।।
यत्र स्नात्वा नरो विप्र सर्वपापैः प्रमुच्यते ।।
सीतया किल तत्कुण्डं स्वयमेव विनिर्मितम् ।।
रामेण वरदानाच्च महाफलनिधीकृतम् ।। २ ।।
।। श्रीराम उवाच ।। ।।
शृणु सीते प्रवक्ष्यामि माहात्म्यं भुवि यादृशम् ।।
त्वत्कुण्डस्यास्य सुभगे त्वत्प्रीत्या कथयाम्यहम्।। ३ ।।
अत्र स्नानं च दानं च जपो होमस्तपोऽथवा।।
सर्वमक्षयतां याति विधानेन शुचिस्मिते ।। ४ ।।
मार्गकृष्णचतुर्दश्यां तत्र स्नानं विशेषतः ।।
सर्वपापहरं देवि सर्वदा स्नायिनां नृणाम् ।। ५ ।।
इति रामो वरं प्रादात्सीतायै च प्रजाप्रियः ।।
तदाप्रभृति सर्वत्र तत्तीर्थं भुवि वर्त्तते ।। ६ ।।
सीताकुण्डमिति ख्यातं जनानां परमाद्भुतम् ।।
तस्मिंस्तीर्थे नरः स्नात्वा नूनं राममवाप्नुयात् ।। ७ ।।
तत्र स्नानेन दानेन तपसा च विशेषतः ।।
गन्धैर्माल्यैर्धूपदीपैर्न्नानाविभवविस्तरैः ।।
रामं संपूज्य सीतां च मुक्तः स्यान्नात्र संशयः ।। ८ ।।
मार्गे मासि च स्नातव्यं गर्भवासो न जायते ।।
अन्यदापि नरः स्नात्वा विष्णुलोकं स गच्छति ।। ९ ।।
विभोर्विष्णुहरेर्विप्र रम्ये पश्चिमदिक्तटे ।।
देवश्चक्रहरिर्नाम सर्वाभीष्टफलप्रदः ।। 2.8.6.१० ।।
तस्य चक्रहरेर्विप्र महिमा न हि मानवैः ।।
शक्यो वर्णयितुं धीरैरपि बुद्धिमतां वरैः।।११।।
ततः पश्चिमदिग्भागे नाम्ना पुण्यं हरिस्मृति ।।
विष्णोरायतनं ख्यातं परमार्थफलप्रदम्।।
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ।। १२ ।।
तयोर्दर्शनतो यांति तेषां पापानि देहिनाम् ।।
तानि पापानि यावंति कुर्वते भुवि ये नराः ।। १३ ।।
पुरा देवासुरे जाते संग्रामे भृशदारुणे ।।
दैत्यैर्वरमदोत्सिक्तैर्देवा युधि पराजिताः ।। १४ ।।
तेषां पलायमानानां देवानामग्रणीर्हरः ।।
संस्तभ्य चैव तान्सर्वान्पुरस्कृत्यांबुजासनम् ।। १५ ।।
क्षीरोदशायिनं विष्णुं शेषपर्य्यंकशायिनम् ।।
लक्ष्म्योपविष्टं पार्श्वे च चरणांबुजहस्तया ।। १६ ।।
नारदाद्यैर्मुनिवरैरुद्गीतगुगौरवम् ।।
गरुडेन पुरःस्थेनानिशमंजलिना स्तुतम् ।। १७ ।।
क्षीराब्धिजलकल्लोलमदबिन्द्वंकिताम्बरम् ।।
तारकोत्करविस्फारतारहारविराजितम् ।। ।। १८ ।।
पीतांबरमतिस्मेरविकाशद्भावभावितम् ।।
बिभ्रतं कुण्डलं स्थूलं कर्णाभ्यां मौक्तिकोज्ज्वलम् ।। १९ ।।
रत्नवल्लीमिव स्वच्छां श्वेतद्वीपनिवासिनीम् ।।
किरीटं पद्मरागाणां वलयं दधतं परम् ।। 2.8.6.२० ।।
मित्रस्य राहुवित्रासनिवर्त्तनमिवापरम् ।।
सकौस्तुभप्रभाचक्रं बिभ्राणं प्रवलारुणम् ।। २१ ।।
परां चतुर्मुखोत्पत्तिकल्पसंकल्पनामिव ।।
शरणं स जगामाशु विनीतात्मा स्तुवन्निति ।। २२ ।।
तस्मिन्नवसरे शंभुः सर्वदेवगणैः सह ।।
तुष्टाव प्रयतो भूत्वा विष्णुं जिष्णुं सुरद्विषाम् ।। २३ ।।
।। ईश्वर उवाच ।। ।।
संसारार्णवसंतारसुपर्णसुखदायिने ।।
मोह तीव्रतमो हारि चन्द्राय हरये नमः ।। २४ ।।
स्फुरत्संविन्मणिशिखां चित्तसंगतिचंद्रिकाम् ।।
प्रपद्ये भगवद्भक्तिमानसोद्यानवाहिनीम् ।। २५ ।।
हेलोल्लसत्समुत्साहशक्तिं व्याप्तजगत्त्रयाम् ।।
या पूर्वकोटिर्भावानां सत्त्वानां वैष्णवीति वा ।। २६ ।।
पवनांदोलितांभोजदलपर्वांतवर्त्तिनाम् ।।
पततामिव जन्तूनां स्थैर्यमेका हरिस्मृतिः ।। २७ ।।
नमः सूर्य्यात्मने तुभ्यं संवित्किरणमालिने ।।
हृत्कुशेशयकोषश्रीसमुन्मेषविधायिने ।। २८ ।।
नमस्तस्मै यमवते योगिनां गतये सदा ।।
परमेशाय वै पारे महसां तमसां तथा ।। २९ ।।
यज्ञाय भुक्तहविष ऋग्यजुःसामरूपिणे ।।
नमः सरस्वतीगीतदिव्यसद्गणशालिने ।। 2.8.6.३० ।।
शांताय धर्मनिधये क्षेत्रज्ञायामृतात्मने ।।
शिष्ययोगप्रतिष्ठाय नमो जीवैकहेतवे ।।
घोराय मायाविधये सहस्रशिरसे नमः ।। ३१ ।।
योगनिद्रात्मने नाभिपद्मोद्भूतजगत्सृजे ।।
नमः सलिलरूपाय कारणाय जगत्स्थितेः ।। ३२ ।।
कार्यमेयाय बलिने जीवाय परमात्मने ।।
गोप्त्रे प्राणाय भूतानां नमो विश्वाय वेधसे ।। ३३ ।।
दृप्ताय सिंहवपुषे दैत्यसंहारकारिणे ।।
वीर्यायानंतमनसे जगद्भावभृते नमः ।। ३४ ।।
संसारकारणाज्ञानमहासंतमसच्छिदे ।।
अचिन्त्यधाम्ने गुह्याय रुद्रायात्युद्विजे नमः ।। ३५ ।।
शान्ताय शान्तकल्लोलकैवल्यपददायिने ।।
सर्वभावातिरिक्ताय नमः सर्वमयात्मने ।। ३६ ।।
इन्दीवरदलश्यामं स्फूर्जत्किंजल्कविभ्रमम्।।
बिभ्राणं कौस्तुभं विष्णुं नौमि नेत्ररसायनम् ।। ३७ ।।
।। अगस्त्य उवाच ।। ।।
इति स्तुतः प्रसन्नात्मा वरदो गरुडध्वजः ।।
ववर्ष दृष्टिसुधया सर्वान्देवान्कृपान्वितः ।।
उवाच मधुरं वाक्यं प्रश्रयावनतान्सुरान् ।। ।। ३८ ।।
।। श्रीभगवानुवाच ।। ।।
जानामि विबुधाः सर्वमभिप्रायं समाधितः ।।
दैतेयैर्विक्रमाक्रान्तं पदं समरदर्पितैः ।। ३९ ।।
सबलैर्बलहीनानां प्रतापो विजितः परैः ।।
सांप्रतं तु विधास्यामि तपो युष्मद्बलाय वै ।। 2.8.6.४० ।।
अयोध्यानगरे गत्वा करिष्ये तप उत्तमम् ।।
गुप्तो भूत्वा भवत्तेजोविवृद्ध्यै दैत्यशान्तये ।। ४१ ।।
भवन्तोऽपि तपस्तीव्रं कुर्वंत्वमलमानसाः ।।
अयोध्यां प्राप्यतां देवा दैत्यनाशाय सत्वरम् ।। ४२ ।। ।।
।। अगस्त्य उवाच ।। ।।
इत्युक्त्वांतर्दधे देवान्देवो गरुडवाहनः ।।
अयोध्यामागतः क्षिप्रं चकार तप उत्तमम् ।। ४३ ।।
गुप्तो भूत्वा यदा विद्वन्सुरतेजोभिवृद्धये ।।
तेन गुप्तहरिर्नाम देवो विख्यातिमागतः ।। ४४ ।।
आगतस्य हरेः पूर्वं यत्र हस्ततलाच्च्युतम् ।।
सुदर्शनाख्यं तच्चक्रं तेन चक्रहरिः स्मृतः ।। ४५ ।।
तयोर्दर्शनमात्रेण सर्वपापैः प्रमुच्यते ।।
हरस्तेन प्रभावेण देवाः प्रबलतेजसः ।। ४६ ।।
जित्वा दैत्यान्रणैः सर्वान्संप्राप्य स्वपदान्यथ ।।
रेजिरे विपुलानंदैरसुरानार्दयंस्ततः ।। ४७ ।।
ततः सर्वे समेत्याशु बृहस्पतिपुरस्सराः ।।
देवाः सर्वेऽनमन्मौलिमालार्च्चित पदाम्बुजम् ।।
हरिं द्रष्टुमथागच्छन्नयोध्यायां समुत्सुकाः ।। ४८ ।।
आगत्य च ततः श्रुत्वा नानाविधगुणादरम् ।।
भावैः पुण्यैः समभ्यर्च्य नत्वा प्रांजलयस्तदा ।।
हरिमेकाग्रमनसा ध्यायन्तो ध्याननिष्ठिताः ।। ४९ ।।
तानागतान्समालोक्य पदभक्त्या कृतानतीन् ।।
प्रसन्नः प्राह विश्वात्मा पीतवासा जनार्दनः ।। 2.8.6.५० ।।
।। श्रीभगवानुवाच ।। ।।
भोभो देवा भवन्तश्च चिराद्दिष्टयाद्यसंगताः ।।
अधुना भवतामिच्छां कां करोमि सुरा अहम् ।।
तद्ब्रूत त्वरिता मह्यं किं विलंबेन निर्भयाः ।। ५१ ।।
देवा ऊचुः ।। ।।
भगवन्देवदेवेश त्वया संप्रति सर्वशः ।।
सर्वं समभवत्कार्यं निष्पन्नं वै जगत्पते ।। ५२ ।।
तथापि सर्वदा भाव्यं नित्यं देव त्वया विभो ।।
अस्मद्रक्षार्थमत्रैव विजितेन्द्रियवर्त्मना ।।५३।।
एवमेव सदा कार्यं शत्रुपक्षविनाशनम् ।।५४।।
।। श्रीभगवानुवाच ।। ।।
एवमेतत्करिष्यामि भवतामरिसंजयम् ।।
श्रीमतां तेजसो वृद्धिं करिष्यामि सदासुराः ।।
कथेयं च सदा ख्यातिं लोके यास्यति चोत्तमाम् ।। ५५ ।।
अयं नाम्ना गुप्तहरिर्देवो भुवनविश्रुतः ।।
मदीयं परमं गुह्यं स्थानं ख्यातिं समेष्यति ।।५६ ।।
अत्र यः प्राणिनां श्रेष्ठः पूजायज्ञजपादिकम् ।।
करोति परया भक्त्या स याति परमां गतिम्।। ५७।।
अत्र यः कुरुते दानं यथाशक्त्या जितेन्द्रियः ।।
स स्वर्गमतुलं प्राप्य न शोचति कदाचन ।। ५८ ।।
अत्र मत्प्रीतये देवाः प्राणिभिर्धर्मकांक्षिभिः ।।
दातव्या गौः प्रयत्नेन सवत्सा विधिपूर्वकम् ।। ।। ५९ ।।
स्वर्णशृंगी रौप्यखुरी वस्त्रद्वयसमावृता ।।
कांस्योपदोहना ताम्रपृष्ठी बहुगुणान्विता।। 2.8.6.६०।।
रत्नपुच्छा दुग्धवती घंटाभरणभूषिता ।।
अर्चिता गंधपुष्पाद्यैः सुप्रसन्नाऽमृतप्रजा ।। ६१ ।।
द्विजाय वेदविज्ञाय गुणिने निर्मलात्मने ।।
विष्णुभक्ताय विदुषे आनृशंस्यरताय च ।। ६२ ।।
ब्राह्मणाय च गौर्देया सर्वत्रसुखमश्नुते ।।
न देया द्विजमात्राय दातारं सोऽवपातयेत् ।। ६३ ।।
मत्प्रीतयेऽत्र दातव्या निर्मलेनांतरात्मना ।। ६४ ।।
स्नातं यैश्च विशुद्ध्यर्थमत्र मद्भक्तितत्परैः ।।
तेषां स्वर्गतयो नित्यं मुक्तिः करतले स्थिता ।। ६५ ।।
तथा चक्रहरेः पीठे मत्प्रीत्यै दानमुत्तमम् ।।
जपहोमादिकं चापि कर्त्तव्यं यत्नतो नरैः ।। ६६ ।।
भवन्तोऽपि विधानेन यात्रां कुर्वंतु सत्तमाः ।।
अस्माद्गुप्तहरेः स्थानान्निकटे संगमे शुभे ।। ६७ ।।
प्रत्यग्भागे गोप्रताराद्योजनत्रयसंमिते ।।
घर्घरांबुतरंगिण्या सरयूः संगता यतः ।। ६८ ।।
अत्र स्नात्वा विधानेन द्रष्टव्योऽत्र प्रयत्नतः ।।
देवो गुप्तहरिर्नाम सर्वकामार्थसिद्धिदः ।। ६९ ।।
।। अगस्त्य उवाच ।। ।।
इत्युक्त्वांतर्दधे देवः पीताम्बरधरोऽच्युतः ।।
देवा अपि विधानेन कृत्वा यात्रां प्रयत्नतः ।।
अयोध्यायां स्थिता नित्यं हरेर्गुणविमोहिताः ।। 2.8.6.७० ।।
तदाप्रभृति विप्रेंद्र तत्स्थानं भुवि पप्रथे ।।
कार्तिक्यां तु विशेषेण यात्रा सांवत्सरी भवेत् ।। ७१ ।।
विभोर्गुप्तहरेस्तत्र संगमस्नानपूर्विका ।।
गोप्रतारे च तीर्थेऽस्मिन्सरयूघर्घराश्रिते ।।
स्नात्वा देवोऽर्चनीयोऽयं सर्वकामफलप्रदः ।। ७२ ।।
तथा चक्रहरेर्यात्रा कर्त्तव्या सुप्रयत्नतः ।।
मार्गशार्षस्य विशदे पक्षे हरितिथौ नरैः ।। ७३ ।।
एवं यः कुरुते यात्रां विष्णुलोके स मोदते ।।७४ ।।
।। श्रीसूत उवाच ।। ।।
एवमुक्त्वा तु विरते मुनौ कलशजन्मनि ।।
कृष्णद्वैपायनो व्यासः पुनराह सविस्मयः ।। ७५ ।।
।। व्यास उवाच ।। ।।
अत्याश्चर्य्यमयीं ब्रह्मन्कथामेतां तपोधन ।।
उक्तवानसि येनैतत्साश्चर्य्यं मम मानसम् ।। ७६ ।।
विस्तरेण मम ब्रूहि माहात्म्यं परमाद्भुतम् ।। ७७ ।।
शृणु संगममाहात्म्यं विप्रेंद्र परमाद्भुतम् ।।
स्कन्ददेवाच्छ्रुतं सम्यक्कथयामि तथा तव ।। ७८ ।।
दशकोटिसहस्राणि दशकोटिशतानि च ।।
तीर्थानि सरयूनद्या घर्घरोदकसंगमे ।।
निवसंति सदा विप्र स्कन्दादवगतं मया ।।७९ ।।
देवतानां सुराणां च सिद्धानां योगिनां तथा ।।
ब्रह्मविष्णुशिवानां च सान्निध्यं सर्वदा स्थितम् ।। 2.8.6.८० ।।
तस्मिन्संगमसलिले नरः स्नात्वा समाहितः ।।
संतर्प्य पितृदेवांश्च दत्त्वा दानं स्वशक्तितः ।। ८१ ।।
हुत्वा वैष्णवमंत्रेण शुचिर्यत्फलमाप्नुयात् ।।
तदिहैकमना विप्र शृणु यत्कथयामि ते ।। ८२ ।।
अश्वमेधसहस्रस्य वाजपेयशतस्य च ।।
कुरुक्षेत्रे महाक्षेत्रे राहुग्रस्ते दिवाकरे ।। ८३ ।।
सुवर्णदाने यत्पुण्यमहन्यहनि तद्भवेत् ।। ८४ ।।
अमावास्यां पौर्णमास्यां द्वादश्योरुभयोरपि ।।
अयने च व्यतीपाते स्नानं वैष्णवलोकदम् ।। ८५ ।।
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् ।।
विधिवत्संगमे स्नायात्पौष्यां तदविशेषतः ।। ८६ ।।
लंबतेऽवाक्छिरा यस्तु युगानामयुतं पुमान् ।।
स्नातानां शुचिभिस्तोयैः संगमे प्रयतात्मनाम् ।। ८७ ।।
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ।। ८८ ।।
पौषे मासि विशेषेण स्नानं बहुफलप्रदम् ।। ८९ ।।
पौषे मासि विशेषेण यः कुर्यात्स्नानमादृतः ।।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा वर्णसंकरः ।।
स याति ब्रह्मणः स्थानं पुनरावृत्तिवर्जितम् ।।2.8.6.९० ।।
पौषे मासे तु यो दद्याद्घृताढ्यं दीपमुत्तमम् ।।
विधिवच्छ्रद्धया विप्र शृणु तस्यापि यत्फलम् ।।९१।।
नानाजन्मार्जितं पापं स्वल्पं बह्वपि वा भवेत् ।।
तत्सर्वं नश्यति क्षिप्रं तोयस्थं लवणं यथा ।। ।। ९२ ।।
आयुरारोग्यमैश्वर्यं संततीः सौख्यमुत्तमम् ।।
प्राप्नोति फलदं नित्यं दीपदः पुण्यभाङ्नरः ।। ९३ ।।
यस्तु शुक्लत्रयोदश्यां पौषेऽत्र प्रयतो व्रती ।।
जागरं कुरुते धीरः स गच्छेद्भवनं हरेः ।। ९४ ।।
जागरं विदधद्रात्रौ दीपं दत्त्वा तु सर्वशः ।।
होमं च कारयेद्विप्रो नियतात्मा शुचिव्रतः ।। ९५ ।।
वैष्णवो विष्णुपूजां च कुर्वञ्छृण्वन्हरेः कथाम् ।।
गीतवादित्रनृत्यैश्च विष्णुतोषणकारकैः ।।
कथाभिः पुण्ययुक्ताभिर्जागृयाच्छर्वरीं नरः ।। ९६ ।।
ततः प्रभाते विमले स्नात्वा विधिवदादरात् ।।
विष्णुं संपूज्य विप्रांश्च देयं स्वर्णादि शक्तितः ।। ९७ ।।
स्वर्णं चान्नं च वासांसि यो दद्याच्छ्रद्धयाऽन्वितः ।।
संगमे विधिवद्विद्वान्स याति परमां गतिम् ।। ९८ ।।
वर्षेवर्षे तु कर्तव्यो जागरः पुण्यतत्परैः ।। ९९ ।।
हरिः पूज्यो द्विजाः सम्यक्संतोष्याः शक्तितो नरैः ।।
तेन विष्णोः परा तुष्टिः पापानि विफलानि च ।।
भवंति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् ।। ।। 2.8.6.१०० ।।
तत्र स्नातो दिवं याति अत्र स्नातः सुखी भवेत ।। १०१ ।।
त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते ।।
तर्प्यमाणाः परां तृप्तिं यांति संगमजैर्जलैः ।। १०२ ।।
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् ।।
गतिमन्वेषमाणानां न संगमसमा गतिः ।। १०३ ।।
सप्तावरान्सप्तपरान्पुरुषश्चात्मनासह ।।
पुंसस्तारयते सर्वान्संगमे स्नानमाचरन् ।। १०४ ।।
जात्यंधैरिह ते तुल्यास्तथा पंगुभिरेव च ।।
समेत्यात्र च न स्नान्ति सरयूघर्घरसंगमे ।। १०५ ।।
वर्णानां ब्राह्मणो यद्वत्तथा तीर्थेषु संगमः ।।
सरयूघर्घरायोगे वैष्णवस्थो नरः सदा ।। १०६ ।।
अत्र स्नानेन दानेन यथा शक्त्या जितेंद्रियः ।।
होमेन विधिपुक्तेन नरः स्वर्गमवाप्नुयात् ।। १०७ ।।
नरो वा यदि वा नारी विधिवत्स्नानमाचरेत् ।।
स्वर्गलोकनिवासो हि भवेत्तस्य न संशयः ।। १०८ ।।
यथा वह्निर्दहेत्सर्वं शुष्कमार्द्रमथापि वा ।।
भस्मीभवंति पापानि तत्समागममज्जनात् ।। १०९ ।।
एकतः सर्वतीर्थानि नानाविधिफलानि वै ।।
सरयूघर्घरोत्पन्नसंगमस्त्वधिको भवेत् ।। 2.8.6.११० ।।
सर्वतीर्थावगाहस्य फलं यादृक्स्मृतं श्रुतौ ।।
तादृक्फलं नृणां सम्यग्भवेत्संगममज्जनात् ।। १११ ।।
गोप्रताराभिधं तीर्थमपरं वर्ततेऽनघ ।।
सन्निधौ संगमस्यैव महापातकनाशनम् ।। ११२ ।।
यत्र स्नानेन दानेन न शोचति नरः क्वचित् ।।
गोप्रतारसमं तीर्थं न भूतं न भविष्यति ।। ११३ ।।
वाराणस्यां यथा विद्वन्वर्त्तते मणिकर्णिका ।।
उज्जयिन्यां यथा विप्र महाकालनिकेतनम् ।। ११४ ।।
नैमिषे चक्रवापी तु यथा तीर्थतमा स्मृता ।।
अयोध्यायां तथा विप्र गोप्रताराभिधं महत् ।। ११५ ।।
यत्र रामाज्ञया विद्वन्साकेतनगरीजनाः ।।
अवापुः स्वर्गमतुलं निमज्ज्य परमांभसि ।। ११६ ।।
।। व्यास उवाच ।। ।।
अवापुस्ते कथं स्वर्गं साकेतनगरीजनाः ।।
कथं च राघवो विद्वन्नेतत्कथय सुव्रत ।। ११७ ।।
।। अगस्त्य उवाच ।। ।।
सावधानः शृणु मुने कथामेतां सुविस्तरात् ।।
यथाजगाम रामोऽसौ स्वर्गं स च पुरीजनः ।। ११८ ।।
पुरा रामो विधायैव देवकार्य्यमतंद्रितः ।।
स्वर्गं गंतुं मनश्चक्रे भ्रातृभ्यां सह वीरधीः ।। ११९ ।।
ततो निशम्य चारेण वानराः कामरूपिणः ।।
ऋक्षगोपुच्छरक्षांसि समुत्पेतुरनेकशः ।। 2.8.6.१२० ।।
देवगंधर्वपुत्राश्च ऋषिपुत्राश्च वानराः ।।
रामक्षयं विदित्वा तु सर्व एव समागताः ।। १२१ ।।
ते राममनुगत्योचुः सर्वे वानरयूथपाः ।।
तवानुगमने राजन्संप्राप्ताः स्म इहानघ ।। १२२ ।।
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ ।।
सर्वे खलु हताः स्याम दण्डेन महता नृप ।। १२३ ।।
श्रुत्वा तु वचनं तेषामृक्षवानररक्षसाम्।।
विभीषणमुवाचाथ राघवस्तत्क्षणं गिरा ।। २२४ ।।
यावत्प्रजा धरिष्यंति तावदेव विभीषण ।।
कारयस्व महद्राज्यं लंकां त्वं पालयिष्यसि ।। १२५ ।।
शाधि राज्यं च खल्वेतन्नान्यथा मे वचः कुरु ।।
प्रजास्त्वं रक्ष धर्मेण नोत्तरं वक्तुमर्हसि ।। १२६।।
एवमुक्त्वा तु काकुत्स्थो हनुमंतमथाब्रवीत् ।।
वायुपुत्र चिरं जीव मा प्रतिज्ञां वृथा कृथाः ।। १२७ ।।
यावल्लोका वदिष्यंति मत्कथां वानरर्षभ ।।
तावत्त्वं धारय प्राणान्प्रतिज्ञां प्रतिपालयन् ।। १२८ ।।
मैन्दश्च द्विविदश्चैव अमृतप्राशनावुभौ ।।
यावल्लोका धरिष्यंति तावदेतौ धरिष्यतः ।। १२९ ।।
पुत्रपौत्राश्च येऽस्माकं तान्रक्षन्त्विह वानराः ।।
एवमुक्त्वा तु काकुत्स्थः सर्वानथ च वानरान् ।।
मया सार्धं प्रयातेति तदा तान्राघवोऽब्रवीत् ।। 2.8.6.१३० ।।
प्रभातायां तु शर्वर्य्यां पृथुवक्षा महाभुजः ।।
रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ।। १३१ ।।
अग्निहोत्राणि यांत्वग्रे दीप्यमानानि सर्वशः ।।
वाजपेयातिरात्राणि निर्यातु च ममाग्रतः ।। १३२ ।।
ततो वसिष्ठस्तेजस्वी सर्वं निश्चित्य चेतसा ।।
चकार विधिवत्कर्म महाप्रास्थानिकं विधिम् ।। १३३ ।।
ततः क्षौमाम्बरधरो ब्रह्मचर्यसमन्वितः ।।
कुशानादाय पाणिभ्यां महाप्रस्थानमुद्यतः ।। ।। १३४ ।।
न व्याहरच्छुभं किंचिदशुभं वा नरेश्वरः ।।
निष्क्रम्य नगरात्तस्मात्सागरादिव चंद्रमाः ।। १३५ ।।
रामस्य सव्यपार्श्वे तु सपद्मा श्रीः समाश्रिता ।।
दक्षिणे ह्रीर्विशालाक्षी व्यवसायस्तथाग्रतः ।। १३६ ।।
नानाविधायुधान्यत्र धनुर्ज्याप्रभृतीनि च ।।
अनुव्रजंति काकुत्स्थं सर्वे पुरुष विग्रहाः ।। १३७ ।।
वेदो ब्राह्मणरूपेण सावित्री सव्यदक्षिणे ।।
ॐकारोऽथ वषङ्कारः सर्वे रामं तदाऽव्रजन् ।। १३८ ।।
ऋषयश्च महात्मानः सर्वे चैव महीधराः ।।
अनुगच्छन्ति काकुत्स्थं स्वर्गद्वारमुपस्थितम् ।। १३९ ।।
तथानुयांति काकुत्स्थमंतःपुरगताः स्त्रियः ।।
सवृद्धाबालदासीकाः सपर्षद्द्वाररक्षकाः ।। 2.8.6.१४० ।।
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ ।।
रामं व्रजंतमागम्य रघुवंशमनुव्रताः ।। १४१ ।।
ततो विप्रा महात्मानः साग्निहोत्राः समंततः ।।
सपुत्रदाराः काकुत्स्थमनुगच्छति सर्वशः ।। १४२ ।।
मंत्रिणो भृत्ययुक्ताश्च सपुत्राः सहबांधवाः ।।
सर्वे ते सानुगाश्चैव ह्यनु गच्छंति राघवम् ।। १४३ ।।
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ।।
गच्छंतमनुगच्छंतिराघवं गुणरंजिताः ।। १४४ ।।
तथा प्रजाश्च सकलाः सपुत्राश्च सवबांधवाः ।।
राघवस्यानुगाश्चासन्दृष्ट्वा विगतकल्मषम् ।। १४५ ।।
स्नाताः शुक्लाम्बरधराः सर्वे प्रयतमानसाः ।।
कृत्वा किलकिलाशब्दमनुयाताश्च राघवम् ।। १४६ ।।
न कश्चित्तत्र दीनोऽभून्न भीतो नातिदुःखितः ।।
प्रहृष्टा मुदिताः सर्वे वभूवुः परमाद्भुताः ।। १४७ ।।
द्रष्टुकामाश्च निर्वाणं राज्ञो जनपदास्तथा ।।
संप्राप्तास्तेऽपि दृष्ट्वैव नभोमार्गेण चक्रिणम् ।। १४८ ।।
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ।।
आगत्य परया भक्त्या पृष्ठतः समुपाययुः ।। १४९ ।।
तानि भूतानि नगरे ह्यन्तर्धानगतान्यपि ।।
राघवं तेऽप्यनुययुः स्वर्गद्वारमुपस्थितम् ।। 2.8.6.१५० ।।
यानि पश्यंति काकुत्स्थं स्थावराणि चराणि च ।।
सत्त्वानि स्वर्गगमने मतिं कुर्वंति तान्यपि ।। १५१ ।।
नासीत्सत्त्वमयोध्यायां सुसूक्ष्ममपि किंचन ।।
यद्राघवं नानुयाति स्वर्गद्वारमुपस्थितम् ।। १५२ ।।
अथार्द्धयोजनं गत्वा नदीं पश्चान्मुखो ययौ ।।
सरयूं पुण्यसलिलां ददर्श रघुनंदनः।। १५३ ।।
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ।।
सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ।।
आययौ तत्र काकुत्स्थं स्वर्गद्वारमुपस्थितम् ।। १५४ ।।
विमानशतकोटीभिर्दिव्याभिः सर्वतो वृतः ।।
दीपयन्सर्वतो व्योम ज्योतिर्भूतमनुत्तमम् ।। १५५ ।।
स्वयंप्रभैश्च तेजोभिर्महद्भिः पुण्यकर्मभिः ।।
पुण्या वाता ववुस्तत्र गन्धवंतः सुखप्रदाः ।। १५६ ।।
सपुण्यपुष्पवर्षं च वायुयुक्तं महाजवम् ।।
गन्धर्वैरप्सरोभिश्च तस्मिन्सूर्यउपस्थितः ।।१५७ ।।
शरयूसलिलं रामः पद्भ्यां स समुपास्पृशत् ।।
ततो ब्रह्मा सुरैर्युक्तः स्तोतुं समुपचक्रमे ।।१५८।।
त्वं हि लोकपतिर्देव न त्वां जानाति कश्चन ।।
अहं ते वै विशालाक्ष भूतपूर्वपरिग्रहः ।। १५९ ।।
त्वमचिंत्यं महद्भूतमक्षयं लोकसंग्रहे ।।
यामिच्छसि महावीर्य तां तनुं प्रविश स्वकाम् ।। 2.8.6.१६० ।।
पितामहस्य वचनादिदमेवाविशत्स्वयम् ।।
सुदिव्यं वैष्णवं तेजः संसारं स सहानुजः ।।
ततो विष्णुतनुन्देवाः पूजयन्तः सुरोत्तमम् ।। १६१ ।।
साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ।।
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसस्तथा ।।
सुपर्णा नागयक्षाश्च दैत्यदानवराक्षसाः ।। १६२ ।।
देवाः प्रहृष्टा मुदिताः सर्वे पूर्णमनोरथाः ।।
साधुसाध्विति ते सर्वे त्रिदिवस्था बभाषिरे ।। १६३ ।।
अथ विष्णुर्महातेजाः पितामहमुवाच ह ।।
एषां लोकं जनौघानां दातुमर्हसि सुव्रत ।। १६४ ।।
इमे तु सर्वे मत्स्नेहादायाताः सर्वमानवाः ।।
भक्ताश्च भक्तिमन्तश्च त्यक्तात्मानोऽपि सर्वशः ।। १६५ ।।
तच्छ्रुत्वा विष्णुकथितं सर्वलोकेश्वरोऽब्रवीत् ।।
लोकं सन्तानिकं नाम संस्थास्यंति हि मानवाः ।। १६६ ।।
स्वर्गद्वारेऽत्र वै तीर्थे राममेवानुचिन्तयन् ।।
प्राणांस्त्यजति भक्त्या वै स संतानं परं लभेत् ।। १६७ ।।
सर्वे संतानिकंनाम ब्रह्मलोकादनन्तरम् ।।
वानराश्च स्वकां योनिं राक्षसाश्चापि राक्षसीम्।।१६८।।
यस्या विनिःसृता ये वै सुरासुरतनूद्भवाः ।।
आदित्यतनयश्चैव सुग्रीवः सूर्यमण्डलम् ।। १६९ ।।
ऋषयो नागयक्षाश्च प्रयास्यन्ति स्वकारणम् ।।
तथा ब्रुवति देवेशे गोप्रतारमुपस्थितम् ।। 2.8.6.१७० ।।
तज्जलं सरयूं भेजे परिपूर्णं ततो जलम् ।।
अवगाह्य जलं सर्वे प्राणांस्त्यक्त्वा प्रहृष्टवत् ।। १७१ ।।
मानुषं देहमुत्सृज्य ते विमानान्यथारुहन् ।।
तिर्यग्योनिगता ये च प्रविश्य सरयूं तदा ।। १७२ ।।
देहत्यागं च ते तत्र कृत्वा दिव्यवपुर्द्धराः ।।
तथान्यान्यपि सत्त्वानि स्थावराणि चराणि च ।। १७३ ।।
प्राप्य चोत्तमदेहं वै देवलोकमुपागमन् ।।
तस्मिंस्तत्र समापन्ने वानरा ऋक्षराक्षसाः ।।
तेऽपि प्रविविशुः सर्वे देहान्निक्षिप्य वै तदा ।। १७४ ।।
तदा स्वर्गं गताः सर्वे स्मृत्वा लोकगुरुं विभुम् ।।
जगाम त्रिदशैः सार्द्धं रामो हृष्टो महामतिः ।। १७५ ।।
अतस्तद्गोप्रताराख्यं तीर्थं विख्यातिमागतम् ।।
गोप्रतारे परो मोक्षो नान्यतीर्थेषु विद्यते ।। १७६ ।।
जन्मान्तरशतैर्विप्र योगोऽयं यदि लभ्यते ।।
मुक्तिर्भवति तत्त्वेकजन्मना लभ्यते न वा ।। १७७ ।।
गोप्रतारे न सन्देहो हरिर्भक्त्या सुनिष्ठितः ।।
एकेन जन्मनान्योऽपि योगमोक्षं च विन्दति ।। १७८ ।।
गोप्रतारे नरो विद्वान्योऽपि स्नाति सुनिश्चितः ।।
विशत्यसौ परं स्थानं योगिनामपि दुर्लभम् ।। ।। १७९ ।।
कार्तिक्यां च विशेषेण स्नातव्यं विजितेन्द्रियैः ।।
कार्तिके मासि विप्रर्षे सर्वे देवाः सवासवाः ।।
स्नातुमायान्त्ययोध्यायां गोप्रतारे विशेषतः ।। 2.8.6.१८० ।।
गोप्रतारसमं तीर्थं न भूतं न भविष्यति ।।
यत्र प्रयागराजोऽपि स्नातुमायाति कार्तिके ।। १८१ ।।
निष्पापः कलुषं त्यक्त्वा शुक्लांगः सितकंचुकः ।।
शुद्ध्यर्थं साधुकामोऽसौ प्रयागे मुनिसत्तमः ।। १८२ ।।
यानि कानि च तीर्थानि भूमौ दिव्यानि सुव्रत ।।
कार्तिक्यां तानि सर्वाणि गोप्रतारे वसन्ति वै ।। १८३ ।।
गोप्रतारे जपो होमः स्नानं दानं च शक्तितः ।।
सर्वमक्षयतां याति श्रद्धया नियमव्रतम् ।। १८४ ।।
कार्तिके प्राप्य तद्यन्ति तीर्थानि सकलान्यपि ।।
गोप्रतारं गमिष्यामः पापं त्यक्तुमितीच्छया ।। १८५ ।।
गोप्रतारे कृतं स्नानं सर्वपापप्रणाशनम् ।।
गोप्रतारे नरः स्नात्वा दृष्ट्वा गुप्तहरिं विभुम् ।।
सर्वपापैः प्रमुच्येत नात्र कार्या विचारणा ।। १८६ ।।
विष्णुमुद्दिश्य विप्राणां पूजनं च विशेषतः ।।
कर्त्तव्यं श्रद्धया युक्तैः स्नानपूर्वं यतव्रतैः ।। १८७ ।।
पयस्विनी च गौर्देया सालंकारा च शक्तितः ।।
विप्राय वेदविदुषे नियमव्रतशालिने ।।
ब्राह्मणायातिशुचये विष्णुप्रीत्यै यतात्मना ।। १६८ ।।
अन्नं बहुविधं हेम वासांसि विविधानि च ।।
दातव्यानि हरेः प्राप्त्यै भक्त्या परमया युतैः ।। १८९ ।।
सूर्यग्रहे कुरुक्षेत्रे नर्मदायां शशिग्रहे ।।
तुलादानस्य यत्पुण्यं तदत्र दीपदानतः ।। 2.8.6.१९० ।।
घृतेन दीपको यस्य तिलतैले न वा पुनः ।।
ज्वलते मुनिशार्दूल हयमेधेन तस्य किम् ।। १९१ ।।
तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम् ।।
दीपदानं कृतं येन कार्त्तिके केशवाग्रतः ।। १९२ ।।
नानाविधानि तीर्थानि भुक्तिमुक्तिप्रदानि च ।।
गोप्रतारस्य तान्यत्र कलां नार्हंति षोडशीम् ।। १९३ ।।
स्वर्णमल्पं च यो दद्याद्ब्राह्मणे वेदपारगे ।।
शुभां गतिमवाप्नोति ह्यग्निवच्चैव दीप्यते ।।१९४।।
गोप्रताराभिधे तीर्थे त्रिलोकीविश्रुते द्विज ।।
दत्त्वान्नं च विधानेन न स भूयोऽभिजायते ।। १९५ ।।
तत्र स्नानं तु यः कुर्याद्विप्रान्संतर्पयेन्नरः ।।
सौत्रामणेश्च यज्ञस्य फलं प्राप्नोति मानवः ।। १९६ ।।
एकाहारस्तु यस्तिष्ठेन्मासं तत्र यतव्रतः ।।
यावज्जीवकृतं पापं सहसा तस्य नश्यति ।। १९७ ।।
अग्निप्रवेशं ये कुर्युर्गोप्रतारे विधानतः ।।
ते विशंति पदं विष्णोर्निःसंदग्धं तपोधन ।। १९८ ।।
कुर्वंत्यनशनं येऽत्र विष्णुभक्त्या सुनिश्चिताः ।।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।। १९९ ।।
अर्चयेद्यस्तु गोविंदं गोप्रतारे हि मानवः ।।
दशसौवर्णिकं पुण्यं गोप्रतारे प्रकथ्यते ।। 2.8.6.२०० ।।
अग्निहोत्रफलो धूपो गोविंदस्य समर्पितः ।।
भूमिदानेन सदृशं गंधदानफलं स्मृतम् ।। २०१ ।।
अत्यद्भुतमिदं विद्वन्स्थानमेतत्प्रकीर्तितम् ।।
कार्त्तिक्यां तु विशेषेण अत्र स्नात्वा शुचिव्रतः ।। २०२ ।।
स्वर्गद्वारे नरः स्नात्वा दशस्वर्णफलं लभेत् ।।
स्वर्णदः स्वर्गवासी च यो दद्याच्छ्रद्धयान्वितः ।। २०३ ।।
सुतीर्थे पर्वणि श्रेष्ठे दशस्वर्णफलप्रदे ।।
ज्येष्ठशुक्लचतुर्दश्यां रात्रौ जागरणं चरेत् ।। २०४ ।।
उपोषितः शुचिः स्नातो विष्णुपूजनतत्परः ।।
दीपं दद्यात्प्रयत्नेन नानाफलविधायिनम् ।। २०५ ।।
तावद्गर्जंति पुण्यानि स्वर्गे मर्त्ये रसातले ।।
यावद्दद्याज्जले दीपं कार्त्तिके केशवाग्रतः ।। २०६ ।।
पौर्णमास्यां प्रभाते तु स्नात्वा निर्मलमानसः ।।
हरिं संपूज्य विधिवद्विधाय श्राद्धमादरात् ।। २०७ ।।
दत्त्वान्नं च यथाशक्त्या संतोष्य ब्राह्मणांस्ततः ।।
वस्त्रादिभिरलंकारैः संपूज्य द्विजदंपती ।। २०८ ।।
विभुं गुप्तहरिं दृष्ट्वा संपूज्य तु विशेषतः ।।
नमस्कृत्यानु तत्तीर्थं शुचिस्तद्गतमानसः ।। २०९ ।।
स्वर्गद्वारे च विधिवन्मध्याह्ने स्नानमाचरेत् ।।
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ।। 2.8.6.२१० ।।
इति परमविधानैर्गोप्रतारे विधाय प्रथितसुकृतमूर्त्तिः स्नानमुच्चैः प्रयत्नात् ।।
कलितनिखिलपापः पूजयित्वादरेणाच्युतममलविकाशो विष्णुसायुज्यमेति ।। २११ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये स्वर्गद्वारगोप्रतारतीर्थमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ।। ६ ।।
खण्डः २ (वैष्णवखण्डः) · अयोध्यामाहात्म्यम् — Adhyāya 7
।। अगस्त्य उवाच ।। ।।
तीर्थमन्यत्प्रवक्ष्यामि क्षीरोदकमिति स्मृतम् ।।
सीताकुण्डाच्च वायव्ये वर्त्तते गुणसुन्दरम् ।।
पुण्यैकनिचयस्थानं सर्वदुःखविनाशनम् ।। १ ।।
पुरा दशरथो राजा पुत्रेष्टिनाम नामतः ।।
चकार विधिवद्यज्ञं पुत्रार्थं यत्र चादरात् ।। २ ।।
क्रतुं समापयामास सानन्दो भूरिदक्षिणम् ।।
यज्ञान्ते क्रतुभुक्तत्र मूर्तिमान्समदृश्यत ।। ३ ।।
हस्ते कृत्वा हेमपात्रं हविःपूर्णमनुत्तमम् ।।
तस्मिन्हविषि संकीर्णं वैष्णवं तेज उत्तमम् ।।
चतुर्विधं विभज्यैव पत्नीभ्यो दत्तवान्नृपः ।। ४ ।।
यत्र तत्क्षीरसंप्राप्तिर्जाता परमदुर्लभा ।।
क्षीरोदकमिति ख्यातं तत्स्थानं पापनाशनम् ।।
उदकेनाभिव्यक्तं च उत्तमं च फलप्रदम् ।। ५ ।।
तत्र स्नात्वा नरो धीमान्विजितेन्द्रिय आदरात् ।।
सर्वान्कामानवाप्नोति पुत्रांश्च सुबहुश्रुतान् ।। ६ ।।
आश्विने शुक्लपक्षस्य एकादश्यां जितव्रतः ।।
तत्र स्नात्वा विधानेन दत्त्वा शक्त्या द्विजन्मने ।। ७ ।।
विष्णुं संपूज्य विधिवत्सर्वान्कामानवाप्नुयात् ।।
पुत्रानवाप्नुयाद्विद्धि धर्मांश्च विधिवन्नरः ।। ८ ।।
तस्मात्क्षीरोदकस्थानान्नैर्ऋते दिग्दले श्रितम् ।।
ख्यातं बृहस्पतेः कुण्डमुद्दंडाचंडमंडितम् ।। ९ ।।
सर्वपापप्रशमनं पुण्यामृततरंगितम् ।।
यत्र साक्षात्सुरगुरुर्निवासं किल निर्ममे ।। 2.8.7.१० ।।
यज्ञं च विधिवच्चक्रे बृहस्पतिरुदारधीः ।।
नानामुनिगणैर्युक्तं रम्यं बहुफलप्रदम् ।।
सुपर्णच्छायसंपन्नं कुण्डं तत्पापिदुर्ल्लभम् ।। ११ ।।
इन्द्रादयोऽपि विबुधा यत्र स्नात्वा प्रयत्नतः ।।
मनोभीष्टफलं प्राप्ताः सौंदर्यौदार्यतुंदिलाः ।। १२ ।।
यत्र स्नानेन दानेन नरो मुच्येत किल्बिषात् ।। १३ ।।
भाद्रे शुक्ले तु पंचम्यां यात्रा तत्र फलप्रदा ।।
अन्यदापि गुरोर्वारे स्नानं बहुफलप्रदम् ।। १४ ।।
बृहस्पतेस्तथा विष्णोः पूजां तत्र य आचरेत् ।।
सर्वपापविनिर्मुक्तो विष्णुलोके स मोदते ।। १५ ।।
भवेद्बृहस्पतेः पीडा यस्य गोचरवेधतः ।।
तेनात्र विधिवत्स्नानं कार्यं संकल्पपूर्वकम् ।। १६ ।।
होमं कृत्वा गुरोर्मूर्तिः सुवर्णेन विनिर्मिता ।।
स्थित्वा जले प्रदेया वै पीतांबरसमन्विता ।। १७ ।।
वेदज्ञायातिशुचये स्नात्वा पीडापनुत्तये ।।
होमं च कारयेत्तत्र ग्रहजाप्यविधानतः ।। १८ ।।
एवं कृते न संदेहो ग्रहपीडा प्रणश्यति ।। १९ ।।
तद्दक्षिणे मुनिश्रेष्ठ रुक्मिणीकुण्डमुत्तमम् ।।
चकार यत्स्वयं देवी रुक्मिणी कृष्णवल्लभा ।। 2.8.7.२० ।।
तत्र विष्णुः स्वयं चक्रे निवासं सलिले तदा ।।
वरप्रदानात्स्नेहेन भार्यायाः प्रगुणीकृतम् ।। २१ ।।
तत्र स्नानं तथा दानं होमं वैष्णवमंत्रकम् ।।
द्विजपूजां विष्णुपूजां कुर्वीत प्रयतो नरः ।। २२ ।।
तत्र सांवत्सरी यात्रा कर्त्तव्या सुप्रयत्नतः ।।
ऊर्जकृष्णनवम्यां च सर्वपापापनुत्तये ।। ।। २३ ।।
पुत्रवाञ्जायते वन्ध्यो यात्रां कृत्वा न संशयः ।।
नारीभिर्वा नरैर्वापि कर्त्तव्यं स्नानमादरात् ।। २४ ।।
भुक्त्वा भोगान्समग्रांश्च विष्णुलोके स मोदते ।।
लक्ष्मीकामनया तत्र स्नातव्यं च विशेषतः ।। २५ ।।
सर्वकाममवाप्नोति तत्र स्नानेन मानवः ।।
रुक्मिणीश्रीपतिप्रीत्यै दातव्यं च स्वशक्तितः ।। २६ ।।
कर्त्तव्या विधिवत्पूजा ब्राह्मणानां विशेषतः ।।
ध्येयो लक्ष्मीपतिस्तत्र शंखचक्रगदाधरः ।। २७ ।।
पीतांबरधरः स्रग्वी नारदादिभिरीडितः ।।
तार्क्ष्यासनो मुकुटवान्महेन्द्रादिविभूषितः ।। २८ ।।
सर्वकामफलावाप्त्यै वक्षोलक्षितकौस्तुभः ।।
अतसीकुसुमश्यामः कमलामललोचनः ।। २९ ।।
एवं कृते न संदेहः सर्वान्कामानवाप्नुयात् ।।
इह लोके सुखं भुक्त्वा हरिलोके स मोदते ।। 2.8.7.३० ।।
अतः परं प्रवक्ष्यामि तीर्थमन्यदघापहम् ।।
कलिकिल्विषसंहारकारकं प्रत्ययात्मकम् ।। ३१ ।।
परं पवित्रमतुलं सर्वकामार्थसिद्धिदम् ।।
धनयक्षइतिख्यातं परं प्रत्ययकारकम् ।। ३२ ।।
रुक्मिणीकुण्डवायव्यदिग्दले संस्मृतं शुभम् ।।
हरिश्चन्द्रस्य राजर्षेरासीत्तत्र धनं महत् ।। ३३ ।।
तस्य रक्षार्थमत्यर्थं रक्षितो यक्षउच्चकैः ।।
विश्वामित्रो मुनिः पूर्वं यदा चैव पराजयत् ।। ३४ ।।
हरिश्चंद्रं नरपतिं राज्यसूयकरं परम् ।।
राज्यं जग्राह सकलं चतुरंगबलान्वितम् ।। ।। ३५ ।।
तद्वशेऽदाच्च स मुनिर्धनं सकलमुत्तमम् ।।
तद्रक्षायै प्रयत्नेन यक्षं स्थापितवानसौ ।। ३६ ।।
प्रमंथुर इति ख्यातं प्रमोदानन्दमंदिरम् ।।
रक्षां विदधतस्तस्य बहुयत्नेन सर्वशः ।। ३७ ।।
तुतोष स मुनिर्द्धीमान्कदाचिद्विजितेन्द्रियः ।।
उवाच मधुरं वाक्यं प्रीत्या परमया युतः ।। ३८ ।।
।। विश्वामित्र उवाच ।।
वरं वरय धर्मज्ञ क्षिप्रमेव विमत्सरः।।
भक्त्या परमया धीर संतुष्टोऽस्मि विशेषतः।।३९।।
।।यक्ष उवाच ।।।।
वरं प्रयच्छसि यदि विप्रवर्य मदीप्सितम्।।
ममांगमतिदुर्गंधि शापाच्च नृपतेरभूत्।।
सुगन्धयितुं ब्रह्मर्षे तत्प्रसीद मुनीश्वर ।।2.8.7.४०।।
।। अगस्त्य उवाच ।। ।।
एवमुक्ते तु यक्षेण मुनिर्ध्यानस्थलोचनः।।
तं विविच्यानया भक्त्या अभिषेकं चकार सः।।४१।।
तीर्थोदकेन विधिवत्कृत्वा संकल्पमादरात्।।
ततः सोऽभूत्क्षणेनैव सुगन्धोत्तरविग्रहः ।। ४२ ।।
तथाभूतः स मधुरं प्रोवाच प्रांजलिस्ततः ।।
पुनः पुरः स्थितो धीमान्विनयावनतस्तदा ।।४३।।
।। यक्ष उवाच ।। ।।
त्वत्कृपाभिरहं धीर जातः सुरभिविग्रहः।।
एतत्स्थानं यथा ख्यातिं याति सर्वज्ञ तत्कुरु ।। ४४ ।।
त्वत्प्रसादेन विप्रर्षे तथा यत्नं विधेहि वै ।। ४५ ।।
।। अगस्त्य उवाच ।। ।।
एवमुक्तः क्षणं ध्यात्वा मुनिः स्तिमितलोचनः ।।
यक्षं प्रति प्रसन्नात्मा ह्युवाच श्लक्ष्णया गिरा ।। ४६ ।।
।। विश्वामित्र उवाच ।। ।।
प्रसिद्धिमतुलां यक्ष एतत्स्थानं गमिष्यति ।।
धनयक्ष इति ख्यातिमेतत्तीर्थं गमिष्यति ।। ४७ ।।
सौंदर्य्यदं शरीरस्य परं प्रत्ययकारकम् ।।
यत्र स्नात्वा विधानेन दौर्गंध्यं त्यजति क्षणात् ।।
तत्र स्नानं प्रयत्नेन कर्त्तव्यं पुण्यकांक्षिभिः ।। ४८ ।।
दानं श्रद्धास्वशक्तिभ्यां लक्ष्मीपूजा विशेषतः ।।
तत्र स्नानेन दानेन लक्ष्मीप्रीत्यै विशेषतः ।। ४९ ।।
पूजया तु निधीनां च नवानामपि सुव्रत ।।
इह लोके सुखं भुक्त्वा परलोके स मोदते ।। 2.8.7.५० ।।
महापद्मस्तथा पद्मः शंखो मकरकच्छपौ ।।
मुकुन्दकुंदनीलाश्च खर्वश्च निधयो नव ।। ५१ ।।
एतेषामपि कुण्डेऽत्र संनिधिर्भविताऽनघ ।।
एतेषां तु विशेषेण पूजा बहुफलप्रदा।।५२।।
जलमध्ये प्रकर्त्तव्यं निधिलक्ष्मीप्रपूजनम्।।५३।।
अन्नं बहुविधं देयं वासांसि विविधानि च।।५४।।
सुवर्णादि यथाशक्त्या वित्तशाठ्यं विवर्जयेत् ।।
गुप्तं दानं प्रयत्नेन कर्त्तव्यं सुप्रयत्नतः ।।५५।।
फलानि च सुवर्णानि देयानि च विशेषतः ।।५६।।
कृष्णपक्षे चतुर्दश्यां स्नानं बहुफलप्रदम् ।।
श्रद्धया परया युक्तैः कर्त्तव्यं श्रद्धयाधिकम् ।। ५७ ।।
माघे कृष्णचतुर्दश्यां यात्रा सांवत्सरी भवेत् ।।
तत्र स्नानं पितॄणान्तु तर्पणं च विशेषतः ।। ५८ ।।
आब्रह्मस्तम्बपर्यंतं जगत्तृप्यत्विति ब्रुवन् ।।
अपसव्येन विधिवत्तर्प्पयेदंजलित्रयम् ।। ५९ ।।
एवं कुर्वन्नरो यक्ष न मुह्यति कदाचन ।।
अत्र स्नातो दिवं याति अत्र स्नातः सुखी भवेत् ।।2.8.7.६०।।
अत्र स्नातेन ते यक्ष कर्त्तव्यं पूजनं पुरः ।।
त्वत्पूजनेन विधिवन्नृणां पापक्षयो भवेत् ।। ६१ ।।
नमः प्रमथराजेति पूजामन्त्र उदाहृतः ।।
तीर्थमध्ये प्रकर्त्तव्यं पूजनं श्रवणादिकम् ।। ६२ ।।
निधिलक्ष्म्यो तथा यक्ष तव पूजा विशेषतः ।।
एवं यः कुरुते धीरः सर्वान्कामानवाप्नुयात् ।।६३।।
धनार्थी धनमाप्नोति पुत्रार्थी पुत्रमाप्नुयात् ।।
मोक्षार्थी मोक्षमाप्नोति तत्किं न यदिहाप्यते ।। ६४ ।।
यस्तु मोहान्नरो यक्ष स्नानं न कुरुते किल ।।
तस्य सांवत्सरं पुण्यं त्वं ग्रहीष्यसि सर्वशः ।। ६५ ।।
इति दत्त्वा वरांस्तस्मै विश्वामित्रो मुनीश्वरः।।
अन्तर्दधे मुनिवरस्तदा स च तपोनिधिः ।।६६।।
तदाप्रभृति तत्स्थानं परमां ख्यातिमाययौ ।।
तस्य तीर्थस्य सकला भूमिः स्वर्णविनिर्मिता ।।६७ ।।
दिव्यरत्नौघखचिता समंतादुपशोभिता ।।
एवं यः कुरुते विद्वन्स याति परमां गतिम् ।। ६८ ।।
धनयक्षादुत्तरस्मिन्दिग्भागे संस्थितं द्विज ।।
वसिष्ठकुण्डं विख्यातं सर्वपापापहं सदा ।। ६९ ।।
वसिष्ठस्य सदा तत्र निवासः सुतपोनिधेः ।।
अरुन्धती सदा यस्य वर्तते निर्मलव्रता ।। 2.8.7.७० ।।
अत्र स्नानं विशेषेण श्राद्धपूर्वमतंद्रितः ।।
यः कुर्यात्प्रयतो धीमांस्तस्य पुण्यमनुत्तमम् ।। ७१ ।।
वामदेवस्य तत्रैव संनिधिर्वर्ततेऽनघ ।।
वशिष्ठवामदेवौ तु पूजनीयौ प्रयत्नतः ।। ७२ ।।
पतिव्रता पूजनीयाऽरुन्धती च विशेषतः ।।
स्नातव्यं विधिना सम्यग्दातव्यं च स्वशक्तितः ।। ७३ ।।
सर्वकामफलप्राप्तिर्जायते नात्र संशयः ।।
अत्र यः कुरुते स्नानं स वशिष्ठसमो भवेत् ।। ७४ ।।
भाद्रे मासि सिते पक्षे पंचम्यां नियतव्रतः ।।
तस्य सांवत्सरी यात्रा कर्त्तव्या विधिपूर्विका ।। ७५ ।।
विष्णुपूजा प्रयत्नेन कर्तव्या श्रद्धयात्र वै ।।
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ।। ७६ ।।
वसिष्ठकुण्डाद्विप्रेंद्र प्रत्यग्दिग्दलमाश्रितम् ।।
विख्यातं सागरं कुण्डं सर्वकामार्थसिद्धिदम् ।।
यत्र स्नानेन दानेन सर्वकामानवाप्नुयात् ।। ७७ ।।
पौर्णमास्यां समुद्रस्य स्नानाद्यत्पुण्यमाप्नुयात् ।।
तत्पुण्यं पर्वणि स्नातो नरश्चाक्षयमाप्नुयात् ।। ७८ ।।
तस्मादत्र विधानेन स्नातव्यं पुत्रकांक्षया ।।
आश्विने पौर्णमास्यां तु विशेषात्स्नानमाचरेत् ।। ७९ ।।
एवं कुर्वन्नरो विद्वान्सर्वपापैः प्रमुच्यते ।।
अत्र स्नात्वा नरो दत्त्वा यथाशक्त्या दिवं व्रजेत् ।। 2.8.7.८० ।।
सागरान्नैर्ऋते भागे योगिनीकुण्डमुत्तमम् ।।
यत्राऽऽसते चतुःषष्टियोगिन्यो जलसंस्थिताः ।। ८१ ।।
सर्वार्थसिद्धिदाः पुंसां स्त्रीणां चैव विशेषतः ।।
परसिद्धिप्रदाः सर्वाः सर्वकामफलप्रदाः ।। ८२ ।।
आश्विने शुक्लपक्षस्य अष्टम्यां च विशेषतः ।।
स्नातव्यं च प्रयत्नेन योगिनीप्रीतये नृभिः ।। ८३ ।।
अत्र स्नानं तथा दानं सर्वं सफलतां व्रजेत् ।।
यक्षिणीप्रभृतयः सिद्धा भवंत्यत्र न संशयः ।। ।। ८४ ।।
योगिनीकुंडतः पूर्वमुर्वशीकुण्डमुत्तमम् ।।
यत्र स्नातो नरो विद्वन्नुर्वशीं दिवि संश्रयेत् ।। ८५ ।।
पुरा किल मुनिर्धीरो रैभ्यो नाम तपोधनः ।।
चचार हिमवत्पार्श्वे निराहारो जितेन्द्रियः ।। ८६ ।।
तत्तपो विपुलं दृष्ट्वा भीतः सुरपतिस्ततः ।।
उर्वशीं प्रेषयामास तपोविघ्नाय चादरात् ।। ८७ ।।
ततः सा प्रेषिता तेनाजगाम गजगामिनी ।।
उवास हिमवत्पार्श्वे रैभ्याश्रममनुत्तमम् ।। ८८ ।।
वनफुल्ललताकुञ्जे मञ्जुकूजद्विहंगमे ।।
किन्नरीकेलिसंगीतस्तिमितांगकुरंगके ।। ८९ ।।
पुन्नागकेशराशोकच्छिन्नकिजल्कपिंजरे ।।
कल्पिते कांचनगिरौ द्वितीय इव वेधसा ।। 2.8.7.९० ।।
सा बभौ कांतिसर्वस्वकोशः कुसुमधन्वनः ।।
उर्वश्यनल्पसामान्यलावण्यामृतवाहिनी ।। ९१ ।।
अंगप्रभासुवर्णेन सितमौक्तिकशोभिता ।।
तारुण्यरुचिरत्वेन तारुण्येन विभूषिता ।। ९२ ।।
विलोमलोचनापांगतरंगधवलत्विषा ।।
नवपल्लवसच्छायं कल्पयन्ती निजाधरम् ।। ९३ ।।
कर्णोपलम्बिसंघुष्यद्भृङ्गाढ्यचूतमञ्जरी ।।
सुधागर्भसमुद्भूता पारिजातलता यथा ।। ९४ ।।
तनुमध्या पृथुश्रोणिर्वर्णोद्भिन्नपयोधरा ।।
निःशाणितशरस्येव शक्तिः कुसुमधन्वनः ।। ९५ ।।
अपश्यदाश्रमे तस्मिन्मुनिरायतलोचनाम् ।।
नयनानलदाहेन विदग्धेन मनोभुवा ।। ९६ ।।
त्रिनेत्रवंचनायैव कल्पितां ललनातनुम् ।।
तामाश्रमलतापुष्पकांचीरचितकुण्डलाम् ।। ९७ ।।
विलोक्य तां विशालाक्षीं मुनिर्व्याकुलितेन्द्रियः ।।
बभूव रोषसंतप्तः शशाप च बहु ज्वलन् ।।९८।।
।। रैभ्य उवाच ।। ।।
कुरूपतां व्रज क्षिप्रं या त्वं सौंदर्यगर्विता ।।
समागता तपोविघ्नहेतवे मम सन्निधौ ।। ९९ ।।
।। अगस्त्य उवाच ।। ।।
इति शप्ता रुषा तेन मुनिना सा शुभेक्षणा ।।
उवाच वनिता भूत्वा प्रांजलिर्मुनिमादरात् ।।।। 2.8.7.१०० ।।
।। उर्वश्युवाच ।। ।।
भगवन्मे प्रसीद त्वं पराधीना यतस्त्वहम् ।।
त्वच्छापस्य कथं मुक्तिर्भविता नियतव्रत ।। १०१ ।।
।। रैभ्य उवाच ।। ।।
अयोध्यायामस्ति तीर्थं पावनं परमं महत् ।।
तत्र स्नानं कुरुष्वाद्य सौंदर्यं परमाप्नुहि ।। १०२ ।।
त्वन्नाम्नैव च विख्यातिं तोयं यास्यति तद्ध्रुवम् ।। १०३ ।।
।। अगस्त्य उवाच ।। ।।
एवं सा विप्रवचसा विदधे सर्वमादरात् ।।
सुन्दरी साऽभवत्क्षिप्रं तत्स्थानं ख्यातिमाययौ ।।१०४।।
अत्र स्नानं मुनिश्रेष्ठ यः कुर्याद्विधिवज्जनः ।।
सौंदर्यं परमं तस्य भवेत्तत्र न संशयः ।।१०५।।
भाद्रे शुक्लतृतीयायां यात्रा सांवत्सरी भवेत् ।।
विष्णुरत्र जनैः पूज्यः सर्वकामार्थसिद्धये ।। १०६ ।।
एवं कुर्वन्नरो विद्वान्विष्णुलोके वसेत्सदा ।।
नरो वा यदि वा नारी सर्वान्कामानवाप्नुयात् ।। ।।१०७।।
घोषार्ककुंडं परममुर्वशीकुंडदक्षिणे ।।
वर्तते मुनिशार्दूल सर्वपापापहं सदा ।।१०८।।
यत्र स्नानेन दानेन सूर्यलोके महीयते ।।
एतत्तीर्थस्य सदृशं नापरं विद्यते क्वचित् ।। १०९ ।।
व्रणी कुष्ठी दरिद्री वा दुःखाक्रांतोऽपि यो नरः ।।
करोति विधिवत्स्नानं सर्वान्कामानवाप्नुयात् ।। 2.8.7.११० ।।
रविवारे विशेषेण कर्त्तव्यं स्नानमादरात् ।।
भाद्रे मासि तथा माघे शुक्लषष्ठ्यां प्रयत्नतः ।। १११ ।।
कर्त्तव्यं विधिवत्स्नानं सूर्यलोकाभिकांक्षया ।।
पौषे मासि तथा स्नानं सूर्यवारे विशेषतः ।। ११२ ।।
सप्तम्यां रवियुक्तायां स्नानं बहुफलप्रदम् ।।
घोषाभिधोऽभवत्पूर्वं सूर्यवंशे नरेश्वरः ।। ११३ ।।
समुद्रमेखलामेकः पृथिवीं समपालयत् ।।
यस्य कीर्त्या प्रकाशंते त्रिलोकीमंडलानि वै ।। ११४ ।।
यः प्रतापात्स्फुरन्भाति प्रभाकर इवापरः ।।
प्रचंडतरदोर्दंडखंडितारातिमंडलः ।। ११५ ।।
स कदाचित्प्रजापालो मंत्त्रिविन्यस्तभूतलः ।।
बभ्राम मृगयासक्तो वनेऽतिगहनद्रुमे ।। ११६ ।।
स राजा पूर्वजन्मोत्थपापैरशुभसूचकैः ।।
कृमिव्याप्तकरांभोजः सुन्दरोपि गतस्मयः ।। ११७ ।।
मृगयायामभूदेकः कदाचित्पर्यटन्वने ।।
वराहसिंहहरिणान्निघ्नन्गच्छन्नितस्ततः ।। ११८ ।।
तृषाक्रान्तो म्लानतनुः सरोऽपश्यत्पुरो नृपः ।।
ददर्श तत्र च मुनीन्स्नानसंध्यादितत्परान् ।। ११९ ।।
ततो विधिवदाचम्य स्नानं चक्रे नरेश्वरः ।।
ततो दिव्यशरीरोऽभूदानंदामलमानसः ।। 2.8.7.१२० ।।
मुनिभिस्तीर्थमाज्ञाय चक्रे सूर्य्यस्तुतिं प्रियाम् ।। १२१ ।। ।।
।। राजोवाच ।। ।।
भगवन्देवदेवेश नमस्तुभ्यं चिदात्मने ।।
नमः सवित्रे सूर्याय जगदानंददायिने ।। १२२ ।।
प्रभागेहाय देवाय त्रयीभूताय ते नमः ।।
विवस्वते नमस्तुभ्यं योगज्ञाय सदात्मने ।।१२३।।
पराय परमेशाय त्रिलोकीतिमिरच्छिदे ।।
अचिन्त्याय सदा तुभ्यं नमो भास्करतेजसे ।। ।। १२४ ।।
योगप्रियाय योगाय योगज्ञाय सदा नमः ।।
ॐकाराय वषट्काररूपिणे ज्ञानरूपिणे ।। १२५ ।।
यज्ञाय यज्ञमानाय हविषे ऋत्विजे नमः ।।
रोगघ्नाय स्वरूपाय कमलानंददायिने ।। १२६ ।।
अतिसौम्यातितीक्ष्णाय सुराणां पतये नमः ।।
सत्राशाय नमस्तुभ्यं भक्तत्राय प्रियात्मने ।। १२७ ।।
प्रकाशकाय सततं लोकानां हितकारिणे ।।
प्रसीद प्रणतायाद्य मह्यं भक्तिकृते स्वयम् ।। १२८ ।।
।। अगस्त्य उवाच ।। ।।
इत्येवं ब्रुवतस्तस्य स प्रसन्नो रविः स्वयम् ।।
आविर्बभूव सहसा भक्तस्य प्रियकाम्यया ।।
उवाच मधुरं वाक्यं प्रश्रयानतमूर्द्धजम् ।। १२९ ।। ।।
।। रविरुवाच ।। ।।
वरं वरय राजेंद्र प्रसन्नोऽस्मि तवाग्रतः ।।
ददामि तद्वरं तेऽद्य यत्त्वया मनसेप्सितम् ।। 2.8.7.१३० ।।
।। राजोवाच ।। ।।
भगवन्भास्करानंत प्रयच्छसि वरं यदि ।।
मन्नाम्ना कृतमूर्त्तिस्ते तिष्ठत्वत्र सदा विभो ।। १३१ ।।
।। रविरुवाच ।। ।।
एवमस्तु मनुष्येंद्र तव वांछा मनोहरा ।।
एतत्स्तोत्रं त्वयोक्तं मे ये पठिष्यंति मानवाः ।। १३२ ।।
तेभ्यस्तुष्टः प्रदास्यामि सर्वान्कामान्नरेश्वर ।।
एतत्स्थानं परां ख्यातिं त्वन्नाम्ना यास्यति क्षितौ ।। १३३ ।।
सर्वान्कामानवाप्नोति योऽत्र स्नानं समाचरेत्।।
मद्भक्तेन सदा राजन्कर्त्तव्यं स्नानमत्र वै ।। १३४ ।।
यंयं काममिहेच्छेत तंतं काममवाप्नुयात् ।। १३५ ।।
।। अगस्त्य उवाच ।। ।।
इति दत्त्वा वरं देवः कृपया परया युतः ।।
भास्वान्सहस्रकिरणस्तदान्तर्द्धानमाययौ ।। १३६ ।।
राजा भास्करदेहोत्थां रविमूर्त्तिमनुत्तमाम् ।।
तत्र संस्थापयामास पूजयामास च स्वयम् ।। १३७ ।।
घोषार्ककुण्डं तन्नाम्ना तत्र ख्यातिं जगाम ह ।।
यत्र स्नानान्नरो राजन्सूर्य्यलोके वसेत्सदा ।। १३८ ।।
इति रुचिरविधानैस्तूर्णमादित्यमूर्त्तिं विमलपरमभक्त्या पूजयित्वाऽऽदरेण ।।
तदमृतमयकुण्डे स्नानमादौ विधाय प्रचुरविमलकीर्तिः सूर्यलोके वसेत्सः ।। १३९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये बृहस्पतिकुण्डरुक्मिणीकुण्डधनयक्षतीर्थ वसिष्ठकुण्डसागरकुण्ड योगिनीकुण्डोर्वशीकुण्डघोषार्ककुंड माहात्म्यवर्णनंनाम सप्तमोऽध्यायः ।। ७ ।। ।। छ ।।
खण्डः २ (वैष्णवखण्डः) · अयोध्यामाहात्म्यम् — Adhyāya 8
।। अगस्त्य उवाच ।। ।।
घोषार्कतीर्थाद्विप्रर्षे पश्चिमे दिक्तटे स्थितम् ।।
रतिकुण्डमिति ख्यातं सर्वपापहरं सदा ।। १ ।।
यत्र स्नानेन दानेन परां कांतिमवाप्नुयात् ।।
तत्पश्चिमदिशाभागे कुसुमायुधनामकम् ।। २ ।।
कुंडं प्रसिद्धमतुलं सर्वकामार्थसिद्धये ।।
यत्र स्नानेन दानेन कन्दर्पसदृशाकृतिम् ।।
लभते ना विधानेन मुने नास्त्यत्र संशयः ।। ३ ।।
रतिकुंडे तथा विप्र कुसुमायुधकुण्डके ।।
श्रद्धया कुरुते स्नानं स सौख्यपरमो भवेत् ।। ४ ।।
कुण्डद्वयेऽत्र मिथुनं यत्स्नानं कुरुते किल ।।
रतिकामाविव ख्यातौ सदा तौ सुंदरौ तदा ।। ५ ।।
तस्मादत्र विधानेन स्नातव्यं धर्मकांक्षिभिः ।।
दानं देयं यथाशक्त्या रतिकंदर्पतुष्टये ।। ६ ।।
भवेतां नियतं तस्य संतुष्टौ रतिमन्मथौ ।।
माघे विशदपंचम्यां यत्र स्नानं शुभप्रदम् ।। ७ ।।
रतिकुंडे पुरः स्नात्वा पश्चात्कंदर्प्पकुंडके ।।
स्नातव्यं तद्दिने विप्र मिथुनेन प्रयत्नतः ।। ८ ।।
रतिकंदर्प्पयोः पूजा विधातव्या विशेषतः ।।
वस्त्रादिभिरलंकारैः संपूज्यौ द्विजदंपती ।। ९ ।।
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ।। 2.8.8.१० ।।
चंदनागुरुकर्पूरकस्तूरीकुंकुमादिभिः ।।
वासोभिर्विविधैः पुष्पैः पूजयेद्द्विजदम्पती ।। ११ ।।
एवं कृते न संदेहो रतिकंदर्पतुष्टये ।।
तद्व्रजेन्मिश्रुनं विप्र रतिकंदर्प्पतुल्यताम् ।। १२ ।।
कुसुमायुधकुंडात्तु प्रतीच्यां दिशि संस्थितम् ।।
मन्त्रेश्वर इति ख्यातं तत्स्थानं भुवि दुर्लभम् ।। १३ ।।
तत्र तीर्थे नरः स्नात्वा दृष्ट्वा मन्त्रेश्वरं विभुम् ।।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।। १४ ।।
पुरा रामो देवकार्यं विधायामलकर्मकृत् ।।
कालेन सह संगम्य मन्त्रं चक्रे नरेश्वरः ।। १५ ।।
स्वर्गं प्रति प्रयाणाय यत्र स्नातौ जितेंद्रियः ।।
तत्रैव स्थापितं लिंगं मन्त्रेश्वर इति श्रुतम् ।। १६ ।।
तदुत्तरे सरो रम्यं कुमुदोत्पलमंडितम् ।।
तत्र स्नानं तथा दानं नानाफलदमुत्तमम् ।। १७।।
चैत्रशुक्लचतुर्दश्यां यात्रा सांवत्सरी स्मृता ।।
तत्र स्नानेन दानेन ब्राह्मणानां च पूजनात् ।।
अक्षयं स्वर्गमाप्नोति तत्र कार्या विचारणा ।। १६ ।।
मंत्रेश्वरस्य महिमा नहि केनापि शक्यते ।।
सम्यग्वर्णयितुं विप्र य उत्तमफलप्रदः ।।
मंत्रेश्वरसमं लिंगं न भूतं न भविष्यति ।। १९ ।।
सुगंधिपुष्पधूपादिकुसुमाद्यनुलेपनैः ।।
पूजनीयः प्रयत्नेन सर्वकामार्थसिद्धिदः ।। 2.8.8.२० ।।
एवं कृते न संदेहो मुक्तिस्तस्य करे स्थिता ।।
तत्रैवोत्तरभागे तु शीतला वर्ततेऽनघ ।। २१ ।।
तां संपूज्य नरो विद्वान्सर्वपापैः प्रमुच्यते ।।
सर्वदा पूजनं तस्याः सोमवारे विशेषतः ।।
कर्त्तव्यं सुप्रयत्नेन नृभिः सर्वार्थसिद्धये ।। २२ ।।
विस्फोटकादिकभये नरैश्च समुपस्थिते ।।
कर्तव्यं पूजनं सम्यग्रोगादिभयनाशनम् ।। २३ ।।
तदुत्तरे तु तत्रैव देवी वन्दीति विश्रुता ।।
यस्याः स्मरणमात्रेण निगडादिभयं नहि ।।२४।।
राज्ञा क्रुद्धेन ये बद्धाः शृंखलानिगडादिभिः ।।
बन्दी संस्मृत्य देवीं तु मुक्ताः स्युस्तत्क्षणाद्धि ते ।।२५।।
यात्रा तस्याः प्रयत्नेन कर्तव्या यत्नतो नरैः ।।
मंगले हि विशेषेण सर्वकामार्थसिद्धिदा ।।२६।।
गंधैः पुष्पैस्तथा धूपैर्दीपैरपि च सुव्रत ।।
नैवेद्यैर्विविधैर्वापि पूजनीया प्रयत्नतः ।। २७ ।।
बन्दीप्रीत्यै मुनिश्रेष्ठ देयं ब्राह्मणभोजनम् ।।
एवं कृते न संदेहः सर्वान्कामानवाप्नुयात् ।। २८ ।।
तदुत्तरस्मिंस्तत्रैव चुडकी भुवि कीर्तिता ।।
वर्तते परमा सिद्धिरूपिणी स्मरणान्नृणाम् ।। २९ ।।
सुसंदिग्धेषु कार्येषु भये च समुपस्थिते ।।
यस्याः स्मरणतो नॄणां सर्वसिद्धिः प्रजायते ।। 2.8.8.३० ।।
अग्रे तस्याः सदा कार्या नृभिरंगुष्ठतो ध्वनिः ।।
दीपदानं प्रयत्नेन कर्त्तव्यं नियतात्मभिः ।। ३१ ।।
सर्वाभीष्टप्रदं नॄणां दीपदानं प्रशस्यते ।।
चतुर्दश्यां चतुर्दश्यां तस्या यात्रा विनिर्मिता ।। ३२ ।।
ततः पूर्वदिशाभागे वर्त्तते तीर्थमुत्तमम् ।।
महारत्न इति ख्यातं सर्वतीर्थोत्तमोत्तमम् ।। ३३ ।।
यत्र स्नानेन दानेन पूजया च द्विजन्मनाम् ।।
सर्वकर्मार्थसिद्धिः स्यान्नात्र कार्या विचारणा ।। ३४ ।।
भाद्रे कृष्णचतुर्दश्यां यात्रा सांवत्सरी स्मृता ।।
यात्राऽऽस्ते किल मुख्याऽस्य महारत्ना इति श्रुता ।। ३५ ।।
महारत्न इति ख्यातं तस्मात्तीर्थमनुत्तमम् ।।
तत्र दानं प्रकर्त्तव्यं द्विजसंतोषकारकम् ।। ३६ ।।
नारीभिरपि विप्रर्षे कर्त्तव्यो जागरोत्सवः ।।
वीर्यसौभाग्यसंपन्नसर्वसौख्याय सर्वदा ।।
तत्र स्नानं प्रयत्नेन कर्त्तव्यं श्रद्धया नरैः ।। ३७ ।।
ततो नैऋत्यदिग्भागे दुर्भराख्यं सरा शुभम् ।।
वर्तते सुकृतोदारं महाभरसरस्तथा ।। ३८ ।।
तत्र स्नानादवाप्नोति सदा स्वर्गपदं नरः ।।
धनं बहुविधं देयं वासांसि विविधानि च ।। ।। ३९ ।।
शिवपूजा प्रकर्त्तव्या स्नात्वा कुण्डद्वये नरैः ।।
नानाविधेन भावेन भक्त्या परमया युतैः ।। 2.8.8.४० ।।
गन्धादिभिः शुभैः पुष्पैरर्च्चनीयो महेश्वरः ।।
नीलकंठोंऽधकारातिराराध्यो योगिनामपि ।। ४१ ।।
इति ध्यात्वा शिवं सार्द्धं निष्पापं प्रयतो नरः ।।
सर्वकामानवाप्याशु शिवलोके वसेत्सदा ।। ४२ ।।
एवं कृत्वा नरो विप्र सर्वपापैः प्रमुच्यते ।।
महाभरे वरे तीर्थे तथा दुर्भरसंज्ञके ।। ४३ ।।
भाद्रकृष्णचतुर्दश्यां यः कुर्य्याच्छ्रद्धयाऽन्वितः ।।
शिवपूजां च विधिवद्द्विजपूजां विशेषतः ।। ४४ ।।
यः करोति नरो भक्त्या शिवलोके स संवसेत् ।।
एवं कुर्वन्नरो विद्वान्न मुह्यति कदाचन ।। ४५ ।।
विष्णुरुद्रौ च तस्यातिसुप्रसन्नौ सनातनौ ।।
तयोः स्मरणमात्रेण सर्वपापैः प्रमुच्यते ।। ४६ ।।
अतः किं बहुनोक्तेन विप्रतीर्थमनुत्तमम् ।।
सर्वपापौघशमनं सर्वाभीष्टकरं सदा ।। ४७ ।।
अतः परं प्रवक्ष्यामि तीर्थमन्यच्छुभावहम् ।।
यत्र यात्रा तथा दानं विना भाग्यं न संभवेत् ।। ४८ ।।
ईशाने दुर्भरस्थानान्महाविद्याभिधं महत् ।।
तस्य दर्शनतो नॄणां सिद्धयः स्युः करे स्थिताः ।। ४९ ।।
तदग्रे सरसि स्नात्वा महाविद्यां तु यो नरः ।।
पश्यति श्रद्धया भक्त्या स याति परमां गतिम् ।। 2.8.8.५० ।।
सिद्धपीठं तथा ख्यातं सम्यक्प्रत्ययकारकम् ।।
तत्र पूजा विधातव्या भक्त्या परमया द्विज ।। ५१ ।।
मंत्रं यः श्रद्धया विप्र शैवं शाक्तमथापि वा ।।
गाणपत्यं वैष्णवं वा तत्र यः प्रयतो नरः ।। ५२ ।।
एकाग्रमानसो विद्वन्नाराध्यावर्तयेत्सदा ।।
तस्य सिद्धिर्भवेन्नित्यं चमत्कारो भवेद्द्विज ।। ५३ ।।
तस्मादत्र प्रकर्तव्यं जपादिकमतंद्रितैः ।।
अष्टम्यां च नवम्यां च यात्रा स्यात्प्रतिमासिकी ।। ५४ ।।
देयान्यन्नानि बहुशो नानाविधफलानि च ।।
क्षीरेण स्नपनं कार्यं पूजनीया प्रयत्नतः ।। ५५ ।।
उच्चाटनादीन्यपि च मोहनादि विशेषतः ।।
अत्र स्थाने विशेषेण दुष्टमन्त्रोऽपि सिध्यति ।। ५६ ।।
सिद्धस्थाने परं मोक्षं वशीकरणमुत्तमम् ।।
जपो होमस्तथा दानं सर्वमक्षयतां व्रजेत् ।। ५७ ।।
आश्विने शुक्लपक्षस्य नवरात्रिषु सुव्रत ।।
यत्र गत्वा नरो विप्र सर्वपापैः प्रमुच्यते ।। ५८ ।।
यदा पूर्वं विनिर्जित्य रावणं लोकरावणम् ।।
समागतो रघुपतिः सीतालक्ष्मणसंयुतः ।। ५९ ।।
यत्र गत्वा पदा वीरो भरतो रामकांक्षया ।।
स्थितः सानुचरः श्रीमाञ्छ्रिया परमया युतः ।। 2.8.8.६० ।।
तत्रागमत्सुरगवी प्रादुर्भूता स्रवत्स्तनी ।।
तत्स्तनेभ्यः प्रसुस्राव दुग्धं बहुगुणाधिकम् ।। ६१ ।।
तद्भूमिपतितं दुग्धं दृष्ट्वा वानरराक्षसाः ।।
विस्मयं परमं जग्मुः प्रपपुस्ते चराचरम् ।। ६२ ।।
किमेतदिति राजेंद्र तानुवाच रघूद्वहः ।।
वसिष्ठो वेत्ति तत्सर्वं पृच्छामस्तं मुनिं वयम् ।। ६३ ।।
इत्युक्तास्तु ततः सर्वे वसिष्ठप्रमुखे स्थिताः ।।
ते पप्रच्छुः प्रांजलयः कृत्वा चाग्रेसरं नृपम् ।। ६४ ।।
वसिष्ठोऽपि क्षणं ध्यात्वा तमुवाच निराकुलम् ।।
राघवं प्रति संबोध्य सर्वेषामग्रतो मुनिः ।। ६५ ।।
।। ।। वसिष्ठ उवाच ।। ।।
शृणु राम महाबाहो कामधेनुरियं शुभा ।।
समागता तव स्नेहात्प्रस्रवंती स्तनात्पयः ।। ६६ ।।
दुग्धमध्ये समुद्भूतो रुद्रस्त्वां द्रष्टुमागतः ।।
निष्पन्नकार्य्यं देवानां निर्जितारातिमुत्तमम् ।। ६७ ।।
इमं संपूजय क्षिप्रमेतत्कुण्डस्य सन्निधौ ।।
शीघ्रं त्वमपि यत्नेन पूजयेमं शिवं शुभम् ।।
दुग्धेश्वरमिति ख्यातं क्षीरकुण्डे पवित्रकम् ।। ६८ ।।
।। अगस्त्य उवाच ।। ।।
ततो रघुपतिः श्रीमान्वसिष्ठोक्तविधानतः ।।
पूजयामास तल्लिंगं दुग्धेश्वरमिति स्मृतम् ।।६९।।
सीतया सत्कृतं यस्मात्तत्कुण्डं क्षीरसंगमम् ।।
सीताकुंडमिति ख्यातिं जगामानुपमां ततः।।2.8.8.७० ।।
सीताकुण्डे नराः स्नात्वा दृष्ट्वा दुग्धेश्वरं प्रभुम् ।।
सर्वपापैः प्रमुच्यंते नात्र कार्या विचारणा ।।७१।।
अत्र स्नानं जपो होमो दानं चाक्षयतां व्रजेत् ।।
सीताकुंडे तु संपूज्य सीतारामौ सलक्ष्मणौ ।।७२।।
दुग्धेश्वरं च संपूज्य सर्वान्कामानवाप्नुयात् ।।
ज्येष्ठे मासि चतुर्दश्यां यात्रा सांवत्सरी स्मृता।।७३।।
एवं यो विधिवत्कुर्याद्दयाधर्मविशारदः ।।
स याति परमं स्थानं यत्र गत्वा न शोचति ।। ७४ ।।
तत्र पूर्वदिशाभागे सुग्रीवरचितं महत् ।।
तीर्थं तपोनिधेस्तत्र वर्तते सन्निधौ शुभम् ।। ७५ ।।
यत्र स्नात्वा च दत्त्वा च रामं संपूज्य यत्नतः ।।
तस्मिन्नेव दिने तत्र सर्वान्कामानवाप्नुयात् ।। ७६ ।।
तत्प्रत्यग्दिशि वै स्थानं हनुमत्कुण्डमित्यपि ।।
तस्य पश्चिमतो विप्र विभीषणसरः दूरर ।। ७७ ।।
तयोः स्नानेन दानेन रामसंपूजनेन च ।।
सर्वान्कामानवाप्नोति तस्मिन्नेव विधानतः ।।
इयं सा परमा मेध्याऽयोध्या धर्मनिधिः स्मृता ।। ७८ ।।
इत्युक्तास्तु ततः सर्वे वसिष्ठमुनिमादरात् ।।
पप्रच्छुर्विनयात्क्षिप्रं विभीषणपुरःसराः ।।
कथयस्व तपोराशे कथामेतां सुदुर्लभाम् ।। ७९ ।।
अयोध्यायाः परं विप्र माहात्म्यं कथयंति यत् ।।
तत्सर्वं कथय क्षिप्रं श्रुत्वा माहात्म्यमुत्तमम् ।। 2.8.8.८० ।।
यथा यात्रां विधास्यामः क्रमेण च विधानतः ।।
तदस्मासु कृपां कृत्वा कथयस्व तपोनिधे ।। ८१ ।।
।। वसिष्ठ उवाच ।। ।।
शृण्वन्तु मुनयः सर्वे अयोध्यामहिमाद्भुतम् ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशय ।। ।। ८२ ।।
इदं गुह्यतरं क्षेत्रमयोध्याभिधमुत्तमम् ।।
सर्वेषामेव भूतानां हेतुर्मोक्षस्यः सर्वदा ।। ८३ ।।
अस्मिन्सिद्धाः सदा देवा वैष्णवं व्रतमास्थिताः ।।
नानालिंगधरा नित्यं विष्णुलोकाभिकांक्षिणः ।। ८४ ।।
अभ्यस्यंति परं योगं युक्तप्राणा जितेन्द्रियाः ।।
नानावृक्षसमाकीर्णे नानाविहगवासिनि ।। ८५ ।।
कमलोत्पलशोभाढ्ये सरोभिः समलंकृते ।।
अप्सरोगणसंकीर्णे सर्वदा सेविते शुभे ।। ८६ ।।
रोचते हि सदा वासः क्षेत्रे नित्यं हरेरिह ।।
मन्यमाना विष्णुभक्ता विष्णौ सर्वेऽर्पितक्रियाः।।८७।।
यथा मोक्षमिहायांति नान्यत्र हि तथा क्वचित् ।।
अतः श्रेष्ठतमं क्षेत्रं यस्माच्च वसतिर्हरेः ।।
महाक्षेत्रमिदं यस्मादयोध्याभिधमुत्तमम् ।। ८८ ।।
नैमिषे च कुरुक्षेत्रे गंगाद्वारे च पुष्करे ।।
स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते तथा ।। ८९ ।।
इह संप्राप्यते यद्वत्तत एव विशिष्यते ।।
प्रयागे वा भवेन्मोक्ष इह वा हरिसंश्रयात् ।।
सर्वस्मादपि तीर्थाग्र्यादिदमेव महत्कृतम् ।। 2.8.8.९० ।।
अव्यक्तलिंगैर्मुनिभिः सर्वैः सिद्धैर्महर्षिभिः ।।
इह संप्राप्यते मोक्षो दुर्ल्लभोऽन्यत्र यो मतः ।। ।। ९१ ।।
तेभ्यः प्रयच्छति हरिर्योगमैश्वर्य्यमुत्तमम् ।।
आत्मनश्चैव सायुज्यमीप्सितं स्थानमुत्तमम् ।। ९२ ।।
ब्रह्मा देवर्षिभिः सार्द्धं श्रीश्च वायुर्दिवाकरः ।।
देवराजस्तथा शक्रो ये चान्येऽपि दिवौकसः ।। ९३ ।।
उपासते महात्मानः सर्वत्र हरिमादरात् ।।
अन्येपि योगिनः सिद्धाः क्षेत्ररूपा महाव्रताः ।।
अनन्यमनसो भूत्वा सर्वदोपासते हरिम् ।। ९४ ।।
विषयासक्तचित्तोऽपि त्यक्तधर्मरतिर्नरः ।।
इह क्षेत्रे मृतः सोपि संसारी न पुनर्भवेत् ।। ९५ ।।
ये पुनर्निगमाधीनाः सत्रस्था विजितेंद्रियाः ।।
व्रतिनश्च निरारंभाः सर्वे ते हरिभाविताः ।। ९६ ।।
देहभंगं समापद्य धीमंतः संगवर्जिताः ।।
गतास्ते च परं मोक्षं प्रसादात्सर्वदा हरेः ।। ९७ ।।
जन्मान्तरसहस्रेषु युञ्जन्योगी न चाप्नुयात् ।।
तमिहैव परं मोक्षं मरणादपि गच्छति ।। ९८ ।।
एतत्संक्षेपतो वच्मि क्षेत्रस्य महिमाद्भुतम् ।।
एतदेव परं स्थानमेतदेव परं पदम् ।।
एतादृङ्नापरं स्थानं पुनरन्यत्र दृश्यते ।। ९९ ।।
अत्र गत्वा प्रयत्नेन यात्रा पुण्याभिकांक्षिभिः ।।
कर्तव्या विधिवद्धीराः क्रमेण श्रद्धयान्वितैः ।। ।। 2.8.8.१०० ।।
प्रथमेऽहनि कर्त्तव्य उपवासो यतात्मभिः ।।
नियमेन ततः स्नानं दानं चैव स्वशक्तितः ।। १०१ ।।
उपावृत्तस्तु पापेभ्यो यस्य वासो गुणैः सह ।।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः ।। १०२ ।।
उपवासं विधायासौ चक्रतीर्थे नरः कृती ।।
उपवासदिने स्नायाद्दद्याच्चैव स्वशक्तितः ।। १०३ ।।
विप्रं संपूज्य विधिवत्पश्येद्विष्णुहरिं विभुम् ।।
स्वर्गद्वारे नरः स्नात्वा विष्णुं संपूज्य यत्नतः ।। १०४ ।।
क्षौरं च कारयेत्तत्र व्रती धर्माभिधे ततः ।।
पापमोचनके स्नानमृणमोचनके ततः ।। १०५ ।।
स्नात्वा सहस्रधारायां शेषं संपूज्य यत्नतः ।।
