Books / Skanda Purāṇa — Sanskrit Text

9. Skanda Purāṇa (part 9 of 9)

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 196

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि प्रभासं जलसंस्थितम् ॥

वृद्धप्रभासाद्दक्षिणतो नातिदूरे व्यवस्थितम् ॥ १ ॥

तस्यैव देवि देवस्य शृणु माहात्म्यमुत्तमम् ॥ २ ॥

जामदग्न्येन रामेण यदा क्षत्त्रवधः कृतः ॥

तदाऽस्य परमा जाता घृणा मनसि भामिनि ॥ ३ ॥

ततस्त्वाराधयामास महादेवं सुरेश्वरम्॥

उग्रं तपः समास्थाय बहून्वर्ष गणान्प्रिये ॥ ४ ॥

ततस्तुष्टो महादेवस्तस्य प्रत्यक्षतां गतः ॥

अब्रवीद्वरदस्तेऽहं वरं वरय सुव्रत ॥ ५ ॥

॥ राम उवाच ॥ ॥

यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥

दर्शयस्व स्वकं लिंगं यज्ञे वज्रेण छादितम् ॥ ६ ॥

घृणा मे महती जाता हत्वेमान्क्षत्रियान्बहून् ॥

दर्शनात्तव लिंगस्य येन मे नश्यते घृणा ॥ ७ ॥

तथा मे पातकं सर्वं प्रसादात्तव शंकर ॥ ८ ॥

॥ शंकर उवाच ॥ ॥

मम लिंगं सहस्राक्ष उत्थितं तु पुनःपुनः ॥

वज्रेणाच्छादयत्येव भयेन महता वृतः ॥ ९ ॥

न तेऽहं दर्शनं यास्ये लिंगरूपी कदाचन ॥ 7.1.196.१० ॥

यन्मां वदसि घृणया वृतोऽहं पातकेन तु ॥

तत्तेऽहं नाशयिष्यामि स्पर्शनात्तु द्विजोत्तम ॥ ११ ॥

अस्मिञ्जलाश्रये पुण्ये जलमध्ये महामते ॥

उत्थास्यति महालिंगं तस्य त्वं दर्शनं कुरु ॥ ॥ १२ ॥

गमिष्यति घृणा सर्वा निष्पापस्त्वं भविष्यसि ॥

उक्त्वैवमुदतिष्ठच्च जलमध्याद्वरानने ॥ १३ ॥

जलप्रभासनामास्य ततो जातं धरातले ॥

तस्यालं स्पर्शनाद्देवि शिवलोकं व्रजेन्नरः ॥ १४ ॥

एकं भोजयते योऽत्र ब्राह्मणं शंसितव्रतम् ॥

भोजितोऽहं भवेत्तेन सपत्नीको न संशयः ॥ १५ ॥

एषा जलप्रभासस्य संभूतिस्ते मयोदिता ॥

श्रुता पापोपशमनी सर्वकामफलप्रदा ॥ १६ ॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जलप्रभासमाहात्म्यवर्णनंनाम षण्णवत्युत्तरशततमोऽध्यायः ॥ १९६ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 197

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि जमदग्नीश्वरं शिवम् ॥

वृद्धप्रभाससामीप्ये नातिदूरे व्यवस्थितम् ॥ १ ॥

सर्वपापोपशमनं स्थापितं जमदग्निना ॥

तं दृष्ट्वा मानवो देवि मुच्यते च ऋणत्रयात् ॥ २ ॥

स्नात्वा निधानवाप्यां च संपूज्य प्राप्नुयाद्धनम् ॥

निधानं पांडवैर्लब्धं तत्र स्थाने पुरा प्रिये ॥ ३ ॥

निधानेनैव सा ख्याता वापी त्रैलोक्यवंदिता ॥ ४ ॥

तस्यां स्नात्वा महादेवि दुर्भगा सुभगा भवेत् ॥

लभते वाञ्छितान्कामानिति प्रोक्तं मया तव ॥ ५ ॥

इति श्रीस्कान्दे महापुराण एकाशातिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जमदग्नीश्वरमाहात्म्यवर्णनंनाम सप्तनवत्युत्तरशततमोऽध्यायः ॥ १९७ ॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 198

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि महाप्रभासमुत्तमम् ॥

जलप्रभासतो याम्ये यममार्गविघातकम् ॥ १ ॥

शृणु तस्यैव माहात्म्यं यथा जातं धरातले ॥ ॥ २ ॥

पूर्वं त्रेतायुगे देवि स्पर्शलिंगं तु तत्स्मृतम् ॥

दिव्यं तेजोमयं नृणां स्पर्शनान्मुक्तिदायकम् ॥ ३ ॥

अथ काले च कस्मिंश्चिद्वज्रिणाच्छादितं प्रिये ॥

इन्द्रेणागत्य वसुधां भयाक्रांतेन सुन्दरि ॥ ४ ॥

उष्मा तदुद्भवो देवि निर्गच्छन्नवरोधितः ॥

दशकोटिप्रविस्तीर्णं ज्वालाग्रं लिंगरूपधृक् ॥ ५ ॥

प्रभासक्षेत्रमास्थाय भित्त्वाऽऽविर्भावमास्थितम् ॥

वज्रेण रुंधिते देवि भित्त्वा चैव वसुंधराम् ॥ ६ ॥

धूमसंघैः समेतं तु व्यापयामास तज्जगत् ॥

ततस्त्रैलोक्यमखिलं ज्वालाभिर्व्याकुलीकृतम् ॥ ७ ॥

ततः सुरगणाः सर्व ऋषयो वेदपारगाः ॥

अस्तुवन्विविधैः सूक्तैर्वेदोक्तैः शशिशेखरम् ॥ ८ ॥

संहरस्व सुरश्रेष्ठ तेजः स्वदहनात्मकम् ॥ त्रै

लोक्यं व्याकुलीभूतमेवं सर्वं चराचरम् ॥

न यावत्प्रलयं याति तावद्रक्ष सुरेश्वर ॥ ९ ॥

॥ ईश्वर उवाच ॥ ॥

एवमाभाषमाणेषु त्रिदिवेषु सुरेश्वरि ॥

तत्तेजः पञ्चधाविष्टं व्याप्याशेषं जगत्त्रयम् ॥ ॥ 7.1.198.१० ॥

पञ्चप्रभासरूपेण भित्त्वा तत्र वसुन्धराम्॥

येन मार्गेण निष्क्रान्तं तन्मार्गे च महन्महः ॥ ११ ॥

तत्र तैः स्थापितं द्वारं सुप्रदेशेऽश्मजं प्रिये ॥

पिहितेऽथ च रंध्रेऽस्मिन्धूमो नाशमुपेयिवान् ॥ १२ ॥

स्वस्थाश्चैवाभवँल्लोकास्तेजस्तत्रैव संस्थितम् ॥

एवं मया प्रेरितास्ते लिंगं तत्र समादधुः ॥ १३ ॥

तन्महस्तत्र देवेशि विश्राममकरोत्तदा ॥

ततो महाप्रभासेति कीर्त्यते देवदानवैः ॥ १४ ॥

यस्तं पूजयते भक्त्या लिंगं पुष्पैः पृथग्विधैः ॥

स याति परमं स्थानं जरामरणवर्जितम् ॥ १५ ॥

दृष्टेन तेन देवेशि मुच्यते पातकैर्नरः ॥

लभते वाञ्छितान्कामान्मनसा चेप्सितान्प्रिये ॥ १६ ॥

हिरण्यं तत्र दातव्यं ब्राह्मणे शंसितव्रते ॥

गोदानं विधिवत्तत्र देयं चैव द्विजन्मने ॥ १७ ॥

एवं कृत्वा महादेवि लभते जन्मनः फलम् ॥

राजसूयाश्वमेधानां प्राप्नुयात्फलमूर्जितम् ॥ १८ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये पञ्चमप्रभासक्षेत्रमाहात्म्यवर्णनंनामाष्टानवत्युत्तरशततमोऽध्यायः ॥ १९८ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 199

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि तस्य दक्षिणतः स्थितम् ॥

सरस्वत्यास्तटे रम्ये देवं तत्र कृतस्मरम् ॥ १ ॥

स्वयंभूतं महादेवि सर्वपापप्रणाशनम् ॥

तस्योत्पत्तिं प्रवक्ष्यामि यथा जातं महीतले ॥ २ ॥

पुरा कामो मया दग्धो यदा तत्र वरानने ॥

तदा रतिः समागम्य विललाप सुदुःखिता ॥ ३ ॥

तां तु शोकातुरां दृष्ट्वा तत्राहं करुणान्वितः ॥

अवोचं मा रुदिष्वेति तव भर्ता पुनः शुभे ॥

समुत्थास्यति कालेन मत्प्रसादान्न संशयः ॥ ४ ॥

॥ देव्युवाच ॥ ॥

किमर्थं स पुरा दग्धः कामदेवस्त्वया विभो ॥

कथमाप पुनर्जन्म विस्तरात्कथयस्व मे ॥ ५ ॥

॥ ईश्वर उवाच ॥ ॥

दक्षः प्रजापतिः पूर्वं बभूव त्वत्पिता प्रिये ॥

शतं सुतानां जज्ञेऽस्य गौरीणां दीर्घचक्षुषाम् ॥ ६ ॥

ददौ त्वां प्रथमं मह्यं सतीनामेति कीर्तिताम् ॥

ददौ दश च धर्माय श्रद्धा मेधा धृतिः क्षमा ॥ ७ ॥

अनसूया शुचिर्लज्जा स्मृतिः शक्तिः श्रुतिस्तथा ॥

द्वे भार्ये कामदेवाय रतिः प्रीतिस्तथैव च ॥ ८ ॥

एकां स्वाहां ददौ वह्नेः पितॄणां च ततः स्वधाम् ॥

सप्तविंशच्छशाङ्काय अश्विन्याद्याः प्रकीर्तिताः ॥ ९ ॥

तवापि विदिता देवि रेवत्यन्तास्तथा जने ॥

कश्यपाय ददौ देवि स तु कन्यास्त्रयोदश ॥ 7.1.199.१० ॥

अदितिश्च दितिश्चैव विनता कद्रुरेव च ॥

सिंहिका सुप्रभा चैव उलूकी या वरानने ॥ ११ ॥

अनुविद्धा सिता चैव ईर्ष्या हिंसा तथा परा ॥

माया निष्कृतिसंयुक्ता दक्षः पूर्वं महामतिः ॥ १२ ॥

गौरी च सुप्रभा चैव वार्त्ता साध्वी सुमालिका ॥

वरुणाय ददौ पञ्च तदाऽसौ पर्वतात्मजे ॥ १३ ॥

भद्रा च मदिरा चैव विद्या धन्या धना शुभा ॥

ददौ पञ्च कुबेराय पत्न्यर्थं पर्वतात्मजे ॥ १४ ॥

जया च विजया चैव मधुस्पन्दा इरावती ॥

सुप्रिया जनका कान्ता सुभद्रा धार्मिका शुभा ॥ १५ ॥

रुद्राणां प्रददौ कन्या दशानां धर्मवित्तदा ॥

प्रभावती सुभद्रा च विमला निर्मलाऽनृता ॥ १६ ॥

तीव्रा दक्षारुणा विद्या धारपाला च वर्चसा ॥

आदित्यानां ददौ दक्षः कन्याद्वादशकं प्रिये ॥ १७ ॥

योगनिद्राभिभूतस्य संसर्पा सरमा गुहा ॥

माला चंपा तथा ज्योत्स्ना स विश्वेभ्यश्च एव च ॥ १८ ॥

अश्विभ्यां द्वे तथा कन्ये सुवेषा भूषणा शुभा ॥

एका कन्या तथा वायोर्दत्ता एताः प्रकीर्तिताः ॥ १९ ॥

सावित्रीं ब्रह्मणे प्रादाल्लक्ष्मीं विष्णोर्महात्मनः ॥

कस्यचित्त्वथ कालस्य स ईजे दक्षिणावता ॥ 7.1.199.२० ॥

यज्ञेन पर्वतसुते हिमवन्ते महागिरौ ॥

यज्ञवाटो ह्यभूत्तस्य सर्वकामसमृद्धिमान् ॥ २१ ॥

तस्मिन्यज्ञे समायाता आदित्या वसव स्तथा ॥

विश्वेदेवाश्च मरुतो लोकपालाश्च सर्वशः ॥ २२ ॥

ब्रह्मा विष्णुः सहस्राक्षो वारुणो यम एव च ॥

धनदश्च कुमारश्च तथा नद्यश्च सागराः ॥ ॥ २३ ॥

वाप्यः कूपास्तथा चैव तडागाः पल्वलानि च ॥

सुपर्णश्चाथ ये नागाः सर्वे मूर्ता व्यवस्थिताः ॥ २४ ॥

दानवाप्सरसश्चैव यक्षाः किन्नरगुह्यकाः ॥

सानुगास्ते सभार्याश्च वेदवेदांगपारगाः ॥ २५ ॥

महर्षयो महाभागास्तथा देवर्षयश्च ये ॥

ते भार्यासहितास्तत्र वसंति च वरानने ॥२६॥

कपालमालाभरणश्चिताभस्म बिभर्ति यः ॥

अपवित्रतया शंभुर्नाहूतस्तु तथाविधः ॥ २७ ॥

यतस्ततः समायाताः कैलासे पर्वतोत्तमे ॥

अश्विन्याद्या भगिन्यस्तास्त्वां प्रतीदं वचोऽबुवन् ॥ २८ ॥

किं तुष्टेव च कल्याणि तिष्ठसि त्वं सुमध्यमे ॥

वयं च प्रस्थिताः सर्वाः पितुर्यज्ञे सभर्तृकाः॥२९॥

वयमाकारितास्तेन सुताः सर्वा यशस्विनि ॥

न त्वामाहूतवान्दक्षस्त्रपते शंकराद्यतः॥7.1.199.३०॥

तासां वचनमाकर्ण्य सती प्राह क्रुधान्विता॥

हा धिग्दक्ष दुराचार किं वदिष्ये महेश्वरम् ॥३१॥

कथं संदर्शये वक्त्रमित्युक्त्वाऽऽत्मानमात्मना ॥

विससर्ज तपोयोगात्सस्मारान्यन्न किञ्चन ॥३२॥

अथ दृष्ट्वा महादेवः सतीं प्राणैर्विना स्थिताम् ॥

अवमानात्तथाऽऽत्मानं त्यक्त्वा मत्वा कपालिनम् ॥३३॥

गणान्संप्रेषयामास यज्ञविध्वंसनाय च ॥

ते गताश्च गणा रौद्राः शतशोऽथ सहस्रशः ॥ ३४ ॥

विकृता विकृताकारा असंख्याता महाबलाः ॥

रुद्रेण प्रेरितान्दृष्ट्वा वीरभद्रपुरोगमान् ॥३५॥

ततो देवगणाः सर्वे वसवः सह भास्करैः ॥

विश्वेदेवाश्च साध्याश्च धनुर्हस्ता महाबलाः ॥ ३६ ॥

युद्धाय च विनिष्क्रान्ता मुञ्चन्तः सायकाञ्छितान् ॥

ते समेत्य ततोऽन्योन्यं प्रमथा विबुधैः सह ॥ ३७ ॥

मुमुचुः शरवर्षाणि वारिधारां यथा घनाः ॥

तेषां हस्ती गणेनाथ शूलेन हृदि भेदितः ॥ ३८ ॥

स तु तेन प्रहारेण विसंज्ञो निषसाद ह ॥

अथ मुष्ट्या हतः कुम्भे नाग ऐरावणस्तदा ॥ ३९ ॥

सहसा स हतस्तेन वारणो भैरवान्रवान्॥

विनदञ्जवमास्थाय यज्ञवाटमुपाद्रवत् ॥ 7.1.199.४० ॥

विश्वेदेवा निरुच्छ्वासाः कृता रौद्रैर्महाशरैः ॥

चकर्ष स धनुष्येण वसुमान्बलवतरः ॥ ॥ ४१ ॥

निस्तेजसस्तदादित्याः कृतास्तेन रणाजिरे ॥

एतस्मिन्नन्तरे देवाः कृतास्तेन पराङ्मुखाः ॥ ४२ ॥

ततस्ते शरणं जग्मुर्विष्णुं तत्र च संस्थितम् ॥

ततः कोपसमाविष्टो विष्णुर्देवान्सवासवान् ॥ ४३ ॥

दृष्ट्वा विद्रावितान्सर्वान्मुमोचाशु सुदर्शनम् ॥

तमापतन्तं वेगेन विष्णोश्चक्रं सुदर्शनम् ॥ ४४ ॥

प्रसार्य वक्त्रं सहसा उदरस्थं चकार ह ॥

तस्मिंश्चक्रे तदा ग्रस्ते अमोघे पर्वतात्मजे ॥ ४५ ॥

चुकोप भगवान्विष्णुः शार्ङ्गहस्तो ऽभ्यधावत ॥

स हत्वा दशभिस्तीक्ष्णैर्नंदिं भृङ्गिं शतेन च ॥ ४६ ॥

महाकालं सहस्रेण ह्ययुतेन गणाधिपम् ॥

बाणानामयुतैर्भित्त्वा वीरभद्रमुपाद्रवत् ॥ ४७ ॥

तं हत्वा गदया विष्णुर्विह्वलं रुधिरोक्षितम् ॥

गृहीत्वा पादयोर्भूमौ निजघानातिरोषितः ॥ ४८ ॥

हन्यमानस्य तस्याथ भूमौ चक्रं सुदर्शनम्॥

रुधिरोद्गारसंयुक्तं प्रहारमकरोन्न तु ॥४९॥

रुद्रलब्धवरो देवि वीरभद्रो गणेश्वरः ॥

यन्न पञ्चत्वमापन्नो गदया पीडितोऽपि सः ॥ 7.1.199.५० ॥

पतितं वीक्ष्य तं सर्वे विष्णुतेजोबलार्दिताः ॥

विद्रुताः सर्वतो याता यत्र देवो महेश्वरः ॥ ५१ ॥

तस्मै सर्वं तथा वृत्तं समाचख्युः पराभवम् ॥

विक्रमं वीरभद्रस्य ततः क्रुद्धो महेश्वरः ॥ ५२ ॥

प्रगृह्य सहसा शूलं प्रस्थितः स्वगणैः सह ॥

यज्ञवाटं तु दक्षस्य पराभवभवं ततः ॥

विक्रमन्वीरभद्रेण यत्र विष्णुः स्वयं स्थितः ॥५३॥

तमायान्तं समालोक्य कोपयुक्तं महेश्वरम् ॥

संग्रामे सोऽजयं मत्वा तत्रैवान्तरधीयत ॥५४॥

मरुद्भिः सार्धमिन्द्रोऽपि वसुभिः सह किन्नरैः ॥

शिवः क्रोधपरीतात्मा ततश्चादर्शनं गतः ॥५५॥

केवलं ब्राह्मणास्तत्र स्थिताः सदसि भामिनि ॥

ते दृष्ट्वा शंकरं प्राप्तं कोपसंरक्तलोचनम् ॥ ५६ ॥

होमं चक्रुस्ततो भीता रुद्रमंत्रैः समंततः ॥

अन्ये त्राससमायुक्ताः पलायंते दिशो दश ॥ ५७ ॥

अथागत्य महादेवो दृष्ट्वा तान्ब्राह्मणोत्तमान् ॥

अपश्यमानो विबुधांस्तत्र यज्ञं जघान सः ॥ ५८ ॥

स च मृगवपुर्भूत्वा प्रणष्टः शिवभीतितः ॥

पृष्ठतस्तु धनुष्पाणिर्जगाम भगवाञ्छिवः ॥

अद्यापि दृश्यते व्योम्नि तारारूपो महेश्वरि ॥ ५९ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दक्षयज्ञविध्वंसनोनाम नवनवत्युत्तरशततमोऽध्यायः ॥ १९९ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 200

॥ ईश्वर उवाच ॥ ॥

एवं विध्वंसिते यज्ञे गतास्ते ब्राह्मणा गृहम् ॥

अप्राप्तकामना देवि ये चान्ये तत्र वै गताः ॥ १ ॥

हरोऽपि विगतामर्षः कैलासं पर्वतं गतः ॥ २ ॥

एतस्मिन्नेव काले तु तारकोनाम दानवः ॥

उत्पन्नः स महाबाहुर्देवानां बलदर्पहा ॥ ३ ॥

तेन इन्द्रादिकान्सर्वान्सुराञ्जित्वा महाहवे ॥

स्वर्गः स्वैर्व्यापितो देवि ब्रह्मलोकं ततो गताः ॥

ऊचुः सुरा दुःखयुक्ता ब्रह्माणं पर्वतात्मजे ॥ ४ ॥

तारकेण सुरश्रेष्ठ स्वर्गान्निर्वासिता वयम् ॥

स्वयमिन्द्रः समभवद्वसवोऽन्ये तथा कृताः ॥ ५ ॥

रुद्राः साध्यास्तथा विश्वे अश्विनौ मरुतस्तथा ॥

आदित्याश्च वधोपायं तस्माद्वद पितामह ॥ ६ ॥

॥ ब्रह्मोवाच ॥ ॥

अवध्यः स तु सर्वेषां देवानामिति मे मतिः ॥

ऋते तु शांकरं तेजो नान्येन विनिपात्यते ॥

तस्माद्गच्छत भद्रं वो देवदेवं महेश्वरम् ॥ ७ ॥

तस्य भार्या मृता पूर्वं जाता हिमवतो गृहे ॥

तस्यां च जायते पुत्रः स हनिष्यति तारकम् ॥

तस्मात्प्रसादयध्वं वै तदर्थं शूलपाणिनम् ॥ ८ ॥

ततो देवैः समादिष्टः कामदेवो वरानने ॥

मृतभार्यं हरं गत्वा ततः पीडय सायकैः ॥ ९ ॥

येनासौ कामसंतप्तो भार्यार्थं यत्नवान्भवेत् ॥६

अयं गच्छतु ते भ्राता वसंतश्च मनोहरः ॥ 7.1.200.१० ॥

स तथेति प्रतिज्ञाय कैलासं पर्वतं गतः ॥

ततो दृष्ट्वा महादेवः कामदेवं धृतायुधम् ॥ ११ ॥

वसन्तसहितं देवि रुद्रोऽन्धकनिषूदनः ॥

गंगाद्वारमनुप्राप्य अपश्यद्यावदग्रतः ॥ १२ ॥

दत्तायुधं कामदेवं दुद्रुवे स भयात्पुनः ॥

ततो वाराणसीं गत्वा नैमिषं पुष्करं तथा ॥ १३ ॥

श्रीकंठं रुद्रकोटिं च कुरुक्षेत्रं गयां तथा ॥

ज्वालामार्गं प्रयागं च विशालामर्बुदं शुभम् ॥ १४ ॥

बहून्वर्षगणानेवं भ्रमन्स धरणीतले ॥

कामदेवभयाद्देवि देवदेवो महेश्वरः ॥ १५ ॥

अवैक्षत तदा कामं विस्फार्य नयनं तदा ॥

तृतीयं देवदेवेशि देवदेवस्त्रिलोचनः ॥ १६ ॥

तस्य तं वीक्षमाणस्य संजाताः पावकार्चिषः ॥

ताभिः स धनुषा युक्तो भस्मसात्समपद्यत ॥ १७ ॥

तं दग्ध्वा भगवाञ्छंभुर्गत्वा रोषस्य निर्णयम् ॥

निवासमकरोत्तत्र क्षेत्रे प्राभासिके शुभे ॥ १८ ॥

तस्मिन्दग्धे तदा कामे रतिः शोकपरायणा ॥

विललाप सुदुःखार्ता पतिभक्तिपरायणा ॥ १९ ॥

हा नाथनाथ भोः स्वामिन्किं जहासि पतिव्रताम् ॥

पतिव्रतां पतिप्राणां कस्मान्मां त्यजसि प्रभो ॥ 7.1.200.२० ॥

एवं विलपतीं तां तु वागुवाचाशरीरिणी ॥

मा त्वं रुद विशालाक्षि पुनरेव पतिस्तव ॥ २१ ॥

प्रसादाद्देवदेवस्य उच्छ्वास्यति शिवस्य तु ॥

एतां वाचं रतिः श्रुत्वा ततः स्वस्था बभूव ह ॥ २२ ॥

ततो देवाः शिवं नत्वा प्रार्थयामासुरीश्वरि ॥

कलत्रसंग्रहं देव कुरु कार्यार्थसंग्रहे ॥ २३ ॥

एष कामस्त्वया दग्धः क्रोधेन महता स्वयम् ॥

विना तेन विभो नष्टा सृष्टिर्वै धरणीतले ॥ २४ ॥

॥ भगवानुवाच ॥ ॥

एष कामो मया दग्धः क्रोधेन सुरसत्तमाः ॥

तस्मादनंग एवैष प्रजासु प्रचरिष्यति ॥

तद्वीर्यस्तत्प्रभावश्च विना देहं भविष्यति ॥ २५ ॥

॥ देवा ऊचुः ॥ ॥

भगवन्कुरु पूर्वं त्वं संस्मरस्व रतीश्वरम् ॥

हिताय सर्व लोकानां यथा नः प्रत्ययो भवेत् ॥ २६ ॥

ततः स स्मृतवान्कामं स्वयं देवो महेश्वरः ॥

ततस्तच्छाश्वतं लिंगं समुत्तस्थौ महीतले ॥ २७ ॥

कृतस्मरः पुनस्तत्र अनंगो बलवांस्तथा ॥

तेनोढा शैलजा तेन शंकरेण महात्मना ॥ २८ ॥

जातः स्कन्दः सुरश्रेष्ठस्तारको येन सूदितः ॥

पतितेनैव लिंगेन यस्माच्चैव कृतस्मरः ॥ २९ ॥

तस्मात्कृतस्मरो लोके कीर्त्यते स महीतले ॥

तं दृष्ट्वा न जडो नांधो नासुखी न च दुर्भगः ॥

जायते तु कदा मर्त्यो न दरिद्रो न रोगवान् ॥ 7.1.200.३० ॥

एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥

दग्धो यथा स्मरः पूर्वं पुनर्वीर्यान्वितः स्थितः ॥ ३१ ॥

॥ ईश्वर उवाच ॥ ॥

तत्रैव संस्थितं कुण्डं दक्षिणेन कृतस्मरात् ॥

कामकुंडेति वै नाम यत्रोद्भूतः पुनः स्मरः ॥ ३२ ॥

अनंगरूपी देव्यत्र स्नानाद्वै रूपवान्भवेत् ॥

इक्षवस्तत्र वै देयाः सुवर्णं गास्तथैव च ॥

वस्त्राणि चैव विधिवद्ब्राह्मणे वेदपारगे ॥३३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कामकुण्डमाहात्म्यवर्णनंनाम द्विशततमोऽध्यायः ॥ २०० ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 201

॥ ईश्वर उवाच ॥ ॥

तस्मिन्स्थाने महादेवि स्मशानं कालभैरवम् ॥

ब्रह्मकुण्डं वरारोहे यावद्देवः कृतस्मरः॥१॥

तत्र ये प्राणिनो दग्धा मृताः कालविपर्ययात् ॥

ते सर्वे मुक्तिमायांति महापातकिनोऽपि वा ॥२॥

कृतस्मरान्महादेवि यावन्मंकीश्वरः स्थितः ॥

महास्मशानं तद्देवि अपुनर्भवदायकम् ॥३॥

तस्मिन्स्थाने वहेद्यत्र विषुवं प्राणिनां प्रिये ॥

तत्रोषरं स्मृतं क्षेत्रं तन्मे प्रियतरं सदा ॥४॥

कल्पांतेऽपि न मुंचामि अविमुक्तात्प्रियं मम॥ ५ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कालभैरवस्मशानमाहात्म्यवर्णनं नामैकोत्तरद्विशततमोऽध्यायः ॥ २०१ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 202

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि रामेश्वरमनुत्तमम् ॥

मंकीशाद्दक्षिणे भागे आग्नेये तु कृतस्मरात् ॥

पूर्वतस्तु सरस्वत्या बलभद्रप्रतिष्ठितम् ॥ १ ॥

यत्र मुक्तोऽभवद्देवि रामो ब्रह्मवधात्किल ॥

पातकात्प्रतिलोमां तामगाहत सरस्वतीम् ॥ २ ॥

॥ देव्युवाच ॥ ॥

कथं स पातकान्मुक्तः कथं पापमभूत्पुरा ॥

कथं तत्स्थापितं लिंगं किंप्रभावं वदस्व मे ॥ ३ ॥ ॥

॥ ईश्वर उवाच ॥ ॥

शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥

यां श्रुत्वा मानवो देवि मुक्तः संसारसागरात् ॥

सर्वान्कामान्स लभते सततं मनसि प्रियान् ॥ ४ ॥

रामः पूर्वं परां प्रीतिं कृत्वा कृष्णस्य लांगली ॥

चिन्तयामास बहुधा किं कृतं सुकृतं भवेत् ॥ ५ ॥

कृष्णेन हि विना नाहं यास्ये दुर्योधनान्तिकम् ॥

पाण्डवान्वा समाश्रित्य कथं दुर्योधनं नृपम् ॥ ६ ॥

जामातरं तथा शिष्यं घातयिष्ये नरेश्वरम् ॥

तस्मान्न पार्थं यास्यामि नापि दुर्योधनं नृपम् ॥ ७ ॥

तीर्थेष्वाप्लावयिष्यामि तावदात्मानमात्मना ॥

कुरूणां पाण्डवानां च यावदंताय कल्पते ॥ ॥ ८ ॥

इत्यादिश्य हृषीकेशं पार्थदुर्योधनावपि ॥

जगाम द्वारकां शौरिः स्वसैन्यैश्च परीवृतः ॥ ९ ॥

गत्वा द्वारावतीं रामो हृष्टतुष्टजनाकुलाम् ॥

स्वैरन्तःपुरगैः सार्धं पपौ पानं हलायुधः ॥ 7.1.202.१० ॥

पीतपानो जगामाथ रैवतोद्यानमृद्धिमत् ॥

हस्ते गृहीत्वा स गदां रेवत्यादिभिरन्वितः ॥ ११ ॥

स्त्रीकदंबकमध्यस्थो ययौ मत्तवदास्खलन् ॥

ददर्श च वनं वीरो रमणीयमनुत्तमम् ॥ १२ ॥

सर्वत्र तरुपुष्पाढ्यं शाखामृगगणाकुलम् ॥

पुष्प पद्मवनोपेतं सपल्वलमहावनम् ॥ १३ ॥

स शृण्वन्प्रीतिजनकान्वन्यान्मदकलाञ्छुभान् ॥

श्रोत्ररम्यान्सुमधुराञ्छब्दान्खगसुखेरितान् ॥ १४ ॥

सर्वतः फलरत्नाढ्यान्सर्वतः कुसुमोज्ज्वलान् ॥

अपश्यत्पादपांश्चैव विहगैरनुमोदितान् ॥ १५ ॥

आम्रानाग्रातकान्भव्यान्नालिकेरान्सतिंदुकान् ॥

आबल्वनांस्था पीतान्दाडिमान्बीजपूरकान्॥

पनसाँल्लकुचान्मोचांस्तापांश्चापि मनोहरान् ॥

पालेवतान्कुसंकुल्लान्नलिनानथ वेतसान् ॥ १७ ॥

भल्लातकानामलकींस्तिन्दुकांश्च महाफलान् ॥

इंगुदान्करमर्दांश्च हरीतकबिभीतकान् ॥ १८ ॥

एतानन्यांश्च स तरून्ददर्श यदुनन्दनः ॥

तथैवाशोकपुन्नागकेतकीबकुलांस्तथा ॥ १९ ॥

चंपकान्सप्तपर्णांश्च कर्णिकारान्सुमालतीः ॥

पारिजातान्कोविदारा न्मन्दारेन्दीवरांस्तथा ॥ 7.1.202.२० ॥

पाटलान्पुष्पितान्रम्भान्देवदारुद्रुमांस्तथा ॥

शालांस्तालांश्च स्तमालांनिचुलान्वञ्जुलांस्तथा ॥ २१ ॥

चकोरैः शतपत्रैश्च भृंगराजैः समावृतान् ॥

कोकिलैः कलविंकैश्च हारीतैर्जीवजीवकैः ॥ २२ ॥

प्रियपुत्रैश्चातकैश्च शुकैरन्यैर्विहंगमैः ॥

श्रोत्ररम्यं सुमधुरं कूज द्भिश्चाप्यधिष्ठितैः ॥ २३ ॥

सरांसि च सपद्मानि मनोज्ञसलिलानि च ॥

कुमुदैः पुण्डरीकैश्च तथा रोचनकोत्पलैः ॥ २४ ॥

कह्लारैः कमलैश्चापि चर्चितानि समंततः ॥

कदंबैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ २५ ॥

कारण्डवैः प्लवैर्हंसैः कूर्मैर्मंडुभिरेव च ॥

एतैरन्यैश्च कीर्णानि तथान्यैर्जलवा सिभिः ॥ २६ ॥

क्रमेण संचरन्रामः प्रेक्षमाणो मनोरमम् ॥

जगामानुगतः स्त्रीभिर्लतागृहमनुत्तमम् ॥ २७ ॥

स ददर्श द्विजांस्तत्र वेदवेदांगपार गान् ॥

कौशिकान्भार्गवांश्चैव भारद्वाजांश्च गौतमान् ॥ २८ ॥

विविधेषु च संभूतान्वंशेषु द्विजसत्तमान् ॥

कथाश्रवणसोत्कण्ठानुपविष्टान्महा त्मनः ॥ २९ ॥

कृष्णाजिनोत्तरीयेषु कूर्चेषु च वृसीषु च ॥

सूते च तेषां मध्यस्थं कथयानं कथाः शुभाः ॥ 7.1.202.३० ॥

पौराणिकाः सुरर्षीणामा द्यानां चरितक्रियाः ॥

दृष्ट्वा रामं द्विजाः सर्वे मधुपानारुणेक्षणम् ॥ ३१ ॥

मत्तोऽयमिति मन्वानाः समुत्तस्थुस्त्वरान्विताः ॥

पूजयन्तो हलधरं तमृते सूतवंशजम् ॥ ३२ ॥

ततः क्रोधसमाविष्टो हली सूतं महाबलः ॥

निजघान विवृत्ताक्षः क्षोभिताशेषदानवः ॥ ३३ ॥

अन्वासिते पदं ब्राह्म्यं तस्मिन्सूते निपातिते ॥

निष्क्रान्तास्ते द्विजाः सर्वे वनात्कृष्णाजिनांबराः ॥ ३४ ॥

अवधूतं तथात्मानं मन्यमानो हलायुधः ॥

चिन्तयामास सुमहन्मया पापमिदं कृतम् ॥ ३५ ॥

ब्रह्मासनगतो ह्येष यः सूतो विनिपातितः॥

तथा ह्येते द्विजाः सर्वे मामवेक्ष्य विनिर्गताः ॥ ३६ ॥

शरीरस्य च मे गन्धो लोहस्येवासुखावहः ॥

आत्मानं चावगच्छामि ब्रह्मघ्नमिति कुत्सितम् ॥ ३७ ॥

धिङ्ममार्थं तथा मद्यं महिमानमकीर्तिदम् ॥

येना विष्टेन सुमहन्मया पापमिदं कृतम्॥३८॥

स्मृत्युक्तं ते करिष्यामि प्रायश्चित्तं यथाविधि॥

उक्तमस्त्येव मनुना प्रायश्चित्तादिकं क्रमात्॥३९॥

जपः प्रच्छन्नपापानां मनस्ताप एव च॥

भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम्॥7.1.202.४॥

क्षेत्रेश्वरस्य विज्ञानाद्विशुद्धिः परमा मता॥

शरीरस्य विशुद्धिस्तु प्रायश्चित्तैः पृथग्विधैः॥ ४१॥

ततोऽद्यतः करिष्यामि व्रतं द्वादशवार्षिकम्॥

स्वकर्मख्यापनं कुर्वन्प्रायश्चित्तमनुत्तमम्॥४२॥

इयं विशुद्धिरज्ञानाद्धत्वा चाकामतो द्विजम् ॥

कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥ ४३ ॥

यः कामतो महापापं नरः कुर्य्नात्कथंचन ॥

न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते ॥ ४४ ॥

अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः ॥

कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥ ४५ ॥

विधिः प्राथमिकस्तस्माद्द्वितीये द्विगुणं चरेत् ॥

तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ॥ ४६ ॥

औषधं स्नेहमाहारं ददद्गोब्राह्मणादिषु ॥

दीयमाने विपत्तिः स्यान्न स पापेन लिप्यते ॥ ४७ ॥

अकारणं तु यः कश्चिद्द्विजः प्राणान्परित्यजेत् ॥

तस्यैव तत्र दोषः स्यान्न तु योऽस्मै ददाति तत् ॥ ४८ ॥

परिष्कृतो यदा विप्रो हत्वाऽऽत्मानं मृतो यदि ॥

निर्गुणः सहसा क्रोधाद्गृहक्षेत्रादिकारणात् ॥ ४९ ॥

त्रिवार्षिकं व्रतं कुर्या त्प्रतिलोमां सरस्वतीम् ॥

गच्छेद्वापि विशुद्ध्यर्थं तत्पापस्येति निश्चितम् ॥ 7.1.202.५० ॥

उद्दिश्य कुपितो हत्वा तोषितं वासयेत्पुनः ॥

तस्मिन्मृते न दोषोऽस्ति द्वयोरुच्छ्रावणे कृते ॥ ५१ ॥

षण्ढं तु ब्राह्मणं हत्वा शूद्रहत्याव्रतं चरेत् ॥

बहूनामेककार्याणां सर्वेषां शस्त्रधारिणाम् ॥ ५२ ॥

यद्येको घातयेत्तत्र सर्वे ते घातकाः स्मृताः ॥

प्रायश्चित्ते व्यवसिते यदि कर्ता विपद्यते ॥ ५३ ॥

एनस्तत्प्राप्नुयादेनमिह लोके परत्र च ॥

तदहं किं करोम्येष क्व गच्छामि दुरात्मवान् ॥ ५४ ॥

धिङ्मां च पापचरितं महादुष्कृतकर्मिणम् ॥ ५५ ॥

॥ ईश्वर उवाच ॥ ॥

इत्येवं विलपन्यावच्छोका कुलितमानसः ॥

तावदाकाशसंभूता वागुवाचाशरीरिणी ॥ ५६ ॥

भोभो राम न संतापस्त्वया कार्यः कथंचन ॥

गच्छ प्राभासिकं क्षेत्रं यत्र देवी सरस्वती ॥ ५७ ॥

पञ्चस्रोताः स्थिता तत्र पञ्चपातकनाशनी ॥

नदीनां प्रवरा सा तु ब्रह्मभूता सरस्वती ॥ ५८ ॥

एकतः सर्वतीर्थानि ब्रह्माण्डे सचराचरे ॥

गंगादीनि नरश्रेष्ठ तेषां पुण्या सरस्वती ॥ ५९ ॥

तावद्गर्जंति पापानि ब्रह्महत्यादिकानि च ॥

यावन्न दृश्यते देवी प्रभासस्था सर स्वती ॥ 7.1.202.६० ॥

तस्मात्तत्रैव गच्छ त्वं यत्र देवी सरस्वती ॥

नान्यैस्तीर्थैः सहस्रैस्त्वं कर्तुं शक्यो विकल्मषः ॥ ६१ ॥

तन्मा कार्षीर्विलंबं त्वं गच्छ तीरं महोदधेः ॥

प्राभासिके महादेवीं प्रतिलोमां विगाहय ॥ ६२ ॥

तत्रैवाराधय विभुं लिंगरूपिणमीश्वरम् ॥

प्रतिष्ठाप्य महापापाच्छारी रात्त्वं विमोक्ष्यसि ॥ ६३ ॥

इति श्रुत्वा वचो रामः परमानंदपूरितः ॥

प्रभासक्षेत्रगमने मतिं चक्रे महामनाः ॥ ६४ ॥

ततः स्वसैन्यसंयुक्तो द्रव्योपस्करसंयुतः ॥

आजगाम महाक्षेत्रं प्रभासमिति विश्रुतम् ॥ ६५ ॥

दृष्ट्वा मनोरम तीर्थं सरस्वत्यब्धिसंगमे ॥

चकार हृदि संकल्पं प्रति लोमावगाहने ॥ ६६ ॥

आहूय ब्राह्मणांस्तत्र प्रभासक्षेत्रवासिनः ॥

सम्यग्यात्राविधानेन यात्रां तत्राकरोद्विभुः ॥ ६७ ॥

यानि प्राभासिके क्षेत्रे तीर्थानि विविधानि तु ॥

रवियोजनसंस्थानि तेषु यात्रां चकार सः ॥ ६८ ॥

प्रत्येकं च ददौ तेषु दानानि विविधानि तु ॥

तथाऽधः स्थाप यामास सरस्वत्यब्धिसंगमे ॥ ६९ ॥

पूर्वभागे महालिंगं कृत्वा यज्ञविधिक्रियाम् ॥

एवं कृते महादेवि विमुक्तः पातकैरभूत् ॥ 7.1.202.७० ॥

निर्मर्लांगस्ततो देवि दिनानि दश संस्थितः ॥

ततस्तां चैव स स्नात्वा प्रतिलोमां क्रमाद्ययौ ॥

प्लक्षावहरणं यावत्समुद्राच्च हिमाह्वयम् ॥ ॥ ७१ ॥

एवं मुक्तः स पापौघै रामोऽभूत्प्रथितः प्रिये ॥

तस्य लिंगस्य माहात्म्यात्सरस्वत्याः प्रसादतः ॥ ७२ ॥

यस्तत्पूजयते देवि लिंगं पापभयापहम् ॥

रामेश्वरेति कथितं सोऽपि मुच्येत पातकात् ॥ ७३ ॥

अष्टम्यां च विशेषेण ब्रह्मकूर्चविधानतः ॥

यस्तत्र कुरुते देवि सोऽश्वमेधफलं लभेत् ॥ ७४ ॥

स्नात्वा तत्र वरारोहे सरस्वत्यब्धिसंगमे ॥

रामेश्वरेतिनामानं ततः संपूज्य शंकरम् ॥

गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः ॥ ७५ ॥

इत्येवं कथितं देवि रामेश्वरमहोदयम् ॥

यच्छ्रुत्वा मानवः सम्यक्छ्रद्धावान्प्राप्नुयाद्दिवम् ॥ ७६ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रामेश्वरक्षेत्रमाहात्म्यवर्णनंनाम द्व्युत्तरद्विशततमोऽध्यायः ॥ २०२ ॥ ॥ छ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 203

॥ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि मंकीश्वर महालयम् ॥

रामेशादुत्तरे भागे देवमातुः समीपगम् ॥ १ ॥

अर्कस्थलात्ततो याम्ये पूर्वतश्च कृतस्मरात् ॥

लिंगं महाप्रभावं तु मंकिना स्थापितं पुरा ॥ २ ॥

तं दृष्ट्वा मानवः सम्यगश्वमेधफलं लभेत् ॥ ३ ॥

॥ देव्युवाच ॥ ॥

कोऽसौ मंकिर्महादेव कथं लिंगं प्रतिष्ठितम् ॥

किं प्रभावं च तल्लिंगमेतन्मे वद विस्तरात् ॥ ४ ॥

॥ ईश्वर उवाच ॥ ॥

मंकिर्नामाभवत्पूर्वं कुब्जकायो द्विजोत्तमः ॥

प्रभासं क्षेत्रमासाद्यतपस्तेपे महत्तमम् ॥ ५ ॥

प्रतिष्ठाप्य महादेवं शिवभक्तिपरायणः ॥

न तुतोष हरस्तस्य वहुवर्षगणार्चितः ॥ ६ ॥

तस्यैवं तप्यमानस्य सिद्धिं प्राप्ता ह्यनेकशः ॥

तत्राराध्य महादेवं स्वर्गलोकमितो गताः ॥ ७ ॥

ततो दुःखं समभवन्मंकेस्तत्र वरानने ॥

कस्मान्मे भगवांस्तुष्टिं न गच्छति महेश्वरः ॥ ८ ॥

ततस्तीव्ररतिं चक्रे कृत्वा तीव्रनिवर्तनम् ॥

एवं वृद्धत्वमापन्नो जपध्यानपरायणः ॥ ९ ॥

तस्य तुष्टो महादेवो वयसोऽन्ते वरं ददौ ॥

परितुष्टोऽस्मि ते मंके ब्रूहि किं करवाणि ते ॥ 7.1.203.१० ॥

॥ मंकिरुवाच ॥ ॥

किं वरेण सुरश्रेष्ठ मम वृद्धस्य सांप्रतम् ॥

किञ्चिन्मे परमं दुःखं स्थितस्यात्र परं प्रभो ॥ ११ ॥

॥ शिव उवाच ॥ ॥

शृणु यत्कारणं तत्र तेषां तव तपस्विनाम् ॥

व्रतचर्याप्तये विप्राः पूजयन्त्यधिकं हि ते ॥१२॥

ते पुष्पाणि समानीय नानावर्णानि सर्वशः ॥

वृक्षाणामतिगंधीनि न तेषां हर्षकारणम् ॥ १३ ॥

त्वं पुनः कुब्जरूपश्च यज्ञपूजापरायणः ॥

न च प्राप्नोषि वृक्षाणां शाखाग्राण्यतियत्नवान् ॥ १४ ॥

एकेनापि प्रदत्तेन पुष्पेण द्विजसत्तम ॥

भक्त्या शिरसि लिंगस्य लभ्यते याज्ञिकं फलम्॥ १५ ॥

लिंगस्य दक्षिणे ब्रह्मा स्वयमेव व्यवस्थितः ॥

वामे च भगवान्विष्णुर्मध्येहं वै प्रतिष्ठितः ॥ १६ ॥

त्रयोऽपि पूजितास्तेन येन लिंगं प्रपूजितम् ॥ १७ ॥

बिल्वपत्रं शमीपत्रं करवीरं च मालतीम् ॥

उन्मत्तकं चम्पकं च सद्यः प्रीतिकरं भवेत् ॥ १८ ॥

चंपकाशोक कह्लारैः करवीरैस्तथा मम ॥

पूजेष्टा द्विजशार्दूल ये चान्ये वहुगंधिनः ॥

एतैर्हि पूजितो नित्यं शीघ्रं तुष्टिं प्रयाम्यहम् ॥ १९ ॥ ॥

॥ ब्राह्मण उवाच ॥ ॥

यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥

इहागत्य नरः स्नात्वा यो जलेनापि सिञ्चति ॥ 7.1.203.२० ॥

लिंगमेतद्धि सर्वासां पूजानां फलमाप्नुयात् ॥

अद्यप्रभृति ये वृक्षा दैविकाः पार्थिवाश्च ये ॥

तेषां सान्निध्यमत्रास्तु प्रसादात्तव शंकर ॥ २१ ॥

॥ भगवानुवाच ॥ ॥

सलिलेनापि यः पूजामस्मिँल्लिंगे विधास्यति ॥

तस्य पूजाफलं सर्वं भविष्यति द्विजोत्तम ॥ ॥ २२ ॥

वृक्षाणामत्रसान्निध्यं सर्वेषां च भविष्यति ॥

अद्यप्रभृति नाम्नैतन्नागस्थानं भविष्यति ॥ २३ ॥

यतस्तु सर्वनागानां सांनिध्य मत्र संस्थितम् ।

त्वमपि द्विजशार्दूल प्रयास्यसि ममान्तिकम् ॥ २४ ॥

एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत ॥

मंकिस्तु देहमुत्सज्य शिवलोकं ततो गतः ॥ २५ ॥

इत्येवं कथितं देवि मंकीशोद्भवमुत्तमम् ॥

श्रुतं हरति पापानि सम्यक्छ्रद्धासमन्वितैः ॥ २६ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मंकीश्वरमाहात्म्यवर्णनंनाम त्र्युत्तरद्विशततमोऽध्यायः ॥ ॥ २०३ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 204

॥ देव्युवाच ॥ ॥

भगवन्देवदेवेश संसारार्णवतारक ॥

सरस्वत्याश्च माहात्म्यं विस्तरात्कथयस्व मे ॥ १ ॥

यात्रागतानां देवेशि पुरुषाणां जितात्मनाम्॥

मुखद्वारे तु किं पुण्यं स्नानदाने च शंकर ॥ २ ॥

अवगाहनेन चान्यत्र फलं किंस्वित्प्रजायते ॥

श्राद्धस्य किं विधानं तु के मंत्रास्तत्र के द्विजाः ॥ ३ ॥

किं ग्राह्यं किञ्च भोक्तव्यं ब्राह्मणैः श्राद्धकर्मणि ॥

कानि दानानि देयानि नृभिर्यात्रा फलेप्सुभिः ॥ ४ ॥

॥ ईश्वर उवाच ॥ ॥

शृणु देविप्रवक्ष्यामि दानश्राद्धविधिक्रमम् ॥

सरस्वत्याश्च माहात्म्यं कीर्त्यमानं निबोध मे ॥ ५ ॥

पुण्यं सारस्वतं तोयं यत्र तत्रावगाह्यते ॥

सागरेण तु संमिश्रं देवानामपि दुर्लभम् ॥ ६ ॥

सरस्वती सर्वनदीषु पुण्या सरस्वती लोकसुखावगाहा ॥

सरस्वतीं प्राप्य न दुःखिता नराः सदा न शोचंति परत्र चेह वा ॥ ७ ॥

पुण्यं सारस्वतं तीर्थं पुण्यकृल्लभते नरः ॥

दुर्लभं त्रिषु लोकेषु वैशाख्या सोमपर्वणि। ॥ ८ ॥

अमा सोमेन संयुक्ता यदि तत्रैव लभ्यते ॥

तत्र किं क्रियते देवि पर्वकोटिशतैरपि ॥ ९ ॥

चान्द्रायणानि कृच्छ्राणि महासां तपनानि च ॥

प्रायश्चित्तानि दीयन्ते यत्र नास्ति सरस्वती ॥7.1.204.१०॥

यावदस्थि शरीरस्य तिष्ठेत्सारस्वते जले ॥

तावद्वर्षसहस्राणि विष्णुलोके वसे न्नरः ॥

जात्यन्धैस्ते समा ज्ञेया मृतैः पंगुभिरेव च ॥ ११ ॥

समर्था ये न पश्यन्ति प्रभासस्थां सरस्वतीम् ॥

ते देशास्तानि तीर्थानि आश्रमास्ते च पर्वताः ॥ १२ ॥

येषां सरस्वती देवी मध्ये याति सरिद्वरा ॥

त्रैलोक्यपावनीं पुण्यां संश्रिता ये सरस्वतीम् ॥

संसारकर्दमामोदमाजिघ्रन्ति न ते पुनः ॥ १३ ॥

शब्दविद्येव विस्तीर्णा मतैव जगतः प्रिया ॥

सतां मतिरिव स्वच्छा रमणीया सरस्वती ॥ १४ ॥

त्रैलोक्यशोभितां देवीं दिव्य तोयां सुनिर्मलाम्॥

स नीचो यः पुमानेतां न वन्देत सरस्वतीम् ॥ १५ ॥

स्वर्गनिश्रेणिसंभूता प्रभासे तु सरस्वती ॥

नापुण्यवद्भिः संप्राप्तुं पुंभिः शक्या महानदी ॥ १६ ॥

चन्द्रभागा च गंगा च तथा यत्र सरस्वती ॥

देवास्ते न मनुष्यास्ते तिस्रो नद्यः पिबन्ति ये ॥१७॥

सत्यमेव मया देवि जाह्नवी शिरसा धृता ॥

याः काश्चित्सरितो लोके तासां पुण्या सरस्वती ॥ १८॥

दर्शनेन सरस्वत्या राजसूयो न राजते ॥

गंडूषश्चाश्वमेधाद्वै सर्व क्रतुवरं पयः ॥१९॥

भस्मास्थिचर्मतोयानि नखकेशादिकानि च ॥

वातैरपि धुतान्येव तथा सारस्वते जले ॥7.1.204.२॥।

वहन्ति येषां कालेन ते न काल वशा नराः ॥

देवि किं बहुनोक्तेन वर्णितेन पुनःपुनः॥

सरस्वत्याः परं तीर्थं न भूतं न भविष्यति ॥२१॥

तत्रैव दुर्लभं स्नानं यत्र सागरसंगमः ॥

तत्र स्नानेन दानेन कोटियज्ञफलं लभेत् ॥२२॥

यत्र सारस्वतं तोयं सागरोर्मिसमाकुलम् ॥

तत्र स्नास्यंति ये मर्त्या भाग्यवन्तो युगेयुगे ॥२३॥

ते धन्यास्ते नमस्कार्यास्तेषां स्फीततरं यशः ॥

येषां कलेवरं नॄणां सिक्तं सारस्वतैर्जलैः ॥ २४ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सरस्वतीसंगममाहात्म्यवर्णनंनाम चतुरुत्तरद्विशततमोऽध्यायः ॥ २०४ ॥ छ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 205

॥ देव्युवाच ॥ ॥

भगन्देवदेवेश संसारार्णवतारक ॥

ब्रूहि श्राद्धविधिं पुण्यं विस्तराज्जगतांपते ॥ १ ॥

कस्मिन्वासरभागे तु श्राद्धकृच्छ्राद्धमाचरेत् ॥

अस्मिन्सरस्वती तीर्थे प्रभासक्षेत्र उत्तमे ॥ २ ॥

कस्मिंस्तीर्थे कृतं श्राद्धं बहुपुण्यफलं भवेत् ॥

एतत्सर्वं महादेव यथावद्वक्तुमर्हसि ॥ ३ ॥

॥ ईश्वर उवाच ॥ ॥

प्रातःकाले मुहूतांस्त्रीन्संगवस्तावदेव तु ॥

मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम् ॥ ४ ॥

सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् ॥

राक्षसीनाम सा वेला गर्हिता सर्वकर्मसु ॥ ५ ॥

अह्नो मुहूर्ता विख्याता दशपंच च सर्वदा ॥

तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥ ६ ॥

मध्याह्ने सर्वदा यस्मान्मन्दीभवति भास्करः ॥

तस्मादनंतफलदस्तदारम्भो भविष्यति ॥ ७ ॥

मध्याह्नः खड्गपात्रं तु तथान्ये कालकम्बलाः ॥।

रूप्यं दर्भांस्तिला गावो दौहित्रश्चाष्टमः स्मृतः ॥ ८ ॥

पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः ॥

अष्ट चैवं मतास्तस्मात्कुतपा इति विश्रुताः। ॥ ९ ॥

ऊर्ध्वं मुहूर्तात्कुतपाद्यन्मुहूर्तचतुष्टयम् ॥

मुहूर्तपञ्चकं चैव स्वधाभवनमिष्यते ॥ 7.1.205.१० ॥

विष्णोर्देहसमुद्भूताः कुशाः कृष्णास्तिलास्तथा ॥।

श्राद्धस्य रक्षणार्थाय एतत्प्राहुर्दिवौकसः ॥ ११ ॥

तिलोदकाञ्जलिर्देयो जलस्थैस्तीर्थवासिभिः ॥

सदर्भहस्तेनैकेन श्राद्धसेवनमिष्यते ॥ १२ ॥

त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ॥

त्रीणि चात्र प्रशंसंति शुद्धिमक्रोधमत्वराम् ॥ १३ ॥

दौहित्रं खड्गमित्युक्तं ललाटे शृङ्गमस्ति यत् ॥

तस्य शृंगस्य यत्पात्रं तद्दौहित्रमिति स्मृतम् ॥ १४ ॥

क्षीरिणी वापि चित्रा गौस्तत्क्षीरायद्घृतं भवेत् ॥

तद्दौहित्रमिति प्रोक्तं दैवे पित्र्ये च कर्मणि ॥ १५ ॥

दर्भाग्रं दैवमित्युक्तं समूलाग्रं तु पैतृकम् ॥

तत्रावलंबिनो ये तु कुशास्ते कुतपाः स्मृताः ॥ १६ ॥

शरीरद्रव्यदाराभूमनोमंत्रद्वि जन्मनाम् ॥

शुद्धिः सप्तसु विज्ञेया श्राद्धकाले विशेषतः॥१७॥

सप्तधा द्रव्यशुद्धिस्तु सोत्तमा मध्यमाऽधमा ॥१८॥

श्रुतं शौर्यं तपः कन्या शिष्याद्यं चान्वयागतम् ॥

धनं सप्तविधं शुक्लमुपायोप्यस्य तादृशः ॥ १९ ॥

कुत्सितं कृषिवाणिज्यं शुक्लं शिल्पानुवृत्तिभिः ॥

कृतोपकारादाप्तं च शंबलं समुदाहृतम् ॥ 7.1.205.२० ॥

उत्कोचतश्च यत्प्राप्तं यत्प्राप्तं चैव साहसात् ॥

व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥ २१ ॥

अन्यायोपार्जितैर्द्रव्यै र्यच्छ्राद्धं क्रियते नरैः ॥

तृप्यंति तेन चण्डालाः पुष्कसाद्यासु योनिषु ॥ २२ ॥

अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ॥

तेन तृप्तिमुपायांति ये पिशाचत्वमागताः ॥ २३ ॥

यत्पयः स्नानवस्त्रोत्थं भूमौ पतति पुत्रक ॥

तेन ये तरुतां प्राप्तास्तेषांतृप्तिः प्रजायते ॥ २४ ॥

यास्तु गंधांबुकणिकाः पतंति धरणीतले ॥

ताभिराप्यायनं तेषां ये देवत्वमुपागताः ॥ २५ ॥

उद्धृतेष्वपि पिण्डेषु याश्चान्नकणिका भुवि ॥

ताभिराप्यायनं तेषां तिर्यक्त्वं च कुले गताः ॥२६॥

ये चादग्धाः कुले बालाः स्त्रियो याश्चाप्यसंस्कृताः ॥

विपन्नास्ते तु विकिरसंमार्जनसुलालसाः ॥२७॥

भुक्त्वा वा भ्रमते यच्च जलं यच्चाह्नि सेवते ॥

ब्राह्मणानां तथान्नेन तेन तृप्तिं प्रयांति ते ॥ २८ ॥

पिशाचत्वमनुप्राप्ताः कृमिकीटत्वमेव ये ॥

अथ कालान्प्रवक्ष्यामि कथ्यमा नान्निबोध मे ॥ २९ ॥

श्राद्धं कार्यममावास्यां मासिमासींदुसंक्षये ॥

तथाष्टकासु विप्राप्तौ सूर्येन्दुग्रहणे तथा ॥ 7.1.205.३० ॥

अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे ॥

अमावास्याष्टकायां च कृष्णपक्षे विशेषतः ॥ ३१ ॥

आर्द्रामघारोहिणीषु द्रव्यब्राह्मणसंगमे ॥

गजच्छायाव्यतीपाते विष्टिवैधृति वासरे ॥ ३२ ॥

वैशाखस्य तृतीयायां नवम्यां कार्त्तिकस्य च ॥

पंचदश्यां तु माघस्य नभस्ये च त्रयोदशी ॥ ३३ ॥

युगादयः स्मृता एता दत्त स्याक्षयकारिकाः ॥ ३४ ॥

यस्य मन्वन्तरस्यादौ रथारूढो दिवाकरः ॥

माघमासस्य सप्तम्यां सा तु स्याद्रथसप्तमी ॥ ३५ ॥

वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च ॥

पंचमी चैत्रमासस्य तस्यैवान्त्या तथापरा ॥ ३६ ॥

शुक्लत्रयोदशी माघे कार्त्तिकस्य च सप्तमी ॥

कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशीति च ॥

मन्वन्तराः स्मृता ह्येता दत्तस्याक्षयकारिकाः ॥ ३७ ॥

श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा ॥

कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी तिथिः ॥ ३८ ॥

मन्वादयः स्मृताश्चैता दत्तस्याक्षयकारिकाः ॥

नवमी मार्गशीर्षस्य सप्तैताः संस्मरा म्यहम् ॥ ३९ ॥

कल्पनामादयो देवि दत्तस्याक्षयकारिकाः ॥

तथा मन्वन्तरस्यादौ द्वादशैव वरानने ॥ 7.1.205.४० ॥

नित्यं नैमित्तिकं काम्यं वृद्धि श्राद्धं सपिण्डकम् ॥

पार्वणं चातिविज्ञानं गोष्ठं शुद्ध्यर्थमुत्तमम् ॥ ४१ ॥

कर्मांगं नवमं प्रोक्तं दैवकं दशमं स्मृतम् ॥

एकादशं क्षयाहं तु पुष्ट्यर्थे द्वादशं स्मृतम् ॥ ४२ ॥

सर्वेषामेव श्राद्धानां श्रेष्ठं सांवत्सरं स्मृतम् ॥

अहन्यहनि यच्छ्राद्धं नित्यं तत्परिकीर्तितम् ॥ ४३ ॥

वैश्वदेवविहीनं तु अशक्तावुदकेन तु ॥

एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते ॥ ४४ ॥

कामेन विहितं काम्यमभिप्रेतार्थसिद्धये ॥

वृद्धौ यत्क्रियते श्राद्धं वृद्धि श्राद्धं तदुच्यते ॥ ४५ ॥

ये समाना इति द्वाभ्यामेतच्छ्राद्धं सपिण्डनम् ॥

अमावास्यां तु यच्छ्राद्धं तत्पार्वणमुदाहृतम् ॥ ४६ ॥

गोष्ठ्यां यत्क्रि यते श्राद्धं तद्गोष्ठीश्राद्धमुच्यते ॥

क्रियते पापशुद्ध्यर्थं शुद्धिश्राद्धं तदुच्यते ॥ ४७ ॥

निषेककाले सोमे च सीमन्तोन्नयने तथा ॥

तथा पुंसवने चैव श्राद्धं कर्मांगमेव च ॥ ४८ ॥

देवमुद्दिश्य क्रियते यत्तद्दैवकमुच्यते ॥

गच्छेद्देशान्तरं यस्तु श्राद्धं कार्यं तु सर्पिषा ॥ ४९ ॥

पुष्ट्यर्थमेतद्विज्ञेयं क्षयाहं द्वादशं स्मृतम् ॥

मृतेऽहनि पितुर्यस्तु न कुर्याच्छ्राद्धमादरात् ॥ 7.1.205.५० ॥

मातुश्चैव वरारोहे वत्सरान्ते मृतेऽहनि ॥

नाहं तस्य महादेवि पूजां गृह्णामि नो हरिः ॥ ५१ ॥

मृताहर्यो न जानाति मानवो यदि वा क्वचित् ॥

तेन कार्यममावास्यां श्राद्धं माघेऽथ मार्गके ॥ ५२ ॥

अथ विप्रान्प्रवक्ष्यामि श्राद्धे ये केचन क्षमाः ॥

विशिष्टः श्रोत्रियो योगी वेदविद्यासमन्वितः ॥ ५३ ॥

त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडंगवित् ॥

दौहित्रकस्तु जामाता स्वस्रीयः श्वशुरस्तथा ॥ ५४ ॥

पञ्चाग्निकर्मनिष्ठश्च तपोनिष्ठश्च मातुलः ॥

पितृमातृपरश्चैव शिष्यसंबंधिबांधवः ॥ ५५ ॥

वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः ॥

संबंधिनं तथा संतं दौहित्रं दुहितुः पतिम् ॥ ५६ ॥

भागिनेयं विशेषेण तथा बन्धुगणानपि ॥

नातिक्रमेन्नरस्त्वेतान्मूर्खानपि वरानने ॥ ५७ ॥

न ब्राह्मणान्परीक्षेत देवकर्मण्युप स्थिते ॥

पैत्रकर्मणि संप्राप्ते परीक्षेत प्रयत्नतः ॥ ५८ ॥

ये स्तेनाः पतिताः क्लीबा ये च नास्तिकवृत्तयः ॥

तान्हव्यकव्ययोर्विप्राननर्हान्मनुर ब्रवीत् ॥ ५९ ॥

जटिलं चानधीयानं दुर्बलं कितवं तथा ॥

याजयंति च ये शूद्रांस्तांश्च श्राद्धे न पूजयेत् ॥ 7.1.205.६० ॥

चिकित्सकान्देवलकान्मांस विक्रयिणस्तथा ॥

विपणैः पीरजीवंतो वर्ज्याः स्युर्हव्यकव्ययोः ॥ ६१ ॥

प्रेष्यो ग्राम्यश्च राज्ञश्च कुनखी श्यावदंतकः ॥

प्रतिरोद्धा गुरोश्चैव त्यक्ता ग्निर्वार्धुषिस्तथा ॥ ६२ ॥

यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः ॥

ब्रह्मध्रुक्परिवित्तिश्च गणाभ्यन्तर एव च ॥ ६३ ॥

कुशीलश्चैव काणश्च वृषलीपतिरेव च ॥

पौनर्भवश्च कानीनः कितवो मद्यपस्तथा ॥ ६४ ॥

पापरोग्यभिशस्तश्च दांभिको रसविक्रयी ॥

धनुःशराणां कर्त्ता च यश्च स्याद्दिधिषूपतिः ॥ ६५ ॥

मित्रध्रुड्दूतवृत्तिश्च पुत्राचार्यस्तथैव च ॥

भ्रमरी मण्डपाली च चित्रांगः पिशुनस्तथा ॥ ६६ ॥

उन्मत्तोंऽधश्च बधिरो वेदनिन्दक एव च ॥

हयगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति ॥ ६७ ॥

पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥

स्रोतःसंभेदको यश्च वेश्यानां पोषणे रतः ॥ ६८ ॥

गृहसंवेशको दूतः कृष्यारोपक एव च ॥

आखेटी श्येनजीवी च कन्यादूषक एव च ॥ ६९ ॥

हिंस्रो वृषलपुत्रश्च गणानां चैव याजकः ॥

आचारहीनः क्लीबश्च नित्ययाजनकस्तथा ॥ 7.1.205.७० ॥

कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च ॥

औरभ्रिको माहिषिकः परपूर्वा पतिस्तथा ॥

प्रेतनिर्यातकाश्चैव वर्जनीयाः प्रयत्नतः ॥ ७१ ॥

एतान्वै गर्हिताचारानपांक्तेयान्द्विजाधमान् ॥

द्विजानां सति लाभे तू भयत्रैव विवर्जयेत् ॥ ७२ ॥

वीक्षांधो वैकतः काणः कुष्ठी च वृषलीपतिः ॥

पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥ ७३ ॥

यावद्भिः संस्पृशत्यङ्गैर्ब्राह्मणाञ्छ्रूद्रयाजकः ॥

तावतां न भवेत्प्रेत्य दातुर्वा तस्य पैत्रिकम् ॥ ७४ ॥

आदौ माहिषकं दृष्ट्वा मध्ये च वृषलीपतिम् ॥

अन्ते वार्धुषिकं दृष्ट्वा निराशाः पितरो गताः ॥ ७५ ॥

महिषी प्रोच्यते भार्या सा वैधव्येऽभिचारिणी ॥

तस्यां यः क्षपते दोषां स वै माहिषिकः स्मृतः ॥ ७६ ॥

वृषलीत्युच्यते शूद्री तस्या यश्च पतिर्भवेत् ॥

तदोष्ठलालासंसर्गात्पतितो वृषलीपतिः ॥ ॥ ७७ ॥

स्वं वृषं तु परित्यक्त्वा परेण तु वृषायते ॥

वृषली सा तु विज्ञेया न शूद्री वृषली भवेत् ॥ ७८ ॥

चण्डाली बंधकी वेश्या रजःस्था या च कन्यका ॥

कुटिला च स्वगोत्रा च वृषल्यः सप्त कीर्तिताः ॥ ७९ ॥

पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता ॥

पतिताः पितरस्तस्याः कन्या सा वृषली भवेत् ॥ 7.1.205.८० ॥

यस्तु तां वरयेत्कन्यां ब्राह्मणो ज्ञानपूर्वतः ॥

अश्राद्धेयमपांक्तेयं तं विद्याद्वृषलीपतिम् ॥ ८१ ॥

गौरी कन्या प्रधाना वै मध्यमा कन्यका मता ॥

रोहिणी तत्समा ज्ञेया अधमा च रजस्वला ॥ ८२ ॥

अप्राप्ते रजसि गौरी प्राप्ते रजसि रोहिणी ॥

अव्यंजनकृता कन्या कुचहीना तु नग्निका ॥ ८३ ॥

सप्तवर्षा भवेद्गौरी नववर्षा तु नग्निका ॥

दशवर्षा भवेत्कन्या ह्यत ऊर्ध्वं रजस्वला ॥ ८४ ॥

व्यंजनैर्हन्ति वै पुत्रान्कुलं हन्यात्पयोधरा ॥

गतिमिष्टां तथा लोकान्हंति सा रजसा पितुः ॥ ८५ ॥

य उद्वहेद्रजोयुक्तां स ज्ञेयो वृषलीपतिः ॥ ८६ ॥

यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ॥

तद्भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ ८७ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धानर्हब्राह्मणपरीक्षणकथनंनाम पञ्चोत्तरद्विशततमो ऽध्यायः ॥ २०५ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 206

॥ ईश्वर उवाच ॥ ॥

अथ श्राद्धविधिं वक्ष्ये पार्वणस्य विधानतः ॥

यथाक्रमं महादेवि शृणुष्वैकमनाः प्रिये ॥ १ ॥

कृत्वापसव्यं पूर्वेद्युः पितृपूर्वं निमंत्रयेत् ॥

भवद्भिः पितृकार्यं नः संपाद्यं च प्रसीदथ ॥ २ ॥

सवर्णान्प्रेषयेदाप्तान्द्विजानामुपमन्त्रणे ॥ ३ ॥

अभोज्यं ब्राह्मणस्यान्नं क्षत्रियाद्यैर्निमन्त्रितैः ॥

तथैव ब्राह्मणस्यान्नं ब्राह्मणेन निमन्त्रितौः ॥ ४ ॥

ब्राह्मणान्नं ददेच्छूद्रः शूद्रान्नं ब्राह्मणो ददेत् ॥

उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् ॥ ५ ॥

उपनिक्षेपधर्मेण शूद्रान्नं यः पचेद्द्विजः ॥

अभोज्यं तद्भवेदन्नं स च विप्रः पतेदधः ॥ ६ ॥

शूद्रान्नं शूद्रसंपर्कः शूद्रेण च सहासनम् ॥

शूद्राज्ज्ञानागमश्चैव ज्वलंतमपि पातयेत् ॥ ७ ॥

शूद्रान्नोपहता विप्रा विह्वला रतिलालसाः ॥

कुपिताः किं करिष्यंति निर्विषा इव पन्नगाः ॥८॥

नग्नः स्यान्मलवद्वासा नग्नः कौपीनवस्त्रधृक् ॥

द्विकच्छोऽनुत्तरीयश्च विकच्छोऽवस्त्र एव च ॥९॥

नग्नः काषायवस्त्रः स्यान्नग्नश्चार्धपटः स्मृतः ॥

अच्छिन्नाग्रं तु यद्वस्त्रं मृदा प्रक्षालितं तु यत् ॥ 7.1.206.१० ॥

अहतं धातुरक्तं वा तत्पवित्रमिति स्थितम् ॥

अग्रतो वसते मूर्खो दूरे चास्य गुणान्वितः ॥ ११ ॥

गुणान्विते च दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥

यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितादृते ॥

दूरस्थं पूजयेन्मूढो गुणाढ्यं नरकं व्रजेत् ॥ १२ ॥

वेदविद्याव्रतस्नाते श्रोत्रिये गृहमागते ॥

क्रीडन्त्योषधयः सर्वा यास्यामः परमां गतिम्॥१३॥

संध्ययोरुभयोर्जाप्ये भोजने दंतधावने॥

पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः॥

गुरूणां संनिधौ दाने योगे चैव विशेषतः ॥

एतेषु मौनमातिष्ठन्स्वर्गं प्राप्नोति मानवः ॥ १५ ॥

यदि वाग्यमलोपः स्याज्जपादिषु कथंचन ॥

व्याहरेद्वैष्णवं मंत्रं स्मरेद्वा विष्णुमव्ययम् ॥ १६ ॥

दाने स्नाने जपे होमे भोजने देवतार्चने ॥

देवानामृजवो दर्भाः पितॄणां द्विगुणास्तथा ॥ १७ ॥

उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः ॥

अग्निना भस्मना वापि यवेनाप्युदकेन वा ॥

द्वारसंक्रमणेनापि पंक्तिदोषो न विद्यते ॥ १८ ॥

इष्टश्राद्धे क्रतुर्दक्षो वृद्धौ सत्यवसू स्मृतौ ॥

नैमित्तिके कालकामौ काम्ये चाध्वविरोचनौ ॥ १९ ॥

पुरूरवा आर्द्रवश्च पार्वणे समुदाहृतौ ॥

पुष्टिं प्रजां च न्यग्रोधे बुद्धिं प्रज्ञां धृतिं स्मृतिम् ॥ 7.1.206.२० ॥

रक्षोघ्नं च यशस्यं च काश्मीर्यं पात्रमुच्यते ॥

सौभाग्यमुत्तमं लोके मधूके समुदाहृतम् ॥ २१ ॥

फाल्गुनपात्रे तु कुर्वाणः सर्वकामानवाप्नुयात् ॥

परां द्युतिमथार्के तु प्राकाश्यं च विशेषतः ॥ २२ ॥

बिल्वे लक्ष्मीं तपो मेधां नित्यमायुष्यमेव च ॥

क्षेत्रारामतडागेषु सर्वपात्रेषु चैव हि ॥ २३ ॥

वर्षत्यजस्रं पर्जन्ये वेणुपात्रेषु कुर्वतः ॥

एतेषां लभ्यते पुण्यं सुवर्णै रजतैस्तथा ॥ २४ ॥

पलाशफलन्यग्रोधप्लक्षाश्वत्थविकंकताः ॥

औदुम्बरस्तथा बिल्वं चंदनं यज्ञियाश्च ये ॥ २५ ॥

सरलो देवदारुश्च शालाश्च खदिरास्तथा ॥

समिदर्थं प्रशस्ताः स्युरेते वृक्षा विशेषतः ॥ २६ ॥

श्लेष्मातको नक्तमाल्यः कपित्थः शाल्मली तथा ॥

निंबो बिभीतकश्चैव श्राद्धकर्मणि गर्हिताः ॥२७॥

अनिष्टशब्दां संकीर्णा रूक्षां जन्तुमतीमपि ॥

प्रतिगंधां तु तां भूमिं श्राद्धकर्मणि गर्हयेत् ॥२८॥

त्रैशंकवं त्यजेद्देशंसर्वद्वादशयोजनम् ॥

उत्तरेण महानद्या दक्षिणेन च केवलम् ॥ २९ ॥

देशस्त्रैशं कवोनाम वर्जितः श्राद्धकर्मणि ॥

कारस्काराः कलिंगाश्च सिंधोरुत्तरमेव च ॥

प्रणष्टाश्रमधर्माश्च वर्ज्या देशाः प्रयत्नतः ॥7.1.206.३०॥

ब्राह्मणं तु कृतं प्रोक्तं त्रेता तु क्षत्रियं स्मृतम् ॥

वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम् ॥३१॥

कृते तु पितरः पूज्यास्त्रेतायां च सुरास्तथा ॥

मुनयो द्वापरे नित्यं पाखंडाश्च कलौ युगे ॥३२॥

शुक्लपक्षस्य पूर्वाह्णे श्राद्धं कुर्याद्विचक्षणः ॥

कृष्णपक्षेऽपराह्ने तु रौहिणं न विलंघयेत् ॥३३॥

रत्निमात्रप्रमाणं च पितृतीर्थं तु संस्कृतम् ॥

उपमूले तथा लूनाः प्रस्तरार्थे कुशोत्तमाः॥।

तथा श्यामाकनीवारा दूर्वाश्च समुदाहृताः ॥

स्व कीर्तिमतां श्रेष्ठो बहुकेशः प्रजापतिः ॥३५॥

तस्य केशा निपतिता भूमौ काशत्वमागताः ॥

तस्मान्मेध्याः सदा काशाः श्राद्धकर्मणि पूजिताः ॥३६॥

पिण्डनिर्वपणं तेषु कर्तव्यं भूतिमिच्छता॥

उष्णमन्नं द्विजातिभ्यः श्रद्धया विनिवेशयेत्॥ ३७॥

अन्यत्र फलपुष्पेभ्यः पानकेभ्यश्च पण्डितः॥

हस्ते दत्त्वा तु वै स्नेहाल्लवणं व्यञ्जनानि च॥

आयसेन च पात्रेण तद्वै रक्षांसि भुञ्जते॥

द्विजपात्रेषु दत्त्वान्नं तूष्णीं संकल्पमाचरेत्॥३९॥

दर्व्यादिस्थेन नो तेषां संबन्धो दृश्यते यतः ॥

यश्च शूकरवद्भुंक्ते यश्च पाणितले द्विजः ॥

न तदश्नंति पितरो यः सवाचं समश्नुते ॥ 7.1.206.४० ॥

द्विहायनस्य वत्सस्य विशंत्यास्यं यथा सुखम् ॥

तथा कुर्यात्प्रमाणेन पिण्डान्व्यासेन भाषितम् ॥ ४१ ॥

न स्त्री प्रचालयेत्तानि ज्ञानहीनो न चाव्रतः ॥

स्वयं पुत्रोऽथवा यस्य वाञ्छेदभ्युदयं परम् ॥ ४२ ॥

भाजनेषु च तिष्ठत्सु स्वस्तिं कुर्वन्ति ये द्विजाः ॥

तदन्नमसुरैर्भुक्तं निराशाः पितरो गताः ॥ ४३ ॥

अप्स्वेकं प्लावयेत्पिण्डमेकं पत्न्यै निवेदयेत् ॥

एकं वै जुहुयादग्नावेषा तु त्रिविधा गतिः ॥ ४४ ॥

छन्दोगं भोजयेच्छ्राद्धे वैश्वदेवे च बह्वृचम् ॥

पुष्टिकर्मण्यथाध्वर्युं शान्तिकर्मण्यथर्वणम् ॥ ४५ ॥

द्वौ देवेऽथर्वणौ विप्रौ प्राङ्मुखौ च निवेशयेत् ॥

पित्र्ये ह्युदङ्मुखान्कुर्याद्बह्वृचाध्वर्युसामगान् ॥ ४६ ॥

जात्यश्च सर्वा दातव्या मल्लिका श्वेतयूथिका ॥

जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम्॥ ४७ ॥

मधूकं रामठं चैव कर्पूरं मरिचं गुडम् ॥

श्राद्धकर्मणि शस्तानि सैंधवं त्रपुसं तथा ॥ ४८॥

ब्राह्मणः कम्बलो गावः सूर्योग्निरतिथिश्च वै ॥

तिला दर्भाश्च कालश्च नवैते कुतपाः स्मृताः ॥ ४९ ॥

आपद्यनग्नौ तीर्थे च चंद्रसूर्यग्रहे तथा ॥

नाचरेत्संग्रहे चैव तथैवास्तमुपागते ॥ 7.1.206.५० ॥

संशुद्धा स्याच्चतुर्थेऽह्नि स्नाता नारी रजस्वला ॥

दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्ध्यति ॥ ५१ ॥

द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ॥

आमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ॥ ५२ ॥

सर्पविप्रहतानां च दंष्ट्रिशृंगिसरीसृपैः ॥

आत्मनस्त्यागिनां चैव श्राद्धमेषां न कारयेत् ॥ ५३ ॥

चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युतादपि ॥

दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ॥ ५४ ॥

सर्वैरनुमतं कृत्वा ज्येष्ठेनैव च यत्कृतम् ॥

द्रव्येण च विभक्तेन सर्वैरेव कृतं भवेत् ॥ ॥ ५५ ॥

अमावास्यां पितृश्राद्धे मंथनं यस्तु कारयेत् ॥

तत्तक्रं मदिरातुल्यं घृतं गोमांसवत्स्मृतम् ॥ ५६ ॥

भुंजंति क्रमशः पूर्वे तथा पिंडाशिषो ऽपि च ॥

निमंत्रितो द्विजः श्राद्धे न शयीत स्त्रिया सह ॥ ५७ ॥

श्रादभुक्प्रातरुत्थाय प्रकुर्याद्दन्तधावनम् ॥

श्राद्धकर्ता न कुर्वीत दन्तानां धावनं बुधः ॥ ५८ ॥

वर्षेवर्षे तु यच्छ्राद्धं मातापित्रोर्मृतेऽहनि ॥

मलमासे न कर्तव्यं व्यासस्य वचनं यथा ॥ ५९ ॥

गर्भे वार्धुषिके प्रेते भृत्ये मासानुमासिके ॥

आब्दिके च तथा श्राद्धे नाधिमासो विधीयते ॥ 7.1.206.६० ॥

विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृतः ॥

आब्दिके पितृकार्ये तु चान्द्रो मासः प्रशस्यते ॥ ६१ ॥

यस्मिन्राशौ गते सूर्ये विपत्तिः स्याद्द्विजन्मनः ॥

तद्राशावेव कर्तव्यं पितृकार्यं मृतेऽहनि ॥ ६२ ॥

वषट्कारश्च होमश्च पर्व चाग्रायणं तथा ॥

मलमासेऽपि कर्तव्यं काम्या इष्टीर्विवर्जयेत् ॥ ६३ ॥

अग्न्याध्येयं प्रतिष्ठां च यज्ञदानव्रतानि च ॥

वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥ ६४ ॥

मांगल्यमभिषेकं च मलमासे विवर्जयेत् ॥

नित्यनैमित्तिके कुर्यात्प्रयतः सन्मलिम्लुचे ॥

तीर्थे स्नानं गज च्छायां प्रेतश्राद्धं तथैव च ॥ ६५ ॥

रसा यत्र प्रशस्यन्ते भोक्तारो बंधुगोत्रिणः ॥

राजवार्तादि संक्रंदो रक्षःश्राद्धस्य लक्षणम्॥ ६६ ॥

श्राद्धं कृत्वा परश्राद्धे यस्तु भुंक्ते च विह्वलः ॥

पतंति पितरस्तस्य लुप्तपिण्डोदकक्रियाः ॥६७॥

तैलमुद्वर्तनं स्नानं दन्तधावनमेव च ॥

क्लृप्तरोमनखेभ्यश्च दद्याद्गत्वापरेऽहनि ॥ ६८ ॥

निमन्त्रिता यथान्यायं हव्ये कव्ये द्विजोत्तमाः ॥

कथंचिदप्यतिक्रामेत्पापः शूकरतां व्रजेत् ॥ ६९ ॥

दैवे च पितृ श्राद्धे चाप्याशौचं जायते यदा ॥

आशौचान्तेऽथवा तत्र तेभ्यः श्राद्धं प्रदीयते ॥ 7.1.206.७० ॥

अथ श्राद्धावसाने तु आशिषस्तत्र दापयेत् ॥

दीर्घा नागास्तथा नद्यो विष्णोस्त्रीणि पदानि च ॥

एवमेषां प्रमाणेन दीर्घमायुरवाप्नुयाम् ॥ ७१ ॥

अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् ॥

ब्राह्मणस्य करे न्यस्ताः शिवा आपो भवन्तु नः ॥ ७२॥

लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे ॥

लक्ष्मीर्वसतु वासे मे सौमनस्यं ददातु मे ॥ ७३ ॥

अक्षतं चाऽस्तु मे पुण्यं शांतिः पुष्टिर्धृतिश्च मे ॥

यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम ॥ ७४ ॥

दक्षिणायां तु सर्वत्र बहुदेयं तथास्तु नः ॥

एवमस्त्विति तैर्वाच्यं मूर्ध्ना ग्राह्यं च तेन तत् ॥७५ ॥

पिंडमग्नौ सदा देयाद्भोगार्थी सततं नरः ॥

प्रजार्थं पत्न्यै वै दद्यान्मध्यमं मंत्रपूर्वकम् ॥ ७६ ॥

उत्तमां द्युतिमविच्छन्गोषु नित्यं प्रदापयेत् ॥

आज्ञामिच्छेद्यशः कीर्तिमप्सु नित्यं प्रवेशयेत् ॥ ७७ ॥

प्रार्थयन्दीर्घमायुश्च वायसेभ्यः प्रदापयेत् ॥

कुमारलोकमन्विच्छन्कुक्कुटेभ्यः प्रदापयेत् ॥ ७८ ॥

आकाशे प्रक्षिपेद्वापि स्थितो वा दक्षिणामुखः ॥

पितॄणां स्थानमाकाशं दक्षिणा चैव दिक्तथा ॥ ७९ ॥

नक्तं तु वर्जयेच्छ्राद्धं राहोरन्यत्र दर्शनात् ॥

सर्वस्वेनापि कर्तव्यं क्षिप्रं वै राहुदर्शनात् ॥ 7.1.206.८० ॥

उपरागे न कुर्याद्यः पंके गौरिव सीदति ॥

कुर्वाणस्तु तरेत्पापं सा च नौरिव सागरे ॥ ८१ ॥

कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्यवशालयः ॥

महायवा व्रीहियवास्तथैव च मसूरिकाः ॥ ८२ ॥

कृष्णाः श्वेताश्च वा ग्राह्याः श्राद्धकर्मणि सर्वदा ॥

बिल्वामलकमृद्वीकं पनसाम्रातदाडिमम् ॥ ८३ ॥

भव्यं पारापतं चैव खर्जूरं करमर्द्दकम् ॥

सकोरका बदर्यश्च तालकंदं तथा बिसम् ॥ ८४ ॥

तमालासनकंदं च मावेल्लं शतकंदली ॥

कालेयं कालशाकं च मुद्गान्नं च सुवर्चलम्॥८५॥

मांसं क्षीरं दधि शाकं व्योषं वेत्रांकुरस्तथा ॥

कट्फलं वज्रकं द्राक्षां लकुचं मोचमेव च ॥ ॥ ८६ ॥

प्रियामलकदुर्ग्रीवं तिंडुकं मधुसाह्वयम् ॥

वैकंकतं नालिकेरं शृङ्गाटकपरूषकम् ॥ ८७ ॥

पिप्पलीमरिचं चैव पटोली बृहतीफलम्॥

आरामस्य तु सीमाऽन्तः संभवं सर्वमेव तु ॥८८॥

एवमादीनि चान्यानि पुष्पाणि श्राद्धकर्मणि॥

मसूराः शतपुष्प्याश्च कुसुमं श्रीनिकेतनम् ॥८९॥

वर्या स्वातियवा नित्यं तथा वृषयवासकौ ॥

वंशा करीरा सुरसा मार्जिता भूतृणानि च ॥ 7.1.206.९० ॥

वर्जनीयानि वक्ष्यामि श्राद्धकर्मणि नित्यशः ॥

लशुनं गृंजनं चैव पलांडुं पिण्डमूलकम् ॥

मोगरं चात्र वैदेहं दीर्घमूलकमेव च ॥ ९१ ॥

दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे ॥

आसुरं तद्भवेच्छ्राद्धं पितृणां नोपतिष्ठते ॥ ९२ ॥

चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते नरः ॥

वृथा श्राद्धमवाप्नोति दाता च नरकं व्रजेत् ॥ ९३ ॥

लेखाप्रभृत्यथादित्ये मुहूर्तास्त्रय एव च ॥

प्रातस्तस्योत्तरं कालं भगमाहुर्विपश्चितः ॥ ९४ ॥

संगवस्त्रिमुहूर्तोऽयं मध्याह्नस्तु समन्ततः ॥

ततश्च त्रिमुहूर्ताश्च अपराह्णो विधीयते ॥ ९५ ॥

पञ्चमोऽथ दिनांशो यः स सायाह्न इति स्मृतः ॥ ९६ ॥

॥ तथा च श्रुतिः ॥ ॥

यदैवादित्योऽथ वसन्तो यदा संगविकोऽथ ग्रीष्मो यदा वा माध्यंदिनोऽथ वर्षा यदपराह्णोऽथ शरत् ॥

घदेवास्तमेत्यथ हेमन्त इति ॥ ९७ ॥

प्रारभ्य कुतपे श्राद्धे कुर्यादारोहणं बुधः ॥

विधिज्ञो विधिमास्थाय रोहिणं न तु लंघयेत् ॥ ९८ ॥

अष्टमो यो मुहूर्तश्च कुतपः स निगद्यते ॥

नवमो रौहिणः प्रोक्त इति श्राद्धविदो विदुः ॥ ९९ ॥

एकोद्दिष्टं तु मध्याह्नं प्रातर्वै जातकर्मणि ॥

पित्र्यार्थं निर्वपेत्पाकं वैश्वदेवार्थमेव च ॥ 7.1.206.१०० ॥

वैश्वदेवे न पित्र्यार्थं न पित्र्यं वैश्वदेविके ॥

कृत्वा श्राद्धं महादेवि ब्राह्मणांश्च विसर्ज्य च ॥ १०१ ॥

वैश्वदेवादिकं कर्म ततः कुर्याद्वरानने ॥

बहुहव्येन्धने चाग्नौ सुसमिद्धे विशेषतः ॥ १०२ ॥

विधूमे लेलिहाने च कुर्यात्कर्म प्रसिद्धये ॥

अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने ॥ ॥ १०३ ॥

यजमानो भवेदन्धः कुपुत्र इति निश्चितम् ॥

दुर्गन्धश्चैव कृष्णश्च नीलश्चैव विशेषतः ॥ १०४ ॥

भूमिं विगाहते यत्र तत्र विद्यात्पराभवम् ॥

अर्चिष्मान्पिंगलशिखः सर्पिःकांचनसप्रभः ॥ १०५ ॥

स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये ॥

अंजनाभ्यंजनं गंधान्मन्त्रप्रणयनं तथा ॥ १०६ ॥

काशैः पुनर्भवेत्कार्यं हयमेधफलं लभेत् ॥

अष्टजातिकपुष्पं च अञ्जनं नित्यमेव हि ॥ १०७ ॥

कृष्णेभ्यश्च तिलेभ्यश्च तैलं यत्नात्सुरक्षितम् ॥

चन्दनागरुणी चोभे तमालोशीरपद्मकम् ॥ १०८ ॥

धूपश्च गौग्गुलः श्रेष्ठस्तौरुष्को धूप एव च ॥

शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च ॥ १०९ ॥

गन्धवन्त्युपपन्नानि यानि चान्यानि कृत्स्नशः ॥

निशिगंधा जपा भिण्डिरूपकः सकुरंटकः ॥ 7.1.206.११० ॥

पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ॥

सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते ॥ १११ ॥

रजतस्य तथा किञ्चिद्दर्शनं पुण्यदायकम् ॥

कृष्णाजिनस्य सान्निध्यं दर्शनं दानमेव च ॥ ११२ ॥

रक्षोघ्नं चैव वर्चस्यं पशून्पुत्रांश्च तारयेत् ॥

अथ मन्त्रं प्रवक्ष्यामि अमृतं ब्रह्मनिर्मितम् ॥ ११३ ॥

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ॥

नमः स्वाहायै स्वधायै नित्यमेव नमोनमः ॥ ११४ ॥

आद्यावसाने श्राद्धस्य त्रिरावर्तमिमं जपन् ॥

अश्वमेधफलं ह्येतद्विप्रैः संज्ञाय पूजितम् ॥११५ ॥

पिण्डनिर्वपणे वापि जपेदेनं समाहितः ॥

पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥ ११६ ॥

सप्तार्चिषं प्रवक्ष्यामि सर्वकामशुभप्रदम् ॥ ११७ ॥

अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसाम् ॥

नमस्यामि सदा तेषां ध्यायिनां दिव्यचक्षुषाम् ॥ ११८ ॥

इन्द्रादीनां च नेतारो दक्षमारीचयस्तया ॥

तान्नमस्यामि सर्वान्वै पितॄंश्चैवौषधीस्तथा ॥ ११९ ॥

नक्षत्राणां ग्रहाणां च वाय्वग्न्योश्च पितॄनपि ॥

द्यावापृथिव्योश्च सदा नमस्यामि कृताञ्जलिः ॥ 7.1.206.१२० ॥

नमः पितृभ्यः सप्तभ्यो नमो लोकेषु सप्तसु ॥

स्वयंभुवे नमस्यामो ब्रह्मणे योगचक्षुषे ॥१२१॥

एतत्त्वदुक्तं सप्तर्षिब्रह्मर्षिगणसेवितम् ॥

पवित्रं परमं ह्येतच्छ्रीमद्रक्षोविनाशनम् ॥ १२२॥

अनेन विधिना युक्तस्त्रीन्वारांस्तु जपेन्नरः ॥

भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः ॥१२३॥

सप्तार्चिषं जपेद्यस्तु नित्यमेव समाहितः ॥

स तु सप्तसमुद्रायाः पृथिव्या एकराड्भवेत् ॥१२४॥

श्राद्धकल्पं पठेद्यो वै स भवेत्पंक्तिपावनः ॥

अष्टादशानां विद्यानां स च वै पारगः स्मृतः ॥ १२५ ॥

पूजां पुष्टिं स्मृतिं मेधां राज्यमारोग्यमेव च ॥

प्रीता नित्यं प्रयच्छन्ति मानुषाणां पितामहाः ॥ १२६ ॥

एवं प्रभासक्षेत्रे स सरस्वत्यब्धिसंगमे ॥

कुर्याच्छ्राद्धं विधानेन प्रभासे चैव भामिनि ॥ १२७ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये सरस्वत्यब्धिसंगमे श्राद्धकल्पे श्राद्धविधिवर्णनंनाम षडुत्तरद्विशततमोऽध्यायः ॥ २०६ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 207

॥ ईश्वर उवाच ॥ ॥

॥ ईश्वर उवाच ॥ ॥

अतः परं प्रवक्ष्यामि श्राद्धदानान्यनुक्रमात् ॥

तारणाय च भूतानां सरस्वत्यब्धिसंगमे ॥ १ ॥

लोके श्रेष्ठतमं सर्वं ह्यात्मनश्चापि यत्प्रियम् ॥

सर्वं पितॄणां दातव्यं तदेवाक्षय्यमिच्छताम् ॥ २ ॥

जांबूनदमयं दिव्यं विमानं सूर्यसन्निभम् ॥

दिव्याप्सरोभिः संकीर्णमन्नदो लभतेऽक्षयम् ॥ ३ ॥

आच्छादनं तु यो दद्यादहतं श्राद्धकर्मणि ॥

आयुः प्रकाशमैश्वर्यं रूपं तु लभते च सः ॥ ४ ॥

कमण्डलुं च यो दद्याद्ब्राह्मणे वेदपारगे ॥

मधुक्षीरस्रवा धेनुर्दातारमनुगच्छति ॥ ५ ॥

यः श्राद्धे अभयं दद्यात्प्राणिनां जीवितैषिणाम् ॥

अश्वदानसहस्रेण रथदानशतेन च ॥

दन्तिनां च सहस्रेण अभयं च विशिष्यते ॥ ६ ॥

यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा ॥

क्षिप्रं प्राप्नोति तत्सर्वं पितृभक्तस्तु मानवः ॥ ७ ॥

पितरः सर्वलोकेषु तिथिकालेषु देवताः ॥

सर्वे पुरुषमायांति निपानमिव धेनवः ॥ ८ ॥

मा स्म ते प्रतिगच्छेयुः पर्वकाले ह्यपूजिताः ॥

मोघास्तेषां भवन्त्वाशाः परत्रेह च मा क्वचित् ॥ ९ ॥

सरस्वत्यास्तु सान्निध्यं यस्त्वेकं भोजयेद्द्विजम् ॥

कोटिभोज्यफलं तस्य जायते नात्र संशयः ॥ 7.1.207.१० ॥

अमावास्यां नरो यस्तु परान्नमुपभुञ्जते ॥

तस्य मासकृतं पुण्यमन्नदातुः प्रजायते ॥ ११ ॥

षण्मासमयने भुंक्ते त्रीन्मासान्विषुवे स्मृतम् ॥

वर्षैर्द्वादशभिश्चैव यत्पुण्यं समुपार्जितम् ॥

तत्सर्वं विलयं याति भुक्त्वा सूर्येन्दुसंप्लवे ॥ १२ ॥

साग्रं मासं रवेः क्रान्तावाद्यश्राद्धे त्रिवत्सरम् ॥

मासिकेऽप्यथ वर्षस्य षण्मासे त्वर्धवत्सरम् ॥ १३ ॥

तथा संचयनश्राद्धे जातिजन्मकृतं नृणाम् ॥

मृत शय्याप्रतिग्राही वेदस्यैव च विक्रयी ॥

ब्रह्मस्वहारी च नरस्तस्य शुद्धिर्न विद्यते। ॥ १४ ॥

तडागानां सहस्रेण ह्यश्वमेधशतेन च ॥

गवां कोटि प्रदानेन भूमिहर्ता न शुद्ध्यति ॥ १५ ॥

सुवर्णमाषं गामेकां भूमेरप्यर्धमंगुलम् ॥

हरन्नरकमाप्नोति यावदाभूतसंप्लवम् ॥ १६ ॥

ब्रह्महत्या सुरापानं दरिद्रस्य तु यद्धनम् ॥

गुरोः पत्नी हिरण्यं च स्वर्गस्थमपि पातयेत्। ॥ १७ ॥

सहस्रसंमिता धेनुरनड्वान्दश धेनवः ॥

दशानडुत्समं यानं दशयानसमो हयः ॥ १८ ॥

दशहयसमा कन्या भूमिदानं ततोऽधिकम् ॥

तस्मात्सर्वप्रयत्नेन विक्रयं नैव कारयेत् ॥ १९ ॥

विशेषतो महाक्षेत्रे सर्वपातकनाशने ॥

चितिकाष्ठं च वै स्पृष्ट्वा यज्ञयूपांस्तथैव च ॥

वेदविक्रयकर्तारं स्पृष्ट्वा स्नानं विधीयते ॥ 7.1.207.२० ॥

आदेशं पठते यस्तु आदेशं च ददाति यः ॥

द्वावेतौ पापकर्माणौ पातालतलवासिनौ ॥ २१ ॥

आदेशं पठते यस्तु राजद्वारे तु मानवः ॥

सोऽपि देवि भवेद्वृक्ष ऊषरे कंटकावृतः ॥

स्थितो वै नृपतिद्वारि यः कुर्याद्वेदविक्रयम् ॥२२॥

ब्रह्महत्यासमं पापं न भूतं न भविष्यति ॥

वरं कुर्वन्ध्रुवं देवि न कुर्याद्वेदविक्रयम् ॥२३॥

हत्वा गाश्च वरं मांसं भक्षयीत द्विजाधमः ॥

वरं जीवेत्समं म्लेच्छैर्न कुर्याद्वेदविक्रयम् ॥ २४ ॥

प्रत्यक्षोक्तिः प्रत्ययश्च प्रश्नपूर्वः प्रतिग्रहः ॥

याजनाऽध्यापने वादः षड्विधो वेदविक्रयः ॥ २५ ॥

वेदाक्षराणि यावन्ति नियुंक्ते स्वार्थकारणात् ॥

तावतीर्भ्रूणहत्या वै प्राप्नुयाद्वेदविक्रयी ॥ २६ ॥

वेदानुयोगाद्यो दद्याद्ब्राह्मणाय प्रतिग्रहम् ॥

स पूर्वं नरकं याति ब्राह्मणस्तदनन्तरम् ॥ २७ ॥

वैश्वदेवेन हीना ये हीनाश्चातिथ्यतोऽपि ये ॥

कर्मणा सर्ववृषला वेदयुक्ता ह्यपि द्विजाः ॥ २८ ॥

येषामध्ययनं नास्ति ये च केचिदनग्नयः ॥

कुलं वाऽश्रोत्रियं येषां ते सर्वे शूद्रजातयः ॥ २९ ॥

मृतेऽहनि पितुर्यस्तु न कुर्याच्छ्राद्धमादरात् ॥

मातुश्चैव वरारोहे स द्विजः शूद्रसंनिभः ॥ 7.1.207.३० ॥

मृतके यस्तु भुञ्जीत गृहीतशशिभास्करे ॥

गजच्छायासु यः कश्चित्तं च शूद्रवदाचरेत् ॥ ३१ ॥

ब्रह्मचारिणि यज्ञे च यतौ शिल्पिनि दीक्षिते ॥

यज्ञे विवाहे सत्रे च सूतकं न कदाचन ॥ ३२ ॥

गोरक्षकान्वणिजकांस्तथा कारुकुशीलवान् ॥

स्पृश्यान्वार्धुषिकांश्चैव विप्रान्शूद्रवदाचरेत् ॥ ३३ ॥

ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु ॥

दाम्भिको दुष्कृतप्रायः स च शूद्रसमः स्मृतः ॥ ३४ ॥

अस्नाताशी मलं भुंक्ते अजापी पूयशोणितम् ॥

अहुत्वा तु कृमीन्भुंक्ते अदत्त्वा विषभोजनम् ॥ ३५ ॥

परान्नेन तु भुक्तेन मिथुनं योऽधिगच्छति ॥

यस्यान्नं तस्य ते पुत्रा अन्नाच्छुक्रं प्रवर्तते ॥ ३६ ॥

राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ॥

आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ॥ ३७ ॥

कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य च ॥

गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥ ३८ ॥

पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् ॥

विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥ ३९ ॥

गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः ॥

नायंत्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥ 7.1.207.४० ॥

सद्यः पतति मांसेन लाक्षया लवणेन च ॥

त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ ४१ ॥

रसा रसैर्नियंतव्या न त्वेव लवणं रसैः ॥

कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥ ४२ ॥

भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः ॥

कृमिभूतः स विष्ठायां पितृभिः सह मज्जति ॥ ४३ ॥

अपूपश्च हिरण्यं च गामश्वं पृथिवीं तिलान् ॥

अविद्वान्प्रतिगृह्णाति भस्मीभवति काष्ठवत् ॥४४॥

हिरण्यमायु रत्नं च भूर्गौश्चाकर्षतस्तनुम् ॥

अश्वश्चक्षुस्त्वचं वासो घृतं तेजस्तिलाः प्रजाः ॥ ४५ ॥ तिल

अग्निहोत्री तपस्वी च क्षणवान्क्रियते यदि ॥

अग्निहोत्रं तपश्चैव सर्वं तद्धनिनो धनम् ॥ ४६ ॥

सोमविक्रयणे विष्ठा भेषजे पूयशोणितम् ॥

नष्टं देवलके दानं ह्यप्रतिष्ठं च वार्धुके ॥ ४७ ॥

देवार्चनपरो विप्रो वित्तार्थी भुवनत्रये ॥

असौ देवलकोनाम हव्यकव्येषु गर्हितः ॥ ४८ ॥

भ्रातुर्मृतस्यभायायां यो गच्छेत्कामपूर्वकम् ॥

धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ ४९ ॥

दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ॥

परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ 7.1.207.५० ॥

यो नरोऽन्यस्य वासांसि कूपोद्यानगृहाणि च ॥

अदत्तान्युपयुंजानः स तत्पापतुरीयभाक् ॥ ५१ ॥

आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते ॥

दातुर्यद्दुष्कृतं किञ्चित्तत्सर्वं प्रतिपद्यते ॥ ५२ ॥

ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा ॥

सत्यानृताभ्यां जीवेत न श्ववृत्त्या कथंचन ॥ ५३ ॥

भक्ष्यं नित्यमृतं ज्ञेयममृतं स्यादयाचितम् ॥

मृतं तु वृद्ध्याजीवित्वं प्रमृतं कर्षणं स्मृतम् ॥ ५४ ॥

सत्यानृतं च वाणिज्यं तेन चैवोपजीव्यते ॥

सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत ॥ ५५ ॥

विप्रयोनिं समासाद्य संकरं परिवर्जयेत् ॥

मानुष्यं दुर्लभं लोके ब्राह्मण्यमधिकं ततः ॥ ५६ ॥

एकशय्यासनं पक्तिर्भाण्डपक्वान्नमिश्रणम् ॥

याजनाध्यापनं योनिस्तथा च सह भोजनम् ॥

नवधा संकरः प्रोक्तो न कर्तव्योऽधमैः सह ॥ ५७ ॥

अजीवन्कर्मणा स्वेन विप्रः क्षात्त्रं समाश्रयेत् ॥

वैश्यकर्माऽथवा कुर्याद्वार्षलं परिवर्जयेत् ॥ ५८ ॥

कुसीदं कृषिवाणिज्यं प्रकुर्वीत स्वयं कृतम् ॥

आपत्काले स्वयं कुर्वन्स्नानेन स्पृश्यते द्विजः ॥ ॥५९॥

लब्धलाभः पितॄन्देवान्ब्रांह्मणांश्चैव तर्पयेत् ॥

ते तृप्तास्तस्य तत्पापं शमयंति न संशयः ॥7.1.207.६०॥

जलगोशकटारामयाञ्चावृद्धिवणिक्क्रियाः ॥

अनूपं पर्वतो राजा दुर्भिक्षे जीविका स्मृताः ॥ ६१ ॥

असतोऽपि समादाय साधुभ्यो यः प्रयच्छति ॥

धनं स्वामिनमात्मानं संतारयति दुस्तरात् ॥ ६२ ॥

शूद्रे समगुणं दानं वैश्ये तद्द्विगुणं स्मृतम् ॥

श्रोत्रिये तच्च साहस्रमनन्तं चाग्निहोत्रिके ॥ ६३ ॥

ब्राह्मणातिक्रमो नास्ति नाचरेद्यो व्यवस्थितिम् ॥

ज्वलंतमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ ६४ ॥

विद्यातपोभ्यां हीनेन नैव ग्राह्यः प्रतिग्रहः ॥

गृह्णन्प्रदातारमधो नयत्यात्मानमेव च ॥ ६५ ॥

तस्माच्छ्रोत्रिय एवार्हो गुणवाञ्छीलवाञ्छुचिः ॥

अव्यंगस्तत्र निर्दोषः पात्राणां परमं स्मृतम् ॥ ६६ ॥

कपालस्थं यथा तोयं श्वदृतौ च यथा पयः ॥

दूषितं स्थानदोषेण वृत्तहीने तथा श्रुतम् ॥ ६७ ॥

दत्तं पात्रमतिक्रम्य यदपात्रे प्रतिग्रहः ॥

तद्दत्तं गामतिक्रम्य गर्दभस्य गवाह्निकम् ॥ ६८ ॥

वृत्तं तस्मात्तु संरक्षेद्वित्तमेति गतं पुनः ॥

अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥ ६९ ॥

प्रथमं तु गुरौ दानं दत्त्वा श्रेष्ठमनुक्रमात् ॥

ततोऽन्येषां तु विप्राणां दद्यात्पात्रानुरूपतः ॥ 7.1.207.७० ॥

गुरौ च दत्तं यद्दानं दत्तं पात्रेषु मानवैः ॥

निष्फलं तद्भवेत्प्रेत्य यात्युताधोगतिं प्रति ॥ ७१ ॥

अवमानं गुरोः कृत्वा कोपयित्वा तु दुर्मतिः ॥

गुर्वमानहतो मूढो न शांतिमधि गच्छति ॥ ७२ ॥

गुरोरभावे तत्पुत्रं तद्भार्यां तत्सुतं विना ॥

पुत्रं प्रपौत्रं दौहित्रं ह्यन्यं वा तत्कुलोद्भवम् ॥ ७३ ॥

पंचयोजनमध्ये तु श्रूयते स्वगुरुर्यदा ॥

तदा नातिक्रमेद्दानं दद्यात्पात्रेषु मानवः ॥ ७४ ॥

यतिश्चेत्प्रार्थयेल्लोभाद्दीयमानं प्रतिग्रहम् ॥

न तस्य देयं विद्वद्भिर्न लोभः शस्यते यतेः ॥ ७५ ॥

धनं प्राप्य यतिर्लोके मौनं ज्ञानं च नाभ्यसेत् ॥

उपभोगं तु दानेन जीवितं ब्रह्मचर्यया ॥ ७६ ॥

कुले जन्म च दीक्षाभिर्ये गतास्ते नरोत्तमाः॥

सौभाग्यमाप्नुयाल्लोके नूनं रसविवर्जनात्॥७७॥

आयुष्मत्यः प्रजाः सर्वा भवन्त्यामिषवर्जनात्॥७८॥

चीरवल्कलधृक्त्यक्त्वा वस्त्राण्याभरणानि च॥

नागाधिपत्यं प्राप्नोति उपवासेन मानवः॥७९॥

क्रीडते सत्यवाक्येन स्वर्गे वै देवतैः सह॥

अहिंसया तथाऽऽरोग्यं दानात्कीर्तिमनुक्रमात्॥7.1.207.८०॥

द्विजशुश्रूषया राज्यं द्विजत्वं चातिपुष्कलम्॥

दिव्यरूपमवाप्नोति देवशुश्रूषया नरः॥८१॥

अन्नदानाद्भवेत्तृप्तिः सर्वकामैरनुत्तमैः ॥

दीपस्य तु प्रदानेन चक्षुष्माञ्जायते नरः ॥ ८२ ॥

तुष्टिर्भवेत्सर्वकालं प्रदानाद्गन्धमाल्ययोः ॥

लवणस्य तु दातारस्तिलानां सर्पिषस्तथा ॥

तेजस्विनोऽपि जायन्ते भोगिनश्चिरजीविनः ॥ ८३ ॥

सुचित्रवस्त्राभरणोपधानं दद्यान्नरो यः शयनं द्विजाय ॥

रूपान्वितां पक्ष्मवतीं मनोज्ञां भार्यामरालोपचितां लभेत्सः ॥ ८४ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्राद्धकल्पे पात्रापात्रविचारवर्णनंनाम सप्तोत्तरद्विशततमोऽध्यायः ॥ २०७ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 208

॥ देव्युवाच ॥ ॥

इदं देयमिदं देयमिति प्रोक्तं तु यच्छ्रुतौ ॥

दानादानविशेषांस्तु श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥

कानि दानानि शस्तानि कस्मै देयानि कान्यपि ॥

कालं देशं च पात्रं च सर्वमाचक्ष्व मे विभो ॥ २ ॥

॥ ईश्वर उवाच ॥ ॥

वृथा जन्मानि चत्वारि वृथा दानानि षोडश ॥

सुजन्मानि च चत्वारि महादानानि षोडश ॥ ३ ॥

॥ देव्युवाच॥ ॥

एतद्विस्तरतो ब्रूहि देवदेवजगत्पते ॥ ४ ॥

॥ ईश्वर उवाच ॥ ॥

वृथा जन्मानि चत्वारि यानि तानि निबोध मे ॥

कुपुत्राणां वृथा जन्म ये च धर्मबहिष्कृताः ॥

प्रवासं ये च गच्छंति परदाररताः सदा ॥ ५ ॥

परपाकं च येऽश्नंति पर दाररताश्च ये ॥

अप्रत्याख्यं वृथा दानं सदोषं च तथा प्रिये ॥ ६ ॥

आरूढपतिते चैव अन्यायोपार्जितं धनम् ॥

वृथा ब्रह्महने दानं पतिते तस्करे तथा ॥ ७ ॥

गुरोश्चाप्रीतिजनने कृतघ्ने ग्रामयाजके ॥

ब्रह्मबन्धौ च यद्दत्तं यद्दत्तं वृषलीपतौ ॥ ८ ॥

वेदविक्रयिणे चैव यस्य चोपपतिर्गृहे ॥

स्त्रीनिर्जिते च यद्दत्तं वृथादानानि षोडश ॥ ९ ॥

सुजन्म च सुपुत्राणां ये च धर्मे रता नराः ॥

प्रवासं न च गच्छंति परदारपराङ्मुखाः ॥ 7.1.208.१० ॥

गावः सुवर्णं रजतं रत्नानि च सरस्वती ॥

तिलाः कन्या गजोश्वश्च शय्या वस्त्रं तथा मही ॥ ११ ॥

धान्यं पयश्च च्छत्रं च गृहं चोपस्करान्वितम्॥

एतान्येव महादेवि महादानानि षोडश ॥ १२ ॥

गर्वावृतस्तु यो दद्याद्भयात्क्रोधात्तथैव च ॥

भुंक्ते दानफलं तद्धि गर्भस्थो नात्र संशय ॥ १३ ॥

बालत्वेऽपि च सोऽश्नाति यद्दत्तं दंभकारणात् ॥

मन्युना मंतुना चैव तथैवार्थस्य कारणात् ॥ १४ ॥

देशे काले च पात्रे च शुद्धेन मनसा तथा ॥

न्यायार्जितं च यो दद्याद्यौवने स तदश्नुते ॥ १५ ॥

अन्यायेनार्जितं द्रव्यमपात्रे प्रतिपादितम् ॥

क्लिष्टं च विधिहीनं च वृद्धभावे तदश्नुते॥१६॥

तस्माद्देशे च काले च सुपात्रे विधिना नरः॥

शुभार्जितं प्रयुञ्जीत श्रद्धया शाठ्यवर्जितः॥ १७॥

स्वाध्यायाढ्यं योगवंतं प्रशांतं पुराणज्ञं पापभीरुं वदान्यम्॥

स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं व्रतैः क्रान्तं तादृशं पात्रमाहुः॥१८॥

सत्यं दमस्तपः शौचं सन्तोषोऽनैर्ष्यमार्जवम् ॥

ज्ञानं शमो दया दानमेतत्पात्रस्य लक्षणम् ॥ १९ ॥

एवंविधे तु यत्पात्रे गामेकां तु प्रयच्छति ॥

समानवत्सां कपिलां धेनुं सर्वगुणान्विताम् ॥ 7.1.208.२० ॥

रौप्यपादां स्वर्णशृङ्गीं रुद्रलोके महीयते ॥

एकां गां दशगुर्दद्याद्गोशती च तथा दश ॥ २१ ॥

शतं सहस्रगुर्दद्यात्सर्वे समफलाः स्मृताः ॥

सुशीला सोमसंपन्ना तरुणी च पयस्विनी ॥

सवत्सा न्यायलब्धा च प्रदेया ब्राह्मणाय गौः ॥ २२ ॥

वंध्या सरोगा हीनांगी दुष्टा वृद्धा मृतप्रजा ॥

अन्यायलब्धा दूरस्था नेदृशी गां प्रदापयेत् ॥ २३ ॥

यो हीदृशीं गां ददाति देवोद्देशेन मानवः ॥

प्रत्युताधोगतिं याति क्लिश्यते च महेश्वरि ॥ २४ ॥

रुष्टा क्लिष्टा दुर्बला व्याधिता च न दातव्या या च मूल्यैरदत्तैः ॥

लेशो विप्रेभ्यो यया जायते वै तस्या दातुश्चाफलाः सर्वलोकाः ॥ २५ ॥

अतिथये प्रशान्ताय सीदते चाहिताग्नये ॥

श्रोत्रियाय तथैकापि दत्ता बहुगुणा भवेत् ॥ २६ ॥

गां विक्रीणाति चेद्देवि ब्राह्मणो ज्ञानदुर्बलः ॥

नासौ प्रशस्यते पात्रं ब्राह्मणो नैव स स्मृतः ॥ २७ ॥

बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः ॥

विभक्ता दक्षिणा ह्येषा दातारं नोपतिष्ठति ॥ २८ ॥

प्रासादा यत्र सौवर्णाः शय्या रव्रोज्ज्वलास्तथा ॥

वराश्चाप्सरसो यत्र तत्र गच्छंति गोप्रदाः ॥ २९ ॥

नास्ति भूमिसमं दानं नास्ति गंगासमा सरित् ॥

नास्ति सत्यात्परो धर्मो नान्यो देवो महेश्वरात् ॥ ॥ 7.1.208.३० ॥

उच्चैः पाषाणयुक्ता च न समा नैव चोषरा ॥

न नदीकूलविकटा भूमिर्देया कदाचन ॥ ३१ ॥

षष्टिवर्षसहस्राणि स्वर्गे वसति भूमिदः ॥

आच्छेत्ता चानुमंता च तान्येव नरकं व्रजेत् ॥३२॥

कुरुते पुरुषः पापं यत्किञ्चिद्वृत्तिकर्शितः ॥

अपि गोचर्ममात्रेण भूमिदानेन शुद्ध्यति ॥ ३३ ॥

छत्रं शय्यासनं शंखो गजाश्वाश्चामराः स्त्रियः ॥

भूमिश्चैषां प्रदानस्य शिवलोकः फलं स्मृतम् ॥ ३४ ॥

आदित्येऽहनि संक्रांतौ ग्रहणे चन्द्र सूर्ययोः ॥

पारणैश्चैव गोदाने नोपोष्यः पौत्रवान्गृही ॥ ३५ ॥

इन्दुक्षये तु संक्रान्त्यामेकादश्यां शते कृते ॥

उपवासं न कुर्वीत यदीच्छेत्संततिं ध्रुवम्॥ ३६ ॥

यथा शुक्ला तथा कृष्णा न विशेषोऽस्ति कश्चन ॥

तथापि वर्धते धर्मः शुक्लायामेव सर्वदा ॥ ३७ ॥

दशम्येकादशीविद्धा द्वादशी च क्षयं गता ॥

नक्तं तत्र प्रकुर्वीत नोपवासो विधीयते ॥ ३८ ॥

उपोष्यैकादशीं यस्तु त्रयोदश्यां तु पारणम् ॥

करोति तस्य नश्येत्तु द्वादश दद्वादशीफलम्॥३९॥

उपवासे तथा श्राद्धे न खादेद्दन्तधावनम्॥

दन्तानां काष्ठसंगाच्च हन्ति सप्तकुलानि वै॥7.1.208.४०॥

दर्शं च पौर्णमासं च पितुः सांवत्सरं दिनम्॥

पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते ॥ ४१ ॥

हानिश्च संततेः प्रोक्ता दौर्भाग्यं समवाप्नुयात् ॥

द्रव्याभावेथ श्राद्धस्य विधिं वक्ष्यामि तत्त्वतः ॥ ४२ ॥

एकेनापि हि विप्रेण षट्पिण्डं श्राद्धमाचरेत् ॥

षडर्घ्यान्पारयेत्तत्र तेभ्यो दद्याद्यथाविधि ॥ ४३ ॥

पिता भुंक्ते द्विज करे मुखे भुंक्ते पितामहः ॥

प्रपितामहस्तालुस्थः कण्ठे मातामहः स्मृतः ॥ ४४ ॥

प्रमातामहस्तु हृदये वृद्धो नाभौ तु संस्थितः ॥

अलाभे ब्राह्मणस्यैव कुशः कार्यो द्विजः प्रिये ॥

इदं सर्वपुराणेभ्यः सारमुद्धत्य चोच्यते ॥ ४५ ॥

न चैतन्नास्तिके देयं पिशुने वेदनिन्दके ॥

प्रातःप्रातरिदं श्राव्यं पूजयित्वा महेश्वरम्॥ ४६ ॥

कुलीनं सर्वशास्त्रज्ञं यथा देवं महेश्वरम् ॥

अस्य धर्मस्य वक्तारं छत्रं दद्यात्प्रपूजयेत् ॥ ४७ ॥

अपूज्याद्वाचकाद्यस्तु श्लोकमेकं शृणोति च ॥

नासौ पुण्यमवाप्नोति शास्त्रचौरः स्मृतो हि सः ॥ ४८ ॥

तस्मात्सर्वप्रयत्नेन पूजयेद्वाचकं बुधः ॥

अन्यथा निष्फलं तस्य पुस्तकश्रवणं भवेत्॥ ४९ ॥

यस्यैव तिष्ठते गेहे शास्त्रमेतत्सदुर्लभम् ॥

तस्य देवि गृहे तीर्थैः सह तिष्ठेच्छिवः स्वयम् ॥ 7.1.208.५० ॥

बहुनात्र किमुक्तेन भवेन्मोक्षस्य भाजनम् ॥

न चैतत्पिशुने देयं नास्तिके दंभसंयुते । ५१ ॥

इदं शान्ताय दान्ताय देयं शैवद्विजन्मने ॥ ५२ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्राद्धकल्पे दानपात्रब्राह्मणमाहात्म्यवर्णनंनामाष्टोत्तरद्विशततमो ऽध्यायः ॥ २०८ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 209

