7. Skanda Purāṇa (part 7 of 9)
खण्डः ६ (नागरखण्डः) — Adhyāya 198
॥ सूत उवाच ॥ ॥
एतस्मिन्नेव काले तु दशार्णाधिपतिस्तदा ॥
रत्नवत्या विवाहार्थं तत्र स्थाने समागतः ॥ १ ॥
स श्रुत्वा तत्र वृत्तांतं रत्नवत्याः समुद्भवम् ॥
विरक्तिं परमां कृत्वा प्रस्थितः स्वपुरं प्रति ॥ २ ॥
तं श्रुत्वा प्रस्थितं भूपमानर्तः स्वपुरं प्रति ॥
पृष्ठतोऽनुययौ तस्य व्याघो टनकृते तदा ॥४ ३ ॥
अथाब्रवीच्च तं प्राप्य कस्मात्त्वं प्रस्थितो नृप ॥
पाणिग्रहमकृत्वा तु मम कन्यासमुद्भवम् ॥ ४ ॥
॥ दशार्ण उवाच ॥ ॥
दूषितेयं तव सुता कन्यकात्वविवर्जिता ॥
यस्याः पीतोऽधरोऽन्येन मर्दितौ च तथा स्तनौ ॥ ५ ॥
पुनर्भूरिति संज्ञा सा सञ्जाता दुहिता तव ॥
पुनर्भूर्जनयेत्पुत्रं यं कदाचित्कथंचन ॥ ६ ॥
स पातयत्यसंदिग्धं दश पूर्वान्दशापरान् ॥
एकविंशतिमं चैव तथैवात्मानमेव च ॥ ७ ॥
न वरिष्याम्यहं तेन सुतां तेऽहं नरसिप ॥
निर्दाक्षिण्यमिति प्रोच्य दशार्णाधिपतिस्तदा ॥ ८ ॥
छंद्यमानोऽपि विविधैर्हस्त्यश्वरथपूर्वकैः ॥
अवज्ञाय महीपालं प्रस्थितः स्वपुरं प्रति ॥ ९ ॥
अथानर्त्तो गृहं प्राप्य मृगावत्याः समाकुलः ॥
तद्वृत्तं कथयामास यदुक्तं तेन भूभुजा ॥
स्वभार्यायाः सुतायाश्च मन्त्रिणां दुःखसंयुतः ॥ ६.१९८.१० ॥
ते प्रोचुः संति भूपालाः संख्याहीना महीतले ॥
रूपाढ्या यौवनोपेता हस्त्यश्वरथसंयुताः ॥ ११ ॥
तेषामेकतमस्य त्वं देहि कन्यां निजां विभो ॥
मा विषादे मनः कृत्वा दुःखस्य वशगो भव ॥ १२ ॥
आनर्तोऽपि च तच्छ्रुत्वा तेषां वाक्यं सुदुःखितम् ॥
ततः प्राह प्रहृष्टात्मा तान्सर्वान्मन्त्रिपूर्वकान्॥ १३ ॥
तां च कन्यां स्थितां तत्र साम्ना परमवल्गुना ॥
पुत्रि दृष्टा महीपालाः सर्वे चित्रगतास्त्वया ॥ ॥ १४ ॥
तेषां मध्यान्नृपं चान्यं कञ्चिद्वरय शोभने ॥
यस्ते चित्तस्य सन्तोषं कुरुते दृक्पथं गतः ॥ १५ ॥
॥ रत्नावत्युवाच ॥ ॥
न चाहं वरयिष्यामि पतिमन्यं कथंचन ॥
दशार्णाधिपतिं मुक्त्वा श्रूयतामत्र कारणम् ॥ १६ ॥
सकृज्जल्पंति राजानः सकृज्जल्पंति च द्विजाः ॥
सकृत्कन्याः प्रदीयंते त्रीण्येतानि सकृत्सकृत् ॥ १७ ॥
एवं ज्ञात्वा न मां तात त्वमन्यस्मिन्महीपतौ ॥
दातुमर्हसि धर्मोऽयं न भवेच्छाश्वतो यतः ॥१८॥ ॥
॥ आनर्त उवाच ॥ ॥
वाङ्मात्रेण प्रदत्ता त्वं दशार्णाधिपतेर्मया ॥
न ते हस्तग्रहं प्राप्तो विप्राग्निगुरुसन्निधौ ॥ १९ ॥
तत्कथं स पतिर्जातस्तवः पुत्रि वदस्व मे ॥ ६.१९८.२० ॥
॥ रत्नावत्युवाच ॥ ॥
मनसा चिंत्यते कार्यं सकृत्तातपुरा यतः ॥
वाचया प्रोच्यते पश्चात् कर्मणा क्रियते ततः ॥ २१ ॥
तन्मया मनसा दत्तस्तस्यात्माऽयं पुरा किल ॥
त्वया च वाचया चास्मै प्रदत्तास्मि तथा विभो ॥
तत्कथं न पतिर्मे स्याद्ब्रूहि वा यदि मन्यसे॥२२॥
साहं तपश्चरिष्यामि कौमारव्रतधारिणी ॥
नान्यं पतिं करिष्यामि निश्चयोऽयं मया कृतः ॥ २३ ॥
तच्छ्रुत्वा वचनं रौद्रं माता तस्या मृगावती ॥
अश्रुपूर्णेक्षणा दीना वाक्यमेतदुवाच ह ॥ २४ ॥
मा पुत्रि साहसं कार्षीस्तपोऽर्थं त्वं कथञ्चन ॥
बाला त्वं सुकुमारांगी सदैव सुखभागिनी ॥२५॥
कथं तपः समर्थासि विधातुं त्वमनिंदिते ॥
कन्दमूलफलाहारा चीरवल्कलधारिणी ॥२६ ॥
तस्मान्मुख्यस्य भूपस्य कस्यचित्वां ददाम्यहम्॥ ॥ २७ ॥
एषा ते ब्राह्मणीनाम सखी परमसंमता ॥
प्रतीक्षते विवाहं ते कौमारं भावमाश्रिता ॥ २८ ॥
यस्य भूपस्य त्वं हर्म्ये प्रयास्यसि विवाहि ता ॥
पुरोधास्तस्य यो राज्ञो भार्येयं तस्य भाविनी ॥ २९ ॥
॥ रत्नावत्युवाच ॥ ॥
न च भूयस्त्वया वाच्यं वाक्यमेवंविधं क्वचित् ॥
मदर्थे यदि मे प्राणास्त्वं वांछसि सुतैषिणी ॥ ६.१९८.३० ॥
अथवा त्वं हठार्थं च तपोविघ्नं करिष्यसि ॥ ३१ ॥
ततस्त्यक्ष्याम्यहं देहं भक्षयित्वा महद्विषम्॥
खंडयिष्याम्यहं जिह्वां प्रवेक्ष्यामि च वा जलम्॥३२॥
एवं सा निश्चयं कृत्वा प्रोच्य तां जननीं तदा॥३३॥
ततः प्रोवाच तां कन्यां ब्राह्मणीं संमतां सखीम्॥
कृतांजलिपुटा भूत्वा समालिंग्य च सादरम्॥३४॥
गच्छ त्वं स्वपितुर्हर्म्यं प्रेषितासि मया शुभे॥
येन ते यच्छति पिता नागराय महात्मने ॥ ३५ ॥
क्षमस्व यन्मया प्रोक्ता कदाचित्परुषं वचः ॥
त्वयापि यन्मम प्रोक्तं क्षांतं चैतन्मया ध्रुवम् ॥ ३६ ॥ ॥
॥ ब्राह्मण्युवाच ॥ ॥
अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ॥
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥ ३७ ॥
कौमार्यं च प्रणष्टं मे त्वत्संपर्काद्वरानने ॥
जातं षोडशकं वर्षं स्त्रीधर्मेण समन्वितम् ॥ ३८ ॥
न मे पाणिग्रहं कश्चिन्नागरोऽत्र करिष्यति ॥
बुध्यमानस्तु स्मृत्यर्थं वक्ष्य माणं वरानने ॥ ३९ ॥
रजस्वलां च यः कन्यामुद्वाहयति निर्घृणः ॥
तस्याः सन्तानमासाद्य पातयेत्पुरुषान्दश ॥ ६.१९८.४० ॥
रजस्वला तु यः कन्यां पिता यच्छति निर्घृणः ॥
स पातयेदसंदिग्धं दश पूर्वान्दशापरान् ॥ ४१ ॥
तस्मादहं करिष्यामि त्वया सार्धं तपः शुभे ॥
पित्रा नैव हि मे कार्यं न च मात्रा कथंचन ॥ ४२ ॥
॥ सूत उवाच ॥ ॥
एवं ते निश्चयं कृत्वा कन्यके द्वे द्विजोतमाः ॥
गते यत्र स्थितः साक्षाद्भर्तृयज्ञो महामुनिः ॥ ४३ ॥
स्थितो वास्तुपदे रम्ये सर्वतीर्थमये शुभे ॥
तस्य तपःप्रभावेन जातु कोपो न दृश्यते ॥ ४४ ॥
कस्यचित्क्वापि मर्त्यस्य तिर्यग्योनिग तस्य च ॥
क्रीडंति नकुलाः सर्पैर्मार्जाराः सह मूषकैः ॥ ४६ ॥
सारंगा द्वीपिभिः सार्धं काकाश्च सह कौशिकैः ॥
भर्तृयज्ञं सुखासीनं तत्र गत्वा तु ते शुभे ॥
प्रोचतुर्विनयोपेते कृतांजलिपुटे स्थिते ॥ ४६ ॥
॥ ब्राह्मण्युवाच ॥ ॥
अहं सख्या समं याता ह्यनया राजकन्यया ॥
तपोऽर्थे तव पादांते तद्ब्रूहि तपसो विधिम् ॥ ४७ ॥
वदस्व येन तत्कृत्स्नं प्रकरोमि महामते ॥ ४८ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
अहं ते कथयिष्यामि तपश्चर्याविधिं पृथक् ॥
येन संप्राप्यते मोक्षः कि पुनस्त्रिदशालयः ॥ ४९ ॥
चांद्रायणानि कृच्छ्राणि तथा सांतपनानि च ॥
षष्ठे काले तथा भोज्यं दिनांतरितमेव च ॥ ६.१९८.५० ॥
ब्रह्मकूर्चं त्रिरात्रं च एकभक्तमयाचितम् ॥
तपोद्वाराणि सर्वाणि कृतान्येतानि वेधसा ॥ ५१ ॥
स्वशक्त्या चैव कार्याणि रागद्वेषविवर्जितैः ॥
वांछितव्यं फलं चैव सर्वेषामेव पुत्रिके ॥
ततः सिद्धिमवाप्नोति या सदा मनसि स्थिता ॥ ५२ ॥
समत्वं शत्रुमित्राभ्यां तथा पा षाणरत्नयोः ॥
यदा संजायते चित्ते तदा मोक्षमवाप्नुयात् ॥ ५३ ॥
यो लिंगग्रहणं कृत्वा ततः कोपपरो भवेत् ॥
तस्य वृथा हि तत्सर्वं यथा भस्महुतं तथा ॥ ५४ ॥
॥ सूत उवाच ॥ ॥
सा तथेतिप्रतिज्ञाय ब्राह्मणी सहिता तया ॥
रत्नावत्या जगामाथ किंचिच्चैव जलाशयम् ॥ ५५ ॥
स्वच्छोदकेन संपूर्णं पद्मिनीषंडमंडितम् ॥
ततश्चांद्रायणं चक्रे तपसः प्रथमं व्रतम् ॥ ५६ ॥
ततः कृच्छ्रव्रतं चक्रे ततः सांतपनं च सा ॥
षष्ठान्नकालभोज्या च सा चाभूद्वत्सरत्रयम् ॥ ५७ ॥
त्रिरात्रोपोषणं पश्चाद्यावद्वर्षत्रयं तथा ॥
एकान्तरोपवासैश्च साऽनयद्वत्सरत्रयम् ॥ ५८ ॥
हेमंते जलमध्यस्था सा बभूव तपस्विनी ॥
पंचाग्निसाधका ग्रीष्मे सा बभूव यशस्विनी ॥ ५९ ॥
निराश्रयाऽभवत्साध्वी वर्षाकाल उपस्थिते ॥
ध्यायमाना दिवानक्तं देवदेवं जनार्दनम्॥६.१९८.६०॥।
यद्यद्व्रतं पुरा चक्रे ब्राह्मणी सा च सुव्रता ॥
अन्यं जलाशयं प्राप्य सा तच्चक्रे नृपात्मजा ॥
प्रीत्या परमया युक्ता तदा सा द्विजस त्तमाः ॥ ६१ ॥
ततो वर्षशतं सार्धं फलाहारा बभूव सा ॥
शीर्णपर्णाशना पश्चात्तावन्मात्रं व्यवस्थिता ॥ ६२ ॥
ततश्चैव जलाहारा यावद्वर्षशतानि षट् ॥
वायुभक्षा बभूवाथ सहस्रं परिवत्सरान् ॥ ६३ ॥
यथायथा तपश्चक्रे सा कुमारी द्विजोत्तमाः ॥
तथातथाऽभवत्तस्यास्तेजोवृद्धिरनुत्तमा॥६४॥
एतस्मिन्नेव काले तु भगवाञ्छशिशेखरः ॥ ६५ ॥
गौर्या सह प्रसन्नात्मा तस्या गोचरमागतः ॥
मेघगंभीरया वाचा ततोवचनमब्रवीत् ॥ ६६ ॥
वत्से तपोनिवृत्तिं त्वं कुरुष्व वचनान्मम ॥
प्रार्थयस्व मनोऽभीष्टं येन सर्वं ददामि ते ॥ ६७ ॥
॥ ब्राह्मण्युवाच ॥ ॥
अभीष्टमेतदेवं मे यत्त्वं दृष्टोऽसि शंकर ॥
स्वप्नेऽपि दर्शनं देव दुर्लभं ते नृणां यतः ॥ ६८ ॥
॥ भगवानुवाच ॥ ॥
न मे स्याद्दर्शनं व्यर्थं कथंचित्सुतपस्विनि ॥
तस्माद्वरय भद्रं ते वरं येन ददाम्यहम् ॥ ६९ ॥
॥ ब्राह्मण्युवाच ॥ ॥
एषा मे सुसखी साध्वी राजपुत्री यशस्विनी ॥
ख्याता रत्नावतीनाम प्राणेभ्योऽपिगरीयसी ॥ ६.१९८.७० ॥
मम तुल्यं तपश्चक्रे शूद्रयोनावपि स्थिता ॥
निवर्तते तु यद्येषा तपसस्तु निवर्तनम् ॥
करोम्यद्य जगन्नाथ तदहं संशयं विना ॥ ७१ ॥
अस्याः स्नेहेन संत्यक्तो मया भर्ता सुरेश्वर ॥
तस्माद्देव वरं देहि त्वमस्या मनसि स्थितम् ॥ ७२ ॥
॥ सूत उवाच ॥ ॥
तस्यास्तद्वचनं श्रुत्वा भगवाञ्छशिशेखरः ॥
अब्रवीद्राजपुत्रीं तां मेघगंभीरया गिरा ॥
वत्से मद्वचनादद्य तपस्त्वं त्यक्तुमर्हसि ॥ ७३ ॥
वरं वरय कल्याणि नित्यं मनसि संस्थितम् ॥
अदेयमपि दास्यामि सांप्रतं तव भामिनि ॥ ७४ ॥
॥ रत्नावत्युवाच ॥ ॥
एतज्जलाशयं पुण्यं पद्मिनीषण्ड मण्डितम् ॥ ७५ ॥
यत्रैषा ब्राह्मणी साध्वी नित्यं च तपसि स्थिता ॥
अस्या नाम्ना च विख्यातिं तीर्थमेतत्प्रपद्यताम् ॥ ७६ ॥
अत्र यः कुरुते स्नानं श्रद्धया परया युतः ॥
तस्य भूयात्सदा वासो देवदेव त्रिविष्टपे औ। ७७ ॥
मदीयं मम नाम्ना तु शूद्रासंज्ञं तु जायताम् ॥
तस्य तुल्यप्रभावं तु तीर्थस्य प्रतिपद्यताम् ॥ ७८ ॥
आवाभ्यां नित्यशः कार्यं कुमारत्वे महत्तपः ॥
आराध्यस्त्वं सुरश्रेष्ठो वाङ्मनःकर्मभिस्तथा ॥ ७९ ॥
एतस्मिन्नेव काले तु निर्भिद्य धरणीतलम् ॥
लिंगं माहेश्वरं विप्रा निष्क्रांतं सूर्यसंनिभम् ॥ ६.१९८.८० ॥
ततः प्रोवाच ते देवः स्वयमेव महेश्वरः ॥
ताभ्यां सुतपसा तुष्टः सादरं भक्तवत्सलः ॥ ८१ ॥
एतत्तीर्थद्वयं ख्यातं त्रैलोक्येपि भविष्यति ॥
शूद्रीनाम त्वदीयं तु ब्राह्मणी च सखी तव ॥ ८२ ॥
तीर्थद्वयेऽपि यः स्नात्वा एतस्मिञ्छ्रद्धयाऽन्वितः ॥
त्वत्तः पद्मानि संगृह्य अस्यास्तोयं च निर्मलम् ॥
एतच्च मामकं लिंगं स्नापयित्वाऽर्चयिष्यति ॥ ८३ ॥
पश्चात्पद्मैश्चतुर्दश्यां शुक्लायां सोमवासरे ॥
चैत्रे मासि च संप्राप्ते चिरायुः स भविष्यति ॥ ८४ ॥
सर्वपापविनिर्मुक्तो यद्यपि स्यात्सुपापकृत् ॥ ८५ ॥
एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥
तत्र नित्यं च तपसि स्थिते सख्यावुभावपि ॥ ८६ ॥
यावत्कल्पशतं तावज्जरामरणवर्जि ते ॥
अद्यापि गगने ते च दृश्येते तारकात्मके ॥ ८७ ॥
ततःप्रभृति तत्ख्यातं तीर्थयुग्मं धरातले ॥
आगत्याथ नरो दूरात्ताभ्यां कृत्वा निमज्जनम् ॥ ८८ ॥
पूजयित्वा तु तल्लिंगं ततो याति दिवालयम् ॥
महापातकयुक्तोऽपि तत्प्रभावादसंशयम् ॥ ८९ ॥
एतस्मिन्नंतरे मर्त्ये नष्टा धर्मस्य च क्रिया ॥
यज्ञदानकृता या च देवार्चनसमुद्भवा ॥ ६.१९८.९० ॥
व्याप्तस्तथाखिलः स्वर्गो मानवैः स्पर्धयान्वितैः ॥
सार्धं देवैर्विमानस्थैरप्सरोगणसेवितैः ॥ ९१ ॥
एतस्मिन्नेव काले तु धर्मराजः समाययौ ॥
यत्र वेदध्वनिर्ब्रह्मा ब्रह्मलोकं समाश्रितः ॥ ॥ ९२ ॥
अब्रवीद्दुःखितो दीनः क्षिप्त्वाग्रे पत्रकद्वयम् ॥
एकं पापसमुद्भूतमन्यद्धर्मसमुद्भवम् ॥ ९३ ॥
चित्रेण लिखितं यच्च विचित्रेण तथा परम् ॥
हाटकेश्वरजे क्षेत्रे देवतीर्थयुगं स्थितम् ॥ ९४ ॥
शूद्राख्यं ब्राह्मणीनाम तथान्यत्पद्ममंडितम् ॥
तथा तत्रास्ति लिंगं च पुण्यं माहेश्वरं महत् ॥ ९५ ॥
त्रयाणामथ तेषां च प्रभावात्सर्वमानवाः ॥
अपि पापसमायुक्ताः प्रयांति त्रिदशालयम् ॥ ९६ ॥
शून्या मे नरका जाताः सर्वे ते रौरवादयः ॥ ९७ ॥
न कश्चिद्यजनं चक्रे न दानं न च तर्पणम् ॥
देवतानां पितॄणां च मनुष्याणां विशेषतः ॥ ९८ ॥
तस्मान्मुक्तो मया सर्वो योऽधिकारस्तवोद्भवः ॥
नियोजयस्व तत्रान्यं कञ्चिच्छक्ततमं ततः ॥ ९९ ॥
अप्रमाणं स्थितं सर्वमेतत्पत्रद्वयं मम ॥
तच्छ्रुत्वा पद्मजः प्राह समानीय शतक्रतुम् ॥ ६.१९८.१०० ॥
गत्वा शीघ्रतमं मर्त्ये त्वं शक्र वचनान्मम ॥
हाटकेश्वरजे क्षेत्रे तीर्थद्वयमनुत्तमम् ॥ १०१ ॥
शूद्र्याख्यं ब्राह्मणीत्येव यच्च लिंगमनुत्तमम् ॥
तत्रस्थं नाशय क्षिप्रं कृत्वा पांसुप्रवर्षणम् ॥ १०२ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा सत्वरं शक्रो गत्वा भूमितलं ततः ॥
पांसुभिः पूरयामास ते तीर्थे लिंगमेव च ॥ १०३ ॥
अद्यापि कलिकालेऽस्मिन्द्वाभ्यां गृह्य सुमृत्तिकाम् ॥
स्नात्वा च तिलकं कार्यं सर्वपापविशुद्धये ॥ १०४ ॥
चतुर्दशीदिने प्राप्ते सोमवारे च संस्थिते ॥
द्वाभ्यां यः कुरुते श्राद्धं श्रद्धया परया युतः ॥
गयाश्राद्धेन किं तस्य मनुः स्वायंभुवोऽब्रवीत् ॥ १०५ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥
यथा सा ब्राह्मणी जाता शूद्री चापि तथापरा॥१ ०६॥
यश्चैतच्छृणुयाद्भक्त्या पठेद्वा द्विजसत्तमाः ॥
सोऽपि तद्दिनजात्पापान्मुच्यते नात्र संशयः ॥ १०७ ॥
एवं नरो न कः सिद्धस्तस्य लिंगस्य पूजनात्।।
चिरायुश्च तथा जातो यथान्यो नात्र विद्यते।।१०८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शूद्रीब्राह्मणीतीर्थद्वयमाहात्म्यवर्णनं नामाष्टनवत्युत्तरशततममोऽध्यायः॥
खण्डः ६ (नागरखण्डः) — Adhyāya 199
ऋषय ऊचुः॥
तिस्रःकोट्योर्धकोटी च तीर्थानामिह भूतले॥
श्रूयते सूत कार्त्स्न्येन कीर्त्यमाना मुनीश्वरैः॥१॥
कथं लभ्येत सर्वेषां तीर्थानां स्नानजं फलम्।।
अल्पायुर्भिर्महाभाग कलिकाल उपस्थिते।।२।।
।।सूत उवाच।।
क्षेत्रत्रयमिहाख्यातं तथारण्यत्रयं महत्।।
पुरीत्रयं वनान्येव त्रीणि ग्रामास्तथात्रयः ॥ ३ ॥
तथा तीर्थत्रयं चान्यत्पर्वतत्रितयान्वितम् ॥
महानदीत्रयं चैव सर्वपातकनाशनम् ॥ ४ ॥
मर्त्यलोकेस्थितं विप्राः सर्वतीर्थफलप्रदम् ॥
सर्वेष्वेतेषु यः स्नाति स सर्वेषां फलं लभेत् ॥ ५ ॥
चतुर्विंशतिसंख्यानामिदमाह प्रजापतिः ॥
य एकस्मिंस्त्रिके स्नाति सर्व त्रिकफलं लभेत् ॥ ६ ॥
॥ ऋषय ऊचुः ॥ ॥
त्रीणि क्षेत्राणि कानीह तथारण्यानि कानि च ॥
पुर्यस्तिस्रो महाभाग काःख्याताश्च वनानि च ॥ ७ ॥
के ग्रामाः कानि तीर्थानि के नगाः सरितश्च काः ॥
नामभिर्वद नः सूत सर्वाण्येतानि विस्तरात् ॥ ८ ॥
॥ सूत उवाच ॥ ॥
कुरुक्षेत्रमिति ख्यातं प्रथमं क्षेत्रमुत्तमम् ॥
हाटकेश्वरजं क्षेत्रं द्वितीयं परिकीर्तितम् ॥ ९ ॥
प्राभासिकं तृतीयं तु क्षेत्रं हि द्विजसत्तमाः ॥
एतत्क्षेत्रत्रयं पुण्यं सर्वपातकनाशनम् ॥ ६.१९९.१० ॥
यथोक्तविधिना दृष्ट्वा नरः पापात्प्रमुच्यते ॥
यो यं काममभिध्यायन्क्षेत्रेष्वेतेषु भक्तितः ॥ ११ ॥
स्नानं करोति तस्येष्टं मनसो जायते फलम् ॥
चतुर्विंशतिमानेषु स्नातो भवति स द्विजाः॥१२॥
एकं तु पुष्करारण्यं नैमिषारण्यमेव च ॥
धर्मारण्यं तृतीयं तु तेषां संकीर्त्यते द्विजाः ॥ १३ ॥
त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत् ॥ १४ ॥
वाराणसी पुरीत्येका द्वितीया द्वारकापुरी ॥
अवन्त्याख्या तृतीया च विश्रुता भुवनत्रये ॥ १५ ॥
एतासु यो नरः स्नाति चतुर्विंशतिभाग्भवेत् ॥ १६ ॥
वृन्दावनं वनं चैकं द्वितीयं खांडवं वनम् ॥
ख्यातं द्वैतवनं चान्यत्तृतीयं धरणीतले ॥ १७ ॥
त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत् ॥१८॥
कल्पग्रामः स्मृतश्चैकः शालिग्रामो द्वितीयकः ॥
नंदिग्रामस्तृतीयस्तु विश्रुतो द्विजसत्तमाः ॥१९॥
त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत् ॥ ६.१९९.२० ॥
अग्नितीर्थं स्मृतं चैकं शुक्लतीर्थमथापरम्॥
तृतीयं पितृतीर्थं तु पितॄणामतिवल्लभम् ॥ २१ ॥
त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत् ॥ २२ ॥
श्रीपर्वतः स्मृतश्चैको द्वितीयश्चार्बुदस्तथा ॥
तृतीयो रैवताख्योऽत्र विख्यातः पर्वतोत्तमाः ॥ २३ ॥
त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत् ॥ २४ ॥
गंगा नदी स्मृता पूर्वा नर्मदाख्या तथा परा ॥
सरस्वती तृतीया तु नदी प्लक्षसमुद्भवा ॥ २५ ॥
आसु सर्वासु यः स्नाति चतुर्विंशतिभाग्भवेत् ॥ २६ ॥
एतेष्वेव हि सर्वेषु यः स्नानं कुरुते नरः ॥
सार्धकोटित्रयस्यात्र स कृत्स्नं फलमाप्नुयात् ॥ २७ ॥
यश्चैकस्मिन्नरः स्नाति स त्रिकस्य फलं लभेत् ॥ २८ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥
संक्षेपात्तीर्थजं पुण्यं लभ्यते यन्नरैर्भुवि ॥ २९ ॥
सांप्रतं किं नु वो वच्मि यत्तद्वदत मा चिरम् ॥ ६.१९९.३० ॥
॥ ऋषय ऊचुः ॥ ॥
हाटकेश्वरजे क्षेत्रे यानि तीर्थानि सूतज ॥
तानि प्रोक्तानि सर्वाणि त्वयाऽस्माकं सुविस्तरात् ॥ ३१ ॥
तथा चायतनान्येव संख्यया रहितानि च ॥
अपि वर्षशतेनात्र स्नानं कर्तुं न शक्यते ॥ ३२ ॥
तेषु सर्वेषु मर्त्येन यथोक्तविधिना स्फुटम् ॥
देवतायतनान्येव तथा द्रष्टुं महा मते ॥ ३३ ॥
यस्मिन्स्नातो दिने चैव तस्य व्युष्टिः प्रकीर्तिता ॥
अल्पायुषस्तदा मर्त्याः कृतेऽपि परिकीर्तिताः ॥ ३४ ॥
त्रेतायां द्वापरे चापि किमु प्राप्ते कलौ युगे ॥
एवमल्पायुषो ज्ञात्वा मानवान्सूतनंदन ॥ ३५ ॥
लभेरंश्च कथं सर्वतीर्थानां स्नानजं फलम् ॥
देवदर्शनजं वापि विशेषान्निर्धनाश्च ये ॥ ३६ ॥
अस्ति कश्चिदुपायोऽत्र दैवो वा मानुषोऽपि वा ॥
येन तेषां भवेत्पुण्यं सर्वेषामेव हेलया ॥ ३७ ॥
॥ सूत उवाच ॥ ॥
अस्मिन्नर्थे पुरा पृष्टो विश्वामित्रो महामुनिः ॥
समुपेत्याश्रमं तस्य आनर्तेन महीभुजा ॥ ३८ ॥
॥ राजोवाच ॥ ॥
भगवन्नत्र तीर्थानि संख्यया रहितानि च ॥
तेषु स्नानविधिः प्रोक्तः सर्वेष्वेव पृथक्पृथक् ॥ ३९ ॥
मासे वारे दिने चैव कुत्रचिन्मुनिसत्तमैः ॥
दानानि च तथोक्तानि यथा स्नान विधिस्तथा ॥ ६.१९९.४० ॥
देवानां दर्शनं चापि पृथक्तेन प्रकीर्तितम् ॥
न शक्यते फलं प्राप्तुं सर्वेषां केनचिन्मुने ॥ ४१ ॥
अपि वर्षशतेनापि किं पुनः स्तोकवासरैः॥
तस्माद्वद महाभाग सुखोपायं च देहिनाम् ॥४२॥
एकस्मिन्नपि च स्नातस्तीर्थे प्राप्नोति मानवः॥
सर्वेषामेव तीर्थानां स्नानजं सकलं फलम् ॥ ४३ ॥
तथैकस्मिन्सुरे दृष्टे सर्वदेवसमुद्भवम् ॥
फलं दर्शनजं भावि नराणां द्विजसत्तम ॥ ४९ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा सुचिरं ध्यात्वा विश्वामित्रो महामुनिः ॥
अब्रवीच्छृणु राजेंद्र सरहस्यं वदामि ते ॥ ४५ ॥
चत्वार्यत्र प्रकृष्टानि मुख्यतीर्थानि पार्थिव ॥
येषु स्नाने कृते राजञ्छ्राद्धे च तदनंतरम् ॥
सर्वेषामेव तीर्थानां स्नानजं लभ्यते फलम् ॥ ४६ ॥
सप्तविंशतिलिंगानि तथात्रैव स्थितानि च ॥
सिद्धेश्वरप्रपूर्वाणि सर्वपापहराणि च ॥ ४७ ॥
तेषु सर्वेषु दृष्टेषु भक्त्या पूतेन चेतसा ॥
सर्वेषामेव देवानां भवेद्दर्शनजं फलम् ॥ ४८ ॥
एकस्मिन्नपि संदृष्टे पूजिते वा सुरोत्तमे ॥
सप्तविंशतिलिंगानां पूजा तेन कृता भवेत् ॥ ४९ ॥
॥ राजोवाच ॥ ॥
कानि चत्वारि तीर्थानि तत्र मुख्यानि सन्मुने ॥
येषु स्नातो नरः सम्यक्सर्वेषां लभते फलम् ॥ ६.१९९.५० ॥
॥ विश्वामित्र उवाच ॥ ॥
अत्रास्ति कूपिका पुण्या यस्यां संश्रयते गया ॥
कृष्णपक्षे चतुर्दश्याममावास्यादिने तथा ॥ ५१ ॥
विशेषेण महाभाग कन्यासंस्थे दिवाकरे ॥
निर्विण्णा भूमिलोकानां कृतैः श्राद्धैरनेकधा ॥ ५२ ॥
यस्तस्यां कुरुते श्राद्धं सम्यक्छ्रद्धासमन्वितः ॥ ५३ ॥
तस्मिन्नहनि राजेंद्र स संतारयते पितॄन् ॥
तथा तीर्थं द्वितीयं तु शंखतीर्थमिति स्मृतम्॥ ॥ ५४ ॥
तत्र स्नात्वा नरो यस्तु पश्येच्छंखेश्वरं ततः ॥
सर्वेषां फलमाप्नोति माघस्य प्रथमेऽहनि ॥ ५५ ॥
तथा मन्नामकं तीर्थे तृतीयं मुख्यतां गतम् ॥
अत्र स्नात्वा तु यः पश्येन्मया संस्थापितं हरम् ॥ ५६ ॥
विश्वामित्रेश्वरं नाम सर्वेषां स फलं लभेत् ॥
नभस्यस्य सिताष्टम्यां सर्वेषां लभते फलम् ॥ ५७ ॥
शक्रतीर्थमिति ख्यातं चतुर्थं बालमण्डनम् ॥
तत्र स्नात्वा च पंचाहं शक्रेश्वरमवेक्ष्य च ॥
आश्विनस्य सितेऽष्टम्यां सर्वेषां लभते फलम् ॥ ५८ ॥
॥ राजोवाच ॥ ॥
विधानं वद मे विप्र गयाकूप्याः समुद्भवम् ॥
विस्तरेण महाभाग श्रद्धा मे महती स्थिता ॥ ५९ ॥ ॥
॥ विश्वामित्र उवाच ॥ ॥
अमावास्यादिने प्राप्ते तत्र कन्यागते रवौ ॥
यः श्राद्धं कुरुते भक्त्या स पितॄंस्तारयेन्निजान् ॥ ६.१९९.६० ॥
भर्तृयज्ञविधानेन शुद्धैः स्थानोद्भवैर्द्विजैः ॥
भर्तृयज्ञविधिं त्यक्त्वा योऽन्येन विधिना नरः ॥ ६१ ॥
श्राद्धं करोति मूढात्मा विहीनं स्थानजैर्द्विजैः ॥
स्थानजैरपि वाऽशुद्धैस्तस्य तद्व्यर्थतां व्रजेत् ६२ ॥
वृष्टिः स्यादूषरे यद्वत्सत्यमेतन्मयोदितम् ॥
अंधस्याग्रे यथा नृत्यं प्रगीतं बधिरस्य च ॥
तथा च व्यर्थतां याति अन्यस्थानोद्भवैर्द्विजैः ॥ ६३ ॥
ब्राह्मणैः कारयेच्छ्राद्धं मूर्खैरपि द्विजोत्तमाः ॥
चतुर्वेदा अपि त्याज्या अन्यस्थानसमुद्भवाः ॥६४॥
दवे कर्मणि पित्र्ये वा सोमपाने विशेषतः॥
देशांतरगतो यस्तु श्राद्धं च कुरुते नरः ॥
वैश्वानरपुरस्तेन कार्यं नान्यद्विजस्य च ॥ ६५॥
संनिवेश्य दर्भबटूञ्छ्राद्धं कुर्याद्द्विजोत्तमाः ॥
दक्षिणा भोजनं देयं स्थानिकानां चिरादपि ॥ ६६ ॥
पंचगव्यस्य संपूर्णो यथा कुम्भः प्रदुष्यति ॥
बिंदुनैकेन मद्यस्य पतितेन नृपोत्तम ॥ ६७ ॥
एकेनापि च बाह्येन बहूनामपि भूपते ॥
मध्ये समुपविष्टेन तच्छ्राद्धं दोषमाप्नुयात् ॥ ६८ ॥
स्थानजोऽपि चतुर्वेदो यद्यपि स्यान्न शुद्धिभाक् ॥
बहूनामपि शुद्धानां मध्ये श्राद्धं विनाशयेत् ॥ ६९ ॥
तस्मात्सर्वप्रयत्नेन शुद्धं ब्राह्मणमानयेत् ॥ ६.१९९.७० ॥
स्थानिकं मूर्खमप्येवमलाभे गुणिनामपि ॥
हीनांगमधिकांगं वा दूषितं नो तथा परम् ॥ ७१ ॥
कन्यादाने तथा श्राद्धे कुलीनो ब्राह्मणः सदा ॥
आहर्तव्यः प्रयत्नेन य इच्छेच्छुभमात्मनः ॥
सोऽपि शुद्धिसमायुक्तो यदि स्यान्नृपसत्तम ॥ ७२ ॥
वृक्षाणां च यथाऽश्वत्थो देवतानां यथा हरिः॥
श्रेष्ठस्थानजविप्राणां तथा चाष्टकुलोद्भवः ॥ ७३ ॥
आयुधानां यथा वज्रं सरसां सागरो यथा ॥
श्रेष्ठस्थानजविप्राणां तथाष्टकुलसंभवः ॥ ७४ ॥
उच्चैःश्रवा यथाऽश्वानां गजानां शक्रवाहनः ॥
श्रेष्ठस्थानजविप्राणां तथाष्टकुलसंभवः ॥ ७५ ॥
नदीनां च यथा गंगा सतीनां चाप्यरुंधती ॥
तद्वत्स्थानजविप्राणां श्रेष्ठोऽष्टकुलिकः स्मृतः ॥ ७६ ॥
ग्रहाणां भास्करो यद्वन्नक्षत्राणां निशाकरः ॥
तद्वत्स्थानजविप्राणां श्रेष्ठोऽष्टकुलिकः स्मृतः ॥ ७७ ॥
पर्वतानां यथा मेरुर्द्विपदानां द्विजोत्तमः ॥
स्थानजानां तु विप्राणां श्रेष्ठोऽष्टकुलिकस्तथा ॥ ७८ ॥
पक्षिणां गरुडो यद्वत्सिंहोऽरण्यनिवासिनाम् ॥
स्थानजानां तु विप्राणां श्रेष्ठोऽष्टकुलिकस्तथा ॥ ७९ ॥
एवं ज्ञात्वा प्रयत्नेन श्राद्धे यज्ञे च पार्थिव ।
कन्यादाने विशेषेण योज्यश्चाष्टकुलोद्भवः ॥ ६.१९९.८० ॥
नृत्यंति पितरस्तस्य गर्जंति च पितामहाः ॥
वेदिमूले समालोक्य प्राप्तमष्टकुलं नृप ॥ ८१ ॥
पुनर्वदंति संहृष्टाः किमस्माकं प्रदास्यति ॥
दौहित्रश्चापसव्येन जलं दर्भतिलान्वितम् ॥ ८२ ॥
॥ राजोवाच ॥ ॥
यदेतद्भवता प्रोक्तं श्रैष्ठ्यमष्टकुलोद्भवम् ॥
सर्वेषां नागराणां च तत्किं वद महामते ॥८३॥
न ह्यत्र कारणं स्वल्पं भविष्यति द्विजोत्तम ॥ ८४ ॥
॥ विश्वामित्र उवाच ॥ ॥
सत्यमेतन्महाराज यत्त्वया व्याहृतं वचः ॥
अन्येऽपि नागराः संति वेदवेदांगपारगाः॥८५॥
श्राद्धार्हा यज्ञयोग्याश्च कन्यायोग्या विशेषतः॥
परं ते स्थापिता राजन्स्वयमिंद्रेण तत्र च ॥ ८६ ॥
प्रधानत्वेन सर्वेषां नागरैश्चापि कृत्स्नशः ॥
तेन ते गौरवं प्राप्ताः स्थानेत्रैव विशेषतः ॥ ८७ ॥
तस्माच्छ्रूाद्धं प्रकर्तव्यं विप्रै श्चाष्टकुलोद्भवैः ॥
अप्राप्तौ चैव तेषां तु कार्यं नागरसंभवैः ॥ ८८ ॥
नान्यस्थानसमुद्भूतैश्चतुर्वेदैरपि द्विजैः ॥
भर्तृयज्ञेन मर्यादा कृता ह्येषा महा त्मना ॥ ८९ ॥
मुक्त्वा तु नागरं विप्रं योऽन्येनात्र करिष्यति ॥
श्राद्धं वा यदि वा यज्ञं व्यर्थं तस्य भविष्यति ॥६.१९९.९० ॥
॥ राजोवाच ॥ ॥
संत्यन्ये विविधा विप्रा वेदवेदांगपारगाः ॥
मध्यदेशोद्भवाः शान्तास्तथान्ये तीर्थसंभवाः ॥ ९१ ॥
भर्तृयज्ञेन ये त्यक्ताः श्राद्धे यज्ञे विशेषतः ॥
हीनांगाश्चाधिकांगाश्च द्विर्नग्नाः श्यावदंतकाः ॥ ९२ ॥
कुनखाः कुष्ठसंयुक्ता मूर्खा अपि विगर्हिताः ॥
श्राद्धार्हाः सूचितास्तेन एतं मे संशयं वद ॥ ९३ ॥
॥ विश्वामित्र उवाच ॥ ॥
कीर्तयिष्ये नरव्याघ्र कारणानि बहूनि च ॥
चमत्कारस्य पत्न्याश्च दानेन पतिता यतः॥ ९४ ॥
स्त्रीणां प्रतिग्रहेणैव विप्रेषु प्रोषितेषु च ॥
पृथक्त्वं च ततो जातं बाह्याभ्यन्तरसंज्ञकम् ॥ ९५ ॥
दुर्वाससा ततः शप्ता रुष्टेनेवाहिना यथा ॥
विद्याधनाभिमानेन शापेन पतिताः सदा ॥ ९६ ॥
कुशे राज्यगते राजन्राक्षसानां महाभयम् ॥
प्रजयाऽऽवेदितं सर्वं तस्य राज्ञो महात्मनः ॥ ९७ ॥
विभीषणस्य लंकायां दूतश्च प्रेषितस्तदा ॥
सर्वं निवेदयामास प्रजानां भयसंभवम् ॥ ९८ ॥
अभिवन्द्य कुशादेशं रामस्य चरितं स्मरन् ॥
पुर्यां विलोकयामास लङ्कायां रामशासनात् ॥ ९९ ॥
उपप्लवस्य कर्तारो नष्टाः सर्वे दिशो दश ॥
गन्धर्वाणां च लोकं हि भयेन महता गताः ॥ ६.१९९.१०० ॥
स्थातुं तत्र न शक्तास्ते विभीषणभयेन च ॥
पृथिव्यां समनुप्राप्ताः स्थानान्यपि बहूनि च ॥ १०१ ॥
भयेन महता तत्र कुशस्यैव तु शासने ॥
ब्राह्मणानां च रूपाणि कृत्वा तत्र समागताः ॥ १०२ ॥
वाडवानां महिम्ना च मध्ये स्थातुं न तेऽशकन् ॥
पतितानां च संस्थानं चमत्कारपुरं गताः ॥ १०३ ॥
मायाविशारदैस्तैश्च धनेन विद्यया ततः ॥
अध जग्धं ततस्तैस्तु तेषां मध्ये स्थितं च तैः ॥ १०४ ॥
ततःप्रभृति ते सर्वे राक्षसत्वं प्रपेदिरे ॥
क्रूराण्यपि च कर्माणि कुर्वंति च पदेपदे ॥ १०५ ॥
ततस्ते सर्वथा राजन्वर्जनीयाः प्रयत्नतः ॥
श्राद्धे यज्ञे नरव्याघ्र नरके पातयंति च ॥ ॥ १०६ ॥
अन्यच्च दूषणं तेषां कीर्तयिष्ये तवाऽनघ ॥
त्रिजाताः स्थापिता राजन्सर्पाणां गरनाशनात् ॥ १०७ ॥
नगरत्वं ततो जातं चमत्कार पुरस्य तु ॥
त्रिजातत्वं तु सर्वेषां जातं तत्र विशेषतः ॥ १०८ ॥
एतेभ्यः कारणेभ्यश्च भर्तृयज्ञेन वर्जिताः ॥
पुनश्च कारणं तेषां स्पर्शादपि न शुद्धिभाक् ॥ १०९ ॥
कुम्भकोत्थं च संप्राप्तं महच्चण्डालसंभवम् ॥ ६.१९९.११० ॥
॥ राजोवाच ॥ ॥
एतच्च कारणं विप्र कथयस्व प्रसादतः ॥
स्थावरस्य चरस्यैव जगतो ज्ञानमस्ति ते ॥ १११ ॥
॥ विश्वामित्र उवाच ॥ ॥
अत्र ते कीर्तयिष्यामि पूर्ववृत्तकथांतरम् ॥
भर्तृयजेन ये त्यक्ताः सर्वेन्ये ब्राह्मणोत्तमाः ॥ ११२ ॥
वर्धमाने पुरे पूर्वमासीदंत्यजजातिजः ॥
चण्डालः कुंभकोनाम निर्दयः पापकर्मकृत् ॥ ११३ ॥
कस्यचित्त्वथ कालस्य तस्य पुत्रो बभूव ह ॥
विरूपस्यापि रूपाढ्यः पूर्वकर्मप्रभावतः ॥ ११४ ॥
पिंगाक्षस्य सुकृष्णस्य वयोमध्यस्य पार्थिव ॥
दक्षः सर्वेषु कृत्येषु सर्वलक्षणलक्षितः ॥ ११५ ॥
स वृद्धिं द्रुतमभ्येति शुक्लपक्षे यथोडुराट् ॥
तथाऽसौ शंस्यमानस्तु सर्वलोकैः सुरूपभाक् ॥
दृष्ट्वा कुटुंबकं नित्यं वैराग्यं परमं गतः ॥११६॥
ततो देशांतरं दुःखाद्भ्रममाण इतस्ततः ॥
चमत्कारपुरं प्राप्तो द्विजरूपं समाश्रितः ॥
स स्नाति सर्वकृत्येषु भिक्षान्नकृतभोजनः ॥ ११७ ॥
एतस्मिन्नेव काले तु ब्राह्मणः शंसितव्रतः ॥
छांदोग्यगोत्रविख्यातः सुभद्रोनाम पार्थिवः ॥ ११८ ॥
नागरो वर्षयाजी च वेदवेदांगपारगः ॥
तत्रासीत्तस्य सञ्जाता कन्यका द्विगुणै रदैः ॥ ११९ ॥
तथा त्रिभिःस्तनै रौद्रा पृष्ठ्यावर्तकसंयुता ॥
दरिद्रोऽपि सुदुःस्थोऽपि कुलहीनोपि पार्थिव॥६.१९९.१२०॥।
दीयमानामपि न तां प्रतिगृह्णाति कश्चन ॥
यद्भक्षयति भर्तारं षण्मासाभ्यंतरे हि सा ॥१२१॥
यस्याः स्युर्द्विगुणा दंता एवं सामुद्रिका जगुः ॥
त्रिस्तनी कन्यका या तु श्वशुरस्य कुलक्षयम् ॥
संधत्ते नात्र सन्देहस्तस्मात्तां दूरतस्त्यजेत् ॥१२२॥
पृष्ठ्यावर्तो भवेद्यस्या असती सा भवेद्द्रुतम् ॥
बहुपापसमाचारा तस्मात्तां परिवर्जयेत् ॥ १२३ ॥
अथ तां वृद्धिमापन्नां दृष्ट्वा विप्रः सुभद्रकः ॥
चिन्ताचक्रं समारूढो न शांतिमधिगच्छति ॥ १२४ ॥
किं करोमि क्व गच्छामि कथमस्याः पतिर्भवेत् ॥
न कश्चित्प्रतिगृह्णाति प्रार्थितोऽपि मुहुर्मुहुः ॥ १२५ ॥
दरिद्रो व्याधितो वाऽपि वृद्धोऽपि ब्राह्मणो हि सः ॥
स्मृतौ यस्मादिदं प्रोक्तं कन्यार्थे प्राङ्महर्षिभिः ॥ १२६ ॥
अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी ॥
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥ १२७ ॥
माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ॥
त्रयस्ते नरकं यांति दृष्ट्वा कन्यां रजस्वलाम् ॥ १२८ ॥
एवं चिन्तयतस्तस्य सोंऽत्यजो द्विजरूपधृक् ॥
भिक्षार्थं तद्गृहं प्राप्तो दृष्टस्तेन महात्मना ॥ १२९ ॥
पृष्टश्च विस्मयात्तेन दृष्ट्वा रूपं तथाविधम् ॥
कुतस्त्वमिह सम्प्राप्तः क्व यास्यसि च भिक्षुक ॥ ६.१९९.१३० ॥
ईदृग्भव्यतरो भूत्वा कस्मान्माधुकरीं गतः ॥
किं गोत्रं तव मे ब्रूहि कतमः प्रवरश्च ते ॥ १३१ ॥
सोऽब्रवीद्गौडदेशीयं स्थानं मे सुमहत्तरम् ॥
नाम्ना भोजकटं ख्यातं नानाद्विजसमाश्रितम् ॥ १३२ ॥
तत्रासीन्माधवोनाम ब्राह्मणो वेदपारगः ॥
वसिष्ठगोत्रविख्यात एकप्रवरसूचितः ॥ ॥ १३३ ॥
तस्याहं तनयो नाम्ना चंद्रप्रभ इति स्मृतः ॥ १३४ ॥
ततोऽहमष्टमे वर्षे यदा व्रतधरः स्थितः ॥
तदा पंचत्वमापन्नः पिता मे वेदपारगः ॥ १३५ ॥
माता मे सह तेनैव प्रविष्टा हव्यवाहनम् ॥
ततो वैराग्यमापन्नो निष्क्रांतोऽहं निजालयात् ॥ १३६ ॥
तीर्थानि भ्रममाणोऽत्र संप्राप्तस्तु पुरं तव ॥
अधुना संप्रयास्यामि प्रभासं क्षेत्रमुत्तमम् ॥ १३७ ॥
यत्र सोमेश्वरो देवस्त्यक्त्वा कैलासमागतः ॥
न मया पठिता वेदा न च शास्त्रं नृपोत्तम॥
तीर्थयात्राप्रसंगेन तेन भिक्षां चराम्यहम् ॥ १३८ ॥
॥ विश्वामित्र उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा चिन्तयामास चेतसि ॥
ब्राह्मणोऽयं सुदेशीयस्तथा भव्यतमाकृतिः ॥
यदि गृह्णाति मे कन्यां तदस्मै प्रददाम्यहम् ॥ १३९ ॥
यावद्रजस्वला नैव जायते सा निरूपिता ॥
कृत्स्नं दूषयति क्षिप्रं नैव वंशं ममाधमा ॥ ६.१९९.१४० ॥
ततः प्रोवाच तं म्लेच्छं संमंत्र्य सह भार्यया ॥
यदि गृह्णासि मे कन्यां तव यच्छाम्यहं द्विज ॥ १४१ ॥
भरणं पोषणं द्वाभ्यां करिष्यामि सदैव हि ॥१४२॥
तच्छ्रुत्वा हर्षितः प्राह सोंऽत्यजो नृपसत्तमम् ॥
तवादेशं करिष्यामि यच्छ मे कन्यकां नृप ॥ १४३ ॥
तथेत्युक्त्वा गतस्तेन तस्मै दत्ता निजा सुता ॥
गृह्योक्तेन विधानेन विवाहो विहितस्ततः ॥ १४४ ॥
ततो ददौ धनं धान्यं गृहं क्षेत्रं च गोधनम् ॥
तस्मै तुष्टिसमायुक्तो मन्यमानः कृतार्थताम् ॥ १४५ ॥
अथ सोऽपि च तां प्राप्य विलासानकरोद्बहून् ॥
खाद्यैः पानैः सुवस्त्रैश्च गन्धमाल्यैर्विभूषणैः ॥ १४६ ॥
परं स व्रजति प्रायो येन मार्गेण केनचित् ॥
सारमेयाः सशब्दाश्च पृष्ठतोऽनुव्रजंति वै ॥ १४७ ॥
अन्येषामंत्यजात्यानां यद्वत्तस्य विशेषतः ॥
वेदाभ्यासपरश्चैव यदि संजायते क्वचित् ॥
रक्तं पतति वक्त्रेण तत्क्षणात्तस्य दुर्मतेः ॥ १४८ ॥
एतस्मिन्नंतरे लोकः सर्व एव प्रशंकितः ॥
अब्रवीच्च मिथोऽभ्येत्य चंडालोऽयमसंशयम् ॥ १४९ ॥
यदेते पृष्ठतो यांति भषमाणाः शुनीसुताः ॥
सुभद्रोऽपि च तत्तेषां श्रुत्वा चिन्तापरोऽभवत् ॥ ६.१९९.१५० ॥
मन्यमानश्च तत्सत्यं दुःखेन महतान्वितः ॥
नूनमंत्यजजातीयो भविष्यति सुतापतिः ॥ १५१ ॥
ज्ञायते चेष्टितैः सर्वैर्यथाऽयं जल्पते जनः ॥ १५२ ॥
एवं रात्रिंदिवं तस्य चिन्तयानस्य भूपतेः ॥
लोकापवादयुक्तस्य कियान्कालोऽभ्यवर्तत ॥ १५३ ॥
अन्यस्मिन्नहनि प्राप्ते आद्याद्या द्विजसत्तमाः ॥
मध्यगेन समायुक्ता ब्रह्मस्थानं समागताः ॥
तस्य शुद्धिकृते प्रोचुर्येन शंका प्रणश्यति ॥ १५४ ॥
अथोचुस्तं द्विजश्रेष्ठा ब्रह्मस्थानस्य मध्यगम् ॥
मध्यगस्य तु वक्त्रेण विवर्णवदनं स्थितम् ॥ १५५ ॥
कुलं गोत्रं निजं ब्रूहि प्रवरांश्च विशेषतः ॥
स्थानं देशं च विप्राणां येन शुद्धिः प्रदीयते ॥ १५६ ॥
अथासौ वेपमानस्तु प्रस्विन्नवदनस्तथा ॥
अधोदृष्टिरुवाचेदं गद्गदं विहिताञ्जलिः ॥ १५७ ॥
गर्भाष्टमे पिता मह्यं वर्षे मृत्युं गतस्ततः ॥
ततः सा तं समादाय जननी मे पतिव्रता ॥
मां त्यक्त्वा दुःखितं दीनं प्रविष्टा हव्यवाहनम् ॥ १५८ ॥
अहं वैराग्यमापन्नस्तीर्थयात्रां समाश्रितः ॥
बालभावे पितुर्दुःखात्तापसैरपरैः सह ॥ १५९ ॥
न मया पठितो वेदो न च शास्त्रं निरूपितम्॥
तीर्थयात्रापरोऽहं च समायातो भवत्पुरम् ॥ ६.१९९.१६०
अभद्रेण सुभद्रेण श्वशुरेण दुरात्मना ॥
एतज्जानाम्यहं विप्रा गोत्रं वासिष्ठमेव वा ॥ १६१ ॥
अथैकप्रवरो देशो गौडो मधुपुरं पुरम् ॥
ततस्ते ब्राह्मणाः प्रोचुर्यस्य नो ज्ञायते कुलम् ॥
तस्य शुद्धिः प्रदातव्या धटद्वारेण केवला ॥१६२॥
स त्वं धटं समारुह्य ब्राह्मण्यार्थं च केवलम् ॥
शुद्धिं प्राप्य ततो भोगान्भुंक्ष्वात्रस्थोऽपि केवलम् ॥ १६३ ॥
सोऽब्रवीत्साहसं कृत्वा सर्वानेव द्द्विजोत्तमान् ॥
प्रतिगृह्णाम्यहं कामं तप्तमाषकमेव च॥१६४॥
प्रविशामि हुताशं वा भक्षयिष्याम्यहं विषम्॥१६५॥
किं पुनर्धटदिव्यं च क्रियमाणे सुखावहम् ॥
ब्राह्मणस्य कृते विप्राश्चित्ते नो मामके घृणा ॥ १६६ ॥
अथ ते ब्राह्मणास्तस्य धटारोहणसंभवम् ॥
शुद्धिं निर्दिश्य वारं च सूर्यस्य च ततः परम् ॥
जग्मुः स्वंस्वं गृहं सर्वे सोऽपि विप्रोंऽत्यजो द्विजाः ॥ १६७ ॥
ततः प्राह निजां भार्यां रहस्ये नृपसत्तम॥
ज्ञातोऽहं ब्राह्मणैः सर्वैरंत्यजातिसमुद्भवः ॥