दृष्ट्वा चंद्रहरिं देवं ततो धर्महरिं विभुम्।। १०६ ।।
ततश्चक्रहरिं दृष्ट्वा दद्याच्चैव स्वशक्तितः ।।
ब्रह्मकुण्डे नरः स्नात्वा सर्वकामार्थसिद्धये ।।
महाविद्यासमीपे तु रात्रौ जागरणं चरेत् ।। १०७ ।।
ततः प्रभाते विमले पुनरुत्थाय सद्व्रती ।।
स्वर्गद्वारे प्रयत्नेन विधिवत्स्नानमाचरेत् ।। १०८ ।।
श्राद्धं च विधिवत्कृत्वा दत्त्वा चैव स्वशक्तितः।।
विष्णुं संपूज्य विधिवद्विप्रानपि पुनःपुनः ।।१०९।।
दंपती च प्रयत्नेन पूज्यौ वस्त्रादिभिस्तथा ।।
श्रद्धया परया युक्तैर्दातव्या भूरिदक्षिणा ।। 2.8.8.११० ।।
विप्रान्संपूज्य विधिवद्भुंजीत प्रयतो नरः ।। १११ ।।
अन्येद्युरपि चोत्थाय श्रद्धया परया युतः ।।
रुक्मिणीप्रभृतीन्यत्र पश्येत्तीर्थानि च क्रमात् ।। ११२ ।।
तत्रतत्र नरः स्नात्वा दत्त्वा चैव स्वशक्तितः ।।
विष्णुं संपूज्य यत्नेन मनोवाक्कायनिर्मलः ।। ११३ ।।
यात्रां समापयेत्सम्यङ्नियतात्मा शुचिव्रतः ।।
यत्र क्वापि मृतो धीरः परं मोक्षमवाप्नुयात् ।। ११४ ।।
।। अगस्त्य उवाच ।। ।।
वसिष्ठोक्तमिति श्रुत्वा कृत्वा चैव यथाविधि ।।
विभीषणपुरोगास्ते बभूवुर्निर्मलास्तदा ।। ११५ ।।
इति बहुलविधानैस्तीर्थयात्रां विधाय प्रचुरसुकृतपूर्णास्ते च सुग्रीवमुख्याः ।।
गतमलिनसुदेहाः स्वर्गचर्याप्रयत्नादुपगुणितगुणौघास्ते बभूवुः समस्ताः ।। ११६ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखंडेऽयोध्यामाहात्म्ये महारत्नतीर्थदुर्भरमहाभरतीर्थमहाविद्यातीर्थ सिद्धपीठक्षीरेश्वरसीताकुण्ड सुग्रीवतीर्थहनुमत्कुण्ड विभीषणसरस्तीर्थायोध्यायात्राविधिक्रमवर्णनंनामाष्टमोऽध्यायः ।। ८ ।।
खण्डः २ (वैष्णवखण्डः) · अयोध्यामाहात्म्यम् — Adhyāya 9
।। अगस्त्य उवाच ।। ।।
जटाकुण्डत आग्नेयदिग्दल संश्रितं महत् ।।
गयाकूपमिति ख्यातं सर्वाभीष्टफलप्रदम् ।। १ ।।
यत्र स्नात्वा च दत्त्वा च यथाशक्त्या जितेंद्रियः ।।
सर्वकाममवाप्नोति श्राद्धं कृत्वा द्विजोत्तमः ।। २ ।।
नरकस्थाश्च ये केचित्पितरश्च पितामहाः ।।
विष्णुलोके तु गच्छन्ति तस्मिञ्च्छ्राद्धे कृते तु वै ।। ३ ।।
तस्मिञ्छ्राद्धे कृते विप्र पितॄणामनृणो भवेत् ।।
शक्तिभिः पिंडदानं तु सयवैः पायसेन च ।। ४ ।।
कर्त्तव्यमृषिनिर्दिष्टं पिण्याकेन गुडेन वा ।।
श्राद्धं तत्तीर्थके प्रोक्तं पितॄणां तुष्टिकारकम् ।। ५ ।।
तत्र श्राद्धं प्रकर्त्तव्यं नरैः श्रद्धासमन्वितैः ।।
तुष्यंति पितरस्तेषां तुष्टाः स्युः सर्वदेवताः ।। ६ ।।
तुष्टेषु पितृषु श्रीमाञ्जायतेपुत्रवाँस्तथा ।।
श्राद्धेन पितरस्तुष्टाः प्रयच्छंति सुतान्बहून् ।। ७ ।।
श्रियं च विपुलान्भोगाञ्छ्राद्धकृद्भयो न संशयः ।।
तस्मादत्र विधानेन विधातव्यं प्रयत्नतः ।। ८ ।।
श्राद्धं श्रद्धायुतैः सम्यगभीष्टफलकांक्षिभिः ।।
गयाकूपे विशेषेण पितॄणां दत्तमक्षयम् ।। ९ ।।
सोमवारेण संयुक्ता अमावास्या यदा भवेत् ।।
तत्रानंतफलं श्राद्धं पितॄणां दत्तमक्षयम् ।। 2.8.9.१० ।।
अन्यदा सोमवारेण तत्र श्राद्धं विधानतः ।।
पितृसंतोषदं नित्यं तत्र दत्ताक्षयो भवेत् ।। ११ ।।
तत्र पूर्वदिशाभागे तीर्थं सर्वोत्तमोत्तमम् ।।
पिशाचमोचनंनाम विद्यते च फलप्रदम् ।। १२ ।।
तत्र स्नात्वा च दत्त्वा च पिशाचो नैव जायते ।।
तत्र स्नानं तथा दानं श्राद्धं चैव विशेषतः ।।
कर्त्तव्यं च प्रयत्नेन नरैः श्रद्धासमन्वितैः ।। १३ ।।
मार्गशीर्षे शुक्लपक्षे चतुर्दश्यां विशेषतः ।।
स्नानं तत्र प्रकर्त्तव्यं पिशाचत्वविमुक्तये ।। १४ ।।
तत्संनिधौ पूर्वभागे मानसंनाम नामतः ।।
तीर्थं पुण्यनिवासाग्र्यं स्नातव्यं च विशेषतः ।।
तत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात् ।। १५ ।।
नानाविधानि पापानि मेरुतुल्यानि वै पुनः ।।
तत्र स्नानात्क्षयं यांति नात्र कार्या विचारणा ।। १६ ।।
यत्किञ्चिद्विद्यते पापं मानसं कायिकं तथा ।।
वाचिकं च तथा पापं स्नानतो विलयं व्रजेत् ।। १७ ।।
प्रौष्ठपद्यां सदा कार्य्या पौर्णमास्यां विशेषतः ।।
यात्रा तस्य नृभिर्विप्र पुण्यवद्भिः क्रियापरैः ।। १८ ।।
तस्माद्दक्षिणदिग्भागे वर्त्तते सुकृतैकभूः ।।
तमसानाम तटिनी महापातकनाशिनी ।। १९ ।।
यत्र स्नानं तथा दानं सर्वपापहरं सदा ।।
यस्यास्तटे तथा रम्ये सर्वदा फलदायके ।। 2.8.9.२० ।।
नानाविधानि स्थानानि मुनीनां भावितात्मनाम् ।।
माण्डव्यस्य मुनेः स्थानं वर्त्तते पापनाशनम् ।। २१ ।।
यस्यास्तीरे मुनिश्रेष्ठ सर्वत्र सुमनोहरम् ।।
तस्याश्रमपदं रम्यं नानावृक्षमनोहरम् ।। २२ ।।
यस्मात्स्थानात्समुद्भूता तमसा सुतरंगिणी ।।
तद्वनं पुण्यमधिकं पावनं पदमुत्तमम् ।। २३ ।।
यस्य दर्शनतो नॄणां सर्वपापक्षयो भवेत् ।। २४ ।।
प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानावनतं मनोहरम् ।।
विरूढपुष्पैः परितः प्रियंगुभिः सुषुष्पितैः कण्टकितैश्च केतकैः ।। २५ ।।
तमालगुल्मैर्निचितं सुगंधिभिः सकर्णिकारैर्बकुलैश्च सर्वतः ।।
अशोकपुन्नागवरैः सुपुष्पितैर्द्विरेफमालाकुल पुष्पसंचयैः ।। २६ ।।
क्वचित्प्रफुल्लांबुजरेणुभूषितैर्विहंगमैश्चारुफलप्रचारिभिः ।।
विनादितं सारसमुत्कुलादिभिः प्रमत्तदात्यूहकुलैश्च वल्गुभिः ।। ।। २७ ।।
क्वचिच्च चक्राह्वरवोपनादितं क्वचिच्च कादम्बकदम्बकैर्युतम् ।।
क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम् ।। २८ ।।
मदाकुलाभिर्भ्रमरीभिरारान्निषेवितं चारुसुगंधिपुष्पवत् ।।
क्वचिच्च पुष्पैः सहकारवृक्षैर्लतोपगूढैस्तिलकद्रुमैश्च ।। २९ ।।
प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम् ।।
समंततः सुन्दरदर्शनीयतां समुद्वहत्तद्वनमुल्लसन्महत् ।। 2.8.9.३० ।।
निबिडनिचुलनीलं नीलकण्ठाभिरामं मदमुदितविहंगीवृन्दनादाभिरामम्।।
कुसुमिततरुशाखालीनमत्तद्विरेफंनवकिसलयशोभाशोभितं सत्फलाढ्यम् ।। ३१ ।।
इत्यादिबहुशोभाढ्यं सर्वदिक्षु मनोहरम् ।।
यत्र मांडव्यमुनिना तपस्तप्तं महत्किल ।।
यत्प्रभावादभूत्तीर्थं पावनं तत्सदा महत् ।। ३२ ।।
तत्पूर्वं गौतमस्यर्षेराश्रमं पावनं महत् ।।
तत्पूर्वं च्यवनस्यर्षेः पराशरमुनेरिदम् ।।
प्रथमं ते मुनिश्रेष्ठ पितुः किल तपोनिधेः ।। ३३ ।।
नानाविधानि तीर्थानि चाश्रमाश्चैव सर्वशः ।।
वर्तंते तापसानां च यस्यास्तीरे समंततः ।। ३४ ।।
तमसानाम सा ज्ञेया वर्तते तटिनी शुभा ।।
यज्ञयूपान्समुत्खाय शोभिता बहुशोऽभितः ।। ३५ ।।
तत्र स्नानेन दानेन श्राद्धेन च विशेषतः ।।
सर्वकामार्थसिद्धिः स्यान्नात्र कार्या विचारणा ।। ३६ ।।
मार्गशीर्षे शुक्लपक्षे पञ्चदश्यां विशेषतः ।।
स्नानं तस्य फलप्राप्तिदायकं सर्वदा नृणाम्।। ३७ ।।
तस्मादत्र प्रकर्तव्यं स्नानं निर्मलमानसैः ।।
प्रयत्नतो मुनिश्रेष्ठ सर्वकामार्थसिद्धिदम् ।। ३८ ।।
अतः परं प्रवक्ष्यामि तमसापरमं शुभम्।।
सीताकुंडमितिख्यातं श्रीदुग्धेश्वरसन्निधौ ।। ३९ ।।
भाद्रे शुक्लचतुर्थ्यां तु तस्य यात्रा शुभावहा ।।
सर्वकामार्थसिद्ध्यर्थं पूज्यो विप्रेश्वरस्तथा ।।
तस्य स्मरणमात्रेण सर्वविघ्नविनाशनम् ।। 2.8.9.४० ।।
तस्माद्दक्षिणदिग्भागे भैरवो नाम नामतः ।।
यं दृष्ट्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। ४१ ।।
रक्षितो वासुदेवेन क्षेत्ररक्षार्थमादरात् ।।
तस्य पूजा विधातव्या प्रयत्नेन यथाविधि ।।
मनोभीष्टफलप्राप्तिर्भैरवस्य सदाऽऽदरात् ।। ४२ ।।
मार्गशीर्षस्य कृष्णायामष्टम्यां तस्य निर्मिता ।।
यात्रा सांवत्सरी तत्र सर्वकामार्थसिद्धये ।। ४३ ।।
पशूपहारसंभूति कर्तव्यं पूजनं जनैः ।।
सर्वकामफलप्राप्तिर्जायते नात्र संशयः ।। ४४ ।।
निर्विघ्नं तीर्थवसतिर्भैरवस्य प्रसादतः ।।
जायते तेन कर्तव्या पूजा तस्य प्रयत्नतः ।। ४५ ।।
एतस्मिन्नुत्तरे भागे रम्यं भरतकुण्डकम् ।।
यत्र स्नात्वा नरः पापैर्मुच्यते नात्र संशयः ।। ४६ ।।
तत्र स्नानं तथा दानं सर्वमक्षयतां व्रजेत् ।।
अन्नं बहुविधं देयं वासांसि विविधान्यपि ।। ४७ ।।
यत्नतो देवताः पूज्या वस्त्रादिभिरलंकृतैः ।।
नंदिग्रामे वसन्पूर्वं भरतो रघुवंशजः ।। ४८ ।।
रामचन्द्रं हृदि ध्यायन्निर्मलात्मा जितेन्द्रियः ।।
ततः स्थित्वा प्रजाः सर्वा ररक्ष क्षितिवल्लभः ।। ४९ ।।
तत्र चक्रे महत्कुण्डं भरतो नाम भूपतिः ।।
राममूर्तिं च संस्थाप्य चचार विजितेन्द्रियः ।। 2.8.9.५० ।।
तत्कुंडे सुमहत्पुण्यं नानापुण्यसमन्वितम् ।।
कुमुदोत्पलकह्लारपुण्डरीकसमन्वितम् ।। ५१ ।।
हंससारसचक्राह्व विहंगमविराजितम् ।।
उद्यानपादपच्छायासच्छायममलं सदा ।। ५२ ।।
तत्र स्नानं महापुण्यं प्रमोदानन्दनिर्मलम् ।।
तत्र स्नानं तथा श्राद्धं पितॄनुद्दिश्य कुर्वतः ।।
पितरस्तस्य तुष्यंति तुष्टाः स्युः सर्वदेवताः ।। ५३ ।।
स्वर्णं चान्नं विधानेन दातव्यं च द्विजन्मने ।।
श्रद्धापूर्वकमेतत्तु कर्तव्यं प्रयतैर्नरैः ।। ५४ ।।
तत्पश्चिमदिशाभागे जटाकुण्डमनुत्तमम् ।।
यत्र रामादिभिः सर्वैर्जटाः परिहृता निजाः ।। ५५ ।।
जटाकुण्डमिति ख्यातं सर्वतीर्थोत्तमोत्तमम्।।
यत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात् ।। ५६।।
पूर्वकुण्डेषु संपूज्यो भरतः श्रीसमन्वितः ।।
जटाकुण्डेषु संपूज्यौ ससीतौ रामलक्ष्मणौ ।।
चैत्रकृष्णचतुर्दश्यां यात्रा सांवत्सरी भवेत् ।। ५७ ।।
इति परमविधानैः पूजयेद्रामसीते तदनु भरतकुण्डे लक्ष्मणं च प्रपूज्य ।।
विधिवदमृतकुण्डे द्वंद्वंसमज्जनेन वसति सुकृतिमूर्तिर्वैष्णवे तत्र लोके ।। ५८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये गयाकूप पिशाचमोचन मानसतीर्थ तमसानदी माण्डव्याद्याश्रम सीताकुण्ड दुग्धेश्वर भैरवभारतकुण्ड जटाकुण्ड माहात्म्यवर्णनंनाम नवमोऽध्यायः ।। ९ ।। ।। छ ।। ।। ।।
खण्डः २ (वैष्णवखण्डः) · अयोध्यामाहात्म्यम् — Adhyāya 10
।। अगस्त्य उवाच ।। ।।
निराहारो नरो भूत्वा क्षीराहारोऽपि वा पुनः ।।
अजितं पूजयेद्विप्र तस्य सिद्धिः करे स्थिता ।। १ ।।
महोत्सवस्तु कर्तव्यो गीतवादित्रसंयुतः ।।
एवं यः कुरुते धीमान्सर्वान्कामानवाप्नुयात् ।। २ ।।
एतस्मादुत्तरे विद्वन्वीरस्य शुभसूचकम् ।।
स्थानं मत्तगजेन्द्रस्य वर्तते नियतव्रत ।। ३ ।।
तदग्रे सरसि स्नात्वा वसेत्तत्र सुनिश्चितम् ।।
पूर्णा सिद्धिमवाप्नोति यामवाप्य न शोचति ।। ४ ।।
अयोध्यारक्षको वीरः सर्वकामार्थसिद्धिदः ।।
नवरात्रिषु पंचम्यां यात्रा सांवत्सरी भवेत् ।। ५ ।।
गंधपुष्पादिधूपादि नैवेद्यादिविधानतः ।।
पूजनीयः प्रयत्नेन सर्वकामार्थसिद्धिदः ।।
यंयं काममिहेच्छेत तंतं काममवाप्नुयात् ।। ६ ।।
एतस्माद्द्क्षिणेभागे सुरसानाम राक्षसी ।।
विष्णुभक्ता सदा विप्र वर्तते सिद्धिदायिका ।। ७ ।।
तां संपूज्य नरो भक्त्या सर्वान्कामानवाप्नुयात् ।। ८ ।।
लंकास्थानादिहानीता रामेणोत्कृष्टकर्मणा ।।
अयोध्यायां स्थापिता सा रक्षार्थं नियतव्रतैः ।। ९ ।।
संपूज्य विधिवत्तस्या दर्शनं कार्यमादरात् ।।
सर्वकामार्थसिद्ध्यर्थमुत्सवोऽपि शुभप्रदः ।।
कर्त्तव्यः सुप्रयत्नेन गीतवादित्रसंयुतैः ।। 2.8.10.१० ।।
नवरात्रे तृतीयायां यात्रा सांवत्सरी भवेत् ।।
सर्वदा सुखसंतानसिद्धये परमार्थदा ।।
नानासंगीतवादित्रनृत्योत्सवमनोहरा ।। ११ ।।
एवं कृते न संदेहः सर्वदा रक्षितो भवेत् ।। १२ ।।
एतत्पश्चिमदिग्भागे वर्तते परमो मुने ।।
पिंडारक इति ख्यातो वीरः परमपौरुषः ।।
पूजनीयः प्रयत्नेन गंधपुष्पाक्षतादिभिः ।। १३ ।।
यस्य पूजावशान्नॄणां सिद्धयः करसंश्रिताः ।।
तस्य पूजाविधानेन कर्तव्यं पूजनं नरैः ।। १४ ।।
सरयूसलिले स्नात्वा पिंडारकं च पूजयेत् ।।
पापिनां मोहकर्त्तारं मतिदं कृतिनां सदा ।। १५ ।।
तस्य यात्रा विधातव्या सपुष्या नवरात्रिषु ।।
तत्पश्चिमदिशाभागे विघ्नेशं किल पूजयेत् ।। १६ ।।
यस्य दर्शनतो नॄणां विघ्नलेशो न विद्यते ।।
तस्माद्विघ्नेश्वरः पूज्यः सर्वकामफलप्रदः ।। १७ ।।
तस्मात्स्थानत ऐशाने रामजन्म प्रवर्त्तते ।।
जन्मस्थानमिदं प्रोक्तं मोक्षादिफलसाधनम् ।। १८ ।।
विघ्नेश्वरात्पूर्वभागे वासिष्ठादुत्तरे तथा ।।
लौमशात्पश्चिमे भागे जन्मस्थानं ततः स्मृतम् ।। १९ ।।
यद्दृष्ट्वा च मनुष्यस्य गर्भवासजयो भवेत् ।।
विना दानेन तपसा विना तीर्थैर्विना मखैः ।। 2.8.10.२० ।।
नवमीदिवसे प्राप्ते व्रतधारी हि मानवः ।।
स्नानदानप्रभावेण मुच्यते जन्मबन्धनात् ।। २१ ।।
कपिलागोसहस्राणि यो ददाति दिनेदिने ।।
तत्फलं समवाप्नोति जन्मभूमेः प्रदर्शनात् ।। २२ ।।
आश्रमे वसतां पुंसां तापसानां च यत्फलम् ।।
राजसूयसहस्राणि प्रतिवर्षाग्निहोत्रतः ।। २३ ।।
नियमस्थं नरं दृष्ट्वा जन्मस्थाने विशेषतः ।।
मातापित्रोर्गुरूणां च भक्तिमुद्वहतां सताम् ।। २४ ।।
तत्फलं समवाप्नोति जन्मभूमेः प्रदर्शनात् ।। २५ ।।
।। अथ सरयूवर्णनम् ।। ।।
पितॄणामक्षया तृप्तिर्गयाश्राद्धाधिकं फलम् ।। २६ ।।
मन्वंतरसहस्रैस्तु काशीवासेषु यत्फलम् .।।
तत्फलं समवाप्नोति सरयूदर्शने कृते ।। २७ ।।
गयाश्राद्धं च ये कृत्वा पुरुषोत्तम दर्शनम् ।।
कुर्वंति तत्फलं प्रोक्तं कलौ दाशरथीं पुरीम् ।। २८ ।।
मथुरायां कल्पमेकं वसते मानवो यदि ।।
तत्फलं समवाप्नोति सरयूदर्शने कृते ।।।। २९ ।।
पुष्करेषु प्रयागेषु माघे वा कार्त्तिके तथा ।।
तत्फलं समवाप्नोति सरयूदर्शने कृते ।। 2.8.10.३० ।।
कल्पकोटिसहस्राणि ह्यवन्तीवासतो हि यत् ।।
तत्फलं समवाप्नोति सरयूदर्शने कृते ।। ३१ ।।
षष्टिवर्षसहस्राणि भागीरथ्यवगाहजम् ।।
तत्फलं निमिषार्द्धेन कलौ दाशरथीं पुरीम् ।। ।। ३२ ।।
निमिषं निमिषार्द्धं वा प्राणिनां रामचिन्तनम् ।।
संसारकारणाज्ञाननाशकं जायते धुवम् ।। ३३ ।।
यत्र कुत्र स्थितो यस्तु ह्ययोध्यां मनसा स्मरेत्।।
न तस्य पुनरावृत्तिः कल्पांतरशतैरपि ।। ३४ ।।
जलरूपेण ब्रह्मैव सरयूर्मोक्षदा सदा ।।
नैवात्र कर्मणो भोगो रामरूपो भवेन्नरः ।। ।। ३५ ।।
पशुपक्षिमृगाश्चैव ये चान्ये पापयोनयः ।।
तेऽपि मुक्ता दिवं यांति श्रीरामवचनं यथा ।। ३६ ।।
इत्युक्त्वा विरते तस्मिन्मुनौ कलशजन्मनि ।।
कृष्णद्वैपायनव्यासः पुनरूचे तपोधनः ।। ३७ ।।
दुर्लभा सर्वजन्तूनां कथा विस्तरतः क्रमात् ।।
यात्राक्रमोऽपि च मया श्रुत आगच्छतां नृणाम्।। ३८ ।।
इदानीं श्रोतुमिच्छामि क्षेत्रस्थानं यथाविधि ।।
यात्राक्रमं मुनिश्रेष्ठ सम्यक्त्वस्तपोधन ।। ३९ ।।
फलं ब्रूहि क्रमेणैव विस्तरात्पृच्छतो मम ।।
यद्यस्ति मयि ते विद्वन्कृपा कारुणिकोत्तम ।। 2.8.10.४० ।।
यथा श्रुत्वा क्रमेणैव यात्रां विश्वविदां वर ।।
करोमि त्वत्प्रसादेन तथा कुरु यतव्रत ।। ४१ ।।
।। अगस्त्य उवाच ।। ।।
शृणु वक्ष्यामि तत्त्वेन यात्राक्रममथादितः ।।
अयोध्यां सप्ततीर्थानां यथावदनुपूर्वशः ।। ।। ४२ ।।
मनोवाक्कायशुद्धेन निर्दोषेणांतरात्मना ।।
मानसेषु सुतीर्थेषु स्नात्वा किल जितेंद्रियः ।।
यः करोति विधिं सम्यक्स तीर्थफलमश्नुते ।। ।। ४३ ।।
।। व्यास उवाच ।। ।।
मानसान्येव तीर्थानि कथयस्व तपोधन ।।
येषु स्नातवतां नॄणां विशुद्धिर्मनसो भवेत् ।। ४४ ।।
।। ।। अगस्त्य उवाच ।। ।।
शृणु तीर्थानि गदतो मानसानि ममानघ ।।
येषु सम्यङ्नरः स्नात्वा प्रयाति परमां गतिम् ।। ४५ ।।
सत्यतीर्थं क्षमातीर्थं तीर्थमिंद्रियनिग्रहः ।।
सर्वभूतदयातीर्थं तीर्थानां सत्यवादिता ।। ४६ ।।
ज्ञानतीर्थं तपस्तीर्थं कथितं तीर्थसप्तकम् ।।
सर्वभूतदयातीर्थे विशुद्धिर्मनसो भवेत्।। ४७ ।।
न तोयपूतदेहस्य स्नानमित्यभिधीयते ।।
स स्नातो यस्य वै पुंसः सुविशुद्धं मनो मतम् ।।
भौमानामपि तीर्थानां पुण्यत्वे कारणं शृणु ।। ४८ ।।
यथा शरीरस्योद्देशाः केचिन्मध्योत्तमाः स्मृताः ।।
तथा पृथिव्यामुद्देशाः केचित्पुण्यतमाः स्मृताः ।। ४९ ।।
तस्माद्भौमेषु तीर्थेषु मानसेषु च संवसेत्।।
उभयेषु च यः स्नाति स याति परमां गतिम् ।। 2.8.10.५० ।।
तस्मात्त्वमपि विप्रेंद्र विशुद्धेनांतरात्मना ।।
यात्रां कुरु प्रयत्नेन यात्रा वै नोदिता मया ।।
तं तु वक्ष्यामि विप्रेंद्र तीर्थयात्राविधिं क्रमात् ।। ५१ ।।
जायन्ते च जलेष्वेव म्रियंते च जलौकसः ।।
न च गच्छंति ते स्वर्गमशुद्धमनसो मलाः ।। ५२ ।।
विषयेष्वनिशं रागो मनसो मल उच्यते ।।
तेष्वेव हि न संगम्य नैर्मल्यं समुदाहृतम् ।। ५३ ।।
चित्तमन्तर्गतं दुष्टं तीर्थस्नानं न शुध्यति ।।
शतशोऽपि जलैर्धौते सुराभाण्डमपावनम् ।। ५४ ।।
दानमिज्या तपः शौचं तीर्थसेवा श्रुतिस्तथा ।।
सर्वाण्येतानि तीर्थानि यदि भावेन निर्मलः ।। ५५ ।।
निगृहीतेंद्रियग्रामो यत्रैव वसते नरः ।।
तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्करं तथा ।। ५६ ।।
एतत्ते कथितं विप्र मानसं तीर्थलक्षणम् ।।
स्नाते यस्मिन्क्रियाः सर्वाः सफलाः स्युः क्रियावताम् ।। ५७ ।।
प्रातरुत्थाय मतिमान्संगमे स्नानमाचरेत् ।।
विभुं विष्णुहरिं दृष्ट्वा स्नायाद्वै ब्रह्मकुण्डके ।। ५८ ।।
चक्रतीर्थे नरः स्नात्वा दृष्ट्वा चक्रहरिं विभुम् ।।
ततो धर्महरिं दृष्ट्वा सर्वपापैः प्रमुच्यते ।। ५९ ।।
एकादश्यामेकादश्यामियं यात्रा शुभावहा ।।
प्रातरुत्थाय मतिमान्स्वर्गद्वारजलप्लुतः ।। 2.8.10.६० ।।
विधाय नित्यजं कर्म अयोध्यां च विलोकयेत् ।।
सरयूं तु ततो दृष्ट्वा पश्येन्मत्तगजं ततः ।। ६१ ।।
बंदीं च शीतलां चैव वटुकं च विलोकयेत् ।।
तदग्रसरसि स्नात्वा महाविद्यां विलोकयेत् ।। ६२ ।।
पिण्डारकं ततो दृष्ट्वा ततो भैरवदर्शनम्।।
अष्टम्यां च चतुर्दश्यामेषा यात्रा फलप्रदा ।। ६३।।
अंगारकचतुर्थ्यां तु पूर्वोक्ता देवता अपि ।।
विघ्नेशं च ततः पश्येत्सर्वकामार्थसिद्धये।। ६४ ।।
प्रातरुत्थाय मतिमान्ब्रह्मकुण्डजले प्लुतः ।।
विष्णुं विष्णुहरिं दृष्ट्वा मनोवाक्कायशुद्धिमान्।।।।६५।।
मंत्रेश्वरं ततो दृष्ट्वा महाविद्यां विलोकयेत् ।।
अयोध्यां च ततो दृष्ट्वा सर्वकामार्थसिद्धये।।६६।।
स्वर्गद्वारे नरः स्नात्वा सचैलो विजितेंद्रियः ।।
नानाविधानि पापानि बहुजन्मकृतानि च ।।
सचैलस्नानतो यांति तस्मात्सचैलमाचरेत् ।। ६७ ।।
एषा वै गदिता यात्रा सर्वपापहरा शुभा ।। ।। ६८ ।।
य एवं कुरुते यात्रां नित्यं शुभफलप्रदाम् ।।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।। ६९ ।।
तस्मात्त्वमपि विप्रेंद्रः अयोध्यां व्रज मा चिरम् ।।
तत्र गत्वा क्रमेणैव यात्रां कुरु यतेंद्रियः ।। 2.8.10.७० ।।
अयोध्या परमं स्थानमयोध्या परमं महत् ।।
अयोध्यायाः समा काचित्पुरी नैव प्रदृश्यते ।। ७१ ।।
अयोध्या परमं स्थानं विष्णुचक्रे प्रतिष्ठितम् ।। ७२ ।।
इत्येतत्कथितं विप्र मया पृष्टं हि यत्त्वया ।।
समाश्रय मुने तां त्वमनुजानीहि मामतः ।। ७३ ।।
।। सूत उवाच ।। ।।
इत्येतदुक्त्वा विरते मुनौ कलशजन्मनि ।।
उवाच मधुरं वाक्यं व्यासः स तपसां निधिः ।। ७४ ।।
।। ।। व्यास उवाच ।। ।।
धन्योऽस्म्यनुगृहीतोऽस्मि कृतकृत्योऽस्म्यहं मुने ।।
सत्यं शौचं श्रुतं विप्र सुशीलं च क्षमार्जवम् ।।
सर्वं च निष्फलं तस्य अयोध्यां नागतो यदि ।। ७५ ।।
यस्मिन्मयि प्रसन्नेन त्वयोक्तो धर्मनिर्णयः ।।
इदानीमपि गच्छामि ह्ययोध्यां निर्मलां पुरीम्।।
त्वमपि व्रज विप्रेंद्र स्वमाश्रमपदं निजम् ।। ७६ ।।
।। सूत उवाच ।। ।।
इत्यैवमुक्त्वा क्रमशो यात्राविधिमनुत्तमम्।।
जगाम तपसां राशिरगस्त्यः कुंभसंभवः ।। ७७ ।।
स्वमाश्रमपदं धीरो विस्मयोत्फुल्ललोचनः ।।
व्यासोऽपि महसां राशिर्जगाम विजितेन्द्रियः ।। ७८ ।।
अयोध्यामागतो विप्रः सर्वकामार्थसिद्धये ।।
आगत्यैतद्विधानेन कृत्वा यात्रां यथाक्रमम् ।। ७९ ।।
दृष्ट्वा महाश्चर्यकरं कारणं तीर्थमुत्तमम् ।।
आनंदतुंदिलस्तत्र सम्यगाचम्य बुद्धिमान्।। 2.8.10.८० ।।
ततो जगाम विप्रेंद्रः स्वमाश्रमपदं मुनिः ।।
व्यासेन कथितं मह्यं माहात्म्यं क्रमशस्तदा ।। ८१ ।।
मया श्रुत्वा च माहात्म्यं यात्रां कृत्वा विधानतः ।।
कुरुक्षेत्रे समागत्य भवदग्रे निरूपितम् ।। ८२ ।।
इदं माहात्म्यमतुलं यः पठेत्प्रयतो नरः ।।
श्रद्धया यश्च शृणुयात्स याति परमां गतिम् ।। ८३ ।।
तस्मादेतत्प्रयत्नेन श्रोतव्यं च जनैः सदा ।।
द्विजपूजा विष्णुपूजा विधातव्या प्रयत्नतः ।। ८४ ।।
दातव्यं च सुवर्णादि यथाशक्त्या द्विजन्मने ।।
पुत्रार्थी लभते पुत्रान्धर्म्मार्थी धर्ममाप्नुयात् ।। ८५।।
अतिविपुलविधानैर्वर्णितं धर्म्यमाद्यं कलयति परभक्त्या क्षेत्रमाहात्म्यमेतत् ।।
य इह मनुजवर्यः श्रीसनाथः स सम्यग्व्रजति हरिनिवासं सर्वभोगांश्च भुक्त्वा ।। ८६ ।।
यः पाठकस्यापि कदाचिदेव ददाति वित्तं च यथात्मशक्त्या ।।
पात्राणि वस्त्राणि मनोहराणि रौप्यं सुवर्णं च गवीः स मुच्येत् ।। ८७ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्येऽगस्त्यव्याससंवादेऽयोध्यायात्राविधिक्रमवर्णनंनाम दशमोऽध्यायः ।। १० ।। ।। छ ।।
इति श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्यं सम्पूर्णम् ।। ( २-८)
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 1
।। ।। श्रीगणेशाय नमः ।।
।। अथ कार्त्तिकमासमाहात्म्यप्रारम्भः ।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ।। १ ।।
।। ऋषय ऊचुः ।। ।।
सूत नः कथितं पुण्यं माहात्म्यमाश्विनस्य च ।।
भूयोऽन्यच्छ्रोतुमिच्छामः कार्तिकस्य च वैभवम् ।। २ ।।
कलौ कलुषचित्तानां नराणां पापकर्मणाम् ।।
संसाराब्धौ निमग्नानामनायासेन का गतिः ।। ३ ।।
को धर्मः सर्वधर्माणामधिको मोक्षसाधकः ।।
इहाऽपि मुक्तिदो नृणामेतत्त्वं कथय प्रभो ।। ४ ।।
।। सूत उवाच ।। ।।
भवद्भिर्यदहं पृष्टस्तदेतत्पृष्टवान्मुनिः ।।
नारदो ब्रह्मणः पुत्रो ब्रह्माणं तु जगद्गुरुम् ।। ५ ।।
तथैव सत्यभामा च श्रीकृष्णं जगदीश्वरम् ।।
अपृच्छत्कार्तिकस्यैव वैभवं श्रवणोत्सुका ।।६।।
वालखिल्यैश्च ऋषिभिर्यदुक्तमृषिसंसदि ।।
श्रीसूर्यारुणसंवादरूपेणाऽतिमनोहरम् ।। ७ ।।
कैलासे शंकरेणैव कार्तिकस्य च वैभवम् ।।
वर्णितं षण्मुखस्याग्रे नानाख्यानसमन्वितम् ।। ८ ।।
पृथुं प्रति नारदेन कथितं च महात्म्यकम् ।।
कार्तिकस्य च विप्रेंद्रा श्रुत्वा ब्रह्ममुखात्पुरा ।। ९ ।।
एकदा नारदो योगी सत्यलोकमुपागतः ।।
पप्रच्छ विनयेनैव सर्वलोकपितामहम् ।। 2.4.1.१० ।।
।। श्रीनारद उवाच ।। ।।
पापेंधनस्य घोरस्य शुष्कार्द्रस्य च भूरिशः ।।
को वह्निर्दहते ब्रह्मंस्तद्भवान्वक्तुमर्हति ।। ११ ।।
नाज्ञातं त्रिषु लोकेषु ब्रह्मांडांतर्गतस्य यत् ।।
विद्यते तव देवेश त्रिविधस्य सुनिश्चितम् ।। १२ ।।
मासानां प्रवरो मासो देवानामुत्तमोत्तमः ।।
तीर्थानि तद्विशेषेण कथयस्व पितामह ।। १३ ।।
।। ब्रह्मोवाच ।। ।।
मासानां कार्तिकः श्रेष्ठो देवानां मधुसूदनः ।।
तीर्थं नारायणाख्यं हि त्रितयं दुर्लभं कलौ ।। १४ ।।
।। नारद उवाच ।। ।।
भगवंस्तव दासोऽस्मि भक्तोऽस्मि हरिवल्लभ ।।
वैष्णवान्ब्रूहि मे धर्मान्सर्वज्ञोऽसि पितामह ।। १५ ।।
आदौ कार्तिकमाहात्म्यं वक्तुमर्हसि मे प्रभो ।।
दीपदानस्य माहात्म्यं व्रतिनां नियमांस्तथा ।। १६ ।।
गोपीचंदनमाहात्म्यं तुलस्याश्च तथा विभो ।।
धात्र्याश्चैव च माहात्म्यं विधिं स्नानादिकस्य च ।।
व्रतारंभः कदा कार्यं उद्यापनविधिं तथा ।। १७ ।।
यत्किंचिद्वैष्णवं धर्मं तत्सर्वं वक्तुमर्हसि ।।
येनाऽहं त्वत्प्रसादेन पदं यास्याम्यनामयम् ।।।। १८ ।।
।। सूत उवाच ।। ।।
इति पुत्रवचः श्रुत्वा ब्रह्मा हर्षसमन्वितः ।।
राधादामोदरं स्मृत्वा प्रोवाच तनुजं प्रति ।। १९ ।।
।। ब्रह्मोवाच ।। ।।
साधु पृष्टं त्वया पुत्र लोकोद्धरणहेतवे ।।
कथयामि न संदेहः कार्तिकस्य च वैभवम् ।। 2.4.1.२० ।।
एकतः सर्वतीर्थानि सर्वे यज्ञाः सदक्षिणाः ।। ।।
कार्तिकस्य तु मासस्य कलां नार्हंति षोडशीम् ।। २१ ।।
एकतः पुष्करे वासः कुरुक्षेत्रे हिमालये ।।
एकतः कार्तिकः पुत्र सर्वपुण्याधिको मतः ।। ।। २२ ।।
स्वर्णानि मेरुतुल्यानि सर्वदानानि चैकतः ।।
एकतः कार्तिको वत्स सर्वदा केशवप्रियः ।। २३ ।।
यत्किंचित्क्रियते पुण्यं विष्णुमुद्दिश्य कार्तिके ।।
तस्य क्षयं न पश्यामि मयोक्तं तव नारद ।। २४ ।।
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् ।।
तथात्मानं समादद्यान्न भ्रश्येत यथा पुनः ।। २५ ।।
दुष्प्राप्यं प्राप्य मानुष्यं कार्तिकोक्तं चरेन्न यः ।।
धर्मं धर्मभृतां श्रेष्ठ स मातापितृघातकः ।। २६ ।।
कार्तिकः खलु वै मासः सर्वमासेषु चोत्तमः ।।
पुण्यानां परमं पुण्यं पावनानां च पावनम् ।। २७ ।।
अस्मिन्मासे त्रयस्त्रिंशद्देवाः सन्निहिता मुने ।।
अत्र स्नानानिदानानि भोजनानि व्रतानि च ।। २८ ।।
तिलधेनुं हिरण्यं च रजतं भूमिवाससी ।।
गोप्रदानानि कुर्वंति सर्वभावेन नारद ।। २९ ।।
तानि दानानि दत्तानि गृह्णंति विधिवत्सुराः ।।
यत्किंच दत्तं विप्रेंद्र तपश्चैव तथा कृतम् ।। 2.4.1.३० ।।
तदक्षय्यफलं प्रोक्तं विष्णुना प्रभविष्णुना ।। ।।
पापानां मोक्षणं चैव कार्तिके मासि शस्यते ।। ३१ ।।
तस्माद्यत्नेन विप्रेंद्र कार्तिके मासि दीयते ।।
यत्किंचित्कार्तिके दत्तं विष्णुमुद्दिश्य मानवैः ।। ३२ ।।
तदक्षयं हि लभते अन्नदानं विशेषतः ।।
यथा नदीनां विप्रेंद्र शैलानां चैव नारद ।। ३३ ।।
उदधीनां च विप्रर्षे क्षयो नैवोपपद्यते ।।
दानं कार्तिकमासे तु यत्किंचिद्दीयते मुने ।।।। ३४ ।।
न तस्यास्ति क्षयो विप्र पापं याति सहस्रधा ।।
संप्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत् ।।३५।।
दिनेदिनेऽतिकृच्छ्रस्य फलं प्राप्नोत्ययत्नतः ।।
न कार्तिकसमो मासो न कृतेन समं युगम् ।।३६।।
न वेदसदृशं शास्त्रं न तीर्थं गंगया समम् ।।
न चान्नसदृशं दानं न सुखं भार्यया समम् ।। ३७ ।।
न्यायेनोपार्जितं द्रव्यं दुर्लभं दानकारिणाम् ।।
दुर्लभं मर्त्यधर्माणां तीर्थे च प्रतिपादनम् ।। ३८ ।।
कार्तिके मुनिशार्दूल शालिग्रामशिलार्चनम् ।।
स्मरणं वासुदेवस्य कर्तव्यं पापभीरुणा ।। ३९ ।।
एतादृशं कार्तिकं च अकृतेनैव यो नयेत् ।।
पूर्वं कृतस्य पुण्यस्य क्षयमाप्नोत्यसंशयम् ।। 2.4.1.४० ।।
।। नारद उवाच ।। ।।
अशक्तेन कथं कार्यं कार्तिकव्रतमुत्तमम् ।।
येन तत्फलमाप्नोति तन्मे वद पितामह ।। ४१ ।।
।। ब्रह्मोवाच ।। ।।
अशक्तस्तु यदा मर्त्यस्तदैवं व्रतमाचरेत् ।।
अन्यस्मै द्रविणं दत्त्वा कारयेत्कार्तिकव्रतम् ।। ४२ ।।
तस्मात्पुण्यं प्रगृह्णीत दानसंकल्पपूर्वकम् ।।
द्रव्यदानेऽप्यशक्तश्चेद्यदा देवर्षिसत्तम ।। ४३ ।।
तदा तेन प्रकर्तव्यं पानं तीर्थजलस्य च ।।
तत्राप्यशक्तो यो मर्त्यस्तेन नित्यं हरेर्मुदा ।। ४४ ।।
स्मरणं च प्रकर्तव्यं नाम्ना नियमपूर्वकम् ।।
अखंडितं तदा तेन कार्तिकव्रतजं फलम् ।। ४५ ।।
विष्णोः शिवस्य वा कुर्यादालये हरिजागरम् ।।
शिवविष्ण्वोर्गृहाभावे सर्वदेवालयेष्वपि ।।४६।।
दुर्गाटव्यां स्थितो वाऽथ यदिवाऽऽपद्गतो भवेत् ।।
कुर्यादश्वत्थमूले तु तुलसीनां वनेष्वपि ।। ४७ ।।
विष्णुनामप्रबंधानां गायनं विष्णुसन्निधौ ।।
गोसहस्रप्रदानस्य फलमाप्नोति मानवः ।। ४८ ।।
वाद्यकृत्पुरुषश्चापि वाजपेयफलं लभेत्।।
सर्वतीर्थावगाहोत्थं नर्तकः फलमाप्नुयात् ।। ४९ ।।
सर्वमेतल्लभेत्पुण्यमेतेषां द्रव्यदः पुमान्।।
श्रवणाद्दर्शनाद्वापि षडंशं फलमाप्नुयात् ।। 2.4.1.५० ।।
आपद्गतो यदाप्यंभो न लभेत्कुत्रचिन्नरः ।।
व्याधितो वाथवा कुर्याद्विष्णोर्नाम्नाऽपि मार्जनम् ।। ५१ ।।
उद्यापनविधिं कर्तुमशक्तो यो व्रतस्थितः ।।
ब्राह्मणान्भोजयेत्पश्चाद्व्रतसंपूर्तिहेतवे ।। ५२ ।।
अशक्तो दीपदानाय परदीपं प्रबोधयेत् ।।
तस्य वा रक्षणं कुर्याद्वातादिभ्यः प्रयत्नतः ।। ५३ ।।
श्रीविष्णोः पूजनाऽभावे तुलसीधात्रिपूजनम् ।।
सर्वाऽभावे व्रती कुर्याद्ब्राह्मणानां गवामपि ।।
तस्याप्यभावे मनसि विष्णोर्नामानुकीर्तनम् ।। ५४ ।।
।। नारद उवाच ।। ।।
ब्रह्मन्ब्रूहि विशेषेण धर्मान्कार्तिकसंभवान् ।। ५५ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकव्रतप्रशंसावर्णनंनाम प्रथमोऽध्यायः ।। १ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 2
।। ।। ब्रह्मोवाच ।। ।।
अथ कार्तिकमासस्य धर्मान्वक्ष्यामि नारद ।।
संप्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत् ।। १ ।।
स तु मोक्षमवाप्नोति नात्र कार्या विचारणा ।।
सर्वेषामेव धर्माणां गुरुपूजा परा मता ।।
गुरुशुश्रूषया सर्वं प्राप्नोति ऋषिसत्तम ।।२।।
गुरौ तुष्टे च तुष्टाः स्युर्देवाः सर्वे सवासवा ।।
गुरौ रुष्टे च रुष्टाः स्युर्देवाः सर्वे सवासवाः ।। ३ ।।
कार्तिकं मासि संप्राप्ते कृत्वा कर्माणि भूरिशः ।। ४ ।।
अकृत्वा गुरुशुश्रूषां नरकानेव विंदति ।। ४ ।।
यत्किंचिद्वा समादिष्टो गुरुणा तत्समाचरेत् ।।५।।
आज्ञप्तो गुरुणा विप्र न तद्वाक्यं तु लंघयेत् ।।
यदि दुःखादिकं प्राप्तं गुरुं तु शरणं व्रजेत् ।। ६ ।।
मातृत्वे च पितृत्वे च गुरुमेव स्मरेद्बुधः ।।
गुरौ न प्राप्यते यत्तन्नान्यत्राऽपि हि लभ्यते ।। ७ ।।
गुरुप्रसादात्सर्वं तु प्राप्नोत्येव न संशयः ।।
मेधावी कपिलश्चैव सुमतिश्च महातपाः ।।
गौतमस्य गुरोः सम्यक्सेवयाऽमरतां गताः ।। ८ ।।*
तस्मात्सर्वप्रयत्नेन कार्तिके विष्णुतत्परः ।।
गुरुसेवां प्रकुर्वीत ततो मोक्षमवाप्नुयात् ।। ९ ।।
नरेभ्यो वैष्णवं धर्मं यो ददाति द्विजोत्तमः ।।
ससागरमहीदाने तत्पुण्यं लभते हि सः ।। 2.4.2.१० ।।
तिलधेनुं हिरण्यं च रजतं भूमिवाससी ।।
गोप्रदानानि दास्यंति सर्वभावेन सुव्रत ।। ११ ।।
सर्वेषामेव दानानां कन्यादानं विशिष्यते ।। *
सहस्रमेव धेनूनां शतं चानडुहां समम् ।। १२ ।।
दशानडुत्समं यानं दशयानसमो हयः ।।
हयदान सहस्रेभ्यो गजदानं विशिष्यते ।। १३ ।।
गजदानसहस्राणां स्वर्णदानं च तत्समम् ।।
स्वर्णदानसहस्राणां विद्यादानं च तत्समम् ।। १४ ।।
विद्यादानात्कोटिगुणं भूमिदानं विशिष्यते ।।
भूमिदानसहस्रेण गोप्रदानं विशिष्यते ।। १५ ।।
गोप्रदानसहस्रेभ्यो ह्यन्नदानं विशिष्यते ।।
अन्नाधारमिदं प्रोक्तं तस्माद्देयं तु कार्तिके ।। १६ ।।
परान्नवर्जनादेव लभेच्चांद्रायणं फलम् ।।
दिनेदिनेऽतिकृच्छ्रस्य फलं प्राप्नोति मानवः ।। १७ ।।
कार्तिके वर्जयेन्मांसं सन्धानं च विशेषतः ।।
राक्षसीं योनिमाप्नोति सकृन्मांसस्य भक्षणात् ।। १८ ।।
प्रवृत्तानां तु भक्ष्याणां कार्तिके नियमे कृते ।।
अवश्यं विष्णुरूपत्वं प्राप्यते मोक्षदं पदम् ।। १९ ।।
ब्राह्मणेभ्यो महीं दत्त्वा ग्रहणे सूर्यचंद्रयोः ।।
यत्फलं लभते वत्स तत्फलं भूमिशायिनः ।। 2.4.2.२० ।।
भोजनं द्विजदंपत्योः पूजनं च विलेपनैः ।।
कंबलानि च रत्नानि वासांसि विविधानि च ।। २१ ।।
तूलिकाश्च प्रदातव्याः प्रच्छादनपटैः सह ।।
उपानहावातपत्रं कार्तिके देहि सुव्रत ।। २२ ।।
कार्तिके क्षितिशायी च हन्यात्पापं युगार्जितम् ।।
जागरं कार्तिके मासि यः करोत्यरुणोदये ।। २३ ।।
दामोदराग्रे देवर्षे गोसहस्रफलं लभेत् ।।
नदीस्नानं कथा विष्णोर्वैष्णवानां च दर्शनम् ।। २४ ।।
न भवेत्कार्तिके यस्य हरेत्पुण्यं दशाब्दिकम् ।।
पुष्करं यः स्मरेत्प्राज्ञः कर्मणा मनसा गिरा ।। २५ ।।
कार्तिके मुनिशार्दूल लक्षकोटिगुणं भवेत् ।।
प्रयागो माघमासे तु पुष्करं कार्तिके तथा ।। २६ ।।
अवन्ती माधवे मासि हन्यात्पापं युगार्जितम् ।।
धन्यास्ते मानवा लोके कलिकाले विशेषतः ।। २७ ।।
ये कुर्वंति नरा नित्यं प्रीत्यर्थं हरिपूजनम् ।।
तारितास्तैश्च पितरो नरकाच्च न संशयः ।। २८ ।।
क्षीरादिस्नपनं विष्णोः क्रियते पितृकारणात् ।।
कल्पकोटिं दिवं प्राप्य वसन्ति त्रिदिवैः सह ।। २९ ।।
कार्तिके नार्चितो यैस्तु कृष्णस्तु कमलेक्षणः ।।
जन्मकोटिषु विप्रेन्द्र न तेषां कमला गृहे ।। 2.4.2.३० ।।
अहो मुष्टा विनष्टास्ते पतिताः कलिकन्दरे ।।
यैर्नार्चितो हरिर्भक्त्या कमलैरसितैः सितैः ।। ३१ ।।
पद्मेनैकेन देवेशं योऽर्चयेत्कमलापतिम् ।।
वर्षायुतसहस्रस्य पापस्य कुरुते क्षयम् ।।
पुष्करार्चनयोगेन श्वेतो मुक्तिमवाप ह ।। ३२ ।। *
अपराधसहस्राणि तथा सप्तशतानि च ।।
पद्मेनैकेन देवेशः क्षमते प्रणतोऽर्चितः ।।३३।।
तुलसीपत्रलक्षेण कार्तिके योऽर्चयेद्धरिम् ।।
पत्रेपत्रे मुनिश्रेष्ठ मौक्तिकं लभते फलम् ।। ३४ ।।
मुखे शिरसि देहे तु कृष्णोत्तीर्णां तु यो वहेत् ।।
तुलसी कृष्णनिर्माल्यैर्यो गात्रं परिमार्जयेत् ।।
सर्वरोगैस्तथा पापैर्मुक्तो भवति मानवः ।। ३५ ।।
शंखोदकं हरेर्भक्तिर्निर्माल्यं पादयोर्जलम् ।।
चन्दनं धूपशेषं च ब्रह्महत्यापहारकम् ।। ३६ ।।
कार्तिके मासि विप्रेन्द्र प्रातःस्नानपरायणः ।।
विप्रेभ्यश्चान्नदानं तु कुर्याच्छक्त्यनुसारतः ।। ३७ ।।
सर्वेषामेव दानानामन्नदानं विशिष्यते ।।
अन्नेन जायते लोको ह्यन्नेनैवाऽभिवर्द्धते ।। ३८ ।।
अन्नं हि सर्वभूतानां प्राणभूतं परं विदुः ।।
अन्नदः सर्वदो लोके सर्वयज्ञादिकृद्भवेत् ।। ३९ ।।
तीर्थस्नानेन किं तस्य देवयात्रादिनाऽपि किम् ।।
सर्वं संपाद्यते ब्रह्मन्नन्नदानान्न संशयः ।। 2.4.2.४० ।।
सत्यकेतुर्द्विजः पूर्वं चान्नदानेन केवलम् ।।
सर्वपुण्यफलं प्राप्य मोक्षं प्राप सुदुर्लभम् ।। ४१ ।।*
कार्तिकव्रतनिष्ठस्तु कुर्याद्गोदानमुत्तमम्।।
व्रतं संपूर्णतां याति गोदानेन न संशयः ।। ४२ ।।
गोदानात्परमं दानं संसारार्णवतारकम् ।।
नास्ति नारद लोकेऽस्मिन्सुशर्मा ब्राह्मणो यथा ।। ४३ ।। *
कार्तिके मासि विप्रेंद्र दत्त्वा दानान्यनेकशः ।।
हरिस्मृतिविहीनश्चेन्न पुनंति कदाचन ।। ४४ ।।
नामस्मरणमाहात्म्यं मया वक्तुं न शक्यते ।।
पुष्करेण यथा पूर्वं नारकीयाश्च मोचिताः ।। ४५ ।। *
गोविंद गोविंद हरे मुरारे गोविंद गोविंद् मुकुंद कृष्ण ।।
गोविंद गोविंद रथांगपाणे गोविंद दामोदर माधवेति ।। ४६ ।।
श्लोकार्द्धं श्लोकपादं वा नित्यं भागवतोद्भवम् ।।
कार्तिके यः पठन्मर्त्यः श्रद्धाभक्तिसमन्वितः ।। ४७ ।।
यैर्न श्रुतं भागवतं पुराणं नाराधितो वै पुरुषः पुराणः ।।
हुतं मुखे नैव धरामराणां तेषां वृथा जन्म गतं नराणाम् ।। ४८ ।।
कार्तिके मासि विप्रेंद्र यस्तु गीतां पठेन्नरः ।।
तस्य पुण्यफलं वक्तुं मम शक्तिर्न विद्यते ।। ४९ ।।
गीतायास्तु समं शास्त्रं न भूतं न भविष्यति ।।
सर्वपापहरा नित्यं गीतैका मोक्षदायिनी ।। 2.4.2.५० ।।
एकेनाऽध्यायपाठेन सर्वपापकृतोऽपि च ।।
मुच्यंते नरकाद्घोराज्जडो वै ब्राह्मणो यथा ।। ५१ ।। *
शालिग्रामशिलादानं यः कुर्यात्कार्तिके मुने ।।
तस्य पुण्यस्य विश्रांतिर्विष्णुना न निरूपिता ।। ५२ ।। *
शालिग्रामं समभ्यर्च्य श्रोत्रियाय महामुने ।।
दानं यः कुरुते विप्र तस्य पुण्यफलं शृणु ।। ५३ ।।
सप्तसागरपर्यंतं भूदानाद्यत्फलं भवेत् ।।
शालिग्रामशिलादानात्तत्फलं समवाप्नुयात् ।। ५४ ।।
शालिग्रामशिलादानात्कार्तिके ब्राह्मणी यथा ।।
विधवा सधवा जाता विवाहे पंचमेऽहनि ।। ५५ ।। *
तस्मात्तु कार्तिके मासि स्नानदानपुरःसरम् ।।
शालिग्रामशिलादानं कर्तव्यं नाऽत्र संशयः ।। ५६ ।। *
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकव्रतधर्मनिरूपणंनाम द्वितीयोऽध्यायः ।। २ ।।
- २.४.२.८
गुरुसेवाप्रसादात्सर्वं प्राप्नोतीत्यत्र दृष्टांतमाह-मेधावी कपिलः सुमतिः इति त्रयः शिष्याः गौतमस्य । गुरोः उत्तमसेवया देवत्वं प्राप्ताः॥ अत्र प्रसिद्धा कथा सारोद्धारोक्तकार्तिकमाहात्म्ये-पुरा भागीरथीतीरे सिद्धाश्रमे गौतमऋषेस्त्रयः शिष्याः मेधावी कपिलः सुमतिरिति, ते बाल्यादेव गुरुसेवातत्परा आसन्, एकदा गौतमस्तानाहूय उवाच-हे शिष्याः वने शीघ्रं गत्वा समित्पुष्पफलकुशा आनीयंताम्, ते च फलादिकं स्वल्पं गृहीत्वा मध्याह्ने गुरुनिकटं प्राप्ताः, तदा गौतमोऽतिक्रुद्धः सन्नुवाच हे शिष्याः यूयं प्रातरेव गताः अधुना तु मध्याह्नो जातः । फलादिकमपि स्वल्पमानीतं तर्हि एतावता कालेन किं कृतम्, हे दुर्वृत्ताः यदि जीवितुमिच्छथ तदा पुनः वनं गत्वा फलादीनि बहून्यादाय सत्वराः समागच्छत, तच्छ्रुत्वा भीताः क्षुत्क्षामकंठाः पुनरेव वनं ययुः, तत्र वनाद्वनं गच्छंतः पश्चिमाभिमुखाः तृषया परिपीडिताः एकस्मिन्सरोवरे स्नानं संध्यां च कृत्वा जलं पीत्वा फलादीनि विचिन्वंतोऽतिभयंकरं वनं विविशुः, तदानीं रात्रिश्च जाता। सिंहव्याघ्रादीनां नादाश्च बभूवुः, तदा भीता मिथः प्रोचुः, अहो कष्टं महांधकारयुक्तेऽस्मिन्वने फलादीनि न पश्यामः, दिशो न जानीमः, किं गृहीत्वा गुरु सन्निधिं गच्छामः नः कथं भवेदिति भयातुरा इतस्ततो भ्रमंतस्तृणगुल्मसमावृते कूपे पतिताः, तत्र सर्पैर्दष्टा मृत्युं प्रापुः । अथ गौतमस्ताननागताञ्ज्ञात्वा स्वात्मानं बहु विनिंद्य प्रातर्भार्यया साकं वने तान्मृगयन्नेकस्मिन्कूपे मृतान्दृष्ट्वा विललाप, तदा सर्वाः स्वपापेनैवैते मृताः किमर्थं शोकः कार्य इति गौतमं सांत्वयांचक्रुः । अथ गौतम उवाच - कर्मणा मनसा वाचा पापमेभिः कदाचन ॥ न कृतं शिष्यवर्यैस्तैर्भवद्भिर्लोकनिष्ठुरैः ॥ वृथा संघातितास्ते तु कालमृत्युर्न चागतः ॥ तस्मान्न दोषो युष्माकं न चैषामपि पन्नगाः ॥ कर्तेषां यम एवाऽत्र यमं तस्माच्छपाम्यहम्॥ इत्युक्त्वा जलमादाय यमं शप्तुं समुद्यतः ॥” इति । तदा यमः सहसैव तत्रागत्योवाच-हे ऋषे । एषामकालमरणं न किंतु सर्पदंशनिमित्तेन महामृत्युकाल एवोपस्थितस्तस्माद्विचार्य शापं देहि नात्र ममापराधः । तदा गौतम उवाच-एवं सति एतैः सच्छिष्यैर्विना मम जीवितेन किं प्रयोजनम्, अतः मया यत्पुण्यमुपार्जितं यच्च तपस्तप्तं तेन पुण्येन तव कृपया च एते जीवनं प्राप्नुवंतु, एवमुक्ते ते सहसोत्थाय संहृष्टा अग्रतः गुरुं यमं च दृष्ट्वा ववंदिरे, गौतमः प्रीत्या तानालिंग्यातितुष्टः युष्माकं वरं दास्यामीत्युवाच-'सर्वान्वेदांश्च शास्त्राणि समस्तांगानि सुव्रताः ॥ इतिहासपुराणानि मत्प्रसादादवाप्स्यथ ॥ गुरुणैवं वरे दत्ते सेंद्रो गुरुरगात्ततः ॥ गौतमं प्रेतराजं च तांश्च विप्रानुवाच ह ॥ इन्द्रोहमस्मि भद्रं वः शृणुध्वं वचनं मम ॥ एतैर्द्विजैरतीवेह जिता लोकाश्च सर्वशः ॥ मम लोकमितस्तस्माद्गंतुमर्हथ सुव्रताः ॥ गौतमस्य प्रसादेन सदेहा एव गच्छत ॥ सामर्थ्यमेषां लोके च तव कीर्तिस्तथा मम ॥ कीर्तिश्च लोके ख्याता स्याद्गुरुपूजाफलं तथा॥" इत्युक्त्वा तान्विमाने चाऽऽरोप्य दिवं ययौ, यमः स्वपुरं गौतमश्च स्वाश्रमं ययाविति ॥
- २.४.२.१२
कन्यादानफलमुक्तम्-"अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी ॥ दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥गौरीं ददद्ब्रह्मलोकं रोहिणीं सूर्यलोकं कन्यां स्वर्गलोकं रजस्वलां यमलोकं गच्छति ॥ यावंति चैव रोमाणि कन्यायास्तु तनौ सुत ॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते॥” इति ।
*२.४.२.३२
श्वेतः श्वेतनृपः पुष्करार्चनयोगेन कमलपूजनेन मुक्तिं प्राप ॥ अत्र प्रसिद्धा कथा ब्राह्मे - पुरा काश्मीरदेशे श्वेतोनाम नृपः इष्टापूर्तकर्मनिष्ठः महावैष्णवः राज्ये पुत्रमभिषिच्य पुष्करक्षेत्रं गत्वा अतितीव्रेण तपसा स्वशरीरं शोषयन्नस्तोत् स्तुत्यंते स्वदेहान्निर्गतं महाभयंकरं पुरुषं दृष्ट्वा त्वं कोऽसि कुत आगतोऽसीत्यपृच्छत्, तदा व्याध उवाच - हे राजन् त्वं पूर्वजन्मनि जनस्थानीयो नृपः मृगयायां मृगरूपधरं मुनिं हतवान् तेन ब्रह्महा जातः, एकदा रात्रौ ब्रह्महत्याभयान्मुक्तो भवामीति विचिंत्य परमभक्त्या कार्तिके कमलैविष्णुं पूजयामासिथ, तदैव उदरव्याधितः कंठगतेन प्राणेन नारायणीनाम्नीं स्वपत्नीं संस्मरन्मृतः, तेन पुण्येन त्वं स्वर्गं गतः, अहमपि स्वेन तेजमा कल्पपर्यंतं तत्र तव निकटे स्थितः, ततः कल्पांते इदानीं स त्वं काश्मीरदेशे सुमनसः राज्ञः गृहे श्वेतनाम्ना जातः, अत्रापि विष्णोराराधनस्तोत्रपाठेन त्वं शुद्धः । अतः व्याधरूपेण तव देहादहं निर्गतः, शुद्धश्च जातः, तच्छ्रुत्वा विस्मितो राजा व्याधमुवाच, हे व्याध यतस्त्वया मम जन्मांतरं स्मारितं तस्मान्मत्प्रसादेन त्वं धर्मव्याधो भविष्यसि, इत्युक्त्वा विमानमारुह्य परं स्थानमवाप, तस्मात्-"सहस्रकमलैः पूजा कार्तिके मधुसूदने । न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि” इति ॥
*२.४.२.४१
सत्यकेतुविषये कथामाह सारोद्धारे-पुरा सत्यजिन्नामा ब्राह्मणः धर्मशीलः सर्वकामेभ्यो यो निःस्पृहः सदा तीर्थयात्रापरः - "नान्येषु रमते चित्तं गंगां नित्यं स्मरत्यसौ ॥ भागीरथीं सुनिष्णातो विशेषेण महामुनिः ॥” स तीर्थयात्रां कुर्वन्नेकदा विशालानगरीं गत्वा जनैर्दर्शितं सत्यकेतुगृहं प्रविवेश, तदा सत्यकेतुः तृट्परीतं क्षुधाविष्टं भोजनमिच्छंतं सत्यजितं दृष्ट्वा उत्थाय अर्घपाद्यपूजां कृत्वोवाच-हे द्विजोत्तम तवागमनेनाऽद्य मम जन्मनः साफल्यं जातम् । पितरस्तृप्ताः, देवाश्च सुप्रीता जाताः, हे द्विजेन्द्र इच्छितं भोजनं कुरु, त्वयि भुक्ते मे किंचित्कर्तव्यं नावशिष्यते, तव दर्शनादप्राप्यं न हि विद्यते, तदा सत्यजिदुवाच - हे सत्यकेतो तव शुश्रूषया वाक्येन च तृप्तोऽस्मि । किं च, अन्नदातारः लोके बहवः संति तत्र त्वया सदृशः कोपि न दृष्टः त्वं गृहस्थाश्रमिणां मध्ये श्रेष्ठोऽसि । त्वया गंगायात्रा कृता न वा, तदा सत्यकेतुरुवाच - हे द्विज, मद्गृहे अतिथीनामन्नदाता अन्यः कोऽपि नास्ति तेनाऽद्यापि भागीरथीस्नानं न जातं तच्छ्रुत्वा सत्यजितं विनिंदस्त्वया भागीरथीस्नानं न कृतम् अतः त्वद्गृहेऽद्य न भोक्ष्यामीत्युक्त्वा गृहान्निर्गत्य स्नानार्थं भागीरथीं गतः, तदैव गंगा अंतर्हिताऽभवत, स यदा जलं नापश्यत्तदा कृतांजलिर्गंगां तुष्टाव, हे देवि मया अणुमात्रोऽप्यपराधो न कृतः, मे दर्शनं देहि, अन्यायं क्षंतुमर्हसि, इति स्तुता गंगा प्रत्यक्षमूर्त्या द्विजमाह--हे सत्यजित् त्वं सत्यकेतुगृहं गत्वा तं प्रसाद्य अन्नं भुक्त्वा पुनरागच्छ तदन्नभोजनेन बहवो मोक्षं गताः, इति गंगावचः श्रुत्वा सत्यकेतुगृहे भोजनं कृत्वा, तदनुज्ञातः गंगामागतः गंगां दृष्ट्वा स्नानं चकार एवं सत्यकेतुः केवलमन्नदानपुण्येन सद्गतिं प्राप इति ।
*२.४.२.४३
कश्चित्सुशर्मानाम ब्राह्मणः वेदवेदांगपारगः शांतो जितेंद्रियः सर्वयज्ञकर्ता धनी नित्यदानपरः सर्वेषां हिते रतः पुराणवक्ता बंधूनां हितकृत् बहुपुत्रवान् आसीत्, स च उत्तरे वयसि गृहभारं पुत्रेषु समर्प्य वनं गत्वा श्रीविष्णुमाराधयन् स्वीयतपसा स्वर्गं प्राप, तत्रैकदा यमदूतैः पराजितान्देवदूतान्प्रति इंद्रः प्रोवाच-हे दूताः धर्मिष्ठाः, ममाऽऽज्ञया दिवं यांतु पापिष्ठाः नरकं यांतु तत्रापि ये गोप्रदातारः ते पापिनोऽपि दिवं यांतु, गोदानेन पापराशिर्नश्यति, एतदिंद्रवचः श्रुत्वा सुशर्मा ब्राह्मणः स्वपुत्रानुपदेष्टुमंतरिक्षमार्गेण पुत्रान्संबोध्य प्रोवाच - हे पुत्राः यूयं यदि स्वर्गमीप्सथ तदा मद्वाक्याद्गोदानं कर्तव्यं, गोदानात्परमन्यद्दानं त्रिलोके नास्तीति उक्त्वा गतः, ते पुत्राश्च अशरीरवाचं श्रुत्वा विस्मिताः संतः सर्वेऽपि विधिना गोप्रदानं चक्रुः, तेन सद्गतिं प्राप्ताः ।
*२.४.२.४५
पुष्करविषये प्रसिद्धा कथा सारोद्धारे - पुरा नंदिग्रामे पुष्करनामानौ द्वौ ब्राह्मणौ निवसतः तत्रैकः पुण्यात्मा, अपरः पापी, अथैकदा यमः पापिपुष्करानयने दूतानाज्ञापयत, ते च तं विहाय पुण्यवंतं पुष्करमानीतवंतः, तदा यमः दूतान्निर्भर्त्स्य बहुसंमानपूर्वकं पुष्करमुवाच-हे पुष्कर तवाऽऽनयने ममाज्ञा न त्वं पुनर्गच्छ तदा पुष्कर उवाच-हे यम अहं नरकान्द्रष्टुमिच्छामि, यत्र पापिभिर्यातना अनुभूयंते, ततो यमदर्शितं हाहाकाररवाकुलमतिदुःखितं नारकीयगणं दृष्ट्वाऽतिसंत्रस्तो दयापरः पुष्करस्तानुवाच--हे नारकाः पूर्वं किमपि न विचारितम् अधुना हाहाकारेण किं प्रयोजनं सर्वपापक्षयकरं भगवन्नामापि न गृहीतम्। नारका ऊचुः-हे पुष्कर त्वयोक्तं सत्यं क्षणं तिष्ठ तवांगस्पर्शवायुनाऽस्माकं सुखं भविष्यति, तदा एतैः किं प्रयोजनं त्वं गच्छेति यमेनोक्तः पुष्कर उवाच-हे यम एतानमोचयित्वाऽहं गंतु नोत्सहे अतो मया सर्वभूतात्मा भगवान्गोविंद आराधितश्चेत्तेन पुण्येन एते नारका मुक्ता भवंतु एवमुक्त्वा गोविंदगोविंदेति विष्णोर्नामस्मरणमकरोत् । तदैव सर्वे नारकाः मुक्ताः दिव्यरूपधराः तव कीर्तिरतुला भविष्यतीति पुष्करमुक्तवंतो वैकुंठं ययुः, पुष्करोऽपि यममामंत्र्य नाममहिम्नैव परं पदं गतवानिति ॥४५॥
*२.४.२.५१
यथा जडोनाम ब्राह्मणः गीताध्यायश्रवणेन मुक्तोऽभूत् । अत्र प्रसिद्धा कथा सारोद्धारे-विदर्भनगरे कौशिकान्वयः जडोनाम ब्राह्मणः स्वधर्मं विहाय परस्त्रीगामी, मद्यपश्चौर्यकर्मरतः आसीत् ॥ स एकदा उत्तरदिक्तः चौर्येणाऽतीव धनं गृहीत्वा आगच्छन्मार्गे तरोर्मूले चौरैर्घातितः, ततस्तत्पुत्रः पितरं नित्यमन्वेषयन्वार्तामपि नोपलब्धवान् ततः पितुः पारलौकिकं कर्म कर्तुं संभारान्गृहीत्वा वाराणसीं गंतुमुपचक्र मे, मार्गे सप्ताष्टौ निवासान्नीत्वा एकस्मिंस्तरोर्मूले यत्र पूर्वं पिता निहतः तत्र संध्यां कृत्वा गीतायास्तृतीयाऽध्यायं जजाप, तदैव घोरशब्दं श्रुत्वा आकाशादुत्पतंतं
विमानवरसंस्थितं दिव्यरूपवरं पितरं दृष्ट्वा प्रणम्य वृत्तांतमपृच्छत् । स च पिता आह-हे पुत्र यदर्थं वाराणसीं गंतव्यं, तत्सर्वमद्य कृतं; त्वं कृतकार्योऽसि निवर्तस्य ।। गीताध्यायपठनेन त्वयाऽहं मोचितः, किंच-हे पुत्र मम भ्राता अन्ये मदन्वयाश्च नरकं प्रतिपेदिरे, ते सर्वे त्वया गीतापठनपुण्यदानेन मोचितव्याः, इत्युत्क्त्वा आशिषं दत्त्वा विष्णुपदं ययौ ॥ पुत्रोऽपि कालेन यमलोकं गत्वा गीतापाठजं पुण्यं दत्त्वा नारकीयान्मोचयित्वा स्वयमपि परं पदं ययाविति ॥ ५१ ॥
*२.४.२.५२
अथ कार्तिके शालिग्राम शिलादानप्रशंसामाह-शालिग्रामेति ॥ यथा ब्राह्मणी विवाहात्पंचमदिवसे भर्तृमरणयोगेन विधवा जाता, परंतु शालिग्रामशिलादानेन भर्ता जीवनं प्राप तेन सधवा जाता, अत्र प्रसिद्धा कथा सारोद्धारे-गोदातीरे कश्चिद्वैश्यः महापापरतः दुराचारः आसीत, स कदाचिदृणग्राहिणं ब्राह्मणं खड्गेनाघातयत्, ततः मरणांते रौरवनरके पतितः अथ धर्मचारोनाम तत्पुत्रः पित्रार्जितं धनं यज्ञदानव्रतजपतपइष्टापूर्तपरोपकारादिसन्मार्गेण व्ययीचकार, एकदा धर्मचारवैश्यगृहे लोमशमुनिरागत्य त्वं शालिग्रामशिलादानपुण्येन पितरं रौरवान्मोचयेत्युपदिदेश, तदा सः शिलादानं व्यर्थमिति मत्वा ऋषिवचनमनादृत्य तूष्णी स्थितः कालेन ममार च लोमशोऽपि तूष्णीं ययौ, स धर्मचारवैश्यः शिलाया अनादराद्विप्रवाक्यस्य लंघनान्मन्वंतरं नरकयातनां भुक्त्वा कर्मशेषेणाऽनेकपशुयोनिं भुक्त्वा स्त्रीजन्मानि च भुक्त्वा एकादशे जन्मनि याजकब्राह्मणस्य कन्या अभवत्, तदा पिता प्राप्तयौवनां कन्यां दृष्ट्वा समानकुलगोत्राय दत्त्वा विवाहमकरोत् अथ तद्भर्ता पंचमेऽहनि वमनरोगतः मृतः, तदा याजकः जामातरं मृतं दृष्ट्वा जामाता केन जीवेदिति क्षणमात्रं विचार्य कार्तिके शालिग्रामस्य दानं जीवने कारणमिति मत्वा सुलक्षणं मनोहरं शालिग्रामं पुत्र्या हस्तेन विप्राय दापयामास, तदा तत्क्षणादेव पतिः जीवनं प्रापं, ततः तौ दंपती चिरकालं चिक्रीडतुः, कालांतरे सा याजकसुता शालग्रामदानपुण्येन स्त्रीजन्मतो विनिर्मुक्ता सती विष्णुयशोनामकब्राह्मणजन्म लब्ध्वा प्रतिवर्षं कार्तिके शालिग्रामदानपुण्येन मोक्षं प्रापेति ॥ ५५ ॥ शिलादानप्रसंगेन शिलालक्षणमाह पाद्मे-"चक्रांकितं हिरण्यांगं रश्मिजालं विनिर्दिशेत् ॥ सुवर्णरेखाबहुलं स्फटिक द्युतिशोभितम् ॥ अतिस्निग्धा सिद्धिकरी कृष्णा कीर्तिं ददाति च ॥ पांडुरा पापदहनी पीता पुत्रफलप्रदा ॥ नीला प्रयच्छते लक्ष्मीं रक्ता रोगप्रदायिनी ॥ रूक्षा उद्वेगजननी वक्रा दारिद्र्यभागिनी ॥ एकं सुदर्शनं ज्ञेयं लक्ष्मीनारायणं द्वयम् ॥ तृतीयं चाऽच्युतं विद्याच्चतुर्थं तु जनार्दनम् ॥ पंचमं वासुदेवं च षष्ठं प्रद्युम्नमेव च ॥ संकर्षणं सप्तमं च अष्टमं पुरुषोत्तमम् ॥ नवमं च नवव्यूहं दशमं तु दशात्मकम् ॥ एकादशं चाऽनिरुद्धं द्वादशं द्वादशात्मकम् ॥ अत ऊर्ध्वं तु चक्राणि दृश्यंतेऽनंतसंज्ञके ॥ खंडिते त्रुटिते भग्ने शालिग्रामे न दोषभाक् ॥” इति ।
*२.४.२.५५
यथा ब्राह्मणी विवाहात्पंचमदिवसे भर्तृमरणयोगेन विधवा जाता, परंतु शालिग्रामशिलादानेन भर्ता जीवनं प्राप तेन सधवा जाता, अत्र प्रसिद्धा कथा सारोद्धारे - गोदातीरे कश्चिद्वैश्यः महापापरतः दुराचारः आसीत्, स कदाचिदृणग्राहिणं ब्राह्मणं खड्गेनाघातयत्, ततः मरणांते रौरवनरके पतितः अथ धर्मचारोनाम तत्पुत्रः पित्रार्जितं धनं यज्ञदानव्रतजपतपइष्टापूर्तपरोपकारादिसन्मार्गेण व्ययीचकार, एकदा धर्मचारवैश्यगृहे लोमशमुनिरागत्य त्वं शालिग्रामशिलादानपुण्येन पितरं रौरवान्मोचयेत्युपदिदेश, तदा सः शिलादानं व्यर्थमिति मत्वा ऋषिवचनमनादृत्य तूष्णीं स्थितः कालेन ममार च लोमशोऽपि तूष्णीं ययौ, स धर्मचारवैश्यः शिलाया अनादराद्विप्रवाक्यस्य लंघनान्मन्वंतरं नरकयातनां भुक्त्वा कर्मशेषेणाऽनेकपशुयोनिं भुक्त्वा स्त्रीजन्मानि च भुक्त्वा एकादशे जन्मनि याजकब्राह्मणस्य कन्या अभवत्, तदा पिता प्राप्तयौवनां कन्यां दृष्ट्वा समानकुलगोत्राय दत्त्वा विवाहमकरोत् अथ तद्भर्ता पंचमेऽहनि वमनरोगतः मृतः, तदा याजकः जामातरं मृतं दृष्ट्वा जामाता केन जीवदिति क्षणमात्रं विचार्य कार्तिके शालिग्रामस्य दानं जीवने कारणमिति मत्वा सुलक्षणं मनोहरं शालिग्रामं पुत्र्या हस्तेन विप्राय दापयामास, तदा तत्क्षणादेव पतिः जीवनं प्रापं, ततः तौ दंपती चिरकालं चिक्रीडतुः, कालांतरे सा याजकसुता शालग्रामदानपुण्येन स्त्रीजन्मतो विनिर्मुक्ता सती विष्णुयशोनामकब्राह्मणजन्म लब्ध्वा प्रतिवर्षं कार्तिके शालिग्रामदानपुण्येन मोक्षं प्रापेति ॥ ५५ ॥
*२.४.२.५६
शिलादानप्रसंगेन शिलालक्षणमाहपाद्मे-"चक्रांकितं हिरण्यांगं रश्मिजालं विनिर्दिशेत् ॥ सुवर्णरेखाबहुलं स्फाटिकद्युतिशोभितम् ॥ अतिस्निग्धा सिद्धिकरी कृष्णा कीर्तिं ददाति च ॥ पांडुरा पापदहनी पीता पुत्रफलप्रदा ॥ नीला प्रयच्छते लक्ष्मीं रक्ता रोगप्रदायिनी ॥ रूक्षा उद्वेगजननी वक्रा दारिद्र्यभागिनी ॥ एकं सुदर्शनं ज्ञेयं लक्ष्मीनारायणं द्वयम् ॥ तृतीयं चाऽच्युतं विद्याच्चतुर्थं तु जनार्दनम् ॥ पंचमं वासुदेवं च षष्ठं प्रद्युम्नमेव च ॥ संकर्षणं सप्तमं च अष्टमं पुरुषोत्तमम् ॥ नवमं च नवव्यूहं दशमं तु दशात्मकम् ॥ एकादशं चाऽनिरुद्धं द्वादशं द्वादशात्मकम् ॥ अत ऊर्ध्वं तु चक्राणि दृश्यतेऽनंतसंज्ञके ॥ खंडिते त्रुटिते भग्ने शालिग्रामे न दोषभाक् ॥” इति । एवं दामोदरादिमूर्तीनां लक्षणं वर्तते ग्रंथविस्तरभयान्नोच्यते इति ॥ ५६ ॥
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 3
।। ।। ब्रह्मोवाच ।। ।।
भूयः शृणुष्व विप्रेंद्र कार्तिकस्य च वैभवम् ।।
दशमीदिनमारभ्य दशम्यां तु समापयेत् ।। १ ।।
पौर्णमासीं समारभ्य पौर्णमास्यां समापयेत् ।।
आश्विनस्य हरिदिनीं समारभ्य तु भक्तिमान् ।। २ ।।
दामोदरं नमस्कृत्य कुर्यात्संकल्पमादितः ।।
दामोदर नमस्तेऽस्तु सर्वपापविनाशन ।। ३ ।।
कार्तिकस्य व्रतं कर्तुमनुज्ञां दातुमर्हसि ।।
निर्विघ्नं कुरु देवेश आमासं पुरुषोत्तम ।। ४ ।।
इति संप्रार्थ्य विधिना कार्तिकव्रतमाचरेत् ।।
अनूरुं वदता प्रोक्तं भास्करेण श्रुतं मया ।।
कलौ च स्वर्गगमनकारणं श्रूयतां हि तत् ।। ५ ।।
।। सूर्य उवाच ।। ।।
द्वादशानां तु मासानां मार्गशीर्षोऽतिपुण्यदः ।। ६ ।।
तस्मात्पुण्यफलः प्रोक्तो वैशाखो नर्मदातटे ।।
ततो लक्षगुणः प्रोक्तः प्रयागे माघमासकः ।। ।। ७ ।।
तस्मान्महाफलः प्रोक्तः कार्तिको जलमात्रके ।।
एकतः सर्वदानानि व्रतानि नियमास्तथा ।। ८ ।।
एकतः कार्तिकस्नानं ब्रह्मणा तुलया धृतम् ।।
संततिश्चैव संपत्तिः कलौ येषां प्रजायते ।। ९ ।।
अवश्यं तैः कृतं विद्धि कार्तिकस्नानमादरात् ।।
स्नानं च दीपदानं च तुलसीवनपालनम् ।। 2.4.3.१० ।।
भूमिशय्या ब्रह्मचर्य्यं तथा द्विदलवर्जनम् ।।
विष्णुसंकीर्तनं सत्यं पुराणश्रवणं तथा ।। ११ ।।
कार्तिके मासि कुर्वंति जीवन्मुक्तास्त एव हि ।।
न कार्तिकसमं धर्म्यमर्थ्यं नो कार्तिकात्परम् ।। १२ ।।
न कार्तिकसमं काम्यं मोक्षदानं न कार्तिकात् ।।
युधिष्ठिरेण धर्मार्थमर्थार्थं च ध्रुवेण च ।।१३ ।।
श्रीकृष्णेन तु कामार्थं मोक्षार्थं नारदेन च ।।
कृतमेतद्व्रतं तस्माच्छ्रेष्ठं कृष्णप्रियं च हि ।। १४ ।। ।।
।। अरुण उवाच ।। ।।
ब्रूहि भास्कर सर्वात्मन्कदाऽऽरभ्य व्रतं कृतम्।।
सफलं जायते सम्यक्का च पूज्याऽत्र देवता ।।१५।।
।। भास्कर उवाच ।।
अहं विष्णुश्च शर्वश्च देवी विघ्नेश्वरस्तथा ।।
एकोऽहं पंचधा जातो नाट्ये सूत्रधरो यथा ।। १६ ।।
अस्माकं सर्व एवैते भेदा विद्धि खगेश्वर ।।
तस्मात्सौरैश्च गाणेशैः शाक्तैः शैवैश्च वैष्णवैः ।। १७ ।।
कर्तव्यं कार्तिकस्नानं सर्वपापापनुत्तये ।।
सूर्यस्य प्रीतये कार्यं तुलासंस्थे दिवाकरे।।१८।।
इषपूर्णां समारभ्य यावत्कार्तिकपूर्णिमा ।।
तावत्स्नानं विधातव्यं शिवसंतुष्टये नरैः ।। १९।।
देवीपक्षं समारभ्य महारात्रिचतुर्दशी ।।
तावत्स्नानं विधातव्यं देवी संप्रीयतामिति।। 2.4.3.२०।।
गणपक्षं समारभ्य कृष्णा या कार्तिके भवेत्।।
चतुर्थी तावदेव स्यात्स्नानं गणपतुष्टये।।२१।।
एकादशीं समारभ्य आश्विनस्याऽसितेतराम् ।।
एकादश्यां कार्तिकस्य शुक्लायां परिपूर्यते ।।
कृतं येन तु तस्य स्यात्परितुष्टो जनार्दनः ।। २२ ।।
न कार्तिकसमो मासो न काशीसदृशी पुरी ।।
न प्रयागसमं तीर्थं न देवः केशवात्परः ।। २३ ।।
प्रसंगाद्वा बलात्कारैर्ज्ञात्वाज्ञात्वा कृतं भवेत् ।।
स्नानं कार्तिकमासस्य न पश्येद्यमयातनाम् ।। २४ ।।
स्नानार्थं चेन्न सामर्थ्यं दत्वान्यस्मै धनादिकम् ।।
स्नातस्य तस्य हस्तस्य ग्रहणा पुण्यभाग्भवेत् ।। २५ ।।
अथवा कार्तिकस्नानं ये कुर्वंति द्विजातयः ।।
तेषां प्रावरणं दत्त्वा स्नानजं फलमाप्नुयात् ।।२६।।
राधादामोदरः पूज्यः कार्तिके तु विशेषतः ।। २७ ।।
स्वर्णस्य वाथ रौप्यस्याऽप्यभावे शुल्बजामपि ।।
मृज्जां वा चित्रजातां वाऽथ वा पिष्टविचित्रिताम् ।। २८ ।।
दामोदरस्य राधायास्तुलस्यधोऽर्चयंति ये ।।
मूर्तिं ते तु नरा ज्ञेया जीवन्मुक्ता न संशयः ।।२९।।
अपि पापसहस्राढ्यः कार्तिकस्नानतो नरः ।।
मुक्तोऽवश्यं स भवति नाऽत्र कार्या विचारणा ।। 2.4.3.३० ।।
तुलस्यभावे कर्तव्या पूजा धात्रीतले खग ।।
मुख्यपूजाविधानं तु कर्तव्यं सूर्यमंडले ।। ३१ ।।
अप्रत्यक्षाः सर्वदेवाः प्रत्यक्षो भगवानयम् ।।
सर्वे देवाः कालवशाः कालकालो दिवाकरः ।।३२।।
एतदाराधनेऽशक्तः प्रतिमां पूजयेन्नरः ।।
प्रतिमातोऽधिकं पुण्यं ब्राह्मणस्य तु पूजने ।। ३३ ।।
दरिद्रो दानपात्रं स्याद्विद्यावांस्तु विशेषतः ।।
विप्राभावे पूजनीया गावः कृष्णा मनोहराः ।। ३४ ।।
विष्णोर्मूर्तिर्जंगमतः स्थावरा तु प्रशस्यते ।।
शूद्रस्थापितमूर्तीनां नमस्कारं करोति यः ।।
पितृभिर्निरयं याति दशपूर्वैर्दशापरैः ।। ३५ ।।
शूद्रार्चितस्य संस्पर्शाद्दहेदासप्तमं कुलम् ।। ३६ ।।
तस्माद्विचार्य्य विप्रैर्या स्थापिता तां समर्चयेत् ।।
ततोऽपि या देवताभिः कृता सा भुक्तिमुक्तिदा ।। ३७ ।।
मूर्त्यभावे पूजनीयोऽश्वत्थो वाऽथ वटोऽथ वा ।।
अश्वत्थरूपी विष्णुः स्याद्वटरूपी शिवो यतः ।। ३८ ।।
कार्तिके तुलसीशाकं तांबूलं वा नराधमः ।।
अज्ञानाज्ज्ञानतो वाऽपि भुञ्जानो निरयं व्रजेत् ।। ३९ ।।
शालिग्रामशिलाचक्रे नित्यं सन्निहितो हरिः ।।
तस्मात्सर्वप्रयत्नेन शालिग्रामं प्रपूजयेत् ।। 2.4.3.४० ।।
रुद्रशापवशाद्गावो विष्ठाभक्षणतत्पराः ।।
तथाऽपि ताः पूजनीया लोकद्वयफलप्रदाः ।। ४१ ।।
ब्रह्मांऽशकसमुद्भूते पालाशे यस्तु भोजनम् ।।
कुर्यात्कार्तिकमासेऽसौ विष्णुलोकं प्रयास्यति ।। ४२ ।। *
अश्वत्थरूपी भगवान्वटरूपी सदाशिवः ।।
तस्मात्सर्वप्रयत्नेन कार्तिकेऽश्वत्थमर्चयेत् ।। ४३ ।।
या नारी कार्तिके मासि लक्षं कुर्यात्प्रदक्षिणाः ।।
राधादामोदरं पूज्य मन्दवारे च तत्तले ।। ४४ ।।
दम्पती भोजयेद्राधादामोदरस्वरूपिणौ ।।
भोजयित्वा सपत्नीकान्पश्चाद्भुंजीत वाग्यतः ।। ४५ ।।
वन्ध्याऽपि लभते पुत्रमितरासां तु का कथा ।।
सदा सन्निहितो विष्णुर्द्विपत्सु ब्राह्मणे यथा ।। ४६ ।।
बोधिद्रुमे पादपेषु शालिग्रामे शिलासु च ।।
तस्मादश्वत्थमूले वै कर्तव्यं विष्णुपूजनम् ।। ४७ ।।
अश्वत्थपूजा स्पर्शेन कर्त्तव्या शनिवासरे ।।
अन्यवारेऽश्वत्थसंगाद्दरिद्रो जायते नरः ।।४८।।
स्नानं जागरणं दीपं तुलसीवनपालनम् ।।
कार्तिके मासि कुर्वंति ते नरा विष्णुमूर्तयः ।। ४९ ।।
संमार्जनं विष्णुगृहे स्वस्तिकादिनिवेदनम् ।।
विष्णोः पूजां च ये कुर्युर्जीवन्मुक्तास्तु ते नराः ।। 2.4.3.५० ।।
स्नानकालं प्रवक्ष्यामि तीर्थादिषु च यत्फलम् ।।
स्नानधर्माश्च ये केचित्तान्सर्वान्मे निबोधत ।। ५१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकवैभववर्णनंनाम तृतीयोऽध्यायः ।। ३ ।।.
