8. Skanda Purāṇa (part 8 of 9)
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 3
ऋषय ऊचुः॥
कथितो भवता सर्गः प्रतिसर्गस्तथैव च॥
वंशानुवंशचरितं पुराणानामनुक्रमः॥१॥
मन्वन्तरप्रमाणं च ब्रह्मांडस्य च विस्तरः॥
ज्योतिश्चक्रस्वरूपं च यथावदनुवर्णितम्॥
श्रोतुमिच्छामहे त्वत्तः सांप्रतं तीर्थविस्तरम्॥२॥
पृथिव्यां यानि तीर्थानि पापघ्नानि शुभानि च॥
तानि सूतज कार्त्स्न्येन यथावद्वक्तुमर्हसि॥३॥
सूत उवाच॥
इदं पृष्टं पुरा देव्या कैलासशिखरोत्तमे॥
नानाधातुविचित्रांगे नानारत्नसमन्विते॥४॥
नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते॥
यक्षविद्याधराकीर्णे ह्यप्सरोगणसेविते॥५।
तत्र ब्रहमा च विष्णुश्च स्कन्दनन्दिगणेश्वराः॥
चंद्रादित्यौ ग्रहैः सार्धं नक्षत्रध्रुवमण्डलम्॥६॥
वायुश्च वरुणश्चैव कुबेरो धनदस्तथा॥
ईशानश्चाग्निरिंद्रश्च यमो निर्ऋतिरेव च॥७॥
सरितः सागराः सर्वे पर्वता उरगास्तथा॥
ब्राह्म्याद्या मातरश्चैव ऋषयश्च तपोधनाः॥८॥
मूर्तिमंति च तीर्थानि क्षेत्राण्यायतनानि च॥
दानवासुरदैत्याश्च पिशाचा भूतराक्षसाः॥7.1.3.१०
तत्र सिंहासनं दिव्यं शतयोजनविस्तृतम्॥११।
लक्षायुतसहस्रैश्च रुद्रकोटिभिरावृतम्॥
तन्मध्ये सर्वतोभद्रं सिंहद्वारैः सुतोरणैः॥१२॥
स्वच्छमौक्तिकसंकाशं प्राकारशिखरावृतम्॥
नन्दीश्वरमहाकालद्वारपालगणैर्वृतम्॥१३॥
किंकिणीजालमुखरैः सत्यताकैरलंकृतम्॥
वितानच्छत्रखंडैश्च मुक्तादामप्रलंबितैः॥१४॥
घंटाचामरशोभाढयैर्दर्पणैश्चोपशोभितम्॥
कलशैर्द्वारविन्यस्तरत्नपल्लवसंयुतैः॥१५॥
चित्रितं चित्रशास्त्रज्ञै रत्नचूर्णैः समु्ज्वलैः॥
स्वस्तिकैः पत्रवल्याद्यैर्लिंगोद्भवलतादिभिः॥१६॥
शतसिंहासनाकीर्णं वेदिकाभिश्च शोभितम्॥
आसीनै रुद्रवृन्दैश्च रुद्रकन्याकदम्बकैः॥१७॥
लक्षपत्रदलाढ्यैश्च श्वेतपद्मैश्च भूषितम्॥
अप्सरोभिः समाकीर्णं पुष्पप्रकरविस्तृतम्॥१८॥
धूपितं धूपवर्त्तीभिः कुंकुमोदकसेचितम्॥
वंशवीणामृदंगैश्च गोमुखैर्मुखवादनैः॥१९॥
शंखभेरीनिनादेन दुन्दुभिध्वनितेन च॥
गर्जद्भिर्गणवृन्दैश्च मेघस्वनितनिस्वनैः॥7.1.3.२० ॥
गणानां स्तोत्रशब्देन सामवेदरवेण च॥
प्रेक्षणीयैर्महानादैर्गेयहुङ्कारशोभितम्॥२१॥
वृषनर्दितशब्देन गजवाजिरवेण च॥
कांचीनूपुरशब्देन समाकीर्णदिगंतरम्॥२२॥
सर्वसंपत्करं श्रीमच्छंकरस्यैव मंदिरम्॥
वंश वीणामृदंगैश्च नादितं तत्र तत्र ह ॥
ऋग्वेदो मूर्तिमांश्चैव शक्रनीलसमद्युतिः ॥ २३ ॥
दिव्यगन्धानुलिप्तांगो दिव्याभरणभूषितः ॥
संस्थितः पूर्वतस्तस्य दीप्यमानः स्वतेजसा ॥ २४ ॥
उत्तरेण यजुर्वेदः शुद्धस्फटिकसन्निभः ॥
दिव्यकुण्डलधारी च महाकायो महाभुजः ॥ २५ ॥
स्थितः पश्चिम दिग्भागे सामवेदः सनातनः ॥
रक्तांबरधरः श्रीमान्पप्ररागसमप्रभः ॥२६॥
स्रग्दामधारी चित्रश्च गीतभूषणभूषितः ॥
अथवांऽजनवच्छयामः स्थितो दक्षिणतस्तथा ॥ २७ ॥
पिंगाक्षो लोहितग्रीवो हरिकेशो महातनुः ॥
इतिहासषडंगानि पुराणान्यखिलानि च ॥ २८ ॥
वेदोपनिषदश्छन्दो मीमांसारण्यकं तथा ॥
स्वाहाकारवषट्कारौ रहस्यानि तथैव च ॥२९॥
एतैः समन्वितैश्चैव तत्र ब्रह्मा स्वयं स्थितः ॥
शक्तिरूपधरैर्मन्त्रैर्योगैश्वर्यसमन्वितैः॥ ॥ 7.1.3.३० ॥
सहस्रपत्रकमलैरंकितैः सुरपूजितैः ॥
पूजितैर्गणरुद्रैश्च ब्रह्मविष्विंद्रवंदितैः ॥३१॥
चामराक्षेपव्यजनैर्वीजितैश्च समन्ततः ॥
शोभितश्च सदा श्रीमांश्चंद्रकोटिसमप्रभः ॥ ३२ ॥
ज्ञानामृतसुतृप्तात्मा योगैश्वर्यप्रसादकः ॥
योगींद्रमानसांभोज राजहंसो द्विजोत्तमः ॥ ३३ ॥
अज्ञानतिमिरध्वंसी षट्त्रिंशत्तत्त्वभूषणः ॥
सर्वसौख्यप्रदाता च तत्रास्ते चंद्रशेखरः ॥३४॥
तस्योत्संगगता देवी तप्तकांचनसप्रभा ॥
पूजितो योगिनीवृन्दैः साधकैः सुरकिन्नरैः ॥ ३५ ॥
सर्वलक्षणसंपूर्णा सर्वाभरणभूषिता ॥
योगसिद्धिप्रदा नित्यं मोक्षाभ्युदयदायिनीम् ॥ ३६ ॥
सौभाग्यकदलीकन्दमूलबीजं च पार्वती ॥
देवस्य मुखमालोक्य विस्मिता चारुलोचना ॥ ३७ ॥
आनंदभावं संज्ञाय आनन्दास्राविलेक्षणम् ॥
उवाच देवी मधुरं कृतांजलिपुटा सती ॥ ३८ ॥ ॥
देव्युवाच ॥ ॥
जन्मकोटिसहस्राणि जन्मकोटिशतानि च ॥
शोधितस्त्वं जगन्नाथ मया प्राणनचिंतया ॥ ३९ ॥
अर्द्धांग संस्थया वापि त्वद्वक्त्रध्यानकाम्यया ॥
तथापि ते जगन्नाथ नांतो लब्ध्वो महेश्वर ॥ 7.1.3.४० ॥
अनन्तरूपिणे तुभ्यं देवदेव नमोऽस्तु ते ॥
नमो वेदरहस्याय नमो वेदैः स्तुताय च ॥ ४१ ॥
श्मशानरतिनित्याय नमो गगनचारिणे ॥
ज्येष्ठसामरहस्याय शतरुद्रप्रियाय च ॥ ४२ ॥
नमो वृषकृतांकाय यजुर्वेदधराय च ॥
ब्रह्मांडकोटिसंलग्नमालिने गगनात्मने ॥ ४३ ॥
मणिचित्रितकन्दाय नमः सर्वार्थसिद्धये ॥
नमो वेदस्वरूपाय द्विज सिद्धिप्रियाय च ॥ ४४ ॥
पुंस्त्रीविकाररूपाय नमश्चंद्रार्द्धधारिणे ॥
नमोग्नये सहोमाय आदित्यवरुणाय च ॥ ४५ ॥
पृथिव्यै चांतरिक्षाय वायवे दीक्षिताय च ॥
संयोगाय वियोगाय धात्रे कर्त्रेऽपहारिणे ॥ ४६ ॥
प्रदीप्तशूलहस्ताय ब्रह्मदण्डधराय च ॥
नमः पतीनां पतये महतां पतये नमः ॥।. ॥ ४७ ॥
नमः कालाग्निरुद्राय सप्तलोकनिवासिने ॥
त्वं गतिः सर्वभूतानां भूतानां पतये नमः ॥ ४८ ॥
नमस्ते भगवन्रुद्र नमस्ते भगवञ्छिव ॥
नमस्ते परतः श्रेष्ठ नमस्ते परतः पर ॥ ४९ ॥
जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो ॥
तत्क्षन्तव्यं महेशान ज्ञानदिव्य नमोऽस्तु ते ॥7.1.3.५० ॥
॥ ईश्वर उवाच ॥ ॥
ममोत्संगस्थिता देवि किं त्वं सास्राविलेक्षणा ॥
अद्यापि किमपूर्णं ते तत्सर्वं करवाण्यहम् ॥ ५१ ॥
वरं ब्रवीहि भद्रं ते स्तवेनानेन सुव्रते ॥
ददामि ते न संदेहः शोकं त्यज महेश्वरि ॥ ५२ ॥
निष्कले सकले देवि स्थूले सूक्ष्मे चराचरे ॥
न तत्पश्यामि देवेशि यत्त्वया रहितं भवेत् ॥ ५३ ॥
अहं ते हृदये गौरि त्वं च मे हृदि संस्थिता ॥
अहं भ्राता च पुत्रश्च बंधुर्भर्ता तथैव च ॥ ५४ ॥
त्वं तु मे भगिनी भार्या दुहिता बांधवी स्नुषा ॥
अहं यज्ञपतिर्यज्वा त्वं च श्रद्धा सदक्षिणा ॥ ५५ ॥
ओंकारोऽहं वषट्कारः सामाहमृग्यजुस्तथा ॥
अहमग्निश्च होता च यजमानस्तथैव च ॥ ५६ ॥
अध्वर्युरहमुद्गाता ब्रह्माहं ब्रह्मवित्तथा ॥
त्वं तु देव्यरणी चैव पत्नी तु परिकीर्त्यसे ॥ ५७ ॥
स्वाहा स्वधा च सुश्रोणि त्वयि सर्वं प्रतिष्ठितम् ॥
अहमिष्टो महायज्ञः पूर्वो यज्ञस्त्वमुच्यसे ॥ ५८ ॥
पुरुषोऽहं वरारोहे प्रकृतिस्त्वं निगद्यसे ॥
अहं विष्णुर्महावीर्यस्त्वं लक्ष्मीर्लोकभाविनी ॥ ५९ ॥
अहमिन्द्रो महातेजाः प्राची त्वं परमेश्वरी ॥
प्रजापतीनां रूपेण सर्वमाहं व्यवस्थितः ॥ 7.1.3.६० ॥
तेषां या नायिकास्तास्त्वं रूपैस्तैस्तैरवस्थिता ॥
दिवसोऽहं महादेवि रजनी त्वं निगद्यसे ॥ ६१ ॥
निमेषोऽहं मुहूर्तश्च त्वं कला सिद्धिरेव च ॥
अहं तेजोऽधिकः सूर्यस्त्वं तु संध्या प्रकीर्त्त्यसे ॥ ६२ ॥
अहं बीजधरः श्रेष्ठस्त्वं तु क्षेत्रं वरानने।
अहं वनस्पतिः प्लक्षस्त्वं वनस्पतिरुच्यसे ॥ ॥ ६३ ॥
शेषरूपधरो नित्ये फणामणिविभूषितः ॥
रेवती त्वं विशालाक्षि मदविभ्रमलोचना ॥ ६४ ॥
मोक्षोऽहं सर्वदुःखानां त्वं तु देवि परा गतिः ॥
अपां पतिरहं भद्रे त्वं तु देवि सरिद्वरा ॥ ६५ ॥
वडवाग्निरहं भद्रे त्वं तु दीप्तिः प्रकीर्तिता ॥
प्रजापतिरहं कर्त्ता त्वं प्रजा प्रकृतिस्तथा ॥ ॥ ६६ ॥
नागानामधिपश्चाहं पातालतलवासिनाम् ॥
त्वं नागी नागराजोऽहं सहस्रफणभूषितः ॥ ६७ ॥
निशाकरवरश्चाहं श्रेष्ठा त्वं रजनीकरी ॥
कामोऽहं कामदो देवि त्वं रतिः स्मृतिरेव च ॥ ६८ ॥
दुर्वासाश्चाप्यहं भद्रे त्वं क्षमा समचारिणी ॥
लोभमोहतपश्चाहं त्वं तृष्णा तामसी स्मृता ॥ ६९ ॥
ककुद्मान्वृषभश्चाहं योगमाता तपस्विनी ॥
वायुरप्यहमव्यक्तस्त्वं गतिर्मनसूदनी ॥ 7.1.3.७० ॥
अहं मोचयिता लोभे निर्ममा त्वं यशस्विनि ॥
नयोऽहं सर्वकार्येषु नीतिस्त्वं कमलेक्षणा ॥ ७१ ॥
अहमन्नं च भोक्ता च ओषधी त्वं निगद्यसे ॥
अहमग्निश्च धूमश्च त्वमूष्मा ज्वालमेव च ॥ ७२ ॥
अहं संवर्त्तको मेघस्त्वं च धारा ह्यनेकशः ॥
अहं मुनीनां रूपेण त्वं तत्पत्नी प्रकीर्तिता ॥ ७३ ॥
अहं संसारकर्त्ता वै त्वं तु सृष्टिर्वरानने ॥
अहं शुक्रास्थिरोमाणि त्वं मज्जा बलमेव च ॥ ७४ ॥
पर्जन्योऽहं महाभागे त्वं वृष्टिः परमेश्वरि ॥
अहं संवत्सरो देवि त्वमृतुः परिकीर्त्तिता ॥ ७५ ॥
अहं कृतयुगो देवि त्वं तु त्रेता निगद्यसे ॥
युगोऽहं द्वापरः श्रीमांस्त्वं कलिः परमेश्वरि ॥ ७६ ॥
आकाशश्चाप्यहं भद्रे पृथिवी त्वमिहोच्यसे ॥
अहमदृश्यमूर्तिश्च दृश्यमूर्तिस्त्वमुच्यसे ॥ ७७ ॥
वरदोऽहं वरारोहे मंत्रस्त्वमिति चोच्यसे ॥
अहं द्रष्टा च श्रोता च त्वं दृश्या श्रुतिरेव च ॥७८॥
अहं वक्ता रमयिता त्वं वाच्या परमेश्वरि ॥
अहं श्रोता च गाता च त्वं गीतिर्गेयमेव च॥७९॥
अहं त्राता च गन्धश्च त्वं तु निघ्राणमेव च ॥
अहं स्पर्शयिता कर्ता स्पर्श्यस्त्वं सृष्टमेव च ॥ 7.1.3.८० ॥
अहं सर्वमिदं भूतं त्वं तु देवि न संशयः ॥
स्रष्टाऽहं तव देवेशि त्वं सृजस्यखिलं जगत् ॥ ८१ ॥
त्वया मया च देवेशि ओतप्रोतमिदं जगत् ॥
एकधा दशधा चैव तथा शतसहस्रधा ॥ ८२ ॥
ऐश्वर्येण तु संयुक्तौ सर्वप्राणि व्यवस्थितौ ॥
अहं त्वं च विशालाक्षि सततं संप्रतिष्ठितौ ॥ ८३ ॥
क्रीडामि क्रीडया देवि त्वया सार्द्धं वरानने ॥
त्वं धृतिर्धारिणी लक्ष्मीः कांता मत्प्रकृतिर्ध्रुवम् ॥ ८४ ॥
रतिः स्मृतिः कामचारी मम चांगनिवासिनी ॥
देवि किं बहुनोक्तेन प्राणेभ्योऽपि गरीयसी ॥ ८५ ॥
वरं वरय देवशि यत्किंचिन्मनसि स्थितम्॥
तत्ते ददामि तुष्टोऽहं यद्यपि स्यात्सुदुर्ल्लभम् ॥ ८६ ॥
॥ देव्युवाच ॥ ॥
धन्याहं कृतपुण्याहं तपः सुचरितं मया ॥
यत्त्वयाऽहं जगन्नाथ हर्षदृष्ट्याऽवलोकिता ॥ ८७ ॥
यदि तुष्टोऽसि मे देव वरं दातुं ममेच्छसि ॥
तन्मे कथय देवेश सांप्रतं तीर्थविस्तरम् ॥ ॥ ८८ ॥
पृथिव्यां यानि तीर्थानि पापघ्नानि शिवानि च ॥
तानि देवेश कार्त्स्न्येन यथावद्वक्तुमर्हसि ॥ ८९ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि तीर्थमाहात्म्यमुत्तमम् ॥
सर्वपापहरं नृणां पुण्यं देवर्षिसत्कृतम् ॥ 7.1.3.९० ॥
तीर्थानां दर्शनं श्रेष्ठं स्नानं चैव सुरेश्वरि ॥
श्रवणं च प्रशंसंति सदैव ऋषिसत्तमाः ॥ ९१ ॥
पृथिव्यां नैमिषं तीर्थमंतरिक्षे च पुष्करम् ॥
केदारं च प्रयागं च विपाशा चोर्मिला तथा ॥ ९२ ॥
कर्णवेणा महादेवी चंद्रभागा सरस्वती ॥
गंगासागरसंभेदस्तथा वाराणसी शुभा ॥ ९३ ॥
अर्घतीर्थं समाख्यातं गंगाद्वारं तथैव च ॥
हिमस्थानं महातीर्थं तथा मायापुरी शुभा ॥ ९४ ॥
शतभद्रा महाभागा सिन्धुश्चैव महा नदी ॥
ऐरावती च कपिला शोणश्चैव महानदः ॥ ९५ ॥
पयोधिः कौशिकी तद्वत्तथा गोदावरी शुभा ॥
देवखातं गया चैव तथा द्वारावती शुभा ॥ ९६ ॥
प्रभासं च महातीर्थं सर्वपातकनाशनम् ॥ ९७ ॥
एवमादीनि तीर्थानि यानि संति महीतले ॥
तानि दृष्ट्वा तु देवेशि पुनर्जन्म न विन्दते ॥९८॥
तिस्रः कोट्योऽर्धकोटी च तीर्थानामिह भूतले ॥
संजातानि पवित्राणि सर्वपापहराणि च ॥९९॥
गंतव्यानि महादेवि स्वधर्मस्य विवृद्धये ॥
अशक्यानि शिवान्येवं गंतुं चैव सुरेश्वरि ॥
मनसा तानि सर्वाणि गंतव्यानि समाहितैः ॥ 7.1.3.१०० ॥
। देव्युवाच॥
भगवन्प्राणिनः सर्वे सर्वोपद्रवसंकुलाः॥
अल्पायुषः सदा बद्धा व्यामोहैर्मंदिरोद्भवैः॥१०१॥
त्रेतायां द्वापरे चैव किं नु वै दारुणे कलौ ॥
तस्मात्तेषां हितार्थाय तत्तीर्थं त्वं प्रकीर्तय ॥
येन दृष्टेन सर्वेषां तीर्थानां लभ्यते फलम् ॥१०२॥
एवमुक्तस्तु पार्वत्या प्रहस्य परमेश्वरः ॥
उवाच परया प्रीत्या वाचा मधुरया प्रभुः ॥१०३॥ ॥
ईश्वर उवाच ॥ ॥
त्वमेव हि चराः प्राणाः सर्वस्य जगतोरणिः ॥
त्वया विरहितो देवि मुहूर्तमपि नोत्सहे ॥१०४॥
शिवस्य च तथा शक्तेरंतरं नास्ति पार्वति ॥
न तदस्ति महादेवि यन्न जानासि शोभने ॥ १०५ ॥
त्वया विनाऽहं न क्वास्मि न त्वं देवि मया विना ॥
चंद्रचंद्रिकयोर्यद्वदग्नेरुष्णत्वमेव हि ॥ १०६ ॥
तव देवि ममापीह नास्ति चैवांतरं प्रिये ॥
सर्वं चैव सुरेशानि यथावत्कथयाम्यहम् ॥ १०७ ॥
रहस्यानां रहस्यं तु गोपनीयं प्रयत्नतः ॥
नास्तिकाय न दातव्यं न च पापरताय च ॥ १०८ ॥
दातव्यं भक्ति युक्ताय स्वशिष्याय सुताय वा ॥
पूर्वमेव मया ख्यातं सारात्सारतरं प्रिये ॥१०९॥
तीर्थोपनिषदः ख्याता लिंगोपनिषदस्तथा ॥
योगोपनिषदो देवि पूर्वं वै कथितास्तव ॥ 7.1.3.११० ॥
॥ पार्वत्युवाच ॥ ॥
लेशेनापि न सिद्ध्यंति कांक्षमाणाः परं पदम् ॥
योनीर्भ्रमंतो दृश्यंते नरा नास्तिकवृत्तयः॥ ॥ १११ ॥
तीर्थव्रतानि सेवन्ते प्रत्ययो नैव जायते ॥
मोहितं तु जगत्पूर्वं मिथ्याज्ञानेन शंकर ॥ ११२ ॥
किं ते फलं सुरश्रेष्ठ जगद्व्यामोहने कृते ॥ ११३ ॥
सारात्सारतरं नाथ तव प्राणप्रियं हि यत् ॥
तन्मे कथय देवेश प्रियाहं यदि ते प्रभो ॥ ११४ ॥
इत्युक्तः स तया देव्या श्रीकंठः सुरनायकः ॥
प्रहस्योवाच भगवान्गंभीरार्थमिदं वचः ॥ ११५ ॥
॥ईश्वर उवाच ॥ ॥
शृणुष्वावहिता भूत्वा पृष्टोऽहं यस्त्वयाऽधुना ॥
निष्फलं तत्प्रवक्ष्यामि वस्तुतत्त्वं यथास्थितम् ॥ ११६ ॥
पूर्वमुक्तानि तीर्थानि यानि ते सुरसुंदरि ॥
तिस्रः कोट्योऽर्द्धकोटी च ब्रह्मांडे सचराचरे ॥११७॥
तेषां च गोपितं तीर्थं प्रभासं चैव सुव्रते ॥११८॥
एवमुक्तं महादेवि प्रभासं क्षेत्रमुत्तमम् ॥
दृष्ट्वा संस्काररहिताः कलौ पापेन मोहिताः ॥ ११९ ॥
राजसास्तामसाश्चैव पापोपहतचेतसः ॥
परदारपरद्रव्यपरहिंसारता नराः ॥ 7.1.3.१२० ॥
उद्वेगं च परं यांति प्रतप्यंति यतस्ततः ॥
आत्मसंभाविता मूढा मिथ्याज्ञानेन मोहिताः॥
वर्णाश्रमविरुद्धं तु तीर्थे कु्र्वन्ति येऽधमाः॥१२१॥
तीर्थयात्रां प्रकुर्वंति दंभेन कपटेन च॥
तीर्थे मृता न सिध्यंति ते नरा वरवर्णिनि ॥ १२२ ॥
एतदर्थं मया देवि तीर्थानि विविधानि च ॥
लिंगानि चैव सुश्रोणि गोपितानि प्रयत्नतः ॥
न सिद्धिदानि देवेशि कलौ कल्मषकारिणाम् ॥ १२३ ॥
ये नरास्तु जितक्रोधा जितलोभा जितेंद्रियाः ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चादम्भमत्सराः ॥ १२४ ॥
मद्भावभाविता देवि तीर्थं सेवंति सुव्रताः ॥
तेषां चैव हितार्थाय कथयामि यशश्विनि ॥ १२५ ॥
प्रभासमिति विख्यातं क्षेत्रं त्रैलोक्यवंदितम् ॥
तत्क्षेत्रं नैव जानंति मम मायाविमोहिताः ॥ १२६ ॥
परोहं त्वेकचित्तैश्च बहुजन्मभिरर्चितः ॥
ते विदंति परं क्षेत्रं प्रभासं पापनाशनम् ॥ १२७ ॥
मद्भावभाविता देवि मम व्रतनिषेविणः ॥
तेषां प्रभासिकं क्षेत्रं विदितं नात्र संशयः ॥ १२८ ॥
यमैश्च नियमैर्युक्ता अहंकारविवर्ज्जिताः ॥
तेषामर्थे वदिष्यामि तव प्रश्नं सुदुर्ल्लभम् ॥
ब्रह्मविष्ण्विन्द्रदेवानां पुराणं कथितं मया ॥ १२९ ॥
सोऽहं देवि वदिष्यामि कर्णं देहि वरानने ॥
पृथिव्यामपि सर्वेषां तीर्थानां सुरसुंदरि ॥ 7.1.3.१३० ॥
एकं मे वल्लभं तत्र प्रभासं क्षेत्रमुत्तमम् ॥
तस्मिंश्चैव महाक्षेत्रे तीर्थैः सोमेन पूजितः ॥
वरांस्तस्मै प्रदायाथ सदैकांते स्थितो ह्यहम् ॥१३१॥
तेन गुह्यं कृतं स्थानं तव देवि प्रकाशितम्॥
तत्र मे योगयुक्तस्य दिव्यं लिंगं बभूव ह ॥ १३२ ॥
दिव्यतेजस्समा युक्तं वह्निमेखलमंडितम् ॥
लक्षमात्रस्थितं शांतं दुर्निरीक्ष्यं तु मानवैः ॥ १३३ ॥
इच्छाज्ञानक्रियाख्याश्च तिस्रो वै शक्तयश्च याः ॥
तस्माल्लिंगात्समुत्पन्ना जगत्कर्तृत्वहेतवे ॥ १३४ ॥
तस्मिँल्लिंगे लयं याति जगदेतच्चराचरम् ॥
पुनस्तेनैव संभूतं दृश्यते सचराचरम् ॥ १३५ ॥
गुह्यं चैव तु संभूतं न कश्चिद्वेद तत्परम् ॥
जन्माभ्यासेन तल्लिंगं ज्ञायते भुवि मानवैः ॥ १३६ ॥
क्षेत्रं प्रभासिकं प्रोक्तं क्षेत्रज्ञोऽहं न संशयः ॥
तत्र सोमेशनामाहमस्मिन्क्षेत्रं वरानने ॥ १३७ ॥
ममांशसंभवा ये च अस्मिन्क्षेत्रे समुद्भवाः ॥
तेषां तु विदितं लिंगं पूर्वकल्पे तु भैरवम् ॥ १३८ ॥
अन्यैरपि युगैर्देवि इदं लिंगं सुदुर्लभम् ॥
घोरे कलियुगे पापे विशेषेण च दुर्लभम् ॥ १३९ ॥
अन्यन्निदर्शनं तत्र तत्प्रवक्ष्यामि पार्वति ॥ 7.1.3.१४० ॥
कलौ युगे महाघोरे हेतुवादरता नराः ॥
वदिष्यंति महापापाः सर्वे पाखण्डसंस्थिताः ॥ १४१ ॥
मिथ्या चैतत्कृतं सर्वं मूर्खैश्चापि प्रकीर्तितम् ॥
क्व क्षेत्रं क्व प्रभावश्च कुत्र वै सन्ति देवताः ॥ १४२ ॥
सर्वं चापि तथालीकं मूढैश्चापि प्रकीर्तितम् ॥ १४३ ॥
एवं मूर्खा वदिष्यंति प्रहसिष्यन्ति चापरे ॥
नारका नास्तिका लोकाः पापोपहतचेतसः ॥
सिद्धिं नैव प्रयास्यंति संप्राप्ते तु कलौ युगे॥१४४॥
तीर्थे चैव मृता ये तु शिवनिन्दापरायणाः॥
तिर्यग्योनिप्रसूताश्च दृश्यन्ते सर्वयोनिषु॥१४५॥
एतस्मात्कारणाद्देवि तीर्थे चैव सुदुःखिताः ॥
दृश्यन्ते युगमाहात्म्यात्सत्यशौचविवर्जिताः ॥ १४६ ॥
इदं हि कारणं प्रोक्तं क्षेत्राणां चैव गोपने ॥
एतत्ते कथितं सर्वं सिद्धिर्येन सुदुर्ल्लभा ॥ १४७ ॥
युगेयुगे तु तीर्थानि कीर्तितानि सुरेश्वरि ॥
तेषां मे वल्लभं देवि प्रभासं क्षेत्रमेव च ॥ १४८ ॥
इत्येतत्कथितं देवि रहस्यं पापनाशनम् ॥
क्षेत्रबीजं महादेवि किमन्यत्परिपृच्छसि ॥ १४९ ॥
इदं महापातकनाशनं ये श्रोष्यंति वै क्षेत्रमहाप्रभावम् ॥
ते चापि यास्यन्ति मम प्रभावात्त्रिविष्टपं पुण्यजनाधिवासम् ॥ 7.1.3.१५० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रभासक्षेत्रमाहात्म्ये देवीप्रश्नवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 4
॥ सूत उवाच ॥ ॥
एवं मुनीन्द्राः कथिते प्रभावे शंकरेण तु ॥
पुनः पप्रच्छ सा देवी कृतांजलिपुटा सती ॥ १ ॥
॥ देव्युवाच ॥ ॥
देवदेव जगन्नाथ क्षेत्रतीर्थमय प्रभो ॥
प्रभासक्षेत्रमाहात्म्यं विस्तरात्कथयस्व मे ॥ २ ॥
कथं तुष्यसि मर्त्यानां क्षेत्रे तत्र विचेतसाम् ॥
जप्तं दत्तं हुतं यष्टं तपस्तप्तं कृतं च यत् ॥
प्रभासे तु महाक्षेत्रे कस्मात्तत्राक्षयं भवेत् ॥ ३ ॥
जात्यंतरसहस्रेषु यत्पापं पूर्वसंचितम् ॥
तत्कथं क्षयमाप्नोति तन्ममाचक्ष्व शंकर ॥ ४ ॥
यदि प्रभासं सर्वेषां तीर्थानां प्रवरं मतम्॥
किमन्यैर्बहुभिस्तत्र कर्त्तव्यं तीर्थविस्तरैः ॥ ५ ॥
एकं यदि भवेत्तीर्थं मनो निःसंशयं भवेत् ॥
बहुत्वे सति तीर्थानां मनो विचलते नृणाम् ॥ ६ ॥
तस्मात्सर्वं परित्यज्य तीर्थजालं सविस्तरम् ॥
प्रभासस्यैव माहात्म्यं कथयस्व सुरेश्वर ॥ ७ ॥
क्षेत्रप्रमाणं सीमां च क्षेत्रसारं हि यत्प्रभो ॥
वक्तुमर्हसि तत्सर्वं परं कौतूहलं हि मे ॥ ८ ॥ ॥
ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि क्षेत्राणां क्षेत्रमुत्तमम् ॥
सर्वक्षेत्रेषु यत्क्षेत्रं प्रभासं तु प्रियं मम ॥ ९ ॥
प्रभासे तु परा सिद्धिः प्रभासे तु परा गतिः ॥
यत्र संनिहितो नित्यमहं भद्रे निरन्तरम् ॥ 7.1.4.१० ॥
तस्य प्रमाणं वक्ष्यामि सर्वसीमासमन्वितम्॥
क्षेत्रं तु त्रिविध प्रोक्तं तत्ते वक्ष्याम्यनुक्रमात् ॥ ११ ॥
क्षेत्रं पीठं गर्भगृहं प्रभासस्य प्रकीर्त्यते ॥
यथाक्रमं फलं तस्य कोटिकोटिगुणं स्मृतम् ॥ १२ ॥
क्षेत्रं तु प्रथमं प्रोक्तं तच्च द्वादशयोजनम् ॥
पञ्चयोजनमानेन क्षेत्रपीठं प्रकीर्तितम् ॥ १३ ॥
गर्भगृहं च गव्यूतिः कर्णिका सा मम प्रिया ॥
क्षेत्रसीमा प्रवक्ष्यामि शृणु देवि यथाक्रमम् ॥ १४ ॥
आयामव्यासतश्चैव आदिमध्यान्तसंस्थितम् ॥
पूर्वे तप्तोदक स्वामी पश्चिमे माधवः स्मृतः ॥ १५ ॥
दक्षिणे सागरस्तद्वद्भद्रा नद्युत्तरे मता ॥
एवं सीमासमायुक्तं क्षेत्रं द्वादशयोजनम् ॥ १६ ॥
एतत्प्राभासिकं क्षेत्रं सर्वपातकनाशनम्॥
तन्मध्ये पीठिका प्रोक्ता पञ्चयोजनविस्तृता ॥ १७ ॥
न्यंकुमन्यपरेणैव वज्रिण्याः पूर्वतस्तथा ॥
माहेश्वर्या दक्षिणतः समुद्रोत्तरतस्तथा ॥ १८ ॥
आयामव्यासतश्चैव पञ्चयोजनविस्तरम् ॥
पीठमेतत्समाख्यातमथो गर्भगृहं शृणु ॥ १९ ॥
दक्षिणोत्तरतो यावत्समुद्रा त्कौरवेश्वरी ॥
पूर्वपश्चिमतो यावद्गोमुखाच्चाश्वमेधिकम् ॥
एतद्गर्भगृहं प्रोक्तं कैलासान्मम वल्लभम् ॥ 7.1.4.२० ॥
अत्रान्तरे तु देवेशि यानि तीर्थानि भूतले ॥
वापीकूपतडागानि देवतायतनानि च ॥२१॥
सरांसि सरितश्चैव पल्वलानि ह्रदास्तथा ॥
तानि मेध्यानि सर्वाणि सर्वपापहराणि च॥२२॥
यत्र तत्र नरः स्नात्वा स्वर्गलोके महीयते ॥
क्षेत्रस्य प्रथमो भागो मेध्यो माहेश्वरः स्मृतः ॥ २३ ॥
द्वितीयो वैष्णवो भागो ब्रह्मभागस्तृतीयकः ॥
तीर्थानां कोटिरेका तु ब्राह्मे भागे व्यवस्थिता ॥ २४ ॥
वैष्णवे कोटिरेका तु तीर्थानां वरवर्णिनि ॥
सार्द्धकोटिस्तु संप्रोक्ता रुद्रभागे च मध्यतः ॥ ॥२५॥
एवं देवि समाख्यातं तत्क्षेत्रं हि त्रिदैवतम् ॥
गुह्याद्गुह्यतरं क्षेत्रं मम प्रियतरं शुभे ॥२६॥
तिस्रः कोट्योऽर्द्धकोटिश्च क्षेत्रे प्रोक्ता विभागतः ॥
यात्रा तु त्रिविधा ज्ञेया तां शृणुष्व वरानने ॥ २७ ॥
रौद्री तु प्रथमा यात्रा वैष्णवी च द्वितीयिका॥
ब्राह्मी तृतीया संख्याता सर्वपातकनाशिनी ॥ ॥ २८ ॥
ब्राह्मे विभागे संप्रोक्ता इच्छाशक्तिर्वरानने ॥
क्रिया च वैष्णवे भागे द्वितीये तु प्रकीर्तिता ॥२९॥
रौद्रे भागे तृतीये तु ज्ञानशक्तिर्वरानने ॥
यदि पापो यदि शठो यदि नैष्कृतिको नरः ॥ 7.1.4.३० ॥
निर्मुक्तः सर्वपापेभ्यो मध्यभागे वसेत्तु यः ॥
हिमवंतं परित्यज्य पर्वतं गंधमादनम् ॥ ३१ ॥
कैलासं निषधं चैव मेरुपृष्ठं महाद्युतिम् ॥
रम्यं त्रिशिखरं चैव मानसं च महागिरिम् ॥३२॥
देवोद्यानानि रम्याणि नंदनं वनमेव च ॥
स्वर्गस्थानानि रम्याणि तीर्थान्यायतनानि च ॥
तानि सर्वाणि संत्यज्य प्रभासे तु रतिर्मम ॥ ३३ ॥
यस्तत्र वसते देवि संयतात्मा समाहितः ॥
त्रिकालमपि भुंजानो वायुभक्षसमो भवेत् ॥ ३४ ॥
विघ्नैरालोड्यमानोऽपि यः प्रभासं न मुंचति ॥
स मुंचति जरां मृत्युं जन्मचक्रमशाश्वतम् ॥ ३५ ॥
जन्मांतरशतैर्देवि योगो वा यदि लभ्यते ॥
मोक्षस्य च सहस्रेण जन्मनां लभ्यते न च ॥ ३६ ॥
प्रभासे तु महादेवि ये स्थिता कृतनिश्चयाः ॥
एकेन जन्मना तेषां मोक्षो नैवात्र संशयः ॥ ३७ ॥
प्रभासे तु स्थिता ये वै ब्राह्मणाः संशितव्रताः ॥
मृत्युंजयेन संयुक्तं जपंति शतरुद्रियम् ॥ ३८ ॥
कालाग्निरुद्रसांनिध्ये दक्षिणां दिशमाश्रिताः ॥
ज्ञानं चोत्पद्यते तत्र षण्मासाभ्यंतरेण तु ॥ ३९ ॥
शिवस्तु प्रोच्यते वेदो नामपर्यायवाचकैः ॥
तस्य चात्मस्वरूपं तु शतरुद्रं प्रकीर्तितम् ॥ 7.1.4.४० ॥
कल्पेषु वेदाश्च पुनःपुनरावर्तकाः स्मृताः ॥
मंत्राश्चैव तथा देवि मुक्त्वा तु शतरुद्रियम् ॥ ४१ ॥
ईड्यं चैव तु मंत्रेण मामेव हि यजंति ये ॥
प्रभासक्षेत्रमासाद्य ते मुक्ता नात्र संशयः ॥ ४२ ॥
समंत्रोऽमंत्रको वापि यस्तत्र वसते नरः ॥
सोऽपि यां गतिमाप्नोति यज्ञैर्दानैर्न साध्यते ॥ ४३ ॥
अस्मिक्षेत्रे स्वयंभूश्च स्थितः साक्षान्महेश्वरः ॥
रुद्राणां कोटयश्चैव प्रभासे संव्यवस्थिताः ॥ ४४ ॥
ध्यायमानास्तथोंकारं स्थिताः सोमेशदक्षिणे ॥४५ ॥
ब्रह्मांडोदरमध्ये तु यानि तीर्थानि सुव्रते ॥
सोमेश्वरं गमिष्यंति वैशाखस्य चतुर्दशी ॥४६॥
मनोबुद्धिरहंकारः कामक्रोधौ तथाऽपरे ॥
एते रक्षंति सततं सोमेशं पापनाशनम् ॥ ४७ ॥
न सा गतिः कुरुक्षेत्रे गंगाद्वारे त्रिपुष्करे ॥
या गतिर्विहिता पुंसां प्रभासक्षेत्रवासिनाम् ॥ ४८ ॥
तिर्यग्योनिगताः सत्त्वा ये प्रभासे कृतालयाः ॥
कालेन निधनं प्राप्तास्तेपि यांति परां गतिम् ॥ ४९ ॥
तद्गुह्यं देवदेवस्य तत्तीर्थं तत्तपोवनम् ॥
तत्र ब्रह्मादयो देवा नारायणपुरोगमाः ॥ 7.1.4.५० ॥
योगिनश्च तथा सांख्या भगवंतं सनातनम् ॥
उपासते प्रभासं तु मद्भक्ता मत्परायणाः ॥ ५१ ॥
अष्टौ मासान्विहारः स्याद्यतीनां संयतात्मनाम् ॥
एके च चतुरो मासानष्टौ वा नियतं वसेत् ॥ ५२ ॥
प्रभासे तु प्रविष्टानां विहारस्तु न विद्यते ॥
अत्र योगश्च मोक्षश्च प्राप्यते दुर्लभो नरैः ॥ ५३ ॥
तस्मात्प्रभासं संत्यज्य नान्यद्गच्छेत्तपोवनम् ॥
प्रभासं ये न सेवंते मूढास्ते तमसा वृताः ॥ ५४ ॥
विण्मूत्ररेतसां मध्ये संभवंति पुनःपुनः ॥
कामः क्रोधस्तथा लोभो दंभः स्तंभोऽथ मत्सरः ॥ ॥ ५५ ॥
निद्रा तंद्रा तथाऽऽलस्यं पैशुन्यमिति ते दश ॥
एते रक्षंति सततं सोमेशं तीर्थनायकम् ॥ ५६ ॥
न प्रभासे मृतः कश्चिन्नरकं याति किल्बिषी ॥
यावज्जीवं नरो यस्तु वसते कृतनिश्चयः ॥५७॥
अग्निहोत्रैश्च संन्यासैराश्रमैश्च सुपालितैः ॥
त्रिदंडैरेकदंडैश्च शैवैः पाशुपतैरपि ॥५८॥
एतैरन्यैश्च यतिभिः प्राप्यते यत्फलं शुभम् ॥
तत्सर्वं लभ्यते देवि श्रीसोमेश्वरयात्रया ॥ ५९ ॥
एको ह्यर्चयते लिंगं तपस्यति तथापरः ॥
तयोर्मध्ये तु श्रेष्ठो यः सोमेशं च प्रपूजयेत् ॥7.1.4.६॥।
यत्तद्योगे च सांख्ये च सिद्धांते पंचरात्रिके ॥
अन्यैश्च शास्त्रैर्विज्ञेयं प्रभासे संव्यवस्थितम् ॥६१॥
लिंगे चैव स्थितं सर्वं जगदेतच्चराचरम्॥
तस्माल्लिंगे सदा देवः पूजनीयः प्रयत्नतः ॥ ६२ ॥
ममैव सा परा मूर्तिः श्रीसोमेशाख्यया स्थिता ॥
तेन चैषा त्मनात्मानमाराधनपरो ह्यहम् ॥ ६३ ॥
अनेकजन्मसाहस्रैर्भ्रममाणस्तु जन्मभिः ॥
कस्तां प्राप्नोति वै मुक्तिं विना सोमेशपूजनात् ॥६४॥
यत्किञ्चिदशुभं कर्म कृतं मानुषबुद्धिना ॥
तत्सर्वं विलयं याति श्रीसोमेश्वरपूजनात् ॥६५॥
अनेकजन्मकोटीभिर्जंतुभिर्यत्कृतं ह्यघम् ॥
तत्सर्वं नाशमायाति श्रीसोमेश्वरपूजनात् ॥ ६६ ॥
तीर्थानि यानि लोकेऽस्मिन्सेव्यंते पापमोक्षिभिः ॥
तानि सर्वाणि शुद्ध्यर्थं प्रभासे संविशंति हि ॥६७॥
योऽसौ कालाग्निरुद्रस्तु प्रोच्यते वेदवादिभिः ॥
सोऽयं भैरवनाम्ना तु प्रभासे संव्यवस्थितः ॥ ६८ ॥
जनानां दुष्कृतं सर्वं क्षेत्रमध्ये व्यवस्थितः ॥
भैरवं रूपमास्थाय नाशयामि सुरेश्वरि ॥ ६९ ॥
जगत्सर्वं चरित्वा तु स्थितोऽहं सचराचरम् ॥
तेन भैरवनामाहं प्रभासे संव्यवस्थितः ॥ 7.1.4.७० ॥
अग्निना यत्र तप्तं तु दिव्याब्दानां चतुर्युगम् ॥
मेघवाहनकल्पे तु तत्र लिंगं बभूव ह ॥७१॥
अग्निमीडेति वेदोक्तप्रभावः सुरसुंदरि ॥
कालाग्निरुद्रनामा च देवैः सर्वैरुदाहृतम् ॥ ७२ ॥
अग्नीशानेति देवेशि नामत्रितयमुच्यते ॥
कल्पेकल्पे तु नामानि कथितुं नैव शक्यते ॥
असंख्यत्वाच्च कल्पानां ब्रह्मणा च वरानने ॥ ७३ ॥
एवं चैव रहस्यं च महागोप्यं वरानने ॥
स्नेहान्महत्या भक्त्या च मया ते परिकीर्तितम् ॥७४॥
एकतस्तु जगत्सर्वं कर्म कांडे प्रतिष्ठितम् ॥
यज्ञदानतपोहोमैः स्वाध्यायैः पितृतर्पणैः ॥७५॥
उपवासैर्व्रतैः कृत्स्नैश्चांद्रायणशतैस्तथा ॥
षड्रात्रैश्च त्रिरात्रैश्च तीर्थादिगमनैः परैः ॥७६॥
आश्रमैर्विविधाकारैर्यतिभिर्ब्रह्मचारिभिः ॥
वानप्रस्थैर्गृहस्थैश्च वेदकर्मपरायणैः ॥७७॥
अन्यैश्च विविधाकारैर्लोकमार्गस्थितैः शुभैः ॥
न तत्पदं परं देवि शक्यं वीक्षयितुं क्वचित् ॥ ७८ ॥
यावन्न चार्चयेद्देवि सोमेशं लिंगनायकम् ॥
लीलया वापि तैर्द्रष्टुं तत्पदं दुर्लभं परम् ॥ ७९ ॥
पूजितो यैर्जगन्नाथः सोमेशः किल भैरवः ॥
तिर्यग्योनिगता ये तु पशुपक्षिपिपीलिकाः ॥ 7.1.4.८० ॥
अन्तर्ज्जलगता ये तु कृमिकीटपतंगकाः ॥
स्थावरा जंगमाश्चान्ये मनुष्याः पशवः स्त्रियः ॥ ८! ॥
बाला वृद्धास्तथा षण्ढाः श्वानगर्द्दभवायसाः ॥
चंडालाः पुष्कसाः शूद्रा म्लेच्छा येऽन्ये वियोनिजाः ॥ ८२ ॥
मूर्खास्तु पण्डिताश्चापि ये चान्ये कुत्सिता भुवि ॥
ते सर्वे मुक्तिमायांति प्रभासे ये मृताः शुभे ॥ ८३ ॥
कालानलस्य रुद्रस्य कालराजेन चाग्निना ॥
दग्धास्ते जन्तवः सर्वे प्रभासे ये मृताः शुभे ॥ ८४ ॥
दुर्ल्लभं तु मम क्षेत्रं प्रभासं देवि पापिनाम् ॥
न तत्र लभते मृत्युं पापात्मा लोकवंदिते ॥ ८५ ॥
मया दक्षिणभागे च विघ्नेशः संप्रतिष्ठितः ॥
उत्तरे दण्डपाणिस्तु क्षेत्रमेतच्च रक्षति ॥ ८६ ॥
तथान्ये गणपाः सर्वे मदाज्ञावशवर्तिनः ॥
क्षेत्रं रक्षंति देवेशि तेषां नामानि मे शृणु ॥ ८७ ॥
महाबलस्तु चण्डीशो घंटाकर्णस्तु गोमुखः ॥
विनायको महानादः काकवक्त्रः शुभेक्षणः ॥
एकाक्षो दुन्दुभिश्चंडस्तालजंघस्तथैव च ॥ ८८ ॥
भूमिदंडश्च चंडश्च शंकुकर्णश्च वैधृतिः ॥
तालचण्डो महातेजा विकटास्यो हयाननः ॥ ९८९ ॥
हस्तिवक्त्रः श्वानवक्त्रो बिडालवदनस्तथा ॥
सिंहव्याघ्रमुखाश्चान्ये वीरभद्रादयस्तथा ॥ 7.1.4.९० ॥
विनायकं पुरस्कृत्य देव देवं कपर्द्दिनम् ॥
एकादश तथा कोट्यो नियुतानि त्रयोदश ॥ ९१ ॥
अर्बुदं च गणानां च प्रभासं क्षेत्रमाश्रिताः ॥
द्वारिद्वारि प्रचंडास्ते शूलमुद्गरपाणयः ॥ ९२ ॥
प्रभासक्षेत्रं रक्षंति देवदेवस्य वै गृहम् ॥
न कश्चिद्दुष्टबुद्ध्या तु प्रविशेदिति संस्थितिः ॥ ९३ ॥
शतकोटिगणैश्चापि पूर्वद्वारि तु संवृतः ॥
अट्टहासो गणो नाम प्रभासं तत्र रक्षति ॥ ९४ ॥
कालाक्षो भीषणश्चंडो वृतोऽष्टादशकोटिभिः ॥
घंटाकर्णगणो नाम दक्षिणं द्वारमाश्रितः ॥९५॥
पश्चिमद्वारमाश्रित्य स्थितवान्विष्टरो गणः ॥
दण्डपाणिः स्थितस्तत्र देवदेवस्य चोत्तरे ॥९६॥
योगक्षेमं वहन्नित्यं प्रभासे भावितात्मनाम्॥
भीषणाक्षस्तथैशान्यामाग्नेय्यां छागवक्त्रकः ॥ ९७ ॥
नैर्ऋत्यां चंडनादस्तु वायव्यां भैरवाननः ॥
नन्दी चैव महाकालो दण्डपाणिर्विनायकः ॥ ॥ ९८ ॥
एतेङ्गरक्षका मध्ये शतकोटिगणैर्वृताः ॥
एवं रक्षंति बहवो ह्यसंख्येया गणेश्वराः ॥ ९९ ॥
कलिकल्मषसंभूत्या येषां चोपहता मतिः ॥
न तेषां तद्भवेद्गम्यं स्थानमर्धेन्दुमौलिनः ॥ 7.1.4.१०० ॥
गंधर्वैः किन्नरैर्यक्षैरप्सरोभिस्तथोरगैः ॥
सिद्धैः संपूज्य देवेशं सोमेशं पापनाशनम् ॥ १०१ ॥
अन्तर्धानं गतैर्नित्यं प्रभासं तु निषेव्यते ॥
सप्तलोकेषु ये सन्ति सिद्धाः पातालवासिनः ॥
प्रदक्षिणं ते कुर्वंति सोमेशं कालभैरवम् ॥ १०२ ॥।
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ॥
लाकुलिं भारभूतिं च आषाढिं दण्डमेव च ॥ १०३ ॥
पुष्करं नैमिषं चैव अमरेशं तथापरम् ॥।
भैरवं मध्यमं कालं केदारं कणवीरकम् ॥ १०४ ॥
हरिचंद्रस्तु शैलेशस्तथा वस्त्रांतिकेश्वरः ॥
अट्टहासं महेन्द्रं च श्रीशैलं च गया तथा ॥ १०५ ॥
एतानि सर्वतीर्थानि देवं सोमेश्वरं प्रभुम् ॥
प्रदक्षिणं प्रकुर्वंति तत्र लिंगं स्तुवंति च ॥ १०६ ॥
ब्रह्मा जनार्दनश्चान्ये ये देवा जगति स्थिताः ॥
अग्निलिंगसमीपस्थाः संध्याकाले स्तुवंति च ॥ १०७ ॥
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ॥
सर्वे सोमेश्वरं यांति माघकृष्णचतुर्द्दशीम् ॥। ॥ १०८ ॥
तस्मिन्काले च यो दद्यात्सोमेशे घृतकम्बलम् ॥ १०९ ॥
घृतं रसं तिलान्दुग्धं जलं चंद्राधिवासितम् ॥
एकत्र कृत्वा काश्मीरमित्येतद्घृतकंबलम् ॥7.1.4.११०॥।
शिवरात्र्यां तु कर्त्तव्यमेतद्गोप्यं मम प्रियम् ॥
एवं कृते च यत्पुण्यं गदितुं तन्न शक्यते ॥ १११ ॥
तत्र दक्षिणभागे तु स्वयं भूतविनायकम् ॥
प्रथमं पूजयेद्देवि यदीच्छेत्सिद्धिमात्मनः ॥११२॥
ऊषराणां च सर्वेषां प्रभासक्षेत्रमूषरम् ॥
पीठानां चैव पीठं च क्षेत्राणां क्षेत्रमुत्तमम् ॥
सन्देहानां च सर्वेषामयं संदेह उत्तमः ॥ ११३ ॥
ये केचिद्योगिनः संति शतकोटिप्रविस्तराः ॥
तेषां क्षेत्रे प्रभासे तु रतिर्न्नान्यत्र कुत्रचित् ॥। ॥ ११४ ॥
लिंगादीशानभागे तु संस्थिता सुरसुन्दरि ॥ ११५ ॥
मया या कथिता तुभ्यमुमा नाम कला शुभा ॥
सा सती प्रोच्यते देवि दक्षस्य दुहिता पुरा ॥ ११६ ॥
दक्षकोपाच्छरीरं तु संत्यज्य परमा कला ॥
हिमवंतगृहे जाता उमानाम्ना च विश्रुता ॥ ११७ ॥
तेन देवि त्वया सार्द्धं तत्रस्था वरदाः स्मृताः ॥
नवकोट्यस्तु चामुंडास्तस्मिन्क्षेत्रे स्थिताः स्वयम् ॥ ११८ ॥
चैत्रे मासि सिताष्टम्यां तत्र त्वां यदि पूजयेत् ॥
एक विंशतिजन्मानि दारिद्र्यं तस्य नो भवेत् ॥ ११९ ॥
अमा सोमेन संयुक्ता कदाचिद्यदि लभ्यते ॥
तस्यां सोमेश्वरं दृष्ट्वा कोटियज्ञफलं लभेत् ॥ ॥ 7.1.4.१२० ॥
एतत्क्षेत्रं महागुह्यं सर्वपातकनाशनम्॥
रुद्राणां कोटयो यत्र एकादश समासते ॥१२१॥
द्वादशात्र दिनेशानां वसवोऽष्टौ समागताः ॥
गन्धर्वयक्षरक्षांसि असंख्याता गणेश्वराः ॥१२२॥
उमापि तत्र पार्श्वस्था सर्वदेवैस्तु संस्तुता ॥
नन्दी च गणनाथो यो देवदेवस्य शूलिनः॥१२३॥
महाकालस्य ये चान्ये गणपाः संति पार्श्वगाः ॥
गंगा च यमुना चैव तथा देवी सरस्वती ॥१२४॥
अन्याश्च सरितः पुण्या नदाश्चैव ह्रदास्तथा ॥
समुद्राः पर्वताः कूपा वनस्पतय एव च ॥ १२५ ॥
स्थावरं जंगमं चैव प्रभासे तु समागतम् ॥
अन्ये चैव गणास्तत्र प्रभासे संव्यवस्थिताः ॥ ॥१२६॥
न मया कथिताः सर्व उद्देशेन क्वचित्क्वचित् ॥
भक्त्या परमया युक्तो देवदेवि विनायकम् ॥
तृतीयं पूजयेत्तत्र वांछेत्क्षेत्रफलं यदि॥१२७॥
द्वादशैवं तथा चाष्टौ चत्वारिंशच्च कोटयः ॥
नदीनामग्नितीर्थस्य द्वारे तिष्ठंति भामिनि ॥ १२८ ॥
निर्माल्यलंघनं किंचिदज्ञाताद्यदि वै कृतम् ॥
तत्सर्वं विलयं याति अग्नितीर्थस्य दर्शनात् ॥१२९॥
देवि किं बहुनोक्तेन क्षेत्रमेतन्महाप्रभम् ॥
न ते वर्णयितुं शक्यं कल्पकोटिशतैरपि॥7.1.4.१३॥।
ये चांतरिक्षे भुवि ये च देवास्तीर्थानि वै यानि दिगंतरेषु ॥
क्षेत्रं प्रभासं प्रवरं हि तेषां सोमेश्वरं देवि तथा वरिष्ठम् ॥१३१॥
ये चांडजाश्चोद्भिजाश्चैव जीवाः सस्वेदजाश्चैव जरायुजाश्च ॥
देवि प्रभासे तु गतासवोऽथ मुक्तिं परं यांति न संशयोऽत्र ॥ १३२ ॥
इति निगदितमेतद्देवदेवस्य चित्रं चरितमिदमचिंत्यं देवि ते शंकरस्य ॥
कलिकलुषविदारं सर्वलोकोऽपि यायाद्यदि पठति शृणोति स्तौति नित्यं य इत्थम् ॥ १३३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्षेत्रप्रमाणवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 5
॥ सूत उवाच ॥ ॥
इत्येवमुक्ते विप्रेंद्रा शंकरेण महात्मना ॥
पुनः पप्रच्छ सा देवी हर्षसंपूर्णमानसा ॥ १ ॥
॥ देव्युवाच ॥ ॥
देवदेव जगन्नाथ सर्वप्राणहिताय वै ॥
प्रभासक्षेत्रमाहात्म्यं विस्तराद्वद मे प्रभो ॥ २ ॥
॥ ईश्वर उवाच ॥ ॥
अन्यद्दृष्टांतरूपं ते कथयामि यशस्विनि ॥
येन सृष्टं महादेवि क्षेत्रमेतन्मम प्रियम् ॥ ३ ॥
या गतिर्ध्यायतां नित्यं निःसंगानां च योगिनाम् ॥
सैवं संत्यजतां प्राणान्प्रभासे तु परा गतिः ॥ ४ ॥
अनेककल्पस्थायी च मार्कंडेयो महातपाः ॥
सोऽपि देवं विरूपाक्षं प्रभासे तु सदाऽर्चति ॥५॥
अटित्वा सर्वतीर्थानि प्रभासं नैव मुंचति ॥
दुर्वासाश्च महातेजा लिंगस्याराधनोद्यतः ॥
न मुंचति क्षणं देवि तत्क्षेत्रं शशिमौलिनः ॥ ६ ॥
भरद्वाजो मरीचिश्च मुनिश्चोद्दालकस्तथा ॥
क्रतुश्चैव वसिष्ठश्च कश्यपो भृगुरेव च ॥। ७ ॥॥
दक्षश्चैव तु सावर्णिर्यमश्चांगिरसस्तथा॥ ॥
शुको विभांडकश्चैव ऋष्यशृंगोऽथ गोभिलः ॥८॥
गौतमश्च ऋचीकश्च अगस्त्यः शौनको महान्॥
नारदो जमदग्निश्च विश्वामित्रोऽथ लोमशः ॥ ९ ॥
अन्ये च ऋषयश्चैव दिव्या देवर्षयस्तथा ॥
न मुंचंति महाक्षेत्रं लिंगस्याराधनोद्यताः ॥ 7.1.5.१० ॥
अहं तत्रैव तिष्ठामि लिंगाराधनतत्परः ॥
न मुंचामि महाक्षेत्रं सत्यंसत्यं वरानने ॥ ११ ॥
सर्वतीर्थानि देवेशि मया दृष्टानि भूतले ॥
प्रभासेन समं क्षेत्रं नैव दृष्टं कदाचन ॥ १२ ॥
देवि षष्टिसहस्राणि याज्ञवल्क्यपुरस्कृताः ॥
जपं कुर्वंति रुद्राणां चन्द्रभागां व्यवस्थिताः ॥ १३ ॥
चत्वारिंशत्सहस्राणि ऋषीणामूर्द्ध्वरेतसाम् ॥
देविकातटमाश्रित्य जपंति शतरुद्रियम् ॥ १४ ॥
कोटयश्चैव पंचाशन्मुनीनामूर्द्ध्वरेतसाम् ॥
उमापतिं समासाद्य लिंगं तत्रैव संस्थितम् ॥ १५ ॥
रुद्राणां कोटि जाप्यं तु कृतं तत्रैव तैः पुरा ॥
कोटिस्तत्रैव संसिद्धास्तस्मिंल्लिंगे न संशयः ॥१६॥
शतं चैव सहस्राणां देवेशं शशिभूषणम् ॥
पूजयंति महासिद्धा मम क्षेत्रनिषेविणः ॥१७॥
वेदांतेषु च यत्प्रोक्तं फलं चैव महर्षिभिः ॥
तत्फलं सकलं तत्र चंद्रभूषणदर्शनात् ॥ १८ ॥
अग्नितीर्थे ऋषीणां तु कोटिः साग्रा स्थिता शुभे ॥
रुद्रेश्वरे स्मृतं लक्षं कंपर्द्दीशे तथैव च ॥ १९ ॥
रत्नेश्वरे सहस्रं तु ऋषीणामूर्द्ध्वरेतसाम् ॥
अर्कस्थले महापुण्ये कोटिः साग्रा स्थिता शुभे ॥ 7.1.5.२० ॥
षष्टिश्चैव सहस्राणि तत्र सिद्धेश्वरे स्थिताः ॥
सप्त चैव सहस्राणि मार्कंडेये तु संस्थिताः ॥ २१ ॥
सरस्वत्यां ब्रह्मकुण्डेऽसंख्याता मुनयः स्मृताः ॥
दशार्बुदसहस्राणि कोटित्रितयमेव च ॥ २२ ॥
ऋषयस्तत्र तिष्ठंति यत्र प्राची सरस्वती ॥
ब्रह्महत्या गता यत्र शंकरस्य च तत्क्षणात् ॥ २३ ॥
कायः सुवर्णतां प्राप कपालं पतितं करात् ॥
ज्ञात्वैवं शंकिना पूर्वं कृतं तत्र महातपः ॥ २४ ॥
तुष्टः श्रीशंकरो देवो लिंग वासवरेण तु ॥
कोटियज्ञफलं स्नाने प्राच्यां लिंगस्य पूजने ॥ २५ ॥
पिंडे गयाशतगुणममासोमयुते दिने ॥
भूतायां पिंडदस्तत्र कुलकोटिं समुद्धरेत् ॥ २६ ॥
ये चात्र मलनाशाय निमङ्क्ष्यंति च मानवाः ॥
दशगोदानजं पुण्यं तेषामपि भविष्यति ॥२७॥
पादेन वा क्रीडमाना जलं लिप्संति ये नरा ॥
तेषामपि श्राद्धफलं विधिवत्संभविष्यति ॥
तत्र लिंगानि पूज्यानि शूलभेदादिकानि तु ॥ २८ ॥
एवं विकल्प्य लिंगानि अश्वमेध फलानि तु ॥
दर्शनेनापि सर्वेषां स्पर्शाद्धि द्विगुणं फलम् ॥२९॥
एवं तुष्टो जगन्नाथः स्थितः प्राचीवने ध्रुवम् ॥
मनोऽपि ये करिष्यंति स्नानदानेषु का कथा ॥7.1.5.३॥।
तेषां तुष्टो जगन्नाथः शंकरो नीललोहितः ॥
त्रिंशत्कोटिगणस्तत्र प्राचीं रक्षंति सर्वतः ॥३१॥
महापापसमाचारः पापिष्ठो वाऽति किल्बिषी ॥
घुणाक्षरमिव प्राणान्प्राच्यां मुक्त्वा शिवं व्रजेत् ॥ ३२ ॥
दधिकंबलदानं तु तत्र देयं द्विजोत्तमे ॥
कथितं पापशमनं सारात्सारतरं ध्रुवम् ॥ ३३ ॥
अधुना संप्रवक्ष्यामि हिरण्याश्च महोदयम् ॥
दुर्वाससा तपस्तप्तं तत्र सूर्यः प्रतिष्ठितः ॥ ३४ ॥
कोटिरेका तु तत्रैव ऋषीणामूर्द्ध्वरेतसाम् ॥
चतुर्विंशतितत्त्वानामधिको बलरूपधृक् ॥ ३५ ॥
यत्र तिष्ठति देवेशि भृगुकोटिसमन्वितः ॥
अन्यत्र ब्राह्मणानां तु कोट्या यच्च फलं लभेत् ॥ ३६ ॥
ब्रह्मस्थाने तथैकेन भोजितेन तु तत्फलम् ॥
एवं ज्ञात्वा महादेवि तत्र तिष्ठामि निर्वृतः।।
कोटिर्भिर्देवऋषिभिर्देवैः सह समावृतः ॥
तीर्थानि तत्र तिष्ठंति अंतर्भूतानि वै कलौ ॥ ३८ ॥
तत्र क्षेत्रे महारम्ये यत्र सोमेश्वरः स्थितः॥
मम देवि गणौ द्वौ तु विभ्रमः संभ्रमः परः ॥ ३९ ॥
तौ चात्र क्षेत्रसंस्थानां लोकानां भ्रमविभ्रमैः ॥
योजयंति सदा चित्तं विकल्पानैक्यसंकुलम् ॥ 7.1.5.४० ॥
विनायकोपसर्गाश्च दश दोषास्तथा परे ॥
एवं क्षेत्रं तु रक्षंति पापिनां दुष्टचेतसाम् ॥ ४१ ॥
दंडपाणिं तु ये भक्त्या पश्यंतीह नरोत्तमाः ॥
न तेषां जायते विघ्नं तत्र क्षेत्रनिवासिनाम् ॥ ४२ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वर्णसंकराः ॥
अकामा वा सकामा वा प्रभासे ये मृताः शुभे ॥ ४३ ॥
चंद्रार्द्धमौलिनः सर्वे ललाटाक्षा वृषध्वजाः ॥
शिवे मम पुरे दिव्ये जायंते तत्र मानवाः ॥ ४४ ॥
यस्तत्र वसते विप्रः संयतात्मा समाहितः ॥
त्रिकालमपि भुंजानो वायुभक्षसमो भवेत् ॥ ४५ ॥
मेरोः शक्या गुणा वक्तुं द्वीपानां च गुणास्तथा ॥
समुद्राणां च सर्वेषां शक्या वक्तुं गुणाः प्रिये ॥ ४६ ॥
आदिदेवस्य देवेशि महेशस्य महाप्रभोः ॥
शक्या नैव गुणा वक्तुं वर्षाकोटिशतैरपि ॥ ४७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्षेत्रस्थर्षिदेवगणवर्णनं नाम पंचमोऽध्यायः ॥ ५ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 6
॥ देव्युवाच ॥ ॥
अत्यद्भुतं महादेव माहात्म्यं कथितं मम ॥
अपूर्वं देवदेवेश कदाचिन्न श्रुतं मया ॥ १ ॥
ब्रह्मांडे यानि लिंगानि कीर्तितानि त्वया मम ॥
तेषां प्रभावेनाधिक्यं सोमेशे तत्कथं वद ॥ २ ॥
किं प्रभावो महादेव क्षेत्रस्य च सुरेश्वर ॥
तन्मे ब्रूहि सुरेशान याथातथ्यं ममाग्रतः ॥३॥
॥ ईश्वर उवाच ॥ ॥
अतः परं प्रवक्ष्यामि रहस्यं परमं तव ॥
प्रभासक्षेत्रमाहात्म्यं सोमेशस्य वरानने ॥४॥
तीर्थानां परमं तीर्थं व्रतानां परमं व्रतम् ॥
जाप्यानां परमं जाप्यं ध्यानानां ध्यानमुत्तमम्॥५॥
योगानां परमो योगो रहस्यं परमं महत् ॥
तत्तेहं संप्रवक्ष्यामि शृणु ह्येकमना प्रिये॥६॥
सोमेशं परमं स्थानं पंचवक्त्रसमन्वितम् ॥
एतल्लिंगं न मुंचामि सत्यंसत्यं मयोदितम् ॥७॥
यच्च तत्परमं देवि ध्रुवमक्षयमव्ययम् ॥
सोमेशं तद्विजानीहि मा विकल्पमना भव॥८॥
निर्भयं निर्मलं नित्यं निरपेक्षं निराश्रयम् ॥
निरंजनं निष्प्रपंचं निःसंगं निरुपद्रवम्। ॥ ९ ॥
तल्लिंगमिति जानीहि प्रभासे संव्यवस्थितम् ॥
अपवर्गमविज्ञेयं मनोरम्यमनामयम् ॥ 7.1.6.१० ॥
नित्यं च कारणं देवं मखघ्नं सर्वतोमुखम् ॥
शिवं सर्वात्मकं सूक्ष्ममनाद्यं यच्च दैवतम् ॥ ११ ॥
आत्मोपलब्धिविज्ञेयं चित्तचिंताविवर्जितम् ॥
गमागमविनिर्मुक्तं बहिरंतश्च केवलम् ॥ १२ ॥
आत्मोपलब्धिविषयं स्तुतिगोचरवर्जितम् ॥
निष्कलं विमलात्मानं प्रकटं ज्ञानदीपकम् ॥१३॥
तल्लिंगमिति जानीहि प्रभासे सुरसुंदरि ॥
निरावकाशरहितं शब्दं शब्दांतगोचरम् ॥ १४ ॥
निष्कलं विमलं देवं देवदेवं सुरात्मकम् ॥
हेतुप्रमाणरहितं कल्पनाभाववर्जितम् ॥१५॥
चित्तावलोकविषयं बहिरंतरसंस्थितम् ॥
प्रभासे तं विजानीहि प्रणवं लिंगरूपिणम् ॥ १६ ॥
अनिष्पंदं महात्मानं निरानंदावलोकनम् ॥
लोकावलोकमार्गस्थं विशुद्धज्ञानकेवलम्॥१७॥
विद्याविशेषमार्गस्थमनेकाकारसंज्ञितम् ॥
स्वभावभावनाग्राह्यं भावातीतमलक्षणम् ॥१८॥
वाक्प्रपंचादिरहितं निष्प्रपञ्चात्मकं शिवम्॥
ज्ञानज्ञेयावलोकस्थं हेत्वाभासविवर्जितम्॥१९॥
अनाहतं शब्दगतं शब्दादिगणसंभवम् ॥
एवं सोमेश्वरं विद्धि प्रभासे लिंगरूपिणम् ॥ 7.1.6.२० ॥
शब्दब्रह्मगतं शान्तं स शब्दांतगमास्पदम् ॥
सर्वातिरिक्त विषयं सर्वध्यानपदे स्थितम् ॥ २१ ॥
अनादिमच्युतं दिव्यं प्रमाणातीत गोचरम् ॥
अधश्चोर्ध्वं गतं नित्यं जीवाख्यं देहसंस्थितम् ॥ २२ ॥
हृदादिद्वादशांतस्थं प्राणापानोदयास्तगम् ॥
अग्राह्यमिन्द्रियात्मानं निष्कलंकात्मकं विभुम् ॥२३॥
स्वरादिव्यंजनातीतं वर्णादिपरिवर्जितम् ॥
वाचामवाच्यविषयमहंकारार्द्धरूपिणम् ॥२४॥
अप्रतर्क्यमनुच्चार्यं कलनाकालवर्जितम् ॥
निःशब्दं निश्चलं सौम्यं देहातीतं परात्परम् ॥२५॥
भूतावग्रहरहितं भावाभावविवर्जितम् ॥
अविज्ञेयं परं सूक्ष्मं पञ्चपञ्चादिसंभवम् ॥ २६ ॥
अप्रमेयमनंताख्यमक्षयं कामरूपिणम् ॥
प्रभवं सर्वभूतानां बीजांकुरसमुद्भवम् ॥ २७ ॥
व्यापकं सर्वकामाख्यमक्षरं परमं महत् ॥
स्थूलसूक्ष्मविभागस्थं व्यक्ताव्यक्तं सनातनम् ॥ २८ ॥
कल्पकल्पान्तरहितमनादिनिधनं महत् ॥
महाभूतं महाकायं शिवं निर्वाणभैरवम् ॥ २९ ॥
एवं सदाशिवं विद्धि प्रभासे लिंगरूपिणम् ॥
योगक्रिया विनिर्मुक्तं मृत्युंजयमनादिमत् ॥ 7.1.6.३० ॥
सर्वोपसर्गरहितं सर्वतोव्यापकं शिवम् ॥
अव्यक्तं परतो नित्यं केवलं द्वैतवर्जितम् ॥ ३१ ॥
अनन्यतेजसाक्रांतं प्रभासक्षेत्रवासिनम्॥
भूरिस्वयंप्रभप्रख्यं सर्वतेजोऽधिकं हरम्॥३२॥
शरण्यंदेवमीशानमोंकारं शिवरूपिणम्॥
देवदेवं महादेवं पंचवक्त्रं वृषध्वजम्॥३३॥
निर्मलं मानसातीतं भावग्राह्यमनूपमम्॥
सदा शांतं विरूपाक्षं शूलहस्तं जटाधरम्॥३४॥
हृत्पद्मकोशमध्यस्थं शून्यरूपं निरञ्जनम् ॥
एवं सदाशिवं विद्धि प्रभासे लिङ्गरूपिणम् ॥ ३५ ॥
योऽसौ परात्परो देवो हंसाख्यः परिकीर्तितः ॥
नादाख्यः सुव्रते देवि सोऽस्मिन्स्थाने स्थितः स्वयम् ॥ ३६ ॥
एतदादिस्वरूपं च मया योगबलेन तु ॥
विज्ञातं देवि गदितं दिव्यमात्मानमात्मना ॥ ३७ ॥
ऋग्वेदस्थस्तु पूर्वाह्णे मध्याह्ने यजुषि स्थितः ॥
अपराह्णे तु सामस्थो ह्यथर्वस्थो निशागमे ॥ ३८ ॥
वेदाहमेतं पुरुषं महांतमादित्यवर्णं तमसः परस्तात् ॥
तमेव विदित्वा न भवेत्तु मृत्युर्नान्यः पंथा विद्यते वै जनानाम् ॥ ३९ ॥
इतीरितस्ते तु महाप्रभावः सोमेशलिंगस्य कृतैकदेशः ॥
वृतं न चाब्दैर्बहुभिः सहस्रैर्वक्तुं च केनापि मुखैर्न शक्यम् ॥7.1.6.४०॥।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रोऽपीदं पठेद्यदि ॥
निर्मुक्तः सर्वपापेभ्यः सर्वान्कामानवाप्नुयात् ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्रीसोमेश्वरमहिमवर्णनं नाम षष्ठोऽध्यायः॥६॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 7
॥ सूत उवाच ॥ ॥
एवं तत्र तदा देवी श्रुत्वा माहात्म्यमुत्तमम् ॥
हर्षोत्कंठितया वाचा पुनः पप्रच्छ शंकरम् ॥ १ ॥
॥ देव्युवाच ॥ ॥
देवदेव जगन्नाथ भक्तानुग्रहकारक ॥
समस्तज्ञानसंपन्न नमस्तेऽस्तु महेश्वर ॥ २ ॥
नमोऽस्तु वै त्रिपुरप्रहर्त्रे महात्मने तारकमर्दनाय ॥
नमोऽस्तु ते क्षीरसमुद्र दायिने शिशोर्मुनीन्द्रस्य समाहितस्य ॥३॥
नमोऽस्तु ते सर्वजगद्विधात्रे सर्वत्र सर्वात्मक सर्वकर्त्रे ॥
नमो भवायास्तु नमोऽभवाय नमोऽस्तु ते सर्वगताय नित्यम् ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
किं देवि पृच्छसेऽद्यापि सर्वं ते कथितं मया ॥
संदिग्धमस्ति किंचिच्चेत्पुनः पृच्छस्व भामिनि ॥ ५ ॥
॥ देव्युवाच ॥ ॥
सोमेश्वरेति यन्नाम कस्मिन्काले बभूव तत् ॥
किं नामाग्रेऽभवल्लिंगं नाम किं भविताऽधुना ॥ ६ ॥
एवं यस्य प्रभावो वै नोक्तः पूर्वं त्वया विभो ॥
अन्येषां तीर्थदेवानां माहात्म्यं वर्णितं त्वया ॥
न त्वीदृशं तु कथितं श्रीसोमेशस्य यादृशम् ॥ ७ ॥
॥ ईश्वर उवाच ॥ ॥
पूर्वमेवाहमेवासं स्पर्शलिंगस्वरूपवान् ॥
न च मां तत्त्वतो वेद जनः कश्चिदिहेश्वरि ॥ ८ ॥
महाकल्पे तु सञ्जाते ब्रह्मणः प्रति संचरे ॥
नामभावं भवेदन्यद्देवि लिंगे पुनःपुनः ॥ ९ ॥
अतीतं ब्रह्मणां षट्कं सप्तमोऽयं प्रजापतिः ॥
वर्त्तते योऽधुना देवि शतानन्द इति श्रुतः ॥ ॥ 7.1.7.१॥।
अस्मिन्ब्रह्मणि देवेशि संजाते ह्यष्टवार्षिके ॥
तदा कालात्समारभ्य सोमेश इति विश्रुतः ॥ ११ ॥
अतीतेषु च देवेशि ब्रह्मसुप्तलयादनु ॥
बभूवुर्यानि नामानि तानि त्वं शृणु पार्वति ॥ १२ ॥
आद्यो विरंचिनामासीद्यदा ब्रह्मा पितामहः ॥
मृत्युञ्जयस्तदा नाम सोमनाथस्य कीर्तितम् ॥ ॥ १३ ॥
द्वितीयोऽभूद्यदा ब्रह्मा पद्मभूरिति विश्रुतः ॥
तदा कालाग्निरुद्रेति नाम प्रोक्तं शुभेंऽबिके ॥ १४ ॥
तृतीयोऽभूद्यदा ब्रह्मा स्वयंभूरिति विश्रुतः ॥
अमृतेशेति देवस्य तदा नाम प्रकीर्तितम् ॥ १५ ॥
चतुर्थोऽभूद्यथा ब्रह्मा परमेष्ठीति विश्रुतः ॥
अनामयेति देवस्य तदा नाम स्मृतं शुभे॥१६॥
पंचमोऽभूद्यदा ब्रह्मा सुरज्येष्ठ इति स्मृतः॥
कृत्तिवासेति देवस्य नाम प्रोक्तं तदाम्बिके॥१७॥
षष्ठश्चाभूद्यदा ब्रह्मा हेमगर्भ इति श्रुतः॥
तदा भैरवनाथेति नाम देवस्य कीर्तितम्॥१८॥
अयं यो वर्त्तते ब्रह्मा शतानंद इति स्मृतः ॥
सोमनाथेति देवस्य वर्तते नाम सांप्रतम्॥१९॥
अतः परं चतुर्वक्त्रो ब्रह्मा यो भविता यदा ॥
प्राणनाथेति देवस्य तदा नाम भविष्यति॥7.1.7.२०॥
अतीता ये विधातारो भविष्यंति च येऽधुना॥
तावत्तद्वर्त्तते नाम यावदन्योष्टवार्षिकः ॥
संध्यासंध्यांशभेदेन विष्ण्वनंतसनातनाः ॥ २१ ॥
एवं नामानि देवस्य संक्षेपात्कीर्तितानि मे ॥
विस्तरात्कथितुं नैव शक्यंते कालगौरवात् ॥ २२ ॥
॥ देव्युवाच ॥ ॥
आश्चर्यं देवदेवेश यत्त्वया कथितं प्रभो ॥
पूर्वोक्तानि च नामानि न स्मरंति च मे कथम् ॥२३॥
एतद्विस्तरतो ब्रूहि कारणं च जगत्पते ॥
सर्वभूतहितार्थाय ममानुग्रहकाम्यया ॥ २४ ॥
॥ ईश्वर उवाच ॥ ॥
कल्पेकल्पे महादेवि अवतारं करोषि यत् ॥
तेन ते स्मरणं नास्ति प्रभावात्प्रकृतेः प्रिये ॥ २५ ॥
तत्त्वावरणमध्ये तु तत्राद्या त्वं प्रतिष्ठिता ॥
साऽवतीर्यांडमध्ये तु मया सार्द्धं वरानने ॥ २६ ॥
अनुग्रहार्थं लोकानां प्रादुर्भूता पुनःपुनः ॥
आद्ये कल्पे जगन्माता जगद्योनिर्द्वितीयके ॥ २७ ॥
तृतीये शांभवीनाम चतुर्थे विश्वरूपिणी ॥
पञ्चमे नंदिनीनाम षष्ठे चैव गणांबिका ॥ २८ ॥
विभूतिः सप्तमे कल्पे सुभूतिश्चाष्टमे तदा ॥
आनन्दा नवमे कल्पे दशमे वामलोचना ॥ २९ ॥
एकादशे वरारोहा द्वादशे च सुमङ्गला ॥
कल्पे त्रयोदशे चैव महामाया ह्युदाहृता ॥ 7.1.7.३० ॥
ततश्चतुर्दशे कल्पेऽनन्तानाम प्रकीर्तिता ॥
भूतमाता पंचदशे षोडशे चोत्तमा स्मृता ॥ ३१ ॥
ततः सप्तदशे कल्पे पितृकल्पे तु विश्रुता ॥
दक्षस्य दुहिता जाता सतीनाम्नी महाप्रभा ॥ ३२ ॥
अपमानात्तु दक्षस्य स्वां तनूमत्यजत्पुनः ॥
उमां कलां तु चन्द्रस्य पुरापूर्य च संस्थिता ॥ ३३ ॥
ततः प्रवृत्ते वाराहे कल्पे त्वं सुरसुन्दरि ॥
पुनर्हिमवताराध्य दुहिता त्वमतः कृता ॥ ३४ ॥
ततो देव्यद्भुतं तप्त्वा तपः परमदुश्चरम् ॥
भर्त्तारं मां पुनः प्राप्य पार्वतीति निगद्यसे ॥ ३५ ॥
कैलासनिलयश्चाहं त्वया सार्द्धं वरानने ॥
क्रीडामि तव देवेशि यावत्कल्पावसानकम् ॥३६॥
इदं चतुर्गुणं प्राप्य द्वापरे विष्णुना सह ॥
महिषस्य वधार्थाय उत्पन्ना कृष्णपिंगला ॥ ३७ ॥
कात्यायनीति दुर्गेति विविधैर्नामपर्ययैः ॥
नवकोटिप्रभेदेन जातासि वसुधातले ॥ ३८ ॥
यानि ते कल्पनामानि पूर्वमुक्तानि सुन्दरि ॥
तानि त्रयोदशाकल्पादुदक्तात्कथितानि मे ॥ ३९ ॥
अतीतानि भविष्याणि वर्त्तमानानि सुन्दरि ॥
एवं ज्ञेयानि सर्वाणि ब्रह्मकल्पावधि प्रिये ॥ ॥ 7.1.7.४० ॥
॥ देव्युवाच ॥ ॥
सोमनाथेति यन्नाम त्वया पूर्वमुदाहृतम् ॥
तत्कथं निश्चलं नाम मन्यते त्रिपुरांतक ॥ ४१ ॥
असंख्यत्वाच्च चंद्राणां जन्मनामप्रभेदतः ॥
मन्वन्तरे तु संजाते युगानामेकसप्ततौ ॥ ४२ ॥
चंद्रसूर्यादयो देवाः संह्रियंते पुनःपुनः ॥
सप्तर्षयः सुराः शक्रो मनुस्तत्सूनवो नृपाः ॥ ४३ ॥
एककालं च सृज्यंते संह्रियंते च पूर्ववत् ॥
एतन्मे संशयं देव यथावद्वक्तुमर्हसि ॥४४॥
॥ ईश्वर उवाच ॥ ॥
साधु पृष्टं त्वया देवि रहस्यं पापनाशनम् ॥
यन्न कस्यचिदाख्यातं तत्ते वक्ष्याम्यशेषतः ॥४५॥
अयं यो वर्त्तते ब्रह्मा शतानन्द इति श्रुतः॥
तस्य चैवाष्टमे वर्षे मनुर्यः प्रथमो भवेत् ॥ ४६ ॥
तस्मिन्मन्वन्तरे देवि यश्चादौ रोहिणीपतिः ॥
समुद्रगर्भात्संजातः सलक्ष्मीकौस्तुभादिभिः ॥ ४७ ॥
तेन चाराधितं लिंगं कालभैरवनामतः ॥
महता तपसा पूर्वं युगानि च चतुर्द्दशे ॥ ४८ ॥
तस्याद्भुतं तपो दृष्ट्वा तुष्टोऽहं तस्य सुन्दरि ॥
वरं वृणीष्वेति मया स च प्रोक्तो निशाकरः ॥ ४९ ॥
सहोवाच तदा देवि भक्त्या संस्तुत्य मां शुभे ॥ 7.1.7.५० ॥
॥ चंद्र उवाच ॥ ॥
यदि प्रसन्नो देवेश वरार्हो यदि वाऽप्यहम् ॥
सोमनाथेति तं नाम भूयाद्ब्रह्मावधि प्रभो ॥ ५१ ॥
ये केचिद्भवितारोऽन्ये मन्वन्ते शीतरश्मयः ॥
तेषां भवतु देवेश देवोऽयं कुलदेवता ॥ ॥ ५२ ॥
आराधयंतु ते सर्वे क्षेत्रेऽस्मिन्संस्थिता विभो ॥
स्वकीयायुःप्रमाणेन ब्रह्मणः प्रलयादनु ॥ ५३ ॥
सोमनाथेति ते नाम ब्रह्मांडे सचराचरे ॥
ख्यातिं प्रयातु देवेश तेजोलिंग नमोऽस्तु ते ॥ ५४ ॥
॥ ईश्वर उवाच ॥ ॥
एवमस्त्वित्यहं प्रोच्य पुनर्लिंगे लयं गतः ॥
एतत्ते कारणं देवि प्रोक्तं सर्वमशेषतः ॥ ५५ ॥
निःसन्दिग्धं तु संक्षेपात्पुरा पृष्टं यतस्त्वया ॥
उद्देशमात्रं कथितं श्रीसोमेशगुणान्प्रति ॥
समुद्रस्येव रत्नानामचिन्त्यस्तस्य विस्तरः ॥ ५६ ॥
मोहनं तदभक्तानां भक्तानां बुद्धिवर्द्धनम् ॥
मूढास्ते नैव पश्यंति स्वरूपं मम मोहिताः ॥ ५७ ॥
॥ देव्युवाच ॥ ॥
ईदृशं यस्य माहात्म्यं तेजोलिंगस्य शंकर ॥
कुत्र तिष्ठति तल्लिंगं क्षेत्रे तस्मिन्सुरेश्वर ॥ ५८ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रयत्नेन श्रुत्वा चैवावधारय ॥
प्रभासं परमं देवि क्षेत्रमेतन्मम प्रियम् ॥ ५९ ॥
देवानामपि संस्थानं तच्च द्वादशयोजनम् ॥
पंचयोजनमानेन पीठं तत्र प्रकीर्त्तितम् ॥ 7.1.7.६० ॥
तन्मध्ये मद्गृहं देवि तच्च गव्यूतिमात्रकम् ॥
समुद्रस्योत्तरे देवि देविकामुखसंज्ञितम् ॥ ६१ ॥
वज्रिण्याः पूर्वतश्चैव यावन्न्यंकुमती नदी ॥
चतुष्टयं च विस्तारादायामात्पंचयोजनम् ॥ ६२ ॥
क्षेत्रपीठमिति प्रोक्तमतो गर्भगृहं शृणु ॥
समुद्रात्कौरवी यावद्दक्षिणोत्तरमानतः ॥
पूर्वपश्चिमतो ज्ञेयं गोमुखादाऽऽश्वमेधकम् ॥ ६३ ॥
एतन्मम गृहं देवि न त्यजामि कदाचन ॥
तस्य मध्ये स्थितं लिंगं यत्र तत्ते प्रकीर्तितम् ॥ ६४ ॥
वारुणीं दिशमाश्रित्य सागरस्य च सन्निधौ ॥
कृतस्मरस्यापरतो धन्वन्तरशतत्रये ॥ ६५ ॥
लिंगं महाप्रभावं तुं स्वयंभूतं व्यवस्थितम् ॥
तत्र संनिहितो देवः शंकरः परमेश्वरः॥ ६६ ॥
एतस्मिन्नन्तरे देवि सोमेशस्य समीपतः ॥
चतुर्द्दशे विभागे तु धनुषां च शतद्वयम् ॥ ॥ ६७ ॥
समंतान्मंडलाकारा कर्णिका सा मम प्रिया ॥
तस्यां ये प्राणिनः सर्वे मृताः कालेन पार्वति ॥ ६८ ॥
कृमिकीटपतंगाद्या जीवा उत्तम मध्यमाः ॥
निर्द्धूतकल्मषाः सर्वे यांति लोकं ममापि ते ॥६९॥
उत्तरं दक्षिणं चापि अयनं न विचारयेत् ॥
सर्वस्तेषां शुभः कालो ये मृताः क्षेत्रमध्यतः ॥ 7.1.7.७० ॥
आदिनाथेन शर्वेण सर्वप्राणिहिताय वै ॥
आद्यतत्त्वान्यथानीय क्षेत्रमेतन्महाप्रभम् ॥
प्रभासितं महादेवि यत्र सिद्ध्यंति मानवाः ॥७१॥
हन्यमानोऽपि यो विद्वान्वसेद्विघ्नशतैरपि ॥
कृतप्रतिज्ञो देवेशि यावज्जीवं सुरेश्वरि ॥ ७२ ॥
स गच्छेत्परमं स्थानं यत्र गत्वा न शोचति॥
तस्य क्षेत्रस्य माहात्म्यात्स्थाणोश्चाद्भुतकर्मणः ॥ ७३ ॥
कृत्वा पापसहस्राणि पश्चात्सन्तापमेति वै ॥
प्रभासे तु वियुज्येत न सोंऽतकपुरीं व्रजेत् ॥ ॥ ७४ ॥
ज्ञात्वा कलियुगं घोरं हाहाभूतमचेतनम् ॥
नियुक्तस्तत्र देवेशि रक्षार्थं विघ्ननायकः ॥ ७५ ॥
ये तु ब्राह्मणविद्विष्टाः शिवभक्तिवितंडकाः ॥
ब्रह्मघ्नाश्च कृतघ्नाश्च तथा नैष्कृतिकाश्च ये ॥ ७६ ॥
लोकद्विष्टा गुरुद्विष्टास्तीर्थायतनकण्टकाः ॥
सर्वपापरताश्चैव ये चान्ये तु विकुत्सिताः ॥ ७७ ॥
रक्षणार्थं ह वै तेषां नियुक्तो विघ्ननायकः ॥
कालाग्निरुद्रपार्श्वे तु रुद्रतुल्यपराक्रमः ॥ ७८ ॥
क्षेत्रं रक्षति देवेशि पापिष्ठानां नियामकः ॥
म्रियंते यदि ब्रह्मघ्नास्तथा पातकिनो नराः ॥ ७९ ॥
क्षेत्रे चास्मिन्वरारोहे तेषां देवि गतिं शृणु ॥
दशवर्षसहस्राणि दिव्यानि कमलेक्षणे ॥ 7.1.7.८० ॥
दासी पुत्राश्च जायन्ते तदंते ब्रह्मराक्षसाः ॥
ततः पापक्षये देवि पुनर्यांति वियोनिताम् ॥५१॥
तस्मात्सर्वप्रयत्नेन पापं तत्र न कारयेत् ॥
अन्यत्राऽऽवर्तितं पापं क्षेत्रे चास्मिन्विनश्यति ॥ ८२ ॥
अस्मिन्पुनः कृतं पापं पैशाचनरकावहम् ॥
भक्तानुकंपी भगवांस्तिर्यग्योनिगतेष्वपि ॥ ८३ ॥
ददाति परमं स्थानं न तु ब्रह्मद्विषां प्रिये॥
ये च ध्यानं समासाद्य युक्तात्मानः समाहिताः ॥ ८४ ॥
संनियम्येन्द्रियग्रामं जपंति शतरुद्रियम्॥
प्रभासे तु स्थिता देवि ते कृतार्था न संशयः ॥ ८५ ॥
यदि गच्छेन्नरः कश्चित्प्रभासं क्षेत्रमुत्तमम् ॥
तमुपायं प्रकुर्वीत निर्गच्छेन्न पुनर्यथा ॥ ८६ ॥
एतद्गोप्यं वरारोहे न देयं यस्य कस्यचित्॥
गोपनीयमिदं शास्त्रं यथा प्राणाः स्वकाः प्रिये॥ ८७॥
येनेदं विहितं शास्त्रं प्रभासक्षेत्रदीपकम्॥
स शिवश्चैव विज्ञेयो मानुषीं प्रकृतिं स्थितः॥८८॥
तस्यविग्रहसंस्थोऽहं सदा तिष्ठामि पार्वति॥
वंदितः पूजितो ध्यातो यथाहं नात्र संशयः ॥ ८९ ॥
कलौ च दुर्ल्लभं देवि प्रभासक्षेत्रमुत्तमम् ॥
इदानीं तव स्नेहेन विशेषं कथयामि वै ॥
सत्यंसत्यं पुनः सत्यं त्रिःसत्यं सुरसुन्दरि ॥ ॥ 7.1.7.९० ॥
यानि लिंगानि भूर्लोके सोमेशस्तेषु मे प्रियः ॥
अस्मिँल्लिंगे गुणा ये तु ते देवि विदिता मम ॥ ९१ ॥
अहमेव विजानामि नान्यो वेद कथंचन ॥
अन्येषु चैव लिंगेषु अहं पूज्यः सुरासुरैः ॥ ९२ ॥
लिंगं चेमं पुनर्देवि पूजयामो वयं स्वयम् ॥ ९३ ॥
यस्मिन्काले न वै ब्रह्मा न भूमिर्न दिवाकरः ॥
सर्वं चैव जगन्नाथ तस्मिन्काले यशस्विनि ॥ ९४ ॥
इमं लिंगं परं चैव ब्रह्मणः प्रलये तदा ॥
भाविनीं वृत्तिमास्थाय इदं स्थानं तु रक्षति ॥ ९५ ॥
दशकोट्यस्तु लिंगानां गंगाद्वाराद्वरानने ॥
आगत्य तानि मध्याह्ने लिंगेऽस्मिन्यांति संलयम् ॥ ९६ ॥
पृथिव्यां यानि तीर्थानि गगनस्थानि यानि तु ॥
स्नानार्थमस्य लिंगस्य समागच्छंति सर्वदा ॥ ९७ ॥
धन्यास्तु खलु ते मर्त्त्याः प्रभासे संव्यवस्थिताः ॥
सोमेश्वरं ये द्रक्ष्यंति संसारभयमोचनम् ॥ ९८ ॥
देवि सोमेश्वरं लिंगं ये स्मरिष्यंति भाविताः ॥
सर्वपापक्षयस्तेषां भविष्यति न संशयः ॥ ९९ ॥
एतत्स्मृतं प्रियतमं मम देवि नित्यं क्षेत्रं पवित्रमृषिसिद्धगणाभिरम्यम् ॥
अस्मिन्मृताः सकलजीवमृतोऽपि देवि स्वर्गात्परं समुपयांति न संशयोऽत्र ॥ 7.1.7.१०० ॥
यं देवा न विजानंति ब्रह्मविष्णुपुरोगमाः ॥
न सांख्येन न योगेन नैव पाशुपतेन च ॥ १०१ ॥
कैवल्यं निष्कलं यत्त- दस्मिँल्लिंगे तु लभ्यते ॥
तावद्भ्रमंति संसारे देवाद्यास्तु यशस्विनि ॥ १०२ ॥
यावत्सोमेश्वरं देवं न विंदंति त्रिलोचनम् ॥
क्षेत्रं प्रभासमित्युक्तं क्षेत्रज्ञोऽहं न संशयः ॥ १०३ ॥
एतं तवोक्तं ननु बोधनाय सोमेश्वरस्यैव महाप्रभावम् ॥
ये वै पठिष्यंति नरा नितांतं यास्यंति ते तत्पदमिंदुमौलेः ॥ ॥ १०४ ॥
सोमेश्वरं देववरं मनुष्या ये भक्तिमंतः शरणं प्रपन्नाः ॥
ते घोररूपे च भयावहे च संसारचक्रे न पुनर्भ्रमंति ॥ १०५ ॥
ये दक्षिणा मूर्त्तिमुपाश्रिताः स्युर्जपंति नित्यं शतरुद्रियं द्विजाः ॥
तेऽस्मिन्भवे नैव पुनर्भवंति संसारपारं परमं गता वै ॥ १०६ ॥
उद्देशमात्रं कथितो मया ते श्रीसोमनाथस्य कृतैकदेशः ॥
अब्दैरनेकैर्बहुभिर्युगैर्वा न शक्यमेकेन मुखेन वक्तुम् ॥ १०७ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्रीसोमनाथप्रादुर्भाववर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 8
॥ देव्युवाच ॥ ॥
पुनः कथय देवेश माहात्म्यं लोकशंकर ॥
श्रीसोमेश्वरदेवस्य सर्वपातकनाशनम्॥
ब्रह्मविष्ण्वीशदैवत्यं तथात्र त्रितयं वद ॥ ॥। १ ॥
॥ ईश्वर उवाच ॥ ॥
शृणुष्वैकमना भूत्वा मम गोप्यं पुरातनम् ॥
तस्मिँल्लिंगे च यद्वृत्तमाश्चर्यं परमं महत् ॥ २ ॥
षष्टिकोटि सहस्राणि ऋषीणामूर्द्ध्वरेतसाम् ॥
तस्मिँल्लिंगे प्रविष्टानि ते घृताहुतिरिवानले ॥ ३ ॥
सिद्धिर्वृद्धिस्तथा तुष्टिर्ऋद्धिः पुष्टिस्तु पंचमी ॥
कीर्तिः शांतिस्तथा लक्ष्मीस्तस्मिंल्लिंगे समुत्थिता ॥ ४ ॥
सप्तकोट्यस्तु मंत्राणां सिद्धीनां चैव संभवः ॥
दिव्ययोगरसाश्चान्ये दिव्यौषधिरसायनाः ॥ ५ ॥
गारुडं भूततंत्रं च खेचर्यो व्यंतरीस्तथा ॥
ते सर्वे सह योगेन तस्माल्लिंगात्समुत्थिताः ॥ ६ ॥
अन्याश्चैव तु याः काश्चित्सिद्धयोऽष्टौ प्रकीर्तिताः ॥
ताः सर्वाः सह लिंगेन तस्मात्स्थानात्समुत्थिताः ॥ ७ ॥
अन्यद्देवि प्रवक्ष्यामि अत्र सिद्धिं गतास्तु ये ॥
ममांशसंभवाः प्राप्ता अस्मिँल्लिंगे लयं गताः ॥ ९ ॥
तेषां च विक्रमान्सर्वान्प्रवक्ष्याम्यनुपूर्वशः ॥
पुराक्रमा ग्रहा मुण्डा गुडकाश्च सहेतुकाः ॥ ९ ॥
विमला दंडिकाश्चैव सप्तैते कुत्सिकाः स्मृताः ॥
अस्मिंल्लिंगे पुरा सिद्धा योगात्पाशुपतान्मम ॥ 7.1.8.१० ॥
रुद्रो विप्रस्तथा दानश्चंद्रो मन्थोऽवलोककः ॥
सूर्यावलोकश्चेति गार्गेयाः सप्त कीर्त्तिताः ॥ ११ ॥
सोमेश्वरे च ते सिद्धाः प्रभासे वरवर्णिनि ॥
मूकमन्यः शिवश्चैव प्रकाशः कपिलस्तथा ॥ १२ ॥
सत्कुलः कर्णिकारश्च पौरुषेयाः प्रकीर्त्तिताः ॥
सोमेश्वरे पुरा सिद्धाः प्रभासे पापनाशने ॥ १३ ॥
युगेयुगे पुरा सिद्धास्तस्मिँल्लिंगे प्रिये मम ॥
एते चान्ये च ये विप्रा भविष्यंति कलौ युगे ॥ १४ ॥
तत्र सिद्धिं गमिष्यंति दुर्ल्लभां त्रिदशैरपि ॥
एतत्ते सर्वमाख्यातं तल्लिंगं सिद्धिदं परम् ॥ १९ ॥
दुर्ल्लभं सर्वमर्त्त्यानां प्रभासे तु व्यवस्थितम् ॥
न च कश्चिद्विजानाति अशुभैः कर्मभिर्वृतः ॥ १६ ॥
ग्रहदोषास्तु ये केचिद्भूतदोषास्तथा परे ॥
डाकिनीप्रेतवेताला राक्षसा ग्रहपूतनाः ॥ १७ ॥
पिशाचा यातुधानाश्च मातरो जातहारिकाः ॥
बालग्रहास्तथा चान्ये बुद्धाश्चैव तु ये ग्रहाः ॥ १८ ॥
ज्वरभूत ग्रहाश्चान्ये ह्यतिसारभगंदराः ॥
अश्मरी मूत्रकृच्छ्रं च रोगाश्चान्ये सहस्रशः ॥ १९ ॥
दुर्नामकास्तथा चान्ये कुष्ठरोगास्तथा परे ॥
क्षयरोगास्तथा चान्ये वातगुल्मास्तथैव च ॥
अन्ये चैव तु ये केचिद्व्याधयस्तु प्रकीर्त्तिताः ॥ 7.1.8.२० ॥
सोमेश्वरं समासाद्य तस्य लिंगस्य दर्शनात् ॥
सर्व एव विनश्यंति वह्नौ क्षिप्तमिवेन्धनम् ॥ २१ ॥
उपसर्गाश्च () चान्ये सर्पघोणपवृश्चिकाः ॥
सर्वे तत्र विनश्यंति श्रीसोमेश्वरदर्शनात् ॥ २२ ॥
योऽसौ सोमेश्वरो नाम्ना पश्चिमो भैरवः स्मृतः ॥
कालाग्निरुद्रनाथेति पर्यायैर्नामभिः श्रुतः ॥ २३ ॥
तस्मिंस्तिष्ठामि देवेशि भक्तानुग्रहकारकः ॥
सर्वं च दुष्कृतं नृणां भक्षयामि न संशयः ॥ २४ ॥
योऽसौ प्राणः शरीरस्थो देहिनां देहसंचरः ॥
ब्रह्मांडमेतद्यस्यांतरेको यश्चाप्यनेकधा ॥ २५ ॥
वेदाः सर्वेऽपि यं देवं प्रशंसंति महर्षयः ॥
परस्य ब्रह्मणो रूपं यस्य द्वारेण लभ्यते ॥ २६ ॥
सोऽयं देवि महादेवः प्रभासे संव्यवस्थितः ॥
यथा गुप्तं गृहे रत्नं न कश्चिद्विंदते नरः ॥ २७ ॥
प्रभासे तु स्थितं तद्वद्रत्नभूतं गृहे मम ॥
तच्च लिंगं पुरा कल्पे सप्तपातालभेदकम् ॥ २८ ॥
कथितं कोटि सूर्यस्य प्रलयानलसंनिभम् ॥
तेनकालाग्निरुद्रेति प्रोक्तं सोमेश्वरः पुरा ॥ २९ ॥
इति देवि समासेन कथितं तव पार्वति ॥
सोमेश्वरस्य माहात्म्यं सर्वपातकनाशनम् ॥ 7.1.8.३० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासमाहात्म्ये श्रीसोमेश्वरैश्वर्यवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 9
॥ देव्युवाच ॥ ॥
दिव्यं तेजो नमस्यामि यन्मे दृष्टं पुरातने ॥
कालाग्निरुद्रमध्यस्थं प्रभासे शंकरोद्भवम् ॥ १ ॥
यो वेदसंघैर्ऋषिभिः पुराणैर्वेदोक्तयोगैरपि इज्यमानः ॥
तं देवदेवं शरणं व्रजामि सोमेश्वरं पापविनाशहेतुम् ॥ २ ॥
देवदेव जगन्नाथ भक्तानुग्रहकारक ॥
संशयो हृदि मे कश्चित्तं भवाञ्छेत्तुमर्हति ॥ ३ ॥
॥ ईश्वर उवाच ॥ ॥
कः संशयः समुत्पन्नस्तव देवि यशस्विनि ॥
तन्मे कथय कल्याणि तत्सर्वं कथयाम्यहम् ॥ ४ ॥
॥ देव्युवाच ॥ ॥
यदि त्वं च महादेवो मुण्डमाला कथं कृता ॥
अनादि निधनो धाता सृष्टिसंहारकारकः ॥ ५ ॥
ततो विहस्य देवेशः शंकरो वाक्यमब्रवीत् ॥
अनेकमुण्डकोटीभिर्या मे माला विराजते ॥ ६ ॥
नारायण सहस्राणां ब्रह्मणामयुतस्य च ॥ कृता शिरःकरोटीभिरनादिनिधना ततः ॥ ७ ॥
अन्यो विष्णुश्च भवति अन्यो ब्रह्मा भवत्यपि ॥
कल्पे कल्पे मया सृष्टः कल्पे विष्णुः प्रजापतिः ॥ ८ ॥
अहमेवंविधो देवि क्षेत्रे प्राभासिके स्थितः ॥
कालाग्निलिंगमूले तु मुंडमालाविभूषितः ॥ ९ ॥
अक्षसूत्रधरः शान्त आदिमध्यांतवर्जितः ॥
पद्मासनस्थो वरदो हिमकुन्देन्दुसन्निभः ॥ 7.1.9.१० ॥
मम वामे स्थितो विष्णुर्दक्षिणे च पितामहः ॥
जठरे चतुरो वेदाः हृदये ब्रह्म शाश्वतम् ॥ ११ ॥
अग्निः सोमश्च सूर्यश्च लोचनेषु व्यवस्थिताः ॥ १२ ॥
एवंविधो महादेवि प्रभासे संव्यवस्थितः ॥
आप्यतत्त्वात्समानीते मा ते भूत्संशयः क्वचित् ॥ १३ ॥
एवमुक्ता तदा देवी हर्षगद्गदया गिरा ॥
तुष्टाव देवदेवेशं भक्त्या परमया युता ॥ १४ ॥ ॥
देव्युवाच ॥ ॥ जय देव महादेव सर्वभावन ईश्वर ॥
नमस्तेऽस्तु सुरेशाय परमेशाय वै नमः ॥१५॥
अनादिसृष्टिकर्त्रे च नमः सर्वगताय च ॥
सर्वस्थाय नमस्तुभ्यं धाम्नां धाम्ने नमोऽस्तु ते ॥ १६ ॥
षडंताय नमस्तुभ्यं द्वादशान्ताय ते नमः ॥
हंसभेद नमस्तुभ्यं नमस्तुभ्यं च मोक्षद ॥ १७ ॥
इति स्तुतस्तदा देव्या प्रचलच्चन्द्रशेखरः ॥
ततस्तुष्टस्तु भगवानिदं वचनमब्रवीत्॥ १८ ॥ ॥
ईश्वर उवाच ॥ ॥
साधुसाधु महाप्राज्ञे तुष्टोऽहं व्रियतां वरः ॥ १९ ॥
॥ देव्युवाच ॥ ॥
यदि तुष्टोऽसि देवेश वरार्हा यदि वाप्यहम्॥
प्रभास क्षेत्रमाहात्म्यं पुनर्विस्तरतो वद ॥ 7.1.9.२० ॥
भूतेश भगवान्विष्णुर्दैत्यानामन्तकाग्रणीः ॥
स कस्माद्द्वारकां हित्वा प्रभासक्षेत्रमाश्रितः ॥ २१ ॥
षष्टि तीर्थसहस्राणि षष्टिकोटिशतानि च ॥
द्वारकामध्यसंस्थानि कथं न्यक्कृतवान्हरिः ॥ २२ ॥
अमरैरावृतां पुण्यां पुण्यकृद्भिर्निषेविताम् ॥
एवं तां द्वारकां त्यक्त्वा प्रभासं कथमागतः ॥ २३ ॥
देवमानुषयोर्नेता द्योभुवोः प्रभवो हरिः ॥
किमर्थं द्वारकां त्यक्त्वा प्रभासे निधनं गतः ॥ २४ ॥
यश्चक्रं वर्त्तयत्येको मानुषाणां मनोमयम् ॥
प्रभासे स कथं कालं चक्रे चक्रभृतां वरः ॥२५॥
गोपायनं यः कुरुते जगतः सार्वलौकिकम् ॥
स कथं भगवान्विष्णुः प्रभासक्षेत्रमाश्रितः ॥ २६ ॥
योंतकाले जलं पीत्वा कृत्वा तोयमयं वपुः ॥
लोकमेकार्णवं चक्रे दृष्ट्या दृष्टेन चात्मना ॥ २७ ॥
स कथं पञ्चतां प्राप प्रभासे पार्वतीपते ॥
यः पुराणे पुराणात्मा वाराहं वपुरास्थितः ॥ २८ ॥
उद्दधार महीं कृत्स्नां सशैलवनकाननाम्॥
स कथं त्यक्तवान्गात्रं प्रभासे पापनाशने ॥ २९ ॥
येन सिंहं वपुः कृत्वा हिरण्यकशिपुर्हतः ॥
स कथं देवदेवेशः प्रभासं क्षेत्रमाश्रितः ॥ 7.1.9.३० ॥
सहस्रचरणं देवं सहस्राक्षं महाप्रभम्॥
सहस्रशिरसं वेदा यमाहुर्वै युगेयुगे ॥ ३१ ॥
तत्याज स कथं देवः प्रभासे स्वं कलेवरम्॥
नाभ्यरण्यां समुद्भूतं यस्य पैतामहं गृहम् ॥ ३२ ॥
एकार्णवगते लोके तत्पंकजमपंकजम् ॥
येनोद्धृतं क्षणेनैव प्रभासस्थः स किं हरिः ॥ ३३ ॥
उत्तरांशे समुद्रस्य क्षीरोदस्या मृतोदधेः ॥
यः शेते शाश्वतं योगमास्थाय परवीरहा ॥
स कथं त्यक्तवान्देहं प्रभासे परमेश्वरः ॥ ३४ ॥
हव्यादान्यः सुरांश्चक्रे कव्यादांश्च पितॄ नपि ॥
स कथं देवदेवेशः प्रभासं क्षेत्रमाश्रितः ॥ ३५ ॥
युगानुरूपं यः कृत्वा रूपं लोकहिताय वै ॥
धर्ममुद्धरते देवः स कथं क्षेत्रमाश्रितः ॥३६॥
त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पाठकास्त्रयः॥
त्रैकाल्यं त्रीणि कर्माणि त्रयो देवास्त्रयो गुणाः॥
सृष्टं येन पुरा देवः स कथं क्षेत्रमाश्रितः॥ ३७ ॥
या गतिर्द्धर्मयुक्तानामगतिः पापकर्मिणाम्॥
चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ॥ ३८ ॥
चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंस्थितः॥
कस्मात्स द्वारकां हित्वा प्रभासे पंचतां गतः ॥३९॥
दिगंतरं नभोभूमिरापो वायुर्विभावसुः॥
चंद्रसूर्यद्वयं ज्योतिर्युगेशः क्षणदातनुः ॥7.1.9.४०॥।
यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः॥
यः परं परतः प्रोक्तः परं यः परमात्मवान्॥४१॥
आदित्यादिश्च यो दिव्यो यश्च दैत्यांतको विभुः॥
स कथं देवकीसूनुः प्रभासे सिद्धिमीयिवान् ॥४२॥
युगांते चांतको यश्च यश्च लोकांतकांतकः ॥
सेतुर्यो लोकसत्तानां मेध्यो यो मेध्यकर्मणाम् ॥ ४३ ॥
वेत्ता यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम्॥
सोमभूतस्तु भूतानामग्निभूतोऽग्निवर्त्मनाम् ॥ ४४ ॥
मनुष्याणां मनोभूतस्तपोभूतस्तपस्विनाम् ॥
विनयो नयभूतानां तेजस्तेजस्विनामपि ॥४५॥
विग्रहो विग्रहाणां यो गतिर्गतिमतामपि ॥
स कथं द्वारकां हित्वा प्रभासक्षेत्रमाश्रितः॥४६॥
आकाशप्रभवो वायुर्वायुप्राणो हुताशनः॥
देवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः ॥
सकथं पद्मजप्राणः प्रभासं क्षेत्रमाश्रितः ॥४७॥
॥ सूत उवाच ॥ ॥
इति प्रोक्तस्तदा देव्या शंकरो लोकशंकरः ॥
उवाच प्रहसन्वाक्यं पार्वतीं द्विजसत्तमाः ॥ ४८ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि प्रभासक्षेत्रविस्तरम् ॥
रहस्यं सर्वपापघ्नं देवानामपि दुर्ल्लभम् ॥ ४९ ॥
देवि क्षेत्राण्यनेकानि पृथिव्यां संति भामिनि ॥
तीर्थानि कोटिसंख्यानि प्रभावस्तेषु संख्यया ॥ 7.1.9.५० ॥
असंख्येय प्रभावं हि प्रभासं परिकीर्तितम् ॥
ब्रह्मतत्त्वं विष्णुतत्त्वं रौद्रतत्त्वं तथैव च ॥५१॥
तत्र भूयः समायोगो दुर्ल्लभोऽन्येषु पार्वति॥
प्रभासे देवदेवेशि तत्त्वानां त्रितयं स्थितम् ॥५२॥
चतुर्विंशतितत्त्वैश्च ब्रह्मा लोकपितामहः ॥
बालरूपी च नाम्नां च तत्र स्थाने स्थितः स्वयम् ॥५३॥
पंचविशतितत्त्वानाम धिपो देवताग्रणीः ॥
तस्मिन्स्थाने स्थितः साक्षाद्दैत्यानामंतकः शुभे ॥ ५४ ॥
अहं देवि त्वया सार्द्धं षट्त्रिंशत्तत्त्वसंयुतः ॥
निवसामि महाभागे प्रभासे पापनाशने ॥ ५५ ॥
एवं तत्त्वमयं क्षेत्रं सर्वतीर्थमयं शुभम् ॥
प्रभासमेव जानीहि मा कार्षीः संशयं क्वचित् ॥ ५६ ॥
अपि कीटपतंगा ये म्रियंते तत्र ये नराः ॥
तेऽपि यांति परं स्थानं नात्र कार्या विचारणा ॥ ५७ ॥
स्त्रियो म्लेच्छाश्च शूद्राश्च पशवः पक्षिणो मृगाः॥
प्रभासे तु मृता देवि शिवलोकं व्रजंति ते ॥ ५८॥
कामक्रोधेन ये बद्धा लोभेन च वशीकृताः ॥
अज्ञानतिमिराक्रांता मायातत्त्वे च संस्थिताः ॥ ५९ ॥
कालपाशेन ये बद्धास्तृष्णाजालेन मोहिताः ॥
अधर्मनिरता ये च ये च तिष्ठंति पापिनः ॥ 7.1.9.६० ॥
ब्रह्मघ्नाश्च कृतघ्नाश्च ये चान्ये गुरुतल्पगाः ॥
महापातकिनश्चापि ते यान्ति परमां गतिम् ॥ ६१ ॥
मातृहंता नरो यस्तु पितृहंता तथैव च ॥
ते सर्वे मुक्तिमायांति किं पुनः शुभकारिणः ॥ ६२ ॥
इति ज्ञात्वा महादेवि दैत्यानामंतको हरिः॥
प्रभासक्षेत्रमासाद्य त्यक्तवान्स्वं कलेवरम्॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रभासक्षेत्रे श्रीहरिस्थितिप्रश्नवर्णनं नाम नवमोऽध्यायः ॥ ९॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 10
thumb|महाभूतानां चिह्नानि
॥ ईश्वर उवाच ॥ ॥
अन्यच्च कथयिष्यामि रहस्यं तव भामिनि ॥
यत्र कस्य चिदाख्यातं तत्ते वच्मि वरानने ॥ १ ॥
पृथ्वीभागे स्थितो ब्रह्मा अपां भागे जनार्द्दनः ॥
तेजोभागस्थितो रुद्रो वायुभागे तथेश्वरः ॥ २ ॥
आकाशभागसंस्थाने स्थितः साक्षात्सदाशिवः ॥ ३ ॥
यस्ययस्यैव यो भागस्तस्मिंस्तीर्थानि यानि वै ॥
तस्यतस्य न संदेहः स स एवेश्वरः स्मृतः ॥ ४ ॥
छागलंडं दुगण्डं च माकोटं मण्डलेश्वरम् ॥
कालिंजरं वनं चैव शंकुकर्णं स्थलेश्वरम् ॥ ५ ॥ महाभूतोपरि टिप्पणी
शूलेश्वरं च विख्यातं पृथ्वीतत्त्वे च संस्थितम् ॥
हरिश्चन्द्रं च श्रीशैलं जल्पेशोन्नांतिकेश्वरम्॥ ६ ॥
महाकालं मध्यमं च केदारं भैरवं तथा ॥
पवित्राष्टकमेतद्धि जलसंस्थं वरानने ॥ ७ ॥
अमरेशं प्रभासं च नैमिषं पुष्करं तथा ॥
आषाढिं चैव दण्डिं च भारभूतिं च लांगलम् ॥ ८ ॥
आदि गुह्याष्टकं ह्येतत्तेजस्तत्त्वे प्रतिष्ठितम् ॥
गया चैव कुरुक्षेत्रं तीर्थं कनखलं तथा ॥ ९ ॥
विमलं चाट्टहासं च माहेन्द्रं भीमसंज्ञकम् ॥
गुह्याद्गुह्यतरं ह्येतत्प्रोक्तं वाय्वष्टकं तव ॥ 7.1.10.१० ॥
वस्त्रापथं रुद्रकोटिर्ज्येष्ठेश्वरं महालयम् ॥
गोकर्णं रुद्रकर्णं च वर्णाख्यं स्थापसंज्ञकम् ॥ ११ ॥
पवित्राष्टकमेतद्धि आकाशस्थं वरानने ॥
एतानि तत्त्वतीर्थानि सर्वाणि कथितानि वै ॥ १२ ॥
यो यस्मिन्देवता तत्त्वे सा तन्माहात्म्यसूचिका ॥
औदकं च महातत्त्वं विष्णोश्चातिप्रियं प्रिये ॥ १३ ॥
जलशायी स्मृतस्तेन नारायण इति श्रुतिः ॥
आप्यतत्त्वं तु तीर्थानि यानि प्रोक्ता- नि ते मया ॥ १४॥
तानि प्रियाणि देवेशि ध्रुवं नारायणस्य वै ॥
औदकं चैव यत्तत्त्वं तस्मिन्प्राभासिकं स्मृतम् ॥ १५ ॥
तत्र देवो लयं याति हरिर्जन्मनिजन्मनि ॥
स वासुदेवः सूक्ष्मात्मा परात्परतरे स्थितः ॥ १६ ॥
स शिवः परमं व्योम अनादिनिधनो विभुः ॥
तस्मात्परतरं नास्ति सर्वशास्त्रागमेषु च ॥ १७ ॥
सिद्धांतागमवेदांतदर्शनेषु विशेषतः ॥
तेषु चैव न भिन्नस्तु मया सार्द्धं यशस्विनि ॥ १८ ॥
तस्मिन्स्थाने हरिः साक्षात्प्रत्यक्षेण तु संस्थितः ॥
लिंगैश्चतुर्भिः संयुक्तो ज्ञायते न च केनचित् ॥ १९ ॥
मोक्षार्थं नैष्ठिकैर्वर्णैर्व्रतैश्चैव तु यत्फलम् ॥
तत्फलं समवाप्नोति भल्लुकातीर्थदर्शनात्॥ 7.1.10.२० ॥
गोचर्ममात्रं तत्स्थानं समंतात्परिमण्डलम् ॥
न हि कश्चिद्विजानाति विना शास्त्रेण भामिनि॥ २१ ॥
विषुवं वहते तत्र नृणामद्यापि पार्वति ॥
पंचलिंगानि तत्रैव पंचवक्त्राणि कानि चित् ॥ २२ ॥
कुक्कुटांडकमानानि महास्थूलानि कानिचित्॥
सर्पेण वेष्टितान्येव चिह्नितानि त्रिशूलिभिः ॥ २३ ॥
तेषां दर्शनमात्रेण कोटिलिंगार्चनफलम् ॥
तस्मादिदं महाक्षेत्रं ब्रह्माद्यैः सेव्यते सदा ॥२४ ॥
श्रुतिमद्भिश्च विप्रेंद्रैः संसिद्धैश्च तपस्विभिः ॥
प्रतिमासं तथाष्टम्यां प्रतिमासं चतुर्दशीम् ॥ २५ ॥
शशिभानूपरागे वा कार्त्तिक्यां तु विशेषतः ॥
प्रभासस्थानि लिंगानि प्रपूज्यन्ते वरानने ॥ २६ ॥
संनिहत्यां कुरुक्षेत्रे सर्वस्तीर्थायुतैः सह ॥
पुष्करं नैमिषं चैवं प्रयागं संपृथूदकम् ॥२७॥
षष्टि तीर्थसहस्राणि षष्टिकोटिशतानि च ॥
माघ्यांमाघ्यां समेष्यंति सरस्वत्यब्धिसंगमे ॥ २८ ॥
स्मरणात्तस्य तीर्थस्य नामसंकीर्तनादपि ॥
मृत्युकालभवाद्वापि पापं त्यक्ष्यति सुव्रते ॥ २९ ॥
आनर्त्तसारं सौम्यं च तथा भुवनभूषणम् ॥
दिव्यं पांचनदं पुण्यमादिगुह्यं महोदयम् ॥ 7.1.10.३० ॥
सिद्ध रत्नाकरं नाम समुद्रावरणं तथा॥
धर्माकारं कलाधारं शिवगर्भगृहं तथा ॥३१॥
सर्वदेवनिवेशं च सर्वपातकनाशनम्॥
अस्य क्षेत्रस्य नामानि कल्पे कल्पे पृथक्प्रिये ॥ ३२ ॥
आयामादीनि जानीहि गुह्यानि सुरसुन्दरि ॥
आद्ये कल्पे पुरा देवि प्रमोदनमिति स्मृतम् ॥ ३३ ॥
नन्दनं परितस्तस्य तस्यापि परतः शिवम् ॥
शिवात्परतरं चोग्रं भद्रिकं परतः पुनः ॥ ३४ ॥
समिंधनं परं तस्मात्कामदं च ततः परम् ॥
सिद्धिदं चापि धर्मज्ञं वैश्वरूपं च मुक्तिदम्॥ ३५ ॥
तथा श्रीपद्मनाभं तु श्रीवत्सं तु महाप्रभम्॥
तथा च पापसंहारं सर्वकामप्रदं तथा ॥ ३६ ॥
मोक्षमार्गं वरा रोहे तथा देवि सुदर्शनम् ॥
धर्मगर्भं तु धर्माणां प्रभासं पापनाशनम् ॥
अतः परं भवन्तीह उत्पलावर्त्तिकानि च ॥ ३७ ॥
क्षेत्रस्य मध्ये यद्देवि मम गर्भगृहं स्मृतम् ॥
तस्य नामानि ते देवि कथितान्यनुपूर्वशः ॥ ३८ ॥
श्रुत्वा नामान्यशेषाणि क्षेत्रमाहात्म्यमेव च ॥
तेषां तु वांछिता सिद्धि र्भविष्यति न संशयः ॥ ३९ ॥
एतत्कीर्त्तयमानस्य त्रिकालं तु महोदयम् ॥
संध्याकालांतरं पापमहोरात्रं विनश्यति ॥ 7.1.10.४० ॥
अपि वै दांभिकाश्चैव ये वसंत्यल्पबुद्धयः ॥
मूढा जीवनिका विप्रास्तेऽपि यांति मृता दिवम् ॥ ४१ ॥
अस्य क्षेत्रस्य मध्ये तु रवियोजनमध्यतः ॥
उपक्षेत्राणि देवेशि संत्यन्यानि सहस्रशः ॥ ४२ ॥
कानिचित्पद्मरूपाणि यवाकाराणि कानिचित् ॥
षट्कोणानि त्रिकोणानि दण्डाकाराणि कानिचित् ॥ ४३ ॥
चंद्रबिंबार्द्धभेदानि चतुरस्रप्रभेदतः ॥
ब्रह्मादिदैवतानीशे क्षेत्रमध्ये स्थितानि तु ॥ ४४ ॥
कानिचिद्योजनार्द्धानि तदर्धार्धानि कानिचित् ॥
निवर्त्तनप्रमाणेन दण्डमानेन कानिचित् ॥४५ ॥
गोचर्ममानमध्यानि कानिचिद्धनुषांतरम् ॥
यज्ञोपवीतमात्राणि प्रभासे संति कोटिशः ॥ ४६ ॥
अंगुल्यष्टम भागोऽपि नभोस्ति कमलेक्षणे ॥
न संति यस्मिंस्तीर्थानि दिव्यानि च नभस्तले ॥ ४७ ॥
प्रभासक्षेत्रमासाद्य तिष्ठंति प्रलयादनु ॥
केदारे चैव यल्लिंगं यच्च देवि महालये ॥ ४८ ॥
मध्यमेश्वरसंस्थं च तथा पाशुपतेश्वरम् ॥
शंकुकर्णेश्वरं चैव भद्रेश्वरमथापि च ॥ ४९ ॥
सोमे श्वरमथैकाग्रं कालेश्वरमजेश्वरम् ॥
भैरवेश्वरमीशानं तथा कायावरोहणम् ॥ 7.1.10.५० ॥
चापटेश्वरकं पुण्यं तथा बदरिकाश्रमम् ॥
रुद्रकोटिर्महाकोटि स्तथा श्रीपर्वतं शुभम् ॥५१॥
कपाली चैव देवेशः करवीरं तथा पुनः ॥
ओंकारं परमं पुण्यं वशिष्ठाश्रममेव च ॥
यत्र कोटिः स्मृता देवि रुद्राणां कामरूपिणाम् ॥ ५२ ॥
यानि चान्यानि स्थानानि पुण्यानि मम भूतले ॥
प्रयागं पुरतः कृत्वा प्रभासे निवसंति च ॥ ५३ ॥
उत्तरे रविपुत्री तु दक्षिणे सागरं स्मृतम् ॥
दक्षिणोत्तरमानोऽयं क्षेत्रस्यास्य प्रकीर्त्तितः ॥ ५४ ॥
रुक्मिण्याः पूर्वतश्चैव तप्ततोयाच्च पश्चिमे ॥
पूर्वपश्चिममानोऽयं प्रभासस्य प्रकीर्त्तितः ॥ ५५ ॥
एतदन्तरमासाद्य तीर्थानि सुरसुन्दरि ॥
पातालादिकटाहांतं तानि तत्र वसंति वै ॥ ५६ ॥
एवं ज्ञात्वा महादेवि सर्वदेवमयो हरिः ॥
प्रभासक्षेत्रमासाद्य तत्याज स्वं कलेवरम् ॥ ५७ ॥
दिव्यं ममेदं चरितं हि रौद्रं श्रोष्यंति ये पर्वसु वा सदा वा ॥
ते चापि यास्यंति मम प्रसादात्त्रिविष्टपं पुण्यजनाधिवासम् ॥ ५८ ॥
इति कथितमशेषमेव चित्रं चरितमिदं तव देवि पुण्ययुक्तम् ॥
इतरमपि तवातिवल्लभं यद्वद कथयामि महोदयं मुनीनाम् ॥ ५९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रभास क्षेत्रस्थ तीर्थक्षेत्रमाहात्म्यद्वारा प्रभासक्षेत्रस्य सर्वक्षेत्रोत्तमत्ववर्णनंनाम दशमोऽध्यायः ॥१०॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 11
॥ सूत उवाच ॥ ॥
इति प्रोक्ता तदा देवि विस्मयोत्फुल्ललोचना ॥
रोमांचकञ्चुका सुभ्रूः पुनः पप्रच्छ भूसुराः ॥१॥
॥ देव्युवाच ॥ ॥
धन्याऽहं कृतपुण्याऽहं तपः सुचरितं मया ॥
यदेष क्षेत्र महिमा महादेवान्मया श्रुतः ॥२॥
भगवन्देवदेवेश संसारार्णवतारक ॥
पृष्टं तु यन्मया पूर्वं तत्सर्वं कथितं हर ॥ ३ ॥
पुनश्च देवदेवेश त्वद्वाक्यामृतरंजिता ॥
न तृप्तिमधिगच्छामि देवदेव महेश्वर ॥ ४ ॥
किंचित्प्रष्टुमनाश्चास्मि प्रभासक्षेत्रविस्तरम् ॥
तन्मे कथय कामेश दयां कृत्वा जगत्प्रभो ॥ ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
पृथिव्या मध्यगर्भस्थं जंबूद्वीपमिति स्मृतम् ॥
तच्च वै नवधा भिन्नं वर्षभेदेन सुन्दरि॥६॥
तस्याद्यं भारतं वर्षं तच्चापि नवधा स्मृतम् ॥
नवयोजनसाहस्रं दक्षिणोत्तरमानतः ॥ ७ ॥
अशीतिश्च सहस्राणि पूर्वपश्चायतं स्मृतम् ॥
उत्तरे हिमवानस्ति क्षीरोदो दक्षिणे स्मृतः ॥ ८ ॥
एतस्मिन्नंतरे देवि भारतं क्षेत्रमुत्तमम् ॥
कृतं त्रेता द्वापरं च तिष्यं युगचतुष्टयम् ॥ ९ ॥
अत्रैवैषा युगावस्था चतुर्वर्णश्च वै जनः ॥
चत्वारि त्रीणि च द्वे च तथैवैक शरच्छतम् ॥ 7.1.11.१० ॥
जीवन्त्यत्र नरा देवि कृतत्रेतादिषु क्रमात् ॥
यदेतत्पार्थिवं पद्मं चतुष्पत्रं मयोदितम् ॥ ११ ॥
वर्षाणि भारताद्यानि पत्राण्यस्य चतुर्द्दिशम्॥
भारतं केतुमालं च कुरु भद्राश्वमेव च॥१२॥
भारतं नाम यद्वर्षं दाक्षिणात्यं मयोदितम्॥
दक्षिणापरतो यस्य पूर्वेण च महोदधिः ॥
हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः ॥ १३॥
तदेतद्भारतं वर्षं सर्वबीजं वरानने ॥
तत्कर्मभूमिर्नान्यत्र संप्राप्तिः पुण्यपापयोः ॥ १४ ॥
देवानामपि देवेशि सदैवैष मनोरथः ॥
अपि मानुष्यमाप्स्यामो भारते प्रत्युत क्षितौ ॥ १५ ॥
भद्राश्वेऽश्वशिरा विष्णुर्भारते कूर्मसंस्थितः ॥
वराहः केतुमाले च मत्स्यरूपस्तथोत्तरे ॥ १६ ॥
तेषु नक्षत्रविन्यासाद्विषयाः समवस्थिताः ॥
चतुर्ष्वपि महादेवि विग्रहो नव पादकः ॥ १७ ॥
भारतो यो महादेवि कूर्मरूपेण संस्थितः ॥
नक्षत्रग्रहविन्यासं तस्य ते कथयाम्यहम् ॥ १८ ॥
प्राङ्मुखो भगवान्देवो कूर्मरूपी व्यवस्थितः ॥
आक्रम्य भारतं वर्षं नवभेदमिदं प्रिये ॥ १९ ॥
नवधा संस्थितस्यास्य नक्षत्राणि निबोध मे ॥
कृत्तिका रोहिणी सौम्यं तृतीयं कूर्मपृष्ठिगम् ॥ 7.1.11.२० ॥
रौद्रं पुनर्वसुः पुष्यं नक्षत्रत्रितयं मुखे ॥
आश्लेषाख्यं तथा पैत्रं फाल्गुनी प्रथमा प्रिये ॥ २१ ॥
नक्षत्रत्रितयं पादमाश्रितं पूर्वदक्षिणम् ॥
फाल्गुनी चोत्तरा हस्तं चित्रा चर्क्षत्रयं स्मृतम् ॥ २२ ॥
कूर्मस्य दक्षिणे कुक्षौ चर्क्षपादं तथाऽपरम् ॥
स्वाती विशाखा मैत्रं च नैर्ऋते त्रितयं स्मृतम् ॥ २३ ॥
ऐंद्रं मूलं तथाषाढा पृष्ठे तु त्रितयं स्मृतम् ॥
आषाढा श्रवणं चैव धनिष्ठा चात्र शब्दिता ॥ २४ ॥
नक्षत्रितयं पादे वायव्ये तु यशस्विनि ॥
वारुणं चैव नक्षत्रं तथा प्रोष्ठपदाद्वयम् ॥ २५ ॥
कूर्मस्य वामकुक्षौ तु त्रितयं संस्थितं प्रिये ॥
रेवती चाश्विदैवत्यं याम्यं चर्क्षमिति त्रयम् ॥
ईशपादे समाख्यातं शुभाशुभफलं शृणु ॥ २६ ॥
यस्यर्क्षस्य पतिर्यो वै ग्रहस्तद्धैन्यतो भयम् ॥
तद्देशस्य महादेवि तथोत्कर्षे शुभागमः ॥ २७ ॥
एष कूर्मो मयाख्यातो भारते भगवानिह ॥
नारायणो ह्यचिंत्यात्मा यत्र सर्वं प्रतिष्ठितम् ॥ २८ ॥
मेषवृषौ हृदो मध्ये मुखे च मिथुनादिकौ ॥
प्राग्दक्षिणे तथा पादे कर्कसिंहौ व्यवस्थितौ ॥ २९ ॥
सिंहकन्यातुलाश्चैव कुक्षौ राशित्रयं स्मृतम् ॥
धटोऽध वृश्चिकाश्चोभौ पादे दक्षिणपश्चिमे ॥ 7.1.11.३० ॥
पुच्छे तु वृश्चिकश्चैव सधनुश्च व्यवस्थितः ॥
वायव्ये वामपादे च धनुर्ग्राहादिकं त्रयम् ॥ ३१ ॥
कुम्भ मीनौ तथा चास्य उत्तरां कुक्षिमाश्रितौ ॥
मीनमेषौ महादेवि पादे पूर्वोत्तरे स्थितौ ॥ ३२ ॥
कूर्म्मदेशांस्तथर्क्षाणि देशेष्वेतेषु वै प्रिये ॥
राशयश्च तथर्क्षेषु ग्रहा राशिव्यवस्थिताः ॥ ३३ ॥
तस्माद्ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत् ॥
तत्र स्नानं प्रकुर्वंति दानं होमादिकं तथा ॥ ३४ ॥
स एष वैष्णवः पादो देवि मध्ये ग्रहोऽस्य यः ॥
नारायणाख्योऽचिंत्यात्मा कारणं जगतः प्रभुः ॥ ३५ ॥
भौमशुक्रबुधेंद्वर्कबुधशुक्रमहीसुताः ॥
गुरुमंदासुराचार्या मेषादीनामधीश्वराः ॥ ३६ ॥
एवंविधो महादेवि कूर्मरूपी जनार्द्दनः ॥
तस्य नैऋतपादे तु सौराष्ट्र इति विश्रुतः ॥ ३७ ॥
स चैवं नवधा भिन्नः पुरभेदेन सुंदरि ॥
तस्य यो नवमो भागः सागरस्य च सन्निधौ ॥ ३८ ॥
प्रभास इति विख्यातो मम देवि प्रियः सदा ॥
योजनानां दशद्वे च विस्तीर्णः परिमण्डलम् ॥ ३९ ॥
मध्येस्य पीठिका प्रोक्ता पंचयोजनविस्तृता ॥
तन्मध्ये मद्ग्रहं देवि तिष्ठत्युदधिसंनिधौ ॥ ॥ 7.1.11.४० ॥
तस्य मध्ये महादेवि लिंगरूपो वसाम्यहम् ॥ ४१ ॥
कृतस्मरात्पश्चिमतो धनुषां च शतत्रये ॥
वसामि तत्र देवेशि त्वया सह वरानने ॥ ४२ ॥
तन्मे स्थानं महादेवि कैलासादपि वल्लभम् ॥
गोचर्ममात्रं तत्रापि महागोप्यं वरानने ॥ ४३ ॥
अकथ्यं देवदेवेशि तव स्नेहात्प्रकाशितम् ॥
एतत्प्राभासिकं क्षेत्रं प्रभया दीपितं मम ॥ ४४ ॥
तेन प्रभासमित्युक्तमादिकल्पे वरानने ॥
द्वितीये तु प्रभा लब्धा सर्वैर्देवैः सवासवैः ॥ ४५ ॥
मम प्रभाभा देवेशि तेन प्राभासिकं स्मृतम् ॥
प्रभाववन्तो देवेशि यत्र संति महासुराः ॥ ४६ ॥
अथवा तेन लोकेषु प्रभासमिति कीर्त्यते ॥
प्रथमं भासते देवि सर्वेषां भुवि तेजसाम् ॥
तीर्थानामादितीर्थं यत्प्रभासं तेन कीर्त्तितम् ॥ ॥। ४७ ॥
प्रकृष्टं भानुरथवा भासितो विश्वकर्मणा ॥
यत्र साक्षात्प्रभापातो जातः प्राभासिकं ततः ॥ ४८ ॥
अथवा दक्षसंशप्तेनेन्दुना निष्प्रभेणच ॥
तत्र देवि प्रभा लब्धा तेन प्राभासिकं स्मृतम् ॥
प्रोद्दधे भारती देवी ह्यौर्वाग्निं वडवानलम् ॥ ४९ ॥
अथवा तेन देवेशि प्रभासमिति कीर्त्यते ॥
प्रकृष्टा भारती ब्राह्मी विप्रोक्ता श्रूयतेऽध्वनि ॥
सदा यत्र महादेवि प्रभासं तेन कीर्तितम् ॥ 7.1.11.५० ॥
प्रोल्लसद्वीचिभिर्भाति सर्वदा सागरः प्रिये ॥
तेन प्रभास नामेति त्रिषु लोकेषु विश्रुतम् ॥ ५१ ॥
प्रत्यक्षं भास्करो यत्र सदा तिष्ठति भामिनि ॥
तेन प्रभास नामेति प्रसिद्धिमगमत्क्षितौ ॥ ५२ ॥
प्रकृष्टं भाविनां सर्वं कामं तत्र ददाम्यहम् ॥
तेन प्रभासनामेति तीर्थं त्रैलोक्यविश्रुतम् ॥ ५३ ॥
कल्पभेदेन नामानि तथैव सुरसुन्दरि ॥
निरुक्तभेदैर्बहुधा भिद्यंते कारणैः प्रिये ॥
प्रभासमिति यन्नाम दातव्यं निश्चलं स्मृतम् ॥ ५४ ॥
अप्तत्त्वे संस्थितं देवि विष्णोराद्यकलेवरे ॥
इति ते कथितं देवि संक्षेपात्क्षेत्रकारणम् ॥ ५५ ॥
पुनस्ते कथयाम्यद्य यत्पृच्छसि वरानने ॥
तद्ब्रूहि शीघ्रं कल्याणि यत्ते मनसि वर्तते ॥ ५६ ॥
॥ देव्युवाच ॥ ॥
अस्मिन्कल्पे यथा जातं क्षेत्रं प्राभासिकं हर ॥
तन्मे विस्तरतो ब्रूहि उत्पत्तिं कारणं तथा ॥ ५७ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि यथावत्क्षेत्रकारणम् ॥
यच्छ्रुत्वा मानवो भक्त्या मुच्यते सर्वपातकैः॥ ५८ ॥
आदिक्षेत्रस्य माहात्म्यं रहस्यं पापनाशनम् ॥
कथयिष्ये वरारोहे तव स्नेहेन भामिनि ॥ ५९ ॥
अस्मिन्कल्पे तु यद्देवि आदावेव वरानने ॥
स्वायंभुवे मनौ तत्र ब्रह्मणः सृजतः पुरा ॥ 7.1.11.६० ॥
दक्षिणाल्लोचनाज्जातः पूर्वं सूर्य इति प्रिये ॥
ततः कालान्तरे तस्य भार्ये द्वे च बभूवतुः ॥ ६१ ॥
तयोस्तु राज्ञी द्यौर्ज्ञेया निक्षुभा पृथिवी स्मृता ॥
सौम्यमासस्य सप्तम्यां द्यौः सूर्येण च युज्यते ॥ ६२ ॥
माघमासे तु सप्तम्यां मह्या सह भवेद्रविः॥
भूश्चादित्यश्च भगवान्गच्छते संगमं तदा॥ ६३ ॥
ऋतुस्नाता मही तत्र गर्भं गृह्णाति भास्करात् ॥
द्यौर्जलं सूयते गर्भं वर्षास्वास्विह भूतले ॥६४॥
ततस्त्रैलोक्यवृत्त्यर्थं मही सस्यानि सूयते ॥
सस्योपयोगात्संहृष्टा जुह्वत्याहुतिभिर्द्विजाः ॥ ६५ ॥
स्वाहाकारस्वधाकारैर्यजंति पितृदेवताः ॥
निःक्षुधः कुरुते यस्माद्गर्भौषधिसुधाऽमृतैः ।1 ६६ ॥
मर्त्यान्पितॄंश्च देवांश्च तेन भूर्निक्षुभा स्मृता ॥
यथा राज्ञी च संजाता यस्य चेयं सुता मता ॥ ॥ ६७ ॥
अपत्यानि च यान्यस्यास्तानि वक्ष्याम्यशेषतः ॥
मरीचिर्ब्रह्मणः पुत्रो मारीचः कश्यपः स्मृतः ॥ ६८ ॥
तस्माद्धिरण्यकशिपुः प्रह्रादस्तस्य चात्मजः ॥
प्रह्रादस्य सुतो नाम्ना विरोचन इति स्मृतः ॥ ६९ ॥
विरोचनस्य भगिनी संज्ञा या जननी तु सा ॥
हिरण्यकशिपोः पौत्री दितेः पुत्रस्य सा स्मृता ॥ 7.1.11.७० ॥
सा विश्वकर्मणः पत्नी प्राह्लादी प्रोच्यते बुधैः ॥ ७१ ॥
अथ नाम्नातिरूपेति मरीचिदुहिता शुभा ॥
पत्नी ह्यंगिरसः सा तु जननी च बृहस्पतेः ॥ ७२ ॥
बृहस्पतेस्तु भगिनी विश्रुता ब्रह्मवादिनी ॥
प्रभासस्य तु सा पत्नी वसूनामष्टमस्य वै ॥ ७३ ॥
प्रसूता विश्वकर्माणं सर्वशिल्पवतां वरम् ॥
स चैव नाम्ना त्वष्टा तु पुनस्त्रिदशवार्द्धकिः ॥ ७४ ॥
देवाचार्यस्य तस्येयं दुहिता विश्वकर्मणः ॥
सुरेणुरिति विख्याता त्रिषु लोकेषु भामिनी ॥ ७५ ॥
प्रह्रादपुत्री या प्रोक्ता भार्या वष्टुस्तु सा स्मृता ॥
तस्यां स जनयामास पुत्रीस्ता लोकमातरः ॥ ७६ ॥
राज्ञी संज्ञा च द्यौस्त्वष्ट्री प्रभा सैव विभाव्यते ॥
तस्यास्तु वलया छाया निक्षुभा सा महीयसी ॥ ७७ ॥
सा तु भार्या भगवती मार्तंडस्य महात्मनः ॥
साध्वी पतिव्रता देवी रूपयौवनशालिनी ॥ ७८ ॥
न तु तां नररूपेण भार्यां भजति वै पुरा ॥
आदित्यस्येह तप्तत्वं महता स्वेन तेजसा ॥ ७९॥
गात्रेष्वप्रतिरूपेषु मासिकांतमिवाभवत् ॥
संज्ञा च रविणा दृष्टा निमीलयति लोचने ॥
यतस्ततः सरोषोऽर्कः संज्ञां वचनमब्रवीत् ॥ 7.1.11.८० ॥
॥ रविरुवाच ॥ ॥
मयि दृष्टे सदा यस्मात्कुरुषे नेत्रसंक्षयम् ॥
तस्माज्जनिष्यसे मूढे प्रजासंयमनं यमम् ॥ ८१ ॥
॥ ईश्वर उवाच ॥ ॥
ततः सा चपला दृष्टिं देवी चक्रे भयाकुला ॥
विलोलितदृशं दृष्ट्वा पुनराह च तां रविः ॥ ८२ ॥
॥ रविरुवाच ॥ ॥
यस्माद्विलोलिता दृष्टिर्मयि दृष्टे त्वया पुनः ॥
तस्माद्विलोलां तनयां नदीं त्वं प्रसविष्यसि ॥ ॥ ८३ ॥
॥ ईश्वर उवाच ॥ ॥
ततस्तस्यास्तु संजज्ञे भर्तृशापेन तेन वै ॥
यमश्च यमुना चेयं प्रख्याता सुमहानदी ॥
तृतीयं च सुतं जज्ञे श्राद्धदेवं मनुं शुभम् ॥ ८४ ॥
सापि संज्ञा रवेस्तेजो गोलाकारं महाप्रभम् ॥
असहन्ती च सा चित्ते चिन्तयामास वै तदा ॥ ८५ ॥
किं करोमि क्व यास्यामि क्व गतायाश्च निर्वृतिः ॥
भवेन्मम कथं भर्ता कोपमर्क्कश्च नेष्यति ॥ ८६ ॥
इति संचिन्त्य बहुधा प्रजापतिसुता तदा ॥
बहु मेने महाभागा पितृसंश्रयमेव च ॥ ८७ ॥
ततः पितृगृहं गन्तुं कृतबुद्धिर्यशस्विनी ॥
छायामयीमात्मतनुं प्रत्यंगमिव निर्मिताम् ॥ ८८ ॥
सम्मुखं प्रेक्ष्य तां देवीं स्वां छायां वाक्यमब्रवीत् ॥ ८९ ॥
॥ संज्ञोवाच ॥ ॥
अहं यास्यामि भद्रं ते स्वकं च भवनं पितुः ॥
निर्विकारं त्वया त्वत्र स्थेयं मच्छासनाच्छुभे ॥ 7.1.11.९० ॥
इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ॥
संभाव्या नैव चाख्येयमिदं भगवते त्वया ॥ ९१ ॥
पृष्टयापि न वाच्यं ते तथैतद्गमनं मम ॥
तेनास्मि नामसंज्ञेति वाच्यसे तत्प्रतिष्ठया ॥ ९२ ॥
॥ छायोवाच ॥ ॥
आ केशग्रहणाद्देवि आ शापान्नैव कर्हिचित् ॥
आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वांछितम् ॥ ९३ ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्ता सा तदा देवी जगाम भवनं पितुः ॥
ददर्श तत्र त्वष्टारं तपसा धूतकल्मषम् ॥ ९४ ॥
बहुमानाच्च तेनापि पूजिता विश्वकर्मणा ॥
वर्षाणां च सहस्रं तु वसमाना पितुर्गृहे ॥
तस्थौ पितृगृहे सा तु किंचित्कालमनिंदिता ॥ ९५ ॥
ततस्तां प्राह चार्वंगीं पिता नातिचिरोषिताम् ॥
स्तुत्वा तु तनयां प्रेम्णा बहुमानपुरःसरम् ॥ ९६ ॥
॥ विश्वकर्मोवाच ॥ ॥
त्वामेव पश्यतो वत्से दिनानि सुबहून्यपि ॥
मुहूर्तार्द्धसमानि स्युः किं तु धर्मो विलुप्यते ॥ ९७ ॥
बांधवेषु चिरं वासो नारीणां न यशस्करः ॥
मनोरथा बांधवानां नार्या भर्तृगृहे स्थितिः ॥ ९८ ॥
सा त्वं त्रैलोक्यनाथेन भर्त्रा सूर्येण संयुता ॥
पितुर्गृहे चिरं कालं वस्तुं नार्हसि पुत्रिके ॥ ९९ ॥
तत्त्वं भर्तृगृहं गच्छ दृष्टोऽहं पूजितासि मे ॥
पुनरागमनं कार्यं दर्शनाय शुचिस्मिते ॥ 7.1.11.१०० ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्ता सा तदा पित्रा गच्छगच्छेति सा पुनः ॥
संपूजयित्वा पितरं वडवारूपधारिणी ॥ १०१ ॥
मेरोरुत्तरतस्तत्र वर्षं यद्धनुषाकृति ॥
उत्तराः कुरवो लोके प्रख्याता ये यशस्विनि ॥ १०२ ॥
तत्र तेपे तपः साध्वी निराहाराऽश्वरूपिणी ॥
एतस्मिन्नंतरे देवि तस्याश्छाया विवस्वतः ॥ १०३ ॥
समीपस्था तदा देवी संज्ञाया वाक्यतत्परा ॥
तस्यां च भगवान्सूर्यो द्वितीयायां दिवस्पतिः ॥ १०४ ॥
संज्ञेयमिति मन्वानो रूपौदार्येण मोहितः ॥
तस्यां च जनयामास द्वौ पुत्रौ कन्यकां तथा ॥ १०५ ॥
पूर्वं यस्तु मनोस्तुल्यः सावर्णिस्तेन सोऽभवत् ॥