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि मार्कण्डेयेशमुत्तमम् ॥

तस्मादुत्तरदिग्भागे मार्कण्डेन प्रतिष्ठितम् ॥१॥

सावित्र्याः पूर्वभागे तु नातिदूरे व्यवस्थितम् ॥

महर्षिरभवत्पूर्वं मार्कण्डेय इति श्रुतः ॥ २ ॥

अजरश्चामरश्चैव प्रसादात्पद्मयोनिनः ॥

स गत्वा तत्र विप्रेन्द्रो देवदेवस्य शूलिनः ॥

लिंगं तु स्थापयामास ज्ञात्वा तत्क्षेत्रमुत्तमम् ॥ ३ ॥

स तं पूज्य विधानेन स्थित्वा दक्षिणतो मुनिः ॥

पद्मासनधरो भूत्वा ध्यानावस्थस्तदाऽभवत् ॥ ४ ॥

तस्य ध्यानरतस्यैव प्रयुतान्यर्बुदानि च ॥

युगानां समतीतानि न जानाति मुनीश्वरः ॥ ५ ॥

अथ लोपं समापन्नः प्रासादः शांकरः स्थितः ॥

कालेन महता देवि पांसुभिर्मारुतोद्भवैः ॥ ६ ॥

कस्यचित्त्वथ कालस्य प्रबुद्धो मुनिसत्तमः ॥

अपश्यत्पांसुभिर्व्याप्तं तत्सर्वं शिवमन्दिरम् ॥ ७ ॥

ततः कृच्छ्रात्स निष्क्रान्तः खनित्वा मुनिपुंगवः ॥

अकरोत्सुमहाद्वारं पूजार्थं तस्य भामिनि ॥ ८ ॥

प्रविश्य तत्र यो भक्त्या पूजयेद्वृषभध्वजम् ॥

स याति परमं स्थानं यत्र देवो महेश्वरः ॥ ॥ ९ ॥

देव्युवाच ॥

अमरत्वं कथं प्राप्तो मार्कंण्डो मुनिसत्तमः ॥

अभवत्कौतुकं ह्येतत्तस्मात्त्वं वक्तुमर्हसि ॥ 7.1.209.१० ॥

अमरत्वं यतो नास्ति प्राणिनां भुवि शंकर ॥

देवानामपि कल्पांते स कथं न मृतो मुनिः ॥ ११ ॥

॥ ईश्वर उवाच ॥ ॥

अथातस्त्वां प्रव क्ष्यामि यथासावमरोऽभवत् ॥

आसीन्मुनिः पुराकल्पे मृकण्ड इति विश्रुतः ॥ १२ ॥

भृगोः पुत्रो महाभागः सभार्यस्तपसि स्थितः ॥

तस्य पुत्रस्तदा जातो वसतस्तु वनांतरे ॥ १३ ॥

स पाञ्चवार्षिको भूत्वा बाल एव गुणान्वितः ॥

कस्यचित्त्वथ कालस्य ज्ञानी तत्र समागतः ॥१४॥

तेन दृष्टस्तदा बालः प्रांगणे विचरन्प्रिये ॥

स्मृत्वाऽहसच्चिरं कालं भाव्यर्थं प्रति नोदितः ॥ १५ ॥

तस्य पित्रा स दृष्टस्तु सामुद्रज्ञो विदुत्तमः ॥

हास्यस्य कारणं पृष्टो विस्मयान्वितचेतसा ॥ १६ ॥

कस्मान्मे सुतमालोक्य स्मितं विप्र कृतं त्वया ॥

तत्र मे कारणं ब्रह्मन्यथावद्वक्तुमर्हसि ॥ ॥ १७ ॥

इति तस्य वचः श्रुत्वा ज्ञानी विप्रो वचोऽब्रवीत् ॥ १८ ॥

अयं पुत्रस्तव मुने सर्वलक्षणसंयुतः ॥

अद्यप्रभृति षण्मासमध्ये मृत्युमवाप्स्यति ॥ १९ ॥

यदि जीवेत्पुनरयं चिरायुर्वै भविष्यति ॥

अतो मया कृतं हास्यं विचित्रा कर्मणो गतिः ॥ 7.1.209.२० ॥

एतच्छ्रुत्वा वचो रौद्रं ज्ञानिना समुदाहृतम् ॥

व्रतोपनयनं चक्रे बालकस्य पिता तदा ॥ २१ ॥

आह चैनमृषिः पुत्रं दृष्ट्वा ब्राह्मणमागतम्॥

अभिवाद्यास्त्रयो वर्णास्ततः श्रेयो ह्यवाप्स्यसि ॥ २२ ॥

एवमुक्तः स वै विप्रः करोत्येवाभिवादनम् ॥

न वर्णावरजं वेत्ति बालभावाद्वरानने ॥ २३ ॥

पंचमासा ह्यतिक्रान्ता दिवसाः पञ्चविंशतिः ॥

एतस्मिन्नेव काले तु प्राप्ताः सप्तर्षयोऽमलाः ॥ २४ ॥

तीर्थयात्राप्रसंगेन तेन मार्गेण भामिनि ॥

कालेन तेन सर्वेऽथ यथावदभिवादनैः ॥

आयुष्मान्भव तैरुक्तः स बालो दण्डवल्कली ॥ २५ ॥

उक्त्वा ते तु पुनर्बालं वीक्ष्य वै क्षीणजीवितम् ॥

दिनानि पंच ते ह्यायुर्ज्ञात्वा भीतास्ततोऽनृतात् ॥ २६ ॥

ब्रह्मचारिणमादाय गतास्ते ब्रह्मणोऽन्तिके ॥

प्रतिमुच्याग्रतो बालं प्रणेमुस्ते पितामहम् ॥ २७ ॥

ततस्तेनापि बालेन ब्रह्मा चैवाभिवादितः ॥

चिरायुर्ब्रह्मणा बालः प्रोक्तोऽसावृषिसन्निधौ ॥ २८ ॥

ततस्ते मुनयः प्रीताः श्रुत्वा वाक्यं पितामहात् ॥

पितामहस्तु तान्दृष्ट्वा ऋषीन्प्रोवाच विस्मितान् ॥

केन कार्येण वाऽऽयाताः केन बालो निवेदितः ॥२९॥

॥ ऋषय ऊचुः ॥ ॥

भृगोः पुत्रो मृकण्डस्तु क्षीणायुस्तस्य बालकः ॥

अकालेन पिता ज्ञात्वा बबंधास्य च मेखलाम् ॥ 7.1.209.३० ॥

यज्ञोपवीतं च ततस्तेन विप्रेण बोधितः ॥

यं कञ्चिद्द्रक्ष्यसे लोके भ्रमन्तं भूतले द्विजम् ॥ ३१ ॥

तस्याभिवादनं कार्यं नित्यमेव च पुत्रक ॥

ततो वयमनेनैव दृष्टा बालेन सत्तम ॥ ॥ ३२ ॥

तीर्थयात्राप्रसंगेन दैवयोगात्पितामह ॥

चिरायुरेष वै प्रोक्तो ह्यमीभिश्चाभिवादितैः ॥ ३३ ॥

त्वत्सकाशं समानीतस्त्वया चैवमुदाहृतः ॥

कथं वागनृता देव ह्यस्माकं भवता सह ॥ ३४ ॥

उवाच बालमुद्दिश्य प्रहसन्पद्मसंभवः ॥

मत्समानायुषो बालो मार्कण्डेयो भविष्यति ॥ ३५ ॥

कल्पस्यादौ तथा चान्ते सहायो मे भविष्यति ॥

ततस्तु मुनयः प्रीता गृहीत्वा मुनिदारकम् ॥

तस्मिन्नेव प्रदेशे तु मुमुचुश्चेष्टितं यतः ॥ ३६ ॥

तीर्थयात्रां गता विप्रा मार्कण्डेयो गृहं ययौ ॥

गत्वा गृहमथोवाच मृकण्डं मुनिसत्तमम् ॥ ३७ ॥

ब्रह्मलोकमहं नीतो मुनिभिस्तात सप्तभिः ॥

उक्तोऽयं ब्रह्मणा कल्पस्यादौ चान्ते च मे सखा ॥ ३८ ॥

भविष्यति न संदेहो मत्समायुश्च बालकः ॥

ततस्तैः पुनरानीतो मुक्तश्चैवाश्रमं प्रति ॥ ३९ ॥

मत्कृते हि द्विजश्रेष्ठ यातु ते मनसो ज्वरः ॥

मार्कण्डेयवचः श्रुत्वा मृकण्डो मुनिसत्तमः ॥

जगाम परमं हर्षं क्षणमेकं सुदुःसहम् ॥ 7.1.209.४० ॥

ततौ धैर्यं समास्थाय वाक्यमेतदुवाच ह ॥ ४१ ॥

अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥

यत्त्वया मे सुपुत्रेण दृष्टो लोकपितामहः ॥ ४२ ॥

वाजपेयसहस्रेण राजसूयशतेन च ॥

यं न पश्यन्ति विद्वांसः स त्वया लीलया सुत ॥ ४३ ॥

दृष्टश्चिरायुरप्येवं कृतस्तेनाब्जयोनिना ॥

दिवारात्रमहं तात तव दुःखेन दुखितः ॥

न निद्रामनुगच्छामि तन्मेदुःखं गतं महत् ॥ ४४ ॥

इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये मार्कण्डेयेश्वरमाहात्म्यवर्णनंनाम नवोत्तरद्विशततमोऽध्यायः ॥ ॥ २०९.॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 210

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि पुलस्त्येश्वरमुत्तमम् ॥

मार्कंडेयोत्तेरे भागे धनुषां पञ्चके स्थितम् ॥ १ ॥

तं दृष्ट्वा मानवो देवि पूजयित्वा विधानतः ॥

सप्तजन्मार्जितात्पापान्मुच्यते नात्र संशयः ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुलस्त्येश्वरमाहात्म्यवर्णनंनाम दशोत्तरद्विशततमोऽध्यायः ॥ २१० ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 211

॥ ईश्वर उवाच ॥ ॥

पुलस्त्येश्वरात्ततो देवि नैर्ऋते धनुषाष्टके ॥

पुलहेश्वरनामानं तं च भक्त्या प्रपूजयेत् ॥ १ ॥

हिरण्यदानं दत्त्वा वै सम्यग्यात्राफलं लभेत् ॥ २ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुलहेश्वरमाहात्म्यवर्णनंनामैकादशोत्तरद्विशततमोऽध्यायः ॥ २११ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 212

ईश्वर उवाच ॥ ॥

पुलहेश्वरात्ततो देवि नैर्ऋते धनुषाष्टके ॥

क्रत्वीश्वरेतिनामानं महाक्रतुफलप्रदम् ॥१॥

तं दृष्ट्वा मानवो देवि पौंडरीकफलं लभेत् ॥

सप्तजन्मनि दारिद्र्यं न दुःखं तत्र जायते ॥२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्रत्वीश्वरमाहात्म्यवर्णनंनाम द्वादशोत्तरद्विशततमोऽध्यायः॥ २१२॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 213

ईश्वर उवाच॥

क्रत्वीशात्पूर्वदिग्भागे धनुःषोडशकान्तरे॥

कश्यपेश्वरनामानं महापातकनाशनम् ॥ १ ॥

तं दृष्ट्वा मानवो देवि धनवान्पुत्रवान्भवेत् ॥

सर्वपातकयुक्तोऽपि मुच्यते नात्र संशयः ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कश्यपेश्वरमाहात्म्यवर्णनंनाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥ २१३ ॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 214

॥ ईश्वर उवाच ॥ ॥

धनुषामष्टभिस्तस्मादीशाने कश्यपेश्वरात् ॥

कौशकेश्वरनामानं महापातकनाशनम् ॥ १ ॥

वसिष्ठतनयान्हत्वा तत्र कौशिकसत्तमः ॥

स्थापयामास तल्लिंगं मुक्तपापस्ततोऽभवत् ॥ २ ॥

तं दृष्ट्वा पूजयित्वा तु लभते वाञ्छितं फलम्॥३॥

इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कौशिकेश्वरमाहात्म्यवर्णनंनामचतुर्दशोत्तरद्विशततमोऽध्यायः॥ ॥ २१४ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 215

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि कुमारेश्वरमुत्तमम् ॥

मार्कण्डेश्वरतो देवि दक्षिणे नातिदूरतः ॥

धनुर्विंशतिभिस्तत्र स्थितं स्वामिप्रतिष्ठितम् ॥ १ ॥

ततः कृत्वा तपो घोरं कार्त्तिकेयेन भाभिनि ॥

परदारापहारोत्थपापानां नाशहेतवे ॥ २ ॥

लिंगं स्थापितवांस्तत्र स मुक्तः किल्विषात्ततः ॥

वैराग्याद्यौवनं त्यक्त्वा कौमारं पुनराददे ॥ ३ ॥

पितॄन्हत्वा सुमाली च तमाराधितवान्पुरा ॥

सोऽपि मुक्तोऽभवद्देवि पापात्पितृवधोद्भवात् ॥ ४ ॥

कुमारेश्वरनामैतत्पूजितं वै सुरासुरैः ॥

तस्याग्रतः कुमारस्य कूपस्तिष्ठति भामिनि ॥ ५ ॥

तत्र स्नात्वा पूजयेद्यः शूलिनं स्वामिपूजितम् ॥

स मुक्तः पातकैः सर्वैर्गच्छेत्स्वामिपुरं महत् ॥ ६ ॥

शातकौंभमयं यस्तु ताम्रचूडं द्विजातये ॥

दद्यात्स्वामिनमुद्दिश्य स तु यात्राफलं लभेत् ॥ ७ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये कुमारेश्वरमाहात्म्यवर्णनंनाम पञ्चदशोत्तरद्विशततमोऽध्यायः ॥ २१५ ॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 216

॥ ईश्वर उवाच॥ ॥

मार्कण्डेश्वरतो देवि उत्तरे लिंगमुत्तमम्॥

धनुषां पञ्चदशभिर्गौतमेश्वरनामकम् ॥ १ ॥

गुरुं हत्वा पुरा देवि गौतमः पापदुःखितः ॥

तत्र लिंगं प्रतिष्ठाप्य तस्मात्पापाद्व्यमुच्यत ॥ २ ॥

यस्तत्र कपिलां दद्यात्स्नात्वा नद्यां विधानतः ॥

संपूज्य विधिवल्लिंगं मुच्यते पञ्चपातकैः ॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गौतमेश्वरमाहात्म्यवर्णनंनाम षोडशोत्तरद्विशततमोऽध्यायः ॥२१६॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 217

॥ ईश्वर उवाच ॥ ॥

गौतमेश्वरतो देवि पश्चिमे नातिदूरतः ॥

धनुःषोडशभिर्देवि देवराजेश्वरः स्थितः ॥ १ ॥

लिंगं स स्थापयामास ततः पापैर्व्यमुच्यत ॥

यस्तं समाहितमनाः पूजयिष्यति मानवः ॥

स च मानवसंभूतात्पातकात्संप्रमोक्ष्यति ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देवराजेश्वरमाहात्म्यवर्णनंनाम सप्तदशोत्तरद्विशततमोऽध्यायः ॥२१७॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 218

॥ ॥ ईश्वर उवाच ॥ ॥

तत्रैव मानवं लिंगं मनुना संप्रतिष्ठितम् ॥

पूर्वं हत्वा सुतं देवि मनुः पापसमन्वितः ॥ १ ॥

क्षेत्रं पापहरं ज्ञात्वा तत्र प्रातिष्ठदीश्वरम्॥

मुक्तश्चैवाभवत्पापात्तस्मात्पुत्रवधोद्भवात्॥२॥

पूजयेन्मानवो यस्तु स मुक्तः पातकैर्भवेत् ॥ ३ ॥

इति श्रीस्कान्दे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मानवेश्वरमाहात्म्यवर्णनंनामाष्टादशोत्तरद्विशततमोऽध्यायः ॥२१८॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 219

॥ ईश्वर उवाच ॥ ॥

तस्मादाग्नेयकोणे तु मार्कंडेयसमीपगम् ॥

गुहालिंगं महादेवि नीलकण्ठेति विश्रुतम् ॥ १ ॥

विष्णुना पूजितं पूर्वं सर्व पातकनाशनम् ॥ २ ॥

तत्र यः पूजयेद्भक्त्या तल्लिंगं पापमोचनम्॥

स पुत्रपशुमान्धीमान्मोदते पृथिवीतले ॥ ३ ॥

एवं तत्र महादेवि मार्कण्डेयेश सन्निधौ ॥

ऋषीणामाश्रमा येऽत्र दृश्यन्तेऽद्यापि भामिनि ॥ ४ ॥

अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् ॥

तत्र स्थितानि देवेशि मार्कण्डेयाश्रमांतिके ॥ ५ ॥

ऋषीणां च गुहास्तत्र सर्वा लिंगसमन्विताः ॥

दृश्यन्ते पुण्यतपसां तदाश्रमनिवासिनाम् ॥ ६ ॥

तत्र यः स्थापयेल्लिंगं मार्कंडेशसमीपगम्॥

कुलानां शतमुद्धृत्य मोदते दिवि देववत् ॥ ७ ॥

सर्वे शिवमया लोकाः शिवे सर्वं प्रतिष्ठितम् ॥

तस्माच्छिवं यजेद्विद्वान्य इच्छेच्छ्रियमात्मनः ॥ ८ ॥

शिवभक्तो न यो राजा भक्तोऽन्येषु सुरेषु च ॥

स्वपतिं युवती त्यक्त्वा रमतेऽन्येषु वै यथा ॥ ९ ॥

ब्रह्मादयः सुराः सर्वे राजानश्च महर्द्धिकाः ॥

मानवा मुनयश्चैव सर्वे लिंगं यजंति च ॥ 7.1.219.१० ॥

स्वनामकृतचिह्नानि लिंगानींद्रादिभिः क्रमात् ॥

स्थापितानि यथा स्थाने मानवैरपि भूरिशः ॥ ११ ॥

स्थापनाद्ब्रह्महत्यां च भ्रूणहत्यां तथैव च ॥

महापापानि चान्यानि निस्तीर्णाः शिवतेजसा ॥ १२ ॥

वृत्रं हत्वा पुरा शक्रो माहेन्द्रं स्थाप्य शंकरम् ॥

लिंगं च मुक्तपापौघस्ततोऽसौ त्रिदिवं गतः ॥ १३ ॥

स्थापयित्वा शिवं सूर्यो गंगासागरसंगमे ॥

निरामयोऽभूत्सोमश्च प्रभासे पश्चिमोदधेः ॥ १४ ॥

काश्यां चैव तथादित्यः सह्ये गरुडकाश्यपौ ॥

प्रतिष्ठां परमां प्राप्तौ प्रतिष्ठाप्य जगत्पतिम् ॥ १५ ॥

ख्यातदोषा ह्यहिल्याऽपि भर्तृशप्ताऽभवत्तदा ॥

स्थाप्येशानं पुनः स्त्रीत्वं लेभे पुत्रांस्तथोत्तमान् ॥ १६ ॥

पश्यंत्यद्यापि याः स्नात्वा तत्राहिल्येश्वरं स्त्रियः ॥

पुरुषाश्चापि तद्दोषैर्मुच्यन्ते नात्र संशयः ॥ १७ ॥

स्थापयित्वेश्वरं श्वेतशैले बलिविरोचनौ ॥

उभावपि हि संजातावमरौ बलिनां वरौ ॥ ॥ १८ ॥

रामेण रावणं हत्वा ससैन्यं त्रिदशेश्वरम् ॥

स्थापितो विधिवद्भक्त्या तीरे नदनदीपतेः ॥ १९ ॥

स्वायंभुवर्षिदैवादिलिंगहीना न भूः क्वचित ॥ व्या

पारान्सकलांस्त्यक्त्वा पूजयध्वं शिवं सदा ॥

निकटा इव दृश्यंते कृतांतनगरोपगाः ॥ 7.1.219.२० ॥

देवि किं बहुनोक्तेन वर्णितेन पुनः पुनः ॥

प्रभासक्षेत्रसारं तु मार्कण्डेयाश्रमं प्रति ॥ २१ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभास क्षेत्रमाहात्म्ये मार्कण्डेयेश्वरमाहात्म्यवर्णनंनामैकोनविंशत्युत्तरद्विशततमोऽध्यायः ॥ २१९ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 220

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि देवं त्रैलोक्यपूजितम् ॥

वृषध्वजेश्वरं नाम स्थितं दक्षिणतस्तथा ॥ १ ॥

यत्तदक्षरमव्यक्तं परं यस्मान्न विद्यते ॥

योगगम्यमनाद्यंतं वृषभध्वज संमितम् ॥ २ ॥

सर्वाश्चर्यमयं देवि बुद्धिग्राह्यं निरामयम्॥

विश्वतः पाणिपादं च विश्वतोऽक्षिशिरोमुखम् ॥ ३ ॥

तं च देवं चिरं स्थाणुं वृषभध्वजसंज्ञितम् ॥

पृथुर्मरुच्च भरतः शशबिन्दुर्गयः शिबिः ॥ ४ ॥

रामोंऽबरीषो मांधाता दिलीपोऽथ भगीरथः ॥

सुहोत्रो रंतिदेवश्च ययातिः सगरस्तथा ॥ ५ ॥

षोडशैते नृपा धन्याः प्रभासं क्षेत्रमाश्रिताः ॥

वृषध्वजेशमाराध्य यज्ञैरिष्ट्वा दिवं गताः ॥ ६ ॥

सत्यं वच्मि हितं वच्मि सारं वच्मि पुनःपुनः ॥

असारे दग्धसंसारे सारं तत्र शिवार्चनम् ॥ ७ ॥

पुनर्जन्म पुनर्मृत्युः पुनः क्लेशः पुनर्जरा ॥

अहरहर्घटीन्यायो न कदाचिदपीदृशः ॥ ॥ ८ ॥

तदा श्वेतस्य संसारग्रन्थेरत्यन्तदुर्भिदः ॥

परं निर्मूलविच्छेदि क्रियतां तद्भवार्चनम् ॥ ९ ॥

तस्य चिन्तामणिर्गेहे तस्य कल्पद्रुमः कुले ॥

कुबेरः किंकरस्तस्य भक्तिर्यस्य शिवे स्थिता ॥ 7.1.220.१० ॥

सेयं लक्ष्मीः पुरा पुंसां सेयं भक्तिः समीहिता ॥

सेयं श्रेयस्करी मूर्तिर्भक्तिर्या वृषभध्वजे ॥ ११ ॥

पुष्पैः पंचभिरप्यत्र पूजयित्वा महेश्वरम् ॥

दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥ १२ ॥

वृषभस्तत्र दातव्यो वृषभध्वज संनिधौ ॥

सर्वपातकनाशार्थं सम्यग्यात्राफलेप्सुभिः ॥ १३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये वृषभध्वजेश्वरमाहात्म्यवर्णनंनाम विंशत्युत्तरद्विशततमोऽध्यायः ॥ २२० ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 221

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि देवं च ऋणमोचनम् ॥

तस्मिन्दृष्टे ऋणं न स्यान्मातापितृसमुद्भवम् ॥ १ ॥

पितरस्तु पुरा सर्वे दिव्यक्षेत्रं समागताः ॥

प्रभासे तपसा युक्ताः स्थिता वर्षगणान्बहून् ॥ २ ॥

अग्निष्वात्ता बर्हिषदः सोमपा आज्यपास्तथा ॥

लिंगं संस्थापयामासुः सर्वे भक्तिपरायणाः ॥ ३ ॥

ततः कालेन महता तुष्टस्तेषां महेश्वरः ॥

ततः प्रत्यक्षतां गत्वा वाक्यमेतदुवाच ह ॥ ४ ॥

परितुष्टोऽस्मि भद्रं वो ब्रूत यन्मनसेप्सितम् ॥५॥

॥ पितर ऊचुः ॥ ॥

अस्माकं दीयतां वृत्तिर्जगत्यस्मिन्स्वयं कृते ॥

देवानां च ऋषीणां च मानुषाणां महीतले ॥ ६ ॥

भवानेव परो लोके सर्वेषां पद्मसंभव॥

आगत्य वर्णाश्चत्वार इह ये श्रद्धयान्विताः ॥ ७ ॥

पैतृकात्तु ऋणान्मुक्ता भवंतु गतकल्मषाः ॥

व्यन्तरत्वं सुरश्रेष्ठ येषां वै पितरो गताः ॥ ८ ॥

सर्प्पे वह्नि विषैर्वा ये नाशं नीताः पितामहाः ॥

अपुत्रा वा सपुत्रा वा सपिण्डीकरणं विना ॥ ९ ॥

न कृतानि पुरा येषामेकोद्दिष्टानि षोडश ॥

तथा नैव वृषोत्सर्गो गोहताश्चाथ चान्त्यजैः ॥ 7.1.221.१० ॥

अथापरे ये च मृताः शौचेन तु विना कृताः ॥

ते चात्र तर्पिताः सर्वे प्रयान्तु परमां गतिम् ॥ ११ ॥ ॥

॥ श्रीभगवानुवाच ॥ ॥

स्नात्वा तु सलिले पुण्ये पितृणां चैव तर्पणम् ॥

ये करिष्यंति मनुजाः पितृभक्तिपरायणाः ॥ १२ ॥

अहं वरप्रदस्तेषां तारयिष्यामि तत्क्षणात् ॥

पितृन्सर्वान्न संदेहो यदि पापशतैर्वृताः ॥ १३ ॥

अस्मिंस्तीर्थे नरः स्नात्वा यो लिंगं पूजयिष्यति ॥

युष्माभिः स्थापितं लिंगं स मुक्तः पैतृकादृणात् ॥ १४॥

यस्मादृणात्प्रमुच्येत अस्य लिंगस्य दर्शनात् ॥

तस्मान्मया कृतं नाम ह्येतस्य ऋणमोचनम् ॥ । १५ ॥

॥ ईश्वर उवाच ॥ ॥

हिरण्यं मस्तके दत्त्वा यः स्नाति ऋणमोचने ॥

आत्मा वै तारितस्तेन दत्तं भवति गोशतम् ॥ १६ ॥

एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ॥

तस्मात्सर्वप्रयत्नेन तत्र श्राद्धं समाचरेत् ॥

पूजयेत्तन्महादेवि पितृलिंगं सुरप्रियम् ॥ १७ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋणमोचनमाहात्म्यवर्णनंनामैकविंशत्युत्तरद्विशततमो ऽध्यायः ॥ २२१ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 222

॥ ईश्वर उवाच ॥ ॥

तत्रैव संस्थितं लिंगं रुक्मवत्या प्रतिष्ठितम्॥

सर्वपापोपशमनं सर्वकामफलप्रदम्॥ १ ॥

तत्र स्नात्वा महातीर्थे लिंगं संप्लाव्य यत्नतः ॥

विप्रेभ्यो दापयेद्वित्तं मुच्यते सर्वपातकैः ॥ २ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रुक्मवतीश्वरमाहात्म्यवर्णनंनाम द्वाविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२२ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 223

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि लिंगं त्रैलोक्यपूजितम् ॥

गात्रोत्सर्गमिति ख्यातं तस्य दक्षिणतः स्थितम्॥ १ ॥

यत्र गात्रं परित्यक्तं बलभद्रेण धीमता ॥

अन्यैश्चैव महाभागैर्यादवैस्तत्र संयुगे ॥ २ ॥

यत्र ते यादवाः क्षीणा ब्रह्मशापबलाहिना ॥

एतत्पुरुषोत्तमं क्षेत्रं समन्ताद्धनुषां शतम्॥ ३ ॥

यत्र साक्षात्स्वयं देवि तिष्ठते पुरुषोत्तमः ॥

तदेव वैष्णवं क्षेत्रं कलौ पातकनाशनम्॥ ४ ॥

रहस्यं परमं देवि तीर्थानां प्रवरं हि तत्॥

पूर्वं कृतयुगे देवि प्रेततीर्थं च संस्मृतम् ॥

कलौ युगे तु संप्राप्ते गात्रोत्सर्गमिति त्वभूत् ॥ ५ ॥

ऋणमोचनपार्श्वे तु मध्ये तु पापमोचनात्॥

एतन्मध्यं समाश्रित्य मृतः पापैर्विमुच्यते ॥ ६ ॥

तस्य किं वर्ण्यते देवि यत्रानन्तफलं महत् ॥

अथमेधसहस्रस्य फलं स्नात्वा ह्यवाप्यते ॥ ७ ॥

यत्राश्वत्थं समासाद्य समाधिन्यस्तमानसः ॥

मुमोच दुस्त्यजान्प्राणान्ब्रह्मद्वारेण केशवः ॥ ८ ॥

तत्र नारायणं साक्षाद्बलभद्रं च रुक्मिणीम् ॥

पूजयित्वा विधानेन मुच्यते पातकत्रयात् ॥ ९ ॥

तत्र स्नात्वा नरो भक्त्या यः संतर्पयते पितॄन् ॥

प्रेतत्वात्पितरो मुक्ता भवन्ति श्राद्धदायिनः ॥ 7.1.223.१० ॥।

गोघ्नः सुरापो दुर्मेधा ब्रह्महा गुरुतल्पगः ॥

तत्र स्नात्वा नरः सद्यो विपापः संप्रपद्यते ॥ ११ ॥

बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥

अज्ञानाज्ज्ञानतो वापि यः करोति नरः प्रिये ॥

तत्र स्नात्वा प्रमुच्येत तीर्थे गात्रप्रमोचने ॥ १२ ॥

तत्र पिण्डप्रदानेन पितॄणां जायते परा ॥

तृप्तिर्वर्षशतं यावदेतदाह पुरा हरिः ॥ १३ ॥

यः पुनश्चान्नदानं तु तत्र कुर्यात्समाहितः ॥

तस्यान्वयेऽपि देवेशि न प्रेतो जायते नरः ॥१४॥ ॥

॥श्रीदेव्युवाच ॥ ॥

प्रेततीर्थमिति प्रोक्तं पश्चाद्गात्रविमोचनम् ॥

वद मे देवदेवेश प्रेततीर्थस्य कारणम्॥ १९ ॥

॥ ईश्वर उवाच॥ ॥

शृणु देवि प्रवक्ष्यामि प्रेततीर्थस्य कारणम्॥

यच्छ्रुत्वा मानवो भक्त्या मुक्तः स्यात्सर्वकिल्बिषैः ॥ १६ ॥

पुराऽऽसीद्गौतमोनाम महर्षिः शंसितव्रतः ॥

भृगुकल्पात्समायातः क्षेत्रे प्राभासिके शुभे ॥ १७ ॥

अयने चोत्तरे पुण्ये श्रीसोमेशदिदृक्षया ॥

दृष्ट्वा सोमेश्वरं देवं स्नात्वा तीर्थेषु कृत्स्नशः ॥ १८ ॥

स गच्छंस्तीर्थयात्रायां गात्रोत्सर्गं ततो गतः ॥ १९ ॥

अथासौ ब्राह्मणो देवि यावत्सीमामुपागतः ॥

तावद्विष्णुप्रियं तत्र ददृशे वैष्णवं वनम् ॥ 7.1.223.२० ॥

पुरुषोत्तमनामाढ्यं क्षेत्रं च धनुषां शतम् ॥

तस्मिन्क्षेत्रे स चापश्यत्पंच प्रेतान्सुदारुणान् ॥ २१ ॥

महावृक्षसमारूढान्महाकायान्महोत्कटान्॥

ऊर्ध्वकेशाञ्छंकुकर्णान्स्नायुनद्धकलेवरान् ॥ २२ ॥

विमांसरुधिरान्नग्नानथ कृष्णकलेवरान् ॥

दृष्ट्वाऽसौ भयसंत्रस्तो विनष्टोऽस्मीत्यचिन्तयत् ॥ २३ ॥

ध्यात्वाऽऽह सुचिरं कालं धैर्यमास्थाय यत्नतः ॥

के यूयं विकृताकारा दृष्टाः पूर्वं मया पुरा ॥ २४ ॥

न कदाचिद्यथा यूयं किमर्थं क्षेत्रमध्यतः ॥

धावमानाः सुदुःखार्ता एतन्मे कौतुकं महत् ॥ २५ ॥

॥ प्रेता ऊचुः ॥ ॥

वयं प्रेता महाभाग दूरादिह समागताः ॥

श्रुत्वा तीर्थवरं पुण्यं प्रवेशं न लभामहे ॥२६॥

गणैरंतर्धानगतैः प्रहारैर्जर्जरीकृताः ॥

लेखको रोहकश्चैव सूचकः शीघ्रगस्तथा ॥ २७ ॥

अहं पर्युषितोनाम पञ्चमः पापकृत्तमः ॥ २८ ॥

॥ गौतम उवाच ॥ ॥

प्रेतयोनौ प्रवृत्तानां केन नामानि कृत्स्नशः ॥

युष्माकं निर्मितान्येवमेतन्मे कौतुकं महत् ॥ २९ ॥

॥ प्रेता ऊचुः ॥ ॥

याचमानस्य विप्रस्य लिखत्येष धरातले ॥

नोत्तरं पठते किञ्चित्तेनासौ लेखकः स्मृतः ॥ 7.1.223.३० ॥

द्वितीयो ब्राह्मणभयात्प्रासादमधिरोहति ॥

ततोऽसौ रोहकाख्योऽभूच्छृणु विप्र तृतीयकम् ॥ ३१ ॥

सूचिता बहवोऽनेन ब्राह्मणा वित्तसंयुताः ।

राज्ञे पापेन तेनासौ सूचको भुवि विश्रुतः ॥ ३२॥

ब्राह्मणैः प्रार्थ्यमानस्तु शीघ्रं धावति नित्यशः ॥

न कदाचिद्ददाति स्म तेनासौ शीघ्रगः स्मृतः ॥ ३३ ॥

मया कदन्नं दत्तं च पर्युषितं ब्राह्मणोत्तमे ॥

ब्राह्मणेभ्यः सदा दानं मिष्टान्नेन तु पोषणम् ॥

तस्मात्पर्युषितोनाम संजातोऽहं धरातले ॥ ३४ ॥

॥ गौतम उवाच ॥ ॥

न विना भोजनेनैव वर्तन्ते प्राणिनो भुवि ॥

किमाहारा भवन्तो वै वदध्वं मम कौतुकात् ॥ ३५ ॥

॥ प्रेता ऊचुः ॥ ॥

प्राप्ते भोजनकाले तु यत्र युद्धं प्रवर्तते ॥

तस्यान्नस्य रसं सर्वं भुंजामो द्विजसत्तम ॥ ३६ ॥

नानुलिप्ते धरापृष्ठे यत्र भुंजन्ति मानवाः ॥

भ्रष्टशौचा द्विजश्रेष्ठ तदस्माकं तु भोजनम् ॥ ३७ ॥

अप्रक्षालितपादस्तु यो भुंक्ते दक्षिणामुखः ॥

यो वेष्टितशिरा भुंक्ते प्रेता भुंजन्ति नित्यशः ॥ ३८ ॥

श्राद्धं संपश्यते श्वा चेन्नारी चैव रजस्वला ॥

अन्त्यजः शूकरश्चान्नं तदस्माकं तु भोजनम् ॥ ३९ ॥

त्यक्त्वा क्रमागतं विप्रं पूजितं प्रपितामहैः ॥

यो दानं ददतेऽन्यस्मै तस्मै चाऽतुष्टचेतसा ॥ 7.1.223.४० ॥

तस्य दानस्य यत्पुण्यं तदस्माकं प्रजायते ॥

यस्मिन्गृहे सदोच्छिष्टं सदा च कलहो भवेत् ॥

वैश्वदेवविहीने तु तत्र भुंजामहे वयम् ॥ ४१ ॥

॥ गौतम उवाच ॥ ॥

युष्माकं कीदृशे गेहे प्रवेशो न च विद्यते ॥

सत्यं वदत माऽसत्यं सत्यं साधुषु संगतम् ॥ ४२ ॥

॥ प्रेता ऊचुः ॥ ॥

वैश्वदेवोद्भवा यत्र धूमवर्तिः प्रदृश्यते ॥

तस्मिन्गेहे न चास्माकं प्रवेशो विद्यते द्विज ॥ ४३ ॥

यस्मिन्गृहे प्रभाते तु क्रियते चोपलेपनम् ॥

विद्यते वेद निर्घोषस्तत्रास्माकं न किंचन ॥ ४४ ॥

॥ गौतम उवाच ॥ ॥

केन कर्मविपाकेन प्रेतत्वं व्रजते नरः ॥

एतन्मे विस्तरेणैव यथावद्वक्तु मर्हथ ॥ ४५ ॥

॥ प्रेता ऊचुः ॥ ॥

मृषाऽपहारिणो ये च ये चोच्छिष्टा व्रजन्ति च ॥

गोब्राह्मणहताश्चैव प्रेतत्वं ते व्रजन्ति हि ॥ ४६ ॥

पैशुन्यनिरता ये च कूटसाक्ष्यरता नराः ॥

न्यायपक्षे न वर्तंते मृताः प्रेता भवंति ते ॥ ४७ ॥

श्लेष्ममूत्रपुरीषाणि ये क्षिपन्ति सरोवरे ॥

प्रेतत्वं ते समासाद्य विचरंति च मानवाः ॥४८॥

दीयमानं तु विप्राणां गोषु विप्रातुरेषु च ॥

मा देहीति प्रजल्पन्तस्ते च प्रेता भवंति च ॥४९॥

शूद्रान्नेनोदरस्थेन यदि विप्रो म्रियेत वै ॥

प्रेतत्वं यात्यसौ नूनं यद्यपि स्यात्षडंगवित् ॥ 7.1.223.५० ॥

यस्त्रीन्हले बलीवर्दान्वाहयेन्मदसंयुतः ॥

अमावास्यां विशेषेण स प्रेतो जायते नरः ॥ ५१ ॥

नास्तिको निंदकः क्षुद्रो नित्यनैमित्त्यवर्जितः ॥

ब्राह्मणान्द्वेष्टि यो नूनं स प्रेतो जायते नरः ॥ ५२ ॥

विश्वासघातको यस्तु ब्रह्महा स्त्रीवधे रतः ॥

गोघ्नो गुरुघ्रः पितृहा स प्रेतो जायते नरः॥५३॥

यस्य नैव प्रदत्तानि एकोद्दिष्टानि षोडश ॥

मृतस्य न वृषोत्सर्गः स प्रेतो जायते नरः ॥ ५४ ॥

एतद्धि सर्वमाख्यातं यत्पृष्टाः स्म द्विजोत्तम ॥

भूयो ब्रूहि द्विजश्रेष्ठ यश्चास्ति तव संशयः ॥ ५५ ॥

॥ गौतम उवाच ॥ ॥

येन कर्मविपाकेनन प्रेतो जायते नरः ॥

तन्मे वदत निःशेषं कौतुकं मेऽत्र विद्यते ॥ ५६ ॥

॥ प्रेता ऊचुः ॥ ॥

तीर्थयात्रा रतो यस्तु देवार्चनपरायणः ॥

ब्राह्मणेषु सदा भक्तो न प्रेतो जायते नरः ॥ ५७ ॥

नित्यं शृणोति शास्त्राणि नित्यं सेवति पंडितान्॥

वृद्धांस्तु पृच्छते नित्यं न स प्रेतो विजायते ॥ ५८ ॥

एतस्मात्कारणात्प्राप्ता वयं सर्वे सुदूरतः ॥

शक्नुमो प्रवेष्टुं च पुण्येऽस्मिन्क्षेत्र उत्तमे ॥ ५९ ॥

निर्विण्णाः प्रेतरूपेण तस्मात्त्वं द्विजसत्तम ॥

गतिर्भव महाभाग सर्वेषां नः प्रयत्नतः ॥ 7.1.223.६० ॥

॥ गौतम उवाच ॥ ॥

कथं वो जायते मोक्षो वदध्वं कृत्स्नशो मम ॥

कृपयाविष्टचित्तोऽहं यतिष्ये नात्र संशयः ॥६१॥

॥ प्रेता ऊचुः ॥ ॥

प्रभूतकालमस्माकं प्रेतत्वे तिष्ठतां विभो ॥

न त्वभ्येति पुमान्कश्चिदस्माकं यो गतिर्भवेत् ॥ ६२ ॥

तस्मात्त्वं देहि नः श्राद्धं गत्वा क्षेत्रं तु वैष्णवम्॥

नामगोत्राणि चादाय मोक्षं यास्यामहे ततः ॥ ६३ ॥ ॥

॥ ईश्वर उवाच ॥ ॥

ततोऽसौ ब्राह्मणो गत्वा दयाविष्टो हरेर्गृहम् ॥

श्राद्धं च प्रददौ तेषामेकैकस्य पृथक्पृथक् ॥ ६४ ॥

यस्ययस्य यदा श्राद्धं करोति द्विजसत्तमः ॥

स रात्रौ स्वप्न एत्यैनं दर्शने वाक्यमब्रवीत् ॥ ६५ ॥

प्रसादात्तव विप्रेन्द्र मुक्तोऽहं प्रेतयोनितः ॥

स्वस्ति तेऽस्तु गमिष्यामि विमानं मे ह्युपस्थितम् ॥ ६६ ॥

एवं संतारितास्तेन चत्वारस्ते द्विजोत्तमाः ॥ ६७ ॥

अथासौ ब्राह्मणश्रेष्ठः संप्राप्ते पञ्चमे दिने ॥

प्रददौ विधिपूर्वं तु श्राद्धं पर्युषितस्य च ॥ ६८ ॥

अथापश्यत स्वप्नान्ते प्राप्तं पर्युषितं नरम् ॥

दीनवाक्यं परिक्लिष्टं निःश्वसन्तं मुहुर्मुहुः ॥ ६९॥ ॥

॥ पर्युषित उवाच ॥ ॥

न मे जाता गतिर्विप्र मंदभाग्यस्य पापिनः ॥

मया हृतं तडागार्थं यद्वित्तं प्रगुणीकृतम् ॥ 7.1.223.७० ॥

॥ गौतम उवाच ॥ ॥

कथं ते जायते मोक्षो वद शीघ्रमशेषतः ॥

करिष्ये नात्र संदेहो यद्यपि स्यात्सुदुर्लभम् ॥ ७१ ॥

॥ पर्युषित उवाच ॥ ॥।

अयने चोत्तरे प्राप्ते गत्वा तीर्थं हरिप्रियम् ॥

श्राद्धं त्वं देहि मे नूनं ततो गतिर्भविष्यति ॥ ७२ ॥

॥ ईश्वर उवाच ॥ ॥

एवमुक्तः स विप्रेन्द्रस्तेन प्रेतेन वै मुनिः ॥

अयने चोत्तरे प्राप्ते गत्वा तीर्थं हरिप्रियम् ॥

प्रददौ विधिवच्छ्राद्धं ततः पर्युषिताय च ॥ ७३ ॥

ततः पर्युषितो रात्रौ स्वप्नान्ते वाक्यमब्रवीत् ॥

प्रसन्नवदनो भूत्वा दिव्यमाल्यवपुर्धरः ॥ ७४ ॥

॥ पर्युषित उवाच ॥ ॥

मुक्तोऽहं त्वत्प्रसादेन प्रेतभावाद्द्विजोत्तम ॥

स्वस्ति तेऽस्तु गमिष्यामि विमानं मे ह्युपस्थितम् ॥ ७५ ॥

देवत्वं च मया प्राप्तं समर्थोऽहं द्विजोत्तम ॥

वरं ददामि ते विप्र गृहाण त्वं वरं शुभम् ॥ ७६ ॥

ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ॥

निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ ७७ ॥

॥ गौतम उवाच ॥ ॥

यदि देयो वरोऽस्माकं समर्थोऽसि वरप्रद ॥

यत्र स्थाने मया दृष्टाः प्रेता यूयं सुदुःखिताः ॥

तत्राहं चाश्रमं कृत्वा करिष्ये चोत्तमं तपः ॥ ७८ ॥

निर्गतास्मि गृहं भूयो स्नात्वा तीर्थमिदं महत् ॥

तत्र यो भानवो भक्त्या पितॄनुद्दिश्य भक्तितः ॥ ७९ ॥

विधिवद्दास्यति श्राद्धं स्नात्वा संतर्प्य देवताः ॥

युष्मत्प्रसादतस्तस्य ह्यन्वयेऽपि कदाचन ॥

मा भूयात्प्रेतभावो हि अपि पापान्वितस्य भोः ॥ 7.1.223.८० ॥

॥ पर्युषित उवाच ॥ ॥

गच्छ त्वं चाश्रमं तत्र कुरु ब्राह्मणसत्तम ॥

गमिष्यसि परां सिद्धिं लोके ख्यातिं गमिष्यसि ॥ ८१ ॥

तत्र ये मानवा भक्त्या श्राद्धं दास्यंति सत्तमाः ॥

पितॄणां ते विमानस्था यास्यंति त्रिदिवालयम् ॥ ८२ ॥

न तेषां वंशजः कश्चित्प्रेतत्वं च गमिष्यति ॥

प्राहुः सप्तपदीं मैत्रीं पंडिताः स्थिरबुद्धयः ॥ ८३ ॥

मित्रतां तु पुरस्कृत्य किं तद्वक्ष्यामि तच्छृणु ॥

तवाश्रमपदं पुण्यं भविष्यति महीतले ॥ ८४ ॥

सर्वपापप्रशमनं सर्वदुःखवि नाशनम् ॥

मन्नाम्ना ख्यातिमायातु प्रेततीर्थमिति प्रभो ॥ ८५ ॥

॥ ईश्वर उवाच ॥ ॥

तं तथेति प्रतिज्ञाय गतस्तत्र द्विजोत्तमः ॥

यथा वेदोक्तमार्गेंण सर्वं कृत्यं चकार सः ॥ ८६ ॥

सोऽपि स्वर्गमनुप्राप्तो हृष्टः पर्युषितः प्रिये ॥

एतत्सर्वं पुरावृत्तं स्थानेऽस्मिन्गात्रमोचने ॥ ८७ ॥

यः शृणोति नरः सम्यक्सर्वपापैः स मुच्यते ॥

शयनोत्थापने योगे यः पश्येत्पुरुषोत्तमम् ॥

गात्रोत्सर्गे तु गत्वाऽसौ यज्ञायुतफलं लभेत् ॥ ८८ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुरुषोत्तमतीर्थप्रेततीर्थमाहात्म्यवर्णनंनाम त्रयोविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२३ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 224

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि लिंगमिंद्रप्रतिष्ठितम् ॥

पापमोचननामाढ्यं दक्षिणे पुरुषोत्तमात्॥ १ ॥

वृत्रं हत्वा पुरा शक्रो ब्रह्महत्यासमन्वितः ॥

अब्रवीत्स ऋषीन्दिव्यान्कथमेषा गमिष्यति ॥ २ ॥

ब्रह्महत्या हि दुष्प्रेक्ष्या विवर्णजननी मम ॥

दुर्गंधचारिणी चैव सर्वतेजोविनाशिनी ॥ ३ ॥

अथोचुस्तं सुरगणा नारदाद्या महर्षयः ॥

प्रभासं गच्छ देवेश क्षेत्रं पापहरं हि तत् ॥ ४ ॥

तत्राराध्य महादेवं मोक्ष्यसे ब्रह्महत्यया ॥

स तथेति प्रतिज्ञाय गतस्तत्र वरानने ॥ ५ ॥

लिंगं संस्थापयामास देवदेवस्य शूलिनः ॥

तस्य पूजारतो नित्यं धूपगंधानुलेपनैः ॥ ६ ॥

ततोऽस्य गात्रदौर्गंध्यं नाशमाश्वभ्यगच्छत ॥

विवर्णत्वं गतं सर्वं वपुश्चाभूत्तथोत्तमम्॥ ७ ॥

अथ हृष्टमना भूत्वा वाक्यमेतदुवाच ह ॥

तत्रागत्य नरो भक्त्या यश्चैनं पूजयिष्यति ॥ ८ ॥

ब्रह्महत्यादिकं पापं नाशं तस्य प्रयास्यति ॥

एवमुक्त्वा सहस्राक्षः प्रहृष्टस्त्रिदिवं ययौ ॥ ९ ॥

ब्रह्महत्याविनिर्मुक्तः पूज्यमानो दिवौकसैः ॥

गोदानं तत्र दातव्यं ब्राह्मणे वेदपारगे ॥

ब्रह्महत्यापनोदार्थं तत्र श्राद्धं समाचरेत् ॥ 7.1.224.१० ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य इन्द्रेश्वरमाहात्म्यवर्णनंनाम चतुर्विंशत्युत्तरद्विशततमोऽध्यायः ॥ २२४ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 225

॥ ईश्वर उवाच ॥ ॥

ततोगच्छेन्महादेवि देवं चाऽनरकेश्वरम्॥

तस्मादुत्तरदिग्भागे सर्वपातकनाशनम् ॥

तन्माहात्म्यं प्रवक्ष्यामि शृणु ह्येकमनाः प्रिये ॥ १॥

मथुरानाम विख्याता नगरी धरणीतले॥

तत्र विप्रोऽभवत्पूर्वं देवशर्मेति विश्रुतः ॥

अगस्त्यगोत्रो विद्वान्वै स तु दारिद्र्यपीडितः ॥ २ ॥

अथापरोऽभवत्तत्र तादृग्रूपवयोऽन्वितः ॥

तन्नाम गोत्रो देवेशि ब्राह्मणो वेदपारगः ॥ ३ ॥

अथ प्राह यमो दूतं रौद्रमूर्धशिरोरुहम् ॥

गच्छ भो मथुरां शीघ्रं देवशर्माणमानय ॥ ४ ॥

अथागत्य ततो दूतो गृहीत्वा तत्र वै गतः ॥

तं दृष्ट्वाथ यमो नत्वा प्राह दूतं क्रुधान्वितः ॥ ५ ॥

नायमानेतुमादिष्टो देवशर्मां मया तव ॥

अन्योस्ति देवशर्मा यस्त मानय गतायुषम् ॥

एनं विप्रं च दीर्घायुं नय तत्राविलंबितम् ॥ ६ ॥

॥ ईश्वर उवाच ॥ ॥

अथाब्रवीद्ब्राह्मणो वै नाहं यास्ये गृहं विभो ॥

दारिद्र्येणातिनिर्विण्णो यावज्जीवं सुरेश्वर ॥

इहैव क्षपयिष्यामि शेषमायुस्तवांतिके ॥ ७ ॥

॥ यम उवाच ॥ ॥

अकाले नात्र चायाति कश्चिद्ब्राह्मणसत्तम ॥

मुहूर्तमपि नो जीवेत्पूर्णकालेन वै भुवि ॥ ८ ॥

अत एव हि मे नाम धर्मराजेति विश्रुतम् ॥ ९ ॥

न मे सुहृन्न मे द्वेष्यः कश्चिदस्ति धरातले ॥

विद्धः शरशतेनापि नाऽकाले म्रियते यतः ॥ 7.1.225.१० ॥

कुशाग्रेणापि विद्धः सन्काले पूर्णे न जीवति ॥

तस्माद्गच्छ द्विजश्रेष्ठ यावद्गात्रं न दह्यते ॥ ११ ॥

अथाब्रवीद्ब्राह्मणोऽसौ यदि प्रेषयसे प्रभो ॥

प्रश्नमेकं मया पृष्टो यथावद्वक्तुमर्हसि ॥ १२ ॥

न वृथा जायते देव साधूनां दर्शनं क्वचित् ॥

युष्माकं च विशेषेण तस्मादेतद्ब्रवीम्यहम् ॥ १३ ॥

एते ये नरका रौद्रा दृश्यन्ते च सुदारुणाः ॥

कर्मणा केन कं गच्छेन्मानवो नरकं यम ॥ १४ ॥

कति संख्याः स्युरेते च नरकाः किंप्रमाणतः ॥

एतत्सर्वं सुरश्रेष्ठ यथावद्वक्तुमर्हसि ॥ १५ ॥

॥ यम उवाच ॥ ॥

शृणु देव प्रवक्ष्यामि यावन्तो नरकाः स्थिताः ॥

कर्मणा येन गच्छेत मानवो द्विजसत्तम ॥

एकविंशत्समाख्याता नरका मम मन्दिरे ॥ १६ ॥

यानेतान्प्रेक्षसे विप्र यंत्र मध्ये व्यवस्थितान् ॥

पीड्यमानान्किंकरैर्मे कृतघ्नान्पा पसंयुतान् ॥ १७ ॥

लोहास्यवायसा येषां नेत्रोद्धारं प्रकुर्वते ॥

एतैर्निरीक्षितान्येव कलत्राणि दुरात्मभिः ॥ १८ ॥

परेषां द्विजशार्दूल सरागैः पापि भिः सदा ॥

कुम्भीपाकगतानेतानथ पश्यसि पापिनः ॥ १९ ॥

कूटसाक्ष्यरता ह्येते कटुवाङ्निरतास्तथा ॥

एते लोहमयास्तम्भान्संतप्तान्पावकप्र भान् ॥ 7.1.225.२० ॥

आलिंगंति दुरात्मानः परदाररतास्तु ये ॥

एते वैतरणीमध्ये पूयशोणितसंकुले ॥ २१ ॥

ये तिष्ठंति द्विजश्रेष्ठ सर्वे विश्वासघातकाः ॥

असिपत्रवने घोरे भिद्यन्ते ये तु खण्डशः ॥

ते नष्टाः स्वामिनं त्यक्त्वा संग्रामे समुपस्थिते ॥ २२ ॥

अंगारराशीन्वै दीप्तान्ये गाहन्ते नराधमाः ॥

स्वामिद्रोहरता ह्येते तथा हेतुप्रवादकाः ॥ २३ ॥

लोहशंकुभिराकीर्णमाक्रमन्ति नराधमाः ॥

क्रन्दमाना द्विजश्रेष्ठ उपानद्दानवर्जिताः ॥ २४ ॥

अधोमुखा निबद्धा ये वृक्षाग्रे पावकोपरि ॥

ब्रह्महत्यान्विताः सर्व एते चैव नराधमाः ॥ २५ ॥

मशकैर्मत्कुणैः काकैर्ये भक्ष्यंते विहंगमैः ॥

व्रतभंगरता ह्येते व्रतिना चैव हिंसकाः ॥ २६ ॥

कुठारकण्ठिता ह्येते भूयः संति तथाविधाः ॥

गोहन्तारो दुरात्मानो देवब्राह्मणानिंदका ॥ २७ ॥

ये भक्ष्यंते शृगालैश्च वृकैर्लोहमयैर्मुखैः ॥

परस्वानां च हर्तारः परस्त्रीणां च हर्तृकाः ॥

आत्ममांसानि ये पापा भक्षयंति बुभुक्षिताः ॥ ॥ २८ ॥

न दत्तमन्नमेतैस्तु कदाचिद्वै द्विजोत्तम ॥

रुधिरं ये पिबंत्येते वसापूयपरिप्लुतम् ॥

ब्राह्मणानां विनाशाय गवामेते सदा स्थिताः ॥ ॥ २९ ॥

कूटशाल्मलिबद्धाश्च तीक्ष्णकण्टकपीडिताः ॥

छिद्रान्वेषणसंयुक्ताः परेषां नित्यसंस्थिताः ॥ 7.1.225.३० ॥

क्रकचेन तु छिद्यन्ते य इमे द्विजसत्तम ॥

अभक्ष्यनिरता ह्येते स्वधर्मस्य विदूषकाः ॥ ३१ ॥

कन्याविक्रयकर्त्तारः कन्यानां जीवभंजकाः ॥

पुरीषमध्यगा ह्येते पच्यंते मम किंकरैः ॥ ३२ ॥

संदेशैर्दारुणैर्जिह्वा येषामुत्पाट्यते मुहुः ॥

वाग्लोपनिरता ह्येते मृषावादपरायणाः ॥ ३३ ॥

ये शीतेन प्रबाध्यंते वेप माना मुहुर्मुहुः ॥

देवस्वानां च हर्तारो ब्राह्मणानां विशेषतः ॥ ३४ ॥

तेषां शिरसि निक्षिप्तो भूरिभारो द्विजोत्तम ॥

अतोऽमी ब्राह्मणश्रेष्ठ पूत्का रयन्ति भैरवम् ॥ ३५ ॥

॥ यम उवाच ॥ ॥

एवमेतत्समाख्यातं तव सर्वं द्विजोत्तम ॥

नरकाणां स्वरूपं तु कर्मणां वै यथाक्रमम् ॥ ३६ ॥

गच्छ शीघ्रं महाभाग यावत्कायो न दह्यते ॥ ३७ ॥

॥ ब्राह्मण उवाच ॥ ॥

कथय त्वं सुरश्रेष्ठ मम सर्वं समाहितः ॥

न गच्छेत्कर्मणा येन नरकं मानवः क्वचित् ॥ ३८ ॥

सतां सप्तपदं मैत्रमित्याहुर्बुद्धिकोविदाः ॥

मित्रतां च पुरस्कृत्य समासाद्वक्तुमर्हसि ॥ ३९ ॥

॥ यम उवाच ॥ ॥

प्रभासं क्षेत्रमासाद्या नरकेश्वरमुत्तमम् ॥

यः पश्यति नरो भक्त्या नरकं स न पश्यति ॥ 7.1.225.४० ॥

स्थापितं यन्मया लिंगं शिवभक्त्या युतेन च ॥

एतद्गुह्यं मया प्रोक्तं तव प्रीत्यै द्विजोत्तम ॥ ४१ ॥

गोपनीयं प्रयत्नेन मम वाक्यादसंशयम् ॥

एवमुक्तस्तदा विप्रः स्वयमेवावनिं ययौ ॥ ४२ ॥

लब्ध्वा कलेवरं सोऽथ विस्मयं परमं गतः ॥

तत्स्मृत्वा वचनं सर्वं धर्मराजस्य धीमतः ॥ ४३ ॥

गत्वा तत्र स नित्यं वै पूजयामास तं प्रभुम् ॥

यावज्जीवं वरारोहे ततः सिद्धिं परां गतः ॥ ४४ ॥

तस्मात्सर्वप्रयत्नेन भक्त्या तमवलोकयन् ॥

अपि पातकयुक्तोऽपि न याति नरके नरः ॥ ४५ ॥

आश्वयुक्कृष्णपक्षे तु चतुर्दश्यां विधानतः ॥

यस्तत्र कुरुते श्राद्धं सोऽश्वमेधफलं लभेत् ॥ ४६ ॥

कृष्णाजिनं तत्र देयं ब्राह्मणे वेदपारगे ॥

यावत्तिलानां संख्यानं तावत्स्वर्गे महीयते ॥ ४७ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये ऽनरकेश्वरमाहात्म्यवर्णनंनाम पञ्चविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२५ ॥ ॥ छ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 226

॥ ईश्वर उवाच ॥ ॥

तस्यैव पूर्वभागे तु नैर्ऋते पापमोचनात् ॥

मेघेश्वरेति विख्यातं सर्वपातकनाशनम् ॥ १ ॥

अनावृष्टिभये जाते शांतिं तत्रैव कारयेत् ॥

वारुणीं विप्रमुख्यैस्तु भावयेदुदकैर्महीम् ॥ २ ॥

मेघैः प्रतिष्ठितं लिंगं यत्र नित्यं प्रपूज्यते ॥

अनावृष्टिभयं किंचिन्न च तत्र प्रजायते ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मेघेश्वरमाहात्म्यवर्णनंनाम षड्विंशत्युत्तरद्विशततमोऽध्यायः ॥ २२६ ॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 227

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि बलभद्रप्रतिष्ठितम् ॥

लिंगं महापापहरं गात्रोत्सर्गात्तदुत्तरे ॥ १ ॥

महालिंगं महादेवि महासिद्धि फलप्रदम् ॥

बलभद्रेण विधिना स्थापितं पापशुद्धये ॥ २ ॥

यस्तं पूजयते भक्त्या गन्धपुष्पादिभिः क्रमात् ॥

तृतीयारेवतीयोगे स योगेशपदं लभेत् ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बलभद्रेश्वरमाहात्म्य वर्णनंनाम सप्तविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२७ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 228

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि मातृस्थानमनुत्तमम् ॥

भैरवेशेति विख्यातं सर्वभयविनाशनम् ॥ १ ॥

चतुर्दश्यां विधानेन कृष्णपक्षे यतात्मवान् ॥

पूजयेद्गन्धपुष्पैश्च बलिदानैस्तथोत्तमैः ॥ २ ॥

तं पुत्रमिव योगिन्यो रक्षंति भुवि मातरः ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये भैरवेश्वरमातृगणमाहात्म्यवर्णनंनामाष्टाविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२८ ॥ ॥ छ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 229

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि गंगां त्रिपथगामिनीम् ॥

अनरकेशतो देवि ऐशान्यां दिशि संस्थिताम् ॥ १ ॥

स्वयंभूतां धरामध्यादानीतां विष्णुना पुरा ॥

यादवानां तु मुक्त्यर्थं सर्वपापोपशान्तये ॥ २ ॥

यस्तत्र कुरुते स्नानं कथंचित्पुण्यसंचयात् ॥

श्राद्धं चैव विधानेन न स शोचेत्कृताकृते ॥ ३ ॥

ब्रह्माण्डं सकलं दत्त्वा यत्पुण्यफलमाप्नुयात् ॥

तत्पुण्यं प्राप्नुयाद्देवि कार्तिक्यां जाह्नवीजले ॥ ४ ॥

कलौ युगे तु संप्राप्ते दुर्ल्लभं तत्र दर्शनम्॥

किं पुनः स्नानदानं तु प्रभासे जाह्नवीजले ॥ ५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गंगामाहात्म्यवर्णनंनामैकोनत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २२९ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 230

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि देवं गणपतिप्रियम् ॥

तत्रैव संस्थितं सम्यङ्मया तत्र नियोजितः ॥ १ ॥

गङ्गाया दक्षिणे देवि क्षेत्ररक्षणतत्परः ॥

माघे कृष्णचतुर्दश्यां यस्तं पूजयते नरः ॥ २ ॥

दिव्यमोदकनैवेद्यैः पुष्पधूपादिभिः क्रमात् ॥

न तस्य जायते विघ्नं यावत्क्षेत्रे वसत्यसौ ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गणपतिमाहात्म्यवर्णनंनाम त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३० ॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 231

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि यत्र जांबवती नदी ॥

पुरा जांबवतीनाम विष्णोर्या महिषीप्रिया ॥

अपृच्छदर्जुनं साध्वी वद वार्तां कुरू द्वह ॥ १ ॥

तस्यास्तद्वचनं श्रुत्वा अर्जुनो निश्वसन्मुहुः ॥

वाष्पगद्गदया वाचा इदं वचनमब्रवीत् ॥ २ ॥

परित्यक्ता वयं भद्रे यादवैः सुमहात्मभिः ॥९

बलदेवस्य वीरस्य सात्यकेश्च महात्मनः ॥ ३ ॥

अन्येषां यदुवीराणां पापकर्मातिनिर्घृणः ॥

जिजीविषुरिह प्राप्तो वासुदेवनिराकृतः ॥ ४ ॥

सा श्रुत्वा भर्तृनिधनमर्जुनाच्च महासती ॥

गंगातीरे समुत्पाद्य पावकं पावकप्रभा ॥

समुत्सृज्य महाकायं नदीभूत्वा विनिर्ययौ ॥ ५ ॥

सा गृहीत्वा सती भर्तुर्भस्म सर्वं चितेस्तथा ॥

प्रविष्टा सागरं देवि तदा जांबवती शुभा ॥६॥

या नारी तत्र देवेशि भक्त्या स्नानं समाचरेत् ॥

तदन्वयेपि काचित्स्त्री न वैधव्यमवाप्नुयात् ॥ ७ ॥

तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥

नरो वा यदि वा नारी प्राप्नोति परमां गतिम् ॥ ८ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये जांबवतीनदीमाहात्म्यवर्णनंनामैकत्रिंशदुत्तरद्वि शततमोऽध्यायः ॥ २३१ ॥ ॥ छ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 232

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि कूपं त्रैलोक्यपूजितम् ॥

पश्चिमे तस्य तीर्थस्य पांडवानां महात्मनाम् ॥ १ ॥

यदाऽरण्यमनुप्राप्ताः पांडवाः पृथिवीतले ॥

भ्रममाणा महादेवि प्रभासं क्षेत्रमागताः ॥ २ ॥

ततस्ते न्यवसंस्तत्र किंचित्कालं समाहिताः ॥

गत्वा क्षेत्रं महापुण्यं ततः कृष्णाऽब्रवीदिदम् ॥ ३ ॥

ब्राह्मणानां सहस्राणि भुंजते भवतां गृहे ॥

दूरे जलाश्रयश्चैव न तावंतश्च किंकराः ॥ ४ ॥

तस्माज्जलाश्रयः कार्यं आश्रमस्य समीपतः ॥

यत्र स्नानं करिष्यामि युष्माकं संप्रसादतः ॥ ५ ॥

ततस्तु पांडवाः सर्वे सहितास्ते वरानने ॥

अखनंस्तत्र ते कूपं द्रौपदीवाक्यप्रेरिताः ॥ ६ ॥

अथाजगाम तत्रैव भगवान्देवकीसुतः ॥

श्रुत्वा समागतान्पार्थान्द्वारावत्याः सबांधवः ॥ ७ ॥

प्रद्युम्नेन च सांबेन गदेन निषधेन च ॥

युयुधानेन रामेण चारुदेष्णेन धीमता ॥ ८ ॥

अन्यैः परिवृतः शूरैर्यादवैर्युद्ध दुर्मदैः ॥

ते समेत्य यथान्यायं समस्ता यदुपुंगवाः ॥ ९ ॥

ततः कथावसाने च कस्मिंश्चित्कारणांतरे ॥

वासुदेवः पांडुसुतमिदं वचनमब्रवीत् ॥ ॥ 7.1.232.१० ॥

युधिष्ठिर महाबाहो किं ते कामकरोम्यहम् ॥

राज्यं धान्यं धनं चापि अथवा रिपुनाशनम् ॥ ११ ॥

॥ युधिष्ठिर उवाच ॥ ॥

शक्तस्त्वं यादवश्रेष्ठ सर्वकर्मस्वसंशयः ॥

प्रतिज्ञातं त्वया पूर्वं वर्षैर्द्वादशभिः प्रियम्॥ १२ ॥

तन्नास्ति त्रिषु लोकेषु यन्न सिद्ध्यति भूतले ॥

त्वयि तुष्टे जगन्नाथ सर्वदेवनमस्कृते ॥ १३ ॥

अवश्यं यदि तुष्टोऽसि मम सर्वजगत्पते ॥

अत्र सांनिध्यमागच्छ कूपे नित्यं जनार्दन ॥ १४ ॥

अत्रागत्य नरो यस्तु भक्त्या स्नानं समाचरेत् ॥

स यातु वैष्णवं स्थानं प्रसादात्तव केशव ॥ १५ ॥

॥ ईश्वर उवाच ॥ ॥

एवं भविष्यतीत्युक्त्वा तदाऽमन्त्र्य युधिष्ठिरम् ॥

प्रययौ द्वारकां कृष्णः सर्वलोकनमस्कृतः ॥ १६ ॥

तस्मिञ्छ्राद्धं नरः कृत्वा वाजिमेधफलं लभेत् ॥

प्रसादाद्देवदेवस्य विष्णोरमिततेजसः ॥ १७ ॥

तदर्धं तर्पणेनैव स्नानात्पादमवाप्नुयात् ॥

तस्मात्सर्वप्रयत्नेन तत्र श्राद्धं समाचरेत् ॥ १८ ॥

ज्येष्ठस्य पौर्णमास्यां यः स्नानं श्राद्धं करिष्यति ॥

सावित्रीं चैव संपूज्य स यास्यति परमं पदम् ॥ १९ ॥

गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः ॥7.1.232.२०॥

इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पांडवकूपमाहात्म्यवर्णनंनाम द्वात्रिंशदुत्तरद्विशततमोऽध्यायः ॥ ॥ २३२ ॥ ॥ छ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 233

॥ ईश्वर उवाच ॥ ॥

तत्रैव पूजयेद्देवि पंच लिंगानि भावितः ॥

प्रतिष्ठितानि देवेशि पांडवैश्च महात्मभिः ॥ १ ॥

यस्तान्पूजयते भक्त्या स मुक्तः पातकैर्भवेत् ॥ २ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पांडवेश्वरमाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३३ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 234

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि तीर्थं त्रैलोक्यविश्रुतम् ॥

दशाश्वमेधिकंनाम महापातकनाशनम् ॥ १ ॥

वाजिमेधः पुरा चेष्टं दशभिस्तत्र भामिनि ॥

भरतेन समागत्य मत्वा क्षेत्रमनुत्तमम् ॥ २ ॥

तत्र तृप्तः सहस्राक्षः सोमनाथेन भामिनि ॥

कृपणाः खानपानैश्च दक्षिणाभिर्द्विजातयः ॥ ३ ॥

अथोचुस्त्रिदशाः सर्वे सुप्रीता भरतं नृपम् ॥

तुष्टास्तव महाबाहो यज्ञैः संतर्पिता वयम् ॥

वरं वृणीष्व राजेंद्र यत्ते मनसि वर्त्तते ॥ ४. ॥

॥ राजोवाच ॥ ॥

अत्रागत्य नरो भक्त्या यः स्नानं कुरुते नरः ॥

दशानामश्वमेधानां स प्राप्नोतु फलं शुभम् ॥. ५ ॥

॥ देवा ऊचुः ॥ ॥

दशानामश्वमेधानां श्रद्धया फलमाप्स्यति ॥

दशाश्वमेधिकंनाम तीर्थमेतन्महीतले ॥

ख्यातिं यास्यति राजेंद्र नात्र कार्या विचारणा ॥ ६ ॥

॥ ईश्वर उवाच ॥ ॥

ततः प्रभृति तत्तीर्थं प्रख्यातं धरणीतले ॥

दशाश्वमेधिकमिति सर्वपापप्रणाशनम् ॥ ७ ॥

ऐंद्रवारुणमाश्रित्य गोमुखादाऽऽश्वमेधिकम् ॥

अत्रांतरे महादेवि शिवक्षेत्रं विदुर्बुधाः ॥ ८ ॥

सर्वपापहरं दिव्यं स्वर्गसोपानसंनिभम् ॥

सपादकोटितीर्थानां स्थानं तत्परिकीर्तितम ॥ ९ ॥

प्राणत्यागे कृते तत्र शिवलोके च मोदते ॥

तिर्यग्योनिगताः पापा कीटपक्षिमृगादयः ॥ 7.1.234.१० ॥

तेऽपि यांति परं स्थानं यत्र देवो महेश्वरः ॥

तिलोदकप्रदानेन मातृकाः पैतृकास्तथा ॥ ११ ॥

पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम् ॥

तत्रेष्टा ब्रह्मणा पूर्वमसंख्याता मखोत्तमाः ॥ १२ ॥

शक्रश्च देवराजत्वे तत्रेष्ट्वा समवाप्तवान् ॥

कार्त्तवीर्येण तत्रैव कृतं यज्ञशतं पुरा ॥ १३ ॥

एवं तत्प्रवरं स्थानं क्षेत्रगर्भांतिकं प्रिये ॥

मृतानां तत्र जंतूनामपुनर्भवदायकम् ॥ १४ ॥

वृषोत्सर्गं तु यस्तत्र कुर्याद्वै भावितात्मवान् ॥

यावंति वृषरोमाणि तावत्स्वर्गे महीयते ॥ १५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्र माहात्म्ये दशाश्वमेधमाहत्म्यवर्णनंनाम चतुस्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३४ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 235

॥ ईश्वर उवाच ॥ ॥

तत्रैव संस्थितं पश्येल्लिंगत्रयमनुत्तमम् ॥

शतमेधं सहस्रमेधं कोटिमेधमिति क्रमात् ॥ १ ॥

दक्षिणे शतमेधं तु शतयज्ञफलप्रदम् ॥

कार्तवीर्य्येण तत्रैव कृतं यज्ञशतं पुरा ॥ २ ॥

प्रतिष्ठाप्य महालिंगं सर्वपातकनाशनम् ॥

मध्यभागेऽत्र यल्लिंगं कोटिमेधेति विश्रुतम् ॥ ३ ॥

तत्रेष्टा ब्रह्मणा पूर्वं कोटि संख्या मखोत्तमाः ॥

संस्थाप्य तु महादेवं शंकरं लोकशंकरम ॥ ४ ॥

तस्य उत्तरभागस्थं सहस्रक्रतुसंज्ञकम् ॥

शक्रश्च देवराजोऽपि सहस्रं यष्टवान्क्रतून् ॥ ५ ॥

प्रतिष्ठाप्य महालिंगं देवानामादिदैवतम् ॥

गंधपुष्पादिविधिना पंचामृतरसोदकैः ॥ ६ ॥

स प्राप्नुयात्फलं देवि लिंगनामोद्भवं क्रमात् ॥

गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः ॥७॥

दशलक्षाणि तीर्थानां तत्र तिष्ठंति भामिनि ॥

लिंगत्रयं तथा मध्ये सर्वपातकनाशनम् ॥ ॥ ८ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दशाश्वमेधमाहात्म्ये शतमेधादि लिंगत्रयमाहात्म्यवर्णनंनाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३५ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 236

ततो गच्छेन्महादेवि दुर्वासादित्यमुत्तमम् ॥

यत्र दुर्वाससा तप्तं तपो वर्षसहस्रकम् ॥

निराहारो जिताहारः सूर्याराधनतत्परः ॥ १ ॥

एवं कालेन महता दिव्यतेजा जनाधिपः ॥

प्रत्यक्षं दर्शनं गत्वा प्राह सूर्यो महामुनिम् ॥ २ ॥

॥ सूर्य उवाच ॥ ॥

मा ब्रह्मन्साहसं कार्षीर्वरं वरय सुव्रत ॥

अप्राप्यमपि दास्यामि यत्ते मनसि वर्तते ॥ ३ ॥ ॥

॥ दुर्वासा उवाच ॥ ॥

प्रसन्नो यदि मे देव वरार्हो यदि चाऽप्यहम् ॥

अत्र स्थाने त्वया स्थेयं यावत्तिष्ठति मेदिनी ॥ ४ ॥

दुर्वासादित्यना माऽत्र लोके ख्यातिं च गच्छतु ॥

मया प्रतिष्ठिता या तु प्रतिमा तव सुन्दरी ॥५ ॥

तस्यां सांनिध्यमेवास्तु तव देव जगत्पते ॥

सांनिध्यं कुरुत चात्र यमुना दुहिता तव ॥

त्वत्सुतस्तु महातेजा धर्मराजो महाबलः ॥ ६ ॥

॥ सूर्य उवाच ॥ ॥

एतत्सर्वं मुनिश्रेष्ठ त्वयोक्तं संभविष्यति ॥

तीर्थानां कोटिरन्या च गंगादीनां महामुने ॥ ७ ॥

आगमिष्यति ते स्थानं निश्चितं वचनान्मम ॥

अत्र स्थाने मया ब्रह्मन्स्थातव्यं सह दैवतैः ॥ ८॥

आदित्यानां प्रभावैस्तु ब्रह्मांडोदरवासिनाम्॥

तेषां माहात्म्यसंयुक्तः स्थास्ये चात्र महामुने ॥ ९ ॥

सवितॄणां सहस्रेण दृष्टेनैव तु यत्फलम् ॥

तत्फलं कोटिगुणितं दुर्वासादित्यदर्शनात्॥7.1.236.१०॥

लप्स्यंते प्राणिनः सर्वे यज्ञकोटिफलं तथा ॥

एवमुक्त्वा तदा सूर्यः सस्मार तनयां निजाम् ॥

तथा च धर्मेराजानं सर्वप्राणिनियामकम् ॥ ११ ॥

स्मृतमात्रा तत्र भित्त्वा पातालतलमुद्ययौ ॥

सा नदीरूपिणी देवी तीर्थकोटिसमन्विता॥१२॥

यमश्च तत्र भगवान्कालदंडधरस्तदा ॥

ऊचतुः प्रणयोपेतौ सूर्यं भुवनसाक्षिणम् ॥ १३ ॥

॥ यम उवाच ॥ ॥

आज्ञापयतु मां देवो यमुनां च जगत्प्रभुः ॥

कार्यं यद्भाविनोऽर्थस्य तत्करिष्ये न संशयः ॥१४॥

॥ सूत उवाच ॥ ॥

अत्र क्षेत्रे स्वरूपेण स्थातव्यं वचनान्मम ॥

पापिनां प्राणिनां चात्र रक्षा कार्या प्रयत्नतः ॥ १५ ॥

सूर्यभक्ताः सदा रक्ष्या ब्राह्मणा गृहमेधिनः ॥

त्वं चापि यमुने चात्र कोटितीर्थेन संयुता ॥ १६ ॥

वस त्वं भव सुप्रीता स्थाने दुर्वाससोद्भवे ॥

इत्येवमुक्त्वा देवेशस्तत्र दुर्वाससोंऽतिके ॥१७॥

पश्यतां सर्वदेवानामंतर्द्धानमगात्प्रभुः ॥

दुर्वासास्तु तदा हृष्टो यावत्पश्यति स्वाश्रमम्॥१८॥

तावत्पातालमार्गेण यमुना प्रादुराभवत् ॥

यमश्च भगवांस्तत्र दृष्टः क्षेत्रपरूपधृक् ॥१९॥

॥ ईश्वर उवाच ॥ ॥

इत्थं समभवत्तत्र यमुनोद्भेदमुत्तमम्॥

कुण्डमादित्यतो याम्ये दुंदुभिस्तत्र पूर्वतः ॥ 7.1.236.२० ॥

क्षेत्रपालो महादेवि यतो दुंदुभिनिःस्वनः ॥

तत्र स्नात्वा महाकुण्डे यः संतर्पयते पितॄन्॥ २१ ॥

दश वर्षाणि पञ्चैव तृप्तिं यांति पितामहः ॥

पिंडदानेन दत्तेन पितॄणां तुष्टिमावहेत् ॥

नरके तु स्थितानां च मुक्तिर्भूयान्न संशयः ॥२२॥

माघे मासि सिते पक्षे सप्तम्यां संयतात्मवान् ॥

दुर्वासार्कं च संपूज्य मुच्यते ब्रह्महत्यया ॥ २३ ॥

स्नात्वा तु यमुना कुण्डे माधवे मासि मानवः ॥

पूजयेद्भक्तिभावेन रविं गगनभूषणम् ॥ २४ ॥

पठेत्सहस्रं नाम्ना तु दुर्वासादित्यसंनिधौ ॥

षण्मासान्मुच्यते जंतुर्यद्यपि ब्रह्महा नरः ॥ २५॥

सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ॥

दुर्वासादित्यनामानं सूर्यं को नु न पूजयेत् ॥ २६ ॥

न तदस्ति भयं किंचिद्यदनेन न शाम्यति ॥

दर्शनेनापि सूर्यस्य तत्र दुर्वाससः प्रिये ॥ २७ ॥

संपद्यंते तथा कामाः सर्व एव यथेप्सिताः ॥

बंध्यानां पुत्रफलदं भीतानां भयनाशनम्॥ २८ ॥

भूतिप्रदं दरिद्राणां कुष्ठिनां परमौषधम् ॥

बालानां चैव सर्वेषां ग्रहरक्षोनिवारणम् ॥

महापापोपशमनं दुर्वासादित्यदर्शनम्॥ २९ ॥

हेमाश्वस्तत्र दातव्यः सूर्यमुद्दिश्य भामिनि ॥

ब्राह्मणे वेदसंयुक्ते तेन दत्ता मही भवेत् ॥ 7.1.236.३० ॥

यस्तत्र पूजयेद्देवं क्षेत्रपालं च दुन्दुभिम् ॥

स पुत्रपशुमान्धीमाञ्छ्रीमान्भवति मानवः ॥ ३१ ॥

न भयं जायते तस्य त्रिविधं वरवर्णिनि ॥

अर्धगव्यूतिमात्रं तु तत्र क्षेत्रं रवेः स्मृतम्॥ ३२ ॥

न तत्र प्रविशेज्जन्तुः सूर्यभक्तिविवर्जितः ॥

इत्येतत्कथितं देवि माहात्म्यं सूर्यदैवतम् ॥ ३३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दुर्वासादित्यमाहात्म्यवर्णनंनाम षट्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ ॥ २३६ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 237

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि यादवस्थलमुत्तमम् ॥

यादवा यत्र नष्टा वै षट्पंचाशच्च कोटयः ॥ १ ॥

यत्र वज्रेश्वरो देवो वज्रेणाराधितः सदा ॥

यत्राभूद्दिव्यदृष्टीनामृषीणामाश्रमं कुलम् ॥ २ ॥

॥ देव्युवाच ॥ ॥

कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह ॥

पश्यतो वासुदेवस्य भोजाश्चैव महारथाः ॥ ३ ॥

केन शप्तास्तु ते वीरा नष्टा वृष्ण्यन्धकादयः ॥

भोजाश्चैव महादेव विस्तरेण वदस्व मे ॥ ४ ॥

॥ ईश्वर उवाच ॥ ॥

षट्त्रिंशे च कलौ वर्षे संप्राप्तेऽन्धकवृष्णयः ॥

अन्योन्यं मुशलैस्ते हि निजघ्नुः कालनोदिताः ॥ ५ ॥

विश्वामित्रं च कण्वं च नारदं च यशस्विनम् ॥

सारणप्रमुखान्भोजान्ददृशुर्द्वारकां गतान् ॥ ६ ॥

ते वै सांबं समानिन्युर्भूषयित्वा स्त्रियं यथा ॥

अब्रुवन्नुपसंगम्य देवदंडनिपीडिताः ॥ ७ ॥

इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः ॥

ऋषयः साधु जानीत किमियं जनयिष्यति ॥ ८ ॥

इत्युक्तास्ते तदा देवि विप्रलंभप्रधर्षिताः ॥

प्रत्यब्रुवंस्तान्मुनयस्तच्छृणुष्व यथातथम् ॥ ९ ॥

॥ ऋषय ऊचुः ॥ ॥

वृष्ण्यन्धकविनाशाय मुशलं घोरमायसम्॥

वासुदेवस्य दायादः सांबोऽयं जनयिष्यति ॥ 7.1.237.१० ॥

येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः ॥

उच्छेत्तारः कुलं सर्वमृते रामाज्जनार्द्दनात् ॥ ११ ॥

त्यक्त्वा यास्यति वः श्रीमांत्यक्त्वा भूमिं हलायुधः ॥

जरा कृष्णं महाभागं शयानं तु निवेत्स्यति ॥ १२ ॥

इत्यब्रुवंस्ततो देवि प्रलब्धास्ते दुरात्मभिः ॥

मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् ॥ १३ ॥

तथोक्ता मुनयस्ते तु ततः केशवमभ्ययुः ॥

अथावदत्तदा वृष्णीञ्छ्रुत्वैवं मधुसूदनः ॥ १४ ॥

अभिज्ञो मतिमांस्तस्य भवितव्यं तथेति तत् ॥

एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान् ॥ १५ ॥

कृतांतमन्यथाकर्त्तुं नैच्छत्स जगतः प्रभुः ॥

श्वोभूते सततः सांबो मुसलं तदसूत वै ॥१६॥

येन वृण्ष्यन्धककुले पुरुषा भस्मसात्कृताः॥

वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत् ॥ १७ ॥ (किंकर – यमकिंकर)

असूत शापजं घोरं तच्च राज्ञे न्यवेदयत् ॥

विषण्णोऽथ ततो राजा सूक्ष्मं चूर्णमकारयत् ॥ १८ ॥

प्राक्षिपत्सागरे तत्र पुरुषो राजशासितः ॥

अथोवाच स्वनगरे वचनादाहुकस्य हि ॥ १९ ॥

जनार्द्दनस्य रामस्य बभ्रोश्चैव महात्मनः ॥

अद्यप्रभृति सर्वेषां वृष्णन्धकगृहेष्विह ॥

सुरासवो न कर्त्तव्यः सर्वैर्विषयवासिभिः ॥ 7.1.237.२॥।

यश्च वो विदितं कुर्यादेवं कश्चित्क्वचिन्नरः ॥

स जीवञ्छूलमारोहेत्स्वयं कृत्वा सबांधवः ॥ २१ ॥

ततो राजभयात्सर्वे नियमं तत्र चक्रिरे ॥

नराः शासनमाज्ञाय रामस्याक्लिष्टकर्मणः ॥ २२ ॥

एवं प्रयतमानानां वृष्णीनामन्धकैः सह ॥

कालो गृहाणि सर्वाणि परिचक्राम नित्यशः ॥ २३ ॥

करालो विकटो मुंडः पुरुषः कृष्णपिंगलः ॥

सम्मार्जनी महाकेतुर्जपापुष्पावतंसकः ॥ २४ ॥

कृकलासवाहनश्च रत्तिकाकर्णभूषणः ॥

गृहाण्यवेक्ष्य वृष्णीनां नादृश्यत पुनः क्वचित् ॥ २५ ॥

तस्य चासन्महेष्वासाः शरैः शतसहस्रशः ॥

न चाशक्यत वेद्धुं स सर्वभूताप्ययं सदा ॥ २६ ॥

उत्पेदिरे महावाता दारुणा हि दिने दिने ॥

वृष्ण्यन्धकविनाशाय बहवो लोमहर्षणाः ॥ २७ ॥

विवृद्ध्य मूषिका रथ्यावितुन्नमणिकास्तथा ॥

केशान्ददंशुः सुप्तानां नृणां युवतयो निशि ॥ २८ ॥

चीचीकूचीत्यवाशंत सारिका वृष्णिवेश्मसु ॥

नोपशाम्यति शब्दश्च स दिवारात्रमेव वा ॥ २९ ॥

अन्वकुर्वन्नुलूकाश्च वायसान्वृष्णिवेश्मसु ॥

अजाः शिवानां च रुतमन्वकुर्वत भामिनि ॥ 7.1.237.३० ॥

पांडुरारक्तपादाश्च विहगाः कालप्रेरिताः ॥

वृष्ण्यन्धकगृहेष्वेवं कपोता व्यचरंस्तदा ॥ ३१ ॥

व्यजायंत खरा गोषु करभाश्चाश्वतरीषु च ॥

शुनीष्वपि बिडालाश्च मूषका नकुलीषु च ॥ ३२ ॥

तापत्रयांत पापानि कुर्वंतो वृष्णयस्तथा ॥

अद्विषन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च ॥३३॥

गुरूंश्चाप्यवमन्यंते न तु रामजनार्दनौ ॥

भार्याः पतीन्व्युच्चरंति पत्नीश्च पुरुषास्तथा ॥ ३४ ॥

विभावसुः प्रज्वलितो वामं विपरिवर्त्तते ॥

नीललोहितमांजिष्ठा विसृजंश्चार्चिषः पृथक् ॥ ३५ ॥

उदयास्तमने नित्यं पर्यस्तः स्याद्दिवाकरः ॥

व्यदृश्यत सकृत्पुंभिः कबन्धैः परिवारितः ॥ ३६ ॥

महानसेषु सिद्धांते संस्कृतेऽन्ने तु भामिनि ॥

उत्तार्यमाणे कृमयो दृश्यंते च वरानने ॥ ३७ ॥

पुण्याहे वाच्यमाने च पठत्सु च महात्मसु ॥

अभिधावंति श्रूयंते न चादृश्यत कश्चन ॥ ३८ ॥

परस्परस्य नक्षत्रं हन्यमानं पुनःपुनः ॥

ग्रहैरपश्यन्सर्वैस्ते नात्मनस्तु कथञ्चन ॥ ३९ ॥

न हुतं पाचयत्यग्निर्वृष्ण्यंधकपुरस्कृतम् ॥

समंतात्प्रत्यवाशंत रासभा दारुणस्वनाः ॥ 7.1.237.४० ॥

एवं पश्यन्हृषीकेशः संप्राप्तान्कालपर्ययान् ॥

त्रयोदशीं ह्यमावास्यां तां दृष्ट्वा प्राब्रवीदिदम्॥ ४१ ॥

त्रयोदशी पंचदशी कृतेयं राहुणा पुनः ॥

तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः ॥ ४२ ॥

धिग्धिगित्येवकालं तं परिचिंत्य जनार्दनः ॥

मेने प्राप्तं स षट्त्रिंशं वर्षं केशिनिषूदनः ॥

पुत्रशोकाभिसंतप्ता गांधारी यदुवाच ह ॥ ४३ ॥

एवं पश्यन्हृषीकेशस्तदिदं समुपस्थितम्॥

इदं च समनुप्राप्तमब्रवीद्यद्युधिष्ठिरः ॥ ४४ ॥

पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान्सुदारुणान्॥

पुण्यग्रन्थस्य श्रवणाच्छांतिहोमाद्विशोधनात् ॥४५॥

पूततीर्थाभिषेकांच्च नान्यच्छ्रेयो भवेदिति ॥

इत्युक्त्वा वासुदेवस्तच्चिकीर्षन्सत्यमेव च ॥

आज्ञापयामास तदा तीर्थयात्रामरिंदमः ॥ ४६ ॥

अघोषयंत पुरुषास्तत्र केशवशासनात् ॥

तीर्थयात्रा प्रभासे वै कार्येति वरवर्णिनि ॥ ४७ ॥

अथारिष्टानि वक्ष्यामि पुरीं द्वारवतीं प्रति ॥

काली स्त्री पांडुरैर्दंतैः प्रविश्य नगरीं निशि ॥ ४८ ॥

स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां प्रति धावति ॥

अग्निहोत्रनिकेतं च सुमेध्येषु च वेश्मसु ॥ ४९ ॥

वृष्ण्यंधकांश्च खादंती स्वप्ने दृष्टा भयानका ॥

कुर्वंती भीषणं नादं कुर्कुटश्वानसंयुता ॥ 7.1.237.५० ॥

तथा सहस्रशो रौद्राश्चतुर्बाहव एव च ॥

स्त्रीणां गर्भेष्वजायंत राक्षसा गुह्यकास्तथा ॥ ॥ ५१ ॥

अलंकाराश्च च्छत्राणि ध्वजाश्च कवचानि च ॥

ह्रियमाणानि दृश्यंते रक्षोभिस्तु भयानकैः ॥ ५२॥

यच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम् ॥

दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ॥ ५३ ॥

युक्तं रथं दिव्यमादित्यवर्णं भयावहं पश्यतो दारुकस्य ॥

ते सागरस्योपरिष्टाद्वर्तमानान्मनोजवांश्चतुरो वाजिमुख्यान् ॥ ५४ ॥

तालः सुपर्णश्च महाध्वजौ तौ सुपूजितौ रामजनार्दनाभ्याम् ॥

उच्चैर्जगुः स्वप्सरसो दिवानिशं वाचं चोचुर्गम्यतां तीर्थयात्राम् ॥ ५५ ॥

ततो जिगमिषंतस्ते वृष्ण्यंधकमहारथाः ॥

सांतःपुरास्तीर्थयात्रामीहंते स्म नरर्षभाः ॥५६॥

ततो मांसपरा हृष्टाः पेयं वेश्मसु वृष्णयः ॥

बहु नानाविधं चक्रुर्मांसानि विविधानि च ॥ ५७ ॥

तथा सीधुषु बद्धेषु निर्ययुर्नगराद्बहिः ॥

यानैरश्वैर्गजैश्चैव श्रीमंतस्तिग्मतेजसः ॥ ५८ ॥

ततः प्रभासे न्यवसन्यथोद्देशं यथागृहम् ॥

प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ॥ ५९ ॥

निर्विष्टांस्तान्निशम्याथ समुद्रांते स योगवित् ॥

जगामामंत्र्य तान्वीरानुद्धवोर्थविशारदः ॥ 7.1.237.६० ॥

प्रस्थितं तं महात्मानमभिवाद्य कृतांजलिम्॥

जानन्विनाशं भोजानां नैच्छद्वारयितुं हरिः ॥ ६१ ॥

ततः कालपरीतास्ते वृष्ण्यंधकमहारथाः ॥

अपश्यन्नुद्धवं यांतं तेजसाऽऽदीप्य रोदसी ॥ ६२ ॥

ब्राह्मणार्थेषु यत्क्लृप्तमन्नं तेषां वरानने ॥

तद्वाहनेभ्यः प्रददुः सुरागंधरसान्वितम्॥६३॥

ततस्तूर्यशताकीर्णं नटनर्त्तकसंकुलम्॥

प्रावर्त्तत महापानं प्रभासे तिग्मतेजसाम्॥ ६४॥

कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा ॥

अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च ॥६५॥

ततः परिषदो मध्ये युयुधानो मदोत्कटः ॥

अब्रवीत्कृतवर्माणमवहस्यावमन्य च ॥ ६६ ॥

कः क्षत्रियो मन्यमानः सुप्तान्हन्यान्मृतानिव ॥

न तन्मृष्यत हार्दिक्यस्त्वया तत्साधु यत्कृतम् ॥ ६७ ॥

इत्युक्ते युयुधानेन पूजयामास तद्वचः ॥

प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमथ भर्त्सयन् ॥ ६८ ॥

ततः पुनरपि क्रुद्धः कृतवर्मा तमब्रवीत् ॥

निर्विशन्निव सावज्ञं तदा सव्येन पाणिना ॥ ६९ ॥

भूरिश्रवाश्छिन्नबाहुर्युद्धे प्रायोगतस्त्वया ॥

व्याधेनेव नृशंसेन कथं वैरेण घातितः ॥ 7.1.237.७० ॥

इति तस्य वचः श्रुत्वा केशवः परवीरहा ॥

तिर्यक्सरोषया दृष्ट्या वीक्षांचक्रे समः पुमान् ॥ ७१ ॥

मणिं स्यमंतकं चैव यः स सत्राजितोऽभवत् ॥

स कथं स्मारयामास सात्यकिर्मधुसूदनम् ॥ ७२ ॥

तच्छ्रुत्वा केशवस्यांकमगमद्रुदती सती ॥

सत्यभामा प्रक्षुभिता कोपयन्ती जनार्द्दनम् ॥ ७३ ॥

तत उत्थाय स क्रोधात्सात्यकिर्वाक्यमब्रवीत् ॥

पंचानां द्रौपदेयानां धृष्टद्युम्नशिखंडिनः ॥ ७४ ॥

एष गच्छामि पदवीं सत्ये तव पथे सदा ॥

सौप्तिके निहता ये च सुप्तास्तेन दुरात्मना ॥ ७५ ॥

द्रोणपुत्रसहायेन पापेन कृतवर्मणा ॥

समाप्तं चायुरस्याद्य यशश्चापि सुमध्यमे ॥ ७६ ॥

इतीदमुक्त्वा खङ्गेन केशवस्य समीपतः ॥

अभिहत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ॥ ७७ ॥

तथान्यानपि निघ्नंतं युयुधानं समंततः ॥

अन्वधावद्धृषीकेशो विनिवारयिषुस्तथा ॥ ७८ ॥

एकीभूतास्ततस्तस्य कालपर्यायप्रेरिताः ॥

भोजांधका महाराजं शैनेयं पर्यवारयन् ॥ ७९ ॥

तान्दृष्ट्वाऽऽपततस्तूर्णमभिक्रुद्धाञ्जनार्द्दनः ॥

न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ॥ 7.1.237.८० ॥

ते च पानमदाविष्टाश्चोदिताश्चैव मन्युना ॥

युयुधानमथाजघ्नुरुच्छिष्टै र्भोजनैस्तथा ॥ ८१ ॥

हन्यमाने तु शैनेये कुद्धो रुक्मिणिनंदनः ॥

तदंतरमथाधावन्मोक्षयिष्यञ्छिनेः सुतम् ॥ ८२ ॥

स भोजैः सह संयुक्तः सात्यकिश्चांधकैः सह ॥

बहुत्वात्तु हतौ वीरावुभौ कृष्णस्य पश्यतः ॥ ८३ ॥

हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनंदनः ॥

एरकाणां तदा मुष्टिं कोपाज्जग्राह केशवः ॥ ८४ ॥

तदभून्मुशलं घोरं वज्रकल्पमयस्मयम् ॥

जघान तेन कृष्णोपि ये तस्य प्रमुखे स्थिताः ॥ ८९ ॥

ततोंऽधकाश्च भोजाश्च शिनयो वृष्णयस्तदा ॥

न्यघ्नन्नन्योन्यमाक्रन्दैर्मुशलैः कालप्रेरिताः ॥ ८६ ॥

यश्चैकामेरकां कश्चिज्जग्राह रुषितो नरः ॥

वज्रभूता च सा देवि ह्यदृश्यत तदा प्रिये ॥ ८७ ॥

तृणं च मुशलीभूतमण्वपि तत्र दृश्यते ॥

ब्रह्मदंडकृतं सर्वमिति तद्विद्धि भामिनि ॥ ८८ ॥

आविध्याविध्य देवेशि प्रहरंति स्म सायकान्॥

तद्वज्रभूतं मुशलमपश्यंत तदा दृढम् ॥ ८९ ॥

अवधीत्पितरं पुत्रः पिता पुत्रं च भामिनि ॥

मत्तास्ते पर्यटंति स्म योधमानाः परस्परम् ॥ 7.1.237.९० ॥

पतंगा इव चाग्नौ तु न्यपतन्यदुपुंगवाः ॥

नासीत्पलायने बुद्धिर्वध्यमानस्य कस्यचित् ॥ ९१ ॥

तं तु पश्यन्महाबाहुर्जानन्कालस्यपर्ययम् ॥

मुशलं समवष्टभ्य तस्थौ स मधुसूदनः ॥ ९२ ॥

सांबं च निहतं दृष्ट्वा चारुदेष्णं च माधवः ॥

प्रद्युम्नमनिरुद्धं च ततश्चुक्रोध भामिनि ॥ ९३ ॥

यादवान्क्ष्माशयानांश्च भृशं कोपसमन्वितः ॥

स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ॥ ९४ ॥

एवं तत्र महादेवि अभवद्यादव स्थलम् ॥

गव्यूतिमात्रं तद्देवि यादवानां चिताः स्मृताः ॥ ९५ ॥

तेषां किलास्थिनिचयैः स्थलरूपं बभूव तत् ॥

भस्मपुंजनिभाकारं तेनाभूद्यादव स्थलम् ॥ ९६ ॥

दिव्यरत्नसमायुक्तं मणिमाणिक्यपूरितम् ॥

यादवानां किरीटैश्च दिव्यगन्धैः सुपूरितम्॥ ९७ ॥

तेषां रक्षानिमित्तं हि गंगा गणपतिस्तथा ॥

यादवानां तु सर्वेषां जीवितो वज्र एव हि ॥ ९८ ॥

वयसोंते ततः सोऽपि प्रभासं क्षेत्रमागतः ॥

निषिच्य स्वसुतं राज्ये नाम्ना ख्यातं महद्बलम् ॥ ९९ ॥

तेनापि स्थापितं लिंगं यादवेन्द्रेण धीमता ॥

वज्रेश्वरमिति ख्यातं तत्स्थितं यादवस्थले ॥7.1.237.१००॥

तत्रैव सुचिरं कालं तपस्तप्तं सुपुष्कलम् ॥

नारदस्योपदेशेन प्रभासे पापनाशने ॥ १०१ ॥

प्राप्तवान्परमां सिद्धिं स राजा यादवोत्तमः ॥

तत्रैव यो नरः सम्यक्स्नात्वा जांबवती जले ॥ १०२ ॥

वज्रेश्वरं तु संपूज्य ब्राह्मणांस्तत्र भोजयेत् ॥

यादवस्थलसामीप्ये गोसहस्रफलं लभेत् ॥ १०३ ॥

षट्कोणं तत्र दातव्यमंगुल्या यादवस्थले ॥

यात्राफलमवाप्नोति सम्यक्छ्रद्धासमन्वितः ॥ १०४ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये यादवस्थलोत्पत्तौ वज्रेश्वरमाहात्म्यवर्णनंनाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३७ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 238

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि हिरण्यां पापनाशिनीम् ॥

सर्वकामप्रदां पुण्यां दारिद्र्यस्यांतकारिणीम् ॥ १ ॥

तत्र स्नात्वा विधानेन कृत्वा पिंडोदक क्रियाम् ॥

प्राप्नुयादक्षयाँल्लोकान्पितॄनुद्धृत्य पापतः ॥२॥

एकं यो भोजयेत्तत्र ब्राह्मणं शंसितव्रतम् ॥

तेनायुतसहस्रं हि भोजितं स्याद्द्विजन्मनाम् ॥ ॥ ३ ॥

तत्र हेमरथा देयो ब्राह्मणे वेदपारगे ॥

विधिना शिवमुद्दिश्य यात्रायुतफलं लभेत् ॥ ४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये हिरण्यानदीमाहात्म्यवर्णनंनामाष्टात्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३८ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 239

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि हिरण्यापार्श्वतः स्थितम् ॥

प्रत्युक्तं नागरादित्यं सर्वव्याधिविनाशनम् ॥ १ ॥

पुरा सत्राजिता राज्ञा द्वारवत्यां गतेन तु ॥

आराधितो भास्करोऽभूद्यादवेन महात्मना ॥ २ ॥

महाव्रतमुपास्थाय निघ्नपुत्रेण धीमता ॥

तस्य तुष्टस्तदा भानुः स्यमन्तकमणिं ददौ ॥३॥

स मणिः सवते नित्यं भारानष्टौ दिनेदिने ॥ (सवते- सूते)

सुवर्णस्य सुशुद्धस्य भक्त्या व्रततपोयुतः ॥ ४ ॥

भूयोऽपि भानुना प्रोक्तो वरं ब्रूहि वरानने ॥

स चाह देवदेवेशं भास्करं वारितस्करम् ॥ ५ ॥

यदि तुष्टोऽसि मे देव वरदानं करोषि च ॥

अत्रैव चाश्रमे पुण्ये नित्यं संनिहितो भव ॥ ६ ॥

एवं भविष्यतीत्युक्त्वा सूर्यः सत्राजितं नृपम् ॥

अभिनंद्य वरं तस्य तत्रैवादर्शनं गतः ॥ ७ ॥

तेनापि निघ्नपुत्रेण देवदेवस्य भास्वतः ॥

स्थापिता प्रतिमा शुभ्रा तत्रैव वरवर्णिनि ॥ ८ ॥

शंखदुंदुभिनिर्घोषैर्ब्रह्मघोषैश्चपुष्कलैः ॥

ततस्तुनागरान्सर्वान्समाहूय द्विजोत्तमान् ॥

अब्रवीत्प्रणतो भूत्वा दत्त्वा वृत्तिमनुत्तमाम् ॥९॥

युष्मत्पादप्रसादेन सूर्यस्यानुग्रहेण वै ॥

साधयित्वा तपश्चोग्रं स्थापिता प्रतिमा मया ॥7.1.239.१०॥

इंद्रलोकादिहानीता जित्वा शक्रं सुरारिणा॥

दशाननस्य पुत्रेण लंकायां स्थापिता पुरा ॥११॥

तं निहत्य तु रामेण लक्ष्मणानुगतेन वै॥

अयोध्यायां समानीता सौमित्रिजयलक्षिका॥१२॥

मित्रावरुणपुत्राय वसिष्ठाय समर्पिता॥

तेनापि मम तुष्टेन द्वारकायां निवेदिता॥१३॥

मयापि स्थापिता चात्र ज्ञात्वा क्षेत्रमनुत्तमम् ॥

किमत्र बहुनोक्तेन भवद्भिः सर्वथैव हि ॥१४॥

परिपाल्या प्रयत्नेन यावच्चंद्रार्कतारकम्॥

तस्माद्युष्माकमादिष्टा प्रतिमेयं मया शुभा ॥ १५ ॥

नागराणां तु विप्राणां सोमेशपुरवासिनाम् ॥

तस्मान्नाम मया दत्तं नागरादित्यमेव हि ॥ १६ ॥

॥ ब्राह्मणा ऊचुः॥ ॥

सर्वमेव करिष्यामो देवस्य परिपालनम् ॥

यावन्मही च चंद्रार्कौ यावत्तिष्ठति सागरः ॥

तावत्ते ह्यक्षया कीर्तिः स्थाने चास्मिन्भविष्यति॥१७॥

एवमुक्त्वा तु ते सर्वे नागरा द्विजपुंगवाः ॥

राजापि तुष्टः प्रययौ तदा द्वारवतीं पुरीम् ॥१८ ॥

॥ ईश्वर उवाच ॥ ॥

शृणु देवि प्रवक्ष्यामि तस्मिन्दृष्टे तु यत्फलम् ॥

गोशतस्य प्रयागेषु सम्यग्दत्तस्य यत्फलम् ॥

तत्फलं समवाप्नोति नागरार्कस्य दर्शनात्॥ १९॥

दारिद्र्यदुःखशोकार्त्तेः कोन्योस्ति हरणक्षमः॥

प्रभासे पावने क्षेत्रे मुक्त्वा नागरभास्करम् ॥ 7.1.239.२० ॥

बंधकुष्ठादिकं दुःखं ये भजंत्यल्पबुद्धयः ॥

तत्र ते नैव जानंति वैद्यं नागरभास्करम् ॥ २१ ॥

स्नात्वा हिरण्यातोयेन यस्तं पूजयते नरः ॥

कल्पकोटिसहस्राणि सूर्यलोके महीयते ॥२२॥

शुक्लपक्षे तु सप्तम्यां यदा संक्रमते रविः ॥

महाजया तदा ख्याता सप्तमी भास्करप्रिया ॥ २३ ॥

स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ॥

सर्वं कोटिगुणं प्रोक्तं भास्करस्यवचो यथा ॥ २४ ॥

एकं यो भोजयेत्तत्र ब्राह्मणं सूर्यसंनिधौ ॥

कोटिभोज्यं कृतं तेन इत्याह भगवान्हरिः ॥ २५ ॥

एतन्मया ते कथितं पुरा नोक्तं वरानने ॥

यः शृणोति नरो भक्त्या स गच्छेद्भास्करं पदम्॥२६॥

सूर्यस्य देवि नामानि रहस्यानि शृणुश्व मे॥

अलं नामसहस्रेण पठस्वैनं शुभं स्तवम्॥२७॥

विकर्त्तनो विवस्वांश्च मार्त्तंडो भास्करो रविः ॥

लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ॥ २८ ॥

लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा ॥

तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥ २९ ॥

गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ॥

एकविंशक इत्येष नागरार्कस्तवः स्मृतः ॥ 7.1.239.३० ॥

स्तवराज इति ख्यातः शरीरारोग्यवृद्धिदः ॥ ३१ ॥

य एतेन महादेवि द्वे संध्येऽस्तमनोदये ॥

नागरार्कं तु संस्तौति स लभेद्वांछितं फलम्॥ ३२ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये नागरार्कमाहात्म्यवर्णनंनामैकोनचत्वारिंशदुत्तरद्विशततमो ऽध्यायः ॥ २३९ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 240

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि बलभद्रं सुरेश्वरम् ॥

सुभद्रां च तथा कृष्णं सर्वपातकनाशनम् ॥ १ ॥

पूर्व कल्पे महादेवि देहमत्रात्यजद्धरिः ॥

अस्मिन्कल्पेपि च पुनर्गात्रोत्सर्गमिति स्मृतम् ॥ २ ॥

तत्र ये पूजयिष्यंति नागरादित्यसंनिधौ ॥

बलभद्रं सुभद्रां च कृष्णं ते स्वर्गगामिनः ॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये बलभद्र सुभद्रा कृष्ण माहात्म्यवर्णनंनाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४० ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 241

॥ ईश्वर उवाच ॥ ॥

तत्रैव संस्थितं पश्येद्बलभद्रकलेवरम् ॥

शेषरूपेण यत्रासौ प्रात्यजत्स्वकलेवरम्॥ १ ॥

गतस्त्रैसंगमे तीर्थे तत्र पातालवर्त्मना ॥

अस्मिन्मित्रवने देवि गव्यूतिद्वयविस्तृते ॥ २ ॥

कलेवरं स्थितं देवि लिंगाकारं महाप्रभम् ॥

रेवत्या सहितं तत्र शेषनामेति विश्रुतम् ॥३॥

यत्र सिद्धः पुरा देवि जरानामा तु कौलिकः ॥

विष्णुहंता भल्लतीर्थे सोऽस्मिन्स्थाने लयं गतः ॥ ४ ॥

तत्प्रभृत्येव सकले शेष इत्यभिविश्रुतः ॥

चैत्रे शुक्लत्रयोदश्यां यस्तं पूजयते नरः ॥

स पुत्रपौत्रपशुमान्वर्षं क्षेमेण गच्छति ॥५॥

मसूरिकादिरोगेभ्यः शिशूनां न भयं भवेत् ॥

विस्फोटकादिरोगेभ्यो न भयं जायते क्वचित् ॥६॥

अस्मिन्क्षेत्रे महासिद्धे सिद्धयज्ञस्तु यः स्मृतः ॥

वर्णानां सांतरालानां सर्वेषां चातिवल्लभः ॥७॥

पशुपुष्पोपहारैश्च बलिदानैः पृथग्विधैः ॥

संतुष्टिं शीघ्रमायाति शेषोऽशेषाघनाशनः ॥ ॥ ८ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शेषमाहात्म्यवर्णनंनामैकचत्वारिंश दुत्तरद्विशततमोऽध्यायः ॥ २४१ ॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 242

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि यत्र देवीकुमारिका ॥

तस्यैव पूर्वदिग्भागे स्थिता रक्षार्थमेव हि ॥ १ ॥

पुरा रथंतरे कल्पे रुरुर्नाम महासुरः ॥

उत्पन्नः स महाकायः सर्वलोकभयावहः ॥ २ ॥

तेन देवाः सगन्धर्वास्त्रासितास्त्रिदशा लयात् ॥

तस्य भीत्या ततः सर्वे ब्रह्मलोकमधिस्थिताः ॥ ३ ॥

तथा भूमितले विप्रान्यज्वनोऽथ तपस्विनः ॥

निजघान स दुष्टात्मा ये चान्ये धर्मचारिणः ॥ ४ ॥

निःस्वाध्यायवषट्कारं तदाऽऽसीद्धरणीतलम्॥

नष्टयज्ञोत्सवं सर्वं रुरोर्भयनिपीडितम्॥ ५ ॥

ततः प्रव्यथिता देवास्तथा सर्वे महर्षयः ॥

समेत्यामंत्रयन्मंत्रं वधार्थं तस्य दुर्मतेः ॥ ६ ॥

ततः कायोद्भवः स्वेदः सर्वेषां समजायत ॥

तेषां चिंतयतां देवि निरोधाज्जगृहुश्च तम् ॥ ॥७॥

तत्र कन्या समुत्पन्ना दिव्या कमललोचना ॥

व्यापयंती दिशः सर्वाः सर्वेषां पुरतः स्थिता ॥८॥

सर्वान्देवांस्ततः प्राह किमर्थं निर्मितास्म्य हम् ॥

तद्वः कार्यं करिष्यामि श्रुत्वा तस्यास्तदा गिरम्॥ ९ ॥

आचख्युः संकटं तस्यास्ते देवा रुरुचेष्टितम् ॥

श्रुत्वा जहास सा देवी देवानां कार्य सिद्धये ॥ 7.1.242.१० ॥

तस्या हसंत्या निश्चेरुर्वरांगाः कन्यकाः पुनः ॥

पाशांकुशधराः सर्वाः पीनश्रोणिपयोधराः ॥ ११ ॥

फेत्कारारावमात्रेण त्रास यंत्यश्चराचरम् ॥

अन्वगात्सा रुरुर्यत्र ताभिः सार्द्धं यशस्विनी ॥ १२ ॥

अथाभूत्तुमुलं तासां युद्धं घोरं तु तैः सह ॥

शस्त्रास्त्रैर्विविधैर्घोरैः शत्रुपक्ष क्षयंकरैः ॥ १३ ॥

ताभिस्तदनुगाः सर्वे प्रहारैर्जर्जरीकृताः॥

पराङ्मुखाः क्षणेनैव जाताः केचिन्निपातिताः ॥ १४ ॥

ततो हतं बलं दृष्ट्वा रुरुर्मायामथाऽसृजत् ॥

तामसींनाम देवेशि तयामुह्यत नैव सा ॥ १५ ॥

तमोभूते ततस्तत्र देवी दैत्यं तदा रुरुम् ॥

शक्त्या बिभेद हृदये ततो मूर्छां जगाम ह ॥ १६ ॥

मुहूर्त्ताल्लब्धसंज्ञोऽथ ज्ञात्वा तस्याः पराक्रमम् ॥

पलायनकृतोत्साहः समुद्राभिमुखो ययौ ॥ १७ ॥

साऽपि देवी जगामाथ पृष्ठतोऽस्य दुरात्मनः ॥

स्तूयमाना सुरगणैः किंनरैः समहोरगैः ॥ १८ ॥

ततः प्रविश्य जलधिं तं दृष्ट्वा दानवं रुषा ॥

खङ्गाग्रेण शिरश्छित्त्वा चर्ममुण्डधरा ततः ॥ १९ ॥

निश्चक्राम पुनस्तस्मात्प्रभासं क्षेत्रमागता ॥

कन्या सैन्येन संयुक्ता बहुरूपेण भास्वता ॥ 7.1.242.२० ॥

देवैः सुविस्मितैर्दृष्टा चर्ममुण्डधरा वरा ॥

ततो देवाः स्तुतिं चक्रुः कृतांजलिपुटाः स्थिताः ॥ २१ ॥

॥ देवा ऊचुः ॥ ॥

जय त्वं देवि चामुंडे जय भूतापहारिणि ॥

जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ २२ ॥

भीमरूपे शिवे विद्ये महामाये महोदये ॥

महाभागे जये जृम्भे भीमाक्षि भीमदर्शने ॥ २३ ॥

महामाये विचित्रांगि गेयनृत्यप्रिये शुभे ॥

विकरालि महाकालि कालिके कालरूपिणि ॥ २४ ॥

प्रासहस्ते दण्डहस्ते भीमहस्ते भयानने ॥

चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले ॥

शवयानस्थिते देवि प्रेतसंघनिषेविते ॥ २५ ॥

एवं स्तुता तदा देवी सर्वैः शक्रपुरोगमैः ॥

प्रहृष्टवदना भूत्वा वाक्यमेतदुवाच ह ॥ २६ ॥

वरं वृणुध्वं भद्रं वो नित्यं यन्मनसि स्थितम् ॥

अहं दास्यामि तत्सर्वं यद्यपि स्यात्सुदुर्ल्लभम् ॥ २७ ॥

॥ देवा ऊचुः ॥ ॥

कृतकृत्यास्त्वया भद्रे दानवस्य निषूदनात् ॥ २८ ॥

स्तोत्रेणानेन यो देवि त्वां वै स्तौति वरानने ॥

तस्य त्वं वरदा देवि भव सर्वगता सती ॥ २९ ॥

यश्चेदं शृणुयाद्भक्त्या तव देवि समुद्भवम् ॥

सर्वपापविनिर्मुक्तः स प्राप्नोतु परां गतिम् ॥ 7.1.242.३० ॥

अस्मिन्क्षेत्रे त्वया देवि स्थितिः कार्या सदा शुभे ॥ ३१ ॥

अत्र त्वां पूजयेद्यस्तु शुक्लपक्षे समाहितः ॥

नवम्यामाश्विने मासि तस्य कार्यं सदा शुभम्॥ ३२ ॥ ॥

॥ ईश्वर उवाच ॥ ॥

एवमुक्ता महादेवी तत्रैव निरताऽभवत् ॥

देवास्त्रिविष्टपं जग्मुः प्रहृष्टा हतशत्रवः ॥३३॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुमारीमाहात्म्यवर्णनंनाम द्विचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४२॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 243

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि क्षेत्रपालं महाप्रभम् ॥

ईशाने संस्थितं देवं मंत्रमालाविभूषितम् ॥ १ ॥

हिरण्यातटमाश्रित्य रक्षार्थं समुपस्थितम् ॥

तत्रैव हीरकं क्षेत्रं तस्मिन्रक्षां करोति सः ॥ २ ॥

कृष्णपक्षे त्रयोदश्यां तत्र तं पूजयेन्नरः ॥

गंधपुष्पोपहारैश्च तथा बलि निवेदनैः ॥ ३ ॥

एवं संपूजितो देवः सर्वकामप्रदो भवेत् ॥ ४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मंत्रावलिक्षेत्रपालमाहात्म्यवर्णनंनाम त्रिचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४३ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 244

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि विचित्रेश्वरमुत्तमम् ॥

हिरण्यातीरनिलयं महापातकनाशनम् ॥ १ ॥

विचित्रेण महादेवि लेखकेन यमस्य च ॥

तपः कृत्वा महारौद्रं लिंगं तत्र प्रतिष्ठितम्॥ २ ॥

तं दृष्ट्वा मानवो देवि यमलोकं न पश्यति ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये विचित्रेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४४ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 245