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 4
।। ब्रह्मोवाच ।। ।।
नाडीद्वयावशिष्टायां रात्र्यां गच्छेज्जलाशयम् ।।
तुलसीमृत्तिकायुक्तः सवस्त्रकलशो मुने ।। १ ।।
आगत्य तोयनिकटे तीरे संस्थाप्य पात्रकम् ।।
पादप्रक्षालनं कृत्वा देशकालादि चोच्चरेत् ।। २ ।।
स्मरेद्गंगादिका नद्यो विष्णुशर्वादिदेवताः ।।
नाभिमात्रे जले स्थित्वा मंत्रमेतमुदीरयेत् ।। ३ ।।
कार्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्दन ।।
प्रीत्यर्थं तव देवेश दामोदर मया सह ।। ४ ।।
नित्ये नैमित्तिके कृत्वा कार्तिके पापनाशन ।।
स्नानं चार्घं प्रदास्यामि निर्विघ्नं कुरु केशव ।। ५ ।।
तीर्थादिदेवताभ्यश्च क्रमादर्घ्यादि दापयेत् ।।
गृहाणार्घ्यं मया दत्तं राधया सहितो हरे ।। ६ ।।
नमः कमलनाभाय नमस्ते जलशायिने ।।
नमस्तेऽस्तु हृषीकेश गृहाणार्घ्यं नमोऽस्तु ते ।। ७ ।।
व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम ।।
गृहाणार्घ्यं मया दत्तं दनुजेंद्रनिषूदन ।। ८ ।।
किरणा धूतपापा च पुण्यतोया सरस्वती ।।
गंगा च यमुना चैव पंचनद्यः पुनंतु माम् ।। ९ ।।
अन्यासां च नदीनां च दद्यादर्घ्यं यथाविधि ।।
जाह्नवीस्मरणं कुर्यात्सर्वतीर्थेषु मानवः ।। 2.4.4.१० ।।
नान्यत्तीर्थं तु जाह्नव्यां स्मरणीयं कदाचन ।।
एतान्मंत्रान्समुच्चार्य मलस्नानं समाचरेत् ।। ११ ।।
मृत्स्नानं च पितृस्नानं गुरुस्नानं ततः परम् ।।
ततस्तु पावमानीभिरभिषिंचेत्स्वमस्तकम् ।। १२ ।।
अघमर्षणकं कृत्वा स्नानांगं तर्पणं तथा ।।
ततः पुरुषसूक्तेन जलं शिरसि सिंचयेत् ।। १३ ।।
ततस्तु बहिरागत्य तीर्थं शिरसि निक्षिपेत्।।
तीर्थं पीत्वा त्रिवारं तु तुलसीं गृह्य पाणिना।। १४ ।।
ततो जलाद्विनिष्क्रम्य चांचलं पीडयेद्बहिः।।
यन्मया दूषितं तोयं शारीरमलसंचयैः ।। १५ ।।
तद्दोषपरिहारार्थं यक्ष्मणं तर्पयाम्यहम् ।।
वस्त्रनिष्पीडनं कृत्वा कुर्याच्च तिलकादिकम् ।।।। १६ ।।
।। सूत उवाच ।। ।।
शृणुध्वमृषयः सर्वे कार्तिकस्नानजं फलम् ।।
अरुणं प्रति सूर्येण यदुक्तं च सविस्तरम् ।। १७ ।।
।। अरुण उवाच ।। ।।
कस्मिंस्तीर्थे विशेषेण फलं कार्तिकसंभवम् ।।
क्षेत्रे वा एतदाऽऽख्याहि भगवन्स्नानयोगतः ।। १८ ।।
।। सूर्य उवाच ।।
यत्र कुत्राऽपि कर्तव्यं जले स्नानं तु कार्तिकं ।।
उष्णोदकेन कर्तव्यं स्नानं कुत्राऽपि कार्तिके ।। १९ ।।
ततो दशगुणं पुण्यं शीततोयनिमज्जनात् ।।
ततः शतगुणं पुण्यं बहिः कूपोदके कृतम्।। 2.4.4.२० ।।
कूपात्सहस्रगुणितं फलं वापीनिषेकतः ।।
ततोऽयुतगुणं पुण्यं तडागस्नानतो भवेत् ।। २१ ।।
ततो दशगुणं पुण्यं निर्झरेषु निमज्जनात् ।।
ततोऽधिकतरं पुण्यं नदीस्नानस्य कार्तिके ।। २२ ।।
नद्या दशगुणं प्रोक्तं तीर्थस्नानं खगोत्तम ।।
ततो दशगुणं पुण्यं नद्योर्यत्र च संगमः ।।२३।।
नदीत्रयस्य संयोगे पुण्यस्यांऽतो न विद्यते ।।
सिंधुः कृष्णा च वेणी च यमुना च सरस्वती ।। २४ ।।
गोदावरी विपाशा च नर्मदा तमसा मही ।।
कावेरी शरयूः शिप्रा तथा चर्मण्वती नदी ।। २५ ।।
वितस्ता वेदिका शोणो वेत्रवत्यपराजिता।।
गंडकी गोमती पूर्णा ब्रह्मपुत्रा सरोवरम् ।। २६ ।।
वाग्मती च शतद्रुश्च तथा बदरिकाश्रमः ।।
दुर्लभाः कार्तिके त्वेते तीर्थान्यथ निबोध मे ।। २७ ।।
सर्वेभ्यश्च स्थलेभ्यश्च आर्यावर्तं तु पुण्यदम् ।।
कोल्हापुरी ततः श्रेष्ठा ततः कांचीद्वयं स्मृतम् ।। ।। २८ ।।
अनंतसेनवसतिर्वराहक्षेत्रमेव च ।।
चक्रक्षेत्रं ततः पुण्यं मुक्तिक्षेत्रं ततोऽधिकम् ।। २९ ।।
अवंतिका ततः श्रेष्ठा ततो बदरिकाश्रमः ।।
अयोध्या च ततः श्रेष्ठा गंगाद्वारं ततोऽधिकम् ।। 2.4.4.३० ।।
ततः कनखलं तीर्थं ततो मधुपुरी वरा ।।
एकोऽपि कार्तिको मासो मथुरायमुनाजले ।। ।। ३१ ।।
यैः स्नातस्ते तु वैकुंठे बहुकालं वसंति हि ।।
राधादामोदरस्तत्र स्वयं स्नातस्तु कार्तिके ।। ३२ ।।
अतो मधुपुरी श्रेष्ठा यमुना च विशेषतः ।। ३३ ।।
द्वारावती ततः श्रेष्ठा प्रत्यहं स्नाति केशवः ।।
षोडशस्त्रीसहस्रेण सार्द्धं यादवसंयुतः ।। ३४ ।।
द्वारकायां मृत्तिकायास्तिलको येन मस्तके ।।
धार्यतेऽसौ नरो ज्ञेयो जीवन्मुक्तो न संशयः ।।
द्वारकास्नानमाहात्म्यं न वक्तुं शक्यते मया ।। ३५ ।।
गोविंदार्पितचित्तानां जायते पुण्यभास्करा ।।
ततो भागीरथी श्रेष्ठा यत्र विंध्येन संगता ।। ३६ ।।
तस्माद्दशगुणं पुण्यं तीर्थराजेऽत्र जायते ।। ३७ ।।
कलौ दशसहस्रांऽते विष्णुस्त्यक्ष्यति मेदिनीम्।।
तदर्द्धं जाह्नवीतोयं तदर्धं देवतागणाः ।। ३८ ।।
यावत्तिष्ठति गंगाऽत्र तावत्तीर्थानि संति च ।।
स्वस्वस्थाने नृणां पापं तावदेव हरंति च ।। ३९ ।।
यदैव गंगा नष्टा स्यात्को वा तत्पापमाहरेत् ।।
विचार्यैवं सुतीर्थानि गमिष्यंति धरातले ।। 2.4.4.४० ।।
तस्मान्मुनीश्वराः सर्वे यावत्तिष्ठति जाह्नवी ।।
तावच्च क्रियतां धर्मस्ततो भूमौ निलीयताम् ।। ४१ ।।
समाधिं गृह्य सुदृढां यावत्कृतयुगं भवेत् ।।
अन्यथा कलिकालेन भ्रंशनीयो भवेत्सुधीः ।। ४२ ।।
ततः श्रेष्ठतरा काशी यस्या नाशो न जायते ।।
यदाश्रयेण गंगापि सर्वपापं व्यपोहति ।। ४३ ।।
काशिकाया नैव नाशो ब्रह्मण्यपि मृते सति ।।
यद्दर्शनार्थं गंगाऽपि जाता चोत्तरवाहिनी ।।
तस्यां पंचनदं तीर्थं त्रिषु लोकेषु विश्रुतम्।। ४४ ।।
आगते कार्तिके मासि रौरवं नरकं गताः ।।
आक्रोशंते तु पितरो वंशेऽस्माकं भविष्यति ।। ४५ ।।
कश्चिद्भाग्यवतां श्रेष्ठो गत्वा पंचनदे शुभे ।।
अस्माकं तर्पणं कुर्यान्नरकार्णवतारकम् ।। ४६ ।।
तीर्थराजादितीर्थानि प्राप्ते कार्तिकमासके ।।
स्नानार्थं पञ्चगंगं तु समायांति न संशयः ।। ४७ ।।
कृत्वा तु लक्षपापानि स्नात्वा पंचनदे शुभे ।।
बिंदुमाधवमभ्यर्च्य विलयं यांति तत्क्षणात् ।। ४८ ।।
यैः स्नातं कार्तिके मासि सकृत्पंचनदे शुभे ।।
सर्वतीर्थकृतास्नानात्फलं कोटिगुणं भवेत् ।। ४९ ।।
।। ब्रह्मोवाच ।। ।।
कार्तिके मासि कावेर्य्यां यः स्नानं कर्तुमिच्छति ।।
तावता वै विमुक्ताऽघो विष्णुसायुज्यमाप्नुयात् ।। 2.4.4.५० ।।
कावेर्य्याश्चैव माहात्म्यं को वदेत्परमुत्तमम् ।।
अत्र ते वर्णयिष्यामि इतिहासं पुरातनम् ।। ५१ ।।
कावेर्या विषये ब्रह्मन्सावधानमनाः शृणु ।।
गौतम्या उत्तरे तीरे विष्णुपादाब्जसंभवा ।। ५२ ।।
गंगा त्रैलोक्यपापघ्नी वर्तते लोकपूजिता ।।
सा गंगा चिंतयामास कदाचित्पापशंकिता ।। ५३ ।।
सर्वलोकाः समागत्य मयि पापं त्यजंति हि ।।
तत्पापं तु कथं गच्छेदिति चिन्तापरा तदा ।। ५४ ।।
प्रष्टुं जगाम कैलासं गिरिजावल्लभं भवम् ।।
तत्र दृष्ट्वा महारुद्रं प्रोवाच हरिपादजा ।। ५५ ।।
।। गङ्गोवाच ।। ।।
महारुद्र नमस्तेऽस्तु त्वां प्रष्टुमहमागता ।।
सर्वे लोकाः समागत्य मयि पापं त्यजंति हि ।। ५६ ।।
तत्पापं तु मया सोढुं न शक्यं पार्वतीपते ।।
येनोपायेन तत्पापं नाऽऽगच्छेन्मम तद्वद ।। ५७ ।।
एवं गंगावचः श्रुत्वा प्रत्याह परमेश्वरः ।।
।। रुद्र उवाच ।। ।।
पापनिर्हरणायादौ पद्मनाभांघ्रिपंकजात्।।५८।।
प्रादुर्भूताऽसि त्वं देवि किमर्थं तप्यते त्वया ।।
पापप्रहाराऽऽधिपत्यं कल्पितं तव विष्णुना ।। ५९ ।।
तथाऽपि पापनिर्हार उपायं ते ब्रवीम्यहम्।।
कवेश्च तनया देवी कावेरी सरितां वरा ।। 2.4.4.६० ।।
सर्वोत्कृष्टा च सर्वेषां हरेर्बलवशात्तु सा ।।
सर्वपापप्रहरणे सामर्थ्यं तत्र वर्तते ।। ६१ ।।
कार्तिके मासि कावेर्यां यः स्नानं कुरुते नरः ।।
स तु पापविनिर्मुक्तो याति विष्णोः परं पदम् ।। ६२ ।।
तस्मात्तां गच्छ देवि त्वं ततः पापाद्विमोक्ष्यसे ।।
इत्युक्ता सा तदागच्छत्कावेरीं पापहारिणीम् ।।६३।।
तज्जलस्पर्शमात्रेण कार्तिके विष्णुपादजा ।।
निर्धूतपातका गंगा जगाम स्वनिकेतनम् ।।६४।।
कार्तिके प्रतिवर्षं तु गंगा त्रैलोक्यपावनीम् ।।
स्नातुं भक्त्या समायाति कावेरीं पापहारिणीम् ।।६५।।
तज्जलस्पर्शमात्रेण कार्तिके विष्णुपादजा ।।
निर्धूतपातका गंगा जगाम स्वनिकेतनम् ।।६६।।
तस्माच्छस्तं तुलास्नानं कावेर्य्यां शस्यते बुधैः ।।
यः कावेर्यां तुलास्नानं भक्त्या तु कुरुते मुने।।६७।।
विमुक्तदुरितः सद्यस्ततो याति परां गतिम् ।।
तस्मात्स्नानं तु कावेर्यां कार्तिके मासि शस्यते ।। ६८ ।।
इतिहासमिमं श्रुत्वा कार्तिकव्रततत्परः ।।
स कावेरी स्नानफलं प्राप्नोति च परां गतिम् ।। ६९ ।।
रात्रिशेषे भवेत्स्नानमुत्तमं विष्णुतुष्टिकृत् ।।
सूर्योदये मध्यमं स्याद्यावन्नाऽऽस्ता तु कृत्तिका ।। 2.4.4.७० ।।
तावदेव भवेत्स्नानमन्यथा तन्न कार्तिकम् ।।
स्नानं स्त्रीभिर्विधातव्यं गृहीत्वाऽऽज्ञां धवस्य च ।।७१।।
अपृष्ट्वा यत्कृतं धर्म्यं भर्तारं तत्क्षयं नयेत् ।।
स्त्रीणां नास्त्यपरो धर्मो भर्तारं प्रोज्झ्य कश्चन ।। ७२ ।।
कुर्यात्सहस्रपापानि भर्त्राऽऽज्ञां या समाचरेत् ।।
सैषा धर्मवती लोके न जायेत व्रतादिना ।। ७३ ।।
दरिद्रः पतितो मूर्खो दीनोऽपि यदि चेत्पतिः ।।
तादृशः शरणं स्त्रीणां तत्त्यागान्निरयं व्रजेत् ।। ७४ ।।
कलौ वत्स मनुष्याणां शैथिल्यं स्नानकर्मणि ।।
तथापि कथयिष्यामि स्नानं कार्तिकमाघयोः ।। ७५ ।।
यस्य हस्तौ च पादौ च वाङ्मनश्च सुसंयतम्।।
विद्या तपश्च कीर्तिश्च स तीर्थफलभाङ्नरः ।। ७६ ।।
अश्रद्दधानः पापात्मा नास्तिकश्छिन्नमानसः ।।
हेतुवादी च पंचैते न तीर्थफलभागिनः ।। ७७ ।।
प्रातरुत्थाय यो विप्रस्तीर्थस्नायी सदा भवेत् ।।
सर्वपापविनिर्मुक्तः परं ब्रह्माऽधिगच्छति ।। ७८ ।।
स्नानं चतुर्विधं प्रोक्तं स्नानविद्भिर्मनीषिभिः।।
वायव्यं वारुणं दिव्यं ब्राह्मं चेति तथा स्मृतम् ।।७९।।
वायव्यं गोरजःस्नानं वारुणं सागरादिषु ।।
ब्राह्मं ब्राह्मणमंत्रोक्तं दिव्यं मेघांऽबु भास्करम् ।। 2.4.4.८० ।।
स्नानानां चैव सर्वेषां विशिष्टं तत्र वारुणम् ।।
ब्राह्मणः क्षत्रियो वैश्यो मंत्रवत्स्नानमाचरेत् ।। ८१ ।।
तूष्णीमेव हि शूद्रस्य स्त्रीणां चैव तथा स्मृतम् ।।
बाला च तरुणी वृद्धा नरनारीनपुंसकाः ।। ८२ ।।
पापैः सर्वैः प्रमुच्यंते स्नानात्कार्तिकमाघयोः ।।
स्नाता वै कार्तिके लोकाः प्राप्नुवंतीप्सितं फलम् ।। ८३ ।।
पुष्करे तीर्थवर्ये तु नंदायाः संगमे पुरा ।।
प्रभंजनश्च मुक्तोभूत्तदैव व्याघ्रजन्मतः ।। ८४ ।।*
नंदाया वचनेनैव कार्तिके सा परं ययौ ।।
एवं स्नानविधिः प्रोक्तः किं भूयः श्रोतुमिच्छसि ।। ८५ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकस्नानविधिनिरूपणंनाम चतुर्थोऽध्यायः ।। ४
*२.४.४.८४
पुरा प्रभंजनोनाम नृपः मृगयायां गुल्मांतरे स्थितां वत्सं पाययतीं मृगीं विव्याध, तदा मृगी उवाच-हे नृप तनयस्य स्तनं प्रयच्छंती त्वया हता । अतस्त्वं व्याघ्ररूपत्वमाप्नुहि । तदा शापेन त्रस्तो राजा प्रांजलिः सन्नुवाच-हे मृगि व्याघ्ररूपं मुक्त्वा मानुषं कदा प्राप्स्यामि, तद्वदामृग्युवाच-हे नृप, कार्तिके पुष्करे यदा नंदया सह तव संवादो भविष्यति तदा मुक्तो भविष्यति एवमुक्त्वा सा मृता, नृपोऽपि वर्षशतं व्याघ्ररूपेण वने .परिभ्रमन् कदा मुक्तिर्भविष्यतीति चितयन्नेकदा नंदानामिकां गां दृष्ट्वा खादितुमारेभे तदा नंदा अनेकविधसत्यप्रतिज्ञां कृत्वा वत्सं पाययित्वा पुनः व्याघ्रसमीपमागत्य अनेकविधधर्मभाषणेनोपदेशं चकार । तदा व्याघ्र उवाच-हे नंदः, अहं पूर्वं मृग्या शप्तः व्याघ्ररूपो जातः, परं त्वद्य त्वत्संपर्कोपदेशेन जातस्मरणः पुनर्नृपत्वमापन्नः, नाहं व्याघ्रः, एतस्मिन्नंतरे धर्मस्तत्रागत्य नंदामुवाच-हे नंदे त्वं नंदानाम सरस्वती नदी भविष्यसि, किंच ऊर्जे पुष्करे मासमात्रं स्नानं कुरु ततो मुक्तिर्भविष्यति इत्युक्त्वांऽतर्हितः । प्रभंजनोऽपि वसिष्ठोपेदेशेन कार्तिकसेवनान्मुक्तिं प्रापेति ।।८४ ।।८५।। इति कार्तिकमासमाहात्म्यटीकायां चतुर्थोऽध्यायः ।। ४ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 5
।। नारद उवाच ।। ।।
कदा स्नानं प्रकर्तव्यं कथं स्थेयं दिनावधि ।।
आह्निकं तत्समाचक्ष्व विशेषेण पितामह ।।१।। ।।
।। ब्रह्मोवाच ।। ।।
रात्र्यां तुर्यांशशेषायामुत्तिष्ठेत्सर्वदा व्रती ।।
विष्णुं स्तुत्वा बहुस्तोत्रैर्दिनकार्यं विचारयेत् ।। २ ।।
ग्रामनैर्ऋत्यदिग्भागे मलोत्सर्गं यथाविधि ।।
ब्रह्मसूत्रं दक्षकर्णे स्थाप्य तत्र उदङ्मुखः ।। ३ ।।
अंतर्धाय तृणं भूमौ शिरः प्रावृत्य वाससा।।
वक्त्रं नियम्य वस्त्रेणाऽसंगः सोदकभाजनः ।। ४ ।।
कुर्यान्मूत्रपुरीषं तु रात्रौ चेद्दक्षिणामुखः ।।
तत उत्थाय चाऽऽगच्छेत्समीपं कलशस्य हि ।। ५ ।।
गंधलेपक्षयकरं मृत्तिकाशौचमाचरेत् ।।
एका लिंगे करे तिस्र उभयोर्मृद्द्वयं स्मृतम् ।।६।।
मूत्रशौचे त्विदं ज्ञेयं विष्ठाशौचमतः शृणु ।।
पंचापानेऽथवा सप्त दश वामकरे तथा ।। ७ ।।
उभयोः सप्त दातव्याः पादयोर्मृत्तिकात्रयम् ।।
एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः ।। ८ ।।
वानप्रस्थस्य त्रिगुणं यतीनां च चतुर्गुणम् ।।
एतच्छौचं दिवा प्रोक्तं रात्रावर्द्धं समाचरेत् ।। ९ ।।
मार्गस्थस्य तदर्धं स्यात्स्त्रीशूद्राणां तदर्धकम् ।।
शौचकर्मविहीनस्य समस्ता निष्फलाः क्रियाः ।। 2.4.5.१० ।।
दंतजिह्वाविशुद्धिं च ततः कुर्यादतंद्रितः ।।
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।। ।। ११ ।।
ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ।।
दंतकाष्ठं तु गृह्णीयाद्द्वादशांगुलसंमितम् ।। १२ ।।
क्षीरवृक्षस्य न ग्राह्यं कार्पासस्य तथैव च ।।
कंटकस्य च वृक्षस्य दग्धवृक्षस्य चैव हि ।। १३ ।।
सद्वासनं मृदुतरं दंतधावनमादितः ।। १४ ।।
उपवासे नवम्यां च षष्ठ्यां श्राद्धदिने रवौ ।।
ग्रहणे प्रतिपद्दर्शे न कुर्याद्दंतधावनम् ।।
कुर्याद्द्वादशगंडूषाननुक्ते दंतधावने ।। १५ ।।
दंतान्विशोध्य विधिवन्मुखं संमार्ज्य वारिणा ।।
ललाटे चोर्ध्वपुंड्रं तु धृत्वा चाचम्य वारिणा ।। १६ ।।
देवालये नदीतीरे राजमार्गे विशेषतः ।।
दत्त्वा चाकाशदीपं तु तुलसीसन्निधावथ ।। १७ ।।
गृहीत्वार्चनसामग्रीमिष्टदेवगृहं व्रजेत् ।।
ततो गायेत नृत्येत पूजां कृत्वा तु बुद्धिमान् ।। १८ ।।
पठित्वा विष्णुनामानि कुर्य्यान्नीराजनं हरेः ।
नाडीद्वयावशिष्टायां रात्र्यां गच्छेज्जलाशयम् ।। १९ ।।
तत्रोक्तविधिना स्नानं कुर्याद्वै कार्तिकव्रती ।।
वस्त्रनिष्पीडनं कृत्वा कुर्याच्च तिलकं तथा ।। 2.4.5.२० ।।
ततः संध्यामुपासीत स्वसूत्रोक्तेन वर्त्मना ।।
ततः कार्यो जपो देव्या यावदकोंदयो भवेत् ।। २१ ।।
एतत्प्रोक्तं रात्रिशेषकृत्यं दैनमथोच्यते ।।
यस्मिन्कृते कार्तिकोऽयं सकलः सफलो भवेत् ।। २२ ।।
विष्णोः सहस्रनामाऽऽद्यं संध्यांते च पठेत्ततः ।।
देवालये समागत्य पुनः पूजनमारभेत् ।। २३ ।।
नृत्यगानादिकार्येषु प्रहरं दिवसं नयेत् ।।
ततः पुराणश्रवणं यामार्धं सम्यगाचरेत् ।। २४ ।।
पौराणिकस्य पूजां तु तुलसीपूजनं तथा ।।
कृत्वा माध्याह्निकं कर्म भुंजीत द्विदलोज्झितम् ।। २५ ।।
बलिदानं वैश्वदेवमतिथीनां समर्पणम् ।।
कृत्वा भुंक्ते तु यो मर्त्यः केवलं चाऽमृतं हि तत् ।। २६ ।।
यथाशक्ति द्विजा भोज्याः प्रत्यहं वाऽथ पर्वणि ।।
हविष्यभोजनं कुर्यादामिषं परिवर्जयेत् ।। २७ ।।
भक्षयेत्तुलसीं वक्त्रशुद्ध्यर्थं तीर्थवारिणा ।।
संसारव्यवहारेण दिनशेषं समापयेत् ।।२८।।
सायंकाले पुनर्गच्छेद्विष्णोर्देवालयं प्रति ।।
संध्यां कृत्वा प्रयुंजीत तत्र दीपन्यथाबलम्।। २९ ।।
विष्णुं प्रणम्य हरये कृत्वा नीराजनं शुभम् ।।
स्तोत्रपाठादिकं कुर्वन्नाद्ययामे तु जागरम् ।। ।। 2.4.5.३० ।।
यामे तु प्रथमेऽतीते निद्रां कुर्याद्विचक्षणः ।।
ब्रह्मचर्यव्रतं कुर्याद्भार्यामीयादृतौ तथा ।। ३१ ।।
तया कामयमानो वा भार्यां गच्छेन्न दोषभाक् ।।
एवं प्रतिदिनं कुर्यादामासं तु यथाविधि ।। ३२ ।।
एवं तु कार्तिके मासि यः कुर्यात्परमं व्रतम् ।।
सर्वपापविनिर्मुक्तो याति विष्णोः सलोकताम् ।। ३३ ।।
रोगापहं पातकनाशकृत्परं सद्बुद्धिदं पुत्रधनादिसाधकम् ।।
मुक्तेर्निदानं नहि कार्तिकव्रताद्विष्णुप्रियादन्यदिहाऽस्ति भूतले ।। ३४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये नित्यकर्मकथनंनाम पंचमोऽध्यायः ।। ५ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 6
।। ब्रह्मोवाच ।। ।।
शृणु नारद वक्ष्यामि कार्तिकस्य व्रतं महत् ।।
यच्छुत्वा सर्वपापेभ्यो मुक्तो मोक्षमवाप्स्यसि ।। १ ।।
कार्तिके मासि संप्राप्ते निषिद्धानि च वर्जयेत् ।।
तैलाभ्यंगं परान्नं च तथा वै तैलभोजनम् ।। २ ।।
फलानि बहुबीजानि धान्यानि द्विदलान्यपि ।।
वर्जयेत्कार्तिके मासि नाऽत्र कार्या विचारणा ।। ३ ।।
अलाबुं गृंजरं चैव वृंताकं बृहतीफलम् ।।
अन्नं पर्युषितं वाऽपि भिस्सटं च मसूरिकम् ।। ४ ।।
पुनर्भोजनं माध्वं च परान्नं कांस्यभोजनम् ।।
नखं चर्म च छत्राकं कांजि दुर्गंधमेव च ।। ५ ।।
गणान्नं गणिकान्नं च तथा वै ग्रामयाजिनः ।।
शूद्रान्नं शद्रसंपर्कं सूतकान्नं तथैव च ।। ६ ।।
श्राद्धान्नमृतुशांत्याश्च जातकं नामकं तथा ।।
श्लेष्मातकफलं चैव वर्जयेत्कार्तिकव्रती ।। ७ ।।
निषिद्धेषु च पत्रेषु भोजनं नैव कारयेत् ।।
मधुपालाशकदलीजंबूप्लक्षमकूटिकाः ।।
एतत्पत्रेषु भोक्तव्यं पुष्करे न कदाचन ।। ८ ।।
कार्तिके मासि संप्राप्ते यः कुर्याद्वनभोजनम् ।।
स याति परमं लोकं विष्णोर्देवस्य चक्रिणः ।। ९ ।।
प्रातःस्नानं तु कर्तव्यं तथैव हरिपूजनम् ।।
कथायाः श्रवणं चैव कार्तिके शस्यते मुने ।। 2.4.6.१० ।।
गोपीचंदनदानं तु गोदानं श्रोत्रियाय च ।।
कर्तव्यं कार्तिके मासि तेन मोक्षमवाप्नुयात् ।। ११ ।।
कदलीफलदानं तु दानं धात्रीफलस्य च ।।
वस्त्रदानं तथा कुर्याच्छीतार्ताय द्विजन्मने ।। १२ ।।
शाकादिदानं कुर्वीत चान्नदानं विशेषतः ।।
शालिग्रामस्य दानं च कर्तव्यं तु द्विजन्मने ।। १३ ।।
पौराणिकाय यो दद्यादामान्नं घृतपायसम् ।।
स चैश्वर्यमवाप्नोति शतब्राह्मणभोजनात् ।। १४ ।।
कमलैः पूजयेद्यस्तु कार्तिके कमलाप्रियम् ।।
स तु पुण्यमवाप्नोति नाऽत्र कार्या विचारणा ।। १५ ।।
कार्तिके तुलसीपत्रं यो भक्त्या विष्णवेऽर्पयेत् ।।
संसाराच्च विनिर्मुक्तो याति विष्णोः परं पदम् ।। १६ ।।
कार्तिके केतकीपुष्पैरर्चयेद्गरुडध्वजम् ।।
पूजितो जन्मसाहस्रं नाऽत्र कार्या विचारणा ।। १७ ।।
शंखदानं तु यः कुर्यात्तथा चक्रांकितस्य च ।।
तस्य पापानि नश्यंति दानमात्रान्न संशयः ।। १८ ।।
गीतापाठं तु यः कुर्यात्कार्तिके विष्णुवल्लभे ।।
तस्य पुण्यफलं वक्तुं नाऽलं वर्षशतैरपि ।। १९ ।।
श्रीमद्रागवतस्याऽपि श्रवणं यः समाचरेत् ।।
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ।। 2.4.6.२० ।।
एकादश्यां निराहारमुपवासं करोति यः ।।
पूर्वजन्मकृतात्पापान्मुच्यते नाऽत्र संशयः ।। २१ ।।
शालिग्रामस्य नैवेद्यं कोटियज्ञफलं लभेत् ।।
अन्यदेवस्य नैवेद्यं भुक्त्वा चांद्रायणं चरेत् ।। २२ ।।
पूजाकाले तु देवस्य घण्टानादं करोति यः ।।
हरेस्तृप्तिं परां याति मनुजो नाऽत्र संशयः ।। २३ ।।
परान्नं वर्जयेद्यस्तु कार्तिके विष्णुतुष्टये ।।
दामोदरस्य प्रीतिं स सम्यक्प्राप्नोति मानवः ।। २४ ।।
अध्वगं तु परिश्रांतं काले च गृहमागतम् ।।
योऽतिथिं पूजयेद्भक्त्या जन्मसाहस्रनाशनम् ।। २५ ।।
निंदां कुर्वंति ये मूढा वैष्णवानां महात्मनाम् ।।
पतंति पितृभिः सार्द्धं महारौरव संज्ञके ।। २६ ।।
दृष्ट्वा भागवतान्विप्रान्सन्मुखो न च याति हि ।।
न गृह्णाति हरिस्तस्य पूजां द्वादशवार्षिकीम् ।। २७ ।।
निंदां भगवतः शृण्वंस्तत्परस्य जनस्य च ।।
ततो नाऽपैति यः सोऽपि हरेः प्रियतमो नहि ।। २८ ।।
प्रदक्षिणां तु यः कुर्यात्कार्तिके केशवस्य हि ।।
पदेपदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयः ।। २९ ।।
दंडप्रणामं यः कुर्यात्कार्तिके केशवाऽग्रतः ।।
राजसूयाऽश्वमेधानां फलं प्राप्नोत्यसंशयः ।। 2.4.6.३० ।।
कुटुम्बभोजनं चैव कार्तिके भक्तिसंयुतः ।।
कारयेद्विप्रशार्दूल तस्य पुण्यमनंतकम् ।। ३१ ।।
परस्त्रीसंगमं यस्तु कार्तिके कुरुते नरः ।।
तस्य पापस्य विश्रांतिर्यावद्वक्तुं न शक्यते ।। ३२ ।।
तुलसीमृत्तिकापुंड्रं ललाटे यस्य दृश्यते ।।
यमस्तं नेक्षितुं शक्तः किमु दूता भयंकराः ।। ३३ ।।
शाकं वा लवणं वाऽपि यत्किंचिद्वा भविष्यति ।।
तद्देयं कार्तिके मासि प्रीत्यर्थं शार्ङ्गधन्वनः ।। ३४ ।।
इत्याद्या बहवो धर्माः कार्तिके विष्णुवल्लभाः ।।
यथाशक्त्या प्रकुर्वीत धर्मं देवस्य तुष्टिदम् ।। ३५ ।।
हरिसंतुष्टये कार्यस्त्यागो वा स्वेष्टवस्तुनः।।
मासांते द्विजवर्याय दद्यात्तद्व्रतपूर्तये ।। ३६ ।।
सर्वव्रतानि चैकत्र सत्यव्रतमथैकतः।।
तस्मात्सर्वप्रयत्नेन सत्यं भाषेत सर्वदा ।। ३७ ।।
अन्यधर्मेष्वधिकृतिः कुलजातिविभागतः ।।
अधिकारी कार्तिके तु सर्व एव जनो भवेत् ।। ३८ ।।
गोग्रासः कार्तिके मासि विशेषाद्यैस्तु दीयते ।।
तेषां पुण्यफलं वक्तुं न शक्नोति पितामहः ।। ३९ ।।
विष्णुदेवालयं प्रातः संमार्जयति कार्तिके ।।
तस्य वैकुंठभवने जायते सुदृढं गृहम् ।। 2.4.6.४० ।।
दद्यात्कार्तिकमासे तु धर्मकाष्ठानि भूरिशः ।।
न तत्पुण्यस्य नाशोस्ति कल्पकोटिशतैरपि ।।४१।।
सुधादि लेपयेद्यस्तु कार्तिके विष्णुमंदिरे ।।
चित्रादिकं लिखेद्वाऽपि मोदते विष्णुसन्निधौ ।।४२।।
देवालये वा तीर्थे वा कृतो दुष्टैर्नृपैः करः ।।
तं मोचयंति ये लोकास्तेषां धर्मः सनातनः।। ४३ ।।
कार्तिके मासि यो विप्रो गभस्तीश्वरसन्निधौ ।।
शतरुद्रीजपं कुर्यान्मंत्रसिद्धिः प्रजायते ।।४४।।
वाराणस्यां तु यैः स्थित्वा त्रिवर्षं कार्तिकव्रतम् ।।
सोपांगं सांगं यैर्मर्त्यैः कृतं भक्त्यैकतत्परैः ।।४५।।
इह लोके फलं तेषां प्रत्यक्षं जायते किल ।।
संपत्त्या चैव संतत्या यशोभिर्धर्मबुद्धिभिः ।।४६।।
पलांडुं शृंगं मांसं च शय्यां सौवीरकं तथा ।।
राजिकोन्मादिकं चाऽपि चिपिटान्नं च वर्जयेत् ।। ४७ ।।
धात्रीफलं भानुवारे परदेशागमं तथा ।।
तीर्थं विना सदैवेह वर्जयेत्कार्तिकव्रती ।। ४८ ।।
देववेदद्विजातीनां गुरुगोव्रतिनां तथा ।।
स्त्रीराजमहतां निंदां वर्जयेत्कार्तिकव्रती ।। ४९ ।।
नरकस्य चतुर्दश्यां तैलाभ्यंगं च कारयेत् ।।
अन्यत्र कार्तिके मासि तैलस्नानं विवर्जयेत् ।।
नालिकां मूलकं चैव कूष्मांडं च कपित्थकम् ।। ।। 2.4.6.५० ।।
रजस्वलांत्यज म्लेच्छ पतितऽव्रतिकैस्तथा ।।
द्विजद्विड्वेदबाह्यैश्च न वदेत्सर्वदा व्रती।।५१।।
एभिर्दृष्टं च काकैश्च सूतिकान्नं च यद्भवेत् ।।
द्विःपाचितं च दग्धान्नं नैवाद्याद्वैष्णवव्रती ।। ५२ ।।
क्रमात्कूष्मांडबृहतीतरुणीमूलकं तथा ।।
श्रीफलं च कलिंगं च फलं धात्रीभवं तथा ।। ५३ ।।
नारिकेलमलाबुं च पटोलं बृहतीफलम् ।।
चर्मवृंताकचवलीशाकं तुलसिजं तथा ।। ५४ ।।
शाकान्येतानि वर्ज्यानि क्रमात्प्रतिपदादिषु ।।
एवमेव हि माघेऽपि कुर्य्याच्च नियमान्व्रती ।। ५५ ।।
कार्तिकव्रतिनः पुण्यं यथोक्तव्रतकारिणः ।।
न समर्थो भवेद्वक्तुं ब्रह्माऽपीह चतुर्मुखः ।। ५६ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकव्रतनिरूपणंनाम षष्ठोऽध्यायः ।।६।। ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 7
।। नारद उवाच ।। ।।
भगवन्कृतकृत्योऽस्मि तव पादसमाश्रयात् ।।
श्रोतव्यं नेह भूयो मे विद्यते देवसत्तम ।। १ ।।
तथापि भगवन्किंचित्प्रष्टव्यं मे हृदि स्थितम्।।
त्वद्वाक्यामृतपीतस्य न मे तृप्तिर्हि जायते ।।२।।
दीपदानस्य माहात्म्यं श्रोतुमिच्छामि ते प्रभो ।।
येन चाऽपि पुरा दत्तस्तद्वदस्व चतुर्मुख ।।३।।
।। ब्रह्मोवाच ।। ।।
प्रातः स्नात्वा शुचिर्भूत्वा दीपं दद्यात्प्रयत्नतः ।।
तेन पापानि नश्येयुस्तमांसीव भगोदये ।।४।।
आजन्म यत्कृतं पापं स्त्रिया वा पुरुषेण च ।।
तत्सर्वं नाशमायाति कार्तिके दीपदानतः ।। ५ ।।
अत्र ते वर्णयिष्यामि इतिहासं पुरातनम् ।।
श्रवणात्सर्वपापघ्नं दीपदानफलप्रदम् ।। ६ ।।
पुरा द्रविडदेशे तु ब्राह्मणो बुद्धनामकः ।।
तस्य भार्याऽभवद्दुष्टा अनाचाररता मुने ।। ७ ।।
तस्याः संसर्गदोषेण क्षीणाऽऽयुर्मृतिमाप्तवान् ।।
पत्यौ मृतेऽपि सा पत्नी अनाचारे विशेषतः ।। ८ ।।
रताभून्न हि तस्यास्तु लज्जा लोकापवादतः ।।
सुतबंधुविहीना सा सदाभिक्षान्नभोजना ।। ९ ।।
न संस्कारान्नमल्पं वा भुक्त्वा पर्युषिताशिनी ।।
परपाकरता नित्यं तीर्थयात्रादिवर्जिता ।। ।। 2.4.7.१० ।।
कथायाः श्रवणं चैव न श्रुतं तु तया द्विज ।।
एकदा ब्राह्मणः कश्चित्तीर्थयात्रापरायणः ।। ११ ।।
तस्या गृहं समागच्छद्विद्वान्वै कुत्सनामकः ।।
अनाचाररतां तां तु दृष्ट्वा ब्रह्मर्षिसत्तमः ।।
कोपेन रक्तचक्षुः संस्तामुवाचाऽसतीं स्त्रियम् ।। १२ ।।
।। कुत्स उवाच ।। ।।
वक्ष्यामि सांप्रतं मूढे मद्वाक्यमवधारय ।। १३ ।।
दुःखहेतुमिमं देहं पूयशोणितपूरितम् ।।
पंचभूतात्मकं चैव किं च पुष्णासि दूतिके ।। १४ ।।
जलबुद्बुदवद्देहो नाशमायाति निश्चितम् ।।
अनित्यं देहमाश्रित्य नित्यं त्वं मन्यसे हृदि ।। १५ ।।
तस्मादंतःस्थितं मोहं त्यज मूढे विचारतः ।।
स्मर सर्वोत्तमं देवं कुरु श्रवणमादरात् ।। १६ ।।
कार्तिके मासि संप्राप्ते स्नानदानादिकं कुरु ।।
दामोदरस्य प्रीत्यर्थं दीपदानं तथा कुरु ।। १७ ।।
लक्षवर्त्यादिकं चैव लक्षपद्मादिकं तथा ।।
प्रदक्षिणां तु देवस्य नमस्कारं तथैव च ।। १८ ।।
धारणं पारणं चैव कुरु भक्त्या हि कार्तिके ।।
विधवानां व्रतमिदं सधवानां तथैव च ।। १९ ।।
सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ।।
तत्राऽपि कार्तिके मासि दीयतां दीप उत्तमः ।। 2.4.7.२० ।।
दीपो हरेः प्रियकरः कार्तिके मासि निश्चितम् ।।
महापातककृद्वापि दीपदानात्प्रमुच्यते ।। २१ ।।
पुरा कश्चिद्द्विजवरो नाम्ना हरिकरो ह्यभूत् ।।
अधर्मविषयासक्तः शश्वद्वेश्यारतो द्विजः ।। २२ ।।
पितृवित्तक्षयकरो वंशच्छेदे कुठारकः ।।
कदाचित्तेन विधवे द्यूते पितृधनं महत् ।। २३ ।।
हारितं दुष्टसंसर्गात्ततो दुःखी स चाऽभवत् ।।
कदाचित्साधुसंसर्गात्तीर्थयात्राप्रसंगतः ।। २४ ।।
अयोध्यामागतो वत्से महापापकरो द्विजः ।।
कार्तिके मासि संप्राप्तः श्रीमद्द्विजगृहे सदा ।।२५।।
द्यूतव्याजेन तेनाऽऽशु दीपो दत्तो हरेः पुरः ।।
ततः कालांतरे विप्रो मृतो मोक्षमवाप्तवान् ।। २६ ।।
महापातककृद्वाऽपि गतवानभयं हरिम् ।।
तस्मात्त्वं कार्तिके मासि दीपदानं तथा कुरु ।। २७ ।।
तथाऽन्यान्यपि दानानि कुरु भक्तिसमन्विता ।।
इत्यादिश्याथ तां कुत्सो जगामाऽन्यगृहं द्विजः ।। २८ ।।
साऽपि कुत्सवचः श्रुत्वा पश्चात्तापेन संयुता ।।
व्रतं तु कार्तिके मासि करिष्यामीति निश्चिता ।। २९ ।।
पतंगोदयवेलायां कार्तिके स्नानमंभसि ।।
दीपदानं व्रतम् चैव मासमेकं चकार सा ।। 2.4.7.३० ।।
ततः कालांतरे चैव गतायुर्मृतिमागता ।।
दीपदानस्य माहात्म्यान्महापापकृदप्यसौ ।। ३१ ।।
स्वर्गमार्गं गता सा स्त्री काले मोक्षमवाप ह ।।
तस्मान्नारद माहात्म्यं दीपदानस्य को वदेत् ।। ३२ ।।
कार्तिके दीपदानं तु महापुण्यफलप्रदम् ।।
कार्तिकव्रतनिष्ठो यो दीपदानादिकृन्नरः ।। ३३ ।।
दीपदानस्येतिहासं शृण्वन्वै मोक्षमाप्नुयात् ।। ३४ ।।
दीपदानस्य माहात्म्यं वक्तुं केनेह शक्यते ।।
परदीपप्रबोधस्य माहात्म्यं शृणु नारद ।। ३५ ।।
स्वस्याऽपि शक्तिराहित्ये परस्याऽपि प्रबोधनम् ।।
यः कुर्याल्लभते सोऽपि नाऽत्र कार्या विचारणा ।। ३६ ।।
दीपार्थं वर्तिकां तैलं पात्रं वा यो ददाति हि ।।
सहायं वाऽथ कुरुते ददतां दीपमुत्तमम् ।। ३७ ।।
स तु मोक्षमवाप्नोति नाऽत्र कार्या विचारणा ।।
कार्तिके दीपदानस्य माहात्म्यं को नु वर्णयेत् ।। ३८ ।।
स्वस्यापि शक्तिराहित्ये परदीपं प्रबोधयेत् ।।
सोऽपि तत्फलमाप्नोति नाऽत्र कार्या विचारणा ।। ३९ ।।
वेश्या चेन्दुमतीनाम तस्या गेहेऽथ मूषिका ।।
परदीपप्रबोधेन मोक्षं प्राप सुदुर्लभम् ।। 2.4.7.४० ।।
तस्मात्सर्वप्रयत्नेन परदीपं प्रबोधयेत् ।।
तेन मोक्षमवाप्नोति मूषिकावन्न संशयः ।। ४१ ।।
परदीपप्रबबोधस्य फलमीदृग्विधं मुने ।।
साक्षाद्दीपप्रदानस्य माहात्म्यं केन वर्ण्यते ।। ४२ ।।
।। नारद उवाच ।। ।।
कार्तिके दीपदानस्य माहात्म्यं च मया श्रुतम् ।।
परदीप प्रबोधस्य माहात्म्यमपि वै श्रुतम् ।।
इदानीं श्रोतुमिच्छामि व्योमदीपस्य वैभवम् ।। ४३ ।।
।। ब्रह्मोवाच ।। ।।
आकाशदीप माहात्म्यं शृणु पुत्र समाहितः ।।
यस्य श्रवणमात्रेण दीपदाने मतिर्भवेत् ।। ४४ ।।
संप्राप्ते कार्तिके मासि प्रातःस्नानपरायणः ।।
आकाशदीपं यो दद्यात्तस्य पुण्यं वदाम्यहम् ।। ४५ ।।
सर्वलोकाधिपो भूत्वा सर्वसंपत्समन्वितः ।।
इह लोके सुखं भुक्त्वा चांते मोक्षमवाप्नुयात् ।। ४६ ।।
स्नानदानक्रियापूर्वं हरिमंदिरमस्तके ।।
आकाशदीपो दातव्यो मासमेकं तु कार्तिके ।।
कार्तिके शुद्धपूर्णायां विधिनोत्सर्जयेच्च तम् ।। ४७ ।।
यः करोति विधानेन कार्तिके व्योम्नि दीपकम् ।।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।। ४८ ।।
अत्र ते वर्णयिष्यामि इतिहासं पुरातनम् ।।
यस्य श्रवणमात्रेण व्योमदीपफलं लभेत् ।। ४९ ।।
पुरा तु निष्ठुरोनाम लुब्धको लोककंटकः ।।
यमुनातीरवासी च कालमृत्युरिवाऽपरः ।। 2.4.7.५० ।।
वने चरन्मृगान्सर्वान्हत्वा वृत्तिमकल्पयत् ।।
पथिकान्बाधते नित्यं चोरवृत्त्या धनुर्धरः ।। ५१ ।।
कंचिद्ग्रामं जगामाशु चौर्यार्थं कार्तिके मुने ।।
तस्मिन्विदर्भनगरे राजा सुकृतिनामकः ।। ५२ ।।
चन्द्रशर्माख्यविप्रस्य वचनात्कार्तिके सुधीः ।।
चकार व्योमदीपं तु हरिमंदिरमस्तके ।। ५३ ।।
दीपं दत्त्वा महाभक्त्या अशृणोच्च कथां निशि ।।
एतस्मिन्नेव काले तु चौर्यार्थं समुपागतः ।।।। ५४ ।।
राज्ञा दत्तं व्योमदीपं पश्यन्क्षणमतिष्ठत ।।
तदानीं दैवयोगेन गृध्रो जवसमन्वितः ।। ५५ ।।
शीघ्रमागत्य जग्राह तैलपात्रं सदीपकम् ।।
स्वमुखेनैव संगृह्य वृक्षाग्रं च समाश्रयत् ।। ५६ ।।
तत्र पीत्वा तु तैलं च दीपं स्थाप्य स पक्षिराट् ।।
वृक्षाग्रं तु समास्थाय क्षणमात्रमतिष्ठत ।। ५७ ।।
तदानीं दैवयोगेन ग्रहीतुं पक्षिसत्तमम् ।।
मार्जारोऽप्यारुहद्वृक्षं पक्षिणाऽधिष्ठितं तु तम् ।। ५८ ।।
तदग्रे मुखदीपं च पश्यन्क्षणमतिष्ठत ।।
आकाशदीपमाहात्म्यं कथितं चन्द्रशर्मणा ।। ५९ ।।
राज्ञे सुकृतिनाम्ने च तौ वै शुश्रुवतुः क्षणम् ।।
खगमार्जारकौ तत्र स्वस्वचामचल्यदोषतः ।। 2.4.7.६० ।।
मार्जारो जगृहे तत्र शाखामतरगतं खगम् ।।
दैवेन चोदितौ वृक्षाच्छिलायां पतितौ तदा ।। ६१ ।।
भग्नगात्रौ मृतौ तत्र पक्षिमार्जारकौ भुवि ।।
दिव्यदेहसमायुक्तौ यानारूढौ दिवं गतौ ।। ६२ ।।
तत्सर्वं लुब्धको दृष्ट्वा चौर्यार्थं समुपागतः ।।
निवृत्तो दुष्टभावेन कथयंतं कथां मुनिम् ।। ६३ ।।
चंद्रशर्माणमाभाष्य इदं वचनमब्रवीत् ।।
चंद्रशर्मन्मया दृष्टं चौर्यार्थं ह्यागतेन च ।।६४।।
राज्ञा सुकृतिना दत्तं व्योमदीपं मनोहरम् ।।
तदानीं दैवयोगेन खगः पात्रं प्रगृह्य च ।। ६५ ।।
तैलं पीत्वा तु तत्पात्रं सदीपं तु मनोहरम् ।।
वृक्षाग्रे स्थापयित्वा च तत्र क्षणमतिष्ठत ।। ६६ ।।
मार्जारोऽप्यागतस्तत्र ग्रहीतुं पक्षिपुंगवम् ।।
दैवेन प्रेरितौ तौ च उभे शाखे समाश्रितौ ।। ।। ६७ ।।
त्वन्मुखात्कथ्यमानां हि कथां शुश्रुवतुः क्षणम् ।।
पश्चाच्चांचल्यदोषेण मार्जारो ह्यग्रहीत्खगम् ।। ६८ ।।
तौ वृक्षात्पतितौ मृत्युं प्राप्तौ च क्षणमात्रतः ।।
उभौ तौ दिव्यरूपौ च यानारूढौ दिवं गतौ ।। ६९ ।।
तदाश्चर्यमहं दृष्ट्वा त्वां प्रष्टुं समुपागतः ।।
तौ कौ पुरा च मार्जारखगौ तद्वद भो द्विज ।। 2.4.7.७० ।।
तिर्यग्योनिसमापन्नौ मुक्तौ केन च कर्मणा ।।
इति लुब्धवचः श्रुत्वा चंद्रशर्माऽब्रवीत्तदा ।। ७१ ।।
शृणु लुब्ध प्रवक्ष्यामि तयोर्वृत्तांतमंजसा ।।
मार्जारोऽपि पुरा पापी तथा श्रीवत्सगोत्रजः ।। ७२ ।।
देवशर्मा इति प्रोक्तो देवद्रव्याऽपहारकः ।।
अहोबलनृसिंहस्य पूजाकर्तृत्वमाप सः।। ७३ ।।
तस्मिन्देवालये प्राप्तं तैलं द्रव्यादिकं तथा ।।
अपहृत्य च तेनैव कुटुंबं पोषयत्यसौ ।। ७४ ।।
आयुर्नीत्वैवमेवाऽसौ ततः पंचत्वमागतः ।।
तस्मात्पापात्कालसूत्रं महारौरवरौरवम् ।। ७५ ।।
निरुच्छ्वासं तथा प्राप्य असिपत्रवनं क्रमात् ।।
छिद्यमानो महाकायैर्यमदूतैर्भयंकरैः ।। ७६ ।।
अनुभूय च तान्सर्वान्ब्रह्मराक्षसतां गतः ।।
ततस्तु श्वानयोनौ च चंडालोऽभूत्कुकर्मतः ।। ७७ ।।
एवं जन्मशतं प्राप्य भूमौ मार्जारतां गतः ।।
आकाशदीपमाहात्म्यं श्रुत्वेदानीं तु दैवतः ।।
निर्मुक्ताऽखिलपापस्तु अगमद्धरिमंदिरम् ।। ७८ ।।
गृध्रोऽयं तु पुरा विप्रो मिथिले वेदपारगः ।।
शर्यातिरिति विख्यातौ नाम्ना लोके महाप्रभुः ।।।। ७९।।
दासीसंगं चकारासौ वेश्यासंगं तथैव च ।।
तेन दोषेण महता पंचत्वमगमत्तदा ।। 2.4.7.८० ।।
कुंभीपाके महाघोरे स्थित्वा युगचतुष्टयम् ।।
कर्मशेषेण भूमौ च गृध्रत्वमगमत्तदा ।। ८१ ।।
दैवेन चोदितो गृध्रस्तैलपानार्थमागतः ।।८२।।
दत्त्वा चाकाशदीपं च श्रुत्वा चैव हरेः कथाम् ।।
विध्वस्ताऽखिलपापस्तु जगाम हरिमंदिरम् ।। ८३ ।।
इत्येतत्सर्वमाख्यातं लुब्ध गच्छ यथासुखम् ।।
व्याधोऽप्यस्य वचः श्रुत्वा गत्वा चैव स्वमंदिरम् ।। ८४ ।।
व्रतं चाकाशदीपस्य चकार विधिवन्मुने ।।
आयुःशेषं तदा नीत्वा जगाम हरिमंदिरम् ।। ८५ ।।
सुनंदोपि महाराज आश्चर्यं समुपागतः ।।
चकार विधिना मासं चंद्रशर्मोक्तमार्गतः ।। ८६ ।।
प्रातः स्नात्वा शुचिर्भूत्वा कार्तिके मासि वै नृपः ।।
कोमलैस्तुलसीपत्रैः समभ्यर्च्य जनार्दनम् ।। ८७ ।।
रात्रौ दद्याद्व्योमदीपं मंत्रेणानेन वै नृपः।। ८८ ।।
दामोदराय विश्वाय विश्वरूपधराय च ।।
नमस्कृत्वा प्रदास्यामि व्योमदीपं हरिप्रियम् ।।
निर्विघ्नं कुरु देवेश यावन्मासः समाप्यते ।। ८९ ।।
व्रतेनाऽनेन देवेश त्वयि भक्तिः प्रवर्द्धताम् ।।
इति मंत्रेण राजाऽसौ दीपदानं चकार ह ।। 2.4.7.९० ।।
ब्राह्मे मुहूर्ते च पुनर्व्योमदीपं ददाति हि ।।
विष्णोः पूजा कृता प्रातः प्रातःस्नानं चकार ह ।। ९१ ।।
उत्सर्गस्य विधिं कृत्वा व्योम्नि दीपं समाप्य च ।।
ब्राह्मणान्भोजयित्वा च व्रतं विष्णोः समार्पयत् ।। ९२ ।।
तेन पुण्यप्रभावेन स राजा मुनिसत्तम ।।
शरदां शतसाहस्रमिह भोगान्मनोहरान् ।। ९३ ।।
सुपुत्रपौत्रस्वजनैर्बुभुजे सह भार्यया ।।
ततश्चांऽते द्विजवर विमानं सुमनोहरम् ।। ९४ ।।
स्त्रीभिः सह समारुह्य मोक्षमार्गं गतो मुने ।।
चतुर्भुजः पीतवासाः शंखचक्रगदाधरः ।। ९५ ।।
विष्णुलोके विष्णुरिव प्रोच्यमानः सदाऽमरैः ।।
क्रीडयामास राजाऽसौ यथाकामं महामनाः ।। ९६ ।।
तस्मात्तु कार्तिके मासि मानुष्यं प्राप्य दुर्लभम् ।।
आकाशदीपो दातव्यो विधानेन हरेः प्रियः ।।९७।।
दास्यंति ये कार्तिकमासि मर्त्या व्योमप्रदीपं हरितुष्टयेऽत्र ।।
पश्यंति ते नैव कदाऽपि देवं यमं महाक्रूरमुखं मुनींद्र ।। ९८ ।।
अथाऽन्यच्च प्रवक्ष्यामि व्योमदीपस्य वैभवम् ।।
वालखिल्यैः पुरा प्रोक्तं तच्छृणुष्व द्विजोत्तम ।। ९९ ।।
।। वालखिल्या ऊचुः ।। ।।
कृष्णादिमासक्रमतः कार्तिकस्यादिमासतः ।।
आकाशादीपदानं तु कुर्वंतु ऋषिसत्तमाः ।। 2.4.7.१०० ।।
तुलायां तिलतैलेन सायं संध्यासमागमे ।।
आकाशदीपं यो दयान्मासमेकं निरंतरम् ।। १ ।।
सश्रीकाय श्रीपतये श्रिया न स वियुज्यते ।।
आकाशदीपवंशस्तु विंशद्धस्तोत्तमो भवेत् ।। २ ।।
मध्यमो नवहस्तः स्यात्कनिष्ठः पंचहस्तकः ।।
यथा दूरस्थितैर्लोकैर्दृश्यते तत्तथाऽऽचरेत् ।। ३ ।।
तथाऽभ्रादिकरंडेषु दीपदानं विशिष्यते ।।
वंशस्य नवमांशेन लंबा कार्या पताकिका ।। ४ ।।
मयूरपिच्छमुष्टिं वा कलशं चोपरि न्यसेत् ।।
विष्णुप्रीतिकरो दीपः पित्रुद्धारस्य कारकः ।। ५ ।।
एकादश्यास्तुलार्काद्वा दीपदानमतोऽपि वा ।।
दामोदराय नभसि तुलायां लोलया सह ।।६।।
प्रदीपं ते प्रयच्छामि नमोऽनंताय वेधसे ।।
आकाशदीपसदृशं पितुरुद्धारकं नहि ।। ७ ।।
हेलिकस्य च द्वौ पुत्रौ तत्रैकस्तु पिशाचकः ।।
व्योमदीपपुण्यदानान्मोक्षं प्राप सुदुर्लभम् ।। ८ ।।
नमः पितृभ्यः प्रेतेभ्यो नमो धर्माय विष्णवे ।।
नमो यमाय रुद्राय कांतारपतये नमः ।। ९ ।।
मन्त्रेणाऽनेन ये मर्त्याः पितृभ्यः खे तु दीपकम् ।।
प्रयच्छंति गता ये स्युर्नरके यांति तेऽपि वै ।।
उत्तमां गतिमित्थं ते दीपदानं मयेरितम् ।। 2.4.7.११० ।।
लक्ष्मीसंततिसिद्ध्यर्थमारोग्याय प्रदीपयेत् ।। ११ ।।
कार्तिके कृष्णपक्षे तु द्वादश्यादिषु पंचसु ।।
तिथीषूक्तः पूर्वरात्रे नृणां नीराजनाविधिः ।। १२ ।।
ब्रह्मविष्णुशिवादीनां भवनेषु विशेषतः ।।
कूटागारेषु चैत्येषु सभासु च नदीषु च ।। १३ ।।
प्राकारोद्यानवापीषु प्रतोलीनिष्कुटेषु च ।।
मन्दुरासु विविक्तासु हस्तिशालासु चैव हि ।। १४ ।।
प्रदोषसमये दीपान्दद्यादेवं मनोहरान् ।।
कृतं यैः कार्तिके मासि दीपदानं विधानतः ।। १५ ।।
दृश्यंते ये रत्नभाजस्तेऽत एव प्रकीर्तिताः ।।
दीपदानासमर्थश्चेत्परदीपं तु रक्षयेत् ।। १६ ।।
यो वेदाभ्यासिने दद्याद्दीपार्थं तैलमादरात् ।।
को वा तस्य फलं वक्तुं भुवि तिष्ठति मानवः ।। १७ ।।
दीपान्दद्याद्बहुविधान्कार्तिके विष्णुसंनिधौ ।।
कार्तिके मासि संप्राप्ते गगने स्वच्छताके ।।१८।।
रात्रौ लक्ष्मीः समायाति द्रष्टुं भुवनकौतुकम् ।।
यत्रयत्र च दीपान्सा पश्यत्यब्धिसमुद्भवा ।। १९ ।।
तत्रतत्र रतिं कुर्यान्नांधकारे कदाचन ।।
तस्माद्दीपः स्थापनीयः कार्तिके मासि वै सदा ।। 2.4.7.१२० ।।
लक्ष्मीरूपार्थिनां प्रोक्तं दीपदानं विशेषतः ।।
देवाऽऽलये नदीतीरे राजमार्गे विशेषतः ।। २१ ।।
निद्रास्थले दीपदाता तस्य श्रीः सर्वतोमुखी ।।
दुर्बलस्याऽऽलयं वीक्ष्य दीपशून्यं तु यो ददेत् ।। २२ ।।
विप्रस्य वाऽन्यवर्णस्य विष्णुलोके महीयते।।
कीटकंटकसंकीर्णे दुर्गमे विषमस्थले ।। २३ ।।
कुर्याद्यो दीपदानानि नरकं स न गच्छति ।।
दद्याद्रात्रौ पंचनदे दीपं यो विधिपूर्वकम् ।। २४ ।।
तस्य वंशे प्रजायन्ते बालकाः कुलदीपकाः ।।
पितृपक्षेऽन्नदानेन ज्येष्ठाऽऽषाढे च वारिणा ।। २५ ।।
कार्तिके तत्फलं तेषां परदीपप्रबोधनात् ।।
बोधनात्परदीपस्य वैष्णवानां च सेवनात् ।।२६।।
कार्तिके फलमाप्नोति राजसूयाश्वमेधयोः ।।
पुरा हरिकरोनाम द्विजः पापरतः सदा ।।२७ ।।
कृतं द्यूतप्रसंगेन दीपदानं हि कार्तिके ।।
तेन पुण्यप्रभावेन स्वर्गं प्राप द्विजोत्तमः ।। २८ ।।
आकाशदीपदानेन पुरा वै धर्मनन्दनः ।।
विमानवरमारुह्य विष्णुलोकं ययौ नृपः ।।२९।।
यः कुर्यात्कार्तिके विष्णोः पुरः कर्पूरदीपकम् ।।
प्रबोधिन्यां विशेषेण तस्य पुण्यं वदाम्यहम् ।।2.4.7.१३०।।
कुले तस्य प्रसूता ये पुरुषास्ते हरिप्रियाः ।।
क्रीडित्वा सुचिरं कालमन्ते मुक्तिं व्रजंति च ।। ३१ ।।
दीपको ज्वलते यस्य दिवा रात्रौ हरेर्गृहे ।।
एकादश्यां विशेषेण स याति हरिमन्दिरम्।।३२।।
लुब्धकोऽपि चतुर्दश्यां दीपं दत्त्वा शिवालये ।।
भक्त्या विना परे लिंगे शिवलोकं जगाम सः ।। ३३ ।।
गोपः कश्चिदमावास्यां दीपं प्रज्वाल्य शार्ङ्गिणः ।।
मुहुर्जयजयेत्युक्त्वा स च राजेश्वरोऽभवत्।। १३४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये दीपदानमाहात्म्यवर्णनंनाम सप्तमोऽध्यायः ।। ७ ।। ।। छ ।। ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 8
।। नारद उवाच ।। ।।
भूयः कथय तृप्तिर्हि नास्ति मे कमलासन ।।
त्वद्वागमृतपानेन तृषा भूयः प्रवर्धते ।। १ ।।
।। ब्रह्मोवाच ।। ।।
प्रातः स्नात्वा शुचिर्भूत्वा कार्तिके विष्णुतत्परः ।।
देवं दामोदरं पूज्य कोमलैस्तुलसीदलैः ।।
स तु मोक्षमवाप्नोति नाऽत्र कार्या विचारणा ।। २ ।।
भक्त्या विरहितो यस्तु सुवर्णादिभिरर्चयेत् ।।
तस्य पूजां न गृह्णाति नाऽत्र कार्या विचारणा ।। ३ ।।
सर्वेषामपि वर्णानां भक्तिरेषा परा स्मृता ।।
भक्त्या विरहितं कर्म न विष्णोः प्रियकारणम् ।। ४ ।।
भक्त्या संपूजितो नित्यं तुलस्यास्तु दलार्धतः ।।
स्वयं प्रत्यक्षमायाति भगवान्हरिरीश्वरः ।। ५ ।।
विष्णुदासः पुरा भक्त्या तुलसीपूजनेन च ।।
विष्णुलोकं गतः शीघ्रं चोलो गौणत्वमागतः ।। ६ ।।
तुलस्याः शृणु माहात्म्यं पापघ्नं पुण्यवर्द्धनम् ।।
यत्पुरा विष्णुना प्रोक्तं रमायै तद्वदाम्यहम् ।। ७ ।।
संप्राप्ते कार्तिके मासि तुलस्याः पूजनं हरेः।।
ये कुर्वंति नरा भक्त्या ते यांति परमं पदम् ।।८।।
तस्मात्सर्वप्रयत्नेन तुलस्याः कोमलैर्दलैः ।।
पूजनीयो महाभक्त्या सर्वक्लेशविनाशनः ।। ९ ।।
रोपिता तुलसी यावत्कुरुते मूलविस्तरम् ।।
तावद्युगसहस्राणि ब्रह्मलोके महीयते ।। 2.4.8.१० ।।
तुलसीपत्रसंयुक्तजले स्नानं चरेद्यदि ।।
सर्वपापविनिर्मुक्तो मोदते विष्णुमंदिरे ।। ११ ।।
वृन्दावनं च कुरुते रोपणार्थं महामुने ।।
तावतैव विमुक्ताऽघो ब्रह्मभूयाय कल्पते ।। १२ ।।
तुलसीकाननं ब्रह्मन्गृहे यस्याऽवतिष्ठते ।।
तद्गृहं तीर्थभूतं तु न यांति यमकिंकराः ।। १३ ।।
सर्वपापहरं पुण्यं कामदं तुलसीवनम् ।।
रोपयंति नराः श्रेष्ठास्ते न पश्यंति भास्करिम् ।। १४ ।।
तुलसीकाष्ठसंयुक्तं गन्धं यो धारयेन्नरः ।।
तद्देहं न स्पृशेत्पापं क्रियमाणं तथैव च ।। ।। १५ ।।
तुलसीविपिनच्छाया यत्र चैव भवेद्द्विज ।।
तत्र श्राद्धं प्रकर्तव्यं पितॄणां तृप्तिहेतवे ।। १६ ।।
यत्कृते तुलसीपत्रं कर्णे शिरसि दृश्यते ।।
यमस्तं नेक्षितुं शक्तः किमु दूता भयंकराः ।। १७ ।।
तुलस्या महिमां यस्तु शृणुयान्नित्यमादृतः ।।
सर्व पापविमुक्तात्मा ब्रह्मलोकं स गच्छति ।। १८ ।।
अत्रैवोदाहरंतीममितिहासं पुरातनम् ।।
तुलस्या विषये ब्रह्मञ्च्छ्रवणात्पापनाशनम् ।। १९ ।।
पुरा काश्मीरदेशे तु ब्राह्मणौ संबभूवतुः ।।
हरिमेधःसुमेधाख्यौ विष्णुभक्तिपरायणौ ।।2.4.8.२०।।
सर्वभूतदयायुक्तौ सर्वतत्त्वार्थवेदिनौ ।।
कदाचित्तौ द्विजवरौ तीर्थयात्रापरायणौ ।।२१।।
गच्छतावेकतो विप्रौ कांतारे श्रमविह्वलौ ।।
तुलसीकाननं तत्र ददर्शतुररिंदमौ ।। २२ ।।
तयोः सुमेधास्तद्दृष्ट्वा तुलसीकाननं महत् ।।
प्रदक्षिणीकृत्य तदा ववंदे भक्तिसंयुतः ।। २३ ।।
दृष्ट्वैतद्धरिमेधास्तु उवाच परया मुदा ।।
ज्ञातुं तुलस्या माहात्म्यं तत्फलं च पुनःपुनः ।। २४ ।। ।।
।। हरिमेधा उवाच ।। ।।
किमर्थं विप्र देवेषु तीर्थेषु च व्रतेषु च ।।
स्थितेषु विप्रमुख्येषु प्रणामं कृतवानसि ।। २५ ।।
।। सुमेधा उवाच ।। ।।
शृणु विप्र महाभाग साधु वाक्यमुदीरितम् ।।
आतपो बाधते ह्यावां गत्वैतद्वटसन्निधौ ।। २६ ।।
तस्यच्छायां समाश्रित्य वक्ष्यामि ते यथार्थतः ।।
एवमुक्तः सुमेधास्तु हरिमेधेन संयुतः ।। २७ ।।
वटं जगाम धर्मज्ञो महत्कोटरसंयुतम् ।।
तत्र विश्राम्य विप्रोसौ हरिमेधमुवाच ह ।। २८ ।।
श्रूयतां विप्रशार्दूल तुलस्यास्तूत्तमां कथाम् ।।
परमेशप्रसादेन संजाता या पयोनिधौ ।। २९ ।।
पुरा दुर्वाससः शापाद्गतैश्वर्ये पुरंदरे ।।
ममंथुः क्षीरजलधिं ब्रह्माद्याः ससुराऽसुराः ।। 2.4.8.३० ।।
ऐरावतः कल्पतरुश्चन्द्रमाः कमला तथा ।।
उच्चैःश्रवा कौस्तुभश्च तथा धन्वन्तरिर्हरिः ।। ३१ ।।
हरीतक्यादयश्चाऽपि दिव्या ओषधयस्तथा ।।
अजायन्त द्विजश्रेष्ठ लोकश्रेयोविधायकाः ।। ३२ ।।
ततः पीयूषकलशमजरामरदायकम् ।।
कराभ्यां कलशं विष्णुर्धारयन्सुतलं परम् ।।
अवेक्ष्य मनसा सद्यः परां निर्वृतिमाप ह ।। ३३ ।।
तस्मिन्पीयूषकलश आनन्दास्रोदबिन्दवः ।।
व्यपतंस्तुलसी सद्यः समजायत मण्डला ।। ३४ ।।
सर्व लक्षणसंपन्ना सर्वाभरणभूषिता ।। ३५ ।।
तत्रोत्पन्नां तथा लक्ष्मीं तुलसीं च ददुर्हरेः ।।
देवा ब्रह्मादयस्ते हि जगृहे भगवान्हरिः ।। ३६ ।।
ततोऽतीव प्रियकरा तुलसी जगतां पतेः।।३७।।
सा तु देवगणैः सर्वैर्विष्णुवत्पूज्यते प्रिया ।।
नारायणो जगत्त्राता तुलसी तस्य वल्लभा ।।३८।।
तस्मात्तस्या नमस्कारो मया विप्र कृतस्ततः ।।
इत्येवं वदतस्तस्य सुमेधस्य महात्मनः ।। ३९ ।।
आराददृश्यत महद्विमानं सूर्यवर्चसम् ।।
तदानीं वटवृक्षस्तु पपात पुरतो मुने ।।2.4.8.४०।।
तथैव तस्माद्वृक्षाच्च पुरुषौ द्वौ विनिर्गतौ ।।
द्योतयंतौ दिशः सर्वास्तेजसा सूर्यसन्निभौ ।। ४१ ।।
प्रणामं चक्रतुस्तौ हि हरिमेधसुमेधयोः ।।
हरिमेधसुमेधौ तौ तौ दृष्ट्वा भयविह्वलौ ।। ४२।।
ऊचतुर्विस्मयाविष्टौ तावुभौ देवसन्निभौ ।।४३।।
हरिमेधसुमेधसावूचतुः ।।
युवां कौ देवसंकाशौ भवंतौ सर्वमंगलौ ।।
मंदारमालां तरुणां धारयंतौ तथाऽमरौ ।।
नमस्कार्यौ तथाऽऽवाभ्यां पूज्यौ च सुररूपिणौ ।। ४४ ।।
इत्युक्तौ ब्राह्मणाभ्यां तावूचतुर्वृक्षनिर्गतौ ।।
युवामेव पिता माता आवयोश्च तथा गुरुः ।।४५।।
बंध्वादयस्तथा चैव युवामेव न संशयः ।।
ज्येष्ठ उवाच ।। ।।
अहं तु देवलोकस्य आस्तीकोनाम नामतः ।। ४६ ।।
अप्सरोगणसंवीतः कदाचिन्नंदन वनम् ।।
क्रीडार्थमगमं चाद्रौ विषयासक्त चेतनः ।। ४७ ।।
रेमिरे देववनिता यथाकामं मया सह ।।
मुक्तामल्लिकमाल्यानि निपेतुस्तानि योषिताम् ।। ४८ ।।
तपतो रोमशस्यैव तद्दृष्ट्वा कुपितो मुनिः ।।
योषितां नाऽपराधोयं यासां वै परतंत्रता ।। ४९ ।।
अयमेव दुराचारः शापार्ह इति चाऽब्रवीत् ।।
त्वं ब्रह्मराक्षसो भूत्वा वटवृक्षे चरेति माम् ।। 2.4.8.५० ।।
प्रसादितो मया सोऽथ विशापमपि दत्तवान् ।।
तुलसीपत्रमाहात्म्यं विष्णोर्नाम तथा द्विजात् ।। ।।५१।।
यदा शृणोषि सद्यस्त्वं विमुक्तिं यास्यसे पराम्।।
इति शप्तस्तु मुनिना चिरकालं सुदुःखितः ।। ५२ ।।
वसाम्यत्र वटे दैवाद्भवद्दर्शनतो ध्रुवम् ।।
मुक्तिर्जाता विप्रशापाद्द्वितीयस्य कथां शृणु ।। ५३ ।।
अयं मुनिवरः पूर्वं गुरुशुश्रूषणे रतः ।।
गुरोराज्ञामनादृत्य ब्रह्मराक्षसतां गतः ।। ।।५४ ।।
युष्मत्प्रसादादधुना ब्रह्मशापाद्विमोचितः ।।
तीर्थयात्राफलं चैव युवाभ्यामिह साधितम् ।।५५।।
उत्तरोत्तरपुण्यानि वर्धंते च दिनेदिने ।।
इत्युक्त्वा तौ मुनिवरौ प्रणम्य च पुनःपुनः ।। ५६ ।।
तावनुज्ञाप्य तौ धाम जग्मतुः परया मुदा ।।
ततस्तौ तीर्थयात्रार्थं परमौ मुनिपुंगवौ ।। ।। ५७ ।।
शंसंतौ तुलसीं पुण्यां जग्मतुर्मुनिपुंगव ।।
एवं नारद माहात्म्यं तुलस्याः को नु वर्णयेत् ।। ५८ ।।
तस्मान्नारद मासेऽस्मिन्कार्तिके हरितुष्टिदे ।।
कर्तव्या तुलसीपूजा नाऽत्र कार्या विचारणा ।। ५९ ।।
एवमंग व्रतान्येव प्रोक्तानि मुनिसत्तम ।।
उपांगानि प्रवक्ष्यामि वालखिल्योदितानि च ।। 2.4.8.६० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये तुलसीमाहात्म्यवर्णनं नामाऽष्टमोऽध्यायः ।।८।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 9
।। वालखिल्या ऊचुः ।। ।।
कृष्णः प्रोवाच धर्माय द्वादशीं वत्ससंज्ञिताम्।।
गोधूलिकालसंयुक्ता द्वादशी वत्सपूजने।।१।।
वत्सपूजा वटे चैव कर्तव्या प्रथमेऽहनि ।।
सवत्सां तुल्यवर्णां च शीलिनीं गां पयस्विनीम् ।।
चंदनादिभिरालिप्य पुष्पमालाभिरर्चयेत् ।। २ ।।
तद्दिने तैलपक्वं च स्थालीपक्वं युधिष्ठिर ।।
गोक्षीरं गोघृतं चैव दधिक्षीरं च वर्जयेत् ।। ३ ।।
दिनांते सूर्यबिंबार्धादुभयत्र घटीदलम् ।।
ततो नीराजनं कार्य्यं निरीक्षेच्च शुभाऽशुभम् ।। ४ ।।
नानादीपान्प्रकल्प्याऽऽदौ स्वर्णपात्रादि संस्थितान् ।।