यः सूर्यात्प्रथमं जातः पुत्रयोः सुरसुन्दरि ॥ १०६ ॥
द्वितीयो योऽभवच्चान्यः स ग्रहोऽभूच्छनैश्चरः ॥
कन्या ऽभूत्तपती या तां वव्रे संवरणो नृपः ॥ १०७ ॥
तापीनाम नदी चेयं विंध्यमूलाद्विनिःसृता ॥
नित्यं पुण्यजला स्नाने पश्चिमोदधिगामिनी ॥१०८॥
अन्या चैव तथा भद्रा जाता पुत्री महाप्रभा ॥
संज्ञा तु पार्थिवी छाया आत्मजानां यथाकरोत् ॥ १०९ ॥
स्नेहं न पूर्वजातानां तथा कृतवती सती॥
लालनाद्युपभोगेषु विशेषमनुवासरम्॥7.1.11.११०॥
यथा स्वेष्वनुवर्तेत न तथान्येषु भामिनी ॥
मनुस्तु क्षांतवांस्तस्या भविष्यो यो हि पार्वति ॥१११॥
मेरौ तिष्ठति सोऽद्यापि तपः कुर्वन्वरानने ॥
सर्वं तत्क्षांतवान्मातुर्यमस्तस्या न चक्षमे ॥ ११२ ॥
बहुशो याचमानस्तु छाययाऽतीव कोपितः ॥
स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् ॥ ११३ ॥
ताडनाय ततः कोपात्पादस्तेन समुद्यतः ॥
तथा पुनः क्षांतिमता न तु देहे निपातितः ॥ ११४ ॥
पदा संतर्जयामास छायां संज्ञासुतो यमः ॥ ११५ ॥
तं शशाप ततश्छाया क्रुद्धा सा पार्थिवी भृशम् ॥
किंचित्प्रस्फुरमाणोष्ठी विचलत्पाणिपल्लवा ॥ ११६ ॥
॥ छायोवाच ॥ ॥
पितुः पत्नीममर्याद यन्मां तर्जयसे पदा ॥
भुवि तस्मादयं पादस्तवाद्यैव पतिष्यति॥ ११७ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
यमस्तु तेन शापेन भृशं पीडितमानसः ॥
मनुना सह धर्मात्मा पित्रे सर्वं न्यवेदयत्॥ ११८ ॥
॥ यम उवाच ॥ ॥
तातैतन्महदाश्चर्यं न दृष्टमिह केनचित् ॥
माता वात्सल्यमुत्सृज्य शापं पुत्रे प्रयच्छति ॥११९॥
स्नेहेन तुल्यमस्मासु माताद्य नैव वर्त्तते ॥
विसृज्य ज्यायसो यस्मात्कनीयःसु बुभूषति ॥ 7.1.11.१२० ॥
तस्या मयोद्यतः पादो न तु देहे निपातितः ॥
बाल्याद्वा यदि वा मोहात्तद्भवान्क्षंतुमर्हति ॥१२१॥
शप्तोऽहं तात कोपेन तया सुत इति स्फुटम् ॥
अतो न मह्यं जननी सा भवेद्वदतां वर ॥ १२२ ॥
निगुर्णेष्वपि पुत्रेषु न माता निर्गुणा भवेत् ॥
पादस्ते पततां पुत्र कथमेतत्तयोदितम् ॥ १२३ ॥
तव प्रसादाच्चरणो न पतेद्भगवन्यथा ॥
मातृशापादयं मेऽद्य तथा चिंतय गोपते ॥ १२४ ॥
॥ रविरुवाच ॥ ॥
असंशयं महत्पुत्र भविष्यत्यत्र कारणम् ॥
येन ते ह्याविशत्क्रोधो धर्मज्ञस्य महात्मनः ॥ १२६ ॥
सर्वेषामेव शापानां प्रतिघातोऽपि विद्यते ॥
न तु मात्राभिशप्तानां क्वचिच्छापनिवर्त्तनम् ॥ १२६ ॥
न युक्तमेतन्मिथ्या तु कर्तुँ मातुर्वचस्तव ॥
किंचित्ते संविधास्यामि पुत्रस्नेहादनुग्रहम् ॥ १२७ ॥
कृमयो मांसमादाय प्रयास्यंति महीतलम् ॥
कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि ॥ १२८ ॥
॥ ईश्वर उवाच ॥ ॥
आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै ॥
तुल्येष्वप्यधिकः स्नेह एकत्र क्रियते त्वया ॥ १२९ ॥
नूनं न चैषां जननी त्वं संज्ञा क्वापि सा गता ॥
विकलेष्वप्यपत्येषु न माता शापदा भवेत् ॥ 7.1.11.१३० ॥
अपि दोषसहस्राणि यदि पुत्रः समाचरेत् ॥
प्राणद्रोहेऽपि निरतो न माता पापमाचरेत् ॥
तस्मात्सत्यं मम ब्रूहि मा शापवशगा भव ॥ १३१ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
तं शप्तुमुद्यतं दृष्ट्वा छायासंज्ञा दिनाधिपम् ॥
भयेन कंपती देवी यथावृत्तं महासती ॥ १३२ ॥
सा चाह तनया त्वष्टुरहं संज्ञा विभावसो ॥
पत्नी तव त्वया पत्या पतियुक्ता दिवाकर ॥ १३३ ॥
इत्थं विवस्वतः सा तु बहुशः पृच्छतोऽन्यथा ॥
न वाचा भाषते क्रुद्धः शापं दातुं समुद्यतः ॥ १३४ ॥
शापोद्यतकरं दृष्ट्वा सूर्यं छाया विवस्वतः ॥
कथयामास तत्सर्वं संज्ञायाः सुविचेष्टितम् ॥ १३५ ॥
तच्छ्रुत्वा भगवान्सूर्यो जगाम त्वष्टुरालयम् ॥
ततः संपूजयामास तदा त्रैलोक्यपूजितम् ॥ १३६ ॥
निर्दग्धुकामं रोषेण सान्त्वयामास पार्वति ॥
भास्वंतं निजया दीप्त्या निजगेहमुपागतम् ॥
क्व संज्ञेति च पृच्छन्तं कथयामास विश्वकृत् ॥ १३७ ॥
॥ विश्वकर्म्मोवाच ॥ ॥
आगतैव हि मे वेश्म भवता श्रूयतां वचः ॥
विख्यातं तेजसाऽऽढ्यं त इदं रूपं सुदुःसहम् ॥ १३८ ॥
असहन्ती ततः संज्ञा वने चरति वै तपः ॥
द्रक्ष्यसे तां भवानद्य स्वभार्यां शुभचारिणीम् ॥ १३९ ॥
रूपार्थं चरतेऽरण्यं चरंती सुमहत्तपः ॥
मतं मे ब्रह्मणो वाक्याद्यदि ते देव रोचते ॥
रूपं निर्वर्त्तयाम्यद्य तव कांतं दिवस्पते ॥ 7.1.11.१४० ॥
॥ ईश्वर उवाच ॥ ॥
यतो हि भास्वतो रूपं प्रागासीत्परिमंडलम् ॥
ततस्तथेति तं प्राह त्वष्टारं भगवान्रविः ॥ १४१ ॥
विश्वकर्मात्वनुज्ञातः शाकद्वीपे विवस्वता ॥
भृ(भू?)मिमारोप्य तत्तेजः शातनायोपचक्रमे ॥१४२॥
भ्रमताऽशेषजगतामधिभूतेन भास्वता ॥
समुद्रा द्रविणोपेताश्चुक्षुभुश्च समन्ततः ॥ १४३ ॥
भ्रमता खलु देवेशि सचंद्रग्रहतारकम्॥
अधोगति महाभागे बभूवाक्षिप्तमाकुलम् ॥१४४॥
विक्षिप्तसलिलाः सर्वे बभूवुश्च तथा नदाः ॥
व्यभिद्यंत तथा शैलाः शीर्णसानुनिबंधनाः ॥ १४५ ॥
ध्रुवाधाराण्यशेषाणि धिष्ण्यानि वरवर्णिनि ॥
भ्राम्यद्रश्मिनिबद्धानि अधो जग्मुः सहस्रशः ॥ १४६ ॥
व्यशीर्यंत महामेघा घोरारावविराविणः ॥
भास्वद्भ्रमणविभ्रांतभूम्याकाशमहीतलम् ॥ १४७ ॥
जगदाकुलमत्यर्थं तदाऽऽसीद्वरवर्णिनि ॥
त्रैलोक्ये सकले देवि भ्रममाणे महर्षर्यः ॥
देवाश्च ब्रह्मणा सार्द्धं भास्वंतमभितुष्टुवुः॥१४८॥
॥ देवा ऊचुः॥ ॥
आदिदेवोऽसि देवानां जातमेतत्स्वयं तव ॥
सर्गस्थित्यंतकालेषु त्रिधा भेदेन तिष्ठसि ॥ १४९ ॥
स्वस्ति तेऽस्तु जगन्नाथ घर्मवर्षहिमाकर ॥
इंद्र आगम्य तं देवं लिख्यमानमथास्तवीत् ॥
जय देव जगत्स्वामिञ्जय देव जगत्पते ॥7.1.11.१५॥।
ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः ॥
तुष्टुवुर्विविधैः स्तोत्रैः स्वस्ति स्वस्तीति वादिनः ॥
वेदोक्तिभिरथाग्र्याभिर्वालखिल्याश्च तुष्टुवुः ॥ १५१ ॥
॥ वालखिल्या ऊचुः ॥ ॥
नमस्त ऋक्स्वरूपाय सामरूपाय ते नमः ॥
यजुःस्वरूपरूपाय साम्नां धामग ते नमः ॥ १५२ ॥
ज्ञानैकरूपदेहाय निर्धूततमसे नमः ॥
शुद्धज्योतिःस्वरूपाय त्रिमूर्तायामलात्मने ॥ १५३ ॥
वरिष्ठाय वरेण्याय सर्वस्मै परमात्मने ॥
नमोऽखिलजगद्व्यापिरूपायानंतमूर्त्तये ॥ १५४ ॥
सर्वकारणभूताय निष्ठाय ज्ञान चेतसाम् ॥
नमः सूर्यस्वरूपाय प्रकाशालक्ष्यरूपिणे ॥ १५५ ॥
भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ॥
सर्वस्मै हेतवे चैव संध्याज्यो त्स्नाकृते नमः ॥ १५६ ॥
त्वं सर्वमेतद्भगवञ्जगच्च भ्रमता त्वया ॥
भ्रमत्याविश्वमखिलं ब्रह्मांडं सचराचरम् ॥
त्वदंशुभिरिदं सर्वं स्पृष्टं वै जायते शुचि ॥ १५७ ॥
क्रियते त्वत्करस्पर्शैर्जलादीनां पवित्रता ॥ १५८ ॥
होमदानादिको धर्मो नोपकाराय जायते ॥
तात यावन्न संयोगि जगदेतत्त्वदंशुभिः ॥ १५९ ॥
ऋचस्ते सकला ह्येतास्तथा यानि यजूंषि च ॥
सकलानि च सामानि निपतंति त्वदंगतः ॥ 7.1.11.१६० ॥
ऋङ्मयस्त्वं जगन्नाथ त्वमेव च यजुर्मयः ॥
यतः साममयश्चैव ततो नाथ त्रयीमयः ॥ १६१ ॥
त्वमेव ब्रह्मणो रूपं परं चापरमेव च ॥
मूर्त्तामूर्त्तं तथा सूक्ष्मं स्थूलं रूपेण संस्थितः ॥ १६२ ॥
निमेषकाष्ठादिमयः कालरूपक्षणात्मकः॥
प्रसीद स्वेच्छया रूपं स्वं तेजः शमनं कुरु॥
त्वं देव जगतां हेतोर्दुःखं सहसि दुःसहम्॥ १६३॥
त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यायतां वरः॥
त्वं गतिः सर्वभूतानां कर्मकांडनिवर्तिनाम्॥१६४॥
शं प्रजाभ्योऽस्तु देवेश शन्नोऽस्तु जगतांपते॥१६५॥
त्वं धाता विसृजसि विश्वमेक एव त्वं पाता स्थितिकरणाय संप्रवृत्तः॥
त्वय्यंते लयमखिलं प्रयाति चैतत्त्वत्तोन्यो न हि तपनास्ति सर्वदाता ॥ १६६ ॥
त्वं ब्रह्मा हरिहरसंज्ञितस्त्वमिन्द्रो वित्तेशः पितृपितरंबुपः समीरः ॥
सोमोऽग्निर्गगनमहाधरादिरूपः किं न त्वं सकलमनोरथप्रदाता ॥ १६७ ॥
यज्ञैस्त्वामनुदिनमात्मकर्म्मसक्ताः स्तुवन्तो विविधपदैर्द्विजा यजंति ॥
ध्यायन्तः सविनयचेतसो भवन्तं योगस्थाः परमपदं प्रयांति मर्त्त्या ॥ १६८ ॥
तपसि पचसि विश्वं पासि भस्मीकरोषि प्रकटयसि मयूखैर्ह्लादयतस्यंशुगर्भैः॥
सृजसि कमलजन्मा पालयस्यच्युताख्यः क्षपयसि च युगांते रुद्ररूपस्त्वमेकः॥१६९॥
ईश्वर उवाच॥
लिखमानस्ततो भानुं विश्वकर्मा प्रजापतिः॥
उद्भूतपुलकः स्तोत्रमिदंचक्रे विवस्वतः॥7.1.11.१७॥।
विवस्वते प्रणतजनानुकम्पिने महात्मने समजवसप्तसप्तये ॥
सतेजसे कमलकुलालिबंधवे सदा तमःपटलपटावपाटिने ॥१७१॥
पावनातिशयसर्वचक्षुषे नैककामविषयप्रदायिने ॥
भासुरामलमयूखमालिने सर्वभूतहितकारिणे नमः ॥१७२॥
अजाय लोकत्रयभावनाय भूतात्मने गोपतये वृषाय ॥
नमो महाकारुणिकोत्तमाय सूर्याय वस्तुप्रभवालयाय ॥ १७३ ॥
विवस्वते ज्ञानभृतेऽन्तरात्मने जगत्प्रतिष्ठाय जगद्धितैषिणे ॥
स्वयंभुवे निर्मललोकचक्षुषे सुरोत्तमायामिततेजसे नमः ॥ १७४॥
क्षणमुदयाचलभालितार्च्चिः सुरगणगीतिगरिष्ठगीतः ॥
त्वमुत मयूखसहस्रवज्जगति विकासितपद्मनाभः ॥१७५॥
तव तिमिरासवपानमदाद्भवति विलोहितविग्रहता ॥
मिहिरविभासतया सुतरां त्रिभुवनभावनमात्रपरः ॥ १७६ ॥
रथमारुह्य समावयवं रुचिरविकलितदिव्यहयम्॥
सततमरिबले भगवंश्चरसि जगद्धितबद्धरसः ॥ १७७ ॥
अमृतमयेन रसेन समं विबुधपितॄनपि तर्प्पयसे ॥
अरिगणसूदन तेन तव प्रणतिमुपेत्य लिखामि वपुः ॥ ॥ १७८ ॥
शुभसमवर्णमयं रचितं तव पदपांसुपवित्रतमम् ॥
नतजनवत्सल मां प्रणतं त्रिभुवनपावन पाहि रवे ॥ १७९ ॥
इति सकलजगत्प्रसूति भूतं त्रिभुवनभावनधामहेतुमेकम् ॥
रविमखिलजगत्प्रदीपभूतं त्रिदशवरं प्रणतोऽस्मि देवदेवम्॥ 7.1.11.१८० ॥
॥ ईश्वर उवाच ॥ ॥
हाहाहूहश्च गन्धर्वो नारदस्तुंबरुस्तथा ॥
उपगातुं समारब्धा गांधर्वकुशला रविम्॥ १८१ ॥
षड्जमध्यमगांधारग्रामत्रयविशारदाः ॥
मूर्छनाभिश्च तानैश्च सुप्रयोगैः सुखप्रदम्॥ १८२ ॥
सप्तस्वरविनिर्वृत्तं यतित्रयविभूषितम्॥
सप्तधातुसमायुक्तं षड्जाति त्रिगुणाश्रयम् ॥ १८३ ॥
चतुर्गीतसमायुक्तं चतुवर्णसमुत्थितम् ॥
चतुर्वर्णप्रतीकारं सप्तालंकारभूषितम्॥ १८४ ॥
त्रिस्थानशुद्धं त्रिलयं सम्यक्कालव्यवस्थितम्॥
चित्ते चित्ते च नृत्ये च रसेषु लयसंयुतम् ॥ १८५ ॥
चतुर्विंशद्गुणैर्युक्तं जगुर्गीतं च गायनाः ॥
विश्वार्ची च घृताची च उर्वश्यथ तिलोत्तमा ॥ १८६ ॥
मेनका सहजन्या च रंभा चाप्सरसां वरा ॥
चतुर्विधपदं तालं त्रिप्रकारं लयत्रयम् ॥ १८७ ॥
यतित्रयं तथाऽऽतोद्यं नाट्यं चैव चतुर्विधम् ॥
ननृतुर्जगतामीशे लिख्यमाने विभावसौ ॥ १८८ ॥
भावान्भावविशारद्यः कुर्वन्त्यो विधिवद्बहून् ॥
देवदुन्दुभयः शंखाः शतशोऽथ सहस्रशः ॥ १८९ ॥
अनाहता महादेवि नेदिरे घननिस्वनाः ॥
गायद्भिश्चैव गंधर्वैर्नृत्यद्भिश्चाप्सरोगणैः ॥ 7.1.11.१९० ॥
अवाद्यंत ततस्तत्र वेणुवीणादिझर्झराः ॥
पणवाः पुष्कराश्चैव मृदंगपटहानकाः ॥ १९१ ॥
तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् ॥
ततः कृतांजलिपुटा भक्तिनम्रात्ममूर्त्तयः ॥ १९२ ॥
ततः कलकले तस्मिन्सर्वदेवसमागमे ॥
संवत्सरं भ्रमस्थस्य विश्वकर्मा रवेस्ततः ॥ १९३ ॥
तेजसः शातनं चक्रे स्तूयमानस्य दैवतैः ॥
देवं चक्रे समारोप्य भ्रामयामास सूत्रभृत् ॥१९४॥
मृत्पिंडवत्कुलालस्य संस्पृशन्क्षुरधारया ॥
पतंगस्य स्तवं कुर्वन्विश्वकर्मा दिवस्पतेः॥ १९५ ॥
तेजसः षोडशं भागं मण्डलस्थमधारयत् ॥
शातितं तस्य तत्तेजो यावत्पादौ वरानने ॥ १९६ ॥
यत्तस्य ऋङ्मयं तेजस्तत्प्रभासेऽपतत्प्रिये ॥
यजुर्मयेन देवेशि भाविता द्यौर्महाप्रभोः ॥ १९७ ॥
स्वर्गं साममयेनापि भूर्भुवःस्वरितिस्थितम् ॥
ततस्तैस्तेजसो भागैर्दशभिः पंचभिस्तथा॥ १९८ ॥
तेन वै निर्मितं चक्रं विष्णोः शूलं हरस्य च ॥
महाप्रभं महाकायं शिबिका धनदस्य च ॥ १९९ ॥
दण्डः प्रेतपतेः शक्तिर्देवसेनापतेस्तथा ॥
अन्येषां च सुराणां च अस्त्राण्युक्तानि यानि वै ॥ 7.1.11.२०० ॥
यक्षविद्याधराणां च तानि चक्रे स विश्वकृत् ॥
ततः षोडशमं भागं बिभर्त्ति भगवान्रविः॥ ॥
तत्तेजो रविभागश्च खस्थो विचरति प्रिये ॥ २०१ ॥
इति शातिततेजाः स श्वशुरेणातिशोभनम् ॥
वपुर्दधार मार्त्तंडः पुष्पबाणमनोरमम् ॥ २०२ ॥
ततः सुरूप धृग्भानुरुत्तरानगमत्कुरून्॥
ददृशे तत्र संज्ञां तु वडवारूपधारिणीम् ।१ २०३ ॥
अपापां सर्वभूतानां तपसा नियमेन च ॥
सा च दृष्ट्वा तमायांतं परपुंसो विशंकया ॥
जगाम संमुखं तस्य अश्वरूपधरस्य च ॥२०४॥
ततश्च नासिकायोगे तयोस्तत्र समेतयोः॥
नासत्यदस्रौ तनयावश्ववक्त्रौ विनिर्गतौ ॥२०५॥
रेतसोन्ते च रेवन्तः खड्गी छत्री तनुत्रभृत् ॥
पितुर्गृह्योत्तमं सोऽश्वं जातमात्रः पलायत ॥ २०६ ॥
स तस्मिन्सकृदारूढस्तमश्वं नैव मुंचति ॥
ततोर्केण समादिष्टौ दंडनायकपिंगलौ ॥२०७॥
अश्वं प्रत्यानयध्वं मे मा बलाच्छिद्रतोऽस्यतु ॥
पार्श्वस्थौ तिष्ठतस्तस्य अश्वच्छिद्राभिकांक्षिणौ॥२०८॥
न च च्छिद्रं लभेते तौ तस्याद्यापि महात्मनः॥
अग्रे गच्छति रेवंते पृष्ठगौ दण्डपिंगलौ ॥२०९॥
उत्तरेभ्यः कुरुभ्यस्तु निर्गतौ वेगवत्तरौ ॥
दक्षिणं भारतं प्राप्तौ यत्र क्षेत्र प्रभासिकम् ॥7.1.11.२१॥।
अत्यर्थं वेगखिन्नौ तौ स च रेवंतकोऽपि हि ॥
प्रस्विन्नगात्रः सोच्छ्वासो रेवंतस्तत्र संस्थितः ॥२११॥
मुहूर्तेन समाक्रान्तं लक्षयोजनमंडलम् ॥
उत्तराद्दक्षिणं देवि रेवतेन महात्मना ॥ २१२ ॥
स्विन्नगात्रस्ततो देवि प्रभासे समवस्थितः ॥
दण्डपिंगलकसंयुक्तो ह्यश्वारूढः स तिष्ठति॥२१३॥
सावित्र्या नैर्ऋते भागे नातिदूरे व्यवस्थितः॥
राज्ञीपुत्रो यतो देवि राजा भट्टारकस्ततः॥ २१४॥
लोके ख्यातिं समायाति राजभट्टारिकेति च॥
गुह्यभट्टारकत्वे च रेवंतो विनियोजितः॥ २१५॥
एवमभ्येत्याह ततो भगवाँल्लोकतापनः॥
त्वमप्यशेषलोकस्य पूज्यो वत्स भविष्यसि॥ २१६॥
अरण्ये च महादावे वैरिदस्युभयेषु च॥
त्वां स्मरिष्यंति ये मर्त्त्या मोक्ष्यन्ते ते महापदः॥२१७॥
क्षेममृद्धिं सुखं राज्यमारोग्यं कीर्तिमुन्नतिम्॥
नराणामतितुष्टस्त्वं पूजितः संप्रदास्यसि॥ २१८ ॥
अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना॥
धर्मदृष्टिर्यमश्चासौ समो मित्रे तथाऽहिते॥ २१९॥
ततो नियोगं तं चास्य चकार तिमिरापहः॥
यमुनां च नदीं चक्रे कलिन्दान्तरवाहिनीम् ॥ 7.1.11.२२० ॥
छायासंज्ञासुतश्चापि सावर्णिस्तु महायशाः ॥
भाव्यः सोनागते काले मनुः सावर्णिकोष्टमः ॥ २२१ ॥
मेरुपृष्ठे तपो घोरमद्यापि चरति प्रभुः ॥
भ्राता शनैश्चरस्तस्य ग्रहोऽभूच्च प्रिये ध्रुवम् ॥ २२२ ॥
एवं तेभ्यो वरान्दत्त्वा रेवंतस्यापि भास्करः ॥
पुनर्नाम निरुक्तं स रेवंतस्याकरोत्प्रमुः ॥२२३॥
एवंगच्छत्यसौ यस्मात्संज्ञायाः शांतिदः सुतः ॥
अश्वानामाधिपत्ये तु भानुना च नियोजितः ॥ २२४ ॥
क्षेमेण गच्छतेऽध्वानं यस्तु पूजयते पथि ॥
सुखप्रसाद्यो मर्त्त्यानां सदा च वरवर्णिनि ॥ २२५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये राजभट्टारकोत्पत्तिवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 12
॥ ईश्वर उवाच ॥ ॥
या संज्ञा सा स्मृता राज्ञी छाया या सा तु निक्षुभा ॥
राजृ दीप्तौ स्मृतो धातू राजा राजति यः सदा ॥ १ ॥
अधिकं सर्वभूतेभ्यस्तस्माद्राजा स उच्यते ॥
राजपत्नी तु सा यस्मात्तस्माद्राज्ञी प्रकीर्तिता ॥ २ ॥
क्षुभ संचलने धातुर्निश्चला तेन निक्षुभा ॥
भवंति ह्यथवा यस्मात्स्वांगीयाः क्षुद्विवर्जिताः ॥ ३ ॥
छाया तां विशते दिव्या स्मृता सा तेन निक्षुभा ॥
सांप्रतं वर्तते योऽयं मनुर्लोके महामते ॥ ४ ॥
तस्यान्ववाये जातस्तु शंखचकगदाधरः ॥
यमस्तु मात्रा संशप्तो हीनपादो धरातले ॥ ५ ॥
प्रभासक्षेत्रमासाद्य चचार विपुलं तपः ॥
वर्षाणामयुतं साग्रं लिंगं पूजितवान्प्रिये ॥ ६ ॥
तुष्टश्चाहं ततस्तस्य वराणां च शतं ददौ ॥
अद्यापि तत्र देवेशि यमेश्वरमिति श्रुतम् ॥
यमद्वितीयायां दृष्ट्वा यमलोकं न पश्यति ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये यमेश्वरोत्पत्तिवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 13
॥ देव्युवाच ॥ ॥
यदा भ्रमिस्थः सविता तक्षितः क्षुरधारया ॥
श्वशुरेण महादेव जामाता प्रीतिपूर्वकम्॥ १ ॥
तत्तेजः शातितं भूरि प्रभासे यत्पपात वै ॥
तदभूत्किं तदा देव प्रभासात्कथयस्व मे ॥ २ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि सूर्यमाहात्म्यमुत्तमम् ॥
यच्छ्रुत्वा मानवो भक्त्या मुच्यते सर्वपातकैः ॥३॥
देहावतारो देवस्य प्रभासेऽर्कस्थलस्य च ॥
पुराणाख्यानमाचक्षे तव देवि यशस्विनि ॥ ४ ॥
शाकद्वीपे महादेवि भ्रमिस्थस्य तदा रवेः ॥
वर्षाणां तु शतं साग्रं तक्ष्यमाणे विभावसौ ॥ ५ ॥
यदाद्य भागजं तेजस्तत्प्रभासेऽपतत्प्रिये ॥
पतितं तत्र तत्तेजः स्थलाकारं व्यजायत ॥ ६ ॥
जांबूनदमयं देवि तत्पूर्वमभवत्क्षितौ ॥
तिष्यमाहात्म्ययोगेन शैलीभूतं च सांप्रतम् ॥ ७ ॥
तत्र चार्कमयं रूपं कृत्वा देवो दिवाकरः ॥
उत्पन्नः सर्वभूतानां हिताय धरणीतले ॥ ८ ॥
हिरण्यगर्भनामेति कृते सूर्येति कीर्तितम् ॥
त्रेतायां सवितानाम द्वापरे भास्करः स्मृतः ॥ ९ ॥
कलौ चार्कस्थलोनाम त्रिषु लोकेषु कीर्तितः ॥
अवतीर्णमिदं देवि स्वयमेव प्रतिष्ठितम्॥ 7.1.13.१० ॥
यदा स्वारोचिषो देवि द्वितीयोऽभून्मनुः पुरा ॥
तस्मिन्कालेऽवतीर्णोऽसौ देवस्तत्र दिवाकरः ॥ ११ ॥
भक्तिमुक्ति प्रदो देवि व्याधिदुःखविनाशकृत् ॥
तस्य तेजोद्भवैर्व्याप्तं रेणुभिः पञ्चयोजनम् ॥ १२ ॥
दक्षिणोत्तरतो देवि पञ्चपूर्वापरेण तु ॥
उत्तरेण समुद्रस्य यावन्माहेश्वरी नदी ॥ १३ ॥
न्यंकुमत्याश्चापरतो यावदेव कृतस्मरम् ॥
एतद्व्याप्तं महादेवि तत्तेजोरेणुभिः शुभैः ॥ १४ ॥
तस्य सूक्ष्मा प्रभा या तु आदितेजोविनिःसृता ॥
तया व्याप्तं महादेवि यावद्द्वादशयोजनम् ॥ १५ ॥
उत्तरे भास्करसुता दक्षिणे सरितां पतिः ॥
पूर्वपश्चिमतो देवि रुक्मिणीद्वितयं स्मृतम् ॥ १६ ॥
एतस्मिन्नन्तरे देवि सौरं तेजः प्रसर्प्पितम् ॥
तेन पावित्र्यमानीतं क्षेत्रं द्वादशयोजनम् ॥ १७ ॥
तस्य मध्यस्य यन्मध्यं तद्गृहं मम सुन्दरि ॥
तेजोमण्डलमध्यस्थं मम स्थानं महेश्वरि ॥ १८ ॥
चक्षुर्मंडलमध्ये तु यथा देवि कनीनिका ॥
पूर्वपश्चिमतो देवि गोमुखादाऽऽश्वमेधिकम्॥ १९ ॥
दक्षिणोत्तरतो देवि समुद्रात्कौरवेश्वरीम् ॥
एतस्मिन्नंतरे क्षेत्रे क्षेत्रज्ञोऽहं वरानने ॥ 7.1.13.२० ॥
यस्मादर्कस्य तेजोभिर्भासितं मम तद्गृहम् ॥
तस्मात्प्रभासनामेति कल्पेऽस्मिन्प्रथितं प्रिये ॥ २१ ॥
तत्र पश्यति यः सूर्यमर्क्करूपं नरोत्तमः ॥
सर्वपापविनिर्मुक्तः सूर्यलोके महीयते ॥ २२ ॥
स स्नातः सर्वतीर्थेषु तेन चेष्टं महामखैः ॥
सर्वदानानि दत्तानि पूर्वजास्तेन तोषिताः ॥ २३ ॥
अर्करूपी यतः सूर्यस्तत्र जातो महीतले ॥
तस्मात्त्याज्यः सदा चार्को भोजनेऽत्र न संशयः ॥ २४ ॥
यो दृष्ट्वार्कस्थलं मर्त्त्यश्चार्कपत्रेषु भुंजति ॥
गोमांसभक्षणं तेन कृतं भवति भामिनि ॥ २५ ॥
भक्षितो भास्करस्तेन स कुष्ठी जायते नरः ॥
तस्मात्सर्वप्रयत्नेन चार्कपत्राणि वर्जयेत् ॥ २६ ॥
यात्रायां प्रथमं देवि दृष्टो येनार्कभास्करः ॥
तं दृष्ट्वा महिषीं दद्याद्ब्राह्मणाय विपश्चिते ॥ ॥ २७ ॥
ताम्रवर्णं रक्तवस्त्रं ततस्तुष्यति भास्करः ॥
तस्य चैव तु सांनिध्ये वह्निकोणे व्यवस्थितम् ॥ २८ ॥
नातिदूरे महाभागे सिद्धेश्वरमिति स्मृतम् ॥
सर्वसिद्धिप्रदं देवि लिंगं त्रैलोक्यपूजितम् ॥ २९ ॥
जैगीषव्येश्वरंनाम पूर्वं कृतयुगेऽभवत् ॥
कलौ सिद्धेश्वरमिति प्रसिद्धिमगमत्प्रिये ॥ 7.1.13.३० ॥
तं दृष्ट्वा मनुजो देवि सर्वसिद्धिमवाप्नुयात् ॥
तत्रैव देवदेवेशि नातिदूरे व्यवस्थितम् ॥३१॥
सूर्यदक्षिणनैर्ऋत्ये पातालविवरं प्रिये ॥
मंदेहा राक्षसा यत्र तथा शालकटंकटाः ॥ ३२ ॥
सूर्यस्य तेजसा दग्धाः पातालमगमन्पुरा ॥
कलौ तद्द्वारमेवास्ति न पाताले गतिः प्रिये ॥ ३३ ॥
योगिन्यस्तत्र रक्षंति ब्राह्म्याद्या मातरस्तथा ॥
माघेकृष्णचतुर्दश्यां रात्रौ मातृगणान्यजेत् ॥
बलिपुष्पोपहारैश्च ततः सिद्धिर्भविष्यति ॥ ३४ ॥
इति हि सकलधर्मभावहेतोर्हरकमलासनविष्णुसंस्तुतस्य॥
तनुपरिलिखनं निशम्य भानोर्व्रजति दिवाकरलोकमायुषोंऽते॥३५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रभासपवित्रनामकरणार्कस्थलोत्पत्तिवर्णनंनाम त्रयोदशोऽध्यायः ॥ ॥ १३ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 14
॥ देव्युवाच ॥ ॥
यदेतद्भवता प्रोक्तं माहात्म्यं सूर्यदैवतम्॥
तन्मे विस्तरतो ब्रूहि देवदेव जगत्पते ॥ १ ॥
कथमर्कस्थलो भूतः प्रभासक्षेत्रभूषणः ॥
पूजनीयो महादेवः सम्यग्यात्राफलेप्सुभिः ॥ २ ॥
के मंत्राः किं विधानं तु केषु पर्वसु पूजयेत्॥
जैगीषव्येश्वरो भूत्वा ह्यभूत्सिद्धेश्वरः कथम् ॥
तन्मे कथय देवेश विस्तरात्सर्वमेव हि ॥ ३ ॥
पाताले विवरं तत्र योगिन्यस्तत्र किं पुरा ॥
तथा मातृगणश्चैव कथमेतदभूत्पुरा ॥ ४ ॥
एतत्सर्वमशेषेण दयां कृत्वा जगत्पते ॥
ममाचक्ष्व विरूपाक्ष यद्यहं ते प्रिया हर ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
साधु पृष्टं त्वया देवि कथयामि समासतः ॥
सिद्धेश्वरो ह्यभूद्येन जैगीषव्येश्वरो हरः ॥ ६ ॥
पूजाविधानं विस्तीर्य तन्मे निगदतः शृणु ॥
आसीदस्मिन्कृते देवि सर्व ज्ञानविशारदः ॥ ७ ॥
पुत्रः शतकलाकस्य जैगीषव्य इति श्रुतः ॥
प्रभासक्षेत्रमासाद्य स चक्रे दुश्चरं तपः ॥ ८ ॥
अतिष्ठद्वायुभक्षश्च वर्षाणां शतकं किल ॥
अम्बुभक्षः सहस्रं तु शाकाहारोऽयुतं तथा ॥ ९ ॥
चांद्रायणसहस्रं च कृतं सांतपनं पुनः ॥
शोषयित्वा मिताहारो दिग्वासाः समपद्यत ॥ 7.1.14.१० ॥
पूर्वे कल्पे स्वयं भूतं महोदयमिति श्रुतम् ॥
स लिंगं देवदेवस्य प्रतिष्ठाप्यार्चयन्नपि ॥ ११ ॥
भस्मशायी भस्मदिग्धो नृत्त गीतैरतोषयत् ॥
जपेन वृषनादैश्च तपसा भावितः शुचिः ॥ १२ ॥
तमेवं तोषयाणं तु भक्त्या परमया युतम् ॥
भगवांश्च तमभ्येत्य इदं वचनमब्रवीत् ॥ १३ ॥
जैगीषव्य महाबुद्धे पश्य मां दिव्यचक्षुषा ॥
तुष्टोऽस्मि वरदश्चाहं ब्रूहि यत्ते मनोगतम् ॥ १४ ॥
स एवमुक्तो देवेन देवं दृष्ट्वा त्रिलोचनम्॥
प्रणम्य शिरसा पादाविदं वचनमब्रवीत् ॥ १५ ॥
॥ जैगीषव्य उवाच ॥ ॥
भगवन्देवदेवेश मम तुष्टो यदि प्रभो ॥
ज्ञानयोगं हि मे देहि यः संसारनिकृन्तनम्॥ १६ ॥
भगवन्नान्यदिच्छामि योगात्परतरं हितम् ॥
त्वयि भक्तिश्च नित्यं मे देव्यां स्कन्दे गणेश्वरे ॥ ॥ १७ ॥
न च व्याधिभयं भूयान्न च तेजोऽपमानता ॥
अनुत्सेकं तथा क्षांतिं दमं शममथापि च ॥ १८ ॥
एतान्वरान्महादेव त्वदिच्छामि त्रिलोचन ॥ १९ ॥
॥ ईश्वर उवाच ॥ ॥
अजरश्चामरश्चैव सर्वशोकविवर्जितः ॥
महायोगी महावीर्यो योगैश्वर्यसमन्वितः॥7.1.14.२०॥
प्रभावाच्चास्य क्षेत्रस्य गुह्यस्य मम शाश्वतम् ॥
योगाष्टगुणमैश्वर्यं प्राप्स्यसे परमं महत् ॥ २१ ॥
भविष्यसि मुनिश्रेष्ठ योगाचार्यः सुविश्रुतः ॥ २२ ॥
यश्चेदं त्वत्कृतं लिगं नियमेनार्चयिष्यति ॥
सर्वपापविनिर्मुक्तो योगं दिव्यमवाप्स्यति ॥ २३ ॥
जैगीषव्यगुहां चेमां प्राप्य योगं करोति यः ॥
स सप्तरात्राद्युक्तात्मा संसारं संतरिष्यति ॥ २४ ॥
मासेन पूर्वजातिं च जन्मातीतं च वेत्स्यति ॥
एकरात्रात्तनुं शुद्धां द्वाभ्यां तारयते पितॄन्॥
त्रिरात्रेण व्यतीतेन त्वपरान्सप्त तारयेत् ॥ २५ ॥
पुनश्च तव विप्रर्षे अजेयत्वं च योगिभिः ॥
इच्छतो दर्शनं चैव भविष्यति च ते मम ॥ २६ ॥
इति देवो वरान्दत्त्वा तत्रैवांतरधीयत ॥
एतत्कृतयुगे वृत्तं तव देवि प्रभाषितम् ॥ २७ ॥
त्रेतायुगे महादेवि द्वापरेऽपि तथैव च ॥
कलियुगप्रवेशे तु वालखिल्या महर्षयः ॥ २८ ॥
अस्मिन्प्राभासिके क्षेत्रे सूर्यस्थलसमीपतः ॥
आराधयंतो देवेशं गुहामध्यनिवासिनम् ॥ २९ ॥
अष्टाशीतिसहस्राणि ऋषयश्चोर्द्धरेतसः ॥
वर्षायुतं तपस्तप्त्वा सिद्धिं जग्मुस्तदात्मिकाम्॥7.1.14.३०॥
ततः सिद्धेश्वरं लिंगं कलौ ख्यातं वरानने ॥
यदा सोमेन संयुक्ता कृष्णा शिवचतुर्दशी ॥
तदैव तस्य देवस्य दर्शनं देवि दुर्ल्लभम् ॥ ३१ ॥
ब्रह्मांडं सकलं दत्त्वा यत्पुण्यमुपजायते ॥
तत्पुण्यं लभते देवि सिद्धलिंगस्य पूजनात् ॥ ३२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धेश्वरोत्पत्तिवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 15
॥ ईश्वर उवाच ॥ ॥
तस्याग्नेये तु देवेशि अरुणेन प्रतिष्ठितम्॥
धनुषां च त्रये तत्र सिद्धलिंगसमीपतः ॥१॥
सूर्यसारथिना तत्र लिंगं देविप्रतिष्ठितम्॥
कलौ पापहरंनाम दर्शनात्पापनाशनम् ॥ २ ॥
चैत्रमास त्रयोदश्यां शुक्लायां वरवर्णिनि ॥
पूजयेद्विधिवद्भक्त्या पौंडरीकफलं लभेत् ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये पापनाशनोत्पत्तिवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 16
॥ ईश्वर उवाच ॥ ॥
पातालविवरस्यापि माहात्म्यं शृणु सांप्रतम् ॥
पूर्वपृष्टं महादेवि ब्रह्मणा विश्वकर्मणा ॥ १ ॥
तमोभावे समुत्पन्ने जातास्तत्रैव राक्षसाः ॥
सूर्यस्य द्वेषिणः सर्वे ह्यसंख्याता महाबलाः ॥ ॥ २ ॥
ते तु दृष्ट्वा महात्मानं समुद्यंतं दिवाकरम् ॥
ते धूम्रप्रमुखाः सर्वे जहसुः सूर्यमंजसा ॥ ३ ॥
अस्माकमंतकः कोऽयं विद्यते पापकर्मकृत्॥
इत्यूचुर्विविधा वाचः सूर्यस्याग्रे स्थितास्तदा॥४॥
इति श्रुत्वा तदा देवः क्रोधस्फुरिताधरः॥
राक्षसानां वचश्चैव भक्ष्यमाणो दिवाकरः॥ ५॥
ततः क्रोधाभिभूतेन चक्षुषा चावलोकयत्॥
स क्रूररक्षःक्षयकृत्तिमिरद्विपकेसरी॥ ६॥
महांशुमान्खगः सूर्यस्तद्विनाशमचिंतयत्॥
अजानन्नंततश्छिद्रं राक्षसानां दिवस्पतिः॥ ७ ॥
स धर्मविच्युतान्दृष्ट्वा पापोपहतचेतसः॥
एवं संचिंत्य भगवान्दध्यौ ध्यानं प्रभाकरः॥८।
अजानंस्तेजसा ग्रस्तं त्रैलोक्यं रजनीचरैः ॥
ततस्ते भानुना दृष्टाः क्रोधाध्मातेन चक्षुषा ॥ ९ ॥
निपेतुरंबरभ्रष्टाः क्षीणपुण्या इव ग्रहाः ॥
राक्षसैर्वेष्टितो धूम्रो निपतञ्छुशुभेंऽबरात् ॥ 7.1.16.१० ॥
अर्द्धपक्वं यथा तालफलं कपिभिरावृतम् ॥
यदृच्छया निपेतुस्ते यंत्रमुक्ता यथोपलाः ॥ ११ ॥
ततो वायु वशाद्भ्रष्टा भित्त्वा भूमिं रसातलम्॥
जग्मुस्ते क्षेत्रमासाद्य प्रभासं वरवर्णिनि ॥ १२॥
यत्र चार्कस्थलो देवः सर्वसिद्धिप्रदायकः ॥
तत्सान्निध्यस्थितं देवि पातालविवरं महत् ॥ १३ ॥
अन्यानि कोटिशः संति तानि लुप्तानि भामिनि ॥
कृतस्मरात्समारभ्य यावदर्कस्थलो रविः ॥ १४ ॥
देवमातुर्वरं प्राप्य सिद्धयोऽष्टौ व्यवस्थिताः ॥
एतस्मिन्नंतरे देवि सूर्यक्षेत्रमुदाहृतम् ॥ १५ ॥
सूर्यस्य तेजसो देवि मध्यभागं हि तत्स्मृतम् ॥
सर्वं हेममयं देवि नापुण्यस्तत्र वीक्षते ॥ १६ ॥
विवराणां शतं चैकं स्पर्शाश्चैव तु कोटिशः ॥
तत्र संति महादेवि सिद्धेशस्तु प्ररक्षति ॥ १७ ॥
इदं क्षेत्रं महादेवि प्रियं सूर्यस्य सर्वदा ॥
सूर्यपर्वणिसंप्राप्ते कुरुक्षेत्राधिकं प्रिये ॥ १८ ॥
ब्राह्मी चैव हिरण्या च संगमश्च महोदधेः ॥
एतत्त्रिसंगमं देवि कोटितीर्थ फलप्रदम् ॥ १९ ॥
देवमाता च तत्रैव मंकीशस्तत्र तिष्ठति ॥
नागस्थानं नगस्थानं तत्रैव समुदाहृतम् ।१ 7.1.16.२० ॥
इति संक्षेपतः प्रोक्तमर्कस्थलम- होदयम् ॥
राक्षसानां च संपातादभूच्च विवरं यथा ॥ २१ ॥
अन्यानि तत्र देवेशि लुप्तानि विवराणि वै ॥
एवं तु प्रकटं तत्र दृश्यतेऽद्यापि भामिनि ॥ २२ ॥
श्रीमुखं नाम तद्द्वारं रक्ष्यते मातृभिः प्रिये ॥
वर्षमेकं चतुर्द्दश्यां नियमाद्यस्तु पूजयेत् ॥ २३ ॥
तत्र मातृगणान्देवि सुनंदाद्यान्विधानतः॥
पशुपुष्पोपहारैश्च धूपदीपैस्तथोत्तमैः ॥
विप्राणां भोजनैर्देवि तस्य सिद्धिर्भविष्यति ॥ २४ ॥
तस्मात्सर्वप्रयत्नेन तत्रार्कस्थलसंनिधौ ॥
पूजयेन्मातरः सर्वा यदीच्छेत्सिद्धिमात्मनः ॥ २५ ॥
एतास्तु मातरो देवि सुनंदागणनामतः ॥
ख्यातिं यांति प्रभासे तु क्षेत्रेस्मिन्वरवर्णिनि ॥ २६ ॥
एतत्संक्षेपतः प्रोक्तं पातालोत्तरमध्यतः ॥
तच्छ्रुत्वा मुच्यते देवि सर्वापद्भ्यो नरोत्तमः ॥ २७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये अर्कस्थलमाहात्म्ये पातालविवरसुनंदादिमातृगणोत्पत्तिवर्णनंनाम षोडशोऽध्यायः ॥ ॥१६ ॥ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 17
॥ ईश्वर उवाच ॥ ॥
अथ पूजाविधानं ते कथयामि यशस्विनि ॥
अर्कस्थलस्य देवस्य यथा पूज्यो नरोत्तमैः ॥१॥
सर्वेषामेव देवानामादिरादित्य उच्यते ॥
आदिकर्त्ता त्वसौ यस्मादादित्यस्तेन चोच्यते॥२॥
नादित्येन विना रात्रिर्न दिवा न च तर्पणम्॥
न धर्मो वै न चाधर्मो न संतिष्ठेच्चराचरम् ॥ ३ ॥
आदित्यः पालयेत्सर्वमादित्यः सृजते सदा ॥
आदित्यः संहरेत्सर्वं तस्मादेष त्रयीमयः ॥४॥
आराधनविधिं तस्य भास्करस्य महात्मनः ॥
कथयामि महादेवि वेदोक्तैर्मंत्रविस्तरैः ॥
तं शृणुष्व वरारोहे सर्वपापप्रणाशनम् ॥ ५ ॥
मूर्त्तिस्थः पूज्यते येन विधानेन महेश्वरि ॥
द्वादशात्मा यथा सूर्यस्तत्ते वक्ष्याम्यशेषतः ॥ ६ ॥
मुखशुद्धिं च कृत्वाऽऽदौ स्नानं कृत्वा विशेषतः ॥
वस्त्रशुद्धिं देह शुद्धिं कृत्वा सूर्यं स्पृशेत्ततः ॥ ७ ॥
दन्तकाष्ठविधानं तु प्रथमं कथयामि ते ॥
मधूके पुत्रलाभः स्यादर्के नेत्रसुखं प्रिये ॥ ९ ॥
वक्तृत्वं वै बदर्या च बृहत्या द्रुर्ज्जनाञ्जयेत् ॥
ऐश्वर्यं च भवेद्बिल्वे खदिरे च न संशयः ॥ ९ ॥
रोगक्षयः कदम्बे तु अर्थलाभोऽतिमुक्तके ॥
मरुतां याति सर्वत्र आटरूषकसंभवैः ॥ 7.1.17.१० ॥
जातिप्रधानतां जातावश्वत्थो यच्छते यशः ॥
श्रियं प्राप्नोति निखिलां शिरीषस्य निषेवणात् ॥ ११ ॥
प्रियंगुं सेवमानस्य सौभाग्यं परमं भवेत् ॥
अभीप्सितार्थसिद्धिः स्यान्नित्यं प्लक्षनिषेवणात् ॥१२॥
न पाटितं समश्नीयाद्दंतकाष्ठं न सव्रणम् ॥
न चोर्द्धशुष्कं वक्रं वा नैव च त्वग्विवर्ज्जितम् ॥ १३ ॥।
वितस्तिमात्रमश्नीयाद्दीर्घं ह्रस्वं च वर्जयेत् ॥
उदङ्मुखो वा प्राङ्मुखः सुखासीनोऽथ वाग्यतः ॥ ॥ १४ ॥
कामं यथेष्टं हृदये कृत्वा समभिमन्त्र्य च ॥
मंत्रेणानेन मतिमानश्नीयाद्दन्तधावनम् ॥ १५ ॥
वरं दत्त्वाऽभिजानासि कामं चैव वनस्पते ॥
सिद्धिं प्रयच्छ मे नित्यं दन्तकाष्ठ नमोऽस्तु ते ॥ १६ ॥
त्रीन्वारान्परिजप्यैवं भक्षयेद्दंतधावनम् ॥
पश्चात्प्रक्षाल्य तत्काष्ठं शुचौ देशे विनिक्षिपेत् ॥ १७ ॥
दंतकाष्ठेन देवेशि न जिह्वां परिमार्जयेत् ॥
पृथक्पृथक्तदा कार्यं यदीच्छेद्विपुलं यशः ॥ १८ ॥
अंगुल्या दंतकाष्ठं च प्रत्यक्षं लवणं च यत् ॥
मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणैः ॥ १९ ॥
मुखे पर्युषिते नित्यं भवत्यप्रयतो द्विजः ॥
तस्माच्छुष्कमथार्द्रं वा भक्षयेद्दंतधावनम् ॥ 7.1.17.२० ॥
वर्जिते दिवसे चैव गडूषांश्चैव षोडश ॥
तत्तत्पद्मसुगन्धैर्वा मुखशुद्धिं च कारयेत् ॥ २१ ॥
मुखशुद्धिमकृत्वा यो भास्करं स्पृशति द्विजः ॥
त्रीणि वर्षसहस्राणि स कुष्ठी जायते नरः ॥ २२ ॥
एवं वस्त्रादि संशोध्य ततः स्नानं समाचरेत् ॥
शुचौ मनोरमे स्थाने संगृह्यास्त्रेण मृत्तिकाम्॥ २३ ॥
सानुस्वारोकारयुतो हकारः फट्समन्वितः ॥
अनेनास्त्रेण संगृह्य स्नानं तत्र समाचरेत् ॥ २४ ॥
भागत्रयं तु संशुद्धं तृणपाषाणवर्जितम् ॥
एकमस्त्रेण चालभ्य तथान्यं भास्करेण तु ॥ २५ ॥
अंगैश्चैव तृतीयं तु अभिमंत्र्य सकृत्सकृत् ॥
जप्त्वास्त्रेण क्षिपेद्दिक्षु निर्विघ्नं तु जलं भवेत् ॥ २६ ॥
सूर्यतीर्थ द्वितीयेन तृतीयेन सकृत्सकृत् ॥
गुंठयित्वा ततः स्नायाद्रवितीर्थेन मानवः ॥ २७ ॥
तूर्यशंख निनादेन ध्यात्वा देवं दिवाकरम् ॥
स्नात्वा राजोपचारेण पुनराचम्य यत्नतः ॥ २८ ॥
स्नानं कृत्वा ततो देवि मंत्रराजेन संयुतम् ॥
हरेफौ बिंदु लक्ष्मीश्च तथाऽन्यो दीर्घया सह ॥ २९ ॥
मात्रया रेफसंयुक्तो हकारो बिंदुना सह ॥
सकारः सविसर्गस्तु मंत्रराजोऽयमुच्यते ॥ 7.1.17.३० ॥
ततस्तु तर्प्पयेन्मंत्रान्सर्वांस्तांस्तु कराग्रजैः ॥
तुलनादूर्ध्वतो देवान्सव्येन च मुनींस्तथा ॥
पितॄंश्चैवापसव्येन हृद्बीजेन प्रतर्पयेत् ॥ ३१ ॥
यद्गीतं प्रवरं लोके अक्षराणां मनीषिभिः ॥
एकोनविंशं मात्राया अक्षरं तत्प्रकीर्त्तितम् ॥ ३२ ॥
एवं स्नात्वा विधानेन संध्यां वंदेद्विधानतः ॥
ततो विद्वान्क्षिपेत्पश्चाद्भास्करायोदकांजलिम् ॥ ३३ ॥
जपेच्च त्र्यक्षरं मंत्र षण्मुखं च यदृच्छया ॥
मंत्रराजेति यः पूर्वं तवाख्यातो मया प्रिये ॥ ३४ ॥
पश्चात्तीर्थेन मंत्रास्तु संहृत्य हृदये न्यसेत् ॥
मंत्रैरात्मानमेकत्र कृत्वा चार्घं प्रदापयेत् ॥ ३५ ॥
रक्तचंदनगंधैस्तु शुचिःस्नातो महीतले ॥
कृत्वा मंडलकं वृत्तमेकचित्तो व्यवस्थितः ॥ ३६ ॥
गृहीत्वा करवीराणि ताम्रे संस्थाप्य भाजने ॥
तिलतंदुलसंयुक्तं कुशगन्धोदकेन तु ॥३७॥
रक्तचंदन धूपेन युक्तम?र्घ्योपसाधितम् ॥
कृत्वा शिरसि तत्पात्रं जानुभ्यामवनिं गतः॥ ३८ ॥
मूलमंत्रेण संयुक्तमर्घ्यं दद्याच्च भानवे ॥
मुच्यते सर्वपापैस्तु यो ह्येवं विनिवेदयेत् ॥ ३९ ॥
यद्युगादिसहस्रेण व्यतीपातशतेन च ॥
अयनानां सहस्रेण यत्फलं ज्येष्ठपुष्करे ॥
तत्फलं समवाप्नोति सूर्यायार्घ्य निवेदने ॥ 7.1.17.४० ॥
दीक्षामंत्रविहीनोऽपि भक्त्या संवत्सरेण तु ॥
फलमर्घेण वै देवि लभते नात्र संशयः ॥ ४१ ॥
यः पुनर्दीक्षितो विद्वान्विधिनार्घ्यं निवेदयेत् ॥
नासौ संभवते भूमौ प्रलयं याति भास्करे ॥ ४२ ॥
इह जन्मनि सौभाग्यमायुरारोग्यसंपदम् ॥
अचिराल्लभते देवि सभार्यः सुखभाजनम् ॥ ४३ ॥
एवं स्नानविधिः प्रोक्तः सौरः संक्षेपतस्तव ॥
हिताय मानवेन्द्राणां सर्वपापप्रणाशनः ॥ ४४ ॥
अथवा वेदमार्गेण कुर्यात्स्नानं द्विजोत्तमः ॥
यद्येवं मन्त्रविस्तारे ह्यशक्तो दीक्षया विना ॥ ४५ ॥
॥ ईश्वर उवाच ॥ ॥
अथ पूजाविधानं ते कथयामि यशस्विनि ॥
वेदमार्गेण दिव्येन ब्राह्मणानां हिताय वै ॥ ४६ ॥
एवं संभृतसंभारः पुष्पादिप्रगुणीकृतः ॥
तत आवाहयेद्भानुं स्थापयेत्कर्णिकोपरि ॥ ४७ ॥
उपस्थानं तु वै कृत्वा मंत्रेणानेन सुव्रते ॥
उदुत्यं जातवेदसमिति मंत्रः संपरिकीर्तितः ॥ ४८ ॥
अग्निं दूतेति मंत्रेण अनेनावाह्य भामिनि ॥
आकृष्णेन रजसा मंत्रेणानेन वाऽर्चयेत् ॥ ४९ ॥
हंसः शुचिषदिति मंत्रेणानेन पूजयेत् ॥
अपत्येतेति मन्त्रेण सूर्यं देवि प्रपूजयेत् ॥ 7.1.17.५० ॥
अदृश्रमस्य चैतेन सूर्यं देवि समर्च्चयेत् ॥
तरणिर्विश्वदर्शेति अनेन सततं जपम् ॥ ५१ ॥
चित्रं देवानामुदेति भद्रां देवो सदार्चयेत् ॥
विभूतिमर्च्चयेन्नित्यं येना पावक चक्षसा ॥ ५२ ॥
विद्यामेपिरजस्पृथ्वित्यनेन विमलां सदा ॥
अमोघां पूजयेन्नित्यं मंत्रेणानेन सुव्रते॥ ५३ ॥
सप्त त्वा हरितोऽनेन सिद्धिदां सर्वकर्मसु ॥
विद्युतामर्चयेद्देवं सप्त त्वा हरितेन च ॥ ५४ ॥
नवमीं पूजयेद्देवीं सततं सर्वतोमुखीम् ॥
मन्त्रेणानेन वै देवि उद्वयन्तमितीह वै ॥ ५५ ॥
उद्यन्नद्य मित्रमहः प्रथममक्षरं जपेत् ॥
द्वितीयं पूजयेद्देवि शुकेषु मे हरिमेति वै ॥ ५६ ॥
उदगादयमादित्यो ह्यनेनापि तृतीयकम् ॥
तत्सवितुर्वरेण्येति चतुर्थं परिकीर्तितम् ॥ ५७ ॥
महाहिवो महायेति पञ्चमं परिकीर्तितम् ॥
हिरण्यगर्भः समवर्तत षष्ठं बीजं प्रकीर्तितम् ॥ ५८ ॥
सविता पश्चातात्सविता सप्तमं वरवर्णिनि ॥
एवं बीजानि विन्यस्य आदित्यं स्थापयेच्छुभे ॥ ५९ ॥
आदित्यं स्थापयित्वा तु पश्चादङ्गानि विन्यसेत् ॥ 7.1.17.६० ॥
आग्नेय्यां हृदयं न्यस्य ऐशान्यां तु शिरो न्यसेत् ॥
नैर्ऋत्यां तु शिखां चैव कवचं वायुगोचरे ॥ ६१ ॥
अस्त्रं दिशासु विन्यस्य स्वबीजेन तु कर्णिकाम् ॥
अमोसि प्राणितेनेति अनेन हृदयं यजेत् ॥ ६२ ॥
शिरस्तु पूजयेद्देवि आयुष्यं वर्चसेति वै ॥
गायत्र्या तु शिखां पूज्य नैर्ऋत्यां तु व्यवस्थिताम् ॥ ६३ ॥
जीमूतस्येव भवति प्रत्येकं कवचं यजेत् ॥
धन्वन्नागा धन्वनेति अनेनास्त्रं सदाऽर्चयेत् ॥ ६४ ॥
नेत्रं तु पूजयेद्देवि अश्विना तेजसेति च ॥
ह्यतः पूर्वतः सोमं दक्षिणेन बुधं तथा ॥ ६५ ॥
पश्चिमेन गुरुं न्यस्य उत्तरेण च भार्गवम् ॥
आग्नेय्यां मङ्गलं न्यस्य नैर्ऋत्यां तु शनैश्चरम् ॥ ६६ ॥
वायव्यां तु न्यसेद्राहुं केतुमीशानगोचरे ॥
आप्यायस्वेति मन्त्रेण देवि सोमं सदार्चयेत् ॥ ६७ ॥
उद्बुध्यध्वं महादेवि बुधं तत्र सदार्चयेत् ॥
बृहस्पतेति मन्त्रेण पूजयेत्सततं गुरुम् ॥ ६८ ॥
शुक्रः शुशुक्वानिति च भार्गवं देवि पूजयेत् ॥
अग्निर्मूर्द्धेति मन्त्रेण सदा मंगलमर्चयेत् ॥ ६९ ॥
शमग्निरितिमन्त्रेण पूजयेद्भास्करात्मजम् ॥
कयानश्चित्रेतिमन्त्रेण देवि राहुं सदाऽर्चयेत् ॥ 7.1.17.७० ॥
केतुं कृण्वेति केतुं वै सततं पूजयेद्बुधः ॥
बाह्यतः पूर्वतः शुक्रं दक्षिणेन यमं तथा ॥ ७१ ॥
ऐशान्यामीश्वरं विंद्यादाग्नेय्यामग्निरुच्यते ॥
नैऋतेति विरूपाक्षं पवनं वायुगोचरे ॥ ७२ ॥
तमुष्टवाम इति वै ह्यनेनेन्द्रमथार्चयेत् ॥
उदीरतामवरेति सदा वैवस्वतं यजेत् ॥ ७३ ॥
तत्त्वायामीति मन्त्रेण वरुणं देवि पूजयेत् ॥
इन्द्रासोमावत इति मन्त्रेण धनदं यजेत् ॥ ७४ ॥
पावकं पूजयेद्देवि अग्निमीळे पुरोहितम् ॥
रक्षोहणं वाजिनेति विरूपाक्षं सदार्चयेत् ॥ ७५ ॥
वायवायाहि मन्त्रेण वायुं देवि सदार्चयेत् ॥
यथाक्रममिमान्देवि सर्वान्वै पूजयेद्बुधः ॥ ७६ ॥
बाह्यतः पूर्वतो देवि इन्द्रादीनां समन्ततः ॥
रक्तवर्णं महातेजं सितपद्मोपरि स्थितम् ॥ ७७ ॥
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ॥
द्विभुजं चैकवक्त्रं च सौम्यपञ्चकधृक्करम् ॥ ७८ ॥
वर्त्तुलं तेजबिंबं तु मध्यस्थं रक्तवाससम् ॥
आदित्यस्य त्विदं रूपं सर्वलोकेषु पूजितम् ॥
ध्यात्वा संपूजयेन्नित्यं स्थंडिलं मण्डलाश्रयम् ॥ ७९ ॥
॥ देव्युवाच ॥ ॥
मण्डलस्थः सुरश्रेष्ठ विधिना येन भास्करः ॥
पूज्यते मानवैर्भक्त्या स विधिः कथितस्त्वया ॥ 7.1.17.८० ॥
पूजयेद्विधिना येन भास्करं पद्मसंभवम् ॥
मूर्त्तिस्थं सर्वगं देवं तन्मे कथय शंकर ॥ ८१ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
साधुसाधु महादेवि साधु पृष्टोऽस्मि सुवते ॥
शृणुष्वैकमना देवि मूर्तिथं येन पूजयेत् ॥ ८२ ॥
इषेत्वेति च मन्त्रेण उत्तमांगं सदार्चयेत् ॥
अग्निमीळेति मन्त्रेण पूजयेद्दक्षिणं करम् ॥ ८३ ॥
अग्न आयाहि मन्त्रेण पादौ देवस्य पूजयेत् ॥
आजिघ्रेति च मन्त्रेण पूजयेत्पुष्पमालया ॥ ८४ ॥
योगेयोगेति मन्त्रेण मुक्तपुष्पांजलिं क्षिपेत् ॥
समुद्रागच्छ यत्प्रोक्तमनेन स्नापयेद्रविम् ॥ ८५ ॥
इमं मे गंगेति यत्प्रोक्तमनेनापि च भामिनि ॥
समुद्रज्येति मन्त्रेण क्षालयेद्विधिवद्रविम् ॥ ८६ ॥
सिनीवालीति मन्त्रेण स्नापयेच्छंखवारिणा ॥
यज्ञं यज्ञेति मन्त्रेण कषायैः परिरक्षयेत् ॥ ८७ ॥
स्नापयेत्पयसा देवि आप्यायस्वेति मंत्रतः ॥
दधिक्राव्णेति वै दध्ना स्नापयेद्विधिवद्रविम् ॥ ८८ ॥
इमं मे गंगेति यत्प्रोक्तमनेनापि च भामिनि ॥
समुद्रज्येति मंत्रेण स्नानमौषधिभिः स्मृतम् ॥ ८९ ॥
उद्वर्तयेत्ततो भानुं द्विपदाभिर्वरानने ॥
मानस्तोकेति मंत्रेण युगपत्स्नानमाचरेत् ॥ 7.1.17.९० ॥
विष्णोरराटमन्त्रेण स्नापयेद्गंधवारिणा ॥
सौवर्णेन तु मंत्रेण अर्घ्यं पाद्यं निवेदयेत् ॥ ९१ ॥
इदं विष्णुर्विचक्रमे मंत्रेणार्घ्यं प्रदापयेत् ॥
वेदोसीति च मंत्रेण उपवीतं प्रदापयेत् ॥ ९२ ॥
बृहस्पतेति मंत्रेण दद्याद्वस्त्राणि भानवे ॥
येन श्रियं प्रकुर्वाणः पुष्पमालां प्रपूजयेत् ॥ ९३ ॥
धूरसीति च मंत्रेण धूपं दद्यात्सगुग्गलम् ॥
समिद्धोंजनमंत्रेण अंजनं तु प्रदापयेत् ॥ ९४ ॥
युंजान इति मंत्रेण भानुं रोचनमालभेत् ॥
आरार्त्तिकं च वै कुर्याद्दीर्घायुत्वाय वै पुनः ॥ ९५ ॥
सहस्रशीर्षा पुरुषः सूर्यं शिरसि पूजयेत् ॥
शंभवायेति मंत्रेण रवेर्नेत्रे परामृशेत् ॥ ९६ ॥
विश्वतश्चक्षुरित्येवं भानोर्देहं समालभेत् ॥
श्रीश्च ते लक्ष्मीश्चेति सर्वांगे पूजयेद्रविम् ॥ ९७ ॥
॥ ईश्वर उवाच । ॥
अथ मेरोर्महादेवि अष्टशृंगस्य सुव्रते ॥
पूजाविधानमंत्रांस्ते कथयामि समासतः ॥९८॥
अष्टशृंगं महादेवि अनेन विधिनाऽर्चयेत् ॥
प्रथमं पूजयेन्मध्ये मंत्रेणानेन सुव्रते ॥ ९९ ॥
महाहिवोमहायेति नानापुष्पकदंबकैः ॥
त्रातारमिंद्रमंत्रेण पूर्वशृंगं सदार्चयेत् ॥ 7.1.17.१०० ॥
तमुष्टवामेति मंत्रेण पूजयेत्सुरसुन्दरि ॥
अग्निमीळे पुरोहितमाग्नेयं शृंगमर्चयेत् ॥ १०१ ॥
आग्नेय्या चैव गायत्र्या अथवानेन पूजयेत् ॥
यमाय त्वा मखाय त्वा दक्षिणं शृंगमर्च येत् ॥१०२॥
उदीरतामवरेप्यथवानेन पूजयेत् ॥
आयं गौरिति मंत्रेण नैर्ऋत्यं शृङ्गमर्चयेत्॥१०३॥
रक्षोहणं वाजिनं वा पूजयेदसुरांतिकम्॥
इंद्रासोमा च यो मंत्रो ह्यथवा तेन पूजयेत् ॥ १०४ ॥
अभि त्वा सूर नोन्विति चैशानं शृंगमर्चयेत् ॥
येनेदं भूतमिति वा अथवानेन पूजयेत् ॥ १०५ ॥
नमोस्तु सर्पेभ्य इति मेरुपीठं सदाऽर्चयेत् ॥
हिरण्यगर्भः समवर्त्ततेति पुनर्मध्ये सदार्चयेत् ॥ १०६ ॥
सविता पश्चातादिति वै पूजयेत्पुष्प मालया ॥
त्रिकालमर्चयेद्देवि प्रदद्यादर्घ्यमादरात् ॥१०७॥
माता रुद्राणां दुहिता वसूनां पूर्वाह्ने चैव पूजयेत् ॥
मध्याह्ने पूजयेद्देवि तद्विष्णोः परमं पदम् ॥ १०८ ॥
हँसः शुचिषदिति वा अपराह्णे सदार्चयेत् ॥
एवं भानुं ग्रहैः सार्द्ध पूजयेद्वरवर्णिनि ॥ १०९ ॥
॥ देव्युवाच ॥ ॥
यानि पुष्पाणि चेष्टानि सदा भास्करपूजने ॥
कानि चोक्तानि देवेश कथयस्व प्रसादतः ॥ 7.1.17.११० ॥
ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि पुष्पा ध्यायमनुत्तमम् ॥
येन चार्कस्थले देवि शीघ्रं तुष्यति पूजितः ॥ १११ ॥
मालतीकुसुमैः पूजा भवेत्सांनिध्यकारिका ॥
मल्लिकायाश्च कुसुमैर्भोगवाञ्जायते नरः ॥ ११२ ॥
सौभाग्यं पुंडरीकैस्तु भवत्यर्थश्च शाश्वतः ॥
कदंबपुष्पैर्देवेशि परमैश्वर्यमश्नुते ॥ ११३ ॥
भवत्यक्षयमन्नं च बकुलै रर्चने रवेः ॥
मंदारपुष्पकैः पूजा सर्वकुष्ठविनाशिनी ॥ ११४ ॥
बिल्वस्य पत्रकुसुमैमहतीं श्रियमश्नुते ॥
अर्कस्रजा भवत्यर्थः सर्वकामफलप्रदः ॥ ॥ ११५ ॥
प्रदद्याद्रूपिणीं कन्यां पूजितो बकुलस्रजा ॥
किंशुकैरर्चितो देवि न पीडयति भास्करः ॥११६॥
अगस्तिकुसुमैस्तद्वदानुकूल्यं प्रयच्छ ति ॥
करवीरैस्तु देवेशि सूर्यस्यानुचरो भवेत् ॥ ११७ ॥
शतपत्रस्रजा देवि सूर्यसालोक्यतां व्रजेत् ॥
बकपुष्पैर्महादेवि दारिद्यं नैव जायते ॥११९॥
ऋतुकुसुमेन गन्धेन समभ्यर्च्य दिवाकरम् ॥
चतुःसमुद्रमर्यादां स भुंक्ते पृथिवीमिमाम् ॥ ११९ ॥
यः सूर्यायतनं भक्त्या गैरिकेणोपलेपयेत् ॥
प्राप्नुयान्महतीं लक्ष्मीं रोगैश्चापि प्रमुच्यते ॥ 7.1.17.१२० ॥
अष्टादशेह कुष्ठानि ये चान्ये व्याधयो नृणाम् ॥
प्रलयं यांति ते सर्वे मृदा यद्युपलेपयेत् ॥ ॥ १२१ ॥
विलेपनानां सर्वेषां कुंकुमं रक्तचंदनम् ॥
पुष्पाणां करवीराणि प्रशस्तानि वरानने ॥१२२॥
नातः परतरं किंचिद्भास्वतस्तुष्टिकारकम् ॥
यादृशं कुङ्कुमं जाती शतपत्रं तथाऽगुरुः ॥१२३॥
किं तस्य न भवेल्लोके यश्चैभिश्चार्चयेद्रविम् ॥
उपलिप्यालयं यस्तु कुर्यान्मंडलकं शुभम् ॥१२४॥
एकेनास्य भवेदर्थो द्वाभ्यामारोग्यमश्नुते ॥
त्रिभिस्तु सर्वविद्यावांश्चतुर्भिर्भोगवान्भवेत् ॥१२५॥
पंचभिर्विपुलं धान्यं षड्भिरायुर्बलं यशः॥
सप्तमण्डलतारी स्यान्मंडलाधिपतिर्नरः ॥ १२६ ॥
घृतदीपप्रदानेन चक्षुष्माञ्जायते नरः ॥
कटुतैलस्य दीपेन स्वं शत्रुं जयते नरः ॥ १२७ ॥
तैलदीपप्रदानेन सूर्यलोके महीयते ॥
मधूकतैलदीपेन सौभाग्यं परमं लभेत् ॥ १२८. ॥
पुष्पाणां प्रवरा जाती धूपानां विजयः परः ॥
गन्धानां कुंकुमं श्रेष्ठं लेपानां रक्तचंदनम् ॥ १२९ ॥
दीपदाने घृतं श्रेष्ठं नैवेद्ये मोदकः परम् ॥
एतैस्तुष्यति देवेशः सांनिध्यं चाधिगच्छति ॥ 7.1.17.१३० ॥
एवं संपूज्य विधिवत्कृत्वा पितृप्रदक्षिणाम् ॥
प्रणम्य शिरसा देवं तत्र चार्कस्थलं प्रिये॥ १३१ ॥
सुखासीनस्ततः पश्येद्रवेरभिमुखे स्थितः ॥
एकं सिद्धार्थकं कृत्वा हस्ते पानीयसंयुतम् ॥ १३२ ॥
कामं यथेष्टं हृदये कृत्वार्कस्थलसन्निधौ ॥
पिबेत्सतोयं तद्देवि ह्यस्पृष्टं दशनैः सकृत् ॥ १३३ ॥
एवं कृत्वा नरो देवि कोटियात्राफलं लभेत् ॥
ब्रह्मा विष्णुर्महादेवो ज्वलनो धनदस्तथा ॥ १३४ ॥
भानुमाश्रित्य सर्वे ते मोदन्ते दिवि सुव्रते ॥
तस्माद्भानुसमं देवं नाहं पश्यामि कञ्चन ॥ १३५ ॥
इति कृत्वा महादेवि पुनर्भानौ प्रदक्षिणम् ॥
कुर्यान्मन्त्रेण देवेशि सप्तकृत्वो वरानने ॥ १३६ ॥
तमुष्टवाम इति ऋक्प्रथमा परिकीर्तिता ॥
एतोन्विन्द्रं स्तवामेति द्वितीया परिकीर्तिता ॥ १३७ ॥
इंद्र शुद्धो न आगहि तृतीया परिकीर्तिता ॥
इन्द्रं शुद्धो हि नो रयिं चतुर्थी परिकीर्तिता ॥ १३८ ॥
अस्य वामस्येति शुभे पञ्चमी परिकीर्तिता ॥
त्रिभिष्ट्वं देव इति वै षष्ठी च परिकीर्तिता ॥ १३९ ॥
दश सामानि वै यानि प्रवराणि मनीषिभिः ॥
गीतानि सामगैर्नित्यं सप्तमीं तैस्तु कारयेत् ॥7.1.17.१४॥।
तानि ते कथयाम्यद्य दश सामानि सुन्दरि॥
हुंकारः प्रणवोद्गीथः प्रस्तावश्च चतुष्टयम् ॥ १४१ ॥
पञ्चमं प्रहरो यत्र षष्ठमारण्यकं तथा ॥
निधनं सप्तमं साम्नां सप्तसिद्धिमिति स्मृतम् ॥ १४२ ॥
पञ्चविध्यमिति प्रोक्तं ह्रींकारप्रणवेन तु ॥
अष्टमं च तथा साध्यं नवमं वामदेवकम् ॥ १४३ ॥
ज्येष्ठं तु दशमं साम वेधसे प्रियमुत्तमम् ॥
एतेषां देवि साम्नां वै जाप्यं कार्यं विधानतः ॥ १४४ ॥
ज्येष्ठसामपरं चैव द्वितीयं गदतः शृणु ॥
न च श्राव्यं द्वितीयं तु जप्तव्यं मुक्तिमिच्छता ॥१४५॥।
तज्जाप्यं परमं प्रोक्तं स्वयं देवेन भानुना ॥
जाप्यस्य विनियोगोऽस्य लक्षणं च निबोध मे ॥
स्तोभसारं श्वासलीनमोंकारादि स्मृतं बुधैः ॥१४६॥
ऊर्भानुश्च तथा धर्मं धर्मः सत्यं ह्यृत तथा ॥
धर्मं ये धर्मवद्धर्मे धर्मे वै निधनं गताः ॥ १४७ ॥
यदेभिश्च यजेच्छब्दैरुचितं सामगैर्द्विजैः ॥
जाप्यं चैतत्परं प्रोक्तं स्वयं देवेन भानुना ॥ १४८ ॥
एतद्वै जप्यमानस्तु पुनरावर्तते न तु ॥
सर्वरोगविनिर्मुक्तो मुच्यते ब्रह्महत्यया ॥ १४९ ॥
आज्यदोहाद्यदोहेति ज्येष्ठसाम्नोऽपि लक्षणम् ॥7.1.17.१५०॥
इति संपूज्य देवेशं ततः कुर्यात्परां स्तुतिम् ॥
ऋग्भिर्वे पंचभिश्चैव शृणुष्वैकमनास्तु ताः ॥१५१॥
उक्षाणं पृश्निमिति वै प्रथमा परिकीर्तिता ॥
चत्वारि वाक्परीति वै द्वितीया परिकीर्तिता ॥ १५२ ॥
इंद्रं मित्रं तृतीया तु ऋक्चैव परिकीर्तिता ॥
कृष्णं नियानं हि तथा चतुर्थी परिकीर्तिता ॥ १५३ ॥
द्वादशप्रथम इति पंचमी परिकीर्तिता ॥
यो रत्नवाहीत्यनया किरीटं योजयेद्रवेः ॥१५४॥
गतेहनामित्यनया अव्यंगं भास्करं न्यसेत् ॥
अनेन विधिना देवि पूजयेद्विधिवद्रविम् ॥ १५५ ॥
इत्येष ते मया ख्यातः प्रतिमापूजने विधिः ॥ ॥ १५६ ॥
अनेनविधिना यस्तु सततं पूजयेद्रविम् ॥
स प्राप्नोत्यधिकान्कामानिह लोके परत्र च ॥ १५७ ॥
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥
कन्यार्थी लभते कन्यां विद्यार्थी वेदविद्भवेत् ॥ १५८ ॥
निष्कामः पूजयेद्यस्तु स मोक्षं याति वै ध्रुवम् ॥
अस्य क्षेत्रस्य माहात्म्यादर्कसूर्यप्रभावतः ॥ १५९ ॥
अन्यत्र ब्राह्मणानां च कोटिना यत्फलं लभेत्॥
अर्कस्थले तथैकेन भोजितेन तु तत्फलम् ॥ 7.1.17.१६० ॥
स्नानं दानं जपो होमः सूर्यपर्वणि यत्कृतम्॥
तत्सर्वं कोटिगुणितं सूर्यकोटिप्रभावतः ॥ १६१ ॥
माघमासे नरो यस्तु सप्तम्यां रविवासरे ॥
कृष्णपक्षे महादेवि जागरं श्रद्धयाऽऽचरेत् ॥
अर्कस्थलसमीपे तु स याति परमां गतिम् ॥ १६२ ॥
गोशतस्य प्रदत्तस्य कुरुक्षेत्रे च यत्फलम् ॥
तत्फलं समवाप्नोति तत्रार्कस्थलदर्शनात् ॥ १६३ ॥
अर्कस्थलः पूजनीयस्तत्र स्थाने निवासिभिः ॥
जपापुष्पैरर्कपुष्पै रोगिभिस्तु विशेषतः ॥ १६४ ॥
न च पत्रोर्णकुसुमैर्न चैवोन्मत्तसंभवैः ॥
न चाम्रातकजैः पुष्पैरर्चनीयो दिवाकरः ॥ १६५ ॥
आम्रातकस्य कुसुमं निर्माल्यमिव दृश्यते ॥
अप्रत्यग्रं बहिर्यस्मात्तस्मात्तत्परिवर्जयेत् ॥ १६६ ॥
नाविज्ञातं प्रदातव्यं न म्लानं न च दूषितम् ॥
न च पर्य्युषितं माल्यं दातव्यं भूतिमिच्छता ॥ १६७ ॥
देवमुल्लोचयेद्यस्तु तत्क्षणात्पुष्पलोभतः ॥
पुष्पाणि च सुगन्धानि भोजकेनेतराणि च ॥ १६८ ॥
ब्रह्महत्यामवाप्नोति भोजको लोभमोहितः ॥
महारौरवमासाद्य पच्यते शाश्वतीः समाः ॥ १६९ ॥
हन्त ते कीर्त्तयिष्यामि धूपदानविधिं परम् ॥
प्रदानाद्देवदेवस्य येन धूपेन यत्फलम् ॥ 7.1.17.१७० ॥
सदार्चने च धूपेन सामीप्यं कुरुते रविः ॥
प्रदद्यात्सकलं कामं यद्यदिच्छति मानवः ॥ १७१ ॥
तथैवागुरुधूपेन निधिं दद्यादभीप्सितम् ॥
आरोग्यार्थी धनार्थी च नित्यदा गुग्गलं दहेत् ॥ १७२ ॥
पिंडातधूपदानेन सदा तुष्यति भानुमान् ॥
आरोग्यं च स्वयं दद्यात्सौख्यं च परमं भवेत्॥१७३॥
श्रीवासकस्य धूपेन वाणिज्यं सकलं लभेत्॥
रसं सर्जरसं चैव दहतोऽर्थागमो भवेत्॥१७४॥
देवदारुं च दहतो भवत्यन्नमथाक्षयम्।.
विलेपनं कुंकुमेन सर्वकामफलप्रदम्॥१७५॥
इह लोके सुखी भूत्वा अक्षयं स्वर्गमाप्नुयात्॥
चंदनस्य प्रलेपेन श्रियमायुश्च विंदति ॥ १७६ ॥
रक्तचन्दनलेपेन सर्वं दद्याद्दिवाकरः ॥
अपि रोगशतैर्ग्रस्तः क्षेममारोग्यमाप्नुयात् ॥ १७७ ॥
गतिगंधं च सौभाग्यं परमं विंदते नरः ॥
कस्तूरिकामर्दनकैरैश्वर्यमतुलं लभेत् ॥ १७८ ॥
कर्पूरसंयुतैर्गंधैः क्ष्माधिपाधिपतिभवेत् ॥
चतुःसमेन गंधेन सर्वा न्कामानवाप्नुयात् ॥ १७९ ॥
एतत्ते कथितं देवि सूर्यमाहात्म्यमुत्तमम् ॥
सविस्तरं मया ख्यातं किमन्यत्परिपृच्छसि ॥7.1.17.१८०॥।
॥ देव्युवाच ॥ ॥
यद्येवं भगवान्सूर्यः सर्वतेजस्विनां वरः ॥
स कथं ग्रस्यते देव सैंहिकेयेन राहुणा ॥ १८१ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु दैवि प्रवक्ष्यामि सर्व पापप्रणाशनम् ॥
कारणं ग्रहणस्यापि भ्रांतेर्विच्छेदकारकम् ॥ १८२ ॥
राहुरादित्यबिंबस्याधस्तात्तिष्ठति भामिनि ॥
अमृतार्थी विमानस्थो यावत्संस्रवतेऽमृतम् ॥ १८३ ॥
बिंबेनांतरितो देवि आदित्यग्रहणं हि तत् ॥
न कश्चिद्ग्रसितुं शक्त आदित्यो दहति ध्रुवम् ॥ १८४ ॥
ब्रह्मादयस्तमर्चंति स आदिः सर्वनाकिनाम् ।१
आदित्यदेहजाः सर्वे तथान्ये देवदानवाः ॥१८५॥
आदिकर्त्ता स्वयं यस्मादादित्यस्तेन चोच्यते ॥
प्रभासे संस्थितो देवः सर्वपातकनाशनः ॥ १८६ ॥
भुक्तिमुक्तिप्रदो देवो व्याधिदुष्कृतनाशकृत् ॥
तत्र सिद्धाः पुरा देवि लोकपाला महर्षयः ॥ १८७ ॥
सिद्धा विद्या धरा यक्षा गंधर्वा मुनयस्तथा ॥
धनदोऽपि तथा भीष्मो ययातिर्गालवस्तथा ॥ १८८ ॥
सांबश्चैव तथा देवि परां सिद्धिमितो गताः ॥
इदं रहस्यं देवेशि सूर्यमाहात्म्यमुत्तमम् ॥ १८९ ॥
न देयं दुष्टबुद्धीनां पापिनां च विशेषतः ॥
न नास्तिकेऽश्रद्दधाने न क्रूरं वा कथंचन ॥ 7.1.17.१९० ॥
इमां कथामनुब्रूयात्तथा नाऽसूयके शिवे ।
इदं पुत्राय शिष्याय धर्मिणे न्यायवर्तिने ॥ १९१ ॥
कथनीयं महाब्रह्म सूर्यभक्ताय सुव्रते ॥
अर्कस्थलस्य देवस्य माहात्म्यमिदमुत्तमम् ॥ १९२ ॥
यः श्राद्धे श्रावयेद्देवि ब्राह्मणान्संशितव्रतान् ॥
तस्यानंतं भवेद्देवि यद्दानं पुरुषस्य वै ॥ १९३ ॥
यत्रेदं कीर्त्त्यते पुण्यं संपदस्तत्र वै सदा ।१
यातुधाना न हिंसंति तच्छ्राद्धं भयविह्वलाः ॥ १९४ ॥
पंक्तिपावनतां यांति येऽपि वै पंक्तिदूषकाः ॥
सुतवाञ्जन्मवांश्च स्यात्सर्वकाममनोरमः ॥१९५ ॥
प्रवासिभिर्बंधुवर्गैः संयुज्येत सदा नरः ॥
नष्टैः संयुज्यते चार्थैरपरैश्चापि चिंतितैः ॥ १९६ ॥
रक्ष्यते यागिनीभिश्च प्रियैश्च न वियुज्यते ॥
उपस्पृश्य शुचिर्भूत्वा शृणुयाद्ब्राह्मणः सदा ॥
सर्वान्कामांश्च लभते नात्र कार्या विचारणा ॥ १९७ ॥
वैश्यः समृद्धिमतुलां क्षत्रियः पृथिवीपतिः॥
वणिजश्चापि वाणिज्यमखंडं शतसंख्यया॥
लभेयुः कीर्तनादस्याः सूर्योत्पत्तेर्वरानने॥१९८॥
शूद्राश्चैवाभिलषितान्कामान्प्राप्स्यंति भामिनि॥
अपमृत्युभयं घोरं मृत्युतोऽपि महाभयम्॥१९९।
नश्यते नात्र संदेहो राजद्वारकृतं च यत्॥
सर्वकामसमृद्धात्मा सूर्यलोके महीयते ॥ 7.1.17.२०० ॥
इत्येतत्कथितं देवि माहात्म्यं सूर्यदैवतम् ॥
अर्कस्थलप्रसंगेन किमन्यच्छ्रोतुमिच्छसि॥। ॥ २०१ ॥
स्थानं शाश्वतमोजसां गतिरपां दीपो दिशामक्षयः सिद्धेर्द्वारमपावभेदि जगतां साधारणं लोचनम्॥
हैमं पुष्करमंतरिक्षसरसो दीप्तं दिवः कुण्डलं कालोन्मानविभावनाक्षतलयं बिंबं रवेः पातु वः ॥ २०२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽर्क्कस्थलमाहात्म्यार्कस्थलपूजाविधानादिवर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 18
॥ सूत उवाच ॥ ॥
इति प्रोक्ता तदा देवी शंकरेण यशस्विनी ॥
पुनः पप्रच्छ विप्रेंद्राः क्षेत्रमाहात्म्यविस्तरम् ॥ १ ॥
॥ देव्युवाच ॥ ॥
अद्य मे सफलं जन्म सफलं च तपः प्रभो ॥
देवत्वमद्य मे जातं त्वत्प्रसादेन शंकर ॥ २ ॥
अद्याहं कृतकल्याणी ज्ञानदृष्टिः कृतात्वया ॥
अद्य मे भूषितौ कर्णौ क्षेत्र माहात्म्यभूषणौ ॥ ३ ॥
अद्य मे तेजसः पिंडो जातो ज्ञानं हृदि स्थितम् ॥
अद्य मे कुलशीलं च अद्य मे रूपलक्षणम् ॥ ४ ॥
अद्य मे भ्रांतिरुच्छिन्ना तीर्थभ्रमणसंभवा ॥
प्रभासे निश्चलं जातं मनो मे मानिनां वर ॥ ५ ॥
आराधितो मया पूर्वं तुष्टो मेऽद्य सुरेश्वरः ॥
वह्निना वेष्टिता साहमेकपादेन संस्थिता ॥ ६ ॥
तत्तपः सफलं त्वद्य जातं मे भक्तवत्सल ॥
प्रभासक्षेत्रमाहात्म्यमद्य मे प्रकटीकृतम् ॥ ७ ॥
पुनः पृच्छामि देवेश याथातथ्यं वद प्रभो ॥८॥
अद्यापि संशयो नाथ तीर्थमाहात्म्यसंभवः॥
अन्यत्कौतूहलं देव कथयस्व महेश्वर ॥ ९ ॥
अयं यो वर्त्तते देव चंद्रस्ते शिरसि स्थितः ॥
कस्यायं कथमुत्पन्नः कस्मिन्काले वद प्रभो ॥ 7.1.18.१० ॥
॥ ईश्वर उवाच ॥ ॥
अस्मिन्काले महादेवि वाराह इति विश्रुते ॥
परार्द्धे तु द्वितीयेऽस्मिन्वर्तमाने तु वेधसः ॥ ११ ॥
द्वितीयमासस्यादौ तु प्रतिपद्या प्रकीर्तिता ॥
वाराहेणोद्धृता तस्यां तथा चादौ धरा प्रिये ॥
तेन वाराहकल्पेति नाम जातं धरातले ॥ १२ ॥
तस्मिन्कल्पे महादेवि गते संध्यांशके प्रिये ॥
प्रथमस्य मनोश्चादौ देवि स्वायंभुवस्य हि ॥ १३ ॥
क्षीरोदे मथ्यमाने तु दैवतैर्दानवैरपि ॥
रत्नानि जज्ञिरे तत्र चतुर्द्दशमितानि वै ॥ १४ ॥
तेषां मध्ये महातेजाश्चंद्रमास्तत्त्वसंभव ॥
सोऽयं मया धृतो देवि अद्यापि शिरसि प्रिये ॥ १५ ॥
विषे पीते महादेवि प्रभासस्थस्य मे सदा ॥
भूषणं मुक्तये देवैर्मम चंद्रः कृतः पुरा ॥ १६ ॥
शशिनाभूषितो यस्मात्तेनाहं शशिभूषणः॥
तत्र स्थाने स्थितोऽद्यापि स्वयंभूर्लिंगमूर्त्तिमान्॥१७॥
सर्वसिद्धिप्रदाता च कल्पस्थायी सदा प्रिये ॥
इत्येतत्कथितं देवि किमन्यत्परिपृच्छसि ॥ १८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शिवशिरोभूषण चन्द्रोत्पत्तिवृत्तान्तवर्णनंनामाष्टादशोऽध्यायः ॥ १८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 19
॥ देव्युवाच ॥ ॥
यद्येवं सकलश्चंद्रः कथं न विधृतस्त्वया ॥
अन्तभावे कलानां तत्कारणं कथय प्रभो ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
अमा षोडशभेदेन देवि प्रोक्ता महाकला ॥
संस्थिता परमा माया देहिनां देह धारिणी ॥ २ ॥
अमादिपौर्णमास्यंता या एव शशिनः कलाः ॥
तिथयस्ताः समाख्याताः षोडशैव प्रकीर्तिताः ॥ ३ ॥
अमा सूक्ष्मा परा शक्तिः सा त्वं देवि प्रकीर्तिता ॥
प्रलयोत्पत्तियोगेन स्थिताः कालक्रमोदिताः ॥४॥
षोडशैव स्वरा ये तु आद्याः सृष्टयंतकाः प्रिये ॥
कालस्यावयवास्ते च विज्ञेयाः कालवेदिभिः ॥ ५ ॥
त्रुटिर्लवो निमेषश्च कला काष्ठा मुहूर्तकम्॥
रात्र्यहःपक्षमासाश्च अयनं वत्सरं युगम् ॥ ६ ॥
मन्वतरं तथा कल्पं महाकल्पं च षोडश ॥
कला विसर्जनी या तु जीवमाश्रित्य वर्तते ॥७॥
सा सृजत्यखिलं विश्वं विषुवद्वयसंयुतम् ॥
तथा संवरणी या तु विश्वं संहरते प्रिये ॥ ॥
नेत्रपाताच्चतुर्भागस्त्रुटिकालो निगद्यते ॥
तस्माच्च द्विगुणं विद्धि निमिषं तन्महेश्वरि ॥ ९ ॥
निमिषैस्त्रिंशद्भिः काष्ठा ताभिर्विंशतिभिः कला॥
विंशतिकलो मुहूर्तः स्याद्दिनं पंचदशैस्तु तैः॥7.1.19.१०॥।
दिनमाना निशा ज्ञेया अहोरात्रं द्वयाद्भवेत् ।
तैः पंचदशभिः पक्षो द्विपक्षो मास उच्यते ॥११॥
मासैश्चैवायनं षड्भिर्वर्षं स्यादयनद्वये ॥
चत्वारिंशच्च लक्षाणि लक्षाणां त्रितयं पुनः॥१२॥
विंशतिश्च सहस्राणि ज्ञेयं सौरं चतुर्युगम्॥
चतुर्युगैकसप्तत्या मन्वंतरमुदाहृतम्॥१३॥
ऐंद्रमेतद्भवेदायुः समासांतं च कीर्तितम्॥
चतुर्दशेन्द्रैः प्रलीनैः कल्पं ब्रह्मदिनं भवेत् ॥१४॥
रात्रिश्च तावती चैव चतुर्युगसहस्रिका॥
अनेन दिनमानेन शताब्दं जीवति प्रिये ॥१५॥
ममैव निमिषार्द्धेन सहस्राणि चतुर्द्दश ॥
विनश्यंति ततो विष्णोरसंख्याताः पितामहाः ॥१६॥
एवं क्रमेण देवेशि समुत्पन्नमिदं जगत् ॥
शशिसूर्यविभागेन चित्ररूपमनंतकम् ॥१७॥
कला देवि यदाद्यंतमनादिमजमव्ययम्॥
तदान्वितः शशी तस्यामधोमुखमवस्थितः ॥ १८ ॥
एवं क्षयोदयं ज्ञेयं चंद्रार्काभ्यामवस्थितम् ॥
सृष्टिक्रमं मया प्रोक्तं संहारमधुना शृणु ॥ १९ ॥
महाकल्पं हतं कल्पैः कल्पं मन्वंतरैर्हतम् ॥
मासं पक्षाहतं कृत्वा तं चाहोरात्रिभाजितम् ॥7.1.19.२॥।
अहोरात्रं मुहूर्तेन मुहूर्तं तु कलाहतम्॥
कलां काष्ठा हतां कृत्वा काष्ठां निमिषभाजिताम् ॥ २१ ॥
निमिषं च लवैर्हत्वा लवं त्रुटिविभाजितम् ॥
तदतीतं प्रशांतं च निर्विकारमलक्षणम् ॥२२॥
तस्य चेयं परा माया कला शिरसि धारिता ॥
सा शक्तिर्देवदेवस्य विश्वाकारा परा प्रिये ॥
मोहयित्वा तु संतानं संसारयति पार्वति ॥२३॥
एवमेतज्जगद्देवि उत्पत्तिस्थितिलक्षणम् ॥
यत्रैवोत्पद्यते कृत्स्नं पुनस्तत्रैव लीयते ॥ २४ ॥
सेयं मायामयी शक्तिः शुद्धाशुद्धस्वरूपिणी ॥
चंद्ररूपा स्थिता सा तु तव देवि प्रकाशयेत्॥ २५ ॥
॥ देव्युवाच ॥ ॥
पंचाग्निनोपसन्तप्ता वर्षकोटीरनेकधा ॥
तत्तपः सफलं जातं मेऽद्य देव जगत्पते ॥ २६ ॥
सृष्टियोगो मया ज्ञातः संहारश्च महेश्वर ॥
चन्द्रोत्पत्तिस्वरूपं च कलामानं तथैव च ॥ २७ ॥
अधुना मम देवेश सन्देहो हृदि संस्थितः ॥
कौतूहलं परं देव कथयस्व महेश्वर ॥ २८ ॥
अमृतादेव संभूतः सर्वाह्लादकरः शशी ॥
प्रियश्च तव देवेश वल्लभश्चंद्रमास्तथा ॥ २९ ॥
चंद्रे च चदि इत्येष ह्लादने धातुरिष्यते॥
शुक्लत्वे चापतत्त्वे च मया त्वेष विभाव्यते ॥7.1.19.३॥।
सर्वौषधीनामधिपः पितॄणां प्रीणनं परम् ॥
तदाश्रयश्च त्वद्भक्तस्त्व त्सेवातत्परः शशी ॥ ३१ ॥
तथापि सकलंकोऽयं कौतुकं कुरुते मम ॥
देवि ब्रह्मांडसंघट्टमालामंडितशेखरः ॥ ३२ ॥
शीर्षे तव निविष्टस्य कष्टं चंद्रस्य चेद्यदि ॥
तर्हि नाथ न शोच्या वै संसारे दुःखभागिनः ॥ ३३ ॥
न चास्ति त्रिषु लोकेषु न चैतत्संभविष्यति ॥
यत्र शक्तो भवत्कर्तुं दुःखस्यास्य च संक्षयम्॥ ३४ ॥
सर्वेषां वर्तते शंका यथा मम महेश्वर ॥
उत्पन्नं कारणं किंतद्येन सोमस्य लांछनम् ॥ ३५ ॥
किमेतत्कारणं देव कथयस्व महेश्वर ॥
अमृते संभवो यस्य कथं तस्यापि लांछनम्॥ ३६ ॥
प्रियश्च तव देवेश लांछनं चापि तिष्ठति ॥
कौतूहलं परं देव तत्त्वं मे वक्तुमर्हसि ॥ ३७ ॥
एवमुक्तः स पार्वत्या देवदेवो महेश्वरः ॥
उवाच परमप्रीतः प्रेम्णा शैलसुतां प्रभुः ॥ ३८ ॥
॥ ईश्वर उवाच ॥
किं ते देवि महाशंकाद्योत्पन्ना वरवर्णिनि ॥
ममोपरि न कर्त्तव्या निरुद्विग्ना भव प्रिये ॥
पितुस्तव प्रभावेन लांछनं शशिनोऽभवत् ॥ ३९ ॥
भावित्वात्कर्मणो देवि दक्षस्याज्ञाव्यतिक्रमात् ॥
समं वर्त्तस्व भार्याभिरित्युक्तः शशलांछनः ॥ 7.1.19.४० ॥
तद्वाक्यमन्यथा चक्रे ततः शप्तः शशी प्रिये॥
इदं पृष्टं तु यद्देवि त्वया लांछनकारणम् ॥ ४१ ॥
कल्पेकल्पे पृथग्भावं कारणैरस्ति भामिनि ॥
असंख्यातं च तद्वक्तुं शक्यं नैव मया प्रिये ॥ ४२ ॥
असंख्येयाश्चन्द्रमसः संभवंति पुनःपुनः ॥
विनश्यंति च देवेशि सर्वमन्वन्तरान्तरम् ॥४३ ॥
असंख्याताश्च कल्पाख्या असंख्याताः पितामहाः ॥
हरयश्चाप्यसंख्याता एक एव महेश्वरः ॥ ४४ ॥
कोटिकोट्ययुतान्यत्र ब्रह्माण्डानि मम प्रिये ॥
जलबुद्बुदवद्देवि संजातानि तु लीलया॥ ४५॥
तत्रतत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः॥
सृष्टाः प्रधानेन तदा लब्धा शंभोस्तु संनिधिः॥४६॥
लयं चैव तथान्योन्यमाद्यंतं प्रकरोति च॥
सर्गसंहारसंस्थानां कर्त्ता देवो महेश्वरः॥४७॥
सर्गे च रजसा पृक्तः सत्त्वस्थः परिपालने॥
प्रतिसर्गे तमोयुक्तः सोऽहं देवि त्रिधा स्थितः॥४८॥
तस्मान्माहेश्वरो ब्रह्मा ब्रह्मणोऽधिपतिः शिवः ॥
सदाशिवो भवेद्विष्णुर्ब्रह्मा सर्वात्मको ह्यतः ॥ ४९ ॥
स एव भगवान्रुद्रो विष्णुर्विश्व जगत्प्रभुः ॥
अस्मिन्नण्डे त्विमेलोका अन्तर्विश्वमिदंजगत् ॥ 7.1.19.५० ॥
चन्द्रसूर्यग्रहा देवि ब्रह्माण्डेऽस्मिन्मनस्विनि ॥
संख्यातुं नैव शक्यन्ते ये भविष्यंति ये गताः ॥ ५१ ॥
अस्मिन्वाराहकल्पे तु वर्तमाने मनस्विनि ॥
षडतीता महादेवि रोहिणीपतयः पुरा ॥ ५२ ॥
सप्तमोऽयं महादेवि वर्ततेऽमृतसंभवः ॥
दक्षशापेन यो देवि संक्षीणो दृश्यतेऽधुना ॥ ५३ ॥
अथ द्वितीये संप्राप्ते परार्द्धे चैव वेधसः ॥
तस्य त्रिंशत्तिमे कल्पे पितृ कल्पेति विश्रुते ॥ ५४ ॥
स्वायंभुवेंऽतरे प्राप्ते तस्यादौ त्वं सती किल ॥
तस्मिन्काले महादेवि योभूद्दक्षः पिता तव ॥ ५५ ॥
प्राणात्प्रजापतेर्जन्म तस्य दक्षस्य कीर्तितम् ॥
अस्मिन्मन्वन्तरे देवि दक्षः प्राचेतसोऽभवत् ॥ ५६ ॥
अंगुष्ठाद्दक्षिणाद्दक्षो भविष्यत्यधुना प्रिये ॥
युगेयुगे भवन्त्येते सर्वे दक्षादयो द्विजाः ॥ ५७ ॥
पुनश्चैव विनश्यन्ति विद्वांस्तत्र न मुह्यति ॥
तस्यापमानात्त्वं देवि देहं तत्यक्थ वै पुरा ॥ ५८ ॥
तावद्वियुक्तोऽहं देवि त्वया मुक्तोऽभवं पुरा ॥
यावद्वराहकल्पस्य चाक्षुषस्यान्तरं प्रिये ॥ ५९ ॥
एकविंशो मनुश्चायं कल्पे वाराहसंज्ञके ॥
कल्पेकल्पे महादेवि भवेन्नामान्तरं तव ॥ 7.1.19.६० ॥
अस्मिन्कल्पे तु वाराहे हिमवत्तपसार्ज्जिते ॥
संभूता पार्वती देवि चाक्षुषस्यांतरे गते ॥ ६१ ॥
ब्रह्मणो दिनमेकं तु षण्मासेन तवावधिः ॥
त्वं वियुक्ता मया सार्द्धं दक्षकोपेन भामिनि ॥ ६२ ॥
तव क्रोधेन ये शप्ता ऋषयो वै मया पुरा ॥
तेऽपि देवि त्वया सार्द्धं जाता वैवस्वतेंतरे ॥ ६३ ॥
भृगुरंगिरा मरीचिस्तु पुलस्त्यः पुलहः क्रतुः ॥
अत्रिश्चैव वसिष्ठश्च अष्टौ ते ब्रह्मणः सुताः ॥ ६४ ॥
दक्षस्य यज्ञे ते शप्ताः पूर्वं स्वायंभुवेन्तरे ॥
जाता देवि पुनस्ते वै कल्पेस्मिंश्चाक्षुषे गते ॥ ६५ ॥
देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥
ब्रह्मणो जुह्वतः शुक्रमग्नौ पूर्वं प्रजेप्सया ॥ ६६ ॥
ऋषयो जज्ञिरे पूर्वं सूर्यबिंबसमप्रभाः ॥
पितुस्तव समीपं ते वरणाय तव प्रिये ॥
प्रस्थापिता मया पूर्वं तत्त्वं जानासि सुव्रते ॥ ६७ ॥
अथ किं बहुनोक्तेन वच्मि ते प्रश्नमुत्तमम् ॥
द्वितीये तु परार्द्धेऽस्मिन्वर्त्तमाने च वेधसः ॥ ६८ ॥
श्वेतकल्पात्समारभ्य यावद्वाराहगोचरम् ॥
समतीताश्च ये चन्द्रास्ताञ्छृणुष्व वरानने ॥ ६९ ॥
चतुःशतानि देवेशि षड्विंशत्यधिकानि तु ॥
गतानि शीतरश्मीनां सप्तविंशोऽधुना प्रिये ॥ 7.1.19.७० ॥
वैवस्वतेंऽतरे प्राप्ते यश्चायं वर्ततेऽधुना ॥
त्रेतायुगे तु दशमे दत्तात्रेयपुरःसरः ॥ ७१ ॥
संजातो रोहिणीनाथो योऽधुना वर्त्तते प्रिये ॥
तस्योत्पत्तिप्रसंगेन विष्णोर्मानुषसंभवान् ॥ ७२ ॥
देहावतारान्वक्ष्यामि प्रारंभात्प्रथमान्प्रिये ॥
पञ्चमः पंचदश्यां स त्रेतायां तु बभूव ह ॥ ७३ ॥
मांधाता चक्रवर्त्तित्वे तस्योतथ्यपुरःसरः ॥
एकोनविंशत्रेतायां सर्वक्षत्रांतकोऽभवत् ॥ ७४ ॥
जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः ॥
चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा ॥ ७५ ॥
सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ॥
अष्टमे द्वापरे विष्णुरष्टाविंशे पराशरात् ॥ ७६ ॥
वेदव्यासस्ततो जज्ञे जातूकर्ण्यपुरःसरः ॥
तत्रैव नवमो विष्णुरदितेः कश्यपात्मजः ॥ ७७ ॥
देवक्यां वसुदेवात्तु ब्रह्मगर्गपुरःसरः ॥
एकविंशतमस्यास्य द्वापरस्यांशसंक्षये ॥
नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले स्वयम् ॥ ७८ ॥
कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनः ॥
पूर्वजन्मनि विष्णुः स प्रमतिर्नाम वीर्यवान् ॥ ७९ ॥
गोत्रेण वै चंद्रमसः संध्यामिश्रे भविष्यति ॥
कल्किर्विष्णुयशानाम पाराशर्यप्रतापवान् ॥ 7.1.19.८० ॥
दशमो भाव्यसंभूतो याज्ञवल्क्यपुरःसरः ॥
अनुकर्षश्च वै सेनां हस्त्यश्वरथसंकुलाम् ॥ ८१ ॥।
प्रगृहीतायुधैर्विप्रैर्भृशं शतसहस्रशः ॥
निःशेषाञ्छूद्रराज्ञस्तांस्तदा स तु करिष्यति ॥ ८२ ॥
पाखंडान्म्लेच्छजातींश्च दस्यूंश्चैव सहस्रशः ॥
नात्यर्थं धार्मिका ये च ब्रह्मब्रह्मद्विषः क्वचित् ॥ ८३ ॥
प्रवृत्तचक्रो बलवाञ्च्छूराणामंतको बली ॥
अदृश्यः सर्वभूतानां पृथिवीं विचरिष्यति ॥ ८४ ॥।
मानवस्य तु सोंऽशेन देवस्य भुवि वै प्रभुः॥
क्षपयित्वा तु तान्सर्वान्भाविनार्थेन नोदितान् ॥
गंगायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः ॥ ८५ ॥।
ततो व्यतीते कल्कौ तु सामात्ये सहसैनिके ॥
नृपेष्वपि च नष्टेषु तदात्वप्रहराः प्रजाः ॥ ८६ ॥
रक्षणे विनिवृत्ते च हत्वा चान्योन्यमाहवे ॥
परस्परहतास्ताश्च निराक्रंदाः सुदुःखिताः ॥ ८७ ॥
क्षीणे कलियुगे चास्मिन्दशवर्षसहस्रके ॥
स संध्यांशे तु निःशेषे कृतं वै प्रतिपत्स्यति ॥ ८८॥
यदा चंद्रश्च सूर्यश्च तथा तिष्यबृहस्पती ॥
एकराशौ समेष्यंति प्रपत्स्यति तदा कृतम् ॥ ८९ ॥
अभिजिन्नाम नक्षत्रं जयंतीनाम शर्वरी॥
मुहूर्तो विजयो नाम यत्र जातो जनार्द्दनः ॥ 7.1.19.९० ॥
॥ देव्युवाच ॥ ॥
नोक्तं यथावदखिलं भृगुशापविचेष्टितम्॥
पूर्वावतारान्मे ब्रूहि नोक्तपूर्वान्महेश्वर॥९१॥
ईश्वर उवाच॥
यदा तु पृथिवी व्याप्ता दानवैर्बलवत्तरैः॥
ततः प्रभृति शापेन भृगुनैमित्तिकेन ह॥ ९२॥
जज्ञे पुनःपुनर्विष्णुः कर्त्तुं धर्मव्यवस्थितिम्॥
धर्मान्नारायणः साध्यः संभूतश्चाक्षुषेंतरे॥९३॥
यज्ञं प्रवर्तयामास स च वैवस्वतेंऽतरे ॥
प्रादुर्भावे तदा तस्य ब्रह्मा चासीत्पुरोहितः॥९४॥
चतुर्थ्यां तु युगाख्यायामापन्नेषु सुरेष्विह॥
संभूतः स समुद्रात्तु हिरण्यकशिपोर्वधे॥९५॥
द्वितीयो नरसिंहोऽभूद्रुद्रस्तस्य पुरःसरः॥
लोकेषु बलिसंस्थेषु त्रेतायां सप्तमे युगे॥९६॥
दैत्यैस्त्रैलोक्य आक्रांते तृतीयो वामनोभवत्॥
संक्षिप्यात्मानमंगेषु बृहस्पतिपुरःसरः ॥ ९७ ॥
त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह ॥
नष्टे धर्मे चतुर्थांशे मार्कंडेयपुरःसरः ॥
एते दिव्यावतारा वै मानुष्ये कथिताः पुरा ॥ ९८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्रीविष्ण्ववतारवर्णनंनामैकोनविंशोऽध्यायः ॥ १९ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 20
॥ ईश्वर उवाच ॥ ॥
अथ दैत्यावताराणां क्रमो हि कथ्यते पुनः ॥
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ ॥ १ ॥
तथा शत सहस्राणि यानि कानि द्विसप्ततिम् ॥
अशीतिं च सहस्राणि त्रैलोक्यस्येश्वरोऽभवत्॥२॥
सौत्येऽहन्यतिरात्रस्य कश्यपस्याश्वमेधिके ॥३॥
उपक्षिप्ता सनं यत्तु होतुरर्थे हिरण्मयम् ॥
निषसाद स गर्तो(?)ऽत्र हिरण्यकशिपुस्ततः ॥ ४ ॥
शतवर्षसहस्राणां तपश्चक्रे सुदुश्चरम् ॥
दशवर्षसहस्राणि दित्या गर्भे स्थितः पुरा ॥ ५ ॥
हिरण्यकशिपोर्दैत्यः श्लोको गीतः पुरातनः ॥
राजा हिरण्यकशिपुर्यां यामाशां निरीक्षते ॥ ६ ॥
तस्यां तस्यां दिशि सुरा नमश्चक्रुः सहर्षिभिः १।
पर्याये तस्य राजाभूद्बलिर्वर्षार्बुदं पुनः ॥ ७ ॥
षष्टिं चैव सहस्राणि त्रिंशच्च नियुतानि च ॥
बले राज्याधिकारस्तु याव त्कालं बभूव ह ॥ ८ ॥
प्रह्लादो निगृहीतोऽभूत्तावत्कालं तथा सुरैः १।
इंद्रादयस्ते विख्याता असुराञ्जघ्नुरोजसा ॥ ९ ॥
दैत्यसंस्थमिदं सर्वमा सीद्दशयुगं किल ॥
असपत्नं ततः सर्वमष्टादशयुगं पुनः ॥ 7.1.20.१० ॥
त्रैलोक्यमिदमव्यग्रं महेंद्रेण तु पालितम् ॥
त्रेतायुगे तु दशमे कार्त्तवीर्यो महाबलः ॥ ११ ॥
पंचाशीतिसहस्राणि वर्षाणां वै नराधिपः ॥
स सप्तरत्नवान्सम्राट् चक्रवर्ती बभूव ह ॥ १२ ॥
द्वीपेषु सप्तसु स वै खड्गी चर्मी शरासनी ॥
रथी राजा सानुचरो योगाच्चौरानपश्यत ॥ १३ ॥
प्रणष्टद्रव्यता यस्य स्मरणान्न भवेन्नृणाम् ॥
चतुर्युगे त्वतिक्रांते मनौ ह्येकादशे प्रभौ ॥ १४ ॥
अर्द्धावशिष्टे तस्मिंस्तु द्वापरे संप्रवर्तिते ॥
मानवस्य नरिष्यंतो ह्यासीत्पुत्रो मदः किल ॥। ॥ १५ ॥
नवमस्तस्य दायादस्तृणबिंदुरिति स्मृतः ॥
त्रेतायुगमुखे राजा तृतीये संबभूव ह ॥ १६ ॥
तस्य कन्या त्विलविला रूपे णाप्रतिमाऽभवत् ॥
पुलस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत् ॥ १७ ॥
ऋषिरैलविलो यस्यां विश्रवाः समपद्यत ॥
तस्य पत्न्यश्च तिस्रस्तु पौलस्त्यकुलमंडनाः ॥ १८ ॥
बृहस्पतेः शुभा कन्या नाम्ना वै वेदवर्णिनी ॥
पुष्पोत्कटा च वीका च उभे माल्यवतः सुते ॥ १९ ॥
केकसी मालिनः कन्या तस्यां देवि शृणु प्रजाः ॥
ज्येष्ठं वैश्रवणं तस्य सुषुवे वरवर्णिनी ॥ 7.1.20.२० ॥
अष्टदं(?) हरिच्छ्मश्रुं शंकुकर्णं विलोहितम् ॥
श्वपादं ह्रस्वबाहुं च पिंगलं शुचिभूषणम् ॥ २१ ॥
त्रिपादं तु महाकायं स्थूलशीर्षं महाहनुम् ॥
एवंविधं सुतं दृष्ट्वा विरूपं रूपतस्तदा ॥ २२॥
तदा दृष्ट्वाब्रवीत्तं तु कुबेरोऽयमिति स्वयम्॥
कुत्सायां क्वितिशब्दोयं शरीरं वेरमुच्यते ॥ २३ ॥
कुबेरः कुशरीरत्वान्नाम्ना तेन च सोंकितः ॥
तस्य भार्य्याऽभवद्वृद्धिः पुत्रस्तु नलकूबरः ॥ २४ ॥
कैकस्यजनयत्पुत्रं रावणं राक्षसाधिपम् ॥
शंकुकर्णं दशग्रीवं पिगलं रक्तमूर्द्धजम्॥ २५ ॥
वसुपादं विंशद्भुजं महाकायं महाबलम् ॥
कालांजननिभं चैव दंष्ट्रिणं रक्तलोचनम् ॥ २६ ॥
राक्षसेनौजसा युक्तं रूपेण च बलेन च ॥
निसर्गाद्दारुणः क्रूरो रावणाद्रावणः स्मृतः ॥२७॥
हिरण्यकशिपुस्त्वासीत्स राजा पूर्वजन्मनि ॥
चतुर्युगानि राजा तु तथा दश स राक्षसः ॥२८॥
पंच कोटीस्तु वर्षाणां संख्यताः संख्याया प्रिये ॥
नियुतान्येकषष्टिं च संख्यावद्भिरुदाहृतम् ॥ २९ ॥
षष्टिं चैव सहस्राणि वर्षाणां स हि रावणः ॥
देवतानामृषीणां च घोरं कृत्वा प्रजागरम् ॥ 7.1.20.३० ॥
त्रेतायुगे चतुर्विंशे रावणस्तपसः क्षयात् ॥
रामं दाशरथिं प्राप्य सगणः क्षयमेयिवान् ॥ ३१ ॥
योऽसौ देवि दशग्रीवः संबभूवारिमर्द्दनः ॥
दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः ॥३२॥
श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह ॥
रावणं कुंभकर्णं च कन्यां शूर्पणखां तथा ॥३३॥
विभीषणं चतुर्थं च कैकस्यजनयत्सुतान् ॥
मनोहरः प्रहस्तश्च महापार्श्वः खरस्तथा ॥३४॥
पुष्पोत्कटायास्ते पुत्राः कन्या कुम्भीनसी तथा ॥
त्रिशिरा दूषणश्चैव विद्युज्जिह्वश्च राक्षसः॥
कन्यैका श्यामिका नाम वीकायाः प्रसवः स्मृतः॥३५॥
इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा नव ॥
विभीषणो विशुद्धात्मा दशमः परिकीर्तितः ॥३६॥
पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः ॥
भूताः पिशाचाः सर्पाश्च शूकरा हस्तिनस्तथा ॥ ॥३७॥
अनपत्यः क्रतुस्त्वस्मिन्स्मृतो वैवस्वतेंतरे ॥
अत्रेः पत्न्यो दशैवासन्सुन्दर्यश्च पतिव्रताः ॥३८॥
भद्राश्वस्य घृताच्यंता जज्ञिरे दश चाप्सराः ॥३९॥
भद्रा शूद्रा च मद्रा च नलदा जलदा तथा ॥
उर्णा पूर्णा च देवेशि या च गोपुच्छला स्मृता॥7.1.20.४०॥
तथा तामरसा नाम दशमी रक्तकोटिका ॥
एतासां च महादेवि ख्यातो भर्त्ता प्रभाकरः ॥ ४१ ॥
स्वर्भानुना हते सूर्ये पतितेस्मिन्दिवो महीम् ॥
तमोऽभिभूते लोकेस्मिन्प्रभा येन प्रवर्त्तिता ॥! ॥ ४२ ॥
स्वस्ति तेस्त्विति चैवोक्तः पतन्निह दिवाकरः ॥
ब्रह्मर्षेर्वचनात्तस्य न पपात यतः प्रभुः ॥ ४३ ॥
ततः प्रभाकरेत्युक्तः प्रभुरेवं महर्षिभिः ॥
भद्रायां जनयामाम् सोमं पुत्रं यशस्विनम् ॥ ४४ ॥
त्विषिमान्धर्मपुत्रस्तु सोमो देवो वरस्तु सः ॥
शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाचरः॥ ।४५॥
पिता सोमस्य वै देवि जज्ञेऽत्रिर्भगवानृषिः ॥
तत्रात्रिः सर्वलोकेशं भृत्वा स्वे नयने स्थितः ॥ ४६ ॥
कर्मणा मनसा वाचा शुभान्येव समा चरत् ॥
काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्महाद्युतिः ॥४७॥
सुदुस्तरं नाम तपस्तेन तप्तं महत्पुरा ॥
त्रीणि वर्षसहस्राणि दिव्यानि सुरसुंदरि ॥ ४८ ॥
तस्योर्द्ध्वरेतसस्तत्र स्थितस्यानिमिषस्य ह ॥
सोमत्वं वपुरापेदे महाबुद्धेस्तु वै शुभे ॥ ४९ ॥
ऊर्द्ध्वमाचक्रमे तस्य सोमसंभावितात्मनः ॥
नेत्राभ्यां सोमः सुस्राव दशधा द्योतयन्दिशः ॥ 7.1.20.५० ॥
तद्गर्भं विधिना दृष्टा दिशोदश दधुस्तदा ॥
समेत्य धारयामासुर्न च धर्तुमशक्नुवन् ॥ ॥ ५१ ॥
स ताभ्यः सहसैवेह दिग्भ्यो गर्भश्च शाश्वतः ॥ पपात भावयँल्लोकाञ्छीतांशुः सर्वभावनः ॥ ५२ ॥
यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः ॥
ततस्ताभ्यः स शीतांशुर्निपपात वसुंधराम् ॥ ५३ ॥
पतितं सोममालोक्य ब्रह्मा लोकपितामहः॥
रथमारोपयामास लोकानां हितका म्यया ॥ ५४ ॥
स तदैव मया देवि धर्मार्थं सत्यसंगरः ॥
युक्तो वाजिसहस्रेण सितेन सुरसुंदरि ॥ ५५ ॥
तस्मिन्निपतिते देवि पुत्रेत्रेः परमात्म नि ॥
तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त ये श्रुताः ॥ ५६ ॥
तथैवांगिरसः सर्वे भृगोश्चैवात्मजास्तथा ॥
ऋग्भिस्तु सामभिश्चैव तथैवांगिरसैरपि ॥ ॥ ५७ ॥
तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः ॥
आप्यायमानं लोकांस्त्रीन्भासयामास सर्वशः ॥ ५८ ॥
स तेन रथमुख्येन सागरांतां वसुंधराम् ॥
त्रिःसप्तकृत्वोतियशाश्चकाराभिप्रदक्षिणम् ॥ ५९ ॥
तस्य यच्चापि तत्तेजः पृथिवीमन्वपद्यत ॥
ओषध्यस्ताः समुत्पन्नास्ते जसाऽज्वलयन्पुनः ॥ 7.1.20.६० ॥
ताभिर्धिनोत्ययं लोकं प्रजाश्चैव चतुर्विधाः ॥
ओषध्यः फलपाकांताः कणाः सप्तदश स्मृताः ॥ ६१ ॥
व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः ॥ ६२ ॥
प्रियंगुः कोविदारश्च कोरदूषाः सतीनकाः ॥
माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः ॥ ॥ ६३ ॥
आढक्यश्चणकाश्चैव कणाः सप्तदश स्मृताः ॥
इत्येता ओषधीनां च ग्राम्याणां जातयः स्मृताः ॥ ६४ ॥
ओषध्यो यज्ञियाश्चैव ग्राम्या रण्याश्चतुर्द्दश ॥
व्रीहयश्च यवाश्चैव गोधूमास्त्वणवस्तिलाः ॥ ६५ ॥
प्रियंगुषष्ठा इत्येते सप्तमास्तु कुलत्थकाः ॥
श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः ॥ ६६ ॥
ऊरुविन्दा मर्कटकास्तथा वेणुयवाश्च ये ॥
ग्राम्यारण्यास्तथा ह्येता ओषध्यस्तु चतुर्दश ॥ ६७ ॥
तृणगुल्मलता वीरुद्वल्लीगुच्छादि कोटिशः ॥
एतेषामधिपश्चन्द्रो धारयत्यखिलं जगत् ॥ ६८ ॥
ज्योत्स्नाभिर्भगवान्सोमो जगतो हितकाम्यया ॥
ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः ॥ ६९ ॥
बीजौषधीनां विप्राणां मंत्राणां च वरानने ॥
सोऽभिषिक्तो महातेजा राजा राज्ये निशाकरः ॥ 7.1.20.७० ॥
त्रीँल्लोकान्भावयामास स्वभासा भास्वतां वरः॥
तं सिनी च कुहूश्चैव द्युतिःपुष्टिः प्रभा वसुः॥७१॥
कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे॥
सप्तविंशतिरिंदोस्तु दाक्षायण्यो महाव्रताः॥७२॥
ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः॥
स तत्प्राप्य मह्द्राज्यं सोमः सोमवतां वरः ॥ ७३ ॥
समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥
हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान् ॥ ७४ ॥
सदस्यस्तस्य भगवान्हरिर्नारायणः प्रभुः ॥
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥ ७५ ॥
दक्षिणामददात्सोमस्त्रीँल्लोकांस्तु वरानने ॥
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च वै शुभे ॥ ॥ ७६ ॥
प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः ॥
अतिराजति राजेन्द्रो दशधा भावयन्दिशः ॥ ७७ ॥
तेन तत्प्राप दुष्प्राप्यमैश्वर्य्यमकृता त्मभिः ॥
स एवं वर्त्तते चन्द्रश्चात्रेय इति विश्रुतः ॥ ७८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चन्द्रोत्पत्तिवर्णनंनाम विंशोऽध्यायः ॥ २० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 21
॥ देव्युवाच ॥ ॥
श्रुतं सर्वमशेषेण चन्द्रस्योत्पत्ति कारणम् ॥
चिह्नं यथाऽभवत्तस्य सांप्रतं तत्प्रकीर्त्तय ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
ब्रह्मणस्तु पुरा देवि दक्षो नाम सुतोऽभवत् ॥
प्रजाः सृजेति उद्दिष्टः पूर्वं दक्षः स्वयंभुवा ॥ २ ॥
षष्टिं दक्षोऽसृजत्कन्या वैरिण्यां वै प्रजापतिः ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥ ३ ॥
सप्त विशतिं सोमाय चतस्रोऽरिष्टनेमिने ॥
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते ॥ ४ ॥
द्वे चैवांगिरसे तद्वत्तासां नामानि विस्तरात् ॥
शृणु त्वं देवि मातॄणां प्रजाविस्तरमादितः ॥ ५ ॥
मरुत्वती वसुर्जामी लंबा भानुररुन्धती ॥
संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनि ॥ ६ ॥
धर्म पत्न्यः समाख्याता दक्षः प्राचेतसो ददौ ॥
अदितिर्दितिर्दनुस्तद्वदरिष्टा सुरसैव च ॥ ७ ॥
सुरभिर्विनता चैव नाम्ना क्रोधवशा त्विला ॥
कद्रूस्त्विषा वसुस्तद्वत्तासां पुत्रान्वदामि वै ॥ ८ ॥
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत् ॥
मरुत्वत्यां मरुत्वंतो वसोस्तु वसवस्तथा ॥ ९ ॥।
भानोस्तु भानवस्तेन मुहूर्त्तायां मुहूर्त्तकाः ॥
लंबाया घोषनामानो नागवीथिस्तु जामिजा ॥ 7.1.21.१० ॥
संकल्पायास्तु संकल्पो धर्मपुत्रा दश स्मृताः ॥
आपो ध्रुवश्च सोमश्च धरश्चैवानलोऽनिलः ॥११॥
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः ॥
आपस्य पुत्रा वैदंड्यः श्रमः शान्तो ध्वनिस्तथा ॥। ॥ १२ ॥
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥
सोमस्य भगवाञ्छर्वो ध्रुवश्च गृहबोधनः ॥ १३ ॥
हुतहव्यवहश्चैव धरस्य द्रविण स्मृतः ॥
मनोजवोऽनिलस्यासीदविज्ञातगतिस्तथा ॥ १४ ॥
देवलो भगवान्योगी प्रत्यूषस्याभवन्सुताः ॥
बृहस्पतेस्तु भगिनी भुवना ब्रह्मवादिनी ॥ १५ ॥
प्रभासस्य तु सा भार्या वसूनामष्टमस्य च ॥
विश्वकर्मा सुतस्तस्य शिल्पकर्त्ता प्रजापतिः ॥ १६ ॥
तुषितानां तु साध्यानां नामान्येतानि वच्मि ते ॥
मनोऽनुमन्ता प्राणश्च नरोऽपानश्च वीर्यवान् ॥ १७ ॥
भक्तिर्भयोऽनघश्चैव हंसो नारायणस्तथा ॥
विभुश्चैव प्रभुश्चैव साध्या द्वादश कीर्तिताः ॥ १८ ॥
कश्यपस्य प्रवक्ष्यामि सन्ततिं वरवर्णिनि ॥
अंशो धाता भगस्त्वष्टा मित्रोऽथ वरुणो र्यमा ॥ १९ ॥
विवस्वान्सविता पूषा ह्यंशुमान्विष्णुरेव च ॥
एते सहस्रकिरणा आदित्या द्वादश स्मृताः ॥ 7.1.21.२० ॥
अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ।।
हरश्च बहुरूपश्च त्र्यंबकश्च सुरेश्वरः ॥ २१ ॥
सावित्रश्च जयन्तश्च पिनाकी चापराजितः ॥
एते रुद्राः समाख्याता एकादश गणेश्वराः ॥ २२ ॥
दितिः पुत्रद्वयं लेभे कश्यपाद्बलगर्वितम् ॥
हिरण्यकशिपुं श्रेष्ठं हिरण्याक्षं तथानुजम् ॥ २३ ॥
हिरण्यकशिपोर्दैत्यैः श्लोकोगीतः पुरातनैः ॥२४॥
राजा हिरण्यकशिपुर्यांयामाशां निरीक्षते ॥
तस्यां तस्यां दिशि सुरा नमश्चक्रुर्महर्षिभिः ॥
हिरण्यकशिपोः पुत्राश्चत्वारः सुमहाबलाः ॥ २५ ॥
प्रह्लादः पूर्वजस्तेषामनुह्रादस्ततः परः ॥
ह्रादश्चैव ह्रदश्चैव पुत्राश्चैते प्रकीर्तिताः ॥ २६ ॥
उभौ सुन्दोपसुन्दौ तु ह्रदपुत्रौ बभूवतुः ॥
ह्रादस्य पुत्रस्त्वेकोऽभून्मूक इत्यभिविश्रुतः ॥ २७ ॥
मारीचः सुंदपुत्रस्तु ताडकायामजायत ॥
दण्डके निहतः सोऽयं राघवेण वलीयसा ॥ २८ ॥
मूको विनिहतश्चापि कैराते सब्यसाचिना ॥
संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ॥ २९ ॥
तिस्रः कोट्यस्तु विख्याता निहताः सव्यसाचिना॥
गवेष्ठी कालनेमिश्च जंभो वल्कल एव च ॥ 7.1.21.३० ॥
जृंभः षष्ठोनुजस्तेषां स्मृताः प्रह्रादसूनवः ॥
शुंभश्चैव निशुंभश्च गवेष्ठिनः सुतौ स्मृतौ ॥३१॥
धनुकश्चासिलोमा च शुंभपुत्रौ प्रकीर्तितौ ॥
विरोचनस्य पुत्रस्तु बलिरेकः प्रतापवान् ॥ ३२ ॥
हिरण्याक्षसुताः पंच विक्रांताः सुमहाबलाः ॥
अन्धकः शकुनिश्चैव कालनाभस्तथैव च ॥ ३३ ॥
महानाभश्च विक्रांतो भूतसंतापनस्तथा ॥
शतं शतसहस्राणि निहतास्तारकामये ॥ ३४ ॥
इति संक्षपतः प्रोक्ता कश्यपान्वयसंततिः ॥
यया व्याप्तं जगत्सर्वं सदेवासुरमानुषम् ॥ ३५ ॥
अथ याः कन्यका दत्ताः सप्तविंशतिरिंदवे ॥
तासां मध्ये महादेवि प्रिया तस्य च रोहिणी ॥ ३६ ॥
अथ नक्षत्रनाथस्य तासां मध्येतिवल्लभा ॥
बभूव रोहिणी देवी प्राणेभ्योऽपि गरीयसी ॥ ३७ ॥
सर्वास्ताः संपरित्यज्य रोहिण्या सहितो रहः ॥
रेमे कामपरीतात्मा वनेषूपवनेषु च ॥
रमणीयेषु देशेषु कन्दरेषु गुहासु च ॥ ३८ ॥
अथ ता दुःखसंपन्नाः पत्न्यः शेषा यशस्विनि ॥
जग्मुश्च शरणं दक्षं वचनं चेदमब्रुवन् ॥ ३९ ॥
सोमः सर्वा तिक्रम्य रोहिण्या सह मोदते ॥
संवत्सरसहस्रं तु क्रीडमानो यथासुखम् ॥ 7.1.21.४० ॥
अवशिष्टास्तु षड्विंशन्मलिना विगतश्रियः ॥
पाणिग्रहणमारभ्य रोहिण्या सह चंद्रमाः ॥ ४१ ॥
संवत्सरसहस्रं तु जानात्येकां स शर्वरीम् ॥
परित्यक्ता वयं तात शशिना दोषवर्जिताः ॥ ४२ ॥
स रेमे सह रोहिण्या अस्माकमसुखप्रदः ॥
अस्माकं दुःखदग्धानां श्रेयोऽतो मरणं भवेत् ॥ ४३ ॥
तासां तद्वचनं श्रुत्वा दुःखार्तानां प्रजापतिः ॥
ब्रह्मतेजः समायुक्तः पुत्रीस्नेहेन कर्षितः ॥
जगाम यत्र ऋक्षेशो वचनं चेदमब्रवीत् ॥ ४४ ॥
समं वर्त्तस्व कन्यासु मामकासु निशाकर ॥
अन्यथा दोषभागी त्वं भविष्यसि न संशयः ॥ ४५ ॥
तस्य तद्वचनं श्रुत्वा लज्जयावनतः स्थितः ॥
बाढमित्येव ऋक्षेंद्रो दक्षस्य पुरतोऽब्रवीत् ॥ ४६ ॥
अद्यप्रभृति विप्रर्षे समं वर्त्तयितास्म्यहम्॥
पुत्रीभिस्तव सत्यं वै शपेऽहं शपथेन ते ॥ ४७ ॥
एवं प्रतिज्ञासंयुक्ते निशानाथे तदांबिके ॥
सर्वा रूपेण संयुक्तास्तस्य कन्या निवेदिताः ॥ ४८ ॥
दक्षः स्वभवनं गत्वा निर्वृतिं परमां गतः ॥
चन्द्रोऽपि पूर्ववद्देवि रोहिण्यां निरतोऽभवत् ॥ ४९ ॥
संपरित्यज्य ताः सर्वाः कामोपहतमानसः ॥
अथ भूयस्तु ताः सर्वा दक्षं वचनमब्रुवन् ॥ 7.1.21.५० ॥
मलिनास्ताः कृशांग्यश्च दीनाः सर्वा विचेतसः ॥
ततो दृष्ट्वा तथारूपं दक्षो मोहमुपागतः ॥ ५१ ॥
लब्धसंज्ञः पुनः सोऽपि क्रोधोद्भूततनूरुहः ॥
उवाच सर्वाः स्वाः पुत्रीः किमित्थं मलिनांबराः ॥
किमिदं निष्प्रभाः सर्वाः कथयध्वं ममानघाः ॥ ५२ ॥
असुरान्सानुगांश्चैव ये चान्ये सुरसत्तमाः ॥
अद्य शापहतान्पुत्र्यः करिष्यामि न संशयः ॥ ५३ ॥
एवमुक्तास्तु दक्षेण सर्वास्ताः समुदैरयन् ॥ ५४ ॥
न चास्माकं निशानाथ ऋतुमात्रमपि प्रभो ॥
प्रयच्छति पुनस्तेन युष्मत्पार्श्वं समागताः ॥ ५५ ॥
अनादृत्य तु ते वाक्यं रोहिण्यां निरतो रहः ॥
रेमे कामपरीतात्मा अस्माकं शोकवर्द्धनः ॥ ५६ ॥
तासां तद्वचनं श्रुत्वा दक्षः कोपमुपागतः ॥
गत्वा चंद्रं महादेवि शशाप प्रमुखे स्थितम्॥ ५७ ॥
अनादृत्य हि मे वाक्यं यस्मात्त्वं रोहिणीरतः ॥
संत्यज्य पुत्रीश्चास्माकं शेषा दोषेण वर्जिताः ॥
तस्माद्यक्ष्मा शरीरं ते ग्रसिष्यति न संशयः॥ ॥ ५८ ॥
एतस्मिन्नेव काले तु यक्ष्मा पर्वतपुत्रिके ॥
दक्षेण तु समादिष्टस्तस्य कायं समाविशत् ॥ ५९ ॥
यक्ष्मणा ग्रस्तकायोऽसौ क्षयं याति दिनेदिने ॥ 7.1.21.६० ॥
एवं सोमस्तु दक्षेण कृतशापो गतप्रभः ॥
पपात वसुधां देवि निश्चेष्टो रोहिणीयुतः ॥ ६१ ॥
लब्ध्वसंज्ञो मुहूर्तेन रोहिणीवाक्य मब्रवीत् ।६२।
देवि कार्यं किमधुना त्वत्पित्रा शापितो ह्यहम्॥
क्षयकुष्ठेन संयुक्तः किं करोम्यधुना प्रिये॥६३॥
एवमुक्ता रोहिणी तु बाष्पव्याकुललोचना॥
दक्षशापहतं दृष्ट्वा सोमं वचनमब्रवीत्॥६४॥
येन शापस्तु ते दत्तस्तमेव शरणं व्रज॥
स ते शापाभिभूतस्य नूनं श्रेयो विधास्यति॥ ६५॥
लप्स्यसे तत्प्रसादात्त्वं प्रभां पूर्वोचितां शुभाम्॥ ६६॥
रोहिण्या वचनं श्रुत्वा गतो दक्षसमीपतः ॥
चंद्रः प्रोवाच विनयाद्वाष्प व्याकुललोचनः ॥ ६७ ॥
कुरुष्वानुग्रहं दक्ष प्रसन्नेनांतरात्मना ॥
कोपं त्यज महर्षे त्वं ममोपरि दयां कुरु ।१ ६८ ॥
त्वया क्रोधपरीतेन कारणे वाप्यकारणे ॥
अनुकंपां च मे कृत्वा कार्यं शापस्य मोक्षणम्॥ ६९ ॥
विदितं तु महाभाग शप्तोहं येन कर्मणा ॥
कुरुष्वानुग्रहं दक्ष मम दीनस्य याचतः ॥ 7.1.21.७० ॥
एवं विलपमानस्य सोमस्य तु महात्मनः ॥
अनुग्रहे मतिं कृत्वा इदं वचनमब्रवीत् ॥७१॥
॥ दक्ष उवाच ॥ ॥
मया शापहतः सोम त्रातुं शक्यो न दैवतैः॥
यद्यद्ब्रवीम्यहं सोम तत्तथेति न संशयः ॥ ७२ ॥
आयुः कर्म च वित्तं च विद्या निधनमेव च ॥
पूर्वसृष्टानि यान्येव संभवंति हि तानि वै ॥ ७३ ॥
असुराश्च सुराश्चैव ये चान्ये यक्षराक्षसाः ॥
सर्वेपि शक्ता न त्रातुं वर्जयित्वा महेश्वरम् ॥७४॥
एषां शापो मया दत्तोऽनुग्रहीष्य ति शंकरः॥
नान्यस्त्रातुं भवेच्छक्तो विना पशुपतिं भवम् ॥
तत्त्वं शीघ्रतरं गच्छ समाराधय शंकर ॥ ७५ ॥
न शक्तोऽन्यः पुनश्चंद्रः कर्तुं त्वां निर्मलं पुनः॥
वर्जयित्वा महादेवं शितिकंठमुमापतिम् ॥७६॥
दक्षस्य च वचः श्रुत्वा कृतांजलिपुटः स्थितः॥
प्रत्युवाच तदा सोमः प्रहष्टेनांतरात्मना॥७७॥
भगवन्यदि तुष्टोसि मम भक्तस्य सुव्रत ॥
अनुग्रहे कृता बुद्धिस्तदाचक्ष्व कुतः शिवः ॥ ७८ ॥
कस्मिन्स्थाने मया दक्ष द्रष्टव्योऽसौ महेश्वरः ॥
तत्स्थानानि चरिष्यामि यानि तानि वदस्व मे ॥ ७९ ॥
॥ दक्ष उवाच ॥ ॥
शृणु सोम प्रयत्नेन श्रुत्वा चैवावधारय ॥
वारुणीं दिशमाश्रित्य सागरानूपसन्निधौ ॥ 7.1.21.८० ॥
कृतस्मरस्यापरतो धन्वंतरशतत्रये ॥
लिंगं महाप्रभावं च स्वयंभूतं व्यवस्थितम् ॥ ८१ ॥
सूर्य्यबिंबसमप्रख्यं सर्प मेखलमंडितम्॥
कुक्कुटांडकमानं तद्भूमिमध्ये व्यवस्थितम् ॥ ८२ ॥
स्पर्शलिंगं हि तद्विद्धि तद्भक्त्या ज्ञास्यते भवान् ॥
तत्र संनिहितो देवः शंकरः परमेश्वरः ॥ ८३ ॥
गच्छ त्वं तपसोग्रेण आराधय सुरेश्वरम् ॥ ९४ ॥
प्रशस्य देवदेवेशमात्मानं निर्मलं कुरु ॥
यस्याशु वरदानेन प्राप्स्यसे रूपमुत्तमम् ॥ ८५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यासंहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरोत्पत्तिप्रसंगे दक्षेण स्वशापजन्ययक्ष्मरोगार्त्तस्य चंद्रस्य यक्ष्मकुष्ठरोगनिवृत्तये शिवाराधनोपदेशवर्णनंनामैकविंशोऽध्यायः ॥ २१ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 22
ईश्वर उवाच ॥ ॥
दक्षेणैवमनुज्ञातः शोचन्कर्म स्वकं तदा ॥
दुःखशोकपरीतात्मा प्रभासं क्षेत्रमागतः ॥ १ ॥
स गत्वा दक्षिणं तीरं सागरस्य समीपतः ॥
ददर्श पर्वतं तत्र कृतस्मरमिति श्रुतम् ॥ २ ॥
यक्षविद्याधराकीर्णं किन्नरैरुपशोभितम् ॥
चंदनागुरुकर्पूरैरशोकैस्तिलकैः शुभैः ॥ ३ ॥
कल्हारैः शतपत्रैश्च पुष्पितैः फलितैः शुभैः ॥
आम्रजम्बूकपित्थैश्च दाडिमैः पनसैस्तथा ॥४॥
निंबुजम्बीरनागैश्च कदलीखंडमंडितैः ॥
क्रमुकैर्नागवल्ल्याद्यैः शालैस्तालैस्तमालकैः ॥ ५ ॥
बीजपूरकखर्जूरैर्द्राक्षामधुरपाटलैः ॥
बिल्वचंपकतिंद्वाद्यैः कदंबककुभैस्तथा ॥ ६ ॥
धवाशोकशिरीषाद्यैर्नानावृक्षैश्च शोभितम् ॥
कामं कामफलैर्वृक्षैः पुष्पितैः फलितैः शुभैः ॥ ७ ॥
हंसकारंडवाकीर्णं चक्रवाकोपशोभितम् ॥
कोकिलाभिः शुकैश्चैव नानापक्षिनिनादि तम् ॥ ८ ॥
जातिस्मराः पक्षिणश्च व्याजह्रुर्मानुषीं गिरम् ॥
गंधर्वकिंनरयुगैः सिद्धविद्याधरोरगैः [। ९ ॥
क्रीडद्भिर्विविधैर्दिव्यैः शोभितं पर्वतोत्तमम् ॥
देवगंधर्वनृत्यैश्च वेणुवीणानिनादितम् ॥ 7.1.22.१० ॥
वेदध्वनितघोषेण यज्ञहोमाग्निहोत्रजैः ॥
समावृतं सर्वमाज्यगंधिभिरुच्छ्रितम् ॥ ११ ॥
शोभितं चर्षिभिर्दिव्यैश्चातुर्विद्यैर्द्विजोत्तमैः ॥
अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥ १२ ॥
भृगुश्चैव मरीचिश्च भरद्वाजोऽथ कश्यपः ॥
मनुर्यमोंऽगिरा विष्णुः शातातपपराशरौ ॥ १३ ॥
आपस्तंबोऽथ संवर्तः कात्यः कात्यायनो मुनिः ॥
गौतमः शंखलिखितौ तथा वाचस्पतिर्मुनिः ॥ १४ ॥
जामदग्न्यो याज्ञवल्क्य ऋष्यशृंगो विभांडकः ॥
गार्ग्यशौनकदाल्भ्याश्च व्यास उद्दालकः शुकः ॥ १५ ॥
नारदः पर्वतश्चैव दुर्वासा उग्रतापसः ॥
शाकल्यो गालवश्चैव जाबालिर्मुद्गलस्तथा ॥ १६ ॥
विश्वामित्रः कौशिकश्च जह्नुर्विश्वावसुस्तथा ॥
धौम्यश्चैव शतानन्दो वैशंपायनजिष्णवः ॥ १७ ॥
शाकटायनवार्द्धिक्यावग्निको बादरायणः ॥
वालखिल्या महात्मानो ये च भूमण्डले स्थिताः ॥ १८ ॥
ते सर्वे तत्र तिष्ठंति पर्वते तु कृतस्मरे ॥
तेजस्विनो ब्रह्मपुत्रा ऋषयो धार्मिकाः प्रिये ॥ १९ ॥
ज्वलंतस्तपसा सर्वे निर्द्धूमा इव पावकाः ॥
मासोपवासिनः केचित्केचित्पक्षोपवासिनः ॥ 7.1.22.२० ॥
त्रैरात्रिकाः सांतपना निराहारास्तथा परे ॥
केचित्पुष्प फलाहाराः शीर्णपर्णाशिनस्तथा ॥ २१ ॥
केचिद्गोमयभक्षाश्च जलाहारास्तथा परे ॥
साग्निहोत्राः सुविद्वांसो मोक्षमार्गार्थचिन्तकाः ॥ २२ ॥
इति हासपुराणादिश्रुतिस्मृतिविशारदाः ॥
एते चान्ये च बहवो मार्कंडेयपुरोगमाः ॥ २३ ॥
प्रभासं क्षेत्रमासाद्य संस्थिता कृतपर्वते ॥
एवं कृतस्मरस्तत्र सर्वदेवनिषेवितः ॥
मन्वंतरेस्मिन्यो देवि निर्दग्धो वडवाग्निना ॥ २४ ॥
तं दृष्ट्वा पर्वतं रम्यं दृष्ट्वा चैव महोदधिम् ॥
प्रदक्षिणं ततश्चक्रे सप्तकृत्वो निशाकरः ॥
गिरेः प्रदक्षिणां कृत्वा गतो यत्र महेश्वरः ॥ २५ ॥