देशातरं गमिष्यामि त्वमागच्छ मया सह ॥ १६८ ॥
॥ भार्योवाच ॥ ॥
अहमग्निं प्रवेक्ष्यामि न यास्यामि त्वया सह ॥
पापबुद्धे पतिष्यामि न चाहं नरकाग्निषु ॥ १६९ ॥
बुध्यमाना न सेविष्ये त्वामंत्यजसमुद्भवम् ॥
पाप संदूषितं सर्वं त्वयैतत्स्थानमुत्तमम् ॥ ६.१९९.१७० ॥
तथा मम पितुर्हर्म्यं संवत्सरप्रयाजिनः ॥
तस्माद्द्रुततरं गच्छ यावन्नो वेत्ति कश्चन ॥ १७१ ॥
नो चेत्पापसमाचार संप्राप्स्यसि महाऽऽपदम् ॥ १७२ ॥
ततो निशामुखे प्राप्ते कौपीनावरणान्वितः ॥
नष्टोऽभीष्टां दिशं प्राप्य तदा जीवितजाद्भयात् ॥ १७३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागराष्टकुलश्रैष्ठ्यवर्णनंनामैकोनद्विशततमोऽध्यायः ॥ १९९ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 200
॥ विश्वामित्र उवाच ॥ ॥
ततः प्रभाते संजाते प्रोद्गते रविमण्डले ॥
सा चापि दुहिता तस्य दीक्षितस्य महात्मनः ॥ १ ॥
रोरूयमाणाऽभ्यगमत्पितरं मातरं प्रति ॥
प्रोवाच गद्गदं वाक्यं बाष्पव्याकुललोचना ॥ २ ॥
ताताम्ब किमिदं पापं युवाभ्यां समनुष्ठितम् ॥
अन्त्यजस्य प्रदत्ताऽहं यत्पापस्य दुरात्मनः ॥ ३ ॥
स नष्टो रजनीवक्त्रे ममावेद्य निजं कुलम्॥
तस्मादहं प्रवेक्ष्यामि प्रदीप्ते हव्यवाहने ॥ ४ ॥
तस्यास्तद्वचनं श्रुत्वा दीक्षितः स सुभद्रकः ॥
निश्चेष्टः पतितो भूमौ वातभग्न इव द्रुमः ॥ ५ ॥
ततः स शीततोयेन संसिक्तश्च पुनःपुनः ॥
लब्ध्वाशु चेतनां कृच्छ्रात्स्वजनैः परिवारितः ॥
प्रलापान्विविधांश्चक्रे ताडयन्स्वशिरो मुहुः ॥ ६ ॥
अथ ते ब्राह्मणाः सर्वे तस्य संपर्कदूषिताः ॥
भर्तृयज्ञं समासाद्य तेनैव सहितास्ततः ॥ ७ ॥
प्रोचुर्विनयसंयुक्ताः प्रोच्चैस्तत्सुतया सह ॥
सुभद्रेण निजे हर्म्ये सुतां दत्त्वा निवेशितः ॥ ८ ॥
चण्डालो द्विजरूपोत्र चंद्रप्रभ इति स्मृतः ॥ ९ ॥
यावत्संवत्सरं सार्धं दैवे पित्र्ये च योजितः ॥
पापकर्मा न विज्ञातः सोऽधुना प्रकटोऽभवत् ॥ ६.२००.१० ॥
सुभद्रस्यानुषंगेण स्थानं सर्वं प्रदूषितम् ॥
अन्त्यजेन महाभाग तत्कुरुष्व विनिग्रहम्॥ ११ ॥
कैश्चित्तस्य गृहे भुक्तं जलं पीतं तथा परैः ॥
अन्यैश्च गृहमानीय प्रदत्तं भोजनं तथा ॥ १२ ॥
किं वा ते बहुनोक्तेन न स कोऽस्ति द्विजोत्तम ॥
संकरो यस्य नो जातस्तस्य पापस्य संभवः ॥ १३ ॥
त्वया स्थानमिदं पुण्यं कृतं पूर्वं महामते ॥
सर्वेषां च गुरुस्त्वं हि तस्माच्छुद्धिं वदस्व नः ॥ १४ ॥
ततः संचिन्त्य सुचिरं स्मृतिशास्त्राण्यनेकशः ॥
प्रायश्चित्तं ददौ तेषां सर्वेषां स द्विजन्मनाम् ॥ १५ ॥
चांद्रायणशतं प्रादात्सुभद्रायाहिताग्नये ॥
सर्वभंडपरित्यागं पुनराधानमेव च ॥ १६ ॥
लक्षहोमविधानं च गृहमध्यविशुद्धये ॥
वह्निप्रवेशनं तस्यास्तत्सुतायाः प्रकीर्तितम् ॥ १७ ॥
येन यावंति भोज्यानि तस्य भुक्तानि मंदिरे ॥
तस्य तावंति कृच्छ्राणि तेनोक्तानि महात्मना ॥ १८ ॥
यैर्जलानि प्रपीतानि यावन्मात्राणि तद्गृहे ॥
प्राजापत्यानि दत्तानि तेभ्यस्तावंति पार्थिव ॥ १९ ॥
ब्राह्मणानां तथान्येषां तत्र स्थाने निवासिनाम् ॥
तत्स्पर्शदूषितानां च प्राजापत्यं पृथक्पृथक् ॥ ६.२००.२० ॥
स्त्रीशूद्राणां तदर्धं च तदर्ध बालवृद्धयोः ॥
मृन्मयानां च भांडानां परित्यागो निवेदितः ॥ २१ ॥
सर्वेषामेव लोकानां रसत्यागस्तथैव च ॥
कोटिहोमस्तु निर्दिष्टो ब्रह्मस्थाने यथोदितः ॥
सर्वस्थानविशुद्ध्यर्थं स्थानवित्तेन केवलम् ॥ ॥ २२ ॥
अथोवाच पुनर्विप्रान्स कृत्वा चोच्छ्रितं भुजम ॥
तारनादेन महता सर्वांस्तान्नागरोद्भवान् ॥ २३ ॥
सुभद्रेण च सर्वस्वं देयं विप्रेभ्य एव च ॥
चतुर्थांशश्च यैर्भुक्तं तद्गृहे स्वधनस्य च ॥ २४ ॥
अष्टांशं यैर्जलं पीतं गोदानं स्पर्शसंभवम् ॥
शेषाणामपि लोकानां यथाशक्त्या तु दक्षिणा ॥ २५ ॥
दीक्षितेन जपः कार्यो लक्षगायत्रिसंभवः ॥
शेषैर्विप्रैर्यथा वित्तं तथा कार्यो जपोऽखिलः ॥ २६ ॥
अहं चैव करिष्यामि प्राणायामशतत्रयम् ॥
नित्यमेव द्विजश्रेष्ठाः षष्ठकालकृताशनः ॥ २७ ॥
यावत्संवत्सरस्यांतं ततः शुद्धिर्भविष्यति ॥
जन संपर्कसंजाता सैवं तस्य दुरात्मनः ॥ २८ ॥
एवमुक्त्वा ततो भूयः स प्रोवाच द्विजोत्तमान् ॥
अथाऽऽद्यान्मध्यगास्येन ब्रह्मस्थानसमाश्रयान् ॥ ॥ २९ ॥
अद्यप्रभृति यः कन्यामविदित्वा तु नागरम् ॥
नागरो दास्यति क्वापि पतितः स भविष्यति ॥६.२००. ३० ॥
अश्राद्धेयो ह्यपांक्तेयो नागराणां विशेषतः ॥ ३१ ॥
यः श्राद्धं नागरं मुक्त्वा ह्यन्यस्मै संप्रदास्यति ॥
विमुखास्तस्य यास्यंति पितरो विबुधैः सह ॥ ३२ ॥
नागरेण विना यस्तु सोमपानं करिष्यति ॥
स करिष्यत्यसंदिग्धं मद्यपानं तु नागरः ॥
तन्मतेन विना यस्तु श्राद्धकर्म करिष्यति ३३ ॥
ततः सर्वं वृथा तस्य भविष्यति न संशयः ॥
विशुद्धिरहितं यस्तु नागरं भोजयिष्यति ॥ ३४ ॥
श्राद्धे तस्यापि तत्सर्वं व्यर्थतां संप्रयास्यति ॥
सर्वेषां नागराणां च मर्यादेयं कृता मया ॥ ३५ ॥
तस्मात्सर्वप्रयत्नेन शुद्धिः कार्या द्विजोत्तमैः ॥
वर्षेवर्षे तु संप्राप्ते स्वस्थानस्य विशुद्धये ॥ ३६ ॥
॥ विश्वामित्र उवाच ॥ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नृपोत्तम ॥
श्राद्धार्हा नागरा येन नागराणां व्यवस्थिताः ॥
भर्तृयज्ञेन मर्यादा कृता तेषां यथा पुरा ॥ ३७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये भर्तृयज्ञकृतनागरज्ञातिमर्यादावर्णनं नाम द्विशततमोऽध्यायः ॥ २०० ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 201
॥ विश्वामित्र उवाच ॥ ॥
अथ ते ब्राह्मणाः सर्वे भर्तृयज्ञं महामतिम् ॥
कृतांजलिपुटा भूत्वा स्तुतिं कृत्वा वचोऽब्रुवन् ॥ १ ॥
यदेतद्भवता प्रोक्तं शोधितो यो भवेद्द्विजः ॥
श्राद्धस्य कन्यकायाश्च सोमपानस्य सोऽर्हति ॥ २ ॥
कथं शुद्धिः प्रकर्तव्या तस्य सर्वं ब्रवीहि नः ॥
नागरस्य समस्तस्य देशांतरगतस्य च ॥३॥
देशांतरप्रजातस्य तत्र जातस्य वा पुनः ॥
अज्ञातपितृवर्गस्य सामा न्यं पदमिच्छतः ॥ ४ ॥
एतन्नः सर्वमाचक्ष्व विस्तरेण महामते ॥ ५ ॥
॥ विश्वामित्र उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा ब्राह्मणानां नृपोत्तम ॥
अब्रवीद्भर्तृयज्ञस्तु स्वाभिप्रायं सुसंमतम् ॥ ६ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
प्रश्नभारो महानेष भवद्भिः समुदाहृतः ॥
तथापि कथयिष्यामि नमस्कृत्य स्वयंभुवम्॥ ७॥
अज्ञातपितृवंशो यो दूरादपि समागतः ॥
सामान्यं वांछते पद्यं नागरोऽस्मीति कीर्तयन् ॥ ८ ॥
तस्य शुद्धिः प्रदा तव्या मुख्यैः शांतैः शुभैर्द्विजैः ॥
गर्तातीर्थोद्भवं विप्रं कृत्वा चैव पुरःसरम् ॥९ ॥
विशुद्धिं याचमानस्य यदि यच्छंति नो द्विजाः ॥
कामाद्वा यदि वा क्रोधात्प्रद्वेषाद्वा च्युतेर्भयात् ॥ ६.२०१.१० ॥
ब्रह्महत्योद्भवं पापं सर्वेषां तत्र जायते ॥
तस्मादभ्यागतो यस्तु दूरादपि विशेषतः ॥ ११ ॥
तस्य शुद्धिः प्रदातव्या प्रयत्नेन द्विजोत्तमैः ॥
शुद्धिं तु त्रिविधां प्राप्तो मम वाक्यसमुद्भवाम् ॥ १२ ॥
स शुद्धो नागरो ज्ञेयो जातो देशांतरेष्वपि ॥
पूर्वं विशोधयेद्वंशं ततो मातृकुलं स्मृतम् ॥ १३ ॥
ततः शीलं त्रिभिः शुद्धः सामान्यं पदमर्हति ॥ १४ ॥
सर्वेषामपि विप्राणां वर्षांते समुपस्थिते ॥
शुद्धिः कार्या प्रयत्नेन स्वस्थानस्य विशुद्धये ॥ १५ ॥
तदर्थं शरदश्चांते शुभर्त्तौ ब्राह्मणोत्तमाः ॥
चातुश्चरणसंपन्नाः संस्थाप्याः षोडशैव तु ॥ १६ ॥
ब्राह्मणाः पुरतः सर्वे शांता दांता जितेंद्रियाः ॥
गर्त्तातीर्थोद्भवं विप्रं तेषां मध्ये निवेशयेत् ॥ १७ ॥
तदग्रे पीठिका देयाश्चतस्रो लक्षणान्विताः ॥
यावत्कार्त्तिकपर्यंतं चातुश्चरणकल्पिताः ॥ १८ ॥
प्रथमा बह्वृचस्यार्थे याजुषस्य तथाऽपरा ॥
सामगस्य तथैवान्या तथाऽऽद्यस्य चतुर्थिका ।। ॥ १९ ॥
मुद्रिकार्थं तथैवान्या पंचमी परिकीर्तिता ॥
श्रीसूक्तं पावमानं च शाकुनं विष्णुदैवतम्॥ ६.२०१.२० ॥
पारावतं तथा सूक्तं जीवसूक्तेन संयुतम्॥
बह्वृचः कीर्तयेत्तत्र शांतिकं च तथापरम् ॥ २१ ॥
शांतिकं शिवसंकल्पमृषिकल्पं चतुर्विधम् ॥
मंडलंब्राह्मणं चैव गायत्रीब्राह्मणं तथा ॥ २२ ।।
तथा पुरुषसूक्तं च मधुब्राह्मणमेव च ॥
अध्वर्युः कीर्तयेत्तत्र रुद्रान्पंचांगसंयुतान् ॥ २३ ॥
देवव्रतं च गायत्रं सोमसूर्यव्रते तथा ॥
एकविंशतिपर्यंतं तथान्यच्च रथंतरम् ॥ २४ ॥
सौव्रतं संहिता विष्णोर्ज्येष्ठसाम तथैव च ॥
सामवेदोक्तरुद्रांश्च भारुंडैः सामभिर्युतान् ॥ २५ ॥
छंदोगः कीर्तयेत्तत्र यच्चान्यच्छांतिकं भवेत् ॥
गर्भोपनिषदं चैव स्कंदसूक्तं तथापरम् ॥ २६ ॥
नीलरुद्रैः समोपेतान्प्राणरुद्रांस्तथापरान् ॥
नवरुद्रांश्च क्षुरिकानाद्यस्तत्र प्रकीर्तयेत् ॥ २७ ॥
ततः पुण्याहघोषेण गीतवादित्रनिस्वनैः ॥
शुक्लमाल्यांबरधरः शुक्लचंदनचर्चितः २८ ॥
शुद्धिकामो व्रजेत्तत्र यत्र ते ब्राह्मणाः स्थिताः ॥
प्रणम्य शिरसा तेषां ततोवाच्यस्तु मध्यगः ॥ २९ ॥
मदर्थं प्रार्थय त्वं हि सर्वानेतान्द्विजोत्तमान् ॥
यतः शुद्धिं प्रयच्छंति प्रसादं कर्तुमर्हसि ॥ ६.२०१.३० ॥
ततस्तु प्रार्थयेद्विप्रांस्तदर्थं च विशुद्धये ॥
गर्तातीर्थोद्भवो विप्रो विनयावनतः स्थितः ॥ ३१ ॥
गोचर्मणि समालग्नः शुद्धिकामस्य तस्य च ॥
प्रष्टव्यास्तु ततस्तेन सर्व एव द्विजोत्तमाः ॥ ३२ ॥
एष शुद्धिकृते प्राप्तः सुदूरान्नागरो द्विजः ॥
अस्य शुद्धिः प्रदातव्या युष्माकं रोचते यदि ॥ ३३ ॥
अथ तैर्वेदसूक्तेन निषेधो वा प्रवर्तनम् ॥
वक्तव्यं वचसा नैव मम वाक्यमिदं स्थितम्॥ ३४ ॥
ततश्च बहुलान्दृष्ट्वा ऋगध्वर्यूंस्ततः परम् ॥
छादोग्यांश्च तथाद्यांश्च क्रमेण तु द्विजोत्तमाः ॥ ३५ ॥
यदि तेषां मनस्तुष्टिर्जायते द्विजसत्तमाः ॥
ततः सूक्तानि वाक्यानि सौम्यानि सुशुभानि च ॥
वारुणानि तथैंद्राणि मांगल्यप्रभवाणि च ॥ ३६ ॥
श्रेष्ठानि मंत्रलिंगानि वृद्धितुष्टिकराणि च ॥
यदि नो मानसी तुष्टि स्तेषां चैव प्रजायते ॥ ३७ ॥
तदा रौद्राणि याम्यानि नैर्ऋत्यानि विशेषतः ॥
आग्नेयानि त्वनिष्टानि तथा नाशकराणि च ॥ ३८ ॥
अथ ये तत्र मूर्खाः स्युर्न वेदपठने रताः ॥
पुष्पदानं तु वक्तव्यं तैः संतुष्टैर्द्विजोत्तमैः ॥ ३९ ॥
सीत्कारः कुपितैः कार्यः संतोषेण विवर्जितैः ॥
एवं सर्वेषु कृत्येषु न च कार्यो विनिर्णयः ॥ ६.२०१.४० ॥
प्राकृतैर्वचनैश्चैव यथा कुर्वंति मानवाः ॥
तथैव निर्णयस्यांते मध्यगेन विपश्चिता ॥ ४१ ॥
देयं तालत्रयं सम्यक्सर्वेषां निर्णयोद्भवे ॥ ४२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागर प्रश्ननिर्णयवर्णनंनामैकोत्तरद्विशततमोऽध्यायः ॥ २०१ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 202
॥ विश्वामित्र उवाच ॥ ॥
तच्छ्रुत्वा ब्राह्मणाः सर्वे विनयावनताः स्थिताः ॥
तं पप्रच्छुर्नरश्रेष्ठ कौतुकाविष्टचेतसः ॥ १ ॥
कस्यचिन्निर्णयो देयो मध्यस्थस्य द्विजोत्तमैः ।।
वेदवाक्येन संत्यज्य वाक्यं मनुजसंभवम् ओ। २ ।।
कस्मात्तालत्रयं देयं मध्यगेन महात्मना ॥
एतन्नः सर्वमाचक्ष्व परं कौतूहलं हि नः ॥ ३ ॥
तच्छ्रुत्वा भर्तृयज्ञस्तु तानुवाच द्विजोत्तमान् ॥
श्रूयतामभिधास्यामि यदेतत्कारणं स्थितम् ॥ ४ ॥
नासत्यं जायते वाक्यं नागराणां कथंचन ॥
ब्रह्मशालास्थितानां च शुभं वा यदि वाऽशुभम् ॥ ५ ॥
वेदोक्तेः सवनैस्तस्माद्दर्शयंति द्विजोत्तमाः ॥
इष्टं वा यदि वानिष्टं पृच्छमानस्य चा र्थिनः ॥ ६ ॥
भूयोभूयस्ततः कुर्यान्मध्यस्थः स द्विजन्मनाम् ॥
प्रश्नं तस्य निमित्तं च यावत्तस्य विनिर्णयः ॥ ७ ॥
ब्रह्मशालोपविष्टानां यदि वाक्यं वृथा भवेत् ॥
माहात्म्यं नश्यते तेषां ततः क्रोधः प्रजायते ॥ ८ ॥
क्रोधात्सञ्जायते द्रोहो द्रोहात्पापस्य संगमः ॥
एतस्मात्कारणाद्विप्रा मध्यस्थः पृच्छ्यते मुहुः ॥ ९ ॥
समुदायः समस्तानां यथा चैव प्रजायते ॥
तदा तालत्रयं यच्च मध्यस्थः संप्रयच्छति ॥ ६.२०२.१० ॥
तासां तु पूर्वया कामं हंति पृच्छाप्रदायिनाम् ॥
द्वितीयया तथा क्रोधं हंति लोभं तृतीयया ॥ ११ ॥
एतस्मात्कारणाद्देयं तेन तालत्रयं द्विजाः ॥ १२ ॥ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
आथर्वणश्चतुर्थस्तु ब्राह्मणः परिकीर्तितः ॥
स कस्मात्प्रथमः प्रश्नो नागराणां प्रकीर्तितः ॥ १३ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
आथर्वः प्रथमः प्रश्नो यस्मात्प्रोक्तो मया द्विजाः ॥
तदहं संप्रवक्ष्यामि शृणुध्वं सुसमाहिताः ॥ १४ ॥
नेर्ष्या चैवात्र कर्तव्या स्वस्थानस्य विनाशनी ॥
निरूपितं मया सम्यक्स्थानस्थस्य विशुद्धये ॥ १५ ॥
ऋग्यजुःसामसंज्ञाख्या अग्निष्टोमादिका मखाः ॥
पारत्रिकाः प्रवर्तंते नैहिकाश्चाभिचारिकाः ॥ १६ ॥
अथर्ववेदे तच्चोक्तं सर्वं चैवाभिचारिकम् ॥
हिताय सर्वलोकानां ब्रह्मणा लोककारिणा ॥ १७ ॥
अथर्ववेदः प्रथमं द्रष्टव्यः कार्यसिद्धये ॥
एतस्मात्कारणादाद्यः स चतुर्थोऽपि संस्थितः ॥ १८ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥
पृच्छा संबंधजं सर्वमेकं कार्यं सदैव हि ॥ १९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये भर्तृयज्ञवाक्यनिर्णयवर्णनंनाम द्व्युत्तरद्विशततमोऽध्यायः ॥ २०२ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 203
॥ आनर्त उवाच ॥ ॥
एवं शुद्ध्यर्थमायातो नागराणां पुरः स्थितः ॥
नागरः शुद्धिमाप्रोति यथा तन्मे वद द्विजः ॥ १ ॥
॥ विश्वामित्र उवाच ।१ ॥
एवं मध्यस्थवचनात्समुदाये स्थिरे सति ॥
स प्रष्टव्यः पितुर्माता कतमा ते वदस्व नः ॥ २ ॥
किं गोत्रः कतमस्तस्याः पिता किंप्रवरः स्मृतः ॥
एवं तस्यान्वयं ज्ञात्वा गोत्रप्रवरसंयुतम् ॥ ३॥
प्रष्टव्या च ततो माता तस्याश्चापि च या भवेत् ॥
जननी चापि प्रष्टव्या तस्याश्चापि च या भवेत् ॥ ४ ॥
ज्ञातव्या सापि यत्नेन ब्राह्मणैः शुद्धि कर्मणि॥५॥
पिता पितामहश्चैव तथैव प्रपितामहः॥
शोधनीयाः प्रयत्नेन त्रयश्चैतेऽपि तस्य च॥६॥
तथा पितामहीपक्षे त्रय एते द्विजोत्तमाः॥
मातामहस्ततस्तस्य पिता तस्यापि यः पिता॥७॥
माता मातामही चैव तथैवान्या प्रपूर्विका॥
पितामह्याश्च या माता सापि शोध्या सभर्तृका ॥ ८ ॥
एवं शाखाऽगमं ज्ञात्वा तस्य सर्वं यथाक्रमम् ॥
मूलवंशादधिष्ठानं न्यग्रोधस्येव सर्वतः ॥ ९ ॥
ततः शुद्धिः प्रदातव्या सिन्दूरति लकेन तु ॥
चातुश्चरणमंत्रैश्च दत्त्वाशीर्वचनं क्रमात् ॥ ६.२०३.१० ॥
ततो वाच्यं नृपश्रेष्ठ मध्यस्थेन तदग्रतः ॥
दत्त्वा तालत्रयं राजञ्छुद्धोऽयं नागरो द्विजः ॥
सामान्यपदयोग्यश्च संजातः सांप्रतं द्विजः ॥ ११ ॥
ततोऽग्निशरणं गत्वा संतर्प्य च हुताशनम् ॥
पञ्चवक्त्रेण मंत्रेण दत्त्वा पूर्णाहुतिं ततः॥
विप्रेभ्यो दक्षिणां दद्यात्स्वशक्त्या भोजनान्विताम् ॥ १२ ॥
सिन्दूरतिलके जाते ब्रह्माग्रे द्विजवाक्यतः ॥
पितॄणां जायते तुष्टिर्वंशो नोऽद्य प्रतिष्ठि तः ॥ १३ ॥
यस्य नो जायते शुद्धिः शाखाभिर्मूलवंशगा ॥
निग्रहस्तस्य कर्तव्यो द्विजार्हो द्विजसत्तमैः ॥ १४ ॥
यथा नान्यो हि जायेत शुद्धि स्तस्य प्रकल्पिता॥
एवं संशोधितो विप्रः श्राद्धार्हो जायते ततः॥१५॥
अपि चाष्टकुलोत्पन्नः सामान्यः किं पुनर्हि यः॥
अशुद्धेन तु विप्रेण यः श्राद्धा द्यं करोति हि ॥
तस्य भस्महुतं यद्वत्सर्वं तज्जायते वृथा ॥१६॥
तस्मात्सर्वप्रयत्नेन शोध्योऽयं नागरो द्विजः ॥
स्वस्थानस्य विशुद्ध्यर्थं तथैव स्वकु लस्य च ॥ १७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागरविशुद्धिप्रकारवर्णनंनाम त्र्युत्तरद्विशततमोऽध्यायः ॥ २०३ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 204
॥ आनर्त उवाच ॥ ॥
प्रोक्ताऽस्माकं त्वया विप्र शुद्धिर्नागरसंभवा ॥
वंशजा विस्तरेणैव यथा पृष्टोऽसि सुव्रत ॥ १ ॥
सांप्रतं शीलजां ब्रूहि नष्टवंशश्च यो भवेत् ॥
पितामहं न जानाति न च मातामहीं निजाम् ॥
तस्य शुद्धिः कथं कार्या नागरोऽस्मीति यो वदेत् ॥ २ ॥
॥ विश्वामित्र उवाच ॥ ॥
एतदर्थं पुरा पृष्टो भर्तृयज्ञश्च नागरैः ॥
नष्टवंशकृते राजन्यथा पृष्टोऽस्मि वै त्व या ॥ ३ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
नष्टवंशस्तु यो ब्रूयान्नागरोऽस्मीति संसदि ॥
तस्य शीलं प्रविज्ञेयं ततः शुद्धिं समादिशेत् ॥ ४ ॥
नागराणां तु ये धर्मा व्यवहाराश्च केवलाः ॥
तेषु चेद्वर्तते नित्यं संभाव्यो नागरो हि सः ॥ ५ ॥
तस्य शुद्धिकृते देयं धटं ब्राह्मणसत्तमाः ॥
धटे तु शुद्धिमापन्ने ततोऽसौ शुद्धतां व्रजेत् ॥ ६ ॥
श्राद्धार्हः कन्यकार्हश्च सोमार्हश्च विशेषतः ॥
सामान्यपदयोग्यश्च समस्ते स्थानकर्मणि ॥ ७ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नरोत्तम ॥
द्वितीया जायते शुद्धिर्यथा नष्टान्वये द्विजे ॥
तस्माद्वद महाराज यद्भूयः श्रोतुमर्हसि ॥ ८ ॥
॥ आनर्त उवाच ॥ ॥
तस्मात्ते नागरा भूत्वा विप्राश्चाष्टकुलोद्भवाः ॥
सर्वेषामुत्तमा जाताः प्राधान्येन व्यवस्थिताः ॥ ९ ॥
तपसः किं प्रभावः स तेषां वा यजनोद्भवः ॥
विद्योद्भवोऽथवा विप्र किं वा दानसमुद्भवः ॥ ६.२०४.१० ॥
॥ विश्वामित्र उवाच ॥ ॥
ते सर्वे गुणसंपन्ना यथान्ये नागरास्तथा ॥
विशेषश्चापरस्तेषां ते शक्रेण प्रतिष्ठिताः ॥ ११ ।।
तेन ते गौरवं प्राप्ताः सर्वेषां तु द्विजन्मनाम् ॥ १२ ॥
॥ आनर्त उवाच ॥ ॥
कस्मिन्काले तु ते विप्राः शक्रे णात्र प्रतिष्ठिताः ॥
किमर्थं च वदास्माकं विस्तरेण महामते ॥ १३ ॥
।। विश्वामित्र उवाच ॥ ॥
हिरण्याक्ष इति ख्यातः पुराऽऽसीद्दानवो त्तमः ॥
अभवत्तस्य संग्रामः शक्रेण सह दारुणः ॥ १४ ॥
तत्र देवासुरे युद्धे मृता भूरिदिवौकसः ॥
दानवाश्च महाराज परस्परजिगीषवः ॥ १५ ॥
अथ ते दानवाः संख्ये शक्रेण विनिपातिताः ॥
विद्याबलेन ताञ्छुक्रः सजीवान्कुरुते पुनः ॥ १६ ॥
देवाश्च निधनं प्राप्ता न जीवंति कथंचन ॥
कस्यचित्त्वथ कालस्य विष्णुं प्रोवाच वृत्रहा ॥ १७ ॥
धारातीर्थमृतानां च प्रहारैः सन्मुखैः प्रभो ॥
या गतिश्च समादिष्टा तां मे वद जनार्दन ॥ ॥ १८ ॥
पराङ्मुखा मृता ये च पलायनपरायणाः ॥
तेषामपि गतिं ब्रूहि यादृग्जायेतवाच्युत ॥ १९ ॥
॥ विष्णुरुवाच ॥ ॥
धारातीर्थमृतानां च सन्मुखानां महाहवे ॥
यथा चोच्छिन्नबीजानां पुनर्जन्म न विद्यते ॥ ६.२०४.२० ॥
ये पुनः पृष्ठदेशे तु हन्यते भयविक्लवाः ॥
भुज्यमानाः परैस्ते च प्रेताः स्युस्त्रिदशाधिप ॥ २१ ॥
॥ इन्द्र उवाच ॥ ॥
केचिद्देवा मृता युद्धे युध्यमानाश्च सन्मुखाः ॥
तथैवान्ये मया दृष्टा हन्यमानाः पराङ्मुखाः ॥
प्रेतत्वं दानवानां च सर्वेषां स्यान्न वा प्रभो ॥ २२ ॥
॥ विष्णुरुवाच ॥ ॥
असंशयं सहस्राक्ष हता युद्धे पराङ्मुखाः ॥
प्रेतत्वे यांति ते सर्वे देवा वा मानुषा यदि ॥ २३ ॥
विषादग्नेः कुलघ्नानां तया चैवात्मघातिनाम् ॥
दंष्ट्रिभिर्हतदेहानां शृंगिभिश्च सुरेश्वर ॥
प्रेतत्वं जायते नूनं सत्यमेतदसंशयम् ॥२४॥
॥ इन्द्र उवाच ॥ ॥
कथं तेषां भवेन्मुक्तिः प्रेतत्वाद्दारुणाद्विभो ॥
एतन्मे सर्वमाचक्ष्व येन यत्नं करोम्यहम् ॥२५॥
॥ श्रीभगवानुवाच ॥ ॥
तेषां संयुज्यते श्राद्धं कन्यासंस्थे दिवाकरे ॥
कृष्णपक्षे चतुर्दश्यां नभस्यस्य सुरेश्वर ॥ २६ ॥
गयायां भक्तिपूर्वं तु पितामहवचो यथा ॥
ततः प्रयांति ते मोक्षं सत्यमेतदसंशयम् ॥ २७ ॥
॥ इन्द्र उवाच ॥ ॥
कस्मात्तत्र दिने श्राद्धं क्रियते मधुसूदन ॥
शस्त्रैर्विनिहतानां च सर्वं मे विस्तराद्वद ।। २८ ॥
॥ श्रीभगवानुवाच ॥ ॥
भूतप्रेतपिशाचैश्च कूष्मांडै राक्षसैरपि ॥
पुरा संप्रार्थितः शंभुर्दिने तत्र समागते ॥
अद्यैकं दिवसं देव कन्यासंस्थे दिवाकरे ॥ २९ ॥
अस्माकं देहि येन स्यात्तृप्तिर्वर्षसमुद्भवा ॥
प्रदत्ते वंशजैः श्राद्धे दीनानां त्वं दयां कुरु ॥ ६.२०४.३० ॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
यः करिष्यति वै श्राद्धमस्मिन्नहनि संस्थिते ॥
कृष्णपक्षे चतुर्दश्यां नभस्यस्य च वंशजः ॥
भविष्यति परा प्रीतिर्यावत्संवत्सरः स्थितः ॥ ३१ ॥
यः पुनस्तु गयां गत्वा युष्मद्वंशसमुद्भवः ॥
करिष्यति तथा श्राद्धं तेन मुक्तिमवाप्स्यथ ॥ ३२ ॥
शस्त्रेण निहतानां च स्वर्गस्थानामपि ध्रुवम् ॥
न करिष्यति यः श्राद्धं तस्मिन्नहनि संस्थिते ॥ ३३ ॥
क्षुत्पिपासार्तदेहाश्च पितरस्तस्य दुःखिताः ॥
स्थास्यंति वत्सरं यावदेतदाह पितामहः ॥ ३४ ॥
तस्मात्सर्वप्रयत्नेन तस्मिन्नहनि कारयेत् ॥
अन्यमुद्दिश्य तत्सर्वं प्रेतानामिह जायते ॥ ३५ ॥
ततो भगवता दत्ता तेषां चैव तु सा तिथिः ॥ श्रा
द्धकर्मणि संजाते विना शस्त्रहतं जनम् ॥ ३६ ॥
संमुखस्यापि संग्रामे युध्यमानस्य देहिनः ॥
कदाचिच्चलते चित्तं तीक्ष्णशस्त्रहतस्य च ॥ ३७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्र माहात्म्ये शक्रविष्णुसंवादे प्रेतश्राद्धकथनंनाम चतुरधिकद्विशततमोऽध्यायः ॥ २०४ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 205
॥ विष्णुरुवाच ॥ ॥
एवं ज्ञात्वा सहस्राक्ष मम वाक्यं समाचर ॥
यदि ते वल्लभास्ते च ये हता रणमूर्धनि ॥ १ ॥
युध्यमानास्तवाग्रे च गयाश्राद्धेन तर्पय ॥
तान्सर्वान्प्रेतभावाच्च येन मुक्तिं भजंति ते ॥ २ ॥
पलायनपरा ये च पृष्ठदेशे हता मृताः ॥ ३ ॥
॥ इन्द्र उवाच ॥ ॥
वर्षेवर्षे तदा श्राद्धं प्रकरोति पितामहः ॥
गयां गत्वा दिने तस्मिन्पितॄणां दिव्यरूपिणाम् ॥ ४ ॥
तत्कथं देव गच्छामि तत्राहं श्राद्धसिद्धये ॥
तस्मात्कथय मे तेषां किंचिच्छ्राद्धाय भूतले ॥
मुक्तिदं येन गच्छामि तव वाक्याज्जनार्दन ॥ ५ ॥
॥ विश्वामित्र उवाच ॥ ॥
ततः स सुचिरं ध्यात्वा तमुवाच जनार्दनः ॥
अस्ति तीर्थं महत्पुण्यं तस्मादप्यधिकं च यत् ॥ ६ ॥
हाटकेश्वरजे क्षेत्रे कूपिकामध्यसंस्थितम् ॥
अमावास्यादिने तत्र चतुर्दश्याश्च देवप ॥
गया संक्रमते सम्यक्सर्वतीर्थसमन्विता ॥ ७ ॥
कन्यासंस्थे रवौ तत्र यः श्राद्धं कुरुते नरः ॥
अष्टवंशोद्भवैर्विप्रैः स पितॄंस्तारयेन्निजान् ॥ ८ ॥
अपि प्रेतत्वमापन्नान्किं पुनः स्वर्गसंस्थितान् ॥
तत्क्षेत्रप्रभवा विप्रा अष्टवंशसमुद्भवाः ॥ ९ ॥
तप उग्रं समास्थाय वर्तंते हिमपर्वते ॥
आनर्ताधिपतेर्दानाद्भीतास्तत्र समागताः ॥ ६.२०५.१० ॥
तान्गृहीत्वा द्रुतं गच्छ तत्र संबोध्य गौरवात् ॥
सामपूर्वैरुपायैस्तैस्तेषामग्रे समाचर ॥ ११ ॥
श्राद्धं चैव यथान्यायं ततः प्राप्स्यसि वांछितम् ॥
ते चाऽपि सुखिनः सर्वे भविष्यंति समागताः ॥ १२ ॥
त्वया सह प्रपूज्याश्च ह्यस्माभिः श्राद्धकारणात् ॥
तच्छ्रुत्वा सहसा शक्रः सन्तोषं परमं गतः ॥ १३ ॥
हिमवंतं समुद्दिश्य प्रस्थितस्त्वरयाऽन्वितः ॥
वासुदेवोऽपि राजेंद्र क्षीराब्धिमगमत्तदा ॥ १४ ॥
हिमवन्तं समाश्रित्य शक्रोऽपि ददृशे द्विजान् ॥
अष्टवंशसमुद्भूतान्विष्णुना समुदाहृतान् ॥ १५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शक्रविष्णुसंवादे गयाश्राद्धफलमाहात्म्य वर्णनंनाम पञ्चोत्तरशततमोऽध्यायः ॥२०५॥
खण्डः ६ (नागरखण्डः) — Adhyāya 206
॥ विश्वामित्र उवाच ॥ ॥
इंद्रोऽपि विष्णुवाक्येन हिमवंतं समागतः ॥
ऐरावतं समारुह्य नागेद्रं पर्वतोपमम् ॥१॥
तत्रापश्यदृषींस्तान्स चमत्कार समुद्भवान् ॥
नियमैः संयमैर्युक्तान्सदाचारपरायणान् ॥
वानप्रस्थाश्रमोपेतान्कामक्रोधविवर्जितान् ॥ २ ॥
एके विप्राः स्थितास्तेषामेकांतरितभोजनाः ॥
षष्ठकालाशिनश्चान्ये चांद्रायणपरायणाः ॥ ३ ॥
अश्मकुट्टाः स्थिताः केचिद्दंतोलूखलिनः परे ॥
शीर्णपर्णाशनाः केचिज्जलाहारास्तथा परे ॥
वायुभक्षास्तथैवान्ये तपस्तेपुः सुदारुणम् ॥४॥
अथ शक्रं समालोक्य तत्राऽऽयांतं द्विजोत्तमाः ॥
पूजितं चारणैः सिद्धैस्तैरदृष्टं कदाचन ॥५॥
ते सर्वे ब्राह्मणाः प्रोक्तास्तदाश्रमसमीपगैः ॥ ६ ॥
अयं शक्रः समायातो भवतामाश्रमे द्विजाः ॥
क्रियतामर्हणं चास्मै यच्चोक्तं शास्त्रचिंतकैः ॥ ७ ॥
ततस्ते ब्राह्मणाः सर्वे विस्मयोत्फुल्ललोचनाः॥
संमुखाः प्रययुस्तूर्णं कृतांजलिपुटाः स्थिताः ॥ ८ ॥
गृह्योक्तविधिना तस्मै संप्रहृष्टतनूरुहा. ॥
प्रोचुश्च विनयात्सर्वे किमागमनकारणम् ॥ ९ ॥
निरीहस्यापि देवेंद्र कौतुकं नो व्यवस्थितम् ॥ ६.२०६.१० ॥
॥ इन्द्र उवाच ॥ ॥
कुशलं वो द्विजश्रेष्ठा अनिहोत्रेषु कृत्स्नशः ॥
तपश्चर्यासु सर्वासु वेदाभ्यासे तथा श्रुते ॥ ११ ॥
हाटकेश्वरजं क्षेत्रं त्यक्त्वा तीर्थमयं शुभम् ॥
कस्मादत्र समायाता हिमार्तिजनके गिरौ ॥ १२ ॥
तस्मात्सर्वे मया सार्धं समागच्छंतु सद्द्विजाः ॥
चमत्कारपुरे पुण्ये बहुविप्रसमाकुले ॥ १३ ॥
वासुदेवसमादेशात्तत्र गत्वाथ सांप्रतम् ॥
गयाकूपे करिष्यामि श्राद्धं भक्त्या द्विजोत्तमाः ॥ १४ ॥
युष्मदग्रे चतुर्दश्यां प्रेतपक्ष उपस्थिते ॥
खेचरत्वं समायातं सर्वेषां भवतां स्फुटम् ॥ १५ ॥
सबालवृद्धपत्नीकाः साग्निहोत्रा मया सह ॥
तस्माद्गच्छत भद्रं वस्तत्र स्थानं भविष्यति ॥ १६ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
न वयं तत्र यास्यामश्चमत्कारपुरं पुनः॥
अन्येऽपि ब्राह्मणास्तत्र वेदवेदांगपारगाः ॥ १७ ॥
नागरा याज्ञिकाः संति स्मार्ताः श्रुतिपरायणाः ॥
तेषामग्रे कुरु श्राद्धं श्रद्धा चेच्छ्राद्धजा तव ॥ १८ ॥
॥ इन्द्र उवाच ॥ ॥
तत्र ये ब्राह्मणाः केचिद्भवद्भिः संप्रकीर्तिताः ॥
तथाविधाश्च ते सर्वे वेदवेदांगपारगाः ॥ १९ ॥
श्रुताध्ययनसंपन्ना याज्ञिकाश्च विशेषतः ॥
परं द्वेषपराः सर्वे तथा परुषवादिनः ॥ ६.२०६.२० ॥
अहंकारेण संयुक्ताः परस्परजिगीषवः॥
तपसा विप्रयुक्ताश्च भोगसक्ता दिवानिशम् ॥ २१ ॥
यूयं सर्वगुणोपेता विष्णुना मे प्रकीर्तिताः ॥
तस्मादागमनं कार्यं मया सार्धं समस्तकैः ॥ २२ ।।
॥ ब्राह्मणा ऊचुः ॥ ॥
अस्माभिस्तेन दोषेण त्यक्तं स्थानं निजं हि तत् ॥
बहुतीर्थसमोपेतं स्वर्गमार्गप्रदर्शकम् ॥ २३ ॥
यदि यास्यामहे तत्र त्वया सार्धं पुरंदर ॥
अस्माकं स्वजनाः सर्वे रागद्वेषपरायणाः ॥ २४ ॥
अपराधान्करिष्यंति नित्यमेव पदेपदे ॥
ईर्ष्याधर्मसमोपेताः परुषाक्षरजल्पकाः ॥ २५ ॥
ततः संपत्स्यते क्रोधः क्रोधाच्च तपसः क्षयः ॥
ततो न प्राप्यते मुक्तिस्तद्गच्छामः कथं विभो ॥ २६ ॥
अपरं तत्र भूपोऽस्ति देशे दानपरः सदा ॥
आनर्ताधिपतिः ख्यातः सर्वभूमौ सदैव सः ॥ २७ ॥
ददाति विविधं दानं हस्त्यश्वकनकादिकम् ॥
यदि तत्र न गृह्णीमस्तदा कोपं स गच्छति ॥ २८ ॥
भूपाले कोपमापन्ने स्वजनेषु विरोधिषु ॥
सिद्धिर्नो तपसोऽस्माकं तेन त्यक्तं निजं पुरम् ॥ २९ ॥
यदि गृह्णीमहे दानं तस्य भूपस्य देवप ॥
तपसः संप्रणाशः स्याद्यद्धि प्रोक्तं स्वयंभुवा ॥ ६.२०६.३० ॥
दशसूनासमश्चक्री दशचक्रिसमो ध्वजी ॥
दशध्वजि समा वेश्या दशवेश्यासमो नृपः ॥ ३१ ॥
तत्कथं तस्य गृह्णीमो दानं पापरतस्य च ॥
यथाऽन्ये नागराः सर्वे लोभेन महतान्विताः ॥ ३२ ॥
॥ इन्द्र उवाच ॥ ॥
प्रभावोऽयं द्विजश्रेष्ठास्तस्य क्षेत्रस्य संस्थितः ॥
हाटकेश्वरसंज्ञस्य सर्वदैव व्यवस्थितः ॥ ३३ ॥
पितॄणां च सुतानां च बंधूनां च विशेषतः ॥
श्वश्रूणां च स्नुषाणां च भगिनीभ्रातृभार्ययोः ॥ ३४ ॥
तस्याधस्तात्स्वयं देवो हाटकेश्वरसंज्ञितः ॥
पुरस्य विद्यते तस्य प्रतापेनाखिला जनाः ॥ ३५ ॥
सन्तप्यंते ततो द्वेषं प्रकुर्वंति परस्परम् ॥
किं न श्रुतं भवद्भिस्तु यथा रामः सलक्ष्मणः ॥
सीतया सह संप्राप्तो विरोधं परमं गतः ॥ ३६ ॥
सीतया लक्ष्मणेनैव सार्धं कोपेन संयुतः ॥
अवाच्यं प्रोक्तवान्विप्रास्तौ च तेन समं तदा ॥ ३७ ॥
अपि मासं वसेत्तत्र यदि कोपविवर्जितः ॥
तदा मुक्तिमवाप्नोति स्वर्गभाक्पञ्चरात्रतः ॥ ३८ ॥
तस्मात्तत्र प्रगंतव्यं युष्माभिस्तु मया सह ॥
ईर्ष्याधर्मं न युष्माभिस्ते करिष्यंति नागराः ॥ ३९ ॥
न चैव भवतां कोपस्तत्रस्थानां भविष्यति ॥
प्रसादान्मम विप्रेंद्राः सत्यमेतन्मयोदितम् ॥ ६.२०६.४० ॥
आनर्तः पार्थिवो दाने योजयिष्यति न क्वचित् ॥
युष्माकं पुत्रपौत्रेभ्यो ये दास्यंति च कन्यकाः ॥ ४१ ॥
सहस्रगुणितं तेषां तत्फलं संभविष्यति ॥
अमावास्यादिने श्राद्धं कन्यासंस्थे दिवाकरे ॥ ४२ ॥
युष्मदग्रे द्विजश्रेष्ठा गया कूप्यां करिष्यति ॥
यस्तस्य तत्फलं भावि सहस्रशतसंमितम् ॥ ४३ ॥
गयाश्राद्धान्न सन्देहः सत्यमेतन्मयोदितम् ॥
यदि श्राद्धकृते तत्र नायास्यथ द्विजोत्तमाः ॥ ४४ ॥
ततः शापं प्रदास्यामि तपोविघ्नकरं हि वः ॥
एवं ज्ञात्वा मया सार्धं तत्राऽऽगच्छत सत्वरम् ॥ ४५ ॥
इत्युक्तास्तेन ते सर्वे शक्रेण सह तत्क्षणात् ॥
कश्यपश्चैव कौंडिन्य उक्ष्णाशः शार्कवो द्विषः ॥ ४६ ॥
बैजवापश्चैव षष्ठः कापिष्ठलो द्विकस्तथा ॥
एतत्कुलाष्टकं प्राप्तमिंद्रेण सह पार्थिव ॥ ४७ ॥
अग्निष्वात्तादिकान्सर्वान्पितॄनाहूय कृत्स्नशः ॥
विश्वेदेवांस्तथा चैव प्रस्थितः पाकशासनः ॥ ४८ ॥
सम्यक्छ्रद्धासमाविष्टश्चमत्कारपुरं प्रति ॥
एतस्मिन्नेव काले तु ब्रह्मा लोकपितामहः ॥ ४९ ॥
गयायां प्रस्थितः सोऽपि श्राद्धार्थं तत्र वासरे ॥
विश्वेदेवाः प्रतिज्ञाय गयायां प्रस्थिता विधिम् ॥ ६.२०६.५० ॥
शक्र श्राद्धं परित्यज्य गता यत्र पितामहः ॥
शक्रोऽपि तत्पुरं प्राप्य गयाकूप्यामुपागतः ॥ ५१ ॥
ततः स्नात्वाह्वयामास श्राद्धार्थं श्रद्धयान्वितः ॥
विश्वेदेवान्पितॄंश्चैव काले कुतपसंज्ञिते ॥५२॥
एतस्मिन्नंतरे प्राप्ताः समाहूताश्च तेन ये ॥
पितरो देवरूपा ये प्रेतरूपास्तथैव च॥५३॥
प्रत्यक्षरूपिणः सर्वे द्विजोपांते समाश्रिताः॥
विश्वेदेवा न संप्राप्ता ये गयायां गतास्तदा॥५४॥
ततो विलंबमकरोत्तदर्थं पाक शासनः ॥
विश्वेदेवा यतः श्राद्धे पूज्याः प्रथममेव च ॥ ५५ ॥
एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तमः ॥
शक्रं प्राह समागत्य विश्वेदेवाऽभिकांक्षिणम्॥ ५६ [।
॥ नारद उवाच ॥ ॥
विश्वेदेवा गताः शक्र श्राद्धे पैतामहेऽधुना ॥
गयायां ते मया दृष्टा गच्छमानाः प्रहर्षिताः ॥५७ ॥
तच्छ्रुत्वा तत्र कुपितस्तेषामुपरि तत्क्षणात् ॥
अब्रवीत्परुषं वाक्यं विप्राणां पुरतः स्थितः ॥ ५८ ॥
विश्वेदेवान्विना श्राद्धं करिष्याम्यहमद्य भोः ॥
तथान्ये मानवाः सर्वे करिष्यंति धरातले ॥५९॥
विश्वेदेवान्पुरः स्थाप्य योऽत्र श्राद्धं करिष्यति ॥
व्यर्थतां यास्यते तस्य ऊषरे वर्षितं यथा ॥६.२०६.६॥।
एवमुक्त्वा सहस्राक्ष एकोद्दिष्टानि कृत्स्नशः ॥
चकार सर्वदेवानां ये हता रणमूर्धनि ॥ ६१ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
येषामुद्दिश्य तच्छ्राद्धं कृतं तेषां नृपोत्तम ॥ ६२ ॥
शक्रशक्र महाबाहो येषां श्राद्धं कृतं त्वया ॥
प्रेतत्वे संस्थितानां च प्रेतत्वेन विवर्जिताः ॥ ६३ ॥
गताः स्वर्गप्रसादात्ते दिव्यरूपवपुर्धराः ॥
ये पुनः स्वर्गताः पूर्वं युध्यमाना महाहवे ॥ ६४ ॥
ते च मोक्षं गताः सर्वे प्रसादात्तव वासव ॥
तच्छ्रुत्वा वासवो वाक्यं तोषेण महतान्वितः ॥ ६५ ॥
अहो तीर्थमहो तीर्थं शंसमानः पुनःपुनः ॥
एतस्मिन्नन्तरे प्राप्ता विश्वे देवाः समुत्सुकाः ॥ ६६ ॥
निर्वृत्य ब्रह्मणः श्राद्धं गयायां तत्र पार्थिव ॥
प्रोचुश्च वृत्रहंतारं कुरु श्राद्धं शतक्रतो ॥ ६७॥
भूयोऽपि न विनाऽस्माभिर्लभ्यते श्राद्धजं फलम् ॥
वयं दूरात्समायातास्तव श्राद्धस्य कारणात् ॥
निर्वर्त्य ब्रह्मणः श्राद्धं येन पूर्वं निमंत्रिताः ॥ ६८ ॥
तच्छ्रुत्वा वचनं तेषां कुपितः पाकशासनः ॥
अब्रवीत्परुषं वाक्यं मेघगम्भीरया गिरा ॥ ६९ ॥
अद्यप्रभृति यः श्राद्धं मर्त्यलोके करिष्यति ॥
अन्योऽपि यो भवत्पूर्वं वृथा तस्य भविष्यति ॥ ६.२०६.७० ॥
एकोद्दिष्टानि श्राद्धानि करिष्यंत्यखिला जनाः ॥
सांप्रतं मर्त्यलोकेऽत्र मर्यादेयं कृता मया ॥ ७१ ॥
भूताः प्रेताः पिशाचाश्च ये चान्ये श्राद्धहारकाः ॥
विश्वेदेवैः प्ररक्ष्यंते रक्षयिष्यामि तानहम् ॥ ७२ ॥
यजमानस्य काये च श्राद्धं संयोज्य यत्नतः ॥
मया हताः प्रयास्यंति सर्वे ते दूरतो द्रुतम् ॥ ७३ ॥
एवमुक्त्वा सहस्राक्षो विश्वेदेवांस्ततः परम् ॥
प्रोवाच ब्राह्मणान्सर्वान्विश्वेदेवैर्विना कृतम् ॥
श्राद्धकर्म भवद्भिस्तु कार्यमन्यैश्च मानवैः ॥ ७४ ॥
तथेत्युक्ते द्विजेंद्रैश्च विश्वेदेवाः सुदुःखिताः ॥
रुरुदुर्बाष्पपूरेण प्लावयन्तो वसुन्धराम्॥ ७९ ॥
तेषामुष्णाश्रुणा तेन यत्पृथ्वी प्लाविता नृप ॥
भूतान्यंडान्यनेकानि संख्यया रहितानि च ॥७६॥
ततोंऽडेभ्यो विनिष्क्रांताः प्राणिनो रौद्ररूपिणः ॥
कृष्णदंताः शंकुकर्णा ऊर्ध्वकेशा भयावहाः ॥
रक्ताक्षाश्च ततः प्रोचुर्विश्वेदेवांश्च ते नृप ॥ ७७ ॥
वयं बुभुक्षिताः सर्वे भोजनं दीयतां ध्रुवम् ॥
भवद्भिर्विहिता यस्माद्याचयामो न चापरम् ॥ ७८ ॥
॥ विश्वेदेवा ऊचुः ॥ ॥
अस्माभी रहितं श्राद्धं किञ्चित्संजायते क्षितौ॥
श्रद्धया परया यच्च युष्माकं भावि भोजनम् ।। ७९ ॥
एवमुक्त्वा तु ते श्राद्धं विश्वेदेवा नृपोत्तम ॥
ब्रह्मलोकं गताः सर्वे दुःखेन महताऽन्विताः ॥
प्रोचुश्च दीनया वाचा प्रणिपत्य पितामहम् ॥ ६.२०६.८० ॥
वयं बाह्याः कृता देव श्राद्धानां बलविद्विषा ॥
तव श्राद्धे गता यस्माद्गयायां प्राङ्निमंत्रिताः ॥ ॥ ८१ ॥
तेन रुष्टः सहस्राक्षस्तव चांते समागताः ॥
तस्मात्कुरु प्रसादं नः श्राद्धार्हाः स्याम वै यथा ॥ ८२ ॥
तच्छ्रुत्वा सत्वरं ब्रह्मा कृपया परयान्वितः ॥
विश्वेदेवान्समादाय कूप्माण्डैस्तैः समन्वितान् ॥ ८३ ॥
शक्रोऽपि श्राद्धकर्माणि कृत्वा तेषां दिवौकसाम् ॥
तीर्थयात्रापरो भूत्वा तथैव च व्यवस्थितः ॥ ९८४ ॥
एतस्मिन्नेव काले तु ब्रह्मा तत्र समागतः ॥
विश्वेदेवसमायुक्तो हंसयानसमाश्रितः ॥ ८५ ॥