नीराजयेद्दीपपूर्वं निरीक्षेत शुभाऽशुभम् ।।५।।
लापयित्वा सर्वदीपानुत्तराभिमुखान्न्यसेत् ।।
मुख्या दीपा नव प्रोक्ता अन्यानपि च कल्पयेत् ।। ६ ।।
ज्वाला चेद्दक्षिणासंस्था सतेजस्का शिखान्विता ।।
स्थिरा चेत्सौख्यदा प्रोक्ता विपरीता तु दुःखदा ।। ७ ।।
कार्तिके कृष्णपत्रे तु द्वादश्यादिषु पंचसु ।।
तिथिषूक्तः पूर्वरात्रे नृणां नीराजनाविधिः ।। ८ ।।
पक्षं संसूचयत्यादिर्द्वितीयो मासमेव च ।।
तृतीय ऋतुमेवेह चतुर्थस्त्वयनं तथा ।।
वर्षं तु पंचमो दीपः शुभाशुभं विनिर्णयेत् ।। ९ ।।
सूर्यांशसंभवा दीपा अंधकारविनाशकाः ।।
त्रिकाले मां दीपयंतु दिशंतु च शुभाऽशुभम्।। ।। 2.4.9.१० ।।
अभिमंत्र्य च मंत्रेण ततो नीराजयेत्क्रमात् ।। ११ ।।
आदौ देवांस्ततो विप्रान्हस्तिनश्च तुरंगमान् ।।
ज्येष्ठाञ्च्छ्रेष्ठाञ्जघन्यांश्च मातृमुख्याश्च योषितः ।। १२ ।।
ततो नीराजितान्दीपान्स्वस्वस्थानेषु विन्यसेत् ।।
रूक्षैर्लक्ष्मीविनाशः स्याच्छ्वेतैरन्नक्षयो भवेत् ।।
अतिरक्तेषु युद्धानि मृत्युः कृष्णशिखेषु च ।। १३ ।।
एकांगीनाम गोपाला तयैतच्च व्रतं कृतम् ।।
धनधान्यसमायुक्ता जाता वर्षत्रयेण सा ।। १४ ।। *
तस्माद्गोपूजनं कार्यं द्वादश्यां कार्तिकस्य तु ।।
एतद्गोव्रतमाहात्म्यं श्रुत्वा कुर्वंति ये नराः ।। १५ ।।
ते गोव्रतप्रभावेन न गोभिर्विच्युता भुवि ।।
गोऽपराधः कृतो यः स्यात्स व्रताद्विलयं व्रजेत् ।। १६ ।।
।। वालखिल्या ऊचुः ।। ।।
कृष्णपक्षे चतुर्दश्यां मासि चाऽऽश्वयुजे तथा ।।
दीपोत्सव समीपे तु व्रतमेतत्समाचरेत् ।। १७ ।।
प्रातः स्नात्वा त्रयोदश्यां कृत्वा वै दंतधावनम्।।
त्रिरात्रनियमं कृत्वा गोविंदे भक्तितत्परः ।। १८ ।।
कार्य एतद्व्रतस्यांते तथा गोवर्द्धनोत्सवः ।।
त्रिमुहूर्ताऽधिका ग्राह्या परवेधो न दोषभाक् ।। १९ ।।
आश्विनस्याऽसिते पक्षे त्रयोदश्यां निशामुखे ।।
यमदीपं बलिं दद्यादपमृत्युर्विनश्यति ।। 2.4.9.२० ।।
पुरा हेमनकस्यैव बालकश्चाऽपमृत्युतः ।।
मुक्तोभूदाश्विने कृष्णत्रयोदश्यां दयावशात् ।। २१ ।। ।।
।। दूता ऊचुः ।। ।।
यथा न जीविताद्भ्रश्येदीदृशे तु महोत्सवे ।।
तथोपायं ब्रूहि यम कृपां कृत्वाऽस्मदग्रतः ।। २२ ।।
।। यम उवाच ।।
आश्विनस्याऽसिते पक्षे त्रयोदश्यां निशामुखे ।।
प्रतिवर्षं तु यो दद्याद्गृहद्वारे सुदीपकम् ।। २३ ।।
मन्त्रेणाऽनेन भो दूताः समानेयः स नोत्सवे ।।
प्राप्तेऽपमृत्यावपि च शासनं क्रियतां मम ।। २४ ।।
मृत्युना पाशदंडाभ्यां कालेन च मया सह ।।
त्रयोदश्यां दीपदानात्सूर्यजः प्रीयतामिति ।। २५ ।।
मन्त्रेणानेन यो दीपं द्वारदेशे प्रयच्छति ।।
उत्सवे चाऽपमृत्योश्च भयं तस्य न जायते ।। २६ ।।
।। वालखिल्या ऊचुः ।। ।।
पूर्वविद्धचतुर्दश्यामाश्विनस्य सितेतरे ।।
पक्षे प्रत्यूषसमये स्नानं कुर्यात्प्रयत्नतः ।। २७ ।।
अरुणोदयतोऽन्यत्र रिक्तायां स्नाति यो नरः ।।
तस्याऽब्दिकभवो धर्मो नश्यत्येव न संशयः ।। २८ ।।
तथा कृष्णचतुर्दश्यामाश्विनेऽर्कोदये सुराः ।।
यामिन्याः पश्चिमे यामे तैलाभ्यंगो विशिष्यते ।। २९ ।।
यदा चतुर्दशी न स्याद्द्विदिने चेद्विधूदये ।।
दिनद्वये भवेच्चाऽपि तदा पूर्वैव गृह्यते ।। 2.4.9.३० ।।
बलात्काराद्धठाद्वाऽपि शिष्टत्वान्न करोति चेत् ।।
तैलाभ्यंगं चतुर्दश्यां रौरवं नरकं व्रजेत् ।।३१।।
तैले लक्ष्मीर्जले गंगा दीपावल्याश्चतुर्दशीम् ।।
प्रातःस्नानं हि यः कुर्याद्यमलोकं न पश्यति ।। ३२ ।।
अपामार्गमथो तुंबीं प्रपुन्नाडमथाऽपरम् ।।
भ्रामयेत्स्नानमध्ये तु नरकस्य क्षयाय वै ।। ३३ ।।
वारत्रयं त्रिवारं च पठित्वा मन्त्रमुत्तमम् ।। ३४ ।।
सीतालोष्टसमायुक्त सकंटकदलान्वित ।।
हर पापमपामार्ग भ्राम्यमाणः पुनः पुनः ।।
अपामार्गं प्रपुन्नाडं भ्रामयेच्छिरसोपरि ।। ३५ ।।
स्नात्वार्द्रवाससा दद्याद्दीपकं मृत्युपुत्रयोः ।।
शुनकौ श्यामशबलौ भ्रातरौ यमसेवकौ ।।
तुष्टौ स्यातां चतुर्दश्यां दीपदानेन मृत्युजौ ।। ३६ ।।
इष्टवंधुजनैः सार्द्धमेतत्स्नानं समाचरेत् ।।
स्नानांगतर्पणं कृत्वा यमं संतर्पयेत्ततः।। ३७ ।।
यमाय धर्मराजाय मृत्यवे चाऽन्तकाय च ।।
वैवस्वताय कालाय सर्वभूतक्षयाय च ।। ३८ ।।
औदुंबराय दध्नाय नीलाय परमेष्ठिने ।।
वृकोदराय चित्राय चित्रगुप्ताय ते नमः ।। ३९ ।।
चतुर्दशैते मन्त्राः स्युः प्रत्येकं च नमोऽन्विताः ।।
एकैकेन तिलैर्मिश्रान्दद्यात्त्रीनुदकाञ्जलीन् ।। 2.4.9.४० ।।
यज्ञोपवीतिना कार्यं प्राचीनावीतिनाऽथवा ।।
देवत्वं च पितृत्वं च यमस्याऽस्ति द्विरूपता ।। ४१ ।।
जीवत्पिताऽपि कुर्वीत तर्पणं यमभीष्मयोः ।।
नरकाय प्रदातव्यो दीपः संपूज्य देवताः ।। ४२ ।।*
अत्रैव लक्ष्मीकामस्य विधिः स्नाने मयोच्यते ।।
इषे भूते च दर्शे च कार्तिके प्रथमे दिने ।। ४३ ।।
यदा स्नाति तदाऽभ्यंगस्नानं कुर्याद्विधूदये।
ऊर्ज्जशुक्लद्वितीयायां तिथौ च स्वातियुग्मगे ।। ४४ ।।
मानवो मंगलस्नायी नैव लक्ष्म्या वियुज्यते ।।
दीपैर्नीराजनादत्र सैषा दीपावलिः स्मृता ।। ४५ ।।
इंदुक्षयेऽपि संक्रातौ रवौ पाते दिनक्षये ।।
अत्राऽभ्यंगो न दोषाय प्रातः पापाऽपनुत्तये ।। ४६ ।।
माषपत्रस्य शाकं वै भुक्त्वा तस्मिन्दिने नरः ।।
प्रेताख्यायां चतुर्दश्यां सर्वपापैः प्रमुच्यते ।।४७।।
इषासितचतुर्दश्यामिन्दुक्षयतिथावपि ।।
दर्शादौ स्वातिसंयुक्ते तदा दीपावलिर्भवेत् ।। ४८ ।।
कुर्यात्संलग्नमेतच्च दीपोत्सवदिनत्रयम् ।।
महाराजो बलिः प्रोक्तस्तुष्टेन हरिणा तथा ।। ४९ ।।
वरं याचस्व भद्रं ते यद्यन्मनसि वर्तते ।।
इति विष्णुवचः श्रुत्वा बलिर्वचनमब्रवीत् ।। 2.4.9.५० ।।
आत्मार्थं किं याचनीयं सर्वं दत्तं मया तथा ।।
लोकार्थं याचयिष्यामि शक्तश्चेद्देहि तच्च मे ।। ५१ ।।
मयाऽद्य ते धरा दत्ता वामनच्छद्मरूपिणे ।।
त्रिभिः पदैस्त्रिदिवसैः सा चाऽऽक्रांता यतस्त्वया ।। ५२ ।।
तस्माद्भूमितले राज्यमस्तु घस्रत्रये हरे ।। ५३ ।।
मद्राज्ये ये दीपदानं भुवि कुर्वंति मानवाः ।।
तेषां गृहे तव स्त्रीयं सदा तिष्ठतु सुस्थिरा ।। ५४ ।।
मम राज्ये गृहे यैषामंधकारः पतिष्यति ।।
लक्ष्मीसंतानांधकारः सदा पततु तद्गृहे ।। ५५ ।।
चतुर्दश्यां च ये दीपान्नरकाय ददंति च ।।
तेषां पितृगणाः सर्वे नरके न वसंति च ।। ५६ ।।
बलिराज्यं समासाद्य यैर्न दीपावलिः कृता ।।
तेषां गृहे कथं दीपाः प्रज्वलिष्यंति केशव ।। ५७ ।।
बलिराज्ये तु ये लोकाः शोकाऽनुत्साहकारिणः ।।
तेषां गृहे सदा शोकः पतेदिति न संशयः ।। ५८ ।।
चतुर्दशीत्रये राज्यं बलेरस्त्विति याचयेत् ।।
पुरा वामनरूपेण प्रार्थयित्वा धरामिमाम् ।।
ददावतिथयेंद्राय बलिं पातालवासिनम् ।। ५९ ।।
दत्तं दैत्यपतेरित्थं हरिणा तद्दिनत्रयम् ।।
तस्मान्महोत्सवं चात्र सर्वथैव हि कारयेत् ।। 2.4.9.६० ।।
महारात्रिः समुत्पन्ना चतुर्दश्यां मुनीश्वराः ।।
अतस्तदुत्सवः कार्यः शक्तिपूजापरायणैः ।। ६१ ।।
बलिराज्यं समासाद्य यक्षगंधर्वकिन्नराः ।।
औषध्यश्च पिशाचाश्च मंत्राश्च मणयस्तथा ।। ६२ ।।
सर्व एव प्रहृष्यंति नृत्यंति च निशामुखे ।।
तत्तन्मंत्राश्च सिद्ध्यंति बलिराज्ये न संशयः ।। ६३ ।।
बलिराज्यं समासाद्य यथा लोकाः सुहर्षिताः ।।
तथा तद्दिनमध्ये तु लोकाः स्युर्हर्षिता भृशम् ।। ६४ ।।
तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयोः ।।
उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम् ।। ६५ ।।
नरकस्थास्तु ये प्रेतास्ते मार्गं तु व्रतात्सदा ।।
पश्यंत्येव न संदेहः कार्योऽत्र मुनिपुंगवैः ।। ६६ ।।
आश्विने मासि भूतादितिथयः कीर्तितास्त्रयः।।
दीपदानादिकार्येषु ग्राह्या मध्याह्नकालिकाः ।। ६७ ।।
यदि स्युः संगवादर्वागेताश्च तिथयस्त्रयः ।।
दीपदानादिकार्येषु कर्तव्याः पूर्वसंयुताः ।। ६८ ।।
।। ऋषय ऊचुः ।।
कौमोदिन्यास्तु माहात्म्यं प्रष्टुमिच्छामहे द्विजाः ।।
तस्मिन्दिने तु किं भोज्यं कस्य पूजां तु कारयेत् ।। ६९ ।।
किमर्थं क्रियते सा तु तस्याः का देवता भवेत् ।।
किं च तत्र भवेद्देयं किं न देयं विशेषतः।।2.4.9.७०।।
प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा काऽत्र प्रकीर्तिता ।।
दीपावल्याः फलं सर्वं वदन्तु ऋषिसत्तमाः ।। ७१ ।।
।। वालखिल्या ऊचुः ।। ।।
ततः प्रभात समये त्वमायां तु मुनीश्वराः ।।
स्नात्वा देवान्पितॄन्भक्त्या संपूज्याऽथ प्रणम्य च ।। ७२ ।।
कृत्वा तु पार्वणश्राद्धं दधिक्षीरघृतादिभिः ।।
दिवा तत्र न भोक्तव्यमृते बालातुराज्जनात् ।। ७३ ।।
ततः प्रदोषसमये पूजयेदिंदिरां शुभाम् ।।
कुर्यान्नानाविधैर्वस्त्रैः स्वच्छं लक्ष्म्याश्च मण्डपम् ।। ७४ ।।
नानापुष्पैः पल्लवैश्च चित्रैश्चाऽपि विचित्रितम् ।।
तत्र संपूजयेल्लक्ष्मीं देवांश्चाऽपि प्रपूजयेत् ।। ७५ ।।
संपूज्या देवनार्योऽपि वहुभिश्चोपचारकैः ।।
पादसंवाहनं कुर्याल्लक्ष्म्यादीनां तु भक्तितः ।। ७६ ।।
अस्मिन्नहनि सर्वेऽपि विष्णुना मोचिताः पुरा ।।
बलिकारागृहाद्देवा लक्ष्मीश्चाऽपि विमोचिता ।। ७७ ।।
लक्ष्म्या सार्द्धं ततो देवा जग्मुः क्षीरोदधौ पुनः ।।
प्रसुप्ता बहुकालं ते सुखं तस्मान्मुनीश्वराः।।७८।।
रचनीयाः सूत्रगर्भाः पर्यंकाश्च सुतूलिकाः ।।
दुग्धफेनोपमैर्वस्त्रैरास्तृताश्च यथादिशम् ।। ७९ ।।
स्थापयेत्तान्सुराँल्लक्ष्मीं वेदघोषसमन्वितः ।।
लक्ष्मीर्दैत्यभयान्मुक्ता सुखं सुप्तांबुजोदरे ।।2.4.9.८०।।
अतोऽत्र विधिवत्कार्या तुष्ट्यै तु सुखसुप्तिका ।।
तदह्नि पद्मशय्यां यः पद्मासौख्यविवृद्धये ।। ८१ ।।
कुर्यात्तस्य गृहं मुक्त्वा तत्पद्मा क्वाऽपि न व्रजेत् ।।
न कुर्वंति नरा इत्थं लक्ष्म्या ये सुखसुप्तिकाम् ।। ८२ ।।
धनचिन्ता विहीनास्ते कथं रात्रौ स्वपंति हि ।।
तस्मात्सर्वप्रयत्नेन लक्ष्मीं संपूजयेन्नरः ।। ८३ ।।
स तु दारिद्र्यनिर्मुक्तः स्वजातौ स्यात्प्रतिष्ठितः ।।
जातिपत्रलंवगैलात्वक्कर्पूरसमन्वितम् ।। ८४ ।।
पाचयित्वा गव्यदुग्धं सितां दत्त्वा यथोचिताम् ।।
लड्डुकांस्तस्य कुर्वीत तांश्च लक्ष्म्यै समर्पयेत् ।। ८५ ।।
अन्यच्चतुर्विधं भक्ष्यं दद्याच्छ्रीः प्रीयतामिति ।।
अप्रबुद्धे हरौ पूर्वं स्त्रीभिर्लक्ष्मीं प्रबोधयेत् ।। ८६ ।।
प्रबोधसमये लक्ष्मीं बोधयित्वा भुनक्ति या ।।
पुमान्वा वत्सरं यावल्लक्ष्मीस्तं नैव मुञ्चति ।। ८७ ।।
अभयं प्राप्य विप्रेभ्यो विष्णुभीताः सुरद्विषः ।।
क्षीराब्धौ तुष्टुवुर्ज्ञात्वा सुप्तां पद्माश्रितां श्रियम् ।। ८८ ।।
त्वं ज्योतिः श्रीरवीन्द्वग्निविद्युत्सौवर्णतारकाः ।।
सर्वेषां ज्योतिषां ज्योतिर्दीपज्योतिःस्थिते नमः ।। ८९ ।।
या लक्ष्मीर्दिवसे पुण्ये दीपावल्यां च भूतले ।।
गवां गोष्ठे तु कार्तिक्यां सा लक्ष्मीर्वरदा मम ।। 2.4.9.९० ।।
दीपदानं ततः कुर्यात्प्रदोषे च तथोल्मुकम् ।।
भ्रामयेत्स्वस्य शिरसि सर्वाऽरिष्टनिवारणम् ।। ९१ ।।
दीपवृक्षास्तथा कार्याः शक्त्या देवगृहादिषु ।।
चतुष्पथे श्मशाने च नदीपर्वतवेश्मसु ।। ९२ ।।
वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु च ।।
वस्त्रैः पुष्पैः शोभितव्या राजमार्गस्य भूमयः ।। ९३ ।।
सर्वं पुरमलंकृत्य प्रदोषे तदनन्तरम् ।।
ब्राह्मणान्भोजयित्वाऽऽदौ संभोज्य च बुभुक्षितान्।। ९४ ।।
अलंकृतेन भोक्तव्यं नववस्त्रोपशोभिना ।।
ततोऽपराह्नसमये घोषयेन्नगरं नृपः ।। ९५।।
अद्य राज्यं बलेर्लोका यथेच्छं क्रीड्यतामिति ।।
यथेच्छं क्रीडतां बाला इत्याज्ञाप्य नृपेण तु ।। ९६ ।।
तेभ्यो दद्यात्क्रीडनकं ततः पश्येच्छुभाशुभ्य ।।
बलिराज्ये प्रकर्तव्यं यद्यन्मनसि वर्तते ।। ९७ ।।
जीवहिंसा सुरापानमगम्यागमनं तथा ।।
चौर्यं विश्वासघातश्च पंचैतानि मुनीश्वराः ।।
बलिराज्ये तु नरकद्वाराण्युक्तानि संत्यजेत् ।। ९८ ।।
ततोऽर्द्धरात्रसमये स्वयं राजा व्रजेत्पुरम् ।।
अवलोकयितुं रम्यं पद्भ्यामेव शनैःशनैः ।।
बलिराज्यप्रमोदं च दृष्ट्वा स्वगृहमाव्रजेत् ।। ९९ ।।
एवं गते निशीथे च जने निद्रार्द्धलोचने ।।
एवं नगरनारीभिः शूर्पडिंडिमवादनैः ।।
निष्कास्यते प्रदृष्टाभिरलक्ष्मीः स्वगृहांऽगणात् ।। 2.4.9.१०० ।।
दंडैकरजनीयोगे दर्शः स्यात्तु परेऽहनि ।।
तदा विहाय पूर्वेद्युः परेऽह्नि सुखरात्रिका ।। १०१ ।। *
ये वैष्णवाऽवैष्णवाश्च बलिराज्योत्सवं नराः ।।
न कुर्वंति वृथा तेषां धर्माः स्युर्नात्र संशयः ।। १०२ ।।
रात्रौ जागरणं कुर्यात्पुराणपठनादिभिः ।।
द्यूतेन वा हरेरग्रे गीतया वा तथैव च ।।१०३।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये वत्सद्वादशीयमत्रयोदशीनरकचतुर्दशीदीपावलीकृत्यवर्णनंनाम नवमोऽध्यायः ।। ९ ।।
*२.४.९.१४
अत्र प्रसिद्धा कथा सनत्कुमारसंहितायाम्-पुरा हृषीकेशोनाम आभीरः अष्टसहस्रगवां पालकः आसीत्तस्य एकांगीनाम कन्या जाता । पुत्राऽभावे पुत्रोत्पत्तये दानधर्मादिकमतीव चकार, तेन पुत्रो जातः । तदा तत्पुरोहितः दुंदुभिनामकः काणः लोभी तत्रागत्य लोभेच्छया अयं मूलजात इति मिथ्यैवाऽवदत् । तदा भीतः पिता कन्यामवदत, हे एकांगि “नयेमं बालकं शीघ्रं मुखे दत्त्वा घृतं मधु ॥ क्षिपस्व तूर्णं गंगायामस्माकं सुखवृद्धये ॥” इति । तदा एकांगी तमादाय दयया महावृक्षस्य कोटरे ऽस्थापयत् “वारंवारं समागत्य दिवसेषु निशासु च ॥ तस्मै पयः पाययित्वा पुनर्याति स्वकं गृहम् ॥ जातोऽसौ वर्षमात्रेण कलभाषी स बालकः ॥ एकांग्यपि च संजाता यौवनाक्रांतदेहिका ॥” इति। एकदा दुंदुभिः पुरोहितः एकांगीं कामवासनया प्रार्थयत्, तदा सा धिक्कारं कृतवती, तेन द्वेषेण दुंदुभिः तत्पितरमुवाच, हे हृषीकेश इयं तव कन्या यवनैः सह क्रीडंती मया दृष्टा यवनाद्बालको जातः स च कोटरे स्थापितः, गत्वा पश्य, अहो तव कुलं नष्टम् अस्याः त्याग एव उचितः, अन्यथा बहिष्कारो भवेत् । एवं श्रुत्वा हृषीकेशः पुरोहितोक्तप्रकारेण एकांगीं तत्पुत्रं च वृषस्य पृष्ठे बद्ध्वा वने अत्यजत्, स वृषोऽपि दैवयोगेन तामादाय हरिद्वारं ययौ, बंधश्च शिथिलतां प्राप्तः, तदा एकांगी तत्र कुटिं बद्ध्वा तृणविक्रयं कृत्वा तेन द्रव्येण पुत्रं वृषभं च पुष्णाति, कार्तिके मास आगते स्नानार्थं देशदेशतः लोकाः आययुः, ते इमां गोपालिकां ज्ञात्वा दानार्थमानीताः गावः रक्षणाय ददुः, अनयाऽपि गवां सेवा भूयसी आरब्धा ततः वैष्णवैः तया च द्वादश्यां गोपूजा कृता एवं वर्षत्रयमकरोत्, तत्र दैवयोगाद्धृषीकेशः पुरोहितेन दुंदुभिना सह आगतः, तत्र स्वकन्यां दृष्ट्वाऽतिविस्मितो भूत्वा तया ज्ञातवृत्तांतः तस्याः विवाहमकरोत्, दुंदुभिश्च धिक्कृतः साऽपि शापं ददौ । अद्यप्रभृति ये काणे विश्वासकारकाः ते अवश्यं विलयं यांतु, इति शप्त्वा बालकं पित्रे दत्त्वा गोव्रतमुपदिश्य भर्त्रा सह स्वयं जगामेति ॥ १४ ॥
*२.४.९.४२
यमतर्पणं तु पूर्वमेवोक्तं भीष्मतर्पणं चाग्रे भीष्मपंचकव्रते कथयिष्यति । नरकाय नरकासुराय दीपः प्रदातव्यः । अत्र विशेषः सारोद्धारे-"पुरा सौवीरदेशे तु वेश्याऽभूद्विजनप्रिया ॥ नाम्ना लीलावती पुण्या हरिभक्तिपरायणा ॥ कदाचित्सा समायाता वसिष्ठस्याऽऽश्रमं मुदा ॥ चतुर्दशीमाहात्म्यं सा पप्रच्छ विनयान्विता ॥ वसिष्ठ उवाच ॥ एवं व्रतं त्रयोदश्यां कृत्वा रात्रौ विधूदये ॥ स्नातव्यं तिलतैलेन नरैर्नरकभीरुभिः ॥ नारकीति च सा प्रोक्ता तिथिर्लोकेषु विश्रुता ॥ पूर्वं वराहदेवाच्च जातो नरकनामकः ॥ धरण्यां स तु पापात्मा देवान्सर्वाञ्जिगाय च ॥ ऐश्वर्यं चैव देवानां हृतवान्पापचेतनः ॥ तदानीं देवताः सर्वे कृष्णं शरणमाययुः ॥ तैः प्रार्थितश्च श्रीकृष्णो वधार्थं नरकस्य च ॥ जगाम यत्र पापात्मा नरको धरणीसुतः ॥ साऽमात्यं नरकं हत्वा चतुर्दश्यां तु कार्तिके ॥ सर्वोत्तमस्तदा कृष्णश्चतुर्दश्या वरं ददौ ॥ ये करिष्यंति चाभ्यंगं वस्त्रदानादिकं च यत् ॥ तेषां यशश्च कीर्तिं च पुत्रैश्वर्यं ददाम्यहम् ॥ इति तस्यै वरान्दत्त्वा प्रसिद्धा सा ततो भुवि ॥ तस्मिन्दिने महालक्ष्मीस्तैले सन्निहिता यतः ॥ विष्णुपादाब्जसंभूता गंगा लोकमलापहा ॥ तस्मिन्नुष्णोदके देवी सन्निधानं करोति वै ॥ विधूदये त्रयोदश्यां भवेद्यदि चतुर्दशी ॥ नारकीति च सा प्रोक्ता आश्विनस्य सितेतरे ॥ व्यतीपाते च वैधृत्यां मातापित्रोर्दिनेऽपि वा ॥ नारकी चतुर्दशी चेत्स्यात्स्नातव्यं तिलतैलतः ॥ स्नातव्यं तिलतैलेन नारीभिश्च नरैरपि ॥ यतिभिर्विधवाभिश्च निष्कामैर्वा विधानतः ॥ कार्यमभ्यंजनं तत्र चाऽन्यथा निरयं व्रजेत् ॥” इति ॥ ४२ ॥
*२.४.९.१०१
अत्र विशेषः ब्राह्मे-"नारद उवाच ॥ येन स्त्रियः सुरूपाः स्युः सुभगाः सुप्रजास्तथा ॥ पतिव्रतपरा ब्रह्मंस्तद्व्रतं ब्रूहि मे प्रभो ॥ श्रीब्रह्मोवाच ॥ श्रूयतां ब्राह्मणश्रेष्ठ सुखरात्रि शुभं व्रतम् ॥ यन्मया कस्यचिन्नोक्तं रहस्यं शिवशर्मदम् ॥ ऊर्जे मासि चतुर्दश्यां कृष्णायां व्रतमुत्तमम् ॥ यस्याऽऽचरणमात्रेण स्त्रियः सौभाग्यवर्द्धनाः ॥ श्रिया सार्द्धं जगद्योनिः शेते विष्णुः सुखान्वितः ॥ तस्यां रात्रौ जनैस्तस्मात्संप्रोक्ता जनसुप्तिका ॥ तस्यां धातुमयैर्वर्ण्यैभगवत्पंचरंगकैः।। निजाऽऽलये जीवरात्री लिखित्वा सुखरात्रिकाम् ॥ ब्रह्मविष्णुशिवादीनां मूर्तीश्च विलिखेत्ततः॥ सौभाग्यहेतवे भर्तुरनुज्ञां प्रतिगृह्य च ॥ व्रतार्थं कल्पयेत्तस्याः पूजोपकरणानि च ॥ ततः सुगंधद्रव्येण गात्रमुद्वर्त्य यत्नतः ॥ स्त्रीभिः सुखोदकस्नानं कर्तव्यं द्विजसत्तम ॥ स्नात्वा वस्त्रं मनोहारि परिधाय यथाविधि ॥ सुखरात्र्याः सुप्रतिष्ठां कारयित्वा द्विजन्मना ॥ पूजनीया विधानेन गंधपुष्पाक्षतादिभिः ॥ स्त्रीभिः सखीसंयुताभिः सुखरात्र्यादिदेवताः ॥ सुखरात्री गृहस्था या देवता लिखिता मया ॥ पूजां गृह्णातु मद्दत्तां साः प्रयच्छतु मे सुखम् ॥ सुखरात्रि नमस्तुभ्यं जीवदात्रि सुखप्रदे ॥ शिवप्रिये गृहाणेमां पूजां वै रक्ष बालकान् ॥ रूपं देहि जयं देहि विद्यां देहि सुखं धनम् ॥ प्रज्ञां प्रयच्छ मे कामान्समस्तान्सुखमादरात् ।। इति संप्रार्थ्य तां देवीं गीतवादित्रनिस्वनैः ॥ लक्ष्मीपूजा ततः कार्या धवयुक्ताभिरादरात् ॥ त्रिभिः पूजोपहारेण मंत्रैरेभिर्हरिप्रियाम् ॥ जय देवि जगन्मातर्विष्णोर्वक्षसि संस्थिते ॥ रमे नमोऽस्तु ते मेऽत्र सौभाग्यं देहि निश्चलम् ॥ जागर्ति या महालक्ष्मीर्दीपमाला सुभूतले ॥ हरिवक्षःस्थिता रम्या सा देवी वरदाऽस्तु मे ॥ इति स्तुत्वा भगवतीं महालक्ष्मीं सुखप्रदाम् ॥ भर्त्रा सह क्रीडनीयं दीपावल्यां जयेच्छया ॥ द्यूतं पत्याश्रितं स्त्रीभिरित्याह पुरुषोत्तमः ॥ इत्थं विधानेन पतिव्रता या करोति हृद्यं सुखरात्रिकाख्यम् ॥ व्रतं सपुत्रा धनधान्ययुक्ता सभर्तृका सा भवतीह सत्यम् ॥” इति ॥१०१ ॥
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 10
।। ब्रह्मोवाच ।। ।।
प्रतिपद्यथ चाऽभ्यंगं कृत्वा नीराजनं ततः ।।
सुवेषः सत्कथागीतैर्दानैश्च दिवसं नयेत् ।। १ ।।
शंकरस्तु पुरा द्यूतं ससर्ज सुमनोहरम् ।।
कार्तिके शुक्लपक्षे तु प्रथमेऽहनि सत्यवत् ।। २ ।।
बलिराज्यदिनस्याऽपि माहात्म्यं शृणु तत्त्वतः ।।
स्नातव्यं तिलतैलेन नरैर्नारीभिरेव च ।। ३ ।।
यदि मोहान्न कुर्वीत स याति यमसादनम् ।।
पुरा कृतयुगस्यादौ दानवेंद्रो बलिर्महान् ।। ४ ।।
तेन दत्ता वामनाय भूमिः स्वमस्तकान्विता ।।
तदानीं भगवान्साक्षात्तुष्टो बलिमुवाच ह ।। ५।।
कार्तिके मासि शुक्लायां प्रतिपद्यां यतो भवान् ।।
भूमिं मे दत्तवान्भक्त्या तेन तुष्टोऽस्मि तेऽनघ ।। ६ ।।
वरं ददामि ते राजन्नित्युक्त्वाऽदाद्वरं तदा ।।
त्वन्नाम्नैव भवेद्राजन्कार्तिकी प्रतिपत्तिथिः।। ७ ।।
एतस्यां ये करिष्यंति तैलस्नानादिकार्चनम् ।।
तदक्षयं भवेद्राजन्नात्र कार्या विचारणा ।। ८ ।।
तदाप्रभृति लोकेऽस्मिन्प्रसिद्धा प्रतिपत्तिथिः ।।
प्रतिपत्पूर्वविद्धा नो कर्तव्या तु कथंचन ।। ९ ।।
तत्राभ्यंगं न कुर्वीत अन्यथा मृतिमाप्नुयात् ।।
प्रतिपद्यां यदा दर्शो मुहूर्तप्रमितो भवेत् ।। । । 2.4.10.१० ।।
मांगल्यं तद्दिने चेत्स्याद्वित्तादिस्तस्य नश्यति ।।
बलेश्च प्रतिपद्दर्शाद्यदि विद्धं भविष्यति ।। ११ ।।
तस्यां यद्यथ चाऽऽर्तिक्यं नारी मोहात्करिष्यति ।।
नारीणां तत्र वैधव्यं प्रजानां मरणं ध्रुवम् ।। १२ ।।
अविद्धा प्रतिपच्चेत्स्यान्मुहूर्तमपरेऽहनि ।।
उत्सवादिककृत्येषु सैव प्रोक्ता मनीषिभिः ।। १३ ।।
प्रतिपत्स्वल्पमात्राऽपि यदि न स्यात्परेऽहनि ।।
पूर्वविद्धा तदा कार्या कृता नो दोषभाग्भवेत् ।। १४ ।।
तद्दिने गृहमध्ये तु कुर्यान्मूर्तिं तदांगणे ।।
गोमयेन च तत्राऽपि दधि तत्पुरतः क्षिपेत् ।। १५ ।।
आर्तिक्यं तत्र संस्थाप्य एवं कुर्याद्विधानतः ।।
अभ्यंगं ये न कुर्वंति तस्यां तु मुनिपुंगव ।। १६ ।।
न मांगल्यं भवेत्तेषां यावत्स्याद्वत्सरं ध्रुवम् ।।
यो यादृशेन रूपेण तस्यां तिष्ठेच्छुभे दिने ।। १७ ।।
आवर्षं तद्भवेत्तस्य तस्मान्मंगलमाचरेत् ।।
यदीच्छेत्स्वशुभान्भोगान्भोक्तुं दिव्यान्मनोहरान् ।। १८ ।।
कुरु दीपोत्सवं रम्यं त्रयोदश्यादिकेषु च ।।
शंकरश्च भवानी च क्रीडया द्यूतमास्थिते ।। १९ ।।
गौर्या जित्वा पुरा शंभुर्नग्नो द्यूते विसर्जितः ।।
अतोऽर्थं शंकरो दुःखी गौरी नित्यं सुखस्थिता ।। 2.4.10.२० ।।
द्यूतं निषिद्धं सर्वत्र हित्वा प्रतिपदं बुधाः ।।
प्रथमं विजयो यस्य तस्य संवत्सरं सुखम् ।। २१ ।।
भवान्याऽभ्यर्थिता लक्ष्मीर्धेनुरूपेण संस्थिता ।।
प्रातर्गोवर्द्धनः पूज्यो द्यूतं रात्रौ समाचरेत् ।। २२ ।।
भूषणीयास्तदा गावो वर्ज्या वहनदोहनात् ।। २३ ।।
गोवर्द्धन धराऽऽधार गोकुलत्राणकारक ।।
विष्णुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव ।। २४ ।।
या लक्ष्मीर्लोकपालानां धेनुरूपेण संस्थिता ।।
घृतं वहति यज्ञार्थे मम पापं व्यपोहतु ।। २५ ।।
अग्रतः संतु मे गावो गावो मे संतु पृष्ठतः ।।
गावो मे हृदयं संतु गवां मध्ये वसाम्यहम् ।। २६ ।।
।। इति गोवर्द्धनपूजा ।। ।।
सद्भावेनैव संतोष्य देवान्सत्पुरुषान्नरान् ।।
इतरेषामन्नपानैर्वाक्यदानेन पंडितान् ।। २७ ।।
वस्त्रैस्तांबूलधूपैश्च पुष्पकर्पूरकुंकुमैः ।।
भक्ष्यैरुच्चावचैर्भोज्यैरंतःपुरनिवासिनः ।।२८।।
ग्राम्यान्वृषभदानैश्च सामंतान्नृपतिर्धनैः ।।
पदातिजनसंघांश्च ग्रैवेयैः कटकैः शुभैः ।।
स्वनामांकैश्च तान्राजा तोषयेत्सज्जनान्पृथक् ।। २९ ।।
यथार्थं तोषयित्वा तु ततो मल्लान्नरांस्तथा ।।
वृषभान्महिषांश्चैव युध्यमानान्परैः सह ।। 2.4.10.३० ।।
राज्ञस्तथैव योधांश्च पदातीन्समलंकृतान् ।।
मंचाऽऽरूढः स्वयं पश्येन्नटनर्तकचारणान् ।। ३१ ।।
युद्धापयेद्वासयेच्च गोमहिष्यादिकं च यत् ।।
वत्सानाकर्षयेद्गोभिरुक्तिप्रत्युक्तिवादनात् ।। ३२ ।।
ततोऽपराह्नसमये पूर्वस्यां दिशि सुव्रत ।।
मार्गपालीं प्रबध्नाति दुर्गस्तंभेऽथ पादपे ।।३३।।
कुशकाशमयीं दिव्यां लंबकैर्बहुभिः प्रिये ।।
वीक्षयित्वा गजानश्वान्मार्गपाल्यास्तले नयेत् ।। ३४ ।।
गावो वृषांश्च महिषान्महिषीर्घटकोत्कटान् ।।
कृतहोमैर्द्विजेंद्रैस्तु बध्नीयान्मार्गपालिकाम् ।। ३५ ।।
नमस्कारं ततः कुर्यान्मन्त्रेणानेन सुव्रत ।।
मार्गपालि नमस्तुभ्यं सर्वलोकसुखप्रदे ।।
तले तव सुखेनाश्वा गजा गावश्च संतु मे ।। ३६ ।।
मार्गपालीतले पुत्र यांति गावो महावृषाः ।।
राजानो राजपुत्राश्च ब्राह्मणाश्च विशेषतः ।। ३७ ।।
मार्गपाली समुल्लंघ्य नीरुजः सुखिनो हि ते ।।
कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपतेर्बलेः ।। ३८ ।।
पूजां कुर्यात्ततः साक्षाद्भूमौ मंडलके कृते ।।
बलिमालिख्य दैत्येंद्रं वर्णकैः पंचरंगकैः ।। ३९ ।।
सर्वाभरणसंपूर्णं विंध्यावलिसमन्वितम् ।।
कूष्मांडमयजंभोरुमधुदानवसंवृतम् ।। 2.4.10.४० ।।
संपूर्णं कृष्टवदनं किरीटोत्कटकुण्डलम् ।।
द्विभुजं दैत्यराजानं कारयित्वा स्वके पुनः ।। ४१ ।।
गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत् ।।
मातृभ्रातृजनैः सार्द्धं संतुष्टो बन्धुभिः सह ।। ४२ ।।
कमलैः कुमुदैः पुष्पैः कह्लारै रक्तकोत्पलैः ।।
गन्धपुष्पान्ननैवेद्यैः सक्षीरैर्गुडपायसैः ।। ४३ ।।
मद्यमांससुरालेह्यचोष्यभक्ष्योपहारकैः ।।
मन्त्रेणाऽनेन राजेंद्र समन्त्री सपुरोहितः ।।
पूजां करिष्यते यो वै सौख्यं स्यात्तस्य वत्सरम् ।। ४४ ।।
बलिराज नमतुभ्यं विरोचनसुत प्रभो ।।
भविष्येंद्र सुराराते पूजेयं प्रतिगृह्यताम् ।। ४५ ।।
एवं पूजाविधानेन रात्रौ जागरणं ततः ।।
कारयेद्वै क्षणं रात्रौ नटनृत्यकथानकैः ।। ४६ ।।
लोकश्चापि गृहस्यांते सपर्यां शुक्लतंदुलैः ।।
संस्थाप्य बलिराजानं फलैः पुष्पैः प्रपूजयेत् ।। ४७ ।।
बलिमुद्दिश्य वै तत्र कार्यं सर्व च सुव्रत ।।
यानि यान्यक्षयाण्याहुर्मुनयस्तत्त्वदर्शिनः ।। ४८ ।।
यदत्र दीयते दानं स्वल्पं वा यदि वा बहु ।।
तदक्षयं भवेत्सर्वं विष्णोः प्रीतिकरं शुभम् ।। ।। ४९ ।।
रात्रौ ये न करिष्यंति तव पूजां बले नराः ।।
तेषां च श्रोत्रियो धर्मः सर्वस्त्वामुपतिष्ठतु ।। 2.4.10.५० ।।
विष्णुना च स्वयं वत्स तुष्टेन बलये पुनः ।।
उपकारकरं दत्तमसुराणां महोत्सवम् ।।५१।।
एकमेवमहोरात्रं वर्षेवर्षे च कार्तिके ।।
दत्तं दानवराजस्य आदर्शमिव भूतले ।।५२।।
यः करोति नृपो राज्ये तस्य व्याधिभयं कुतः ।।
सुभिक्षं क्षेममारोग्यं तस्य संपदनुत्तमा ।। ५३ ।।
नीरुजश्च जनाः सर्वे सर्वोपद्रववर्जिताः ।। ।। ५४ ।।
कौमुदी क्रियते यस्माद्भावं कर्तुं महीतले ।।
यो यादृशेन भावेन तिष्ठत्यस्यां च सुव्रत ।।
हर्षदुःखादिभावेन तस्य वर्षं प्रयाति हि ।। ।।५५।।
रुदिते रोदितं वर्षं प्रहृष्टे तु प्रहर्षितम् ।।
भुक्तौ भोग्यं भवेद्वर्षं स्वस्थे स्वस्थं भविष्यति ।। ५६ ।।
वैष्णवी दानवी चेयं तिथिः प्रोक्ता च कार्तिके ।। ५७ ।।
दीपोत्सवं जनितसर्वजनप्रमोदं कुर्वंति ये शुभतया वलिराजपूजाम् ।।
दानोपभोगसुखबुद्धिमतां कुलानां हर्षं प्रयाति सकलं प्रमुदा च वर्षम् ।।५८।।
बलिपूजां विधायैवं पश्चाद्गोक्रीडनं चरेत् ।। ५९ ।।
गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः ।।
सोमो राजा पशून्हंति सुरभीपूजकांस्तथा ।। 2.4.10.६० ।।
प्रतिपद्दर्शसंयोगे क्रीडनं तु गवां मतम् ।।
परविद्धासु यः कुर्यात्पुत्रदारधनक्षयः ।। ६१ ।।
अलंकार्यास्तदा गावो गोग्रासादिभिरर्चिताः ।।
गीतवादित्रनिर्घोषैर्नयेन्नगरबाह्यतः ।।
आनीय च ततः पश्चात्कुर्यान्नीराजनाविधिम् ।। ६२ ।।
अथ चेत्प्रतिपत्स्वल्पा नारी नीराजनं चरेत् ।।
द्वितीयायां ततः कुर्यात्सायं मंगलमालिकाः ।। ६३ ।।
एवं नीराजनं कृत्वा सर्वपापैः प्रमुच्यते ।।
प्रतिपत्पूर्वविद्धैव यष्टिकाकर्षणे भवेत् ।। ६४ ।।
कुशकाशमयीं कुर्याद्यष्टिकां सुदृढां नवाम् ।।
देवद्वारे नृपद्वारेऽथवाऽऽनेया चतुष्पथे ।। ६५ ।।
तामेकतो राजपुत्रा हीनवर्णास्तथैकतः ।।
गृहीत्वा कर्षयेयुस्ते यथासारं मुहुर्मुहुः ।। ६६ ।।
समसंख्या द्वयोः कार्या सर्वेऽपि बलवत्तराः ।।
जयोऽत्र हीनजातीनां जयो राज्ञस्तु वत्सरम् ।। ६७ ।।
उभयोः पृष्ठतः कार्या रेखा तत्कर्षकोपरि ।।
रेखांते यो नयेत्तस्य जयो भवति नाऽन्यथा ।। ६८ ।।
जयचिह्नमिदं राजा निदधीत प्रयत्नतः ।। ६९ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकशुक्लप्रतिपन्माहात्म्यवर्णनंनाम दशमोऽध्यायः ।। १० ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 11
।। नारद उवाच ।। ।।
भगवन्प्रष्टुमिच्छामि त्वामहं विनयान्वितः ।।
तद्व्रतं ब्रूहि मे मर्त्यो मृत्युं येन न पश्यति ।। १ ।।
।। ब्रह्मोवाच ।। ।।
यदि पृच्छसि विप्रेन्द्र व्रतानामुत्तमं व्रतम् ।।
व्रतं यमद्वितीयाख्यं शृणु त्वं मृत्युनाशनम् ।। २ ।।
कार्तिके मासि शुद्धायां द्वितीयायां मुनीश्वर ।।
कर्तव्यं तद्विधानेन सर्वमृत्युनिवारणम् ।। ३ ।।
ब्राह्मे मुहूर्ते चोप्थाय द्वितीयायां मुनीश्वर ।।
मनसा चिंतयेदात्महितं नैवाऽहितं स्मरेत् ।। ४ ।।
प्रातःस्नानं ततः कुर्याद्दन्तधावनपूर्वकम् ।। ततः
शुक्लांबरधरः शुक्लमाल्यानुलेपनः ।। ५।।
कृतनित्यक्रियो हृष्टः कुण्डलांगदभूषितः ।।
औदुम्बर तरुं गत्वा कृत्वा मण्डलमुत्तमम् ।। ६ ।।
पद्ममष्टदलं कृत्वा तस्मिन्नौदुम्बरे शुभे।। ।।
विधिं विष्णुं च रुद्रं च वरदां च सरस्वतीम् ।। ७ ।।
वीणापुस्तकसंयुक्तां पूजयेत्स्वस्थमानसः ।।
चन्दनागरुकस्तूरीकुंकुमैर्द्विजसत्तम ।। ८ ।।
पुष्पैर्धूपैश्च नैवेद्यैर्नारिकेलफलादिभिः ।।
ततो मृत्युविनाशाथ सालंकारां पयस्विनीम् ।। ९ ।।
विप्राय वेदविदुषे गां दद्याच्च सवत्सकाम् ।।
अपमृत्युविनाशार्थं संसारार्णवतारकाम् ।। 2.4.11.१० ।।
हे विप्र ते त्विमां सौम्यां धेनुं संप्रददाम्यहम् ।।
इति मंत्रेण गां दद्याद्विप्राय ब्रह्मवादिने ।। ११ ।।
तदलाभे तु विप्राय भक्त्या दद्यादुपानहौ ।।
ततः पूजां समाप्याथ भक्तिमान्पुरुषोत्तमे ।। १२ ।।
ज्ञातिश्रेष्ठान्वयोवृद्धान्सम्यग्भक्त्याऽभिवादयेत् ।।
नानाविधैः फलै रम्यैस्तर्प्पयेत्स्वजनानपि ।।१३।।
ततः सोदरसंपन्ना भगिनी या भवेन्मुने ।।
तस्या गृहं समागत्य सम्यग्भक्त्याऽभिवादयेत् ।। १४ ।।
भगिनि सुभगे भद्रे त्वदंघ्रिसरसीरुहम् ।।
श्रेयसेऽथ नमस्कर्तुमागतोऽस्मि तवालयम् ।। १९ ।।
इत्युक्त्वा भगिनीं तां तु विष्णुबुद्ध्याऽभिवादयेत् ।।
तदा तु भगिनी श्रुत्वा भ्रातुर्वचनमुत्तमम् ।। १६ ।।
भगिन्या भ्रातरं वाक्यं वक्तव्यं प्रति नारद ।।
अद्य भ्रातरहं जाता त्वत्तो धन्याऽस्मि मंगला ।। १७ ।।
भोक्तव्यं तेऽद्य मद्गेहे स्वायुषे कुलदीपक ।।
कार्तिके शुक्लपक्षस्य द्वितीयायां सहोदर ।। १८ ।।
यमो यमुनया पूर्वं भोजितः स्वगृहेर्चितः ।।
अस्मिन्दिने यमेनाऽपि नारकीयाश्च मोचिताः ।।
अपि बद्धाः कर्मपाशैः स्वेच्छया पर्यटंति ते ।। १९ ।।
स्वसुर्नरो वेश्मनि यो न भुंक्ते यमद्वितीयादिनमत्र लब्ध्वा ।।
तं पापिनं प्राप्य वयं सुहृष्टाः प्रभक्षयामोऽद्य च भक्ष्यहीनाः।। 2.4.11.२० ।।
इति पापा रटंतीह ब्रह्महत्यादयस्तथा ।।
तस्माद्भ्रातर्मद्गृहे तु भोजनं कुरु कार्तिके ।। २१ ।।
शुक्लायां तु द्वितीयायां विश्रुतायां जगत्त्रये ।।
अस्यां निजगृहे पुत्र भुज्यते न बुधैरपि ।। २२ ।।
इत्युक्तः स तथेत्युक्ता भगिनीं पूजयेद्व्रती ।।
प्रहर्षास्तुमहाभाग वस्त्रालंकारभूषणैः ।। २३ ।।
अग्रजामभिवंद्याऽथ आशिषं च प्रगृह्य च ।।
सर्वा भगिन्यः संतोष्या वस्त्रालंकारदानतः ।। २४ ।।
अभावे स्वस्य तु स्वसुः पितृव्याः स्वपितुः स्वसा ।।
तस्या गृहं समागत्य कुर्याद्भोजनमादरात् ।। २५ ।।
एवं यः कुरुते पुत्र द्वितीयां यमनामिकाम् ।।
अपमृत्युविनिर्मुक्तः पुत्रपौत्रादिभिर्वृतः ।। २६ ।।
इह भुक्त्वा तु विपुलान्भोगानन्यान्यथेप्सितान् ।।
अंते मोक्षमवाप्नोति नान्यथा मद्वचो भवेत् ।। २७ ।।
व्रतान्येतानि सर्वाणि दानानि विविधानि च ।।
गृहस्थस्यैव युज्यंते तस्माद्गार्हस्थ्यमाश्रयेत् ।। २८ ।।
कथां यमद्वितीयाया व्रतस्थः शृणुयान्नरः ।।
तस्य सर्वाणि पापानि नश्यंतीत्याह माधवः ।। २९ ।।
।। सूत उवाच ।। ।।
कार्तिके च द्वितीयायां पूर्वाह्णे यममर्चयेत् ।।
भानुजायां नरः स्नात्वा यमलोकं न पश्यति ।। ।। 2.4.11.३० ।।
कार्तिके शुक्लपक्षे तु द्वितीयायां तु शौनक ।।
यमो यमुनया पूर्वं भोजितः स्वगृहेऽर्चितः ।। ३१ ।।
द्वितीयायां महोत्सर्गो नारकीयाश्च तर्पिताः ।।
पापेभ्यो विप्रयुक्तास्ते मुक्ताः सर्वे निबंधनात् ।। ३२ ।।
अत्राऽऽशिताश्च संतुष्टाः स्थिताः सर्वे यदृच्छया ।।
तेषां महोत्सवो वृत्तो यमराष्ट्रसुखावहः ।। ३३।।
अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता ।।
तस्मान्निजगृहे विप्र न भोक्तव्यं ततो बुधैः ।। ३४ ।।
स्नेहेन भगिनीहस्ताद्भोक्तव्यं बलवर्धनम् ।।
ऊर्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः ।। ३९ ।।
महिषासनमारूढो दंडमुद्गरभृत्प्रभुः ।।
वेष्टितः किंकरैर्हृष्टैस्तस्मै याम्यात्मने नमः ।। ३६ ।।
यैर्भगिन्यः सुवासिन्यो वस्त्रदानादितोषिताः ।।
न तेषां वत्सरं यावत्कलहो न रिपोर्भयम् ।। ३७ ।।
धन्यं यशस्यमायुष्यं धर्मकामार्थसाधनम्।।
व्याख्यातं सकलं पुत्र सरहस्यं मयाऽनघ ।। ३८ ।।
यस्यां तिथौ यमुनया यमराजदेवः संभोजितः प्रतितिथौ स्वसृसौहृदेन ।।
तस्मात्स्वसुः करतलादिह यो भुनक्ति प्राप्नोति वित्तशुभसंपदमुत्तमां सः ।। ३९ ।।
।। सूत उवाच ।। ।।
विशेषश्चात्र संप्रोक्तो वालखिल्यैर्महर्षिभिः ।।
तदहं संप्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः ।। 2.4.11.४० ।।
।। वालखिल्या ऊचुः ।। ।।
कार्तिकस्य सिते पक्षे द्वितीया यमसंज्ञिता ।।
तत्राऽपराह्ने कर्तव्यं सर्वथैव यमार्चनम् ।। ४१ ।।
प्रत्यहं यमुनाऽऽगत्य यमं संप्रार्थयत्पुरा ।।
भ्रातर्मम गृहे याहि भोजनार्थं गणावृतः ।। ४२ ।।
अद्यश्वो वा परश्वो वा प्रत्यहं वदते यमः ।।
कार्यव्याकुलचित्तानामवकाशो न जायते ।। ४३ ।।
तदैकदा यमुनया बलात्कारान्निमंत्रितः ।।
स गतः कार्तिके मासि द्वितीयायां मुनीश्वराः ।। ४४ ।।
नारकीयजनान्मुक्त्वा गणैः सह रवेः सुतः ।।
कृताऽऽतिथ्यो यमुनया नानापाकाः कृताः खग ।। ४५ ।।
कृताभ्यंगो यमुनया तैलैर्गंधमनोहरैः ।।
उद्वर्तनं लापयित्वा स्नापितः सूर्यनंदनः ।। ४६ ।।
ततोऽलंकारकं दत्तं नानावस्त्राणि चंदनम् ।।
माल्यानि च प्रदत्तानि मंचोपरि उपाविशत् ।। ४७ ।।
पक्वान्नानि विचित्राणि कृत्वा सा स्वर्णभाजने ।।
यमायाभोजयद्देवी यमुना प्रीतमानसा ।।४८।।
भुक्त्वा यमोऽपि भगिनीमलंकारैः समर्चयत् ।।
नानावस्त्रैस्ततः प्राह वरं वरय भामिनि ।।
इति तद्वचनं श्रुत्वा यमुना वाक्यमब्रवीत् ।। ४९ ।।
।।यमुनोवाच ।। ।।
प्रतिवर्षं समागच्छ भोजनार्थं तु मद्गृहे ।। 2.4.11.५० ।।
अद्य सर्वे मोचनीयाः पापिनो नरकाद्यम ।।
येऽद्यैव भगिनीहस्तात्करिष्यंति च भोजनम् ।।
तेषां सौख्यं प्रदेहि त्वमेतदेव वृणोम्यहम् ।। ५१ ।।
।। यम उवाच ।। ।।
यमुनायां तु यः स्नात्वा संतर्प्य पितृदेवताः ।। ५२ ।।
भुंक्ते च भगिनीगेहे भगिनीं पूजयेदपि ।।
कदाचिदपि मद्वारं न स पश्यति भानुजे ।। ५३ ।।
वीरेशैशानदिग्भागे यमतीर्थं प्रकीर्तितम् ।।
तत्र स्नात्वा च विधिवत्संतर्प्य पितृदेवताः ।। ५४ ।।
पठेदेतानि नामानि आमध्याह्नं नरोत्तमः ।।
सूर्यस्याभिमुखो मौनी हृतचित्तः स्थिरासनः ।। ५५ ।।
यमो निहंता पितृधर्मराजो वैवस्वतो दंडधरश्च कालः ।।
भूताधिपो दत्तकृतानुसारी कृतांतमेतद्दशभिर्जपंति ।।५६।।
ततो यमेश्वरं पूज्य भगिनीगृहमाव्रजेत् ।।
मंत्रेणाऽनेन च तया भोजितः पूर्वमादरात् ।।५७।।
भ्रातस्तवानुजाताऽहं भुंक्ष्व भक्तमिदं शुभम् ।।
प्रीतये यमराजस्य यमुनाया विशेषतः ।। ५८ ।।
ततः संतोष्य भगिनीं वस्त्रालंकरणादिभिः ।।
स्वप्नेऽपि यमलोकस्य भविष्यति न दर्शनम्।। ५९।।
नृपैः कारागृहे ये च स्थापिता मम वासरे ।।
अवश्यं ते प्रेषणीया भोजनार्थं स्वसुर्गृहे ।। 2.4.11.६० ।।
विमोक्तव्या मया पापा नरकेभ्योऽद्य वासरे ।।
येऽद्य बंदी करिष्यंति ते ताड्या मम सर्वथा ।। ६१ ।।
कनीयसी स्वसा नास्ति तदा ज्येष्ठागृहं व्रजेत्।।
तदभावे सपत्यायाः पितृव्यजागृहे ततः ।। ६२।।
तदभावे मातृष्वसुर्मातुलस्याऽऽत्मजा तथा ।।
सापत्नगोत्रसंबंधैः कल्पयेदथवा क्रमम्।। ६३ ।।
सर्वाऽभावे माननीया भगिनी काचिदेव हि ।।
गोनद्याद्यथवा तस्या अभावे सति कारयेत् ।। ६४ ।।
तदभावेप्यरण्यानीं कल्पयित्वा सहोदराम् ।।
अस्यां निजगृहे देवि न भोक्तव्यं कदाचन ।। ६५ ।।
ये भुंजते दुराचारा नरके ते पतंति च ।।
एवमुक्त्वा धर्मराजो ययौ संयमिनीं ततः ।। ६६ ।।
तस्मादृषिवराः सर्वे कार्तिकव्रतकारिणः ।।
भुंजते भगिनीहस्तात्सत्यं सत्यं न संशयः ।। ६७ ।।
यमद्वितीयां यः प्राप्य भगिनीगृहभोजनम् ।।
न कुर्याद्वर्षजं पुण्यं नश्यतीति रवेः श्रुतिः ।। ६८ ।।
या तु भोजयते नारी भ्रातरं भ्रातृके तिथौ ।।
अर्चयेच्चाऽपि तांबूलैर्न सा वैधव्यमाप्नुयात् ।। ६९ ।।
भ्रातुरायुःक्षयो नूनं न भवेत्तत्र कर्हिचित् ।।
अपराह्नव्यापिनी सा द्वितीया भ्रातृभोजने ।। 2.4.11.७० ।।
अज्ञानाद्यदि वा मोहान्न भुक्तं भगिनीगृहे ।।
प्रवासिना ह्यभावाद्वा ज्वरितेनाऽथ बंदिना ।। ।। ७१ ।।
एतदाख्यानकं श्रुत्वा भोजनस्य फलं भवेत् ।।
कार्तिके तु विशेषेण धात्रीछायां समाश्रितः ।।७२।।
भोजनं कुरुते यस्तु स वैकुंठमवाप्नुयात् ।। ७३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये यमद्वितीयामाहात्म्यवर्णनं नामैकादशोऽध्यायः ।। ११ ।। छ ।।
टीका
अथ यमद्वितीयाविधानमाह-यदीति ।
यमद्वितीयाख्यायाः प्रयोजनं वक्तुमन्यासामप्याह पाद्मे-
'स्कंदैतास्तिथयो नूनं द्वितीयाद्याश्च विश्रुताः ।।
मासैश्चतुर्भिश्च ततः प्रावृट्काले सुखावहाः ।।
प्रथमा श्रावणे मासि तथा भाद्रपदेऽपरा ।।
तृतीयाऽश्वयुजे मासि चतुर्थी कार्तिके भवेत् ।।
कलुषा श्रावणे मासि तथा भाद्रपदेऽमला ।।
आश्विने प्रेतसंचारा कार्तिके याम्यका मता ।।
पुरा वृत्रवधे वृत्ते प्राप्तराज्ये पुरंदरे ।।
ब्रह्महत्यापनोदार्थमश्वमेधः प्रकीर्तितः ।।
क्रोधादिंद्रेण वज्रेण ब्रह्महत्या निषूदिता ।।
षड्विधा सा क्षितौ क्षिप्ता वृक्षतोयमहीतले ।।
नार्या भ्रूणहने वह्नौ संविभज्य यथाक्रमम् ।।
तत्पापश्रवणात्पूर्वं द्वितीयाया दिनेऽनघ ।।
नारीवृक्षनदीभूमिवह्निभूणहनस्तथा ।।
कलुषीभवनं जाता ह्यतोऽर्थ कलुषा स्मृता ।।
मधुकैटभयो रक्ते पुरा मग्ना तु मेदिनी ।।
अष्टांऽगुला पवित्रा सा नारीणां तु रजो मलम् ।।
नद्यः प्रावृण्मलाः सर्वा वह्नेरूर्ध्वं मषी मलः ।।
निर्यासमलिनो वृक्षाः संगाद्भ्रूणहनो मलाः ।।
कलुषाणि चरंत्यस्यां तेनैषा कलुषा मता ।।
देवर्षिपितृधर्माणां निंदका नास्तिकाः शठाः ।।
तेषां सा वाङ्मलात्पूता द्वितीया तेन निर्मला ।।
अनध्यायेषु शास्त्राणि पाठयंति पठंति च ।।
सांख्यकास्तार्किकाः श्रौतास्तेषां शब्दाऽपशब्दजात् ।।
मलात्पूता द्वितीयायां ततोऽर्थे निर्मला च सा ।।
कृष्णस्य जन्मना वत्स त्रैलोक्यं पावितं भवेत् ।।
नभस्येतेन निर्दिष्टा निर्मला सा तिथिर्बुधैः ।।
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।।
पितॄन्पितामहान्प्रेतसंचरात्प्रेतसंचरा ।।
प्रेतास्तु पितरः प्रोक्तास्तेषां तस्यां तु संचरः ।।
पुत्रपौत्रैस्तु दौहित्रैः स्वधामंत्रैस्तु पूजिताः ।।
श्राद्धदानमखैस्तृप्ता यांत्यतः प्रेतसंचरा ।।
महालये तु प्रेतानां संचारो भुवि दृश्यते ।।
तेनैषा प्रेतसंचारा कीर्तिता शिखिवाहन ।।
यमस्य क्रियते पूजा यतोऽस्यां पावके नरैः ।।
तेनैषा याम्यका प्रोक्ता सत्यंसत्यं मयोदितम् ।। इति ।
सनत्कुमारसंहितायाम्-
अस्यां निजगृहे देवि न भोक्तव्यं कदाचन ।।
ये भुंजते दुराचारा नरके ते पतंति च ।।
श्रावणे तु पितृव्यस्य कन्याहस्तेन भोजनम् ।।
मातुलस्य सुताहस्ताद्भोक्तव्यं भाद्रमासके ।।
पितुर्भ्रातुः स्वसुः कन्ये आश्विने तु तयोः क्रमात् ।।
अवश्यं कार्तिके मासि भोक्तव्यं भगिनीकरात् ।।।७ इति ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 12
।। शौनक उवाच ।। ।।
कार्तिकस्य च माहात्म्यं महत्पुण्यफलप्रदम् ।।
कदा धात्री समुत्पन्ना कथं सा ख्यातिमागता ।। १ ।।
कस्मादियं पवित्रा च कस्मात्पापप्रणाशिनी ।।
आमर्दकी कृता केन कथयस्वात्र विस्तरात् ।। २ ।।
।। सूत उवाच ।। ।।
कथयामि द्विजश्रेष्ठ यथा चेयं हि पुण्यदा ।।
ऊर्जशुक्लचतुर्दश्यां धात्रीपूजां समाचरेत् ।। ३ ।।
आमर्दकीमहावृक्षः सर्वपापप्रणाशनः ।।
वैकुण्ठाख्यचतुर्दश्यां धात्रीछायां गतो नरः ।। ४ ।।
पूजयेत्तत्र देवेशं राधया सहितं हरिम् ।।
प्रदक्षिणां ततः कुर्याच्छतमष्टोत्तरं तथा ।। ५ ।।
सुवर्णरजतैर्वापि फलैरामलकैस्तथा ।।
शतमष्टोत्तरं कुर्यादेकैकेन प्रदक्षिणाम् ।। ६ ।।
साष्टांगं प्रणतो भूत्वा प्रार्थयेत्परमेश्वरम् ।।
धात्रीछायां समाश्रित्य शृणुयाच्च कथामिमाम् ।। ७ ।।
ब्राह्मणान्भोजयेत्पश्चाद्यथाशक्त्या च दक्षिणाम् ।।
ब्राह्मणेषु च तुष्टेषु तुष्टो मोक्षप्रदो हरिः ।। ।।
अत्र ते कथयिष्यामि कथां पुण्यफलप्रदाम् ।।
आमर्दकीफलं वक्तुं ब्रह्मा चाऽपि न पार्यते ।। ९ ।।
एकार्णवे पुरा जाते नष्टे स्थावरजंगमे ।।
नष्टे देवाऽसुरगणे प्रणष्टोरगराक्षसे ।। 2.4.12.१० ।।
तत्र देवाधिदेवेशः परमात्मा सनातनः ।।
जजाप ब्रह्म परममात्मनः परमाव्ययम् ।। ११ ।।
ततोऽस्य ब्रह्म जपतो निरगाच्छ्वसितं पुरः ।।
तद्दर्शनाऽनुरागेण नेत्राभ्यामगमज्जलम् ।। १२ ।।
प्रेमाश्रुभरनिर्भिन्नो भूमौ बिंदुः पपात सः ।।
तस्माद्बिंदो समुत्पन्नः स्वयं धात्री नगो महान् ।। १३ ।।
शाखाप्रशाखाबहुलः फलभारेण पीडितः ।।
सर्वेषामेव वृक्षाणामादिरोहः प्रकीर्तितः ।। १४ ।।
ब्रह्मा तमसृजत्पूर्वं तत्पश्चाच्चाऽसृजत्प्रजाः ।।
देवदानवगन्धर्वयक्षराक्षसपन्नगान् ।। १५ ।।
असृजद्भगवान्देवो मानुषांश्च तथामलान् ।।
आजग्मुस्तत्र देवास्ते यत्र धात्री हरिप्रिया ।। १६ ।।
तां दृष्ट्वा ते महाभागाः परमं विस्मयं गताः ।।
न जानीम इमं वृक्षं चिंतयन्तो मुहुर्मुहुः ।। १७ ।।
एवं चिंतयतां तेषां वागुवाचाऽशरीरिणी ।।
आमर्दकी नगो ह्येष प्रवरो वैष्णवो यतः ।। १८ ।।
अस्य वै स्मरणादेव लभेद्गोदानजं फलम् ।।
दर्शनाद्द्विगुणं पुण्यं त्रिगुणं भक्षणात्तथा ।। १९ ।।
तस्मात्सर्वप्रयत्नेन सेव्या आमर्दकी सदा ।।
सर्वपापहरा प्रोक्ता वैष्णवी पापनाशिनी ।। 2.4.12.२० ।।
तस्या मूले स्थितो विष्णुस्तदूर्ध्वं च पितामहः ।।
स्कन्धे च भगवान्रुद्रः संस्थितः परमेश्वरः ।। २१ ।।
शाखासु सवितारश्च प्रशाखासु च देवताः ।।
पर्णेषु देवताः संति पुष्पेषु मरुतस्तथा ।। २२ ।।
प्रजानां पतयः सर्वे फलेष्वेवं व्यवस्थिताः ।।
सर्वदेवमयी ह्येषा धात्री वै कथिता मया ।। २३ ।।
अतः सा पूजनीया च सर्वकामार्थसिद्धये ।।
एकदा नारदो योगी ब्रह्मणः पुरतः स्थितः ।।
नमस्कृत्वा जगन्नाथं पप्रच्छातीव विस्मितः ।। २४ ।।
।। श्रीनारद उवाच ।। ।।
यथा प्रियं सुतुलसीकाननं सर्वदा हरेः ।।
तथा धात्रीवनं मासे कार्तिके श्रीहरिप्रियम् ।। २५ ।।
।। ब्रह्मोवाच ।। ।।
धात्रीवने हरेः पूजा धात्री छायासु भोजनम् ।।
कार्तिके मासि यः कुर्यात्तस्य पापं विनश्यति ।। २६ ।।
तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके ।।
नित्यं धात्रीं समाश्रित्य तिष्ठंत्यर्के तुलास्थिते ।। २७ ।।
यत्किंचित्कुरुते पुण्यं धात्रीछायासु मानवः ।।
तत्कोटिगुणितं भूयान्नाऽत्र कार्या विचारणा ।। २८ ।।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।। ।। २९ ।।
अयोध्यानगरे कश्चिद्वैश्यश्चासीद्विजोत्तम ।।
पुत्रदारविहीनश्च दैवाद्दारिद्र्यपीडितः ।। 2.4.12.३० ।।
भिक्षया चोदराग्निं स शमयामास नारद ।।
कदाचिद्वणिजो वैश्यो ययाचे क्षुत्प्रपीडितः ।। ३१ ।।
भिक्षाप्तचणकान्गृह्य धात्रीछायामगात्किल ।।
तत्र तान्भक्षयामास कार्तिके मासि नारद ।। ३२ ।।
केचिदुर्वरितास्तेपु चणकास्तत्र नारद ।।
वैश्येन तेन दत्ता हि क्षुत्क्षामाय द्विजातये ।। ३३ ।।
तेन पुण्यप्रभावेन राजाऽऽसीद्धनिकः क्षितौ ।।
तस्माद्दानं प्रकर्तव्यं कार्तिके मासि सर्वदा ।। ३४ ।।
धात्रीवने मुनिश्रेष्ठ सर्वकामार्थसिद्धये ।।
धात्रीछायां समाश्रित्य कार्तिके च हरेः कथाम् ।।
यः शृणोति स पापेभ्यो मुच्यते द्विजसूनुवत् ।। ३५ ।। ।।
।। नारद उवाच ।। ।।
कोऽभूद्द्विजसुतो ब्रह्मन्किं पापं कृतवान्पुरा ।।
तस्य जाता कथं मुक्तिरेतद्विस्तरतो वद ।। ३६ ।।
।। ब्रह्मोवाच ।। ।।
पुरा द्विजवरश्चासीत्कावेर्या उत्तरे तटे ।। ३७ ।।
देवशर्मेति विख्यातो वेदवेदांगपारगः ।।
तस्य पुत्रो दुराचारस्तमाह च पिता हितम् ।। ३८ ।।
इदानीं कार्तिको मासो वर्तते हरिवल्लभः ।।
तत्र स्नानं च दानं च व्रतानि नियमान्कुरु ।। ३९ ।।
तुलसीपुष्पसहितां कुरुपूजां हरेः सुत ।।
दीपदानं च विविधं नमस्कारं प्रदक्षिणाम् ।। 2.4.12.४० ।।
एवं पितुर्वचः श्रुत्वा पुत्रः क्रोधसमन्वितः।।
पितरं प्राह दुष्टात्मा चलदोष्ठो विनिंदयन् ।। ४१ ।।
।। पुत्र उवाच ।। ।।
न करिष्याम्यहं तात कार्तिके पुण्यसंग्रहम् ।।
इति पुत्रवचः श्रुत्वा सक्रोधः प्राह तं सुतम् ।। ४२ ।।
मूषको भव दुर्बुद्धे वने वृक्षस्य कोटरे ।।
इति शापभयाद्भीतो नत्वा पितरमब्रवीत् ।। ४३ ।।
दुर्योनेर्मम मुक्तिः स्यात्कथं तद्वद मे गुरो ।।
इति प्रसादितो विप्रः प्राह निष्कृतिकारणम् ।। ४४ ।।
यदोर्ज्जव्रतजं पुण्यं शृणोषि हरिवल्लभम् ।।
तदा ते भविता मुक्तिस्तत्कथाश्रवणात्सुत ।। ४५ ।।
स पित्रा चैवमुक्तस्तु तत्क्षणान्मूषकोऽभवत् ।।
बहुवर्षसहस्राणि गह्वरे विपिने वसन् ।। ४६ ।।
एकदा कार्तिके मासि विश्वामित्रः सशिष्यकः ।।
स्नात्वा नद्यां हरिं चार्च्य धात्रीछायां समाश्रितः ।। ४७ ।।
कथयामास माहात्म्यं शिष्येभ्यश्चोर्ज्जसंभवम् ।।
तदा कश्चिद्दुराचारो व्याधोऽगान्मृगयां चरन् ।। ४८ ।।
दृष्ट्वा ऋषिगणान्हंतुं कृतेच्छः प्राणिघातकः ।।
तेषां दर्शनमात्रेण सुबुद्धिरभवत्तदा ।। ४९ ।।
अथोवाच द्विजान्नत्वा भवद्भिः क्रियतेऽत्र किम् ।।
तेनैवमुक्तो विप्रेंद्रो विश्वामित्रस्तमब्रवीत् ।। 2.4.12.५० ।।
।। ।। विश्वामित्र उवाच ।। ।।
सर्वेषामेव मासानां कार्तिकः श्रेष्ठ उच्यते ।।
तस्मिन्यत्क्रियते कर्म वर्धते वटबीजवत् ।। ५१ ।।
कार्तिके मासि यः कुर्यात्स्नानं दानं च पूजनम् ।।
विप्राणां भोजनं चैव तदक्षय्यफलं भवेत् ।। ५२ ।।
व्याधप्रयुक्तमाकर्ण्य धर्मं च ऋषिणा द्विजः ।।
मौषकं देहमुत्सृज्य दिव्यदेहोऽभवत्तदा ।। ५३ ।।
विश्वामित्रं प्रणम्याथ स्ववृत्तांतं निवेद्य च ।।
अनुज्ञातोऽथ ऋषिणा विमानस्थो दिवं ययौ ।। ५४ ।।
विस्मितो गाधिपुत्रस्तु व्याधश्चैव विशेषतः ।।
व्याधोऽप्यूर्जव्रतं कृत्वा जगाम हरिमंदिरम् ।। ५५ ।।
तस्मात्सर्वप्रयत्नेन कार्तिके केशवाऽग्रतः ।।
धात्रीछायां समाश्रित्य कथाश्रवणमाचरेत् ।। ५६ ।।
मूषकोऽपि च दुर्योनेर्मुक्त ऊर्जकथाश्रुतेः ।।
शृणुयाच्छ्रावयेद्यो वा मुक्तिभागी न संशयः ।। ।। ५७ ।।
धात्रीछायां समाश्रित्य वनभोजनमाचरेत् ।।
आदौ कृत्वा तथा स्नानमुदके वनसंस्थिते ।।
कृत्वा कर्माणि नित्यानि माधवं पूजयेत्ततः ।। ५८ ।।
धात्रीछायां समाश्रित्य हरौ भक्तिसमन्वितः ।।
शृणुयाच्च कथां दिव्यां मासमाहात्म्यशंसनीम् ।। ५९ ।।
ततस्तु ब्राह्मणान्भक्त्या भोजयेद्ब्रह्मवित्तमान् ।।
ततो भुंजीत विप्रेंद्र स्वयं हरिमनुस्मरन् ।। 2.4.12.६० ।।
एवंकृते व्रते विप्र कार्तिके हरिवल्लभे ।।
यत्पापं नश्यते पुत्र सावधानमना शृणु ।। ६१ ।।
हरेर्नार्पितभोगाच्च भोजने सूर्यदर्शनात् ।।
रजस्वलावाक्छ्रवणपापाद्भोजनके तथा ।। ६२ ।।
भोजनावसरे चान्यस्पर्शदोषस्तु यद्भवेत् ।।
निषिद्धभोजनात्तस्माद्भोजने चाऽन्नदूषणात् ।। ६३ ।।
शुद्धस्यापि तथा त्यागात्पुण्यकाले हरिप्रिये ।।
एतैर्यत्साधितं पापं तत्सर्वं नश्यति धुवम् ।। ६४ ।।
तस्मात्सर्वप्रयत्नेन धात्र्यां भोजनमाचरेत् ।। ६५ ।।
कार्तिके मासि वै विप्रो धात्रीमालां तु यो वहेत् ।।
तथैव तुलसीमालां तस्य पुण्यमनंतकम् ।। ६६ ।।
धात्रीछायां समाश्रित्य दीपमालार्पणं नरः ।।