समीपे तु समुद्रस्य स्पर्शलिंगस्वरूपवान् ॥
प्रसादयामास विभुं प्रसन्नेनांतरात्मना ॥ २६ ॥
मरणं वेति संध्याय शरणं वा महेश्वरम् ॥
वरं शापाभिघातार्थं मृत्युं वा शंकरान्मम ॥ २७ ॥
इति सोमो मतिं कृत्वा तपसाऽऽ राधयञ्छिवम् ॥
यावद्वर्षसहस्रं तु फलमूलाशनोऽभवत् ॥ २८ ॥
पूर्णे वर्षसहस्रे तु चतुर्थे वरवर्णिनि ॥
तुतोष भगवान्रुद्रो वाक्यं चेदमुवाच ह ॥ ॥२९॥
परितुष्टोऽस्मि ते चंद्र वरं वरय सुव्रत॥
किं ते कामं करोम्यद्य ब्रूहि यत्स्यात्सुदुर्ल्लभम्॥7.1.22.३०॥।
एवं प्रत्यक्षमापन्नं दृष्ट्वा देवं वृषध्वजम्॥
प्रणम्य तं यथाभक्त्या स्तुतिं चक्रे निशाकरः ॥ ३१ ॥
॥ चंद्र उवाच ॥ ॥
ॐ नमो देवदेवाय शिवाय परमात्मने ॥
अप्रमेयस्वरूपाय ब्यक्ताव्यक्तस्वरूपिणे ॥ ३२ ॥
त्वं पतिर्योगिनामीश त्वयि सर्वं प्रतिष्ठितम् ॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः प्रजापतिः ॥ ३३ ॥
चतुर्विंशत्यधिकं च भुवनानां शतद्वयम् ॥
तस्योपरि परं ज्योतिर्जागर्ति तव केवलम् ॥३४ ॥
कल्पांत आदिवाराहमुक्तब्रह्मांडसंस्थितौ ॥
आधारस्तंभभूताय तेजोलिंगाय ते नमः ॥ ३५ ॥
नमोऽनामयनाम्ने ते नमस्ते कृत्तिवाससे ॥
नमो भैरवनाथाय नमः सोमेश्वराय ते ॥ ३६ ॥
इति संज्ञाभिरेताभिः स्तुत्याभिरमृतेश्वरः ॥
भूतैर्भव्यैर्भविष्यैश्च स्तूयसे सुरसत्तमैः ॥ ३७ ॥
आद्यो विरंचिनामाभूद्ब्रह्मा लोकपितामहः ॥
मृत्युञ्जयेति ते नाम तदाऽभूत्पार्वतीपते ॥ ३८ ॥
द्वितीयोऽभूद्यदा ब्रह्मा पद्मभूरिति विश्रुतः ॥
तदा कालाग्निरुद्रेति तव नाम प्रकीर्तितम् ॥ ३९ ॥
तृतीयोऽभूद्यदा ब्रह्मा स्वयंभूरिति विश्रुतः ॥
अमृतेशेति ते नाम कीर्तितं कीर्तिवर्द्धनम् ॥7.1.22.४० ॥
चतुर्थोऽभूद्यदा ब्रह्मा परमेष्ठीति विश्रुतः ॥
अनामयेति देवेश तव नाम स्मृतं तदा ॥ ४१ ॥
पंचमोऽभूद्यदा ब्रह्मा सुरज्येष्ठ इति श्रुतः ॥
कृत्तिवासेति ते नाम बभूव त्रिपुरांतक ॥४२॥
षष्ठश्चाभूद्यदा ब्रह्मा हेमगर्भ इति स्मृतः ॥
तदा भैरवनाथेति तव नाम प्रकीर्तितम् ॥ ४३ ॥
अधुना वर्त्तते योऽसौ शतानंद इति श्रुतः ॥
आदिसोमेन यश्चासौ वामनेत्रोद्भवेन ते ॥ ४४ ॥
प्रतिष्ठार्थं तु लिंगस्य आनीतश्चाष्टवार्षिकः ॥
बालरूपी तदा तेन सोमनाथेति कीर्तितम् ॥ ४५ ॥
तदाप्रभृति सोमानां लक्षाणां द्वितयं गतम् ॥१४॥
सहस्रद्वितयं चैव शतं चैव षडुत्तरम् ॥ ४६ ॥
सप्तमोऽहं महादेव आत्रेय इति विश्रुतः ॥
प्राचेतसेन दक्षेण शप्तस्त्वां शरणं गतः ॥
रक्ष मां देवदेवेश क्षयिणं पापरोगिणम्॥ ४७ ॥
इति संस्तुवतस्तस्य चंद्रस्य करुणाकरः ॥
तुतोष भगवान्रुद्रो वाक्यं चेदमुवाच ह ॥ ४८ ॥
परितुष्टोऽस्मि ते चंद्र वरं वरय सुव्रत ॥
कि ते कामं करोम्यद्य ब्रूहि यत्स्यात्सुदुर्ल्लभम् ॥ ४९ ॥
मम नामानि गुह्यानि मम प्रियतराणि च ॥
पठिष्यंति नरा ये तु दास्ये तेषां मनोगतम् ॥ 7.1.22.५० ॥
अतीता ये चंद्रमसो भविष्यंति च येऽधुना ॥
तेषां पूज्यमिदं लिंगं यावदन्योऽष्टवार्षिकः ॥ ५१ ॥
आः परं चतुर्वक्त्रो ब्रह्मा यो भविता यदा ॥
प्राणनाथेति देवस्य तदा नाम भविष्यति ॥ ५२ ॥
प्राणास्तु वायवः प्रोक्तास्तदाराधननाम तत् ॥
प्राणनाथेति संप्रोक्तं मेऽधुना तद्भविष्यति ॥ ५३ ॥
तस्मादग्नीशनामेति कालरुद्रेत्यनंतरम् ॥
तारकेति ततो नाम भविष्यत्येव कीर्तितम् ॥ ५४ ॥
मृत्युञ्जयेति देवस्य भविता तदनंतरम् ॥
त्र्यंबकेशस्त्वितीशेति भुवनेशेत्यनन्तरम् ॥ ५५ ॥
भूतनाथेति घोरेति ब्रह्मेशेत्यथ नामकम् ॥
भविष्यं पृथिवीशेति आदिनाथेत्यनंतरम् ॥ ५६ ॥
कल्पेश्वरेति देवस्य चंद्रनाथेत्यनन्तरम् ॥
नाम देवस्य यद्भावि सांप्रतं ते प्रकाशितम् ॥ ५७ [।
इत्येवमादि नामानि स्वसंख्यातानि षोडश ॥
गतानि संभविष्यंति कालस्यानंतभावतः ॥ ५८ ॥
एकैकं वर्तते नाम ब्रह्मणः प्रलयावधि ।।
ततोन्यज्जायते नाम यथा नामानुरूपतः ॥ ५९ ॥
अथ किं बहुनोक्तेन रहस्यं ते प्रकाशितम् ॥
वत्स यत्कारणेनेह तपस्तप्तं त्वयाऽखिलम् ॥
तन्मे निःशेषतो ब्रूहि दास्ये तुष्टोऽस्मि ते वरम् ॥ 7.1.22.६० ॥
॥ चन्द्र उवाच ॥ ॥
अहं शप्तस्तु दक्षेण कस्मिंश्चित्कारणांतरे ॥
यक्ष्मणा च क्षयं नीतस्तस्मात्त्वं त्रातुमर्हसि ॥ ६१ ॥
॥ शंभुरुवाच ॥ ॥
अधुना भोः समं पश्य सर्वास्ता दक्षकन्यकाः ॥
क्षयस्ते भविता पक्षं पक्षं वृद्धिर्भविष्यति ॥ ६२ ॥
पूर्वोचितां प्रभां सोम प्राप्स्यसे मत्प्रसादतः ॥
प्राचेतसस्य दक्षस्य तपसा हतपाप्मनः ॥ ६३ ॥
तस्यान्यथा वचः कर्तुं शक्यं नान्यैः सुरैरपि ॥
ब्राह्मणाः कुपिता हन्युर्भस्मीकुर्युः स्वतेजसा ॥ ६४ ॥
देवान्कुर्युरदेवांश्च नाशयेयुरिदं जगत् ॥
ब्राह्मणाश्चैव देवाश्च तेज एकं द्विधा कृतम् ॥ ६५ ॥
प्रत्यक्षं ब्राह्मणा देवाः परोक्षं दिवि देवताः ॥
न विना ब्राह्मणा देवैर्न देवा ब्राह्मणैर्विना ॥ ६६ ॥
एकत्र मन्त्रा स्तिष्ठन्ति तेज एकत्र तिष्ठति ॥
ब्राह्मणा देवता लोके ब्राह्मणा दिवि देवताः ॥
त्रैलोक्ये ब्राह्मणाः श्रेष्ठा ब्राह्मणा एव कारणम् ॥ ६७ ॥
पितुर्नियुक्ताः पितरो भवंति क्रियासु दैवीषु भवंति देवाः ॥
द्विजोत्तमा हस्तनिषक्ततोयास्तेनैव देहेन भवंति देवाः ॥ ६८ ॥
षट्क र्मतत्त्वाभिरतेषु नित्यं विप्रेषु वेदार्थकुतूहलेषु ॥
न तेषु भक्त्या प्रविशंति घोरं महाभयं प्रेतभवं कदाचित् ॥ ६९ ॥
यद्ब्राह्मणाः स्तुत्यतमा वदन्ति तद्देवता कर्मभिराचरंति ॥
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥ 7.1.22.७० [।
यथा रुद्रा यथा देवा मरुतो वसवोऽश्विनौ ॥
ब्रह्मा च सोमसूर्यौ च तथा लोके द्विजोत्तमाः ॥ ७१ ॥
देवाधीनाः प्रजाः सर्वा यज्ञाधीनाश्च देवताः ॥
ते यज्ञा ब्राह्मणाधीनास्तस्माद्देवा द्विजोत्तमाः ॥ ॥ ७२ ॥
ब्राह्मणानर्चयेन्नित्यं ब्राह्मणांस्तर्पयेत्सदा ॥
ब्राह्मणास्तारका लोके ब्राह्मणात्स्वर्गमश्नुते ॥ ७३ ॥
अभेद्यमच्छेद्यमनादिमक्षयं विधिं पुराणं परिपालयन्ति ॥
महामतिस्तानभिपूज्य वै द्विजान्भवेदजेयो दिवि देवराडिव ॥ ७९ ॥
शक्यं हि कवचं भेत्तुं नाराचेन शरेण वा ॥
अपि वज्र सहस्रेण ब्राह्मणाशीः सुदुर्भिदा ॥ ७५ ॥
हुतेन शाम्यते पापं हुतमन्नेन शाम्यति ॥
अन्नं हिरण्यदानेन हिरण्यं ब्राह्मणाशिषा ॥ ७६ ॥
य इच्छेन्नरकं गंतुं सपुत्रपशुबांधव ॥
देवेष्वधिकृतं कुर्याद्ब्राह्मणेषु च गोषु च ॥ ७७ ॥
ब्राह्मणान्द्वेष्टि यो मोहाद्देवान्गाश्च मखान्यदि ॥
नैव तस्य परो लोको नाऽयं लोको दुरात्मनः ॥ ७८ ॥
अनिन्द्या ब्राह्मणा गावः कांचनं सलिलं स्त्रियः॥
पृथिवी तु षडेतानि यो निन्दति स पातकी ॥७९॥
अग्रं धर्मस्य राजानो मूलं धर्मस्य ब्राह्मणाः ॥
तस्मान्मूलं न हिंसीत मूले ह्यग्रं प्रतिष्ठितम् ॥ 7.1.22.८० ॥
फलं धर्मस्य राजानः पुष्पं धर्मस्य ब्राह्मणाः ॥
तस्मात्पुष्पं न हिंसीत पुष्पात्संजायते फलम् ॥ ८१ ॥
राजा वृक्षो ब्राह्मणास्तस्य मूलं पौराः पर्णं मन्त्रिणस्तस्य शाखाः ॥
तस्माद्राज्ञा ब्राह्मणा रक्षणीया मूले गुप्ते नास्ति वृक्षस्य नाशः ॥ ८२ ॥
आसन्नो हि दहत्यग्निर्दूराद्दहति ब्राह्मणः ॥
प्ररोहत्यग्निना दग्धं ब्रह्मदग्धं न रोहति ॥ ८३ ॥
ब्राह्मणानां च शापेन सर्वभक्षो हुताशनः ॥
समुद्रश्चाप्यपेयस्तु विफलश्च पुरंदरः ॥ ८४ ॥
त्वं चन्द्र राजयक्ष्मी च पृथिव्यामूषराणि च ॥
सूर्याचन्द्रमसोः पातः पुनरुद्धरणं तयोः ॥ ८५ ॥
वनस्पतीनां निर्यासो दानवानां पराजयः ॥
नागानां च वशीकारः क्षत्रस्योत्सादनं तथा ॥
देवोत्पत्ति विपर्यासो लोकानां च विपर्ययः ॥ ८६ ॥
एवमादीनि तेजांसि ब्राह्मणानां महात्मनाम् ॥
तस्माद्विप्रेषु नृपतिः प्रणमेन्नित्यमेव च ॥ ८७ ॥
परा मप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् ॥
ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ॥ ८८ ॥
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥
एवं विद्वानविद्वान्वा ब्राह्मणो दैवतं महत् ॥ ८९ ॥
श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति ॥
हूयमानश्च यज्ञेषु भूय एवाभिवर्द्धते ॥ 7.1.22.९० ॥
एवं यद्यप्य निष्टेषु वर्त्तते सर्वकर्मसु ॥
सर्वेषां ब्राह्मणः पूज्यो दैवतं परमं महत् ॥ ९१ ॥
क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणानां प्रभावतः ॥
ब्राह्मं हि परमं पूज्यं क्षत्रं हि ब्रह्मसंभवम् ॥ ९२ ॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ॥
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ९३ ॥
यान्समाश्रित्य तिष्ठन्ति देवलोकाश्च सर्वदा ॥
ब्रह्मैव वचनं येषां को हिंस्यात्ताञ्जिजीविषुः ॥ ९४ ॥
म्रियमाणोऽप्याददीत न राजा ब्राह्मणात्करम् ॥
न च क्षुधा ऽस्य संसीदेद्ब्राह्मणो विषये वसन् ॥ ९५ ॥
यस्य राज्ञश्च विषये ब्राह्मणः सीदति क्षुधा ॥
तस्य तच्छतधा राष्ट्रमचिरादेव सीदति ॥ ९६ ॥
यद्राजा कुरुते पापं प्रमादाद्यच्च विभ्रमात् ॥
वसन्तो ब्राह्मणा राष्ट्रे श्रोत्रियाः शमयन्ति तत् ॥ ९७ ॥
पूर्वरात्रांतरात्रेषु द्विजैर्यस्य विधीयते ॥
स राजा सह राष्ट्रेण वर्धते ब्रह्मतेजसा ॥ ९८ ॥
ब्राह्मणान्पूजयेन्नित्यं प्रातरुत्थाय भूमिपः ॥
ब्राह्मणानां प्रसादेन दीव्यन्ति दिवि देवताः ॥ ९९ ॥
अथ किं बहुनोक्तेन ब्राह्मणा मामकी तनुः ॥
ये केचित्सागरांतायां पृथिव्यां कीर्तिता द्विजाः ॥
तदूपं देवदेवस्य शिवस्य परमात्मनः ॥ 7.1.22.१०० ॥
एतान्द्विषंति ये मूढा ब्राह्मणान्संशितव्रतान् ॥
ते मां द्विषंति वै नूनं पूजनात्पूजयन्ति माम्॥ १०१ ॥
न प्रद्वेषस्ततः कार्यो ब्राह्मणेषु विजानता ॥
प्रद्वेषेणाशु नश्यन्ति ब्रह्मशापहता नराः ॥ १०२ ॥
इत्येवं कथितश्चन्द्र ब्राह्मणानां गुणार्णवः ॥
कुरुष्वानन्तरं कार्य्यं यद्ब्रवीम्यहमेव ते ॥ १०३ ॥
शापस्यानुग्रहो दत्तो मया तव निशाकर ॥
न चान्यथा वचः कर्त्तुं शक्यं तेषां द्रिजन्मनाम् ॥ १०४ ॥
शापानुग्रहदैः सर्वै देवैरपि सवासवैः ।।
तस्माच्चन्द्र त्वया शोको नैव कार्यो विजानता ॥ १०८५ ॥
क्षयस्ते भविता पक्षं पक्षं वृद्धिर्भविष्यति ॥
अथान्यद्वचनं चन्द्र शृणु कार्यं यथा त्वया ॥ १०६ ॥
इदं यत्सागरोपांते तिष्ठते लिंगमुत्तमम् ॥
धरामध्यगतं तच्च देवानां दृष्टिगोचरम् ॥ १०७ ॥
कुक्कुटांडसमप्रख्यं सर्पमेखलमंडितम् ॥
ममाद्यं परमं तेजो न चान्यो वेद कश्चन ॥ १०८ ॥
इतः सागरमध्ये तु धनुषां च शतत्रये ॥
तिष्ठते तत्र लिंगं तु सुगुप्तं लक्षणान्वितम् ॥ १०९ ॥
आदिकल्पे महर्षीणां शापेन पतितं मम ॥
लिंगं सागरमध्ये तु तत्त्वं शीघ्रं समानय ॥ 7.1.22.११० ॥
स्पर्शाख्यं यत्र मे लिंगं तत्र स्थाने निवेशय ॥
निवेश्य तु प्रयत्नेन सहितो विश्वकर्मणा ॥ १११ ॥
ततो ब्रह्माणमाहूय समेतं तु मुनीश्वरैः ॥
प्रतिष्ठां कारय विभो इष्ट्वा तत्र महामखैः ॥ ११२ ॥
एवमुक्त्वा स भगवांस्तत्रैवांतरधीयत ॥
ततः प्रभां पुनर्लेभे रात्रिनाथो वरानने ॥ ११३ ॥
ततः प्रभृति तत्क्षेत्रं प्रभासमिति विश्रुतम् ॥
निष्प्रभस्य प्रभा दत्ता प्रभासं तेन चोच्यते ॥ ११४ ॥
दक्षस्य तु वृथा शापो न कृतस्तेन लांछनम् ॥
सोमः प्रभासते लोकान्वरं प्राप्य महेश्वरात् ॥
व्यक्तीभूतः स देवेशः सोमस्यैव महात्मनः ॥ ११५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमवरप्रदानवर्णनंनाम द्वाविंशोऽध्यायः॥ ॥ २२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 23
॥ ईश्वर उवाच ॥ ॥
ततः शांतमना भूत्वा चंद्रमा विस्मयान्वितः ॥
शंभुभक्त्या परीतात्मा प्रभासक्षेत्रमास्थितः ॥ १ ॥
पूर्वोक्तं यत्तु देवेन स तथा कृतवान्विभुः ॥
गत्वा सागरमध्ये तु गृहीत्वा लिंगमुत्तमम् ॥ २ ॥
विश्वकर्म्माणमाहूय सहितं परिचारकैः ॥
आदिदेश स्वयं सोमस्त्वष्टारं देवशिल्पिनम्॥ ३ ॥
॥ चंद्र उवाच ॥ ॥
विश्वकर्मन्निदं लिंगं मम दत्तं तु शंभुना ॥
गृहाण त्वं महाबाहो युक्तस्थाने निवेशय ॥ ४ ॥
रक्षस्व तावद्गन्तास्मि स्वकीयं भवनं विभो ॥
यज्ञार्थमानयिष्यामि यज्ञोपकरणानि च ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्त्वा च तदा चंद्रश्चंद्र लोकं जगाम ह॥
गत्वा तत्र महादेवि चंद्रलोकंमहाप्रभम्॥६॥
कोटियोजनविस्तीर्णं सदामृतमयं शुभम्॥
तत्राहूय महादेवि प्रतीहारं सुमेधसम् ॥ ७ ॥
मंत्रिणं हेमगर्भांगं बृहस्पतिसमं धिया ॥
यज्ञोपस्करसंभारं सर्वमादाय सत्वराः ॥ ८ ॥
प्रभासक्षेत्रं गच्छंतु ममादेशपरायणाः ॥
साग्निभिर्ब्राह्मणैः सार्द्धं गच्छंतु क्षेत्रमुत्तमम् ॥ ९ ॥
शीघ्रं संपाद्यतां सर्वं यथा यज्ञः प्रवर्तते ॥
सर्वेषामेव विप्राणां चंद्रलोकनिवासिनाम् ॥ 7.1.23.१० ॥
पृथक्पृथग्विमानं तु देयं तेषां महाधनम् ॥
गवां च दशलक्षाणां सवत्सानां पयोमुचाम् ॥ ११ ॥
हेमभारैर्भूषितानां कामधेनूपमत्विषाम्॥
अश्वानां श्यामकर्णानां सपादं लक्षमेव च ॥ १२ ॥
दंतिनामयुतं चैव घंटाभरणशोभितम् ॥
सहस्राणि च चत्वारि रथानां वातरंहसाम् ॥ १३ ॥
लक्षं तु करभाणां च मणिमाणिक्यसंयुतम् ॥
सैन्यानां कोटिरेका तु चतुरंगबलान्विता ॥ १४ ॥
अग्निशौचानि वस्त्राणि ब्राह्मणार्थं तथैव च ॥
विभूषणानि दिव्यानि ऋत्विगर्थं शुभानि च ॥ १५ ॥
नानाभक्ष्याणि भोज्यानि पानानि विविधानि च ॥
लक्षं कर्मकराणां तु दासीनां लक्षमेव च ॥ ॥ १६ ॥
दारुवंशावधि प्रोक्तं यत्किंचित्स्वं मदाज्ञया ॥
अन्यद्यद्ब्राह्मणा ब्रूयुस्तत्सर्वं तत्र नीयताम् ॥ १७ ॥
देवानां दानवानां तु यक्षगंधर्वरक्ष साम् ॥
सप्तद्वीपक्षितीशानां सप्तपातालवासिनाम् ॥ १८ ॥
नानानृपसहस्राणां घोषणा क्रियतां मुहुः ॥
सर्वेषां घोषणा कार्या प्रभासागमनं प्रति ॥ १९ ॥
इत्युक्त्वा मंत्रिणं तत्र चंद्रमास्त्वरयाऽन्वितः ॥
ब्रह्मलोकं स गतवान्यज्ञार्थं ब्रह्मणोंतिकम् ॥ 7.1.23.२० ॥
सोऽपि चंद्रमसो मंत्री हेमगर्भो महाप्रभः ॥
सोमाज्ञां शिरसा कृत्वा यज्ञसंभारसंभृतः ॥२१॥
प्रभासं क्षेत्रमागत्य यज्ञार्थं यत्नवानभूत् ॥
तथैव चाह्वयांचक्रे भूर्भुवःस्वर्निवासिनः ॥ ॥ २२ ॥
श्रुत्वा तु घोषणां सर्वे शीघ्रं तत्र समाययुः॥
रवियोजनपर्यंतं क्षेत्रमालोक्य तत्र तत् ॥२३॥
ब्राह्मणांश्च समाहूय सोमाध्यक्षं उवाच तान् ॥
यज्ञांगं सर्वमानीतं मया सोमाज्ञया द्विजाः ॥
अनंतरं तु यत्कृत्यं भवद्भिस्तद्विधीयताम् ॥ २४ ॥
इत्युक्ता ब्राह्मणाः सर्वे तपोनिर्धूतकल्मषाः ॥
तत्रैव ददृशुः सर्वे त्वष्टारं देवशिल्पिनम् ॥ २५ ॥
तं दृष्ट्वा तु द्विजाः सर्वे लिंगं दृष्ट्वा समीपतः ॥
कथमेतदिति प्रोचुर्विश्वकर्मन्ब्रवीहि नः ॥
कस्मादत्र स्थितस्त्वं वै शिल्पिकोटिसमन्वितः ॥ २६ ॥
॥ विश्वकर्म्मोवाच ॥ ॥
अहं सोमनियुक्तस्तु युक्तोऽस्मि लिंगरक्षणे ॥
तदाज्ञापालने यत्नः क्रियतेऽतो मया द्विजाः ॥ २७ ॥
॥ ईश्वर उवाच ॥ ॥
एवं श्रुत्वा यदा विप्रा ज्ञात्वा सर्वं तु कारणम् ॥
चरिता यज्ञकार्यार्थं ततश्चक्रुरुप क्रमम् ॥ २८ ॥
तत्र योजनपर्यंतं देवानां यजनं शुभम् ॥
तद्देवयजनं कृत्वा पत्नीशालां च चक्रिरे ॥ २९ ॥
हविर्द्धानं सदश्चैव उत्तरा वेदिरेव च ॥
ब्रह्मणः सदनाग्नीध्रीत्येवं स्थानानि चक्रिरे ॥ 7.1.23.३० ॥
तत्र योजनपर्यंतं यज्ञयूपांश्च मंडपान् ॥
विश्वकर्मा चकाराशु कुंडानि विविधानि च ॥ ३१ ॥
सहस्रसंख्यया तत्र कुण्डानां मंडपावधि ॥
तत्र ते ब्राह्मणाः सर्वे प्रतिष्ठायज्ञकोविदाः ॥ ३२ ॥
नानाभरणरत्नैश्च ब्राह्मणाः समलंकृताः ॥
चक्रुः सर्वे यथन्यायं शास्त्रं दृष्ट्वा पुनःपुनः ॥ ३३ ॥
वृक्षांस्तथौषधीर्दिव्या समित्पुष्पकुशादिकान् ॥
होमद्रव्यादिकं सर्व माज्यं प्राज्यं नवं पयः ॥ ३४ ॥
तथान्यदपि यत्किंचिद्यज्ञोपकरणं स्मृतम् ॥
वर्द्धनीकलशाद्यं च सर्वं हेममयं शुभम् ॥ ३५ ॥
चक्रुः सर्वं यथान्यायं प्रतिष्ठामखमादृताः ॥
तत्र विप्रगणो हृष्टो भक्ष्यभोज्यादितर्पितः ॥ ३६ ॥
वेदध्वनितनिर्घोषैर्दिवं भूमिं च संस्पृशन् ॥
सुशुभे मंडपस्तत्र पताकाभिरलंकृतः ॥ ३७ ॥
दिव्यसिंहासनोपेतो मुक्तादामपरिष्कृतः ॥
दिव्यचन्दनमालाभिः कल्पपल्लवतोरणैः ॥ ३८ ॥
दिव्यगन्ध सुगन्धाद्यैः स्वर्गस्थानमिवाभवत् ॥
चतुर्दशविधस्तत्र भूतग्रामः समागतः ॥ ३९ ॥
स्थावरः सर्पजातिश्च पक्षिजातिस्तथैव च ॥
मृगसंज्ञश्चतुर्थश्च पश्वाख्यः पञ्चमः स्मृतः ॥ 7.1.23.४० ॥
षष्ठश्च मानुषः प्रोक्तः पैशाचः सप्तमः स्मृतः ॥
अष्टमो राक्षसः प्रोक्तो नवमो यज्ञ एव च ॥ ४१ ॥
गांधर्वशाक्रसौम्याश्च प्राजापत्यस्तथैव च ॥
ब्राह्मश्चेति समाख्यातश्चतुर्दशविधो गणः ॥ ४२ ॥
विश्वेदेवास्तथा साध्या मरुतो वसवस्तथा ॥
लोकपालास्तथाष्टौ च नक्षत्राणि ग्रहैः सह ॥ ४३ ॥
ब्रह्माण्डे देवता याश्च ताः सर्वास्तत्र चागताः ॥
हृष्टाः प्रभासके क्षेत्रे प्रारब्धे यज्ञकर्म्मणि ॥ ४४ ॥
घृतक्षीरवहा नद्यो दधिपायसकर्दमाः॥
पक्वान्नानां फलानां च राशयः पर्वतोपमाः ॥ ४५ ॥
दृश्यन्ते विविधाकारास्तस्मिन्यज्ञमहोत्सवे ॥
जगु(?)स्तत्रैव गन्धर्वा ननृतुश्चाप्सरोगणाः ॥ ४६ ॥
भक्ष्यभोज्यैश्च विविधैः कामपानादिभिस्तथा ॥
तृप्ता देवाश्च मुनयो भूतग्रामाश्चतुर्दश ॥ ४७ ॥
एवं संभारसहितं यज्ञांगं सर्वमेव हि ॥
प्रगुणीकृत्य सचिवो मुक्त्वा तत्रैव रक्षकान् ॥
सोमस्याह्वाननार्थं च ब्रह्मलोकं जगाम ह ॥ ४८ ॥
॥ ईश्वर उवाच ॥ ॥
स दृष्ट्वा ब्रह्मणः पार्श्वे स्थितं सोममहाप्रभम् ॥
प्रणम्य दण्डवद्भूमौ सोमं ब्रह्माणमेव च ॥ ४९ ॥
कृतांजलिपुटो भूत्वा उवाच नतकंधरः ॥
॥ हेमगर्भ उवाच ॥ ॥
भगवन्भवदादेशाद्यज्ञांगं सर्वमेव हि ॥ 7.1.23.५० ॥
तत्र प्राभासिके क्षेत्रे मया ते प्रगुणीकृतम् ॥
तत्र ब्रह्मर्षयः सर्वे तथा राजर्षयोऽपरे ॥ ५१ ॥
त्वन्मार्गप्रेक्षकाः सर्वे सन्तिष्ठन्ते समाकुलाः ॥
अनन्तरं तु यत्कृत्यं तद्भवान्कर्तुमर्हति ॥ ५२ ॥
॥ ॥ ईश्वर उवाच ॥ ॥
इत्युक्तस्तु तदा चन्द्रः समुद्रस्य सुतेन वै ॥
प्रहस्योवाच ब्रह्माणं चन्द्रमा लोकसाक्षिणम् ॥ ५३ ॥
भगवन्सर्वदेवेश ममानुग्रहकाम्यया ॥
प्रतिष्ठायज्ञकामस्य ममातिथ्यं कुरु प्रभो ॥ ५४ ॥
अद्य मे सफलं जन्म सफलं च तपः प्रभो ॥
देवत्वमद्य मे ब्रह्मंस्त्वत्प्रसादाद्भविष्यति ॥ ५५ ॥
मया च तपसोग्रेण प्राप्तं लिंगमुमापतेः ॥
तत्प्रतिष्ठाविधिं सर्वं तद्भवान्कर्त्तुमर्हति ॥ ५६ ॥
॥ ब्रह्मोवाच ॥ ॥
अवश्यं तव कर्त्तास्मि प्रतिष्ठां शंकरात्मिकाम् ॥
त्वदाराधनलिंगे तु सोमेशेऽतिविशेषतः ॥ ५७ ॥
ये केचिद्भवितारो वा अतीता ये निशाकराः ॥
तेषां सोमान्वयानां च सर्वेषामाद्यदैवतम् ॥ ५८ ॥
योऽसौ सोमेश्वरो देव आदौ भैरवनामभृत् ॥
मन्वन्तरान्तरेऽतीते प्रतिष्ठेऽहं पुनःपुनः ॥५९॥
यदा प्राभासिकं क्षेत्रे गतोऽहं चाष्टवार्षिकः ॥
आहूतः पूर्वमिन्द्रेण भैरवस्य प्रतिष्ठिते ॥7.1.23.६०॥।
तत्प्रभृत्येव मे नाम बालरूपी निगद्यते ॥
अन्येषु सर्वतीर्थेषु वृद्धरूपी वसाम्यहम् ॥६१॥
प्रभासे तु पुनश्चंद्र बाल्याप्रभृति संवसे ॥
ब्रह्माण्डे यानि तीर्थानि ब्राह्मणास्तेषु ये स्मृताः ॥६२॥
तेषामाद्यो निशानाथ प्रभासेऽहं व्यवस्थितः ॥
कल्पेकल्पे निशानाथ मम नामांतरं भवेत्॥६३॥
स्वयंभूः प्रथमे नाम द्वितीये पद्मभूः स्मृतः॥
तृतीये विश्वकर्त्तेति बालरूपी तुरीयके ॥६४॥
एषामेव परीवर्तो नाम्नां भावि पुनःपुनः ॥
परार्द्धद्वयपर्यंतं प्रभासे संस्थितस्य मे ॥६५॥
आदिसोमेन तत्रैव शंभोर्नेत्रोद्भवेन वै ॥
प्रभासे तु तपस्तप्त्वा प्रत्यक्षीकृतईश्वरः ॥६६॥
ततो ददौ वरं तुष्टः पूर्वचन्द्रस्य शूलधृक् ॥
यस्मादाराधितोऽहं ते सोम भक्त्या चिरन्तनम् ॥६७॥
तस्मात्सोमेशनामैवमस्मिँल्लिंगे भविष्यति ॥
यावद्ब्रह्मा शतानन्दः प्रकृतौ न प्रलीयते ॥ ६८ ॥
ये केचिद्भवितारो वै रात्रिनाथा निशाकराः ॥
ते मदाराधनं चात्र करिष्यंति पुनःपुनः ॥६९॥
इत्युक्त्वा भगवाञ्छंभुस्तत्रैवांतरधीयत ॥
तस्मिन्काले मया सोम आद्यं लिंगं प्रतिष्ठितम् ॥7.1.23.७॥।
तदाप्रभृति सोमानां लक्षाणां द्वितयं गतम् ॥
सहस्रद्वितयं चैव शतं चैकं षडुत्तरम्॥७१॥
सप्तमस्त्वं महावाहो वर्त्तसे सोम सांप्रतम् ॥
एतावन्त्येव लिंगानि प्रतिष्ठां प्रापितानि मे ॥ ७२ ॥
एष एवाधुना सोऽहं तदाराधनजं फलम् ॥
प्रतिष्ठातास्मि भद्रं ते सोम कृत्य ममैव तत्॥ ७३ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्त्वा भगवान्ब्रह्मा वेदविद्यासमन्वितः ॥
सर्वदेवमयो देवैः सहितस्तीर्थसंयुतः ॥ ७४ ॥
सनत्कुमारप्रमुखै र्योगीन्द्रैर्ऋषिभिः सह ॥
बृहस्पतिं समाहूय पुरस्कृत्य पुरोधसम् ॥ ७५ ॥
हंसयानं समारुह्य कोटिब्रह्मर्षिभिः सह ॥
आगतः सोमराजेन तदा ब्रह्मा जगत्पतिः ॥ ७६ ॥
प्राभासिके महातीर्थे यत्र दारुवनं स्मृतम् ॥
ऋषितोया नदी यत्र महापातकनाशिनी ॥ ७७ ॥
अस्मिंस्तीर्थे प्रभासे तु ब्रह्मभागः स उच्यते ॥
त्रिदैवतमिदं क्षेत्रं मया ते कथितं प्रिये ॥ ७८ ॥
तत्रागत्व चतुर्वक्त्रो ब्राह्मभागेऽतिनिर्मले ॥
मुनीनाकारयामास उन्नत स्थानवासिनः ॥ ७९ ॥
आयांतं वेधसं दृष्ट्वा देवर्षिगुरुसंयुतम् ॥
ते सर्वे पूजयामासुः संस्तवैर्वेदसंमितैः ॥ 7.1.23.८० ॥
अथोवाच द्विजान्सर्वान्ब्रह्मा लोकपितामहः ॥
चिरमाराध्य सोमेन सोमेशं पापनाशनम् ॥ ८१ ॥
तस्मिन्प्रसन्ने सोमेन लब्धं लिङ्गमनुत्तमम् ॥
प्रतिष्ठार्थं तु देवस्य आयाता द्विजसत्तमाः ॥ ८२ ॥
यथा मया सदा कार्या प्रतिष्ठा शंकरात्मिका ॥
भवद्भिः परिकार्या सा मम भागसमाश्रयैः ॥ ८३ ॥
यतः कोपेन भवतां लिंगं प्रपतितं भुवि ॥
प्रतिष्ठा तस्य कर्तव्या युष्माभिर्वै न संशयः ॥ ८४ ॥
॥ ईश्वर उवाच ॥ ॥
गृहीत्वाऽथ मुनीन्सर्वान्ब्रह्मा लोकपिता महः ॥
आनीतः सोमराजेन तदा ब्रह्मा जगत्पतिः ॥ ८५ ॥
प्राभासिके महातीर्थे सावित्र्या सहितः प्रभुः ॥
कारयामास कुण्डानां मण्डपानां शतंशतम् ॥ ८६ ॥
एकैके मण्डपे तत्र चक्रे सप्तदशर्त्विजः॥
गुरुणा प्रेरितो ब्रह्मा तत्र देवपुरोधसा ॥ ८७ ॥
पार्श्वे स्थितस्तदा ब्रह्मा विधानैर्वेद भाषितैः ॥
दीक्षयामास सोमं तु रोहिण्या सहितं विभुम् ॥ ८८ ॥
पत्नीं च रोहिणीं कृत्वा सर्वलक्षणसंयुताम् ॥
मृगचर्मधरां देवीं क्षौमवस्त्रावगुंठिता म् ॥८९ ॥
पत्नीशालां समानीता ऋत्विग्भिर्वेदपारगैः ॥
चंद्रमा दीक्षया युक्त ऋषिगंधर्वसंस्तुतः ॥ 7.1.23.९० ॥
औदुंबरेण दंडेन संवृतो मृगचर्मणा ॥
अतीव तेजसा युक्तः शुशुभे सदसि स्थितः ॥ ९१ ॥
ततो ब्रह्मा महादेवि सर्वलोकपितामहः ॥
ऋत्विजां वरणं चक्रे वेदोक्तविधिना तदा ॥ ९२ ॥
गुरुर्होता वृतस्तत्र वसिष्ठोऽध्वर्युरेव च ॥
तत्रोद्गाता मरीचिस्तु ब्रह्मत्वे नारदः कृतः ॥ ९३ ॥
सनत्कुमारसंयुक्ताः सदस्यास्तत्र वै कृताः ॥
वस्त्रैराभरणैर्युक्ता मुकुटैरंगुलीयकैः ॥ ९४ ॥
भूषिता भूषणौघेन तस्मिन्यज्ञे तदर्त्विजः ॥
चतुर्षु तज्ज्ञाश्चत्वार एवं ते षोडशर्त्विजः ॥ ९५ ॥
प्रस्तोता कश्यपस्तत्र प्रतिहर्ता तु गालवः ॥
सुब्रह्मण्यस्तथा गर्गः सदस्यः पुलहः कृतः ॥ ९६ ॥
होता शुक्रः समाख्यातो नेष्टा क्रथ उदाहृतः ॥
मैत्रावरुणो दुर्वासा ब्राह्मणाच्छंसी कौशिकः ॥ ९७ ॥
अच्छावाकश्च शाकल्यो ग्रावस्थः क्रतुरेव च ॥
प्रस्थाता प्रतिपूर्वो यः शालंकायन एव च ॥ ॥ ९८ ॥
अग्नीध्रश्च मनुस्तत्र उन्नेता त्वंगिराः कृतः ॥
एवमाद्यान्मण्डपेषु कृत्वा तानृत्विजः प्रभुः ॥ ९९ ॥
अन्येषु मण्डपेष्वेव प्रत्येकमृत्विजः कृताः ॥
मण्डपानां शतेष्वेव कृत्वा कुण्डान्यकल्पयत् ॥ 7.1.23.१०० ॥
एकैको मण्डपस्तत्र विंशहस्तप्रमाणतः ॥
अस्त्रेणाशोध्य भूमिं तु पंचगव्येन प्रोक्ष्य च ॥ १०१ ॥
चर्मणा चावगुंठ्यैव आलिख्यास्त्रेण पार्वति ॥
उल्लिख्य प्रोक्षणं कृत्वा खातं कृत्वा विधानतः ॥ १०२ ॥
अष्टौ कुंडानि संकल्प्य तथैकमण्डपे प्रिये ॥
लेपनं मण्डपे कृत्वा वज्राकरणमेव च ॥ १०३॥
चतुरस्रकार्मुकं च वर्तुलं कमलाकृति ॥
पूर्वां दिशं समा रभ्य कृत्वा तानि प्रयत्नतः ॥ १०४ ॥
चतुःकोणसमायुक्तं पूर्वे कुण्डं निवेश्य तु ॥
भगाकृति तथाऽऽग्नेय्यां दक्षिणे धनुराकृति ॥ ॥ १०५ ॥
नैर्ऋत्ये तु त्रिकोणं वै वर्तुलं पश्चिमेन तु ॥
षट्कोणं चैव वायव्ये पद्माकारं तथोत्तरे ॥ १०६ ॥
ऐशान्यामष्टकोणं तु मध्ये चैकं विधा नतः ॥
प्रत्येकं मण्डपं शुभ्रं स्तम्भैः षोडशभिर्युतम् ॥ १०७ ॥
ध्वजैः सतोरणैर्युक्तं चक्रे ब्रह्मा विधानतः ॥
न्यग्रोधं पूर्वतो न्यस्य दक्षे चोदुंबरं तथा ॥ १०८ ॥
अश्वत्थं पश्चिमे चैव पलाशं चोत्तरे क्रमात् ॥
बाहुदंडप्रमाणेन ध्वजांस्तत्र निवेश्य वै ॥ १०९ ॥
ऐन्द्र्यादौ पीतवर्णादि पताका परिकल्पिताः ॥
ततो ब्रह्मा ह्यग्निकुंडे चाग्निस्थापनमारभत् ॥ 7.1.23.११० ॥
स्वस्थाने ब्राह्मणांश्चैव जाप्ये चैव न्ययोजयत् ॥
श्रीसूक्तं पावमानं च सदा चैव च वाजिनम् ॥ १११ ॥
वृषाकपिं तथैन्द्रं च बह्वृचः पूर्वतोऽजपन् ॥
रुद्रान्पुरुषसूक्तं च क्रोकाध्यायं(?) च वैक्रियम् ॥११२॥
ब्राह्मणं पैत्र्यमैंद्रं च जपेरन्यजुषो यमे(?) ॥
देवव्रतं वामदेव्यं ज्येष्ठं साम रथंतरम् ॥ ११३ ॥
भेरुंडानि च सामानि च्छंदोगः पश्चिमेऽजपत् ॥
अथर्वाथर्वशिरसं स्कम्भस्तंभमथर्वणम् ॥ ११४ ॥
नीलरुद्रमथर्वाणमथर्वा चोत्तरेऽजपत् ॥
गर्भाधानादिकं सर्वं ततोऽग्नेरकरोद्विभुः ॥ ११५ ॥
पूर्णाहुतिं ततो दत्त्वा स्नानकर्म तथाऽरभत् ॥
पंचपल्लवसंयुक्तं मृत्तिकाभिः समन्वितम् ॥ ११६ ॥
कषायैः पंचगव्यैश्च पंचामृतफलैस्तथा ॥
तीर्थोदकैः समेतं तु मंत्रैः स्नानमथारभत् ॥ ११७ ॥
नेत्राण्युत्पाद्य देवस्य कृत्वा च तिलकक्रियाम् ॥
पृथिव्यां यानि तीर्थानि पाताले च विशेषतः ॥ ११८ ॥
स्वर्ग लोके च यान्येव तत्र तान्याययुस्तदा ॥
एतस्मिन्नन्तरे ब्रह्मा देवानां पश्यतां तदा ॥ ११९ ॥
भूमिं भित्त्वा विवेशाथ तत्र लिंगमपश्यत ॥
स्पर्शाख्यं तं तु संछाद्य मधुना दर्भमूलकैः ॥ 7.1.23.१२० ॥
तत्र ब्रह्मशिलां न्यस्य तस्या ऊर्ध्वं महाप्रभम् ॥
लिंगं प्रतिष्ठयामास कृत्वा निश्चलमा त्मवान् ॥ १२१ ॥
स्थित्वा च परमे तत्त्वे मंत्रन्यासमथाकरोत् ॥
एवं लिंगं प्रतिष्ठाप्य तत्र ब्रह्मा जगद्गुरुः ॥
पूजयामास विधिना वेदोक्तैर्मंत्र विस्तरैः ॥ १२२ ॥
मन्त्रन्यासे कृते तत्र ब्रह्मणा लोककर्तॄणा ॥
तत्र विप्रगणो हृष्टो जयशब्दादिमंगलैः ॥
निर्धूमश्चाभवद्वह्निः सूर्यकोटिसमप्रभः ॥ १२३ ॥
देवदुन्दुभयो नेदुः प्रसन्नाश्च दिगीश्वराः ॥
पुष्पवृष्टिः पपातोच्चैस्तस्मिन्यज्ञमहोत्सवे ॥ १२४ ॥
प्रतिष्ठाप्य ततो लिंगं श्रीसोमेशं पितामहः ॥
दापयामास विप्रेभ्यो भूरिशो यज्ञदक्षिणाम् ॥ १२५ ॥
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥
दक्षिणामददात्सोमस्त्रीँल्लोकान्ब्रह्मणे पुरा॥१२६॥
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यस्तथैव च ॥
ददौ हिरण्यं रत्नानि कोटिशो भूरिदक्षिणाः ॥ १२७ ॥
सोभिषिक्तो महातेजाः सर्वैर्ब्रह्मर्षिभिस्ततः ॥
त्रीँल्लोकान्भावयामास स्वभासा भासतां वरः ॥ १२८ ॥
तं सिनी च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः॥
कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥ १२९ ॥
प्राप्यावभृथमव्यग्रः कृत्वा माहेश्वरं मखम् ॥
कृतार्थः परिपूर्णश्च संबभूव निशापतिः ॥ 7.1.23.१३० ॥
ततस्तस्मै ददौ राज्यं प्राज्यं ब्रह्मा पितामहः ॥
बीजौषधीनां विप्राणामवन्नानां च वरानने ॥ १३१ ॥
तस्मिन्यज्ञे समाजग्मुर्ये केचित्पृथिवीश्वराः ॥
तेषां राज्यं धनं भोगान्ददौ स्वर्गं तथाऽक्षयम् ॥ १३२ ॥
ब्राह्मणान्भोजयामास स्वयमेवौषधीपतिः ॥
ददौ सर्वं तदा तेषां प्रभासक्षेत्रवासिनाम् ॥। ॥। १३३ ॥
हिरण्यादीन्यदाच्चैव महादानानि षोडश ॥
यो यदर्थयते तत्र सामान्यः प्राकृतो जनः॥
निजकर्मानुसारेण स लेभे च तदेव हि ॥१३४॥
एवं समर्थिते यज्ञे सर्वे देवाः सवासवाः ॥
स्थापयित्वा तु लिंगानि जग्मुः सर्वे यथागतम् ॥ १३६ ॥
चन्द्रमास्तु पुनर्देवि ब्रह्मणा सहितो विभुः ॥
लिंगमाराधयामास प्रभासे पापनाशने ॥ १३६ ॥
त्रिकालं पूजयामास धूपमाल्यानुलेपनैः ॥
तं प्रणम्य च देवेशि स्तौति नित्यं निशापतिः ॥ ॥ १३७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरप्रतिष्ठामाहात्म्यवर्णनं
नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 24
॥ देव्युवाच ॥ ॥
कस्मिन्काले जगन्नाथ तत्र लिंगं प्रतिष्ठितम् ॥
कथमाराधनं चक्रे कृतार्थो रोहिणीपतिः ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
त्रेतायुगे च दशमे मनोर्वैवस्वतस्य हि ॥
संजातो रोहिणीनाथो युक्तो दुर्वाससा प्रिये ॥ २ ॥
तस्मिन्काले तदा तत्र गते वर्षसहस्रके ॥
ततः कृत्वा तपश्चायं प्रत्यक्षीकृतशंकरः ॥ ३ ॥
लिंगं प्रतिष्ठयामास ब्रह्मणा लोककर्तॄणा ॥
पुनर्वर्षसहस्रं तु पूजयामास शंकरम्॥ ४ ॥
ततः संपूज्य विधिना निजकार्यार्थसिद्धये ॥
स्तुतिं चक्रे निशानाथः प्रत्यक्षीकृतशंकरः ॥ ५ ॥
॥ चंद्र उवाच ॥
नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ॥
नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ॥ ६ ॥
यं पठंति सदा सांख्याश्चितयंति च योगिनः ॥
परं प्रधानं पुरुषं तस्मै ज्ञेयात्मने नमः ॥ ७ ॥
उत्पत्तौ च विनाशे च कारणं यं विदुर्बुधाः ॥
देवासुरमनुष्याणां तस्मै ज्ञानात्मने नमः ॥ ८ ॥
यमव्ययमनाद्यंतं यं नित्यं शाश्वतं ध्रुवम् ॥
निष्कलं परमं ब्रह्म तस्मै योगात्मने नमः ॥ ९ ॥
यः पवित्रं पवित्राणामादिदेवो महेश्वरः ॥
पुनाति दर्शनादेव तस्मै तीर्थात्मने नमः ॥ 7.1.24.१० ॥
यतः प्रवर्त्तते सर्वं यस्मिन्सर्वं विलीयते ॥
पालयेद्यो जगत्सर्वं तस्मै सर्वात्मने नमः ॥ ११ ॥
अनिष्टोमादिभिर्यज्ञैर्यं यजंति द्विजातयः ॥
संपूर्णदक्षिणैरेव तस्मै यज्ञात्मने नमः ॥ १२ ॥
॥ ईश्वर उवाच ॥ ॥
एवं स संस्तुते यावद्दिवारात्रौ निशाकरः ॥
अब्रवीद्भगवान्प्रीतः प्रहसन्निव शंकरः ॥ १३ ॥
॥ शंकर उवाच ॥ ॥
परितुष्टोऽस्मि ते वत्स स्तोत्रेणानेन शीतगो ॥
वरं वरय भद्रं ते भूयो यत्ते मनोगतम् ॥ १४ ॥
॥ चंद्र उवाच ॥ ॥
यदि देयो वरोऽस्माकं यदि तुष्टोऽसि मे प्रभो ॥
सांनिध्यं कुरु देवेश लिंगेऽस्मिन्सर्वदा विभो ॥१५॥
ये त्वां पश्यंति चात्रस्थं भक्त्या परमया युताः ॥
तेषां तु परमा सिद्धिस्त्वत्प्रसादात्सुरेश्वर ॥ ॥ १६ ॥
॥ शंभुरुवाच ॥ ॥
अग्रे तु मम सांनिध्यमस्मिँल्लिंगे महाप्रभो ॥
विशेषतोऽधुना चंद्र तव भक्त्या निरंतरम् ॥ १७ ॥
स्थातव्यमद्यप्रभृति क्षेत्रेऽस्मिन्नुमया सह ॥
यस्मात्त्वया प्रभा लब्धा क्षेत्रेऽस्मिन्मत्प्रसादतः ॥
तस्मात्प्रभासमित्येवं नामास्य प्रभविष्यति ॥ १८ ॥
यस्मात्प्रतिष्ठितं लिंगं त्वया सोम शुभं मम ॥
सोमनाथेति मे नाम तस्मात्ख्यातिं गमिष्यति ॥ १९ ॥
यन्ममाग्रेतनं नामख्यातं ब्रह्मावसानिकम्॥
सोमनाथेति च पुनस्तदेव प्रचरिष्यति॥
द्रक्ष्यंति हि नरा ये मामत्रस्थं भक्तितत्पराः ॥ 7.1.24.२० ॥
शृणु तेषां फलं वत्स भविष्यति निशाकर ॥
न तेषां जायते व्याधिर्न दारिद्र्यं न दुर्गतिः ॥
न चेष्टेन वियोगश्च मम चंद्र प्रभावतः ॥ २१ ॥
यात्रां कुर्वंति ये भक्त्या मम दर्शनकांक्षिणः ॥
पदे पदेश्वमेधस्य तेषां फलमुदाहृतम्॥ २२ ॥
किं कृतैर्बहुभिर्यज्ञैरुपवासैर्निशाकर ॥
सकृत्पश्यंति मां येऽत्र ते सर्वे लेभिरे फलम् ॥। २३ ॥
एकमासोपवासं तु कुरुते भक्तितत्परः ॥
यावद्वर्षसहस्रं तु एकः पश्यंति मामिह ॥ २४ ॥
द्वाभ्यामपि फलं तुल्यं नास्ति काचिद्विचारणा ॥ २५ ॥
एको भवेद्ब्रह्मचारी यावज्जीवं निशाकर ॥
सकृत्पश्यति मामत्र समं ताभ्यां फलं स्मृतम् ॥ २६ ॥
एको दानानि सर्वाणि प्रयच्छति द्विजातये ॥
एकः पश्यति मामत्र समं ताभ्यां फलं स्मृतम् ॥ २७ ॥
एको व्रतानि सर्वाणि कुरुते मृगलांछन ॥
अन्यः पश्यति मामत्र समं ताभ्यां फलं स्मृतम्॥ २८॥
एकस्तीर्थानि कुरुते जपजाप्यानि भूरिशः ॥
अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ॥ २९ ॥
एको ज्ञानादियोगेन मुमुक्षुर्जायते ध्रुवम्॥
अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम्॥7.1.24.३॥।
एकस्तु भृगुपातेन याति मृत्युं निशाकर॥
अन्यः पश्यति मामत्र समं ताभ्यां फलं स्मृतम् ॥ ३१ ॥
एकः स्नाति सदा माघं प्रयागे नरसत्तमः ॥
अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ३२ ॥
एकः पिण्डप्रदानं च पितृतीर्थे समाचरेत् ॥
अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ॥ ३३ ॥
गोसहस्रप्रदो ह्येको ब्राह्मणे वेदपारगे॥
एकः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ॥ ३४ ॥
पञ्चाग्निं साधयेदेको ग्रीष्मकाले सुदारुणे ॥
एकः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ॥ ३५ ॥
स्नातः सोमग्रहे चन्द्र सोमवारे च भक्तितः ॥
यो मां पश्यति सर्वेषामेतेषां लभते फलम् ॥ ३६ ॥
सरस्वती समुद्रश्च सोमः सोमग्रहस्तथा ॥
दर्शनं सोमनाथस्य सकाराः पञ्च दुर्ल्लभाः ॥ ३७ ॥
नैरंतर्येण षण्मासान्विधिना यः प्रपूजयेत् ॥
पुण्यं तदेव सफलं लभते विषुवार्चनात् ॥ ३८ ॥
एतदेव तु विज्ञेयं ग्रहणे चोत्तरायणे ॥
संक्रांतिदिनच्छिद्रेषु षडशीतिमुखेषु च ॥ ३९ ॥
मासैश्चतुर्भिर्यत्पुण्यं विधिनाऽऽपूज्य शंकरम् ॥
कार्त्तिक्यां स लभेत्पुण्यं चैत्र्यां तद्द्विगुणं स्मृतम् ॥
पुण्यमेतत्तु फाल्गुन्यामाषाढ्यामेवमेव तु ॥ 7.1.24.४० ॥
एको दद्याद्गवां लक्षं दोग्ध्रीणां वेदपारगे ॥
एको ममार्चयेल्लिंगं तस्य पुण्यं ततोऽधिकम् ॥ ४१ ॥
मासेमासे च योऽश्नीयाद्यावज्जीवं सुरेश्वरि ॥
यश्चार्च्चयेत्सकृल्लिंगं सममेतन्न संशयः ॥ ४२ ॥
तपःशीलगुणोपेते पात्रे वेदस्य पारगे ॥
सुवर्णकोटिं यद्दत्त्वा तत्फलं कुसुमेन तु ॥ ४३ ॥
अर्कपुष्पेऽपि चैकस्मिञ्छिवाय विनिवेदिते ॥
दश दत्त्वा सुवर्णानि यत्फलं तदवाप्नुयात् ॥ ४४ ॥
अर्कपुष्पसहस्रेभ्यः करवीरं विशिष्यते ॥
करवीर सहस्रेभ्यो द्रोणपुष्पं विशिष्यते ॥ ४५ ॥
द्रोणपुष्पसहस्रेभ्यो ह्यपामार्गं विशिष्यते ॥
अपामार्गसहस्रेभ्यः कुशपुष्पं विशिष्यते ॥
कुशपुष्प सहस्रेभ्यः शमीपुष्पं विशिष्यते ॥ ४६ ॥
शमीपुष्पं बृहत्याश्च कुसुमं तुल्यमुच्यते ॥
करवीरसमा ज्ञेया जातीविजयपाटलाः ॥ ४७ ॥
श्वेतमंदार कुसुमं सितंपद्मसमं भवेत् ॥
नागचंपकपुन्नागधत्तूरकुसुमं स्मृतम् ॥ ४८ ॥
केतकीजातिमुक्तं च कन्दयूथीमदन्तिकाः ॥
शिरीषसर्जजंबूककुसुमानि विवर्ज्जयेत् ॥ ४९ ॥
आकुलीकुसुमं पत्रं करंजेन्द्रसमुद्भवम् ॥
बिभीतकानि पुष्पाणि कुसुमानि विवर्ज्जयेत् ॥ 7.1.24.५० ॥
कनकानि कदंबानि रात्रौ देयानि शंकरे ॥
देवशेषाणि पुष्पाणि दिवा रात्रौ च मल्लिका ॥ ५१ ॥
प्रहरं तिष्ठते मल्ली करवीरमहर्निशम् ॥
कीटकेशापविद्धानि रात्रौ पर्युषितानि च ॥ ५२ ॥
स्वयं पतितपुष्पाणि त्यजेदुपहतानि च ॥
तुलसी शतपत्रं च गन्धारी दमनस्तथा ॥ ५३ ॥
सर्वासां पत्रजातीनां श्रेष्ठो मरुबकः स्मृतः ॥
एतैः पुष्पविशेषैस्तु पूज्यः सोमेश्वरः सदा ॥ ५४ ॥
यात्रायाः फलमाप्नोति स्वर्गलोके महीयते॥
एतावदुक्त्वा वचनं तत्रैवान्तरधीयत ॥ ५५ ॥
चन्द्रमा यक्ष्मणा मुक्तः स्वस्थाननिरतोऽभवत् ॥
आहूय विश्वकर्माणं प्रासादं पर्यकल्पयत् ॥
शुद्धस्फटिकसंकाशं गोक्षीरधवलोज्ज्वलम् ॥ ५६ ॥
प्रासादं मेरुनामानं हेमप्राकारतोरणम् ॥
चतुर्दशान्ये परितः प्रासादाः परिकल्पिताः ॥
तेषां नामानि वक्ष्यामि प्रत्येकं तानि मे शृणु ॥ ५७ ॥
केसरी सर्वतोभद्रो नदनो नन्दिशालकः ॥
नन्दीशो मन्दरश्चैव श्रीवृक्षो ह्यमृतोद्भवः ॥ ५८ ॥
हिमवान्हेमकूटश्च कैलासः पृथिवीजयः ॥
इन्द्रनीलो महानीलो भूधरो रत्नकूटकः ॥ ५९ ॥
वैडूर्यः पद्मरागश्च वज्रको मुकुटोज्ज्वलः ॥
ऐरावतो राजहंसो गरुडो वृषभस्तथा ॥ 7.1.24.६० ॥
मेरुः प्रासादराजा च देवानामालयो हि सः ॥
आदौ पञ्चाण्डको ज्ञेयः केसरीनामतः स्थितः ॥ ६१ ॥
चतुर्थांशा च तद्वृद्धिर्यावन्मेरुः प्रकीर्तितः ॥ ६२ ॥
एवं पृथक्कारयित्वा प्रासादांश्च चतुर्दश ॥
ब्रह्मादीनां देवतानां समीपस्थानवासिनाम् ॥ ६३ ॥
दश चान्यान्भूधरादीन्वृषभान्तान्वरानने ॥
आदौ कपर्द्दिनं कृत्वा प्रासादान्पर्यकल्पयत् ॥ ६४ ॥
मेरुः प्रासादराजो वै स तु सोमेश्वरे कृतः ॥
त्रेतायुगे तु दशमे मनोवैर्वस्वतस्य च ॥ ६५ ॥
कारयित्वा मंडपांश्च प्रतिष्ठाप्य यथाविधि ॥
नदानां तु शतं कृत्वा वापीकूप सहस्रकम् ॥ ६६ ॥
गृहाणां तु सहस्राणि दीनानाथाश्रयाणि च ॥
कारयित्वा विधानेन विप्रेभ्यः प्रददौ पृथक् ॥ ६७ ॥
निवेश्य नगरं सोमः श्रीसोमेश्वरसन्निधौ ॥
स्वकर्मणां प्रचारार्थमथाभ्यर्थयत द्विजान् ॥ ६८ ॥
सोमोऽस्मि भवतां राजा प्रसादात्परमेष्ठिनः ॥
तथापि विनयेनैव भक्त्या विज्ञापयामि वः ॥ ६९ ॥
धनं हिरण्यरत्नादि धान्यं व्रीहियवादिकम् ॥
गोमहिष्यादिपशवो वस्त्राणि विविधानि च ॥ ॥ 7.1.24.७० ॥
कदलीनालिकेराणि तांबूलीपूगमालिनः ॥
मनोऽभिरामचरमा आरामाः परितः स्थिताः ॥ ७१ ॥
जंबूद्वीपाधिपाः सर्वे भवतामत्रवासि नाम्॥
आदेशं च करिष्यंति शिरस्याधाय शोभनम् ॥७२॥
द्वीपांतरादागतैश्च कर्पूरागुरुचंदनैः ॥
अन्यैश्च विविधैर्द्रव्यैः संपूर्णा भवतां गृहाः ॥७३॥
पण्यानां शतसंख्यानां व्यवहारनिदर्शिनः ॥
ब्रह्मोत्तराणि तन्वंति वणिजो लाभकांक्षिणः ॥ ७४ ॥
भवत्सु भृत्यभावेन वर्त्तमाना हितैषिणः ॥
ते चान्ये च तथा पौरा नावसीदंति कर्हिचित् ॥ ७५ ॥
एवं संपूर्णविभवैर्भवद्भिः श्रेयसे मम ॥
क्रतुक्रिया वितन्यंतां विधिवद्भूरिदक्षिणाः ॥ ७६ ॥
ब्रह्मादीनि च सर्वाणि प्रवर्तंतामहर्निशम् ॥
दीनांधकृपणादीनां क्रियतामार्तिनाशनम् ॥ ७७ ॥
अभ्यागतानामौचित्यादातिथ्यं च विधीयताम्॥
तीर्थयात्राप्रसंगेन समेतानां महात्मनाम् ॥ ७८ ॥
ब्रह्मर्षीणामाश्रमेषु दीयतामाश्रयाः सदा ॥
मयात्र स्थापितं लिंगं सर्वकालं दृढव्रताः ॥ ७९ ॥
पवित्रैरुपचारैश्च पूजयंतु द्विजोत्तमाः ॥
अष्टौ प्रमाणपुरुषाः पौराणां कार्यदर्शिनः ॥ 7.1.24.८० ॥
व्यवहारानवेक्षध्वं स्मृत्याचारविशारदाः ॥
व्यवस्थां मत्कृतामेतां भवंतोऽत्र द्विजोत्तमाः ॥ ८१॥
धारयंतु महात्मानो दिग्गजा इव मेदिनीम् ॥
एवं प्रभुत्वमास्थाय स्थानेऽस्मिञ्छिवशालिनि ॥८२॥
श्रुतिस्मृतिपुराणोक्तान्धर्मानाचरत द्विजाः ॥
निशम्य सोमस्य वचो विनीतमिति ते द्विजाः ॥ ८३ ॥
उवाच कौशिकस्तेषु गोत्राणां प्रथमो द्विजः ॥
साधूपदिष्टमस्माकं द्विजराजेन सर्वथा ॥८४॥
सर्वमेतत्करिष्यामः किंतु किंचिन्निशामय ॥
नियोगतः पूजयतां शिवनिर्माल्यसेविनाम् ॥ ॥ ८५ ॥
पातित्यं जायतेऽस्माकं श्रुतिस्मृतिविगर्हितम् ॥
श्रुतिस्मृती हि रुद्रस्य यस्मादाज्ञाद्वयं महत् ॥ ८६ ॥
कस्तदुल्लंघयेन्मूढः प्राणैः कंठग तैरपि ॥ ८७ ॥
अष्टमूर्तेः पुनर्मूर्त्तावग्नौ देवमुखे मखान् ॥
कुर्वाणाः श्रुतिमार्गेण प्रीणयामोऽखिलं जगत् ॥ ८८ ॥
जगद्भगवतो रूपं व्यक्तमेत त्पुरद्विषः ॥
मिथो विभिन्नमित्येतदभिन्नं पुनरीश्वरात् ॥ ८९ ॥
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ॥
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ 7.1.24.९० ॥
श्रुतिस्मृतिपुराणादिसदभ्यासप्रसंगिनाम् ॥
तत्तदर्थेषु पुण्यार्थं प्रवृत्ताखिलकर्मणाम् ॥ ९१ ॥
अस्माकमवकाशोऽपि विरलो लिंग पूजने ॥
रुद्रजाप्यैर्महायज्ञैर्यजानाश्चैवमीश्वरम् ॥ ९२ ॥
यथाक्षणं यथाकालं लिंगं वेदमुपास्महे ॥
यत्तु तेऽभिमतं सोम श्रीसोमेश्वरपूजनम् ॥
तच्च संपादयिष्यामः सविशेषं महामते ॥ ९३ ॥
येन त्वदीप्सितं सिध्येत्तमुपायं निशामय ॥
गौरीशंकरसंवादं श्रुत्वा भगवतो मुखात् ॥ ९४ ॥
नारदः प्राह नः पूर्वं कथयामस्तमेव ते ॥
ब्रह्मदेवद्विषः पूर्वं शतशो दैत्यदानवाः ॥
तपोभिरुग्रैर्विविधैः शंकरं प्रतिपेदिरे ॥ ९५ ॥
तेषामत्युग्रतपसामनन्यासक्तचेतसाम् ॥
प्रसादमीश्वरश्चक्रे कारुण्यामृतसागरः ॥ ९६ ॥
स हि त्रिभुवनस्वामी देवदेवो महेश्वरः ॥
अपेक्षते वरं दातुं भक्तिमेवानपायिनीम् ॥ ९७ ॥
ददौ स भुवनैश्वर्य्यप्रायानभिमतान्वरान् ॥
तेषां भक्त्यैव संतुष्टो देवब्रह्मद्विषामपि ॥ ९८ ॥
ब्रह्मणा विष्णुना चापि यस्यांतो नाधिगम्यते ॥
तस्यातर्क्यप्रभावस्य को नु वेदाशयं प्रभोः ॥ ९९ ॥
दुर्वृत्तेभ्योऽपि दैत्येभ्यस्तपोभिर्वरदायिनम् ॥
पप्रच्छ स्वच्छ्हृदया पार्वती परमेश्वरम् ॥ 7.1.24.१०० ॥
॥ पार्वत्युवाच ॥ ॥
भगवन्प्रसादं ते प्राप्य धृष्यंतो भुवनत्रयम् ॥
उपद्रवंतींद्रमुखान्देवान्संक्षोभयंति च ॥ १०१ ॥
वरं ददासि किं तेषां तादृशानां दुरात्मनाम् ॥
जगतः स्वस्तये येषां न मनागपि चेष्टितम् ॥ १०२॥
त्वया दत्तवरानेतान्दिव्यान्भोगोपभोगिनः ॥
अवधीर्य तवैश्वर्यं कथं विष्णुर्निहंति च ॥ १०३ ॥
हतानां च पुनस्तेषां का गतिः स्याद्वद प्रभो ॥ १०४ ॥
॥ ईश्वर उवाच ॥ ॥
सात्त्विका राजसाश्चैव तामसाश्चेति वै त्रिधा ॥
भवंति लोकास्तेष्वेते तमःप्राया दुरासदाः ॥ १०५ ॥
सुरैः सह स्पर्धमानास्तपोभिरपि तामसैः ॥
मां भजंते मुहुर्मोहाज्जगदुत्सादनोद्यताः ॥ १०६ ॥
वरं ददामि यत्तेषां भक्तिस्तत्र तु कारणम् ॥
अहं हि भक्त्या सुग्राह्यो नात्र कार्या विचारणा ॥ ॥१०७॥
तपोनुरूपानासाद्य वरांस्ते पापकारिणः ॥
विष्णुना यन्निहन्यते तच्च देवि निबोध मे॥१०८॥
अहं हरिश्च यद्भिन्नौ गुणभागोऽत्र कारणम् ॥
परमार्थादभिन्नौ च रहस्यं परमं ह्यदः॥१०९॥
आराध्याराधकादिश्च भेदः सामान्य एव नौ॥
तथा ह्यहमिमां गंगां विष्णोः पादाग्रनिःसृताम्॥7.1.24.११॥।
वहामि शिरसा भक्त्या त्वदीक्षाशंकितोऽपि सन् ॥
अपि विष्णुस्त्रिभुवनं परित्रातुं व्यवस्थया ॥१११॥
मामुपास्य चिरं लेभे चक्रं दुष्टनिबर्हणम्॥
त्वां च तस्य महामायामप्रमेयात्मनो हरेः ॥ ११२॥
आराधयामि तद्भक्त्या त्रिजगजन्मकारणम् ॥
शिरस्याधाय चान्यां मे शक्तिरूपां तथा हरिः ॥११३॥
अजोऽपि जन्मान्यासाद्य लोकरक्षां करोति वै ॥
हंतुं हिरण्यकशिपुं नरसिंहवपुश्च सः ॥११४॥
जगज्जिघांसुः शमितो मया शरभ रूपिणा ॥
मां च बाणपरित्राणे त्रिशूलोद्यमकारिणम् ॥ ११५ ॥
मानुष्येऽप्यवतारेऽसौ स्तंभयित्वा स लीलया ॥
प्रभावं महिमानं च वर्द्धयन्मामकं हरिः ॥
वरिवस्यति मां नित्यमंतरात्मापि मे विभुः ॥ ११६ ॥
अथाहं परमात्मानमेनमाद्यंतवर्जितम् ॥
ध्यानयोगैः समाधौ च भावयामि निरंतरम् ॥ ११७ ॥
तदेवं नावयोर्भेदो विद्यते पारमार्थिकः ॥
भेदं च तारतम्यं च मूढा एव वितन्वते ॥ ११९ ॥
वैष्णवं रूपमास्थाय दुर्वृत्तान्हन्मि तानहम् ॥
गतिं च तेषामधुना महेश्वरि निशामय ॥ ११९ ॥
मयि भक्त्यवसाने तु हरेः संदर्शनेन च ॥
क्रोधदर्पाभिभूतत्वान्न मुक्तिं प्राप्नुवंति ते ॥ 7.1.24.१२० ॥
आवयोस्तु प्रभावेन ते पुनर्द्धौतकल्मषाः ॥
ब्रह्मर्षीणां कुले जन्म संप्राप्ता मुक्तिहेतुकम् ॥ १२१ ॥
ब्रह्मचारिव्रता दूर्ध्वं योगं पाशुपतं श्रिताः ॥
प्राचीनकर्मसंस्कारात्ते पुनर्मामुपासते ॥ १२२ ॥
भक्तियोगेन चास्थाय व्रतं पाशुपतादिकम् ॥
श्मशानवासिनो नग्ना अपरे चैकवाससः ॥ १२३ ॥
भिक्षाभुजो भूतिभृतो मल्लिंगान्यर्च्चयंति ते ॥
तथा मदेकाग्रधियो मद्ध्यानैकदृढव्रताः ॥ १२४ ॥
ये त्वामपि नमस्यंति जगतां मम चेश्वरीम्॥
देहावसानयोगेन मुक्तिं तेषां ददाम्यहम् ॥ १२५ ॥
सारूप्यसालोक्यमयीं मय्यावेशितचेतसाम् ॥
सायुज्यमुक्तये नायं योगः पाशुपतो यतः ॥
स्मृत्याचारेण मुनिभिः स सद्भिस्तेन गर्हितः ॥ १२६ ॥
॥ द्विजा ऊचुः ॥ ॥
तीर्थयात्राप्रसंगेन तानि होपगतान्द्विजान् ॥
स्वमानमुपनेष्यामो भक्त्यावर्ज्जितमानसान् ॥ १२७ ॥
शुचिभिक्षान्नकौपीनकमण्डल्वादिसत्कृताः ॥
अनन्यकार्य्याः सततमिहागत्य तपस्विनः ॥ १२८ ॥
भवत्प्रदत्तैर्विविधैरुपहारैरतंद्रिताः ॥
तत्त्वतस्तत्त्वसंख्यास्ते शिवधर्मैकतत्पराः ॥ १२९ ॥
श्रीसोमेश्वरमभ्यर्च्य तव श्रेयोऽभिवर्द्धकाः ॥
मुक्तिमंते गमिष्यंति देवस्यातिसुदुर्ल्लभाम्॥ 7.1.24.१३० ॥
ततोऽन्येऽथ ततोऽप्यन्ये ततश्चान्ये तपोधना ॥
परीक्षितास्तु तेऽस्माभिर्भवितारो निशापते ॥ १३१ ॥
॥ द्विजा ऊचुः ॥ ॥
इत्याह भगवान्देव्या पृष्टः स च त्रिलोचनः ॥
तत्रैव नारदः सर्वं संवादं शिवयेरितम्(?)॥ १३२ ॥
श्रुत्वा नः कथयामास कथां गोष्ठीषु पृच्छताम्॥
तव चास्माभिरधुना सर्वमेतदुदीरितम् ॥ १३३ ॥
एवमुक्तस्तु तैः प्रीतः सोमः स्वभवनं ययौ ॥
तदाज्ञया च तत्सर्वं यथोक्तं तेऽपि कुर्वते ॥ १३४ ॥
॥ देव्युवाच ॥ ॥
एवं प्रभावो देवेशः सोमेशः पापनाशनः ॥
केनोपायेन तुष्येत व्रतेन नियमेन वा ॥ १३५ ॥
॥ ईश्वर उवाच ॥ ॥
कथयामि स्फुटं धर्म्मं मानुषाणां हिताय वै ॥
स येन तुष्यते देवः शृणु त्वं सुरसुन्दरि ॥ १३६ ॥
नित्योपवासनक्तानि व्रतानि विविधानि च ॥
तीर्थे दानानि सर्वाणि पात्रे दत्तान्यशेषतः ॥ १३७ ॥
तपश्च तप्तं तेनैव स्नातं तेनैव पुष्करे ॥
केदारे तु जलं तेन गत्वा पीतं तु निश्चितम् ॥ १३८ ॥
तेन दृष्टं वरारोहे ज्योतिर्लिंगं महाप्रभम् ॥
सोमवारव्रतं दिव्यं येन चीर्णं तु संश्रये ॥ १३९ ॥
किमन्यैर्बहुभिर्दानैर्दत्तैः पात्रेषु सुन्दरि ॥ 7.1.24.१४० ॥
पूजितं येन भावेन सोमवारदिनाष्ट कम् ॥
तेन सर्वं कृतं देवि चीर्णं तत्र महाव्रतम् ॥ १४१ ॥
इतिहासमिमं पूर्वं कथयामि तव प्रिये ॥
यथावृत्तं महादेवि सोमवारव्रतं प्रति ॥ १४२ ॥
॥ ईश्वर उवाच ॥ ॥
कैलासस्य महेशानि उत्तरे च व्यवस्थिता॥
निषधोपरि विस्तीर्णा पुरी नाम स्वयंप्रभा ॥ ॥ १४३ ॥
नानारत्नसुशोभाढ्या नानागन्धर्वसंकुला ॥
सर्वावयवसंपूर्णा शक्रस्येवामरावती ॥ १४४ ॥
घनवाहननामा च गन्धर्वस्तत्र तिष्ठति ॥
भुंक्ते तत्र महाभोगान्देवैरपि सुदुर्लभान् ॥ १४५ ॥
नवयौवनसंयुक्ता भार्या तस्य मनोहरा ॥
प्रौढवाक्या सुशीला च पीनोन्नतपयोधरा ॥ १४६ ॥
तया सार्द्धं तु सम्भोगान्भुंक्ते गंधर्वनायकः ॥
उत्पन्ना तस्य कालेन पुत्री पुत्राष्टकोपरि ॥ १४७ ॥
सर्वावयवसंपन्ना सर्वविज्ञानवेदिनी ॥
गंधर्वसेना विख्याता नाम्ना सा परमेश्वरि ॥ १४८ ॥
कन्यानां तु सहस्रेषु प्रवरा रूपशालिनी ॥
कौतूहलेन सा पित्रा प्रोक्ता क्रीडस्व भामिनि ॥ १४९ ॥
उद्याने रमणीयेऽत्र नानाद्रुमलताकुले ॥
वृक्षैरनेकैः संकीर्णे फलपुष्पसमन्विते ॥ 7.1.24.१५० ॥
एवं सा रमते नित्यं कन्यापरिवृता सदा ॥
एवं दृष्ट्वा क्रीडमाना माता भर्तारमब्रवीत् ॥१५१ ॥
जीवितं निष्फलं स्वामिन्मम ते सह बांधवैः ॥
यस्येदृशी गृहे कन्या तिष्ठते भर्तृवर्ज्जिता ॥ १५२ ॥
इत्युक्तः स तु गंधर्वो भार्यां वचनमब्रवीत् ॥
अन्वेषयामि भर्त्तारं पुत्र्यर्थे तु मनोहरम् ॥ १५३ ॥
इत्युक्त्वाऽऽह्वापयामास पुत्रीं तां घनवाहनः ॥
आहूता पितृमातृभ्यां त्वरिताऽऽगत्य सुन्दरि ॥ १५४ ॥
अनुक्रमेण सर्वेषां पतिता पादयोः शुभा ॥
आदेशं देहि मे तात कि नु कार्यं मयाऽऽधुना ॥ १५५ ॥
उक्तं च घनवाहेन हर्षितेन वचस्ततः ॥
हे पुत्रि तव यः कश्चिद्वरः संप्रति रोचते ॥
दिव्यं द्रक्ष्ये त्वत्सदृशं गंधर्वाणां शिरोमणिम् ॥ १५६ ॥
इत्युक्ता क्रोधताम्राक्षी पितरं वाक्यमब्रवीत् ॥
मम रूपस्य कोट्यंशे किं कोप्यस्ति जगत्त्रये ॥
तच्छ्रुत्वा चाद्भुतं वाक्यं पिता माता च मोहितौ॥ १५७ ॥
सर्वे विषादमापन्ना बांधवाश्च परे जनाः ॥
अशोभनमिदं वाक्यं कन्यया यत्प्रभाषितम् ॥
इत्युक्त्वा तु गताः सर्वे जननीजनबांधवाः ॥ १५८ ॥
सा तत्रैव महोद्याने रमते सखिसंयुता ॥
हिंडोलके समारूढा वसंते मासि भामिनि॥ ॥ १५९ ॥
तावद्दिव्यविमानस्थः शिखण्डी गणनायकः ॥
गच्छन्खे ददृशे कन्यां रूपौदार्य्यसमाकुलाम् ॥ 7.1.24.१६० ॥
गीतवाद्येन नृत्येन रमतीं दुदुभिस्वनैः ॥
स माध्याह्निकसंध्यायामवतीर्य विमानतः ॥ १६१ ॥
क्रीडमानोऽप्सरोभिस्तु तत्रोद्याने स्थितस्ततः ॥
शुश्राव वाक्यं कन्याया गंधर्वदुहितुस्तदा ॥ १६२ ॥
न कोऽपि सदृशो लोके मम रूपेण दृश्यते ॥
देवो वा दानवो वापि कोट्यंशे मम रूपतः ॥ १६३ ॥
इति वाक्यं ततः श्रुत्वा गणः क्रोधसमन्वितः ॥
शशाप तां सुचार्वंगीं साहंकारां गणेश्वरः ॥ १६४ ॥
॥ गण उवाच ॥ ॥
मां दृष्ट्वा यद्विशालाक्षि रूपसौभाग्यगर्विता ॥
समाक्षिपसि गंधर्वान्देवाद्यांश्चैव गर्विता ॥ १६५ ॥
तस्मात्ते गर्वसंयुक्ते कुष्ठमंगे भविष्यति ॥
श्रुत्वा शापं ततः कन्या भयभीता तपस्विनी ॥ १६६ ॥
साष्टांगं प्रणिपत्याथानुग्रहार्थमयाचत ॥
भगवन्मम दीनायाः शापस्यानुग्रहं प्रभो ॥
प्रयच्छ त्वं महा भाग नैवं कर्त्री पुनः क्वचित् ॥ १६७ ॥
इत्युक्तस्तव कारुण्याच्छिखण्डी गणनायकः ॥
अनुग्रहं ददौ तस्या गंधर्वदुहितुस्तदा ॥ १६८ ॥। ॥
॥ शिखण्ड्युवाच ॥ ॥
जातिरूपेण संयुक्तो विद्याहंकारसंपदा ॥
यो येन गर्वितः प्राणी स तं प्राप्य विनश्यति ॥ १६९ ॥
तस्माद्गर्वो नैव कार्यो गर्वस्यैतत्फलं स्मृतम् ॥
शृणुष्वानुग्रहं बाले श्रुत्वा चैवावधारय ॥ 7.1.24.१७०॥
हिमवद्वनमध्यस्थो गोशृंग ऋषिपुंगवः ॥
करिष्यत्युपकारं स एवमुक्त्वा गतः प्रिये ॥ १७१ ॥
तावत्संध्या समायाता तत्क्षणाद्भुवनांतरे ॥ १७२ ॥
ततो गंधर्व्वतनया भग्नोत्साहा नतानना ॥
परित्यज्य वनं रम्यमागता पितुरंतिके ॥ १७३ ॥
कथयामास तत्सर्वं कारणं कुष्ठसंभवम् ॥
तच्छ्रुत्वा शोकसंतप्तौ पितरौ विगतप्रभौ ॥ १७४ ॥
हिमवंतं गिरिं प्राप्तौ त्वरितौ सुतया सह ॥
गोशृंगस्य ऋषेस्तत्र ददृशाते तथाश्रमम् ॥ १७५ ॥
तत्र मध्यस्थितं दृष्ट्वा गोशृंगमृषिपुंगवम् ॥
प्रणम्य दण्डवद्भूमौ स्तुत्वा स्तोत्रैरनेकधा ॥ १७६ ॥
उपविष्टोग्रतस्तस्य प्रणिपत्य पुनःपुनः ॥
प्रोवाच वचनं तत्र पूर्ववृत्तं यथाऽभवत् ॥ १७७ ॥
कथिते चैव वृत्तांते पुनः पप्रच्छ कारणम्॥
पृष्टे तु कारणे तत्र गंधर्वः प्रोक्तवांस्तदा ॥ १७८ ॥
॥ गंधर्व उवाच ॥ ॥
दुहितुर्मे शरीरं तु व्याधिकुष्ठेनपीडितम् ॥
येनोपशमनं याति तत्त्वं कर्त्तुमिहार्हसि ॥ १७९ ॥
प्रसादं कुरु विप्रर्षे मम दीनस्य सांप्रतम् ॥
यथा कुष्ठं शमं याति मम पुत्र्यास्तु कारणम् ॥ ॥ 7.1.24.१८० ॥ ॥
गोशृंग उवाच ॥ ॥
भारते तु महातेजास्तिष्ठत्युदधिसन्निधौ ॥
देवः सोमेश्वरोनाम सर्वदेवनमस्कृतः ॥ १८१ ॥
क्षणं कृत्वा हि संपूज्य एकाहारेण मानवैः ॥
सर्वव्याधिविनाशाय सर्वकार्यार्थसिद्धये ॥ १८२ ॥
सोमवारव्रतेनेशं समाराधय शंकरम् ॥
एवं कृते व्याधिनाशस्तव पुत्र्या भविष्यति ॥ १८३ ॥
॥ ईश्वर उवाच ॥ ॥
इति तद्वचनं श्रुत्वा महर्षेर्भावितात्मनः ॥
तत्र गंतुं मनश्चक्रे सोमेशाराधनं प्रति ॥ १८४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्रीसोमेश्वर वर्णने सोमवारव्रतमाहात्म्यवर्णनंनाम चतुर्विंशोऽध्यायः ॥ २४ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 25
॥ ईश्वर उवाच ॥ ॥
स गन्धर्वस्तदा देवि आरिराधयिषुर्भवम् ॥
सोमवारव्रतंनाम पप्रच्छ मुनिसत्तमम् ॥ १ ॥
॥ गन्धर्व उवाच ॥ ॥
कथं सोमव्रतं कार्यं विधानं तस्य कीदृशम् ॥
कस्मिन्काले च तत्कार्यं सर्वं विस्तरतो वद ॥ २ ॥
॥ गोशृंग उवाच ॥ ॥
साधुसाधु महाप्राज्ञ सर्वसत्त्वोपकारकम् ॥
यन्न कस्यचिदाख्यातं तदद्य कथयामि ते ॥ ३ ॥
सर्वरोगहरं दिव्यं सर्वसिद्धिप्रदायकम् ॥
सोमवारव्रतंनाम सर्वकामफलप्रदम् ॥ ४ ॥
सर्वकालिकमादेयं वर्णानां शुभकारकम् ॥
नारी नरैः सदा कार्यं दृष्ट्वादृष्ट्वा फलोदयम् ॥ ५ ॥
ब्रह्मविष्ण्वादिभिर्देवैः कृतमेतन्महाव्रतम् ॥
पुनस्तु सोमराजेन दक्षशापहतेन च ॥ ६ ॥
आराधितोऽनेन शंभुः शंभुध्यानपरेण तु ॥
ततस्तुष्टो महादेवः सोमराजस्य भक्तितः ॥७ ॥
तेनोक्तं यदि तुष्टोऽसि प्रतिष्ठास्थो निरंतरम् ॥ ८ ॥
यावच्चंद्रश्च सूर्यश्च यावत्तिष्ठंति भूधराः ॥
तावन्मे स्थापितं लिंगमुमया सह तिष्ठतु ॥ ९ ॥
स्थापितं तु तदा तेन प्रार्थयित्वा महेश्वरम् ॥
आत्मनामांकितं कृत्वा ततो रोगैर्व्यमुच्यत॥ 7.1.25.१० ॥
ततः शुद्धशरीरोऽसौ गगनस्थो विराजते ॥ ११ ॥
तदाप्रभृति ये केचित्कुर्वंति भुवि मानवाः ॥
तेऽपि तत्पदमायांति विमलांगाश्च सोमवत् ॥ १२ ॥
अथ किं बहुनोक्तेन विधानं तस्य कीर्त्तये ॥
यस्मिन्कस्मिंश्च मासे वा शुक्ले सोमस्य वासरे ॥ ॥ १३॥
दंतकाष्ठं पुरा ब्राह्मे कृत्वा स्नानं समाचरेत् ॥
स्वधर्मविहितं कर्म कृत्वा स्थाने मनोरमे ॥ १४ ॥
सुसमे भूतले शुद्धे न्यस्य कुम्भं सुशोभितम् ॥
चूतपल्लवविन्यस्ते चंदनेन सुचित्रिते ॥ १५ ॥
श्वेतवस्त्रपरीधाने सर्वाभरणभूषिते ॥
आदौ पात्रे तु संन्यस्य आधारसहितं शिवम् ॥ ॥ १६ ॥
अष्टमूर्त्यष्टकं दिक्षु सोमनाथं सशक्तिकम् ॥
उमया सहितं तत्र श्वेतपुष्पैश्च पूजयेत् ॥ १७ ॥
विविधं भक्ष्यभोज्यं च फलं वै बीजपूर कम् ॥
अनेनैव तु मंत्रेण सर्वं तत्रैव कारयेत् ॥ १८ ॥
ओं नमः पंचवक्त्राय दशबाहुत्रिनेत्रिणे ॥
श्वेतं वृषभमारूढ श्वेताभरणभूषित ॥ १९ ॥
उमादेहार्द्धसंयुक्त नमस्ते सर्वमूर्तये ॥
अनेनैव तु मंत्रेण पूजां होमं च कारयेत् ॥ 7.1.25.२० ॥
कृत्वैवं च दिने रात्रौ पश्यंश्चैवं स्वपेन्नरः ॥
दर्भशय्या समारूढो ध्यायन्सोमेश्वरं हरम् ॥ २१ ॥
एवं कृतेऽष्टादशानां कुष्ठानां नाशनं भवेत् ॥
द्वितीये सोमवारे तु करंजं दन्तधावनम् ॥ २२ ॥
देवं संपूजयेत्सूक्ष्मं ज्येष्ठाशक्तिसमन्वितम् ॥
शतपत्रैः पूजयित्वा मधु प्राश्य यथाविधि ॥ २३ ॥
नारंगं तत्र दत्त्वा तु शेषं पूर्ववदाचरेत् ॥
एवं कृते द्वितीये तु गोलक्षफलमाप्नुयात् ॥ २४ ॥
सोमवारे तृतीये तु अपामार्गसमुद्भवम् ॥
दंतकाष्ठादिकं कृत्वा त्रिनेत्रं च प्रपूजयेत् ॥ २५ ॥
फलं च दाडिमं दद्याज्जातीपुष्पैश्च पूजयेत् ॥
रजन्यामंगुरं प्राश्य सिद्धियुक्तं तु पूजयेत् ॥ २६ ॥
चतुर्थे सोमवारे तु काष्ठमौदुम्बरं स्मृतम् ॥
पूजयेत्तत्र गौरीशं सूक्ष्मया सहितं तथा ॥ २७ ॥
नारिकेलफलं दद्याद्दमनेन प्रपूजयेत् ॥
शर्करां प्राशयेद्रात्रौ जागरं चैव कारयेत् ॥ २८ ॥
पञ्चमे सोमवारे तु पूजयेच्च गणाधिपम् ॥
विभूत्या सहितं देवं कुन्दपुष्पैः प्रपूजयेत्॥ २९ ॥
आश्वत्थं दन्तकाष्ठं च अर्घ्यं वै द्राक्षया तथा ॥
मोचं च प्राशयेद्रात्रावश्वमेधफलं लभेत् ॥ 7.1.25.३० ॥
षष्ठे सोमस्य वारे तु सुरूपं नाम पूजयेत् ॥
कर्पूरं प्राशयेत्तत्र भक्त्या परमया युतः ॥ ३१ ॥
सप्तमे सोमवारे तु दन्तकाष्ठं च मल्लिका ॥
सर्वज्ञं पूजयेत्तत्र दीप्तया सहितं तथा ॥ ३२ ॥
जम्बीरं च फलं दद्याज्जातीपुष्पैश्च पूजयेत् ॥
लवङ्गं प्राशयेत्तत्र तस्यानन्तफलं भवेत् ॥ ३३ ॥
अष्टमे सोमवारे तु अमोघायुतमीश्वरम् ॥
कदलीफलकेनार्घ्यं मरुबकेन पूजयेत् ॥
रात्रौ तु प्राशयेद्दुग्धमग्निष्टोमफलं लभेत् ॥ ३४ ॥
गंगास्नाने कृते सम्यक्कोटिधा यत्फलं स्मृतम् ॥
दशहेमसहस्राणां कुरुक्षेत्रे रवेर्ग्रहे ॥ ३५ ॥
ब्राह्मणे वेदविदुषे यद्दत्त्वा फल माप्नुयात् ॥
तत्पुण्यं कोटिगुणितमस्मिन्नाचरिते व्रते ॥ ३६ ॥
गजानां तु शते दत्ते लक्षे च रथवाजिनाम्॥
तत्फलं कोटिगुणितं सोमवारव्रते कृते ॥ ३७ ॥
गुग्गुलोर्धूपनं कृत्वा कोटिशो यत्फलं लभेत् ॥
तत्पुण्यं तु भवेत्तस्य सोमवारव्रते कृते ॥ ३८ ॥
सर्वैश्वर्यसमायुक्तः शिवतुल्यपराक्रमः ॥
रुद्रलोके वसेत्तावद्ब्रह्मणः प्रलयावधि ॥ ३९ ॥
संप्राप्ते नवमे वारे कुर्यादुद्यापनं शुभम् ॥
यथा भवति गन्धर्व तथा वक्ष्यामि तेऽधुना ॥ 7.1.25.४० ॥
मंडलं मंडपं कुण्डं पताकाध्वजशोभितम् ॥
तोरणानि च चत्वारि कुण्डं कृत्वा विधानतः ॥ ४१ ॥
मध्ये वेदिः प्रकर्त्तव्या चतुरस्रा सुशोभना ॥
निष्पाद्य मंडलं तत्र मध्ये पद्मं प्रकल्पयेत् ॥ ४२ ॥
कलशानष्टदिग्भागे सहिरण्यान्पृथक्पृथक् ॥
स्थापयित्वा तु शक्तिस्ता वामाद्याः पूर्वतः क्रमात्॥ ४३ ॥
कर्णिकायां तु पद्मस्य श्रीसोमेशं महाप्रभम्॥
प्रतिमारूपसंपन्नं हेमजं शक्तिसंयुतम् ॥ ४४ ॥
रुक्मशय्यासमारूढं मनोन्मन्या समन्वितम् ॥
हेमपात्रादिके पात्रे मधुना परिपूरिते ॥ ४५ ॥
रुक्मशय्यासमाच्छन्ने तत्रस्थं पूजयेत्क्रमात् ॥
अनंतादिशिखंड्यंतैर्नामभिः क्रमशोऽर्चयेत् ॥ ४६ ॥
गन्धस्रग्धूपदीपैश्च नैवेद्यैश्च पृथग्विधैः ॥
वस्त्रालंकारतांबूलच्छत्रचामरदर्प्पणम् ॥ ४७ ॥
दीपघंटावितानं च पर्यंकं च सतू लिकम् ॥
सोमेश्वरं समुद्दिश्य देयं पौराणिके गुरौ ॥ ४८ ॥
भूषयित्वा तथाऽऽचार्य्यं होमं तत्रैव कारयेत् ॥
बलिकर्मावसाने च रात्रौ तत्रैव जागृयात् ॥ ४९ ॥
पञ्चगव्यं ततः पीत्वा ध्यायेत्सोमेश्वरं हृदि ॥
प्रभाते तु ततः स्नात्वा ध्यायेत्तं च विधानतः ॥ 7.1.25.५० ॥
ततो भक्त्या च गंधर्व क्षीरखण्डादिनिर्म्मितम् ॥
भक्ष्यभोज्यैरनेकैश्च भोजयेद्ब्राह्मणानथ ॥ ५१ ॥
वस्त्रयुग्मं ततो दत्त्वा गां च दत्त्वा विसर्जयेत् ॥ ५२ ॥
एवं चीर्णव्रतः सम्यग्लभते पुण्यमक्षयम् ॥
धनधान्यसमृद्धात्मा पुत्रदारसमन्वितः ॥ ५३ ॥
न कुले जायते तस्य दरिद्रो दुःखितोऽपिवा ॥
अपुत्रो लभते पुत्रान्वन्ध्या पुत्रवती भवेत् ॥ ५४ ॥
काकवंध्या तु या नारी मृतवत्सा च दुर्भगा ॥
कन्याप्रसूश्च या कार्यमाभिरेतद्विशेषतः ॥ ५५ ॥
एवं कृते विधाने तु देहपाते शिवं व्रजेत् ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
भुंक्तेऽसौ विपुलान्भो गान्यावदाभूतसंप्लवम् ॥ ५६ ॥
इति ते कथितं सर्वं सोमवारव्रतं क्रमात् ॥
गच्छ शीघ्रं महाभाग यत्र सोमेश्वरः स्थितः ॥ ५७ ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्तः सच गन्धर्वः पुत्र्या सह वरानने ॥
सर्वोपहारसंयुक्तः प्रभासक्षेत्रमाश्रितः ॥ ५८ ॥
तत्र सोमेश्वरं दृष्ट्वा आनन्दाश्रुपरिप्लुतः ॥
यात्राक्रमेण संपूज्य चक्रे सोमव्रतं क्रमात् ॥ ५९ ॥
पुत्र्या सह महाभागस्तस्य तुष्टो महेश्वरः॥
सर्वरोगविनाशं च सर्वकामसमृद्धिदम्॥
ददौ गन्धर्वराज्यं च भक्तिं चैवात्मनस्तथा ॥ ६९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये सोमेश्वरमाहात्म्यवर्णने गन्धर्वकन्यावृत्तान्तवर्णनंनाम पञ्चविंशोऽध्यायः ॥ २५ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 26
॥ ईश्वर उवाच ॥ ॥
अथ लब्धवरस्तत्र कृतार्थो भक्तिसंयुतः॥
स्थापयामास लिंगं स गन्धर्वो घनवाहनः॥
सोमेशादुत्तरे भागे दंडपाणिसमीपतः॥
गन्धर्वेश्वरनामानं गान्धर्वफलदायकम्॥२॥
वरदावारुणे भागे धनुषां पञ्चके स्थितम्॥
पञ्चम्यां पूजयित्वा च न दुःखी जायते नरः॥
इति श्री स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गन्धर्वेश्वरमाहात्म्यवर्णनंनाम षड्विंशतितमो ऽध्यायः ॥ २६ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 27
॥ ईश्वर उवाच ॥ ॥
अथ तत्रैव देवेशि लिंगं गन्धर्वसेनया ॥
स्थापितं घनवाहस्य पुत्र्या गौरीसमीपतः ॥ १ ॥
धनुषां त्रितये तत्र स्थितं पूर्वविभागतः ॥
विमलेश्वरनामानं सर्वरोगविनाशनम् ॥ २ ॥
पूजयित्वा तृतीयायां दौर्भाग्यैर्मुच्यतेऽङ्गना ॥
सर्वान्कामानवाप्नोति पुत्रपौत्रप्रतिष्ठिता ॥ ३ ॥
इति व्रतं महादेवि त्रेतासंध्यांशके गते ॥
गन्धर्वस्यैवमाख्यातं श्रुतं पातकनाशनम्॥ ४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गन्धर्वसेनेश्वरमाहात्म्यवर्णनंनाम सप्तविंशोऽध्यायः ॥ ॥ २७ ॥ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 28
॥ देव्युवाच ॥ ॥
इत्याश्चर्यमिदं देव त्वत्तः सर्वं मया श्रुतम् ॥
महिमानं महेशस्य विस्तरेण समुद्भवम् ॥
सांप्रतं सोमनाथस्य यथावद्वक्तुमर्हसि ॥ १ ॥
विधिना केन दृश्योसौ यात्रा कार्या कथं नृभिः ॥
कस्मिन्काले महादेव नियमाश्चैव कीदृशाः ॥ २ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
हेमन्ते शिशिरे वापि वसन्ते वाथ भामिनि ॥
यदा च जायते चित्तं वित्तं वा पर्व वा भवेत् ॥ ३ ॥
तदैव यात्रा कर्त्तव्या भावस्तत्रैव कारणम् ॥
कृत्वा तु नियमं कंचित्स्वगृहे वरवर्णिनि ॥ ४ ॥
प्रणम्य मनसा रुद्रं कृत्वा श्राद्धं यथाविधि ॥
स्थानं प्रदक्षिणं कृत्वा वाग्यतः सुसमाहितः ॥ ५ ॥
नियतो नियताहारो गच्छेच्चैव ततः पथि ॥
कामक्रोधौ परित्यज्य लोभमोहौ तथैव च ॥ ६ ॥
ईर्ष्यामत्सरलौल्यं च यात्रा कार्या ततो नृभिः ॥
तीर्थानुगमनं पुण्यं यज्ञेभ्योऽपि विशिष्यते ॥ ७ ॥
अग्निष्टोमादियज्ञैश्च इष्ट्वा विपुलदक्षिणैः ॥
तत्तत्फलमवाप्नोति तीर्थानुगमनेन यत् ॥ ८ ॥
कलेर्युगं महाघोरं प्राप्य पापसमन्वितम् ॥
नान्येनाऽस्मिन्नुपायेन धर्म्मः स्वर्गश्च लभ्यते ॥
विना यात्रां महादेवि सोमेशस्य न संशयः ॥ ९ ॥
ये कुर्वंति नरा यात्रां शुचिश्रद्धासमन्विताः ॥
कलौ युगे कृतार्थास्ते ये त्वन्ये ते निरर्थकाः ॥ 7.1.28.१० ॥
यथामहोदधेस्तुल्यो न चान्योऽस्ति जलाशयः ॥
तथा प्राभासिकात्क्षेत्रात्समं तीर्थं न विद्यते ॥ ११ ॥
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ॥
अदत्त्वा कांचनं गाश्च दरिद्रोनाम जायते ॥ १२ ॥
यन्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च ॥
मनसा तानि गम्यानि सर्वतीर्थगतीप्सुना ॥ १३ ॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ १४ ॥
नियतो नियताहारः स्नान। जाप्यपरायणः ॥
व्रतोपवासनिरतः स तीर्थफलमश्नुते ॥ १५ ॥
अक्रोधनश्च देवेशि सत्यशीलो दृढव्रतः ॥
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥ १६ ॥
कुरुक्षेत्रादितीर्थानि रथगम्यानि यानि तु ॥
तान्येव ब्राह्मणो यायादानदोषो न तेषु वै ॥ १७ ॥
ये साधवो धनोपेतास्तीर्थानां स्मरणे रताः ॥
तीर्थे दानाच्च योगाच्च तेषामभ्यधिकं फलम् ॥ १८ ॥
ये दरिद्रा धनैर्हीनास्तीर्थानुगमनेरताः॥
तेषां यज्ञफलावाप्तिर्विनापि धनसंचयैः ॥१९॥
सर्वेषामेव वर्णानां सर्वाश्रमनिवासिनाम् ॥
तीर्थं तु फलदं ज्ञेयं नात्र कार्या विचारणा ॥ 7.1.28.२० ॥
कार्यांतरेण यो गत्वा स्नानं तीर्थे समाचरेत् ॥
न च यात्राफलं तस्य स्नानमात्रं फलं भवेत् ॥ २१ ॥
तीर्थानुगमनं पद्भ्यां तपःपरमिहोच्यते ॥
तदेव कृत्वा यानेन स्नानमात्रफलं लभेत् ॥ २२ ॥
यस्यान्यः कुरुते शक्त्या तीर्थयात्रां तथेश्वरि ॥
स्वकीयद्रव्ययानाभ्यां फलं तस्य चतुर्गुणम् ॥ २३ ॥
तीर्थानुगमनं कृत्वा भिक्षाहारा जितेंद्रियाः॥
प्राप्नुवंति महादेवि तीर्थे दशगुणं फलम् ॥ २४ ॥
छत्रोपानद्विहीनस्तु भिक्षाशी विजितेंद्रियः ॥
महापातकजैर्घोरैर्विप्रः पापैः प्रमुच्यते ॥ २५ ॥
न भैक्षं परपाकं तु न च भैक्ष्यं प्रतिग्रहम् ॥
सोमपानसमं भैक्ष्यं तस्माद्भैक्षं समाचरेत् ॥ २६ ॥
लोकेऽस्मिन्द्विविधं तीर्थं स्वच्छ न्दैर्निर्म्मितं तथा ॥
स्वयंभूतं प्रभासाद्यं निर्मितं दैवतैः कृतम् ॥ २७ ॥
स्वयंभूते महातीर्थे स्वभावे च महत्तरे ॥
तस्मिंस्तीर्थे प्रतिगृह्य कृताः सर्वे प्रतिग्रहाः ॥ २८ ॥
प्रतिग्रहनिवृत्तस्य यात्रादशगुणं फलम् ॥
तेन दत्तानि दानानि यज्ञैर्देवाः सुतर्पिताः ॥ २९ ॥
येन क्षेत्रं समासाद्य निवृत्तिः परमा कृता ॥
वस्तुलौल्याद्धि यः क्षेत्रे प्रतिग्रहरुचिस्तथा ॥ 7.1.28.३० ॥
नैव तस्य परोलोको नायं लोको दुरात्मनः ॥
अथ चेत्प्रतिगृह्णाति ब्राह्मणो वृत्तिदुर्बलः ॥
दशांशमर्जिताद्दद्यादेवं तत्र न हीयते ॥ ३१ ॥
विप्रवेषं समास्थाय शूद्रो भूत्वा प्रतिग्रहम् ॥
तृणकाष्ठसमं वापि प्रतिगृह्य पतत्यधः ॥ ३२ ॥
कुम्भीपाकादिकेष्वेवं महानरककोटिषु ॥
यावदिंद्रसहस्राणि चतुर्द्दश वरानने ॥३३॥
तस्मान्नैव प्रतिग्राह्यं किमन्यैर्ब्राह्मणैरपि ॥
द्विप्रकारस्य तीर्थस्य कृतस्याप्यकृतस्य च ॥ ३४ ॥
स्वकीयभावसंयुक्तः संपूर्णं फलमश्नुते ॥
लभते षोडशांशं स यः परान्नेन गच्छति ॥ ३५ ॥
अशक्तस्य तथांधस्य पंगोर्यायावरस्य च ॥
विहितं कारणायानमच्छिद्रे ब्राह्मणे कुतः ॥ ३६ ॥
स्नानखादनपानैश्च वोढृभ्यस्तीर्थसेवकः ॥
ददत्सकलमाप्नोति फलं तीर्थसमुद्भवम् ॥ ३७ ॥
न षोडशांशं यत्नेन लब्धार्थं यदि यच्छति ॥
पंचमांशमथो वापि दद्यात्तत्र द्विजातिषु ॥ ३८ ॥
देवतानां गुरूणां च मातापित्रोश्च कामतः ॥
पुण्यदः समवाप्नोति तदेवाष्टगुणं फलम् ॥ ३९ ॥
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ॥
पुण्यं देयं तु सर्वत्र नापुण्यं दीयते क्वचित् ॥ 7.1.28.४० ॥
पितरं मातरं तीर्थे भ्रातरं सुहृदं गुरुम् ॥
यमुद्दिश्य निमज्जेत द्वादशांशं लभेत सः ॥ ४१ ॥
कुशैस्तु प्रतिमां कृत्वा तीर्थवारिषु मज्जयेत् ॥
यमुद्दिश्य महादेवि अष्टभागं लभेत सः ॥ ४२ ॥
महादानानि ये विप्रा गृह्णन्ति ज्ञानदुर्बलाः ॥
वृक्षास्ते द्विजरूपेण जायंते ब्रह्मराक्षसाः ॥ ४३ ॥
न वेदबलमाश्रित्य प्रतिग्रहरुचिर्भवेत् ॥
अज्ञानाद्वा प्रमादाद्वा दहते कर्म नेतरत् ॥ ४४ ॥
चितिकाष्ठं तु वै स्पृष्ट्वा यज्ञयूपं तथैव च ॥
वेदविक्रयिणं स्पृष्ट्वा स्नानमेव विधीयते ॥ ४५ ॥
आदेशं पठते यस्तु आदेशं तु ददाति यः ॥
द्वावेतौ पापकर्माणौ पातालतलवासिनौ ॥ ४६ ॥
आदेशं पठते यस्तु संजिघृक्षुः प्रतिग्रहम् ॥
तीर्थे चैव विशेषेण ब्रह्मघ्नः सैव नेतरः ॥
स्थितो वै नृपतेर्द्वारि न कुर्याद्वेदविक्रयम् ॥ ४७ ॥
हत्वा गावो वरं मांसं भक्षयीत द्विजाधमः ॥
वरं जीवन्समं मत्स्यैर्न कुर्याद्वेदविक्रयम् ॥
ब्रह्महत्यासमं पापं न भूतं न भविष्यति ॥ ४८ ॥
वरं कुर्याच्च तद्देवि न कुर्याद्वेदविक्रयम् ॥
तीर्थे चैव विशेषेण महाक्षेत्रे तथैव च ॥ ४९ ॥
दीयमानं तु वै दानं यस्त्यजेत्तीर्थसेवकः ॥
तीर्थं करोति तीर्थं च स पुनाति च पूर्वजान् ॥ 7.1.28.५० ॥
यदन्यत्र कृतं पापं तीर्थे तद्याति लाघवम्॥
न तीर्थकृतमन्यत्र क्वचिदेव व्यपोहति ॥ ५१ ॥
तैलपात्रमिवात्मानं यो रक्षेत्तीर्थसेवकः ॥
स तीर्थफलमस्कन्नं विप्रः प्राप्नोति संयतः ॥ ॥। ५२ ॥
यस्ययस्यात्ति पक्वान्नमल्पं वा यदि वा बहु ॥
तीर्थगस्तस्य तस्यार्धं स्नातस्य विनियच्छति ॥ ५३ ॥
यो न क्लिष्टोपि भिक्षेत ब्राह्मण स्तीर्थसेवकः ॥
सत्यवादी समाधिस्थः स तीर्थस्योपकारकः ॥ ५४॥
कृते युगे पुष्कराणि त्रेतायां नैमिषं तथा ॥
द्वापरे तु कुरुक्षेत्रं प्राभासिकं कलौयुगे ॥ ५५ ॥
तिष्ठेद्युगसहस्रंतुपादेनैकेन यः पुमान् ॥
प्रभासयात्रामेको वा समं भवति वा न वा ॥ ५६ ॥
एतत्क्षेत्रं समागत्य मध्यभागे वरानने ॥
यानानि तु परित्यज्य भाव्यं पादचरैर्नरैः॥५७॥
लुठित्वा लोठनीं तत्र लुठिता यत्र देवताः ॥
ततो नृत्यन्हसन्गायन्भूत्वा कार्पटिका कृतिः ॥
गच्छेत्सोमेश्वरं देवं दृष्ट्वा चादौ कपर्द्दिनम्॥ ५८ ॥
ईदृशं पुरुषं दृष्ट्वा स्थितं सोमेश्वरोन्मुखम् ॥
नित्यं तुष्यंति पितरो गर्जंति च पिता महाः ॥ ५९ ॥
अस्माकं वंशजो देवं प्रस्थितस्तारणाय नः ॥
गत्वा सोमेश्वरं देवि कुर्याद्वपनमादितः ॥ 7.1.28.६० ॥
तीर्थोपवासः कर्त्तव्यो यथावद्वै निबोध मे ॥
नास्ति गंगासमं तीर्थं नास्ति क्रतुसमा गतिः ॥६१॥
गायत्रीसदृशं जाप्यं होमो व्याहृतिभिः समः ॥
अंतर्जले तथा नास्ति पापघ्नमघमर्षणात् ॥६२॥
अहिंसासदृशं पुण्यं दानात्संचयनं परम् ॥
तपश्चानशनान्नास्ति तथा तीर्थनिषेवणात् ॥६३॥
तीर्थोपवासाद्देवेशि अधिकं नास्ति किञ्चन ॥
पापानां चोपशमनं सतामीप्सितकारकम् ॥ ६४ ॥
उपवासो विनिर्द्दिष्टो विशेषाद्देवताश्रये ॥
ब्राह्मणस्य त्वनशनं तपः परमिहोच्यते ॥ ६५ ॥
षष्ठकालाशनं शूद्रे तपः प्रोक्तं परं बुधैः ॥
वर्णसंकरजातानां दिनमेकं प्रकीर्तितम् ॥ ६६ ॥
षष्ठकालात्परं शूद्रस्तपः कुर्याद्यथा क्वचित् ॥
राष्ट्रहानिस्तदा ज्ञेया राज्ञश्चोपद्रवो महान् ॥ ६७ ॥
शूद्रस्तु षष्ठकालाशी यथाशक्त्या तपश्चरेत् ॥
न दर्भानुद्धरेच्छूद्रो न पिबेत्कापिलं पयः ॥ ६८ ॥
मध्यपत्रे न भुञ्जीत ब्रह्मवृक्षस्य भामिनि ॥
नोच्चरेत्प्रणवं मंत्रं पुरोडाशं न भक्षयेत् ॥ ६९ ॥
न शिखां नोपवीतं च नोच्च रेत्संस्कृतां गिरम् ॥
न पठेद्वेदवचनं त्रैरात्रं न हि सेवयेत् ॥ 7.1.28.७० ॥
नमस्कारेण शूद्रस्य क्रियासिद्धिर्भवेद्ध्रुवम् ॥
निषिद्धाचरणं कुर्वन्पितृभिः सह मज्जति ॥ ७१ ॥
येनैकादशसंख्यानि यंत्रितानींद्रियाणि वै ॥
स तीर्थफलमाप्नोति नरोऽन्यः क्लेशभाग्भवेत् ॥ ७२ ॥
यच्च तीर्थे पितृश्राद्धं स्नानं तत्र समाचरेत् ॥
हितकारी च भूतेभ्यः सोऽश्नीयात्तीर्थजं फलम् ॥ ७३ ॥
धर्मध्वजी सदा लुब्धः परदाररतो हि यः ॥
करोति तीर्थगमनं स नरः पातकी भवेत्॥ ७४ ॥
एवं ज्ञात्वा महादेवि यात्रां कुर्याद्यथाविधि ॥
तीर्थोपवासं कृत्वादौ श्रद्धायुक्तो दृढव्रतः ॥ ७५ ॥
भोजनं नैव कुर्वीत यदी च्छेद्धितमात्मनः ॥
परान्नं नैव भुञ्जीत तद्दिने ब्राह्मणः क्वचित् ॥७६॥
हस्त्यश्वरथयानानि भूमिगोकांचनादिकम् ॥
सर्वं तत्परिगृह्णीयाद्भोजनं न समाचरेत् ॥ ७७ ॥
आमाच्छतगुणं पुण्यं भुञ्जतो ददतोऽपि वा ॥
तीर्थोपवासं कुर्वीत तस्मात्तत्र वरानने ॥ ७८ ॥
व्रती च तीर्थयात्री च विधवा च विशेषतः ॥
परान्नभोजने देवि यस्यान्नं तस्य तत्फलम् ॥ ७९ ॥
विधवा चैव या नारी तस्या यात्राविधिं ब्रुवे ॥
कुंकुमं चन्दनं चैव तांबूलं च स्रजस्तथा ॥ 7.1.28.८० ॥
रक्तवस्त्राणि सर्वाणि शय्या प्रास्तरणानि च ॥
अशिष्टैः सह संभाषो द्विवारं भोजनं तथा ॥ ८१ ॥
पुंसां प्रदर्शनं चैव हास्यं तमसि वर्जयेत् ॥
सशब्दोपानहौ चैव नृत्यं गतिं च वर्जयेत् ॥ ८२ ॥
धारणं चैव केशानामंजनं च विलेपनम् ॥
असतीजनसंसर्गं पांडित्यं च परित्यजेत् ॥ ८३ ॥
नित्यं स्नानं च कुर्वीत श्वेतवस्त्राणि धारयेत् ॥
यतिश्च ब्रह्मचारी च विधवा च विशेषतः ॥ ८४ ॥
तांबूलं मधु मांसं च सुरापानसमं विदुः ॥
एतेषां वर्ज्जनाद्देवि सम्यग्यात्राफलं लभेत् ॥ ९५ ॥
॥ देव्युवाच ॥ ॥
तपांसि कानि कथ्यन्ते क्षेत्रे प्राभा सिके नरैः ॥
कानि दानानि दीयन्ते केषु तीर्थेषु वा कथम् ॥ ८६ ॥
॥ ईश्वर उवाच॥ ॥
तपः परं कृतयुगे त्रेतायां ज्ञानमिष्यते ॥
द्वापरे यजनं धन्यं दानमेकं कलौ युगे ॥८७॥
तपस्तप्यन्ति मुनयः कृच्छ्रचान्द्रायणादिकम् ॥
गत्वा प्राभासिकं क्षेत्रं लोकाश्चान्ये कृते युगे ॥८८॥
कलौ दानानि दीयन्ते ब्राह्मणेभ्यो यथाविधि ॥
प्रभासं क्षेत्रमासाद्य तपसां प्राप्यते फलम् ॥ ८९ ॥
तुलापुरुषब्रह्माण्डपृथिवीकल्पपादपाः ॥
हिरण्य कामधेनुश्च गजवाजिरथास्तथा ॥ 7.1.28.९० ॥
रत्नधेनुहिरण्याश्वसप्तसागर एव च ॥
महाभूतघटो विश्वचक्रकल्पलताभिधः ॥ ९१ ॥
प्रभासे नृपतिर्दद्या न्महादानानि षोडश ॥
धान्यरत्नगुडस्वर्णतिलकार्पासशर्कराः ॥ ९२ ॥
सर्पिर्लवणरूप्याख्या दशैते पर्वताः स्मृताः ॥
गुडाज्यदधिमध्वंबुसलिल क्षीरशर्कराः ॥
रत्नाख्याश्च स्वरूपेण दशैता धेनवो मताः ॥ ९३ ॥
तेषामेकतमं दानं तीर्थेतीर्थे पृथक्पृथक् ॥
प्रदेयान्येकवारं वा सरस्वत्यब्धि संगमे ॥ ९४ ॥
सर्वस्वं चातिविदुषे गृहं वा सपरिच्छदम् ॥
बह्वल्पमपि विप्रेभ्यो दातव्यं प्रियमेलके ॥९५॥
यत्र तीर्थे लभेल्लिंगं तीर्थं च विमलोदकम्॥
तत्राग्निकार्यं कृत्वादौ विशिष्टं दानमिष्यते ॥९६॥
तर्पणं पितृदेवानां श्राद्धं दानं सदक्षिणम् ॥
तीर्थेतीर्थे च गोदानं नियतः प्रकृतो विधिः ॥ ॥ ९७ ॥
विशिष्टख्यातलिंगेषु वृषदानं विधीयते ॥
स्नानं विलेपनं पूजां देवतानां समाचरेत् ॥ ९८ ॥
जगतीं चार्चयेद्भक्त्या तथा चैवोपलेपयेत् ॥
प्रासादं धवलं सौधं कारयेज्जीर्णमुद्धरेत् ॥ ९९ ॥
पुष्पवाटीं स्नानकूपं निर्मलं कारयेद्व्रती ॥
ब्राह्मणानां भूरिदानं देवपूजाकराय च ॥ 7.1.28.१०० ॥
सर्वत्र देवयात्रायां विधिरेष प्रवर्त्तते ॥
तीर्थमभ्युद्धरेज्जीर्णं मार्जयेत्कथयेत्फलम् ॥ १०१ ॥
प्रसिद्धे च महादानं मध्यमे चैव मध्यमम् ॥
गोदानं सर्वतीर्थेषु सुवर्णमथ निष्क्रयः ॥
हिरण्यदानं सर्वेषां दानानामेव निष्कृतिः ॥ १०२ ॥
एवं कृत्वा नरो भक्त्या लभते जन्मनः फलम् ॥
तीर्थेषु दानं वक्ष्यामि येषु यद्दीयते तिथौ ॥ १०३ ॥
प्रभासे प्रतिपद्दानं दातव्यं कांचनं शुभम् ॥
द्वितीयायां तथा वस्त्रं तृतीयायां च मेदिनीम् ॥ ॥१०४ ॥
चतुर्थ्यां दापयेद्धान्यं पंचम्यां कपिलां तथा ॥
षष्ठ्यामश्वं च सप्तम्यां महिषीं तत्र दापयेत् ॥ १०५॥
अष्टम्यां वृषभं दत्त्वा नीलं लक्षणसंयुतम् ॥
नवम्यां तु गृहं दद्याच्चक्रं शंखं गदां तथा ॥ १०६ ॥
दशम्यां सर्वगंधांश्च एकादश्यां च मौक्तिकम् ॥
द्वादश्यां सुव्रतेन्नाद्यं प्रवालं विधिवत्तथा ॥ १०७ ॥
स्त्रियो देयास्त्रयोदश्यां भूतायां ज्ञानदो भवेत्॥
अमावास्यामनुप्राप्य सर्वदानानि दापयेत् ॥ १०८ ॥
एवं दानं प्रदत्त्वा तु दश कृत्वः फलं लभेत् ॥ १०९ ॥
॥ देव्युवाच ॥ ॥
भक्तिदानविहीना ये प्रभासं क्षेत्रमागताः ॥
स्नानमन्त्रविहीनाश्च वद तेषां तु किं फलम् ॥ ॥ 7.1.28.११० ॥
॥ ईश्वर उवाच ॥ ॥
सधना निर्द्धना वापि समंत्रा मंत्रवर्जिताः ॥
प्रभासे निधनं प्राप्ताः सर्वे यांति शिवालयम् ॥ १११ ॥
ये मंत्रहीनाः पुरुषा धर्महीनाश्च ये मृताः ॥
तेषामेकं विमानं तु ददामि सुमहत्प्रिये ॥ ११२ ॥
स्नानदानानुरूप्येण प्राप्नुवंति परं पदम् ॥
केचित्स्नानप्रभावेन केचिद्दानेन मानवाः ॥ ११३ ॥
केचिल्लिंगप्रणामेन केचिल्लिंगार्च्चनेन च ॥
केचिद्ध्यानप्रभावेन केचिद्योगप्रभावतः ॥ ११४ ॥
केचिन्मं त्रस्य जाप्येन केचिच्च तपसा शुभे ॥
तीर्थे संन्यसनैः केचित्केचिद्भक्त्यनुसारतः ॥११५ ॥
एते चान्ये च बहव उत्तमाधममध्यमाः ॥
सर्वे शिवपुरं यांति विमानैः सूर्यसंनिभैः ॥ ११६ ॥
त्रिशूलांकितहस्ताश्च सर्वे च वृषवाहनाः ॥
दिव्याप्सरोगणाकीर्णाः क्रीडंते मत्प्रभावतः ॥ ११७ ॥
एवं भक्त्यनुसारेण ददामि फलमव्ययम्॥
अलेपकं प्रभासं तु धर्माधर्मैर्न लिप्यते ॥ ११८ ॥
धर्मं चरंत्यधर्मं वा शिवं यांति न संशयः ॥ ११९ ॥
जन्मप्रभृति यो देवि नरो नेत्रविवर्जितः ॥
मम क्षेत्रे मृतः सोऽपि रुद्रलोके महीयते ॥ 7.1.28.१२० ॥
जन्मप्रभृति यो देवि श्रवणाभ्यां विवर्जितः ॥
प्रभासे निधनं प्राप्तः स भवेन्मत्परिग्रहः ॥ १२१ ॥
अथातः संप्रवक्ष्यामि तीर्थानां स्पर्शने विधिम् ॥
मन्त्रेण मंत्रितं तीर्थं भवेत्संनिहितं तथा ॥ ॥।१२२ ॥
प्रथमं चालभेत्तीर्थं प्रणवेन जलं शुचि ॥
अवगाह्य ततः स्नायादध्यात्ममन्त्रयोगतः ॥ १२३ ॥
ओंनमो देवदेवाय शितिकण्ठाय दंडिने ॥
रुद्राय वामहस्ताय चक्रिणे वेधसे नमः ॥ १२४ ॥
सरस्वती च सावित्री वेदमाता विभावरी ॥
संनिधानं कुरुष्वात्र तीर्थे पाप प्रणाशिनि ॥
सर्वेषामेव तीर्थानां मंत्र एष उदाहृतः ॥ १२५ ॥
इत्युच्चार्य नमस्कृत्वा स्नानं कुर्याद्यथाविधि ॥
उपवासं ततः कुर्यात्तस्मिन्नहनि सुव्रते ॥ १२६ ॥
सा तिथिर्वर्षमेकं तु उपोष्या भक्तितत्परैः ॥ १२७ ॥
॥ देव्युवाच ॥ ॥
कस्मिंस्तीर्थे नरैः पूर्वं प्रभासक्षेत्रमागतैः ॥
स्नानं कार्यं महादेवि तन्मे विस्तरतो वद ॥ १२८ ॥
॥ ईश्वर उवाच ॥ ॥
हंत ते संप्रवक्ष्यामि आद्यं तीर्थं महाप्रभम् ॥
पूर्वं यत्र नरैः स्नानं क्रियते तच्छृषुष्व मे ॥ १२९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तीर्थयात्रा विधानवर्णनंनामाष्टाविंशोऽध्यायः ॥ २८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 29
॥ ईश्वर उवाच ॥ ॥
अग्नितीर्थं ततो गच्छेत्सागरस्य तटे शुभे ॥
यत्राऽसौ वाडवो मुक्तः सरस्वत्या वरानने ॥ १ ॥
दक्षिणे सोमनाथस्य सर्वपापप्रणाशनम् ॥
तीर्थं त्रैलोक्यविख्यातं पद्मकं नाम नामतः ॥ २ ॥
धन्वंतरशते प्रोक्तं सोमेशाज्जलमध्यगम्॥
कुण्डं पापहरं प्रोक्तं शतहस्तप्रमाणतः ॥
तत्र स्नानं प्रकुर्वीत विगाह्य निधिमंभसाम् ॥ ३ ॥
आदौ कृत्वा तु वपनं सोमेश्वरसमीपतः ॥
शंकरं मनसा ध्यायन्केशांस्तत्र परित्यजेत् ॥
समुत्तार्य ततः केशान्भूयः स्नानं समाचरेत् ॥ ४ ॥
यत्किंचित्कुरुते पापं मनुष्यो वृत्तिकर्शितः ॥
तदेव पर्वतसुते सर्वं केशेषु तिष्ठति ॥ ५ ॥
तस्मात्सर्वप्रयत्नेन केशांस्तत्र विनिक्षिपेत् ॥
तदेव सोमनाथाग्रे कृत्वा तु द्विगुणं फलम्॥ ६ ॥
अग्नितीर्थसमीपस्थं कपर्द्दिद्वारमध्यगम् ॥
तत्रैव द्विगुणं ज्ञेयमन्यत्रैकगुणं स्मृतम् ॥ ७ ॥
क्षुरकर्म न शस्तं स्याद्योषितां तु वरानने ॥
सभर्तृकाणां तत्रैव विधिं तासां शृणुष्व मे ॥ ८ ॥
सर्वान्केशान्समुद्धृत्य च्छेदयेदंगुलद्वयम् ॥
ततो देवान्विधानेन तर्प्पयेत्पितृदेवताः॥९॥
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ॥ 7.1.29.१० ॥
गंगायां भास्करे क्षेत्रे मातापित्रोर्गुरौ मृते ॥
आधाने सोमपाने च वपनं सप्तसु स्मृतम् ॥ ११ ॥
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥
नासौ तत्फलमाप्नोति वपनाद्यच्च लभ्यते ॥ १२ ॥
विना मन्त्रेण यस्तत्र देवि स्नानं समाचरेत् ॥
समाप्नोति क्वचिच्छ्रेयो मुक्त्वैकं पर्ववासरम्॥ १३ ॥
विना मंत्रं विना पर्व क्षुरकर्म विना नरैः ॥
कुशाग्रेणापि देवेशि न स्प्रष्टव्यो महोदधिः ॥ ॥ १४ ॥
एवं स्नात्वा विधानेन दत्त्वाऽर्घ्यं च महोदधौ ॥
संपूज्य पुष्पगंधैश्च वस्त्रैः पुण्यानुलेपनैः ॥ १५ ॥
हिरण्मयं यथाशक्त्या निक्षिपेत्तत्र कंकणम् ॥ १६ ॥
एवं कृत्वा विधानं तु स्पर्शयेल्लवणोदधिम् ॥
मन्त्रेणानेन देवेशि ततः सांनिध्यतां व्रजेत् ॥ १७ ॥
ॐ नमो विष्णुगुप्ताय विष्णुरूपाय ते नमः ॥
सांनिध्ये भव देवेश सागरे लवणाम्भसि ॥ १८ ॥
अग्निश्च रेतो मृडया च देहो रेतोधा विष्णुरमृतस्य नाभिः ॥
एतद्ब्रुवन्पार्वति सत्यवाक्यं ततोऽवगाहेत्तु पतिं नदीनाम् ॥ १९ ॥
ॐ नमो रत्नगर्भाय मन्त्रेणानेन भामिनि ॥
कंकणं प्रक्षिपेत्तत्र ततः स्नायाद्यदृच्छया ॥7.1.29.२०॥
ततश्च तर्पयेद्देवान्मनुष्यांश्च पितामहान्॥
तिलमिश्रेण तोयेन सम्यक्छ्रद्धासमन्वितः॥२१॥
आजन्मशतसाहस्रं यत्पापं कुरुते नरः॥
सकृत्स्नात्वा व्यपोहेत सागरे लवणाम्भसि॥२२॥
वृषभस्तत्र दातव्यः प्रवृत्ते क्षुरकर्मणि॥
आत्मप्रकृतिदानं च पीतवस्त्रं तथैव च॥२३॥
अनेन विधिना तत्र सम्यक्स्नानं समाचरेत् ॥
स्पर्शयेद्वाडवं तेजश्चान्यथा दोषभाग्भवेत् ॥ २४ ॥
वरः शापश्च तस्यायं पुरा दत्तो यथा द्विजैः ॥। २५ ॥
॥ देव्युवाच ॥ ॥
कुत्र कुत्र महादेव जलस्नानाद्विशुध्यति ॥
किमर्थं सागरे दोषः प्राप्यते कौतुकं महत् ॥ २६ ॥
यत्र गंगादयः सर्वा नद्यो विश्रांतिमागताः ॥
यत्र विष्णुः स्वयं शेते यत्र लक्ष्मीः स्वयं स्थिता ॥ २७ ॥
किमर्थं वरशापं तु तस्य दत्तं द्विजैः पुरा ॥
सर्वं विस्तरतो ब्रूहि महान्मे संशयोऽत्र वै ॥ २८ ॥
॥ ईश्वर उवाच ॥ ॥
दीर्घसत्रं पुरा देवि प्रारब्धं सुरसत्तमैः ॥
प्रभासं तीर्थमासाद्य सम्यक्छ्रद्धा समन्वितैः ॥ २९ ॥
ततः सत्रावसाने तु दत्त्वा दानमनेकधा ॥
सर्वस्वं ब्राह्मणेन्द्राणां प्रभासक्षेत्रवासिनाम् ॥ 7.1.29.३० ॥
तावदन्ये द्विजास्तत्र दक्षिणार्थं समागताः ॥
देशीयास्तत्र वास्तव्याः शतशोऽथ सहस्रशः ॥ ३१ ॥
प्रार्थनाभङ्गभीताश्च ततो देवाः सवासवाः ॥
प्रणष्टास्तान्सुरान्दृष्ट्वा ब्राह्मणाश्चानुवव्रजुः ॥ ३२ ॥
खेचरत्वं पुरा देवि ह्यासीदग्रभुवां महत् ॥
तेन यांति द्रुतं सर्वे यत्र यत्र सुरालयाः ॥ ३३ ॥
एवं सर्वत्रगामित्वं तेषां वीक्ष्य दिवौकसः ॥
प्रविष्टाः सागरं भीता ऊचुर्वाक्यं च तं पुनः ॥ ३४ ॥
शरणं ते वयं प्राप्ता ब्राह्मणेभ्यो भयं गताः ॥
नास्ति वित्तं च दानार्थं तस्माद्रक्ष महोदधे ॥ ३५ ॥
एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः ॥
एकतो भयभीतस्य प्राणिनः प्राणरक्षणम्॥
विशेषतश्च देवानां रक्षणं बहुपुण्यदम्॥ ३६ ॥
॥ समुद्र उवाच ॥ ॥
ब्राह्मणेभ्यो न भीः कार्या कथंचित्सुरसत्तमाः ॥
अहं वो रक्षयिष्यामि प्रविशध्वं ममोदरे ॥ ३७ ॥
ततस्ते विबुधाः सर्वे तस्य वाक्येन हर्षिताः ॥
प्रविष्टा गह्वरां कुक्षिं तस्यैव भय वर्ज्जिताः ॥ ३८ ॥
समुद्रोऽपि महत्कृत्वा निजरूपं च भूरिशः ॥
जलजाञ्जीवसंघातान्धृत्वा तीरसमीपतः ॥ ३९ ॥
ततश्चक्र उपायं स ब्राह्मणानां निपातने ॥
मत्स्यानामामिषं पक्त्वा महान्नेन च गोपितम् ॥ 7.1.29.४० ॥
अथोवाच द्विजान्सर्वान्प्रणिपत्य कृतांजलिः ॥
प्रसादः क्रियतां विप्रा मुहूर्त्तं मम सांप्रतम्॥ ४१ ॥
आतिथ्यग्रहणादेव दीनस्य प्रणतस्य च ॥
युष्मदर्थं मया सम्यगेतत्पाकं समावृतम् ॥
क्रियतां भोजनं भूयो गंतव्यमनु नाकिनाम् ॥ ४२ ॥
अथ ते ब्राह्मणा मत्वा समुद्रं श्रद्धयान्वितम् ॥
बाढमित्येव तं प्रोच्य बुभुजुः स्वर्णभाजने ॥ ४३ ॥
न व्यजानंत तन्मांसं गुप्तं स्वादु क्षुधार्द्दिताः ॥ ४४ ॥
ततस्तृप्ताश्च ते विप्रा ब्राह्मणा विगतक्षुधः ॥
आशीर्वादं ददुः सर्वे ब्राह्मणाः शंसित व्रताः ॥ ४५ ॥
भोजनांतो ब्राह्मणानां प्राणांतः क्षत्रजन्मनाम् ॥
आशीविषाणां सर्पाणां कोपो ज्ञेयो मृतावधिः ॥
प्रेरयामास देवान्वै गम्यतामित्युवाच तान् ॥४६॥
ततो देवाः सगंधर्वा गच्छंतः शीघ्रगा वियत् ॥
गच्छतस्तांस्ततो दृष्ट्वा ब्राह्मणास्तत्र वंदिता ॥ ४७ ॥
दक्षिणार्थं समुत्पेतुः सुरानुद्दिश्य पृष्ठतः ॥ ४८ ॥
ततः प्रपतिता भूमौ द्विजास्ते सहसा पुनः ॥
अभक्ष्यभक्षणात्ते वै ब्राह्मणा मांसभक्षणात्॥ ४९ ॥
निष्कृतिं तां परिज्ञाय समुद्रस्य रुषान्विताः ॥
ददुः शापं महादेवि रौद्रं रौद्रवपुर्द्धराः ॥ 7.1.29.५० ॥
यस्मादभक्ष्यं मांसं वै ब्राह्मणानां परं स्मृतम् ॥
त्वयोपहृतमस्माकं सुगुप्तं भक्ष्यसंयुतम् ॥ ५१ ॥
एकतः सर्वमांसानि मत्स्यमांसं तथैकतः ॥
एकतः सर्वपापानि परदारास्तथैकतः ॥ ५२ ॥
एवं वयं विजानन्तो यदि मांसस्य दूषणम् ॥
तथापि वंचिताः सर्वे अपरीक्षितकारिणः ॥ ५३ ॥
यस्मात्पापमते क्रूरं त्वया वै वञ्चिता वयम् ॥
मांसस्य भक्षणात्तस्मादपेयस्त्वं भविष्यसि ॥ ५४ ॥
अस्पृश्यस्त्वं द्विजेंद्राणामन्येषां च नृणां भुवि ॥
तवोदकेन ये मर्त्त्याः करिष्यंति कुबुद्धयः ॥ ५५ ॥
स्नानं ते नरकं घोरं प्रयास्यंति न संशयः ॥
कृतघ्नानां च ये लोका ये लोकाः पापकर्मिणाम् ॥ ५६ ॥
तांस्तवोदक संस्पर्शाल्लप्स्यंते मानवा भुवि ॥ ५७ ॥
॥ ईश्वर उवाच ॥ ॥
एवं शप्तः समुद्रस्तैर्ब्राह्मणैर्वरवर्णिनि ॥
ततो वर्षसहस्रं तु ह्यस्पृश्यः संबभूव ह ॥ ५८ ॥
ततस्त्रासाकुलो भूत्वा सर्वांस्तानिदमब्रवीत् ॥
देवकार्यमिदं विप्रा मया कृतमबुद्धिना ॥ ५९ ॥
बुभूषता परं धर्मं शरणागतसंभवम् ॥
कामात्क्रोधाद्भयाल्लोभाद्यस्त्यजेच्छरणागतम् ॥ 7.1.29.६० ॥
सत्याद्वापि स विज्ञेयो महापातककारकः ॥
युष्मद्भीत्या समायाताः स्वर्गिणः शरणं मम ॥ ६१ ॥
ते मया रक्षिताः सम्यग्यथाशक्त्या ह्युपायतः ॥
शोषयिष्येऽहमात्मानं यस्माच्छप्तः प्रकोपतः ॥ ६२ ॥
भवद्भिर्नोत्सहे स्थातुं जनस्पर्शविनाकृतः ॥
एवमुक्त्वा ततो देवि समुद्रः सरितांपतिः ॥
आत्मानं शोषयामास दुःखेन महता स्थितः ॥६३॥
ततो देवगणाः सर्वे स्थलाकारं महार्णवम् ॥
शनैःशनैः प्रपश्यंतो भयेन महताऽन्विताः ॥ ६४ ॥
ऊचुर्गत्वा तु लोकेशं देवदेवं पितामहम् ॥
अस्मत्कृते द्विजैः शप्तः सागरो ब्राह्मणोत्तमैः ॥ ६५ ॥
स शोषयति चात्मानं दुःखेन महतान्वितः ॥
समुद्राज्जलमादाय प्रवर्षंति बलाहकाः ॥ ६६ ॥
ततः संजायते सस्यं सस्याद्यज्ञा भवंति च ॥
यज्ञैः संजायते तृप्तिः सर्वेषां त्रिदिवौकसाम् ॥ ६७ ॥
एवं तस्य विनाशेन नाशोऽस्माकं भविष्यति ॥
तस्मात्त्वं रक्ष तं गत्वा यथा शोषं न गच्छति ॥ ६८ ॥
यथा तुष्यंति विप्रास्ते तथा नीतिर्विधीयताम् ॥ ६९ ॥
देवानां वचनाद्ब्रह्मा गत्वा सागरसन्निधौ ॥
समुद्रार्थे ययाचे तान्ब्राह्मणान्क्षेत्रवासिनः ॥ 7.1.29.७० ॥
॥ ब्रह्मोवाच ॥ ॥
प्रसादः क्रियतामस्य सागरस्य द्विजोत्तमाः ॥
यथा पवित्रतां याति मद्वाक्यात्क्रियतां तथा ॥ ७१ ॥
प्रदास्यति स युष्मभ्यं रत्नानि विविधानि च ॥ ७२ ॥
यूयं भविष्यथात्यंतं भूमिदेवा इति क्षितौ ॥
नाम्ना मद्वचनान्नूनं सत्यमेतन्मयोदितम् ॥ ७३ ।
॥ ब्राह्मणा ऊचुः ॥ ॥
नान्यथा कर्तुमिच्छामस्तव वाक्यं जगत्पते ॥
न च मिथ्याऽऽत्मनो वाक्यं प्रमाणं चात्र वै भवान् ॥ ७४ ॥
तन्नो वाक्यात्सुरश्रेष्ठ हितं वा यदि वाहितम् ॥
परं स्याज्जगतां श्रेयः सर्वेषां च दिवौकसाम् ॥
तथा कुरु जगन्नाथ अस्माकं हितकारणम् ॥ ७६ ॥
अथोवाच नदीनाथं ब्रह्मा लोकपितामहः॥
मा शोषय त्वमात्मानं हितं वाक्यं शृणुष्व मे ॥ ७६ ॥
नान्यथा शक्यते कर्त्तुं द्विजानां वचनं हि तत् ॥
ब्राह्मणाः कुपिता नूनं भस्मीकुर्युः स्वतेजसा ॥ ७७ ॥
देवान्कुर्युरदेवांश्च तस्मात्तान्नैव कोपयेत् ॥
यस्मादेव तव स्पर्शस्त्रिधा मेध्यो भविष्यति ॥ ७८ ॥
पर्वकाले च संप्राप्ते नदीनां च समागमे ॥
सेतुबंधे तथा सिंधौ तीर्थेष्वन्येषु संयुतः ॥ ७९ ॥
इत्येवमादिसर्वेषु मध्येऽन्यत्र न कर्मणि ॥
यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ॥
तत्फलं तव तोयस्य स्पर्शादेव भविष्यति ॥7.1.29.८०॥
गयाश्राद्धे तु यत्पुण्यं गोग्रहे मरणेन च ॥
तत्फलं तव तोयस्य स्पर्शादेव भविष्यति ॥ ८१ ॥
अपेयस्त्वं तथा भावि स्वादमात्रेण केवलम् ॥
गंडूषमपि पीतं च तोयस्याशुभनाशनम् ॥ ८२ ॥
भविष्यति नृणां लोके तव सौख्यविवर्द्धनम् ॥
पितॄणां तव तोयेन यः करिष्यति तर्पणम् ॥
पूर्वोक्तेन विधानेन तस्य पुण्यफलं शृणु ॥ ९३ ॥
यावत्त्वं तिष्ठसे लोके यावच्चद्रार्कतारकाः ॥
तवोदकामृतैस्तृप्तास्तावत्स्थास्यंति पूर्वजाः ॥ ८४ ॥
माघे मासि च यः स्नायान्नैरंतर्येण भावितः ॥
पौंडरीकफलं तस्य दिवसेदिवसे भवेत् ॥ ८९ ॥
यात्रायामथवान्यत्र पर्वकाले शशिग्रहे ॥
अत्र स्नास्यति यः सम्यक्सागरे लवणांभसि ॥
अश्वमेधसहस्रस्य फलं प्राप्स्यति मानवः ॥ ८६ ॥
श्रीसोमेशसमुद्रस्य अंतरे ये मृता नराः ॥
पापिनोऽपि गमिष्यंति स्वर्गं निर्धूतकल्मषाः ॥ ८७ ॥
एवं भविष्यति सदा तव मद्वचनाद्विभो ॥
प्रयच्छस्व द्विजेंद्राणां रत्नानि विविधानि च ॥ ८८ ॥
तेन तुष्टा वरं भूयः प्रदास्यंति तवेप्सितम् ॥ ८९ ॥
॥ ईश्वर उवाच ॥ ॥
पितामहवचः श्रुत्वा बाढमित्येव सागरः ॥
ब्राह्मणेभ्यः सुरत्नानि ददौ श्रद्धा समन्वितः ॥7.1.29.९०॥
ब्राह्मणैर्ब्रह्मणो वाक्यमशेषं समनुष्ठितम् ॥
क्षुरकर्म तथा कृत्वा स्नानं सर्वेऽपि चक्रिरे ॥ ९१ ॥
एवं पवित्रतां प्राप्तस्तीर्थत्वं लव णोदधिः ॥
तस्य मध्ये महादेवि लिंगानां पंचकोटयः ॥ ९२ ॥
अस्मिन्मन्वंतरे देवि अदृश्याः सागरे कृताः ॥
अग्निकुण्डं च तत्रैव तथान्यत्पद्मकं सरः ॥९३ ॥
मध्ये तु प्रावृतं सर्वमस्मिन्मन्वंतरे प्रिये ॥
चक्रमैनाकयोर्मध्ये दिशि दक्षिणमुच्यते ॥ ९४ ॥
शातकुम्भमये कुम्भे धनुषायुतविस्तृते ॥ ॥
तत्र कुंभस्य मध्यस्थो वडवानलसंज्ञितः ॥ ९५ ॥
सूचीवक्त्रो महाकायः स जलं पिबते सदा ॥
एतदंतरमासाद्य अग्नितीर्थं प्रचक्षते ॥ ९६ ॥
तस्य मध्ये महासारं वाडवं यत्र वै मुखम् ॥
श्रीसोमेशाद्दक्षिणतो धन्वंतरशतावधि ॥
उत्तरान्मानसात्पूर्वं यावदेव कृतस्मरम् ॥ ९७ ॥
एतद्गोप्यं वरारोहे न देयं यस्य कस्यचित् ॥
ब्रह्मघ्नोपि विशुध्येत श्रुत्वैतन्नात्र संशयः ॥ ९८ ॥
एवं शापो वरो दत्तः सागरस्य यथा द्विजैः ॥
पूर्वं रुष्टैस्ततस्तुष्टैस्तत्सर्वं कथितं मया ॥९९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये समुदस्यापेयताकारण वर्णनंनामैकोनत्रिंशोऽध्यायः ॥२९॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 30
॥ देव्युवाच ॥ ॥
स्नात्वा तत्राग्नितीर्थेषु कं देवं पूर्वमर्च्चयेत् ॥
निर्विघ्ना जायते येन यात्रा नृणां सुरेश्वर ॥
तन्मे यात्राविधानं तु यथावद्वक्तुमर्हसि ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
एवं स्नात्वा विधानेन दत्त्वार्घ्यं च महोदधौ ॥
संपूज्य गंधपुष्पैश्च वस्त्रैः पुष्पावलेपनैः ॥ २ ॥
हिरण्मयं यथाशक्त्या प्रक्षिपेत्तत्र कंकणम् ॥
ततः पितॄंस्तर्पयित्वा गच्छेद्देवं कपर्दिनम् ॥ ३ ॥
पुष्पैर्धूपैस्तथा गन्धैर्वस्त्रैः संपूज्य भक्तितः ॥
गणानां त्वेति मन्त्रेण अर्घ्यं चास्मै निवेदयेत् ॥ ४ ॥
शूद्राणामथ देवेशि मंत्रश्चाष्टाक्षरः स्मृतः ॥
तत्र सोमेश्वरं गच्छेद्देवं पापहरं परम् ॥ ५ ॥
स्नापयित्वा विधानेन जपेच्च शतरुद्रियम् ॥
तथा रुद्रान्सपञ्चांगास्तथान्या रुद्रसंहिताः ॥ ६ ॥
स्नापयेत्पयसा चैव दध्ना घृतयुतेन च ॥
मधुनेक्षुरसेनैव कुंकुमेन विलेपयेत् ॥ ७ ॥
कर्पूरोशीरमिश्रेण मृगनाभियुतेन च ॥
चन्दनेन सुगन्धेन पूज्यं संपूजयेत्ततः ॥ ८ ॥
धूपैर्बहुविधैर्देवं धूपयित्वा यथाविधि ॥
वस्त्रैः संवेष्टयेत्पश्चाद्दद्यान्नैवेद्यमुत्तमम् ॥ ९ ॥
आरार्तिकं ततः कृत्वा नृत्यं कुर्याद्यथेच्छया ।।
अष्टांगं प्रणिपत्यैवं गीतवाद्यादिकं ततः ॥ 7.1.30.१० ॥
धर्मश्रवणसंयुक्तं कार्यं प्रेक्षणकं विभोः ॥
ततो दद्याद्द्विजातिभ्यस्तपस्विभ्यश्च शक्तितः ॥ ११ ॥
दीनांधकृपणेभ्यश्च दानं कार्पटिकेषु च ॥
वृषभस्तत्र दातव्यः प्रवृत्ते क्रूरकर्मणि ॥
उपवासं ततः कुर्यात्तस्मिन्नहनि भामिनि ॥ १२ ॥
यस्मिन्नहनि पश्येत देवं सोमेश्वरं नरः ॥
सा तिथिर्वर्षमेकं तु उपोष्या भक्तितत्परैः ॥ १३ ॥
एवं कृत्वा नरो भक्त्या लभते जन्मनः फलम् ॥
तथा च सर्वतीर्थानां सकलं लभते फलम् ॥ ॥१४॥
उद्धरेत्पितृवर्गं च मातृवर्गं च भामिनि ॥
बाल्ये वयसि यत्पापं वार्धक्ये यौवनेऽपि वा ॥ १५ ॥
क्षालयेच्चैव तत्सर्वं दृष्ट्वा सोमेश्वरं नरः ॥
न दुःखितो न दारिद्रो दुर्भगो वा न जायते ॥ १६ ॥
सप्तजन्मान्तरेणैव दृष्टे सोमेश्वरे विभौ ॥
धनधान्यसमायुक्ते स्फीते सञ्जायते कुले ॥ १७ ॥
भक्तिर्भवति भूयोऽपि सोमनाथं प्रति प्रभुम् ॥
क्षीरेण स्नपनं पूर्वं ततो धारासमुद्भवम् ॥ १८ ॥
प्रथमे प्रथमे यामे महास्ना नमतः परम् ॥
मध्याह्ने देवदेवस्य ये प्रपश्यन्ति मानवाः ॥
संध्यामारार्तिकं भूयो न जायन्ते च मानुषाः ॥ १९ ॥
मत्वा कलियुगं रौद्रं बहुपापं वरानने ॥
नान्येन तरते दुर्गां कर्मणा दुर्गतिं नरः ॥ 7.1.30.२० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये सोमेश्वरमाहात्म्ये सोमेश्वरपूजामाहात्म्यवर्णनंनाम त्रिंशोध्यायः ॥ ३० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 31