शक्रोऽपि सहसा दृष्ट्वा संप्राप्तं कमलासनम् ॥
अर्घ्यमादाय पाद्यं च सत्वरं सम्मुखो ययौ ॥ ८६ ॥
ततः प्रणम्य शिरसा साष्टांगं विनयान्वितः ॥
प्रोवाच प्रांजलिर्भूत्वा स्वागतं ते पितामह ॥ ८७ ।।
तव संदर्शनादेव ज्ञातं जन्मत्रयं मया ॥
द्रुतं पूर्वं शुभं कर्म करोमि च यथाऽधुना ॥ ८८ ॥
करिष्यामि परे लोके व्यक्तमेतदसंशयम् ॥ ८९ ॥
निःस्पृहस्यापि ते देव यदागमनकारणम् ॥
तन्मे द्रुततरं ब्रूहि येन सर्वं करोम्यहम् ॥ ६.२०६.९० ॥
॥ ब्रह्मोवाच ॥ ॥
यैर्विना न भवेच्छ्राद्धं ममापि सुरसत्तम ॥
विश्वेदेवास्त्वया तेऽद्य श्राद्धबाह्या विनिर्मिताः ॥ ९१ ॥
तत्त्वया न कृतं भद्रं तेन कर्म वितन्वता ॥
अप्रमाणं कृता वेदा यतश्च स्मृतयस्तथा ॥ ९२ ॥
एते पूर्वं मया शक्र श्राद्धार्थं विनिमंत्रिताः ॥
पश्चात्त्वया न दोषोऽस्ति तस्माच्चैषां महात्मनाम् ॥ ९३ ॥
तस्माच्छापप्रमोक्षार्थं त्वं यतस्व सुरेश्वर ॥
येन स्युः श्राद्धयोग्याश्च सर्वेऽमी दुःखिता भृशम् ॥ ९४ ॥
पुरा ह्येतन्मया प्रोक्तं सर्वेषां च द्विजन्मनाम् ॥
एतत्पूर्वं च यच्छ्राद्धं सफलं तद्भविष्यति ॥९५॥
तत्कथं मम वाक्यं त्वमसत्यं प्रकरोषि च ॥९६॥॥
इंद्र उवाच ॥
मयाऽपि कोपयुक्तेन शप्ता एते पितामह ॥
तद्यथा सत्यवाक्योऽहं प्रभवामि तथा कुरु ॥ ९७ ॥
॥ ब्रह्मोवाच ॥ ॥
तव वाक्यं यथा सत्यं प्रभविष्यति वासव ॥
तथाऽहं संविधास्यामि विश्वेदेवार्थमेव ह ॥९८॥
विश्वेदेवैर्विना श्राद्धं यत्त्वया समुदाहृतम् ॥
एकोद्दिष्टं नराः सर्वे करिष्यंति धरातले ॥ ॥ ९९ ॥
तस्मिन्नहनि देवेंद्र त्वया यत्र विनिर्मितम् ॥
प्रेतपक्षे चतुर्दश्यां शस्त्रेण निहतस्य च ॥ ६.२०६.१०० ॥
क्षयाहे चाऽपि संजाते विश्वेदेवैर्विना कृतम् ॥
नागरस्य शुभं श्राद्धं वचनान्मे भविष्यति ॥ १०१ ॥
शेषकाले तु यः श्राद्धं प्रकरिष्यति तैर्विना ॥
व्यर्थं संपत्स्यते तस्य मम वाक्यादसंशयम् ॥ १०२ ॥
मुक्त्वा शस्त्रहतं चैकं तस्मिन्नहनि यो नरः ॥
करिष्यति तथा श्राद्धं भूतभोज्यं भविष्यति ॥
॥ विश्वामित्र उवाच ॥ ॥
तथेत्युक्ते तु शक्रेण ब्रह्मा लोकपितामहः ॥
विश्वेदेवैस्ततः प्रोक्तो विनयावनतैः स्थितैः ॥ १०४ ॥
एते पुत्राः समुत्पन्ना अस्मदश्रुभ्य एव च ॥
तेषां तु भोजनं दत्तं क्षुधार्तानां मया विभो ॥ १०५ ॥
अस्मद्विवर्जितं श्राद्धं कुपितैर्वासवोपरि ॥
तद्यथा जायते सत्यं वाक्यमस्मदुदीरितम् ॥ १०६ ॥
अस्माकं वासवस्यापि तथा कुरु पितामह ॥
निरूपय शुभाहारं येन स्यात्तृप्तिरुत्तमा ॥ १०७ ॥
एतेषामेव सर्वेषां प्रसादात्तव पद्मज ॥ १०८ ॥ ॥
॥पद्मज उवाच॥ ॥
श्राद्धकाले तु विप्राणां भोज्यपात्रेषु कृत्स्नशः॥
भस्मरेखां प्रदास्यंति ह्येतैस्तत्त्याज्यमेव हि॥१०९॥
भस्मरक्षां विना यत्र किंचिच्छ्राद्धं भविप्यति ॥
एकोद्दिष्टं पार्वणं च वृद्धिश्राद्धमथापि वा ॥६.२०६.११॥।
एतेभ्यश्चैव तद्दत्तं मया तुष्टेन सांप्रतम् ॥
एवमुक्त्वा ततो नाम तेषां चक्रे पितामहः ॥ १११ ॥
कुशब्देन स्मृता भूमिः संसिक्ता चाश्रुणा यतः ॥
ततोंऽडानि च जातानि तेभ्यो जाता अमी घनाः ॥
कूष्मांडा इति विख्याता भविष्यंति जगत्त्रये ॥ ११२ ॥
ततस्तांश्च त्रिधा कृत्वा क्रमेणैवार्पयत्तदा ॥
अग्नेर्वायोस्तथार्कस्य वाक्यमेतदुवाच ह ॥ ११३ ॥
यजुर्वेदे प्रविख्यातं यद्देवति ऋचां त्रयम् ॥
तेन भागः प्रदातव्य एतेषां भक्तिहोमतः ॥ ११४ ॥
कोटिहोमोद्भवे चैव निजभागस्य मध्यतः ॥
तेन तृप्तिं प्रयास्यंति मम वाक्यादसंशयम् ॥ ११५ ॥
एवमुक्त्वा चतुर्वक्त्रस्ततश्चादर्शनं गतः ॥
विश्वेदेवास्तथा हृष्टाः कूष्माण्डाश्च विशेषतः ॥ ११६ ॥
एतस्मात्कारणाद्रक्षा क्रियते भस्मसम्भवा ॥
विप्राणां भोज्यपात्रेषु श्राद्धे कूष्मांडजाद्भयात् ॥
नागराणां न वांछंति श्राद्धे छिद्रं यतः शृणु ॥ ११७ ॥
तेषां स्थाने यतो जाता दाक्षिण्येन समन्विताः ॥
निषिद्धा भस्मजा रक्षा भर्तृयज्ञेन तेजसा ॥ ११८ ॥
तदर्थं नागराः सर्वे न कुर्वन्ति हि कर्हिचित् ॥
इन्द्रोऽपि च गते तस्मिंश्चतुर्वक्त्रे निजालयम् ॥ ११९ ॥
अब्रवीद्ब्राह्मणान्सर्वांश्चमत्कारपुरोद्भवान् ॥
कृतांजलिपुटो भूत्वा विनयावनतः स्थितः ॥ ६.२०६.१२० ॥
श्रूयतां मद्वचो विप्राः करिष्यथ ततः परम् ॥
स्थापयिष्याम्यहं लिंगं देवदेवस्य शूलिनः ॥ १२१ ॥
ततस्तैर्ब्राह्मणैस्तस्य दर्शितं स्थानमुत्तमम् ॥
सोऽपि लिंगं च संस्थाप्य प्रहृष्टस्त्रिदिवं ययौ ॥ १२२ ॥
॥ विश्वामित्र उवाच ॥ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥
गयाकूप्याश्च माहात्म्यं सर्वकामप्रदायकम् ॥ १२३ ॥
॥ आनर्त उवाच ॥ ॥
गयाकूप्याश्च माहात्म्यं भवता मे प्रकीर्तितम् ॥
बालमंडनजं वापि सांप्रतं वक्तुमर्हसि ॥ १२४ ॥
कस्मिन्स्थाने च शक्रेण तच्च लिंगं प्रतिष्ठितम ॥
वदास्माकं महाभाग तस्मिन्दृष्टे तु किं फलम् ॥२१५॥
॥ विश्वामित्र उवाच ॥ ॥
सहस्राक्षेण ते विप्रा लिंगार्थं याचिता यदा ॥
स्थानं शुभं पवित्रं च सर्वक्षेत्रस्य मध्यगम् ॥ ॥ १२६ ॥
ततस्तैर्दर्शितं लिंगं सुपुण्यं बालमंडनम्॥
यत्र बालाः पुरा जाता मरुदाख्या दितेः सुताः ॥१२७॥
तेनैव च पुरा ध्वस्ता न च मृत्युमुपागताः ॥
तच्च मेध्यतमं ज्ञात्वा स्थानं दृष्टं पुरा च यत् ॥१२८॥
यत्र दित्या तपस्तप्तं सुसुतं कांक्षमाणया ॥
तद्दृष्ट्वा परमं स्थानं जीवं प्रोवाच देवपः॥ ॥ १२९ ॥
गुरो ब्रूहि ममाशु त्वं सुमुहूर्तं च सांप्रतम् ॥
दिवसं यत्र सल्लिंगं स्थापयामि हरोद्भवम् ॥
प्रलयेऽपि समुत्पन्ने न नाशो यत्र जायते ॥ ॥ ६.२०६.१३० ॥
ततः सोऽपि चिरं ध्यात्वा तं प्रोवाच शचीपतिम् ॥
माघमासे सिते पक्षे पुष्यर्क्षे रविवासरे ॥ १३१ ॥
त्रयोदश्यामभीष्टे तु संजातेऽ भ्युदये शुभे ॥
संस्थापय विभो लिंगं मम वाक्येन सांप्रतम् ॥ १३२ ॥
आकल्पांतसमं दिव्यं स्थिरं ते तद्भविष्यति ॥
तच्छ्रुत्वा देवराजस्तु हर्षेण महताऽन्वितः ॥ १३३ ॥
बालमंडनसांनिध्ये स्थापयामास तत्तदा ॥
विप्रपुण्याहघोषेण गीतवादित्रनिस्वनैः ॥' १३४ ॥
ततो होमावसाने तु तर्पयित्वा द्विजोत्तमान् ॥
दक्षिणायां ददौ तेषामाघाटं स्थानमुत्तमम् ॥ १३५ ॥
मांकूले संस्थितं यच्च दिव्यप्राकारभूषितम् ॥
सर्वेषामेव विप्राणां सामान्येन नृपोत्तम ॥ १३६ ॥
ततोऽष्टकुलिकान्विप्रान्समाहूयाब्रवीदिदम् ॥
युष्माभिस्तु सदा कार्या चिंता लिंगसमुद्भवा ॥ १३७ ॥
अस्य यस्मान्मया दत्ता वृत्तिश्चन्द्रार्ककालिका ॥
सा च ग्राह्या तदर्थे च द्वादशग्रामसंभवा ॥ १३८ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
न वयं विबुधश्रेष्ठ करिष्यामो वचस्तव ॥
लिंगचिंतासमुद्भूतं श्रूयतामत्र कारणम् ॥ १३९ ॥
ब्रह्मस्वं विबुधस्वं च तडागोत्थं विशेषतः ॥
भक्षितं स्वल्पमप्यत्र नाश येत्सर्वपूर्वजान् ॥ ६.२०६.१४० ॥
यदि कश्चित्कुलेऽस्माकं जातस्तद्भक्षयिष्यति ॥
पातयिष्यति नः सर्वांस्तदस्माकं महद्भयम् ॥ १४१ ॥
अथ तं मध्यगः प्राह कृतांजलिर्द्विजोत्तमः ॥
दृष्ट्वाऽन्यमनसं शक्रं कृतपूर्वोपकारिणम् ॥ १४२ ॥
देवशर्माभिधानस्तु विख्यातः प्रवरैस्त्रिभिः ॥
अहं चिंतां करिष्यामि तव लिंगसमुद्भवाम् ॥ १४३ ॥
अपुत्रस्य तु मे पुत्रं यदि यच्छसि वासव ॥
यस्मात्संजायते वंशो यावदाभूतसंप्लवम् ॥ १४४ ॥
धर्मज्ञस्तु कृतज्ञस्तु देवस्वपरिवर्जकः ॥
तच्छ्रुत्वा वासवो हृष्टस्तमुवाच द्विजोत्तमम् ॥१४५॥
॥ इन्द्र उवाच ॥ ॥
भविष्यति शुभस्तुभ्यं पुत्रो वंशधरः परः ॥
धर्मात्मा सत्यवादी च देवस्वपरिवर्जकः ॥१४६॥
तस्यान्वये तु ये पुत्रा भविष्यंति महात्मनः ॥
ते सर्वेऽत्र भविष्यंति तद्रूपा वेदपारगाः ॥ १४७ ॥
अपरं शृणु मे वाक्यं यत्ते वक्ष्यामि सद्द्विज ॥
तथा शृण्वंतु विप्रेंद्राः सर्वे येऽत्र समागताः ॥१४८॥
बालमण्डनके तीर्थे मयैतल्लिंगमुत्तमम् ॥
चतुर्वक्त्र समादेशाच्चतुर्वक्त्रं प्रतिष्ठितम् ॥ १४९ ॥
योऽत्र स्नानविधिं कृत्वा तीर्थेऽत्र पितृतर्पणम् ॥
आजन्म पितरस्तेन प्रभविष्यंति तर्पिताः ॥ ६.२०६.१५०
ग्रामा द्वादश ये दत्ता मया देवस्य चास्य भोः ॥
वसिष्यंति च ये विप्रा वृद्धिश्राद्ध उपस्थिते ॥
ते श्राद्धं प्रथमं चास्य कृत्वा श्राद्धं ततः परम् ॥ ॥ १५१ ॥
तत्कृत्यानि करिष्यन्ति ते विघ्नेन विवर्जिताः ॥
वृद्धिः संपत्स्यते तेषां नो चेद्विघ्नं भविष्यति ॥ १५२ ॥
माघमासे सिते पक्षे त्रयो दश्यां दिने स्थिते ॥
तद्ग्रामसंस्थिता लोका येऽत्रागत्य समाहिताः ॥ १५३ ॥
बालमण्डनके स्नात्वा लिंगमेतत्समाहिताः ॥
पूजयिष्यंति सद्भक्त्या ते यास्यंति परां गतिम् ॥ १५४ ॥
ग्रामाणां मम लिंगस्य ये करिष्यंति पीडनम् ॥
कालांतरेऽपि संप्राप्तास्ते यास्यंति च संक्षयम् ॥ ॥ १५५ ॥
पृथिव्यां यानि तीर्थानि ह्यासमुद्रसरांसि च ॥
बालमण्डनके तीर्थ आगमिष्यंति तद्दिने ॥ १५६ ॥
॥ विश्वामित्र उवाच ॥ ॥
एतदुक्त्वा सहस्राक्षस्ततश्चाष्टकुलान्द्विजान् ॥
अग्रतः कोपसंयुक्तस्ततोवचनमब्रवीत् ॥ १५७ ॥
एतैः सप्तकुलैर्विप्रैर्यत्कृतं वचनं न मे ॥
कृतघ्नैस्ता ञ्छपिष्यामि कृतघ्नत्वान्न संशयः ॥ १५८ ॥
यस्मादिदंपुरा प्रोक्तं मनुना सत्यवादिना ॥
स्वायंभुवेन प्रोद्दिश्य कृतघ्नं सकलं जनम् ॥ १५९ ॥
ब्रह्मघ्ने च सुरापे च चौरे भग्नवते शठे ॥
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ ६.२०६.१६० ॥
अवध्या ब्राह्मणा गावः स्त्रियो बालास्तपस्विनः ॥
तेनाऽहं न वधाम्येताञ्छिद्रेऽपि महति स्थिते ॥ १६१ ॥
ततस्तोयं समादाय सदर्भं निजपाणिना ॥
शशाप तान्द्विजश्रेष्ठान्कृतघ्नान्पाकशासनः ॥ १६२ ॥
मम वाक्यादपि प्राप्य एते लक्ष्मीं द्विजोत्तमाः ॥
निर्धनाः संभविष्यंति नीत्वा यद्द्वारतो ऽखिलम् ॥ १६३ ॥
भक्तानां च पीरत्यागमेतेषां वंशजा द्विजाः ॥
करिष्यंति न सन्देहो यथा मम सुनिष्ठुराः ॥
दाक्षिण्यरहिताः सर्वे तथा बह्वाशिनः सदा ॥ १६४ ॥
एवमुक्त्वाऽथ तान्विप्रान्सप्तवंशसमुद्भवान् ॥
पुनः प्रोवाच तान्विप्राञ्छेषान्नगरसंभवान् ॥ १६५ ॥
ममात्र दीयतां स्थानं स्थानेऽत्रैव द्विजोत्तमाः ॥
येन संवत्सरस्यांते पंचरात्रं वसाम्यहम् ॥ १६६ ॥
देवस्यास्य प्रपूजार्थं मर्त्यलोकसु खाय च ॥
ब्राह्मणानां प्रपूजार्थं सर्वेषां भवतामिह ॥ १६७ ॥
॥ विश्वामित्र उवाच ॥ ॥
ततस्ते ब्राह्मणाः सर्वे तदर्थं स्थानमुत्तमम् ॥
दर्शयामासुः संहृष्टाः प्रोचुश्च तदनंतरम् ॥ १६८ ॥
ब्रह्मस्थाने त्वया शक्र पंचरात्रमुपेत्य च ॥
स्थातव्यं मर्त्यलोकस्य सुखमासेव्यतां प्रभो ॥ ॥ १६९ ॥
अत्र स्थाने तवाऽग्रे तु करिष्यामो महोत्सवम् ॥
गीतवादित्रनिर्घोषैर्गंधमाल्यानुलेपनैः ॥
द्विजानां तर्पणैश्चैव सर्वकामसमृद्धिदम् ॥ ॥ ६.२०६.१७० ॥
॥ विश्वामित्र उवाच ॥ ॥
तच्छ्रुत्वा वचनं तेषां प्रहृष्टः पाकशासनः ॥
पूजयित्वा द्विजान्सर्वान्गतोऽथ त्रिदिवालयम् ॥ १७१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्ड हाटकेश्वरक्षेत्रमाहात्म्ये बालमण्डनतीर्थमाहात्म्यवर्णनंनाम षडुत्तर द्विशततमोऽध्यायः ॥ २०६ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 207
॥ विश्वामित्र उवाच ॥ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥
बालमंडनमाहात्म्यं सर्वपातकनाशनम् ॥ १ ॥
यत्रैकस्मिन्नपि स्नाने कृते पार्थिवसत्तम ॥
सर्वेषां लभ्यते पुण्यं तीर्थानां स्नानसंभवम् ॥
माघमासे त्रयोदश्यां शुक्लपक्ष उपस्थिते ॥ २ ॥
॥ आनर्त उवाच ॥ ॥
कस्माच्छक्रस्य संस्थानं पंचरात्रं धरातले ॥
नाधिकं जायते तेषां यथान्येषां दिवौकसाम् ॥ ३ ॥
वर्षांते कानि चाहानि येषु शक्रो धरातले ॥
समागच्छति को मास एतत्सर्वं ब्रवीहि मे ॥ ४ ॥
॥ विश्वामित्र उवाच ॥ ॥
श्रूयतामभिधास्यामि कथा मेनां धराधिप ॥
पंचरात्रात्परं शक्रो यथा न स्याद्धरातले ॥ ५ ॥
आसीत्पूर्वं बृहत्कल्पे जयत्सेनः सुरेश्वरः ॥
त्रैलोक्यस्य समस्तस्य स्वामी दानवदर्पहा ॥ ६ ॥
त्रैलोक्ये सकले पूजां भजमानः सदैव हि ॥
कस्यचित्त्वथ कालस्य गौतमस्य मुनेः प्रिया ॥ ७ ॥
अहिल्यानाम भार्याऽभूद्रूपे णाप्रतिमा भुवि ॥
तां दृष्ट्वा चकमे शक्रः कामदेववशं गतः ॥८॥
नित्यमेव समागत्य स्वर्गलोकात्स कामभाक् ॥
गौतमे निर्गते राजन्समिदिध्मार्थमेव हि ॥
दर्भार्थं फलमूलार्थं स्वयमेव महात्मभिः ॥ ९ ॥
अथ तस्य समाचख्यौ नारदो मुनिसत्तमः ॥
शक्रस्य चेष्टितं सर्वं तथाहिल्यासमुद्भवम् ॥ ॥६.२०७.१॥।
तच्छ्रुत्वा सहसा तूर्णं गौतमो गृहमभ्यगात् ॥
यावत्पश्यति देवेशं सह पत्न्या समागतम् ॥११॥
शक्रोऽपि गौतमं दृष्ट्वा पलायनपरायणः ॥
निर्जगामाश्रमात्तस्माद्विवस्त्रोऽपि भयाकुलः ॥१२॥
अहिल्यापि भयत्रस्ता दृष्ट्वा भर्तारमागतम्॥
अधोमुखी स्थिता राजंस्तदा व्याकुलितेंद्रिया॥१३॥
गौतमोऽपि च तद्दृष्ट्वा सम्यग्भार्याविचेष्टितम् ॥
ददौ शापं महाराज कोपसंरक्तलोचनः ॥ १४ ॥
यस्माच्छक्र पापकर्म कृतमीदृग्विगर्हितम् ॥
भार्या मे दूषिता साध्वी तस्मादवृषणो भव ॥१५॥
सहस्रं च भगानां ते वक्त्रे भवतु मा चिरम् ॥
येन त्वं विप्लवं यासि त्रैलोक्ये सचराचरे ॥१६॥
अपरं मर्त्यलोकेऽत्र यद्यागच्छसि वासव ॥
पूजाकृते ततो मूर्धा शतधा ते भविष्यति ॥ १७ ॥
एवं शप्त्वा च तं शक्रं ततोऽहिल्यामुवाच सः ॥
कोपसंरक्तनेत्रस्तु भर्त्सयित्वा मुहुर्मुहुः ॥ १८ ॥
यस्मात्पापे त्वया कर्म कृतमेतद्विगर्हितम्॥
तस्माच्छिलामयी भूत्वा त्वं तिष्ठ वसुधातले ॥ १९ ॥
ततः सा तत्क्षणाज्जाता तस्य भार्या शिलात्मिका ॥
इन्द्रोऽपि च परित्यक्तो वृषणाभ्यां तथाऽभवत् ॥ ६.२०७.२० ॥
सहस्रभगचिह्नस्तु वक्त्रदेशे बभूव ह ॥ २१ ॥
अथ मेरोः समासाद्य कंदरं विजनं हरिः ॥
सव्रीडः सेवते नित्यं न जगाम निजां पुरीम् ॥ २२ ॥
ततो देवगणाः सर्वे सोद्वेगास्तेन वर्जिताः ॥
नो जानंति च तत्रस्थं कन्दरान्वेषणे रताः ओ। २३ ॥
पीड्यंते दानवै रौद्रैः स्वर्गे जाते विराजके ॥ २४ ॥
एतस्मिन्नन्तरे जीवः शक्राण्या भयभीतया ॥
सोद्वेगया परिपृष्टः क्व गतोऽथ पुरंदरः ॥ २५ ॥
अथ जीवश्चिरं ध्यात्वा दृष्ट्वा तं ज्ञानचक्षुषा ॥
जगाम सहितो देवैः प्रोवाचाथ सुनिष्ठुरम् ॥ २६ ॥
किमित्थं राज्यभोगांस्त्वं त्यक्त्वा विजनमाश्रितः ॥
किं त्वया विहितं ध्यानं किं रौद्रं संश्रितं तपः ॥ २७ ॥
बृहस्पतेर्वचः श्रुत्वा भगवक्त्रः पुरंदरः ॥
प्रोवाच लज्जया युक्तो दीनो बाष्पपरिप्लुतः ॥ २८ ॥
नाहं राज्यं करिष्यामि त्रैलोक्येऽपि कथंचन ॥
पश्य मे यादृशी जाता ह्यवस्था गौतमान्मुनेः ॥ २९ ॥
सहस्रभगचिह्नेन कथं वक्त्रेण तानहम् ॥
देवान्संभावयिष्यामि पौलोमीं च तथा शिवम्॥६.२०७.३॥।
मर्त्यलोकोद्भवा पूजा नष्टा मम बृहस्पते ॥
गौतमस्य मुनेः शापात्कस्मिंश्चित्कारणांतरे ॥ ३१ ॥
तच्छ्रुत्वा देवराजस्य बृहस्पतिरुवाचह ॥
दुःखेन महता युक्तः सर्वैर्देवैः समावृतः ॥
गौतमस्य समीपे च गत्वा प्रोवाच तं स्वयम् ॥ ३२ ॥
एतच्छक्रपरित्यक्तं त्रैलोक्यमपि चाखिलम् ॥
पीड्यते दानवैर्विप्र नष्टयज्ञोत्सवक्रियम् ॥ ३३ ॥
नैष वांछति राज्यं स्वं लज्जया परया युतः ॥
तस्मादस्य प्रसादं त्वं यथावत्कर्तुमर्हसि ॥
अनुग्रहेण शापस्य मम वाक्याद्द्विजोत्तम ॥ ३४ ॥
तच्छ्रुत्वा गौतमः प्राह न मे वाक्यं भवेन्मृषा ॥
न वाक्यं लोपयिष्यामि यदुक्तं स्वयमेव हि ॥ ॥ ३५ ॥
ततः प्रोवाच ते विष्णुः स्वयं चापि महेश्वरः ॥
तथा देवगणाः सर्वे विनयावनता स्थिताः ॥ ३६ ॥
अन्यथा ब्रह्मणो वाक्यं न ते कर्तुं प्रयुज्यते ॥
तस्मात्कुरुष्व विप्रेन्द्र शापस्यानुग्रहं हरेः ॥ ३७ ॥
दृष्ट्वा तन्मनसो दार्ढ्यं सुरा विष्णुपुरोगमाः ॥
ब्रह्मणोंऽतिकमभ्येत्य तस्मै सर्वं न्यवेदयन् ॥ ३८ ॥
शापं शक्रस्य संजातं तथा तस्मान्महामुनेः ॥ ३९ ॥
यथा विडंबना जाता देवराजस्य गर्हिता ॥
तथा च दानवैः सर्वं त्रैलोक्यं व्याकुलीकृतम् ॥ ६.२०७.४० ॥
यथा न कुरुते राज्यं व्रीडितः स शचीपतिः ॥
तच्छ्रुत्वा पद्मजस्तूर्णं हरिशंभुसमन्वितः ॥ ४१ ॥
जगाम तत्र यत्रास्ते दुःखितः पाकशासनः ॥
गौतमं च समानीय तत्रैव च पितामहः ॥ ४२ ॥
ततः प्रोवाच प्रत्यक्षं देवानां वासवस्य च ॥
अयुक्तं देवराजेन विहितं मुनिसत्तम ॥४३॥
यत्ते प्रदूषिता भार्या कामोपहतचेतसा ॥
न ते दोषोऽस्ति यच्छप्तश्छिद्रे चास्मिन्पुरंदरः ॥
परं प्रशस्यते नित्यं मुनीनां परमा क्षमा ॥ ४४ ॥
यथा त्रैलोक्यराज्यं स्वं प्रकरोति शतक्रतुः ॥
त्वया स्वयं प्रसादेन तथा नीतिर्विधीयताम् ॥४५॥
दत्त्वाऽस्य वृषणौ भूयो नाश यित्वा भगानिमान्॥
मर्त्यलोके गतिश्चास्य यथा स्यात्तत्समाचर॥४६॥
तच्छ्रुत्वा वचनं तेषां स मुनिर्देवगौरवात् ॥
वृषणौ मेषसंभूतौ योजयामास तौ तदा ॥४७॥
तान्भगान्पाणिना स्पृष्ट्वा चक्रे नेत्राणि सन्मुनिः॥
ततः प्रोवाच तान्देवान्गौतमश्च महातपाः॥४८॥
सहस्राक्षो मया शक्रो निर्मितोयं सुरोत्तमाः ॥
स मेषवृषणश्चापि स्वं च राज्यं करिष्यति ॥
शोभाऽस्य नेत्रजा वक्त्रे सुरम्या संभविष्यति ॥४९॥
पुंस्त्वं च मेषजोत्थाभ्यां वृषणाभ्यां भविष्यति ॥
न च मर्त्ये गतिश्चास्य पूजार्थं संभविष्यति ॥ ६.२०७.५० ॥
एतस्मिन्नन्तरे जातः सहस्राक्षः पुरंदरः॥
शोभया परया युक्तो मुनेस्तस्य प्रभाव तः ॥५१॥
ततः संगृह्य पादौ च गौतमस्य महात्मनः॥
प्रोवाच वचनं शक्रः सर्वदेवसमागमे ॥ ५२ ॥
दुर्लभा मर्त्यलोकोत्था पूजा ब्राह्मणसत्तम ॥
सा मे तव प्रसादेन यथा स्यात्तत्समाचर ॥ ५३ ॥
त्रैलोक्यपतिजा संज्ञा मा नाशं यातु मे द्विज ॥
प्रसादात्तव सा नित्यं यथा स्यात्तद्विधीयताम् ॥ ५४ ॥
तच्छ्रुत्वा लज्जयाविष्टः कृपया चाथ सन्मुनिः॥
तमूचे सर्वदेवानां प्रत्यक्षं पाकशासनम् ॥ ५५ ॥
पंचरात्रं च ते पूजा मर्त्यलोके भविष्य ति ॥
अनन्यां तृप्तिमभ्येषि यथा चैव तु वत्सरम् ॥ ५६ ॥
यत्र देशे पुरे ग्रामे पंचरात्रं महोत्सवः ॥
तत्र संवत्सरं यावन्नीरोगो भविता जनः ॥५७॥
आधयो व्याधयो नैव न दुर्भिक्षं कथंचन ॥
न च राज्ञो विनाशः स्यान्नैव लोकेऽसुखं क्वचित् ॥ ५८ ॥
यत्र स्थाने महो भावी तावकश्च पुरंदर ॥
प्रभूतपयसो गावः प्रभविष्यंति तत्र च ॥
सुभिक्षं सुखिनो लोकाः सर्वोपद्रववर्जिताः ॥ ५९ ॥
॥ इन्द्र उवाच ॥ ॥
यद्येवं शरदि प्राप्ते सर्व सत्त्वमनोहरे ॥
सप्तच्छदसमाकीर्णे बन्धूकसुविराजिते ॥ ६.२०७.६० ॥
मालतीगन्धसंकीर्णे नवसस्यसमाकुले ॥
चंद्रज्योत्स्नाकृतोद्द्योते षट्पदाराव संकुले ॥ ६१ ॥
कुमुदोत्पलसंयुक्ते तत्र स्यात्सुमहोत्सवः ॥
येन बालोऽपि वृद्धोऽपि संहृष्टस्तत्समाचर ॥ ६२ ॥
॥ गौतम उवाच ॥ ॥
अद्य श्रवणनक्षत्रे तव दत्तो महोत्सवः ॥
वैष्णवे पुण्यनक्षत्रे सर्वपापविवर्जिते ॥ ६३ ॥
त्वया मे धर्षिता भार्या पौष्णे नक्षत्रसंज्ञिते ॥
तस्मिन्भविष्यति व्यक्तं तव पातः पुरंदर ॥ ६४ ॥
येनैषा मामकी कीर्तिस्तावकं वक्तु कर्म तत् ॥
विख्यातिं यातु लोकेऽत्र न कश्चित्पापमाचरेत् ॥ ६५ ॥
श्रवणादीनि पंचैव नक्षत्राणि पृथक्पृथक् ॥
तव पूजाकृते पंच क्रतुतुल्यानि तानि च ॥
भविष्यंति न संदेहः सर्वतीर्थमयानि च ॥ ६६ ॥
यो यं काममभिध्याय पूजां तव करिष्यति ॥
विशेषात्फलपुष्पैश्च स तं कृत्स्नमवाप्नुयात् ॥ ६७ ॥
परं मूर्तिर्न ते पूज्या कुत्रापि च भविष्यति ॥
त्वया मे दूषिता भार्या ब्राह्मणी प्राणसंमता ॥ ६८ ॥
तस्माद्वृक्षोद्भवां यष्टिं ब्राह्मणा वेदपारगाः ॥
तावकैः सकलैर्मंत्रैः स्थापयिष्यंति शक्तितः ॥ ६९ ॥
पंचरात्रविधानेन यथान्येषां दिवौकसाम् ॥
ततः संक्रमणं कृत्वा पूजा मर्त्यसमुद्भवा ॥
त्वया ग्राह्या सहस्राक्ष तृप्तिश्चैव भविष्यति ॥ ६.२०७.७० ॥
यो यथा चैव ते यष्टिं सुप्तामुत्थापयिष्यति ॥
तस्य तस्याधिका सिद्धिः संभविष्यंति वासव ॥ ७१ ॥
पंचरात्रव्रतरतो यो ब्रह्मचर्यपरायणः ॥
प्रकरिष्यति ते पूजां फलपुष्पैर्यथोदितैः ॥ ७२ ॥
परदारकृतात्पापात्स सर्वान्मुक्तिमेष्यति ॥ ७३ ॥
नमः शक्राय देवाय शुनासीराय ते नमः ॥
नमस्ते वज्रहस्ताय नमस्ते वज्रपाणये ॥ ७४ ॥
मन्त्रेणानेन यश्चार्घ्यं तव शक्र प्रदास्यति ॥
परदारकृतं पापं तस्य सर्वं प्रयास्यति ॥ ॥ ७८५ ॥
यश्चेदं तव संवादं मया सार्धं पुरंदर ॥
कीर्तयिष्यति सद्भक्त्या तथैवाकर्णयिष्यति ॥ ७६ ॥
तस्य संवत्सरं यावन्नैव रोगो भविष्यति ॥
तच्छ्रुत्वा विबुधाः सर्वे तथेत्युक्त्वा प्रहर्षिताः ॥ ७७ ॥
जग्मुः शक्रं समादाय पुनरेवामरावतीम् ॥
गौतमोऽपि निजा वासं गतः कोपसमाश्रितः ॥ ७८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य इन्द्रमहोत्सववर्णनंनाम सप्तोत्तरद्विशततमोऽध्यायः ॥ २०७ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 208
॥ विश्वामित्र उवाच ॥ ॥
एवं शक्रे दिवं प्राप्ते देवेषु सकलेषु च ॥
गौतमः स्वाश्रमं प्रापत्कोपेन महता ज्वलन् ॥ १ ॥
ततः स कथयामास सर्वं देवविचेष्टितम् ॥
वरदानं च शक्राय शतानन्दस्य चाग्रतः ॥ २ ॥
तच्छ्रुत्वा पितरं प्राह विनयावनतः स्थितः ॥
तातांबाया न कस्मात्त्वं प्रसादं प्रकरोषि मे ॥ ३ ॥
उत्थापने न ते किञ्चिदसाध्यं विद्यते विभो ॥
तस्मात्कुरु प्रसादं मे यथा स्यान्मम चांबया ॥ ४ ॥
समागमो मुनिश्रेष्ठ दीनस्योत्कण्ठितस्य च ॥
तस्मादुत्थाप्य तां तूर्णं प्रायश्चित्तविधिं ततः ॥
तस्मादादिश मे क्षिप्रं येन शुद्धिः प्रजायते ॥ ५ ॥
॥ गौतम उवाच ॥ ॥
मद्यावलिप्तभांडस्य यदि शुद्धिः प्रजायते ॥
तत्स्त्रीणां जायतेशुद्धिर्योनौ शुक्राभिषेचनात् ॥ ६ ॥
ब्राह्मणस्तु सुरां पीत्वा मौंजीहोमेन शुध्यति ॥
तिंगिनीं साधयित्वा च न तु नारी विधर्मिता ॥ ७ ॥
मद्यभांडमपि प्रायो यथावद्वह्निशोधितम्॥
विशुध्यति तथा नारी वह्निदग्धा विशुध्यति ॥
यस्या रेतोऽथ संक्रांत मुदरांतेऽन्यसंभवम्॥ ८ ॥
एतस्मात्कारणान्माता मया ते पुत्र सा शिला ॥
विहिता न हि तस्याश्च विशुद्धिस्तु कथञ्चन ॥ ९ ॥
॥ शतानन्द उवाच ॥ ॥
यद्येवं साधयिष्यामि तत्कृतेऽहं हुताशनम्॥
विषं वा भक्षयिष्यामि पतिष्यामि जलाशये ॥ ६.२०८.१० ॥
मातुर्वियोगतस्तात सत्यमेतन्मयोदितम् ॥
धर्मद्रोणाः स्थिताश्चान्ये मन्वाद्या मुनयस्तथा ॥ ११ ॥
इतिहासपुराणानि वेदांतानि बहूनि च ॥
संचिंत्य तात सर्वाणि देहि शुद्धिं ममापि ताम्॥
मम मातुः करिष्यामि नो चेत्प्राणपरिक्षयम् ॥ १२ ॥
॥ विश्वामित्र उवाच ॥
तच्छ्रुत्वा सुचिरं ध्यात्वा गौतमः प्राह तं सुतम्॥
परिष्वज्य स्वबाहुभ्यां मूर्ध्न्याघ्राय ततः परम् ॥१३॥
यद्येवं वत्स मा कार्षीः साहसं पापसंभवम्॥
आत्मदेहविघातेन श्रूयतां वचनं मम ॥ ॥ १४ ॥
मेध्यत्वे तव मातुश्च शुद्धिर्ज्ञाता मया पुरा ॥
यया सा मम हर्म्यार्हा भविष्यति न संशयः ॥ १५ ॥
उत्पत्स्यते रवेर्वंशे रामरूपी जना र्दनः॥
रावणस्य वधार्थाय मानुषं रूपमास्थितः॥
तस्य पादस्य संस्पर्शाद्भूयः शुद्धा भविष्यति।
तस्मात्प्रतीक्ष्य तावत्त्वमौत्सुक्यं व्रज पुत्रक॥
एतत्सम्यङ्मया ज्ञातं वत्स दिव्येन चक्षुषा॥१८॥
एतच्छ्रुत्वा तथेत्युक्त्वा शतानन्दः प्रहर्षितः॥
स्थितः प्रतीक्षमाणस्तु तं कालं मातृवत्सलः ॥ १९ ॥
ततः कालेन महता रामरूपी जनार्दनः ॥
रावणस्य वधार्थाय जातो दशरथालये ॥ ६.२०८.२० ॥
स मया भगवा विष्णुर्बालभावेन संस्थितः ॥
निजयज्ञस्यरक्षार्थं समानीतः स्वमाश्रमम् ॥
राक्षसानां विनाशाय यज्ञकर्मविनाशिनाम् ॥ २१ ॥
हतैस्तै राक्षसै रौद्रैर्मम पूर्णोऽभवन्मखः ॥
अयोध्यायाः समानीतः स मया रघुनंदनः ॥ २२ ॥
सीतायाश्च विवाहार्थं लक्ष्मणेन समन्वितः ॥
श्रुत्वा स्वयंवरं तस्याः पार्थिवानां समागमम् ॥ २३ ॥
ततो मार्गे मया दृष्टा गौतमस्याश्रमे शुभे ॥
अहिल्या सा शिला रूपा प्रमाणेन महत्तमा ॥ २४ ॥
ततः प्रोक्तो मया रामः स्पृशेमां वत्स पाणिना ॥
मानुषत्वं लभेद्येन गौतमस्य प्रिया मुनेः ॥
शापदोषेण संजाता शिलेयं तस्य सन्मुनेः ॥ २५ ॥
अविकल्पं ततो रामो मम वाक्येन तां शिलाम् ॥
पस्पर्श पार्थिवश्रेष्ठ कौतू हलसमन्वितः ॥ २६ ॥
अथ रामेण संस्पृष्टा सहसैवांगना मुनेः ॥
शुशुभे मानुषी जाता दिव्यरूपवपुर्धरा ॥ २७ ॥
ततः सा लज्जयाऽऽविष्टा प्रणिपत्य च गौतमम् ॥
स्मरमाणाऽऽत्मनः कृत्यं यच्छक्रेण समन्वितम् ॥ २८ ॥
प्रायश्चित्तं मम स्वामिन्देहि सर्वमशेषतः ॥
यन्नरस्य समायोगे परस्याह प्रजापतिः ॥ २९ ॥
अहं दुष्करमप्येतत्करिष्यामि न संशयः ॥
येन शुद्धिर्भवेन्मह्यं पुरश्चरणसेवनात् ॥ ६.२०८.३० ॥
ततः संचिंत्य सुचिरं प्रोवाच गौतमस्तदा ॥
कुरु चान्द्रायणशतं कृच्छ्राणां च सहस्रकम् ॥ ३१ ॥
प्राजापत्यायुतं चापि तीर्थयात्रापरायणा ॥
अष्टषष्टिषु तीर्थेषु यानि तीर्थानि भूतले ॥
तेषां संदर्शनात्सम्यक्ततः शुद्धिमवाप्स्यसि ॥ ३२ ॥
सा तथैति प्रतिज्ञाय नित्यं व्रतपरायणा ॥
अष्टषष्टिसु तीर्थेषु वाराणस्यादिषु क्रमात्॥ ३३ ॥
बभ्राम तानि लिंगानि पूजयन्ती प्रभक्तितः ॥
क्रमेणैव तु संप्राप्ता हाटकेश्वरसंभवम् ॥ ३४ ॥
यावत्पश्यति सा साध्वी तावन्नागबिलो महान् ॥
पूरितो नागरेणैव मार्गः पातालसंभवः ॥ ३५ ॥
गच्छंति येन पूर्वं तु तीर्थयात्रापरायणाः ॥
हाटकेश्वरदेवस्य दर्शनार्थं मुनीश्वराः ॥ ३६ ॥
अथ सा चिन्तयामास न दृष्टे तु सुरेश्वरे ॥
हाटकेश्वरदेवे च न हि यात्राफलं लभेत् ॥ ३७ ॥
तस्मात्तपः करि ष्यामि स्थित्वा चैव सुदुष्करम् ॥
येनाहं तत्प्रभावेन तं पश्यामि सुरेश्वरम् ॥ ३८ ॥
एवं सा निश्चयं कृत्वा तपस्तेपे सुदुष्करम् ॥
दर्शनार्थं हि देवस्य पातालनिलयस्य च ॥ ३९ ॥
पंचाग्निसाधका ग्रीष्मे हेमन्ते सलिलाश्रया ॥
वर्षास्वाकाशशयना सा बभूव तपस्विनी ॥ ६.२०८.४० ।।
हरलिंगं प्रतिष्ठाप्य स्वनाम्ना चांतिके तदा ॥
त्रिकालं पूजयामास गन्धपुष्पानुलेपनैः ॥ ४१ ॥
एवं तपसि संस्थायास्तस्याः कालो महान्गतः ॥
न च संदर्शनं जातं हाटकेश्वरसंभवम्॥ ४२ ॥
कस्यचित्त्वथ कालस्य शतानन्दश्च तत्सुतः ॥
स तामन्वेषमाणस्तु तस्मिन्क्षेत्रे समागतः ॥
मातृस्नेह परीतात्मा तीर्थान्वेषणतत्परः ॥ ४३ ॥
अथ तां तत्र संवीक्ष्य दारुणे तपसि स्थिताम् ॥
प्रणिपत्य स्थितो दीनः सदुःखो वाक्यमब्रवीत् ॥ ४४ ॥
किमत्र क्लिश्यते कायस्तपः कृत्वा सुदारुणम्॥
सप्तषष्टिषु तीर्थेषु यानि लिंगानि तेषु च ॥ ४५ ॥
माहेश्वराणि लिंगानि तानि दृष्टानि च त्वया ॥
एतत्पातालसंस्थं च हाटकेश्वरसंज्ञितम्॥ ४६ ॥
न पश्यति नरः कश्चिद्दृष्टं क्षेत्रे न केनचित् ॥
तेन शुद्धिश्च संजाता स्वभर्त्रा विहिता तु या ॥४७ ॥
तस्मादागच्छ गच्छामस्ताताश्रामपदे शुभे ॥
त्वन्मार्गं वीक्षते तातः कर्षुको वर्षणं यथा ॥ ४८ ।
॥ आहिल्योवाच ॥ ॥
यावत्पश्यामि नो देवं हाटकेश्वरसंज्ञितम् ॥
तावद्गच्छामि नो गेहं यदा पश्यामि तं हरम् ॥ ४९ ॥
तदा यास्ये गृहं पुत्र निश्चयोऽयं मया कृतः ॥ ६.२०८.५० ॥
तच्छ्रुत्वा सोऽपि तां प्राह ह्येष चेन्निश्चयस्तव ॥
मयाऽपि तातपार्श्वे तु प्रगंतव्यं त्वया -प ॥ ५१ ॥
एवमुक्त्वा ततः सोपि स्थापयामास शांभ वम् ॥
लिंगं च पूजयामास त्रिकालं तपसि स्थितः ॥ ५२ ॥
शतानन्दस्तु राजर्षिः गन्धपुष्पानुलेपनैः ॥
नैवेद्यैर्विविधैः सूक्तैर्वेदोक्तैः पर्यतोषयत् ॥ ५३ ॥
षष्ठान्नकालभोज्यस्य व्रतचर्यारतस्य च ॥
एवं तस्याऽपि संस्थस्य गतः कालो महान्मुने ॥
न च तुष्यति देवेश स्ताभ्यां द्वाभ्यां कथञ्चन ॥ ५४ ॥
ततः कालेन महता गौतमोऽपि महामुनिः ॥
आजगाम स्वयं तत्र पुत्रदर्शनलालसः ॥ ५५ ॥
स दृष्ट्वा भार्यया सार्धं पुत्रं तपसि संस्थितम् ॥
तुतोष प्रथमं तावत्पश्चादुःखसमन्वितः ॥ ५६ ॥
अहो बत महत्कष्टं पुत्रो मे कृशतां गतः ॥
तपसः संप्रभावेन नयामि स्वगृहं कथम् ॥
भार्येयं च तथा मह्यं विवर्णा तु कृशा स्थिता ॥ ५७ ॥
एवं संचिंत्य मनसा तावुभौ प्रत्यभाषत ॥
गम्यतां स्वगृहं कृत्वा तपसः संनिवर्तनम् ॥ ५८ ॥
॥ शतानन्द उवाच ॥ ॥
तातांबा बहुधा प्रोक्ता तपसः संनिवर्तने ॥
नो गच्छति तथा हर्म्यमदृष्टे हाटकेश्वरे ॥ ५९ ॥
अहं तया विहीनस्तु नैव यास्यामि निश्चितम् ॥
एवं ज्ञात्वा महाभाग यद्युक्तं तत्समाचर ॥ ६.२०८.६० ॥
॥ गौतम उवाच ॥ ॥
यद्येवं निश्चयो वत्स तव मातुश्च संस्थितः ॥
अहं ते दर्शयिष्यामि तपसा हाटकेश्वरम् ॥ ६१ ॥
एवमुक्त्वा ततः सोऽपि तपश्चक्रे महामुनिः ॥
एकांतरोपवासस्तु स्थितो वर्षशतं मुनिः॥
षष्ठान्नकालभोजी च तावत्काले ततोऽभवत्॥६२॥
त्रिरात्रभोजी पश्चाच्च स बभूव मुनीश्वरः।
तावत्कालं फलैर्निन्ये तावत्कालं जलाशनः॥
वायुभक्षस्ततो भूयस्तावत्कालमभून्मुनिः॥६३॥
ततो वर्षसहस्रांते परमे संव्यवस्थिते॥
प्रभिद्य मेदिनीपृष्ठं निष्क्रांतं लिंगमुत्तमम् ॥ ६४
द्वादशार्कप्रतीकाशं सर्वलक्षणलक्षितम ॥
एतस्मिन्नंतरे देवः शंभुः प्रत्यक्षतां गतः ॥ ६५ ॥
एतस्मिन्नेव काले तु भगवाञ्छशिशेखरः ॥
तस्य दृष्टिपथं गत्वा वाक्यमेतदुवाच ह ॥ ६६ ॥
गौतमाऽहं प्रतुष्टस्ते तपसाऽनेन सुव्रत ॥ ६७ ॥
एतच्च मामकं लिंगं हाटकेश्वरसंज्ञितम् ॥
पातालाच्च विनिष्क्रांतं तव भक्त्या महामुने ॥६८॥
एतदर्थं तपस्तप्तं सभार्येण त्वया हि तत् ॥
सपुत्रेणाखिलं जातं फलं तस्य यथेप्सितम् ॥ ६९ ॥
एतत्पश्यतु ते भार्या अहिल्या दिव्यरूपिणी ॥
अष्टषष्ट्युद्भवं येन यात्राफलमवाप्नुयात् ॥ ६.२०८.७० ॥
त्वं चापि प्रार्थय वरं येन सर्वं ददामि ते ॥ ७१ ॥
॥ गौतम उवाच ॥
हाटकेश्वरसंज्ञे तु सकृद्दृष्टे च यत्फलम् ॥
पातालस्थे च यत्पुण्यं नराणां जायते फलम् ॥
दृष्टेनानेन तत्पुण्यं पूजितेन विशेषतः ॥ ७२ ॥
अन्येऽपि ये जनास्तच्च पूजयंति प्रभक्तितः ॥
चैत्रशुक्लचतुर्दश्यां ते प्रयांतु त्रिविष्टपम् ॥ ७३ ॥
एतल्लिंगं न जानंति नराः सिद्ध्यभिकांक्षिणः ॥
विशंति विवरं तेन हाटकेश्वरकांक्षया ॥ ७४ ॥
अपि पापसमोपेता लिंगस्यास्य प्रभावतः ॥
परदारोद्भवा त्पापादहिल्येश्वरदर्शनात् ।। ७९ ॥
मुच्यंते मानवास्तद्वच्छतानंदेश्वरादपि ॥
तस्मिन्दिने विहितया ताभ्यां चैव प्रपूजया ॥ ७६ ॥
॥ विश्वामित्र उवाच ॥ ॥
एतस्मिन्नेव काले तु व्याप्तः स्वर्गोऽखिलो नृप ॥
मानुषैरपि पापाढ्यैः सर्वधर्मविवर्जितैः ॥ ७७ ॥
न कश्चित्कुरुते यज्ञं तीर्थ यात्रामथापरम् ॥
न व्रतं नियमं चैव दानस्यापि कथामपि ॥ ७८ ॥
तच्च लिंगत्रयं दृष्ट्वा स्पृष्ट्वा संपूज्य भक्तितः ॥ ७९ ॥
ततो भीताः सुराः सर्वे सस्पर्धैर्मानुषैर्वृताः ॥
प्रोचुः पुरंदरं गत्वा व्यथया प्रया युताः ॥ ६.२०८.८० ॥
मर्त्यलोके सहस्राक्ष सर्वे धर्माः क्षयं गताः ॥
अपि पापसमाचारा अभ्येत्य पुरुषा इह ॥ ८१ ॥
अस्माभिः सह गर्वाढ्याः स्पर्धां कुर्वंति सर्वदा ॥
हाटकेश्वरजे क्षेत्रे लिंगत्रयमनुत्तमम् ॥ ८२ ॥
यत्स्थितं स्थापितं तत्र गौतमेन महात्मना ॥
सपुत्रेण सदारेण तस्य पूजाप्रभावतः ॥ ८३ ॥
अपि पापसमाचारा इहागच्छंति तेऽखिलाः ॥
यमस्य नरकाः सर्वे सांप्रतं शून्यतां गताः ॥ ८४ ॥
गौतमेन समानीतः पातालाद्धाटकेश्वरः ॥
तपसा तोषयित्वा तु तत्र स्थाने सुरेश्वरः ॥ ८५ ॥
तत्प्रभावादयं जातो व्यवहारो धरातले ॥ ८६ ॥
एवं ज्ञात्वा प्रवर्तंते यथा यज्ञास्तथा कुरु ॥
तैर्विना नैव तृप्तिः स्यादस्माकं च कथंचन ॥ ८७ ॥
तच्छ्रुत्वा वासवस्तत्र समाहूय च मन्मथम् ॥
क्रोधं लोभं तथा दंभं मत्सरं द्वेषसंयुतम् ॥ ९८ ॥
गत्वा धरातलं सर्वे ममादेशाद्द्रुतं ततः ॥
स्वशक्त्या वारयध्वं भो गौतमेश्वरपूजकान् ॥ ८९ ॥
अहिल्येश्वरदेवस्य शतानंदेश्वरस्य च ॥
शक्रादेशं तु संप्राप्य ते गता धरणीतले ॥ ६.२०८.९० ॥
कामादिका नरान्भेजुर्गौतमेश्वरपूजकान् ॥
तथाऽहिल्येश्वरस्यापि शतानंदेश्वरस्य च ॥ ९१ ॥
ततो भूयो मखा जाताः समग्रे धरणीतले ॥
संपूर्णदक्षिणाः सर्वे वतानि नियमास्तथा ॥ ९२ ॥
तीर्थयात्रा जपो होमो याश्चान्याः सुकृतक्रियाः ॥
एतत्सर्वं मया ख्यातं यत्पृष्टोऽस्मि धराधिप ॥ ९३ ॥
गयाकूप्यनुषंगेण शक्रगौतमचेष्टितम् ॥
बालमण्डनमाहात्म्यं शक्रेश्वरसमन्वितम् ॥ ९४ ॥
इन्द्रस्य स्थापनं मर्त्ये अहिल्याख्यानमेव च ॥
गौतमेश्वरमाहात्म्यं तथाहिल्येश्वरस्य च ॥ ९५ ॥
यश्चैतच्छृणुयान्नित्यं श्रद्धया परया युतः ॥
स मुच्येत्पातकात्सद्यः परदारसमुद्भवात् ॥ ९६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गौतमेश्वराहिल्येश्वर शतानन्देश्वरमाहात्म्यवर्णनंनामाष्टोत्तरद्विशततमोऽध्यायः ॥ २०८ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 209
॥ आनर्त उवाच ॥ ॥
सांप्रतं मुनिशार्दूल शंखतीर्थ समुद्भवम्॥
माहात्म्यं वद मे कृत्स्नं श्रद्धा मे महती स्थिता ॥ १ ॥
अहो तीर्थमहो तीर्थं हाटकेश्वरसंज्ञितम् [।
क्षेत्रं यच्च धरापृष्ठे सर्वाश्चर्यमयं शुभम् ॥ २ ॥
नाहं तृप्तिं द्विजश्रेष्ठ प्रगच्छामि कथंचन ॥
शृण्वानस्तु सुमाहात्म्यं क्षेत्रस्यास्य समुद्भवम् ॥ ३ ॥
॥ विश्वामित्र उवाच ॥ ॥
अत्र ते कीर्तयिष्यामि पूर्ववृत्तं कथांतरम् ॥
शंखतीर्थस्य माहात्म्यं यथाजातं धरातले ॥ ४ ॥
आनर्ताधिपतिः पूर्वमासीदन्यो महीपतिः ॥
यथा त्वं सांप्रतं भूमौ सर्वलोकप्रपालकः ॥ ५ ॥
सोऽकस्मात्कुष्ठभाग्जातो विकलांगो बभूव ह ॥
अपुत्रः शत्रुभिर्व्याप्तस्त्रस्तश्च नृपसत्तमः ॥ ६ ॥
स सर्वैर्भूमिपालैश्च सर्वतः परिपीडितः ॥
राज्यभ्रंशसमोपेतः प्राप्तो रैवतकं गिरिम् ॥ ७ ॥
तत्रापि पीड्यते नित्यं सर्वतस्तु मलिम्लुचैः ॥ ८ ॥
हस्त्यश्वरथहीनस्तु कोशहीनो यदाऽभवत् ॥
स तदा चिंतयामास किं करोमि च सांप्रतम् ॥ ९ ॥
कलत्राण्यपि सर्वाणि ह्रियंते तस्करैर्बलात् ॥ ॥ 6.209.१० ॥
स एवं चिंतयानस्तु गतो वै नारदं विभुम् ॥
द्रष्टुं पार्थिवशार्दूल वैष्णवे दिवसे स्थिते ॥ ११ ॥
तत्रापश्यत्स संप्राप्तं नारदं मुनिसत्तमम् ॥
तीर्थयात्राप्रसंगेन दामोदरदिदृक्षया ॥ १२ ॥
तं प्रणम्याथ शिरसा कृतांजलिपुटः स्थितः ॥