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि तत्रैवोपरिसंस्थितम् ॥

सरस्वत्यास्तटे देवि पर्णादित्यस्य पश्चिमे ॥ १ ॥

तत्रास्ते सुमहल्लिंगं स्थापितं ब्रह्मणा पुरा ॥

ब्रह्मेश्वरेति विख्यातं सर्वपातकनाशनम् ॥ २ ॥

तत्र स्नात्वा द्वितीयायां सोपवासो जितेंद्रियः ॥

अर्चयेद्देवदेवेशं नाम्ना ब्रह्मेश्वरं शुभम्॥

तर्पयेच्च पितॄञ्छ्राद्धे यदीच्छेच्छाश्वतं पदम् ॥ ३ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रमास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनंनाम पञ्चचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४५ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 246

॥ ईश्वर उवाच ॥ ॥।

ततो गच्छेन्महादेवि पिंगलीं पापनाशिनीम् ॥

ऋषितीर्थात्पश्चिमतो नदीं सागरगामिनीम् ॥ १ ॥

तस्याः संदर्शनाद्देवि रूपवाञ्जायते नरः ॥

पुरा महर्षयः प्राप्ताः सोमेश्वरदिदृक्षया ॥ २ ॥

प्रभासं क्षेत्रमासाद्य नदीतीरे व्यवस्थिताः ॥

दाक्षिणात्या महादेवि कृष्णवर्णा विरूपकाः ॥३॥

तत्राश्रमवरे स्नात्वा पश्यन्तो रूपमात्मनः ॥

कामेन सदृशं सर्वे विस्मयं परमं गताः ॥ ४ ॥

ततस्ते सहिताः सर्वे विस्मयोत्फुल्ललोचनाः ॥

अत्र स्नाता वयं सर्वे यतः पिंगत्वमागताः ॥

अतः प्रभृति नामास्यास्ततः पिंगा भविष्यति ॥ ५ ॥

येत्र स्नानं करिष्यन्ति भक्त्या परमया युताः ॥

न तेषामन्वये कश्चिद्भविष्यति कुरूपवान् ॥ ६ ॥

दर्शनात्पितृमेधस्य लप्स्यते मानवः फलम् ॥

स्नानेन द्विगुणं पुण्यं तर्पणेन चतुर्गुणम् ॥ ७ ॥

असंख्यातं फलं तस्य योऽत्र श्राद्धं करिष्यति ॥

एवमुक्त्वा ततः सर्व ऋषयो वरवर्णिनि ॥ ८ ॥

व्यभजंस्तन्नदीतीरं सर्वे ते मुनिसत्तमाः ॥

यज्ञोपवीतमात्राणि चक्रुस्तीर्थानि सर्वतः ॥ ९ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पिंगा नदीमाहात्म्यवर्णनंनाम षट्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४६ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 247

॥ ईश्वर उवाच ॥ ॥

तत्रैव संस्थितं पश्येत्सूर्यं पापप्रणाशनम् ॥

तथा च पिंगलां देवीं पार्वतीरूपधारिणीम् ॥ १ ॥

तृतीयायां विशेषेण ह्युपवासं करोति यः ॥

सर्वान्कामानवाप्नोति धनवान्पुत्रवान्भवेत् ॥ २ ॥

तत्रैव संस्थितं पश्येच्छुक्रेश्वरमिति श्रुतम् ॥

तं दृष्ट्वा मानवो देवि मुक्तः स्यात्सर्वपातकैः ॥ ३ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पिंगलादित्यपिंगादेवीशुक्रेश्वरमाहात्म्यवर्णनंनाम सप्तचत्वारिंश दुत्तरद्विशततमोऽध्यायः ॥ २४७ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 248

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि पूर्वोक्तं ब्रह्मपूजितम् ॥

सरस्वत्यास्तटे संस्थं पर्णादित्यस्य पश्चिमे ॥ १ ॥

तस्योत्पत्तिं प्रवक्ष्यामि शृणुष्वैकमनाः प्रिये ॥

सृजतो ब्रह्मणः पूर्वं भूतग्रामं चतुर्विधम् ॥ २ ॥

उत्पन्नाद्भुतरूपाढ्या नारी कमललोचना ॥

कंबुग्रीवा सुकेशांता बिंबोष्ठी तनुमध्यमा ॥ ३ ॥

गंभीरनाभिः सुश्रोणी पीनश्रोणिपयोधरा ॥

पूर्णचन्द्रमुखी सा तु गूढगुल्फा सितानना ॥ ४ ॥

न देवी न च गन्धर्वी नासुरी न च पन्नगी ॥

यादृग्रूपा वरारोहा तादृशी सा व्यजायत ॥ ५ ॥

तां दृष्ट्वा रूपसंपन्नां ब्रह्मा कामवशोऽभवत् ॥

अथ तां प्रार्थयामास रत्यर्थं वरवर्णिनि ॥ ६ ॥

अथ प्रार्थयतस्तस्य न्यपतत्पंचमं शिरः ॥

खररूपं महादेवि तेन पापेन तत्क्षणात्॥ ७ ॥

ततो ज्ञात्वा महत्पापं दुहितुः कामसंभवम् ॥

घृणया परया युक्तः प्रभासं क्षेत्रमागतः ॥ ८ ॥

न कायस्य यतः शुद्धिर्विना तीर्थावगाहनात् ॥

स स्नातः सलिले पुण्ये सरस्वत्या वरानने ॥ ९ ॥

लिंगं संस्थापयामास देवदेवस्य शूलिनः ॥

ततो विकल्मषो भूत्वा जगाम स्वगृहं पुनः ॥ 7.1.248.१० ॥

स्नात्वा सारस्वते तोये यस्तल्लिंगं प्रपश्यति ॥

सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ११ ॥

चैत्रे शुक्लचतुर्दश्यां यस्तं पश्यति मानवः ॥

स याति परमं स्थानं यत्र देवो महेश्वरः ॥ १२ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनंनामाष्टचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४८ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 249

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि देवं वै संगमेश्वरम् ॥

गोलक्षमिति विख्यातं सर्वपातकनाशनम् । १ ॥

तस्यैव पश्चिमे भागे सर्वकामफलप्रदम् ॥

ऋषिरुद्दालकोनाम पुरा ह्यासीन्महातपाः ॥ २ ॥

स पुरा संगमं प्राप्य सर्वपापप्रणाशनम् ॥

सरस्वत्याश्च पिंगायास्तपस्तेपे सुरेश्वरि ॥ ३ ॥

ततस्तपस्यतस्तस्य तपो रौद्रं महात्मनः ॥

पुरतो ह्युत्थितं लिंगं भक्त्या युक्तस्य सुन्दरि ॥ ४ ॥

एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥

उद्दालक महाबाहो शृणुष्वैतद्वचो मम ॥ ५ ॥

अद्यप्रभृति वासोऽत्र मम नित्यं भविष्यति ॥

यस्मादत्र समुत्पन्नं संगमे लिंगमुत्तमम् ॥

संगमेश्वरमित्येव नाम चास्य भवि ष्यति ॥ ६ ॥

येत्र स्नानं नराः कृत्वा संगमे लोकविश्रुते ॥

संगमेश्वरमीक्षन्ते ते यांति परमां गतिम् ॥ ७ ॥

॥ ईश्वर उवाच ॥ ॥

ततस्तं पूजयामास दिवारात्रमतंद्रितः ॥

ततो देहावसानेऽसौ गतो यत्र महेश्वरः ॥ ८ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे ,प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगमेश्वरमाहात्म्यवर्णनंनामैकोनपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २४९ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 250

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि लिंगं त्रैलोक्यविश्रुतम् ॥

गंगेश्वरेति विख्यातं संगमेश्वरपश्चिमे ॥ १ ॥

यदा गंगा समाहूता विष्णुना प्रभविष्णुना ॥

अन्तकालेऽभिषेकार्थं स्वकायस्य वरानने ॥ २ ॥

ततो दृष्ट्वा तु तत्क्षेत्रं पुण्यं ह्यृषिनिषेवितम् ॥

सर्वत्र व्यापितं लिंगैराश्रमैश्च तपस्विनाम् ॥ ३ ॥

ततो गंगासरिच्छ्रेष्ठा पूर्वसागरगामिनी ॥

स्थापयामास तल्लिंगं शिवभक्तिपरायणा ॥ ४ ॥

तं दृष्ट्वा तु वरारोहे गंगास्नानफलं लभेत् ॥

अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ ५ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गंगेश्वरमाहात्म्यवर्णनंनाम पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५० ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 251

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि शंकरादित्यमुत्तमम् ॥

गंगेश्वरस्य पूर्वेण शंकरेण प्रतिष्ठितम् ॥ १ ॥

षष्ठ्यां चैव तु शुक्लायामेनं यः पूजयिष्यति ॥

गमिष्यति परं स्थानं यत्र देवो दिवाकरः ॥ २ ॥

रक्तचंदनमिश्रैश्च रक्तपुष्पैः समाहितः ॥

ताम्रपात्रे समाधाय योऽर्घ्यं दास्यति मानवः ॥

स यास्यति परां सिद्धिं न च याति दरिद्रताम्॥ ३ ॥

तस्मात्सर्वप्रयत्नेन तस्मिन्क्षेत्रे वरानने ॥

पूजयेच्छंकरादित्यं सर्वकामफलप्रदम् ॥ ४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंकरादित्यमाहात्म्यवर्णनंनामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५१ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 252

॥ ईश्वर उवाच.॥ ॥

ततो गच्छेन्महादेवि लिंगं त्रैलोक्यविश्रुतम् ॥

तत्र शंकरनाथेति प्रसिद्धं पापनाशनम् ॥ ॥ १ ॥

स्थापितं भानुना देवि कृत्वा तत्र महत्तपः ॥

तमर्चयित्वा देवेशं सोपवासो महेश्वरम्॥ २ ॥

ब्राह्मणान्भोजयेत्तत्र श्राद्धं कुर्याज्जितेन्द्रियः ॥

शक्त्या हिरण्यं वासांसि विप्रे दद्यात्समाहितः ॥

स याति परमं स्थानं नात्र कार्या विचारणा ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शङ्करनाथमाहात्म्यवर्णनंनाम द्विपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५२ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 253

॥ ईश्वर उवाच ॥

ततो गच्छेन्महादेवि गुफेश्वरमनुत्तमम्॥

हिरण्या उत्तरे भागे सर्वपातकनाशनम् ॥

तं दृष्ट्वा मानवो देवि कोटिहत्यां व्यपोहति॥ १ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गुफेश्वरमाहात्म्यवर्णनंनाम त्रिपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२५३॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 254

॥ ईश्वर उवाच ॥ ॥

तत्रैव संस्थितं पश्येत्सर्वपातकनाशनम् ॥

घण्टेश्वरमिति ख्यातं देवदानववन्दितम् ॥

पूजितं ह्यृषिभिः सिद्धैर्वांछितार्थफलप्रदम् ॥ १ ॥

वारे सोमस्य चाष्टम्यां यस्तं पूजयते नरः ॥

स लभेद्वांछितान्कामान्मुक्तः स्यात्पातकेन हि ॥२ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये घंटेश्वरमाहारत्म्यवर्णनंनाम चतुष्पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५४ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 255

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि तीर्थं त्रैलोक्यविश्रुतम् ॥

तस्यैव पश्चिमे भागे ऋषीणां पुण्यकर्मणाम् ॥ १ ॥

तस्मिंस्त्रिनेत्रा मत्स्याश्च दृश्यंतेऽद्यापि भामिनि ॥

अंगिरा गौतमोऽगस्त्यः सुमतिः सुसखिस्तथा ॥ २ ॥

विश्वामित्रः स्थूलशिराः संवर्त्तः प्रतिमर्द्दनः ॥

रैभ्यो बृहस्पतिश्चैव च्यवनः कश्यपो भृगुः ॥ ३ ॥

दुर्वासा जामदग्न्यश्च मार्कंडेयोऽथ गालवः ॥

उशनाऽथ भरद्वाजो यवक्रीतस्त्रितस्तथा ॥ ४ ॥

नारदः पर्वतश्चैव वसिष्ठोऽरुंधती तथा ॥ ५ ॥

काण्वोऽथ गौतमो धौम्यः शतानन्दोऽकृतव्रणः ॥

जमदग्निस्तथा रामो बकश्चेत्येवमादयः ॥

कृष्णद्वैपायनश्चैव पुत्रशिष्यैः समन्वितः ॥ ६ ॥

एतत्क्षेत्रं समा साद्य प्रभासं मुनिसत्तमाः ॥

तपस्तेपुर्महात्मानो विविधं परमाद्भुतम् ॥ ७ ॥

एवं ते नियतात्मानो दमयुक्तास्तपस्विनः ॥

समाधिना जिगीषन्ते ब्रह्मलोकं सनातनम्॥ ८ ॥

अथाभवदनावृष्टिः कदाचिन्महती प्रिये ॥

कृच्छ्रं प्राप्तो ह्यभूत्तत्र सर्वलोकः क्षुधार्दितः ॥ ९ ॥

ततो निरन्ने लोकेऽस्मिन्नात्मानं ते परीप्सवः ॥

मृतं कुमारमादाय कृच्छ्रं प्राप्तास्तदाऽपचन् ॥ 7.1.255.१० ॥

अथोपरिचरस्तत्र क्लिश्यमानान्हि तानृषीन्॥

दृष्ट्वा राजा वृषादर्भिः प्रोवाचेदं वचस्तदा॥ ११॥

राजोवाच ॥

प्रतिग्रहो ब्राह्मणानां दृष्टा वृत्तिरनिंदिता॥

तस्मात्प्रतिग्रहं मत्त गृह्णीध्वं मुनिपुंगवाः ॥ १२॥

मुद्गान्माषांश्च व्रीहींश्च तथा रत्नानि कांचनम् ॥

युष्माकं संप्रदास्यामि यच्चान्यदपि दुर्ल्लभम् ॥

निवर्त्तध्वमतः सर्वे ह्येतस्मात्पातकात्परम्॥॥ १३ ॥

॥ ऋषय ऊचुः ॥ ॥

तज्जानंतः कथं राजन्गृह्णीमस्ते प्रतिग्रहम् ॥ १४ ॥

दशसूनासमश्चक्री दशचक्रिसमो ध्वजी ॥

दशध्वजि समा वेश्या दशवेश्यासमो नृपः ॥ १५ ॥

यो राज्ञां प्रतिगृह्णाति ब्राह्मणो लोभमोहितः ॥

तामिस्रादिषु घोरेषु नरकेषु स पच्यते ॥ १६ ॥

तद्गच्छ कुशलं तेऽस्तु सह दानेन पार्थिव ॥

अन्येषां दीयतामेतदित्युक्त्वा ते वनं ययुः ॥ १७ ॥

अथ राज्ञः समादेशात्तत्र गत्वा च मंत्रिणः ॥

ऊदुम्बराणि व्यकिरन्हेमगर्भाणि भूतले ॥१८॥

अथ तानि व्यचिन्वंश्च ऋषयो वरवर्णिनि ॥

गुरूणीति विदित्वा तु न ग्राह्याण्यंगिराऽब्रवीत् ॥ १९ ॥

॥ अत्रिरुवाच ॥ ॥

नास्महेनास्महे मूढ वयमज्ञानबुद्धयः ॥

हैमानीमानि जानीमः प्रतिबुद्धाः स्म जाड्यतः ॥7.1.255.२०॥

॥ वसिष्ठ उवाच ॥ ॥

धर्मार्थं संचयो यस्य द्रव्याणां स न शस्यते ॥

तपःसंचयनं मन्ये वसिष्ठो धनसंचयम् ॥ २१ ॥

त्यजध्वं संचयान्सर्वाञ्जातीनां समुपद्रवान् ॥

न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः ॥ २२ ॥

यथायथा न गृह्णाति ब्राह्मणोऽसत्प्रतिग्रहम् ॥

तथातथाऽनिशं चास्य ब्रह्मतेजस्तु वर्धते ॥ २३ ॥

अकिंचनत्वं राज्यं च तुलया समतोलयम्॥

अकिंचनत्वमधिकं राज्यादपि न संशयः ॥ २४ ॥

॥कश्यप उवाच ॥ ॥

अनर्थो ब्राह्मणस्यैष यदर्थनिचयो महान् ॥

अर्थैश्वर्यविमूढोऽपि श्रेयसो भ्रश्यते द्विजः ॥ २५ ॥

अर्थसंपद्विमोहाय बहुशोकाय चैव हि ॥

तस्मादर्थमनर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् ॥ २६ ॥

यस्य धर्मार्थमप्यर्थास्तस्यापि न हि दृश्यते ॥

प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरम् ॥२७॥

॥ भरद्वाज उवाच॥ ॥

जीर्यंति जीर्यतः केशा दंता जीर्यंति जीर्यतः॥

चक्षुः श्रोत्रे च जीर्येते तृष्णैका न तु जीर्यते ॥ २८ ॥

सूची सूत्र तथा वस्त्रे समानयति सूचिका ॥

तद्वत्संसारसूत्रस्य तृष्णा सूची विधीयते ॥ २९ ॥

यथा शृंगं रुरोः काये वर्द्धमाने हि वर्द्धते ॥

अनंतपारा दुर्वारा तृष्णा दुःखप्रदा सदा ॥

अधर्मबहुला चैव तस्मात्तां परिवर्जयेत्॥ ॥। 7.1.255.३० ॥

॥ गौतम उवाच ॥ ॥

संतुष्टः को न शक्नोति फलैश्चापि हि वर्त्तितुम्॥

सर्वोऽपींद्रियलोभेन संकटान्यभिगाहते ॥३१॥

सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम् ॥

उपानद्गूढपादस्य ननु चर्मावृतेव भूः ॥ ३२ ॥

संतोषामृततृप्तानां यत्सुखं शांतचेतसाम्॥

कुतस्तद्धनलुब्धानां सुखं चाशांतचेतसाम् ॥३३॥

॥ विश्वामित्र उवाच ॥ ॥

कामं कामयमानस्य यदि कामः स सिद्ध्यति ॥

तथैनमपरः कामो भूयो विध्यति बाणवत् ॥३४॥

न जातु कामः कामानामुपभोगेन शाम्यति ॥

हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥ ३५ ॥

कामानभिलषन्लोभान्न नरः सुखमेधते॥

समालभ्य तरुच्छायां भवनं वाञ्छो नरः ॥३६॥

चतुःसागरसंयुक्तां यो भुंक्ते पृथिवीमिमाम् ॥

एकस्तु वनवासी च स कृतार्थो न पार्थिवः ॥३७॥ ॥

॥ जमदग्निरुवाच ॥ ॥

प्रतिग्रहसमर्थो यस्तपो वर्द्धयते महान्॥

न करोति तपस्तस्य जायते च सहस्रधा ॥ ३८ ॥

प्रतिग्रहसमर्थानां निवृत्तानां प्रतिग्रहात् ॥

य एव ददतां लोकास्त एवाप्रतिगृह्णताम् ॥ ३९ ॥

॥ अरुंधत्युवाच ॥ ॥

बिसतंतुर्यथा नित्यं समंतान्नालसंस्थितः ॥

तृष्णा चैवमनाद्यंता तथा देहाश्रिता सदा ॥ 7.1.255.४० ॥

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ॥

योऽसौ प्राणांतिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ ॥ ४१ ॥

॥ चंडोवाच ॥ ॥

उग्रात्प्रतिग्रहाद्यस्माद्बिभ्यत्येते महेश्वराः ॥

बलीयांसो दुर्बलवत्तथा चैव बिभेम्यहम् ॥ ४२ ॥

॥ पशुमुख उवाच ॥ ॥

यदाचरंति विद्वांसः सदा धर्मपरायणाः ॥

तदेव विदुषा कार्यमात्मनो हितमिच्छता ॥ ४३ ॥

॥ ईश्वर उवाच ॥ ॥

इत्युक्त्वा हेमगर्भाणि त्यक्त्वा तानि फलानि च ॥

ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः ॥ ४४ ॥

ततस्ते विचरंतो वै ददृशुः सुमहत्सरः ॥

पद्मिनीभिः समाकीर्णं सर्वतो वरवर्णिनि ॥ ४५ ॥

तस्मिन्देशे तदा प्राप्तः परिव्राजः शुनोमुखः ॥

तेनैव सहितास्तत्र स्नाताः सर्वे महर्षयः ॥ ४६ ॥

तत्रावतारं कृत्वा तैर्गृहीतानि बिसानि तु ॥

निक्षिप्य सरसस्तीरे चक्रुः पुण्यां जलक्रियाम् ॥ ४७ ॥

अथोत्तीर्य जलात्तस्मात्ते समेत्य परस्परम् ॥

बिसानि तान्यपश्यंत इदं वचनमब्रुवन् ॥ ४८ ॥

॥ ऋषय ऊचुः ॥ ॥

केन क्षुधाभितप्तानामस्माकं पापकर्मणा ॥

बिसानि तानि सर्वाणि हृतानि च मुनीश्वराः ॥ ॥ ४९ ॥

ते शंकमानास्त्वन्योन्यं पर्यपृच्छन्द्विजोत्तमाः ॥

चक्रुस्ते शपथान्सर्वे यथान्यायं च भामिनि ॥ 7.1.255.५० ॥ ॥

कश्यप उवाच ॥ ॥

सर्वभक्षः स भवतु न्यासलोपं करोतु सः ॥

कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ॥ ५१ ॥

॥ वसिष्ठ उवाच ॥ ॥

अनृतौ मैथुनं यातु पर नारीं विशेषतः ॥

अतिथिः स्यात्तथान्योन्यं बिसस्तैन्यं करोति यः ॥ ५२ ॥

॥ भरद्वाज उवाच॥

नृशंसो वै स भवतु समृद्ध्या चाप्यहंकृ तः ॥

मत्सरी पिशुनश्चैव बिसस्तैन्यं करोति यः ॥ ५३ ॥

॥ विश्वामित्र उवाच ॥ ॥

नित्यं कामरतः सोस्तु दिवा सेवतु मैथुनम् ॥

नीचकर्मरतश्चैव बिसस्तैन्यं करोति यः ॥ ५४ ॥

॥ जमदग्निरुवाच ॥ ॥

कन्यां यच्छतु वृद्धाय स भूयाद्वृषलीपतिः ॥

अस्तु वार्द्धुषिको नित्यं बिसस्तैन्यं करोति यः ॥ ५५ ॥

॥ गौतम उवाच ॥ ॥

स गृह्णात्वविकादानं करोतु हयविक्रयम् ॥

प्रकरोतु गुरोर्निंदां बिसस्तैन्यं करोति यः ॥ ५६ ॥

(?)अत्रिरुवाच ॥ ॥

मातरं पितरं नित्यं दुर्मतिः सोऽवमन्यताम् ॥

शूद्रं पृच्छतु धर्मार्थं बिसस्तैन्यं करोति यः ॥ ५७ ॥

॥ अरुन्धत्युवाच ॥ ॥

करोतु पत्युः पूर्वं सा भोजनं शयनं तथा ॥

नारी दुष्टसमाचारा बिसस्तैन्यं करोति या ॥ ५८ ॥

॥ चण्डोवाच ॥ ॥

स्वामिनः प्रतिकूलास्तु धर्मद्वेषं करोतु च ॥

साधुद्वेषपरा चैव बिसस्तैन्यं करोति या ॥५९॥

॥ पशुमुख उवाच ॥ ॥

परस्य प्रेष्यतां यातु सदा जन्मनिजन्मनि ॥

सर्वधर्म क्रियाहीनो बिसस्तैन्यं करोति यः॥7.1.255.६०॥

॥ शुनोमुख उवाच॥ ॥

वेदान्स पठतु न्यायाद्गृहस्थः स्यात्प्रियातिथिः ॥

सत्यं वदतु चाजस्रं बिसस्तैन्यं करोति यः ॥६१॥

॥ ऋषय ऊचुः ॥ ॥

इष्टमेतद्द्विजातीनां यस्त्वया शपथः कृतः ॥

त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनोमुख ॥६२॥

॥ शुनोमुख उवाच ॥ ॥

मया हृतानि सर्वेषां बिसानीमानि वै द्विजाः ॥

धर्मं वै श्रोतुकामेन जानीध्वं मां पुरंदरम्॥६३॥

अलोभादक्षया लोका जिता वै मुनिसत्तमाः ॥

प्रार्थयध्वं वरं शुभ्रं सर्वमेव ह्यसंशयम् ॥६४॥

॥ ऋषय ऊचुः ॥ ॥

इहागत्य नरो यस्तु त्रिरात्रोपोषितः शुचिः ॥

कृत्वा स्नानं पितॄंस्तर्प्य श्राद्धं कुर्यात्समाहितः ॥६५॥

सर्वतीर्थोद्भवं तस्य पुण्यं भूयात्पुरंदर ॥

नाधोगतिमवाप्नोति विबुधैस्सह मोदताम् ॥

तथेत्युक्त्वा ततः शक्रस्त त्रैवान्तर्हितोऽभवत्॥६६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋषितीर्थमाहात्म्य वर्णनं नाम पञ्चपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२५५॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 256

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि नंदादित्यं समाहितः ॥

नंदेन स्थापितं पूर्वं तत्रैवामितबुद्धिना ॥१॥

नंदो राजा पुरा ह्यासीत्सर्वलोकसुखप्रदः ॥

न दुर्भिक्षं न च व्याधि नाकाले मरणं नृणाम्॥ २ ॥

तस्मिञ्छासति धर्मज्ञे न चावृष्टिकृतं भयम् ॥

कस्यचित्त्वथ कालस्य पूर्वकर्मानुसारतः॥ ३ ॥

कुष्ठेन महता व्याप्तो वैराग्यपरमं गतः॥

तेन रोगाभिभूतेन देवदेवो दिवाकरः॥

प्रतिष्ठितो नदीतीरे स च रोगाद्विमोचितः ॥ ४ ॥

॥ देव्युवाच ॥ ॥

किमसौ रोगवान्राजा सार्वभौमो महीपतिः ॥

तस्य धर्मरतस्यापि कस्माद्रोग समुद्भवः ॥ ५ ॥

॥ईश्वर उवाच ॥ ॥

एष धर्मसदाचारो नंदो राजा प्रतापवान् ॥

व्यचरत्सर्वलोकान्स विमानवरमास्थितः ॥ ६॥

विमानं तस्य तुष्टेन दत्तं वै विष्णुना स्वयम् ॥

कामगं वरवर्णेन बर्हिणेन विनादितम् ॥ ७ ॥

स कदाचिन्नृपश्रेष्ठो विचरंस्तत्र संस्थितः ॥

गतवान्मानसं दिव्यं सरो देवगणान्वितम्॥ ८ ॥

तत्रापश्यद्बृहत्पद्मं सरोमध्यगतं सितम् ॥

तत्र चांगुष्ठमात्रं तु स्थितं पुरुषसत्तमम् ॥ ९ ॥

रक्तवासोभिराच्छन्नं द्विभुजं तिग्मतेजसम् ॥

तं दृष्ट्वा सारथिं प्राह पद्ममेतत्समाहर ॥7.1.256.१०॥

इदं तु शिरसा बिभ्रत्सर्वलोकस्य सन्निधौ ॥

श्लाघनीयो भविष्यामि तस्मादाहर मा चिरम्॥ ११ ॥

एवमुक्तस्ततस्तेन सारथिः प्रविवेश ह ॥

ग्रहीतुमुपचक्राम तत्पद्मं वरवर्णिनि॥

स्पृष्टमात्रे तदा पद्मे हुंकारः समपद्यत॥१२॥

राजा च तत्क्षणात्तेन शब्देन समजायत ॥

कुष्ठी विगतवर्णश्च बलवीर्यविवर्जितः ॥ १३ ॥

तथागतमथात्मानं दृष्ट्वा स पुरुषर्षभः ॥

तस्थौ तत्रैव शोकार्तः किमेतदिति चिंतयन् ॥ १४ ॥

तस्य चिंतयतो धीमानाजगाम महातपाः ॥

वसिष्ठो ब्रह्मपुत्रस्तु स तं पप्रच्छ पार्थिवः ॥ १५ ॥

एष मे भगवञ्जातो देहस्यास्य विपर्ययः ॥

कुष्ठरोगाभिभूतात्मा नाहं जीवितुमुत्सहे ॥ १६ ॥

उपायं ब्रूहि मे ब्रह्मन्व्याधितस्य चिकित्सितम् ॥

उताहो व्रतमन्यद्वा दानं यज्ञमथापि वा ॥ १७ ॥

॥ वसिष्ठ उवाच ॥ ॥

एतद्ब्रह्मोद्भवं नाम पद्मं त्रैलोक्यविश्रुतम् ॥

दृष्टमात्रेण चानेन दृष्टाः स्युः सर्व देवताः ॥ १८ ॥

एतद्धि दृश्यते धन्यैः पद्मं कैः क्वापि पार्थिव ॥

एतस्मिन्दृष्टमात्रे तु यो जलं विशते नरः ॥ १९ ॥

सर्वपापविनिर्मुक्तः पदं निर्वाण माप्नुयात् ॥

एष दृष्ट्वा तु ते सूतो हर्तुं तोये प्रविष्टवान् ॥ 7.1.256.२० ॥

तव वाक्येन राजेंद्र मृतोऽसौ रोगवान्भवेत् ॥

ब्रह्मपुत्रोऽप्यहं तेन पश्यामि परमेश्वरम् ॥ २१ ॥

अहन्यहनि चागच्छंस्त्वं पुनर्दृष्टवानसि ॥

वांछंति देवता नित्यममुं हृदि मनोरथम् ॥ २२ ॥

मानसे ब्रह्मपद्मं तु दृष्ट्वा स्नात्वा कदा वयम् ॥

प्राप्स्यामः परमं ब्रह्म यद्गत्वा न पुनर्भवेत्॥२३॥

इदं च कारणं भूयो द्वितीयं शृणु पार्थिव ॥

कुष्ठस्य यत्त्वया प्राप्तं हर्तुकामेन पंकजम् ॥ ॥ २४ ॥

प्रद्योतनस्तु गर्भेऽस्मिन्स्वयमेव व्यवस्थितः ॥

तवैषा बुद्धिरभवद्दृष्ट्वेदं वरपंकजम् ॥ २५ ॥

धारयामि शिरस्येनं लोकमध्ये विभूषणम् ॥

इदं चिन्तयतः पापमेवं देवेन दर्शितम् ॥ २६ ॥

ततः सर्वप्रयत्नेन तमाराधय भास्करम् ॥

प्रसादाद्देवदेवस्य मोक्ष्यसे नात्र संशयः ॥२७॥

प्रभासं गच्छ राजेंद्र तीर्थं त्रैलोक्यविश्रुतम् ॥

तत्र सिद्धिर्भवेच्छीघ्रमार्त्तानां प्राणिनां भुवि ॥ २८ ॥

॥ ईश्वर उवाच ॥ ॥

तस्य तद्वचनं श्रुत्वा वसिष्ठस्य महात्मनः ॥

प्रभासं क्षेत्रमासाद्य माहेश्वर्यास्तटे शुभे ॥ २९ ॥

नंदादित्यं प्रतिष्ठाप्य गंधधूपानुलेपनैः ॥

पूजयामास तं देवि पुष्पैरुच्चावचैस्तथा ॥ 7.1.256.३० ॥

तस्य तुष्टो दिवानाथो वरदोऽहमथाब्रवीत् ॥ ३१ ॥

॥ नन्द उवाच ॥ ॥

कुष्ठेन महता व्याप्तं पश्य मां सुरसत्तम ॥

यथाऽयं नाशमायाति तथा कुरु दिवाकर ॥ ३२ ॥

सान्निध्यं कुरु देवेश स्थानेऽस्मिन्नित्यदा विभो ॥ ३३ ॥

॥ सूर्य उवाच ॥ ॥

नीरोगस्त्वं महाराज सद्य एव भविष्यसि ॥

अत्र ये मां समागत्य द्रक्ष्यंति च नरा भुवि ॥ ३४ ॥

सप्तम्यां सूर्यवारेण यास्यंति परमां गतिम्॥

अत्र मे सूर्यवारेण सांनिध्यं सप्तमीदिने ॥

भविष्यति न संदेहो गमिष्ये त्वं सुखी भव ॥ ३५ ॥

एवमुक्त्वा सहस्रांशुस्तत्रैवांतरधीयत ॥ ३६ ॥

नीरोगत्वमवा प्यासौ कृत्वा राज्यमनुत्तमम् ॥

जगाम परमं स्थानं यत्र देवो दिवाकरः ॥

तस्मिंस्तीर्थे नरः स्नात्वा कृत्वा श्राद्धं प्रयत्नतः ॥ ३७ ॥

नंदादित्यं पुनर्दृष्ट्वा न पुनर्मर्त्त्यतां व्रजेत॥

प्रदद्यात्कपिलां तत्र ब्राह्मणे वेदपारगे ॥ ३८ ॥

अहोरात्रोषितो भूत्वा घृतधेनुमथापि वा ॥

न तस्य गुणितुं शक्या संख्या पुण्यस्य केनचित् ॥ ३९ ॥

इत्येवं देवदेवस्य माहात्म्यं दीप्तदीधितेः ॥

कथितं तव सुश्रोणि सर्वपापप्रणाशनम् ॥ 7.1.256.४० ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नन्दादित्यमाहात्म्यवर्णनंनाम षट्पञ्चाशदुत्तरद्विशततमो ऽध्यायः ॥२५६॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 257

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि त्रितकूपमिति स्मृतम्॥

नंदादित्यस्य पूर्वेण योजनत्रितयेन तु ॥ १ ॥

पुरा बभूव राजेन्द्रः सौराष्ट्रविषये सुधीः ॥

आत्रेय इति विख्यातो वेदवेदांगपारगः ॥२॥

तस्य पुत्रत्रयं जज्ञ ऋतुकालाभिगामिनः ॥

एकतश्चद्वितश्चैव त्रितश्चैवेति भामिनि ॥३॥

त्रितस्तेषां कनिष्ठोऽभूद्वेदवेदांगपारगः ॥

सर्वैरेव गुणैर्युक्तो मूर्खो ज्येष्ठौ बभूवतुः ॥ ४ ॥

कस्यचित्त्वथकालस्य आत्रेयो द्विज सत्तमः ॥

तपः कृत्वा तु विपुलं कालधर्ममुपेयिवान्॥ ५ ॥

ततस्तेषां त्रितो राजा बभूव गुणवत्तरः ॥

धुरमाकर्षयामास पुत्रोऽयं तस्य या पुरा ॥ ६॥

तस्य बुद्धिः समुत्पन्ना कथं यज्ञं करोम्यहम् ॥

सन्निमंत्र्य द्विजश्रेष्ठान्यज्ञकर्मस्वधिष्ठितान् ॥ ७ ॥

इन्द्रादींश्च सुरान्सर्वानावाह्य विधिपूर्वकम् ॥

दक्षिणार्थं द्विजेन्द्राणां प्रभासं स जगाम ह ॥

गृहीत्वा भ्रातरौ ज्येष्ठौ गवार्थं प्रस्थितो द्विजः ॥ ८ ॥

यस्य यस्य गृहे याति स त्रितो वेदपारगः ॥

तत्र तत्र वरां पूजां लेभे गाश्चैव पुष्कलाः ॥ ९ ॥

एवं स गोधनं प्राप्य भ्रातृभ्यां सहितस्तदा ॥

गृहाय प्रस्थितो देवि निर्वृतिं परमां गतः ॥ 7.1.257.१० ॥

त्रितस्ताभ्यां पुरो याति पृष्ठतो भ्रातरौ च तौ ॥

गोधनं चालयंतस्ते प्रभासं क्षेत्रमागताः ॥ ११ ॥

अथ तद्गोधनं दृष्ट्वा भूरि दानार्थमाहृतम् ॥

भ्रातृभ्यां त्रितये चेति पापा मतिरजायत ॥ १२ ॥

परस्परमूचतुस्तौ भ्रातरौ दुष्टचेतसौ ॥

त्रितो यज्ञेषु कुशलो वेदेषु कुशलस्तथा॥ १३ ॥

मान्यः पूज्यश्च सर्वत्र आवां मूर्खौ निरर्थकौ ॥

एतद्धि गोधनं सर्वं त्रितो दास्यति सन्मखे ॥ १४ ॥

अस्माकं पितृपर्यातो यदाप्तं तत्समं भवेत्॥

तस्मादत्रैव युक्तोऽस्य वधो वै त्रितयज्ञिनः ॥ १५ ॥

एवं तौ निश्चयं कृत्वा प्रस्थितौ भ्रातरावुभौ ॥

त्रितस्तु पुरतो याति निर्विकल्प ऋजुः सुधीः ॥१६॥

अनु तत्र समुत्तस्थौ व्याघ्रो रौद्रतराकृतिः ॥

व्यादितास्यो रवं देवि व्यनद्भैरवं ततः ॥ १७ ॥

तस्य शब्देन ता गावो नष्टा जग्मुर्दिशो दश ॥

अन्धकूपो महांस्तत्र प्रदेशे दारुणोऽभवत् ॥ १८ ॥

एकतो दारुणो व्याघ्रः कूपोऽन्यत्र सुदारुणः ॥

दृष्ट्वा ते भ्रातरः सर्वे भयोद्विग्नाः प्रदुद्रुवुः॥१९ ॥

अथ ते विषमं प्राप्य तटं कूपस्य भामिनि ॥

स्थिता यावद्गतो व्याघ्रस्ततो गंतुं मनो दधुः ॥ 7.1.257.२० ॥

अथ ताभ्यां त्रितो देवि भ्रातृभ्यां नृपसत्तम ॥

प्रक्षिप्तो दारुणे कूपे जीर्णे तोयविवर्जिते ॥ २१ ॥

ततस्तद्गोधनं गृह्य प्रस्थितौ हृष्टमानसौ ॥

त्रितस्तु पतितस्तत्र कूपे जलविवर्जिते ॥ २२ ॥

चिन्तयामास मेधावी नाहं शोचामि जीवितुम् ॥

मयाहूता द्विजश्रेष्ठा यज्ञार्थं वेदपारगाः ॥

इन्द्राद्याश्च सुराः सर्वे स क्रतुः स्यान्न मे त्वतः ॥ २३ ॥

स एवं चिन्तयामास वेदवेदांगपारगः ॥

मानसं यज्ञमारभ्य तत्रैव वरवर्णिनि ॥ २४ ॥

स्वयमेव स सूक्तानि प्रोक्त्वा प्रोक्त्वा द्विजोत्तमः ॥

कृतवान्बालुकाहोमं तेन तुष्टाश्च देवताः ॥ २५ ॥

श्रद्धां तस्य विदित्वा तु भूयस्तृप्तास्तु देवताः ॥

आगत्य ब्राह्मणं प्रोचुः कूपमध्ये व्यवस्थितम् ॥ ॥ २६ ॥

॥ देवा ऊचुः ॥ ॥

भोभो विप्र त्वया नूनं सर्वे संतर्पिता वयम् ॥

मानसेन तु यज्ञेन तस्माद्ब्रूहि मनोगतम् ॥ २७ ॥

॥ ब्राह्मण उवाच ॥ ॥

यदि देवाः प्रसन्ना मे कूपान्निष्कमणे त्वहम् ॥

यष्टा स्वं मंदिरं गत्वा देवयज्ञं करोम्यहम्॥ २८ ॥

॥ ईश्वर उवाच ॥

अथ देवैः समादिष्टा तस्मिन्कूपे सरस्वती ॥

निर्गत्य वसुधां भित्त्वा पूरयामास वारिणा ॥ २९ ॥

अथ निष्क्रम्य विप्रोऽसौ यातः स्वभवनं प्रति ॥

ततः प्रभृति देवेशि त्रितकूपः स उच्यते ॥ 7.1.257.३० ॥

स्नात्वा तत्र शुचिर्भूत्वा त्वथ संतर्पयेत्पितॄन् ॥

अश्वमेधमवाप्नोति सर्वपापविवर्जितः ॥ ३१ ॥

तिल दानं तु देवेशि तत्र शस्तं सकाञ्चनम् ॥

पितॄणां वल्लभं तीर्थं नित्यं चैव तु भामिनि ॥ ३२ ॥

अग्निष्वात्ता बर्हिषद आयंतुन इति स्मृताः ॥

ये दिव्याः पितरो देवि तेषां सांनिध्यमत्र हि ॥ ३३ ॥

दर्शनादपि तीर्थस्य तस्य वै सुरसत्तमे ॥

मुच्यन्ते प्राणिनः पापादाजन्ममरणांतिकात् ॥ ॥ ३४ ॥

तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥

प्रभासं क्षेत्रमासाद्य यदीच्छेच्छ्रेय आत्मनः ॥ ३५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये त्रितकूपमाहात्म्यवर्णनंनाम सप्तपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५७॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 258

॥ ॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि शशापानमिति स्मृतम् ॥

तस्यैव दक्षिणे तीर्थं सर्वपापप्रणाशनम् ॥ १ ॥

यस्मिन्स्नात्वा नरः सम्यङ्नापमृत्युभयं लभेत् ॥

शृणु यस्मात्तदुत्पत्तिं वदतो मम वल्लभे ॥ २ ॥

मथित्वा सागरं देवा गृहीत्वाऽमृतमुत्तमम् ॥

सत्वरास्तत्र ते गत्वा पपुश्चैव यथेप्सया ॥ ३ ॥

पिबतां तत्र पीयूषं देवानां वरवर्णिनि ॥

बिंदवः पतिता भूमौ शतशोथ सहस्रशः ॥ ४ ॥

एतस्मिन्नेव काले तु शशकस्तत्र चागतः ॥

प्रविष्टः सलिले तत्र तृषार्तो वरवर्णिनि ॥ ५ ॥

अमरत्वमनुप्राप्तो वर्द्धते सलिलालये ॥

तं दृष्ट्वा त्रिदशाः सर्वे स्पर्द्धमाना मुहुर्मुहुः ॥

ज्ञात्वामृतान्वितं तोयं मंत्रं चक्रुर्भयान्विताः ॥ ६ ॥

अमृतं पतितं भूमौ भक्षयिष्यंति मानवाः ॥

ततोऽमर्त्त्या भविष्यंति नात्र कार्या विचारणा ॥ ७ ॥

तिर्यग्योन्यां समुत्पन्नः कृपणः शशको ह्ययम् ॥

अस्माभिः स्पर्द्धते तस्मात्ततो भयमुपस्थितम् ॥ ८ ॥

अथ प्राप्तो निशानाथो व्याधिना स परिप्लुतः ॥

अब्रवीत्त्रिदशान्सर्वानमृतं मे प्रयच्छत ॥ ९ ॥

कृच्छ्रेण महता प्राप्तो नाहं शक्तो विसर्पितुम् ॥

अथोचुस्त्रिदशाः सर्वे सर्वमस्माभिर्भक्षितम् ॥ 7.1.258.१० ॥

विस्मृतस्त्वं निशानाथ चिरात्कस्मादिहागतः ॥

कुरुष्व वचनं चंद्र अस्माकं तिमिरापह ॥ ॥ ११ ॥

अस्मिञ्जलेऽमृतं भूरि पतितं पिबतां हि नः ॥

तत्पिबस्व निशानाथ सर्वमेतज्जलाशयम् ॥ १२ ॥

अर्द्धं निपतितं चात्र सत्यमेतन्निशामय ॥

तेषां तद्वचनं श्रुत्वा शीतरश्मिस्त्वरान्वितः ॥ १३ ॥

तृषार्तो वाऽपिबत्तोयं शशकेन समन्वितम् ॥

अस्थिशेषं तु तत्तस्य कायं पीयूषभक्षणात् ॥ १४ ॥

तत्क्षणात्पुष्टिमगमत्कांत्या परमया युतः ॥

धातुषु क्षीयमाणेषु पुष्टो हि सुधया हि सः ॥ १५ ॥

स चापि शशकस्तस्य न मृतो जठरं गतः ॥

अद्यापि दृश्यते तत्र देहे पीयूषभक्षणात् ॥१६॥

तत्क्षणात्तुष्टिमगमत्कांत्या परमया युतः ॥

अब्रुवन्खन्यतामेतद्यथा भूयो जलं भवेत् ॥ ॥ १७ ॥

अस्माकं संगमादेतच्छुष्कं श्वभ्रं जलाशयम् ॥

तद्युक्तं च कृतं कर्म नैतत्साधुविचेष्टितम् ॥ १८ ॥

ततोऽखनंश्च ते सर्वे यावत्तोयविनिर्गमः ॥

अथाब्रुवंस्ततः सर्वे हर्षेण महतान्विताः ॥ १९ ॥

यस्माच्छशेन संयुक्तं पीतमेतज्जलाशयम् ॥

चंद्रेण हि शशापानं तस्मादेतद्भविष्यति ॥ ॥ 7.1.258.२० ॥

अत्रागत्य नरः स्नानं यः करिष्यति भक्तितः ॥

स यास्यति परं स्थानं यत्र देवो महेश्वरः ॥ २१ ॥

अत्रान्नं संप्रदास्यंति ब्राह्मणेभ्यः समा हिताः ॥

सर्वयज्ञफलं तेषां भविष्यति न संशयः ॥ २२ ॥

अस्मिन्दृष्टे सुराः सर्वे दृष्टाः स्युः सर्वदेवताः ॥

एवमुक्त्वा सुराः सर्वे जग्मुश्चैव सुरालयम्॥ २३ ॥

अथ कालेन महता प्राप्ता तत्र सरस्वती ॥

वडवाग्निं समादाय तयानुप्लावितं पुनः ॥२४॥

ततो मेध्यतरं जातं तीर्थं च वरवर्णिनि ॥

तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥ २५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शशापानमाहात्म्यवर्णनंनामाष्टापञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५८ ॥ ॥ छ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 259

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि पर्णादित्यं सुरेश्वरम् ॥

प्राचीसरस्वतीकूले तटे चोत्तरतः स्थितम्॥ १ ॥

पुरा त्रेतायुगे देवि पर्णादोनाम वै द्विजः ॥

प्रभासं क्षेत्रमासाद्य तपस्तेपे सुदारुणम् ॥

आराधयामास रविं भक्त्या परमया युतः ॥ २ ॥

तर्पयित्वा ततः सूर्यं धूपमाल्यविलेपनैः ॥

वेदोक्तैः स्तवनैः सूक्तैर्दिवारात्रं समाहितः ॥ ३ ॥

एवं च ध्यायतस्तस्य कालेन महता ततः ॥

तुतोष भगवान्सूर्यो वाक्यमेतदुवाच ह ॥ ४ ॥

परितुष्टोऽस्मि विप्रेन्द्र तपसानेन सुव्रत ॥

वरं वरय भद्रं ते नित्यं यन्मनसेप्सितम्॥ ५ ॥

॥ ब्राह्मण उवाच ॥ ॥

एष एव वरः कामो यत्तुष्टो भगवान्स्वयम् ॥

दर्शनं तव देवेश स्वप्नेष्वपि च दुर्ल्लभम्॥ ६ ॥

अवश्यं यदि दातव्यो वरो मम दिवाकर ॥

अत्र संनिहतो देव सदा त्वं भव भास्कर ॥ ७ ॥

तव प्रसादात्ते यांतु तव लोकं दिवा कर ॥

एवं भविष्यतीत्युक्त्वा ह्यन्तर्धानं गतो रविः ॥ ८ ॥

पर्णादोऽपि स्थितस्तत्र तस्याराधनतत्परः ॥

तत्र भाद्रपदे मासे षष्ठ्यां स्नानं समाचरेत् ॥

पर्णादित्यं ततः पश्येन्न स दुःखमवाप्नुयात् ॥ ९ ॥

गोशतस्य प्रयागे तु सम्यग्दत्तस्य यत्फलम् ॥

तत्फलं लभते मर्त्यः पर्णादित्यस्य दर्शनात् ॥ 7.1.259.१० ॥

ये सेवंते महाकुष्ठं पांगुल्यं च विवर्चिकाः ॥

पर्णादित्यं न जानंति नूनं ते मंदबुद्धयः ॥ ११ ॥

इति श्रीस्कान्दे महपुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये पर्णादित्यमाहात्म्यवर्णनंनामैकोनषष्ट्युत्तरद्विशततमोऽध्यायः ॥२५९॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 260

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि देवं सिद्धेश्वरं परम् ॥

तस्यैव पश्चिमे भागे सिद्धैः संस्थापितं पुरा ॥१ ॥

सिद्धा नाम सुराः पूर्वं तत्रागत्य वरानने ॥

लिंगं संस्थापयामासुः सिद्ध्यर्थं सर्ववस्तुषु ॥ २॥

ततस्तुष्टो महादेवि तेषां दृष्ट्वा तपो महत् ॥

अणिमादिकमैश्वर्यं तेषां सर्वं ददौ शिवः ॥ ३ ॥

अब्रवीदत्र मे नित्यं सानिध्यं च भविष्यति ॥ ४ ॥

चैत्रे शुक्लचतुर्द्दश्यां योऽत्र मां पूजयिष्यति ॥

स यास्यति परं स्थानं प्रसादान्मम पुण्यकृत् ॥ ५ ॥

एवमुक्त्वाऽथ भगवाञ्जगामादर्शनं ततः ॥

सिद्धाश्चैव तदाऽऽगत्य पूजयंति महेश्वरम् ॥ ६ ॥

यस्तमाराधयेद्भक्त्या संसिद्धिं लभतेऽद्भुताम्॥

ईप्सितां च सुरश्रेष्ठे तस्मात्तं पूजयेत्सदा ॥ ७ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनाम षष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६० ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 261

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि यत्र न्यंकुमती नदी ॥

मर्यादार्थं समानीता क्षेत्रशांत्यै च शंभुना ॥ १ ॥

तस्यैव दक्षिणे भागे सर्वपापप्रणाशिनी ॥

तस्यां स्नात्वा च वै सम्यग्यः श्राद्धं कुरुते नरः ॥

स पितॄंस्तारयेत्सर्वान्नरकान्नात्र संशयः ॥ २ ॥

वैशाखे शुक्लपक्षे तु तृतीयायां च भामिनि ॥

स्नात्वा तु तर्पयेद्भक्त्या तिलदर्भजलैः प्रिये ॥

श्राद्धं कृतं भवेत्तेन गंगायां नात्र संशयः ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्यवर्णनंनामैकषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६१ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 262

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि वराहं तत्र संस्थितम् ॥

गोष्पदाद्दक्षिणे भागे स्थितं पापप्रणाशनम् ॥ १ ॥

एकादश्यां सिते पक्षे यस्तं पूजयते नरः ॥

स मुक्तः पातकैः सर्वैर्गच्छेद्विष्णुपदं महत् ॥ २ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वराहस्वामिमाहात्म्यवर्णनंनाम द्विषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६२ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 263

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि च्छायालिंगमिति स्मृतम् ॥

उत्तरे न्यंकुमत्याश्च बह्वाश्चर्यं महत्फलम् ॥ १ ॥

तं दृष्ट्वा मानवो देवि मुच्यते पंचपातकैः ॥

सार्द्धद्वादशहस्तं तु योजनत्रितयेन तु ॥

न पश्यंति महादेवि पापिष्ठा ये तु मानवाः ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये छायालिंग माहात्म्यवर्णनंनाम त्रिषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६३ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 264

॥ ईश्वर उवाच ॥ ॥

तत्रैव संस्थिता देवि गुफा पातकनाशिनी ॥

ऋषीणां संस्थितिर्यत्र सिद्धानां पुण्यचेतसाम् ॥ १ ॥

तत्र गत्वा महादेवि गुफां यः पश्यते नरः ॥

स मुक्तः सर्वपापेभ्यश्चांद्रायणफलं लभेत्॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये नंदिनीगुफामाहात्म्यवर्णनंनाम चतुःषष्ट्यु त्तरद्विशततमोऽध्यायः ॥ २६४ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 265

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि ऐशान्यां दिशि संस्थिताम् ॥

देवीं कनकनंदाख्यां सर्वकामफलप्रदाम्॥ १ ॥

तत्र शुक्लतृतीयायां चैत्रे मासि विधानतः ॥

यात्रां कुर्याच्च मतिमान्सर्वकाममवाप्नुयात् ॥ २ ॥

इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कनकनंदामाहात्म्यवर्णनंनाम पंचषष्ट्युत्तरद्विशततमोऽध्यायः॥ ॥ २६५ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 266

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि कुम्भीश्वरमनुत्तमम् ॥

शरभस्थानतः पूर्वे नातिदूरे व्यवस्थितम् ॥

तं दृष्ट्वा मानवो देवि मुच्यते सर्वपातकैः ॥१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुंभीश्वरमाहात्म्यवर्णनंनाम षट्षष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६६ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 267

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि स्थानं गंगापथेति च ॥

यत्र गंगा महास्रोता गंगेश्वरः शिवस्तथा ॥ १ ॥

समुद्रगामिनी देवि सा गंगा पापनाशिनी ॥

उत्तानेति भुवि ख्याता नदी त्रैलोक्यभूषणा ॥ २ ॥

तत्र स्नात्वा महादेवि गंगेशं यस्तु पूजयेत्॥

मुक्तः स्यात्पातकैर्घोरैरश्वमेधायुतं लभेत्॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गङ्गापथगंगेश्वरमाहात्म्यवर्णनंनाम सप्तषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६७ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 268

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि चमसोद्भेदमुत्तमम् ॥

यत्र ब्रह्माऽकरोत्सत्रं वर्षाणामयुतं प्रिये ॥ १ ॥

चमसैः पीतवन्तस्ते सोमं देवा महर्षयः ॥

चमसोद्भेदनामेति तेन ख्यातं धरातले ॥ २ ॥

तत्र स्नात्वा सरस्वत्यां पिंडदानं ददाति यः ॥

गयाकोटिगुणं पुण्यं वैशाख्यां प्राप्नुयान्नरः ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चमसोद्भेदमाहात्म्य वर्णनंनामाष्टषष्ट्युत्तरद्विशततमोऽध्यायः ॥। २६८ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 269

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि विदुरस्याश्रमं महत् ॥

यत्राकरोत्तपो रौद्रं विदुरो धर्म मूर्त्तिमान् ॥ १ ॥

प्रतिष्ठाप्य महादेवं लिंगं त्रिभुवनेश्वरम् ॥

तं दृष्ट्वा मानवो देवि सर्वान्कामानवाप्नुयात् ॥२॥

विदुराट्टालकं नाम गणगंधर्वसेवितम् ॥

द्वादशस्थानकं स्थानं नाल्पपुण्येन लभ्यते ॥ ३ ॥

नावर्षणं भवेत्तत्र कदाचिदपि पार्वति ॥

लिंगानि तत्र दिव्यानि पश्येत्पापोपशांतये ॥ ४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये विदुराश्रम माहात्म्यवर्णनंनामैकोनसप्तत्युत्तरद्विशततमोऽध्यायः ॥२६९॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 270

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि यत्र प्राची सरस्वती ॥

तत्र स्थाने स्थितं लिंगं मंकीश्वरमिति श्रुतम् ॥ १ ॥

तस्योत्पत्तिं प्रवक्ष्यामि सर्वपातकनाशिनीम् ॥

शृणु देवि महाभागे ह्याश्चर्यं यदभूत्पुरा ॥ २ ॥

ऋषिर्मंकणको नाम स तेपे परमं तपः ॥

प्राचीमेत्य यताहारो नित्यं स्वाध्यायतत्परः॥ ३ ॥

बहुवर्षसहस्राणि तस्यातीतानि भामिनि ॥

कस्यचित्त्वथ कालस्य विद्धादस्य वरानने ॥ ४ ॥

कराच्छाकरसो जातः कुशाग्रेणेति नः श्रुतम् ॥

स तं दृष्ट्वा महाश्चर्यं विस्मयं परमं गतः॥५॥

मेने सिद्धिं परां प्राप्तो हर्षान्नृत्यमथाकरोत् ॥

तस्मिन्संनृत्यमाने च जगत्स्थावरजंगमम् ॥ ६ ॥

अनर्त्तत वरारोहे प्रभावात्तस्य वै मुनेः ॥

ततो देवा महेंद्राद्या ब्रह्मविष्णुपुरस्सराः ॥

ऊचुस्त्रिपुरहंतारं नायं नृत्येत्तथा कुरु ॥ ७ ॥

चलिताः पर्वताः स्थानात्क्षुभितो मकरालयः ॥

धरणी खण्डशो देव वृक्षाश्च निधनं गताः ॥ ८ ॥

उत्पथाश्च महानद्यो ग्रहा उन्मार्गसंस्थिताः ॥

त्रैलोक्यं व्याकुलीभूतं यावत्प्राप्नोति संक्षयम् ॥९॥

तावन्निवारयस्वैनं नान्यः शक्तो निवारणे ॥ 7.1.270.१० ॥

स तथेति प्रतिज्ञाय गत्वा तस्य समीपतः ॥

द्विजरूपं समास्थाय तमृषिं वाक्यमब्रवीत् ॥ ११ ॥

को हर्षविषयः कस्मात्त्वयैतन्नृत्यते द्विज ॥

तस्मात्कार्यं वदाशु त्वं परं कौतूहलं द्विजः ॥ १२ ॥

॥ ऋषिरुवाच ॥ ॥

किं न पश्यसि मे ब्रह्मन्कराच्छाकर सं च्युतम्॥

अत एव हि मे नृत्यं सिद्धोऽहं नात्र संशयः ॥ १३ ॥

॥ ईश्वर उवाच ॥ ॥

तस्य तद्वचनं श्रुत्वा भगवांस्त्रिपुरांतकः ॥

अंगुष्ठं ताडयामास अंगुल्यग्रेण भामिनि ॥ १४ ॥

ततो विनिर्गतं भस्म तत्क्षणाद्धिमपांडुरम् ॥

अथाब्रवीत्प्रहस्यैनं भगवान्भूतभावनः ॥ १५ ॥

पश्य मेंऽगुष्ठतो ब्रह्मन्भूरि भस्म विनिर्गतम् ॥

न नृत्येऽहं न मे हर्षस्तथापि मुनिसत्तम ॥ १६ ॥

तद्दृष्ट्वा सुमहाश्चर्यं विस्मयं परमं गतः ॥

अब्रवीत्प्रांजलिर्भूत्वा हर्षगद्गदया गिरा ॥ १७ ॥

नान्यं देवमहं मन्ये .त्वां मुक्त्वा वृषभध्वजम् ॥

नान्यस्य विद्यते शक्तिरीदृशी धरणीतले ॥ १८ ॥ ॥

॥ भगवानुवाच ॥ ॥

ज्ञातोऽस्मि मुनिशार्दूल त्वया वेदविदां वर ॥

वरं वरय भद्रं ते नित्यं यन्मनसेप्सितम् ॥ १९ ॥

॥ ऋषिरुवाच ॥ ॥

प्रसादाद्देवदेवस्य नृत्येन महता विभो ॥

यथा न स्यात्तपोहानिस्तथा नीतिर्विधीयताम् ॥ 7.1.270.२० ॥

॥ शंभुरुवाच ॥ ॥

तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा ॥

प्राचीमन्विह वत्स्यामि त्वया सार्द्धमहं सदा ॥ २१ ॥

सरस्वती महापुण्या क्षेत्रे चास्मिन्विशेषतः ॥

सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् ॥ २२ ॥

प्राचीने ह्यृषिशार्दूल न चेहागच्छते पुनः ॥

आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम् ॥ २३ ॥

नियमैश्चोप वासैश्च शोषयन्देहमात्मनः॥

जलाहारा वायुभक्षाः पर्णाहाराश्च तापसाः ॥

तथा च स्थंडिलशया ये चान्ये नियताः पृथक् ॥।२४॥

ये स्नानमाचरिष्यंति तीर्थेऽस्मिन्नियमान्विताः ॥

ते यांति परमां सिद्धिं ब्रह्मणः परमं पदम् ॥ २५ ॥

अस्मिंस्तीर्थे तु यो दानं त्रुटिमात्रं च कांचनम् ॥

ददाति द्विजमुख्याय मेरुतुल्यं भवेत्फलम् ॥२६॥

अस्मिंस्तीर्थे तु ये श्राद्धं करिष्यंतीह मानवाः॥

एकविंशत्कुलोपेताः स्वर्गं यास्यंति ते ध्रुवम् ॥२७॥

पितॄणां वल्लभं तीर्थं पिंडेनैकेन तर्पिताः ॥

ब्रह्मलोकं गमिष्यंति सुपुत्रेणेह तारिताः ॥ २८ ॥

भूयश्चान्नं प्रयच्छंति मोक्षमार्गं व्रजंति ते ॥ २९ ॥

अत्र ये शुभ कर्माणः प्रभासस्थां सरस्वतीम् ॥

पश्यंति तेपि यास्यंति स्वर्गलोकं द्विजोत्तमाः ॥7.1.270.३०॥

ये पुनस्तत्र भावेन नराः स्नानपरायणाः ॥

ब्रह्मलोकं समासाद्य ते रमिष्यंति सर्वदा ॥ ३१ ॥

दधि प्रदद्याद्योऽपीह ब्राह्मणाय मनोरमम् ॥

सोऽप्यग्निलोकमासाद्य भुंक्ते भोगान्सुशोभनान् ॥ ३२ ॥

ऊर्णाप्रावरणं योऽपि भक्त्या दद्याद्द्विजोत्तमे ॥

सोऽपि याति परां सिद्धिं मर्त्यैरन्यैः सुदुर्लभाम् ॥ ३३ ॥

ये चात्र मलनाशाय विशेयुर्मानवा जलम् ॥

गोप्रदानफलं तेषां सुखेन फलमादिशेत् ॥ ३४ ॥

भावेन हि नरः कश्चित्तत्र स्नानं समाचरेत् ॥

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ ३५ ॥

तर्पणात्पिंडदानाच्च नरकेष्वपि संस्थिताः ॥

स्वर्गं प्रयांति पितरः सुपुत्रेणेह तारिताः ॥ ३६ ॥

ते लभंतेऽक्षयांल्लोका न्ब्रह्मविष्ण्वीशशब्दितान् ॥

भूयस्त्वन्नं प्रयच्छन्ति मोक्षमार्गं लभंति ते ॥ ३७ ॥

स्वर्गनिश्रेणिसंभूता प्रभासे तु सरस्वती ॥

नापुण्यवद्भिः संप्राप्तुं पुंभिः शक्या महानदी ॥ ३८ ॥

प्राची सरस्वती चैव अन्यत्रैव तु दुर्लभा ॥

विशेषेण कुरुक्षेत्रे प्रभासे पुष्करे तथा ॥ ३९ ॥

प्राचीं सरस्वतीं प्राप्य योन्यत्तीर्थं हि मार्गते ॥

स करस्थं समुत्सृज्य कूर्परेण समाचरेत् ॥ 7.1.270.४० ॥

कृष्णपक्षे चतुर्दश्यां स्नानं च विहितं सदा ॥

पिण्याकेंगुदकेनापि पिंडं तत्र ददाति यः ॥

पितॄणामक्षयं भूयात्पितृलोकं स गच्छति ॥ ४१ ॥

सरस्वतीवाससमा कुतो रतिः सरस्वतीवाससमाः कुतो गुणाः ॥

सरस्वतीं प्राप्य गता दिवं नराः पुनः स्मरिष्यंति नदीं सरस्वतीम् ॥ ४२ ॥

॥ ईश्वर उवाच ॥ ॥

उक्त्वैवं भगवान्देवस्तत्रैवांतरधीयत ॥

सांनिध्यमकरोत्तत्र ततःप्रभृति शंकरः ॥ ४३ ॥

अत्र गाथा पुरा गीता विष्णुना प्रभविष्णुना ॥

स्नेहार्द्रेण च चित्तेन धर्मपुत्रं प्रति प्रिये ॥ ४४ ॥

मा गंगां व्रज कौंतेय मा प्रयागं च पुष्करम् ॥

तत्र गच्छ कुरुश्रेष्ठ यत्र प्राची सरस्वती ॥ ४५ ॥

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥

माहात्म्यं च सरस्वत्या भूयः किं श्रोतुमिच्छसि ॥ ४६ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्राचीसरस्वतीमंकीश्वरमाहात्म्यवर्णनंनाम सप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७० ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 271

॥ ईश्वर उवाच ॥ ॥

तस्यैव संनिकृष्टे तु लिंगं ज्वालेश्वरं स्मृतम् ॥

शरः पाशुपतो यत्र ज्वलन्वै त्रिपुरारिणा ॥ १ ॥

पातितो यत्प्रदेशे तु तेन ज्वालेश्वरः स्मृतः ॥

तं दृष्ट्वा मानवो देवि मुच्यते सर्वपातकैः ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये ज्वालेश्वरमाहात्म्यवर्णनंनामैकसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७१ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 272

॥ ईश्वर उवाच ॥ ॥

तत्रैव संस्थितं पश्येत्प्राची देव्यास्तु संनिधौ॥

लिंगत्रयं समाख्यातं त्रिपुराणां महात्मनाम् ॥१॥

विद्युन्माली तारकाख्यः कपोलाख्यस्तथैव च ॥

तैश्च प्रतिष्ठितं लिंगं दृष्ट्वा पापैः प्रमुच्यते ॥२ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये त्रिपुरलिंगत्रयमाहात्म्य वर्णनंनाम द्विसप्तत्युत्तरद्विशततमोऽध्यायः ॥२७२॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 273

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि शंडतीर्थमनुत्तमम् ॥

सर्वपापोपशमनं सर्वकामफलप्रदम् ॥ १ ॥

तस्योत्पत्तिं प्रवक्ष्यामि शृणुष्वैकमनाः प्रिये ॥

पुरा पंचशिरा आसीद्ब्रह्मा लोकपितामहः ॥ २ ॥

शिरस्तस्य मया छिन्नं कस्मिंश्चित्कारणांतरे ॥

तत्र गंधवती जाता ब्रह्मणः सा च शोणितैः ॥ ३ ॥

तत्रोद्गता महातालास्तेन तालवनं स्मृतम् ॥

अथ करतले लग्नं कपालं ब्रह्मणो मम ॥ ४ ॥

शरीरं कृष्णतां यातं मम चैव वृषस्य च ॥

अथ तीर्थान्यनेकानि गतोहं पापशंकया ॥ ५ ॥

न क्वचिद्व्रजते पापं ततः प्रभासमागतः ॥

क्षेत्रे तत्र मया दृष्टा प्राची देवी सरस्वती ॥ ६ ॥

तत्र मे वृषभः स्नातुं प्रविष्टो जलमध्यतः ॥

तत्क्षणाच्छ्वेतता प्राप्तो मुक्तोहमपि हत्यया ॥ ७ ॥

करमध्ये च मे लग्नं कपालं पतितं तदा ॥

कपालमोचनश्चासौ लिंगरूपी स्थितोऽभवत् ॥ ८ ॥

तत्रापि यो ददेच्छ्राद्धं प्राचीदेव्यास्तु संनिधौ ॥

मातृकं पैतृकं चैव तृप्तं कुलशतं तथा ॥ ९ ॥

भवेच्च तस्य तृप्तिस्तु यावत्कल्पास्तु सप्ततिः ॥

मास आश्वयुजे देवि कृष्णपक्षे चतुर्दशी ॥

तत्र दद्यात्तु यः श्राद्धं दक्षिणामूर्तिमाश्रितः ॥ 7.1.273.१० ॥

यथावित्तोपचारेण सुपात्रे च यथाविधि ॥

यावद्युगसहस्रं तु तृप्ताः स्युस्ते पितामहाः ॥ ११ ॥

अन्नसुवर्णदानं च दधिकंबलमेव च ॥

तत्र देयं विधानेन सर्वपापोपशुद्धये ॥ १२ ॥

कृष्णरूपी वृषो देवि यदा श्वेतत्वमागतः ॥

शंडतीर्थमितिख्यातं तेन त्रैलोक्यपूजितम् ॥ १३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंडतीर्थमाहात्म्यवर्णनंनाम त्रिसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७३ ॥ ॥ छ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 274

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि सूर्यप्राचीं महाप्रभाम् ॥

सर्वपापोपशमनीं सर्वकामफलप्रदाम् ॥ १ ॥

तत्र स्नात्वा महादेवि मुच्यते पञ्चपातकैः ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सूर्यप्राचीमाहात्म्यवर्णनंनाम चतुःसप्त त्युत्तरद्विशततमोऽध्यायः ॥ २७४ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 275

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि देवं चैव त्रिलोचनम् ॥

ऋषितीर्थसमीपे तु सर्वपातकनाशनम् ॥

न्यङ्कुमत्युत्तरे कूल ऋषिभिः पूजितं पुरा ॥ १ ॥

त्रिनेत्रा मत्स्यका यत्र जलं स्फटिकसन्निभम् ॥

तत्र स्नात्वा नरो देवि मुच्यते ब्रह्महत्यया ॥ २ ॥

कृष्णपक्षे चतुर्द्दश्यां मासे भाद्रपदे तथा ॥

उपवासं तु कुर्वीत रात्रौ जागरणं तथा ॥ ३ ॥

प्रातः श्राद्धं प्रकुर्वीत विधिवत्पूजयेच्छिवम् ॥

रुद्रलोके वसेद्देवि वर्षाणामयुतत्रयम् ॥ ४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये त्रिनेत्रेश्वरमाहात्म्यवर्णनंनाम पञ्चसप्तत्युत्तरद्विशततमोऽध्यायः॥ २७५ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 276

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि ऋषितीर्थस्य सन्निधौ ॥

कामिकं हि परं क्षेत्रं देविकानाम नामतः ॥ १ ॥

महासिद्धिवनं तत्र ऋषिसिद्धसमावृतम् ॥

नानाद्रुमलताकीर्णं पर्वतैरुपशोभितम्॥ २ ॥

चंपकैर्बकुलैर्दिव्यैरशोकैः स्तबकैः परैः ॥

पुन्नागैः किंकिरातैश्च सुगन्धैर्नागकेसरैः ॥ ३ ॥

मल्लिकोत्पलपुष्पैश्च पाटलापारिजातकैः ॥

चूतचंपकपित्थैश्च श्रीफलैः पनसैस्तथा ॥ ४ ॥

खर्जूरैर्बदरैश्चान्यैर्मातुलिंगैः सदाडिमैः ॥

जंबीरैश्चैव दिव्यैश्च नारंगैरुप शोभितम्॥ ५ ॥

शिखिभिः कोकिलाभिश्च गीयमानं तु षट्पदैः ॥

मृगैर्ऋक्षैर्वराहैश्च सिंहैर्व्याघ्रैस्तथा परैः ॥ ६ ॥

श्वापदैर्विविधाकारैः कन्दरै र्गह्वरैस्तथा ॥

सुरासुरगणैः सिद्धैर्यक्षगन्धर्वपन्नगैः ॥ ७ ॥

अप्सरोरगनागैश्च बहुभिस्तु समाकुलम् ॥

केचित्स्तुवंति ईशं तु केचिन्नृत्यंति चाग्रतः ॥ ८ ॥

पुष्पैर्वृष्टिं तु मुञ्चंति मुखवाद्यानि चापरे ॥

हसंति चापरे हृष्टा गर्जंति च तथापरे ॥ ९ ॥

ऊर्द्ध्वबाहवस्तथा चान्ये अन्ये ध्यायंति तद्गताः ॥

तस्मिन्स्थानं महादेवि देविकायास्तटे शुभे ॥ 7.1.276.१० ॥

उमापतीश्वरो नाम तत्राहं संस्थितः सदा ॥

युगेयुगे सदा पूर्णे कल्पे मन्वन्तरे तथा ॥ ११ ॥

न त्यजामि सदा देवि देविकायास्तटं शुभम् ॥

दुर्ल्लभं सर्वलोकेऽस्मिन्पवित्रं सुप्रियं हि मे ॥ १२ ॥

त्वया सह स्थितश्चाहं तस्मि न्स्थाने वरानने ॥

उमया युक्तदेहत्वात्तेन ख्यातं उमापतिः ॥ १३ ॥

पुष्यमासे त्वमावस्यां दद्याच्छ्राद्धं समाहितः ॥

न पश्यामि क्षयं तस्य तस्मिन्दत्तस्य पार्वति ॥ १४ ॥

ब्रह्महत्यासहस्रं तु तस्य दर्शनतो व्रजेत् ॥

गोभूहिरण्यवासांसि तत्र दद्याद्विचक्षणः ॥ १५ ॥

स एकः परमः पुत्रो यो गत्वा तत्र सुन्दरि ॥

ददेच्छ्राद्धं पितॄणां च तस्यांतो नैव विद्यते ॥ १६ ॥

देवैः सर्वैः समाहूता स्नानार्थं सा सरिद्वरा ॥

देविकेति समाख्याता तेन सा पापनाशिनी ॥ १७ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकायामुमापतिमाहात्म्यवर्णनंनाम षट्सप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७६ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 277

तत्रैव संस्थितं पश्येद्भूधरंनाम नामतः ॥

उद्धृत्य पृथिवीं यस्माद्दंष्ट्राग्रेण दधार सः ॥ १ ॥

भूधरस्तेन चाख्यातो देविकातटसंस्थितः ॥

वेदपादो यूपदंष्ट्रः क्रतुदन्तः स्रुचीमुखः ॥ २ ॥

अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥

अहोरात्रेक्षणपरो वेदांगश्रुतिभूषणः ॥ ३ ॥

आद्यनासः स्रुवतुंडः सामघोषस्वनो महान् ॥

प्राग्वंशकायो द्युतिमा न्नानादीक्षाविराजितः ॥ ४ ॥

दक्षिणाहृदयो योगी महासत्रशयो महान् ॥

उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः ॥ ५ ॥

नानाच्छन्दोगतिपथो ब्रह्मोक्तक्रमविक्रमः ॥

भूत्वा यज्ञवराहोऽसौ तत्र स्थाने स्थितोऽभवत् ॥ ६ ॥

पुष्यमासे ह्यमावास्यामेकादश्यामथापि वा ॥

प्राप्ते प्रावृषि काले च ज्ञात्वा कन्यागतं रविम् ॥ ७ ॥

पायसं गुडसंयुक्तं हविष्यं च गुडप्लुतम् ॥

नमो वः पितरो रसाय अन्नाद्यमभिमंत्रयेत् ॥ ८ ॥

तेजोऽसिशुक्रमित्याज्यं दधिक्राव्णेन वै दधि ॥

क्षीरमाज्याय मन्त्रेण व्यञ्जनानि च यानि तु ॥ ९ ॥

भक्ष्यभोज्यानि सर्वाणि महानिन्द्रेण दापयेत् ॥

संवत्स रोनियो मंत्रं जप्त्वा तेनोदकं द्विजः ॥ 7.1.277.१० ॥

एवं संभोज्य वै विप्रान्पिण्डदानं तु दापयेत् ॥

इत्यनेन विधानेन यस्तत्र श्राद्धकृद्भवेत् ॥११॥

तस्य तृप्तास्तु पितरो यावदिंद्राश्चतुर्द्दश ॥

गयाश्राद्धं विनापीह गयाश्राद्धफलं लभेत्॥१२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकामाहात्म्ये भूधरयज्ञवराहमाहात्म्यवर्णनंनाम सप्तसप्तत्युत्तरद्विशततमोऽध्यायः ॥२७७॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 278

॥ईश्वर उवाच॥॥

ततो गच्छेन्महादेवि शूलस्थानमिति श्रुतम्॥

देविकायास्तटे रम्ये भास्करं वारितस्करम् ॥ १ ॥

यत्रातपत्तपो घोरं वाल्मीकिर्मुनिपुंगवः ॥

वाल्मीकिनामा विप्रर्षिर्यत्र सिद्धो महामुनिः ॥ २ ॥

यत्र सप्तर्षयो मुष्टास्तेनैव मुनिना प्रिये ॥

तस्यैव पश्चिमे भागे मरीचिप्रमुखा द्विजाः ॥ ३ ॥

॥ देव्युवाच ॥ ॥

कथं तु सिद्धो वाल्मीकिः कथं चौर्येऽकरोन्मनः ॥

कथं सप्तर्षयो मुष्टा एतन्मे वद शंकर ॥ ४ ॥

॥ ईश्वर उवाच॥ ॥

आसीत्पूर्वं द्विजो देवि नाम्ना ख्यातः शमीमुखः ॥

गार्हस्थ्ये वर्तमानस्य तस्य पुत्रो व्यजायत ॥

वैशाख इति नाम्नाऽसौ रौद्रकर्मा व्यजायत ॥ ५ ॥

मुक्त्वैकां गुरुशुश्रूषां नान्यत्किंचिदसौ द्विजः ॥

अकरोच्छोभनं कर्म दिवाप्रभृति नित्यशः ॥ ६ ॥

अथ कालेन महता पितरौ तस्य तौ प्रिये ॥

वार्द्धक्यभावमापन्नौ भर्तव्यौ तस्य विह्वलौ ॥ ७ ॥

स नित्यं पदवीं गत्वा मुष्ट्वा लोकान्स्वशक्तितः ॥

द्रव्यमादाय पितरौ भार्यां चापि पुपोष च ॥ ८ ॥

कस्यचित्त्वथ कालस्य तेन मार्गेण गच्छतः ॥

सप्तर्षींश्च तदापश्यत्तीर्थयात्रापरायणान् ॥ ९ ॥

तान्दृष्ट्वा यष्टिमुद्यम्य भर्त्सयन्प रुषाक्षरैः ॥

वाक्यैरुवाच तान्सर्वांस्तिष्ठध्वमिति भूरिशः ॥ 7.1.278.१० ॥

अथ ते मुनयः शांताः समलोष्टाश्मकांचनाः ॥

समाः शत्रौ च मित्रे च रोषरागविवर्जिताः ॥ ११ ॥

अस्माकं दर्शनं चास्य संभाष्यमृषिभिः सह ॥

संजातं निष्फलं मा स्यादित्युवाचांगिरा वचः ॥ १२ ॥ ॥

॥ अंगिरा उवाच ॥ ॥

भोभोस्तस्कर मे वाक्यं शृणुष्वावहितः क्षणात् ॥

आत्मनस्तु हितार्थाय सत्यं चैव वदाम्यहम् ॥

तव कः पोष्यवर्गोऽस्ति तच्च सर्वं वदस्व मे ॥ १३ ॥

॥ तस्कर उवाच ॥ ॥

स्यातां मे पितरौ वृद्धौ भार्यैकाऽपत्यवर्ज्जिता ॥

एका दासी ह्यहं षष्ठो नान्यदस्त्यधिकं मुने ॥ १४ ॥

॥ अंगिरा उवाच ॥ ॥

गत्वा पृच्छस्व तान्सर्वान्पुष्टान्पापार्जितैर्धनैः॥

अहं करोमि पापानि सर्वे यूयं तु भक्षकाः ॥१५॥

तत्पापं भविता कस्य कथयंत्विति मे लघु ॥

तथैव गत्वा पप्रच्छ पितरौ तावथोचतुः ॥१६॥

॥ मातापितरावूचतुः॥ ॥

एकः पापानि कुरुते फलं भुंक्ते महा जनः ॥

भोक्तारो विप्रमुच्यंते कर्ता दोषेण लिप्यते ॥१७॥

यः करोत्यशुभं कर्म कुटुंबार्थं तु मंदधीः॥

आत्मा न वल्लभस्तस्य नूनं पुंसः सुपापिनः ॥ १८ ॥

॥ ईश्वर उवाच ॥ ॥

तयोः स वचनं श्रुत्वा पुनर्भीतमनास्तदा ॥

तयोस्तु संनतिं कृत्वा पितरौ पुनरब्रवीत्॥ १९ ॥

युवाभ्यां हितमेवाहं यत्करोम्यशुभं क्वचित् ॥

तस्यांशं भुज्यते किंचिद्युवाभ्यां वा न वोच्यताम् ॥7.1.278.२०॥

॥ पितरावूचतुः ॥ ॥

पूर्वे वयसि पुत्र त्वमावाभ्यां पाल्य एव हि ॥

उत्तरे तु वयं पाल्याः सम्यक्पुत्र त्वया पुनः ॥ २१ ॥

इतरेतरधर्मोऽयं निर्दिष्टः पद्मयोनिना ॥

आवाभ्यां यत्कृतं कर्म युष्मदर्थं शुभाशुभम् ॥

भोक्ष्यामो वयमेवेह तत्सर्वं नात्र संशयः ॥ ।२२ ॥

अथ त्वमपि यद्वत्स प्रकरोषि शुभाशुभम् ॥

भोक्ष्यसे सकलं तद्वत्स्वयं नान्यः परत्र च ॥२३॥

अवश्यं स्वयमश्नाति कृतं कर्म शुभाशुभम्।

तस्मान्नरेण कर्तव्यं शुभं कर्म विपश्चिता ॥ २४ ॥

चौर्यं वाथ कृषिं वाथ कुसीदं वाथ पुत्रक ॥

वाणिज्यमथवा प्रेष्यं कृत्वाऽस्माकं च भोजनम् ॥

अहर्निशं त्वया देयं न दोषोऽस्मासु पुत्रक ॥ २५ ॥

ताभ्यां तद्वचनं श्रुत्वा ततो भार्यामभाषत ।

तदेव वाक्यं साऽवोचद्यत्प्रोक्तं गुरुभिः पुरा ॥

ततो वैराग्यमापन्नो वैशाखो मुनिसत्तमः ॥ २६ ॥

गर्हयन्नेवमात्मानं भूयोभूयः सुदुःखितः ॥

धिङ्मां दुष्कृतकर्माणं पापकर्मरतं सदा ॥ २७ ॥

विवेकेन परित्यक्तं सत्संगेन विवर्जितम् ॥

यः करोति नरः पापं न सेवयति पंडितान् ॥

न चात्मा वल्लभस्तस्य एतन्मे वर्तते हृदि ॥ २८ ॥

एवं विकल्पहृदयो गत्वा स ऋषिसन्निधौ ॥

उवाच श्लक्ष्णया वाचा गम्यतामिति सादरम् ॥ ॥ २९ ॥

वृसी प्रगृह्यतामेषा तथैव च कमण्डलुः ॥

वल्कलानि च चीराणि मृगचर्माण्यशेषतः ॥ 7.1.278.३० ॥

क्षम्यतामपराधो मे दीनस्य कृपणस्य च ॥

सत्संगेन वियुक्तस्य मूर्खस्य मुनिसत्तमाः ॥ ३१ ॥

अद्यप्रभृति निवृत्तः कर्मणोऽस्याहमेव च ॥

रौद्रस्य सुनृशंसस्य साधुभिर्गर्हितस्य च ॥

तस्मात्कथयतास्माकं निवृत्तिं चास्य कर्मणः॥३२॥

येन युष्मत्प्रसादेन पापान्मोक्षमहं व्रजे॥

उपवासोऽथ मन्त्रो वा नियमो वाथ संयमः॥३३॥

॥ ऋषय ऊचुः॥ ॥

साधु पृष्टं त्वया वत्स तत्त्वमेकमनाः शृणु॥

संगृह्य कीर्तयिष्यामस्त्वयाऽऽख्येयं न कस्यचित्॥३४॥

तेन जप्तेन पापत्मन्मोक्षं प्राप्स्यसि निश्चितम्॥

झाटघोटस्त्वया कीर्त्त्यो मन्त्रोऽयं चतुरक्षरः॥३५॥

सर्वपापहरो नृणां स्वर्गमोक्षफलप्रदः॥

स तदैवं हि तैः प्रोक्तो वैशाखो मुनिपुंगवैः ॥

तस्थौ जाप्यपरो नित्यं गतास्ते मुनिपुंगवाः ॥ ३६ ॥

तस्यैवं जपतो देवि देविकायास्तटे शुभे ॥

अनिशं गुरु भक्तस्य समाधिः समपद्यत ॥ ३७ ॥

क्षुत्पिपासा तदा नष्टा शुद्धिमायात्कलेवरम् ॥ ३८ ॥

मंत्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ॥

यादृशी भाव ना यस्य सिद्धिर्भवति तादृशी ॥ ३९ ॥

निर्मलोऽयं स्वभावेन परमात्मा यथा हितः ॥

उपाधिसंगमासाद्य विकारं स्फटिको यथा॥ 7.1.278.४० ॥

यथा च भ्रमरी वंध्या लब्ध्वा जीवमणुं क्वचित् ॥

स्वस्थाने स्थाप्य तं ध्यायेद्भ्रमरी ध्यानसंयुता ॥ ४१ ॥

स तु तद्ध्यानसंवृद्धो जीवो भवति तादृशः ॥

अन्ययोन्युद्भवो वापि तथा निदर्शनं सताम्॥४२॥

आदिष्टो गुरुणा यश्च विकल्पं यदि गच्छति॥

नासौ सिद्धिमवाप्नोति मंदभाग्यो यथा निधिम्॥ !॥ ४३ ॥

एवं वर्षसहस्राणि समतीतानि भूरिशः॥

तस्य जाप्यपरस्यैव अमृतत्वं गतस्य च ॥ ४४ ॥

ततः कालक्रमेणैव वल्मीकेन स वेष्टितः ॥

येनासौ सर्वतो व्याप्तो न च तं स बुबोध वै ॥ ४५ ॥

कस्यचित्त्वथकालस्य मुनयस्ते समागताः ॥

तं प्रदेशं तु संप्रेक्ष्य सहाय्यमितरेतरम्॥

ऊचुः परस्परं सर्वे दत्त्वा चैव करैः करम् ॥४६॥

॥ ऋषय ऊचुः ॥ ॥

अत्रासौ तस्करः प्राप्तो वैशाखो दारुणाकृतिः ॥

येन सर्वे वयं मुष्टा अस्मि न्स्थाने समागताः ॥ ४७ ॥

एवं संजल्पमानास्ते शुश्रुवुः शब्दमुत्तमम् ॥

वल्मीकमध्यतो व्यक्तं ततस्ते कौतुकान्विताः ॥ ४८ ॥

अखनंस्तत्र वल्मीकं कुशीभिः पर्वतोपमम् ॥ ४९ ॥

अथ ते ददृशुस्तत्र विशाखं मुनिसत्तमाः ॥

जपंतमसकृन्मत्रं तमेव चतुरक्षरम् ॥ 7.1.278.५० ॥

तं समाधिगतं ज्ञात्वा भेषजैर्योगसंमतैः ॥

ममर्दुः सर्वतो विप्रास्तत्र सुप्ततनौ भृशम् ॥ ५१ ॥

ततोऽब्रवीदृष्रीन्सर्वान्स्वमर्थं गृह्यतां द्विजाः ॥

युष्मदीयं गृहीतं यत्पा पेनाकृतबुद्धिना ॥ ५२ ॥

गम्यतां तीर्थयात्रायां सर्वे मुक्ता मया द्विजाः ॥

वाच्यौ मे पितरौ गत्वा तथा भार्या द्विजोत्तमाः ॥ ५३ ॥

सर्व संगपरित्यक्तो विशाखः समपद्यत ॥

दर्शनं कांक्षते नैव भवद्भिस्तु यथा पुरा ॥ ५४ ॥

॥ ऋषय ऊचुः ॥ ॥

बहुवर्षाण्यतीतानि तवात्र वसतो मुने ॥

सर्वे ते निधनं प्राप्ता ये चान्ये ते कुटुंबिनः ॥ ५५ ॥

वयं चिरात्समायाताः स्थानेऽस्मिन्मुनिसत्तमाः ॥

स त्वं सिद्धिमनुप्राप्तो मंत्रादस्मादसंशयम् ॥ ५६ ॥

यस्मात्त्वं मंत्रमेकाग्रो ध्यायन्वल्मीकमाश्रितः ॥

तस्माद्वाल्मीकिनामा त्वं भविष्यसि महीतले ॥ ५७ ॥

स्वच्छंदा भारती देवी जिह्वाग्रे ते भविष्यति ॥

कृत्वा रामायणं काव्यं ततो मोक्षं गमिष्यसि॥ ५८ ॥

विशाख उवाच ॥

गृह्यतां द्विजशार्दूलाः प्रसन्ना गुरुदक्षिणाम्॥

येनाहमनृणो भूत्वा करोमि सुमहत्तपः ॥ ५९ ॥

॥ ऋषय ऊचुः ॥ ॥

एषा नो दक्षिणा विप्र यस्त्वं सिद्धिमुपागतः ॥

सर्वकामसमृद्धात्मा कृतकृत्या वयं मुने ॥ 7.1.278.६० ॥

वरं वरय भूयस्त्वं यस्ते मनसि वर्तते ॥ ६१ ॥

॥ वाल्मीकिरुवाच ॥ ॥

भवंतो यदि तुष्टा मे यदि देयो वरो मम ॥

कथ्यतां तर्हि मे शीघ्रं को देवो ह्यत्र संस्थितः ॥

देविकायास्तटे रम्ये सर्वकामफलप्रदः ॥ ६२ ॥

॥ ऋषय ऊचुः ॥ ॥

शृणुष्वैकमना विप्र यो देवश्चात्र संस्थितः ॥

पश्य निंबमिमं विप्र बहुशाखाप्रविस्तरम् ॥ ६३ ॥

अस्य मूले स्थितः सूर्य्यः कल्पादौ ब्रह्मणोंऽशजः ॥

तमाराधय यत्तेसावस्य स्थानस्य देवता ॥ ६४ ॥

सूर्यक्षेत्रं समाख्यातमिदं गव्यूतिमात्रकम् ॥

अत्र स्थाने स्थिता येपि तेषां स्वर्गो ध्रुवं भवेत् ॥ ६५ ॥

अद्यप्रभृति विप्रेन्द्र मूलस्थानमिति श्रुतम् ॥

स्थानं सूर्यस्य विप्रेन्द्र कार्या चात्र त्वया स्थितिः ॥ ॥ ६६ ॥

अद्यप्रभृति विप्रेंद्र तीर्थमेतन्महीतले ॥

गमिष्यति परां ख्यातिं देविकातटमाश्रितम् ॥ ६७ ॥

वयं मुष्टा यतो विप्र मूलस्थाने पुरा स्थिताः ॥

मूलस्थानेति वै नाम लोके ख्यातिं गमिष्यति ॥ ६८ ॥

अत्र ये मानवा भक्त्या स्नानं सूर्यस्य संगमे ॥

उत्तरे तु करिष्यंति ते यास्यंति त्रिविष्टपम् ॥ ६९ ॥

तर्पणं तिलमिश्रेण जलेन द्विजसत्तमाः ॥

गयाश्राद्धसमा तुष्टिः पितॄणां च भविष्यति ॥ 7.1.278.७० ॥

अत्र ये मानवा भक्त्या श्राद्धं दास्यंति सत्तमाः ॥

शाकमूलफलैर्वापि सम्यक्छ्रद्धासमन्विताः ॥ ७१ ॥

तेषां यास्यंति पितरो मोक्षं नैवात्र संशयः ॥ ७२ ।

अपि कीटपतंगा ये पक्षिणः पशवो मृगाः ॥

तृषार्ता जलसंस्पर्शाद्यास्यंति परमां गतिम् ॥ ७३ ॥

वयमेव सदात्रस्थाः श्रावणे मासि सत्तम ॥

पौर्णमास्यां भविष्यामस्तव स्नेहादसंशयम् ॥ ७४ ॥

तस्मिन्नहनि यस्तोयैः पितॄन्संतर्पयिष्यति ॥

तस्याष्टादशकुष्ठानि क्षयं यास्यंति तत्क्षणात् ॥ ७५ ॥

कपालोदुम्बराख्येंद्रमण्डलाख्यविचर्चिकाः ॥

ऋष्यचर्मैककिटिभसिध्मालसविपादिकाः ॥ ७६ ॥

दद्रुसिता रुचिस्फोटं पुण्डरीकं सकाकणम् ॥

पामा चर्मदलं चेति कुष्ठान्यष्टादशैव तु ॥ ७७ ॥

गमिष्यंति न संदेह इत्युक्त्वांतर्दधुश्च ते ॥

ऋषिः सिषेवे च रविं चक्रे रामायणं ततः ॥ ७८ ॥

तस्मात्पश्येच्च तं देवं सर्वयज्ञफलप्रदम् ॥

शृणुयाच्च कथां चैनां सर्वपातकनाशिनीम् ॥ ७९ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकामाहात्म्यमूलस्थानमाहात्म्यवर्णनंनामाष्टसप्तत्युत्तर द्विशततमोऽध्यायः ॥२७८॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 279

॥ ईश्वर उवाच ॥

ततो गच्छेन्महादेवि च्यवनार्कमनुत्तमम् ॥

हिरण्यापूर्वभागस्थं च्यवनेन प्रतिष्ठितम्॥१॥

सर्वकामप्रदं नृणां पूजितं विधिवन्नरैः ॥

सप्तम्यां च विधानेन यः स्तोष्यति रविं नरः ॥ २ ॥

अष्टोत्तरशतैर्नाम्नां सम्यक्छ्रद्धासमन्वितः ॥

शृणु तानि महादेवि शुचिर्भूत्वा समाहितः ॥ ३ ॥

क्षणं त्वं कुरु देवेशि सर्वं वक्ष्याम्यशेषतः ॥

धौम्येन तु यथापूर्वं पार्थाय सुमहात्मने ॥ ४ ॥

नामाष्टशतमाख्यातं तच्छृणुष्व महामते ॥

सूर्योऽर्यमा भगस्त्वष्टा पूषाऽर्कः सविता रविः ॥ ५ ॥

गभस्तिमानजः कालो मृत्युर्द्धाता प्रभाकरः ॥

पृथिव्यापश्च तेजश्च खं वायुश्च परायणः ॥ ६ ॥

सोमो बृहस्पतिः शुक्रो बुधोंऽगारक एव च ॥

इन्द्रो विवस्वान्दीप्तांशुः शुचिः सौरिः शनैश्चरः ॥ ॥ ७ ॥

ब्रह्मा रुद्रश्च विष्णुश्च स्कन्दो वैश्रवणो यमः ॥

वैद्युतो जाठरश्चाग्निरिंधनस्तेजसां पतिः ॥ ८ ॥

धर्मध्वजो वेदकर्त्ता वेदांगो वेदवाहनः ॥

कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ॥ ९ ॥

कलाकाष्ठामुहूर्त्ताश्च पक्षा मासा अहर्निशाः ॥

संवत्सरकरोऽश्वस्थः कालचक्रो विभावसुः ॥ 7.1.279.१० ॥

पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥

लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ॥११॥

वरुणः सागरोंशुश्च जीवन्तो जीवनोऽरिहा ॥

भूताश्रयो भूतपतिः सर्वभूतनिषेवितः ॥ १२ ॥

स्रष्टा संवर्त्तको वह्निः सर्वस्यादिकरोऽमलः ॥

अनंतः कपिलो भानुः कामदः सर्वतोमुखः ॥ १३ ॥

जयो विषादो वरदः सर्वधातुनिषेवितः ॥

समः सुवर्णो भूतादिः शीघ्रगः प्राणधारकः ॥ १४ ॥

धन्वंतरिर्धूमकेतुरादिदेवोऽदितेः सुतः॥

द्वादशात्माऽरविंदाक्षः पिता माता पितामहः ॥१५॥

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥

देहकर्त्ता प्रशांतात्मा विश्वात्मा विश्वतोमुखः ॥

चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषाऽन्वितः ॥ १५ ॥

एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः ॥

नाम्नामष्टोत्तरशतं प्रोक्तं शक्रेण धीमता ॥ १७ ॥

शक्राच्च नारदः प्राप्तो धौम्यस्तु तदनन्तरम् ॥

धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ॥ १८ ॥

एतानि कीर्तनीयस्य सूर्यस्यामिततेजसः ॥

नामानि यः पठेन्नित्यं सर्वान्कामानवाप्नुयात् ॥ १९ ॥

सुरपितृमनुजयक्षसेवितमसुरनिशाचरसिद्धवंदितम् ॥

वरकनकहुताशनप्रभं त्वमपि नम हिताय भास्करम् ॥ 7.1.279.२० ॥

सूर्योदये यस्तु समाहितः पठेत्स पुत्रलाभं धनरत्नसंचयान् ॥

लभेत जातिस्मरतां सदा नरः स्मृतिं च मेधां च स विंदते पुमान् ॥॥ २१॥

इमं स्तवं देववरस्य यो नरः प्रकीर्त्तयेच्छुद्धमनाः समाहितः ॥

स मुच्यते शोकदवाग्निसाराल्लभेत कामान्मनसा यथेप्सितान् ॥२२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनादित्यमाहात्म्यसूर्याष्टोत्तरशतनाम माहात्म्यवर्णनंनामैकोनाशीत्युत्तरद्विशततमोऽध्यायः॥ २७९॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 280

ईश्वर उवाच॥

ततो गच्छेन्महादेवि च्यवनेश्वरमुत्तमम्॥

तत्रैव संस्थितं लिंगं सर्वपातकनाशनम् ॥ १ ॥

यत्र शर्यातिना दत्ता सुकन्या सा महर्षये ॥

यत्र संस्तंभितं सैन्यमानाहार्त्तमथाकरोत् ॥ २ ॥। (आनाह – जठर आध्मानम्)

एष शर्यातियज्ञस्य देशो देवि प्रकाशते ॥

प्रभासक्षेत्रमध्ये तु साक्षात्पातकनाशनः ॥ ३ ॥

साक्षात्तत्राभजत्सोममश्विभ्यां सह कौशिकः ॥

चुकोप भार्गवश्चैव महेन्द्राय महातपाः ॥ ४ ॥

संस्तंभयामास च तं वासवं च्यवनः प्रभुः ॥

सुकन्यां चापि भार्यां स राजपुत्रीमवाप्तवान् ॥ ५ ॥ ॥

॥ देव्युवाच ॥ ॥

कथं विष्टंभितस्तेन भगवान्पाकशासनः ॥

किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः ॥ ६ ॥

नासत्यौ च कथं ब्रह्मन्कृ तवान्सोमपायिनौ ॥

तत्सर्वं च यथावृत्तमाख्यातु भगवान्मम ॥ ७ ॥

॥ ईश्वर उवाच ॥ ॥

भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम नामतः ॥

स प्रभासं समासाद्य तपस्तेपे महामुनिः ॥ ८ ॥

स्थाणुभूतो महातेजा वीरस्थाने च भामिनि ॥

अतिष्ठत्सुचिरं कालमेकदेशे वरानने ॥ ९ ॥

स वल्मीकोऽभवत्तत्र लताभिरभिसंवृतः ॥

कालेन महता देवि समाकीर्णः पिपीलकैः ॥ 7.1.280.१० ॥

स तथा संवृतो धीमान्मृत्पिंड इव सर्वतः ॥

तप्यते स्म तपो घोरं वल्मीकेन समावृतः ॥ ११ ॥

अथास्य यातकालस्य शर्यातिर्नाम पार्थिवः ॥

तीर्थयात्राप्रसंगेन श्रीसोमेशदिदृक्षया ॥

आजगाम महाक्षेत्रं प्रभासं पापनाशनम् ॥ १२ ॥

तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहाः ॥

एकैव तु सुता शुभ्रा सुकन्यानाम नामतः ॥ ॥ १३ ॥

सा सखीभिः परिवृता सर्वाभरणभूषिता ॥

चंक्रम्यमाणा वल्मीकं भार्गवस्य समासदत् ॥ १४ ॥

सा चैव सुदती तत्र पश्यमाना मनोरमान् ॥

वनस्पतीन्विचिन्वंती विजहार सखीवृता ॥ १५ ॥

रूपेण वयसा चैव सुरापानमदेन च ॥

बभंज वनवृक्षाणां शाखाः परम पुष्पिताः ॥ १६ ॥

तां सखीरहितामेकामेकवस्त्रामलंकृताम् ॥

ददर्श भार्गवो धीमांश्चरंतीमिव विद्युतम् ॥ १७ ॥

तां पश्यमानो विजने स रेमे परमद्युतिः ॥

क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः ॥ १८ ॥

तामभाषत कल्याणीं सा चास्य न शृणोति वै ॥

ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी ॥ १९ ॥

कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता ॥

किन्नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ॥ 7.1.280.२० ॥

अकुध्यत्स तया विद्धो नेत्रे परममन्युमान् ॥

ततः शर्यातिसैन्यस्य शकृन्मूत्रे समावृणोत् ॥ २१ ॥

ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम् ॥

तथागतमभिभेक्ष्य पर्यतप्यत पार्थिवः ॥ २२ ॥

तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः ॥

केनापकृतमद्येह भार्गवस्य महात्मनः ॥

ज्ञातं वा यदि वाऽज्ञातं तदिदं ब्रूत मा चिरम्॥ २३ ॥

तत्रोचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् ॥

सर्वोपायैर्यथाकामं भवान्समधिगच्छतु ॥ २४ ॥

ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् ॥

पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते ॥ २५ ॥

आनाहार्त्तं ततो दृष्ट्वा तत्सैन्यं संमुखोदितम्॥

पितरं दुःखितं चापि सुकन्यैवमथाब्रवीत् ॥ २६ ॥

मया तातेह वल्मीके दृष्टं सर्वमभिज्वलत् ॥

उद्द्योतवदविज्ञानात्तन्मया विद्धमन्तिकात् ॥ २७ ॥

एतच्छ्रुत्वा तु शर्याति र्वल्मीकं क्षिप्रमभ्यगात्॥

तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् ॥ २८ ॥

अथावदत्स्वसैन्यार्थं प्रांजलिः स महीपतिः ॥

अज्ञानाद्बालया यत्ते कृतं तत्क्षंतुमर्हसि ॥ २९ ॥

ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा ॥

रूपौदार्यसमायुक्तां लोभमोहसमावृताम् ॥ 7.1.280.३० ॥

तामेव प्रतिगृह्याहं राजन्दुहितरं तव ॥

क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते ॥ ३१ ॥

॥ ईश्वर उवाच ॥ ॥

ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन्॥

ददौ दुहितरं तस्मै च्यवनाय महात्मने ॥ ३२ ॥

प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह ॥

प्राप्ते प्रसादे राजा तु ससैन्यः पुरमाव्रजत् ॥ ३३ ॥

सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दितम् ॥

नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥ ३४ ॥

अग्नीनामतिथीनां च शुश्रूषुरनसूयया ॥

समाराधयत क्षिप्रं च्यवनं सा शुभानना ॥ ३५ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्यवर्णनंनामाशीत्युत्तरद्विशततमोऽध्यायः ॥ २८० ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 281

॥ ईश्वर उवाच ॥ ॥

कस्यचित्त्वथ कालस्य त्रिदशावश्विनौ प्रिये ॥

कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ॥ १ ॥

तां दृष्ट्वा दर्शनीयांगीं देवराजसुतामिव ॥

ऊचतुः समभिद्रुत्य नासत्यावश्विनावथ ॥ २ ॥

कस्य त्वमसि वामोरु किं वनेऽस्मिंश्चिकीर्षसि॥

इच्छावस्त्वां च विज्ञातुं तत्त्वमाख्याहि शोभने ॥ ३ ॥

ततः सुकन्या संवीता तावुवाच सुरोत्तमौ ॥

शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् ॥ ४ ॥

ततोऽश्विनौ प्रहस्यैनामब्रूतां पुनरेव तु ॥

कथं त्वं च विदित्वा तु पित्रा दत्ताऽऽगता वने ॥ ५ ॥

भ्राजसे गगनोद्देशे विद्युत्सौदामनी यथा ॥

न देवेष्वपि तुल्यां हि तव पश्याव भामिनि ॥ ६ ॥

सर्वाभरणसंपन्ना परमांबरधारिणी ॥

मामैवमनवद्यांगि त्यजैनमविवेकिनम् ॥ ७ ॥

कस्मादेवंविधा भूत्वा जराजर्जरितं भुवि ॥

त्वमुपास्ये हि कल्याणि कामभावबहिष्कृतम् ॥ ८ ॥

असमर्थं परित्राणे पोषणे वा शुचिस्मिते ॥

सा त्वं च्यवनमुत्सृज्य वरयस्वैकमावयोः ॥ ९ ॥

पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ॥

एवमुक्ता सुकन्या सा सुरौ ताविदमब्रवीत् ॥7.1.281.१० ॥

रताऽहं च्यवने पत्यौ न चैवं परिशंकतम् ॥

तावब्रूतां पुनश्चैतामावां देवभिषग्वरौ ॥ ११ ॥

युवानं रूपसंपन्नं करिष्यावः पतिं तव ॥

ततस्तस्यावयोश्चैव पतिमेकतमं वृणु ॥ १२ ॥

एतेन समयेनावां शमं नय सुमध्यमे ॥

सा तयोर्वचनाद्देवि उपसंगम्य भार्गवम् ॥

उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ॥ १३ ॥

तद्वाक्यं च्यवनो भार्यामुवाचाद्रियतामिति ॥

इत्युक्ता च्यवनेनाथ सुकन्या तावुवाच वै ॥ १४ ॥

एवं देवौ भवद्भ्यां यत्प्रोक्तं तत्कियतां लघु ॥

इत्युक्तौ भिषजौ तत्र तया चैव सुकन्यया ॥

ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥ १५ ॥

ततोऽपश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह ॥

अश्विनावपि तद्देवि ततः प्राविशतां जलम् ॥ १६ ॥

ततो मुहूर्त्तादुत्तीर्णाः सर्वे ते सरसस्ततः ॥

दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः ॥ १७ ॥

दिव्यवेषधराश्चैव मनसः प्रीतिवर्द्धनाः ॥

तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे ॥ १८ ॥

अस्माकमीप्सितं भद्रे यतस्त्वं वरवर्णिनी ॥

यत्र वाप्यभि कामासि तं वृणीष्व सुशोभने ॥ १९ ॥

सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् ॥

निश्चित्य मनसा बुद्ध्या देवि वव्रे पतिं स्वकम् ॥ 7.1.281.२० ॥

लब्ध्वा तु च्यवनो भार्यां वयोरूपमवस्थितः ॥

हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ॥ २१ ॥

यदहं रूपसंपन्नो वयसा च समन्वितः ॥

कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवान्निजाम् ॥

तद्ब्रूतं वै विधास्यामि भवतोर्यदभीप्सितम् ॥ २२ ॥

॥ अश्विनावूचतुः ॥ ॥

आवां तु देवभिषजौ न च शक्रः करोति नौ ॥

सोमपानार्हतां तस्मात्कुरु नौ सोमपायिनौ ॥ २३ ॥

॥ च्यवन उवाच ॥ ॥

अहं वां यज्ञभागार्हौ करिष्ये सोमपायिनौ ॥ २४ ॥

॥ ईश्वर उवाच ॥ ॥

ततस्तौ हृष्टमनसौ नासत्यौ दिवि जग्मतुः ॥

च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः ॥ २५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वर माहात्म्यवर्णनंनामैकाशीत्युत्तरद्विशततमोऽध्यायः ॥ २८१ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 282

॥ ईश्वर उवाच ॥ ॥

ततः श्रुत्वा च शर्यातिर्वलभीस्थान संस्थितः ॥

वयस्थं च्यवनं श्रुत्वा आनन्दोद्गतमानसः ॥ १ ॥

प्रहृष्टः सेनया सार्द्धं स प्रायाद्भार्गवाश्रमम् ॥

च्यवनं च सुकन्यां च हृष्टां देव सुतामिव ॥ २ ॥

गतो महीपः शर्यातिः कृत्स्नानंदमहोदधिः ॥

ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः ॥

तत्रोपविष्टः कल्याणीः कथाश्चक्रे महामनाः ॥ ३ ॥

अथैनं भार्गवो देवि ह्युवाच परिसांत्वयन् ॥

याजयिष्यामि राजंस्त्वां संभारानुपकल्पय ॥ ४ ॥

ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः ॥

च्यवनस्य महादेवि तद्वाक्यं प्रत्यपूजयत् ॥ ५ ॥

प्रशस्तेऽहनि याज्ञीये सर्वकामसमृद्धिमत् ॥

कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥ ६ ॥

तत्रैव च्यवनो देवि याजयामास भार्गवम् ॥

अद्भुतानि च तत्रासन्यानि तानि महेश्वरि ॥ ७ ॥

अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा ॥

तमिन्द्रो वारयामास मा गृहाण तयोर्ग्रहम् ॥ ८.॥

॥ इन्द्र उवाच ॥ ॥

उभावेतौ न सोमार्हौ नासत्याविति मे मतिः ॥

भिषजौ देवतानां हि कर्मणा तेन गर्हितौ ॥ ९ ॥

॥ च्यवन उवाच ॥ ॥

माऽवमंस्था महात्मानौ रूपद्रविणवर्चसौ ॥

यौ चक्रतुश्च मामद्य वृंदारकमिवाजरम् ॥ 7.1.282.१० ॥

समत्वेनान्यदेवानां कथं वै नेक्षते भवान्॥

अश्विनावपि देवेन्द्र देवौ विद्धि परंतप ॥ ११ ॥

॥ इन्द्र उवाच ॥ ॥

चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ ॥

लोके चरंतौ मर्त्यानां कथं सोममिहार्हतः ॥ १२ ॥

॥ ईश्वर उवाच ॥ ॥

एतदेव यदा वाक्यमाम्रेडयति वासवः ॥

अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः ॥ १३ ॥

ग्रहीष्यंतं ततः सोममश्विनोः सत्तमं तदा ॥

समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥ १४ ॥

आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम् ॥

वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् ॥ १५ ॥

एवमुक्तः स्वयमिन्द्रमभिवीक्ष्य स भार्गवः ॥

जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् ॥ १६ ॥

ततोऽस्मै प्राहरत्कोपाद्वज्रमिंद्रः शचीपतिः ॥

तस्य प्रहरतो बाहुं स्तंभयामास भार्गवः ॥ १७ ॥

स्तंभयित्वाथ च्यवनो जुहुवे मन्त्रतोऽनलम् ॥

कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः ॥ १८ ॥

तत्र कृत्योद्भवो यज्ञे मुनेस्तस्य तपोबलात् ॥

मदोनाम महावीर्यो महाकायो महासुरः ॥ १९ ॥

शरीरं यस्य निर्देष्टुमशक्यं च सुरासुरैः ॥

तस्य प्रमाणं वपुषा न तुल्यमिह विद्यते ॥ 7.1.282.२० ॥

तस्यास्यं चाभवेद्घोरं दंष्ट्रा दुर्दर्शनं महत् ॥

हनुरेकः स्थितस्तस्य भूमावेको दिवं गतः ॥ २१ ॥

चतस्रश्चापि ता दंष्ट्रा योजनानां शतंशतम् ॥

इतरे त्वस्य दशना बभूबुर्दशयोजनाः ॥२२ ॥

प्राकारसदृशाकारा मूलाग्रसमदर्शनाः ॥

नाम्ना पर्वतसंकाशाश्चायुतायुतयोजनाः ॥ २३ ॥

नेत्रे रविशशिप्रख्ये भ्रुवावंतकसन्निभे ॥

लेलिहज्जिह्वया वक्त्रं विद्युच्चलितलोलया ॥

व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् ॥ २४ ॥

स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत् ॥

महता घोरनादेन लोकाञ्छब्देन छादयन् ॥ २५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्ये च्यवनेन नासत्ययज्ञभागप्रतिरोधकवज्र मोचनोद्यतशक्रनाशाय कृत्योद्भवमदनामकमहाऽसुरोत्पादनवृत्तान्तवर्णनंनाम द्व्यशीत्युत्तरद्विशततमोऽध्यायः ॥ २८२ ॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 283

॥ ईश्वर उवाच ॥ ॥

तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः ॥

आयांतं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ॥ १ ॥

भयात्स्तंभितरूपेण लेलिहानं मुहुर्मुहुः ॥

प्रणतोऽब्रवीन्महादेवि च्यवनं भयपीडितः ॥ २ ॥

सोमार्हावश्विनावेतावद्यप्रभृति भार्गव ॥

भविष्यतः सर्वमेतद्वचः सत्यं ब्रवीमि ते ॥ ३ ॥

मा ते मिथ्या समारम्भो भवत्वथ तपोधन ॥

जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ॥ ४ ॥

सोमार्हावश्विनावेतौ यथैवाद्य त्वया कृतौ ॥

भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव ॥ ५ ॥

सुकन्यायाः पितुश्चास्य लोके कीर्तिर्भवेदिति ॥

अतो मयैतद्विहितं तद्वीर्यस्य प्रकाशनम् ॥

तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि ॥ ६ ॥

एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः ॥

मन्युर्व्युपारमच्छीघ्रं मानश्चैव सुरेशितुः ॥ ७ ॥

मदं च व्यभजद्देवि पाने स्त्रीषु च वीर्यवान् ॥

अक्षेषु मृगयायां च पूर्वं सृष्टं पुनःपुनः ॥

तथा मदं विनिक्षिप्य शक्रं संतर्प्य चेंदुना ॥ ८ ॥

अश्विभ्यां सहितान्सर्वान्याजयित्वा च तं नृपम् ॥

विख्याप्य वीर्यं सर्वेषु लोकेषु वरवर्णिनि ॥ ९ ॥

सुकन्यया महारण्ये क्षेत्रेऽस्मिन्विजहार सः ॥

तस्यैतद्देवि संयुक्तं च्यवनेश्वरनामभृत् ॥ 7.1.283.१० ॥

लिंगं महापापहरं च्यव नेन प्रतिष्ठितम् ॥

पूजयेत्तं विधानेन सोऽश्वमेधफलं लभेत् ॥११॥

तस्माच्चन्द्रमसस्तीर्थमृषयः पर्युपासते ॥

वैखानसाख्या ऋषयो वालखिल्यास्तथैव च ॥ १२ ॥

अत्राश्विने मासि नरः पौर्णमास्यां विशेषतः ॥

श्राद्धं कुर्याद्विधानेन ब्राह्मणान्भोजयेत्पृथक् ॥

कोटितीर्थफलं तस्य भवेन्नैऽवात्र संशयः ॥ १३ ॥

य इमां शृणुयाद्देवि कथां पातकनाशिनीम् ॥

समस्तजन्मसंभूतात्पापान्मुक्तो भवेन्नरः ॥ १४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्यवर्णनंनाम त्र्यशीत्युत्तरद्विशततमोऽध्यायः ॥२८३ ॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 284

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि सुकन्यासर उतमम् ॥

यत्राश्विनौ निमग्नौ तौ च्यवनेन सहांबिके ॥

समानरूपो ह्यभवच्च्यवनो यत्र सोऽश्विना ॥ १ ॥

यत्र प्राप्तवती कामं सुकन्या वरवर्णिनी ॥

सरःस्नानप्रभावेन तेन कन्यासरः स्मृतम् ॥

तत्र स्नाता शुभा नारी तृतीयायां विशेषतः ॥ २ ॥

सप्तजन्मसहस्राणि गृहभंगं न चाप्नुयात् ॥

दरिद्रो विकलो दीनो नांधस्तस्या भवेत्पतिः ॥ ३ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्ये सुकन्यासरोमाहात्म्यवर्णनंनाम चतुरशीत्युत्तर द्विशततमोऽध्यायः ॥ २८४ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 285