॥ देव्युवाच ॥ ॥
सकारपंचकं प्रोक्तं यत्त्वया मम शंकर ॥
कथं तदत्र संवृत्तमेतन्मे संशयं महत् ॥ १ ॥
कथं वात्र समायाता कुतश्चापि सरस्वती ॥
कथं स वाडवो जातः कस्मिन्काले कथं ह्यभूत् ॥
तत्सर्वं विस्तरेणेदं यथावद्वक्तुमर्हसि ॥ २ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि यथा जाता तस्मिन्क्षेत्रे सरस्वती ॥
यतश्चैव समुद्भूता सर्वपापप्रणाशिनी ॥ ३ ॥
हिरण्या वज्रिणी न्यंकुः कपिला च सरस्वती ॥ ४ ॥
ऋषिभिः पञ्चभिश्चात्र समाहूता यथा पुरा ॥
वाडवेनाग्निना युक्ता यथा जाता शृणुष्व तत् ॥ ५ ॥
पुरा देवासुरे युद्धे निवृत्ते सोमकारणात् ॥
पितामहस्य वचनात्तारां चन्द्रः समर्पयत् ॥ ६ ॥
ततो याताः सुराः स्वर्गं पश्यन्तोऽधोमुखा महीम् ॥
ददृशुस्ते ततो देवा भूम्यां स्वर्गमिवापरम् ॥ ७ ॥
आश्रमं मुनिमुख्यस्य दधीचेर्लोक विश्रुतम् ॥
सर्वर्त्तुकुसुमोपेतं पादपैरुपशोभितम् ॥
केतकीकुटजोद्भूत बकुलामोदमोदितम् ॥ ८ ॥
एवंविधं समासाद्य तदाश्रमपदं गुरु ॥
कौतुकाद्द्रष्टुमारब्धाः सर्वे देवा मनोरमम् ॥ ९ ॥
ते च तीर्थाश्रमे तस्मिन्यानान्युत्सृज्य संयताः ॥
प्रवृत्तास्तमृषिं द्रष्टुं प्राकृताः पुरुषा यथा ॥ 7.1.31.१० ॥
दृष्टवंतः सुराः सर्वे पितामहमिवापरम् ॥
ततस्त ऋषिणा सर्वे पाद्यार्घ्यादिभिरर्च्चिताः ॥ ११ ॥
यथोक्तमासनं भेजुः सर्वे देवाः सवासवाः ॥
तेषां मध्ये समुत्थाय शक्रः प्रोवाच तं मुनिम् ॥ १२ ॥
आयुधानि विमुच्याग्रे भवान्गृह्णात्विमानि हि ॥
तन्निशम्य वचः प्राह दधीचिः पाकशासनम् ॥ १३ ॥
मुक्तास्त्राणि ममाभ्याशे यूयं यात त्रिविष्टपम् ॥
तं शक्रः प्राह चैतानि कार्यकाले ह्युपस्थिते ॥ १४ ॥
देयानि ते पुनः शत्रूनभिजेष्यामहे रणे ॥
पुनःपुनस्ततः शक्रः संदिश्य मुनिसत्तमम् ॥ १५ ॥
अस्माकमेव देयानि न चान्यस्य त्वया मुने॥
बाढमित्युदिते शक्रमुक्तवान्मुनिसत्तमः॥१६॥
दास्यामि ते समस्तानि युद्धकाले विशेषतः॥
नास्य मिथ्या भवेद्वाक्यमिति मत्वा शचीपतिः॥
मुक्त्वास्त्राणि तदभ्याशे पुनः स्वर्गं गतस्तदा॥१७॥
अस्त्रार्पणं यः प्रयतः प्रयत्नाच्छृणोति राजा भुवि भावितातात्मा ॥
सोऽभ्येति युद्धे विजयं परं हि सुतांश्च धर्मार्थयशोभिरामाः ॥ १८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभा सखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वडवानलोत्पत्तिवृत्तान्ते दधीचिमहर्षये सर्वदेवकृतस्वस्वशस्त्रसमर्पणवर्णनंनामैकत्रिंशोध्यायः॥ ३१ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 32
॥ ईश्वर उवाच ॥ ॥
ततस्तेषु प्रयातेषु देवदेवेष्वसौ मुनिः ॥
शतवर्षाणि तत्रस्थस्तपसे प्रस्थितो द्विजः ॥ १ ॥
आश्रमादुत्तरात्तस्माद्दिव्यां दिशमथोत्तराम्॥
सुभद्रापि महाभागा तस्य या परिचारिका ॥ २ ॥
अस्त्रादानेऽसमर्था सा ऋषिं प्रोवाच भामिनी ॥
नाहं नेतुं समर्थास्मि शस्त्राण्यालभ्य पाणिना ॥३॥
जलेन सह तद्वीर्यं पीतवान्स ऋषिस्ततः ॥
आत्मसंस्थानि सर्वाणि दिव्यान्यस्त्राण्यसौ मुनिः ॥
कारयित्वोत्तरामाशां जगाम तपसां निधिः ॥ ४ ॥
गंगाधरं शुक्लतनुं सर्प्पैराकीर्णविग्रहम् ॥
शिववत्सुखदं पुंसामपश्यत्स हिमाचलम् ॥ ५ ॥
तथाश्रमं ददर्शोच्चैरश्वत्थैः परिपालितम् ॥
चंद्रभागोपकंठस्थं समित्पुष्पकुशान्वितम् ॥ ६ ॥
स तस्मिन्मुनिशादूलो ह्यवसन्मुनिभिः सह ॥
सुभद्रया च संयुक्तश्चंद्रश्चंद्रिकया यथा ॥ ७ ॥
एकदा वसतस्तस्य सुभद्रा परिचारिका ॥
स्नानार्थं यातुमारब्धा चतुर्थेऽह्नि रजस्वला ॥ ८ ॥
व्रजन्त्या च तया दृष्टं कौपीनाच्छादनं पुनः ॥
परित्यक्तं विदित्वैवं दैवयोगाद्गृहाण सा ॥ ९ ॥
परिधाय पुनः सा तु कौपीनं रेतसायुतम् ॥
एकांते स्नातुमारब्धा जलाभ्याशे यथासुखम् ॥ 7.1.32.१० ॥
ततो देवी यथाकाममकस्माद्वीक्षते हि सा ॥
स्वोदरस्थं समुत्पन्नं गर्भं गुरुभरालसा ॥ ११ ॥
शोचयित्वात्मनात्मानमगर्भाहमिहागता ॥
तत्केन मन्दभागिन्या ममैवं दूषणं कृतम्॥ १२ ॥
लज्जाभिभूता सा तत्र प्रविश्याश्वत्थवाटिकाम् ॥
तत्र तं सुषुवे गर्भमविज्ञाय कुतो ह्ययम् ॥ १३ ॥
पुनरेव हि सा स्नात्वा अविज्ञायात्मदुष्कृतम्॥
शापं दातुं समारब्धा गर्भकर्त्तरि दुःसहम् ॥ १४ ॥
ज्ञानाद्वा यदि वाज्ञानाद्येनेयं दूषणा कृता ॥
सोऽद्यैव पंचतां यातु यद्यहं स्यां पतिव्रता ॥ १५ ॥
यद्यहं मनसा वापि कामये नापरं पतिम् ॥
एतेन सत्यवाक्येन यातु जारः स्वयं क्षयम् ॥ ॥ १६ ॥
एवं शप्त्वा तु तं देवी ह्यज्ञात्वा गर्भकारिणम् ॥
पुनर्यातुं समारब्धा तद्दधीचिनिकेतनम् ॥ १७ ॥
तत्र चार्कप्रतीकाशं गर्भमुत्सृज्य सा तदा ॥
प्राप्ता तपोवनं रम्यं यत्रासौ मुनिपुंगवः ॥ १८ ॥
अत्रांतरे सर्वदेवा लोकपाला महाबलाः ॥
अस्त्राणां कारणार्थाय मुनेराश्रममागताः ॥ ॥ १९ ॥
उवाच तं मुनिं शक्रो न्यासो यस्तव सुव्रत ॥
दत्तोऽस्माभिस्तु शस्त्राणां तानि क्षिप्रं प्रयच्छ नः ॥ 7.1.32.२० ॥
ऋषिराह पुरा यत्र स्थापितानि ममाश्रमे ॥
तत्रैव तानि तिष्ठंति न चानीतानि वासव ॥ २१ ॥
यत्तु तेषां बलं वीर्यं संग्रामे शत्रुसूदन ॥
तन्मया पीतमखिलं सह तोयेन वासव ॥ २२॥
एवं स्थिते मयाऽस्त्राणि यदि देयानि तेऽनघ ॥
ततोस्थीनि प्रयच्छामि तदाकाराणि सुव्रत ॥ २३ ॥
एवमुक्तः सहस्राक्षस्तमाह मुनिसत्तमम् ॥
नान्येषु तद्बलं रौद्रं यत्तु तेषु व्यवस्थितम् ॥ २४ ॥
यस्मात्तेषु विनिक्षिप्य सहस्रांशं स्वतेजसाम् ॥
अस्माकं दत्तवान्रुद्रो रक्षार्थं जगतां शिवः ॥ २५ ॥
तद्वयं तानि सर्वाणि गृहीत्वा च व्यवस्थिताः ॥
लोकस्य रक्षणार्थाय संज्ञेयं तेन लोकपाः ॥ २६ ॥
अमीषामपि शस्त्राणा मुत्तमं वज्रमिष्यते ॥
तद्धारणाद्यतोऽस्माकं देवराजत्वमिष्यते ॥ २७ ॥
वज्रादप्युत्तमं चक्रं यत्तद्विष्णुपरिग्रहे ॥
दैत्यदानवसंघानां तदायत्तो जयोऽभवत् ॥ २८ ॥
तस्मात्तानि यथास्माभिः प्राप्यते मुनिसत्तम ॥
तथा कुरुष्व संचिन्त्य कार्यं कार्यविदां वर ॥ २९ ॥
एवमुक्ते मुनिः प्राह तं शक्रं पुरतः स्थितम् ॥
तत्प्राप्त्यर्थमुपायं तु कथयामि तवापरम् ॥ 7.1.32.३० ॥
यान्येतानि ममास्थीनि यूयं तैस्तानि सर्वशः ॥
निर्मापयध्वं शस्त्राणि तदाकाराणि सर्वशः ॥ ३१ ॥
एतानि तत्समुत्थानि तेषामप्यधिकं बलम् ॥
साधयिष्यति भवतां संग्रामे यन्ममेहितम् ॥ ॥ ३२ ॥
तमुवाच ततः शक्रो दधीचिं तपसोनिधिम् ॥
प्राणहारं प्रकर्तुं ते नाहं शक्तो यमिच्छसि ॥ ३३ ॥
न चामृतस्य तेऽस्थीनि ग्रहीतुं शक्तिरस्ति नः ॥
तस्मात्सर्वं समालोच्य यत्कर्तव्यं तदुच्यताम् ॥ ३४ ॥
एवमुक्तो मुनिः प्राह एतदेव कलेवरम् ॥
त्यजामि स्वयमेवाहं देव कार्यार्थसिद्धये ॥ ३५ ॥
अध्रुवं सर्वदुःखानामाश्रयं सुजुगुप्सितम् ॥
यदा ह्येतत्तदा युक्तः परित्यागोऽस्य सांप्रतम् ॥ ३६ ॥
अस्य त्यागेन मे दुःखं संसारोत्थं न जायते ॥
यस्माज्जन्मांतरे जातो मृतोपि हि भवेत्पुनः ॥ ३७ ॥
भार्या भगिनी दुहिता स्वकर्मफलयोजनात् ॥
जाता तेनैव संसारे रतिकार्ये जुगुप्सिता ॥ ३८ ॥
यस्माच्च स्वयमेवैतद्वपुस्त्यजति वै ध्रुवम् ॥
तस्मादस्य परित्यागो वरः कार्योऽचिरात्स्वयम् ॥ ३९ ॥।
एवं पुरंदरस्याग्रे संकीर्त्य स महामुनिः ॥
दधीचिः प्राणसंहारं कृतवान्सत्वरं तदा ॥ 7.1.32.४० ॥
गतासुं तं विदित्वैवं विबुधास्तत्कलेवरम्॥ मां
सशोणितनिर्मुक्तं कथं कार्यं व्यचिंतयन् ॥ ४१ ॥
ततस्तदस्थिशुद्ध्यर्थमुवाचेदं सुरेश्वरः ॥
गौरीणां कर्कशा जिह्वा ता एतदुत्खिदंत्विति ॥ ४२ ॥
ततस्तैर्विबुधैर्नंदा यदा लोकेषु संस्थिता॥
ध्याता तदोपयाता सा सखीभिः परिवारिता॥४३॥
नंदा सुभद्रा सुरभिः सुशीला सुमनास्तथा॥
इति गोमातरः पंच गोलोकाच्च समागताः॥४४॥
ऊचुस्तान्विबुधान्सर्वानस्माभिर्यत्प्रयोजनम्॥
कर्त्तव्यं तत्करिष्यामः कथ्यतां सुविचारितम्॥ ४५॥
देवा ऊचुः॥
यदेतदृषिणा त्यक्तं स्वयमेव कलेवरम्॥
एतन्मांसादिनिर्मुक्तं क्रियतामस्थिपंजरम्॥४६॥
तत्कृत्वा गर्हितं कर्म देवादेशात्सुदारुणम् ॥
पुनः पितामहं द्रष्टुं गतास्ताः सुरसत्तमाः ॥ ४७ ॥
ततस्तु दारुणं कर्म यच्च ताभिरनुष्ठितम् ॥
पितामहस्य तत्सर्वं समाचख्युर्यथातथम् ॥ ४८ ॥
तच्छ्रुत्वा विबुधान्सर्वान्समाहूय पितामहः ॥
सर्वगात्रेष्वस्पृशत सुरभीः शुद्धिकाम्यया ॥ ४९ ॥
तास्तु तैर्विबुधैः स्पृष्टाः सुपूताः समवस्थिताः ॥
मुखमेकं परं तासां न स्पृष्टमशुचि स्मृतम् ॥ 7.1.32.५० ॥
अपवित्रं भवेत्तासां मुखमेकं जुगुप्सितम् ॥
शेषं शरीरं सर्वासां विशिष्टं तु सुरैः कृतम् ॥ ५१ ॥
सरस्वत्या तु ताः प्रोक्ता भवंत्यो ब्रह्मघातिकाः ॥
अन्यथा कारणात्कस्मान्न स्पृष्टममरैर्मुखम् ॥ ५२ ॥
ततस्ताभिस्तु सा प्रोक्ता देवी तत्र सरस्वती ॥
नैतत्ते वचनं युक्तं वक्तुमेवंविधं मुखम् ॥ ५३ ॥
अस्माकमेव हृदयमनेन वचसा त्वया ॥
निर्दग्धं येन तस्मात्त्वमचिराद्दाहमाप्स्यसि ॥ ५४ ॥
शापं दत्त्वा ततस्तस्याः सरस्वत्यास्तु तास्तदा ॥
गोलोकं गतवत्यस्तु सुरभ्यः सुरपूजिताः ॥ ५५ ॥
आहूय विश्वकर्माणं तक्षाणं सुरसत्तमाः ॥
अस्माकं कुरु शस्त्राणि तमाहुर्युद्धकारणात् ॥ ५६ ॥
एतद्वचनमाकर्ण्य तानि पूतैर्नवैर्दृढैः ॥।
अस्त्राणि कारयामास दर्धोचेरस्थिसंचयैः ॥ ५७ ॥
प्रमाणाकारयुक्तानि देवानां तानि संयुगे ॥
अजेयानि यथा चासंस्तथा चासौ विनिर्ममे ॥। ॥ ५८ ॥
वज्रमिंद्रस्य शक्तिं च वह्नेर्दंडं यमस्य च ॥
खड्गं तु निऋतेः पाशं सम्यक्चक्रे प्रचेतसः ॥५९॥
वायोर्ध्वजं कुबेरस्य गदां गुर्वीं च निर्ममे ॥
विश्वकर्मा तथा शूलमीशानस्य च निर्ममे ॥ 7.1.32.६० ॥
गृहीत्वैतानि वै देवाः शस्त्राण्यस्त्रबलं तदा ॥
विजेतुं च ततो दैत्यान्दानवांश्च गतास्तदा ॥ ॥। ६१ ॥
अत्रांतरे सुभद्रापि दधीचेरौर्ध्वदैहिकम् ॥
कृत्वा तैर्मुनिभिः सार्धमन्वेष्टुं सा गता सुतम् ॥ ६२ ॥
अश्वत्थवाटिकायां च तमपश्य न्मनोरमम् ॥
दृष्ट्वा रोदिति जीवंतं मुक्त्वा बाष्पमथाचिरम् ॥ ६३ ॥
अंबेत्याभाष्य तेनोक्ता मा रोदीस्त्वं यशस्विनि ॥
सर्वं पुराकृतस्यैतत्फलं तव ममापि हि ॥ ६४ ॥
यद्यथा यत्र येनेह कर्म जन्मांतरार्जितम् ॥
तदवश्यं हि भोक्तव्यं त्यज शोकमतोऽखिलम् ॥ ६५ ॥
मत्परित्यागलज्जा च न ते कार्येह सुन्दरि ॥
फलं पुराकृतस्यैतद्भोक्तव्यं तन्मयापि हि ॥ ६६ ॥
मातर्ममोपरि कुरु पुत्रस्नेहं यशस्विनि ॥
बालस्य हि परित्यागा न्माता दोषेण लिप्यते ॥ ५७ ॥
बालेनाभिहिता सा तु ध्यात्वा देवं जनार्द्दनम् ॥
कृतांजलिरुवाचेदं कथ्यतां मे सुनिश्चितम् ॥ ६८ ॥
न विजानाम्यहं तथ्यं कस्यायं वीर्यसंभवः ॥
तस्मात्कथय देवेश मम ते निश्चितं वचः ॥ ६९ ॥
आहोक्ते मातरं कृष्णः सुभद्रां वै जनार्द्दनः ॥
दधीचेस्तनयश्चायं भर्तुस्ते क्षेत्रसंभवः ॥ 7.1.32.७० ॥
तस्योत्पत्तिं विदित्वैवं सुभद्रा हृष्टमानसा ॥
बालमंके समारोप्य अरोदीदार्तया गिरा ॥ ७१ ॥
आह बालक उत्पन्नः शोकस्य वद कारणम्॥
अथोक्तः स्तन्यरहितं कथं ते जीवितं धृतम् ॥ ७२ ॥
यस्माच्चतुर्विधा सृष्टिर्जीवानां ब्रह्मणा कृता ॥
जरायुजांडजोद्भिज्ज स्वेदजाश्च तथा स्मृताः ॥ ७३ ॥
नरस्त्रीनपुंसकाख्याश्च जातिभेदा जरायुजाः ॥
चतुष्पदाश्च पशवो ग्राम्याश्चारण्यजास्तथा ॥ ७४ ॥
अण्डजाः पक्षिणः सर्वे मीनाः कूर्मसरीसृपाः ॥
स्वेदजा मत्कुणा यूका दंशाश्च मशकास्तथा ॥ ७५ ॥
उद्भिज्जाः स्थावराः प्रोक्तास्तृणगुल्मलता दयः ॥
अन्येऽप्येवं यथायोगमंतर्भूताः सहस्रशः ॥ ७६ ॥
अण्डजाः पक्षपातेन जीवंति शिशवो भुवि ॥
ऊष्मणा स्वेदजाः सर्वे उद्भिज्जाः सलिलेन हि ॥ ७७ ॥
समुदायेन भूतानां पञ्चानामुद्भिजं भुवि ॥
जरायुजाश्च स्तन्येन विना जीवितुमक्षमाः ॥ ७८ ॥
विना तेन कथं पुत्र त्वया प्राणा विधारिताः ॥
तां तथा जननीं प्राह स च बाष्पाविलेक्षणाम्॥७९॥
अश्वत्थफलनिर्यासपानात्प्राणा मया धृताः ॥
गौणं तदा तया तस्य पिप्पलादेति कल्पितम् ॥7.1.32.८०।।
नाम तेन जगत्यस्मिन्नित्यं ख्यातं महात्मनः ॥
तत्रस्थैर्मुनिभिस्तस्य कृताः सर्वैर्यथाक्रमम् ॥८१॥
संस्काराः पिप्पलादस्य वेदोक्ता वेद पारगैः॥
षडंगोपांगसंयुक्ता वेदास्तेन समुद्धृताः ॥
तदाश्रमनिवासिभ्यो मुनिभ्यश्च सुपुष्कलाः ॥८२॥
पुनस्तत्र स्थितश्चासौ दृष्ट्वा मुनिकुमारकान्॥
स्वपित्रंकगतान्प्राह जननीं तां शुचिस्मिताम् ॥८३॥
पिता मे कुत्र भद्रं ते सुभद्रे कथय स्फुटम् ॥
तदेकांतस्थितो येन बालक्रीडां करोम्यहम् ॥ ॥ ८४ ॥
एवं सा जननी तेन यदा पृष्टा तपस्विनी ॥
तदा रोदितुमारब्धा नोत्तरं किञ्चिदब्रवीत् ॥ ८५ ॥
रुदन्तीं तां समालोक्य कुद्धोऽसौ मुनिदारकः ॥
किमसौ कुत्सितः कश्चिद्येन नाख्यासि तं मम ॥ ८६ ॥
इत्युक्ते सुतमाहैवं विबुधैस्ते पिता हतः ॥
कोपं त्यजस्व भद्रं ते दधीचिः कथितो मया ॥८७॥
कोपवह्निप्रदीप्तात्मा प्राह तां जननीं पुनः ॥
किमपकृतं सुराणां मत्पित्रा कथयस्व तत् ॥८८॥
॥ सुभद्रोवाच ॥ ॥
शस्त्राणां कारणान्मूढैर्हतोऽसौ मुनिपुंगवः ॥
प्रयच्छन्नपि चान्यानि तदाकाराणि सुव्रत ॥ ८९ ॥
श्रुत्वैतद्वचनं सोऽपि मुनिरुग्रतपास्तदा ॥
पिता मे यो हतो देवैस्तेषां कृत्यां महाबलाम् ॥ 7.1.32.९० ॥
उत्थाप्य पातयिष्यामि मूर्द्ध्नि प्राणापहारिकाम् ॥
पितामहमहं मुक्त्वा नैव हन्यो भवेद्यदि ॥ ९१ ॥
अन्यान्प्रमथयिष्यामि कृत्याशस्त्रेण संगतान् ॥
शरणं यदि यास्यंति गीर्वाणा मद्भयातुराः ॥
तथापि पातयिष्यामि तेनैव सह संगतान् ॥ ९२ ॥
मत्वैवं तमृषिं कुद्धं सर्वे ते सुरसत्तमाः ॥
ब्रह्माणं शरणं प्राप्ता भयेन महताऽर्द्दिताः ॥ ९३ ॥
तांस्तस्य शरणं प्राप्ताञ्ज्ञात्वा देवः कृपान्वितः ॥।
तत्रैव गत्वा त्वरितं प्राह देवाञ्जनार्द्दनः ॥ ९४ ॥
भवतां रक्षणोपायश्चिंतितोऽत्र मयाऽधुना ॥
तेन तां मोहयिष्यामि कृत्यां हंतुमुपस्थिताम् ॥९५॥।
अत्रांतरे पिप्पलादः पितुर्वैरमनुस्मरन् ॥
हंतुं सुरान्व्यवसितः प्रविवेश हिमाचलम् ॥ ९६ ॥
श्रुत्वा तदप्रियं वाक्यं मातुर्वक्त्राद्विनिर्गतम् ॥
पिप्पलादः पुनर्यातस्तस्मात्स्थानाद्धिमाचलम् ॥ ९७ ॥
स्वर्गसोपानवत्पुंसां स्थलीभूतमिवांबरम् ॥
शेषस्याभोगसंकाशं प्राप्तोऽसौ तुहिनाचलम् ॥ ९८ ॥
प्रतिज्ञां कुरुते यत्र स्थितः स्थाणुरिवाचलः ॥
हंतारो ये मम पितुस्तान्हनिष्यामि चारणात् ॥ ९९ ॥
कृत्याशस्त्रेण सकलानमरत्वेन गर्वितान् ॥
तस्मिन्स्थितः प्रकुपितः शिवायतनसंसदि ॥ 7.1.32.१०० ॥
अत्रस्थः साधयिष्यामि तां कृत्यां चिंतयन्हृदि ॥
कृत्यां वा साधयिष्यामि यास्ये वा यमसादनम् ॥ १०१ ॥
निर्द्वन्द्वो निर्भयो भूत्वा निराहारो ह्यहर्निशम् ॥
सव्येन पाणिना सव्यं निर्मथ्योरुमहं पुनः ॥ १०२ ॥
तस्मादुत्पादयिष्यामि महाकृत्यामिति स्थितः ॥
संवत्सरे तस्य गते ऊरुगात्राद्विनिःसृता ॥ १०३ ॥
वडवा गुरुभारार्त्ता वाडवेनान्विता तदा ॥
ऊरो र्निर्गत्य सा तस्मात्सुषुवे सुमहाबलम् ॥१०४॥
वडवा स्वोदराद्गर्भं ज्वालामालासमाकुलम् ॥
विमुच्य तमृषेस्तस्य पुरो गर्भं समुज्जवलम् ॥१०५॥
पुनर्गता क्वापि तदा न ज्ञाता मुनिना हि सा ॥
वडवानलो नरस्तस्याः स गर्भो निःसृतस्तदा ॥१०६॥
कल्पांत इव भूतानां कालाग्निरिव वर्चसा ॥
विद्युत्पुञ्जप्रतीकाशं तं दृष्ट्वा पुरतः स्थितम् ॥ १०७ ॥
स चापि विस्मितोऽत्यंतं किमेतदिति चिंतयन् ॥
ततस्तेन पुरःस्थेन वाडवेन च वह्निना ॥ ॥ १०८ ॥
ऋषिः प्रोक्तः पिप्पलादः साधितोऽहं त्वया बलात् ॥
इदानीं ते मया कार्यं कर्त्तव्यं यत्समाहितम् ॥ १०९ ॥
करिष्यामीह तत्सर्वम साध्यमपि साध्यताम् ॥
स्वोरुं निर्मथ्य जनितो येन संवत्सरादहम् ॥
तातोरुणा विहीनोऽपि करिष्ये त्वत्समीहितम् ॥ 7.1.32.११० ॥
तच्छ्रुत्वा वचनं तस्य मुनिः कोपसमन्वितः ॥
प्रोवाच विबुधान्सर्वान्मद्दत्तान्भक्षय स्वयम् ॥ १११ ॥
पितुर्वधात्क्रोधकृतावधानं मत्वा सुरा रौद्रमतीव घोरम् ॥
समेत्य सर्वे पुरुषं पुराणं समाश्रितास्ते सहसा सभार्याः ॥ ११२ ॥
स तान्समाश्वास्य सुरान्वरिष्ठं कोपानलं तत्र ययौ प्रहृष्टः ॥
दृष्ट्वा च तं वै रविपुंजकाशमुवाच विष्णुर्वचनं वरिष्ठम् ॥ ११३ ॥
अहं सुरेशान तवैव पार्श्वं विसर्जितो जातभयैश्च देवैः ॥
मत्तः शृणु त्वं वचनं हि पथ्यं यच्चारणानां भवतोऽपि पथ्यम् ॥ ११४ ॥
ज्ञातं बलं ते विबुधैरचिंत्यं विनाशनं चात्मवतां ह्यवश्यम् ॥
एवं स्थिते कुरु वाक्यं सुराणामेकैकमद्धि प्रतिवासरं त्वम् ॥ ११५ ॥
मुख्यानां कोटयस्त्रिंशत्सुराणां बलशालिनाम् ॥
कथं तु भक्षणं तेषां युगपत्त्वं करिष्यसि ॥ ११६ ॥
तस्मादेकैकशस्तेषां कर्त्तव्यं भक्षणं त्वया ॥
नैकेन भवता शक्या विधातुं भक्षणक्रिया ॥ ११७ ॥
तथा च पांडुरोगित्वं हुतभुक्प्राप्तवान्पुरा ॥
अतिभक्षणं न युक्तं तस्मात्कुरु मतिं मम ॥ ११८ ॥
तथा च युगपत्तेषु भक्षितेषु पुनस्त्वया ॥
प्रत्यहं भक्षणोपायश्चिंतितव्यो बुभुक्षया ॥ ११९ ॥
सफलैव प्रतिज्ञा ते नानृतं मुनिभाषितम् ॥
एवं कृतेऽपि ते सर्वं भविष्यति समीहितम् ॥7.1.32.१२॥॥
तत्करिष्यायहं सर्वमाहैवं स जनार्दनः ॥
एकैकशः स विबुधान्भक्षयिष्यति वाडवः ॥ १२१ ॥
ततः सुराः सुरेशानं तं विष्णुममितौजसम् ॥
प्रणम्याहुर्यथायुक्तं शोभनं भवता कृतम् ॥ १२२ ॥
भूयोऽद्य पुनरेवास्य दोषस्योपशमक्रियाम् ॥
कर्तुं त्वमेव शक्तोऽसि नान्यस्त्राता दिवौक साम्॥ १२३ ॥
ततः पीतांबरधरः शंखचक्रगदाधरः ॥
युष्मद्भयं हरिष्यामि तत्सुरानाह माधवः ॥ १२४ ॥
श्रुत्वैतद्विबुधाः सर्वे हर्षेणोत्फुल्ल लोचनाः ॥ १२५ ॥
ततस्तान्विबुधान्दृष्ट्वा प्रोवाच स तु वाडवः ॥
किमिदानीं मया कार्यं भवतां कथ्यतां हि तत् ॥ १२६ ॥
अत्रान्तरे विश्वतनुर्महौजा विमोहयंस्तं ज्वलनं स्वबुद्ध्या ॥
प्रोवाच पूर्वं विहिता यदापस्ता भक्षयस्वेति महानुभावः ॥ १२७ ॥
एतद्व्यवसितं विष्णोर्यः शृणोति समाहितः ॥
सोऽतिचारभयान्मुक्तो ज्ञानं मुक्तिमवाप्नुयात् ॥ १२८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वडवानलवंचनवृत्तान्तवर्णनंनाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 33
॥ देव्युवाच ॥ ॥
पितुर्वधामर्षसुजात मन्युना यद्यत्कृतं कर्म पुरा महर्षिणा ॥
दधीचिपुत्रेण सुरप्रसाधिना सर्वं श्रुतं तद्धि मया समाधिना ॥ १ ॥
पुनःपुनर्वै विबुधैः समानं यद्वृत्तमासीत्किमपि प्रधानम् ॥
कार्यं हि तत्सर्वमनुक्रमेण विज्ञातुमिच्छामि कुतूहलेन ॥ २ ॥
॥ ईश्वर उवाच ॥ ॥
उक्तो यदासौ विबुधैः समस्तैरापः पुरा त्वं भुवि भक्षयस्व ॥
यतोऽमराणां प्रथमं हि जाता आपोऽग्रजाः सर्वसुरासुरेभ्यः ॥ ३ ॥
तेनैवमुक्तस्तु महात्मना तदा प्रदर्शयध्वं मम ता यतः स्थिताः ॥
पीत्वा सुराः सर्वमहं पुरस्तात्कृत्यं करिष्ये सुरभक्षणं हि ॥ ४ ॥
तत्रापि नेतुं यदि मां समर्था यत्रासते वारिचयाः समेताः ॥
अतोऽन्यथा नाहमलीकवादी प्राणे प्रयाते मुनिवाक्यकारी ॥ ५ ॥
आहोक्ते पुंडरीकाक्ष और्वं हि वाडवं तदा ॥
त्वां प्रापयिष्ये यत्रापः केन यानेन वाडव ॥ ६ ॥
॥ वाडव उवाच ॥ ॥
नाहं हयादिभिर्यानैर्गंतुं तत्र समुत्सहे ॥
कुमारीकरसंपर्कमेकं मुक्त्वा मतं हि मे ॥ ७ ॥
॥ विष्णुरुवाच ॥ ॥
एतत्ते सुलभं यानं तां कन्यामानयाम्यहम् ॥
या त्वां नेतुं समर्था स्यादपां स्थानं सुनिश्चितम् ॥ ८ ॥
॥ ईश्वर उवाच ॥ ॥
सुरभीशापसंतप्ता प्रागुपात्तदशाफला ॥
सरस्वती यानभूता तस्य सा विष्णुना कृता ॥ ९ ॥
ततोऽब्रवीद्विभुर्गंगां पार्श्वतः समुपस्थिताम् ॥
एनं वह्निं महाभागे वेगान्नय महोदधिम्॥
नान्या शक्ता समानेतुं त्वां विना लोकपावनि ॥ 7.1.33.१० ॥
॥ गङ्गोवाच ॥ ॥
नास्ति मे भगवञ्छक्ति रौर्वं वोढुं जगत्पते॥
रौद्ररूपी महानेष दहत्येवानलो भृशम् ॥ ११ ॥
ततस्तु यमुनां प्राह सिन्धुं तस्या ह्यनन्तरम् ॥
अन्या नदीश्च विविधाः पृथक्पृथगुदारधीः ॥ १२ ॥
अशक्तास्ताः समानेतुं पृष्टाश्च सुरसत्तमैः ॥
ततः सरस्वतीं प्राह देवदेवो जनार्द्दनः ॥
त्वमेव व्रज कल्याणि प्रतीच्यां लवणोदधौ ॥ १३ ॥
एवं कृते सुराः सर्वे भविष्यन्ति भयोज्झिताः ॥
अन्यथा वाडवेनैते दह्यंते स्वेन तेजसा ॥ १४ ॥
तस्मात्त्वं रक्ष विबुधाने तस्मात्तुमुलाद्भयात् ॥
मातेव भव सुश्रोणि सुराणामभयप्रदा ॥ १५ ॥
एवमुक्ता हि सा तेन विष्णुना प्रभविष्णुना ॥
आह नाहं स्वतन्त्रास्मि पिता मे ध्रियते चिरात् ॥ १६ ॥
तस्याहं कारिणी नित्यं कुमारी च धृतव्रता ॥
कालत्रयेप्यस्वतन्त्रा श्रूयते विबुधैः सुता ॥ १७ ॥
पित्रादेशं विना नाहं पदमेकमपि क्वचित् ॥
गच्छामि तस्मात्कोऽप्यन्य उपायश्चिंत्यतां हरे ॥ १८ ॥
तत्स्वरूपं विदित्वैवं समभ्येत्य पितामहम् ॥
तमब्रवीद्वासुदेवो देवकार्यमिदं कुरु ॥ १९ ॥
नान्यथा शक्यते नेतुं वाडवोऽग्निर्महाबलः ॥
अदृष्टदोषां मुक्त्वेमां कुमारीं तनयां तव ॥ 7.1.33.२० ॥
तच्छ्रुत्वा विष्णुना प्रोक्तं कुमारीं तनयां तदा ॥
शिरस्याधाय सस्नेहमुवाच प्रपितामहः ॥ २१ ॥
याहि देवि सुरान्सर्वान्रक्ष त्वं भयमागतान् ॥
विनिक्षिप त्वं नीत्वैनं वाडवं लवणांभसि ॥
पितुर्वाक्यं हि सा श्रुत्वा प्रोवाच श्रुतिलक्षणा ॥२२॥
॥ सरस्वत्युवाच ॥ ॥
एषास्मि प्रस्थिता तात तव वाक्या दसंशयम्॥
रौद्रोऽयं वाडवो वह्निस्तनुं मे भक्षयिष्यति ॥ २३ ॥
प्राप्तं कलियुगं रौद्रं सांप्रतं पृथिवीतले ॥
लोकः पापसमाचारः स्पर्शयिष्यति मां प्रभो ॥२४॥
ततो दुःखतरं किं स्याद्यत्पापैः सह संगमः॥२५॥
॥ ब्रह्मोवाच ॥ ॥
यदि पापजनाकीर्णं न वांछसि धरातलम् ॥
पातालतलसंस्था त्वं नय वह्निं महोदधौ॥२६॥
यदातिश्रमसंयुक्ता वह्निना दह्यसे भृशम्॥
तदा विभिद्य वसुधां प्रत्यक्षा भव पुत्रिके॥२७॥
कृत्वा वक्त्रं विशालाक्षि प्राची भव सुमध्यमे॥
ततो यास्यंति तीर्थानि त्वां श्रांतां चारुहासिनीम्॥२८॥
तानि सर्वाणि चागत्य साहाय्यं ते वरानने॥
करिष्यंति त्रयस्त्रिंशत्कोट्यो वै मम शासनात्॥२९॥
गच्छ पुत्रि न संतापस्त्वया कार्यः कथंचन॥
अरिष्टं व्रज पंथानं मा सन्तु परिपंथिनः॥7.1.33.३०।
॥ ईश्वर उवाच॥
एवमुक्ता तदा तेन ब्रह्मणाथ सरस्वती॥
त्यक्त्वा भयं हृष्टमनाः प्रयातुं समुपस्थिता॥३१॥
तस्याः प्रयाणसमये शंखदुंदुभिनिःस्वनैः ॥
मंगलानां च निर्घोषैर्जगदापूरितं शुभैः ॥ ३२ ॥
सितांबरधरा देवी सितचंदनगुंठिता ॥
शारदांबुदसंकाशा तारहारविभूषिता ॥ ३३ ॥
संपूर्णचंद्रवदना पद्मपत्रायतेक्षणा ॥
कीर्तिर्यथा महेंद्रस्य पूरयन्ती दिशो दश ॥ ३४ ॥
स्वतेजसा द्योतयंती सर्वमाभासयज्जगत् ॥
अनुव्रजंती गंगा वै तयोक्ता वरवर्णिनि ॥ ३५ ॥
द्रक्ष्यामि त्वां पुनरहं कुत्र वै वसतीं सखि ॥
एवमुक्ता तया गंगा प्रोवाच स्निग्धया गिरा ॥ ३६ ॥
यदैव वीक्षसे प्राचीदिशि प्राप्स्यसि मां तदा ॥
सुरैः परिवृता सर्वैस्तत्राहं तव सुवृते ॥ ३७ ॥
दर्शनं संप्रदास्यामि त्यज शोकं शुचिस्मिते ॥
तामापृच्छ्य ततो गंगां पुनर्दर्शनमस्तु ते ॥ ३८ ॥
गच्छ स्वमालयं भद्रे स्मर्त्तव्याऽहं त्वयाऽनघे ॥
यमुनापि तथा चैवं गायत्री सुमनोरमा ॥ ३९ ॥
सावित्रीसहिताः सर्वाः सख्यः संप्रेषितास्तदा ॥
ततो विसृज्य तां देवी नदी भूत्वा सरस्वती ॥ 7.1.33.४० ॥
हिमवंतं गिरिं प्राप्य प्लक्षात्तत्र विनिर्गता ॥
अवतीर्णा धरापृष्ठे मत्स्यकच्छपसंकुला ॥ ४१ ॥
ग्राहडिंडिमसंपूर्णा तिमिनक्रगणैर्युता ॥
हसंती च महादेवी फेनौघैः सर्वतो दिशम्॥४२॥
पुण्यतो यवहा देवीस्तूयमाना द्विजातिभिः ॥
वाडवं वह्निमादाय हयवेगेन निःसृता ॥ ४३ ॥
भित्त्वा वेगाद्धरापृष्ठं प्रविष्टाथ महीतलम्॥
यदायदाभवच्छ्रांता दह्यते वाडवाग्निना ॥
तदातदा मर्त्यलोके याति प्रत्यक्षतां नदी ॥ ४४ ॥
ततस्तु जायते प्राची संतप्ता वाडवेन तु ॥
ततो वै यानि तीर्थानि कीर्त्तितानि पुरातनैः ॥ ४५ ॥
दिव्यांतरिक्षभौमानि सांनिध्यं यांति भामिनि ॥
ततश्चाश्वासिता तैः सा सरस्वती पुनर्नदी ॥
पातालतलमा साद्य जगाम मकरालयम् ॥ ४६ ॥
खदिरामोदमासाद्य तत्र सा वीक्ष्य सागरम् ॥
गंतुं प्रवृत्ता तं वह्निमादाय सुरसुंदरि ॥४७॥
निरूढभारमात्मानं देवादेशाद्विचिंत्य सा ॥
प्रहृष्टा सुमनास्तस्मात्प्रवृत्ता दक्षिणामुखी ॥ ४८ ॥
एतस्मिन्नेव काले तु ऋषयो वेदपारगाः ॥
चत्वारश्च महादेवि प्रभासं क्षेत्रमाश्रिताः ॥ ४९ ॥
हरिणश्चाथ वज्रश्च न्यंकुः कपिल एव च ॥
तपस्तप्यंति तत्रस्थाः स्वाध्यायासक्तमानसाः ॥ 7.1.33.५० ॥
पृथक्पृथक्समाहूताः स्नानार्थं तैः सरस्वती ॥
सागरः सम्मुखस्तस्याः सहसा सम्मुपस्थितः ॥ ५१ ॥
ततः सा चिन्तयामास कथं मे सुकृतं भवेत् ॥
शापभीता च सा साध्वी पंचस्रोतास्तदाऽभवत् ॥ ५२ ॥
एकैकं तोषयामास तमृषिं वरवर्णिनि ॥
ततोऽस्याः पंच नामानि जातानि पृथिवीतले ॥ ५३ ॥
हरिणी वज्रिणी न्यंकुः कपिला च सरस्वती ॥
पानावगाहनान्नृणां पंचस्रोताः सरस्वती ॥ ५४ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥
एषां संयोगजं चान्यन्नराणां पंचमं हि यत् ॥ ५५ ॥
एतत्पंचविधं पुंसां पंचधाऽवस्थिता सती ॥
नाशयेत्पातकं घोरं सखीभिः सहिता नदी॥५६॥
ब्रह्महत्यां महाघोरां प्रतिलोमा सरस्वती ॥
पानावगाहनान्नृणां नाशयत्यखिलं हि सा ॥ ५७ ॥
प्रमादान्मदिरापानदोषेणोपहतात्मनाम् ॥
तद्व्यपोहाय कपिला द्विजानां वहते नदी ॥ ५८ ॥
उपवासाज्जपाद्धोमात्स्नानात्पानाद्द्विजन्मनाम् ॥
सप्ताहान्नाशयेत्पापं तत्तद्भावेन चेतसा॥५९॥
स्वयं तेऽपि विशुध्यंति यथोक्तविधिकारिणः ॥
न्यंकुं नदीं समासाद्य महतः पातकात्कृतात् ॥ 7.1.33.६० ॥
स्नानोपासनपानेन वज्रिणी गुरुतल्पगम् ॥
नाशयत्यखिलं पुंसां पापं भूरिभयंकरम् ॥ ६१ ॥
संयोगजस्य पापस्य हरणाद्धरिणी स्मृता ॥
नदी पुण्यजलोपेता सप्ताहमवगाहनात् ॥ ६२ ॥
एवमेतानि पापानि सर्वाणि सुरसुंदरि ॥
नदी नाशयते तथ्यं पंचस्रोता सरस्वती ॥ ६३ ॥
ततोऽपश्यत्पुनश्चारु सा देवी पथि संस्थितम् ॥
पर्वतं सागरस्यांते रोद्धुं मार्गमिव स्थितम् ॥ ६४ ॥
ब्रह्माण्डमानदण्डोऽयं पुरतो गिरिसत्तमः ॥
व्रजन्त्याः सुरकार्येण मम विघ्नकरः स्थितः ॥ ॥ ६५ ॥
उच्चैस्तरं महाशैलमवलोक्य सरस्वती ॥
अथ वेगेन रुद्धेन गिरिणा विस्मिता सती ॥ ६६ ॥
एवं संचिन्तयेद्यावन्मनसा तन्म हाद्भुतम् ॥
तावन्मंगलशब्देन प्रतिबुद्धः कृतस्मरः ॥ ६७ ॥
गिरिशृंगद्वंद्वचरं ददर्श पुरुषं च सा ॥
तामाह देवीं स नगो मार्गो नास्तीह सुव्रते ॥ ६८ ॥
अन्यत्र क्वापि गच्छ त्वं यत्र तेऽभिमतं शुभे ॥
आहैवमुक्ते सा देवी नरं नगशिरःस्थितम् ॥ ६९ ॥
देवादेशात्समायाता न निरोध्या गिरे त्वया ॥
एवमुक्ते गिरिः प्राह तां देवीं सुमनोरमाम् ॥ 7.1.33.७० ॥
पर्वतोऽहं त्वया भद्रे किं न ज्ञातः कृतस्मरः ॥
त्वत्स्पर्शनान्न दोषोस्ति कुमारी त्वं यतोऽनघे ॥ ७१ ॥
अतस्त्वां वरये देवि भार्या मे भव सुव्रते ॥ ७२ ॥
॥ सरस्वत्युवाच ॥ ॥
पिता मे ध्रियते यस्मात्तेन नाहं स्वयंवरा ॥
तव भार्या भविष्यामि मार्गं यच्छ ममाधुना ॥ ७३ ॥
एवमुक्तो गिरिः प्राह अनिच्छंतीं महाबलात् ॥
उद्वाहयिष्ये त्वां भद्रे कस्त्राता स्ति तवाधुना ॥ ७४ ॥
सा तं मनोभवाक्रान्तं मत्वा दिव्येन चक्षुषा ॥
आह नास्ति मम त्राता त्वामेव शरणं गता ॥ ७५ ॥
त्वयोद्वाह्या यद्य वश्यमहमेवं महाबल ॥
अस्नातां नोद्वह विभो स्नानं कर्त्तुं च देहि मे ॥ ७६ ॥
तामुवाच ततः शैलः स्वसंपदभिमानवान् ॥
सौख्यदं पश्य सुभगे मयि संपूर्णवैभवम् ॥ ७७ ॥
द्वंद्वानि यत्र गायंति किंनराणां मनोरमम् ॥
श्रूयते च सुनिध्वानं तंत्रीवाद्यमथापरम् ॥ ७८ ॥
तत्र तालास्तमालाश्च पिप्पलाः पनसास्तथा ॥
सदैव फलपुष्पाश्चा दृश्यंते सुमनोरमाः ॥७९॥
कुटजैः कोविदारैश्च कदंबैः कुरबैस्तथा ॥
मत्तालिकुलघुष्टैश्च भूधरो भाति सर्वतः ॥ 7.1.33.८० ॥
हरांगरागवद्भाति क्वचित्कुटजकुड्मलैः ॥
क्वचित्तु कर्णिकारैश्च विष्णोर्वासःसमप्रभः ॥ ८१ ॥
तमालदलसंछन्नः क्वचिद्वैवस्वतद्युतिः॥
क्वचिद्धातुविलिप्तांगो गणाध्यक्षवपुर्नगः ॥ ८२ ॥
चतुर्मुख इवाभाति हरितालवपुः क्वचित् ॥
क्वचित्सप्तच्छदैर्विष्णोर्वपुषा भात्ययं गिरिः॥ ८३ ॥
क्वचित्कात्यायनीप्रख्यः प्रियंगुसुसमाकुलः ॥
क्वचित्केसरसंयुक्तैरनलाभो विभात्यसौ ॥ ८४ ॥
वृत्तैः सपुलकैः स्निग्धैः स्त्रीणामिव पयोधरैः ॥
दुष्प्राप्यैरल्पपुण्यानां क्वचिदाभाति बिल्वकैः ॥ ८५ ॥
सिंहैर्व्याघ्रैर्मृगैर्नागैर्वराहैर्वानरैस्तथा ॥
क्वचित्क्वचिदसौ भाति परस्परमनुव्रतैः ॥ ८६ ॥
शूलिकोद्भिन्नमाकाशमिव कुर्वद्भिरुच्चकैः ॥
एवमुक्ते प्रत्युवाच शारदा तं नगोत्तमम् ॥ ८७ ॥
यदि मां त्वं परिणये रुदंतीमेकिकां तथा ॥
गृहाण वाडवं हस्ते यावत्स्नानं करोम्यहम् ॥ ८८ ॥
एवमुक्ते स जग्राह त नगेद्रोऽपवर्जिम् ॥
कृतस्मरस्तत्संस्पर्शात्क्षणाद्भस्मत्वमागतः ॥ ८९ ॥
ततः प्रभृति ते तस्य पाषाणा मृदुतां गताः ॥
गृहदेवकुलार्थाय गृह्यंते शिल्पिभिः सह ॥ 7.1.33.९० ॥
दग्ध्वा कृतस्मरं देवी पुनरादाय वाडवम् ॥
समुद्रस्य समीपे सा स्थिता हृष्टतनूरुहा ॥ ९१ ॥
तत्रस्था सा महादेवी तमाह वडवानलम् ॥
पश्य वाडव गर्जन्तं सागरं पुरतः स्थितम् ॥ ९२ ॥
गर्जंतं सोऽपि तं दृष्ट्वा प्रसर्पंतं च वीचिभिः ॥
तामाह किमिदं भद्रे भीतो मे लवणोदधिः ॥ ९३ ॥
प्रहस्योवाच सा बाला को न भीतस्तवानल ॥
भक्ष्यस्ते विहितो यस्मात्तव देवैर्महाबल ॥ ९४ ॥
स तस्यास्तद्वचः श्रुत्वा संप्रहृष्टस्तु पावकः ॥
दास्यामि ते वरं भद्रे यथेष्टं प्रार्थयस्व नः ॥९५॥
तेनैवमुक्ता सा देवी वाडवेनाग्निना तदा ॥
सस्मार कारणात्मानं विष्णुं कमललोचनम् ॥ ९६ ॥
दृष्टोसावात्महृत्संस्थस्तया देवो जनार्द्दनः ॥
स्मृतमात्रः सरस्वत्या परस्त्रिभुवनेश्वरः ॥९७॥
मनोदृष्ट्या विलोक्याह सा तमंतःस्थमच्युतम् ॥
वाडवो यच्छति वरमहं तं प्रार्थयामि किम्॥९८॥
ततस्तेन हृदिस्थेन प्रोक्ता देवी सरस्वती ॥
प्रार्थनीयो वरो भद्रे सूचीवक्त्रत्वमादरात् ॥ ९९ ॥
ततस्त्वभिहितो देव्या यदि मे त्वं वरप्रदः ॥
ततः सूचीमुखो भूत्वा त्वं पिबापो महाबल ॥ 7.1.33.१०० ॥
एवमुक्तेन तत्तेन सूचीवेधसमं कृतम् ॥
घटिकापूरणं यद्वत्पपौ तद्वदनं जलम् ॥ १०१ ॥
एवं स वाडवो वह्निः सुराणां भक्षणोद्यतः ॥
वंचितो विष्णुना याति मेधामाधाय यत्नतः ॥ १०२ ॥
सर्गमेतं नरः पुण्यं वाच्यमानं शृणोति यः ॥
स विष्णु लोकमासाद्य तेनैव सह मोदते ॥१०३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सर स्वतीवृत्तांतवडवानलवचनवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 34
॥ ईश्वर उवाच ॥ ॥
सरस्वती वरं प्राप्य वरिष्ठं वडवानलात् ॥
पुनस्तं सागरे क्षेप्तुमुद्यता सा मनस्विनी ॥ १ ॥
देवादेशात्प्रभासस्य पुरतः संस्थिता तदा ॥
समुद्रमाहूय तदा वाडवार्पणकांक्षिणी ॥ २ ॥
त्वमादिः सर्वदेवानां त्वं प्राणः प्राणिनां सदा ॥
देवादेशाद्गृहाण त्वमागत्यार्णव वाडवम् ॥ ३ ॥
एवं संचिंतितो देव्या यदासावंभसांपतिः ॥
तथा जलात्समुत्तीर्य समायातो महाद्युतिः ॥ ४ ॥
तं दृष्ट्वा विस्मिता देवी दिव्यं विष्णुमिवापरम् ॥
श्यामं कमलपत्राक्षं सागरं सुमनोरमम् ॥ ५ ॥
विचित्रमाल्याभरणं चित्रवस्त्रानुलेपनम्॥
आपगाभिः सरूपाभिः स्त्रीरूपाभिः समावृतम् ॥ ६ ॥
एवंविधं समालोक्य सा देवी ब्रह्मणः सुता ॥
सरस्वती जलनिधिमुवाचेदं शुचिस्मिता ॥ ७ ॥
त्वमग्रजः सर्वभवोद्भवानां त्वं जीवितं जन्मवतां नराणाम् ॥
तस्मात्सुराणां कुरु कार्यमिष्टं वह्निं गृहाण त्वमिहोपनीतम् ॥ ८ ॥
अत्रांतरे सोऽपि विमृश्य सर्वं कार्यं स्वबुद्ध्या किमिहोपपन्नम् ॥
कृत्वाऽनलस्य ग्रहणं मयेदं कार्यं सुराणां विहितं भवेच्च ॥ ९ ॥
एवं चिंतयतस्तस्य ग्रहणं रुचितं ततः ॥
वाडवाग्नेः समुद्रस्य सुरपीडाकृते यदा ॥ 7.1.34.१० ॥
तदा तेन पुरःस्थेन देवी साभिहिता भृशम् ॥
वाडवं संप्रयच्छैनं सुरशत्रुं सरस्वति ॥ ११ ॥
ततस्तया प्रणम्याशु पितामहपुरःसरान् ॥
चारणांश्चारुचित्रांग्या सरस्वत्या दिवि स्थितान् ॥ १२ ॥
पुनश्च करसंस्थोऽसौ वाडवोऽभिहितस्तया ॥
त्वमपो भक्षयस्वेति सुरैरुक्त इमा इति ॥ १३ ॥
एवमुक्त्वा समुद्रस्य तदा देव्या समर्प्पितः ॥
वाडवोऽग्निः सरस्वत्या सुरादेशान्महाबलः ॥ १४ ॥
तं समर्प्य ततस्तस्मि न्नदी भूत्वा सरस्वती ॥
प्रविष्टा सागरं देवी नारदेश्वरमार्गतः ॥ १५ ॥
दैत्यसूदनसांनिध्ये दत्त्वार्घ्यं लवणांभसि ॥
अर्घ्येश्वरं प्रतिष्ठाप्य दैत्यसूदन पश्चिमे ॥ १६ ॥
ततोऽब्धिं संप्रविष्टा सा पंचस्रोता महानदी ॥
स्वरूपेणैव सा पुण्या पुनः पुण्यतमाऽभवत् ॥ १७ ॥
प्रभासक्षेत्रसंपर्कात्समुद्रस्य च संगमात् ॥
सागरोऽपि समासाद्य सरस्वत्यास्तु वाडवम् ॥
निर्धनो वै धनं प्राप्याचिन्तयत्क्व क्षिपाम्यहम् ॥ १८ ॥
स तेनैव करस्थेन दीप्य मानेन सागरः ॥
वह्निना शिखरस्थेन भाति मेरुरिवापरः ॥ १९ ॥
तं तथाविधमालोक्य तत्र ये जलचारिणः ॥
यादोगणास्ते मुमुचुर्दाहभीता महास्वनम् ॥ 7.1.34.२० ॥
तं श्रुत्वा भैरवं शब्दमायातो दैत्यसूदनः ॥
आह यादोगणान्सर्वान्मा भैष्ट सुमहाबलाः ॥ २१ ॥
यस्मादनेन प्रथमा आपो भक्ष्या न तत्रगाः ॥
प्राणिनस्तन्न भेतव्यं भवद्भिस्तु ममाज्ञया ॥ २२ ॥
एवमुक्तस्तु कृष्णेन तूष्णींभूता जलेचराः ॥ २३ ॥
तूष्णींभूतेषु सर्वेषु जलजेषु जलेश्वरम् ॥
प्राहाच्युतः प्रक्षिप त्वमपां मध्ये तु वाडवम् ॥ २४ ॥
अगाधेम्भसि तेनासौ निक्षिप्तो वाडवोऽनलः ॥
वरुणेन पिबन्नास्ते तज्जलं सुमहाबलः ॥ २५ ॥
तस्योच्छ्वासानिलोद्धूतं तत्तोयं सागराद्बहिः ॥
निर्मर्यादेव युवतिरितश्चेतश्चधावति ॥ २६ ॥
अथ काले गते देवि शुष्यत्यंबु शनैःशनैः ॥
विदित्वा क्षीयमाणास्ता अपो जलनिधिस्ततः ॥ २७ ॥
आहैवं पुंडरीकाक्षमपः कुरु त्वमक्षयाः ॥
अन्यथा सर्वनाशेन जलानां मामिहाग्रतः ॥
भक्षयिष्यत्यसौ वह्निर्वाडवो हि जनार्द्दन ॥ २८ ॥
एतच्छ्रुत्वा वचस्तस्य समुद्रस्य तु भीषणम् ॥
कृतं तदक्षयं तोयमा त्मनो भयनाशनम् ॥ २९ ॥
ज्ञात्वा सुराः सर्वमिदं विचेष्टितं कृत्यानलस्यास्य निबंधनं तथा ॥
प्रलोभनं तोयपुरःसरा द्विषः पुपूजिरे केशवमत्र चारिणम्॥ 7.1.34.३० ॥
एवं सरस्वती प्राप्ता प्रभासं क्षेत्रमुत्तमम् ॥
ब्रह्मलोकान्महादेवि सर्वपापप्रणाशिनी ॥ ३१ ॥
सोमेशाद्दक्षिणाग्नेये सागरस्य समी पतः ॥
संस्थिता तु महादेवी वडवानलधारिणी ॥ ३२ ॥
स्नात्वाऽग्नितीर्थे पूर्वं तां पूजयेद्विधिना नरः ॥
दंपत्योर्भोजनं तत्र परिधानं सकञ्चु कम् ॥ ३३ ॥
दत्त्वा ततो महादेवं पूजयेच्च कपर्द्दिनम् ॥
इति वृत्तं पुरा देवि चाक्षुषस्यांतरेऽभवत् ॥ ३४ ॥
दधीच्यन्वयजातस्य वाडवस्य महा त्मनः ॥
अस्मिन्पुनर्महादेवि प्राप्ते वैवस्वतेंऽतरे ॥
और्वस्तु भार्गवे वंशे समुत्पन्नो महाद्विजः ॥ ३५॥
संक्षिप्तोऽसौ सरस्वत्या देवमात्रा महाप्रभः॥
तावत्स्थास्यत्यपां गर्भे यावन्मन्वतरावधिः ॥ ३६ ॥
इति ते कथितं देवि सरस्वत्याः समुद्भवम् ॥
श्रुतं पापहरं नृणां कीर्त्तिदं पुण्यवर्द्धनम्॥ ३७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सरस्वत्यवतारमहिमवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 35
॥ देव्युवाच ॥ ॥
भगवन्भार्गवे वंशे यस्त्वौर्वः कथितस्त्वया ॥
वैवस्वतेंऽतरे चास्मिंस्तस्योत्पत्तिं वद प्रभो ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
ब्राह्मणा निहता ये तु क्षत्रियैर्वित्तकारणात् ॥
क्षयं नीतास्तु ते सर्वे सपुत्राश्च सगर्भतः ॥ २ ॥
म्रियमाणेषु सर्वेषु एका स्त्री समतिष्ठत ॥
तया तु रक्षितो गर्भ ऊर्वोर्देशे निधाय च ॥ ३ ॥
अन्यासां चैव नारीणां सर्वासामपि भामिनि ॥
गर्भानि पातितास्तैस्तु द्रव्यार्थं क्षत्रियाधमैः ॥ ४ ॥
कालांतरे ततो भित्त्वा कुरुदेशं महाप्रभः ॥
निर्गतोत्तंभितशिरा ज्वलदास्योतिभीषणः ॥ ५ ॥
तद्वैरं हृदि चाधाय ददाह वसुधातलम् ॥
उत्पाद्य वह्निं तपसा रौद्रमौर्वं जलाशनम् ॥ ६ ॥
तमिन्द्रः प्लावयामास वृष्ट्यौघैर्वरवर्णिनि ॥
न शशाक यदा नेतुं तदा स यतवाक्स्थितः ॥ ७ ॥
ततो देवाः सगंधर्वा ब्रह्माणं शरणं गताः ॥
अभवन्भयसंत्रस्ताः सर्वे प्रांजलयः स्थिताः ॥ ८ ॥
॥ देवा ऊचुः ॥ ॥
भगवन्भार्गवे वंशे जातः कोऽपि महाद्युतिः ॥
अग्निरूपेण सर्वं स ददाह वसुधातलम् ॥ ॥
कृतो यत्नः पुराऽस्माभिस्तद्विनाशाय सत्तम ॥
जलेन वृद्धिमायाति ततो नो भयमागतम् ॥ 7.1.35.१० ॥
विनष्टे भूतले देव अग्निष्टोमादिकाः क्रियाः॥
उच्छिद्यते ततोऽस्माकं नाशो नूनं भविष्यति ॥ ११ ॥
तस्माद्यत्नं कुरु विभो त्रैलोक्यहितकाम्यया ॥ १२ ॥
ततो ब्रह्मा सुरैः सार्द्धं भार्गवैश्च महर्षिभिः ॥
आगत्य चाब्रवीदौर्वं किमर्थं दहसि क्षितिम् ॥ १३ ॥
विरामः क्रियतां सद्यो ममार्थं च द्विजोत्तम॥ १४ ॥
॥ और्व उवाच ॥ ॥
एष एव निवृत्तोऽहं तव वाक्येन सत्तम ॥
एष वह्निर्मयोत्सृष्टः स विभो तव शासनात् ॥ १५ ॥
यथा गच्छेत्समुद्रांतं तथा नीतिर्विधीय ताम् ॥ १६ ॥
समाहूय ततो देवीं स्वां सुतां पद्मसंभवः ॥
उवाच पुत्रि गच्छ त्वं गृहीत्वाग्निं महोदधिम् ॥
मद्वाक्यं नान्यथा कार्यं गच्छ शीघ्रं महाप्रभे ॥ १७ ॥
॥ सरस्वत्युवाच ॥ ॥
एषास्मि प्रस्थिता देव तव वाक्यादसंशयम् ॥
इत्युक्ते साधु साध्वीति ब्रह्मणा समुदाहृता ॥ ॥ १८ ॥
ततोभिमंत्रितं वह्निं क्षिप्त्वा कुंभे हिरण्मये ॥
प्रायच्छत सरस्वत्यै स्वयं ब्रह्मा पितामहः ॥
आशिषो विविधा दत्त्वा प्रोवाचेदं पुनः पुनः ॥ १९ ॥
गच्छ पुत्रि न संतापस्त्वया कार्यः कथंचन ॥
अरिष्टं व्रज पंथानं मा संतु परिपन्थिनः ॥ 7.1.35.२० ॥
॥ ईश्वर उवाच ॥ ॥
एवमुक्ता तदा तेन ब्रह्मणा च सरस्वती ॥
हिमवंतं गिरिं प्राप्य पिप्पलादाश्रमात्तदा ॥ २१ ॥
उद्भूता सा तदा देवी अधस्ताद्वृक्षमूलतः ॥
तत्कोटर कुटीकोटिप्रविष्टानां द्विजन्मनाम् ॥ २२ ॥
श्रूयन्ते वेदनिर्घोषा सरसारक्तचेतसाम् ॥
विष्णुरास्ते तत्र देवो देवानां प्रवरो गुरुः ॥ २३ ॥
तस्मात्स्थानात्ततो देवी प्रतीच्यभिमुखं ययौ ॥
अन्तर्द्धानेन सा प्राप्ता केदारं हिममध्यगम् ॥ २४ ॥
तत्संप्लाव्य गिरेः शृंगं केदारस्य पुरः स्थिता ॥
तेनाग्निना करस्थेन दह्यमाना सरस्वती ॥ २५ ॥
भूमिं विदार्य तस्याधः प्रविष्टा गजगामिनी ॥
तदंतर्द्धानमार्गेण प्रवृत्ता पश्चिमामुखी ॥ २६ ॥
पापभूमिमतिक्रम्य भूमिं भित्त्वा विनि(?)गता ॥
तत्र कूपः समभवन्नाम्ना गन्धर्वसंज्ञितः ॥ २७ ॥
तस्मात्कूपात्पुनर्दृश्या सा बभूव महानदी ॥
मतिः स्मृतिस्तथा प्रज्ञा मेधा बुद्धिर्गिराधरा ॥ २८ ॥
उपासिकाः सरस्वत्याः षडेताः प्रस्थितास्तदा ॥
पुनः प्रवृत्ता सा तस्मादुद्भेदात्पश्चिमामुखी ॥२९॥
भूतीश्वरं समायाता सिद्धो यत्र महामुनिः ॥
भूतीश्वरे समीपस्थं तत्र प्राप्ता मनोरमम् ॥7.1.35.३०॥
तस्य दक्षिणदिक्संस्थं रुद्रकोट्युपलक्षितम् ॥
श्रीकंठ देशं विख्यातं गता सर्वौषधीयुतम् ॥ ३१ ॥
तस्मात्पुण्यतमाद्देशाच्छ्रीकण्ठात्सा मनस्विनी ॥
संप्राप्ता वह्निना सार्द्धं कुरुक्षेत्रं सरस्वती ॥ ३२ ॥
पुनस्तस्मात्कुरुक्षेत्राद्विराटनगरस्य सा ॥
समुद्भूता समीपस्था अन्तर्द्धानान्मनोरमा ॥
गोपायनो गिरिर्यत्र तत्र सा पुनरुद्गता ॥ ३३ ॥
गोपायिता केशवेन यत्र ते पाण्डुनन्दनाः ॥
कुर्वंतः स्वानि कर्माणि न कैश्चिदुपलक्षिता ॥ ३४ ॥
तत्र कुंडे स्थिता देवी महापातकनाशिनी ॥
पुन र्गोपायनाद्देवी क्षेत्रं प्राप्तातिशोभनम् ॥ ३५ ॥
खर्जुरीवनमापन्ना नन्दानाम्नीति तत्र सा ॥
सरस्वती पुनस्तस्माद्वनात्खर्जूरसंज्ञितात् ॥ ३६ ॥
मेरुपादं समासाद्य मार्कंडाश्रममागता ॥
यत्र मार्कंडकं तीर्थं मेरुपादे समाश्रितम् ॥ ३७ ॥
सरस्वती पुनस्तस्मादर्बुदारण्यमाश्रिता ॥
गता वटवनं रम्यं मार्कंडेयाश्रमाच्छुभात् ॥३८॥
तपस्तप्तं पुरा यत्र वसिष्ठेन समाश्रितात् ॥
तस्माद्वटवनात्पुण्यादुदुम्बरवनं गता ॥
मेरुपादे च तत्रैव तण्डिर्यत्रा तपत्तपः ॥ ३९ ॥
ऊदुंबरवनात्तस्मात्पुनर्देवी सरस्वती ॥
अन्तर्द्धानेन शिखरमन्यत्प्राप्ता महानदी ॥ 7.1.35.४० ॥
मेरुपादं तु सुमहत्सुरसिद्धनिषेवितम् ॥
भिन्नांजनचयाकारं गोलांगूलमिति स्मृतम् ॥ ४१ ॥
स्थानं मनोरमं तस्मादुद्गता सा सुमध्यमा ॥
वंशस्तंबात्सुविपुला प्रवृत्ता दक्षिणामुखी ॥ ४२ ॥
तत्रोद्गमवटस्तस्यास्तत्समाख्यो व्यवस्थितः ॥
ततः प्रभृति सा देवी सुप्रभं प्रकटा स्थिता ॥ ४३ ॥
अंतर्द्धानं परित्यज्य प्राणिनामनुकम्पया ॥
तस्यास्तटेषु रम्येषु संति तीर्थानि कोटिशः ॥ ४४ ॥
तेषु तीर्थेषु सर्वेषु धर्महेतुः सरस्वती ॥
रुद्रावतारमार्गेऽस्मिन्प्रवरं प्रथमं स्मृतम् ॥ ४५ ॥
तरत्तरंगनामाढ्यं काकतीर्थं महाप्रभम् ॥
तत्र तीर्थं पुनस्त्वन्यत्तीर्थं धारेश्वरं स्मृतम् ॥ ४६ ॥
धारेश्वरात्पुनश्चान्यद्गंगोद्भेदमिति स्मृतम् ॥
सारस्वतं तथा गांगं यत्रैकं संस्थितं जलम् ॥
तस्मादन्यत्परं तीर्थं पुंडरीकं ततः परम् ॥ ॥ ४७ ॥
मातृतीर्थं महापुण्यं सर्वातंकहरं परम् ॥
मातृतीर्थात्पुनस्तस्मान्नातिदूरे व्यवस्थितम् ॥ ४८ ॥
तीर्थं त्वनरकंनाम नरकार्ति भयापहम् ॥
ततस्तस्मादनरकात्तीर्थमन्यत्पुनः स्थितम् ॥ ४९ ॥
संगमेश्वरनामाढ्यं प्रसिद्धं तन्महीतले ॥
ततस्तस्मात्पुनश्चान्यत्तीर्थं कोटीश्वराह्वयम् ॥ 7.1.35.५० ॥
ततस्तस्मान्महादेवि शंभुकुण्डेश्वरं स्मृतम् ॥
तीर्थे सरस्वतीतीरे तस्मिन्सिद्धेश्वरं स्मृतम् ॥ ५१ ॥
सिद्धेश्वरात्पुनस्तस्मात्प्रवृत्ता पश्चिमामुखी ॥
पश्चिमं सागरं गंतुं सखीं स्मृत्वा रुरोद सा ॥५२॥
स्थित्वा पूर्वमुखा देवी हा गंगेति विना त्वया॥
एकाकिनी मंदभाग्या क्व गमिष्याम्यबांधवा ॥ ५३ ॥
तां विज्ञाय ततो गंगा रुदतीं शोककर्शिताम् ॥
शीघ्रं स्वर्गात्समायाता तीर्थानां कोटिभिः सह ॥ ५४ ॥
ततो दुःखं परित्यज्य तत्र प्राची सरस्वती ॥
सर्वदेवगुणैयुक्ता एवं तत्र स्थिताऽभवत् ॥ ५५ ॥
तत्र सिद्धवटंनाम तीर्थं पैतामहं स्मृतम् ॥
वटेश्वरस्य पुरतः सर्वपापक्षयंकरम् ॥ ५६ ॥
त्रिकालं यत्र रुद्रस्तु समागत्य व्यवस्थितः ॥
तन्महालयमित्युक्तं स्थानं तस्य महात्मनः ॥ ॥ ५७ ॥
पिंडतारकमित्येतत्प्राचीनं तीर्थमुत्तमम् ॥
कुम्भकुक्षिगिरिस्थं तत्पित्र्ये कर्मणि सिद्धिदम् ॥ ५८ ॥
प्राचीनेश्वरदेवस्य पुरोभूतं प्रति ष्ठितम्॥
प्राची सरस्वती यत्र तत्र किं मृग्यते परम् ॥ ५९ ॥
निवृत्ते भारते युद्धे तत्र तीर्थे किरीटिना ॥
प्रायश्चित्तं पुरा चीर्णं विष्णुना प्रेरितात्मना ॥ 7.1.35.६० ॥
तेन तस्माद्विनिर्मुक्तः पातकात्पूर्वसंचितात् ॥
नरतीर्थं ततः ख्यातं तत्र पापभयापहम् ॥ ६१ ॥
नरतीर्थादन्यतीर्थं पुंडरीकमिति स्मृतम् ॥
अर्जुनेन सहागत्य यत्र स्नातो हरिः प्रिये ॥ ६२ ॥
प्राचीनेशात्परं तीर्थं वालखिल्येश्वरं महत् ॥
तत्र तस्मान्महातीर्थात्तीर्थमन्यन्महोदयम्॥ ६३ ॥
गंगासमागमंनाम तीर्थमन्यन्महोदयम् ॥
तत्रालोक्य पुनर्देवीं दीनास्यां दीनमानसाम् ॥ ६४ ॥
ब्रह्मासृजत्सखीं तस्याः कपिलां विपुलेक्षणाम् ॥
हरिणीं हरिरप्याशु वज्रिणीमपि देवराट् ॥
न्यंकुं विनोदनार्थं च सरस्वत्या ददौ हरः ॥ ६५ ॥
ततः प्रहृष्टा सा देवी देवादेशात्सरस्वती ॥
तस्माद्गन्तुं समारब्धा प्राचीना पापनाशिनी ॥ ६६ ॥
॥ ईश्वर उवाच ॥ ॥
दक्षिणां दिशमास्थाय पुनः पश्चान्मुखी तदा ॥
सरस्वती महादेवी वडवानलधारिणी ॥
तदुत्तरे तटे तीर्थमेकद्वारमिति स्मृतम् ॥ ६७ ॥
एकद्वारेण यत्सेना स्वर्गं प्राप्ता ततो वरात् ॥
तस्मात्तीर्थात्पुनश्चान्यत्तीर्थं यत्र गुहेश्वरः ॥ ६८ ॥
गुहेन स्थापितः पूर्वं यत्र देवो महेश्वरः ॥
गुहेश्वरान्नातिदूरे वटेश्वरमिति स्मृतम् ॥ ६९ ॥
दिव्यं सरस्वतीतीरे व्यासेनाराधितं पुरा ॥
आमर्द्दकी नदी यत्र सरस्वत्या सहैकताम् ॥ 7.1.35.७० ॥
संप्राप्ता तन्महातीर्थं फलदं सर्वदेहिनाम् ॥
आमर्दकी संगमं तं नापुण्यो वेद कश्चन ॥
संगमेश्वरनामेति तत्र लिंगं प्रतिष्ठितम् ॥ ७१ ॥
मुण्डीश्वरेति च तथा प्रसिद्धिमगमत्क्षितौ ॥
मुंडीश्वरसमीपस्थं सरस्वत्यां महोदयम् ॥ ७२ ॥
नाम्ना यत्प्राङ्मुखं तीर्थं सरस्वत्यास्तटे स्थितम् ॥
मांडव्येश्वरनाम्ना वै यत्रेशः संप्रतिष्ठितः ॥ ७३ ॥
पीलुकर्णिकसंज्ञं तु तीर्थमन्यत्पुनस्ततः ॥
सरस्वतीतीरगतमृषिणा सेवितं महत् ॥ ७४ ॥
तस्मादन्यत्सरस्वत्यां तीर्थं द्वारवती स्मृतम् ॥
तीर्थानां प्रवरं देवि यत्र संनिहितो हरिः ॥ ७५ ॥
ततस्तस्य समीपस्थं तीर्थं गोवत्ससंज्ञितम् ॥
यत्रावतीर्य गोवत्सस्वरूपेणांबिकापतिः ॥ ७६ ॥
स्वयं भूलिंगरूपेण संस्थितस्तेजसां निधिः ॥
गोवत्सान्नैर्ऋते भागे दृश्यते लोहयष्टिका ॥ ७७ ॥
स्वयंभूलिंगरूपेण रुद्रस्तत्र स्वयं स्थितः ॥
एकविंशति वारस्य भक्त्या पिंडस्य यत्फलम् ॥ ७८ ॥
गंगायां प्राप्यते पुंसां श्राद्धेनैकेन तत्र तत् ॥
ततस्तस्मान्महातीर्थाद्बालक्रीडनकी यथा ॥ ७९ ॥
सखीभिः सहिता तत्र क्रीडताऽसौ यथेच्छया ॥
आनुलोम्यविलोम्येन दक्षिणेनोत्तरेण च ॥ 7.1.35.८० ॥
रुल्लं प्राप्य पुनर्देवी समुद्भूता मनोरमा ॥
रुल्लं नाम पुरं यत्र सृष्टं देवेन शंभुना ॥ ८१ ॥
सह देवैस्तु पार्वत्या धारायंत्रप्रयोगकैः ॥
एकं वर्षसहस्रं तु शंभुना तत्र रुल्लितम् ॥ ८२ ॥
रुल्लं तत्र ह्रदं नाम सरस्वत्यां महोदयम् ॥
साक्षात्तत्र महादेव आनंदेश्वरसंज्ञितः ॥ ८३ ॥
पश्चिमेन स्थितं तत्र शम्भोरायतनस्य तु ॥
स मेरोर्दक्षिणे पादे नखस्तु परिकीर्तितः ॥ ८४ ॥
पश्यंति ये नराः सम्यक्तेऽपि पापविवर्जिताः ॥
अश्वमेधसहस्रस्य प्राप्नुवंति फलं ध्रुवम् ॥ ८५ ॥
परतस्तस्य कूष्मांडमुनेस्तत्राश्रमं महत् ॥
कूष्मांडेश्वरसंज्ञं तु तीर्थं त्रैलोक्यविश्रुतम् ॥ ८६ ॥
कोल्लादेवी स्थिता तत्र सर्वपापभयापहा ॥
अन्तर्द्धानेन तां कोल्लां संप्राप्ता सा महानदी ॥ ८७ ॥
ततोऽप्यंतर्हिता भूत्वा संप्राप्ता तु मनोरमम् ॥
सानुं मदनसंज्ञं तु क्षेत्रं सिद्धनिषेवितम् ॥ ८८ ॥
ततोऽप्यंतर्हिता भूत्वा पुनः प्राप्ता हिमाचलम् ॥
खादिरामोदनामानं सर्वर्तुकुसुमोज्ज्वलम् ॥ ८९ ॥
तत्रारुह्य विलोक्याथ ददर्श सुमनोरमम ॥
क्षारोदं पश्चिमाशास्थं घनवृंदमिवोन्नतम् ॥ 7.1.35.९० ॥
एवंविधं च तं तत्र सा विलोक्य महाप्रभा ॥
हर्षात्पंचानना भूत्वा देवकार्यार्थमुद्यता ॥ ९१ ॥
हरिणी वज्रिणी न्यंकुः कपिला च सरस्वती ॥
पंचस्रोताः स्थिता तत्र मुनिनोक्ता सरस्वती ॥ ९२ ॥
श्रमापनोदं कुर्वाणा मुनीनां यत्र संस्थिता ॥
तत्तत्पादकमित्युक्तं तीर्थं तीर्थार्थिनां नृणाम् ॥
सर्वेषां पातकानां च शोधनं तद्वरानने ॥ ९३ ॥
खादिरामोदमासाद्य तत्रस्था वीक्ष्य सागरम् ॥
गन्तुं प्रवृत्ता तं वह्निमादाय सुरसुन्दरि ॥ ९४ ॥
दग्ध्वा कृतस्मरं देवी पुनरादाय वाडवम् ॥
समुद्रस्य समीपस्था स्थिता हृष्टतनूरुहा ॥ ९५ ॥
ततः प्रविष्टा सा देवी अगाधे लवणांभसि ॥
वाडवं वह्निमादाय जलमध्ये व्यसर्जयत् ॥ ९६ ॥
ततस्तस्याः पुनः प्रीतः स्वयमेव हुताशनः ॥
तद्दृष्ट्वा दुष्करं कर्म वचनं चेदमब्रवीत् ॥ ९७ ॥
परितुष्टोऽस्मि ते भद्रे वरं वरय सुव्रते ॥
तत्ते दास्याम्यहं प्रीतो यद्यपि स्यात्सुदुर्लभम् ॥ ९८ ॥
॥ ईश्वर उवाच ॥ ॥
प्रगृह्य वलयं हस्तादिदं वचनमब्रवीत् ॥
इदं मे वलयं वह्ने वक्त्रे धार्यं सदा त्वया ॥ ९९ ॥
अनेन शक्यते यावत्तावत्तोयं समाहर ॥
न त्वया शोषणीयोऽयं समुदः सरितांपतिः ॥ 7.1.35.१०० ॥
बाढमित्येव चोक्त्वा स प्रविष्टो निधिमंभसाम्॥
एवमेषा महादेवि प्रभासे तु सरस्वती ॥
गृहीत्वा वाडवं प्राप्ता तुष्ट्यर्थं च मनीषिणाम्॥ १०१ ॥
सा विश्रांता कुरुक्षेत्रे भद्रावर्ते च भामिनि ॥
पुष्करे श्रीकला देवी प्रभासे च महानदी ॥ १०२ ॥
देवमातेति सा तत्र संस्थिता लवणोदधौ ॥
अस्मिन्मन्वंतरे देवि आदौ त्रेतायुगे पुरा॥१०३॥
इति वृत्तं सरस्वत्या वाडवाग्नेस्तथाभवत् ॥
मन्वन्तरे व्यतीतेऽस्मिन्भविताऽन्यस्तु वाडवः ॥ १०४ ॥
ज्वालामुखेति नाम्ना वै रुद्रक्रोधाद्भविष्यति ॥
सरस्वत्यास्तथा नाम ख्यातिं ब्राह्मीति यास्यति ॥ १०५ ॥
सरस्वतीति वै लोके वर्तते नाम सांप्रतम् ॥
अतीतं नाम यत्तस्याः कमंडलुभवेति च ॥
रत्नाकरेति सामुद्रं सत्यं नामांतरं पुरा ॥ १०६ ॥
अस्मिन्मन्वंतरे देवि सागरेति प्रकीर्तितम् ॥
क्षारोदेति भविष्यं तु नाम देवि प्रकीर्तितम् ॥ १०७ ॥
एवं जानाति यः कश्चित्स तीर्थफलमश्नुते ॥
स्वर्गनिःश्रेणिसंभूता प्रभासे तु सरस्वती ॥ १०८ ॥
नापुण्यवद्भिः संप्राप्तुं पुंभिः शक्या महानदी ॥
प्राची सरस्वती देवि सर्वत्र च सुदुर्लभा ॥
विशेषेण कुरुक्षेत्रे प्रभासे पुष्करे तथा ॥ १०९ ॥
एवंप्रभावा सा देवी वडवानल धारिणी॥
अग्नितीर्थसमीपस्था स्थिता देवी सरस्वती ॥ 7.1.35.११० ॥
तामादौ पूजयेद्यस्तु स तीर्थफलमश्नुते ॥
सागरं यच्च तत्तीर्थं पापघ्नं पुण्यवर्द्धनम् ॥ १११ ॥
दर्शनादेव तस्यैव महाक्रतुफलं लभेत् ॥
अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः ॥ ११२ ॥
दृष्टमात्राः पुनंत्येते तस्मात्पश्येद्धि भावितः ॥
अग्नितीर्थे नरः स्नात्वा पावके प्रक्षिपेत्ततः ॥
गुग्गुलं भारसहितं सोग्निलोके महीयते ॥ ११३ ॥
एवं संक्षेपतः प्रोक्तो ह्यग्नि तीर्थमहोदयः ॥
सरस्वत्याश्च माहात्म्यं सर्वपातकनाशनम् ॥११४॥
स्नात्वाग्नितीर्थे विधिवत्कंकणं प्रक्षिपेततः ॥
सुवर्णस्य महादेवि यथावित्तानुसारतः ॥ ११५ ॥
ततः सरस्वतीं पूज्य कपर्दिनमथार्चयेत् ॥ ११६ ॥
ततः केदारनामानं भीमेश्वरमतःपरम् ॥
भैरवेश्वरनामानं चण्डीश्वरमतः परम्॥ ११७ ॥
ततः सोमेश्वरं देवं पूजयेद्विधिवन्नरः ॥
नवग्रहेश्वरानिष्ट्वा रुद्रैकादशकं तथा ॥ ११८ ॥
ततः संपूजयेद्देवं ब्रह्माणं बालरूपिणम् ॥
एवं रौद्री समाख्याता यात्रा पातकनाशिनी॥११९॥
माहात्म्यमखिलं तस्या यो जानाति नरोत्तमः॥
निवसन्क्षेत्रमध्ये तु स तीर्थफलमश्नुते॥7.1.35.१२॥।
एवं कृत्वा ततो गच्छेन्महादेवीं सरस्वतीम्॥१२१॥
सरस्वतीवाससमा कुतो गुणाः सरस्वतीवाससमा कुतो रतिः॥
सरस्वतीं प्राप्य दिवं गता नराः पुनः स्मरिष्यंति नदीं सरस्वतीम्॥ १२२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्र माहात्म्ये सरस्वत्यब्धिसमागमाग्नितीर्थमाहात्म्यवर्णनंनाम पञ्चत्रिंशोऽध्यायः॥३५॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 36
॥ देव्युवाच ॥
यदेतद्भवता प्रोक्तं प्राची सर्वत्र दुर्ल्लभा ॥
विशेषेण कुरुक्षेत्रे प्रभासे पुष्करे तथा ॥ १ ॥
कथं प्रभासमासाद्य संस्थिता पापनाशिनी ॥
माहात्म्यमखिलं तस्याः प्राच्याः पातकनाशनम् ॥
कथयस्व महेशान यद्यहं ते प्रिया विभो ॥ २ ॥
॥ ईश्वर उवाच ॥ ॥
साधु प्रोक्तं त्वया भद्रे प्राची सर्वत्र दुर्लभा ॥
कुरुक्षेत्रे पुष्करे च तस्मात्प्राभासिकेऽधिका ॥ ३ ॥
प्रभासे तु महादेवी प्राचीं पापप्रणाशिनीम् ॥
नापुण्यो वेद देवेशि कर्मनिर्मूलनक्षमाम् ॥ ४ ॥
ये पिबंति नराः पुण्यां प्राचीं देवीं सरस्वतीम् ॥
न ते मनुष्या विज्ञेयाः सत्यंसत्यं वरानने ॥ ५ ॥
धन्यास्ते मुनयस्ते च पुण्यास्ते च तपस्विनः ॥
ये च सारस्वतं तोयं पिबंत्यहरहः सदा ॥ ६ ॥
देवास्ते न मनुष्यास्ते नदीस्तिस्र पिबंति ये ॥
चंद्रभागां च गंगां च तथा देवीं सस्स्वतीम् ॥ ७ ॥
भुक्त्वा वा यदि वाऽभुक्त्वा दिवा वा यदि वा निशि ॥
न कालनियमस्तत्र यत्र प्राची सरस्वती ॥ ८ ॥
प्राचीं सरस्वतीं ये तु पिबंति सततं मृगाः ॥
तेऽपि स्वर्गं गमिष्यंति यज्ञैर्द्विजवरा यथा ॥ ९ ॥
सर्वकामप्रपूर्त्यर्थं नृणां तत्क्षेत्रमुत्तमम् ॥
चिंतामणिसमा देवी यत्र प्राची सरस्वती ॥ 7.1.36.१० ॥
यथा कामदुघा गावः सर्वकामफलप्रदाः ॥
तथा स्वर्गापवर्गाभ्यां प्राची देवी सरस्वती ॥ ११ ॥
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ॥
यत्र स्थितानि संन्यासं तस्मात्किमधिकं स्मृतम् ॥ १२ ॥
यत्र मंकणकः सिद्धः प्राचीने नियतात्मवान् ॥
ब्रह्महत्याव्रतं चीर्णं मया यत्र वरानने ॥ १३ ॥
वृषतीर्थे महापुण्ये प्राचीकूलसमाश्रिते ॥
निवृत्ते भारते युद्धे तस्मिंस्तीर्थे किरीटिना ॥
प्रायश्चित्तं पुरा चीर्णं विष्णुना प्रेरितात्मना ॥१४॥
त्रैलोक्ये सर्वतीर्थानां तत्तीर्थं प्रवरं स्मृतम् ॥
पापघ्नं पुण्यजननं प्राणिनां पुण्यकीर्त्तिद ॥ १५ ॥
॥ सूत उवाच ॥ ॥
आहैवमुक्ते सा देवी शंकरं लोक शंकरम्॥
प्रायश्चित्तं कथं प्राप्तः पार्थः परपुरंजयः ॥
ज्ञातिक्षयोद्भवं पापं कथं नाशमगात्प्रभो ॥१६॥
एवमुक्तः पुनः प्राह विश्वेशो नीललोहितः ॥
प्रायश्चित्तस्य संप्राप्तः कारणं तद्यथा स्थितम् ॥१७॥
॥ ईश्वर उवाच ॥ ॥
शृणुष्वावहिता भद्रे कथां पातकनाशिनीम् ॥
यां श्रुत्वा मानवो भक्त्या पवित्रात्मा प्रजायते ॥१८॥
योऽसौ देवि समाख्यातः किरीटी श्वेतवाहनः॥
स जित्वा कौरवान्सर्वान्संहृत्य हयकुञ्जरान् ॥ १९ ॥
पश्चात्सुयोधनं हत्वा भीमेन प्रययौ गृहान्॥
नारायणेन सहितो नरोऽसौ प्रस्थितो रणात्॥ 7.1.36.२० ॥
द्रष्टुं धर्मसुतं दृष्टः प्रणतः प्रांजलिः स्थितः॥
स विज्ञाय तदाऽऽयान्तौ नरनारायणावुभौ ॥ २१ ॥
राजा युधिष्ठिरः प्राह द्वारस्थान्द्वारपालकान् ॥
भवद्भिरेतावायांतौ निषेध्यौ द्वारसंस्थितौ ॥ २२ ॥
नर नारायणौ क्रूरौ पापपंकानुलेपिनौ ॥
एवमेतदिति प्रोक्तौ तौ तदा द्वारमागतौ ॥ २३ ॥
भवन्तौ नेच्छति द्रष्टुं राजा दुर्नयकारिणौ ॥
तत्रस्थः पृष्टवान्भूयः प्रतीहारं नरः स्वयम् ॥ २४ ॥
आवां किं कारणं राजा नेक्षते वशवर्तिनौ ॥
प्रोवाच प्रणतो राजा ततो द्वाःस्थं पुरःस्थितम् ॥ २५ ॥
नारायणेन सहितं नरं नरकनिर्भयम् ॥
दुर्योधनेन सहिता बांधवास्ते यतो हताः ॥
पितृतुल्याश्च राजानस्तेन वै पापभाजनम् ॥ २६ ॥
एवमुक्ते तु तेनाथ मुखमालोकितं हरेः ॥
तेन प्रोक्तमिदं तथ्यं यत्ते राज्ञा प्रभाषितम् ॥ २७ ॥
एवमुक्ते नरः प्राह पुनरेव जनार्द्दनम् ॥
कथयस्व कथं पापात्कृष्ण शुद्ध्यामहे वयम् ॥ २८ ॥
तीर्थस्नानेन मे शुद्धिर्यथा स्यात्तद्वद स्फुटम् ॥
तच्च गंगादिकं कृष्ण यथाऽस्याघस्य नाशनम् ॥ २९ ॥ ॥
॥ कृष्ण उवाच ॥ ॥
मा गयां गच्छ कौंतेय मा गंगां मा च पुष्करम् ॥
तत्र गच्छ कुरुश्रेष्ठ यत्र प्राची सरस्वती ॥ 7.1.36.३० ॥
ब्रह्मघ्नाश्च सुरा पाश्च ये चान्ये पापकारिणः ॥
तत्र स्नात्वा विमुच्यंते यत्र प्राची सरस्वती ॥ ३१ ॥
नारायणेन प्रोक्तोऽसौ नरस्तद्वचनाद्द्रुतम् ॥
सहितस्तेन संप्राप्तः प्राचीनं तीर्थमुत्तमम् ॥ ३२ ॥
त्रिरात्रोपोषितः स्नातस्त्रिकालं नियतात्मवान् ॥
तेन तस्माद्विनिर्मुक्तः पातकात्पूर्वसंचितात् ॥ ३३ ॥।
विज्ञाय शुद्धमेनं तु राजा धर्मसुतो द्रुतम् ॥
भ्रातृभिः सहितः प्राप्तस्तं द्रष्टुं नरपुंगवम् ॥ ३४ ॥
ततस्तं प्रणतं दृष्ट्वा धर्मपुत्रः पुरःस्थितम् ॥
आलिलिंग प्रहृष्टात्मा पृष्टवांश्चाप्यनामयम् ॥ ३५ ॥
भीमादिभिर्भ्रातृभिश्च तदा गुरुगणैर्वृतः ॥
आलिंगितः प्रहृष्टैस्तु नरो गुणगणैर्वृतः ॥ ३६ ॥
एतद्धि तन्महातीर्थं प्राचीनेति च शब्दितम् ॥
स्नानक्रमेण मर्त्त्यानामन्येषामपि पावकम् ॥ ३७ ॥
त्रिरात्रोपोषितः स्नातस्तीर्थेऽस्मिन्ब्रह्महाऽपि यः ॥
विमुक्तः पातकात्तस्मान्मोदते दिवि रुद्रवत् ॥ ३८ ॥
प्राचीने देव्यहं नित्यं वसामि सहितस्त्वया ॥
प्रभासे तु महाक्षेत्रे विशेषात्तत्र भामिनि ॥ ॥ ३९ ॥
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् ॥
प्राचीने तु वरारोहे न चेहागच्छते पुनः ॥ 7.1.36.४० ॥
आप्लुतो वाजिमेधस्य फलं प्राप्स्यति पुष्कलम् ॥
नियमैश्चोपवासैश्च शोषयेद्देहमात्मनः ॥ ४१ ॥
जलाहारा वायुभक्षाः पर्णाहाराश्च तापसाः ॥
यथा स्थंडिलगा नित्यं ये चान्यनियमाः पृथक् ॥ ४२ ॥
एवं मंक्याश्रमे येषां वसतां मृत्युरागतः ॥
न ते मनुष्या देवास्ते सत्यमेतद्ब्रवीमि ते ॥ ४३ ॥
अस्मिंस्तीर्थे तु यो दद्यात्त्रुटिमात्रं तु कांचनम्॥
श्रद्धया द्विजमुख्याय मेरुतुल्यं फलं लभेत् ॥ ४४ ॥
अस्मिंस्तीर्थे तु ये श्राद्धं करिष्यंति च मानवाः ॥
एकविंशत्कुलोपेताः स्वर्गं यास्यंति ते ध्रुवम् ॥ ४५ ॥
पितॄणां वल्लभे तीर्थे पिण्डेनैकेन तर्प्पिताः ॥
ब्रह्मलोकं गमिष्यंति गयाश्राद्धकृतो यथा ॥ ॥ ४६ ॥
कृष्णपक्षे चतुर्द्दश्यां स्नानं च विहितं सदा ॥
पिण्याकैंगुदकेनापि पिंडं तत्र ददाति यः ॥
पितॄणामक्षया तृप्तिः पितृलोकं स गच्छति ॥ ४७ ॥
भूयश्चान्नं प्रयच्छंति मोक्षमार्गं व्रजंति ते ॥ ४८ ॥
दधि दद्याद्योऽपि तत्र ब्राह्मणाय मनोरमम् ॥
सोऽग्निलोकं समासाद्य भुंक्ते भोगान्सुशोभनान्॥ ४९ ॥
ऊर्णां प्रावरणं योऽपि भक्त्या दद्याद्द्विजोत्तमे ॥
सोऽपि याति परां सिद्धिं मर्त्यैरन्यैः सुदुर्ल्लभाम् ॥ 7.1.36.५० ॥
ये चात्र मलनाशाय विशेयुर्मानवा जलम्॥
गोप्रदानसमं तेषां सुखेन फलमादिशेत् ॥ ५१ ॥
भावेन यो नरस्तत्र कश्चित्स्नानं समाचरेत् ॥
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ५२ ॥
तर्पणात्पिंडदानाच्च नरकेष्वपि संस्थिताः ॥
स्वर्गं प्रयांति पितरः सुपुत्रेण हि तारिताः ॥ ५३ ॥
प्राचीं सरस्वतीं प्राप्य याति तीर्थं हिमालयम्॥
स करस्थं समुत्सृज्य कूर्परेण समालिहेत् ॥ ५४ ॥
यंयं काममभिध्याय तस्मिन्प्राणान्परित्यजेत् ॥
तंतं सकलमाप्नोति तीर्थमाहात्म्ययोगतः ॥ ५५ ॥
अन्यद्देवि पुरा गीतं गांगेयेन युधिष्ठिरे ॥
सत्यमेव हि गंगायां वयं जाता युधिष्ठिर ॥ ५६ ॥
याः काश्चित्सरितो लोके तासां पुण्या सरस्वती ॥ ९७ ॥
सरस्वती सर्वनदीषु पुण्या सरस्वती लोकसुखावहा सदा ॥
सरस्वतीं प्राप्य सुदुःखिता नराः सदा न शोचन्ति परत्र चेह च ॥५८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्राचीसरस्वतीमाहात्म्यवर्णनंनाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 37
॥ देव्युवाच ॥ ॥
किमर्थं कंकणं देव क्षिप्यते लवणांभसि ॥
तस्या पुण्यं न पूर्वोक्तं यथावद्वक्तुमर्हसि ॥ १ ॥
के मंत्राः किं विधानं तत्कस्मिन्काले महत्फलम् ॥
किं पुराभूच्च तद्वृत्तं भगवन्कंकणाश्रितम् ॥ २ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
आसीत्पुरा महीपालो बृहद्रथ इति श्रुतः ॥
तस्य भार्याऽभवत्साध्वी नाम्ना चेंदुमती प्रिया ॥ ३ ॥
न देवी न च गन्धर्वी नासुरी न च किंनरी ॥
तादृग्रूपा महादेवि यादृशी सा सुमध्यमा ॥ ४ ॥
शीलरूपगुणोपेता नित्यं सा तु पतिवता ॥
सर्वयोषिद्गुणैर्युक्ता यथा साध्वी ह्यरुन्धती ॥ ५ ॥
प्रधान (?)हस्रस्य सौभाग्यमदगर्विता ॥
न विना स तया रेमे मुहूर्त्तमपि पार्थिवः ॥ ६ ॥
एकदा तस्यराजर्षेरर्द्धासनगता सती॥
यावत्तिष्ठति राजेंद्रमृषिस्तावदुपागतः॥
कण्वो नाम महातेजास्तपस्वी वेदपारगः॥७॥
तमागतमथो दृष्ट्वा सहसोत्थाय पार्थिवः॥
पूजां कृत्वा यथान्यायं दत्त्वा चार्घ्यमनुत्तमम्॥८॥
सुखासीनं ततो मत्वा विश्रांतं मुनिपुंगवम्॥
आपृच्छत्कुशलं राजा स सर्वं चान्वमोदयत् ॥ ९ ॥
ततो धर्मकथां चक्रे स ऋषिर्नृपसन्निधौ ॥ 7.1.37.१० ॥
ततः कथावसाने सा भार्या तस्य महीपतेः ॥
अब्रवीदमृतं वाक्यं कृतांजलिपुटा सती ॥ ११ ॥
॥ इन्दुमत्युवाच ॥ ॥
त्वं वेत्सि भगवन्सर्वमतीतानागतं विभो ॥
पृच्छे त्वां कौतुकाविष्टा तस्मात्त्वं क्षंतुमर्हसि ॥ ॥ १२ ॥
अन्यदेहोद्भवं कर्म मम सर्वं प्रकीर्त्तय ॥
ईदृशं मम सौभाग्यं पतिर्देवसुतोपमः ॥ १३ ॥
सौभाग्यं पतिदेवत्वं शीलं त्रैलोक्यविश्रुतम्॥
किं प्रभावो व्रतस्यैष उताहोपोषितस्य वा ॥ १४ ॥
दानस्य वा मुनिश्रेष्ठ यन्मे सौभाग्यमुत्तमम्॥
वशो राजा महाबाहुर्मम वाक्यानुगः सदा ॥ ॥ १५ ॥
एतन्मे सर्वमाचक्ष्व परं कौतूहलं हि मे ॥ १६ ॥
॥ सूत उवाच ॥ ॥
तस्यास्तद्वचनं श्रुत्वा ध्यात्वा च सुचिरं मुनिः ॥
अब्रवीत्प्रहसन्वाक्यं कण्वो वेदविदां वरः ॥ १७ ॥
॥ कण्व उवाच ॥ ॥
शृणु राज्ञि प्रवक्ष्यामि अन्यदेहोद्भवं तव ॥
न रोषश्च त्वया कार्यो लज्जा वापि सुमध्यमे ॥ १८ ॥
त्वमासीदन्यदेहे तु आभीरी पंचभर्तृका ॥
सौराष्ट्रविषये हीना देवं सोमेश्वरं गता ॥ १९ ॥
ततः स्नातुं प्रविष्टा च सागरे लवणांभसि ॥
हता कल्लोलमालाभिर्विह्वलत्वमुपागता ॥ 7.1.37.२० ॥
तव हस्ताच्च्युतं तत्र हैमं कंकणमेव च ॥
नष्टं समुद्रसलिले पश्चात्तापस्तु ते स्थितः ॥ २१ ॥
अथ कालेन महता पंचत्वं त्वमुपागता ॥
दशार्णाधिपतेर्गेहे ततो जातासि सुन्दरि ॥ २२ ॥
बृहद्रथेन चोढासि कंकणस्य प्रभा वतः॥
न व्रतं न तपो दानं त्वया चीर्णं पुरा शुभे ॥ २३ ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥
तच्छ्रुत्वा सा विशालाक्षी त्रपयाऽधो मुखी तथा ॥
आसीत्तूष्णीं तदा देवी श्रुत्वा वाक्यं च तादृशम् ॥ २४ ॥
एवं निवेद्य स मुनी राजपत्नीं वरानने ॥
जगाम भवनं स्वं च आमंत्र्य वसुधाधिपम् ॥ २५ ॥
ज्ञात्वा फलं कंकणस्य मुनेस्तस्य प्रभावतः ॥
गत्वा सोमेश्वरं देवं स्नात्वा च लवणांभसि ॥ २६ ॥
प्राक्षिपत्कंकणं तत्र प्रतिवर्षं(?) महाप्रभे ॥
ततो देवत्वमापन्ना प्रभावात्तस्य भामिनि ॥ २७ ॥
ईश्वर उवाच ॥ ॥
एष प्रभावः सुमहान्कंकणस्य प्रकीर्तितः ॥
सर्वकामप्रदो देवि सर्वपापप्रणाशनः ॥ २८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरमाहात्म्ये कंकणमाहात्म्यवर्णनंनाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 38
॥ देव्युवाच ॥ ॥
यदेतद्भवता प्रोक्तं पश्येत्पूर्वं कपर्द्दिनम् ॥
भगवन्संशयं ह्येनं यथावद्वक्तुमर्हसि ॥ १ ॥
स भृत्यः किल देवेश तव शम्भो महाप्रभः ॥
प्रभोरनन्तरं भृत्य एष धर्मः सनातनः ॥ २ ॥
ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि यथा पूज्यतमो हि सः ॥
कपर्द्दी सर्वदेवानामाद्यो विघ्नेश्वरः प्रभुः ॥ ३ ॥
योऽसावतींद्रियग्राह्यः प्रभासक्षेत्रसंस्थितः ॥
सोमेश्वरो महादेवि लिंगरूपी सदाशिवः ॥ ४ ॥।
तस्य वामे स्थितो विष्णुर्वराह इति यः स्मृतः ॥
तस्य दक्षिणभागे तु स्थितो ब्रह्मा प्रजापतिः ॥
कपर्द्दिरूपमास्थाय सावित्र्याः कोपकारणात् ॥ ५ ॥
कृते हेरंबनामा तु त्रेतायां विघ्नमर्द्दनः ॥
लंबोदरो द्वापरे तु कपर्द्दी तु कलौ स्मृतः ॥ ६ ॥
एवं युगेयुगे तस्य अवतारः पृथक्पृथक् ॥
यथाकार्यानुरूपेण जायते च पुनःपुनः ॥ ७ ॥
अष्टाविंशतिमे तत्र देवि प्राप्ते चतुर्युगे ॥
कारणात्मा यथोत्पन्नः कपर्द्दी तत्र मे शृणु ॥ ८ ॥
पुरा द्वापरसंधौ तु संप्राप्ते च कलौ युगे ॥
स्त्रियो म्लेच्छाश्च शूद्राश्च ये चान्ये पापकारिणः ॥
प्रयांति स्वर्गमेवाशु दृष्ट्वा सोमेश्वरं प्रभुम् ॥ ९ ॥
न यज्ञा न तपो दानं न स्वाध्पायो व्रतं न च ॥
कुर्वतोपि नरा देवि सर्वे यांति शिवालयम् ॥ 7.1.38.१० ॥
तं प्रभावं विदित्वैवं सोमेश्वरसमुद्भवम् ॥
अग्निष्टोमादिकाः सर्वाः क्रिया नष्टाः सुरेश्वरि ॥ ११ ॥
ततो बालाश्च वृद्धाश्च ऋषयो वेदपारगाः ॥
शूद्राः स्त्रियोऽपि तं दृष्ट्वा प्रयांति परमां गतिम् ॥ १२ ॥
नष्टयज्ञोत्सवे काले शून्ये च वसुधातले ॥
ऊर्द्ध्वबाहुभिराक्रांतं परिपूर्णं त्रिविष्टपम् ॥ १३ ॥
ततो देवा महेंद्राद्या दुःखेनैव समन्विताः ॥
परिभूता मनुष्यैस्ते शंकरं शरणं गताः ॥ १४ ॥
ऊचुः प्रांजलयः सर्व इन्द्राद्याः सुरसत्तमाः ॥
व्याप्तोयं मानुषैः स्वर्गः प्रसादात्तव शंकर ॥ १५ ॥
निवासाय प्रभोऽस्माकं स्थानं किंचित्समादिश ॥
अहं श्रेष्ठो ह्यहं श्रेष्ठ इत्येवं ते परस्परम्॥
जल्पंतः सर्वतो देव पर्यटंति यथेच्छया ॥ १६ ॥
धर्मराजः सुधर्मात्मा तेषां कर्म शुभाशुभम्॥
स्वयं लिखितमालोक्य तूष्णीमास्ते सुविस्मितः ॥१७॥
येषामथ कृतं सज्जं कुम्भीपाकं सुदारुणम् ॥
रौरवः शाल्मलिर्देव दृष्ट्वा तान्दिवि संस्थितान् ॥
वैलक्ष्यं परमं गत्वा व्यापारं त्यक्तवानसौ ॥ ॥ १८ ॥
॥ श्रीभगवानुवाच ॥ ॥
प्रतिज्ञातं मया सर्वं भक्त्या तुष्टेन वै सुराः ॥
सोमाय मम सांनिध्यमस्मिन्क्षेत्रे भविष्यति ॥ १९ ॥
न शक्यमन्यथाकर्तुमात्मनो यदुदीरितम्॥
एवं यास्यंति ते स्वर्गं ये मां द्रक्ष्यंति तत्र वै ॥ 7.1.38.२० ॥
भयोद्विग्नास्ततो देवाः पार्वतीं प्रेक्ष्य विश्वतः ॥
ऊचुः प्रांजलयः सर्वे त्वमस्माकं गतिर्भव ॥ २१ ॥
एवमुक्त्वाऽस्तुवन्देवाः स्तोत्रेणानेन सत्तम ॥
जानुभ्यां धरणीं गत्वा शिरस्याधाय चांजलिम् ॥ ॥ २२ ॥
॥ देवा ऊचुः ॥ ॥
नमस्ते देवदेवेशि नमस्ते विश्वधात्रिके ॥
नमस्ते पद्मपत्राक्षि नमस्ते कांचनद्युते ॥२३ ॥
नमस्ते संहर्त्रि कर्त्रि नमस्ते शंकरप्रिये ॥
कालरात्रि नमस्तुभ्यं नमस्ते गिरिपुत्रिके॥२४॥
आर्ये भद्रे विशालाक्षि नमस्ते लोकसुन्दरि॥
त्वं रतिस्त्वं धृतिस्त्वं श्रीस्त्वं स्वाहा त्वं सुधा सती ॥ २५ ॥
त्वं दुर्गा त्वं मनिर्मेधा त्वं सर्वं त्वं वसुन्धरा ॥
त्वया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ २६ ॥
नदीषु पर्वताग्रेषु सागरेषु गुहासु च ॥
अरण्येषु च चैत्येषु संग्रामेष्वाश्रमेषु च ॥ २७ ॥
त्रैलोक्ये तत्र पश्यामो यत्र त्वं देवि न स्थिता ॥
एतज्ज्ञात्वा विशालाक्षि त्राहि नो महतो भयात् ॥२८॥
॥ ईश्वर उवाच ॥ ॥
एवमुक्ता तु सा देवी देवैरिंद्रपुरोगमैः ॥
कारुण्यान्निजदेहं त्वं तदा मर्द्दितवत्यसि ॥ २९ ॥
मर्दयंत्यास्तव तदा संजातं च महन्मलम् ॥
तत्र जज्ञे गजेंद्रास्यश्चतुर्बाहुर्मनोहरः ॥ 7.1.38.३० ॥
ततोब्रवीत्सुरान्सर्वान्भवती करुणात्मिका ॥
एष एव मया सृष्टो युष्माकं हितकाम्यया ॥ ३१ ॥
एष विघ्नानि सर्वाणि प्राणिनां संविधास्यति ॥३२ ॥
मोहेन महताऽऽविष्टाः कामोपहतबुद्धयः ॥
सोमनाथमपश्यंतो यास्यंति नरकं नराः ॥३३॥
एवं ते वचनं श्रुत्वा सर्वे ते हृष्टमानसाः ॥
स्वस्थानं भेजिरे देवास्त्यक्त्वा मानुषजं भयम् ॥३४॥
अथे भवदनः प्राह त्वां देवि विनयान्वितः ॥
किं करोमि विशालाक्षि आदेशो दीयतां मम ॥ ३५ ॥
॥ श्रीभगवत्युवाच ॥ ॥
गच्छ प्राभासिकं क्षेत्रं यत्र संनिहितो हरः ॥
तद्रक्ष मानुषाणां च यथा नायाति गोचरम् ॥३६॥
लिंगं तु देवदेवस्य स्थापितं शशिना स्वयम् ॥
भवत्याऽऽदेशितो नित्यं नृणां विघ्नं करोति यः ॥ ३७ ॥
प्रस्थितं पुरुषं दृष्ट्वा सोमनाथं प्रति प्रभुम्॥
स करोति महाविघ्नं कपर्दी लोकपूजितः ॥ ३८ ॥
पुत्रदारगृहक्षेत्र धनधान्यसमुद्भवम् ॥
जनयेत्स महामोहं ततः पश्यति नो हरम् ॥ ३९ ॥
अथवा गडुगंडादि व्याधिं चैव समुत्सृजेत् ॥
तैर्ग्रस्तः पुरुषो मोहान्न पश्यति ततो हरम्॥ 7.1.38.४० ॥
तस्मात्सर्वप्रयत्नेन सोमेश्वरपरीप्सया ॥
स नित्यं पूजनीयस्तु स्मर्तव्यस्तु दिवानिशम् ॥ ४१ ॥
स्तोत्रेणानेन देवेशि सर्वविघ्नांतकेन वै॥
समाराध्य गणाध्यक्षः प्रभासक्षेत्ररक्षकः ॥४२॥
तत्तेऽहं संप्रवक्ष्यामि स्तोत्रं तद्विघ्रमर्दनम्॥
कपर्दिनो महादेवि सावधानावधारय ॥ ॥४३॥
ॐ नमो विघ्नराजाय नमस्तेऽस्तु कपर्दिने॥
नमो महोग्रदंष्ट्राय प्रभासक्षेत्रवासिने॥४४॥
कपर्दिनं नमस्कृत्य यात्रानिर्विघ्रहेतवे॥
स्तोष्येऽहं विघ्नराजानं सिद्धिबुद्धिप्रियं शुभम् ॥४५॥
महागणपतिं शूरमजितं जयवर्द्धनम्॥
एकदंतं च द्विदंतं चतुर्दंतं चतुर्भुजम्॥४६॥
त्र्यक्षं च शूलहस्तं च रक्त नेत्रं वरप्रदम् ॥
अजेयं शंकुकर्णं च प्रचण्डं दंडनायकम्॥
आयस्कदंडिनं चैव हुतवक्त्रं हुतप्रियम् ॥ ४७॥
अनर्चितो विघ्नकरः सर्वकार्येषु यो नृणाम् ॥
तं नमामि गणाध्यक्षं भीममुग्रमुमासुतम् ॥ ४८ ॥
मदवतं विरूपाक्षमिभवक्त्रसमप्रभम् ॥
ध्रुवं च निश्चलं शांतं तं नमामि विनायकम् ॥४९॥
त्वया पूर्वेण वपुषा देवानां कार्यसिद्धये ॥
गजरूपं समास्थाय त्रासिताः सर्वदानवाः ॥ 7.1.38.५० ॥
ऋषीणां देवतानां च नायकत्वं प्रकाशितम् ॥ ५१ ॥
इति स्तुतः सुरैरग्रे पूज्यसे त्वं भवात्मज ॥
त्वामाराध्य गणाध्यक्षमिभवक्त्रसमप्रभम्॥ ५२ ॥
ध्रुवं च निश्चलं शांतं परीतं वि जयश्रिया ॥
कार्यार्थं रक्तकुसुमै रक्तचंदनवारिभिः ॥ ५३ ॥
रक्तांबरधरो भूत्वा चतुर्थ्यामर्चयेत्तु यः ॥
एककालं द्विकालं वा नियतो नियताशनः ॥ ५४ ॥
राजानं राजपुत्रं वा राजमंत्रिणमेव च ॥
राज्यं वा सर्वविघ्नेशो वशीकुर्यात्सराष्ट्रकम् ॥ ५५ ॥
यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम्॥
स तत्फलमवाप्नोति स्मृत्वा देवं विनायकम् ॥ ५६ ॥
विषमं न भवेत्तस्य न स गच्छेत्पराभवम् ॥
न च विघ्नं भवेत्तस्य जनो जातिस्मरो भवेत् ॥ ५७ ॥
य इदं पठति स्तोत्रं षड्भिर्मासैर्वरं लभेत् ॥
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ५८ ॥
प्रसादाद्दर्शनं याति तस्य सोमेश्वरः प्रभुः॥
कपर्दाकारमुदरं यतोऽस्य समुदाहृतम्॥
ततोऽस्य नाम जानीहि कपर्द्दीति महात्मनः ॥ ५९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कपर्दिविनायकमाहात्म्यवर्णनंनामाष्टात्रिंशोध्यायः ॥ ३८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 39
॥ ईश्वर उवाच ॥ ॥
अथ संपूज्य विधिना देवदेवं कपर्द्दिनम् ॥
ततो गच्छेन्महादेवि लिगं केदारसंस्थितम् ॥ १ ॥
तस्यैवाग्नेयभागस्थं भीमेश्वरसमीपगम्॥
स्वयंभूतं महादेवि कल्पलिंगं मम प्रियम् ॥ २ ॥
मया संपूजितं देवि वृद्धिलिंग महाप्रभम्॥
निराहारस्तु यस्तत्र करोत्येकं प्रजागरम् ॥ ३ ॥
चतुर्दश्यां विशेषेण तस्य लोकाः सनातनाः ॥
रुद्रेश्वरेति देवस्य त्वासीन्नाम पुरा युगे ॥ ४ ॥
तिष्येस्मिंस्तु पुनः प्राप्ते म्लेच्छस्पर्शभयातुरः ॥
अस्मिँल्लिंगे लयं यातः केदारश्चाब्धिसंनिधौ ॥ ५ ॥
तेन केदारनामेति तस्य ख्यातं धरातले ॥
माघे मासि यताहारः स्नात्वा तु लवणोदधौ ॥६॥
पद्मके तु महाकुंडे मध्येस्य लवणांभसः ॥
रुद्रेशाद्दक्षिणे भागे धनुषां दशके स्थिते ॥ ७ ॥
स्नात्वा विधानतो देवि रुद्रेशं चार्चयिष्यति ॥
सम्यक्केदारया त्रायाः फलं तस्य भविष्यति ॥ ८ ॥
ब्रह्महत्यादिपापानां पूजनान्नाशनं महत् ॥
अथ तस्यैव देवस्य इतिहासं पुरातनम् ॥ ९ ॥
सर्वकामप्रदं नृणां कथ्यते ते सुरप्रिये ॥
आसीद्राजा पुरा देवि शशबिंदुरिति श्रुतः ॥ 7.1.39.१० ॥
सार्वभौमो महीपालो विपक्षगणसूदनः ॥
कलिद्वापरयोः संधौ सभूतः पृथिवीपतिः ॥ ११ ॥
तस्य भार्याऽभवत्साध्वी प्राणेभ्योऽपि गरीयसी ॥
न देवी न च गन्धर्वी नासुरी न च पन्नगी ॥ १२ ॥
तादृग्रूपा वरारोहे यथाऽस्य शुभलोचना॥
तस्य हेममयं पद्मं शतपत्रं मनोरमम्॥१३॥
खेचरं वेगि नित्यं च तस्य राज्ञो महात्मनः॥
स तेन पर्यटँल्लोकान्सर्वान्देवि स्वकामतः॥१४॥
एकदा फाल्गुने मासि शुक्लपक्षे वरानने ॥
चतुर्द्दश्यां तु संप्राप्तः प्रभासक्षेत्रमुत्तमम्॥१५॥
अथापश्यदृषीन्सर्वाञ्छ्रीसोमेशपुरःस्थितान् ॥
रात्रौ जागरणार्थाय जपहोमपरायणान्॥ १६ ॥
स दृष्ट्वा सोमनाथं तु प्रणिपत्य विधानतः ॥
पूजयामास सर्वां स्तान्यथार्हं भक्तिसंयुतः ॥ १७ ॥
ततः केदारमासाद्य संस्नाप्य विधिवत्प्रिये ॥
पूजयित्वा विचित्राभिः पुष्पमालाभिरीश्वरम् ॥ १८ ॥
नैवेद्यैर्विविधैर्वस्त्रैर्भूषणैश्च मनोहरैः ॥
ततोऽत्र कारयामास जागरं सुसमाहितः ॥ १९ ॥
ततस्ते मुनयः सर्वे कुतूहलसमन्विताः ॥
च्यवनो याज्ञवल्क्यश्च शांडिल्यः शाकटायनः ॥ 7.1.39.२० ॥
रैभ्योऽथ जैमिनिः क्रौंचो नारदः पर्वतः शिलः ॥
मार्कंडं पुरतः कृत्वा जग्मुस्तस्य समीपतः ॥ २१ ॥
चक्रुः कथाः सुविचित्रा इतिहासानि भूरिशः ॥
कीर्त्तयंतः स्थितास्तत्र पप्रच्छू राजसत्तमम् ॥ २२ ॥
॥ ऋषय ऊचुः ॥ ॥
कस्मात्सोमेश्वरं देवं परित्यज्य नराधिप ॥
केदारस्य पुरोऽकार्षीर्जागरं तद्ब्रवीहि नः ॥
नूनं वेत्सि फलं चास्य लिंगस्य त्वं महोदयम् ॥ २३ ॥ ॥
॥ राजोवाच ॥ ॥
शृण्वंतु ब्राह्मणाः सर्वे अन्यदेहोद्भवं मम ॥
पुराऽहं शूद्रजातीय आसं ब्राह्मणपूजकः ॥ २४ ॥
सौराष्ट्रविषये शुभ्रे धनधान्यसमाकुले ॥
अथ कालांतरे तत्र अनावृष्टिरभूद्द्विजाः ॥ २५ ॥
ततोऽहं क्षुधयाविष्टः प्रभासं क्षेत्रमास्थितः ॥
अथापश्यं सरः शुभ्रं हरिणीमूलसंस्थितम् ॥ २६ ॥
तच्च रामसरोनाम पद्मिनीषण्डमंडितम् ॥
क्षीरोदांबुधिसंकाशं दृष्ट्वा स्नातः क्लमान्वितः ॥ २७ ॥
संतर्प्य च पितॄन्देवान्पीत्वा स्वच्छमथोदकम् ॥
ततोऽहं भार्यया प्रोक्तो गृहाणेमान्सरोरुहान् ॥ २८ ॥
एतत्समीपतो रम्यं दृश्यते स्थानमुत्तमम् ॥
विक्रीणीमोऽत्र गत्वा तु येन स्याद्भोजनं विभो ॥ २९ ॥
अथावतीर्य सलिलं गृहीतानि मया द्विजाः ॥
कमलानि सुभू रीणि प्रस्थितश्च पुरं प्रति ॥ 7.1.39.३० ॥
तत्र गत्वा च रथ्यासु चत्वरेषु त्रिकेषु च ॥
प्रफुल्लकमलान्येव क्रेतुं वै मुनिसत्तमाः ॥ ३१ ॥
न कश्चित्प्रति गृह्णाति अस्तं प्राप्तो दिवाकरः ॥
प्रासादं कंचिदासाद्य सुप्तोहं सह भार्यया ॥३२॥
तत्र सुप्तस्य मे बुद्धिः श्रुत्वा गीतध्वनिं तदा ॥
समुत्पन्ना सभा र्यस्य क्षुधार्तस्य विशेषतः ॥
नूनं जागरणं ह्येतत्कस्मिंश्चिद्विबुधालये ॥ ३३ ॥
सरोरुहाणि चादाय व्रजाम्यत्र सुरालये ॥
यदि कश्चित्प्रगृह्णाति प्राणयात्रा ततो भवेत् ॥ ३४ ॥
अथोत्थाय समायातो ह्यत्राहं मुनिपुंगवाः ॥
अपश्यं लिंगमेतत्तु पूजितं कुसुमैः शुभैः ॥ ३५ ॥
रुद्रेश्वराभिधमिदं वृद्धलिंगं स्वयंभुवम् ॥
वेश्यानंगवतीनाम्नी शिवरात्रिपरायणा ॥ ३६ ॥
जागर्त्ति पुरतस्तस्य गीतनृत्योत्सवादिना ॥
ततः कश्चिन्मया दृष्टः किमेतद्रात्रिजागरम् ॥३७॥
केयं स्त्री दृश्यतेऽत्यर्थं गीतनृत्योत्सवे रता ॥
सोऽब्रवीच्छिवधर्मोक्ता शिवरात्रिः सुधर्मदा ॥३८॥
तां चानंगवतीनाम्नी वेश्येयं धर्मसंयुता ॥
जागर्त्ति परमं श्रेयः शिवरात्रिव्रतं शुभम्॥ ३९ ॥
शिवरात्रिव्रतं ह्येतद्यः सम्यक्कुरुते नरः ॥
न स दुःखमवाप्नोति न दारि द्र्यं न बंधनम्॥ 7.1.39.४० ॥
दुष्टं चारिष्टयोगं वा न रोगं न भयं क्वचित् ॥
सुखसौभाग्यसंपन्नो जायते सत्कुले नरः ॥ ४१ ॥
तेजस्वी च यशस्वी च सर्वकल्याणभाजनम् ॥
भवेदस्य प्रसादेन एवमाहुर्मनीषिणः ॥ ४२ ॥
॥ राजोवाच ॥ ॥
अथ मे बुद्धिरुत्पन्ना तद्व्रतं प्रति निश्चला ॥
चिंतितं मनसा ह्येतन्मयाब्राह्मणसत्तमाः ॥ ४३ ॥
अन्नाभावान्ममोत्पन्न उपवासो बलाद्यतः ॥
तदहं पद्मके तीर्थेस्नात्वा च लवणांभसि ॥ ४४ ॥
एतैः सरोरुहैर्देवं पूजयामि महेश्वरम्॥
ततो मया सभार्येण रुद्रेशः संप्रपूजितः ॥ ४५ ॥
पद्मैश्च भक्तियुक्तेन सभार्येण विशेषतः ॥
जाग्रत्स्थितस्तु देवाग्रे तां रात्रिं सह भार्यया ॥ ४६ ॥
ततः प्रभातसमय उदिते सूर्यमण्डले ॥
सा वेश्या मामुवाचेदं कलधौतपलत्रयम् ॥ ४७ ॥
गृहाणमूल्यं पद्मानां न गृहीतं मया हि तत् ॥
सात्त्विकं भावमास्थाय सभार्येण द्विजोत्तमाः ॥ ४८ ॥
ततो भिक्षां समाहृत्य प्राणयात्रा मया कृता ॥
कालेन महता प्राप्तः कालधर्मं मुनीश्वराः ॥ ४९ ॥
इयं मे दयिता साध्वी प्राणेभ्योऽपि गरीयसी ॥
मम देहं समादाय प्रविष्टा हव्यवाहनम्॥ ॥ 7.1.39.५० ॥
तत्प्रभावादहं जातः सर्वभौमो महीपतिः ॥
जातिस्मरः सभार्यस्तु सत्यमेतद्द्विजोत्तमाः ॥ ५१ ॥
एतस्मात्कारणादस्य भक्तिर्लिंगस्य चोपरि ॥
मम नित्यं सभार्यस्य सत्यमेतद्ब्रवीमि वः ॥ ५२ ॥
मया क्रियाविहीनेन भक्तिबाह्येन सत्तमाः ॥
व्रतमेतत्समाचीर्णं तस्येदं सुमहत्फ लम्॥ ५३ ॥
अधुना भक्तियुक्तस्य यथोपकरणान्मम ॥
भविष्ये यत्फलं किंचिन्नो वेद्मि च मुनीश्वराः ॥
येन सोमेशमुत्सृज्य अत्राहं भक्ति तत्परः ॥ ५४ ॥
॥ ईश्वर उवाच ॥ ॥
एवं श्रुत्वा तु ते विप्रा विस्मयोत्फुल्ललोचनाः ॥
साधुसाध्विति जल्पंतो राजानं संप्रशंसिरे ॥ ५५ ॥
पूजयामासुरनिशं लिंगं तत्र स्वयंभुवम् ॥
ततोऽसौ पार्थिवश्रेष्ठो लिंगस्यास्यप्रसादतः ॥
संसिद्धिं परमां प्राप्तो दुर्ल्लभां त्रिदशैरपि ॥ ५६ ॥
सा च वेश्या भगवती शिवरात्रिप्रभावतः ॥
तस्य लिंगस्य माहात्म्याद्रंभानामाप्सराऽभवत् ॥ ५७ ॥
तस्मात्सर्वप्रयत्नेन तल्लिंगं पूजयेद्बुधः ॥
धर्मकामार्थमोक्षं च यो वांछत्यखिलप्रदम् ॥ ५८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये केदारेश्वर (रुद्रेश्वर)लिङ्गमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः॥३९॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 40
ईश्वर उवाच॥
ततो गच्छेन्महादेवि श्वेतकेतुप्रतिष्ठितम्॥
लिंगं महाप्रभावं तु भीमेनाराधितं पुरा॥१॥
केदारेश्वरसांनिध्ये नातिदूरे व्यवस्थितम्॥
पूजयते त्तद्विधानेन क्षीरस्नानादिभिः क्रमात् ॥
यात्राफलमभिप्रेप्सुः प्रेत्य स्वर्गफलाय वै ॥ २ ॥
॥ देव्युवाच ॥ ॥
श्वेतकेतोस्तु यद्देव लिंगं प्रोक्तं त्वया मम ॥
तस्य जातं कथं देव नाम भीमेश्वरेति च ॥ ३ ॥
कथं विनिर्मितं पूर्वं तस्मिन्दृष्टे तु किं फलम् ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
आसीत्त्रेतायुगे पूर्वं राजा स्वायंभुवेंतरे ॥
श्वेतकेतुरिति ख्यातो राजर्षिः सुमहातपाः ॥ ५ ॥
स प्रभासं समागत्य प्रतिष्ठाप्य महे श्वरम् ॥
तपस्तेपे सुविपुलं सागरस्य तटे शुभे ॥ ६ ॥
पंचाग्निसाधको ग्रीष्मे वर्षास्वाकाशगस्तथा ॥
हेमंते जलमध्यस्थो नव वर्षाणि पंच च ॥ ७ ॥
ततश्चतुर्द्दशे देवि तपसा नियमेन च ॥
तुष्टेनोक्तो मया देवि वरं वरय सुव्रत ॥ ८ ॥
श्वेतकेतुरथोवाच भक्तिं देहि सुनिश्चलाम् ॥
स्थानेऽस्मिन्स्थीयतां देव यदि तुष्टोऽसि मे प्रभो ॥ ९ ॥
एवमस्त्वित्यथोक्त्वाऽहं तस्यांतर्द्धानमागतः ॥
ततः कालांतरेऽतीते श्वेतकेतुर्महाप्रभः ॥ 7.1.40.१० ॥
समाराध्य त्विदं लिंगं प्राप्तः स्थानं महोदयम् ॥
ततो जातं नाम तस्य श्वेतकेत्वीश्वरं श्रुतम् ॥ ११ ॥
अग्नितीर्थे महापुण्ये सर्वपातकनाशने ॥
ततः कलियुगे प्राप्ते भ्रातृभिश्च समन्वितः ॥ १२ ॥
तीर्थयात्राप्रसंगेन यदा प्रभासमागतः ॥
भीमसेनो महाबाहुर्वायुपुत्रो ममांशजः ॥ १३ ॥
तल्लिंगं पूजयामास कृत्वा जागेश्वरं निजम् ॥
मत्वा तीर्थं महापुण्यं सागरस्य समीपतः ॥ १४ ॥
तदा प्रभृति भीमेशं पुनर्नामाऽभवच्छुभम् ॥
दृष्टमात्रेण तेनैव सकृल्लिंगेन भामिनि ॥ १५ ॥
अन्यजन्मकृतान्येव पापानि सुबहून्यपि ॥
नाशमायांति सर्वाणि तथैवामुष्मिकाणि तु ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भीमेश्वरमाहात्म्यवर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 41
॥ ईश्वर उवाच ॥ ॥
तस्यैव पूर्वदिग्भागे सरस्वत्या प्रतिष्ठितम् ॥
लिंगं महाप्रभावं तु सोमेशादग्निगोचरे ॥ १ ॥
भैरवेश्वररूपस्तु वाडवः कुम्भसंस्थितः ॥
यत्र देव्या समानीतः सागरस्य समीपतः ॥ २ ॥
विश्रामार्थं क्षणं मुक्त्वा देव्या लिंगं प्रतिष्ठितम् ॥
समभ्यर्च्य विधानेन गृहीत्वा वडवानलम्॥
समुद्रमध्ये चिक्षेप देवानां हितकाम्यया ॥ ३ ॥
ततो हृष्टतरा देवाः शंखदुन्दुभिनिःस्वनैः ॥
पूरयन्तोंऽबरं देवीमीडिरे पुष्पवृष्टिभिः ॥ ४ ॥
देवमातेति ते नाम कृत्वोचुस्तां तदा सुराः ॥
कृत्वा तु भैरवं कार्यमसाध्यं देवदानवैः ॥ ५ ॥
प्रतिष्ठितवती चात्र यस्माल्लिंगं महोदयम् ॥
त्वं सर्वसरितां श्रेष्ठा सर्वपातकनाशिनी ॥
तस्माद्भैरवनामेति लिंगं ख्यातिं गमिष्यति ॥ ६ ॥
इत्युक्ता तु तदा देवी भैरवेश्वरनैर्ऋते ॥
सागरस्य स्थिता रम्ये तत्र मूर्त्तिमती सती ॥ ७ ॥
पूजयेत्तां विधानेन तं तथा भैरवेश्वरम् ॥
महानवम्यां यत्नेन कृत्वा स्नानं विधानतः ॥
सरस्वतीं पूजयित्वा वाग्दोषान्मुच्यतेऽखिलात् ॥ ८ ॥
तस्या लिंगं तु संपूज्य संस्नाप्य पयसा पृथक् ॥
अघोरेणैव विधिवत्सम्यग्यात्राफलं लभेत् ॥ ९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भैरवेश्वरमाहात्म्यवर्णनंनामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 42
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि चण्डीशं देवमुत्तमम् ॥
सोमेशादीशदिग्भागे धनुषां सप्तके स्थितम् ॥ १ ॥
दण्डपाणेस्तु भवनाद्दक्षिणे नातिदूरगम् ॥
चंड्या प्रतिष्ठितं पूर्वं चण्डेनाराधितं ततः ॥ २ ॥
गणेन मम देवेशि तत्कृत्वा दुष्करं तपः ॥
तेन चण्डेश्वरं लिंगं प्रख्यातं धरणीतले ॥ ३ ॥
स्नापयेत्पयसा पूर्वं दध्ना घृतयुतेन च ॥
मधुनेक्षुरसेनैव कुंकुमेन विलेपयेत् ॥ ४ ॥
कर्पूरोशीरमिश्रेण मृगनाभिरसेन च ॥
चन्दनेन सुगन्धेन पुष्पैः संपूजयेत्ततः ॥ ५ ॥
दग्ध्वा धूपं पुरो देवि ततो देवस्य चागुरुम् ॥
वस्त्रैः संपूजयेत्पश्चादात्मवित्तानुसारतः ॥ ६ ॥
नैवेद्यं परमान्नं च दत्त्वा दीपसम न्वितम् ॥
ततो दद्याद्द्विजातिभ्यो यथाशक्त्या तु दक्षिणाम्॥ ७ ॥
दक्षिणां दिशमास्थाय यत्किंचित्तत्र दीयते॥
चण्डीशस्य वरारोहे तत्सर्वं चाक्षयं भवेत् ॥ ८ ॥
यः श्राद्धं कुरुते तत्र चण्डीशस्य तु दक्षिणे ॥
आकल्पं तृप्तिमायांति पितरस्तस्य भामिनि ॥ ९ ॥
अयने चोत्तरे प्राप्ते यः कुर्याद्घृत कम्बलम् ॥
न स भूयोऽत्र संसारे जन्म प्राप्नोति दारुणम्॥ 7.1.42.१० ॥
एवं कृत्वा नरो भक्त्या यात्रां देवस्य शूलिनः ॥
निर्माल्यातिक्रमोद्भूतैरज्ञानाद्भक्षणोद्भवैः ॥
पापैः प्रमुच्यते जंतुस्तथाऽन्यैः कर्मसंभवैः ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये चण्डीशमाहात्म्यवर्णनंनामद्विचत्वारिंशोऽध्यायः ॥ ४२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 43
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेद्वरारोहे लिंगं सूर्यप्रतिष्ठितम् ॥
सोमेशात्पश्चिमे भागे धनुषां सप्तके स्थितम्॥
आदित्येश्वरनामानं सर्वपातकनाशनम् ॥ १ ॥
त्रेतायुगे महादेवि समुद्रेण महात्मना ॥
रत्नैः संपूजितं लिंगं वर्षाणामयुतं प्रिये ॥ २ ॥
तेन रत्नेश्वरंनाम सांप्रतं प्रथितं क्षितौ ॥
पंचामृतेन संस्नाप्य पंचरत्नैः प्रपूजयेत् ॥३॥
ततो राजोपचारेण पूजयेद्विधिवन्नरः ॥
एवं कृते महादेवि मेरुदानफलं लभेत् ॥४॥
सर्वेषां चैव यज्ञानां दानानां नात्र संशयः ॥५॥
तीर्थानां चापि सर्वेषां यच्चान्यत्सुकृतं भुवि ॥
उद्धरेत्पितृवर्गं च मातृवर्गं च मानवः ॥ ६ ॥
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥
क्षालयेच्चैव तत्सर्वं दृष्ट्वा रत्नेश्वरं नरः ॥ ७ ॥
धेनुदानं प्रशंसंति तस्मिन्स्थाने महर्षयः ॥
धेनुदस्तारयेन्नूनं दश पूर्वान्दशापरान् ॥ ८ ॥
देवस्य दक्षिणे भागे यो जपेच्छतरुद्रियम् ॥
संपूज्य विधिवल्लिंगं न स भूयः प्रजायते ॥९॥
एवं संक्षेपतः प्रोक्तमादित्येशमहोदयम् ॥
श्रुत्वाऽवधार्य यत्नेन मुच्यते कर्मबंधनैः ॥ 7.1.43.१० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य आदित्येश्वरमाहात्म्यवर्णनंनाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 44
॥ ईश्वर उवाच ॥ ॥
आदित्येशं समभ्यर्च्य पुनः सोमेश्वरं व्रजेत् ॥
तं संपूज्य विधानेन पंचांगेन विशेषतः ॥ १ ॥
दृष्ट्वा सोमेश्वरं चैव साष्टांगं प्रणिपत्य च ॥
प्रदक्षिणादिकं कुर्यात्संपश्येच्च पुनःपुनः ॥ २ ॥
सूर्याचन्द्रमसोर्लिंगं त्रिःकृत्वा प्रयतः शुचिः ॥
अग्नीषोमात्मकं कर्म तेन सर्वं कृतं भवेत् ॥ ३ ॥
उमादेवीं ततो गच्छेत्सोमेश्वरसमीपतः ॥
द्वितीयां तु ततो गच्छेद्दैत्यसूदनसन्निधौ ॥ ४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रमासक्षेत्रमाहात्म्ये सोमेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 45
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि अंगारेश्वरमुत्तमम् ॥
स्थापितं भूमिपुत्रेण सोमेशादीश गोचरे ॥ १ ॥
त्रिपुरं दग्धुकामस्य पुरा मम वरानने ॥
क्रोधादश्रु विनिष्क्रांतं लोचनत्रितयेन तु ॥२॥
तच्च भूमौ निपतितं ततो भूभिसुतोऽभवत् ॥
स प्रभासं ततो गत्वा बाल्यात्प्रभृति शंकरम् ॥ ३ ॥
तपसाऽऽराधयामास बहून्वर्षगणान्प्रिये ॥
तस्य तुष्टो महादेवः सुप्रीतात्मा वरं ददौ ॥ ४ ॥
सोऽब्रवीद्यदि मे देव तुष्टोसि वृषभध्वज ॥
ग्रहत्वं देहि सर्वेश न चान्यं वरमुत्सहे ॥ ५ ॥
स तथेति प्रतिज्ञाय पुनस्तं वाक्यमब्रवीत् ॥
इहागत्य नरो यो मां पूजयिष्यति भक्तितः ॥ ६ ॥
न भविष्यति वै पीडा तावकी तस्य कुत्रचित् ॥
पुष्पाणि रक्तवर्णानि मध्वाज्याक्तानि भूरिशः ॥ ७ ॥
होमयिष्यति यो भक्त्या लक्षमेकं तदग्रतः ॥
पंचोपचारविधिना त्वां तु संपूज्य यत्नतः ॥ ८ ॥
तस्य जन्मावधिर्नैव तव पीडा भविष्यति ॥।
तथा विद्रुमदानेन लप्स्यते फलमीप्सितम् ॥ ९ ॥
एवमुक्त्वा स भगवानत्रैवांतरधीयन ॥
भौमोऽपि ग्रहमध्यस्थो विमानेन विराजते ॥7.1.45.१०॥
एवं संक्षेपतः प्रोक्तं भौममाहात्म्यमुत्तमम्॥
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येंऽगारेश्वरमाहात्म्यवर्णनंनाम पञ्चचत्वारिंशोध्यायः ॥ ४५ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 46
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्यैवोत्तरतः स्थितम् ॥
लिंगं महाप्रभावं तु बुधेश्वरमिति श्रुतम् ॥ १ ॥
धनुषां द्वितये चैव नातिदूरे व्यवस्थितम् ॥
सर्वपाप हरं लिंगं दर्शनादेव भामिनि ॥ २ ॥
बुधेन चैव देवेशि तत्र तप्तं महातपः ॥
स्थापितं विमलं लिंगं समाराध्य सदाशिवम् ॥ ३ ॥
वर्षायुतानि चत्वारि संपूज्य तु विधानतः ॥
अनन्यचेताः शांतात्मा प्रत्यक्षीकृतवान्भवम्॥ ४ ॥
ततस्तुष्टमना देवो ग्रहत्वं तस्य तद्ददौ ॥
तं संपूज्य विधानेन सोमपुत्रप्रतिष्ठितम्॥
सौम्याष्टम्यां विशेषेण राजसूयफलं लभेत् ॥ ५ ॥
न दौर्भाग्यं कुले तस्य न चैवेष्टवियोजनम् ॥
शत्रुतो न भयं तस्य भवेत्तस्यप्रसादतः ॥ ६ ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं बुधदैवतम्॥
श्रुत्वाऽभिनंद्य प्रयतः प्राप्नोति परमं पदम् ॥ ७ ॥
इति श्रीस्कान्दे महापु राण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बुधेश्वरमाहात्म्यवर्णनंनामषट्चत्वारिंशोऽध्यायः ॥ ४६ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 47
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवं गुरुनिषेवितम्॥
उमायाः पूर्वदिग्भागे सिद्धेशाग्नेयगोचरे ॥ १ ॥
संस्थितं तु महल्लिंगं देवाचार्य प्रतिष्ठितम् ॥
आराध्य परया भक्त्या लिंगं वर्षसहस्रकम् ॥ २ ॥
तोषयामास देवेशं भवं शर्वमुमापतिम् ॥
प्राप्तवानखिलान्कामानप्राप्यानकृतात्मभिः ॥ ३ ॥
देवानां चैव पूज्यत्वं प्राप्य ज्ञानमथैश्वरम्॥
ग्रहत्वं च तथा प्राप्य मोदते दिवि सांप्रतम् ॥ ४ ॥
तं दृष्ट्वा मानवो भक्त्या न दुर्गति मवाप्नुयात्॥
बृहस्पतिकृतं लिंगं ये पश्यंति नरोत्तमाः ॥ ५ ॥
बृहस्पतिकृता पीडा नैव तेषां हि जायते ॥
तत्र शुक्लचतुर्दश्यां गुरुवारे तथा प्रिये ॥ ॥ ६ ॥
संपूज्य विधिवल्लिंगं सम्यग्राजोपचारतः ॥
अथवा भक्तिभावेन प्राप्नुयात्परमं पदम् ॥ ७ ॥
स्नानं पलसहस्रेण पंचामृतरसेन यः ॥
करोति भक्त्या मर्त्यो वै मुच्यते स ऋणत्रयात् ॥८॥
मातृकात्पैतृकाद्देवि तथा गुरुसमुद्भवात् ॥
सर्वपापविशुद्धात्मा निर्द्वंद्वो मुक्तिमाप्नुयात् ॥ ९ ॥
एवं संक्षेपतः प्रोक्तं माहात्म्यं गुरुदैवतम् ॥
शृणुयाद्यस्तु भावेन तस्य प्रीतो गुरुर्भवेत् ॥ 7.1.47.१० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वृहस्पतीश्वरमाहात्म्यवर्णनंनाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 48
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं शुक्रप्रतिष्ठितम्॥
सर्वपापहरं देवि विभूतीश्वरपश्चिमे॥१॥
नातिदूरे स्थितं तत्र स्वयं शुक्रेण निर्मितम्॥
यत्र संजीवनीं प्राप्तो विद्यां रुद्रप्रभावतः ॥२॥
संतप्य तु महाघोरं तपोवर्षसहस्रकम् ॥
संप्रसाद्य विरूपाक्षं योऽवाप ग्रहतां सुधीः ॥३॥
ग्रस्तेन शंभुना येन देवकार्यार्थसिद्धये ॥
तत्रोदरगतेनैव तपस्तप्तं सुदुष्करम्॥ ४॥
वर्षाणामयुतं साग्रं तुष्टिं नीतो महेश्वरः ॥
निष्कासितस्ततः शीघ्रं शुक्र मार्गेण शंभुना ॥५॥
ततः शुक्रेति नामाभूद्भार्गवस्य महात्मनः ॥
तदाराधयते लिंगं यः कृत्वा निश्चलं मनः ॥६॥
मृत्युंजयं जपेल्लक्षं स समीहितमाप्नुयात्॥७॥
तं दृष्ट्वा त्वथवा स्पृष्ट्वा जन्मादिमरणान्तकात्॥
मुच्यते पातकान्मृत्योः प्रसादात्तस्य भामिनि॥८॥
मृतसंजीवनार्थं यदैश्वर्यमणिमादिकम्॥
प्राप्नुयान्नात्र संदेहो यस्य भक्तिः सुनिश्चला ॥९॥
पंचामृतेन संस्नाप्य देवं शुकप्रतिष्ठितम्॥
सुगन्धपुष्पैः संपूज्य शौक्रीं पीडां स नाप्नुयात् ॥7.1.48.१०॥
इति सर्वं समासेन माहात्म्यं शुक्रदैवतम् ॥
कथितं तव सुश्रोणि श्रुतं पापभयापहम् ॥११॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शुक्रेश्वरमाहात्म्यवर्णनंनामाष्टचत्वारिंशोध्यायः ॥ ४८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 49
॥ ईश्वर उवाच ॥ ॥
तस्माच्छुक्रेश्वराद्गच्छेद्देवि लिंगं महाप्रभम्॥
शनैश्चरैश्वरंनाम महापातकनाशनम् ॥ १ ॥
बुधेश्वरात्पश्चिमतो ह्यजादेव्यग्निगोचरे ॥
तस्या धनुः पंचकेन नातिदूरे व्यवस्थितम् ॥ २ ॥
कल्पलिंगं महादेवि पूजितं देवदानवैः ॥
छायापुत्रेण संतप्तं तपः परमदुष्करम् ॥ ३ ॥
अनादि निधनो देवो येन लिंगेऽवतारितः ॥
प्राप्तवान्यो ग्रहेशत्वं भक्त्या शंभोः प्रसादतः ॥ ४ ॥
यस्य दृष्ट्या बिभेति स्म देवासुरगणो महान् ॥
न स कोऽप्यस्ति वै प्राणी ब्रह्मांडे सचराचरे ॥ ५ ॥
देवो वा दानवो वापि सौरिणा पीडितो न यः ॥
शनिवारेण संपूज्य भक्त्या सौरीश्वरं शिवम् ॥ ॥ ६ ॥
शमीपत्रैर्महादेवि तिलमाषगुडौदनैः ॥
संतर्प्य तु विधानेन दद्यात्कृष्णं वृषं द्विजे ॥ ७ ॥
स्तुत्वा स्तोत्रैश्च विविधैः पुराणश्रुतिसंभवैः ॥
अथ वैकेन देवेशः स्तोत्रेण परितोषितः ॥ ८ ॥
राज्ञा दशरथेनैव कृतेन तु बलीयसा ॥
स्तुत्यः सौरीश्वरो देवः सर्वपीडोपशांतये॥ ९ ॥
॥ देव्यु वाच ॥ ॥
कथं दशरथो राजा चक्रे शानैश्चरीं स्तुतिम् ॥
कथं संतुष्टिमगमत्तस्य देवः शनैश्चरः ॥ 7.1.49.१० ॥
॥ ईश्वर उवाच ॥ ॥
रघुवंशेऽति विख्यातो राजा दशरथो बली ॥
चक्रवर्ती स विज्ञेयः सप्तद्वीपाधिपः पुरा ॥ ११ ॥
कृत्तिकांते शनिं कृत्वा दैवज्ञैर्ज्ञापितो हि सः ॥
रोहिणीं भेद यित्वा तु शनिर्यास्यति सांप्रतम् ॥ १२ ॥
उक्तं शकटभेदं तु सुरासुरभयंकरम् ॥
द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम् ॥ १३ ॥