प्रोवाच वचनं दीन उपविश्य तदग्रतः ॥ १३ ॥ ॥
॥ राजोवाच ॥ ॥
शत्रुभिः परिभूतोऽहं समतान्मुनिसत्तम ॥
ततो राज्यपरिभ्रंशात्संप्राप्तोऽत्र महागिरौ ॥ १४ ॥
विपिने तस्करैः पापैः प्रपीड्येऽहं समंततः ॥
यत्किंचिदश्वनागाद्यं मया सह समागतम् ॥ १५ ॥
तत्सर्वं तस्करैर्नीतं कोशा दारास्तथा वसु ॥
तस्माद्वद मुनिश्रेष्ठ वैराग्यं मे महत्स्थितम् ॥ १६ ॥
अन्यजन्मोद्भवं किंचिन्मम पापं सुदारुणम् ॥
येनेमां च दशां प्राप्तः सहसा मुनिसत्तम ॥ १७ ॥
तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा मुनीश्वरः ॥
प्रोवाचाऽथ नृपं दीनं ज्ञात्वा दिव्येन चक्षुषा ॥ १८ ॥
॥ नारद उवाच ॥ ॥
न त्वया कुत्सितं किंचित्पूर्व देहांतरे कृतम् ॥
मया ज्ञातं महाराज सर्वं दिव्येन चक्षुषा ॥ १९ ॥
त्वमासीः पार्थिवः पूर्वं सिद्धपन्नगसंज्ञिते ॥
पत्तने सोमवंशीयः सर्व शत्रुनिबर्हणः ॥ 6.209.२० ॥
त्वया चेष्टं महायज्ञैः सदा संपूर्णदक्षिणैः ॥
महादानानि दत्तानि पूजिता ब्राह्मणोत्तमाः ॥ २१ ।।
तेन कर्म विपाकेन भूयः पार्थिवतां गतः ॥ २२ ॥
॥ आनर्त उवाच ॥ ॥
इह जन्मनि नो कृत्यं संस्मरामि विभो कृतम् ॥
तत्किं राज्यपरि भ्रंशः सहसा मे समुत्थितः ॥ २३ ॥
लक्ष्म्या हीनस्य लोकस्य लोकेऽस्मिन्व्यर्थतां व्रजेत् ॥
जीवितं मुनिशार्दूल विज्ञातं हि मयाऽधुना ॥ २४ ॥
मृतो नरो गतश्रीको मृतं राष्ट्रमराजकम् ॥
मृतमश्रोत्रिये दानं मृतो यज्ञस्त्वदक्षिणः ॥ २५ ॥
लक्ष्म्या हीनस्य मर्त्यस्य बांधवोऽपि विजायते।।
प्रार्थयिष्यति मां नूनं दृष्ट्वा तं चान्यतो व्रजेत् ॥ २६ ॥
यथा मां सांप्रतं दृष्ट्वा ये मयाऽपि प्रतर्पिताः ॥
तेऽपि दूरतरं यांति एष मां प्रार्थयि ष्यति ॥ २७ ॥
धनहीनं नरं त्यक्त्वा कुलीनमपि चोत्तमम् ॥
गच्छति स्वजनोऽन्यत्र शुष्कं वृक्षमिवांडजाः ॥ २८ ॥
तत्कार्यकारणार्थाय दरिद्रोऽ भ्येति चेद्गृहम् ॥
धनिनो भर्त्सयंत्येनं समागच्छंति नांतिकम् ॥ २९ ॥
कृपणोऽपि धनाढ्यश्चेदागच्छति हि याचितुम् ॥
एष दास्यति मे किंचि दिति चित्ते नृणां भवेत् ॥ 6.209.३० ॥
मम त्वं पूर्ववंशीयः पिता ते च पितुर्मम ॥
सदा स्नेहपरश्चासीत्त्वं च स्नेहविवर्जितः ॥ ३१ ॥
एवं ब्रुवंति लोकेऽत्र धनिनां पुरतः स्थिताः ॥
कुलीना अपि पापानां दृश्यंते धनलिप्सया ॥
दरिद्रस्य मनुष्यस्य क्षितौ राज्यं प्रकुर्वतः ॥ ३२ ॥
प्रशोषः केवलं भावी हृदयस्य महामुने ॥
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ ॥
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ ३३ ॥
श्मशानमपि सेवंते धनलुब्धा निशागमे ॥
जनेतारमपि त्यक्त्वा नित्यं यांति सुदूरतः ॥ ३४ ॥
सुमूर्खोपि भवेद्विद्वानकुलीनोऽपि सत्कुलः ॥
यस्य वित्तं भवे द्धर्म्ये विपरीतमतोऽन्यथा ॥ ३५ ॥
निर्विण्णोऽहं मुनिश्रेष्ठ जीवितस्य च सांप्रतम् ॥
तस्माद्ब्रूहि किमर्थं मे दारिद्र्यं समुपस्थितम् ॥ ३६ ॥
कुष्ठश्चापि ममोपेतः शत्रुभिश्च पराभवम् ॥
अन्यजन्मांतरं दृष्टं त्वया दिव्येन चक्षुषा ॥ ३७ ॥
कुकर्मणा न संस्पृष्टं स्वल्पेनापि ब्रवीषि माम् ॥
एतज्जन्मातरं दृष्टं स्मरामि मुनिसत्तम ॥ ३८ ॥
न मया कुकृतं किंचित्कदाचित्समनुष्ठितम् ॥
तत्किं राज्यपरिभ्रंशो जातोऽयं मम सन्मुने ॥ ३९ ॥
अत्र मे कौतुकं जातं तस्माद्देहि विनिर्णयम् ॥
भवेन्न वा भवेत्कर्म कृतं यच्च शुभाशुभम् ॥ 6.209.४० ॥
॥ विश्वामित्र उवाच ।। ॥
तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा तु नारदः ॥
कृपया परयाविष्टस्ततः प्रोवाच सादरम् ॥ ४१ ॥
शृणु राजन्प्रवक्ष्यामि यथा शुद्धिः प्रजायते ॥
तव राज्यस्य संप्राप्तिर्यथा भूयोऽपि जायते ॥ ४२ ॥
तव भूमौ महापुण्यमस्ति क्षेत्रं जगत्त्रये ॥
हाटकेश्वरसंज्ञं तु तीर्थं तत्रास्ति शोभनम् ॥
शंखतीर्थमिति ख्यातं सर्वपातकनाशनम्॥ ४३॥
यस्तत्र कुरुते स्नानं श्रद्धया परया युतः ॥
अष्टम्यां शुक्लपक्षस्य संप्राप्ते मासि माधवे ॥ ४४ ॥
सूर्यवारे तु सम्प्राप्ते भास्करस्योदयं प्रति ॥
सर्वकुष्ठविनिर्मुक्तो जायते सूर्यसंनिभः ॥ ४५ ॥
यंयं काममभिध्यायेत्तंतं सर्वेषु दुर्लभम् ॥
स तदाऽऽप्नोत्यसंदिग्धं दृष्ट्वा शंखेश्वरं शुभम्॥ ४६ ॥
किं त्वया न श्रुतं तत्र स्वदेशे वसता नृप ॥
तस्य तीर्थस्य माहात्म्यं यत्त्वमत्र समागतः ॥४७॥
॥ सिद्धसेन उवाच ॥ ॥
कथं शंखेश्वरो देवः संजातो वद सन्मुने ॥ ४८ ॥
॥ नारद उवाच ॥ ॥
अहं ते कथयिष्यामि कथामेतां पुरातनीम् ॥
यथा शंखेश्वरो जातः शंखतीर्थं तु पार्थिव॥ ४९ ॥
आसतुर्ब्राह्मणौ पूर्वं लिखितः शंख एव च ॥
भ्रातरौ वेदविदुषौ तपस्युग्रे व्यवस्थितौ ॥ 6.209.५० ॥
कस्यचित्त्वथ कालस्य लिखितस्याश्रमं प्रति ॥
भ्रातुर्ज्येष्ठस्य संप्राप्तो नमस्कारकृते नृप ॥५१॥
सोऽपश्यदाश्रमं शून्यं लिखितेन विवर्जितम् ॥५२॥
अथापश्यद्वने तस्मि न्परिपक्वफलानि सः ॥
प्रणयात्प्रतिजग्राह मत्वा भ्रातुर्नृपाऽऽश्रमम् ॥५३॥
एतस्मिन्नन्तरे प्राप्तो लिखितस्तत्र चाश्रमे॥
यावत्पश्यति शंखं स प्रगृही तबृहत्फलम्॥५४॥
किमिदं विहितं पाप पापं साधुविगर्हितम् ॥
चौर्यकर्म त्वया निंद्यं यद्धृतानि फलानि च ॥५५॥
अनेन कर्मणा तुभ्यं तपो यास्य ति संक्षयम्॥
चौर्यकर्मप्रवृत्तस्य ब्राह्मणैर्गर्हितस्य च ॥५६॥
॥ शंख उवाच ॥ ॥
एकोदरसमुत्पन्नो ज्येष्ठभ्राता यथा पिता ॥
भूयादिति श्रुतिर्लोके प्रसिद्धा सर्वतः स्थिता ॥ ५७ ॥
तत्किं पुत्रस्य विप्रेन्द्र नाधिकारः पितुर्धने ॥
यथैवं निष्ठुरैर्वाक्यैर्निर्भर्त्सयसि मां विभो ॥ ५८ ॥ ॥
॥ लिखित उवाच ॥ ॥
न दोषो जायते हर्तुः पुत्रस्यात्र कथंचन ॥
एकत्र संस्थितस्यात्र पितुर्वित्तमसंशयम् ॥ ५९ ॥
विभक्तस्तु यदा पुत्रो भ्राता वाऽपहरेद्धनम्॥
तदा दोषमवाप्नोति चौर्योत्थं मतमेव मे ॥ 6.209.६० ॥
पुत्रस्य तु पुनर्वित्तं पिता हरति सर्वदा ॥
न तस्य विद्यते दोषो विभक्त स्यापि कर्हिचित्॥ ६१ ॥
अत्र श्लोकः पुरा गीतो मनुना स्मृतिकारिणा ॥
तं तेऽहं संप्रवक्ष्यामि धर्मशास्त्रोद्भवं वचः ॥ ६२ ॥
त्रय एवाधप्रोक्ता भार्या दासस्तथा सुतः ॥
यत्ते समधिगच्छंति यस्य ते तस्य तद्धनम् ॥ ६३ ॥
॥ शंख उवाच ॥ ॥
यद्येवं चौर्यदोषोऽस्ति मम तात महत्तरः॥
निग्रहं कुरु मे शीघ्रं येन न स्यात्तपःक्षयः॥६४॥
विश्वामित्र उवाच॥
तस्य तं निश्चयं ज्ञात्वा शस्त्रमादाय निर्मलम्॥
चकर्ताथ भुजौ तस्य भ्राता भ्रातुश्च निर्घृणः॥
सोपि च्छिन्नकरो विप्रो व्यथयापि समन्वितः॥६५॥
मन्यमानः प्रसादं तं भ्रातुर्ज्येष्ठस्य पार्थिव ॥ ६६ ॥
ततस्तु कामदं क्षेत्रं हाटकेश्वरसंज्ञितम् ॥
मत्वा प्राप्य तपस्तेपे कंचित्प्राप्य जलाशयम् ॥ ६७ ॥
वर्षास्वाकाशशायी च हेमन्ते सलिलाश्रयः ॥
पञ्चाग्निसाधको ग्रीष्मे षष्ठकालकृताशनः ॥ ६८ ॥
संस्नाप्य भास्करं स्थाणुं तत्पुरः शतरुद्रियम् ॥
जपन्सामोक्तरुद्रांश्च भव रुद्रांस्तथा जपन् ॥
प्राणरुद्रांस्तथा नीलान्स्कन्दसूक्तसमन्वितान् ॥ ६९ ॥
ततो वर्षसहस्रांते तुष्टस्तस्य महेश्वरः ॥
प्रोवाच दर्शनं गत्वा सह सूर्य वृषेश्वरैः ॥ 6.209.७० ॥
॥ महेश्वर उवाच ॥ ॥
शंख तुष्टोऽस्मि ते वत्स तपसानेन सुव्रत ॥
तस्मात्कथय मे क्षिप्रं यद्ददामि तवाऽधुना ॥ ७१ ॥
॥ ।। शंख उवाच ॥ ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
जायेतां तादृशौ हस्तौ यादृशो मे पुरा स्थितौ ॥ ७२ ॥
त्वयाऽत्रैव सदा वासः कार्यः सुरवरेश्वर ॥
लिंगे कृत्वा दयां देव ममोपरि महत्तराम् ॥ ७३ ॥
एतज्जलाशयं नाथ मम नाम्ना धरातले ॥
प्रसिद्धिं यातु लोकस्य यावच्चन्द्रार्कतारकाः ॥ ७४ ॥
अत्र यः कुरुते स्नानं धृत्वा मनसि दुर्लभम् ॥
किंचिद्वस्तु समग्रं तु तस्य संपत्स्यते विभो ॥ ७५ ॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
अद्याहं दर्शनं प्राप्तस्तव चैवाष्टमीदिने ॥
माधवस्य सिते पक्षे यस्माद्ब्राह्मणसत्तम ॥ ७६ ॥
तस्मात्संक्रमणं लिंगे तावकेऽस्मिन्द्विजोत्तम ॥
करिष्यामि न सन्देहो दिनमेकमसंशयम् ॥ ७७ ॥
यश्चात्र दिवसे प्राप्ते तीर्थेऽत्रैव भवोद्भवे ॥
स्नानं कृत्वा रवेर्वार उदयं समुपस्थिते ॥ ७८ ॥
पूजयिष्यति मे मूर्तिं त्वया संस्थापितां द्विज ॥
कुष्ठव्याधिविनिर्मुक्तो मम लोकं स यास्यति ॥ ७९ ॥
शेषकालेऽपि विप्रेन्द्र अज्ञानविहितादघात् ॥
मुक्तिं प्राप्स्यत्यसंदिग्धं मम वाक्याद्द्विजोत्तम ॥ 6.209.८० ॥
तथा तवापि यौ हस्तौ छिन्नावेतावुभावपि ॥
तस्मिन्योगेऽभिषेकात्तौः स्यातां भूयोऽपि तादृशौ ॥ ८१ ॥
एष मे प्रत्ययो विप्र भविष्यति तवाऽधुना ॥
भूयः स्नानं विधाय त्वं ततो मूर्तिं ममार्चय ॥ ८२ ॥
अन्येऽपि व्यंगतां प्राप्ताः संयोगेऽत्र तव स्थिते ॥
स्नात्वा मां पूजयिष्यंति मुक्तिं यास्यंति ते द्विज ॥ ॥ ८३ ॥
एवमुक्त्वा सहस्रांशुस्ततश्चादर्शनं गतः ॥
शंखोऽपि तत्क्षणात्स्नात्वा पूजयित्वा दिवाकरम् ॥ ८४ ॥
यावत्पश्यति चात्मानं तावद्धस्तसमन्वितम् ॥
आत्मानं पश्यमानस्तु विस्मयं परमं गतः ॥ ८५ ॥
ततःप्रभृति तत्रैव कृत्वाऽऽश्रमपदं नृप ॥
तपस्तेपे द्विज श्रेष्ठो गतश्च परमां गतिम् ॥ ८६ ॥
तस्मात्त्वमपि राजेंद्र संयोगं प्राप्य तत्त्वतः ॥
तेनैव विधिना स्नात्वा त्वं पूजय दिवाकरम् ॥ ८७ ॥
यश्चैतच्छृणुयान्नित्यं पठेद्वा पुरतो रवेः ॥
तस्यान्वयेऽपि नो कुष्ठी कदाचित्सम्प्रजायते ॥ ८८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शंखादित्यशंखतीर्थोत्पत्तिवृत्तांतवर्णनंनाम नवोत्तरद्विशततमोऽध्यायः ॥ २०९ ॥ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 210
॥ ॥ विश्वामित्र उवाच ॥ ॥
तच्छ्रुत्वा वचनं तस्य देवर्षेर्नारदस्य च ॥
सिद्धसेनो महीपालः प्राप्य तं योगमुत्तमम् ॥ १ ॥
माधवे मासि संप्राप्ते अष्टम्यां सूर्यवासरे ॥
सूर्योदये तु संप्राप्ते यावत्स्नात्वाऽर्चयेद्रविम् ॥२॥
तावत्कुष्ठविनिर्मुक्तः सहसा समपद्यत ॥
ततो दिव्यवपुर्भूत्वा सन्तोषं परमं गतः ॥ ३ ॥
प्रायश्चित्तं ततश्चक्रे तांबूलस्य च भक्षणम् ॥
अज्ञानेन कृतं यच्च चूर्णपत्रसमन्वितम् ॥ ४ ॥
ततश्च परमां लक्ष्मीं संप्राप्तः स महीपतिः ॥
पितृपैतामहं राज्यं स प्रचक्रे यथा पुरा ॥ ५ ॥
एतत्ते सर्वमाख्यातं शंखतीर्थसमुद्भवम् ॥
माहात्म्यं पार्थिवश्रेष्ठ किं भूयः श्रोतुमि च्छसि ॥ ६ ॥
॥ आनर्त उवाच ॥ ॥
अत्याश्चर्यमिदं ब्रह्मन्यत्त्वया परिकीर्तितम् ॥
यल्लक्ष्मीस्तस्य सन्नष्टा चूर्णपत्रस्य भक्षणात् ॥ ७ ॥
कीदृक्तेन कृतं तस्य प्रायश्चित्तं विशुद्धय्रे ॥
कीदृक्तेन कृतं तच्च निजराज्यं यथा पुरा॥ ८ ॥
॥ विश्वामित्र उवाच ॥ ॥
एषा पुण्यतमा मेध्या नागवल्ली नराधिप ॥
अयथावत्कृता वक्त्रे बहून्दोषान्प्रयच्छति ॥
तस्माद्यत्नेन संभक्ष्या दत्त्वा चैव स्वशक्तितः ॥ ९ ॥
॥ आनर्त उवाच ॥ ॥
नागवल्ली कथं जाता कस्माद्दोषो महान्स्मृतः ॥
अयथावद्भक्षणाच्च तन्मे वक्तुमिहार्हसि ॥ ६.२१०.१० ॥
॥ विश्वामित्र उवाच ॥ ॥
प्रश्नभारो महानेष त्वया मे परिकीर्तितः ॥
तथापि च वदिष्यामि यदि ते कौतुकं नृप ॥
यस्मात्सञ्जायते दोषश्चूर्णपत्रस्य भक्षणात्॥ ११ ॥
अमृतार्थं पुरा देवैर्मथितः कलशोदधिः ॥
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ १२ ॥
मुखदेशे बलिर्लग्नः पुच्छदेशेऽखिलाः सुराः ॥
वासुदेवमतेनैव सन्दधाराथ कच्छपः ॥ १३ ॥
मन्दरे भ्रममाणे तु प्रागेव नृपसत्तम ॥
आनर्त सहसा जातं रत्नत्रितयमेव च ॥ १४ ॥
नीलांबरधरः कृष्णः पुरुषो वक्रनासिकः ॥
कृष्णदन्तः स्थूलशिरा दीर्घग्रीवो महोदरः ॥
शूर्पाकारांघ्रिरेवाऽसौ चिपिटाक्षो भयावहः ॥ १५ ॥
तथा तद्रूपिणी तस्य कुभार्या राक्षसी यथा ॥
शिशुनांगुलिलग्नेन गर्भश्रमपरायणा ॥ १६ ॥
ततो देवगणाः सर्वे दानवाश्च विशेषतः ॥
मन्थानं तत्परित्यज्य तान्ग्रहीतुं प्रधाविताः ।। १७ ॥
अथ तान्विकृतान्दृष्ट्वा सर्वे शंकासमन्विताः ॥
जगृहुर्नैव राजेंद्र जहसुश्च परस्परम् ॥ १८ ॥
अथोवाच बलिर्दैत्यः कृतांजलिपुटः स्थितः ॥
ब्रह्माऽऽदि यल्लभेत्सर्वं यत्पुरस्तात्प्रजायते ॥ १९ ॥
रत्नत्रितयमेतद्धि तस्माद्गृह्णातु पद्मजः ॥
येन सिद्धिर्भवेदस्मिन्मन्थने कस्य चाऽर्पणात् ॥ ६.२१०.२० ॥
तद्वाक्यं विष्णुना तस्य शंसितं शंकरेण तु ॥
इंद्राद्यैश्च सुरैः सर्वैर्दानवैश्च विशेषतः २१॥
एतस्मिन्नंतरे ब्रह्मा जग्राह त्रितयं च तत्॥
दाक्षिण्यात्सर्वदेवानामनिच्छन्नपि पार्थिव ॥
ममन्थुः सागरं राजन्पुनस्ते यत्नमाश्रिताः ॥ २२ ॥
ततश्च वारुणी जाता दिव्यगन्धसमन्विता ॥
बलिना संगृहीता सा प्रत्यक्षं बलविद्विषः ॥ २३ ॥
आवर्ते चापरे जाते निष्क्रांतः कौस्तुभो मणिः ॥
स गृहीतो महाराज विष्णुना प्रभविष्णुना ॥ २४ ॥
अथापरे स्थिते तत्र महावर्ते निशापतिः ॥
सञ्जातः स वृषांकेन संगृहीतश्च तत्क्षणात् ॥ २५ ॥
पारिजातस्ततो जातो दिव्यगन्धसमन्वितः ॥
स गृहीत्वा सुरैः सर्वैः स्थापितो नंदने वने ॥ २६ ॥
तस्यानंतरमेवाथ सुरभी वत्ससंयुता ॥
निष्क्रांता व्योममार्गेण गोलोकं समवस्थिता ॥ २७ ॥
ततो धन्वंतरिर्जातो बिभ्रद्धस्ते कमंडलुम् ॥
संपूर्णममृतेनैव स देवैर्दानवैनृप ॥ २८ ॥
गृहीतो युगपत्क्रुद्धैः परस्परजिगीषया ॥
देवानां हस्तगो वैद्यो दैत्यानां च कमण्डलुः॥ २९ ॥
ततस्तं लोभसंयुक्ता ममंथुः सागरं नृप ॥
पद्महस्तात्र संजाता ततो लक्ष्मीः सितांबरा ॥ ६.२१०.३० ॥
स्वयमेव वृतो विष्णुस्तया पार्थिवसत्तम ॥
मथ्यमाने ततोतीव समुद्रे देवदानवैः ॥ ३१ ॥
कालकूटं समुत्पन्नं येन सर्वे सुरासुराः ॥
संप्राप्ताः परमं कष्टं प्रभग्नाश्च दिशो दश ॥ ३२ ॥
तं दृष्ट्वा भगवाञ्छंभुस्तीव्रं तीवपराक्रमः ॥
भक्षयामास राजेंद्र नीलकण्ठस्ततोऽभवत् ॥ ३३ ॥
अथ संत्यज्य मंथानं मंदरं वासुकिं तथा ॥
अमृतार्थेऽभवद्युद्धं दैत्यानां विबुधैः सह ॥ ३४ ॥
अथ स्त्रीरूपमाधाय विष्णुर्दैत्यानुवाच तान् ॥
ततो हृष्टो बलिस्तस्यै दत्त्वा पीयूषमेव तत् ॥ ३५ ॥
विश्वासं परमं गत्वा युद्धं चक्रे सुरैः सह ॥
ततो विष्णुः परित्यज्य स्त्रीरूपं पुरुषाकृतिः ॥ ३६ ॥
तदेवामृतमादाय ययौ यत्र दिवौकसः ॥
अब्रवीत्तान्सुहृष्टात्मा पिवध्वममृतं सुराः ॥ ३७ ॥
येनामरत्वमासाद्य व्यापादयत दानवान् ॥
ते तथेति प्रतिज्ञाय पपुः पीयूषमुत्तमम् ॥ ३८ ॥
अमराश्च ततो जाता जघ्नुः संख्ये महासुरान् ॥ ३९ ॥
तेषां पानविधौ तत्र वर्तमाने महीपते ॥
राहुर्विबुधरूपेण पपौ पीयूषमुत्सुकः ॥ ६.२१०.४० ॥
स लक्षितो महादैत्यश्चंद्रार्काभ्यां च तत्क्षणात् ॥
निवेदितो हरे राजन्नायं देवो महासुरः ॥ ॥ ४१ ॥
तच्छ्रुत्वा वासुदेवेन तस्य चक्रं सुदर्शनम्॥
वधाय पार्थिवश्रेष्ठ मुक्तं वज्रसमप्रभम् ॥ ४२ ॥
यावन्मात्रं शरीरं तत्तस्य व्याप्तं महीपते ॥
अमृतेन ततः कृत्तममोघेनापि तच्छिरः ॥ ४३ ।।
ततोऽमरत्वमापन्नः स यावत्सिंहिकासुतः ॥
तावत्प्रोक्तोऽच्युतेनाथ साम्ना परमवल्गुना ॥ ४४ ।।
त्यज दैत्यान्महाभाग देवानां संमतो भव ॥
संप्राप्स्यसि परां पूजां सदा त्वं ग्रहमंडले ॥ ४५ ॥
स तथेति प्रतिज्ञाय त्यक्त्वा तान्दैत्यसत्तमान् ॥
पूजां प्राप्नोति मर्त्यानां संस्थितो ग्रहमण्डले ॥ ४६ ॥
एतस्मिन्नंतरे दैत्या निर्जिताः सुरसत्तमैः ॥
दिशो जग्मुः परित्रस्ताः केचिन्मृत्युमुपागताः ॥ ४७ ॥
पीतशेषं च पीयूषं स्थापितं नन्दने वने ॥
नागराजस्य यत्रैव स्थितमालानमेव च ॥ ४८ ॥
अहर्निशं मदस्रावी करींद्रः सोऽपि संस्थितः ॥
तत्प्रभावैः प्रभिन्नः स पीयूषस्य कमंडलुः ॥४९॥
ततो वल्ली समुत्पन्ना तस्माच्चैव कमण्डलोः ॥
तत्रालानसमारूढा वृद्धिं च परमां गता ॥ ६.२१०.५० ॥
तदुद्भवानि पत्राणि गृहीत्वा सुरसत्तमाः ॥
अपूर्वाणि सुगंधीनि मत्वा ते भक्षयंति च ॥ ५१ ॥
वक्त्रशुद्धिकृते राजन्विशेषेण प्रहर्षिताः ॥ ५२ ॥
अथ धन्वतरिर्वैद्यः स्वबुद्ध्या पृथिवीपते ॥
नागालाने यतो जाता नागवल्ली भविष्यति ॥ ५३ ॥
सदा स्मरस्य संस्थानं मम वाक्याद्भविष्यति ॥
नागवल्लीति वै नाम तस्याश्चक्रे ततः परम् ॥ ५४ ॥
संयोगं च चकाराथ तांबूलं जायते यथा ॥
पूगीफलेन चूर्णेन खदिरेणापि पार्थिव ॥ ५५ ॥
कस्यचित्त्वथ कालस्य वाणीवत्सरको नृपः ॥
प्रतोषं नीतवाञ्छक्रं तपसा निर्मलेन च ॥ ५६ ॥
ततस्तत्तपसा तुष्ट इन्द्रो वचनमब्रवीत् ॥ ५७ ॥
॥ इन्द्र उवाच ॥ ॥
भोभोः पार्थिव तुष्टोऽस्मि तपसाऽनेन सांप्रतम् ॥
ब्रूहि यत्ते वरं दद्मि मनसा वांछितं सदा ॥ ५८ ॥
सोऽब्रवीद्यदि मे तुष्टो यदि देयो वरो मम ॥
विमानं खेचरं देहि येनागच्छामि ते गृहे ॥
नित्यमेव धरापृष्ठाद्वंदनार्थं तव प्रभो ॥५९॥
स तथेति प्रतिज्ञाय हंसबर्हिणनादितम् ॥
विमानं प्रददौ तस्मै मनोमारुतवेगधृक् ॥ ६.२१०.६० ॥
स तत्र नित्यमारुह्य प्रयाति त्रिदशालयम् ॥
भक्त्या परमया युक्तः सहस्राक्षं प्रवंदितुम् ॥ ६१ ॥
तस्य शक्रः स्वहस्तेन तांबूलं च प्रयच्छति ॥
स च तद्भक्षयामास प्रहृष्टेनांतरात्मना ॥ ६२ ॥
वृद्धभावेऽपि संप्राप्ते तस्य कामोऽत्यवर्द्धत ॥
तांबूलस्य प्रभावेन सुमहान्पृथिवीपते ॥ ६३ ॥
अथ शक्रमुवाचेदं स राजा विनयान्वितः ॥
नागवल्लीप्रदानेन प्रसादो मे विधीयताम् ॥ ६४ ॥
मर्त्यलोके समानेतुं प्रचारं येन गच्छति ॥
स तथेति प्रतिज्ञाय तस्मै तां प्रददौ तदा ॥ ६५ ॥
गत्वा निजपुरं सोपि स्वोद्यानेऽस्थापयत्तदा ॥
ततः कालेन महता प्रचारं सा गता क्षितौ ॥ ६६ ॥
यस्याः स्वादनतो लोकः कामात्मा समपद्यत ॥
न कश्चिद्यजनं चक्रे याजनं च विशेषतः ॥
अन्या धर्मक्रियाः सर्वाः प्रणष्टा धर्मसंभवाः ॥ ६७ ॥
ततो देवगणाः सर्वे यज्ञभागविवर्जिताः ॥
पीड्यमानाः क्रुधा विष्टा गत्वा प्रोचुः पितामहम् ॥ ६८ ॥
मर्त्यलोके सुरश्रेष्ठ नष्टा धर्मक्रिया भृशम् ॥
कामासक्तो यतो लोकस्तांबूलस्य च भक्षणात् ॥
तस्मात्कुरु प्रसादं नो येनास्माकं क्रिया भवेत् ॥ ६९ ॥
एतस्मिन्नेव काले तु पुष्करस्थं पितामहम् ॥
यजनार्थे समायातं दरिद्रो वीक्ष्य पार्थिव ॥ ६.२१०.७० ॥
प्रणिपत्य ततः प्राह विनयावनतः स्थितः ॥
निर्विण्णोऽहं सुरश्रेष्ठ ब्राह्मणानां गृहे स्थितः ॥ ७१ ॥
तस्मात्कीर्तय मे स्थानं श्रेष्ठं वित्तवतां हि यत् ॥
तत्र सञ्जायते तृप्तिः शाश्वती प्रचुरा प्रभो ॥ ७२ ॥
तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा पितामहः ॥
अब्रवीच्च दरिद्रं तं छिद्रार्थं धनिना मिह ॥ ७३ ॥
चूर्णपत्रे त्वया वासः सदा कार्यो दरिद्र भोः ॥
तांबूलस्य तु पर्णाग्रे भार्यया मम वाक्यतः ॥ ७४ ॥
पर्णानां चैव वृंतेषु सर्वेषु त्वत्सुतेन च ॥
रात्रौ खदिरसारे च त्वं ताभ्यां सर्वदा वस ॥ ७५ ॥
धनिनां छिद्रकृत्प्रोक्तमेतत्स्थानचतुष्टयम् ॥
पार्थिवानां विशेषेण मम वाक्या द्व्रज द्रुतम् ॥ ७६ ॥
॥ नारद उवाच ॥ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥ ७७ ॥
तांबूलोत्थानि छिद्राणि यथा स्युर्धनिनामिह ॥
तानि सर्वाणि चीर्णानि त्वया राजन्नजानता ॥
तेन वै विभवोच्छित्तिः संजाता सहसा नृप ॥ ७८ ॥
॥ राजोवाच ॥ ॥
तदर्थमपि मे ब्रूहि प्रायश्चित्तं मुनीश्वर ॥
कदाचिद्भक्षणं मे स्यात्तांबूलस्य तथाविधम् ॥ ७९ ॥
येन सञ्जायते शुद्धिः कुतांबूलसमुद्भवा ॥ ६.२१०.८० ॥
॥ विश्वा मित्र उवाच ॥ ॥
शृणु राजन्प्रवक्ष्यामि प्रायश्चित्तं तु यच्चरेत् ॥
आश्वासनेन शुद्ध्यर्थं कुतांबूलस्य भक्षणात् ॥ ८१ ॥
पर्वकालं समुद्दिश्य सम्यक्छ्रद्धासमन्वितः ॥
आनयेद्ब्राह्मणं राजन्वेदवेदांगपारगम् ॥ ८२ ॥
प्रक्षाल्य चरणौ तस्य वाससी परिधापयेत् ॥
संपूज्य गंधपुष्पाद्यैस्ततः पत्रं हिरण्मयम् ॥
स्वशक्त्या कारयित्वाऽथ चूर्णे मुक्ताफलं न्यसेत् ॥ ८३ ॥
पूगीफलं च वैडूर्यं खदिरं रूप्यमेव च ॥
मन्त्रेणानेन विप्राय तथैव च समर्पयेत् ॥ ८४ ॥
यन्मया भक्षितं पूर्वं वृन्तं पत्रसमुद्भवम्॥
चूर्णपत्रं तथैवान्यद्रात्रौ खदिरमेव च ॥ ८५ ॥
तस्य पापस्य शुद्ध्यर्थं तांबूलं प्रतिगृह्यताम् ॥
ततस्तु ब्राह्मणो मंत्रमेवं राजन्नुदाहरेत् ॥ ८६ ॥
यजमानहितार्थाय सर्वपापविशुद्धये ॥
अज्ञानाज्ज्ञानतो वापि कुतांबूलं प्रभक्षितम् ॥ ८७ ॥
भक्षयिष्यसि यच्चान्यत्कदाचिन्मे प्रसादनात् ॥
तस्य दोषो न ते भावी मम वाक्यादसंशयम् ॥ ८८ ॥
अनेन विधिना दत्त्वा तांबूलं शुद्धिमाप्नुयात् ॥
कुतांबूलस्य दोषेण गृह्यते न नरो नृप ॥ ८९ ॥
तस्मात्त्वं हि महाराज व्रतमेतत्समाचर ॥
बहु पुण्यतमं ह्येतन्महाभोगविवर्द्धनम् ॥ ६.२१०.९० ॥
यः प्रयच्छति राजेन्द्र विधिनानेन भक्तितः ॥
जन्मजन्मान्तरे वापि न तांबूलेन मुच्यते ॥ ९१ ॥
तांबूलं भक्षयित्वा यो नैतद्दानं प्रयच्छति ॥
तांबूलवर्जितः सोऽत्र भवेज्जन्मनिजन्मनि ॥ ९२ ॥
तांबूलवर्जितं यस्य मुखं स्यात्पृथिवीपते ॥
कृपणस्य दरिद्रस्य तद्बिलं न हि तन्मुखम् ॥ ९३ ॥
तांबूलं ब्राह्मणेन्द्राय यो दत्त्वा प्राक्प्रभक्षयेत् ॥
सुरूपो भाग्यवान्दक्षो भवेज्जन्मनिजन्मनि ॥ ९४ ॥
एतत्ते सर्वमाख्यातं कुतांबूलस्य भक्षणात् ॥
यत्फलं जायते पुंसां यद्दानेन महीपते ॥ ९५ ॥
शंखादित्यानुषंगेण तांबूलस्य च भक्षणे ॥
ये दोषा ये गुणा राजन्दानं चैव प्रभक्षणे ॥ ९६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये तांबूलोत्पत्ति तांबूलमाहात्म्यवर्णनंनाम दशोत्तरद्विशततमोऽध्यायः ॥ २१० ॥ ॥ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 211
॥ विश्वामित्र उवाच ॥ ॥
राज्ञो दारिद्र्यदोषस्य कुष्ठव्याधेश्च कारणम् ॥
कथयित्वा पुनः प्राह नारदो मुनिसत्तमः ॥ १ ॥
॥ नारद उवाच ॥ ॥
एतत्ते सर्वमाख्यातं राजन्कुष्ठस्य कारणम् ॥
दारिद्र्यस्य च यत्सम्यग्ज्ञात्वा दिव्येन चक्षुषा ॥ २ ॥
अधुना संप्रवक्ष्यामि यथा तव पराभवः ॥
शत्रुभ्यः संप्रजातोऽत्र द्विजानामपमानतः ॥ ३ ॥
आनर्ताधिपतिर्योऽत्र कश्चिद्राज्येऽभिषिच्यते ॥
स पूर्वं गच्छति ग्रामं नागराणां प्रभक्तितः ॥ ४ ॥
त्वया तत्कल्पितं राजन्नैव दत्तं प्रमादतः ॥
पराभूता द्विजास्ते च याचमाना मुहुर्मुहुः ॥ ५ ॥
तथा कोपवशाद्यानि शासनानि द्विजन्मनाम् ॥
लोपितानि त्वयान्यानि पितृपैतामहानि च ॥ ६ ॥
तेन तेऽत्र पराभूतिः संजाता शत्रुसंभवा ॥
एवं ज्ञात्वा द्विजेद्राणां शास नानि प्रयच्छ भोः ॥ ७ ॥
गृहीतानि च यान्येव तेषां मोक्षं समाचर ॥
तच्छ्रुत्वा पार्थिवः सोऽथ शंखतीर्थे प्रभक्तितः ॥ ८ ॥
स्नात्वा विप्रान्समा हूय मध्यगेन समन्वितान् ॥
शंखादित्यस्य पुरतः प्रक्षाल्य चरणौ नृप ॥ ९ ॥
ददौ च शासनशतं प्रक्षाल्य चरणांस्ततः ॥
षड्विंशत्यधिकं राजा नागराणां महात्मनाम् ॥ ६.२११.१० ॥
एतस्मिन्नंतरे तत्र शत्रवो ये च संस्थिताः ॥
सर्वे मृत्युं समापन्ना ब्राह्मणानां प्रसादतः ॥ ११ ॥
विश्वामित्र उवाच ॥ ॥
एतत्ते सर्वमाख्यातं शंखतीर्थसमुद्भवम् ॥
प्रभावं पार्थिवश्रेष्ठ किं भूयः श्रोतुमिच्छसि ॥ १२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शंखतीर्थमाहात्म्यवर्णनंनामैकादशोत्तरद्विशततमोऽध्यायः ॥२११॥
खण्डः ६ (नागरखण्डः) — Adhyāya 212
॥ ऋषय ऊचुः ॥ ॥
श्रुतं तीर्थत्रयं पुण्यं हाटकेश्वरसंज्ञिते ॥
क्षेत्रेऽत्र यत्त्वया प्रोक्तमस्माकं सूतनंदन ॥ १ ॥
विश्वामित्रीयमाहात्म्यं श्रोतुमिच्छामहे वयम्॥
सांप्रतं तत्समाचक्ष्व परं कौतूहलं हि नः ॥ २ ॥
॥ सूत उवाच ॥ ॥
समुद्रस्यापि पारोऽत्र लक्ष्यते च क्षितेरपि ॥
तारकाणां मुनेस्तस्य न गुणानां द्विजोत्तमाः ॥ ३ ॥
लक्ष्यते केनचित्पारो गाधेः पुत्रस्य धीमतः ॥
क्षत्रियोऽपि द्विजत्वं यः संप्राप्तो द्विजसत्तमाः॥ ॥ ४
अंत्यजत्वं गतस्यापि त्रिशंकोः पृथिवीपतेः ॥
यज्ञभागभुजो देवाः प्रत्यक्षेण विनिर्मिताः ॥ ५ ॥
ब्रह्मणः स्पर्धया येन पुरा सृष्टिर्द्विजोत्तमाः ॥
प्रारब्धा च ततो देवैः प्रणिपत्य निवारितः ॥ ६ ॥
तस्य तीर्थस्य माहात्म्यं साप्रतं वदतो मम ॥
श्रूयतां ब्राह्मणश्रेष्ठाः सर्वपातकनाश नम् ॥ ७ ॥
तेन तत्र कृतं कुण्डं स्वहस्तेन महात्मना ॥
शस्त्रं विनापि भूपृष्ठं प्रविदार्य समंततः ॥ ८ ॥
तत्र ध्यात्वा समानीता पातालाज्जाह्नवी नदी ॥
मर्त्यलोके समायातं यस्यास्तोयं सुनिर्मलम् ॥ ९ ॥
सुस्वादु च तथा स्नानात्सर्वपातकनाशनम् ॥
तेनापि स्थापितस्तत्र भास्करो वारितस्करः ॥ ६.२१२.१० ॥
यः सप्तम्यां सूर्यवारे स्नात्वा तस्य हृदे शुभे ॥
माघमासे सिते पक्षे नमस्यति दिवाकरम् ॥
स कुष्ठैर्मुच्यते सर्वैस्तथा पापैर्द्विजो त्तमाः ॥ ११ ॥
पश्चिमोत्तरदिग्भागे तस्यास्ति जलसंभवा ॥
धन्वंतरिकृता वापी सर्वरोगविनाशिनी ॥ १२ ॥
तत्र पूर्वं तपस्तेपे धन्वं तरिरुदारधीः ॥
ववन्दे तपसा युक्तो ध्यायमानः समाहितः ॥ १३ ॥
ततः कालेन महता संतुष्टस्तस्य भास्करः ॥
उवाच वरदोऽस्मीति प्रार्थयस्व महामते ॥ १४ ॥
॥ धन्वंतरिरुवाच ॥ ॥
अत्र कुण्डे नरो भक्त्या यः स्नानं कुरुते विभो ॥
तस्य स्यात्सर्वरोगाणां संक्षयः सुरसत्तम ॥ १५ ॥
॥ श्रीभगवानुवाच ॥ ॥
अद्य शस्ते दिने योऽत्र सप्तम्यां रविवासरे ॥
सूर्योदये नरः स्नानं करिष्यति समाहितः ॥
व्याधिग्रस्तः स नीरोगस्तत्क्षणात्संभविष्यति ॥ १६ ॥
नीरोगश्चेप्सितान्कामान्निष्कामो मोक्षमेष्यति ।१ १७ ॥
एवमुक्त्वा सुरश्रे ष्ठोंऽतर्धानं स गतो रविः ॥
धन्वन्तरिः प्रहृष्टात्मा स्वस्थानं च गतस्ततः ॥ १८ ॥
कस्यचित्त्वथ कालस्य रत्नाक्षोऽथ महीपतिः ॥
अयोध्याधि पतिः ख्यातः सूर्यवंशसमुद्भवः ॥ १९ ॥
कृतज्ञश्च वदान्यश्च स्वदारनिरतः सदा ॥
शूरः परमतेजस्वी सर्वशत्रुनिषूदनः ॥ ६.२१२.२० ॥
पूर्वकर्मविपाकेन तस्य भूमिपतेर्द्विजाः ॥
कुष्ठव्याधिरभूद्रौद्रो दुश्चिकित्स्यो जगत्त्रये ॥२१॥
तदस्ति नौषधं लोके यत्तेन न कृतं द्विजाः ॥
कुष्ठग्रस्तेन वा दानं यत्र दत्तं महात्मना ॥ २२ ॥
यथायथौषधान्येव स करोति ददाति च ॥
तथातथा तस्य कायो व्याधिना क्षामितो भृशम् ॥ २३ ॥
ततो वैराग्यमापन्नः स नृपो द्विजसत्तमाः ॥
पुत्रं राज्येऽथ संस्थाप्य वांछयामास पावकम् ॥
निषिद्धोऽपि हि तैः सर्वैः कलत्रैराप्तसेवकैः ॥ २४ ॥
दत्त्वा दानानि विप्रेभ्यः पूजयित्वा सुरोत्तमान् ॥
संभाष्य च सुहृद्वर्गं शासयित्वा निजं सुतम् ॥ २५ ॥
एतस्मिन्नेव काले तु भ्रममाणे यदृच्छया ॥
कश्चित्कार्पटिकः प्राप्तो दिव्यरूपवपुर्धरः ॥ २६ ॥
अथासौ व्याकुलं दृष्ट्वा तत्सर्वं नृपतेः पुरम् ॥
अपृच्छद्विस्मयाविष्टो दृष्ट्वा कञ्चिन्नरं द्विजाः ॥ २७ ॥ ॥
॥ कार्पटिक उवाच ॥ ॥
किमेषा व्याकुला भद्रे सर्वा जाता महापुरी ॥
निरानन्दाऽश्रुपूर्णाक्षैर्बालवृद्धैर्निषेविता ॥ २८ ॥
सोऽब्रवीन्नृपतिश्चायं कुष्ठव्याधिसमन्वितः ॥
साधयिष्यति सन्दीप्तं सुनिर्विण्णो हुताशनम् ॥ २९ ॥
तेनेयं नगरी कृत्स्ना परं दुःखमुपागता ॥
गुणैरस्य समाविष्टा नूनं मृत्युं प्रयास्यति ॥ ६.२१२.३० ॥
तच्छ्रुत्वा सत्वरं गत्वा नृपं कार्पटिकोऽब्रवीत् ॥ ३१ ॥
सर्वं जनं नरेन्द्रस्य मृतं जीवापयन्निव ॥
मा नृपानेन दुःखेन व्याधिजेन हुताशनम् ॥
प्रविश त्वं स्थिते तीर्थे सर्वव्याधिक्षयावहे ॥ ३२ ॥
मदीयो भूपते देह ईदृगासीद्यथा तव ॥
तत्र स्नातस्य सद्योऽथ जात ईदृक्पुनः प्रभो ॥ ३३ ॥
सप्तम्यां सूर्यवारेण भास्करस्योदयं प्रति ॥
यस्तत्र कुरुते स्नानं व्याधिग्रस्तो नरो भुवि ॥३४॥
स व्याधिना विनि र्मुक्तस्तत्क्षणात्कल्पतां व्रजेत्॥
तथा पापविनिर्मुक्तो यथाहं नृपसत्तम ॥३५॥
॥ राजोवाच ॥ ॥
कस्मिन्देशे महातीर्थं तादृशं वद मे द्रुतम् ॥ ॥ ३६ ॥
॥ कार्पटिकउवाच ॥ ॥
अस्ति भूमितले ख्यातं नागरं क्षेत्रमुत्तमम् ॥
कुष्ठव्याधिसमाक्रांतो गतोऽहं तत्र भूपते ॥ ३७ ॥
तस्य सन्दर्शनार्थाय तीर्थयात्रापरायणः ॥
तत्र मां दीनमालोक्य व्याधिग्रस्तं सुदुःखितम्॥
कश्चित्तत्राश्रयः प्राह तपस्वी कृपयान्वितः ॥ ३८ ॥
पश्चिमोत्तरदिग्भागे देवस्य जलशायिनः ॥
तीर्थमस्ति महापुण्यं विश्वामित्रजलावहम्॥३९॥
तत्र गत्वा कुरु स्नानं सप्तम्यां रविवासरे ॥
माघमासे तु संप्राप्ते शुक्लपक्षे विशेषतः ॥ ६.२१२.४० ॥
येन निर्याति ते कुष्ठो भास्करस्योदयं प्रति ॥
तच्छ्रुत्वाऽहं च तत्प्राप्तः सप्तम्यां सूर्यसंयुजि ॥
ततश्च कृतवान्स्नानं निर्झरे तत्र शांभवे ॥४१॥
ततस्तस्माद्विनिष्क्रांतो यावत्पश्याम्यहं तनुम्॥
तावन्नृपेदृशी जाता सत्यमेतत्तवोदितम् ॥४२॥
तस्मात्त्वमपि राजेंद्र तत्र स्नानं समाचर ॥
सप्तम्यां सूर्यवारेण भास्करस्योदयं प्रति ॥४३॥
येन ते नश्यति व्याधिर्विशेषमपि पातकम् ॥
तच्छ्रुत्वा स नृपस्तूर्णं तेनैव सहितो ययौ ॥ ४४ ॥
चकार स तथा स्नानं सप्तम्यां सूर्यवासरे ॥
माघमासे तु संप्राप्ते विश्वामित्रजले शुभे ॥ ४५ ॥
ततः कुष्ठविनिर्मुक्तस्तत्क्षणात्समपद्यत ॥
दिव्यरूपवपुर्द्धारी कामदेव इवापरः ॥ ४६ ॥
अथ तुष्टो नरेंद्रस्तु तस्मै कार्पटिकाय च ॥
ददौ कोटित्रयं हेम्नः प्रोवाच स ततो वचः ॥ ४७॥
त्वत्प्रसादाद्विमुक्तोऽस्मि रोगादस्मात्सुदारुणात् ॥
तस्मात्त्वं गच्छ गेहं स्वं स्थास्येऽहं चात्र निर्भरम् ॥ ४८ ॥
करिष्यामि तपो नित्यं स्वकलत्रसम न्वितः ॥
राज्ये संस्थापितः पुत्रः समर्थो राज्यकर्मणि ॥ ४९ ॥
इत्युक्त्वा प्रेरयामास तं तथान्यान्समागतान् ॥
सेवकास्वगृहायैव स्वयं तत्रैव संस्थितः ॥ ६.२१२.५० ॥
कृत्वाऽऽश्रमपदं रम्यं स्वकलत्रसमन्वितः ॥
संप्राप्तश्च परां सिद्धिं कालेन द्विजसत्तमाः ॥ ५१ ॥
तस्य नाम्ना ततः ख्यातं तीर्थ मेतत्त्रिविष्टपे ॥
सर्वव्याधिहरं रम्यं सर्वपातकनाशनम् ॥५२॥
तेन संस्थापितस्तत्र देवदेवो दिवाकरः ॥
रत्नादित्य इति ख्यातो निजनाम्ना महा त्मना ॥ ५३ ॥
सप्तम्यां सूर्यवारेण तत्र स्नात्वा प्रपश्यति ॥
यस्तु पापविनिर्मुक्तः सूर्यलोकं स गच्छति ॥ ५४ ॥
यदन्यत्तत्र संवृत्तं क्षेत्रजातं द्विजो त्तमाः ॥
तदहं कीर्तयिष्यामि शृणुध्वं सुसमाहिताः ॥ ५५ ॥
आसीत्तत्र पुमान्कश्चिद्देशे ग्राम्यो जरात्मकः ॥
कुष्ठी तथापि नित्यं स करोति पशु रक्षणम् ॥५६॥
एकदा रक्षतस्तस्य पशूंस्तत्र गिरेरधः ॥
एकः पशुर्विनिष्क्रांतः सत्पथात्तृणलोभतः ॥५७॥
सप्तम्यां रविवारेण पतितस्तस्य निर्झरे ॥
न च संलक्षितस्तेन गच्छमानः कथंचन ॥ ५८ ॥
अथ यावद्गृहे सोऽथ भोजनाथं समुद्यतः ॥
तावत्तस्य पशोः स्वामी भर्त्सयन्समुपागतः ॥५९॥
नायातः स पशुः कस्मान्मदीयो मामके गृहे ॥
तस्मादानय तं शीघ्रं नो चेत्प्राणान्हरामि ते ॥ ६.२१२.६० ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा भय संत्रस्तः स कुष्ठी सत्वरं ययौ ॥
तेन मार्गेण येनैव दिवा भ्रांतो महीतले ॥ ६१ ॥
अथ दूरात्स शुश्राव तस्य रावं पशोस्तदा ॥
पतितस्य महागर्ते निशांते तमसि स्थिते ॥६२॥
ततो गत्वाऽथ तं गर्तं प्रविश्य जलमध्यतः ॥
चकर्ष तं पशुं कृच्छ्रात्पंकमध्यात्सुदारुणात् ॥
समादायाथ तं हर्म्यं प्रजगाम शनैःशनैः ॥ ६३ ॥
अर्पयित्वाथ तं तस्य स्वकीयं त्वाश्रमं गतः ॥ ६४ ॥
ततः सुप्तो महाभागाः स प्रबुद्धः पुनर्यदा ॥
प्रभाते वीक्षते गात्रं यावत्कुष्ठविवर्जितम् ॥ ६५ ॥
शोभया परया युक्तं विस्मयोत्फुल्ललोचनः ॥
चिंतयामास किं ह्येतदकस्माद्रोगसंक्षयः ॥ ६६ ॥
नूनं तस्य प्रभावोऽयं तीर्थस्याद्य निशागमे ॥
मयावगाहितं यच्च पशोरर्थं सुकर्द्दमम् ॥ ६७ ॥
ततश्च वीक्षयामास तेन गत्वा सुकौतुकात् ॥
यावत्कंडूविनिर्मुक्तस्तेजसा परिवारितः ॥ ६८ ॥
तत्र स्थाने स्वयं गत्वा ज्ञात्वा च तीर्थमुत्तमम् ॥
तपस्तेपे स तत्रैव ध्यायमानो दिवाकरम् ॥६९॥
अरण्यवासिनं सम्यग्दिवारात्रमतंद्रितः ॥
गतश्च परमां सिद्धिं दुर्लभां त्रिदशैरपि ॥ ६.२१२.७० ॥
तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥ ७१ ॥
पूजयेच्चापि तं देवं भास्करं वारितस्करम् ॥
अद्यापि कलिकालेऽपि तत्र स्नातो नरः शुचिः ॥ ७२ ॥
तत्र पुण्यजले कुण्डे सप्तम्यां सूर्यवासरे ॥
यस्तं पूजयते भक्त्या सोऽपि पापैः प्रमुच्यते ॥७३॥
गायत्र्यष्टसहस्रं यो जपेत्तत्पुरतः स्थितः ॥
सोऽपि रोगविनिर्मुक्तो मुच्यते सर्वपातकैः ॥ ७४ ॥
तस्योद्देशेन यो दद्याद्धेनुं श्रद्धासमन्वितः ॥
न तस्यान्वयजातोऽपि व्याधिना परिगृह्यते ॥ ७८५ ॥
एतद्वः सर्वमाख्यातं मयादित्यस्य संभवम् ॥
माहात्म्यं श्रवणाद्यस्य नरः पापाद्विमुच्यते ॥ ७६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये रत्नादित्यमाहात्म्यवर्णनंनाम द्वादशोत्तरद्विशततमोऽध्यायः ॥ २१२ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 213
॥ सूत उवाच ॥ ॥
रत्नादित्यस्य माहात्म्यमेतद्वः परिकीर्तितम् ॥
सर्वकुष्ठहरं यच्च सर्वपातकनाशनम् ॥
भूयस्तथैव माहात्म्यं महद्वै श्रूयतां रवेः ॥ १ ॥
पुरासीद्ब्राह्मणः कश्चित्कुष्ठव्याधिसमाकुलः ।१
तेन चाराधितः सूर्यस्तत्रस्थेन द्विजोत्तमाः ॥ २ ॥
पूर्वदक्षिणदिग्भागे समासाद्य ततः परम् ॥
रक्त चन्दनजां कृत्वा प्रतिमां भावितात्मना ॥ ३ ॥
ततो वर्षसहस्रांते तुष्टस्तस्य दिवाकरः ॥
वरदोऽस्मीति तं प्राह दृष्टिगोचरमागतः ॥ ४ ॥ ॥
॥ ब्राह्मण उवाच ॥ ॥
यदि तुष्टोऽसि मे देव कुष्ठव्याधिं हर प्रभो ॥
नान्येन कारणं मेऽस्ति राज्येनापि त्रिविष्टपे ॥ ५ ॥
॥ श्रीभगवानुवाच ॥ ॥
सप्तम्यां सूर्यवारेण कुरु विप्र प्रदक्षिणाम् ॥
शतमष्टोत्तरं यावत्स्नात्वा पुण्यह्रदे शुभे ॥
फलहस्तः पृथक्त्वेन ततः कुष्ठेन मुच्यसे ॥६॥
अन्योऽत्र गां गतो योऽपि व्रतमेतत्करिष्यति ॥
सर्वरोगविनिर्मुक्तो मम लोकं स गच्छति ॥ ७ ॥
॥ श्रीसूर्य उवाच ॥ ॥
तच्छ्रुत्वा स तथा चक्रे ब्राह्मणः श्रद्धयाऽन्वितः ॥
विमुक्तश्च तदा कुष्ठाद्दिव्यदेहमवाप्तवान् ॥ ८ ॥
अथ भूयोऽपि तं प्राह नीरोगं भगवान्रविः ॥
किं ते प्रियं करोम्यन्यद्वद ब्राह्मणसत्तम ॥ ९ ॥