करिष्यति विशेषेण तस्य पुण्यमनंतकम् ।। ६७ ।।
राधादामोदरौ पूज्यौ तुलस्यधो विशेषतः ।।
तुलस्यभावे कर्तव्या पूजा धात्रीतले शुभा ।। ६८ ।।
धात्रीछायातले येन सकृद्भुक्तं तु कार्तिके ।।
दंपत्योर्भोजनं दत्तमन्नदोषात्प्रमुच्यते ।। ६९ ।।
संपूर्णे कार्तिके यस्तु संपूज्यामलकीं शुभाम् ।।
राधादामोदरप्रीत्यै भोजयित्वा च दंपती ।।
पश्चात्स्वयं तु भुंजीत न श्रीस्तस्य क्षयं व्रजेत् ।। 2.4.12.७० ।।
यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं मुने ।।
प्रियो भवति देवानां मनुष्याणां च का कथा ।। ७१ ।।
धात्रीफलविलिप्तांगो धात्रीफलसमन्वितः।।
धात्रीफलकृताहारो नरो नारायणो भवेत् ।। ७२ ।।
धात्रीफलानि यो नित्यं वहते करसंपुटे ।।
तस्य नारायणो देवो वरमिष्टं प्रयच्छति ।। ७३ ।।
श्रीकामः सर्वदा स्नानं कुर्यादामलकैर्नरः ।।
तुष्यत्यामलकैर्विष्णुरेकादश्यां विशेषतः ।। ७४ ।।
नवम्यां दर्शे सप्तम्यां संक्रांतौ रविवासरे ।।
चन्द्रसूर्योपरागे च स्नानमामलकैस्त्यजेत् ।। ७५ ।।
धात्रीछायां समाश्रित्य कुर्य्यात्पिंडं त यो नरः ।।
प्रयांति पितरो मुक्तिं प्रसादान्माधवस्य तु ।। ।। ७६ ।।
मूर्ध्नि पाणौ मुखे चैव बाह्वोः कंठे तु यो नरः ।।
धत्ते धात्रीफलं वत्स धात्रीफलविभूषितः ।।७७ ।।
यावल्लुठति कण्ठस्था धात्रीमाला नरस्य हि ।।
तावत्तस्य शरीरे तु प्रीत्या लुंठति केशवः। ७८ ।।
धात्रीफलं च तुलसी मृत्तिका द्वारकोद्भवा ।।
सफलं जीवितं तस्य त्रितयं यस्य वेश्मनि ।। ७९ ।।
यावद्दिनानि वहते धात्रीमालां कलौ नरः ।।
तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत् ।। 2.4.12.८० ।।
मालायुग्मं वहेद्यस्तु धात्रीतुलसिसंभवम् ।।
यो नरः कंठदेशे तु कल्पकोटिं दिवं वसेत् ।। ८१ ।।
धात्रीछायां गतो यस्तु द्वादश्यां पूजयेद्धरिम् ।।
तत्रैव भोजनं यस्तु ब्राह्मणानां च कारयेत् ।। ८२ ।।
स्वयं च तत्र भुंक्ते यः सूपभक्षादिकं तथा ।।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।। ८३ ।।
तुलस्याश्चैव धात्र्याश्च फलैः पत्रैर्हरिं यजेत् ।। ८४ ।।
तुलसी धात्रीयुक्ता हि सिक्ते सति च कार्तिके ।।
विलयं यांति पापानि ब्रह्महत्यादिकानि च ।। ८५ ।।
धर्मदत्तो द्विजः पूर्वं यथा मुक्तिमवाप ह ।। ८६ ।।
।। नारद उवाच ।। ।।
कार्तिके मासि सा सेव्या पूजनीया सदा नरैः ।।
चातुर्मास्ये न सेव्या सा इत्युक्तं भवता पुरा ।।
तस्मात्सर्वमशेषेण कथयस्व ममाग्रतः ।। ८७ ।।
।। ब्रह्मोवाच ।। ।।
कार्तिके मासि विप्रर्षे शुक्ला या दशमी शुभा ।।
तद्दिनाऽऽरभ्य सा सेव्या दैवे पित्र्ये च कर्मणि ।।
दशम्यारभ्य तत्पत्रैः फलकैर्मधुसूदनम् ।। ८८ ।।
पूजयंति नरा ये वै ते वै वैकुण्ठगामिनः ।।
समाप्ते कार्तिकव्रते वनभोजनमाचरेत् ।। ८९ ।।
दशम्यां वाऽथ द्वादश्यां पौर्णमास्यामथाऽपि वा ।।
पंचम्यां वा महाभाग वनभोजनमाचरेत् ।।।। 2.4.12.९० ।।
सर्वोपस्करसंयुक्तो वृद्धबालैश्च संयुतः ।।
वनं प्रवेशयेद्धीमान्धात्रीवृक्षैः सुशोभितम् ।। ९१ ।।
चूतैर्बकैस्तथाऽश्वत्थैः पिचुमंदैः कदंबकैः ।।
न्यग्रोधतिंतिणीवृक्षैः समंतात्परिशोभितम्।। ९२।।
तत्र गत्वा महाप्राज्ञ पुण्याऽहं कारयेत्पुरा।।
वास्तुपीठं तथा पूज्यं धात्रीमूले तु कारयेत् ।। ९३ ।।
वेदिकां चतुरस्रां च हस्तमात्रायतां शुभाम् ।।
तथोपवेदिकां कृत्वा वेदिकाग्रे महामते ।। ९४ ।।
उपवेशाय देवस्य ह्यलं कार्यं तु धातुभिः ।।
वेदिकापश्चिमेभागे कारयेत्कुण्डमंडपम् ।। ९५ ।।
मेखलात्रयसंयुक्तं पिप्पलच्छदसंयुतम् ।।
हस्तमात्रायतं सौम्य एवं कुण्डं तु कारयेत् ।। ९६ ।।
पश्चात्स्नात्वा ततो जप्त्वा देवपूजां समाचरेत् ।।
पश्चादग्निं समाधाय होमं कुर्याद्यथाविधि ।। ९७ ।।
पायसाऽऽज्यगुडसूपपालाशसमिधा तथा ।।
ग्रहाणां वास्तुदेवेभ्यश्चरुं कृत्वा प्रयत्नतः ।। ९८ ।।
धात्री शांतिस्तथा कांतिर्माया प्रकृतिरेव च ।।
विष्णुपत्नी महालक्ष्मी रमा मा कमला तथा ।। ९९ ।।
इंदिरा लोकमाता च कल्याणी कमला तथा ।।
सावित्री च जगद्धात्री गायत्री सुधृतिस्तथा ।। 2.4.12.१०० ।।
अंतज्ञा विश्वरूपा च सुकृपा ह्यब्धिसंभवा ।।
प्रधानदेवताभिस्तु रक्षाहोमं समारभेत् ।।१।।
संसृष्टेति च मंत्रेण ऋषभं मेति मंत्रतः ।।
अपूपं गुडसूपाभ्यां संयुतं जुहुयाद्धविः ।। २ ।।
अष्टोत्तरशतं हुत्वा मूलमंत्रेण पायसम् ।।
ततो ग्रहादि देवांस्तु यथासंख्येन होमयेत् ।। ३ ।।
धात्रीहोमे महाप्राज्ञ रक्षाहोमे तु पायसम् ।।
ततः स्विष्टकृतं हुत्वा बलिदानं समाचरेत् ।। ४ ।।
इंद्रादि लोकपालांश्च रक्षा पूज्या प्रयत्नतः ।।
धात्रीवृक्षस्य सर्वत्र वेदिकासंयुतस्य च ।। ५ ।।
सूपेन गुडमिश्रेण बलिं पश्चान्निवेदयेत् ।।
देवि धात्रि नमस्तुभ्यं गृहाण बलिमुत्तमम्।। ६ ।।
मिश्रितं गुडसूपाभ्यां सर्वमंगलदायिनि ।।
पुत्रान्देहि महाप्राज्ञान्यशो देहि शुभप्रदम् ।। ७ ।।
प्रज्ञां मेधां च सौभाग्यं विष्णुभक्तिं च देहि मे ।।
नीरोगं कुरु मे नित्यं निष्पापं कुरु सर्वदा ।। ८ ।।
वर्चस्कं कुरु मां देवि धनवंतं तथा कुरु ।।
इति तां प्रार्थयेद्देवीं प्रादक्षिण्याद्बलिं न्यसेत् ।। ९ ।।
बलिप्रदानकाले तु ये कुर्वंति प्रदक्षिणम् ।।
ते यांति विष्णुसालोक्यं पितृभिः सार्द्धमेव च ।।2.4.12.११०।।
ततः पूर्णाहुतिं कृत्वा होमशेषं समापयेत् ।। ११ ।।
धात्रीवृक्षस्य मूलस्थं मंदस्मितरमापतिम् ।।
ते यांति विष्णुसायुज्यं ये पश्यंतीह चक्षुषा ।। १२ ।।
वैश्वदेवं ततः कृत्वा पूजयेद्वनदेवताः ।।
गंधाक्षतांस्ततो दत्त्वा विप्रेभ्यः पद्मसंभव ।। १३ ।।
ब्राह्मणान्भोजयेत्पश्चात्स्वयं भुंजीत बंधुभिः ।।
गृहं प्रवेशयेत्पश्चाद्वृद्धान्बालादिकैः सह ।। १४ ।।
ब्रह्मचारी भवेद्रात्रौ क्षितिशायी भवेत्ततः ।।
ग्रामस्थैश्च मिलित्वा च स्वयं वा कारयेद्बुधः ।। १५ ।।
सर्वपापविमुक्त्यर्थं वनभोजनमुत्तमम् ।।
कृत्वैवं सकलं कर्म कृष्णाय च समर्पयेत् ।। १६ ।।
अश्वमेधसहस्रस्य राजसूयशतस्य च ।।
यत्फलं समवाप्नोति तत्फलं वनभोजने ।। १७ ।।
अतो धात्री महाभाग पवित्रा पापनाशनी ।।
धात्री चैव नृणां धात्री धात्रीवत्कुरुते क्रियाम् ।। १८ ।।
ददात्यायुः पयःपानात्स्नानाद्वै धर्मसंचयम् ।।
अलक्ष्मीनाशनं स्नानमात्रैर्निर्वाणमाप्नुयात् ।।
विघ्नानि नैव जायंते धात्रीस्नानेन वै नृणाम् ।। १९ ।।
तस्मात्त्वं कुरु विप्रेंद्र धात्रीस्नानं हि यत्नतः ।।
प्रयास्यसि हरेर्द्धाम देवत्वं प्राप्य नारद ।। 2.4.12.१२० ।।
यत्रयत्र मुनिश्रेष्ठ धात्रीस्नानं समाचरेत् ।।
तीर्थे वाऽपि गृहे वाऽपि तत्रतत्र हरिः स्थितः ।। २१ ।।
धात्रीस्नानेन विप्रर्षे यस्यास्थीनि कलेवरे ।।
प्रक्षाल्यंते मुनिश्रेष्ठ न स गर्भगृहं वसेत् ।। २२ ।।
धात्रीजलेन विप्रेंद्र येषां केशाश्च रंजिताः ।।
ते नराः केशवं यांति नाशयित्वा कलेर्मलम् ।। २३ ।।
धात्रीफलं महापुण्यं स्नानं पुण्यतमं स्मृतम् ।।
पुण्यात्पुण्यतरं वत्स भक्षणे मुनिसत्तम ।। ।। २४ ।।
न गंगा न गया काशी न वेणी न च पुष्करम् ।।
एकैव हि यथा पुण्या धात्री माधववासरे ।। २५ ।।
धात्रीस्नानं हरेर्नाम तथैवैकादशी सुत ।।
गयाश्राद्धं तथा वत्स समानि मुनयो विदुः ।। २६ ।।
संस्पृशन्यस्तु वै धात्रीमहन्यहनि मानवः ।।
मुच्यते पातकैः सर्वैर्मनोवाक्कायसंभवैः ।। २७ ।।
धात्रीफलैरमावास्यासप्तमीनवमीषु च ।।
रविवारे च संक्रांतौ न स्नायान्मुनिसत्तम ।। २८ ।।
यस्मिन्गृहेमुनिवर धात्री तिष्ठति सर्वदा ।।
तस्मिन्गृहे न गच्छंति प्रेतकूष्मांडराक्षसाः ।। २९ ।।
धात्रीफलकृतां मालां कंठस्थां यो वहेन्नहि ।।
स वैष्णवो न विज्ञेयो विष्णोर्भक्तिपरो यदि ।। 2.4.12.१३० ।।
न त्याज्या तुलसीमाला धात्रीमाला विशेषतः ।।
तथा पद्माक्षमालाऽपि धर्मकामार्थमीप्सुभिः ।। ३१ ।।
यावद्दिनानि वहते धात्रीमालां कलौ नरः ।।
तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत् ।। ३२ ।।
सर्वदेवमयी धात्री वासुदेवमनःप्रिया ।।
आरोपणीया सेव्या च पूजनीया सदा नरैः ।। ३३ ।।
एतत्ते सर्वमाख्यातं धात्रीमाहात्म्यमुत्तमम् ।।
श्रोतव्यं च सदा भक्तैश्चतुर्वर्गफलप्रदम् ।। ३४ ।।
धात्रीछायां समाश्रित्य कार्तिकेऽन्नं भुनक्ति यः ।।
अन्नसंसर्गजं पापमावर्षं तस्य नश्यति ।। १३५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धात्रीमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः ।। १२ ।। ।। छ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 13
।। सूत उवाच ।। ।।
श्रियः पतिमथामंत्र्य गते देवर्षिसत्तमे ।।
हर्षोत्फुल्लाऽऽनना सत्या वासुदेवमथाऽब्रवीत् ।। १ ।।
।। सत्यभामोवाच ।। ।।
धन्यास्मि कृतकृत्याऽस्मि सफलं जीवितं मम ।।
दानं व्रतं तपो वाऽपि किं नु पूर्वं कृतं मया ।। २।।
येनाऽहं मर्त्यजा देव तवांगार्द्धहराऽभवम् ।।
भवांतरे च किंशीला काचाऽहं कस्य कन्यका ।।
तवाऽहं वल्लभा जाता तद्वदस्व ममाऽखिलम् ।। ३ ।।
।। श्रीकृष्ण उवाच ।। ।।
शृणुष्वैकमना कांते यथा त्वं पूर्वजन्मनि ।। ४ ।।
पुण्यव्रतं कृतवती तत्सर्वं कथयामि ते ।।
आसीत्कृतयुगस्यांते मायापुर्यां द्विजोत्तमः ।। ५ ।।
आत्रेयो देवशर्मेति वेदवेदांगपारगः ।।
तस्यातिवयसश्चाऽऽसीन्नाम्ना गुणवती सुता ।। ६ ।।
अपुत्रः स स्वशिष्याय चंद्रनाम्ने ददौ सुताम्।।
तमेव पुत्रवन्मेने स च तं पितृवद्वशी ।। ७।।
तौ कदाचिद्वनं यातौ कुशेध्माहरणार्थिनौ ।।
निहतौ रक्षसा तौ च कृतांतसमरूपिणा ।। ८ ।।
स्वस्वपुण्य प्रभावेन विष्णुलोकं गतावुभौ ।।
ततो गुणवती श्रुत्वा रक्षसा निहतावुभौ ।। ९ ।।
पितृभर्तृजदुःखार्ता कारुण्यं पर्यदेवयत् ।।
सा गृहोपस्करा न्सर्वान्विक्रीयाशु च कर्मं तत् ।।2.4.13.१० ।।
तयोश्चक्रे यथाशक्ति पारलौकीं ततः क्रियाम् ।।
तस्मिन्नेव पुरे चक्रे वासं सा मृतजीविनी ।। ११ ।।
व्रतद्वयं तया सम्यगाजन्ममरणात्कृतम् ।।
एकादशीव्रतं सम्यक्सेवनं कार्तिकस्य च ।। १२ ।।
इत्थं गुणवती सम्यक्प्रत्यब्द व्रतिनी ह्यभूत् ।।
कदाचित्सरुजा साऽथ कृशांगी ज्वरपीडिता ।। १३ ।।
स्नातुं गंगां गता कांते कथंचिच्छनकैस्तदा ।।
यावज्जलांतरगता कंपिता शीतपीडिता ।। ।। १४ ।।
तावत्सा विह्वलाऽपश्यद्विमानं यातमंबरात् ।।
अथ सा तद्विमानस्था वैकुण्ठभुवनं ययौ ।। १५ ।।
कार्तिकव्रतपुण्येन मत्सान्निध्यं गताऽभवत् ।।
अथ ब्रह्मादिदेवानां यदा प्रार्थनया भुवम् ।। १६ ।।
आगतोऽहं गणाः सर्वे यातास्तेऽपि मया सह ।।
एते हि यादवाः सर्वे मद्गणा एव भामिनि ।। १७ ।।
पिता ते देवशर्माऽभूत्सत्राजिदभिधो ह्ययम् ।।
यश्चंद्रनामाऽसोऽक्रूरस्त्वं सा गुणवती शुभा ।। १८ ।।
कार्तिकव्रतपुण्येन बहु मत्प्रीतिदायिनी ।।
मद्द्वारि यत्त्वया पूर्वं तुलसीवाटिका कृता ।। १९ ।।
तस्मादयं कल्पवृक्षस्तवांगणगतः शुभे ।।
आजन्ममरणात्पूर्वं यत्कृतं कार्तिकव्रतम् ।। 2.4.13.२० ।।
कदाचिदपि तेन त्वं मद्वियोगं न यास्यसि ।।
।। सत्योवाच ।। ।।
मासानां तु कथं नाम स मासः कार्तिको वरः ।। २१ ।।
प्रियस्ते देवदेवेश कारणं तत्र कथ्यताम् ।।
।। श्रीकृष्ण उवाच ।। ।।
साधु पृष्टं त्वया कांते शृणुष्वैकाग्रमानसा ।। २२ ।।
पृथोर्वैन्यस्य संवादं महर्षेर्नारदस्य च ।।
एवमेव पुरा पृष्टो नारदः पृथुनाब्रवीत् ।। २३ ।।
।। नारद उवाच ।। ।।
शंखनामाऽभवत्पूर्वमसुरः सागरात्मजः ।।
इन्द्रादिलोकपालानामधिकाराञ्जहार ह ।। २४ ।।
सुवर्णाद्रिगुहादुर्गसंस्थितास्त्रिदशादयः ।।
तद्वीक्षयांबभूवुस्ते तदा दैत्यो व्यचारयत् ।। २५ ।।
हृताधिकारास्त्रिदशा मया यद्यपि निर्जिताः ।।
लक्ष्यंते बलयुक्तास्ते करणीयं मयाऽत्र किम् ।। २६ ।।
ज्ञातं तत्तु मया देवा वेदमन्त्रबलान्विताः ।।
तान्हरिष्ये ततः सर्वे बलहीना भवंति वै ।। २७ ।।
इति मत्वा ततो दैत्यो विष्णुमालक्ष्य निद्रितम्।।
सत्यलोकाज्जहाराशु वेदानादिस्वयंभुवः ।। २८ ।।
नीतास्तु तेन ते वेदास्तद्भयात्ते निराक्रमन् ।।
तोयानि विविशुर्यज्ञमंत्रबीजसमन्विताः ।। २९ ।।
तान्मार्गमाणः शंखोऽपि समुद्रांतर्गतो भ्रमन् ।।
न ददर्श तदा दैत्यः क्वचिदेकत्र संस्थितान् ।।
अथ देवैः स्तुतो विष्णुर्बोधितस्तानुवाच ह ।। ।। 2.4.13.३० ।।
।। विष्णुरुवाच ।। ।।
वरदोऽहं सुरगणा गीतवाद्यादिमंगलैः ।। ३१ ।।
ऊर्जस्य शुक्लैकादश्यां भवद्भिः प्रतिबोधितः ।।
अतश्चैषा तिथिर्मान्या साऽतीव प्रीतिदा मम ।। ३२ ।।
वेदाः शंखहृताः सर्वे तिष्ठंत्युदकसंस्थिताः ।।
तानानयाम्यहं देवा हत्वा सागरनंदनम् ।। ३३ ।।
अद्यप्रभृति वेदास्तु मंत्रबीजसमन्विताः ।।
प्रत्यब्दं कार्तिके मासि विश्रमंत्वप्सु सर्वदा ।। ३४ ।।
कालेऽस्मिन्ये प्रकुर्वंति प्रातःस्नानं नरोत्तमाः ।।
ते सर्वे यज्ञाऽवभृथैः सुस्नाताः स्युर्न संशयः ।। ३५ ।।
अद्यप्रभृत्यहमपि भवामि जलमध्यगः ।।
भवन्तोऽपि मया सार्द्धमायांतु समुनीश्वराः ।। ३६ ।।
कातिकव्रतिनां चेंद्र रक्षा कार्या त्वया सदा ।।
इत्युक्त्वा भगवान्विष्णुः शफरीतुल्यरूपधृक् ।।
खात्पपात जले विंध्यवासिनः कस्य पश्यतः ।। ३७ ।।
हत्वा शंखासुरं विष्णुर्बदरीवनमागमत् ।।
तत्राऽऽहूय ऋषीन्सर्वानिदमाज्ञापयत्प्रभुः ।। ३८ ।।
विष्णुरुवाच ।। ।।
जलांतरविशीर्णांस्तान्यूयं वेदान्प्रमार्गथ ।।
आनयध्वं च त्वरिताः सागरस्य जलांतरात् ।।
तावत्प्रयागं तिष्ठामि देवतागणसंयुतः।। ।। ३९ ।।
।। नारद उवाच ।। ।।
ततस्तैस्सर्वमुनिभिस्तपोबलसमन्वितैः ।। 2.4.13.४० ।।
उद्धृताश्च सबीजास्ते वेदा यज्ञसमन्विताः ।।
तेषु यावन्मितं येन लब्धं तावद्धि तस्य तत् ।। ४१ ।।
स स एव ऋषिर्जातस्तत्तत्प्रभृति पार्थिव ।।
अथ सर्वेऽपि संगम्य प्रयागं मुनयो ययुः ।। ४२ ।।
विष्णवे सविधात्रे ते लब्धान्वेदान्न्यवेदयन् ।।
लब्ध्वा वेदान्समग्रांस्तु ब्रह्मा हर्षसमन्वितः ।। ४३ ।।
अयजद्वाजिमेधेन देवर्षिगणसंयुतः ।।
यज्ञांऽते देवताः सर्वे विज्ञप्तिं चक्रुरंजसा ।। ४४ ।।
।। देवा ऊचुः ।। ।।
देवदेव जगन्नाथ विज्ञप्तिं शृणु नः प्रभो ।।
हर्षकालोऽयमस्माकं तस्मात्त्वं वरदो भव ।। ४५ ।।
स्थानेऽस्मिन्द्रुहिणो वेदान्नष्टान्प्राप पुनस्त्वयम् ।।
यज्ञभागान्वयं प्राप्तास्त्वत्प्रसादाद्रमापते ।। ४६ ।।
स्थानमेतद्धि नः श्रेष्ठं पृथिव्यां पुण्यवर्धनम् ।।
भुक्तिमुक्तिप्रदं चाऽस्तु प्रसादाद्भवतः सदा ।। ४७ ।।
कालोऽप्ययं महापुण्यो ब्रह्मघ्नाऽऽदिविशुद्धिकृत्।।
दत्ताऽक्षयकरं चाऽस्तु वरमेवं ददस्व नः ।। ४८ ।।
।। विष्णुरुवाच ।। ।।
ममाप्येतद्वृतं देवा यद्भवद्भिरुदाहृतम् ।।
तथास्तु सुलभं त्वेतद्ब्रह्मक्षेत्रमितिप्रथम् ।। ४९ ।।
सूर्यवंशोद्भवो राजा गंगामत्रानयिष्यति ।।
सा सूर्यकन्यया चात्र कालिंद्या योगमेष्यति ।। 2.4.13.५० ।।
यूयं च सर्वे ब्रह्माद्या निवसंतु मया सह ।।
तीर्थराजेति विख्यातं तीर्थमेतद्भविष्यति ।। ५१ ।।
सर्वपापानि नश्यंति तीर्थराजस्य दर्शनात् ।।
सूर्ये मकरगे प्राप्ते स्नायिनां पापनाशनः ।। ५२ ।।
कालोऽप्येष महापुण्यफलदोऽस्तु सदा नृणाम् ।।
सालोक्यादिफलं स्नानैर्माघे मकरगे रवौ ।। ५३ ।। ।।
।। नारद उवाच ।। ।।
एवं देवान्देवदेवस्तदुक्त्वा तत्रैवांतर्धानमागात्सवेधाः ।।
देवाः सर्वेप्यंशकैस्तेऽप्यतिष्ठंश्चांतर्धानं प्रापुरिंद्रादयस्ते ।।५४।।
कार्तिके तुलसीमूले योऽर्चयेद्धरिमीश्वरम् ।।
भुक्त्वेह निखिलान्भोगानंते विष्णुपुरं व्रजेत् ।। ५५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये सत्यभामापूर्वजन्मवृत्तांतकथनपूर्वक प्रयागतीर्थप्रशंसाप्रसंगवर्णनंनाम त्रयोदशोऽध्यायः ।। १३ ।। ।। छ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 14
।। पृथुरुवाच ।। ।।
यत्त्वया कथितं ब्रह्मन्व्रतमूर्जस्य विस्तरात् ।।
तत्र या तुलसीमूले विष्णोः पूजा त्वयोदिता ।। १ ।।
तेनाऽहं प्रष्टुमिच्छामि माहात्म्यं तुलसीभवम् ।।
कथं साऽतिप्रिया तस्य देवदेवस्य शार्ङ्गिणः ।। २ ।।
कथमेषा समुत्पन्ना कस्मिन्स्थाने च नारद ।।
एवं ब्रूहि समासेन सर्वज्ञोऽसि मतो मम ।। ३ ।।
।। नारद उवाच ।। ।।
शृणु राजन्नवहितो माहात्म्यं तुलसीभवम् ।।
सेतिहासं पुरावृत्तं तत्सर्वं कथयामि ते ।। ४ ।।
पुरा शक्रः शिवं द्रष्टुमगात्कैलासपर्वतम् ।।
सर्वदेवैः परिवृतो ह्यप्सरोगणसेवितः ।। ५ ।।
यावद्गतः शिवगृहं तावत्तत्र स दृष्टवान् ।।
पुरुषं भीमकर्माणं दंष्ट्राऽऽननविभीषणम् ।। ६ ।।
स पृष्टस्तेन कस्त्वं भोः क्व गतो जगदीश्वरः ।।
एवं पुनः पुनः पृष्टः स तदा नोक्तवान्नृप ।। ७ ।।
ततः कुद्धो वज्रपाणिस्तं निर्भर्त्स्य वचोऽब्रवीत् ।।
रे मया पृच्छयमानोऽपि नोत्तरं दत्तवानसि ।। ८ ।।
अतस्त्वां हन्मि वज्रेण कस्ते त्राताऽस्ति दुर्मते ।।
इत्युदीर्य ततो वज्री वज्रेणाऽभ्यहनद्दृढम् ।। ९ ।।
तेनास्य कण्ठो नीलत्वमगाद्वज्रं च भस्मताम् ।।
ततो रुद्रः प्रजज्वाल तेजसा प्रदहन्निव ।। 2.4.14.१० ।।
दृष्ट्वा बृहस्पतिस्तूर्णं कृतांजलिपुटोऽभवत् ।।
इन्द्रं च दंडवद्भूमौ कृत्वा स्तोतुं प्रचक्रमे ।। ११ ।।
।। बृहस्पतिरुवाच ।। ।।
नमो देवाधिपतये त्र्यंबकाय कपर्दिने ।।
त्रिपुरघ्नाय शर्वाय नमोऽधंकनिषूदिने ।। १२ ।।
विरूपायाऽतिरूपाय बहुरूपाय शंभवे ।।
यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने ।। १३ ।।
कालांतकाय कालाय कालभोगिधराय च ।।
नमो ब्रह्मशिरोहंत्रे ब्राह्मणाय नमो नमः ।। १४ ।।
।। नारद उवाच ।। ।।
एवं स्तुतस्तदा शंभुर्धिषणेन जगाद तम् ।।
संहरन्नयनज्वालां त्रिलोकीदहन क्षमाम्।। १५ ।।
वरं वरय भो ब्रह्मन्प्रीतः स्तुत्याऽनया तव ।।
इन्द्रस्य जीवदानेन जीवेति त्वं प्रथां वज्र ।। १६ ।।
।। बृहस्पतिरुवाच ।। ।।
यदि तुष्टोऽसि देव त्वं पाहींद्रं शरणागतम् ।।
अग्निरेष शमं यातु भालनेत्रसमुद्भवः ।। १७ ।।
।। ।। ईश्वर उवाच ।। ।।
पुनः प्रवेशमायाति भालनेत्रे कथं शिखी ।।
एनं त्यक्ष्याम्यहं दूरे यथेंद्रं नैव पीडयेत् ।। १८ ।।
।। नारद उवाच ।। ।।
इत्युक्त्वा तं करे धृत्वा प्राक्षिपल्लवणार्णवे ।।
सोऽपतत्सिंधुगंगायाः सागरस्य च संगमे ।। १९ ।।
तावत्स बालरूपत्वमगात्तत्र रुरोद च ।।
रुदतस्तस्य शब्देन प्राकंपद्धरणी मुहुः ।। 2.4.14.२० ।।
स्वर्गाद्याः सत्यलोकांतास्तत्स्वनाद्बधिरीकृताः ।।
श्रुत्वा ब्रह्मा ययौ तत्र किमेतदिति विस्मितः ।। ।। २१ ।।
तावत्समुद्रस्योत्संगे तं बालं स ददर्श ह ।।
दृष्ट्वा ब्रह्माणमायातं समुद्रोऽपि कृतांजलिः ।। २२ ।।
प्रणम्य शिरसा बालं तस्योत्संगे न्यवेशयत् ।।
भो ब्रह्मन्सिंधुगंगायां जातोऽयं मम पुत्रकः ।।
जातकर्माऽऽदिसंस्कारान्कुरुष्वाऽद्य जगद्गुरो ।। २३ ।।
।। नारद उवाच ।। ।।
इत्थं वदति पाथोधौ स बालः सागरात्मजः ।।२४ ।।
ब्रह्माणमग्रहीत्कूर्चे विधुन्वंस्तं मुहुर्मुहुः ।।
धुन्वतस्तस्य कूर्चे तु नेत्राभ्यामगमज्जलम् ।।
कथंचिन्मुक्तकूर्चोऽथ ब्रह्मा प्रोवाच सागरम् ।। २५ ।।
।। ब्रह्मोवाच ।। ।।
नेत्राभ्यां विधृतं यस्मादनेनैतज्जलं मम ।।
तस्माज्जलंधर इति ख्यातो नाम्ना भविष्यति ।। २६ ।।
अनेनैवैष तरुणः सर्वशस्त्रास्त्रपारगः ।।
अवध्यः सर्वभूतानां विना रुद्रं भविष्यति ।। २७ ।।
यत एष समुद्भूतस्तत्रैवांतं गमिष्यति ।। २८ ।।
।। नारद उवाच ।। ।।
इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत् ।।
आमंत्र्य सरितां नाथं ब्रह्मांतर्धानमागमत् ।। २९ ।।
अथ तद्दर्शनोत्फुल्लनयनः सागरस्तदा ।।
कालनेमिसुतां वृंदां तद्भार्यार्थमयाचत ।। 2.4.14.३० ।।
ते कालनेमिप्रमुखास्ततोऽसुरास्तस्मै सुतां तां प्रददुः प्रहर्षिताः।।
स चाऽपि तां प्राप्य सुहृद्वरां वशां शशास गां शुक्रसहायवान्बली ।। ३१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोत्पत्तिवर्णनंनाम चतुर्दशोऽध्यायः ।। १४ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 15
।। नारद उवाच ।। ।।
ये देवैर्निर्जिताः पूर्वं दैत्याः पातालसंस्थिताः ।।
तेऽपि भूमंडलं याता निर्भयास्तमुपाश्रिताः ।।१।।
कदाचिच्छिन्नशिरसं राहुं दृष्ट्वा स दैत्यराट् ।।
पप्रच्छ भार्गवं तत्र तच्छिरश्छेदकारणम् ।। २ ।।
स शशंस समुद्रस्य मथनं देवकारितम् ।।
रत्नापहरणं चैव दैत्यानां च पराभवम् ।। ३ ।।
स श्रुत्वा क्रोधरक्ताक्षः स्वपितुर्मथनं तदा ।।
दूतं संप्रेषयामास घस्मरं शक्रसन्निधौ ।।४।।
दूतस्त्रिविष्टपं गत्वा सुधर्मां प्राविशद्वराम्।।
जगादाखर्वमौलिस्तु देवेंद्रं वाक्यमद्भुतम् ।। ५ ।।
।। घस्मर उवाच ।। ।।
जलंधरोऽब्धितनयः सर्वदैत्यजनेश्वरः ।।
दूतोऽहंप्रेषितस्तेन स यदाह शृणुष्व तत् ।। ६ ।।
कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा ।।
नीतानि सर्वरत्नानि तानि शीघ्रं प्रयच्छ मे ।। ७ ।।
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः।।
उवाच घस्मरं रौद्रं भयरोषसमन्वितः ।। ८ ।।
।। इंद्र उवाच ।। ।।
शृणु दूत मया पूर्वं मथितः सागरो यथा ।।
अद्रयो मद्भयात्त्रस्ताः स्वकुक्षिस्थाः कृतास्तथा ।।९।।
अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजाः पुरा ।।
तस्माद्यत्तत्प्रजातं तु मयाऽप्यपहृतं किल ।।2.4.15.१०।।
शंखोऽप्येवं पुरा देवानद्विषत्सागरात्मजः ।।
ममाऽनुजेन निहतः प्रविष्टः सागरोदरम् ।। ११ ।।
तद्गच्छ कथयस्वाऽस्य सर्वं मथनकारणम् ।।
।। नारद उवाच ।। ।।
इत्थं विसर्जितो दूतस्तदेंद्रेणाऽगमद्भुवम् ।।१२।।
तदिदं वचनं सर्वं दैत्यायाकथयत्तदा ।।
तन्निशम्य तदा दैत्यो रोषात्प्रस्फुरिताऽधरः।। १३ ।।
दैत्यसेनासमायुक्तो ययौ योद्धुं त्रिविष्टपम् ।।
ततो युद्धे महाञ्जातो देवदानवसंक्षयः ।। १४ ।।
तत्र युद्धे मृतान्दैत्यान्भार्गवस्तूदतिष्ठपत् ।।
विद्यया मृतजीविन्या मंत्रितैस्तोयबिंदुभिः ।। १५ ।।
देवानपि तथा युद्धे तत्राऽजीवयदंगिराः ।।
दिव्यौषधी समानीय द्रोणाद्रेः स पुनःपुनः ।।१६।।
दृष्ट्वा देवांस्तथा युद्धे पुनरेव समुत्थितान् ।।
जलंधरः क्रोधवशो भार्गवं वाक्यमब्रवीत् ।।१७।।
।। जलंधर उवाच ।। ।।
मया युद्धे हता देवा उत्तिष्ठंति कथं पुनः ।।
तव संजीविनीविद्या न वाऽन्यत्रेति विश्रुतम् ।।१८।।
।। शुक्र उवाच ।। ।।
दिव्यौषधीः समानीय द्रोणाद्रेरंगिराः सुरान्।।
जीवयत्येव तच्छीघ्रं द्रोणाद्रिं त्वमपाहर ।। १९ ।।
।। नारद उवाच ।। ।।
इत्युक्तः स तु दैत्येंद्रो नीत्वा द्रोणाचलं तदा ।।
प्राक्षिपत्सागरे तूर्णं पुनरागान्महाहवम् ।। 2.4.15.२० ।।
अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः ।।
तावत्तत्र गिरींद्रं तु न ददर्श सुरार्चितः ।। २१ ।।
ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः ।।
आगत्य दूराद्व्याजह्रे श्वासाऽऽकुलितविग्रहः ।। २२ ।।
पलायध्वं हवाद्देवा नाऽयं जेतुं क्षमो यतः ।।
रुद्रांशसंभवो ह्येष स्मरध्वं शक्रचेष्टितम् ।। २३ ।।
श्रुत्वा तद्वचनं देवा भयविह्वलितास्तदा ।।
दैत्येन वध्यमानास्ते पलायंते दिशो दश ।। २४ ।।
देवान्विद्रावितान्दृष्ट्वा दैत्यैः सागरनंदनः ।।
शंखभेरीजयरवैः प्रविवेशाऽमरावतीम् ।। २५ ।।
प्रविष्टे नगरीं दैत्ये देवाः शक्रपुरोगमाः ।।
सुवर्णाद्रिगुहां प्राप्ता न्यवसन्दैत्यतापिताः।। २६ ।।
ततश्च सर्वेष्वसुरोऽधिकारेष्विंद्रादिकानां विनिवेशयत्तदा ।।
शुंभादिकान्दैत्यवरान्पृथक्पृथक्स्वयं सुवर्णाद्रिगुहामगात्पुनः ।। २७ ।।
इति श्री स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरविजयप्राप्तिर्नाम पञ्चदशोऽध्यायः ।।१५।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 16
।। ।। नारद उवाच ।। ।।
पुनर्दैत्यं समायांतं दृष्ट्वा देवाः सवासवाः ।।
भयप्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ।। १ ।।
नमो मत्स्यकूर्मादिनानास्वरूपैः सदाभक्तकार्योद्यतायाऽर्तिहंत्रे ।।
विधात्रादिसर्गस्थितिध्वंसकर्त्रे गदाशंखपद्मारिहस्ताय तेस्तु ।। २ ।।
रमा वल्लभायाऽसुराणां निहंत्रे भुजंगारियानाय पीतांबराय ।।
मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ।। ३ ।।
नमो दैत्यसंतापितामर्त्यदुःखाचलध्वंसदंभोलये विष्णवे ते ।।
भुजंगेशतल्पेशयायार्कचंद्रद्विनेत्राय तस्मै नताः स्मो नताः स्मः ।। ४ ।।
।। ।। नारद उवाच ।। ।।
संकष्टनाशनंनाम स्तोत्रमेतत्पठेन्नरः ।।
स कदाचिन्न संकष्टैः पीड्यते कृपया हरेः ।। ५ ।।
इति देवाः स्तुतिं यावत्कुर्वंति दनुजद्विषः ।।
तावत्सुराणामापत्तिर्विज्ञाता विष्णुना तदा ।। ६ ।।
सहसोत्थाय दैत्यारिः सक्रोधः खिन्नमानसः ।।
आरूढो गरुडं वेगाल्लक्ष्मीं वचनमब्रवीत् ।। ७ ।।
।। श्रीभगवानुवाच ।। ।।
जलंधरेण ते भ्रात्रा देवानां कदनं कृतम् ।।
तैराहूतो गमिष्यामि युद्धायाद्य त्वरान्वितः ।। ८ ।।
।। श्रीरुवाच ।। ।।
अहं ते वल्लभा नाथ भक्त्या च यदि सर्वदा ।।
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ।। ९ ।।
श्रीभगवानुवाच ।। ।।
रुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि ।।
प्रीत्या च तव नैवायं मम वध्यो जलंधरः ।। 2.4.16.१० ।।
।। नारद उवाच ।। ।।
इत्युक्त्वा गरुडारूढः शंखचक्रगदासिभृत् ।।
विष्णुर्वेगाद्ययौ योद्धुं यत्र देवाः स्तुवंति ते ।। ११ ।।
अथाऽरुणानुजात्युग्रपक्षवातप्रपीडिताः ।।
वात्या विमर्दिता दैत्या बभ्रमुः खे यथा घनाः ।। १२।।
ततो जलंधरो दृष्ट्वा दैत्यान्वात्याप्रपीडितान् ।।
उद्वृत्तनयनः क्रोधात्ततोविष्णुं समभ्ययात्।। १३ ।।
ततः समभवद्युद्धं विष्णुदैत्येंद्रयोर्महत् ।।
आकाशं कुर्वतोर्बाणैस्तदा निरवकाशवत् ।।१४।।
विष्णुर्दैत्यस्य बाणौघैर्ध्वजं छत्रं धनुर्हयान् ।।
चिच्छेद तं च हृदये बाणेनैकेन ताडयत् ।। १५ ।।
ततो दैत्यः समुत्पत्य गदापाणिस्त्वरान्वितः ।।
आहत्य गरुडं मूर्ध्नि पातयामास भूतले ।। १६ ।।
विष्णुर्गदां स्वखङ्गेन चिच्छेद प्रहसन्निव ।।
तावत्स हृदये विष्णुं जघान दृढमुष्टिना ।। १७ ।।
ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ ।।
बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम् ।। १८ ।।
एवं तौ सुचिरं युद्धं कृत्वा विष्णुः प्रतापवान् ।।
उवाच दैत्यराजानं मेघगंभीरनिस्वनः ।। १९ ।।
।। विष्णुरुवाच ।। ।।
वरं वरय दैत्येंद्र प्रीतोऽस्मि तव विक्रमात् ।।
अदेयमपि ते दद्मि यत्ते मनसि वर्तते ।। 2.4.16.२० ।। ।।
।। जलंधर उवाच ।। ।।
यदि भावुक तुष्टोऽसि वरमेनं ददस्व मे ।।
मद्भगिन्या सहाऽद्य त्वं मद्गृहे सगणो वस ।। २१ ।।
।। नारद उवाच ।। ।।
तथेत्युक्ता स भगवान्सर्वदेवगणैः सह ।।
तदा जलंधरपुरमगमद्रमया सह ।। २२ ।।
जलंधरस्तु देवानामधिकारेषु दानवान् ।।
स्थापयित्वा महाबाहुः पुनरागान्महीतलम् ।। २३ ।।
देवगंधर्वसिद्धेषु यत्किंचिद्रत्नसंयुतम् ।।
तदात्मवशगं कृत्वाऽतिष्ठत्सागरनंदनः ।। २४ ।।
पातालभुवने दैत्यं निशुंभं स महाबलम् ।।
स्थापयित्वा स शेषादीनानयद्भूतलं बली ।। २५ ।।
देवगंधर्वसिद्धाऽऽद्यान्सर्पराक्षसमानुषान्।।
स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम् ।। २६ ।।
एवं जलंधरः कृत्वा देवान्स्ववशवर्तिनः ।।
धर्मेण पालयामास प्रजाः पुत्रानिवौरसान्।।२७।।
न कश्चिद्व्याधितो नैव दुःखी नैव कृतस्तथा ।।
न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति ।।२८।।
एवं महीं शासति दानवेंद्रे धर्मेण सम्यक्च दिदृक्षयाऽहम् ।।
कदाचिदागामथ तस्य लक्ष्मीं विलोकितुं श्रीरमणं च सेवितुम् ।। २९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरसभायां नारदागमनंनाम षोडशोऽध्यायः ।। १६ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 17
।। नारद उवाच ।। ।।
स मां प्रोवाच विधिवत्संपूज्यातीव भक्तिमान् ।।
संप्रहस्य तदा वाक्यं स्नेहपूर्वं च वै नृप ।। १ ।।
कुत आगम्यते ब्रह्मन्किचिद्दृष्टं त्वया प्रभो ।।
यदर्थमिह चाऽऽयातस्तदाऽऽज्ञापय मां मुने ।।२।।
।। नारद उवाच ।। ।।
गतः कैलासशिखरं दैत्येंद्राहं यदृच्छया ।।
तत्रोमया समासीनं दृष्टवानस्मि शंकरम्।।३।।
योजनायुतविस्तीर्णे कल्पवृक्षमहावने ।।
कामधेनुशताकीर्णे चिंतामणिसुदीपिते ।।४।।
तद्दृष्ट्वा महदाश्चर्यं विस्मयो मेऽभवत्तदा ।।
क्वाऽपीदृशी भवेदृद्धिस्त्रैलोक्ये वा न वेति च ।।५।।
तदा तवाऽपि दैत्येंद्र समृद्धिः संस्मृता मया ।।
तद्विलोकनकामोऽस्मि त्वत्सान्निध्यमिहाऽऽगतः ।। ६ ।।
त्वत्समृद्धिमिमां पश्यन्स्त्रीरत्नरहितां धुवम् ।।
तर्कयामि शिवादन्यस्त्रिलोक्यां न समृद्धिमान् ।। ७ ।।
अप्सरोनागकन्याद्या यद्यपि त्वद्वशे स्थिताः ।।
तथाऽपि ता न पार्वत्या रूपेण सदृशा ध्रुवम् ।। ८ ।।
यस्या लावण्यजलधौ निमग्नश्चतुराननः ।।
स्वधैर्यममुचत्पूर्वं तया काऽन्योपमीयते ।। ९ ।।
वीतरागोऽपि हि यथा मदनारिः स्वलीलया ।।
सौंदर्यगहनेऽभ्रामि शफरीरूपया पुरा ।। 2.4.17.१० ।।
यस्याः पुनः पुनः पश्यन्रूपं धाताऽपि सर्जने ।।
ससर्जाऽप्सरसस्तासां तत्समैकाऽपि नाभवत् ।। ११ ।।
अतः स्त्रीरत्नसंभोक्तुः समृद्धिस्तस्य सा वरा ।।
तथा न तव दैत्येंद्र सर्वरत्नाऽधिपस्य च ।। १२ ।।
एवमुक्त्वा तमामंत्र्य गते सति स दैत्यराट् ।।
तद्रूप श्रवणादासीदनंगज्वरपीडितः ।। १३ ।।
अथ संप्रेषयामास स दूतं सिंहिकासुतम् ।।
त्र्यंबकायाऽपि च तदा विष्णुमायाविमोहितः ।। १४ ।।
कैलासमगमद्राहुः कुर्वञ्छुक्लेंदुवर्चसम् ।।
कार्ष्ण्येन कृष्णपक्षेन्दुवर्चसं स्वांगजेन तम् ।। १५ ।।
निवेदितस्तदेशाय नंदिना प्रविवेश सः ।।
त्र्यंबकभ्रूलतासंज्ञा प्रेरितो वाक्यमब्रवीत् ।। १६ ।।
।। राहुरुवाच ।। ।।
देवपन्नगसेव्यस्य त्रैलोक्याधिपतेः प्रभोः ।।
सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज ।। १७ ।।
स्मशानवासिनो नित्यमस्थिभारवहस्य च ।।
दिगंबरस्य ते भार्या कथं हैमवती शुभा ।। १८ ।।
अहं रत्नाधिनाथोऽस्मि सा च स्त्रीरत्नसंज्ञिका ।।
तस्मान्ममैव सा योग्या नैव भिक्षाशिनस्तव ।। १९ ।।
।। नारद उवाच ।। ।।
वदत्येवं तदा राहौ भ्रूमध्याच्छूलपाणिनः ।।
अभवत्पुरुषो रौद्रस्तीव्राशनिसमस्वनः ।। 2.4.17.२० ।।
सिंहास्यः प्रललज्जिह्वः स ज्वलन्नयनो महान् ।।
ऊर्ध्वकेशः शुष्कतनुर्नृसिंह इव चाऽपरः ।। २१ ।।
स तं खादितुमायांतं दृष्ट्वा राहुर्भयातुरः ।।
अधावत स वेगेन बहिः स च दधार तम् ।। २२ ।।
स च राहुर्महाबाहो मेघगम्भीरया गिरा ।।
उवाच देवदेव त्वं पाहि मां शरणागतम् ।।२३।।
ब्राह्मणं मां महादेव खादितुं समुपागतः ।।
महादेवो वचः श्रुत्वा ब्राह्मणस्य तदाऽब्रवीत् ।।२४।।
नैवाऽसौ वध्यतामेति दूतोऽयं परवान्यतः ।।
मुंचेति पुरुषः श्रुत्वा राहुं तत्याज्य सोंऽबरे ।।२५।।
राहुं त्यक्त्वाऽथ पुरुषस्तदा रुद्रं व्यजिज्ञपत् ।।
।। पुरुष उवाच ।। ।।
क्षुधा मां वाधतेऽत्यंतं क्षुत्क्षामश्चाऽस्मि सर्वथा ।। २६ ।।
किं भक्षयामि देवेश तदाज्ञापय मां प्रभो ।।
।। ईश्वर उवाच ।। ।।
भक्षयस्वात्मनः शीघ्रं मांसं त्वं हस्तपादयोः ।। २७ ।।
।। नारद उवाच ।। ।।
स शिवेनैवमाज्ञप्तश्चखाद पुरुषः स्वकम्।।
हस्तपादोद्भवं मांसं शिरःशेषो यथाऽभवत् ।। २८ ।।
दृष्ट्वा शिरोऽवशेषं तं सुप्रसन्नस्तदा शिवः ।।
उवाच भीमकर्माणं पुरुषं जातविस्मयः ।। २९ ।।
।। ईश्वर उवाच ।। ।।
त्वं कीर्तिमुखसंज्ञो हि भव मद्द्वारिगः सदा ।।
त्वदर्चां ये न कुर्वंति नैव ते मे प्रियंकराः ।। 2.4.17.३० ।। *
।। नारद उवाच ।। ।।
तदा प्रभृति देवस्य द्वारि कीर्तिमुखः स्थितः ।।
नार्चयन्तीह ये पूर्वं तेषामर्चा वृथा भवेत् ।।३१।।
राहुर्विमुक्तो यस्तेन सोऽपि तद्बर्बरे स्थले ।।
अतः स बर्बरोद्भूत इति भूमौ प्रथां गतः ।। ३२ ।।
ततः स राहुः पुनरेव जातमात्मानमस्मिन्निति मन्यमानः ।।
समेत्य सर्वं कथयांबभूव जलंधरायैव विचेष्टितं तत् ।। ३३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने दूतवाक्यकथनंनाम सप्तदशोऽध्यायः ।। १७ ।।
*मूर्तिकलायां कीर्तिमुखः
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 18
।। नारद उवाच ।। ।।
जलंधरस्तु तच्छुत्वा कोपाकुलितविग्रहः ।।
निर्जगामाऽऽशु दैत्यानां कोटिभिः परिवारितः ।। १ ।।
गच्छतोऽस्याऽग्रतः शुक्रो राहुर्दृष्टिपथेऽभवत् ।।
मुकुटश्चाऽपतद्भूमौ वेगात्प्रस्खलितस्तदा ।। २।।
दैत्यसैन्याऽऽवृतैस्तस्य विमानानां शतैस्तदा ।।
व्यराजत नभःपूर्णं प्रावृषीव यथा घनैः ।। ।। ३ ।।
तस्योद्योगं तदा दृष्ट्वा देवाः शक्रपुरोगमाः ।।
अलक्षितास्तदा जग्मुः शूलिनं तं व्यजिज्ञपुः ।। ४ ।।
।। देवा ऊचुः ।। ।।
न जानासि कथं स्वामिन्देवापत्तिमिमां विभो ।।
तदस्मद्रक्षणार्थाय जहि सागरनंदनम् ।। ५ ।।
।। नारद उवाच ।।
इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः।।
महाविष्णुं समाहूय वचनं चेदमब्रवीत्।। ६ ।।
।। ईश्वर उवाच ।।
जलंधरः कथं विष्णो न हतः संगरे त्वया ।।
तद्गृहं चाऽपि यातोऽसि त्यक्त्वा वैकुंठमात्मनः ।। ७ ।।
।। विष्णुरुवाच ।। ।।
तवांशसंभवत्वाच्च भ्रातृत्वाच्च तथा श्रियः ।।
न मया निहतः संख्ये त्वमेनं जहि दानवम् ।। ८ ।।
।। ईश्वर उवाच ।।
नायमेभिर्महातेजाः शस्त्रास्त्रैर्वध्यते मया ।।
देवैः सह स्वतेजोंशं शस्त्रार्थं दीयतां मम ।। ९ ।।
।। नारद उवाच ।। ।।
अथ विष्णुमुखा देवाः स्वतेजांसि ददुस्तदा ।।
तान्यैक्यमागतानीशो दृष्ट्वा स्वं चामुचन्महः ।। 2.4.18.१० ।।
तेनाकरोन्महादेवो महसा शस्त्रमुत्तमम् ।।
चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् ।। ११ ।।
ततः शेषेण च तदा वज्रं च कृतवान्हरिः ।।
तावज्जलंधरो दृष्टः कैलासतलभूमिषु ।। १२ ।।
हस्त्यश्वरथपत्तीनां कोटिभिः परिवारितः ।।
तं दृष्ट्वा लक्षिता जग्मुर्देवाः सर्वे यथागताः ।।१३।।
गणाश्च समसज्जंत युद्धायाऽतित्वरान्विताः ।।
नन्दीभवक्त्रसेनानीमुखाः सर्वे शिवाज्ञया ।। १४ ।।
अवतेरुर्गणा वेगात्कैलासाद्युद्धदुर्मदाः ।।
ततः समभवद्युद्धं कैलासोपत्यकाभुवि ।। १५ ।।
प्रमथाधिपदैत्यानां घोरशस्त्रास्त्रसंकुलम् ।।
भेरीमृदंगशंखौघ निःस्वनैर्वीरहर्षणैः ।। १६ ।।
गजाश्वरथशब्दैश्च नादिता भूर्व्यकंपत ।।
शक्तितोमरबाणौघमुसलप्रासपट्टिशैः ।।१७।।
व्यराजत नभः पूर्णमुल्काभिरिव संवृतम् ।।
निहतैरथनागाश्वपत्तिभिर्भूर्व्यराजत ।। १८ ।।
वज्राहताचलशिरःशकलैरिव संवृता ।।
प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा ।। १९ ।।
वसासृङ्मांसपंकाढ्या भूरगम्याऽभवत्तदा ।।
प्रमथाहतदैत्यौघान्भार्गवः समजीवयत् ।।2.4.18.२०।।
युद्धे पुनः पुनस्तत्र मृतसंजीविनीबलात् ।।
तं दृष्ट्वा व्याकुलीभूता गणाः सर्वे भयान्विताः ।।
शशंसुर्देवदेवाय तत्सर्वं शुक्रचेष्टितम् ।। २१ ।।
अथ रुद्रमुखात्कृत्या बभूवाऽतीवभीषणा ।।
तालजंघा दरीवक्त्रा स्तनापीडितभूरुहा ।।२२।।
सा युद्धभूमिमासाद्य भक्षयंती महासुरान् ।।
भार्गवं स्वभगे धृत्वा जगामांतर्हिता नभः ।।२३।।
विधृतं भार्गवं दृष्ट्वा दैत्यसैन्यं गणास्तदा ।।
अम्लानवदना हर्षान्निजघ्नुर्युद्धदुर्मदाः ।। २४ ।।
अथाभज्यत दैत्यानां सेना गणभयार्दिता ।।
वायुवेगेनाहतेव प्रकीर्णा तृणसंततिः ।।
भग्नां गणभयात्सेनां दृष्ट्वामर्षयुता ययुः ।।
निशुंभशुंभौ सेनान्यौ कालनेमिश्च वीर्यवान् ।।२६ ।।
त्रयस्ते वारयामासुर्गणसेनां महाबलाः ।।
मुञ्चतः शरवर्षाणि प्रावृषीव बलाहकाः ।। २७ ।।
ततो दैत्यशरौघास्ते शलभानामिव व्रजाः ।।
रुरुधुः खं दिशः सर्वा गणसेनामकंपयन् ।। २८ ।।
गणाः शरशतैर्भिन्ना रुधिरासारवर्षिणः ।।
वसंते किंशुकाभासा न प्राज्ञायत किंचन ।। ।। २९ ।।
पतिताः पात्यमानाश्च भिन्नाश्छिन्नास्तदा गणाः ।।
त्यक्त्वा संग्रामभूमिं ते सर्वेपि विमुखाऽभवन् ।। 2.4.18.३० ।।
ततः प्रभग्नं स्वबलं विलोक्य शैलादिलंबोदरकार्तिकेयाः ।।
त्वरान्विता दैत्यवरान्प्रसह्य निवारयामासुरमर्षिणस्ते ।। ३१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने रुद्रसेनापराभवोनामाऽष्टादशोऽध्यायः ।। १८ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 19
।। नारद उवाच ।। ।।
ते गणाधिपतीन्दृष्ट्वा नंदीभमुखषण्मुखान् ।।
अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः ।। १ ।।
नंदिनं कालनेमिश्च शुम्भो लंबोदरं तथा ।।
निशुम्भः षण्मुखं वेगादभ्यधावत दंशितः ।। २ ।।
निशुम्भः कार्तिकेयस्य मयूरं पंचभिः शरैः ।।
हृदि विव्याध वेगेन मूर्च्छितः स पपात च ।। ३ ।।
ततः शक्तिधरः शक्तिं यावज्जग्राह रोषितः ।।
तावन्निशुंभो वेगेन स्वशक्त्या तमपातयत् ।। ४ ।।
नंदीश्वरः शरव्रातैः कालनेमिमवध्यत ।।
सप्तभिश्च हयान्केतुं त्रिभिः सारथिमच्छिनत् ।। ५ ।।
कालनेमिस्तु संक्रुद्धो धनुश्चिच्छेद नंदिनः ।।
तदपास्य स शूलेन तं वक्षस्यहनद्बली ।। ६ ।।
स शूलभिन्नहृदयो हताश्वो हतसारथिः ।।
अद्रेः शिखरमामुच्य शैलादिं सोऽप्यपातयत् ।।७ ।।
अथ शुम्भो गणेशश्च रथमूषकवाहनौ ।।
युध्यमानौ शरव्रातैः परस्परमविध्यताम् ।। ८ ।।
गणेशस्तु तदा शुम्भं हृदि विव्याध पत्रिणा ।।
सारथिं च त्रिभिर्बाणैः पातयामास भूतले ।। ९ ।।
ततोऽतिक्रुद्धः शुम्भोऽपि बाणषष्ट्या गणाधिपम् ।।
मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः ।। 2.4.19.१० ।।
मूषकः शरभिन्नांगश्चचाल दृढवेदनः ।।
लंबोदरश्च पतितः पदातिरभवन्नृप ।। ११ ।।
ततो लंबोदरः शुम्भं हत्वा परशुना हृदि ।।
अपातयत्तदा भूमौ मूषकं चारुहत्पुनः ।। १२ ।।
कालनेमिर्निशुंभश्चाऽप्युभौ लंबोदरं शरैः ।।
युगपज्जघ्नतुः क्रोधात्तोत्रैरिव महाद्विपम् ।। १३ ।।
तं पीडयमानमालोक्य वीरभद्रो महाबलः ।।
अभ्यधावत वेगेन भूतकोटियुतस्तदा ।। १४ ।।
कूष्मांडभैरवाश्चाऽपि वेताला योगिनीगणाः ।।
पिशाचयोगिनीसंघा गणाश्चाऽपि तमन्वयुः ।। १५ ।।
ततः किलकिलाशब्दैः सिंहनादैः सुघर्घरैः ।।
भेरीतालमृदंगैश्च पृथिवी समकंपत ।। १६ ।।
ततो भूतान्यधावंत भक्षयंतिस्म दानवान्।।
उत्पतंत्यापतंति स्म ननृतुश्च रणांगणे ।। १७ ।।
नन्दी च कार्तिकेयश्च समाश्वस्य त्वरत्वितौ ।।
निजघ्नतू रणे दैत्यान्निरंतरशरव्रजैः ।। १८ ।।
छिन्नभिन्ना हतैर्देत्यैः पतितैर्भक्षितैस्तदा ।।
व्याकुला साऽभवत्सेना विषण्णवदना तदा ।। १९ ।।
प्रविध्वस्तां तदा सेनां दृष्ट्वा सागरनंदनः ।।
रथेनाऽतिपताकेन गणानभिययौ बली ।। 2.4.19.२० ।।
हस्त्यश्वरथसंह्रादाः शंखभेरीस्वनास्तथा ।।
अभवन्सिंहनादाश्च सेनयोरुभयोस्तदा ।। २१ ।।
जलंधरशरव्रातैर्नीहारपटलैरिव ।।
द्यावापृथिव्योराच्छिन्नमंतरं समपद्यत ।। २२ ।।
गणेशं पंचभिर्विद्ध्वा शैलादिं नवभिः शरैः ।।
वीरभद्रं च विंशत्या ननाद जलदस्वनः ।। २३ ।।
कार्तिकेयस्तदा दैत्यं शक्त्या विव्याध सत्वरः ।।
युयुधे शक्तिनिर्भिन्नः किंचिद्व्याकुलमानसः ।। २४ ।।
ततः क्रोधपरीताक्षः कार्तिकेयं जलंधरः ।।
गदया ताडयामास स च भूमितलेऽपतत् ।। २५ ।।
तथैव नंदिनं वेगादपातयत भूतले ।।
ततो गणेश्वरः क्रुद्धो गदां परशुनाऽहनत् ।। २६ ।।
वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम् ।।
सप्तभिश्च हयान्केतुं धनुश्छत्रं च चिच्छिदे ।। २७ ।।
ततोऽतिक्रुद्धो दैत्येंद्रः शक्तिमुद्यम्य दारुणाम् ।।
गणेशं पातयामास रथं चाऽन्यमथाऽऽरुहत् ।।२८।।
अभ्ययादथ वेगेन वीरभद्रं रुषान्वितः ।।
ततस्तौ सूर्यसंकाशौ युयुधाते परस्परम् ।। २९ ।।
वीरभद्रः पुनस्तस्य हयान्बाणैरपातयत् ।।
धनुश्चिच्छेद दैत्येंद्रः पुप्लुवे परिघायुधः ।। 2.4.19.३० ।।
स वीरभद्रं त्वरयाऽभिगम्य जघान दैत्यः परिघेण मूर्ध्नि ।।
स चाऽपि वीरः प्रविभिन्नमूर्द्धा पपात भूमौ रुधिरं समुद्गिरन्।। ३१ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने वीरभद्रपतननामैकोनविंशोऽध्यायः ।। १९ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 20
।। ।। नारद उवाच ।। ।।
पतितं वीरभद्रं तु दृष्ट्वा रुद्रगणा भयात् ।।
अगमंस्ते रणं हित्वा क्रोशमाना महेश्वरम् ।। १ ।।
अथ कोलाहलं श्रुत्वा गणानां चंद्रशेखरः ।।
अभ्ययाद्वृषभारूढः संग्रामं प्रहसन्निव ।। २ ।।
रुद्रमायांतमालोक्य सिंहनादैर्गणाः पुनः ।।
निवृत्ताः संगरे दैत्यान्निर्जघ्नुः शरवृष्टिभिः ।। ३ ।।
दैत्याश्च भीषणं दृष्ट्वा सर्वे चैव विदुद्रुवुः ।।
कार्तिकव्रतिनं दृष्ट्वा पातकानीव तद्भयात् ।।४।।
जलंधरोथ तान्दैत्यान्निवृत्तान्प्रेक्ष्य संगरे ।।
रोषादधावच्चंडीशं मुंचन्बाणान्सहस्रशः ।। ५ ।।
शुंभो निशुंभोऽश्वमुखः कालनेमिर्बलाहकः ।।
खड्गरोमा प्रचंडश्च घस्मराद्याः शिवं ययुः ।। ६ ।।
बाणांधकारसंछन्नं दृष्ट्वा गणबलं शिवः ।।
बाणजालमवाच्छिद्य स्वबाणैरावृणोन्नभः ।। ७ ।।
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ।।
प्रचंडबाणजालौघैरपातयत भूतले ।। ८ ।।
खड्गरोम्णः शिरः कायात्तदा परशुनाऽच्छिनत् ।।
बलाहकस्य च शिरः खट्वांगेनाऽकरोद्द्विधा ।। ९ ।।
बद्ध्वा च घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि ।।
वृषभेण हताः केचित्केचिद्बाणैर्निपातिताः ।। 2.4.20.१० ।।
न शेकुरसुराः स्थातुं गजाः सिंहार्दिता इव ।।
ततः क्रोधपरीतात्मा वेगाद्रुद्रं जलंधरः ।।११।।
आह्वयामास समरे तीव्राशनिसमस्वनः ।।
।। जलंधर उवाच ।। ।।
युध्यस्व च मया सार्द्धं किमेभिर्निहितैस्तव ।। १२ ।।
यच्च किंचिद्बलं तेऽस्ति तद्दर्शय जटाधर ।।
इत्युक्त्वा बाणसप्तत्या जघान वृषभध्वजम् ।। १३ ।।
तान्प्राप्तान्निशितैर्बाणैश्चिच्छेद प्रहसन्निव।।
ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद शक्तिभिः।।१४।।
स च्छिन्नधन्वा विरथो गदामुद्यम्य वेगवान् ।।
अभ्यधावच्छिवस्तावद्गदां बाणैर्द्विधाऽच्छिनत् ।।१५।।
तथाऽपि मुष्टिमुद्यम्य ययौ रुद्रं जिघांसया ।।
तावच्छिवेन बाणौघैः क्रोशमात्रमपाकृतः।।१६।।
ततो जलंधरो दैत्यो मत्वा रुद्रं बलाधिकम् ।।
ससर्ज मायां गांधर्वीमद्भुतां रुद्रमोहिनीम् ।। १७ ।।
ततो जगुश्च ननृतुर्गंधर्वाप्सरसां गणाः ।।
तालवेणुमृदंगाद्यान्वादयंति स्म चाऽपरे ।। १८ ।।
तद्दृष्ट्वा महदाश्चर्यं रुद्रो नादविमोहितः ।।
पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः ।। ।।१९।।
एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलंधरः ।।
कामार्तः स जगामाशु यत्र गौरी स्थिताऽभवत् ।।2.4.20.२०।।
युद्धे शुंभनिशुंभाख्यौ स्थापयित्वा महाबली ।।
दशदोर्दंडपचास्यस्त्रिनेत्रश्च जटाधरः ।।२१।।
महावृषभमारूढः स बभूव जलंधरः ।।
अथो रुद्रं समायांतमालोक्य भववल्लभा।।२२।।
अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् ।।
यावद्ददर्श चार्वंगी पार्वती दनुजेश्वरः ।। २३ ।।
तावत्स्ववीर्यं मुमुचे जडांगश्चाऽभवत्तदा ।।
अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला ।। २४ ।।
जगामाऽन्तर्हिता वेगात्सा तदोत्तरमानसे ।।
तामदृष्ट्वा ततो दैत्यः क्षणाद्विद्युल्लतामिव ।। २५ ।।
जवेनाऽऽगात्पुनर्युद्धं यत्र देवो वृषध्वजः ।।
पार्वत्यपि भयाद्विष्णुं सस्मार मनसा तदा ।। २६ ।।
तावद्ददर्श तं देवं सूपविष्टं समीपगम् ।।
।। पार्वत्युवाच।। ।।
विष्णो जलंधरो दैत्यः कृतवान्परमाद्भुतम् ।।२७।।
तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः ।।
।। विष्णुरुवाच ।। ।।
तेनैव दर्शितः पंथा वयमप्यन्वयामहे ।। २८ ।।
नाऽन्यथा स भवेद्वध्यः पातिव्रत्यसुरक्षित्ः ।।
।। नारद उवाच ।। ।।
जगाम विष्णुरित्युक्त्वा पुनर्जालंधरं पुरम् ।। २९ ।।
अथ रुद्रश्च गंधर्वाऽनुगतः संगरे स्थितः ।।
अंतर्धानं गतां मायां दृष्ट्वा स बुबुधे तदा ।। 2.4.20.३० ।।
ततो भवो विस्मितमानसः पुनर्जगाम युद्धाय जलंधरं रुषा ।।
स चाऽपि दैत्यः पुनरागतं शिवं दृष्ट्वा शरौघैः समवाकिरद्रणे ।। ३१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने शिवजलंधरयुद्धवर्णनंनाम विंशोऽध्यायः ।।२०।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 21
।। नारद उवाच ।। ।।
विष्णुर्जलंधरं गत्वा तद्दैत्यपुटभेदनम् ।।
पातिव्रत्यस्य भंगाय वृंदायाश्चाऽकरोन्मतिम् ।। १ ।।
अथ वृंदारका देवी स्वप्नमध्ये ददर्श ह ।।
भर्तारं महिषाऽऽरूढं तैलाभ्यक्तं दिगंम्बरम् ।। २।।
कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम् ।।
दक्षिणाशागतं मुण्डं तमसाप्याऽऽवृतं तदा ।। ३ ।।
स्वपुरं सागरे मग्नं सहसैवाऽऽत्मना सह ।।
ततः प्रबुद्धा सा बाला तत्स्वप्नं प्रविचिन्वती ।। ४ ।।
ददर्शोदितमादित्यं सच्छिद्रं निष्प्रभं मुहुः ।।
तदनिष्टमिति ज्ञात्वा रुदती भयविह्वला ।। ५ ।।
कुत्रचिन्नाऽलभच्छर्म गोपुराट्टालभूमिषु ।।
ततः सखीद्वययुता नगरोद्यानमागमत् ।। ६ ।।
तत्राऽपि साऽभ्रमद्बाला नाऽलभत्कुत्रचित्सुखम् ।।
वनाद्वनांतरं याता नैव वेदात्मनस्तदा ।। ७ ।।
ततः सा भ्रमती बाला ददर्शाऽतीवभीषणौ ।।
राक्षसौ सिंहवदनौ दंष्ट्राऽऽननविभीषणौ ।। ८ ।।
तौ दृष्ट्वा विह्वलाऽतीव पलायनपराऽभवत् ।।
ददर्श तापसं शांतं सशिष्यं मौनमास्थितम् ।। ९ ।।
ततस्तत्कण्ठमावृत्य निजां बाहुलतां भयात् ।।
मुने मां रक्ष शरणमागताऽस्मीत्यभाषत ।। 2.4.21.१० ।।
मुनिस्तां विह्वलां दृष्ट्वा राक्षसाऽनुगतां तदा ।।
हुंकारेणैव तौ घोरौ चकार विमुखौ रुषा ।। ११ ।।
तौ हुंकारभयत्रस्तौ दृष्ट्वा च विमुखौ गतौ ।।
प्रणम्य दंडवद्भूमौ वृन्दा वचनमब्रवीत् ।। १२ ।।
।। वृन्दोवाच ।। ।।
रक्षिताहं त्वया घोराद्भयादस्मात्कृपानिधे ।।
किंचिद्विप्तुमिच्छामि कृपया तन्निशामय ।। १३ ।।
जलंधरो हि मद्भर्ता रुद्रं योद्धुं गतः प्रभो ।।
स तत्राऽस्ते कथं युद्धे तन्मे कथय सुव्रत ।। १४ ।।
।। नारद उवाच ।। ।।
मुनिस्तद्वाक्यमाकर्ण्य कृपयोर्ध्वमवैक्षत ।।
तावत्कपी समायातौ प्रणम्य चाग्रतः स्थितौ ।। १५ ।।
ततस्तद्भ्रूलतासंज्ञानियुक्तौ गगनं गतौ ।।
गत्वा क्षणार्द्धादागत्य प्रणतावग्रतः स्थितौ ।।
शिरःकबन्धे हस्तौ च गृहीत्वा समुपस्थितौ ।। १६ ।।
शिरःकबंधे हस्तौ च दृष्ट्वाऽब्धितनयस्य सा ।।
पपात मूर्छिता भूमौ भर्तृव्यसनदुःखिता ।। १७ ।।
कमंडलूदकैः सिक्त्वा मुनिनाऽऽश्वासिता तदा ।।
स्वभर्तृभाले सा भालं कृत्वा दीना रुरोद ह ।। १८ ।।
।। वृन्दोवाच ।। ।।
यः पुरा सुखसंवादे विनोदयसि मां प्रभो ।।
स कथं न वदस्यद्य वल्लभा मामनागसम् ।। १९ ।।
येन देवाः सगंधर्वा निर्जिता विष्णुना सह ।।
स कथं तापसेनाऽद्य त्रैलोक्यविजयी हतः ।। 2.4.21.२० ।।
।। नारद उवाच ।। ।।
रुदित्वेति तदा वृन्दा तं मुनिं वाक्यमब्रवीत् ।।
।। वृन्दोवाच ।। ।।
कृपानिधे मुनिश्रेष्ठ जीवयैनं मम प्रियम् ।।२१।।
त्वमेवास्य मुने शक्तो जीवनाय मतो मम
।। नारद उवाच ।। ।।
इति तद्वाक्यमाकर्ण्य प्रहसन्मुनिरब्रवीत् ।। २२ ।।
।। मुनिरुवाच ।। ।।
नाऽयं जीवयितुं शक्तो रुद्रेण निहतो युधि ।।
तथाऽपि त्वत्कृपाविष्ट एनं संजीवयाम्यहम् ।। २३ ।।
।। नारद उवाच ।। ।।
इत्युक्त्वांतर्दधे विप्रस्तावत्सागरनंदनः ।।
वृंदामालिंग्य तद्वक्त्रं चुचुंब प्रीतमानसः ।। २४ ।।
अथ वृन्दाऽपि भर्तारं दृष्ट्वा हर्षितमानसा ।।
रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरम् ।। २५ ।।
कदाचित्सुरतस्यांते दृष्ट्वा विष्णुं तमेव च ।।
निर्भर्त्स्य क्रोधसंयुक्ता वृन्दा वचनमब्रवीत् ।। २६ ।।