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि पुनर्न्यंकुमतीं नदीम् ॥

तत्र कृत्वा गयाश्राद्धं गोष्पदे तीर्थ उत्तमे ॥ १ ॥

ततः पश्येद्वराहं तु तस्माद्धरिगृहं व्रजेत् ॥

तत्र मातृस्तु संपूज्य स्नात्वा सागरसंगमे ॥ २ ॥

न्यंकुमत्यर्णवोपेते ततः पूर्वमनु व्रजेत् ॥

अगस्तेराश्रमं दिव्यं क्षुधाहरमितिस्मृतम् ॥ ३ ॥

यत्रेल्वलं च वातापिं संहृत्य भगवान्मुनिः ॥

मुक्त्वाऽऽपद्भ्यो ब्राह्मणांश्च तेभ्यः स्थानं ततो ददौ ॥ ४ ॥

अगस्त्याश्रममेतद्धि अगस्तिप्रियमुत्तमम् ॥

न्यंकुमत्यास्तटे रम्ये सर्वपातकनाशने ॥ ५ ॥

॥ देव्युवाच ॥ ॥

अगस्तिनेह वातापिः किमर्थमुपशामितः ॥

अत्र वै किंप्रभावश्च स दैत्यो ब्राह्मणांतकः ॥

किमर्थं चोद्गतो मन्युरगस्तेस्तु महात्मनः ॥६॥

॥ ईश्वर उवाच ॥ ॥

इल्वलो नाम दैत्येन्द्र आसीद्वै वरवर्णिनि ॥

मणिमत्यां पुरा पुर्यां वातापिस्तस्य चानुजः ॥ ७ ॥

स ब्राह्मणं तपोयुक्तमुवाच दितिनंदनः ॥

पुत्र मे भगवन्नेकमिंद्रतुल्यं प्रयच्छतु ॥८॥

तस्मिन्स ब्राह्मणो नैच्छत्पुत्रं दातुं तथाविधम् ॥

चुक्रोध दितिजस्तस्य ब्राह्मणस्य ततो भृशम् ॥ ९ ॥

प्रभासक्षेत्रमासाद्य स दैत्यः पापबुद्धिमान् ॥

मेषरूपी च वातापिः कामरूपोऽभवत्क्षणात् ॥ 7.1.285.१० ॥

संस्कृत्य भोजयेत्तत्र विप्रान्स च जिघांसति ॥

समा ह्वयति तं वाचा गतं चैव ततः क्षयम् ॥ ११ ॥

स पुनर्देहमास्थाय जीवन्स्म प्रत्यदृश्यत ॥

ततो वातापिरपि तं छागं कृत्वा सुसंस्कृतम् ॥

ब्राह्मणं भोजयित्वा तु पुनरेव समाह्वयत् ॥ १२ ॥

स तस्य पार्श्वं निर्भिद्य ब्राह्मणस्य महात्मनः ॥

वातापिः प्रहसंस्तत्र निश्चक्राम द्विजोदरात् ॥ १३ ॥

एवं स ब्राह्मणान्देवि भोजयित्वा पुनःपुनः ॥

विनिर्भिद्योदरं तेषामेवं हंति द्विजान्बहून् ॥१४॥

ततो वै ब्राह्मणाः सर्वे भयभीताः प्रदुद्रुवुः ॥

अगस्तेराश्रमं जग्मुः कथयामासुरग्रतः ॥ १५ ॥

भगवञ्छृणु नो वाक्यमस्माकं तु भयावहम् ॥

निमंत्रिताः स्म सर्वे वा इल्वलेन वयं प्रभो ॥ १६ ॥

अस्माकं मृत्युरूपं तद्भोजनं नास्ति संशयः ॥

तदस्मान्रक्ष भगवन्विषण्णागतचेतसः ॥ १७ ॥

ततः प्रभासमासाद्य यत्र तौ दैत्यपुंगवौ ॥

ब्रह्मघ्रौ पापनिरतौ ददर्श स महामुनिः ॥ १८ ॥

वातापिं संस्कृतं दृष्ट्वा मेषरूपं महासुरम् ॥

उवाच देहि मे भोज्यं बुभुक्षा मम वर्तते ॥ १९ ॥

इत्युक्तौ स्वागतं तत्र चक्राते मुनये तदा ॥

भगवन्भोजनं तुभ्यं दास्येऽहं बहुविस्तरम् ॥

कियन्मानस्तवाहारस्तावन्मानं पचाम्यहम् ॥ 7.1.285.२० ॥

॥ अगस्त्य उवाच ॥ ॥

अन्नं पचस्व दैत्येन्द्र किंचित्तृप्तिर्भविष्यति ॥

एवमस्त्विति दैत्येन्द्रः पक्वमाह महामुने ॥२१॥

आस्यतामासनमिदं भुज्यतां स्वेच्छया मुने ॥

इत्युक्तोऽघोरमंत्रं स जपन्कल्पांतकारकम् ॥

धुर्यासनमथासाद्य निषसाद महामुनिः ॥ २२ ॥

तं पर्यवेषद्दैत्येंद्र इल्वलः प्रहसन्निव ॥

शतहस्तप्रमाणेन राशिमन्नस्य सोऽकरोत् ॥ २३ ॥

ततो हष्टमनाऽगस्त्यः प्राग्रसत्कवलद्वयम् ॥

रूपं कृत्वा महत्तद्वद्यद्वत्सागरशोषणे ॥ २४ ॥

समस्तमेव तद्भोज्यं वातापिं बुभुजे ततः ॥

भुक्तवत्यसुरो ह्वानमकरोत्तस्य इल्वलः ॥ २५ ॥

ततोऽसौ दत्तवानन्नमगस्त्यस्य महात्मनः ॥

भस्मीचकार सर्वं स तदन्नं च सदानवम् ॥२६॥

इल्वलं क्रोधमुष्ट्या तु भस्मीचक्रे महामुनिः ॥

ततो हाहारवं कृत्वा सर्वे दैत्या ननंशिरे ॥ २७ ॥

ततोऽगस्त्यो महातेजा आहूय द्विजपुंगवान् ॥

तत्स्थानं च ददौ तेभ्यो दैत्य्रानां द्रव्यपूरितम्॥ २८ ॥

क्षुधा हृता ततो देवि तत्रागस्त्यस्य दानवैः ॥

तेन क्षुधा हरंनाम स्थानमासीद्विजन्मनाम् ॥ २९ ॥

तस्य पश्चिमभागे तु नातिदूरे व्यवस्थितम् ॥

गंगेश्वरमिति ख्यातं गंगया यत्प्रतिष्ठितम् ॥ 7.1.285.३० ॥

वातापिभक्षणेपूर्वमगस्त्येन महात्मना ॥

दैत्यसंभक्षणोत्पन्नसर्वपातकशुद्धये ॥

समाहूता महादेवि गंगापातकनाशिनी ॥ ३१ ॥

ततो देवि समा याता गंगा पातकनाशिनी ॥

शुद्धिं चकार तस्यर्षेस्तत्र स्थाने स्थिताऽभवत् ॥३२॥

अगस्त्यस्याऽऽश्रमे रम्ये नृणां पापभयापहे ॥

तत्र गंगेश्वरं दृष्ट्वा अभक्ष्योद्भवपातकात्॥

मुच्यते नात्र संदेहः स्नानदानजपादिना ॥ ३३ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्येऽगस्त्याश्रमगंगेश्वरमाहात्म्यवर्णनंनाम पञ्चाशीत्युत्तरद्विशततमोऽध्यायः॥ २८५ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 286

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि बालार्कं पापनाशनम् ॥

अगस्त्याश्रमतो देवि उत्तरे नातिदूरतः ॥ १ ॥

बाल एव तु यत्रार्कस्तपस्तेपे पुरा प्रिये ॥

तेन बालार्क इत्येतन्नाम ख्यातं धरातले ॥ २ ॥

तं दृष्ट्वा रविवारेण न कुष्ठी जायते नरः ॥

बालानां रोगजा पीडा न संभूयात्कदाचन ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये बालार्कमाहात्म्यवर्णनंनाम षडशीत्युत्तरद्विशततमोऽध्यायः ॥ २८६ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 287

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि अजापालेश्वरीं शुभाम् ॥

अगस्त्यस्थानपूर्वेण नातिदूरे व्यवस्थिताम् ॥ १ ॥

रघुवंशसमुद्भूतो ह्यजापालो नृपोत्तमः ॥

स तत्र देवीमाराध्य पापरोगवशंकरीम् ॥ २ ॥

अजारूपांश्च रोगान्वै चारयामास भूमिपः ॥

तत्र तां स्थापयामास स्वनाम्ना पापनाशिनीम् ॥। ॥ ३ ॥

यस्तां पूजयते भक्त्या तृतीयायां विधानतः ॥

बल बुद्धिर्यशो विद्यां सौभाग्यं प्राप्नुयान्नरः ॥ ४ ॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनंनाम सप्ताशीत्युत्तरद्विशततमोऽध्यायः ।। २८७ ॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 288

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि बालादित्यमिति श्रुतम् ॥

अगत्स्यस्थानतः पूर्वे गव्यूतिद्वितयेन तु॥ १ ॥

स्थानं सपाटिकानाम तस्यदक्षिणतः स्थितम् ॥

गव्यूतिमात्रं देवेशि बालार्क इति विश्रुतम् ॥ २ ॥

यत्र चाराधिता विद्या विश्वामित्रेण धीमता ॥

संस्थाप्य लिंगत्रितयं प्रतिष्ठाप्य तथा रविम् ॥ ३ ॥

विद्यायाः साधनं चक्रे सिद्धिं सूर्यादवाप्तवान् ।

बालादित्येति तेनासौ ततः ख्यातिमगात्प्रभुः ॥ ४ ॥

तं दृष्ट्वा मानवो देवि भास्करपापतस्करम्॥

न दारिद्र्यमवाप्नोति यावज्जीवति मानवः ॥ ५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बालार्कमाहात्म्यवर्णनंनामाष्टाशीत्युत्तरद्विशततमोऽध्यायः ॥ २८८ ॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 289

॥ ईश्वर उवाच ॥ ॥

तस्यैव दक्षिणे देवि तस्माद्गव्यूतिमात्रतः ॥

पातालगामिनी गंगा संस्थिता पापनाशिनी ॥ १ ॥

विश्वामित्रेण चाहूता स्नानार्थं वरवर्णिनि ॥

तत्र स्नात्वा महादेवि मुच्यते सर्वपातकैः ॥ २ ॥

तत्र गंगेश्वरं दृष्ट्वा विश्वामित्रेश्वरं तथा ॥

बालेश्वरं च संप्रेक्ष्य सर्वान्कामानवाप्नुयात् ॥ ३ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बालार्कमाहात्म्ये पाताल गंगेश्वरविश्वामित्रेश्वरबालेश्वराभिधलिंगत्रयमाहात्म्यवर्णनंनामैकोननवत्युत्तरद्विशततमोऽध्यायः ॥ २८९ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 290

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि कुबेरस्थानमुत्तमम् ॥

यत्र सिद्धः पुरा देवि कुबेरो धनदोऽभवत् ॥ १ ॥

ब्राह्मणश्चौररूपेण तत्र स्थानेऽवसत्पुरा ॥

स च मे भक्तियोगेन पुरा वै धनदः कृतः॥ २ ॥

॥ देव्युवाच ॥ ॥

कथं स ब्राह्मणो भूत्वा चौररूपो नराधमः ॥

तन्मे कथय देवेश धनदः स यथाऽभवत् ॥ ३ ॥

॥ ईश्वर उवाच ॥ ॥

तस्मिन्नर्थे महादेवि यद्वृत्तं चौत्तमेंऽतरे ॥

कथयिष्यामि तत्सर्वं शिवमाहात्म्यसूचकम् ॥ ४ ॥

कश्चिदासीद्द्विजो देवि देवशर्मेति विश्रुतः ॥

प्रभासक्षेत्रनिलयो न्यंकुमत्यास्तटेऽवसत् ॥ ५ ॥

पुत्रक्षेत्रकलत्रादिव्यापारैकरतः सदा ॥

विहायाथ स गार्हस्थ्यं धनार्थं लोभ मोहितः ॥

प्रचचार महीमेतां सग्रामनगरांतराम् ॥ ६ ॥

भार्या तस्य विलोलाक्षी तस्य गेहाद्विनिर्गता ॥

स्वच्छंदचारिणी नित्यं नित्यं चानंगमोहिता ॥ ७ ॥

तस्यां कदाचित्पुत्रस्तु शूद्राज्जातो विधेर्वशात् ॥

दुष्टात्माऽतीव निर्मुक्तो नाम्ना दुःसह इत्यतः ॥ ८ ॥

सोऽथ कालेन महता नामकर्मप्रवर्तितः ॥

व्यसनोपहतः पापस्त्यक्तो बन्धुजनैस्तथा ॥ ९ ॥

पूजोपकरणं द्रव्यं स कस्मिंश्चिच्छिवालये ॥

बहुदोषामुखे दृष्ट्वा हर्तुकामोऽविशत्ततः॥। ॥ 7.1.290.१०॥

यावद्दीपो गतप्रायो वर्त्तिच्छेदोऽभवत्किल ॥

तावत्तेन दशा दत्ता द्रव्यान्वेषणकारणात् ॥ ११ ॥

प्रबुद्धश्चोत्थितस्तत्र देवपूजाकरो नरः ॥

कोऽयं कोयमिति प्रोच्चैर्व्याहरत्परिघायुधः ॥१२॥

स च प्राणभयान्नष्टः शूद्रजश्चापि मूढधीः ॥

विनिन्दन्नात्मनो जन्म कर्म चापि सुदुःखित॥१३॥

पुरपालैर्हतोऽवन्यां मृतः कालादभूच्च सः॥

गंधारविषये राजा ख्यातो नाम्ना सुदुर्मुखः॥१४॥

गीतवाद्यरतस्तत्र वेश्यासु निरतो भृशम्॥

प्रजोपद्रवकृन्मूर्खः सर्वधर्मबहिष्कृतः ॥ १५ ॥

किन्त्वर्चयन्सदैवासौ लिंगं राज्यक्रमागतम् ॥

पुष्पस्रग्धूपनैवेद्यगंधादिभिरमन्त्रवत् ॥१६ ॥

मुख्येषु च सदा काले देवतायतनेषु च ॥

दद्यात्स बहुलान्दीपान्वर्तिभिश्च समुज्ज्वलान् ॥ १७ ॥

कदाचिन्मृगयासक्तो बभ्राम स च वीर्यवान्॥

प्रभास क्षेत्रमागात्य पूर्वसंस्कारभावितः ॥ १८ ॥

परैरभिहतो युद्धे न्यंकुमत्यास्तटे शुभे ॥

शिवपूजाविधानेन विध्वस्ताशेषपातकः ॥ १९ ॥

ततो विश्रवसश्चासौ पुत्रोऽभूद्भुवि विश्रुतः ॥

यः स एव महातेजाः सर्वयज्ञाधिपो बली ॥ 7.1.290.२० ॥

कुबेर इति धर्मात्मा श्रुतशीलसमन्वितः ॥

लिंगं प्रतिष्ठयामास न्यंकुमत्याश्च पूर्वतः ॥ २१ ॥

कौबेरात्पश्चिमे भागे सोमनाथेति विश्रुतम् ॥

संपूज्य च यथेशानं न्यंकुमत्यास्तटे शुभे ॥

स्तोत्रेणानेन चास्तौषीद्भक्त्या तं सर्वकामदम् ॥ २२ ॥

मूर्तिः क्वापि महेश्वरस्य महती यज्ञस्य मूलोदया तुम्बी तुंगफलावती च शतशो ब्रह्माण्डकोटिस्तथा ॥

यन्मानं न पितामहो न च हरिर्ब्रह्माण्डमध्यस्थितो जानात्यन्यसुरेषु का च गणना सा संततं वोऽवतात् ॥ २३ ॥

नमाम्यहं देवमजं पुराणमु पेन्द्रमिन्द्रावरराजजुष्टम् ॥

शशांकसूर्याग्निसमाननेत्रं वृषेन्द्रचिह्नं प्रलयादिहेतुम् ॥ २४ ॥

सर्वेश्वरैकत्रिबलैकबन्धुं योगाधिगम्यं जगतोऽधिवासम् ॥

तं विस्मयाधारमनंतशक्तिं ज्ञानोद्भवं धैर्यगुणाधिकं च ॥ २५ ॥

पिनाकपाशांकुशशूलहस्तं कपर्दिनं मेघसमानघोषम् ॥

सकालकण्ठं स्फटिकावभासं नमामि शंभुं भुवनैकनाथम् ॥ २६ ॥

कपालिनं मालिनमादिदेवं जटाधरं भीमभुजंगहारम् ॥

प्रभासितारं च सहस्रमूर्तिं सहस्रशीर्षं पुरुषं विशिष्टम् ॥ २७ ॥

यदक्षरं निर्गुणमप्रमेयं सज्योतिरेकं प्रवदंति संतः ॥

दूरंगमं वेद्यमनिंद्यवन्द्यं सर्वेषु हृत्स्थं परमं पवित्रम् ॥ २८ ॥

तेजोनिभं बालमृगांकमौलिं नमामि रुद्रं स्फुरदुग्रवक्त्रम् ॥

कालेन्धनं कामदमस्तसंगं धर्मासनस्थं प्रकृतिद्वयस्थम् ॥ २९ ॥

अतीन्द्रियं विश्वभुजं जितारिं गुणत्रयातीतमजं निरीहम् ॥

तमोमयं वेदमयं चिदंशं प्रजापतीशं पुरुहूतमिन्द्रम् ॥

अनागतैकध्वनिरूपमाद्यं ध्यायंति यं योगविदो यतीन्द्राः ॥ 7.1.290.३० ॥

संसारपाशच्छिदुरं विमुक्तः पुनः पुनस्त्वां प्रणमामि देवम् ॥ ३१ ॥

निरूपमास्यं च बलप्रभावं न च स्वभावं परमस्य पुंसः ॥

विज्ञायते विष्णुपितामहाद्यैस्तं वामदेवं प्रणमाम्यचिंत्यम् ॥ ३२ ॥

शिवं समाराध्य तमुग्रमू्र्त्तिं पपौ समुद्रं भगवानगस्त्यः ॥

लेभे दिलीपोऽप्यखिलांश्च कामांस्तं विश्वयोनिं शरणं प्रपद्ये ॥ ३३ ॥

देवेन्द्रवन्द्योद्धर मामनाथं शम्भो कृपाकारुणिकः किल त्वम् ॥

दुःखाऽर्णवे मग्नमुमेश दीनं समुद्धर त्वं भव शंकरोऽसि ॥ ३४ ॥

संपूजयन्तो दिवि देवसंघा ब्रह्मेन्द्ररुद्रा विहरंति कामम् ॥

तं स्तौमि नौमीह जपामि शर्वं वन्देऽभिवंद्यं शरणं प्रपन्नः ॥३५॥

स्तुत्वैवमीशं विरराम यावत्तावत्स रुद्रोऽर्कसहस्रतेजाः ॥

ददौ च तस्मै वरदोंऽधकारिर्वरत्रयं वैश्रवणाय देवः॥

सख्यं च दिक्पालपदं चतुर्थं धनाधिपत्यं च दिवौकसां च ॥ ३६ ॥

यस्मादत्र त्वया सम्यङ्न्यंकुमत्यास्तटे शुभे ॥

आराधितोऽहं विधिवत्कृत्वा मूर्त्तिं महीमयीम् ॥ ३७ ॥

तस्मात्तवैव नाम्ना तत्स्थानं ख्यातं भविष्यति ॥

कुबेरनगरेत्येवं मम प्रीतिप्रदायकम् ॥ ३८॥

त्वया प्रतिष्ठितं लिंगमस्मात्स्थानाच्च पश्चिमे ॥

उमानाथस्य विधिवत्सोमनाथेति तत्स्मृतम् ॥ ३९ ॥

श्रीपंचम्यां विधानेन यस्तच्च पूजयिष्यति ॥

सप्तपुरुषावधिर्यावत्तस्य लक्ष्मीर्भविष्यति ॥ 7.1.290.४० ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये कुबेरनगरोत्पत्तिकुबेरस्थापितसोमनाथमाहात्म्यवर्णनंनाम नवत्युत्तरद्विशततमोऽध्यायः ॥२९०॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 291

॥ ईश्वर उवाच ॥ ॥

तस्मादुत्तरभागे तु स्थानात्कौबेरसंज्ञकात् ॥

भद्रकाली महादेवि वांछितार्थप्रदायिनी ॥ १ ॥

दक्षयज्ञस्य विध्वंसे वीरभद्रसमन्विता ॥

भद्रकाली महादेवी दक्षयज्ञविनाशिनी ॥ २ ॥

चैत्रे मासि तृतीयायां देवीं तां यस्तु पूजयेत् ॥

नवकोट्यस्तु चामुण्डा भविष्यंति सुपूजिताः ॥

सौभाग्यं विजयं चैव तस्य लक्ष्मीर्भविष्यति ॥ ३ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये भद्रकालीमाहात्म्यवर्णनंनामैकनवत्युत्तरद्विशततमोऽध्यायः ॥ २९१ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 292

॥ ईश्वर उवाच ॥ ॥

तस्मादुत्तरभागे तु स्थानात्कौरवसंज्ञकात् ॥

भद्रकाली महादेवि तपः कृत्वा सुदुस्तरम् ॥ १ ॥

रविं संस्थापयामास भक्त्या परमया युता ॥

रविवारेण सप्तम्यां रक्त पुष्पानुलेपनैः ॥ २ ॥

यस्तं पूजयते भक्त्या कोटियज्ञफलं लभेत् ॥

मुच्यते वातपित्तोत्थै रोगैरन्यैश्च पुष्कलैः ॥ ३ ॥

अश्वस्तत्रैव दातव्यः सम्यग्यात्राफलेप्सुभिः ॥ ४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये भद्रकालीबालार्कमाहात्म्यवर्णनंनाम द्विनवत्युत्तरद्विशततमोऽध्यायः ॥ २९२ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 293

॥ ईश्वर उवाच ॥ ॥

तस्माद्वैश्रवण स्थानान्नैर्ऋत्यां वरवर्णिनि ॥

स्वयं स्थितः कुबेरस्तु सर्वदारिद्र्यनाशनः ॥ १ ॥

मकरादिनिधानैस्तु अष्टाभिः परिभूषितः ॥

पञ्चम्यां पूजयेद्भक्त्या गन्धपुष्पानुलेपनैः ॥

निधानप्राप्तिरतुला निर्विघ्ना तस्य जायते ॥ २ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभामक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये कुबेरस्थानोत्पत्तौ कुबेरमाहात्म्यवर्णनंनाम त्रिनवत्युत्तरद्विशततमोऽध्यायः ॥ २९३ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 294

॥ ईश्वर उवाच ॥

ततो गच्छेन्महादेवि कौबेरात्पूर्वसंस्थितम् ॥

गव्यूतिपंचके देवि पुष्करंनाम नामतः ॥

यत्र सिद्धो महादेवि कैवर्तो मत्स्यघातकः ॥ १ ॥

॥ देव्युवाच ॥ ॥

सविस्तरं मम ब्रूहि कथं स सिद्धिमाप वै ॥

कथयस्व प्रसादेन देवदेव महेश्वर ॥ २ ॥

॥ ॥ ईश्वर उवाच ॥ ॥

शृणु त्वं यत्पुरावृत्तं देवि स्वारोचिषेंतरे ॥

आसीत्कश्चिद्दुराचारः कैवर्तो मत्स्यघातकः ॥ ३ ॥

स कदाचिच्चरन्पापः पुष्करे तु जगाम वै ॥

ददर्श शांकरं वेश्म लतापादपसंकुलम् ॥ ४ ॥

स माघमासे शीतार्त्तः क्लिन्नजालसमन्वितः ॥

प्रासादमारुरोहार्त्तः सूर्यतापजिघृक्षया ॥ ५ ॥

ततः स क्लिन्नजालं तच्छोषणाय रवेः करैः ॥

प्रासादध्वजदंडाग्रे संप्रसारितवांस्तदा ॥ ६ ॥

ततः प्रासादतो देवि जाड्यात्संपतितः क्रमात् ॥

स मृतः सहसा देवि तस्मिन्क्षेत्रे शिवस्य च ॥ ७ ॥

जालं तस्य प्रभूतेन जीर्णकालेन यत्तदा ॥

ध्वजा बद्धा यतो जालैः प्रासादे सा शुभेऽभवत् ॥ ८ ॥

ततोऽसौ ध्वजमाहात्म्याज्जातोऽवन्यां नराधिपः ॥

ऋतध्वजेति विख्यातः सौराष्ट्रविषये सुधीः ॥

स हि स्फूर्जद्ध्वजाग्रेण रथेन पर्यटन्महीम् ॥ ९ ॥

कामभोगाभिभूतात्मा राज्यं चक्रे प्रतापवान् ॥

ततोऽसौ भवने शंभोर्ददौ शोभासमन्विताम् ॥

ध्वजां शुभ्रां विचित्रां च नान्यत्किंचिदपि प्रभुः ॥ 7.1.294.१० ॥

ततो जातिस्मरो राजा प्रभासक्षेत्रमागतः॥

तत्रायतनं ध्वजाजालसमन्वितम्॥११॥

अजोगन्धस्य देवस्य पूर्वमाराधितस्य च ॥

प्रासादं कारयामास शिवोपकरणानि च॥१२॥

नित्यं पूजयते भक्त्या तल्लिंगं पापनाशनम् ॥

दशवर्षसहस्राणि राज्यं चक्रे महामनाः ॥ १३ ॥

तल्लिंगस्य प्रभावेन ततः कालाद्दिवं गतः ॥

तस्मात्तत्र प्रयत्नेन गत्वा लिंगं प्रपूजयेत् ॥ १४ ॥

स्नात्वा पश्चिमतः कुण्डे पुष्करे पापतस्करे ॥

यत्र ब्रह्माऽयजत्पूर्वं यज्ञैर्विपुलदक्षिणैः ॥ १५ ॥

समाहूय च तीर्थानि पुष्करात्तत्र भामिनि ॥

तस्मिन्कुण्डे तु विन्यस्य अजोगन्ध समीपतः ॥

प्रतिष्ठाप्य महालिंगमजोगन्धेति नामतः ॥ १६ ॥

त्रिपुष्करे महादेवि कुण्डे पातकनाशने ॥

सौवर्णं कमलं तत्र दद्याद्ब्राह्मणपुंगवे ॥ १७ ॥

देवं संपूज्य विधिवद्गन्धपुष्पाक्षतादिभिः ॥

मुच्यते पातकैः सर्वैः सप्तजन्मार्जितैरपि ॥ १८ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्कर माहात्म्येऽजोगन्धेश्वरमाहात्म्यवर्णनंनाम चतुर्णवत्युत्तरद्विशततमोऽध्यायः ॥ २९४ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 295

॥ ईश्वर उवाच ॥ ॥

तस्मादीशान दिग्भागे इन्द्रस्थानमनुत्तमम् ॥

गव्यूतिपञ्चमात्रेण यत्र चन्द्रसरः प्रिये ॥ १ ॥

तस्मादुत्तरदिग्भागे नातिदूरे व्यवस्थितम् ॥

यत्र चन्द्रोदकं देवि जरादारिद्र्यनाशनम् ॥ २॥

चन्द्रानुवृद्ध्या तद्वृद्धिः क्षयस्तत्संक्षये भवेत्॥

तस्मिन्पापयुगेऽप्येवं कदाचित्संप्रदृश्यते॥३॥

तत्र स्नात्वा महादेवि यदि पापसहस्रकम्॥

कृतं सोऽत्र समायाति नात्र कार्या विचारणा॥४॥

तत्राहिल्याप्रसंगोत्थमहापातकभीरुणा॥

गौतमोद्भवशापेन विलक्ष्यीकृतचेतसा ॥ ५ ॥

इन्द्रेण च पुरा देवि इष्टं विपुलदक्षिणैः ॥

तत्र वर्षसहस्राणि संस्थाप्य शिवमीश्वरम् ॥

इन्द्रेश्वरेति नाम्ना वै सर्वपातक नाशनम् ॥ ६ ॥

चन्द्रतीर्थे नरः स्नात्वा संतर्प्य पितृदेवताः ॥

इन्द्रेश्वरं च संपूज्य मुच्यते नात्र संशयः ॥ ७ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चन्द्रोदकतीर्थमाहात्म्य इन्द्रेश्वरमाहात्म्यवर्णनंनाम पञ्चनवत्युत्तर द्विशततमोऽध्यायः ॥ २९५ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 296

॥ ईश्वर उवाच ॥ ॥

तस्मादाग्नेयदिग्भागे गव्यूतिसप्तकेन च ॥

स्थानं देवकुलंनाम देवानां यत्र संगमः ॥ १ ॥

ऋषीणां यत्र सिद्धानां पुरा लिंगे निपातिते ॥

यस्माज्जातो महादेवि तस्माद्देवकुलं स्मृतम् ॥ २ ॥

तस्य पश्चिमदिग्भाग ऋषितोया महानदी ॥

ऋषीणां वल्लभा देवि सर्वपातकनाशिनी ॥ ३ ॥

तत्र स्नात्वा नरः सम्यक्पितॄणां निर्वपेन्नरः ॥

सप्तवर्षायुतान्येव पितॄणां तृप्तिमावहेत् ॥ ४ ॥

सुवर्णं तत्र देयं तु अजिनं कंबलं तथा ॥

आषाढे त्वमावास्यायां यत्किञ्चिद्दीयते ध्रुवम् ॥ ५ ॥

वर्द्धते षोडशगुणं यावदायाति पूर्णिमा ॥ ६ ॥

सुवर्णं तत्र देयं तु अजिनं कंबलं तथा ॥

मुच्यते पातकैः सर्वैः सप्तजन्मकृतैरपि ॥ ७ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋषितोयानदीमाहात्म्यवर्णनंनाम षण्णवत्युत्तरद्विशततमोऽध्यायः ॥२९६॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 297

॥ देव्युवाच ॥ ॥

देवदेव जगन्नाथ संसारार्णवतारक ॥

सविस्तरं तु मे ब्रूहि ऋषितोयामहोदयम् ॥ १ ॥

ऋषितोयेति तन्नाम कथं ख्यातं धरातले ॥

कथं सा पुनरायाता देवदारुवने शुभे ॥ २ ॥

॥ ईश्वर उवाच ॥ ॥

शृणु देवि प्रवक्ष्यामि सावधाना वचो मम ॥

माहात्म्यमृषितोयायाः सर्वपातकनाशनम् ॥ ३ ॥

देवदारुवने पुण्य ऋषयस्तपसा युताः ॥

निवसंति वरारोहे शतशोथ सहस्रशः ॥ ४ ॥

तेषां निवसतां तत्र बहुकालो गतः प्रिये ॥

पुत्रपौत्रैः प्रवृद्धास्ते दारुकं व्याप्य संस्थिताः ॥ ८५ ॥

ते सर्वे चिंतयामासुः समेत्य च परस्परम् ॥

सरस्वती महापुण्या शिरस्याधाय वाडवम् ॥ ६ ॥

प्रभासं चिरकालेन क्षेत्रं चैव गमिष्यति ॥

वापीकूपतडागादि मुक्त्वा सागरगामिनीम् ॥ ७ ॥

नाह्लादं कुरुते चेतः स्नानदानजपेषु च ॥

ब्रह्माणं प्रार्थयिष्यामो गत्वा ब्रह्मनिकेतनम् ॥ ८ ॥

॥ ईश्वर उवाच ॥ ॥

एवं निमन्त्र्य ते सर्वे ऋषयस्तपसोज्ज्वलाः॥

गतास्ते ब्रह्मलोकं तु द्रष्टुं देवं पितामहम् ॥

तुष्टुवुर्विविधैः स्तोत्रैर्ब्रह्माणं कमलोद्भवम् ॥ ९ ॥

॥ ऋषय ऊचुः ॥ ॥

नमः प्रणवरूपाय विश्व कर्त्रे नमोनमः ॥

तथा विश्वस्य रक्षित्रे नमोऽस्तु परमात्मने ॥ 7.1.297.१० ॥

तथा तस्यैव संहर्त्रे नमो ब्रह्मस्वरूपिणे ॥

पितामह नमस्तुभ्यं सुरज्येष्ठ नमोऽस्तु ते ॥ ११ ॥

चतुर्वक्त्र नमस्तुभ्यं पद्मयोने नमोऽस्तु ते ॥

विरंचये नमस्तुभ्यं विधये वेधसे नमः ॥ १२ ॥

चिदानन्द नमस्तुभ्यं हिरण्यगर्भ ते नमः ॥

हंसवाहन ते नित्यं पद्मासन नमोऽस्तुते ॥ १३ ॥

एवं संस्तुवतां तेषामृषीणामूर्ध्वरेतसाम् ॥

उवाच परमप्रीतो ब्रह्मा लोक पितामहः ॥ १४ ॥

स्वागतं वै द्विजश्रेष्ठा युष्माकं कृतवानहम् ॥

स्तोत्रेणानेन दिव्येन वृणुध्वं वरमुत्तमम् ॥ १५ ॥

॥ ऋषय ऊचुः ॥ ॥

अभिषेकाय नो देव नदी पापप्रणाशिनी ॥

विलोक्यते सुरश्रेष्ठ देहि नो वरमुत्तमम् ॥ १६ ॥

॥ ईश्वर उवाच ॥ ॥

इत्युक्तस्तैस्तदा ब्रह्मा मुनिभिस्तपसोज्ज्वलैः ॥

वीक्षांचक्रे तदा सर्वा मूर्तिमत्यश्च निम्नगाः ॥ १७ ॥

गङ्गा च यमुना चैव तथा देवी सरस्वती ॥

चन्द्रभागा च रेवा च शरयूर्गंडकी तथा ॥ १८ ॥

तापी चैव वरारोहे तथा गोदावरी नदी ॥

कावेरी चन्द्रपुत्री च शिप्रा चर्मण्वती तथा ॥ १९ ॥

सिन्धुश्च वेदिका चैव नदाः सर्वे वरानने ॥

मूर्तिमत्यः स्थिताः सर्वाः पवित्राः पापनाशिनी ॥ 7.1.297.२० ॥

दृष्ट्वा पितामहः सर्वा गत्वरा धरणीं प्रति ॥

देवदारुवने रम्ये प्रभासे क्षेत्र उत्तमे ॥

कमण्डलौ कृता दृष्टिर्विविशुस्ताः कमण्डलुम् ॥ २१ ॥ ।

। ब्रह्मोवाच ॥ ॥

धृताः सर्वा महापुण्या नद्यो ब्रह्मकमण्डलौ॥

प्रविष्टाः पृथिवीं यांतु ऋषीणामनुकम्पया ॥ २२ ॥

प्रहिणोमि यद्येकां च ह्यन्या रुष्यति मे द्विजाः ॥

तस्मात्सर्वाः प्रमोक्ष्यामि कमण्डलुकृतालयाः ॥ २३ ॥

॥ ईश्वर उवाच ॥

ततो ब्रह्मा मुमोचाऽथ तत्रस्थाश्च महापगाः ॥

मुक्त्वा ब्रह्मा मुनीन्सर्वान्प्रोवाचेदं पुनःपुनः ॥ २४ ॥

ऋषिभिः प्रार्थ्यमानेन नद्यो मुक्ता मया यतः ॥

तोयरूपा महावेगा अभिषेकाय सत्वराः ॥ २५ ॥

ऋषितोयेति नाम्ना सा भविष्यति धरातले ॥

ऋषीणां वल्लभा देवी सर्वपातकनाशिनी ॥ २६ ॥

॥ ईश्वर उवाच ॥ ॥

एवं देवि समायाता देवदारुवने नदी ॥

ऋषितोयेति विख्याता पवित्रा च वरानने ॥ २७ ॥

तूर्यदुंदुभिनिर्घोषैर्वेदमङ्गलनिःस्वनैः ॥

समुद्रं प्रापिता देवी ऋषिभिर्वेदपारगैः ॥ २८ ॥

सर्वत्र सुलभा देवी त्रिषु स्थानेषु दुर्लभा ॥

महोदये महातीर्थे मूलचंडीशसन्निधौ ॥ २९ ॥

समुद्रेण समेता तु यत्र सा पूर्ववाहिनी ॥

यत्रर्षितोया लभ्येत तत्र किं मृग्यते परम् ॥7.1.297.३०॥

मनुष्यास्ते सदा धन्यास्तत्तोयं तु पिबंति ये ॥

अस्थीनि यत्र लीयंते षण्मासाभ्यन्तरेण तु ॥ ३१ ॥

प्रातःकाले वहेद्गंगा सायं च यमुना तथा ॥ ३२ ॥

नदीसहस्रसंयुक्ता मध्याह्ने तु सरस्वती ॥

अपराह्णे वहेद्रेवा सायाह्ने सूर्यपुत्रिका ॥ ३३ ॥

एवं जानन्नरो यस्तु तत्र स्नान विचक्षणः ॥

आचरेद्विधिना श्राद्धं स तस्याः फलभाग्भवेत् ॥ ३४ ॥

एवं संक्षेपतः प्रोक्तमृषितोयामहोदयम् ॥

सर्वपापहरं नृणां सर्वकामफलप्रदम् ॥ ३५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋषितोयामाहात्म्यवर्णनंनाम सप्तनवत्युत्तरद्विशततमोऽध्यायः ॥ २९७ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 298

ईश्वर उवाच ॥ ॥

ऋषितोयापश्चिमे तु तत्र गव्यूतिमात्रतः ॥

संगालेश्वरनामास्ति सर्वपातकनाशनः ॥ १ ॥

गुप्तस्तत्र प्रयागश्च देवो वै माधवस्तथा ॥

जाह्नवी यमुना चैव देवी तत्र सरस्वती ॥ २ ॥

अन्यानि तत्र तीर्थानि बहूनि च वरानने ॥

स्नात्वा दृष्ट्वा पूजयित्वा मुक्तः स्यात्सर्वकिल्बिषैः ॥ ३ ॥

॥ पार्वत्युवाच ॥ ॥

कथय त्वं महेशान सर्वदेवनमस्कृत ॥

तीर्थराजः प्रयागस्तु कथं विष्णुः सनातनः ॥ ४ ॥

कथं गंगा च यमुना तथा देवी सरस्वती ॥

अन्यान्यपि बहून्येव तीर्थानि वृषभध्वज ॥ ५ ॥

समायातानि तत्रैव संगालेश्वरसंनिधौ ॥

संगालेशेति किं नाम ह्येतन्मे वद कौतुकम् ॥ ६ ॥

॥ ईश्वर उवाच ॥ ॥

पुरा वै लिंगपतने सर्वदेवसमागमे ॥

सार्धत्रितयकोटीनि पुण्यानि सुरसुन्दरि ॥ ७ ॥

तीर्थानि तीर्थराजोऽयं प्रयागः समुपस्थितः ॥

आत्मानं गोपयामास तीर्थकोटिभिरावृतम् ॥ ८ ॥

ततस्तत्र समायाता ब्रह्मविष्णुपुरोगमाः ॥

विबुधास्तीर्थराजं तं ददृशुर्दिव्यचक्षुषा ॥ ९ ॥

तीर्थकोटिभिराकीर्णं पवित्रं पापनाशनम् ॥

लिंगस्य पतनं श्रुत्वा महादुःखेन संवृताः ॥ 7.1.298.१० ॥

स्थिताः सर्वे तदा देवि ब्रह्माद्याः सुरसत्तमाः ॥ ११ ॥

एतस्मिन्नेव काले तु देवो रुद्रः सनातनः ॥

निरानंदः समायातो वाक्यमेतदुवाच ह ॥ १२ ॥

शृणुध्वं वचनं देवा ब्रह्मविष्णुपुरोगमाः ॥

ऋषिशापान्निपतितं मम लिंगमनुत्तमम् ॥

तस्माल्लिंगं पूजयत सर्व कामार्थसिद्धये ॥१३ ॥

एवमुक्त्वा महादेवो देशे तस्मिन्स्थितः प्रिये ॥

ब्राह्मं च वैष्णवं रौद्रं तत्र कुण्डत्रयं स्मृतम् ॥ १४ ॥

चतुर्थं त्रिसंगमाख्यं नदीनां यत्र संगमः ॥

गंगायाश्च सरस्वत्याः सूर्यपुत्र्यास्तथैव च ॥ १५ ॥

कोटिरेका च तीर्थानां ब्रह्मकुण्डे व्यवस्थिता ॥

तथा च वैष्णवे कुण्डे कोटिरेका प्रकीर्तिता ॥ १६ ॥

सार्धकोटिस्तु संप्रोक्ता शिवकुण्डे प्रकीर्तिता ॥

पश्चिमे ब्रह्मकुण्डं च पूर्वे वै वैष्णवं स्मृतम् ॥ १७ ॥

मध्यभागे स्थितं यच्च रुद्रकुण्डं प्रकीर्तितम् ॥

कुण्डमध्याद्विनिर्गत्य यत्र गंगा वरानने ॥ १८ ॥

सूर्यपुत्र्या समेता च तत्त्रिसंगम उच्यते ॥

अनयोरंतरे सूक्ष्मे तत्र गुप्ता सरस्वती ॥ १९ ॥

एषु सन्निहितो नित्यं प्रयागस्तीर्थनायकः ॥

अत्रागत्य नरो यस्तु माघमासे वरानने ॥ 7.1.298.२० ॥

स्नायात्प्रभातसमये मकरस्थे रवौ प्रिये ॥

किञ्चिदभ्युदिते सूर्ये शृणु तस्य च यत्फलम् ॥ २१ ॥

आद्येनैकेन स्नानेन पापं यन्मनसा कृतम्॥

व्यपोहति नरः सम्यक्छ्रद्धायुक्तो जितेन्द्रियः ॥ २२ ॥

वाचिकं तु द्वितीयेन कायिकं तु तृतीयकात् ॥

संसर्गजं चतुर्थेन रहस्यं पञ्चमेन तु ॥ २३ ॥

उपपातकानि षष्ठेन स्नानेनैव व्यपोहति॥२४॥

अभिषेकेण कुण्डानां सप्तकृत्वो वरानने॥

महांति चैव पापानि क्षाल्यंते पुरुषैः सदा॥२५॥

यः स्नाति सकलं मासं प्रयागे गुप्तसंज्ञके ॥

ब्रह्मादिभिर्न तद्वक्तुं शक्यते कल्पकोटिभिः ॥ २६ ॥

यानि कानि च तीर्थानि प्रभासे संति भामिनि ॥

तेभ्योऽतिवल्लभं तीर्थं सर्वपापप्रणाशनम् ॥ २७ ॥

एषां संरक्षणार्थाय मया वै तत्र मातरः ॥

पूजनीयाः प्रयत्नेन नैवेद्यैर्विविधैः शुभैः ॥ २८ ॥

कृष्णपक्षे चतुर्दश्यां श्रद्धायुक्तेन चेतसा ॥

तासामनुचरा देवि भूतप्रेताश्च कोटिशः ॥ २९ ॥

तेषां भयविनाशाय ता मातॄश्च प्रपूजयेत् ॥

अस्मिंस्तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥7.1.298.३०॥

यः कश्चित्कुरुते श्राद्धं पितॄनुद्दिश्य भक्तितः ॥

उद्धरेच्च पितुर्वर्गं मातुर्वर्गं नरोत्तमः ॥३१॥

वृषभस्तत्र दातव्यः सम्यग्यात्राफलेप्सुभिः ॥

एवं यः कुरुते यात्रां तस्य फलमनन्तकम् ॥ ३२ ॥

एवं गुप्तप्रयागस्य माहात्म्यं कथितं तव ॥

श्रुत्वाभिनन्द्य पुरुषः प्राप्नुयाच्छंकरालयम् ॥ ३३ ॥

इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गुप्तप्रया गमाहात्म्यवर्णनंनामाष्टनवत्युत्तरद्विशततमोऽध्यायः ॥ २९८ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 299

॥ ईश्वर उवाच ॥ ॥

तस्यैव दक्षिणे भागे नातिदूरे व्यवस्थितम्॥

शंखचक्रगदाधारी माधवस्तत्र संस्थितः ॥ १ ॥

एकादश्यां सिते पक्षे सोपवासो जितेन्द्रियः ॥

यस्तं पूजयते भक्त्या गंधपुष्पानुलेपनैः ॥

स याति परमं स्थानमपुनर्भवदायकम् ॥ २ ॥

अत्र गाथा पुरा गीता ब्रह्मणा लोककर्तृणा ॥

विष्णुकुण्डे नरः स्नात्वा यो वै माधवमर्चयेत् ॥

स यास्यति परं स्थानं यत्र देवो हरिः स्वयम् ॥ ३ ॥

एतत्ते सर्वमाख्यातं माहात्म्यं विष्णुदैवतम् ॥

सर्वकामप्रदं नृणां सर्वपातकनाशनम्॥ ४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये माधवमाहात्म्यवर्णनंनाम नवनवत्युत्तरद्वि शततमोऽध्यायः ॥ २९९ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 300

॥ ईश्वर उवाच ॥ ॥

तस्यैवोत्तरदिग्भागे किञ्चिद्वायव्यसंस्थितम् ॥

संगालेश्वरनामास्ति सर्वपातकनाशनम् ॥ १ ॥

तत्र ब्रह्मा च विष्णुश्च लिंगस्याराधनोद्यतौ ॥

शक्रश्चैव महातेजा लिंगं पूजितवान्प्रिये ॥ २ ॥

वरुणो धनदश्चैव धर्मराजोऽथ पावकः ॥

आदित्यैर्वसुभिश्चैव लोकपालैः समंततः ॥ ३ ॥

आराधितं महालिंगं संगालेश्वरनामभृत् ॥

पूजयित्वा तु ते सर्वे दृष्ट्वा माहात्म्यमुत्तमम् ॥ ४ ॥

ऊचुश्च सहसा देवि परमानंदसंयुताः ॥

देवानां निवहैर्यस्मात्समागत्य प्रतिष्ठितम् ॥

संगालेश्वरनामास्य भविष्यति धरातले ॥ ५ ॥

संगालेश्वरनामानं पूजयिष्यंति मानवाः ॥

न तेषामन्वये कश्चिन्निर्धनः संभविष्यति ॥ ६ ॥

गोसहस्रस्य दत्तस्य कुरुक्षेत्रे च यत्फलम् ॥

तत्फलं समवाप्नोति संगालेश्वरदर्शनात् ॥ ७ ॥

अमावास्यां च संप्राप्य स्नानं कृत्वा विधानतः ॥

यः करोति नरः श्राद्धं पितॄणां रोषवर्जितः ॥

पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम् ॥ ८ ॥

अर्धक्रोशं च तत्क्षेत्रं समंतात्परिमण्डलम् ॥

सर्वकामप्रदं नृणां सर्वपातकनाशनम् ॥ ९ ॥

अस्मिन्क्षेत्रे महादेवि जीवा उत्तममध्यमाः ॥

कालेन निधनं प्राप्तास्तेऽपि यांति परां गतिम् ॥7.1.300.१०॥।

गृहीत्वानशनं ये तु प्राणांस्त्यक्ष्यंति मानवाः ॥

निश्चयं ते महादेवि लीयंते परमेश्वरे ॥११॥

गवा हता द्विजहता ये च वै दंष्ट्रिभिर्हता॥

आत्मनो घातका ये तु सर्पदष्टाश्च ये मृताः ॥ १२ ॥

शय्यायां विगतप्राणा ये च शौचविवर्जिताः ॥

अस्मिंस्तीर्थे महापुण्ये अपुनर्भवदायके॥ १३ ॥

दत्तैः षोडशभिः श्राद्धैर्वृषोत्सर्गे कृते पुनः ॥

विधिवद्भोजितैर्विप्रैर्भवेन्मुक्तिर्न संशयः ॥ १४ ॥

एवमुक्त्वा सुराः सर्वे गतवंतस्त्रिविष्टपम् ॥ १५ ॥

संगालेश्वरमाहात्म्यं संक्षेपात्कथितं तव ॥

श्रुतं हरति पापानि दुःखशोकांस्तथैव च ॥ १६ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगालेश्वरमाहात्म्यवर्णनंनाम त्रिशततमोऽध्यायः ॥ ३०० ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 301

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि सिद्धेश्वरमनुत्तमम् ॥

तस्यैव पूर्वदिग्भागे नातिदूरे व्यवस्थितम् ॥ १ ॥

यदा देवैः समेत्याशु शिवलिंगं प्रतिष्ठितम् ॥

संगालेश्वर नामाढ्यं सर्वपापहरं शुभम् ॥ २ ॥

तदा सिद्धगणाः सर्वे समाराध्य वृषध्वजम् ॥

स्थापयांचक्रिरे लिंगं सर्वसिद्धिप्रदायकम् ॥ ३ ॥

तत्सिद्धेश्वर नामाढ्यं महापातकनाशनम् ॥

तुष्टुवुर्विविधैः स्तोत्रैस्तदा सिद्धगणाः शिवम् ॥ ४ ॥

ततस्तुष्टो महादेवो याच्यतां वरमुत्तमम् ॥

नमस्कृत्य ततः सर्वे प्रोचुश्च शशिशेखरम् ॥ ५ ॥

इहागत्य नरो यस्तु स्नात्वा च विधिपूर्वकम् ॥

अर्चयेत्सिद्धनाथं च जपेच्च शतरुद्रियम् ॥ ६ ॥

अघोरं वा जपेन्मन्त्रं गायत्र्यं च महेश्वरम् ॥

षण्मासाभ्यन्तरेणैव जपेच्च मुनिसत्तमाः ॥

अणिमादिगुणैश्वर्यं संसिद्धिं प्राप्नुयाद्ध्रुवम् ॥७ ॥

॥ ईश्वर उवाच ॥ ॥

एवं भविष्यतीत्युक्त्वा ह्यंतर्धानं गतो हरः ॥

सिद्धेश्वरं तु संपूज्य ह्यघोरं च जपेन्नरः ॥ ८ ॥

आश्वयुक्कृष्णपक्षे तु चतुर्दश्यां महानिशि ॥

धैर्यमालंब्य निर्भीकः स सिद्धिं प्राप्नुयान्नरः ॥ ९ ॥

इत्येतत्कथितं देवि माहात्म्यं पापनाशनम् ॥

सिद्धेश्वरस्य देवस्य सर्वकामफलप्रदम् ॥ 7.1.301.१० ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य सिद्धेश्वरमाहात्म्यवर्णनंनामैकोत्तरत्रिशत तमोऽध्यायः ॥ ३०१ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 302

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि गंधर्वेश्वरमुत्तमम् ॥

तस्यैवोत्तरदिग्भागे धनुषां पंचके स्थितम् ॥१॥

तं दृष्ट्वा च महादेवि रूपवाञ्जायते नरः ॥

गंधर्वैः स्थापितं लिंगं स्नात्वा संपूजयेत्सकृत् ॥

सर्वान्कामानवाप्नोति रक्तकण्ठश्च जायते ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये गंधर्वेश्वरमाहात्म्यवर्णनंनाम द्व्युत्तरत्रिशततमोऽध्यायः ॥ ३०२ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 303

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि उत्तरे देवमुत्तमम् ॥

यस्तमाराधयेद्देवं महापातकनाशनम् ॥ ॥ १ ॥

तस्यैव पश्चिमे भागे धनुषां त्रितये स्थितम् ॥

शेषादिप्रमुखैर्नागैर्महता तपसा युतैः ॥

समाराध्य महादेवं स्थापितं लिंगमुत्तमम् ॥ २ ॥

यस्तमाराधयेद्देवं सर्पैराराधितं पुरा ॥

न विषं क्रमते देहे तस्य जन्मावधि प्रिये ॥ ३ ॥

सर्पास्तस्य प्रसीदन्ति न कुंथंति कदाचन ॥

तस्मात्सर्वं प्रयत्नेन तल्लिंगं पूजयेन्नरः ॥ ४ ॥

तत्र लिंगान्यनेकानि ऋषिभिः स्थापितानि तु ॥

गंगातीरे महापुण्ये पश्चिमे वरवर्णिनि ॥ ५ ॥

तानि दृष्ट्वा पूजयित्वा सर्वपापैः प्रमुच्यते ॥

अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ ६ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगालेश्वरमाहात्म्य उत्तरेश्वरमाहात्म्यवर्णनंनाम त्र्युत्तरत्रिशततमोऽध्यायः ॥ ३०३ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 304

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि गंगां त्रिपथगामिनीम् ॥

संगालेशादथैशान्यां धनुषां सप्तके स्थिताम्॥ १ ॥

तस्यां त्रिनेत्रा मत्स्याः स्युर्नित्यमांभसिकाः प्रिये ॥

कलौयुगेऽपि दृश्यंते सत्यंसत्यं मयोदितम् ॥ २ ॥

तस्यां स्नात्वा महादेवि मुच्यते पञ्चपातकैः ॥ ३ ॥

॥ सूत उवाच ॥ ॥

तस्य तद्वचनं श्रुत्वा विस्मिता गिरिजा सती ॥

उवाच तं द्विजश्रेष्ठाः प्रचलच्चंद्रशेखरम् ॥४॥

॥ पार्वत्युवाच ॥ ॥

कथं तत्र समायाता गंगा त्रिपथगामिनी ॥

कथं त्रिनेत्राः संजाता मत्स्या आंभसिकाः शिव ॥ ५ ॥

एतद्विस्तरतो ब्रूहि यद्यहं ते प्रिया विभो ॥ ६ ॥

॥ ईश्वर उवाच ॥ ॥

शृणु देवि प्रवक्ष्यामि यदि पृच्छसि मां शुभे ॥

आस्तिकाः श्रद्दधानाश्च भवंतीति मतिर्मम ॥ ७॥

यदा शप्तो महादेवो ह्यज्ञानतिमिरावृतैः ॥

ऋषिभिः कोपयुक्तैश्च कस्मिंश्चित्कारणांतरे ॥ ८ ॥

तदा ते मुनयः सर्वे शप्तं ज्ञात्वा महेश्वरम् ॥

निरानंदं जगत्सर्वं दृष्ट्वा चात्मानमेव च ॥ ९ ॥

आराध्य परमेशानं दधतं गजरूपकम् ॥

उन्नतं स्थानमानीय सानंदं चक्रिरे द्विजाः ॥ 7.1.304.१० ॥

ततः प्रभृति सर्वे ते शिवद्रोहकरं परम् ॥

आत्मानं मेनिरे नित्यं प्रसन्नेऽपि महेश्वरे ॥ ११ ॥

महोदयान्महातीर्थं सर्व आगत्य सत्वरम् ॥

तपस्तेपुर्महाघोरं संगालेश्वरसन्निधौ ॥ १२ ॥

संगालेश्वरनामानं सर्वे पूज्य यथाविधि ॥

भृगुरत्रिस्तथा मंकिः कश्यपः कण्व एव च ॥ १३ ॥

गौतमः कौशिकश्चैव कुशिकश्च महातपाः ॥

शूकरोऽथ भरद्वाजो भार्गविश्च महातपाः ॥ १४ ॥

जातूकर्ण्यो वसिष्ठश्च सावर्णिश्च पराशरः ॥

शांडिल्यश्च पुलस्त्यश्च वत्सश्चैव महातपाः ॥ १५ ॥

एते चान्ये च बहवो ह्यसंख्याता महर्षयः ॥ १६ ॥

संगालेश्वरमासाद्य प्रभासे पापनाशने ॥

तपः कुर्वंति सततं प्रतिष्ठाप्य महेश्वरम् ॥ १७ ॥

ततः कालेन महता ते सर्वे मुनिपुंगवाः ॥

ध्यानात्त्रिलोचनस्यैव अदृष्टे तु महेश्वरे ॥ १८ ॥

त्रिनेत्रत्वमनुप्राप्तास्तपोनिष्ठास्तपोधनाः ॥

परस्परं वीक्षमाणास्त्रिनेत्रस्याभिशंकया ॥ १९ ॥

स्तुवंति विविधैः स्तोत्रैर्मन्यमाना महेश्वरम् ॥

ज्ञात्वा ध्यानेन देवस्य त्रिनेत्रत्वमुपागताः ॥ 7.1.304.२० ॥

चकुरुग्रं तपस्ते तु पूजां देवस्य शूलिनः ॥

तेषु वै तप्यमानेषु कृपाविष्टो महेश्वरः ॥ २१ ॥

उवाच तान्मुनीन्सर्वाञ्छृणुध्वं वरमुत्तमम्॥

प्रसन्नोऽहं मुनिश्रेष्ठास्तपसा पूजयापि च ॥ २२ ॥

॥ ऋषय ऊचुः ॥ ॥

यदि प्रसन्नो देवेश वरं नो दातुमर्हसि ॥

गंगामानय वेगेन ह्यभिषेकाय नो हर ॥ २३ ॥

तस्यां कृताभिषेकास्तु तव द्रोहकरा वयम् ॥

अज्ञानभावात्पूतत्वं यास्यामः पृथिवीतले ॥ २४ ॥ ॥

॥ ईश्वर उवाच ॥ ॥

यूयं पवित्रकरणाः पावनानां च पावनाः ॥

गंगां चैवानयिष्यामि युष्माकं चित्ततुष्टये ॥ २५ ॥

पावित्र्याद्भवतां जातं त्रैनेत्र्यं मुनिसत्तमाः ॥

एवमुक्त्वा ततः शंभुर्ध्यानस्तिमितलोचनः ॥

सस्मार क्षणमात्रेण गंगां मीनकुलावृताम् ॥ २६ ॥

स्मृतमात्रा तदा देवी गंगा त्रिपथगामिनी ॥

भित्वा भूमितलं प्राप्ता तत्र मीनकुलावृता ॥ २७ ॥

ऋषिभिश्च यदा दृष्टा गंगा मीनयुता शुभा ॥

दृष्टमात्रास्तु ते मत्स्यास्त्रिनेत्रत्वमुपागताः ॥ २८ ॥

॥ ईश्वर उवाच ॥ ॥

युष्माकं दर्शनाद्विप्रास्त्रिनेत्रत्वमुपागताः ॥

एतन्निदर्शनं सर्वं लोकानां च प्रदर्शनम् ॥ २९ ॥ ॥।

॥ ऋषय ऊचुः ॥ ॥

अस्मिन्कुंडे महादेव मत्स्यानां संततिः सदा ॥

त्रिनेत्रा त्वत्प्रसादेन भूयात्सर्वा युगेयुगे ॥ 7.1.304.३० ॥

अस्मिन्कुंडे समागत्य नरः स्नानं करोति यः ॥

ददाति हेम विप्राय गाश्च वस्त्रं तथा तिलान् ॥ ३१ ॥

अमावास्यां विशेषेण त्रिनेत्रः स प्रजायताम् ॥

एवं भविष्यतीत्युक्त्वा ह्यन्तर्धानं गतो हरः ॥ ३२ ॥

ब्राह्मणास्तुष्टिसंयुक्ता गताः सर्वे महोदयम् ॥ ३३ ॥

एतत्ते कथितं देवि गंगामाहात्म्यमुत्तमम् ॥

श्रुतं पापप्रशमनं सर्वकामफलप्रदम् ॥ ३४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगालेश्वरसमीपवर्ति गंगामाहात्म्यवर्णनंनाम चतुरुत्तरत्रिशततमोऽध्यायः ॥ ३०४

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 305

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि तस्याः पूर्वेण संस्थितम्॥

नारदादित्यनामानं जरादारिद्र्यनाशनम् ॥ १ ॥

पश्चिमे मूलचंडीशाद्धनुषां च शतत्रये ॥

आराध्य नारदो देवि भास्करं वारितस्करम् ॥

जरा निर्मुक्तदेहस्तु तत्क्षणात्समपद्यत ॥२ ॥

॥ देव्युवाच ॥ ॥

कथं जरामनुप्राप्तो नारदो मुनिपुंगवः ॥

कथमाराधितः सूर्य एतन्मे वद शंकर ॥ ३ ॥

॥ ईश्वर उवाच ॥ ॥

यदा द्वारवतीं प्राप्तो नारदो मुनिपुंगवः ॥

सर्वे दृष्टास्तदा तेन विष्णोः पुत्रा महाबलाः ॥ ४ ॥

तद्राजकुलमध्ये तु क्रीडमाना परस्परम् ॥ आयांतं नारदं दृष्ट्वा सर्वे विनयसंयुताः ॥ ५ ॥

नमश्चक्रुर्यथान्यायं विना सांबं त्वरान्विताः ॥

अविनीतं तु तं दृष्ट्वा कथयामास नारदः ॥ ६ ॥

शरीरमदमत्तोऽसि यस्मात्सांब हरेः सुत ॥

अचिरेणैव कालेन शापं प्राप्स्यसि दारुणम् ॥ ७॥

॥ सांब उवाच ॥ ॥

नमस्कारेण किं कार्यमृषीणां च जितात्मनाम्॥

आशीर्वादेन तेषां च तपोहानिः प्रजायते ॥ ८ ॥

मुनीनां यः स्वभावो हि त्वयि लेशो न नारद ॥

विद्यते ब्रह्मणः पुत्र उच्यते किमतः परम्॥ ९ ॥

न कलत्रं न ते पुत्रा न च पौत्रप्रपौत्रकाः ॥

न गृहं नैव च द्वारं न हि गावो न वत्सकाः ॥ 7.1.305.१० ॥

ब्रह्मणो मानसः पुत्रो ब्रह्मचर्ये व्यवस्थितः ॥

अयुक्तं कुरुते नित्यं कस्मात्प्रकृतिरीदृशी ॥ ११ ॥

युद्धं विना न ते सौख्यं सौख्यं न कलहं विना ॥

यादृशस्तादृशो वापि वाग्वादोऽपि सदा प्रियः ॥ १२ ॥

स्नानं संध्या जपो होमस्तर्पणं पितृदेवयोः ॥

नारदः कुरुते चान्यदन्यत्कुर्वंति ब्राह्मणाः ॥ १३ ॥

कौमारेण तु गर्विष्ठो यस्मान्मां शापयिष्यसि ॥

तस्मात्त्वमपि विप्रर्षे जरायुक्तो भविष्यसि ॥ १४ ॥

एवं शप्तस्तदा देवि नारदो मुनिपुंगवः ॥

एकान्ते निर्मले स्थाने कंटकास्थिविवर्जिते ॥ १५ ॥

कृष्णाजिनपरिच्छिन्ने ह्युपविष्टो वरासने ॥

ऋषितोया तटे रम्ये प्रतिष्ठाप्य महामुनिः ॥ १६ ॥

सूर्यस्य प्रतिमां रम्यां सर्वदारिद्र्यनाशिनीम् ॥

तुष्टाव विविधैः स्तोत्रैरादित्यं तिमिरापहम् ॥ १७ ॥

नमस्त ऋक्स्वरूपाय साम्नां धामग ते नमः ॥

ज्ञानैकरूपदेहाय निर्धूततमसे नमः ॥ १८ ॥

शुद्धज्योतिःस्वरूपाय निर्मूर्तायामलात्मने ॥

वरिष्ठाय वरेण्याय सर्वस्मै परमात्मने ॥ १९ ॥

नमोऽखिलजगद्व्यापिस्वरूपानंदमूर्तये ॥

सर्वकारणपूताय निष्ठायै ज्ञानचेतसाम् ॥ 7.1.305.२० ॥

नमः सर्वस्वरूपाय प्रकाशालक्ष्यरूपिणे ॥

भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ॥ २१ ॥

॥ ईश्वर उवाच ॥ ॥

एवं संस्तुवतस्तस्य पुरतस्तस्य चेतसा ॥

प्रादुर्बभूव देवेशि जगच्चक्षुः सनातनः ॥

उवाच परमं प्रीतो नारदं मुनिपुंगवम् ॥ २२ ॥

॥ सूर्य उवाच ॥ ॥

वरं वरय विप्रर्षे यस्ते मनसि वर्तते ॥

तुष्टोऽहं तव दास्यामि यद्यपि स्यात्सुदुर्लभम् ॥ २३ ॥

॥ नारद उवाच ॥

कुमार वयसा युक्तो जरायुक्तकलेवरः ॥

प्रसादात्स्यां हि ते देव यदि तुष्टो दिवाकर ॥ २४ ॥

सप्तम्यां रविवारेण यस्त्वां पश्यति मानवः ॥

तस्य रोग भयं माऽस्तु प्रसादात्तिमिरापह॥ २५ ॥

॥ ईश्वर उवाच ॥ ॥

एवं भविष्यतीत्युक्त्वा ह्यन्तर्धानं गतो रविः ॥

इत्येतत्कथितं देवि माहात्म्यं सकलं तव ॥

नारदादित्यदेवस्य सर्वपातकनाशनम्॥ २६ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नारदादित्यमाहात्म्यवर्णनंनाम पञ्चोत्तरत्रिशततमोऽध्यायः ॥ ३०५ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 306

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि सांबादित्यमनुत्तमम् ॥

तस्मादुत्तरभागे तु सर्वपातकनाशनम् ॥ १ ॥

यत्र सांबस्तपस्तप्त्वा ह्याराध्य च दिवाकरम् ॥

प्राप्तवान्सुन्दरं देहं सहस्रांशुप्रसादतः ॥ २ ॥

यदा रोषेण संशप्तः पित्रा जांबवतीसुतः ॥

आराधयामास तदा विष्णुं कमललोचनम् ॥ ३ ॥

अनुग्रहार्थं शापस्य सांबो जांबवतीसुतः ॥

प्रसन्नवदनो भूत्वा विष्णुः प्रोवाच तं प्रति ॥ ४ ॥

गच्छ प्राभासिके क्षेत्रे ब्रह्मभागमनुत्तमम् ॥

ऋषितोयातटे रम्ये ब्राह्मणैरुपशोभिते ॥ ५ ॥

तत्राऽहं सूर्यरूपेण वरं दास्यामि पुत्रक ॥

इत्युक्तः स तदा सांबो विष्णुना प्रभविष्णुना ॥ ६ ॥

गतः प्राभासिके क्षेत्रे रम्ये शिवपुरे शिवे ॥

तत्राराध्य परं देवं भास्करं वारितस्करम् ॥ ७ ॥

प्रसादयामास तदा स्तुत्वा स्तोत्रैरनेकधा ॥ ८ ॥

प्रत्युवाच रविः सांबं प्रसन्नस्ते स्तवेन वै ॥

शीघ्रं गच्छ नरश्रेष्ठ ऋषितोयातटे शुभे ॥ ९ ॥

इत्युक्तः स तदाऽऽगत्य ऋषितोयातटं शुभम् ॥

नारदो यत्र ब्रह्मर्षिस्तपस्तप्यति चैव हि ॥ 7.1.306.१० ॥

तत्र गत्वा हरेः सूनुरुन्नतस्थानवासिनः ॥

आसन्ये ब्राह्मणास्तान्स इदं वचनमब्रवीत् ॥ ११ ॥

॥ सांब उवाच ॥ ॥

एष वै ब्रह्मणो भागः प्रभासे क्षेत्र उत्तमे ॥

अत्र वै ब्राह्मणा ये तु ते वै श्रेष्ठाः स्मृता भुवि ॥ १२ ॥

भवतां वचनाद्विप्राः सूर्यमाराधयाम्यहम् ॥

मम वै पूर्वमादिष्टं स्थानमेतच्च विष्णुना ॥ १३ ॥

॥ विप्रा ऊचुः ॥ ॥

सिद्धिस्ते भविता सांब आराधय दिवाकरम् ॥

इत्युक्तः स तदा विप्रैः प्रविष्टोऽथ प्रभाकरम्॥ १४ ॥

नित्यमाराधयामास सांबो जांबवतीसुतः ॥

तपोनिष्ठं च तं दृष्ट्वा विष्णुः कारुणिको महान् ॥ १५ ॥

इदं वै चिन्तयामास पुत्रवात्सल्यसंयुतः ॥

यथैश्वर्यप्रदो रुद्रो यथा विष्णुश्च मुक्तिदः ॥ १६ ॥

यज्ञैरिष्टो हि देवेन्द्रो यथा स्वर्गप्रदः स्मृतः ॥

शुद्धिकर्तृ यथा तोयं मृत्तिकाभस्मसंयुतम् ॥

दहनात्मा यथा वह्निर्विघ्नहर्त्ता गणेश्वरः ॥ १७ ॥

स्वच्छंदभारतीदाने यथा ब्रह्मसुता नृणाम् ॥

तथाऽऽरोग्यप्रदाता च नान्यो देवो दिवाकरात् ॥ १८ ॥

अनेकधाऽऽराधितोऽपि स देवो भास्करः शुचिः ॥

न ददाति वरं यत्तु तन्मे शापस्य कारणात् ॥ १९ ॥

एवं संचिन्त्य भगवान्विष्णुः कमललोचनः ॥

सूर्यरूपं समाश्रित्य तस्य तुष्टो जनार्दनः ॥ 7.1.306.२० ॥

योऽपरनारायणख्यस्तस्यैव सन्निधौ स्थितः ॥

प्रत्यक्षः स ततो विष्णुः सूर्यरूपी दिवाकरः ॥

उवाच परमप्रीतो वरदः पुण्यकर्मणाम् ॥ २१ ॥

अलं क्लेशेन ते सांब किमर्थं तप्यसे तपः ॥

प्रसन्नोऽहं हरेः सूनो वरं वरय सुव्रत ॥ २२ ॥

॥ सांब उवाच ॥ ॥

निर्मलस्त्वत्प्रसादेन कुष्ठमुक्तकलेवरः ॥

भवानि देवदेवेश प्रत्यक्षाऽम्बरभूषण ॥

अस्मिन्स्थाने स्थितो रम्ये नित्यं सन्निहितो भव ॥ २३ ॥

॥ सूर्य उवाच ॥ ॥

अधुना निर्मलो देहस्तव सांब भविष्यति ॥ इहागत्य नरो यस्तु सप्तम्यां रविवासरे ॥

उपवासपरो भूत्वा रात्रौ जागरणे स्थितः ॥ २४ ॥

अष्टादशानि कुष्ठानि पापरोगास्तथैव च ॥

कदाचिन्न भविष्यन्ति कुले तस्य महात्मनः ॥ २५ ॥

कृत्वा स्नानं नरो यस्तु भक्तियुक्तो जितेन्द्रियः ॥

पूजयेद्रविवारेण सांबादित्यं महाप्रभम् ॥

स रोगहीनो धनवान्पुत्रवाञ्जायते नरः ॥ २६ ॥

तस्यैव पूर्वदिग्भागे किञ्चिदीशानमाश्रितम् ॥

कुंडं पापहरं पुण्यं स्वच्छोदपरि पूरितम्॥ २७ ॥

तत्र स्नात्वा च् विधिवत्कुर्याच्छ्राद्धं विचक्षणः ॥

भोजयेद्ब्राह्मणान्यस्तु सांबादित्यं प्रपूजयेत् ॥ २८ ॥

सर्वकामसमृद्धात्मा सूर्य लोके महीयते ॥ २९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सांबादित्य माहात्म्यवर्णनंनाम षडुत्तरत्रिशततमोध्यायः ॥ ३०६ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 307

॥ ईश्वर उवाच ॥ ॥

सांबादित्याच्च पूर्वेण किञ्चिदाग्नेयसंस्थितः ॥

अपरनारायणोनाम यस्मान्नास्ति परो भुवि ॥ १ ॥

स तु सांबस्य देवेशि सूर्यो विष्णुस्वरूपवान् ॥

अपरां मूर्तिमास्थाय विष्णुरूपो वरं ददौ ॥ २ ॥

तेनापरेति नाम्ना वै ख्यातो विष्णुः पुराऽभवत् ॥

फाल्गुनामलपक्षे तु एकादश्यां विधानतः ॥ ३ ॥

पूजयेत्पुण्डरीकाक्षं तत्र सूर्यस्वरूपिणम् ॥

मुक्तो भवति पापेभ्यः सर्वकामैः समृध्यते ॥ ४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे प्रथमे प्रभासक्षेत्रमाहात्स्येऽपरनारायणमाहात्म्यवर्णनंनाम सप्तोत्तरत्रिशततमोऽध्यायः ॥ ३०७ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 308

॥ ईश्वर उवाच ॥ ॥

तस्मान्नारायणात्पूर्वे किंचिदीशानसंस्थितम् ॥

मूलचण्डीशनाम्ना तु विख्यातं भुवनत्रयं ॥ १ ॥

यत्र लिंगं पुराऽस्माकं पातितं त्वृषिभिः प्रिये ॥

क्रोधरक्तेक्षणैर्देवि मूलचण्डीशता? गतम् ॥ २ ॥

आद्यं लिंगोद्भवं देवि ऋषिकोपान्निपातितम् ॥

ये केचिदृषयस्तत्र देवदारुवने स्थिताः ॥ ३ ॥

कालांतरे महादेवि अहं तत्र समागतः ॥

तेषां जिज्ञासया देवि ततस्ते रोषिता भवन् ॥

शप्तस्ततोऽहं देवेशि चक्रुर्मे लिंगपातनम् ॥ ४ ॥ ॥

॥ देव्युवाच ॥ ॥

रोषोपहतसद्भावाः कथमेते द्विजातयः ॥

संजाता एतदाख्याहि परं कौतूहलं मम ॥ ५ ॥

॥ ईश्वर उवाच ॥ ॥

डिंडि रूपः पुरा देवि भूत्वाऽहं दारुके वने ॥

ऋषीणामाश्रमे पुण्ये नग्नो भिक्षाचरोऽभवम् ॥

भिक्षंतमाश्रमे दृष्ट्वा ताः सर्वा ऋषियोषितः ॥ ६ ॥

कामस्य वशमापन्नाः प्रियमुत्सृज्य सर्वतः॥

तमूर्ध्वलिंगमालोक्य जटामुकुटधारिणम् ॥ ७ ॥ ॥

भिक्षंतं भस्मदिग्धांगं झषकेतुमिवापरम् ॥

विक्षोभिताश्च नः सर्वे दारा एतेन डिंडिना ॥ ८ ॥

तस्माच्छापं च दास्याम ऋषयस्ते तदाऽब्रुवन् ॥

ततः शापोदकं गृह्य संध्यात्वाऽथ तपोधनाः ॥ ९ ॥

अस्य लिंगमधो यातु दृश्यते यत्सदोन्नतम् ॥

इत्युक्ते पतितं लिंगं तत्र देवकुले मम ॥ 7.1.308.१० ॥

मूलचण्डीशनाम्ना तु विख्यातं भुवनत्रये ॥

तल्लिंगं पतितं दृष्ट्वा कोपोपहतचेतसः ॥

पुनर्हंतुं समारब्धा डिंडिनं ते तपोधनाः ॥ ११ ॥

वृसिकापाणयः केचित्कमंडलुधराः परे ॥

गृहीत्वा पादुकाश्चान्ये तस्य धावंति पृष्ठतः ॥ १२ ॥

डिंडिश्चांतर्हितो भूत्वा त्वामुवाच सुमध्यमाम् ॥

रोषोपहतचेतस्कान्पश्यैतांस्त्वं तपोधनान् ॥ १३ ॥

एतस्मात्कारणाद्देवि तव वाक्यान्मयाऽनघे ॥

न कृतोऽनुग्रहस्तेषां सरोषाणां तपस्विनाम् ॥ १४ ॥

अत्रांतरे ते मुनयो ह्यपश्यंतो हि डिंडिनम् ॥

निरानंदं गताः सर्वे द्रष्टुं देवं पितामहम्॥ १५ ॥

तं दृष्ट्वा विबुधेशानं विरंचिं विगतज्वरम् ॥

प्रणम्य शिरसा सर्व ऋषयः प्राहुरंजसा ॥ १६ ॥

भगवन्डिंडि रूपेण कश्चिदस्ति तपोधनः ॥

विध्वंसनाय दाराणां प्रविष्टः किल भिक्षितुम्॥ १७ ॥

शप्तोऽस्माभिस्तु दुर्वृत्तस्तस्य लिंगं निपातितम्॥

तस्मिन्निपतितेऽस्माकं तथैव पतितानि च ॥ १८ ॥

गतोऽसौ कारणात्तस्मात्तल्लिंगे पतिते वयम् ॥

निरानंदाः स्थिताः सर्व आचक्ष्वैतद्धि कारणम् ॥१९॥। ॥

॥ ब्रह्मोवाच ॥ ॥

अशोभनमिदं कार्यं युष्माभिर्यत्कृतं महत्।

रुद्रस्यातिसुरूपस्य सेर्ष्या ये हन्तुमुद्यताः ॥7.1.308.२०॥

आसुरीं दानवीं दैवीं यक्षिणीं किंनरीं तथा ॥

विद्याधरीं च गन्धर्वीं नागकन्यां मनोरमाम् ॥

एता वरस्त्रियस्त्यक्त्वा युष्मदीयासु तास्वपि ॥ २१ ॥

आह्लादं कुरुते सर्वे नैव जानीत भो द्विजाः ॥

त्रैलोक्यनायकां सर्वां रूपातिशयसंयुताम् ॥ २२ ॥

तां त्यक्त्वा मुनिपत्नीनामाह्लादं कुरुते कथम् ॥

तया रुद्रो हि विज्ञप्त ऋषीणां कुर्वनुग्रहम् ॥ २३ ॥

तेन वाक्येन पार्वत्या जिज्ञासार्थं कृतं मनः ॥

चतुर्द्दशविधस्यापि भूतग्रामस्य यः प्रभुः ॥ २४ ॥

स शप्तो डिंडिरूपस्तु भवद्भिः करणेश्वरः ॥

तच्छापाच्छप्तमेवैतत्समस्तं तद्गुणास्पदम् ॥

देवतिर्यङ्मनुष्याणां निरानंदमिति स्थितम् ॥ २५ ॥

शापेनानेन भवतां महा दोषः प्रजायते ॥

आराध्यं नान्यथा लिंगमुन्नतिं यात्यधोगतम् ॥ २६ ॥

एवमुक्तेऽथ देवेन विप्रा ऊचुः पितामहम् ॥

द्रष्टव्यः कुत्र सोऽस्माभिः कथयस्व यथास्थितम् ॥ २७ ॥

॥ ब्रह्मोवाच ॥ ॥

आस्ते गजस्वरूपेण कुबेराश्रमसंस्थितः ॥

तत्र गत्वा तमासाद्य तोषयध्वं पिनाकिनम् ॥ ॥ २८ ॥

एतच्छ्रुत्वा वचस्तस्य सर्वे ते हृष्टमानसाः ॥

गंतुं प्रवृत्ताः सहसा कोटिसंख्यास्तपोधनाः ॥ २९ ॥

चिंतयंतः शुभं देशं द्रष्टुं तं गजरूपिणम् ॥

रुद्रं पितामहाख्यातं कुबेराश्रमवासिनम् ॥ 7.1.308.३० ॥

क्षुत्कामकंठास्तृषितान्गौरी मत्वा तपोधनान् ॥

आदाय गोरसं तेषां कारुण्यात्सा पुरः स्थिता ॥ ३१ ॥

असितां कुटिलां स्निग्धामायतां भुजगीमिव ॥

वेणीं शिरसि बिभ्राणा गौरी गोरससंयुता ॥ ३२ ॥

सा तानाह मुनीन्सर्वान्यन्मया पर्वताहृतम्॥

कपित्थफलसंगंधं गोरसं त्वमृतोपमम् ॥३३॥

तयैवमुक्ता विप्रास्तु आहुस्तां विपुलेक्षणाम् ॥

स्नात्वा च सर्वे पास्यामो गोरसं तु त्वयाहृतम् ॥ ३४ ॥

ततः श्रुत्वा तथा देव्या स्नानार्थं तीर्थमुत्तमम् ॥

तप्तोदकेनसंपूर्णं कृतं कुण्डं मनोरमम् ॥ ३५ ॥

तत्र ते संप्लुताः सर्वे विमुक्ता विपुलाच्छ्रमात्॥

कृताऽऽह्ना गोरसस्वैव पानार्थं समुपस्थिताः॥३६॥

पत्रैर्दिवाकरतरोर्विधाय पुटकाञ्छुभान् ॥

उपविश्य क्रमात्सर्वे ते पिबंति स्म गोरसम् ॥ ३७ ॥

गोरसेन तदा तेषाममृतेनेव पूरितान्॥

बुभुक्षितानां पुटकान्मुनीनां तृप्तिकारणात् ॥३८॥

पुनः पूरयते गौरी पीत्वा ते तृप्तिमागताः॥

क्षुत्तृषाश्रमनिर्मुक्ताः पुनर्जाता इव स्थिताः ॥३९॥

स्वस्थचित्तैस्ततो ज्ञात्वा नेयं गोपालिसंज्ञिका ॥

अनुग्रहार्थमस्माकं गौरीयं समुपागता ॥7.1.308.४०॥

प्रणम्य शिरसा सर्वे तामूचुस्ते सुमध्यमाम्॥

उमे कथय कुत्रस्थं द्रक्ष्यामो रुद्रमेकदा ॥ ४१ ॥

तथोक्तास्ते महात्मानस्तं पश्यत महागजम् ॥

गजतां च समासाद्य संचरंतं महाबलम् ॥ ४२ ॥

भवद्भिर्निजभक्त्यायं संग्राह्यो हि यथासुखम् ॥

ते तद्वचनमासाद्य समेत्यैकत्र च द्विजाः ॥ ॥ ४३ ॥

पवित्रास्तं गजं द्रष्टुं भावितेनांतरात्मना ॥

यत्रैकत्र स्थिता विप्रास्तत्र तीर्थं महोदयम् ॥

संगमेश्वरसंज्ञं तु पूर्वं सर्वत्र विश्रुतम् ॥ ४४ ॥

ततस्तस्मात्प्रवृत्तास्ते द्रष्टुकामा महागजम् ॥

कुंडिकाः संपरित्यज्य संनह्यात्मानमात्मना ॥४५॥

यत्र ताः कुंडिकास्त्यक्तास्तत्तीर्थं कुण्डिकाह्वयम् ॥

सर्वपापहरं पुंसां दृष्टाऽदृष्टफलप्रदम् ॥ ४६ ॥

कुबेरस्याश्रमं प्राप्य ततस्ते मुनिसत्तमाः ॥

नालिकेरवनीसंस्थं ददृशुस्तं द्विपं तदा ॥ ४७ ॥

करे ग्रहीतुमारब्धाः स्वकरैर्हृष्टमानसाः ॥

गजस्तान्करसंलग्नान्विचिक्षेप तपोधनान् ॥ ४८ ॥

काश्चिदंगसमालग्नान्समंताद्भयवर्जितान् ॥

एवं स तैः पुनः सर्वैर्मशकैरिव चेष्टितम् ॥ ४९ ॥

क्रीडां करोति विविधां वनसंस्थो हरद्विपः ॥

तद्रूपं संपरित्यज्य रुद्रो रौद्रगजात्मकम् ॥ 7.1.308.५० ॥

पुनरन्यच्चकारासौ डिंडिरूपं मनोरमम् ॥

जयशब्दप्रघोषेण वेदमङ्गलगीतकैः ॥ ५१ ॥

उन्नामितं पुनस्तेन यत्र लिंगं महोदयम् ॥

तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम् ॥ ५२ ॥

गजरूपधरस्तत्र स्थितः स्थाने महाबलः ॥

गणनाथस्वरूपेण ह्युन्नतो जगति स्थितः ॥ ५३ ॥

डिंडिरूप धरो भूत्वा रुद्रः प्राह तपोधनान् ॥

यन्मया भवतां कार्यं कर्तव्यं तदिहोच्यताम् ॥ ५४ ॥

एवमुक्तस्तु तैरुक्तः सर्वज्ञानक्रियापरैः ॥

सानन्दाः प्राणिनः संतु त्वत्प्रसादात्पुरा यथा ॥ ५५ ॥

क्षंतव्यं देवदेवेश कृतं यन्मूढमानसैः ॥

त्वत्प्रसादात्सुरेशान तत्त्वं सानुग्रहो भव ॥ ५६ ॥

एवमस्त्विति तेनोक्तास्ते सर्वे विगतज्वराः ॥

तल्लिंगानुकृतिं लिंगमीजिरे मुनयस्तथा ॥

चक्रुस्ते मुनयः सर्वे स्तुतिं विगतमत्सराः ॥ ५७ ॥

क्षमस्व देवदेवेश कुर्वस्माकमनुग्रहम् ॥

अस्मिँल्लिंगे लयं गच्छ मूलचण्डीशसंज्ञके ॥

त्रिकालं देवदेवेश ग्राह्या ह्यत्र कला त्वया ॥ ५८ ॥ ॥

॥ ईश्वर उवाच ॥ ॥

चण्डी तु प्रोच्यते देवी तस्या ईशस्त्वहं स्मृतः ॥

तस्य मूलं स्मृतं लिंगं तदत्र पतितं यतः ॥ ५९ ॥

तस्मात्तन्मूल चण्डीश इति ख्यातिं गमिष्यति ॥ वा

पीकूपतडागानां शतैस्तु विपुलैरपि ॥ 7.1.308.६० ॥

कृतैर्यज्जायते पुण्यं तत्पुण्यं लिंगदर्शनात् ॥

ब्रह्माण्डं सकलं दत्त्वा यत्पुण्यफलमाप्नुयात् ॥ ६१ ॥

तत्पुण्यं लभते देवि मूलचण्डीशदर्शनात् ॥

तत्र दानानि देयानि षोडशैव नरोत्तमैः ॥ ६२ ॥

एवं तद्भविता सर्वं यन्मयोक्तं द्विजोत्तमाः ॥

यात दारुवनं विप्राः सर्वे यूयं तपोधनाः ॥

मया सर्वे समादिष्टा यात दारुवनं द्विजाः ॥ ६३ ॥

ततस्तु संप्राप्य महद्वचो मम सर्वे प्रहृष्टा मुनयो महोदयम् ॥

गत्वा च तद्दारुवनं महेश्वरि पुनश्च चेरुः सुतपस्तपोधनाः ॥ ६४ ॥

एतस्मात्कारणाद्देवि मूलचण्डीशसंज्ञितम् ॥

लिंगं पापहरं नृणामर्द्धचन्द्रेण भूषितम् ॥ ६५ ॥

दोहनी दुग्थदानेन मुनीनां तृषितात्मनाम् ॥

श्रमापहारं यद्देवि त्वया कृतमनुत्तमम् ॥

तत्तप्तोदकनाम्ना वा अभूत्कुण्डं धरातले ॥६६ ॥

ऋषितोयाजले स्नात्वा चण्डीशं यः प्रपूजयेत् ॥

स प्रचण्डो भवेद्भूमौ भुवनानामधीश्वरः ॥ ६७ ॥

एतत्संक्षेपतो देवि माहात्म्यं कीर्तितं तव ॥

मूलचण्डीशदेवस्य श्रुतं पातकनाशनम् ॥ ६८ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये तप्तोदककुण्डोत्पत्तौ मूलचण्डीशोत्पत्तिमाहात्म्यवर्णनंनामाष्टोत्तर त्रिशततमोऽध्यायः ॥ ३०८ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 309

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि विनायकमनुत्तमम् ॥

चतुर्मुखेति विख्यातं चण्डीशादुत्तरे स्थितम् ॥ १ ॥

किञ्चिदीशानदिग्भागे धनुषां च चतुष्टये ॥

तं प्रयत्नाच्च संपूज्य सर्वविघ्नैः प्रमुच्यते ॥ २ ॥

गन्धपुष्पादिभिस्तत्र भक्ष्यैर्भोज्यैः समोदकैः ॥

चतुर्मुखं चतुर्थ्यां तु संपूज्य सिद्धिभाग्भवेत् ॥ ३ ॥

इति श्रीस्कांदे महपुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चतुर्मुखविनायक माहात्म्यवर्णनंनाम नवोत्तरत्रिशततमोऽध्यायः ॥ ॥ ३०९ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 310

॥ ईश्वर उवाच ॥ ॥

तस्माद्वायव्यदिग्भागे धनुषां द्वितये स्थितम् ॥

कलंबेश्वरनामानं सर्वपातकनाशनम् ॥ ॥ १ ॥

तं दृष्ट्वा पूजयित्वा च मुक्तः स्यात्सर्वकिल्बिषैः॥।

सोमवारे त्वमावास्या तत्रैव बहुपुण्यदा ॥

विप्राणां भोजनं देयं तत्र पुण्य फलेप्सुभिः ॥ २ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कलंबेश्वरमाहात्म्य वर्णनंनाम दशोत्तरत्रिशततमोऽध्यायः ॥ ३१० ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 311

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि गोपालस्वामिनं हरिम् ॥

चण्डीशात्पूर्वदिग्भागे धनुषां विंशतौ स्थितम् ॥ १ ॥

सर्वपापोपशमनं दारिद्र्यौघविनाशनम्॥

तं दृष्ट्वा पूजयित्वा च माघे मासि विशेषतः ॥

पूजा जागरणं कृत्वा तत्र गच्छेत्परं पदम् ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गोपाल स्वामिहरिमाहात्म्यवर्णनंनामैकादशोत्तरत्रिशततमोऽध्यायः ॥ ३११ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 312

॥ ईश्वर उवाच ॥ ॥

तस्मादुत्तरदिग्भागे धनुषामष्टभिः प्रिये ॥

बकुलस्वामिनं सूर्यं तं पश्येद्दुःखनाशनम् ॥ १ ॥

रविवारेण सप्तम्यां कुर्याज्जागरणं नरः ॥

सर्वान्कामानवाप्नोति सूर्यलोके महीयते ॥ ॥ २ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये बकुलस्वामिमाहात्म्यवर्णनंनाम द्वाद शोत्तरत्रिशततमोऽध्यायः ॥ ३१२ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 313

॥ ईश्वर उवाच ॥ ॥

तस्माद्वायव्यदिग्भागे धनुःषोडशभिः स्थितः ॥

उत्तरार्कश्च नाम्ना वै सद्यः प्रत्ययकारकः ॥

मुच्यते सर्वरोगैस्तु कृत्वा वै निंबसप्तमीम्॥ १ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उत्तरार्कमाहात्म्यवर्णनंनाम त्रयोदशोत्तरत्रिशततमोऽध्यायः ॥ ३१३ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 314

॥ ईश्वर उवाच ॥ ॥

अथ देवकुलाग्नेय्यां गव्यूत्या तत्र संस्थितम् ॥

समुद्रस्य तटे रम्यमृषितीर्थमनुत्तमम् ॥ १ ॥

पाषाणाकृतयस्तत्र ऋषयोऽद्यापि संस्थिताः ॥

दृश्यंते मानुषे देवि सर्वपातकनाशनाः ॥ २ ॥

तत्र ज्येष्ठे त्वमावास्यां प्राप्यते नाधमैर्न्नरैः ॥

पिंडदानं विशेषेण स्नानं श्रद्धासमन्वितैः ॥ ३ ॥

ऋषितोयासंगमे तु स्नानं श्राद्धं सुदुर्लभम् ॥

गोप्रदानं प्रशंसंति तत्र ते मुनिपुगवाः ॥

भोजनं ब्राह्मणानां तु यथाशक्त्या प्रदापयेत् ॥४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मूलचंडीशमाहात्म्य ऋषितीर्थसंगममाहात्म्यवर्णनंनाम चतुर्दशोत्तरत्रिशततमोऽध्यायः ॥ ३१४ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 315

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि मरुदार्यां महाप्रभाम् ॥

तस्मात्पश्चिमदिग्भागे क्रोशार्द्धेन व्यवस्थिताम् ॥ १ ॥

मरुद्भिः पूजितां देवीं सर्वकामफलप्रदाम् ॥

महानवम्यां यत्नेन सप्तम्यां पूजयेन्नरः ॥

गंधपुष्पादिविधिना सर्वकामप्रसिद्धये ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मरुदार्यादेवीमाहात्म्यवर्णनंनाम पंचदशोत्तरत्रिशततमोऽध्यायः ॥ ३१५ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 316

॥ ईश्वर उवाच ॥ ॥

अथ देवकुलात्पूर्वे पंचगव्यूतिमात्रतः ॥

शंबरस्थान मध्ये तु क्षेमादित्येति विश्रुतः ॥ १ ॥

तं दृष्ट्वा मानवो देवि भवेत्क्षेमार्थसिद्धिभाक् ॥

सप्तम्यां रविवारेण पूजितः सर्वकामदः ॥ २ ॥

इति देवकुलस्थाने कथिता तीर्थसंस्थितिः ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये क्षेमादित्यमाहात्म्यवर्णनंनाम षोडशोत्तरत्रिशततमोऽध्यायः ॥ ३१६ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 317

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि देवीं कंटकशोषिणीम् ॥

उत्तरेण देवकुलाद्दक्षिणेनोन्नतात्स्थितात् ॥ १ ॥

तस्योत्पत्तिं प्रवक्ष्यामि शृणु ह्येकमनाः प्रिये ॥

उन्नताद्दक्षिणे भागे यजंते द्विजसत्तमाः ॥ २ ॥

भृगुरत्रिर्मरीचिश्च भरद्वाजोऽथ कश्यपः ॥

कण्वो मंकिश्च सावर्णिर्जातूकर्ण्यस्तथैव च ॥ ३ ॥

वत्सश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥

मनुर्यमोंऽगिरा विष्णुः शातातपपराशरौ ॥ ४ ॥

शांडिल्यः कौशिकश्चैव गौतमो गार्ग्य एव च ॥

दाल्भ्यश्च शौनकश्चैव शाकल्यो गालवस्तथा ॥ ५ ॥

जाबालिर्मुद्गलश्चैव ऋष्यशृंगो विभांडकः ॥

विश्वामित्रः शतानंदो जह्नुर्विश्वावसुस्तथा ॥ ६ ॥

एते चान्ये च मुनयो यजंते विविधैर्मखैः ॥

यज्ञवाटं च निर्माय ऋषितोयातटे शुभे ॥ ७ ॥

देवगन्धर्वनृत्यैश्च वेणुवीणानिनादितम् ॥

वेदध्वनितघोषेण यज्ञहोमाग्निहोत्रजैः ॥ ८ ॥

धूपैः समावृतं सर्वमाज्यगंधिभिरर्चितम् ॥

शोभितं मुनिभिर्दिव्यैश्चातुर्वेद्यैर्द्विजोत्तमैः ॥ ९ ॥

एवंविधं प्रदेशं तु दृष्ट्वा दैत्या महाबलाः ॥

समुद्रमध्यादायाता यज्ञविध्वंसहेतवे ॥ 7.1.317.१० ॥

मायाविनो महाकायाः श्यामवर्णा महोदराः ॥

लंबभ्रूश्मश्रुनासाग्रा रक्ताक्षा रक्तमूर्धजाः ॥ ११ ॥

यज्ञं समागताः सर्वे दैत्याश्चैव वरानने ॥

तान्दृष्ट्वा मुनयः सर्वे रौद्ररूपान्भयंकरान् ॥ १२ ॥

केचिन्निपतिता भूमौ तथान्ये ऽग्नौ स्रुचीकराः ॥

पत्नीशालां समाविष्टा हविर्धानं तथा परे ॥ १३ ॥

ऋत्विजस्तु सदोमध्ये स्थिता वाचंयमास्तथा ॥ १४ ॥

एवं देवि यदा वृत्तं मुनीनां च महात्मनाम् ॥

तदाध्वर्युर्महातेजा धैर्यमालम्ब्य सादरः ॥ १५ ॥

अग्निहोत्रं हविष्यं च हविर्विन्यस्य मन्त्रवित् ॥

सुसमिद्धं जुहावाग्निं रक्षसां नाशहेतवे ॥ १६ ॥

हुते हविषि देवेशि तत्क्षणादेव चोत्थिता ॥

शक्तिः शक्तित्रिशूलाढ्या चर्महस्ता महोज्ज्वला ॥ १७ ॥

तया ते निहता दैत्या यज्ञविध्वंसकारिणः ॥

ततस्तां विविधैः स्तोत्रैर्मुनयस्तुष्टुवुस्तदा ॥ १८ ॥

प्रसन्ना भूयसी देवी तानृषीन्प्रत्युवाच ह ॥

वरं वृणुध्वं मुनयो दास्यामि वरमुत्तमम्॥ १९ ॥

॥ ऋषय ऊचुः ॥ ॥

कृतं वै सकलं कार्यं यज्ञा नो रक्षितास्त्वया ॥

यदि देयो वरोऽस्माकं त्वया चासुरमर्द्दिनि ॥ 7.1.317.२० ॥

अस्मिन्स्थाने सदा तिष्ठ मुनीनां हितकाम्यया ॥

कंटकाः शोषिता दैत्यास्तेन कंटकशोषिणी ॥

अद्यप्रभृति नामास्तु तेन देवि सदा त्विह ॥ २१ ॥

॥ ईश्वर उवाच ॥ ॥

एवं भविष्यतीत्युक्त्वा सा देव्यन्तर्हिता तदा ॥

अष्टम्यां वा नवम्यां वा पूजयिष्यति मा नवः ॥ २२ ॥

राक्षसेभ्यः पिशाचेभ्यो भयं तस्य न जायते ॥

प्राप्नुयात्परमां सिद्धिं मानवो नात्र संशयः ॥ २३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कंटकशोषणीमाहात्म्यवर्णनंनाम सप्तदशोत्तरत्रिशततमोऽध्यायः ॥३१७॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 318

॥ ईश्वर उवाच ॥ ॥

तस्याश्च पूर्वदिग्भागे नातिदूरे व्यवस्थितम् ॥

लिंगं महाप्रभावं हि सर्वपातकनाशनम् ॥ १ ॥

ब्रह्मेश्वरेति नामाढ्यं ब्राह्मणैश्च प्रतिष्ठितम् ॥

ऋषितोयाजले स्नात्वा तल्लिंगं यः प्रपूजयेत् ॥

स भवेद्वेदविद्विप्रो जाड्यभावविवर्जितः ॥ २ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनंनामाष्टादशोत्तरत्रिशततमो ऽध्यायः ॥ ३१८ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 319

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि ह्युन्नतस्थानमुत्तमम् ॥

तस्यैवोत्तरदिग्भाग ऋषितोयातटे शुभे ॥ १ ॥

एतत्स्थानं महादेवि विप्रेभ्यः प्राददां बलात् ॥

सर्वसीमासमायुक्तं चंडीगणसुरक्षितम् ॥ २ ॥

॥ देव्युवाच ॥ ॥

कथमुन्नतनामास्य बभूव सुरसत्तम ॥

कथं त्वया बलाद्दत्तं कियत्सीमासमन्वितम् ॥ ३ ॥

एतत्सर्वं ममाचक्ष्व संक्षेपान्नातिविस्तरात् ॥ ४ ॥

॥ ईश्वर उवाच ॥ ॥

शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥

यां श्रुत्वा मानवो देवि मुच्यते सर्वपातकैः ॥ ५ ॥

एतत्सर्वं पुरा प्रोक्तं स्थानसंकेतकारणम् ॥

तृतीये ब्रह्मणः कुंडे सृष्टिसंक्षेपसूचके ॥ ६ ॥

तथापि ते प्रवक्ष्यामि संक्षेपाच्छुणु पार्वति ॥ ७ ॥

उन्नामितं पुनस्तत्र यत्र लिंगं महोदये ॥

तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम्॥ ८ ॥

अथवा चोन्नतं द्वारं पूर्वं प्राभासिकस्य वै ॥

तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम् ॥ ९ ॥

विद्यया तपसा चैव यत्रोत्कृष्टा महर्षयः ॥

तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम् ॥ 7.1.319.१० ॥

यदा देवकुले विप्रा मूलचंडीशसंज्ञकम् ॥

प्रसाद्य च महादेवं पुनः प्राप्ता महोदयम् ॥ ११ ॥

षष्टिवर्षसहस्राणि तपस्तेपुर्महर्षयः ॥

ध्यायमाना महेशानमनादिनिधनं परम् ॥ १२ ॥

तेषु वै तप्यमानेषु कोटिसंख्येषु पार्वति ॥

ऋषितोयातटे रम्ये पवित्रे पापनाशने ॥

भिक्षुर्भूत्वा गतश्चाहं पुनस्तत्रैव भामिनि ॥ १३ ॥

त्रिकालं दर्शिभिस्तत्र दोषरागविवर्जितैः ॥

तपस्विभिस्तदा सर्वैर्लक्षितोऽहं वरानने ॥ १४ ॥

दृष्टमात्रस्तदा विप्रैर्विरराम महेश्वरः ॥

क्व यासि विदितो देव इत्युक्त्वानुययुर्द्विजाः ॥ १५ ॥

यावदायांति मुनय ईशेशेति प्रभाषकाः ॥

धावमानाः स्वतपसा द्योतयन्तो दिशोदश ॥ १६ ॥

लिंगमेव प्रपश्यंति न पश्यंति महेश्वरम् ॥ १७ ॥

येये च ददृशुर्लिंगं मूलचण्डीशसंज्ञकम् ॥

तदा च मुनयः सर्वे सदेहाः स्वर्गमाययुः ॥ १८ ॥

यदा त्रिविष्टपं व्याप्तं दृष्टं वै शतयज्वना ॥

आयांति च तथैवान्ये मुनयस्तपसोज्वलाः ॥ १९ ॥

एतदंतरमासाद्य समागत्य महीतले ॥

लिंगमाच्छादयामास वज्रेणैव शतक्रतुः ॥ 7.1.319.२० ॥

अष्टादशसहस्राणि मुनीनामूर्ध्वरेतसाम् ॥

स्थितानि न तु पश्यंति लिंगमेतदनुत्तमम् ॥ २१ ॥

शक्रस्तु सहसा दृष्टो वज्रेणैव समन्वितः ॥

यावद्वदंति शापं ते तावन्नष्टः पुरंदरः ॥ २२॥

दृष्ट्वा तान्कोपसंयुक्तान्भगवांस्त्रिपुरांतकः ॥

उवाच सांत्वयन्देवो वाचा मधुरया मुनीन् ॥ २३ ॥

कथं खिन्ना द्विजश्रेष्ठाः सदा शांतिपरायणाः ॥

प्रसन्नवदना भूत्वा श्रूयतां वचनं मम ॥ २४ ॥

भवद्भिर्ज्ञानसंयुक्तैः स्वर्गः किं मन्यते बहु ॥

यत्रैके वसवः प्रोक्ता आदित्याश्च तथा परे ॥२५ ॥

रुद्रसंज्ञास्तथा चैके ह्यश्विनावपि चापरौ ॥

एतेषामधिपः कश्चिदेक इन्द्रः प्रकीर्तितः ॥ २६ ॥

स्वपुण्यसंख्यया प्राप्ते यस्माद्विभ्रश्यते नरैः ॥

एवं दुःखसमायुक्तः स्वर्गो नैवेष्यते बुधैः ॥ २७ ॥

एतस्मात्कारणाद्विप्राः कुरुध्वं वचनं मम ॥

गृह्णीध्वं नगरं रम्यं निवासाय महाप्रभम् ॥ २८ ॥

हूयंतामग्निहोत्राणि देवताः सर्वदा द्विजाः ॥

इज्यंतां विविधैर्यागैः क्रियतां पितृपूजनम् ॥ २९ ॥

आतिथ्यं क्रियता नित्यं वेदाभ्यासस्तथैव हि ॥ 7.1.319.३० ॥

एवं हि कुर्वतां नित्यं विना ज्ञानस्य संचयैः ॥

प्रसादान्मम विप्रेन्द्राः प्रांते मुक्तिर्भविष्यति ॥ ३१ ॥

॥ ऋषय ऊचुः ॥ ॥

असमर्थाः परित्राणे जिताहारास्तपोन्विताः ॥

नगरेणेह किं कुर्मस्तव भक्तिमभीप्सवः ॥ ॥ ३२ ॥

॥ ईश्वर उवाच ॥ ॥

भविष्यति सदा भक्तिर्युष्माकं परमेश्वरे ॥

गृह्णीध्वं नगरं रम्यं कुरुध्वं वचनं मम ॥ ३३ ॥

इत्युक्त्वा भगवान्देव ईषन्मीलितलोचनः ॥

सस्मार विश्वकर्माणं सर्वशिल्पवतां वरम् ॥ ३४ ॥

स्मृतमात्रो विश्वकर्मा प्रांजलिश्चाग्रतः स्थितः ॥

आज्ञापयतु मां देवो वचनं करवाणि ते ॥ ३५ ॥

॥ ईश्वर उवाच ॥ ॥

नगरं क्रियतां त्वष्टर्विप्रार्थं सुंदरं शुभम् ॥ ३६ ॥

इत्युक्तो विश्वकर्मा स भूमिं वीक्ष्य समंततः ॥

उवाच प्रणतो भूत्वा शंकरं लोकशंकरम् ॥ ३७ ॥

परीक्षिता मया भूमिर्न युक्तं नगरं त्विह ॥

अत्र देवकुलं साक्षाल्लिंगस्य पतनं तथा ॥ ३८ ॥

यतिभिश्चात्र वस्तव्यं न युक्तं गृहमेधिनाम् ॥ ३९ ॥

त्रिरात्रं पंचरात्रं वा सप्तरात्रं महेश्वर ॥

पक्षं मासमृतुं वापि ह्ययनं यावदेव च ॥

पुत्रदारयुतैस्तीर्थे वस्तव्यं गृहमेधिभिः ॥ 7.1.319.४० ॥

वसत्यूर्ध्वं तु षण्मासाद्यदा तीर्थे गृहाधिपः ॥

अवज्ञा जायते तस्य मनश्चापल्यभावतः ॥

तदा धर्माद्विनश्यंति सकला गृहमेधिनः ॥ ४१ ॥

इत्युक्तः स तदा देवस्तेन वै विश्वकर्मणा ॥

पुनः प्रोवाच तं तस्य प्रशस्य वचनं शिवः ॥ ४२ ॥

रोचते मे न वासोऽत्र विप्राणां गृहमेधिनाम् ॥

यत्र चोन्नामितं लिंगमृषितोयातटे शुभे ॥

तत्र निर्मापय त्वष्टर्नगरं शिल्पिनां वर ॥ ४३ ॥

तस्य तद्वचनं श्रुत्वा विश्वकर्मा त्वरान्वितः ॥

गत्वा चकार नगरं शिल्पिकोटिभिरावृतः ॥ ४४ ॥

उन्नतं नाम यल्लोके विख्यातं सुरसुन्दरि ॥

ततो हृष्टमना भूत्वा विलोक्य नगरं शिवः ॥

आहूय ब्राह्मणान्सर्वानुवाचानतकन्धरः ॥४५ ॥

इदं स्थानं वरं रम्यं निर्मितं विश्वकर्मणा ॥

ग्रामाणां च सहस्रैस्तु प्रोक्तं सर्वासु दिक्षु च॥४६ ॥

नगरात्सर्वतः पुण्यो देशो नग्नहरः स्मृतः ॥

अष्टयोजनविस्तीर्ण आयामव्यासतस्तथा ॥ ४७ ॥

नग्नो भूत्वा हरो यत्र देशे भ्रांतो यदृच्छया ॥

तं नग्नहरमित्याहुर्देशं पुण्यतमं जनाः ॥ ४८ ॥

पूर्वे तु शांकरी चाऽऽर्या पश्चिमे न्यंकुमत्यपि ॥

उत्तरे कनकनंदा दक्षिणे सागरावधिः ॥

एतदंतरमासाद्य देशो नग्नहरः स्मृतः ॥ ४९ ॥

अष्टयोजनमानेन आयामव्यासतस्तथा ॥

प्रोक्तोऽयं सकलो देश उन्नतेन समं मया ॥ 7.1.319.५० ॥

गृह्यतां नगरश्रेष्ठं प्रसीदध्वं द्विजोत्तमाः ॥

अत्र भक्तिश्च मुक्तिश्च भविष्यति न संशयः ॥ ५१ ॥

इत्युक्तास्ते तदा सर्वे विप्रा ऊचुर्महेश्वरम् ॥ ५२ ॥

॥ विप्रा ऊचुः ॥ ॥

ईश्वराज्ञा वृथा कर्तुं न शक्या परमात्मनः ॥

तपोऽग्निहोत्रनिष्ठानां वेदाध्ययनशालिनाम् ॥५३॥

अस्माकं रक्षिता कोऽस्ति कलिकाले च दारुणे ॥

को दाताऽऽरोग्यदः कश्च को वै मुक्तिं प्रदास्यति ॥ ५४ ॥

॥ ईश्वर उवाच ॥ ॥

महाकाल स्वरूपेण स्थित्वा तीर्थे महोदये ॥

नाशयिष्यामि शत्रून्वः सम्यगाराधितो ह्यहम् ॥ ५५ ॥

उन्नतो विघ्नराजस्तु विघ्नच्छेत्ता भविष्यति ॥

गणनाथस्वरूपोऽयं धनदो निधीनां पतिः ॥ ५६ ॥

युष्मभ्यं दास्यति द्रव्यं सम्यगाराधितोऽपि सः ॥

आरोग्यदायको नित्यं दुर्गादित्यो भविष्यति ॥ ५७ ॥

महोदयं महानन्ददायकं वो भविष्यति ॥

सम्यगाराधितो ब्रह्मा सर्वकार्येषु सर्वदा ॥

सर्वान्कामांश्च मुक्तिं च युष्मभ्यं संप्रदास्यति ॥ ५८ ॥

॥ विप्रा ऊचुः ॥ ॥

यदि तीर्थानि तिष्ठंति सर्वाणि सुरसत्तम ॥

संगालेश्वरतीर्थे च तथा देवकुले शिवे ॥ ॥ ५९ ॥

कलावपि महारौद्रे ह्यस्माकं पावनाय वै ॥

स्थातव्यं तर्हि गृह्णीमो नान्यथा च महेश्वर ॥ 7.1.319.६० ॥

स तथेति प्रतिज्ञाय ददौ तेभ्यः पुरं वरम् ॥

सप्तभौमैः शशांकाभैः प्रासादैः परिभूषितम् ॥

नानाग्रामसमायुक्तं सर्वतः सीमयान्वितम् ॥ ६१ ॥

॥ सूत उवाच ॥ ॥

एवं तेभ्यो हि नगरं दत्त्वा देवो महेश्वरः ॥

ददर्श विश्वकर्माणं प्राञ्जलिं पुरतः स्थितम् ॥ ६२ ॥

॥ विश्वकर्मोवाच ॥ ॥

विलोक्यतां महादेव नगरं नगरोपमम् ॥

सौवर्णस्थलमारुह्य निर्मितं त्वत्प्रसादतः ॥ ६३ ॥

विश्वकर्मवचः श्रुत्वा भगवांस्त्रिपुरान्तकः ॥

समारुरोह स्थलकं सह सर्वैर्महर्षिभिः ॥ ६४ ॥

नगरं विलोकयामास रम्यं प्राकारमण्डितम् ॥

ऋषयस्तुष्टुवुः सर्वे तत्रस्थं त्रिपुरान्तकम् ॥

तानुवाच महादेवो वृणुध्वं वरमुत्त मम्॥ ६५ ॥

॥ ऋषय ऊचुः ॥ ॥

यदि तुष्टो महादेव स्थलकेश्वरनामभृत् ॥

अवलोकयंश्च नगरं सदा तिष्ठ स्थले हर ॥ ६६ ॥

इत्युक्तस्तैस्तदा देवः स्थलकेऽस्मिन्सदा स्थितः ॥

कृते रत्नमयं देवि त्रेतायां च हिरण्मयम् ॥ ६७ ॥

रौप्यं च द्वापरे प्रोक्तं स्थलमश्ममयं कलौ ॥

एवं तत्र स्थितो देवः स्थलकेश्वरनामतः ॥ ६८ ॥

सदा पूज्यो महादेव उन्नतस्थानवासिभिः ॥

माघे मासि चतुर्दश्यां विशेषस्तत्र जागरे ॥ ६९ ॥

इत्येतत्कथितं देवि ह्युन्नतस्य महोद्यम् ॥

श्रुतं पापहरं नॄणां सर्वकामफलप्रदम् ॥ 7.1.319.७० ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्थानमाहात्म्यवर्णनंनामैकोनविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३१९ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 320

॥ ईश्वर उवाच ॥ ॥

तस्माच्च पूर्वदिग्भागे किञ्चिदाग्नेयसंस्थितम् ॥

लिंगद्वयं महापुण्यं विश्वकर्मप्रतिष्ठितम् ॥ १ ॥

यदा वै नगरं कर्तुं त्वष्टा तत्र समागतः ॥

प्रतिष्ठाप्य महादेवं नगरं कृतवांस्ततः ॥ २ ॥

कृत्वा च नगरं रम्यं लिंगस्यास्य प्रभावतः ॥

पुनः प्रतिष्ठितं र्लिगं तेन वै विश्वकर्मणा ॥ ३ ॥

कर्मादौ कर्मणश्चान्ते यात्रोद्वाहगृहादिके ॥

लिंगद्वयं पूजयित्वा सिद्धिमाप्नोति तत्क्षणात् ॥ ४ ॥

तस्मात्सर्वप्रयत्नेन गंधामृतरसोदकैः ॥

नैवेद्यै विविधैर्देवि लिंगयुग्मं प्रपूजयेत् ॥ ५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्थानमाहात्म्ये लिंगद्वयमाहात्म्यवर्णनंनाम विंशोत्तरत्रिशततमोऽध्यायः ॥ ३२० ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 321

॥ ईश्वर उवाच ॥ ॥

अथ ते कीर्तयिष्यामि रहस्यं स्थानमुत्तमम् ॥

सर्वपापहरं नॄणामुन्नतस्थानवासिनाम् ॥ १ ॥

श्रेष्ठदेवस्य माहात्म्यं ब्रह्मणोऽव्यक्तजन्मनः ॥

उन्नतस्थानसंस्थस्य देवस्य बालरूपिणः ॥

यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥ २ ॥

॥ देव्युवाच ॥

बालरूपीति यत्प्रोक्तमुन्नतं तत्कथं वद ॥

स्थानेष्वन्येषु सर्वत्र वृद्धरूपी पितामहः ॥ ३ ॥

कस्मिन्स्थाने स्थितस्तत्र किमर्थं तत्र वा गतः ॥

कथं स पूज्यो विप्रेन्द्रैस्तिथौ कस्यां क्रमाद्वद ॥ ४ ॥ ॥

॥ ईश्वर उवाच ॥ ॥

ऋषितोयापश्चिमे तु ऐशान्यां स्थलकेश्वरात् ॥

ब्रह्मणः परमं स्थानं ब्रह्मलोक इवापरः ॥ ५ ॥

ब्रह्मा विष्णुश्च रुद्रश्च पूज्याः प्राभासिके सदा ॥

ब्रह्मभागे स्थितो ब्रह्मा ऋषितोयातटे शुभे ॥ ६ ॥

रुद्रभागेऽग्नितीर्थे च पूज्यो रुद्रः सनातनः ॥

गिरौ रैवतके रम्ये पूज्यो दामोदरो हरिः ॥ ७ ॥

सोमेन प्रार्थितो देवो बालरूपी पितामहः ॥

आगतश्चाष्टवर्षस्तु ह्युन्नते स्थान उत्तमे ॥ ८ ॥

दृष्ट्वा ब्रह्मा द्विजाञ्छ्रेष्ठांस्तत्र स्थाने स्थितो विभुः ॥ ९ ॥

नास्ति ब्रह्मसमो देवो नास्ति ब्रह्मसमो गुरुः ॥

नास्ति ब्रह्मसमं ज्ञानं नास्ति ब्रह्मसमं तपः ॥ 7.1.321.१० ॥

तावद्भ्रमंति संसारे दुःखशोकभयाप्लुताः ॥

न भवंति सुरज्येष्ठे यावद्भक्ताः पितामहे ॥ ११ ॥

समासक्तं यथा चित्तं जंतोर्विषयगोचरे ॥

यद्येवं ब्रह्मणि न्यस्तं को न मुच्येत बंधनात् ॥ १२ ॥

परमायुः स्मृतो ब्रह्मा परार्धं तस्य वै गतम् ॥

उन्नतस्थानसंस्थस्य द्वितीयं भविताऽधुना ॥ १३ ॥।

यदासावुन्नते स्थाने ब्रह्मलोकात्पितामहः ॥

आगतश्चाष्टवर्षस्तु बालरूपी तदोच्यते ॥ १४ ॥

स्थानेष्वन्येषु विप्राणां वृद्धरूपी पितामहः ॥

युक्तं तदुन्नतस्थानं सदा च ब्रह्मणः प्रियम् ॥ १५ ॥

स्नात्वा च विधिवत्पूर्वं ब्रह्मकुंडे नरोत्तम ॥

पूजयेत्पुष्पधूपाद्यैर्ब्रह्माणं बालरूपिणम् ॥ १६ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्थाने ब्रह्ममाहात्म्यवर्णनंनामैकविंशत्युत्तर त्रिशततमोध्यायः ॥ ३२१ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 322

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि तस्य दक्षिणसंस्थितम् ॥

दुर्गादित्येतिनामानं सर्वपापप्रणाशनम् ॥ १ ॥

यदा दुःखमनुप्राप्ता दुर्गा दुःखविनाशिनी ॥

सूर्यमाराधयामास तदा दुःखविनुत्तये ॥ २ ॥

ततः कालेन बहुना तस्यास्तुष्टो दिवाकरः ॥

उवाच मधुरं वाक्यं दुर्गां देवो महाप्रभाम् ॥

वरं वरय देवेशि तपसा तुष्टवानहम् ॥ ३ ॥

॥ दुर्गोवाच ॥ ॥

यदि तुष्टो दिवानाथ दुःखसंघं विनाशय ॥ ४ ॥

॥ सूर्य उवाच ॥ ॥

अचिरेणैव कालेन भगवांस्त्रिपुरांतकः ॥

संप्राप्स्यत्युत्तमं लिंगमुन्नते स्थान उत्तमे ॥ ५ ॥

दुर्गादित्येति मे नाम इह देवि भविष्यति ॥

एवमुक्त्वा महादेवि तत्रैवान्तर्दधे रविः ॥

सप्तम्यां रविवारेण दुर्गादित्यं प्रपूजयेत् ॥ ६ ॥

तस्य दुःखानि सर्वाणि कुष्ठानि विविधानि च ॥

विलयं यांति देवेशि दुर्गादित्यप्रपूजनात् ॥ ७ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसा हरुयां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये दुर्गादित्यमाहात्म्यवर्णनंनाम द्वाविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२२ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 323

॥ ईश्वर उवाच ॥ ॥

ततः पश्येन्महादेवि तस्य दक्षिणतः स्थितम् ॥

क्षेमेश्वरेति विख्यातमृषितोयातटे स्थितम् ॥ १ ॥

भूतीश्वरेति नामास्य पूर्वं च परिकीर्तितम् ॥

क्षेमेशेति कलौ देवि तस्य नाम प्रकीर्तितम् ॥२॥

तं दृष्ट्वा पूजयित्वा च मुक्तः स्यात्सर्वकिल्बिषैः ॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्षेमेश्वरमाहात्म्यवर्णनंनाम त्रयोविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२३ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 324

॥ ईश्वर उवाच ॥ ॥

तस्मादुत्तरदिग्भागे किंचिद्वायव्यमाश्रितम् ॥

विनायकं प्रपश्येच्च सर्वसिद्धिप्रदायकम् ॥ १ ॥

योऽसौ देवि मया ख्यातः सखा मे धनदः पुरा ॥

गणनाथस्वरूपेण निधीनां परिपालकः ॥

लोकानां सिद्धिदानार्थमस्मिन्स्थाने स्थितः प्रिये ॥ २ ॥

चतुर्थ्यां भौमवारेण भक्ष्यभोज्यः समोदकैः ॥

पूजयेद्विधिवद्देवि तस्य सिद्धिर्भवेद्ध्रुवम् ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गणनाथमाहात्म्यवर्णनंनाम चतुर्विंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२४ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 325

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि विनायकमनुत्तमम् ॥

ऋषितोयातटे रम्ये सर्वविघ्ननिवारणम् ॥ १ ॥

योऽसौ देवगणाध्यक्षः साक्षाच्च त्रिपुरान्तकः ॥

गजरूपं समाश्रित्य ह्युन्नते जगति स्थितः ॥

प्राभासिके महाक्षेत्रे गणानां कोटिभिर्वृतः ॥ २ ॥

तस्मात्सर्वप्रयत्नेन यात्रा निर्विघ्नहेतवे ॥

आराध्यो गणनाथश्च पुष्पधूपादिभिः सदा ॥ ३ ॥

चतुर्थ्यां च चतुर्थ्यां च सर्वैर्नगरवासिभिः ॥

तस्मिन्महोत्सवः कार्यो राष्ट्रक्षेमार्थ सिद्धये ॥ ४ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्वामिमाहात्म्यवर्णनं नाम पंचविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२५ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 326

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि तस्यैवोत्तरतः स्थितम् ॥

महाकालेश्वरं देवं सर्वरक्षाकरं परम् ॥ १ ॥

अधिष्ठाता पुरस्यास्य भैरवो रुद्ररूपधृक् ॥

दर्शे च पूर्णिमायां च महापूजां प्रकारयेत् ॥ २ ॥

महोदये नरः स्नात्वा महाकालं प्रपश्यति ॥

धनाढ्यो जायते लोके सप्तजन्मसहस्रकम् ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये महाकालमाहात्म्यवर्णनंनाम षड्विंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२६ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 327