सोऽब्रवीत्सर्वदैवात्र स्थातव्यं भगवन्विभो ॥ ६.२१३.१० ॥
॥ श्रीभगवानुवाच ॥ ॥
अतः परं ममावासः स्थानेऽत्र च भविष्यति ॥
नाम्ना कुहरवासाख्या संज्ञा मम भविष्यति ॥ ११ ॥
कस्यचित्त्वथ कालस्य विष्णुपुत्रो बभूव ह ॥
सांबोनाम सुरूपाढ्यो जांबवत्यां द्विजोत्तमाः ॥ १२ ॥
क्षोभसंजननः स्त्रीणां मातॄणामपि स द्विजाः ।१
अथ तं राजमार्गेण गच्छंतं यदुसत्तमम् ॥ १३ ॥
पुरनार्योऽपि संतुष्टा वीक्षांचक्रुः सुकौतुकात् ॥
गृहकार्याणि संत्यज्य समारूढा गवाक्षकान् ॥ १४ ॥
तस्य कामात्मदेहस्य दर्शनार्थं समुत्सुकाः ॥
काश्चिदर्धानुलिप्तांग्यः काश्चिदेकांजितेक्षणाः ॥ १५
अर्धसंयमितैः केशैस्तथान्यास्त्यक्तबालकाः॥
एकस्मिंश्चरणे काश्चिन्नियोज्योपानहं द्रुताः । १६ ॥
पादुकां च द्वितीये तु पर्यधावन्नितंबिनीः ॥
व्रजंतीषु तथान्यासु वनितासु गवाक्षकान् ॥ १७ ॥
व्याक्रोशंति क्रुधाविष्टाः शिशवो गुरवस्तथा ॥
नीवीबन्धनविश्लेषसमाकुलितचेतसः ॥ १८ ॥
ययुरेवापराः स्वेषु गवाक्षेषु वरांगनाः ॥
स चकर्ष तदा तासां पतितैर्नेत्ररश्मिभिः ॥ १९ ॥
हृदयानि धरापृष्ठे कामदेवसमो युवा ॥
काचिद्दृष्ट्वैव तद्रूपं तस्य सांबस्य कामिनी ॥ ६.२१३.२० ॥
निश्चला कामतप्तांगी लिखितेव विभाब्यते ॥
काचिदग्निसमान्मुक्त्वा निश्वासान्कामपीडिता ॥ २१ ।।
एकास्तं च समालोक्य रूपयौवनसंयुतम् ॥
गवाक्षात्प्रपतंति स्म निश्चेष्टा धरणीतले ॥ २२ ॥
अन्याः परस्परालाप प्रकुर्वंति वरस्त्रियः ॥
एका सा कामिनी धन्या यास्य चक्रेवगूहनम् ॥ २३
निःशेषां रजनीं प्राप्य माघमाससमुद्भवाम् ॥
आस्तां तावत्स्त्रियो याश्च नरा अपि निरर्गलम् ॥ २४ ॥
जल्पंति चेदृशं सर्वं तस्य रूपेण विस्मिताः ॥
अत्रये वदन्ति सेवाम एनमर्थेन वर्जिताः ॥ २५ ॥
वीक्ष्यामो वदनं येन नित्यमेवेंदुसंनिभम् ॥
कर्णाभ्यां वारिता वृद्धिर्नेत्रयोरप्यसंशयम् ॥
नो चेज्जानीमहे नैव कियती सं भविष्यति ॥ २६ ॥
एवं संवीक्ष्यमाणस्तु कामिनीभिर्नरैस्तथा ॥
निर्ययौ राजमार्गेण पितृदर्शनलालसः ॥ २७ ॥
भगिन्यो मातरो याश्च भ्रातृपत्न्यश्च याः स्थिताः ॥
अवस्थामीदृशीं प्राप्ता ब्राह्मणानामपि स्त्रियः ॥
मातरोऽपि च यास्तस्य भगिन्यश्च विशेषतः ॥ ॥ २८ ॥
अन्यस्मिन्नहनि प्राप्ते प्रावृट्काले निशागमे ॥
कृष्णपक्षे तमोभूते अलक्ष्येऽपि गते पुरः ॥ २९ ॥
तन्माता नन्दिनीनाम कामदेवशरार्दिता ॥
तत्पत्न्या वेषमाधाय तच्छय्यायामुपस्थिता ॥ ६.२१३.३० ॥
सोऽपि तां दयितां ज्ञात्वा सेवयामास कामिनीम् ॥
रतोपचारैर्विविधैरश्रद्धेयविनिर्मितैः ॥ ३१ ॥
तया तत्र यदुश्रेष्ठो विकल्पमकरोत्तदा ॥
अंगराजसुता या मे प्राणेभ्योऽपि गरीयसी ॥ ॥ ३२ ॥
नैवंविधं रतं वेद अनया यद्विनिर्मितम् ॥
वेश्या अपि न जानंति रतमीदृक्कथञ्चन ॥ ३३ ॥
ततो गाढं करे धृत्वा दीपमानीय तत्क्षणात् ॥
यावत्पश्यति सा माता नन्दिनीति च या स्मृता ॥ ३४ ॥
ततश्च गर्हयामास रपे किमिदं कृतम् ॥
गर्हितं सर्वलोकानां नर कार्तिप्रदं तथा ॥ ३५ ॥
सापि लज्जासमोपेता महाभयसमाकुला ॥
प्रणष्टा तत्क्षणादेव भयेन महताऽन्विना ॥ ३६ ॥
सांबोऽपि प्रलपन्नार्तो निद्रां लेभे न वै द्विजाः ॥
रात्रिशेषमभूत्तस्य तदा वर्षशतोपमम् ॥ ३७ ॥
अथ रात्र्यां व्यतीतायां प्रोद्गते रविमण्डले ॥
दुःखेन महता युक्तः प्रोत्थितः स हरेः सुतः ॥ ३८ ॥
आवश्यकमपि त्यक्त्वा कंचिद्ब्राह्मणसत्तमम् ॥
धर्मशास्त्रविधानज्ञं समानीयाथ चाब्रवीत् ॥ ३९ ॥
रहस्ये विनयोपेतः कृतांजलिपुटः स्थितः ॥
॥ सांब उवाच ॥ ॥
मात्रा स्वस्रा दुहित्रा वा स्वयं स्याद्यदि मोहनम् ॥ ६.२१३.४० ॥
कथं शुद्धिर्भवेत्तस्य परमार्थेन मे वद ॥
धर्मशास्त्राणि संवीक्ष्य सर्वाणि च यथाक्रमम् ॥ ४१ ॥
॥ ब्राह्मण उवाच ॥ ॥
परनार्याः कृते वत्स प्रायश्चित्तं विनिर्मितम् ॥
धर्म द्रोणेषु सर्वेषु वर्णानां च पृथग्विधम् ॥ ४२ ॥
आसां च तिसृणां चैव त्रयाणां परिकीर्तितम् ॥
एवमेवं विनिर्दिष्टं प्रायश्चित्तं विशुदये ॥ ४३ ॥
मात्रा मोहनमासाद्य भगिन्या वाथ यादव ॥
दुहित्रा वा प्रमादाच्च कार्यं संशोधनं बुधैः ॥
शुद्ध्यर्थं तिंगिनीमेकां नान्यज्जानाम्यहं यतः ॥ ४४ ॥
धर्मद्रोणेषु सर्वेषु निर्णयोऽयमुदाहृतः ॥
यो मया तव संदिष्टो नान्योस्ति यदुपुंगव ॥ ४५ ॥
अन्यथा यो वदेत्पृष्टः प्रायाश्चित्तं स्वच्छन्द तः ॥
तस्य पापस्य भागी स्याद्यथा कर्ता तथैव सः ॥ ४६ ॥
॥ सांब उवाच ॥ ॥
तिंगिन्याः किं स्वरूपं च किं प्रमाणं द्विजोत्तम ॥
सर्वं विस्तरतो ब्रूहि ममास्त्यत्र प्रयोजनम् ॥ ४७ ॥
॥ ब्राह्मण उवाच ॥ ॥
गोवाटचूर्णमादाय गर्तां भृत्वा स्वमानजाम् ॥
शयनं तत्र कर्तव्यं यावद्वक्त्रेण यादव ॥ ४८ ॥
उपरिष्टात्तच्च चूर्णं धार्यं गोवाटसंभवम् ॥
यावद्वक्त्रप्रमाणं च वर्जयित्वा स्वमाननम् ॥ ४९ ॥
ततः पादप्रदेशे तु ज्वालयेद्धव्यवाहनम् ॥
यथा शनैः शनैर्दाहः शरीरस्य प्रजायते ॥ ६.२१३.५० ॥
न चैव चालयेदंगं कथंचित्तत्र संस्थितः ॥
नैवाक्रंदं तथा कुर्याद्ध्यायेदेकं जनार्दनम् ॥ ५१ ॥
ततो जीवितनाशेन गात्रशुद्धिः प्रजायते ॥ ५२ ॥
तिंगिन्या यत्स्वरूपं च तन्मया परिकीर्तितम् ॥
प्रायश्चित्तमिदं सम्यङ्महापातकनाशनम् ॥ ५३ ॥
तच्छ्रुत्वा वचनं तस्य सांबो जांबवतीसुतः ॥
हृदये निश्चयं कृत्वा तिंगिनीसाधकोद्भवम् ॥ ५४ ॥
ततः प्रोवाच विजने वासुदेवं घृणान्वितः ॥
ताताहं विप्रलब्धस्तु नंदिन्या तव भार्यया ॥ ५५ ॥
भार्याया रूपमाधाय पापया तमसि स्थिते ॥
सा मया निजभार्येयमिति मत्वा निषेविता ॥ ५६ ॥
ततस्तु चेष्टितैर्ज्ञात्वा गर्हयित्वा विसर्जिता ॥
ततःप्रभृति गात्रे मे कुष्ठव्याधिरयं स्थितः ॥ ॥ ५७ ॥
मयाथ धर्मशास्त्रज्ञः कश्चित्पृष्टो द्विजोत्तमः ॥
प्रायश्चित्तं यथोक्तं मे वद मातृनिषेवणात् ॥ ५८ ॥
तेनोक्तं साधनं सम्यक्तिंगिन्या मम शुद्धये ॥
सोऽहं तां साधयिष्यामि तस्य पापस्य शुद्धये ॥ ५९ ॥
अनुज्ञां देहि मे शीघ्रं कार्यं येन करोम्यहम् ॥
क्षंतव्यं च मया बाल्ये यत्किंचित्कुकृतं कृतम्॥ ६.२१३.६० ॥
मम माता यथा दुःखं न कुर्यात्त्वं तथा कुरु ॥ ६१ ॥
तच्छ्रुत्वा वचनं तस्य वज्रपातोपमं हरिः ॥
बाष्पपूर्णेक्षणो दीनस्ततः प्रोवाच गद्गदम् ॥ ६२ ॥
न त्वया कामतः पुत्र कृत्यमेतदनुष्ठितम् ॥
न ज्ञानेन कृतं यस्मात्तत्स्मात्स्वल्पं हि पातकम् ॥ ६३ ॥
जानता यत्कृतं पापं तच्चैवाक्षयतां व्रजेत् ॥
न करोति महीपालो यदि तस्य विनिग्रहम् ॥ ६४ ॥
तस्मात्ते कीर्तयिष्यामि प्रायश्चित्तं विशुद्धये ॥
दानं चैव महाभाग येन कुष्ठं प्रणश्यति ॥ ६५ ॥
उक्तानि प्रतिषिद्धानि पुनः संभावितानि च ॥
सापेक्षनिरपेक्षाणि मुनिवाक्यान्यशेषतः ॥ ६६ ॥
तदत्र विषये पुत्र मम वाक्यं समाचर ॥
भविष्यति महच्छ्रेय इह लोके परत्र च ॥ ६७ ॥
हाटकेश्वरजे क्षेत्रे विश्वामित्रप्रतिष्ठितः ॥
मार्तण्डोऽस्ति सुविख्यातः सर्वकुष्ठविनाशकः ॥ ६८ ॥
सूर्यवारेण सप्तम्यां संप्राप्ते मासि माधवे ॥
नक्षत्रे पितृदैवत्ये शुक्लपक्षे समागते ॥ ६९ ॥
भास्करस्योदये प्राप्ते श्रद्धापूतेन चेतसा ॥
शतमष्टोत्तरं यावत्कुरुते च प्रदक्षिणाम् ॥ ६.२१३.७० ॥
फलैः श्रेष्ठतमैश्चैव तत्प्रमाणैः पृथक्पृथक् ॥
तस्य कुष्ठं विनिर्याति सद्य एव न संशयः ॥ ७१ ॥
नीरोगः कुरुते यस्तु रवेस्तस्य प्रदक्षिणाः ॥
तावद्युगं पुमानेष सूर्यलोके महीयते ॥ ७२ ॥
सूर्यवारेण यो मर्त्यस्तस्य कृत्वा ण्दक्षिणाम् ॥
नमस्करोति सद्भक्त्या सोऽपि रोगैः प्रमुच्यते ॥ ७३ ॥
तस्मात्त्वं हि महाराज तमाराधय भास्करम् ॥
देवं वै विधिनानेन यो मयोक्तोऽखिलस्तव ॥ ७४ ॥
अविकल्पेन मनसा समाराधय सत्वरम् ॥
मुक्तरोगे विपाप्माथ दिब्यदेहमवाप्स्यसि ॥ ७५॥
मा कुरुष्व विषादं त्वं कुष्ठव्याधिसमुद्रवम् ॥
तस्मिन्क्षेत्रे स्थिते देवे कुहराश्रयसंज्ञिते ॥ ७६ ॥
अथ तद्वचनं श्रुत्वा प्रस्थितो विष्णुनन्दनः ॥ ७७ ॥
॥ सूत उवाच ॥ ॥
एतच्छ्रुत्वा वचस्तस्य देवदेवस्य चक्रिणः ॥
चकार गमने बुद्धियोगं सांबोऽर्बुदं प्रति ॥ ७८ ॥
ततः शुभेऽहनि प्राप्ते हस्त्यश्वरथसंयुतः ॥
प्रतस्थे स सुतो विष्णोः सेनया परिवारितः ॥ ७९ ॥
अनुयातः सुदूरं च कृष्णेनाक्लिष्टकर्मणा ॥
बाष्पपूर्णे क्षणेनैव सर्वमातृजनेन च ॥ ६.२१३.८० ॥
बलभद्रेण वीरेण चारुदेष्णेन धीमता ॥
युयुधानानिरुद्धाभ्यां प्रद्युम्नेन च धीमता ॥ ८१ ॥
ततो जांबवती पुत्रं दृष्ट्वा तीर्थोन्मुखं तदा ॥
गच्छमानं प्रचक्रेऽथ प्रलापान्कुररी यथा ॥ ८२ ॥
हा हतास्मि विनष्टास्मि मंदभाग्या ह्यभागिनी ॥
एकोपि तनयो यस्या ममाप्येनां दशां गतः ॥ ८३ ॥
अथ तां रुदतीं दृष्ट्वा प्रोवाच मधुसूदनः ॥
किममंगलमेतस्य प्रस्थितस्य करिष्यसि ॥८४॥
बाष्पपूर्णेक्षणा दीना मुक्तकेशी विशेषतः ॥
एष व्याधिविनिर्मुक्तस्तीर्थयात्राफलान्वितः ॥
कुष्ठव्याधिपरित्यक्तः पुनरेष्यति तेंऽतिकम् ॥ ८५ ॥
एतस्मिन्नंतरे यानादवतीर्य त्वरान्वितः ॥
सांबोऽसौ प्रस्थितस्तत्र यत्र जांबवती स्थिता ॥ ८६ ॥
स तां प्रणम्य हृष्टात्मा कृतांजलिपुटः स्थितः ॥
प्रणिपत्य विहस्यो च्चैर्वाक्यमेतदुवाच ह ॥८७॥
मा त्वं मातर्वृथा दुःखमस्मदर्थे करिष्यसि ॥
आगमिष्याम्यहं शीघ्रं तीर्थयात्रां विधाय वै ॥८८॥
॥ जांबवत्युवाच ॥ ॥
रक्षतु त्वां वने वत्स सर्वास्ता वनदेवताः ॥
श्वापदेभ्यः पिशाचेभ्यो दुष्टेभ्यः पुत्र सर्वतः ॥८९॥
शिरस्ते पातु गोविंदः कण्ठं च मधुसूदनः ॥
बाहुदेशं हृषीकेशो हृदयं दैत्यनाशनः ॥६.२१३.९०॥
जठरं पुंडरीकाक्षः कटिं पातु गदाधरः ॥
जानुनोर्युगलं कृष्णः पादौ च धरणीधरः ॥ ९१ ॥
एवं संस्पृश्य हस्तेन निजेनांगानि तस्य सा॥
समालिंग्य समाघ्राय मूर्धदेशे मुहुर्मुहुः ॥ ९२ ॥
प्रेषयामास तं पुत्रं कृतरक्षं यशस्विनी ॥
सा सर्वांतःपुरीयुक्ता निवृता तदनन्तरम् ॥ ९३ ॥
अश्रुपूर्णेक्षणा दीना निःश्वसन्ती यथोरगी ॥
तथा च भगवान्विष्णुर्यादवैः सकलैः सह ॥ ९४ ॥
प्रविष्टो द्वारकापुर्या सांबं प्रोष्य ततः परम्॥
अश्रुपूर्णेक्षणो दीनो बलभद्रपुरःसरः ॥ ९५ ॥
पुत्रैः पौत्रैस्तथा मित्रैर्बांधवैरपरैरपि ॥
द्वारकाया विनिष्क्रम्य सांबोऽपि द्विजसत्तमाः ॥ ९६ ॥
संप्राप्तश्च क्रमेणाथ सिंधुसागरसंगमे ॥
यत्र योगीश्वरः साक्षादंबरीषप्रतिष्ठितः ॥ ९७ ॥
अद्यापि तिष्ठते विष्णुर्जंतूनां पापनाशनः ॥
तत्र स्नात्वा समभ्यर्च्य देवं योगीश्वरं ततः ॥ ९८ ॥
ददौ दानानि विप्रेभ्यो नानारूपाणि शक्तितः ॥
दीनांधकृपणेभ्यश्च तथैवान्येभ्य एव च ॥ ९९ ॥
यानानि वस्त्ररत्नानि यद्यच्च येन वांछितम् ॥
स त्रिरात्रं हरेः पुत्रः स्थित्वा तत्र समाहितः ॥ ६.२१३.१०० ॥
च्यवनस्याश्रमं पुण्यं जगामाथ ततः परम् ॥
यत्र संतिष्ठते विष्णुश्च्यवनेन प्रतिष्ठितः ॥ १ ॥
सिंधोस्तटे च पुण्ये च सर्वपातकनाशनः ॥
तत्रापि विप्रमुख्येभ्यो ददौ दानानि यादवः ॥ २
वांछितानि यथोक्तानि शास्त्रदृष्टेन कर्मणा ॥
तत्रापि संयतः सांब स स्थित्वा श्रद्धयान्वितः ॥ ३ ॥
त्रिरात्रं प्रजगामाथ स्नात्वा सिंधूदके शुभे ॥
ततस्तु पुष्करादीनि समुद्दिश्य शनैः शनैः ॥ ४ ॥
पुष्करावासिनं देवं ध्यायमानो ह्यहर्निशम् ॥
तस्तु पुष्करं प्राप्य क्रमेण यदुसत्तमः ॥५॥
पुण्ये कुण्डजले स्नातः संतर्प्य पितृदेवताः॥
सप्तम्यां सूर्यवारेण गृहीत्वाथ फलानि च ॥
गतः संतिष्ठते यत्र देवो वै विष्णु सूचितः ॥ ६॥
पूजयित्वा ततो भक्त्या देवं कुहरवासिनम् ॥
वस्त्रानुलेपनैर्धूपैर्नैवेद्यैस्तु पृथग्विधैः ॥७॥
ततः प्रदक्षिणाश्चक्रे फलहस्तः शनैःशनैः ॥
प्रपठन्सूर्यगायत्रीं श्रद्धया परया युतः ॥ ८ ॥
यथायथा करोत्येष रवेस्तस्य प्रदक्षिणाम् ॥
तथातथा च संयाति तस्य कुष्ठं द्विजोत्तमाः ॥ ९ ॥
तत्र क्षणेऽभवत्तस्य चित्ते सांबस्य धीमतः ॥
मुक्तोऽहं कुष्ठरोगेण निर्विकल्पं द्विजोत्तमाः ॥ ६.२१३.११० ॥
ततश्च सहितं तेन यत्किंचित्तत्र चागतम् ॥
हस्त्यश्वरथरत्नाढ्यं तत्सर्वं भक्तिपूर्वकम् ॥ ११ ॥
नागराणां ददौ सर्वं तथान्यद्ग्रामपंचकम् ॥
सांबाऽऽदित्यं प्रतिष्ठाप्य ततः संप्रस्थितो गृहम् ॥ १२ ॥
किंचिदुर्वरितं यच्च तत्सर्वं भक्तिसंयुतम् ॥
प्रददौ सूर्यविप्रेभ्यः पूजयित्वा दिवाकरम् ॥ १३ ॥
अष्टौ वाजिसहस्राणि नागानां च शतत्रयम् ॥
रथानां षट्शतान्येव अश्वैर्युक्तानि वाजिभिः ॥
अनंतानि च रत्नानि दत्त्वा सांबो गृहं गतः ॥ १४
य एतत्पठते भक्त्या सांबाख्यानमनुत्तमम् ॥
शृणोति वाऽन्वये तस्य न कुष्ठं संप्रजायते ॥ १५ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं विश्वामित्रीयमुत्तमम् ॥
चतुर्थं च पुण्यतीर्थं स्त्रीणां चैव शुभावहम् ॥ ११६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रीयमाहात्म्ये कुहरवासिसांबादित्यप्रभाववर्णनंनाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥ २१३ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 214
॥ सूत उवाच ॥ ॥
तथान्योपि च तत्रास्ति विश्वामित्रप्रतिष्ठितः ॥
गणनाथो द्विजश्रेष्ठाः सर्वसिद्धिप्रदो नृणाम् ॥ १ ॥
माघमासे चतुर्थ्यां च शुक्लायां पूजयेत्तु यः ॥
स च संवत्सरं यावत्सर्वै विघ्नैर्विमुच्यते ओ। २ ॥
॥ ऋषय ऊचुः ॥ ॥
गणनाथस्य चोत्पत्तिं सांप्रतं सूत नो वद ॥
कथमेष समुत्पन्नः किं माहात्म्यः प्रकीर्तितः ॥ ३ ॥ ॥
॥सूत उवाच ॥ ॥
एष चोत्पादितो गौर्या निजांगमलतः स्वयम् ॥
क्रीडार्थं मानुषैरंगैर्मातंगाननशोभितः ॥४॥
चतुर्हस्तसमोपेत आखुवाहनगस्तथा ॥
कुठारहस्तश्च तथा मोदकाशनतोषकृत् ॥ ५ ॥
सर्वसिद्धिप्रदो लोके भक्तानां च विशेषतः ॥
एष पूर्वं प्रभोः कार्ये संग्रामे तारकामये ॥६॥।
संग्राममकरोद्रौद्रं न कृतं यच्च केनचित् ॥
निहता दानवाः सर्वे संख्यया परिवर्जिताः ॥ ७ ॥
ततः शक्रेण तुष्टेन प्रोक्तः संग्रामभूमिपः ॥
क्षत विक्षतसर्वांगो रुधिरेण परिप्लुतः ॥ ८ ॥
अस्मदर्थे त्वया युद्धं यत्कृतं सुगजानन ॥
निहता दानवाः सर्वे संख्यया परिवर्जिताः ॥९॥
तस्मात्त्वं सर्वदेवानामपि पूज्यो भविष्यसि ॥
किंपुनर्मानुषाणां च ये नित्यं विघ्नसंप्लुताः ॥ ६.२१४.१० ॥
ये त्वां संपूजयिष्यंति कार्यारंभेषु सर्वतः ॥
कार्यसिद्धिर्न संदेहस्तेषां भूयाद्गिरा मम ॥ ११ ॥
एवमुक्त्वा सहस्राक्षो विससर्जाथ तं तदा ॥
संमान्य बहुमानेन गौरीशंकरपार्श्वतः ॥ १२ ॥
अयमर्थः पुरा पृष्टो रोहिताश्वेन धीमता ॥
सर्वविप्रविनाशार्थं मार्कंडेयं महामुनिम् ॥ १३ ॥
तमेवार्थं महाभागाः कथयिष्ये यथार्थतः ॥
तच्छृणुध्वं पुरावृत्तं सर्वं सर्वे समाहिताः ॥ १४ ॥
॥ रोहिताश्व उवाच ॥ ॥
भगवन्नत्र ये मर्त्याः सर्वे विघ्नसमन्विताः ॥
शुभकृत्येषु सर्वेषु जायंते शुचयोऽपि च ॥ ॥ १५ ॥
प्रारब्धेषु च कार्येषु धर्मजेषु विशेषतः ॥
तानि विघ्नानि जायन्ते यैस्तत्कार्यं न सिध्यति ॥ १६ ॥
तस्माद्विघ्नविनाशाय किंचिन्मे व्रतमा दिश ॥
व्रतं वा नियमो वाऽथ तपो वा दानमेव च ॥ १७ ॥
सकृच्चीर्णेन येनात्र यावज्जीवति मानवः ॥
तावन्न जायते विघ्नमाजन्ममरणांतिकम् ॥ ॥ १८ ॥
॥ मार्कण्डेय उवाच ॥ ॥
अत्र ते कीर्तयिष्यामि सर्वविघ्नविनाशनम् ॥
व्रतं सर्वगुणोपेतं सर्वपापप्रणाशनम् ॥
विश्वामित्रेण सञ्चीर्णं यत्पुरा भावितात्मना ॥ १९ ॥
विश्वामित्र इति ख्यातो गाधिपुत्रः प्रतापवान् ॥
वसिष्ठेन समं तस्य वैरमासीन्महात्मनः ॥ ६.२१४.२० ॥
ब्राह्मण्यार्थे न सम्प्रोक्तः कथंचित्स महातपाः ॥
ब्राह्मणस्त्वं वसिष्ठेन ततो वैरमजायत ॥ २१ ॥
॥ रोहिताश्व उवाच ॥ ॥
कस्मान्न प्रोक्तवान्विप्रो वसिष्ठस्तु कथंचन ॥
ब्राह्मणः स परं प्रोक्तोब्रह्मादिभिरपि स्वयम्॥ २२ ॥
॥ मार्कण्डेय उवाच ॥ ॥
क्षत्रियश्च स्थितः पूर्वं विश्वामित्रो महीपतिः ॥
मृगयासु परिभ्रांतो वसिष्ठस्य तदाऽऽश्रमम्॥
प्रविष्टः क्षुत्पिपासार्त्तः स तेनाथ प्रपूजितः ॥ २३ ॥
तस्यासीन्नन्दिनीनाम धेनुः कामदुघा सदा ॥
सा सूते वाञ्छितं सद्यो यद्वसिष्ठोऽभिवाञ्छति ॥ २४ ॥
तत्प्रभावात्स भूपालः सभृत्यबलवाहनः ॥
तेन तृप्तिपरा नीतो मिष्टान्नैर्विविधैस्ततः ॥ ॥ २५ ॥
पार्थिवोऽयमिति ज्ञात्वा ह्यर्घ्याद्यैर्भोजनैः स च ॥
सोऽपि दृष्ट्वा प्रभावं तं सर्वं धेनोश्च संभवम् ॥
प्रार्थयामास तां मूल्यैर्गजवाजिसमु द्भवैः ॥ २६ ॥
न ददौ स तदा विप्रः साम्ना दानेन वा पुनः ॥
भेदेन च ततो दण्डं योजयामास वै नृपः ॥ २७ ॥
कालयामास तां धेनुं ततः कोपात्स पार्थिवः ॥ २८ ॥
साऽब्रवीन्नीयमानाऽथ वसिष्ठं किं त्वया विभो ॥
दत्ताहमस्य नृपतेर्यन्मां नयति यत्नतः ॥ २९ ॥
॥ वसिष्ठ उवाच ॥ ॥
न मया त्वं महाभागे दत्ता चास्य महीपतेः ॥
बलान्नयति यद्येष तस्माद्युक्तं समाचर ॥ ६.२१४.३० ॥
तच्छ्रुत्वा कोपसंयुक्ता नन्दिनी धेनुरुत्तमा ॥
जृंभां चकार तत्सैन्यं समुद्दिश्य नृपोद्भवम् ॥ ३१ ॥
धूमावर्तिस्ततो जाता तस्या वक्त्रात्ततः परम् ॥
ततो ज्वाला महारौद्रास्ततो योधाः सहस्रशः ॥ ३२ ॥
नानाशस्त्रधरा रौद्रा यमदूता यथा च ते ॥
पुलिन्दा बर्बराभीराः किराता यवनाः शकाः ॥ ॥ ३३ ॥
ते प्रोचुस्तां वदास्माकं कस्मात्सृष्टा वयं शुभे ॥ ३४ ॥
॥ नन्दिन्युवाच ॥ ॥
एते मां ये बलात्पापा नयंति नृपसेवकाः ॥
तान्निघ्नन्तु समादेशान्नान्यद्वांछामि किंचन ॥ ३५ ॥
ततस्तैस्तस्य तत्सैन्यं विश्वामित्रस्य सूदितम् ॥
युध्यमानं महाराज दशरात्रेण संयुगे ॥ ३६ ॥
विश्वामित्रोऽपि तद्दृष्ट्वा ब्राह्म्यं बलमनुत्तमम् ॥
प्रतिज्ञामकरोत्तत्र तारेण सुस्वरेण च ॥ ३७ ॥
अथाहं संभविष्यामि ब्राह्मणो नात्र संशयः ॥
ममापि जायते येन प्रभावश्चेदृशोऽद्भुतः ॥ ३८ ॥
तस्मात्तपः करिष्यामि यदसाध्यं सुरैरपि ॥
स्वपुत्रं स्वे पदे धृत्वा ततश्चक्रे तपो महत् ॥ ३९ ॥
ब्राह्मण्यार्थं महारौद्रं सुमहद्दुष्करं तपः ॥
ब्राह्मण्यं तेन नैवाप्तं वैलक्ष्यं परमं गतः ॥ ६.२१४.४० ॥
ततः कैलासमासाद्य देवदेवं महेश्वरम् ॥
सम्यगाराधयामास गौरीयुक्तं महेश्वरम् ॥ ४१ ॥
अहं तपः करिष्यामि ब्राह्मण्यस्य कृते प्रभो ॥
त्वदीये पर्वतश्रेष्ठे कैलासे शरणं गतः ॥ ४२ ॥
तस्माद्विघ्नस्य मे रक्षां देवदेवः प्रयच्छतु ॥
यथा नो नाशमायाति तपः सर्वं कृतं महत् ॥ ४३ ॥
॥ श्रीभगवानुवाच ॥ ॥
शुद्ध्यर्थं चैव यत्कार्यं कार्येस्मिन्नृपसत्तम ॥
विनायकसमुद्भूतां तत्त्वं पूजां समाचर ॥ ४४ ॥
येन ते जायते सिद्धिः सम्यग्ब्राह्मण्यसंभवा॥ ४५ ॥ ॥
॥ विश्वामित्र उवाच ॥ ॥
तद्वदस्व सुरश्रेष्ठ तथा तस्य करोम्यहम् ॥
पूर्वं पूजां गणेशस्य सर्वविघ्नप्रशान्तये ॥ ४६ ॥
॥ श्रीभगवानुवाच ॥ ॥
एष गौर्या पुरा कृत्वा निजांगोद्वर्तनं कृतः ॥
निर्मलेन कृतः पश्चान्नराकारश्चतुर्भुजः ॥ ४७ ॥
क्रीडार्थं मम पुत्रोऽयं बालभावः प्रकल्पितः ॥
गजवक्त्रो महाकायो लंबोदरलघूरुकः ॥ ४- ॥
ततोऽहमनया प्रोक्तः सजीवः क्रियतामयम् ॥
पुत्रको मे यथा भावी लोके पूज्य तमो विभो ॥ ४९ ॥
ततो मयापि संस्पृष्टः सृष्टिसूक्तेन पार्थिव ॥
जीवसूक्तेन सम्यक्स प्राणवान्समजायत ॥ ६.२१४.५० ॥
ततो मया प्रहृष्टेन प्रोक्ता देवी हिमाद्रिजा ॥
चतुर्थीदिवसे प्राप्ते मयाऽद्यायं विनिर्मितः ॥ ५१ ॥
पुत्रस्तव महाभागे जीवसूक्तप्रभावतः ॥
एष सर्वागणानां च मदीयानां सुरेश्वरि ॥
भविष्यति सदाऽध्यक्ष स्तस्माच्च गणनायकः ॥ ५२ ॥
पठ्यमानेन यश्चैनं जीवसूक्तेन सुन्दरि ॥
पूजयिष्यति सद्भक्त्या चतुर्थीदिवसे शुभे ॥ ५३ ॥
तस्य सर्वेषु कृत्येषु सर्वविघ्रानि कृत्स्नशः ॥
प्रयास्यंति क्षयं देवि तमः सूर्योदये यथा ॥ ५४ ॥
नमो लंबोदरायेति नमो गणविभो तथा ॥
कुठारधारिणे नित्यं तथा वाक्संगताय च ॥ ५५ ॥
नमो मोदकभक्षाय नमो दन्तैकधारिणे ॥ ५६ ॥
एभिर्मन्त्रैः समभ्यर्च्य पश्चान्मोद कजंशुभम् ॥
नैवेद्यं च प्रदातव्यं ततश्चार्घ्यं निवेदयेत् ॥ ५७ [।
अहं कर्म करिष्यामि यत्किचिच्छंभुसंभवम् ॥
अविघ्नं तत्र कर्तव्यं सर्वदैव त्वया विभो ॥ ५८ ॥
ततस्तु ब्राह्मणानां च भोजनं मोदकोद्भवम् ॥
यथाशक्त्या प्रदातव्यं वित्तशाठ्यं विवर्जयेत् ॥ ५९ ॥
एवमुक्तं मया पूर्वं स्वयमेव नृपोत्तम ॥
गणनाथं समुद्दिश्य गौर्याः पुरत एव च ॥ ६.२१४.६० ॥
ततः प्रहृष्टा सा देवी वाक्यमेतदुवाच ह ॥
अद्यप्रभृति यः पुत्रं मदीयं गणनाय कम् ॥ ६१ ॥
अनेन विधिना सम्यक्चतुर्थ्यां पूजयिष्यति ॥
तस्य विघ्नानि सर्वाणि नाशं यास्यंत्यसंशयम् ॥ ६२ ॥
स्मृत्वा वा पूजयित्वा वा यः कार्याणि करिष्यति ॥
भविष्यंति न संदेहस्ततोस्याविचलानि च ॥ ६३ ॥
न सन्देहस्ततोऽस्य श्रीरचलैव भविष्यति ॥ ६४ ॥
॥ श्रीभगवानुवाच ॥ ॥
तस्मात्त्वं हि महाभाग चतुर्थ्यां सम्यगाचर ॥
विनायकोद्भवां पूजां येनाभीष्टेन युज्यसे ॥ ६५ ॥
॥ मार्कण्डेय उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा विश्वामित्रो महीपतिः ॥
गणनाथसमुद्भूतां पूजां कृत्वा यथोचिताम् ॥ ६६ ॥
तपश्चचार विपुलं सर्वविघ्नविवर्जितम् ॥
ब्राह्मण्यं च ततः प्राप्तं सर्वेषामपि दुर्लभम् ओ। ६७ ॥
तस्मात्त्वं हि महाभाग विनायकसमुद्भवाम् ॥
पूजां कुरु चतुर्थ्यां च संप्राप्तायां विशेषतः ॥
संप्राप्नोषि महाभोगान्हृदिस्थान्नात्र संशयः ॥ ६८ ॥
यो यं काममभिध्याय गणनाथं प्रपूजयेत् ॥
स तं सर्वमवाप्नोति महेश्वरवचो यथा ॥ ६९ ॥
अपुत्रो लभते पुत्रं धनहीनो महद्धनम् ॥
शत्रूञ्जयति संग्रामे स्मृत्वा तं गणनायकम् ॥ ६.२१४.७० ॥
या नारी पतिना त्यक्ता दुर्भगा च विरूपिता ॥
सा सौभाग्यमवाप्नोति गणनाथस्य पूजया ॥ ७१ ॥
य इदं पठते नित्यं शृणुयाद्वा समाहितः ॥
न विघ्नं जायते तस्य सर्वकृत्येषु सर्वदा ॥ ७२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रोपाख्यानप्रसंगेन गणपतिपूजाविधिमाहात्म्यवर्णनंनाम चतुर्दशोत्तरद्विशततमोऽध्यायः ॥ २१४ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 215
॥ ऋषय ऊचुः ॥ ॥
सांप्रतं वद नः सूत श्राद्धकल्पस्य यो विधिः ॥
विस्तरेण महाभाग यथा तच्चाक्षयं भवेत् ॥ १ ॥
कस्मिन्काले प्रकर्तव्यं श्राद्धं पितृपरायणैः ॥
कीदृशैर्ब्राह्मणैस्तच्च तथा द्रव्यैर्महामते ॥ २ ॥
॥ सूत उवाच ॥ ॥
एतदर्थं पुरा पृष्टो मार्कंडेयो महामुनिः ॥
रोहिताश्वेन विप्रेंद्रा हरिश्चन्द्र सुतेन सः॥३ ॥
हरिश्चन्द्रे गते स्वर्गं रोहिताश्वे नृपे स्थिते ॥
तीर्थयात्राप्रसंगेन मार्कण्डो मुनिसत्तमः ॥ ४ ॥
सरय्वाः संगमे पुण्ये स्नानार्थं समुपस्थितः ॥
तत्र स्नात्वा पितॄन्देवान्संतर्प्य विधिपूर्वकम्॥ ५ ॥
प्रविष्टस्तां पुरीं रम्यामयोध्यां सत्यनामिकाम् ॥
रोहिताश्वोऽपि तं श्रुत्वा समायातं मुनीश्वरम्॥
पदातिः प्रययौ तूर्णं दूरदेशं तु सम्मुखम्॥ ६ ॥
ततः प्रणम्य तं मूर्ध्ना कृतांजलिपुटः स्थितः ॥
प्रोवाच मधुरं वाक्यं विनयेन समन्वि तः ॥ ७ ॥
स्वागतं ते मुनिश्रेष्ठ भूयः सुस्वागतं मुने ॥
धन्योऽहं कृतपुण्योऽहं संप्राप्तः परमां गतिम् ॥
यत्ते पादरजोभिर्मे मूर्द्धजा विमलीकृताः ॥ ॥ ८॥
एवमुक्त्वा गृहीत्वा तं स्वहस्तालंबनं तदा ॥
ययौ तत्र सभास्थानं बृहत्सिंहासनाश्रयम् ॥ ९ ॥
सिंहासने निवेश्याथ तं मुनिं पार्थिवोत्तमः ॥
उपविष्टो धरापृष्ठे कृतांजलिपुटः स्थितः ॥ ६.२१५.१० ॥
ततः प्रोवाच मधुरं विनयावनतः स्थितः ॥
निःस्पृहस्यापि विप्रेंद्र कि वाऽऽगमनकारणम् ॥ ॥ ११ ॥
तद्ब्रवीहि यथातथ्यं करोमि तव सांप्रतम् ॥
अदेयमपि दास्यामि गृहायातस्य ते विभो ॥ १२ ॥
मार्कंडेय उवाच ॥ ॥
तीर्थयात्राप्रसंगेन वयमत्र समागताः ॥
सरय्वाः संगमे पुण्ये कल्ये यास्याम्यहे पुनः ॥ १३ ॥
निःस्पृहैरपि द्रष्टव्या धर्मवन्तो द्विजोत्तमाः ॥
ततः प्रोक्तं पुराण ज्ञैर्ब्राह्मणैः शास्त्रदृष्टिभिः ॥ १४ ॥
धर्मवन्तं नृपं दृष्ट्वा लिंगं स्वायंभुवं तथा ॥
नदीं सागरगां चैव मुच्येत्पापाद्दिनोद्भवात् ॥ १५
एवमुक्त्वा ततश्चक्रे पृच्छां स मुनिसत्तमः ॥
तं दृष्ट्वा नृपशार्दूलं पुरःस्थं विनयान्वितम् ॥ १६ ॥
कच्चित्ते सफला वेदाः कच्चित्ते सफलं श्रुतम् ॥
कच्चित्ते सफला दाराः कच्चित्ते सफलं धनम्॥ १७ ॥
॥ रोहिताश्व उवाच ॥ ॥
कथं स्युः सफला वेदाः कथं स्यात्सफलं श्रुतम् ॥
कथं स्युः सफला दाराः कथं स्यात्सफलं धनम् ॥ १८ ॥
॥ मार्कंडेय उवाच ॥ ॥
अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् ॥
रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ १९ ॥
एवं ज्ञात्वा महाराज नान्यथा कर्तुमर्हसि ॥ ६.२१५.२० ॥
चत्वार्येतानि कृत्यानि मयोक्तानि च तानि ते ॥
यथा तानि प्रकृत्यानि लोकद्वयमभीप्सता ॥ २१ ॥
एवमुक्त्वा ततश्चक्रे कथाश्चित्राश्च तत्पुरः ॥
राजर्षीणां पुराणानां देवर्षीणां विशेषतः ॥ २२ ॥
ततः कथावसाने च कस्मिंश्चिद्द्विजसत्तमाः ॥
पप्रच्छ तं मुनिश्रेष्ठं रोहिताश्वो महीपतिः ॥ २३ ॥
भगवञ्छ्रोतुमिच्छामि श्राद्धकल्पमहं यतः ॥
दृश्यंते बहवो भेदा द्विजानां श्राद्धकर्मणि ॥ २४ ॥ ॥
॥ मार्कंडेय उवाच ॥ ॥
सत्यमेतन्महाभाग यत्पृष्टोऽस्मि नृपोत्तम ॥
श्राद्धस्य बहवो भेदाः शाखाभेदैर्व्यवस्थिताः॥ २५ ॥
तस्मात्ते निर्णयं वच्मि भर्तृयज्ञेन यत्पुरा ॥
आनर्त्ताधिपतेः प्रोक्तं सम्यक्छ्राद्धस्य लक्षणम् ॥ २६ ॥
भर्तृयज्ञं सुखासीनं निजाश्रमपदे नृपः ॥
आनर्ताधिपतिर्गत्वा प्रणिपत्य ततोऽब्रवीत् ॥ २७ ॥
॥ आनर्त उवाच ॥ ॥
सांप्रतं वद मे ब्रह्मञ्छ्राद्धकल्पं पित्रीप्सितम् ॥
येन मे तुष्टिमायांति पितरः श्राद्धतर्पिताः ॥ २८ ॥
कः कालो विहितः श्राद्धे कानि द्रव्याणि मे वद ॥
श्राद्धार्हाणि तथान्यानि मेध्यानि द्वि जसत्तम ॥
यानि योज्यानि वांछद्भिः पितृणां तृप्तिमुत्तमाम् ॥ २९ ॥
कीदृशा ब्राह्मणा ब्रह्मञ्छ्राद्धार्हाः परिकीर्तिताः ॥
कीदृशा वर्जनीयाश्च सर्वं मे विस्तराद्वद ॥ ६.२१५.३० ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
अहं ते कीर्तयिष्यामि श्राद्धकल्पमनुत्तमम् ॥
यं श्रुत्वाऽपि महाराज लभेच्छ्राद्धफलं नरः ॥ ॥ ३१ ॥
श्राद्धमिदुक्षयेऽवश्यं सदा कार्यं विपश्चिता ॥
यदि ज्येष्ठतमः सर्गः सन्तानं च तथा नृप ॥ ३२ ॥
शीतार्ता यद्वदिच्छंति वह्निं प्रावरणानि च ॥
पितरस्तद्वदिच्छंति क्षुत्सामाश्चन्द्रसंक्षयम् ॥ ३३ ॥
दरिद्रोपहता यद्वद्धनं वांछंति मानवाः ॥
पितरस्तद्वदिच्छंति क्षुत्क्षामाश्चन्द्रसं क्षयम् ॥ ३४ ॥
यथा वृष्टिं प्रवांछन्ति कर्षुकाः सस्यवृद्धये ॥
तथात्मप्रीतये तेऽपि प्रवांछन्तींदुसंक्षयम् ॥ ३५ ॥
यथोषश्चक्रवाक्यश्च वांछन्ति रवि दर्शनम् ॥
पितरस्तद्वदिच्छंति श्राद्धं दर्शसमुद्भवम् ॥ ३६ ॥
जलेनापि च यः श्राद्धं शाकेनापि करोति वाः ॥
दर्शस्य पितरस्तृप्तिं यांति पापं प्रण श्यति । ३७ ॥
अमावास्यादिने प्राप्ते गृहद्वारं समाश्रिता॥
वायुभूताः प्रवांछन्ति श्राद्धं पितृगणा नृणाम् ॥
यावदस्तमयं भानोः क्षुत्पिपासास माकुलाः ॥ ३८ ॥
ततश्चास्तं गते भानौ निराशा दुःखसंयुताः ॥
निःश्वस्य सुचिरं यांति गर्हयंति स्ववंशजम् ॥ ३९ ॥
॥ आनर्त उवाच ॥ ॥
किमर्थं क्रियते श्राद्धममावास्यादिने द्विज ॥
विशेषेण ममाचक्ष्य विस्तरेण यथातथम् ॥ ६.२१५.४० ॥
मृताश्च पुरुषा विप्र स्वकर्मजनितां गतिम् ॥
गच्छन्ति ते कथं तस्य सुतस्याश्रयमाययुः ॥ ४१ ॥
एष नः संशयो विप्र सुमहान्हृदि संस्थितः ॥ ४२ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
सत्यमेतन्महाभाग यत्त्वया व्याहृतं वचः ॥
स्वकर्मार्हां गतिं यांति मृताः सर्वत्र मानवाः ॥ ४३ ॥
परं यथा समायांति वंशजस्याश्रयं प्रति ॥
तथा तेऽहं प्रव क्ष्यामि न तथा संशयो भवेत् ॥ ४४ ॥
मृता यांति तथा राजन्येऽत्र केचिन्महीतले ॥
ते जायंते न मर्त्येऽत्र यावद्वंशस्य संस्थितिः ॥ ४५ ॥
परं शुभात्मका ये च ते तिष्ठंति सुरालये ॥
पापात्मानो नरा ये च वैवस्वतनिवासिनः ॥ ४६ ॥
अन्यदेहं समाश्रित्य भुंजानाः कर्मणः फलम् ॥
शुभं वा यदि वा पापं स्वयं विहितमात्मनः ॥ ४७ ॥
यमलोके स्थितानां हि स्वर्गस्थानामपि क्षुधा ॥
पिपासा च तथा राजंस्तेषां संजायतेऽधिका ॥ ४८ ॥
यावन्नरत्रयं राजन्मातृतः पितृतस्तथा ॥
तेषां च परतो ये च ते स्वकर्म शुभाशुभम् ॥
भुंजते क्षुत्पिपासा च न तेषां जायते क्व् चित् ॥ ४९ ॥
तत्रापि पतनं तस्मात्स्थानाद्भवति भूमिप ॥
वंशोच्छेदान्पुनः सर्वे निपतंति महीतले ॥
त्रुटद्रज्जुनिबद्धं हि भांडं यद्वन्निराश्रयम् ॥ ॥ ६.२१५.५० ॥
एतस्मात्कारणाद्यत्नः सन्तानाय विचक्षणैः ॥
प्रकर्तव्यो मनुष्येंद्र वंशस्य स्थितये सदा ॥ ५१ ॥
अपि द्वादशधा राजन्नौरसादिसमु द्भवाः ॥
तेषामेकतमोऽप्यत्र न दैवाज्जायते सुतः ॥ ५२ ।।
पितॄणां गुप्तये तेन स्थाप्योऽश्वत्थः समाधिना ॥
पुत्रवत्परिपाल्यश्च निर्विशेषं नराधिप॥ ॥ ५३ ॥
यावत्संधारयेद्भूमिस्तमश्वत्थं नराधिप ॥
कृतोद्वाहं समं शम्या तावद्वंशोऽपि तिष्ठति ॥ ५४ ॥
अश्वत्थजनका मर्त्या निपत्य जगती तले ॥
पापामुक्ताः समायांति योनिं श्रेष्ठां शुभान्विताः ॥ ५५ ॥
एतस्मात्कारणादन्नं नित्यं देयं तथोदकम् ॥
समुद्दिश्य पितॄन्राजन्यतस्ते तन्मयाः स्मृताः ॥ ५६ ॥
अदत्त्वा सलिलं सस्यं पितॄणां यो नराधिप ॥
स्वयमश्नाति वा तोयं पिवेत्स स्यात्पितृद्रुहः ॥
स्वर्गेऽपि च न ते तोयं लभंते नान्नमेव च ॥ ५७ ॥
न दत्तं वंशजैर्मर्त्यैश्चेद्व्यथां यांति दारुणाम् ॥
क्षुत्पिपासासमुद्भूतां तस्मात्संतर्पयेत्पितॄन् ॥ ॥ ५८ ॥
नित्यं शक्त्या नरो राजन्पयोऽन्नैश्च पृथग्विधैः ॥
तथान्यैर्वस्त्रनैवेद्यैः पुष्पगन्धानुलेपनैः ॥ ५९ ॥
पितृमेधादिभिः पुण्यैः श्राद्धैरुच्चावचैरपि ॥
तर्पितास्ते प्रयच्छंति कामानिष्टान्हृदि स्थितान् ॥
त्रिवर्गं च महाराज पितरः श्राद्धतर्पिताः ॥ ॥ ६.२१५.६० ॥
तर्पयंति न ये पापाः स्वपितॄन्नित्यशो नृप ॥
पशवस्ते सदा ज्ञेया द्विपदाः शृंगवर्जिताः ॥ ६१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धावश्यकताकारणवर्णनंनाम पञ्चदशोत्तरद्विशततमो ऽध्यायः ॥ २१५ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 216
॥ आनर्त उवाच ॥ ॥
अन्येऽपि विविधाः कालाः सन्ति पुण्यतमा द्विज ॥
कस्माच्चेंदुक्षये श्राद्धं विशेषा त्समुदाहृतम्॥ १ ॥
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ॥ २ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
सत्यमेतन्महाराज श्राद्धार्हाः संति भूरिशः ॥
कालाः पितृगणानां च तृप्तिदास्तुष्टिदाश्च ये ॥ ३ ॥
मन्वाद्या वा युगाद्याश्च तेषां संक्रांतयोऽपराः ॥
व्यतीपातो गजच्छाया ग्रहणं सोम सूर्ययोः ॥ ४ ॥
एतेषु युज्यते श्राद्धं प्रकर्तुं पितृतृप्तये ॥
तथा तीर्थे विशेषेण पुण्य आयतने शुभे ॥ ५ ॥
श्राद्धार्हैर्ब्राह्मणैः प्राप्तैर्द्रव्यैर्वा पितृवल्लभैः ॥
अपर्वण्यपि कर्तव्यं सदा श्राद्धं विचक्षणैः ॥ ६ ॥
सोमक्षये विशेषेण शृणुष्वैकमना नृप ॥
अमा नाम रवे रश्मिसहस्रप्रमुखः स्थितः ॥ ७ ॥
यस्य स्वतेजसा सूर्यः प्रोक्तस्त्रैलोक्यदीपकः ॥
तस्मिन्वसति येनेन्दुरमावस्या ततः स्मृता ॥ ८ ॥
अक्षया धर्मकृत्ये सा पितृकृत्ये विशेषतः ॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ॥ ९ ॥
रश्मिपा उपहूताश्च तथैवायंतुनाः परे ॥
तथा श्राद्धभुजश्चान्ये स्मृता नान्दीमुखा नृप ॥ ६.२१६.१० ॥
एते पितृगणाः ख्याता नव देवसमुद्भवाः ॥
आदित्या वसवो रुद्रा नासत्यावश्विनावपि ॥ ११ ॥
सन्तर्पयन्ति ते चैतान्मुक्त्वा नान्दीमुखान्पितॄन् ॥
ब्रह्मणा ते समादिष्टाः पितरो नृपसत्तम ॥ १२ ॥
तान्संतर्प्य ततः सृष्टिं कुरुते पद्मसंभवः ॥ ॥ १३ ॥
पितरो अन्येऽपि मर्त्या निवसन्ति त्रिविष्टपे ॥
द्विविधास्ते प्रदृश्यंते सुखिनोऽसुखिनः परे ॥ १४ ॥
येभ्यः श्राद्धानि यच्छंति मर्त्य लोके स्ववंशजाः ॥
ते सर्वे तत्र संहृष्टा देववन्मुदिताः स्थिताः ॥ १५ ॥
येषां यच्छन्ति ते नैव किंचित्किञ्चित्स्ववंशजाः ॥
क्षुत्पिपासाकुला स्ते च दृश्यन्ते बहुदुःखिताः ॥ १६ ॥
कस्यचित्त्वथ कालस्य पितरः सुरपूजिताः ॥
अग्निष्वात्तादयः सर्वे त्रिदशेन्द्रमुपस्थिताः ॥ १७ ॥
भक्त्या दृष्टा महाराज सहस्राक्षेण पूजिताः ॥
तथान्यैर्विबुधैः सर्वैः प्रस्थिताः स्वे निकेतने ॥ १८ ॥
पितृलोकं महाराज दुर्लभं त्रिदशैरपि ॥
तान्दृष्ट्वा प्रस्थितान्राजन्पितरो मर्त्यसंभवाः ॥ १९ ॥
क्षुत्पिपासार्दिता ये च त ऊचुर्दैन्यमाश्रिताः ॥
स्तुत्वाऽथ सुस्तवैर्दिव्यैः पितृसूक्तैश्च पार्थिव ॥ ॥ ६.२१६.२० ॥
वेदोक्तैरपरैश्चैव पितृतुष्टिकरैः परैः ॥
ततः प्रोचुश्च संहृष्टाः पितरस्तान्सुरोद्भवाः ॥ २१ ॥
प्रसन्नाः स्मो वयं सर्वे युष्माकं शंसितव्रताः ॥
तस्माद्ब्रूत वयं येन यच्छामो वो हृदि स्थितम् ॥ २२ ॥
॥ पितर ऊचुः ॥ ॥
वयं हि पितरः ख्याता मनुष्याणामिहागताः ॥
स्वर्गे स्वकर्मणा नित्यं निवसाम सुरैः सह ॥ २३ ॥
विमानेषु विचित्रेषु संस्थिताः सर्वतोदिशम् ॥
वांछितेषु च लोकेषु यामो ध्वजपताकिषु ॥ २४ ॥
हंसबर्हिण जुष्टेषु संसेव्येष्वप्सरोगणैः ॥
गन्धर्वैर्गीयमानाश्च स्तूयमानाश्च गुह्यकैः ॥ २५ ॥
परं सन्तिष्ठमानानामस्माकं त्रिदशैः सह ॥
अत्यर्थं जायते तीव्रा क्षुत्पिपासा सुदारुणा ॥ २६ ॥
यस्या मन्यामहे चित्ते वह्निमध्यगता वयम् ॥
भक्षयामः किमेतान्हि पक्षिणो विविधानपि ॥
हंसादीन्मधुरालापान्किं वा चाप्सरसां गणान् ॥ २७ ॥
यदि कश्चित्क्षुधाविष्टः कञ्चिदादाय पक्षिणम् ॥
गुप्तो गृह्णाति भक्षार्थं हन्तुं शक्तोऽपि सोऽपि न ॥ २८ ॥
अजराश्चामराश्चैव स्वर्गे ये स्वर्गगाः खगाः ॥
तथा मनोरमा वृक्षा नन्दनादि वनेषु च ॥ २९ ॥
फलिता ये प्रदृश्यंते प्राप्यांश्चापि मनोरमाः ॥
तत्फलानि वयं सर्वे गृह्णीमः पितरो यदि ॥ ६.२१६.३० ॥