।। वृंदोवाच ।। ।।
धिक्त्वदीयं हरे शीलं परदाराभिगामिनः ।।
ज्ञातोऽसि त्वं मया सम्यङ्मायाप्रच्छन्नतापसः ।। २७ ।।
यौ त्वया मायया द्वाःस्थौ स्वकीयौ दर्शितौ मम ।।
तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यतः ।।२८।।
त्वं चाऽपि भार्यादुःखार्तो वने कपिसहायवान् ।।
भ्रम सर्पेश्वरेणाऽयं यस्ते शिष्यत्वमागतः ।। २९।।
इत्युक्त्वा सा तदा वृन्दा प्राविशद्धव्यवाहनम् ।।
विष्णुना वार्यमाणाऽपि तस्यामासक्तचेतसा ।।2.4.21.३०।।
ततो हरिस्तामनुसंस्मरन्मुहुर्वृंदान्वितोभस्मरजोवगुंठितः ।।
तत्रैव तस्थौ सुरसिद्धसंघैः प्रबोध्यमानोऽपि ययौ न शांतिम् ।।३१।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने वृन्दाग्निप्रवेशवर्णनंनामैकविंशोऽध्यायः ।। २१ ।।*
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 22
।। नारद उवाच ।। ।।
ततो जलंधरो दृष्ट्वा रुद्रमद्भुतविक्रमम् ।।
चकार मायया गौरीं त्र्यंबकं मोहयन्निव ।। १ ।।
रथोपरि च तां बद्धां रुदन्तीं पार्वतीं शिवः ।।
निशुंभप्रमुखाद्यैश्च वध्यमानां ददर्श सः ।। २ ।।
गौरीं तथाविधां दृष्ट्वा शिवोऽप्युद्विग्नमानसः ।।
अवाङ्मुखः स्थितस्तूष्णीं विस्मृत्य स्वपराक्रमम् ।। ३ ।।
ततो जलंधरो वेगात्त्रिभिर्विव्याध सायकैः ।।
आपुंखमग्रैस्तं रुद्रं शिरस्युरसि चोदरे ।। ४ ।।
ततो जज्ञे स तां मायां विष्णुना च प्रबोधितः ।।
रौद्ररूपधरो जातो ज्वालामालाऽतिभीषणः ।। ५ ।।
तस्याऽतीव महारौद्रं रूपं दृष्ट्वा महासुराः ।।
न शेकुः संमुखे स्थातुं भेजिरे ते दिशो दश ।।६।।
ततः शापं ददौ रुद्रस्तयोः शुंभनिशुंभयोः ।।
मम युद्धादपक्रांतौ गौर्या बध्यौ भविष्यथः ।। ७ ।।
पुनर्जलंधरो वेगाद्ववर्ष निशितैः शरैः ।।
बाणांधकारैः संछन्नं तदा भूमितलं महत् ।। ८ ।।
यावद्रुद्रश्च चिच्छेद तस्य बाणगणं जवात् ।।
तावत्स परिघेणाऽऽशु जघान वृषभं बली ।। ९ ।।
वृषस्तेन प्रहारेण परावृत्तो रणांगणात् ।।
रुद्रेणाऽऽकृष्यमाणोऽपि न तस्थौ रणभूमिषु ।। 2.4.22.१० ।।
ततः परमसंक्रुद्धो रुद्रो रौद्रवपुर्धरः ।।
चक्रं सुदर्शनं वेगाच्चिक्षेपाऽऽदित्यवर्चसम् ।। ११ ।।
प्रदहद्रोदसी वेगात्पपात वसुधातले ।।
जहार तच्छिरः कायान्महदायतलोचनम् ।। १२ ।।
रथात्कायः पपाताऽस्य नादयन्वसुधातलम् ।।
तेजश्च निर्गतं देहात्तद्रुद्रे लयमागमत् ।। १३ ।।
वृन्दादेहोद्भवं तेजस्तद्गौर्यां विलयं गतम् ।।
अथ ब्रह्मादयो देवा हर्षादुत्फुल्ललोचनाः ।। १४ ।।
प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम् ।।
।। देवा ऊचुः ।। ।।
महादेव त्वया देवा रक्षिताः शत्रुजाद्भयात् ।। १५ ।।
किंचिदन्यत्समुद्भूतं तत्र किं करवामहे ।।
वृन्दालावण्यसंभ्रांतो विष्णुस्तिष्ठति मोहितः ।। १६ ।।
।। ईश्वर उवाच ।। ।।
गच्छध्वं शरणं देवा विष्णोर्मोहापनुत्तये ।।
शरण्यां मोहिनीं मायां सा वः कार्यं करिष्यति ।। १७ ।।
।। नारद उवाच ।। ।।
इत्युक्त्वांतर्दधे देवः सर्वभूतगणैस्तदा ।।
देवाश्च तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम् ।। १८ ।।
।। देवा ऊचुः ।। ।।
यदुद्भवाः सत्त्वरजस्तमोगुणाः सर्गस्थितिध्वंसनिदानकारिणः ।।
यदिच्छया विश्वमिदं भवाऽभवौ तनोति मूलप्रकृतिं नताः स्म ताम् ।। १९ ।।
या हि त्रयोविंशतिभेदशब्दिता जगत्यशेषे समधिष्ठिता परा ।।
यद्रूपकर्माणि जडास्त्रयोऽपि देवा न विद्युः प्रकृतिं नताः स्म ताम् ।। 2.4.22.२० ।।
यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यभीमोहपराभवादीन् ।।
न प्राप्नुवंत्येव हि भक्तवत्सलां सदैव मूलप्रकृतिं नताः स्म ताम् ।। २१ ।।
।। नारद उवाच ।। ।।
स्तोत्रमेतत्त्रिसंध्यं यः पठेदेकाग्रमानसः ।।
दारिद्यमोहदुःखानि न कदाचित्स्पृशंति तम् ।।२२।।
इत्थं स्तुवंतस्ते देवास्तेजोमण्डलमास्थितम् ।।
ददृशुर्गगनं तत्र ज्वालाव्याप्तदिगंतरम् ।। २३ ।।
तन्मध्याद्भारतीं सर्वे शुश्रुवुर्व्योमचारिणीम् ।।
।। शक्तिरुवाच ।। ।।
अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः ।। ।। २४ ।।
गौरी लक्ष्मी स्वरा चेति रजःसत्त्वतमोगुणैः ।।
तत्र गच्छत ताः कार्यं विधास्यति च वः सुराः ।। २५ ।।
।। नारद उवाच ।। ।।
शृण्वतामिति तां वाचमंतर्धानमगान्महः ।।
देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा नृप ।। २६ ।।
ततः सर्वेऽपि ते देवा गत्वा तद्वाक्यनोदिताः ।।
गौरीं लक्ष्मीं स्वरां चैव प्रणेमुर्भक्तितत्पराः ।। २७ ।।
ततस्तास्तान्सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलाः ।।
बीजानि प्रददुस्तेभ्यो वाक्यान्यूचुश्च भूमिप ।। २८ ।।
।। देव्य ऊचुः ।। ।।
इमानि तत्र बीजानि विष्णुर्यत्राऽवतिष्ठते ।।
निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति ।। २९ ।। ।।
।। नारद उवाच ।। ।।
ततस्तु हृष्टाः सुरसिद्धसंघाः प्रगृह्य बीजानि विचिक्षिपुस्ते ।।
वृंदान्वितो भूमितले स यत्र विष्णुः सदा तिष्ठति सौख्यहीनः ।। 2.4.22.३० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरमुक्तिकथनं नाम द्वाविंशोऽध्यायः ।। २२ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 23
।। नारद उवाच ।। ।।
क्षिप्तेभ्यस्तत्र बीजेभ्यो वनस्पत्यस्त्रयोऽभवन् ।।
धात्री च मालती चैव तुलसी च नृपोत्तम ।। १ ।।
धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता ।।
गौरीभवा च तुलसी तमःसत्त्वरजोगुणाः ।। २ ।।
स्त्रीरूपिण्यौ वनस्पत्यौ दृष्ट्वा विष्णुस्तदा नृप ।।
उत्तस्थौ संभ्रमाद्वृंदा रूपातिशयविभ्रमः ।।३।।
दृष्ट्वा च याचते मोहात्कामासक्तेन चेतसा ।।
तं चाऽपि तुलसीधात्र्यौ रागेणैव व्यलोकताम्।।४।।
यच्च लक्ष्म्या पुरा बीजमीर्ष्ययैव समर्पितम् ।।
तस्मात्तदुद्भवा नारी तस्मिन्नीर्ष्यापराऽभवत् ।। ५ ।।
अतः सा बर्बरीत्याख्यामवापाऽध विगर्हिताम् ।।
धात्रीतुलस्यौ तद्रागात्तस्य प्रीतिप्रदे सदा ।। ६ ।।
ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु ।।
वैकुण्ठमगमद्धृष्टः सर्वदेव नमस्कृतः ।। ७ ।।
कार्तिकोद्यापने विष्णोस्तस्मात्पूजा विधीयते ।।
तुलसीमूलदेशेऽस्य प्रीतिदा सा यतः स्मृता ।। ८ ।।
तुलसीकाननं राजन्गृहे यस्याऽवतिष्ठते ।।
तद्गृहं तीर्थरूपं तु नाऽऽयांति यमकिंकराः ।। ९ ।।
सर्वपापहरं नित्यं कामदं तुलसीवनम् ।।
रोपयंति नराः श्रेष्ठास्ते न पश्यंति भास्करिम् ।। 2.4.23.१० ।।
दर्शनं नर्मदायास्तु गंगास्नानं तथैव च ।।
तुलसीवनसंसर्गः सममेव त्रयं स्मृतम् ।। ११ ।।
रोपणात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम् ।।
तुलसी दहते पापं वाङ्मनःकायसंचितम् ।। १२ ।।
तुलसीमंजरीभिर्यः कुर्याद्धरिहराऽर्चनम् ।।
न स गर्भगृहं याति मुक्तिभागी न संशयः ।। १३ ।।
पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा ।।
वासुदेवादयो देवास्तिष्ठंति तुलसीदले ।। १४ ।।
तुलसीमंजरीयुक्तो यस्तु प्राणान्विमुंचति ।।
यमोऽपि नेक्षितुं शक्तो युक्तं पापशतैरपि ।। १५ ।।
विष्णोः सायुज्यमाप्नोति सत्यं सत्यं नृपोत्तम ।।
तुलसीकाष्ठजं यस्तु चंदनं धारयेन्नरः ।। १६ ।।
तद्देहं न स्पृशेत्पापं क्रियमाणमपीह यत् ।।
तुलसीविपिनच्छाया यत्रयत्र भवेन्नृप ।। १७ ।।
तत्र श्राद्धं प्रकर्तव्यं पितॄणां दत्तमक्षयम् ।।
धात्रीफलविमिश्रैश्च तुलसीपत्रमिश्रितैः ।। १८ ।।
जलैः स्नाति नरस्तस्य गंगास्नानफलं स्मृतम् ।।
देवार्चनं नरः कुर्याद्धात्रीपत्रैः फलैस्तथा ।। १९ ।।
सुवर्णमणिमुक्तौघैरर्चनस्याप्नुयात्फलम् ।।
तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके ।। ।। 2.4.23.२० ।।
नित्यं धात्रीं समाश्रित्य तिष्ठंत्यर्के तुलास्थिते ।।
द्वादश्यां तुलसीपत्रं धात्रीपत्रं तु कार्तिके ।। २१ ।।
लुनाति स नरो गच्छेन्निरयानतिगर्हितान्।।
धात्रीतुलस्योर्माहात्म्यमपि देवश्चतुर्मुखः ।।
न समर्थो भवेद्वक्तुं यथा देवस्य शार्ङ्गिणः ।। २२ ।।
धात्रीतुलस्युद्भवकारणं यः शृणोति यः श्रावयते च भक्त्या ।।
विधूतपाप्मा सह पूर्वजैः स्वैः स्वर्गं व्रजत्यग्र्यविमानसंस्थैः ।।२३।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धात्रीतुलस्युत्पत्तिवर्णनंनाम त्रयोविंशोऽध्यायः।। २३ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 24
।। पृथुरुवाच ।। ।।
यदूर्जव्रतिनः पुंसः फलं महदुदादृतम् ।।
तत्पुनर्ब्रूहि माहात्म्यं केन चीर्णमिदं शुभम् ।। १ ।।
।। नारद उवाच ।। ।।
आसीत्सह्याद्रिविषये करवीरपुरे पुरा ।।
ब्राह्मणो धर्मवित्कश्चिद्धर्मदत्तेति विश्रुतः ।। २ ।।
विष्णुव्रतकरः सम्यग्विष्णुपूजारतः सदा ।।
कदाचित्कार्तिके मासि हरिजागरणाय सः ।। ३ ।।
रात्र्यां तुर्यावशेषायां जगाम हरिमन्दिरम्।।
हरिपूजोपकरणान्प्रगृह्य व्रजता तदा ।।४।।
तेन दृष्टा समायाता राक्षसी भीमदर्शना ।।
तां दृष्ट्वा भयवित्रस्तः कंपितावयवस्तदा ।। ५ ।।
पूजोपकरणैः सर्वैः पयोभिश्चाहनद्भयात् ।।
संस्मृत्य तद्धरेर्नाम तुलसीयुक्तवारिणा ।।
तेन वै हतमात्रे तु पापं तस्या ह्यगाल्लयम् ।। ६ ।।
अथ संस्मृत्य सा पूर्वजन्मकर्मविपाकजाम् ।।
स्वां दशामब्रवीद्विप्रं दंडवच्च प्रणम्य वै ।। ७ ।।
।। कलहोवाच ।। ।।
पूर्वकर्मविपाकेन दशामेतां गतास्म्यहम् ।।
तत्कथं नु पुनर्विप्र प्रयास्याम्युत्तमां गतिम् ।। ८ ।।
।। नारद उवाच ।। ।।
तां दृष्ट्वा प्रणतां सम्यग्वदमानां स्वकर्म तत् ।।
अतीव विस्मितो विप्रस्तदा वचनमब्रवीत् ।। ९ ।। ।।
।। धर्मदत्त उवाच ।। ।।
केन कर्मविपाकेन त्वं दशामीदृशीं गता ।।
कुत्रत्या का च किं शीला तत्सर्वं कथयस्व मे ।।2.4.24.१०।।
।। कलहोवाच ।। ।।
सौराष्ट्रनगरे ब्रह्मन्भिक्षुर्नामाऽभवद्द्विजः ।।
तस्याहं गृहिणी पूर्वं कलहाख्याऽतिनिष्ठुरा ।। ११ ।।
न कदाचिन्मया भर्तुर्वचसाऽपि शुभं कृतम् ।।
नाऽर्पितं तस्य मिष्टान्नं भर्तुर्वचनशीलया ।।१२।।
कलहप्रियया नित्यं मयोद्विग्नमना यदा ।।
परिणेतुं यदाऽन्यां स मतिं चक्रे पतिर्मम ।। १३ ।।
ततो गरं समादाय प्राणास्त्यक्ता मया द्विज ।।
अथ बद्ध्वा बध्यमानां मां निन्युर्यमकिंकराः ।। १४ ।।
यमश्च मां तदा दृष्ट्वा चित्रगुप्तमपृच्छत ।। ।। १५ ।।
।। यम उवाच ।। ।।
अनया किं कृतं कर्म चित्रगुप्त विलोकय ।।
प्राप्नोत्वेषा च तत्कर्म शुभं वा यदि वाऽशुभम् ।। १६ ।।
।। ।। कलहोवाच ।। ।।
चित्रगुप्तस्तदा वाक्यं भर्त्सयन्मामुवाच सः ।।
।। चित्रगुप्त उवाच ।। ।।
अनया तु कृतं कर्म शुभं किंचिन्न विद्यते ।। १७ ।।
मिष्टान्नं भुंजमानेयं न भर्तरि तदर्पितम् ।।
अतश्च वल्गुलीयोन्यां स्वविष्ठादाऽवतिष्ठतु ।। १८ ।।
भर्तुर्द्वेषात्तदाप्येषा नित्यं कलहकारिणी ।।
विष्ठादां सूकरीं योनिं तस्मात्तिष्ठत्वियं हरे ।। १९ ।।
पाकभांडे सदा भुंक्ते भुंक्ते चैका यतस्ततः ।।
तस्मादेषा बिडाल्यस्तु स्वजाताऽपत्यभक्षिणी ।। 2.4.24.२० ।।
भर्तारमपि चोद्दिश्य ह्यात्मघातः कृतोऽनया ।।
तस्मात्प्रेतशरीरेऽपि तिष्ठत्वेकाऽतिनिंदिता ।। २१ ।।
अतश्चैषा मरुद्देशं प्रापितव्या भटैरियम् ।।
तत्र प्रेतशरीरस्था चिरं तिष्ठत्वियं ततः ।। २२ ।।
ऊर्ध्वं योनित्रयं चैषा भुनक्त्वशुभकारिणी।।२३।।
।। कलहोवाच ।। ।।
साहं पंचशताब्दानि प्रेतदेहे स्थिता किल।।
क्षुतृड्भ्यां पीडिताऽऽविश्य शरीरं वणिजस्य च।।
आयाता दक्षिणं देशं कृष्णावेण्योश्च संगमम् ।। २४ ।।
तत्तीरं संश्रिता यावत्तावत्तस्य शरीरतः ।।
शिवविष्णुगणैर्दूरमपकृष्टा बलादहम् ।। २५ ।।
ततः क्षुत्क्षामया दृष्टो मया हि त्वं द्विजोत्तम ।।
त्वद्धस्ततुलसीवारिसंसर्गगतपापया ।।२६।।
तत्कृत्यं कुरु विप्रेंद्र कथं मुक्तिमियाम्यहम्।।
योनित्रयादग्रभवादस्माच्च प्रेतदेहतः ।।२७।।
इत्थं विचिंत्य कलहावचनं द्विजाग्र्यस्तत्कर्मपाकभयविस्मयदुःखयुक्तः ।।
तद्ग्लानिदर्शनकृपाचलचित्तवृत्ति ध्यात्वा चिरं स वचनं निजगाद दुःखात् ।। २८ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धर्मदत्तेतिहासकथनंनाम चतुर्विंशोऽध्यायः ।। २४ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 25
।। धर्मदत्त उवाच ।। ।।
विलयं यांति पापानि तीर्थे दानव्रतादिभिः ।।
प्रेतदेहस्थितायास्ते तेषु नैवाऽधिकारिता ।। १ ।।
त्वद्ग्लानिदर्शनादस्मात्खिन्नं च मम मानसम् ।।
न वै निर्वृतिमायाति त्वामनुद्धृत्य दुःखिताम् ।। २ ।।
तस्मादाजन्मचरितं यन्मया कार्तिकव्रतम् ।।
तत्पुण्यस्यार्द्धभागेन सद्गतिं त्वमवाप्नुहि ।। ३ ।।
।। नारद उवाच ।।
इत्युक्त्वा धर्मदत्तोऽसौ यावत्तामभ्यषेचयत् ।।
तुलसीमिश्रतोयेन श्रावयन्द्वादशाक्षरम् ।। ४ ।।
तावत्प्रेतत्वनिर्मुक्ता ज्वलदग्निशिखोपमा ।।
दिव्यरूपधरा जाता लावण्येन यथेंदिरा ।। ५ ।।
ततः सा दंडवद्भूमौ प्रणनामाथ तं द्विजम् ।।
उवाच सा तदा वाक्यैर्हर्षगद्गदभाषिणी ।। ६ ।।
।। ।। कलहोवाच ।। ।।
त्वत्प्रसादाद्द्विजश्रेष्ठ विमुक्ता निरयादहम् ।।
पापाब्धौ मज्जमानायास्त्वं नौभूतोऽसि मे ध्रुवम् ।। ७ ।।
।। नारद उवाच ।। ।।
इत्थं वदन्ती सा विप्रं ददर्शाऽऽयातमंबरात् ।।
विमानं भास्वरं युक्तं विष्णुरूपधरैर्गणैः ।। ८ ।।
अथ सा तद्विमानाऽग्र्यं द्वाःस्थाभ्यामवरोपिता ।।
पुण्यशीलसुशीलाभ्यामप्सरोगणसेविता ।। ९ ।।
तद्विमानं तदाऽपश्यद्धर्मदत्तः सविस्मयः।।
पपात दण्डवद्भूमौ दृष्ट्वा तौ विष्णुरूपिणौ ।। 2.4.25.१० ।।
पुण्यशीलसुशीलौ च तमुत्थाप्याऽऽनतं द्विजम् ।।
अभिनन्द्य ततो वाक्यमूचतुर्धर्मसंयुतम् ।। ११ ।।
।। गणावूचतुः ।। ।।
साधुसाधु द्विजश्रेष्ठ यस्त्वं विष्णुरतः सदा ।।
दीनाऽनुकम्पी सर्वज्ञो विष्णुव्रतपरायणः ।।१२।।
आ बालत्वाच्छुभं त्वेतद्यत्त्वया कार्तिकव्रतम् ।।
कृतं तस्याऽर्द्धदानेन पुण्यं द्वैगुण्यमागमत्।।१३।।
जन्मांतरशतोद्भूतं पापं तद्विलयं गतम्।।
स्नानैरेव गतं पापं यदस्याः पूर्वकर्मजम् ।।१४।।
हरिजागरणाद्यैश्च विमानमिदमास्थिता।।
वैकुण्ठे नीयते साधो नानाभोगयुता त्वियम् ।।१५।।
दीपदानभवैः पुण्यैस्तेजःसारूप्यमास्थिता ।।
तुलसीपूजनाद्यैश्च कार्तिकव्रतकैः शुभैः ।।
विष्णुसान्निध्यगा जाता त्वया दत्तैः कृपानिधे ।।१६।।
त्वमप्यस्य भवस्यांते भार्याभ्यां सह यास्यसि ।।
वैकुण्ठ भुवनं विष्णोः सान्निध्यं च सरूपताम् ।। १७ ।।
ते धन्याः कृतकृत्यास्ते तेषां च सफलो भवः।।
यैर्भक्त्याराधितो विष्णुर्धर्मदत्त यथा त्वया ।। ।। १८ ।।
सम्यगाराधितो विष्णुः किं न यच्छति देहिनाम् ।।
औत्तानचरणिर्येन ध्रुवत्वे स्थापितः पुरा ।। १९।।
यन्नामस्मरणादेव देहिनो यांति सद्गतिम् ।। 2.4.25.२० ।।
ग्राहग्रस्तो हि नागेंद्रो यन्नामस्मरणात्पुरा ।।
विमुक्तः संनिधिं प्राप्तो जातोऽयं जयसंज्ञकः ।। २१ ।।
यतस्त्वयाऽर्चितो विष्णुस्तत्सान्निध्यं प्रयास्यसि ।।
बहून्यब्दसहस्राणि भार्याद्वययुतः किल ।। २२ ।।
ततः पुण्यक्षयेजाते यदा यास्यसि भूतलम् ।।
सूर्यवंशोद्भवो राजा विख्यातस्त्वं भविष्यसि ।। २३ ।।
नाम्ना दशरथस्तत्र भार्याद्वययुतः पुनः ।।
तृतीययाऽनया चाऽपि या ते पुण्यार्द्धभागिनी ।। २४ ।।
तत्राऽपि तव सान्निध्यं विष्णुर्यास्यति भूतले ।।
आत्मानं तव पुत्रत्वे प्रकल्प्याऽमरकार्यकृत् ।। २५ ।।
तव जन्मव्रतादस्माद्विष्णुसंतुष्टिकारकात् ।।
न यज्ञा न च दानानि न तीर्थान्यधिकानि वै ।। २६ ।।
धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः।।
यदर्धभागात्सफला मुरारेः प्रणीयतेऽस्माभिरियं सलोकताम्।।२७।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धर्मदत्तोपाख्याने कलहामोक्षकथनंनाम पञ्चविंशोऽध्यायः ।। २५ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 26
।। नारद उवाच ।। ।।
इत्थं तद्वचनं श्रुत्वा धर्मदत्तः सविस्मयः ।।
प्रणम्य दण्डवद्भूमौ वाक्यमेतदुवाच ह ।। १ ।। ।।
।। धर्मदत्त उवाच ।। ।।
आराधयंति सर्वेऽपि विष्णुं भक्ताऽर्तिनाशनम् ।।
यज्ञैर्दानैर्व्रतैस्तीर्थैस्तपोभिश्च यथाविधि।।२।।
विष्णुप्रीतिकरं तेषां किंचित्सान्निध्यकारकम् ।।
यत्कृत्वा तानि चीर्णानि सर्वाण्यपि भवंति हि ।। ३ ।।
।। गणावूचतुः ।। ।।
साधु पृष्टं त्वया विप्र शृणुष्वैकाग्रमानसः ।।
सेतिहासकथां पुण्यां कथ्यमानां पुराभवाम् ।। ४ ।।
कांचिपुर्यां पुरा चोलश्चक्रवर्ती नृपोऽभवत् ।।
यस्याख्ययैव ते देशाश्चोला इति प्रथां गताः ।। ५ ।।
यस्मिञ्छासति भूचक्रं दरिद्रो वाऽपि दुःखितः।।
पापबुद्धिः सरुग्वापि नैव कश्चिदभून्नरः ।।६।।
यस्याप्युन्नतयज्ञस्य ताम्रपर्ण्यास्तटावुभौ ।।
सुवर्णयूपैः शोभाढ्यावास्तां चैत्ररथोपमौ ।। ७ ।।
स कदाचिदगाद्राजा ह्यनंतशयनं द्विज ।।
यत्राऽसौ जगतां नाथो योगनिद्रामुपाश्रितः।। ६ ।।
तत्र श्रीरमणं देवं संपूज्य विधिवन्नृपः ।।
मणिमुक्ताफलैर्दिव्यैः स्वर्णपुष्पैश्च शोभनैः ।। ९ ।।
प्रणम्य दण्डवद्भूमावुपविष्टः स तत्र वै ।।
तावद्ब्राह्मणमायांतमपश्यद्देवसन्निधौ ।। 2.4.26.१० ।।
देवार्चनार्थं पाणौ तु तुलस्युदकधारिणम्।।
स्वपुरीवासिनं तत्र विष्णुदासाह्वयं द्विजम् ।। ११ ।।
स तत्राभ्येत्य विप्रर्षिर्देवदेवमपूजयत् ।।
विष्णुसूक्तेन संस्नाप्य तुलसीमंजरीदलैः ।। १२ ।।
तुलसीपूजया तस्य रत्नपूजां पुरा कृताम् ।।
आच्छादितां समालोक्य राजा कुद्धोऽब्रवीदिदम्।। १३ ।।
।। चोल उवाच ।। ।।
माणिक्यस्वर्णपूजाऽत्र शोभाढ्या या कृता मया ।।
विष्णुदास कथं सेयमाच्छन्ना तुलसीदलैः ।। १४ ।।
विष्णुभक्तिं न जानासि वराकोऽसि मतो मम ।।
यस्त्विमामतिशोभाढ्यां पूजामाच्छादयस्यहो ।। ।। १५ ।।
इति तद्वचनं श्रुत्वा सक्रोधः स द्विजोत्तमः ।।
राज्ञो गौरवमुल्लंघ्य जगाद वचनं तदा ।। १६ ।।
।। विष्णुदास उवाच ।। ।।
राजन्भक्तिं न जानासि गर्वितोऽसि नृपश्रिया ।।
कियद्विष्णुव्रतं पूर्वं त्वया चीर्णं वदस्व तत् ।। १७ ।।
।।गणावूचतुः।।
तद्ब्राह्मणवचः श्रुत्वा प्रहस्य स नृपोत्तमः।।
विष्णुदासं तदा गर्वादुवाच वचनं द्विजम्।। १८।।
।।राजोवाच।।
इत्थं चेद्वदसे विप्र विष्णुभक्त्याऽतिगर्वितः।।
भक्तिस्ते कियती विष्णोर्दरिद्रस्याऽधनस्य च ।।१९।।
यज्ञदानादिकं नैव विष्णोस्तुष्टिकरं कृतम् ।।
नाऽपि देवालयं पूर्वं कृतं विप्र त्वया क्वचित् ।। 2.4.26.२० ।।
ईदृशस्याऽपि ते गर्व एष तिष्ठति भक्तितः ।।
तच्छृण्वंतु वचो मेऽद्य सर्वेऽप्येते द्विजातयः ।। २१ ।।
साक्षात्कारमहं विष्णोरेष वादो गमिष्यति ।।
पश्यंतु सर्वेऽपि ततो भक्तिं ज्ञास्यंति चावयोः ।। २२ ।।
।। गणावूचतुः ।। ।।
इत्युक्त्वा स नृपोऽगच्छन्निजराजगृहं तदा ।।
आरभद्वैष्णवं सत्रं कृत्वाऽऽचार्यं तु मुद्गलम् ।। २३ ।।
ऋषिसंघसमाजुष्टं बह्वन्नं बहुदक्षिणम् ।।
यच्च ब्रह्मकृतं पूर्वं गयाक्षेत्रे समृद्धिमत् ।। २४ ।।
विष्णुदासोऽपि तत्रैव तस्थौ देवालये व्रती ।।
यथोक्तनियमान्कुर्वन्विष्णोस्तुष्टिकरान्सदा ।। २५ ।।
माघोर्जयोर्व्रतं सम्यक्तुलसीवनपालनम् ।।
एकादश्यां हरेर्जाप्यं द्वादशाक्षरविद्यया ।। २६ ।।
उपचारैः षोडशभिर्नृत्यगीतादिमंगलैः ।।
नित्यं विष्णोस्तथा पूजां व्रतान्येतानि सोऽकरोत् ।। २७ ।।
नित्यं संस्मरणं विष्णोर्गच्छन्भुवि स्वपन्नपि ।।
सर्वभूतस्थितं विष्णुमपश्यत्समदर्शनः ।। ।। २८ ।।
माघकार्तिकयोर्नित्यं विशेषनियमानपि ।।
अकरोद्विष्णुतुष्ट्यर्थं सोद्यापनविधिं तथा ।। २९ ।।
एवं समाराधयतोः श्रियः पतिं तयोश्च चोलेश्वरविष्णुदासयोः ।।
अगाद्धि कालः सुमहान्व्रतस्थयोस्तन्निष्ठसर्वेंद्रियकर्मणोस्तदा ।। 2.4.26.३० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये चोलराजविष्णुदासब्राह्मणविवादकथनंनाम षड्विंशोऽध्यायः ।। २६ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 27
।। नारद उवाच ।। ।।
कदाचिद्विष्णुदासोऽथ कृत्वा नित्यविधिं द्विज ।।
स पाकमकरोत्तावदहरत्कोऽप्यलक्षितः ।। १ ।।
तमदृष्ट्वाऽप्यसौ पाकं पुनर्नैवाऽकरोत्तदा ।।
सायंकालाऽर्चनस्याऽसौ व्रतभंगभयाद्द्विजः ।। २ ।।
द्वितीयेऽह्नि पुनः पाकं कृत्वा यावत्स विष्णवे ।।
उपहारार्पणं कर्तुं गतः कोऽप्यहरत्पुनः ।। ३ ।।
एवं सप्तदिनं तस्य पाकं कोऽप्यहरन्नृप ।।
ततः सविस्मयश्चाथ मनस्येवमधारयत् ।। ४ ।।
अहो नित्यं समभ्येत्य कः पाकं हरते मम ।।
क्षेत्रसंन्यासिनः स्थानं न त्याज्यं मम सर्वथा ।। ५ ।।
पुनः पाकं विधायाऽत्र भुज्यते यदि चेन्मया ।।
सायंकालाऽर्चनं चैव परित्याज्यं कथं भवेत्।।६।।
यदि पाकं विधायैवं भोक्तव्यं तु मया न तत्।।
अनिवेद्य हरौ सर्वं वैष्णवैर्नैव भुज्यते।। ७ ।।
उपोषितोऽहं सप्ताऽहं तिष्ठाम्यत्र व्रतस्थितः ।।
अद्यसंरक्षणं सम्यक्पाकस्याऽत्र करोम्यहम् ।। ८ ।।
इति पाकं विधायाऽसौ तत्रैवाऽलक्षितः स्थितः ।।
तावद्ददर्श चंडालं पाकान्नहरणे स्थितम् ।।९।।
क्षुत्क्षामं दीनवदनमस्थिचर्माऽवशेषितम् ।।
तमालोक्य द्विजाग्र्योऽभूत्कृपयाऽन्वितमानसः ।।2.4.27.१०।।
विलोक्याऽन्नहरं विप्रस्तिष्ठतिष्ठेत्यभाषत।।
कथमश्नासि तद्रूक्षं घृतमेतद्गृहाण भोः।।११।।
इत्थं वदंतं विप्राग्र्यमायांतं स विलोक्य च ।।
वेगादधावत्तद्भीत्या मृर्च्छितश्च पपात ह ।।१२।।
भीतं संमूर्च्छितं दृष्ट्वा चंडालं स द्विजाग्रणीः ।।
वेगादभ्येत्य कृपया स्ववस्त्रांतैरवीजयत् ।। १३ ।।
अथोत्थितं तमेवासौ विष्णुदासो व्यलोकयत् ।।
साक्षान्नारायणं देवं शंखचक्रगदाधरम् ।।।। १४ ।।
तं दृष्ट्वा सात्त्विकैर्भावैरावृतो द्विजसत्तमः ।।
स्तोतुं चैव नमस्कर्तुं तदा नाऽलं बभूव सः ।। १५ ।।
अथ शक्रादयो देवास्तत्रैवाभ्याययुस्तदा ।।
गंधर्वाप्सरसश्चाऽपि जगुश्च ननृतुर्मुदा ।। १६ ।।
विमानशतसंकीर्णं देवर्षिशतसंकुलम् ।।
गीतवादित्रनिर्घोषं स्थानं तदभवत्तदा ।। ।। १७ ।।
ततो विष्णुः समालिंग्य स्वभक्तं सात्त्विकव्रतम् ।।
सारूप्यमात्मनो दत्त्वाऽनयद्वैकुण्ठमंदिरम् ।। १८ ।।
विमानवरसंस्थं तं गच्छंतं विष्णुसन्निधिम् ।।
दीक्षितश्चोलनृपतिर्विष्णुदासं ददर्श सः ।। १९ ।।
वैकुण्ठभुवनं यांतं विष्णुदासं विलोक्य सः ।।
स्वगुरुं मुद्गलं वेगादाहूयेत्थं वचोऽब्रवीत् ।। 2.4.27.२० ।।
।। चोल उवाच ।। ।।
यत्स्पर्द्धया मया चैव यज्ञदानादिकं कृतम् ।।
स विष्णुरूपधृग्विप्रो याति वैकुण्ठमंदिरम् ।। ।। २१ ।।
दीक्षितेन मया सम्यक्सत्रेऽस्मिन्वैष्णवे त्वया ।।
हुतमग्नौ कृता विप्रा दानाद्यैः पूर्णमानसाः ।। २२ ।।
नैवाऽद्यापि स मे देवः प्रसन्नो जायते ध्रुवम् ।।
विष्णुदासस्य भक्त्यैव साक्षात्कारं ददौ हरिः ।। २३ ।।
तस्माद्दानैश्च यज्ञैश्च नैव विष्णुः प्रसीदति ।।
भक्तिरेव परं तस्य निदानं दर्शने विभोः ।। २४ ।।
।। गणावूचतुः ।। ।।
इत्युक्त्वा भागिनेयं स्वमभ्यषिंचन्नृपासने ।।
आबाल्याद्दीक्षितो यज्ञे ह्यपुत्रत्वमगाद्यतः।। २५ ।।
तस्मादद्याऽपि तद्देशे सदा राज्यांऽशभागिनः ।।
स्वस्रेया एव जायंते तत्कृतावधिवर्तिनः ।। २६ ।।
यज्ञवाटं ततोऽभ्येत्य यज्ञकुण्डाग्रतः स्थितः ।।
त्रिरुच्चैर्व्याजहाराऽऽशु विष्णुं संबोधयंस्तदा ।। २७ ।।
विष्णो भक्तिं स्थिरां देहि मनोवाक्काय कर्मभिः ।।
इत्युक्त्वा सोऽपतद्वह्नौ सर्वेषामेव पश्यताम् ।। २८ ।।
मुद्गलस्तु तदा क्रोधाच्छिखामुत्पाटयत्स्वकाम् ।।
ततस्त्वद्यापि तद्गोत्रे मुद्गला विशिखा बभुः ।। २९ ।।
तावदाविरभूद्विष्णुः कुण्डाग्नौ भक्तवत्सलः ।।
तमालिंग्य विमानाग्र्यं समारोहयदच्युतः ।। 2.4.27.३० ।।
तमालिंग्याऽऽत्मसारूप्यं दत्त्वा वैकुण्ठमंदिरम्।।
तेनैव सह देवेशो जगाम त्रिदशैर्वृतः ।। ३१ ।।
।। नारद उवाच ।। ।।
यो विष्णुदासः स तु पुण्यशीलो यश्चोलभूपः स सुशीलनामा ।।
एतावुभौ तत्समरूपभाजौ द्वाःस्थौ कृतौ तेन रमाप्रियेण ।। ३२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये चोलविष्णुदासमुक्तिकथनंनाम सप्तविंशोऽध्यायः ।। २७ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 28
।। धर्मदत्त उवाच ।। ।।
जयश्च विजयश्चैव विष्णोर्द्वास्थौ श्रुतौ मया ।।
किं नु ताभ्यां पुरा चीर्णं तस्मात्तद्रूपधारिणौ ।। १ ।।
।। ।। गणावूचतुः ।। ।।
तृणबिंदोस्तु कन्यायां देवहूत्यां पुरा द्विज ।।
कर्दमस्य तु दृष्ट्यैव पुत्रौ द्वौ संबभूवतुः ।। २ ।।
ज्येष्ठो जयः कनिष्ठोऽभूद्विजयश्चैव नामतः ।।
तस्यामेवाऽभवत्पश्चात्कपिलो योगधर्मवित् ।। ३ ।।
जयश्च विजयश्चैव विष्णुभक्तिरतौ सदा ।।
तौ तन्निष्ठेन्द्रियग्रामौ धर्मशीलौ बभूवतुः ।। ४ ।।
नित्यमष्टाक्षरीजाप्यौ विष्णुव्रतकरावुभौ ।।
साक्षात्कारं ददौ विष्णुस्तयोर्नित्यार्चने सदा ।। ५ ।।
मरुत्तेन कदाचित्तावाहूतौ यज्ञकर्मणि ।।
जग्मतुर्यज्ञकुशलौ देवर्षिगणपूजितौ ।। ६ ।।
जयस्तत्राभवद्ब्रह्मायाजको विजयोऽभवत् ।।
ततो यज्ञविधिं कृत्स्नं परिपूर्णं च चक्रतुः ।। ७ ।।
मरुत्तोऽवभृथस्नातस्ताभ्यां वित्तं ददौ बहु ।।
तत्समादाय तौ वित्तं जग्मतुः स्वाश्रमं प्रति ।। ८ ।।
यजनाय पृथग्विष्णोस्तुष्ट्यर्थं तौ ततो मुनी ।।
तद्धनं विभजंतौ तु पस्पर्धाते परस्परम् ।। ९ ।।
जयोऽब्रवीत्समो भागः क्रियतामिति तत्र सः ।।
विजयश्चाब्रवीन्नैतद्यल्लब्धं येन तस्य तत् ।। 2.4.28.१० ।।
ततोऽशपज्जयः क्रोधाद्विजयं लुब्धमानसम् ।।
गृहीत्वा न ददास्येतत्तस्माद्ग्राहो भवेति तम् ।। ।। ११ ।।
विजयस्तस्य तं शापं श्रुत्वा सोप्यशपच्च तम् ।।
मदभ्रांतोऽशपस्त्वं मां तस्मान्मातंगतां व्रज ।। १२ ।।
तत्तदाचख्यतुर्विष्णुं दृष्ट्वा नित्यार्चने विभुम् ।।
शापयोश्च निवृत्तिं तौ ययाचाते रमापतिम् ।। १३ ।।
।। जयविजयावूचतुः ।। ।।
भक्तावावां कथं देव ग्राहमातंगयोनिगौ ।।
भविष्यावः कृपासिंधो तच्छापो विनिवर्त्यताम् ।। १४ ।।
।। श्रीभगवानुवाच ।। ।।
मद्भक्तयोर्वचोऽसत्यं न कदाचिद्भविष्यति ।।
मयाऽपि नान्यथा कर्तुं शक्यते तत्कदाचन ।। १५ ।।
प्रह्लादवचसा स्तंभेऽप्याविर्भूतो ह्यहं पुरा ।।
तथांऽबरीषवाक्येन जातो गर्भे स्वयं किल ।। १६ ।।
तस्माद्युवामिमौ शापावनुऽभूय स्वयंकृतौ ।।
लभेथां मत्पदं नित्यमित्युक्त्वांऽतर्दधे हरिः ।। १७ ।। ।।
।। गणावूचतुः ।। ।।
ततस्तौ ग्राहमातंगावभूतां गंडकीतटे ।।
जातिस्मरौ तु तद्योन्यामपि विष्णुव्रते स्थितौ ।। १८ ।।
कदाचित्स गजः स्नातुं कार्तिके गंडकीं गतः ।।
तावज्जग्राह तं ग्राहः संस्मरञ्च्छापकारणम् ।। १९ ।।
ग्राहग्रस्तो ह्यसौ नागः सस्मार श्रीपतिं तदा ।।
तावदाविरभूद्विष्णुश्चक्रशंखगदाधरः ।। 2.4.28.२० ।।
ततस्तौ ग्राहमातंगौ चक्रं क्षिप्त्वा समुद्धृतौ ।।
दत्त्वैव निजसारूप्यं वैकुण्ठमनयद्विभुः ।। २१ ।।
ततःप्रभृति तत्स्थानं हरिक्षेत्रमितिस्मृतम् ।।
चक्रसंघर्षणाद्यस्मिन्ग्रावाणोऽपि हि लांछिताः ।। २२ ।।
तावुभौ विश्रुतौ लोके जयश्च विजयस्तथा ।।
नित्यं विष्णुप्रियौ द्वाःस्थौ पृष्टौ यौ हि त्वया द्विज ।। २३ ।।
अतस्त्वमपि धर्मज्ञ नित्यं विष्णुव्रते स्थितः ।।
त्यक्तमात्सर्यदंभोऽपि भवस्व समदर्शनः ।। ।। २४ ।।
तुलामकरमेषेषु प्रातःस्नायी सदा भव ।।
एकादशीव्रते तिष्ठ तुलसीवनपालकः ।। २५ ।।
ब्राह्मणानथ गाश्चाऽपि वैष्णवांश्च सदा भज ।।
मसूरिकामारनालं वृंताकान्यपि खाद मा ।। २६ ।।
एवं त्वमपि देहांते तद्विष्णोः परमं पदम् ।।
प्राप्नोषि धर्मदत्त त्वं तद्भक्त्यैव यथा वयम् ।। २७ ।।
तावज्जन्म व्रतादस्माद्विष्णुसंतुष्टिकारकात् ।।
न यज्ञा न च दानानि न तीर्थान्यधिकानि वै ।। २८ ।।
धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः ।।
यदर्धभागाऽऽप्तफला मुरारेः प्रणीयतेऽस्माभिरियं सलोकताम् ।। २९ ।।
।। नारद उवाच ।। ।।
इत्थं तौ धर्मदत्तं तमुपदिश्य विमानगौ ।।
तया कलहया सार्द्धं वैकुण्ठभवनं गतौ ।। 2.4.28.३० ।।
धर्मदत्तो ह्यसौ जातप्रत्ययस्तद्व्रते स्थितः ।।
देहांऽते तद्विभोः स्थानं भार्याभ्यां संयुतोऽभ्ययात् ।। ३१ ।।
इतिहासमिमं पुराभवं शृणुते श्रावयते च यः पुमान् ।।
हरिसन्निधिकारणीं मतिं लभतेऽसौ कृपया जगद्गुरोः ।। ३२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धर्मदत्तमोक्षप्राप्तिकथनंनामाऽष्टाविंशोऽध्यायः ।। २८ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 29
।। श्रीकृष्ण उवाच ।।
इति तद्वचनं श्रुत्वा पृथुर्विस्मितमानसः ।।
संपूज्य नारदं सम्यग्विससर्ज तदा प्रिये ।।१।।
पुराऽवंतीपुरे कश्चिद्विप्र आसीद्धनेश्वरः ।।
ब्रह्मकर्मपरिभ्रष्टः पापकर्मा सुदुर्मतिः ।।२।।
देशाद्देशातरं गच्छन्क्रयविक्रयकारणात् ।।
माहिष्मतीपुरीमागात्कदाचित्स धनेश्वरः।।३।।
महिषेण कृता पूर्वं तस्मान्माहिष्मतीति सा ।।
यस्या वप्रगता भाति नर्मदा पापनाशिनी ।। ४ ।।
कार्तिकव्रतिनस्तत्र नानादेशाऽऽगतान्नरान् ।।
स दृष्ट्वा विक्रयं कुर्वन्मासमेकमुवास सः ।। ५ ।।
स नित्यं नर्मदातीरे भ्रमन्विक्रयकारणात् ।।
ददर्श ब्राह्मणान्स्नानजपदेवार्चने स्थितान् ।। ।। ६ ।।
कांश्चित्पुराणं पठतः कांश्चिच्च श्रवणे रतान् ।।
नृत्यगायनवादित्रविष्णुश्रवणतत्परान् ।।७।।
उद्यापनविधौ सक्तान्कांश्चिज्जागरणे रतान् ।।
विप्रगोपूजनरतान्दीपदानरतांस्तथा ।। ८ ।।
ददर्श कौतुकाविष्टस्तत्रतत्र धनेश्वरः ।।
नित्यं परिभ्रमंस्तत्र दर्शनस्पर्शभाषणात् ।। ९ ।।
वैष्णवानां तथा विष्णोर्नामश्रावादि सोऽलभत् ।।
एवं मासं स्थितस्तस्या नर्मदायास्तटे द्विजः ।। 2.4.29.१० ।।
तावत्कृष्णाऽहिना दष्टो विह्वलः स पपात ह ।।
अथ देहपरित्यक्तं तं वद्ध्वा यमकिंकराः ।। ११ ।।
यमाज्ञया कुंभिपाके चिक्षिपुस्तं धनेश्वरम् ।।
यावत्क्षिप्तश्च तत्रासौ तावच्छीतलतां ययौ ।। ।। १२ ।।
कुंभीपाको यथा वह्निः प्रह्लादक्षेपणात्पुरा ।।
यमस्तु कौतुकं दृष्ट्वा पप्रच्छानीय तं ततः ।। १३ ।।
तावदभ्यागतस्तत्र नारदः प्राह सत्वरम् ।।
।। नारद उवाच ।। ।।
नैवाऽयं निरयान्भोक्तुमर्हो ह्यरुणनंदन ।। १४ ।।
यस्मादंतेऽस्य संजातं कर्म यन्निरयापहम् ।।
यः पुण्यकर्मिणां कुर्याद्दर्शनस्पर्शभाषणम् ।। १५ ।।
ततः षडंशमाप्नोति पुण्यस्य नियतं नरः ।।
सख्यं तु तैस्तु संसर्गं कृतवान्वै धनेश्वरः ।। १६ ।।
कार्तिकव्रतिभिर्मासं तेषां पुण्यांशभागयम् ।। १७ ।।
तस्मादकामपुण्यो हि यक्षयोनिस्थितो ह्ययम् ।।
विलोक्य निरयान्सर्वान्पापभोगप्रदर्शकान् ।। १८ ।।
।। ।। श्रीकृष्ण उवाच।। ।।
इत्युक्त्वा गतवति नारदे स सौरिस्तद्वाक्यश्रवणविबुद्धतत्सुकर्मा।।
तं विप्रं पुनरनयत्स्वकिंकरेण तान्सर्वान्निरयगणान्प्रदर्शयिष्यन् ।। १९ ।।
ततो धनेश्वरं नीत्वा निरयान्प्रेतपोऽब्रवीत् ।।
दर्शयिष्यंस्तु तान्सर्वान्यमानुज्ञाकरस्तदा ।। 2.4.29.२० ।।
।। प्रेतप उवाच ।। ।।
पश्येमान्निरयान्घोरान्धनेश्वर महाभयान् ।।
एषु पापकरा नित्यं पच्यंते यमकिंकरैः ।।२१।।
अकामात्पातकं शुष्कं कामादार्द्रमुदाहृतम् ।।
आर्द्रशुष्कादिभिः पापैर्द्विप्रकारानवस्थितान् ।। २२ ।।
चतुराशीतिसंख्याकैः पृथग्भेदैरवस्थितान् ।।
यत्प्रकीर्णमपांक्तेयं मलिनीकरणं तथा ।। २३ ।।
जातिभ्रंशकरं तद्वदुपपातकसंज्ञकम् ।।
अतिपापं महापापं सप्तधा पातकं स्मृतम् ।। २४ ।।
एभिः सप्तसु पच्यंते निरयेषु यथाक्रमम् ।।
कार्तिकव्रतिभिर्यस्मात्संसर्गो ह्यभवत्तव ।। २५ ।।
तत्पुण्योपचयादेते निर्हृता निरयाः खलु ।।
श्रीकृष्ण उवाच ।। ।।
दर्शयित्वेति निरयान्प्रेतपस्तमथाहरत् ।। २६ ।।
धनेश्वरं यक्षलोकं यक्षश्चाऽभूत्स तत्र हि ।।
धनदस्याऽनुगः सोऽयं धनयक्षेति विश्रुतः ।। २७ ।।
।। सूत उवाच ।। ।।
इत्युक्त्वा वासुदेवोऽसौ सत्यभामामतिप्रियम् ।।
सायंसंध्याविधिं कर्तुं जगाम जननीगृहम् ।। २८ ।।
।। ब्रह्मोवाच ।। ।।
एवंप्रभावः खलु कार्तिकोऽयं मुक्तिप्रदो भुक्तिकरश्च यस्मात् ।।
प्रयांत्यनेकाऽर्जितपातकानि व्रतस्य संदर्शयतोऽपि मुक्तिम् ।। २९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धनेश्वरयक्षजन्मप्राप्तिवर्णनंनामैकोनत्रिंशोऽध्यायः ।। २९ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 30
।। नारद उवाच ।। ।।
अद्भुतोऽयं त्वया प्रोक्तो महिमा कार्तिकस्य तु ।।
स्वस्य कर्तुमसामर्थ्यं कथमेतत्कृतं भवेत् ।। १ ।।
।। ब्रह्मोवाच ।। ।।
नास्ति कर्तुं स्वसामर्थ्यमुपायात्प्राप्यते फलम् ।।
द्रव्यं दत्त्वा ब्राह्मणाय गृह्णीयात्फलमुत्तमम् ।। २ ।।
शिष्याद्वा भृत्यवर्गाद्वा स्त्रीभ्यो वाऽऽप्ताच्च कारयेत् ।।
तस्मादपि फलं गृह्णन्फलभाग्जायते नरः ।। ३ ।।
।। नारद उवाच ।। ।।
अदत्तान्यपि पुण्यानि प्राप्यंते केनचित्क्वचित् ।।
एतदिच्छाम्यहं श्रोतुं कौतुकं मम वर्तते ।। ४ ।।
।। ब्रह्मोवाच ।। ।।
अदत्तान्यपि पुण्यानि लभंते पातकान्यपि ।।
येनोपायेन तद्वच्मि शृणुष्वैकमना द्विज ।। ५ ।।
सुकृतं वा दुष्कृतं वा कृतमेकेन यत्कृते ।।
जायते तस्य तद्राष्ट्रे त्रेतायां तु पुरो भवेत् ।। ६ ।।
द्वापरे वंशमध्ये तु कलौ कर्तैव केवलम्।।
आज्ञानाद्यत्कृतं कर्म बाल्ये स्वप्ने तु तत्फलम् ।। ७ ।।
अज्ञानाद्यच्च तारुण्ये बाल्ये तस्य फलं भवेत् ।।
ज्ञानपूर्वं कृतं कर्म आजन्मांतं च तत्फलम् ।। ८ ।।
षण्मासं पापिसंगेन नरः पापी प्रजायते ।।
पापिनां वा धर्मिणां वा संसर्गाद्दशमासिकम् ।। ९ ।।
भोजनादेकपंक्तौ च विंशांशः पुण्यपापयोः ।।
एकासने द्वयोर्वासात्सहस्रांशेन लिप्यते ।। 2.4.30.१० ।।
यो वै यस्यान्नमश्नाति स भुंक्ते तस्य किल्बिषम् ।।
जपादौ पापिसंसर्गात्षोडशांऽशो विनश्यति ।। ११ ।।
परस्य स्तवनाद्यानादेकपात्रस्थभोजनात् ।।
एकशय्याप्रावरणात्षष्ठांशः पुण्यपापयोः ।। १२ ।।
पुरुषो हरते सर्वं भार्याया औरसस्य च ।।
अर्द्धं शिष्याच्चतुर्थांशं पापं पुण्यं तथैव च ।। १३ ।।
भर्तुराज्ञाकरी नारी भर्तुरर्द्धं वृषं हरेत् ।।
यद्धस्तपक्वं भुजीयाद्दशांशं तदघं हरेत् ।। १४ ।।
वर्षाऽशनं तु यो दत्ते तदर्द्धाघस्य भागयम् ।।
वर्षाशनार्द्धं पुण्यं तु भुंक्ते वर्षाशनी नरः ।। १५ ।।
पुरोहितस्य षष्ठांशं पापं वा पुण्यमेव वा ।।
यजमानो भुनक्त्येव तद्दशांशं पुरोहितः ।। १६ ।।
उद्योगी चानुमन्ता च यश्चोपकरणप्रदः ।।
षष्ठांशं पुण्यपापानामुपद्रष्टा दशांशकम् ।। १७ ।।
यद्धस्तात्कार्यते कर्म नान्नमस्मै प्रयच्छति ।।
विना भृतकशिष्याभ्यां षष्ठांशं पुण्यमाहरेत्।। १८ ।।
व्यवहारात्तथा प्रीत्या नित्यं संभाषणादिभिः ।।
दशांशं पुण्यपापानां लभते नात्र संशयः ।। १९ ।।
संसर्गपुण्ययोगेन एकदन्तो द्विजाधमः ।।
नरकान्विविधान्दृष्ट्वा स्वर्गं प्राप तदैव हि ।। 2.4.30.२० ।।
।। ।। नारद उवाच ।। ।।
ईदृशं कार्तिकव्रतमल्पायासं महत्फलम् ।।
न कुर्वंति जनाः केचित्किमर्थं वै पितामह ।। २१ ।।
।। ब्रह्मोवाच ।। ।।
स्वसृष्टिवृद्धये वेधा धर्माऽधर्मौ ससर्ज ह ।।
धर्ममेवाऽनुतिष्ठंतः प्राप्नुवंति शुभां गतिम् ।। २२ ।।
अधर्ममनुतिष्ठंतो यांति तेऽधोगतिं नराः ।।
पुण्यकर्मफलं नाको नरकस्तद्विपर्ययः ।। २३ ।।
तयोः पालनकर्तारौ द्वावेव विधिना कृतौ ।।
शतक्रतुयमौ तौ च पुण्यपापानुसारिणौ ।। २४ ।।
गुरुतल्पादयः पुत्राः कामस्य प्रथिता भुवि ।।
क्रोधस्य पितृघाताद्या लोभस्य तनयाञ्छृणु ।। २५ ।।
ब्रह्मस्वहरणाद्याश्च एते नरकनायकाः ।।
कृता यमेन तैर्व्याप्ता मनुजा न हि कुर्वते ।। २६ ।।
व्रतादिधर्मकृत्यं यैस्तैर्मुक्तास्ते हि कुर्वते ।। २७ ।।
श्रद्धा मेधा विघातिन्यौ वर्तेते भुवि सर्वदा ।।
ताभ्यां व्याप्तस्तु मनुजः श्रीविष्णोः श्रवणादिकम् ।। २८ ।।
न करोति सुदुर्मेधा येनांधं याति वै तमः ।।
कृष्णेन सत्यभामायै यदुक्तं तद्वदामि ते ।। २९ ।।
अध्यापनाद्याजनाद्वाऽप्येकपंक्त्यशनादपि ।।
तुर्यांश पुण्यपापानां परोक्षं लभते नरः ।। 2.4.30.३० ।।
एकासनादेकयानान्निश्वासस्यांगसंगतः ।।
षडंशं फलभागी स्यान्नियतं पुण्यपापयोः ।। ३१ ।।
स्पर्शनाद्भाषणाद्वाऽपि परस्य स्तवनादपि ।।
दशांशं पुण्यपापानां नित्यं प्राप्नोति मानवः ।। ३२ ।।
दर्शनश्रवणाभ्यां च मनोध्यानात्तथैव च ।।
परस्य पुण्यपापानां शतांशं प्राप्नुयान्नरः ।। ३३ ।।
परस्य निंदां पैशुन्यं धिक्कारं च करोति यः ।।
तत्कृतं पातकं प्राप्य स्वपुण्यं प्रददाति सः ।। ३४ ।।
कुर्वतः पुण्यकर्माणि सेवां यः कुरुते नरः ।।
पत्नीभृतकशिष्येभ्यो यदन्यः कोऽपि मानवः ।। ३५ ।।
तस्य सेवाऽनुरूपं च द्रव्यं किंचिन्न दीयते ।।
सोऽपि सेवानुरूपेण तत्पुण्यफलभाग्भवेत् ।। ३६ ।।
एकपंक्तिस्थितं यस्तु लंघयेत्परिवेषणम् ।।
तत्पुण्यस्य षडंशं च लभेद्यस्तु विलंघितः ।। ३७ ।।
स्नानसंध्यादिकं कुर्वन्यः स्पृशेद्वाऽथ भाषते ।।
स कर्मपुण्यषष्ठांशं दद्यात्तस्मै विनिश्चितम् ।। ३८ ।।
धर्मोद्देशेन यो द्रव्यमपरं याचते नरः ।।
तत्पुण्यकर्मजं तस्य धनदस्त्वाप्नुयात्फलम् ।। ३९ ।।
अपहृत्य परद्रव्यं पुण्यकर्म करोति यः ।।
कर्मकृत्पापभाक्तत्र धनिनस्तद्भवं फलम् ।। 2.4.30.४० ।।
नापकृत्य ऋणं यस्तु परस्य म्रियते नरः ।।
धनी तत्पुण्यमादत्ते तद्धनस्याऽनुरूपतः ।। ४१ ।।
बुद्धिदाताऽनुमन्ता च यश्चोपकरणप्रदः ।।
बलकृच्चापि षष्ठांशं प्राप्नुयात्पुण्यपापयोः ।। ४२ ।।
प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमुद्धरेत् ।।
शिष्याद्गुरुः स्त्रियो भर्ता पिता पुत्रात्तथैव च ।। ४३ ।।
स्वपतेरपि पुण्यस्य योषिदर्धमवाप्नुयात् ।।
चित्तस्याऽनुव्रता शश्वद्वर्तते तुष्टिकारिणी ।। ४४ ।।
परहस्तेन दानादि कुर्वतः पुण्यकर्मणः ।।
विना भृतकपुत्राभ्यां कर्ता षष्ठांशमुद्धरेत् ।।४५।।
वृत्तिदो वृत्तिसंभोक्तुः पुण्यं षष्ठांशमुद्धरेत् ।।
आत्मनो वा परस्याऽपि यदि सेवां न कारयेत् ।। ।। ४६ ।।
इत्थं ह्यदत्तान्यपि पुण्यपापान्यायांति नित्यं परसंचितानि ।।
कलौ त्वयं वै नियमो न कार्यः कर्तैव भोक्ता खलु पुण्यपापयोः ।। ।। ४७ ।।
कलौ ज्ञानं दृढं नास्ति कलौ गर्वेण सत्क्रिया ।।
कलौ दम्भाऽन्वितो योगो नश्यत्येव न संशयः ।।४८।।
तपोनिष्ठः पुरा दम्भी सती शुद्धप्रभावतः ।।
पित्रोः पूजादर्शनेन चोर्जसेवी परं गतः ।। ४९ ।।**
।। ।। नारद उवाच ।। ।।
भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् ।।
विधिं मासोपवासस्य फलं चास्य यथोचितम् ।।2.4.30.५० ।।
।। ।। ब्रह्मोवाच ।। ।।
साधु नारद सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ ।।
भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम ।। ५१ ।।
सुराणां च यथा विष्णुस्तपतां च यथा रविः ।।
मेरुः शिखरिणां यद्वद्वैनतेयश्च पक्षिणाम् ।। ५२ ।।
श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम् ।।
सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि ।। ५३ ।।
सर्वदानोद्भवं चैव यज्ञैश्च भूरिदक्षिणैः ।।
न तत्पुण्यमवाप्नोति यन्मासपरिलंघनात् ।। ५४ ।।
गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम् ।।
अतिकृच्छ्रं च पाराकं कृत्वा चांद्रायणं ततः ।। ५५ ।।
मासोपवासं कुर्वीत ज्ञात्वा देहबलाऽबलम् ।।
वानप्रस्थो यतिर्वापि नारी वा विधवा मुने ।। ५६ ।।
मासोपवासं कुर्वीत गुरोर्विप्राज्ञया ततः ।।
आश्विनस्याऽमले पक्षे एकादश्यामुपोषितः ।। ५७ ।।
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ।।
अच्युतस्याऽऽलये भक्त्या त्रिकालं पूजयेद्धरिम् ।। ५८ ।।
नैवेद्यधूपदीपाद्यैः पुष्पैर्नानाविधैरपि ।।
मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम् ।। ५९ ।।
नरः स्वधर्मनिरतः सधवा च जितेन्द्रिया ।।
नारी वा विधवा साध्वी वासुदेवं समर्चयेत् ।। 2.4.30.६० ।।
वस्त्वालोकनगन्धादिस्वादितं परिकीर्तितम् ।।
अन्यस्य वर्जयेद्वासं ग्रासानां संप्रमोक्षणम् ।।६१।।
गात्राभ्यंगं शिरोभ्यंगं तांबूलं सविलेपनम् ।।
व्रतस्थो वर्जयेत्सर्वं यच्चाऽन्यच्च निराकृतम् ।। ६२ ।।
न व्रतस्थः स्पृशेत्कंचिद्विकर्मस्थं न चालपेत्।।
देवतायतने तिष्ठन्गृहस्थश्चाऽऽचरेद्व्रतम् ।।६३।।
कृत्वा मासोपवासं तु यथोक्तविधिना नरः ।।
अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिति ।। ।। ६४ ।।
ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम् ।।
वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान् ।।६५।।
दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत्।।
विप्रान्क्षमापयित्वा तुविसृज्याऽभ्यर्च्य पूज्य च ।। ६६ ।।
एवं मासोपवासांते वृत्वा विप्रांस्त्रयोदश ।।
कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः ।। ६७ ।।
ततोऽनुभोजयेद्विप्रान्नमस्कारपुरःसरम् ।।
तांबूलवस्त्रयुग्मानि भोजनाऽऽच्छादनानि च ।। ६८ ।।
योगपट्टानि सूत्राणि शय्यां सोपस्करां तथा ।।
दत्त्वा चैव द्विजाग्र्येभ्यः पूजयित्वा विसर्जयेत् ।। ६९ ।।
विधिर्मासोपवासस्य यथावत्परिकीर्तितः ।।
अतःपरं प्रवक्ष्यामि नवम्यादितिथौ विधि ।। 2.4.30.७० ।।
ऋषिभ्यो वालखिल्यैश्च प्रोक्तं तं शृणु नारद ।। ७१ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये दत्तपुण्यपापफलप्राप्तिवर्णनपूर्वक मासोपवासव्रतविधिकथनंनाम त्रिंशोऽध्यायः ।। ३० ।।
** २.४.३०.४९ -- तपोनिष्ठ इति । अत्र प्रसिद्धा कथा ब्राह्मे-त्रेतायुगे तपोनिष्ठनामा ब्राह्मणः दंभी द्वन्द्वसहश्चासीत्, एकदा भिक्षार्थं सञ्चरतस्तस्या बलाका व्योम्नि गच्छंती पुरीषं पातयामास तस्य पात्रेऽन्नमध्यतः ॥ वियन्मार्गात्पपाताऽथ बलाका तेन वीक्षिता ॥ कोपदृष्ट्या बलाकी सा गतप्राणाऽभवत्क्षणात् ॥ तदालोक्य प्रदुष्टोऽसौ स्वप्रभावेन गर्वितः ॥ स एकदा चरन्भिक्षां जगामैकं निवेशनम् ॥ पतिव्रतायाः कस्याश्चिद्भिक्षां देहाति चाऽब्रवीत् ॥ सा तापसं समालोक्य भर्तुः शुश्रूषणे रता ॥ भिक्षार्थं नांतरं लेभे नित्यकर्मक्रियाकुला ॥ भोजयामास भर्तारं विनीता तत्प्रियैषिणी ॥ वस्त्रांतरेण सा चक्रे क्षुद्रजंतुनिवारणम् ॥ स तापसोऽपि क्रोधेन तस्थौ स्थाणुरिवाऽचलः ॥ साऽपि तं भोजयित्वाऽथ कृतशौचं निजं पतिम् ॥ शय्यासमाश्रितं दृष्ट्वा व्यधात्पादाऽनुमार्जनम् ॥ पादसंवाहनं वाक्यं साऽनुकूलं प्रियं हितम् ॥ प्रेमभावेन सम्बन्धमुवाच प्रहसन्मुखी ॥ ततो निद्रामुपगते सा भर्तरि निजे सती ॥ देवी चान्नस्य पात्रं वै गृहीत्वा निर्ययौ बहिः ॥ तापसोऽदित्सतीं भिक्षां निरीक्ष्य कुपिते क्षणः ॥ हुंकारोच्चारणं कृत्वा न जग्राह तदर्पितम् ॥ तदा तमाह सा साध्वी स्वपदन्यस्तलोचना ॥ ॥ पतिव्रतोवाच ॥ ॥ नाऽहं बलाका या दग्धा त्वया रम्या सुतापस ॥ न भविष्यति तेऽभीष्टं मनसोऽन्नं प्रगृह्यताम् ॥ ॥ ब्रह्मोवाच ॥ ॥ ततः सुविस्मितो विप्रो भिक्षापात्रं विहाय तत् ॥ रोमांचितांगो वचनमाह बद्धांजलिः सतीम् ॥ ॥ तापस उवाच ॥ ॥ बलाकां पततीमद्य वियन्मार्गान्निपातिताम् ॥ मातः कथं नु जानीषे तन्ममाचक्ष्व कारणम् ॥ ॥ पतिव्रतोवाच ॥ ॥न मंत्रादिकृतो विप्र न च नैसर्गिको मम ॥ प्रभाव एव सामान्यो यस्ययस्याऽच्युतो हृदि ॥ अग्रौ क्रियावतां विष्णुः पुत्राणां पितरौ हरिः॥ स्त्रीणां भर्तृषु संस्थो हि आचार्ये पाठशालिनाम् ॥ ब्राह्मणे सर्ववर्णानां विष्णुरुक्तो मनीषिभिः ॥ प्रतिमास्वल्पबुद्धीनां योगिनां हृदये हरिः ॥ सोऽयं पुराणपुरुषः प्रत्यक्षं दैवतं मम ॥ पिता माता गुरुर्गोप्ता बांधवाः सुहृदात्मभूः ॥ सर्वः सर्वमयो भूमौ ब्रह्मन्भर्तरि मे स्फुटम् ॥ तस्य शुश्रूषया ज्ञानमिदं लोकद्वयं च मे ॥ नारी भर्तुर्वशा चाऽहमसंभाष्येतरा द्विज ॥ नाधिकारस्त्वया वक्तुमेतावदपि सांप्रतम् ॥ प्रसंगादेतदुदितं तन्मे विष्णुः प्रसीदतु ॥ शुश्रूषा यदि ते धर्मं प्रति संप्रति तापस ॥ गत्वा वाराणसीं पृच्छ मांसविक्रयकारिणम् ॥ सूनागारस्थितं व्याधं स ते धर्मं प्रवक्ष्यति ॥” इति एवावदुक्त्वा सा अंतर्गृहं गता तापसोऽपि वाराणसीं गत्वा व्याधगृहं गतवान्, 'समालोक्य तमायांत तापसं सोऽभ्यधावत ॥ व्याध आगत्य तं विप्रं नमश्चक्रे विनीतवत् ॥ निनाय स्वगृहं पश्चात्संपूज्य विधिवच्च तम् ॥ प्रोवाच प्रहिता यूयं सत्या मम गृहेऽधुना ॥ ॥ ब्रह्मोवाच ॥ तस्य अवाक्यमथाऽऽकर्ण्य विस्मितोऽतीव तापसः ॥ प्रोवाच जानासि कथं धर्मव्याध पतिव्रताम् ॥ ॥ धर्मव्याध उवाच ॥ ॥ न मन्त्रादिकृतः सोऽयं न च नैसर्गिको मम ॥ प्रभावोऽयं नमस्यामि पितरौ तन्ममेदृशः ॥ ज्ञानमप्रतिमं सम्यक्त्रैकालिकमविप्लवम् ॥ तथा धर्मरहस्यं च जानामि पितृसेवया॥” इति । इत्युक्त्वा उपदेशमिच्छंतं तापसं पुनरुवाच ॥ "वर्णानामुत्तमो विप्रः सर्ववर्णैरभिष्टुतः ॥ तस्मान्नैवोपदेष्टव्या अधमैः कर्हिचिद्द्विजः ॥ तस्मात्त्वं गच्छ भो विप्र बिन्दुनामऋषिं प्रति ॥ ज्ञानवान्धर्मशीलश्च स ते ज्ञानं प्रदास्यति ॥ इत्याकर्ण्य वचस्तस्य नमस्कृत्वा निमंत्र्य च ॥ ययौ पंचनदं तीर्थं मुनींद्रं प्रत्यभाषत ॥ ॥ तापस उवाच ॥ ॥ मया क्रोधेन विप्रर्षे ध्वंसितं पूर्वसंचितम् ॥ इदानीं कृपया ब्रूहि येन मोक्षमवाप्नुयाम् ॥ ॥ बिंदुऋषिरुवाच ॥ ॥ सर्वेषामेव धर्माणां कार्तिकः प्रवरः स्मृतः ॥ तथा हे तापस प्राणिनां पापानि सर्वतीर्थानि हरंति, सर्वतीर्थानां पातकं मकरेऽर्के प्रयागराजो हरति, प्रयागराजपापं कार्तिके पंचनदं तीर्थं हरति, तस्मात्त्वं पंचनदं गत्वा कार्तिकव्रतं कुरु, तच्छ्रुत्वा तापसस्तत्र गत्वा सविधि व्रतं कृत्वा विमानेन विष्णुलोकं ययाविति ॥ ४९ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 31
।। वालखिल्या ऊचुः ।। ।।
कार्तिके शुक्लनवमी तत्राऽभूद्द्वापरं युगम् ।।
पूर्वाऽपराह्णगा ग्राह्या क्रमाद्दानोपवासयोः ।। १ ।।
अत्र कूष्मांडकोनाम हतो दैत्यस्तु विष्णुना ।।
तद्रोमभिः समुद्भूता वल्ल्यः कूष्मांडसंभवाः ।।२ ।।
तस्मात्कूष्मांडदानेन फलमाप्नोति निश्चितम् ।।
अस्यामेव नवम्यां तु कुर्यात्कृष्णोत्सवं नरः ।। ३ ।।
स्वशाखोक्तेन विधिना तुलस्याः करपीडनम् ।।
कन्यादानफलं तस्य जायते नात्र संशयः ।। ४ ।।
कार्तिके शुक्लनवमीमवाप्य विजितेंद्रियः।।
हरिं विधाय सौवर्णं तुलस्या सहितं शुभम् ।। ५।।
पूजयेद्विधिवद्भक्त्या व्रती तत्र दिनत्रयम् ।।
एवं यथोक्तविधिना कुर्याद्वैवाहिकं विधिम् ।। ६ ।।
ग्राह्यं त्रिरात्रमत्रैव नवम्याद्यनुरोधतः ।।
मध्याह्नव्यापिनी ग्राह्या नवमी पूर्ववेधिता ।। ७ ।।
धात्र्यश्वत्थौ य एकत्र पालयित्वा समुद्वहेत्।।
न नश्यते तस्य पुण्यं कल्पकोटिशतैरपि ।।८।।
कनकस्य सुता पूर्वमेकादश्यां किशोरिका ।।
चकार भक्तितः सायं तुलस्युद्वाहजं विधिम्।।९।।
तेन वैधव्यदोषेण निर्मुक्ताऽऽसीत्सुलोचना।।
तस्मात्सायं प्रकर्तव्यस्तुलस्तुद्वाहजो विधिः ।।2.4.31.१०।।
अवश्यमेव कर्तव्यः प्रतिवर्षं तु वैष्णवैः।।
विधिं तस्य प्रवक्ष्यामि यथा सांगा क्रिया भवेत।११।।
विष्णोस्तु प्रतिमां कुर्यात्पलस्य स्वर्णजां शुभाम्।।
तदर्द्धार्द्धं तदर्द्धार्द्धं यथाशक्त्या प्रकल्पयेत् ।। १२ ।।
प्राणप्रतिष्ठां कृत्वैव तुलसीविष्णुरूपयोः ।।
तत उत्थापयेद्देवं पूर्वोक्तैश्च स्तवादिभिः ।।१३।।
उपचारैः षोडशभिः पूजयेत्पुरुषोक्तिभिः ।।
देशकालौ ततः स्मृत्वा गणेशं तत्र पूजयेत् ।। १४ ।।
पुण्याहं वाचयित्वाथ नांदीश्राद्धं समाचरेत् ।।
वेदवाद्यादिनिर्घोषैर्विष्णुमूर्तिं समानयेत् ।। १५ ।।
तुलसीनिकटे सा तु स्थाप्या चांऽतर्हिता पटैः ।।
आगच्छ भगवन्देव अर्चयिष्यामि केशव ।। ।।१६।।