॥ ईश्वर उवाच ॥ ॥

ततो महोदयं गच्छेत्तस्मादीशानसंस्थितम् ॥ १ ॥

विधिना तत्र यः स्नाति तर्पयेत्पितृदेवताः ॥

प्रतिग्रहकृताद्दोषान्न भयं तस्य विद्यते ॥ २ ॥

महोदयं महानन्ददायकं च द्विजन्मनाम् ॥

प्रतिग्रहप्रसक्तानां विषयासक्तचेतसाम् ॥

तेषामपि ददेन्मुक्तिं तेन ख्यातं महोदयम् ॥ ३ ॥

तस्य वै रक्षणार्थाय महाकालस्य चोत्तरे ॥

नियुक्ताश्च महादेवि मातरस्तत्र संस्थिताः ॥

तस्मिन्स्नात्वा नरः पूर्वं मातॄस्ताश्च प्रपूजयेत् ॥ ४ ॥

एवं देवि मया ख्यातं महोदयमहोदयम् ॥

सर्वपापहरं नृणामभिषेकाच्च मुक्तिदम् ॥ ५ ॥

अर्धक्रोशे च तत्तीर्थं समंतात्परिमंडलम् ॥

एतन्मध्यं महासारं सदैव मुनिवल्लभम् ॥ ६ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये महोदयमाहात्म्यवर्णनंनाम सप्त विंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२७ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 328

॥ ईश्वर उवाच ॥ ॥

तस्माद्वायव्यदिग्भागे स्थितं पापप्रणाशनम् ॥

संगमेश्वरनामाढ्यमृषयो यत्र संगताः ॥ १ ॥

तस्यैव पूर्वदिग्भागे कुण्डिका पापनाशिनी ॥

वडवानलसंयुक्ता यत्रायाता सरस्वती ॥ २ ॥

कुंडिकायां नरः स्नात्वा संगमेश्वरमर्चयेत् ॥

तस्य जन्मसहस्राणि लक्ष्म्याः पुत्रै प्रियैः सह ॥

असंगमं महादेवि न कदाचित्प्रजायते ॥ ३ ॥

मुच्यते पातकैः सर्वैराजन्म मरणांतिकैः ॥४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगमेश्वरमाहात्म्यवर्णनं नामाष्टाविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२८॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 329

॥ ईश्वर उवाच ॥ ॥

अथोत्तरे देवकुलात्तत्र गव्यूतिमात्रतः ॥

उत्तमस्थानमिति च प्रख्यातं धरणीतले ॥ १ ॥

तस्योत्तरे तु दिग्भागे धनुर्द्वादशकांतरे ॥

उन्नतो विघ्नराजस्तु सर्वप्रत्यूहनाशनः ॥ २ ॥

चतुर्थ्यां पूजितः सम्यक्सुगंधैः फलमोदकैः ॥ ददाति वांछितान्कामांस्त्रैलोक्ये विजयी भवेत् ॥३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतविनायकमाहात्म्यवर्णनंनामैकोनत्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३२९ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 330

॥ ईश्वर उवाच ॥ ॥

तस्मात्तदुन्नतस्थानादुत्तरे योजनत्रयात् ॥

तत्र तप्तोदकस्वामी तलो यत्र हतः पुरा ॥ १ ॥

दैत्यानामधिपो देवि विष्णुना प्रभविष्णुना ॥

कृत्वा वर्षशतं युद्धं तलस्वामी ततोऽभवत् ॥ २ ॥

तप्तकुण्डे नरः स्नात्वा तलस्वामिनमर्चयेत् ॥

हृत्वा पिंडप्रदानं तु कोटियात्राफलं लभेत् ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये तलस्वामिमाहात्म्यवर्णनंनाम त्रिंशदुत्तरत्रिश ततमोऽध्यायः ॥ ३३० ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 331

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि कालमेघेति विश्रुतम् ॥

तस्मात्तं पूर्वदिग्भागे क्षेत्रपं लिंगरूपिणम् ॥ १ ॥

अष्टम्यां वा चतुर्द्दश्यां पूज्योऽसौ बलिभिर्नरैः ॥

वांछितार्थप्रदः सम्यक्स कलौ कल्पपादपः ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कालमेघमाहात्म्यवर्णनंनामैकत्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३१ ॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 332

॥ ईश्वर उवाच ॥ ॥

तस्माद्दक्षिणदिग्भागे धनुषां पंचभिः प्रिये ॥

तत्र तप्तोदकुंडानि संत्यद्यापि वरानने ॥ १ ॥

कुण्डतः पूर्वदिग्भागे धनुषां पञ्चविंशतौ ॥

रुक्मिणी संस्थिता देवी सर्वपातकनाशिनी ॥ २॥

स्नात्वा तप्तोदके कुण्डे कोटिहत्याविनाशने॥

ततः संपूजयेद्देवीं रुक्मिणीं रुक्मदायिनीम् ॥

सप्त जन्मानि नारीणां गृहभंगो न जायते ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये रुक्मिणीमाहात्म्यवर्णनंनाम द्वात्रिंशदुत्तरत्रिशततमोऽध्याय ॥ ३३२ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 333

॥ ईश्वर उवाच ॥ ॥

बलभद्राच्च पूर्वेण स्थिता चासीत्सरिद्वरा ॥

दुर्वासेश्वरनामेति बललिंगं प्रतिष्ठितम् ॥ १ ॥

सर्वपापप्रशमनं दृष्टं सर्वसुखावहम्॥

स्नात्वा चास्य त्वमावास्यां पिंडदानं ददाति यः ॥ २ ॥

कल्पकोटिशतं साग्रं पितॄणां तृप्तिमावहेत् ॥

दुर्वासेश्वरनामानं तत्र पूज्य विधानतः ॥ ३ ॥

कोटियज्ञफलं प्राप्य सर्वान्कामा नवाप्नुयात्॥

तत्र लिंगान्यनेकानि ऋषिभिः स्थापितानि तु ॥ ४ ॥

दृष्ट्वा स्पृष्ट्वा पूजयित्वा मुक्तः स्यात्सर्वकिल्बिषैः ॥

इत्येतत्कथितं देवि क्षेत्राद्यं तं यथाक्रमम् ॥ ५ ॥

भद्रायाः पश्चिमात्पूर्वं यथानुक्रममादितः ॥

श्रुतं पापोपशमनं कोटियज्ञफलप्रदम् ॥ ६ ॥

अथ क्षेत्रस्य परिधिस्थानं मधुमतीति च ॥

तस्मान्नैर्ऋत्यदिग्भागे स्थानं खंडघटेति च ॥ ७ ॥

तत्र पिंगेश्वरो देवः समुद्रतटसन्निधौ ॥

कूपानां सप्तकं तत्र पितॄणां यत्र पाणयः ॥

दृश्यंतेऽद्यापि देवेशि यत्र पर्वणिपर्वणि ॥ ८ ॥

तत्र श्राद्धं नरः कृत्वा गयाकोटिगुणं फलम् ॥

लभते नाऽत्र सन्देहः सोमामा यदि जायते ॥ ९ ॥

तत्रैव नातिदूरे तु भद्रायाः संगमः स्मृतः ॥

पश्चिमात्संगमात्पूर्वः संगमः समुदाहृतः ॥ 7.1.333.१० ॥

यत्पुण्यं लभते देवि पूर्व पश्चिमसंगमे ॥

गंगासागरयोस्तत्र तद्भद्रासंगमे लभेत् ॥ ११ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तप्तोदकस्वामिमाहात्म्ये मधुमत्यां पिंगेश्वरभद्रामाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३३ ॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 334

॥ ईश्वर उवाच ॥ ॥

भगवन्देवदेवेश संसारार्णवतारक ॥ पृच्छामि त्वामहं भक्त्या किञ्चित्कौतूहलात्पुनः ॥ १ ॥

यत्त्वया कथितं देव तलस्वामिमहोदयम् ॥

किं तत्र कारणं देव तलो येन निपातितः ॥ २ ॥

कोऽसौ तलः समाख्यातः किंवीर्यः किंपरायणः ॥

कस्मात्स्थानात्समुत्पन्नः कथं जातश्च मे वद ॥ ३ ॥

॥ ईश्वर उवाच ॥ ॥

शृणु देवि प्रवक्ष्यामि रहस्यं पापनाशनम् ॥

यन्न कस्यचिदाख्यातं तत्ते वक्ष्याम्य शेषतः ॥ ४ ॥

देवा अपि न जानंति तलसोत्पत्तिकारणम् ॥

पूर्वं कृतयुगे देवि गोविन्देति प्रकीर्तितः ॥ ५ ॥

त्रेतायां वामनः स्वामी स्तुतिस्वामी तृतीयके ॥

कलौ युगे महादेवि तलस्वामी प्रकीर्तितः ॥ ६ ॥

तथा तप्तोदकस्वामी तस्य नामांतरं प्रिये ॥

अधुना संप्रवक्ष्यामि तलोत्पत्तिं तव प्रिये ॥ ७ ॥

आसीन्महेन्द्रनामा च दानवो रौद्ररूपधृक् ॥

कोटिवर्षाणि तेनैव तपस्तप्तं पुरा प्रिये ॥ ८ ॥

स तपोबलमाविष्टो जिग्ये देवान्सवासवान् ॥

जित्वा देवांस्ततः सर्वांस्ततः काले समागतः ॥ ९ ॥

युद्धं स प्रार्थयामास मया सार्द्धं सुभीषणम् ॥

ततोऽभवन्महायुद्धं ब्रह्माण्डक्षयकारकम् ॥ 7.1.334.१० ॥

ततः कोपान्महायुद्धे मम देहाद्वरानने ॥

ज्वाला तत्र समुत्पन्ना तन्मध्ये स तलोऽभवत् ॥ ११ ॥

तेन दृष्टो महेन्द्रोऽसौ गर्जन्गिरिगुहाश्रयः ॥ १२ ॥

कथं गर्जसि हे मूढ युद्धं कुरु मया सह ॥

इत्युक्ते तत्र देवेशि तेन युद्धमवर्तत ॥ १३ ॥

तत्र प्रवर्त्तिते युद्धे तलमाहेन्द्रयोस्तयोः ॥ १४ ॥

रुद्रवीर्यस्य युक्तेन तलेनोदारकर्मणा ॥

मल्लयुद्धेन बलिना महेन्द्रो विनिपातितः ॥ १५ ॥

ततस्तं पतितं दृष्ट्वा विस्मयं स तलो गतः ॥

गतप्राणं तदा ज्ञात्वा हर्षान्नृत्यमथाकरोत् ॥ १६ ॥

तस्मिन्संनृत्यमाने तु सर्वे स्थावरजंगमम् ॥

चकंपे तु वरारोहे प्रभावात्तस्य वीर्यतः ॥ १७ ॥

ततो भारभराकान्ता धरणी तलपीडिता ॥

अतीवभयसंत्रस्ताः सदेवासुरमानुषाः ॥ १८ ॥

क्षुभिता गिरयः सर्वे विद्रुताश्च महार्णवाः॥

तरवो निधनं जग्मुर्नद्यो वाहांश्च तत्यजुः॥१९॥

गतप्रभावाः सूर्याद्या ज्योतींषि न विरेजिरे॥

त्रैलोक्यं व्याकुलीभूतं तलनृत्यप्रभावतः ॥ 7.1.334.२० ॥

ततो देवगणाः सर्वे शरणं रुद्रमाययुः ॥

वृत्तं यथावत्कथितं ततो रुद्र उवाच तान् ॥२१॥

अवध्यो मे तलो देवाः पुत्रत्वे हि प्रतिष्ठितः ॥

एवमुक्त्वा हृषीकेशं प्रभासक्षेत्रवासिनम् ॥ २२ ॥

स्तुतिस्वामीतिनामानं स्थितं दुर्वाससः पुरः ॥

प्रभासक्षेत्रसामीप्ये पूर्वभागे प्रतिष्ठितम् ॥ २३ ॥

तप्तोदकुंडसामीप्ये तत्र गच्छत भोः सुराः ॥

कल्पेकल्पे तु तेनैव विध्यतेऽसौ हि दानवः ॥ २४ ॥

एवमुक्ते तदा देवाः प्रभासं क्षेत्रमागताः ॥

तत्र ते विबुधा जग्मुर्यत्र तप्तोदकाधिपः ॥ २५ ॥

दृष्ट्वा नारायणं तत्र देवाः श्रद्धासमन्विताः ॥

तुष्टुवुः परया भक्त्या देवदेवं जनार्द्दनम्॥ २६ ॥

वैकुंठ त्राहि नो देवांस्तलेनोच्चाटिता वयम् ॥

महेन्द्रक्रोधसंभूतरुद्रतेजोद्भवेन वै ॥ २७ ॥

अस्माभी रुद्रसामीप्ये कार्यं सर्वं निवेदितम् ॥

ततः प्रस्थापिताः सर्वे रुद्रेण परमेष्ठिना ॥

तव पार्श्वे महादेव नस्त्वं देव गतिर्भव ॥ २८ ॥

इति श्रुत्वा वचस्तेषां देवदेवो जनार्द्दनः ॥

दानवस्यवधार्थाय देवानां रक्षणाय च ॥

चक्रे यत्नं महाबाहुः प्रभासक्षेत्रवल्लभः ॥ २९ ॥

समाहूय तदा दैत्यं प्रभासक्षेत्रमध्यतः ॥

युद्धं चक्रे ततो देवि विश्वप्रलयकारकम् ॥7.1.334.३० ॥

ततस्तु देवाः सर्वे च स्वसैन्यपरिवारिताः ॥

चक्रुर्युद्धं च दैत्येन सुमहल्लोमहर्षणम् ॥ ३१ ॥

ततः पर्वतसंकाशं दृष्ट्वा दैत्यं महाबलम् ॥

उवाच चपलापांगो गरुडकृतवाहनः ॥ ३२ ॥

अहो दैत्य महाबाहो मल्लयुद्धं ददस्व मे ॥

त्वद्बाहुयुगलं दृष्ट्वा न युद्धे वांछितं मम ॥ ३३ ॥

नारायणवचः श्रुत्वा करमुद्यम्य दानवः ॥

अभ्यधावत्तदा दैत्यः कालान्तकसमप्रभः ॥ ३४ ॥

ततः प्रवर्तितं युद्धमन्योन्यं जयकांक्षिणोः ॥

जंघाभ्यां पादबन्धेन बाहुभ्यां बाहुबंधनम् ॥ ३५ ॥

कंठेन बन्धयन्कंठमुदरेणोदरं तथा ॥ एतस्मिन्नन्तरे देवाः सभयाः संबभूविरे ॥ ३६ ॥

ततः पीडासमाक्रांतो विष्णुः संस्मरते हरम् ॥

तत्क्षणादागतो रुद्रः किं करोमि महाबलः ॥ ३७ ॥ ॥

॥ विष्णुरुवाच ॥ ॥

श्रांतोऽहं देवदेवेश मल्लयुद्धेन शंकर ॥

तप्तोदकं कुरुष्वेह श्रमनाशाय सांप्रतम् ॥ ३८ ॥

ततस्तलं हनिष्यामि क्षण मात्रेण भैरवम् ॥ ३९ ॥

॥ ईश्वर उवाच ॥ ॥

आदौ कृतयुगे कृष्ण उमया यत्कृतं पुरा ॥

ऋषीणां श्रमनाशार्थं तप्तोदं तत्र निर्मितम् ॥ 7.1.334.४० ॥

तद्दैत्यपापमाहात्म्यात्पुनः शीतलतां गतम् ॥

पुनस्तदुष्णतां नीतं ततः कल्पांतसंस्थितौ ॥ ४१ ॥

एवमुक्त्वा तदा देवं वीक्षांचक्रे महेश्वरः ॥

तृतीय लोचनेनैव ज्वालामालोपशोभिना ॥ ४२ ॥

तेन ज्वालासमूहेन व्याप्तं कुण्डं चतुर्दिशम् ॥

तप्तोदकुण्डमभवत्तेन ख्यातं धरातले ॥ ४३ ॥

ततो नारायणेनेह क्षालितं गात्रसुत्तमम्॥

क्षालनात्तस्य देवस्य श्रमो नाशमुपागमत् ॥ ४४ ॥

ततस्तुष्टमना देवस्तीर्थानां दशकोटिकाः ॥

स स्मृत्वा तत्र विधिवत्क्षिप्त्वा स्नात्वा वरानने ॥ ४५ ॥

ततश्चक्रे महायुद्धं तलेनातिभयंकरम् ॥

जघान स तलं दैत्यं मुष्टिघातेन मस्तके ॥ ४६ ॥

तस्मिन्प्रवृत्ते तुमुले तु युद्धे चकंपिरे भूभिसमेतलोकाः ॥

वित्रस्तदेवा न दिशो विरेजुर्महांधकारावृतमूर्छितं जगत् ॥ ४७ ॥

नष्टाश्च सिद्धा जगतोऽस्य शांतिं करोतु वै पापविनाशनो हरिः ॥

त्राहीति देवेशि महर्षिसंघा भूतानि भीतानि तथा वदन्ति ॥४८॥

ततो वै मल्लयुद्धेन पातितो भुवि दानवः॥

कंठमाक्रम्य पादेन खङ्गेन परिपीडितः ॥ ४९ ॥

हास्यं चकार दैत्योऽथ विष्णुनाऽऽक्रांतकंधरः ॥

तमाह पुण्डरीकाक्ष किमेतद्धास्यकारणम् ॥7.1.334.५०॥

वृद्धौ हर्षमवाप्नोति क्षये भवति दुःखितः ॥

इत्येषा लौकिकी गाथा तत्ते दैत्य विपर्ययः ॥५१॥

इत्युक्तस्तु तदा दैत्यः प्रत्युवाच जनार्द्दनम् ॥

अग्निष्टोमादिभिर्यज्ञैवेदाभ्यासैरनेकधा ॥ ५२ ॥

नित्योपवासनियमैः स्नानदानैर्जपादिभिः ॥

निर्मलैर्योगयुक्तैश्च प्राप्यते यत्परं पदम् ॥ ५३ ॥

तन्मया दुष्टभावेन प्राप्तं विष्णोः परं पदम् ॥

इत्युक्ते भगवान्विष्णुर्वरदानपरोऽभवत् ॥ ५४ ॥

उवाच परमं वाक्यं तलं दैत्याधिनायकम् ॥

वरं वरय दैत्येंद्र यत्ते मनसि संस्थितम् ॥ ५५ ॥

इति विष्णोर्वचः श्रुत्वा प्रार्थयामास दानवः ॥

ममाख्या वर्त्तते लोके तथा कुरु महीधर ॥ ५६ ॥

मार्गमासे तु शुक्लायामेकादश्यां समाहितः ॥

यस्त्वां पश्यति भावेन तस्य पापं विनश्यतु ॥ ५७ ॥

एवं भविष्यतीत्युक्त्वा देवो हर्षमुपागतः ॥

नानादुंदुभयो नेदुः पुष्पवर्षं पपात च ॥ ५८ ॥

विष्णोर्मूर्ध्नि महाभागे लोकाः स्वस्था बभूविरे ॥

ततो देवगणाः सर्वे नृत्यंति च मुदान्विताः ॥

वदंति हर्षसंयुक्ता नारायणपरायणाः ॥ ५९ ॥

एतत्तीर्थं महातीर्थं सर्वपापप्रणाशनम् ॥

श्रमापनोदनं विष्णोर्ब्रह्महत्यादिशोधनम् ॥7.1.334.६०॥

स्थितो नारायणस्तत्र भैरवस्तत्र शंकरः ॥

क्षेत्रपालस्वरूपेण कालमेघेति विश्रुतः ॥ ६१ ॥

तस्य यात्राविधिं वक्ष्ये गत्वा तत्र शुचिर्नरः ॥

स्मरेद्विष्णुं महादेवि तलस्वामीति यः श्रुतः ॥ ६२ ॥

स्तुयाद्विष्णुं महादेवि इदं विष्णुऋचा प्रिये ॥

सहस्रशीर्षामंत्रेण तर्पणादि प्रकारयेत् ॥ ६३ ॥

एवं स्नात्वा विधानेन दत्त्वा चार्घ्यं जनार्द्दने ॥

संपूज्य गंधपुष्पैश्च वस्त्रैः पुष्पानुलेपनैः ॥ ६४ ॥

मधुनेक्षुरसेनैव कुंकुमेन विलेपयेत् ॥

कर्पूरोशीरमिश्रेण मृगनाभियुतेन च ॥ ६५ ॥

वस्त्रैः संवेष्टयेत्पश्चाद्दद्यान्नैवेद्यमुत्तमम् ॥

धर्मश्रवणसंयुक्तं कार्यं जागरणं ततः ॥ ६६ ॥

वृषभस्तत्र दातव्यः सुवर्णं वस्त्रयुग्मकम् ॥ ।

विप्राय वेदयुक्ताय श्रोत्रियाय प्रदापयेत् ॥ ६७ ॥

उपवासं ततः कुर्यात्तस्मिन्नहनि भामिनि ॥

रुक्मिणीं च प्रपश्येत नमस्कृत्य जनार्द्दनम् ॥ ६८ ॥

एवं कृत्वा नरो भक्त्या लभते जन्मजं फलम् ॥

सर्वेषामेव यज्ञानां दानानां लभते फलम् ॥ ६९ ॥

तथा च सर्वतीर्थानां व्रतानां लभते फलम् ॥

उद्धरेत्तु पितुर्वर्गं मातृवर्गं तथैव च ॥ 7.1.334.७० ॥

जन्मप्रभृतिपापानां कृतानां नाशनं भवेत् ॥

न दुःखं च न दारिद्र्यं दुर्भगत्वं न जायते ॥ ७१ ॥

सप्त जन्मांतरं यावत्तलस्वामिप्रदर्शनात् ॥

सुवर्णानां सहस्रेण ब्राह्मणे वेदपारगे ॥

दत्तेन यत्फलं देवि तत्कुण्डे स्नानतो लभेत् ॥ ७२ ॥

एवं तलस्वामिचरित्रमुत्तमं श्रुतं पुरा सिद्धमहर्षिसंघैः ॥

श्रुत्वा प्रभावं तलदेवसन्निधौ प्राप्नोति सर्वं मनसा यदीप्सितम् ॥ ७३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तलस्वामिमाहात्म्यवर्णनंनाम चतुस्त्रिंशदुत्तरत्रिशततमो ऽध्यायः ॥ ३३४ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 335

॥ ईश्वर उवाच ॥ ॥

ततः पश्चिमतो गच्छेन्न्यंकुमत्यास्तटे शुभे ॥

दक्षिणां दिशमाश्रित्य स्थितं तीर्थं महाप्रभम् ॥ १ ॥

शंखावर्त्तमितिख्यातं यत्र चित्रांकिता शिला ॥

स्वयंभूता महादेवि रक्तगर्भा सुशोभना ॥ २ ॥

छिन्ने त्वद्यापि तत्रैव सुरक्तं संप्रदृश्यते ॥

विष्णुक्षेत्रं हि तत्प्रोक्तं शंखो यत्र हतः पुरा ॥ ३ ॥

वेदापहारी देवेशि विष्णुना प्रभविष्णुना ॥

कृतं शखोदकं तीर्थं शंखाकारं तु दृश्यते ॥ ४ ॥

तत्र स्नात्वा नरो देवि मुच्यते ब्रह्महत्यया ॥

सप्त जन्मानि विप्रत्वं शूद्रस्यापि प्रजा यते ॥ ५ ॥

पूर्वं तत्रैव गत्वा च ततो रुद्रगयां व्रजेत् ॥

गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः ॥ ६ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंखावर्त्ततीर्थमाहात्म्यवर्णनंनाम पञ्चत्रिंशदुत्तरत्रिशत तमोऽध्यायः ॥ ३३५ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 336

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि गोष्पदं तीर्थमुत्तमम् ॥

यत्र श्राद्धं नरः कृत्वा गयासप्तगुणं फलम्॥

लभते नात्र संदेहो यदि श्रद्धा दृढा भवेत् ॥ १ ॥

यत्र श्राद्धं पृथुः कृत्वा पितरं पापयोनितः ॥ उद्दधार महादेवि वेनंनाम महाप्रभुम् ॥ ॥ २ ॥

॥ देव्युवाच ॥ ॥

कस्मिन्स्थाने स्थितं तीर्थमुत्पत्तिस्तस्य कीदृशी ॥

कथं स वेनराजो वा उद्धृतः पापयोनितः ॥ ३ ॥

गयासप्तगुणं पुण्यं कथं तत्र प्रजायते ॥

श्राद्धस्य किं विधानं तु के मंत्रास्तत्र के द्विजाः ॥

एतन्मे कौतुकं देव यथावद्वक्तुमर्हसि ॥ ४ ॥

॥ ईश्वर उवाच ॥ ॥

इदं रहस्यं देवेशि यत्त्वया परिपृच्छितम्॥

अप्रकाश्यमिदं तीर्थमस्मिन्पापयुगे प्रिये ॥ ५ ॥

तथापि संप्रवक्ष्यामि तव स्नेहात्सुरेश्वरि ॥

न पापिन इदं ब्रूयान्नैव तर्करताय वै ॥ ६ ॥

न नास्तिकाय देवेशि न सुवर्णेतराय च ॥

अस्ति देवि महासिद्धा पुण्या न्यंकुमती नदी ॥ ७ ॥

मर्यादार्थं मयाऽऽनीता क्षेत्रस्यास्य महेश्वरि॥

संस्थिता पापशमनी पर्णादित्याच्च दक्षिणे॥ ८ ॥

नारायणगृहात्सौम्ये नातिदूरे व्यवस्थिता॥

तस्या मध्ये महादेवि तीर्थं त्रैलोक्यविश्रुतम् ॥ ९ ॥

गोष्पदं नाम विख्यातं कोटिपापहरं नृणाम्॥

गोष्पदस्य समीपे तु नातिदूरे व्यवस्थितः ॥ 7.1.336.१० ॥

अनन्तो नाम नागेन्द्रः स्वयंभूतो धरातले ॥

तस्य तीर्थस्य रक्षार्थं विष्णुना सन्नियोजितः ॥ ११ ॥

कांक्षंति पितरः पुत्रान्नरकादतिभीरवः ॥

गंता यो गोष्पदे पुत्रः स नस्त्राता भविष्यति ॥

गोष्पदे च सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् ॥ १२ ॥

पद्भ्यामपि जलं स्पृष्ट्वा अस्मभ्यं किं न दास्यति ॥

अपि स्यात्स कुलेऽस्माकं यो नो दद्याज्जलांजलिम् ॥

प्रभासक्षेत्रमासाद्य गोष्पदे तीर्थ उत्तमे ॥ १३ ॥

अपि स्यात्स कुलेऽस्माकं खड्गमांसेन यः सकृत् ॥

श्राद्धं कुर्यात्प्रयत्नेन कालशाकेन वा पुनः ॥ १४ ॥

अपि स्यात्स कुलेऽस्माकं गोष्पदे दत्तदीपकः ॥

आकल्पकालिका दीप्तिस्तेनाऽस्माकं भविष्यति ॥ १५ ॥

गोष्पदे चान्नशता यः पितरस्तेन पुत्रिणः ॥

दिनमेकमपि स्थित्वा पुनात्यासप्तमं कुलम् ॥ ॥ १६ ॥

पिण्डं दद्याच्च पित्रादेरात्मनोऽपि स्वयं नरः ॥

पिण्याकेंगुदकेनापि तेन मुच्येद्वरानने ॥ १७ ॥

ब्रह्मज्ञानेन किं योगैर्गोग्रहे मरणेन किम् ॥

किं कुरुक्षेत्रवासेन गोष्पदे यदि गच्छति ॥ १८ ॥

सकृत्तीर्थाभिगमनं सकृत्पिण्डप्रपातनम् ॥

दुर्ल्लभं किं पुनर्नित्यमस्मिंस्तीर्थे व्यवस्थितम्॥ १९ ॥

अर्द्धकोशं तु तत्तीर्थं तदर्द्धार्द्धं तु दुर्ल्लभम् ॥

तन्मध्ये श्राद्धकृत्पुण्यं गयासप्तगुणं लभेत् ॥ 7.1.336.२० ॥

श्राद्धकृद्गोष्पदे यस्तु पितॄणामनृणो हि सः ॥

पदमध्ये विशेषेण कुलानां शतमुद्धरेत् ॥ २१ ॥

गृहाच्चलितमात्रस्य गोष्पदे गमनं प्रति ॥

स्वर्गारोहणसोपानं पितॄणां तु पदेपदे ॥ २२ ॥

पायसेनैव मधुना सक्तुना पिष्टकेन च ॥

चरुणा तंदुलाद्यैर्वा पिंडदानं विधीयते ॥ २३ ॥

गोप्रचारे तु यः पिण्डा ञ्छमीपत्रप्रमाणतः ॥

कन्दमूलफलाद्यैर्वा दत्त्वा स्वर्गं नयेत्पितॄन् ॥ २४ ॥

गोष्पदे पिण्डदानेन यत्फलं लभते नरः ॥

न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि ॥ २५ ॥

अथातः संप्रवक्ष्यामि सम्यग्यात्राविधिं शुभम् ॥

यात्राविधानं च तथा सम्यक्छ्रद्धान्विता शृणु ॥ ॥ २६ ॥

यदि तीर्थं नरो गच्छेद्गयाश्राद्धफलेप्सया ॥

तथाविधविधानेन यात्रा कुर्याद्विचक्षणः ॥ २७ ॥

ब्रह्मचारी शुचिर्भूत्वा हस्तपादेषु संयतः ॥

श्रद्धावानास्तिको भावी गच्छेत्तीर्थं ततः सुधीः ॥ २८ ॥

न नास्तिकस्य संसर्गं तस्मिंस्तीर्थे नरश्चरेत् ॥

सर्वोपस्करसंयुक्तः श्राद्धार्ह द्रव्यसंयुतः ॥

गच्छेत्तीर्थं साधुसंगी गयां मनसि मानयन् ॥ २९ ॥

एवं यस्तु द्विजो गच्छेत्प्रतिग्रहविवर्जितः ॥

पदेपदेऽश्वमेधस्य फलं प्राप्नोत्य संशयम्॥ 7.1.336.३० ॥

तत्र स्नात्वा न्यंकुमत्यां सिद्धये पितृमुक्तये ॥

स्नात्वाथ तर्प्पणं कुर्याद्देवादीनां यथाविधि ॥ ३१ ॥

ब्रह्मादिस्तंबपर्यंता देवर्षि मनुमानवाः ॥

तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥ ३२ ॥

एवं संतर्प्य विधिना कृत्वा होमादिकं नरः ॥

श्राद्धं सपिण्डकं कुर्यात्स्वतंत्रोक्तविधानतः ॥ ३३ ॥

आमन्त्र्य ब्राह्मणांस्तत्र शास्त्रजान्दोषवर्जितान् ॥

एवं कृतोपचारस्तु इमं मन्त्रमुदीरयेत् ॥ ३४ ॥

कव्यवाडनलः सोमो यमश्चैवार्यमा तथा ॥

अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः ॥

आगच्छन्तु महाभागा युष्माभी रक्षिता स्त्विह ॥ ३५ ॥

मदीयाः पितरो ये च कुले जाताः सनाभयः ॥

तेषां पिण्डप्रदाताऽहमागतोऽस्मिन्पितामहाः ॥ ३६ ॥

एवमुक्त्वा महादेवि इमं मन्त्रमुदीरयेत् ॥ ३७ ॥

पिता पितामहश्चैव तथैव प्रपितामहः ॥

माता पितामही चैव तथैव प्रपितामही ॥ ३८ ॥

मातामहः प्रमाता च तथा वृद्धप्रमातृकः ॥

तेषां पिंडो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥ ३९ ॥

ॐ नमो भानवे भर्त्रेऽब्जभौमसोमरू पिणे ॥

एवं नत्वाऽर्चयित्वा तु इमां स्तुतिमथो पठेत् ॥ 7.1.336.४० ॥

तत्र गोष्पदसामीप्ये चरुणा सुशृतेन च ॥

पितॄणामनाथानां च मंत्रैः पिंडांश्च निर्वपेत् ॥ ४१ ॥

अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ॥

रौरवे चांधतामिस्रे कालसूत्रे च ये गताः ॥

तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥ ॥ ४२ ॥

अनेकयातनासंस्थाः प्रेतलोकेषु ये गताः ॥

तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥ ४३ ॥

पशुयोनिगता ये च ये च कीटसरी सृपाः ॥

अथवा वृक्षयोनिस्थास्तेभ्यः पिंडं ददाम्यहम् ॥४४॥

असंख्या यातनासंस्था ये नीता यमशासकैः॥

तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥ ४५ ॥

येऽबांधवा बांधवा ये येऽन्यजन्मनि बांधवाः ॥

ते सर्वे तृप्तिमायांतु पिंडेनानेन सर्वदा ॥ ४६ ॥

ये केचित्प्रेतरूपेण वर्त्तंते पितरो मम ॥

ते सर्वे तृप्तिमायांतु पिंडेनानेन सर्वदा ॥ ४७ ॥

दिव्यांतरिक्षभूमिस्थपितरो बांधवादयः ॥

मृताश्चासंस्कृता ये च तेषां पिंडोस्तु मुक्तये ॥ ॥ ४८ ॥

पितृवंशे मृता ये च मातृवंशे तथैव च ॥

गुरुश्वशुरबंधूनां ये चान्ये बांधवा मृताः ॥ ४९ ॥

ये मे कुले लुप्तपिंडाः पुत्रदारविवर्जिताः ॥

क्रियालोपगता ये च जात्यंधाः पंगवस्तथा ॥ 7.1.336.५० ॥

विरूपा आमगर्भा येऽज्ञाता ज्ञाताः कुले मम ॥

तेषां पिंडो मया दत्तो ह्यक्षय्यमुपतिष्ठताम्॥ ॥५१॥

प्रेतत्वात्पितरो मुक्ता भवंतु मम शाश्वतम् ॥

यत्किंचिन्मधुसमिश्रं गोक्षीरं घृतपायसम् ॥५२॥

अक्षय्यमुपतिष्ठेत्त्वत्त्वस्मिंस्तीर्थे तु गोष्पदे॥

स्वाध्यायं श्रावयेत्तत्र पुराणान्यखिलान्यपि ॥ ५३ ॥

ब्रह्मविष्ण्वर्करुद्राणां स्तवानि विविधानि च॥

ऐंद्राणि सोमसूक्तानि पावमानीश्च शक्तितः ॥ ॥ ५४ ॥

बृहद्रथंतरं तद्वज्ज्येष्ठसाम सरौरवम्॥

तथैव शांतिकाध्यायं मधुब्राह्मणमेव च ॥५५॥

मंडलं ब्राह्मणं तत्र प्रीतकारि च यत्पुनः ॥

विप्राणामात्मनश्चैव तत्सर्वं समुदीरयेत्॥५६॥

एवं न्यंकुमतीमध्ये गोष्पदे तीर्थ उत्तमे ॥

दत्त्वा पिंडांश्च विधिवत्पुनर्मंत्रमिमं पठेत् ॥ ५७ ॥

साक्षिणः संतु मे देवा ब्रह्माद्या ऋषिपुंगवाः ॥

मयेदं तीर्थमासाद्य पितॄणां निष्कृतिः कृता ॥५८॥

आगतोऽस्मि इदं तीर्थं पितृकार्ये सुरोत्तमाः ॥

भवंतु साक्षिणः सर्वे मुक्तश्चाहमृणत्रयात्॥ ५९ ॥

एवं प्रदक्षिणीकृत्य गोष्पदं तीर्थमुत्तमम् ॥

विप्रेभ्यो दक्षिणां दत्त्वा नद्यां पिंडान्विसर्जयेत् ॥ 7.1.336.६० ॥

गोदानं तत्र देयं तु तद्वत्कृष्णाजिनं प्रिये ॥

अष्टकासु च वृद्धौ च गयायां मृतवासरे ॥ ६१ ॥

अत्र मातुः पृथक्छ्राद्धमन्यत्र पतिना सह ॥

वृद्धिश्राद्धे तु मात्रादि गयायां पितृपूर्वकम्॥ ६२ ॥

गयावदत्रैव पुनः श्राद्धं कार्यं नरोत्तमैः ॥

तस्माद्गुप्तगया प्रोक्ता इयं सा विष्णुना स्वयम् ॥ ६३ ॥

गंधदानेन गंधाप्तिः सौभाग्यं पुष्पदानतः ॥

धूपदानेन राज्याप्तिर्दीप्तिर्दीपप्रदानतः ॥ ६४ ॥

ध्वजदानात्पापहानिर्यात्राकृद्ब्रह्मलोकभाक् ॥

श्राद्धपिंडप्रदो लोके विष्णुर्नेष्यति वै पितॄन्॥ ६५ ॥

एकं यो भोजयेत्तत्र ब्राह्मणं शंसितव्रतम्॥

गोप्रचारे महातीर्थे कोटिर्भवतिभोजिता ॥ ६६ ॥

इति संक्षेपतः प्रोक्तस्तत्र श्राद्धविधिस्तव ॥

अथ ते कथयिष्यामि इतिहासं पुरातनम् ॥ ६७ ॥

वेनस्य राज्ञश्चरितं पृथोश्चैव महात्मनः ॥

यथा तत्राभवन्मुक्तिस्तस्य चांडालयोनितः ॥

तत्सर्वं शृणु देवेशि सम्यक्छ्रद्धासमान्विता ॥ ६८ ॥

पिशुनाय न पापाय नाशिष्यायाहिताय च ॥

कथनीयमिदं पुण्यं नाव्रताय कथंचन ॥ ६९ ॥

स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदेन संमितम् ॥

रहस्यमृषिभिः प्रोक्तं शृणुयाद्योऽनसूयकः ॥ 7.1.336.७० ॥

यश्चैनं श्रावयेन्मर्त्यः पृथो र्वैन्यस्य संभवम् ॥

ब्राह्मणेभ्यो नमस्कृत्वा न स शोचेत्कृताऽकृते ॥७१॥

गोप्ता धर्मस्य राजाऽसौ बभौ चात्रिसमप्रभः ॥

अत्रिवंशसमुत्पन्नो ह्यंगो नाम प्रजापतिः ॥ ७२ ॥

तस्य पुत्रोऽभवेद्वेनो नात्यर्थं धार्मिकस्तथा ॥

जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः॥७३ ॥

समातामह दोषेण तेन कालात्मकाननः ॥

स धर्मं पृष्ठतः कृत्वा पापबुद्धिरजायत ॥ ७४ ॥

स्थितिमुत्थापयामास धर्मोपेतां सनातनीम् ॥

वेदशास्त्राण्यतिक्रम्य ह्यधर्म निरतोऽभवत् ॥ ७५ ॥

निःस्वाध्यायवषट्काराः प्रजास्तस्मिन्प्रशासति ॥

डिंडिमं घोषयामास स राजा विषये स्वके ॥ ७६ ॥

न दातव्यं न यष्टव्यं मयि राज्यं प्रशासति ॥

आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥ ७७॥

अहमीड्यश्च पूज्यश्च सर्वयज्ञैर्द्विजोत्तमैः ॥

मयि यज्ञा विधातव्या मयि होतव्यमित्यपि ॥७८॥

तमतिक्रांतमर्यादं प्रजापीडनतत्परम् ॥

ऊचुर्महर्षयः क्रुद्धा मरीचिप्रमुखास्तदा ॥७९॥

माऽधर्मं वेन कार्षीस्त्वं नैष धर्मः सनातनः ॥

अत्रेर्वंशे प्रसूतोऽसि प्रजापतिरसंशयम् ॥ 7.1.336.८० ॥

पालयिष्ये प्रजाश्चेति पूर्वं ते समयः कृतः ॥

तांस्तथावादिनः सर्वान्ब्रह्मर्षीनब्रवीत्तदा ॥ ८१ ॥

वेनः प्रहस्य दुर्बुद्धिरिदं वचनकोविदः ॥

स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया ॥ ८२ ॥

वीर्यश्रुततपःसत्यैर्मयान्यः कः समो भुवि ॥

मदात्मानो न नूनं मां यूयं जानीथ तत्त्वतः ॥ ८३ ॥

प्रभवं सर्वलोकानां धर्माणां च विशेषतः॥

इत्थं देहेन पृथिवीं भावेन यजनेन च ॥ ८४ ॥

सृजेयं च ग्रसेयं च नात्र कार्या विचारणा ॥

यदा न शक्यते स्तंभान्मत्तश्चैव विमोहितः ॥ ८५ ॥

अनुनेतुं नृपो वेनस्तत्र क्रुद्धा महर्षयः ॥

आथर्वणेन मंत्रेण हत्वा तं ते महाबलम् ॥ ८६ ॥

ततोऽस्य वामबाहुं ते ममंथुर्भृशकोपिताः ॥

तस्माच्च मथ्यमानाद्वै जज्ञे पूर्वमिति श्रुतिः ॥ ८७ ॥

ह्रस्वोऽतिमात्रः पुरुषः कृष्णश्चापि तदा प्रिये ॥

स भीतः प्राञ्जलिश्चैव तस्थिवान्संमुखे प्रिये ॥ ८८ ॥

तमात्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन्किल ॥

निषादो वंशकर्ता वै तेनाभूत्पृथुविक्रमः ॥ ८९ ॥

धीवरानसृजच्चापि वेनपापसमुद्भवान् ॥

ये चान्ये विन्ध्यनिलयास्तथा वै तुंबराः खसाः ॥ 7.1.336.९० ॥

अधर्मे रुचयश्चापि वर्द्धिता वेनपापजाः ॥

पुनर्महर्षयस्तेथ पाणिं वेनस्य दक्षिणम् ॥९१॥

अरणीमिव संरब्धा ममंथुर्जात मन्यवः ॥

पृथुस्तस्मात्समुत्पन्नः कराज्ज्वलनसंनिभः ॥ ९२ ॥

पृथोः करतलाच्चापि यस्माजातस्ततः पृथुः ॥

दीप्यमानश्च वपुषा साक्षादग्निरिव ज्वलन् ॥ ९३ ॥

धनुराजगवं गृह्य शरांश्चाशीविषोपमान् ॥

खङ्गं च रक्षन्रक्षार्थं कवचं च महाप्रभम् ॥ ९४ ॥

तस्मिञ्जातेऽथ भूतानि संप्रहृष्टानि सर्वशः ॥

संबभूवुर्महादेवि वेनश्च त्रिदिवं गतः ॥ ९५ ॥

ततो नद्यः समुद्राश्च रत्नान्यादाय सर्वशः ॥

अभिषेकाय ते सर्वे राजानमुपतस्थिरे ॥ ॥ ९६ ॥

पितामहश्च भगवानृषिभिश्च सहामरैः ॥

स्थावराणि च भूतानि जंगमानि च सर्वशः ॥ ९७ ॥

समागम्य तदा वैन्यमभ्यषिंचन्नराधि पम् ॥

सोऽभिषिक्तो महातेजा देवैरंगिरसादिभिः ॥ ९८ ॥

अधिराज्ये महाभागः पृथुर्वैन्यः प्रतापवान् ॥

पित्रा न रंजिताश्चास्य प्रजा वैन्येन रंजिताः ॥ ९९ ॥

ततो राजेति नामास्य अनुरागादजायत ॥

आपः स्तस्तंभिरे चास्य समुद्रमभियास्यतः ॥ 7.1.336.१०० ॥

पर्वताश्चापि शीर्यंते ध्वजसंगोऽपि नाऽभवत् ॥

अकृष्टपच्या पृथिवी सिध्यंत्यन्नानि चिंतया ॥

सर्वकामदुघा गावः पुटकेपुटके मधु ॥ १०१ ॥

तस्मिन्नेव तदा काले पुन र्जज्ञेऽथ मागधः ॥

सामगेषु च गायत्सु स्रुग्भांडाद्वैश्वदेविकात् ॥ १०२ ॥

सामगेषु समुत्पन्नस्तस्मान्मगध उच्यते ॥

ऐंद्रेण हविषा चापि हविः पृक्तं बृहस्पतिः ॥ १०३ ॥

यदा जुहाव चेंद्राय ततस्ततो व्यजायत ॥

प्रमादस्तत्र संजज्ञे प्रायश्चित्तं च कर्मसु ॥ १०४ ॥

शेषहव्येन यत्पृक्तमभिभूतं गुरोर्हविः ॥

अधरोत्तरस्वारेण जज्ञे तद्वर्णवैकृतम् ॥१०५॥

यज्ञस्तस्यां समभवद्ब्राह्मण्यां क्षत्रयोनितः ॥

ततः पूर्वेण साधर्म्यात्तुल्यधर्माः प्रकीर्त्तिताः॥ ॥ १०६ ॥

मध्यमो ह्येष तत्त्वस्य धर्मः क्षत्रोपजीवनम् ॥

रथनागाश्वचरितं जघन्यं च चिकित्सितम् ॥ १०७ ॥

पृथोः कथार्थं तौ तत्र समा हूतौ महर्षिभिः ॥

तावूचुर्मुनयः सर्वे स्तूयतामिति पार्थिवः ॥ १०८ ॥

कर्मभिश्चानुरूपो हि यतोयं पृथिवीपतिः ॥

तानूचतुस्तदा सर्वानृषींश्च सूतमागधौ ॥ १०९ ॥

आवां देवानृषींश्चैव प्रीणयाव स्वकर्मभिः ॥

न चास्य विद्वो वै कर्म न तथा लक्षणं यश ॥ 7.1.336.११० ॥

स्तोत्रं येनास्य संकुर्वो राज्ञस्तेजस्विनो द्विजाः ॥

ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति ॥१११॥

यानि कर्माणि कृतवान्पृथुः पश्चान्महाबलः ॥

तानि गीतानि बद्धानि स्तुवद्भिः सूतमागधैः ॥ ११२ ॥

ततः श्रुतार्थः सुप्रीतः पृथुः प्रादात्प्रजेश्वरः ॥

अनूपदेशं सूताय मागधान्मागधाय च ॥ १ १३॥

तदादि पृथिवीपालाः स्तूयन्ते सूतमागधैः ॥

आशीर्वादैः प्रशंस्यंते सूतमागधबंदिभिः ॥ ११४ ॥

तं दृष्ट्वा परमं प्रीताः प्रजा ऊचुर्महर्षयः ॥

एष वो वृत्तिदो वैन्यो विहितोऽथ नराधिपः ॥ ११५ ॥

ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः ॥

त्वं नो वृत्तिविधातेति महर्षिवचनात्तथा ॥ ॥ ११६ ॥

सोऽभीहितः प्रजाभिस्तु प्रजाहितचिकीर्षया ॥

धनुर्गृहीत्वा बाणांश्च वसुधामार्दयद्बली ॥ ११७ ॥

ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ॥

तां धेनुं पृथुरादाय द्रवन्तीमन्वधावत ॥ ११८ ॥

सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा ॥

ददर्श चाग्रतो वैन्यं कार्मुकोद्यतपाणिनम् ॥ ११९ ॥

ज्वलद्भिर्विशिखैस्तीक्ष्णैर्दीप्ततेजःसमन्वितैः ॥

महायोगं महात्मानं दुर्द्धर्षममरैरपि ॥ 7.1.336.१२० ॥

अलभंती तु सा त्राणं वैन्यमेवाभ्यपद्यत ॥

कृतांजलिपुटा देवी पूज्या लोकैस्त्रिभिस्सदा ॥१२१॥

उवाच चैनं नाधर्म्यं स्त्रीवधं परिपश्यसि ॥

कथं धारयिता चासि प्रजा राजन्मया विना ॥ १२२ ॥

मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत् ॥

मदृते तु विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥ १२३ ॥

स मां नार्हसि हंतुं वै श्रेयश्चेत्त्वं चिकीर्षसि ॥

प्रजानां पृथिवीपाल शृणुष्वेदं वचो मम ॥१२४॥

उपायतः समारब्धाः सर्वे सिध्यंत्युपक्रमाः ॥

हत्वा मां त्वं न शक्तो वै प्रजाः पालयितुं नृप ॥ १२५ ॥

अनुकूला भविष्यामि त्यज कोपं महाद्युते ॥

अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिगता अपि ॥ ॥१२६॥

एकस्मिन्निधनं प्राप्ते पापिष्ठे क्रूरकर्मणि ॥

बहूनां भवति क्षेमस्तत्र पुण्यप्रदो वधः ॥

सत्येवं पृथिवीपाल धर्म्मं मा त्यक्तुमर्हसि ॥१२७॥

एवंविधं तु तद्वाक्यं श्रुत्वा राजा महाबलः ॥

क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥ १२८ ॥

एकस्यार्थे च यो हन्यादात्मनो वा परस्य वा ॥

एकं वापि बहून्वापि कामतश्चास्ति पातकम् ॥ १२९ ॥

यस्मिंस्तु निधनं प्राप्ता एधन्ते बहवः सुखम् ॥

तस्मिन्हते च भूयो हि पातकं नास्ति तस्य वै ॥ 7.1.336.१३० ॥

सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे ॥

यदि मे वचनं नाद्य करिष्यसि जगद्धितम् ॥ १३१ ॥

त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम्॥

आत्मानं पृथुकृत्वेह प्रजा धारयितास्म्यहम् ॥१३२॥

सा त्वं वचनमास्थाय मम धर्मभृतांवरे॥

सञ्जीवय प्रजा नित्यं शक्ता ह्यसि न संशयः ॥ १३३ ॥

दुहितृत्वं हि मे गच्छ एवमेतन्महच्छरम् ॥

नियच्छे त्वद्वधार्थं च प्रयुक्तं घोरदर्शनम् ॥

प्रत्युवाच ततो वैन्यमेवमुक्ता महासती ॥ १३४ ॥

सर्वमेतदहं राजन्विधास्यामि न संशयः ॥

वत्सं तु मम संयुक्ष्व क्षरेयं येन वत्सला ॥ १३५ ॥

समां च कुरु सर्वत्र मां त्वं सर्वभृतां वर ॥

यथा विस्यन्दमानाहं क्षीरं सर्वत्र भावये ॥१३६॥

॥ ईश्वर उवाच ॥ ॥

तत उत्सारयामास शिलाजालानि सर्वशः॥

धनुष्कोट्या ततो वैन्यस्तेन शैला विवर्द्धिताः ॥१३७॥

मन्वतरेष्वतीतेषु चैवमासीद्वसुन्धरा ॥

स्वभावेनाभवत्तस्याः समानि विषमाणि च ॥१३८॥

न हि पूर्वनिसर्गे वै विषमं पृथिवीतलम्॥

प्रविभागः पुराणां च ग्रामाणां चाथ विद्यते ॥ १३९ ॥

न सस्यानि न गोरक्षं न कृषिर्न वणिक्पथः ॥ 7.1.336.१४० ॥

चाक्षुषस्यांतरे पूर्वमासीदेतत्पुरा किल ॥

वैवस्वतेऽन्तरे चास्मिन्सर्वस्यैतस्य संभवः ॥

समत्वं यत्रयत्रासीद्भूमेः कस्मिंश्चिदेव हि॥१४१॥

तत्रतत्र प्रजास्ता वै निवसन्ति स्म सर्वदा ॥

आहारः फलमूलं तु प्रजानामभवत्किल ॥ १४२ ॥

कृच्छ्रेणैव तदा तासामित्येवमनुशुश्रुम ॥

वैन्यात्प्रभृतिलोकेऽस्मिन्सर्वस्यैतस्य संभवः ॥१४३॥

संकल्पयित्वा वत्सं तु चाक्षुषं मनुमीश्वरम् ॥

पृथुर्दुदोह सस्यानि स्वहस्ते पृथिवीं ततः ॥१४४॥

सस्यानि तेन दुग्धा वै वेन्येनेयं वसुन्धरा ॥

मनुं वै चाक्षुषं कृत्वा वत्सं पात्रे च भूमये ॥ १४५ ॥

तेनान्नेन तदा ता वै वर्त्तयन्ते सदा प्रजाः ॥

ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥१४६॥

वत्सः सोमस्ततस्तेषां दोग्धा चापि बृहस्पतिः ॥

पात्रमासन्हि च्छन्दांसि गायत्र्यादीनि सर्वशः ॥ १४७ ॥

क्षीरमासीत्तदा तेषां तपो ब्रह्म च शाश्वतम्॥

पुनस्ततो देवगणैः पुरंदरपुरोगमैः ॥ १४८ ॥

सौवर्णं पात्रमादाय दुग्धेयं श्रूयते मही ॥

वत्सस्तु मघवा चासीद्दोग्धा च सविताऽभवत् ॥ १४९ ॥

क्षीरमूर्जामधु प्रोक्तं वर्तंते तेन देवताः ॥

पितृभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥ ॥ 7.1.336.१५० ॥

राजतं पात्रमादाय स्वधा त्वक्षय्यतृप्तये ॥

वैवस्वतो यमस्त्वासीत्तेषां वत्सः प्रतापवान् ॥ १५१ ॥

अंतकश्चाभवद्दोग्धा पितृणां भगवा न्प्रभुः ॥

असुरैः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥ १५२ ॥

आयसं पात्रमादाय बलमाधाय सर्वशः ॥

विरोचनस्तु प्राह्लादिस्तेषां वत्सः प्रतापवान् ॥ १५३ ॥

ऋत्विग्द्विमूर्द्धा दैत्यानां दोग्धा तु दितिनन्दनः ॥

मायाक्षीरं दुदोहासौ दैत्यानां तृप्तिकारकम् ॥ १५४ ॥

तेनैते माययाऽद्यापि सर्वे मायाविदोऽसुराः ॥

वर्त्तयंति महावीर्यास्तदेतेषां परं बलम्॥ १५५ ॥

नागैश्च श्रूयते दुग्धा वत्सं कृत्वा तु तक्षकम् ॥

अलाबुपात्रमादाय विषं क्षीरं तदा महत् ॥ १५६ ॥

तेषां वै वासुकिर्दोग्धा काद्रवेयो महायशाः ॥

नागानां वै महादेवि सर्पाणां चैव सर्वशः ॥१५७॥

तेन वै वर्त्तयन्त्युग्रा महाकाया विषोल्बणाः ॥

तदाहारास्तदाचारास्तद्वीर्यास्तदपाश्रयाः ॥ १५८ ॥

आमपात्रे पुनर्दुग्धा त्वंतर्द्धानमियं मही ॥

वत्सं वैश्रवणं कृत्वा यक्षपुण्यजनैस्तथा ॥ १५९ ॥

दोग्धा रजतनागस्तु चिन्तामणिचरस्तु यः ॥

यक्षाधिपो महातेजा वशी ज्ञानी महातपाः ॥ 7.1.336.१६० ॥

तेन ते वर्त्तयं तीति यक्षा वसुभिरूर्जितैः ॥

राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा ॥ १६१ ॥

ब्रह्मोपेन्द्रस्तु दोग्धा वै तेषामासीत्कुबेरतः ॥

वत्सः सुमाली बलवान्क्षीरं रुधिरमेव च ॥१६२॥

कपालपात्रे निर्दुग्धा त्वंतर्द्धानं तु राक्षसैः ॥

तेन क्षीरेण रक्षांसि वर्त्तयन्तीह सर्वशः ॥१६३॥

पद्मपत्रेषु वै दुग्धा गंधर्वाप्सरसां गणैः ॥

वत्सं चैत्ररथं कृत्वा शुचिगन्धान्मही तदा ॥ १६४ ॥

तेषां वत्सो रुचिस्त्वासीद्दोग्धा पुत्रो मुनेः शुभः ॥

शैलैस्तु श्रूयते देवि पुनर्दुग्धा वसुंधरा ॥ १६५ ॥

तदौषधीर्मूर्तिमती रत्नानि विविधानि च ॥

वत्सस्तु हिमवांस्तेषां दोग्धा मेरुर्महागिरिः ॥ १६६ ॥

पात्रं शिलामयं ह्यासीत्तेन शैलाः प्रतिष्ठिताः ॥

श्रूयते वृक्षवीरुद्भिः पुनर्दुग्धा वसुन्धरा ॥ १६७ ॥

पालाशं पात्रमादाय च्छिन्नदग्धप्ररोहणम् ॥

दोग्धा तु पुष्पितः शालः प्लक्षो वत्सो यशस्विनि ॥

सर्वकामदुघा दोग्धा पृथिवी भूतभाविनी ॥ १६८ ॥

सैषा धात्री विधात्री च धरणी च वसुन्धरा ॥

दुग्धा हितार्थं लोकानां पृथुना इति नः श्रुतम् ॥ १६९ ॥

चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च ॥

आसीदियं समुद्रांता मेदिनीति परिश्रुता॥7.1.336.१७०॥

मधुकैटभयोः पूर्वं मेदोमांसपरिप्लुता ॥

वसुन्धारयते यस्माद्वसुधा तेन कीर्तिता ॥ १७१ ॥

ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य धीमतः ॥

दुहितृत्वमनुप्राप्ता पृथिवीत्युच्यते ततः ॥ १७२ ॥

प्रथिता प्रविभक्ता च शोभिता च वसुन्धरा ॥

दुग्धा हि यत्नतो राज्ञा पत्तनाकरमालिनी ॥ १७३ ॥

एवं प्रभावो राजासीद्वैन्यः स नृपसत्तमः ॥

ततः स रंजयामास धर्मेण पृथिवीं तदा ॥ १७४ ॥

ततो राजेति शब्दोऽथ पृथिव्यां रंजनादभूत् ॥

स राज्यं प्राप्य वैन्यस्तु चिंतयामास पार्थिवः ॥ १७५ ॥

पिता मम ह्यधर्मिष्ठो यज्ञाद्युच्छित्तिकारकः॥

कस्मिन्स्थाने गतश्चासौ ज्ञेयं स्थानं कथं मया ॥ १७६ ॥

कथं तस्य क्रिया कार्या हतस्य ब्राह्मणैः किल ॥

कथं गतिर्भवेत्तस्य यज्ञदानक्रियाबलात् ॥ १७७ ॥

इत्येव चिंतया तस्य नारदोभ्याजगाम ह ॥

तस्यैवमासनं दत्त्वा प्रणिपत्य च पृष्टवान् ॥ १७८ ॥

भगवन्सर्वलोकस्य जानासि त्वं शुभाशुभम् ॥

पिता मम दुराचारो देवब्राह्मणनिंदकः ॥ १७९ ॥

स्वकर्मणा हतो विप्रैः परलोकमवाप्तवान् ॥

कस्मिंस्थाने गतस्तातः श्वभ्रं वा स्वर्गमेव च ॥ 7.1.336.१८० ॥

ततोऽब्रवीन्नारदस्तु ज्ञात्वा दिव्येन चक्षुषा ॥

शृणु राजन्महाबाहो यत्र तिष्ठति ते पिता ॥ १८१ ॥

अत्र देशो मरुर्नाम जलवृक्षविवर्जितः ॥

तत्र देशे महारौद्रे जनकस्ते नरोत्तम ॥ १८२ ॥

म्लेच्छमध्ये समुत्पन्नो यक्ष्मी कुष्ठसमन्वितः ॥

उच्छिष्टभोजी म्लेच्छानां कृमिभिः संयुतो व्रणैः ॥ ॥ १८३ ॥

तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ॥

हाहाकारं ततः कृत्वा मूर्छितो निपपात ह ॥१८४ ॥

चिंतयामास दुःखार्तः कथं कार्यं मया भवेत् ॥

इत्येवं चिंतयानस्य मतिर्जाता महात्मनः ॥

पुत्रः स कथ्यते लोके पितरं त्रायते तु यः ॥ १८५ ॥

स कथं तु मया तातः पापान्मुक्तो भविष्यति ॥

एवं संचिंत्य स ततो नारदं पर्यपृच्छत ॥ १८६ ॥

भगवन्कथितं सर्वं पितुर्मम विचेष्टितम् ॥

केन तस्य भवेन्मुक्तिः कर्मणा द्विजसत्तम ॥

व्रतैर्दानैस्तपोभिर्वा तीर्थानां यात्रया वद ॥ १७७ ॥

॥ नारद उवाच ॥ ॥

गच्छ राजन्प्रधानानि तीर्थानि मनुजेश्वर ॥

पितरं तेषु चानीय तस्माद्राजन्मरुस्थलात् ॥ १८८ ॥

यत्र देवाः सप्रभावास्तीर्थानि विमलानि च ॥

तत्र गच्छ महाराज तीर्थयात्रां कुरु प्रभो ॥ १८९ ॥

एवं ह्यवितथं विद्धि मोक्षस्ते भविता पितुः ॥

तच्छ्रुत्वा वचनं राजा नारदस्य महात्मनः ॥

सचिवे भारमाधाय स्वराजस्य जगाम ह ॥ 7.1.336.१९० ॥

स गत्वा मरुभूमिं तु म्लेच्छमध्ये ददर्श ह ॥

कुष्ठरोगेण महता क्षयेण च समावृतम् ॥ १९१ ॥

गव्यूतिमात्रं तत्रैव शून्यं मानुषवर्जितम् ॥

एवं दृष्ट्वा स राजा तु संतप्तो वाक्यमब्रवीत् ॥ १९२ ॥

हे म्लेच्छ रोगिपुरुषं स्वगृहं च नयाम्यहम् ॥

तत्राहमेनं निरुजं करोमि यदि मन्यथ ॥ १९३ ॥

ज्ञात्वेति सर्वे ते म्लेच्छाः पुरुषं तं दयापरम् ॥

ऊचुः प्रणतसर्वांगाः शीघ्र नय जगत्पते ॥

अस्मद्भाग्यवशान्नाथ त्वमेवात्र समागतः ॥ १९४ ॥

दुर्गंधोपहता लोकास्त्वया नाथ सुखीकृताः ॥

तत आनाय्य पुरुषाञ्छिबिकावाहनोचितान् ॥ १९५ ॥

ततः श्रुत्वा तु वचनं तस्य राज्ञो दयावहम् ॥

प्रापुस्तीर्थान्यनेकानि केदारादीनि कोटिशः ॥ १९६ ॥

यत्रयत्र स गच्छेत वैन्यो वेनेन संयुतः ॥

तत्र तत्रैव तीर्थानामाक्रंदः श्रूयते महान्॥ ॥ १९७ ॥

हा दैव रिपुरायाति अस्माकं नाशहेतवे ॥

अधुना क्व गमिष्याम इति चिंता पुनःपुनः॥१९८॥

दर्शनेनापि तस्यैव हाहाकारं विधाय वै॥ ।

पलायंते च तीर्थानि देवा नश्यंति तत्क्षणात् ॥१९९॥

एवं वर्षत्रयं राजा तीर्थयात्रां चकार वै ॥

न तस्य मुक्तिर्ददृशे ततः शोकमगात्परम् ॥7.1.336.२००॥

ततस्तु प्रेरिता भृत्याः कुरुक्षेत्रे महाप्रभे ॥

यदि वापि पुनस्तत्र पापमुक्तिर्भवेत्ततः ॥ २०१ ॥

गृहीत्वा शिबिकां स्कन्धे कुरुक्षेत्रे गताः प्रिये ॥

तत्र नीत्वा स्थाणुतीर्थमवतार्य च ते गताः ॥ २०२ ॥

ततः स राजा मध्याह्ने चिकीर्षुः स्नानमादरात् ॥

तस्यैव तु पितुस्तत्र तथा दानानि षोडश ॥ २०३ ॥

ब्राह्मणेभ्यस्तथा दित्सुः श्रद्धावान्भावतत्परः ॥

ततो वायुश्चांतरिक्ष इदं वचनमब्रवीत् ॥ २०४ ॥

मा तात साहसं कुर्यास्तीर्थं रक्ष प्रयत्नतः ॥

अयं पापेन घोरेण समंतात्परिवेष्टितः ॥ २०५ ॥

वेदनिन्दासमाचारो ब्रह्महत्याशतैर्युतः ॥

सोऽयं पापो दुराचारस्तीर्थं नाशं नयिष्यति ॥ २०६ ॥

मा तीर्थं नाशय विभो महदेनो भविष्यति ॥

एतद्वायोर्वचः श्रुत्वा दुःखेन महतार्दितः ॥

उवाच शोकसंतप्तः पितुर्दुःखेन दुःखितः ॥ २०७ ॥

हा दैवेति च चुक्रोश ऊर्द्ध्वबाहुः पुनःपुनः ॥

एष घोरेण पापेन अतीव परिवेष्टितः ॥ २०८ ॥

यदनेनापि तीर्थेन शुद्धः कर्त्तुं न शक्यते ॥

प्रायश्चित्तं करिष्येऽहं पितुरर्थे न संशयः ॥ २०९ ॥

एवं तस्य वचः श्रुत्वा दयां कृत्वा महीयसीम् ॥

अन्तरिक्षभवां वाचं खेचराः पुनरब्रुवन् ॥ 7.1.336.२१० ॥

भोभो राजन्नृपश्रेष्ठ त्यक्त्वा शोकं वचः शृणु ॥

येन ते जनकस्यास्य भवेत्पापक्षयो महान् ॥ २११ ॥

अस्ति क्षेत्रं महासिद्धं प्रभासमिति विश्रुतम् ॥

सर्वपापप्रशमनं महापातकनाशनम् ॥ २१२ ॥

ब्रह्मतत्त्वं हरितत्त्वं रुद्रतत्त्वं तृतीयकम् ॥

तस्मिन्नेव महाक्षेत्रे प्रभासे शंकरप्रिये ॥ २१३ ॥

शाक्तेयं यदि वा चांद्रं सौरं सारस्वतं तथा ॥

आग्नेयं वारुणं चापि स्मृतं क्षेत्रमनुत्तमम् ॥ २१४ ॥

ब्रह्माण्डे यानि तीर्थानि पुरा क्षेत्राणि यानि तु ॥

प्रभासमागमिष्यन्ति संप्राप्ते तु कलौ युगे ॥ २१५ ॥

अष्टौ कोटिसहस्राणि अष्टौ कोटिशतानि च ॥

क्षेत्रं रक्षंति तत्रस्थाः प्रभासं शांकरा गणाः ॥ २१६ ॥

इयं सरस्वती पुण्या सर्वत्रैव हि विद्यते ॥

पञ्चस्रोताः प्रभासे तु दुष्प्राप्या त्रिदशैरपि ॥ २१७ ॥

तस्या यत्पञ्चमं स्रोतन्यंकुमत्यास्तटानि च ॥

तस्य मध्ये स्थितं तीर्थं गोष्पदेति च विश्रुतम् ॥ २१८ ॥

तत्र प्रेतशिला मध्ये प्रेतानां मुक्तिदायिका ॥

यत्र प्रेताः पुरा मुक्ता अष्टाविंशतिकोटयः ॥ २१९ ॥

पापिनां मुक्तिदं तीर्थमाद्या रुद्रगया स्मृता ॥

तदस्मिन्गोष्पदंनाम कलौ ख्यातं धरातले ॥ 7.1.336.२२० ॥

यदा क्षीरोदमथनान्निःसृता लोकमातरः ॥

तदा देवैः समेतास्तु आगतास्तीर्थसन्निधौ ॥ २२१ ॥

पदं तत्र निमग्नं च नन्दायाश्च शिलातले ॥

शिलां खुरांकितां दृष्ट्वा जानुदेशांकितां तथा ॥ २२२ ॥

विस्मिताः सर्वदेवा वै पप्रच्छुर्गां च नन्दिनीम् ॥

किमेतद्दृश्यते देवि पदं प्रेतशिलातले ॥

कथं तु खेदः सञ्जातश्चास्माकं स्खलनं कथम्॥ २२३ ॥

॥ नन्दिन्युवाच ॥ ॥

इदं मम पदं देवाः शिलासंस्थं विराजते ॥

गगनांगणभूमिस्थं चन्द्रबिंबमिवापरम्॥ २२४ ॥

अद्यप्रभृति भो देवास्त्रैलोक्ये सचराचरे ॥

गोष्पदंनाम विख्यातं लोके ख्यातिं गमिष्यति ॥ २२५ ॥

अत्रागत्य नरो यस्तु स्नानं श्राद्धं करिष्यति ॥

गयासप्तगुणंतस्य फलं देवा भविष्यति ॥ २२६ ॥

न वारो न च नक्षत्रं न कालस्तत्र कारणम्॥

यदैव दृश्यते तीर्थं तदा पर्वसहस्रकम् ॥ २२७ ॥

अथवा पर्वकांक्षा चेत्तानि मे शृणुपार्वति ॥

अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे ॥ २२८ ॥

अमावास्याष्टकायां च कृष्णपक्षे विशेषतः ॥

आर्द्रामघारोहिणीषु द्रव्यब्राह्मणसंगमे ॥ २२९ ॥

गजच्छाया व्यतीपाते वैधृते धृतचामरे ॥

वैशाखस्य तृतीयायां नवम्यां कार्तिकस्य तु ॥ 7.1.336.२३० ॥

पञ्चदश्यां च माघस्य नभस्ये च त्रयोदशीम् ॥

युगादयः स्मृता ह्येतास्तस्मिन्काले च वा पुनः ॥ २३१ ॥

मन्वन्तरादौ कार्यं च तत्र श्राद्धं विजानता ॥

आश्वयुक्छुक्लनवमी द्वादशी कार्तिके तथा ॥२३२॥

तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥

फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा ॥ २३३ ॥

आषाढस्यापि दशमी माघमासस्य सप्तमी ॥

श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा ॥ २३४ ॥

कार्तिकी फाल्गुनी चैव ज्यैष्ठी पञ्चदशी तथा ॥

मन्वन्तरादयश्चैता दत्तस्या क्षयकारिकाः ॥ २३५ ॥

वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च ॥

पञ्चमी चैत्रमासस्य तस्यैवांत्या तथा परा ॥ २३६ ॥

शुक्ला त्रयो दशी माघे कार्तिकस्य तु सप्तमी ॥

नवमी मार्गशीर्षस्य सप्तैताः कल्पकादिमाः ॥ २३७ ॥

कल्पतृप्तिर्भवेच्छ्राद्धे कल्पादौ तु कृते पुरा ॥

इत्येवमुक्त्वा सा नन्दा देवानां प्रतिनन्दिनी ॥

अन्तर्द्धानं जगामाशु दीपो वातहतो यथा ॥२३८॥

इतीदं कौतुकं दृष्ट्वा सर्वे देवाः सवासवाः ॥

ब्रह्मर्षयो देवर्षयः श्लोकं पौराणिकं जगुः ॥ २३९ ॥

अहो तीर्थस्य माहात्म्यं नन्दायास्तपसो बलम् ॥

सकृच्छ्राद्धेन दत्तेन गयासप्तगुणं फलम् ॥ 7.1.336.२४० ॥

एवमुक्त्वा ततोदेवाश्चक्रुः श्राद्धादिकां क्रियाम्॥

यथोक्तं फलमापुस्ते नंदिन्या पूर्वभाषितम् ॥ २४१ ॥

इत्थं त्वमपि राजेन्द्र गच्छ शीघ्रं हि गोष्पदम्॥

तत्र श्राद्धादिकं कृत्वा लप्स्यसे फलमीप्सितम् ॥ २४२ ॥

अयं ते जनको राजन्पापिनां प्रवरः स्मृतः ॥

नान्यैस्तीर्थशतैः शक्यः प्रोद्धर्तुं गोष्पदं विना ॥ २४३ ॥

तस्माद्व्रज महाराज मा कार्षीस्त्वं विलंबनम् ॥

एवं श्रुत्वा तदा राजा प्रभासं क्षेत्रमागतः ॥२४४॥

तत्र स्थानस्थितान्विप्रांस्तीर्थमाहात्म्यकोविदान्॥

अग्रेकृत्य महाराजो ययौ न्यंकुमतीं नदीम् ॥ २४५ ॥

तै राज्ञो दर्शितं तीर्थं पदं प्रेतशिलास्थितम् ॥

तद्दृष्ट्वा विमलं तीर्थं विस्मयोत्फुल्ललोचनः ॥

चक्रे कुण्डानि वेदीश्च मण्डपान्यज्ञसिद्धये ॥ २४६ ॥

ततो यज्ञः समारब्धो विधिवद्भूरिदक्षिणः ॥

प्रत्यक्षं पितर स्तस्य बभूवुर्ज्वलनप्रभाः ॥ २४७ ॥

ततः श्रद्धां समास्थाय श्राद्धैर्यज्ञैर्महोदयम् ॥

ते चाब्रुवन्वचस्तुष्टाः पितरो राजसत्तमम् ॥ २४८ ॥

धन्योऽसि राजन्पुण्योऽसि वयं धन्यतरास्त्वया ॥

यदत्र तीर्थे श्राद्धेन उद्धृता भवता वयम् ॥ २४९ ॥

एवमुक्त्वा ततः सर्वे वेनेन पितरः सह ॥

विमानवरसंस्थाश्च जग्मुस्ते त्रिदिवालयम् ॥ 7.1.336.२५० ॥

गच्छन्नुवाच वेनस्तं राजानं पृथुवक्षसम् ॥

राजञ्जन्मानि चत्वारि अभूवं चान्यजन्मनि ॥ २५१ ॥

कुष्ठी पापो दुराचारश्चांडालोच्छिष्टभुक्तथा ॥

सोऽहं पापविनिर्मुक्तो गच्छामि त्रिदिवालयम् ॥ २५२ ॥

तद्गच्छ त्वं महाभाग राज्यं भुंक्ष्व चिराय च ॥

कृतं ते सकलं कार्यं पुत्रेण क्रियते च यत् ॥ २५३ ॥

एवं श्रुत्वा तदा राजा मुमुदे ज्ञातिसंयुतः ॥

ब्राह्मणान्हर्षयामास दानैर्भूकांचनादिभिः ॥ २५४ ॥

न तदस्ति जगत्यस्मिंस्तत्र यन्न ददौ नृपः ॥

दृष्ट्वा प्रभावं तीर्थस्य प्रत्यक्षं पितृदर्शनम् ॥२५५॥

एवं राजा स कृत्वा तु स्वकीयं स्थान माययौ ॥

भुक्त्वा भूमिं तु सकलां प्रेत्य स्वर्गं समाप्तवान् ॥ २५६ ॥

एवं प्रभावं तत्क्षेत्रं प्रभासं पापनाशनम् ॥

यस्मिन्नायांति तीर्थानि देवास्तिष्ठंति कोटिशः ॥ २५७ ॥

प्रभासं क्षेत्रमासाद्य योन्यत्तीर्थं हि मार्गते ॥

स करस्थं समुत्सृज्य कूर्परेण समालिहेत् ॥ २५८ ॥

अब्रुवन्पितरश्चैनां गाथां पौराणिकीं प्रिये ॥

गयां गंतुं न शक्नोति यदि पुत्रः कथंचन ॥

तदा यत्नेन गंतव्यं गोष्पदं तीर्थमुत्तमम् ॥ २५९ ॥

कन्दैर्मूलैः फलैर्वापि पिण्याकेंगुदकेन वा ॥

अपि नः स कुले भूयाद्योऽत्र श्राद्धं प्रदास्यति ॥ 7.1.336.२६० ॥

तत्र स्नात्वा प्रयत्नेन ब्राह्मणान्वेदवित्तमान् ॥

आमंत्र्य विधिवच्छ्राद्धे भोजयित्वा प्रयत्नतः ॥

पिंडदानं तु कर्त्तव्यं पितृणां तृप्तिमिच्छताम् ॥२६१॥

न तिथिर्न च नक्षत्रं पर्व मासादिकं न हि ॥

सर्वदा तत्र गंतव्यं श्रद्धा युक्तेन चेतसा ॥ २६२ ॥

न कालनियमस्तत्र प्रमाणं दर्शनं यतः ॥

तत्राक्षयतृतीयायां दुर्ल्लभं गमनं प्रिये ॥ २६३ ॥

कार्त्तिक्यां माघसप्तम्यां पद्मके वाऽथ पर्वणि ॥२६४॥

हिरण्यदानं गोदानं वस्त्रं रूप्यं घृतं तिलाः ॥

दातव्यास्तत्र युक्तेन पितॄणां तृप्तिमिच्छता ॥ २६५ ॥

एवं ते कथितं देवि तीर्थगुह्यं महोदयम् ॥

न कथ्यं दुष्टबुद्धीनां पापिनां क्रूरचेतसाम् ॥२६६॥

श्रद्धायुक्ताय दातव्यं पितृभक्तिरताय च ॥

श्राद्धकाले विशेषेण पठे द्भक्त्या पुराणवित् ॥ २६७ ॥

पितॄणां जायते तृप्तिस्तेन द्वादशवार्षिकी ॥

श्रोतव्यं प्रयतैर्नित्यं नरैर्नरकभीरुभिः ॥

पठितव्यं सदा भक्त्या विप्राणां भुंजता पुरः ॥ २६८ ॥

पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ॥

श्राद्धं कृतं तेन समासहस्रं रहस्यमेतत्पितरो वदंति ॥२६९॥

इदं रहस्य यशसो निधानमिदं पितॄणामतिवल्लभं च ॥

इदं च वेदेष्वमृताय नित्यमिदं महापापहरं च पुंसाम् ॥ 7.1.336.२७० ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीनदीमाहात्म्ये गोष्पदतीर्थमाहात्म्यवर्णनंनाम षट्त्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३६ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 337

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि नारायणगृहं परम् ॥

गोष्पदाद्दक्षिणे भागे सागरस्य तटे शुभे ॥ १ ॥

न्यंकुमत्याः समीपे तु सर्वपातकनाशने ॥

तत्रकल्पांतरस्थायी स्वयं तिष्ठति केशवः ॥ २ ॥

पितॄणामुद्धरणार्थाय ह्यस्मिन्रौद्रे कलौ युगे ॥

यदा दैत्यविनाशं स कुरुते भगवान्हरिः ॥ ३ ॥

विश्रामार्थं तदा तत्र गृहे तिष्ठति नित्यशः ॥

नारायणगृहं तेन विख्यातं जगतीतले ॥ ४॥

कृते जनार्दनोनाम त्रेतायां मधुसूदनः ॥

द्वापरे पुण्डरीकाक्षः कलौ नारायणः स्मृतः ॥ ५ ॥

एवं चतुर्युगे प्राप्ते पुनःपुनररिन्दम ॥

कृत्वा धर्मव्यवस्थानं तत्स्थानं प्रतिपद्यते ॥ ६ ॥

एकादश्यां निराहारो यस्तं देवं प्रपश्यति ॥

स पश्यति ध्रुवं स्थाने प्रत्यानन्तं हरेः पदम् ॥ ७॥

तेन पीतानि वस्त्राणि देयानि द्विजपुंगवे ॥

स्नानं श्राद्धं च कर्तव्यं सम्यग्यात्राफलेप्सुभिः ॥ ८ ॥

इति ते कथितं महाप्रभावं हरिसंकेतनिकेतनोद्भवम् ॥

शृणुते वा प्रयतस्तु यः सुधीः पठते वा लभते स सद्गतिम् ॥ ९ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये नारायणगृहमाहात्म्यवर्णनंनाम सप्तत्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३७ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 338

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि देविकातटसंस्थितम् ॥

जालेश्वरेति विख्यातं सुरासुरनमस्कृतम् ॥ १ ॥

मन्वन्तरे चाक्षुषे च सम्प्राप्ते द्वापरे युगे ॥

नाम्ना जालेश्वरं लिंगं देविकातटसंस्थितम् ॥ २ ॥

पूज्यते नागकन्याभिर्न तत्पश्यंति मानवाः ॥

महा तेजोमणिमयं चंद्रबिंबसमप्रभम् ॥

स्मरणात्तस्य देवस्य ब्रह्महत्या प्रणश्यति ॥ ३ ॥

॥ देव्युवाच ॥ ॥

कथं जालेश्वरं नाम कस्मिन्काले बभूव तत् ॥ ४ ॥

साधुभिः सह संवासात्के गुणाः परिकीर्त्तिताः ॥

के लोकाः कानि पुण्यानि तत्सर्वं शंस मे प्रभो ॥ ५ ॥

॥ ईश्वर उवाच ॥ ॥

अत्रैवोदाहरंतीममितिहासं पुरातनम् ॥

नाभागस्य च संवादमापस्तंबतपोनिधेः ॥ ६ ॥

महर्षिरात्मवान्पूर्वमापस्तंबो द्विजाग्रणीः ॥

उपावसन्सदा रम्भो बभूव भगवांस्तदा ॥ ७ ॥

नित्यं क्रोधं च लोभं च मोहं द्रोहं विसृज्य सः ॥

देविकासरितो मध्ये विवेश सलिलाशये ॥ ८ ॥

क्षेत्रे प्राभासिके रम्ये सम्यग्ज्ञात्वा शिवप्रिये ॥

तत्रास्य वसतः कालः समतीतो महांस्तदा ॥ ९ ॥

परेण ध्यानयोगेन स्थाणुभूतस्य तिष्ठतः ॥

ततः कदाचिदागत्य तं देशं मत्स्यजीविनः ॥ 7.1.338.१० ॥

प्रसार्य सुमहज्जालं सर्वे चाकर्षयन्बलात् ॥

अथ तं च महामत्स्यं निषादा बलदर्पिताः ॥ ११ ॥

तस्मादुत्तारयामासुः सलिलाद्ब्रह्मनंदनम् ॥

तं दृष्ट्वा तपसा दीप्तं कैवर्त्ता भयविह्वलाः ॥

शिरोभिः प्रणिपत्योच्चैरिदं वचनमब्रुवन् ॥ १२ ॥ ॥

निषादा ऊचुः ॥ ॥

अज्ञानात्कृतपापानामस्माकं क्षन्तुमर्हसि ॥

किं वा कार्यं प्रियं तेऽद्य तदाज्ञापय सुव्रत ॥ १३ ॥

स मुनिस्तन्महद्दृष्ट्वा मत्स्यानां कदनं कृतम्॥

कृपया परयाविष्टो दाशान्प्रोवाच दुःखितः ॥ १४ ॥

केन मे स्यादुपायो हि सर्वे स्वार्थे बत स्थिताः ॥

ज्ञानिनामपि यच्चेतः केवलात्महिते रतम् ॥ १५ ॥

ज्ञानिनोपि यदा स्वार्थमाश्रित्य ध्यानमास्थिताः ॥

दुःखार्त्तानीह सत्त्वानि क्व यास्यंति सुखं ततः ॥ १६ ॥

योऽभिवांछति भोक्तुं वै दुःखान्येकांततो जनः ॥

पापात्पापतरं तं हि प्रवदंति मुमुक्षवः ॥ १७ ॥

को नु मे स्यादुपायो हि येनाहं दुःखितात्मवान्॥

अंतः प्रविष्टः सत्त्वानां भवेयं सर्वदुःखभुक् ॥ १८ ॥

यन्ममास्ति शुभं किचित्तदेनानुपगच्छतु ॥

यत्कृतं दुष्कृतं तैश्च तदशेषमुपेतु माम् ॥ १९ ॥

दृष्ट्वांधान्कृपणान्व्यंगाननाथान्रोगिणस्तथा ॥

दया न जायते यस्य स रक्ष इति मे मतिः ॥ 7.1.338.२० ॥

प्राणसंशयमापन्नान्प्राणिनो भयविह्वलान् ॥

यो न रक्षति शक्तोपि स तत्पापं समश्नुते ॥ २१ ॥

आहुर्जनानामार्त्तानां सुखं यदुपजायते ॥

तस्य स्वर्गोऽपवर्गो वा कलां नार्हति षोडशीम् ॥ ॥ २२ ॥

तस्मान्नैतानहं दीनांस्त्यक्त्वा मीनान्सुदुःखितान् ॥

पदमात्रं तु यास्यामि किं पुनस्त्रिदशालयम् ॥ २३ ॥

॥ ईश्वर उवाच ॥ ॥

निशम्यैतदृषेर्वाक्यं दाशास्ते जातसंभ्रमाः ॥

यथावृत्तं तु तत्सर्वं नाभागाय न्यवेदयन् ॥ २४ ॥

नाभागोऽपि ततः श्रुत्वा तं द्रष्टुं ब्रह्मनन्दनम् ॥

त्वरितः प्रययौ तत्र सामात्यः सपुरोहितः ॥ २५ ॥

स सम्यक्पूजयित्वा तं देवकल्पमुनिं नृपः ॥

प्रोवाच भगवन्ब्रूहि किं करोमि तवाज्ञया ॥२६॥ ॥

॥ आपस्तंब उवाच ॥ ॥

श्रमेण महताविष्टाः कैवर्त्ता दुःखजीविनः ॥

मम मूल्यं प्रयच्छेति यद्योग्यं मन्यसे नृप ॥ २७ ॥

॥ नाभाग उवाच ॥ ॥

सहस्राणां शतं मूल्यं निषादेभ्यो ददाम्यहम् ॥

निग्रहाख्यस्य भगवन्यथाह ब्रह्मनंदनः ॥ २८ ॥

॥ आपस्तंब उवाच ॥ ॥

नाहं शतसहस्रैश्च नियम्यः पार्थिव त्वया ॥

सदृशं दीयतां मूल्यममात्यैः सह चिंतय ॥ २९ ॥

॥ नाभाग उवाच ॥ ॥

कोटिः प्रदीयतां मूल्यं निषादेभ्यो द्विजोत्तम ॥

यद्येतदपि ते मूल्यं ततो भूयः प्रदीयते ॥ 7.1.338.३० ॥ ॥

आपस्तंब उवाच ॥ ॥

नार्हं मूल्यं च मे कोटिरधिकं वापि पार्थिव ॥

सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिंतय ॥ ३१ ॥

॥ नाभाग उवाच ॥ ॥

अर्द्धराज्यं समस्तं वा निषादेभ्यः प्रदीयताम् ॥

एतन्मूल्यमहं मन्ये किं वाऽन्यन्मन्यसे द्विज ॥ ३२ ॥

॥ आपस्तंब उवाच ॥ ॥

अर्धराज्यसमस्तं वा नाहमर्हामि पार्थिव ॥

सदृशं दीयतां मूल्यमृषिभिः सह चिंतय ॥ ३३ ॥

महर्षेस्तद्वचः श्रुत्वा नाभागः स विषादवान् ॥

चिन्तयामास दुःखार्तः सामात्यः सपुरोहितः ॥ ३४ ॥

ततः कश्चिदृषिस्तत्र लोमशस्तु महातपाः ॥

नाभागमब्रवीन्मा भैस्तोषयिष्यामि तं मुनिम् ॥ ३५ ॥

॥ नाभाग उवाच ॥ ॥

ब्रूहि मूल्यं महाभाग मुनेरस्य महात्मनः ॥

परित्रायस्व मामस्मात्सज्ञातिकुलबांधवम् ॥ ३६ ॥

निर्दहेद्भगवान्रुद्रस्त्रैलोक्यं सचराचरम्॥

किं पुनर्मानुषं हीनमत्यंतवि षयात्मकम् ॥ ३७ ॥

॥ लोमश उवाच ॥ ॥

त्वमीड्यो हि महाराज जगत्पूज्यो द्विजोत्तमः ॥

गावश्च दिव्यास्तस्माद्गौर्मूल्यमम्यै प्रदीयताम्॥ ३९ ॥

तच्छ्रुत्वा वचनं राजा सामात्यः सपुरोहितः ॥

हर्षेण महताविष्टः प्रोवाचेदं वचोमुनिम् ॥ ३९ ॥

उत्तिष्ठोत्तिष्ठ भगवन्क्रीत एव न संशयः ॥

एतद्योग्यतमं मूल्यं भवतो मुनिसत्तम ॥ 7.1.338.४० ॥

॥ आपस्तंब उवाच ॥ ॥

उत्तिष्ठाम्येष सुप्रीतः सम्यक्क्रीतोऽस्मि पार्थिव ॥

गोभ्यो मूल्यं न पश्यामि पवित्रं परमं भुवि ॥ ४१ ॥

गावः प्रदक्षिणीकार्याः पूजनीयाश्च नित्यशः ॥

मंगलायतनं देव्यः सृष्टा ह्येताः स्वयंभुवा॥ ॥ ४२ ॥

अग्न्यगाराणि विप्राणां देवतायतनानि च ॥

यद्गोमयेन शुद्ध्यंति किंभूतमधिकं ततः ॥४३॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तथैव च ॥

गवां पंच पवित्राणि पुनंति सकलं जगत् ॥४४॥

गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ॥

गावो मे ह्रदये चैव गवां मध्ये वसाम्यहम ॥४५॥

एवं जपन्नरो मंत्रं त्रिसंध्यं नियतः शुचिः ॥

मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति ॥ ४६ ॥

तृणाहारपरा गावः कर्त्तव्या भक्तितोऽन्वहम्॥

अकृत्वा स्वयमाहारं कुर्वन्प्राप्नोति दुर्गतिम् ॥ ४७ ॥

तेनाग्नयो हुताः सम्यक्पितरश्चापि तर्पिताः ॥

देवाश्च पूजितास्तेन यो ददाति गवाह्निकम्॥४८॥

मन्त्रः ॥

सौरभेयी जगत्पूज्या देवी विष्णुपदे स्थिता ॥

सर्वमेव मया दत्तं प्रतीच्छतु सुतोषिता॥४९॥

रक्षणाद्बालपुत्राणां गवां कण्डूयनात्तथा ॥

क्षीणार्तरक्षणाच्चैव नरः स्वर्गे महीयते । 7.1.338.५० ॥

आदिर्गावो हि मर्त्यस्य मध्ये चांते प्रकीर्तिताः ॥

रक्षंति तास्तु देवानां क्षीराज्यममृतं सदा ॥ ५१ ॥

तस्माद्गावः प्रदातव्याः पूजनीयाश्च नित्यशः ॥

स्वर्गस्य संगमा ह्येताः सोपानमिव निर्मिताः ॥ ५२ ॥

एतच्छ्रुत्वा निषादास्ते गवां माहात्म्यमुत्त मम् ॥

प्रणिपत्य महात्मानमापस्तंबमथाब्रुवन् ॥ ५३ ॥

॥ निषादा ऊचुः ॥ ॥

संभाषो दर्शनं स्पर्शः कीर्तनं स्मरणं तथा ॥

पावनानि किलैतानि साधूनामिति च श्रुतम् ॥ ५४ ॥

संभाषो दर्शनं चैव सहास्माभिः कृतं त्वया ॥

कुरुष्वानुग्रहं तस्माद्गौरेषा प्रतिगृह्यताम् ॥ ५५ ॥

॥ आपस्तंब उवाच ॥ ॥

एता वः प्रतिगृह्णामि गां यूयं मुक्तकिल्विषाः ॥

निषादा गच्छत स्वर्गं सह मत्स्यैर्जलोद्धृतैः ॥५६॥

प्राणिनां प्रीतिमुत्पाद्य निन्दिते नापि कर्मणा ॥

नरकं यदि पश्यामि वत्स्यामि स्वर्ग एव तत् ॥ ५७ ॥

यन्मया सुकृतं किञ्चिन्मनोवाक्कायकर्मभिः ॥

कृतं स्यात्तेन दुःखार्ताः सर्वे यांतु शुभां गतिम् ॥ ५८ ॥

ततस्तस्य प्रसादेन महर्षेर्भावितात्मनः ॥

निषादास्तेन वाक्येन सह मत्स्यैर्दिवं गताः ॥ ५९ ॥

तान्दृष्ट्वा व्रजतः स्वर्गं समत्स्यान्मत्स्यजीविनः ॥

सामात्यभृत्यो नृपतिर्विस्मयादिदमब्रवीत् ॥ 7.1.338.६० ॥

सेव्याः श्रेयोऽर्थिभिः सन्तः पुण्यतीर्थे जलोपमाः ॥

क्षणो पासनमप्यत्र न येषां निष्फलं भवेत् ॥ ६१ ॥

सद्भिः सह सदासीत सद्भिः कुर्वीत सत्कथाम् ॥

सतां व्रतेन वर्तेत नासद्भिः किञ्चिदाचरेत् ॥ ६२ ॥

सतां समागमादेते समत्स्या मत्स्यजीविनः ॥

त्रिविष्टपमनुप्राप्ता नराः पुण्यकृतो यथा ॥ ६३ ॥

आपस्तंबो मुनिस्तत्र लोमशश्च महामनाः ॥

वरैस्तं विविधैरिष्टैश्छंदयामासतुर्नृपम्॥ ६४ ॥

ततः स वरयामास धर्मबुद्धिं सुदुर्लभाम् ॥

तथेति चोक्त्वा तौ प्रीत्या तं नृपं वै शशंसतुः ॥ ६५ ॥

अहो धन्योऽसि राजेन्द्र यत्ते धर्मपरा मतिः ॥

धर्मः सुदुर्लभः पुंसां विशेषेण महीक्षिताम् ॥ ६६ ॥

यदि राजा मदाविष्टः स्वधर्मं न परि त्यजेत् ॥

ततो जगति कस्तस्मात्पुमानभ्यधिको भवेत् ॥ ६७ ॥

ध्रुवं जन्म सदा राज्ञां मोहश्चापि सदा ध्रुवः ॥

मोहाद्ध्रुवश्च नरको राज्यं निन्दन्त्यतो बुधाः ॥ ६८ ॥

राज्यं हि बहु मन्यंते नरा विषयलोलुपाः ॥

मनीषिणस्तु पश्यन्ति तदेव नरकोपमम् ॥ ६९ ॥

तस्माल्लोकद्वयध्वंसी न कर्त्तव्यो मदस्त्वया ॥

यदीच्छसि महाराज शाश्वतीं गतिमात्मनः ॥ 7.1.338.७० ॥

॥ ईश्वर उवाच ॥ ॥

इत्युक्त्वा तौ महात्मानौ जग्मतुः स्वं स्वमाश्रमम् ॥

नाभागोऽपि वरं लब्ध्वा प्रहृष्टः प्राविशत्पुरम् ॥ ७१ ॥

एतत्ते कथितं देवि प्रभावं देविकोद्भवम् ॥

ऋषिणा स्थापितश्चापि भवो जाले श्वरस्तदा ॥ ७२ ॥

जाले निपतितो यस्माद्दाशानामृषिसत्तमः ॥

जालेश्वरेति नामासौ विख्यातः पृथिवीतले ॥ ७३ ॥

तत्र स्नात्वा महादेवि जालेश्वरसमर्चनात् ॥

आपस्तंबश्च नाभागो निषादा मत्स्यजीविनः ॥ ७४ ॥

मत्स्यैः सह गताः स्वर्गं देविकायाः प्रभावतः ॥

चैत्रस्यैव तु मासस्य शुक्लपक्षे त्रयोदशीम् ॥ ७५ ॥

दद्यात्पिण्डं पितृभ्यो यस्तस्यांतो नैव विद्यते ॥

गोदानं तत्र देयं तु ब्राह्मणे वेदपारगे ॥

श्रोतव्यं चैव माहात्म्यं द्रष्टव्यो जालकेश्वरः ॥ ७६ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविका नदीमाहात्म्ये जालेश्वरमाहात्म्यवर्णनंनामाष्टात्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३८ ॥ छ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 339

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि कूपं त्रैलोक्यविश्रुतम् ॥

देविकायास्तटे रम्ये हुंकारेणैव पूर्यते ॥ १ ॥

ततोऽधस्तात्पुनर्याति सलिलं तत्र भामिनि ॥

तण्डीनाम पुरा प्रोक्तो देविकातटमास्थितः ॥ २ ॥

तपस्तेपे महादेवि शिवभक्तिपरायणः ॥

तस्यैवं तप्यमानस्य तस्मिन्देशे वरानने ॥ ३ ॥

आजगाम मृगो वृद्धस्तं देशमन्ध दृक्प्रिये ॥

स पपात महागर्ते अगाधे जलवर्जिते ॥ ४ ॥

तं दृष्ट्वा कृपयाविष्टः स मुनिर्मौनमास्थितः ॥

हुंकारं कुरुते तत्र भूयोभूयश्च भामिनि ॥ ५ ॥

अथ हुंकारशब्देन तस्य गर्तः प्रपूरितः ॥

ततो मृगो विनिष्क्रांतः कृच्छ्रेण सलिलात्प्रिये ॥ ६ ॥

मानुषं रूपमाश्रित्य तमृषिं पर्यपृच्छत ॥

विस्मयं परमं गत्वा काम्यदं कर्मणः फलम् ॥ ७ ॥

मृगत्वे पतितश्चात्र नरो भूत्वा विनिर्गतः ॥

सोऽब्रवीत्तस्य माहात्म्यं सलिलस्य द्विजोत्तमः ॥ ८ ॥

अतोऽहं नरतां प्राप्तो नान्यदस्तीह कारणम् ॥

ततस्तत्सलिलं भूयः प्रविष्टं धरणीतले ॥ ९ ॥

ततो हुंकृतवान्भूयः स ऋषिः कौतुकान्वितः ॥

आपूरितः पुनः कूपः सलिलेन पुरा यथा ॥ 7.1.339.१० ॥

ततः स कृतवान्स्नानं तथा च पितृतर्पणम्॥

मत्वा तीर्थवरं तत्र ततः प्राप्तः परां गतिम् ॥ ११ ॥

अद्यापि हुंकृते तस्मिन्सलिलौघः प्रवर्तते ॥

तत्र गत्वा नरो भक्त्या अपि पापरतोऽपि यः ॥ १२ ॥

न मानुष्यं पुनर्जन्म प्राप्नोति जगतीतले ॥

तत्र स्नात्वा शुचिर्भूत्वा यः श्राद्धं कुरुते नरः ॥ १३ ॥

मुच्यते सर्वपापेभ्यः पितृलोके महीयते ॥

कुलानि तारयेत्सप्त अतीताऽनागतानि च ॥ १४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकामाहात्म्ये हुंकारकूपमाहात्म्यवर्णनंनामैकोनचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ॥ ३३९ ॥ ॥ छ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 340

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि तत्र स्थाने तु संस्थितम्॥

चण्डीश्वरं महालिंगं सर्वपातकनाशनम् ॥ १ ॥

तत्र शुक्लचतुर्द्दश्यां कार्तिके मासि भामिनि ॥

उपवासपरो भूत्वा यः करोति प्रजागरम् ॥

स याति परमं स्थानं यत्र देवो महेश्वरः ॥ २ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकामाहात्म्ये चण्डीश्वरमाहात्म्यवर्णनं नाम चत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४० ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 341

॥ ईश्वर उवाच ॥ ॥

आशापूरं ततो गच्छेद्विघ्नराजमकल्मषम् ॥

शशिभूषण वायव्ये संस्थितं विघ्ननाशनम्॥

आशां पूरयते यस्मात्तेनाशापूरकः स्मृतः ॥१ ॥

यत्र रामेण देवेशि सीतया लक्ष्मणेन च ॥

समाराध्य च विघ्नेशं प्राप्तं काममभीप्सितम्॥ २ ॥

यत्र चंद्रमसा देवि समाराध्य गणाधिपम् ॥

लब्धं तद्वांछितं पूर्वं सर्वकुष्ठविनाशनम् ॥ ३ ॥

चतुर्थ्यां शुक्लपक्षे च मासि भाद्रपदे तथा ॥

तत्र संपूज्य देवेशं मोदकैर्भोजयेद्द्विजान् ॥ ४ ॥

वाञ्छितां लभते सिद्धिं विघ्नराजप्रसादतः ॥

क्षेत्रस्यास्य महादेवि रक्षार्थं तु मया पुरा ॥ ५ ॥

ततो नियुक्तो देवेशि यायिनां विघ्ननाशनः ॥ ६ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य आशापूरविघ्नराज माहात्म्यवर्णनंनामैकचत्शरिंशदुत्तर त्रिशततमोऽध्यायः ॥ ३४१ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 342

॥ ईश्वर उवाच ॥ ॥

तस्य दक्षिणनैर्ऋत्ये नातिदूरे व्यवस्थितम् ॥

लिंगं पापहरं देवि स्वयं सोमप्रतिष्ठितम् ॥ १ ॥

तत्रैवामृतकुण्डं तु कलाकुण्डं तु तत्स्मृतम् ॥

तत्र स्नात्वा तु चंद्रेशं यो नरः पूजयिष्यति ॥ २ ॥

स तु वर्षसहस्रस्य तपःफलमवाप्स्यति ॥

तत्रैव संस्थितं देवि तडागं चंद्रनिर्मितम् ॥ ३ ॥

धनुःषोडशविस्तारं चंद्रेशात्पूर्वपश्चिमे ॥

तत्पूर्वं ते समाख्यातं मुक्तिदानादिपूर्वकम् ॥ ४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य आशापूरमाहात्म्ये चंद्रेश्वरकलाकुण्डतीर्थमाहात्म्यवर्णनंनाम द्विचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ॥ ३४२ ॥ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 343

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि कपिलेश्वरमुत्तमम् ॥

शीराभूषणपूर्वेण कोटितीर्थाच्च पश्चिमे ॥१ ॥

जरद्गवेशाद्दक्षिणे समुद्रोत्तरतस्तथा ॥

एतद्वै कापिलं क्षेत्रं नापुण्यैः प्राप्यते नरैः ॥ २ ॥

कपिलेन पुरा देवि यत्र तप्तं तपो महत् ॥

वर्षाणामयुतं साग्रं प्रतिष्ठाप्य महेश्वरम् ॥ ३ ॥

समाहूता तत्र देवी कपिलधारा महानदी ॥

समुद्रमध्ये साऽद्यापि पुण्यवद्भिः प्रदृश्यते ॥ ४ ॥

तत्र स्नात्वा महादेवि कपिलाषष्ठ्यां विशेषतः ॥

कपिलां दापयेत्तत्र गोकोटिफलभाग्भवेत् ॥ ५ ॥

सर्वेषां चैव पापानां प्रायश्चित्तमिदं स्मृतम् ॥

कपिलेश्वरं तु संपूज्य कन्याकोटिफलं लभेत् ॥ ६ ॥

॥ देव्युवाच ॥ ॥

आश्चर्यं मम देवेश कपिलषष्ठ्या महेश्वर ॥

विधानं श्रोतुमिच्छामि दानमन्त्रादि पूर्वकम् ॥ ७ ॥

॥ ईश्वर उवाच ॥ ॥

जन्मजीवितमध्ये तु यद्येका लभ्यते नरैः ॥

संयोगयुक्ता सा षष्ठी तत्किं देवि ब्रवीम्यहम् ॥ ८ ॥

प्रौष्ठपद्यसिते पक्षे षष्ठ्यामंगारको यदि ॥

व्यतीपातश्च रोहिण्यां सा षष्ठी कपिला स्मृता ॥९॥

तत्र क्षेत्रे नरः स्नात्वा अथवार्कस्थले शुभे ॥

मृदा शुक्ल तिलैश्चैव कपिलासंगमे शुभे ॥ 7.1.343.१० ॥

कृतस्नानजपः पश्चात्सूर्यायार्घ्यं निवेदयेत् ॥

रक्तचंदनतोयेन करवीरयुतेन च ॥

कृत्वार्घपात्रं शिरसि मंत्रेणानेन दापयेत् ॥ ११ ॥

नमस्त्रैलोक्यनाथाय उद्भासितजगत्त्रय ॥

वेदरश्मे नमस्तुभ्यं गृहाणार्घ्यं नमोऽस्तु ते ॥ १२ ॥

सूर्यं प्रदक्षिणीकृत्य संपूज्य कपिलेश्वरम्॥

उपलिप्ते शुभे देशे पुष्पाक्षतविभूषिते ॥ १३ ॥

स्थापयेदव्रणं कुम्भं चन्दनोदकपूरितम् ॥

पंचरत्नसमायुक्तं दूर्वापुष्पाक्षतान्वितम्॥१४॥

रक्तवस्त्रयुगच्छन्नं ताम्रपात्रेण संयुतम् ॥

रथो रुक्मफलस्यैव एकचित्रविचित्रितः ॥ १५ ॥

सौवर्णपलसंयुक्तां मूर्तिं सूर्यस्य कारयेत्॥

कुंभस्योपरि संस्थाप्य गंधपुष्पैः समर्चयेत् ॥ १६ ॥

कपिलेश्वरसान्निध्ये मण्डपे होमसंस्कृते ॥

आदित्यं पूजयेद्देवं नामभिः स्वैर्यथोदितैः ॥ ॥ १७ ॥

आदित्यभास्कर रवे भानो स्वयं दिवाकर ॥

प्रभाकर नमस्तुभ्यं ससारान्मां समुद्धर ॥ १८ ॥

भुक्तिमुक्तिप्रदो यस्मात्तस्माच्छांतिं प्रयच्छ नः ॥१९॥

॥ प्रार्थनामन्त्रः ॥ ॥

नमोनमस्ते वरद ऋक्सामयजुषांपते ॥

नमोऽस्तुविश्वरूपाय विश्वधाम्ने नमोऽस्तु ते ॥7.1.343.२०॥

अमृतं देवि ते क्षीरं पवित्रमिह पुष्टिदम्॥

त्वत्प्रसादात्प्रमुच्यंते मनुजाः सर्वपातकैः ॥ २१ ॥

ब्रह्मणोत्पादिते देवि वह्निकुण्डान्महाप्रभे ॥

नमस्ते कपिले पुण्ये सर्वदेवनमस्कृते ॥२२॥

सर्वदेवमये देवि सर्वतीर्थमये शुभे॥

दातारं पूजयानं मां ब्रह्मलोकं नय स्वयम्॥२३ ॥

॥ पूजामंत्रः ॥ ॥

एवं संपूज्य कपिलां कुम्भस्थं च दिवाकरम्॥

ब्राह्मणे वेदविदुष उभयं प्रतिपादयेत् ॥२४॥

व्यासाय सूर्यभक्ताय मंत्रेणानेन दापयेत् ॥२५॥

दिव्यमूर्त्तिर्जगच्चक्षु र्द्वादशात्मा दिवाकरः ॥

कपिलासहितो देवो मम मुक्तिं प्रयच्छतु ॥ २६ ॥

यस्मात्त्वं कपिले पुण्या सर्वलोकस्य पावनी ॥

प्रदत्ता सह सूर्येण मम मुक्तिप्रदा भव ॥ २७ ॥

पलेन दक्षिणा कार्या तदर्धार्धेन वा पुनः ॥

शक्तितो दक्षिणायुक्तां तां धेनुं प्रतिपादयेत् ॥ २८ ॥

योऽनेन विधिना कुर्या त्षष्ठीं कपिलसंज्ञिताम्॥

सोऽश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ २९ ॥

यत्फलं सर्वतीर्थेषु सर्वदानेषु यत्फलम् ॥

तत्फलं सर्वमाप्नोति यः षष्ठीं कपिलां चरेत् ॥ 7.1.343.३० ॥

कपिलाकोटिसहस्राणि कपिलाकोटिशतानि च ॥

सूर्यपर्वणि यद्दत्त्वा तत्फलं कोटिशो भवेत् ॥ ३१ ॥

कोटिगोरोम संख्यानि वर्षाणि वरवर्णिनि ॥

तावत्स वसते स्वर्गे यः षष्ठीं कपिलां चरेत् ॥ ३२ ॥

ज्ञानतोऽज्ञानतो वापि यत्पापं पूर्वसंचितम् ॥

तत्सर्वं नाशमायाति इत्याह कपिलो मुनिः ॥३३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कपि लधाराकपिलेश्वरमाहात्म्ये कपिलाषष्ठीव्रतविधानमाहात्म्यवर्णनंनाम त्रिचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४३ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 344

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि लिंगं पापप्रणाशनम् ॥

कपिलेश्वरस्यैशान्यामुत्तरेण व्यवस्थितम् ॥ १ ॥

जरद्गवेश्वरंनाम जरद्गवप्रतिष्ठितम् ॥

ब्रह्महत्यादि पापानां नाशनं नात्र संशयः ॥ २ ॥

तत्रैव संस्थिता देवि देवी अंशुमती नदी ॥

तत्र स्नात्वा विधानेन पिडदानं तु दापयेत् ॥ ३ ॥

वर्षकोटिशतं साग्रं पितॄणां तृप्तिमावहेत् ॥

वृषभस्तत्र दातव्यो ब्राह्मणे वेदपारगे ॥ ४ ॥

ततस्तु पूजयेद्देवं गन्धपुष्पैर्जरद्गवम् ॥

पञ्चामृतरसेनैव तथा गुग्गु लुधूपनैः ॥ ५ ॥

स्तुतिदण्डनमस्कारैः प्रदक्षिणैरहर्निशम् ॥

ब्राह्मणान्भोजयेत्तत्र भक्ष्यभोज्यैः पृथग्विधैः ॥

एकेन भोजितेनैव कोटिर्भवति भोजिता ॥ ६ ॥

कृते सिद्धोदकंनाम तत्तीर्थं परिकीर्त्तितम् ॥

जरद्गवेश्वरं तीर्थं कलौ तु परिकीर्त्यते ॥ ७ ॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येंऽशुमतीमाहात्म्ये जरद्गवेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४४ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 345

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि लिंगं वै हाटकेश्वरम् ॥

जरद्गवात्पूर्वभागे धनुषां षष्टिभिस्त्रिभिः ॥ १ ॥

नाम्ना नलेश्वरं देवि स्थापितं तु नलेन वै ॥

दमयन्तीयुतेनैव ज्ञात्वा क्षेत्रं तदुत्तमम् ॥ २ ॥

तं दृष्ट्वा मानवो देवि पूजयित्वा विधानतः ॥ कलिभिर्मुच्यते जंतुर्द्यूते च विजयी भवेत् ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये नलेश्वरमाहात्म्यवर्णनंनाम पञ्चचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४५ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 346

॥ ईश्वर उवाच ॥ ॥

तस्मादाग्नेयदिग्भागे स्थितः कर्कोटको रविः ॥

पूर्वकल्पे महादेवि स्मृतः कर्कोटकान्वितः ॥ १ ॥

तस्य दर्शनमात्रेण प्रीताः स्युः सर्वदेवताः ॥

सप्तम्यां रविवारेण धूप गंधानुलेपनैः ॥

पूजयेद्यो विधानेन मुच्यते सर्वकिल्बिषैः ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कर्कोटकार्कमाहात्म्यवर्णनंनाम षटचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४६ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 347

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि पश्चिमे नारदेश्वरीम् ॥

नारदेश्वरसांनिध्ये सर्वदौर्भाग्यनाशनीम् ॥ १ ॥

या नारी पूजयेद्देवीं तृतीयायां समाहिता ॥

तदन्वये न दौर्भाग्ययुक्ता नारी भविष्यति ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नारदेश्वरीमाहात्म्यवर्णनंनाम सप्तचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४७ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 348

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि देवीं मंत्रविभूषणाम् ॥

भीमेश्वरस्य सान्निध्ये सोमेनाराधितां पुरा ॥ १ ॥

श्रावणे मासि विधिना या नारी तां प्रपूजयेत् ॥

तृतीयायां शुक्लपक्षे सा दुःखैर्मुच्यतेऽखिलैः ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मन्त्रविभूषणागौरी माहात्म्यवर्णनंनामाष्टाचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४८ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 349

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि विश्वेशं दुर्गकूटकम् ॥

भल्लतीर्थस्य पूर्वेण योगिनीचक्रदक्षिणे ॥ १ ॥

आराधितोऽसौ भीमेन सर्वकामप्रदोऽभवत् ॥

फाल्गुनस्य चतुर्थ्यां तु शुक्लपक्षे विधानतः ॥ ॥ २ ॥

यस्तं पूजयते देवं गन्धपुष्पैः समोदकैः ॥

निर्विघ्नं जायते तस्य वर्षमेकं न संशयः ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये दुर्गकूटगणपतिमाहात्म्यवर्णनंनामैकोनपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३४९ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 350

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि तस्माद्वै कौरवेश्वरीम् ॥

यस्य नाम्ना कुरुक्षेत्रं तेन साराधिता पुरा ॥ १ ॥

आराधिताऽसौ भीमेन कृत्वा क्षेत्रस्य रक्षणम् ॥

महानवम्यां यत्नेन यस्तां पूजयते नरः ॥

तं पुत्रमिव कल्याणी रक्षते नात्र संशयः ॥ २ ॥

भोजनं तत्र दातव्यं दंपतीनां न संशयः ॥

दिव्यैर्भक्ष्यैः सुमिष्टान्नैः सा तुष्यति ततः स्तुता ॥ ३ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कौरवेश्वरीमाहात्म्यवर्णनंनाम पञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५० ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 351

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि सुपर्णेलां च भैरवीम् ॥

दुर्गकूटाद्दक्षिणतो धनुःपंचशतांतरे ॥ १ ॥

सुपर्णेन पुरा देवि पातालादमृतं हृतम् ॥

गृहीत्वा तत्र मुक्तं तु नागानां पश्यतां किल ॥ २ ॥

ततो देव्या तदा दृष्ट्वा रक्षितं नागपार्श्वतः ॥

ततः सुपर्णेलेत्येवं ख्याता सा वसुधातले ॥ ३ ॥

इला तु कथ्यते भूमिः सुपर्णेन प्रतिष्ठिता ॥

ततः सुपर्णेलेत्येव नाम्ना पातकनाशिनी ॥ ४ ॥

सुपर्णकुण्डे तत्रैव स्नात्वा तां पूजयेन्नरः ॥

विप्रेभ्यो भोजनं दद्यान्नापद्भिर्म्रियते नरः ॥

जीववत्सा भवेन्नारी आत्मजैश्चाप्यलंकृता ॥ ५ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये सुपर्णेलामाहात्म्यवर्णनंनामैकपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥३५१॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 352

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि भल्लतीर्थमनुत्तमम् ॥

तस्याश्च पश्चिमे भागे यत्र विष्णुश्चतुर्भुजः ॥ १ ॥

यत्र त्यक्तं शरीरं तु विष्णुना प्रभविष्णुना ॥

तस्मिन्मित्रवने रम्ये योजनार्द्धार्द्धविस्तृते ॥ २ ॥

युगेयुगे महादेवि कल्पमन्वतरादिषु ॥

तत्रैव संस्थितिर्विष्णोर्नान्यत्र च रतिर्भवेत् ॥ ३ ॥

क्षेत्राणामादिक्षेत्रं तु वैष्णवं तद्विदुर्बुधाः॥

तिस्रः कोट्यर्द्धकोटिश्च तीर्थानां प्रवराणि च॥ ४ ॥

दिवि भुव्यंतरिक्षे च तानि तत्रैव भामिनि॥

तत्र मूर्तिमती गंगा स्वयमेव व्यवस्थिता ॥ ५ ॥

विष्णोः संप्लवनार्थाय प्राणिनां च हिताय वै ॥

गंगा गया कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥ ६ ॥

पुरी द्वारवतीं त्यक्त्वा अत्रैव वसते हरिः ॥

तस्यौर्ध्वदैहिकं देवि प्रकरोमि युगेयुगे ॥ ७ ॥

नभस्ये द्वादशीयोगे तत्र गत्वा स्वयं प्रिये ॥

करोमि तद्विधानेन तत्र ब्राह्मणपुंगवैः ॥ ८ ॥

तत्र दत्त्वा तु दानानि विधिवद्वेदपारगे ॥

तत्रैव द्वादशीयोगे स्नात्वा चैव विधानतः ॥ ९ ॥

सन्तर्प्य च पितॄन्भक्त्या मुच्यते सर्वपातकैः ॥

तत्र विष्णुं तु संपूज्य कृत्वा जागरणं निशि ॥ 7.1.352.१० ॥

दीपादिदानं कृत्वा तु कृतकृत्योऽभिजायते ॥ ११ ॥

अथ तस्य प्रवक्ष्यामि पुरावृत्त महं प्रिये ॥

संहृत्य यादवान्सर्वान्वासुदेवः प्रतापवान् ॥ १२ ॥

दुर्वाससाऽनुलिप्तेन पायसेन पदस्तले ॥

वज्रांगभूतदेहस्तु सर्वव्यापी जनार्द्दनः ॥ ॥ १३ ॥

गत्वा तीरे समुद्रस्य समाधिस्थो बभूव ह ॥

सर्वस्रोतांसि संयम्य निवेश्यात्मानमात्मनि ॥ १४ ॥

एतस्मिन्नंतरे प्राप्तो बाणहस्तो जराभिधः ॥

दाशपुत्रोऽतिकृष्णांगो मत्स्यघाती च पापकृत् ॥ १५ ॥

तेन दृष्टस्ततो दूरान्निषादात्मसमुद्भवः ॥

विष्णोः पदं मृगं मत्वा शरं तस्य मुमोच ह ॥ १६ ॥

ततोऽसौ पश्यते यावद्गत्वा तस्य च संनिधौ ॥

चतुर्बाहुं महाकायं शंखचक्रगदाधरम् ॥ १७ ॥

पुरुषं नीलमेघाभं पुडरीकनिभे क्षणम् ॥

तं दृष्ट्वा भयभीतस्तु वेपमानः कृतांजलिः ॥

अब्रवीन्न मया ज्ञातस्त्वं विभो दिव्यरूपधृक् ॥ १८ ॥

अज्ञानात्त्वं मया विद्धस्त्वत्पदाग्रे सुरोत्तम ॥

क्षन्तुमर्हसि मे नाथ न त्वं क्रोद्धुमिहार्हसि ॥ १९ ॥

॥ विष्णुरुवाच ॥ ॥

शापस्यांतोद्य मे भद्र शरपातात्कृतस्त्वया ॥

तस्मात्त्वं मत्प्रसादेन स्वर्गं गच्छ महाद्युते ॥ 7.1.352.२० ॥

ये चान्ये मामिहागत्य द्रक्ष्यंति हि नरोत्तमाः ॥

ते यास्यंति परं स्थानं यत्राहं नित्यसंस्थितः ॥ २१ ॥

भल्लेनाहं यतो विद्धस्त्वया पादतले शुभे ॥

भल्लतीर्थमिति ख्यातं ततो ह्येतद्भविष्यति ॥ २२ ॥

हरिक्षेत्रमिति प्रोक्तं पूर्वं स्वायंभुवेऽन्तरे ॥ २३ ॥

॥ ईश्वर उवाच ॥ ॥

इत्युक्त्वांतर्दधे विष्णुर्लुब्धकोऽपि दिवं गतः ॥

येऽत्र स्नानं करिष्यंति भक्त्या परमया युताः ॥

विष्णुलोकं गमिष्यंति प्रीत्या ते मत्प्रसादतः ॥ २४ ॥

येऽत्र श्राद्धं करिष्यंति पितृभक्तिपरायणाः ॥

तृप्तिं तेषां गमिष्यंति पितरश्चैव तर्पिताः ॥ २५ ॥

तस्मात्सर्वप्रयत्नेन प्राप्य तत्क्षेत्रमुत्तमम् ॥

दृश्यो देवश्चतुर्बाहुः स्नात्वा तीर्थे तु भल्लके ॥ २६ ॥

मद्भक्तिबलदर्पिष्ठा मत्प्रियं न नमंति ये ॥

वासुदेवं न ते ज्ञेया मद्भक्ताः पापिनो हि ते॥२७॥

मद्भक्तोऽपि हि यो भूत्वा भुंक्त एकादशीदिने॥

मल्लिंगस्यार्चनं कार्यं न तेन पापबुद्धिना॥२८॥

या तिथिर्दयिता विष्णोः सा तिथिर्मम वल्लभा॥

न तां चोपोषयेद्यस्तु स पापिष्ठतराधिकः॥२९॥

तद्वत्स द्वादशीयोगे भल्लतीर्थस्य संनिधौ॥

यस्तु मां पूजयेद्भक्त्या नारी वाऽपि नरोऽपि वा ॥

तस्य जन्मसहस्राणि गृहभंगो न जायते॥7.1.352.३०॥

इत्येतत्कथितं देवि माहात्म्यं पापनाशनम्॥

भल्लतीर्थस्य विष्णोस्तु सर्व पातकनाशनम् ॥३१॥

तत्र विष्णोस्तु सांनिध्ये वायव्ये कुम्भमुत्तमम्॥

भल्लतीर्थं तु विख्यातं यत्र भल्लहतो हरिः ॥३२॥

तत्र देयानि वासांसि पदं गावो विधानतः ॥

देयानि विप्रमुख्येभ्यः सम्यग्यात्राफलेप्सुभिः॥३३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भल्लतीर्थमाहात्म्यवर्णनंनाम द्विपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥३५२॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 353