एतच्छ्रुत्वा मुनेर्वाक्यं मंत्रिभिः सहितो नृपः ॥
आकुलं तु जगद्दृष्ट्वा पौरजानपदादिकम् ॥ १४ ॥
वदंति सततं लोका नियमेन समागताः ॥
देशाश्च नगर ग्रामा भयाक्रांताः समंततः ॥
मुनीन्वसिष्ठप्रमुखान्पप्रच्छ च स्वयं नृपः ॥ १५ ॥
॥ दशरथ उवाच ॥ ॥
समाधानं किमत्रास्ते ब्रूहि मे द्विज सत्तम ॥ १६ ॥
॥ वसिष्ठ उवाच ॥ ॥
प्राजापत्ये च नक्षत्रे तस्मिन्भिन्ने कुतः प्रजाः ॥
अयं योगो ह्यसाध्यस्तु ब्रह्मादींद्रादिभिः सुरैः॥ ॥ १७ ॥
तदा संचिंत्य मनसा साहसं परमं महत् ॥
समादाय धनुर्दिव्यं दिव्यैरस्त्रैः समन्वितम् ॥ १८ ॥
रथमारुह्य वेगेन गतो नक्षत्रमंडलम् ॥।
रथं तु कांचनं दिव्यं मणिरत्नविभूषितम् ॥ १९ ॥
ध्वजैश्च चामरैश्छत्रैः किंकिणैरथ शोभितम्॥
हंसवर्णहयैर्युक्तं महाकेतुसमन्वितम् ॥ 7.1.49.२० ॥
दीप्यमानो महारत्नैः किरीटमुकुटोज्ज्वलः ॥
बभ्राज स तदाकाशे द्वितीय इव भास्करः ॥ २१ ॥
आकर्णं चापमापूर्य संहारास्त्रं नियोज्य च ॥
कृत्तिकांते शनिं ज्ञात्वा प्रविश्य किल रोहिणीम् ॥ २२ ॥
दृष्ट्वा दशरथोऽस्याग्रे तस्थौ सभ्रुकुटीमुखः ॥
संहारास्त्रं शनिर्दृष्ट्वा सुरासुरविमर्द्दनम्॥ ॥ २३ ॥
हसित्वा तद्रयात्सौरिरिदं वचनमब्रवीत् ॥
पौरुषं तव राजेंद्र परं रिपुभयंकरम् ॥ २४ ॥
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥
मया विलोकिताः सर्वे भयं चाशु व्रजंति ते ॥ २५ ॥
तुष्टोहं तव राजेंद्र तपसा पौरुषेण च ॥
वरं ब्रूहि प्रदास्यामि मनसा यदभीप्सितम् ॥ २६ ॥ ॥
॥ दशरथ उवाच ॥ ॥
रोहिणीं भेदयित्वा तु न गंतव्यं त्वया शने ॥
सरितः सागरा यावद्यावच्चद्रार्कमेदिनी ॥ २७ ॥
याचितं ते मया सौरे नान्य मिच्छामि ते वरम् ॥
एवमुक्तः शनिः प्रादाद्वरं तस्मै तु शाश्वतम् ॥ २८ ॥
प्राप्यैवं तु वरं राजा कृतकृत्योऽभवत्तदा ॥
पुनरेवाब्रवीत्सौरिर्वरं वरय सुव्रत ॥ २९ ॥
प्रार्थयामास हृष्टात्मा वरमेवं शनेस्तदा ॥
न भेत्तव्यं च शकटं त्वया भास्करनंदन ॥ 7.1.49.३० ॥
द्वादशाब्दं तु दुर्भिक्षं न कर्तव्यं कदाचन ॥
कीर्तिरेषा मदीया च त्रैलोक्ये विचरिष्यति ॥ ३१ ॥
॥ ईश्वर उवाच ॥ ॥
वरद्वयं ततः प्राप्य हृष्टरोमा स पार्थिवः ॥
रथोपरि धनुर्मुक्त्वा भूत्वा चैव कृतांजलिः ॥ ३२ ॥
ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम् ॥
राजा दशरथः स्तोत्रं सौरेरिदमथाकरोत् ॥ ३३ ॥ ॥
॥ राजोवाच ॥ ॥
नमो नीलमयूखाय नीलोत्पलनिभाय च ॥
नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च ॥३४॥
नमो विशालनेत्राय शुष्कोदरभयान क ॥
नमः परुषगात्राय स्थूलरोमाय वै नमः ॥ ३५ ॥
नमो नित्यं क्षुधार्त्ताय नित्यतप्ताय वै नमः ॥
नमः कालाग्निरूपाय कृतांतक नमोस्तु ते ॥ ३६ ॥
नमो दीर्घाय शुष्काय कालदृष्टे नमोऽस्तु ते ॥
नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः ॥३७॥
नमो घोराय रौद्राय भीषणाय करा लिने ॥
नमस्ते सर्वभक्षाय वलीमुख नमोऽस्तु ते ॥ ३८ ॥
सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदायक ॥
अधोदृष्टे नमस्तुभ्यं वपुःश्याम नमोऽस्तु ते ॥ ३९ ॥
नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोनमः ॥
नमस्त उग्ररूपाय चण्डतेजाय ते नमः ॥ 7.1.49.४० ॥
तपसा दग्धदेहाय नित्यं योगरताय च ॥
नमस्ते ज्ञाननेत्राय कश्यपात्मजसूनवे ॥ ४१ ॥
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥
देवासुरमनुष्याश्च पशुपक्षिसरीसृपाः ॥४२॥
त्वया विलोकिताः सौरे दैन्यमाशु व्रजंति च ॥
ब्रह्मा शक्रो यमश्चैव ऋषयः सप्ततारकाः ॥ ४३ ॥
राज्यभ्रष्टाश्च ते सर्वे तव दृष्ट्या विलोकिताः ॥
देशाश्च नगरग्रामा द्वीपाश्चैवाद्रयस्तथा ॥ ४४ ॥
रौद्रदृष्ट्या तु ये दृष्टाः क्षयं गच्छंति तत्क्षणात् ॥ ४५ ॥
प्रसादं कुरु मे सौरे वरार्थेऽहं तवाश्रितः
सौरे क्षमस्वापराधं सर्वभूतहिताय च ॥ ४६ ॥
॥ ईश्वर उवाच ॥ ॥
एवं स्तुतस्तदा सौरी राज्ञा दशरथेन च ॥
महराजः शनिर्वाक्यं हृष्टरो माऽब्रवीदिदम् ॥ ४७ ॥
॥ शनिरुवाच ॥ ॥
तुष्टोऽहं तव राजेन्द्र स्तवेनानेन सुव्रत ॥
वरं ब्रूहि प्रदास्यामि स्वेच्छया रघुनंदन ॥ ४८ ॥ ॥
॥ दशरथ उवाच ॥ ॥
अद्यप्रभृति पिंगाक्ष पीडा कार्या न कस्यचित् ॥
देवासुरमनुष्याणां पशुपक्षिसरीसृपाम् ॥ ४९ ॥
॥ शनिरुवाच ॥ ॥
ग्रहाणां दुर्ग्रहो ज्ञेयो ग्रहपीडां करोम्यहम् ॥
अदेयं प्रार्थितं राजन्किंचिद्युक्तं ददाम्यहम् ॥ 7.1.49.५० ॥
त्वया प्रोक्तं मम स्तोत्रं ये पठि ष्यंति मानवाः ॥
पुरुषाश्च स्त्रियो वापि मद्भयेनोपपीडिताः ॥ ५१ ॥
देवासुरमनुष्यास्तु सिद्धविद्याधरोरगाः ॥
मृत्युस्थाने स्थितो वापि जन्मप्रांतगतस्तथा ॥ ५२ ॥
एककालं द्विकालं वा तेषां श्रेयो ददाम्यहम् ॥
पूजयित्वा जपेत्स्तोत्रं भूत्वा चैव कृतांजलिः ॥ ५३ ॥
तस्य पीडां न चैवाहमिह कुर्यां कदाचन ॥
जन्मस्थाने स्थितो वापि मृत्युस्थाने स्थितोऽपि च ॥ ५४ ॥
जन्मऋक्षे च लग्ने च दशास्वंतर्दशासु च ॥
रक्षामि सततं तस्य पीडां चान्यग्रहस्य च ॥ ५५ ॥
अनेनैव प्रकारेण र्पाडामुक्तस्त्वसौ भवेत् ॥
एतत्प्रोक्तं मया दत्तं वरं च रघुनंदन ॥ ५६ ॥
॥ ईश्वर उवाच ॥ ॥
वरद्वयं च संप्राप्य राजा दशरथः पुरा ॥
मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम् ॥ ५७ ॥
शनिं स्तुत्वाऽभ्यनुज्ञातो रथमारुह्य वीर्यवान् ॥
स्वस्थानं गतवान्राजा पूज्यमानो दिवौकसैः ॥ ५८ ॥
य इदं प्रातरुत्थाय सौरिवारे पठेन्नरः ॥
सर्वग्रहोद्भवा पीडा न भवेद्भुवि तस्य तु ॥ ५९ ॥
शनैश्चरं स्मरेद्देवं नित्यं भक्तिसमन्वितः ॥
पूजयित्वा पठेत्स्तोत्रं तस्य तुष्यति भास्करिः ॥ 7.1.49.६० ॥
इति ते कथितं देवि माहात्म्यं शनिदैवतम् ॥
सर्वपापोपशमनं सर्वकामफलप्रदम् ॥ ६१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमं प्रभासक्षेत्रमाहात्म्ये शनैश्चरेश्वरमाहात्म्यवर्णनंनामैकोनपञ्चाशोऽध्यायः ॥ ४९ ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 50
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं राहुप्रतिष्ठितम् ॥
शनैश्चरेश्वराद्देवि वायव्ये संप्रतिष्ठितम् ॥ १ ॥
अजादेव्याश्चोत्तरतो धनुषां सप्तके स्थितम् ॥
मंगलायाः समीपस्थं नातिदूरे व्यवस्थितम् ॥ २ ॥
लिंगं महाप्रभावं तु सैंहिकेयप्रतिष्ठितम् ॥
तत्र वर्षसहस्रं तु वैप्रचित्तिस्तपोऽकरोत् ॥ ३ ॥
स्वर्भानुः स महावीर्यो वक्त्रयोधी महासुराः ॥
समाराध्य महादेवं दिव्येन तपसा प्रभुम् ॥ ४ ॥
लिंगेऽवतारयामास जगद्दीपं महेश्वरम् ॥
यश्चैनं पूजयेद्भक्त्या नरः सम्यक्च पश्यति ॥
तस्य पापं क्षयं याति अपि ब्रह्मवधोद्भवम् ॥ ५ ॥
नांधो न बधिरो मूको न रोगी न च निर्द्धनः ॥
कदाचिज्जायते मर्त्यस्तेन दृष्टेन भूतले ॥ ६ ॥
सुखसौभाग्यसंपन्नस्तदा भवति रूपवान् ॥
सर्वकामसमृद्धात्मा मोदते दिवि देववत् ॥ ७ ॥
इति ते कथितं देवि माहात्म्यं राहुदैवतम् ॥
श्रुत्वा तु मोहनिर्यातो नरो निष्कल्मषो भवेत् ॥ ८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये राह्वीश्वरमाहात्म्यवर्णनंनाम पंचाशोऽध्यायः ॥ ५० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 51
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि केतुलिंगं महाप्रभम् ॥
राह्वीशानादुत्तरे च मंगलायाश्च दक्षिणे ॥ १ ॥
धनुषोंतरमानेन नातिदूरे व्यवस्थितम् ॥
लिंगं महाप्रभावं हि सर्वपातकनाशनम् ॥ २ ॥
केतुर्नाम ग्रहोत्युग्रः शिवसद्भावभावितः ॥
वर्तुलोऽतीव विस्तीर्णो लोचनाभ्यां सुभीषणः ॥ ३ ॥
पलालधूमसंकाशो ग्रहपीडापहारकः ॥
तत्राकरोत्तपश्चोग्रं दिव्याब्दानां शतं प्रिये ॥ ४ ॥
तस्य तुष्टो महादेवो ग्रह त्वं प्रददौ प्रिये ॥
एकादशशतानां च ग्रहाणामाधिपत्यताम् ॥ ५ ॥
तत्रस्थं पूजयेद्भक्त्या केतुलिंगं महाप्रभम् ॥
केतूदये महाघोरे तस्मिन्दृष्टे विशेषतः ॥ ६ ॥
ग्रहपीडासु चोग्रासु पूजयेत्तं विधानतः ॥
पुष्पैर्गंधैस्तथा धूपैर्नैवेद्यैर्विविधैः शुभैः ॥ ७ ॥
तोषयेद्विधिवद्देवं केतुं कल्मषनाशनम् ॥ ८ ॥
इति संक्षेपतः प्रोक्तं केतुलिंगं महोदयम् ॥
ग्रहपीडोपशमनं सर्वपातकनाशनम् ॥ ९ ॥
एतानि नव लिंगानि ग्रहाणां कथितानि ते ॥
यः पश्यति नरो नित्यं तस्य पीडाभयं कुतः ॥ 7.1.51.१० ॥
न दौर्भाग्यं कुले तस्य न रोगी नैव दुःखितः ॥
जायते पुत्रवद्देवि तं रक्षंति महाग्रहाः ॥ ११ ॥
इति ते कथितं सम्यक्चतुर्दशायतनं प्रिये ॥
विघ्नेश्वरं समारभ्य यावत्केतुप्रतिष्ठितम् ॥ १२ ॥
नवग्रहेश्वराणां तु माहात्म्यं पापनाशनम् ॥
तथैव पंचलिंगानां श्रुत्वा पापैः प्रमुच्यते ॥ १३ ॥
कपर्द्दिनं समारभ्य चंडनाथांतकानि च ॥
पंचैव मुद्रालिंगानि नापुण्यो वेद मानवः ॥ १४ ॥
सूर्येश्वरं समारभ्य केतुलिंगांतकानि वै ॥
नवग्रहाणां लिंगानि नान्यो जानाति कश्चन ॥ १५ ॥
चतुर्दशविधा त्वेवं प्रोक्ताऽऽयतनसंगतिः ॥
यश्चैनां वेद भावेन स क्षेत्रफलमश्नुते ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये केत्वीश्वरमाहात्म्यवर्णननामैकपंचाशोऽध्यायः ॥ ५१ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 52
॥ ईश्वर उवाच ॥ ॥
पंचाथ सिद्धलिंगानि कथयामि यशस्विनि ॥
येषां दर्शनतो देवि सिद्धा यात्रा भवेन्नृणाम् ॥ १ ॥
सोमेशादीशदिग्भागे वरारोहेति या स्मृता ॥
तस्याश्च पूर्वदिग्भागे देवं सिद्धेश्वरं परम् ॥
अभिगम्य नरो भक्त्या अणिमादिकमाप्नुयात् ॥ २ ॥
सिद्धैः प्रतिष्ठितं लिंगं दृष्ट्वा भक्त्या तु मानवः ॥
मुच्यते पातकैः सर्वैः सिद्धलोकं स गच्छति ॥ ३ ॥
विघ्नानि नाशमायांति तत्र क्षेत्रनिवासिनाम् ॥
कामः क्रोधो भय लोभो रागो मत्सर एव च ॥ ४ ॥
ईर्ष्या दंभस्तथाऽऽलस्यं निद्रा मोहस्त्वहंकृतिः ॥
एतानि विघ्नरूपाणि सिद्धेर्विघ्नकराणि तु ॥ ५ ॥
तानि नाशं समायांति तत्र सिद्धे श्वरार्चनात् ॥
एवं ज्ञात्वा तु यत्नेन तत्र यात्रां समाचरेत् ॥ ६ ॥
इत्येवं कथितं देवि सिद्धेश्वरमहोदयम्॥
सर्वकामप्रदं नृणां श्रुतं पातकनाशनम् ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 53
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कपिलेश्वरमुत्तमम्॥
तस्यैव पूर्वदिग्भागे नातिदूरे व्यव स्थितम् ॥ १ ॥
लिंगं महाप्रभावं तु दर्शनात्पापनाशनम् ॥
कपिलोनाम राजर्षिर्यत्र तप्त्वा महातपः ॥ २ ॥
संप्राप्तः परमां सिद्धिं प्रतिष्ठाप्य महेश्वरम् ॥
देवसांनिध्यमीशानं तस्मिँल्लिंगे सदा हरिः ॥ ३ ॥
शुक्लपक्षे चतुर्दश्यां सर्वलोकहितार्थतः ॥
सप्तकृत्वो महादेवं सोमेशं कपिलेश्वरम्॥
यः पश्येत्प्रयतो भूत्वा स गोदानफलं लभेत् ॥ ४ ॥
तिलधेनुं च यो दद्यात्तस्मिंस्तीर्थे समाहितः ॥
तिलसंख्यायुगान्येव स स्वर्गे वसति प्रिये ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कपिलेश्वरमाहात्म्यवर्णनं नाम त्रिपञ्चाशोऽध्यायः ॥ ५३ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 54
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गंधर्वेश्वरमुत्तमम् ॥
दण्डपाणेस्तु भवनादुत्तरे निकटे स्थितम्॥१॥
यत्र गंधर्वराजो वै घनवाहेति विश्रुतः॥
तस्य गंधर्वसेनेति ख्याता पुत्री महाप्रभा॥२॥
शिखंडिना गणेनैव सा शप्ता रूपगर्विता॥
ततो गोशृंगऋषिणा दत्तस्तस्या अनुग्रहः॥३॥
सोमवारव्रतेनैव सोमेशाराधनं प्रति॥
ततः क्षेत्रं समागत्य तपः कृत्वा सुदुश्चरम्॥४॥
लिंगं प्रतिष्ठयामास तत्र गंधर्वराट् स्वयम्॥
तथैव पुत्र्या तस्यैव तत्र लिंगं प्रतिष्ठितम्॥५॥
अथ तत्रैव देवेशि दंडपाणेः समीपतः ॥
घनवाहेश्वरं नाम यो लिंगं यत्नतोऽर्चयेत् ॥ ६ ॥
गंधर्वलोकमाप्नोति दृष्ट्वा स प्रयतः शुचिः ॥
इति ते कथितं देवि गांधर्वं लिंगमुत्तमम् ॥ ७ ॥
तृतीयं सर्वपापानां नाशनं पुण्यवर्द्धनम् ॥
अग्नितीर्थे नरः स्नात्वा पूज्य गंधर्वपूजितम् ॥ ८ ॥
अयने चोत्तरे प्राप्ते निर्वाणमधिगच्छति ॥
श्रुत्वा ऽभिनंद्य माहात्म्यं मुच्यते महतो भयात् ॥ ९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये गन्धर्वेश्वरमाहात्म्यवर्णनंनाम चतुःपंचाशोऽध्यायः॥५४॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 55
ईश्वर उवाच॥
ततो गच्छेन्महादेवि तत्पूर्वे विमलेश्वरम्॥
गौर्याः पूर्वं समीपस्थं नातिदूरे व्यवस्थितम्॥१॥
गुरोर्नैर्ऋत्यदिग्भागे स्थितं पापप्रणाशनम्॥
अपि कृत्वा महापापं नारी वा पुरुषोऽपि वा ॥ २ ॥
क्षयाभिभूतदेहो वा तं समभ्यर्च्य भक्तितः ॥
सर्वदुःखान्तगो भूत्वा निर्मलं पदमाप्नुयात् ॥ ३ ॥
गंधर्वसेना यत्रैव विमलाऽभूत्क्षया न्विता ॥
विमलेश्वरनाम्ना वै तल्लिंगं प्रथितं क्षितौ ॥ ४ ॥
इति ते कथितं सर्वं विमलेश्वरसूचकम् ॥
माहात्म्यं सर्वपापघ्नं तुरीयं भवसुन्दरि ॥ ५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये विमलेश्वरमाहात्म्यवर्णनंनाम पञ्चपञ्चाशोऽध्यायः ॥ ५५ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 56
॥ ईश्वर उवाच ॥ ॥
अथ ते पंचमं वच्मि सिद्धलिगं महाप्रभम् ॥
ब्रह्मणो नैर्ऋते भागे धनुषां षोडशे स्थितम् ॥ १ ॥
राहुलिंगस्य चाभ्याशे लिंगं धनदनिर्मितम् ॥
धनदत्वं च संप्राप्तो यत्र तप्त्वा महत्तपः ॥ २ ॥
संस्थाप्य विधिवत्पूज्य लिंगं वर्षसहस्रकम् ॥
अलकाधिपतिर्जातस्तत्र शंभोः प्रसादतः ॥ ३ ॥
जातिं स्मृत्वा पूर्विकां तु ज्ञात्वा दीपदशाफलम् ॥
शिवरात्रे प्रभावं तु प्रभासं पुनरागतः ॥ ४ ॥
प्रभावातिशयं ज्ञात्वा स्थापयामास शंकरम् ॥
तत्र प्रत्यक्षतां नीतस्तपसा येन शंकरः ॥ ५ ॥
महाभक्त्या महादेवि तस्मिँल्लिंगेऽवतारितः ॥
तं दृष्ट्वा मानवो भक्त्या पूजयित्वा यथाविधि ॥ ६ ॥
पञ्चोपचारैः सद्भक्त्या गन्धधूपानुलेपनैः ॥
तस्यान्वये दरिद्रश्च कदापि न भविष्यति ॥ ७ ॥
ये चैतत्पूजयिष्यंति लिंगं भक्तियुता नराः ॥
अजेयास्ते भविष्यंति शत्रूणां दर्पनाशनाः ॥ ८ ॥
इति ते कथितं सर्वं धनदेशमहोदयम् ॥
श्रुत्वानुमोद्य यत्नेन दरिद्रो नैव जायते ॥ ९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये धनदेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशोऽध्यायः ॥ ५६ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 57
॥ ईश्वर उवाच ॥ ॥
पंचैवं सिद्धलिंगानि कथितानि तव प्रिये ॥
यश्चैनं वेद संकेतं क्षेत्रवासी स उच्यते ॥ १ ॥
अथ शक्तित्रयाणां ते रौद्रीणां वच्मि विस्तरम् ॥
इच्छा क्रियाज्ञानशक्त्यस्तिस्रस्ताः परिकीर्त्तिताः ॥ २ ॥
पुनस्तासां पूजनायानुक्रमं क्रमतः शृणु ॥
चतुर्दश तथा पंच पूर्वमुक्तानि यानि तु ॥ ३ ॥॥
चत्वारि त्रीणि चैकं वा यथाशक्त्याभिपूज्य च ॥
लिंगानि तानि संपूज्य शक्तीस्तिस्रस्ततोऽर्चयेत् ॥ ४ ॥
सोमेशादीशदिग्भागे वरारोहेति या स्मृता ॥
अमा कला सा सोमस्य उमा पश्चात्प्रकीर्त्तिता ॥५॥
इच्छाशक्तिस्तु सा ज्ञेयाप्रभासक्षेत्रसंस्थिता ॥
तत्र देवि हितार्थाय सर्वेषां प्राणिनां भुवि ॥ ६ ॥
तस्या माहात्म्यमखिलं कथयामि तवाधुना ॥
पुरा सोमेन त्यक्ताभिर्भार्याभिस्तु वरानने ॥ ७ ॥
षड्विंशद्भिस्तपस्तप्तं क्षेत्रे प्राभासिके शुभे ॥
गौरी साऽऽराध्यमानाथ दिव्यवर्षगणान्बहून् ॥ ८ ॥
तासां प्रत्यक्षतां प्राप्ता पार्वती परमेश्वरी ॥
उवाच वरदा ब्रूत यद्वो मनसि संस्थितम् ॥ ९ ॥
अथ ताश्चाब्रुवन्देवि यदि तुष्टासि पार्वति ॥
सौभाग्यं देहि नो भूरि लावण्यं परमं तथा ॥ 7.1.57.१० ॥
त्यक्ताः सर्वा वयं देवि निर्दोषाः स्वामिना शुभे ॥
दौर्भाग्यदोषसंदग्धा दौर्भाग्येण तु पीडिताः ॥ ११ ॥
॥ गौर्युवाच ॥ ॥
अद्यप्रभृति सर्वा वः समं द्रक्ष्यति रात्रिपः ॥
प्रसादान्मम चार्वंग्यो नैतन्मिथ्या भविष्यति ॥ १२ ॥
वरदा चेति मन्नाम वरदानाद्भविष्यति ॥
इहागत्य तु या नारी पूजयिष्यति मां शुभाम् ॥ १३ ॥
न दौर्भाग्यं कुले तस्याः क्वचित्प्राप्स्यंति योषितः ॥
माघमासे तृतीयायामुपवासपरायणा ॥ १४ ॥
या मां द्रक्ष्यति सुश्रोणी मत्तुल्या सा भवि ष्यति ॥
दम्पती षोडशैवात्र परिधाप्य प्रयत्नतः ॥ १५ ॥
फलानि भक्ष्यभोज्यं च पक्वान्नानि च षोडश ॥
या प्रदास्यति वै नारी सा तूमैव भविष्यति ॥ १६ ॥
एतद्गौरीव्रतंनाम तृतीयायां तु कारयेत् ॥
अप्रसूता च या नारी या नारी दुर्भगा भवेत् ॥ १७ ॥
पुमानसकृदप्यैवं कृत्वा प्राप्स्यत्यभीप्सितम् ॥
एवमुक्त्वा स्थिता तत्र सा देवी चारुलोचना ॥ १८ ॥
पश्यते रात्रिनाथश्च सर्वास्ता रोहिणीं यथा ॥
अन्यापि दुःखसंदग्धा दौर्भाग्येण तु पीडिता ॥ १९ ॥
अपूजयदुमां देवीं सुभगा साऽभवत्ततः ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं शक्तिसंभवम् ॥ 7.1.57.२० ॥
सोमेश्वरे वरारोहा नामेति कथितं तव ॥
सर्वपापक्षयकरं सर्वदारिद्र्यनाशनम् ॥ २१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वरारोहामाहात्म्यवर्णनंनाम सप्तपंचाशोऽध्यायः ॥ ५७ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 58
ईश्वर उवाच ॥ ॥
अथ द्वितीयां ते वच्मि शक्तिं देवि क्रियात्मिकाम् ॥
प्रभासस्थां महादेवीं देवानां प्रीतिदायिनीम् ॥ १ ॥
सोमेशाद्वायवे भागे षष्टिधन्वतरे स्थिता ॥
तत्र पीठं महादेवि योगिनीगणवन्दितम् ॥ २ ॥
तस्मिन्स्थाने स्थितं देवि पातालविवरं महत् ॥
तस्मिन्महाप्रभे स्थाने रक्षारूपेण संस्थिताम् ॥ ३ ॥
पातालनिधि निक्षेपदिव्यौषधिरसायनम् ॥
क्षेत्रमध्ये स्थितं सर्वं तदर्चनरतो लभेत् ॥ ४ ॥
भैरवीति च तद्देव्याः पूर्वं नाम प्रकीर्त्तितम् ॥
अस्मिन्पुनश्चांतरे तु अष्टाविंशे चतुर्युगे ॥
त्रेतायुगमुखे राजा अजापालो बभूव ह ॥ ५ ॥
तेन चागत्य क्षेत्रेस्मिन्पंचवर्षशतानि च ॥
भैरवी पूजिता देवी व्याधिग्रस्तेन भामिनि ॥ ६ ॥
ततः प्रोवाच तं देवी संतुष्टा राजसत्तमम् ॥
अलं क्लेशेन राजर्षे तुष्टाहं तव भक्तितः ॥ ७ ॥
इत्युक्तः स तदा राजा कृताञ्जलिपुटः सुधीः ॥
प्रणम्योवाच तां देवीमानंदास्राविलेक्षणः ॥ ८ ॥
यदि तुष्टासि मे देवि वरार्हो यदि वाप्यहम् ॥
सर्वे रोगाः शरीरान्मे नाशं यांतु बहिः कृताः ॥ ९ ॥
एवमुक्ता तु सा देवी पुनः प्रोवाच तं नृपम् ॥
सर्वमेव महाराज यथोक्तं ते भविष्यति ॥ 7.1.58.१० ॥
इत्युक्ते तु तदा देव्या तस्य राज्ञः कलेवरात् ॥
निर्गता व्याधयस्तत्र अजारूपेण वै पृथक् ॥ ११ ॥
सहस्राणां तु पञ्चैव नियतं सार्द्धमेव च ॥
इति वृत्ते महादेव्या पुनः प्रोक्तो नराधिपः ॥१२ ॥
राजन्नेतानजारूपान्व्याधीन्पालय कृत्स्नशः ॥
किंकुर्वाणा भविष्यंति तवैवादेशकारिणः ॥ १३ ॥।
अजापालेति ते नाम ख्यातं लोके भविष्यति ॥
तव नाम्ना मम नाम अजापालेश्वरीति च ॥
भविष्यति धरापृष्ठे तच्च यावच्चतुर्युगम् ॥ ॥ १४ ॥
अष्टम्यां च चतुर्द्दश्यां योऽत्र मां पूजयिष्यति ॥
तस्याष्टगुणमैश्वर्यं दास्ये तुष्टा न संशयः ॥ १५ ॥
अश्वयुक्छुक्लाष्टम्यां च त्रिः कृत्वा तु प्रदक्षिणाम् ॥
सोमेशं मध्यतः कृत्वा संस्नाप्याभ्यर्च्य मां पृथक् ॥
तस्य वर्षत्रयं राजन्न भीः शोको भविष्यति ॥ १६ ॥
या तु वंध्या भवेन्नारी रोगिणी दुर्भगा तथा ॥
तयोक्ता नवमी कार्या ममाग्रे तुष्टिवर्द्धिनी ॥ १७ ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्त्वा तु तदा देवी तत्रैवांतर्हिताऽभवत् ॥
प्रभासक्षेत्रमध्यस्थः स राजातुलविक्रमः ॥ १८ ॥
पालयामास धर्मात्मा तानजान्व्याधिरूपिणः ॥
औषधीर्विविधाकारास्तेषां याः पुष्टिहेतवः ॥ १९ ॥
तत्र वर्षशतं साग्रं पुष्टिं नीता अजाः पृथक् ॥
महानिधानसंस्थानमजापालेन निर्मिंतम्॥ 7.1.58.२० ॥
अथ तस्याः प्रसादेन स राजा पृथुविक्रमः ॥
सप्तद्वीपाधिपो जातः सूर्यवंशविभूषणः ॥ २१ ॥
॥ देव्युवाच ॥ ॥
अत्याश्चर्यमिदं देव अजा देव्याः समुद्भवम् ॥
पुनश्च श्रोतुमिच्छामि तस्य राज्ञोद्भुतं महत् ॥ २२ ॥
कथं राजा स देवेश सप्तद्वीपां वसुन्धराम्॥
शशास एक एवासौ कथं ते व्याधयः कृताः ॥ २३ ॥
॥ ईश्वर उवाच ॥ ॥
पुरा बभूव राजर्षिर्दिलीप इति विश्रुतः ॥
दीर्घो नाम सुतस्तस्य रघुस्तस्मादजायत ॥ २४ ॥
अजःपुत्रो रघोश्चापि तस्माद्यश्चातिवीर्यवान् ॥
स भैरवीं समाराध्य कृत्वा व्याधीनजागणान् ॥२५॥
पालयामास संहृष्टो ह्यजापालस्ततोऽभवत्॥
तस्मिन्काले बभूवाथ रावणो राक्षसेश्वरः॥२६॥
लंकास्थितः सुरगणान्नियुयोज स्वकर्मसु॥
अखंडमंडलं चन्द्रमातपत्रं चकार ह॥२७॥
इन्द्रं सेनापतिं चक्रे वायुं पांसुप्रमार्जकम्॥
वरुणं दूतकर्मस्थं धनदं धनरक्षकम्॥२८॥
यमं संयमनेऽरीणां युयुजे मन्त्रणे मनुम्॥
मेघाश्छर्दंति लिंपंति द्रुमाः पुष्पाणि चिक्षिपुः॥२९॥
सप्तर्षयः शांतिपरा ब्राह्मणाः शंसिनः प्रियः॥
नागा यामककक्षायां गन्धर्वा गीततत्पराः॥7.1.58.३॥।
प्रेक्षणीयेऽप्सरोवृंदं वाद्ये विद्याधरा वृताः॥
गंगाद्याः सरितः पाने गार्हपत्ये हुताशनः॥३१॥
विश्वकर्मांगसंस्कारे तेन शिल्पी नियोजितः॥
तिष्ठंति पार्थिवाः सर्वे पुरः सेवाविधायिनः॥३२॥
दृश्यंते भास्वरै रत्नैः प्रस्खलंतो विभूषणैः॥
तान्दृष्ट्वा रावणः प्राह प्रहस्तं प्रतिहारकम्॥३३॥
सेवां कर्त्तुं मम स्थाने ब्रूहि केऽत्र समागताः ॥
उवाच स प्रणम्याग्रे दण्डपाणिर्निशाचरः ॥ ३४ ॥
एष काकुत्स्थो मांधाता धुन्धुमारो नलोऽर्जुनः ॥
ययातिर्नहुषो भीमो राघवोऽयं विदूरथः ॥ ३५ ॥
एते चान्ये च बहवो राजान इह चागताः ॥
सेवाकरास्तव स्थाने नाजापाल इहो गतः ॥ ३६ ॥
रावणः कुपितः प्राह शीघ्रं दूत विसर्जय ॥
इत्युक्त्वा प्रहितो दूतो धूम्राक्षो नाम राक्षसः॥ ३७ ॥
धूम्राक्ष गच्छ ब्रूहि त्वमजापालं ममा ज्ञया ॥
सेवां कर्त्तुं ममागच्छ करं वा यच्छ पार्थिव ॥ ३८ ॥
अथवा चन्द्रहासेन त्वां करिष्ये विकंधरम् ॥
रावणेनैवमुक्तस्तु धूम्राक्षो गरुडो यथा ॥ ॥ ३९ ॥
संप्राप्तस्तां पुरीं रम्यां तव राजकुलं गतः ॥
ददर्शायांतमेकं स अजापालमजावृतम् ॥ 7.1.58.४० ॥
मुक्तकेशं मुक्तकच्छं स्वर्णकंबलधारिणम् ॥
यष्टिस्कंधं रेणुवृतं व्याधिभिः परिवारितम् ॥ ४१ ॥
निघ्नंतमिव शार्दूलं सर्वोपद्रवनाशनम् ॥
मह्यामालिख्य नामानि विनिघ्नंतं द्विषां गणम्॥ ४२ ॥
स्नातं भुक्तं निजस्थाने कृतकृत्यं मनुं यथा ॥
दृष्ट्वा हृष्टमनाः प्राह धूम्राक्षो रावणोदितम् ॥ ४३ ॥
अजापालोऽपि साक्षेपं प्रत्यु क्त्वा कारणोत्तरम् ॥
प्रेषयामास धूम्राक्षं ततः कृत्यं समादधे ॥ ४४ ॥
ज्वरमाकारयित्वा तु प्रोवाचेदं महीपतिः॥
गच्छ लंकाधिपस्थानमाचर त्वं यथोदितम् ॥ ४५ ॥
नियुक्तस्त्वजपालेन ज्वरो दिवि जगाम ह ॥
गत्वा च कंपयामास रावणं राक्षसेश्वरम् ॥ ४६ ॥
रावणस्तं विदित्वा तु ज्वरं परमदारुणम् ॥
प्रोवाच तिष्ठतु नृपस्तेन मे न प्रयोजनम् ॥ ४७ ॥
ततः स विज्वरो राजा बभूव धनदानुजः ॥
एवं तस्य चरित्राणि संति चान्यानि कोटिशः ॥ ४८ ॥
अजापालस्य देवेशि सूर्यवत्त्विट्किरीटिनः ॥
तेनैषाऽऽराधिता देवी अजापालेन धीमता ॥
सर्वरोगप्रशमनी सर्वो पद्रवनाशिनी ॥ ४९ ॥
पूजयेत्तां विधानेन भोगेप्सुर्यदि मानवः ॥
गंधैर्धूपैरलंकारैर्वस्त्रैरन्यैश्च भक्तितः ॥ 7.1.58.५० ॥
इति ते कथितं सर्वमजादेव्याः समुद्भवम् ॥
सर्वदुःखोपशमनं सर्वपातकनाशनम् ॥ ५१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनंनामाष्टपञ्चाशोऽध्यायः ॥ ५८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 59
॥ ईश्वर उवाच ॥ ॥
अथ वच्मि तृतीयां ते ज्ञानशक्तिं शिवात्मिकाम् ॥
प्रभासक्षेत्रमध्यस्थां दारिद्र्यौघविनाशिनीम् ॥ १ ॥
अजेति नाम्नीं तां देवीं राह्वीशाद्दक्षिणे स्थिताम् ॥
मम वक्त्राद्विनिष्क्रांता षष्ठाद्वै विष्णुपूजितात् ॥ २ ॥
॥ देव्युवाच ॥ ॥
पंचवक्त्राणि देवेश प्रसिद्धानि तव प्रभौ ॥
षष्ठं यद्वदनं देव तस्य किं नाम संस्मृतम् ॥
समुत्पन्ना कथं तस्मादजादेवीति या श्रुता ॥ ३ ॥
॥ ईश्वर उवाच ॥ ॥
साधु पृष्टं त्वया देवि यद्गोप्यं स्वसुतेष्वपि ॥
तत्तेऽहं संप्रवक्ष्यामि अप्रसिद्धागमोदितम् ॥ ४ ॥
वक्त्राणि मम देवेशि सप्तासन्पूर्वमेव हि ॥
सद्योजातादिपंचैव षष्ठं स्मृतमजेति च ॥ ५ ॥
सप्तमं पिचुनामेति सप्तैवं वदनानि मे ॥
तेभ्योऽजं ब्रह्मणे दत्तं पिचुवक्त्रं तु विष्णवे ॥ ६ ॥
तस्मादहं महादेवि पंचवक्त्रोऽधुनाऽभवम् ॥
अजस्तु ब्रह्मा सञ्जज्ञे पिचुर्विष्णुरजायत ॥ ७ ॥
अजवक्त्रान्महादेवि अजा जाता महाप्रभा ॥
अन्धासुररणे घोरे मम क्रोधेन भामिनि ॥ ८ ॥
खड्गचर्मधरादेवी सुरूपा सिंहवाहिनी ॥
मर्द्दयन्ती महादैत्यान्देवीकोटिसमन्विता ॥ ९ ॥
तस्या भयेन ये दैत्या विद्रुता दक्षिणार्णवम् ॥
पृष्ठतोऽनुययौ तान्वै सा देवी सिंहवाहिनी ॥ 7.1.59.१० ॥
इतस्ततस्ते धावन्तो मार्यमाणाश्च तद्गणैः ॥
प्रभास क्षेत्रसंप्राप्ता नश्यमाना महार्णवम् ॥ ११ ॥
केचित्तत्र हता दैत्याः केचित्पातालमाययुः ॥
निःशेषान्निहतान्दृष्ट्वा सा देवी सिंहवाहिनी ॥ १२ ॥
क्षेत्रं पवित्रमाज्ञाय तत्र स्थाने स्थिता शुभा ॥
सोमेशादीशकोणस्था सौरीशादुत्तरे स्थिता ॥ १३ ॥
यस्तां तत्र स्थितां पश्येद्योषिद्वाथ नरोऽपि वा ॥
स भूयात्सत्त्वसौभाग्यैः सप्तजन्मानि संयुतः ॥१४॥
गीतवाद्यादिकं नृत्यं यस्तत्र कुरुते नरः ॥
तस्यान्वये न दौर्भाग्यं भूयात्तस्याः प्रसादतः॥ ॥१५॥
घृतेन दीपकं तत्र या नारी संप्रयच्छति॥
रक्तवर्त्या महादेवि यावंतस्तत्र तंतवः ॥
तावज्जन्मांतराण्येव सा सौभाग्यमवाप्नुयात्॥१६॥
यश्चैतत्तु पठेन्नित्यं तृतीयायां विशेषतः ॥
शृणुयाद्वाऽपि यो भक्त्या स कामानखिलाल्लँभेत् ॥ १७ ॥
इति संक्षेपतः प्रोक्तो रुद्रशक्तित्रयक्रमः ॥ १८॥
एताः शक्तीः पूजयित्वा सोमेशं पूजयेत्ततः ॥
सम्यग्यात्राफलापेक्षी एकां वा वरदामथ ॥ १९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजादेवीमाहात्म्यवर्णनंनामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥
इति रुद्रशक्तित्रयसंकेतः ॥ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 60
॥ ईश्वर उवाच ॥ ॥
प्रभासक्षेत्रदूतीनां त्रितयं वरवर्णिनि ॥
अथ ते संप्रवक्ष्यामि शृणु ह्येकमनाः प्रिये ॥ १ ॥
प्रथमा मंगला देवी विशालाक्षी द्वितीयिका ॥
तथा चत्वरदेवी तु तृतीया परिकीर्तिता ॥ २ ॥
यथानुक्रमतः पूज्याः शक्तयस्ता वरानने ॥
प्रभासक्षेत्रयात्रायाः फलप्रेप्सुर्नरो यदि ॥ ३ ॥
॥ देव्युवाच ॥ ॥
कस्मिन्स्थाने स्थिता देव दूत्यस्ताः क्षेत्ररक्षिकाः ॥
कस्य ताः कथमाराध्याः कथं पूज्या जगत्पते ॥४॥ ॥
॥ ईश्वर उवाच ॥ ॥
ब्राह्मी तु मंगला प्रोक्ता विशालाक्षी तु वैष्णवी ॥
रौद्रीशक्तिः समाख्याता देवी सा चत्वरप्रिया ॥ ५ ॥
मंगला प्रथमं पूज्या अजादेव्युत्तरे स्थिता ॥
राह्वीशाद्दक्षिणेभागे नातिदूरे वरानने ॥ ६ ॥
सोमेश्वरप्रतिष्ठाप्य प्रारब्धे यज्ञकर्मणि ॥
सोमेन तत्र देवानामागता सा दिदृक्षया ॥ ७ ॥
ब्रह्मादीनां च सा यस्मान्मांगल्यं कृतवत्युमे ॥
तस्मात्सा मंगला प्रोक्ता सर्वमांगल्यदायिनी ॥ ८ ॥
तृतीयायां तु या नारी नरो वा पूजयिष्यति ॥
तस्याऽमंगल्यदुःखानि नाशं यास्यंति कृत्स्नशः ॥ ९ ॥
दम्पतीभोजनं तत्र फलदानं सकञ्चुकम् ॥
प्रशस्तं पृषदाज्यस्य प्राशनं पापनाशनम् ॥ 7.1.60.१० ॥
इति संक्षेपतः प्रोक्तं महाभाग्यं महोदयम् ॥
मंगलायाश्च माहात्म्यं सर्वपातकनाशनम् ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मङ्गलामाहात्म्यवर्णनंनाम षष्टितमोऽध्यायः ॥ ६० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 61
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवीं क्षेत्रदूतीं तु वैष्णवीम् ॥
श्रीदैत्यसूदनाद्देवि पूर्वभागे व्यवस्थिताम् ॥१॥
योगेश्वर्यास्तथैशान्यां धनुषां सप्तके स्थिताम् ॥
महादौर्भाग्यदग्धानां स्थितां भेषजरूपिणीम् ॥ २॥
चाक्षुषस्यांतरे देवि यदा दैत्या बलोत्कटाः ॥
हन्यमाना विष्णुनाऽथ दक्षिणां दिशमाविशन् ॥ ३ ॥
तत्र वर्षशतं साग्रं दैत्याश्चक्रुर्महाहवम् ॥
विष्णुना सह देवेशि दिव्यास्त्रैश्च पृथग्विधैः ॥ ४ ॥
दुःखवध्यांस्ततो ज्ञात्वा विष्णुः कमललोचनः ॥
सस्मार भैरवीं शक्तिं महामायां महाप्रभाम् ॥५॥
सा स्मृता क्षणमात्रेण विष्णुना प्रभविष्णुना॥
तत्रागता महादेवी आनंदस्फुरितेक्षणा ॥ ६ ॥
विशाले तु कृते देव्या लोचने विष्णुदर्शनात् ॥
विशालाक्षी ततो जाता तत्रस्था दैत्यनाशिनी ॥७॥
अस्मिन्कल्पेसमाख्याता ललितोमा वरानने ॥
उमाद्वयं समाख्यातं सोमेशे दैत्यसूदने ॥ ८ ॥
पूर्वं सोमेश्वरे पश्येत्पश्चाच्छ्रीदैत्यसूदने ॥
उमा द्वयं पूजयित्वा तीर्थयात्राफलं लभेत् ॥९॥
माघे मासि तृतीयायां विधिना योऽर्चयेत्तु ताम्॥
न संततिविहीनः स्यात्तस्यकोट्यन्वये नरः ॥7.1.61.१०॥
यो नित्यमीक्षते तत्र भक्त्या परमया युतः ॥
आरोग्यसुखसौभाग्यसंयुक्तोऽसौ भवेच्चिरम् ॥ ११ ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं ललितोद्भवम्॥
श्रुतं यत्पापनाशाय जायते धर्मवृद्धये ॥ १२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये ललितोमाविशालाक्षी माहात्म्यवर्णनंनामैकषष्टितमोऽध्यायः ॥ ६१ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 62
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तृतीयां चत्वरप्रियाम् ॥
ललितापूर्वदिग्भागे दशधन्वंतरे स्थिताम् ॥ १ ॥
क्षेत्रदूतीं महारौद्रीं रुद्रशक्तिं महाप्रभाम् ॥
क्षेत्ररक्षाविधौ तत्र मया मुक्तां तु मध्यतः ॥ २ ॥
कोटिभूतसमायुक्ता महाकाया महाप्रभा ॥
जीर्णे गृहे तथोद्याने प्रासादाट्टालके पथि ॥ ३ ॥
चत्वरेषु च सर्वेषु क्षेत्र मध्यस्थिता सती ॥
रात्रौ पर्यटते देवी भूतानां कोटिभिर्वृता ॥ ४ ॥
महानवम्यां यस्तत्र नारी वाथ नरोपि वा ॥
नानापूजोपचारैश्च पूजयेद्विधिवच्छुभाम् ॥ ५ ॥
तस्य तुष्टाऽखिलान्कामान्सादेवी संप्रदास्यति ॥
दंपत्योर्भोजनं तत्र देयं यात्राफलेप्सुभिः ॥९॥
इति संक्षेपतः प्रोक्तं माहा त्म्यं पापनाशनम् ॥
क्षेत्रदूत्यास्तृतीयायाः श्रुतमैश्वर्यकारकम् ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चत्वरादेवीमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 63
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि भैरवेश्वरमुत्तमम् ॥
योगेश्वर्या दक्षिणतो नातिदूरे व्यवस्थितम् ॥ १ ॥
सर्वपापप्रशमनं दिब्यैश्वर्यप्रदायकम्॥
पुरा दैत्यविनाशार्थं यदा देवी कृतोद्यमा ॥ ॥ २ ॥
तदा भैरवमाहूय दूतत्वे नियुयोज ह ।।
शिवदूती तदा ख्याता पश्चाद्योगेश्वरीति च ॥ ३ ॥
भैरवो यत्र वै देव्या दूतत्वे विनियोजितः ॥
तेन लिंगं समाख्यातं भैरवेश्वरनामकम् ॥ ४ ॥
पूजितं देवदैत्यैश्च भैरवेण प्रतिष्ठितम् ॥
यस्तत्पूजयते भक्त्या कार्तिक्यां विधिना नरः ॥
निरंतरं वा षण्मासं सोऽभीष्टं लभते फलम् ॥ ५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भैरवेश्वरमाहात्म्यवर्णनंनाम त्रिषष्टितमोऽध्याय ॥ ६३ ॥ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 64
॥ ईश्वर उवाच ॥ ॥
तस्यैव पूर्वदिग्भागे धनुषां पंचके स्थितम् ॥
लक्ष्मीश्वरेति विख्यातं दारिद्र्यौघविनाशनम् ॥ १ ॥
यत्र देव्या समानीता लक्ष्मीर्देत्यान्निहत्य च ॥
तेन लक्ष्मीश्वरं नाम स्वयं देव्या प्रतिष्ठितम् ॥ २ ॥
यस्तं पूजयते भक्त्या श्रीपंचम्यां विधानतः ॥
न विमुक्तो भवेल्लक्ष्म्या यावन्मन्वतरं प्रिये ॥३॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये लक्ष्मीश्वरमाहात्म्यवर्णनंनाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 65
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं वै वाडवेश्वरम् ॥
लक्ष्मीशादुत्तरे भागे विशालाक्ष्याश्च दक्षिणे ॥ १ ॥
स्थितं महाप्रभावं हि वाडवेन प्रतिष्ठितम्॥
कृतस्मरो यदा दग्धः पर्वतो वाडवाग्निना ॥ २ ॥
समीकृत्याखिलं स्थानं तेन लिंगं प्रतिष्ठितम् ॥
पूजयेत्तं विधानेन दश संस्नाप्य शंकरम् ॥ ३ ॥
दधि दद्याच्च वै तत्र ब्राह्मणे वेदपारगे।
सोऽग्निलोकमवाप्नोति सम्यग्यात्राफलं लभेत् ॥ ४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वाडवेश्वरमाहात्म्यवर्णनंनाम पञ्चषष्टितमोऽध्यायः ॥६५ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 66
॥ ॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महालिंगमर्घ्येश्वरमिति श्रुतम् ॥
उत्तरे तु विशालाक्ष्या नातिदूरे व्यवस्थितम् ॥ १ ॥
लिंगं महाप्रभावं हि सुरगन्धर्वपूजितम् ॥
यदा देवी समायाता वडवानलधारिणी ॥ २ ॥
प्रभासक्षेत्रमासाद्य दृष्ट्वा तत्र महोदधिम् ॥
अर्घ्यं दत्तवती तत्र विधिना तन्महोदधेः ॥ ३ ॥
प्रतिष्ठाप्य महल्लिंगं संपूज्य विधिना ततः ॥
प्रविवेशाथ देवेशि स्नानार्थं च महोदधौ ॥ ४ ॥
यस्मादर्घ्यं पुरा दत्त्वा पश्चादीशः प्रतिष्ठितः ॥
तेनार्घ्येशेति विख्यातं लिंगं पापप्रणाशनम् ॥ ५ ॥
पंचामृतेन संस्नाप्य विधिना यस्तमर्चयेत् ॥
सप्तजन्मानि देवेशि स विद्यामधिगच्छति ॥
सम्यक्छास्त्रप्रवक्ता च सर्वसंदेहवित्तमः ॥ ६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽर्घ्येश्वरमाहात्म्यवर्णनंनाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 67
॥ ईश्वर उवाच ॥ ॥
ततो गछेन्महालिंगं कामेश्वरमिति श्रुतम् ॥
कामेनाराधितं पूर्वं दैत्यसूदनपश्चिमे ॥ १ ॥
धनुषां सप्तके तत्र स्थितं देवि महाप्रभम् ॥
निर्दग्धस्तु यदा काम स्तृतीयेनाग्निना मम ॥ २ ॥
तदा वर्षसहस्रं तु समाराध्य महेश्वरम् ॥
प्रपेदे कामनासर्गं यत्रानंगः पुरा किल ॥ ३ ॥
तेन कामेश्वरंनाम ख्यातं लिंगं धरातले ॥
सर्वपापहरं देवि सर्वकामफलप्रदम् ॥ ४ ॥
त्रयोदश्यां विधानेन शुक्लायां मासि माधवे ॥
संपूज्य तं विधानेन स स्त्रीणां कामवद्भवेत्॥ ५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कामेश्वरमाहात्म्यवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥६७॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 68
॥ ईश्वर उवाच ॥ ॥
इति प्रोक्तानि ते देवि वक्त्रलिंगानि पंच वै ॥
अथ ते संप्रवक्ष्यामि यत्र गौर्यास्तपो वनम्॥
स्थानं महाप्रभावं हि सुरसिद्धनिषेवितम्॥ १ ॥
सोमेशात्पूर्वदिग्भागे षष्टिधन्वंतरे स्थितम् ॥
यत्र देव्या तपस्तप्तं सत्या वै पूर्वजन्मनि ॥ ॥ २ ॥
कृत्वा च प्रणयात्कोपं मया सार्द्धं वरानने ॥
प्रभासक्षेत्रमासाद्य संस्थिता सा तपस्विनी ॥ ३ ॥
॥ देव्युवाच ॥ ॥
किमर्थं सा परित्यज्य सती त्वां तपसि स्थिता ॥
कस्मिन्स्थाने स्थिता देवी एतन्मे विस्तराद्वद ॥ ४ ॥
॥ ईचर.उवाच ॥ ॥
पुराऽऽसीस्त्वं महादेवि श्यामवर्णा मनस्विनी ॥
नामार्थं च मया प्रोक्ता कालीति रहसि स्थिता ॥ ५ ॥
सा श्रुत्वा विस्मयं वाक्यं भृशं रोषपरायणा ॥
अब्रवीत्परुषं वाक्यं भृकुटी कुटिलानना॥६॥
यस्मात्कालीत्यहं प्रोक्ता त्वया शंभोऽतिविप्लवात्॥
तस्माद्यास्यामि गौरीति भविष्यामि च यत्र हि॥७॥
एवमुक्त्वा महाभागा सखीगणसमावृता॥
गत्वा प्रभासक्षेत्रं सा प्रतिष्ठाप्य महेश्वरम्॥
गौरीश्वरेति विख्यातं पूजयंती विधानतः॥८॥
ततो लिंगसमीपस्था एकपादे स्थिता सती ॥
लिंगमाराधयंती सा चकार सुमहत्तपः ॥ ९ ॥
पंचाग्निसाधिका देवी ग्रीष्म जाप्यपरायणा ॥
वर्षास्वाकाशशयना हेमंते सलिलाशया ॥ 7.1.68.१० ॥
यथा यथा तपो वृद्धिं याति तस्या महाप्रभा ॥
तथातथा शरीरस्य गौरत्वं प्रतिपद्यते ॥ ११ ॥
कालेन महता गौरी सर्वांगेणाथ साऽभवत् ॥
ततो विहस्य भगवानुवाच शशिशेखरः ॥ १२ ॥
गौरीति च मुहुर्वाक्यमुत्तिष्ठ व्रज मन्दिरम् ॥
वरं वरय कल्याणि यत्ते मनसि वर्त्तते ॥ १३ ॥
गौर्युवाच ॥ ॥
यो मामत्र स्थितां पश्येन्नारी वा पुरुषोऽथ वा ॥
स भूयात्सुतसौभाग्यैः सप्तजन्मानि संयुतः ॥ ॥ १४ ॥
गीतवाद्यादिकं नृत्यं यः कुर्यात्पुरतो मम ॥
तस्यान्वये न दौर्भाग्यं भूयात्तव प्रसादतः ॥ १५ ॥
मया प्रतिष्ठितं लिंगं पूर्वमभ्यर्च्य मां ततः॥
पूजयिष्यति यो भक्त्या स यास्यति परं पदम् ॥ १६ ॥
गौरीश्वरेति विख्यातं नाम तस्य भवेत्प्रभो ॥
तथेत्यहं प्रतिज्ञाय तत्र स्थाने स्थितो ऽभवम् ॥ १७ ॥
देव्या सह महादेवि प्रहृष्टेनांतरात्मना ॥
अद्यापि अयने प्राप्ते उत्तरे दक्षिणेऽपि वा ॥ १८ ॥
गौरींस्थानं समभ्येति तत्र देव गुणैर्युतः॥
तस्मिन्नहनि यस्तत्र विशिष्टानि फलानि च ॥
संप्रयच्छति विप्रेभ्यस्तस्य पुत्रा भवंति च ॥ १९ ॥
पुत्रहीना तु या नारी नालिकेरं प्रयच्छति ॥
पुत्रं सा लभते शीघ्रं सबलं लक्षणान्वितम् ॥ 7.1.68.२० ॥
घृतेन दीपकं तत्र या नारी संप्रयच्छति ॥
रक्तवर्त्त्या महादेवि यावत्तस्यैव तंतव ॥ ॥ २१ ॥
तावज्जन्मांतराण्येव सा सौभाग्यमवाप्नुयात् ॥ २२ ॥
या नृत्यं कुरुते तत्र भक्त्या परमया युता ॥
आरोग्यसुखसौभाग्यैः संयुक्ता सा भवेच्चिरम् ॥ २३ ॥
तत्रांते सुमहत्कुडं तीर्थं स्वच्छोदपूरितम् ॥
यः स्नानमाचरेत्तत्र मुच्यते सर्वपातकैः ॥ २४ ॥
यः श्राद्धं कुरुते तत्र पितॄनुद्दिश्य भक्तितः ॥
स याति परमं स्थानं पितृभिः सह पुण्यभाक् ॥ २५ ॥
तस्मात्सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत् ॥
गीतवाद्यादिभिर्नृत्यै रात्रौ कुर्वीत जागरम् ॥ २६॥
दंपत्योः परिधानं च तत्र देयं सदक्षिणम् ॥
यश्चैतत्पठते नित्यं तृतीयायां विशेषतः ॥
पार्वत्याः पुरतो देवि स सौभाग्यमवाप्नुयात् ]। २७ ॥
शृणुयाद्वाऽपि यो भक्त्या सम्यग्भक्तिपरायणः ॥
सोऽपि सौभाग्यमाप्नोति यावज्जीवं न संशयः ॥ २८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये गौरीतपोवनमाहात्म्यवर्णनंनामाष्टषष्टितमोऽध्यायः ॥ ॥ ६८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 69
॥ देव्युवाच ॥ ॥
गौरीश्वरेति विख्यातं यत्त्वया लिंगमुत्तमम् ॥
कुत्र तिष्ठति तल्लिंगं पूजितं यत्फलं लभेत् ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि माहात्म्यं पापनारानम् ॥
गौरीश्वरस्य देवस्य सर्वकामप्रदस्य वै ॥ २ ॥
इदं तपोवनं देवि ख्यातं गौर्या महाप्रभम् ॥
धनुषां पचपंचाशत्समंतात्परिमंडलम् ॥३॥
तत्र मध्ये स्थिता देवी एकपादा तपोन्विता ॥
तस्या उत्तरतो देवि किंचिदीशानसंस्थितम्॥ ॥४ ॥
धनुषां चतुरंते च लिंगं पापभयापहम् ॥
यस्तत्पूजयते भक्त्या लिंगं भक्तियुतो नरः ॥
कृष्णाष्टम्यां विशेषेण स मुक्तः पातकैर्भवेत् ॥ ५ ॥
गोदानं चात्र शंसंति सुवर्णं द्विजपुंगवे ॥
अन्नदानं विशेषेण सर्वपापप्रशांतये ॥ ६ ॥
गोघ्नो वा ब्रह्महा वाऽपि तथा दुष्कृतकर्मकृत् ॥
सर्व पापैः प्रमुच्येत तस्य लिंगस्य दर्शनात् ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभास क्षेत्रमाहात्म्ये गौरीश्वरमाहात्म्यवर्णनंनामैकोनसप्ततितमोऽध्यायः ॥ ६९ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 70
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि वरुणेश्वरमुत्तमम् ॥
गौरीतपोवनाग्नेय्यां धनुषां विंशतौ स्थितम् ॥
लिंगं महाप्रभावं हि वरुणेन प्रतिष्ठितम् ॥ १ ॥
पूर्वं पीतो यदा देवि समुद्रः कुम्भजन्मना ॥
तदा कोपेन सन्तप्तो वरुणः सरितां पतिः ॥ २ ॥
कामिकं तु समाज्ञाय क्षेत्रं प्राभासिकं तदा ॥
तत्रातपद्देवि तपः स वै परमदुश्चरम् ॥ ३ ॥
प्रतिष्ठाप्य महालिंगं संपूजयति भक्तितः ॥
वर्षाणामयुतं साग्रं पूजितो वृषभध्वजः ॥ ४ ॥
ततः प्रसन्नो देवेशि निजगंगाजलेन तु ॥
पूरयामास तं रिक्तं समुद्रं यादसांपतिम् ॥ ५ ॥
छंदयामास तं लिंगं वरदानैरनेकधा ॥
तत्प्रभृत्येव ते सर्वे समुद्राः परिपूरिताः ॥ ६ ॥
वरुणेश्वरनामेति तल्लिंगं तत्प्रभृत्यभूत् ॥ ७ ॥
को ह्यर्थो बहुभिर्लिंगैर्दृष्टैर्वा सुरसुन्दरि ॥
वरुणेशेन दृष्टेन सर्वतीर्थफलं लभेत् ॥ ८ ॥
अष्टम्यां च चतुर्दश्यां तद्दध्ना स्नापयेद्यदि ॥
स ब्राह्मणश्चतुर्वेदो जायते नात्र संशयः ॥ ९ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये वरानने ॥
मूकांधबधिरा बालाः स्त्रियश्चैव नपुंसकाः ॥ 7.1.70.१० ॥
दृष्ट्वा गच्छंति ते देवि स्वर्गं धर्मपरायणाः ॥
स्नानं जाप्यं बलिं होमं पूजां स्तोत्रं च नर्तनम् ॥
तस्मिन्स्थाने तु यः कुर्यात्तत्सर्वं चाक्षयं भवेत् ॥ ११ ॥
हैमं पद्मं मौक्तिकं च दानं तत्रैव दापयेत् ॥
सम्यग्यात्राफलापेक्षी स्वर्गापेक्षी तथा नरः ॥ १२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वरुणेश्वरमाहात्म्यवर्णनंनाम सप्ततितमोऽध्यायः ॥ ॥ ७० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 71
ततो गच्छेन्महादेवि लिंगं तत्रैव संस्थितम् ॥
दक्षिणे वरुणेशस्य धनुषां त्रितये स्थितम् ॥१॥
भार्यया वरुणस्यैव उषा नाम्न्या वरानने ॥
कृत्वा तपो महाघोरं भर्तृदुःखपरीतया ॥ २ ॥
स्थापितं तु महल्लिंगं सर्वसिद्धिप्रदायकम्॥
उषेश्वरेति विख्यातं सर्वसिद्धिप्रपूजितम् ॥३॥
यस्तत्पूजयते भक्त्या लिंगं पापप्रणाशनम् ॥
महापापौघयुक्तोऽपि स गच्छेत्परमां गतिम् ॥४॥
स्त्रीणां सौभाग्यफलदं दुःखदौर्भाग्यना शनम् ॥ ५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उषेश्वरमाहात्म्यवर्णनं नामैकसप्ततितमोऽध्यायः ॥ ७१ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 72
॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येद्विघ्नेशं जलवाससम् ॥
सर्वविघ्नविनाशाय सर्वकार्यप्रसिद्धये ॥ १ ॥
वरुणेन महादेवि तपोनिर्विघ्नहेतवे ॥
पूजितो जलजैर्भक्त्या जलवासास्ततः स्मृतः ॥ २ ॥
चतुर्थ्यां तर्पयेद्भक्त्या गन्धैः पुष्पैः स मोदकैः ॥
यथाभक्त्यनुसारेण तस्य तुष्येद्गणाधिपः ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये जलवासगणपतिमाहात्म्यवर्णनंनाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 73
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कुमारेश्वरमुत्तमम् ॥
लिंगं महाप्रभावं हि महापातकनाशनम् ॥ १ ॥
धनुषां त्रिंशता देवि वरुणान्नैऋते स्थितम् ॥
गौरीतपोवनाद्देवि दक्षिण स्थानसंस्थितम् ॥ २ ॥
षण्मुखेन महादेवि तत्र कृत्वा महत्तपः ॥
प्रतिष्ठितं महालिंगं कुमारेशस्ततोऽभवत् ॥ ३ ॥
यस्तं पूजयते भक्त्या मासमेकं निरन्तरम् ॥
षण्मासस्यार्चनेनैव यत्पुण्यमुपजायते ॥ ४ ॥
तत्पुण्यं सकलं तस्य कुमारेशार्चनात्सकृत् ॥
लभते दिवसैकेन विधिना यदि पूजयेत् ॥ ५ ॥
कामं क्रोधं तथा लोभं रागं त्यक्त्वा तु मत्सरम् ॥
ब्रह्मचारी यतिर्भूत्वा सकृदप्येनमर्चयेत् ॥ ६ ॥
एवं संपूजिते देवि सम्यग्यात्रा फलं लभेत् ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुमारेश्वरमाहात्म्यवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 74
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि शाकल्येश्वरमुत्तमम् ॥
दैत्यसूदनवायव्ये धनुषां त्रिंशता स्थितम् ॥ १ ॥
शाकल्येन महादेवि पूजितं सर्वकामदम्॥
शाकल्योनाम राजर्षिर्यत्र तप्त्वा महत्तपः ॥२॥
समाराध्य महादेवं प्रत्यक्षीकृतवान्भवम् ॥
लिंगेऽवतारयामास प्रसन्नं तं महेश्वरम् ॥ ३ ॥
तस्मिन्दृष्टे वरारोहे सप्तजन्मकृतं नृणाम् ॥
पापं प्रणश्यते शीघ्रं तमः सूर्योदये यथा ॥ ४ ॥
तत्राष्टम्यां चतुर्द्दश्यां स्नापयेत्पयसा शिवम् ॥
पूजयेच्च विधानेन गन्धपुष्पादिभिः क्रमात् ॥ ५ ॥
हिरण्यं तत्र दातव्यं सम्यग्यात्राफलेप्सुभिः ॥
चत्वारि तस्य नामानि कथ्यमानानि मे शृणु ॥ ६ ॥
आदौ कृतयुगे देवि कीर्तितो भैरवेश्वरः ॥
ततः सावर्णिमनुना सम्यगाराधितः प्रिये ॥ ७ ॥
सावर्णिकेश्वरं नाम त्रेतायां तस्य संज्ञितम् ॥
ततस्तु द्वापरे देवि गालवेन महात्मना ॥
सम्यगाराधितस्तत्र लिंगरूपीवृषध्वजः ॥ ८ ॥
तृतीयं तस्य देवस्य गालवेश्वरसंज्ञितम् ॥
कलौ युगे तु संप्राप्ते शाकल्योनाम वै मुनिः ॥ ९ ॥
यत्र सिद्धिमनुप्राप्त ऐश्वर्यं चाणिमादिकम्॥
शाकल्येश्वरनामेति ततः ख्यातं तुरीयकम् ॥ 7.1.74.१० ॥
एवं चातुर्युगं नाम तस्य लिंगस्य कीर्तितम् ॥
पापघ्नं पुण्यदं नॄणां कीर्त्तितं सर्वकामदम् ॥ ११ ॥
तस्यैव देवदेवस्य क्षेत्रोत्पत्तिं शृणु प्रिये ॥ १२ ॥
अष्टादशधनुर्देवि समंतात्परिमण्डलम् ॥
महापापहरं देवि तत्र क्षेत्रनिवासिनाम्॥ १३ ॥
कृमिकीटपतंगानां तिरश्चामपि मोक्षदम् ॥
यत्र कूपादितोयेषु जलं सारस्वतं स्मृतम् ॥ १४ ॥
यत्र तत्र नरः स्नात्वा स्वर्गलोके महीयते ॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च ॥ १५ ॥
तत्फलं समवाप्नोति तस्य लिंगस्य दर्शनात् ॥
सोमपर्वणि संप्राप्ते यस्तत्र शुचिरात्मवान् ॥ १६ ॥
अघोरं च जपेत्सम्यगाज्यहोमसमन्वितम् ॥
तल्लिंगस्य समीपस्थो यावन्मासावधिः प्रिये ॥ १७ ॥
महापातकयुक्तोऽपि युक्तो वाऽप्युपपातकैः ॥
स सर्वां लभते सिद्धिमुत्तमां वरवर्णिनि ॥ १८ ॥
कामिकं तत्स्मृतं लिंगं सर्वकामफलप्रदम् ॥
अघोर वक्त्रं देवस्य तत्रस्थं भैरवं महत्॥ १९ ॥
भैरवेश्वरनामेति पूर्वं ख्यातमभूद्भुवि ॥
अस्मिन्युगे तु संप्राप्ते शाकल्येश्वरनामकम् ॥7.1.74.२०।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शाकल्येश्वरमाहात्म्यवर्णनंनाम चतुःसप्ततितमोऽध्यायः ॥ ॥ ७४ ॥ ॥ ध ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 75
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं शाकलकलेश्वरम् ॥
शाकल्येश्वरनैर्ऋत्ये धनुषां षष्टिभिः स्थितम् ॥ ॥ १ ॥
तच्चतुर्युगनामाढ्यं स्मृतं पातकनाशनम् ॥
पूर्वं कामेश्वरंनाम त्रेतायां पुलहेश्वरम् ॥ २ ॥
द्वापरे सिद्धिनाथं तु नारदेशं कलौ स्मृतम् ॥
तथा कलकलेशं च नाम तस्यैव कीर्त्तितम् ॥ ३ ॥
समुद्रे च महापुण्ये यस्मिन्काले सरस्वती ॥
आगता सा महाभागा हृष्टा तुष्टा सरिद्वरा ॥
तस्य तोयस्य शब्देन सागरस्य महात्मनः ॥ ४ ॥
ततो देवाः सगन्धर्वा ऋषयः सिद्धचारणाः ॥
नेदुः कलकलं तत्र तुमुलं लोमहर्षणम् ॥ ॥ ५ ॥
तेन शब्देन महता मम मूर्त्तिः समुत्थिता ॥
कल्कलेश्वरनामेति ततो लिंगं प्रकीर्तितम् ॥ ६ ॥
इति ते पूर्ववृत्तांतं कथितं नामकार णम्॥
सांप्रतं तु यथा जातं पुनः कलकलेश्वरम्॥
तत्तेऽहं संप्रवक्ष्यामि शृणुष्वैकमनाः प्रिये ॥ ७ ॥
पुरा द्वापरसंधौ च प्रविष्टे तु कलौ युगे ॥
नारदस्तु समागत्य क्षेत्रं प्राभासिकं शुभम्॥
संचकार तपश्चोग्रं तत्र लिंगसमीपतः ॥ ९ ॥
ततो वर्षशते पूर्णे समाराध्य वृषध्वजम् ॥
गांधर्वं प्राप्य देवेशि भूषितं सप्तभिः स्वरैः ॥ ९ ॥
ततो हृष्टमना भूत्वा तल्लिंगस्य समीपतः ॥
स चकार महायज्ञं पौंडरीकमिति श्रुतम् ॥ 7.1.75.१० ॥
देवदेवस्य तुष्ट्यर्थं स सदा भावितात्मवान् ॥
समाहूय ऋषींस्तत्र ब्रह्मलोकात्सहस्रशः ॥ ११ ॥
ततः संभृतसंभारो यज्ञोपकरणान्वितः ॥
कृत्वा कुण्डादिकं सर्वं समारेभे ततः क्रतुम् ॥ १२ ॥
ततः संपूर्णतां प्राप्ते तस्मिन्क्रतौ वरानने ॥ १३ ॥
अथागमंस्ततो विप्रास्तत्र क्षेत्रनिवासिनः ॥
दक्षिणार्थं महदेवि शतशोऽथ सहस्रशः ॥ १४ ॥
ततः स कौतुकाविष्टस्तेषां युद्धार्थमेव हि ॥
प्राक्षिपत्तत्र रत्नानि सुवर्णं च महीतले ॥ १५ ॥
ततस्ते ब्राह्मणाः सर्वे युध्यमानाः परस्परम् ॥
कोलाहलं परं चक्रुर्बहुद्रव्यपरीप्सया ॥ १६ ॥
एके दिगंबरा देवि त्यक्तयज्ञोपवीतिनः ॥
विकचाः केऽपि दृश्यंते त्वन्ये रुधिरविप्लवाः ॥ १७ ॥
अन्ये परस्परं जघ्नुर्मुष्टिभिश्चरणैस्तथा ॥
एवं तत्र तदा क्षिप्तं यद्द्रव्यं नारदेन तु ॥ १८ ॥
अथाभावे तु वित्तस्य ये च विप्रा ह्यकिंचनाः ॥
विद्याविनयसंपन्ना ब्राह्मणैर्जर्जरीकृताः ॥१९॥
ते तमूचुर्भृशं शांताः स्मयमानं मुहुर्मुहुः ॥
कलहार्थं यतो दानं त्वया दत्तमिदं मुने ॥ ॥ 7.1.75.२० ॥
विद्यायुक्तान्परित्यज्य विधिं त्यक्त्वा तु याज्ञिकम् ॥
तस्मादस्य मुने नाम ख्यातं कलकलेश्वरम् ॥ २१ ॥
तेन नाम्ना द्विजश्रेष्ठ लिंगमेतद्भविष्यति ॥
एतस्मात्कारणाद्देवि जातं कलकलेश्वरम् ॥ २२ ॥
यस्तं स्नाप्य नरो भक्त्या कुरुते त्रिः प्रदक्षिणम् ॥
स गच्छेद्रुद्रलोकं तु त्वत्प्रसादादसंशयम् ॥ २३ ॥
यस्तं पूजयते भक्त्या गंधपुष्पानुलेपनैः ॥
हेमं दत्त्वा द्विजातिभ्यः स गच्छेत्परमं पदम् ॥ २४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कलकलेश्वरमाहात्म्यवर्णनंनाम पञ्चसप्ततितमोऽध्यायः ॥ ॥ ७५ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 76
॥ ईश्वर उवाच ॥ ॥
तस्यैव देवदेवस्य समीपस्थं विराजते ॥
लिंगद्वयं महापुण्यं लकुलीशप्रतिष्ठितम् ॥ १ ॥
लकुले श्वरनामास्ति तस्य लिंगद्वयस्य वै ॥
तद्दृष्ट्वा देवदेवस्य लिंगद्वयमनुत्तमम् ॥ २ ॥
मुच्यते सकलात्पापादाजन्ममरणांतिकात् ॥
तत्र शुक्लचतुर्द्दश्यां मासि भाद्रपदे प्रिये ॥ ३ ॥
उपवासपरो भूत्वा यः करोति प्रजागरम् ॥
मूर्त्तिमंतं तु संपूज्य लकुलीशं महाप्रभम् ॥ ४ ॥
ततः संपूज्य विधिना तत्र लिंगद्वयं पृथक् ॥
सम्यक्पूजाविधानेन स्तुतिमंत्रैरनुक्रमात् ॥
स याति परमं स्थानं यत्र देवो महेश्वरः ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरमाहात्म्ये कलकलेश्वरसमीपवर्ति लकुलीशलिंगद्वयमाहात्म्यवर्णनंनाम षट्सप्ततितमोऽध्यायः॥७६॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 77
ईश्वर उवाच॥
ततो गच्छेन्महादेवि उत्तंकेश्वरमुत्तमम्॥
तस्यैव दक्षिणे भागे नातिदूरे व्यवस्थितम् ॥
स्थापितं च स्वयं भक्त्या उत्तंकेन महात्मना ॥ १ ॥
तद्दृष्ट्वा तु महादेवि स्पृष्ट्वा च सुसमाहितः ॥
संपूज्य विधिवद्भक्त्या मुच्यते सर्वकिल्बिषात् ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उत्तंकेश्वरमाहात्म्य वर्णनंनाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 78
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवं वैश्वानरेश्वरम् ॥
तस्यैवाग्नेयकोणस्थं धनुषां पंचके स्थितम् ॥ १ ॥
पापघ्नं सर्वजंतूनां दर्शनात्स्पर्शनादपि ॥
तत्र कश्चिच्छुकः पूर्वं नीडं देवि चकार ह ॥ २ ॥
प्रासादे भार्यया सार्द्धं निवस न्सुचिरं स्थितः ॥
ततस्तौ दंपती नित्यं प्रदक्षिणं प्रचक्रतुः ॥ ३ ॥
कुलायस्य वशाद्देवि न तु भक्त्या कथंचन ॥
कालेन महता तौ च पंचत्वं समुपस्थितौ ॥ ४ ॥
जातौ तेन प्रभावेन उक्तौ जातिस्मरौ भुवि ॥
लोपामुद्रागस्त्यनामप्रसिद्धिं परमां गतौ ॥ ५ ॥
अथ गाथा पुरी गीता अगस्त्येन महात्मना ॥
स्मरता पूर्वदेहं तु विस्मयेनानुभूतिजा ॥ ६ ॥
कृत्वा प्रदक्षिणं सम्यग्वह्नीशं यः प्रपश्यति ॥
नूनं प्रसिद्धिमाप्नोति इतश्चाहं यथा पुरा ॥ ७ ॥
एवं देवि तवाख्यातं माहात्म्यं वह्निदैवतम् ॥
श्रुतं पापहरं नृणां सर्वकामफलप्रदम् ॥ ८ ॥
घृतेन तं तु संस्नाप्य विधिना वै समर्चयेत् ॥
हेम दद्याच्च विप्रेंद्र सम्यक्छ्रद्धासमन्वितः ॥ ९ ॥
एवं कृत्वा विधानेन सम्यग्यात्राफलं लभेत् ॥
वह्निलोकं तु संप्राप्य मोदते कालमक्षयम् ॥ 7.1.78.१० ॥
इति श्रीस्कांदे महापुराण एकाशीति साहरुया संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वैश्वानरेश्वरमाहात्म्यवर्णनंनामाष्टसप्तति तमोऽध्यायः ॥ ७८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 79
॥ ईश्वर उवाच॥ ॥
ततो गच्छेन्महादेवि लकुलीशं महाप्रभम् ॥
तस्य पश्चिमदिग्भागे धनुषां सप्तके स्थितम् ॥ १ ॥
पापघ्नं सर्वजंतूनां शांतं मूर्तिस्थितं प्रभुम् ॥
समायातं महाक्षेत्रे तत्र कायावरोहणात् ॥ २ ॥
कृत्वा तत्र तपश्चोग्रं दीक्षयित्वात्मशिष्य कान् ॥
कुशकादींश्च चतुर उक्त्वा शास्त्राण्यनेकशः ॥ ३ ॥
न्यायवैशेषिकादीनि ततः सिद्धिं परां गतः॥
एवं ज्ञात्वा तु यः सम्यक्तं समर्चयते नरः ॥ ४ ॥
कार्त्तिक्यां तु विशेषेण अयने चोत्तरेपि वा ॥
विद्यादानं च तत्रैव दद्याद्विप्राय शालिने ॥ ५ ॥
सप्तजन्मानि विप्रस्य धनाढ्यस्य कुले शुभे ॥
जायते मतिमान्धीमाञ्छ्रीमानेवं पुनःपुनः ॥ ६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये लकुलीश्वरमाहात्म्य वर्णनंनामैकोनाशीतितमोऽध्यायः ॥ ७९ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 80
॥ ईश्वर उवाच ॥ ॥
तस्यैव पूर्वदिग्भागे लिंगं पातकनाशनम् ॥
गौतमेश्वरनामाढ्यं दैत्यसूदनपश्चिमे ॥ १ ॥
धनुषां पंचके देवि संस्थितं सर्वकामदम् ॥
शल्येनाराधितं यद्वै मद्रराजेन भामिनि ॥ २ ॥
ततः कृतं तपश्चोग्रं समाराध्य महेश्वरम् ॥
अन्योऽप्येवं नरो यस्तु तं समाराधयिष्यति ॥ ३ ॥
स प्राप्स्यति परां सिद्धिं यथा शल्यो महामनाः ॥
चैत्र शुक्लचतुर्द्दश्यां स्नापयेत्पयसा तु यः ॥ ४ ॥
गंधोदकेन च ततः पूजयेत्कुसुमोत्तमैः ॥
तथैव विधिवद्भक्त्या सोऽश्वमेधफलं लभेत् ॥ ५ ॥
वाचा कृतं च यत्पापं मनसा कर्मणाऽथ वा ॥
तत्सर्वं नश्यते देवि तस्य लिंगस्य दर्शनात् ॥ ६ ॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गौतमेश्वरमाहात्म्यवर्णनंनामाशीतितमोऽध्यायः ॥ ८० ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 81
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवेशं दैत्यसूदनम् ॥
पापघ्नं सर्वजंतूनां प्रभासक्षेत्रवासिनाम् ॥ १ ॥
अनादियुगसंस्थानं सर्व कामप्रदं शुभम्॥
संसारसागरे घोरे स्थितं नौरिव तारणे ॥ २ ॥
अन्ये सर्वेऽपि नश्यंति कल्पांते ब्रह्मणो दिने ॥
एतानि मुक्त्वा देवेशि न्यग्रोधं सप्त कल्पगम ॥३॥
कल्पवृक्षं तथाऽगारं वैडूर्यं पर्वतोत्तमम्॥
श्रीदैत्यसूदनं देवं मार्कंडेयं महामुनिम्॥४॥
अक्षयाश्चाव्ययाश्चैते सप्तकल्पानि सुन्दरि ॥
देवि किं बहुनोक्तेन वर्णितेन पुनःपुनः ॥ ५ ॥
श्रीदैत्यसूदनाद्देवि नान्यास्ति भुवि देवता ॥
यवाकारं तु तस्यैव क्षेत्रपातकनाशनम्॥ ६ ॥
सेवितं चर्षिभिः सिद्धैर्यक्षविद्याधरोरगैः ॥
तस्य सीमां प्रवक्ष्यामि विष्णुक्षेत्रस्य भामिनि ॥ ७ ॥
पूर्वे यमेश्वरं यावच्छ्रीसोमेशं तु पश्चिमे ॥
उत्तरे तु विशालाक्षी दक्षिणे सरितां पतिः ॥ ८ ॥
एतत्क्षेत्रं यवाकारं वैष्णवं पापनाशनम् ॥९॥
अत्र क्षेत्रे मृता ये तु पापिनोऽपि नरा ध्रुवम् ॥
स्वर्गं गच्छंति ते सर्वे संतः सुकृतिनो यथा ॥7.1.81.१०॥
अत्र दत्तं हुतं जप्तं तपस्तप्तं कृतं हि यत् ॥
तत्सर्वं चाक्षयं प्रोक्तं सप्तकल्पावधि प्रिये ॥ ११ ॥
तत्रैकमपि यो देवि ब्राह्मणं भोजयिष्यति ॥
विधिना विष्णुमुद्दिश्य कोटिर्भवति भोजिता ॥ १२ ॥
तत्रोपवासं यः कुर्यान्नरो भक्तिसमन्वितः ॥
एकेनैवोपवासेन उपवासायुतं फलम् ॥
चक्रतीर्थे नरः स्नात्वा सोपवासो जितेंद्रियः ॥ १३ ॥
द्वादश्यां कार्त्तिके मासि दद्याद्विप्रेषु कांचनम् ॥
विष्णुं संपूज्य विधिवन्मुच्यते सर्वपातकैः ॥ १४ ॥
॥ देव्युवाच ॥ ॥
दैत्यसूदननामेति कथं तस्य प्रकीर्तितम् ॥
कस्मिन्काले तु देवेश तन्मे विस्तरतो वद ॥ १५ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि माहात्म्यं पापनाशनम् ॥
दैत्यसूदनदेवस्य पुरा वृत्तं महोदयम् ॥ १६ ॥
देवि तस्यैव नामानि कल्पेकल्पे भवंति वै॥
अनादिनिधनान्येव संभवन्ति पुनःपुनः॥१७॥
पूर्वकल्पे श्रिया वृत्तो वामनस्तु द्वितीयके॥
वज्रांगस्तु तृतीये वै तुरीये कमलाप्रियः॥१८॥
पंचमे दुःखहर्त्ता च षष्ठे तु पुरुषोत्तमः॥
श्रीदैत्यसूदनो देवः कल्पे वै सप्तमे स्मृतः॥१९॥
तस्यैव नाम चोत्पत्तिं कथयामि यथार्थतः ॥ 7.1.81.२० ॥
पुरा देवासुरे युद्धे दानवैर्देवकंटकैः ॥
निर्जिता देवताः सर्वे जग्मुस्ते शरणं हरिम् ॥
क्षीरोदवासिनं देवमस्तुवन्प्रणताः स्थिताः ॥ २१ ॥
॥ देवा ऊचुः॥ ॥
जय देव जगन्नाथ दैत्यासुरविमर्द्दन ॥
वाराहरूपमास्थाय उद्धृता वसुधा त्वया ॥ २२ ॥
उद्धृता मत्स्यरूपेण वेदा उदधिमध्यतः ॥
कूर्मरूपी तथा भूत्वा क्षीरोदार्णवमंथनम् ॥ २३ ॥
कृत्वा त्वया जगन्नाथ उद्धृता श्रीर्नमो ऽस्तु ते ॥
श्रीपतिः श्रीधरो देव आर्त्तानामर्तिनाशनः ॥ २४ ॥
बलिर्वामनरूपेण त्वया बद्धोऽसुरारिणा ॥
हिरण्याक्षो महादैत्यो हिरण्यकशिपुर्हतः ॥ २५ ॥
नारसिंहेन रूपेण अन्तरिक्षे धृतस्त्वया ॥
देवमूल महादेव उद्धृतं भुवनं त्वया ॥ २६ ॥
त्वया विना जगन्नाथ भुवनं निष्प्रभी कृतम् ॥
सूर्येणेव तु विक्रान्तं तमोभिरिव दानवैः ॥ २७ ॥
श्रुत्वा स्तोत्रमिदं देवि विष्णुः कमललोचनः ॥
उवाच देवान्ब्रह्माद्यान्क्षीरोदार्णव बोधितः ॥ २८ ॥
भयं त्यजध्वं वै देवा दानवान्प्रति सर्वथा ॥
अचिरेणैव कालेन घातयिष्यामि दानवान् ॥ २९ ॥
एवमुक्त्वाथ तैः सार्द्धमा जगाम जनार्द्दनः ॥
दानवान्घातयामास स चक्रेण पृथक्पृथक् ॥ 7.1.81.३० ॥
भयार्त्ता दानवाः सर्वे पलायनपरायणाः ॥
प्रभासं क्षेत्रमासाद्य समुद्राभिमुखा भवन्॥ ३१ ॥
नश्यमानास्ततो दृष्ट्वा दैत्यान्दैत्यविनाशनम् ॥
संजघ्ने तान्स चक्रेण निःशेषान्सर्वदानवान् ॥ ३२ ॥
हतेषु सर्वदैत्येषु देवब्राह्मणतापसैः ॥
कल्याणमभवत्तत्र जगत्स्वस्थमनाकुलम् ॥ ३३ ॥
तत्प्रभृत्येव देवस्य दैत्यसूदननाम तत् ॥
एतन्माहात्म्यमतुलं कथितं तव सुन्दरि ॥
दैत्यसूदनदेवस्य महाभाग्यं महोदयम् ॥ ३४ ॥
तं दृष्ट्वा न जडो नांधो न दरिद्रो न दुःखितः ॥
जायते सप्त जन्मानि सत्यंसत्यं वरानने ॥ ३५ ॥
श्रवणद्वादशीं पुण्यां रोहिण्यां चाष्टमीं शुभाम् ॥
शयनोत्थापनीं चैव नरः कृत्वा प्रयत्नतः ॥ ३६ ॥
एकैकेनोप वासेन उपवासायुतं फलम् ॥
लभते नात्र सन्देहो दैत्यसूदनसन्निधौ ॥ ३७ ॥
चण्डालः श्वपचो वापि तिर्यग्योनिगतोऽपि वा ॥
प्राणत्यागे कृते तस्मिन्नाच्युतं लोकमाप्नुयात् ॥ ३८ ॥
कार्तिक्यां चैव वैशाख्यां मासमेकमुपोषयेत् ॥
दैत्यसूदनमध्यस्थः सम्यक्छ्रद्धासमन्वितः ॥ ३९ ॥।
एकैकेनोपवासेन कोटिकोटि पृथक्पृथक् ॥
लभते तत्फलं सर्वं विष्णुक्षेत्रप्रभावतः ॥ 7.1.81.४० ॥
दीपं ददाति यस्तत्र मासं वा पक्षमेव वा ॥
एकैक दीपदानेन कोटिदीपफलं लभेत् ॥ ४१ ॥
पंचामृतेन संस्नाप्य देवदेवं चतुर्भुजम् ॥
एकादश्यां निराहारः पूजयित्वाऽच्युतो भवेत् ॥ ४२ ॥
चातुर्मास्यं विधानेन दैत्यसूदनसन्निधौ ॥
नियमेन क्षिपेद्यस्तु तस्य तुष्यति केशवः ॥ ४३ ॥
अन्यक्षेत्रेषु यत्कृत्वा चातुर्मास्यानि कोटिशः ॥
तत्फलं लभते सर्वं दैत्यसूदनदर्शनात् ॥ ४४ ॥
ब्रह्माण्डं सकलं दत्त्वा यत्पुण्यफलमाप्नुयात् ॥
तत्पुण्यं लभते सर्वं दैत्यसूदनदर्शनात्॥ ४५॥
एकादश्यां तु यस्तत्र कुरुते जागरं नरः ॥
गीतनृत्यैस्तथा वाद्यैः प्रेक्षणीयैस्तथाविधैः ॥
स याति वैष्णवं लोकं यं गत्वा न निवर्त्तते ॥ ४६ ॥
हत्याऽयुतानीह सुसंचितानि स्तेयानि रुक्मस्य न सन्ति संख्या ॥
निहंति केनापि पुरा कृतानि सर्वाणि भद्रा निशि जागरेण ॥ ४७॥
मार्गा न ते प्रेतपुरी न दूता वनं च तत्खेचरखड्गपत्रम् ॥
स्वप्ने न पश्यंति च ते मनुष्या येषां गता जागरणेन भद्रा ॥ ४८ ॥
कन्यासहस्रं विधिवद्ददाति रत्नैरलंकृत्य स्वधर्मबुद्ध्या ॥
गवां सहस्रं कुरुजांगले तु तेषां परं जागरणेन विष्णोः ॥ ४९ ॥
कृत्वा चैवोपवासं च योऽश्नाति द्वादशीदिने ॥
नैवेद्यं तुलसीमिश्रं हत्याकोटिविनाशनम् ॥ 7.1.81.५० ॥
इति ते कथितं देवि माहात्म्यं पापनाशनम् ॥
दैत्यसूदनदेवस्य किमन्यत्परिपृच्छसि ॥ ॥ ५१ ॥
पीतवस्त्राणि देवस्य गां हिरण्यं च दापयेत् ॥
स्नात्वा चक्रवरे तीर्थे मुच्यते सर्वपातकात् ॥ ५२ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये श्रीदैत्यसूदनमाहात्म्यवर्णनंनामैकाशीतितमोऽध्यायः ॥ ८१ ॥ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 82
॥देव्युवाच ॥ ॥
चक्रतीर्थेति किं नाम त्वया प्रोक्तं वृषध्वज ॥
कुत्र तिष्ठति तत्तीर्थं किं प्रभावं वदस्व मे ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
पुरा देवासुरे युद्धे हत्वा दैत्याञ्जनार्द्दनः ॥
चक्रं प्रक्षालयामास तत्र वै रक्तरंजितम्॥ २ ॥
अष्टकोटिसुतीर्थानि तत्रानीय स्वयं हरिः ॥
तीर्थे प्रकल्पयामास शुद्धिं कृत्वा सुदर्शने ॥
तीर्थस्य चक्रे नामापि चकतीर्थमिति श्रुतम्॥ ३ ॥
अष्टायुतानि तीर्थानामष्टौ कोट्यस्तथैव च ॥
तत्र संति महादेवि चक्रतीर्थे न संशयः ॥ ४ ॥
यस्तत्र कुरुते स्नानमेकचित्तो नरोत्तमः॥
सर्वतीर्थाभिषेकस्य स प्राप्नोत्यखिलं फलम्॥५ ॥
तीर्थानामष्टकोटिस्तु निवसंति वरानने ॥
एकादश्यां विशेषेण चन्द्रसूर्यग्रहे तथा ॥ ६ ॥
तत्र स्नात्वा महादेवि यज्ञकोटिफलं लभेत् ॥
तस्यैव कल्पनामानि शृणु ते कथयाम्यहम् ॥ ७ ॥
कोटितीर्थं पूर्वकल्पे श्रीनिधानं द्वितीयके ॥
तृतीये शतधारं च चक्रतीर्थं चतुर्थके ॥ ८ ॥
एवं ते कल्पनामानि ह्यतीतान्यखिलानि वै ॥
कथितान्येवमन्यानि ज्ञेयानि विबुधैः क्रमात्॥ ९ ॥
तत्र यद्दीयते दानं तस्य संख्या न विद्यते ॥
अर्द्धक्रोशप्रमाणं हि विष्णुक्षेत्रं प्रकीर्त्तितम् ॥ 7.1.82.१० ॥
ब्रह्महत्या नोपसर्पेत्सत्यमेतन्मयोदितम् ॥
मासोपवासी तत्क्षेत्रे अग्निहोत्री यतव्रतः ॥ ११ ॥
स्वाध्यायी यज्ञयाजी च तपश्चांद्रायणा दिकम् ॥
तिलोदकं पितॄणां च श्राद्धं च विधिपूर्वकम् ॥ १२ ॥
एकरात्रं त्रिरात्रं वा कृच्छ्रं सांतपनं तथा ॥
मासोपवासं तच्चैव अन्यद्वा पुण्यकर्म तत् ॥ १३ ॥
दैत्यारिक्षेत्रमासाद्य यत्किंचित्कुरुते नरः ॥
अन्यक्षेत्रात्कोटिगुणं पुण्यं भूयान्न संशयः ॥ १४ ॥
सुदर्शने वरे तीर्थे गोदानं तत्र दापयेत् ॥
सम्यग्यात्राफलप्रेप्सुः सर्वपापविशुद्धये ॥ १५ ॥
चंडालः श्वपचो वाऽपि तिर्यग्योनिगतस्तथा ॥
तस्मिंस्तीर्थे मृतः सम्यगाच्युतं लोकमाप्नुयात् ॥ १६ ॥
इति संक्षेपतः प्रोक्तं चक्रतीर्थसमुद्भवम् ॥
माहात्म्यं सर्वपापघ्नं सर्वकामफलप्रदम् ॥ १७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दैत्यसूदन माहात्म्यप्रसंगेन चक्रतीर्थोत्पत्तिवृत्तान्तमाहात्म्यवर्णनंनाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 83
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्य पूर्वेण संस्थिताम् ॥
योगेश्वरीं महादेवीं योगसिद्धिफलप्रदाम् ॥ १ ॥
तदुत्पत्तिं प्रवक्ष्यामि शृणु श्रद्धासमन्विता ॥
पुरा दानवशार्दूलो महिषाख्यो महाबलः ॥ २ ॥
बभूव प्रवरो देवि सर्वदेवभयंकरः ॥
कामरूपी स लोकांस्त्रीन्वशीकृत्वाऽभवत्सुखी ॥ ३ ॥
कस्मिंश्चिदथ काले तु ब्रह्मणा लोककारिणा ॥
सृष्टा मनोहरा कन्या रूपेणाप्रतिमा दिवि ॥ ४ ॥
अतपत्सा तपो घोरं कन्या रूपवती सती ॥
नारदेन ततो दृष्टा सा कदाचिद्वरानने ॥ ५ ॥
ततः स सहसा देवि विस्मयं परमं गतः ॥
अहो रूपमहो धैर्यमहो कान्तिरहो वयः ॥ ६ ॥
इत्येवं चिन्तयंस्तत्र नारीं वचनमब्रवीत् ॥
कुरुष्वात्मप्रदानं मे न मे दारपरिग्रहः ॥
तवाहं दर्शनाद्देवि कामवाणेन पीडितः ॥७॥
साऽब्रवीन्न हि मे कार्यं कामधर्मेण सत्तम॥
कौमारं व्रतमासाद्य साधयिष्ये यथेप्सितम् ]। ८ ॥
न च मन्युस्त्वया कार्यो ह्यस्मिन्नर्थे कथंचन ॥
तस्यास्तद्वचनं श्रुत्वा स मुनिर्नारदः प्रिये ॥ ॥ ९ ॥
समुद्रान्तेऽगमद्दिव्यां पुरीं महिषपालिताम् ॥
अर्चितो हि मुनिस्तेन महिषेण महात्मना ॥ 7.1.83.१० ॥
पृष्ट्वा ह्यनामयं देवि दत्त्वा चार्घ्यमनुत्तमम् ॥
सोऽब्रवीत्प्राञ्जलिर्भूत्वा किमागमनकारणम् ॥
ब्रूहि यत्ते व्यवसितं सर्वं कर्त्तास्मि नारद॥११॥
अथोवाच मुनिस्तत्र महिषं दानवेश्वरम्॥
कन्यारत्नं समुत्पन्नं जंबूद्वीपे महासुर ॥१२ ॥
स्वर्गे मर्त्ये च पाताले न दृष्टं न च मे श्रुतम् ॥
तादृग्रूपमहं येन कामबाणवशीकृतः ॥ १३ ॥
स श्रुत्वा वचनं तस्य कामस्योत्पादनं परम्॥
जगाम यत्र सा साध्वी क्षेत्रे प्राभासिके स्थिता ॥ १४ ॥
तामेव प्रार्थयामास बलेन महता वृतः ॥
भार्या भव त्वं मे भीरु भुंक्ष्व भोगान्मनोरमान्॥
एतत्तपो महाभागे विरुद्धं यौवनस्य ते ॥ १५ ॥
तस्य तद्वचनं श्रुत्वा जहास वरवर्णिनी ॥
तस्या हसंत्या देवेशि शतशोऽथ सहस्रशः ॥ १६ ॥
निश्वासात्सहसा नार्यः शस्त्रहस्ता भयानकाः ॥
ताभिर्विध्वंसितं सैन्यं महिषस्य दुरात्मनः ॥१७॥
तस्मिन्निपात्यमाने तु सैन्ये दानवसत्तमः ॥
क्रोधं कृत्वा ततः शीघ्रं तामेवाभिमुखो ययौ ॥१८॥
विधुन्वन्स हि ते तीक्ष्णशृंगेऽभीक्ष्णं भयानके ॥।
तया सार्धं च सुमहत्कृत्वा युद्धं महासुरः ॥१९॥
शृंगाभ्यां जगृहे देवीं सा तस्योपरि संस्थिता ॥
पद्भ्यामाक्रम्य शूलेन निहतो दैत्यपुंगवः ॥7.1.83.२०॥
छिन्ने शिरसि खङ्गेन तद्रूपो निःसृतः पुमान् ॥
रौद्रोऽपि स गतः स्वर्गं दैत्यो देव्यस्त्रपातितः ॥२१॥
ततो देवगणाः सर्वे महिषं वीक्ष्य निर्जितम् ॥।
महेंद्राद्याः स्तुतिं चक्रुर्देव्यास्तुष्टेन चेतसा॥२२॥
॥ देवा ऊचुः॥
नमो देवि महाभागे गम्भीरे भीमदर्शने॥
नयस्थिते सुसिद्धांते त्रिनेत्रे विश्वतोमुखि ॥ २३ ॥
विद्याविद्ये जये जाप्ये महिषासुरमर्दिनि ॥
सर्वगे सर्वविद्येशे देवि विश्वस्वरूपिणि ॥२४॥
वीतशोके ध्रुवे देवि पद्मपत्रायतेक्षणे ॥
शुद्धसत्त्वे व्रतस्थे च चण्डरूपे विभावरि ॥२५॥
ऋद्धिसिद्धिप्रदे देवि कालनृत्ये धृतिप्रिये ॥
शांकरि ब्राह्मणि ब्राह्मि सर्वदेवनमस्कृते ॥२६॥
घंटाहस्ते शूल हस्ते महामहिषमर्दिनि ॥
उग्ररूपे विरूपाक्षि महामायेऽमृते शिवे ॥ २७ ॥
सर्वगे सर्वदे देवि सर्वसत्त्वमयोद्भवे ॥
विद्यापुराणशल्यानां जननि भूतधारिणि ॥ २८ ॥
सर्वदेवरहस्यानां सर्वसत्त्ववतां शुभे ॥
त्वमेव शरणं देवि विद्याऽविद्ये श्रियेऽश्रिये ॥ २९ ॥
एवं स्तुता सुरैर्देवि प्रणम्य ऋषिभिस्तथा ॥
उवाच हसती वाक्यं वृणुध्वं वरमुत्तमम् ॥ 7.1.83.३० ॥
॥ देवा ऊचुः ॥
स्तवेनानेन ये देवि स्तुवन्त्यत्र नरोत्तमाः ॥
ते संतु कामैः संपूर्णा वरवर्षा निरंतरम् ॥ ३१ ॥
अस्मिन्क्षेत्रे त्वया वासो नित्यं कार्यः शुचिस्मिते ॥ ३२ ॥
एवमस्त्विति सा देवी देवानुक्त्वा वरानने ॥
विसृज्य ऋषिसंघांश्च तत्रैव निरताऽभवत् ॥ ३३ ॥
आश्वयुक्छुक्लपक्षस्य नवम्यां यो वरानने ॥
उपवासपरो भूत्वा तां प्रपश्यति भक्तितः ॥
तस्य पापं क्षयं याति तमः सूर्योदये यथा ॥ ३४ ॥
य एतत्पठति स्तोत्रं प्रातरुत्थाय मानवः ॥
न भीः संपद्यते तस्य यावज्जीवं नरस्य वै ॥ ३५ ॥
आश्वयुक्छुक्लपक्षे या अष्टमी मूलसंयुता ॥
सा महानामिका प्राणा येषां तस्यां गताः शुभे ॥ ३६ ॥
तेषां स्वर्गे ध्रुवं वासो वीरास्तेऽप्सरसां प्रियाः ॥ ३७ ॥
मन्वन्तरेषु सर्वेषु कल्पादिषु सुरेश्वरि ॥
एष एव क्रमः प्रोक्तो विशेषं शृणु सांप्रतम् ॥३८॥
आश्वयुक्छुक्लपक्षे या पंचमी पापनाशिनी ॥
तस्यां संपूजयेद्रात्रौ खड्गमंत्रैर्विभूषितम् ॥ ३९ ॥
मंडपं कारयेत्तत्र नवसप्तकरं तथा ॥
प्रागुदक्प्रवणे देशे पताकाभिरलंकृतम् ॥
योगेश्वर्याः संनिधाने विधिना कारयेद्द्विजः॥7.1.83.४०॥।
आग्नेय्यां कारयेत्कुण्डं हस्तमात्रं सुशोभनम्॥
मेखलात्रयसंयुक्तं योन्याऽश्वत्थदलाभया॥४१॥
शास्त्रोक्तं मन्त्रसंयुक्तं होतव्यं पायसं ततः॥
ततः खड्गं तु संस्नाप्य पंचामृतरसेन वै॥
पूजयेद्विविधैः पुष्पैर्मंत्रपूर्वं द्विजोत्तमैः॥४२॥
अभीर्विशसनं खड्गः प्राणिभूतो दुरासदः ॥
अगम्यो विजयश्चैव धर्माधारस्तथैव च ॥
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ॥ ४३ ॥
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ॥
हिरण्यं च शरीरं ते धाता देवो जनार्दनः ॥
पिता पितामहो देव स्वेन पालय सर्वदा ॥ ४४ ॥
॥ इति खड्गमन्त्रः ॥ ॥
एवं संपूज्य विधिना तं खङ्गं ब्राह्मणोत्तमैः ॥
भ्रामयेन्नगरे रात्रौ नान्दीघोषपुरःसरम् ॥ ४५ ॥
सर्वसैन्येन संयुक्तस्तत्र ब्राह्मणपुंगवैः ॥
एवं कृत्वा विधानं तु पुनर्योगेश्वरीं नयेत् ॥
उच्चार्य मन्त्रमेवं वै खङ्गं तस्यै समर्पयेत् ॥ ४६ ॥
अञ्जनेन समालेख्य चन्दनेन विलेपितम् ॥
बिल्वपत्रकृतां मालां तस्यै देव्यै निवेदयेत् ॥ ४७ ॥
दुर्गे दुर्गार्तिहे देवि सर्व दुर्गतिनाशिनि ॥
त्राहि मां सर्वदुर्गेषु दुर्गेऽहं शरणं गतः ॥ ४८ ॥
दत्त्वैवमर्घ्यं देवेशि तत्र खङ्गं च जागृयात् ॥
नित्यं संपूज्य विधिना अष्टम्यां यावदेव हि ॥ ४९ ॥
तद्रात्रौ जागरं कृत्वा प्रभाते ह्यरुणोदये ॥
पातयेन्महिषान्मेषानग्रतो गतकंधरान् ॥ 7.1.83.५० ॥
शतमर्धशतं वापि तदर्धार्धं यथेच्छया ॥
सुरासवभृतैः कुंभैस्तर्पयेत्परमेश्वरीम् ॥ ५१ ॥
कापालिकेभ्यस्तद्देयं दासीदासजने तथा ॥
ततोऽपराह्नसमये नवम्यां स्यन्दने स्थिताम् ॥ ५२ ॥
योगेशीं भ्रामयेद्राष्ट्रे स्वयं राजा स्वसैन्यवान् ॥
नदद्भिः शंखपटहैः पठद्भिर्बटुचारणैः ॥ ५३ ॥
भूतेभ्यश्च बलिं दद्यान्मंत्रेणानेन भामिनि ॥
सरक्तं सजलं सान्नं गन्धपुष्पाक्षतैर्युतम् ॥ ५४ ॥
त्रीन्वाराँस्तु त्रिशूलेन दिग्विदिक्षु क्षिपेद्बलिम् ॥
बलिं गृह्णन्त्विमे देवा आदित्या वसवस्तथा ॥ ५५ ॥
मरुतोऽथाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥
सौम्या भवंतु तृप्ताश्च भूताः प्रेताः सुखावहाः ॥ ५६ ॥
य एवं कुर्वते यात्रां ब्राह्मणाः क्षेत्रवासिनः ॥
न तेषां शत्रवो नाग्निर्न चौरा न विनायकाः ॥
विघ्नं कुर्वंति देवेशि योगेश्वर्याः प्रसादतः ॥ ५७ ॥
सुखिनो भोगभोक्तारः सर्वातंकविवर्जिताः ॥
भवन्ति पुरुषा भक्ता योगेश्वर्या निरंतरम् ॥ ५८ ॥
इत्येष ते समाख्यातो योगेश्वर्या महोत्सवः ॥
पठतां शृण्वतां चैव सर्वाशुभविनाशनः ॥ ५९ ॥
शूलाग्रभिन्नमहिषासुरपृष्ठपीठामुत्खातखड्ग रुचिरांगदबाहुदंडाम् ॥
अभ्यर्च्य पंचवदनानुगतं नवम्यां दुर्गां सुदुर्गगहनानि तरंति मर्त्याः ॥ 7.1.83.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये योगेश्वरीमाहात्म्यवर्णनंनाम त्र्यशीतितमोऽध्यायः ॥ ८३ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 84
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि आदिनारायणं हरिम् ॥
तस्याश्च पूर्वदिग्भागे सर्वपातकनाशनम् ॥ १ ॥
पादुकासनसंयुक्तं सर्वदैत्यांतकारिणम् ॥
आदौ कृतयुगे देवि दैत्योऽभून्मेघवाहनः ॥ २ ॥
महाबलो महाकायो योजनायुतविस्तरः ॥
अजेयः सर्वदेवानां त्रैलोक्यक्षयकारकः ॥
ब्रह्मणा तस्य तुष्टेन वरो दत्तो वरानने ॥ ३ ॥
यदा पादुकया विष्णुस्त्वां हनिष्यति संयुगे ॥
तदैव मृत्युर्भविता नान्यथा मरणं तव ॥ ४ ॥
इति लब्धवरो दैत्यः संतापयति भूतलम् ॥
युगानां कोटिमेकां तु सदेवासुरमानुषम् ॥ ५ ॥
संतप्य बहुधा देवि दक्षिणो दधिमागतः ॥
तत्र विध्वंसयामास ऋषीणामाश्रमाणि वै ॥ ६ ॥
ततस्त ऋषयः सर्वे विध्वस्ताश्रममण्डलाः ॥
शरणं चैव संप्राप्ता देवदेवं तु केशवम् ॥
अजेयं तं तु संज्ञात्वा तुष्टुवुर्गरुडध्वजम् ॥ ७ ॥
॥ ऋषय ऊचुः ॥
नमः परमकल्याणकल्याणायात्मयोगिने ॥
जनार्द्दनाय देवाय श्रीधराय च वेधसे ॥ ८ ॥
नमः कमलकिंजल्कसुवर्णमुकुटाय च ॥
केशवायातिसूक्ष्माय बृहन्मूर्ते नमोनमः ॥ ९ ॥
महात्मने वरेण्याय नमः पंकजनाभये ॥
नमोऽस्तु मायाहरये हरये हरिवेधसे ॥ 7.1.84.१० ॥
हिरण्यगर्भगर्भाय जगतः कारणात्मने ॥
अच्युताय नमो नित्यमनन्ताय नमोनमः ॥ ११ ॥
नमो मायापटच्छन्न जगद्धात्रे महात्मने ॥
संसारसागरोत्तार ज्ञानपोतप्रदायिने ॥
अकुंठमतये धात्रे सर्गस्थित्यंत कर्मणे ॥ १२ ॥
यथा हि वासुदेवेति प्रोक्ते नश्यति पातकम् ॥
तथा विलयमभ्येतु दैत्योऽयं मेघवाहनः ॥ १३ ॥
यथा विष्णुः स्वभक्तेषु पापमाप्नोति संस्थितम्॥
तथा विनाशमायातु दैत्योऽयं पापकर्मकृत् ॥ १४ ॥
स्मृतमात्रो यथा विष्णुः सर्वं पापं व्यपोहति ॥
तथा प्रणाशमभ्येतु दैत्योऽयं मेघवाहनः ॥ १५ ॥
भवंतु भद्राणि समस्तदोषाः प्रयांतु नाशं जगतोऽखिलस्य ॥
अभेद्यभक्त्या परमेश्वरेशे स्मृते जगद्धातरि वासुदेवे ॥ १६ ॥
ये भूतले ये दिवि येऽन्तरिक्षे रसातले प्राणिगणाश्च केचित् ॥
भवन्तु ते सिद्धियुता नरोत्तमाः स्मृते जगद्धातरि वासुदेवे ॥ १७ ॥
ये प्राणिनः कुत्रचिदत्र संति ब्रह्माण्डमध्ये परतश्च केचित् ॥
तेषां तु सिद्धिः परमास्त्वनिंद्या स्तुते जगद्धातरि वासुदेवे ॥ १८ ॥
॥ ईश्वर उवाच ॥ ]।
इति स्तुतस्तदा देवि आदिनारायणो हरिः ॥
ज्ञात्वा स भावि कार्यं तत्समारुह्य च पादुकाम् ॥ १९ ॥
बभूव तेषां प्रत्यक्ष ऋषीणां पापनाशनः ॥
उवाच प्रणतान्सर्वान्किं वा कार्यं हृदि स्थितम् ॥ 7.1.84.२० ॥
कथ्यतां तत्करिष्यामि युष्मत्स्तोत्रेण तर्पितः ॥ २१ ॥
इत्युक्ता ऋषयः सर्वे कृतांजलिपुटाः स्थिताः ॥
आदिदेवं हरिं प्रोचुः सर्वे नतशिरोधराः ॥ २२ ॥
॥ ऋषय ऊचुः ॥ ॥
जानासि सर्वं त्वं देव न चास्त्यविदितं तव ॥
इमं दैत्यं महादेव संहरस्व महाबलम्॥
यथेदं सकलं विश्वं निरातंकं भवेत्प्रभो ॥ २३ ॥
इत्युक्तस्तैस्तदा विष्णुर्दैत्यमाहूय संयुगे ॥
ताडयामास तं दैत्यं हृदि पादुकया शुभे॥२४॥
स हतः पतितो दैत्यो विगतासुर्महोदधौ॥
हत्वा दैत्यवरं देवस्तत्र स्थाने स्थितोऽभवत्॥
पादुकासनसंस्थस्तु तत्राद्यापि वरानने ॥ २५ ॥
यस्तं पूजयते भक्त्या एकादश्यां नरोत्तमः ॥
सोश्ववमेधफलं प्राप्य मोदते दिवि देववत् ॥ २६ ॥
गोलक्षं ब्राह्मणे दत्त्वा यत्फलं प्राप्नुयान्नरः ॥
तदादिदेवे गोविन्दे दृष्टे भक्त्या फलं लभेत् ॥ २७ ॥
कलौ कृतयुगं तेषां क्लेशस्तेषां सुखाधिकः ॥
आदिनारायणो देवो येषां हृदयसंस्थितः ॥ २८॥
एकादश्यां रविदिने स्नात्वा संनिहिता जले ॥
आदिनारायणं पूज्य मुच्यते भवबन्धनात् ॥२९॥
इति ते कथितं देवि माहात्म्यं विष्णुदैवतम् ॥
श्रुतं पापहरं नृणां दारिद्यौघविनाशनम् ॥ 7.1.84.३० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य आदिनारायणमाहात्म्यवर्णनंनाम चतुरशीतितमोध्यायः ॥ ८४ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 85
॥ देव्युवाच ॥ ॥
तत्र संनिहिता प्रोक्ता या त्वया वृषभध्वज ॥
कथं देव समायाता कुरुक्षेत्रान्महानदी ॥
किं प्रभावा तु सा प्रोक्ता फलं स्नानादिकेन किम् ॥ ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि यत्र संनिहिता शुभा ॥
पापघ्नी सर्वजंतूनां दर्शनात्स्पर्शनादपि ॥ २ ॥
आदिनारायणाद्देवि पश्चिमे धनुषां त्रये ॥
संस्थिता सा महादेवी सरिद्रूपा महानदी ॥ ३ ॥
कथयामि समासेन तदुत्पत्तिं शृणु प्रिये ॥
जरासंधभयाद्देवि विष्णुः परिजनैः सह ॥ ४ ॥
गृहीत्वा यादवान्सर्वान्बालवृद्धवणिग्जनान् ॥
स शून्यां मथुरां कृत्वा प्रभासं समुपागतः ॥ ५ ॥
समुद्रं प्रार्थयामास स्थानं संवासहेतवे ॥
एतस्मिन्नेव काले तु देवदेवो दिवाकरः ॥ ६ ॥
संग्रस्तो राहुणा देवि पर्वकाले ह्युपस्थिते ॥
तं दृष्ट्वा यादवाः सर्वे विषादं परमं गताः ॥ ७ ॥
अप्राप्ताः संनिहित्यायां तानुवाच जनार्द्दनः ॥
मा विषादं यदुश्रेष्ठा व्रजध्वं मयि संस्थिते ॥ ८ ॥
दृश्यतां मत्प्रभावोऽद्य धर्मा र्थमिह भूतले ॥
आनयिष्याम्यहं सम्यक्पुण्यं सांनिहितं सरः ॥ ९ ॥
एवमुक्त्वा स भगवान्समाधिस्थो बभूव ह ॥
एवं संध्यायतस्तस्य विष्णोरमिततेजसः ॥ 7.1.85.१० ॥
प्रादुर्भूता ततस्तस्य वारिधाराऽग्रतः शुभा ॥
बिभेद्य धरणीपृष्ठं स्नानार्थं चासुरद्विषः ॥ ११ ॥
तत स्ते यादवाः सर्वे रामसांबपुरोगमाः ॥
चक्रुः स्नानं महादेवि राहुग्रस्ते दिवाकरे ॥ १२ ॥
प्राप्तपुण्या बभूवुस्ते संनिहित्यासमुद्भवम् ॥
कुरुक्षेत्रस्य यात्रायाः प्राप्य सम्यक्फलं हि ते ॥ १३ ॥
एवं तत्समनुप्राप्तं पुण्यं सान्निहितं सरः ॥
तत्र स्नात्वा महादेवि राहुग्रस्ते दिवाकरे ॥
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोत्यशेषतः ॥ १४ ॥
यस्तत्र भोजयेद्विप्रं षड्रसं विधिपूर्वकम् ॥
एकेन भोजितेनैव कोटिर्भवति भोजिता ॥ १५ ॥
यस्तत्र कारयेद्धोमं संनिहित्यासमीपतः ॥
एकैकाहुतिदानेन कोटिहोमफलं लभेत् ॥ १६ ॥
मन्त्रजाप्यं तु कुरुते तत्र स्थाने स्थितो यदि ॥
एकैकमंत्रजाप्येन कोटिजाप्यफलं लभेत् ॥ १७ ॥
सुवर्णदानं दातव्यं तत्र यात्राफलेप्सुभिः ॥
स्नात्वा संपूजनीयश्च आदिदेवो जनार्द्दनः ॥ १८ ॥
इति वै कथितं सम्यक्फलं सांनिहितं तव ॥
श्रुतं पापहरं नृणां सम्यक्छ्रद्धावतां प्रिये ॥ १९ ॥।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संनिहित्यामाहात्म्यवर्णनंनाम पंचाशीतितमोऽध्यायः ॥ ८५ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 86
॥ ईश्वर उवाच ॥ ॥
तस्यास्तु दक्षिणे भागे स्थितं लिंगं महाप्रभम् ॥
पांडवेश्वरनामाढ्यं पंचभिः स्थापितं क्रमात् ॥ १ ॥
गुप्तचर्यां यदा याताः पांडवा वनवासिनः ॥
तीर्थयात्राप्रसंगेन प्रभासं क्षेत्रमागताः ॥ २ ॥
तस्मिन्काले महादेवि सं प्राप्ते सोमपर्वणि ॥
स्थापयामासुस्ते सर्वे लिंगं संनिहिता तटे ॥ ३ ॥
मार्कण्डप्रमुखान्कृत्वा ऋत्विजो ब्राह्मणोत्तमान् ॥
वेदोक्तैः कारयामासुरभिषेकं वृषान्ददुः ॥ ४ ॥
ततः प्रसन्ना ऋषयो मार्कंडप्रमुखाः प्रिये ॥
प्रतिष्ठितस्य लिंगस्य पांडवैर्वरवर्णिनि ॥ ५ ॥
॥ ऋषय ऊचुः ॥ ॥
ये चैतत्पूजयिष्यंति लिंगं पांडवपूजितम् ॥
ते वै पूज्या भविष्यंति देवदानवरक्षसाम् ॥ ६ ॥
अश्वमेधफलं तेषां सम्यक्छ्रद्धार्चनेन वै ॥
भविष्यति न संदेहो ह्यस्मद्वाक्यप्रभावतः ॥ ७ ॥
स्नात्वा संनिहिताकुंडे योऽर्चयेत्पांडवेश्वरम् ॥
माघे मासि समग्रे तु स साक्षात्पुरुषोत्तमः ॥ ८ ॥
दर्शनेनापि तस्यापि पापं याति सहस्रधा ॥
विष्णुरूपो हि स प्रोक्तो नात्र कार्या विचारणा ॥ ९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये संनिहित्यामाहात्म्ये पांडवेश्वरमाहात्म्यवर्णनंनाम षडशीतितमोऽध्यायः ॥ ८६ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 87
॥ ईश्वर उवाच ॥ ॥
एवं कृत्वा नरो यात्रां सम्यक्छ्रद्धासमन्वितः ॥
ततो गच्छेन्महादेवि रुद्रानेकादश क्रमात् ॥ १ ॥
प्रभासक्षेत्रमध्यस्थान्महापातकनाशनान् ॥
यदेकादशधा पापमर्जितं मनुजैः पृथक् ॥ २ ॥
तदेकादशरुद्राणां पूजनात्क्षयमेष्यति ॥
संक्रांतावयने वापि चंद्रसूर्यग्रहेऽथवा ॥ ३ ॥
अन्यासु पुण्यतिथिषु सम्यग्भावेन भावितः ॥
पूजयेदानुपूर्व्येण रुद्रैकादशकं क्रमात् ॥ ४ ॥
तेषां नामानि वक्ष्यामि यान्यतीतानि मे पुरा ॥
आद्ये कृतयुगे तानि शृणु देवि यथार्थतः ॥ ५ ॥
अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ॥
हरश्च बहुरूपश्च त्र्यंबकश्च सुरेश्वरः ॥
वृषाकपिश्च शंभुश्च कपर्दी चापराजितः ॥ ६ ॥
आदौ कृतयुगे देवि त्रेतायां द्वापरेऽपि च ॥
कलौ युगे तु संप्राप्ते जातं नामांतरं पुनः ॥ ७ ॥
एकादशधा रुद्राणां तानि ते वच्मि सांप्रतम्॥
भूतेशो नीलरुद्रश्च कपाली वृषवाहनः ॥८॥
त्र्यंबको घोरनामा च महाकालोऽथ भैरवः ॥
मृत्युंजयोऽथ कामेशो योगेश इति कीर्तितः ॥
एकादशैते रुद्रास्ते कथिताः क्रमशः प्रिये ॥ ९ ]।
अनादिनिधना देवि भेदभिन्नास्तु ते पृथक् ॥
एकादशस्वरूपेण पृथङ्नामप्रभेदतः ॥ 7.1.87.१० ॥
॥ देव्युवाच ॥ ॥
भगवन्विस्तराद्ब्रूहि लिंगैकादशकक्रमम् ॥
स्थानसीमाप्रभेदेन माहात्म्योत्पत्तिकारणैः ॥११ ॥
कथं पूज्यानि तानीश के मंत्राः को विधिः स्मृतः ॥
कस्मिन्पर्वणि काले वा सर्वं विस्तरतो वद ॥ १२ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि रहस्यं पापनाशनम् ॥
सोमनाथादितः कृत्वा सिद्धिनाथादिकारणम्॥ १३ ॥
यच्छ्रुत्वा मुच्यते जंतुः पातकैः पूर्वसंचितैः ॥
ये चैकादश रुद्रा वै तव प्रोक्ता मया प्रिये ॥ १४ ॥
दश ते वायवः प्रोक्ता आत्मा चैकादशः स्मृतः ॥
तेषां नामानि वक्ष्यामि वायूनां शृणु मे क्रमात्॥ १५ ॥
प्राणोऽपानः समानश्च ह्युदानो व्यान एव च ॥
नागश्च कूर्मः कृकलो देवदत्तो धनंजयः॥ १६ ॥
आत्मा चेति क्रमाज्ज्ञेया रुद्राधिपतयः क्रमात् ॥
तेषां यात्रां क्रमाद्वक्ष्ये सर्वप्राणिहिताय वै ॥ १७ ॥
रुद्राणामादिदेवोऽसौ पूर्वं सोमेश्वरः प्रिये ॥
भूतेश्वरेति नाम्ना वै पूजयेत्तं विधानतः ॥ १८ ॥
राजोपचारयोगेन श्रद्धापूतेन चेतसा ॥
पंचामृतेन संस्नाप्य सद्योजातेन पूजयेत् ॥ १९ ॥
पुष्पैर्मनोहरैर्भक्त्या ध्यात्वा देवं सदाशिवम् ॥
त्रिभिः प्रदक्षिणीकृत्य साष्टांगं प्रणिपत्य च ॥ 7.1.87.२० ॥
रुद्रैकादशयात्रार्थी निर्विघ्नार्थं व्रजेत्ततः ॥
भूतेश्वरेति यन्नाम प्रोक्तं तत्ते ब्रवीम्यहम्॥ २१ ॥
महदादि विशेषांतं भूतजालं यदीरितम् ॥
पंचविंशति संख्याकं तेषामीशो यतः स्मृतः ॥ २२ ॥
तेन भूतेश्वरेत्युक्तं नाम तस्य पुरा किल ॥
पंचविंशतितत्त्वानि ज्ञात्वा मुक्तिमवाप्नुयात् ॥ २३ ॥
भूतेशरुद्रं संपूज्य गच्छेद्वै मुक्तिमव्ययाम् ॥
इति संक्षेपतः प्रोक्तमादि रुद्रस्य कीर्तनम्॥
कीर्तनीयं द्विजातीनां कीर्तितं पुण्यवर्द्धनम्॥ २४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये भूतेश्वरमाहात्म्यवर्णनंनाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 88
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि नीलरुद्रं द्वितीयकम्॥
भूतेशादुत्तरे भागे धनुषां षोडशे स्थितम् ॥ १ ॥
महालिंगं महादेवि गणगंधर्वपूजितम्॥
संस्नाप्य तं विधानेन ईशमंत्रेण पूजयेत्॥ २ ॥
कुमुदोत्पलसंभारैः सम्यक्संभावितात्मवान् ॥
कृत्वा प्रदक्षिणां तस्य नमस्कारेण पूजयेत् ॥ ३ ॥
एवं कृत्वा नरो देवि राजसूयफलं लभेत् ॥
वृषस्तत्रैव दातव्यः सम्यग्यात्राफलेप्सुभिः ॥ ४ ॥
नीलांजननिभो दैत्यो निहतश्चांतकः पुरा ॥
तस्य रोदयिता स्त्रीणां नीलरुद्रस्ततः स्मृतः॥५॥
तस्य संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥
सम्यक्छ्रद्धान्वितैः प्राप्यं श्राव्यं तद्दर्शनोत्सुकैः ॥ ६ ॥
इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये नील रुद्रमाहात्म्यवर्णनंनामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 89
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेद्वरारोहे कपालीश्वरमुत्तमम् ॥
रुद्रं तृतीयं पापघ्नं नीलरुद्रस्यपूर्वतः ॥ १ ॥
बुधेश्वरात्पश्चिमतो धनुषां सप्तके स्थितम् ॥
छिन्नं मया पुरा देवि ब्रह्मणः पंचमं शिरः ॥ २ ॥
तत्कपालं करे लग्नं प्रभासक्षेत्रमागतः ॥
ततो वर्षसहस्रं तु संस्थितः क्षेत्रमध्यतः ॥ ३ ॥
कपालधारी दिग्वासाः कपाली तेन च स्मृतः ॥
तन्मया पूजितं लिंगं वर्षाणामयुतं प्रिये ॥ ४ ॥
कपालिरूपमास्थाय कपालीशस्ततः स्मृतः ॥
सर्वपापहरो नृणां दर्शनात्स्पर्शनादपि ॥ ५ ॥
मया तत्र नियुक्ता वै रक्षार्थं शूलपाणयः ॥
गणाः सहस्रशो देवि पापिनां दुष्टचेतसाम् ॥ ६ ॥
तस्मात्सर्वप्रयत्नेन सम्यक्छ्रद्धासमन्वितः ॥
पूजयेत्तं महादेवं कपालिनमनामयम् ॥ ७ ॥
हिरण्यं तत्र दातव्यं ब्राह्मणे वेदपारगे ॥
पूजयित्वा विधानेन सम्यक्तत्पुरुषाणुना ॥ ८ ॥
जन्मप्रभृति यत्पापं प्राणिभिः समुपार्जितम् ॥
षडशीतिमुखे दृष्ट्वा तल्लिंगं तु व्यपोहति ॥ ९ ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥
कपालिरुद्रदेवस्य तृतीयस्य वरानने ॥ 7.1.89.१० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये कपा लीश्वरमाहात्म्यवर्णनंनामैकोननवतितमोऽध्यायः ॥ ८९ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 90
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि चतुर्थं रुद्रमुत्तमम् ॥
वृषभेश्वरनामानं कल्पलिंगं सुरप्रियम् ॥ १ ॥
बालरूपी महादेवि यत्र ब्रह्मा स्वयं स्थितः ॥
तस्यैव चोत्तरे भागे धनुषां त्रितये स्थितम् ॥ २ ॥
आद्यं महाप्रभावं हि नापुण्यो वेद मानवः ॥
तस्यैव कल्पनामानि सांप्रतं प्रब्रवीमि ते ॥ ३॥
पूर्वकल्पे महादेवि ब्रह्मेश्वर इति स्मृतः ॥
ब्रह्मणाराधितः पूर्वं वर्षाणामयुतं प्रिये ॥ ४ ॥
सृष्टिकामेन देवेन ततस्तुष्टो महेश्वरः ॥
चतुर्विधां भूतसृष्टिं ततश्चक्रे पितामहः ॥ ५ ॥
ब्रह्मणस्त्वीशभावेन गतस्तुष्टिं यतो हरः ॥
तेन ब्रह्मेश्वरं नाम तस्मिँल्लिंगे पुराऽभवत् ॥ ६ ॥
ततो द्वितीयकल्पे तु संप्राप्ते वरवर्णिनि ॥
रैवतेश्वरनामेति प्रख्यातं धरणीतले ॥७॥
रैवतो नाम राजाऽभूद्ब्रह्मांडे सचराचरे ॥
जगद्योनिर्जिगायेदं तल्लिंगस्य प्रभावतः ॥ ८ ॥
रैवतेश्वरनामाभूत्तेन लिंगं महाप्रभम् ॥
पुनस्तृतीयकल्पे तु संप्राप्ते वरवर्णिनि॥९ ॥
वृषभेश्वरनामाभूत्तस्य लिंगस्य भामिनि ॥
ममैव वाहनं योऽसौ धर्मोयं वृषरूपधृक् ॥ 7.1.90.१० ॥
तेन तत्पूजितं लिंगं दिव्याब्दानां सहस्रकम्॥
ततस्तुष्टेन देवेशि नीतः सायुज्यतां वृषः ॥ ११ ॥
तेन तल्लिंगमभवद्वृषभेशेति भूतले ॥
ततश्चतुर्थे संप्राप्ते वाराहेकल्प संज्ञिते ॥ १२ ॥
अष्टाविंशतिमे तत्र त्रेतायुगमुखे तदा ॥
इक्ष्वाकुर्नाम राजाऽभूत्सूर्यवंशविभूषणः ॥ १३ ॥
स लिंगं पूजयामास त्रिकालं भक्तिभावितः ॥
एकाहारो जिताहारो भूभिशायी जितेंद्रियः ॥ १४ ॥
एवं काले बहुविधे ततस्तुष्टो महेश्वरः ॥
ददौ राज्यं महोदग्रं संततिं पुत्र पौत्रिकीम्॥ १५ ॥
इक्ष्वाक्वीश्वरनामाभूत्तेनेदं लिंगमुत्तमम् ॥
यस्तं पूजयते भक्त्या देवं वृषभवाहनम् ॥ .१६ ॥
सप्तजन्मकृतैः पापैर्मुच्यते नात्र संशयः ॥
त्रिंशद्धनुष्प्रमाणेन तस्य क्षेत्रचतुर्द्दिशम्॥ १७॥
स्नानं जाप्यं बलिं होमं पूजां स्तोत्रमुदीरणम् ॥
तस्मिंस्तीर्थे तु यः कुर्यात्तत्सर्वं चाक्षयं भवेत् ॥ १८ ॥
चतुष्कोणांतरा क्षेत्रमेवं मात्राप्रमाणतः ॥
एकरात्रोषितो भूत्वा तस्य लिंगस्य सन्निधौ ॥ १९ ॥
ब्रह्मचर्येण जागर्त्ति स पापैः संप्रमुच्यते ॥
होमजाप्यसमाधिस्थो नृत्यगीतादिवादनैः ॥ 7.1.90.२० ॥
गोघ्नो वा ब्रह्महा पापी मुच्यते दुष्कृतैर्नरः ॥
यः संप्रीणयते विप्रांस्तत्र भोज्यैः पृथग्विधैः ॥ २१ ॥
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥
भैरवं चैव केदारं पुष्करं द्रुतिजंगमम् ॥ २२ ॥
वाराणसी कुरुक्षेत्रं महा कालं च नैमिषम् ॥
एतत्तीर्थाष्टकं देवि तस्मिँल्लिंगे व्यवस्थितम् ॥ २३ ॥
माघे कृष्णचतुर्द्दश्यां तत्र यो जागृयान्निशि ॥
संपूज्य विधिना देवं स तीर्थाष्टफलं लभेत् ॥ २४ ॥
ददाति तत्र यः पिण्डं नष्टेन्दौ शिवसंनिधौ ॥
तृप्यन्ति पितरस्तस्य यावद्ब्रह्मदिनान्तकम् ॥ २५ ॥
दधिक्षीर घृतेनैव पंचगव्यकुशोदकैः ॥
कुंकुमागरुकर्पूरैस्तल्लिगं पूजयेन्निशि ॥ २६ ॥
संमंत्र्याघोरमंत्रेण ध्यात्वा देवं सदाशिवम् ॥
एवं कृत्वा महादेवि मुच्यते पंचपातकैः ॥ २७ ॥
अष्टम्यां च चतुर्द्दश्यां दध्ना संस्नापयेद्यदि ॥
स ब्राह्मणश्चतुर्वेदो जायते नात्र संशयः ॥ २८ ॥
क्षीरेण स्नापयेद्देवि यदि तं वृषभेश्वरम् ॥
सप्तधेनुसहस्राणां स फलं विंदते महत् ॥ २९ ॥
जन्मांतरेण यत्पापं सांप्रतं यत्कृतं प्रिये ॥
तत्सर्वं नाशमायाति घृतस्नानेन भामिनि ॥ 7.1.90.३० ॥
पंचगव्येन यो देवि स्नापयेद्वृषभेश्वरम् ॥
स दहेत्सर्वपापानि सर्वयज्ञफलं लभेत् ॥ ३१ ॥
तद्दृष्ट्वा ब्रह्महा गोघ्नः स्तेयी च गुरुतल्पगः ॥
शरणागतघाती च मित्रविश्रंभघातकः ॥ ३२ ॥
दुष्टपापसमाचारो मातृहा पितृहा तथा ॥
मुच्यते सर्वपापैस्तु तल्लिंगाराधनोद्यतः ॥ ३३ ॥
कार्तिकं सकलं यस्तु पूजयेद्ब्रह्मणा सह ॥
ब्रह्मेश्वरं महालिंगं स मुक्तः पातकैर्भवेत् ॥ ३४ ॥
तेन दत्तं भवेत्सर्वं गुरवस्तेन तोषिताः ॥
श्राद्धं कृतं गयातीर्थे तेन तप्तं महत्तपः ॥
येन देवाधिदेवोऽसौपूजितो वृषभेश्वरः ॥ ३५ ॥
इति ते कथितं देवि माहात्म्यं देवपूजितम् ॥
वृषभेश्वरदेवस्य कल्पलिंगस्य भामिनि ॥ ३६ ॥
यः शृणोति महादेवि माहात्म्यं दैवदेवतम् ॥
मूर्खो वा पंडितो वाऽपि स याति परमां गतिम् ॥ ३७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये वृषवाहनेश्वरमाहाम्यवर्णनंनाम नवतितमोऽध्यायः ॥ ९० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 91
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि त्र्यंबकेश्वरमव्ययम् ॥
तत्पंचमं समाख्यातं रुद्राणामादिदैवतम् ॥ १ ॥
शिखंडीश्वरमाख्यातं पूर्वं त्रेतायुगे प्रिये ॥
तच्चाद्याहं प्रवक्ष्यामि यथा संज्ञायते नरैः ॥२॥
अस्ति सांबपुरं देवि तत्रस्थं परमेश्वरि ॥
तस्यैवोत्तरदिग्भागे स्थानं कापालिकं स्मृतम् ॥ ३ ॥
कपालेश्वरनामा च यत्रेशो लिंगमूर्तिमान् ॥
संस्थितः पापनाशाय दर्शनात्स्पर्शनान्नृणाम् ॥ ४ ॥
तस्मादीशानदिग्भागे धनुषां षोडशांतरे ॥
त्र्यंबकेश्वरनामा च तत्र रुद्रः स्थितः स्वयम् ॥ ॥ ५ ॥
सर्वानुग्रहकर्त्ता च सर्वकामफलप्रदः ॥
पुरा यत्रातपद्देवि तपो घोरं सुदुष्करम् ॥
गुरुर्नामा ऋषिवरो देवदानवदुःसहम् ॥ ६ ॥
कोटीनां त्रितयं येन त्र्यंबको मंत्रनायकः ॥
जप्तो दिव्येन विधिना त्रिकालं पूज्य शंकरम् ॥ ७ ॥
ततः प्रसाद्य देवेशं दिव्यैश्वर्यमवाप सः ॥
चक्रे नाम स्वयं तस्य त्र्यंबकेश्वरमव्ययम् ॥ ८ ॥
जप्त्वा तु त्र्यंबकं मंत्रं यतः सिद्धिमवाप सः ॥
दिव्याष्टगुणमैश्वर्यं तेनासौ त्र्यंबकेश्वरः ॥ ९ ॥
सर्वपातक विध्वंसी दर्शनात्स्पर्शनादपि ॥
यस्त्र्यंबकं जपेद्विप्रस्त्र्यंबकेश्वरसंनिधौ ॥
स प्राप्नोति महासिद्धिं प्रत्यक्षं रुद्र एव सः ॥7.1.91.१०॥
दर्शनादपि तस्याथ पापं याति सहस्रधा ॥
यस्तं पूजयते भक्त्या विधिना भावमास्थितः ॥
वामदेवेन मंत्रेण स मुक्तः पातकैर्भवेत् ॥ ११ ॥
चैत्रशुक्लचतुर्दश्यां तत्र यो जागृयान्निशि ॥
पूजास्तुतिकथाभिश्च स प्राप्नोतीप्सितं फलम् ॥ १२ ॥
धेनुस्तत्रैव दातव्या सम्यग्यात्राफलेप्सुभिः ॥ १३॥
इति ते कथितं देवि माहात्म्यं पापनाशनम् ॥
त्र्यंबकेश्वररुद्रस्य नृणां पुण्यफलप्रदम् ॥ १४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये त्र्यंबकेश्वरमाहात्म्यवर्णनंनामैकोनवतितमोऽध्यायः ॥ ९१ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 92
॥ ईश्वर उवाच॥ ॥
ततो गच्छेन्महादेवि अघोरेश्वरमुत्तमम्॥
षष्ठं लिंगं समाख्यातं तद्वक्त्रं भैरवं स्मृतम्॥१॥
त्र्यंबकेश्वरवायव्ये धनुषां पंचके स्थितम्॥
सर्वकामप्रदं पुण्यं कलिकल्मषनाशनम्॥२।.