न त्रुटंत्यपि यत्नेन समाकृष्टानि तान्यपि ॥
एतल्लेखापगातोयं तृषार्त्ता यदि यत्नतः ॥
प्रपिबामो न हस्तेषु तच्च तोयं पुनः स्पृशेत् ॥ ३१ ॥
भुंजानश्च न कोऽप्यत्र दृश्यतेऽत्र पिबन्नपि ॥
तस्मात्त्रिविष्टपावासो ह्यस्माकं घोरदारुणः ॥ ३२ ॥
एते सुरगणाः सर्वे ये चान्ये गुह्यकादयः ॥
दृश्यंतेऽत्र विमानस्था सर्वे संहृष्टमानसाः ॥ ३३ ॥
क्षुत्पिपासापरित्यक्ता नानाभोगसमाश्रयाः ॥
कदाचिच्च वयं सर्वे भवामस्तादृशा इव ॥ ३४ ॥
क्षुत्पिपासापरित्यक्ताः सतोषं परमं गताः ॥
तत्किं कारणमेतद्यत्क्षुत्पि पासा प्रजायते ॥ ३५ ॥
आकस्मिकी च बाधा नः कदाचिन्न प्रणश्यति ॥
तथा कुरुत भद्रं वो यथा तुष्टिः प्रजायते ॥ ३६ ॥
शाश्वती नो यथाऽन्येषां देवानां स्वर्गवासिनाम् ॥
यूयं हि पितरो यस्माद्देवानां भावितात्मनाम् ॥ ३७ ॥
वयं चैव मनुष्याणां तेन वः शरणं गताः ।। ॥
॥ पितर ऊचुः ॥ ॥
अस्माकमपि चैवैषा कष्टावस्था प्रजायते ॥ ३८ ॥
शक्राद्या विबुधा व्यग्राः श्राद्धं यच्छंति नो यदा ॥
ततश्चागत्य तान्सर्वे देवान्संप्रार्थयामहे ॥ ३९ ॥
ततस्तृप्तिं प्रगच्छामस्तैर्देवैस्तर्पिता वयम् ॥
युष्माकं वंशजा ये च प्रयच्छंति समाहिताः ॥ ६.२१६.४० ॥
कथं न तृप्तिमायातास्ते सर्वे तैः प्रतर्पिताः ॥
यत्र प्रमादिभिर्वंश्यैर्न तर्प्यंते कथंचन ॥ ४१ ॥
क्षुत्पिपासाकुलाः सर्वे ते तदा स्युर्न संशयः ॥
किं पुनर्नरकस्था ये धर्मराजनिवेशने ॥ ४२ ॥
एतद्धि कारणं प्रोक्तं युष्माकं च कथंचन ॥
क्षुत्पिपासोद्भवं रौद्रं युष्माभिर्यदुदीरितम् ॥ ४३ ॥
तदस्माकं विभागं चेद्यूयं यच्छत सत्तमाः ॥
सर्वे कव्यस्य दत्तस्य तत्कुर्मो वै हितं शुभम् ॥ ४४ ॥
ब्रह्माणं प्रार्थयित्वा च स्वयं गत्वा तदंतिकम्॥
बाढमित्येव तैरुक्ते तत आदाय तानपि ॥ ४५ ॥
दिव्याः पितृगणाः प्राप्ता विधेः सदनमुत्तमम् ॥
नांदीमुखान्पुरस्कृत्य पितॄन्यांस्तर्पयेद्विधिः ॥ ४६ ॥
सृष्टिकाले तु संप्राप्ते वृद्धिकामः सुरेश्वरः ॥
अथ तैः सह ते सर्वे स्तुत्वा तं कमलासनम् ॥
प्रणिपत्य स्थिताः सर्वे पितरो विनयान्विताः ॥ ४७ ॥
पितॄंस्तान्विनयोपेतान्प्रणिपातपुरःसरान् ॥
विधिः प्रोवाच राजेंद्र सांत्वयञ्श्लक्ष्णया गिरा ॥ ४८ ॥
॥ ब्रह्मोवाच ॥ ॥
किमर्थं पितरः सर्वे समायाता ममांतिकम् ॥
देवतानां मया सार्धं संपूज्याः सर्वदा स्थिताः ॥ ४९ ॥
तथान्येऽपि च दृश्यंते युष्माभिः सह संगताः ॥
य एते मानवा काराः स्वल्पतेजोन्विताः स्थिताः ॥ ६.२१६.५० ॥
॥ पितर ऊचुः ॥ ॥
पितरो मानवा ह्येते स्वर्गं प्राप्ताः स्वकर्मभिः ॥
देवानां मध्यसंस्थाश्च पीड्यंते क्षुत्पिपासया ॥ ५१ ॥
यदा यच्छंति नो वंश्याः कव्यं चैव प्रमादतः ॥
तदा गच्छंति नो तृप्तिं यानैर्यांति यथा सुराः ॥ ५२ ॥
तदैतैः प्रार्थनाऽस्माकं कृता शाश्वततृप्तये ॥
न च शक्ता वयं दातुं तेन त्वां समुपस्थिताः ॥ ५३ ॥
यथा स्युर्देवता व्यग्रास्तदाऽस्माकमपि प्रभो। ॥
कव्यं विना भवेदेषा दशा कष्टा सुरेश्वर ॥ ५४ ॥
तस्मात्कुरु प्रसादं नः समेमेतैः सुरेश्वर ॥
यथा स्याच्छाश्वती तृप्तिः स्वस्थानस्थायिनामपि॥ ॥ ५५ ॥
एतेऽस्माकं प्रदास्यंति कव्यं यन्निजवंशजैः ॥
प्रदत्तं तेन संप्राप्ता वयं देव त्वदन्तिकम् ॥ ५६ ॥
देवानां चैव यत्कव्यं तन्नास्माकं प्रतृ प्तये ॥
यतः क्रियाविहीनं तन्न तेषां विद्यते क्रिया ॥ ५७ ॥
पितॄनुद्दिश्य यत्कव्यं ब्राह्मणेभ्यः प्रदीयते ॥
स्नातैर्धौतांबरैर्मर्त्यैस्तद्भवेत्तृप्तिदं महत् ॥ ॥ ५८ ॥
पितॄणां सर्वदेवेश इत्येषा वैदिकी श्रुतिः ॥
न स्नातस्याधिकारोऽस्ति देवानां च द्विजातिवत् ॥ ५९ ॥
पीयूषमपि तैर्दत्तं तेन नः स्यान्न तृप्तये ॥ ६.२१६.६० ॥
तस्मान्मानुषदत्तैर्नो यथा कव्ये प्रजायते ॥
स्वर्गस्थानां परा तृप्तिः सममेतैस्तथा कुरु ॥ ६१ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
तच्छ्रुत्वा सुचिरं ध्यात्वा ब्रह्मा लोकपितामहः ॥
तानुवाच ततः सर्वान्पितॄन्पार्थिवसत्तम ॥६२॥
॥ ब्रह्मोवाच ॥ ॥
अस्मिंस्त्रेतायुगे संज्ञा हव्यकव्यसमुद्भवा॥
संप्रयाता युगे युग्मे कलौ न प्रभविष्यति ॥ ६३ ॥
यथायथा युगानां च ह्रास एष भविष्यति ॥
तथातथा जना दुष्टा भविष्यंत्यन्यभक्तिकाः ॥ ॥ ६४ ॥
न दास्यंति यथोक्तानि ते कव्यानि कथंचन ॥
ततः कष्टतराऽवस्था पितॄणां संभविष्यति ॥ ६५ ॥
तस्मादहं करिष्यामि सुखोपायं शरीरिणाम् ॥
येन सन्तर्पिता यूयं परां तृप्तिमवाप्स्यथ ॥ ६६ ॥
पितुः पितामहस्यैव तत्पितुश्च ततः परम्॥
समुद्देशेन दत्तेन ब्राह्मणेभ्यः प्रभक्तितः ॥ ६७ ॥
सर्वेषां स्यात्परा तृप्तिर्यावन्मां पितरोऽधुना ॥
तथा मातामहानां च पक्षे नास्त्यत्र संशयः ॥ ६८ ॥
त्रिभिः सन्तर्पितास्तेऽपि तर्पिताः स्युर्ममावधि ॥
युष्माकं तृप्तये यश्च सुखोपायो भविष्यति ॥ ६९ ॥
तं शृणुध्वं महाभागा गदतो मम सांप्रतम् ॥
पितॄनन्नेन येनैव समुद्दिश्य द्विजोत्तमान्॥ ६.२१६.७० ॥
तर्पयिष्यंति तेनैव पिण्डान्दास्यंति भक्तितः ॥
तन्नाम्ना तेन वस्तृप्तिः शाश्वती संभविष्यति ॥ ७१ ॥
तस्माद्गच्छत सन्तुष्टाः स्वानि स्थानानि पूर्वजाः ॥ ७२ ॥
ततस्ते सहितास्तैस्तु स्वानि स्थानानि भेजिरे ॥
विमानैः सूर्यसंकाशैर्गत्वा पार्थिवसत्तम ॥ ७३ ॥
अथ संगच्छता राजन्कालेन महता ततः ॥
तच्चापि न ददुः श्राद्धं मर्त्यास्त्रिपुरुषं च यत् ॥ ७४ ॥
नित्यं पितॄन्समुद्दिश्य बहवोऽत्र नराधिप ॥
कव्यभागान्पुनस्तेषां तथा पूर्वं यथा नृप ॥ ७५ ॥
क्षुत्पिपासोद्भवापीडा महती समजायत ॥
तेषां च दैविकानां च पितॄणां नृपसत्तम ॥ ७६ ॥
समेत्याथ पुनः सर्वे ब्रह्माणं शरणं गताः ॥
प्रोचुश्च प्रणिपत्योच्चैः सुदीनाः प्रपितामहम्॥ ७७ ॥
भगवन्न प्रयच्छंति नित्यं नो वंशसंभवाः ॥
श्राद्धानि दौःस्थ्यमापन्नास्तेन सीदामहे विभो ॥ ७८ ॥
यथा पूर्वं तथा देव तदुपायं प्रचिन्तय ॥
कंचिद्येन दरिद्रा वै प्रीणयंति च ते पितॄन् ॥७९॥
भर्तृयज्ञ उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा तानाह प्रपितामहः ॥
कृपाविष्टो महाराज सर्वान्पितृगणांस्तथा ॥ ६.२१६.८० ॥
सत्यमेतन्महाभागा दौःस्थ्यं यांति दिनेदिने ॥
जना यथायथा याति युगं श्रेष्ठं च पृष्ठतः ॥ ८१ ॥
तथापि च करिष्यामि युष्मदर्थमसंशयम् ॥
उपायं लघु सन्तृप्तिर्येन वोऽत्र भवि ष्यति ॥ ८२ ॥
अमानाम रवे रश्मिसहस्रप्रमुखः स्थितः ॥
तस्मिन्वसति येनेन्दुरमावास्या ततः स्मृता ॥ ८३ ॥
तस्मिन्नहनि ये श्राद्धं पितॄनुद्दिश्य चात्मनः ॥
करिष्यंति नरा भक्त्या ते भविष्यंति सुस्थिताः ।। ८४ ॥
धनधान्यसमोपेता सर्वशत्रुविवर्जिताः ॥
अपमृत्युपरित्यक्ता मम वाक्याद संशयम्॥ ८५ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा बभूवुर्हृष्टमानसाः ॥
पितरः कव्यमासाद्य प्रहष्टेनांतरात्मना ॥ ८६ ॥
ययुः स्वानि निकेतानि प्रेषिताः पद्मयोनिना ॥
अमावास्यादिनं प्राप्य श्राद्धं दत्तं स्ववंशजैः ॥ ८७ ॥
संतृप्ता मासमात्रं च तस्थुः संतुष्टमानसाः ॥
गच्छता त्वथकालेन दौःस्थ्यं प्राप्य नरा भुवि ॥
दर्शेऽस्मिन्नपि नो श्राद्धं प्रायः कुर्वंति केचन ।।८८॥
ततः पितृगणाः सर्वें ये दिव्या ये च मानुषाः॥
क्षुत्पिपासाकुला भूयो ब्रह्माणं शरणं गताः॥८९॥
प्रोचुश्च प्रणिपत्योच्चैस्ते समेताःपितामहम्॥
परमं दैन्यमास्थाय बाष्पगद्गदया गिरा ॥६.२१६.९॥।
भगवन्निंदुक्षये श्राद्धं प्रोक्तं मासं त्वया विभो॥
अस्माकं प्रीणनार्थाय यत्करिष्यंति मानवाः ॥९१॥
दौःस्थात्तदपि नो कुर्युः प्रायशस्तु पितामह ॥
तेनास्माकं परा पीडा क्षुत्पिपासासमुद्भवा॥९२॥
तस्मात्कुरु प्रसादं नो यथा पूर्वं सुरेश्वर॥
तथापि दुःस्थताभाजस्तर्पयिष्यंति नोऽधुना॥९३॥
॥भर्तृयज्ञ उवाच॥ ॥
अथ ब्रह्मापि संचिन्त्य तानुवाच कृपान्वितः ॥
युष्मदर्थं मयोपायश्चिंतितः पितरो लघुः ॥ ९४ ॥
येन तृप्तिं परां यूयं गमिष्यथ पित्रीश्वराः ॥
अमावास्योद्भवं श्राद्धमलब्ध्वापि च वत्सरम्॥ ९५ ॥
यथा मम प्रसादेन तच्छृणुध्वं समाहिताः ॥
आषाढ्याः पंचमे पक्षे कन्यासंस्थे दिवाकरे ॥ ९६ ॥
मृताहनि पुनर्यो वै श्राद्धं दास्यति मानवः ॥
तस्य संवत्सरंयावतृप्ताः स्युः पितरो ध्रुवम् ॥ ९७ ॥
एवं ज्ञात्वा करिष्यंति प्रेतपक्षे नरा भुवि ॥
श्राद्धं यूयं न संदेहो भविष्यथ सुतर्पिताः ॥ ९८ ॥
यावत्संवत्सरं तेन एकेनापि तु सत्तमाः ॥
तस्मिन्नपि च यः श्राद्धं युष्माकं न प्रदास्यति॥ ९९ ।।
शाकेनाऽपि दरिद्रोऽसावंत्यजत्वमुपेष्यति ॥
आसनं शयनं भोज्यं स्पर्शं संभाषणं तथा ॥ ६.२१६.१०० ॥
ये करिष्यंति तैः सार्धं तेऽपि पापतमा नराः ॥
न तेषां संततिर्वृद्धिं संप्रयास्यति कर्हिचित् ॥११॥
न सुखं धनधान्यं च तेषां भावि कथंचन ॥
तस्माद्गच्छत चाव्यग्राः स्वस्थानं पितरो द्रुतम् ॥१०२॥
कलिकालेऽपि संप्राप्ते दारुणे निर्धेने जने ॥
वर्षांते श्राद्धमेकं हि प्रकरिष्यंति मानवाः ॥१०३॥
येनाखिलं भवेद्वर्षं युष्माकं प्रीतिरुत्तमा ॥१०४॥
॥ ॥ भर्तृयज्ञ उवाच ॥ ॥
तच्छ्रुत्वा पितरो हृष्टा जग्मुः स्वंस्वं निकेतनम् ॥
वर्षांतेऽपि समासाद्य श्राद्धं न स्युर्बुभुक्षिताः ॥ १०५ ॥
अथ येऽत्र दुरात्मानो निःशंकाः कृपणात्मकाः ॥
कलिना मोहिताः श्राद्धं वत्सरांतेऽपि नो ददुः ॥१०६॥
तेषां तु पितरो भूयो दिव्यैःपितृभिरन्विताः ॥
ब्रह्माणं शरणं जग्मुः प्रोचुस्ते दीनमानसाः ॥ १०७ ॥
भगवन्वत्सरांतेऽपि कन्यासंस्थे दिवाकरे ॥
नास्माकं वंशजाः श्राद्धं प्रयच्छंति दुरात्मकाः॥१०८॥
तेन संपीडिता देव क्षुत्पिपासा समाकुलाः ॥
वयं शरणमापन्नास्तत्प्रतीकारमाचर ॥ १०९ ॥
यथा पूर्वं महाभाग वदोपायं लघूत्तमम्॥
एकाहिकेन श्राद्धेन येनास्माकं हि शाश्वती ॥
प्रीतिः संजायते देव त्वत्प्रसादात्सुरेश्वर ॥ ६.२१६.११० ॥
वंशक्षयेऽपि संजाते ह्यस्माकं पतनं भवेत् ॥ १११ ॥ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा चिरं ध्यात्वा पितामहः ॥
कृपया परयाविष्टस्ततः प्रोवाच सादरम् ॥ ११२
॥ ब्रह्मोवाच ॥
अन्यो युष्मत्प्रतुष्ट्यर्थमुपायश्चिंतितो मया ॥
स लघुर्येन वोऽत्यंतं तृप्तिर्भवति शाश्वती ॥११३॥
गयाशिरः समासाद्य श्राद्धं दास्यंति येऽत्र वः ॥
अप्येकं तत्प्रभावेन दिव्यां गतिमवाप्स्यथ ॥ ११४ ॥
अपि पापात्मनः पुंसो ब्रह्मघ्नस्यापि देहिनः ॥
अपि रौरवसंस्थस्य कुम्भीपाकगतस्य च ॥११५॥
प्रेतभावगतस्यापि यस्य श्राद्धं प्रदास्यति ॥
गयाशिरसि वंशस्थस्तस्य मुक्तिर्भविष्यति ॥ ११६ ॥
एतन्मम वचः श्रुत्वा सांप्रतं भुवि मानवाः ॥
निःस्वा अपि करिष्यंति श्रादमेकं हि तत्र च ॥
गयाशिरसि सुव्यक्तं युष्माकं मुक्तिदायकम् ॥ ११७ ॥
भर्तृयज्ञ उवाच ॥ ॥
तच्छ्रुत्वा पितरस्तस्य वचनं परमेष्ठिनः ॥
अनुज्ञातास्ततस्तेन स्वानि स्थानानि भेजिरे ॥ ११८ ॥
ततःप्रभृति श्राद्धानि प्रवृत्तानि धरातले ॥
पिंडदानसमे तानि यावदापुरुषत्रयम्॥ ११९ ॥
पूर्वं ब्रह्मादितः कृत्वा ये केचित्पुरुषा गताः ॥
परलोकं समुद्दिश्य तान्नराञ्छक्तितो नृप ॥ ६.२१६.१२० ॥
तत्संख्यानां द्विजेंद्राणां दत्तवंतोऽपि वांछितम् ॥
अदैवत्यमिदं श्राद्धं दरिद्राणां सुखावहम् ॥ १२१ ॥
पितॄणां देवतानां च मनुष्याणां सुतृप्ति दम् ॥
तस्माच्छ्राद्धं प्रकर्तव्यं पुरुषेण विजानता ॥ १२२ ॥
पितॄणां वांछता तृप्तिं कालेष्वेतेषु यत्नतः॥
गयायां च विशेषेण लोकद्वयमभीप्सता ॥ १२३ ॥
न ददाति नरः श्राद्धं पितॄणां चन्द्रसंक्षये ॥
क्षुत्पिपासापरीतांगाः पितरस्तस्य दुःखिताः ॥ ॥ १२४ ॥
प्रेतपक्षं प्रतीक्षंते गुरुवांछासमन्विताः ॥
कर्षुका जलदं यद्वद्दिवानक्तमतंद्रिताः ॥ १२५ ॥
प्रेतपक्षे व्यतिक्रांते यावत्कन्यां गतो रविः ॥
तावच्छ्राद्धं च वांछंति दत्तं स्वैः पितरः सुतैः ॥ १२६ ॥
ततस्तुलागतेप्येके सूर्ये वांछंति पार्थिव ॥
श्राद्धं स्ववंशजै र्दत्तं क्षुत्पिपासासमाकुलाः ॥ १२७ ॥
तस्मिन्नपि व्यतिक्रांते काले चांलिं गते रवौ ॥
निराशाः पितरो दीनास्ततो यांति निजालयम् ॥ १२८ ॥
मासद्वयं प्रतीक्षंते गृहद्वारं समाश्रिताः ॥
वायुभूताः पिपासार्ताः क्षुत्क्षामाः पितरो नृणाम् ॥ १२९ ॥
यावत्कन्यागतः सूर्यस्तुलास्थश्च महीपते॥
तथा दर्शदिने तद्वद्ब्रह्मणो वचनान्नृप ॥ ६.२१६.१३० ॥
तस्माच्छ्राद्धं सदा कार्यं पितॄणां तृप्तिमिच्छता ॥
तिलोदकं विशेषेण यथा ब्रह्मवचो नृप ॥१३१॥
वित्ताभावेऽपि दर्शायां श्राद्धं देयं विपश्चिता ॥
तदभावे च कन्यायां संस्थिते दिवसाधिपे ॥ १३२ ॥
तदभावे गयायां च सकृच्छ्राद्धं हि निर्वपेत् ॥
येन नित्यं प्रदत्तस्य श्राद्धस्य फलमश्नुते ॥ १३३ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥
येनैतत्क्रियते श्राद्धं जनैः पितृ परायणैः ॥ १३४ ॥
अमावास्यां विशेषेण प्रेतपक्षे च पार्थिव ॥ १३५ ॥
यश्चैतां शृणुयात्पुण्यां श्राद्धोत्पत्तिं पठेच्च वा ॥
स सर्वदोषनिर्मुक्तः श्राद्धदानफलं लभेत् ॥ १३६ ॥
श्राद्धकाले पठेद्यस्तु श्राद्धोत्पत्तिमिमां नरः ॥
अक्षयं तद्भवेच्छ्राद्धं सर्वच्छिद्रविवर्जितम्॥ ॥ १३७ ॥
असद्द्रव्येण वा चीर्णमनर्हैर्ब्राह्मणैरपि ॥
अभुक्तं कामहीनं वा मन्त्रहीनमथापि वा ॥ १३८ ॥
सर्वं संपूर्णतां याति कीर्तनात्पार्थिवोत्तम।
अस्याः श्राद्धसमुत्पत्तेः कीर्तनाच्छ्रवणादपि ॥ १३९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटके श्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धोत्पत्तिवर्णनंनाम षोडशोत्तरद्विशततमोऽध्यायः ॥ २१६ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 217
॥ आनर्त उवाच ॥ ॥
विधिना येन कर्तव्यं श्राद्धं सर्वं मुनीश्वर॥
तमाचक्ष्वाऽद्य कार्त्स्न्येन श्रद्धा मे महती स्थिता॥ १ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
शृणु राजन्प्रवक्ष्यामि श्राद्धस्य विधिमुत्तमम् ॥
पितॄणां तुष्टिदं नित्यं सर्वकामप्रदं नृणाम् ॥ २ ॥
स्वकर्मोपार्जितैर्वित्तैः श्राद्धकार्याणि चाहरेत् ॥
मायादिभिर्न चौर्येण न च्छलाप्तैर्न वंचनैः॥
स्ववृत्त्योपार्जितैर्वित्तैः श्राद्धद्रव्यं समाहरेत्॥
सुप्रतिग्रहजैर्द्रव्यैर्ब्राह्मणानां विशिष्यते॥४॥
रक्षणाप्तैर्नरेन्द्रस्य वैश्यस्य क्षेत्र संभवैः॥
शूद्रस्य पण्यलब्धैश्च श्राद्धं कर्तुं प्रयुज्यते॥५॥
एवं शुद्धिसमोपेते द्रव्ये प्राप्ते गृहांतिकम्॥
पूर्वेद्युः सायमासाद्य श्राद्धार्हाणां द्विजन्मनाम्॥ ६ ॥
गृहं गत्वा शुचिर्भूत्वा कामक्रोधविवर्जितः॥
आमंत्रयेद्यतीन्पश्चात्स्नातकान्ब्रह्मकर्मिणः॥७॥
तदभावे गृहस्थांश्च
ब्रह्मज्ञानपरायणान्॥ अग्निहोत्रपरान्विप्रान्वेदविद्याविचक्षणान्॥८॥
श्रोत्रियांश्च तथा वृद्धान्षट्कर्मनिरतान्सदा॥
बहुभृत्यकुटुम्बांश्च दरिद्रा्न्संयुतान्गुणैः॥९॥
अव्यंगान्रोगनिर्मुक्ताञ्जिताहारांस्तथा शुचीन् ॥
एते स्युर्ब्राह्मणा राजञ्छ्राद्धार्हाः परिकीर्तिताः ॥ ६.२१७.१० ॥
अनर्हा ये च निर्दिष्टाः शृणु तानपि वच्मि ते ॥
हीनांगानधिकांगांश्च सर्वभाक्षन्निराकृतीन् ॥ ११ ॥
श्यावदन्तान्वृथादन्तान्वेदविक्रयकारकान् ॥
वेदविप्लवकान्वापि वेदशास्त्रविवर्जितान् ॥ ॥ १२ ॥
कुनखान्रोगसंयुक्तान्द्विर्नग्नान्परहिंसकान्॥
जनापवादसंयुक्तान्नास्तिकानृतकानपि ॥ १३ ॥
वार्धुषिकान्विकर्मस्थाञ्छौचाचारविवर्जि तान्॥
अतिदीर्घान्कृशान्वापि स्थूलानपि च लोमशान् ॥ १४ ॥
निर्लोमान्वर्जयेच्छ्राद्धे य इच्छेत्पितृगौरवम्॥
परदाररता ये च तथा यो वृषली पतिः ॥ १५ ॥
वंध्या वै वृषली प्रोक्ता वृषली च मृतप्रजा ॥
अपरा वृषली प्रोक्ता कुमारी या रजस्वला ॥ १६ ॥
षण्ढो मलिम्लुचो दम्भी राजपै शुन्यवृत्तयः ॥
सगोत्रायाश्च संभूतस्तथैकप्रवरासुतः ॥ १७ ॥
कनिष्ठः प्राक्कृताधानः कृतोद्वाहश्च प्राक्तु यः ॥
तथा प्राग्दीक्षितो यश्च स त्याज्यो गृहसंयुतः ॥ १८ ॥
पितृमातृपरित्यागी तथाच गुरुतल्पगः ॥
निर्द्दोषां यस्त्यजेत्पत्नीं कृतघ्नो यश्च कर्षुकः ॥ १९ ॥
शिल्पजीवी प्रमादी च पण्य जीवी कृतायुधः ॥
एतान्विवर्जयेच्छ्राद्धे येषां नो ज्ञायते कुलम् ॥ ६.२१७.२० ॥
अत ऊर्ध्वं प्रवक्ष्यामि ये शस्ताः श्राद्धकर्मणि ॥
ये ब्राह्मणाः पुरा ख्याताः पापानां पंक्तिपावनाः ॥ २१ ॥
त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडंगवित् ॥
यश्च विद्याव्रतस्नातो धर्मद्रोणस्य पाठकः॥ २२ ॥
पुराणज्ञस्तथा ज्ञानी विज्ञेयो ज्येष्ठसामवित् ॥
अथर्वशिरसो वेत्ता क्रतुगामी सुकर्मकृत् ॥ २३ ॥
सद्यःप्रक्षालको यश्च शुक्लो दौहित्र एव च ॥
जामाता भागिनेयश्च परोपकरणे रतः ॥ २२ ॥
मृष्टान्नादो मृष्टवाक्यः सदा जपपरायणः ॥
एते ? ब्राह्मणा ज्ञेया निःशेषाः पंक्तिपावनाः ॥ २५ ॥
एतैर्विमिश्रिताः सर्वे गर्हिता अपि ये द्विजाः ॥
पितॄणां तेऽपि कुर्वंति तृप्तिं भुक्त्वा कुलोद्भवाः ॥ २६॥
तस्मात्सर्वप्रयत्नेन कुलं ज्ञेयं द्बिजन्मनाम् ॥
शीलं पश्चाद्वयो नाम कन्यादानं ततः परम् ॥ २७ ॥
श्रुतशीलविहीनाय धर्मज्ञायापि मानवः ॥
श्राद्धं ददाति कन्यां च यस्तेनाग्निं विना हुतम् ॥ २८ ॥
ऊषरे वापि तं सस्यं तुषाणां कण्डनं कृतम्॥
कुलाचारसमोपेतांस्तस्माच्छ्राद्धे नियोजयेत् ॥ २९ ॥
ब्राह्मणान्नृपशार्दूल मन्दविद्याधरानपि ॥
एवं विज्ञाय तान्विप्रान्गृहीत्वा चरणौ ततः ॥ ६.२१७.३० ॥
प्रयत्नेन तु सव्येन पाणिना दक्षिणेन तु ॥
युग्मानथ यथाशक्त्या नमस्कृत्य पुनःपुनः ॥ ३१ ॥
दक्षिणं जान्वथालभ्य मन्त्रमेनमुदीरयेत् ॥
आगच्छंतु महाभागा विश्वेदेवा महाबलाः ॥ ३२ ॥
भक्त्याहूता मया चैव त्वं चापि व्रतभाग्भव ॥
एवं युग्मा न्समामंत्र्य विश्वेदेवकृते द्विजान् ॥ ३३ ॥
अपसव्यं ततः कृत्वा पित्रर्थं चाभिमंत्रयेत् ॥
ब्राह्मणांस्त्रीन्यथाशक्त्या एकैकस्य पृथक्पृथक् ॥ ३४ ॥
एकैकं वा त्रयाणां वा एकमेवं निमंत्रयेत् ॥
ब्राह्मणान्मातृपक्षे च एष एव विधिः स्मृतः ॥ ३५ ॥
ततः पादौ परिस्पृष्ट्वा द्विजस्येदमुदीरयेत् ॥
श्रद्धा पूतेन मनसा पितृभक्तिपरायणः ॥ ३६ ॥
पिता मे तव कायेस्मिंस्तथा चैव पितामहः ॥
स्वपित्रा सहितो ह्येतु त्वं च व्रतपरो भव ॥ ३७ ॥
एवं पितॄन्समाहूय तथा मातामहानथ ॥
संमंत्रिताश्च ते विप्राः संयमात्मान एव ते ॥ ३८ ॥
यजमानः शांतमना ब्रह्मचर्यसमन्वितः ॥
तां रात्रिं समतिक्रम्य प्रातरुत्थाय मानवः ॥ ३९ ॥
तदह्नि वर्जयेत्कोपं स्वाध्यायं कर्म कुत्सितम् ॥
तैलाभ्यंगं श्रमं यानं वाहनं चाथ दूरतः ॥ ६.२१७.४० ॥
ततो मध्यं गते सूर्ये काले कुतपसंज्ञिते ॥
स्नातः शुक्लांबरधरः सन्तर्प्य पितृदेवताः ॥
सन्तुष्टांश्च समाहूतांस्तान्विप्राञ्छ्राद्धमाचरेत् ॥ ४१ ॥
विविक्ते गृहमध्यस्थे मनोज्ञे दक्षिणाप्लवे ॥
न यत्र जायते दृष्टिः पापानां क्रूरकर्मिणाम् ॥ ४२ ॥
यच्छ्राद्धं वीक्षते श्वा वा नारी वाऽथ रजस्वला ॥
पतितो वा वराहो वा तच्छ्राद्धं व्यर्थतां व्रजेत् ॥ ४३ ॥
अन्नं पर्युषितं यच्च तैलाक्तं वा प्रदीयते ॥
सकेशं वा सनिंद्यं च तच्छ्राद्धं व्यर्थतां व्रजेत् ॥ ४४ ॥
विभक्तिरहितं श्राद्धं तथा मौनविवर्जितम्॥
दक्षिणारहितं यच्च तच्छ्राद्धं व्यर्थतां व्रजेत् ॥ ४५ ॥
घरट्टोलूखलोत्थौ च यत्र शब्दौ व्यवस्थितौ ॥
शूर्पस्य वा विशेषेण तच्छ्राद्धं व्यर्थतां व्रजेत् ॥ ४६ ॥
यत्र संस्क्रियमाणे च कलहः संप्रजायते ॥
पंक्तिभेदो विशेषेण तच्छ्राद्धं व्यर्थतां व्रजेत् ॥४७॥
पूर्वाह्णे क्रियते यच्च रात्रौ वा संध्ययोरपि ॥
पर्याकाशे तथा देशे तच्छ्राद्धं व्यर्थतां व्रजेत ॥ ४८ ॥
ब्राह्मणो यजमानो वा ब्रह्मचर्यं विना यदि ॥
भुंक्ते दद्याच्च यच्छ्राद्धं तद्राजन्व्यर्थतां व्रजेत् ॥४९॥
तुषधान्यं सनिष्पावं यच्चोच्छिष्टं च दीयते ॥
अर्धभुक्तं घृतं क्षीरं तच्छ्राद्धं व्यर्थतां व्रजेत् ॥६.२१७.५०॥
येषु कालेषु यद्दत्तं श्राद्धमक्षयतां व्रजेत् ॥
तानहं संप्रवक्ष्यामि शृणुष्वैकमना नृप ॥ ५१ ॥
मन्वादीरपि ते वच्मि ताः शृणुष्व नराधिप ॥
पितॄणां वल्लभा नित्यं सर्वपापक्षयावहाः ॥ ५२ ॥
यासु तोयमपि क्ष्मायां प्रदत्तं तिलमिश्रितम् ॥
पितृभ्योऽक्षयतां याति श्रद्धापूतेन चेतसा ॥ ५३ ॥
अश्वयुक्छुक्लनवमी द्वादशी कार्तिकस्य च ॥
तृतीयापि च माघस्य तथा भाद्रपदस्य च ॥ ५४ ॥
अमावास्या तपस्यस्य पौषस्यैकादशी तथा ॥
तथाऽऽषाढस्य दशमी माघमासस्य सप्तमी ॥ ५५ ॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी व पूर्णिमा ॥
तथा कार्तिकमासस्य या चान्या फाल्गुनस्य च ॥ ५६ ॥
चैत्रस्य ज्येष्ठमासस्य पंचैताः पूर्णिमा नृप ॥
मनूनामादयः प्रोक्तास्तिथयस्ते मया नृप ॥ ५७ ॥
आसु तोयमपि स्नात्वा तिल दर्भविमिश्रितम् ॥
पितॄनुद्दिश्य यो दद्यात्स याति परमां गतिम् ॥ ५८ ॥
इह लोके परे चैव पितॄणां च प्रसादतः ॥
किं पुनर्विविधैरन्नै रसैर्वस्त्रैः सदक्षिणैः ॥ ५९ ॥
अधुना शृणु राजेन्द्र युगाद्याः पितृवल्लभाः ॥
यासां संकीर्तनेनापि क्षीयते पापसंचयः ॥ ६.२१७.६० ॥
नवमी कार्तिके शुक्ला तृतीया माधवे सिता ॥
अमावास्या च तपसो नभस्यस्य त्रयोदशी ॥ ६१ ॥
त्रेताकृतकलीनां तु द्वापरस्यादयः क्रमात् ॥
स्नाने दाने जपे होमे विशेषात्पितृतर्पणे ॥ ६२ ॥
कृतस्याक्षयकारिण्यः सुकृतस्य महाफलाः ॥
यदा स्यान्मेषगो भानुस्तुलां वाथ यदा व्रजेत् ॥ ६३ ॥
तदा स्याद्विषुवाख्यस्तु कालश्चाक्षयकारकः ॥
मकरे कर्कटे चैव यदा भानुर्व्रजेन्नृप ॥ ६४ ॥
तदायनाभिधानस्तु विषुवोऽथ विशिष्यते ॥
रवेः संक्रमणं राशौ संक्रांतिरिति कथ्यते ॥ ६५ ॥
स्नानदानजपश्राद्धहोमादिषु महाफलाः ॥
त्रेताद्याः क्रमशः प्रोक्ताः कालाः संक्रांतिपूर्वकाः ॥
नैतेषु विद्यते विघ्नं दत्तस्याक्षयसंज्ञिताः ॥ ६६ ॥
अश्रद्धयाऽपि यद्दत्तं कुपात्रेभ्योऽपि मानवैः ॥
अकालेऽपि हि तत्सर्वं सद्यो ह्यक्षयतां व्रजेत् ॥ ६७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धार्हपदार्थब्राह्मणकालनिर्णय वर्णनंनाम सप्तदशोत्तरद्विशततमोऽध्यायः ॥ २१७ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 218
॥ भर्तृयज्ञ उवाच ॥ ॥
एतत्सामान्यतः प्रोक्तं मया श्राद्धं यथा नरैः ॥
कर्त्तव्यं विप्रपूर्वैर्यद्वर्णैः पार्थिवसत्तम ॥ १ ॥
अतः परं प्रवक्ष्यामि स्वशाखायाः स्मृतं नृप ॥
स्वदेशवर्णजातीयं यथा स्यादत्र निर्वृतिः ॥ २ ॥
श्राद्धे श्रद्धा यतो मूलं तेन श्राद्धं प्रकीर्तितम् ॥
तत्तस्मिन्क्रियमाणे तु न किंचिद्व्यर्थतां व्रजेत् ॥ ३ ॥
अनिष्टमपि राजेन्द्र तस्माच्छ्राद्धं समा चरेत् ॥
विप्रपादोदकं यत्तु भूमौ पतति पार्थिव ॥ ४ ॥
जाता ये गोत्रजाः केचिदपुत्रा मरणं गताः ॥
ते यांति परमां तृप्तिममृतेन यथा सुराः ॥ ॥
विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी॥
तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम्॥६॥
श्राद्धेऽथ क्रियमाणे तु यत्किंचित्पतति क्षितौ॥
पुष्पगन्धोदकं चान्नमपि तोयं नरेश्वर॥७॥
तेन तृप्तिं परां यांति ये कृमित्वमुपागताः॥
कीटत्वं वापि तिर्यक्त्वं व्यालत्वं च नराधिप॥८॥
यदुच्छिष्टं क्षितौ याति पात्रप्रक्षालनोद्भवम्॥
तेन तृप्तिं परां यांति ये प्रेतत्वमुपागताः ॥ ९ ॥
ये चापमृत्युना केचिन्मृत्युं प्राप्ताः स्ववंशजाः ॥
असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ॥ ६.२१८.१० ॥
उच्छिष्टभागधेयं स्याद्दर्भेषु विकिरश्च यः ॥
विकिरेण प्रदत्तेन ते तृप्तिं यांति चाखिलाः ॥ ॥ ११ ॥
यत्किंचिन्मंत्रहीनं वा कालहीनमथापि वा ॥
विधिहीनं च संपूर्णं दक्षिणायां तु तद्भवेत् ॥ १२ ॥
तस्मान्न दक्षिणाहीनं श्राद्धं कार्यं विपश्चिता ॥
य इच्छेच्छाश्वतीं तृप्तिं पितॄणामात्मनश्च यः ॥ १३ ॥
दक्षिणारहितं श्राद्धं यथैवोषरवर्षितम् ॥
यथा तमसि नृत्यं च गीतं वा बधिरस्य च ॥ १४ ॥
श्राद्धं दत्त्वा च युक्त्वा च श्राद्धे निष्कामतां व्रजेत् ॥
न स्वाध्यायः प्रकर्तव्यो न ग्रामांतरकं व्रजेत् ॥ १५ ॥
श्राद्धभुग्रमणीतल्पं तदहर्योऽधिगच्छति ॥
तं मासं पितरस्तस्य जायंते वीर्यभोजिनः ॥ १६ ॥
श्राद्धभुक्छ्राद्धदाता च यः सेवयति मैथुनम् ॥
तस्य संवत्सरं यावत्पितरः शुक्रभोजिनः ॥
प्रभवंति न संदेह इत्येषा वैदिकी श्रुतिः ॥ १७ ॥
श्राद्धे भुक्त्वाथ दत्त्वा वा यः श्राद्धं कुरुतेल्पधीः ॥
स्वाध्यायं पितरस्तस्य यावत्संवत्सरं नृप ॥
व्यर्थश्राद्धफलाः संतः पीड्यंते क्षुत्पिपासया ॥ १८ ॥
श्राद्धे भुक्त्वाऽथ दत्त्वा वा यः श्राद्धं मानवाधमः ॥
ग्रामातरं प्रयात्यत्र तच्छ्राद्धं व्यर्थतां व्रजेत् ॥ १९ ॥
ब्राह्मणेन न भोक्तव्यं समायाते निमंत्रणे ॥
अथ भुंक्ते च यो मोहात्स प्रयाति ह्यधोगतिम् ॥ ६.२१८.२० ॥
यजमानेन च तथा न कार्यं भोजनं परम्॥
कुर्वंति ये नराः सर्वे ते यांति नरकं ध्रुवम् ॥ २१ ॥
श्राद्धे भुक्त्वाऽथ दत्त्वा वा श्राद्धं यो युद्धमाचरेत्॥
असंदिग्धं हि तच्छ्राद्धं स मन्दो व्यर्थतं नयेत् ॥ २२ ॥
तस्मात्सर्वप्रयत्नेन दोषानेतान्परित्यजेत् ॥
श्राद्धभुग्यजमानश्च विशेषेण महीपते ॥ २३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धनियमवर्णनंनामाष्टादशोत्तरद्विशततमोऽध्यायः ॥ २१८ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 219
॥ भर्तृयज्ञ उवाच ॥ ॥
काम्यानि तेऽधुना वच्मि श्राद्धानि पृथिवीपते ॥
यैः कृतैः समवाप्नोति मर्त्यो हृदयसंस्थितम् ॥१॥
यो नारीं वांछते क्ष्माप रूपाढ्यां शीलमण्डनाम् ॥
इह लोके परे चैव तस्यार्हं प्रथमं दिनम् ॥ २॥
श्राद्धीयप्रेतपक्षस्य मुख्यभूतं च यन्नृप ॥
य इच्छेत्कन्यकां श्रेष्ठां सुशीलां रूपसंयु ताम् ॥
द्वितीयादिवसे तेन श्राद्धं कार्यं महीपते ॥ ३ ॥
यो वांछति नरोऽश्वांश्च वायुवेगसमाञ्जवे ॥
तृतीयादिवसे श्राद्धं तेन कार्यं विपश्चिता ॥ ४ ॥
यो वांछति पशून्मुख्यान्कुप्याकुप्यधनानि च ॥
चतुर्थ्यां तेन कर्तव्यं श्राद्धं पितृप्रतुष्टये ॥ ५ ॥
पुत्रान्वांछति योऽभीष्टान्सुशीलान्वंशमंडनान् ॥
पञ्चम्यां तेन कर्तव्यं सदा श्राद्धं नराधिप ॥ ६ ॥
यः श्राद्धं वंशजैर्दत्तं परलोकगतो नृप ॥
वांछते तेन कर्तव्यं षष्ठ्यां श्राद्धं विपश्चिता ॥ ७ ॥
कृषिसिद्धिं य इच्छेत ग्रैष्मिकीं शारदीमपि ॥
सप्तम्यां युज्यते तस्य श्राद्धं कर्तुं न संशयः ॥ ८ ॥
य इच्छेत्पण्यसंसिद्धिं व्यवहारसमुद्भवाम् ॥
अष्टम्यां युज्यते श्राद्धं तस्य कर्तुं नराधिप ॥ ९ ॥
नवम्यां श्राद्धकृन्नाना चतुष्पदगणाल्लँभेत् ॥
सौभाग्यं रोगनाशं च तथा वल्लभसंगमम् ॥ ६.२१९.१० ॥
दशमीदिवसे श्राद्धं यः करोति समाहितः ॥
तस्य स्याद्वांछिता सिद्धिः सर्वकृत्येषु सर्वदा ॥ ११ ॥
एकादश्यां धनं धान्यं श्राद्धकर्ता लभेन्नरः ॥
तथा भूपप्रसादं च यच्चान्यन्मनसि स्थितम् ॥ १२ ॥
यः करोति च द्वादश्यां श्राद्धं श्रद्धासमन्वितः ॥
पुत्रांस्तु प्रवरांश्चैव स पशून्वांछिताल्लँभेत् ॥ ॥ १३ ॥
यो वांछति नरो मुक्तिं पितृभिः सह चात्मनः ॥
असंतानश्च यस्तस्य श्राद्धे प्रोक्ता त्रयोदशी ॥ १४ ॥
संतानकामो यः कुर्यात्तस्य वंशक्षयो भवेत् ॥
न संतानविवृद्धयै च तस्य प्रोक्ता त्रयोदशी ॥ १५ ॥
श्राद्धकर्मणि राजेंद्र श्रुतिरेषा पुरातनी ॥
अपि नः स कुले भूयाद्यो नो दद्यात्त्रयोदशीम् ॥ १६ ॥
पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च ॥
मघात्रयोदशीयोगे पायसेन यजेत्पितॄन् ॥ १७ ॥
पितरस्तस्य नेच्छंति तद्वर्षं श्राद्धसत्क्रियाम् ॥
पुण्यातिशयभीतेन पिंडदानं निराकृतम् ॥ १८ ॥
शक्रेण तद्दिने पुत्रमरणं दर्शितं भयम् ॥
येषां च शस्त्रमृत्युः स्यादपमृत्युरथापि वा ॥ १९ ॥
उपसर्गमृतानां च विषमृत्युमुपेयुषाम् ॥
वह्निना तु प्रदग्धानां जलमृत्यु मुपेयुषाम् ॥ ६.२१९.२० ॥
सर्पव्यालहतानां च शृंगैरुद्बन्धनैरपि ॥
एकोद्दिष्टं प्रकर्तव्यं चतुर्दश्यां नराधिप ॥ २१ ॥
तेषां तस्मिन्कृते तृप्तिस्ततस्तत्पक्षजा भवेत् ॥ २२ ॥
सर्वे कामाः पुरः प्रोक्ता युष्माकं ये मया नृप ॥
अमावास्यादिने श्राद्धात्तानाप्नोति न संश यः ॥ २३ ॥
एतत्ते सर्वमाख्यातं काम्यश्राद्धफलं नृप ॥
यच्छ्रुत्वा वांछितान्कामान्सर्वानाप्नोति मानवः ॥ २४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे काम्यश्राद्धवर्णनंनामैकोनविंशोत्तरद्विशततमोऽ ध्यायः ॥ २१९ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 220
॥ आनर्त उवाच ॥ ॥
त्रयोदश्यां कृते श्राद्धे कस्माद्वंशक्षयो भवेत् ॥
एतन्मे सर्वमाचक्ष्व विस्तरात्त्वं महा मुने॥
भर्तृयज्ञ उवाच॥
एषा मेध्यतमा राजन्युगादिः कलिसंभवा॥
स्नाने दाने जपे होमे श्राद्धे ज्ञेया तथाऽक्षया ॥ २ ॥
अस्यां चेत्तु गजच्छाया तिथौ राजन्प्रजायते ॥
तदाऽक्षयं मघायोगे श्राद्धं संजायते ध्रुवम्॥३॥
यः क्षीरं मधुना युक्तं तस्मिन्नहनि यच्छति ॥
पितॄनुद्दिश्य यो मांसं दद्याद्वाध्रीणसं च यः ॥ ४ ॥
वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥
त्रिःपिबंत्विंद्रियक्षीणं श्वेतं वृद्धमजापतिम् ॥ ५ ॥
तं तु वाध्रीणसं विद्यात्सर्वयूथाधिपं तथा ॥
खड्गमांसं च वा दद्यात्तृप्तिर्द्वादशवार्षिकी ॥
संजायते न संदेहस्तेषां वाक्यं न मे मृषा ॥ ६ ॥
आसीद्रथंतरे कल्पे पूर्वं पार्थिवसत्तमः॥
सिताश्वो नाम पांचालदेशीयःपितृभक्तिमान्॥७॥
मधुना कालशाकेन खड्गमांसेन केवलम् ॥
स हि श्राद्धं त्रयोदश्यां कुरु ते पायसेन च ॥ ८ ॥
सोमवंशं समुद्दिश्य श्राद्धं यच्छति भक्तितः ॥९॥
अथ तैर्बाह्मणैः सर्वैः स भूयः कौतुकान्वितैः ॥
कस्यचित्त्वथ कालस्य पृष्टो भुक्त्वा यथेच्छया ॥ ६.२२०.१० ॥
श्राद्धादनंतरं राजन्दृष्ट्वा तं श्रद्धयाऽन्वितम् ॥
पादावमर्द्दनपरं प्रणिपातपुरः सरम् ॥११॥
॥ ब्राह्मणा ऊचुः ॥ ॥
कृत्वा श्राद्धं महाराज प्रदातव्याऽथ दक्षिणा ॥
ब्राह्मणेभ्यस्ततः श्राद्धं पितॄणां चोपतिष्ठति ॥ १२ ।।
सा त्वया कल्पिताऽस्माकं वितीर्णाद्यापि नो नृप।
कुप्याकुप्यं परित्यज्य तां देहि नृप मा चिरम् ॥ १३ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
तच्छ्रुत्वा च नृपः प्राह संप्रहृष्टेन चेतसा ॥
धन्योऽस्म्यनुगृहीतोऽस्मि विप्रैरद्य न संशयः ॥ १४ ॥
ये वांछंति ममाभीष्टं श्राद्धे भुक्त्वाऽथ पैतृके १।
तस्माद्ब्रूत महाभागा युष्मभ्यं किं ददाम्यहम् ॥ १५ ॥
वर न्नागान्मदोन्मत्तान्भद्रजातिसमुद्भवान् ॥
किं वा सप्तिप्रधानांश्च मनोमारुतरंहसः ॥ १६ ॥
किं वा स्थानानि चित्राणि ग्रामाणि नगराणि च ॥
पितॄनुद्दिश्य यत्किंचिन्नादेयं विद्यते यतः ॥ १७ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
नास्माकं वाजिभिः कार्यं न रत्नैर्न च हस्तिभिः ॥
न देशैर्ग्राममुख्यैर्वा नान्येनापि च केनचित् ॥ १८ ॥
यदर्थेन महाराज पृष्टोस्माभिर्यतो भवान् ॥
तस्मान्नो दक्षिणां देहि संदेहघ्नां तपोत्तम ॥ १९ ॥
यां पृच्छामो वयं सर्वे कौतूहलसमाहिताः ॥ ६.२२०.२० ॥
॥ राजोवाच ॥ ॥
उपदेशाधिकारोऽस्ति ब्राह्मणानां महात्मनाम् ॥
दातुं नैव ग्रहीतुं च नी चजात्यस्य वैदिकाः ॥ २१ ॥
सोऽहं राजा न सर्वज्ञो यो यच्छामि द्विजोत्तमाः ॥
उपदेशं हि युष्मभ्यं सर्वज्ञेभ्यो विचक्षणाः ॥ २२ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
गुरुशिष्यसमुत्थोऽयमुपदेशो महीपते ॥
प्रार्थयामो वयं किंचिन्मा भयं त्वं समाविश ॥ २३ ॥
वयं च प्रश्नमेकं हि पृच्छामो यदि भूपते ॥
ब्रूषे कौतुकयुक्तानां सर्वेषां च द्विजन्मनाम् ॥ २४ ॥
तस्माद्वद महाभाग यदि जानासि तत्त्वतः ॥
न चेद्गुह्यतमं किंचित्पृच्छामस्त्वां कुतूहलात् ॥ २५ ॥
॥ राजोवाच ॥ ॥
यदि वः संशयो विप्रा युष्मत्प्रश्नमसंशयम् ॥
कथयिष्याभि चेद्गुह्यं तद्वद्ध्वं गप्ल? ज्वराः ॥ २६ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
अन्नेषु च विचित्रेषु लेह्येषु विविधेषु च ॥
अमृतेष्वेषु सर्वेषु तथा पेयेषु पार्थिव ॥ ॥ २७ ॥
तस्मादद्य दिने ब्रूहि मधु यच्छसि गर्हितम् ॥
वर्तते च यथाऽभक्ष्यं ब्राह्मणानां विशेषतः ॥ २८ ॥
तथा विचित्र मासेषु संस्थितेषु नराधिप ॥
खङ्गमांसं निरास्वादं कस्माद्यच्छसि केवलम् ॥ २९ ॥
संति शाकानि राजेन्द्र पावनीयानि सर्वशः ॥
सुष्ठु स्वादु कराण्यत्र व्यञ्जनार्थं महीपते ॥ ६.२२०.३० ॥
कालशाकं सकटुकं मुखाऽऽधिजनकं महत् ॥
कस्माद्यच्छसि चास्माकं भक्त्या परमया युतः ॥
न श्राद्धे प्रतिषेधश्च प्रकर्तव्यः कथंचन ॥ ३१ ॥
न च त्याज्यं समुच्छिष्टं तेन भुंजामहे ततः ॥
तदत्र कारणेनैव गुरुणा भाव्यमेव हि ॥
येन त्वं यच्छसि प्राय एतत्सिद्धिर्भवेत्स्थिता ॥ ३२ ॥
तस्मात्कथय नः सर्वं परं कौतूहलं हि नः ॥
निःस्वादितं यथा दद्यादीदृक्छ्राद्धे विगर्हितम् ॥ ३३ ॥
यथा त्वं नृपशार्दूल श्रद्धया संप्रयच्छसि ॥ ३४ ॥
तच्छ्रुत्वा वचनं तेषां ब्राह्मणानां महात्मनाम् ॥
स वैलक्ष्यस्मितं प्राह सलज्जं पृथिवीपतिः ॥ ३५ ॥
गुह्यमेतन्महाभागा अस्माकं यदि संस्थितम् ॥
अवाच्यमपि वक्ष्यामि शृणुध्वं सुसमाहिताः ॥ ३६ ॥
अहमासं पुरा पापो लुब्धकश्चान्य जन्मनि ॥
निहंता सर्वजंतूनां तथा भक्षयिता पुनः ॥ ३७ ॥
पर्यटामि तदारण्ये धनुषा मृगयारतः ॥
सिंहो व्याघ्रो गजेन्द्रो वा शरभो वा द्विजो त्तमाः ॥ ३८ ॥
मद्बाणगोचरं प्राप्तो न जीवत्यपि कर्हिचित् ॥
कस्यचित्त्वथ कालस्य भ्रममाणो महीतले ॥ ३९ ॥
संप्राप्तोऽहं महाभागा अग्नि वेशस्य सन्मुनेः ॥
आश्रमे समनुप्राप्तो निशीथे क्षुत्पिपासितः ॥ ६.२२०.४० ॥
तावत्तत्र सशिष्याणां श्राद्धकर्मविधिं वदन्॥
संस्थितो वेष्टितः शिष्यैः समन्ताद्द्विजसत्तमाः ॥ ४१ ॥
॥ अग्निवेश उवाच ॥ ॥