तुभ्यं दास्यामि तुलसीं सर्वकामप्रदो भव।।
दद्यात्त्रिवारमर्घ्यं च पाद्यं विष्टरमेव च।।१७।।
तत आचमनीयं च त्रिरुक्त्वा च प्रदापयेत्।।
ततो दधि घृतं क्षीरं कांस्यपात्रपुटीकृतम् ।। १८ ।।
मधुपर्कं गृहाण त्वं वासुदेव नमोस्तु ते।।
हरिद्रालेपानाभ्यंगकार्यं सर्वं विधाय च ।। १९ ।।
गोधूलिसमये पूज्यौ तुलसीकेशवौ पुनः।।
पृथक्पृथक्तथा कार्यौ संमुखौ मंगलं पठेत् ।। 2.4.31.२० ।।
ईषद्दृश्ये भास्करे तु संकल्पं तु समुच्चरेत् ।।
स्वगोत्रप्रवरानुक्त्वा तथा त्रिपुरुषादिकम् ।। २१ ।।
अनादिमध्यनिधन त्रैलोक्यप्रतिपालक ।।
इमां गृहाण तुलसीं विवाहविधिनेश्वर ।। २२ ।।
पार्वतीबीजसंभूतां वृंदाभस्मनि संस्थिताम् ।।
अनादिमध्यनिधनां वल्लभां ते ददाम्यहम् ।।२३।।
पयोघटैश्च सेवाभिः कन्यावद्वर्धिता मया ।।
त्वत्प्रियां तुलसीं तुभ्यं ददामि त्वं गृहाण भोः ।। २४ ।।
एवं दत्त्वा च तुलसीं पश्चात्तौ पूजयेत्ततः।।
रात्रौ जागरणं कुर्याद्विवाहोत्सवपूर्वकम् ।।२५।।
ततः प्रभातसमये तुलसीं विष्णुमर्चयेत् ।।
वह्निसंस्थापनं कृत्वा द्वादशाक्षरविद्यया ।। २६ ।।
पायसाऽऽज्यक्षौद्रतिलैर्जुह्यादष्टोत्तरंशतम् ।।
ततः स्विष्टकृतं हुत्वा दद्यात्पूर्णाहुतिं ततः ।।
आचार्यं च समभ्यर्च्य होमशेषं समापयेत् ।। २७ ।।
चतुरो वार्षिकान्मासान्नियमो येन यः कृतः ।।
कथयित्वा द्विजेभ्यस्तत्तथाऽन्यत्परिपूरयेत् ।। २८ ।।
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो ।।
न्यूनं संपूर्णतां यातु त्वत्प्रसादाज्जनार्दन ।। २९ ।।
रेवतीतुर्यचरणे द्वादशीसंयुते नरः ।।
न कुर्यात्पारणं कुर्वन्व्रतं निष्फलतां नयेत् ।। 2.4.31.३० ।।
ततो येषां पदार्थानां वर्जनं तु कृतं भवेत् ।।
चातुर्मास्येऽथवा चोर्जे ब्राह्मणेभ्यः समर्पयेत् ।।
ततः सर्वं समश्नीयाद्यद्यत्त्यक्तं व्रते स्थितम् ।। ३१ ।।
दंपतिभ्यां सहैवाऽत्र भोक्तव्यं च द्विजैः सह ।।३२।।
ततो भुक्त्युत्तरं यानि गलितानि दलानि च ।।
तानि भुक्त्वा तुलस्याश्च स्वयं पापैः प्रमुच्यते ।। ३३ ।।
इक्षुदण्डं तथा धात्रीफलं कोलिफलं तथा ।।
भुक्त्वा तु भोजनस्यांऽते तस्योच्छिष्टं विनश्यति ।। ३४ ।।
एषु त्रिषु न भुक्तं चेदेकैकमपि येन तु ।।
ज्ञेय उच्छिष्ट आवर्षं नरोऽसौ नाऽत्र संशयः ।। ३५ ।।
ततः सायं पुनः पूज्याविक्षुदण्डैश्च शोभितैः ।।
तुलसीवासुदेवौ च कृतकृत्यो भवेत्ततः ।। ३६ ।।
ततो विसर्जनं कृत्वा दत्त्वा दायादिकं हरेः ।।
वैकुण्ठं गच्छ भगवँस्तुलसीसहितः प्रभो ।।
मत्कृतं पूजनं गृह्य संतुष्टो भव सर्वदा ।। ३७ ।।
गच्छगच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर ।।
यत्र ब्रह्मादयो देवास्तत्र गच्छ जनार्दन ।। ३८ ।।
एवं विसृज्य देवेशमाचार्याय प्रदापयेत् ।।
मूर्त्यादिकं सर्वमेव कृतकृत्यो भवेन्नरः ।। ३९ ।।
प्रतिवर्षं तु यः कुर्यात्तुलसीकरपीडनम् ।।
भक्तिमान्धनधान्यैः स युक्तो भवति निश्चितम् ।।
इहलोके परत्राऽपि विपुलं च यशो लभेत् ।। 2.4.31.४० ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कूष्मांडनवमीतुलसीविवाहविधिवर्णनंनामैकत्रिंशोऽध्यायः ।। ३१ ।। ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 32
।। वालखिल्या ऊचुः ।। ।।
कार्तिकस्याऽमले पक्षे स्नात्वा सम्यग्यतव्रतः ।।
एकादश्यां तु गृह्णीयाद्व्रतं पंचदिनात्मकम् ।। १ ।।
शरपंजरसुप्तेन भीष्मेण तु महात्मना ।।
राजधर्मा मोक्षधर्मा दानधर्मास्ततः परम् ।।
कथिता पांडुदायादैः कृष्णेनाऽपि श्रुतास्तदा ।। २ ।।
ततः प्रीतेन मनसा वासुदेवेन भाषितम् ।।
धन्यधन्योऽसि भीष्म त्वं धर्माः संश्रावितास्त्वया ।। ३ ।।
एकादश्यां कार्तिकस्य याचितं च जलं त्वया ।।
अर्जुनेन समानीतं गांगं बाणस्य वेगतः ।। ४ ।।
तुष्टानि तव गात्राणि तस्मादद्यदिनावधि ।।
पूर्णांतं सर्वलोकास्त्वां तर्पयंत्वर्घ्यदानतः ।। ५ ।।
तस्मात्सर्वप्रयत्नेन मम संतुष्टिकारकम् ।।
एतद्व्रतं प्रकुर्वंतु भीष्मपंचकसंज्ञितम् ।। ६ ।।
कार्तिकस्य व्रतं कृत्वा न कुर्याद्भीष्मपंचकम् ।।
समग्रं कार्तिकव्रतं वृथा तस्य भविष्यति ।। ७ ।।
अशक्तश्चेन्नरो भूयादसमर्थश्च कार्तिके ।।
भीष्मस्य पंचकं कृत्वा कार्तिकस्य फलं लभेत् ।। ८ ।।
सत्यव्रताय शुचये गांगेयाय महात्मने ।।
भीष्मायैतद्ददाम्यर्घ्यमाजन्मब्रह्मचारिणे ।। ।। ९ ।।
सव्येनाऽनेन मंत्रेण तर्पणं सार्ववर्णिकम् ।। 2.4.32.१० ।।
व्रतांगत्वात्पूर्णिमायां प्रदेयः पापपूरुषः ।।
अपुत्रेण प्रकर्तव्यं सर्वथा भीष्मपञ्चकम् ।। ११ ।।
यः पुत्रार्थं व्रतं कुर्यात्सस्त्रीको भीष्मपञ्चकम् ।।
प्रदत्त्वा पापपुरुषं वर्षमध्ये सुतं लभेत् ।। १२ ।।
अवश्यमेव कर्तव्यं तस्माद्भीष्मस्य पंचकम् ।।
विष्णुप्रीतिकरं प्रोक्तं मया भीष्मस्य पञ्चकम् ।। १३ ।।
।। सूत उवाच ।। ।।
शृण्वंतु ऋषयः सर्वे विशेषो भीष्मपञ्चके ।।
कार्तिकेयाय रुद्रेण पुरा प्रोक्तः सविस्तरात् ।। १४ ।।
।। ईश्वर उवाच ।। ।।
प्रवक्ष्यामि महापुण्यं व्रतं व्रतवतां वर ।।
भीष्मेणैतद्यतः प्राप्तं व्रतं पञ्चदिनात्मकम् ।। १५ ।।
सकाशाद्वासुदेवस्य तेनोक्तं भीष्मपञ्चकम् ।।
व्रतस्याऽस्य गुणान्वक्तुं कः शक्तः केशवादृते ।। ।। १६ ।।
कार्तिके शुक्लपक्षे तु शृणु धर्मं पुरातनम् ।।
वसिष्ठभृगुगर्गाद्यैश्चीर्णं कृतयुगादिषु ।। १७ ।।
अम्बरीषेण भोगाद्यैश्चीर्णं त्रेतायुगादिषु ।।
ब्राह्मणैर्ब्रह्मचर्येण जपहोमक्रियादिभिः ।। १८ ।।
क्षत्रियैश्च तथा वैश्यैः सत्यशौचपरायणैः ।।
दुष्करं सत्यहीनानामशक्यं बालचेतसाम् ।।१९।।
दुष्करं भीष्ममित्याहुर्न शक्यं प्राकृतैर्नरैः ।।
यस्मात्करोति विप्रेंद्र तेन सर्वं कृतं भवेत् ।। 2.4.32.२० ।।
व्रतं चैतन्महापुण्यं महापातकनाशनम् ।।
अतो नरैः प्रयत्नेन कर्तव्यं भीष्मपञ्चकम् ।। २१ ।।
कार्तिकस्याऽमले पक्षे स्नात्वा सम्यग्विधानतः ।।
एकादश्यां तु गृह्णीयाद्व्रतं पंचदिनात्मकम् ।। २२ ।।
प्रातः स्नात्वा विशेषेण मध्याह्ने च तथा व्रती ।।
नद्यां निर्झरतोये वा समालभ्य च गोमयम् ।। २३ ।।
यवव्रीहितिलैः सम्यक्पितॄन्संतर्पयेत्क्रमात् ।।
स्नात्वा मौनं नरः कृत्वा धौतवासा दृढव्रतः ।। २४ ।।
भीष्मायोदकदानं च अर्घ्यं चैव प्रयत्नतः ।।
पूजा भीष्मस्य कर्तव्या दानं दद्यात्प्रयत्नतः ।। २५ ।।
पंचरत्नं विशेषेण दत्त्वा विप्राय यत्नतः ।।
वासुदेवोऽपि संपूज्यो लक्ष्मीयुक्तः सदा प्रभुः ।। २६ ।।
पञ्चके पूजयित्वा तु कोटिजन्मानि तुष्यति ।। २७ ।।
यत्किंचिद्ददते मर्त्यः पंचधातुप्रकल्पितम् ।।
संवत्सरव्रतानां स लभते सकलं फलम् ।। ।। २८ ।।
कृत्वा तूदकदानं तु तथाऽर्घ्यस्य च दापनम् ।।
मन्त्रेणानेन यः कुर्यान्मुक्तिभागी भवेन्नरः ।। २९ ।।
वैयाघ्रपादगोत्राय सांकृत्य प्रवराय च ।।
अनपत्याय भीष्माय उदकं भीष्मवर्मणे ।। 2.4.32.३० ।।
वसूनामवताराय शंतनोरात्मजाय च ।।
अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे ।। ३१ ।।
।। इत्यर्घ्यमंत्रः ।। ।।
अनेन विधिना यस्तु पंचकं तु समापयेत् ।।
अश्वमेधसमं पुण्यं प्राप्नोत्यत्र न संशयः ।। ३२ ।।
पंचाऽहमपि कर्तव्यं नियमं च प्रयत्नतः ।।
नियमेन विना यत्र न भाव्यं वरवर्णिना।। ३३ ।।
उत्तरायणहीनाय भीष्माय प्रददौ हरिः ।।
उत्तरायणहीनेऽपि शुद्धलग्नं सुतोषितः ।। ३४ ।।
ततः संपूजयेद्देवं सर्वपापहरं हरिम्।।
अनंतरं प्रयत्नेन कर्तव्यं भीष्मपंचकम् ।। ३५ ।।
स्नापयेत जलैर्भक्त्या मधुक्षीरघृतेन च ।।
तथैव पंचगव्येन गन्धचंदनवारिणा ।। ३६ ।।
चन्दनेन सुगन्धेन कुमकुमेनाऽथ केशवम्।।
कर्पूरोशीरमिश्रेण लेपयेद्गरुडध्वजम् ।। ३७ ।।
अर्चयेद्रुचिरैः पुष्पैर्गंधधूपसमन्वितैः ।।
गुग्गुलुं घृतसंयुक्तं ददेत्कृष्णाय भक्तिमान् ।। ३८ ।।
दीपकं तु दिवा रात्रौ दद्यात्पंच दिनानि तु ।।
नैवेद्यं देवदेवस्य परमान्नं निवेदयेत्।। ३९ ।।
एवमभ्यर्चयेद्देवं संस्मृत्य च प्रणम्य च ।।
ॐ नमो वासुदेवायेति जपेदष्टोत्तरं शतम् ।। 2.4.32.४० ।।
जुहुयाच्च घृताभ्यक्तैस्तिलव्रीहियवादिभिः ।।
षडक्षरेण मन्त्रेण स्वाहाकाराऽन्वितेन च ।। ४१ ।।
उपास्य पश्चिमां संध्यां प्रणम्य गरुडध्वजम् ।।
जपित्वा पूर्ववन्मन्त्रं क्षितिशायी भवेत्सदा ।।४२।।
सर्वमेतद्विधानं तु कार्यं पञ्च दिनानि तु ।।
विशेषोऽत्र व्रते ह्यस्मिन्यदन्यूनं शृणुष्व तत् ।। ४३ ।।
प्रथमेऽह्नि हरेः पादौ पूजयेत्कमलैर्व्रती ।।
द्वितीये बिल्वपत्रेण जानुदेशं समर्चयेत् ।।४४।।
ततोऽनुपूजयेच्छीर्षं मालत्या चक्रपाणिनः ।।
कार्तिक्यां देवदेवस्य भक्त्या तद्गतमानसः ।। ४५ ।।
अर्चित्वा तं हृषीकेशमेकादश्यां समासतः ।।
निःप्राश्य गोमयं सम्यगेकादश्यामुपावसेत् ।। ४६ ।।
गोमूत्रं मन्त्रवद्भूमौ द्वादश्यां प्राशयेद्व्रती ।।
क्षीरं चैव त्रयोदश्यां चतुर्दश्यां तथा दधि ।। ४७ ।।
संप्राश्य कायशुद्ध्यर्थं लंघयित्वा चतुर्दिनम् ।।
पंचमे दिवसे स्नात्वा विधिवत्पूज्य केशवम् ।।
भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम्।। ४८ ।।
पापबुद्धिं परित्यज्य ब्रह्मचर्येण धीमता ।।
मद्यं मांसं परित्याज्यं मैथुनं पापकारणम् ।। ४९ ।।
शाकाहारेण मुन्यन्नैः कृष्णार्चनपरो नरः ।।
ततो नक्तं समश्नीयात्पंचगव्यपुरःसरम् ।। 2.4.32.५० ।।
एवं सम्यक्समाप्यं स्याद्यथोक्तं फलमाप्नुयात् ।। ५१ ।।
मद्यपो यः पिबेन्मद्यं जन्मनो मरणांऽतिकम् ।।
एतद्भीष्मव्रतं कृत्वा प्राप्नोति परमं पदम् ।। ५२ ।।
स्त्रीभिर्वा भर्तृवाक्येन कर्तव्यं धर्मवर्धनम् ।।
विधवाभिश्च कर्तव्यं मोक्षसौख्याऽतिवृद्धये ।। ५३ ।।
अयोध्यायां पुरा कश्चिदतिथिर्नाम वै नृपः ।।
वसिष्ठवचनात्कृत्वा व्रतमेतत्सुदुर्लभम् ।।
भुक्त्वेह निखिलान्भोगानंते विष्णुपुरं ययौ ।। ५४ ।।
इत्थं कुर्याद्व्रतं नित्यं पञ्चकं भीष्मसंज्ञितम् ।।
नियमेनोपवासेन पञ्चगव्येन वा पुनः ।।
पयोमूलफलाऽऽहारैर्हविष्यैर्व्रततत्परः ।। ५५ ।।
पौर्णमासीदिने प्राप्ते पूजां कृत्वा तु पूर्ववत् ।।
ब्राह्मणान्भोजयेद्भक्त्या गां च दद्यात्सवत्सकाम् ।। ५६ ।।
यद्भीष्मपञ्चकमिति प्रथितं पृथिव्यामेकादशीप्रभृति पंचदशीनिरुद्धम् ।।
उक्तं न भोजनपरस्य तदा निषेधस्तस्मिन्व्रते शुभफलं प्रददाति विष्णुः ।। ५७ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये भीष्म पञ्चकव्रतमाहात्म्यवर्णनंनाम द्वात्रिंशोऽध्यायः ।। ३२ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 33
।। ईश्वर उवाच ।। ।।
प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्धनम् ।।
मुक्तिदं तत्त्वबुद्धीनां शृणुष्व सुरसत्तम ।। १ ।।
तावद्गर्जति सेनानीर्गंगा भागीरथी क्षितौ ।।
यावत्प्रयाति पापघ्नी कार्तिके हरिबोधिनी ।। २ ।।
तावद्गर्जंति तीर्थानि आसमुद्रसरांसि वै ।।
यावत्प्रबोधिनी विष्णोस्तिथिर्नाऽऽयाति कार्तिके ।। ३ ।।
अश्वमेधसहस्राणि राजसूयशतानि च ।।
एकेनैवोपवासेन प्रबोधिन्या यथाऽभवत् ।। ४ ।।
दुर्लभं चैव दुष्प्राप्यं त्रैलोक्ये सचराचरे ।।
तदपि प्रार्थितं विप्र ददाति प्रतिबोधिनी ।। ५ ।।
ऐश्वर्यं संततिं ज्ञानं राज्यं च सुखसंपदः ।।
ददात्युपोषिता विप्र हेलया हरिबोधिनी ।। ६ ।।
मेरुमंदरतुल्यानि पापान्युपार्जितानि च ।।
एकेनैवोपवासेन दहते हरिबोधिनी ।। ७ ।।
उपवासं प्रबोधिन्यां यः करोति स्वभावतः ।।
विधिना नरशार्दूल यथोक्तं लभते फलम् ।। ८ ।।
पूर्वजन्मसहस्रेषु पापं यत्समुपार्जितम् ।।
जागरेण प्रबोधिन्यां दह्यते तृलराशिवत् ।। ९ ।।
शृणु षण्मुख वक्ष्यामि जागरस्य च लक्षणम् ।।
तस्य विज्ञानमात्रेण दुर्लभो न जनार्दनः ।।2.4.33.१०।।
गीतं वाद्यं च नृत्यं च पुराणपठनं तथा ।।
धूपं दीपं च नैवेद्यं पुष्पगंधाऽनुलेपनम् ।।१ १।।
फलमर्घ्यं च श्रद्धा च दानमिंद्रियसंयमम् ।।
सत्याऽन्वितं विनिंदं च मुदा युक्तं क्रियान्वितम् ।। १२ ।।
साश्चर्यं चैव प्रोत्साहमालस्यादिविवर्जितम् ।।
प्रदक्षिणादिसंयुक्तं नमस्कारपुरःसरम् ।। १३ ।।
नीराजनसमायुक्तमनिर्विण्णेन चेतसा ।।
यामेयामे महाभाग कुर्वन्नीराजनं हरेः ।। १४ ।।
एतैर्गुणैः समायुक्तं कुर्याज्जागरणं विभोः ।।
एकाग्रमनसा यस्तु न पुनर्जायते भुवि ।। १५ ।।
य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः ।।
जागरं वासरे विष्णोर्लीयते परमात्मनि ।। १६ ।।
पुरुषसूक्तेन यो नित्यं कार्तिकेऽथार्चयेद्धरिम् ।।
वर्षकोटिसहस्राणि पूजितस्तेन केशवः ।। १७ ।।
यथोक्तेन विधानेन पंचरात्रोदितेन वै ।।
कार्तिके त्वर्चयेन्नित्यं मुक्तिभागी भवेन्नरः ।। १८ ।।
नमो नारायणायेति कार्तिके योर्चयेद्धरिम् ।।
स मुक्तो नारकैर्दुःखैः पदं गच्छत्यनामयम् ।। १९ ।।
हरेर्नामसहस्रं च गजराजस्य मोक्षणम् ।।
कार्तिके पठते यस्तु पुनर्जन्म न विंदति ।। 2.4.33.२० ।।
युगकोटिसहस्राणि मन्वंतरशतानि च ।।
द्वादश्यां कार्तिके मासि जागरी वसते दिवि ।। २१ ।।
कुले तस्य च ये जाताः शतशोथ सहस्रशः ।।
प्राप्नुवंति पदं विष्णोस्तस्मात्कुर्वीत जागरम् ।। २२ ।।
कार्तिके पश्चिमे यामे स्तवं गानं करोति यः ।।
श्वेतद्वीपे तु वसते पितृभिः सह सुव्रत ।। २३ ।।
नैवेद्यदानं हरये कार्तिके दिनसंक्षये ।।
युगानि वसते स्वर्गे तावंति मुनिसत्तमाः ।। २४ ।।
अक्षयं मुनिशार्दूल मालतीकमलार्चनम् ।।
अर्चयेद्देवदेवेशं स याति परमं पदम् ।। २५ ।।
कार्तिके शुक्लपक्षे तु कृत्वा ह्येकादशीं नरः ।।
प्रातर्दत्त्वा शुभान्कुंभान्स याति मम मंदिरम् ।। २६ ।।
अत्रैव तु प्रकर्तव्यः प्रबोधस्तु हरेः खग ।।
हतः शंखासुरो दैत्यो नभसः शुक्लपक्षके ।। २७ ।।
एकादश्यां ततो विष्णुश्चातुर्मास्ये प्रसुप्तवान् ।।
क्षीरांभोधौ जागृतोऽसावेकादश्यां तु कार्तिके ।। २८ ।।
अतः प्रबोधनं कार्यमेकादश्यां तु वैष्णवैः ।।
उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुडध्वज ।।
उत्तिष्ठ कमलाकांत त्रैलोक्यं मंगलं कुरु ।। २९ ।।
इत्युक्त्वा शंखभेर्यादि प्रातःकाले तु वादयेत् ।।
वीणावेणुमृदंगादि नृत्यगीतादि कारयेत् ।।2.4.33.३०।।
उत्थापयित्वा देवेशं पूजां तस्य विधाय च ।।
सायंकाले प्रकर्तव्यस्तुलस्युद्वाहजो विधिः ।। ३१ ।।
सर्वदैकादशी पुण्या विशेषात्कार्तिकी स्मृता ।।
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।। ।।३२।।
अन्नमाश्रित्य तिष्ठंति संप्राप्ते हरिवासरे।।
स केवलमघं भुंक्ते यो भुंक्ते हरिवासरे ।।३३।।
तस्मात्सर्वप्रयत्नेन कुर्यादेकादशीव्रतम् ।।
न कुर्याद्यदि मोहेन उपवासं नराधमः ।।३४।।
नरके नियतं वासः पितृभिः सह तस्य वै ।।
सूतके मृतके वाऽपि नोपवासं त्यजेद्बुधः।।३५।।
दशमीवेधसंयुक्ता त्याज्या चैकादशी व्रते ।।
गांधार्याऽपि पुरा तस्यामुपवासः कृतो गुह ।। ३६ ।।
तस्याः पुत्रशतं नष्टं तस्मात्तां वधजां त्यजेत् ।।
एकादशीमुपवसेत्स्नानदानपुरःसरम् ।। ३७ ।।
रुक्मांगदोऽपि राजर्षिर्मोहिन्याः संगमेन च ।।
इह लोके सुखं भुक्त्वा चांऽते विष्णुपुरं ययौ ।। ३८ ।। ।।
।। इति प्रबोधोत्सवः ।।
।। अथ द्वादशीमाहात्म्यम् ।। ।।
द्वादशी पुण्यदा प्रोक्ता सर्वाऽघौघविनाशिनी ।।
किं दानैः कि तपोभिश्च किमु पोष्यैर्व्रतैश्च किम् ।। ३९ ।।
किमिष्टैश्चैव पुत्रैश्च द्वादशी येन सेविता ।।
गंगायां चैव दुर्भिक्षे प्रत्यहं कोटिभोजनात् ।। 2.4.33.४० ।।
यत्फलं तदवाप्नोति द्वादश्यामेकभोजनात् ।।
यद्दत्तं चार्हते दानं द्वादश्यां तु सिते शुभे ।। ४१ ।।
सिक्थेसिक्थे च वैकस्य कतिब्राह्मणभोजनम् ।।
तदहं नैव जानामि महिमानं हि सुव्रत ।। ४२ ।।
शालिग्रामशिलादानं यः कुर्याद्द्वादशीदिने ।।
सप्तद्वीपवतीं भूमिं गंगायां च रविग्रहे ।।
दत्त्वा यत्फलमाप्नोति तत्फलं लभते नरः ।।।। ४३ ।।
पंचामृतैस्तु यो विष्णुं भक्त्या संस्नापयेद्द्विज ।।
स सर्वकुलमुद्धृत्य विष्णुलोके महीयते ।। ४४ ।।
शुक्ले कार्तिकमासस्य द्वादश्यां परमोत्सवे ।।
प्रातरारभ्य यः कुर्यात्स्नानदानादिकं तथा ।।
स तु मोक्षमवाप्नोति नाऽत्र कार्या विचारणा ।। ४५ ।।
द्वादश्यां कार्तिके मासि स्नानसंध्यादिकर्म च ।।
कृत्वा दामोदरं पूज्य भक्तिश्रद्धासमन्वितः ।। ४६ ।।
यस्तस्यां सूपनैवेद्यं न ददाति नराधमः ।।
नरके नियतं वासो भवतीत्यनुशुश्रुम ।। ४७ ।।
तस्मात्सूपस्य नैवेद्यं द्वादश्यां कार्तिके शुभे ।।
दद्याद्भक्तियुतो ब्रह्मंश्चान्यथा नरकं व्रजेत् ।। ४८ ।।
यस्तस्यां दंपतीनां तु भोजनं कुरुते नरः ।।
न तस्य फलविश्रांतिर्मया वक्तुं तु शक्यते ।।४९।।
धात्रीच्छायां गतो यस्तु द्वादश्यां पूजयेद्धरिम् ।।
तत्रैव भोजनं यस्तु ब्राह्मणानां तु कारयेत् ।। 2.4.33.५० ।।
स्वयं च तत्र भुंक्ते यः सूपभक्ष्यादिकं तथा ।।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।। ।। ५१ ।।
एवं प्रातर्विधायाऽथ पूजां दामोदरस्य हि ।।
रात्रौ पुनः प्रकर्तव्यं पूजाकर्म हरेर्द्विज ।। ५२ ।।
तुलसीसन्निधौ कृत्वा पताकाध्वजशोभितम् ।।
पुष्पमालासमाकीर्णं नानारत्नोपशोभितम् ।। ५३ ।।
मुक्तादामभिराच्छन्नं कृत्वा मंडपमुत्तमम् ।।
पूजयेद्विष्णुमव्यग्रस्तद्गतैकाग्रमानसः ।। ।। ५४ ।।
पंचरात्रोक्तमार्गेण गन्धपुष्पाक्षतादिभिः ।।
नवनीतं दधिक्षीरं तथैव च घनं घृतम् ।। ५५ ।।
विविधैः खाद्यनैवेद्यैर्जलेन च सुगंधिना ।।
युक्तं निवेदयेद्विष्णोस्तांबूलं सलवंगकम् ।। ५६ ।।
पुष्पाणि च विचित्राणि सुगन्धीनि बहूनि च ।।
प्रोक्षयित्वा च विधिवदर्पयित्वा दलैः शुभैः ।। ५७ ।।
तुलस्याश्चापि धात्र्याश्च फलैश्चाऽपि प्रपूजयेत् ।।
नीराजनं ततः कृत्वा मंत्रपुष्पं समर्पयेत् ।। ५८ ।।
अभिषेकं विना सर्वपूजां कृत्वा विधानतः ।।
विष्णोः पूजां समाप्याऽथ ब्राह्मणानां प्रपूजनम् ।। ५९ ।।
कुर्याद्भक्तियुतो विप्र दद्याच्चैव फलादिकम्।।
तांबूलं च ततो दत्त्वा दक्षिणां शक्तितोऽर्पयेत् ।। 2.4.33.६० ।।
ततो वृद्धान्पितॄन्मातॄन् पूजयित्वा विधानतः ।।
ततः स्वयं स्वभार्याभिर्नैवेद्यं भक्षयेत्सुधीः ।। ६१ ।।
इत्येवं तु विधानेन यः कुर्याद्द्वादशीव्रतम् ।।
न तस्य लोकाः क्षीयंते कल्पकोटिशतैरपि ।। ६२ ।।
पुत्रपौत्रैः परिवृतो भुक्त्वा भोगान्मनोहरान् ।।
भोगांते च व्रजेन्मोक्षमतीतकुलसप्तकैः ।। ६३ ।।
तस्मान्नारद माहात्म्यं द्वादश्याः कार्तिकस्य च ।।
न मया शक्यते वक्तुं किमन्यैर्मनुजैरपि ।। ६४ ।।
द्वादश्या ह्युत्तमं पुण्यं माहात्म्यं यः पठेन्नरः ।।
शृणुयाद्वा मुनिश्रेष्ठ स याति परमां गतिम् ।। ६५ ।।
राजर्षिरम्बरीषोऽपि चकारैतद्व्रतं शुभम् ।।
यथाविधि तपोनिष्ठस्तेन मोक्षमवाप्तवान् ।। ६६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये प्रबोधोत्सवद्वादशीतिथिकृत्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।। ।। छ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 34
।। नारद उवाच ।। ।।
व्रतानामपि सर्वेषां ब्रह्मन्नुद्यापनं श्रुतम् ।।
अभावे तूद्यापनस्य फलं नैवाऽऽप्नुयात्क्वचित् ।। १ ।।
कृतव्रतफलाप्त्यर्थं कुर्यादुद्यापनं बुधः ।।
अन्यथा निष्फलं याति कृतं व्रतमनुत्तमम् ।। २ ।।
कार्तिकेऽपि कृतं देव व्रतानामुत्तमं व्रतम् ।।
न तस्योद्यापनाऽभावे व्रतोक्तफलमाप्नुयात् ।। ३ ।।
तस्मात्कार्तिकमासस्य चोद्यापनविधिं प्रभो ।।
वद मे शिष्यवर्याय प्रपन्नायाऽनुवर्तिने ।। ४ ।।
।। ब्रह्मोवाच ।। ।।
अथोर्जोद्यापनं वक्ष्ये सर्वपापप्रणाशनम् ।।
तच्छृणुष्व महाभक्त्या सविधानं समासतः ।। ५ ।।
ऊर्जे शुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रती।।
व्रतसंपूरणार्थाय विष्णुप्रीत्यर्थहेतवे ।। ६ ।।
तुलस्या उपरिष्टात्तु कुर्यान्मंडपिकां शुभाम्।।
कदलीस्तंभसंयुक्तां नानाधातुविचित्रिताम् ।।७।।
दीपमाला चतुर्दिक्षु कार्या तत्र सुशोभना ।।
सुतोरणाश्चतुर्द्वारः पुष्पचामरशोभिताः।।८।।
द्वारेषु द्वारपालाश्च पूजयेन्मृन्मयान्पृथक् ।।
जयश्च विजयश्चैव चण्डश्चैव प्रचंडकः ।। ९ ।।
नन्दश्चैव सुनंदश्च कुमुदः कुमुदाक्षकः ।।
एतांश्चतुर्षु द्वारेषु पूजयेद्भक्तिसंयुतः ।। 2.4.34.१० ।।
तुलसीमूलदेशे तु सर्वतोभद्रसंज्ञितम् ।।
चतुर्भिर्वर्णकैः सम्यक्छोभाढ्यं समलंकृतम् ।। ११ ।।
तस्योपरिष्टात्कलशं पूर्णरत्नसमन्वितम् ।।
तत्र संपूजयेद्देवं शंखचक्रगदाधरम् ।। १२ ।।
कौशेयपीतवसनं लक्ष्म्या युक्तं प्रपूजयेत् ।।
इन्द्रादिलोकपालांश्च मंडपे पूजयेद्व्रती ।। ।। १३ ।।
तस्यामुपवसेद्भक्त्या शांतः प्रणतमानसः ।।
रात्रौ जागरणं कुर्याद्गीतवाद्यादिमंगलैः ।। १४ ।।
गीतं कुर्वंति ये भक्त्या जागरे चक्रपाणिनः ।।
जन्मांतरशतोद्भूतैस्ते मुक्ताः पापसंचयैः ।।१५।।
ततस्तु पूर्णिमायां तु सपत्नीकान्द्विजोत्तमान् ।।
त्रिंशन्मितानथैकं वा ब्राह्मणांश्च निमंत्रयेत् ।। १६ ।।
प्रातःस्नानं ततः कृत्वा देवपूजां तथैव च ।।
स्थंडिले च ततः कृत्वा समाधायाऽग्निमत्र हि ।। १७ ।।
अतो देवेति मंत्रेण जुहुयात्तिलपायसम् ।।
प्रीत्यर्थं देवदेवस्य देवानां च पृथक्पृथक् ।। १८ ।।
होमशेषं समाप्याथ ब्राह्मणान्पूज्य भक्तितः ।।
ब्राह्मणेभ्यो यथाशक्त्या प्रदद्याद्दक्षिणां नरः ।। १९ ।।
ततो गां कपिलां तत्र पूजयेद्विधिवद्व्रती ।।
सवत्सां गां तथा दद्याद्विप्राय च कुटुम्बिने ।। 2.4.34.२० ।।
गुरुं व्रतोपदेष्टारं वस्त्रालंकारभूषणैः ।।
सपत्नीकं समभ्यर्च्य तांश्च विप्रान्क्षमापयेत् ।। २१ ।।
युष्मत्प्रसादाद्देवेशः प्रसन्नोऽस्तु सदा मम ।।
व्रतादस्माच्च यत्पापं सप्तजन्मकृतं मया ।। २२ ।।
तत्सर्वं नाशमायातु स्थिरा मे चाऽस्तु संततिः ।।
मनोरथास्तु सफलाः संतु भक्तिर्हरौ भवेत् ।। २३ ।।
सतां समागमो भूयान्मम जन्मनिजन्मनि ।।
इति क्षमाप्य तान्विप्रान्प्रसाद्य च विसर्जयेत् ।। २४ ।।
प्रतिमां तां गुरोर्दद्यात्सवस्त्रां मुनिपुंगव ।।
ततः सुहृद्गुरुयुतः स्वयं भुंजीत भक्तिमान् ।। २५ ।।
द्वादश्यां प्रतिबुद्धोऽसौ त्रयोदश्यां युतः सुरैः ।।
दृष्टोर्च्चितश्चतुर्दश्यां तस्मात्पूज्यस्तिथाविह ।। २६ ।।
पूजयेद्देवदेवेशं सौवर्णं गुर्वनुज्ञया ।।
पराऽत्र पौर्णमास्यां तु यात्रा स्यात्पुष्करस्य तु ।। २७ ।।
वरान्दत्त्वा यतो विष्णुर्मत्स्यरूपोऽभवत्ततः ।।
तस्यां दत्तं हुतं जप्तं तदक्षय्यफलं भवेत् ।। २८ ।।
कार्तिके मासि कर्तव्यो विधिरेष हि नारद ।।
एवं यः कुरुते सम्यक्कार्तिकस्य व्रतं नरः ।। २९ ।।
यत्फलं तदवाप्नोति व्रतं कृत्वा तु कार्तिके ।।
ते धन्यास्ते सदा पूज्यास्तेषां वै सफलोदयः ।। 2.4.34.३० ।।
विष्णुभक्तिरता ये स्युः कार्तिके व्रतचारिणः ।।
देहस्थितानि पापानि विलयं यांति तत्क्षणात् ।। ३१ ।।
क्व यामोऽद्य भवत्येष यदूर्जव्रतकृन्नरः ।।
इति सर्वाणि पापानि रटन्तीह पुनःपुनः ।। ३२ ।।
तस्मात्कार्तिकमासस्य सदृशं नहि विद्यते ।।
सर्वपापस्य दहने अग्नेः सदृश उच्यते ।।३३।।
ऊर्जोद्यापनमाहात्म्यं शृणुयाच्छ्रद्धयाऽन्वितः ।।
श्रावयेद्वा पुमान्यस्तु विष्णुसायुज्यमाप्नुयात् ।। ३४ ।।
।। नारद उवाच ।। ।।
ऊर्जे व्रतोद्यापनादावशक्तः सिद्धिभाक्कथम् ।।
कथं विमुच्यते जंतुर्दुःखसंसारसागरात् ।। ३५ ।।
।। ।। ब्रह्मोवाच ।। ।।
शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान् ।।
उद्यापनफलं प्राप्य विष्णुलोके वसेच्च सः ।। ३६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये व्रतोद्यापनविधिकथनंनाम चतुऽस्त्रिंशोऽध्यायः ।। ३४ ।। ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 35
।। ब्रह्मोवाच ।। ।।
वैकुण्ठाख्यचतुर्दश्या माहात्म्यं ते वदाम्यहम् ।।
वालखिल्यैः पुरा प्रोक्तं संक्षेपेण शृणुष्व तत् ।। १ ।।
।। वालखिल्या ऊचुः ।। ।।
कार्तिकस्य सिते पक्षे चतुर्दश्यां समागमत् ।।
वैकुण्ठेशस्तु वैकुण्ठाद्वाराणस्यां कृते युगे ।। २ ।।
रात्र्यां तुर्यांशशेषायां स्नात्वाऽसौ मणिकर्णिके ।।
गृहीत्वा हेमपद्मानां सहस्रं वै ततोऽव्रजत् ।। ३ ।।
अतिभक्त्या पूजयितुं शिवया सहितं शिवम् ।।
विधाय पूजां वैश्वेशीं ततः पद्मैरपूजयत् ।। ४ ।।
सहस्रसंख्यां कृत्वादावेकनाम्ना ततः परम् ।।
आरब्धं पूजनं तेन शिवस्तद्भक्तिमैक्षत ।। ५ ।।
एकं पद्मं पद्ममध्यान्निलीयाऽऽत्तं हरेण तु ।।
ततः पूजितवान्विष्णुरेकोनं कमलं त्वभूत् ।। ६ ।।
इतस्ततस्तेन दृष्टं पद्मं तिष्ठति न क्वचित् ।।
कमलेषु भ्रमो जातोऽथवा नामसु मे भ्रमः ।। ७ ।।
क्षणं विचार्य स हरिर्न मे नामभ्रमोऽभवत् ।।
पद्मे चैव भ्रमो जातो विचार्यैवं पुनःपुनः ।। ८ ।।
सहस्रपद्मसंकल्पः पूजार्थं तु कृतो मया ।।
अर्च्यः कथं महादेव एकोनकमलैर्मया ।। ९ ।।
यद्यानेतुं गमिष्यामि भंगः स्यादासनस्य तु ।।
अतः परं किं विधेयं चिन्तोद्विग्नो हरिस्तदा ।। 2.4.35.१० ।।
एकः प्रकार उत्पन्नो हृदयेऽस्य मुनीश्वराः ।।
पुण्डरीकाक्ष इत्येवं मां वदंति मुनीश्वराः ।। ११ ।।
नेत्रं मे पद्मसदृशे पद्मार्थे त्वर्पयाम्यहम् ।।
इति निश्चित्य मनसा दत्त्वा तर्जनिकां स तु ।। १२ ।।
नेत्रमध्यात्तदुत्पाट्य महादेवस्तु पूजितः ।।
ततो महेश्वरस्तुष्टो वाक्यमेतदुवाच ह ।। १३ ।।
।। महादेव उवाच ।। ।।
त्वत्समो नास्ति मद्भक्तस्त्रैलोक्ये सचराचरे ।।
राज्यं दत्तं त्रिलोक्यास्ते भव त्वं लोकपालकः ।। १४ ।।
अन्यं वरय भद्रं ते वरं यन्मनसेप्सितम् ।।
अवश्यमेव दास्यामि नात्र कार्या विचारणा ।। १५ ।।
मद्भक्तिं तु समालंब्य ये द्विषंति जनार्दनम् ।।
ते मद्द्वेष्या नरा विष्णो व्रजेयुर्नरकं ध्रुवम् ।। १६ ।।
।। ।। विष्णुरुवाच ।। ।।
त्रैलोक्यरक्षाकरणं ममादिष्टं महेश्वर ।।
दुमर्दाश्च महासत्त्वा दैत्या मार्याः कथं मया ।।१७।।।
।। शिव उवाच ।। ।।
एतत्सुदर्शनं चक्रं महादैत्यनिकृंतनम् ।।
गृहाण भगवन्विष्णो मया तुभ्य निवेदितम् ।।१८।।
अनेन सर्वदैत्यानां भगवन्कदनं कुरु ।।
एवं चक्रं हरेर्दत्त्वा ततो वचनमब्रवीत् ।। १९ ।।
।। शिव उवाच ।। ।।
वर्षे च हेमलंबाख्ये मासे श्रीमति कार्तिके ।।
शुक्लपक्षे चतुर्दश्यामरुणाभ्युदयं प्रति ।।2.4.35.२०।।
महादेवतिथौ ब्राह्मे मुहूर्ते मणिकर्णिके ।।
स्नात्वा वैश्वेश्वरं लिंगं वैकुण्ठादेत्य पूजितम्।।२१।।
सहस्रकमलैस्तस्माद्भविष्यति मम प्रिया ।।
विख्याता सर्वलोकेषु वैकुण्ठाख्या चतुर्दशी ।।२२।।
अन्यं वरं प्रयच्छामि शृणु विष्णो वचो मम ।।
पूर्वरात्रेषु ते पूजा कर्तव्या सर्वजातिभिः ।।२३।।
उपवासं दिवा कुर्यात्सायंकाले तवार्चनम् ।।
पश्चान्ममार्चनं कार्यमन्यथा निष्फलं भवेत् ।। २४ ।।
ग्राह्या तु हरिपूजायां रात्रिव्याप्ता चतुर्दशी ।।
अरुणोदयवेलायां शिवपूजां समाचरेत् ।। २५ ।।
सहस्रकमलैर्विष्णुरादौ यैः पूजितो नरैः।।
पश्चाच्छिवः पूजितश्चेज्जीवन्मुक्तास्त एव हि ।। २६ ।।
सायं स्नात्वा पंचनदे बिंदुमाधवमर्चयेत् ।।
स्नात्वा यो विष्णुकांच्यां वाऽनंतसेनं समर्चयेत् ।। २७ ।।
रुद्रकांच्यां ततः स्नात्वा प्रणवेशं समर्चयेत् ।।
आदौ स्नात्वा वह्नितीर्थे यजेन्नारायणं ततः ।। २८ ।।
रेतोदके ततः स्नात्वा केदारेशं समर्चयेत् ।।
आदौ स्नात्वा सूर्यपुत्र्यां वेणीमाधवमर्चयेत् ।। २९ ।।
जाह्नव्यां च ततः स्नात्वा संगमेशं प्रपूजयेत् ।।
सर्वाः श्रियस्तस्य वश्याः सत्यं विष्णो मयोदितम् ।। 2.4.35.३० ।।
एवं तस्मै वरान्दत्त्वा ह्यंतर्धानं ययौ शिवः ।।
तस्मात्सर्वप्रयत्नेन पूज्यौ हरिहरावुभौ ।। ३१ ।।
कलौ दशसहस्राणि विष्णुस्त्यजति मेदिनीम् ।।
तदर्द्धं जाह्नवीतोयं तदर्द्धं ग्रामदेवताः ।। ३२ ।।
कार्तिक्यां पूर्णिमायां तु कुर्यात्त्रैपुरमुत्सवम् ।।
दीपो देयोऽवश्यमेव सायंकाले शिवालये ।। ३३ ।। *
त्रिपुरो नाम दैत्येंद्रः प्रयागे तप आस्थितः ।।
तपसा तस्य संतुष्टो ददौ ब्रह्मा वरं परम्।। ३४ ।।
देवासुरमनुष्येभ्यो न ते मृत्युर्भविष्यति ।।
इति लब्धवरो दैत्यो विश्वकर्मविनिर्मितम् ।। ३५ ।।
त्रिपुराख्यं विमानं तमारुह्य भुवनत्रयम् ।।
यदा वै पीडयामास तदा देवैः स्तुतो हरः ।। ३६ ।।
त्रिपुरं घातयामास बाणेनैकेन शत्रुहा ।।
कार्तिक्यां पूर्णिमायां तु सर्वे देवाः प्रतुष्टुवुः ।। ३७ ।।
तस्मिन्दिने सर्वदेवैर्दीपा दत्ता हराय च ।।
सर्वथैव प्रदेयाश्च दीपास्तु हरतुष्टये ।। ३८ ।।
विंशतिः सप्तशतकाः सहिता दीपवर्तयः ।।
ददद्दीपं पूर्णिमायां सर्वपापैः प्रमुच्यते ।। ३९ ।।
पौर्णमास्यां तु संध्यायां कर्तव्यस्त्रिपुरोत्सवः ।।
दद्यादनेन मन्त्रेण प्रदीपांश्च सुरालये ।। 2.4.35.४० ।।
कीटाः पतंगा मशकाश्च वृक्षा जले स्थले ये विचरंति जीवाः ।।
दृष्ट्वा प्रदीपं न च जन्मभागिनो भवंतु नित्यं श्वपचा हि विप्राः ।। ४१ ।।
कार्यस्तस्मात्पौर्णमास्यां त्रिपुराय महोत्सवः ।।
कार्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम् ।। ।। ४२ ।।
सप्त जन्म भवेद्विप्रो धनाढ्यो वेदपारगः ।।
अत्र कृत्वा वृषोत्सर्गं नक्ताच्छैवपुरं व्रजेत् ।। ४३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये वैकुण्ठचतुर्दशी त्रिपुरीपूर्णिमाव्रतविधानकथनंनाम पंचत्रिंशोऽध्यायः ।। ३५ ।।
खण्डः २ (वैष्णवखण्डः) · कार्तिकमासमाहात्म्यम् — Adhyāya 36
।। ।। ब्रह्मोवाच ।। ।।
यास्तिस्रस्तिथयः पुण्या अंतिके शुक्लपक्षके ।।
कार्तिके मासि विप्रेंद्र पूर्णिमांताः शुभवहाः ।। १ ।।
अंतिपुष्करिणी संज्ञा सर्वपापक्षयावहा ।।
कार्त्तिके मासि संपूर्णं यो वै स्नानं करोति ह ।। २ ।।
तिथिष्वेतासु सः स्नानात्पूर्णमेव फलं लभेत् ।।
सर्वे वेदास्त्रयोदश्यां गत्वा जन्तून्पुनंति हि ।। ३ ।।
चतुर्दश्यां सयज्ञाश्च देवा जंतून्पुनंति हि ।।
पूर्णिमायां सुतीर्थानि विष्णुना संस्थितानि हि ।। ४ ।।
ब्रह्मघ्नान्वा सुरापान्वा सर्वाञ्जंतून्पुनंति हि ।।
उष्णोदकेन यः स्नायात्कार्त्तिक्यादिदिनत्रये ।। ५ ।।
रौरवं नरकं याति यावदिंद्राश्चतुर्दश ।।
आमासनियमाशक्तः कुर्यादेतद्दिनत्रये ।। ६ ।।
तेन पूर्णफलं प्राप्य मोदते विष्णुमंदिरे ।।
यो वै देवान्पितॄन्विष्णुं गुरुमुद्दिश्य मानवः ।। ७ ।।
न स्नानादि करोत्यद्धा स याति नरकं ध्रुवम् ।।
कुटुंबभोजन यस्तु गृहस्थस्तु दिनत्रये ।। ।। ८ ।।
सर्वान्पितॄन्समुद्धृत्य स याति परमं पदम् ।।
गीतापाठं तु यः कुर्यादंतिमे च दिनत्रये ।। ९ ।।
दिनेदिनेऽश्वमेधानां फलमेति न संशयः ।।
सहस्रनामपठनं यः कुर्यात्तु दिनत्रये ।। 2.4.36.१० ।।
न पापैर्लिप्यते क्वाऽपि पद्मपत्रमिवांऽभसा ।।
देवत्वं मनुजैः कैश्चित्कैश्चित्सिद्धत्वमेव च ।। ११ ।।
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि ।।
यो वै भागवतं शास्त्रं शृणोति च दिनत्रयम् ।। १२ ।।
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात् ।।
ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा ।। १३ ।।
अथ वा कार्त्तिके मासि दिनत्रयनिषेवणात् ।।
कार्त्तिके हरिपूजां तु यः करोति दिनत्रये ।। १४ ।।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।।
कार्त्तिके मासि विप्रेंद्र सर्वमंत्यदिनत्रये ।। १५ ।।
पुण्यं तत्राऽपि वैशेष्यं राकायां वर्ततेऽनघ।।
प्रातःकाले समुत्थाय शौचं स्नानादिकं चरेत् ।। १६ ।।
समाप्य सर्वकर्माणि विष्णुपूजां समाचरेत् ।।
उद्याने वा गृहे वाऽपि कार्त्तिक्यां विष्णुतत्परः ।। १७ ।।
मंडपं तत्र कुर्वीत कदलीस्तंभमंडितम् ।।
चूतपल्लवसंवीतमिक्षुदंडैः सुमंडितम्।। १८ ।।
चित्रवस्त्रैः स्वलंकृत्य तत्र देवं प्रपूजयेत् ।।
चूतपल्लवपुष्पाढ्यैः फलाद्यैः पूजयेद्धरिम् ।। १९ ।।
शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान् ।।
संपूर्णमथ वाऽध्यायमेकश्लोकमथाऽपि वा ।। 2.4.36.२० ।।
मुहूर्तं वाऽपि शृणुयात्कथां पुण्यां दिनेदिने ।।
यदि प्रतिदिनं श्रोतुमशक्तः स्यात्तु मानवः ।। २१ ।।
पुण्यमासेऽथवा पुण्यतिथौ संशृणुयादपि ।।
तेन पुण्यप्रभावेन पापान्मुक्तो भवेन्नरः ।। २२ ।।
पुराणज्ञः शुचिर्दक्षः शांतो विगतमत्सरः ।।
साधुः कारुणिको वाग्ग्मी वदेत्पुण्यां कथां सुधीः ।। २३।।
व्यासासनं समारूढो यदा पौराणिको भवेत् ।।
आसमाप्तेः प्रसंगस्य नमस्कुर्यान्न कस्यचित् ।। २४ ।।
न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ।।
देशे न द्यूतसदने वदेत्पुण्यकथां सुधीः ।।२५।।
श्रद्धाभक्तिसमायुक्ता नाऽन्यकार्येषु लालसा ।।
वाग्यताः शुचयो दक्षाः श्रोतारः पुण्यभागिनः ।। २६ ।।
अभक्ता ये कथां पुण्यां शृण्वंति मनुजाऽधमाः ।।
तेषां पुण्यफलं नाऽस्ति दुःखं स्याजन्मजन्मनि ।। २७ ।।
पौराणिकं च मासांते पूजयेद्भक्तितत्परः ।।
गन्धमाल्यैस्तथा वस्त्रैरलंकारैर्धनेन च ।। २८ ।।
शृण्वंति च कथां भक्त्या न दरिद्रा न पापिनः ।। २९ ।।
कथायां कीर्त्यमानायां ये गच्छंत्यन्यतो नराः ।।
भोगांतरे प्रणश्यंति तेषां दाराश्च संपदः ।। 2.4.36.३० ।।
उच्चासनसमारूढो न नरः प्रणतो भवेत् ।।
विषवृक्षस्तथा स्वापे वने चाऽजगरो भवेत् ।। ३१ ।।
कथायां कीर्त्यमानायां विघ्नं कुर्वंति ये नराः ।।
कोट्यब्दनरकान्भुक्त्वा भवंति ग्रामसूकराः ।। ३२ ।।
ये श्रावयंति मनुजाः कथां पौराणिकीं शुभाम् ।।
कल्पकोटिशतं साग्रं तिष्ठंति ब्रह्मणः पदे ।। ३३ ।।
आसनार्थे प्रयच्छति पुराणज्ञस्य ये नराः ।।
कम्बलाजिनवासांसि मंचं फलकमेव वा ।। ३४ ।।
परिधानीयवस्त्राणि प्रयच्छंति च ये नराः ।।
भूषणादि प्रयच्छंति वसेयुर्ब्रह्मसद्मनि ।। ३५ ।।
वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ।।
अतः संतोषयेद्भक्त्या भक्तिश्रद्धान्वितः पुमान् ।।
तस्य पुण्यफलं पूर्णं भवत्येव न संशयः ।। ३६ ।।
यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम् ।।
सकृत्पुराणश्रवणात्तत्फलं विंदते नरः ।।३७।।
कलौ युगे विशेषेण पुराणश्रवणादृते ।।
नास्ति धर्मः परः पुंसां नास्ति मुक्तिपथः परः ।।
पुराणश्रवणाद्विष्णोर्नास्ति संकीर्तनात्परम् ।। ३८ ।।
य एतदूर्जमाहात्म्यं शृणुयाच्छ्रावयेदपि ।।
स तीर्थराज बदरीगमनस्य फलं लभेत् ।। ३९ ।।
सर्वरोगापहं सर्वपापनाशकरं शुभम् ।। 2.4.36.४० ।।
श्रुत्वा चैकपदे यो वै अगम्यागमने रतः ।।
कन्यास्वस्रोर्विक्रयिणमुभयं तु विमोचयेत् ।। ४१ ।।
माहात्म्यमेतदाकर्ण्य पूजयेद्यस्तु पाठकम् ।।
गोभूहिरण्यवस्त्रैश्च विष्णुतुल्यो यतो हि सः ।। ४२ ।।
धर्मशास्त्रं पुराणं च वेदविद्यादिकं च यत् ।।
पुस्तकं वाचकायैव दातव्यं धर्ममिच्छता ।।
पुराणविद्यादातारो ह्यनंतफलभोगिनः ।। ।। ४३ ।।
इदं यः पठते भक्त्या श्रुत्वा चैवाऽवधारयेत् ।।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।। ४४ ।।
न कस्याऽपीदमाख्येयं श्रद्धाहीनाय दुर्मतेः ।। ४५ ।।
अपूजयित्वा गुरुमग्रबुद्ध्या धर्मप्रवक्तारमनन्यबुद्धिः ।।
भुक्त्वा तु भोगान्नरकेषु चैव ततो हि जन्मान्तर दुःखभोगी ।। ४६ ।।
तस्मात्संपूजयेद्भक्त्या गुरुं तत्त्वावबोधकम् ।।
माहात्म्यस्य च लेशोऽयं तव चोक्तो मयाऽनघ ।। ४७ ।।
न शक्यते हि संपूर्णं वक्तुं वर्षशतैरपि ।।
पुरा कैलासशिखरे पार्वत्यै प्रोक्तवाञ्च्छिवः ।। ४८ ।।
कार्तिकस्य तु माहात्म्यं यावद्वर्षशतं वदन् ।।
तथापि नांतमगमदशक्तो विरराम ह ।। ४९ ।।
पुत्रार्थी च धनार्थी च राज्यार्थी स्वफलं लभेत् ।।
किमत्र बहुनोक्तेन मोक्षार्थी मोक्षमाप्नुयात् ।। 2.4.36.५० ।।
।। सूत उवाच ।। ।।
इत्युक्तो ब्रह्मणा चैव नारदः प्रेमनिर्भरः ।।
भूयोभूयो नमस्कृत्य ययौ यादृच्छिको मुनिः ।। ५१ ।।
कथितं शंकरेणाऽपि पुत्राय हितकाम्यया ।।
पितुस्तद्वाक्यमाकर्ण्य षण्मुखो हर्षनिर्भरः ।। ५२ ।।
कृष्णेन सत्यभामायै कार्तिकस्य च वैभवः ।।
कथितस्तेन संतुष्टा सत्या व्रतमथाऽकरोत् ।।५३।।
ऋषयो वालखिल्येभ्यः श्रुत्वा माहात्म्यमुत्तमम् ।।
ऊर्जव्रतपरा जातास्तस्मादूर्जोऽतिवल्लभः ।। ५४ ।।
अधीत्य सर्वशास्त्राणि पयःसारमिवोद्धृतम् ।।
नाऽनेन सदृशं शास्त्रं विष्णुप्रीतिकरं शुभम् ।। ५५ ।।
।। व्यास उवाच ।। ।।
इत्युक्त्वा तानृषीन्सर्वान्सूतो वै धर्मवित्तमः ।।
विरराम ततस्ते तु पूजां चक्रुस्तदास्य च ।। ५६ ।।
ते पुनः स्वाश्रमं गत्वा हृष्टास्ते परमर्षयः ।।
यथा सूतेनोपदिष्टं तथा चक्रुर्व्रतं शुभम् ।। ५७ ।।
अनेन विधिना ये वै कुर्वंति कार्तिकव्रतम् ।।
ते सर्वपापनिर्मुक्ता गच्छंति विष्णुमंदिरम् ।। ५८ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये पुष्करिणीसंज्ञिकांतिमतिथित्रयमाहात्म्यकथनपूर्वकपुराण श्रवणमहिमवर्णनंनाम षट्त्रिंशोऽध्यायः ।। ३६ ।।
इति श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे सटीकं कार्तिकमासमाहात्म्यं समाप्तम् ।।
इति श्रीज्योतिर्वित्कुलावतंसव्यंकटरामात्मजहरिकृष्णशास्त्रिविरचितायां कार्त्तिकमासमाहात्म्यटीकायां पुराणश्रवणमहिमवर्णनंनाम षट्त्रिंशोऽध्यायः।।३६।।
खण्डः २ (वैष्णवखण्डः) · पुरुषोत्तमजगन्नाथमाहात्म्यम् — Adhyāya 1
।। अथ श्रीस्कांदे महापुराणे द्वितीये वैष्णवखंडे पुरुषोत्तम (जगन्नाथ) क्षेत्र- माहात्म्य प्रारंभः ।। ( २-२) ।।
।। ।। श्रीगणेशाय नमः ।। ।।
अथ पुरुषोत्तम (जगन्नाथ) क्षेत्रमाहात्म्य प्रारम्भः ।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।। १ ।।
।। मुनय ऊचुः ।। ।।
भगवन्सर्वशास्त्रज्ञ सर्वतीर्थमहत्त्ववित् ।।
कथितं यत्त्वया पूर्वं प्रस्तुते तीर्थकीर्तने ।।
पुरुषोत्तमाख्यं सुमहत्क्षेत्रं परमपावनम् ।।२।।
यत्रास्ते दारवतनुः श्रीशो मानुषलीलया ।।
दर्शनान्मुक्तिदः साक्षात्सर्वतीर्थफलप्रदः ।।३।।
तन्नो विस्तरतो ब्रूहि तत्क्षेत्रं केन निर्मितम् ।।
ज्योतिःप्रकाशो भगवान्साक्षान्नारायणः प्रभुः ।। ४ ।।
कथं दारुमयस्तस्मिन्नास्ते परमपूरुषः ।।
वद त्वं वदतां श्रेष्ठ सर्वलोकगुरो मुने ।। ५ ।।
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ।।
।। जैमिनिरुवाच ।। ।।
शृणुध्वं मुनयः सर्वे रहस्यं परमं हि तत् ।। ६ ।।
अवैष्णवानां श्रवणे भक्तिस्तव न जायते ।।
यस्य संकीर्तनादेव सकलं लीयते तमः ।। ७ ।।
यद्यप्येष जगन्नाथः सर्वगः सर्वभावनः ।।
स्कन्देन कथितं पूर्वं श्रुत्वा शंभोर्मुखाम्बुजात् ।।
संति क्षेत्राणि चान्यानि सर्वपापहराणि वै ।। ८ ।।
एतत्क्षेत्रं परं चास्य वपुर्भूतं महात्मनः ।।
स्वयं वपुष्मांस्तत्रास्ते स्वनाम्ना ख्यापितं हि तत् ।।९।।
तत्र ये स्थातुमिच्छंति तेपि सर्वे हतांहसः ।।
किं पुनस्तव तिष्ठंतो ये पश्यन्ति गदाधरम् ।।2.2.1.१०।।
अहो तत्परमं क्षेत्रं विस्तृतं दशयोजनम् ।।
तीर्थराजस्य सलिलादुत्थितं वालुकाचितम् ।। ११ ।।
नीलाचलेन महता मध्यस्थेन विराजितम् ।।
एकस्तनमिव पृथ्व्याः सुदूरात्परिभावितम् ।। १२ ।।
वराहरूपिणा पूर्वं समुद्धृत्य वसुन्धराम् ।।
सर्वतः सुसमां कृत्वा पर्वतैः सुस्थिरीकृताम् ।। १३ ।।
सृष्ट्वा चराचरं सर्वं तीर्थानि सरिदब्धिकान् ।।
क्षेत्राणि च यथास्थानं संनिवेश्य यथा पुरा । १४ ।।
ब्रह्मा विचिन्तयामास सृष्टिभारनिपीडितः ।।
पुनरेतां क्रियां गुर्वीं नारभेय कथं त्विति ।। १५ ।।
तापत्रयाभिभूता हि मुच्यंते जंतवः कथम् ।।
एवं चिन्तयमानस्य मतिरासीत्प्रजापतेः ।।१६।।
मुक्त्येककारणं विष्णुं स्तोष्ये ऽहं परमेश्वरम् ।।
।। ब्रह्मोवाच ।। ।।
नमस्ते जगदाधार शङ्खचक्रगदाधर ।। १७ ।।
यन्नाभिपंकजादेव जातोऽहं विश्वसृष्टिकृत् ।।
परमार्थस्वरूपं ते त्वं वै वेत्सि जगन्मय ।। १८ ।।
यन्मायया जगत्सर्वं निर्मितं महदादिकम् ।।
यन्निःश्वाससमुद्भूतं शब्दब्रह्म त्रिधाऽभवत् ।। १९।।
उपजीव्य तदेवाहमसृजं भुवनानि वै ।।
त्वत्तो नान्यः स्थूलसूक्ष्मदीर्घह्रस्वादि किंचन ।। 2.2.1.२० ।।
विकारभेदैर्भगवंस्त्वमेवेदं चराचरम् ।।
कटकादि यथा स्वर्णं गुणत्रयविभागशः ।।२१।।
स्रष्टा सृज्यं त्वमेवात्र पोष्टा पोष्यं जगत्प्रभो ।।
आधारो ध्रियमाणं च धर्त्ता त्वं परमेश्वर ।।२२ ।।
त्वत्प्रेरितमतिः सर्वश्चरते च शुभाऽशुभम् ।।
ततः प्राप्नोति सदृशीं त्वयैव विहितां गतिम् ।। २३ ।।
जगतोऽस्य गतिर्भर्त्ता साक्षी त्वं परमेश्वर ।।
चराचरगुरो सर्वजीवभूत कृपामय ।।
प्रसीदाद्य जगन्नाथ नित्यं त्वच्छरण्यस्य मे ।।२४।।
।। जैमिनिरुवाच ।। ।।
एवं संस्तूयमानश्च ब्रह्मणा गरुडध्वजः ।।
नीलजीमूतसंकाशः शंखचक्रादिचिह्नितः ।। २५ ।।
पतगेंद्रसमारूढः स्फुरद्वदनपंकजः ।।
आविरासीद्द्विजश्रेष्ठा विवक्षुः स्फुरिताधरः ।। २६ ।।
।। श्रीभगवानुवाच ।। ।।
यदर्थं मां स्तुषे ब्रह्मन्न शक्यः प्रतिभाति सः ।। २७ ।।
अनाद्यविद्या सुदृढा सुश्छेद्या कर्मबंधनैः ।।
प्रभवंत्यां कथं तस्यां ह्रीयेते मृतिजन्मनी ।।२८।।
तथापि चेदत्र कृते व्यवसायस्तवानघ ।।
क्रमेण येन हि भवेत्तत्ते वक्ष्यामि कारणम् ।। २९ ।।
अहं त्वं त्वमहं ब्रह्मन्मन्मयं चाखिलं जगत् ।।
चिस्ते यत्र मे तत्र नान्यथेति विचारय ।। 2.2.1.३० ।।
सागरस्योत्तरे तीरे महानद्यास्तु दक्षिणे ।।
स प्रदेशः पृथिव्यां हि सर्वतीर्थफलप्रदः ।।३१।।
तत्र ये मनुजा ब्रह्मन्निवसंति सुबुद्धयः ।।
जन्मांतरकृतानां च पुण्यानां फलभागिनः ।। ३२ ।।
नाल्पपुण्याः प्रजायंते नाभक्ता मयि पद्मज ।।
एकाम्रकाननाद्यावद्दक्षिणोदधितीरभूः ।। ३३ ।।
पदात्पदाच्छ्रेष्ठतमः क्रमात्परमपावनः ।।
सिन्धुतीरं तु यो बह्मन्राजते नीलपर्वतः ।।३४।।
पृथिव्यां गोपितं स्थानं तव चापि सुदुर्लभम् ।।
सुरासुराणां दुर्ज्ञेयं माययाछादितं मम ।। ३५ ।।
सर्वसंगपरित्यक्तस्तत्र तिष्ठामि देहभृत् ।।
क्षराक्षरावतिक्रम्य वर्त्तेऽहं पुरुषोत्तमे ।।३६।।
सृष्ट्या लयेन नाक्रान्तं क्षेत्रं मे पुरुषोत्तमम् ।।
यथा मां पश्यसि ब्रह्मन्रूपं चक्रादिचिह्नितम् ।। ३७ ।।
ईदृशं तत्र गत्वैव द्रक्ष्यसे मां पितामह ।।
नीलाद्रेरंतरभुवि कल्पन्यग्रोधमूलतः ।। ३८ ।।
वारुण्यां दिशि यत्कुण्डं रौहिणं नाम विश्रुतम् ।।
तत्तीरे निवसन्तं मां पश्यन्तश्चर्मचक्षुषा ।। ३९ ।।
तदम्भसा क्षीणपापा मम सायुज्यमाप्नुयुः ।।
तत्र व्रज महाभाग दृष्ट्वा मां ध्यायतस्तव ।। 2.2.1.४० ।।
प्रकाशं यास्यते तस्य क्षेत्रस्य महिमाऽपरः ।।
आश्चर्यभूतः परमस्तवापि च भविष्यति ।। ४१ ।।
श्रुतिस्मृतीहासपुराणगोपितं मन्मायया तन्न हि कस्य गोचरम् ।।
प्रसादतो मे स्तुवतस्तवाधुना प्रकाशमायास्यति सर्वगोचरम् ।। ४२ ।।
व्रतेषु तीर्थेषु च यज्ञदानयोः पुण्यं यदुक्तं विमलात्मनां हि तत् ।।
अहर्निवासाल्लभतेऽत्र सर्वं निःश्वास वासात्खलु चाश्वमेधिकम् ।। ४३ ।।
इत्यादिश्य विधिं विप्रास्तदासौ पुरुषोत्तमः ।।
पश्यतस्तस्य तत्रैव प्रभुरन्तरधीयत ।। ४४ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे प्रथमोऽध्यायः ।। १ ।।
खण्डः २ (वैष्णवखण्डः) · पुरुषोत्तमजगन्नाथमाहात्म्यम् — Adhyāya 2
।। जैमिनिरुवाच ।। ।।
ततो ब्रह्मागमत्तूर्णं यत्रास्ते भगवान्स्वयम् ।।
स्तवान्तेऽसौ यथा दृष्टस्तथाद्राक्षीत्प्रभुं तदा ।। १ ।।
प्रत्यभिज्ञानसंहृष्टस्तं दृष्ट्वा परमेश्वरम् ।।
अत्यद्भुतज्ञाननिधिर्बभूवासौ द्विजोत्तमाः ।। २ ।।
यावत्स्तोतुं समारेभे हर्षसंफुल्ललोचनः ।।
तावदेव समागत्य कुतश्चिद्वायसोत्तमः ।। ३ ।।
कारुण्योदकसंपूर्णे तस्मिन्कुण्डे निमज्य तम् ।।
विलोक्य माधवं नीलरत्नकांतिं कृपानिधिम् ।। ४ ।।
काकदेहं समुत्सृज्य लुठमानो मुहुः क्षितौ ।।
शंखचक्रगदापाणिस्तस्य पार्श्वे व्यवस्थितः ।। ५ ।।
तिरश्चस्तां गतिं दृष्ट्वा योगींद्राणां सुदुर्लभाम् ।।
मेनेऽसौ मुनयः सृष्टिः क्रमात्क्षीणा भविष्यति ।। ६ ।।
मनुष्याधिकृते मुक्तौ वेदांते संशयोऽभवत्।।
न किंचिद्दुर्लभं चेह विष्णुभक्तस्य विद्यते ।। ७ ।।
प्रत्यक्षोऽभूद्द्विजश्रेष्ठाः पुराणपुरुषोदिते ।।
संकीर्त्य यन्नाम नरः सर्वपापैः प्रमुच्यते ।। ८ ।।
तस्य संदर्शने विप्रा मुक्तिः किं खलु दुर्लभा ।।
मनसा ध्याययन्विष्णुं त्यजन्प्राणान्विमुच्यते ।। ९ ।।
साक्षात्कृतो भगवतः किं चित्रं मुक्तिमेति यत् ।।
पुरुषोत्तमसंज्ञस्य क्षेत्रस्य महिमाद्भुतः ।। 2.2.2.१० ।।
यत्र काकोऽपि च हरिं साक्षात्पश्यति भो द्विजाः ।।
सुदुर्लभं क्षेत्रमिदमज्ञानां च विमोचनम् ।।
अहो क्षेत्रस्य माहात्म्यं काकस्यापि विमुक्तिदम् ।।
किं पुनः सततं शांति वैराग्यज्ञानसंयुजाम् ।। ११ ।।
।। ऋषय ऊचुः ।। ।।
नीलाख्यं माधवं दृष्ट्वा किं चकार पितामहः ।। १२ ।।
तद्दर्शने क्षणान्नष्टदेहबन्धं च वायसम् ।। १३ ।।
।। जैमिनिरुवाच ।। ।।
अत्यद्भुतमयं दृष्ट्वा यावद्ध्यायति माधवम् ।।
तावत्पितृपतिः स्वाधिकारसंयमनाकुलः ।। १४ ।।
दीनाननो निःश्वसन्वै तत्र यातस्त्वरान्वितः ।।
नीलाद्रौ माधवं दृष्ट्वा साऽष्टांगं प्रणिपत्य च ।। १५ ।।
तुष्टाव स जगन्नाथं स्वाधिकारदृढस्थितौ ।। ।।
।। यम उवाच ।। ।।
नमस्ते देवदेवेश सृष्टिस्थित्यन्तकारण ।। १६ ।।
त्वयि प्रोतमिदं सर्वं सूत्रे मणिगणा यथा ।।
त्वया धृतं त्वया सृष्टं त्वया चाप्यायितं जगत् ।। १७ ।।
चन्द्रसूर्यादिरूपेण नित्यं भासयसेऽखिलम् ।।
विश्वेश्वरं जगद्योनिं विश्वावासं जगद्गुरुम् ।। ।। १८ ।।
विश्वसाक्षिणमाद्यन्तवर्जितं प्रणमाम्यहम् ।।
नमः परमकारुण्यजलसंभृतसिन्धवे ।। १९ ।।
परापरपरातीतविभवे विश्वसंभवे ।। ।। 2.2.2.२० ।।
भवसंतापनीहारभानवे दीनबन्धवे ।।
स्वमायारचिताशेष भवे गुणरज्जवे ।। २१ ।।
नमः कमलकिंजल्क पीतनिर्मलवाससे ।।
महाहवरिपुस्कन्ध कृंतचक्राय चक्रिणे ।। २२ ।।
दंष्ट्रोद्धृत क्षितिभृते त्रयीमूर्तिमते नमः ।।
नमो यज्ञवराहाय चन्द्रसूर्याग्निचक्षुषे ।। २३ ।।
नरसिंहाय दंष्ट्रोग्रमूर्तिद्रावितशत्रवे ।।
यदपांगविलासैक सृष्टिस्थित्युपसंहृतिः ।। २४ ।।
उच्चावचात्मको ह्येष भवः संभवते मुहुः ।।
तममुं नीलमेघाभं नीलाश्ममणिविग्रहम् ।। २५ ।।
नीलाचलगुहावासं प्रणमामि कृपानिधिम् ।।
शंखचक्रगदापद्मधारिणं शुभदायिनम् ।। २६ ।।
प्रणताशेषपापौघदारिणं मुरवैरिणम् ।।
नमस्ते कमलापांग संगसंस्कारचक्षुषे ।। २७ ।।
श्रीवत्सकौस्तुभोद्भासि मनोहृद्व्यूढवक्षसे ।।
यत्पादपंकजद्वंद्वसंश्रयैश्वर्यभागिनी ।। ।। २८ ।।
श्रीः संश्रिता जनैः शश्वत्पृथगैश्वर्यदायिनी ।।
या परापरसंभिन्ना प्रकृतिस्ते सिसृक्षया ।। २९ ।।
निर्विकारं परं ब्रह्म विकारि ससृजेंऽजसा।।
सर्वलक्षणसंपूर्णा लक्षितां शुभलक्षणैः ।।
लक्ष्मीशोरसि नित्यस्था लक्ष्मीं तां प्रणमाम्यहम् ।। 2.2.2.३० ।।
।। जैमिनिरुवाच ।। ।।
तदेवं धर्मराजेन श्रीकांतः परितोषितः ।।
पार्श्वस्थां वल्लकीहस्तां नेत्रांतेनादिशच्छ्रियम् ।। ३१ ।।
तेन संभाविता लक्ष्मीर्भवदुःखविनाशिनी ।।
शुभाय सर्वलोकानां यमं प्रोवाच लीलया ३२ ।।
।। लक्ष्मीरुवाच ।। ।।
यदर्थमावां संस्तौषि क्षेत्रेस्मिन्दुर्लभं हि तत् ।।
अत्याज्यमावयोरेतत्क्षेत्रं श्रीपुरुषोत्तमम् ।। ३३ ।।
कल्पावसानेप्यावां वै ध्रियेते परमेष्ठिना ।।
ब्रह्मादिदिक्प्रभूणां हि स्वामित्वं नेह विद्यते ।। ३४ ।।
नेह कर्मपरीपाकाः संभवंति कदाचन।।
अत्र प्रवसतां नृणां तिरश्चामपि दुष्कृताम्।। ३५ ।।
दह्यते ज्वलिताग्नौ हि तूलराशिर्यथा भृशम् ।।
ये बद्धा पापपुण्याभ्यां निगडाभ्यामहर्निशम् ।। ३६ ।।
तेषां संयमिता त्वं हि यमः पूर्वं विनिर्मितः ।।