यस्तं पूजयते भक्त्या स्नानपूजादिभिः क्रमात्॥
मेरुदानस्य कृत्स्नस्य स लभेन्मनुजः फलम्॥३॥
दक्षिणामूर्तिमास्थाय यत्किंचित्तत्र दीयते॥
अघोरेश्वरदेवस्य तत्सर्वं चाक्षयं भवेत्॥४॥
यः श्राद्धं कुरुते तत्र अघोरेश्वरदक्षिणे॥
आकल्पं तृप्तिमायांति पितरस्तस्य तर्पिताः ॥ ५॥
किं श्राद्धेन गयातीर्थे वाजिमेधेन किं प्रिये ॥
तत्र श्राद्धेन तत्सर्वं फलमभ्यधिकं लभेत् ॥ ६ ॥
त्रुटिमात्रमपि स्वर्णं यात्रायां यः प्रयच्छति ॥
स सर्वं फलमाप्नोति महादानस्य भूरिशः ॥ ७ ॥
ब्रह्मकूर्चं चरेद्यस्तु सोमाष्टम्यां विधानतः ॥
अघोरेश्वरसांनिध्ये अघोरेणाभिमंत्रितम् ॥
षडब्दस्य महत्तेन प्रायश्चित्तं कृतं भवेत् ॥ ८ ॥
इति संक्षेपतः प्रोक्तमघोरेशमहोदयम् ॥
माहात्म्यं सर्वपापघ्नं श्रुतं सर्वार्थसाधकम् ॥ ९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादश रुद्रमाहात्म्येऽघोरेश्वरमाहात्म्यवर्णनंनाम द्विनवतितमोऽध्यायः ॥ ९२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 93
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेद्वरारोहे महाकालेश्वरं हरम् ॥
अघोरेशादुत्तरतः किंचिद्वायव्यसंस्थितम् ॥ १ ॥
धनुषां त्रिंशता देवि श्रुतं पातकनाशनम् ॥
पूर्वं कृतयुगे देवि स्मृतं चित्रांगदेश्वरम्॥ २ ॥
महाकालेश्वरं देवि कलौ नाम प्रकीर्तितम् ॥
कालरूपी महारुद्रस्तस्मिँल्लिंगे व्यवस्थितः ॥ ३ ॥
चराचरगुरुः साक्षाद्देवदानवदर्पहा ॥
सूर्यरूपेण यत्सर्वं ब्रह्मांडे ग्रसते प्रिये ॥ ४ ॥
स देवः संस्थितो देवि तस्मिँल्लिंगे महाप्रभः ॥
यस्तत्पूजयते भक्त्या कल्ये लिंगं मम प्रियम् ॥
षडक्षरेण मंत्रेण मृत्युं जयति तत्क्षणात् ॥ ५ ॥
कृष्णाष्टम्यां विशेषेण गुग्गुलं घृतसंयुतम् ॥
यो दहेद्विधिवत्तत्र पूजां कृत्वा निशागमे ॥ ६ ॥
अपराधसहस्रं तु क्षमते तस्य भैरवः ॥
धेनुदानं प्रशंसंति तस्मिन्स्थाने महर्षयः ॥ ७ ॥
धेनुदस्तारयेन्नूनं दश पूर्वान्दशापरान् ॥
देवस्य दक्षिणे भागे यो जपेच्छतरुद्रियम् ॥ ८ ॥
उद्धरेत्पितृवर्गं च मातृवर्गं च मानवः ॥
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥
क्षालयेच्चैव तत्सर्वं दृष्ट्वा कालेश्वरं हरम् ॥ ९ ॥
अयने चोत्तरे प्राप्ते यः कुर्याद्घृतकंबलम् ॥
न स भूयोऽत्र संसारे जन्म प्राप्नोति दारुणम् ॥ 7.1.93.१० ॥
न दुःखितो दरिद्रो वा दुर्भगो वा प्रजायते ॥
सप्तजन्मान्तराण्येव महाकालेशदर्शनात् ॥ ११ ॥
धनधान्यसमायुक्ते स्फीते सञ्जायते कुले ॥
भक्तिर्भवति भूयोऽपि महाकालेश्वरार्चने ॥ १२ ॥
इति संक्षेपतः प्रोक्तं महाकालेश्वरं प्रिये ॥
चित्रांगदो गणो देवि तेन चाराधितं पुरा ॥ १३ ॥
दिव्याब्दानां सहस्रं तु महा कालेश्वरं हि तत् ॥
चित्रांगदेश्वरं नाम तेन ख्यातं धरातले ॥ १४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये महाकालेश्वरमाहात्म्यवर्णनंनाम त्रिणवतितमोऽध्यायः ॥ ९३ ॥ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 94
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि भैरवेश्वरमुत्तमम् ॥
तस्यैव वह्निकोणस्थं धनुषांदशके स्थितम् ॥१॥
सर्वकामप्रदं देवि दारिद्र्यौघविनाशनम् ॥
पूर्वं चण्डेश्वरंनाम ख्यातं कृतयुगे प्रिये ॥ २ ॥
चण्डोनाम गणो देवि तेन चाराधितं पुरा ॥
दिव्याब्दानां सहस्रं तु तेन चण्डेश्वरं स्मृतम् ॥ ३ ॥
तं दृष्ट्वा देवदेवेशं स्पृष्ट्वा च सुसमाहितः ॥
मुच्यते सकलात्पापादाजन्ममरणांतिकात् ॥ ४ ॥
तत्र कृष्णचतुर्दश्यां मासे भाद्रपदे प्रिये ॥
उपवास परो भूत्वा यः करोति प्रजागरम् ॥
स याति परमं स्थानं यत्र देवो महेश्वरः ॥ ५ ॥
वाचिकं मानसं पापं कर्मणा यदुपार्जितम् ॥
तत्सर्वं नाशमायाति तस्य लिंगस्य दर्शनात् ॥ ६ ॥
तिला हिरण्यं वस्त्राणि तत्र देयं मनीषिणे ॥
सर्वकिल्विषनाशार्थं सम्यग्यात्राफलेप्सुना ॥ ७ ॥
भैरवाकारमास्थाय कल्पान्ते स हरेद्यतः ॥
विश्वं समग्रं देवेशि तेनासौ भैरवः स्मृतः ॥ ८ ॥
अस्मिन्कल्पे महादेवि प्रभासक्षेत्रमास्थितः ॥
बभूव भैरवो रुद्रः कल्पान्ते लिंगमूर्तिमान् ॥ ९ ॥
एवं संक्षेपतः प्रोक्तं माहात्म्यं भैरवेश्वरम् ॥
यच्छ्रुत्वा मुच्यते जन्तुः पातकादतिभैरवात् ॥ 7.1.94.१० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये भैरवेश्वरमाहात्म्य वर्णनंनाम चतुर्णवतितमोऽध्यायः ॥ ९४ ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 95
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेद्वरारोहे लिंगं मृत्युञ्जयेश्वरम् ॥
तस्यैव वह्नि कोणस्थं धनुषां दशके स्थितम् ॥ १ ॥
पश्चिमे सागरादित्यात्स्थितं धनुश्चतुष्टये ॥
पापघ्नं सर्वजन्तूनां दर्शनात्स्पर्शनादपि ॥ २ ॥
पूर्वे युगे समाख्यातं नाम नन्दीश्वरेति च ॥
यत्र तप्तं तपो घोरं नन्दिनाम्ना गणेन मे ॥ ३ ॥
प्रतिष्ठाप्य महालिंगं नित्यं पूजापरेण च ॥
तत्र जप्तो महामन्त्रो मृत्युञ्जय इति श्रुतः ॥ ४ ॥
कोटीनां नियुतं देवि ततस्तुष्टो महेश्वरः ॥
ददौ गणेशतां तस्य मुक्तिं सामीप्यगां तथा ॥ ५ ॥
मृत्युञ्जयेन मन्त्रेण तस्य तुष्टो यतो हरः ॥
तेन मृत्युञ्जयेशेति ख्यातं लिंगं धरातले ॥ ६ ॥
यस्तं पूजयते भक्त्या पश्येद्वा भावितात्मवान् ॥
नाशयेत्तस्य पापानि सप्तजन्मार्जितान्यपि ॥ ७ ॥
स्नापयेत्पयसा लिंगं दध्ना घृतयुतेन च ॥
मधुनेक्षुरसेनैव कुंकुमेन विलेपयेत् ॥ ८ ॥
कर्पूरोशीर मिश्रेण मृगनाभिरसेन च ॥
चन्दनेन सुगन्धेन पुष्पैः संपूजयेत्ततः ॥ ९ ॥
दद्याद्धूपं पुरो देवि ततो देवस्य चागुरुम् ॥
वस्त्रैः संपूज्य विविधैरात्मवित्तानुसारतः ॥ 7.1.95.१० ॥
नैवेद्यं परमान्नं च दत्त्वा दीपसमन्वितम् ॥
अष्टांगं प्रणिपातं च ततः कार्यं च भक्तितः ॥ ११ ॥
हेमदानं प्रदातव्यं ब्राह्मणे वेदपारगे ॥ १२ ॥
एवं यात्रा भवेत्तस्य शास्त्रोक्ता नात्र संशयः ॥
एवं कृत्वा नरो देवि लभते जन्मनः फलम् ॥ १३ ॥
इति संक्षेपतः प्रोक्तं मृत्युञ्जयमहोदयम् ॥
पापघ्नं सर्वजंतूनां सर्वकामफलप्रदम् ॥ १४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये मृत्युञ्जयमाहात्म्यवर्णनंनाम पञ्चनवतितमोऽध्यायः ॥ ९५ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 96
॥ ईश्वर उवाच ॥ ॥
ततोगच्छेन्महादेवि कामेश्वरमिति स्मृतम् ॥
तस्यैवोत्तरदिग्भागे धनुषां त्रितये स्थितम् ॥
रतीश्वरमिति ख्यातं त्रेतायां तत्सुरे श्वरि ॥ १ ॥
यस्मिन्दृष्टे मनुष्याणां पूजिते तु वरानने ॥
नश्येच्च सप्तजन्माघं गृहभंगश्च नो भवेत् ॥ २ ॥
॥ देव्युवाच ॥ ॥
केनायं स्थापितो देव कस्मात्प्रोक्तो रतीश्वरः ॥
दर्शनेनास्य किं श्रेयः सर्वं विस्तरतो वद ॥ ३ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥
रतिर्नामाभवत्साध्वी कामपत्नी यशस्विनी ॥४॥
दग्धे मनसिजे पूर्वं देवेन त्रिपुरारिणा॥
तदर्थाय तपस्तेपे तस्मिन्देशे रतिः किल ॥५॥
अंगुष्ठाग्रेण तिष्ठन्त्या यावद्युगचतुष्टयम् ॥
आराधितो महादेवः शांतेन मनसा प्रिये ॥ ६ ॥
कस्मिंश्चिदथ काले तु निर्भिद्य धरणीतलम् ॥
तदग्रतः समुत्तस्थौ लिगं माहेश्वरं प्रिये ॥ ७ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
आह्लादयंती सहसा तस्याश्चित्तं वरानने ॥ ८ ॥
यस्मान्माहेश्वरं लिंगं त्वद्भक्त्या सहसोत्थितम् ॥
पूजयेस्तन्महाभागे ततः कांतमवाप्स्यसि ॥९॥
एतच्छुत्वा तु सा साध्वी देवदूतस्य भाषितम्॥
तल्लिंगं पूजयामास स भक्त्या परमया युता ॥ 7.1.96.१० ॥
ततः कामः समुत्तस्थौ सुप्तोत्थित इव प्रिये ॥
ततः प्रभृति तल्लिंगं कामेश्वरमिति श्रुतम् ॥ ११ ॥
ततः सा कामदयिता वाक्यमेतदुवाच ह ॥
प्रहृष्टा कामदेवाप्त्या पुरतः पुष्पधन्वनः ॥ १२ ॥
पूजयिष्यंति ये चान्ये लिंगमेतत्समाहिताः ॥
एवं ते वांछितां सिद्धिं भूयो यास्यंति सद्गतिम्॥ १३ ॥
मनोऽभीष्टं तथा सर्वं यद्यपि स्यात्सदुर्ल्लभम् ॥
तत्प्राप्स्यंति न संदेहो लिंगस्यास्य प्रसादतः ॥ ॥ १४ ॥
एवमुक्त्वा गता साध्वी रतिः कामेन संयुता ॥
स्वस्थाने पूर्णकामा सा प्रहृष्टेनांतरात्मना ॥ १५ ॥
एनं चैत्रत्रयोदश्यां शुक्लायां यः समर्चति ॥
सकामवद्भवेन्नृणां श्रुतं सौभाग्यदायकम् ॥ १६ ॥
हृति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये कामेश्वरमाहात्म्यवर्णनंनाम षण्णवतितमोऽध्यायः ॥ ९६ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 97
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि योगेश्वरमिति श्रुतम् ॥
कामेशाद्वायवे भागे धनुषां सप्तके स्थितम् ॥ १ ॥
लिंगं महाप्रभावं हि दर्शनात्पापनाशनम्॥
पूर्वे युगे तु संख्यातं गणेश्वरमिति श्रुतम्॥ २ ॥
पुरा मम गणा देवि असंख्याता महावलाः ॥
क्षेत्रं माहेश्वरं ज्ञात्वा प्रभासं समुपागमन् ॥ ३ ॥
तत्रस्थाश्च तपो घोरं तेपुस्ते योगमाश्रिताः ॥
दिव्याब्दानां सहस्रं तु ततस्तुष्टो महेश्वरः ॥ ४ ॥
सालोक्यां च ददौ मुक्तिं तेषां योगबलेन ३ ॥
यस्मा त्षडंगयोगेन तेषां तुष्टो वृषध्वजः ॥
तेन योगेश्वरं नाम लिंगं योगफलप्रदम् ॥ ५ ॥
यस्तमर्चयते भक्त्या सम्यक्पूजाविधानतः ॥
स योगसिद्धिमाप्नोति मोदते दिवि देववत् ॥ ६ ॥
यो दद्यात्कांचनं मेरुं कृत्स्नां चैव वसुन्धराम् ॥
योगेशं पूजयेद्यस्तु स तयोरधिकः स्मृतः ॥ ७ ॥
वृषभस्तत्र दातव्यः संपूर्णफलहेतवे ॥
एवमेकादश प्रोक्ता रुद्राः प्राभासमाश्रिताः ॥
नित्यं पूज्याश्च वंद्याश्च क्षेत्रस्य फलमीप्सुभिः ॥ ८ ॥
य एतां चैव शृणुयाद्रुद्रैकादशसंहिताम् ॥
तस्य क्षेत्रफलं सर्वं प्रभासांतरवासिनः ॥ ९ ॥
यश्चैतान्नैव जानाति रुद्रान्प्राभासमाश्रितान् ॥
स क्षेत्रमध्यसंस्थोऽपि नास्त्येव स पशुः स्मृतः ॥ 7.1.97.१० ॥
एतेषां चैव रुद्राणां सर्वान्वाप्येकमेव वा ॥
सोमेश्वरं पूजयित्वा जपेद्वै शतरुद्रियम् ॥
सर्वेषां लभते पुण्यं रुद्राणां नात्र संशयः ॥ ११ ॥
इदं रहस्यं संख्यातं माहात्म्यं तव भामिनि ॥
रुद्राणां पापशमनं श्रुतं पुण्यविवर्द्धनम् ॥ १२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये योगेश्वरमाहात्म्यवर्णनंनाम सप्तनवतितमोऽध्यायः ॥ ॥ ९७ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 98
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि चंडेश्वरमिति श्रुतम्॥
सोमेशाद्वायवे भागे धनुषां षष्टिभिः स्थितम्॥ १ ॥
दिव्यं लिंगं महादेवि सर्वपातकनाशनम् ॥
तत्पूर्वे तु युगे ख्यातं मनोः स्वायंभुवांतरे ॥ २ ॥
त्रेतायुगमुखे देवि पृथिव्या संप्रतिष्ठितम्॥
पूर्वमन्वंतरे चास्मिँल्लिङ्गं पृथ्वीश्वरं प्रिये ॥ ३ ॥
पुनश्चंद्रेण तत्प्राप्तं लिंगं चंद्रेश्वरं प्रिये ॥
ब्रह्महत्यादिपापानां नाशनं पुण्यवर्द्धनम् ॥ ४ ॥
तं दृष्ट्वा मानवो देवि सप्तजन्मसमुद्भवैः ॥
मुच्यते कल्मषैः सर्वैः कृतकृत्यस्तु जायते ॥ ५ ॥
॥ देव्युवाच ॥ ॥
कथं पृथ्वीश्वरं ख्यातं तल्लिंगं पाप नाशनम् ॥
कथं पुनः समाख्यातं चन्द्रेश्वरमिति प्रभो ॥
एतद्विस्तरतो ब्रूहि श्रोतुकामाहमादरात् ॥ ६ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि कथा पापप्रणाशिनीम् ॥
यां श्रुत्वा मुच्यते जंतुस्त्रिविधैः कर्मबन्धनैः ॥ ७ ॥
आसीत्पूर्वं महादेवि दैत्यभारार्द्दिता मही ॥ साऽधो व्रजंती सहसा गोरूपा संबभूव ह ॥ ८ ॥
इतस्ततो धावमाना न लेभे निर्वृतिं क्वचित् ॥
ततो वर्षशते पूर्णे भ्रममाणा क्वचित्क्वचित् ॥ ९ ॥
आससाद महाक्षेत्रं प्रभासमिति विश्रुतम् ॥
देवदानवगंधर्वैः सेवितं पापनाशनम्॥ 7.1.98.१० ॥
तत्र स्थित्वा महाक्षेत्रे कृत्वा मनसि निश्चयम् ॥
लिंगं प्रतिष्ठयामास भक्त्या परमया युता ॥ ११ ॥
वर्षाणां च शतं साग्रं कृते तपसि दुश्चरे ॥
तुतोष भगवान्रुद्रो धरित्रीं वाक्यमब्रवीत् ॥ १२ ॥
देवि विश्वंभरे सर्वं तपः सुचरितं त्वया ॥
मा शोकं कुरु कल्याणि भविष्यति तवेप्सितम् ॥ १३ ॥
दैत्या नाशं गमिष्यंति विष्णुना निहता भुवि ॥
भवित्री त्वं महादेवि दैत्यभारविवर्जिता ॥ १४ ॥
इदं त्वया स्थापितं यल्लिंगं परमशोभनम् ॥
धरित्रीनाम्ना विख्यातं लोके ख्यातिं गमिष्यति ॥ ॥ १५ ॥
अत्राहं संस्थितो नित्यं लिंगरूपी महाप्रभुः ॥
स्थास्यामि कल्पेकल्पे वै नृणां पापापहारकः ॥ १६ ॥
मूर्त्यष्टकसमायुक्तो लिंगे ऽस्मिन्संस्थितः सदा ॥
नृणां नाशयिता पापं पूर्वजन्मशतार्जितम् ॥ १७ ॥
भाद्रे कृष्णतृतीयायां यश्चैतं पूजयिष्यति ॥
सोऽश्वमेधसहस्रस्य फलमाप्स्यत्यसंशयम् ॥ १८ ॥
सर्वतीर्थाभिषेकस्य सर्वेषां दानकर्मणाम् ॥
भविष्यति फलं तस्य लिंगस्यैवास्य पूजनात् ॥ १९ ॥
धनुषां षोडशं यावत्समंतात्परिमंडलम् ॥
क्षेत्रमस्य समाख्यातं प्राणिनां मुक्तिदायकम् ॥ 7.1.98.२० ॥
तस्मिन्मृताः प्राणिनो ये कामतो वाप्यकामतः ॥
कृमि कीटसमा वापि ते यांति परमां गतिम् ॥ २१ ॥
यो दद्यात्काञ्चनं मेरुं कृत्स्नां वाऽपि वसुन्धराम् ॥
यः पूजयति पृथ्वीशं स तयोरधिकः स्मृतः ॥२२॥
ईश्वर उवाच ॥ ॥
इति दत्त्वा वरान्देवस्तत्रैवांतरधीयत ॥
पृथिवीश्वरनामाभूत्तत्प्रभृत्येव शंकरः ॥ २३ ॥
पुनरस्मिन्महाकल्पे वाराह इति विश्रुते ॥
कदाचिद्दक्षशापेन क्षीणश्चन्द्रो बभूव ह ॥ २४ ॥
पपात भूतले देवि यक्ष्मणा पीडितः शशी ॥
क्षेत्रं प्रभासमासाद्य तन्महोदधिसंनिधौ ॥ २५ ॥
दृष्ट्वा पृथ्वीश्वरं लिंगं सप्रभावं महाप्रभम् ॥
तत्पूजानिरतो भूत्वा वर्षाणां तु सहस्रकम् ॥ २६ ॥
अतपत्स तपो रौद्रं शीर्णपर्णांबुभक्षकः ॥
यतः समभवद्दीप्त्या सर्वाह्लादकरः शशी ॥ २७ ॥
तल्लिंगस्यैव माहात्म्यात्ततश्चंद्रेश्वरोऽभवत् ॥
तस्य लिंगस्य माहात्म्याच्चंद्रमा गतकल्मषः ॥ २८ ॥
अवाप सिद्धिमत्युग्रां स्पर्शलिंगप्रकाशिनीम् ॥
सोमनाथेति यां प्राहुः प्रसिद्धां लिंगरूपिणीम् ॥ २९ ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं चन्द्रदैवतम् ॥
श्रुतं हरति पापानि तथाऽऽरोग्यं प्रयच्छति ॥ 7.1.98.३० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां पृथ्वीश्वर( चंद्रेश्वर)माहात्म्यवर्णनंनामाष्टनवतितमोध्यायः ॥ ९८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 99
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि यत्र चक्रधरः स्थितः ॥
दंडपाणिश्च देवेशि यत्रैकस्थानसंस्थितः ॥ १ ॥
चंद्रेशात्पूर्वदिग्भागे । सोमेशादुत्तरेस्थितः) ॥
धनुषां पंचसंस्थाने गंधर्वेशात्समीपतः ॥ २ ॥
उमाया नैर्ऋते भागे ब्रह्मदेवर्षिसंस्थितः ॥
तस्योत्पत्तिं प्रवक्ष्यामि सर्वपातकनाशिनीम्॥३॥
पौंड्रको वासुदेवस्तु वाराणस्यां पुराऽभवत्॥
तेन श्रुतं पुराणं तु पठ्यमानं द्विजातिभिः॥४॥
कल्पादौ द्वापरांते तु क्षत्रियाणां निवेशने ॥
अवतारं महाबाहुवासुदेवः करिष्यति ॥ ५ ॥
स तु मूढमतिर्मेने अहं विष्णुरिति प्रिये ॥
चिह्नानि धारयामास चक्रादीनि वरानने ॥ ६ ॥
स दूतं प्रेषयामास द्वारकायां महोदरम् ॥
स गत्वा प्राह विष्णुं वै चक्रादीनि परित्यज ॥ ७ ॥
इत्याह पौंड्रको राजा नचेद्वधमवा प्स्यसि ॥
ततश्च भगवान्विष्णुः प्राहास्य रुचिरं वचः ॥ ८ ॥
वाच्यः स पौंड्रको राजा त्वया हंत वचो मम ॥
गृहीतचक्र एवाहं काशीमागम्य ते पुरीम् ॥ ९ ॥
संत्यक्ष्यामि ततश्चक्रं गदां चेमामसंशयम् ॥
तद्ग्राह्यं भवता चक्रमन्यद्वा यत्तवेप्सितम् ॥ 7.1.99.१० ॥
इत्युक्तेऽथ गते दूते संस्मृत्याऽभ्या गतं हरिः ॥
गरुत्मन्तं समारुह्य त्वरितस्तत्पुरं ययौ ॥ ११ ॥
मित्रस्नेहात्ततस्तस्य काशिराजः सहानुगः ॥
सर्वसैन्यपरीवारस्ततः पौंड्रमुपाययौ ॥ १२ ॥
ततो बलेन महता काशिराजबलेन च ॥
पौंड्रको वासुदेवोऽसौ केशवाभिमुखो ययौ ॥ १३॥
तं ददर्श हरिर्दूराद्दुर्वारे स्यंदने स्थितम् ॥
चक्रहस्तं गदाशार्ङ्गसंयुतं गरुडध्वजम् ॥ १४ ॥
तं दृष्ट्वा भावगंभीरं जहास गरुडध्वजः ॥
उवाच पौंड्रकं मूढमात्मचिह्नोपलक्षितम् ॥ १५ ॥
पौंड्रकोक्तं त्वया यत्तु दूतवक्त्रेण मां प्रति ॥
समुत्सृजेति चिह्नानि तच्च सर्वं त्यजाम्यहम् ॥ १६ ॥
चक्रमेतत्समुत्सृष्टं गदेयं च विस र्जिता ॥
गरुत्मानेष ते गत्वा समारोहतु वै ध्वजम् ॥ १७ ॥
इत्युच्चार्य विमुक्तेन चक्रेणासौ निपातितः ॥
रथश्च गदया भग्नो गजाश्चा श्वाश्च चूर्णिताः ॥ १८ ॥
ततो हाहाकृते लोके काशिनाथो महाबली ॥
युयुधे वासुदेवेन मित्रदुःखेन दुःखितः ॥ १९ ॥
ततः शार्ङ्गविनिर्मुक्तैश्छित्त्वा तस्य शरैः शिरः ॥
काशीपुर्यां स चिक्षेप कुर्वँल्लोकस्य विस्मयम् ॥ 7.1.99.२० ॥
हत्वा तु पौंड्रकं शौरिः काशिराजं च सानु गम् ॥
पुनर्द्वारवतीं प्राप्तो मृगयाया गतो यथा ॥ २१ ॥
ततः काशिपतेः पुत्रः पितुर्दुःखेन दुःखितः ॥
शंकरं तोषयामास स च तस्मै वरं ददौ ॥ २२ ॥
स वव्रे भगवन्कृत्या पितुर्हंतुर्वधाय मे ॥
समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादात्सुरेश्वर ॥ २३ ॥
एवं भविष्यतीत्युक्ते दक्षिणाग्नेस्तु मध्यतः ॥
महाकृत्या समुत्तस्थौ प्रस्थिता द्वारकां प्रति ॥ २४ ॥
ज्वालामालाकरालां तां यादवा भयविह्वलाः ॥
दृष्ट्वा जनार्द्दनं सर्वे शरणार्थमुपागताः ॥ २५ ॥
ततः सुदर्शनं तस्या मुमोच गरुडध्वजः ॥
वधाय सा ततो भग्ना चक्रतेजोऽभिपीडिता ॥ २६ ॥
कृत्यामनुजगामाशु विष्णोश्चक्रं सुदर्शनम् ॥
कृत्या वाराणसीं प्राप्ता तस्याश्चक्रं तु पृष्ठतः ॥ २७ ॥
ततः सा भयसंत्रस्ता शंकरं शरणं गता ॥
सोमनाथं जगन्नाथं नान्यः शक्तो हि रक्षितुम् ॥ २८ ॥
ततश्चक्रं वरैर्बाणैस्ताडयामास शंकरः ॥
तच्च द्वारवतीं प्राप्तं शिवसायकमिश्रितम् ॥ २९ ॥
तद्दृष्ट्वा शिवनामांकैस्ताडितं भगवान्हरिः ॥
चक्रं शरैस्ततः कुद्धो गृहीत्वा च करेण तत् ॥
जगाम तत्र यत्रास्ते सोमेशः कालभैरवः ॥ 7.1.99.३०
स गत्वा रोष ताम्राक्षश्चक्रोद्यतकरः स्थितः ॥
कृत्यां हंतुं मतिं चक्रे कालभैरवनिर्मिताम् ॥ ३१ ॥
दृष्टो देवैस्ततः सर्वैदंडपाणिगणेन च ॥
देवानां प्रेक्षतां तत्र दण्डपाणिर्महागणः ॥
चक्रोद्यतकरं दृष्ट्वा विष्णुं प्राहाब्जलोचनम् ॥ ३२ ॥
॥ दंडपाणिरुवाच ॥ ॥
मा क्रोधं कुरु देवेश कृत्यां प्रति जगत्प्रभो ॥ ३३ ॥
अमोघं युधि ते चक्रं कृत्या चापि च शांकरी ॥
एवं चक्र विनिर्मुक्ते भवेत्कोधो हरे यदि ॥
भविष्यति महद्दुःखं लोकानां संक्षयो हि वा ॥ ३४ ॥
न मोक्तव्यमतश्चक्र शृणु भूयो वचश्च नः ॥
अत्र स्थाने नियुक्तोऽहं शंकरेण पुरा हरे ॥ ३५॥
पापिनां रक्षणार्थं वै विघ्नार्थं दुष्टचेतसाम्॥
तस्मात्त्वं मम सांनिध्ये तिष्ठ चक्रधरो हरे ॥३६ ॥
अत्र चक्रधरं देवं पूजयिष्यंति मानवाः ॥
धूपमाल्योपहारैश्च नैवेद्यैर्विवि धैरपि ॥ ३७ ॥
॥ विष्णुरुवाच ॥ ॥
एष एव निवृत्तोहं तव वाक्यांकुशेन वै ॥
अत्र चक्रोद्यतकरः स्थास्ये तव समीपतः ॥ ३८ ॥
एवं हि स्थितोदेवस्तत्र चक्रधरः प्रिये ॥
दंडपाणिश्च भगवान्मम रूपी गणेश्वरः ॥ ३९ ॥
यस्तौ पूजयते भक्त्या दंडपाणिहरी क्रमात् ॥
स पाप कंचुकैर्मुक्तो गच्छेच्छिवपुरं नरः ॥ 7.1.99.४० ॥
माघे मासि चतुर्द्दश्यां कृष्णाष्टम्यां विशेषतः ॥
गंधधूपोपहारैर्यः पूजयेद्दण्डनायकम् ॥
तस्य क्षेत्रे निवसतो न विघ्नं जायते क्वचित् ॥ ४१ ॥
एकादश्यां जिताहारो योऽर्चयेच्चक्रपाणिनम् ॥
स मुक्तः पातकैः सर्वैर्याति विष्णोः सलोकताम् ॥ ४२ ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं चक्रपाणिनः ॥
दण्डपाणिगणस्यापि श्रुतं पापौघनाशनम् ॥ ४३ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां दण्डपाणिचक्रधरमाहात्म्यवर्णनंनामेकोनशततमोऽध्यायः ॥९९॥ ॥ छ ॥ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 100
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तयोरुत्तरसंस्थितम् ॥
तथा वायव्यदिग्भागे ब्रह्मणो बालरूपिणः ॥ १ ॥
सांबादित्यं सुरश्रेष्ठे यः सांबेन प्रतिष्ठितः ॥
स्थानानि त्रीणि देवस्य द्वीपेऽस्मिन्भास्करस्य तु ॥ २ ॥
पूर्वं मित्रवनं नाम तथा मुण्डीरमुच्यते ॥
प्रभासक्षेत्रमास्थाय सांबादित्यस्तृतीयकः ॥ ३ ॥
तस्मिन्क्षेत्रे महादेवि पुरं यत्सांबसंज्ञकम् ॥
द्वितीयं शाश्वतं स्थानं तत्र सूर्यस्य नित्यशः ॥ ४ ॥
प्रीत्या सांब स्य तत्रार्को जनस्यानुग्रहाय च ॥
तत्र द्वादशभागेन मित्रो मैत्रेण चक्षुषा ॥ ५ ॥
अवलोकयञ्जगत्सर्वं श्रेयोर्थं तिष्ठते सदा ॥
प्रयुक्तां विधिवत्पूजां गृह्णाति भगवान्स्वयम्॥ ६ ॥
॥ देव्युवाच ॥ ॥
कोऽयं सांबः सुतः कस्य यस्य नाम्ना रवेः पुरम् ॥
यस्य वाऽयं सहस्रांशुर्वरदः पुण्यकर्मणः ॥७॥
॥ ॥ ईश्वर उवाच ॥ ॥
य एते द्वादशादित्या विराजन्ते महाबलाः ॥
तेषां यो विष्णुसंज्ञस्तु सर्वलोकेषु विश्रुतः ॥ ८ ॥
इहासौ वासुदेवत्वमवाप भगवान्विभुः ॥ ९ ॥
तस्य सांबः सुतो जज्ञे जांबवत्यां महाबलः ॥
स तु पित्रा भृशं शप्तः कुष्ठरोगमवाप्तवान् ॥
तेन संस्थापितः सूर्यो निजनाम्ना पुरं कृतम् ॥ 7.1.100.१० ॥
॥ देव्युवाच ॥ ॥
शप्तः कस्मिन्निमित्तेऽसौ पित्रा पुत्रः स्वयं पुनः ॥
नाल्पं स्यात्कारणं देव येनासौ शप्तवान्सुतम् ॥ ११ ॥
॥ ईश्वर उवाच ॥ ॥
शृणुष्वावहिता भूत्वा तस्य यच्छापकारणम् ॥
दुर्वासानाम भगवान्ममैवांशसमुद्भवः ॥ १२ ॥
अटमानः स भगवांस्त्रींल्लोकान्प्रचचार ह ॥
अथ प्राप्तो द्वारवतीं लोकाः संजज्ञिरे पुरः ॥ १३ ॥
तमागतमृषिं दृष्ट्वा सांबो रूपेण गर्वितः ॥
पिंगाक्षं जटिलं रूक्षं विस्वरूपं कृशं तथा ॥ १४ ॥
अवमानं चकारासौ दर्शनात्स्पर्शनात्तथा ॥
दृष्ट्वा तस्य मुखं मंदो वक्त्रं चक्रे तथात्मनः ॥
चक्रे यदुकुलश्रेष्ठो गर्वितो यौवनेन तु ॥ १५ ॥
अथ क्रुद्धो महातेजा दुर्वासा ऋषिसत्तमः ॥
सांबं प्रोवाच भगवान्विधुन्वन्मुखमात्म नः ॥ १६ ॥
यस्माद्विरूपं मां दृष्ट्वा आत्मरूपेण गर्वितः ॥
गमने दर्शने मह्यमहंकारः कृतो यतः ॥
तस्मात्त्वं कुष्ठरोगेण न चिरेण ग्रसिष्यसे ॥ १७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां सांबादित्यमाहात्म्योपक्रमे सांबाय दुर्वाससा शापप्रदानवर्णनंनाम शततमोऽध्यायः ॥ १०० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 101
॥ ईश्वर उवाच ॥ ॥
एतस्मिन्नेव काले तु नारदो भगवानृषिः ॥
ब्रह्मणो मानसः पुत्रस्त्रिषु लोकेषु गर्वितः ॥ १ ॥
सर्वलोकचरः सोऽपि युवा देवनमस्कृतः ॥
तथा यदृच्छया चायमटमानः समंततः ॥ २ ॥
वासुदेवं स वै द्रष्टुं नित्यं द्वारवतीं पुरीम् ॥
आयाति ऋषिभिः सार्द्धं क्रोधेन ऋषि सत्तमः ॥ ३ ॥
अथाश्वागच्छतस्तस्य सर्वे यदुकुमारकाः ॥
ये प्रद्युम्नप्रभृतयस्ते च प्रह्वाननाः स्थिताः ॥ ४ ॥
अभावाच्चार्घ्यपाद्यानां पूजां चक्रुः समंततः ॥
सांबस्त्ववश्यभावित्वात्तस्य शापस्य कारणात् ॥ ५ ॥
अवज्ञां कुरुते नित्यं नारदस्य महात्मनः ॥
रतक्रीडा स वै नित्यं रूपयौवनगर्वितः ॥ ६ ॥
अविनीतं तु तं दृष्ट्वा चिन्तयामास नारदः ॥
अस्याहमविनीतस्य करिष्ये विनयं शुभम् ॥ ७ ॥
एवं स चिन्तयित्वातु वासुदेवमथाब्रवीत् ॥
इमाः षोडशसाहस्राः स्त्रियो या देवसत्तम ॥ ८ ॥
सर्वास्तासां सदा सांबे भावो देव समाश्रितः ॥
रूपेणाप्रतिमः सांबो लोकेऽस्मिन्सचराचरे ॥ ९ ॥
सदाऽर्हंति च तास्तस्य दर्शनं ह्यपि सत्स्त्रियः ॥
श्रुत्वैवं नारदाद्वाक्यं चिन्तयामास केशवः ॥7.1.101.१० ॥
यदेतन्नारदेनोक्तं सत्यमत्र तु किं भवेत् ॥
एवं च श्रूयते लोके चापल्यं स्त्रीषु विद्यते ॥
श्लोकाविमौ पुरा गीतौ चित्तज्ञैर्योषितां द्विजैः ॥ ११ ॥
पौंश्चल्यादतिचापल्यादज्ञानाच्च स्वभावतः ॥
रक्षिता यत्नतो ह्येता विकुर्वंति हि भर्तृषु ॥ १२ ॥
नैता रूपं परीक्षंते नाऽऽसां वयसि संश्रयः ॥
सुरूपं वा विरूपं वा पुमानित्येव भुंजते ॥ १३ ॥
॥ ईश्वर उवाच ॥ ॥
मनसा चिन्तयित्वैवं कृष्णो नारदमब्रवीत् ॥
नह्यहं श्रद्दधाम्येतद्यदेतद्भाषितं पुरा ॥ १४ ॥
ब्रुवाणमेवं देवं तु नारदः प्रत्युवाच ह ॥
तथाहं तु करिष्यामि यथा श्रद्धास्यते भवान् ॥ १५ ॥
एवमुक्त्वा ययौ भूयो नारदस्तु यथागतम् ॥
ततः कतिपयाहस्य द्वारकां पुनरभ्यगात् ॥ १६ ॥
तस्मिन्नहनि देवोऽपि सहांतःपौरकैर्जनैः ॥
अनुभूय जलक्रीडां पानमासेवते रहः ॥ १७ ॥
रम्ये रैवतकोद्याने नानाद्रुमविभूषिते ॥
सर्वर्तुकुसुमैर्नित्यं वासिते सर्वकामने ॥ १८ ॥
नानाजलजफुल्लाभिर्दीर्घिका भिरलंकृते ॥
हंससारससंघुष्टे चक्रवाकोपशोभिते ॥१९ ॥
तस्मिन्स रमते देवः स्त्रीभिः परिवृतस्तदा ॥
हारनूपुरकेयूररसनाद्यैर्विभूषणैः ॥ 7.1.101.२० ॥
भूषितानां वरस्त्रीणां सर्वांगीणां विशेषतः ॥
तत्रस्थः पिबते पानं शुभगन्धान्वितं शुभम् ॥ २१ ॥
एतस्मिन्नंतरे बुद्ध्वा मद्यमत्तास्ततः स्त्रियः ॥
उवाच नारदः सांबमस्मिंस्तिष्ठ कुमारक ॥ २२ ॥
त्वां समाह्वयते देवो न युक्तं स्थातुमत्र ते ॥
तद्वाक्यार्थमबुद्ध्वैव नारदेनाथ नोदितः ॥ २३ ॥
गत्वा तु सत्वरं सांबः प्रणाममकरोत्पितुः ॥
निर्द्दिष्टमासनं भेजे यथाभावेन विष्णुना ॥ २४ ॥
एतस्मिन्नंतरे तत्र यास्तु वै चाल्पसात्त्विकाः ॥
ता दृष्ट्वा सहसा सांबं सर्वाश्चुक्षुभिरे स्त्रियः ॥ २५ ॥
न स दृष्टः पुरा याभिरंतःपुरनिवासिभिः ॥
मद्यदोषात्ततस्तासां स्मृतिलोपात्तथा बहु ॥२६ ॥
स्वभावतोऽल्पसत्त्वानां जघनानि विसुस्रुवुः ॥
श्रूयते चाप्ययं श्लोकः पुराणप्रथितः क्षितौ ॥ २७ ॥
ब्रह्मचर्येऽपि वर्त्तंत्या योगिन्या वा प्रमादतः ॥
प्रकृष्टं पुरुषं दृष्ट्वा वरांगं क्लिद्यते स्त्रियाः ॥ २७ ॥
लोकेऽपि दृश्यते ह्येतन्मद्यस्याप्यथ सेवनात् ॥
लज्जां मुंचंति निःशंका ह्रीमत्यो ह्यपि च स्त्रियः ॥ २९ ॥
समांसैर्भोजनैः स्निग्धैः पानैः सीधुसुरासवैः ॥
गंधैर्मनोज्ञैर्वस्त्रैश्च कामः स्त्रीषु विजृंभति ॥ 7.1.101.३० ॥
मद्यं न देयमत्यर्थं पुरुषेण विपश्चिता ॥
मदोन्मत्ताः स्वभावेन पूर्वं संति यतः स्त्रियः ॥ ३१ ॥
नारदोऽप्यथ तं सांबं प्रेषयित्वा त्वरान्वितः ॥
आजगामाथ तत्रैव सांबस्यानुपदेन तु ॥ ३२ ॥
आयांतं ताः स्वयं दृष्ट्वा प्रियसौमनसं मुनिम्॥
सहसैवोत्थिताः सर्वा मदोन्मत्ता अपि स्त्रियः ॥ ३३ ॥
तासामथोत्थितानां तु वासुदेवस्य पश्यतः ॥
भित्त्वा वासांस्यनर्घाणि पात्रेषु पतितानि तु ॥३४॥
जघनेषु विलग्नानि तानि पेतुः पृथक्पृथक् ॥
तद्दृष्ट्वा तु हरिः कुद्धस्ताः शशाप ततोऽबलाः ॥ ३५ ॥
यस्माद्गतानि चेतांसि मां मुक्त्वाऽन्यत्र वः स्त्रियः ॥
तस्मात्पतिकृताँल्लोकानायुषोंऽते न यास्यथ ॥ ॥ ३६ ॥
पतिलोकात्परिभ्रष्टाः स्वर्गमार्गात्तथैव च ॥
भूत्वा ह्यशरणा भूयो दस्युहस्तं गमिष्यथ ॥ ३७ ॥
शापदोषात्ततस्तस्मात्ताः स्त्रियो गां गते हरौ ॥
हृताः पांचनदैश्चौरैरर्जुनस्य प्रपश्यतः ॥ ३८ ॥
अल्पसत्त्वाश्च याश्चासंस्ता गता दूषणं स्त्रियः ॥
रुक्मिणी सत्यभामा च तथा जांबवती प्रिये ॥ ३९ ॥
न प्राप्ता दस्युहस्तं ताः स्वेन सत्त्वेन रक्षिताः ॥
शप्त्वैवं ताः स्त्रियः कृष्णः सांबमप्यशपत्पुनः॥7.1.101.४०॥
यस्मादतीव ते कांतं दृष्ट्वा रूपमिमाः स्त्रियः ॥
क्षुब्धाः सर्वा यतस्तस्मात्कुष्ठरोगमवाप्नुहि ॥ ४१ ॥
तस्य तद्वचनं श्रुत्वा सांबो लज्जासमन्वितः॥
उवाच प्रहसन्वाक्यं स स्मरन्नृषिसत्तमम् ॥ ४२ ॥
अनिमित्तमहं तात भावदोषविवर्जितः ॥
शप्तो न मेऽत्र वै कुद्धो दुर्वासा नान्यथा वदेत् ॥ ४३ ॥
एवमुक्त्वा ततः सांबः कृष्णं कमललोचनम् ॥
ततो वैराग्यसंयुक्तश्चिन्ताशोकपरायणः ॥ ४४ ॥
प्रभासक्षेत्रमगमत्सर्वपातकनाशनम् ॥
एवं तत्क्षेत्रमासाद्य तपस्तेपे सुदारुणम् ॥ ४५ ॥
प्रतिष्ठाप्य सहस्रांशुं देवं पापनिषूदनम् ॥
ततश्चाराधयामास परं नियममाश्रितः ॥ ४६ ॥
त्रिसंध्यं पूजयामास दिव्यगंधानुलेपनैः ॥
स्तोत्रेणानेन भक्त्या वै स्तौति नित्यं दिनाधिपम् ॥ ४७ ॥
॥ सांब उवाच ॥ ॥
नमस्त्रैलोक्यदीपाय नमस्ते तिमिरापह ॥
नमः पंकजनाथाय नमः कुमुदशत्रवे ॥ ४८ ॥
नमो जगत्प्रतिष्ठाय जगद्धात्रे नमोऽस्तु ते ॥
देवदेव नमस्यामि सूर्यं त्रैलोक्यदीपकम् ॥ ४९ ॥
आदित्यवर्णो भुवनस्य गोप्ता अपूर्व एष प्रथमः सुराणाम् ॥
हिरण्यगर्भः पुरुषो महात्मा स पठ्यते वै तमसः परस्तात् ॥ 7.1.101.५० ॥
इति स्तुतस्तदा सूर्यः प्रसन्नेनांतरात्मना ॥
उवाच दर्शनं गत्वा सांबं जांबवतीसुतम् ॥ ५१ ॥
सांबसांब महावाहो शृणु गोविन्दनन्दने ॥
स्तोत्रेणानेन तुष्टोऽहं वरं ब्रूहि यदीप्सितम् ॥ ५२ ॥
॥ सांब उवाच ॥ ॥
कृष्णेनाहं सुरश्रेष्ठ शप्तः पापः सुदुर्मतिः ॥
कुष्ठांतं कुरु मे देव यदि तुष्टोऽसि मे प्रभो ॥ ५३ ॥
॥ श्रीभानुरुवाच ॥ ॥
भूय एव महाभाग नीरोगस्त्वं भविष्यसि ॥
यादृग्रूपः पुरा ह्यासीर्मम चैव प्रसादतः ॥ ५४ ॥
अद्य प्रभृति नेक्ष्यास्ता विष्णुभार्याः कथंचन ॥
न तासां दर्शने जातु स्थातव्यं यदुनन्दन ॥ ५५ ॥
तासामीर्ष्यापरीतेन विष्णुना प्रभविष्णुना ॥
कुष्ठं ते यादवश्रेष्ठ प्रदत्तं हि महात्मना ॥ ५६ ॥
यो मां स्तोत्रेण चानेन समागत्य च स्तोष्यति ॥
न तस्यान्वयसंभूतः कुष्ठी कश्चिद्भविष्यति ॥ ५७ ॥
अथादित्यस्य नामानि सम्यग्जानीहि द्वादश ॥
द्वादशैव तथान्यानि तानि वक्ष्याम्यशेषतः ॥ ५८ ॥
आदित्यः सविता सूर्यो मिहिरोऽर्कः प्रतापनः ॥
मार्त्तंडो भास्करो भानुश्चित्रभानुर्द्दिवाकरः ॥ ५९ ॥
रविर्द्वादशनामैवं ज्ञेयः सामान्यनामभिः ॥
विष्णुर्धाता भगः पूषा मित्रोंऽशुर्वरुणो ऽर्यमा ॥ 7.1.101.६० ॥
इन्द्रो विवस्वांस्त्वष्टा च पर्जन्यो द्वादशः स्मृतः ॥
इति ते द्वादशादित्याः पृथक्त्वेन प्रकीर्तिताः ॥ ६१ ॥
उत्तिष्ठंति सदा ह्येते मासैर्द्वादशभिः क्रमात् ॥
विष्णुस्तपति वै चैत्रे वैशाखे चार्यमा सदा ॥ ६२ ॥
विवस्वाञ्ज्येष्ठमासे तु आषाढे चांशुमांस्तथा ॥
पर्ज्जन्यः श्रावणे मासि वरुणः प्रौष्ठसंज्ञिके ॥ ६३ ॥
इन्द्रश्चाश्वयुजे मासि धाता तपति कार्तिके ॥
मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः ॥ ६४ ॥
माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने ॥
शतैर्द्वादशभिर्विष्णू रश्मीनां दीप्यते सदा ॥ ६५ ॥
दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्यमा ॥
द्विसप्तकैर्विवस्वांस्तु अंशुमान्पञ्चकैस्त्रिभिः ॥ ६६ ॥
विवस्वानिव पर्जन्यो वरुणश्चार्यमा इव ॥
इन्द्रस्तु द्विगुणैः षड्भिर्भात्येकादशभिः शतैः ॥ ६७ ॥
मित्रवच्च भगस्त्वष्टा सहस्रेण शतेन च ॥
उत्तरोपक्रमेऽर्कस्य वर्धन्ते रश्मयः सदा ॥
दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः ॥ ६८ ॥
एवं द्वादश मूर्तिस्थः प्रभासक्षेत्रमध्यतः ॥
सांबादित्येति विख्यातः स्थास्ये मन्वन्तरान्तरे ॥ ६९ ॥
माघस्य शुक्लपक्षे तु पञ्चम्यां यादवोत्तम ॥
एकभक्तं सदा ख्यातं षष्ठ्यां नक्तमुदाहृतम् ॥ 7.1.101.७० ॥
सप्तम्यामुपवासं तु कृत्वा सांबार्कसंनिधौ ॥
रक्तचन्दनमिश्रैस्तु करवीरैर्महाव्रतः ॥ ७१ ॥
दत्त्वा कुन्दरकं धूपं पूजयेद्भास्करं बुधः ॥
ब्राह्मणान्दिव्यभोज्येन भोजयित्वाऽपि शक्तितः ॥ ७२ ॥
एवं यः कुरुते सम्यक्सांबादित्यस्य पूजनम् ॥।
सम्यक्छ्रद्धासमायुक्तः संप्राप्स्यत्यखिलं फलम् ॥ ७३ ॥
॥ ईश्वर उवाच ॥ ॥
एवमुक्त्वा सहस्रांशुस्तत्रैवांतरधीयत ॥
सांबोऽपि निर्जरो भूत्वा द्वारकां पुनरागमत् ॥ ७४ ॥
इत्येतत्कथितं देवि सांबादित्यमहोदयम् ॥
श्रुतं हरति पापानि तथाऽऽरोग्यं प्रयच्छति ॥ ७५ ॥
इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सांबादित्यमाहात्म्यवर्णनंनामैकोत्तरशततमोऽध्यायः॥ १०१ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 102
ततो गच्छेन्महादेवि देवीं कंटकशोधिनीम् ॥
तस्यैवोत्तरदिग्भागे धनुर्द्वितयसंस्थिताम् ॥ १ ॥
महिषघ्नीं महाकायां ब्रह्मदेवर्षिपूजिताम् ॥
पुरा ये कल्मषोपेता दानवा देवकंटकाः ॥ २ ॥
युगेयुगे शोधयेत्तांस्तेन कंटकशोधिनी ॥
आश्वयुक्छुक्लपक्षे तु नवम्यां तामथार्चयेत् ॥ ३ ॥
पशुपुष्पोपहारैश्च दीपधूपैस्तथोत्तमैः ॥
तस्याऽरयो न जायंते यावद्वर्षं वरानने ॥ ४ ॥
यस्तां पश्यति सद्भक्त्या भूताया नित्यमेव वा ॥ । ॥
तं पुत्रमिव कल्याणी संरक्षति न संशयः ॥ ५ ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥
देवि कंटकशोधिन्याः श्रुतं रक्षाकरं परम् ॥ ६ ॥
इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सांबादित्यसमीपवर्तिकंटकशोधिनीमाहात्म्यवर्णनंनाम द्व्युत्तरशततमोध्यायः ॥ १०२ ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 103
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेद्वरारोहे कपालेश्वरमुत्तमम् ॥
तस्या उत्तरदिग्भागे सुरगंधर्वपूजितम्॥ ॥ १ ॥
पुरा यज्ञे वर्त्तमाने दक्षराजस्य धीमतः ॥
उपविष्टेषु विप्रेषु हूयमाने हुताशने ॥ २ ॥
जाल्मरूपधरो भूत्वा शंकरस्तत्र चागतः ॥ २७ ॥
जीर्णकंथान्वितो देवि मलवान्धूलिधूसरः ॥ ३ ॥
अथ ते ब्राह्मणाः क्रुद्धा दृष्ट्वा तं जाल्मरूपिणम् ॥
कपालधारिणं सर्वे धिक्छब्दैस्तं जगर्हिरे॥ ४ ॥
असकृत्पापपापेति गच्छगच्छ नराधम ॥
यज्ञवेदिर्न चार्हा हि मानुषास्थिधरस्य ते ॥ ५ ॥
अथ प्रहस्य भगवान्यज्ञवेद्यां सुरेश्वरि ॥
क्षिप्त्वा कपालं नष्टोऽसौ न स ज्ञातो मनीषिभिः ॥ ६ ॥
तस्मिन्नष्टे कपालं तत्क्षिप्तं मंडपबाह्यतः ॥
अथान्यत्तत्र संजातं तद्रूपं च वरानने ॥ ७ ॥
क्षिप्तंक्षिप्तं पुनस्तत्र जायते च महीतले ॥
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च ॥ ८ ॥
तत्र क्षिप्तानि जातानि ततस्ते विस्मयान्विताः ॥
अथोचुर्मुनयः सर्वे निर्विण्णाश्चास्य चेष्टितम् ॥ ९ ॥
कोऽन्यो देवान्महादेवाद्गंगाक्षालितशेखरात् ॥
समर्थ ईदृशं कर्त्तुमस्मिन्यज्ञे विशेषतः ॥ 7.1.103.१० ॥
ततस्ते वि विधैः स्तोत्रैः स्तुवंतो वृषभध्वजम् ॥
होमं चक्रुर्मुहुर्वह्नौ मंत्रैस्तैः शतरुद्रियैः ॥ ११ ॥
ततः प्रत्यक्षतां प्राप्तस्तेषां देवो महेश्वरः ॥
ततस्ते विविधैः स्तोत्रैस्तुष्टुवुः शूलपाणिनम्॥
वेदोक्तमंत्रैर्विविधैः पुराणोक्तैस्तथैव च ॥ १२ ॥
॥ ऋषय ऊचुः ॥ ॥
ॐ नमो मूलप्रकृतये अजिताय महात्मने ॥
अनावृताय देवाय निःस्पृहाय नमोनमः ॥ १३ ॥
नम आद्याय बीजाय आर्षेयाय प्रवर्त्तिने ॥
अनंतराय चैकाय अव्यक्ताय नमोनमः ॥ ॥। १४ ॥
नानाविचित्रभुजगांगदभूषणाय सर्वेश्वराय विरजाय नमो वराय ॥
विश्वात्मने परमकारणकारणाय फुल्लारविंदविपुलायतलोचनाय ॥ ॥ १५ ॥
अदृश्यमव्यक्तमनादिमव्ययं यदक्षरं ब्रह्म वदंति सर्वगम् ॥
निशाम्य यं मृत्युमुखात्प्रमुच्यते तमादिदेवं शरणं प्रपद्ये ॥ १६ ॥
एवं स्तुतस्तदा सर्वैर्ऋषिभिर्गतकल्मषैः ॥
ततस्तुष्टो महादेवस्तेषां प्रत्यक्षतां गतः ॥
अब्रवीत्तानृषीन्देवो वृणुध्वं वरमुत्तमम् ॥ १७ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यदि तुष्टोऽसि नो देव स्थानेऽस्मिन्निरतो भव ॥
असंख्यातानि यस्माच्च कपालानि सुरेश्वर ॥ १८ ॥
पुनः पुनः प्रवृत्तानि व्यपनीतान्यपि प्रभो ॥
अस्मिन्नसंशयं स्थाने कपालेश्वरनामभृत्॥ १९ ॥
स्वयं तु लिंगं देवेश तिष्ठेन्मन्वंतरांतरम् ॥
कपालेश्वरनाम्ना त्वमस्मिन्स्थाने स्थितिं कुरु॥ 7.1.103.२० ॥
येत्र त्वां पूजयिष्यंति धूपमाल्यानुलेपनैः ॥
तेषां तु परमं स्थानं यद्देवैरपि दुर्लभम् ॥ २१ ॥
बाढमित्येवमुक्त्वाऽसौ स्थित स्तत्रमहेश्वरः ॥
पुनः प्रवर्तितो यज्ञो निशानाथस्य भामिनि ॥ २२ ॥
तस्मिन्दृष्टे लभेन्मर्त्यो वाजिमेधफलं प्रिये ॥
मुच्यते पातकैः सर्वैः पूर्व जन्मार्ज्जितैरपि ॥ २३ ॥
इदं माहात्म्यमखिलमभूत्स्वायंभुवांतरे ॥
वैवस्वते पुनश्चान्यद्दक्षयज्ञविनाशकृत् ॥ २४ ॥
कपालीति महेशानो दक्षेणोक्तः पुरा हरः ॥
तेन यज्ञस्य विध्वंसं कपाली तमथाकरोत् ॥
कपालेश्वरनामेति स्थितोस्मिन्मानवान्तरे ॥ २५ ॥
अथास्य नाम देवस्य सूर्य सावर्णिकेंऽतरे ॥
भविष्यति वरारोहे नाम तत्त्वेश्वरेति च ॥ २६ ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं रुद्रदैवतम्॥
पापघ्नं सर्वजंतूनां पशुपाशविमोक्षणम् ॥ २७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां कपालेश्वरमाहात्म्यवर्णनंनाम त्र्यधिकशततमोऽध्यायः ॥ १०३ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 104
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कोटीश्वरमनुत्तमम् ॥
तस्मादुत्तरतो देवि कोटीशमिति विश्रुतम् ॥ १ ॥
पापघ्नं सर्वजंतूनां पशुपाशविमोक्षदम् ॥
पुरा पाशुपता देवि कपालेश्वरसंनिधौ ॥ २ ॥
तपः कुर्वंति विपुलं भस्मोद्धूलितविग्रहाः ॥
जटामुकुटसंयुक्ता मुंजमेखलधारिणः ॥ ३ ॥
शांताः सर्वे जितक्रोधा ब्राह्मणाः शिवयोगिनः ॥
तपः कुर्वंति तत्रस्था व्याप्य क्षेत्रं चतुर्द्दिशम् ॥ ४ ॥
कोटिसंख्या महादेवि मन्त्रजाप्यपरायणाः ॥
सम्यक्संस्थाप्य ते लिंगं कपालेशसमीपगम् ॥ ५ ॥
ततस्ते पूजयांचक्रुस्तल्लिंगं भक्तिसंयुताः ॥
ततस्तुष्टो महादेवो मुक्तिं तेषां ददौ हरः ॥ ६ ॥
ऋषयः कोटिसंख्यातास्तस्मिन्सिद्धा यतः प्रिये ॥
तेन कोटीश्वरं लिंगं नाम्ना ख्यातं धरातले ॥ ७ ॥
यस्तं पूजयते भक्त्या कोटीश्वरमनामयम् ॥
स कोटिमन्त्रजाप्यस्य फलं प्राप्स्यति मानवः ॥ ८ ॥
हिरण्यं तत्र दातव्यं ब्राह्मणे वेदपारगे ॥
कोटिहोमफलं तस्य सम्यग्यात्राफलं भवेत् ॥ ९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कोटीश्वरमाहात्म्यवर्णनंनाम चतुरधिक शततमोऽध्यायः ॥ १०४ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 105
॥ ईश्वर उवाच ॥ ॥
अथान्यत्संप्रवक्ष्यामि रहस्यं स्थानमुत्तमम् ॥
सर्वपापहरं नृणां विस्तरात्कथ यामि ते ॥ १ ॥
प्रधानदेवमाहात्म्यं माहात्म्यं कल्पवासिनाम् ॥
सोमेशो दैत्यहंता च वालरूपी पितामहः ॥२॥
अर्कस्थलस्तथादित्यः प्रभासः शशिभूषणः ॥
एते षट्प्रवरा देवाः क्षेत्रे प्राभासिके स्थिताः ॥ ३ ॥
तेषां दर्शनमात्रेण कृतकृत्यः प्रजायते ॥
मुच्यते पातकैर्घोरैराजन्मजनितैर्ध्रु वम् ॥ ४ ॥
॥ देव्युवाच॥ ॥
पूर्वेषामुक्तदेवानां माहात्म्यं कथितं त्वया ॥
प्रभासे बालरूपीति यत्प्रोक्तं तत्कथं वचः ॥ ५ ॥
अन्येषु सर्व स्थानेषु वृद्धरूपी पितामहः ॥
कथं च समनुप्राप्तो माहात्म्यं तस्य किं स्मृतम् ॥ ६ ॥
कथं स पूज्यो देवेश यात्रा कार्या कथं नृभिः ॥
एतद्विस्तरतो ब्रूहि प्रसन्नो यदि मे प्रभो ॥ ७ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि माहात्म्यं ब्रह्मसम्भवम् ॥
यस्य श्रवणमात्रेण मुच्यते सर्वपातकैः ॥ ८ ॥
नास्ति ब्रह्मसमो देवो नास्ति ब्रह्मसमो गुरुः ॥
नास्ति ब्रह्मसमं ज्ञानं नास्ति ब्रह्मसमं तपः ॥ ९ ॥
तावद्धमंति संसारे दुःख शोकभयप्लुताः ॥
न भवंति सुरज्येष्ठे यावद्भक्ताः पितामहे ॥ 7.1.105.१० ॥
समासक्तं यथा चित्तं जन्तोर्विषयगोचरे ॥
यद्येवं ब्रह्मणि न्यस्तं को न मुच्येत बंधनात् ॥ ११ ॥
॥ देव्युवाच ॥ ॥
एवं माहात्म्यसंयुक्तो यदि ब्रह्मा जगद्गुरुः ॥
प्राभासिके महातीर्थे कस्मिन्स्थाने तु संस्थितः ॥ ॥ १२ ॥
किमर्थमागतस्तत्र कस्मिन्काले सुरोत्तमः ॥
कथं स पूज्यो विप्रेंद्रैस्तिथौ कस्यां क्रमाद्वद ॥ १३ ॥
॥ ईश्वर उवाच ॥ ॥
सोमनाथस्य ऐशान्यां सांबादित्याग्निगोचरे ॥
ब्रह्मणः परमं स्थानं ब्रह्मलोक इवापरः ॥ १४
तिष्ठते कल्पसंस्था वै तत्र कल्पांतवासिनः ॥
तत्र स्थाने स्थितो देवि बालरूपी पितामहः ॥ १५ ॥
जगत्प्रभुर्लोककर्ता सत्त्वमूर्तिर्महाप्रभः ॥
आगतश्चाष्टवर्षस्तु क्षेत्रे प्राभासिके शुभे ॥ १६ ॥
तत्राऽकरोत्तपो घोरं दिव्याब्दानां सहस्रकम् ॥
संस्थाप्य तु महालिंगं सिसृक्षुर्विविधाः प्रजाः ॥ १७ ॥
ततः कालांतरेतीते सोमेन प्रार्थितो विभुः ॥
क्षयरोगविमुक्तेन सम्यक्छ्रद्धान्वितेन वै ॥ १८ ॥
लिंगप्रतिष्ठाहेतोर्वै क्षेत्रे प्राभासिके शुभे ॥
कोटिब्रह्मर्षिभिः सार्द्धं सहितो विश्वकर्मणा ॥
कारयामास विधिवत्प्रतिष्ठां लिंगमुत्तमम्॥ १९ ॥
प्रतिष्ठाप्य ततो लिंगं सोमनाथं वरानने ॥
दापयामास विप्रेभ्यो भूरिशो यज्ञदक्षिणाम् ॥ 7.1.105.२० ॥
एवं प्रतिष्ठितं लिंगं ब्रह्मणा लोककर्तृणा ॥
वर्षाणि चात्र जातानि प्रभासे बालरूपिणः ॥ २१ ॥
चत्वारिंशद्वयं चैव क्षेत्रमध्यनिवासिनः ॥
एवं परार्द्धमगमत्प्रभासक्षेत्रवासिनः ॥ २२ ॥
॥ देव्युवाच ॥ ॥
ब्रह्मणो दिनमानं तु मासवर्षसहस्रकम् ॥
तत्सर्वं विस्तराद्ब्रूहि यथायुर्ब्रह्मणः स्मृत म् ॥ २३ ॥
॥ ईश्वर उवाच ॥ ॥
परमायुः स्मृतो ब्रह्मा परार्द्धं तस्य वै गतम्॥
प्रभासक्षेत्रसंस्थस्य द्वितीयं भवतेऽधुना ॥ २४ ॥
यदा प्राभासिके क्षेत्रे ब्रह्मा लोकपितामहः ॥
आगतश्चाष्टवर्षस्तु बालरूपी तदोच्यते ॥ २५ ॥
अन्येषु सर्वतीर्थेषु वृद्धरूपी पितामहः ॥
मुक्त्वा प्राभासिकं क्षेत्रं सदैव विबुधप्रिये ॥ २६ ॥
ब्रह्मांडे यानि तीर्थानि ब्रह्माणस्तेषु ये स्मृताः ॥
तेषामाद्यो महातेजाः प्रभासे यो व्यवस्थितः ॥ २७ ॥
कल्पेकल्पे तु नामानि शृणु त्वं तानि वै प्रिये ॥
स्वयंभूः प्रथमे कल्पे द्वितीये पद्मभूः स्थितः ॥ .२८ ॥
तृतीये विश्वकर्तेति बालरूपी चतुर्थके ॥
एतानि मुख्यनामानि कथितानि स्वयंभुवः ॥ २९ ॥
नित्यं संस्मरते यस्तु स दीर्घायुर्नरो भवेत् ॥7.1.105.३०॥
चन्द्रसूर्यग्रहाः सर्वे सदेवासुरमानुषाः ॥
त्रैलोक्यं नश्यते सर्वं ब्रह्मरात्रि समागमे॥३१॥
पुनर्दिने तु संजाते प्रबुद्धः सन्पितामहः॥
तथा सृष्टिं प्रकुरुते यथापूर्वमभूत्प्रिये॥३२॥
दिनमानं प्रवक्ष्यामि ब्रह्मणो लोककर्तृणः ॥
नेत्रभागाच्चतुर्भागस्त्रुटिः कालो निगद्यते ॥ ३३ ॥
तस्माच्च द्विगुणं ज्ञेयं निमिषांतं वरानने ॥
निमिषैः पञ्चदशभिः काष्ठा इत्युच्यते बुधैः॥
त्रिंशद्भिश्चैव काष्ठाभिः कला प्रोक्ता मनीषिभिः ॥३४॥
त्रिंशत्कलो मुहूर्तः स्याद्दिनं पंचदशैस्तु तैः॥
दिनमाना निशा ज्ञेया अहोरात्रं तयोर्भवेत् ॥३५॥
तैः पंचदशभिः पक्षः पक्षाभ्यां मास उच्यते ॥
मासैश्चैवायनं षङ्भिरब्दं स्यादयनद्वयात् ॥३६॥
चत्वारिंशद्धि लक्षाणि लक्षाणां त्रितयं पुनः ॥
विंशतिश्च सहस्राणि ज्ञेयं सौरं चतुर्युगम् ॥ ३७ ॥
चतुर्युगैकसप्तत्या मन्वंतरमुदाहृतम् ॥
ऐन्द्रमेतद्भवेदायुः समासात्तव कीर्तितम् ॥ ३८ ॥
स्वायंभुवो मनुः पूर्वं मनुः स्वारोचिषस्ततः ॥
औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्ततः ॥ ३९॥
वैवस्वतोऽर्कसावर्णिर्ब्रह्मसा वर्णिरेव च ॥
धर्मसावर्णिनामा च रौच्यो भूत्यस्तथैव च ॥ 7.1.105.४० ॥
चतुर्दशैते मनवः सँख्यातास्ते यथाक्रमम् ॥
भूतान्भविष्यानिंद्रांश्च सर्वा न्वक्ष्ये तव क्रमात् ॥ ४१ ॥
विश्वभुक्च विपश्चिच्च सुकीर्तिः शिबिरेव च ॥
विभुर्मनोभुवश्चैव तथौजस्वी बलिर्बली ॥ ४२ ॥
अद्भुतश्च तथा शांती रम्यो देववरो वृषा ॥
ऋतधामा दिवःस्वामी शुचिः शक्राश्चतुर्दश ॥ ४३ ॥
एते सर्वे विनश्यंति ब्रह्मणो दिवसे प्रिये ॥
रात्रिस्तु तावती ज्ञेया कल्पमानमिदं स्मृतम् ॥ ४४ ॥
प्रथमं श्वेतकल्पस्तु द्वितीयो नीललोहितः ॥
वामदेवस्तृतीयस्तु ततो राथंतरोऽपरः ॥ ४५ ॥
रौरवः पंचमः प्रोक्तः षष्ठः प्राण इति स्मृतः ॥
सप्तमोऽथ बृहत्कल्पः कन्दर्पोऽष्टम उच्यते ॥ ४६ ॥
सद्योऽथ नवमः प्रोक्तः ईशानो दशमः स्मृतः ॥
ध्यान एकादशः प्रोक्तस्तथा सारस्वतोऽपरः ॥ ४७ ॥
त्रयोदश उदानस्तु गरुडोऽथ चतुर्दशः ॥
कौर्मः पंचदशो ज्ञेयः पौर्णमासी प्रजापतेः ॥ ४८ ॥
षोडशो नारसिंहस्तु समाधिस्तु ततः परः ॥
आग्नेयोऽष्टादशः प्रोक्तः सोमकल्पस्ततोऽपरः ॥ ४९ ॥
भावनो विंशतिः प्रोक्तः सुप्तमालीति चापरः ॥
वैकुण्ठश्चार्चिषो रुद्रो लक्ष्मीकल्पस्तथापरेः ॥ 7.1.105.५० ॥
सप्तविंशोऽथ वैराजो गौरीकल्पस्तथोंऽऽधकः ॥
माहेश्वरस्तथा प्रोक्तस्त्रिपुरो यत्र घातितः ॥ ५१ ॥
पितृकल्पस्तथांते च या कुहूर्ब्रह्मणः स्मृता ॥
त्रिंशत्कल्पाः समाख्याता ब्रह्मणो मासि वै प्रिये ॥ ५२ ॥
अतीताः कथिताः सर्वे वाराहो वर्त्ततेऽधुना ॥
प्रतिपद्ब्रह्मणो यत्र वाराहेणोद्धृता मही ॥ ५३ ॥
त्रिंशत्कल्पैः स्मृतो मासो वर्षं द्वादशभिस्तु तैः ॥
अनेन वर्षमानेन तदा ब्रह्माऽष्टवार्षिकः ॥
आनीतः सोमराजेन सोमनाथः प्रतिष्ठितः ॥ ५४ ॥
एवं क्षेत्रे निवसतः प्रभासे बालरूपिणः ॥
परार्द्धमेकमगमद्द्वितीयं वर्ततेऽ धुना ॥ ५५ ॥
एवं महाप्रभावोऽसौ प्रभासक्षेत्रमध्यगः ॥
ब्रह्मा स्वयंभूर्भगवान्बालत्वात्क्षेत्रमाश्रितः ॥ ५६ ॥
स वै पूज्यो नमस्कार्यो वंदनीयो मनीषिभिः ॥
आदौ स एव पूज्यः स्यात्सम्यग्यात्राफलेप्सुभिः ॥ ५७ ॥
यस्तं पूजयते भक्त्या स मां पूजयते भुवम् ॥
यस्तं द्वेष्टि स मां द्वेष्टि योस्य पूज्यो ममैव सः ॥ ५८ ॥
ब्रह्मणा पूज्यमानेन अहं विष्णुश्च पूजितः ॥
विष्णुना पूज्यमानेन अहं ब्रह्मा च पूजितः ॥ ५९ ॥
मया पूजित मात्रेण ब्रह्मविष्णू च पूजितौ ॥
सत्त्वं ब्रह्मा रजो विष्णुस्तमोऽहं संप्रकीर्तितः ॥ 7.1.105.६० ॥
वायुर्ब्रह्माऽनलो रुद्रो विष्णुरापः प्रकीर्तितः ॥
रात्रिर्विष्णुरहो रुद्रो या संध्या स पितामहः ॥६१॥
सामवेदो ह्यहं देवि ब्रह्मा ऋग्वेद उच्यते ॥
यजुर्वेदो भवेद्विष्णुः कुलाधारो ह्यथर्वणः ॥ ६२॥
उष्णकालो ह्यहं देवि वर्षाकालः पितामहः ॥
शीतकालो भवेद्विष्णुरेवं कालत्रयं हि सः ॥ ६३ ॥
दक्षिणाग्निरहं ज्ञेयो गार्हपत्यो हरिः स्मृतः ॥
ब्रह्मा चाहवनीयस्तु एवं सर्वं त्रिदैवतम् ॥ ६४ ॥
अहं लिंगस्वरूपस्थो भगो विष्णुः प्रकीर्तितः ॥
बीजसंस्थो भवेद्ब्रह्मा विष्णुरापः प्रकीर्तितः ॥६५॥
अहमाकाशरूपस्थ एवं तत्त्वमयं प्रभुः ॥
आकाशात्स्रवते यच्च तद्बीजं ब्रह्मसंस्थितम् ॥
स्वरूपं ब्राह्ममाश्रित्य ब्रह्मा बीजप्ररोहकः॥६६॥
नाभिमध्ये स्थितो ब्रह्मा विष्णुश्च हृदयांतरे ॥
वक्त्रमध्ये अहं देवि आधारः सर्वदेहिनाम् ॥६७॥
यश्चाहं स स्वयं ब्रह्मा यो ब्रह्मा स हुताशनः ॥
या देवी स स्वयं विष्णुर्यो विष्णुः स च चन्द्रमाः ॥ ६८ ॥
यः कालः स स्वयं ब्रह्मा यो रुद्रः स च भास्करः ॥
एवं शक्तिविशेषेण परं ब्रह्म स्थितं प्रिये ॥ ६९ ॥
ॐकारस्तत्परं ब्रह्म गायत्री प्रकृतिः परा ॥
उभावेतौ नरो ज्ञात्वा न विच्यवति मुच्यते ॥7.1.105.७॥।
एवं यो वेद देवेशि अद्वैतं परमाक्षरम् ॥
स सर्वं वेद नैवान्यो भेदकर्त्ता नराधमः ॥ ७१ ॥
एकरूपं परं ब्रह्म कार्यभावात्पृथक्स्थितः ॥
यस्तं द्वेष्टि वरारोहे ब्रह्मद्वेष्टा स उच्यते ॥ ७२ ॥
दक्षिणांगे स्थितो ब्रह्मा वामांगे मम केशवः ॥
यस्तयोर्द्वेषमाधत्ते स द्वेष्टा मम भामिनि ॥ ७३ ॥
एवं ज्ञात्वा वरारोहे ह्यभिन्नेनान्तरात्मना ॥
ब्रह्माणं केशवं रुद्रमेकरूपेण पूज येत् ॥ ७४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां ब्रह्म माहात्म्यवर्णनंनाम पञ्चाधिकशततमोऽध्यायः ॥ १०५ ॥ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 106
॥ देव्युवाच ॥ ॥
एवमद्वैतभावेन यद्ब्रह्म परिकीर्तितम् ॥
तस्य पूजा विधानं मे कथयस्व यथार्थतः ॥ १ ॥
क्षेत्रे प्राभासिके देव बालरूपी पितामहः ॥
स कथं पूज्यते लोकैः परब्रह्मस्वरूपवान् ॥ २ ॥
के मन्त्राः किं विधानं तद्बाह्मणास्तत्र कीदृशाः ॥
तत्र स्थितानां विप्राणां कथं क्षेत्रफलं भवेत् ॥ ३ ॥
कतिप्रकारास्ते विप्रास्तत्र क्षेत्रनिवासिनः ॥
किमाचारा महादेव किंशीलाः किंपरायणाः ॥ ४ ॥
एतद्विस्तरतो ब्रूहि ब्राह्मणानां महोदयम् ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
साधुसाधु महादेवि सम्यक्प्रश्नविशारदे ॥
शृणुष्वैकमना भूत्वा माहात्म्यं विप्रदैवतम् ॥ ६ ॥
यच्छ्रुत्वा मानवो देवि मुच्यते सर्वपातकैः ॥
ये केचित्सागरांतायां पृथिव्यां कीर्तिता द्विजाः ॥ ७ ॥
तद्रूपं मम देवेशि प्रत्यक्षं धरणीतले ॥ प्रत्यक्षं ब्राह्मणा देवाः परोक्षं दिवि देवताः ॥ ८ ॥
ब्राह्मणा मत्प्रिया नित्यं ब्राह्मणा मामकी तनुः ॥
यस्तानर्चयते भक्त्या स मामर्चयते सदा ॥ ९ ॥
यस्तांस्तोषयते भक्त्या स च मां परितोषयेत् ॥7.1.106.१॥।
ये ब्राह्मणाः सोऽहमसंशयं प्रिये तेष्वर्चितेष्वर्चितोऽहं भवेयम् ॥
तेष्वेव तुष्टेष्वहमेव तुष्टो वैरं च तैर्यस्य ममापि वैरम् ॥ ११ ॥
यश्चन्दनैः सागरुगन्धमाल्यै रभ्यर्चयेच्छैलमयीं ममार्चाम्॥
असौ न मामर्चयतेर्चयन्वै विप्रार्चनादर्चित एव चाहम् ॥ १२ ॥
यावंतः पृथिवीमध्ये चीर्णवेदव्रता द्विजाः ॥
अचीर्णव्रतवेदा वा तेऽपि पूज्या द्विजाः प्रिये ॥ १३ ॥
न ब्राह्मणान्परीक्षेत श्राद्धे क्षेत्रनिवासिनः ॥
सुमहान्परिवादोऽस्य ब्राह्मणानां परीक्षणे ॥ १४ ॥
काणाः खञ्जाश्च कृष्णाश्च दरिद्रा व्याधितास्तथा ॥
सर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैः ॥ १५ ॥
ब्राह्मणा जातितः पूज्या वेदाभ्यासात्ततः परम् ॥
ततोर्थं हव्यकव्येषु न निन्द्या ब्राह्मणाः क्वचित् ॥ १६ ॥
काणान्कुण्टांश्च कुब्जाश्च दरिद्रान्व्याधितानपि॥
नावमन्येद्द्विजान्प्राज्ञो मम रूपं यतः स्मृतम् ॥ १७ ॥
बहवो हि न जानंति नरा ज्ञानबहिष्कृताः ॥
यथाहं द्विजरूपेण चरामि पृथिवीमिमाम् ॥ १८ ॥
मद्रूपान्घ्नन्ति ये विप्रान्विकर्म कारयंति च ॥
अप्रेषणे प्रेषयंति दासत्वं कारयन्ति च ॥ १९ ॥
मृतांस्तान्करपत्रेण यमदूता महाबलाः ॥
निकृंतंति यथा काष्ठं सूत्रमार्गेण शिल्पिनः ॥ 7.1.106.२० ॥
ये चैवाश्लक्ष्णया वाचा तर्जयन्ति नराधमाः ॥
वदंति परुषं क्रोधात्पादेन निहनंति च ॥ २१ ॥
मृतांस्तान्यमलोका हि निहत्य धरणीतले ॥
क्रूरपादेन चाक्रम्य क्रोधसंरक्तलोचनाः ॥ २२ ॥
अग्निवर्णैश्च संदंशैर्जिह्वामुद्धरते यमः ॥
ये नु विप्रान्निरीक्षन्ते पापाः पापेन चक्षुषा ॥ २२ ॥
अब्रह्मण्यास्तु ते बाह्या नित्यं ब्रह्मद्विषो नराः ॥
तेषां घोरा महाकाया वज्रतुंडा भयानकाः ॥
उद्धरंति मुहूर्तेन चक्षुः काका यमाज्ञया ॥ २४ ॥
यस्ताडयति विप्रं वै क्षते कुर्याद्धि शोणितम् ॥
अस्थिभंगं च वा कुर्यात्प्राणैर्वापि वियोजयेत् ॥२५॥
ब्रह्मघ्नः स तु विज्ञेयो न तस्मै निष्कृतिः स्मृता ॥
पञ्चाशत्कोटिसंख्येषु नरकेष्वनुपूर्वशः ॥ २६ ॥
स बहूनि सहस्राणि वर्षाणि पच्यते भृशम्॥
तस्माद्विप्रो वरारोहे नमस्कार्यो नृभिः सदा॥ २७ ॥
अन्नपानप्रदानैस्तु पूज्या हि सततं द्विजाः ॥
सर्वेषां चैव दानानां विप्राः सर्वेऽधिकारिणः ॥ २८ ॥
नान्यः समर्थो देवेशि गृह्णन्यात्यधमां गतिम् ॥
तपसा पावितो देवि ब्राह्मणो धृतकिल्विषः ॥ २९ ॥
न सीदेत्प्रतिगृह्णानः पृथिवीमनुसागराम्॥
नास्ति किंचिन्महादेवि दुष्कृतं ब्राह्मणस्य तु ॥ 7.1.106.३० ॥
यस्तु स्थितः सदाऽध्यात्मे नित्यं सद्भावभावितः ॥
ब्राह्मणो हि महद्भूतं जन्मना सह जायते ॥ ३१ ॥
लोके लोकेश्वराश्चापि सर्वे ब्राह्मणपूजकाः ॥
ततस्तान्नावमन्येत यदीच्छेज्जीवितं चिरम् ॥ ३२ ॥
ब्राह्मणाः कुपिता हन्युर्भस्मीकुर्युः स्वतेजसा ॥
लोकानन्यान्सृजेयुश्च लोकपालांस्तथाऽपरान् ॥ ३३ ॥
अपेयः सागरो यैश्च कृतः कोपान्महात्मभिः ॥
येषां कोपाग्निरद्यापि दंडके नोपशाम्यति ॥३४॥
एते स्वर्गस्य नेतारो देवदेवाः सनातनाः॥
एभिश्चापि कृतः पंथा देवयानः स उच्यते ॥ ३५ ॥
ते पूज्यास्ते नमस्कार्यास्तेषु सर्वं प्रतिष्ठितम् ॥
ते वै लोकानिमान्सर्वान्पारयंति परस्परम्॥३६॥
गूढस्वाध्यायतपसो ब्राह्मणाः शंसितव्रताः ॥
विद्यास्नाता व्रतस्नाता अनपाश्रित्य जीविनः॥३७॥
आशीविषा इव क्रुद्धा उपचर्या हि ब्राह्मणाः॥
तपसा दीप्यमानास्ते दहेयुः सागरानपि॥३८॥
ब्राह्मणेषु च तुष्टुषु तुष्यंते सर्वदेवताः॥
ते गतिः सर्वभूतानामध्यात्मगतिचिन्तकाः॥३९॥
आदिमध्यावसानानां ज्ञानानां छिन्नसंशयाः॥
परापरविशेषज्ञा नेतारः परमां गतिम् ॥
अवध्या ब्राह्मणास्तस्मात्पापेष्वपि रताः सदा ॥ 7.1.106.४० ॥
यश्च सर्वमिदं हन्याद्ब्राह्मणं चापि तत्समम् ॥
सोऽग्निः सोऽर्को महातेजा विषं भवति कोपितः ॥ ४१ ॥
भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ॥
न स्कन्दते न व्यथते न विनश्यति कर्हिचित्॥४२॥
वरिष्ठमग्निहोत्राद्धि ब्राह्मणस्य मुखे हुतम्॥
विप्राणां वपुराश्रित्य सर्वास्तिष्ठंति देवताः॥४३॥
अतः पूज्यास्तु ते विप्रा अलाभे प्रतिमादयः ॥ ४४ ॥
अविद्यो वा सविद्यो वा ब्राह्मणो मम दैवतम् ॥
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥ ४५ ॥
स्मशानेष्वपि तेजस्वी पावको नैव दुष्यति ॥
हव्यकव्यव्यपेतोऽपि ब्राह्मणो नैव दुष्यति ॥ ४६ ॥
महापातकवर्ज्यं हि पूज्यो विप्रो वरानने ॥
सर्वथा ब्राह्मणाः पूज्याः सर्वथा दैवतं महत् ॥
तस्मात्सर्वप्रयत्नेन रक्षेदापद्गतं द्विजम् ॥ ४७ ॥
एवं विप्रा महादेवि पूज्याः सर्वत्र मानवैः ॥
किं पुनः संजितात्मानो विशेषात्क्षेत्रवासिनः ॥ ४८ ॥
अथ क्षेत्रस्थितानां च चतुराश्रमवासिनाम् ॥
विप्राणां वृत्तितो भेदं प्रवक्ष्याम्यानुपूर्व्यशः ॥ ४९ ॥
क्षेत्रस्य संन्यासविधिं ये जानंति द्विजातयः ॥
वृत्तिभेदं क्रमाच्चैव ते क्षेत्रफलभागिनः ॥ 7.1.106.५० ॥
यथा क्षेत्रे निवसता वर्तितव्यं द्विजातिना ॥
प्राजापत्यादिभेदेन तच्छृणु त्वं वरानने ॥ ५१ ॥
प्राजापत्या महीपालाः कपोता ग्रंथिकास्तथा ॥
कुटिकाश्चाथ वैतालाः पद्महंसा वरानने ॥ ५२ ॥
धृतराष्ट्रा बकाः कंका गोपालाश्चैव भामिनि ॥
त्रुटिका मठराश्चैव गुटिका दंडिकाः परे ॥ ५३ ॥
क्षेत्रस्थानामिमे भेदा वृत्तिं तेषां शृणुष्व च ॥ ५४ ॥
अहिंसा गुरुशुश्रूषा स्वाध्यायः शौचसंयमः ॥
सत्यमस्तेयमेतद्धि प्राजापत्यं व्रतं स्मृतम् ॥ ५५ ॥
क्षयपुष्ट्यर्थविद्वेषकर्मभिः शांतिकादिभिः ॥
पालयंति महीं यस्मान्महीपालास्ततः स्मृताः ॥ ५६ ॥
पतिता ये कणा भूमौ संहरंति कपोतवत् ॥
उद्धृत्याजीवनं येषां कपोतास्ते तु साधकाः ॥ ५७ ॥
गृहं कृत्वा तु सद्ग्रंथाः सहसैव त्यजंति ये ॥
कुटिका साधकास्ते वै शिवाराधनतत्पराः ॥ ५८ ॥
तीर्थासक्ताः सपत्नीका यथालब्धोपजीविनः ॥
महासाहसयुक्तास्ते वैतालाख्यास्तु साधकाः ॥ ५९ ॥
संयताः कामनासक्ता राज्यकामार्थसाधकाः ॥
पद्मास्ते साधकाः ख्याता भिक्षाचर्यारताः सदा ॥ 7.1.106.६० ॥
ज्ञानयोगसमायुक्ता द्वैताचाररताश्च ये ॥
हंसास्ते साधकाः ख्याताः स्वयमुत्पन्नसंविदः ॥ ६१ ॥
ब्रह्मचर्येण सत्त्वेन तथाऽलुब्धतयापि वा ॥
जितं जगद्धारयन्तो धृतराष्ट्रा मतास्तु ये ॥ ६२ ॥
गूढाश्चरंति ये ज्ञानं व्रतं धर्ममथापि वा ॥
स्वार्थैकागतनिष्ठास्तु बकास्ते साधका मताः॥ ॥ ६३ ॥
जलाश्रयं समाश्रित्य स्थिता उत्कृष्टसिद्धये ॥
बिसशृंगाटकाहारास्ते कंकाः साधकाः स्मृताः ॥ ६४ ॥
गोभिः सार्द्धं व्रजंत्यत्र गोष्ठे च निवसंति ये ॥
पंचगव्यरसा ये वै गोपालास्ते तु साधकाः ॥ ६५ ॥
कृच्छ्रचांद्रायणैश्चैव क्षपयंति स्वकं वपुः ॥
त्रुटिमात्राशनास्ते तु त्रुटिकाः साधका मताः ॥ ६६ ॥
कृत्वा कुशमयीं पत्नीं मठे ये गृहमेधिनः ॥
भैक्षवृत्तिरताः शुद्धा मठरास्ते तु साधकाः ॥ ६७ ॥
ग्रासमात्रसमानाभिर्गुटिकाभिरथाष्टभिः ॥
कन्दमूलफलोत्थाभिर्गुटिकास्ते द्विजातयः ॥ ६८ ॥
स्वदेहदण्डनैर्युक्ता रात्रौ वीरासने स्थिताः ॥
दंडिनस्ते समाख्याताः सर्वमेतत्तवोदितम् ॥ ६९ ॥
सामान्योऽपि विशेषश्च वृत्तिनो गृहिणोऽपि वा ॥
तेषां भेदो मया ख्याताः सम्यक्क्षेत्रनिवासिनाम् ॥ 7.1.106.७० ॥
एवमादिधर्मयुक्ताः प्रभासक्षेत्रवासिनः ॥
तैः पूज्यो भगवान्देवो बालरूपी पितामहः ॥ ७१ ॥
महापातकिनो ये तु ये तु विप्रैर्बहिष्कृताः ॥
न च ते संस्पृशेयुर्वै ब्रह्माणं बालरूपिणम् ॥। ७२ ॥
ब्रह्मचारी सदा दांतो जितक्रोधो जितेंद्रियः ॥
एवं ते ब्राह्मणाः ख्याताः क्षेत्रमध्यनिवासिनः ॥ ७३ ॥
तैः पूज्यो भगवान्देवो बालरूपी पितामहः ॥
ये वेदाध्ययने युक्तास्तैः प्रपूज्यः पितामहः ॥ ॥ ७४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां ब्राह्मणप्रशंसा वर्णनंनाम षडुत्तरशततमोऽध्यायः ॥ १०६ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 107
॥ ईश्वर उवाच ॥ ॥
अथ पूजाविधानं ते कथयामि समासतः ॥
भक्तिभेदान्पृथक्तस्य ब्रह्मणो बालरूपिणः ॥ १ ॥
रथयात्राविधानं तु स्तोत्रमंत्रविधिक्रमम् ॥
विविधा भक्तिरुद्दिष्टा मनोवाक्कायसंभवा ॥ ॥ २ ॥
लौकिकी वैदिकी चापि भवेदाध्यात्मिकी तथा ॥
ध्यानधारणया या तु वेदानां स्मरणेन च ॥
ब्रह्मप्रीतिकरी चैषा मानसी भक्तिरुच्यते ॥ ३ ॥
मंत्रवेदनमस्कारैरग्निश्राद्धविधानकैः ॥
जाप्यैश्चारण्यकैश्चैव वाचिकी भक्तिरुच्यते ॥ ४ ॥
व्रतोपवासनियमैश्चितेंद्रियनिरोधिभिः ॥
कृच्छ्र सांतपनैश्चान्यैस्तथा चांद्रायणादिभिः ॥ ५ ॥
ब्रह्मोक्तैश्चोपवासैश्च तथान्यैश्च शुभव्रतैः ॥
कायिकी भक्तिराख्याता त्रिविधा तु द्विजन्मनाम् ॥ ६ ॥
गोघृतक्षीरदधिभिर्मध्विक्षुसुकुशोदकैः ॥
गंधमाल्यैश्च विविधैर्वस्तुभिश्चोपपादिभिः ॥ ७ ॥
घृतगुग्गुलधूपैश्च कृष्णागुरुसुगंधिभिः ॥
भूषणै हैमरत्नाद्यैश्चित्राभिः स्रग्भिरेव च ॥ ८ ॥
न्यासैः परिसरैः स्तोत्रैः पताकाभिस्तथोत्सवैः ॥
नृत्यवादित्रगीतैश्च सर्ववस्तूपहारकैः ॥ ९ ॥
भक्ष्यभोज्यान्न पानैश्च या पूजा क्रियते नरैः ॥
पितामहं समुद्दिश्य सा भक्तिर्लौकिकी मता ॥ 7.1.107.१० ॥
वेदमंत्रहविर्भागैः क्रिया या वैदिकी स्मृता ॥ ११ ॥
दर्शे च पौर्णमास्यां च कर्त्तव्यं चाग्निहोत्रजम् ॥
प्राशनं दक्षिणादानं पुरोडाश इति क्रिया ॥ १२ ॥
इष्टिर्धृतिः सोमपानं याज्ञियं कर्म सर्वशः ॥
ऋग्यजुः सामजाप्यानि संहिताध्ययनानि च ॥
क्रियते ब्रह्माणमुद्दिश्य सा भक्तिर्वेदिकोच्यते ॥ १३ ॥
प्राणायामपरो नित्यं ध्यानवान्विजितेंद्रियः ॥
भैक्ष्यभक्षी व्रती चापि सर्वप्रत्याहृतेंद्रियः ॥ १४ ॥
धारणं हृदये कृत्वा ध्यायमानः प्रजेश्वरम् ॥
हृत्पद्मकर्णिकासीनं रक्तवर्णं सुलोचनम् ॥१५॥
पश्यन्नुद्द्योतितमुखं ब्रह्माणं सुकटीतटम्॥
रक्तवर्णं चतुर्बाहुं वरदाभयहस्तकम्॥
एवं यश्चिंतयेद्देवं ब्रह्मभक्तः स उच्यते ॥ १६ ॥
विधिं च शृणु मे देवि यः स्मृतः क्षेत्रवासिनाम् ॥ १७ ॥
निर्ममा निरहंकारा निःसंगा निष्परिग्रहाः॥
चतुर्वर्गेपि निःस्नेहाः समलोष्टाश्मकांचनाः ॥१८॥
भूतानां कर्मभिर्नित्यं त्रिविधैरभयप्रदाः ॥
प्राणायामपरा नित्यं परध्यानपरायणाः ॥ १९ ॥
जापिनः शुचयो नित्यं यतिधर्मक्रियापराः ॥
सांख्ययोगविधिज्ञा ये धर्मविच्छिन्नसंशयाः ॥ 7.1.107.२० ॥
ब्रह्मपूजारता नित्यं ते विप्राः क्षेत्रवासिनः ॥
तैर्यथा पूजनीयो वै बालरूपी पितामहः ॥ २१ ॥
तथाहं कीर्त्तयिष्यामि शृणुष्वैकमनाः प्रिये ॥
स्नात्वा तु विमले तीर्थे शुक्लांबरधरः शुचिः॥
पूजोपहारसंयुक्तस्ततो ब्रह्माणमर्चयेत् ॥ २२ ॥
पूर्वं संस्नाप्य विधिना पंचामृतरसोदकैः ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ २३ ॥
गायत्र्या गृह्य गोमूत्रं गंधद्वारेति गोमयम् ॥
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥ २४ ॥
तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् ॥
आपोहिष्ठेति मंत्रेण पंचगव्येन स्नापयेत् ॥ २५ ॥
कपिलापंचगव्येन कुशवारियुतेन च ॥
स्नापयेन्मंत्रपूतेन ब्रह्मस्नानं हि तत्स्मृतम् ॥ २६ ॥
वर्षकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ॥
सुरज्येष्ठं तु संस्नाप्य दहेत्सर्वं न संशयः ॥ २७ ॥
एवं संस्नाप्य विधिना ब्रह्माणं बालरूपिणम् ॥
कर्पूरागरुतोयेन ततः संस्नापयेद्द्विजः ॥ २८ ॥
एवं कृत्वार्च्चयेद्देवं गायत्रीन्यासयोगतः ॥
मूर्ध्नः पादतलं यावत्प्रणवं विन्यसेद्बुधः ॥ २९ ॥
तकारं विन्यसेन्मूर्ध्नि सकारं मुखमण्डले ॥
विकारं कंठदेशे तु तुकारं चांगसंधिषु ॥ 7.1.107.३० ॥
वकारं हृदि मध्ये तु रेकारं पार्श्वयोर्द्वयोः ॥
णिकारं दक्षिणे कुक्षौ यकारं वामसंज्ञिते ॥ ३१ ॥
भकारं कटिनाभिस्थं गोकारं पार्श्वयोर्द्वयोः ॥
देकारं जानुनोर्न्यस्य वकारं पादपद्मयोः ॥ ३२ ॥
स्यकारमंगुष्ठयोर्न्यस्य धीकारमुरसि न्यसेत् ॥
मकारं जानुमूले तु हि कारं गुह्यमाश्रितम् ॥ ३३ ॥
धिकारं हृदये न्यस्य योकारं चाधरोष्ठके ॥
योकारं च तथैवान्यमुत्तरोष्ठे न्यसेत्सुधीः ॥ ३४ ॥
नकारं नासिकाग्रे तु प्रकारं नेत्रमाश्रितम् ॥
चोकारं च भ्रुवोर्मध्ये दकारं प्राणमाश्रितम् ॥ ३५ ॥
यात्कारं च ललाटांते विन्यसेद्वै सुरेश्वरि ॥
न्यासं कृत्वाऽऽत्मनो देहे देवे कुर्यात्तथा प्रिये ॥ ३६ ॥
सर्वोपहारसंपन्नं कृत्वा सम्यङ्निरीक्षयेत् ॥
कुंकुमागरुकर्पूरचंदनेन विमिश्रितम् ॥ ३७ ॥
गंधतोयैरुपस्कृत्य गायत्र्या प्रणवेन च ॥
प्रोक्षयेत्सर्वद्रव्याणि पश्चादर्चनमारभेत् ॥ ३८ ॥
दिव्यै पुष्पैः सुगंधैश्च मालतीकमलादिभिः ॥
अशोकैः शतपत्रैश्च बकुलैः पूजयेत्क्रमात् ॥ ३९ ॥
कृष्णागरुसुधूपेन घृतदीपैस्तथोत्तमैः ॥
ततः प्रदापयेत्तत्र नैवेद्यं विविधं क्रमात् ॥ 7.1.107.४० ॥
खण्डलड्डुकश्रीवेष्टकांसाराशोकपल्लवैः ॥
स्वस्तिकोल्लिपिकादुग्धा तिलवेष्टकिलाटिकाम् ॥ ४१ ॥
फलानि चैव पक्वानि मूलमंत्रेण दापयेत् ॥
ऋग्वेदं च यजुर्वेदं सामवेदं च पूजयेत् ॥ ४२ ॥
ज्ञानं वैराग्यमैश्वर्यं धर्मं संपूजयेद्बुधः ॥
ईशानादिक्रमाद्देवि दिशासु विदिशासु च ॥ ४३ ॥
चतुर्द्दशविद्यास्थानानि ब्रह्मणोऽग्रे प्रपूजयेत् ॥
हृदयानि ततो न्यस्य देवस्य पुरतः क्रमात् ॥ ४४ ॥
आपोहिष्ठेति ऋगियं हृदयं परिकीर्त्तितम् ॥
ऋतं सत्यं शिखा प्रोक्ता उदुत्यं नेत्रमादिशेत् ॥ ४५ ॥
चित्रं देवानामित्येवं सर्वलोकेषु विश्रुतम् ॥
ब्रह्मंस्ते छादयामीति कवचं समुदाहृतम् ॥ ४६ ॥
भूर्भुवः स्वरितीरेश पूजनं परिकीर्तितम् ॥
गायत्र्या पूजयेद्देवमोंकारेणाभिमंत्रितम्॥ ४७॥
प्रणवेनापरान्सर्वानृग्वेदादीन्प्रपूजयेत् ॥
गायत्री परमो मंत्रो वेदमाता विभावरी ॥ ४८ ॥
गायत्र्यक्षरतत्त्वैस्तु ब्रह्माणं यस्तु पूजयेत् ॥
उपोष्य पंचदश्यां तु स याति परमं पदम् ॥ ४९ ॥
संसारसागरं घोरमुत्तितीर्षुर्द्विजो यदि ॥
प्रभासे कार्त्तिके मासि ब्रह्माणं पूजयेत्सदा ॥ 7.1.107.५० ॥
यस्य दर्शनमात्रेण अश्वमेध फलं लभेत् ॥
कस्तं न पूजयेद्विद्वान्प्रभासे बालरूपिणम् ॥ ५१ ॥
यस्यैकदिवसप्रांते सदेवासुरमानवाः ॥
विलयं यांति देवेशि कस्तं न प्रतिपूजयेत् ॥ ५२ ॥
पिता यः सर्वदेवानां भूतानां च पितामहः ॥
यस्मादेष स तैः पूज्यो ब्राह्मणैः क्षेत्रवासिभिः ॥ ५३ ॥
रुद्ररूपी विश्वरूपी स एव भुवनेश्वरः ॥
पौर्णमास्यामुपोषित्वा ब्रह्माणं जगतां पतिम् ॥
अर्चयेद्यो विधानेन सोऽश्वमेधफलं लभेत् ॥ ५४ ॥
कार्त्तिके मासि देवस्य रथयात्रा प्रकीर्त्तिता ॥
यां कृत्वा मानवो भक्त्या याति ब्रह्मसलोकताम् ॥ ५५ ॥
कार्त्तिके मासि देवेशि पौर्णमास्यां चतुर्मुखम् ॥
मार्गेण चर्मणा सार्द्धं सावित्र्या च परंतपः ॥ ५६ ॥
भ्रामयेन्नगरं सर्वं नानावाद्यैः समन्वितम् ॥
स्थापयेद्भ्रामयित्वा तु सकलं नगरं नृपः ॥ ५७ ॥
ब्राह्मणान्भोजयित्वाग्रे शांडिलेयं प्रपूज्य च ॥
आरोपयेद्रथे देवं पुण्यवादित्रनिःस्वनैः ॥ ५८ ॥
रथाग्रे शांडिलीपुत्रं पूजयित्वा विधानतः ॥
ब्राह्मणान्वाचयित्वा च कृत्वा पुण्याहमंगलम् ॥ ५९ ॥
देवमारोपयित्वा तु रथे कुर्यात्प्रजागरम् ॥
नानाविधैः प्रेक्षणकैर्ब्रह्मशेषैश्च पुष्कलैः ॥ 7.1.107.६० ॥
नारोढव्यं रथे देवि शूद्रेण शुभमिच्छता ॥
नाधर्मेण विशेषेण मुक्त्वैकं भोजकं प्रिये ॥ ६१ ॥
ब्रह्मणो दक्षिणे पार्श्वे सावित्रीं स्थापयेत्प्रिये ॥
भोजकं वामपार्श्वे तु पुरतः पंकजं न्यसेत् ॥ ६२ ॥
एवं तूर्यनिनादैश्च शंखशब्दैश्च पुष्कलैः ॥
भ्रामयित्वा रथं देवि पुरं सर्वं च दक्षिणम् ॥
स्वस्थाने स्थापयेद्भूयः कृत्वा नीराजनं बुधः ॥ ६३ ॥
य एवं कुरुते यात्रां भक्त्या यश्चापि पश्यति ॥
रथं वाऽऽकर्षयेद्यस्तु स गच्छेद्ब्रह्मणः पदम् ॥ ६४ ॥
यो दीपं धारयेत्तत्र ब्रह्मणो रथपृष्ठगः ॥
पदेपदेऽश्वमेधस्य स फलं विंदते महत् ॥ ६५ ॥
यो न कारयते राजा रथयात्रां तु ब्रह्मणः ॥
स पच्यते महादेवि रौरवे कालमक्षयम् ॥ ६६ ॥
तस्मात्सर्वप्रयत्नेन राष्ट्रस्य क्षेममिच्छता ॥
रथयात्रां विशेषेण स्वयं राजा प्रवर्त्तयेत् ॥ ६७ ॥
प्रतिपद्ब्राह्मणांश्चापि भोजयेद्वि धिवत्सुधीः ॥
वासोभिरहतैश्चापि गन्धमाल्यानुलेपनैः ॥ ६८ ॥
कार्त्तिके मास्यमावास्यां यस्तु दीपप्रदीपनम् ॥
शालायां ब्रह्मणः कुर्यात्स गच्छेत्परमं पदम् ॥ ६९ ॥
उत्सवेषु च सर्वेषु सर्वकाले विशेषतः ॥
पूजयेयुरिमं विप्रा ब्रह्माणं जगतां गुरुम् ॥ 7.1.107.७०॥
यथाकृत्यप्रयोगेण सम्यक्छ्रद्धा समन्विताः ॥
पूज्यो दिव्योपचारेण यथावित्तानुसारतः ॥ ७१ ॥
एवं ते कथितं देवि पूजामाहात्म्यमुत्तमम् ॥
प्रभासक्षेत्रमाहात्म्यं ब्रह्मणः बालरूपिणः ॥ ७२ ॥
तस्याहं कथयिष्यामि नाम्नामष्टोत्तरं शतम् ॥
प्रदत्त्वा च पठित्वा च यज्ञायुतफलं लभेत् ॥ ७३ ॥
गायत्र्या लक्षजाप्येन सम्यग्जप्तेन यत्फलम् ॥
तत्फलं समवाप्नोति स्तोत्रस्यास्य उदीरणात् ॥ ७४ ॥
इदं स्तोत्रवरं दिव्यं रहस्यं पापनाशनम् ॥
न देयं दुष्टबुद्धीनां निन्दकानां तथैव च ॥ ७५ ॥
ब्राह्मणाय प्रदातव्यं श्रोत्रियाय महात्मने ॥
विष्णुना हि पुरा पृष्टं ब्रह्मणः स्तोत्रमुत्त्मम् ॥ ७६ ॥
केषुकेषु च स्थानेषु देवदेव पितामह ॥
संचिन्त्यस्तन्ममाचक्ष्व त्वं हि सर्वविदुत्तम ॥ ७७ ॥
॥ ब्रह्मोवाच ॥ ॥
पुष्करेऽहं सुरश्रेष्ठो गयायां प्रपितामहः।।
कान्यकुब्जे वेदगर्भो भृगुक्षेत्रे चतुर्मुखः ॥ ७८ ॥
कौबेर्यां सृष्टिकर्ता च नन्दिपुर्यां बृहस्पतिः ॥
प्रभासे बालरूपी च वाराणस्यां सुरप्रियः ॥७९॥
द्वारावत्यां चक्रदेवो वैदिशे भुवनाधिपः ॥
पौंड्रके पुण्डरीकाक्षः पीताक्षो हस्तिनापुरे ॥ 7.1.107.८० ॥
जयंत्यां विजयश्चासौ जयन्तः पुरुषोत्तमे ॥
वाडेषु पद्महस्तोऽहं तमोलिप्ते तमोनुदः ॥ ८१ ॥
आहिच्छत्र्यां जनानंदः काञ्चीपुर्यां जनप्रियः ॥
कर्णाटस्य पुरे ब्रह्मा ऋषिकुण्डे मुनिस्तथा ॥ ८२ ॥
श्रीकण्ठे श्रीनिवासश्च कामरूपे शुभंकरः ॥
उच्छ्रियाणे देवकर्त्ता स्रष्टा जालंधरे तथा ॥ ८३ ॥
मल्लिकाख्ये तथा विष्णुर्महेन्द्रे भार्गवस्तथा ॥
गोनर्दः स्थविराकारे ह्युज्जयिन्यां पितामहः ॥ ८४ ॥
कौशांब्यां तु महादेवो ह्ययोध्यायां तु राघवः ॥
विरंचिश्चित्रकूटे तु वाराहो विन्ध्यपर्वते ॥ ८५ ॥
गंगाद्वारे सुरश्रेष्ठो हिमवन्ते तु शंकरः ॥
देहिकायां स्रुचाहस्तः पद्महस्तस्तथाऽर्बुदे ॥८६ ॥
वृन्दावने पद्मनेत्रः कुश हस्तश्च नैमिषे ॥
गोपक्षेत्रे च गोविन्दः सुरेन्द्रो यमुनातटे ॥ ८७ ॥
भागीरथ्यां पद्मतनुर्जनानन्दो जनस्थले ॥
कौंकणे च स मध्वक्षः काम्पिल्ये कनकप्रभः ॥ ८८ ॥
खेटके चान्नदाता च शंभुश्चैव क्रतुस्थले ॥
लंकायां चैव पौलस्त्यः काश्मीरे हंसवाहनः ॥ ८९ ॥
वसिष्ठश्चार्बुदे चैव नारदश्चोत्पलावने ॥
मेधके श्रुतिदाता च प्रयागे यजुषां पतिः ॥ 7.1.107.९० ॥
शिवलिंगे सामवेदो मर्कटे च मधुप्रियः ॥
नारायणश्च गोमन्ते विदर्भायां द्विज प्रियः ॥ ९१ ॥
अंकुलके ब्रह्मगर्भो ब्रह्मवाहे सुतप्रियः ॥
इन्द्रप्रस्थे दुराधर्षश्चंपायां सुरमर्दनः ॥ ९२ ॥
विरजायां महारूपः सुरूपो राष्ट्रवर्धने ॥
कदंबके जनाध्यक्षो देवाध्यक्षः समस्थले ॥ ९३ ॥
गंगाधरो रुद्रपीठे सुपीठे जलदः स्मृतः ॥
त्र्यंबके त्रिपुरारिश्च श्रीशैले च त्रिलोचनः ॥ ९४ ॥
महादेवः प्लक्षपुरे कपाले वेधनाशनः ॥
शृङ्गवेरपुरे शौरिर्निमिषे चक्रधारकः ॥ ९५ ॥
नन्दिपुर्यां विरूपाक्षो गौतमः प्लक्षपादपे ॥
माल्यवान्हस्तिनाथे तु द्विजेन्द्रो वाचिके तथा ॥ ९६ ॥
इन्द्रपुर्यां दिवानाथो भूतिकायां पुरंदरः ॥
हंसबाहुश्च चन्द्रायां चंपायां गरुडप्रियः ॥ ९७ ॥
महोदये महायक्षः सुयज्ञः पूतके वने ॥
सिद्धेश्वरे शुक्लवर्णो विभायां पद्मबोधकः ॥ ९८ ॥
देवदारुवने लिंगी उदकेथ उमापतिः ॥
विनायको मातृस्थाने अलकायां धनाधिपः ॥ ९९ ॥
त्रिकूटे चैव गोविंदः पाताले वासुकिस्तथा ॥
कोविदारे युगाध्यक्षः स्त्रीराज्ये च सुरप्रियः ॥ 7.1.107.१०० ॥
पूर्णगिर्यां सुभोगश्च शाल्मल्यां तक्षकस्तथा ॥
अमरे पापहा चैव अंबिकायां सुदर्शनः ॥ १०१ ॥
नरवाप्यां महावीरः कान्तारे दुर्गनाशनः ॥
पद्मवत्यां पद्मगृहो गगने मृगलाञ्छनः ॥ १०२ ॥
अष्टोत्तरं नामशतं यत्रैतत्परिपठ्यते ॥
तत्रैव मम सांनिध्यं त्रिसंध्यं मधुसूदन ॥ १०३ ॥
तेषामपि यस्त्वेकं पश्येद्वै बालरूपिणम् ॥
सर्वेषां लभते पुण्यं पूर्वोक्तानां च वेधसाम् ॥१०४॥
एतैर्यो नामभिः कृष्ण प्रभासे स्तौति मां सदा ॥
स्थानं मे विजयं लब्ध्वा मोदते शाश्वतीः समाः ॥ १०५ ॥
मानसं वाचिकं चैव कायिकं चैव दुष्कृतम् ॥
तत्सर्वं नाशमायाति मम स्तोत्राऽनु कीर्तनात् ॥ १०६ ॥
पुष्पोपहौरर्धूपैश्च ब्राह्मणानां च तर्पणैः ॥
ध्यानेन च स्थिरेणाशु प्राप्यते यत्फलं नरैः ॥
तत्फलं समवाप्नोति मम स्तोत्रानु कीर्तनात् ॥ १०७ ॥
ब्रह्महत्यादिपापानि इह लोके कृतान्यपि ॥
अकामतः कामतो वा तानि नश्यंति तत्क्षणात् ॥ १०८ ॥
इदं स्तोत्रं ममाभीष्टं शृणुयाद्वा पठेच्च वा ॥
स मुक्तः पातकैः सर्वैः प्राप्नुयान्महदीप्सितम् ॥ १०९ ॥
अन्यद्रहस्यं ते वच्मि शृणु कृष्ण यथार्थतः ॥ 7.1.107.११० ॥
आग्नेयं तु यदा ऋक्षं कार्तिक्यां भवति क्वचित् ॥
महती सा तिथिर्ज्ञेया प्रभासे मम वल्लभा ॥ १११ ॥
प्राजापत्यं यदा ऋक्षं तिथौ तस्यां भवेद्यदि ॥
सा महाकार्तिकी पुण्या देवानामपि दुर्लभा ॥ ११२ ॥
मंदे वार्के गुरौ वाऽपि कार्तिकी कृत्तिकायुता ॥
तत्राश्वमेधिकं पुण्यं दृष्ट्वा वै बालरूपिणम् ॥ ॥ ११३ ॥
विशाखासु यदा सूर्यः कृत्तिकासु च चन्द्रमाः ॥
स योगः पद्मको नाम प्रभासे दुर्लभो हरे ॥ ११४ ॥
तस्मिन्योगे नरो दृष्ट्वा प्रभासे बालरूपिणम् ॥
पापकोटियुतो वाऽपि यमलोकं न पश्यति ॥ ११५ ॥
॥ ईश्वर उवाच ॥ ॥
इत्येवं कथितं स्तोत्रं ब्रह्मणा हरये पुनः ॥
मया तव समाख्यातं माहात्म्यं ब्रह्मदैवतम् ॥११६ ॥
सर्वपापहरं नृणां श्रुतं सर्वार्थसाधकम् ॥
भूमिदानं च दातव्यं तत्र यात्राफलेप्सुभिः ॥ ॥ ११७ ॥
कमंडलुः श्वेतवस्त्रं महादानानि षोडश ॥
तत्रैव देवि देयानि ब्रह्मणे बालरूपिणे ॥११८॥
महापर्वणि संप्राप्ते कुर्युः पारायणं द्विजाः ॥
सर्वे ते ब्राह्मणा देवि क्षेत्रमध्यनिवासिनः ॥ ११९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये बालरूपिब्रह्मणो माहात्म्यवर्णनंनाम सप्तोत्तरशततमोऽध्यायः ॥ १०७ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 108
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि वसूनां लिंगमुत्तमम् ॥
सोमेशादीशदिग्भागे पञ्चाशद्धनुषान्तरे ॥ १ ॥
स्थितं लिंगं महादेवि चतुर्वक्त्रं सुरप्रियम् ॥
प्रत्यूषेश्वरनामानं महापातकनाशनम् ॥ ॥ २ ॥
दर्शनात्तस्य देवस्य सप्तजन्मान्तरोद्भवम्॥
पापं प्रणाशमायाति सत्यंसत्यं वरानने ॥ ३ ॥
॥ देव्युवाच ॥ ॥
कोऽसौ प्रत्यूषनामेति कथं लिंगं प्रतिष्ठितम्॥
कस्य पुत्रः स विख्यात एतन्मे वद शंकर ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
दक्षो ब्रह्मसुतो देवि प्रजापतिरिति स्मृतः ॥
तस्य कन्याः पुरा षष्टिर्ददौ धर्माय वै दश ॥ ५ ॥
तासां मध्ये महादेवि एका विश्वेति विश्रुता ॥
सा धर्माच्च महादेवि अष्टावजनयत्सुतान् ॥ ६ ॥
आपो ध्रुवश्च सोमश्च धरश्चैवाऽनलोऽनिलः ॥
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ ७ ॥
तेषां मध्ये सप्तमोऽसौ प्रत्यूष इति विश्रुतः ॥
स पुत्रकामो देवेशि प्रभासं क्षेत्रमागतः ॥ ८ ॥
स ज्ञात्वा कामिकं क्षेत्रं प्रतिष्ठाप्य महेश्वरम् ॥
तपश्चचार विपुलं दिव्यं वर्षशतं प्रिये ॥
ध्यायन्देवं महादेवं शान्तस्तद्गतमानसः ॥ ९ ॥
ततस्तुष्टो महादेवस्तस्य भक्त्या निरञ्जनः ॥
ददौ तस्य सुतं देवि देवलं योगिनां वरम् ॥ 7.1.108.१० ॥
ततः प्रभृति देवेशि तल्लिंगस्य प्रभावतः ॥
देवलो भगवान्योगी प्रत्यूषस्याऽभवत्सुतः ॥ ११ ॥
अनेन कारणेनासौ प्रत्यूषेश्वरसंज्ञितः ॥ १२ ॥
यश्चानपत्यः पुरुषस्तं समाराधयिष्यति ॥
तस्यान्ववाये देवेशि संततिर्न विनश्यति ॥ १३ ॥
यः प्रत्यूषे महादेवि प्रत्यूषेश्वरमुत्तमम् ॥
पूजयिष्यति सद्भक्त्या सततं नियतात्मवान् ॥
तस्यैष्यति क्षयं पापमपि ब्रह्मवधोद्भवम ॥ १४ ॥
वृषस्तत्रैव दातव्यः सम्यग्यात्राफलेप्सुभिः ॥ १५ ॥
माघे कृष्णचतुर्द्दश्यां जागृयात्तत्र वै निशि ॥
सर्वेषां दानयज्ञानां फलं जागरणाल्लभेत् ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभाससक्षेत्रमाहात्म्ये प्रत्यूषेश्वरमाहात्म्यवर्णनंनामाष्टोत्तरशततमोऽध्यायः ॥ १०८ ॥
प्रत्यूषोपरि संक्षिप्त टिप्पणी
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 109
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि अनिलेश्वरमुत्तमम्॥
तस्योत्तरेशानदिक्स्थं धनुषां त्रितये प्रिये ॥ १ ॥
लिंगं महाप्रभावं हि दर्शनात्पापनाशनम् ॥
वसूनां पञ्चमो योऽसावनिलः परिकीर्तितः ॥ २ ॥
स चाऽऽराध्य महादेवं प्रत्यक्षीकृतवान्भवम् ॥
लिंगं प्रतिष्ठयामास सम्यक्छ्रद्धासमन्वितः ॥ ३ ॥
एवमीशप्रभावेन सुतस्तस्याऽप्यभूद्बली ॥
मनोजवेति विख्यातो ह्यविज्ञातगतिस्तथा ॥ ४ ॥
तं दृष्ट्वा व्याधिना मर्त्यो पीड्यते न कदाचन ॥
नान्धो न बधिरो मूको न रोगी न च निर्धनः ॥
कदाचिज्जायते मर्त्यस्तेन दृष्टेन भूतले ॥ ५ ॥
पुष्पमेकं तु यो दद्यात्तस्य लिंगस्य चोपरि ॥
सुखसौभाग्यसंपन्नः स सदा रूपवान्भवेत् ॥ ६ ॥
इत्येवं कथितं देवि माहात्म्यं पापनाशनम्॥
श्रुत्वाऽनुमोद्य भावेन सर्वकामैः समृद्ध्यते ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ऽनिलेश्वरमाहात्म्यवर्णनंनाम नवोत्तरशतत मोऽध्यायः ॥१०९॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 110
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेद्वरारोहे प्रभासेश्वरमुत्तमम् ॥
गौरीतपोवनाद्देवि पश्चिमे समुदाहृतम् ॥१॥
धनुषां सप्तके देवि नातिदूरे व्यवस्थितम् ॥
स्थापितं तन्महालिंगं वसूनामष्टमेन हि ॥ २ ॥
प्रभास इति नाम्ना हि शिवपूजारतेन वै ॥
स पुत्रकामो देवेशि प्रभासक्षेत्रमागतः ॥३॥
प्रतिष्ठाप्य महालिङ्गं चचार विपुलं तपः ॥
आग्नेयमिति विख्यातं दिव्याब्दानां शतं प्रिये ॥ ४ ॥
ततस्तस्य महादेवि सम्यक्छ्रद्धान्वि तस्य वै ॥
तुतोष भगवान्रुद्रो ददौ यन्मनसीप्सितम् ॥५॥
बृहस्पतेस्तु भगिनी भुवना ब्रह्मवादिनी ॥
प्रभासस्य तु सा भार्या वसूनामष्टमस्य च ॥ ॥६॥
विश्वकर्मा सुतस्तस्याः सृष्टिकर्ता प्रजापतिः॥
देवानां तक्षको विद्वान्मनोर्मातामहः स्मृतः ॥७॥
तक्षकः सूर्यबिंबस्य तेजसः शातनो महान्॥
एवं तस्याऽभवत्पुत्रो वसूनामष्टमस्य वै ॥ ८ ॥
प्रभासनाम्नो देवेशि तल्लिंगाराधनोद्यतः ॥
इति ते कथितं देवि प्रभासेश्वरसूचकम् ॥ ९ ॥
माहात्म्यं सर्वपापघ्नं सर्वकामप्रदं शुभम् ॥
यस्तं पूजयते भक्त्या सम्यक्छ्रद्धासमन्वितः ॥ 7.1.110.१० ॥
भूमिशायी निराहारो जपन्वै शतरुद्रियम् ॥
माघे मासि चतुर्दश्यां स्नात्वा सागरसंगमे ॥ ११ ॥
पंचामृतेन संस्नाप्य पूजयित्वा विधानतः ॥ १२ ॥
य एवं कुरुते देवि सम्यग्यात्रामहोत्सवम् ॥
स मुक्तः पातकैः सर्वैः सर्वकामैः समृद्ध्यते ॥
वृषस्तत्रैव दातव्यः सम्यग्यात्राफलेप्सुभिः ॥ १३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रभासेश्वरमाहात्म्यवर्णनंनाम दशोत्तरशततमोऽध्यायः ॥ ११० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 111
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि पुष्करारण्यमुत्तमम् ॥
तस्मादीशानकोणस्थं धनुषां षष्टिभिः स्थितम् ॥ १ ॥
तत्र कुण्डं महादेवि ह्यष्टपुष्करसंज्ञितम् ॥
सर्व पापहरं देवि दुष्प्राप्यमकृतात्मभिः ॥ २ ॥
तत्र कुण्डसमीपे तु पुरा रामेशधीमता ।।
स्थापितं तन्महालिङ्गं रामेश्वर इति स्मृतम् ॥ ३ ॥
तस्य पूजनमात्रेण मुच्यते ब्रह्महत्यया ॥ ४ ॥
॥ श्रीदेव्युवाच ॥ ॥
भगवन्विस्तराद्ब्रूहि रामेश्वरसमुद्भवम् ॥
कथं तत्रागमद्रामः ससीतश्च सलक्ष्मणः ॥ ५ ॥
कथं प्रतिष्ठितं लिङ्गं पुष्करे पापतस्करे ॥
एतद्विस्तरतो ब्रूहि फलं माहात्म्यसंयुतम् ॥ ६ ॥
॥ ईश्वर उवाच ॥ ॥
चतुर्विंशयुगे रामो वसिष्ठेन पुरोधसा ॥
पुरा रावणनाशार्थं जज्ञे दशरथात्मजः ॥ ७ ॥
ततः कालान्तरे देवि ऋषिशापान्महातपाः ॥
ययौ दाशरथी रामः ससीतः सहलक्ष्मणः ॥ ८ ॥
वनवासाय निष्क्रांतो दिव्यैर्ब्रह्मर्षिभिर्वृतः ॥
ततो यात्राप्रसंगेन प्रभासं क्षेत्रमागतः ॥ ९ ॥
तं देशं तु समासाद्य सुश्रांतो निषसाद ह ॥
अस्तं गते ततः सूर्ये पर्णान्यास्तीर्य भूतले ॥ 7.1.111.१० ॥
सुष्वापाथ निशाशेषे ददृशे पितरं स्वकम् ॥
स्वप्ने दशरथं देवि सौम्यरूपं महाप्रभम् ॥ ११ ॥
प्रातरुत्थाय तत्सर्वं ब्राह्मणेभ्यो न्यवेदयत् ॥
यथा दशरथः स्वप्ने दृष्टस्तेन महात्मना ॥ १२ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
वृद्धिकामाश्च पितरो वरदास्तव राघव ॥
दर्शनं हि प्रयच्छंति स्वप्नान्ते हि स्ववंशजे ॥ १३ ॥
एतत्तीर्थं महापुण्यं सुगुप्तं शार्ङ्गधन्वनः ॥
पुष्करेति समाख्यातं श्राद्धमत्र प्रदीयताम् ॥ १४ ॥
नूनं दशरथो राजा तीर्थे चास्मिन्समीहते ॥
त्वया दत्तं शुभं पिण्डं ततः स दर्शनं गतः ॥ १५ ॥
॥ ईश्वर उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा रामो राजीवलोचनः ॥
निमंत्रयामास तदा श्राद्धार्हान्ब्राह्मणाञ्छुभान् ॥ १६ ॥
अब्रवील्लक्ष्मणं पार्श्वे स्थितं विनतकंधरम् ॥
फलार्थं व्रज सौमित्रे श्राद्धार्थं त्वरयाऽन्वितः ॥ १७ ॥
स तथेति प्रतिज्ञाय जगाम रघुनंदनः ॥
आनयामास शीघ्रं स फलानि विविधानि च ॥ १८ ॥
बिल्वानि च कपित्थानि तिन्दुकानि च भूरिशः ॥
बदराणि करीराणि करमर्दानि च प्रिये ॥ १९ ॥
चिर्भटानि परूषाणि मातुलिंगानि वै तथा ॥
नालिकेराणि शुभ्राणि इंगुदीसंभवानि च ॥ 7.1.111.२० ॥
अथैतानि पपाचाशु सीता जनकनंदिनी ॥
ततस्तु कुतपे काले स्नात्वा वल्कलभृच्छुचिः ॥ २१ ॥
ब्राह्मणानानयामास श्राद्धार्हान्द्विजसत्तमान् ॥
गालवो देवलो रैभ्यो यवक्रीतोऽथ पर्वतः ॥ २२ ॥
भरद्वाजो वसिष्ठश्च जावालिर्गौतमो भृगुः ॥
एते चान्ये च बहवो ब्राह्मणा वेदपारगाः ॥ २३ ॥
श्राद्धार्थं तस्य संप्राप्ता रामस्याक्लिष्टकर्मणः ॥
एतस्मिन्नेव काले तु रामः सीतामभाषत ॥ २४ ॥
एहि वैदेहि विप्राणां देहि पादावनेजनम् ॥
एतच्छ्रुत्वाऽथ सा सीता प्रविष्टा वृक्षमध्यतः ॥ २५ ॥
गुल्मैराच्छाद्य चात्मानं रामस्यादर्शने स्थिता ॥
मुहुर्मुहुर्यदा रामः सीतासीतामभाषत ॥ २६ ॥
ज्ञात्वा तां लक्ष्मणो नष्टां कोपाविष्टं च राघवम् ॥
स्वयमेव तदा चक्रे ब्राह्मणार्ह प्रतिक्रियाम् ॥ ॥ २७ ॥
अथ भुक्तेषु विप्रेषु कृत पिंडप्रदानके ॥
आगता जानकी सीता यत्र रामो व्यवस्थितः ॥ २८ ॥
तां दृष्ट्वा परुषैर्वाक्यैर्भर्त्सयामास राघवः ॥
धिग्धिक्पापे द्विजांस्त्यक्त्वा पितृकृत्यमहोदयम् ॥
क्व गताऽसि च मां हित्वा श्राद्धकाले ह्युपस्थिते ॥ २९ ॥
॥ ईश्वर उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा भयभीता च जानकी ॥ 7.1.111.३० ॥
कृताञ्जलिपुटा भूत्वा वेपमाना ह्यभाषत ॥
मा कोपं कुरु कल्याण मा मां निर्भर्त्सय प्रभो ॥ ३१ ॥
शृणु यस्माद्विभोऽन्यत्र गता त्यक्त्वा तवान्तिकम् ॥
दृष्टस्तत्र पिता मेऽद्य तथा चैव पितामहः ॥ ३२ ॥
तस्य पूर्वतरश्चापि तथा मातामहादयः ॥
अंगेषु ब्राह्मणेन्द्राणामाक्रान्तास्ते पृथक्पृथक् ॥ ३३ ॥
ततो लज्जा समभवत्तत्र मे रघुनन्दन ॥
पित्रा तत्र महाबाहो मनोज्ञानि शुभानि च ॥ ३४ ॥
भक्ष्याणि भक्षितान्येव यानि वै गुणवन्ति च ॥
स कथं सुकषायाणि क्षाराणि कटुकानि च ॥
भक्षयिष्यति राजेन्द्र ततो मे दुःखमाविशत्॥ ३६ ॥
एतस्मात्कारणान्नष्टा लज्जयाऽहं रघूद्वह ॥
दृष्ट्वा श्वशुरवर्गं स्वं तस्मात्कोपं परित्यज ॥ ३६ ॥
तस्यास्तद्वचनं श्रुत्वा विस्मितो राघवोऽभवत् ॥
विशेषेण ददौ तस्मिञ्छ्राद्धं तीर्थे तु पुष्करे ॥ ३७ ॥
तत्र पुष्करसान्निध्ये दक्षिणे धनुषां त्रये ॥
लिंगं प्रतिष्ठयामास रामेश्वरमिति श्रुतम् ॥ ३५ ॥
यस्तं पूजयते भक्त्या गन्धपुष्पादिभिः क्रमात् ॥
स प्राप्नोति परं स्थानं य्रत्र देवो जनार्दनः ॥ ३९ ॥
किमत्र बहुनोक्तेन द्वादश्यां यत्प्रदापयेत् ॥
न तत्र परिसंख्यानं त्रिषु लोकेषु विद्यते ॥ 7.1.111.४० ॥
शुक्रांगारकसंयुक्ता चतुर्थी या भवेत्क्वचित् ॥
षष्ठी वात्र वरारोहे तत्र श्राद्धे महत्फलम् ॥ ४१ ॥
यावद्द्वादशवर्षाणि पितरश्च पितामहाः ॥
तर्पिता नान्यमिच्छन्ति पुष्करे स्वकुलोद्भवे ॥ ४२ ॥
तत्र यो वाजिनं दद्यात्सम्यग्भक्तिसमन्वितः ॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ४३ ॥
इति ते कथितं सम्यङ्माहात्म्यं पापनाशनम् ॥
रामेश्वरस्य देवस्य पुष्करस्य च भामिनि ॥ ४४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्करमाहात्म्ये रामेश्वरक्षेत्रमाहात्म्यवर्णनंनामैकादशोत्तरशततमोऽध्यायः ॥ १११ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 112
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लक्ष्मणेश्वरमुत्तमम् ॥
रामेशात्पूर्वदिग्भागे धनुस्त्रिंशकसंस्थितम् ॥ १ ॥
स्थापितं लक्ष्मणेनैव तत्र यात्रागतेन वै ॥
महापापहरं देवि तल्लिंगं सुरपूजितम् ॥ २ ॥
यस्तं पूजयते भक्त्या नृत्यगीतादिवादनैः ॥
होमजाप्यैः समाधिस्थः स याति परमां गतिम् ॥ ३ ॥
अन्नोदकं हिरण्यं च तत्र देयं द्विजातये ॥
संपूज्य देवदेवेशं गंधपुष्पादिभिः क्रमात् ॥ ॥ ४ ॥
माघे कृष्णचतुर्दश्यां विशेषस्तत्र पूजने ॥
स्नानं दानं जपस्तत्र भवेदक्षयकारकम् ॥ ५ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रामेश्वरक्षेत्रमाहात्म्ये लक्ष्मणेश्वरमाहात्म्यवर्णनंनाम द्वादशोत्तरशततमो ऽध्यायः ॥ ११२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 113
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि जानकीश्वरमुत्तमम् ॥
रामेशान्नैऋते भागे धनुस्त्रिंशकसंस्थितम् ॥ १ ॥
पापघ्नं सर्वजंतूनां जानक्याऽऽराधितं पुरा ॥
प्रतिष्ठितं विशेषेण सम्यगाराध्यशंकरम् ॥ २ ॥
पूर्वं तस्यैव लिंगस्य वसिष्ठेशेति नाम वै ॥
तत्पश्चाज्जानकीशेति त्रेतायां प्रथितं क्षितौ ॥ ३ ॥
ततः षष्टिसहस्राणि वालखिल्या महर्षयः ॥
तत्र सिद्धिमनुप्राप्तास्तेन सिद्धेश्वरेति च ॥ ॥ ४ ॥
ख्यातं कलौ महादेवि युगलिंगं महाप्रभम्॥
तद्दृष्ट्वा मुच्यते पापैर्दुःखदौर्भाग्यसंभवैः ॥ ५ ॥
यस्तं पूजयते भक्त्या नारी वा पुरुषोऽपि वा ॥
संस्नाप्य विधिवद्भक्त्या स मुक्तः पातकैर्भवेत् ॥ ६ ॥
स्नात्वा च पुष्करे तीर्थे यस्तल्लिगं प्रपूजयेत् ॥
नियतो नियताहारो मासमेकं निरन्तरम्॥ ७ ॥
दिनेदिने भवेत्तस्य वाजिमेधाधिकं फलम् ॥
माघे मासि तृतीयायां या नारी तं प्रपूजयेत् ॥
तदन्वयेऽपि दौर्भाग्यं दुःखं शोकश्च नो भवेत् ॥ ८ ॥
इति ते कथितं देवि माहात्म्यं पापनाशनम् ॥
श्रुतं हरति पापानि सौभाग्यं संप्रयच्छति ॥ ९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जानकीश्वरमाहात्म्यवर्णनंनाम त्रयोदशोत्तरशततमोऽध्यायः ॥ ॥ ११३ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 114
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विष्णुं पापप्रणाशनम् ॥
वामनस्वामिनामानं सर्वपातकनाशनम् ॥ १ ॥
पुष्करान्नैर्ऋते भागे धनुर्विशतिभिः स्मृतम् ॥
यदा बद्धो बलिर्देवि विष्णुना प्रभविष्णुना ॥ २ ॥
तदा तत्र पदं न्यस्तं दक्षिणं विश्वरूपिणा ॥
द्वितीयं मेरुशृंगे तु तृतीयं गगने प्रिये ॥ ३ ॥
यावदूर्ध्वं चोत्क्षिपति तावद्भिन्नं सुदूरतः ॥
पादाग्रेण तु ब्रह्माण्डं निष्क्रान्तं सलिलं ततः ॥ ४ ॥
ततः स्वजानुमात्रेण संप्राप्तं पृथिवीतले ॥
ततो विष्णुपदी गंगा प्रसिद्धिमगमत्क्षितौ ॥ ५ ॥
पूर्वं सा पुष्करे प्राप्ता पुष्करात्सा महानदी ॥
पुष्करं कथ्यते व्योम पुष्करं कथ्यते जलम् ॥
तेन तत्पुष्करं ख्यातं संनिधानं प्रजापतेः ॥ ६ ॥
तत्र स्नानं नरः कृत्वा यः पश्यति हरेः पदम् ॥
स याति परमं स्थानं यत्र देवो हरिः स्वयम् ॥ ७ ॥
तत्र पिंडप्रदानेन तृप्तिः स्यात्कोटिवार्षिकी ॥
पितॄणां च वरारोहे ह्येतदाह हरिः स्वयम् ॥ ८ ॥
अत्र गाथा पुरा गीता वसिष्ठेन महर्षिणा ॥
वामनस्वामिनं दृष्ट्वा तां शृणुष्व समाहिता ॥ ९ ॥
स्नात्वा तु पुष्करे तीर्थे दृष्ट्वा विष्णुपदं ततः ॥
अपि कृत्वा महत्पापं किमतः परितप्यते ॥ 7.1.114.१० ॥
यस्तत्रोपानहौ दद्याद्ब्राह्मणाय यतव्रतः ॥
स यानवरमारूढो विष्णुलोके महीयते ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्र माहात्म्ये वामनस्वामिमाहात्म्यवर्णनंनाम चतुर्दशोत्तरशततमोऽध्यायः ॥ ११४ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 115
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि पुष्करेश्वरमुत्तमम् ॥
तस्यैव दक्षिणे भागे जानकीश्वरमुत्तमम् ॥ १ ॥
लिंगं महाप्रभावं तु ब्रह्मपुत्रेण पूजितम् ॥
सनत्कुमारमुनिना श्रद्धया हेम पुष्करैः ॥ २ ॥
पूजितं तद्विधानेन तेन तत्पुष्करेश्वरम् ॥
ख्यातं तत्र वरारोहे सर्वपातकनाशनम् ॥ ३ ॥
यस्तं पूजयते भक्त्या गंषपुष्पादिभिः क्रमात् ॥
यात्रा कृता भवेत्तेन पौष्करी नात्र संशयः ॥ ४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वामनस्वामिमाहात्म्ये पुष्करेश्वरमाहात्म्यवर्णनंनाम पञ्चदशोत्तरशततमोऽध्यायः ॥ ११५ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 116
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवीं सौभाग्यकारिणीम् ॥
कुण्डेश्वरीति विख्यातां पुष्कराद्वायुगोचरे ॥ १ ॥
धनुषां त्रिंशता देवि भूतनाथाच्च नैर्ऋते ॥
संस्थिता पापदमनी दारिद्र्यौघविनाशिनी ॥ २ ॥
तस्या नैर्ऋतदिग्भागे धनुःपञ्चदशे स्थितम् ॥
शंखोदकंनाम कुण्डं सर्वपातकनाशनम् ॥ ३ ॥
तत्र स्नात्वा तु ये मर्त्या नारी वा शुभवारिणि ॥
पूजयेत्तां महादेवि शंखावर्तेति विश्रुताम् ॥ ४ ॥
कलौ कुण्डेश्वरीनाम सर्वसौख्यप्रदायिनी ॥
शंखो नाम पुरा देवि विष्णुना निहतः प्रिये ॥ ५ ॥
तस्य देहं समादाय महान्तं शंखरूपिणम् ॥
तीर्थोदकेन संपूर्य प्रभासं क्षेत्रमागतः ॥ ६ ॥
तत्र शंखं तु प्रक्षाल्य कृतं तीर्थं महाप्रभम् ॥
तत्र पूरितवाञ्छङ्खं मेघगम्भीरनिस्वनम् ॥७ ॥
तस्य नादेन महता देवी तत्र समागता ॥
पृच्छती कारणं तत्र तत्कुण्डस्य समीपगा ॥
तेन कुण्डेश्वरी ख्याता कुण्डं शंखोदकं स्मृतम् ॥ ८ ॥
माघे मासि तृतीयायां यस्तां पूजयते नरः ॥
नारी वा भक्तिसंयुक्ता स गौरीपदमाप्नुयात् ॥ ९ ॥
दंपत्योर्भोजनं तत्र देयं यात्राफलेप्सुभिः ॥
कञ्चुकं फलदानं च गौरिणीनां च भोजनम् ॥ 7.1.116.१० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंखोदककुण्डेश्वरीगौरीमाहात्म्यवर्णनंनाम षोडशोत्तरशततमोऽध्यायः ॥ ११६ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 117
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि भूतनाथेश्वरं हरम्॥
कुण्डेश्वर्या ईशभागे धनुषां विंशकेऽन्तरे ॥ १ ॥
कल्पलिंगं महादेवि ह्यनादिनिधनं स्थितम् ॥
पूर्वं त्रेतायुगे देवि वीरभद्रेश्वरीति च ॥ २ ॥
प्रख्यातं भुवि देवेशि कलौ भूतेश्वरं स्मृतम् ॥
पुरा द्वापरसंधौ च तत्र भूतानि कोटिशः ॥३॥
संसिद्धिं परमां जग्मुस्तल्लिंगस्य प्रभावतः ॥
तेन भूतेश्वरं नाम प्रख्यातं धरणीतले॥ ॥ ४ ॥
तत्र कृष्णचतुर्द्दश्यां रात्रौ संपूज्य शंकरम् ॥
दक्षिणां दिशमाश्रित्य अघोरं पूजयेत्तु यः ॥ ५ ॥
दृढं जितेन्द्रियो भूत्वा निर्भयो ध्यानसंयु तः ॥
तस्यैव जायते सिद्धिर्या काचिद्भूतले स्थिता ॥ ६ ॥
तिलहेमप्रदानं च पिण्डदानं च तत्र वै ॥
पितॄनुद्दिश्य दद्याद्वै तेषां प्रेतत्वमुक्तये ॥ ॥ ७ ॥
इति निगदितमेतद्भूतनाथेश्वरस्य प्रचुरकलिमलानां नाशनं पुण्यहेतुः ॥
पठति च पुरुषो वा यः शृणोतीह भक्त्या सुरवरमहिमानं मुच्यते पातकौघैः ॥ ८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुंडेश्वरी माहात्म्ये भूतनाथेश्वरमाहात्म्यवर्णनंनाम सप्तदशोत्तरशततमोऽध्यायः ॥ ११७ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 118
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गोप्यादित्यमनुत्तमम् ॥
भूतेशाद्वायवे भागे धनुषां त्रिंशकेन्तरे ॥ १ ॥
बलातिबलदैत्यघ्न्या दक्षिणाग्नेयसंस्थितम् ॥
धनुषां दशके देवि संस्थितं पापनाशनम् ॥ २ ॥
तस्योत्पत्तिं प्रवक्ष्यामि महापापहरां शुभाम् ॥
यां श्रुत्वा मानवो भक्त्या दुःखशोकैः प्रमुच्यते ॥ ३ ॥
पुरा कृष्णो महातेजा यदा प्रभासमागतः ॥
सहितो यादवैः सर्वैः षट्पञ्चाशतिकोटिभिः ॥ ४ ॥
षोडशैव सहस्राणि गोप्यस्तत्र समागताः ॥
लक्षमेकं तथा षष्टिरेते कृष्णसुताः प्रिये ॥ ५ ॥
तत्र प्राभासिके क्षेत्रे संस्थिताः पापनाशने ॥
यादवस्थलमासाद्य यावद्रैवतको गिरि ॥ ६ ॥
तत्र द्वादशवर्षाणि संस्थितास्ते महाबलाः ॥
क्षेत्रं पवित्रमादाय शिवलिंगानि ते पृथक् ॥
स्थापयाञ्चक्रिरे सर्वे ह्यंकितानि स्वनामभिः ॥ ७ ॥
एवं समग्रं तत्क्षेत्रं यावद्द्वादशयोजनम् ॥
ध्वजलिंगांकितं चक्रुः सर्वे यादवपुंगवाः ॥ ८ ॥
हस्तहस्तान्तरे देवि प्रासादाः क्षेत्र मध्यतः ॥
सुवर्णकलशोपेताः पताकाकुलितांबराः ॥
विराजंते तु तत्रस्थाः कीर्तिस्तंभा हरेरिव ॥ ९ ॥
ततो गोप्यो महादेवि आद्या याः षोडश स्मृताः ॥
तासां नामानि ते वक्ष्ये तानि ह्मेकमनाः शृणु ॥ 7.1.118.१० ॥
लंबिनी चन्द्रिका कान्ता क्रूरा शान्ता महोदया ॥
भीषणी नन्दिनीऽशोका सुपर्णा विमलाऽक्षया ॥ ११ ॥
शुभदा शोभना पुण्या हंसस्यैताः कलाः स्मृताः ॥
हंस एव मतः कृष्णः परमात्मा जनार्दनः ॥ १२ ॥
तस्यैताः शक्तयो देवि षोडशैव प्रकीर्तिताः ॥
चन्द्ररूपी ततः कृष्णः कलारूपास्तु ताः स्मृताः ॥ १३ ॥
संपूर्णमण्डला तासां मालिनी षोडशी कला ॥
प्रतिपत्तिथिमारभ्य विचरत्यासु चन्द्रमाः ॥ १४ ॥
षोडशैव कला यास्ता गोपीरूपा वरानने ॥
एकैकशस्ताः संभिन्नाः सहस्रेण पृथक्पृथक् ॥ १५ ॥
एवं ते कथितं देवि रहस्यं ज्ञानसंभवम् ॥
एवं यो वेद पुरुषः स ज्ञेयो वैष्णवो बुधैः ॥ १६ ॥
अथ ताभिः कृताञ्ज्ञात्वा प्रासादान्यादवैः पृथक् ॥
ततो गोप्योऽपि ताः सर्वाः सहस्राणि तु षोडश ॥
कृष्णमाज्ञाप्य भावेन स्थापयांचक्रिरे रविम् ॥ १७ ॥
ऋषिभिर्नारदाद्यैस्तास्तथा क्षेत्रनिवासिभिः ॥
तं प्रतिष्ठापयामासुः प्रतिष्ठाविधिना रविम् ॥ १८ ॥
प्रतिष्ठिते ततः सूर्ये ददुर्दानानि भूरिशः ॥