ऋक्षे पित्र्ये यदा चन्द्रो हंसश्चापि करे व्रजेत् ॥
त्रयोदशी तु सा च्छाया विज्ञेया कुञ्जरोद्भवा ॥ ४२ ॥
पित्र्ये यदास्थितश्चेन्दुर्हंसश्चापि करे स्थितः ॥
तिथिर्वैश्रवणी या च सा च्छाया कुञ्जरस्य च ॥ ४३ ॥
सैंहिकेयो यदा चंद्रं ग्रसते पर्वसंधिषु ॥
हस्तिच्छाया तु सा ज्ञेया तस्यां श्राद्धं समाचरेत् ॥ ४४ ॥
तस्यां यः कुरुते श्राद्धं जलैरपि प्रभक्तितः ॥
यावद्द्वादश वर्षाणि पितरस्तस्य तर्पिताः ॥ ४५ ॥
वनस्पतिगते सोमे या च्छाया पूर्वतोमुखी ॥
गजच्छाया तु सा ज्ञेया पितॄणां दत्तमक्षयम् ॥ ४६ ॥
सा भवेच्च न सन्देहः पुण्यदा पैतृकी तिथिः ॥
तस्यां श्राद्धं प्रकर्तव्यं संभाराः संभृताश्च ये ॥ ४७ ॥
प्रभाते तु न सन्देहः पितॄणां परितृप्तये ॥
शाकैस्तथैंगुदैर्बिल्वैर्बदरैश्चिर्भटैरपि ॥ ४८। ॥
यदन्नं पुरुषोऽश्नाति तदन्नास्तस्य देवताः ॥
बाढमित्येव ते प्रोच्य गताः स्वंस्वं निकेतनम् ॥ ४९ ॥
सर्वे शिष्या महाभागाः नारायणपुरोगमाः ॥
अग्निवेश्योऽपि सुष्वाप समामन्त्र्य द्विजोत्तमान्॥ ६.२२०.५० ॥
तेन संकथ्यमानं च रात्रौ तच्च श्रुतं मया ॥
अहं चापि करिष्यामि प्रातः श्राद्धमसंशयम् ॥ ५१ ॥
निहत्य खड्गमादाय तस्य मांसं सुपुष्कलम् ॥
तथा मधु समादाय कालशाकं विशेषतः ॥ ॥ ५२ ॥
स्वजातीयेभ्य आदाय तर्पयिष्यामि तान्पितॄन् ॥ ५३ ॥
एवं निश्चित्य मनसा प्रसुप्तोऽहं द्विजोत्तमाः ॥
ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥५४॥
मधुजालानि भूरीणि गृहीतानि मया ततः ॥
कालशाकं तथा लब्धं स्वेच्छया द्विजसत्तमाः ॥५५॥
ततः सर्वं समादाय श्रपितं तत्क्षणान्मया ॥
स्नात्वा च निजवर्गाणां पितॄनुद्दिश्य चात्मनः ॥
प्रदत्तं लुब्धकानां च भक्तिपूर्वं द्विजोत्तमाः ॥ ५६ ॥
एवं मया पुरा दत्तं पितॄ नुद्दिश्य तान्निजान् ॥
नान्यत्किंचिन्मया दत्तं कदाचित्कस्यचिद्विजाः ॥ ५७ ॥
ततः कालेन महता मृत्युं प्राप्तोऽस्म्यहं द्विजाः ॥
तद्दानस्य प्रभावेन पार्थिवीं योनिमाश्रितः ॥ ५८ ॥
एवं जातिस्मरत्वं च सञ्जातं मे द्विजोत्तमाः ॥
ते च मे तर्पितास्तेन खड्गमांसेन माक्षिकैः ॥५९ ॥
संप्राप्ताः परमां प्रीतिं ततो द्वाशवार्षिकीम् ॥
एतस्मात्कारणाच्छ्राद्धं प्रकरोमि द्विजोत्तमाः ॥ ६.२२०.६० ॥
खड्गमांसेन मधुना कालशाकेन भूरिशः ॥
विधिहीनं द्विजैर्हीनं तिलदर्भैर्विवर्जितम् ॥ ६१ ॥
मया तद्विहितं श्राद्धं तस्यैतत्फलमागतम् ॥
सांप्रतं विधिना सम्यग्ब्राह्मणैर्वेदपारगैः ॥ ६२ ॥
उपविष्टैः करोम्येव यच्छ्राद्धं श्रद्धयान्वितः ॥
दर्भैस्तिलैः समोपेतं मन्त्रवच्च द्विजोत्तमाः ॥ ६३ ॥
नो जानामि फलं किं वा सांप्रतं च भविष्यति ॥
तस्मादेवं परिज्ञाय यूयं चैव द्विजोत्तमाः ॥ ६४ ॥
संतर्पयध्वं च पितॄन्निजान्गजदिने स्थिते ॥
छायायां चैव जातायां कुञ्जरस्य द्विजोत्तमाः ॥६५॥
येन संजायते तृप्तिः पितॄणां द्वादशाब्दिकी ॥
युष्माकं च गतिः श्रेष्ठा यथा जाता ममाधुना ॥ ६६ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा सर्वे ते ब्राह्मणोत्तमाः ॥
संतुष्टाः साधुवादांश्च ददुस्तस्य महीपतेः ॥ ६७ ॥
ततःप्रभृति चक्रुस्ते श्राद्धानि द्विजसत्तमाः ॥
त्रयोदश्यां नभस्यस्य कृष्णायां भक्तितत्पराः ॥ ६८ ॥
मधुना कालशाकेन खड्गमांसेन तर्पिताः ॥
प्राप्नुवंति परां सिद्धिं विमानवरमास्थिताः ॥ ६९ ॥
स्पर्धंते सहिता दैवैः पितरश्च विशेषतः ॥
वंशजेन प्रदत्तस्य प्रभावात्सुरसत्तमाः ॥ ६.२२०.७० ॥
श्राद्धार्थं संपरिज्ञाय मन्त्रं चक्रुः परस्परम् ॥
आदित्या वसवो रुद्रा नासत्यावपि पार्थिव ॥ ७१ ॥
यथा न भवति श्राद्धं तस्मिन्नहनि भूतले ॥
यत्प्रभावाद्वयं सर्वे मानुषैः श्राद्धमाश्रितैः ॥
न यामोऽभिभवस्थानं तस्माच्छप्स्यामहे च तान् ॥ ७२ ।१
अद्यप्रभृति यः श्राद्धं त्रयोदश्यां करिष्यति ॥
कन्यासंस्थे सहस्रांशौ तस्य स्याद्वंशसंक्षयः ॥७३॥
इति शापेन देवानां निर्दग्धेयं महातिथिः ॥ ७४ ॥
ततःप्रभृति नैतस्या क्रियते श्राद्धमुत्तमम् ॥
यः प्रमादेन कुरुते तस्य स्याद्वंश संक्षयः ॥ ७६ ॥
येन भीता न कुर्वंति च्छायायां कुञ्जरस्य च ॥
विशेषेण गजच्छाये तत्र पिण्डोऽयमाहृतः ॥ ७३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे गजच्छायामाहात्म्यवर्णनंनाम विंशत्युत्तरद्विशत तमोऽध्यायः ॥ २२० ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 221
॥ भर्तृयज्ञ उवाच ॥ ॥
एतस्मात्कारणात्कश्चित्तस्मिन्नहनि पार्थिव ॥
ददाति नैव च श्राद्धं पितॄनुद्दिश्य कर्हिचित् ॥
वंशच्छेदभयाद्राजन्सत्यमेतन्मयोदितम् ॥ १ ॥
श्राद्धं विनापि दातव्यं तद्दिने मधुना सह ॥
पायसं ब्राह्मणाग्र्येभ्यः सघृतं तृप्तिकारणात् ॥ २ ॥
खड्गमांसं कालशाकं मांसं वाध्रीणसोद्भवम् ॥
प्रदेयं ब्राह्मणेभ्यश्च तत्समंतादुदाहृतम् ॥ ३ ॥
त्रिःपिबश्चेंद्रियक्षीणः सर्वयूथानुगस्तथा ॥
एष वाध्रीणसः प्रोक्तः पितॄणां तृप्तिदः सदा ॥ ४ ॥
तस्याभावेऽपि दातव्यं क्षीरौदनमनुत्तमम् ॥
तस्मिन्नहनि विप्रेभ्यः पितॄणां तुष्टये नृप ॥ ५ ॥
तस्याभावेऽपि दातव्यं जलं तिलविमिश्रितम्॥
सदर्भं सहिरण्यं च हिरण्यशकलान्वितम् ॥ ६ ॥
यच्छ्रेयो जायते पुंसः पक्षश्राद्धेन पार्थिव ॥
कृतेन तत्फलं कृत्स्नं तस्मिन्नहनि पार्थिव ॥ ७ ॥
पितॄनुद्दिश्य चाऽऽज्येन मधुना पायसेन च ॥
कालशाकेन मधुना खड्गमांसेन वा नृप ॥ ८ ॥
श्राद्धं विनापि दत्तेन श्रुतिरेषा पुरातनी ॥
तस्मात्सर्वप्रयत्नेन पित्र्यर्क्ष्ये समुपस्थिते ॥
त्रयोदश्यां नभस्यस्य हस्तगे दिननायके ॥ ९ ॥
दरिद्रेणापि दातव्यं हिरण्यशकलान्वितम् ॥
तोयं तिलैर्युतं राजन्पितॄणां तुष्टिमिच्छता ॥ ६.२२१.१० ॥ ॥
॥ आनर्त उवाच ॥ ॥
मांसं विगर्हितं विप्र यतः शास्त्रे निगद्यते ॥
तस्मात्तत्क्रियते केन श्राद्धं कीर्तय मेऽखिलम् ॥ ११ ॥
स्वमांसं परमांसेन यो वर्धयति निर्दयः ॥
स नूनं नरकं याति प्रोक्तमेतन्महर्षिभिः ॥ १२ ॥
त्वं च तस्य प्रभावं मे प्रजल्पसि द्विजो त्तम ॥
विशेषाच्छ्राद्धकृत्ये च तदेवं मम संशयः ॥ १३ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
सत्यमेतन्महाभाग मांसं सद्भिर्विगर्हितम् ॥
श्राद्धे प्रयुज्यते यस्मात्तत्तेऽहं वच्मि कारणम् ॥ १४ ॥
यदा चारंभिता सृष्टिर्ब्रह्मणा लोककारिणा ॥
संपूज्य च पितॄन्देवान्नांदीमुखपुरःसरान्॥
तदा खड्गः समुत्पन्नः पूर्वं वाध्रीणसश्च यः ॥ १५ ॥
ततो ये पितरो दिव्या ये च मानुषसम्भवाः ॥
जगृहुस्ते ततः सर्वे बलिभूतमिवात्मनः ॥ १६ ॥
तानुवाच ततो ब्रह्मा एतौ तु पितरो मया ॥
युष्मभ्यं कल्पितौ सम्यग्बलिभूतौ प्रगृह्यताम् ॥ १७ ॥
एताभ्यां परमा प्रीतिर्युष्मभ्यं संभविष्यति ॥
मम वाक्यादसंदिग्धं परमेतौ नरो भुवि ॥ १८ ॥
नैव संप्राप्स्यते पापं युष्मदर्थंहनन्नपि ॥
तस्मात्सर्वप्रयत्नेन दातव्यं भूतिमिच्छता ॥ १९ ॥
खड्गवाध्रीणसोद्भूतं मांसं श्राद्धे सुतृप्तिदम् ॥
तौ चापि परमौ दिव्यौ स्वर्गं लोकं गमिष्यतः ॥ ६.२२१.२० ॥
श्राद्धदस्य परं श्रेयो भविष्यति सुदुर्लभम् ॥
पितॄणां चाक्षया तृप्तिर्भवेद्द्वादशवार्षिकी ॥ २१ ॥
एतस्मात्कारणाच्छस्तं मांसमाभ्यां नराधिप ॥
तस्मिन्नहनि नान्यत्र विनियोगोऽस्य कीर्तितः ॥ २२ ॥
॥ रोहिताश्व उवाच ॥ ॥
अप्राप्तखड्गमांसस्य तथा वाध्रीणसस्य च ॥
कथं श्राद्धं भवेद्विप्र पितॄणां तृप्तिका रकम् ॥ २३ ॥
॥ मार्कण्डेय उवाच ॥ ॥
मधुना सह दातव्यं पायसं पितृतुष्टये ॥
तेन वै वार्षिकी तृप्तिः पितॄणां चोपजायते ॥ २४ ॥
आजं च पिशितं राजञ्छिशुमारसमुद्भवम्॥
मांसं प्रतुष्टये प्रोक्तं वत्सरं मासवर्जितम् ॥ २५ ॥
तदभावे वराहस्य दशमासप्रतुष्टिदम् ॥
मांसं प्रोक्तं महाराज पितॄणां नात्र संशयः ॥ २६ ॥
आरण्यमहिषोत्थेन तृप्तिः स्यान्नवमासिकी ॥
रुरोश्चैवाष्टमासोत्था एणस्य सप्तमासिका ॥ २७ ॥
शम्बरोर्मासषट्कं च शशकस्य तु पञ्चकम् ॥
चत्वारः शल्लकस्योक्तास्त्रयो वा तैत्तिरस्य च ॥ २८ ॥
मासद्वयं च मत्स्यस्य मासमेकं कपिञ्जले ॥
नान्येषां योजयेन्मांसं पितृकार्ये कथंचन ॥ २९ ॥
एतेषामेव मांसानि पावनानि नृपोत्तम ॥ ६.२२१.३० ॥
॥ आनर्त उवाच ॥ ॥
कस्मादेते पवित्राः स्युर्येषां मांसं प्रचोदितम् ॥
श्राद्धे च तन्ममाचक्ष्व यथावद्द्विजसत्तम ॥ ३१ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
सृष्टिं प्रकुर्वता तेन पशवो लोककारिणा ॥
खड्गवाध्रीणसादीनां पश्चात्सृष्टाः स्वयंभुवा ॥ ३२ ॥
एकादशप्रमाणेन ततश्चान्ये नृपोत्तम ॥
अजश्च प्रथमं सृष्टः स तथा मेध्यतां गतः ॥ ३३ ॥
तथैते प्रथमं सृष्टाः पशवोऽत्र नराधिप ॥
सस्यानि सृजता तेन तिलाः पूर्वं च निर्मिताः ॥ ३४ ॥
श्राद्धार्थं व्रीहयः सृष्टा वन्येषु च प्रियंगवः॥
गोधूमाश्च यवाश्चैव माषा मुद्राश्च वै नृप [। ३५ ॥
नीवाराश्चापि श्यामाकाः प्रवक्ष्यामि यथाक्रमम् ॥
तृप्तिं मांसेन वाञ्छंति मांसं मांसेन वर्जितम् ॥ ३६ ॥
पुष्पजात्यो यदा सृष्टास्तदा प्राक्छतपत्रिका ॥
सृष्टा तेन च मुख्या सा श्राद्धकर्मणि सर्वदा ॥ ३७ ॥
धातूनि सृजता तेन रूप्यं सृष्टं स्वयंभुवा ॥
तेन तद्विहितं श्राद्धे दक्षिणायां प्रतृप्तये॥३८॥
राजतेषु च पात्रेषु यद्द्विजेभ्यः प्रदीयते॥
पितृभ्यस्तस्य नैवाऽन्तो युगान्तेऽपि प्रजायते ॥ ३९ ॥
अभावे रूप्यपात्राणां नामापि परिकीर्तयेत् ॥
तुष्यंति पितरो राजन्कीर्तनादपि वै यतः ॥ ६.२२१.४० ॥
रसांश्च सृजता तेन मधु सृष्टं स्वयंभुवा ॥
तेन तच्छस्यते श्राद्धे पितॄणां तुष्टिदायकम् ॥ ४१ ॥
यच्छ्राद्धं मधुना हीनं तद्रसैः सकलैरपि ॥
मिष्टान्नैरपि संयुक्तं तत्पितॄणां न तृप्तये ॥ ४२ ॥
अणुमात्रमपि श्राद्धे यदि न स्याद्धि माक्षिकम् ॥
नामापि कीर्तयेत्तस्य पितॄणां तुष्टये यतः ॥ ४३ ॥
शाकानि सृजता तेन ब्रह्मणा परमेष्ठिनौ ॥
कालशाकं पुरः सृष्टं तेन तत्तृप्तिदायकम् ॥ ४४ ॥
कालं हि सृजता तेन कुतपः प्राग्विनिर्मितः ॥
तस्मात्कुतप काले च श्राद्धं कार्यं विजानता ॥
य इच्छेच्छाश्वतीं तृप्तिं पितॄणामात्मनः सुखम् ॥ ४५ ॥
वीरुधः सृजता तेन विधिना नृपसत्तम ॥
दर्भास्तु प्रथमं सृष्टाः श्राद्धार्हास्तेन ते स्मृताः ॥ ४६ ॥
श्राद्धार्हान्ब्राह्मणांस्तेन सृजता पद्मयोनिना ॥
दौहित्राः प्रथमं सृष्टाः श्राद्धार्हास्तेन ते स्मृताः ॥ ॥४७ ॥
अपि शौचपरित्यक्तं हीनांगाधिकमेव वा ॥
दौहित्रं योजयेच्छ्राद्धे पितॄणां परितुष्टये ॥ ४८ ॥
पशून्विसृजता तेन पूर्वं गावो विनिर्मिताः॥
तेन तासां पयः शस्तं श्राद्धे सर्पिर्विशेषतः ॥ ४९ ॥
तस्माच्छ्राद्धे घृतं शस्तं प्रदत्तं पितृतुष्टये ॥ ६.२२१.५० ॥
प्रजाश्च सृजता तेन पूर्वं दृष्टा द्विजोत्तमाः ॥
तस्मात्प्रशस्तास्ते श्राद्धे पितृतृप्तिकराः सदा ॥ ५१ ॥
देवांश्च सृजता तेन विश्वेदेवाः कृताः पुरः ॥
तेन ते प्रथमं पूज्याः प्रवृत्ते श्राद्धकर्मणि ॥ ५२ ॥
ते रक्षंति ततः श्राद्धं यथावत्परितर्पिताः ॥
छिद्राणि नाशयंति स्म श्राद्धे पूर्वं प्रपूजिताः ॥ ५३ ॥
एतैर्मुख्यतमैः सृप्तैः फूरा श्राद्धं विनिर्मितम् ॥
स्वयं पितामहेनैव ततो देवा विनिर्मिताः ॥ ५४ ॥
तेन ते सर्वलोकेषु गताः ख्यातिं पुरा नृप ॥ ५५ ॥
एतच्छ्राद्स्य सत्रत्वं मया ते परिकीर्तितम् ॥
पितॄणां परमं गुह्यं दत्तस्याक्षयकारकम् ॥ ५६ ॥
यश्चैतत्कीर्तयेच्छ्राद्धे क्रियमाणे नृपोत्तम ॥
विप्राणां भोक्त्तुकामानां तच्छ्राद्धं त्वक्षयं भवेत् ॥५७॥
यश्चैतच्कृणुयाद्राजन्सम्यक्छ्रद्धासमन्वितः ॥
विहितस्य भवेत्पुण्यं यच्छ्राद्धस्य तदाप्नुयात् ॥५८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेरक्षेत्रमाहात्म्ये श्राद्धकल्पे सृष्ट्युत्पत्तिकालिकब्रह्मोत्सृष्टश्राद्धार्हवस्तुपरिगणनवर्णनं नामैकविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२१ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 222
॥ भर्तृयज्ञ उवाच ॥ ॥
येषां च शस्त्रमृत्युः स्यादपमृत्युरथापि वा ॥
उपसर्गान्मृतानां च विषमृत्युमुपेयुषाम् ॥ १ ॥
वह्निना च प्रदग्धानां जलमृत्युमुपेयुषाम् ॥
सर्पव्याघ्रहतानां च शृंगैरुद्बन्धनैरपि ॥ २ ॥
श्राद्धं तेषां प्रकर्तव्यं चतुर्दश्यां नराधिप ॥
तेषां तस्मिन्कृते तृप्तिस्ततस्तत्पक्षजा भवेत् ॥ ३ ॥
॥ आनर्त उवाच ॥ ॥
कस्माच्छस्त्रहतानां च प्रोक्ता श्राद्धे चतुर्दशी ॥
नान्येषां दिवसे तत्र संशयोऽयं वदस्व मे ॥ ४ ॥
एकोद्दिष्टं न शंसंति सपिण्डीकरणं परम् ॥
कस्मात्तत्र प्रकर्तव्यं वदैतन्मम विस्त रात् ॥ ५॥
कस्मान्न पार्वणं तत्र क्रियते दिवसे स्थिते ॥
प्रेतपक्षे विशेषेण कृते श्राद्धेऽखिलेऽपि च ॥ ६ ॥
॥ भर्तृयज्ञउवाच॥ ॥
बृहत्कल्पे पुरा राजन्हिरण्याक्षो महासुरः ॥
बभूव बलवाञ्छूरः सर्वदेवभयंकरः ॥ ७ ॥
ब्रह्मा प्रतोषितस्तेन विधाय विविधं तपः ॥
कृष्णपक्षे विशेषेण नभस्ये मासि संस्थिते ॥ ८ ॥
॥ ब्रह्मोवाच ॥ ॥
परितुष्टोस्मि ते वत्स प्रार्थयस्व यथेप्सितम् ॥
अदेयमपि दास्यामि तस्मात्प्रार्थय मा चिरम् ॥९ ॥ ।।
॥ हिरण्याक्ष उवाच ॥ ॥
भूताः प्रेताः पिशाचाश्च राक्षसा दैत्यदानवाः ॥
बुभुक्षिताः प्रयाचंते मां नित्यं पद्मसंभव ॥ ६.२२२.१० ॥
प्रेतपक्षे कृते श्राद्धे कन्यासंस्थे दिवाकरे ॥
एकस्मिन्नहनि प्रायस्तृप्तिः स्याद्वर्षसंभवा ॥ ११ ॥
तत्त्वमद्य दिनं देहि तेभ्यः कमलसम्भव ॥
तेन तृप्तिं गताः सर्वे स्थास्यंत्यब्दं पितामह ॥ १२ ॥
॥ श्रीब्रह्मोवाच ॥ ॥
यः कश्चिन्मानवः श्राद्धं स्वपितृभ्यः प्रदास्यति ॥
प्रेतपक्षे चतुर्दश्यां नभस्ये मा सि संस्थिते॥१३॥
प्रेतानां राक्षसानां च भूतादीनां भविष्यति॥
मम वाक्यादसंदिग्धं ये चान्ये कीर्तितास्त्वया॥१४॥
दुर्मृत्युना मृता ये च संग्रामेषु हताश्च ये ॥
एकोद्दिष्टे सुतैर्दत्ते तेषां तृप्तिर्भविष्यति ॥ १५ ॥
एवमुक्त्वा ततो ब्रह्मा ततश्चादर्शनं गतः ॥
हिरण्याक्षोऽपि संहृष्टः स्वमेव भवनं ययौ ॥ १६ ॥
यच्च शस्त्रहतानां च तस्मिन्नहनि दीयते ॥
एकोद्दिष्टं नरैः श्राद्धं तत्ते वक्ष्यामि कारणम्॥ १७ ॥
संख्ये शस्त्रहता ये च निर्विकल्पेन चेतसा ॥
युध्यमाना न ते मर्त्ये जायते मनुजाः पुनः ॥ १८ ॥
पराङ्मुखाश्च हन्यंते पलायनपरायणाः ॥
ते भवंति नराः प्रेता एतदाह पितामहः ॥१९॥
सम्मुखा अपि ये दैन्यं हन्यमाना वदंति च ॥
पश्चात्तापं च वा कुर्युः प्रहारैर्जर्जरीकृताः॥६.२२२.२०॥
तेऽपि प्रेता भवन्तीह मनुः स्वायंभुवोऽब्रवीत्॥
कदाचिच्चित्तचलनं शूराणामपि जायते ॥ २१ ॥
तेषां भ्रांत्या दिने तत्र श्राद्धं देयं निजैः सुतैः ॥
अपमृत्युमृतानां च सर्वेषामपि देहिनाम् ॥ २२ ॥
प्रेतत्वं जायते यस्मात्तस्माच्छ्राद्धस्य तद्दिनम् ॥
श्राद्धार्हं पार्थिवश्रेष्ठ विशेषेण प्रकीर्तितम् ॥ २३ ॥
एकोद्दिष्टं प्रकर्तव्यं यस्मात्तत्र दिने नरैः ॥
सपिंडीकरणादूर्ध्वं तत्ते वक्ष्याभि कारणम् ॥ २४ ॥
यदि प्रेतत्वमापन्नः कदाचित्स्वपिता भवेत् ।
तृप्त्यर्थं तस्य कर्तव्यं श्राद्धं तत्र दिने नृप ॥२५॥
पितामहाद्यास्तत्राह्नि श्राद्धं नार्हंति कुत्रचित् ॥
अथ चेद्भ्रांतितो दद्याद्धियते(?) राक्षसैस्तु तत् ॥ २६ ॥
ब्रह्मणो वचनाद्राजन्भूतप्रेतैश्च दानवैः ॥
तेनैकोद्दिष्टमेवात्र कर्तव्यं न तु पार्वणम् ॥ २७ ॥
पितृपक्षे चतुर्दश्यां कन्यासंस्थे दिवाकरे ॥
पितामहो न गृह्णाति पित्रा तेन समं तदा ॥ २८ ॥
न च तस्य पिता राजंस्तथैव प्रपितामहः ॥ २९ ॥
एतस्मात्कारणाद्राजन्पार्वणं न विधीयते ॥
तस्मिन्नहनि संप्राप्ते व्यर्थं श्राद्धं भवेद्यतः ॥ ६.२२२.३० ॥
नान्यस्थानोद्भवैर्विप्रैः श्राद्धकर्मव्रतानि च ॥
नागरो नागरैः कुर्यादन्यथा तद्वृथा भवेत् ॥ ३१ ॥
अन्यस्थानोद्भवैर्विप्रैर्यच्छ्राद्धं क्रियते ध्रुवम् ॥
संपूर्णं व्यर्थतां याति नागराणां क्रियापरैः ॥ ३२ ॥
अथाचारपरिभ्रष्टाः श्राद्धार्हा एव नागराः ॥
वलीवर्दसमानोऽपि ज्ञातीयो यदि लभ्यते ॥
किमन्यैर्बहुभिर्विप्रैर्वेदवेदांगपारगैः ॥ ३३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्ध कल्पे चतुर्दशीशस्त्रहतश्राद्धनिर्णयवर्णनंनाम द्वाविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२२ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 223
॥ भर्तृयज्ञ उवाच ॥ ॥
श्राद्धार्हैर्ब्राह्मणैः कार्यं श्राद्धं दर्शे तु पार्वणम्॥
विपरीतं न कर्तव्यं श्राद्धमेकं कथंचन ॥ १ ॥
जारजातापविद्धाद्यैर्यो नरः श्राद्धमाचरेत् ॥
ब्राह्मणैस्तु न संदेहस्तच्छ्राद्धं व्यर्थतां व्रजेत् ॥ २ ॥
॥ आनर्त उवाच ॥ ॥
भयं मे सुमहज्जातमत्र यत्परिकीर्तितम् ॥
जारजातापविद्धैस्तु यच्छ्राद्धं व्यर्थतां व्रजेत् ॥ ३ ॥
मनुना द्वादश प्रोक्ताः किल पुत्रा महामते ॥
अपुत्राणां च पुत्रत्वं ये कुर्वंति सदैव हि ॥ ४ ॥
औरसः क्षेत्रजश्चैव क्रयक्रीतश्च पालितः ॥
प्रतिपन्नः सहोढश्च कानीनश्चापि सत्तम॥५॥
तथान्यौ कुण्डगोलौ च पुत्रावपि प्रकीर्तितौ ॥६॥
शिष्यश्च रक्षितो मृत्योस्तथाश्वत्थो वनांतिगः ॥
किमेते नैव कथिता यत्त्वमेवं प्रजल्पसि ॥ ७ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
सत्यमेतन्महाभाग सर्वे ते धर्मतः सुताः ॥
परं युगत्रये प्रोक्ता न कलौ कलुषापहाः ॥ ॥ ८ ॥
तदर्थं तेषु सन्तानं तावन्मात्रं युगेयुगे ॥
सत्त्वाढ्यानां च लोकानां न कलौ चाल्पमेधसाम् ॥ ९ ॥
कलावेव समाख्यातो व्यवहारः प्रपा तदः ॥
अल्पसत्त्वा यतो लोकास्तेन चैष विधिः स्मृतः ॥ ६.२२३.१० ॥
अत्र यः संकरं कुर्याद्योनेस्तस्य फलं शृणु ॥
ब्राह्मण्यां ब्राह्मणात्पुत्रो ब्रह्मघ्नः संप्रजायते ॥ ११ ॥
सर्वाधमानामधमो यो वारड इति स्मृतः ॥ १२ ॥
क्षत्रियाच्च तथा सूतो वैश्यान्मागध एव च ॥
शूद्रात्तथांत्यजः प्रोक्तस्तेनैते वर्जिताः सुताः ॥ १३ ॥
एतेषामपि निर्दिष्टाः सप्त राजन्सुपुत्रकाः ॥
पंच वंशविनाशाय पूर्वेषां पातनाय च ॥ १४ ॥
औरसः प्रतिपन्नश्च क्रीतः पालित एव च ॥
शिष्यश्च दत्तजीवश्च तथाश्वत्थश्च सप्तमः ॥ १५ ॥
पुंनाम्नो नरकाद्घोराद्रक्षंति च सदा हि ते ॥
पतन्तं पुरुषं तत्र तेन ते शोभनाः स्मृताः ॥ १६ ॥
क्षेत्रजश्च सहोढश्च कानीनः कुण्डगोलकौ ॥
पंचैते पातयंतिस्म पितॄन्स्वर्गगतानपि ॥ १७ ॥
एतस्मात्कारणाच्छ्राद्धं जारजातस्य तद्वृथा ॥ १८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धार्हानर्हब्राह्मणादिवर्णनंनाम त्रयोविंशत्युत्तरशततमोऽध्यायः ॥ २२३ । ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 224
॥ आनर्तउवाच ॥ ॥
श्रुता मया महाभाग श्राद्धार्हा ब्राह्मणाश्च ये ॥
ये च त्याज्यास्तथा पुत्रा बहवश्चैव सुव्रत ॥ १ ॥
सांप्रतं कथयाऽस्माकं मन्त्रपूर्वश्च यो विधिः ॥
गृहस्थेन सदा कार्यः पितॄणां परितुष्टये ॥ २ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
प्रणम्यामंत्रिता ये च श्राद्रार्थं ब्राह्मणोत्तमाः ॥
आनीय कुतपे काले तान्सर्वान्प्रार्थयेदि दम् ॥ ३ ॥
आगच्छंतु महाभागा विश्वेदेवा महाबलाः ॥
ये यत्र विहिताः श्राद्धे सावधाना भवंतु ते ॥ ४ ॥
एवमभ्यर्च्य तान्सर्वांस्ततः कृत्वा प्रदक्षिणाम्॥
जानुनी भूतले न्यस्य ततश्चार्घं प्रदापयेत् ॥ ५ ॥
मंत्रेणानेन राजेंद्र सपुष्पाक्षतचंदनैः ॥
अर्घमेनं प्रगृह्णंतु मया दत्तं द्विजोत्तमाः ॥
पादप्रक्षालनार्थाय प्रकुर्वंतु मम प्रियम्॥ ६ ॥
एवमुक्त्वा महीपृष्ठे अनुलिप्ते ततः परम् ॥
साक्षतान्प्रक्षिपेद्दर्भान्विश्वेदेवान्प्रकीर्तयन् ॥ ७ ॥
अपसव्यं ततः कृत्वा दर्भांस्तिलसमन्वितान् ॥
द्विगुणान्प्रक्षिपेद्भूमौ पितॄनुद्दिश्य चात्मनः ॥ ८ ॥
एवं सर्वाः क्रियाः कार्या दैविका सव्यपूर्विकाः ॥
पैतृकाश्चापसव्येन मुक्त्वा नांदीमुखान्पितॄन् ॥ ९ ॥
सर्वे पूर्वामुखाः स्थाप्या युग्माश्च शक्तितो नृप ॥
पितरो मातृपक्षीयाः स्थाप्याश्चोदङ्मुखास्तथा ॥ ६.२२४.१० ॥
एकैकं वा त्रयो वाऽपि स्युरेकैकं वा पृथक्पृथक ॥
पैतृकान्स्थाप्प चक्रेण पितॄणां परितुष्टये ॥ ११ ॥
षष्ठ्या विभक्त्या तु तेषामासनं च प्रदापयेत् ॥
ऋजुभिः साक्षतैर्दर्भैः सोदकैर्दक्षिणांगतः ॥ १२ ॥
विषमौ द्विगुणैर्दर्भैः सतिलैर्वामपार्श्वतः ॥
पाणौ तोयं परिक्षिप्य न दर्भांस्तु कथं चन ॥ १३ ॥
यो हस्ते चासनं दद्याच्चेद्दार्भं बुद्धिवर्जितः ॥
पितरो नासने तत्र प्रकुर्वंति निवेशनम् ॥ १४ ॥
आवाहनं प्रकर्तव्यं विभक्त्या च द्वितीयया ॥
येनागच्छंति ते सर्वे समाहूताः पृथक्पृथक् ॥ १५ ॥
अन्यया च विभक्त्या चेत्पितॄनावाहयेत्क्वचित् ॥
नागच्छंति महाभागा यद्यपि स्युर्बुभुक्षिताः ॥ १६ ॥
विश्वेदेवास आगत मंत्रेणानेन पार्थिव ॥
तेषामावाहनं कार्यमक्षतैश्च शिरोंऽतिकात् ॥ १७ ॥
उशंतस्त्वेति च तिलैः पितॄनावाहयेत्ततः ॥
आयंतु न इति जपेत्ततः पार्थिवसत्तम ॥ १८ ॥
शन्नो देवीति मंत्रेण स्वाहाकारसमन्वितम् ॥
पितॄणामर्घपात्रेषु तथैव च जलं क्षिपेत् ॥ १९ ॥
यवोऽसि यवयास्मद्द्वेत्यक्षतांस्तत्र निक्षिपेत् ॥
चंदनं गंधपुष्पाणि धूपं दद्याद्यथाक्रमम् ॥
सपवित्रेषु हस्तेषु दद्यादर्घ्यं समाहितः ॥ ६.२२४.२० ॥
या दिव्या इति मन्त्रेण स्वाहाकारसमन्वितम् ॥
पितॄणामर्घपात्रेषु तथैव च जलं क्षिपेत् ॥ २१ ॥
तिलोऽसि सोमदैवत्यो गोसवे देवनिर्मितः ॥
प्रत्नवद्भिः पृक्तः स्वधया पितॄनिमाँल्लोकान्प्रीणाहि नः स्वधेति प्रक्षिपेत्तिलान् ॥ २२ ॥
यादिव्येति च मन्त्रेण ततो ह्यर्घ्यं प्रदापयेत् ॥
पितृपात्रे समादाय अर्घ्यपात्राणि कृत्स्नशः ॥ २३ ॥
अधोमुखं च तत्पात्रं मन्त्रवत्स्थापयेत्ततः ॥
आयुष्कामस्तु तत्तोयं लोचनाभ्यां न वीक्षयेत् ॥ २४ ॥
ततस्तु चन्दनादीनि दीपांतानि समाददेत् ॥
ततः पाकं समादाय पृच्छेद्विप्रान्द्विजो त्तमान् ॥ २५ ॥
अहमग्नौ करिष्यामि होमं पितृसमुद्भवम् ॥
अनुज्ञा दीयतां मह्यमपसव्याश्रितस्य भोः ॥ २६ ॥
कुरुष्वेति च तैः प्रोक्ते गत्वाग्नि शरणं ततः ॥
अग्नये कव्यवाहनाय स्वाहेति प्रथमाहुतिः ॥ २७ ॥
सोमाय पितृमते स्वधेति च ततः परम् ॥
हुतमन्नं च शेषं च श्राद्धार्हेभ्यः प्रदीयते ॥ २८ ॥
इष्टमन्नं ततो दत्त्वा पात्रमालभ्य संजपेत् ॥
विप्रांगुष्ठं समादाय पाकमध्ये निधाय च ॥ २९ ॥
पृथिवी ते पात्रमादाय वैष्ण व्या च ऋचा तथा ॥
स्वहस्तेन न वै दद्यात्प्रत्यक्षं लवणं तथा ॥ ६.२२४.३० ॥
स्वहस्तेन च यद्दत्तं प्रत्यक्षलवणं नृप ॥
तच्छ्राद्धं व्यर्थतां याति धृते दत्तेर्द्धभुक्तके ॥
तृप्ताञ्ज्ञात्वा ततो विप्रानग्रे त्वन्नं परिक्षिपेत् ॥ ३१ ॥
अग्निदग्धाश्च ये जीवा येप्यदग्धाः कुले मम ॥
भूमौ दत्तेन तृप्यंतु तृप्ता यांतु परां गतिम् ॥ ३२ ॥
सकृत्सकृज्जलं दत्त्वा गायत्रीत्रितयं जपेत् ॥
मधुवातेति संकीर्त्य ततः पृच्छेद्द्विजोत्तमान् ॥ ३३ ॥
तृप्ताः स्थ इति राजेन्द्र अनुज्ञां प्रार्थयेत्ततः ॥
बन्धूनां भोजनार्थाय शेषस्यान्नस्य भक्तिमान् ॥ ३४ ॥
उच्छिष्टसन्निधौ पश्चात्पितृवेदिं समाचरेत् ॥
पितृविप्रासनस्थानां नोच्छिष्टं द्विजसन्निधौ ॥३५ ॥
ततो वेदिं समाधाय पैतृकीं दक्षिणाप्लवाम् ॥
तस्यां दर्भान्समाधाय कुर्याच्चैवावनेजनम् ॥ ३६ ॥
विभक्त्या पूर्वया पश्चात्पिंडान्दद्याद्यथाक्रमम् ॥
भूयोऽप्यत्र जलं दद्यात्पितृतीर्थेन पार्थिव ॥
सूत्रं च प्रतिपिण्डे वै दयात्तेषु पृथक्पृथक् ॥ ३७ ॥
यः सूत्रं पूर्वपिण्डेषु सततं विनियोजयेत् ॥
स विरोधं चरेत्तेषां त्रोटनाच्च परस्परम् ॥ ३८ ॥
ततः संपूजयेत्सर्वान्पिंडान्यद्वद्द्विजोत्तमान् ॥
आचम्य प्रक्षाल्य तथा हस्तौ पादौ च पार्थिव ॥ ३९ ॥
नमस्कृत्य पितॄन्पश्चात्सुप्रोक्षितं ततः परम् ॥
कृत्वा सव्येन राजेन्द्र याचयित्वा वराशिषः ॥ ६.२२४.४० ॥
अक्षय्यसलिलं देयं षष्ठ्या चैव ततः परम् ॥
पवित्राणि समादाय ऊर्ध्वं स्वधेति कीर्तयेत्॥
अस्तु स्वधेति तैरुक्ते पिंडोपरि परिक्षिपेत् ॥ ४१ ॥
ततो मधु समादाय पायसं च तिलोदकम् ॥
ऊर्जस्वेति च मन्त्रेण पितॄणामुपरिक्षिपेत् ओ। ४२ ॥
उत्तानमर्घपात्रं तु कृत्वा दद्याच्च दक्षिणाम् ॥
हिरण्यं देवतानां च पितॄणां रजतं तथा ॥ ४३ ॥
ततः स्वस्त्युदकं दद्यात्पितृपूर्वं च सव्यतः ॥
न स्त्रीभिर्न च बालेन नान्ये नैव च केनचित् ॥ ४४ ॥
श्राद्धीयविप्रपात्रं च स्वयमेव प्रचालयेत् ॥ ४५ ॥
ततः कृतांजलिर्भूत्वा प्रार्थयेत्पार्थिवोत्तम ॥
अघोराः पितरः सन्तु अस्मद्गोत्रं विवर्द्धताम् ॥ ४६ ॥
दातारो नोऽभिवर्धंतां वेदाः सन्ततिरेव नः ॥
श्रद्धा च नो मा व्यगमद्बहुधेयं च नोऽस्त्विति ॥ ४७ ॥
अन्नं च नो बहु भवेदतिथींश्च लभेमद्दि ॥
याचितारश्च नः सन्तु मा च याचिष्म कश्चन ॥ ४८ ॥
एता एवाशिषः सन्तु विश्वेदेवाः प्रीयंतां ततः ॥
स्वस्त्यर्थमुदकं दद्यात्पितृपूर्वं च सव्यतः ॥ ४९ ॥
वाजेवाजेति च ऋचा विसृजेच्च ततः परम् ॥
आमा वाजस्येति प्रदक्षिणीकृत्योपवेशयेत् ॥६.२२४.५॥।
पादावमर्दनं कृत्वा आसीमांतमनुव्रजेत् ॥
बलिं च निक्षिपेत्तस्माद्भोजनं च समाचरेत् ॥ ५१ ॥
मौनेन दृश्यते सूर्यो यावत्तावन्नराधिप ॥ ५२ ॥
यश्चैवास्तमिते सूर्ये भुंक्ते च श्राद्धकृन्नरः ॥
व्यर्थतां याति तच्छ्राद्धं तस्माद्भुंजीत नो निशि ॥ ५३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धविधिवर्णनंनाम चतुर्विंशत्युत्तरद्विशततमोऽध्यायः ॥ २२४ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 225
॥ आनर्त उवाच ॥ ॥
एकोद्दिष्टविधिं ब्रूहि मम त्वं वदतां वर ॥
पार्वणं तु यथा प्रोक्तं विस्तरेण महामते ॥ १ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
त्रीणि संचयनादर्वाक्तानि त्वं शृणु सांप्रतम् ॥
यस्मिन्स्थाने भवेन्मृत्युस्तत्र श्राद्धं तु कारयेत् ॥२॥
एकोद्दिष्टं ततो मार्गे विश्रामो यत्र कारितः ॥
ततः संचयनस्थाने तृतीयं श्राद्धमिष्यते ॥ ३ ॥
प्रथमेऽह्नि द्वितीयेह्नि पञ्चमे सप्तमे तथा ॥
नवमे दशमे चैव नव श्राद्धानि तानि च ॥ ४ ॥
वैतरिण्याश्च संप्राप्तौ प्रेतस्तृप्तिमवाप्नुयात् ॥
एकोद्दिष्टं दैवहीनमेकार्घैकपवित्रकम् ॥ ५ ॥
आवाहनपरित्यक्तं कार्यं पार्थिवसत्तम ॥
तृप्तिप्रश्नस्तथा कार्यः स्वदितं च सकृत्ततः ॥ ६ ॥
अभिरम्यतामिति मन्त्रेण ब्राह्मणस्य विसर्जनम् ॥
अच्छिन्नाग्रमभिन्नाग्रं कुर्याद्दर्भतृणद्वयम् ॥
पवित्रं तद्विजानीयादेकोद्दिष्टे विधीयते ॥ ७ ॥
सर्वत्रैव पितः प्रोक्तं पिता तर्पणकर्मणि ॥
पित्र्ये संकल्पकाले च पितुरक्षय्यदापने ॥ ८ ॥
गोत्रं स्वरांतं सर्वत्र गोत्रे तर्पणकर्मणि ॥
गोत्राय कल्पनविधौ गोत्रस्याक्षय्यदापने ॥ ९ ॥
शर्मन्नर्घ्यादिकर्तव्ये शर्मा तर्पणकर्मणि ॥
शर्मणे सस्यदाने च शर्मणोऽक्षय्यके विधौ ॥ ६.२२५.१० ॥
मातर्मात्रे तथा मातुरासने कल्पनेऽक्षये ॥
गोत्रे गोत्रायै गोत्रायाः प्रथमाद्या विभक्तयः ॥ ११ ॥
देवि देव्यै तथा देव्या एवं मातुश्च कीर्तयेत् ॥
प्रथमा च चतुर्थी च षष्ठी स्याच्छ्राद्धसिद्धये ॥ १२ ॥
विभक्तिरहितं श्राद्धं क्रियते वा विपर्ययात् ॥
अकृतं तद्विजानीयात्पितृणां नोपतिष्ठति ॥ ॥ १३ ॥
तस्मात्सर्वप्रयत्नेन ब्राह्मणेन विजानता ॥
विभक्तिभिर्यथोक्ताभिः श्राद्धे कार्यो विधिः सदा ॥ १४ ॥
ततः सपिंडीकरणं वत्सरा दूर्ध्वतः स्थितम् ॥
वृद्धिर्वाऽऽगामिनी चेत्स्यात्तदार्वागपि कारयेत् ॥ १५ ॥
पार्वणोक्तविधानेन त्रिदैवत्यमदैविकम् ॥
प्रेतमुद्दिश्य कर्तव्यमेको द्दिष्टं च पार्थिव ॥ १६ ॥
एकेनैव तु पाकेन मम चैतन्मतं स्मृतम् ॥
अर्घपात्रं समादाय यत्प्रेतार्थं प्रकल्पितम् ॥ १७ ॥
पितृपात्रेषु त्रिष्वेव त्रिधा तच्च परिक्षिपेत् ॥
एवं पिंडं त्रिधा कृत्वा पितृपिंडेषु च त्रिषु ॥ १८ ॥
ये समानेति मन्त्राभ्यां न स्यात्प्रेतस्ततः परम् ॥
अवनेजनं ततः कृत्वा पितृपूर्वं यथाक्रमम् ॥ १९ ॥
गन्धधूपादिकं सर्वं पुनरेव प्रदापयेत् ॥
पितृपूर्वं समुच्चार्य वर्जयेच्च चतुर्थकम् ॥ ६.२२५.२० ॥
केचिच्चतुर्थं कुर्वंति प्रेतं च स्वपितुस्ततः ॥
पितुः पूर्वं भवेच्छ्राद्धं परं नैतन्मतं मम ॥ २१ ॥
सपिण्डीकरणादूर्ध्वमेकोद्दिष्टं न कारयेत् ॥
क्षयाहं च परित्यज्य शस्त्राहत चतुर्दशीम् ॥ २२ ॥
यः सपिण्डीकृतं प्रेतं पृथक्पिण्डे नियोजयेत् ॥
अकृतं तद्विजानीयात्पितृहा चोपजायते ॥।२३ ॥
पिता यस्य तु निर्वृत्तो जीवते च पितामहः ॥
पितुः स नाम संकीर्त्य कीर्तयेत्प्रपितामहम् ॥ २४ ॥
पितामहस्तु प्रत्यक्षं भुक्त्वा गृह्णाति पिण्डकम् ॥
पितामहक्षयाहे च पार्वणं श्राद्धमिष्यते ॥ २५ ॥
जनकं स्वं परित्यज्य कथंचिन्नास्य दीयते ॥
तस्याकृतेन श्राद्धेन न स्वल्पं पितृतो भयम् ॥ २६ ॥
अमावास्यासु सर्वासु मृते पितरि पार्वणम् ॥
नभस्यापरपक्षस्य मध्ये चैतदुदाहृतम्॥ २७ ॥
यावत्सपिंडता नैव न तावच्छ्राद्धमाचरेत् ॥ २८ ॥
जनके मृत्युमापन्ने श्राद्धपक्षे समागते ॥
पितामहादेः कर्तव्यं श्राद्धं यन्नैकपिंडता ॥२९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सपिंडीकरणविधिवर्णनंनाम पञ्चविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२५ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 226
॥ भर्तृयज्ञ उवाच ॥ ॥
यतः सपिंडता प्रोक्ता पितृपिण्डैः समंततः ॥
यावत्सपिण्डता नैव तावत्प्रेतः स तिष्ठति ॥ १ ॥
अपि धर्मसमोपेतस्तपसाऽपि समन्वितः ॥
एतस्मात्कारणात्प्रोक्ता मुनिभिस्तु सपिंडता ॥ २ ॥
यस्ययस्य च योऽन्यत्र योनिं प्राप्नोति मानवः ॥
तत्रस्थस्तृप्तिमाप्नोति यद्दत्तं तस्य वंशजैः ॥ ३ ॥
॥ आनर्त उवाच ॥ ॥
ये दृश्यंते निजाः स्वप्ने चिरात्पितृपितामहाः ॥
प्रार्थयंति निजान्कामांस्ततः किं स्यान्महामुने ॥ ४ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
येषां गतिर्न संजाता प्रेतत्वे च व्यवस्थिताः ॥
दर्शयंति च ते सर्वे स्वयमात्मानमेव हि ॥ ५ ॥
स्ववंश्यानां न चान्ये तु सत्यमेतन्मयोदितम् ॥
यथा लोकेऽत्र संजाता ये च कृत्यैः शुभाशुभैः ॥ ६ ॥
॥ आनर्त उवाच ॥ ॥
यस्य नो विद्यते पुत्रः सपिण्डीकरणं कथम् ॥
तस्य कार्यं भवेदत्र तन्मे त्वं वक्तुमर्हसि ॥ ॥ ७ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
यस्य नो विद्यते पुत्र औरसश्च महीपते ॥
चतुर्णां स्वपितॄणां तु कथं स स्याच्चतुर्थकः ॥ ८ ॥
प्रकर्षेण व्रजेद्यस्मात्तस्मात्प्रेतः प्रकीर्तितः ॥
पुत्रेण भ्रात्रा पत्न्या वा तस्य कार्या सपिंडता ॥ ९ ॥
चतुर्थो यदि राजेंद्र जायते न कथंचन ॥
क्षेत्रजादीन्सुतानेतानेकादश यथोदितान् ॥ ६.२२६.१० ॥
पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥
काले यदि न राजेंद्र जायतेऽस्योत्तरक्रिया ॥ ११ ॥
नारायणबलिः कार्यः प्रेतत्वस्य विनाशकः ॥
यथान्येषां मनुष्याणामपमृत्युमुपेयुषाम् ॥
कार्यश्चैवात्महंतॄणां ब्राह्मणान्मृत्युमीयुषाम् ॥ १२ ॥
॥ आनर्त उवाच ॥ ॥
कथं मृत्युमवाप्नोति पुरुषोऽत्र महामते ॥ १३ ॥
स्वर्गं वा नरकं वापि कर्मणा केन गच्छति ॥
मोक्षं वाऽथ महाभाग सर्वं मे विस्त राद्वद ॥ १४ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
धर्मी पापी तथा ज्ञानी तिस्रोऽत्र गतयः स्मृताः ॥
धर्मात्संप्राप्यते स्वर्गः पापान्नरक एव च ॥ १५ ॥
ज्ञानात्संप्राप्यते मोक्षः सत्यमेतन्मयोदितम् ॥
एनमर्थं भविष्यं तु भीष्मं शांतनवं नृप ॥ १६ ॥
युधिष्ठिरो महाराज धर्मपुत्रो नृपोत्तमः ॥
कृष्णेन सह राजेंद्र पितामहमपृच्छत ॥ १७ ॥
॥ युधिष्ठिर उवाच ॥ ॥
कियंतो नरकाः ख्याता यमलोके पितामह ॥
केन पापेन गच्छंति तेषु सर्वेषु जंतवः ॥ १८ ॥
॥ श्रीभीष्म उवाच ॥ ॥
एकविंशत्प्रमाणाः स्युर्नरका यममंदिरे ॥
प्राणिनस्तेषु गच्छंति निजकर्मानुसारतः ॥ १९ ॥
ख्यातौ चित्रविचित्रौ च कायस्थौ यममंदिरे ॥ ६.२२६.२० ॥
चित्रोऽथ लिखते धर्मं सर्वं प्राणिसमुद्भवम् ॥
विचित्रः पातकं सर्वं परमं यत्नमास्थितः ॥ २१ ॥
यमदूताः सदैवाष्टौ धर्मराजसमुद्भवाः ॥
ये नयंति नरान्मृत्युलोकात्स्ववशगान्सदा॥ २२ ॥
करालो विकरालश्च वक्रनासो महोदरः ॥
सौम्यः शांतस्तथा नंदः सुवाक्यश्चाष्टमः स्मृतः ॥ २३ ॥
एतेषां ये पुरा प्रोक्ताश्चत्वारो रौद्ररूपिणः ॥
पापं जनं च ते सर्वे नयन्ति यमसादनम् ॥ २४ ॥
चत्वारो ये परे प्रोक्ताः सौम्यरूपवपुर्द्धराः ॥
धर्मिणं ते जनं सर्वं नयंति यमसादनम् ॥ २५ ॥
विमानेन समारूढमप्सरोगणसेवितम् ॥ २६ ॥
लिखितस्यानुरूपेण पापधर्मोद्भवस्य च ॥
एतेषां किंकरा ये च तेषां संख्या न जायते ॥ २७ ॥
अष्टोत्तरशतं तेषां व्याधीनां परिकल्पितम् ॥
सहायार्थं यमेनात्र ज्वरयक्ष्मांतरस्थितम् ॥ २८ ॥
ते गत्वा व्याधयः पूर्वं वशे कुर्वंति मानवम् ॥ २९ ॥
यमदूतास्ततो गत्वा नाभिमूलव्यवस्थितम्॥
वायुरूपं समादाय जनैः सर्वैरलक्षिताः ॥ ६.२२६.३० ॥
गच्छंति यममार्गेण देहं संस्थाप्य भूतले ॥
षडशीतिसहस्राणि यममार्गः प्रकीर्तितः ॥ ॥ ३१ ॥
तत्र वैतरणीनाम नदी पूर्वं परिश्रुता ॥
स्रोतोभ्यां सा महाभाग तत्र संस्था सदैव हि ॥ ३२ ॥
तत्र शोणितमेकस्मिन्स्रोतस्यस्या वह त्यलम्॥
शस्त्राणि च सुतीक्ष्णानि तन्मध्ये भरतर्षभ ॥ ३३ ॥
मृत्युकाले प्रयच्छंति ये धेनुं ब्राह्मणाय वै ॥
तस्याः पुच्छं समाश्रित्य ते तरंति च तां नृप॥३४॥
स्वबाहुभिस्तथैवान्ये शतयोजनविस्तृतम्॥
द्वितीयं चैव तत्स्रोतो वैतरण्या व्यवस्थितम्॥
तस्यास्तत्सलिलस्रावि गम्यं धर्मवतां सदा॥३५॥
ये नरा गोप्रदातारो मृत्युकाले व्यवस्थिते॥
ते गोपुच्छं समाश्रित्य तां तरंति पृथूदकाम्॥
अन्ये स्वबाहुभिः कृत्वा गोप्रदानविवर्जिताः॥३६॥
गोप्रदानं प्रकर्तव्यं तस्माच्चैव विशेषतः।.