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि कर्दमालमनुत्तमम् ॥

तीर्थं त्रैलोक्यविख्यातं सर्वपातकनाशनम् ॥ १ ॥

तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजंगमे ॥

चन्द्रार्कतपने नष्टे ज्योतिषि प्रलयं गते ॥ २ ॥

रसातलगतामुर्वीं दृष्ट्वा देवो जनार्दनः ॥

वाराहं रूपमास्थाय दंष्ट्राग्रेण वरानने ॥

उत्क्षिप्य धरणीं मूर्ध्ना स्वस्थाने संन्यवेशयत् ॥ ३॥

उद्धृत्य भगवान्विष्णुर्वाक्यमेतदुवाच ह ॥ ४ ॥

अत्र स्थाने स्थितेनैव मया त्वं देवि चोद्धृता ॥

ममात्र नियतं वासः सदैवायं भविष्यति ॥ ५ ॥

ये पितॄंस्तर्पयिष्यंति कर्दमाले वरानने ॥

आकल्पं तर्पितास्तेन भविष्यंति न संशयः ॥ ६ ॥

तत्र श्राद्धं करिष्यंति शाकैर्मूलफलेन वा ॥

भविष्यति कृतं श्राद्धं सर्वतीर्थेषु वै शुभे ॥ ७ ॥

अत्र तीर्थे नरः स्नात्वा यो मां पश्यति मानवः ॥

अपि कीटपतंगा ये निधनं यांति मानवाः ॥

ते मृतास्त्रि दिवं यान्ति सुकृतेन यथा द्विजाः ॥ ८ ॥

ततो द्वीपेषु जायन्ते धनाढ्याश्चोत्तमे कुले ॥

दंष्ट्राभेदेन यत्तोयं निर्गतं ते शरीरतः ॥ ९ ॥

तत्र स्नात्वा नरो देवि तिर्यग्योनौ न जायते ॥ 7.1.353.१० ॥

॥ ईश्वर उवाच ॥ ॥

शृणु देवि यथावृत्तमाश्चर्यं तत्र वै पुरा ॥

मृगयूथं सुसन्त्रस्तं लुब्धकैः परिपीडितम् ॥

प्रविष्टं कर्दमाले तु सद्यो मानुषतां गतम् ॥ ११ ॥

अथ ते लुब्धका दृष्ट्वा विस्मयोत्फुल्ललोचनाः ॥

अपृच्छंत च संभ्रातास्तान्मर्त्यान्वरवर्णिनि ॥ १२ ॥

मृगयूथमनुप्राप्तं केन मार्गेण निर्गतम् ॥

अथोचुस्ते वयं प्राप्ता मानुषं मृगरूपिणः ॥ १३ ॥

एतत्तीर्थप्रभावोऽयं न विद्मो ह्यात्म कारणम् ॥

ततस्ते लुब्धकास्त्यक्त्वा धनूंषि सशराणि च ॥

तत्र स्नात्वा महाभागे मुक्ताश्च सर्वपातकैः ॥ १४ ॥

॥ पार्वत्युवाच ॥ ॥

भगवन्विस्तरं ब्रूहि कर्दमालमहोदयम् ॥

उत्पत्तिं च विधानं च क्षेत्रसीमादिकं क्रमात् ॥ १५ ॥

॥ ईश्वर उवाच ॥ ॥

शृणु देवि रहस्यं तु कर्द मालसमुद्भवम् ॥

गूढं ब्रह्मर्षिसर्वस्वं न देयं कस्यचित्त्वया ॥ १६ ॥

पूर्वमेकार्णवे घोरे नष्टे स्थावरजंगमे ॥

चन्द्रार्कपवने नष्टे ज्योतिषि प्रलयं गते ॥ १७ ॥

एकार्णवं जगदिदं ब्रह्मापश्यदशेषतः ॥

तस्मिन्वसुमती मग्ना पातालतलमागता ॥ १८ ॥

ततो यज्ञवराहोऽसौ कृत्वा यज्ञमयं वपुः ॥

उद्दधार महीं कृत्स्नां दंष्ट्राग्रेण वरानने ॥ १९ ॥

thumb|पञ्चमस्य शताब्देः वराहप्रतिमा

॥ ईश्वर उवाच ॥

॥ वेदपादो यूपदंष्ट्रः क्रतुदंतःस्रुचीमुखः ॥

अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षा महातपाः ॥ 7.1.353.२० ॥

thumb|वराह मुख - खजुराहो

॥ ईश्वर उवाच ॥

अहोरात्रेक्षणपरो वेदांगश्रुतिभूषणः ॥

आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ॥ २१ ॥

प्राग्वंशकायो द्युतिमान्मात्रादीक्षाभिरावृतः ॥

दक्षिणा हृदयो योगी महासत्रमहो महान् ॥ २२ ॥

उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः ॥

नानाच्छन्दोगतिपथो ब्रह्मोक्तक्रमविक्रमः ॥२३ ॥

भूत्वा यज्ञवराहोऽसावुद्दधार महीं ततः ॥

तस्योद्धृतवतः पृथ्वीं दंष्ट्राग्रं निर्गतं बहिः ॥ २४ ॥

तस्मिन्प्राभासिके क्षेत्रे कर्द्दमेन विलेपितम् ॥

तद्दंष्ट्राग्रं यतो देवि कर्द्दमालं ततः स्मृतम् ॥ २५ ॥

दण्डोद्भेदं महाकुण्डं यत्र दंष्ट्रा सुसंस्थिता ॥

तद्दंष्ट्रयोद्धृतं तोयं कोटिगंगाभिषेकवत् ॥ २६ ॥

तत्र गव्यूति मात्रं तु विष्णुक्षेत्रं सनातनम् ॥

देशांतरं गता ये च दण्डोद्भेदे म्रियंति वै ॥

यावत्कल्पसहस्राणि विष्णुलोकं व्रजंति ते ॥२७॥

यस्तु पश्येन्महादेवि कर्दमाले तु सूकरम् ॥

कोटिहिंसायुतो वापि स प्राप्स्यति परां गतिम् ॥ २८ ॥

दशजन्मकृतं पापं नश्येत्तद्दर्शनात्प्रिये ॥

जन्मान्तरसहस्रेषु यत्कृतं पापसंचयम् ॥ २९ ॥

कर्दमाले तु वाराहं दृष्ट्वा तन्नाशमेष्यति ॥

हेमकोटिसहस्राणि गवां कोटिशतानि च ॥ 7.1.353.३० ॥

दत्त्वा यल्लभते पुण्यं सकृद्वाराहदर्शनात् ॥

कलौ युगे महारौद्रे प्राणिनां च भयावहे ॥

नान्यत्र जायते मुक्तिर्मुक्त्वा क्षेत्रं तु सौकरम् ॥ ३१ ॥

एतत्सारतरं देवि प्रोक्तमुद्देशतस्तव ॥

कर्द्दमालस्य माहात्म्यं सर्वपातकनाशनम् ॥ ३२ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कर्द्दमालमाहात्म्यवर्णनंनाम त्रिपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥३५३ ॥ ॥ छ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 354

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि देवगुप्तेश्वरं प्रिये ॥

तत्र पश्चिमवायव्ये यत्र सोमोऽकरोत्तपः ॥ १ ॥

गुप्तो भूत्वा कुष्ठरोगाल्लज्जयाधोमुखः स्थितः ॥

दिव्यं वर्षसहस्रं तु प्रभासक्षेत्र उत्तमे ॥ २ ॥

ततः प्रत्यक्षतां यातः सर्वदेवपतिः शिवः ॥

तुष्टो बभूव चंद्रस्य क्षयनाशं तथाऽकरोत् ॥ ३ ॥

क्षयरोगविनिर्मुक्तस्ततोऽभून्मृगलांछनः ॥

प्रतिष्ठाप्य महालिंगं सुरासुरनमस्कृतम् ॥ ४ ॥

गुप्तस्तेपे तपो यस्मात्तस्माद्गुप्तेश्वरः स्मृतः ॥

सर्वकुष्ठहरो देवो दर्शनात्स्पर्शनादपि ॥ ५ ॥

सोमवारे विशेषेण यस्तल्लिंगं प्रपूजयेत् ॥

तस्यान्वयेऽपि देवेशि कुष्ठी कश्चिन्न जायते ॥ ६ ॥

इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गुप्तेश्वरमाहात्म्यवर्णनंनाम चतुष्पञ्चाशदुत्तरत्रिशततमो ऽध्यायः ॥ ३५४ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 355

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि देवं बहुसुवर्णकम् ॥

हिरण्यापूर्वदिग्भागे स्थाने बहुसुवर्णके ॥ १ ॥

धर्मपुत्रेण यत्रैव कृतो यज्ञः सुदुष्करः ॥

नाम्ना बहुसुवर्णेति स्थाप्य लिंगं महाप्रभम् ॥ २ ॥

सर्वक्रतूनां फलदं नाम्ना सर्वेश्वरं विदुः ॥

तत्रैव संस्थितं लिंगं पूर्णं सारस्वतैर्जलैः ॥ ३ ॥

स्नात्वा तत्र वरारोहे पिण्डदानं ददाति यः ॥

कुलकोटिं समुद्धृत्य रुद्रलोके महीयते ॥ ४ ॥

यस्तं पूज यते भक्त्या गन्धपुष्पैर्विधानतः ॥

कोटिपूजाफलं तस्य तथेत्याह सदाशिवः ॥ ५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बहुसुवर्णेश्वरमाहात्म्यवर्णनंनाम पञ्चपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५५ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 356

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि शृंगेश्वरमनुत्तमम् ॥

शुकस्थानस्य सान्निध्ये सर्वपातकनाशनम् ॥ १ ॥

स्नात्वा तत्रैव विधिवच्छृंगेशं पूजयेन्नरः ॥

मुक्तः स्यात्पातकैः सर्वैर्ऋष्यशृंगो यथा पुरा ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शृंगेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५६ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 357

॥ ईश्वर उवाच ॥ ॥

तस्मादीशानदिग्भागे तत्कोटिनगरं स्मृतम् ॥

तस्य दक्षिणदिग्भागे स्थितं योजनमात्रकम् ॥

कोटीश्वरं महालिंगं कोटियज्ञफलप्रदम् ॥ १ ॥

स्नात्वा तत्र विधानेन यस्तल्लिंगं प्रपूजयेत् ॥

स मुक्तः पातकैः सर्वैः कोटियज्ञफलं लभेत् ॥ २ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कोटीश्वरमाहात्म्यवर्णनंनाम सप्तपंचाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५७ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 358

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि तीर्थं नारायणाभिधम् ॥

तस्यैवेशानदिग्भागे वापी शांडिल्यकीर्तिता ॥ १ ॥

स्नात्वा तत्रैव विधिवच्छांडिल्यं यः प्रपूजयेत् ॥

ऋषिपंचम्यां विधिना नारी चैव पतिव्रता ॥

स्पृष्ट्वास्पृष्ट्वा विमुच्येत रजोदोषभयाद्ध्रुवम् ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नारायणतीर्थमाहात्म्यवर्णनंनामा ष्टापंचाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५८ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 359

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि स्थानं शृंगसरोऽभिधम् ॥ १ ॥

शृंगारेश्वरनामा च तत्र देवः प्रतिष्ठितः ॥

शृङ्गारं विधिवच्चक्रे यत्र गोपीयुतो हरिः ॥ २ ॥

शृङ्गारेश्वरनामा च तेन पापौघनाशनः ॥

पूजयेद्यो विधानेन तत्र स्थाने स्थितं भवम् ॥

दारिद्र्यदुःखसंयुक्तो न स भूयाद्भवे क्वचित् ॥ ३ ॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शृंगारेश्वरमाहात्म्यवर्णनंनामैकोनषष्ट्युत्तरत्रिशततमोऽध्यायः ॥ ३५९ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 360

॥ ॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि हिरण्यातटसंस्थितम् ॥

घटिकास्थानमिति च यत्र सिद्धः पुरा ऋषिः ॥ १ ॥

नाड्यैकया मृकण्डस्तु ध्यानयोगाद्वरानने ॥

तत्रैव स्थापितं लिंगं मार्कंडेश्वरनामतः ॥

सर्वपापोपशमनं दर्शनात्पूजनादपि ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मार्कंडेश्वरमाहात्म्यवर्णनंनाम षष्ट्युत्तर त्रिशततमोऽध्यायः ॥ ३६० ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 361

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि मण्डूकेश्वरमित्यपि ॥

मांडूक्यायननाम्ना वै लिंगं तत्र प्रतिष्ठितम् ॥ १ ॥

तत्र कोटिह्रदो देवि तथा कोटीश्वरः शिवः ॥

तत्र मातृगणश्चैव स्थितः कामफलप्रदः ॥ २ ॥

स्नात्वा कोटि ह्रदे तीर्थे तल्लिंगं यः प्रपूजयेत् ॥

मातॄस्तत्रैव संपूज्य दुःखशोकाद्विमुच्यते ॥ ३ ॥

तस्मात्पूर्वेण देवेशि योजनैकेन निर्मलम् ॥

त्रितकूपेति विख्यातं सर्वपातकनाशनम् ॥

सर्वेषां देवि तीर्थानां यत्तत्रैव व्यवस्थितिः ॥ ४ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कोटिह्रद मण्डूकेश्वरमाहात्म्य वर्णनं नामैकषष्ट्युत्तरत्रिशततमोऽध्यायः ॥ ३६१ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 362

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि गोष्पदस्योत्तरे स्थितम् ॥

गव्यूतिद्वितयेनैव वलाय इति विश्रुतम् ॥ १ ॥

तत्रैकादशरुद्राणां स्थानलिंगान्यपि प्रिये ॥

अजैकपादहिर्बुध्न्यः संतीत्यादीनि नामतः ॥

पूजयेत्तानि विधिवन्मुच्यते सर्वपातकैः ॥ २ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रलिंगमाहात्म्यवर्णनंनाम द्विषष्ट्युत्तरत्रिशततमोऽध्यायः ॥ ३६२ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 363

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि हिरण्यातटसंस्थितम् ॥

स्थानं तुण्डपुरंनाम यत्रासौ घर्घरो ह्रदः ॥ १ ॥

तत्र कन्देश्वरो देवो यत्र बद्धा जटा मया ॥

तत्र स्नात्वा नरः सम्यक्त्ं देवं यः प्रपूजयेत् ॥

स मुक्तः पातकैर्घोरैः प्राप्नुयाच्छासनं शुभम् ॥ २ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये हिरण्यातुण्डपुर घर्घरह्रदकन्देश्वर माहात्म्यवर्णनंनाम त्रिषष्ट्युत्तरत्रिशतत मोऽध्यायः ॥३६३॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 364

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि संवर्तेश्वरमुत्तमम् ॥

इन्द्रेश्वरात्पश्चिमतः पूर्वतश्चार्कभास्करात ॥ १ ॥

तं दृष्ट्वा तु महादेवं स्नात्वा पुष्करिणीजले ॥

दशानामश्वमेधानां फलमाप्नोति मानवः ॥ २ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संवर्तेश्वरमाहात्म्यवर्णनंनाम चतुष्षष्ट्युत्तरत्रिशततमोऽध्यायः ॥ ३६४ ॥

खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 365

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि हिरण्यायाश्च उत्तरे ॥

सिद्धिस्थानानि दिव्यानि यत्र सिद्धा महर्षयः ॥ १ ॥

तत्र लिंगान्यनेकानि शक्यंते कथितुं न हि ॥

साग्रं शतं पुनस्तत्र लिंगानां प्रवरं स्मृतम् ॥२॥

वज्रिण्यास्तु तटे देवि लिंगान्येकोनविंशतिः ॥

न्यंकुमत्यास्तटे देवि सहस्रं द्विशताधिकम् ॥ ३ ॥

प्राधान्येन वरारोहे पूर्वे स्वायंभुवेंऽतरे ॥

कपिलायास्तटेदेवि लिंगानां षष्टिरुत्तमा ॥ ४ ॥

सरस्वत्यां पुनस्तत्र लिंगसंख्या न विद्यते ॥

एवं पंचमुखा देवि लिंगमाला विभूषिता ॥ ५ ॥

प्रभासे कथिता देवि पंचस्रोताः सरस्वती ॥

यस्याः प्रवाहैः संभिन्नं क्षेत्रं द्वादशयोजनम् ॥ ॥ ६॥

तत्र वापीषु कूपेषु यत्र तत्रोद्भवं जलम् ॥

सारस्वतं तु तज्ज्ञेयं ते धन्या ये पिबंति तत् ॥ ७ ॥

यत्रतत्र नरः स्नात्वा सम्यक्छ्रद्धासमन्वितः ॥

सारस्वतस्नानफलं लभते नात्र संशयः ॥ ८ ॥

यत्प्रोक्तं स्पर्शलिंगं तु श्रीसोमेशेति विश्रुतम् ॥

प्रभासक्षेत्रलिंगानां कला तस्यैव शांकरी ॥९ ॥

यद्वा तद्वा पूजयित्वा लिंगं क्षेत्रस्य मध्यगम् ॥

श्रीसोमेशमिति ज्ञात्वा सोमेशः पूजितो भवेत् ॥7.1.366.१०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रकीर्णस्थानलिंगमाहात्म्यवर्णनंनाम पंचषष्ट्युत्तरत्रिशततमोऽध्यायः ॥ ३६५ ॥

इति श्रीस्कान्दे महापुराणे सप्तमे प्रभासखण्डे प्रथमं प्रभासक्षेत्र माहात्म्यं सम्पूर्णम् ॥ ( ७-१) ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 1

॥ श्रीगणेशाय नमः ॥

श्रीसरस्वत्यै नमः ॥

॥ अथ श्रीस्कादे महापुराणे सप्तमे प्रभासखण्डे द्वितीयं श्रीवस्त्रापथक्षेत्रमाहात्म्यं प्रारभ्यते ॥ ॥

॥ ईश्वर उवाच ॥ ॥

अथ ते संप्रवक्ष्यामि क्षेत्रगर्भं महोदयम् ॥

तद्वस्त्रापथमाहात्म्यं यत्र रैवतको गिरिः ॥ १ ॥

दामोदरं रैवतके भवं वस्त्रापथे तथा ॥

एतद्रैवतकं क्षेत्रं वस्त्रापथमिति स्मृतम् ॥ २ ॥

सुवर्णरेवा यत्रस्था नदी पातकनाशनी ॥

यत्र साक्षात्स्थितः कृष्णो दामोदर इति स्मृतः ॥ ३ ॥

यत्र स्थितं मृगीकुण्डं महापातकनाशनम् ॥

सकृच्छ्राद्धे कृते यत्र कल्पकोटिसहस्रकम् ॥

पितॄणां जायते तृप्तिरपुनर्भवकांक्षिणी ॥ ४ ॥

॥ देव्युवाच ॥ ॥

भगवन्विस्तराद्ब्रूहि दामोदरमहोदयम् ॥

क्षेत्रगर्भस्य माहात्म्यं कर्णिकारूपसंस्थितम् ॥ ५ ॥

॥ ईश्वर उवाच ॥ ॥

शृणु देवि प्रवक्ष्यामि दामोदरहरिं प्रति ॥

इतिहासं पुराख्यातमृषिभिः कल्पवासिभिः ॥ ६ ॥

गंगातीरे शुभे रम्ये पुण्ये जनपदाकुले ॥

ऋषिभिः सेविते नित्यं स्वर्गमार्गप्रदे ध्रुवम् ॥ ७ ॥

तत्र ज्ञानविदो विप्रा यजंति विविधैर्मखैः ॥

ऋषयः सांख्ययोगेन दानेनैवेतरे जनाः ॥ ८ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा स्वर्गमभीप्सवः ॥

सेवंते तज्जलं दिव्यं देवानामपि दुर्लभम् ॥ ९ ॥

तत्र राजा गजोनाम बली सर्वजनाधिपः ॥

गंगाजलाभिषेकार्थं त्यक्वा राज्यं जगाम ह ॥ 7.2.1.१० ॥

भार्या तस्य सती साध्वी पुत्रिणी रूपसंयुता ॥

साऽप्ययात्सह तेनैव भर्त्रा वै भर्तृवत्सला ॥ ११ ॥

संगता नाम नाम्ना च दक्षा दाक्षायणी यथा ॥

एवं निवसतोस्तत्र वर्षाणामयुतं गतम् ॥ १२ ॥

आजगाम ऋषिस्तत्र भद्रोनाम महायशाः ॥

सहितो बहुभिर्विप्रैर्जपहोमपरायणैः ॥ १३ ॥

त्यक्त्वा संसारमार्गं तु स्वर्गमार्गजिगीषवः ॥

गंगानिषेवणं कृत्वा स्फोटयित्वाऽऽत्मजं मलम् ॥ १४ ॥

जलं दत्त्वा तु भूतेभ्यः पूजयित्वा जनार्द्दनम्॥

यावद्यांति नदीतीर ऋषयो भद्रकादयः ॥

तावत्पश्यंति राजानं गजं वरगजोपमम् ॥१५॥

तेनैव दृष्टा मुनयो राज्ञा निहतकल्मषाः ॥

सप्तर्षयो यथा स्वर्गे सुरराजेन धीमता ॥१६॥

तमृषिं स च संप्रेक्ष्य पदानि दश पंच च ॥

आगच्छन्त्वत्र पूजार्हा भवतो मम मन्दिरम्॥ १७ ॥

पश्यंतु संगतां सर्वे मम भार्यां यशस्विनीम् ॥

तस्याः पूजां समादाय यो मार्गो मनसि स्थितः ॥ १८ ॥

तं गच्छध्वं महाभागाः पुण्याः पुण्यमभीप्सवः ॥

एवमुक्तास्तु ते राज्ञा ऋषयः कौतुकान्विताः ॥

आजग्मुर्मंदिरं शुभ्रं पुरंदरपुरोपमम् ॥ १९ ॥

आसनानि विचित्राणि दत्त्वा तेषां मनस्विनी ॥

संगता राजराजेन सार्द्धमग्रे व्यवस्थिता ॥7.2.1.२०॥

कृत्वा करपुटं राजा ऋषीणां पुण्यकर्मणाम् ॥

बभाषे वचनं राजा भद्रो भद्रं सुसंगतम्॥२१॥

वसुधा वसुसंपूर्णा मंडिता नगरी पुरी ॥

पर्वतैश्च समुद्रैश्च सरिद्भिश्च सरोवरैः ॥२२॥

ग्रामैश्चतुष्पथैर्घोरैर्गोकुलैराकुलीकृता ॥

नररत्नैरश्वरत्नैर्गजरत्नैस्तु संकुला ॥ २३ ॥

दुस्त्यजा भोगभोक्तृणां परं ज्ञानमजानताम् ॥

संसारेऽत्र महाघोरे पुनरावृत्तिकारिणि ॥ २४ ॥

पतंति पुरुषा भद्र पत्राणीव पुनःपुनः ॥

कृतेन येन विप्रेंद्र स्वर्गं प्राप्नोति निर्मलम् ॥

दानेन तपसा चैव तत्त्वमा चक्ष्व सुव्रत ॥ २५ ॥

॥ भद्र उवाच ॥ ॥

तीर्थानि तोयपूर्णानि देवाः पाषाणमृन्मयाः ॥

आत्मस्थं ये न पश्यंति ते न पश्यंति तत्परम् ॥ २६ ॥

संति तीर्थान्यनेकानि पुण्यान्यायतनानि च ॥

पुण्यतोया पवित्रश्च सरितः सागरास्तथा ॥

बहुपुण्यप्रदा पृथ्वी स्थानेस्थाने पदेपदे ॥ २७ ॥

यद्यस्ति तव राजेंद्र ज्ञानं ज्ञानवतां वर ॥

विष्णुं जिष्णुं हृषीकेशं शंखिनं गदिनं तथा ॥ २८ ॥

चतुर्भुजं महाबाहुं प्रभासे दैत्यसूदनम् ॥

वाराहं वामनं चैव नारसिंहं बलार्जुनम् ॥ २९ ॥

रामं रामं च रामं च पुरुषोत्तममेव च ॥

पुंडरीकेक्षणं चैव गदापाणिं तथैव च ॥ 7.2.1.३० ॥

राघवं शक्रदमनं गोविंदं बहुपुण्यदम् ॥

जयं च भूधरं चैव देवदेवं जनार्द्दनम् ॥ ३१ ॥

सुरोत्तमं श्रीधरं च हरिं योगीश्वरं तथा ॥

कपिलेशं भूतनाथं श्वेतद्वीपपतिं हरिम् ॥ ३२ ॥

बदर्याश्रमवासौ च नरनारायणौ तथा ॥

पद्मनाभं सुनाभं च हयग्रीवं विशां पते ॥ ३३ ॥

द्विजनाथं धरानाथं खड्गपाणिं तथैव च ॥

दामोदरं जलावासं सर्वपापहरं हरिम् ॥३४॥

एतान्येव हि स्थानानि देवदेवस्य चक्रिणः ॥

गच्छते यत्र तत्रैव मुच्यते सर्वपातकैः ॥ ३५ ॥

गंगा च यमुना चैव तथा देवी सरस्वती ॥

दृषद्वती गोमती च तापी कावेरिणी तथा ॥ ३६ ॥ । ।

नर्मदा शर्मदा चैव नदी गोदावरी तथा ॥

शतद्रुश्च तथा विंध्या पयोष्णी वरदा तथा ॥ ३७ ॥

चर्मण्वती च सरयूर्गंडकी चंडपापहा ॥

चंद्रभागा विपाशा च शोणश्चैव पुनःपुनः ॥ ३८ ॥

एताश्चान्याश्च बहवो हिमवत्प्रभवाः शुभाः ॥

तासु स्नातो नरः स्वर्गं याति पातकवर्जितः ॥ ३९ ॥

वनानि नंदनादीनि पर्वता मंदरादयः ॥

नामोच्चारेण येषां हि पापं याति रसातले ॥7.2.1.४० ॥

॥ गज उवाच ॥ ॥

भद्रं हि भाषितं भद्र आख्यानममृतोपमम् ॥

पृच्छामि सर्वधर्मज्ञ त्वामहं किंचिदेव हि ॥ ४१ ॥

यस्मिन्मासे दिने यस्मिंस्तीर्थे यस्मिन्क्रमान्नरैः ॥

अक्षयं सेव्यते स्वर्गस्तन्ममाचक्ष्व सुव्रत ॥ ४२ ॥

स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ॥

अक्षयो येन वै स्वर्गस्तन्मे गदितुमर्हसि ॥ ४३ ॥

॥ भद्र उवाच ॥ ॥

श्रूयतां राजशार्दूल कथां कथयतो मम ॥

यां श्रुत्वा मुच्यते पापान्नरो नरवरोत्तम ॥ ४४ ॥

ऋषीणां कथितं पूर्वं नारदेन महात्मना ॥ ४५ ॥

एवं पृष्टश्च तैः सर्वैर्नारदो मुनिसत्तमः ॥

कथयामास संहृष्टो मेघदुदुभिनिस्वनैः ॥ ४६ ॥

रम्ये हिमवतः पृष्ठे समवाये मया श्रुतम्॥

तदहं तव वक्ष्यामि श्रोतुकामं नरर्षभ ॥ ४७ ॥

तीर्थान्येव हि सर्वाणि पुनरावर्त्तकानि तु ॥

अक्षयाँल्लभते लोकांस्तत्तीर्थं कथयामि ते ॥ ४८ ॥

मार्गशीर्षे कान्यकुब्ज उषित्वा राजसत्तम ॥

न शोचति नरो नारी स्वर्गं याति परावरम् ॥४९॥

पौषस्य पौर्णमासी या यदि सा क्रियतेऽर्बुदे ॥

वर्षाणामर्बुदं स्वर्गे मोदते पितृभिः सह ॥7.2.1.५०॥

माघ्यां यदि गयाश्राद्धं पितॄणां यच्छते नरः ॥

त्रयाणामपि देवानां चतुर्थः स प्रजायते ॥५१॥

फाल्गुन्यां हिमवत्पृष्ठे वसन्नेकां निशां नरः ॥

स याति परमं स्थानं यत्र देवो जनार्द्दनः ॥ ५२ ॥

चैत्र्यां श्राद्धं प्रभासे तु ये कुर्वंति मनीषिणः ॥

न ते मर्त्त्या भवन्तीह कुलजैः सह सत्तमाः ॥ ५३ ॥

चतुर्भुजे तु वैशाख्यां ये कुर्वंति जलप्रिये ॥

तथावंत्यां नरः कश्चित्स याति परमां गतिम् ॥ ५४ ॥

ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां श्राद्धं च त्रितकूपके ॥

कुर्युर्युगानि ते त्रीणि वसंति नाकसद्मनि ॥ ५५ ॥

यो व्रजेशवने नद्यां दिनानि नव पंच च ॥

तिष्ठते च नरः स्वर्गं वैकुण्ठमभिगच्छति ॥ ५६ ॥

श्रावणस्य तु मासस्य पूर्णायां पूर्वसागरे ॥

स्नानं दानं जपं श्राद्धं नरः कुर्वन्न शोचति ॥ ५७ ॥

तथा भाद्रपदे क्षेत्रे प्रभासे शशिभूषणम् ॥

पूजयित्वा नरो लिंगं देवलिंगी भवेत्ततः ॥ ५८ ॥

आश्विने चंद्रभागायां श्राद्धं स्नानं करोति यः ॥

स्थानं युगसहस्राणां कृतं तेन त्रिविष्टपे ॥ ५९ ॥

अष्टाक्षरैश्चतुर्बाहुं ध्यायंति मुनिसत्तमाः ॥

बहुनाऽत्र किमुक्तेन गजाहं प्रवदामि ते ॥ 7.2.1.६० ॥

[[File:Damodar Kund - Junagadh - Gujarat - DSC004.jpg|thumb|600px|दामोदरकुण्डः]]

दामोदरसमं तीर्थं न भूतं न भविष्यति ॥

मासानां कार्त्तिकः श्रेष्ठः कार्त्तिके भीष्मपंचकम् ॥ ६१ ॥

तत्रापि द्वादशी श्रेष्ठा राजन्दामोदरे जले ॥

किमन्यैर्बहुभिस्तीर्थेः कि क्षेत्रैः कि महावनैः ॥

दामोदरे नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥ ६२ ॥

॥ गज उवाच ॥ ॥

भद्र भद्रं त्वया प्रोक्तं रसायनमिवापरम् ॥

भूयोऽहं श्रोतुमिच्छामि तीर्थस्यास्य महाफलम् ॥ ६३ ॥

के देशाः किं प्रमाणं तु का नदी केः च पर्वताः ॥

जना वसंति के तत्र ऋषयः के तपस्विनः ॥ ६४ ॥

॥ भद्र उवाच ॥ ॥

पृथिवी वसुसंपूर्णा सागरेण तु वेष्टिता ॥

मंडिता नगरैर्ग्रामैः सुरैः परपुरंजय ॥ ६५ ॥

वाराणसी प्रभासं च संगमं सितकृष्णयोः ॥

एवं साराणि तीर्थानि यस्मान्मृत्युहराणि च ॥ ६६ ॥

दामोदरेति ये नूनं स्मरंतो यत्र तत्र हि॥

ते वसंति हरेर्गेहं न सरंति कदाचन ॥ ६७ ॥

सोमनाथस्य सान्निध्य उदयन्तो गिरिर्महान् ॥

तस्य पश्चिमभागे तु रैवतक इति स्मृतः ॥ ६८ ॥

वाहिनी वहते तत्र नदी कांचनशेखरात् ॥

धातवस्तत्र ते रक्ताः श्वेता नीलास्तथाऽसिताः ॥ ६९ ॥

पाषाणाः कुञ्जराकाराश्चान्ये सैरिभसन्निभाः ॥

चणकाकृतयश्चान्ये अन्ये गोक्षुरकप्रभाः ॥ 7.2.1.७० ॥

वृक्षा वल्ल्यश्च गुल्माश्च संतानाः संत्यनेकशः ॥

सर्वं तत्कांचनमयं मूलं पुष्पं फलं दलम् ॥ ७१ ॥

न हि पश्यति पापात्मा मुक्तः पापेन पश्यति ॥

सेव्यते स गिरिर्नित्यं धातुवादपरैर्नरैः ॥ ७२ ॥

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः शूद्रानुगैर्बहिः ॥

पक्षिणस्तत्र बहवः शिवाशिवगिरस्तदा ॥ ७३ ॥

हंससारसचक्राह्वाः शुककोकिलबर्हिणः ॥

मृगाश्च वानरेन्द्राश्च हंसा व्याघ्रास्तथैव च ॥ ७४ ॥

तत्तीर्थस्य प्रभावेन न दुष्टान्याचरंति ते ॥

कालेन मृत्युमायांति पशुपक्षिसरीसृपाः ॥ ७८५ ॥

सर्वे विमानमारूढा गच्छन्ति हरिमन्दिरम्॥

वायुना पातितं यत्र पत्रपुष्पफलादिकम् ॥ ७६ ॥

तस्या नद्या जलं स्पृष्ट्वा सर्वं वै मुक्तिमाप्नुते ॥

सा नदी पृथिवीं भित्त्वा पातालादागता नृप ॥ ७७ ॥

पूर्वं पन्नगराजस्तु तेन मार्गेण चागतः ॥

स्नातुं दामोदरे तीर्थे यममृत्युप्रघातिनि ॥ ७८ ॥

स्वर्गादागत्य चन्द्रोऽपि यष्टुं यज्ञं सुपुष्कलम् ॥

यक्ष्मरोगाद्विनिर्मुक्तो गतः स्वर्गं निरामयः ॥ ७९ ॥

बलिना चैव दानानि दत्तान्यागत्य कार्तिके ॥

हरिश्चन्द्रेण विधिना नलेन नहुषेण च ॥ 7.2.1.८० ॥

नाभागेनांबरीषाद्यैः कृतं कर्म सुदुष्करम् ॥

दत्त्वा दानान्यनेकानि गजा गावो हया रथाः ॥ ८१ ॥

अनडुत्कांचना भूमिं रत्नानि विविधानि च ॥

छत्राणि विप्रमुख्येभ्यो यानानि चैव वाससी ॥ ८२ ॥

अन्नानि रसमिश्राणि दत्त्वा दामोदराग्रतः ॥

गतास्ते विष्णु भुवनं नागच्छंति महीतले ॥ ८३ ॥

पत्रं पुष्पं फलं तोयं तस्मिंस्तीर्थे ददाति यः ॥

द्विजानां भक्तिसंयुक्तः स याति जलशायिनम् ॥ ८४ ॥

प्रकृतिं चापि यो दद्यान्मुष्टिं वाथ क्षुधार्थिने ॥

विमानवरमारूढः स सोमं प्रति गच्छति ॥ ८५ ॥

दामोदराग्रतः कृत्वा पर्वतानन्नसंभवान् ॥

पूजितान्फलपुष्पैश्च दीपं दद्यात्सवर्त्तिकम् ॥ ८६ ॥

अवाप्य दुष्करं स्थानं कुलानां तारयेच्छतम् ॥

चतुरंगुलमात्रेपि दत्ते दामोदराग्रतः ॥ ८७ ॥

दाने युगसहस्राणि स्वर्गलोके महीयते ॥

मा गच्छ हिमवत्पृष्ठं मलयं मा च मन्दरम् ॥ ८८ ॥

गच्छ रैवतकं शैलं यत्र दामोदरः स्थितः ॥

कृत्वा मासोपवासं तु द्विजो दामोदराग्रतः ॥ ८९ ॥

न निवर्तति कालेन दामोदरपुरं व्रजेत् ॥

करोत्यनशनं यश्च नरो नार्यथवा पुनः ॥

सर्व लोकानतिक्रम्य स हरेर्गेहमाप्नुयात् ॥ 7.2.1.९० ॥

विघ्नानि तत्र तिष्ठन्ति नित्यं पञ्चशतानि च ॥

धर्मविध्वंसकर्तॄणि नरस्तत्र न गच्छति ॥ ९१ ॥

प्रद्युम्नबलशैनेयगदाचक्रादिभिः सदा ॥

शतलक्षप्रमाणैस्तु सेव्यते स गिरिर्महान् ॥ ९२ ॥

क्रीडंति नार्यस्तेषां हि नित्यं दामोदराग्रतः ॥

सुचन्द्रवदना गौर्यः श्यामाश्चैव सुमध्यमाः ॥ ९३ ॥

नितंबिन्यः सुकेशाश्च शुभ्राः स्वायतलोचनाः ॥

सुगंडा ललिताश्चैव सुकक्षाः सुपयोधराः ॥ ९४ ॥

शोभमानाः सुजंघाश्च सुपादाः सुन्दरांगुलीः ॥

राजपुत्र्यो गिरौ तस्मिन्हसंति च रमंति च ॥ ९५ ॥

कौसुंभं पादयुगले कुंकुमं पीतकंचुकम्॥

ब्राह्मणीभ्यो ददन्तीह स्पर्द्धमानाः पृथक्पृथक् ॥ ९६ ॥

भक्ष्यं भोज्यं च पेयं च लेह्यं चोष्यं च पिच्छिलम् ॥

तांबूलं पुष्पसंयुक्तं कार्तिके हरिवासरे ॥ ९७ ॥

दृष्ट्वा तु रेवतीकुंडं प्रदद्यात्फलमुत्तमम् ॥

पुत्रिणी ऋद्धिसंपन्ना सुभगा जायते सती ॥ ९८ ॥

एवं कृत्वा तु सा रात्रि नीयते निद्रया विना ॥

वेदघोषैः सुपुण्यैस्तु भारताख्यानवाचनैः ॥ ९९ ॥

हुंकृतैस्तलशब्दैश्च तालशब्दैः पुनःपुनः ॥

देशभाषाविभाषिण्यो रामामण्डलमध्यतः ॥

हास्यनृत्यसमायुक्ता राजन्दामोदराग्रतः ॥ 7.2.1.१०० ॥

पञ्चपाषाणकं हर्म्यं यः करोति शिवालयम् ॥

पंचवर्षसहस्राणि स्वर्ग लोके महीयते ॥ १०१ ॥

दशपाषाणसंयुक्तं कृत्वा दामोदराग्रतः ॥

दशवर्षसहस्राणि स्वर्गे हल्लति मल्लति ॥ १०२ ॥

शतपाषाणकं हर्म्यं यः करोति महन्नृप ॥

मन्दिरं सुन्दरं शुभ्रं स याति हरिमन्दिरम् ॥ १०३ ॥

कृत्वा साहस्रिकं चैत्यं बहुरूपसमन्वितम् ॥

सर्वाँल्लोकानतिक्रम्य परं ब्रह्माधिगच्छति ॥ १०४ ॥

पंचवर्णध्वजं दद्याद्दामोदरगृहोपरि ॥

तं तु प्रमाणवर्षाणि दिव्यानि स दिवं व्रजेत् ॥ १०५ ॥

तस्य गव्यूतिमात्रेण क्षेत्रं वस्त्रापथं शुभम् ॥

यद्दृष्ट्वा सर्वपापानि विलीयन्ते बहूनि च ॥ १०६ ॥

राजंस्तत्पदमायाति यद्गत्वा न निवर्त्तते ॥

पूजयित्वा भवं देवं भवसंभवनाशनम् ॥ १०७ ॥

नरो नारी नृपश्रेष्ठ शिवलोके महीयते ॥

तच्छ्रुत्वा वचनं तस्य भद्रस्य च सुभाषितम् ॥ १०८ ॥

आगतः कार्तिकीं कर्त्तुं देवे दामोदरे ततः ॥

ऋग्यजुःसामसंयुक्तैर्ब्राह्मणैर्ब्रह्मवित्तमैः ॥ १०९ ॥

क्षत्रियैः क्षत्रधर्मज्ञैर्वैश्यैर्दानपरायणैः ॥

सह शूद्रैः समायातस्तस्मिंस्तीर्थे गजो नृपः ॥ 7.2.1.११० ॥

दत्त्वा दानान्यनेकानि हुत्वा हविर्हुताशने ॥

अग्निष्टोमादिकान्यज्ञान्हयमेधादिकान्बहून् ॥

चकार विधिवद्राजा गजस्तत्र समाहितः ॥ १११ ॥

ततश्च न्यवसत्तत्र तपः कर्तुं सहर्षिभिः ॥

ऊर्द्ध्वपादाः स्थिता विप्राः पीत्वा धूममधोमुखाः ॥

शुष्कपत्राशनाश्चान्ये अन्ये वै फलभोजनाः ॥ ११२ ॥

मूलानि चान्ये भक्षंति अन्ये वार्यंशना द्विजाः ॥

आलोकंति स्वमन्ये च तथान्ये जलशायिनः ॥ ११३ ॥

पञ्चाग्निसाधकाश्चान्ये शिलाचूर्णस्य भक्षकाः ॥

जपंति चान्ये संशुद्धा गायत्रीं वेदमातरम् ॥

सावित्रीं मनसा चान्ये देवीमन्ये सरस्वतीम्॥ ११४ ॥

सूक्तानि हि पवित्राणि ब्रह्मणा निर्मितानि च ॥

अन्येऽवसंस्तदा तत्र द्वादशाक्षरचिन्तकाः ॥ ११५ ॥

आलोक्य सर्वशास्त्राणि विचार्य च पुनःपुनः ॥

इदमेव सुनिष्पन्नं ध्येयो नारायणः सदा ॥ ११६ ॥

आराधितः सुदुष्पारे भवे भगवतो विना ॥

तथा नान्यो महादेवात्पतन्तं योऽभिरक्षति ॥ ११७ ॥

गतागतानि वर्तंते चंद्रसूर्यादयो ग्रहाः ॥

अद्यापि न निवर्तंते द्वादशाक्षरचिंतकाः ॥ ११८ ॥।

येऽक्षरा ऋषयश्चान्ये देवलोकजिगीषवः ॥

प्राप्नुवंति ततः स्थानं दग्धबीजं च तत्तथा ॥ ११९ ॥

सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ॥

बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ 7.2.1.१२० ॥

एकभक्तं तथा नक्तमयाच्यमुषितं तथा॥

एवमादीनि चान्यानि कृत्वा दामोदराग्रतः ॥

कृतकृत्या भवंतीह यावदाभूतसंप्लवम्॥ १२१ ॥

स राजा ऋषिभिः सार्द्धं यावत्तिष्ठति तत्र वै ॥

विमानानि सहस्राणि तावत्तत्रागतानि च ॥ १२२ ॥

गंधर्वाप्सरस्तत्र सिद्धचारणकिन्नराः ॥

सर्वे विमानमारूढाः शतशोऽथ सहस्रशः ॥ १२३॥

सर्वैर्जनपदैः सार्द्ध स राजा भार्यया सह ॥

गतो विमानमारूढो यत्तत्पदमनामयम् ॥ १२४ ॥

य इदं पठते नित्यं शृणुयाद्वाऽपि मानवः ॥

सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति ॥ १२५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये दामोदरमाहात्म्यवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 2

[[File:Bhavnath Mahadev.jpg|thumb|600px|भवनाथमहादेवः ]]

thumb|600px|औदुम्बरी । सोमयागे सदोमण्डपस्य (उदरं वै सदः) हृदयं/नाभिः औदुम्बरी भवति। सामवेदिनः अस्य मूले स्थित्वा सामगानं कुर्वन्ति। पुराणेषु गयाक्षेत्रः नाभिरूपः अस्ति। अस्य वैशिष्ट्यमस्ति यत् बाह्याः सुख-दुःखानि आत्मानं न कम्पयन्ति।

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि क्षेत्रं वस्त्रापथं पुनः ॥

यत्प्रभासस्य सर्वस्वं क्षेत्रं नाभिः प्रियं मम ॥ १ ॥

यत्र साक्षाद्भवो देवः सृष्टिसंहारकारकः ॥

पृथिव्यां स त्वधिष्ठाता तत्त्वानामादिमः प्रभुः ॥ २ ॥

स स्वयंभूः स्थितस्तत्र प्रभासे भूतिदो भवः ॥

भवतीदं जगद्यस्मात्तस्माद्भव इति स्मृतः ॥ ३ ॥

यः सकृत्कुरुते यात्रां क्षेत्रे वस्त्रापथे पुनः ॥

विगाह्य तत्र तीर्थानि कृतकृत्यः स जायते ॥ ४ ॥

अथ दृष्ट्वा भवं देवं सकृत्पूज्यविधानतः ॥

केदारयात्राफलभाक्स भवेन्मनुजोत्तमः ॥ ५ ॥

चैत्रे मासि भवं दृष्ट्वा न पुनर्जायते भुवि ॥

वैशाख्यामथवा सम्यग्भवं दृष्ट्वा विमुच्यते ॥ ६ ॥

वाराणस्यां कुरुक्षेत्रे नर्मदायां तु यत्फलम् ॥

तत्फलं निमिषार्द्धेन भवं दृष्ट्वा दिनेदिने ॥ ७ ॥

दुर्ल्लभस्तत्र वासस्तु दुर्ल्लभं भवदर्शनम् ॥

प्रेतत्वं नैव तस्यास्ति न याम्या नारकी व्यथा ॥ ८ ॥

येषां भवालये प्राणा गता वै वरवर्णिनि ॥

धन्यानामपि धन्यास्ते देवानामपि देवताः ॥ ९ ॥

वस्त्रापथे मतिर्येषां भवे येषां मतिः स्थिरा ॥

गोदानं तत्र शंसंति ब्राह्मणानां च भोजनम्॥

पिंडदानं च तत्रैव कल्पांतं तृप्तिमा वहेत्॥ 7.2.2.१० ॥

इति संक्षेपतः प्रोक्तं माहात्म्यं ते भवोद्भवम् ॥

श्रुतं पापोपशमनं यज्ञायुतफलप्रदम् ॥ ११ ॥

इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये वस्त्रापथक्षेत्रभवमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 3

॥ ईश्वर उवाच ॥

अथ वस्त्रापथे क्षेत्रे संति तीर्थानि कोटिशः॥

तथापि सारं ते वच्मि सर्वतीर्थमहोदयम् ॥ १ ॥

दामोदरे नदी प्रोक्ता स्वर्णरेषेति या स्मृता ॥

ब्रह्मकुण्डं च तत्रैव तथा ब्रह्मेश्वरः स्मृतः ॥ २ ॥

कालमेघश्च संप्रोक्तो भवो दामोदरः स्मृतः ॥

गव्यूतिद्वितयेनैव कालिका तत्र कीर्तिता ॥ ३ ॥

इन्द्रेश्वरश्च तत्रैव रैवतः पर्वतस्तथा ॥

उज्जयंतश्च तत्रैव देवः कुम्भीश्वरः स्मृतः ॥ ४ ॥

भीमेश्वरश्च तत्रैव ततः क्षेत्रं महाप्रभम् ॥

तैलसारणिकंनाम त्रेतायां हैममारकम् ॥ ५ ॥

पंचगव्यूतिमात्रं तु तत्क्षेत्रं संप्रकीर्तितम् ॥

मृगीकुण्डं च तत्रैव सर्वपातकनाशनम् ॥ ६ ॥

एतद्वस्त्रापथं क्षेत्रं रत्नधात्वोस्तथाऽऽकरम् ॥

कथितं तव देवेशि पुनः संक्षेपतो मया ॥ ७ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये प्रवरतीर्थानुकीर्तननाम तृतीयोऽध्यायः ॥ ३ ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 4

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि दुन्नाविल्लेति विश्रुतम् ॥

योजनस्यांतरे देवि पश्चिमे मंगलस्थितेः ॥ १ ॥

दुन्नको यत्र भीमेन भुक्त्वा त्यक्तः पुरा प्रिये ॥

तत्रैव विवरं दिव्यं महा पातालमार्गदम् ॥ २ ॥

तस्य कल्पः पुरा प्रोक्तः पातालोत्तरसंग्रहे ॥

तत्र लिंगान्यनेकानि सिद्धस्थानानि षोडश ॥ ३ ॥

सुवर्णस्याकरः पूर्वं तत्स्थानमभवत्प्रिये ॥

तस्मिन्स्थाने नरैर्देवि गन्तव्यं भूतिलिप्सया ॥ ४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये दुन्नाविल्लहृद्गिरिस्थानमाहात्म्यवर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 5

॥ ईश्वर उवाच ॥ ॥

ततो गच्छेन्महादेवि मंगलात्पश्चिमे स्थितम् ॥

गंगास्रोतस्तथा लिंगं सुरार्कं च विशेषतः ॥ १ ॥

तान्गच्छेद्विधिवद्देवि यदि यात्राफलेप्सुता ॥

स्नात्वा पिण्डप्रदानं च कुर्यात्तत्र यथार्थतः ॥

ब्राह्मणेभ्यस्तथा देयमन्नं भूरि सदक्षिणम् ॥ २ ॥

इति ते कथितं मया प्रिये कलिपापौघविनाशनं शुभम् ॥

निखिलं तीर्थमहोदयोदयं पठितं सद्विनिहंति पापसंहतिम् ॥ ३ ॥

इदं न देयं दुर्बुद्धेः सुतरां पापनाशनम् ॥

श्रोतव्यं विधिना तद्वद्भविष्योक्तविधानतः ॥ ४ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये गंगेश्वरमाहात्म्यवर्णनंनाम पंचमोऽध्यायः ॥ ५ ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 6

॥ ईश्वर उवाच ॥ ॥

अधुना संप्रवक्ष्यामि मंगलात्पश्चिमे व्रजेत् ॥

तत्र सिद्धेश्वरं पश्येत्सर्वसिद्धिप्रदायकम् ॥ १ ॥

तत्रैव चक्रतीर्थं तु तीर्थकोटिफलप्रदम् ॥

लोकेश्वरं स्वयंभूतं पूर्वमिंद्रेश्वरेति च ॥ २ ॥

दृष्ट्वा तं विधिवद्देवि ततो यक्षवनं व्रजेत् ॥

मंगलात्पश्चिमे भागे यत्र देवी स्वयं स्थिता ॥ ३ ॥

यक्षेश्वरी महाभागा वांछितार्थप्रदायिनी ॥

तां संपूज्य विधानेन ततो वस्त्रापथं पुनः ॥ ४ ॥

गिरिं रैवतकं गत्वा कुर्याद्यात्राविधानतः ॥

मृगीकुंडादितीर्थानि संति तत्रैव कोटिशः ॥ ५ ॥

यद्भुक्तिशिखरे देवि सीमालिंगं हि तत्स्मृतम् ॥

दशकोटिस्तु तीर्थानि तत्र संति वरान ने ॥ ६ ॥

यत्र वै यादवाः सिद्धाः कलौ ये बुद्धिरूपिणः ॥

शतसहस्रार्बुदं च लिंगं तत्रैव तिष्ठति ॥ ७ ॥

गजेंद्रस्य पदं तत्र तत्रैव रसकूपिकाः ॥

सप्त कुण्डानि तत्रैव रैवते पर्वतोत्तमे ॥ ८ ॥

अंबिका च स्थिता देवी प्रद्युम्नः सांब एव च ॥

लिंगाकारे पर्वते तु तत्र तीर्थानि कोटिशः ॥ ९ ॥

मृगीकुंडं च तत्रैव कालमेघस्तथैव च ॥

क्षेत्रपालस्वरूपेण महोदधि स्वयं स्थितः ॥

दामोदरश्च तत्रैव भवो ब्रह्माडनायकः ॥ 7.2.6.१० ॥ ॥

॥ पार्वत्युवाच ॥ ॥

श्रुतानि तव तीर्थानि देवेश वदतस्तव ॥

गंगा सरस्वती पुण्या यमुना च महानदी ॥ ११ ॥

गोदावरी गोमती च नदी तापी च नर्मदा ॥

सरयूः स्वर्णरेखा च तमसा पापनाशिनी ॥ १२ ॥

नद्यः समुद्रसंयोगाः सर्वाः पुण्याः श्रुता मया ॥

मोक्षारण्यानि दिव्यानि। दिव्यक्षेत्राणि यानि च ॥ १३ ॥

नगर्यो मुक्तिदायिन्यस्ताः श्रुतास्त्वत्प्रसादतः ॥

ब्रह्मविष्णुशिवादीनां सूर्येंदुवरुणस्य च ॥ १४ ॥

देवताना मृषीणां च संति स्थानान्यनेकशः ॥

परं देव त्वया पुण्यं प्रभासं कथितं मम ॥ १५ ॥

तस्माद्यच्चाधिकं प्रोक्तं क्षेत्रं वस्त्रापथं त्वया ॥

शृण्वंत्या च मया पूर्वं न पृष्टं कारणं तदा ॥ १६ ॥

इदानीं च श्रुतं सर्वं स्वस्थाहं कारणं वद ॥

प्रभावं प्रथमं ब्रूहि क्षेत्रस्य च भवस्य च ॥ १७ ॥

कस्मिन्देशे च तत्तीर्थं शिवः केनात्र संस्थितः ॥

स्वयंभूर्भगवान्रुद्रः कथं तत्र स्थितः स्वयम् ॥

प्रभो मे महदाश्चर्यं वर्तते तद्वदाधुना ॥ १८ ॥

॥ ईश्वर उवाच ॥ ॥

वस्त्रापथस्य क्षेत्रस्य प्रभावं प्रथमं शृणु ॥

पश्चाद्भवस्य माहात्म्यं शृणु त्वं च वरानने ॥ १९ ॥

कान्यकुब्जे महाक्षेत्रे राजा भोजेति विश्रुतः ॥

पुरा पुण्ययुगे धर्म्यः प्रजा धर्मेण शासति ॥ 7.2.6.२० ॥

विशालाक्षो दीर्घबाहुर्विद्वान्वाग्ग्मी प्रियंवदः ॥

सर्वलक्षणसंपूर्णो बह्वाश्चर्यविलोककः ॥ २१ ॥

वनात्कदाचिदभ्येत्य वनपालोब्रवीदिदम् ॥

आश्चर्यं भ्रमता देव वने दृष्टं मयाधुना ॥ २२ ॥

गिरौ विषमभूभागे वहुवृक्षसमाकुले ॥

मृगयूथगता नारी मया दृष्टा मृगानना ॥ २३ ॥

मृगवत्प्लवते बाला सदा तत्रैव दृश्यते ॥

इति श्रुत्वा वचो राजा तुष्टस्तस्मै धनं ददौ ॥ २४ ॥

चतुरं तुरगं दिव्यं वाससी स्वर्णभूषणम्॥

इदानीमेव यास्यामि सेनाध्यक्ष त्वया सह ॥२५॥

अश्वानां दशसाहस्रं वागुराणां त्वनेकधा ॥

पत्तयो यांतु सर्वत्र वेष्टयंतु गिरिंवरम् ॥२६॥

न हंतव्यो मृगः कश्चिद्रक्षणीया हि सा मृगी ॥

स्त्रीवेषधारिणी नारी मृगी भवति भूतले ॥२७॥

क्व यास्यति वराकी सा मद्बलैः परिपीडिता ॥

शस्त्रास्त्रवर्जितं सैन्यं वनपालपदानुगम् ॥२८॥

अहोरात्रेण संप्राप्तं बहुव्याधजनाग्रतः ॥

अश्वाधिरूढो बलवान्भोजराजो ययौ स्वयम् ॥ २९ ॥

निःशब्दपदसञ्चारः संज्ञासंकेतभाषकः ॥

गिरिं संवेष्टयामास वागुराभिः स्वयं नृपः ॥ 7.2.6.३० ॥

वनपालेन सहितो मृगयूथं ददर्श सः ॥

सा मृगी मृगमध्यस्था नारीदेहा मुखे मृगी ॥

मृगवच्चेष्टते बाला धावते च मृगैः सह ॥ ३१ ॥

अश्वगंधान्समाघ्राय सन्त्रस्ता मृगयूथपाः ॥

क्षुब्धा भ्रान्ताः क्षणे तस्मिन्सर्वे यांति दिशो दश ॥ ३२ ॥

मृगवक्त्रा तु या नारी मृगैः कतिपयैः सह ॥

प्लवमाना निपतिता वागुरायां विचेतना ॥ ३३ ॥

बलाध्यक्षेण विधृता मृगैः सह शनैर्नृपः ॥

ददर्श महदाश्चर्यं भोजराजो जनैर्वृतः ॥ ३४ ॥

ततः कोलाहलो जातः परमानंदिनिस्वनः ॥

मृगैः सह समानिन्ये कान्यकुब्जं मृगीं नृपः ॥ ३५ ॥

दिव्यवस्त्रसमाच्छन्ना दिव्याभरणभूषिता ॥

नरयानस्थिता नारी प्रविवेश मृगैर्वृता ॥ ३६ ॥

वादित्रैर्ब्रह्मघोषैश्च नीयते नृपमंदिरम् ॥

जनैर्जानपदैर्मार्गे दृश्यते नृपमन्दिरे ॥ ३७ ॥

नीयमाना नागरैश्च महदाश्चर्यभाषकैः ॥

पुण्ये मुहूर्त्ते संप्राप्ते सा मृगी नृपमन्दिरम् ॥ ३८ ॥

प्रतीहारेण राजेन्द्र वचसा वारितो जनः ॥

गतः सेनापतिः सैन्यं गृहीत्वा स्वनिकेतनम् ॥ ३९ ॥

राजापि स्वगृहं प्राप्य स्नात्वा संपूज्य देवताः ॥

तां मृगीं स्नापयामास दिव्यगन्धानुलेपनाम्॥ 7.2.6.४० ॥

कुङ्कुमेन विलिप्तांगीं दिव्यवस्त्रावगुंठिताम् ॥

यथोचितं यथास्थानं दिव्याभरणभूषिताम् ॥ ४१ ॥

एकांते निर्जने राजा बभाषे चारुलोचनाम् ॥

का त्वं कस्य सुता केन कारणेन मृगैः सह ॥ ४२ ॥

स्त्रीणां शरीरं ते कस्मान्मृगीणां वदनं कुतः ॥

इति सर्वं समाचक्ष्व परं कौतूहलं हि मे ॥ ४३ ॥

एवं सा प्रोच्यमानापि न बभाषे कथंचन ॥

मूकवन्न विजानाति न च भुंक्ते सुलोचना ॥ ४४ ॥

न भुंक्ते पृथिवीपालो न राज्यं बहु मन्यते ॥

न दारैर्विद्यते कार्यं नाश्वैर्न च गजै रथैः ॥ ४५ ॥

तदेव राज्यं ते दारास्ते गजास्तद्धनं बहु ॥

प्रमदामदसंरक्तं यत्र संक्रीडते मनः ॥ ४६ ॥

आहूयाह प्रतीहारं तया संमोहितो नृपः ॥

पुरोधसं गुरुं विप्रानाचार्याञ्छीघ्रमानय ॥ ४७ ॥

दैवज्ञानथ मन्त्रज्ञान्भिषजस्तांत्रिकांस्तथा ॥

इति सन्नोदितो राज्ञा प्रतीहारो ययौ स्वयम् ॥ ४८ ॥

आजगाम स वेगेन समानीय द्विजोत्तमान्॥

राज्ञे विज्ञापयामास देव विप्राः समागताः ॥ ४९ ॥

प्रवेशय गुरुं द्वाःस्थं संप्राप्तान्मद्धिते रतान् ॥

इति सन्नोदितो राज्ञा तथा चक्रे स बुद्धिमान्॥ 7.2.6.५० ॥

अभ्युत्थाय नृपः पूर्वं नमस्कृत्य प्रपूज्य च ॥

आसनेषूपविष्टांस्तान्बभाषे कार्यतत्परः ॥ ५१ ॥

इदमाश्चर्यमेवैकं कथं शक्यं निवेदितुम् ॥

जानीत हि स्वयं सर्वे लोकतः शास्त्रतोऽपि वा ॥ ५२ ॥

कथमेषा समुत्पन्ना कस्येदं कर्मणः फलम् ॥

अस्यां केन प्रकारेण वचनं मानुषं भवेत् ॥ ५३ ॥

स्वयं मनुष्यवदना कथमेषा भविष्यति ॥

सावधानैर्द्विजैर्भूयः सर्वं संचिन्त्य चोच्यताम् ॥ ५४ ॥

॥ विप्रा ऊचुः ॥ ॥

देव सारस्वतो नाम कुरुक्षेत्रे द्विजोत्तमः ॥

ऊर्द्ध्वरेताः सरस्वत्यां तपस्तेपे जितेन्द्रियः ॥ ५५ ॥

कथयिष्यति सर्वं ते तेनादिष्टा मृगी स्वयम् ॥

इति श्रुत्वा वचो राजा ययौ सारस्वतं द्विजम् ॥ ५६ ॥

सरस्वतीजले स्नातं प्रभासे ध्यानतत्परम् ॥

दृष्ट्वा प्रदक्षिणीकृत्य साष्टांगं तं प्रणम्य च ॥

उपविष्टो नृपो भूमौ प्रांजलिः सञ्जितेन्द्रियः ॥ ५७ ॥

मनुष्यपदसंचारं श्रुत्वा ज्ञात्वा च कारणम् ॥

सारस्वतो बभाषेऽथ तं नृपं भक्तितत्परम् ॥ ५८ ॥

॥ सारस्वत उवाच ॥ ॥

भोजराज शुभं तेस्तु ज्ञातं तत्कारणं मया ॥

मृगानना त्वया नारी समानीता वनात्किल ॥ ५९ ॥

महदाश्चर्यमेवैतत्तव चेतसि वर्त्तते ॥

आदिष्टा तु मया बाला सर्वं ते कथयिष्यति ॥ 7.2.6.६० ॥

जानाम्यहं महाराज चरित्रं जन्म यादृशम् ॥

आश्चर्यं संभवेल्लोके कथ्यमानं तया स्वयम् ॥ ६१ ॥

इत्यादिश्य गतो वेगाद्रथेनादित्यवर्चसा ॥

अहोरात्रद्वयेनैव संप्राप्तो नृप मन्दिरम् ॥ ६२ ॥

प्रविश्य च मृगीं दृष्ट्वा यत्रास्ते मृगलोचना ॥

तया सारस्वतो ज्ञातो धर्मज्ञः सर्वविद्द्विजः ॥ ६३ ॥

॥ मृग्युवाच ॥ ॥

एष सर्वं हि जानाति कारणं यच्च यादृशम् ॥

वर्त्तमानं भविष्यं च भूतं यद्भुवनत्रये ॥ ६४ ॥

एतेन मरणं ज्ञातं मदीयं पूर्वजन्मनि ॥

वस्त्रापथे महाक्षेत्रे तपस्तप्तं भवालये ॥ ६५ ॥

विधूय कलुषं सर्वं ज्ञानमुत्पाद्य यत्नतः ॥

जरामरणनिर्मुक्तः प्रत्यक्षं दृष्टवान्भवम् ॥ ६६ ॥

अस्य तुष्टो भवो देवो ज्ञातं तीर्थस्य कारणम् ॥

आदिष्टया मया वाच्यं भवेज्जन्मनि कारणम् ॥ ६७ ॥

इति चिन्तापरा यावत्तावद्विप्रः समागतः ॥

तस्मै प्रणामपरमा मूर्च्छिता निपपात सा ॥ ६८ ॥

अथ सारस्वतो ज्ञानाज्ज्ञातवान्कारणं च तत् ॥

आनयन्तु द्विजा वेगात्कलशं तोयसंभृतम् ॥ ॥ ६९ ॥

सवौंषधीः पल्लवांश्च दूर्वाः पुष्पाणि चाक्षतान्॥

धूपं च चंदनं चैव गोमयं मधुसर्पिषी ॥ 7.2.6.७० ॥

इत्यादिष्टैर्द्विजैर्वेगात्समानीतं नृपाज्ञया ॥

उपलिप्य च भूभागं स्वस्तिकं संनिवेश्य च ॥ ७१ ॥

तत्राग्निकार्यं कृत्वाऽथ वेदान्कुंभे निधाय सः ॥

इन्द्रं तस्मिंश्च विन्यस्य दिक्पालांश्च यथाक्रमम् ॥

हुत्वाग्निं स चरुं कृत्वा ग्रहपूजामकारयत् ॥ ७२ ॥

तोयं सुवर्णपात्रस्थं कृत्वा कुंभान्स्वयं गुरुः ॥

अभिषेकं ततश्चक्रे मुहूर्ते सार्वकामिके ॥ ७३ ॥

अभिषिक्ता तु सा तेन पूता स्नानार्थवारिणा ॥

जाता सचेतना बाला सर्वं पश्यति चक्षुषा ॥ ७४ ॥

शृणोति सर्वं जानाति चरित्रं पूर्वजन्मनः ॥

बदरीफलमात्रं तु पुरोडाशं ददौ गुरुः ॥ ७५ ॥

तयोपभुक्तं यत्नेन ततश्चक्रे स मार्ज्जनम् ॥

मानुषे वचने कर्णे ददौ ज्ञानं गुरुस्ततः ॥ ७६ ॥

गुरवे दक्षिणां दत्त्वा ततः सा च मृगानना ॥

भोजराजाय सर्व च चरित्रं पूर्वजन्मनः ॥ ॥ ७७ ॥

वक्तुं प्रचक्रमे बाल्याद्यद्वृत्तं पूर्वजन्मनि ॥

नमस्कृत्य गुरुं पूर्वं ब्राह्मणान्क्षत्रियांस्तथा ॥ ७८ ॥

॥ मृग्युवाच ॥ ॥

न विषादस्त्वया कार्यो राजञ्च्छ्रुत्वा मयोदितम् ॥

इतस्त्वं सप्तमे स्थाने कलिंगाधिपतेः सुतः ॥ ७९ ॥

मृते पितरि बालस्त्वं स्वभिषिक्तः स्वमंत्रिभिः ॥

अहं हि वंगराजस्य संजाता दुहिता किल ॥ 7.2.6.८० ॥

परिणीता त्वया देव पित्रा दत्ता स्वयं नृप ॥

त्वयाऽहं पट्टमहिषी कृता योषिद्वरा यतः ॥ ८१ ॥

युवा जातः क्रमेणैव हिंस्रः क्रूरो बभूव ह ॥

न वेदशास्त्रकुशलो दयाधर्मविवर्जितः ॥ ८२ ॥

लुब्धो मानी महाक्रोधी सत्याचार बहिष्कृतः ॥

न देवं न गुरुं विप्रान्नो जानाति दुराशयः ॥ ८३ ॥

विरक्ता हि प्रजास्तस्य ब्राह्मणोच्छेदकारकः ॥

समासन्नैर्नृपैस्तस्य देशः सर्वो विलुंपितः ॥

सैन्यं सर्वं समादाय युद्धायोपजगाम सः ॥ ८४ ॥

सहैवाहं गता देव युद्धं जातं नृपैः सह ॥

हारितं सैनिकैस्तस्य गता नष्टा दिशो दश ॥ ८५ ॥

त्यक्त्वा धर्मं निजं राजा पलायनपरोऽभवत् ॥

गच्छमानस्तु नृपतिः शत्रुभिः परिपीडितः ॥ ८६ ॥

तवास्मिवादी दुष्टात्मा हतो लोकविरोधकः ॥

देहं तस्य गृहीत्वाग्नौ प्रविष्टाहं नृपोत्तम ॥ ८७ ॥

मृतस्यैवं गतिर्नास्ति नरके स विपच्यते ॥

मृतं कांतं समादाय भार्याग्नौ प्रविशेद्यदि ॥ ८८ ॥

सा तारयति पापिष्ठं यावदाभूतसंप्लवम् ॥

इह पापक्षयं कृत्वा पश्चात्स्वर्गे महीयते ॥ ८९ ॥

अतस्त्वं ब्राह्मणो जातो देशे मालवके नृप ॥

तस्यैव तत्र भार्याहं संभूता ब्राह्मणी नृप ॥ 7.2.6.९० ॥

धनधान्यसमृद्धोऽभूत्तथा जीवधनाधिकः ॥

मृतः पिता मृता माता स च भ्रातृविवर्जितः ॥ ९१ ॥

धनधान्यसमृद्धोऽपि लुब्धो भ्रमति भूतले ॥

अतीव कोपनो विप्रो वेदपाठविवर्जितः ॥ ९२ ॥

स्नानसंध्यादिहीनश्च मायावी याचते जनम् ॥

भक्तिं करोमि परमां स च क्रुध्यति मां प्रति ॥ ९३ ॥

संतानं तस्य वै नास्ति धनरक्षापरो हि सः ॥

न ददाति न चाश्नाति न जुहोति स रक्षति ॥ ९४ ॥

न तर्पणं तिलैर्विप्रो विदधात्यतिलो भतः ॥

कार्त्तिकेऽपि च संप्राप्ते विष्णुपूजाविवर्जितः ॥ ९५ ॥

दीपं ददाति नो विप्रो मासमेकं निरन्तरम् ॥

न भुंक्ते शाकपत्रं स एकाहारो निरंतरम् ॥ ९६ ॥

मासे नभस्ये संप्राप्ते प्राप्ते कृष्णे नृपोत्तम ॥

न करोति गृहे श्राद्धं स्नानतर्पणवर्जितः ॥ ९७ ॥

न जानाति दिनं पित्र्यं पक्षमेकं निरन्तरम् ॥

अन्यत्र भुंक्ते विप्रोऽसौ क्षयाहेऽपि समागते ॥ ९८ ॥

मकरस्थेऽपि संक्रांतौ कृशरान्नं ददाति न ॥

तिलान्सुवर्णं तारं वा वस्त्रं वा फलमेव च ॥

शाकपत्रं स पुष्पं वा न ददाति तथेंधनम् ॥ ९९ ॥

गवां गवाह्निकं नैव कथं मुक्तिर्भविष्यति ॥

न याति विष्णुशरणं संप्राप्ते दक्षिणायने ॥ 7.2.6.१०० ॥

धेनुं ददाति नो विप्रो ग्रहणे चंद्रसूर्ययोः ॥ १०१ ॥

एकापि दत्ता सुपयस्विनी सा सवस्त्रघंटाभरणोपपन्ना ॥

वत्सेन युक्ता हि ददाति दात्रे मुक्तिं कुलस्यास्य करोति वृद्धिम्॥ १०२ ॥

यावंति रोमाणि भवंति तस्यास्तावंति वर्षाणि महीयते सः ॥

ब्रह्मालये सिद्ध गणैर्वृतोऽसौ संतिष्ठते सूर्यसमानतेजाः ॥ १०३ ॥

देवालयं नो विदधाति वापीं कूपं तडागं न करोति कुण्डम् ॥

पुण्यं विवाहं सुजनोपकारं नासौ सतां वा द्विजमंदिरं च ॥ १०४ ॥

धनं सदा भूमिगतं करोति धर्मं न जानाति कुलस्य चासौ ॥

अहं हि तस्यानुगता भवामि कथं हि कांतं परिवं चयामि ॥ १०५ ॥

एवं हि वर्त्तमानः स कालधर्ममुपेयिवान् ॥

धनलोभान्मया देव मरणं परिवर्जितम् ॥१०६॥

पश्यन्त्या गोत्रिभिः सर्वं गृहीतं धनसंचयम् ॥

कालेन महता देव मृताऽहं द्विजमंदिरे ॥ १०७ ॥

श्वेतसर्पः समभवद्देशे तस्मिन्नरोत्तम ॥

तत्रैवाहं ब्राह्मणस्य संजाता तनया नृप ॥ १०८ ॥

वर्षेष्टमे तु संप्राप्ते परिणीता द्विजन्मना ॥

तस्मिन्नेव गृहे सर्पो मदीये वसते नृप ॥ १०९ ॥

भार्या ममेति संदष्टो रात्रौ भर्त्ता महा हिना ॥

मृतोऽपि ब्राह्मणैः सर्पो लगुडैर्विनिपातितः ॥ 7.2.6.११० ॥

वैधव्यं मम दत्त्वा तु द्विजसर्पौ मृतावुभौ ॥

पित्रा मात्रा महाशोकं कृत्वा मे मुण्डितं शिरः ॥ १११ ॥

वसाना श्वेतवस्त्रं च विष्णुभक्तिपरायणा ॥

मासोपवासनिरता यानि तीर्थान्यनेकशः ॥ ११२ ॥

सर्पस्तु मकरो जातो गोदावर्यां शिवालये ॥

देवं भीमेश्वरं द्रष्टुं गताऽहं स्वजनैः सह ॥ ११३ ॥

यावत्स्नातुं प्रविष्टाऽहं वृता सर्वजनैर्नृप ॥

मकरेण तदा दृष्टा भार्येयं मम वल्लभा ॥

गृहीता मकरेणाहं नेतुमंतर्जले नृप ॥ ११४ ॥

हाहाकारः समभवज्जनः क्षुब्धः समंततः ॥

कुंताघातेन केनासौ मकरस्तु निपातितः ॥ ११५ ॥

झषवक्त्रः स्थिता चाहं मृता कृष्टा जनैर्बहिः ॥

अग्निं दत्त्वा जले क्षिप्त्वा भस्म लोका गृहान्गताः ॥ ११६ ॥

स्त्रीवधाल्लुब्ध्वको जातो झषस्तीर्थप्रभावतः ॥

मानुषीं योनिमापन्नस्तस्मिन्नेव महावने ॥११७॥

अग्नेर्जलाच्च सर्पाच्च गजात्सिंहादवृषादपि ॥

झषाद्विस्फोटकान्मृत्युर्येषां ते नरके गताः ॥ ११८ ॥

आत्महा भ्रूणहा स्त्रीहा ब्रह्मघ्नः कूटसाक्ष्यदः ॥

कन्याविक्रयकर्ता च मिथ्या ब्रतधरस्तु यः ॥ ॥ ११९ ॥

विक्रीणाति क्रतुं यस्तु मद्यपः स्याद्द्विजस्तु यः ॥

राजद्रोही स्वर्णचौरो ब्रह्मवृत्तिविलोपकः ॥ 7.2.6.१२० ॥

गोघ्नस्तु निक्षेपहरो ग्रामसीमाहरस्तु यः ॥

सर्वे ते नरकं यांति या च स्त्री पतिवंचका ॥ १२१ ॥

झषमृत्युप्रभावेन जाता क्रौंची वने नृप ॥

गोदावरीवने व्याधो भ्रमते मृगमार्गकः ॥ १२२ ॥

वने क्रौंचः सकामो मां मुदा कामयितुमुद्यतः ॥

दृष्टाहं भ्रमता तेन व्याधेनाकृष्य कार्मुकम् ॥ १२३ ॥

हतः क्रौंचो मृतो राज न्नष्टा स्थानादहं ततः ॥

गोदावरीवने तस्मिन्नेवंरूपं ददर्श तम् ॥ १२४ ॥

ऋषिर्व्याधं शशापाथ दृष्ट्वा कर्म विगर्हितम् ॥

कामधर्ममकुर्वाणं प्रिया संभाषतत्परम् ॥

क्रौंचं त्वमवधीर्यस्मात्तस्मात्सिंहो भविष्यसि ॥ १२५ ॥

ऋषिस्तेन विनीतेन स्थित्वा सन्तोषितो नृप ॥

ऋषिर्वदति तस्याग्रे न मे मिथ्या वचो भवेत् ॥ १२६ ॥

सिंहस्थस्य प्रसादं ते करिष्ये मुक्तिहेतवे ॥

सुराष्ट्रदेशे भविता सिंहो रैवतके गिरौ ॥ १२७ ॥

वस्त्रापथे महा क्षेत्रे मुक्तिस्ते विहिता ध्रुवा ॥

इत्युक्त्वा स ऋषिर्देव गतो भीमेश्वरं प्रति ॥

दुर्वचःश्रवणाद्व्याधः क्रमात्पंचत्वमाययौ ॥ १२८ ॥

क्रौंची क्रौंचवियोगेन गता सा च वनांतरे ॥

मृता दैववशाज्जाता मृगी रैवतके गिरौ ॥ १२९ ॥

मृगयूथगता नित्यं मोदते मदविह्वला ॥

व्याधः सिंहः समभवद्गिरेस्तस्य महावने ॥ 7.2.6.१३० ॥

कामार्ता भ्रमता दृष्टा मृगी सिंहेन यत्नतः ॥

तत्र संभ्रमते नित्यं सिंहश्चापि मृगी वने ॥ १३१ ॥

सिंहोऽपि दैवयोगेन ममेयमिति मन्यते ॥

परं हिंस्रस्वभावेन तामादातुं प्रचक्रमे ॥ १३२ ॥

चलत्वं मृगजातीनां विहितं वेधसा स्वयम् ॥

पुनर्गता मृगी यूथं क्रीडते चारुलोचना ॥ १३३ ॥

भवस्य पश्चिमे भागे तत्र रैवतके गिरौ ॥

अनुयातः शनैः सोऽथ मृगेन्द्रो मृगयूथपः ॥

उत्पपात ततः सिंहो संघस्य मूर्द्धनि ॥ १३४ ॥

सिंहस्य न मृगैः कार्यं हरिणीं प्रति पश्यतः ॥

यत्र सा हरिणी याति ययौ सिंहस्तथैव ताम् ॥ १३५ ॥

यदा वेगं मृगी चक्रे सिंहः कुद्धस्तदा वने ॥

सिंहोऽपि वेगवाञ्जातो मृगीवेगाधिकोऽभवत् । १३६ ॥

यदा सिंहेन संक्रांता ददौ झम्पां मृगी तु सा ॥

भवस्याग्रे नदीतोये पतिता जलमूर्द्धनि ॥ १३७ ॥

लंबते तु शरीरं मे वेणौ प्रोतं शिरो मम ॥

सिंहः सहैव पतितो मृतः पयसि मध्यतः ॥ १३८ ॥

स्वर्णरेषाजले देव विशीर्णं मम तद्वपुः ॥

न तु वक्त्रं निपतितं त्वक्सारशिरसि स्थितम् ॥ १३९ ॥

एतच्चरित्रं यत्सर्वं दृष्टं सारस्वतेन वै ॥

तत्तीर्थस्य प्रभावेन सिंहस्त्वं समजायथाः ॥ 7.2.6.१४० ॥

इदं हि सप्तमं जन्म सर्वपापक्षयोदयम् ॥

कान्यकुब्जे महादेशे राजा भोजेतिविश्रुतः ॥ १४१ ॥

अहं हि हरिणीगर्भे जाता मानुषरूपिणी ॥

जातं वक्त्रं मृगीणां मे यस्मान्न पतितं जले ॥ १४२ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये भवमाहात्म्ये मृगाननाभोजवृत्तान्तवर्णने सारस्वतमहर्षिसंस्कृतपुरोडाशप्राशनसमुप लब्धस्पष्टवाक्प्रसर मृगाननाकथितोभयप्राक्सप्तजन्मवृत्तान्तवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 7

॥ राजोवाच ॥ ॥

कथं त्वं हरिणीरूपे जाता मानुषरूपिणी ॥

केन संवर्धिता बाल्ये कथं ते रूपमीदृशम् ॥ १ ॥

॥ मृग्युवाच ॥ ॥

शृणु देव प्रवक्ष्यामि यद्वृत्तं कन्यके वने ॥

ऋषिरुद्दालकोनाम गंगाकूले महातपाः ॥ २ ॥

प्रभाते मूत्रमुत्सृष्टुं गतो देव वनांतरे ॥

मूत्रांते पतितो भूमौ वीर्यबिंदुर्द्विजन्मनः ॥ ३ ॥

यावत्स चलितो विप्रः शौचं कृत्वा प्रयत्नतः ॥

तावन्मृगी समायाता दृष्ट्वा पुष्पवनांतरात् ॥ ४ ॥

चापल्याद्भक्षितं वीर्यं दृष्टं ब्रह्मर्षिणा स्वयम् ॥

यस्मादश्नाति मे वीर्यं तस्माद्गर्भो भविष्यति ॥ ५ ॥

ममरूपा तववक्त्रा नारी गर्भे भविष्यति ॥

वर्द्धयिष्यति देव्यस्तां रसैर्दिव्यैः सुतां तव ॥ ६ ॥

केनापि दैवयोगेन ज्ञानं तस्या भविष्यति ॥

एवमुद्दालकादेव संजाताहं मृगानना ॥

प्रविश्याग्नौ मृता पूर्वं त्वया सार्द्धं नराधिप ॥ ७ ॥

तस्माज्जातं सतीत्वं मे सप्तजन्मनि वै प्रभो ॥

यत्त्वया कुर्वता राज्यं पापं वै समुपार्जितम् ॥ ८ ॥

क्षत्त्रधर्मं परित्यज्य पलायनपरो मृतः ॥

तदेनो हि मया दग्धं चिताग्नौ नृपसत्तम ॥ ९ ॥

पतिं गृहीत्वा या नारी मृतमग्नौ विशेद्यदि ॥

सा तारयति भर्तारमात्मानं च कुलद्वयम् ॥ 7.2.7.१० ॥

गोग्रहे देशभंगे च संग्रामे सम्मुखे मृतः ॥

स सूर्यमण्डलं भित्त्वा ब्रह्मलोके महीयते ॥११॥

अनाशकं यो विदधाति मर्त्त्यो दिनेदिने यज्ञसहस्रपुण्यम् ॥

स याति यानेन गणान्वितेन विधूय पापानि सुरैः स पूज्यते ॥ १२॥

गंगाजले प्रयागे वा केदारे पुष्करे च ये ॥

वस्त्रापथे प्रभासे च मृतास्ते स्वर्गगामिनः ॥ १३ ॥

द्वारावत्यां कुरुक्षेत्रे योगाभ्यासेन ये मृताः ॥

हरिरित्यक्षरं मृत्यौ येषां ते स्वर्गगामिनः ॥ १४ ॥

पूजयित्वा हरिं ये तु भूमौ दर्भतिलैः सह ॥

तिलांश्च पञ्चलोहं च दत्त्वा ये तु पयस्विनीम् ॥ १५ ॥

ये मृता राजशार्दूल ते नराः स्वर्ग गामिनः ॥

उत्पाद्य पुत्रान्संस्थाप्य पितृपैतामहे पदे ॥ १६ ॥

निर्मला निष्कलंका ये ते मृताः स्वर्गगामिनः ॥

व्रतोपवासनिरताः सत्याचारपरायणाः ॥

अहिंसानिरताः शांतास्ते नराः स्वर्गगामिनः ॥ १७ ॥

सापवादो रणं त्यक्त्वा मृतो यस्मान्नराधिप ॥

सप्तयोनिषु ते जन्म तस्माज्जातं मया सह ॥ १८ ॥

त्वां विना मे पतिर्मा भून्मरणे याचितं मया ॥

तदांतरिक्षे राजेन्द्र वागुवाचाशरीरिणी ॥

आदौ पापफलं भुक्त्वा पश्चा त्स्वर्गं गमिष्यसि ॥ १९॥

यदि वस्त्रापथे गत्वा शिरः कश्चिद्विमुंचति ॥

स्वर्णरेखाजले राजन्मानुषं स्यान्मुखं मम ॥ 7.2.7.२० ॥

अहं मानुषवक्त्राऽस्मि पापच्छायाऽऽवृतं मुखम् ॥

दृश्यते मृगवक्त्राभं तस्माच्छीघ्रं विमुंचय ॥ २१ ॥

इति श्रुत्वा वचो राजा सारस्वतमुदैक्षत ॥

जनो विहस्य सानन्दं सर्वं सत्यं मृगीवचः ॥ २२ ॥

इत्युक्त्वाऽऽह द्विजेन्द्रः स एवं कुरु नृपोत्तम ॥

एवं राज्ञा समादिष्टः प्रतीहारो ययौ वनम् ॥ २३ ॥

वस्त्रापथे महातीर्थे भवं द्रष्टुं त्वरान्वितः ॥

त्वक्सारजालिर्महती स्वर्णरेखाजलोपरि ॥ २४ ॥

वर्त्तते तच्छिरो यत्र वंशप्रोतं महावने ॥

सारस्वतस्य शिष्येण कुशलेन निवेदितम्॥ २५ ॥

तीर्थं वस्त्रापथं गत्वा भवस्याग्रे महानदी ॥

जाले तत्र शिरो दृष्टं तच्च तोये विमोचितम् ॥ २६ ॥

स्नात्वा संपूज्य तीर्थेशं प्रतीहारः समभ्यगात् ॥

शिष्येण सहितो वेगाद्रथेनादित्यवर्चसा ॥ २७ ॥

यदागतः प्रतीहारस्तदा सारस्वतेन सा ॥

वृता चान्द्रायणेनैव मासमेकं निरन्तरम् ॥ २८ ॥

संपूर्णे तु व्रते तस्या दिव्यं वक्त्रं सुलोचनम् ॥

सुशोभनं दीर्घकेशं दीर्घकर्णं शुभद्विजम् ॥ २९ ॥

कम्बुग्रीवं पद्मगंधं सर्वलक्षणसंयुतम्॥

व्रतांते मूर्च्छिता बाला गतज्ञाना वभूव सा ॥ 7.2.7.३० ॥

न देवी न च गंधर्वी नासुरी न च किंनरी ॥

यादृशी सा तदा जाता तीर्थभावेन सुन्दरी ॥ ३१ ॥

परिणीता तु सा तेन भोजराजेन सुन्दरी ॥

मृगीमुखीति विख्याता देवी सा भुवनेश्वरी ॥ ३२ ॥

न जानाति पुनः किंचिद्यद्वृत्तं राजमन्दिरे ॥

कृता सा पट्टमहिषी भोजराजेन धीमता ॥ ३३ ॥

॥ ईश्वर उवाच ॥ ॥

देशानां प्रवरो देशो गिरीणां प्रवरो गिरिः ॥

क्षेत्राणामुत्तमं क्षेत्रं वनानामुत्तमं वनम् ॥ ३४ ॥

गंगा सरस्वती तापी स्वर्णरेखाजले स्थिता ॥

ब्रह्मा विष्णुश्च सूर्यश्च सर्व इन्द्रादयः सुराः ॥ ३५ ॥

नागा यक्षाश्च गन्धर्वा अस्मिन्क्षेत्रे व्यवस्थिताः ॥

ब्रह्मांडं निर्मितं येन त्रैलोक्यं सचराचरम् ॥ ३६ ॥

देवा ब्रह्मादयो जाताः स भवोऽत्र व्यवस्थितः ॥

शिवो भवेति विख्यातः स्वयं देवस्त्रिलोचनः ॥ ३७ ॥

वेवेति स्कन्दरचनाद्भवानी चात्र संस्थिता ॥

अतो यन्नाधिकं प्रोक्तं तीर्थं देवि मया तव ॥ ३८ ॥

तस्मिञ्जले स्नानपरो नरो यदि संध्यां विधायानु करोति तर्पणम् ॥

श्राद्धं पितॄणां च ददाति दक्षिणां भवोद्भवं पश्यति मुच्यते भवात् ॥ ३९ ॥

अथ यदि भवपूजां दिव्यपुष्पैः करोति तदनु शिवशिवेति स्तोत्रपाठं च गीतम् ॥

सुरवर गणवृन्दैः स्तूयमानो विमानैः सुरवरशिवरूपो मानवो याति नाकम् ॥ 7.2.7.४० ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये स्वर्णरेखायां मृगाननायाः पूर्वजन्ममृगमुखप्रक्षेपणेन दिव्यमुखत्वप्राप्त्युत्तरं भोजनृपतिपरिणय वृत्तान्तपूर्वकं स्वर्णरेखामाहात्म्यवर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 8

॥ भोजराज उवाच ॥ ॥

प्रभो सारस्वत मया श्रुतं माहात्म्यमुत्तमम् ॥

वस्त्रापथस्य क्षेत्रस्य गिरे रैवतकस्य च ॥ १ ॥

विशेषेण स्वर्णरेखाभवस्य च जलस्य च ॥

इदानीं श्रोतुमिच्छामि तीर्थोत्पत्तिं वदस्व मे॥ २ ॥

ब्रह्मविष्णुशिवादीनां मध्ये कोऽयं व्यवस्थितः ॥

केयं नदी स्वर्णरेखा सर्वपातकनाशिनी ॥ ३ ॥

कस्माद्ब्रह्मादया देवा अस्मिंस्तीर्थे समागताः ॥

कथं नारायणो देवः स्वयमेव समागतः ॥ ४ ॥

हेमालयं परित्यज्य भवानी गिरिमूर्द्धनि ॥

संस्थिता स्कन्दमादाय देवैरिन्द्रादिभिः सह ॥ ५ ॥

॥ सारस्वत उवाच ॥ ॥

शृणु सर्वं महाराज कथयिष्ये सविस्तरम् ॥

येन वै कथ्यमानेन सर्वपापक्षयो भवेत् ॥ ६ ॥

पुरा ब्रह्मदिनस्यांते जगदेतच्चराचरम् ॥

संहृत्य भगवान्रुद्रो ब्रह्मविष्णुपुरस्कृतः ॥ ७ ॥

तां च ते सकलां रात्रिमेकमूर्त्तिभवास्त्रयः ॥

तिष्ठन्ति रात्रि पर्यन्ते पुनर्भिन्ना भवंति ते ॥ ८ ॥

ब्रह्मविष्णुशिवा देवा रजःसत्त्वतमोमयाः ॥

सृष्टिं करोति भगवान्ब्रह्मा पालयते हरिः ॥ ९ ॥

सर्वं संहरते रुद्रो जगत्कालप्रमाणतः ॥

तेनादौ भगवान्सृष्टो दक्षो नाम प्रजापतिः ॥ 7.2.8.१० ॥

सर्वे संक्षेपतः कृत्वा ब्रह्माण्डं सचरा चरम् ॥

भिन्ना देवास्त्रयो जाताः सत्यलोकव्यवस्थिताः ॥ ११ ॥

त्रयो भुवं समासाद्य कौतुकाविष्टचेतसः ॥

कैलासं ते गिरिवरं समारूढाः सुरेर्वृताः ॥ १२ ॥

अहं ज्येष्ठो अहं ज्येष्ठो वादोऽभूद्ब्रह्मरुद्रयोः ॥

तदा क्रुद्धो महादेवो ब्रह्माणं हन्तुमुद्यतः ॥ १३ ॥

विष्णुना वारितो ब्रह्मा न ते वादस्तु युज्यते ॥

तत्त्वं नाहं यदा नेदं ब्रह्मांडं सचराचरम् ॥ १४ ॥

एक एव तदा देवो जले शेते महेश्वरः ॥

जागर्ति च यदा देवः स्वेच्छया कौतुकात्ततः ॥ १५ ॥

अनेन त्वं कृतः पूर्वमहं पश्चात्त्वया कृतः ॥

ब्रह्मांडं कूर्मरूपेण धृतमस्य प्रसादतः ॥ १६ ॥

अनुप्रविष्टा ब्रह्मांडं प्रसादाच्छं करस्य च ॥

सृष्टिस्त्वया कृता सर्वा मयि रक्षा व्यवस्थिता ॥ १७ ॥

उदासीनवदासीनः संसारात्सारमीक्षते ॥

एक एव शिवो देवः सर्वव्यापी महेश्वरः ॥ १८ ॥

पितामहत्वं संजातं प्रसादाच्छंकरस्य ते ॥

प्रसादयामास हरं श्रुत्वा ब्रह्मा वचो हरेः ॥ १९ ॥

अनादिनिधनो देवो बहुशीर्षो महाभुजः ॥

इत्यादिवेदवचनैस्ततस्तुष्टो महेश्वरः ॥

प्राह ब्रह्मन्वरं यत्ते वृणीष्व मनसि स्थितम् ॥ 7.2.8.२० ॥

इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये ब्रह्मरुद्रविवादे विष्णुवचनेन ब्रह्मकृतरुद्रप्रसादनवर्णनंनामाष्टमोऽध्यायः ॥८॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 9