ततः क्षेत्रनिवासिभ्यो गोभूहेमांबराणि च ॥ १९ ॥
ततस्त ऋषयः सर्वे संतुष्टा हृष्टमानसाः ॥
चक्रुर्नाम रवेस्तत्र गोप्यादित्येति विश्रुतम्॥
सर्वपाप हरं देवं महासौभाग्यदायकम् ॥ 7.1.118.२० ॥
एवं कृते कृतार्थास्ताः संप्राप्यातिमहद्यशः ॥
जग्मुर्यथागतं सर्वा द्वारकां कृष्णसंयुताः ॥ २१ ॥
पुनः कालान्तरे देवि शापाद्दुर्वाससः प्रिये ॥
यादवस्थलतां प्राप्ताः प्रभासे पापनाशने ॥ २२ ॥
एवं ते कथितो देवि गोप्यादित्यसमुद्भवः ॥
माहात्म्यं तस्य ते वच्मि पूजावन्दनजं क्रमात् ॥ २३ ॥
अस्मिन्मित्रवने देवि यो गोपीभिः प्रतिष्ठितः ॥
तस्य दर्शनमात्रेण दुःखशोकैः प्रमुच्यते ॥ २४ ॥
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः ॥
तां गतिं ते नरा यान्ति ये गोपीरविमाश्रिताः ॥ २५ ॥
येन सर्वात्मना भावो गोप्यादित्ये निवेशितः ॥
महेश्वरि कृतार्थत्वात्स श्लाघ्यो धन्य एव सः ॥ २६ ॥
अपि नः स कुले धन्यो जायते कुलपावनः ॥
भाग्यवान्भक्तिभावेन येन भानुरुपासितः ॥ २७ ॥
सप्तम्यां पूजयेद्यस्तु माघे मास्युषसि प्रिये ॥
सप्तावरान्सप्त पूर्वान्पितॄन्सोप्युद्धरेन्नरः ॥ २८ ॥
छिनत्ति रोगान्दुश्चेष्टान्दुर्जयाञ्जयति ह्यरीन् ॥ २९ ॥
न सप्तम्यां स्पृशेत्तैलं नीलवस्त्रं न धारयेत् ॥
न चाप्यामलकैः स्नानं न कुर्यात्कलहं क्वचित् ॥ 7.1.118.३० ॥
नीलरक्तेन वस्त्रेण यत्कर्म कुरुते द्विजः ॥
स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ॥
वृथा तस्य महायज्ञा नीलसूत्रस्य धारणात् ॥ ३१ ॥
नीलीरक्तं यदा वस्त्रं विप्रस्त्वंगेषु धारयेत् ॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ ३२ ॥
रोमकूपे यदा गच्छेद्रसं नीलस्य कस्यचित् ॥
पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रैर्व्यपोहति ॥ ३३ ॥
नीलमध्यं यदा गच्छेत्प्रमादाद्ब्राह्मणः क्वचित् ॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ ३४ ॥
नीलदारु यदा भिद्येद्ब्राह्मणानां शरीरके ॥
शोणितं दृश्यते तत्र द्विजश्चान्द्रायणं चरेत् ॥ ३५ ॥
कुर्यादज्ञानतो यस्तु नीलं वै दन्तधावनम् ॥
कृत्वा कृच्छ्रद्वयं तस्य शुद्धिरुक्ता मनीषिभिः ॥ ३६ ॥
इत्येतत्कथितं देवि गोप्यादित्यमहोदय ॥
पापघ्नं सर्वजन्तूनां श्रुतं सर्वार्थसाधकम् ॥ ॥ ३७ ॥
गवां शतसहस्रैस्तु दत्तैर्यत्कुरुजांगले ॥
पुण्यं भवति देवेशि तद्गोप्यादित्यदर्शने ॥ ३८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गोप्यादित्यमाहात्म्यवर्णनंनामाष्टादशोत्तरशततमोऽध्यायः ॥ ११८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 119
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि महादेवीं महाप्रभाम् ॥
बलातिबलदैत्यघ्नीं नाम्नेति प्रथितां क्षितौ ॥ १ ॥
अनादिनिधनां देवीं तत्र क्षेत्रे व्यवस्थिताम् ॥
कोटिभूतपरीवारां सर्वदैत्यनिबर्हिणीम् ॥ २ ॥
॥ देव्युवाच ॥ ॥
बलातिबलदैत्यघ्नी कथमुक्ता त्वया प्रभो ॥
बलातिबलनामानौ कथं दैत्यौ निपातितौ ॥ ३ ॥
कुत्र तिष्ठति सा देवी किंप्रभावा महेश्वर ॥
माहात्म्यमखिलं तस्याः सर्वं विस्तरतो वद ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशनीम् ॥
यां श्रुत्वा मानवो भक्त्या मुच्यते सर्वपातकैः ॥ ५ ॥
आसीद्रक्तासुरोनाम महिषस्य सुतो बली ॥
महाकायो महाबाहुर्हिरण्याक्ष इवापरः ॥ ६ ॥
बलातिबल नामानौ तस्य पुत्रौ बभूवतुः ॥
तौ विजित्य सुरान्सर्वान्देवेन्द्राग्निपुरोगमान् ॥ ७ ॥
त्रैलोक्येऽस्मिन्निरातंकौ चक्रतू राज्यमञ्जसा ॥
तयोः सेना मुखे वीरास्त्रयस्त्रिंशत्प्रकीर्तिताः ॥ ८ ॥
रौद्रात्मानो महायोधाः सहस्राक्षौहिणीमुखाः ॥
सिंहस्कन्धा महाकाया दुरात्मानो महाबलाः ॥ ९ ॥
धूम्राक्षो भीमदंष्ट्रश्च कालवश्यो महाहनुः ॥
ब्रह्मघ्नो यज्ञकोपश्च स्त्रीघ्नः पापनिकेतनः ॥ 7.1.119.१० ॥
विद्युन्माली च बन्धूकः शंकुकर्णो विभावसुः ॥
देवांतको विकर्मा च दुर्भिक्ष क्रूर एव च ॥ ११ ॥
हयग्रीवोऽश्वकर्णश्च केतुमान्वृषभो द्विजः ॥
शरभः शलभो व्याघ्रो निकुंभो मणिको बकः ॥ १२ ॥
शूर्पको विक्षरो माली कालो दण्डककेरलः ॥
एते दैत्या महाकायास्तयोः सेनाधिकारिणः ॥ १३ ॥
एवं तैः पृथिवी व्याप्ता पञ्चाशत्कोटि विस्तरा ॥
एवं ज्ञात्वा तदा देवा भयेनोद्विग्नमानसाः ॥ १४ ॥
सर्वैर्देवर्षिभिः सार्धं जग्मुस्ते हिमवद्वनम् ॥
स्तोत्रेणानेन तां देवीं तुष्टुवुः प्रयतास्तदा ॥ १५ ॥
॥ देवा ऊचुः ॥ ॥
जयाक्षरे जयाऽनंते जयाऽव्यक्ते निरामये ॥
जय देवि महामाये जय देवर्षिवंदिते ॥ १६ ॥
जय विश्वेश्वरे गंगे जय सर्वार्थसिद्धिदे ॥
जय ब्रह्माणि कौमारि जय नारायणीश्वरि ॥ १७ ॥
जय ब्रह्माणि चामुंडे जयेन्द्राणि महेश्वरि ॥
जय मातर्महालक्ष्मि जय पार्वति सर्वगे ॥ १८ ॥
जय देवि जगत्सृष्टे जयैरावति भारति ॥
जयानंते जय जये जय देवि जलाविले ॥ १९ ॥
जयेशानि शिवे शर्वे जय नित्यं जयार्चिते ॥
मोक्षदे जय सर्वज्ञे जय धर्मार्थकामदे ॥ 7.1.119.२० ॥
जय गायत्रि कल्याणि जय सह्ये विभावरि ॥
जय दुर्गे महाकालि शिव दूति जयाऽजये ॥ २१ ॥
जय चण्डे महामुण्डे जय नन्दे शिवप्रिये ॥
जय क्षेमंकरि शिवे जय कल्याणि रेवति ॥ २२ ॥
जयोमे सिद्धिमांगल्ये हरसिद्धे नमोस्तु ते ॥
जयापर्णे जयानन्दे महिषाऽसुरघातिनि ॥ २३ ॥
जय मेधे विशालाक्षि जयानंगे सरस्वति ॥
जयाशेषगुणावासे जयावर्ते सुरान्तके ॥ २४ ॥
जय संकल्पसंसिद्धे जय त्रैलोक्यसुंदरि ॥
जय शुंभनिशुंभघ्ने जय पद्मेऽद्रिसंभवे ॥ २५ ॥
जय कौशिकि कौमारि जय वारुणि कामदे ॥
नमोनमस्ते शर्वाणि भूयोभूयो जयाम्बिके ॥ २६ ॥
त्राहि नस्त्राहि नो देवि शरण्ये शरणागतान् ॥ २७ ॥
सैवं स्तुता भगवती देवैः सर्वैर्वरानने ॥
आत्मानं दर्शयामास भाभासितदिगन्तरम् ॥ २८ ॥
नमस्कृत्य तु तामूचुः सुरास्ते भयनाशनीम् ॥
बलातिबलनामानौ हत्वा दैत्यौ महाबलौ ॥
तेषां चैव महत्सैन्यं पाह्यतो महतो भयात् ॥ २९ ॥
तेषां तद्वचनं श्रुत्वा दत्त्वा तेभ्योऽभयं ततः ॥
बभूवाद्भुतरूपा सा त्रिनेत्रा चेन्दुशेखरा ॥7.1.119.३०॥
सिंहारूढा महादेवि नानाशस्त्रास्त्रधारिणी ॥
सुवक्त्रा विंशतिभुजा स्फूर्जद्विद्युल्लतोपमा ॥३१॥
ततों ऽबिका निनादोच्चैः साट्टहासं मुहुर्मुहुः ॥ ३२ ॥
तस्या नादेन घोरेण कृत्स्नमापूरितं नभः ॥
प्रकंपिताखिला चोर्वी सरिद्वारिधिमेखला ॥ ३३ ॥
शैलतुंगस्तनी रम्या प्रमदेव भयातुरा ॥
तेऽपि तत्रासुराः प्राप्ताश्चतुरंगबलान्विताः ॥ ३४ ॥
सम्यग्विदितविक्रान्ताः कालान्तकयमोपमाः ॥
रक्षो दानवदैत्याश्च पाताले येऽपि संस्थिताः ॥ ३५ ॥
ते सर्व एव दैत्येन्द्राः कोटिशः समुपागताः ॥
ततोऽभवन्महायुद्धं देव्यास्तत्रासुरैः सह ॥ ३६ ॥
बभूव सर्वब्रह्माण्डे ह्यकाण्डक्षयकारणम् ॥
अक्षौहिणीसहस्राणि त्रयस्त्रिंशत्सुरेश्वरि ॥ ३७ ॥
एकविंशत्सहस्राणि शतान्यष्टौ च सप्ततिः ॥
सानुगानां सयोधानां रथानां वातरंहसाम् ॥ ३८ ॥
हत्वा सा लीलया देवी निन्ये क्षयमनाकुला ॥ ३९ ॥
ततो देव्या हतानां च दानवानां महौजसाम् ॥
गजवाजिरथानां च शरीरैरावृता मही ॥ 7.1.119.४० ॥
कबंधनृत्यसंकुले स्रवद्वसास्थिकर्द्दमे ॥
रणाजिरे निशाचरास्ततो विचेरुरूर्जिताः ॥ ४१ ॥
शृगाल गृधवायसाः परं प्रपातमादधुः ॥
क्वचित्परे निशाचराः प्रपीतशोणितोत्कटाः ॥
प्रतर्प्य चात्मनः पितॄन्समर्चयंस्तथा ऋषीन् ॥ ४२ ॥
गजान्नरांस्तुरंगमान्बभक्षिरे सुनिर्घृणाः ॥
रथोडुपैस्तथा परे तरंति शोणितार्णवम् ॥ ४३ ॥
इति प्रगाढसंगरे सुरारिसंघसंकुले ॥
विराजतेऽम्बिका धनुः शराऽसिशूलधारिणी ॥ ४४ ॥
गजेन्द्रदर्पमर्द्दनी तुरंगयूथपोथिनी ॥
सुरारिसैन्यनाशिनी इतस्ततः प्रपश्यती ॥ ४५ ॥
सिंहाष्टकयुक्ते महा प्रेतके भूधरहंसशुभ्रोज्जलद्भास्वराभे वृषभसमाने मानिनीमथो ते दैत्येन्द्रवीराः पश्यंतः समुद्भूतरोषास्ततोऽपि जग्मुर्नदन्तो रवन्तो रवं मेघनादाः ॥ ४६ ॥
हाहाकारं विकुर्वाणा हन्यमानास्ततोऽसुराः ॥
केचित्समुद्रं विविशुरद्रीन्केचिच्च दानवाः ॥ ४७ ॥
केचिल्लुञ्चितमूर्धानो जाल्मा भूत्वा वनेऽवसन् ॥
दयाधर्मं ब्रुवाणाश्च निर्ग्रंथव्रतमास्थिताः ॥ ४८ ॥
केचित्प्राणपरा भीताः पाखण्डाश्रममास्थिताः ॥
हेतुवादपरा मूढा निःशौचा निरपेक्षकाः ॥ ४९ ॥
ते चाद्यापीह दृश्यन्ते लोके क्षपणकाः किल ॥
तथैव भिन्दकाश्चान्ये शिवशास्त्रबहिष्कृताः ॥ 7.1.119.५० ॥
केचित्कौलव्रता ह्यस्मिन्दृश्यन्ते सकलैर्जनैः॥
सुरास्त्रीमांसभूयिष्ठा विकर्मस्थाश्च लिङ्गिनः ॥ ५१ ॥
प्रायो नैष्कृतिकाः पापा जिह्वोपस्थपरायणा॥
एवं देव्या हताः सर्वे बलातिबलसंयुताः॥५२॥
प्रभासं क्षेत्रमासाद्य संस्थिता सा तदाम्बिका॥
योगिनीनां चतुःषष्ट्या संयुता पापनाशिनी॥
बलातिबलनाशीति प्रभासे प्रथिता क्षितौ॥५३॥
देव्युवाच॥
चतुःषष्टिस्त्वया प्रोक्ता योगिन्यो याः सुरेश्वर॥
तासां नामानि मे ब्रूहि सर्वपापहराणि च॥ ५४॥
॥ ॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि योगिनीनां महोदयम् ॥
सर्वरक्षाकरं दिव्यं महाभयविनाशनम् ॥ ५५ ॥
आदौ तत्र महालक्ष्मीर्नंदा क्षेमंकरी तथा ॥
शिवदूती महाभद्रा भ्रामरी चन्द्रमण्डला ॥ ५६ ॥
रेवती हरसिद्धिश्च दुर्गा विषमलोचना ॥
सहजा कुलजा कुब्जा मायावी शांभवी क्रिया ॥ ५७ ॥
आद्या सर्वगता शुद्धा भावगम्या मनोतिगा ॥
विद्याविद्या महामाया सुषुम्ना सर्वमंगला ॥ ५८ ॥
ॐकारात्मा महादेवि वेदार्थजननी शिवा ॥
पुराणान्वीक्षिकी दीक्षा चामुण्डा शंकरप्रिया ॥ ५९ ॥
ब्राह्मी शांतिकरी गौरी ब्रह्मण्या ब्राह्मणप्रिया ॥
भद्रा भगवती कृष्णा ग्रहनक्षत्रमालिनी ॥ 7.1.119.६० ॥
त्रिपुरा त्वरिता नित्या सांख्या कुंडलिनी ध्रुवा ॥
कल्याणी शोभना निरया निष्कला परमा कला ॥ ६१ ॥
योगिनी योगसद्भावा योगगम्या गुहाशया ॥
कात्यायनी उमा शर्वा ह्यपर्णेति प्रकीर्तिता ॥ ६२ ॥
चतुःषष्टिर्महादेवि एवं ते परिकीर्तिताः ॥
स्तोत्रेणानेन दिव्येन भक्त्या यः स्तौति चंडिकाम् ॥ ६३ ॥
तं पुत्रमिव शर्वाणी सर्वापत्स्वभिरक्षति ॥
चतुर्दश्यामथाष्टम्यां नवम्यां च विशेषतः ॥ ६४ ॥
उपवासैकभक्तेन तथैवायाचितेन च ॥
गृहीतनियमा देवि ये जपंति च चंडिकाम् ॥ ६५ ॥
वर्षार्धं वर्षमेकं वा सिद्धास्ते तत्त्वचारिणः ॥
आश्वयुक्छुक्लपक्षे च मन्वादिष्वष्टकासु च ॥ ६६ ॥
कृत्वा महोत्सवं देवीं यजेच्छ्रेयोऽभिवृद्धये ॥
पादुके धारयेद्देव्या दुर्गाभक्तो हिरण्मये ॥ ६७ ॥
प्रमादविघ्नशांत्यर्थं क्षुरिकां च सदा पुमान् ॥
पशुमांसासवैश्चैवमासुरं भावमाश्रिताः ॥ ६८ ॥
ये यजन्त्यम्बिकां ते स्युर्दैत्या ऐश्वर्यभोगिनः ॥
देवत्वं सात्त्विका यांति सात्त्विकीं भक्तिमास्थिताः ॥ ६९ ॥
एतत्ते कथितं देवि माहात्म्यं पापनाशनम् ॥
बलातिबलनाशिन्या देव्या सर्वार्थसाधकम् ॥
प्रभासक्षेत्रसंस्थायाः संक्षेपात्कीर्तिवर्धनम् ॥ ७० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बलातिबलदैत्यघ्नीमाहात्म्यवर्णनंनामैकोनविंशत्युत्तरशततमोऽध्यायः ॥ ११९ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 120
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गोपीश्वरमनुत्तमम् ॥
बलातिबलदैत्यघ्न्या उत्तरे धनुषां त्रये ॥ १ ॥
संस्थितं पापशमनं गोपीभिः संप्रतिष्ठितम् ॥
समाराध्य महादेवं पुत्रहेतोर्महेश्वरम् ॥
सर्वकामप्रदं नॄणां पूजितं संततिप्रदम् ॥ २ ॥
चैत्रशुक्लतृतीयायां यस्तं पूजयते नरः ॥
गंध पुष्पोपहारैश्च स प्राप्नोतीप्सितं फलम् ॥ ३ ॥
एवं संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥
गोपीश्वरस्य देवस्य प्रभासक्षेत्रवासिनः ॥ ४ ॥
इति श्री स्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बलातिबलदैत्यघ्नीमाहात्म्ये गोपीश्वर माहात्म्यवर्णनंनाम विंशत्युत्तरशततमोऽध्यायः ॥ १२० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 121
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि रामेश्वरमनुत्तमम् ॥
जामदग्न्येन रामेण स्वयं तत्र प्रतिष्ठितम् ॥ १ ॥
गोपीश्वराच्च वायव्ये धनुषां त्रिंशकेऽन्तरे ॥
स्थितं महाप्रभावं हि लिंगं पातकनाशनम् ॥ २ ॥
यदा रामेण देवेशि जमदग्निसुतेन वै ॥
कृतो मातृवधो घोरः पितुराज्ञानुवर्तिना ॥ ३ ॥
तदा मनसि संतापं कृत्वा निर्वेदमागतः ॥
ततः प्रसन्नतां यातो जमदग्निर्महातपाः ॥ ४ ॥
ददौ वरं ततस्तुष्टो रेणुकायाश्च जीवितम् ॥
एवं यद्यपि सा तत्र जीविता वरवर्णिनी ॥ ५ ॥
तथापि सघृणो देवि जामदग्न्यो महाप्रभः ॥
प्रभासं क्षेत्रमासाद्य तपश्चक्रे ततोऽद्भुतम् ॥ ६ ॥
प्रतिष्ठाप्य महादेवं शंकरं लोकशंकरम् ॥
दिव्यं वर्षशतं साग्रं ततस्तुष्टो महेश्वरः ॥ ७ ॥
ददौ तस्येप्सितं सर्वं स्वयं तत्रैव संस्थितः ॥
ततः कृतार्थतां प्राप्तो जामदग्न्यो महाऋषिः ॥ ८ ॥
त्रिःसप्तकृत्वः पृथिवीं जित्वा हत्वा च क्षत्रियान् ॥
कृत्वा पंचनदं तत्र कुरुक्षेत्रे महामनाः ॥ ९ ॥
रक्तैः संपूर्णतां नीत्वा क्षत्रियाणां वरानने ॥
आनृण्यं समनु प्राप्तः पितॄणां यो महाबलः ॥ 7.1.121.१० ॥
एवं क्षत्त्रान्तकं कृत्वा दत्त्वा विप्रेषु मेदिनीम् ॥
कृतार्थतामनुप्राप्तस्त्रैलोक्ये ख्यातपौरुषः ॥ ११ ॥
तेन तत्स्थापितं लिंगं क्षेत्रे प्राभासिके शुभे ॥
यस्तं पूजयते भक्त्या पापयुक्तोऽपि मानवः ॥
स मुक्तः पातकैः सर्वैर्याति लोकमुमापतेः ॥ १२ ॥
ज्येष्ठकृष्णचतुर्दश्यां जागृयात्तत्र यो नरः ॥
सोऽश्वमेधफलं प्राप्य मोदते दिवि देववत् ॥ १३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जामदग्न्येश्वरमाहात्म्यवर्णनं- नामैकविंशत्युत्तरशततमोऽध्यायः ॥ १२१ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 122
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं चित्रांगदेश्वरम् ॥
तस्यैव नैर्ऋते भागे धनुर्विंशतिभिः स्थितम्॥ १ ॥
चित्रांगदेन देवेशि गंधर्वपतिना प्रिये ॥
क्षेत्रं पवित्रं ज्ञात्वा वै लिंगं तत्र प्रतिष्ठितम् ॥
कृत्वा तपो महाघोरं समाराध्य महेश्वरम् ॥ २ ॥
अथ यो भावसंयुक्तस्तल्लिगं संप्रपूजयेत् ॥
गांधर्वलोकमाप्नोति गन्धर्वैः सह मोदते ॥ ३ ॥
तत्र शुक्लत्रयोदश्यां संस्नाप्य विधिना शिवम् ॥
पूजयेद्विविधैः पुष्पैर्गंधधूपैरनु क्रमात् ॥
स प्राप्नोत्यखिलं कामं मनसा यद्यदीप्सितम् ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये चित्रांगदेश्वरमाहात्म्यवर्णनंनाम द्वाविंशत्युत्तरशततमोऽध्यायः ॥ १२२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 123
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि रावणेश्वरमुत्तमम् ॥
तस्माद्दक्षिणनैर्ऋत्ये धनुषां षोडशे स्थितम् ॥ १ ॥
प्रतिष्ठितं दशास्येन सर्वपातकनाशनम् ॥
पौलस्त्यो रावणो देवि राक्षसस्तु सुदारुणः ॥ २ ॥
त्रैलोक्यविजयाकाङ्क्षी पुष्पकेण चचार ह ॥
कस्यचित्त्वथ कालस्य विमानं तस्य पुष्पकम्॥ ३॥।
व्रजद्वै व्योममार्गेण निश्चलं सहसाऽभवत् ॥
स्तंभितं पुष्पकं दृष्ट्वा रावणो विस्मयान्वितः ॥ ४ ॥
प्रहस्तं प्रेषयामास किमिदं व्रज मेदिनीम् ॥
अहताऽस्य गतिर्यस्मात्त्रैलोक्ये सचराचरे ॥ ५ ॥
तत्कस्मान्निश्चलं जातं विमानं पुष्पकं मम ॥
अथाऽसौ सत्वरो देवि जगाम वसुधातले ॥ ६ ॥
अपश्यद्देवदेवेशं श्रीसोमेशं महाप्रभम् ॥
स्तूयमानं सुरगणैः शतशोऽथ सहस्रशः ॥ ७ ॥
तं दृष्ट्वा राक्षसे न्द्राय तत्सर्वं विस्तरात्प्रिये ॥
प्रहस्तः कथयामास यद्दृष्टं क्षेत्रमध्यतः ॥ ८ ॥
॥ प्रहस्त उवाच ॥ ॥
राक्षसेश महाबाहो शिवक्षेत्रं निजं प्रभो ॥
प्रभासेति समाख्यातं गणगन्धर्वसेवितम् ॥ ९ ॥
तत्र सोमेश्वरो देवः स्वयं तिष्ठति शङ्करः ॥
अब्भक्षैर्वायुभक्षैश्च दंतोलूखलिभिस्तथा ॥
ऋषिभिर्वालखिल्यैश्च पूज्यमानः समंततः ॥ 7.1.123.१० ॥
प्रभावात्तस्य देवस्य नेदं गच्छति पुष्पकम् ॥
न स प्रालंघ्यते देवो ह्यलंघ्यो यः सुरासुरैः ॥ ११ ॥
॥ ईश्वर उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा विस्मयोत्फुल्ललोचनः ॥
अवतीर्य धरापृष्ठं सोमेशं समपश्यत ॥ १२ ॥
पूजयामास देवेशि भक्त्या परमया युतः ॥
रत्नैर्बहुविधैर्वस्त्रैर्गन्धपुष्पानुलेपनैः ॥ १३ ॥
अथ पौरजना दृष्ट्वा रावणं राक्षसेश्वरम् ॥
सर्वदिक्षु वरारोहे भयाद्भीताः प्रदुद्रुवुः ॥ १४ ॥
शून्यं समभवत्सर्वं तत्र देवो व्यवस्थितः ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥ १५ ॥
दशग्रीव महाबाहो अयने चोत्तरे तथा ॥
यात्राकाले तु देवस्य सर्वपापप्रणाशने ॥ १६ ॥
दूरतः समनुप्राप्ता भूरिलोका द्विजातयः ॥
राक्षसानां भयाद्भीताः प्रयांति हि दिशो दश ॥ १७ ॥
भयान्मा त्वं राक्षसेन्द्र यात्राविघ्नकरो भव ॥
बाल्ये वयसि यत्पापं वार्द्धक्ये यौवनेऽपि च ॥
तत्सर्वं क्षालयेन्मर्त्यो दृष्ट्वा सोमेश्वरं प्रभुम् ॥ १८ ॥
ततोऽसौ राक्षसेन्द्रस्तु गत्वैकान्ते सुगह्वरे ॥
लिंगं च स्थापयामास भक्त्या परमया युतः ॥ १९ ॥
ततस्तन्निरतो भूत्वा सर्वैस्तै राक्षसेश्वरः ॥
पूजयामास देवेशि उपवासपरायणः ॥ 7.1.123.२० ॥
चकार पुरतस्तस्य गीतवाद्येन जागरम् ॥
ततोऽर्धरात्रसमये वागुवाचाशरीरिणी ॥ २१ ॥
दशग्रीव महाबाहो परितुष्टोऽस्मि तेऽनघ ॥
मम प्रसादात्त्रैलोक्यं वशगं ते भविष्यति ॥
अत्र संनिहितो नित्यं स्थास्याम्यहमसंशयम् ॥ ॥ २२ ॥
ये चैतत्पूजयिष्यंति लिंगं भक्तियुता नराः ॥
अजेयास्ते भविष्यंति शत्रूणां राक्षसेश्वर ॥ २३ ॥
यास्यंति परमां सिद्धिं मत्प्रसादादसंशयम् ॥
एवमुक्त्वा वरारोहे विरराम वृषध्वजः ॥ २४ ॥
रावणोऽपि स संतुष्टो भूयोभूयो महेश्वरम् ॥
पूजयित्वा च तल्लिंगं समारुह्य च पुष्पकम् ॥
त्रैलोक्यविजयाकांक्षी इष्टं देशं जगाम ह ॥ २५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रावणेश्वरमाहात्म्यवर्णनंनाम त्रयोर्विशत्युत्तरशततमोऽध्यायः ॥ १२३ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 124
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गौरीं सौभाग्यदायिनीम् ॥
पश्चिमे रावणेशस्य धनुषां पञ्चके स्थिताम् ॥ १ ॥
यत्रातप्यत्तपो घोरं स्वयं देवी ह्यरुंधती ॥
सौभाग्यं कांक्षमाणा सा गौरीपूजापरायणा ॥ २ ॥
संप्राप्ता परमां सिद्धिं तस्या देव्याः प्रभावतः ॥
तृतीयायां शुक्लपक्षे माघे मासि वरानने ॥ ३ ॥
यस्तां पूजयते भक्त्या स सौभाग्यमवाप्नुयात्॥
अन्यजन्मनि देवेशि नात्र कार्या विचारणा ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये सौभाग्येश्वरीमाहात्म्यवर्णनंनाम चतुर्विशत्युत्तरशततमोऽध्यायः ॥१२४॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 125
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महालिंगं महादेवि सुरप्रियम् ॥
रावणेश्वरवायव्ये धनुषां त्रिंशकेऽन्तरे ॥ १ ॥
स्थितं कामप्रदं लिंगं सर्वपातकनाशनम् ॥
पौलोमीश्वरनामाढचं पौलोम्या संप्रतिष्ठितम् ॥ २ ॥
तारकेण यदा ध्वस्तास्त्रिदशाः संगरे स्थिताः ॥
त्रैलोक्यं विहृतं सर्वं स्वयमिन्द्रत्वमागतः ॥ ३ ॥
तदा शक्रः सुदुःखार्तो भयोद्विग्नो ननाश वै ॥
तदा तद्भार्यया देवि इन्द्राण्या शोककर्षया ॥ ४ ॥
इन्द्रस्य जयमिच्छन्त्या शंभुराराधितस्तया ॥
ततस्तुष्टो महादेवस्तामुवाच शुभेक्षणाम्॥ ५ ॥
॥ भगवानुवाच ॥ ॥
उत्पत्स्यति सुतोऽस्माकं षण्मुखस्तु महाबलः ॥
तारकं दैत्यराजानं स चैनं घातयिष्यति ॥ ६ ॥
गच्छ त्वं विज्वरा भूत्वा शृणु भूयो वचश्च मे ॥ ७ ॥
अत्र स्थितमिदं लिंगं योऽस्माकं पूजयिष्यति ॥
स नूनं मे गणो भूत्वा मत्सकाशमुपेष्यति ॥ ८ ॥
एवमुक्ता गता साध्वी देवराड्यत्र संस्थितः ॥
सर्वद्दुःखविनिर्मुक्ता सर्वदैत्यभयोज्झिता ॥ ९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पौलोमोश्वरमाहात्म्यवर्णनंनाम पञ्चविंशत्युत्तरशततमोऽध्यायः ॥ १२५ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 126
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि शांडिल्येश्वरमुत्तमम् ॥
ब्रह्मणः पश्चिमे भागे धनुषां षोडशांतरे ॥ १ ॥
महाप्रभावं लिङ्गं तद्दर्शनात्पापनाशनम् ॥ २ ॥
शांडिल्योनाम ब्रह्मर्षिः सारथिर्ब्रह्मणः स्मृतः ॥
तपस्वी स महातेजा ज्ञाननिष्ठो जितेन्द्रियः ॥ ३ ॥
स प्रभासं समासाद्य तपस्तेपे सुदारुणम् ॥
प्रतिष्ठाप्य महालिंगं सोमेशादुत्तरे स्थितम् ॥ ४ ॥
स स्वयं पूजयामास दिव्याब्दानां शतं प्रिये ॥
ततोऽभिलषितं प्राप्य कृतकृत्यो बभूव ह ॥ ५ ॥
नन्दीश्वरप्रसादेन अणिमादिगुणैर्युतः ॥
तं दृष्ट्वा तु नरः सद्यो विपापः संप्रजायते ॥ ६ ॥
बाल्ये वयसि यत्पापं वार्धक्ये यौवनेऽपि वा ॥
अज्ञानाज्ज्ञानतो वाऽपि यः करोति नरः प्रिये ॥
तत्सर्वं नाशमायाति शांडिल्येश्वरदर्शनात् ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये शाण्डिल्येश्वरमाहात्म्यवर्णनंनाम षड्विंशत्युत्तरशततमोऽध्यायः ॥ १२६ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 127
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि क्षेमेश्वरमनुत्तमम् ॥
तस्मादुत्तरकोणस्थं कपालेशाग्निगोचरे ॥ १ ॥
धनुषां पंचदशके कपालेश्वरतः स्थितम् ॥
लिंगं महाप्रभावं हि सर्वपातकनाशनम् ॥ २ ॥
क्षेममूर्तिः पुरा राजा बभूव स महाबलः ॥
तेन तत्र तपस्तप्तं चिरकालं महात्मना ॥ ॥ ३ ॥
ततः संस्थापितं लिंगं भक्त्या भावितचेतसा ॥
तद्दृष्ट्वा क्षेममायाति कार्यं क्षेमेण सिद्ध्यति ॥ ४ ॥
सर्वकामसमृद्धात्मा भूया ज्जन्मनिजन्मनि ॥
एवं क्षेमेश्वरं लिंगं ख्यातं पातकनाशनम् ॥ ५ ॥
सर्वकामप्रदं नृणां श्रुतं सौभाग्यदायकम् ॥
दर्शनेनापि तस्यापि गोशतस्य फलं स्मृतम् ॥ ६ ॥
तस्मात्क्षेत्रफलाकांक्षी नित्यं तल्लिंगमाश्रयेत् ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्षेमंकरेश्वरमाहात्म्यवर्णनंनाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥ १२७ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 128
॥ ईश्वर उवाच ॥
ततो गच्छेन्महादेवि सागरादित्यमुत्तमम् ॥
भैरवेशात्पश्चिमतो रुद्रान्मृत्युञ्जयात्तथा ॥ १ ॥
कामेशाद्दक्षिणाग्नेये नातिदूरे व्यवस्थितम् ॥
सर्व रोगप्रशमनं दारिद्र्यौघविघातकम् ॥
प्रतिष्ठितं महादेवि सगरेण महात्मना ॥ २ ॥
षष्टिपुत्रसहस्राणि यः प्रापारातिसूदनः ॥
सूर्यं तत्र समाराध्य सगरः पृथिवीपतिः ॥ ३ ॥
य एष सागरो देवि योजनायतविस्तरः ॥
आयतोऽशीतिसाहस्रं योजनानां प्रकीर्तितः ॥ ४ ॥
अस्मिन्मन्वन्तरे क्षिप्तः सागरैश्च चतुर्दिशम् ॥
तस्येदं कीर्तितं देवि नाम सागरसंज्ञितम् ॥ ५ ॥
यस्याद्यापीह गायन्ति पुराणे प्रथितं यशः ॥
तेनायं स्थापितो देवो भास्करो वारितस्करः ॥ ६ ॥
तं दृष्ट्वा न जडो नान्धो न दरिद्रो न दुःखितः ॥
न चैवेष्टवियोगी स्यान्न रोगी नैव पापकृत् ॥ ७ ॥
माघे मासि महादेवि सिते पक्षे जितेन्द्रियः ॥
षष्ठ्यामुपोषितो भूत्वा रात्रौ तस्याग्रतः स्वपेत् ॥ ८ ॥
विबुद्धस्त्वथ सप्तम्यां भक्त्या भानुं समर्चयेत् ॥
ब्राह्मणान्भोजयेद्भक्त्या वित्तशाठ्यं विवर्जयेत् ॥ ९ ॥
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः ॥
तां गतिं न नरा यान्ति यां गताः सूर्यमाश्रिताः ॥ 7.1.128.१० ॥
भक्त्या तु पुरुषैः पूजा कृता दूर्वांकुरैरपि ॥
भानुर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् ॥ ११ ॥
तस्मात्सर्वप्रयत्नेन सूर्यमेवाभिपूजयेत् ॥
जनकादयो यथा सिद्धिं गता भानुं प्रपूज्य च ॥ १२ ॥
सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः ॥
सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ १३ ॥
वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः ॥
श्वेतवर्णश्च वर्षासु पांडुः शरदि भास्करः ॥ १४ ॥
हेमन्ते ताम्रवर्णस्तु शिशिरे लोहितो रविः ॥
एवं वर्णविशेषेण ध्यायेत्सूर्यं यथाक्रमम् ॥ १५ ॥
पूजयित्वा विधानेन यतात्मा संयतेन्द्रियः ॥
पठेन्नामसहस्रं तु सर्वपातकनाशनम् ॥ ॥ १६ ॥
॥ देव्युवाच ॥ ॥
नाम्नां सहस्रं मे ब्रूहि प्रसादाञ्छंकर प्रभो ॥
तुल्यं नामसहस्रस्य किमप्यन्यत्प्रकीर्तय ॥ १७ ॥
॥ ॥ ईश्वर उवाच ॥ ॥
अलं नामसहस्रेण पठस्वैवं शुभं स्तवम् ॥
यानि गुह्यानि नामानि पवित्राणि शुभानि च ॥
तानि ते कीर्तयिष्यामि प्रयत्नादवधारय ॥ १८ ॥
विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ॥
लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ॥ १९ ॥
लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा ॥
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥ 7.1.128.२० ॥
गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ॥
एकविंशतिरित्येष स्तव इष्टो महात्मनः ॥ २१ ॥
शरीरारोग्यदश्चैव धनवृद्धियशस्करः ॥
स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ॥ ॥ २२ ॥
यश्चानेन महादेवि द्वे संध्येऽस्तमनोदये ॥
स्तौत्यर्कं प्रयतो भूत्वा सर्वपापैः प्रमुच्यते ॥
सर्वकामसमृद्धात्मा सूर्यलोकं स गच्छति ॥ २३ ॥
इत्येवं कथितं देवि माहात्म्यं सागरार्कजम् ॥
श्रुतं दुःखौघशमनं महापातकनाशनम् ॥ २४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सागरादित्यमाहात्म्यवर्णनंनामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥ ॥ १२८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 129
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि अक्षमालेश्वरं परम् ॥
सागरार्कादीशकोणे पंचाशद्धनुषान्तरे ॥ १ ॥
संस्थितं पापशमनं युगलिंगं महाप्रभम् ॥
अक्षमालेश्वरंनाम पुरा तस्य प्रकीर्तितम् ॥
उग्रसेनेश्वरं नाम ख्यातं तस्यैव साम्प्रतम् ॥ २॥
॥ देव्युवाच ॥ ॥
अक्षमालेश्वरं नाम यत्पूर्वं समुदाहृतम् ॥
कथं तदभवद्देव कथयस्व प्रसादतः ॥ ३ ॥
॥ ईश्वर उवाच ॥ ॥
आसीत्पुरा महादेवि सती चाध मयोनिजा ॥
अक्षमालेति वै नाम्ना सतीधर्मपरायणा ॥ ४ ॥
कदाचित्समनुप्राप्ते दुर्भिक्षे कालपर्ययात् ॥
ऋषयश्च महादेवि क्षुधाक्रान्ता विचेतसः ॥ ५ ॥
सर्वे चान्नं परीप्संतो गताश्चण्डालवेश्मनि ॥
ज्ञात्वान्नसंग्रहं तस्य प्रार्थयाञ्चक्रुरन्त्यजम् ॥ ६ ॥
भोभोऽन्त्यज महाबुद्धे रक्षास्मानन्नदानतः ॥
प्राणसंदेहमापन्नान्कृशांगान्क्षुत्प्रपीडितान् ॥ ७ ॥
अहो धन्योऽसि पूज्योऽसि न त्वमन्त्यज उच्यसे ॥
यदस्मिन्प्रलये याते स्थितं धान्यं गृहे तव ॥ ८ ॥
अनावृष्टिहते देशे सस्ये च प्रलयं गते ॥
एकं यो भोजयेद्विप्रं कोटिर्भवति भोजिता ॥ ९ ॥
॥ अन्त्यज उवाच ॥
अहो आश्चर्यमतुलं यदेतद्दृश्यतेऽधुना ॥
यदेतन्मद्गृहं प्राप्ता ऋषयश्चान्नकांक्षिणः ॥ 7.1.129.१० ॥
शूद्रान्नमपि नादेयं ब्राह्मणैः किमुतान्त्यजात् ॥ ११ ॥
आमं वा यदि वा पक्वं शूद्रान्नं यस्तु भक्षति ॥
स भवेच्छूकरो ग्राम्यस्तस्य वा जायते कुले ॥ १२ ॥
अमृतं बाह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् ॥
वैश्यान्नमन्नमित्याहुः शूद्रान्नं रुधिरं स्मृतम् ॥ १३ ॥
शूद्रान्नं शूद्रसंपर्कं शूद्रेण च सहासनम् ॥
शूद्रादन्नागमश्चैव ज्वलंतमपि पातयेत् ॥ १४ ॥
अग्निहोत्री तु यो विप्रः शूद्रान्नान्न निवर्तते ॥
एते तस्य प्रणश्यंति आत्मा ब्रह्म त्रयोऽग्नयः ॥ १५ ॥
शूद्रान्नेनोदरस्थेन ब्राह्मणो म्रियते यदि ॥
षण्मासाभ्यन्तरे विप्रः पिशाचः सोऽभिजायते ॥ १६ ॥
शूद्रान्नेन द्विजो यस्तु अग्निहोत्रं जुहोति च ॥
चण्डालो जायते प्रेत्य शूद्राच्चैवेह दैवतः ॥ १७ ॥
यस्तु भुञ्जति शूद्रान्नं मासमेकं निरन्तरम्॥
इह जन्मनि शूद्रत्वं मृतः शूद्रोऽभिजायते ॥ १८ ॥
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्॥
आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ॥ १९ ॥
कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य च ॥
गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥ 7.1.129.२० ॥
पूयं चिकित्सकस्यान्नं पुंश्चल्याश्चान्नमिन्द्रियम्॥
विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥ २१ ॥
सहस्रकृत्वस्त्वेतेषामन्ने यद्भक्षिते भवेत् ॥
तदेकवारं भुक्तेन कन्याविक्रयिणो भवेत् ॥ २२ ॥
सहस्रकृत्वस्तस्यैव भुक्तेऽन्ने यत्फलं भवेत् ॥
तदन्त्यजानामन्नेन सकृद्भुक्तेन वै भवेत् ॥ २३ ॥
तत्कथं मम विप्रेन्द्राश्चंडालस्याधमात्मनः ॥
धर्ममेवं विजानन्तो नूनमन्नं जिहीर्षथ ॥ २४ ॥ ॥
॥ ऋषय ऊचुः ॥ ॥
जीवितात्ययमापन्नो योऽन्नमाद्रियते ततः ॥
आकाश इव पंकेन न स पापेन लिप्यते ॥ २५ ॥
अजीगर्तः सुतं हंतुमुपसर्पन्बुभुक्षितः ॥
न चालिप्यत पापेन क्षुत्प्रतीघातमाचरन् ॥ २६ ॥
भारद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने ॥
बह्वीर्गा उपजग्राह बृहज्ज्योतिर्महामनाः ॥ २७ ॥
क्षुधार्तो गीतमभ्यागाद्विश्वामित्रः श्वजाघनीम् ॥
चण्डालहस्तादादाय धर्माधर्मविचक्षणः ॥ २८ ॥
श्वमांसमिच्छन्नर्तौ तु धर्मान्न च्ययते स्म सः ॥
प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥ २९ ॥
एवं ज्ञात्वा धर्मबुद्धे सांप्रतं मा विचारय ॥
ददस्वान्नं ददस्वान्नमस्माकमिह याचताम्॥ 7.1.129.३० ॥
॥ चंडाल उवाच ॥ ॥
यद्येवं भवतां कार्यमिदमंगीकृतं धुवम्॥
तदियं मत्सुता कन्या भवद्भिः परिगृह्यताम् ॥ ३१ ॥
भवतां योग्रणीर्ज्येष्ठः स चेमामुद्वहेद्ध्रुवम् ॥
दास्ये वर्षाशनं पश्चादीप्सितं भवतां द्विजाः ॥ ३२ ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्ता ऋषयो देवि लज्जयाऽऽनतकन्धराः ॥
प्रत्यालोच्य यथान्यायं वसिष्ठं समनूद्वहन्॥ ३३ ॥
वसिष्ठोऽपि समाख्याय आपद्धर्मं महामनाः ॥
कालस्यानन्तरप्रेक्षी प्रोद्ववाहाऽन्त्यजाङ्गनाम् ॥
अक्षमालेति वै नाम्नीं प्रसिद्धा भुवनत्रये ॥ ३४ ॥
यदा स्वकीयतेजोभिरर्कबिंबमरुन्धत ॥
अरुंधती तदा जाता देवदानव वंदिता ॥ ३५ ॥
यादृशेन तु भर्त्रा स्त्री संयुज्येत यथाविधि ॥
सा तादृगेव भवति समुद्रेणेव निम्नगा ॥ ३६ ॥
अक्षमाला वसिष्ठेन संयुक्ताऽधम योनिजा ॥
शार्ङ्गीव मन्दपालेन जगाम ह्यर्हणीयताम् ॥ ३७ ॥
एवं कालक्रमेणैव प्रभासं क्षेत्रमागताः ॥
सप्तर्षयो महात्मानो ह्यरुंधत्या समन्विताः ॥ ३८ ॥
तीर्थानि प्रेषयामासुः सर्वसिद्धिप्रदानि ताम् ॥ ३९ ॥
एषामन्वेषमाणानां तव देवी ह्यरुंधती॥
अपश्यल्लिंगमेकं तु वृक्षजालांतरे स्थितम् ॥ 7.1.129.४० ॥
तं दृष्ट्वा देवदेवेशमेवं जातिस्मराऽभवत् ॥
पूर्वस्मिञ्जन्मनि मया रजोभावांतरस्थया ॥ ४१ ॥
अज्ञानभावाद्देवेशो नूनं चात्रार्चितः। शिवः ॥
तस्मात्कर्मफलं प्राप्तमन्त्यजत्वं द्विजन्मना ॥ ४२॥
कस्तेन सदृशो देवः शंभुना भुवनत्रये ॥
राज्यं नियमिनामेवं यो रुष्टोऽपि प्रयच्छति ॥ ४३ ॥
इति संचिंत्य मनसा तत्रैव निरताऽभवत् ॥
पूजयामास तल्लिंगं दिव्याब्दानां शतं प्रिये ॥ ४४ ॥
एवं तस्य प्रभावेन दृश्यते गगनांतरे ॥
अरुंधती सती ह्येषा दृष्टा दुष्कृतनाशिनी ॥ ४५ ॥
अक्षमालेश्वरस्त्वेवं यथावत्कथितस्तव ॥
ततस्तु द्वापरस्यान्ते कलौ संध्यांशके गते ॥ ४६ ॥।
अंधासुरसुतश्चासीदुग्रसेन इति श्रुतः ॥
स प्रभासं समासाद्य पुत्रार्थं लिंगमेयिवान् ॥ ४७ ॥
अक्षमालेश्वरं नाम ज्ञात्वा माहात्म्यमद्भुतम् ॥
समाराध्य महादेवं नव वर्षाणि पंच च ॥
संप्राप्तवांस्तदा पुत्रं कंसासुरमिति श्रुतम् ॥ ४८ ॥
तत्कालान्तरमारभ्य उग्रसेनेश्वरोऽभवत् ॥
पापघ्नं सर्वजंतूनां दर्शनात्स्पर्शनादपि ॥ ४९ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥
महान्ति पातकान्याहुर्नश्यंति तस्य दर्शनात् ॥ 7.1.129.५० ॥
तत्रैव ऋषिपञ्चम्यां प्राप्ते भाद्रपदे शुभे ॥
अक्षमालेश्वरं पूज्य मुच्यते नारकाद्भयात् ॥ ५१ ॥
गोप्रदानं प्रशंसंति तत्रान्नमुदकं तथा ॥
सर्वपापविनाशाय प्रेत्यानंतसुखाय च ॥ ५२ ॥
इति ते कथितं देवि ह्यक्षमालेश्वरोद्भवम् ॥
माहात्म्यं पापशमनं श्रुतं दुःखनिबर्हणम् ॥ ५३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उग्रसेनेश्वरमाहात्म्यवर्णनंनामैकोनत्रिंशदुत्तरशततमोऽध्यायः ॥ १२९ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 130
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवं पाशुपतेश्वरम् ॥
उग्रसेनेश्वराद्देवि पूर्वभागे व्यवस्थितम् ॥ १ ॥
गोपादित्यात्तथाग्नेय्यां ध्रुवेशाद्दक्षिणां श्रितम् ॥
सर्वपापहरं देवि पूर्वभागे व्यवस्थितम् ॥ २ ॥
गोपादित्यात्तथा लिंगं दर्शनात्सर्वकामदम् ॥
अस्मिन्युगे समाख्यातं संतोषेश्वरसंज्ञितम् ॥ ३ ॥
संतुष्टो भगवान्यस्मात्तेषां तत्र तपस्विनाम् ॥
तेन संतोषनाम्ना तु प्रख्यातं धरणीतले ॥ ४ ॥
युगलिंगं महादेवि सिद्धिस्थानं महाप्रभम् ॥
स्थानं पाशुपतानां च भेषजं पापरोगिणाम् ॥ ५ ॥
चत्वारो मुनयः सिद्धास्तस्मिँल्लिंगे यशस्विनि॥
वामदेवस्तु सावर्णिरघोरः कपिलस्तथा॥
तस्मिँल्लिंगे तु संसिद्धा अनादीशे निरंजने॥६॥
तस्य देवस्य सामीप्ये वने श्रीमुखसंज्ञितम्॥
लक्ष्मीस्थानं महादेवि सिद्धयोगैस्तु सेवितम्॥७॥
तत्र पाशुपताः श्रेष्ठा मम लिंगार्चने रताः॥
तेषां चैव निवासार्थं तद्देव्या निर्मितं वनम् ॥ ८ ॥
तस्य मध्ये तु सुश्रोणि लिंगं पूर्वमुखं स्थितम् ॥
तस्मिन्पाशुपताः सिद्धा अघोराद्या महर्षयः ॥
अनेनैव शरीरेण गतास्ते शिवमन्दिरम् ॥ ९ ॥
तत्र प्राभासिके क्षेत्रे सुरसिद्धनिषेविते ॥
रोचते मे सदा वासस्तस्मिन्नायतने शुभे ॥
सर्वेषामेव स्थानानामतिरम्यमतिप्रियम् ॥ 7.1.130.१० ॥
तत्र पाशुपता देवि मम ध्यानपरायणाः ॥
मम पुत्रास्तु ते सर्वे ब्रह्मचर्येण संयुताः ॥ ११ ॥
दान्ताः शांता जितक्रोधा ब्राह्मणास्ते तपस्विनः ॥
तल्लिंगस्य प्रभावेन सिद्धिं ते परमां गताः ॥ १२ ॥
तस्मात्तं पूजयेन्नित्यं क्षेत्रवासी द्विजोत्तमः ॥ १३ ॥
॥ देव्युवाच ॥ ॥
भगवन्देवदेवेश संसारार्णवतारक ॥
प्रभासे तु महाक्षेत्रे त्वदीयव्रतचारिणाम् ॥ १४ ॥
स्थानं तेषां महत्पुण्यं योगं पाशुपतं तथा ॥
कथयस्व प्रसादेन लिंगमाहात्म्यमुत्तमम् ॥ १५ ॥
किमादिनाम देवस्य कथं पूज्यो नरोत्तमैः ॥
कथं पाशुपतास्तत्र सदेहाः स्वर्गमागताः ॥१६॥
एतत्कथय देवेश दयां कृत्वा मम प्रभो ॥ १७ ॥
॥ ईश्वर उवाच ॥ ॥
यस्त्वया पृछ्यते भद्रे योगः पाशुपतो महान् ॥
तेषां चैव प्रभावो यस्तथा लिंगस्य सुव्रते ॥ १८ ॥
अनादीशस्य देवस्य आदिनाम महाप्रभे ॥
तस्मिँल्लिंगे तु ये देवि मदीयव्रतमाश्रिताः ॥ १९ ॥
चिरं नियोगं सुश्रोणि व्रतं पाशुपतं महत् ॥
धारयंति यथोक्तं तु मम विस्मयकारकम् ॥
तेषामनुग्रहार्थाय मम चित्तं प्रधावति ॥ 7.1.130.२० ॥
॥ सूत उवाच ॥ ॥
हरस्य वचनं श्रुत्वा देवी विस्मयमागता ॥
उवाच वचनं विप्राः सर्वलोकपतिं पतिम् ॥ २१ ॥। ।
ममापि कौतुकं देव किमकार्षीत्ततो भवान् ॥
तद्ब्रूहि मे महादेव यद्यहं तव वल्लभा ॥ २२ ॥
तस्यास्तद्वचनं श्रुत्वा महादेवो जगाद ताम् ॥
शृणु देवि प्रवक्ष्यामि मम भक्तविचेष्टितम् ॥ २३ ॥
दृष्ट्वा चैव तपोनिष्ठां तेषामाद्यः सुरेश्वरः ॥
उवाच वचनं देवः प्रणतान्पार्श्वतः स्थितान् ॥ २४ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
गच्छ शीघ्रं नन्दिकेश यत्र ते मम पुत्रकाः ॥
चरंति च व्रतं घोरं मदीयं चातिदुष्करम् ॥ २५ ॥
तत्क्षेत्रस्य प्रभावेन भक्त्या च मम नित्यशः ॥
तेन ते मुनयः सिद्धाः स्वशरीरेण सुव्रताः ॥ २६ ॥
तस्मान्मद्वचनान्नन्दिन्गच्छ प्राभासिकं शुभम् ॥
आमन्त्रय त्वं तान्सर्वान्कैलासं शीघ्रमानय ॥ २७ ॥
इदं पद्मं गृहाण त्वं सनालं कलिकोज्ज्वलम् ॥
लिंगस्य मूर्ध्नि दत्त्वेदं पद्मनालमिहानय ॥ २८ ॥
मुक्तस्तदा स वै नन्दी देवदेवेन शंभुना ॥
कैलासनिलयात्तस्मात्प्रभासं क्षेत्रमागतः ॥ २९ ॥
दृष्ट्वा चैव पुनर्लिङ्गं देवदेवस्य शूलिनः ॥
दृष्ट्वा तांश्चैव योगीन्द्रान्परं विस्मयमागतः ॥ 7.1.130.३० ॥
केचिद्ध्यानरतास्तत्र केचिद्योगं समाश्रिताः ॥
केचिद्व्याख्यां प्रकुर्वन्ति विचारमपि चापरे ॥३१॥
कुर्वन्त्यन्ये लिंगपूजां प्रणामं च तथाऽपरे ॥
प्रदक्षिणं प्रकुर्वन्ति साष्टांगं प्रणमन्ति च ॥ ३२ ॥
केचित्स्तुतिं प्रकुर्वन्ति भावयज्ञैस्तथा परे ॥
केचित्पूजां च कुर्वन्ति अहिंसाकुसुमैः शुभैः ॥ ३३ ॥
भस्मस्नानं प्रकुर्वंति गण्डुकैः स्नापयन्ति च ॥
एवं व्याकुलतां यातं तपस्विगणमण्डलम् ॥ ३४ ॥
तत्तादृशमथालोक्य नन्दी विस्मयमागतः ॥
चिन्तयामास मनसा सर्वं तेषां निरीक्ष्य च ॥ ३५ ॥
आगतोऽहमिमं देशं न कश्चिन्मां निरीक्षते॥
न केनचिदहं पृष्टोऽभ्यागतः कुत्र कस्य च ॥ ३६ ॥
अहंकारावृताः सर्वे न वदन्ति च मां क्वचित् ॥
एवं मनसि संधाय लिंगपार्श्वमुपागतः ॥ ॥ ३७ ॥
दत्तं लिंगस्य तत्पद्मनालं छित्त्वा तु नन्दिना ॥
अर्चयित्वा तु तन्नन्दी लिंगं पाशुपतेश्वरम् ॥
नालं गृहीत्वा यत्नेन ऋषीन्वचनमब्रवीत् ॥ ३८ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
शासनाद्देवदेवस्य भवतां पार्श्वमागतः ॥
आज्ञापयति देवेशस्तपस्विगणमण्डलम् ॥ ३९ ॥।
युष्माभिस्तत्र गन्तव्यं यत्र देवः सनातनः ॥
युष्मान्सर्वान्समादाय गमिष्यामि भवालयम् ॥ 7.1.130.४० ॥
उत्तिष्ठताशु गच्छामः कैलासं पर्वतोत्तमम् ॥
तूष्णींभूतास्ततः सर्वे प्रोचुस्ते संज्ञया द्विजाः ॥
गम्यतामग्रतो नन्दिन्पश्चादेष्यामहे वयम् ॥ ४१ ॥
एवमुक्तस्तु मुनिभिर्नन्दी शीघ्रतरं गतः ॥
कथयामास तत्सर्वं कुपितेनान्तरात्मना ॥ ४२ ॥
॥ नन्दिकेश्वर उवाच ॥ ॥
देव तत्र गतोऽहं वै यत्र ते योगिनः स्थिताः ॥
सन्तोषितो न चैवाहं केनचित्तत्र संस्थितः ॥ ४३ ॥
न मां देव निरीक्षन्ते नालपंति कथंचन ॥
पद्मं तत्र मया देव स्थापितं लिंग मूर्धनि ॥ ४४ ॥।
उक्तं देव मया तेषां योगीन्द्राणां महेश्वर ॥
आज्ञप्ता देवदेवेन इहागच्छत मा चिरम् ॥ ४५ ॥
एतच्छ्रुत्वा वचः स्वामिन्सर्वे तत्र महर्षयः ॥
आगमिष्याम इति वै पृष्ठतो गच्छ मा चिरम् ॥ ४६ ॥
इत्युक्ते तैस्तथा देव अहं शीघ्रमिहागतः ॥
शृणु चेमं गृहाण त्वं यथेष्टं कुरु मे प्रभो ॥ ४७ ॥
एकं मे संशयं देव च्छेत्तुमर्हसि सांप्रतम् ॥
मया विना महादेव आगमिष्यंति ते कथम् ॥
संशयो मे महादेव कथयस्व महेश्वर ॥ ४८ ॥। ॥
॥ ईश्वर उवाच ॥ ॥
शृणु नंदिन्यथाश्चर्यं तेषां वै भावितात्मनाम् ॥
न दृश्यन्त इमे सिद्धा मां मुक्त्वाऽन्यैः सुरैरपि ॥४९॥
मद्भावभावितास्ते वै योगं विंदंति शांकरम् ॥
पश्यैतत्कौतुकं नंदिन्दर्शयामि तवाधुना ॥ 7.1.130.५० ॥
आनीतं यत्त्वया नालं तस्मिन्नाले तु सूक्ष्मवत् ॥
प्रविश्य चागताः सर्वे योगैश्वर्यबलेन च ॥५१॥
एवमुक्तस्तदा नंदी विस्मयोत्फुल्ललोचनः ॥
अपश्यन्नालमध्यस्थान्महर्षीन्परमाणुवत्॥५२॥
यथार्करश्मिमध्यस्था दृश्यन्ते परमाणवः ॥
एवं तन्नालमध्यस्था दृश्यंत ऋषयः पृथक् ॥ ५३ ॥
एवं दृष्ट्वा तदा नंदी विस्मयोत्फुल्ललोचनः ॥
आश्चर्यं परमं गत्वा किञ्चिन्नेवाब्रवीत्पुनः ॥ ५४ ॥
एवं तत्कौतुकं दृष्ट्वा देवी वचनमब्रवीत् ॥
किं दृश्यते महादेव हृष्टः कस्मान्महेश्वर ॥५५॥
इत्युक्ते वचने देव्या प्रोवाचेदं महेश्वरः॥ ॥५६॥
॥ ईश्वर उवाच ॥ ॥
योगयुक्ता महात्मानो योगे पाशुपते स्थिताः ॥
एते मां च समाराध्य प्रभासक्षेत्रवासिनम् ॥
ईदृशीं सिद्धिमापन्नाः स्वच्छंदगतिचारिणः॥ ५७ ॥
इत्युक्तवति देवेश ऋषयस्ते महाप्रभाः ॥
पद्मनालाद्विनिःसृत्य सर्वे वै योगमायया ॥
प्रदक्षिणां प्रकुर्वंति देवं देव्या बहिष्कृतम्॥ ५८ ॥
॥ देव्युवाच ॥ ॥
किमर्थं मां न पश्यंति दुराचारा इमे द्विजाः ॥
विस्मयोऽयं महादेव कथयस्व प्रसादतः ॥ ५९ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
प्रकृतित्वान्न पश्यंति सिद्धा ह्येते महातपाः ॥
एवमुक्ता तु गिरिजा देवेदेवेन शूलिना ॥ 7.1.130.६० ॥
चुकोप तेषां सुश्रोणी शशाप क्रोधितानना ॥
स्त्रीलौल्येन दुराचारा नाशमेष्यथ गर्विणः ॥ ६१ ॥
राजप्रतिग्रहासक्ता वृत्त्या देवार्चने रताः॥
भविष्यथ कलौ प्राप्ते लिंगद्रव्योपजीविनः ॥ ६२ ॥
वेश्यासक्ताश्च संभ्रांता सर्वलोकबहिष्कृताः ॥
देवद्रव्यविनाशाय भविष्यथ कलौ युगे ॥ ६३ ॥
इति दत्ते तदा शाप ऋषीणां च महात्मनाम् ॥
गौरीं प्रसादयामासुस्ते च सर्वे सुरेश्वराः ॥ ६४ ॥
देवदेवस्य वचनात्प्रसन्ना साऽभवत्पुनः ॥
नालं देवोऽपि संगृह्य दक्षिणाशां समाक्षिपत् ॥ ६५ ॥
पतितं तच्च वै नालं प्रभासक्षेत्रमध्यतः ॥
तदेव लिंगं संजातं महानालेति विश्रुतम् ॥ ६६ ॥
कलौ युगे च संप्राप्ते तद्ध्रुवेश्वरसंज्ञितम्॥
संस्थितं चोत्तरेशाने तस्मात्पाशुपतेश्वरात् ॥६७ ॥
पुराऽनादीशनामेति पश्चात्पाशुपतेश्वरः ॥
प्रभासे तु महाक्षेत्रे स्थितः पातकनाशनः ॥६८॥
इदं स्थानं परं श्रेष्ठं मम व्रतनिषेवणम् ॥
इदं लिंगं परं ब्रह्म अनादीशेति संज्ञितम् ॥ ६९॥
अत्र सिद्धिश्च मुक्तिश्च ब्राह्मणानां न संशयः ॥
अनेनैव शरीरेण षड्भिर्मासस्तु सिद्ध्यति ॥ 7.1.130.७० ॥
संसारस्य विमोक्षार्थमिदं लिंगं तु दृश्यताम् ॥
दुर्लभं सर्वलोकानामिदं मोक्षप्रदं परम्॥
इदं पाशुपतं ज्ञानमस्मिँल्लिंगे प्रतिष्ठितम् ॥ ७१ ॥
यश्चैनं पूजयेद्भक्त्या माघे मासि निरंतरम् ॥
सर्वेषां वै क्रतूनां च दानानां लभते फलम् ॥ ७२ ॥
हिरण्यं तत्र दातव्यं सम्यग्यात्राफलेप्सुभिः ॥ ७३ ॥
इत्येतत्कथितं देवि माहात्म्यं पापनाशनम् ॥
पशुपाशविमोक्षार्थं सम्यक्पाशुपतेश्वरम् ॥ ७४ ॥
चतुर्णामपि वर्णानां पूज्यो ब्राह्मण उच्यते ॥
तस्य चैवाधिकारोऽस्ति चास्मिन्पाशुपतेश्वरे ॥ ७५ ॥
यद्देवतानां प्रथमं पवित्रं विश्वव्रतं पाशुपतं बभूव ॥
अयं पन्था नैष्ठिको वै मयोक्तो येन देवा यांति भुवनानि विश्वा ॥ ७६ ॥
सुरां पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्राह्मणं चापि हत्वा ॥
भस्मच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मुच्यते पातकेभ्यः ॥ ७७ ॥
अग्निरित्यादिना भस्म गृहीत्वांगानि संस्पृशेत् ॥
गृह्णीयात्संयते चाग्नौ भस्म तद्गृहवासिनाम् ॥ ७८ ॥
अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म सर्वं ह वा इदं भस्माभवत् ॥
एतानि चक्षूंषि नादीक्षितः संस्पृशेत् ॥ ७९ ॥
ब्राह्मणैश्च समादेयं न तु शूद्रैः कदाचन ॥
नाधिकारोऽस्ति शूद्रस्य व्रते पाशुपते सदा ॥ 7.1.130.८० ॥
ब्राह्मणेष्वधिकारोऽस्ति व्रते पाशुपते शुभे ॥
ब्राह्मणीं तनुमास्थाय संभवामि युगेयुगे ॥ ८१ ॥
चण्डालवेश्मन्यथ वा स्मशाने राज्ञश्च मार्गेश्वथ वर्त्ममध्ये ॥
करीषमध्ये निःसृता नराधमाः शैवं पदं यांति न संशयोऽत्र ॥ ८२ ॥
इति श्रीस्कांदे महापुराण एकाशी तिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पाशुपतेश्वरमाहात्म्यवर्णनंनाम त्रिंशदुत्तरशततमोध्यायः ॥ १३० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 131
॥ श्रीदेव्युवाच ॥ ॥
यदेतद्भवता प्रोक्तं नालेश्वरमिति श्रुतम् ॥
ध्रुवेश्वरेति तल्लिंगं कथं वै संबभूव ह ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि ध्रुवेश्वरमहोदयम् ॥
यच्छ्रुत्वा मानवो देवि मुच्यते भवबंधनात् ॥ २ ॥
उत्तानपादनृपतेः पुत्रोऽभूद्ध्रुवसंज्ञितः ॥
महात्मा ज्ञानसंपन्नः सर्वज्ञः प्रियदर्शनः ॥ ३ ॥
स कदाचित्समासाद्य प्रभासं क्षेत्रमुत्तमम् ॥
तताप विपुलं देवि तपः परमदारुणम् ॥ ४ ॥
दिव्यं वर्षसहस्रं तु प्रतिष्ठाप्य महेश्वरम् ॥
संपूजयति सद्भक्त्या स्तौति स्तोत्रैः पृथग्विधैः ॥ ५ ॥
तत्स्तोत्रं ते प्रवक्ष्यामि येनाहं तुष्टिमागतः ॥ ६ ॥
॥ ध्रुव उवाच ॥ ॥
कैलासतुंगशिखरं प्रविकम्प्यमानं कैलासशृंगसदृशेन दशाननेन ॥
यः पादपद्मपरिपीडनया दधार तं शंकरं शरणदं शरणं व्रजामि ॥ ७ ॥
येनासुराश्चापि दनोश्च पुत्रा विद्याधरोरगगणैश्च वृताः समग्राः ॥
संयोजिता न तु फलं फलमूलमुक्तास्तं शंकरं शरणदं शरणं व्रजामि ॥ ८ ॥
यस्याखिलं जगदिदं वशवर्ति नित्यं योऽष्टाभिरेव तनुभिर्भुवनानि भुंक्ते ॥
यत्कारणं परमकारणकारणानां तं शंकरं शरणदं शरणं व्रजामि ॥९॥
यः सव्यपाणिकमलाग्रनखेन देवस्तत्पंचमं च सहसैव पुरातिरुष्टः ॥
ब्राह्मं शिरस्तरुणपद्मनिभं चकर्त तं शंकरं शरणदं शरणं व्रजामि ॥7.1.131.१०॥।
यस्य प्रणम्य चरणौ वरदस्य भक्त्या श्रुत्वा च वाग्भिरमलाभिरतंद्रिताभिः ॥
दीप्तस्तमांसि नुदति स्वकरैर्विवस्वांस्तं शंकरं शरणदं शरणं व्रजामि ॥ ॥ ११ ॥
यः पठेत्स्तवमिदं रुचिरार्थं मानवो ध्रुवकृतं नियतात्मा ॥
विप्रसंसदि सदा शुचिसिद्धः स प्रयाति शिवलोकमनादिम् ॥ १२ ॥
तस्यैवं स्तुवतो देवि तुष्टोऽहं भावितात्मनः ॥
पूर्णे वर्षसहस्रांते ध्रुवस्याह महात्मनः ॥ १३ ॥
पुत्र तुष्टोऽस्मि भद्रं ते जातस्त्वं निर्मलोऽधुना ॥
दिव्यं ददामि ते चक्षुः पश्य मां विगतज्वरः ॥ १४ ॥
यच्च ते मनसा किञ्चित्कांक्षितं फलमुत्तमम् ॥
तत्सर्वं ते प्रदास्यामि ब्रूहि शीघ्रं ममाग्रतः ॥ १५ ॥
ब्राह्म्यं वा वैष्णवं शाक्रं पदमन्यत्सुदुर्लभम् ॥
ददामि नात्र संदेहो भक्त्या संप्रीणितस्तव ॥ १६ ॥
॥ ध्रुव उवाच ॥ ॥
ब्राह्म्यं वैष्णवं माहेन्द्रं पदमावृत्तिलक्षणम्॥
विदितं मम तत्सर्वं मनसाऽपि न कामये॥१७॥
यदि तुष्टोऽसि मे देव भक्तिं देहि सुनिर्मलाम्॥
अस्मिँल्लिंगे सदा वासं कुरु देव वृषध्वज॥१८॥
ईश्वर उवाच॥
इति यत्प्रार्थितं सर्वं तद्दत्तं सर्वमेव हि॥
स्थानं च तस्य तद्ध्रौव्यं तद्विष्णोः परमं पदम्॥१९॥
श्रावणस्य त्वमावास्यां यस्तल्लिंगं प्रपूजयेत् ॥
आश्वयुक्पौर्णमास्यां वा सोऽश्वमेधफलं लभेत् ॥ 7.1.131.२० ॥
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ॥
रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः ॥
हंसयुक्तविमानेन रुद्रलोके महीयते ॥ २१ ॥
असुरसुरगणानां पूजितस्य ध्रुवस्य कथयति कमनीयां कीर्तिमेतां शृणोति ॥
सकलसुखनिधानरुद्रलोकं सुशांतः सुरगणदनुनाथैरर्चितं यात्यनंतम् ॥ २२ ॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ध्रुवेश्वरमाहात्म्यवर्णनंनामैकत्रिंशदुत्तरशततमो ऽध्यायः ॥१३१॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 132
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि वैष्णवीं शक्तिमुत्तमाम् ॥
सोमेशादीशदिग्भागे नातिदूरे व्यवस्थिताम् ॥ १ ॥
सिद्धलक्ष्मीति विख्याता ह्यत्र पीठाधिदेवता ॥ २ ॥
ब्रह्माण्डे प्रथमं पीठं यत्प्रभासं व्यवस्थितम् ॥
तत्र देवि महापीठे योगिन्यो भूचराः खगाः ॥
भैरवेण समे तास्तु क्रीडन्ते स्वेच्छया प्रिये ॥ ३॥
जालंधरं महापीठं कामरूपं तथैव च ॥
श्रीमद्रुद्रनृसिंहं च चतुर्थं पीठमुत्तमम् ॥ ४ ॥
रत्नवीर्यं महापीठं काश्मीरं पीठमेव च ॥
एतानि देवि पीठानि यो वेत्ति स च मन्त्रवित् ॥ ५ ॥
सर्वेषां चैव पीठानामाधारं पीठमुत्तमम् ॥
सौराष्ट्रे तु महादेवि नाम्ना ख्यातं महोदयम् ॥
कामरूपधरं ज्ञानं यत्राद्यापि प्रवर्तते ॥ ६ ॥
तत्र पीठे स्थिता देवी महालक्ष्मीति विश्रुता ॥
सर्वपापप्रशमनी सर्वकार्यशुभप्रदा ॥ ७ ॥
श्रीपञ्चम्यां नरो यस्तु पूजयेत्तां विधानतः ॥
गन्धपुष्पादिभिर्भक्त्या तस्यालक्ष्मीभयं कुतः ॥ ८ ॥
उत्तरां दिशमास्थाय महाल क्ष्म्यास्तु सन्निधौ॥
यो जपेन्मन्त्रराज्ञीं तां सिद्धलक्ष्मीति विश्रुताम् ॥ ९ ॥
लक्षजाप्यविधानेन दीक्षास्नानादिपूर्वकम् ॥
दशांशहोमसंयुक्तं त्रिमधु- श्रीफलेसुभिः ॥ 7.1.132.१० ॥
एवं प्रत्यक्षतां याति तस्य लक्ष्मीर्न संशयः ॥
ददाति वांछितां सिद्धिमिह लोके परत्र च ॥ ११ ॥
तृतीयायामथा ष्टम्यां चतुर्दश्यां विधानतः ॥
यस्तां पूजयते भक्त्या तस्य सिद्धिः करे स्थिता ॥ १२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धलक्ष्मीमाहात्म्यवर्णनंनाम द्वात्रिंशदुत्तरशततमोऽध्यायः ॥ १३२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 133
॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थिता देवि महाकालीति विश्रुता ॥
अधः स्थिते महापीठे पातालविवरान्विते ॥ १ ॥
सर्वदुःखप्रशमनी सर्वशत्रुक्षयंकरी ॥
पूजनीया विधानेन कृष्णाष्टम्यां महानिशि ॥
गन्धैः पुष्पैस्तथा धूपैः क्रव्यैर्बलिभिरेव च ॥ २ ॥
फलतृतीयां नारी च कुर्याद्वै तत्र भाविता ॥
वर्षमेकं सिते पक्षे देवीं पूज्य विधानतः ॥
फलानि ब्राह्मणे देयान्येव नूनं विधानतः ॥ ३ ॥
एतानि वर्जयेन्नक्ते ह्यन्नानि सुरसुन्दरि ॥
निष्पावा आढकी मुद्गा माषाश्चैव कुलित्थकाः॥४॥
मसूरा राजमाषाश्च गोधूमास्त्रिपुटास्तथा ॥
चणका वर्तला वापि मकुष्ठाश्चैवमादयः ॥ ५ ॥
न भक्ष्यास्तावत्ते देवि यावद्गौरीव्रतं चरेत् ॥
तस्याः पुण्यफलं वक्ष्ये कथ्यमानं शृणुष्व मे ॥ ६ ॥
धनं धान्यं गृहे तस्या न कदाचित्क्षयं व्रजेत् ॥
दुःखिता दुर्भगा दीना सप्त जन्मानि नो भवेत् ॥ ७ ॥
महाकालीव्रतं प्रोक्तं देव्या माहात्म्यसंयुतम् ॥
कृतं पातकनाशाय सर्वकामसमृद्धये ॥ ८ ॥
एवं देवि समाख्यातं महाकालीमहोदयम् ॥
क्षेत्रपीठं महादेवि मन्त्रसिद्धिप्रदायकम् ॥ ९ ॥
आश्वयुक्छुक्लपक्षे तु नवम्यां तत्र जागृयात् ॥
पीठे पूजाबलिं दत्त्वा मन्त्रं कामं जपन्निशि ॥
सौम्यचित्तः समाप्नोति वांछितां सिद्धिमुत्तमाम् ॥ 7.1.133.१० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये महाकालीमाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३३ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 134
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि पुष्करावर्तकां नदीम् ॥
ब्रह्मकुंडादुत्तरतो नातिदूरे व्यवस्थिताम् ॥ १ ॥
पुरा यज्ञे वर्तमाने सोमस्य तु महात्मनः ॥
ब्रह्मा सुरगणैः सार्धं प्रभासं क्षेत्रमागतः ॥२॥
सोमनाथप्रतिष्ठार्थमृक्षराजनिमंत्रितः ॥
प्रतिज्ञातं पुरा तेन ब्रह्मणा लोककारिणा ॥ ३ ॥
यावत्स्थास्याम्यहं मर्त्ये कस्मिंश्चित्कारणांतरे ॥
तावत्संध्यात्रयं वंद्यं नित्यमेव त्रिपुष्करे ॥ ४ ॥
एतस्मिन्नेव काले तु लग्नकाल उपस्थिते ॥
आदिष्टं शोभनं कालं ब्राह्मणैर्दैवचिन्तकैः ॥ ५ ॥
ततस्तं प्रस्थितं ज्ञात्वा पुष्करे तु पितामहम् ॥
संध्यार्थं रात्रिनाथो वै वाक्यमेतदुवाच ह ॥ ६ ॥।
दैवज्ञैः कलितः काल एष एव शुभोदयः ॥
यथा कालात्ययो न स्यात्तथा नीतिर्विधीयताम् ॥ ७ ॥
तं ज्ञात्वा सांप्रतं कालं ब्रह्मा लोकपितामहः ॥
मनसा चिन्तयामास पुष्कराणि समाहितः ॥ ८ ॥
तानि वै स्मृतमात्राणि ब्रह्मणा वरवर्णिनि ॥
प्रादुर्भूतानि तत्रैव नद्यास्तीरे सुशोभने ॥ ९ ॥
आवर्तास्तत्र सञ्जाता ज्येष्ठमध्यकनीयसः ॥
अथ नामाकरोत्तस्या ब्रह्मा लोकपितामहः ॥ 7.1.134.१० ॥
पुष्करावर्तका नाम्ना अद्यप्रभृति शोभना ॥
नदी प्रयास्यते लोके ख्यातिं मम प्रसादतः ॥ ११ ॥
अत्र स्नात्वा नरो भक्त्या तर्पयिष्यति यः पितॄन् ॥
त्रिपुष्करसमं पुण्यं लप्स्यते स तथेप्सितम् ॥ १२ ॥
श्रावणे शुक्लपक्षस्य तृतीयायां नरोत्तमः ॥
यः पितॄंस्तर्पयेत्तत्र तृप्तिः कल्पायुतं भवेत् ॥ १३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्करावर्तकानदीमाहात्म्यवर्णनंनाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३४॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 135
ईश्वर उवाच॥
तत्रैव संस्थितां पश्येद्देवीं दुःखांतकारिणीम्॥
शीतलेति पुरा ख्याता युगे द्वापरसंज्ञिते॥
कलौ पुनः समाख्यातां कलिदुःखान्तकारिणीम्॥१॥
शीतलं कुरुते देहं बालानां रोगवर्जितम्॥
पूजिता भक्तिभावेन तेन सा शीतला स्मृता॥२॥
विस्फोटानां प्रशांत्यर्थं बालानां चैव कारणात् ॥
मानेन मापितान्कृत्वा मसूरांस्तत्र कुट्टयेत् ॥ ३ ॥
शीतलापुरतो दत्त्वा बालाः सन्तु निरामयाः ॥
विस्फोटचर्चिकादीनां वातादीनां शमो भवेत् ॥ ४ ॥
श्राद्धं तत्रैव कुर्वीत ब्राह्मणांस्तत्र भोजयेत् ॥ ५ ॥
कर्पूरं कुसुमं चैव मृगनाभिं सुचन्दनम्॥
पुष्पाणि च सुगन्धानि नैवेद्यं घृतपायसम् ॥
निवेद्य देव्यै तत्सर्वं दंपत्योः परिधापयेत् ॥६॥
नवम्यां शुक्लपक्षे तु मालां विल्वमयीं शुभाम्॥
भक्त्या निवेद्य तां देव्यै सर्वसिद्धिमवाप्नुयात् ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दुःखान्तकारिणीतिलागौरीमाहात्म्यवर्णनंनाम पञ्चत्रिंदुत्तरशततमोऽध्यायः ॥१३५॥॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 136
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लोमशेश्वरमुत्तमम् ॥
दुःखान्तकारिणीपूर्वे धनुषां सप्तके स्थितम् ॥ १ ॥
स्थापितं तत्र देवेशि लोमशेन महर्षिणा ॥
गुहामध्ये महालिंगं तपः कृत्वा सुदुश्चरम् ॥ २ ॥
कोटीनां त्रितयं सार्धमिंद्राद्याः स्वर्भुजः प्रिये ॥
यदा नाशं गमिष्यंति तदा तस्य क्षयो ध्रुवम् ॥ ३ ॥
यावंति देहरोमाणि इन्द्रास्तावन्त एव च ॥
क्रमादिन्द्रे विनष्टे तु तल्लोमपतनं भवेत् ॥ ४ ॥
एवमीशप्रसादेन चिरायुर्लोमशोऽभवत् ॥
ब्रह्माणः षड्विनश्यन्ति समग्रायुषि लोमशे ॥ ५ ॥
य एवं पूजयेद्भक्त्या तल्लिंगं लोमशार्चितम् ॥
सोऽपि दीर्घायुराप्नोति निर्व्याधिर्नीरुजः सुखी ॥ ६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये लोमशेश्वरमाहात्म्यवर्णनंनाम षट्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३६ ॥ ॥ ॥ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 137
॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येत्क्षेत्रपालमनुत्तमम् ॥
कंकालभैरवंनाम भैरवेण नियोजितम् ॥
तस्य क्षेत्रस्य रक्षार्थं प्राणिनां दुष्टचेतसाम् ॥ १ ॥
श्रावणे शुक्लपञ्चम्यामष्टम्यामाश्विनस्य च ॥
यस्तं पूजयते भक्त्या बलिपुष्पादिभिः क्रमात् ॥ २ ॥
तस्य क्षेत्रे निवसतः पुष्करस्य महात्मनः ॥
निर्विघ्नकारी भवति तथा रक्षति पुत्रवत् ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कंकालभैरवक्षेत्रपालमाहात्म्यवर्णनंनाम सप्तत्रिंशदुत्तरशततमोऽध्यायः ॥ १३७ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 138
॥ ईश्वर उवाच ॥ ॥
तस्यैव पश्चिमे भागे धनुपां पञ्चके स्थितम् ॥
तृणबिन्द्वीश्वरंनाम तीव्रभक्त्या प्रतिष्ठितम् ॥ १ ॥
कृत्वा महत्तपो देवि तृणबिंदुमु नीश्वरः ॥
मासिमासि कुशाग्रेण जलबिंदुं निपीय वै ॥ २ ॥
संवत्सराण्यनेकानि एवमाराध्य चेश्वरम् ॥
संप्राप्तं परमां सिद्धिं क्षेत्रे प्राभासिके शुभे ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तृणबिंद्वीश्वरमाहात्म्य वर्णनंनामाष्टात्रिंशदुत्तरशततमोऽध्यायः ॥ १३८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 139
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि चित्रादित्यमनुत्तमम् ॥
तस्यैव दक्षिणे भागे ब्रह्मकुण्डसमीपतः ॥ १ ॥
महाप्रभावो देवेशि सर्वदारिद्र्यनाशनः ॥
मित्रो नाम पुरा देवि धर्मात्माऽभूद्धरातले ॥
कायस्थः सर्वभूतानां नित्यं भूतहिते रतः ॥ २ ॥
तस्यापत्यद्वयं जज्ञ ऋतुकालाभिगामिनः ॥
पुत्रः परमतेजस्वी चित्रोनाम वरानने ॥ ३ ॥
तथा चित्राऽभवत्कन्या रूपाढ्या शीलमंडना ॥ ४ ॥
आभ्यां तु जातमात्राभ्यां मित्रः पञ्चत्वमेयिवान् ॥
अथ तस्य वरा भार्या सह तेनाग्निमाविशत् ॥ ५ ॥
अथ तौ बालकौ दीनावृषिभिः परिपालितौ ॥
वृद्धिं गतौ महारण्ये बालावेव स्थितौ व्रते ॥ ६ ॥
प्रभासं क्षेत्रमासाद्य तपः परममास्थितौ ॥
प्रतिष्ठाप्य महा देवं भास्करं वारितस्करम् ॥ ७ ॥
पूजयामास धर्मात्मा धूपमाल्यानुलेपनैः ॥
वसिष्ठकथितैश्चैव ह्यष्टषष्टिसमन्वितैः ॥
नामभिः सूर्यदेवेशं तुष्टाव प्राञ्जलिः प्रभुम् ॥ ८ ॥
॥ चित्र उवाच ॥ ॥
प्रणम्य शिरसा देवं भास्करं गगनाधिपम् ॥
आदिदेवं जगन्नाथं पापघ्नं रोगनाशनम् ॥ ९ ॥।
सहस्राक्षं सहस्रांशुं सहस्रकिरणद्युतिम् ॥ 7.1.139.१० ॥
तमहं संस्तविष्यामि संपृक्तं गुह्यनामभिः ॥
मुंडीरस्वामिनं प्रातर्गंगासागरसंगमे ॥
कालप्रियं तु मध्याह्ने यमुनातीरमाश्रितम् ॥ ११ ॥
मूलस्थानं चास्तमने चन्द्रभागातटे स्थितम्॥
यत्र सांबः स्वयं सिद्ध उपवासपरायणः ॥१२॥
वाराणस्यां लोहिताक्षं गोभिलाक्षे बृहन्मुखम् ॥
प्रयागेषु प्रतिष्ठानं वृद्धादित्यं महाद्युतिम् ॥१३॥
कोट्यक्षे द्वादशादित्यं गंगादित्यं चतुर्घटे ॥
नैमिषे चैव गोघ्ने च भद्रं भद्रपुटे स्थितम् ॥१४॥
जयायां विजयादित्यं प्रभासे स्वर्णवेतसम् ॥
कुरुक्षेत्रे च सामंतं त्रिमंत्रं च इलावृते ॥१५॥
महेन्द्रे क्रमणादित्यमृणे सिद्धेश्वरं विदुः ॥
कौशांब्यां पद्मबोधं च ब्रह्मबाहौ दिवाकरम्॥१६॥
केदारे चण्डकांतिं च नित्ये च तिमिरापहम् ॥
गंगामार्गे शिवद्वारमादित्यं भूप्रदी पने ॥१७॥
हंसं सरस्वतीतीरे विश्वामित्रं पृथूदके ॥
उज्जयिन्यां नरद्वीपं सिद्धायाममलद्युतिम् ॥१८॥
सूर्यं कुन्तीकुमारे च पञ्चनद्यां विभावसुम् ॥।
मथुरायां विमलादित्यं संज्ञादित्यं तु संज्ञिके ॥ १९ ॥
श्रीकण्ठे चैव मार्तण्डं दशार्णे दशकं स्मृतम् ॥
गोधने गोपतिं देवं कर्णं चैव मरुस्थले ॥7.1.139.२०॥।
पुष्पं देवपुरे चैव केशवार्कं तु लोहिते ॥
वैदिशे चैव शार्दूलं शोणे वारुणवासिनम् ॥ २१ ॥
वर्धमाने च सांबाख्यं कामरूपे शुभंकरम् ॥
मिहिरं कान्यकुब्जे च मंदारं पुण्यवर्धने ॥ २२ ॥
गन्धारे क्षोभणादित्यं लंकायाममरद्युतिम् ॥
कर्णादित्यं च चंपायां प्रबोधे शुभदर्शिनम् ॥ २३ ॥
द्वारा वत्यां तु पार्वत्यं हिमवन्ते हिमापहम् ॥
महातेजं तु लौहित्ये अमलांगे च धूजटिम् ॥ २४ ॥
रोहिके तु कुमाराख्यं पद्मायां पद्मसंभवम्॥
धर्मादित्यं तु लाटायां मर्द्दके स्थविरं विदुः ॥ २५ ॥
सुखप्रदं तु कौबेर्यां कोसले गोपतिं तथा ॥
कौंकणे तु पद्मदेवं तापनं विन्ध्यपर्वते ॥ २६ ॥
त्वष्टारं चैव काश्मीरे चरित्रे रत्नसंभवम् ॥
पुष्करे हेमगर्भस्थं विद्यात्सूर्यं गभस्तिके ॥ २७ ॥
प्रकाशायां तु मुज्झालं तीर्थग्रामे प्रभाकरम् ॥
कांपिल्ये रिल्लकादित्यं धनके धनवासिनम् ॥२८॥
अनलं नर्मदातीरे सर्वत्र गमनाधिकम्॥
अष्टषष्टिं तु देवस्य भास्करस्यामितद्युतेः ॥ २९ ॥
प्रातरुत्थाय वै नित्यं शक्तिमाञ्छुचिमान्नरः ॥
यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥ 7.1.139.३० ॥
राज्यार्थी लभते राज्यं धनार्थी लभते धनम् ॥
पुत्रार्थी लभते पुत्रान्सौख्यार्थी लभते सुखम् ॥ ३१ ॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥
यान्यान्प्रार्थयते कामांस्तांस्तान्प्राप्नोति मानवः ॥३२॥ ॥
॥ ईश्वर उवाच ॥ ॥
एवं च स्तुवतस्तस्य चित्रस्य विमलात्मनः ॥
ततस्तुष्टः सहस्रांशुः कालेन महता विभुः ॥ ३३ ॥
अब्रवीद्वत्स भद्रं ते वरं वरय सुव्रत ॥ ३४ ॥
सोऽब्रवीद्यदि मे तुष्टो भगवंस्तीक्ष्णदीधितेः ॥
प्रौढत्वं सर्वकार्येषु नय मां ज्ञानितां तथा ॥ ३५ ॥
तत्तथेति प्रति ज्ञातं सूर्येण वरवर्णिनि ॥
ततः सर्वज्ञतां प्राप्तश्चित्रो मित्रकुलोद्भवः ॥३६॥
तं ज्ञात्वा धर्मराजस्तु बुद्ध्या परमया युतम्॥
चिंतयामास मेधावी लेख कोऽयं भवेद्यदि ॥ ३७ ॥
ततो मे सर्वसिद्धिः स्यान्निर्वृतिश्च परा भवेत् ॥
एवं चिंतयतस्तस्य धर्मराजस्य भामिनि॥३८॥
अग्नितीर्थे गते चित्रे स्ना नार्थं लवणाम्भसि ॥
स तत्र प्रविशन्नेव नीतस्तु यमकिंकरैः ॥३९॥
सशरीरो महादेवि यमादेशपरायणैः ॥
स चित्रगुप्तनामाऽभूद्विश्वचारित्रलेखकः ॥ 7.1.139.४० ॥
चित्रादित्येतिनामाऽभूत्ततो लोके वरानने ॥ ४१ ॥
सप्तम्यां नियताहारो यस्तं पूजयते नरः ॥
सप्त जन्मानि दारिद्र्यं न दुःखं तस्य जायते ॥४२॥
तत्रैव चाश्वो दातव्यः सकोषं खड्गमेव च ॥
हिरण्यं चैव विप्राय एवं यात्राफलं लभेत् ॥४३॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चित्रादित्यमाहात्म्यवर्णनंनामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः ॥१३९॥।
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 140
ततो गच्छेन्महादेवि नदीं चित्रपथां ततः ॥
ब्रह्मकुण्डसमीपस्थां चित्रादित्यस्य मध्यतः ॥ १ ॥
यदा च चित्रः संनीतो यमदूतैः सुरप्रिये ॥
सशरीरो महाप्राज्ञो यमादेशपरायणैः ॥ २ ॥
एवं ज्ञात्वा तु तत्रस्था भगिनी तस्य दुःखिता ॥
चित्रा नदी ततो भूत्वा स्वसा तस्य महात्मनः ॥ ३ ॥
प्रविष्टा सागरे देवि अन्वेषन्ती च बांधवम् ॥
ततश्चित्रपथानाम तस्याश्चक्रुर्द्विजातयः ॥ ४ ॥
एवं तत्र समुत्पन्ना सा नदी वरवर्णिनि ॥ ५ ॥
तस्यां स्नात्वा नरो यस्तु चित्रादित्यं प्रपश्यति ॥
स याति परमं स्थानं यत्र देवो दिवाकरः ॥ ६ ॥
अस्मिन्कलियुगे देवि अंतर्धानं गता नदी ॥
प्रावृट्काले च दृश्येत दुर्लभं तत्र दर्शनम् ॥ ७ ॥
स्नानं दानं विशेषेण सर्वपातकनाशनम् ॥ ८ ॥
भुक्तो वाप्यथवाऽभुक्तो रात्रौ वा यदि वा दिवा ॥
पर्वकालेऽथवाऽकाले पवित्रोऽप्यथवाऽशुचिः ॥ ९ ॥
यदैव दृश्यते तत्र नदी चित्रपथा प्रिये ॥
प्रमाणं दर्शनं तस्या न कालस्तत्र कारणम् ॥ 7.1.140.१० ॥
दृष्ट्वा नदीं महादेवि पितरः स्वर्गसंस्थिताः ॥
गायंति तत्र सामानि नृत्यन्ति च हसंति च ॥ ११ ॥
अस्माकं वंशजः कश्चिच्छ्राद्धमत्र करिष्यति ॥
यावत्कल्पं तथाऽस्माकं प्रीतिमुत्पादयिष्यति ॥ १२ ॥
एवं ज्ञात्वा नरस्तत्र स्नानं श्राद्धं च कारयेत् ॥
सर्वपापविनाशार्थं पितॄणां प्रीतये तथा ॥ ॥ १३ ॥
इत्येतत्कथितं देवि यथा चित्रपथा नदी ॥
प्रभासक्षेत्रमासाद्य संस्थिता पापनाशिनी ॥ १४ ॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चित्रपथानदीमाहात्म्यवर्णनंनाम चत्वारिंशदुत्तरशततमोऽध्यायः ॥। ॥ १४० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 141
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कपर्दी यत्र संस्थितः ॥
तस्यैव उत्तरे भागे नातिदूरे व्यवस्थितः ॥
चिंतितार्थप्रदो देवि चिन्तामणिरिवापरः ॥ १ ॥
चतुर्थ्यां तं तु देवेशि अंगारकदिने पुनः ॥
स्नापयित्वा तु संपूज्य नैवेद्यैर्विविधैः शुभैः ॥
सन्तर्प्य विघ्नराजेशं सर्वान्कामानवाप्नुयात् ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कपर्दिचिन्तामणिमाहात्म्यवर्णनं नामैकचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४१ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 142
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि चित्रेश्वर मनुत्तमम्॥
धनुषां सप्तके तस्य स्थितमाग्नेयदक्षिणे ॥ १ ॥
लिंगं महाप्रभावं हि सर्वपातकनाशनम् ॥
तत्र चित्रेश्वरं पूज्य नरकान्न भवेद्भयम् ॥ २ ॥
पटस्थितं तस्य पापं चित्रो मार्जयति प्रिये ॥
तस्मात्सर्वप्रयत्नेन चित्रेशं पूजयेत्सदा ॥
यः स्यात्पापयुतो वापि नरकं नैव पश्यति ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चित्रेश्वर माहात्म्यवर्णनंनाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 143
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विचित्रेश्वरमुत्तमम् ॥
तस्यैव पूर्वदिग्भागे किञ्चिदाग्नेयगोचरे ॥
धनुषां दशके तत्र स्थितं पापप्रणाशनम् ॥ १ ॥
विचित्रेण महादेवि लेख केन यमस्य च ॥
स्थापितं तन्महालिंगं तपः कृत्वा सुदुश्चरम् ॥ २ ॥
तं दृष्ट्वा पूजितं चैव मुक्तः स्यात्सर्वपातकैः ॥
संपूज्य च विधानेन न दुःखी जायते नरः ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये विचित्रेश्वरमाहात्म्यवर्णनंनाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४३ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 144
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तृतीयं पुष्करं महत् ॥
तस्यैव पूर्वदिग्भागे किञ्चिदीशानगोचरे ॥
कनीयः संस्मृतं कुंडं पुष्करंनाम नामतः ॥ १ ॥
यत्र मध्याह्नसमये ब्रह्मणा समुपासिता ॥
सन्ध्या त्रैलोक्यजननी प्रतिष्ठार्थं गतेन च ॥ २ ॥
तत्र यः कुरुते स्नानं पौर्णमास्यां समाहितः ॥
सम्यक्कृतं भवेत्तेन स्नानं तत्रादिपुष्करे ॥ ३ ॥
हिरण्यं तत्र दातव्यं सर्वपापापनुत्तये ॥ ४ ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं तव पौष्करम् ॥
श्रुतं पापहरं नॄणां सर्वकामप्रदं तथा ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्करकुण्डमाहात्म्य वर्णनंनाम चतुश्चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४४ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 145
॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येद्विघ्नेशं पापनाशनम् ॥
गजकुंभोदरं नाम सर्वसिद्धिप्रदायकम् ॥ १ ॥
तत्र कुंडे नरः स्नात्वा चतुर्थ्यां प्रयतात्मवान् ॥
पूजयेद्यस्तु तं भक्त्या विघ्नेशस्तस्य तुष्यति ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गजकुंभोदरमाहात्म्यवर्णनंनाम पञ्चचत्वा रिंशदुत्तरशततमोऽध्यायः ॥ १४५ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 146
। ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि धर्मराजप्रतिष्ठितम् ॥
यमेश्वरं महादेवं तस्यै वोत्तरतः स्थितम् ॥ १ ॥
यदा शप्तो धर्मराजश्छायया वरवर्णिनि ॥
तदा तस्यापतत्पादः स च दुःखान्वितोऽभवत् ॥ २ ॥
ततः प्राभासिके क्षेत्रे तपस्तेपे महातपाः ॥
स्थापयामास लिंगं तु तत्र देवस्य शूलिनः ॥ ३ ॥
तस्य तुष्टो महादेवस्ततः प्रत्यक्षतां गतः ॥
अब्रवीद्धर्म भद्रं ते वरं वरय चेप्सितम् ॥ ४ ॥
तदाऽब्रवीद्धर्मराजः पादः प्रपतितो मम ॥
प्रसादात्तव देवेश जायतां पुनरेव हि ॥ ५ ॥
एतल्लिंगं सुरश्रेष्ठ यन्मया निर्मितं तव ॥
एतद्ये भक्तिसंयुक्ताः पश्यंति प्राणिनो भुवि ॥ ६ ॥
तेषां तव प्रसादेन भूयात्पापविमोक्षणम् ॥ ७ ॥
एवं भविष्यतीत्युक्ता ह्यन्तर्धानं गतो हरः ॥
यमोऽपि लब्धपादस्तु पुनरेव दिवं ययौ ॥ ८ ॥
तस्मिन्दृष्टे सुरश्रेष्ठ यमलोकसमुद्भवम् ॥
न भयं विद्यते नृणामपि दुष्कृतकारिणाम् ॥ ॥ ९ ॥
भ्रातृद्वितीयासंयोगे स्नात्वा पुष्करिणीजले ॥
यमेश्वरसमीपस्थो यमेशमवलोकयेत् ॥ 7.1.146.१० ॥
तिलपात्रं प्रदातव्यं दीपं गाः कांचना दिकम् ॥
यमदेवं समुद्दिश्य मुच्यते सर्वपातकैः ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये यमेश्वरमाहात्म्यवर्णनंनाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४६ ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 147
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि ब्रह्मकुण्डमनुत्तमम् ॥
तस्यैव नैर्ऋते भागे ब्रह्मणा निर्मितं पुरा ॥ १ ॥
यदा तु ऋक्षराजेन सोमनाथः प्रति ष्ठितः ॥
तदा ब्रह्मादयो देवाः सर्वे तत्र समागताः ॥
प्रतिष्ठार्थं हि देवस्य शशांकेन निमन्त्रिताः ॥ २ ॥
अथाऽब्रवीन्निशानाथो ब्रह्माणं विनयान्वितः ॥ ३ ॥
कृतं भवद्भिर्जानाति स्थापनं वै यथा जनः ॥
तथा कुरु सुरश्रेष्ठ चिह्नमात्मसमुद्भवम् ॥ ४ ॥
एवं श्रुत्वा तदा ब्रह्मा ध्यानं कृत्वा तु निश्चलम् ॥
आह्वयत्सर्वतीर्थानि पुष्करादीनि सर्वशः ॥ ५ ॥
स्वर्गे वै यानि तीर्थानि तथैव च रसातले ॥
तपःसामर्थ्ययोगेन ब्रह्मणा ऽऽकर्षितानि च ॥
अतस्तस्यैव नाम्ना तु ब्रह्मकुण्डं तु गीयते ॥ ६ ॥
गणानां च सहस्रैस्तु चतुर्दशभिरीक्ष्यते ॥
अतश्चाभक्तियुक्तानां दुष्प्राप्यं तीर्थमुत्तमम् ॥ ७ ॥
अथाब्रवीत्सर्वदेवान्ब्रह्मा लोकपितामहः ॥ ८ ॥
अत्र कुण्डे नरः स्नात्वा यः पितॄंस्तर्पयिष्यति ॥
अग्निष्टोमफलं सव लप्स्यते स च मानवः ॥
तत्प्रसादात्स्वर्गलोके विमानेन चरिष्यति ॥ ९ ॥
गोदानं चाश्वदानं च तथा स्वर्णकमण्डलुम् ॥
दद्याद्विप्राय विदुषे सर्वपापापनुत्तये ॥ 7.1.147.१० ॥
पौर्णमास्यां महादेवि तथा च प्रतिपद्दिने ॥
सर्वपापविनाशार्थं तत्र स्नाति सरस्वती ॥ ११ ॥
सिद्धं रसायनं देवि तत्र वै ह्युदकं प्रिये ॥
नानावर्णसमायुक्तमुपदेशेन सिद्ध्यति ॥ १२ ॥
दारिद्र्यदुःखरुक्छोकान्मानवः सेवते कथम् ॥
ब्रह्मकुण्डमनुप्राप्य कल्पवृक्षमिवापरम् ॥ ॥ १३ ॥
॥ देव्युवाच ॥ ॥
भगवन्विस्तराद्ब्रूहि ब्रह्मकुण्डमहोदयम् ॥
सर्वप्राणिहितार्थाय विस्तराद्वद मे प्रभो ॥ १४ ॥
ब्रह्मकुंडस्य माहात्म्यं श्रोतुं मे कौतुकं महत्॥
लोकानां दुःखनाशाय दारिद्यक्षयहेतवे ॥ १५ ॥
भगवन्मानुषाः सर्वे दुःखशोकनिपीडिताः ॥
भ्रमंति सकलं जन्म रसायनविमोहिताः ॥ १६ ॥
तेषां हिताय मे ब्रूहि निर्वाणं रसमुत्तमम् ॥
आदाविह शरीरं तु अक्षय्यं तु यथा भवेत् ॥ १७ ॥
अष्टसिद्धिसमा युक्तं सर्वविद्यासमन्वितम् ॥
कामरूपं क्रियायुक्तं सर्वव्याधिविवर्जितम् ॥ १८ ॥
ततस्तु परमं देव निर्वाणं येन वै लभेत् ॥
मानवः कृतकृत्यश्च जायते च यथा प्रभो ॥ १९ ॥
तथा कथय मे देव दयां कृत्वा जगत्प्रभो ॥
निर्वाणपरमं कल्पं सर्वभ्रांतिविवर्जितम् ॥
प्रसिद्धं सुखदं दिव्यं समा चक्ष्व महेश्वर ॥ 7.1.147.२० ॥
॥ ईश्वर उवाच ॥ ॥
साधुसाधु महादेवि लोकानां हितकारिणि ॥
मर्त्यलोके महादेवि तीर्थं(?) तीर्थवरं शुभम् ॥ ॥ २१ ॥
प्रभासं परमं ख्यातं तच्च द्वादशयोजनम् ॥
तत्र सोमेश्वरो देवस्त्रिषु लोकेषु विश्रुतः ॥ २२ ॥
तस्य पूर्वे समाख्यातः श्रीकृष्णो दैत्यसूदनः ॥
चण्डिका योगिनी तत्र सखीभिः परिवारिता ॥ २३ ॥
ततः पूर्वे दिशां भागे चतुर्वक्त्रेण निर्मितम् ॥
तीर्थात्तीर्थं वरं दिव्यं सर्वाश्चर्यमयं शुभम् ॥ २४ ॥
सेवितं सर्वदेवैस्तु सिद्धैः साध्यैर्ग्रहैस्तथा ॥
अप्सरोमुनिभिर्दिव्यैर्यक्षैश्च पन्नगैः सदा ॥ २५ ॥
सिद्ध्यर्थं सर्वकामार्थं दिव्यभोगावहं शुभम् ॥
ब्रह्मकुण्डमिति ख्यातं ब्रह्मणा निर्मितं यतः ॥ २६ ॥
तस्य वायव्यकोणे तु हिर ण्येशः स्वयं स्थितः ॥
तमाराध्य महादेवं हिरण्येश्वरमुत्तमम् ॥ २७ ॥
महामन्त्रं जपेत्क्षिप्रं दशांशं होमयेत्सुधीः ॥
होमेन सिद्ध्यते मन्त्रः सत्यं सत्यं वरानने ॥ २८ ॥
तस्योत्तरे तु दिग्भागे किञ्चिदीशानमाश्रितः ॥
चतुर्वक्त्रो महादेवि क्षेत्रपो लिंगरूपधृक् ॥ २९ ॥
तत्स्थानं रक्षते देवि लिंगरूपेण शंकरः ॥
तमाराध्य प्रयत्नेन ततः कुण्डं समाश्रयेत् ॥ 7.1.147.३० ॥
सर्वैश्वर्यमयं देवि नानावर्णविचित्रितम् ॥
कुण्डस्यास्येशदिग्भागे भैरवेश्वरमुत्तमम् ॥ ३१ ॥
दुर्गन्धा भासुरा देवि वहते रसरूपिणी ॥
तस्या रसेन संयुक्तं पृथग्वर्णं हि कर्बुरम् ॥ ३२ ॥
मेघवर्णं महादिव्यं राजतं च पुनः शुभम् ॥
कपिलं दुग्धवर्णं च कर्पूराभं सुशोभनम् ॥ ३३ ॥
कदा कस्तूरिकाभासं कुंकुमच्छविकावहम् ॥
सौगन्धं चंदनोपेतं कदाचिद्रौधि रोदकम् ॥ ३४ ॥
एते रसाश्च विविधा दृश्यंते तत्र सर्वदा ॥
यस्य तुष्टो महादेवः सिद्ध्यते तस्य तत्क्षणात् ॥ ३५ ॥
रजतं क्षिप्यते तत्र सुवर्ण मिव जायते ॥
प्रत्यक्षमेव तत्रैव रसायनमनुत्तमम् ॥ ३६ ॥
पश्यंति मानवा देवि कौतुकं तत्क्षणाद्भृशम् ॥
रसं हि परमं दिव्यं तत्रस्थं च कलौ युगे ॥ ३७ ॥
सिद्धं सिद्धरसं पुंसां व्याधीनां क्षयकारकम् ॥
हेमबीजमयं दिव्यं ब्रह्मकुण्डोद्भवं महत् ॥ ३८ ॥
इदानीं ते प्रवक्ष्यामि मनुष्याणां हिताय वै ॥
दारिद्र्यं क्षयमाप्नोति तत्क्षणाच्च यशस्विनि ॥ ३९ ॥
आदावेव प्रकुर्वन्ति ताम्रकुम्भं दृढं शुभम् ॥
तीर्थोदकं क्षिपेत्तत्र पत्रैस्ताम्रस्तथा युतम् ॥ 7.1.147.४० ॥
निक्षिप्य भूमौ तत्कुम्भं ज्वालयेदनलं ततः ॥
चुह्लीरूपेण षण्मासं पाचयेत्तं शनैःशनैः ॥ ४१ ॥
पश्चादुद्धृत्य तं कुम्भं पुनरेव जलं क्षिपेत् ॥
मासमेकं पुनः कुर्यान्मासमेकं पुनर्भृशम् ॥४२॥
ततः सर्वाणि खण्डानि एकीकृत्य प्रयत्नतः ॥
पुनरेवोदकेनैव प्लाव्य चावर्तयेत्पुनः ॥ ॥४३॥
कांचनं जायते तत्र यदि तुष्टो महेश्वरः ॥४४॥
सिद्धिं शरीरजां देवि यदीच्छेन्मानवोत्तमः ॥
स स्नानमादितः कृत्वा संवत्सरत्रयं पुनः ॥ ॥ ४५ ॥
मौनेन नियमेनैव महामंत्रजपान्वितः ॥
पूजयेच्च हिरण्येशं क्षेत्रपालं प्रयत्नतः ॥४६॥
पंचोपचारसंयुक्तं ध्यानधारणसंयुतम् ॥
तीर्थोदकेन पाकं वै पेयं तद्वदुदुम्बरे ॥४७॥
एवं वर्षत्रयेणैव दिव्यदेहः प्रजायते ॥
तेजस्वी वलवान्प्राज्ञः सर्वव्याधिविवर्जितः ॥४८ ॥
जीवेद्वर्षेशतान्येव त्रीणि दुःखविवर्जितः ॥
वर्षत्रयमविच्छिन्नं यस्तत्र स्नानमाचरेत् ॥४९॥
वागीश्वरीं जपेन्नित्यं पूजाहोमसमन्वितः ॥
तस्य प्रवर्तते वाणी सिद्धिः सारस्वती भवेत् ॥7.1.147.५०॥
संस्कृतं प्राकृतं चैवापभ्रंशं भूतभाषितम् ॥
गांगस्रोतःप्रवाहेण उद्गिरेद्गिरमात्मवान् ॥
अश्रान्तां च वरारोहे ह्यविच्छिन्नां च संततम् ॥५१॥
वदेद्वादिसहस्रैस्तु न श्रमस्तस्य जायते ॥
तीर्थस्यास्य प्रभावेण सर्वशास्त्रविशारदाः ॥ ५२ ॥
पंडिता गर्विताः सर्वे तर्कशास्त्रविशारदाः ॥
आगच्छन्ति समं तात विद्ययोद्धतकन्धराः ॥
न शक्नुवंति ते वक्तुं द्रष्टुं वक्त्रमपि प्रिये ॥ ५३ ॥
वादिनां च सहस्राणि भनक्त्येवं निरीक्षणात् ॥ ५४ ॥
उद्वाहयति शास्त्राणि विबुद्धार्थानि सत्वरम् ॥
विमलं पाञ्चरात्रं च वैष्णवं शैवमेव च ॥ ५५ ॥
इतिहासपुराणं च भूततंत्रं च गारुडम् ॥
भैरवं च महातंत्रं कुलमार्गं द्विधा प्रिये ॥ ५६ ॥
रथप्रवरवेगेन वाणी चास्खलिता भवेत् ॥
नश्यंति वादिनः सर्वे गरुडस्येव पन्नगाः ॥ ५७ ॥
न दारिद्र्यं न रोगश्च न दुःखं मानसं पुनः ॥
राजमान्यो महामानी भवेद्ब्रह्मप्रसादतः ॥ ५८ ॥
उत्साहबलसंयुक्तो देववज्जीवते सुधीः ॥
दाता भोक्ता च वाग्ग्मी च तीर्थस्यास्य प्रसादतः ॥ ५९ ॥
तैलाभ्यक्तस्य यत्तेजो जायते मनुजेषु च ॥
स्नातमात्रे तथा तेजस्तीर्थस्यैव प्रसादतः ॥ 7.1.147.६० ॥
यत्पापं कुरुते जंतुः पैशुन्यं च कृतघ्नताम् ॥
मित्रद्रोहे च यत्पापं यत्पापं पारदारिकम् ॥
तत्सर्वं विलयं याति कुंडस्नानरतस्य च ॥ ६१ ॥
मुशलं लङ्घयेद् यस्तु यो गास्त्यजति वै द्विजः ॥
तत्पापं क्षयमाप्नोति ब्रह्मकुण्डस्य दर्शनात् ॥ ६२ ॥
पृथिव्यां यानि तीर्थानि दैवतानि तथा पुनः ॥
पूजितानि च सर्वाणि कुण्डस्नानप्रभावतः ॥ ६३ ॥
सप्तजन्मार्जितं पापं दर्शनात्क्षयमाव्रजेत् ॥ ६४ ॥
यत्पापं गुरुगोघ्ने च परस्वहरणेषु च ॥
तत्पापं क्षयमाप्नोति ब्रह्मकुण्डनिषेवणात् ॥ ६५ ॥
प्रदक्षिणं च यः कुर्यात्स्नात्वा कुण्डस्य नामतः ॥
संख्यया पंचदश वै शृणु तस्यापि यत्फलम् ॥ ६६ ॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥
सप्तपातालसहिता तीर्थकोटिभिरावृता ॥ ६७ ॥
आहारमात्रं यो दद्यात्तत्र वेदविदां वरे ॥
लक्षभोज्यं कृतं तेन तीर्थस्यास्य प्रभावतः ॥ ६८ ॥
ब्रह्मेश्वरं च संपूज्य हिरण्येश्वरमुत्तमम् ॥
क्षेत्रपालं चतुर्वक्त्रं पूजयेच्चिन्तितं लभेत् ॥ ६९ ॥
एकविंशत्कुलै र्युक्तः सर्वपापविवर्जितः ॥
ब्रह्मलोकं स वै याति नात्र कार्या विचारणा ॥ 7.1.147.७० ॥
विरंचिकुण्डे स्नात्वा वा यो जपेद्वेदमातरम् ॥
लक्षजाप्यविधानेन स मुक्तः पातकैर्भवेत् ॥ ७१ ॥
स एव पुण्यकर्त्ता च स एव पुरुषोत्तमः ॥
यात्रा तत्र कृता येन ब्रह्मकुण्डे वरानने ॥ ७२ ॥
अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् ॥
ब्रह्मकुण्डं समाश्रित्य ब्रह्मदेवमुपासते ॥ ७३ ॥
तावद्गर्जंति तीर्थानि त्रैलोक्ये सचराचरे ॥
यावद्ब्रह्मेश्वरं तीर्थं न पश्यन्ति नराः प्रिये ॥ ७४ ॥
ब्रह्मकुण्डे च पानीयं ये पिबन्ति नराः सकृत् ॥
न तेषां संक्रमेत्पापं वाचिकं मानसं तनौ ॥ ७५ ॥
ब्रह्मांडोत्तरमध्ये तु यानि तीर्थानि संति वै ॥
तेषां पुण्यमवाप्नोति ब्रह्मकुण्डे प्रदक्षिणात् ॥ ७६ ॥
याज्ञवल्क्यो महात्मा च परब्रह्मस्वरूपवान् ॥
सोऽपि कुंडं न मुंचेत निकुं भस्तु गणस्तथा ॥ ७७ ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं ब्रह्मकुण्डजम् ॥
तव स्नेहेन देवेशि किमन्यत्परिपृच्छसि ॥ ७८ ॥
य इदं शृणुयान्मर्त्यः सम्यक्छ्रद्धासमन्वितः ॥
स मुक्तः पातकैः सर्वैर्ब्रह्मलोकं च गच्छति ॥ ७९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्यवर्णनंनाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४७ ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 148
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कूपं कुंडलसंभवम् ॥
तस्यैव चोत्तरे भागे ब्रह्मकुण्डसमीपतः ॥ १ ॥
यत्र सिद्धो महादेवि रूपकुंडलहारकः ॥
तत्र स्नात्वा नरो देवि मुच्येत्स्तेयकृतादघात् ॥ २ ॥
सप्त जन्मानि देवेशि न तस्यान्वयसंभवः ॥
चौरः कश्चिद्भवेत्क्रूरस्तत्र स्नानप्रभावतः ॥ ३ ॥
शिवरात्र्यां विशेषेण पिंडदानादिकां क्रियाम् ॥
कुर्याच्छस्त्रहतानां च पापिनां तत्र मुक्तये ॥ ४ ॥
॥ देव्युवाच ॥ ॥
कथं कुण्डलरूपं तु पृथिव्यां ख्यातिमागतम् ॥
एतत्कथय मे देव विस्तराद्वदतां वर ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि महापुण्यां कथां पापप्रणाशनीम् ॥
यां श्रुत्वा मुच्यते पापान्नरो जन्मशतार्जितात् ॥ ६ ॥
प्रभासक्षेत्रमाहात्म्याच्छिवरात्र्यामुपोषितः ॥
आसीत्सुदर्शनो राजा पृथिव्यामेकराट् सुधीः । ॥ ७ ॥
धन्यो हि स धनाढ्यश्च प्रजां यत्नैरपालयत् ॥
राज्यं तस्य सुसंपन्नं ब्राह्मणैरुपशोभितम् ॥
समृद्धमृद्धिसंयुक्तं विटतस्करवर्जितम् ॥ ८ ॥
तस्मिञ्जनपदे रम्ये पुरी भगवती शुभा ॥
चातुर्वर्ण्यसमायुक्ता पुरप्राकारमंडिता ॥ ९ ॥
तस्मिन्पुरवरे रम्ये राज्यं निहतकण्टकम् ॥
करोति बान्धवैः सार्द्धमृद्धियुक्तः सुदर्शनः ॥
हिरण्यदत्तस्य सुतो जातो गांधारकन्यया ॥ 7.1.148.१० ॥
तस्य भार्या प्रिया साध्वी भर्तृव्रतपरायणा ॥
सुनंदा नामविख्याता काशिराजसुता शुभा ॥ ११ ॥
तया सार्धं हि राजेन्द्रो भोगान्स बुभुजे सदा ॥
भुंजमानस्य भोगान्वै चिरकालो गतस्तदा ॥१२॥
अकरोत्स महायज्ञान्ददौ दानानि भूरिशः ॥
एवं कालो गतस्तस्य भार्यया सह सुव्रते ॥ १३ ॥
कदाचिन्माघमासे तु शिवरात्र्यां वरानने ॥
सस्मार पूर्वजातिं स भार्यामाहूय चाब्रवीत् ॥ १४ ॥
॥ सुदर्शन उवाच ॥ ॥
शिवरात्रिव्रतं देवि मया कार्यं वरानने ॥
व्रतस्यास्य प्रभावेन प्राप्तं राज्यं मया किल ॥ १५ ॥
॥राज्ञ्युवाच ॥ ॥
महान्प्रभावो राजेन्द्र एवमुक्तं त्वया मम ॥
एतन्मे कारणं ब्रूहि आश्चर्यं हृदि वर्तते ॥ १६॥ ॥
॥ राजोवाच ॥ ॥
शृणु तीर्थस्य माहात्म्यं शिवरात्रिमुपोषणात् ॥
तस्मिञ्छिवपुरे रम्ये स्वर्गद्वारे सुशोभने॥१७॥
आदितीर्थे प्रभासे तु कामिके तीर्थ उत्तमे ॥ १८॥
ऋद्धियुक्ते पुरे तस्मिन्नित्यं धर्मानुसेविते ॥
शिवरात्र्यां गतो राज्ञि तिथीनामुत्तमा तिथिः ॥ १९॥
मानवास्तत्र ये केचित्पुरराष्ट्रनि वासिनः॥
तत्रागता वरारोहे शिवरात्र्यामुपोषितुम् ॥ 7.1.148.२० ॥
धननामा वणिक्कश्चित्तत्रैव वसते सदा ॥
धनाढ्यः स तु धर्मात्मा सदा धर्मपरायणः ॥ ॥२१ ॥
स भार्यासहितस्तत्र शिवरात्रिमुपोषितः ॥
तस्य भार्याऽभवत्साध्वी रूपयौवनसंवृता ॥ २२ ॥
प्रचलन्मेखलाहारा सर्वाभरणभूषिता ॥
स तया भार्यया सार्धं कामक्रोधविवर्जितः ॥२३॥
प्रभासस्याग्रतो भूत्वा स्नातः शुक्लांबरः शुचिः ॥
यथोक्तेन विधानेन भक्त्या निद्राविवर्जितः ॥२४॥
तत्राहं चौररूपेण पापः स्तैन्यं समाश्रितः ॥
सच्छूद्राणां कुले जातो देवब्राह्मणपूजकः ॥ २५ ॥
पूर्वकर्मानुसंयोगाद्विकर्मणि रतः सदा ॥
तस्यां रात्र्यामहं तत्र जनमध्ये तु संस्थितः ॥ २६ ॥
कुण्डलीनः स्थितस्तत्र रंध्रापेक्षी वरानने ॥
वणिजस्तस्य भार्यायाश्छिद्रान्वेषणतत्परः ॥ २७ ॥
सा रात्रिर्जाग्रतस्तस्य गता मे विजने तथा ॥
गीतनृत्यादिनिर्घोषैर्वेदमंगलपाटकैः ॥ २८ ॥
तालशब्दैस्तथा बन्धैः पुस्तकानां च वाचकैः ॥
एवं रात्र्यां तु शेषायां यावत्तिष्ठति तत्र वै ॥ २९ ॥
निरोधेन समायुक्ता पीड्यमाना शुचिस्मिता ॥
धनिभार्या निरोधार्ता देवागाराद्बहिर्गता ॥ 7.1.148.३० ॥
तस्याः कर्णौ त्रोटयित्वा पुप्लुवेऽहं जले स्थितः ॥
ततः कोलाहलस्तत्र कृतस्तत्पुरवासिभिः ॥ ३१ ॥
श्रुत्वा कोलाहलं शब्दं कर्णत्रोटनजं तदा ॥
धाविता रक्षकास्तत्र राजशासनकारकाः ॥ ३२ ॥
तैरहं शस्त्रहस्तैश्च उल्काहस्तैः समंततः ॥
निरीक्षितोऽथ न प्राप्तं सुवर्णं मन्मुखे स्थितम् ॥ ॥ ३३ ॥
खड्गेन तीक्ष्णधारेण छित्त्वा शीर्षं तदा मम ॥
उल्काहस्ता निरीक्षन्तो नापश्यन्स्वर्णमण्वपि ॥ ३४ ॥
हित्वा मां ते गताः सर्वे गत्वा राज्ञे न्यवेदयन् ॥
न किञ्चित्तत्र संप्राप्तं हतोऽस्माभिश्च तत्क्षणात् ॥ ३५ ॥
कथयित्वा तु ते सर्वे यथादेशं गताः पुनः ॥
ततो वै बन्धुना तत्र भयभीतेन चेतसा ॥ ३६ ॥
निखातं मम तत्रैव शिरः कायेन संयुतम् ॥
खातं कृत्वा प्रिये तत्र ब्रह्मतीर्थस्य चोत्तरे ॥ ३७ ॥
पिहितोऽहं तु तत्रैव प्रभासे तीर्थ उत्तमे ॥
शिवरात्रिप्रभावेन तज्जातिस्मरतां गतः ॥ ३८ ॥
राज्यं निष्कण्टकं प्राप्तं समृद्धं वरवर्णिनि ॥
एतत्प्रभासमाहात्म्यं शिवरात्रेरुपोषणात् ॥
एतत्फलं मया लब्धं गत्वा तस्मादुपोषये ॥ ३९ ॥
॥ राज्ञ्युवाच ॥ ॥
गच्छावस्तत्र यत्रैव कपालं पतितं तव ॥
स्फोटिते च कपाले च हिरण्यं दृश्यते यदि ॥
प्रत्ययो मे भवेत्पश्चात्तव वाक्यं न संशयः ॥ 7.1.148.४० ॥
॥ राजोवाच ॥ ॥
कल्पं हि तिष्ठते चास्थि यावद्भूमिविपर्ययः ॥
उत्तिष्ठ व्रज भद्रं ते प्रभासं क्षेत्रमुत्तमम् ॥ ४१ ॥
तस्य तद्वचनं श्रुत्वा यद्राज्ञा समुदीरितम् ॥
गमनाय मतिं चक्रे शिवरात्र्या उपोषणे ॥ ४२ ॥
ततोऽश्वैर्जवनैयुर्क्तं रथं हेमविभूषितम् ॥
आस्थाय सह पत्न्या च प्रभासं क्षेत्रमेयिवान् ॥ ४३ ॥
व्रतं कृत्वा प्रभासे तु यथोक्तं वरवर्णिनि ॥
ब्रह्मतीर्थे समागत्य उद्धृत्य सकलं ततः ॥४४॥
हिरण्यं दर्शयामास स्फोटयित्वा शवं स्वयम् ॥ ४५ ॥
॥ ईश्वर उवाच ॥ ॥
जातसंप्रत्यया भार्या तस्य राज्ञो बभूव ह ॥
जगाम परमं स्थानं यत्र कल्याणमुत्तमम् ॥ ४६ ॥
जनोऽपि विस्मितः सर्वो दृष्ट्वा चित्रं तदद्भुतम् ॥ ॥ ४७ ॥
नदी चित्रपथानाम तत्रोत्पन्ना वरानने ॥
चित्रादित्यस्य पूर्वेण ब्रह्मतीर्थस्य चोत्तरे ॥ ४८ ॥
तस्यां तत्तिष्ठते तत्र सर्वपापप्रणाशनम् ॥ ॥ ४९ ॥
श्रावणे मासि संप्राप्ते तस्मिन्कूपे विधानतः ॥
यः स्नानं कुरुते देवि श्राद्धं तत्र विशेषतः ॥ 7.1.148.५० ॥
चित्रादित्यं तु संपूज्य शिवलोके महीयते ॥ ५१ ॥
एतत्ते कथितं सर्वं शिवरात्र्या महत्फलम् ॥
भुक्तिमुक्तिप्रदं पुण्यं सर्वपापप्रणाशनम् ॥ ५२ ॥
य इदं पठते नित्यं शृणुयाद्वापि मानवः ॥
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ॥ ५३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभास क्षेत्रमाहात्म्ये कुण्डलकूपमाहात्म्यवर्णनंनामाष्टाचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४८ ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 149
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि भैरवेश्वरमुत्तमम् ॥
ब्रह्मकुण्डस्य ईशाने स्थितं पापप्रणाशनम् ॥
चतुर्वक्त्रं महादेवं संस्थितं तीर्थरक्षणे ॥ १ ॥
तत्र स्नात्वा महाकुण्डे यस्तं पूजयते नरः ॥
पंचोपचारविधिना भक्तियुक्तो यतेन्द्रियः ॥ २ ॥
कुलानि यान्यतीतानि भविष्याणि च यानि वै ॥
तारयेत्स नरो देवि नात्र कार्या विचारणा ॥ ३ ॥
न चात्र संभवस्तस्य विनाशो नैव जायते ॥
विमानैश्चरते नित्यं दिवाकरसमप्रभैः ॥ ४ ॥
स्त्रीसहस्रैर्वृतो नित्यं क्रीडते देवव द्दिवि ॥ ५ ॥
एतल्लिंगं महादेवि चतुर्वक्त्रं महाप्रभम् ॥
दृष्ट्वापि तद्विमुच्येत सर्वपापैस्तु मानवः ॥६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये भैरवेश्वरमाहात्म्यवर्णनंनामैकोनपंचाशदुत्तरशततमोऽध्यायः ॥ १४९ ॥ ॥ छ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 150
॥ ईश्वर उवाच ॥ ॥
ततो ब्रह्मेश्वरं गच्छेत्तस्य दक्षिणतः स्थितम् ॥
ब्रह्मणा स्थापितं पूर्वं ब्रह्मकुण्डसमीपतः ॥
त्रिषु लोकेषु विख्यातं रक्ष्यमाणं गणैर्मम ॥ १ ॥
तत्र स्नात्वा चतुर्दश्याममावास्यां विशेषतः ॥
श्राद्धं च विधिवत्कृत्वा ब्रह्मेशं पूजयेत्ततः ॥ २ ॥
विप्रेभ्यः कांचनं दद्यात्प्रीतये शंकरस्य च ॥ ३ ॥
एवं कृत्वा नरो देवि लभते जन्मनः फलम् ॥
विपुलां कीर्तिमायाति मोदते ब्रह्मणा प्रिये ॥ ४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुंडमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनंनाम पंचाशदु त्तरशततमोऽध्यायः ॥ १५० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 151
॥ ईश्वर उवाच ॥ ॥
तस्यैव दक्षिणे भागे तृतीयो भैरवः स्थित ॥
ब्रह्मकुण्डसमीपे तु सावित्र्या संप्रतिष्ठितः ॥ १ ॥
आराध्य तत्र देवेशं देवानां प्रपितामहम् ॥
वायुभक्षा निराहारा तोषयामास शंकरम् ॥ २ ॥
तुष्टः प्राहेश्वरो देवि शंकरस्तां वराननाम् ॥ ३ ॥
योऽस्मिन्कुंडे नरः स्नात्वा मल्लिंगं पूजयिष्यति ॥
पौर्णमास्यां विधानेन गन्धपुष्पादिभिः क्रमात् ॥ ४ ॥
दास्यं तस्य वरा निष्टान्मनसाऽभीसिताञ्छुभान् ॥ ५ ॥
महापातकयुक्तोऽपि मुक्तो भवति पातकैः ॥
सर्वकामसमृद्धात्मा स भूयाद्वृषभध्वजः ॥ ६ ॥
इत्येवमुक्त्वा देवेशि ततोऽन्तर्धानमागतः ॥
सावित्री ब्रह्मलोके तु गता संस्थाप्य शंकरम् ॥ ७ ॥
इति संक्षेपतः प्रोक्तं सावित्रीशमहोदयम् ॥
शृणुयाद्यस्तु मतिमान्स मुक्तः पातकैर्भवेत् ॥ ८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्ये सावित्रीश्वरभैरवमाहात्म्य- वर्णनंनामैकपंचाशदुत्तरशततमोऽध्यायः ॥ १५१ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 152
॥ ॥ ईश्वर उवाच ॥ ॥
तृतीयो भैरवः प्रोक्तश्चतुर्थं भैरवं शृणु ॥
ब्रह्मेशात्पश्चिमे भागे धनुषां त्रितये स्थितम् ॥ १ ॥
सर्वपापप्रशमनं सर्व कामप्रदं नृणाम् ॥
नारदेश्वरनामानं स्थापितं नारदेन वै ॥ २ ॥
ब्रह्मलोके स्थितः पूर्वं नारदो भगवानृषिः ॥
तत्र दृष्ट्वा महावीणां दिव्यां तंत्र्ययुतै र्युताम् ॥ ३ ॥
सरस्वत्या विनिर्मुक्तां ब्रह्मलोके महाप्रभाम् ॥
तेनासौ कौतुकाविष्टो वादयामास तां तदा ॥ ४ ॥
तंत्रीभ्यो वाद्यमानाभ्यो ब्राह्मणाः पतिता भुवि ॥
सप्त स्वरास्ते विख्याता मूर्च्छिताः षड्जकादयः ॥ ५ ॥
तान्दृष्ट्वा विस्मयाविष्टो मुक्त्वा वीणां प्रयत्नतः ॥
पप्रच्छ देवं ब्रह्माणं किमिदं कौतुकं विभो ॥ ६ ॥
वाद्यमानासु तन्त्रीषु पतिता ब्राह्मणा भुवि ॥
क एते ब्राह्मणा देव किं मृता इव शेरते ॥ ७ ॥
॥ ब्रह्मोवाच ॥ ॥
एते स्वरा महाभाग मूर्च्छिताः पतिता भुवि ॥
अज्ञानवादनेनैव पापं जातं तवाधुना ॥ ८ ॥
सप्तब्राह्मणविध्वंसपातकं ते समा गतम् ॥
तस्माच्छीघ्रं व्रज मुने प्रभासं क्षेत्रमुत्तमम् ॥ ९ ॥
समाराधय देवेशं सर्वपापविशुद्धये ॥
इत्युक्तो नारदस्तत्र संतप्य च मुहुर्मुहुः ॥ 7.1.152.१० ॥
कृत्वा विषादं बहुशः प्रभासं क्षेत्रमागतः ॥
तत्रैव ब्रह्मकुण्डं तु समासाद्य प्रयत्नतः ॥ ११ ॥
भैरवं पूजयामास दिव्याब्दानां शतं प्रिये ॥
ततो निष्कल्मषो भूत्वा गीतज्ञश्चाभवत्तथा ॥ १२ ॥
ततः प्रभृति तल्लिंगं नारदेश्वरभैरवम् ॥
ख्यातं लोके महादेवि सर्वपातकनाशनम् ॥ १३ ॥
अज्ञानाद्वादयेद्यस्तु वीणां चैव तथा स्वरान् ॥
स तत्पातकशुद्ध्यर्थं तत्र गच्छेन्महेश्वरि ॥ १४ ॥
माघे मासि जिताहारस्त्रिकालं योऽर्चयेत्ततः ॥
नारदेशं भैरवं स स्वर्गरामामनोहरः ॥ १५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये ब्रह्मकुण्डमाहात्म्ये नारदेश्वरभैरवमाहात्म्यवर्णनंनाम द्विपंचाशदुत्तरशततमोऽध्यायः ॥ १५२ ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 153
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि हिरण्येश्वरमुत्तमम् ॥
ब्रह्मकुण्डस्य वायव्ये धनुषां द्वितये स्थितम् ॥ १ ॥
सर्वपापप्रशमनं दारिद्र्यौघविनाशनम् ॥
कृतस्मराच्च परतो ह्यग्नितीर्थाच्च पूर्वतः ॥ २ ॥
यमेश्वराच्च नैर्ऋत्ये समुद्रस्योत्तरे तथा ॥
तस्य लिंगस्य प्राग्भागे ब्रह्मा तेपे महत्तपः ॥
आराधयामास तदा देवदेवं त्रिलोचनम् ॥ ३ ॥
ततस्तुष्टो महादेवो ब्रह्मन्ब्रूहि वरो मम ॥ ४ ॥
॥ ब्रह्मोवाच ॥ ॥
यदि तुष्टोऽसि मे देव याज यामीति मे मतिः ॥
स्थानं च यन्महापुण्यं तन्ममाख्यातुमर्हसि ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
कृतस्मराद्ब्रह्मकुंडं यमेशात्सागरावधि ॥
एतदंतरमासाद्य पापी चापि विमुच्यते ॥ ६ ॥
वहेद्विषुवती तत्र सदा पुण्यात्मनां नृणाम् ॥
यत्र तत्र कुरु विभो मनसा ते यथेप्सितम् ॥ ७ ॥
इत्युक्तः स तदा ब्रह्मा प्रारेभे यज्ञमुत्तमम् ॥ ८ ॥
ततो भागार्थिनो देवा इन्द्राद्यास्तत्र चागताः॥
ऋषयो भागकामास्तु सर्वे तत्र समागताः ॥९॥
ततो यज्ञागतेभ्यः स दक्षिणामददात्पुनः ॥
ततोऽथ दक्षिणा क्षीणा दीयमाना यशस्विनि ॥ 7.1.153.१० ॥
ततोब्रह्मा बहूद्विग्नो दध्यौ वै मनसा तदा ॥
बद्धाञ्जलिपुटो भूत्वा इदं वचनमब्रवीत् ॥ ११ ॥
भगवन्वै विरूपाक्ष क्रतुर्नैव समाप्यते ॥
दक्षिणाहै(दै?)न्यतो देव न याति परिपूर्णताम् ॥ १२ ॥
दक्षिणासहिताः सर्वे यथा यांति तथा कुरु ॥
पितामहवचः श्रुत्वा कृत्वा ध्यानं तदा मया ॥ १३ ॥
स्मृता सरस्वती देवी देवानां हितकाम्यया ॥
आगता सा महापुण्या उक्ता देवी मया तदा ॥ १४ ॥
पद्मयोनेर्धनं क्षीणं क्रतुर्वै न समाप्यते ॥
तस्मान्मम प्रसादेन भव काञ्चनवाहिनी ॥ १५ ॥
सरस्वत्यास्ततः स्रोत उत्थितं पश्चिमामुखम् ॥
काञ्चनानां तु पद्मानि उच्छ्रितानि सहस्रशः ॥ १६ ॥
काञ्चनेन प्रवाहेण तोयं सारस्वतं शुभम् ॥
दैत्यसूदनमासाद्य अग्नितीर्थावधि प्रिये ॥
पूरयामास पद्मैश्च कोटिशश्च समंततः ॥ १७ ॥
काञ्चनानि तु तान्येव दत्त्वा विप्रेषु दक्षिणाम् ॥
यज्ञं निर्वर्तयामास हृष्टो ब्रह्मा द्विजैः सह ॥ १८ ॥
शेषाणि यानि पद्मानि तानि निःक्षिप्य भूतले ॥
तदूर्ध्वं स्थापयामास लिगं तु कनके श्वरम्॥ १९ ॥
तत्र लिंगं प्रतिष्ठाप्य सर्वदेवनमस्कृतम् ॥
ऋषिभ्यो दक्षिणां प्रादादेकैकस्य यथाक्रमम् ॥
काञ्चनानां च पद्मानां प्रत्येकमयुतं ददौ ॥7.1.153.२०॥
ततः शेषाणि पद्मानि निहितानि धरातले ॥
ब्रह्मकुण्डस्य मध्ये तु नापुण्यो लभते नरः ॥२१॥
तत्कुण्डतोयमद्यापि नानावर्णं प्रदृश्यते ॥
तत्राधः पद्मसंयोगान्नीरं स्वर्णायते क्षणात् ॥ २२ ॥
हिरण्मयानि पद्मानि अधः कृत्वा प्रजापतिः ॥
लिंगमूर्ध्वं प्रतिष्ठाप्य स्वयं पूजितवांस्तदा ॥
हिरण्यकमलैर्दिव्यैर्हिरण्येशस्ततोऽभवत् ॥ २३ ॥
सर्वपापप्रशमनं तथा दारिद्र्यनाशनम् ॥
दृष्ट्वा हिरण्मयेशानं सर्वपापैः प्रमुच्यते ॥ २४ ॥
माघ मासे चतुर्दश्यां यस्तल्लिंगं प्रपूजयेत् ॥
पूजितं तेन सकलं ब्रह्माण्डं सचराचरम् ॥ २५ ॥
सर्वदानानि दत्तानि सर्वे देवाश्च तोषिताः ॥