अत्र साक्षाद्वपुष्मंतं नीलेन्द्रमणिमंजुलम् ।। ३७ ।।
दृष्ट्वा नारायणं देवं मुच्यते कर्मबन्धनात् ।।
अतोऽन्यतः कर्मभूमौ प्रभुत्वं सूर्यसंभव ।। ३८ ।।
वैक्लव्यं क्षेत्रराजेस्मिन्मा गास्त्वं यम संयमे ।।
तवापि भगवानेष विधाता प्रपितामहः ।। ३९ ।।
तिर्यंचं विष्णुसारूप्यं प्राप्तं पश्यति कौतुकात् ।।
एष कर्मपरीपाकं सर्वेषां वेत्ति कंजजः ।। 2.2.2.४० ।।
ज्ञात्वा क्षेत्रस्य माहात्म्यं स्तौति देवं गदाधरम्।।
त्वद्वशं गंतुमुचिता नेह तिष्ठंति जंतवः ।। ४१ ।।
वैवस्वत वसंत्यत्र जीवन्मुक्ता मुमुक्षवः ।।
तया संबोधितस्त्वेवं विष्णुना स्त्रीस्वरूपिणा ।।
ततोऽहंकारलज्जाभ्यां विनीतः प्राब्रवीद्यमः ।। ४२ ।।
।। यम उवाच ।। ।।
मातस्त्वया यदाज्ञप्तं पुरा नैतन्मया श्रुतम्।। ४३ ।।
अज्ञानोपहतो वेद्मि रहस्यं कथमुत्तमम् ।।
यस्य स्वरूपं वेदाश्च न च वेत्ति पितामहः।।४४।।
महिमानं कथं तस्य वेद्म्यहंकार मोहितः।।
यदादिष्टं सुरेशानि क्षेत्रमेतद्विमु्क्तिदम्।।४५।।
सान्निध्याद्वासुदेवस्य ईश्वरेच्छा निरंकुशा।।
अन्यत्र बन्धदो विष्णुरत्र मोक्षं ददाति यत्।। ४६।।
ममापि निरयाणां च स्रष्टासौ त्रिदिवस्य च।।
मृतानामत्र मुक्तिश्चेत्तन्मामंब सुविस्तरम्।।४७।।
क्षेत्रसंस्थाप्रमाणं हि तत्र स्थिति फलं हि यत् ।।
तीर्थानि कानि संत्यत्र किमन्यद्वा रहस्यकम् ।। ४८ ।।
किमधिष्ठातृकं क्षेत्रं तत्सर्वं कथयस्व मे ।।
तदहं संपरित्यज्य निर्भयः संचरे यथा।। ४९ ।। ।।
इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे द्वितीयोऽध्यायः ।। २ ।।
खण्डः २ (वैष्णवखण्डः) · पुरुषोत्तमजगन्नाथमाहात्म्यम् — Adhyāya 3
।। श्रीरुवाच ।। ।।
साधु ते बुद्धिरुत्पन्ना विष्णोः संनिधिमाश्रिता ।।
अद्भुतं कथयाम्येतत्क्षेत्रस्य रविनंदन ।। १ ।।
यथाहं भगवद्वक्षः स्थलस्था ददृशे पुरा ।।
चराचरे जगत्यस्मिन्प्रलीने प्रलये यम ।। २ ।।
एतत्क्षेत्रमहं चैव द्वे एवोपस्थिते तदा।।
स तदा सप्तकल्पायुर्मृकंडोरात्मजो मुनिः।।३।।
प्रणष्टे स्थावरचरे निमग्नः प्रलयार्णवे।।
नावस्थानमवाप्यैव शर्म लेभे न कुत्रचित्।।४।।
जलार्णवे भ्राम्यमाणः प्रलये स इतस्ततः।।
पुरुषोत्तमसादृश्ये क्षेत्रे स वटमैक्षत।। ५।।
उत्प्लुत्योत्प्लुत्य मूलं तु न्यग्रोधस्य समीपतः।।
शुश्राव बाल वचनं मार्कण्डेय ममांतिकम् ।। ६ ।।
प्रविश्य दुःखमतुलं जहीहि खलु मा शुचः ।।
तच्छ्रुत्वा चित्रवचनमप्रतर्क्यं तदा मुनिः ।। ७ ।।
विस्मयं परमं लेभे स्वदुःखं नाप्यचिन्तयत् ।।
वारिभिः शीर्यते नैतद्दह्यते कालवह्निना ।। ८ ।।
संवर्तकादिभिर्नैतच्छोष्यते नापि चाल्यते ।।
एकार्णवे महाघोरे नौरिव क्षेत्रमीक्ष्यते ।। ९ ।।
तत्रायं यूपसदृशो न्यग्रोधस्तिष्ठते महान् ।।
यं गृहीत्वा क्षेत्रमिदं न्यग्रोध ईशितुस्तनुः ।। 2.2.3.१० ।।
महाप्रलय वातेन शाखा नास्य हि कम्पते ।।
तस्याधस्तात्स हि मुनिः स्थित्वा चैतदचिंतयत् ।। ११ ।।
एकार्णवेऽस्मिन्प्रलये नष्टे स्थावरजंगमे ।।
भूप्रदेशः स्थिरतरः कथमेष विभाव्यते ।। १२ ।।
यत्रायं शाखिप्रवरः कोमलः परिदृश्यते ।।
मार्कंडेयागच्छ मुहुरिति सप्रश्रयं वचः ।। १३ ।।
कुतो निराश्रमियदं चिन्तयन्निति स प्लवन् ।।
शंखचक्रगदापाणिं नारायणमलोकयत् ।। १४ ।।
तदंगपद्मासनगां मां च वैवस्वतैक्षत ।।
विवशो जलवाताभ्यां तदा सुस्थो व्यवस्थितः ।। १५ ।।
हृष्टांतरात्मा स मुनिरावां साष्टांगमानतः ।।
प्रसादनाय देवस्य स्तोत्रमेतदुदाहरत् ।। १६ ।।
।। मार्कंडेय उवाच ।। ।।
त्वत्पादपद्मानुसरानुषंगं रुद्रेंद्रपद्मासनसम्पदाढ्यम् ।।
त्वद्भक्तिहीनं परितः प्रतप्तं दीनं परित्राहि कृपांबुधे माम् ।। १७ ।।
ब्रह्मादिभिर्यत्परिचर्यमाणं पदाम्बुजद्वन्द्वमचिंत्यशक्ति ।।
श्वः श्रेयसप्राप्तिनिदानतत्त्वं दीनं परित्राहि कृपाम्बुधे माम् ।। १८ ।।
यदंगभूतं जगदण्डमेतदनेककोटि प्रगुणं विभाति ।।
लीलाविलासस्थितिसृष्टिलीनं तन्मां सुदीनं परिरक्ष विष्णो ।। १९ ।।
एकं सुवर्णं कटकादिभेदैर्नाना यथा वा नभसोदितोऽर्कः ।।
आधारवैषम्यजलेषु तादृग्विभाव्यसे निर्गुण एक एव ।। 2.2.3.२० ।।
अशेषसंपूर्णरुचिप्रहीणोपादानसंकल्पविवर्जितोऽपि ।।
दीनानुकंपानुगुणं बिभर्षि युगे युगे देहमपारशक्ते ।। २१ ।।
त्वत्पादपद्मं जगदीश पूर्वमसेव्यतानात्मधिया मया यत् ।।
तत्कर्मणा दारुणपाकभाजं दीनं परित्राहि कृपांबुधे माम् ।। २२ ।।
अशेषलोकस्थितिसृष्टिलीनविलासि यत्ते त्रिगुणं विभाति ।।
वपुर्महात्मन्महदादिहेतुर्हेतोर्नमस्ते प्रकृतेः परस्य ।। ।। २३ ।।
सर्वत्र गत्वा बृहदप्रमेयं प्रवर्द्धमानं त्वयि बृंहितं च ।।
तद्बह्मरूपं परिणामहेतुं स्वाध्यात्मविश्वात्मकमाश्रयामि ।। २४ ।।
एकार्णवे महाघोरे नावस्थातुं प्रदेशभूः ।।
अस्ति लक्ष्मीपते मेघवारिवातप्रकंपनात् ।। २५ ।।
त्राहि विष्णो जगन्नाथ मग्नं संसारसागरे ।।
मामुद्धरास्माद्गोविंद कृपापांगविलोकनात ।। २६ ।।
।। श्रीरुवाच ।। ।।
स्तुवंतमेवं ब्रह्मर्षि साक्षान्नारायणो विभुः ।।
विलोक्यानुग्रहदृशा वाक्यं चेदमुवाच ह ।। २७ ।।
।। श्रीभगवानुवाच ।। ।।
मार्कंडेय सुदीनोऽसि मामज्ञाय द्विजोत्तम ।।
दुश्चरं तु तपस्तप्तं दीर्घायुस्तेन केवलम् ।। २८ ।।
शयानं पत्रपुटके पश्य कल्पवटोर्ध्वगम ।।
बालस्वरूपं सर्वेषां कालात्मानं महामुने ।।
प्रविश्य विस्तृतं वक्त्रं तत्रावस्थातुमर्हसि ।। २९ ।।
।। ।। श्रीरुवाच ।। ।।
एवमुक्तो भगवता स मुनिर्विस्मिताननः ।। 2.2.3.३० ।।
आरुह्य ददृशे बालरूपं तस्याविशन्मुखे ।।
प्रविष्टः कंठमार्गेण महायामं महोदरम् ।। ३१ ।।
तत्रासौ ददृशे विप्रो भुवनानि चतुर्दश ।।
ब्रह्मादिदिक्पालसुरान्सिद्धगंधर्वराक्षसान् ।। ३२ ।।
ऋषीन्दिव्यऋषींश्चैव भूतलं सागरांकितम् ।।
नानातीर्थैर्नदीभिश्च पर्वतैः काननैस्तथा ।। ३३ ।।
लक्षितं पत्तनपुरं ग्रामखर्वटकैर्युतम् ।।
पातालानि तथा सप्त नागकन्याः सहस्रशः ।। ३४ ।।
महार्घ्यमणिसौधैश्च सुधापात्रैः समुज्ज्वलैः ।।
अनर्घ्यमणिभिर्नागैः सेवितं परमाद्भुतम् ।। ।। ३५ ।।
जगतां धारिणं शेषं सहस्रफणमंडितम् ।।
व्याकर्तारमशेषाणां शास्त्राणां शिष्यमध्यगम् ।। ३६ ।।
ब्रह्मांडोदरगं वस्तु यत्किंचित्परमेष्ठिना ।।
सृष्टं सर्वं ददृशेऽसौ तत्कुक्षौ स महामुनिः ।। ३७ ।।
नापश्यदंतं कुक्षेस्तु भ्रममाण इतस्ततः ।।
ततो विनिष्क्रम्य पुनर्ददृशे च मया सह ।। ३८ ।।
पूर्वमालक्षितं यद्वदास्थितं पुरुषोत्तमम् ।।
विस्मयोत्फुल्लनयनः प्रणिपत्येदमब्रवीत् ।। ३९ ।।
।। मार्कंडेय उवाच ।। ।।
भगवन्देवदेवेश किमद्भुतमिदं प्रभो ।।
महाप्रलयसंरोधे सृष्टिरत्र विभाव्यते ।। 2.2.3.४० ।।
त्वन्माया दुरवच्छेद्या कथं वै ज्ञायते मया ।। ।। ४१ ।।
।। श्रीभगवानुवाच ।। ।।
मुने क्षेत्रमिदं चित्रं शाश्वतं मे विभावय ।।
न सृष्टिप्रलयावत्र विद्येते न च संसृतिः ।। ४२ ।।
सदैकरूपं पुरुषोत्तमाख्यं मुक्तिप्रदं मामिह संप्रबुध्य ।।
अत्र प्रविष्टो न पुनः प्रयाति गर्भस्थितिं सांद्रसुखस्वरूपः ।। ४३ ।।
इत्याज्ञप्तो भगवता मार्कंडेयो महामुनिः ।।
अत्र वासं करिष्यामीत्यन्यतीर्थपराङ्मुखः ।।
प्रहृष्टवदनः प्राह प्रणिपत्य जगद्गुरुम् ।। ४४ ।।
।। मार्कण्डेय उवाच ।। ।।
उवाच स तथा विष्णुं भक्तिश्रद्धासमन्वितः ।।
अनुगृह्णीष्व भगवन्क्षेत्रेस्मिन्पुरुषोत्तमे ।।
यथा स्थितो मृत्युवशं न व्रजे पुरुषोत्तम ।। ४५ ।।
।। श्रीभगवानुवाच ।। ।।
अत्र स्थितिं मे विप्रर्षे क्षेत्रे मोक्षप्रसाधके ।। ४६ ।।
करिष्यामि न संदेहो यावदाभूतसंप्लवम् ।।
प्रलयावसाने तीर्थं ते रचयिष्यामि शाश्वतम् ।। ४७ ।।
यत्तीरे तप आस्थाय मद्द्वितीयतनुं शिवम् ।।
आराध्य मदनुक्रोशान्मृत्युं जेष्यसि निश्चितम् ।। ४८ ।।
।। जैमिनिरुवाच ।। ।।
एवं पुरा दत्तवरो मार्कंडेयो महामुनिः ।।
न्यग्रोधवायव्यकोणे खातं चक्रेण वै हरेः ।। ४९ ।।
पावनं गर्तमास्थाय पूजयित्वा महेश्वरम् ।।
महता तपसा विप्रो जितवान्मृत्युमंजसा ।। 2.2.3.५० ।।
मुनेस्तस्यैव नाम्नायं प्रख्यातो गर्त उत्तमः ।।
यत्र स्नात्वा शिवं दृष्ट्वा वाजिमेधफलं लभेत् ।। ५१ ।। ।।
।। श्रीरुवाच ।। ।।
पञ्चक्रोशमिदं क्षेत्रं समुद्रांतर्व्यवस्थितम् ।।
द्विक्रोशं तीर्थराजस्य तटभूमौ सुनिर्मलम् ।। ५२ ।।
सुवर्णवालुकाकीर्णं नीलपर्वतशोभितम् ।।
योऽसौ विश्वेश्वरो देवः साक्षान्नारायणात्मकः ।। ५३ ।।
संयम्य विषयग्रामं समुद्रतटमास्थितः ।।
उपासितुं जगन्नाथं चतुःषष्टितमः प्रभुः ।। ५४ ।।
यमेश्वर इति ख्यातो यमसंयमनाशनः ।।
यं दृष्ट्वा पूजयित्वा तु कोटिलिंगफलं लभेत् ।। ५५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे तृतीयोऽध्यायः ।। ३ ।।
खण्डः २ (वैष्णवखण्डः) · पुरुषोत्तमजगन्नाथमाहात्म्यम् — Adhyāya 4
।। श्रीरुवाच ।। ।।
सीमाप्रतीची क्षेत्रस्य शंखाकारस्य मूर्द्धनि ।।
सर्वकामप्रदो देवः स आस्ते वृषभध्वजः ।। १ ।।
शंखाग्रे नीलकण्ठः स्यादेतत्क्रोशं सुदुर्लभम् ।।
परमं पावनं क्षेत्रं साक्षान्नारायणस्य वै ।। २ ।।
सिंधुराजस्य सलिलाद्यावन्मूलं वटस्य वै ।।
शंखस्योदरभागस्तु समुद्रोदकसंप्लुतः ।। ३ ।।
यत्संपर्कात्समुद्रोऽत्र तीर्थराजत्वमागतः ।।
यथायं भगवान्मुक्तिप्रदो दृष्टिपथं गतः ।। ४ ।।
तथेदं मरणात्क्षेत्रं सिंधुः स्नानाद्विमुक्तिदः ।।
चिच्छेद ब्रह्मणः पूर्वं रुद्रः क्रोधात्तु पञ्चमम् ।। ५ ।।
तच्छिरो दुस्त्यजं गृह्णन्ब्रह्मांडं परिबभ्रमे ।।
अत्रागतो यदा ब्रह्मकपालं परिमुक्तवान् ।। ६ ।।
कपालमोचनं लिंगं द्वितीयावर्तसंस्थितम् ।।
कपालमोचनं पश्येत्पूजयेत्प्रणमेच्च यः ।। ७ ।।
ब्रह्महत्यादिपापानां कंचुकं विजहात्यसौ ।।
तस्य दक्षिणपार्श्वे तु मरणं भवमोचनम् ।। ८ ।।
तृतीयावर्तगामाद्यां शक्तिं मे विमलाह्वयाम् ।।
जानीहि धर्मराज त्वं भुक्तिमुक्तिफलप्रदाम् ।। ९ ।।
य इमां पूजयेद्भक्त्या प्रणमेत्कीर्तयेत्तु वा ।।
सर्वान्कामानवाप्नोति मुक्तिं चांते च विंदति ।। 2.2.4.१० ।।
नाभिदेशे स्थितं ह्येतत्त्रयं कुंडं वटो विभुः ।।
कपालमोचनाद्यावदर्द्धाशिनी प्रतिष्ठिता ।। ११ ।।
मध्यं शंखस्य जानीयात्सुगुप्तं चक्रपाणिना ।।
अर्द्धमश्नाति सलिलं महाप्रलयवर्द्धितम् ।। १२ ।।
सृष्ट्यादौ धर्मराजेयं शक्तिर्मेऽर्द्धांशिनी स्मृता ।।
तां दृष्ट्वा प्रणमेद्यस्तु भोगान्सोऽश्नाति शाश्वतान् ।। १३ ।।
सिन्धुराजस्य सलिलाद्यावन्मूलं वटस्य वै ।।
कीटपक्षि मनुष्याणां मरणान्मुक्तिदो मतः ।।१४।।
अन्तर्वेदी त्वियं पुण्या वांछ्यते त्रिदशैरपि ।।
यत्र स्थितां हि पश्यंति सर्वांश्चक्राब्जधारिणः ।।१५।।
पृथिव्यां यानि तीर्थानि गगने च त्रिविष्टपे ।।
सार्द्धत्रिकोटिसंख्यानि स्वर्गमोक्षप्रदानि वै ।। १६ ।।
तेषामयं तीर्थराजः कीर्तितः पुरुषोत्तमः ।।
सर्वेषां मुक्तिक्षेत्राणामिदं सायुज्यदं मतम् ।। १७ ।।
अत्र स्थिता न शोचंति जराजन्ममृतिष्वपि ।।
कुण्डं ह्येतद्रोहिणाख्यं कारुण्याख्यजलेन वै ।। १८ ।।
संभृतं तिष्ठते नित्यं स्पर्शनाद्बंधमुक्तिदम् ।।
अत्र प्रतिष्ठितं वारि प्रलये यत्प्रवर्द्धते ।। १९ ।।
अत्रैव लीयते पश्चात्तस्माद्रोहिणसंज्ञितम् ।।
तस्मात्ते माऽत्र चिंतास्तु स्वाधिकारविपर्यये ।। 2.2.4.२० ।।
मोक्षाधिकारिणामत्र नेश्वरस्त्वं परेतराट् ।।
धर्मराजं समादिश्य लक्ष्मीरेवं पुरः स्थितम् ।। २१ ।।
ब्रह्माणमाह जगतामंबा सप्रश्रया गिरा ।।
पितामह जगन्नाथ विदितं सर्वमेव यत् ।। २२ ।।
मोक्षदं सर्वजंतूनामेतत्क्षेत्रं समादिश ।।
कामाख्यं क्षेत्रपालं च विमलं वा तपास्थिता ।। २३ ।।
साक्षाद्ब्रह्मस्वरूपोऽसौ नृसिंहो दक्षिणे विभोः ।।
हिरण्यकशिपोर्वक्षो विदार्यायं प्रभोज्ज्वलः ।। २४ ।।
दर्शनादस्य नश्यंति पातकानि न संशयः ।।
भुक्तेर्मुक्तेश्च योग्यः स्यान्नात्र कार्या विचारणा ।। २५ ।।
अस्याग्रे संत्यजन्प्राणान्ब्रह्मसायुज्यमाप्नुयात् ।।
यत्किंचित्कुरुते कर्म कोटिकोटिगुणं भवेत् ।। २६ ।।
छायैषा कल्पवृक्षस्य नृसिंहार्केण भासिता ।।
तस्यां नश्यत्यविद्या हि ज्ञानतोऽज्ञानतो मृतौ ।। २७ ।।
वेदांतेषु प्रसिद्धैस्तैर्विज्ञानैः श्रवणादिभिः ।।
मूढानां दुर्लभैर्विप्रा विनाप्यत्र विमोचनम् ।। २८ ।।
अविमुक्ते मुमुक्षोस्तु कर्णमूले महेश्वरः ।।
दिशति ब्रह्मसंज्ञानं बोधोपायं कृपानिधिः ।। २९ ।।
तेन बुद्या समभ्यस्य क्रमान्मोक्षमवाप्नुयात् ।।
उपदेष्टुर्महिम्ना हि तस्य ज्ञानं न हीयते ।। 2.2.4.३० ।।
अत्र त्यजंति ये प्राणांस्तेषां तत्क्षण एव हि ।।
स्वरूपाज्जायते मुक्तिः संशयो माऽस्तु ते यम ।। ३१ ।।
गतागत प्रसक्तानां कर्मिणां मूढचेतसाम् ।।
वैवस्वत कदाचिन्नो विश्वासो ह्यत्र जायते ।। ३२ ।।
उत्सृज्य वारि गांगेयं स्वादु शीतं सुनिर्मलम् ।।
पिपासुः पल्वलं याति तद्वत्ते मूढचेतसः ।। ३३ ।।
भ्रमंति तीर्थान्यन्यानि त्यक्त्वैतत्क्षेत्रमुत्तमम् ।।
पलाशामोदकैस्तृप्ता लभंते श्रमजं फलम् ।। ३४ ।।
स्नानादब्धिदृशा देवश्छायया कल्पपादपः ।।
यत्र कुत्रापि च क्षेत्रं मरणान्मुक्तिदं नृणाम् ।। ३५ ।।
यो यत्र विषये भक्त्या विश्वासं कुरुते नरः ।।
स तु तेनैव मुच्येत नेदृशं तीर्थमस्ति वै ।। ३६ ।।
एतत्त्यक्त्वान्यतीर्थे वै विदधाति रुचिं तु यः ।।
नूनं स मायया विष्णोर्वंचितो लोभलालसः ।। ।। ३७ ।।
उपदेशेन बहुना न प्रयोजनमस्ति ते ।।
प्रत्यक्षो ह्यनुभूतोऽयं करटो विष्णुरूपधृक् ।। ३८ ।।
अन्तर्वेदीरक्षणार्थं शक्तयोऽष्टौ प्रकीर्तिताः ।।
उग्रेण तपसा पूर्वमहं रुद्रेण भाविता ।। ३९ ।।
पत्न्यर्थं सा मया सृष्टा गौरी तस्याथ भाविनी ।।
सर्वसौंदर्यवसतिर्वपुषो मे विनिर्गता ।। 2.2.4.४० ।।
तदादिष्टा मया भद्रे वचनं मे प्रियं कुरु ।।
अन्तर्वेदी रक्ष मम परितस्त्वं स्वमूर्तिभिः ।। ४१ ।।
सा तु तिष्ठति मत्प्रीत्या अष्टधा दिक्षु संस्थिता ।।
मंगला वटमूले तु पश्चिमे विमला तथा ।। ४२ ।।
शंखस्य पृष्ठभागे तु संस्थिता सर्वमंगला ।।
अर्द्धांशिनी तथा लंबा कुबेरदिशि संस्थिता ।। ४३ ।।
कालरात्रिर्दक्षिणस्यां पूर्वस्यां तु मरीचिका ।।
कालरात्र्यास्तथा पश्चाच्चंडरूपा व्यवस्थिता ।। ४४ ।।
एताभिरुग्ररूपाभिः शक्तिभिः परिरक्षितम् ।।
अल्पपुण्यस्य पुंसो हि स्थानमेतत्सुदुर्लभम् ।। ४५ ।।
एतासामष्टशक्तीनां दर्शनात्कीर्तनात्तथा ।।
नश्यंति सर्वपापानि हयमेधफलं लभेत् ।। ४६ ।।
रुद्राण्याश्चाष्टधा भेदं दृष्ट्वा रुद्रोऽपि शंकरः ।।
आत्मानमष्टधा भित्त्वा उपास्ते परमेश्वरम् ।।४७।।
आराध्य तपसा विष्णुं प्रार्थयद्वरमुत्तमम् ।।
यत्र त्वं देव तत्राहं वसेयं हि यथासुखम् ।। ४८ ।।
त्वामृते कमलाकांत नान्यन्निर्वाणकारणम् ।।
अंतर्यामिन्प्रभो मे त्वं त्वां विना विग्रहः कुतः ।।४९।।
मूढा ये त्वां न जानंति हृष्यंति विषयेऽशुचौ ।।
निर्मलांबरसंकाश त्वामहं शरणं गतः।।2.2.4.५०।।
।। ।। जैमिनिरुवाच ।। ।।
भगवानपि रुद्रं तं क्षेत्रपालं तथा विभुः ।।
स्थापयामास परितः स्वयं मध्ये व्यवस्थितः ।। ५१ ।।
कपालमोचनं नाम क्षेत्रपालं यमेश्वरम् ।।
मार्कण्डेयं तथेशानं बिल्वेशं नीलकंठकम् ।। ५२ ।।
वटमूले वटेशं च लिंगान्यष्टौ महेशितुः ।।
यानि दृष्ट्वा तथा स्पृष्ट्वा पूजयित्वा विमुच्यते ।। ५३ ।।
अत्र क्षेत्रे मृता ये च न तेषां तु प्रभुर्यमः ।।
यदर्थमागतस्त्वं हि तदन्यत्र प्रसाधय ।। ५४ ।।
तथाप्यसौ जगन्नाथो भक्तायात्मसमर्पकः ।।
यमेन तोषितो भक्त्या प्रपन्नार्तिहरः प्रभुः ।। ५५ ।।
सुदर्शनेन चक्रेण मायां च व्यवधास्यति ।।
अत्याज्येऽस्मिन्क्षेत्रवरे स्वर्णवालुकया वृते ।। ५६ ।।
तं यमं वंचयित्वा तु प्रस्थापय्य यमालयम् ।।
साधु मत्वा ततः प्राह ब्रह्माणं पुरतः स्थितम् ।। ५७ ।। ।
। । श्रीरुवाच ।। ।।
इंद्रद्युम्नो नाम राजा युगे सत्ये भविष्यति ।।
वैष्णवः सर्वयज्ञानामाहर्त्ता शास्त्रकोविदः ।। ५८ ।।
अत्रागत्य महाभक्तिं करिष्यति नृपोत्तमः ।।
भगवत्प्रीतये येन वाजिमेधसहस्रकम् ।। ५९ ।।
करिष्यते प्रजानाथ तदनुग्रहकारणात् ।।
एकदारुसमुत्पन्नश्चतुर्द्धा संभविष्यति ।। ।।। 2.2.4.६० ।।
दारवप्रतिमानानि विश्वकर्मा घटिष्यति ।।
प्रतिष्ठापयिता त्वं हि इंद्रद्युम्नप्रसादितः ।। ६१ ।।
अस्माकं सदृशानां च प्रतिमानां पितामह ।।
तद्रूपका प्रतिष्ठा हि घटना च भविष्यति ।। ६२ ।।
इति श्रुत्वा श्रियो वाक्यं चतुर्वक्त्रो यमश्च सः ।।
स्वंस्वं पुरं जग्मतुस्तौ मुदा परमया युतौ ।। ६३ ।।
क्षेत्रस्य महिमानं तं संस्मृत्य च मुहुर्मुहुः ।।
विस्मयेन च हर्षेण रोमांचांचितविग्रहौ ।। ६४ ।।
सांप्रतं मुनयस्तस्मिन्निंद्रद्युम्नप्रसादितः ।।
शंखचक्रधरः श्रीमान्नीलजीमूतसंनिभः ।। ६५ ।।
नीलाचलगुहांतःस्थो बिभ्रद्दारुमयं वपुः ।।
आस्ते लोकोपकाराय बलेन च सुभद्रया ।।।। ६६ ।।
सुदर्शनेन चक्रेण दारुणा निर्मितेन च ।।
सहितः प्रणतार्तीनां नाशनः करुणार्णवः ।। ६७ ।।
यं दृष्ट्वा पापबंधेन सुदृढेन विमुच्यते ।। ।।
सुकर्मौघपरीपाको युगपत्समुपस्थितः ।। ६८ ।।
पश्यतां भो मुनिश्रेष्ठास्तापत्रयसुधानिधिम् ।।
बहवो ह्यवतारा हि विष्णोर्दिव्याश्च मानुषाः ।। ।। ६९ ।।
अत्यद्भुतानि कर्माणि माहात्म्यं चापि वर्णितम् ।।
पारिचित्यान्मनुष्यांस्तु न मन्यंते सुरा अपि ।। 2.2.4.७० ।।
देवासुरमनुष्याणां गंधर्वोरगरक्षसाम् ।।
तिरश्चामपि भो विप्रास्तस्मिन्दारुमये हरौ ।। ७१ ।।
सर्वात्मभूते वसति चित्तं सर्वसुखावहे ।।
उपजीवंत्यस्य सुखं यस्यानन्यस्वरूपिणः ।। ७२ ।।
ब्रह्मणः श्रुतिवागाहेत्येतदत्रानुभूयते ।।
द्यति संसारदुःखानि ददाति सुखमव्ययम् ।। ७३ ।।
तस्माद्दारुमयं ब्रह्म वेदांतेषु प्रगीयते ।।
न हि काष्ठमयी मोक्षं ददाति प्रतिमा क्वचित् ।। ७४ ।।
कृतेनाकृतता विप्राः कदाचिन्नोपलभ्यते ।।
अकृतो ह्यपवर्गस्तु कृताद्वा दारुणः कथम् ।। ७५ ।।
अधिष्ठानं विना ब्राह्म्यमैश्वर्यं नोपलभ्यते ।।
रहस्यमेतत्परमं विष्णोः स्थानमनुत्तमम् ।। ७६ ।।
अलौकिकी सा प्रतिमा लौकिकीति प्रकाशिता ।।
कुत्र श्रुता वा दृष्टा वा प्रतिमा व्याहरेदिति ।। ७७ ।।
इंद्रद्युम्नाय स वरं तदा दारुवपुर्ददौ ।।
दीनानाथैकशरणं तरणं भववारिधेः ।। ७८ ।।
चराचर सदावंद्य चरणं तं परायणम् ।।
नारायणं जगद्योनिं सृष्टिसंहृतिकारणम् ।। ७९ ।।
मोक्षणं सर्वपापानां दारणं सकलापदाम् ।।
विभूतीनां विसरणं वरणं सर्वयोगिनाम् ।। 2.2.4.८० ।।
भरणं सर्वजंतूनां धरणं जगतामपि ।।
भाषणं सर्वभाषाणां दूषणं सर्वदुष्कृताम् ।। ८१ ।।
शोषणं सर्वपंकानां नीलाद्रिशरणं हरिम् ।।
शरणं प्रयात मुनयो ह्यनन्यशरणं विभुम् ।। ८२ ।।
निश्चेष्टो दारुवर्ष्मापि दिव्यलीलाविलासकृत् ।।
क्षमते स्वल्पभक्त्यापि सोपराधशतं नृणाम् ।। ८३ ।।
अत्र वः कथयिष्यामि चरितं पापनाशनम् ।।
लीलया दारुदेहस्य मुनयः परमात्मनः ।। ८४ ।।
कुरुक्षेत्रे समुद्भूतौ ब्राह्मणक्षत्रियावुभौ ।।
सखायौ जग्मतुः प्रीत्या एकाहारविहारिणौ ।। ८५ ।।
वृत्तच्युतौ निषिद्धानामाहर्त्तारौ विमोहितौ ।।
अस्वाध्यायवषट्कारौ स्वधास्वाहाविवर्जितौ ।। ६६ ।।
अपात्रभूतौ धर्मस्य महापातकदूषितौ ।।
मधुभक्षौ पण्ययोषित्सहवासौ मुदान्वितौ ।। ८७ ।।
पारलौकिकचिंता तु तयोः स्वप्नेपि नागता ।।
एवं प्रवर्तमानौ तावायुषोऽर्द्धं च निन्यतुः ।। ८८ ।।
एकदा भ्रममाणौ तौ यज्ञवाटमगच्छताम् ।।
शृण्वन्तो दूरतः स्तोत्रं शास्त्रशब्दं मनोहरम् ।। ८९ ।।
दृष्ट्वा तास्ताः क्रियाः सर्वाः श्रुतिसंचोदिता द्विजाः ।।
तौ तदा चक्रतुः श्रद्धां धर्मे वर्त्मन्यधार्मिकौ ।। 2.2.4.९० ।।
संस्मरंतौ स्वजातिं तौ पुंडरीकांबरीषकौ ।।
निंदन्तौ दुश्चरित्रं स्वं परस्परमभाषताम् ।। ९१ ।।।
कथमावां तरिष्यावो दुष्कृतार्णवमुल्बणम् ।।
इहैव जन्मन्यजरं बुद्धिपूर्वमुपार्ज्जितम् ।। ९२ ।।
न तच्छास्त्रं हि जानाति यदावाभ्यां च दुष्कृतम् ।।।
सञ्चितं तस्य घोरस्य प्रायश्चित्तं सुदुर्ल्लभम् ।। ९३ ।।
तथापि ब्राह्मणानेतान्ब्रह्मिष्ठान्वै सदोगतान् ।।
प्रणिपातप्रपन्नान्वै पृच्छावोऽत्र च निष्कृतिम् ।। ।। ९४ ।।
इति निश्चित्य तौ विप्रानभिवाद्याभ्यपृच्छताम् ।।
यथावत्कल्मषं स्वंस्वं विज्ञाप्य च मुहुर्मुहुः ।। ९५ ।।
ते तयोर्वचनं श्रुत्वा मीलिताक्षा द्विजोत्तमाः।।
नाब्रुवन्किंस्विदन्योन्यं वीक्षंतो विस्मिताननाः ।। ९६ ।।
अहो सुघोरकर्माणि संचितानि दुरात्मनोः ।।
येषु शास्त्रं पदं दातुं प्रायश्चित्ताय न ह्यलम् ।। ९७ ।।
शक्नुमो न वयं तस्मादनयोर्निष्कृताविति ।।
तेषां मध्ये सदोमुख्यः कश्चिद्वैष्णवपुंगवः ।। ९८ ।।
भगवद्भक्तिमाहात्म्य क्षपिताशेषकल्मषः ।।
तानुवाच विहस्येदं वाक्यं वाक्यविदां वरः ।। ९९ ।।
।। वैष्णव उवाच ।। ।।
भो द्विज क्षत्रदायाद पापराशेः सुदारुणात् ।।
मुक्तिं चेद्वांच्छतस्तूर्णं गच्छतं पुरुषोत्तमम् ।। 2.2.4.१०० ।।
क्षेत्रोत्तमं दारुमयो यत्रास्ते पुरुषोत्तमः ।।
इन्द्रद्युम्नस्य राजर्षेर्भक्त्यानुग्रहकृद्विभुः ।। १०१ ।।
तमाराध्य जगन्नाथं शंखचक्रगदाधरम् ।।
पापक्षयं वा मुक्तिं वा स्वेच्छया प्राप्स्यथ धुवम् ।। १०२ ।।
घोरदुष्कृततूलौघ दावाग्निसदृशस्तु सः ।।
तपसे तत्क्षयं नेतुं न शक्यं जन्मकोटिभिः ।। १०३ ।।
युगपत्संक्षयं याति यं दृष्ट्वा सर्वकिल्बिषम् ।।
तन्मा विलंबं कुरुतं प्रयातं तत्र सत्वरं ।। १०४ ।।
सुपुण्ये चोत्कले देशे दक्षिणार्णवतीरगे ।।
नीलाद्रिशिखरावासं व्रजतं शरणं विभुम् ।। १०५ ।।
सोऽभीष्टसिद्धिं वां देवः प्रदास्यति कृपानिधिः ।।
इत्यादिष्टौ ततो विप्रक्षत्रियौ हर्षसंयुतौ ।। १०६ ।।
तेनैव वर्त्मना विप्राः प्रयातौ पुरुषोत्तमे ।। १०७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे चतुर्थोऽध्यायः ।। ४ ।।
खण्डः २ (वैष्णवखण्डः) · पुरुषोत्तमजगन्नाथमाहात्म्यम् — Adhyāya 5
।। जैमिनि रुवाच ।। ।।
निर्विण्णचेतसौ तौ तु त्यक्त्वा वेश्यादिसंगतिम् ।।
ध्यायंतौ मनसा विष्णुं शुद्धाहारव्रतावुभौ ।। १ ।।
कालेन कियता प्राप्तौ नीलाद्रिनिलयं हरेः ।।
तीर्थराजजले स्नात्वा यथावद्विधिचोदितम् ।। २ ।।
प्रासादद्वारि तिष्ठंतौ साष्टांगं प्रणिपत्य च ।।
भगवंतं निरीक्षंतौ नापश्यतां तदा द्विजा ।। ३ ।।
विवर्णवदनौ देवमदृष्ट्वा चिंतयाकुलौ ।।
आरभेते ह्यनशनं भगवद्दर्शनावधि ।। ४ ।।
कीर्तयंते भगवतो नाम कल्मषनाशनम् ।।
तृतीयस्यां त्रियामायां ज्योतिरेकमपश्यताम् ।। ५ ।।
त्रीण्यहानि पुनस्तौ च तदोपावसतां स्थिरौ ।।
मध्ये सप्तमरात्रेस्तु भगवंतमपश्यताम् ।। ६ ।।
त्रिदशानां स्तुतीः श्रुत्वा दिव्यज्ञानौ बभूवतुः ।।
अपास्तपापनिर्मोकौ साक्षाद्देवमपश्यताम् ।। ७ ।।
शंखचक्रगदापाणि दिव्यालंकारभूषितम् ।।
रत्नपादुकयोः पृष्ठे विन्यस्तचरणांबुजम् ।। ८ ।।
व्याकोशपुंडरीकाक्षं प्रसन्नवदनं विभुम् ।।
वामपार्श्वे स्थितां लक्ष्मीं वामेनालिंग्य बाहुना ।। ९ ।।
नागवल्लीदलं बद्धमाददानं श्रिया हृतम् ।।
रत्नवेत्रकराः काश्चित्काश्चिच्चामरपाणयः ।। 2.2.5.१० ।।
गंधतैलप्रदीपास्तु रत्नवर्तिप्रदीपिकाः ।।
काश्चिद्दधानाः स्वकरैर्योवनाढ्याः सुभूषिताः ।।११।।
पश्चाद्रत्नमयं छत्रं बिभ्रती काचिदुज्ज्वला।।
धूपपात्रं मुखाभ्याशे कृष्णागुरुसुधूपितम् ।। १२ ।।
काचिद्दधाना प्रम्लोचां हसंती विग्रहश्रिया ।।
लीलालकदृशा देवाननुगृह्णंतमग्रतः ।। १३ ।।
बद्धांजलिपुटान्नम्रकन्धरान्स्तुवतः पृथक् ।।
सिद्धान्मुनिगणान्दिव्यान्सनकादीन्स्मितेन च ।। १४ ।।
नारदादींश्च गंधर्वान्दिव्यगानमनोहरान् ।।
दत्तावधानं श्रवणे लीलयैवानुकम्पिनम्।।१५।।
प्रह्लादादीन्वैष्णवाग्र्यान्स्वरूपं ध्यायतोऽग्रतः ।।
चित्ताकर्षणसंलीनां विदधानं स्वविग्रहे ।। १६ ।।
वक्षःस्थलप्रविलसत्कौस्तुभप्रतिबिंबितैः ।।
देवादिभिर्विश्वरूपमूर्त्तेः स्वस्याः प्रकाशकम् ।। १७ ।।
उपर्युपरि दिव्यायाः पुष्पवृष्टेरधः स्थितम् ।।
श्रीसन्निधानविगतश्रियमप्सरसां गणम् ।। ।। १८ ।।
पश्यंतं विविधं नित्यमङ्गहारमनोहरम् ।।
दिव्यलीलाविलासं तं दृष्ट्वा तौ द्विजबाहुजौ ।। १९ ।।
बभूवतुः क्षणात्सर्वविद्यानां पारगौ द्विजाः ।।
त्रिः परिक्रम्य देवेशं कृतांजलिपुटावुभौ ।।
साष्टांगपातप्रणतौ तुष्टुवाते मुदान्वितौ ।। 2.2.5.२० ।।
।। पुण्डरीक उवाच ।। ।।
नमस्ते जगदाधार सर्गस्थित्यंतकारण ।।
नारायण नमस्तेऽस्तु परमात्मन्परायण ।। २१ ।।
परमार्थस्त्वमेवैको भवाप्ययविवर्जितः ।।
नित्यानन्दस्वरूपं त्वां विदन्ति ध्यानचक्षुषः ।। २२ ।।
चिन्मात्रं जगतामीशमधिष्ठानं परात्परम् ।।
कथं नु मूढहृदयास्त्वां जानंति सुनिर्मलम् ।। २३ ।।
कामार्थलिप्सासंभ्रातचेतसोऽत्यंतदुःखिनः ।।
गतागतपथे श्रांताः सुखभाजः कदाचन ।। २४ ।।
अनुकंपय मां नाथ सुदीनं शरणागतम् ।।
मूढं दुष्कृतकर्माणं पतितं भवसागरे ।। २५ ।।
कोऽन्यस्त्वत्सदृशो बन्धुर्ब्रह्मांडे नाथ वर्त्तते ।।
स्वकर्त्तव्यानपेक्षो यो दीनानाथदयालुकः ।। २६ ।।
उच्चावचभ्रमाद्दुःखं जलयंत्रघटीमिव ।।
अजस्रमधिकर्त्तारं परित्राहि कृपांबुधे ।। २७ ।।
योगक्षेमाभिसंधाना ये मूढास्त्वामुपासते ।।
लीलाविमुक्तिदं ते वै त्वन्मायापरिमोहिताः ।। २८ ।
नारायणेति त्वन्नाम कीर्तितं तु यदृच्छया ।।
त्वत्तोऽधिकं जगन्नाथ चतुर्वर्गैकसाधनम् । २९ ।।
त्वं तु तैस्तैः पृथग्यज्ञैस्तास्ताः सिद्धीः प्रयच्छसि ।।
त्वमेकः शरणं नाथ पतितानां भवार्णवे ।। 2.2.5.३० ।।
ज्ञाननौकासमारूढः करुणाक्षेपणीकरः ।।
परं पारं प्रभो नेतुं संसाराब्धेर्विचेतनम् ।। ३१ ।।
त्वमेक ईशिषे भक्त्यानन्यया परिचिंतितः ।।
येऽन्ये मुक्तिप्रदा देवाः शास्त्रेषु परिनिष्ठिताः ।। ३२ ।।
दुःखाब्धिकुम्भयोनिं ते त्वद्भक्तिं प्रापयंति वै ।। ३३ ।।
तन्मे प्रसीद भगवन्पदपंकजे ते भक्तिं दृढां वितर नाथ भवाब्धिमुच्चैः ।।
घोरं सुदुस्तरममुं हि यया तरेयमष्टांगयोगजनितश्रमवर्जितोऽपि ।। ३९३ ।।
धर्मार्थकामनिचयैः कुमतिप्रगृह्यैः क्षुद्रैरमीभिरहिताल्पसुखैर्न कार्यम् ।
आज्ञापयांघ्रिनलिनद्वयचिंतनेद्य सांद्रानुवर्धितसुखार्णवमज्जनं मे ।। ३५ ।।
स्तुत्वेत्थं जगदीशस्य पादपद्मांतिके द्विजः ।।
पपात त्राहि कृष्णेति वदन्वाष्पार्द्रया गिरा ।।
तस्थौ स पुनरुत्थाय कृतांजलिपुटः स्तुवन् ।। ३६ ।।
।। अम्बरीष उवाच ।। ।।
प्रसीद देव सर्वात्मन्नसंख्येयशिरोभुज ।।
असंख्य घ्राणनयनपाणिपाद नमोऽस्तु ते ।। ३७ ।।
षट्त्रिंशत्तत्त्वातीतोऽसि निष्प्रपंच प्रपंचकः ।।
चतुर्विधजगद्धाम विश्वमूर्ते नमोऽस्तु ते ।। ३८ ।।
एकपादस्त्रिपादश्च तीर्थपादोंऽतरिक्षपात् ।।
यस्य पादोद्भवा गंगा पुनाति भुवनत्रयम्।।३९ ।।
ब्रह्महत्यादिपापानां शोधकं यस्य नाम वै ।।
कीर्तितं सर्वशुभदं नमस्तस्मै शुभात्मने।।2.2.5.४०।।
देव त्वन्नामकीर्त्यापि जायंते सर्वसिद्धयः।।
कौतुकात्त्वां हि मृग्यंति विद्वांसो बुद्धिशालिनः।। ४१।।
नाथ त्वत्पादसलिलं संश्रयात्तापहारकम्।।
तापत्रयाभिभूतस्य भक्तिं मेऽत्र दृढां कुरु।। ४२।।
अनन्यस्वामिनो मेऽद्य नास्त्यन्यत्प्रार्थनीयकम्।।
प्रणिपत्य जगन्नाथ त्वां प्रयाचे सहस्रधा ।।४३ ।।
समस्तपुरुषार्थस्य बीजं त्वत्पादपंकजे ।।
यावत्प्राणान्धारयामि तावद्भक्तिर्दृढास्तु मे ।।४४ ।।
सृष्टिं विनिर्ममे चेमां यया भक्त्या पितामहः ।।
संहरत्यखिलं रुद्रो लक्ष्मीश्चैश्वर्यदायिनी ।। ४५।।
दीनानुकंपिंस्तां भक्तिं प्रार्थये नान्यमानसः ।।
अनाद्य विद्यापंकेस्मिन्सुदृढे दुस्तरं भृशम् ।। ४६ ।।
निमग्नस्य जगन्नाथ निरालंबं प्रणश्यतः ।।
महामहिम्नस्त्वद्भक्तेर्नान्यदस्ति परायणम् ।। ४७ ।।
श्रुतिस्मृत्यादिसंभिन्नमार्गाः संमोहहेतवः ।।
त्वद्भक्तिमपहार्येते न प्रवर्त्तितुमीश्वराः ।। ४८ ।।
अनन्यशरणं स्वामिन्ननुकम्पय मां विभो ।।
इति स्तुवञ्जगन्नाथपादपद्मांतिके मुदा ।। ४९ ।।
पपात दण्डवद्भूमौ प्रसीदेति वदन्मुहुः ।।
ततस्ते देवताः सर्वे स्तुत्वा संपूज्य केशवम् ।। 2.2.5.५० ।।
तल्लीलापांगसंतुष्टाः प्रयातास्त्रिदिवं पुनः ।।
तत उन्मीलितदृशौ पुण्डरीकांबरीषकौ ।। ५१ ।।
मायया मोहितौ विष्णोः स्वप्नदृष्टमबुध्यताम् ।।
यां दृष्ट्वा दिव्यलीलां हि साक्षात्पललचक्षुषा ।। ५२ ।।
पुनर्मानुषभावौ तौ दिव्यसिंहासनस्थितम् ।।
नीलजीमूतसंकाशं फुल्लपद्मायतेक्षणम् ।। ५३ ।।
शोणाधरं चारुनासं दिव्यकुण्डलभूषितम् ।।
शंखचक्रगदापद्मधारिणं वनमालिनम् ।। ५४ ।।
पीनोरस्कं चारुहारमनर्घ्यमुकुटोज्ज्वलम् ।।
श्रीवत्सकौस्तुभोरस्कं दिव्यांगदविभूषितम् ।। ५५ ।।
प्रलंबबाहुं दीनार्तपरित्राणसमुद्यतम् ।।
सुवर्णसूत्रसंनद्ध मध्यग्रंथिमणीयुतम् ।। ५६ ।।
दिव्य पीतांबरधरं दिव्यस्रग्गन्धभूषितम् ।।
स्वर्णपद्मासनासीनं सर्वांगालिंगितश्रियम् ।। ५७ ।।
प्रपन्नसंतापहरं सुधासागरमुल्बणम् ।।
अशेषवांछाफलदं कल्पवृक्षं सुपुष्पितम् ।। ५८ ।।
दक्षपार्श्वस्थितं तस्य ददृशाते हलायुधम् ।।
बिभर्त्ति येन ब्रह्मांडं बलेन महता विभुः ।। ५९ ।। ।
तं बलं नागराजानं फणासप्तकमंडितम् ।।
कैलासशिखरोत्तुंग धवलं कुण्डलोज्ज्वलम् ।। 2.2.5.६० ।।
विचित्रवनमालाढ्यं दिव्यनीलनिचोलिनम् ।।
सततं वारुणीक्षीब घूर्णोन्नयनपंकजम् ।। ६१ ।।
निम्नपृष्ठोन्नतोरस्कं कुण्डलीकृतविग्रहम् ।।
शंखचक्रगदापद्मसमुज्ज्वलचतुर्भुजम् ।। ६२ ।।
नानालंकाररुचिरं नतकल्मषनाशनम् ।।
तयोर्मध्ये स्थितां भद्रां सुभद्रां कुंकुमारुणाम् ।। ६३ ।।
सर्वलावण्यवसतिं सर्वदेव नमस्कृताम् ।।
लक्ष्मीं लक्ष्मीशहृदयपंकजस्थां पृथक्स्थिताम् ।। ६४ ।।
वराब्जधारिणीं देवीं दिव्यनेपथ्यभूषणाम् ।।
प्रपन्नकल्पलतिकां सर्वकल्मषनाशिनीन् ।। ६५ ।।
संसारार्णवमग्नानां तारिणीं देवतारणीम् ।।
वामपार्श्वस्थितं विष्णोरद्राष्टां चक्रमुत्तमम् ।। ६६ ।।
दार्वग्रनिर्मितं विप्राः स्वर्णभक्तिसमुज्ज्वलम् ।।
चतुर्द्धावस्थितं विष्णुं दृष्ट्वा तौ द्विजबाहुजौ ।। ६७ ।।
अरुणोदयवेलायां श्रमं सार्थममन्यताम् ।।
संस्मृत्य तां स्वप्नलीलां विस्मयं जग्मतुस्तदा ।। ६८ ।।
न दारुप्रतिमा चेयं साक्षाद्ब्रह्म प्रकाशते ।।
सदोगतानां विप्राणां वाक्यं श्रद्दधतुश्च तौ ।। ६९ ।।
क्वावां महापातकिनौ यातनाक्रमभागिनौ ।।
क्वेदं सुरसमाक्रांतस्थितं विष्णोः प्रदर्शनम् ।। 2.2.5.७० ।।
मूर्खयोरावयोरष्टादशविद्याप्रवीणता ।।
यस्मात्तस्मान्न च भ्रांतिर्ज्ञानं तत्समवादिनः ।। ७१ ।।
यदूचुर्दारवं ब्रह्म तीर्थराजतटे स्थितम् ।।
वटमूले प्रकाशंतं दृष्ट्वा जंतुर्विमुच्यते ।। ७२ ।।
तदेवायं जगन्नाथश्चतुर्द्धा संव्यवस्थितः।।
क्षितौ यदावतरति चतूरूपः प्रकाशते।। ७३।।
तदास्य संनिधावावां स्थास्यावः प्राणधारिणौ।।
यावन्नान्यत्र गच्छावः क्षुद्रकामपराङ्मुखौ ।। ७४ ।।
इति निश्चित्य मुनयो विष्णौ भक्तिपरायणौ ।।
नारायणाख्यं सततं जपन्तौ मुक्तिमागतौ ।। ।। ७५ ।।
।। जैमिनिरुवाच ।। ।।
प्रसंगात्कथितं ह्येतद्रहस्यं पापनाशनम् ।।
शृण्वंति ये तु चरितं पुण्डरीकांबरीषयोः ।। ७६ ।।
सततं च् कीर्तयंतश्च मुदा परमय युताः ।।
व्रजंति विष्णुनिलयं मुदा परमया युताः ।।
व्रजंति विष्णुनिलयं तेऽपि निर्द्धूतकल्मषाः ।। ७७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्या संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे पञ्चमोऽध्यायः ।। ५ ।। ।।
खण्डः २ (वैष्णवखण्डः) · पुरुषोत्तमजगन्नाथमाहात्म्यम् — Adhyāya 6
।। मुनय ऊचुः ।। ।।
कस्मिन्देशे द्विजश्रेष्ठ तत्क्षेत्रं पुरुषोत्तमम् ।।
यत्र नारायणः साक्षाद्दारुरूपी प्रकाशते ।। १ ।।
।। जैमिनि रुवाच ।। ।।
उत्कलोनाम देशोऽस्ति ख्यातः परमपावनः ।।
यत्र तीर्थान्यनेकानि पुण्यान्यायतनानि च ।।२।।
दक्षिणस्योदधेस्तीरे स तु देशः प्रतिष्ठितः ।।
यत्र स्थिता वै पुरुषाः सदाचारनिदर्शनाः ।। ३ ।।
वृत्ताध्ययनसंपन्ना यज्वानो यत्र भूसुराः ।।
सृष्ट्यादौ क्रतवो वेदा वेदशास्त्रप्रवर्तकाः ।।४।।।
अष्टादशानां विद्यानां निधानं संप्रकीर्तितम् ।।
गृहे गृहे निवसति लक्ष्मीर्नारायणाज्ञया ।। ५ ।।
लज्जाशीला विनीताश्च आधिव्याधिविवर्जिताः ।।
पितृमातृरताः सत्यवादिनो वैष्णवा जनाः ।। ६ ।।
न चात्रावैष्णवः कश्चिन्नास्तिको वापि वर्तते ।।
सर्वे परहितास्तत्र न लुब्धा न शठाः खलाः ।। ७ ।।
दीर्घायुषस्तत्र जनाः स्त्रियश्च पतिदेवताः ।।
सुशीला धर्मशीलाश्च त्रपाचारित्रभूषिताः ।। ८ ।।
रूपयौवनगर्वाढ्याः सर्वालंकारभूषिताः ।।
कुलशीलवयोवृत्तानुरूपाचारचंचवः ।। ९ ।।
स्वकर्मनिरतास्तत्र प्रजारक्षणदीक्षिताः ।।
क्षत्रिया दानशौंडाश्च शस्त्रशास्त्रविशारदाः ।। 2.2.6.१० ।।
यजंते क्रतुभिः सर्वे सततं भूरिदक्षिणैः ।।
दीप्यंते चित्तयो येषां यूपाः कांचनभूषिताः ।। ११ ।।
येषां गृहेष्वतिथयः कामनाधिकपूजिताः ।।
वैश्याश्च कृषि वाणिज्यगोरक्षावृत्तिसंस्थिताः ।। १२ ।।
देवान्गुरून्द्विजान्भक्त्या प्रीणयंति धनैरपि ।।
एकस्य द्वारि यातोऽर्थी न गच्छेदन्यवेश्मनि ।। १३ ।।
गीतकाव्यकलाशिल्पकुशलाः प्रियवादिनः ।।
शूद्राश्च धार्मिकास्तत्र स्नानदानक्रियारताः ।। १४ ।।
कर्मणा मनसा वाचा धनैश्च द्विजसेवकाः ।।
येऽन्ये संकरजातास्ते स्वेस्वे धर्मे प्रतिष्ठिताः ।। १५ ।।
न विपर्यंति ऋतवो नाकाले वर्षते घनः ।।
न सस्यहानिर्न मरुत्क्षुन्न पीडयति प्रजाः ।। १६ ।।
दुर्भिक्षमरके नात्र राष्ट्रभंगः प्रजायते ।।
नालभ्यं तत्र वस्त्वस्ति यत्किंचित्पृथिवीगतम् ।। १७ ।।
एवं सर्वगुणैर्युक्तो नानाद्रुमलताकुलः ।।
अर्जुनाशोकपुन्नाग तालहिंतालशालकैः ।। १८ ।।
प्राचीनामलकैर्लोध्रैर्बकुलैर्नागकेशरैः ।।
नारिकेलैः प्रियालैश्च सरलैर्देवदारुभिः ।। ।। १९ ।।
धवैश्च खदिरैर्बिल्वैः पनसैश्च कपित्थकैः ।।
चंपकैः कर्णिकारैश्च कोविदारैः सपाटलैः ।। 2.2.6.२० ।।
कदंबनिंबनिचुरलरसालामलकैस्तथा ।।
नागरंगैश्च जंबीरैर्नीपकैर्मातुलुंगकैः ।। २१ ।।
मंदारैः पारिजातैश्च न्यग्रोधागुरुचंदनैः ।।
खर्जूराम्रातकैः सिद्धैर्मुचुकुंदैः सकिंशुकैः ।। २२ ।।
तिंदुकैः सप्तपर्णैश्च अश्वत्थैश्च बिभीतकैः ।।
अन्यैश्च विविधैर्वृक्षैः प्रकीर्णः सुमनोहरैः ।। २३ ।।
मालतीकुंदबाणैश्च करवीरैः सितेतरैः ।।
केतकीवनषंडैश्च अतिमुक्तैः सकुब्जकैः ।। २४ ।।
एलालवंगकंकोलदाडिमैर्बीजपूरकैः ।।
श्रेणीकृतैः पूगवनैरुद्यानैः शतशो वृतः ।। २५ ।।
नानाद्रुमलताकीर्णः पर्वतैः सिंधुर्भिर्वृतः ।।
स एष देशप्रवर उत्कलाख्यो द्विजोत्तमाः ।। २६ ।।
ऋषिकुल्यां समासाद्य दक्षिणोदधिगामिनीम् ।।
स्वर्णरेखामहानद्योर्मध्ये देशः प्रतिष्ठितः ।। २७ ।।
सन्त्यत्र पुण्यायतने क्षेत्राणि सुबहून्यपि ।।
पूर्वं वस्तीर्थयात्रायां वर्णितानि मया द्विजाः ।।
भूस्वर्गः सांप्रतं ह्येष कथितः पुरुषोत्तमः ।। २८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्य ओढ्रदेशवर्णनं नाम षष्ठोऽध्यायः ।। ६ ।।
खण्डः २ (वैष्णवखण्डः) · पुरुषोत्तमजगन्नाथमाहात्म्यम् — Adhyāya 7
।। मुनय ऊचुः ।। ।।
कस्मिन्युगे स तु नृप इन्द्रद्युम्नोऽभवन्मुने ।।
कस्मिन्देशेऽस्य नगरं कथं वा पुरुषोत्तमम् ।। ।। १ ।।
गत्वा च विष्णोः प्रतिमां कारयामास वा कथम् ।।
एतत्सर्वं विस्तरतः कथयस्व महामुने ।। २ ।।
याथातथ्येन सर्वज्ञ परं कौतृहलं हि नः ।। ३ ।।
।। जैमिनिरुवाच ।। ।।
साधु साधु द्विजश्रेष्ठा यत्पृच्छध्वं पुरातनम् ।।
सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं शुभम् ।। ।। ४ ।।
चरितं तस्य वक्ष्यामि तथावृत्तं कृते युगे ।।
शृणुध्वं मुनयः सर्वे सावधाना जितेन्द्रियाः ।। ५ ।।
आसीत्कृतयुगे विप्रा इन्द्रद्युम्नो महा नृपः ।।
सूर्यवंशे स धर्मात्मा स्रष्टुः पंचमपूरुषः ।। ६ ।।
सत्यवादी सदाचारोऽवदातः सात्त्विकाग्रणीः ।।
न्यायात्सदा पालयति प्रजाः स्वा इव स प्रजाः ।। ७ ।।
अध्यात्मविज्ज्ञानशौंडः शूरः संग्रामवर्द्धनः ।।
सदोद्यतः सदा विप्रपूजकः पितृभक्तिमान् ।। ८ ।।
अष्टादशसु विद्यासु बृहस्पतिरिवापरः ।।
ऐश्वर्येण सुराधीशः कुबेरः कोषसंचये ।। ९ ।।
रूपवान्सुभगः शीली दाता भोक्ता प्रियंवदः ।।
यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसंगरः ।। 2.2.7.१० ।।
वल्लभो नरनारीणां पौर्णमास्यां यथा शशी ।।
आदित्य इव दुष्प्रेक्ष्यः शत्रुपक्षक्षयंकरः ।। ११ ।।
वैष्णवः सत्य संपन्नो जितक्रोधो जितेंद्रियः ।।
राजसूयं क्रतुवरं वाजिमेधसहस्रकम् ।। १२ ।।
इयाज परमः श्रीमान्मुमुक्षुर्धर्मतत्परः ।।
एवं सर्वगुणोपेतः स पृथ्वीं पालयन्नृपः ।। १३ ।।
अवंतींनाम नगरीं मालवे भुवि विश्रुताम् ।।
उवास सर्वरत्नाढ्यां द्वितीयाममरावतीम् ।। १४ ।।
तत्र स्थितो नरपतिर्विष्णौ भक्तिमनुत्तमाम् ।।
चकार मनसा वाचा कर्मणा परमाद्भुताम् ।। १५ ।।
एवं प्रवर्तमानोऽसौ कदाचिच्छ्रीपतेर्विभोः ।।
पूजासमयमासाद्य देवार्चनगृहांतरे ।। १६ ।।
विद्वद्भिः कविभिश्चैव तीर्थयात्राप्रसिद्धिभिः ।।
दैवज्ञैः श्रोत्रियैः सार्द्धं पुरोहितमवस्थितम् ।। १७ ।।
आदृतो व्याजहारेद ज्ञायतां क्षेत्रमुत्तमम् ।।
यत्र साक्षाज्जगन्नाथं पश्यामोऽनेन चक्षुषा ।। १८ ।।
एवमुक्तो नृपाग्र्येण वैष्णवेन पुरोहितः ।।
तीर्थयातृव्रजं पश्यन्नुवाच प्रश्रितं वचः ।। १९ ।।
भोभोस्तीर्थाटनव्यग्रा धार्मिकास्तीर्थकोविदाः ।।
यदादिशति देवोऽयं युष्माभिस्तच्छ्रुतं किल ।। 2.2.7.२० ।।
विज्ञाय तस्याभिप्रायं कश्चित्सुबहुतीर्थगः ।।
उवाच वाग्ग्मी राजानं बद्धांजलिपुटं मुदा ।।२१।।
राजन्ननेकतीर्थानि व्यचारिषमहं प्रभो ।।
आशैशवात्क्षितितले श्रुतान्यन्यैस्तु यानि वै ।। २२ ।।
ओढ्रदेश इति ख्यातो वर्षे भारतसंज्ञिते ।।
दक्षिणस्योदधेस्तीरे क्षेत्रं श्रीपुरुषोत्तमम् ।। २३ ।।
यत्र नीलगिरिर्नाम समंतात्काननावृतः।।
तस्योत्संगे कल्पवृक्षः समंतात्क्रोशसंमितः ।। २४ ।।
तस्य छायां समाक्रम्य ब्रह्महत्यां व्यपोहति ।।
तस्य पश्चाद्दिशि ख्यातं कुंडं रौहिणसंज्ञितम् ।। ।। २५ ।।
तत्पूर्णं कारणांभोभिः स्पर्शनादेव मुक्तिदम् ।।
तस्य प्राक्तटमास्थाय नीलेंद्रमणिनिर्मिता ।। २६ ।।
तनुः श्रीवासुदेवस्य साक्षान्मुक्तिप्रदायिनी ।।
तत्र कुंडे तु यः स्नात्वा दृष्ट्वा तु पुरुषोत्तमम् ।। २७ ।।
अश्वमेधसहस्रस्य फलं प्राप्य विमुच्यते ।।
तत्रास्त आश्रमश्रेष्ठः ख्यातः शबरदीपकः ।। २८ ।।
पश्चिमस्यां दिशि विभोर्वेष्टितः शबरालयैः ।।
यस्मादेकपदीमार्गो येन विष्ण्वालयं व्रजेत् ।। २९ ।।
यत्र साक्षाज्जगन्नाथः शंखचक्रगदाधरः ।।
जंतूनां दर्शनान्मुक्तिं यो ददाति कृपानिधिः ।। 2.2.7.३० ।।
तत्रोषितं मया राजन्वर्षं श्रीपुरुषोत्तमे ।।
तुष्ट्यर्थं देवदेवस्य व्रतिना वनवासिना ।। ३१ ।।
प्रतिरात्रं भगवतो दर्शनाय दिवौकसाम् ।।
आगतानां महाराज दिव्यगंधो ह्यमानुषः ।। ३२ ।।
नानास्तुतिवचःकल्पपुष्पवृष्टिश्च लभ्यते।।
महिमैष न कुत्रापि विष्णोः स्थाने प्रकाशते ।। ३३ ।।
पौराणिकी प्रवृत्तिश्च श्रुता तत्र महीपते ।।
वायसो माधवं दृष्ट्वा तिर्यग्देहोऽपि मुच्यते ।। ३४ ।।
नाधिकारी पुण्यकृत्ये ज्ञानहीनोऽपि पार्थिव ।।
तृषार्त्तो रौहिणे कुंडे जलं पातुं समागतः ।। ३५ ।।
त्यक्त्वा कालवशात्प्राणान्विष्णुसारूप्यमाप्तवान् ।।
अहमासं पुरा मूर्खस्तत्प्रसादात्तु सांप्रतम् ।। ३६ ।।
अष्टादशसु विद्यासु शेषो वा स्यान्ममापरः ।।
मतिश्च निर्मला जाता विष्णोः पश्यामि नापरम् ।। ३७ ।।
त्वं यस्माद्विष्णुभक्तोऽसि सततं च दृढव्रतः ।।
अतस्तवोपदेशार्थमागतोऽहं तवांतिकम् ।। ३८ ।।
नो धनं न च भूमिं च त्वत्तः संप्रार्थ्यतेऽधुना ।।
व्यलीकमेतन्मा बुद्ध्वा तत्रस्थं श्रीधरं भज ।। ३९ ।।
एवमुक्त्वा तु जटिलः सर्वेषां पश्यतां तदा ।।
अंतर्द्धानं जगामाशु राजा परमविस्मयम् ।। 2.2.7.४० ।।
अवाप्य व्याकुलमतिः कथं मे निर्वहेदिति ।।
पुरोहितमुवाचेदं तस्यैवार्थस्य साधने ।। ४१ ।।
।। इन्द्रद्युम्न उवाच ।। ।।
अमानुषमिदं वृत्तं श्रुत्वेदानीममानुषात् ।।
बुद्धिस्त्वरयते तत्र यत्रास्तेऽसौ गदाधरः ।। ४२ ।।
मम धर्मार्थकामा हि त्वदायत्ता द्विजोत्तम ।।
अविरुद्धास्त्वत्प्रसादात्त्रिवर्गः साधितो मया ।। ४३ ।।
इदानीं चेद्द्विजश्रेष्ठ त्वमत्रार्थे गमिष्यसि ।।
चतुर्वर्गस्तु संपूर्णः प्राप्तः स्यात्सांप्रतं मया ।। ४४ ।।
।। पुरोहित उवाच ।। ।।
बाढमेतत्करिष्यामि यथा द्रक्ष्यसि केशवम् ।।
वर्माच्छादितचक्षुर्भ्यां साक्षान्मुक्तिप्रदं विभुम् ।। ४५ ।।
एवमत्र यतिष्यामि तत्र सर्वे यथा वयम् ।।
वत्स्यामः ससहायाश्च क्षेत्रे श्रीपुरुषोत्तमे ।।४६।।
साफल्यं किमतो राजञ्जन्मिनो जन्मनो भवेत् ।।
पुरुषं तमसः पारं साक्षाद्द्रक्ष्यसि माधवम् ।। ४७ ।।
भ्राता विद्यापतिर्नाम कनीयान्मे व्रजिष्यति ।।
देशभ्रमणशीलैश्च चारैः सह तवाधुना ।। ४८ ।।
तत्र गत्वा जगन्नाथं दृष्ट्वा स हि गिरौ यथा ।।
कंटकावाससंस्थानं भूप्रदेशं प्रमीय च ।। ।। ४९ ।।
तूर्णं प्रवृत्तिमानेता श्रेयोऽस्माकं भविष्यति ।।
तस्य तद्वचनं श्रुत्वा राजा पुनरुवाच ह ।। 2.2.7.५० ।।
।। इन्द्रद्युम्न उवाच ।। ।।
साधु ब्रह्मन्समाधाय व्यवसायो विचारितः ।।
अहं प्रथमतोप्येतच्छ्रुत्वैव कृतनिश्चयः ।। ५१ ।।
तत्र क्षेत्रे भगवतः सन्निधौ निवसाम्यहम् ।।
तद्गच्छतु तव भ्राता यथेष्टं साधयिष्यति ।। ५२ ।।
इत्युक्त्वांतःपुरं राजा प्रविवेश मुदान्वितः ।।
पुरोहितोऽपि तान्सर्वान्यथावदनुपूर्वशः ।।५३।।
राजाज्ञया पूजयित्वा प्राहिणोत्स्वं स्वमाश्रमम् ।।
भ्रातरं सुमुहूर्ते च दैवज्ञकृतनिश्चये ।। ५४ ।।
प्रस्थापयामास तदा कृतस्वस्त्ययनं द्विजैः ।।
अपसर्पैः प्रत्ययिकैः पुष्पस्यन्दनमास्थितः ।। ५५ ।।
ततः संप्रस्थितो विप्राः स तु विद्यापतिर्द्विजः ।।
मनसा चिन्तयामास मध्ये स्यन्दनमास्थितः ।। ५६ ।।
अहो मे सफलं जन्म सुकल्या शर्वरी च मे ।।
द्रक्ष्यामि यद्भगवतो मुखपद्ममघापहम् ।। ५७ ।।
श्रवणाद्यैरुपायैर्यं यतमाना अहर्निशम् ।।
पश्यंति यतयः चेतः पुंडरीके व्यवस्थितम् ।। ५८ ।।
तमद्य नीलशिखरिशृंगस्थं बिभ्रतं वपुः ।।
वपुःसंबन्धहरणं साक्षाद्द्रक्ष्यामि चक्रिणम् ।। ५९ ।।
श्रुति स्मृतीहासपुराणवाक्यैर्यद्रूपमास्थापयितुं न शक्यम् ।।
तच्छ्रीनिधे रूपमदृष्टपूर्वं दृष्ट्वा तरिष्यामि भवांबुराशिम् ।। 2.2.7.६० ।।
यन्नामसंकीर्तनतस्त्रिवांहः संघः प्रणाशं स्मरतां प्रयाति ।।
तमद्य विश्वेश्वरमप्रमेयं साक्षात्करिष्यामि गिरौ वसन्तम् ।। ६१ ।।
यत्पादपद्माननुसंहितस्य पदेपदे दुःखमुपार्जितस्य ।।
तमः प्रकांडप्रभवं कदाचिन्नात्माश्रितं कर्मभिरेति नाशम् ।। ६२ ।।
आराध्य सूक्ष्मं स्वगुहानिवासं यं पञ्चकोषावृतमात्मसंस्थम् ।।
वेदांतगीराह न चापि वेद वंदे स्वविद्यैकनिवेद्यमाद्यम् ।। ६३ ।।
ब्रह्मांडमालाकलितानुरोमं सहस्रमूर्द्धांघ्रिदृशं पुराणम् ।।
निःश्वासवातोत्थित वेदराशिं सर्वप्रपंचेशमहं प्रपद्ये ।। ६४ ।।
यन्मायया निर्मितकूटमेतत्सृष्टिक्षयस्थानविलासि रूपम् ।।
निरूपितारोपितहेयरूपस्वरूपहीनं प्रणवस्वरूपम् ।। ६५ ।।
तिर्यक्तृषाशांतिनिमित्ततोऽपि यदृच्छया यत्सविधं प्रयातः ।।
देहेन तेनैव सरूपमुक्तिमवाप तं दृष्टिपथं करिष्ये ।। ६६ ।।
अहो अहो मे खलु भाग्यशंसी यत्कोटिजन्मार्जितपुण्य एकः ।।
समुत्थितो मे खलु चर्मदृग्भ्यां विलोकयिष्ये जगदादिकंदम् ।। ६७ ।।
इत्थं संचिन्तयन्विप्रः प्रहृष्टेनांतरात्मना ।।
अतीतं बहुमध्वानं नाबुध्यद्रथवेगतः ।। ६८ ।।
दिनमध्ये व्यतिक्रांते लंबिते बहुवासरे ।।
वर्त्मन्यदृश्यताग्रे तु देशो भुवनमंडनः ।। ६९ ।।
ओढ्रसंज्ञस्तु भो विप्राः क्षितिमंडलपावनः ।।
इत्थं पश्यन्वनांतानि गिरिदुर्गाश्च मार्गगान् ।।
सूर्यास्तमनवेलायां महानद्यास्तटेऽभवत् ।। 2.2.7.७० ।।
अवरुह्य रथाद्विप्रः कृत्वा चाह्निकमादृतः ।।
उपास्य पश्चिमां सन्ध्यां दध्यौ स मधुसूदनम्।। ७१ ।।
रथपृष्ठे स्थितो रात्रिं गमयित्वा त्वरान्वितः ।।
महानदीं समुत्तीर्य प्रातःकृत्यं समाप्य सः ।। ७२ ।।
चिंतयन्नेव गोविंदं प्रतस्थे रथमास्थितः ।।
पश्यन्भगवतो मार्गं श्रोत्रियाणां हि यज्वनाम् ।। ७३ ।।
वह्निवर्चस्विनां विप्रा ग्रामान्पूगैरलंकृतान् ।।
विलंघ्यैकाम्रकवनं यावदायाति स द्विजः ।। ७४ ।।
शंखचक्रगदापद्मधारिणो ददृशे जनान् ।।
जन्मांतरितमात्मानं बुबुधे दिव्यरूपिणम् ।। ७५ ।।
अवरुह्य रथात्तूर्णं साष्टांगं प्रणिपत्य च ।।
हर्षाश्रुपूर्णनयनो नान्यत्किंचिदपश्यत ।। ७६ ।।
केवलं मनसा विष्णुं पश्यन्बाह्ये च भो द्विजाः ।।
एवं व्रजन्यदा विप्रो ध्यायन्पश्यन्स्तुवन्हरिम् ।। ७७ ।।
अपश्यत्काननाकीर्णं कल्पन्यग्रोधभूषितम् ।।
नीलाचलं लिखंतं खं पश्यतां पापनाशनम् ।। ७८ ।।
अत्यद्भुतं निवसंति साक्षात्तनुभृतो हरेः।।
उपत्यकायामारूढः समंतान्मार्गयन्द्विजः।।७९।।
मार्गं न लेभे विप्रोऽसौ मुकुंदालोकनोत्सुकः।।
असुप्यत ततो भूमौ कुशानास्तीर्य वाग्यतः।।2.2.7.८०।।
दर्शने तस्य देवस्य तमेव शरणं ययौ।।
ततः शुश्राव वचनं गिरेः पश्चादमानुषम्।।८१।।
भगवद्भक्तिविषयं संलापं कुर्वतां मिथः।।
ततो विद्यापतिर्हृष्टोऽनुसरंस्तं जगाम वै।।८२।।
ददर्श शबरागारैर्वेष्टितं परितो द्विजाः।।
क्षेत्रस्य दीपसंस्थानं ख्यातं शबरदीपकम्।।८३।।
तत्र गत्वा शनैर्विप्रः प्रविश्य विनयान्वितः।।
ददर्श विष्णुभक्तांस्ताञ्छंखचक्रगदाधरान्।।८४।।
प्रणम्य शिरसा विप्रस्तस्थौ बद्धांजलिस्तदा ।।
ततोविश्वावसुर्नाम शबरः पलितांगकः ।। ८५ ।।
अवसाय हरेः पूजां पूजाशेषोपशोभितः ।।
संप्राप्तो गिरिमध्यात्तु तस्मिन्नेव क्षणे द्विजाः।।८६।।
आलोक्य तं द्विजो हर्षमुपयातो व्यचिंतयत्।।
एष प्राप्तो हरेः स्थानाच्छ्रांतो निर्माल्यभूषितः।।८७।।
वैष्णवाग्र्य इतो वार्तां विष्णोः प्राप्स्यामि दुर्लभाम्।।
चिंतयन्नेव विप्रोऽसौ शबरेणाभ्यभाषत।।८८।।
।।शबर उवाच।।
कुतः समागतो विप्र काननांतं सुदुस्तरम्।।
क्षुत्तृड्भिरतिश्रांतश्च सुखमत्रास्यतां चिरम्।।८९।।
पाद्यमासनमर्घं च दत्त्वा विश्वावसुर्द्विजम्।।
उवाच प्रश्रयगिरा प्रस्तुतं प्रतिपादयन्।। 2.2.7.९० ।।
फलैः पाकेन वा विप्र प्राणयात्रा भवेत्तव ।।
यत्तुभ्यं रोचते तद्वै दीयतेऽत्र मया द्विज ।। ९१ ।।
भाग्यं ममाद्य भगवञ्जीवितं सफलं च मे ।।
प्राप्तोऽसि मद्गृहं विप्र साक्षाद्विष्णुरिवापरः ।। ९२ ।।
इति ब्रुवाणं शबरं प्रोवाच द्विजपुंगवः ।।
न मे फलैर्न पाकेन कार्यं वैष्णवपुंगव ।। ९३ ।।
यदर्थमागतं दूरात्साधो तत्सफलं कुरु ।।
इन्द्रद्युम्नस्य नृपतेरवंतिपुरवासिनः ।। ९४ ।।
पुरोहितोऽहं संप्राप्तो विष्णोर्दर्शनलालसः ।।
राज्ञाग्रे तैर्थिकानां हि समाजावसरे श्रुतम् ।। ९५ ।।
तीर्थक्षेत्रप्रसंगेन केनचित्प्रस्तुतं तदा ।।
तथा निवेदितं क्षेत्रं राजाग्रे जटिलेन वै ।। ९६ ।।
आनुपूर्व्याच्च तत्सर्वं कथयामास स द्विजः ।।
एतदर्थमहं साधो राज्ञा चोत्कण्ठितेन वै ।। ९७ ।।
प्रेषितोऽहं हरिं द्रष्टुमत्रस्थं नीलमाधवम् ।।
दृष्ट्वा यावन्नरपतेर्वार्त्तां नेष्यामि सोऽप्यहम् ।। ९८ ।।
निराहारो ध्रुवं साधो तन्मां विष्णुं प्रदर्शय ।। ९९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे सप्तमोऽध्यायः ।। ७ ।। ।।