॥ ब्रह्मोवाच ॥ ॥

यदि सृष्टं मया सर्वं त्रैलोक्यं सचराचरम् ॥

तदा मूर्तिमिमां त्यक्त्वा भवः सृष्टो मयाऽधुना ॥ १ ॥

पितामहमहत्त्वं स्यात्तथा शीघ्रं विधीयताम् ॥

ब्रह्मणो वचनं श्रुत्वा विष्णुना स प्रमोदितः ॥ २ ॥

महदाश्चर्यजनके संप्राप्तो गिरिमूर्द्धनि ॥

न विचारस्त्वयाकार्यः कर्त्तव्यं ब्रह्मभाषितम् ॥ ३ ॥

तथेत्युक्त्वा शिवो देवस्तत्रैवांतरधीयत ॥

ब्रह्मा ययौ मेरुशृंगं मनसः शिरसि स्थितम् ॥ ४ ॥

तपस्तेपे प्रजानाथो वेदोच्चारणतत्परः ॥

अथर्ववेदोच्चरणं यावच्चक्रे पितामहः ॥ ५ ॥

मुखाद्रुद्रः समभवद्रौद्ररूपो भवापहः॥

अर्द्धनारीनरवपुर्दुष्प्रेक्ष्योऽतिभयंकरः॥६॥

विभजात्मानमित्युक्त्वा ब्रह्मा चांतर्दधे भयात् ॥

तथोक्तोसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाऽकरोत् ॥ ७ ॥

बिभेद पुरुषत्वं च दशधा चैकधा पुनः ॥

एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ ८ ॥

कृत्वा नामानि सर्वेषां देवकार्ये नियोजिताः ॥

विभज्य पुनरीशानी स्वात्मानं शंकराद्विभोः ॥ ९ ॥

महादेवनियोगेन पितामहमुपस्थिता ॥

तामाह भगवान्ब्रह्मा दक्षस्य दुहिता भव ॥ 7.2.9.१० ॥

सापि तस्य नियोगेन प्रादुरासीत्प्रजापतेः ॥

नियोगाद्ब्रह्मणो दक्षो ददौ रुद्राय तां सतीम् ॥११॥

दाक्षीं रुद्रोऽपि जग्राह स्वकीयामेव शूलभृत् ॥

अथ ब्रह्मा बभाषे तं सृष्टिं कुरु सतीपते ॥१२॥ ॥

॥ रुद्र उवाच ॥ ॥

सृष्टिर्मया न कर्त्तव्या कर्त्तव्या भवता स्वयम् ॥

पालनं विष्णुना कार्यं संहर्ताऽहं व्यवस्थितः ॥१३॥

स्थाणुवत्संस्थितो यस्मा त्तस्मात्स्थाणुर्भवाम्यहम् ॥१४॥

रजोरूपाः सत्त्वरूपास्तमोरूपाश्च ये नराः ॥

सर्वे ते भवता कार्या गुणत्रयविभागतः॥१५॥

यदा ते तामसैः कार्यं तदा रौद्रो भव स्वयम् ॥

यदा ते राजसैः कार्यं तदा त्वं राजसो भव॥

सात्त्विकैस्ते यदा कार्यं तदा त्वं सात्त्विको भव ॥१६॥

॥ ईश्वर उवाच ॥ ॥

इत्याज्ञाप्य च ब्रह्माणं स्वयं सृष्ट्यादिकर्मसु ॥

गृहीत्वा तां सतीं रुद्रः कैलासमधितिष्ठति ॥ १७ ॥

दक्षः कालेन महता हरस्यालयमाययौ ॥ १८॥

अथ रुद्रः समुत्थाय कृतवान्गौरवं बहु ॥

ततो यथोचितां पूजां न दक्षो बहु मन्यते ॥१९॥

तदा वै तमसाविष्टः सोऽधिकं ब्राह्मणः शुभः॥

पूजामनर्घ्यामन्विच्छञ्जगाम कुपितो गृहम् ॥ 7.2.9.२० ॥

कदाचित्तां गृहं प्राप्तां सतीं दक्षः सुदुर्मनाः ॥

भर्त्रा सह विनिंद्यैनां भर्त्सयामास वै रुषा ॥२१॥

पंच -वक्त्रो दशभुजो मुखे नेत्रत्रयान्वितः॥

कपर्द्दी खंडचंद्रोसौ तथासौ नीललोहितः॥२२॥

कपाली शूलहस्तोऽसौ गजचर्मावगुंठितः ॥

नास्य माता न च पिता न भ्राता न च बान्धवः ॥२३॥

सर्पास्थिमंडितग्रीवस्त्यक्त्वा हेमविभूषणम् ॥

भिक्षया भोजनं यस्य कथमन्नं प्रदास्यति ॥ २४ ॥

कदाचित्पूर्वतो याति गच्छन्याति स पश्चिमे ॥

दक्षिणस्यां वृषो याति स्वयं याति स चोत्तरे ॥ २५ ॥

तिर्यगूर्ध्वमधो याति नैव याति न तिष्ठति ॥

इति चित्रं चरित्रं ते भर्त्तुर्नान्यस्य दृश्यते ॥ २६ ॥

निर्गुणः स गुणातीतो निःस्नेहो मूकवत्स्थितः ॥

सर्वज्ञः सर्वगः सर्वः पठ्यते भुवनत्रये ॥ २७ ॥

कदाचिन्नैव जानाति न शृणोति न पश्यति ॥

दैत्यानां दानवानां च राक्षसानां ददाति यः ॥२८॥

न चास्य च पिता कश्चिन्न च भ्रातास्ति कश्चन ॥

एक एव वृषारूढो नग्नो भ्रमति भूतले ॥२९॥

न गृहं न धनं गोत्रमनादिनिधनोव्ययः ॥

स्थिरबुद्धिर्न चैवासौ क्रीडते भुवनत्रये ॥7.2.9.३०॥

कदाचित्सत्यलोके सौ पातालमधितिष्ठति ॥

गिरिसानुषु शेतेऽसावशिवोपि शिवः स्मृतः ॥ ३१ ॥

श्रीखंडादीनि संत्यज्य सदा भस्मावगुंठितः॥

सर्वदेति वचः सत्यं किमन्यत्स प्रदास्यति॥ ३२ ॥

धिक्त्वां जामातरं धिक्तं ययोः स्नेहः परस्परम् ॥

तस्य त्वं वल्लभा भार्या स च प्राणाधिकस्तव ॥ ३३ ॥

न च पित्रास्ति ते कार्यं न मात्रा न सखीषु च ॥

केवलं भर्तृभक्ता त्वं तस्माद्गच्छ गृहान्मम ॥३४॥

अन्ये जामातरः सर्वे भर्तुस्तव पिनाकिनः ॥

त्वमद्यैवाशु चास्माकं गृहाद्गच्छ वरं प्रति ॥ ३५ ॥

तस्य तद्वाक्यमाकर्ण्य सा देवी शंकरप्रिया ॥

विनिंद्य पितरं दक्षं ध्यात्वा देवं महेश्वरम् ॥ ३६ ॥

श्वेतवस्त्रा जले स्नात्वा ददाहात्मानमात्मना ॥

याचितस्तु शिवो भर्त्ता पुनर्जन्मांतरे तया ॥३७॥

पिता मे हिमवानस्तु मेनागर्भे भवाम्यहम् ॥

अत्रांतरे(?) हिमवता तपसा तोषितो हरः ॥

प्रत्यक्षं दर्शनं दत्त्वा हिमवंतं वचोऽब्रवीत् ॥ ३८ ॥

एषा दत्ता सुता तुभ्यं परिणेष्यामि तामहम् ॥

देवानां कार्य्यसिद्ध्यर्थं गिरिराजो भविष्यसि ॥ ३९ ॥

आत्ममूर्त्तौ प्रविष्टां तां ज्ञात्वा देवो महेश्वरः ॥

शशाप दक्षं कुपितः समागत्याथ तद्गृहम् ॥ 7.2.9.४० ॥

त्यक्त्वा देहमिमं ब्राह्म्यं क्षत्रियाणां कुले भव ॥

स्वायंभुवत्वं संत्यज्य दक्ष प्राचेतसो भव ॥ ४१ ॥

स्वस्यां सुतायामूढायां पुत्रमुत्पादयिष्यसि ॥

एवं शप्त्वा महादेवो ययौ कैलासपर्वतम् ॥ ४२ ॥

स्वायभुवोऽपि कालेन दक्षः प्राचेतसोऽभवत् ॥

भवानीं स सुतां लब्ध्वा गिरिस्तुष्टो हिमा लयः ॥ ४३ ॥

मेनापि तां सुतां लब्ध्वा धन्यं मेने गृहाश्रमम् ॥

तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् ॥ ४४ ॥

मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम्॥

पश्य बालामिमां राजन्राजीवसदृशाननाम्॥ ४५ ॥

हिताय सर्वभूतानां जातां च तपसा शुभाम् ॥

सोऽपि दृष्ट्वा महादेवीं तरुणादित्यसन्निभाम् ॥ ४६ ॥

कपर्दिनीं चतुर्वक्त्रां त्रिनेत्रामतिलालसाम्॥

अष्टहस्तां विशालाक्षीं चंद्रावयवभूषणाम् ॥ ४७ ॥

प्रणम्य शिरसा भूमौ तेजसा तु सुविह्वलः ॥

भीतः कृतांजलिः स्तब्धः प्रोवाच परमेश्वरीम् ॥ ४८ ॥

॥ हिमवानुवाच ॥ ॥

का त्वं देवि विशालाक्षि शंस मे संशयो महान् ॥ ४९ ॥

॥ देव्युवाच ॥ ॥

मां विद्धि परमां शक्तिं महेश्वरसमाश्रयाम् ॥

अनन्यामव्ययामेकां यां पश्यंति मुमुक्षवः ॥ 7.2.9.५० ॥

दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥

एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् ॥ ५१ ॥

सूर्यकोटिप्रतीकाशं तेजोबिंबं निराकुलम् ॥

ज्वाला मालासहस्राढ्यं कालानलशतोपमम् ॥ ५२ ॥

दंष्ट्राकरालमुद्धर्षं जटामंडलमंडितम् ॥

प्रशांतं सौम्यवदनमनंताश्चर्यसंयुतम् ॥ ५३ ॥

चंद्रावयवलक्ष्माणं चंद्रकोटिसमप्रभम् ॥

किरीटिनं गदाहस्तं नुपुरैरुपशोभितम् ॥ ५४॥

दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम् ॥

शंखचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् ॥ ५५ ॥

अंडस्थं चांडबाह्यस्थं बाह्यमभ्यंतरं परम् ॥

सर्वशक्तिमयं शुभ्रं सर्वालंकारसंयुतम् ॥५६॥

ब्रह्मेन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमान पदांबुजम् ॥

सर्वतः पाणिपादांतं सर्वतोऽक्षिशिरोमुखम्॥ ५७ ॥

सर्वमावृत्य तिष्ठंतं ददर्श परमेश्वरम् ॥

दृष्ट्वा नन्दीश्वरं देवं देव्या महेश्वरं परम् ॥ ॥ ५८ ॥

भयेन च समाविष्टः स राजा हृष्टमानसः ॥

आत्मन्याधाय चात्मानमोंकारं समनुस्मरन् ॥ ५९ ॥

नाम्नामष्टसहस्रेण स्तुत्वाऽसौ हिम वान्गिरिः ॥ 7.2.9.६० ॥

भूयः प्रणम्य भूतात्मा प्रोवाचेदं कृतांजलिः ॥

यदेतदैश्वरं रूपं जातं ते परमेश्वरि ॥ ६१ ॥

भीतोऽस्मि सांप्रतं दृष्ट्वा तत्त्वमन्यत्प्रदर्शय ॥

एवमुक्ता च सा देवी तेन शैलेन पार्वती ॥ ६२ ॥

संहृत्य दर्शयामास स्वरूपमपरं परम् ॥

नीलोत्पलदलप्रख्यं नीलोत्पलसुगंधिकम् ॥ ॥६३॥

द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् ॥

रक्तपादांबुजतलं सुरक्तकरपल्लवम् ॥६४॥

श्रीमद्विशालसद्वृत्तं ललाटतिलकोज्ज्वलम् ॥

भूषितं चारुसर्वांगं भूषणैरतिकोमलम् ॥६५॥

दधानं चोरसा मालां विशालां हेमनिर्मिताम् ॥

ईषत्स्मितं सुबिंबोष्ठं नूपुरारावशोभितम् ॥ ६६ ॥

प्रसन्नवदनं दिव्यं चारुभ्रूमहिमास्पदम् ॥

तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ॥

भयं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम् ॥ ६७ ॥

॥ हिमवानुवाच ॥ ॥

अद्य मे सफलं जन्म अद्य मे सफलाः क्रियाः ॥

यन्मे साक्षात्त्वमव्यक्ता प्रसन्ना दृष्टिगोचरा ॥

इदानीं किं मया कार्यं तन्मे ब्रूहि महेश्वरि ॥६८॥ ॥

॥ महेश्वर्युवाच ॥ ॥

शिवपूजा त्वया कार्या ध्यानेन तपसा सदा ॥

अहं तस्मै प्रदातव्या केनचित्कारणेन वै ॥ ६९ ॥

यादृशस्तु त्वया दृष्टो ध्येयो वै तादृशस्त्वया ॥

एक एव शिवो देवः सर्वाधारो धराधरः ॥7.2.9.७०॥

॥ सारस्वत उवाच ॥ ॥

तपश्च कृतवान्रुद्रः समागम्य हिमाचलम् ॥

तस्योमा परमां भक्तिं चकार शिवसंनिधौ ॥७१॥

देवकार्येण केनापि देवो वै ज्ञापितः प्रभुः ॥

उपयेमे हरो देवीमुमां त्रिभुवनेश्वरीम् ॥ ७२ ॥

स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः ॥

विनिंद्य पूर्ववैरेण गंगाद्वारेऽयजद्धरिम् ॥७३॥

देवाश्च यज्ञभागार्थमाहूता विष्णुना स्वयम् ॥

सहैव मुनिभिः सर्वैरागता मुनिपुंगवाः ॥ ७४ ॥

दृष्ट्वा देवकुलं कृत्स्नं शंकरेण विनाऽऽगतम् ॥

दधीचो नाम विप्रर्षिः प्राचेतसमथाब्रवीत् ॥ ७५ ॥

॥ दधीचिरुवाच ॥ ॥

ब्रह्माद्यास्तु पिशाचांता यस्याज्ञानुविधायिनः ॥

स हि वः सांप्रतं रुद्रो विधिना किं न पूज्यते ॥ ७६ ॥

॥ दक्ष उवाच ॥ ॥

सर्वेष्वेव हि यज्ञेषु न भागः परिकल्पितः ॥

न मंत्रा भार्यया सार्द्धं शंकरस्येति नेष्यते ॥ ७७ ॥

विहस्य दक्षं कुपितो वचः प्राह महामुनिः ॥

शृण्वतां सर्वदेवानां सर्वज्ञानमयः स्वयम् ॥७८॥

यतः प्रवृत्तिर्विश्वात्मा यश्चासौ भुवनेश्वरः ॥

न त्वं पूजयसे रुद्रं देवैः संपूज्यते हरः ॥७९॥

॥ दक्ष उवाच ॥ ॥

अस्थिमालाधरो नग्नः संहर्ता तामसो हरः ॥

विषकंठः शूलहस्तः कपाली नागवेष्टितः ॥ 7.2.9.८० ॥

ईश्वरो हि जगत्स्रष्टा प्रभुर्योऽसौ सनातनः ॥

सत्त्वात्मकोऽसौ भगवानिज्यते सर्वकर्मसु ॥ ८१ ॥

॥ दधीचिरुवाच ॥ ॥

किं त्वया भगवानेष सहस्रांशुर्न दृश्यते ॥

सर्वलोकैकसंहर्ता कालात्मा परमेश्वरः ॥ ८२ ॥

एष रुद्रो महादेवः कपर्द्दी चाग्रणीर्हरः ॥

आदित्यो भगवान्सूर्यो नीलग्रीवो विलोहितः ॥ ८३ ॥ ॥

॥ दक्ष उवाच ॥ ॥

य एते द्वादशादित्या आगता यज्ञभागिनः ॥

सर्वे सूर्या इति ज्ञेया न ह्यन्यो विद्यते रविः ॥ ८८४ ॥

एवमुक्ते तु मुनयः समायाता दिदृक्षवः ॥

बाढमित्यब्रुवन्दक्षं तस्य साहाय्यकारिणः ॥ ८५ ॥

तपसाविष्टमनसो न पश्यंति वृषध्वजम् ॥

सहस्रशोऽथ शतशो बहुशोऽथ य एव हि ॥ ८६ ॥

देवांश्च सर्वे भागार्थमागता वासवादयः ॥

नापश्यन्देवमीशानमृते नारायणं हरिम् ॥ ८७ ॥

रुद्रं क्रोधपरं दृष्ट्वा ब्रह्मा ब्रह्मासनाद्ययौ ॥

अन्तर्हिते भगवति दक्षो नारायणं हरिम् ॥ ८८ ॥

रक्षकं जगतां देवं जगाम शरणं स्वयम् ॥

प्रवर्तयामास च तं यज्ञं दक्षोऽथ निर्भयः ॥ ८९ ॥

रक्षको भगवान्विष्णुः शरणागतरक्षकः ॥

पुनः प्राहाध्वरे दक्षं दधीचो भगवन्नृप ॥ 7.2.9.९० ॥

निर्भयः शृणु दक्ष त्वं यज्ञभंगो भवि ष्यति ॥

अपूज्यपूजनाद्दक्ष पूज्यस्य च विवर्जनात् ॥ ९१ ॥

नरः पापमवाप्नोति महद्वै नात्र संशयः ॥

असतां प्रग्रहो यत्र सतां चैव विमानता ॥ ॥ ९२ ॥

दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥

एवमुक्त्वा स विप्रर्षिः शशापेश्वरविद्विषः ॥ ९३ ॥

यस्माद्बहिष्कृतो देवो भवद्भिः परमेश्वरः ॥

भविष्यध्वं त्रयीबाह्याः सर्वेऽपीश्वरविद्विषः ॥ ९४ ॥

मिथ्यारीतिसमाचारा मिथ्याज्ञानप्रभाषिणः ॥

प्राप्ते कलियुगे घोरे कलिजैः किल पीडिताः ॥ ९५ ॥

कृत्वा तपोबलं घोरं गच्छध्वं नरकं पुनः ॥

भविष्यति हृषीकेशः स्वामी वोऽपि पराङ्मुखः ॥ ९६ ॥

॥ सारस्वत उवाच ॥ ॥

एवमुक्त्वा स ब्रह्मर्षिर्विरराम तपोनिधिः ॥

जगाम मनसा रुद्रमशेषाध्वरनाशनम् ॥ ९७ ॥

एतस्मिन्नंतरे देवी महादेवं महेश्वरम् ॥

गत्वा विज्ञापयामास ज्ञात्वा दक्षमखं शिवा ॥ ९८ ॥

॥ देव्युवाच ॥ ॥

दक्षो यज्ञेन यजते पिता मे पूर्वजन्मनि ॥

तेन त्वं दूषितः पूर्वमहं चातीव दुःखिता ॥

विनाशयस्व तं यज्ञं वरमेनं वृणोम्यहम् ॥ ९९ ॥

॥ सारस्वत उवाच ॥ ॥

एवं विज्ञापितो देव्या देवदेवो महेश्वरः ॥

ससर्ज सहसा रुद्रं दक्षयज्ञजिघांसया ॥ 7.2.9.१०० ॥

सहस्रशिरसं क्रूरं सहस्राक्षं महाभुजम् ॥

सहस्रपाणिं दुर्द्धर्षं युगांतानलसन्निभम् ॥ १०१ ॥

दंष्ट्राकरालं दुष्प्रेक्ष्यं शंखचक्रधरं प्रभुम्॥

दण्डहस्तं महानादं शार्ङ्गिणं भूतिभूषणम् ॥ १०२ ॥

वीरभद्र इति ख्यातं देवदेवसमन्वितम् ॥

स जातमात्रो देवेशमुपतस्थे कृतांजलिः ॥ १०३ ॥

तमाह दक्षस्य मखं विनाशय शमस्तु तं ॥

विनिन्द्य मां स यजते गंगाद्वारे गणेश्वर ॥ १०४ ॥

ततो बंधप्रमुक्तेन सिंहेनेव च लीलया ॥

वीरभद्रेण दक्षस्य नाशार्थं रोम चोद्धुतम् ॥ १०५ ॥

रोम्णा सहस्रशो रुद्रा निसृष्टास्तेन धीमता ॥

रोमजा इति विख्यातास्तत्र साहाय्यकारिणः ॥ १०६ ॥

शूलशक्तिगदाहस्ता दण्डोपलकरास्तथा ॥

कालाग्निरुद्रसंकाशा नादयन्तो दिशो दश ॥१०७॥

सर्वे वृषसमारूढाः सभा र्याश्चातिभीषणाः ॥

समाश्रित्य गणश्रेष्ठं ययुर्दक्षमखं प्रति ॥ १०८ ॥

देवांगनासहस्राढ्यमप्सरोगीतिनादितम् ॥

वीणावेणुनिनादाढ्यं वेदवादाभि नादितम् ॥ १०९ ॥

दृष्ट्वा दक्षं समासीनं देवैब्रह्मर्षिभिः सह ॥

उवाच स वृषारूढो दक्षं वीरः स्मयन्निव ॥ 7.2.9.११० ॥

वयं ह्यचतुराः सर्वे शर्वस्यामितते जसः ॥

भागार्थलिप्सया प्राप्ता भागान्यच्छ त्वमीप्सितान् ॥ १११ ॥

भागो भवद्भ्यो देयस्तु नास्मभ्यमिति कथ्यताम् ॥

ततो वयं विनिश्चित्य करिष्यामो यथोचितम् ॥ ११२ ॥

एवमुक्ता गणेशेन प्रजापतिपुरःसराः ॥ ११३ ॥

॥ देवा ऊचुः ॥ ॥

प्रमाणं नो विजानीथ भागं मंत्रा इति धुवम्॥ ११४ ॥

॥ मंत्रा ऊचुः ॥ ॥

सुरा यूयं तमोभूतास्तमोपहतचेतसः ॥

ये नाध्वरस्य राजानं पूजयेयुर्महेश्वरम् ॥ ११५ ॥

ईश्वरः सर्वभूतानां सर्वदेवतनुर्हरः ॥

॥ गण उवाच ॥ ॥

पूज्यते सर्वयज्ञेषु कथं दक्षो न पूजयेत्॥११६॥

मंत्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ॥

यस्मादसह्यं तस्मान्नो नाशयाम्यद्य गर्वितम् ॥११७॥

इत्युक्त्वा यज्ञशालां तां देवोऽहन्गणपुंगवः ॥

गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः॥११८॥

प्रस्तोतारं सहोतारमध्वर्युं च गणेश्वरः ॥

गृहीत्वा भीषणाः सर्वे गंगास्रोतसि चिक्षिपुः ॥११९॥

वीरभद्रोऽपि दीप्तात्मा वज्रयुक्तं करं हरेः॥

व्यष्टंभयददीनात्मा तथान्येषां दिवौकसाम् ॥ 7.2.9.१२० ॥

भगनेत्रे तथोत्पाट्य कराग्रेणैव लीलया ॥

निहत्य मुष्टिना दंडैः सप्ताश्वं च न्यपातयत् ॥ १२१ ॥

तथा चंद्रमसं देवं पादांगुष्ठेन लीलया ॥

धर्षयामास वलवान्स्मयमानो गणेश्वरः ॥ १२२ ॥

वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया ॥

जघान मूर्ध्नि पादेन मुनीनपि मुनीश्वरान् ॥ १२३ ॥

तथा विष्णुं सगरुडं समायातं महाबलः ॥

विव्याध निशितैर्बाणैः स्तंभयित्वा सुदर्शनम् ॥ १२४ ॥

ततः सहस्रशो भद्रः ससर्ज गरुडान्बहून् ॥

वैनतेयादभ्यधिकान्गरुडं ते प्रदुद्रुवुः ॥ १२५ ॥

तान्दृष्ट्वा गरुडो धीमान्पलायनपरोऽभवत् ॥

तत्स्थितो माधवो वेगाद्यथा गौः सिंहपीडिता ॥ १२६ ॥

अंतर्हिते वैनतेये विष्णौ च पद्मसंभवः ॥

आगत्य वारयामास वीरभद्रं शिवप्रियम् ॥ १२७ ॥

प्रसादयामास स तं गौरवात्परमेष्ठिनः ॥

तेऽदृश्यं नैव जानंति रुद्रं तत्रागतं सुराः ॥ १२८ ॥

स देवो विष्णुना ज्ञातो ब्रह्मणा च दधीचिना ॥

तुष्टाव भगवान्ब्रह्मा दक्षो विष्णुदिवौकसः॥ १२९ ॥

विशेषात्पार्वतीं देवीमीश्वरार्द्धशरीरिणीम् ॥

स्तोत्रैर्नानाविधैर्दक्षः प्रणम्य च कृताञ्जलिः ॥ 7.2.9.१३० ॥

ततो भगवती प्राह प्रहसंती महेश्वरम् ॥

त्वमेव जगतः स्रष्टा संहर्ता चैव रक्षकः ॥ १३१ ॥

अनुग्राह्यो भगवता दक्षश्चापि दिवौ कसः ॥

ततः प्रहस्य भगवान्कर्पद्दी नीललोहितः ॥

उवाच प्रणतान्देवान्दक्षं प्राचेतसं हरः ॥१३२॥

गच्छध्वं देवताः सर्वाः प्रसन्नो भवतामहम् ॥

संपूज्यः सर्वयज्ञेषु प्रथमं देवकर्मणि ॥ १३३ ॥

त्वं चापि शृणु मे दक्ष वचनं सर्वरक्षणम् ॥

त्यक्त्वा लोकेषणामेनां मद्भक्तो भव यत्नतः ॥ १३४ ॥

भविष्यसि गणेशानः कल्पांतेऽनुग्रहान्मम ॥

तावत्तिष्ठ ममादेशात्स्वाधिकारेषु निर्वृतः ॥

इत्युक्त्वाऽदर्शनं प्राप्तो दक्षस्यामिततेजसः ॥ १३५ ॥

दधीचिना शिवो दृष्टो विज्ञप्तः शापमोचने ॥

कथं शापं मया दत्तं तरिष्यंति तवाज्ञया ॥ १३६ ॥

॥ शिव उवाच ॥ ॥

भविष्यंति त्रयी बाह्याः संप्राप्ते तु कलौ युगे ॥

पठिष्यंति च ये वेदास्ते विप्राः स्वर्गगामिनः ॥ १३७ ॥

आगमा विष्णुरचिताः पठ्यन्ते ये द्विजातिभिः ॥

तेपि स्वर्गं प्रयास्यंति मत्प्रसादान्न संशयः ॥ १३८ ॥

कलिकालप्रभावेन येषां पाठो न विद्यते ॥

गृहस्थधर्माचरणं कर्तव्यं मम पूजनम् ॥ १३९ ॥

अवश्यं च मया कार्यं तेषां पापविमोचनम् ॥

भिक्षां भ्रमामि मध्याह्ने अतीते भस्मगुंठितः ॥ 7.2.9.१४० ॥

जटाजूटधरः शांतो भिक्षापात्रकरो द्विजः ॥

यो ददाति च मे भिक्षां स्वर्गं याति स मानवः ॥ १४१ ॥

उपानहौ वा च्छत्रं वा कौपीनं वा कमंडलुम् ॥

यो ददाति तपस्विभ्यो नरो मुक्तः स पातकैः ॥

दधीचेः स वरान्दत्त्वा वभाषे सह विष्णुना ॥ १४२ ॥

॥ रुद्र उवाच ॥ ॥

यस्ते मित्रं स मे मित्रं यस्ते रिपुः स मे रिपुः ॥

यस्त्वां पूजयते विष्णो स मां पूजयते ध्रुवम् ॥ १४३ ॥

यः स्तौति त्वां स मां स्तौति प्रियो यस्ते स मे प्रियः ॥

अहं यत्र च तत्र त्वं नास्ति भेदः परस्परम् ॥ १४४ ॥

॥ कृष्ण उवाच ॥ ॥

एवमेतत्परं देव वक्तव्यं यत्तथैव तत् ॥

अर्द्धनारीनरवपुर्यदा दृष्टो मया पुरा ॥ १४५ ॥

नेयं नारी मया दृष्टा दृष्टं रूपं किलात्मनः ॥

शंखचक्रगदाहस्तं वनमालाविभूषितम् ॥ १४६ ॥

श्रीवत्सांकं पीतवस्त्रं कौस्तुभेन विराजि तम् ॥

द्वितीयार्द्धं मया दृष्टं शूलहस्तं त्रिलोचनम् ॥ १४७ ॥

चंद्रावयवसंयुक्तं जटाजूटकपालिनम् ॥

एकीभावं प्रपन्नोहं यथा पूर्वं तथाऽधुना ॥

न मां गौरी प्रपश्येत प्रपश्यामि तथैव च ॥ १४८ ॥

॥ ईश्वर उवाच ॥ ॥

आवयोरंतरं नास्ति चैकरूपावुभावपि ॥

यो जानाति स जानाति सत्यलोकं स गच्छति ॥ १४९ ॥

इत्युक्त्वा स ययौ तत्र कैलासं पर्वतोत्तमम् ॥

कृष्णोपि मंदरं प्राप्तो देवकार्येण केनचित् ॥ 7.2.9.१५० ॥

अत्रांतरे दैत्यराजो महादेवप्रसादतः ॥

हिरण्यनेत्रतनयो बाधतेसौ जगत्त्रयम् ॥ १५१ ॥

अमरत्वं हराल्लब्ध्वा कामांधो नैव पश्यति ॥

हरांगधारिणीं देवीं दिव्यरूपां सुलोचनाम् ॥१५२॥

ममेति स च जानाति याचते च हरं प्रति॥

हरोऽपि कार्यव्यसनस्त्यक्त्वा कैलासपर्वतम् ॥१५३॥

मंदरं समनुप्राप्तो देवं द्रष्टुं जनार्द्दनम् ॥

परस्परं समालोच्यामुंचद्देवीं स मंदरे ॥ १५४ ॥

नारायणगृहे देवी स्थिता देवीगणैर्वृता ॥

अत्रांतरे गौतमस्तु गोवधान्मलिनीकृतः ॥ १५५ ॥

पवित्रीकरणायास्य भिक्षुरूपधरो हरः ॥

गौतमस्य गृहं प्राप्तो मंदरं चांधको गतः ॥१५६॥

ययाचे पार्वतीं दुष्टो युद्धं चक्रे स विष्णुना ॥

हारितं तु गणैः सर्वैर्देवीं दैत्यो न पश्यति ॥१५७॥

स्त्रीरूपधारी कृष्णोऽसौ गौरीं रक्षति मंदिरे ॥

गौरीणां तु शतं चक्रे हरिस्तत्र स मायया ॥ १५८ ॥

विष्णोर्देहसमुद्भूता दिव्यरूपा वरस्त्रियः ॥

अन्धको नैव जानाति कैषा गौरी नु पार्वती ॥ १५९ ॥

विलंबस्तत्र सञ्जातो मोहितो विष्णुमायया ॥

तावच्छिवः समायातः कृत्वा गौतमपावनम् ॥ 7.2.9.१६० ॥

भिक्षामात्रेण चान्नेन गौतमो निर्मलीकृतः ॥

सोंधकेन तदा युद्धं चक्रे रुद्रोऽपि कोपितः ॥ १६१ ॥

अमरोऽसौ हराज्जातः शूले प्रोतः सुदारुणे ॥

शूलस्थस्तु स्तुतिं चक्रे तस्य तुष्टो महेश्वरः ॥ १६२ ॥

गणेशत्वं ददौ तस्मै यावदाभूतसंप्लवम् ॥

स्वसरूपामुमादेवीं कृष्णस्तस्मै ददौ स्वयम् ॥ १६३ ॥

गौरीरूपाः स्त्रियश्चान्या धरित्र्यां तास्तु प्रेषिताः ॥

कृत्वा नामानि सर्वासां लोके पूज्या भविष्यथ ॥ १६४ ॥

एता ये पूजयिष्यंति पूजयिष्यन्ति ते शिवाम् ॥

शिवां ये पूजयिष्यंति तेऽर्चयन्ते हरं हरिम् ॥१६५॥

उमां समादाय ययौ हरो गिरिं वृषं समारुह्य सुरासुरार्चितः ॥

हरिस्तु रेमे रमया सहांधके हते च देवाः सुरराजमाययुः ॥१६५॥

ब्रह्मेशनारायणपुण्यचेतसां शृण्वन्ति चित्रं चरितं महात्मनाम्॥

मुच्यंति पापैः कलिकालसंभवैर्यास्यंति नाकं गणवृन्दवंदिताः ॥ १६७ ॥

एवं काले वर्त्तमाने हरः कैलासपर्वते ॥

रक्षोदानवदैत्यैस्तु गृह्यतेऽसौ वरान्बहून् ॥ १६८ ॥

ब्रह्मदत्तवरो रौद्रस्तारकाख्यो महासुरः ॥

तेन सर्वं जगद्व्याप्तं तस्य नष्टा सुरा रणे ॥ १६९ ॥

महादेवसुतेनाजौ हंतव्योऽसौ ससर्ज तम् ॥

कार्तिकेयमुमापुत्रं रुद्रवीर्यसमुद्भवम् ॥ 7.2.9.१७० ॥

देवैरिन्द्रादिभिः सर्वैः सेनाध्यक्ष्येभिषेचितः ॥

तेनापि दैवयोगेन तारकाख्यो निपातितः ॥ १७१ ॥

कैलासशिखरासीनो देवदेवो जगद्गुरुः ॥

उमया सह संतुष्टो नन्दिभद्रादिभिर्वृतः ॥ १७२ ॥

स्कन्देन गजवक्त्रेण धनाध्यक्षेण संयुतः ॥

अथ हासपरं देवं शनैः प्रोवाच तं शिवा ॥ १७३ ॥

केन देव प्रकारेण तोषं यास्यसि शंकर ॥

मर्त्यानां केन दानेन तपसा नियमेन वा ॥ १७४ ॥

केन वा कर्मणा देव केन मन्त्रेण वा पुनः ॥

स्नानेन केन देवेश केन धूपेन तुष्यसि ॥ १७५ ॥

पुष्पेण केन मे नाथ केन पत्रेण शंकर ॥

कया संतुष्यसे स्तुत्या साहसेन च केन वै ॥ १७६ ॥

नैवेद्येन च केन त्वं केन होमेन तुष्यसि ॥

केन कष्टेन वा देव केनार्घेण मम प्रभो ॥ १७७ ॥

षोडशैते मया प्रश्नाः पृष्टा मे निर्णयं वद ॥ १७८ ॥

॥ शंकर उवाच ॥ ॥

साधु पृष्टं त्वया देवि कथयिष्ये मम प्रियम् ॥

शिवपूजाप्रकारोऽयं क्रियते वचसा गुरोः ॥१७९॥

अभयं सर्वजंतूनां दानं देवि मम प्रियम् ॥

सत्यं तपः समाख्यातं परदारविवर्जनम् ॥ 7.2.9.१८० ॥

प्रियो मे नियमो देवि कर्म तल्लोकरञ्जनम् ॥

मयों नमः शिवायेति मन्त्रोऽयमुररीकृतः ॥ १८१ ॥

सर्वपापविनिर्मुक्तो मम देवि स वल्लभः ॥

पापत्यागो भवेत्स्नानं धूपो मे गौग्गुलः प्रियः ॥ ॥ १८२ ॥

धत्तूरकस्य पुष्पं मे बिल्वपत्रं मम प्रियम् ॥

स्तुतिः शिवशिवायेति साहसं रणकर्मणि ॥ १८३ ॥

न बिभेति नरो यस्तु तस्याग्रे संभवाम्यहम् ॥

हंतकारो गवां यस्तु नैवेद्यं मम वल्लभम् ॥ १८४ ॥

पूर्णाहुत्या परा प्रीतिर्जायते मम सुन्दरि॥

शुश्रूषा वल्लभं कष्टं यतीनां च तपस्विनाम् ॥ १८५ ॥

सूर्योदये महादेवि मध्याह्नेऽस्तमने तथा ॥

अर्घो यो दीयते सूर्ये वल्लभोऽसौ मम प्रिये ॥ १८६ ॥

किं दानैः किं तपोभिर्वा किं यज्ञैर्भाववर्जितैः॥

दया सत्यं घृणाऽस्तेयं दंभपैशुन्यवर्जितम्॥

भक्त्या यद्दीयते स्तोकं देवि तद्वल्लभं मम॥ १८७॥

एवं यावत्कथयति प्रश्नान्सूक्ष्मान्यथोदितान् ॥

तावद्ब्रह्मादिभिर्देवैर्विष्णुस्तत्र ययौ स्वयम् ॥ १८८ ॥

॥ विष्णुरुवाच ॥ ॥

नाहं पालयितुं शक्तस्त्वं ददासि वरान्बहून् ॥

दैत्यानां दानवादीनां राक्षसानां महेश्वर ॥ १८९ ॥

विकृतिं यांति पश्चात्ते कष्टं वध्या भवंति मे ॥

पत्रेण पुष्पमात्रेण ॐकारेण शिवेन च ॥

मुक्तिं याति नरो देव भवभक्तिं करोतु कः ॥ 7.2.9.१९० ॥

इन्द्रादयोऽपि ये देवा यज्ञैराप्याययंति ते ॥

न यजंति द्विजा यज्ञान्भिक्षादानेन तुष्यसि ॥ १९१ ॥

॥ रुद्र उवाच ॥ ॥

इन्द्रादिभिर्न मे कार्यं ब्रह्मा मे किं करिष्यति ॥

येन केन प्रकारेण प्रजाः पाल्यास्त्वया ऽधुना ॥ १९२ ॥

मदीया प्रकृतिस्त्वेषा तां कथं त्यक्तुमुत्सहे ॥

त्वयाहं ब्रह्मणा देवैर्वरकर्मणि योजितः ॥ १९३ ॥

इदानीमेव किं नष्टं मुक्त्वा देवीं तवाग्रतः ॥

भूत्वा मूर्तिं परित्यज्य एकाकी विचराम्यहम् ॥ १९४ ॥

इत्युक्त्वा स शिवो देवस्तत्रैवांतरधीयत ॥

गते तस्मिञ्छिवे तत्र संक्षोभः सुमहानभूत् ॥ १९५ ॥

उमा प्रोवाच चेन्द्रादीन्ब्रह्मविष्णुगणांस्तथा ॥

इदानीं किं मया कार्यं भवद्भिः शिववर्जितैः ॥ १९६ ॥

अत्रान्तरे च ये चान्ये देवास्तत्र समागताः ॥

ऋषयश्चैव सिद्धाश्च तथा नारदपर्वतौ ॥ १९७ ॥

गंगासरस्वतीनद्यो नागा यक्षाः समागताः ॥

ब्रह्मादिभिः समालोच्य कथमेतद्भविष्यति ॥ १९८ ॥

॥ विष्णुरुवाच ॥ ॥

सहैव गम्यतां तत्र यत्र देवो गतः शिवः ॥

स्वल्पा यासेन ते यान्तु नराः स्वर्गं शिवाज्ञया ॥ १९९ ॥

सत्यलोके नरा यान्तु देवा यान्तु धरातलम् ॥

रक्षोदानवदैत्यानां वरान्यच्छतु शंकरः ॥ 7.2.9.२०० ॥

तेषां बाधा मया कार्या यै च स्युर्धर्मलोपकाः ॥

हृष्टे शिवे मया कार्या व्यवस्था स्वर्गगामिनाम् ॥ ॥ २०१ ॥

त्रयीधर्मं परित्यज्य येऽन्यं धर्ममुपासते ॥

ते नरा नरकं यांतु यावदाभूतसंप्लवम् ॥ २०२ ॥

यदाऽदृश्यः शिवो जातः प्रवि वेश गिरेर्वनम् ॥

गिरीणां मध्यमास्थाय त्यक्त्वा दिव्ये स वाससी ॥ २०३ ॥

गजाजिनं परित्यज्य त्यक्त्वा मूर्त्तिं महेश्वरः ॥

भित्त्वा भूमितलं देवः स्थाणुरूपो बभूव सः ॥ २०४ ॥

यस्मात्स्वंयभूर्भवति भवंस्तस्मात्स्वयं हरः ॥

अत्रांतरे सुराः सर्वे न पश्यंति महेश्वरम् ॥

ज्ञानातीतं कलातीतं दिव्यध्यानबहिः स्थितम् ॥ २०५ ॥

यदा देवा व्याकुलाः संपतंति रविर्वायुरंबरं तोयमुर्वी ॥

निजे स्थाने वर्त्तमाना उमायाः शशंसुर्वै देवदेवं सुराणाम् ॥ २०६ ॥

स्वर्गे धरित्र्यां चरितं तलेषु देवेषु मर्त्येषु सरीसृपेषु ॥

स्थूलेषु सूक्ष्मेषु यथा तथैव सत्यं हि वाच्यं पदमस्मदीयम् ॥ २०७ ॥

ततो देवाः प्रचलिताः कृत्वा गौरीं पुरस्सरम् ॥

नंदि भद्रादयः सर्वे देवा इंद्रादयस्तथा ॥ २०८ ॥

स्कन्देन सहिता देवी सिंहारूढा ययौ स्वयम् ॥

अधिरुह्य गरुत्मंतं ययौ विष्णुः सनातनः ॥ २०९ ॥

हंसाधिरूढो भगवान्ब्रह्मा याति स पृष्ठतः ॥

ऐरावतं समारुह्य देवराजोऽगमत्स्वयम् ॥ ॥ 7.2.9.२१० ॥

गंगा सरस्वती देवी यमुना च महानदी ॥

देवताश्च गताः सर्वे नागा यक्षाः सकिंनराः ॥ २११ ॥

गताः संक्षेपतः सर्वे यत्र देवो महेश्वरः ॥

अधिरुह्य गिरेः शृंगमंबा देवी व्यवस्थिता ॥ २१२ ॥

विष्णुर्मुक्त्वा गरुत्मंतं स्थितो रैवतके गिरौ ॥

स्तुतिं चक्रे तदा देवी जगुर्गीतं सुसंयताः ॥ २१३ ॥

ऐरावतपदाक्रांतो न चचाल स पर्वतः ॥

भित्त्वा भूमितलं तत्र नागराजः समागतः ॥ २१४ ॥

गंगाद्याः सरितः सर्वास्तेन रंध्रेण चागताः ॥

ब्रह्मा विष्णुर्यदा देवाः स्तुतिं चक्रुः समंततः ॥ २१५ ॥

ददर्श रूपं भगवान्भवो देवस्तदा हरः ॥ २१६ ॥

ततो हृष्टाः सुराः सर्वे अंबा हृष्टा गणाश्च ते ॥

गम्यतां देव कैलासं देव्येति संप्रमोदितः ॥ २१७ ॥

॥ ईश्वर उवाच ॥ ॥

यदि हृष्टाः सुराः सर्वे गंगाद्याः सरितस्तथा ॥

गिरौ रैवतके विष्णुरंबा चात्रैव तिष्ठतु ॥२१८॥

सरस्वती च यमुना रेवा चास्मिन्व्यवस्थिताः ॥

स्वर्णरूपं जलं यस्मात्स्वर्णरेखेति सा नदी ॥ २१९ ॥

वस्त्रापथमिदं क्षेत्रं भवो देवोऽत्र तिष्ठतु ॥

तीर्थमेतन्मया प्रोक्तं भुक्तिमुक्तिप्रदायकम् ॥

अत्र स्नातो नरो नारी मुच्यते सर्व पातकैः ॥7.2.9.२२०॥

इति प्रोच्य शिवो देवः कलां न्यस्य भवे तदा ॥

पश्यतां सर्वदेवानां ययौ कैलासपर्वतम् ॥ २२१ ॥

अंबेति स्कन्दवदनात्कलां न्यस्य गिरौ तदा ॥

देवेन सहिता देवी वृषारूढा ययौ स्वयम् ॥ २२२ ॥

नारायणो रैवतके गिरौ रम्ये स्थितः स्वयम् ॥

कल्पादौ च युगादौ च स्थितो विष्णुः सदा गिरौ ॥ २२३ ॥

बहुरात्रस्थितो देवः कृत्वा दैत्यनिबर्हणम् ॥

रेमे रैवतके देवो यावदाभूतसंप्लवम् ॥ २२४ ॥

नारसिंहेन रूपेण हिरण्यकशिपुर्हतः ॥

हत्वा तदा गतस्तत्र नारसिंहं मुमोच ह ॥ २२५ ॥

महावराहरूपेण हिरण्याक्षो निपातितः ॥

तदेव मुक्त्वा देवेशः स्थितो रैवतके गिरौ ॥ २२६ ॥

स पृथुं पार्थिवं कृत्वा देवकार्येण वै नृप ॥

गिरौ रैवतके देव उवास सुरपूजितः ॥ २२७ ॥

अत्रागत्य पृथुः पूर्वं चक्रे देवप्रपूजनम् ॥

जपमाला तदा कण्ठे पृथुना संनिवेशिता ॥

दामोदरेति देवेशनाम चक्रे पृथुः स्वयम् ॥ २२८ ॥

वस्त्रापथे देववरो भवः स्थितो दामोदरो रैवतके व्यवस्थितः ॥

अंबेतिदेवी गिरिमूर्ध्नि संस्थिता देवाश्च सर्वे परितः प्रतिष्ठिताः ॥ २२९ ॥

क्षेत्राधिपास्तीर्थवरस्य रक्षका देवेन मुक्ता भवसंनिधानतः ॥

पश्यंति ये देववरं भवाभिधं मुच्यंति ते यांति दिवं नरा भुवः ॥ 7.2.9.२३० ॥

वस्त्रापथस्य क्षेत्रस्य भवस्य च मया तव ॥

उत्पत्तिः कथिता राजन्किमन्यच्छ्रोतुमिच्छसि ॥ २३१ ॥

शृणोति पठते यश्च कथां चेमां समंततः ॥

सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ २३२ ॥

ब्रह्मघ्नश्च सुरापश्च भ्रूणहा गुरुतल्पगः ॥

स्वर्णरेखाजले स्नातो मुच्यते सर्वपातकैः ॥ २३३ ॥

ये च कीटपतंगाद्याः स्वर्णरेखा जले मृताः ॥

सर्वपातकनिर्मुक्तास्ते प्रयांति सुरालयम् ॥ १३४ ॥

स्वर्णरेखाजले स्नात्वा संध्यां श्राद्धं करोति यः ॥

वस्त्रापथे भवं पूज्य ब्रह्मलोकं स गच्छति ॥ २३५ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे वस्त्रापथक्षेत्रमाहात्म्ये भवोत्पत्तिवृत्तांत वर्णनंनाम नवमोऽध्यायः ॥ ९ ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 10

॥ पार्वत्युवाच ॥ ॥

अहो तीर्थस्य माहात्म्यं गिरे रैवतकस्य च ॥

भवस्य देवदेवस्य तथा वस्त्रापथस्य च ॥ १ ॥

गंगा सरस्वती चैव गोमती नर्मदा नदी ॥

स्वर्णरेखाजले सर्वास्तथा ब्रह्मा सवासवः ॥ २ ॥

ब्रह्मेन्द्र विष्णुमुख्यानां देवानां शंकरस्य च ॥

वासो विरचितस्तत्र यावद्ब्रह्मदिनं भवेत् ॥ ३ ॥

क्षेत्रतीर्थप्रभावं च प्रसादात्तव शंकर ॥

श्रुतं सविस्तरं सर्वमिदं त्वदुदितं मया ॥ ४ ॥

महेश्वर प्रभो ब्रूहि किं चकार जनेश्वरः ॥

भोजराजो मृगीं प्राप्य स च सारस्वतो मुनिः ॥ ५ ॥ ॥

॥ ईश्वर उवाच ॥ ॥

तासु सर्वासु नारीषु रूपौदार्यगुणाधिका ॥

नित्यं प्रमुदिता शांता नित्यं मंगलकारिका ॥ ६ ॥

माता स्वसा सखी पुत्री स्त्रीषु संबन्धवर्धनी ॥

पिता भ्राता गुरुः पुत्रः पुरुषेषु तथा कृतः ॥ ७ ॥

एवं गुणवतीं भार्यां प्राप्य हृष्टो जनेश्वरः ॥

सारस्वतं मुनिं स्तुत्वा राजा वचनमब्रवीत् ॥ ८ ॥

॥ राजोवाच ॥ ॥

ब्रह्मा विष्णुर्हरः सूर्य इन्द्रोऽग्निर्मरुतां गणः ॥

ब्रह्मचर्येण तपसा त्वया सन्तोषिताः प्रभो ॥ ९ ॥

दैवतं परमं मे त्वं पिता माता गुरुः प्रभुः ॥

येन जन्मांतरं सर्वं प्रत्यक्षं कथितं मम ॥ 7.2.10.१० ॥

सुराष्ट्रदेशो विख्यातो गिरी रैवतको महान् ॥

भवः स्वयंभूर्भगवान्क्षेत्रे वस्त्रापथे श्रुतः ॥ ११ ॥

उज्जयंतगिरेर्मूर्ध्नि गौरीस्कन्दगणेश्वराः ॥

भावयंतो भवं सर्वे संस्थिता ब्रह्मवासरम् ॥ १२ ॥

वामनो नगरं स्थाप्य शिवं सिद्धेश्वरं प्रति ॥

जित्वा दैत्यं बलिं बद्ध्वा स्वयं रैवतके स्थितः ॥ १३ ॥

इत्येतत्सर्वमाश्चर्यं जीवद्भिर्यदि दृश्यते ॥

तीर्थयात्राविधानेन भवो वस्त्रापथे हरिः ॥ १४ ॥

त्यक्त्वा राज्यं प्रियान्पुत्रान्पत्त्यश्वरथकुञ्जरान् ॥

पुत्रं राज्ये प्रतिष्ठाप्य गन्तव्यं निश्चितं मया ॥ १५ ॥

त्वत्प्रसादाच्छ्रुतं सर्वं गम्यते यदि दृश्यते ॥

तीर्थयात्राविधानेन भवो वस्त्रापथे हरिः ॥ १६ ॥

सूर्यलोकं सोमलोकमिंद्रलोकं हरेः पुरम् ॥

ब्रह्मलोकमतिक्रम्य यास्येऽहं शिवमंदिरम् ॥ १७ ॥

श्रुत्वा हि वाक्यं विविधं नरेन्द्रात्प्रहृष्टरोमा स मुनिर्बभूव ॥

जिज्ञासमानो हि नृपस्य सर्वं निवारयामास मुनिर्नरेन्द्रम् ॥ १८ ॥

॥ सारस्वत उवाच ॥ ॥

गृहेऽपि देवा हरविष्णुमुख्या जलानि दर्भा नृपते तिलाश्च ॥

अनेकदेशांतरदर्शनार्थं मनो निवार्यं नृपते त्वयेति ॥ १९ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये वस्त्रापथ क्षेत्रयात्रोत्सुकस्य भोजभूपस्य सारस्वतमुनिकृतोपदेशवर्णनंनाम दशमोऽध्यायः ॥ १० ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 11

॥ ईश्वर उवाच ॥ ॥

सारस्वतस्य विप्रस्य श्रुत्वा भोजनृपो वचः ॥

विवर्णवदनो भूत्वा प्रगृह्यांघ्री वचोऽब्रवीत् ॥ १ ॥

मुने नैवं त्वया वाच्यं गंतव्यं निश्चितं मया ॥

नराणां पुण्यदा यात्रा कथयस्व कथं भवेत् ॥ २ ॥

किं ग्राह्यं किं च मोक्तव्यं किं देयं किं न दीयते ॥

तीर्थोपवासः स्नानं च संध्यास्नानविधिक्रमः ॥

पूजा निद्रा जपो रात्रौ सर्वं संक्षेपतो वद ॥ ३ ॥

॥ सारस्वत उवाच ॥ ॥

सुराष्ट्रदेशे गन्तव्यं गिरौ रैवतके यदि ॥

नृप यात्राविधिं वक्ष्ये त्वमेकाग्रमनाः शृणु ॥ ॥ ४ ॥

बृहस्पतिबलं गृह्य सूर्यं संतर्प्य चोत्तमम् ॥

वामतः पृष्ठतः सर्वं वृत्वा संशोध्य वासरम् ॥ ५ ॥

चंद्रलग्नं ग्रहाज्ज्ञात्वा बलिष्ठाज्जन्मराशितः॥

शकुनं च शुभं लब्ध्वा प्रस्थातव्यं नृपैर्नृप ॥ ६ ॥

तीर्थे सदैव गंतव्यं सर्वे मासाश्च शोभनाः ॥

तिथयश्चोत्तमाः सर्वाः स्नानदानार्चनादिषु ॥ ७ ॥

अष्टम्यां च चतुर्दश्यां मासांते पूर्णिमादिने ॥

संक्रांतौ ग्रहणे काला एते प्रोक्ता भवार्चने ॥८॥

कैलासं पर्वतं त्यक्त्वा देवीं देवांश्च संगतान्॥

वैशाखे पंचदश्यां तु भूमिं भित्त्वा भवोऽभवत् ॥ ९ ॥

तस्मिन्नेव दिने देवी स्वर्णरेखा नदी तलात् ॥

पंथानं वासुकिं प्राप्य सर्वपापप्रणाशनी ॥ 7.2.11.१० ॥ ।

ऐरावतपदाक्रांत उज्जयन्तो महागिरिः ॥

सुस्राव तोयं बहुधा गजपादोद्भवं शुचि ॥ ११ ॥

देवा ब्रह्मादयः सर्वे गंगाद्याः सरितस्तथा ॥

वस्त्रापथे महाक्षेत्रे भवभावेन संगताः ॥ १२ ॥

वस्त्रापथस्य क्षेत्रस्य प्रमाणं शृणु भूपते ॥

हरस्य त्यजतो भूमौ पतितं वस्त्रभूषणम् ॥ १३ ॥

तावन्मात्रं स्मृतं क्षेत्रं देवैर्वस्त्रापथं कृतम् ॥

उत्तरेण नदी भद्रा पूर्वस्यां योजनद्वयम् ॥ १४ ॥

दक्षिणेन बलेः स्थानमुज्जयन्तो नदीमनु ॥

अपरस्यां परं नद्यो संगमं वामनात्पुरात् ॥ १५ ॥

एतद्वस्त्रापथं क्षेत्रं भुक्तिमुक्तिप्रदायकम् ॥

क्षेत्रस्य विस्तरो ज्ञेयो योजनानां चतुष्टयम् ॥ १६ ॥

वैशाखपंचदश्यां तु भवो भावेन भूपते ॥

पूज्यते शिवलोके तु स्थीयते ब्रह्मवासरम् ॥ १७ ॥

अतो वसंते संप्राप्ते प्रयाणं कुरु भूपते ॥

निगृह्य नियमान्भूत्वा शुचिः स्नातो जितेन्द्रियः ॥ १८ ॥

गजवाजिरथांस्त्यक्ता पदाभ्यां याति यो नरः ॥

पुष्पकेण विमानेन स याति शिवमंदिरम् ॥ १९ ॥

एकभक्तेन नक्तेन तथैवायाचितेन च ॥

भिक्षाहारेण तोयेन फलाहारेण वा यदि ॥ 7.2.11.२० ॥

उपवासेन कृच्छ्रेण शाकाहारेण याति यः ॥

स याति सुन्दरीवृन्दैर्वीज्यमानो गणैर्दिवि ॥ २१ ॥

मलस्नानं विना मार्गे पादाभ्यंगविवर्जितः ॥

मलधारी क्षीणतनुर्यष्टिहस्तो जितेन्द्रियः ॥ २२ ॥

शीतातपजलक्लिष्टः शिवस्मरणतत्परः ॥

यदि याति नरो याति स भित्त्वा सूर्यमंडलम् ॥ २३ ॥

नरकस्थानपि पितॄन्मातृतः पितृतो नृप ॥

अक्षयं सप्त सप्तैव नयेदेवं शिवालये ॥ २४ ॥

लुण्ठन्भूमौ यदा याति मृगचर्मावगुंठितः ॥

दण्डप्रमाणभूमेर्वा संख्यां कुर्वन्नरो यदि ॥ २५ ॥

अरण्ये निर्जले स्थाने जलांतःपरिपीडितः ॥

शरण्यं शंकरं कृत्वा मनो निश्चलमात्मनः ॥ २६ ॥

सप्तद्वीपवतीं पृथ्वीं समुद्रवसनां नृप ॥

स लब्ध्वा बहुभिर्यज्ञैर्यज्ञे दत्त्वा च मेदिनीम् ॥ २७ ॥

सप्तभौमविमानस्थो दिव्यदेहो हराकृतिः ॥

निरीक्ष्य मेदिनीं मंदं कृत मंगलमण्डनम् ॥ २८ ॥

मृगनेत्राभुजस्पर्शलग्नपीनपयोधरः ॥

गीतवाद्यविनोदेन सत्यलोकं व्रजेन्नरः ॥ २९ ॥

विधाय भुजवेगं वा पादौ बद्ध्वा शनैः शनैः ॥

मौनेन मानुषो मायां त्यक्त्वा याति शिवालये ॥ 7.2.11.३० ॥

ब्रह्मघ्नो वा सुरापो वा स्तेयी वा गुरुतल्पगः ॥

कृतघ्नो मुच्यते पापैर्मृतो मुक्तिमवाप्नुयात् ॥ ३१ ॥

मातरं पितरं देशं भ्रातरं स्वजनबांधवान् ॥

ग्रामं भूमिं गृहं त्यक्त्वा कृत्वा चेंद्रियसंयमम् ॥ ३२ ॥

गृहीत्वा शिवसंस्कारं नरो भ्राम्यति भूतले ॥

द्रष्टुं तीर्थान्यनेकानि पुण्यान्यायतनानि च ॥ ३३ ॥

कस्मिंस्तीर्थे शुभे स्थाने छित्त्वा संसारबन्धनम् ॥

अभयां दक्षिणां दत्त्वा शिवशिवेति भाषकः ॥ ३४ ॥

एकांते निर्जने स्थाने शिवस्मरणतत्परः ॥

यदि तिष्ठति तं यान्ति नमस्कर्तुं नराधिप ॥ ३५ ॥

आयांति देवताः सर्वे चिह्नं तस्य निरीक्षितुम् ॥

विमानवृन्दैर्नेतव्यः कदासौ पुरुषोत्तमः ॥ ३६ ॥

यदा तु पञ्चत्वमुपैति काले कलेवरं स्कन्धकृतं नरैश्च ॥

निरीक्ष्यमाणः सुरसुन्दरीभिः स नीयमानो मदविह्वलाभिः ॥ ३७ ॥

सुरेन्द्रसूर्याग्निधनेशरुद्रैः संपूज्यमानः शिवरूपधारी ॥

सुरादिलोकान्प्रविमुच्य वेगाच्छिवालये तिष्ठति रुद्रभक्तः ॥ ३८ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे द्वितीये वस्त्रापथक्षेत्र माहात्म्ये वस्त्रापथयात्राविधानवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 12

॥ सारस्वत उवाच ॥ ॥

गंगोदकं मधुघृते कुंकुमागुरुचंद नम् ॥

गुग्गुलं बिल्वपत्राणि बकपुष्पं च यो वहेत् ॥ १ ॥

पदचारी शुचितनुर्भारं स्कन्धे निधाय च ॥

तीर्थे स्नात्वा शिवं विष्णुं ब्रह्माणं शंकरं प्रियम् ॥ २ ॥

दृष्ट्वा निवेदयेद्यस्तु स मुक्तः सर्वबन्धनैः ॥

स नरो गणतां याति यावदाभूतसंप्लवम् ॥ ३ ॥

कलत्रमित्रपुत्रैर्वा भ्रातृभिः स्वजनैर्नरैः ॥

सहितो वा नरैर्याति तीर्थे देवं विचिंत्य च ॥ ४ ॥

देवमूर्तिं शुभां कृत्वा रथस्थां सुप्रतिष्ठिताम् ॥

चन्दनागुरुकर्पूरैरर्चितां कुंकुमेन च ॥ ५ ॥

पूजयन्विविधैः पुष्पैर्धूपदीपादिकैर्नृप ॥

गीतनृत्यैः सवादित्रैर्हास्यलास्यैरनेकधा ॥ ६ ॥

धरित्रीं कांचनं गाश्च जलान्नवसनानि च ॥

तृणेन्धने प्रियां वाणीं यच्छन्याति नरो यदि ॥ ७ ॥

देवांगनाकरग्राहगृहीतो नन्दनं वनम् ॥

प्राप्य भुंक्ते शुभान्भोगान्यावदाचन्द्रतारकम् ॥ ८ ॥

तीर्थे संचरितः पुरुषो रोगैः प्राणान्विमुञ्चति ॥

अदृष्ट्वा दैवतं तीर्थे दृष्टतीर्थफलं लभेत् ॥ ९ ॥

संसारदोषान्विविधान्विचिन्त्य स्त्रीपुत्रमित्रेष्वपि बंधमुक्तः ॥

विज्ञाय बद्धं पुरुषं प्रधानैः स सर्वतीर्थानि करोति देहम् ॥ 7.2.12.१० ॥

आजन्मजन्मांन्तरसंचितानि दग्ध्वा स पापानि नरो नरेन्द्र ॥

तेजोमयं सर्वगतं पुराणं भवोद्भवं पश्यति मुच्यते सः ॥११॥

तीर्थे विप्रवचो ग्राह्यं स्नात्वा संध्यार्चनादिकम् ॥

दर्भास्तिला हविष्यान्नं प्रयोगाः श्रद्धया कृताः ॥१२॥

अगस्त्यं भृङ्गराजं च पुष्पं शतदलं शुभम् ॥

कर्पूरागुरुश्रीखंडं कुंकुमं तुलसीदलम् ॥ १३ ॥

बिल्वप्रमाणपिंडेषु दीपोद्द्योतितभूमिषु ॥

तांबूल फलनैवेद्यं तिलदर्भोदकेन च ॥ १४ ॥

तीर्थे संकल्पितं मर्त्यैस्तदनंतं प्रजायते ॥

अयने विषुवे चैव संक्रांतौ ग्रहणेषु च ॥ १५ ॥

मासांतेऽपर पक्षे तु क्षयाहे पितृमातृके ॥

गजच्छायां त्रयोदश्यां द्रव्ये प्राप्तौ द्विजोत्तमः ॥ १६ ॥

गृहे श्राद्धं प्रकुर्वीत पितॄणामृणमुक्तये ॥

गृहाच्छतगुणं नद्यां या नदी याति सागरम् ॥ १७ ॥

प्रभासे पुष्करे राजन्गंगायां पिंडतारके ॥

प्रयागे नृपगोमत्यां भवदामोदराग्रतः ॥ १८ ॥

नर्मदादिषु तीर्थेषु कुर्याच्छ्राद्धं नरो यदि ॥

सर्वपापविनिर्मुक्तः पितरो यांति सद्गतिम्॥ १९ ॥

संतानमुत्तमं लब्ध्वा भुक्त्वा भोगाननुत्तमान् ॥

दिव्यं विमानमारुह्य प्रान्ते याति सुरालयम्॥ 7.2.12.२० ॥

जातकर्मादियज्ञेषु विवाहे यज्ञकर्मणि ॥

देवप्रतिष्ठाप्रारंभे वृद्धिश्राद्धं प्रकल्पयेत् ॥ २१ ॥

तृप्यन्ति देवताः सर्वा स्तृप्यंति पितरो नृणाम्॥

वृद्धिश्राद्धकृतो गेहे जायते सर्वमंगलम् ॥ २२ ॥

कामः क्रोधश्च लोभश्च मोहो मद्यमदादयः ॥

माया मात्सर्यपैशुन्यमविवेको विचारणा ॥ २३ ॥

अहंकारो यदृच्छा च चापल्यं लौल्यता नृप ॥

अत्यायासोप्यनायासः प्रमादो द्रोहसाहसम् ॥ २४ ॥

आलस्यं दीर्घसूत्रत्वं परदारोपसेवनम् ॥

अल्पाहारो निराहारः शोकश्चौर्यं नृपोत्तम ॥ २५ ॥

एतान्दोषान्गृहे नित्यं वर्जयन्यदि वर्तते ॥

स नरो मण्डनं भूमेर्देशस्य नगरस्य च ॥ २६ ॥

श्रीमान्विद्वान्कुलीनोऽसौ स एव पुरुषोत्तमः ॥

सर्वतीर्थाभिषेकश्च नित्यं तस्य प्रजायते ॥ २७ ॥

तदा तीर्थफलं सम्यक्त्यक्तदोषस्य जायते ॥

स्नानं सन्ध्या जपो होमः पितृदेवर्षितर्पणम् ॥

श्राद्धं देवस्य पूजा च त्यक्तदोषस्य जायते ॥ २८ ॥

प्रयागे वा कुरुक्षेत्रे सरस्वत्यां च सागरे ॥

गयायां वा रुद्रपदे नरनारायणाश्रमे ॥ २९ ॥

प्रभासे पुष्करे कृष्णे गोमत्यां पिंडतारके ॥

वस्त्रापथे गिरौ पुण्ये तथा दामोदरे नृप ॥ 7.2.12.३० ॥

भीमेश्वरे नर्मदायां स्कांदे रामेश्वरादिषु ॥

उज्जयिन्यां महाकाले वाराणस्यां च भूर्भुवः ॥ ३१ ॥

कालिंद्यां मथुरायां च सकृद्याति नरो यदि ॥

सदोषो मुच्यते दोषैर्ब्रह्महत्यादिभिः कृतैः ॥ ॥ ३२ ॥

अपि कीटः पतंगो वा पक्षी वा सूकरोऽपि वा ॥

खरोष्ट्रकुंजरा वाजिमृगसिंहसरीसृपाः ॥ ३३ ॥

ज्ञानतोऽज्ञानतो राजंस्तेषु स्था नेषु ये मृताः ॥

सर्वे ते पुण्यकर्माणः स्वर्गं भुक्त्वा सुखं बहु ॥ ३४ ॥

चतुर्वर्णेषु सर्वे ते जायंते कर्मबंधनात् ॥

कर्मबंधं विहायाशु मुक्तिं यांति नराः पुनः ॥ ३५ ॥

मोदंते तीर्थमरणात्स्वर्गभोगावसानतः ॥

संप्राप्य भारते खंडे कर्मभूमिं महोदयम् ॥ ३६ ॥

अनेकाश्चर्यसंयुक्तं बहुपर्वतमंडितम् ॥

गंगायाः सरितः सर्वाः समुद्रैः सह संगताः ॥ ३७ ॥

पदेपदे निधानानि संति तीर्थान्यनेकशः ॥

येषां स्मरणमात्रेण सर्वपापक्षयो भवेत् ॥ ३८ ॥

पातालमार्गा बहवः स्वर्गमार्गश्च दृश्यते ॥

गगने दृश्यते सूर्यो हृदये दृश्यते हरः ॥ ३९ ॥

ध्यानेन ज्ञानयोगेन तपसा वचसा गुरोः ॥

सत्येन साहसेनैव दृश्यते भुवनत्रयम् ॥ 7.2.12.४० ॥

वेदस्मृतिपुराणैश्च ये न पश्यंति भूतलम् ॥

पातालं स्वर्गलोकं च वंचितास्ते नरा इह ॥ ४१ ॥

ये विरज्यंति न स्त्रीषु कामासक्ता विचेतसः ॥

देहोन्यथा वरस्त्रीणामन्यथा तैश्च चिंतितम् ॥ ४२ ॥

जन्मभूमिषु ते रक्ता जन्यंते जंतवः पुनः ॥

मुक्तिमार्गात्पुनर्भ्रष्टा जायंते पशुयोनिषु ॥ ४३ ॥

धनानि संप्राप्य वराटिकां ये द्विजातिमुख्याय विधाय पूजाम् ॥

यच्छंति नो निर्मलचेतना ये नराधमा दैवहता मृतास्ते ॥ ४४ ॥

देहं सुपुष्टं विजरं च यौवनं लब्ध्वा न गंगादिषु यांति ये नराः ॥

माता पिता नो न सुतो न बांधवो भार्या स्वसा नो दुहिता न विद्यते ॥ ४५ ॥

एकस्तु यो याति कथं न क्लिश्यते मूर्खो न जानाति भवं महेश्वरम् ॥

स्नात्वा न पश्यंति हरं महेश्वरं दैवेन ते वै मुषिता नराधमाः ॥ ४६ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये यात्रा विधिवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 13

॥ सारस्वत उवाच ॥ ॥

छित्त्वा शुभाशुभं कर्म मुक्तिमिच्छेच्छिवां ततः ॥

इदं न शक्यते कर्त्तुं शुभं कार्यं तदा नरैः ॥ १ ॥

उत्थायोत्थाय स्नातव्यं पूज्यौ हरिहरौ स्वयम् ॥

सत्यं वाच्यं हितं कार्यं दानं देयं स्वशक्तितः ॥ २ ॥

परापवादभीरुत्वं परदारान्विवर्जयेत् ॥

सुवर्णभूमिहरणब्रह्मदेवस्ववर्जनम् ॥ ३ ॥

ब्राह्मणस्त्रीनरेंद्राणां बालवृद्धतपस्विनाम् ॥

पितृमातृगुरूणां च नाप्रियं मनसा वदेत् ॥ ४ ॥

देशकालपरिज्ञानं पात्रापात्रविवेचनम् ॥

छाया नृणां न वक्तव्या तक्राग्नींधनकांजिकम् ॥५॥

औषधं शाकमर्थिभ्यो दातव्यं गृह मेधिभिः ॥

एकादशीपंचदशीचतुर्दश्यष्टमीषु च ॥ ६ ॥

अमावास्याव्यतीपातसंक्रांतिग्रहणेषु च ॥

वैधृते पितृमात्रोश्च क्षयाहदिवसेषु च ॥ ७ ॥

युगादिमन्वादिदिने गृहे कार्यो महोत्सवः ॥

तीर्थे वा गमनं कार्यं गृहाच्छतगुणं यतः ॥ ८ ॥

इद्रियाणां जयः कार्यो मद्यं द्यूतं विवर्जयेत् ॥

विवादं गमनं युद्धं गृही यत्नेन वर्जयेत् ॥ ९ ॥

स्नानं दानं जपो होमो देवपूजा द्विजार्चनम् ॥

अक्षयं जायते सर्वं विधिवच्चेद्भवेत्कृतम् ॥ 7.2.13.१० ॥

एकापि गौः प्रदातव्या वस्त्रालंकारभूषणा ॥

दोग्ध्री सवत्सा तरुणी द्विजमुख्याय कल्पिता ॥ ११ ॥

संप्राप्य भारतं खंडं मानुषं जन्म चोत्तमम् ॥

धन्यो ददाति यो धेनुं स नरः सूर्यमण्डलम्॥

भित्त्वा याति विमानेन गम्यमानो गवादिभिः ॥१२॥

सप्त जन्मानि पापानि कृत्वा पापीह चाधमः॥

एको ददाति यो धेनुं मुच्यते सर्वपातकैः ॥ १३ ॥

यदा स नीयते बद्धो यममार्गेण किंकरैः ॥

तदा नंदा समागत्य स्वं पुत्रमिव पश्यति ॥ १४ ॥

विजित्य हुंकृतेनैव तान्दूतान्दूरतः स्थितान् ॥

गोप्रदं तं समादाय प्रयाति शिवमन्दिरम् ॥१५॥

वृषो धर्म हति प्रोक्तो येन मुक्तः स मुच्यते ॥

गोषु मध्ये पितॄन्सर्वान्हरमुद्दिश्य वा हरिम् ॥१६॥

सूर्यब्रह्मपुरे वासो जायते ब्रह्मवासरे ॥

दृढं ककुद्मिनं संतं युवानं भारसाधनम् ॥१७॥

हलक्षमं बलीवर्दं दत्त्वा विप्राय पर्वसु ॥

तमारुह्य नरो याति गोलोकं शिवसंनिधौ ॥ १८ ॥

अश्वं सास्तरणं दत्त्वा खलीनेन च संयुतम् ॥

अश्वराजबलात्स्वर्गे मोदते ब्राह्मवासरम् ॥ १९ ॥

गजदानाद्गजेंद्रेण नीयते नंदनं वनम् ॥

पृथिव्यां सागरांतायामेष राजा भविष्यति ॥7.2.13.२०॥

गृहं सोपस्करं दत्त्वा विप्राय गृहमेधिने ॥

लभते नंदने दिव्यं विमानं सार्वकामिकम् ॥ २१ ॥

द्रव्यं पृथिव्यां परमं सुवर्णं हृष्यंति देवा यदि दीयते ततः ॥

सूर्योपि तस्मै रुचिरं विमानं ददाति तावद्भ्रमतेऽत्र यावत् ॥२२॥

रौप्यं पितॄणामतिवल्लभं तद्दत्त्वा नरो निर्मलतामुपैति ॥

सोमस्य लोकं लभते स तावद्भुवे निवद्धा ऋषयो हि यावत् ॥ २३ ॥

श्रीखंडकर्पूरसमाकुलानि तांबूलरत्नादिफलानि दत्त्वा ॥

पुष्पाणि वस्त्राणि सुखेन याति साकं शशांकं दिवि देववृंदैः ॥ ॥ २४ ॥

तक्रोदकतैलघृतदुग्धेक्षुरसमधूनि यो दद्यात् ॥

खर्जूरखंडद्राक्षावातामांजीरकैः साकम् ॥ २५ ॥

दर्भाक्षतमृद्गोमयदूर्वायज्ञोपवीतानि ॥

तिलचर्मसूर्यपिटकं दत्त्वा ख्यातश्चिरं स्वर्गे ॥ २६ ॥

आत्माहाराच्चतुर्भागं सिद्धान्नाद्यदि दीयते ॥

हन्तकारः स तं दत्त्वा ध्रुवं याति ध्रुवालये ॥ ॥ २७ ॥

आत्माहारप्रमाणेन प्रत्यहं गोषु दीयते ॥

गवाह्निकं तासु दत्त्वा नरो याति सुरालयम् ॥ २८ ॥

कंडनीपेषणीचुल्लीमार्जनीभिश्च यत्कृतम् ॥

पापं गृही क्षालयति ददद्भिक्षां दिनं प्रति ॥ २९ ॥

ग्रासमात्रा भवेद्भिक्षा सा नित्यं यत्र दीयते ॥

तद्गृहं गृहमन्यच्च स्मशानमिव दृश्यते ॥ 7.2.13.३० ॥

कुम्भान्सोदकसिद्धान्नांश्छत्रोपानत्कमंडलुम् ॥

अंगुलीयकवासांसि दत्त्वा याति नरो दिवि ॥ ३१ ॥

श्रांतस्य यानं तृषितस्य पानमन्नं क्षुधार्त्तस्य नरो नरेन्द्र ॥

दत्त्वा विमानेन सुरांगनाभिः संस्तूयमानस्त्रिदिवं स याति ॥ ३२ ॥

भोजनं सततं देयं यथाशक्त्या घृत प्लुतम् ॥

तन्मया हि यतः प्राणा अतः पुष्यंति प्राणिनः ॥ ३३ ॥

क्षुत्पीडा महती लोके ह्यन्नं तद्भेषजं स्मृतम् ॥

तेन सा शांतिमायाति ततोन्नं देयमुत्तमम् ॥ ३४ ॥

अन्नं वस्त्रं फलं तोयं तक्रं शाकं घृतं मधु ॥

पत्रं पुष्पं तथोपानत्कंथां यष्टिं कमंडलुम् ॥ ३५ ॥

छत्रपात्रे व्रतं विद्या अक्षमाला सुरार्चनम् ॥

कन्या कुशोपवीतानि बीजौषधगृहाणि च ॥ ३६ ॥

सस्यं क्षेत्रं यज्ञपात्रं योगपट्टं च पादुके ॥

कृष्णाजिनं बुद्धिदानं धर्मादेशकथानकम् ॥ ३७ ॥

अथैतत्संततं देयं तेन श्रेयो महद्भवेत् ॥

सर्वपापक्षयं कृत्वा दाता याति शिवालयम् ॥ ३८ ॥

श्राद्धे गृहस्था भोक्तव्याः कुलीना वेदपारगाः ॥

अक्रोधनाः स्नानशीलाः स्वदेशाचारतत्पराः ॥ ३९ ॥

आमंत्र्य पूर्वदिवसे निरीहा अपि ये द्विजाः ॥

अलोलुपा व्याधिहीना न तु ये ग्रामयाजिनः ॥ 7.2.13.४० ॥

तेषां पुरः प्रदातव्यं पिंडदानं विधानतः ॥

श्राद्धं श्रद्धाविहीनेन कृतमप्यकृतं भवेत् ॥ ४१ ॥

तस्माच्छ्रद्धान्वितैः श्राद्धं कर्त्तव्यं क्रोधवर्जितैः ॥

वानप्रस्थो ब्रह्मचारी पथिकस्तीर्थसेवकः ॥ ४२ ॥

अतिथिर्वैश्वदेवांते स पूज्यः श्राद्धकर्मणि ॥

सर्वदा यतयः पूज्याः स्वशक्त्या गृहमेधिभिः ॥ ४३ ॥

यात्राविधिमथो वक्ष्ये सेतिहासं नृपोत्तम ॥ ४४ ॥

इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये तीर्थयात्राविधिवर्णने श्राद्धदानादिमाहात्म्यवर्णनंनाम त्रयोदशोऽध्यायः ॥ ॥ १३ ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 14

॥ सारस्वत उवाच ॥ ॥

वस्त्रापथे महाक्षेत्रे नगरे वामने पुरा ॥

पुत्रशोकाभिसंतप्तो वसिष्ठो भगवानृषिः ॥ १ ॥

आजगाम तपस्तप्तुं स्वर्णरेखानदीतटे ॥

ईशानकोणे नगरात्स्वर्णरेखानदीजले ॥ २ ॥

स्नात्वा ध्यात्वा शिवं देवं मनसाऽचिन्तयद्यदा ॥

तदा रुद्रः समायातस्त्रिनेत्रो वृषभध्वजः ॥

महर्षे तव तुष्टोऽहं किं करोमि वदस्व तत् ॥ ३ ॥

॥ वसिष्ठ उवाच ॥ ॥

यदि तुष्टो महादेव वरो देयो ममाधुना ॥

तदाऽत्र भवता स्थेयं यावदाचंद्रतारकम् ॥ ४ ॥

अत्र स्नानं करिष्यंति ये नराः पापकर्मिणः ॥

तेषां पापक्षयो देव कर्तव्यो भवता सदा ॥ ५ ॥

नरा ये पापकर्माणः पूजयंति त्रिलोचनम् ॥

तान्नरान्नय देवेश विमानैः शिवमंदिरम् ॥ ६ ॥

॥ सारस्वत उवाच ॥ ॥

तथेत्युक्ता हरो देवस्तत्रैवांतर धीयत ॥

हिरण्यकशिपुं हत्वा नरसिंहो महाबलः ॥

त्रैलोक्यमिंद्राय ददौ कालरुद्रं स्वयं ययौ ॥ ७ ॥

तदन्वये बलिर्जातः स चातीव बला धिकः ॥

एकातपत्रां पृथिवीं बलिश्चक्रे बलाधिकः ॥

अकृष्टपच्या सुजला धरित्री सस्यशालिनी ॥ ८ ॥

गन्धवंति च पुष्पाणि रसवंति फलानि च ॥

आस्कन्धफलिनो वृक्षाः पुटके पुटके मधु ॥ ९ ॥

चतुर्वेदा द्विजाः सर्वे क्षत्रिया युद्धकोविदाः ॥

गोषु सेवापरा वैश्याः शूद्राः शुश्रूषणे रताः ॥ ॥ 7.2.14.१० ॥

सदाचारा जनपदा ईतिव्याधिविवर्जिताः ॥

हृष्टपुष्टजनाः सर्वे सदानंदाः सदोद्यताः ॥ ११ ॥

कुंकुमागुरुलिप्तांगाः सुवेषाः साधुमंडिताः ॥

दारिद्र्यदुःखमरणैर्विमुक्ताश्चिरजीविनः ॥ १२ ॥

दीपोद्द्योतितभूभागा रात्रावपि यथा दिने ॥

विचरंति तथा मर्त्या देवा देवालये यथा ॥ ॥ १३ ॥

पृथिव्यां स्वर्गरूपायां राज्यं चक्रेऽसुरो बलिः ॥

नित्यं विवाहवादित्रैर्नादितं भूपमंदिरम् ॥ १४ ॥

धरित्रीं बुभुजे दैत्यो देवराजो यथा दिवि ॥

देवेन्द्रो बलिना नित्यं यज्ञैः संतोषितस्तदा ॥ १५ ॥

देवानां दानवानां च नास्ति युद्धं परस्परम् ॥

एक एव महीपालो युद्धं नास्ति धरातले ॥ १६ ॥

सपत्नककलिर्नाम नास्ति युद्धं हरेर्गजैः ॥

न सर्प्पनकुलैर्नित्यं न बिडालैश्च मूषकैः ॥ १७ ॥

मैत्रीभावं गतं सर्वं जगत्स्थावर जंगमम् ॥

त्रैलोक्यभ्रमणं कृत्वा नारदो नंदने वने ॥ १८ ॥

गतो न पश्यते युद्धं त्रैलोक्ये सचराचरे ॥

तावत्तस्योदरे पीडा महती समजायत ॥ १९ ॥

न मे स्नानादिना कार्यं तर्प्पणैः किं प्रयोजनम् ॥

जपहोमादिना सर्वमन्यथा मम चेष्टितम् ॥ 7.2.14.२० ॥

तत्स्नानं यत्र युध्यन्ते गजा दंतविघट्टनैः ॥

सा संध्या यत्र निहतैः कबन्धैर्भूर्विभूषिता ॥ २१ ॥

कुंतघातविनिर्भिन्नगजकुम्भोद्भवासृजा ॥

तृप्यंति यत्र क्रव्यादास्तर्पणं तन्मम प्रियम् ॥ २२ ॥

गजशीर्षैरगम्यास्ते निहताः क्षत्रिया रणे ॥

स होमो यत्र हूयंते गजाश्च नरपुंगवाः ॥ २३ ॥

शब्दाग्नौ नारदस्यायं होमस्त्रै लोक्यविश्रुतः ॥

छिन्नपादशिरोहस्तैरंतरांत्रविलबितैः ॥ २४ ॥

यदर्च्यते भूमितलं तन्मे नित्यं सुरार्चनम् ॥

किं देवैर्दिवि मे कार्यं किं मनुष्यैर्धरातले ॥ २५ ॥

पन्नगैः किं तु पाताले न युध्यन्ते परस्परम् ॥

तथा करिष्ये देवेन्द्रादुपेन्द्राच्च धरातले ॥ २६ ॥

रसातलं बलिर्यातु सत्यमस्तु वचो मम ॥

जीवितेनापि राज्येन यदा दामोदरं हरिम् ॥ २७ ॥

तोषयिष्यति यत्नेन तदेन्द्रोऽसौ भविष्यति ॥

देवेन्द्रो वृत्रहा भूत्वा भ्रष्टराज्यो भविष्यति ॥ २८ ॥

यदा वस्त्रापथे गत्वा भवं भावेन पूजयेत् ॥

सुराधिपस्तदा भूयो ब्रह्महत्याविवर्जितः ॥ २९ ॥

अनेन मन्त्रजाप्येन स शांतोदरवे दनः ॥

नारदो देवराजस्य समीपं सहसा ययौ ॥ 7.2.14.३० ॥

सिंहासनं समारुह्य नन्दने संस्थितो हरिः ॥

आस्ते परिवृतो देवेर्देवराजो महाबलः ॥ ॥ ३१ ॥

निरीक्षमाणो नृत्यन्तीं रंभां तां सुरसुन्दरीम्॥

आयांतं ददृशे देवो नारदं विस्मयान्वितः ॥ ३२ ॥

अहो विरुद्धो भगवान्नारदो मयि दृश्यते ॥

नृत्यते किं न वा नृत्ये गीयते किं न गीयते ॥ ३३ ॥

वाद्यतां तालमानैः किं यावच्चिंतापरो हरिः ॥

ऋषिः समागतस्तावज्जलाभ्युक्षणत त्परः ॥ ३४ ॥

सिंहासनं परित्यज्य समुत्थायाग्रतः स्थितः ॥

स्वागतेनाभिवाद्याथ बभाषे नारदं हरिः ॥ ३२ ॥

महर्षे स्वागतं तेऽद्य कुतो वाऽऽग म्यते त्वया ॥

स्नाने संध्यार्चने होमे कुशलं तव विद्यते ॥ ३६ ॥

इति प्रोक्तो विहस्याथ बभाषे नारदो हरिम् ॥

यद्येतज्जायते मह्यं किमन्येन प्रयोजनम् ॥ ३७॥

प्रेक्षणीकस्य ते स्थानं नाहं पश्यामि स्वर्पते ॥

यावद्राज्यं बलेस्तावत्त्वया मे न प्रयोजनम् ॥ ३८ ॥

आदित्याद्या ग्रहाः सर्वे काल मानेन योजिताः ॥

आहुत्या प्लाविता मेघा वर्षंति हृषिता भुवि ॥३९॥

रोगादिमरणं नास्ति यमो धर्मेण पीडितः ॥7.2.14.४०॥

एकातपत्रां पृथिवीं बुभुजे स नराधिपः ॥

त्रैलोक्यनाथेति महानृपेति संग्रामविद्याकुशलेति नित्यम् ॥

त्रैलोक्यलक्ष्मीकुचकामुकेति संस्तूयते चारणबंदिवृन्दैः ।४१॥

ब्रह्मेति कृष्णेति हरेति भूमाविंद्रेति सूर्येति धनाधिपेति ॥

देवारिनाथेति सुराधिपेति जेगीयते चारणबंदिवृन्दैः ॥ ४२ ॥

युद्धं विना दैत्यगणा हसंति मत्ताः प्रमत्ताः करिणो नदंति ॥

रथाधिरूढाः पुरुषा भ्रमंति सेनाधिपा स्त्रीषु गृहे रमंति॥४३॥

यज्ञाग्निधूमेन नभो विराजते सुवर्णरूपा पृथिवी विराजते॥

शून्यं तु वेदैर्भुवनं च शोभते धिष्ण्यं बलेर्दैर्त्यैगणैश्च शोभते ॥ ४४ ॥

बलिर्न जानाति सुराधिपं त्वां सुराश्च सर्वे बलियज्ञभोजिनः ॥

त्वमेव तेऽरिं हृदि चिंतय स्वयं युक्तं तवेदं कथितं मयेति ॥ ४५ ॥

रंभा न राजते रंगे मेनका त्वां न मन्यते ॥

तिलोत्तमापि मनुते बलिराजं सुरेश्वरम् ॥ ४६ ॥

उर्वशी चैव तं याति सुकेशा सह भाषते ॥

मञ्जुघोषा मुखं वक्त्रं कृत्वा त्वां न निरीक्षते ॥ ४७ ॥

पुलोमा पुलकोद्भेदं न करोति बलिं विना ॥

पौलोमी पुरतो गत्वा बलिं स्तौति च मंथरा ॥ ४८ ॥

नारदः पर्वतश्चैव हाहा हूहूश्च तुंबुरुः ॥

बलिराज्यं प्रशंसंति रुद्रस्याग्रे मया श्रुतम् ॥ ॥ ४९ ॥

आज्याहुतीभिः सन्तुष्टा ऋषयो ब्रह्मसद्मनि ॥

ब्रह्मणोऽग्रे प्रशंसंति तदेवं कथितं मया ॥ 7.2.14.५० ॥

बृहस्पतिर्यदाचष्टे न तद्वाच्यं मया तव ॥

इंद्राणी बलिनं मत्वा बलिं चित्रेषु पश्यति ॥ ५१ ॥

अनेन वाक्येन सुराधिपस्तु चचाल कोपावरितस्तदानीम् ॥

गजेति वज्रेति जगाद सूतं समानयासिं कवचं रथं च ॥ ५२ ॥

रथेन सूर्यो मरुतो गजेन वृषेण रुद्रो महिषेण सौरिः ॥

वाद्यंतु वाद्यानि रणाय मेऽद्य चण्डी गणेशास्त्वरिताः प्रयातु ॥ ५३ ॥

दृष्ट्वा सुरेन्द्रं संक्रुद्धं बृहस्पतिरुदारधीः ॥

ऋषिमध्ये गतो विद्वान्बभाषे समयोचितम् ॥ ५४ ॥

सामाद्या नीतयः प्रोक्ताश्चतस्रो मनुना पुरा ॥

सामसाध्येषु कार्येषु दण्डस्तेन न पात्यताम् ॥ ५५ ॥

अतो ह्युपेन्द्र्माहूय मंत्रयन्तु सुरोत्तमाः ॥

तदधीनं जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ ५६ ॥

विनष्टेषु च कार्येषु तस्य वाच्यं शुभाशुभम् ॥

स एव प्रथमं गच्छेत्पृथिव्यां स्वार्थसिद्धये ॥ ५७ ॥

तथेति देवैर्विज्ञप्तस्तथा चक्रे सुरेश्वरः ॥

मन्दरेऽथ गिरौ विष्णुः सत्यलोकात्समागतः ॥ ५८ ॥

ऋषयस्तत्र ते यांतु समानेतुं जनार्द्दनम् ॥

इत्युक्तो नारदः स्वर्गात्स्नातुं प्राप्तः स मन्दरे ॥ ५९ ॥

गौतमोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ कश्यपः ॥

जमदग्निर्वसिष्ठश्च संप्राप्ता हरिमन्दिरे ॥ 7.2.14.६० ॥

गिरौ गंगा जले स्नानं संध्यां चक्रे स नारदः ॥

यावदास्ते तदा हृष्टा वालखिल्या महर्षयः ॥ ६१ ॥

विनयेनाभिवाद्याथ कथयामास नारदः ॥

ऋषयो मन्दरे प्राप्ता विष्णुं नेतुं सुरालये ॥ ६२ ॥

ऋषयो दर्शनं कर्त्तुं भवतामपि युज्यते ॥

तदेतद्वचनं श्रुत्वा हर्षितास्ते महर्षयः ॥ ६३ ॥

अंगुष्ठपर्वमात्रांस्तान्वामनान्हरिमन्दिरे॥

गतान्गंगाजले स्नातुं वालखिल्यान्पुरो हरिः॥ ६४॥

जहास वामनान्सर्वान्भाविकार्यबलात्ततः॥

ब्रह्मपुत्रा वालखिल्याः सर्वे ते शंसितव्रताः ॥ ६५ ॥

लज्जान्विताः क्रोधपरा उच्चैरूचुः परस्परम् ॥

केनापि देवकार्येण वामनोऽयं भविष्यति ॥ ६६ ॥

ऋषिभिर्वि ष्णुना सर्वे प्रतिबोध्य प्रसादिताः ॥

भाग्यमोक्षः कदा विष्णोर्भविष्यति तदुच्यताम् ॥६७॥

प्रभासादधिकं क्षेत्रं यदा वस्त्रापथं भवेत् ॥

भविष्यति तदा वृद्धिर्ध्रुवमण्डलव्यापिनी ॥

तथा वस्त्रापथं क्षेत्रं भविष्यति यवाधिकम् ॥ ६८ ॥

दृष्ट्वा सोमेश्वरं देवं दोषमुक्तो भविष्यति ॥

असाध्यसाधनी शक्तिर्भविष्यति स्थिरा तव ॥ ६९ ॥

वस्त्रापथे सोमनाथं यः पश्यति स पश्यति ॥

इन्द्रोपेन्द्रौ समालिंग्याथासीनौ तौ वरासने ॥ 7.2.14.७० ॥ ॥

॥ विष्णुरुवाच ॥ ॥

किं ते कार्यं देवराज तदवश्यं करोम्यहम् ॥ ७१ ॥

॥ इन्द्र उवाच ॥ ॥

हिरण्यकशिपोर्वंशे बलिर्दैत्यो महा बलः ॥

तेनेदं सकलं व्याप्तं देवा यज्ञभुजः कृताः ॥ ७२ ॥

देवलोके भूमिलोको गतः सर्वोऽपि केशव ॥

यावन्नो विकृतिं याति पूर्ववैरमनुस्मरन् ॥

भ्रष्टराज्यो बलिस्तावत्पातालमधितिष्ठतु ॥ ७३ ॥

सूर्यसोमान्वये कश्चिद्राजा भवतु भूतले ॥ ७४ ॥

॥ सारस्वत उवाच ॥ ॥

इत्येतद्वचनं श्रुत्वा स्वयं संचिन्त्य चेतसा ॥

तथा करिष्ये तं प्रोच्य मुनीन्प्राह जनार्दनः ॥ ७५ ॥

ऋषयस्तत्र गच्छंतु कारयन्तु महामखम् ॥

अहं तत्रागमिष्यामि साधयिष्यामि तं बलिम् ॥ ७६ ॥

इत्युक्ता मुनयः सर्वे गतास्ते यज्ञमण्डपे ॥

द्वादशाहो महायज्ञः प्रारब्धः सर्वदक्षिणः ॥ ७७ ॥

सुराष्ट्रदेशं विख्यातं क्षेत्रं वस्त्रापथं नृप ॥

तस्य दक्षिणदिग्भागे बलेः सिद्धं महापुरम् ॥ ७८ ॥

क्षेत्राद्बहिः समारब्धो यज्ञः सर्वस्वदक्षिणः ॥

शुक्रेणामन्त्रिताः सर्वे मुनयो यज्ञकर्मणि ॥

अतिहृष्टो बलिर्यज्ञे ददौ दानान्यनेकधा ॥ ७९ ॥

स्वर्णपात्रेषु सर्वेषु दीयते भोजनं बहु ॥

अतिथिर्ब्राह्मणो विद्वान्सर्वस्वेनापि पूज्यते ॥

दानाद्यज्ञो भवेत्पूर्णो दानहीनो वृथा भवेत् ॥ 7.2.14.८० ॥

एतस्मिन्नेव काले तु विष्णुर्वामनतां गतः ॥

मध्यदेशे चतुर्वेदो ब्राह्मणस्तीर्थयात्रिकः ॥

महोदरो ह्रस्वभुजः खञ्जपादो महाशिराः ॥ ८१ ॥

महाहनुः स्थूलजंघः स्थूलग्रीवोऽतिलंपटः ॥

श्वेतवस्त्रो बद्धशिखश्छत्रोपानत्कमण्डलून् ॥ ८२ ॥

द्रष्टुं तीर्थान्यनेकानि बभ्राम स महीतले ॥

सुराष्ट्रदेशे संप्राप्तः क्षेत्रे वस्त्रापथे द्विजः ॥ ८३ ॥

स्वर्णरेखा नदीतीरे चिंतयामास वामनः ॥

प्रथमं किं भवं दृष्ट्वा यामि सोमेश्वरं शिवम् ॥ ८४ ॥

अथ सोमेश्वरं पूज्य पश्चाद्यास्यामि मन्दरम् ॥

इति चिन्तापरो भूत्वा कृत्यं सञ्चिन्त्य चेतसा ॥

अत्र स्थितः सोमनाथं पूजयिष्यामि निश्चितम् ॥ ८५ ॥

वस्त्रापथे महाक्षेत्रे भवं सोमेश्वरं वृथा ॥

पूजयंति जना नित्यं तथा कार्यं मया धुवम् ॥ ८६ ॥

देशानामुत्तमो देशो गिरीणामुत्तमो गिरिः ॥

क्षेत्राणामुत्तमं क्षेत्रं नदीनामुत्तमा सरित् ॥ ८७ ॥

दिव्यं वनं वनानां तु देवानामुत्तमो भवः ॥

यदा सोमेश्वरो देवो भूमिं भित्त्वा भविष्यति ॥ ८८ ॥

तदाम्रमण्डले दिव्यं क्षेत्रमेतद्यवाधिकम् ॥

चैत्र शुक्लचतुर्दश्यामग्निसाधनतत्परः ॥ ८९ ॥

ऊर्ध्वबाहुः सूर्यकाले भवं तावत्स पश्यति ॥

मध्यंदिनं परं याते दिननाथे विलंबिते ॥ 7.2.14.९० ॥

अग्नि तापांगसंतप्तस्तावत्पश्यति शंकरम् ॥

सोमनाथं शिवं शांतं सर्वदेवनमस्कृतम् ॥

अर्घ्येण पुष्पमिश्रेण जलमिश्रेण भामिनि ॥ ९१ ॥ ॥

॥ सारस्वत उवाच ॥ ॥

भूमिं भित्त्वाथ देवेशः स्वयं सोमेश्वरः स्थितः ॥

लिंगरूपो महादेवो यावदाब्रह्मवासरम् ॥ ९२ ॥

॥ सोमेश्वर उवाच ॥ ॥

सिद्धस्त्वं मत्प्रसादेन कार्यं सिद्धं भविष्यति ॥

इत्युक्तो वामनो देवं प्रत्युवाच महेश्वरम् ॥ ९३ ॥

॥ वामन उवाच ॥ ॥

यदि तुष्टो महादेव यदि देयो वरो मम ॥

तदाऽत्र लिंगे स्थातव्यमस्तु दिव्यं पुरो मम ॥ ९४ ॥

यस्तु स्वायंभुवं लिंगं वामने नगरे मम ॥

पूजयिष्यति ब्रह्मघ्नो गोघ्नो वा बालघातकः ॥ ९५ ॥

गुरुद्रोही स्वर्णचोरो मुच्यते सर्वपातकैः ॥

निर्दोषः पूजयेद्यस्तु सकृत्सोमेश्वरं हरम् ॥ ९६ ॥

मृतो विमानमारुह्य दिव्यस्त्रीपरिवेष्टितः ॥

संस्तूयमानो दिक्पालैर्यातु स्वर्गे शिवालये ॥ ९७ ॥

ब्रह्मलोकमतिक्रम्य रुद्रलोके स गच्छतु ॥

तथेत्युक्त्वा सोमनाथस्तत्रैवान्तरधीयत ॥ ९८ ॥

प्रकाश्य वामनो लिगं सोमनाथं स्वयंभुवम् ॥

प्राप्तज्ञानो लब्धवृद्धिर्ययौ द्रष्टुं भवं हरम् ॥ ९९ ॥

गंगाद्याः सरितः सर्वाः स्वर्णरेखाजले स्थिताः ॥

एतां सोमेश्वरोत्पत्तिं ये शृण्वंति नराः स्त्रियः ॥

सर्वपापक्षयस्तेषां जायते नात्र संशयः ॥7.2.14.१०० ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये सोमेश्वरोत्पत्तिवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 15

॥ सारस्वत उवाच ॥ ॥

अथासौ वामनो विप्रो लब्धज्ञानो भवार्चने ॥

जगाम तद्वनं रम्यं गिरे रैवतकस्य यत् ॥ १ ॥

यत्र वृक्षा बहुविधा दीर्घशाखाः फलान्विताः ॥

वटोदुम्बरबिल्वाश्च सर्जार्जुनकदंबकाः ॥ २ ॥

पलाशाश्वत्थनिंबाश्च धवाटीवारुणीद्रुमाः ॥

शमीकंकोललिंबांश्च बीजपूरी च दाडिमः ॥३॥

बदरी निंबकः पूगः कदली शल्लकी शिवा॥

तालहिंतालशिरसा बीजकावंशखादिराः ॥४॥

अजगासनगागुच्छा इंगुदीकोरवेंगुदाः ॥

ब्रह्मवृक्षाः कुरुबकाः करंजाः पुत्रजीविनः॥ ॥ ५ ॥

अंकोल्लाः पारिभद्राश्च कलंबाः पनसास्तथा ॥

उज्ज्वलाश्च हरिद्राश्च गंगडीवायवा द्रुमाः ॥ ६ ॥

तेसुण्डकाः शिरीषाश्च खर्जूरीकरवंदिकाः॥

सेवाली शाल्मली शाला मधूकाश्च विभीतकाः ॥७॥

हरीतक्यः कटाहाश्च कर्यष्टा आटरूषकाः ॥

विकच्छवः कपित्थाश्च रोहिणीवेत्रकद्रुमाः ॥८॥

मदनफलानिर्गुण्डीपाटलानंदिपादपाः ॥

लवंगैलालवल्यश्च सन्ताना अगरुद्रुमाः ॥ ९ ॥

श्रीखण्डकर्पूरनगाः कल्पवृक्षा नगोतमाः ॥

वामनेन तदा दृष्टाश्छायावृक्षाः सुरार्चिताः ॥ 7.2.15.१० ॥

उदयास्तमने येषां छाया न प्रतिहन्यते ॥

तेषां दर्शनमात्रेण सर्वपापक्षयो भवेत् ॥ ११ ॥

ये जनाः पुण्यकर्माणस्तेषां ते दृष्टिगोचराः ॥

एतान्पश्यन्ययौ वृक्षांस्ततो रैवतकं गिरिम् ॥ १२ ॥

यावन्निरीक्षते तुंगं शिखरं तस्य मूर्द्धनि ॥

आश्चर्यं ददृशे विप्रो महल्लोकभयंकरम् ॥ १३ ॥

धूमज्वलनमध्यस्थान्पुरुषान्पंच पश्यति ॥

कृष्णांगान्खेचरान्रौद्रान्कृष्णागुरुविभूषितान् ॥ १४ ॥

सारमेय समारूढान्करिहस्तान्समेखलान् ॥

खङ्गखेटकहस्तांश्च डमरुड्डामरस्वनान्॥।३५।

सघर्घरीकचरणन्यासनादितपर्वतान् ॥

फेत्कारभासुराकारान्काशकुञ्चितमूर्द्धजान् ॥ १६ ॥

नरमांसवसासारकवलव्यग्रतालुकान् ॥

जनगंधसमाज्ञानभवतीव्रविलोचनान् ॥ १७ ॥

पञ्चाग्निसाधनाव्याप्तदिव्यचक्षुः प्रभावतः ॥

देवान्पश्यति विप्रेन्द्रो ज्ञातकार्यपरंपरः ॥ १८ ॥

एते क्षेत्राधिपाः पञ्च महादेवेन निर्मिताः ॥

महाबला रैवतके निवसंति गिरौ सदा ॥ ॥ १९ ॥

स्वेच्छाचारान्नरान्मर्त्त्यान्वारयति नगे तथा ॥

हरिं हरं नदीं देवीं न पश्यंति गिरिं यथा ॥ 7.2.15.२० ॥

दृष्ट्वा ज्ञात्वा स्तुतिं चक्रे ध्यात्वा देवं महेश्वरम् ॥

जयंति दुष्टदैत्येंद्रयुद्धध्यानांकितं वपुः ॥

बिभ्रति भ्रातरो ये ते पंचेंद्रसमविक्रमाः ॥ २१ ॥

रुद्रवक्त्रोद्भवा दक्षा दक्षाध्वरविनाशकाः ॥

स्वावलीढाहुतीनष्टभीतवाडवनंदिताः ॥२२ ॥

कुङ्कुमागरुकर्पूरलिप्तांगाः सुविभूषिताः ॥

मदिरामोदमत्तांगनृत्यगीतकराः सुराः॥२३॥

ब्रह्मांडभ्रमणश्रांत स्वगंधत्रस्तसंचराः ॥

मनोजवाः कामगमा क्षेत्रपाला जयंति ते ॥ २४ ॥

इत्यादिवचनात्तुष्टा द्विजस्याग्रे स्वयं स्थिताः ॥

एकपादोऽस्म्यहं चैको द्वितीयो गिरिदारुणः ॥ २५ ॥

तृतीयो मेघनादस्तु सिंहनादश्चतुर्थकः ॥

पंचमः कालमेघोऽहं कुर्मः किं ते वदस्व तत् ॥ २६ ॥ ॥ ॥

॥ द्विज उवाच ॥ ॥

यदि तुष्टा भवंतो मे यदि देयो वरो धुवम् ॥

अहो आप्रलयं यावत्स्थातव्यं मत्प्रतिष्ठितैः ॥ २७ ॥

एकपादो गिरि तटे प्रहर्षात्प्रथमं स्थितः ॥

वसतौ वसता तेन गिरौ च गिरिदारुणः ॥ २८ ॥

प्रतिष्ठितः प्रसाद्याथ वरदोऽसौ स्वयं स्थितः ॥

उज्जयंतगिरेर्मूर्ध्नि मेघनादः स्वयं ययौ ॥ २९ ॥

भवानीशंकरं रम्यं सिंहनादस्तथाविशत् ॥

स्वयं वस्त्रापथेनैव भवस्याग्रे निरूपितः ॥ 7.2.15.३० ॥

स्वणरेखानदीतीरे कालमेघो महाबलः ॥

सर्वलोकोपकारार्थं तीर्थं संस्थापितं पुरा ॥ ३१ ॥

वामनेन स्वयं गत्वा क्षेत्रपालास्तु पूजिताः ॥

पुरा युगादौ राजेंद्र सर्वे देवाः समागताः ॥ ३२ ॥

सुराष्ट्रदेशे संप्राप्ताः पुण्ये रैवतके गिरौ ॥

रक्षार्थं सर्वलोकानां वधार्थं देववैरिणाम् ॥ ३३ ॥

विष्णोः कण्ठे तदा मुक्ता जयमाला सुरोत्तमैः ॥

दामोदरेति विख्यातं दत्तं नामोत्तमं हरेः ॥ ३४ ॥

तत्रादौ कार्तिके शुक्ले वासरे विष्णुवल्लभे ॥

उपोष्य सहिते देवैस्तत्तीर्थं विष्णुना कृतम् ॥ ३५ ॥

सर्वतीर्थमयी पुण्या स्वर्णरेखा नदी स्थिता ॥

भुक्तिमुक्तिप्रदं पुण्यं विष्णुलोकप्रदायकम् ॥ ३६ ॥

क्षालनं सर्वपापानां रोगदारिद्र्यनाशनम् ॥

दामोदरं रैवतके परमानंददायकम् ॥ ३७ ॥

ये पश्यंति विमानैस्ते नीयंते विष्णुमंदिरे ॥

न गृहे कार्तिकः कार्यो विशेषाद्भीष्मपंचकम्॥ ३८ ॥

पंचकाद्द्वादशी श्रेष्ठा कार्या दामोदरे जले ॥

प्रातःस्नानं प्रकर्त्तव्यं संप्राप्ते कार्तिके जनैः ॥ ३९॥

मासोपवासः कर्त्तव्यो यतिभिर्ब्रह्मचारिभिः ॥

सतीभिर्विधवाभिश्च मुक्तिस्थानमभीप्सुभिः ॥ 7.2.15.४० ॥

एकभक्तेन नक्तेन तथैवायाचितेन च ॥

उपवासेवन कृच्छ्रेण शाकाहारेण वा पुनः ॥ ४१ ॥

संसेव्यः कार्त्तिके विष्णुर्दीपदानपरैर्नरैः ॥

ब्रह्मचर्यपरैर्मासो नीयते यदि मानवैः ॥ ४२ ॥

तदा विष्णुपुरे वासः क्रियते विष्णुना सह ॥

पञ्चोपवासाः कर्त्तव्याः संप्राप्ते भीष्मपंचके ॥ ४३ ॥

एकादशीं समारभ्य पंचमी पूर्णिमादिनम्॥

तदेतत्पंचकं प्रोक्तं सर्वपापहरं नृणाम्॥ ४४ ॥

सर्वेषामपि मासानां पञ्चकात्कार्तिकादपि ॥

एकादशी कार्तिकस्य पुण्या दामोदरे कृता ॥ ४५ ॥

मिष्टान्नं कार्तिके देयं हविष्यं सघृतप्लुतम्॥

सुवर्णं रजतं वस्त्रं तोयमन्नं फलानि च ॥ ४६ ॥

मासांते विविधं देयं गौस्तिलाः कुसुमानि च ॥

सर्वदानेषु यत्पुण्यं सर्व तीर्थेषु यत्फलम्॥ ४७ ॥

अश्वमेधादिभिर्यज्ञैर्गयायां पिंडदस्य यत् ॥

तत्फलं जायते नॄणां दृष्टे दामोदरे नृप ॥ ४८ ॥

एकादश्यां कृतस्नानो देव पूजापरो भवेत् ॥

स्नाप्य पञ्चामृतेनैव ततस्तीर्थोदकेन च ॥ ४९ ॥

कुंकुमागरुश्रीखंडकर्पूरोदकमिश्रितैः ॥

पूजयित्वा ततः पुष्पैः शतपत्रैः सुगं धिभिः ॥ 7.2.15.५० ॥

मालतीकुसुमैः शुभ्रैर्बहुभिस्तुलसीदलैः ॥

वस्त्रयज्ञोपवीतं च दत्त्वा धूपं प्रधूपयेत्॥५१॥

दीपं दद्याद्धृतेनैव तैलेनापि घृतं विना॥

नैवेद्यं विविधं देयं फलं तांबूलमेव च ॥ ५२ ॥

प्रासादपूजा कर्त्तव्या ध्वजदानादिना नृप ॥

गौः सवत्सा ततो देया संसारार्णवतारिणी ॥ ५३ ॥

ततः प्रदक्षिणां कृत्वा गीतवादित्रनिस्वनैः ॥

वेदपाठपुराणैश्च व्याख्यादिव्यकथादिभिः ॥ ५४ ॥

देवाग्रे जागरः कार्यो दीपो देयोंऽतिभूमिषु ॥

सप्तधान्यमयाः सप्त पर्वता दीपसंयुताः ॥ ५५ ॥

फलतांबूलपक्वान्नपूरिताः परिकल्पिताः ॥

विद्वद्भिः श्रोत्रियैः श्रांतैर्ब्राह्मणैर्गृहमेधिभिः ॥ ५६ ॥

स्त्रीभिश्च नरशार्दूल श्रोतव्या वैष्णवी कथा ॥

एवं जागरणं कार्यं रागक्रोधविवर्जितैः ॥ ५७ ॥

कृत्वा जागरणं रात्रावुदिते सूर्यमडले ॥

पूर्वां संध्यां ततः स्नात्वा कृत्वा मध्याह्नमाचरेत्॥५८॥

देवान्पितॄन्मनुष्यांश्च संतर्प्य विधिपूर्वकम्॥

कृत्वा श्राद्धं पितॄणां तु दद्याद्दानं स्वशक्तितः॥ ५९॥

देवं दामोदरं पूज्य पुष्पधूपादिना पुनः ॥

नरसिंहं सुरं पूज्य वैनतेयं च पूजयेत् ॥ 7.2.15.६० ॥

कृत्वा जागरणं रात्रावुत्थाप्य मधुसूदनम् ॥

द्वादशीभुक्तिमासाद्य कार्यं पारणकं नरैः ॥ ६१ ॥

ब्राह्मणान्भोजयित्वा च सहितः पुत्रबांधवैः ॥

विकलांधकृपणानां देयमन्नं स्वशक्तितः ॥ ६२ ॥

दामोदरे रैवतके स्वर्णरेखानदीजले ॥

एवं यः कुरुते यात्रां तस्य पुण्यफलं शृणु ॥ ६३ ॥

ब्रह्मघ्नश्च सुरापश्च ग्रामसीमाविलोपकः ॥

राजद्रोही गुरुद्रोही मिथ्याव्रतधरश्च यः ॥ ६४ ॥

कूटसाक्ष्यप्रदो यश्च यश्च न्यासापहारकः ॥

बालस्त्रीघातको विप्रः संध्यास्नानविवर्जितः ॥ ६५ ॥

देवब्रह्म स्वहर्त्ता च वेदविक्रयकारकः ॥

कन्याविक्रयकर्त्ता च देवब्राह्मणनिंदकः ॥६६॥

विश्वासघातको विप्रः शूद्रान्नादोऽथ लुब्धकः ॥

नायकः परदाराणां स्वयंदत्तापहारकः ॥ ६७ ॥

पर्वमैथुनसेवी च तथा वै सेतुभेदकः ॥

परिणीतामृतुस्नातां स्वयं यो नाभिगच्छति ॥ ६८ ॥

ब्राह्मणी विधवा बाला न भवेच्छ्रुतधारिणी ॥

महापातकिनश्चैते तथान्ये बहवो नृप ॥ ६९ ॥

स्वर्णरेखाजले स्नात्वा दृष्ट्वा दामोदरं हरिम् ॥

रात्रौ जागरणं कृत्वा मुच्यते सर्वपातकैः ॥ 7.2.15.७० ॥

न तु ये पापकर्माणः समायाताः प्रजागरे ॥

संसारसागरे तीर्थे गच्छंति न हरेः पुरम् ॥ ७१ ॥

यथा यथा याति नरः प्रजागरे तथातथा विष्णुपुरे विचिंत्यते ॥

वासः सुरैर्वैष्णवलोकहेतवे मृदंगगीतध्वनिनादिते गृहे ॥ ७२ ॥

गदासि शंखारिधराश्चतुर्भुजा दैतेयदर्पापहरूपधारिणः ॥

प्रगीयमानाः सुरसुंदरीभिस्ते यांति खं खेचरगात्रसंगाः ॥ ७३ ॥

वाराहकल्पे प्रथमं युगादौ दामोदरो रैवतके प्रसिद्धः ॥

सैषा नदी या सरितां वरिष्ठा सोऽयं हरिर्यो भुवनस्य कर्ता ॥ ७४ ॥

इदं पुराणं पठते शृणोति नरो विमानैर्मधुसूद नालये ॥

देवांगनादत्तभुजश्चतुर्भुजः स नीयते देवगणैरभिष्टुतः ॥ ७५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये सारस्वतप्रोक्ततीर्थयात्राविधाने श्रीदामोदरमाहात्म्यवर्णनंनाम पंचदशोऽध्यायः ॥१५॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 16

॥ राजोवाच ॥

अथासौ वामनो विप्रः प्रविष्टो गहने वने ॥

एकाकी किं चकाराथ कौतुकं तद्वदस्व मे ॥ १ ॥

॥ सारस्वत उवाच ॥ ॥

अथासौ वामनो विप्रो गत्वा रैवतके गिरौ ॥

स्वर्णरेखानदीतोये स्नात्वाथ विधिपूर्वकम् ॥ २ ॥

सुगंधपुष्पधूपाद्यैर्देवं संपूज्य भक्तितः ॥

तस्थौ तदग्रतो राजन्नेकाकी निर्जने वने ॥३ ॥

सर्वसत्त्वसमायुक्ते सरीसृपसमाकुले॥

अनेकस्वरसंघुष्टे मयूरध्वनिनादिते ॥ ४ ॥

कोकिलारावरम्ये च वनकुक्कुटघोषिते ॥

खद्योतद्योतिते तस्मिन्वलीमुखविधूनिते ॥५॥

क्वचिद्वंशाग्निना शांते क्वचित्पुष्पितपादपे ॥

गगनासक्तविटपे सूर्यतापविवर्जिते ॥६॥

लुब्धकाघात संत्रस्तभ्रांतसूकरशंबरे ॥

संहृष्टक्षत्रियवातस्थानदानविचक्षणे ॥ ७॥

अनेकाश्चर्यसंपन्नं सस्मार मनसा हरिम् ॥

तं भीतमिव विज्ञाय नरसिंहः समाययौ ॥ ८ ॥

रक्षार्थं तस्य विप्रस्य बभाषे पुरतः स्थितः ॥

न भेतव्यं त्वया विप्र वद ते किं करोम्यहम् ॥ ९ ॥

॥ विप्र उवाच ॥ ॥

यदि तुष्टो वरो देयो नरसिंह त्वया मम ॥

सदात्र रक्षा कर्त्तव्या सर्वेषां तीर्थवासिनाम् ॥7.2.16.१० ॥

देवस्याग्रे सदा स्थेयं यावदिंद्राश्चतुर्द्दश ॥

एवमस्त्विति तं प्रोच्य तथा चक्रे हरिस्तदा ॥ ११ ॥

अतो दामोदरस्याग्रे नरसिंहः स पूज्यते ॥

वनं सौम्यं कृतं तेन तीर्थरक्षां करोति सः ॥ १२ ॥

भूतप्रेतादिसंवासो वने तस्मिन्न जायते ॥

नरसिंहप्रभावेन नष्टं सिंहादिजं भयम् ॥ १३॥

कार्त्तिके वासरे विष्णोर्द्वादश्यां पारणे कृते ॥

दामोदरं नमस्कृत्य भवं द्रष्टुं ततो ययौ ॥ १४ ॥

चतुर्दश्यां कृतस्नानो भवं संपूज्य भावतः ॥

भवभावभवं पापं भस्मीभूतं भवार्चनात् ॥ १५॥

स क्षीणपापनिचयो जातो देवस्य दर्शनात् ॥

भवस्याग्रे स्थितं शांतं तथा वस्त्रापथस्य च ॥ १६॥

तं कालमेघं समभ्यर्च्य ततो वस्त्रापथं ययौ ॥

देवं संपूज्य मंत्रैः स वेदोक्तैर्विधिपूर्वकम् ॥ १७ ॥

धूपदीपादिनैवेद्यैः सर्वं चक्रे स वामनः ॥

प्रदक्षिणाशतं कृत्वा भवस्याग्रे व्यवस्थितः ॥ १८ ॥

यावन्निरीक्षते सर्वं तावत्पश्यति पर्वतम् ॥

उज्जयंतं गिरिवरं मैनाकस्य सहोदरम् ॥ १९ ॥

सुराष्ट्रदेशे विख्यातं युगादौ प्रथमं स्थितम् ॥

भूधरं भूधरैर्युक्तं शिलापादपमंडितम् ॥ 7.2.16.२० ॥

तं दृष्ट्वा चिंतयामास सूक्ष्मान्धर्मान्स वामनः ॥

अल्पायासान्सुबहुलान्पुत्रलक्ष्मीप्रदायकान् ॥ २१ ॥

अवश्यं क्रिय माणेषु स्वधर्म उपजायते ॥

दृष्ट्वा नदीं सागरगां स्नात्वा पापैः प्रमुच्यते ॥ २२ ॥

गां स्पृष्ट्वा ब्राह्मणं नत्वा संपूज्य गुरुदेवताः ॥

तपस्विनं यतिं शांतं श्रोत्रियं ब्रह्मचारिणम् ॥ २३ ॥

पितरं मातरं भगिनीं तत्पतिं दुहितां पतिम् ॥

भागिनेयमथ दौहित्रं मित्रसंबधिबांधवान् ॥

संभोज्य पातकैः सर्वैर्मुच्यंते गृहमेधिनः ॥ २४ ॥

राजा गजाश्वनकुलं सतीवृषमहीधराः ॥

आदर्शक्षीरवृक्षाश्च सततान्नप्रदास्तु ते ॥ २५ ॥

दृष्टमात्राः पुनन्त्येते ये नित्यं सत्यवादिनः ॥

वेदधर्मकथां श्रुत्वा भुक्तिमुक्तिप्रदा नरान् ॥२६॥

स्मृत्वा हरिहरौ गंगां कृत्वा तीरेण मार्जनम् ॥

गत्वा जागरणे विष्णोर्दत्त्वा दानं च शक्तितः ॥ २७॥

तांबूलं कुसुमं दीपं नैवेद्यं तुलसीदलम् ॥

गीतं नृत्यं च वाद्यं च विधाय सुरमंदिरे ॥ २८ ॥

एते सूक्ष्माः स्मृता धर्माः क्रियमाणा महोदयाः ॥

अतो गिरीन्द्रं पश्यामि सर्वदेवालयं शुभम् ॥२९ ॥

तेषां करतले स्वर्गः शिखरं यांति ये नराः ॥ 7.2.16.३०॥

इति ज्ञात्वा समा रूढो वामनो गिरिमूर्द्धनि ॥

ऐरावतपदाक्रांत्या यत्र तोयं विनिःसृतम् ॥३१॥

ततः शिखरमारूढां भवानीं स्कन्दमातरम् ॥

द्रष्टुं स वामनो याति शिखरे गगनाश्रिते ॥ ३२ ॥

यथायथा गिरिवरे समारोहंति मानवाः ॥

तथातथा विमुच्यंते पातकैः सर्वदेहिनः ॥ ३३ ॥

इति कृत्वा मतिं विप्रो जगाम गिरिमूर्द्धनि ॥

भवभक्तो भवानीं स ददर्श स्कन्दमातरम् ॥३४॥

अंबेति भाषते स्कंदस्ततोऽन्ये सर्वदेवताः ॥

पृथिव्यां मानवाः सर्वे पाताले सर्वपन्नगाः ॥ ३५ ॥

अतो ह्यंबेति विख्याता पूज्यते गिरिमूर्द्धनि ॥

संपूज्य विविधैर्मुख्यैः फलैर्नानाविधैर्द्विजः ॥ ३६ ॥

गगनासक्तशिखरे संस्थितः कौतुकान्वितः ॥

एकाकी शिखरे तस्मिन्नूर्द्ध्वबाहुर्व्यवस्थितः ॥३७॥

निरीक्ष्य मेदिनीं सर्वां सपर्वतससागराम्॥

आद्यं सनातनं देवं भास्करं त्रिगुणात्मकम् ॥३८॥

सर्वतेजोमयं सर्वदेवं देवैर्नमस्कृतम् ॥

भ्रममाणं निराधारं कालमानप्रयोजकम् ॥३९॥

यावत्पश्यति तं विप्रस्तावत्पश्यति शंकरम् ॥

दिगंबरं भवं देवं समंतादश्मगुंठितम् ॥ 7.2.16.४० ॥

बुद्धरूपाकृतिं देवं सर्वज्ञं गुणभूषितम् ॥

कृशांगं जटिलं सौम्यं व्योममार्गे स्वयं स्थितम् ॥ ४१ ॥ ॥

॥ श्रीशिव उवाच ॥ ॥

शृणु वामन तुष्टोऽहं दास्ये ते विविधान्वरान् ॥

त्रैलोक्यव्यापिनी वृद्धिर्भविष्यति न संशयः ॥ ४२ ॥

प्रतिभास्यंति ते वेदा गीतनृत्यादिकं च यत् ॥

असाध्यसाधनी शक्ति भविष्यति तव स्थिरा ॥

परं वस्त्रापथे गत्वा कुरु तीर्थावलोकनम् ॥ ४३ ॥

॥ वामन उवाच ॥ ॥

वस्त्रापथे महादेव यानि तीर्थानि तानि मे ॥

वद देव विशेषेण यद्यस्ति करुणा मयि ॥४४॥

॥ रुद्र उवाच ॥ ॥

वस्त्रापथस्य वायव्ये कोणे दिव्यं सरोवरम् ॥

तस्य पश्चिमदिग्भागे जालिर्गहनपल्लवा ॥ ४५ ॥

बिल्ववृक्षमयी मध्ये लिंगं तत्रास्ति मृन्मयम् ॥

यत्रासौ लुब्धकः सिद्धो गतो मम पुरे पुरा ॥ ४६ ॥

तस्य दर्शनमात्रेण ब्रह्महत्या विनश्यति ॥

इंद्रो वै वृत्रहा यस्मिन्विमुक्तो ब्रह्महत्यया ॥ ४७ ॥

तस्माद्रुत्तरदिग्भागे धनदेन प्रतिष्ठितम् ॥

लिंगं त्रैलोक्यविख्यातं तत्र देवी त्रिशूलिनी ॥ ४८ ॥

यस्या दर्शनमात्रेण पुत्रोऽस्य नलकूबर॥

पाशानुषक्तहस्तोऽभूद्देवं चक्रे त्रिशूलिनम् ॥ ४९ ॥

भवस्य नैर्ऋते कोणे गणो हेरंबसंज्ञितः ॥

यमेन कुर्वता लिंगं प्रथमं च प्रतिष्ठितः ॥ 7.2.16.५० ॥

विचित्रं तस्य माहात्म्यं चित्रगुप्तोऽति विस्मितः ॥

दृष्ट्वा समागतो द्रष्टुं देवं तं मृन्मयं पुरा ॥ ५१ ॥

तेनापि निर्मितं लिंगं तस्मिन्क्षेत्रे द्विजोत्तम ॥

चित्रगुप्तेश्वरंनाम विख्यातं भुवन त्रये ॥ ५२ ॥

पश्चिमेन चकारोच्चैः प्रजापतिरुदारधीः ॥

केदाराख्यं तदा लिंगं गिरौ रैवतके स्थितम् ॥

प्रजापतिः स्वयं तस्थौ तत्र पर्वतसानुनि ॥ ५३ ॥

॥ रुद्र उवाच ॥ ॥

इंद्रेश्वरस्य माहात्म्यं कथयिष्ये शृणुष्व तत् ॥

ईशानकोणे विख्यातं भवस्य विदितं मम ॥ ५४ ॥

॥वामन उवाच ॥ ॥

कस्मादिंद्रः समायातः कथं चक्रे हरं हरिः॥

कथां सविस्तरामेतां कथयस्व मम प्रभो ॥ ५५ ॥

॥ रुद्र उवाच ॥ ॥

लुब्धकस्तु पुरा सिद्धः शिवरात्रिप्रजागरात् ॥

शिवलोके तदा प्राप्तं विमानं गणसंयुतम् ॥ ५६ ॥

सर्वत्रगं सुरुचिरं दिव्यस्त्रीगीतनादितम् ॥ तदारुह्य समायातो द्रष्टुं तां नगरीं हरेः ॥ ५७ ॥

यस्यां युद्धं समभवद्गणानां यमकिंकरैः ॥

आगच्छमानं तं ज्ञात्वा देवराजेन चिंतितम् ॥ ५८ ॥

पूज्योऽयं हरवत्सर्वैश्चित्रगुप्तयमादिभिः ॥

इंद्रो गजं समारुह्य महिषेण यमो यतः ॥ ५९ ॥

विधाय लेखनीं कर्णे चित्रगुप्तो यमाज्ञया ॥

ततो हूता गणाः सर्वे ये नीता धरणीतलात् ॥ 7.2.16.६० ॥

निजापराधसंतप्ता गतास्ते दक्षिणामुखम् ॥ आथित्यपू

जा कर्तव्या लुब्धके गृहमागते ॥ ६१ ॥

अपूजिते गते ह्यस्मिन्हरो मां शपयिष्यति ॥

तस्मात्पूजां करिष्यामि यथा तुष्यति शंकरः ॥ ६२ ॥

देवं द्रष्टुं समायातं ददर्शादूरतः स्थितम्॥

विमानस्थं हराकारं सूर्यकोटिसमप्रभम् ॥ ६३ ॥

संस्तूयमानं चरितैः शिवरात्रेः शिवस्य च ॥

माघे मासे चतुर्द्दश्यां कृष्णायां जागरे कृते ॥६४॥

तदेवं जायते सर्वं सुरेश्वर धरातले ॥

एवं देवांगना काचिदाचक्षंती पुरंदरम् ॥

निवार्य हस्तमुद्यम्य गजेंद्रं चारुलोचना ॥ ६५ ॥

किं दानैर्बहुभिर्दत्तैर्व्रतैः किं किं सुरार्चनैः ॥

किं योगैः किं तपोभिश्च ब्रह्मचर्य्यैः सुरेश्वर ॥ ६६ ॥

गयायां पिंडदानेन प्रयागमरणेन किम् ॥

सोमेश्वरे सरस्वत्यां सोमपर्वणि किं गतैः ॥ ६७ ॥

कुरुक्षेत्रगतैः किं स्याद्राहुग्रस्ते दिवाकरे ॥

तुलासुवर्णदानेन वेदपाठेन किं भवेत् ॥६८॥

सर्वपापक्षयो येन वृषोत्सर्गेण तेन किम् ॥

गोदानं किं करोत्येवं जलदानं तथैव च ॥ ६९ ॥

अयने विषुवे चैव संक्रांतौ कीदृशं फलम् ॥

माघमासे चतुर्दश्यां यादृशं जागरे कृते ॥ 7.2.16.७० ॥

यमः संभाषते वाण्या महिषोपरि संस्थितः ॥

पश्य रुद्रस्य माहात्म्यं चित्रगुप्त विचारय ॥ ७१ ॥

अयं स लुब्धको येन हरः संपूजितः पुरा ॥

सुराष्ट्रदेशे विख्यातं तीर्थं वस्त्रापथं शृणु ॥ ७२ ॥

उज्जयंतो गिरिस्तत्र तथा रैवतको गिरिः ॥

महती वर्त्तते जालिस्तयोर्मध्ये मया श्रुतम् ॥ ७३ ॥

मृन्मयं वर्तते लिगं रात्रौ चानेन पूजितः ॥

रात्रौ जागरणं कर्त्तुं येन कार्येण चागतः ॥ ७४ ॥

तदस्माभिः कथं वाच्यं स्वयं जानंति ते सुराः ॥

वरांगना वरं द्रष्टुं वरयंति परस्परम् ॥

इंद्रावासात्समायाता नंदने वेगवत्तराः ॥ ७५ ॥

विरंचिना रायणशंकरत्विषा देहेन चागच्छति कोऽपि पूरुषः ॥

पुरीं सुरेशाधिपतेर्निरीक्षितुं भर्त्ता ममायं तव चास्ति किं पतिः ॥ ७६ ॥

मृदंगवीणा पटहस्वरस्तुतैः प्रवोधिताभिः सुरराजमन्दिरे ॥

देवो हरोऽयं न नरो हराकृतिर्दृष्टोंगनाभिस्तव किं किमावयोः ॥ ७७ ॥

गायंति काश्चिद्विहसंति काश्चिन्नृत्यंति काश्चित्प्रपठंति काश्चित् ॥

वदन्ति काश्चिज्जयशब्दसंयुतैर्वाक्यैरनेकैर्गुरुसन्निधाने ॥ ७८ ॥

काचिच्छिवं स्तौति शिवां तथान्या पृच्छत्यथान्या किमु बिल्वपत्रात् ॥

किं वोपवासेन फलं तवेदं निद्राक्षयेणाथ फलं तवैतत् ॥ ७९ ॥

तासां नानाविधा वाचः श्रूयन्ते नन्दने वने ॥

ब्रह्मलोकादिका वार्त्ताः कृत्वा च तदनन्तरम् ॥ 7.2.16.८० ॥

देवेन्द्रो लुब्धकं भूयो बभाषे कौतुकान्वितः॥

कस्मिन्देशे गिरौ जालिर्लिंगं यत्रास्ति दर्शय ॥ ८१ ॥

॥ लुब्धक उवाच ॥ ॥

सुराष्ट्रदेशे विख्यातो यस्मिन्देशे सरस्वती ॥

वाडवं शिरसा धृत्वा प्रविष्टा लवणोदधौ ॥ ८२ ॥

यत्र सा गोमती याति यत्रास्ते गन्धमादनः ॥

उज्जयंतो गिरिवरो यत्र रैवतको गिरिः ॥ ८३ ॥

तत्र वस्त्रापथं क्षेत्रं भवस्तत्र व्यवस्थितः ॥

तत्रास्ते मृन्मयं लिंगं जालिमध्ये सुरोत्तम ॥ ८४ ॥

॥ इन्द्र उवाच ॥ ॥

सहितैस्तत्र गंतव्यं पूजयिष्ये भवं स्वयम् ॥

जालिमध्ये तथा लिंगं दर्शयस्व च लुब्धक ॥ ८५ ॥

परदारादिकं पापं दैत्यानां तु विकृंतने ॥

वधे वृत्रस्य संजातं तत्सर्वं क्षालयाम्यहम् ॥ ८६ ॥

इत्युक्त्वा सहिताः सर्वे संप्राप्ता गिरिमूर्द्धनि॥

वाहनानि च ते त्यक्त्वा प्रस्थिताः पादचारिणः ॥ ८७ ॥

उज्जयन्तगिरेर्मूर्ध्नि गजराजः समागतः ॥

तदाग्रचरणं तस्य ददौ मूर्धनि कारणात् ॥ ८८ ॥

तेनाक्रान्तो गिरिवरस्तोयं सुस्राव निर्मलम् ॥

गजपादोद्भवं वारि भविष्यति सदा स्थिरम् ॥ ८९ ॥

इति प्रोक्तं सुरेन्द्रेण लोकानां हितकाम्यया ॥

सर्वे समागतास्तत्र यत्र जालिर्व्यवस्थिता ॥ 7.2.16.९० ॥

संपूज्य विविधैः पुष्पैर्माघमासे चतुर्दशी ॥

तस्यां जागरणं कृत्वा सञ्जातो निर्मलो हरिः ॥ ९१ ॥

वस्त्रापथे भवं पूज्य हरिं रैवतके गिरौ ॥

इन्द्रेश्वरं प्रतिष्ठाप्य संप्राप्तः स्वनिकतनम्॥ ९२ ॥

लुब्धकोऽपि विमानेन संप्राप्तो हरिमन्दिरे ॥

इत्युक्त्वा स भवो देवस्तत्रैवांतरधीयत ॥ ९३ ॥

वामनोपि ततश्चक्रे तत्र तीर्थावगाहनम् ॥

यादृग्रूपः शिवो दृष्टः सूर्यबिंबे दिगंबरः ॥ ९४ ॥

पद्मासनस्थितः सौम्यस्तथा तं तत्र संस्मरन् ॥

प्रतिष्ठाप्य महामूर्त्तिं पूजयामास वासरम् ॥ ९५ ॥

मनोऽभीष्टार्थसिद्ध्यर्थं ततः सिद्धिमवाप्तवान् ॥

नेमिनाथशिवेत्येवं नाम चक्रे स वामनः ॥ ९६॥

भवस्य पश्चिमे भागे प्रत्यासन्ने धरातले ॥

वामनो वसतिं चक्रे तीर्थे वस्त्रापथे तदा ॥ ९७ ॥

अतो यवाधिकं प्रोक्तं तीर्थं देवैः सवासवैः ॥

इंद्रेण कुर्वता देवं समागत्य भवाग्रतः ॥ ९८ ॥

यवाधिकं प्रभासात्तु तीर्थमेतद्भवाज्ञया ॥

अन्येषां षड्गुणं तीर्थं भविष्यति शिवाज्ञया ॥ ९९ ॥

इत्येतत्कथितं सर्वं किमन्यत्परिपृच्छसि ॥ 7.2.16.१०० ॥ ॥

॥ राजोवाच ॥ ॥

शिवरात्रिप्रभावोयमतुलः परिकीर्त्तितः ॥

अजानता कृता तेन लुब्धकेन पुरा श्रुतम् ॥ १०१ ॥

इदानीं वद कर्त्तव्या कथमन्यैर्जनैर्विभो ॥

किं ग्राह्यं किं नु मोक्तव्यं शिवरात्र्यां वदस्व मे ॥ १०२ ॥

॥ सारस्वत उवाच ॥ ॥

संप्राप्य मानुषं जन्म ज्ञात्वा देवं महेश्वरम् ॥

शिवरात्रिः सदा कार्या भुक्तिमुक्तिप्रदायिनी ॥ १०३ ॥

ईदृशं जायते पुण्यमेकया कृतया नृप ॥

ये कुर्वंति सदा मर्त्त्यास्तेषां पुण्यमनंतकम् ॥१०४ ॥

द्वादशाब्दं व्रतमिदं कर्त्तव्यं प्रतिवत्सरम्॥

जीवितं चंचलं नृणां यदि कर्तुं न शक्यते ॥ १०५ ॥

तदा द्वादशभिर्मासैर्व्रत मेतत्समाप्यते ॥

माघमासे चतुर्दश्यां प्रारम्भः क्रियते नृप ॥ १०६ ॥

प्रतिमासं ततः कार्यं पौषांते तु समाप्यते ॥

विघ्नश्चेज्जायते मध्ये कथं चिद्दैवयोगतः ॥ १०७ ॥

न भवेद्व्रतभंगस्तु पुनः कार्यमनन्तरम् ॥

द्वादशैव प्रकर्तव्याः कृत्वा संख्या विशेषतः ॥ १०८ ॥

कृतं न नश्यते लोके शुभं वा यदि वाऽशुभम् ॥

कृष्णायां तु चतुर्दश्यां कृतपूर्वाह्निकक्रियः ॥ १०९ ॥

उपवासनियमो ग्राह्यो नद्यां स्नानं विधीयते ॥

तदभावे तडागादौ कार्यं स्नानं स्वशक्तितः ॥ 7.2.16.११० ॥

तैलाभ्यंगो न कर्त्तव्यो न कार्यं गमनं क्वचित् ॥

तीर्थसेवा प्रकर्त्तव्या तस्मिंश्चागमनं शुभम् ॥ १११ ॥

शिवरात्रिः सदा कार्या लिंगे स्वायंभुवे नरैः ॥

तदभावे महापुण्ये लिंगे वर्षशताधिके ॥ ११२ ॥

गिरौ वने समुद्रांते नद्यां यच्च शिवालये ॥

तद्वै स्वायंभुवं लिंगं स्वयं तत्रैव संस्थितम् ॥ ११३ ॥

वालुलिंगादिकं लिंगं पूजितं फलदं स्मृतम् ॥

दिवा संपूज्य यत्नेन पुष्पधूपादिना नरः ॥ ११४ ॥

वर्जयेन्मदिरां द्यूतं नारीं नखनिकृन्तनम् ॥

ब्रह्मचर्यपरैः शांतैः कर्त्तव्यं समुपोषणम् ॥ ११५ ॥

रात्रौ देवाग्रतो गत्वा कर्त्तव्याः सप्त पर्वताः ॥

पक्वान्नफलतांबूलपुष्पधूपादिचर्चिताः ॥ ११६ ॥

घृतेन दीपः कर्त्तव्यः पापनाशनहेतवे ॥

यतो दीपस्य माहात्म्यं विज्ञेयं मुक्तिदायकम् ॥ ११७ ॥

दीपः सदैव कर्त्तव्यो गृहे देवालये नरैः ॥

दिवा निशि च संध्यायां दीपः कार्यः स्वशक्तितः ॥ ११८ ॥

किञ्चिदुद्द्योतमात्रेण देवास्तुष्यंति भूतले ॥

पितॄणां प्रथमं दीपः कर्त्तव्यः श्राद्धकर्मणि ॥ ११९ ॥

रात्रौ जागरणं कार्यं यथा निद्रा न जा यते ॥

शिवरात्रिप्रभावोऽयं श्रोतव्यः शिवसंनिधौ ॥ 7.2.16.१२० ॥

शिवस्य चरितं रात्रौ श्रोतव्यं बहुविस्तरम् ॥

गीतं नृत्यं तथा वाद्यं कर्तव्यं शिवसंनिधौ ॥ १२१ ॥

एवं सा नीयते रात्रिर्मुख्यं जागरणं यतः ॥

रात्रौ देयानि दानानि शक्त्या वै तत्र जागरे ॥ १२२ ॥

पुनः स्नात्वा प्रभाते तु कर्त्तव्यं शिवपूजनम् ॥

पूजनीयाश्च यतयो भोजनाच्छादनादिभिः ॥ १२३ ॥

तपस्विनां प्रदातव्यं भोजनं गृहमेधिभिः ॥

द्वादशाष्टौ च चत्वारो भोक्तव्या एक एव वा ॥ १२४ ॥

एकोऽपि ब्रह्मचारी यो ब्रह्मविच्छिवपूजकः ॥

सहस्राणां समो भक्त्या गृहे संभोजितो भवेत् ॥ १२५ ॥।

अक्षारालवणं पत्रे भोक्तव्यं वाग्यतैः स्वयम् ॥

पुत्रमित्रकलत्राणां दातव्यं भोजनं पुरः ॥ १२६ ॥

अनेन विधिना कार्या शिवरात्रिः शिवव्रतैः ॥

द्वादशैता यदा पूर्णास्तिलपात्राणि वै तदा ॥ १२७ ॥

द्वादशैव प्रदेयानिगुरुब्राह्मणज्ञातिषु ॥

व्रतांते गौः प्रदातव्या कृष्णा वत्सयुता दृढा ॥१२८॥

सवस्त्राभरणा देया घंटाभरणभूषिता ॥

अंगुलीयकवासांसि च्छत्रोपानत्कमण्डलु ॥ १२९ ॥

गुरवे दक्षिणा देयाब्राह्मणेभ्यः स्वशक्तितः ॥

एवं कृत्वा ततो देयं तपस्विभ्योऽथ भोजनम् ॥

मिष्टान्नं विविधं दत्त्वा क्षमाप्य च विसर्जयेत् ॥ 7.2.16.१३० ॥

एवं यः कुरुते सत्यं तस्य पापं न विद्यते ॥

संतानमुत्तमं लब्ध्वा भुक्त्वा भोगाननुत्तमान्॥ १३१ ॥

दिव्यविमानमारूढो दिव्यस्त्रीपरिवेष्टितः ॥

गतिवादित्रनिर्घोषैर्नीयते शिवमन्दिरे॥१३२॥

तदेतत्कथितं पुण्यं शिवरात्रिव्रतं मया ॥

कृतेन येन लोकानां सर्वपापक्षयो भवेत् ॥ १३३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये शिवरात्रिमाहात्म्यवर्णनंनाम षोडशोऽध्यायः ॥ १६ ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 17