ब्रह्माण्डं तेन दत्तं स्याद्येन तल्लिंगमर्चितम् ॥ २६ ॥
एतन्मया ते कथितं स्नेहेन वरवर्णिनि ॥
न कस्यचिन्मयाऽऽख्यातं महागोप्यं वरानने । २७ ॥
य इदं शृयुयाद्भक्त्या पठेद्वा भक्तिसंयुतः ॥
स गच्छेद्देवलोकं तु मुक्तः सर्वैस्तु पातकैः ॥ २८ ॥
इति ते चातिविख्याताः पवित्राः पञ्च भैरवाः ॥
ब्रह्मकुण्डसमीपस्थाः कथितास्तव सुन्दरि ॥ २९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्ये हिरण्येश्वरमाहात्म्यवर्णनंनाम त्रिपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५३ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 154
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं पापविमोचनम् ॥
हिरण्येश्वरवायव्ये धनुषां त्रितये स्थितम् ॥ १ ॥
पापघ्नं सर्वजंतूनां दर्शनात्स्पर्शनादपि ॥
आद्यं लिंगं महादेवि गायत्र्या संप्रतिष्ठितम् ॥ २ ॥
तल्लिंगं समनुप्राप्य गायत्रीं जपते तु यः ॥
ब्राह्मणस्तु शुचिर्भूत्वा मुच्यते दुष्प्रतिग्रहात् ॥ ३ ॥
ज्येष्ठस्य पूर्णिमायां तु दंपती यस्तु भोजयेत् ॥
परिधाप्य यथाशक्त्या दौर्भाग्यैर्मुच्यते नरः ॥ ४ ॥
गंधपुष्पोपहारैश्च पौर्णमास्यां तु योऽर्चयेत् ॥
ब्राह्मण्यं जायते तस्य सप्त जन्मानि सुंदरि ॥ ५ ॥
इत्येवं कथितं देवि माहात्म्यं पापनाशनम् ॥
ब्रह्मकुण्डप्रसादेन सारात्सारतरं प्रिये ॥ ६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्ये गायत्रीश्वरमाहात्म्यवर्णनंनाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५४ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 155
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि रत्नेश्वरमनुत्तमम् ॥
तत्र तप्त्वा तपो देवि विष्णुना प्रभविष्णुना ॥
स्थापितं तत्र तल्लिंगं सर्वकामप्रदं प्रिये ॥ १ ॥
रत्नकुंडे नरः स्नात्वा यस्तं पूजयते सदा ॥
सर्वोपचारैर्भक्त्या स प्राप्नुयादीप्सितं फलम् ॥ २ ॥
अत्र कृत्वा तपो घोरं कृष्णेनामिततेजसा ॥
प्राप्तं सुदर्शनं चक्रं सर्वदैत्यान्तकारकम् ॥ ३ ॥
एतत्स्थानं महादेवि सदा प्रियतरं मम ॥
वसामि तत्र देवेशि प्रलयेऽपि न संत्यजे ॥ ४ ॥
स्मृतं तद्वैष्णवं क्षेत्रं नाम्ना देवि सुदर्शनम् ॥
धन्वंतराणि षट्त्रिंशत्समंतात्परिमण्डलम् ॥ ५ ॥
एतदन्तरमासाद्य ये केचित्प्राणिनोऽधमाः ॥
मृताः कालवशाद्देवि ते यास्यंति परं पदम् ॥ ६ ॥
कांचनं तत्र गरुडं पीतानि वसनानि च ॥
विष्णुमुद्दिश्य यो दद्यात्स तु यात्राफलं लभेत् ॥ ७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्यवर्णनंनाम पंचपंचाशदु त्तरशततमोऽध्यायः ॥ १५५ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 156
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि वैनतेयप्रतिष्ठितम् ॥
रत्नेश्वरादुत्तरतो धनुषां त्रितये स्थितम् ॥ १ ॥
वैनतेयश्च देवेशि ज्ञात्वा क्षेत्रं तु वैष्णवम् ॥
लिंगं प्रतिष्ठयामास सर्वपापप्रणाशनम् ॥ २ ॥
यस्तं पूजयते भक्त्या पंचम्यां तु विधानतः ॥
न विषं क्रमते तस्य सप्त जन्मानि सर्पजम् ॥ ३ ॥
पंचामृतेन संस्नाप्य पूजयित्वा विधानतः ॥
प्राप्नुयात्सकलं पुण्यं मोदते दिवि देववत् ॥ ४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्ये गरुडेश्वरमाहात्म्यवर्णनंनाम षट्पंचाशदुत्तरशततमोऽध्यायः ॥ १५६ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 157
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि सत्यभामेश्वरं शुभम् ॥
रत्नेश्वराद्दक्षिणे तु धनुषांतरमास्थितम् ॥ १ ॥
सर्वपापप्रशमनं स्थापितं सत्यभामया ॥
कृष्णस्य कान्तया देवि रूपौदार्यसमेतया ॥ २ ॥
स्नात्वा तद्वैष्णवं स्थानं नृणां पातकनाशनम् ॥ ३ ॥
माघे मासि तृतीयायां नारी वा पुरुषोऽपि वा ॥
यस्तं पूजयते भक्त्या स मुक्तः पातकैर्भवेत् ॥ ४ ॥
दौर्भाग्यदुःखशोकेभ्यस्तथा विघ्नैश्च दुःखितः ॥
मुच्यते नात्र संदेहः सत्यभामान्वितो भवेत् ॥ ५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सत्यभामेश्वरमाहात्म्यवर्णनंनाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५७ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 158
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि अनंगेश्वरमुत्तमम् ॥
रत्नेश्वरादग्रतःस्थं धनुषान्तरमास्थितम् ॥ १ ॥
स्थापितं कामदेवेन तल्लिंगं विष्णुसूनुना ॥
ज्ञात्वा तद्वैष्णवं स्थानं कलौ पातकनाशनम् ॥ २ ॥
तं दृष्ट्वा पूजयित्वा तु कामदेवसमो भवेत् ॥
स्वर्गविद्याधरीणां च जायते चित्तमोहकः ॥ ३ ॥
तस्यान्वयेऽपि न भवेत्कुरूपो दुर्भगोऽपि वा ॥ ४ ॥
तत्रानंगत्रयोदश्यां व्रतेन वरवर्णिनि ॥
विशेषाराधनं तत्र जन्मसाफल्यकारणम् ॥ ५ ॥
शय्यादानं तु दातव्यं तत्र विप्राय शीलिने ॥
विशेषाद्विष्णुभक्ताय सम्यग्यात्राफलं लभेत् ॥ ६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्येऽनंगेश्वरमाहात्म्यवर्णनंनामाष्टपंचाशदुत्तरशततमोऽध्यायः ॥ १५८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 159
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि रत्नकुण्डमनुत्तमम् ॥
रत्नेशाद्दक्षिणे भागे धनुषां सप्तके स्थितम् ॥
महापापोपशमनं विष्णुना निर्मितं स्वयम् ॥ १ ॥
अष्टकोटीस्तु तीर्थानि भूद्योऽन्तरिक्षगाणि तु ॥
समानीय तु कृष्णेन तत्र क्षिप्तानि भूरिशः ॥ २ ॥
गणानां कोटिरेका तु तत्कुण्डं रक्षति प्रिये ॥
कलौ युगे तु संप्राप्ते दुष्प्राप्यमकृतात्मभिः ॥ ३ ॥
तत्र स्नात्वा महादेवि विधिदृष्टेन कर्मणा ॥
प्राप्नुयादश्वमेधस्य फलं शतगुणोत्तरम् ॥ ४ ॥
एकादश्यां विशेषेण पिंडं तत्र प्रदापयेत् ॥
अक्षय्यां तृप्तिमायांति पितरस्तस्य भामिनि ॥ ५ ॥
कुर्याज्जागरणं तत्र एकादश्यां विधानतः ॥
वाञ्छितं लभते देवि यदि श्रद्धा दृढा भवेत् ॥ ६ ॥
देयानि पीतवस्त्राणि तथा धेनुः पयस्विनी ॥
तत्र विष्णुं समुद्दिश्य सम्यग्यात्राफलाप्तये ॥ ७ ॥
हेमकुण्डं कृते प्रोक्तं त्रेतायां रौप्यनामकम् ॥
द्वापरे चक्रकुंडं तु रत्नकुंडं कलौ स्मृतम् ॥ ८ ॥
पातालवाहिनीगंगा स्रोतांसि तत्र भूरिशः ॥
समानीतानि हरिणा तत्र तिष्ठंति भामिनि ॥ ९ ॥
तत्र स्नानेन देवेशि सर्वतीर्थाभिषेचनम् ॥ 7.1.159.१० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्यवर्णनं- नामैकोनषष्ट्युत्तरशततमोऽध्यायः ॥१५९॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 160
॥ ॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि राजभट्टारकं परम् ॥
रैवन्तकं सूर्यपुत्रमश्वारूढं महाबलम् ॥ १ ॥
संस्थितं क्षेत्रमध्ये तु सावित्र्या नैर्ऋते प्रिये ॥
तं दृष्ट्वा मानवो देवि सर्वापद्भ्यो विमुच्यते ॥२॥
रविवारेण सप्तम्यां यस्तं पूजयते नरः ॥
तस्याऽन्वयेऽपि नो देवि दरिद्री जायते नरः॥३॥
तस्मात्सर्वप्रयत्नेन तमेवाराधयेन्मनाक् ॥
निर्विघ्नं क्षेत्रवासार्थं राजा वाऽश्वविवृद्धये ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रैवंतकराजभट्टारकमाहात्म्यवर्णनंनाम षष्ट्युत्तरशततमोऽध्यायः ॥ १६० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 161
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्य दक्षिणतः स्थितम् ॥
ईशाने लक्ष्मणेशाच्च धनुषां षोडशे प्रिये ॥१॥
अनन्तेश्वरनामानमनन्तेन प्रतिष्ठितम् ॥
नागराजेन देवेशि ज्ञात्वा क्षेत्रं तु पावनम् ॥ २ ॥
यस्तु तं पूजयेद्देवि पंचम्यां फाल्गुने सिते ॥
पञ्चोपचारविधिना जिताहारो जितेन्द्रियः ॥ ३ ॥
न तं दशंति फणिनो दश वर्षाणि पंच च ॥
विषं न क्रमते देवि देहे त्वचरमेव वा ॥ ४ ॥
तस्मात्तं पूजयेद्यत्नात्पंचम्यां च विशेषतः ॥ ५ ॥
तत्रानंतव्रतं कार्यं मधुपायससंयुतम् ॥
पायसं मधुसंयुक्तं देयं विप्राय भोजनम् ॥ ६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽनन्तेश्वरमाहात्म्यवर्णनंनामैकषष्ट्युत्तरशततमोऽध्यायः ॥ १६१ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 162
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्माद्दक्षिणतः स्थितम् ॥
लक्ष्मणेशाच्च पूर्वस्मिँल्लिंगमष्टकुलेश्वरम् ॥ १ ॥
सर्वपापप्रशमनं महाविषप्रणाशनम् ॥
पूजितं सिद्धगन्धर्वैर्वाञ्छितार्थप्रदायकम् ॥ २ ॥
यस्तं पूजयते मर्त्यः कृष्णाष्टम्यां विधानतः ॥
स मुक्तः पातकैर्घोरैर्नागलोके महीयते ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्येऽष्टकुलेश्वरमाहात्म्यवर्णनंनाम द्विषष्ट्युत्तर शततमोऽध्यायः ॥ १६२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 163
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्मात्पूर्वेण संस्थितम् ॥
नासत्येश्वरनामानं महा कल्मषनाशनम् ॥ १ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये नासत्येश्वराश्विनेश्वरमाहात्म्यवर्णनंनाम त्रिषष्ट्युत्तरशततमोऽध्यायः ॥ १६३ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 164
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्मात्पूर्वेण संस्थितम् ॥
महापापौघशमनं पूजितं सर्वकामदम् ॥ १ ॥
अश्विनेश्वरनामानं धनुषां पंचके स्थितम् ॥
सर्वरोगप्रशमनं दृष्टं सर्वार्थसाधकम् ॥ २ ॥
ये केचिद्रोगिणो लोके तेषां तद्भेषजं महत् ॥
माघमासे द्वितीयायां दर्शनं तस्य दुर्लभम् ॥ ३ ॥
तस्मात्पश्येच्च तद्भक्त्या यदि श्रेयोऽभिकांक्षितम् ॥
महापापौघशमनं पूजितं सर्वकामदम् ॥ ४ ॥
इति लिङ्गद्वयं देवि सूर्यपुत्रप्रतिष्ठितम् ॥
तस्मिन्नेव दिने पश्येत्संयतात्मा नरोत्तमः ॥ ५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽश्विनेश्वरमाहात्म्यवर्णनंनाम चतुःषष्ट्युत्तरशततमोऽध्यायः ॥ १६४ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 165
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि सावित्रीं लोकमातरम् ॥
महा पापप्रशमनीं सोमेशादीशदिक्स्थिताम् ॥ १ ॥
संयतात्मा नरः पश्येत्तत्र तां नियतात्मवान् ॥ २ ॥
ब्रह्मणा यष्टुकामेन सावित्री सहधर्मिणी ॥
कृता तां बलतो ज्ञात्वा गायत्रीं कोपमाविशत् ॥ ३ ॥
ततः संत्यज्य सा देवी ब्रह्माणं कमलोद्भवम् ॥
सपत्नीरोषसन्तप्ता प्रभासं क्षेत्रमाश्रिता ॥ ४ ॥
तपः करोति विपुलं देवैरपि सुदुःसहम् ॥
तत्र स्थले स्थिता देवी साऽद्यापि प्रियदर्शना ॥ ५ ॥
॥ श्रीदेव्युवाच ॥ ॥
किमर्थं सा परित्यक्ता सावित्री ब्रह्मणा पुरा ॥
गायत्री च कथं प्राप्ता केन चास्य निवेदिता ॥ ६ ॥
कीदृशीं तां च गायत्रीं लब्धवान्पद्मसंभवः ॥
यस्तां पत्नीं समुत्सृज्य तस्यामेव मनो दधौ ॥ ७ ॥
कस्य सा दुहिता देव किमर्थं च विवाहिता ॥
एतन्मे कौतुकं सर्वं यथावद्वक्तुमर्हसि ॥ ८ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि सावित्र्याश्चरितं महत् ॥
यथा सा ब्रह्मणा त्यक्ता गायत्री च विवाहिता ॥ ९ ॥
पुरा बुद्धिः समुत्पन्ना ब्रह्मणोऽव्यक्तजन्मनः ॥
इति वेदा मया प्रोक्ता यज्ञार्थं नात्र संशयः ॥ 7.1.165.१० ॥
यज्ञैः संतर्पिता देवा वृष्टिं दास्यंति भूतले ॥
ततश्चौषधयः सर्वा भविष्यंति धरातले ॥ ११ ॥
तस्मात्संजायते शुक्रं शुक्रात्सृष्टिः प्रवर्तते ॥
सृष्ट्यर्थं सर्वलोकानां ततो यज्ञं करोम्यहम् ॥ १२ ॥
दृष्ट्वा मां यज्ञ आसक्तं ये च विप्रा धरातले ॥
ते यज्ञान्प्रचरिष्यंति शतशोऽथ सहस्रशः ॥ १३ ॥
एवं स निश्चयं कृत्वा यज्ञार्थं सुरसुंदरि ॥
तीर्थं निवेशयामास पुष्करं नाम नामतः ॥ १४ ॥
यज्ञवाटो महांस्तत्र आसीत्तस्य महात्मनः ॥
तत्र देवर्षयः सर्वे देवाः सेन्द्रपुरोगमाः ॥ १५ ॥
समायाता महादेवि यज्ञे पैतामहे तदा ॥
पुण्यास्तेऽपि द्विजश्रेष्ठास्तत्रर्त्विजः प्रजज्ञिरे ॥ १६ ॥
सावित्री लोकजननी पत्नी तस्य महात्मनः ॥
गृहकार्ये समासक्ता दीक्षा कालव्यतिक्रमात् ॥
अध्वर्युणा समाहूता सावित्री वाक्यमब्रवीत् ॥ १७ ॥
॥ सावित्र्युवाच ॥ ॥
अद्यापि न कृतो वेषो न गृहे गृहमण्डनम् ॥
लक्ष्मीर्नाद्यापि संप्राप्ता न भवानी न जाह्नवी ॥ १८ ॥
न स्वाहा न स्वधा चैव तथा चैवाप्यरुंधती ॥
इन्द्राणी देवपत्न्योऽन्याः कथमेकाकिनी व्रजे ॥ १९ ॥
उक्तः पितामहो गत्वा पुलस्त्येन महात्मना ॥
सावित्री देव नायाति प्रसक्ता गृहकर्मणि ॥ 7.1.165.२० ॥
त्वत्पत्नी किमिदं कर्म फलेन संप्रवर्तते ॥
तच्छ्रुत्वा दीक्षितो वाचं शिखी मुंडी मृगाजिनी ॥ २१ ॥
पत्नीकोपेन संतप्तः प्राह देवं पुरंदरम् ॥ २२ ॥
गच्छ मद्वचनाच्छक्र पत्नीमन्यां कुतश्चन ॥
गृहीत्वा शीघ्रमागच्छ न स्यात्कालात्ययो यथा ॥ २३ ॥
जगाम बलहा तूर्णं वचनात्परमेष्ठिनः ॥
अपश्यमानः कांचित्स्त्रीं या योग्या हंसवाहने ॥ २४ ॥
अथ शापाद्बिभीतेन सहस्राक्षेण धीमता ॥
दृष्टा गोपालकन्यैका रूपयौवनशालिनी ॥ २५ ॥
बिभ्रती तत्र पूर्णं सा कुम्भं कन्येत्यचोदयत् ॥
तां गृहीत्वा ततः शक्रः समायाद्यत्र दीक्षितः ॥
देवदेवश्चतुर्वक्त्रो विष्णुरुद्रसमन्वितः ॥ २६ ॥
संप्रदानं तु कृतवान्कन्याया मधुसूदनः ॥२७॥
प्रेरितः शंकरेणैव ब्रह्मा देवर्षिभिस्तथा॥
परिणीयतां ततो दीक्षां तस्याश्चक्रे यथात्मनः ॥२८ ॥
ततः प्रवर्तितो यज्ञः सर्वकामसमन्वितः ॥२९॥
अत्रिर्होतार्चिकस्तत्र पुलस्त्योऽध्वर्युरेव च॥
उद्गाताऽथो मरीचिश्च ब्रह्माहं सुरपुंगवः॥7.1.165.३०॥
सनत्कुमारप्रमुखाः सदस्यास्तस्य निर्मिताः॥
वस्त्रैराभरणैर्युक्ता मुकुटैरंगुलीयकैः ॥ ३१ ॥
भूषिता भूषणोपेता एकैकस्य पृथक्पृथक् ॥
त्रयस्त्रयः पृष्ठतोऽन्ये ते चैवं षोडशर्त्विजः ॥३२॥
प्रोक्ता भवद्भि र्यज्ञेऽस्मिन्ननुगृह्योऽस्मि सर्वदा ॥
पत्नी ममेयं गायत्री यज्ञेऽस्मिन्ननुगृह्यताम् ॥ ३३ ॥
मृदुवस्त्रधरां साक्षात्क्षौमवस्त्रावगुण्ठिताम् ॥
निष्क्रम्य पत्नीशालात ऋत्विग्भिर्वेदपारगैः ॥ ३४ ॥
औदुम्बरेण दण्डेन संवृतो मृगचर्मणा ॥
तया सार्धं प्रविष्टश्च ब्रह्मा तं यज्ञमण्डपम् ॥३५॥
॥ ईश्वर उवाच ॥ ॥
एतस्मिन्नेव काले तु संप्राप्ता देवयोषितः ॥
संप्राप्ता यत्र सावित्री यज्ञे तस्मिन्निमंत्रिताः ॥ ३६ ॥
भृगोः ख्यात्यां समुत्पन्ना विष्णुपत्नी यशस्विनी ॥
आमन्त्रिता सा लक्ष्मीश्च तत्रायाता त्वरान्विता ॥ ३७ ॥
तत्र देवी महाभागा योगनिद्रादिभूषिता ॥
देवी कांतिस्तथा श्रद्धा द्युतिस्तुष्टिस्तथैव च ॥ ३८ ॥
सती या दक्षतनया उमा या पार्वती शुभा ॥
त्रैलोक्यसुन्दरी देवी स्त्रीणां सौभाग्यदायका ॥३९॥
जया च विजया चैव गौरी चैव महाधना ॥
मनोजवा वायुपत्नी ऋद्धिश्च धनदप्रिया ॥ 7.1.165.४० ॥
देवकन्यास्तथाऽऽयाता दानव्यो दनुवंशजाः ॥
सप्तर्षीणां तथा पत्न्य ऋषीणां च तथैव च ॥ ४१ ॥
प्लवा मित्रा दुहितरो विद्याधरगणास्तथा ॥
पितरो रक्षसां कन्यास्तथाऽन्या लोकमातरः ॥ ४२ ॥
वधूभिश्चैव मुख्याभिः सावित्री गन्तुमिच्छति ॥
अदित्याद्यास्तथा देव्यो दक्षकन्याः समागताः ॥ ४३ ॥
ताभिः परिवृता सार्धं ब्रह्माणी कमलालया ॥
काश्चिन्मोदकमादाय काश्चित्पूपं वरानने ॥ ४४ ॥
फलानि तु समादाय प्रयाता ब्रह्मणोऽन्तिकम् ॥
आढकीश्चैव निष्पावान्राजमाषांस्तथाऽपराः ॥ ४५ ॥
दाडिमानि विचित्राणि मातुलिंगानि शोभने॥
करीराणि तथा चान्या गृहीत्वा करमर्दकान्॥४६॥
कौसुंभं जीरकं चैव खर्जूरं चापरास्तथा॥
उततीश्चापरा गृह्य नालिकेराणि चापराः॥४७॥
द्राक्षया पूरितं चाम्रं शृङ्गाराय यथा पुरा॥
कर्बुराणि विचित्राणि जंबूकानि शुभानि च॥४८॥
अक्षोडामलकान्गृह्य जंबीराणि तथा पराः ॥
बिल्वानि परिपक्वानि चिर्भटानि वरानने ॥ ४९ ॥
अन्नपानाधिकाराणि बहूनि विविधानि च ॥
शर्करापुत्तलीं चान्या वस्त्रे कौसुम्भके तथा ॥ 7.1.165.५० ॥
एवमादीनि चान्यानि गृह्य पूर्वे वरानने ॥
सावित्र्या सहिताः सर्वाः संप्राप्तास्तु तदा शुभाः ॥ ५१ ॥
सावित्रीमागतां दृष्ट्वा भीतस्तत्र पुरंदरः ॥
अधोमुखः स्थितो ब्रह्मा किमेषा मां वदिष्यति ॥ ५२ ॥
त्रपान्वितौ विष्णुरुद्रौ सर्वे चान्ये द्विजातयः ॥
सभासदस्तथा भीतास्तथैवान्ये दिवौकसः ॥ ५३ ॥
पुत्रपौत्रा भागिनेया मातुला भ्रातरस्तथा ॥
ऋतवो नाम ये देवा देवानामपि देवताः ॥ ५४ ॥
विलक्षास्तु तथा सर्वे सावित्री किं वदिष्यति ॥
ब्रह्मवाक्यानि वाच्यानि किं नु वै गोपकन्यया ॥ ॥ ५५ ॥
मौनीभूतास्तु शृण्वानाः सर्वेषां वदतां गिरः ॥
अध्वर्युणा समाहूता नागता वरवर्णिनी ॥ ५६ ॥
शक्रेणान्या तथाऽऽनीता दत्ता सा विष्णुना स्वयम् ॥
अनुमोदिता च रुद्रेण पित्रा दत्ता स्वयं तथा ॥ ५७ ॥
कथं सा भविता यज्ञः समाप्तिं वा कथं व्रजेत् ॥
एवं चिन्तयतां तेषां प्रविष्टा कमलालया ॥ ५८ ॥
वृतो ब्रह्मा भार्यया स ऋत्विग्भिर्वेदपारगैः ॥
हूयन्ते चाग्नयस्तत्र ब्राह्मणैर्वेदपारगैः ॥ ५९ ॥
पत्नीशाले तथा गोपी रौप्यशृंगा समेखला ॥
क्षौमवस्त्रपरीधाना ध्यायन्ती परमेश्वरम् ॥ 7.1.165.६० ॥
पतिव्रता पतिप्राणा प्राधान्येन निवेशिता ॥
कृपान्विता विशालाक्षी तेजसा भास्करोपमा ॥ ६१ ॥
द्योतयंती सदस्तत्र सूर्यस्येव यथा प्रभा ॥
ज्वलमानस्तथा वह्निर्भ्रमंते चर्त्विजस्तथा ॥ ६२ ॥
पशूनामवदानानि गृह्णंति द्विजसत्तमाः ॥
प्राप्ता भागार्थिनो देवा विलंबसमयोऽभवत् ॥ ६३ ॥
कालहीनं न कर्तव्यं कृतं न फलदं भवेत् ॥
वेदेष्वयमधीकारो दृष्टः सर्वो मनीषिभिः ॥ ६४ ॥
प्रवर्ग्ये क्रियमाणे तु ब्राह्मणैर्वेदपारगैः ॥
क्षीरद्वये हूयमाने मंत्रेणाध्वर्युणा तथा ॥ ६५ ॥
उपहूतोपहूतेन आगतेषु द्विजन्मसु ॥
क्रियमाणे तथा भक्ष्ये दृष्ट्वा देवी क्रुधान्विता ॥
उवाच देवी ब्रह्माणं सदोमध्ये तु मौनिनम् ॥ ६६ ॥
किमेवं बुध्यते देव कृतमेतद्विचेष्टितम् ॥
मां परित्यज्य यः कामात्कृतवानसि किल्बिषम् ॥ ६७ ॥
न तुल्या पादरजसा समा साऽधिशिरः कृता ॥ ६८ ॥
यद्वदंति नराः सर्वे संगताः सदसि स्थिताः ॥
आश्चर्यं च प्रभूणां तु कुरुते यं यमिच्छति ॥ ६९ ॥
भवता रूपलोभेन कृतं कर्म विगर्हितम् ॥ 7.1.165.७० ॥
न पुत्रेषु कृता लज्जा पौत्रेषु च न ते विभो ॥
कामकारकृतं मन्ये ह्येतत्कर्म विगर्हितम् ॥ ७१ ॥
पितामहोऽसि देवानामृषीणां प्रपितामहः ॥
कथं न ते त्रपा जाता आत्मनः पश्यतस्तनुम् ॥ ७२ ॥
लोकमध्ये कृतं हास्यमिह चैव विगर्हितः ॥
यद्येष ते स्थितो भावस्तिष्ठ देव नमोऽस्तु ते ॥७३॥
अहं कथं सखीनां तु दर्शयिष्यामि वै मुखम् ॥
भर्त्रा मे विहिता पत्नी कथमेतदहं वदे ॥ ७४ ॥
॥ ब्रह्मोवाच ॥ ॥
ऋत्विग्भिरहमाज्ञप्तो दीक्षा कालोऽतिवर्तते ॥
पत्नीं विना न होमोत्र शीघ्रं पत्नीमिहानय ॥ ७५ ॥
शक्रेणैषा समानीता दत्ता चैवाऽथ विष्णुना ॥
गृहीता च मया त्वं हि क्षमस्वैकं मया कृतम् ॥
न चापराध्यं भूयोऽन्यं करिष्ये तव सुव्रते ॥ ७६ ॥
॥ ईश्वर उवाच ॥ ॥
एवमुक्ता तदा क्रुद्धा ब्रह्माणं शप्तुमुद्यता॥
यदि मेऽस्ति तपस्तप्तं गुरवो यदि तोषिताः ॥ ७७ ॥
सर्वब्राह्मणशालासु स्थानेषु विविधेष्वपि ॥
न तु ते ब्राह्मणाः पूजां करिष्यंति कदाचन ॥ ॥ ७८ ॥
ऋते वै कार्तिकीमेकां पूजां सांवत्सरीं तव ॥
करिष्यंति द्विजाः सर्वे सत्येनानेन ते शपे ॥
एतद्बुद्ध्वा न कोपोस्तु हतो हन्ति न संशयः ॥ ॥ ७९ ॥
॥ सावित्र्युवाच ॥ ॥
भोभोः शक्र त्वयानीता आभीरी ब्रह्मणोऽन्तिकम् ॥
यस्मादीदृक्कृतं कर्म तस्मात्त्वं लप्स्यसे फलम् ॥7.1.165.८०॥
यदा संग्राममध्ये त्वं स्थाता शक्र भविष्यसि ॥
तदा त्वं शत्रुभिर्बद्धो नीतः परमिकां दशाम् ॥ ८१ ॥
अकिंचनो नष्टसुतः शत्रूणां नगरे स्थितः॥
पराभवं महत्प्राप्य अचिरादेव मोक्ष्यसे ॥ ८२ ॥
शक्रं शप्त्वा तदा देवी विष्णुं चाऽथ वचोब्रवीत् ॥ ८३ ॥
गुरुवाक्येन ते जन्म यदा मर्त्ये भवि ष्यति ॥
भार्याविरहजं दुःखं तदा त्वं तत्र भोक्ष्यसे ॥ ८४ ॥
हृतां शत्रुगणैः पत्नीं परे पारे महोदधेः ॥
न च त्वं ज्ञायसे सीतां शोकोपहचेतनः ॥ ८५ ॥
भ्रात्रा सह परां काष्ठामापदं दुःखितस्तथा ॥
पशूनां चैव संयोगश्चिरकालं भविष्यति ॥ ८६ ॥
तथाऽऽह रुद्रं कुपिता यदा दारुवने स्थितः ॥
तदा ते मुनयः क्रुद्धाः शापं दास्यंति ते हर ॥ ८७ ॥
भोभोः कापालिक क्षुद्र पत्न्योऽस्माकं जिहीर्षसि ॥
तदेतद्भूषितं लिंग भूमौ रुद्र पतिष्यति ॥ ८८ ॥
विहीनः पौरुषेण त्वं मुनिशापाच्च पीडितः ॥
गंगातीरे स्थिता पत्नी सा त्वामाश्वासयिष्यति ॥ ८९ ॥
अग्ने त्वं सर्वभक्षोऽसि पूर्वं पुत्रेण मे कृतः ॥
भ्रूणहा धर्म इत्येष कथं दग्धं दहाम्यहम् ॥ 7.1.165.९० ॥
जातवेदस रुद्रस्त्वां रेतसा प्लावयिष्यति ॥
मेध्येषु च कृतज्वाला ज्वालया त्वां ज्वलिष्यति ॥ ९१ ॥
ब्राह्मणानृत्विजः सर्वान्सावित्री ह्यशपत्तदा ॥ ९२ ॥
प्रतिग्रहाग्निहोत्राश्च वृथा दारा वृथाश्रमाः ॥
सदा क्षेत्राणि तीर्थानि लोभादेव गमिष्यथ ॥ ९३ ॥
परान्नेषु सदा तृप्ता अतृप्ताः स्वगृहेषु च ॥
अयाज्ययाजनं कृत्वा कुत्सितस्य प्रतिग्रहम् ॥ ९४ ॥
वृथा धनार्जनं कृत्वा व्यवश्चैव तथा वृथा ॥
मृतानां तेन प्रेतत्वं भविष्यति न संशयः ॥ ९५ ॥
एवं शक्रं तथा विष्णुं रुद्रं वै पावकं तथा ॥
ब्रह्माणं ब्राह्मणांश्चैव सर्वांस्तानशपत्तदा ॥ ९६ ॥
शापं दत्त्वा तथा तेषां तदा सावस्थिता स्थिरा ॥ ९७ ॥
लक्ष्मीः प्राह सखीं तां च इन्द्राणी च वरानना ॥
अन्या देव्यस्तथा प्राहुः साऽऽह स्थास्यामि नात्र वै ॥
तत्र चाहं गमिष्यामि यत्र श्रोष्ये न तु ध्वनिम् ॥ ९८ ॥
ततस्ताः प्रमदाः सर्वाः प्रयाताः स्वं निकेतनम् ॥
सावित्री कुपिता तासां पुनः शापाय चोद्यता ॥ ९९ ॥
यस्मान्मां संपरित्यज्य गतास्ता देवयोषितः ॥
तासामपि तथा शापं प्रदास्ये कुपिता भृशम् ॥ 7.1.165.१०० ॥
नैकत्र वासो लक्ष्म्यास्तु भविष्यति कदाचन ॥
रुद्रापि चंचला तावन्मूर्खेषु च वसिष्यसि ॥ १०१ ॥
म्लेच्छेषु पर्वतीयेषु कुत्सिते कुष्ठिते तथा ॥
वाचाटे चावलिप्ते च अभिशस्ते दुरात्मनि ॥
एवंविधे नरे तुभ्यं वसतिः शापकारिता ॥ १०२ ॥
शापं दत्त्वा ततस्तस्या इन्द्राणीमशपत्तदा ॥ १०३ ॥
त्वष्टुर्वाचा गृहीतेन्द्रे पत्यौ ते दुष्टकारिणि ॥
नहुषाय गते राज्ये दृष्ट्वा त्वां याचयिष्यति ॥ ॥ १०४ ॥
अहमिन्द्रः कथं चैषा नोपतिष्ठति चालसा ॥
सर्वान्देवान्हनिष्यामि लप्स्ये नाहं शचीं यदि ॥ १०५ ॥
नष्टा त्वं च तदा शस्ता वने महति दुःखिता ॥
वसिष्यसि दुराचारे शापेन मम गर्विते ॥ १०६ ॥
देवभार्यासु सर्वासु तदा शापमयच्छत ॥ १०७ ॥
न चापत्यकृता प्रीतिः सर्वास्वेव भविष्यति ॥
दह्यमाना दिवारात्रौ वंध्याशब्देन दुःखिताः ॥१०८॥
गौरीमेवं तथा शप्त्वा सा देवी वरवर्णिनी ॥
उच्चै रुरोद सावित्री भर्तृ यज्ञाद्बहिः स्थिता ॥ १०९ ॥
रोदमाना तु सा दृष्टा विष्णुना च प्रसादिता ॥
मा रोदीस्त्वं विशालाक्षि एह्यागच्छ सदः शुभे ॥ 7.1.165.११० ॥
प्रविष्टा च शुभे यागे मेखलां क्षौमवाससी ॥
गृहाण दीक्षां ब्रह्माणि पादौ ते प्रणमे शुभे ॥ १११ ॥
एवमुक्ताऽब्रवीदेनं नाहं कुर्यां वचस्तव ॥
तत्राहं च गमिष्यामि यत्र श्रोष्ये न च ध्वनिम् ॥ ११२ ॥
एतावदुक्त्वा व्यरमदुच्चैः स्थाने क्षितौ स्थिता ॥ ११३ ॥
विष्णुस्तदग्रतः स्थित्वा बद्ध्वा च करसंपुटम् ॥
तुष्टाव प्रणतो भूत्वा भक्त्या परमया युतः ॥ ११४ ॥
॥ विष्णुरुवाच ॥ ॥
नमोऽस्तु ते महादेवि भूर्भुवःस्वस्त्रयीमयि ॥
सावित्रि दुर्गतरिणि त्वं वाणी सप्तधा स्मृता ॥ ११५ ॥
सर्वाणि स्तुतिशास्त्राणि लक्षणानि तथैव च ॥
भविष्या सर्वशास्त्राणां त्वं तु देवि नमोऽस्तु ते ॥ ॥ ११६ ॥
श्वेता त्वं श्वेतरूपासि शशांकेन समानना ॥
शशिरश्मिप्रकाशेन हरिणोरसि राजसे ॥
दिव्यकुंडलपूर्णाभ्यां श्रवणाभ्यां विभूषिता ॥ ॥ ११७ ॥
त्वं सिद्धिस्त्वं तथा ऋद्धिः कीर्तिः श्रीः संततिर्मतिः ॥
संध्या रात्रि प्रभातस्त्वं कालरात्रिस्त्वमेव च ॥ ११८ ॥
कर्षुकाणां यथा सीता भूतानां धारिणी तथा ॥
एवं स्तुवंतं सावित्री विष्णुं प्रोवाच सुव्रता ॥ ११९ ॥
सम्यक्स्तुता त्वया पुत्र अजेयस्त्वं भविष्यसि ॥
अवतारे सदा वत्स पितृमातृसु वल्लभः ॥ 7.1.165.१२० ॥
अनेन स्तवराजेन स्तोष्यते यस्तु मां सदा ॥
सर्वदोषविनिर्मुक्तः परं स्थानं गमिष्यति ॥ १२१ ॥
गच्छ यज्ञं चिरं तस्य समाप्तिं नय पुत्रक ॥ १२२ ॥
कुरुक्षेत्रे प्रयागे च भविष्ये यज्ञकर्मणि ॥
समीपगा स्थिता भर्तुः करिष्ये तव भाषितम् ॥ १२३ ॥
एवमुक्तो गतो विष्णुर्ब्रह्मणः सद उत्तमम् ॥
सावित्री तु समायाता प्रभासे वरवर्णिनि ॥१२४॥
गतायामथ सावित्र्यां गायत्री वाक्यमब्रवीत् ॥१२५॥
शृण्वंतु मुनयो वाक्यं मदीयं भर्तृसन्निधौ ॥
यदहं वच्मि संतुष्टा वरदानाय चोद्यता ॥ १२६ ॥
ब्रह्माणं पूजयिष्यंति नरा भक्तिसमन्विताः ॥
तेषां वस्त्रं धनं धान्यं दाराः सौख्यं सुताश्च वै ॥ १२७ ॥
अविच्छिन्नं तथा सौख्यं गृहं वै पुत्रपौत्रिकम् ॥
भुक्त्वाऽसौ सुचिरं कालं ततो मोक्षं गमिष्यति ॥१२८॥
शक्राहं ते वरं वच्मि संग्रामे शत्रुभिः सह ॥
तदा ब्रह्मा मोचयिता गत्वा शत्रुनिकेतनम् ॥ १२९ ॥
सपुत्रशत्रुनाशात्त्वं लप्स्यसे च परं मुदम् ॥
अकंटकं महद्राज्यं त्रैलोक्ये ते भविष्यति ॥ 7.1.165.१३० ॥
मर्त्यलोके यदा विष्णो ह्यवतारं करिष्यसि ॥
भ्रात्रा सह परं दुःखं स्वभार्या हरणं च यत् ॥ १३१ ॥
हत्वा शत्रुं पुनर्भार्यां लप्स्यसे सुरसन्निधौ ॥
गृहीत्वा तां पुनः प्राज्यं राज्यं कृत्वा गमिष्यसि ॥ १३२ ॥
एकादश सहस्राणि कृत्वा राज्यं पुनर्दिवम्॥
ख्यातिस्ते विपुला लोके चानुरागो भविष्यति॥ १३३ ॥
गायत्री ब्राह्मणांस्तांश्च सर्वानेवाब्रवीदिदम् ॥१३४ ॥
युष्माकं प्रीणनं कृत्वाऽ तृप्तिं यास्यंति देवताः॥
भवंतो भूमिदेवा वै सर्वे पूज्या भविष्यथ ॥ १३५ ॥
युष्माकं पूजनं कृत्वा दत्त्वा दानान्यनेकशः॥
प्राणायामेन चैकेन सर्वमेतत्तरिष्यथ॥१३६॥
प्रभासे तु विशेषेण जप्त्वा मां वेदमातरम्॥
प्रतिग्रहकृतान्दोषान्न प्राप्स्यध्वं द्विजोत्तमाः॥१३७ ॥
पुष्करे चान्नदानेन प्रीताः सर्वे च देवताः ॥
एकस्मिन्भोजिते विप्रे कोटिर्भवतिभोजिता ॥ १३८ ॥
ब्रह्महत्यादिपापानि दुरितानि च यानि च ॥
तरिष्यंति नराः सर्वे दत्ते युष्मत्करे धने ॥ १३९ ॥
महीयध्वे तु जाप्येन प्राणायामैस्त्रिभिः कृतैः ॥
ब्रह्महत्यासमं पापं तत्क्षणादेव नश्यति ॥ 7.1.165.१४० ॥
दशभिर्जन्मजनितं शतेन तु पुरा कृतम् ॥
त्रियुगं तु सहस्रेण गायत्री हंति किल्बिषम् ॥ १४१ ॥
एवं ज्ञात्वा सदा पूज्या जाप्ये च मम वै कृते ॥
भविष्यध्वं न सन्देहो नात्र कार्या विचारणा ॥ १४२ ॥
ओंकारेण त्रिमात्रेण सार्धेन च विशेषतः ॥
पूज्याः सर्वे न सन्देहो जप्त्वा मां शिरसा सह ॥ १४३ ॥
अष्टाक्षरस्थिता चाहं जगद्व्याप्तं मया त्विदम् ॥
माताऽहं सर्ववेदानां वेदैः सर्वैरलङ्कता ॥ १४४॥
जत्वा मां परमां सिर्द्धि पश्यन्ति द्विजसत्तमाः ॥
प्राधान्यं मम जाप्येन सर्वेषां वो भविष्यति ॥ १४५ ॥
गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः॥
नायंत्रितश्चतुर्वेदः सर्वाशी सर्वविक्रयी॥१४६॥
यस्माद्भवतां सावित्र्या शापो दत्तो सदे त्विह॥
अत्र दत्तं हुतं चापि सर्वमक्षयकारकम्॥
दत्तो वरो मया तेन युष्माकं द्विजसत्तमाः ॥ १४७ ॥
अग्निहोत्रपरा विप्रास्त्रिकालं होमदायिनः ॥
स्वर्गं ते तु गमिष्यंति एकविंशतिभिः कुलैः ॥ १४८ ॥
एवं शक्रे च विष्णौ च रुद्रे वै पावके तथा ॥
ब्रह्मणो ब्रह्मणानां च गायत्री सा वरं ददौ ॥
तस्मिन्काले वरं दत्त्वा ब्रह्मणः पार्श्वगाऽभवत् ॥ १४९ ॥
हरिणा तु समाख्यातं लक्ष्म्याः शापस्य कारणम् ॥
युवतीनां च सर्वासां शापस्तासां पृथक्पृथक् ॥ 7.1.165.१५० ॥
लक्ष्म्यास्तदा वरं प्रादाद्गायत्री ब्रह्मणः प्रिया ॥ १५१ ॥
अकुत्सिताः सदा पुत्रि तव वासेन शोभने ॥
भविष्यति न संदेहः सर्वेभ्यः प्रीतिदायकाः ॥ १५२ ॥
ये त्वया वीक्षिताः सर्वे सर्वे वै पुण्यभाजनाः ॥
तेषां जातिः कुलं शीलं धर्मश्चैव वरानने ॥ १५३ ॥
परित्यक्तास्त्वया ये तु ते नरा दुःखभागिनः ॥
सभायां ते न शोभन्ते मन्यन्ते न च पार्थिवैः ॥ १५४ ॥
आशिषश्चैव तेषां तु कुर्वते वै द्विजोत्तमाः ॥
सौजन्यं तेषु कुर्वन्ति नप्ता भ्राता पिता गुरुः ॥ १५५ ॥
बांधवोऽसि न संदेहो न जीवेऽहं त्वया विना ॥
त्वयि दृष्टे प्रसन्ना मे दृष्टिर्भवति शोभना ॥
मनः प्रसीदतेऽत्यर्थं सत्यंसत्यं वदामि ते ॥ १५६ ॥
एवंविधानि वाक्यानि त्वया दृष्ट्या निरीक्षिते ॥
सज्जनास्ते वदिष्यन्ति जनानां प्रीतिदायकाः ॥ १५७ ॥
इन्द्राणि नहुषः प्राप्य स्वर्गं त्वां याचयिष्यति ॥
अदृष्ट्वा तु हतः पापो अगस्त्यवचनाद्द्रुतम्॥ १५८ ॥
सर्पत्वं समनुप्राप्य प्रार्थयिष्यति तं मुनिम् ॥
दर्पेणाहं विनष्टोऽस्मि शरणं मे मुने भव ॥ १५९ ॥
वाक्येन तेन तस्यासौ नृपस्य भगवानृषिः ॥
कृत्वा मनसि कारुण्यमिदं वचनमब्रवीत् ॥ 7.1.165.१६० ॥
उत्पत्स्यति कुले राजा त्वदीये कुरुनंदन ॥
सार्पं कलेवरं दृष्ट्वा प्रश्नैस्त्वामुद्धरिष्यति ॥ १६१ ॥
सोऽप्यजगरतां त्यक्त्वा पुनः स्वर्गं गमिष्यति ॥
अश्वमेधे कृते भर्त्रा सह यासि पुनर्दिवि ॥
प्राप्स्यसे वर दानेन ममानेन सुलोचने ॥ १६२ ॥
देवपत्न्यस्तदा सर्वास्तुष्टया परिभाषिताः ॥
अपत्यैरपि हीनाः स्युर्नैव दुःखं भविष्यति ॥ १६३ ॥
इति दत्त्वा वरान्देवी गायत्री लोकसंमता ॥
जगामादर्शनं देवी सर्वेषां पश्यतां तदा ॥ १६४ ॥
सावित्री तु तदा देवी प्रभासं क्षेत्रमागता ॥
कृतस्मरस्य शृङ्गे तु श्रीसोमेश्वरपूर्वतः ॥ १६५ ॥
मन्वन्तरे चाक्षुषे च द्वितीये द्वापरे शुभे ॥
तत्र यज्ञः समारब्धो ब्रह्मणा लोककारिणा ॥ १६६ ॥
यज्ञे याता महात्मानो देवाः सप्तर्षयो वराः ॥
स्वायंभुवे तु ये शस्ताः शप्तास्ते चाभवन्पुरा ॥ १६७ ॥
तस्मात्कालात्समारभ्य प्रभासं क्षेत्रमाश्रिताः ॥ १६८ ॥
सावित्री लोकजननी लोकानुग्रहकारिणी ॥
यस्तां पूजयते भक्त्या पक्षमेकं निरंतरम् ॥
ब्रह्मपूजाविधानेन तस्य पुत्रो ध्रुवो भवेत् ॥ १६९ ॥
पाण्डुकूपे नरः स्नात्वा दृष्ट्वा लिंगानि पञ्च वै ॥
पाण्डवैः स्थापितानीह दृष्ट्वा यज्ञफलं लभेत् ॥ 7.1.165.१७० ॥
ज्येष्ठस्य पूर्णिमायां तु सावित्रीस्थलसंनिधौ ॥
पठेद्यो ब्रह्मसूक्तानि मुच्यते सर्वपातकैः ॥ १७१ ॥
एतत्ते सर्वविख्यातमाख्यातं कल्मषापहम् ॥
यश्चेदं शृणुयाद्भक्त्या स गच्छेत्परमं पदम् ॥ १७२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सावित्रीमाहात्म्यवर्णनंनाम पञ्चषष्ट्युतरशततमोऽध्यायः ॥ १६५ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 166
॥ देव्युवाच ॥ ॥
प्रभासे संस्थिता या तु सावित्री ब्रह्मणः प्रिया ॥
तस्याश्चरित्रं मे ब्रूहि देवदेव जगत्पते ॥ १ ॥
व्रतमाहात्म्यसंयुक्तमितिहाससमन्वितम् ॥
पाति व्रत्यकरं स्त्रीणां महाभाग्यं महोदयम् ॥ २ ॥
॥ ईश्वर उवाच ॥ ॥
कथयामि महादेवि सावित्र्याश्चरितं महत् ॥
प्रभासक्षेत्रसंस्थायाः स्थल स्थाने महेश्वरि ॥
यथा चीर्णं व्रतकरं सावित्र्या राजकन्यया ॥ ३ ॥
आसीन्मद्रेषु धर्मात्मा सर्वभूतहिते रतः ॥
पार्थिवोऽश्वपतिर्नाम पौरजानपद प्रियः ॥ ४ ॥
क्षमावाननपत्यश्च सत्यवादी जितेन्द्रियः ॥
प्रभासक्षेत्रयात्रायामाजगाम स भूपतिः ॥
यात्रां कुर्वन्विधानेन सावित्रीस्थलमागतः ॥ ५ ॥
स सभार्यो व्रतमिदं तत्र चक्रे नृपः स्वयम् ॥
सावित्रीति प्रसिद्धं यत्सर्वकामफलप्रदम् ॥ ६ ॥
तस्य तुष्टाऽभवद्देवि सावित्री ब्रह्मणः प्रिया ॥
भूर्भुवःस्वरितीत्येषा साक्षान्मूर्तिमती स्थिता ॥ ७ ॥
कमंडलुधरा देवी जगामादर्शनं पुनः ॥
कालेन वहुना जाता दुहिता देवरूपिणी ॥ ८ ॥
सावित्र्या प्रीतया दत्ता सावित्र्याः पूजया तथा ॥
सावित्रीत्येव नामाऽस्याश्चक्रे विप्राज्ञया नृपः॥ ९ ॥
सा विग्राहवतीव श्रीः प्रावर्धत नृपात्मजा ॥
सावित्री सुकुमारांगी यौवनस्था बभूव ह ॥ 7.1.166.१० ॥
या सुमध्या पृथुश्रोणी प्रतिमा काञ्चनी यथा ॥
प्राप्तेयं देवकन्या वा दृष्ट्वा तां मेनिरे जनाः ॥ ॥ ११ ॥
सा तु पद्मा विशालाक्षी प्रज्वलतीव तेजसा ॥
चचार सा च सावित्री व्रतं यद्भृगुणोदितम् ॥१२॥
अथोपोष्य शिरःस्नाता देवतामभिगम्य च ॥
हुत्वाग्निं विधिवद्विप्रान्वाचयेद्वरवर्णिनी ॥१३॥
तेभ्यः सुमनसः शेषां प्रतिगृह्य नृपात्मजा॥
सखीपरिवृताऽभ्येत्य देवी श्रीवत्सरूपिणी ॥१४॥
साऽभिवाद्य पितुः पादौ शेषां पूर्वं निवेद्य च ॥
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता ॥ १५ ॥
तां दृष्ट्वा यौवनप्राप्तां स्वां सुतां देवरूपिणीम् ॥
उवाच राजा संमन्त्र्य पुत्र्यर्थं सह मन्त्रिभिः ॥ १६ ॥
पुत्रि प्रदानकालस्ते न हि कश्चिद्वृणोति माम् ॥
विचारयन्न पश्यामि वरं तुल्यमिहात्मनः ॥ ॥१७॥
देवादीनां यथा वाच्यो न भवेयं तथा कुरु ॥
पठ्यमानं मया पुत्रि धर्मशास्त्रेषु च श्रुतम् ॥१८॥
पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता ॥
ब्रह्महत्या पितुस्तस्य सा कन्या वृषली स्मृता ॥ १९ ॥
अतोऽर्थं प्रेषयामि त्वां कुरु पुत्रि स्वयंवरम् ॥
वृद्धैरमात्यैः सहिता शीघ्रं गच्छावधारय ॥ ॥ 7.1.166.२० ॥
एवमस्त्विति सावित्री प्रोच्य तस्माद्विनिर्ययौ ॥
तपोवनानि रम्याणि राजर्षीणां जगाम सा ॥ २१ ॥
मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम् ॥
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमाणि च ॥ २२ ॥
आजगाम पुनर्वेश्म सावित्री सह मंत्रिभिः ॥
तत्रापश्यत देवर्षिं नारदं पुरतः शुचिम् ॥ २३ ॥
आसीनमासने विप्रं प्रणम्य स्मितभाषिणी ॥
कथयामास तत्कार्यं येनारण्यं गता च सा ॥ २४ ॥
॥ सावित्र्युवाच ॥
आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः ॥
द्युमत्सेन इति ख्यातो दैवादन्धो वभूव सः ॥ २५ ॥
आर्यस्य बालपुत्रस्य द्युमत्सेनस्य रुक्मिणा ॥
सामन्तेन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ॥ २६ ॥
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् ॥ २७ ॥
स तस्य च वने वृद्धः पुत्रः परमधार्मिकः ॥
सत्यवागनुरूपो मे भर्तेति मनसेप्सितः ॥ २८ ॥
॥ नारद उवाच ॥ ॥
अहो बत महत्कष्टं सावित्र्या नृपते कृतम् ॥
बालस्वभावादनया गुणवान्सत्यवाग्वृतः ॥ २९ ॥
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते ॥
सत्यं वदेति मुनिभिः सत्यवान्नाम वै कृतम् ॥7.1.166.३०॥
नित्यं चाश्वाः प्रियास्तस्य करोत्यश्वाश्च मृन्मयान् ॥
चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते ॥ ३१ ॥
सत्यवान्रंतिदेवस्य शिष्यो दानगुणैः समः ॥
ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा ॥ ३२ ॥
ययातिरिव चोदारः सोमवत्प्रियदर्शनः ॥
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ॥ ३३ ॥
एको दोषोऽस्ति नान्यश्च सोऽद्यप्रभृति सत्यवान् ॥
संवत्सरेण क्षीणायुर्देहत्यागं करिष्यति ॥ ३४ ॥
नारदस्य वचः श्रुत्वा दुहिता प्राह पार्थिवम् ॥ ३५ ॥
॥ सावित्र्युवाच ॥ ॥
सकृज्जल्पंति राजानः सकृज्जल्पंति ब्राह्मणाः ॥
सकृत्कन्या प्रदीयेत त्रीण्येतानि सकृत्सकृत् ॥ ३६ ॥
दीर्घायुरथवाल्पायुः सगुणो निर्गुणोऽपि वा ॥
सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ॥ ३७ ॥
मनसा निश्चयं कृत्वा ततो वाचाऽभिधीयते ॥
क्रियते कर्मणा पश्चात्प्रमाणं हि मनस्ततः ॥ ३८ ॥
॥ नारद उवाच ॥ ॥
यद्येतदिष्टं भवतः शीघ्रमेव विधीयताम् ॥
अविघ्नेन तु सावित्र्याः प्रदानं दुहितुस्तव ॥ ३९ ॥
एवमुक्त्वा समुत्पत्य नारूदस्त्रिदिवं गतः ॥
राजा च दुहितुः सर्वं वैवाहिकमथाकरोत् ॥
शुभे मुहूर्ते पार्श्वस्थैर्ब्राह्मणैर्वेदपारगैः ॥ 7.1.166.४० ॥
सावित्र्यपि च तं लब्ध्वा भर्तारं मनसेप्तितम् ॥।
मुमुदेऽतीव तन्वंगी स्वर्गं प्राप्येव पुण्यकृत् ॥ ४१ ॥
एवं तत्राश्रमे तेषां तदा निवसतां सताम् ॥
कालस्तु पश्यतां किञ्चिदतिचक्राम पार्वति ॥ ४२ ॥
सावित्र्यास्तु तदा नार्यास्तिष्ठन्त्याश्च दिवानिशम् ॥
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ॥ ४३ ॥
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन ॥
प्राप्तः कालोऽथ मर्तव्यो यत्र सत्यव्रतो नृपः ॥ ४४ ॥
ज्येष्ठमासे सिते पक्षे द्वादश्यां रजनीमुखे ॥
गणयंत्याश्च सावित्र्या नारदोक्तं वचो हृदि ॥ ४५ ॥
चतुर्थेऽहनि मर्तव्यमिति संचिंत्य भामिनी ॥
व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताऽऽश्रमे ॥ ४६ ॥
ततस्त्रिरात्रं न्यवसत्स्नात्वा संतर्प्य देवताम् ॥
श्वश्रूश्वशुरयोः पादौ ववंदे चारुहासिनी ॥ ४७ ॥
अथ प्रतस्थे परशुं गृहीत्वा सत्यवान्वनम् ॥
सावित्र्यपि च भर्तारं गच्छंतं पृष्ठतोऽन्वयात् ॥ ४८ ॥
ततो गृहीत्वा तरसा फलपुष्पसमित्कुशान् ॥
अथ शुष्काणि चादाय काष्ठभारमकल्पयत् ॥ ४९ ॥
अथ पाटयतः काष्ठं जाता शिरसि वेदना ॥
काष्ठभारं क्षणात्त्यक्त्वा वटशाखावलंबितः ॥ 7.1.166.५० ॥
सावित्रीं प्राह शिरसो वेदना मां प्रबाधते ॥
तवोत्संगे क्षणं तावत्स्वप्तुमिच्छामि सुन्दरि ॥ ५१ ॥
विश्रमस्व महाबाहो सावित्री प्राह दुःखिता ॥
पश्चादपि गमिष्यामि ह्याश्रमं श्रमनाशनम् ॥ ॥ ५२ ॥
यावदुत्संगगं कृत्वा शिरोस्य तु महीतले ॥
तावद्ददर्श सावित्री पुरुषं कृष्णपिंगलम् ॥ ५३ ॥
किरीटिनं पीतवस्त्रं साक्षात्सूर्यमिवोदितम् ॥
तमुवाचाथ सावित्री प्रणम्य मधुराक्षरम् ॥ ५४ ॥
कस्त्वं देवोऽथवा दैत्यो यो मां धर्षितुमागतः ॥
न चाहं केनचिच्छक्या स्वधर्माद्देव रोधितुम् ॥ ५५ ॥
विद्धि मां पुरुषश्रेष्ठ दीप्तामग्निशिखामिव ॥ ५६ ॥
॥ यम उवाच ॥ ॥
यमः संयमनश्चास्मि सर्वलोकभयंकरः ॥ ५७ ॥
क्षीणायुरेष ते भर्ता संनिधौ ते पतिव्रते ॥
न शक्यः किंकरैर्नेतुमतोऽहं स्वयमागतः ॥ ५८ ॥
एवमुक्त्वा सत्यव्रतशरीरात्पाशसंयुतः ॥
अंगुष्ठमात्रं पुरुषं निचकर्ष यमो बलात् ॥ ५९ ॥
अथ प्रयातुमारेभे पंथानं पितृसेवितम् ॥
सावित्र्यपि वरारोहा पृष्ठतोऽनुजगाम ह ॥ 7.1.166.६० ॥
पतिव्रतत्वाच्चाश्रांता तामुवाच यमस्तथा ॥
निवर्त गच्छ सावित्रि मुहूर्तं त्वमिहागता ॥ ६१ ॥
एष मार्गो विशालाक्षि न केनाप्यनुगम्यते ॥ ६२ ॥
॥ सावित्र्युवाच ॥ ॥
न श्रमो न च मे ग्लानिः कदाचिदपि जायते ॥
भर्तारमनुगच्छन्त्या विशिष्टस्य च संनिधौ ॥ ६३ ॥
सतां सन्तो गतिर्नान्या स्त्रीणां भर्ता सदा गतिः ॥
वेदो वर्णाश्रमाणां च शिष्याणां च गतिर्गुरुः ॥ ६४ ॥
सर्वेषामेव भूतानां स्थानमस्ति महीतले ॥
भर्त्तारमेकमुत्सृज्य स्त्रीणां नान्यः समाश्रयः ॥ ६५ ॥
एवमन्यैः सुमधुरैर्वाक्यैर्धर्मार्थसंहितैः ॥
तुतोष सूर्यतनयः सावित्रीं वाक्यमब्रवीत् ॥ ६६ ॥
॥ यम उवाच ॥ ॥
तुष्टोऽस्मि तव भद्रं ते वरं वरय भामिनि ॥
सापि वव्रे च राज्यं स्वं विनयावनतानना ॥ ६७ ॥
चक्षुःप्राप्तिं तथा राज्यं श्वशुरस्य महात्मनः ॥
पितुः पुत्रशतं चैव पुत्राणां शतमात्मनः ॥ ६८ ॥
जीवितं च तथा भर्तुर्धर्मसिद्धिं च शाश्वतीम् ॥
धर्मराजो वरं दत्त्वा प्रेषयामास तां ततः ॥ ६९ ॥
अथ भर्तारमासाद्य सावित्री हृष्टमानसा ॥
जगाम स्वाश्रमपदं सह भर्त्रा निराकुला ॥ 7.1.166.७० ॥
ज्येष्ठस्य पूर्णिमायां च तया चीर्णं व्रतं त्विदम् ॥
माहात्म्यतोऽस्य नृपतेश्चक्षुःप्राप्तिरभूत्पुरः ॥ ७१ ॥
ततः स्वदेशराज्यं च प्राप निष्कण्टकं नृपः ॥
पितास्याः पुत्रशतकं सा च लेभे सुताञ्छतम् ॥ ७२ ॥
एवं व्रतस्य माहात्म्यं कथितं सकलं मया ॥ ७३ ॥ ॥
॥ देव्युवाच ॥ ॥
कीदृशं तद्व्रतं देव सावित्र्या चरितं महत् ॥
तस्मिंस्तु ज्येष्ठमासे हि विधानं तस्य कीदृशम् ॥ ७४ ॥
का देवता व्रते तस्मिन्के मन्त्राः किं फलं विभो ॥
विस्तरेण महेश त्वं ब्रूहि धर्मं सनातनम् ॥ ७६ ॥
॥ ईश्वर उवाच ॥ ॥
श्रूयतां देवदेवेशि सावित्रीव्रतमा दरात् ॥
कथयामि यथा चीर्णं तया सत्या महेश्वरि ॥ ७६ ॥
त्रयोदश्यां तु ज्येष्ठस्य दन्तधावनपूर्वकम् ॥
त्रिरात्रं नियमं कुर्यादुपवासस्य भामिनि ॥ ७७ ॥
अशक्तस्तु त्रयोदश्यां नक्तं कुर्याज्जितेन्द्रियः ॥
अयाचितं चतुर्दश्यां ह्युपवासेन पूर्णिमाम् ॥ ७८ ॥
नित्यं स्नात्वा तडागे वा महानद्यां च निर्झरे ॥
पांडुकूपे तु सुश्रोणि सर्वस्नानफलं लभेत् ॥ ७९ ॥
विशेषात्पूर्णिमायां तु स्नानं सर्षपमृज्जलैः ॥ 7.1.166.८० ॥
गृहीत्वा वालुकं पात्रे प्रस्थमात्रे यशस्विनि ॥
अथवा धान्यमादाय यवशालितिलादिकम् ॥ ८१ ॥
ततो वंशमये पात्रे वस्त्रयुग्मेन वेष्टिते ॥
सावित्रीप्रतिमां कृत्वा सर्वावयवशोभिताम्॥ ८२ ॥
सौवर्णीं मृन्मयीं वापि स्वशक्त्या दारुनिर्मिताम् ॥
रक्तवस्त्रद्वयं दद्यात्सावित्र्या ब्रह्मणः सितम् ॥ ८३ ॥
सावित्रीं ब्रह्मणा सार्धमेवं शक्त्या प्रपूजयेत् ॥
गन्धैः सुगन्धपुष्पैश्च धूपनैवेद्यदीपकैः ॥ ९४ ॥
पूर्णकोशातकैः पक्वैः कूष्माण्डकर्कटीफलैः ॥
नालिकेरैः सखर्जूरैः कपित्थैर्दाडिमैः शुभैः ॥ ८५ ॥
जंबूजंबीरनारिंगैरक्षोटैः पनसैस्तथा ॥
जीरकैः कटुखण्डैश्च गुडेन लवणेन च ॥ ८६ ॥
विरूढैः सप्तधान्यैश्च वंशपात्रप्रकल्पितैः ॥
रंजयेत्पट्टसूत्रैश्च शुभैः कुंकुमकेसरैः ॥ ८७ ॥
अवतारं करोत्येवं सावित्री ब्रह्मणः प्रिया ॥ ८८ ॥
तामर्च्चयीत मन्त्रेण सावित्र्या ब्रह्मणा समम्॥
इतरेषां पुराणोक्तो मंत्रोऽयं समुदाहृतः ॥ ८९ ॥
ओंकारपूर्वके देवि वीणापुस्तकधारिणि ॥
वेदांबिके नमस्तुभ्यमवैधव्यं प्रयच्छ मे ॥7.1.166.९०॥
एवं संपूज्य विधिवज्जागरं तत्र कारयेत्॥
गीतवादित्रशब्देननरनारीकदंबकम् ॥
नृत्यद्धसन्नयेद्रात्रिं नृत्यशास्त्रविशारदैः ॥ ९१ ॥
सावित्र्याख्यानकं चापि वाचयीत द्विजोत्तमान्॥
यावत्प्रभातसमयं गीतभावरसैः सह ॥ ९२ ॥
विवाहमेवं कृत्वा तु सावित्र्या ब्रह्मणा सह ॥
परिधाप्य सितैर्वस्त्रैर्दंपतीनां तु सप्तकम् ॥ ९३ ॥
गृहदानं प्रदातव्यं सर्वोपस्करसंयुतम् ॥
ब्राह्मणे वेदविदुषे सावित्रीं विनिवेदयेत् ॥ ९४ ॥
अथ सावित्रीकल्पज्ञे सावित्र्याख्यानवाचके ॥
दैवज्ञे ह्युञ्छवृत्तिस्थे दरिद्रे चाग्निहोत्रिणि ॥ ९५ ॥
एवं दत्त्वा विधानेन तस्यां रात्रौ निमन्त्रयेत् ॥
पौर्णमास्यां वटाधस्ताद्दंपतीनां चतुर्दश ॥ ९६ ॥
ततः प्रभातसमये उषःकाल उपस्थिते ॥
भक्ष्यभोज्यादिकं सर्वं सावित्रीस्थलमानयेत् ॥ ९७॥
पाकं कृत्वा तु शुचिना रक्षां कृत्वा प्रयत्नतः ॥
ब्राह्मणान्गृहिणीयुक्तांस्तत आह्वानयेत्सुधीः ॥ ९८ ॥
सावित्र्याः स्थलके तत्र कृत्वा पादाभिषेचनम् ॥
सुस्नातान्ब्राह्मणांस्तत्र सभार्यानुपवेशयेत् ॥ ९९ ॥
सावित्र्याः पुरतो देवि दंपत्योर्भोजनं ददेत् ॥
तेनाहं भोजितस्तत्र भवामीह न संशय ॥ 7.1.166.१०० ॥
द्वितीयं भोजयेद्यस्तु भोजितस्तेन केशवः ॥
लक्ष्म्याः सहायो वरदो वरांस्तस्य प्रयच्छति ॥ १०१ ॥
सावित्र्या सहितो ब्रह्मा तृतीये भोजितो भवेत् ॥
एकैकं भोजनं तत्र कोटिभोजसमं स्मृतम् ॥ १०२ ॥
अष्टादशप्रकारेण षड्रसीकृतभोजनम् ॥
देव्यास्तत्र महादेवि सावित्रीस्थलसन्निधौ ॥ १०३ ॥
विधवा न कुले तस्य न वंध्या न च दुर्भगा ॥
न कन्याजननी चापि न च स्याद्भर्तुरप्रिया ॥
अष्टौ दोषास्तु नारीणां न भवंति कदाचन ॥ १०४ ॥
तस्मात्सर्वप्रयत्नेन सावित्र्यग्रे च भोजनम् ॥
दातव्यं सर्वदा देवि कटुनीलविवर्जितम् ॥ १०५ ॥
न चाम्लं न च वै क्षारं स्त्रीणां भोज्यं कदाचन ॥
पंचप्रकारं मधुरं हृद्यं सर्वं सुसंस्कृतम् ॥ १०६ ॥
घृतपूर्णापूपकाश्च बहुक्षीरसमन्विताः ॥
पूपकास्तादृशाः कार्या द्वितीयाऽशोकवर्तिका ॥ १०७ ॥
तृतीया पूपिका कार्या खर्जुरेण समन्विताः ॥
चतुर्थश्चैव संयावो गुडाज्याभ्यां समन्वितः ॥ ॥ १०८ ॥
आह्लादकारिणी पुंसां स्त्रीणां चातीव वल्लभा ॥
धनधान्यजनोपेतं नारीनरशताकुलम् ॥
पूपकैस्तु कुलं तस्या जायते नात्र संशयः ॥ ॥ १०९ ॥
न ज्वरो न च संतापो दुःखं च न वियोगजम् ॥
अशोकवर्तिदानेन कुलानामेकविंशतिः ॥ 7.1.166.११० ॥
वधूभिश्च सुतैश्चैव दासीदासैरनन्तकैः ॥
पूरितं च कुलं तस्याः पूरिका या प्रयच्छति ॥ १११ ॥
पुत्रिण्यो वै दुहितरो वधूभिः सहिताः कुले ॥
शिखरिणीप्रदात्रीणां युवतीनां न संशयः ॥ ११२ ॥
मोदते च कुलं सर्वं सर्वसिद्धिप्रपूरितम् ॥
मोदकानां प्रदानेन एवमाह पितामहः ॥ ११३ ॥
एतच्च गौरिणीनां तु भोजनं हि विशिष्यते ॥ ११४ ॥
सुभगा पुत्रिणी साध्वी धनऋद्धिसमन्विता ॥
सहस्रभोजिनी देवि भवेज्जन्मनिजन्मनि ॥ ११५ ॥
पानानि चैव मुख्यानि हृद्यानि मधुराणि च ॥
द्राक्षापानं तु चिंचायाः पानं गुडसमन्वितम् ॥ ११६ ॥
सरसेन तु तोयेन कृतखण्डेन वै शुभम् ॥
सुवासिनीनां पेयं वै दातव्यं च द्विजन्मनाम् ॥ ११७ ॥
इतरैरितराण्येव वर्णयोग्यानि यानि च ॥
सुरभीणि च पानानि तासु योग्यानि दापयेत् ॥ ११८ ॥
प्रतिपूज्य विधानेन वस्त्रदानैः सकंचुकैः ॥
कुङ्कुमेनानुलिप्तांगाः स्रग्दामभिरलंकृताः ॥
गंधैर्धूपैश्च संपूज्य नालिकेरान्प्रदापयेत् ॥ ११९ ॥
नेत्राणां चाञ्जनं कृत्वा सिन्दूरं चैव मस्तके ॥
पूगीफलानि हृद्यानि वासितानि मृदूनि च ॥
हस्ते दत्त्वा सपात्राणि प्रणिपत्य विसर्जयेत् ॥ 7.1.166.१२० ॥
स्वयं च भोजयेत्पश्चाद्बंधुभिर्बालकैः सह ॥ १२१ ॥
अथवा नैव संपद्येत्तीर्थे चैव तु भोजनम् ॥
गृहे गत्वा प्रभोक्तव्यं तुष्टा देवी यथा भवेत् ॥ ११२ ॥
एवमेव पितॄणां च आगम्य स्वे च मन्दिरे ॥
पिण्डप्रदानपूर्वं तु श्राद्धं कृत्वा विधानतः ॥
पितरस्तस्य तुष्टा वै भवन्ति ब्रह्मणो दिनम् ॥१२३॥
तीर्थादष्टगुणं पुण्यं स्वगृहे ददतः शुभे ॥
न च पश्यन्ति वै नीचाः श्राद्धं दत्तं द्विजातिभिः ॥ १२४ ॥
एकान्ते तु गृहे गुप्ते पितॄणां श्राद्धमिष्यते ॥
नीचं दृष्ट्वा हतं तत्तु पितॄणां नोपतिष्ठति ॥ १२५ ॥
तस्मात्सर्वप्रयत्नेन श्राद्धं गुप्तं च कारयेत् ॥
पितॄणां तृप्तिदं प्रोक्तं स्वयमेव स्वयंभुवा ॥१२६॥
गौरीभोज्यादिका या तु उत्सर्गात्क्रियते क्रिया ॥
राजसी सा समाख्याता जनानां कीर्तिदायिनी ॥ १२७ ॥
इदं दानं सदा देयमात्मनो हित मिच्छता ॥
श्राद्धे चैव विशेषेण यदीच्छेत्सात्त्विकं फलम् ॥ १२८ ॥
इदमुद्यापनं देवि सावित्र्यास्तु व्रतस्य च ॥
सर्वपातकशुद्ध्यर्थं कार्यं देवि नरैः सदा ॥
अकामतः कामतो वा पापं नश्यति तत्क्षणात् ॥ १२९ ॥
इह लोके तु सौभाग्यं धनं धान्यं वराः स्त्रियः ॥
भवंति विविधास्तेषां यैर्यात्रा तत्र वै कृता ॥ 7.1.166.१३० ॥
इदं यात्राविधानं तु भक्त्या यः कुरुते नरः ॥
शृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते ॥ १३१ ॥
ज्येष्ठस्य पूर्णिमायां तु सावित्रीस्थलके शुभे ॥
प्रदक्षिणा यः कुरुते फलदानैर्यथाविधि ॥ १३२ ॥
अष्टोत्तरशतं वापि तदर्धार्धं तदर्धकम् ॥
यः करोति नरो देवि सृष्ट्वा तत्र प्रदक्षिणाम् ॥ १३३ ॥
अगम्यागमनं यैश्च कृतं ज्ञानाच्च मानवैः ॥
अन्यानि पातकान्येवं नश्यंते नात्र संशयः ॥ १३४ ॥
यैर्गत्वा स्थलके संध्या सावित्र्याः समुपासिता ॥
स्वपत्न्याश्चैव हस्तेन पांडुकूपजलेन च ॥ १३५ ॥
भृंगारकनकेनैव मृन्मयेनाथ भामिनि ॥
आनीय तु जलं पुण्यं संध्योपास्तिं करोति यः ॥
तेन द्वादशवर्षाणि भवेत्संध्या ह्युपासिता ॥ १३६ ॥
अश्वमेधफलं स्नाने दाने दशगुणं तथा ॥
उपवासे त्वनंतं च कथायाः श्रवणे तथा ॥ १३७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सावित्रीव्रतविधिपूजनप्रकारोद्यापनादिकथनंनाम षट्षष्ट्युत्तरशततमोऽध्यायः ॥ १६६ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 167
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तत्रस्थां भूतमातृकाम् ॥
सावित्र्या वारूणे भागे शतधन्वंतरे स्थिताम् ॥
नवकोटि गणैर्युक्तां प्रेतभूतसमाकुलाम् ॥
पूजितां सिद्धगंधर्वैर्देवादिभिरनेकशः ॥ २ ॥
॥ देव्युवाच ॥ ॥
भूतमातेति संहृष्टा ग्रामेग्रामे पुरेपुरे ॥
गायन्नृत्यन्हसँल्लोकः सर्वतः परिधावति ॥ ३ ॥
उन्मत्तवत्प्रलपते क्षितौ पतति मत्तवत् ॥
क्रुद्धवद्धावति परान्मृतवत्कृष्यते हि सः ॥ ४ ॥
सुखभंगांश्च कुरुते लोको वातगृहीतवत् ॥
भूतवद्भस्ममूत्रांबुकर्दमानवगाहते ॥ ५ ॥
किमेष शास्त्रनिर्दिष्टो मार्गः किमुत लौकिकः ॥
मुह्यते मे मनो देव तेन त्वं वक्तुमर्हसि ॥ ६ ॥
कथं सा पुरुषैः पूज्या प्रभासक्षेत्रवासिभिः ॥
कस्मात्तत्र गता देवी कस्मिन्काले समागता ॥
कस्मिन्दिने तु मासे तु तस्याः कार्यो महोत्सवः ॥ ७ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि यत्ते किंचिन्मनोगतम् ॥
आस्तिकाः श्रद्दधानाश्च भवन्तीति मतिर्मम ॥ ८ ॥
चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वतेऽन्तरे ॥
दक्षापमानात्संजाता तदा पर्वतपुत्रिका ॥ ९ ॥
द्वापरे तु द्वितीये वै दत्ता त्वं पर्वतेन मे ॥
विवाहे चैव संजाते सर्वदेवमनोरमे ॥ 7.1.167.१० ॥
त्वया च सहितः पूर्वं मन्दरे चारुकंदरे ॥
अक्रीडं च मुदा युक्तो दिव्यक्रीडनकैः प्रिये ॥
पीनोन्नतनितंबेन भ्राजमाना कुचोन्नताम् ॥ ११ ॥
सिताब्जवदनां हृष्टां दृष्ट्वाऽहं त्वां महाप्रभाम् ॥
दग्धकामतरोः कन्दकंदलीमिव निःसृताम् ॥
महार्हशयनस्थां त्वां तदा कामितवानहम् ॥ १२ ॥
सुरते तव संजातं दिव्यं वर्षशतं यदा ॥
तदा देवि समुत्थाय निरोधान्निर्गता बहिः ॥ ॥ १३ ॥
तवोदकात्समुत्तस्थौ नार्येका गह्वरोदरा ॥
कृष्णा करालवदना पिंगाक्षी मुक्तमूर्धजा ॥ १४ ॥
कपालमालाभरणा बद्धमुण्डार्धपिंडका ॥
खट्वांगकंकालधरा रुण्डमुंडकरा शिवा ॥ १५ ॥
द्वीपिचर्माम्बरधरा रणत्किंकिणिमेखला ॥
डमड्डमरुकारा च फेत्कारपूरिताम्बरा ॥ १६ ॥
तस्याश्च पार्श्वगा अन्यास्तासां नामानि मे शृणु ॥
सख्यो ब्राह्मणराक्षस्यस्तासां चैव सुदर्शनाः ॥ १७ ॥
दशकोटिप्रभेदेन धरां व्याप्य सुसंस्थिताः ॥
मुख्यास्तत्र चतस्रो वै महाबलपराक्रमाः ॥ १८ ॥
रक्तवर्णा महाजिह्वाऽक्षया वै पापकारिणी ॥
एतासामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः ॥ १९ ॥
श्लेष्मातकतरौ ह्येते प्रायशः सुकृतालयाः ॥
उत्तालतालचपला नृत्यंति च हसंति च ॥ 7.1.167.२० ॥
विज्ञेया इह लोकेऽस्मिन्भूतानां मूलनायकाः ॥
अतिकृष्णा भवन्त्येते व्यंतरान्तरचारिणः ॥ २१ ॥
वृक्षाग्रमात्रमाकाशं ते चरंति न संशयः ॥ ॥ २२ ॥
तथैव मम वीर्यात्तु मद्रूपाभरणः पुमान् ॥
कपालखट्वांगधरो जातश्चर्मविगुण्ठितः ॥ २३ ॥
अनुगम्यमानो बहुभिर्भूतैरपि भयंकरः ॥
सिंहशार्दूलवदनैर्वदनोल्लिखितांबरैः ॥ २४ ॥
एवं देवि तदा जातः क्षुधाक्रान्तो बभाष माम् ॥
अतोऽहं क्षुधितं दृष्ट्वा वरं हीमं च दत्तवान् ॥ २५ ॥
युवयोर्हस्तसंस्पर्शान्नक्तमेवास्तु सर्वशः ॥
नक्तं चैव बलीयांसौ दिवा नातिबलावुभौ ॥
पुत्रवद्रक्षतं लोकान्धर्मश्चैवानुपाल्यताम् ॥ ॥ २६ ॥
इत्युक्तौ तौ मया तत्र भूतमातृगणौ प्रिये ॥
एकीभूतौ क्षणेनैव तौ भवानीभवोद्भवौ ॥ २७ ॥
दृष्ट्वा हृष्टमनाश्चाहमवोचं त्वां शुचिस्मिते ॥ २८ ॥
कल्याणि पश्यपश्यैतौ ममांशाच्च समुद्भवौ ॥
बीभत्साद्भुतशृंगारधारिणौ हास्यकारिणौ ॥२९॥
भ्रातृभांडा भूतमाता तथैवोदकसेविता ॥
संज्ञात्रयं स्मृतं देवि लोके विख्यातपौरुषम् ॥7.1.167.३०॥
पुनः कृतांजलिपुटौ दृष्ट्वा मामूचतुस्तदा ॥
आवयोर्भगवन्कुत्र स्थाने वासो भविष्यति ॥३१॥
इत्युक्तवन्तौ तौ तत्र वरेण च्छन्दितौ मया ॥
अस्ति सौराष्ट्रविषये भारते क्षेत्रमुत्तमम् ॥३२॥
प्रभासेति समाख्यातं तत्र क्षेमं मम प्रियम् ॥
कूर्मस्य नैर्ऋते भागे स्थितं वै दक्षिणे परे॥३३॥
स्वाती विशाखा मैत्रं च यत्र ऋक्षत्रयं स्मृतम्॥
तस्मिन्स्थाने सदा स्थेयं यावन्मन्वन्तरावधि॥३४॥
अन्यदा जीविकं वच्मि तव भूतप्रिये सदा ॥ ३५ ॥
यत्र कण्टकिनो वृक्षा यत्र निष्पाववल्लरी ॥
भार्या पुनर्भूर्वल्मीकस्तास्ते वसतयश्चिरम् ॥ ३६ ॥
यस्मिन्गृहे नराः पञ्च स्त्रीत्रयं तावतीश्च गाः ॥
अन्धकारेंधनाग्निश्च तद्गृहे वसतिस्तव ॥ ३७ ॥
भूतैः प्रेतैः पिशाचैश्च यत्स्थानं समधिष्ठितम् ॥
एकावि चाष्टबालेयं त्रिगवं पञ्चमाहिषम् ॥
षडश्वं सप्तमातंगं तद्गृहे वसतिस्तव ॥ ३८ ॥
उद्दालकान्नपिटकं तद्वत्स्थाल्यादिभाजनम् ॥
यत्र तत्रैव क्षिप्तं च तव तच्च प्रतिश्रयम् ॥ ३९ ॥
मुशलोलूखले स्त्रीणामास्या तद्वदुदुंबरे ॥
भाषणं कटुकं चैव तत्र देवि स्थितिस्तव ॥ 7.1.167.४० ॥
खाद्यन्ते यत्र धान्यानि पक्वापक्वानि वेश्मनि ॥
तद्वच्छाखाश्च तत्र त्वं भूतैः सह चरिष्यसि ॥ ४१ ॥
स्थालीपिधाने यत्राग्निं ददते विकला नराः ॥
गृहे तत्र दुरिष्टानामशेषाणां समाश्रयः ॥ ४२ ॥
मानुष्यास्थि गृहे यत्र अहोरात्रे व्यवस्थितम् ॥
तत्रायं भूतनिवहो यथेष्टं विचरिष्यति ॥ ४३ ॥
सर्वस्मादधिकं ये न प्रवदन्ति पिनाकिनम् ॥
साधारणं वदंत्येनं तत्र भूतैः समाविश ॥ ४४ ॥
कन्या च यत्र वै वल्ली रोहीनाम जटी गृहे ॥
अगस्त्य पादपो वापि बंधुजीवो गृहेषु वै ॥ ४५ ॥
करवीरो विशेषेण नंद्यावर्तस्तथैव च ॥
मल्लिका वा गृहे येषां भूतयोग्यं गृहं हि तत् ॥ ४६ ॥
तालं तमालं भल्लातं तिंतिणीखंडमेव वा ॥
बकुलं कदलीखंडं कदंबः खदिरोऽपि वा ॥४७॥
न्यग्रोधो हि गृहे येषामश्वत्थं चूत एव वा ॥
उदुंबरश्च पनसः सर्वभूत प्रियं हि तत् ॥४८॥
यत्र काकगृहं वै स्यादारामे वा गृहेऽपि वा ॥
भिक्षुबिंबं च वै यत्र गृहे दक्षिणके तथा ॥४९॥
बिंबमूर्ध्वं च यत्रस्थं तत्र भूतनिवेशनम् ॥7.1.167.५०॥
लिंगार्चनं न यत्रैव यत्र नास्ति जपादिकम् ॥
यत्र भक्तिविहीना वै भूतानां तान्गृहान्वदेत् ॥५१॥
मलिनास्यास्तु ये मर्त्या मलिनांबर धारिणः ॥
मलदंता गृहस्था ये गृहं तेषां समाविश ॥५२॥
अगम्यनिरता ये तु मैथुने व्यभिचारतः ॥
संध्यायां मैथुनं यांति गृहं तेषां समाविश ॥ ॥ ५३ ॥
बहुना किं प्रलापेन नित्यकर्मबहिष्कृताः ॥
रुद्रभक्तिविहीना ये गृहं तेषां समाविश ॥ ५४ ॥
अदत्त्वा भुंजते योऽन्नं बंधुभ्योऽन्नं तथोदकम् ॥
सपिण्डान्सोदकांश्चैव तत्कालात्तान्नरान्भज ॥ ५५ ॥
यत्र भार्या च भर्ता च परस्परविरोधिनौ ॥
सह भूतैर्गृहं तस्य विश त्वं भयवर्ज्जिता ॥ ५६ ॥
वासुदेवे रतिर्नास्ति यत्र नास्ति सदा हरिः ॥
जपहोमादिकं नास्ति भस्म नास्ति गृहे नृणाम् ॥ ५७ ॥
पर्वस्वप्यर्चनं नास्ति चतुर्दश्यां विशेषतः ॥ ५८ ॥
कृष्णाष्टम्यां च ये मर्त्याः संध्यायां भस्मवर्जिताः ॥
पंचदश्यां महादेवं न यजंति च यत्र वै ॥५९॥
पौरजानपदैर्यत्र प्राक्प्रसिद्धा महोत्सवाः ॥
क्रियते पूर्ववन्नैव तद्गृहं वसतिस्तव ॥ 7.1.167.६० ॥
वेदघोषो न यत्रास्ति गुरुपूजादिकं न च ॥
पितृकर्मविहीनं च तद्भूतस्य गृहं स्मृतम् ॥। ॥ ६१ ॥
रात्रौरात्रौ गृहे यस्मिन्कलहो जायते मिथः ॥
बालानां प्रेक्षमाणानां यत्र वृद्धश्च पूर्वतः ॥
भक्षयेत्तत्र वै हृष्टा भूतैः सह समाविश ॥६२॥
कस्मिन्मासे दिने चापि भवित्री लोकपूजिता ॥
इत्युक्तोऽहं तया देवि तामवोचं पुनः प्रिये ॥६३॥
अमा या माधवे मासि तस्मिन्या च चतुर्दशी ॥
तस्यां महोत्सवस्तत्र भविता ते चिरंतनः॥६४॥
याः स्त्रियस्तां च यक्ष्यंति तस्मिन्काले महोत्सवे॥
बलिभिः पुष्पधूपैश्च मा तासां त्वं गृहे विश॥६५॥
नारायण हृषीकेश पुण्डरीकाक्ष माधव ॥
अच्युतानंत गोविंद वासुदेव जनार्दन ॥ ६६ ॥
नृसिंह वामनाचिंत्य केशवेति च ये जनाः ॥
रुद्र रुद्रेति रुद्रेति शिवाय च नमोनमः ॥ ६७ ॥
वक्ष्यंति सततं हृष्टास्तेषां धनगृहादिषु ॥
आरामे चैव गोष्ठे च मा विशेथाः कथंचन ॥ ६८ ॥
देशाचाराञ्ज्ञा तिधर्माञ्जपं होमं च मंगलम् ॥
दैवतेज्यां विधानेन शौचं कुर्वंति ये जनाः ॥
लोकापवादभीता ये पुमांसस्तेषु मा विश ॥६९॥
॥ देव्युवाच ॥
कदा पूजा प्रकर्तव्या भूतमातुः सुखार्थिभिः ॥
पुरुषैर्देवदेवेश एतन्मे वक्तुमर्हसि ॥ 7.1.167.७० ॥
॥ ईश्वर उवाच ॥ ॥
सर्वत्रैषा भगवती बालानां हितकारिणी ॥
नामभेदैः कालभेदैः क्रियाभेदैश्च पूज्यते ॥७१॥
प्रतिपत्प्रभृति वैशाखे यावच्चतुर्दशीतिथिः ॥
तावत्पूजा प्रकर्तव्या प्रेरणीप्रेक्षणीयकैः ॥ ७२ ॥
भग्नामपि गतां चैनां जरत्तरुतले स्थिताम् ॥
सेचयिष्यंति ये भक्त्या जलसंपूर्णगंडुकैः ॥ ७३ ॥
ग्रीवासूत्रकसिन्दूरैः पुष्पैर्धूपैस्तथार्चयेत्॥
तत्र सिद्धवटः पूज्यः शाखां चास्य विनिक्षिपेत्॥ ७४ ॥
पूजितां तां नरैर्यत्नादवलोक्य शुभेप्सुभिः ॥
भोजयेत्क्षिप्रासंयावकृशरापूपपायसैः ॥७५॥
एवं विधिं यः कुरुते पुरुषो भक्तिभावतः ॥
स पुत्रपशुवृद्धिं च शरीरारोग्यमाप्नुयात् ॥७६॥
न शाकिन्यो गृहे तस्य न पिशाचा न राक्षसाः ॥
पीडां कुर्वन्ति शिशवो यान्ति वृद्धिमनामयाम् ॥ ७७ ॥
अथ देवि प्रवक्ष्यामि प्रतिपत्प्रभृति क्रमात् ॥
यथोत्सवो नरैः कार्यः प्रेरणीप्रेक्षणीयकैः ॥७८॥
विकर्मफलनिर्द्देशैः पाखंडानां विटंबनैः ॥
प्रदर्श्यते हास्यपरैर्नरैरद्भुतचेष्टितैः ॥ ७९ ॥
पञ्चम्यां तु विशेषेण रात्रौ कोलाहलः शुभे ॥
जागरं तत्र कुर्वीत देवीं पूज्य प्रयत्नतः ॥ 7.1.167.८० ॥
विश्वस्य धनलोभेन स्वाध्यायो निहतः पतिः॥
आरोप्यमाणं शूलाग्रमेनं पश्यत भो जनाः॥८१॥
दृष्टो भवद्भिर्दुष्टः स परदारावमर्शकः ॥
छित्त्वा हस्तौ च खड्गेन खरारूढस्तु गच्छति ॥ ८२ ॥
शीर्णश्चैवासिपत्रेण अस्याभरणभूषितः ॥
सुखासन समारूढः सुकृती यात्यसौ सुखम् ॥ ८३ ॥
हे जनाः किं न पश्यध्वं स्वामिद्रोहकरं परम् ॥
करपत्रैर्विदार्यंतमुच्छलच्छोणितान्तरम् ॥ ८४ ॥
चौरः किलायं संप्राप्तः सर्वोद्वेगकरः परः ॥
दंडप्रहाराभिहतो नीयते दंडपाशकैः ॥ ८५ ॥
प्रेक्षकैश्चेष्टितः शश्वदारटन्विविधैः स्वरैः ॥
संयम्य नीयते हन्तुं लज्जितोऽधोमुखो जनाः ॥ ८६ ॥
सितकेशं सितश्मश्रुं सितांबरधरध्वजम् ॥
विटंकाद्यैश्च चेटीभिर्हन्यमानं न पश्यथि ॥८७॥
गृहान्निष्क्राम्य मां रंडां गृहं नीत्वाऽकरोद्रतिम् ॥
कस्मादसौ न कुरुते मूढो भरणपोषणम् ॥ ८८ ॥
भैरवाभरणो नेता सदा घूर्णितलोचनः ॥
प्रवृत्ततंद्रवन्मूढो वध्यश्चासावितस्ततः ॥८९॥
निर्वेदेकोऽस्य हृदये धनक्षेत्रादिसंभवः ॥
गृहीतं यदनेनाद्य बालेनापि महाव्रतम् ॥
रक्ताक्षं काककृष्णांगं सत्वरं किं न पश्यथि ॥ 7.1.167.९० ॥
तरुकोटरगान्बद्ध्वा अन्याञ्छृंखलया तथा ॥
शरौघैः काष्ठकैश्चैव बहुभिः शकलीकृतान् ॥ ९१ ॥
विमुक्तहक्काहुंकारा न्सुप्रहारान्निरीक्षत ॥ ९२ ॥
इमां कृष्णार्धवदनां ग्रहीष्यसि दुरात्मिकाम् ॥
विमुक्तकेशां नृत्यन्तीं पश्यध्वं योगिनीमिव ॥ ९३ ॥
गम्भीर नूपुरध्वानप्रवृद्धोद्धततांडवा ॥
उन्मत्तनेत्रचरणा यात्येषा डिम्भमण्डली ॥ ९४ ॥
कटीतटस्थपिटिकोल्लसत्कंबलधारिणी ॥
अटते नटती ह्युर्वी परितश्च गृहाद्गृहम् ॥ ९५ ॥
इत्येवमादिभिर्नित्यं प्रेरणीप्रेक्षणीयकैः ॥
प्रेरयेत्तान्महानित्थं पुत्रभ्रातृसुहृद्वृतः ॥ ९६ ॥
एकादश्यां नवम्यां वा दीपं प्रज्वाल्य कुण्डकम् ॥
मुखबिंबानि तत्रैव लेपदारुकृतानि वै ॥ ९७ ॥
विचित्राणि महार्हाणि रौद्रशान्तानि कारयेत् ॥
मातृणां चण्डिकादीनां राक्षसानां तथैव च ॥ ९८ ॥
भूतप्रेतपिशाचानां शाकिनीनां तथैव च ॥
मुखानि कारयेत्तत्र हावभावकृतानि च ॥ ९९ ॥
रक्षिभिर्बहुभिर्गुप्तं तिर्य ग्ध्वनिपुरःसरम् ॥
अमावास्यां महादेवि क्षिपेत्पूजाक्रमैर्नरः ॥ 7.1.167.१०० ॥
ततः प्रदोषसमये यत्र देवी जनैर्वृता ॥
तत्र गच्छेन्महारावैः फेत्कारा कुलकीर्तनैः ॥ १०१ ॥
वीरचर्याविधानेन नगरे भ्रामयेन्निशि ॥
वीरचर्या स कथितो दीपः सर्वार्थसाधकः ॥ १०२ ॥
नित्यं निष्क्रामयेद्दीपं याव त्पञ्चदशी तिथिः ॥
पञ्चदश्यां प्रकुर्वीत भूतमातुर्महोत्सवम् ॥
तस्य गृहेश्वरं यावद्गृहे विघ्नं न जायते ॥ १०३ ॥
अथ कालान्तरेऽतीते भूतमातुः शरीरतः ॥
जाताः प्रस्वेदबिन्दुभ्यः पिशाचाः पञ्चकोटयः ॥ १०४ ॥
सर्वे ते क्रूरवदना जिह्वाज्वालाकृशोदराः ॥
पाणिपात्राः पिशाचास्ते निसृष्टबलिभोजनाः ॥ १०५ ॥
धमनीसंतताः शुष्काः श्मश्रुलाश्चर्मवाससः ॥
उलूखलैराभरणैः शूर्पच्छत्रासनांबराः ॥ १०६ ॥
नक्तं ज्वलितकेशाढ्या अंगारानुद्गिरंति वै ॥
अंगारकाः पिशाचास्ते मातृमार्गानुसारिणः ॥ १०७ ॥
आकर्णदारितास्याश्च लंबभ्रूस्थूलनासिकाः ॥
बलाढ्यास्ते पिशाचा वै सूतिकागृहवासिनः ॥ १०८ ॥
पृष्ठतः पाणिपादाश्च पृष्ठगा वातरंहसा ॥
विषादनाः पिशाचास्ते संग्रामे पिशिताशनाः ॥ ॥ १०९ ॥
एवंविधान्पिशाचांस्तु दृष्ट्वा दीनानुकम्पया ॥
तेभ्योऽहमवदं किञ्चित्कारुण्यादल्पचेतसाम् ॥ 7.1.167.११० ॥
अन्तर्धानं प्रजादेहे कामरूपित्वमेव च ॥
उभयोः संध्ययोश्चारं स्थानान्याजीवितं तथा ॥ १११ ॥
गृहाणि यानि नग्नानि शून्यान्यायतनानि च ॥
विध्वस्तानि च यानि स्यू रचनारोषितानि च॥ ११२ ॥
राजमार्गोपरथ्याश्च चत्वराणि त्रिकाणि च ॥
द्वाराण्यट्टालकांश्चैव निर्गमान्संक्रमांस्तथा ॥ ॥ ११३ ॥
पथो नदीश्च तीर्थानि चैत्यवृक्षान्महापथान् ॥
स्थानानि तु पिशाचानां निवासायाददां प्रिये ॥ ११४ ॥
अधार्मिका जनास्तेषामा जीवो विहितः पुरा ॥
वर्णाश्रमाचारहीनाः कारुशिल्पिजनास्तथा ॥ ११५ ॥
अनुतापाश्च साधूनां चौरा विश्वासघातिनः ॥
एतैरन्यैश्च बहुभिरन्यायोपार्जितैर्धनैः ॥ ११६ ॥
आरभ्यते क्रिया यास्तु पिशाचास्तत्र देवताः ॥
मधुमासदिने दध्ना तिलचूर्णसुरासवैः ॥ ११७ ॥
पूपैर्हारिद्रकृशरैस्तिलैरिक्षुगुडौदनैः ॥
कृष्णानि चैव वासांसि धूम्राः सुमनसस्तथा ॥ ११८ ॥
सर्वभूतपिशाचानां कृता देवी मया शुभा ॥
एवंविधा भूतमाता सर्वभूतगणैर्वृता ॥ ११९ ॥
प्रभासे संस्थिता देवी समुद्रादुत्तरेण तु ॥
य एतां वेद वै देव्या उत्पत्तिं पापनाशिनीम् ॥ 7.1.167.१२० ॥
कुत्सिता संतति स्तस्य न भवेच्च कदाचन ॥
भूतप्रेतपिशाचानां न दोषैः परिभूयते ॥ १२१ ॥
सर्वपापविनिर्मुक्तः सर्वसौभाग्यसंयुतः ॥
सर्वान्कामानवाप्नोति नारीहृदयनंदनः ॥ १२२ ॥
ये मानयंति निजहासकलैर्विलासैः संसेवया अभयदा भवभूतमाताम् ॥
ते भ्रातृभृत्यसुतबंधुजनैर्युताश्च सर्वोपसर्ग रहिताः सुखिनो भवन्ति ॥ १२३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भूत मातृकामाहात्म्यवर्णनंनाम सप्तषष्ट्युत्तरशततमोऽध्यायः ॥ १६७ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 168
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवीं शालकटंकटाम् ॥
सावित्र्या दक्षिणे भागे रैवतात्पूर्वतः स्थिताम् ॥ १ ॥
महापापोपशमनीं सर्वदुःखविनाशनीम् ॥ पूजितां सर्वगन्धर्वैः स्फुरद्दंष्ट्रोग्रभीषणाम् ॥ २ ॥
महाप्रचण्डदैत्यघ्नीं पौलस्त्येन प्रतिष्ठिताम् ॥
महिषघ्नीं महाकायां क्षेत्रे प्राभासिके स्थिताम् ॥ ३ ॥
माघे मासे चतुर्दश्यां यस्ता माराधयेन्नरः ॥
स भवेत्पशुमान्धीमाँल्लक्ष्मीवान्पुत्रवान्सुधीः ॥ ४ ॥
यस्तां पशुप्रदानेन सन्तर्पयति भक्तितः ॥
बलिपूजोपहारैश्च स स्याच्छत्रु विवर्जितः ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शालकटंकटा माहात्म्यवर्णनंनामाष्टषष्ट्युत्तरशततमोऽध्यायः ॥ १६८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 169
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं वैवस्वतेश्वरम्॥
देव्या दक्षिणदिग्भागे धनुस्त्रिंशकसंस्थितम् ॥ १ ॥
वैवस्वतेन मनुना स्थापितं सर्वकामदम्॥
तत्समीपे देवखातं तिष्ठते तु महाद्भुतम् ॥ २ ॥
स्नात्वा तत्र वरारोहे यस्तं पूजयते नरः ॥
पञ्चोपचारैर्विधिना भक्तिप्रह्वो जितेन्द्रियः ॥
जपेदघोरविधिना स्तोत्रं सिद्धिं स चाप्नुयात् ॥ ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वैवस्वतेश्वरमाहात्म्य वर्णनंनामैकोनसप्तत्युत्तरशततमोऽध्यायः ॥ १६९ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 170
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तत्र मातृगणान्सुधीः ॥
तत्रैव बलदेवीं च नातिदूरे व्यवस्थिताम् ॥ १ ॥
श्रावण्यां श्रावणे मासि यस्तां पूजयते नरः ॥
पायसैर्मधुना वापि दिव्यपुष्पोपहारकैः ॥ ॥ २ ॥
तस्य वर्षं महादेवि सुखं गच्छेत्सुपूजितम् ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मातृगणबलदेवीमाहात्म्यवर्णनंनाम सप्तत्युत्तरशततमोध्यायः ॥ १७० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 171
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवीमेकल्लवीरिकाम् ॥
एकल्लवीरायाम्ये तु नातिदूरे व्यवस्थिताम् ॥ १ ॥
पूर्वं दशरथो योऽसौ सूर्यवंशविभूषणः ॥
प्रभासं क्षेत्रमासाद्य तपश्चक्रे सुदुश्चरम् ॥ २ ॥
लिंगं तत्र प्रतिष्ठाप्य तोषयामास शांकरम् ॥
स देवं प्रार्थयामास पुत्रं चैवामितौजसम् ॥ ॥ ३ ॥
ददौ तस्य तदा पुत्रं देवं त्रैलोक्यपूजितम् ॥
रामेति नाम यस्यासीत्त्रैलोक्ये प्रथितं यशः ॥ ४ ॥
यस्याद्यापीह गायन्ति भूर्भुवःस्वर्नि वासिनः ॥
देवदैत्यासुराः सर्वे वाल्मीक्याद्या महर्षयः ॥ ५ ॥
तल्लिंगस्य प्रभावेन प्राप्तं राज्ञा महद्यशः ॥
कार्तिक्यां कार्तिके मासि विधिना यस्तमर्चयेत् ॥
दीपपूजोपहारेण यशस्वी सोऽपि जायते ॥ ६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दशरथेश्वरमाहात्म्यवर्णनंनामैकसप्तत्युत्तरशततमोऽध्यायः ॥ १७१ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 172
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महा देवि लिंगं तद्भरतेश्वरम् ॥
तस्मादुत्तरकोणस्थं नातिदूरं व्यवस्थितम् ॥ १ ॥
भरतोनाम राजाऽभूदाग्नीध्रः प्रथितः क्षितौ ॥
यस्येदं भारतं वर्षं नाम्ना लोकेषु गीयते ॥ २ ॥
स च चक्रे तपो घोरं क्षेत्रेऽस्मिन्पार्वति प्रिये ॥
दिव्यं वर्षसहस्रं तु प्रतिष्ठाप्य महेश्वरम् ॥ ३ ॥
पुत्रकामो नरश्रेष्ठः पूजयामास शंकरम् ॥
ततस्तुष्टः स भगवान्वरं दातुं समुत्सुकः ॥ ४ ॥
अष्टौ पुत्रान्ददौ तस्मै कन्यां चैकां यशस्विनीम् ॥
स तु प्राप्याभिलषितं कृतकृत्यो नराधिपः ॥ ५ ॥
भारतं नवधा कृत्वा पुत्रेभ्यः प्रददौ पृथक् ॥
तेषां नामांकितान्येव ततो द्वीपानि जज्ञिरे ॥ ६ ॥
इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ॥
नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ चारुणः ॥ ७ ॥
अयं तु नवमो द्वीपः कुमार्या संज्ञितः प्रिये ॥
अष्टौ द्वीपाः समुद्रेण प्लाविताश्च तथापरे ॥ ८ ॥
ग्रामादिदेशसंयुक्ताः स्थिताः सागरमध्यगाः ॥
एक एव स्थितस्तेषां कुमार्याख्यस्तु सांप्रतम् ॥ ९ ॥
बिंदुसरः प्रभृत्येव सागराद्दक्षिणोत्तरम् ॥
योजनानां सहस्रं तु एकं विस्तीर्ण एव तु ॥ 7.1.172.१० ॥
योजनानां सहस्राणि नव दैर्घ्यं प्रकीर्तितम् ॥
तस्यैतज्जृम्भितं देवि भरतस्य महात्मनः ॥ ११ ॥
षट्पञ्चाशदश्वमेधान्गंगामनु चकार यः॥
यस्त्रिंशद्यमुनाप्रान्ते भरतो लोकपूजितः ॥ १२ ॥
स चेश्वरप्रसादेन मोदते दिवि देववत् ॥ १३ ॥
यस्तत्प्रतिष्ठितं लिंगं भारतं पूजयिष्यति ॥
स सर्वयज्ञदानानां फलं प्रापयिता धुवम् ॥ १४ ॥
कार्त्तिक्यां कृत्तिका योगे यस्तं पश्यति मानवः ॥
न स पश्यति स्वप्नेपि नरकं घोरदारुणम् ॥ १५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भरतेश्वरमाहात्म्यवर्णनंनाम द्विसप्तत्युत्तरशततमोऽध्यायः ॥ १७२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 173
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगानां च चतुष्टयम् ॥
एकस्थानस्थितानां तु सावित्र्यास्तत्र पश्चिमे ॥ १ ॥
लिंगानां द्वितयं पूर्वे पश्चिमे सम्मुखद्वयम् ॥
कुशकेश्वरनामेति लिंगं वै प्रथमं स्मृतम् ॥ २ ॥
गर्गेश्वरं द्वितीयं तु तृतीयं पुष्करेश्वरम् ॥
मैत्रेयेश्वरनामेति चतुर्थं समुदाहृतम् ॥ ३ ॥
एतानि यस्तु लिंगानि पश्येद्भक्त्या जितेन्द्रियः ॥
स मुक्तः पातकैः सर्वैर्गच्छेच्छिवपुरं महत् ॥ ॥ ४ ॥
शुक्लपक्षे चतुर्दश्यां वैशाखे तु विशेषतः ॥
स्नानं कृत्वा प्रयत्नेन ब्राह्मणांस्तत्र भोजयेत् ॥ ५ ॥
तेभ्यो दद्याद्यथाशक्त्या काञ्चनं वसनानि च ॥
एवं कृते भवेद्यात्रा परिपूर्णा सुरेश्वरि ॥ ६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुशकादिलिंगचतुष्टयमाहात्म्यवर्णनंनाम त्रिसप्तत्युत्तरततमोऽध्यायः ॥ १७३ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 174
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कुन्तीश्वरमनुत्तमम् ॥
सावित्र्याः पूर्वभागस्थं खातमध्ये व्यवस्थितम् ॥ १ ॥
कुन्त्या प्रतिष्ठितं देवि क्षेत्रे प्राभासिके प्रिये ॥
पाण्डवास्तु यदा पूर्वं प्रभासक्षेत्रमागताः ॥ २ ॥
तीर्थयात्राप्रसंगेन कुन्त्या चैव समन्विताः ॥
तस्मिन्काले महादेवि ज्ञात्वा क्षेत्रमनुत्तमम्॥३॥
कुन्त्या प्रतिष्ठितं लिंगं सर्वपापभयापहम्॥
कार्तिक्यां तु विशेषेण यस्तं पूजयते नरः॥
स सर्वकामतृप्तात्मा रुद्रलोके महीयते॥४॥
वाचिकं मानसं पापं कर्मणा यदुपार्जितम्॥
तत्सर्वं नश्यते देवि तस्य लिंगस्य दर्शनात्॥५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुन्तीश्वरमाहात्म्यवर्णनंनाम चतुःसप्तत्युत्तरशततमोऽध्यायः ॥ ॥ १७४ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 175
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि पुण्यमर्कस्थलं शुभम् ॥
तस्मादाग्नेयकोणस्थं सर्वपातकनाशनम् ॥ १ ॥
तं दृष्ट्वा मानुषो देवि न शोच्यः संप्रजायते ॥
सप्त जन्मानि देवेशि दारिद्र्यं नैव जायते ॥ २ ॥
कुष्ठानि नाशमायांति तं दृष्ट्वा दशधा प्रिये ॥
गोशतस्य प्रदत्तस्य कुरुक्षेत्रेषु यत्फलम् ॥ ३ ॥
तत्फलं समवाप्नोति दृष्ट्वा वार्कस्थलं रविम् ॥
स्नात्वा त्रिसंगमे तीर्थे सप्तैव रविवासरान् ॥४॥
ब्राह्मणान्भोजयित्वा तु महिषीं तत्र दापयेत् ॥
दिव्यं वर्षसहस्रं तु स्वर्गलोके महीयते ॥ ५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽर्कस्थलमाहात्म्यवर्णनंनाम पञ्चसप्तत्युत्तरशततमोऽध्यायः ॥ १७५ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 176
॥ ईश्वर उवाच ॥ ॥ ॥
ततो गच्छेन्महादेवि सिद्धेश्वरमिति स्मृतम् ॥
अर्कस्थलात्तथाऽऽग्नेय्यां नातिदूरे व्यवस्थितम् ॥ १ ॥
अष्टादश सहस्राणि ऋषीणामूर्ध्वरेतसाम् ॥
तस्मिँल्लिंगे तु सिद्धानि सिद्धेश्वरमतः स्मृतम् ॥ २ ॥
स्नात्वाऽर्चयेन्नरो भक्त्या सोपवासो जितेन्द्रियः ॥
संपूज्य विधिवद्देवं दद्याद्विप्रेषु दक्षिणाम् ॥
सर्वकामसमृद्धस्तु स याति परमं पदम् ॥ । ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहरूया संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासज्ञेत्रमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनाम षट्सप्तत्युत्तरशततमोऽध्यायः ॥ १७६ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 177
॥ ईश्वर उवाच ॥ ॥
तस्यैव पूर्वदिग्भागे लकुलीशस्तु मूर्तिमान् ॥
स्वयं तिष्ठति देवेशि कृत्वा घोरं तपः पुरा ॥ १ ॥
संस्थितः पापशमने तत्र स्थाने स्थलोपरि ॥
कार्तिक्यां कृत्तिकायोगे यस्तं पूजयते नरः ॥ २ ॥
स पूज्यते महादेवि सर्वैरपि सुरासुरैः ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये लकुलीशमाहात्म्यवर्णनंनाम सप्तसप्तत्युत्तरशततमो ऽध्यायः ॥ १७७ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 178
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्माद्दक्षिणतः स्थितम् ॥
भार्गवेश्वरनामानं सर्वपापप्रणाशनम् ॥ १ ॥
यस्तं पूजयते देवि दिव्यपुष्पोपहारकैः ॥
स भवेत्कृतकृत्यस्तु सर्वकामैः समृद्धिमान् ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भार्गवेश्वरमाहात्म्यवर्णनं- नामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥ ॥ १७८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 179
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं पापप्रणाशनम् ॥
सिद्धेशाद्दक्षिणे कोणे धनुषां त्रितये स्थितम् ॥
माण्डव्येश्वरनामानं महापातकनाशनम् ॥ १ ॥
माघे मासे चतुर्दश्यां पूजां जागरणं तथा ॥
कुर्याद्योऽतीन्द्रियो मर्त्यो न स मर्त्ये पुनर्व्रजेत् ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासज्ञेत्रमाहात्म्ये माण्डव्येश्वरमाहात्म्यवर्णनंनामैकोना शीत्युत्तरशततमोऽध्यायः ॥ १७९ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 180
॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येत्पुष्पदन्तेश्वरं शुभम् ॥
पुष्पदन्तेश्वरोनाम गणेशः शंकरस्य तु ॥१॥
तेन तप्तं तपो घोरं तत्र लिंगं प्रतिष्ठितम् ॥ २ ॥
तं दृष्ट्वा मुच्यते जंतुर्जन्मसंसारबन्धनात् ॥
प्राप्नुयादीप्सितान्कामानिह लोके परत्र च ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्पदन्तेश्वर माहात्म्यवर्णनंनामाशीत्युत्तरशततमोऽध्यायः ॥ १८० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 181
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि क्षेत्रपेश्वरमुत्तमम् ॥
सिद्धेश्वर समीपस्थं पूर्वस्मिन्नातिदूरतः ॥ १ ॥
तं दृष्ट्वा शुक्लपञ्चम्यां न च नागैः स दश्यते ॥ २ ॥
पूजयेत्तं विधानेन गन्धपुष्पादिभिः क्रमात् ॥
भोजयेद्ब्राह्मणाञ्छक्त्या भक्ष्यभोज्यैरनेकशः ॥ ३ ॥
इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये क्षेत्रपालेश्वरमाहात्म्यवर्णनंनामैकाशीत्युत्तरशततमोऽध्यायः ॥ १८१ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 182
ततो मातृगणान्पश्येद्वसुनन्दादिनामतः ॥
अर्क स्थलसमीपस्थान्दक्षिणे नातिदूरतः ॥ १ ॥
आश्वयुक्छुक्लपक्षे तु नवम्यां नियतात्मवान् ॥
यस्ताः पूजयते मातॄर्विधिना भावितात्मवान् ॥ २ ॥
स समृद्धिमवाप्नोति दुरापामकृतात्मभिः ॥
तत्रैव संस्थितं पश्येच्छ्रीमुखं विवरप्रियम् ॥ ३ ॥
तस्मिन्नेव दिने पूज्यं सिद्धिकामैर्नरैः सदा ॥
एतत्पूर्वं मयाख्यातं तव विस्तरतः प्रिये ॥ ४ ॥
तस्मिन्नेव दिने पूज्यं तीर्थयात्राप्रसंगतः ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये वसुनन्दामातृगणश्रीमुखविवर माहात्म्यवर्णनंनाम द्व्यशीत्युत्तरशततमोऽध्यायः ॥ ॥ १८२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 183
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि मिश्रतीर्थमनुत्तमम् ॥
त्रिसंगमेति विख्यातं सौरं तीर्थमनुत्तमम् ॥ १ ॥
सरस्वती हिरण्या च समुद्रश्चैव भामिनि ॥
त्रयाणां संगमो यत्र दुष्प्राप्यो दैवतैरपि ॥ २ ॥
सर्वेषां तत्र तीर्थानां प्रधानं तीर्थमुत्तमम् ॥
सूर्यपर्वणि संप्राप्ते कुरुक्षेत्राद्विशिष्यते ॥ ३ ॥
स्नानं दानं जपस्तत्र सर्वं कोटिगुणं भवेत् ॥ ४ ॥
मंकीश्वरान्महादेवि यावल्लिंगं कृतस्मरम् ॥
एतस्मिन्नन्तरे देवि तीर्थानां दशकोटयः ॥ ५ ॥
कृमिकीटपतंगाश्च श्वपचा वा नराधमाः ॥
सोऽपि स्वर्गमवाप्नोति किं पुनर्भावितात्मवान् ॥ ६ ॥
तत्र पीतानि वस्त्राणि काञ्चनं सुरभिस्तथा ॥
ब्राह्मणाय प्रदातव्या सम्यग्यात्राफलेप्सुभिः ॥ ७ ॥
कृष्णपक्षे चतुर्दश्यां स्नात्वा यस्तर्पयेत्पितॄन् ॥
तर्पिताः पितरस्तेन यावच्चन्द्रार्कतारकम् ॥ ८ ॥
एतत्त्रिसंगमं देवि महापातकनाशनम् ॥
दुर्लभं त्रिषु लोकेषु वैशाख्यां तु विशेषतः ॥ ९ ॥
वृषो त्सर्गो विशेषेण तत्र कार्यो नरोत्तमैः ॥
सर्वपापविनाशाय पितॄणां प्रीतये प्रिये ॥ 7.1.183.१० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये त्रिसंगममाहात्म्यवर्णनंनाम त्र्यशीत्युत्तरशततमोऽध्यायः ॥ १८३ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 184
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि मंकीश्वरमनुत्तमम् ॥
त्रिसंगमसमीपस्थं सर्वपातकनाशनम्॥ १ ॥
मंकीनाम ऋषिः पूर्वमासीत्स तपतां वरः ॥
स च ज्ञात्वा महाक्षेत्रं प्रभासं शंकरप्रियम् ॥ २ ॥
अतपद्वै तपो घोरं कन्दमूलफलाशनः ॥
वर्षाणामयुतं साग्रं प्रतिष्ठाप्य महेश्वरम् ॥ ३ ॥
ततस्तुष्टो महादेवो ददौ प्रीतो वरं तदा ॥
स वव्रे यदि तुष्टोऽसि अस्मिन्स्थाने स्थितो भव ॥ ४ ॥
मन्नामांकितलिंगस्तु वस कल्पायुतायुतम् ॥
एवमस्त्वित्यथेत्युक्त्वा तत्रैवान्तरधीयत ॥ ५ ॥
तदाप्रभृति तल्लिंगं मंकीश्वरमिति श्रुतम्॥
माघे मासे त्रयोदश्यां चतुर्दश्यामथापि वा ॥ ६ ॥
पूज्याः पंचोपचारेण प्राप्नुयादीप्सितं फलम् ॥
गोदानं तत्र वै देयं सम्यग्यात्राफलेप्सुभिः ॥ ७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मंकीश्वरमाहात्म्यवर्णनंनाम चतुरशीत्युत्तरशततमोऽध्यायः ॥ १८४ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 185
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवमातरमव्ययाम् ॥
मंकीशान्नैर्ऋते भागे गौरीरूपसमाश्रिताम्॥
देवमाता सरस्वत्या नाम लोकेषु गीयते ॥ १ ॥
पादुकासनसंस्था च तत्र देवी सरस्वती ॥
गौरीरूपेण सा तत्र वडवाश्रितविग्रहा ॥ २ ॥
मातृवद्रक्षिता देवा वडवानलभीतितः ॥
देवमातेति लोकेऽस्मिं स्ततः सा विबुधैः कृता ॥ ३ ॥
माघे मासे तृतीयायां यस्तामर्चयते नरः ॥
नारी वा संयता साध्वी सर्वान्कामानवाप्नुयात् ॥ ४ ॥
दंपती भोज येद्यस्तु पायसैः शर्करादिभिः ॥
गौरीसहस्रभोज्यस्य दत्तस्य फलमाप्नुयात् ॥ ५ ॥
सुवर्णपादुका देया तत्र विप्राय शीलिने ॥ ६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देवमातृगौरीमाहात्म्यवर्णनंनाम पंचा शीत्युत्तरशततमोऽध्यायः ॥ १८५ ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 186
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि नागस्थानमनुत्तमम् ॥
मंकीशात्पश्चिमे भागे संगमत्रितयं गतम् ॥ १ ॥
पापघ्नं सर्वजंतूनां पातालविवरं महत् ॥ २ ॥
बलभद्रः पुरा देवि श्रुत्वा कृष्णस्य पंचताम् ॥
भल्लतीर्थे तु भल्लेन ततः प्रभासमागतः ॥ ३ ॥
क्षेत्रं महाप्रभावं हि ज्ञात्वा सर्वार्थसिद्धिदम् ॥
यादवानां क्षयं कृत्वा ततो वैराग्यमेयिवान् ॥ ॥ ४ ॥
शेषनागेशरूपेण निष्क्रम्य च शरीरतः ॥
गच्छन्गच्छंस्तदा प्राप्य तीर्थं त्रैसंगमं परम् ॥ ५ ॥
पातालस्य तदा दृष्ट्वा द्वारं विवररूपकम् ॥
प्रविष्टोऽथ जगामाशु यत्रानंतः स्वयं स्थितः ॥ ६ ॥
यतो नागस्वरूपेण स्थानेऽस्मिंश्च समाविशत् ॥
तत्प्रभृत्येव देवेशि नागस्थानमिति श्रुतम् ॥ ७ ॥
नागरादित्यपूर्वेण यत्र कायो विसर्जितः ॥
तदद्यापि प्रसिद्धं वै शेषस्थानमिति श्रुतम् ॥ ८ ॥
अतः स्नात्वा महादेवि तत्र तीर्थे त्रिसंगमे ।
नागस्थानं समभ्यर्च्य पञ्चम्यामकृताशनः ॥९॥
श्राद्धं कृत्वा यथाशक्त्या दत्त्वा विप्राय दक्षिणाम् ॥
विमुक्तः सर्वदुःखेभ्यो रुद्रलोकं स गच्छति ॥ १० ॥
पायसं मधुसंमिश्रं भक्ष्यभोज्यैः समन्वितम् ॥
शेषनागं समुद्दिश्य विप्रं यस्तत्र भोजयेत् ॥
कोटिभोज्यं कृतं तेन जायते नात्र संशयः ॥ ११ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये नाग स्थानमाहात्म्यवर्णनंनाम षडशीत्युत्तरशततमोऽध्यायः ॥ १८६ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 187
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि सर्वकामफलप्रदम् ॥
प्रभासपंचकं पुण्यमाद्यं तत्र व्यवस्थितम् ॥ १ ॥
तस्यैव पश्चिमे भागे प्रभास इति चोच्यते ॥
वृद्धप्रभासश्च ततो दक्षिणे नातिदूरतः ॥ २ ॥
जल प्रभासश्च ततो दक्षिणेन वरानने ॥
कृतस्मरप्रभासश्च श्मशानं यत्र भैरवम् ॥ ३ ॥
एवं पंचप्रभासान्यः पश्येद्भक्तया समन्वितः ॥
स याति परमं स्थानं जरामरणवर्जितम् ॥ ४ ॥
न निवर्तति यत्प्राप्य दुष्प्राप्यं त्रिदशैरपि ॥
प्रभासं प्रथमं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ५ ॥
देवानामपि दुष्प्राप्यं महापातकनाशनम् ॥
प्रभासे त्वेकरात्रेण अमावास्यां कृतोदकः ॥ ६ ॥
मुच्यते पातकैः सर्वैः शिवलोकं स गच्छति ॥
सप्तजन्मकृतं पापं गंगासागरसंगमे ॥ ७ ॥
जन्मनां च सहस्रेण यत्पापं कुरुते नरः ॥
स्नानादेवास्य नश्येत सागरे लवणांभसि ॥ ८ ॥
चतुर्दश्याममावास्यां पञ्चदश्यां विशेषतः ॥
अहोरात्रोषितो भूत्वा ब्राह्मणान्भोज्य शक्तितः ॥ ९ ॥
दत्त्वा गां कांचनं तेभ्यः शिवः प्रीतो भवत्विति ॥
एवं कृत्वा नरो देवि कुलानां तारयेच्छतम् ॥ 7.1.187.१० ॥
॥ देव्युवाच ॥ ॥
प्रभासपंचकं ह्येतद्यत्त्वया परिकीर्तितम् ॥
कथमत्र समुद्भूतमेतन्मे कौतुकं महत् ॥ ११ ॥
एक एव श्रुतोऽस्माभिः प्रभासस्तीर्थवासितः ॥
प्रभासाः पंच देवेश यत्त्वया परिकीर्तिताः ॥ १२ ॥
एतन्मे संशयं सर्वं यथावद्वक्तुमर्हसि ॥ ॥ १३ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशनीम् ॥
यां श्रुत्वा मानवो भक्त्या प्राप्नोति परमां गतिम् ॥ १४ ॥
पुरा महेश्वरो देवश्चचार वसुधामिमाम् ॥
दिव्यरूपधरः कान्तो दिग्वासाः स यदृच्छया ॥ १५ ॥
एवं च रममाणस्तु ऋषीणामाश्रमं महत् ॥
जगाम कौतुकाविष्टो भिक्षार्थं दारुके वने ॥ १६ ॥
भ्रममाणस्य तस्याथ दृष्ट्वा रूपमनुत्तमम् ॥
ता नार्यः कामसंतप्ता बभूवुर्व्यथितेन्द्रियाः ॥ १७ ॥
सानुरागास्ततः सर्वा अनुगच्छंति तं सदा ॥
समालिंगंति ताः काश्चित्काश्च वीक्षंति रागतः ॥ १८ ॥
प्रार्थयंति तथा चान्याः परित्यज्य गृहान्स्वकान् ॥ १९ ॥
एवं तासां स्वरूपं ते दृष्ट्वा सर्वे महर्षयः ॥
कोपेन महता युक्ताः शेपुस्तं वृषभध्वजम् ॥ ॥ 7.1.187.२० ॥
यस्मात्त्वं नग्नतामेत्य आश्रमेऽस्मिन्ममागतः ॥
मोहयानः स्त्रियोऽस्माकं लज्जां नैवं करोषि च ॥
तस्मात्ते पतताल्लिंगं सद्य एव वृषध्वज ॥ २१ ॥
ततस्तत्पतितं लिंगं तत्क्षणाच्छंकरस्य च ॥
तस्मिन्प्रपतिते भूमौ प्राकंपत वसुंधरा ॥ २२ ॥
क्षुभिताः सागराः सर्वे मर्यादा विजहुस्तदा ॥
शीर्णानि गिरिशृंगाणि त्रस्ताः सर्वे दिवौकसः ॥ २३ ॥
ततो देवाः सगन्धर्वाः समहोरगकिन्नराः ॥
ऊचुः पितामहं गत्वा किमेतत्कारणं विभो ॥ २४ ॥
सागराः क्षुभिता येन प्लावयंति वसुंधराम् ॥
शीर्यंते गिरिशृङ्गाणि कंपते च वसुंधरा ॥ २५ ॥
चिह्नानि लोकनाशाय दृश्यन्ते दारुणानि च ॥
तेषां तद्वचन श्रुत्वा ब्रह्मलोके पितामहः ॥ २६ ॥
ध्यात्वा तु सुचिरं कालं वाक्यमेतदुवाच ह ॥
शिवलिंगं निपतितं पृथिव्यां सुरसत्तमाः ॥ २७ ॥
शापेन ऋषिमुख्यानां भार्गवाणां महात्मनाम् ॥
तस्मिन्निपतिते भूमौ त्रैलोक्यं सचराचरम् ॥ २८ ॥
एतदवस्थतां प्राप्तं तस्मात्तत्रैव गम्यताम् ॥
विष्णुना सह गीर्वाणास्तथा नीतिर्विधीयताम् ॥ २९ ॥
ततः क्षीरोदधिं जग्मुर्ब्रह्माद्यास्त्रिदिवौकसः ॥
यत्र शेते चतुर्बाहुर्योगनिद्रां च संगतः ॥ 7.1.187.३० ॥
तस्मै सर्वं समाचख्युस्तेनैव सहितास्ततः ॥
जग्मुर्यत्र महादेवो लिंगेन रहितो विभुः ॥ ३१ ॥
ऊचुः समाहिताः सर्वे प्रणिपत्य दिवौकसः ॥३२॥
लिंगमुत्क्षिप्यतामेतद्यत्क्षितौ पतितं विभो ॥
एते महार्णवाः सर्वे प्लावयंति वसुंधराम् ॥३३॥
॥ भगवानुवाच ॥ ॥
ऋषिभिः पातितं ह्येतन्मम लिंगं सुरेश्वराः ॥
न तु शक्यो मया कर्तुं बाधस्तेषां महात्मनाम् ॥३४॥
शापो हि भार्गवेन्द्राणामतो मे श्रूयतां वचः ॥
पूजयध्वं सुराः सर्वे ब्रह्मविष्णुपुरस्सराः ॥३५॥
लिंगमेतत्ततः सर्वे सर्वं लिप्सथ सत्तमाः ॥
प्रकृतिं सागराः सर्वे यास्यंति गिरयस्तथा ॥ ३६ ॥
एतत्पुण्यतमे क्षेत्रे धृत्वा सर्वे समाहिताः ॥
अथोद्धृत्य सुराः सर्वे प्रभासं क्षेत्रमागताः ॥३७॥
तत्रैव निदधुः सर्वे ततः पूजां प्रचक्रिरे ॥
ब्रह्मणा पूजितं लिंगं विष्णुना प्रभविष्णुना ॥ ३८ ॥
शक्रेणाथ कुबेरेण यमेन वरुणेन च ॥
ऊचुश्चैव ततो देवा लिंगं संपूज्य भक्तितः ॥ ३९ ॥
अद्यप्रभृति रुद्रस्य लिंगं संपूज्य भक्तितः ॥
भविष्यामो न संदेहस्तथा पितृगणाश्च ये ॥ 7.1.187.४० ॥
य एनं पूजयिष्यंति भक्तियुक्ताश्च मानवाः ॥
यास्यंति ते सुरावासं सशरीरा नरोत्तमाः ॥ ४१ ॥
अत्रैव प्रथमं लिगं यतोस्माऽभिः प्रतिष्ठितम् ॥
प्रभासं नाम चास्यापि प्रभासेति भविष्यति ॥ ४२ ॥
एवमुक्त्वा गताः सर्वे त्रिदिवं सुरसत्तमाः ॥
तं दृष्ट्वा त्रिदिवं यान्ति भूयांसः प्राणिनो भुवि ॥ ४३ ॥
ततस्त्रिविष्टपं व्याप्तं बहुभिः प्राणिभिः प्रिये ॥
तद्दृष्ट्वा त्रिदिवं व्याप्तं सहस्राक्षः सुदुःखितः ॥ ४४ ॥
ज्ञात्वा लिंगप्रभावं तु ततश्चागत्य भूतलम् ॥
वज्रेणाच्छादयामास समंतात्स वरानने ॥ ४५ ॥
ततः प्रभृति नो देवि स्वर्गं गच्छंति मानवाः ॥
इति संक्षेपतः प्रोक्तः प्रभासस्य महोदयः ॥
सर्वपापोपशमनः सर्वकामफलं प्रदः ॥४६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये प्रभासपञ्चकमाहात्म्यवर्णनंनाम सप्ताशीत्युत्तरशततमोऽध्यायः ॥ १८७ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 188
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तत्र स्थाने तु संस्थितम् ॥
रुद्रेश्वरेतिनामानं स्वयंभूतं धरातले ॥ १ ॥
आदिप्रभासात्पुरतो धनुषां त्रितये स्थितम् ॥
रुद्रेण ध्यानमास्थाय स्वं तेजस्तत्र योजितम् ॥ २ ॥
ततो रुद्रेश्वरंनाम सर्वपातकनाशनम् ॥
तं दृष्ट्वा पूजयित्वा च सर्वान्कामानवाप्नुयात् ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रुद्रेश्वरमाहात्म्यवर्णनंनामाष्टाशीत्युत्तरशततमोऽध्यायः ॥ १८८ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 189
॥ ईश्वर उवाच ॥ ॥
तस्यैव पश्चिमे भागे नातिदूरे व्यवस्थितम् ॥
चण्डिका कर्ममोटी च योगिनी कोटिसंयुता ॥
पीठत्रयं महादेवि आद्यं त्रैलोक्यवन्दितम् ॥ १ ॥
नवम्यां तत्र संपूज्य देवीपीठं च योगिनीम् ॥
स सर्वान्प्राप्नुयात्कामान्भवेत्स्वर्गांगनाप्रियः ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासज्ञेत्रमाहात्म्ये कर्ममोटीमाहात्म्यवर्णनंनामैकोननवत्युत्तरशततमोऽध्यायः ॥ १८९ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 190
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तत्र मुक्तिप्रदं हरिम् ॥
प्रभासान्नैर्ऋते भागे नातिदूरे व्यवस्थितम् ॥ १ ॥
एकादश्यां जिताहारो यस्तं देवि प्रपूजयेत् ॥
माघेमासे विशेषेण सोऽग्निष्टोमफलं लभेत् ॥ २ ॥
यस्तत्रानशनं कुर्याद्व्रतं चान्द्रायणादिकम् ॥
सोऽन्य तीर्थात्कोटिगुणं प्राप्नुयात्फलमीप्सितम् ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये मोक्षस्वामिमाहात्म्यवर्णनंनाम नवत्युत्तरशततमोऽध्यायः ॥ १९० ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 191
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि अजीगर्तेश्वरं हरम् ॥
चन्द्रवापीसमीपस्थं कर्ममोटीसमीपतः ॥ १ ॥
तस्यां स्नात्वा महादेवि यस्तल्लिगं प्रपूजयेत् ॥
स मुक्तः पातकैर्घोरैर्गच्छेच्छिवपदं महत् ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजीगर्तेश्वरमाहात्म्यवर्णनं नामैकनवत्युत्तरशततमोऽध्यायः ॥ १९१ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 192
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विश्वकर्मप्रतिष्ठितम् ॥
लिंगं महाप्रभावं हि मोक्षस्वामिन उत्तरे ॥ १ ॥
धनुषां पंचके देवि स्थितं पातकनाशनम् ॥ २ ॥
तं दृष्ट्वा मानवः सम्यग्यात्राफलमवाप्नुयात् ॥
वाचिकं मानसं पापं दर्शनात्तस्य नश्यति ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये विश्वकर्मेश्वरमाहात्म्यवर्णनंनाम द्विनवत्युत्तरशततमोऽध्यायः ॥ १९२ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 193
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि यमेश्वरमनुत्तमम् ॥
तस्यैव नैर्ऋते भागे नातिदूरे व्यवस्थितम् ॥ १ ॥
दर्शनात्पापशमनं सर्वकामफलप्रदम् ॥ ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये यमेश्वरमाहात्म्यवर्णनं नाम त्रिणवत्युत्तरशततमोऽध्यायः ॥ १९३ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 194
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं देवैः प्रतिष्ठितम् ॥
ज्ञात्वा प्रभावं क्षेत्रस्य सर्वपातकनाशनम् ॥ १ ॥
तत्र कृत्वा तपश्चोग्रं लिंगं देवैः प्रतिष्ठितम् ॥
तं दृष्ट्वा मानवो देवि कृतकृत्यः प्रजायते ॥ २ ॥
गोदानं तत्र देयं तु ब्राह्मणे वेदपारगे ॥
सम्यक्च लभते देवि यात्रायाः फलमूर्जितम् ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्येऽमरेश्वरमाहात्म्यवर्णनंनाम चतुर्णवत्युत्तरशततमोऽध्यायः ॥ १९४ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 195
॥ ईश्वर उवाच ॥ ॥
ततो वृद्धप्रभासं तु गच्छेच्च नियतात्मवान् ॥
आदिप्रभासाद्दक्षिणतो नातिदूरे व्यवस्थितम् ॥ १ ॥
चतुर्मुखं महालिंगं दर्शनात्पापनाशनम् ॥ २ ॥
॥ श्रीदेव्युवाच ॥ ॥
कथं वृद्धप्रभासं तु नाम तस्याभवत्प्रभो ॥
तस्मिन्दृष्टे फलं किं स्यात्स्तुते संपूजिते तथा ॥ ३ ॥
एतत्कथय मे देव संक्षेपान्नातिविस्तरात् ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
आदौ स्वायंभुवे देवि पूर्वमन्वन्तरे पुरा ॥
त्रेतायुगे चतुर्थे तु प्रभासे क्षेत्र उत्तमे ॥ ५ ॥
तस्मिन्काले महादेवि पूर्वमन्वंतरे पुरा ॥
त्रेतायुगे चतुर्थे तु ऋषयस्तत्र संगताः ॥ ६ ॥
दर्शनार्थं प्रभासस्य उत्तरापथगामिनः ॥
तं दृष्ट्वाऽऽच्छादितं देवं वज्रेण तु महेश्वरि ॥ ७ ॥
विषादं परमं जग्मुर्वाक्यं चेदमथाबुवन् ॥
अदृष्ट्वा शांकरं लिगं न यास्यामो वयं गृहम् ॥ ८ ॥
स्वर्गार्थिनो वयं प्राप्ता महदध्वानमेव हि ॥
तस्मादत्रैव तिष्ठामो यावल्लिंगस्य दर्शनम् ॥ ९ ॥
एवं ते निश्चयं कृत्वा परस्मिंस्तपसि स्थिताः ॥
वर्षास्वाकाशगा भूत्वा हेमंते सलिलाश्रयाः ॥ 7.1.195.१० ॥
पञ्चाग्निसाधना ग्रीष्मे नियता ब्रह्मचारिणः ॥
बहून्वर्षगणान्विप्रा जराग्रस्तास्तदाऽभवन् ॥ ११ ॥
एवं वृद्धत्वमापन्ना यदा ते वरवर्णिनि ॥
छन्द्यमाना वरैस्ते तु शंकरेण महात्मना ॥ १२ ॥
लिंगस्य दर्शनं मुक्त्वा न तेऽन्यं वव्रिरे वरम् ॥ १३ ॥
तेषां तु निश्चयं ज्ञात्वा सर्वेषां वृषभध्वजः ॥
अनुकम्पापरो भूत्वा स्वलिंगं तानदर्शयत् ॥ १४ ॥
एतस्मिन्नेव काले तु भित्त्वा चैव वसुन्धराम् ॥
उत्थितं सहसा लिंगं तदेव वरवर्णिनि ॥ १५ ॥
ऋषयस्ते च तं दृष्ट्वा सर्वे च त्रिदिवं गताः ॥
अथ तेषु प्रयातेषु शक्रस्तप्तमना ह्यभूत् ॥ १६ ॥
तमपि च्छादयामास वज्रेण शतपर्वणा ॥ १७ ॥
वृद्धभावे यतस्तेषामृषीणां दर्शनं गतः ॥
अतो वृद्धप्रभासं तत्कीर्त्यते वसुधातले ॥ १८ ॥!
तस्मिन्दृष्टे वरारोहे अद्यापि लभते फलम् ॥
राजसूयाश्वमेधानां नरो भक्तिसमन्वितः ॥ १९ ॥
एवं तत्र समुत्पन्नं प्रभासं वृद्धसंज्ञकम् ॥
तत्रोक्षा ब्राह्मणे देयः सम्यग्यात्राफलेप्सुभिः ॥ 7.1.195.२० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वृद्धप्रभासमाहात्म्यवर्णनंनाम पञ्चनवत्युत्तरशततमोऽध्यायः ॥ १९५ ॥