॥ राजोवाच ॥ ॥

विचित्रमिदमाख्यानं त्वत्प्रसादाच्छ्रुतं मया ॥

दृष्ट्वा नारायणं शक्रं नारदो मंदरे गिरौ ॥ १ ॥

किं चकार मुनींद्रोऽथ तन्मे विस्तरतो मुने ॥

वद संसारसरणोद्भूतमायाप्रपीडितम् ॥

कथामृतजलौघेन वितृषं कुरु मां प्रभो ॥ २ ॥

॥ सारस्वत उवाच ॥ ॥

अथासौ नारदो देवं ज्ञात्वा शप्तं द्विजन्मना ॥

भृगुणा च तथा पूर्वं नान्यथैतद्भविष्यति ॥ ३ ॥

भविष्यं यद्भवं देव वर्तमानं विचिंत्यताम् ॥

अयं च वामनो भूत्वा विष्णुर्यास्यति तां पुरीम् ॥ ४ ॥

निग्रहं स बलेः पश्चात्करिष्यति मम प्रियम् ॥

युद्धं विना कथं स्थेयं वर्तमानं महोल्बणम् ॥ ५ ॥

देवदानवयुद्धानि दैत्यगन्धर्व रक्षसाम् ॥

निवारितानि सर्वाणि सरीसृपपतत्रिणाम् ॥ ६ ॥

सापत्नजः कलिर्नास्ति मम भाग्यपरिक्षये ॥

देवेन्द्रो गुरुणा पूर्वं वारितः किं करोम्यहम् ॥ ७ ॥

माननीयो गुरुर्मेऽयमतस्तं न शपाम्यहम् ॥

युद्धार्थं तु ततो यत्नो न सिध्यति करोमि किम् ॥ ८ ॥

केनापि दैवयोगेन पुरुषार्थो न सिध्यति ॥

तथापि यत्नः कर्तव्यः पुरुषार्थे विपश्चिता ॥

दैवं पुरुषकारेण विनापि फलति क्वचित् ॥ ९ ॥

यदुक्तं तद्वचो व्यर्थं यतः सिद्धिः प्रयत्नतः ॥

बलिं गत्वा भणिष्यामि यथा युद्धं करिष्यति ॥ 7.2.17.१० ॥

न श्रोष्यति स चेद्वाक्यं निश्चितं तं शपाम्यहम् ॥

इत्युक्त्वा स ययौ वेगान्नारदो बलिमंदिरे ॥

निमेषांतरमात्रेण शिष्याभ्यां गगने स्थितः ॥ ११ ॥

प्रासादे शैलसंकाशे सप्तभौमे महोज्ज्वले ॥

तस्योपरि सभा दिव्या निर्मिता विश्वकर्मणा ॥ १२ ॥

तस्यां सिंहासनं दिव्यं तत्रासीनो बलिर्नृप ॥

दैत्यैः परिवृतः सर्वैः प्रौढिहास्यकथापरैः ॥ १३ ॥

ऋषिभिर्ब्राह्मणैः शांतैस्त थैवोशनसा स्वयम्॥

पुत्रमित्रकलत्रैश्च संवृतो दिव्यमन्दिरे ॥ १४ ॥

देवांगनाकरग्राहगृहीतैर्दिव्यचामरैः ॥

संवीज्यमानो दैत्येन्द्रः स्तूयमानः स चारणैः ॥ १५ ॥

यावदास्ते मदोन्मत्ता मन्त्रयंति परस्परम् ॥

दैत्यदानवमुख्या ये ते सर्वे युद्धकांक्षिणः ॥ १६ ॥

उत्थायोत्थाय भाषंते प्रगल्भंते सुरैः सह ॥

अस्मदीयमिदं सर्वं त्रैलोक्यं सांप्रतं गतम् ॥ १७ ॥

शुक्रबुद्ध्या विना युद्धं प्राप्स्यते किं महोदयः ॥

दैत्येन्द्रो देवराजेन स्नेहं च कुरुतो यदि ॥ १८ ॥

ऐरावणं सदा मत्तं कथं नो याचते बलिः ॥

चतुरं तुरगं कस्मान्नार्पयति दिवाकरः ॥ १९ ॥

यावन्नाक्रम्यते लुब्धो धनाध्यक्षो रणाजिरे ॥

तावन्नार्पयते वित्तं यदा तत्संचितं सुरैः ॥ 7.2.17.२० ॥

न दर्शयति रत्नानि जलराशी रसातलात् ॥

यावन्न मन्दरं क्षिप्त्वा विमथ्नीमो वयं च तम् ॥ २१ ॥

यथामृतकलाश्चन्द्राद्भुज्यन्ते क्रमशः सुरैः ॥

एवं भागं बलेः कस्मान्न ददाति जलात्मकः ॥ २२ ॥

स्वर्धुनी शीतलो वातः पद्मर्किजल्कवासितः ॥

स्वर्गे वाति शनैर्यद्वत्तथा न बलिमंदिरे ॥ २३ ॥

इन्द्रचापोद्यता मेघा जलं मुंचंति भूतले॥

बलिखङ्गोद्धुताः स्वर्गं पुनस्ते यांति भूतलात्॥२४॥

अस्मदीये धरापृष्ठे यमो मारयते जनम् ॥

नैवं स्वर्गे न पाताले पश्याहो कार्यकारणम् ॥२५॥

आयुर्वृत्तिं सुतान्सौख्यमस्माकं लिखति स्वयम् ॥

ललाटे चित्रगुप्तोऽसौ न देवानां तु तत्समम् ॥२६॥

वर्षाशीतातपाः काला वर्तंते भुवि सांप्रतम् ॥

न स्वर्गे नैव पाताले भीता भूमौ भ्रमंति हि ॥ २७ ॥

एकवीर्योद्भवा यूयं स्वस्रीया देवदानवाः ॥

भूमौ स्थिता वयं कस्माद्देवाः केनोपरिकृताः ॥ ॥२८॥

समुद्रे मथ्यमाने तु दैत्येन्द्रो वंचितः सुरैः ॥

एकतः सर्वदेवाश्च बलिश्चैवैकतः स्थितः ॥२९॥

उत्पन्नेषु च रत्नेषु भाग्यं वै यस्य यादृशम् ॥

गजाश्वकल्पवृक्षाद्याश्चंद्रगोगणदंतिनः ॥7.2.17.३०॥

गृहीत्वा ह्यमृतं देवैर्वयं पाने नियोजिताः ॥

एतया चूर्णिता यूयं न जानीथातिगर्विताः ॥ ३१ ॥

पीतावशेषं पीयूषं सत्यलोके धृतं सुरैः ॥

अहोतिकुटिला देवाः कस्माच्छेषं न दीयते ॥ ३२ ॥

सुरामृतमिति ज्ञात्वा पीयूषाद्वंचिता वयम् ॥

तिलतैलमेवमिष्टं यैर्न दृष्टं घृतं क्वचित्॥ ३३ ॥

विष्णोर्वक्रचरित्राणां संख्या कर्तु न शक्यते॥

तथापि कथ्यते तुष्टैर्हृष्टैस्तैर्यदनुष्ठितम् ॥३४॥

गौरांगी सुन्दरी सुभ्रूः पीनोन्नतपयोधरा ॥

सुकेशा चंद्रवदना कर्णासक्तविलोचना॥३५॥

वलित्रयांकिता मध्ये बाला मुष्ट्यापि गृह्यते ॥

स्थलारविंदचरणा लतेव भुजभूषिता ॥ ३६ ॥

सा सर्वाभरणोपेता सर्वलक्षणसंयुता ॥

त्रैलोक्यमोहिनी देवी संजाताऽमृतमन्थने ॥ ३७ ॥

अमृतादुत्थिता पूर्वं यस्य सा तस्य तद्ध्रुवम् ॥

त्रैलोक्यं वशगं तस्य यस्य सा चारुलोचना ॥ ३८ ॥

तया संमोहिताः सर्वे देवदानवराक्षसाः ॥

विमुच्य मन्थनं सर्वे तां ग्रहीतुं समुद्यताः ॥ ३९ ॥

एका स्त्री बहवो देवा दानवादैत्यराक्षसाः ॥

विवादः सुमहाञ्जातः कथमत्र भविष्यति ॥ 7.2.17.४० ॥

आगत्य विष्णुना सर्वे भुजे धृत्वा निवारिताः ॥

अस्यार्थे किमहो वादः क्रियते भोः परस्परम् ॥ ४१ ॥

अमृतार्थे समारम्भो महिलार्थे विनश्यति ॥

संकेतं प्रथमं कृत्वा विष्णुना चुंबिता पुनः ॥ ४२ ॥

दिव्यरूपधरः स्रग्वी वनमालाविभूषितः ॥

कौस्तुभोद्द्योतिततनुः शंखचक्रगदाधरः ॥४३॥

तस्या हस्ते शुभां मालां दत्त्वा विष्णुः पुरः स्थितः ॥

उद्धृत्य बाहुं सर्वेषां बभाषे वचनं हरिः ॥ ४४ ॥

कुर्वंतु कुण्डलं सर्वे तिष्ठन्तु स्वयमासने ॥

विलोक्य स्वेच्छया लक्ष्मीर्वरमालां प्रयच्छतु ॥ ४५ ॥

स्वयंवरविभेदं यः करिष्यत्यतिलंपटः ॥

स वध्यः सहितैः सर्वैः परस्त्रीलुब्धको यथा ॥ ४६ ॥

परदारकृतं पापं स्त्रीवध्या तस्य जायताम्॥

अन्योऽपि यः करोत्येवमेवमस्तु तदुच्यताम्॥४७॥

साधारणं हरिं ज्ञात्वा तथेत्युक्त्वा तथा कृतम्॥

देवदानवदैत्यानां गंधर्वोरगरक्षसाम्॥

मध्ये योऽभिमतो भर्ता स ते सत्यं भवेदिति ॥४८ ॥

तेनासौ मोहिता पूर्वं दृष्टिदानेन कर्षिता ॥

आद्यं संमोहनं स्त्रीणां चक्रे दृष्टिनिरीक्षणम्॥४९॥

एवमेवेति तत्कर्णे हस्तं दत्त्वा यदुच्यते॥

दधाति हृदि यं नारी कामबाणप्रपीडिता ॥ 7.2.17.५० ॥

तमेव वरयेदत्र कश्चिन्नास्त्येव संशयः ॥

संजाते कलहे पूर्वं हरिणा तं निवर्तितुम् ॥ ५१ ॥

यदा गृहीता सर्वैः सा हरिं नैव विमुंचति ॥

त्वमेव भर्ता साऽऽचष्टे मुंच मां व्रज दूरतः ॥ ५२ ॥

मुक्त्वा दूरं ततो विष्णुः प्रविष्टः सुरमण्डले ॥

तदा सर्वे च मामुक्त्वा यथास्थानं स्वयं गताः ॥५३॥

आचष्ट विजया पूर्वं सर्वान्देवान्यथाक्रमम्॥

सा च निरीक्षते पश्चात्तं विचार्य विमुञ्चति ॥ ५४ ॥

उदासीनः शिवः शांतो गौरीकांतस्त्रिलोचनः ॥

नान्यां निरीक्षते नित्यं ध्यानासक्तस्त्रिलोचनः ॥ ५५ ॥

पितामहोयमित्युक्तं यदा सख्या तदा तया ॥

नमस्कृत्य गतं दूरे कृत्वा मौनं न पश्यति ॥ ५६ ॥

आदित्यं पद्मकं मुञ्च दहनं दहनात्मकम्॥

वाति वातो गता दूरे वरुणो मे पिता यतः ॥ ५७ ॥

पौलोमीवदनासक्तो देवेन्द्रो मे न रोचते ॥ ५८ ॥

वधबंधकृतच्छेदभेददण्डविकर्ष णम्॥

कुर्वन्न कुरुते सौम्यं रूपं वैवस्वतो यमः ॥ ५९ ॥

देवदानवगंधर्वदैत्यपन्नगराक्षसान् ॥ 7.2.17.६० ॥

दृष्ट्वात्युग्रांस्ततो याति दृष्टोऽसौ पुरुषो त्तमः ॥

कर्णांतलोचनभ्रांतवक्त्रं दृष्ट्यावलोक्य तम् ॥ ६१ ॥

सौभाग्यातिशयाक्रांतं रम्यं काममनोहरम् ॥

संजातपुलकोद्भेदस्वेदवारिकणांकितम् ॥ ॥ ६२ ॥

देवदानवदैत्येन्द्रक्रोधदृष्टिनिरीक्षितम् ॥

रम्यं रामा वरं चक्रे ददौ मालां ततः स्वयम्॥६३॥

दैत्याः परस्परं प्रोचुः प्रेक्ष्य तत्सुरचेष्टितम् ॥

विभागं पश्य देवानां स्वर्गे सर्वे स्वयं गताः॥ ६४॥

पातालस्य तले यूयं मानवा धरणीतले॥

देवास्त्रिभुवने यांतु न वयं स्वर्गगामिनः॥ ६५॥

मानवाः क्षत्रिया राज्यं कुर्वंतु पृथिवीतले॥

पातालं तु परित्यज्य धात्री यदि तु रक्ष्यते॥ ६६॥

दैत्यदानवजैः कैश्चिद्राक्षसैस्तन्न शोभनम्॥

अथ किं बहुनोक्तेन राजा त्रिभुवने बलिः॥६७॥

संविभज्याथ रत्नानि समं राज्यं विधीयताम्॥

यावदेवं प्रगल्भंते तावत्पश्यंति नारदम् ॥ ६८ ॥

गगनात्समुपायांतं द्वितीयमिव भास्करम् ॥

ब्रह्मदंडकरासक्तयुद्धपुस्तकधारिणम् ॥ ६९ ॥

कृष्णाजिनधरं शांतं छत्रवीणाकमण्डलून् ॥

मौंजीगुणत्रयासक्तग्रंथिप्रवरमेखलम् ॥ 7.2.17.७० ॥

ब्रह्मरूपधरं शांतं दिव्यरुद्राक्षभूषितम् ॥

गत कल्पकृतग्रंथिसूत्रमालावलंबितम् ॥ ७१ ॥

विरंचिहरसंवादो जन्माहंकारगर्वितः ॥

संक्रुद्धैः क्रियते कोऽद्य चिंतातत्परमानसम् ॥ ॥ ७२ ॥

आयातं नारदं दृष्ट्वा विस्मिताः समुपस्थिताः ॥

प्रभो प्रसादः क्रियतामागंतव्यं गृहे मम ॥ ७३ ॥

धन्योऽहं कृतपुण्योऽहं यस्य मे त्वं गृहागतः ॥

इत्युक्तो बलिना विप्रो विवेशासुरमंदिरे ॥

आसनं पाद्यमर्घ्यं च दत्त्वा संपूजितो द्विजः ॥ ७४ ॥

प्रविश्य सहिताः सर्वे संविष्टा दैत्यदानवाः ॥

शुक्रेण सहितो दैत्यो बभाषे नारदं बलिः ॥ ७५ ॥

इदं राज्यमिमे दारा इमे पुत्रा अहं बलिः ॥

ब्रूहि येनात्र ते कार्यं दानं मे प्रथमं व्रतम् ॥ ७६ ॥

॥ नारद उवाच ॥ ॥

भक्त्या तुष्यंति ये विप्रास्ते विप्रा भूमिदेवताः ॥

न तु ये पूजिताः शक्त्या पुनर्याचंति तेऽधमाः॥ । ॥ ७७ ॥

त्वयाऽहं पूजितो हृष्टो न वित्तैर्मे प्रयोजनम् ॥

हृष्टोऽहं तव राज्येन यज्ञैर्दानैर्व्रतैस्तथा ॥ ७८. ॥

देवैः कृतं विप्रियं ते किंचित्पश्याम्यहं बले ॥

त्वया संपूज्यमानोऽपि देवराजो न तुष्यति ॥ ७९ ॥

न क्षमंति सुराः सर्वे तव राज्यं धरातले ॥

स्वर्गे मे तापको जातो देवानां तव विग्रहे ॥ ॥ 7.2.17.८० ॥

संनह्य प्रथमं याति यः सैन्यं शत्रुभूमिषु ॥

स क्षत्रियो विजयते तस्य राज्यं च वर्धते ॥८१॥

उच्छेदस्तव राज्यस्य भविष्यति श्रुतं मया ॥

एवं ज्ञात्वा यथायुक्तं तच्छीघ्रं तु विधीयताम् ॥ ८२ ॥

॥ बलिरुवाच ॥ ॥

यैर्गुणैः कुरुते राज्यं राजा तान्वद मे विभो ॥

दानं पात्रे प्रदातव्यं मया त्वमपि तं वद ॥ ८३ ॥

॥ नारद उवाच ॥ ॥

षड्विंशद्गुणसंपन्नो राजा राज्यं करोति च ॥

स राज्यफलमाप्नोति शृणु तत्कथयाम्यहम् ॥ ८४ ॥

चरेद्धर्मानकटुको मुंचेत्स्नेहमनास्तिके ॥

अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः ॥८५॥

प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः ॥

दाता चाऽऽयामवर्जः स्यात्प्रगल्भः स्यादनिष्ठुरः ॥ ८६ ॥

संदधीत न चानार्यान्विगृह्णीयान्न बंधुभिः ॥

नानाप्तैश्चारयेच्चारान्कुर्यात्कार्यमपीडयन् ॥८७॥

अर्थान्ब्रूयान्न चापत्सु गुणान्ब्रूयान्न चात्मनः ॥

आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ॥ ८८ ॥

नापरीक्ष्य नयेद्दण्डं न च मंत्रं प्रकाशयेत् ॥

विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु ॥ ८९ ॥

आप्तैः सुगुप्तदारः स्याद्रक्ष्यश्चान्यो घृणी नृपः ॥

स्त्रियं सेवेत नात्यर्थं मृष्टं भुंजीत नाऽहितम् ॥ 7.2.17.९० ॥

अस्तेयः पूजयेन्मान्यान्गुरुं सेवेदमायया ॥

अर्च्यो देवो न दम्भेन श्रियमिच्छेदकुत्सिताम् ॥ ९१ ॥

सेवेत प्रणयं कृत्वा दक्षः स्यादथ कालवित् ॥

सांत्ववाक्यं सदा वाच्यमनुगृह्णन्न चाक्षिपेत्॥ ९२ ॥

प्रहरेन्न च विप्राय हत्वा शत्रून्न शेषयेत् ॥

क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु ॥ ९३ ॥

एवं राज्ये चिरं स्थेयं यदि श्रेय इहेच्छसि ॥

तपःस्वाध्यायदानानि तीर्थयात्राऽऽश्रमाणि च ॥ ९४ ॥

योगेनात्मप्रबोधस्य कलां नार्हंति षोडशीम् ॥

त्वया संसारवैराग्यं कर्त्तव्यं विप्रपूजनम् ॥९५॥

यष्टव्यं विविधैर्यज्ञैर्ध्येयो नारायणो हरिः ॥

प्रसंगेन समायातो यास्ये रैवतके गिरौ ॥ ९६ ॥

तत्रास्ते भगवान्विष्णुर्नदी त्रैलोक्यपावनी ॥

तत्रास्ते च शिवावृक्षो बहुपुष्पफलान्वितः ॥

तत्र गत्वा करिष्यामि व्रतं तद्विष्णुवल्लभम् ॥ ९७ ॥

॥ बलिरुवाच ॥ ॥

कोऽयं रैवतकोनाम व्रतं किं विष्णुवल्लभम् ॥

शिवावृक्षास्तु के प्रोक्तास्तत्कथं कथयस्व मे ॥ ९८ ॥ ॥

॥ नारद उवाच ॥ ॥

पुरा युगादौ दैत्येन्द्र सपक्षाः पर्वताः कृताः ॥

संचिंत्य ब्रह्मणा पश्चादचलास्ते कृताः पुनः ॥ ९९ ॥

उत्पतंति महाकाया निपतंति यदृच्छया ॥

मेरुमंदरकैलासा वचसा संस्थिताः स्थिराः ॥ 7.2.17.१०० ॥

वारिता न स्थिता ये तु त इंद्रेण स्थिरीकृताः ॥

मेरोर्दक्षिण शृंगे तु कुमुदेति स पर्वतः ॥ १०१ ॥

दिव्यः सपक्षः सौवर्णो दिव्यवृक्षैः समावृतः ॥

तस्योपरि पुरी दिव्या वैष्णवी विष्णुना कृता ॥ १०२ ॥

तस्या मध्ये गृहं दिव्यं यस्मिल्लँक्ष्मीः सदा स्थिता ॥

मेरोः शृंगे पुरी रम्या गृहं तत्र मनोरमम् ॥ १०३ ॥

तत्रास्ते स भवो देवो भवानी यत्र संस्थिता ॥

सभा माहेश्वरी रम्या सौवर्णी रत्नमंडिता ॥ १०४ ॥

तत्रास्ते भगवान्विष्णुर्देवैर्ब्रह्मादिभिर्वृतः ॥

तस्यां विष्णुः सदा याति देवं द्रष्टुं महेश्वरम् ॥ १०५ ॥

सौवर्णैः कुमुदैर्यस्मादसौ सर्वत्र मंडितः ॥

कुमुदेति कृतं नाम देवैस्तत्र समागतैः ॥ १०६ ॥

एकदा भगवान्रुद्रो गिरौ तस्मिन्समागतः ॥

द्रष्टुं तच्छिखरे रम्ये तां पुरीं विष्णुपालिताम् ॥ १०७ ॥

गृहागतं हरं दृष्ट्वा हरिणा स तु पूजितः ॥

लक्ष्म्या संपूजिता गौरी हर्षिता तत्र संस्थिता ॥ १०८ ॥

एकासनोपविष्टौ तौ मंत्रयंतौ परस्परम् ॥

हरेण कारणं ज्ञात्वा तत्सर्वं कथितं हरेः ॥ १०९ ॥

त्वयेयं नगरी कार्या मंदरे पर्वतोत्तमे ॥

प्रष्टव्यः कारणं नाहमवश्यं तद्भविष्यति ॥ 7.2.17.११० ॥

हर एव विजानाति कारणं कतमोऽपि न ॥

एवं तथेति तौ प्रोक्त्वा संस्थितौ पर्वतोऽपि सः ॥ १११ ॥

तं दृष्ट्वा संगतं रुद्रं कुमुदः स्वयमाययौ ॥

धन्योऽहं कृतपुण्योऽहं यस्य मे गृहमागतौ ॥ ११२ ॥

द्वाभ्यामुक्तो गिरिवरो ददाव किं वरं तव ॥

इत्युक्तः पर्वतस्ताभ्यां वरं वव्रे स मूढधीः ॥ ११३ ॥

भविष्यत्कार्यहेतुत्वाद्भविष्यति न तद्वृथा ॥

यत्राहं तत्र वस्तव्यं भवद्भ्यामस्तु मे वरः ॥ ११४ ॥

मत्सन्निधौ समागत्य स्थातव्यं ब्रह्मवासरम् ॥

तथेत्युक्त्वा सपत्नीकौ गतौ हरिहरावुभौ ॥ ११६ ॥

पञ्चमो यो मनुः पूर्वं रैवतो नाम विश्रुतः ॥

तस्योत्पत्तौ तु यद्वृत्तं कुमुदाग्रे शृणुष्व तत् ॥ ११६ ॥

ऋषिरासीन्महाभाग ऋतवागिति विश्रुतः ॥

तस्यापुत्रस्य पुत्रोऽभूद्रेवत्यन्ते महात्मनः ॥ ११७ ॥

स तस्य विधिवच्चक्रे जातकर्मादिकाः क्रियाः ॥

तथोपनयनाद्याश्च स चाशीलोऽभवन्नृप ॥ ११८ ॥

यतः प्रभृति जातोऽसौ ततः प्रभृत्यसावृषिः ॥

दीर्घरोगपरामर्शमवापातीव दुर्द्धरम् ॥ ११९ ॥।

माता चास्य परामार्तिं कुष्ठरोगाभिपीडिता ॥

जगाम चिन्तां स ऋषिः किमेतदिति दुःखितः ॥ 7.2.17.१२० ॥

मूर्खस्तु मंदधीः पुत्रो दुःखं जनयते पितुः ॥

अमार्गगो विशेषेण दुःखाद्दुःखतरं हि तत् ॥ १२१ ॥

अपुत्रता मनुष्याणां श्रेयसे न कुपुत्रता ॥

सुहृदां नोपकाराय पितॄणां नापि तृप्तये ॥ १२२ ॥

सुपुत्रो हृदयेऽभ्येति मातापित्रोर्दिनेदिने ॥

पित्रोर्दुःखाय धिग्जन्म तस्य दुष्कृतकर्मणः ॥ १२३ ॥

धन्यास्ते तनया ये स्युः सवर्लोकाभिसंमताः ॥

परोपकारिणः शांताः साधुकर्मण्यनुव्रताः ॥ १२४ ॥

अनिर्वृतं निरानंदं दुःखशोकपरिप्लुतम् ॥

नरकाय न स्वर्गाय कुपुत्रत्वं हि जन्मिनः ॥ १२५ ॥

करोति सुहृदां दैन्यमहितानां तथा मुदम् ॥

अकाले तु जरां पित्रोः कुपुत्रः कुरुते किल ॥ १२६ ॥

॥ नारद उवाच ॥

एवं सोऽत्यन्तदुष्टस्य पुत्रस्य चरितैर्मुनिः ॥

दह्यमानमनोवृत्तिर्वृद्धगर्गमपृच्छत ॥ १२७ ॥

॥ ऋतवागुवाच ॥ ॥

सुव्रतेन पुरा वेदा अधीता विधिना मया ॥

समाप्य विद्या विधवत्कृतो दारपरिग्रहः ॥ १२८ ॥

सदारेण हि याः कार्याः श्रौतस्मार्त्तादिकाः क्रियाः ॥

ताः कृताश्च विधानेन कामं समनुरुध्य च ॥ १२९ ॥

पुत्रार्थं जनितश्चायं पुंनाम्नो विच्युतौ मुने ॥

सोऽयं किमात्मदोषेण मातुर्दोषेण किं मम ॥

अस्मद्दुःखावहो जातो दौःशील्याद्वद कोविद ॥ 7.2.17.१३० ॥

॥ गर्ग उवाच ॥ ॥

रेवत्यन्ते मुनिश्रेष्ठ जातोऽयं तनयस्तव ॥

तेन दुःखाय ते दुष्टे काले यस्मादजायत ॥ १३१ ॥

तवापचारो नैवास्य मातुर्नापि कुलस्य च ॥

अन्यद्दौःशील्यहेतुत्वं रेवत्यंत उपागतम् ॥ १३२ ॥

रेवती अश्विनोर्मध्यमाश्लेषामघयोस्तथा ॥

ज्येष्ठामूलर्क्षयोः प्रोक्तं गंडांतं तु भयावहम् ॥ १३३ ॥

गंडत्रये तु ये जाता नरनारीतुरंगमाः ॥

तिष्ठंति न चिरं गेहे तिष्ठन्तोऽपि भयंकराः ॥

एवमुक्तोऽथ गर्गेण चुक्रोधातीव कोपनः ॥ १३४ ॥

॥ ऋतवागुवाच ॥ ॥

यस्मान्ममैक पुत्रस्य रेवत्यन्ते समुद्भवः ॥ १३५ ॥

रेवती किं न जानाति मां विप्रः शापयिष्यति ॥

जाज्वल्यमाना गगनात्तस्मात्पततु रेवती ॥ १३६ ॥ ॥

॥ नारद उवाच ॥ ॥

तेनैवं व्याहृते वाक्ये रेवत्यृक्षं पपात ह ॥

पश्यतः सर्वलोकस्य विस्मयाविष्टचेतसः ॥ १३७ ॥

ईश्वरेच्छाप्रभावेन पतिता गिरिमूर्द्धनि ॥

रेवत्यृक्षं निपतितं कुमुदाद्रौ समन्ततः ॥ १३८ ॥

सुराष्ट्रदेशे स प्राप्तः पतितो भूतले शुभे ॥

हिमाचलस्य पुत्रो य उज्जयंतो गिरिर्महान्॥ १३९ ॥

कुमुदेन समं मैत्री कृता पूर्वं परस्परम् ॥

यत्र त्वं स्थास्यसे स्थाता तत्राहमपि निश्चितम् ॥ 7.2.17.१४० ॥

इति कृत्वा गृहीत्वाथ गंगावारि सयामुनम् ॥

सारस्वतं तथा पुण्यं सिंचितुं तं समागतः ॥ १४१ ॥

आहूतसंप्लवं यावत्संस्थितौ तौ परस्परम् ॥

कुमुदाद्रिश्च तत्पातात्ख्यातो रैवतकोऽभवत् ॥ १४२ ॥

अतीव रम्यः सर्वस्यां पृथिव्यां पृथिवीपते ॥

कुमुदाद्रिश्च सौवर्णो रेवतीच्यवनात्पुनः ॥ १४३ ॥

पंकजाभः स बाह्येन जातो वर्णेन भूपते ॥

मेरुवर्णः स मध्ये तु सौवर्णः पर्वतोत्तमः ॥ १४४ ॥

ततः सञ्जनयामास कन्यां रैवतको गिरिः ॥

रेवतीकांति संभूतां रेवतीसदृशाननाम्॥ १४५ ॥

प्रमुचो नाम राजर्षिस्तेन दृष्टा वरांगना ॥

पितृवद्रेवतीनाम कृतं तस्या नृपोत्तम ॥ १४६ ॥

रेवतीति च विख्याता सा सर्वत्र वरांगना ॥

सर्वतेजोमयं स्थानं सर्वतीर्थजलाश्रयम् ॥ १४७ ॥

गंगाजलप्रवाहैश्च संयुक्तं यामुनैस्तथा ॥

स्थितं सारस्वतं तोयं तत्र गर्तेषु तत्त्रयम् ॥ १४८ ॥

विख्यातं रेवतीकुंडं यत्र जाता च रेवती ॥

स्मरणाद्दर्शनात्स्नानात्सर्वपापक्षयो भवेत् ॥ १४९ ॥

सा बाला वर्द्धिता तेन प्रमुंचेन महात्मना ॥

यौवनं तु तया प्राप्तं तस्मिन्रैवतके गिरौ ॥ 7.2.17.१५० ॥

तां तु यौवनसंपन्नां दृष्ट्वाऽथ प्रमुचो मुनि ॥

एकांते चिन्तयामास कोऽस्या भर्ता भविष्यति ॥ १५१ ॥

हूत्वाहूत्वा स पप्रच्छ गुरुं वह्निं द्विजोत्तमः ॥

प्रसादं कुरु मे ब्रूहि कोऽस्या भर्ता भविष्यति ॥ १५२ ॥

अन्योऽस्याः सदृशः कोऽपि वंशे नास्ति करोमि किम् ॥

वह्निकुण्डात्समुत्थाय प्रोक्तवान्हव्यवाहनः ॥ १५३ ॥

शृणु मे वचनं विप्र योऽस्या भर्ता भविष्यति ॥

प्रियव्रतान्वयभवो महाबलपराक्रमः ॥ १५४ ॥

पुत्रो विक्रमशीलस्य कालिंदीजठरोद्भवः ॥

दुर्दमो नाम भविता भर्ता ह्यस्या महीपतिः ॥ १५५ ॥

अत्रांतरे समायातो दुर्दमः स महीपतिः ॥

गिरौ मृगवधाकांक्षी मुनिं गेहे न पश्यति ॥

प्रियेऽयि तातः क्व गत एहि सत्यं ब्रवीहि मे ॥ १५६ ॥

॥ नारद उवाच ॥ ॥

अग्निशालास्थितेनैव तच्छ्रुतं वचनं प्रियम् ॥

प्रियेत्यामन्त्रणं कोऽयं करोति मम वेश्मनि ॥ ॥ १५७ ॥

स ददर्श महात्मानं राजानं दुर्दमं मुनिः ॥

जहर्ष दुर्दमं दृष्ट्वा मुनिः प्राह स गौतमम् ॥ १५८ ॥

शिष्यं विनयसम्पन्नमर्घ्यं पाद्यं समानय ॥

एकं तावदयं भूपश्चिरकालादुपागतः ॥ १५९ ॥

जामाता सांप्रतं राजा योग्यास्य च सुता मम ॥

ततः स चिंतयामास राजा जामातृ कारणम्॥ 7.2.17.१६० ॥

मौनेन विधिना राजा जगृहेऽर्घ्यं द्विजाज्ञया ॥

तमासनगतं विप्रो गृहीतार्घ्यं महामुनिः ॥ १६१ ॥

प्रस्तुतं प्राह राजेन्द्रं नृपते कुशलं पुरे ॥

कोशे बले च मित्रे च भृत्यामात्य प्रजासु च ॥

तथात्मनि महाबाहो यत्र सर्वं प्रतिष्ठितम् ॥ १६२ ॥

पत्नी च ते कुशलिनी याऽत्र स्थाने हि तिष्ठति ॥

अन्यासां कुशलं ब्रूहि याः संति तव मंदिरे ॥ १६३ ॥

॥ राजोवाच ॥ ॥

त्वत्प्रसादादकुशलं नास्ति राज्ये क्वचिन्मम ॥

जातकौतूहलोऽस्म्यस्मि मम भार्याऽत्र का मुने ॥ १६४ ॥

॥ प्रमुच उवाच ॥ ॥

रेवती ते वरा भार्या किं न वेत्सि नृपोत्तम ॥

त्रैलोक्यसुन्दरी या तु कथं सा विस्मृता तव ॥ १६५ ॥

॥ राजोवाच ॥ ॥

सुभद्रां शांतपापां च कावेरीतनयां तथा ॥

सूरात्मजानुजातां च कदंबां च वरप्रजाम् ॥ १६६ ॥

विपाठां नंदिनीं चैव वेद्मि भार्यां गृहे मम ॥

तिष्ठन्ति नैव जानामि भार्या मे रेवती कुतः ॥।३६७ ॥

ऋषिरुवाच ॥ ॥

प्रियेति सांप्रतं प्रोक्ता रेवती सा प्रिया तव ॥

तदन्यथा न भविता वचनं नृपसत्तम ॥ १६८ ॥

॥ राजोवाच ॥ ॥

नास्ति भावकृतो दोषः क्षम्यतां तद्वचो मम ॥

विनिर्गतं वचोवक्त्रान्नाहं जाने द्विजोत्तम ॥ १६९ ॥

॥ ऋषिरुवाच ॥ ॥

नास्ति भावकृतो दोषः परिवेद्मि कुरुष्व तत् ॥

वह्निना कथितस्त्वं मे जामाताद्य भविष्यसि ॥ 7.2.17.१७० ॥

इत्यादिवचनै राजा भार्या मेने स रेवतीम् ॥

ऋषिस्तथोद्यतः कर्तुं विवाहं विधि पूर्वकम् ॥

उवाच कन्या पितरं किञ्चिन्मे श्रूयतां पितः ॥ १७१ ॥

यदि मे पतिना तात विवाहं कर्तुमिच्छसि ॥

रेवत्यृक्षं विवाहं मे तत्करोतु प्रसादतः ॥ १७२ ॥

॥ ऋषिरुवाच ॥ ॥

रेवत्यृक्षश्च न वै भद्रे चन्द्रयोगे दिवि स्थितम् ॥

ऋक्षाण्यन्यान्यपि संति सुभ्रूर्वैवाहकानि च ॥ १७३ ॥ ॥

॥ कन्योवाच ॥ ॥

तात तेन विना कालो विकलः प्रतिभाति मे ॥

विवाहो विकले तात मद्विधायाः कथं भवेत् ॥ १७४।

॥ प्रमुञ्च उवाच ॥ ॥

ऋतवागिति विख्यातस्तपस्वी रेवतीं प्रति ॥

चकार कोपं क्रुद्धेन तेनर्क्षं तन्निपातितम् ॥ १७५ ॥

मया चास्मै प्रतिज्ञाता भार्येति विदितं तव ॥

न चेच्छसि विवाहं त्वं संकटं नः समागतम् ॥ १७६ ॥

॥ कन्योवाच ॥ ॥

ऋतवागेव स मुनिः किमेतत्तप्तवान्स्वयम् ॥

न त्वया मम तातेन ब्रह्मबन्धोः सुताऽस्मि किम् ॥ १७७ ॥

॥ ऋषिरुवाच ॥ ॥

ब्रह्मबन्धोः सुता न त्वं तपस्वी नास्ति मेऽधिकः ॥

सुता त्वं च मया देया नान्यत्कर्तुं समुत्सहे ॥ १७८ ॥

॥ कन्योवाच ॥ ॥

तपस्वी यदि मे तातस्तत्किमृक्षमिदं दिवि ॥

समारोप्य विवाहो मे कस्मान्न क्रियते पुनः ॥ १७९ ॥

॥ ऋषिरुवाच ॥ ॥

एवं भवतु भद्रं ते भद्रे प्रीतिमती भव ॥

आरोपयामीन्दुमार्गे रेवत्यृक्षं कृते तव ॥ 7.2.17.१८० ॥

ततस्तपःप्रभावेन रेवत्यृक्षं महामुनिः ॥

यथा पूर्वं तथा चक्रे सोमयोगि द्विजोत्तमः ॥

विवाहं दुहितुः कृत्वा जामातरमुवाच ह ॥ १८१ ॥

औद्वाहिकं ते भूपाल कथ्यतां किं ददाम्यहम्॥

दुष्प्रापमपि दास्यामि विद्यते मे महत्तपः ॥ १८२ ॥

॥ राजोवाच ॥ ॥

मनोः स्वायंभुवस्याहमुत्पन्नः संततौ मुने ॥

मन्वंतराधिपं पुत्रं त्वत्प्रसादाद्वृणोम्यहम् ॥ १८३ ॥

॥ ऋषिरुवाच ॥ ॥

भविष्यति महीपालो महाबलपराक्रमः॥

रेवती रेवतीकुण्डे स्नात्वा पुत्रं जनिष्यति॥ १८४॥

एवं कृत्वा गतो राजा सा च पुत्रमजीजनत्॥

रैवतेति कृतं नाम बभूव स मनुर्नृपः॥ १८५॥

अमुना च तदा प्रोक्तमस्मिन्रैवतके गिरौ॥

स्त्रियः स्नानं करिष्यंति तासां पुत्रा महाबलाः॥

दीर्घायुषो भविष्यंति दुःखदारिद्र्यवर्जिताः ॥ १८६ ॥

॥ नारद उवाच ॥ ॥

इत्युक्ते पर्वतो राजन्दीर्घो भूत्वा पपात सः ॥

एतौ तौ संस्मृतौ देवौ सभार्यौ हरिशंकरौ ॥ १८७ ॥

स्मृतमात्रौ तदाऽऽयातौ तेन बद्धौ पुरा यतः ॥

यत्राहं तत्र स्थातव्यं भवद्भ्यामिति निश्चितम् ॥१८८॥

अतो विष्णुहरौ देवौ स्थितौ तौ पर्वतोत्तमे ॥

गिरौ रैवतके रम्ये स्वर्णरेखानदीजले ॥

आराधयद्धरिं देवं रेवती तां च सोब्रवीत् ॥ १८९ ॥

भवताच्चंद्रयोगस्ते गगने ब्राह्मणाज्ञया ॥

अन्यद्वृणीष्व तुष्टोऽहं वरं मनसि यत्स्थितम् ॥ 7.2.17.१९० ॥

॥ रेवत्युवाच ॥ ॥

गिरौ रैवतके देव स्थातव्यं भवता सदा ॥

मया स्नानं कृतं यत्र तत्र स्नास्यंति ये जनाः ॥ १९१ ॥

तेषां विष्णुपुरे वासो भवत्विति वृतं मया ॥

एवमस्तु तदा प्रोच्य गिरौ रैवतके स्थितः ॥

दामोदरश्चतुर्बाहुः स्वयं रुद्रोपि संस्थितः ॥ १९२ ॥

गंगाद्याः सरितः सर्वाः संस्थिता विष्णुना सह ॥

क्षीरोदे मथ्यमाने तु यदा वृक्षः समुत्थितः ॥ १९३ ॥

आमर्द्दे देवदैत्यानां तेन सामर्दकी स्मृता ॥ ॥

अस्मिन्वृक्षे स्थिता लक्ष्मीः सदा पितृगृहे नृप ॥ १९४ ॥

शिवालक्ष्मीः स्मृतो वृक्षः सेव्यते सुरसत्तमैः ॥

देवैर्ब्रह्मादिभिः सर्वैर्वृक्षोऽसौ वैष्णवः स्मृतः॥ १९५॥

सर्वैः संचिंत्य मुक्तोऽसौ गिरौ रैवतके पुरा॥

अस्य वृक्षस्य यात्रां ये करिष्यंति हरेर्दिने ॥ १९६॥

फाल्गुने च सिते पक्ष एकादश्यां नृपोत्तम॥

तेषां पुत्राश्च पौत्राश्च भविष्यंति गुणाधिकाः॥

प्रांते विष्णुपुरे वासो जायतेनात्र संशयः ॥१९७॥

॥ बलिरुवाच ॥ ॥

कथमेतद्व्रतं कार्यं वैष्णवं विष्णुवल्लभम् ॥

रात्रौ जागरणं कार्यं विधिना केन तद्वद ॥ १९८ ॥

॥ नारद उवाच ॥ ॥

फाल्गुनस्य सिते पक्ष एकादश्यामुपोषितः ॥

स्नात्वा नद्यां तडागे वा वाप्यां कूपे गृहेऽपि वा ॥ १९९ ॥

गत्वा गिरौ वने वाऽपि यत्र सा प्राप्यते शिवा ॥

पूज्या पुष्पैः शुभै रात्रौ कार्यं जागरणं नरैः ॥ 7.2.17.२०० ॥

अष्टाधिकशतैः कार्या फलैस्तस्याः प्रदक्षिणा ॥

प्रदक्षिणीकृत्य नगं भोक्तव्यं तु फलं नरैः ॥२०१॥

करकं जलपूर्णं तु कर्त्तव्यं पात्रसंयुतम् ॥

हविष्यान्नं तु कर्त्तव्यं दीपः कार्यो विधानतः ॥ २०२ ॥

एवं जागरणं कार्यं कथाश्रवणतत्परैः ॥

मुच्यंते देहिनः पापैः कलिजैः कायसंभवैः ॥ २०३ ॥

देहांते ते नराः सर्वे पूज्यंते हरिमंदिरे ॥ २०४ ॥

॥ सारस्वत उवाच ॥ ॥

इत्युक्त्वा नारदो दैत्यं ययौ रैवतकं गिरिम् ॥

दैत्येन्द्रो मंत्रयामास किंकार्यं सांप्रतं मया ॥ २०५ ॥

न रोचते सुरैः सार्द्धं विग्रहो मे सुरोत्तमाः ॥ २०६ ॥

॥ मंत्रिण ऊचुः ॥ ॥

नास्ति क्षमा भृशं तेषां क्षत्रियाणां गृहे सताम्॥

अशक्तमपि मंस्यंते स्वयमायांति ते यतः ॥

तस्मात्स्वयं प्रयास्यामो देवेन्द्रं सहिता वयम् ॥ २०७ ॥

इति श्रुत्वा ददौ ढक्कां प्रथमं सुरविग्रहे ॥

गृहीत्वा वाहिनीं दैत्याः प्रस्थिता मेरु पर्वते ॥ २०८ ॥

यत्र सा नगरी रम्या देवराजस्य पूर्वतः ॥

आगच्छमानां तां ज्ञात्वा वाहिनीं मेरुपर्वते ॥ २०९ ॥

देवराजसमादेशाच्चलिता देव वाहिनी ॥

सुमेरोः पूर्वदिग्भागे युद्धमासीत्परस्परम्॥ 7.2.17.२१० ॥

देवसैन्यं यदा सर्वं दैत्यसैन्येनसंयुतम्॥

महाप्रलयसादृश्यं युद्धं वृत्तं तदा तयोः ॥ ॥ २११ ॥

ऐरावणं समारुह्य देवराजः समागतः ॥

रथमारुह्य दैत्येन्द्रो युद्धायान्ये समागताः ॥ २१२ ॥

देवा यज्ञभुजो यस्मात्तस्मान्न युद्ध कांक्षिणः ॥

ऐरावणो बलिं दृष्ट्वा न चचालाग्रतो मृधे ॥ २१३ ॥

संग्रामे विमुखो याति दिग्गजैः परिवेष्टितः ॥

अध्वरे बाहुना येन संकल्पं कृतवान्बलिः ॥ २१४ ॥

तेन वै स सुरान्सर्वान्वारयामास संयुगे ॥

वारिता विमुखा यांति देवराजः करोतु किम् ॥ २१५ ॥

कुलिशं न कुरुते कर्म भुजमुक्तं न गच्छति ॥२१६॥

एवं बहूनि युद्धानि निवृत्तानि तदा तयोः ॥

न हंतुं शक्यंते युद्धे देवैर्दैत्या महाबलाः ॥ २१७ ॥

बलाकांक्षाः स्थिता देवा गुरुणा ते प्रबोधिताः॥

अमरा देवताः सर्व इति शुक्रेण वारिताः ॥ २१८ ॥

अवतारं हरेर्ज्ञात्वा पञ्चमं वामनं स्थितम् ॥

अतिहृष्टोऽमरावत्यां राज्यं चक्रे सुरेश्वरः ॥ २१९ ॥

ननर्त्त युद्धे दैत्येन्द्रः स्वगृहे यजते सुरान्॥

पातालाभिसृता दैत्या राज्यं कुर्वंति मानवाः ॥ 7.2.17.२२० ॥

तदा देवगणाः सर्वे मन्त्रयन्ति सुरैः सह ॥

दैत्यो लोकद्वयं शास्ति स्वर्गं शास्ति सुरेश्वरः ॥ २२१ ॥

क्षंतव्यं तावदेवास्य वामनो रैवतं गिरिम्॥

यावद्याति सुरैः कार्यं मौनं दैत्यजितैरपि ॥ २२२ ॥

यदाप्रभृति सञ्जातो वामनो धरणीतले ॥

तदाप्रभृति दैत्यानां दुनिर्मित्तानि जज्ञिरे ॥ २२३ ॥

शिवा प्रविश्य नगरे रौति सा विस्वरं निशि ॥

भ्रमन्ति नगरे काका दिवारात्रं विराविणः ॥ २२४ ॥

सर्प्पाः सर्प्पंति गेहेषु कृष्णा रौद्रा विषोल्बणाः ॥

कंका गृध्रा बका भ्रांता भ्रमन्ति नगरोपरि ॥ २२५ ॥

जायन्ते विमुखा गर्भाः स्त्रीषु गोषु मृगीषु वा ॥

घृतं दुग्धं च नैवास्ति तिले तैलं न विद्यते ॥ २२६ ॥

जने जानपदो नित्यं युध्यते च परस्परम् ॥

काली करालवदना दीर्घकेशी विलोचना ॥ २२७ ॥

अज्ञाता रुदती याति नगरे सा गृहं प्रति ॥

कोऽयं न ज्ञायते कस्मात्तपस्वी भस्मगुंठितः ॥ २२८ ॥

यतिर्मौनव्रती नग्न पुरो याति गृहेगृहे ॥

डमरूड्डामरुं पश्चाद्धुंकारं विदधाति च ॥२२९॥

अकाले कुपिता मेघा जलं मुञ्चंति पुष्कलम् ॥

करकैः पूरिता गर्भा गर्जंति गिरयो बहु ॥ 7.2.17.२३० ॥

समजायत भूकंपो दिग्दाहश्चाप्यजायत ॥

मिलित्वा श्वगणः सर्वो मुखमुच्चैर्विधाय च ॥ २३१ ॥

रौति रात्रौ पुरे नित्यं घूकः शब्दं विशब्दते ॥

बलिराज्यक्षयो जातो दिवि केतूदयो निशि॥ ॥ २३२ ॥

आदित्यमण्डले वेधः कीलकैर्दृश्यते कृतः ॥

कबन्धसंकुले व्योम्नि चन्द्रमा न प्रकाशते ॥ २३३ ॥

स जातो रोहिणीवेधो यो जातो युगव्यत्यये ॥

नक्षत्राणि दिवा लोकैर्गण्यन्ते गुणवत्तरैः ॥ २३४ ॥

बीजानां व्यत्ययो जज्ञे भूमिस्त्रीगोमृगीषु च ॥

अश्वा ह्रेषंति सहसा मदं कुर्वंति नो गजाः ॥ २३९ ॥

मन्त्रिणां मंत्रितो मन्त्रो भिद्यते राज्यसंक्षये ॥

घृताहुत्या हुतो वह्निर्ज्वलति न तदा द्विजैः ॥ २३६ ॥

प्रचण्डः पावनो वाति वात्यया घूर्णितद्रुमः ॥

ध्वजा ज्वलन्ति चैत्येषु नभो भवति धूसरम् ॥ २३७ ॥

एते चान्ये च बहव उत्पाता बलिनो गृहे ॥

संजाता वामने जाते नारदागमनादनु ॥ २३८ ॥

अन्यच्च जायते रौद्रं यद्दिवा स्वप्नदर्शनम् ॥

संनह्यंते यदा दैत्याः पतिता निपतंति च ॥ २३९ ॥

निमित्तानि स सैन्यस्य दृष्ट्वैवं न प्रवर्त्तते ॥

सदा संतिष्ठते गेहे राज्यं च कुरुते बलिः ॥ 7.2.17.२४० ॥

शरीरे न सुखं तस्य गात्रभंगः शिरोव्यथा ॥

ज्वरितो न सुखं शेते न भुंक्ते न पिबत्यसौ ॥

न भुक्तं जीर्यते लोकः सर्वोपि व्याकुलीकृतः ॥२४१॥

विपरीतं जगद्दृष्ट्वा बलिर्व्याकुलमानसः ॥

मन्त्रयामास किमिदं ब्राह्मणैः सह दुःखितः ॥ २४२ ॥

शुक्रं गुरुं समानीय सभायां संनिवेश्य च ॥

पप्रच्छ कुशलं दैत्यो भक्त्या परमया युतः ॥

विपरीतमिदं सर्वं वर्त्तते तद्वदस्व मे ॥ २४३ ॥

नारदेन यदुक्तं मे गुरो सत्यं भविष्यति ॥

उत्पातशांतिकं ब्रूहि ब्राह्मणैः सहितो मम ॥ २४४ ॥

॥ शुक्र उवाच ॥ ॥

उत्पातशांतये कार्यो यज्ञः सर्वस्वदक्षिणः ॥

ब्राह्मणैः क्षत्रियैः सार्द्धं द्वादशाब्दो विधीयताम् ॥ २४५ ॥

ऋषयो ब्राह्मणा ये च मुनयो ब्रह्मचारिणः ॥

आगच्छन्तु महायज्ञे ये च दूरेऽपि संस्थिताः ॥ २४६ ॥

नगरात्पूर्वदिग्भागे कर्त्तव्यो यज्ञमण्डपः ॥

यस्य यस्याभिरुचितं देयं दानं त्वया नृप ॥

तथा करिष्य इत्युक्त्वा यज्ञार्थं तत्परोभवत् ॥ २४७ ॥

आनाय्य ब्राह्मणान्सर्वान्कुशलान्यज्ञकर्मणि ॥

गृहीता यज्ञदीक्षा तैर्यज्ञे वै सर्व दक्षिणे ॥ २४८ ॥

ब्राह्मणाय मया देयं सर्वस्वमिह याचिते ॥

शरीरपुत्रमित्राणि दारान्दास्यामि याचितः ॥ २४९ ॥

दातव्यं सततं दानं ब्राह्मणेभ्यो मयाध्वरे ॥

वारितेनापि न स्थेयं दातव्यं निश्चितं मया ॥

याचितश्चेन्न दास्यामि तदा व्यर्थो ममाऽध्वरः ॥7.2.17.२५०॥

विधाय मण्डपं दिव्यं बहुयोजनविस्तरम् ॥

तत्र दानानि दीयन्ते भोजनाच्छादनानि च ॥ २५१॥

सप्तर्षयः समायाता गगनाद्धरणीतले ॥

दिग्भ्यः समागताः सर्वे ब्राह्मणाः संति ये भुवि ॥ २५२ ॥

क्षत्रियाश्च समायाता विगृह्य विविधं वसु ॥

निवेदयन्ति ते राज्ञे प्रारब्धे यज्ञकर्मणि ॥ २५३ ॥

आसमुद्रात्समायाता नटनर्त्तकयाचकाः ॥

गीतवादित्रनिर्घोषो वेदध्वनिविमिश्रितः ॥ २५४ ॥

त्रैलोक्यं बधिरीचक्रे देहिदेहीति याचितम् ॥

मा देहीति वचो नास्ति स्तोकं देहीति चैव न ॥ २५५ ॥

यद्यद्यो याचते वस्तु तत्तस्मै तत्र दीयते ॥

ब्राह्मणो हि न सोऽप्यस्ति यो हि तं बहु याचते ॥ २५६ ॥

भोजनाच्छादनार्थं च न गृह्णंति द्विजातयः ॥

सुवर्णरत्नरौप्याणि तथाश्वरथकुंजरान्॥२५७॥

गृहगोभूमिग्रामांश्च न गृह्णंति द्विजातयः ॥

बलिराज्येन संतुष्टाः किं कुर्वति धनेन ते ॥ २५८ ॥

एवं प्रवर्तते यज्ञो महान्सर्वस्वदक्षिणः ॥ २५९ ॥

नृत्यंति गायंति पठंति चान्ये स्तुवंति यज्ञं बहुदानयुक्तम् ॥

ब्रह्मेन्द्र रुद्रग्रहसूर्यचंद्राः प्रसादिता आहुतिभिश्च मन्त्रैः ॥ 7.2.17.२६० ॥

बलिं प्रशंसंति गुरुं तथान्ये होतारमेके परिवारमेके ॥

प्रजापतेर्नापि सुराधिपस्य समाप्यते चेदथ यास्यति धुवम्॥

प्रदाय राज्यं द्विजपुंगवेभ्यः सपुत्रमित्रैः सहितो रसातलम् ॥२६१॥

इतीति वाचः प्रवदंति वाडवाः शृण्वंति दैत्याः किमिदं वदंति ॥

बलेः पुरःस्थाः कथयंति संगता बलिः प्रहृष्टः प्रददाति याचितम् ॥ २६२ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये बलियज्ञप्रभाववर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 18

॥ राजोवाच ॥ ॥

वस्त्रापथे महाक्षेत्रे सम्प्राप्तो वामनो यदा ॥

तदाप्रभृति किं चक्रे तन्मे विस्तरतो वद ॥ १ ॥

॥ सारस्वत उवाच ॥ ॥

वामनो वसतिं चक्रे भवस्याग्रे नृपोत्तम ॥

स्वर्णरेखाजले स्नात्वा भवं सम्पूज्य भावतः ॥ २ ॥

एकांते निर्मले स्थाने कण्टकास्थिविवर्जिते ॥

कृष्णाजिनपरिच्छन्न उपविष्टो वरा सने ॥ ३ ॥

कृत्वा पद्मासनं धीरो निश्चलोऽभूद्द्विजोत्तमः ॥

विधाय कन्धराबंधमृजुनासावलोककः ॥ ४ ॥

गृहक्षेत्रकलत्राणां चिंतां मुक्त्वा धनस्य च ॥

मायां च वैष्णवीं त्यक्त्वा कृतमौनो जितेन्द्रियः ॥ ५ ॥

निराहारो जितक्रोधो मुक्तसंसारबंधनः ॥

भुजौ पद्मासने कृत्वा किञ्चिन्मीलितलो चनः ॥

मनोतिचंचलं ज्ञात्वा स्थिरं चक्रे हृदि द्विजः ॥ ६ ॥

क्रमेणाभ्यासयोगेन भिन्नांश्चक्रे स चैकतः ॥

प्राणापानव्यानोदानसमानाख्यांश्च मारुतान् ॥ ६४ ॥

एवं तं हृदये कृत्वा गृहीत्वा सर्वसन्धिषु ॥

आनीय ब्रह्मणः स्थाने दृढं ब्रह्मण्ययोजयत् ॥ ८ ॥

गृहीत्वा पवनं बाह्यं यदा पूर यते तनुम् ॥

तदा स पूरको ज्ञेयो रेचकं तु वदाम्यहम् ॥ ९ ॥

यदा चाभ्यन्तरो वायुर्बाह्ये याति क्रमान्नृप ॥

तदा स रेचको ज्ञेयः स्तम्भनात्कुम्भको भवेत् ॥ 7.2.18.१० ॥

पञ्चविंशतितत्त्वानि यदा जानंति योगिनः ॥

मुच्यन्ते पातकैः सर्वैः सप्तजन्मकृतैरपि ॥ ११ ॥

॥ राजोवाच ॥

कानि तत्त्वानि को देही किं ज्ञेयं योगिनां वद ॥

उत्पन्नज्ञानसद्भावो योगयुक्तः कथं भवेत् ॥ १२ ॥

॥ ईश्वर उवाच ॥ ॥

प्रकृतिश्च ततो बुद्धिरहंकारस्ततोऽभवत् ॥

तन्मात्रपंचकं तस्मादेषा प्रकृतिरष्टधा ॥ १३ ॥

बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेंद्रियाणि च ॥

एकादशं मनो विद्धि महा भूतानि पंच च ॥ १४ ॥

गणः षोडशकः सांख्ये विस्तरेण प्रकीर्तितः ॥

चतुर्विंशतितत्त्वानि पुरुषः पंचविंशकः ॥ १५ ॥

देहीति प्रोच्यते देहे स चात्मानं च पश्यति ॥

विंदन्ति परमात्मानं षष्ठं तं विंशतेः परम् ॥ १६ ॥

आसनादिप्रकारा ये ते ज्ञेयाः प्रथमं सदा ॥

यदा दीपशिखाप्रायं ज्योतिः पश्यंति ते हृदि ॥ १७ ॥

उत्पन्नज्ञानसद्भावा भण्यास्ते योगिनो बुधैः ॥

पूर्वं जरां जरयति रोगा नश्यति दूरतः ॥ १८ ॥

सर्वपापचये क्षीणे पश्चान्मृत्युं स विंदति ॥

मृतो लोके नरो नास्ति योगी जानाति चेत्स्वयम् ॥ १९ ॥

तदा द्वाराणि संरुद्ध्य दश प्राणान्स मुञ्चति ॥

पुण्य पापक्षयं कृत्वा प्राणा गच्छंति योगिनाम् ॥

अणिमादिगुणैश्वर्यं प्राप्नुवंति शिवालये ॥ 7.2.18.२० ॥

अनेन ध्यानयोगेन भवं पश्यति मानवः ॥

मनसा चिंतितं सर्वं सम्प्राप्तं भवदर्शनात् ॥ २१ ॥

एवमास्ते यदा विप्रो वामनो भवसन्निधौ ॥

गगनादवतीर्णं तं तदा पश्यति नारदम् ॥२२॥

॥ वामन उवाच ॥ ॥

महर्षे कुशलं तेऽद्य कस्मादागम्यते त्वया ॥

प्रणमामि महर्षे त्वां ब्रह्मैव त्वं जगत्त्रये ॥ २३ ॥

॥ नारद उवाच ॥ ॥

स्वर्ग लोकादहं प्राप्तः कुशलं किं ब्रवीमि ते ॥ २४ ॥

यातायातैर्दिनेशस्य पूर्य्यते ब्रह्मणो दिनम् ॥

दिनांते जायते रात्री रात्रौ नश्यंति देवताः ॥ २५ ॥

का कथा मृत्युलोकस्य ये म्रियंते दिनेदिने ॥

नभो धूमाकुलं जातं देवा बलिगृहे गताः ॥ २६ ॥

सप्तर्षयो गतास्तत्र ब्रह्मणा ब्रह्मचारिणः ॥

हाहाहूहूस्तुंबरुश्च गतौ नारदपर्वतौ ॥ २७ ॥

अप्सरोगणगन्धर्वाः संप्राप्ता बलिमंदिरे ॥

उत्पातशांतिको यज्ञः क्रियते बलिना स्वयम् ॥ २८ ॥

तत्रैव गन्तुमिच्छामि द्रष्टुं यज्ञं बलेर्गृहे ॥

सहस्रमेकं यज्ञानामेकोनं विदधे बलिः ॥ २९ ॥

दैत्यानां भुवनं सर्वं संपूर्णेऽस्मिन्भविष्यति ॥

असावतिशयः कोऽपि प्रारब्धो यज्ञकर्मणि ॥

द्विजातिभ्यो मया देयं येन यद्याच्यते स्वयम् ॥ 7.2.18.३० ॥

वारितेनापि मे देयं सत्यमस्तु वचो मम ॥

आत्मानमपि दारांश्च राज्यं पुत्रान्प्रियान्मम ॥ ३१ ॥

प्रार्थितश्चेन्न दास्यामि व्यर्थो भवतु मेऽध्वरः ॥

अनेन वचसा जाता महती मे शिरो व्यथा ॥

प्रतिज्ञाय कथं यज्ञः संपूर्णोऽयं भविष्यति ॥ ३२ ॥

भंगोपायं न पश्यामि भ्रमामि भुवनत्रये ॥

विध्वंसकारिणं ज्ञात्वा भवंतं पर्युपस्थितः ॥ ३३ ॥

यथा न पूर्यते यज्ञस्तथेदानीं विधीयताम् ॥ ३४ ॥

॥ वामन उवाच ॥ ॥

महर्षे शृणु मे वाक्यं का शक्तिर्मम विद्यते ॥

कोऽहं कस्मात्करिष्यामि यज्ञे देवाः समागताः ॥ ३५ ॥

ऋषयो ब्राह्मणाः सर्वे कथं व्यर्थो भविष्यति ॥

अपरं शृणु मे वाक्यं ब्रह्मर्षे ब्रह्मणस्पते ॥ ३६ ॥

न कलत्रं न ते पुत्राः कस्मात्प्रकृतिरीदृशी ॥

युद्धं विना न ते सौख्यं न सौख्यं कलहं विना ॥ ३७ ॥

यादृशस्ता दृशो वाऽपि वाग्वादोऽपि सदा प्रियः ॥

स्नानं संध्या जपो होमस्तर्पणं पितृदेवयोः ॥ ३६ ॥

नारदः कुरुते चान्यदन्यत्कुर्वंति ब्राह्मणाः ॥

ममापि कौतुकं जातं महर्षे वद सत्वरम् ॥ ३९ ॥

॥ नारद उवाच ॥ ॥

पाद्मकल्पे व्यतिक्रांते रात्र्यंते शृणु वामन॥

ब्रह्माण्डं वारिणा व्याप्तमन्यत्किं चिन्न विद्यते ॥ 7.2.18.४० ॥

अप्सु शेते देवदेवः स च नारायणः स्मृतः ॥

स ब्रह्मा स शिवो नास्ति भेदस्तेषां परस्परम् ॥ ४१ ॥

यदा भवंति ते भिन्ना स्तदा देवत्रयं च ते ॥

कर्त्तुं वाराहकल्पं तु भिन्ना जातास्त्रयस्तदा ॥ ४२ ॥

ब्रह्मविष्णुहरा देवा रजःसत्त्वतमोमयाः ॥

सृष्टिं ब्रह्मा करोत्येवं तां च पालयते हरिः ॥४३॥

हरः संहरते सर्वं त्रैलोक्यं सचराचरम् ॥

एवं प्रवर्त्य देवेश उपविष्टा वरासने ॥

कैलासशिखरे रम्ये मंत्रयंति परस्परम् ॥४४॥

त्रयाणां को वरो देवः को ज्येष्ठः को गुणाधिकः॥

चतुर्थो नास्ति यो वेत्ति सहसा ते त्रयः स्थिताः॥४५॥

तेभ्यः समुत्थितं ज्योतिरेकीभूतं तदंबरे॥

कालमानेन युक्तं तद्भ्राम्ते रविमंडलम् ॥४६॥

अहं ज्येष्ठो ह्यहं ज्येष्ठो वादोऽभूद्धरब्रह्मणोः ॥

द्वयोर्विवदतोः क्रोधात्संजातोऽहं मुखात्प्रभो ॥ ४७ ॥

कथं देव न जानासि यदुक्तं ब्रह्मणा तदा ॥

दशावतारास्ते रंतुं मत्स्यकूर्मादयः पुरा ॥ ४८ ॥

रुद्रेण वारिता गत्वा कलहो वो न युज्यते ॥

तथैव कृतवान्विष्णुरवतारान्दशैव तान् ॥ ४९ ॥

कल्पादौ ब्रह्मणो वक्त्रात्संजातोऽहं द्विजोत्तम ॥

कलहाजन्म मे यस्मात्तस्मान्मे कलहः प्रियः ॥ 7.2.18.५० ॥

कल्पादौ सृजता पूर्वं चिन्वितं ब्रह्मणा स्वयम् ॥

वेदान्तिना कथं सृष्टिः कर्त्तव्याऽहो हरे मया ॥ ५१ ॥

नष्टान्वेदान्न जानामि क्व वेदास्ते गता इति ॥

पृथ्वीमपि न जानामि किं स्थाने किमधो गता ॥ ५२ ॥

गंतुं न विद्यते शक्तिर्जलमध्ये ममाधुना ॥

अवतारैस्त्वया कार्यं दशभिः सृष्टिरक्षण म् ॥ ९३ ॥

जले जलेचरो मत्स्यो महानद्यां भविष्यसि ॥

आदाय वेदान्वेगेन मम त्वं दातुमर्हसि ॥ ५४ ॥

तथा च कृतवान्देवो मत्स्यरूपं जले महत् ॥

वेदान्समानयामास ददौ च ब्रह्मणे पुरा ॥

कूर्मरूपं पुनः कृत्वा मंदरं धारयिष्यसि ॥ ५५ ॥

इत्युक्तो ब्रह्मणा विष्णुर्लक्ष्मीस्त्वां वरयिष्यति ॥

पुरा चित्रं चरित्रं ते मथने दृष्टवानहम् ॥५६॥

यदा रसातलं प्राप्ता पृथिवी नैव दृश्यते ॥

ब्रह्मांडार्थे स्थानकृते तत्र सा नैव दृश्यते ॥ ॥ ५७॥

वाराहं क्रियतां रूपं ब्रह्मणा प्रेरितः स्वयम् ॥

महावराहरूपं स कृत्वा भूमेरधो गतः ॥ ५८ ॥

उद्धृत्य च तदा विष्णुर्दंष्ट्राग्रेण वसुंधराम् ॥

स निनाय यथास्थानं मुस्तां व धरणीतलात् ॥ ५९ ॥

अवतारं तृतीयं वै हरस्यापि मनोहरम् ॥

येन सा पृथिवी पृथ्वी पर्वतैः सहिता धृता ॥7.2.18.६०॥

चतुर्थं नरसिंहं वै कथयामि सुदारुणम्॥

आदित्या अदितेः पुत्रा दितेः पुत्रौ महावलौ ॥ ६१ ॥

हिरण्यकशिपुर्दैत्यो हिरण्याक्षो महाबलः ॥

स्वर्गे देवाः स्थिताः सर्वे पाताले दैत्यदानवाः ॥ ६२ ॥

हिरण्यकशिपुश्चक्रे दैत्यो राज्यं रसातले ॥

मनुपुत्रा धरापृष्ठे स्थापिता देवदानवैः ॥ ६३ ॥

व्यवस्थां तामतिक्रम्य हिरण्यकशिपुर्द्विज ॥

राज्यं चक्रे धरापृष्ठे सुरेन्द्रं स विजित्य च ॥ ६४ ॥

सप्तद्वीपवतीं पृथ्वीं गृहीत्वा साऽमरावतीम्॥

ग्रहीतुकामो बुभुजे पुत्रपौत्रैः कृतादरः ॥ ६५ ॥

प्रह्लादप्रमुखान्पुत्रान्स पीडयति मंदधीः ॥

पुत्रेषु पाठ्यमानेषु प्रह्लादोऽपि पपाठ तत् ॥ ६६ ॥

येन वै पठ्यमानेन जायते तस्य वेदना ॥

भुवनद्वयराज्येन दैत्यो देवान्न मन्यते ॥ ६७ ॥

तपसा तोषितो ब्रह्मा ददौ तस्मै वरं प्रभुः ॥

अमरत्वं स देवेभ्यो मनुष्येभ्यः सुरोत्तम ॥ ६८ ॥

कस्मादपि न मे भूयान्मरणं यदि चेद्भवेत् ॥

किंचित्सिंहो नरः किंचिद्यो भवेद्धरणीधरः ॥ ६९ ॥

तस्मात्कररुहैभिन्नो मरिष्ये न धरातले ॥

एवं भविष्यतीत्युक्त्वा गतो ब्रह्मा च विस्मयम् ॥ 7.2.18.७० ॥

कालेन गच्छता तस्य संजातो विग्रहो महान्॥

देवाः किं मे करिष्यंति विष्णुना किं प्रयोजनम् ॥ ७१ ॥

यष्टव्योऽहं सदा यज्ञै रुद्रः किं मे करिष्यति ॥

एवं हि वर्त्तमानस्य प्रह्लादः स्तौति तं हरिम् ॥ ॥ ७२ ॥

येनास्य जायते मृत्युस्तमेव स्मरते हरिम् ॥

यदासौ वार्यमाणोऽपि विरौति च हरिं हरिम् ॥ ७३ ॥

चतुर्भुजं शंखगदासिधारिणं पीतांबरं कौस्तुभ लाञ्छितं सदा ॥

स्मरामि विष्णुं जगदेकनायकं ददाति मुक्तिं स्मृतमात्र एव यः ॥ ७४ ॥

अनेन वचसा क्षुब्धो दैत्यो देत्यान्दि देश ह ॥

मारयध्वं तु तं दुष्टं गज सर्पजलाग्नितः ॥ ७५ ॥

॥ प्रह्लाद उवाच ॥ ॥

गजेपि विष्णुर्भुजगेऽपि विष्णुर्जलेऽपि विष्णुर्ज्वलनेऽपि विष्णुः ॥

त्वयि स्थितो दैत्य मयि स्थितश्च विष्णुं विना दैत्यगणाऽपि नास्ति ॥ ७६ ॥

यदा स मार्यमाणोऽपि मृत्युं प्राप्नोति न क्वचित् ॥

हिरण्यकशिपोर्वक्षो दह्यते क्रोधवह्निना ॥

तदा शिक्षयितुं पुत्रं मुखाग्रे संनिवेश्य च ॥ ७७ ॥

वचोभिः कठिनैः पुत्रं स्वयं हन्तुं समुद्यतः ॥ ।

धिक्त्वा नारायणं स्तौषि ममारिं स्तौषि चेत्पुनः॥७८॥

पुष्पलावं लविष्यामि शिरस्तेऽहं वरासिना ॥

अहं विष्णुरहं ब्रह्मा रुद्र इन्द्रो वरं वद ॥७९॥

आत्मीयं पितरं मुक्त्वा कमन्यं स्तौषि बालक ॥ 7.2.18.८० ॥

यदा न पठते बालः स्तौति नो पितरं स्वकम् ॥

दण्डेनाहत्य गुरुणा प्रह्लादः प्रेरितः पुनः॥

वदैकं वचनं शिष्य देहि मे गुरुदक्षिणाम्॥ ८१ ॥

यथा मे तुष्यते स्वामी ददाति विपुलं धनम् ॥ ८२ ॥

॥ प्रह्लाद उवाच ॥ ॥

प्रहरस्व प्रथमं मां करिष्ये वचनं गुरो ॥

स्तौमि विष्णुमहं येन त्रैलोक्यं सचराचरम्॥ ८३ ॥

कृतं संवर्द्धितं शांतं स मे विष्णुः प्रसीदतु ॥

ब्रह्मा विष्णुर्हरो विष्णु रिन्द्रो वायुर्यमोऽनलः ॥८४॥

प्रकृत्यादीनि तत्त्वानि पुरुषं पंचविंशकम् ॥

पितृदेहे गुरोर्देहे मम देहेऽपि संस्थितः ॥ ८५ ॥

एवं जानन्कथं स्तौमि म्रियमाणं नराधमम् ॥ ८६ ॥

॥ गुरुरुवाच ॥ ॥

नरेषु कोऽधमः शिष्य जन्मादिमरणेऽधम ॥

कथं न पितरं स्तौषि म्रियमाणो हरिं हरिम् ॥ । ॥ ८७ ॥

॥ प्रह्लाद उवाच ॥ ॥

भोजने शयने याने ज्वरे निष्ठीवने रणे ॥

हरिरित्यक्षरं नास्ति मरणेऽसौ नराधमः ॥ ८- ॥

भये राजकुले युद्धे व्याधौ स्त्रीसंगमे वने ॥

अशक्तौ वाऽथ संन्यासे मरणे भूमिसंस्थिताः ॥

स्मरंति मातरं मूर्खाः पितरं च नराधमाः ॥८९॥

माता नास्ति पिता नास्ति नास्ति मे स्वजनो जनः ॥

हरिं विना न कोऽप्यस्ति यद्युक्तं तद्विधीयताम् ॥ 7.2.18.९० ॥

इत्यादिवचनैः क्रुद्धो हन्तुं दैत्यः समुत्थितः॥

तदा माता समागत्य पुत्रस्य पुरतः स्थिता ॥९१॥

भ्रातरः स्वजनो भगिनी भाषते मा हरिं वद ॥

अहं माता स्वसा चेयं भ्रातरः स्वजनो जनः ॥

यथा संमिलितैर्वत्स स्थीयते वहुवासरम् ॥ ९२ ॥

॥ प्रह्लाद उवाच ॥ ॥

माता मे का स्वसा मे का भ्रातरः के पिता च कः ॥

स्वजनं शृणु मे मातः सहितैः स्थीयते सदा ॥ ९३ ॥

यस्याः पीतं मया मूत्रं पुरीषमुदरे बहु ॥

सा माता नरकोऽस्माकमग्रे वक्तुं न शक्यते ॥ ९४ ॥

निर्मितो न द्वितीयस्तु निर्मितो विश्वकर्मणा ॥

त्वादृशस्तु पुमान्कश्चिद्यस्य नो हदये हरिः ॥ ९५ ॥

दशमासं ध्रुवं मन्ये मूत्रं पास्यति तर्पितः ॥

भ्रातरो भ्रातरः सत्यं गर्भेऽपि स्युः कथं यदि ॥ ९६ ॥

युध्यतस्तान्कथं माता वराकी वारयिष्यति ॥

स्वजनो दृश्यते वृद्धः परेषु पण्डितायते ॥ ९७ ॥

कुटुंबं भण्यते कस्माद्यश्च नायाति याति च ॥

बंधनं च कुटुम्बस्य जायते नरकाय नः ॥ ९८ ॥

माता मे विद्यते चान्या पितान्यो भ्रातरश्च ये॥

स्वसा स्वजनसम्वन्धं ज्ञात्वा मुक्तिमवाप्नुयात् ॥ ९९ ॥

माता प्रकृतिरस्माकं स्वसा बुद्धिर्निगद्यते ॥

अहंकारस्ततो जातो योऽहमित्यनुमीयते ॥ ॥ 7.2.18.१०० ॥

तन्मात्राः सोदराः पञ्च ये गच्छन्ति सहैव मे ॥

एषा प्रकृतिरस्माकं विकारः स्वजनो मम ॥ १०१ ॥

एतेषां वाहको यस्तु पुरुषः पञ्च विंशकः ॥

स मे पिता शरीरेऽस्मिन्परमात्मा हरिः स्थितः ॥ १०२ ॥

यद्यसौ चित्यन्ते चित्ते दृश्यते हृदये हरिः ॥

अणिमादिगुणैश्वर्यं पदं तस्यैव जायते ॥ १०३ ॥

भवता सम्मतं राज्यं तन्मे नित्यं तृणैः समम् ॥

यत्र नो पूज्यते विष्णुर्ब्रह्मा रुद्रोऽनिलोऽनलः ॥ १०४ ॥

प्रत्यक्षो दृश्यते यस्तु निरालम्बो भ्रमत्यसौ ॥

स एव भगवान्विष्णुर्य एते गगने स्थिताः ॥ १०५ ॥

ध्रुवे बद्धा ग्रहाः सर्वे य एतेऽप्युडवः स्थिताः ॥

ते सर्वे विष्णुवचसा न पतंति धरातले ॥ १०६ ॥

काले विनाशः सर्वेषां तेनैव विहितः स्वयम् ॥

इति संचिंत्य मे नास्ति भवद्भ्यो मरणाद्भयम् ॥ १०७ ॥

इति तद्वचनस्यांते पदा हत्वा पिताऽब्रवीत् ॥

कुत्राऽसौ हन्मि तत्पूर्वं पश्चात्त्वां हरिभाषिणम् ॥ १०८ ॥

॥ प्रह्लाद उवाच ॥ ॥

पृथिव्यादीनि भूतानि तान्येव भगवान्हरिः ॥

स्थले जले किं बहुना सर्वं विष्णुमयं जगत् ॥ १०९ ॥

तृणे काष्ठे गृहे क्षेत्रे द्रव्ये देहे स्थितो हरिः ॥

ज्ञायते ज्ञानयोगेन दृश्यते किं नु चक्षुषा ॥ 7.2.18.११० ॥

ब्रह्मालये याति रसातले वा धरातलेऽसौ भ्रमति क्षणेन ॥

आघ्राति गन्धं विदधाति सर्वं शृणोति जानाति स चात्र विष्णुः ॥ १११ ॥

इत्युक्तः सहजां मायां त्यक्त्वा सिंहासनोत्थितः ॥

दृढं परिकरं बद्ध्वा खङ्गं चाकृष्य चोज्ज्वलम् ॥ ११२ ॥

हत्वा तं फलकाग्रेण बभाषे दुस्सहं वचः ॥

इदानीं स्मर रे विष्णुं नो चेज्जवलितकु ण्डलम् ॥

पतिष्यति शिरो भूमौ फलं पक्वं यथा नगात् ॥ ११३ ॥

नो चेद्दर्शय तं विष्णुमस्मात्स्तंभाद्विनिर्गतम् ॥

प्रह्लादस्तु भयं त्यक्त्वा चक्रे पद्मासनं भुवि ॥ ११४ ॥

विधाय कंधरां नेतुमुच्चैः श्वासं निरुध्य च ॥

हृदि ध्यात्वा हरिं देवं मरणायोन्मुखः स्थितः ॥ ११५ ॥

प्रभो मया तदा दृष्टमाश्चर्यं गगनाद्भुवि ॥

पुष्पमाला स्थिता कण्ठे प्रह्लादस्य स्वयं गता ॥ ११६ ॥

गगनं व्याप्यमानं च किंकिमेवं कृतं जनैः ॥

झटिति त्रुट्यति स्तम्भाच्छब्देन क्षुभितो जनः ॥ ११७ ॥

धरणी याति पातालं द्यौर्वा भूमिं समेष्यति ॥

पतिष्यति शिरो भूमौ खड्गघाताहतं नु किम् ॥ ११८ ॥

तावत्स्तंभाद्विनिष्क्रान्तः सिंहनादो भयंकरः ॥

भूमौ निपतिताः सर्वे दैत्याः शब्देन मूर्च्छिताः ॥ ११९ ॥

हिरण्यकशिपोर्हस्तात्खड्गचर्म पपात च ॥

न स जानाति किं किमेतदिति पुनःपुनः ॥ 7.2.18.१२० ॥

उत्थितो वीक्षते यावत्तावत्पश्यति तं हरिम् ॥

अधो नरं स्थितं सिंहमुपरिष्टाद्विभी षणम् ॥ १२१ ॥

दंष्ट्रा करालवदनं लेलिहानमिवांबरम् ॥

जाज्वल्यमानवपुषं पुच्छाच्छोटितमस्तकम् ॥ १२२ ॥

महाकण्ठकृतारावं सशब्द मिव तोयदम् ॥

समुच्छ्वसितकेशांतं दुर्निरीक्ष्यं सुरासुरैः ॥ १२३ ॥

नरसिंहमथो दृष्ट्वा निपपात पुनः क्षितौ ॥

विगृह्य केशपाशे तं भ्रामयामास चांबरम् ॥ १२४ ॥

भ्रामयित्वा शतगुणं पृथिव्यां समपोथयत् ॥

न ममार स दैत्येन्द्रो ब्रह्मणो वरकारणात् ॥ १२५ ॥

गगनस्थैस्तदा देवै रुच्चैः संस्मारितो हरिः ॥

दैत्यं जानुनि चानीय वक्षो हृष्टो निरीक्ष्य च ॥ १२६ ॥

जयजयेति यक्षानां सुराणां सोऽवधारयत् ॥

शब्दं कर्णे भुजौ सज्जौ कृत्वा तौ पद्मलांछितौ ॥ १२७ ॥

बिभेद वक्षो दैत्यस्य वज्रघातकिणांकितम्॥

नखैः कुन्दसुमप्रख्यैरस्थिसंघातकर्शितम् ॥ १२८ ॥

भिन्ने वक्षसि दैत्येन्द्रो ममारच पपात च ॥

तदा सहर्षमभवत्त्रैलोक्यं सचराचरम्॥ १२९ ॥

ममापि तृप्तिः सञ्जाता प्रसादात्तव केशव॥

यदा पुरत्रये दग्धे प्रसादाच्छंकरस्य च ॥ 7.2.18.१३० ॥

हिण्याक्षे पुनर्जाता सा काले विनिपातिते ॥

इदानीं नास्ति मे तृप्तिः कुत्र यामि करोमि किम्॥ १३१ ॥

पृथिव्यां क्षत्रियाः सन्ति न युध्यंते परस्परम्॥

देवानां दानवैः सार्द्धं नास्ति युद्धं कथं प्रभो ॥१३२॥

इदानीं बलिना व्याप्तं त्रैलोक्यं सचराचरम्॥

पञ्चमो योऽवतारस्ते न जाने किं करिष्यति ॥

वलिनिग्रहकालोऽयं तद्दर्शय जनार्दन ॥ १३३ ॥

॥ सारस्वत उवाच ॥ ॥

तदेतत्सकलं श्रुत्वा बभाषे वामनो मुनिम् ॥ १३४ ॥

॥ वामन उवाच ॥ ॥

शृणु नारद यद्वृत्तं हिण्यकशिपौ हते ॥

दैत्यराजः कृतो राजा प्रह्लादोऽतीव वैष्णवः ॥ १३५ ॥

तेन राज्यं धरापृष्ठे कृतं संवत्सरान्बहून्॥

तस्यापि कुर्वतो राज्यं विग्रहो हि सुरैः समम् ॥ १३६ ॥

नो पश्याम्यपि दैत्यानां पूर्ववैरमनुस्मरन्॥

उत्पाद्य पुत्रान्सबहून्राज्यं चक्रे स पुष्कलम्॥१३७॥

विरोचनाद्बलिर्जातो बाल एव यदाऽभवत् ॥

एकान्ते स हरिं ज्ञात्वा तदा योगेन केनचित् ॥ १३८ ॥

मुक्त्वा राज्यं प्रियान्पुत्रान्गतोऽसौ गिरिसानुषु ॥

कल्पान्तस्थायिनं देहं तस्य चक्रे जनार्द्दनः ॥ १३९ ॥

दैत्यानां दानवानां च बहूनां राज्यकारणे ॥

विवादोतीव संजातः को नो राजा भवेदिति ॥ 7.2.18.१४० ॥

॥ नारद उवाच ॥ ॥

हिण्याक्षस्य ये पुत्राः पौत्राश्च बलवत्तराः ॥

विरोचनप्रभृतयः सन्ति ये बलवत्तराः ॥ १४१ ॥

वृषपर्वापि बलवान्राज्यार्थे समुपस्थितः ॥

इन्द्रवित्तेशवरुणा वायुः सूर्योनलो यमः ॥ १४२ ॥

दैत्येन सदृशा न स्युर्बलरूपक्षमादिभिः ॥

औदार्यादिगुणैः कृत्वा सन्तत्या चासुराधिकः ॥ १४३ ॥

शुक्रेणा चार्यमाणास्ते युद्ध्यंते च परस्परम्॥

अमृताहरणे दौष्ट्यं यदा दैत्याः स्मरन्ति तत् ॥१४४॥

पीतावशेषममृतं कस्माद्यच्छंति देवताः ॥

नास्माकमिति संनह्य युध्यन्ते च परस्परम् ॥ १४५ ॥

कदाचिदपि नो युद्धं विश्रांतिमुपगच्छति ॥

एककार्योद्यता यस्माद्बहवो दैत्यदानवाः ॥ १४६ ॥

पीत्वाऽमृतं सुरा जाता अमरास्ते जयन्ति च ॥

देवदानवदैत्यानां गन्धर्वोरगरक्षसाम् ॥

विष्णुर्बलाधिको युद्धे तदेतत्कारणं वद ॥ १४७ ॥ ॥

॥ वामन उवाच ॥ ॥

अनादिनिधनः कर्त्ता पाता हर्त्ता जनार्दनः॥

एकोऽयं स शिवो देवः स चायं ब्रह्मसंज्ञितः ॥

एकस्य तु यदा कार्यं जायते भुवने नृप ॥ १४८ ॥

तस्य देहं समाश्रित्य मृत्युकार्यं कुर्वंति ते ॥

ब्रह्मांडं सकलं विष्णोः करदं वरदो यतः ॥

तस्माद्बलाधिको विष्णुर्न तथान्योऽस्ति कश्चन ॥ १४९ ॥

पालनायोद्यतो विष्णुः किमन्यैश्चर्मचक्षुभिः ॥

इन्द्राद्याश्च सुराः सर्वे विष्णोर्व्यापारकारिणः ॥ 7.2.18.१५० ॥

सृष्टिं कृत्वा ततो ब्रह्मा कैलासे संस्थितो हरः ॥

न शक्यते सुरैर्विष्णुर्भ्राम्यन्ते भुवनत्रये ॥ १५१ ॥

जगत्यस्मिन्यदा कश्चिद्वैपरीत्येन वर्तते ॥

तस्योच्छेदं समागत्य करोत्येव जनार्दनः ॥ १५२ ॥

त्वमेजय महाबाहो न मनो नारदाऽदयम् ॥

सर्वपापहरां दिव्यां तां कथां कथयाम्यहम् ॥ १५३ ॥

पुरा विवदतां तेषां दैत्यानां राज्यहेतवे ॥

प्रह्लादेन समागत्य व्यवस्था विहिता स्वयम् ॥ १५४ ॥

सर्वलक्षणसं पन्नो दीर्घायुर्बलवत्तरः ॥

यज्ञशीलः सदानंदो बहुपुत्रोतिदुर्जयः ॥ १५५ ॥

न युध्यते सुरैः साकं विष्णुं यो वेत्ति दुर्जयम् ॥

संग्रामे मरणं नास्ति यस्य यः सर्वदक्षिणः ॥ १५६ ॥

आत्मनो वचनं व्यर्थं न करोति कथंचन ॥

सर्वेषां पुत्रपौत्राणां मध्ये यो राजते श्रिया ॥ १५७ ॥

अभिषिक्तस्तु शुक्रेण स वो राजा भवेदिति ॥

गुरुप्रमाणमित्युक्त्वा ययौ यत्रागतः पुनः ॥ १५८ ॥

तथा च कृतवंतस्ते सहिता दैत्यदानवाः ॥

विरोचनप्रभृतयः पुत्राः पौत्राः स्वयंगताः ॥ १५९ ॥

प्रत्येकं वीक्षिताः सर्वे गुरुणा ज्ञानपूर्वकम् ॥

प्रह्लादेन गुणाः प्रोक्ता न ते संति विरोचने ॥7.2.18.१६०॥

अन्येषामपि दैत्यानां वृषपर्वापि नेदृशः ॥

यथा निरीक्षिताः पुत्रा बलिप्रभृतयो मुने ॥

सर्वान्संवीक्ष्य शुक्रेण बलौ दृष्टा गुणास्तथा ॥ १६१ ॥

बलिदेहेऽधिकान्दृष्ट्वा दैत्येभ्यो विनिवेदिताः ॥

बलिर्गुणाधिको दैत्याः कथं कार्यं भवेन्मया ॥ १६२ ॥

केनापि दैवयोगेन बलिरिंद्रो भविष्यति ॥

यादृशस्तु पिता लोके तादृशस्तु सुतो भवेत् ॥ १६३ ॥

पौत्रश्च निश्चितं तादृग्भवतीति न चेत्सुतः ॥

प्रह्लादस्तु महायोगी वैष्णवो विष्णुवल्लभः ॥ १६४ ॥

तस्माद्विरोचने केचिद्धिरण्यकशिपोर्गुणाः ॥

ज्येष्ठो विरोचनो राज्ये यदि चेत्क्रियतेऽसुराः ॥

नरसिंहः समागत्य निश्चितं मारयिष्यति ॥ १६५ ॥

मुक्तं विरोचनेनापि राज्यं मरणभीरुणा ॥

प्रह्लादस्य गुणाः सर्वे बलिदेहे व्यवस्थिताः ॥ १६६ ॥

एवं ते समयं कृत्वा बलिं राज्येऽभ्यषिंचय न् ॥

यः प्रह्लादः स वै विष्णुर्यो विष्णुः स बलिः स्वयम् ॥ १६७ ॥

अतो मित्रीकृतो देवैर्विग्रहैस्तु विवर्जितः ॥

एकीभावं कृतं सर्वं बलिराज्ये सुरासुरैः ॥ १६८ ॥

तस्यापि भाषितं श्रुत्वा देवेंद्रो मम मंदिरे ॥

समागता वालखिल्याः शप्तोहं वामनः कृतः ॥ १६९ ॥

प्रसाद्य ते मया प्रोक्ताः शापमुक्तिप्रदा मम ॥

भविष्यतीति तैरुक्तं बलिनिग्रहणादनु ॥ 7.2.18.१७० ॥

तवापि कौतुकं युद्धे बलिर्यज्ञं करोति च ॥

देवानां निग्रहो नास्ति सर्वे यज्ञे समागताः ॥ १७१ ॥

स मां यजति यज्ञेन वधं तस्य करोतु कः ॥

अहं च वामनो जातो नारदः कौतुकान्वितः ॥ १७२ ॥

विपरीतमिदं सर्वं वर्त्तते मम चेतसि ॥

तथाऽपि क्रमयोगेन सर्वं भव्यं करोम्यहम् ॥ १७३ ॥

॥ नारद उवाच ॥ ॥

प्रसादं कुरु देवेश युद्धार्थं कौतुकं मम ॥

एकेन ब्राह्मणेनाजौ हन्यंते क्षत्रिया यदा ॥

पित्रा प्रोक्तं च मे पूर्वं तदा युद्धं भविष्यति॥१७४॥

ब्राह्मणोसि भवाञ्जातः कदा युद्धं करिष्यसि ॥

विहस्य वामनो ब्रूते सत्यं तव भविष्यति ॥१७५॥

जमदग्निसुतो भूत्वा गुरुं कृत्वा महेश्वरम्॥

कार्त्तवीर्यं वधिष्यामि बहुभिः क्षत्रियैः सह॥१७६॥

समंतपंचके पंच करिष्ये रुधिरह्रदान् ॥

तत्राहं तर्पयिष्यामि पितॄनथ पितामहान् ॥ १७७ ॥

पुण्यक्षेत्रं करिष्यामि भवांस्तत्रागमिष्य ति ॥

परं च कौतुकं युद्धे भविष्यति तव प्रियम् ॥ १७८ ॥

ब्राह्मणेभ्यो ग्रहीष्यंति यदा कुं क्षत्रियाः पुनः ॥

तदैव तान्हनिष्यामि पुनर्दा स्यामि मेदिनीम् ॥ १७९ ॥

त्रिसप्तवारं दास्यामि जित्वा जित्वा वसुंधराम् ॥

शस्त्रन्यासं करिष्यामि निर्विण्णो युद्धकर्मणि ॥

विहरिष्यामि रम्येषु वनेषु गिरिसानुषु ॥ 7.2.18.१८० ॥

लंकायां रावणो राज्यं करिष्यति महाबलः ॥

त्रैलोक्यकंटकं नाम यदासौ धारयिष्यति ॥ १८१ ॥

तदा दाशरथी रामः कौसल्यानंदवर्द्धनः ॥

भविष्ये भ्रातृभिः सार्द्धं गमिष्ये यज्ञमंडपे ॥ १८२ ॥

ताडकां ताडयित्वाहं सुबाहुं यज्ञमंदिरे ॥

नीत्वा यज्ञाद्गमिष्यामि सीतायास्तु स्वयंवरे ॥ १८३ ॥

परिणेष्याभि तां सीतां भंक्त्वा माहेश्वरं धनुः ॥

त्यक्त्वा राज्यं गमिष्यामि वने वर्षांश्चतुर्दश ॥ १८४ ॥

सीताहरणजं दुःखं प्रथमं मे भविष्यति ॥

नासाकर्णविहीनां तां करिष्ये राक्षसीं वने ॥ १८५ ॥

चतुर्द्दशसहस्राणि त्रिशिरःखरदूषणान् ॥

द्हत्वा हनिष्ये मारीचं राक्षसं मृगरूपिणम् ॥१८६॥

हृतदारो गमिष्यामि दग्ध्वा गृध्रं जटायुषम् ॥

सुग्रीवेण समं मैत्रीं कृत्वा हत्वाऽथ वालिनम् ॥ १८७ ॥

समुद्रं बंधयिष्यामि नलप्रमुखवानरैः ॥

लंकां संवेष्टयिष्यामि मारयिष्यामि राक्षसान् ॥ १८८ ॥

कुम्भकर्णं निहत्याजौ मेघनादं ततो रणे ॥

निहत्य रावणं रक्षः पश्यतां सर्वरक्षसाम् ॥ १८९ ॥

विभीषणाय दास्यामि लंकां देवविनिर्मिताम्॥

अयोध्यां पुनरागत्य कृत्वा राज्यमकंटकम् ॥7.2.18.१९०॥

कालदुर्वाससोश्चित्रचरित्रेणामरावतीम् ॥

यास्येहं भ्रातृभिः सार्द्धं राज्यं पुत्रे निवेद्य च ॥१९१॥

द्वापरे समनुप्राप्ते क्षत्रियैर्बहुभिर्मही॥

भाराक्रांता न शक्नोति पातालं गंतुमुद्यता ॥१९२॥

मथुरायां तदा कर्त्ता कंसो राज्यं महासुरः ॥

शिशुपालजरासंधौ कालनेमिर्महासुरः ॥ १९३ ॥

पौंड्रको वासुदेवश्च बाणो राजा महासुरः ॥

गजवाजितुरंगाढ्या वध्यंते मे तदा मुने ॥ १९४ ॥

कलौ स्वल्पोदका मेघा अल्पदुग्धाश्च धेनवः ॥

दुग्धे घृतं न चैवास्ति नास्ति सत्यं जनेषु च ॥ १९५ ॥

चोरैरुपहता लोका व्याधिभिः परिपीडिताः ॥

त्रातारं नाभि गच्छंति युद्धावस्थां गता अपि ॥ १९६ ॥

क्षुद्राः पश्चिमवाहिन्यो नद्यः शुष्यंति कार्त्तिके ॥

एकादशीव्रतं नास्ति कृष्णा या च चतुर्द्दशी ॥१९७॥

न जानाति जनः कश्चिद्विक्रांतमपि स्वे गृहे ॥

दरिद्रोपहतं सर्वं संध्यास्नानविवर्जितम् ॥

भविष्यति कलौ सर्वं न तत्पूर्वयुगत्रये ॥ १९८ ॥

पितरं मातरं पुत्रस्त्यक्त्वा भार्यां निषेवते ॥

न गुरुः स्वजनः कश्चित्कोऽपि कं नानुसेवते ॥ १९९ ॥

यथायथा कलिर्व्याप्तिं करोति धरणीतले ॥

तथातथा जनः सर्व एकाकारो भविष्यति ॥ 7.2.18.२०० ॥

म्लेच्छैरुपहतं सर्वं संध्यास्नानविवर्जितम्॥

कल्किरित्यभिविख्यातो भविष्ये ब्राह्मणो ह्यहम् ॥२०१॥

म्लेच्छानां छेदनं कृत्वा याज्ञवल्यपुरोहितः ॥

बहुस्वर्णेन यज्ञेन यक्ष्ये निष्कृतिकारणात् ॥ २०२ ॥

भविष्यंत्यवतारा मे युद्धं तेषु भविष्यति ॥

इदानीं बलिना युद्धं करिष्यंति न देवताः ॥ २०३ ॥

स मां यजति दैत्येन्द्रो न मे वध्यो बलिर्भवेत् ॥

सर्वस्वदाननियमं करोति स महाध्वरे ॥ ॥ २०४ ॥

॥ सारस्वत उवाच ॥ ॥

इत्युक्त्वा नारदं देवो विसृज्य तमथाभ्यगात् ॥

द्रष्टुं बलिकृतं यज्ञं देवकार्यप्रसिद्धये ॥ २०५ ॥

वामनो नगरं गत्वा वीक्षमाणो गृहाद्गृहम् ॥

ब्राह्मणानां गृहं गत्वा भोजनं स तु याचते ॥ २०६ ॥

नित्यं स्नानपरो विप्रो वेदाध्ययनतत्परः ॥

वामनो लभते भिक्षां भोजनं द्विजमंदिरे ॥ २०७ ॥

चतुष्पथेषु रम्येषु देवतायतनेषु च ॥

आस्ते परिवृतो लोकैश्चालयन्विपुलां कटिम् ॥ २०८ ॥

शिरो विधूनते स्थूलं स्थूलस्कन्धो महाहनुः ॥

नृत्यते तालमानेन गायत्यतिमनोहरम्॥ २०९ ॥

वेदानधीते चतुरो वामनो द्विजसंसदि ॥

दैत्यानां तनयाः सर्वे ब्राह्मणानां तथैव च ॥ 7.2.18.२१० ॥

वामनं पर्युपासंते दिवारात्रं मनोरमम् ॥

अथ तैः सकलैर्नीतो वामनो यज्ञमंडपे ॥ २११ ॥

निश्चितं मठिकास्थानं याचितव्यो बलिस्त्वया ॥

तदास्माकं महच्छ्रेयो देशस्य नगरस्य च ॥ २१२ ॥

विज्ञप्तो वामनः सर्वैर्दैत्यद्विजकुमारकैः ॥

वामन वस्तव्यं दैत्येंद्रनगरे सदा ॥ २१३ ॥

॥ सारस्वत उवाच ॥ ॥

प्रविवेश तथेत्युक्त्वा वामनो यज्ञमंडपे ॥

ततः कोलाहलो जातो द्वाःस्थैर्द्वारि कृतो महान्॥ २१४ ॥

ब्राह्मणैर्बहुभिः सार्द्धं वेदानुच्चारयन्स्थितः ॥

ततो वेदध्वनिर्जातो महान्वै यज्ञमंडप्रे ॥ २१५ ॥

प्रविष्टौ प्रथमं दैत्यौ दैत्याय विनिवेदितः ॥

द्रष्टुं समागतो देव ब्राह्मणो वामनोऽध्वरे ॥ २१६ ॥

भवंतं कौतुकात्तावद्द्वारदेशे समाविशत् ॥

एक एव यथायाति वामनस्तव सन्निधौ ॥ २१७ ॥

निरीहो वामनो देव यावत्तत्रैव किंचन ॥

वेदानां तु ध्वनिं कृत्वा चतुर्णामेकवक्त्रतः ॥ २१८ ॥

बलिर्हृष्टोऽब्रवीद्वाक्यं द्वाःस्थमेनं प्रवेशय ॥

पूजयिष्यामि विप्रेद्रं दास्ये चास्य यदीप्सितम् ॥२१९॥

स्मरामि स्मृतिवाक्यानि यानि प्राह गुरुर्मम ॥

किंचिद्वेदमयं पात्रं किंचित्पात्रं तपोमयम्॥ 7.2.18.२२० ॥

आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ॥

यज्ञे प्रवर्त्तमाने तु दातव्या दक्षिणा मया ॥२२१॥

वामनो न विचार्यस्तु सत्यमस्तु वचो मम ॥

इति श्रुत्वा गुरुः शुक्रो वारयामास तं बलिम्॥ २२२ ॥

शुक्र उवाच ॥ ॥

द्वारि पूज्या द्विजाः सवें दीनांध कृपणादयः ॥

बधिरा वामनाः कुब्जा रोगिणो ये तु निष्ठुराः ॥२२३॥

सुवर्णरजतैर्वस्त्रैर्वामनो द्वारि पूज्यताम् ॥

चतुर्णां तु वृथा जन्म वृथा दानानि षोडश ॥ २२४ ॥

अपुत्राणां वृथा जन्म ये च धर्मबहिष्कृताः ॥

परपाकं च येश्नंति परदाररताश्च ये ॥२२५॥

अन्यायेनार्जितं वित्तं न देयं श्रेय इच्छता ॥

व्यर्थमब्राह्मणे दानमारूढपतिते तथा ॥२२६॥

संध्याहीने द्विजे नष्टे पतिते तस्करे तथा ॥

गुरोश्चाप्रीतिजनके पितृमातृपराङ्मुखे ॥ ॥ २२७ ॥

ब्रह्मबन्धौ च यद्दतं यद्दत्तं वृषलीपतौ ॥

वेदविक्रयके चैव कृतघ्ने ग्रामयाजके ॥ २२८ ॥

स्त्रीनिर्जिते च यद्दत्तं व्यालग्राहे तथैव च ॥

परिवारेषु यद्दत्तं वृथा दानानि षोडश ॥ २२९ ॥

॥ सारस्वत उवाच ॥ ॥

अत्रांतरे बलिर्ब्रूते नैवं वाच्यं त्वया गुरो ॥

वेदानधीते यः कश्चित्स मे विष्णुः समागतः ॥ 7.2.18.२३० ॥

न विलंबस्तु कर्त्तव्यः श्रोत्रिये गृहमागते ॥

अभ्युत्थानेन वचसा पादप्रक्षालनेन च ॥ २३१ ॥

यथा शक्त्या प्रदातव्यं भोजनं गृहमेधिना ॥

अपूजितो यदा याति वामनो मंडपाद्बहिः ॥ २३२ ॥

तदायं व्यर्थतां याति यज्ञः सर्वस्वदक्षिणः ॥

अत्रांतरे समानीतो वामनो बलिसंनिधौ ॥ २३३ ॥

आयांतं ददृशे दैत्यो वामनं विष्णुरूपिणम् ॥

जाज्वल्यमानं वपुषा पिंगलं सूर्यसंनिभम् ॥२३४॥

उत्थायाभिमुखः प्रायान्नमस्कृत्याग्रतः स्थितः ॥

धन्योऽहं यस्य मे यज्ञे प्राप्तो विष्णुसमो द्विजः ॥ २३५ ॥

वेदिमध्ये समानीतो ददौ तस्यासनं बलिः ॥

पाद्यमाचमनीयं च दत्त्वार्घ्यं विष्टरं बलिः ॥

श्रीखंडगंधपुष्पाद्यैः पूजयित्वाग्रतः स्थितः ॥ २३६ ॥

मधुपर्कं च गां तस्मै सत्वरं स निवेद्य च ॥

आघ्राते मधुपर्के च वामनेन ततः परम् ॥ २३७ ॥

स्वागतं बलिना प्रोक्तं स्वस्तीत्युक्तं द्विजन्मना ॥

अहमर्थी समायातो दीयतां वद किं विभो ॥ २३८ ॥

मेदिनीं देहि मे दैत्य कियन्मात्रां द्विजोत्तम ॥

वासार्थं मम दैत्येन्द्र दीयतां मे क्रम त्रयम् ॥ २३९ ॥

विधाय मठिकां दिव्यां शिष्यानध्यापयाम्यहम् ॥

दत्तं क्रमत्रयं तुभ्यं गृहीतं वामनोऽब्रवीत् ॥ 7.2.18.२४० ॥

मा देहीत्यवदच्छुक्रो विष्णुरेव सनातनः ॥

हृष्टो ब्रूते बलिः शुक्रं पात्रं स्यात्किमतः परम् ॥ २४१ ॥

सव्यं कृत्वा बलिर्दर्भान्साक्षतान्दक्षिणे करे ॥

प्रयोगं न गुरुश्चक्रे न मुंचति जलं करे ॥ २४२ ॥

विस्मिता ऋषयः सर्वे होतारो ये सभासदः ॥

ब्राह्मणा बटवो दैत्या भार्यापुत्राश्च बांधवाः ॥ २४३ ॥

दत्तं गृहीतमित्युक्ते कस्मात्तोयं न मुञ्चति ॥

वामनाय करे तोयं विवेकाय प्रदीयते ॥ २४४ ॥

यद्दानं वचसा दत्तं कर्मणा नोपपाद्यते ॥

विधाय नरके पूये यजमानं न निष्कृतिः ॥ २४५ ॥

उशना प्राह दैत्येन्द्र वामनो हरिरित्ययम् ॥

केनापि दैवयोगेन त्वां द्रष्टुं समुपागतः ॥ २४६ ॥

अप्रियं वा प्रियं वापि न जाने किं करिष्यति ॥

बभाषे भार्गवं यष्टा श्रूयतां वचनं गुरो ॥ २४७ ॥

प्रोच्यते दानकालेषु यजमानैर्द्विजैरपि ॥

अहमिन्द्रो द्विजो विष्णुर्द्रव्यमादित्यदेवता ॥

तत्कथं न मया देयं विष्णवे प्रीयतामिति ॥ २४८ ॥

इत्युक्त्वा स ददौ तोयं वामनाय करे बलिः ॥

ततः किमिदमित्युक्त्वा संस्थितो मण्डपाद्बहिः ॥२४९॥

मध्येऽपि वामनो विप्रो बलिमात्रो वभूव सः ॥

दत्तहस्तोऽसुरेन्द्रेण ग्रहीतुं तु पदत्रयम् ॥7.2.18.२५० ॥

यजमानद्विजौ हष्टौ दृष्टौ यज्ञे सुरादिभिः ॥

ववृधे वामनोतीव कृत्वा रूपं चतुर्भुजम् ॥२५१॥

नारदोऽपि समायातो बभाषे कि कृतं बले ॥

शिष्याभ्यां सहितो हृष्टो नरीनर्ति पुरः स्थितः ॥ २५२ ॥

गृहाण दक्षिणां देव सभार्यो भाषते बलिः ॥

अद्य किं न मया प्राप्तं यद्गृह्णाति जनार्द्दनः ॥ ॥ २५३ ॥

सार्द्धक्रमक्षयं कृत्वा धरणीं याचते त्रयम् ॥

यदस्ति तेन कर्तव्यः सन्तोषो मधुसूदन ॥ २५४ ॥

वर्द्धमानं हरिं दृष्ट्वा ब्राह्मणा ऋषयः सुराः ॥

तुष्टुवुर्गगने यांतं भगवंतं जनार्द्दनम् ॥ २५५ ॥

॥ देवर्षय ऊचुः ॥ ॥

जय देव जयानन्त जय विष्णो जयाऽच्युत ॥

जय मत्स्य नमस्तुभ्यं जय कूर्म धराधर ॥ २५६ ॥

वराहाय नमस्तुभ्यं नरसिंह नमोनमः ॥

जामदग्न्य नमस्तुभ्यं जय राम सलक्ष्मण ॥ २५७ ॥

जय कृष्ण जगन्नाथ जय देवकिनन्दन ॥

नमामि बुद्धं कृष्णं च कल्किनं प्रणमाम्यहम् ॥२५८॥

॥ सारस्वत उवाच ॥ ॥

नरीनर्ति तथा स्तौति नारदो गगनं गतः ॥

योगिनः सनकाद्या ये स्तुवंति च जनार्दनम् ॥ २५९ ॥

अन्तरिक्षे गते कृष्णे वर्द्धमाने बलेः पुरः ॥

ऊर्ध्ववक्त्राः स्थिताः सर्वे निरी क्षन्ते दिवाकरम् ॥ 7.2.18.२६० ॥

दृष्टच्छत्राकृतिस्तावत्पश्चादूर्ध्वं गतो हरिः ॥

चूडामणिरिवाभाति भास्करो हरिमस्तके ॥ २६१ ॥

दैत्यैर्निरीक्षितः सम्यग्ललाटे तिलकायते ॥

हरिः संवर्द्धते यावत्कर्णेऽसौ कुण्डलायते ॥२६२॥

वर्द्धमानस्य च हरेर्हृदये कौस्तुभायते ॥

इंद्राद्या देवता रुद्रा वसवो गगने स्थिताः ॥ २६३ ॥

ऊर्ध्वं पुनर्यत्र हरिर्न तत्र गगनं मतम् ॥

वनमाला तदा कण्ठे वासवेन निवेशिता ॥ २६४ ॥

पृथिवी कम्पते सर्वा दिविस्थं सूर्यमण्डलम् ॥

किं भविष्यति दैत्यास्ते भीताः पश्यंति भास्करम् ॥ २६५ ॥

नाभौ पद्मायते सूर्यः कटौ च रशनायते ॥

एवं संवर्द्धितो विष्णुर्जगृहे च पदद्वयम् ॥ २६६ ॥

स्थानं नास्ति तृतीयस्य ब्रह्मांडं सकलं कृतम् ॥

अहर्दण्डो जगत्स्रष्टा ब्रह्मदंडायते तदा ॥ २६७ ॥

देवदानव गंधर्वमनुष्योरगपन्नगैः ॥

पूज्यते चरणो विष्णोः स्तूयते चानुमीयते ॥ २६८ ॥

धर्मात्मा यतदण्डो हि गंधर्वैर्गीयते मुहुः ॥

ज्योतिश्चक्राक्षदंडः किं हरिणा निर्मितः स्वयम् ॥ २६९ ॥

जित्वेदं भुवनं गंगा ध्वजदंडोऽमरैः कृतः ॥

त्रिविक्रमांघ्रिदण्डोऽयं कीर्तिदंडायते ध्रुवम्॥ 7.2.18.२७० ॥

वेगेनाक्षिप्य हरिणा नीतो ब्रह्मांडमस्तके ॥

पादस्तन्मस्तकं भित्त्वा बहिर्यास्यति वेगतः ॥ २७१ ॥

तावद्ब्रह्मांडवेगोऽयं विराडिति हि संज्ञितः ॥

स सर्व बीजरूपो हि परमात्मेति गद्यते ॥ २७२ ॥

तेनेदं सकलं जातं पादस्याग्रे व्यवस्थितम्॥

ब्रह्मांडभेदनं कृत्वा न गन्तव्यं बहिस्त्वया ॥ २७३ ॥

तेनैव सह ब्रह्मांडे पफाल चरणो हरेः ॥

ब्रह्मांडं जर्जरं जातं पादसंकोचनादपि ॥ २७४ ॥

भिन्ने तस्मिन्समायातं ब्राह्मं तोयं जगत्त्रये ॥

विष्णुपादोद्भवा गंगा मस्तकान्निःसृता तदा ॥ २७५ ॥

त्रैलोक्यप्लाविनी देवी या रुद्रेण स्वयं धृता ॥

स्वर्धुनी पूज्यते स्वर्गे गंगेति गां गता सती ॥ ॥ २७६ ॥

पाताले सा यदा प्राप्ता ख्याता त्रिपथगैव सा ॥

यस्याः स्मरणमात्रेण सर्वपापक्षयो भवेत् ॥ २७७ ॥

दर्शनादश्वमेधस्य संपूर्णस्य फलं लभेत् ॥

स्नानमात्रेण नश्येत सप्तजन्मकृतं त्वघम् ॥२७८॥

स्नात्वा संपूजयेद्यस्तु देवौ हरिहरौ नरः ॥

इन्द्रलोकमतिक्रम्य विष्णुलोके महीयते ॥ ॥ २७९ ॥

विष्णुपादोदकं पीत्वा ज्ञात्वा तत्त्वानि संयमी ॥

उपोष्य दिवसं विष्णोर्मुक्तिं गच्छति देहवान्॥ 7.2.18.२८० ॥

शुद्धस्वभावसत्त्वस्था विरक्ता जन्मभूमिषु ॥

संसारबंधनं छित्त्वा याति ते परमां गतिम् ॥ २८१ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये बलिनिग्रहवृत्तांतवर्णनंनामाष्टादशोऽध्यायः ॥ १८ ॥

खण्डः ७ (प्रभासखण्डः) · वस्त्रापथक्षेत्रमाहात्म्यम् — Adhyāya 19

॥ राजोवाच ॥ ॥

गृहीत्वा दक्षिणां दैत्यान्महाविष्णुर्जनार्दनः ॥।

चकार किं ममाचक्ष्व परं कौतूहलं हि मे ॥ १ ॥

॥ सारस्वत उवाच ॥ ॥

एवं स्तुतः सुरैर्देवो गृहीत्वा मेदिनीं हरिः ॥

बलिं निर्वासयामास संपूर्णे यज्ञकर्मणि ॥

यज्ञांते दक्षिणां लब्ध्वा संपूर्णोऽभूदथाध्वरः ॥ २ ॥

भगवानप्यसंपूर्णे तृतीये तु क्रमे विभुः ॥

समभ्येत्य बलिं प्राह ईषत्प्रस्फुरिताधरः ॥ ३ ॥

ऋणे भवति दैत्येन्द्र बंधनं घोरदर्शनम् ॥

त्वं पूरय पदं तन्मे नोचेद्बन्धं प्रतीच्छ भोः ॥ ४ ॥

तन्मुरारिवचः श्रुत्वा पुरो भूत्वा बलेः सुतः ॥

बाणो वामनमाचष्टे तदा तं विश्वरूपिणम् ॥ ५ ॥

कृत्वा महीमल्पतरां वपुः कृत्वा तु वामनम्॥

पदत्रयं याचयित्वा विश्वरूपमगाः कथम् ॥ ६ ॥

यदि तृतीयं क्रमणं याचसे जगदीश्वर ॥

पुनर्वामनतां याहि बलिर्दास्यति तत्पदम्॥ ७ ॥

यादृग्विधाय बलिना वामनायोदकं कृतम्॥

तत्तादृशाय दातव्यमथ किं विश्वरूपिणे ॥ ८ ॥

भवत्कृतमिदं विश्वं विश्वस्मिन्वर्तते बलिः ॥

छद्मना नैव गृह्णन्ति साधवो ये महेश्वर ॥ ९ ॥

जगदेतज्जगन्नाथ तावकं यदि मन्यसे ॥

ज्ञात्वा बलिममर्यादं भवद्भक्तिपराङ्मुखम् ॥ 7.2.19.१० ॥

कंठपाशेन निष्कास्य केन वै वार्यते भवान्॥

गोपालमन्यं कुरुते रक्षणाय च गोपतिः ॥

सुतृणं चारयन्पूर्वो गोपः किं कुरुते तदा ॥ ११ ॥

इत्येवमुक्ते तेनाथ वचने बलिसूनुना ॥

प्रोवाच भगवान्वाक्यमादिकर्ता जनार्दनः ॥१२॥

यान्युक्तानि वचांसीत्थं त्वया बालेन सांप्रतम्॥

तेषां त्वं हेतुसंयुक्तं शृणु प्रत्युत्तरं मम ॥ १३ ॥

पूर्वमुक्तस्तव पिता मया बाण पदत्रयम् ॥

देहि मह्यं प्रमाणेन तदेतत्समनुष्ठितम् ॥ १४ ॥

किं न वेत्ति प्रमाणं मे बलिस्तव पिता सुत ॥

बलेरपि हितार्थाय कृतमेतत्पदत्रयम् ॥ १५ ॥

तस्माद्यन्मम बालेय त्वत्पित्रांऽबु करे महत् ॥

दत्तं तेनास्य सुतले कल्पं यावद्वसिष्यति ॥ १६ ॥

गते मन्वन्तरे बाण श्राद्धदेवस्य साम्प्रतम् ॥

सावर्णिके त्वागते च बलिरिन्द्रो भविष्यति ॥ १७ ॥

इति प्रोक्त्वा बलिसुतं बाणं देवस्त्रिविक्रमः ॥

प्रोवाच बलिमभ्येत्य वचनं मधुराक्षरम् ॥ १८ ॥

॥ श्रीभगवानुवाच ॥ ॥

अपूर्णदक्षिणे यागे गच्छ राजन्महातलम् ॥

सुतलंनाम पातालं वस तत्र निरामयः ॥ १९ ॥

॥ बलिरुवाच ॥ ॥

सुतलस्थस्य मे नाथ कथं चरणयोस्तव ॥

दर्शनं पूजनं भोगो निवसामि यथासुखम् ॥ 7.2.19.२०

॥ श्रीभगवानुवाच ॥ ॥

दैत्येन्द्र हदये नित्यं तावके निवसाम्यहम् ॥

अतस्ते दर्शनं प्राप्तः पुनः स्थास्ये तवान्तिकम् ॥ २१ ॥

तथान्यमुत्सवं पुण्यं वृत्ते शक्रमहोत्सवे ॥

दीपप्रतिपन्नामाऽसौ तत्र भावी महोत्सवः ॥ २२ ॥

तत्र त्वां नरशार्दूला हृष्टाः पुष्टाः स्वलंकृताः ॥

पुष्पदीपप्रदानेन अर्चयिष्यंति यत्नतः ॥ ॥ २३ ॥

तत्रोत्सवः पुण्यतमो भविष्यति धरातले ॥

तव नामांकितो दैत्य तेन त्वं वत्सरं सुखी ॥ २४ ॥

भविष्यसि नरा ये तु दृढभक्तिसहा न्विताः ॥

त्वामर्चयन्ति विधिवत्तेऽपि स्युः सुखभागिनः ॥ २५ ॥

यथैव राज्यं भवतस्तु सांप्रतं तथैव सा भाव्यथ कौमुदीति ॥

इत्येवमुक्त्वा मधुमदितीश्वरं निवासयित्वा सुतलं सभार्यकम् ॥ २६ ॥

उर्वी समादाय जगाम तूर्णं स शक्रसद्मामरसंघजुष्टम् ॥

दत्त्वा मघोने मधुजित्त्रिविष्टपं कृत्वा तु देवान्मखभागभोगिनः ॥ २७ ॥

अन्तर्दधे विश्वपतिर्महेशः संपश्यतां वै वसुधाधिपानाम् ॥ २८ ॥

गृहीत्वेति बले राज्यं मनुपुत्रे नियोजितम् ॥

द्वीपांतरे च ते दैत्याः प्रेषिताश्चाज्ञया स्वयम् ॥२९॥

पातालनिलया ये तु ते तत्रैव निवेशिताः ॥

देवानां परमो हर्षः संजातो बलिनिग्रहे ॥7.2.19.३०॥

निवासाय पुनश्चक्रे वामनो वामनो मनः ॥

तत्र क्षेत्रे स्वनगरे वामनः स न्युवास ह ॥ ३१ ॥

॥ सारस्वत उवाच ॥ ॥

प्रादुर्भावस्ते कथितो नरेन्द्र पुण्यः शुचिर्वामनस्याघहारी ॥

स्मृते यस्मिन्संश्रुते कीर्तिते च पापं यायात्संक्षयं पुण्यमेति ॥ ३२ ॥

॥ ईश्वर उवाच ॥ ॥

इति सारस्वतवचः श्रुत्वा भोजः स भूपतिः ॥

नमस्कृत्य मुनिश्रेष्ठं पूजयामास भक्तितः ॥ ३३ ॥

ततो यथोक्तविधिना स भोजो नृपसत्तमः ॥

वस्त्रापथक्षेत्र यात्रां परिवारजनैः सह ॥

कृत्वा कृतार्थतां प्राप्तो जगामान्ते परं पदम् ॥ ३४ ॥

एतन्मया पुण्यतमं प्रभासक्षेत्रे च वस्रापथमीरितं ते ॥

श्रुत्वा पठित्वा परया समेतो भक्त्या तु विष्णोः पदमभ्युपैति ॥ ३५ ॥

यथा पापानि धूयंते गंगावारिविगाहनात् ॥

तथा पुराणश्रवणाद्दुरितानां विना शनम् ॥ ३६ ॥

इदं रहस्यं परमं तवोक्तं न वाच्यमेतद्धरिभक्तिवर्जिते ॥

द्विजस्य निन्दानिरतेऽतिपापे गुरावभक्ते कृतपापबुद्धौ ॥ ३७ ॥

इदं पठेद्यो नियतं मनुष्यः कृतभावनः ॥

तस्य भक्तिः शिवे कृष्णे निश्चला जायते धुवम् ॥ ३८ ॥

तद्भक्त्या सकलानर्थान्प्राप्नोति पुरुषोत्तमः ॥।

पुराणवाचिने दद्याद्गोभूस्वर्णविभूषणम् ॥३९॥

वित्तशाठ्यं न कर्तव्यं कुर्वन्दारिद्र्यमाप्नुयात् ॥

त्रिःकृत्वा प्रपठञ्छृण्वंन्सर्वान्कामानवाप्नुयात् ॥7.2.19.४०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये बलये वामनकृतवरप्रदानवृत्तान्तवर्णन पूर्वकं वस्त्रापथक्षेत्रयात्रामाहात्म्य सारस्वतभोजसंवादसमाप्तिपुरःसर वस्त्रापथक्षेत्रमाहात्म्यसमाप्तिवर्णनं नामैकोनविंशतितमोऽध्यायः ॥ १९ ॥ ॥

इति श्रीस्कान्दे महापुराणे सप्तमे प्रभासखण्डे द्वितीयं वस्त्रापथक्षेत्रमाहात्म्यं सम्पूर्णम् ॥ ( ७ - २) ॥