मृत्युकालेऽत्र संप्राप्ते य इच्छेद्गतिमात्मनः॥३७॥
तस्या अनन्तरं यांति पापमार्गेण पापिनः॥
धर्मिष्ठा धर्ममार्गेण विमानवरमाश्रिताः॥३८॥
वैतरण्याः परं पारे पंचयोजनमायतम्॥
असिपत्रवनंनाम पापलोकस्य दुःखदम्॥३९॥
तत्र लोहमयान्येवासिपत्राणां शतानि च॥
यानि कृन्तंति मर्त्यानां शरीराणि समंततः॥६.२२६.४०॥
यैर्हृतं परवित्तं च कलत्रं च दुरात्मभिः॥
नव श्राद्धानि तेषां चेत्तस्मान्मुक्तिः प्रजायते॥४१॥
तस्मात्परतरो ज्ञेयो विख्यातः कूटशाल्मलिः॥
अधोमुखाः प्रलंबंते तस्मिन्कंटकसंकुले॥४२॥
अधस्ताद्वह्निना चैव दह्यमाना दिवानिशम्॥
विश्वासघातका ये च सर्वदैव सुनिर्दयाः॥
तस्मान्मुक्तिं प्रयांति स्म श्राद्धे ह्येकादशे कृते॥४३॥
यंत्रात्मकस्ततः प्रोक्तो नरको दारुणाकृतिः॥
ब्रह्मघ्नास्तत्र पीड्यंते ये चाऽन्ये पापकर्मिणः॥४४॥
श्राद्धेन द्वादशोत्थेन तेभ्यो दत्तेन पार्थिव॥
तस्मान्मुक्तिं प्रगच्छन्ति यन्त्राख्यनरकात्स्फुटम् ॥ ४५ ॥
ततो लोहसमाः स्तंभा ज्वलमाना व्यवस्थिताः ॥
आलिंगंति च तान्सर्वान्परदाररताश्च ये ॥ ॥ ४६ ॥
मासिकोत्थे कृते श्राद्धे तेभ्यो मुक्तिमवाप्नुयुः ४७ ॥
लोहदंष्ट्रास्ततो रौद्राः सारमेया व्यवस्थिताः ॥
भक्षयंति च ते पापान्पृष्ठमांसा शिनो नरान् ॥
त्रैपक्षिके कृते श्राद्धे तेभ्यो मुक्तिमवाप्नुयुः ॥ ४८ ॥
लोहचंचुमयाः काकाः संस्थितास्तदनंतरम् ॥
सरागैर्लोचेनैर्यैश्च ईक्षिताः पर योषितः ॥ ४९ ॥
तेषां नेत्राणि ते घ्नंति भूयो जातानि भूरिशः ।
द्विमासिकं च यच्छ्राद्धं तेन मुक्तिः प्रजायते । ६.२२६.५० ॥
ततः शाल्मलिकूटस्तु तथान्ये लोहकण्टकाः ॥
तेषां मध्येन नीयंते पैशुन्यनिरता नराः ॥
त्रिमासिकं तु यच्छ्राद्धं तेन मुक्तिः प्रजायते ॥ ५१ ॥
रौरवोऽथ सुविख्यातो दारुणो नरको महान् ॥
ब्रह्मघ्नानां समादिष्टः स महाक्लेशकारकः ॥ ५२ ॥
छिद्यंते विविधैः शस्त्रैस्तत्रस्था ये मुहुर्मुहुः ॥
चतुर्मासिकश्राद्धेन मुक्तिस्तेषां प्रजायते ॥ ५३ ॥
अपरस्तु समाख्यातः क्षारोदस्तु सुदारुणः ॥
कृतघ्नानां समादिष्टः सदैव बहुवेदनः ॥ ५४ ॥
अधोमुखा ऊर्ध्व पादाः पीड्यंते यत्र लंबिताः ॥
पञ्चमासिकदानेन मुक्तिस्तेषां प्रजायते ॥ ५५ ॥
कुम्भीपाकस्ततो ज्ञेयो नरको दारुणाकृतिः ॥
तैलेन क्षिप्यमाणास्तु यत्र दण्डाभिसंधिताः ॥
दृश्यंते जनहंतारो बालहंतार एव च ॥ ५६ ॥
पतंति नरके रौद्रे नरा विश्वासघातकाः॥
षण्मासिकप्रदानेन मुच्यंते तत्र संकटात् ॥ ५७ ॥
सर्पवृश्चिकसंयुक्तस्तथाऽन्यो नरकः श्रुतः ॥
तत्र ये दांभिका लोके ते गच्छन्ति नराधमाः ॥
सप्तमासिकदानेन तेषां मुक्तिः प्रजायते ॥ ५८ ॥
तथा संवर्तकोनाम नरकोऽन्यः प्रकीर्तितः ॥
वेदविप्लावकाः साधुनिंदकाश्च दुरात्मकाः ॥ ५९ ॥
उत्पाट्यते ततो जिह्वा सन्दंशैर्व ह्निसम्भवैः ॥
स्वकार्ये येऽनृतं ब्रूयुस्तद्गात्रं खाद्यते श्वभिः ॥ ६.२२६.६० ॥
परार्थेऽपि च ये ब्रूयुस्तेषां गात्राणि कृत्स्नशः ॥
अष्टमासिकदानेन तेषां मुक्तिः प्रजायते ॥ ६१ ॥
अग्निकूटो महाप्लावो दारुणो नरको महान् ॥
तत्र ते यांति वै मूढाः कूटसाक्ष्यिप्रदा नराः ॥ ६२ ॥
तत्रस्था यातनां रौद्रां सहं तेऽतीव दुःखिताः ॥
नवमासिकदानं च तेषामाह्लादनं परम् ॥ ६३ ॥
ततो लोहमयैः कीलैः संचितोऽन्यः समंततः ॥
तत्र चाग्निप्रदातारः स्त्रीणां हन्तार एव च ॥ ६४ ॥
तत्र धावंति दुःखार्तास्ताड्यमानाश्च किंकरैः ॥
दशमासिकजं दानं तत्र तेषां प्रमुक्तये ॥६८५॥
ततोंऽगारमयैः पुंजैरावृताभूः समंततः ॥
स्वामिद्रोहरतास्तत्र भ्राम्यंते सर्वतो दिशः ॥ ६६ ॥
एकादशोद्भवं दानं तत्र मुक्त्यै प्रजायते ॥
संतप्तसिकतापूर्णो नरको दारुणाकृतिः ॥ ॥६७॥
स्वामिनं चागतं दृष्ट्वा पलायनपरायणाः ॥
ये भवन्ति नरास्तत्र पच्यंते तेऽपि दुःखिताः ॥
तेषां द्वादशमासीयं श्राद्धं चैवोपतिष्ठति ॥६८॥
यत्किंचिद्दीयते तोयमन्नं वा वत्सरांतरे ॥
प्रभुंजते च तन्मार्गे प्रदत्तं निजबान्धवैः ॥ ६९ ॥
ततः संवत्सरादूर्ध्वं निजकर्मसमुद्भवम् ॥
शुभाशुभं प्रपद्यंते धर्मराजसमीपगाः ॥ ६.२२६.७० ॥
एवं पंचदशैतानि संसेव्य नरकाणि ते ॥
प्राप्नुवंति ततो जन्म मर्त्यलोके पुनर्नराः ॥ ७१ ॥
प्राप्नुवंति विदेशे च जन्म ये हेतुवादकाः ॥
नित्यं तर्पणदानेन तेषां तृप्तिः प्रजायते ॥ ७२ ॥
स्वामिद्रोहरता ये च कुराज्ये जन्म चाप्नुयुः ॥
हंतकारप्रदानेन तेषां तृप्तिः प्रजायते ॥ ७३ ॥
अदत्त्वा ये नरोऽश्नंति पितृदेवद्विजातिषु ।।
दुर्भिक्षे जन्म तेषां तु तेन पापेन जायते ॥ ७४ ॥
क्षयाहे श्राद्धसंप्राप्तौ तत स्तृप्तिः प्रजायते ॥ ७५८ ॥
ये प्रकुर्वंति दम्पत्योर्भेदं वै सानुरागयोः ॥
परस्परमसत्यानि तेषां भार्याऽसती भवेत् ॥ ७६ ॥
एकस्मिन्वचने प्रोक्ते दश ब्रूते क्रुधान्विता ॥
विरूपा भ्रममाणा च सर्वलोकविगर्हिता ॥
कन्यादानफलैस्तेषां तत्रासां च सुखं भवेत् ॥ ७७ ॥
कन्यकादानविघ्नं हि विक्रयं वा करोति यः ॥
स कन्याः केवलाः सूते न पुत्रं केवलं क्वचित् ॥ ७८ ॥
जायंते ताश्च बंधक्यो विधवा दुर्भगास्तथा ॥
कन्यादानफल प्राप्त्या तासां सौख्यं प्रजायते ॥ ७९ ॥
यैर्हृतानि च रत्नानि तथा शास्त्रांतराणि च ॥
ते दरिद्राः प्रजायंते मूकाः खंजा विचक्षुषः॥
तेषां शास्त्र प्रदानेन इह सौख्यं प्रजायते ॥ ६.२२६.८० ॥
एते तु नरकाः प्रोक्ता मर्त्यलोकसमुद्भवाः ॥
एतैर्विज्ञायते सर्वं कृतं कर्म शुभाशुभम् ॥ ८१ ॥
तीर्थयात्राफलैस्तस्य ततः शुद्धिः प्रजायते ॥ ८२ ॥
॥ भीष्म उवाच ॥ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोस्मि नराधिप ॥
एकविंशत्प्रमाणं च नरकाणां यथा स्थितम् ॥ ८३ ॥
भूयश्च पृच्छ राजेंद्र संदेहो यो हृदि स्थितः ॥ ८४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे भीष्मयुधिष्ठिरसंवादे तत्तद्दुरितप्राप्यैकविंशतिनरकयातनातन्निवारणोपायवर्णनंनाम षड्विंशत्युत्तरद्विशत तमोऽध्यायः ॥२२६ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 227
॥ युधिष्ठिर उवाच ॥ ॥
नरकाणां स्वरूपं च श्रुत्वा मे भयमागतम् ॥
कथं मुक्तिर्भवेत्तेषां पापानामपि पार्थिव ॥
व्रतैर्वा नियमैर्वापि होमैर्वा तीर्थसंश्रयैः ॥ १ ॥
॥ भीष्म उवाच ॥ ॥
गंगायामस्थिपातोऽत्र येषां संजायते नृणाम् ॥
न तेषां नारको वह्निः प्रभवेन्मध्यवर्तिनाम् ॥ २ ॥
गंगायां क्रियते श्राद्धं येषां नाम्ना स्वकैः सुतैः ॥
ते विमानं समाश्रित्य प्रयांति नरकोपरि ॥ ॥ ३ ॥
पापं कृत्वा प्रकुर्वंति प्रायश्चित्तं यथोदितम् ॥
हेम यच्छंति वा भूप न तेषां नरको भवेत् ॥ ४ ॥
शेषाः स्वकर्मणः प्राप्त्या सेवंते च यथोचितम् ॥
स्वर्ग वा नरकं वापि सेवन्ते ते नराधिप ॥ ५ ॥
धारातीर्थे म्रियंते ये स्वामिनः पुरतः स्थिताः ॥
ते गच्छंति परं स्थानं नरकाणां सुदूरतः ॥ ६ ॥
वाराणस्यां कुरुक्षेत्रे नैमिषे नागरे पुरे ॥
प्रयागे वा प्रभासे वा यस्त्यजेत्तनुमा त्मनः ॥
महापातकयुक्तोऽपि नरकं न स पश्यति ॥ ७ ॥
नीलो वा वृषभो यस्य विवाहे संनियुज्यते ॥
स्वपुत्रेण न संपश्येन्नरकं ब्रह्महाऽपि सः ॥ ८ ॥
प्रायोपवेशनं कृत्वा हृदयस्थे जनार्दने ॥
यस्त्यजेत्पुरुषः प्राणान्नरकं न स पश्यति ॥ ९ ॥
प्रायोपवेशनं यो च चित्रेश्वरनिवेशने ॥
कुर्वन्ति नरकं नैव ते गच्छंति कदाचन ॥ ६.२२७.१० ॥
दीनांधकृपणानां च पथिश्रममुपेयुषाम् ॥
तीर्थयात्रापराणां च यो यच्छति सदाऽशनम् ॥
काले वा यदि वाऽकाले नरकं न स पश्यति ॥ ११ ॥
जलधेनुं च यो दद्याद्धृषसंस्थे दिवाकरे ॥
तिलधेनुं मृगस्थे च नरकं न स पश्यति ॥ १२ ॥
सोमे सोमग्रहे चैव सोमनाथस्य दर्शनात् ॥
समुद्रे च सरस्वत्यां स्नात्वा न नरकं व्रजेत् ॥ १३ ॥
सन्निहित्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे ॥
सूर्यवारेण यः याति नरकं न स पश्यति ॥ १४ ॥
कार्तिक्यां कृत्तिकायोगे यः करोति प्रदक्षिणाम् ॥
त्रिपुष्करस्य मौनेन नरकं न स पश्यति ॥ १५ ॥
मृगसंक्रमणे ये तु सूर्यवारेण संस्थिते ॥
चण्डीशं वीक्षयंति स्म न ते नरकगामिनः ॥ १६ ॥
गां पंकाद्ब्राह्मणीं दास्यात्साधून्स्तेनाद्द्विजं वधात् ॥
मोचयन्ति च ये राजन्न ते नरकगामिनः ॥ १७ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥
यथा न नरकं याति पुरुषस्तु स्वकर्मणा ॥
यथा च नरकं याति स्वल्पपापोऽपि मानवः ॥ १८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे भीष्मयुधिष्ठिरसंवादे नरकयातनानिरसनोपायवर्णनंनाम सप्तविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२७ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 228
सूत उवाच ॥ ॥
तथान्यच्च बिलद्वारि शयनार्थे व्यवस्थितम् ॥
दृष्ट्वा प्रमुच्यते पापी देवं च जलशायिनम् ॥ १ ॥
स्नात्वा तस्मिन्बिलद्वारे पवित्रे लोकसंश्रये ॥
यस्तं पूजयते भक्त्या शेषपर्यंकशायिनम् ॥
आजन्ममरणात्पापात्स च मुक्तिमवाप्नुयात् ॥ २ ॥
चतुरो वार्षिकान्मासान्सुप्रसुप्तं सुरेश्वरम्॥
संपूजयति यो भक्त्या न स भूयोऽत्र जायते ॥ ३ ॥
तत्र पूर्वं महाभागा मुनयः सेव्य तं प्रभुम् ॥
मृत्तिकाग्रहणं कृत्वा तस्य चायतने शुभे ॥ ४ ॥
संप्राप्ताः परमं स्थानं तद्रिष्णोः परमं पदम् ॥
यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ॥
तत्फलं तस्य पूजायां चातुर्मास्यां प्रजायते ॥ ५ ॥
यत्फलं गोग्रहे मृत्युं संप्राप्ता यांति मानवाः ॥
तत्फलं चतुरो मासान्पूजया जलशायिनः ॥ ६ ॥
अपि पापसमाचारः परदाररतोऽपिच ॥
ब्रह्मघ्नोऽपि सुरापोऽपि स्त्रीहन्ताऽपि विगर्हितः ॥
पूजया चतुरो मासांस्तस्य देवस्य मुच्यते ॥ ७ ॥
॥ ऋषय ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तं तत्रस्थं जलशायिनम् ॥
बिलद्वारे कथं सूत तत्र नः संशयो महान् ॥ ८ ॥
स किल श्रूयते देवः क्षीराब्धौ मधुसूदनः ॥
सदैव भगवाञ्छेते योगनिद्रां समाश्रितः । ९ ॥.
कथं स भगवाञ्छेते बिलद्वारे व्यवस्थितः ॥
एतत्कीर्तय कार्त्स्न्येन परं कौतूहलं हि नः ॥ ६.२२८.१० ॥
॥ सूत उवाच ॥ ॥
सत्यमेतन्महाभागाः क्षीराब्धौ मधुसूदनः ॥
योगनिद्रां गतः शेते शेषपर्यंकशा यकः ॥ ११ ॥
स यथा तत्र क्षेत्रे तु संश्रितो भगवान्स्वयम् ॥
जलशायिस्वरूपेण तच्छृशुध्वं समाहिताः १२ ॥
यथा च चतुरो मासान्पूजितस्तत्र संस्थितः ॥
मुक्तिं ददाति पुंसां स तथा संकीर्तयाम्यहम् ॥ १३ ॥
चत्वारोऽपि यथा मासा गर्हणीया धरातले ॥
सर्वकर्मसु मुख्येषु यज्ञोद्वा हादिषु द्विजाः ॥ १४ ॥
तद्वोऽहं कीर्तयिष्यामि नमस्कृत्य द्विजोतमाः ॥
तस्मै देवाधिदेवाय निर्गुणाय गुणात्मने ॥ १५ ॥
अव्यक्तायाऽप्रमेयाय सर्वदेवमयाय च ॥
सर्वज्ञाय कवीशाय सर्वभूतात्मने तथा ॥ १६ ॥
पुरासीद्दानवो रौद्रो हिरण्यकशिपुर्महान् ॥
नारसिंहं वपुः कृत्वा विष्णुना यो निपातितः ॥ १७ ॥
तस्य पुत्रद्वयं जज्ञे सर्वलक्षणलक्षितम् ॥
प्रह्लादश्चांधकश्चैव वीर्येणाप्रतिमौ युधि ॥ १९ ॥
हिरण्यकशिपौ प्राप्ते परं लोकं महासुरे ॥
अमात्यैरभिषेकाय प्रह्लादः स नियोजितः ॥ १९ ॥
स नैच्छत तदा राज्यं पितृपैतामहं महत्॥
समागतमपि प्राज्ञो यस्मात्तद्वो वदाम्यहम् ॥ ६.२२८.२० ॥
दानवानां सदा द्वेषो देवेन सह चक्रिणा ॥
न करोति पुनर्द्वेषं तं समुद्दिश्य सर्वदा ॥ ॥ २१ ॥
एतस्मात्कारणात्सर्वे तेन त्यक्ता दितेः सुताः ॥
स्वराज्यमपि संत्यज्य विष्णुस्तेन समाश्रितः ॥ २२ ॥
ततस्तैर्दानवैः क्षुद्रैर्विष्णुद्वेषपरायणैः ॥
अन्धकः स्थापितो राज्ये पितृपैतामहे तदा ॥ २३ ॥
अन्धकोऽपि समाराध्य देवदेवं चतुर्मुखम्॥
अमरत्वं ततो लेभे यावच्चन्द्रार्कतारकम् ॥ २४ ॥
वरपुष्टस्ततः सोऽपि चक्रे शक्रेण विग्रहम् ॥ २५ ॥
जित्वा शक्रं महासंख्ये यज्ञांशाञ्जगृहे स्वयम् ॥
गत्वाऽमरावतीं दैत्यो निःसार्य च शतक्रतुम् ॥
स्ववर्गेण समोपेतः स्वर्गं समहरत्तदा ॥ २६ ॥
शक्रोऽपि च समाराध्य शंकरं लोकशंकरम् ॥
सर्वदेवसमोपेतो भृत्यवत्परिवर्तते ॥२७॥
ततः कालेन महता तस्य तुष्टः पिनाकधृक् ॥
तं प्राह वरदोऽस्मीति वद शक्र करोमि किम् ॥ २८ ॥
॥ इन्द्र उवाच ॥ ॥
अंधकेन हृतं राज्यं मम वीर्यात्सुरेश्वर ॥
यज्ञभागैः समोपेतं हत्वाऽऽशु तत्प्रयच्छ मे ॥२९॥
तच्छ्रुत्वा तस्य दीनस्य भगवाञ्छशिशेखरः ॥
प्रोवाच तव दास्यामि राज्यं त्रैलोक्यसंभवम् ॥ ६.२२८.३० ॥
ततः संप्रेषयामास दूतं तस्य विचक्षणम् ॥
गणेशं वीरभद्राख्यं गत्वा तं ब्रूहि चांधकम् ॥ ३१ ॥
ममादेशात्परित्यज्य स्वर्गं गच्छ धरातलम् ॥
पितृपैतामहं स्थानं राज्यं तत्र समाचर ॥ ३२ ॥
परित्यजस्व यज्ञांशान्नो चेद्धंतास्मि सत्वरम् ॥
स गत्वा चांधकं प्राह यथोक्तं शंभुना स्फुटम् ॥ ३३ ॥
सविशेषमहाबुद्धिः स्वामिकार्यप्रसिद्धये ॥
अथ तं चाधकः प्राह प्रविहस्य महाबलः ॥ ॥ ३४ ॥
अवध्यो हि यथा दूतस्तेन त्वां न निहन्म्यहम् ॥
क स्याद्वै शंकरोनाम यो मामेवं प्रभाषते ॥ ३५ ॥
न मां वेत्ति स किं मूढः किं वा मृत्यु मभीप्सते । ३६ ॥
अथवा सत्यमेवैतान्निर्विण्णो जीविताच्च सः॥
दरिद्रोपहतो नित्यं सर्वभोगविवर्जितः ॥ ३७ ॥
स्मशाने क्रीडनं यस्य भस्म गात्रविलेपनम् ॥
भूषणं चाहयो वस्त्रं दिशो यस्य जटालका ॥ ३८ ॥
कस्तस्य जीवितेनार्थस्तेनेदं मां ब्रवीति सः॥
तस्माद्गत्वा द्रुतं ब्रूहि मद्वाक्यं दूत सस्फुटम्॥ ३९ ॥
त्यक्त्वा कैलासमेनं त्वं वाराणस्यां तपः कुरु ॥
मया स्थानमिदं दत्तं कैलासं स्वसुतस्य च ॥ ६.२२८.४० ॥
वृकस्यापि न सन्देहो विभवेन समन्वितम् ॥
नो चेत्प्राणान्हरिष्यामि सेंद्रस्य तव शंकर ॥ ४१ ॥
तच्छ्रुत्वा वीरभद्रस्तु निर्भर्त्स्य च मुहुर्मुहुः ॥
क्रोधेन महताविष्टः कैलासं समुपाविशत्॥ ४२ ॥
ततः स कथयामास तद्वाक्यं च पिनाकिनः ॥
अतिक्रूरं विशेषेण तत क्रुद्धः पिनाकधृक् ॥ ४३ ॥
इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्याने ब्रह्मदत्तवरप्रदानोद्धतान्धकासुरकृतशंकराज्ञाव माननवर्णनंनामाष्टाविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२८ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 229
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे शम्भुर्गणैः सर्वैः समावृतः ॥
इन्द्राद्यैश्च सुरैः सर्वेः क्रोधसंरक्तलोचनः ॥
जगाम वृषमारुह्य पुरीं चैवामरावतीम् ॥ १ ॥
अंधकोऽपि समालोक्य संप्राप्तां देववाहिनीम् ॥
सगणां च महादेवं परितोषं परं गतः ॥ २ ॥
निश्चक्रामाथ युद्धाय बलेन चतुरंगिणा ॥
वरं स्यंदनमारुह्य सुश्वेताश्ववहं शुभम् ॥ ३ ॥
ततः समभवद्युद्धं देवानां दानवैः सह ॥
गणैश्च विकृताकारैर्मृत्युं कृत्वा निवर्तनम् ॥ ४ ॥
एकवर्षसहस्रांतं यावद्युद्धमवर्तत ॥
दिनेदिने क्षयं यांति तत्र देवा न दानवाः ॥
ततो वर्षसहस्रांते संक्रुद्धः शशिशेखरः॥
त्रिशूलेन समुद्यम्य स्वहस्तेन व्यभेदयत् ॥ ६ ॥
स विद्धोऽपि स्वयं तेन त्रिशूलेन महासुरः॥
ब्रह्मणो वरमाहात्म्यान्नैव प्राणैविर्युज्यते ॥ ७ ॥
ततो भूयोऽपि चोत्थाय चक्रे युद्धं महात्मना ॥
जघान च स संक्रुद्धो विशेषेण बहून्गणान् ॥ ८ ॥
शंकरं ताडयामास गदाघातैर्मुहुर्मुहुः ॥ ९ ॥
एवं वर्षसहस्रांतमभूत्सार्द्धं पिनाकिना ॥
रौद्रं युद्धमन्धकस्य सर्वलोकभयावहम् ॥ ६.२२९.१० ॥
त्रिशूलभिन्नो दैत्यः स यदा मृत्युं न गच्छति ॥
उत्थायोत्थाय कुरुते प्रहारान्गदया बली ॥ ११ ॥
तथा तं शंकरो ज्ञात्वा मृत्युना परिवर्जितम्॥
ब्रह्मणो वरदानेन सर्वेषां च दिवौकसाम्॥ १२ ॥
ततो निर्भिद्य शूलाग्रैः प्रोत्क्षिप्य गगनांगणे ॥
छत्रवद्धारयामास लंबमानमधोमुखम् ॥
अक्षरद्रुधिरं भूमौ गात्रेभ्यो वर्ष्मसंभवम् ॥ १३ ॥
यावद्वर्षसहस्रांते चर्मास्थि स्नायुरेव च ॥
धातुत्रयं स्थितं तस्य नष्टमन्यच्चतुष्टयम् ॥ १४ ॥
स ज्ञात्वा बल संहीनमात्मानं धातुसंक्षयात् ॥
सामोपायं ततश्चके स्तुत्वा सार्धं पिनाकिना ॥ १५ ॥
॥ अन्धक उवाच ॥ ॥
न त्वं देवो मया ज्ञातो वाग्दुष्टेन दुरात्मना ॥
ईदृग्वीर्यसमोपेतस्तद्युक्तं भवता कृतम् ॥ १६ ॥
अनुरूपं मदांधस्याविवेकस्य सुरोत्तम ॥
स्ववीर्यमदयुक्तस्य विवेक रहितस्य च ॥ १७ ॥
दुर्विनीतः श्रियं प्राप्य विद्यामैश्वर्यमेवच ॥
न तिष्ठति चिरं कालं यथाऽहं मदगर्वितः ॥ १८ ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः ॥
त्राहि मां देव ईशान सर्वपापहरो भव ॥ १९ ॥
दुःखितोऽहं वराकोऽहं दीनोऽहं शक्तिवर्जितः ॥
त्रातुमर्हसि मां देव प्रपन्नं शरणं विभो ॥ ६.२२९.२० ॥
दुष्टोऽहं पापयुक्तोऽहं सांप्रतं परमेश्वर ॥
तेन बुद्धिरियं जाता तवोपरि ममानघ ॥ २१ ॥
सर्वपापक्षये जाते शिवे भवति भावना ॥ २२ ॥
नाममात्रमपि त्र्यक्ष यस्ते कीर्तयति प्रभो ॥
सोऽपि मुक्तिमवाप्नोति किं पुनः पूजने रतः ॥ २३ ॥
तव पूजा विहीनानां दिनान्यायांति यांति च ॥
यानि देव मृतानां च तानि यांति न जीवताम् ॥ २४ ॥
कुष्ठी वा रोगयुक्तो वा पंगुर्वा बधिरोऽपि वा ॥
मा भूत्तस्य कुले जन्म शंभुर्यत्र न देवता ॥ २५ ॥
तस्मान्मोचय मां देव स्वागतं कुरु सांप्रतम् ॥
गतो मे दानवो भावस्त्यक्तं राज्यं तथा विभो ॥ । २६ ॥
त्यक्ताः पुत्राश्च पौत्राश्च पत्न्यश्च विभवैः सह ॥
त्रिः सत्येन सुरश्रेष्ठ तव पादौ स्पृशाम्यहम् ॥ २७ ॥
तस्य तद्वचनं श्रुत्वा ज्ञात्वा तं गतकल्मषम्॥
उत्तार्य शनकैः शूलाद्विनयावनतं स्थितम्॥२८॥
ततो नाम स्वयं चक्रे भृंगिरीटिरिति प्रभुः॥
अब्रवीच्च सदा मे त्वं वल्लभः संभविष्यसि॥२९॥
नन्दिनोऽपि गजास्यस्य महाकालस्य पुत्रक॥
तिष्ठ सौम्य मया सौख्यं न स्मरिष्यसि बांधवान्॥६.२२९.३०॥।
स तथेति प्रतिज्ञाय प्रणम्य शशिशेखरम् ॥
तस्थौ सर्वगणैर्युक्तः प्रभुसंश्रयसंयुतः ॥ ३१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये भृंगीरिट्युत्पत्तिवर्णनंनामैकोनत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २२९ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 230
॥ सूत उवाच ॥ ॥
एवं गणत्वमापन्ने ह्यन्धके दानवोत्तमे ॥
तस्य पुत्रो वृकोनाम निरुत्साहो द्विषज्जये ॥ १ ॥
भयेन महता युक्तो हतशेषैश्च दानवैः ॥
प्रविवेश समुद्रांतं सुदुर्गं ब्राह्मणोत्तमाः ॥ २ ॥
ततः शक्रः प्रहृष्टात्मा प्रणम्य वृषभध्वजम् ॥
तस्यादेशं समासाद्य प्रविवेशामरावतीम् ॥ ३ ॥
चकार च सुखी राज्यं त्रैलोक्येऽपि द्विजोत्तमाः॥
यज्ञभागान्पुनर्लेभे यथार्थं च धरातले ॥ ४ ॥
एतस्मिन्नेव काले तु ह्यंधकस्य सुतो वृकः ॥
निष्क्रम्य सागरात्तूर्णं जंबुद्वीपं समागतः ॥५॥
हाटकेश्वरजं क्षेत्रं मत्वा पुण्यं सुसिद्धिदम् ॥
पित्रा यत्र तपस्तप्तमंधकेन दुरात्मना ॥ ६ ॥
सगुप्तस्तु तपस्तेपेऽयथा वेत्ति न कश्चन ॥
ध्यायमानः सुरश्रेष्ठं भक्त्या कमलसंभवम् ॥७॥
यावद्वर्षसहस्रांतं जलाहारो द्वितीयकम् ॥
तपस्तेपे स दैत्येन्द्रो ध्यायमानः पितामहम् ॥ ८ ॥
वायुभक्षस्ततो जातस्तावत्कालं द्विजोत्तमाः ॥
अंगुष्ठाग्रेण भूपृष्ठं स्पर्शमानो जितेन्द्रियः ॥ ९ ॥
एवं च पञ्चमे प्राप्ते सहस्रे द्विजसत्तमाः ॥
ब्रह्मा तस्य गतस्तुष्टिं दृष्ट्वा तस्य तपो महत् ॥ ६.२३०.१० ॥
ततोऽब्रवीत्तमागत्य तां गर्तां ब्राह्मणोत्तमाः ॥
भोभो वृक निवर्तस्व तपसोऽस्मात्सुदारुणात् ॥ ११ ॥
वरं वरय भद्रं ते यो नित्यं मन सि स्थितः ॥ १२ ॥
॥ वृक उवाच ॥ ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
जरामरणहीनं मां तत्कुरुष्व पितामह ॥ १३ ॥
॥ श्रीब्रह्मोवाच ॥ ॥
मम प्रसादतो वत्स जरामरणवर्जितः ॥
भविष्यसि न सन्देहः सत्यमेतन्मयोदितम् ॥ १४ ॥
एवमुक्त्वा ततो ब्रह्मा तत्रैवांतरधी यत ॥
वृकोऽपि कृतकृत्यस्त्वागतश्च स्वगृहं पितुः ॥ १५ ॥
गिरिं रैवतकं नाम सर्वर्तुकुसुमोज्ज्वलम् ॥
तत्र गत्वा निजामात्यैः समं मन्त्र्य च सत्व रम् ॥
इन्द्रोपरि ततश्चक्रे यानं युद्धपरीप्सया ॥ १६ ॥
इंद्रोऽपि च परिज्ञाय दानवं तं महाबलम् ॥
जरामृत्युपरित्यक्तं प्रभावात्परमेष्ठिनः ॥ १७ ॥
परित्यज्य भयाच्चैव पुरीं चैवामरावतीम् ॥
ब्रह्मलोकं गतस्तूर्णं देवैः सर्वैः समन्वितः ॥ १८ ॥
एतस्मिन्नंतरे प्राप्तो वृकश्च त्रिदशालये ॥
ससैन्यपरिवारेण प्रहृष्टेन समन्वितः ॥ १९ ॥
ततश्चैंद्रपदे तस्मिन्स्वयमेव व्यवस्थितः ॥
शुक्रात्प्राप्याभिषेकं च पुष्पस्नानसमुद्भवम् ॥ ६.२३०.२० ॥
सोऽभिषिक्तस्तु शुक्रेण देवराज्यपदे वृकः॥
स्थापयामास दैतेयान्देवतानां पदेषु च॥ २१॥
आदित्यानां वसूनां च रुद्राणां मरुतामपि॥
यज्ञभागकृते विप्राः शुक्रशासनमाश्रिताः॥२२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्याने वृकेन्द्रराज्यलंभनवर्णनंनाम त्रिंशदुत्तरद्विशततमोऽध्यायः॥२३०॥
खण्डः ६ (नागरखण्डः) — Adhyāya 231
॥सूत उवाच॥
वृकोऽपि तत्समासाद्य राज्यं त्रैलोक्यसंभवम्॥
यदृच्छया जगत्सर्वं समाज्ञापयत्तदा॥१॥
सोंऽधकस्य बले वीर्ये धैर्ये कोपे च दानवः॥
सहस्रगुणितश्चासीद्रौद्रः परमदारुणः॥२॥
एतस्मिन्नंतरे कश्चिन्न मर्त्यो यजति क्षितौ॥
न होमं नैव जाप्यं च दैत्याञ्ज्ञात्वा सुरास्पदे॥३॥
अथ यः कुरुते धर्मं होमं वा जपमेव वा।
सुगुप्तस्थानमासाद्य करोत्यमरतुष्टये॥४॥
अथ स्वर्गस्थिता दैत्या यज्ञभागविवर्जिताः॥
तथा मर्त्योद्भवैर्भागैः संदेहं परमं गताः॥५॥
ततः कोपपरीतात्मा प्रेषयामास दानवः॥
मर्त्यलोके चरान्गुप्तान्निपुणांश्चाब्रवीत्ततः॥६॥
यः कश्चिद्देवतानां च प्रगृह्णाति करोति च॥
तदर्थं यजनं होमं दानं वा पृथिवीतले॥
स च वध्यश्च युष्माभिर्मम वाक्यादसंशयम्॥७॥
अथ ते तद्वचः श्रुत्वा दानवा बलवत्तराः॥
गत्वा च मेदिनीपृष्ठं गुप्ताः सर्पंति सर्वतः॥८॥
यं कञ्चिद्वीक्षयंतिस्म जपहोमपरायणम॥
स्वाध्यायं वा प्रकुर्वाणं तं निघ्नंति शितासिभिः॥ ९॥
एतस्मिन्नेव काले तु सांकृतिर्मुनिसत्तमः॥
गुप्तश्चक्रे ततस्तस्यां गर्तायां छन्नवर्ष्मकः॥
यत्र पूर्वं तपस्तप्तं वृकेण च द्विजाः पुरा॥६.२३१.१०॥
अथ ते तं तदा दृष्ट्वा तद्गुहायां व्यवस्थितम्॥
भर्त्समानास्तपस्तच्च प्रोचुश्च परुषाक्षरैः॥११॥
दृष्ट्वा तस्याग्रतः संस्थां गन्धपुष्पैश्च पूजिताम्॥
वासुदेवात्मिकां मूर्तिं चतुर्हस्तां द्विजोत्तमाः॥१२॥
ततस्ते शस्त्रमुद्यम्य निर्जघ्नुस्तं क्रुधान्विताः॥
न शेकुस्ते यदा हंतुं संवृतं विष्णुतेजसा॥
कुण्ठतां सर्वशस्त्राणि गतानि विमलान्यपि॥१३॥
अथ वैलक्ष्यमापन्ना निर्विण्णाः सर्व एव ते॥
तां वार्तां दानवेन्द्राय वृकायोचुश्च ते तदा॥१४॥
कश्चिद्विप्रः समाधाय वैष्णवीं प्रतिमां पुरः॥
तपस्तेपे महाभाग क्षेत्रे वै हाटकेश्वरे॥१५॥
यत्र त्वया तपस्तप्तं भीत्या सर्वदिवौकसाम्॥
अपि चौर्येण चास्माकं तपस्तपति तादृशम्॥ १६॥
येन सर्वाणि शस्त्राणि कुण्ठतां प्रगतानि च॥
तस्य गात्रे प्रहारैश्च तस्मात्कुरु यथोचितम्॥ १७॥
तेषां तद्वचनं श्रुत्वा वृकः कोपसमन्वितः॥
जगाम सत्वं तत्र यत्रासौ सांकृतिः स्थितः॥१८॥
स गत्वा वैष्णवीं मूर्तिं तामुत्क्षिप्य सुदूरतः॥
श्वभ्राद्बहिः प्रचिक्षेप भर्त्समानः पुनः पुनः॥१९॥
जघान पादघातेन दक्षिणेनेतरेण तम्॥
अब्रवीन्मम वध्यस्त्वं यन्मच्छत्रुं जनार्दनम्॥६.२३१.२०॥
संपूजयसि चौर्येण तेन प्राणान्हराम्यहम्॥
एवमुक्त्वाथ खड्गेन तं जघान स दैत्यपः॥२१॥
ततस्तस्य स खड्गस्तु तीक्ष्णोऽपि द्विजसत्तमाः॥
तस्य काये प्रहीणस्तु शतधा समपद्यत॥२२॥
ततः कोपपरीतात्मा तं शशाप स सांकृतिः॥२३॥
यस्मात्पाप त्वयाहं च पादघातैः प्रताडितः ॥
तस्मात्ते पततां पादौ सद्य एव धरातले ॥ २४ ॥
॥ सूत उवाच ॥ ॥
उक्तमात्रे ततस्तेन पादौ तस्य द्विजोत्तमाः ॥
पतितौ मेदिनीपृष्ठे पंचशीर्षाविवोरगौ ॥ २५ ॥
एतस्मिन्नेव काले तु आक्रन्दः सुमहानभूत् ॥
वृकस्य सैनिकानां च नारीणां च विशेषतः ॥ ॥ २६ ॥
अथ देवाः परिज्ञाय तं तदा पंगुतां गतम् ।
आगत्य मेरुपृष्ठं च निजघ्नुस्तत्परिग्रहम् ॥ २७ ॥
हतशेषाश्च दैत्यास्ते पातालांतःसमा गताः ॥
वृकोऽपि पंगुतां प्राप्तस्तस्थौ तपसि सुस्थिरम् ॥ २८ ॥
सर्वैरंतःपुरैः सार्धं दुःखशोकसमन्वितः ॥
इन्द्रोऽपि प्राप्तवान्राज्यं तदा निहत कंटकम् ॥ २९ ॥
धर्मक्रियाः प्रवृत्ताश्च ततो भूयो रसातले ॥ ६.२३१.३० ॥
अथ दीर्घेण कालेन तस्य तुष्टः पितामहः ॥
उवाच तत्र चागत्य गर्त्तामध्ये द्विजोत्तमाः ॥ ३१ ॥
वृक तुष्टोऽस्मि ते वत्स वरं वरय सुव्रत ॥
अहं दास्यामि ते नूनं यद्यपि स्यात्सुदुर्लभम् ॥ ३२ ॥
॥ वृक उवाच ॥ ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
पाददानं तदा देव मम ब्रह्मन्समाचर ॥
पंगुता याति शीघ्रं मे येनेयं ते प्रसादतः ॥ ३३ ॥
तच्छ्रुत्वा तं समानीय सांकृतिं तत्र पद्मजः ॥
प्रोवाच सांत्वपूर्वं च वृकस्यास्य द्विजोत्तम ॥ ३४ ॥
मद्वाक्यात्पंगुता याति येनास्य त्वं तथा कुरु ॥ ३५ ॥ ॥
॥ सांकृतिरुवाच ॥ ॥
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि पितामह ॥
ज्ञायते देवदेवेश तत्कथं तत्करोम्यहम् ॥ ३६ ॥
॥ ब्रह्मोवाच ॥ ॥
मम भक्तिपरो नित्यं वृकोऽयं दैत्यसत्तमः ॥
पौत्रस्त्वं दयितो नित्यं तेन त्वां प्रार्थयाम्यहम् ॥ ३७ ॥
तव वाक्यं च नो मिथ्या कर्तुं शक्नोमि सन्मुने ॥ ३८ ॥
॥ सांकृतिरुवाच ॥ ॥
एष दैत्यः सुदुष्टात्मा देवानामहिते स्थितः ॥
विशेषाद्वासुदेवस्य पुरोर्मम महात्मनः ॥ ३९ ॥
पंगुतामर्हति प्रायः पापात्मा द्विजदूषकः ॥
बलेन महता युक्तो जरामरणवर्जितः ॥ ६.२३१.४० ॥
पुरा कृतस्त्वया देव स चेत्पादाववाप्स्यति ॥
हनिष्यति जगत्सर्वं सदेवासुरमानुषम् ॥ ४१ ॥
तस्मात्तिष्ठतु तद्रूपो न कल्पं कर्तुमर्हसि ॥
त्वयापि चिन्ता कर्तव्या त्रैलोक्यस्य यतः प्रभो ॥ ॥ ४२ ॥
॥ ब्रह्मोवाच ॥ ॥
प्रावृट्काले तु सञ्जाते यानं कर्तुं न युज्यते ॥
विजिगीषोर्विशेषेण मुक्त्वा शीतातपागमम् ॥ ४३ ॥
तस्माच्च चतुरो मासान्वार्षिकान्पादसंयुतः ॥
अगम्यः सर्वलोकानां कुर्यात्कर्माणि धैर्यतः ॥ ४४ ॥
तद्भूयात्पादसंयुक्तः स वृको दान वोत्तमः ॥
येन क्षेमं च देवानां द्विजानां जायते द्विज ॥ ४५ ॥
एवं कृते न मिथ्या ते वाक्यं विप्र भविष्यति ॥
फलं च तपसस्तस्य न वृथा संभविष्यति ॥ ४६ ॥
॥ सूत उवाच ॥ ॥
बाढमित्येव तेनोक्ते सांकृतेन महात्मना ॥
उत्थितौ सहसा पादौ तस्य गात्रात्पुनर्नवौ॥ ४७ ॥
पुनश्च दानवो रौद्रः पशुत्वं समपद्यत॥
तस्यामेव तु गर्तायां संतिष्ठति द्विजोत्तमाः॥४८॥
मासानष्टौ स दुःखेन सकलत्रः सबांधवः ॥
स्मरमाणो महद्वैरं दैवैः सार्धं दिवानिशम्॥४९॥
अन्यांश्च चतुरो मासान्निष्क्रम्य स रुषान्वितः॥
सदा पीडयते देवान्सहेंद्रान्मानुषानपि ॥६.२३१.५॥।
विध्वंसयति सर्वाणि धर्मस्थानानि यानि च ॥५१॥
विध्वंसयति देवानां स्त्रियो मासचतुष्टयम् ॥
उद्यानानि च सर्वाणि सपुराणि गृहाणि च ॥५२॥
ततो देवाः समभ्येत्य देवदेवं जनार्दनम् ॥
क्षीराब्धौ संस्थितं नित्यं शेषपर्यंकशायिनम्॥५३॥
चतुरो वार्षिकान्मासांस्तत्र स्थित्वा तदंतिके ॥
मासानष्टौ पुनर्जग्मुस्त्रिदिवं प्रति निर्भयाः ॥ ५४ ॥
तस्मिन्पंगुत्वमापन्ने दैत्ये परमदारुणे ॥
कस्यचित्त्वथ कालस्य देवराजो बृहस्पतिम् ॥
प्रोवाच दुःखसंतप्त आषाढांते सुरो त्तमः ॥ ५५ ॥
गुरो स मासः संप्राप्तः प्रावृट्कालो भयावहः ॥
आगमिष्यति यत्रासौ लब्धपादो वृकासुरः ॥५६॥
गन्तव्यं च ततोऽस्माभिः क्षीरोदे केशवालये ॥
मैवं दीनैस्तथा भाव्यं पराश्रयनिवासिभिः ॥ ५७ ॥
स्वगृहाणि परित्यज्य शयनान्यासनानि च ॥
वाहनानि विचित्राणि यच्चान्य द्दयितं गृहे ॥ ५८ ॥
तस्मात्कथय चास्माकमुपायं कञ्चिदेव हि ॥
व्रतं वा नियमं वाथ होमं वा मुनिसत्तम ॥ ५९ ॥
अशून्यं शयनं येन स्वकलत्रेण जायते ॥
तथा न गृहसंत्यागः स्वकीयस्य प्रजायते ॥ ६.२३१.६० ॥
निर्विण्णोऽहं निजस्थानभ्रंशाद्द्विजवरोत्तम ॥
वर्षेवर्षे च सम्प्राप्ते स्थानकस्य च्युतिर्भवेत् ॥ ६१ ॥
पुनर्भूमौ शयिष्यामि यावन्मासचतुष्टयम् ॥
निष्कलत्रो भयोद्विग्नो ब्रह्मचर्यपरायणः ॥ ६२ ॥
तस्य तद्वचनं श्रुत्वा भयार्तस्य बृहस्पतिः ॥
प्रोवाच सुचिरं ध्यात्वा ततो देवं शतक्रतुम् ॥ ६३ ॥
अशून्यशयनंनाम व्रतमस्ति महत्तपः ॥
विष्णोराराधनार्थाय तत्कुरुष्व समा हितः ॥ ६४ ॥
देवो यत्रास्ति विष्णुः स क्षीराब्धौ मधुसूदनः ॥
जलशायी जगद्योनिः स दास्यति हितं च ते ॥ ६५ ॥
यथा न शून्यं शयनं गृह भंगः प्रजायते ॥
सर्वशत्रुविनाशश्च तत्प्रसादेन वासव ॥ ६६ ॥
॥ सूत उवाच ॥ ॥
तस्मिन्व्रते ततश्चीर्णे ह्यशून्यशयनात्मके ॥
तुतोष भगवान्विष्णुस्ततः प्रोवाच देवपम् ॥ ६७ ॥
शक्र तुष्टोऽस्मि भद्रं ते वरं वरय सुव्रत ॥
व्रतेनानेन चीर्णेन चातुर्मास्योद्भवेन च ॥
तस्मात्प्रार्थय देवेन्द्र नित्यं यन्मनसि स्थितम् ॥ ६८ ॥
॥ इन्द्र उवाच ॥ ॥
कृष्ण जानासि त्वं चापि यश्च मेऽत्र पराभवः ॥
क्रियते दानवेन्द्रेण वृकेण सुदुरात्मना ॥ ६९ ॥
ममाष्टमासिकं राज्यं त्रैलोक्येऽपि व्यवस्थितम् ॥
शेषांश्च चतुरो मासान्वर्षेवर्षे समेति सः ॥ ६.२३१.७० ॥
एवं ज्ञात्वा सुरश्रेष्ठ दयां कृत्वा ममोपरि ॥
तथा कुरु यथा राज्यं मम स्यात्सार्वकालिकम् ॥ ७१ ॥
॥ विष्णुरुवाच ॥ ॥
अजरश्चामरश्चापि स कृतः पद्मयोनिना ॥
तत्कथं जीवमानेन तेन राज्यं भवेत्तव ॥ ७२ ॥
परं तथापि देवेन्द्र करिष्यामि हितं तव ॥ ७३ ॥
क्षीरार्णवं परित्यज्य हाटकेश्वरसंज्ञिते ॥
क्षेत्रे गत्वा समं लक्ष्म्या तस्योपरि ततः परम् ॥ ७४ ॥
करिष्यामि त्वहं शक्र शयनं यत्नमास्थितः ॥
यावच्च चतुरो मासान्यथा स न चलिष्यति ॥ ७८५ ॥
तस्मात्स्थानात्सहस्राक्ष मद्भारेण प्रपीडितः ॥
वर्षेवर्षे सदा कार्यं मया तत्सुहितं तव ॥ ७६ ॥
तस्माद्गच्छाधुना स्वर्गे कुरु राज्यमकंटकम् ॥
प्रावृट् काले तु संप्राप्ते न भीः कार्या तदुद्भवा ॥ ७७ ॥
यो मां तत्र शयानं तु व्रतेनानेन देवप॥
पूजयिष्यति सद्भक्त्या तस्य दास्यामि वांछितम् ॥ ७८ ॥।
॥ सूत उवाच ॥
एवमुक्त्वा हृषीकेशो विससर्ज शतक्रतुम् ॥
निःशेषभयनिर्मुक्तं स्वराज्यपरिवृद्धये ७९॥
आषाढस्य सिते पक्ष एकादश्या दिने सदा॥
हाटकेश्वरजे क्षेत्रे तत्रागत्य स्वयं विभुः ॥ ६.२३१.८० ॥
वृकोपरि ततश्चक्रे शयनं यत्नमास्थितः ॥
तेनाक्रांतस्ततः सोऽपि शक्नोति चलितुं न हि ॥ ८१ ॥।
मृतप्रायस्ततो नित्यं तद्भारेण प्रपीडितः ॥
कार्तिकस्य सिते पक्ष एकादश्या दिने स्थिते ॥ ८२ ॥
उत्थानं कुरुते विष्णुः क्षीरोदं प्रति गच्छति ॥ा।
सोऽपि सांकृतिशापेन वृकः पंगुत्वमाप्नुयात् ॥ ८३ ॥
एवं च चतुरो मासान्न त्यजेच्छयनं हरिः ।।
भयात्तस्यासुरेंद्रस्य दानवस्य दुरात्मनः ॥ ॥ ८४ ॥
तत्र मर्त्यैः क्रिया सर्वाः क्रियते न मखोद्भवाः ॥
यस्मात्स यज्ञपुरुषो न सुप्तो भागमश्नुते ॥ ८५ ॥
तथा यज्ञाश्च ये सर्वे क्त्वयादानादि काः शुभाः ॥
ते सर्वे न क्रियंते च चूडाकरणपूर्वकाः ॥ ८६ ॥
मुक्त्वान्नप्राशनंनाम सीमंतोन्नयनं तथा ॥
तस्मात्सुप्ते जगन्नाथे ताः सर्वाः स्युर्वृथा द्विजाः ॥ ८७ ॥
व्रतं वा नियमं वाथ तस्मिन्यः कुरुते नरः ॥
प्रसुप्ते देवदेवेशे तत्सर्वं निष्फलं भवेत् ॥८८॥
तस्मात्सर्वप्रयत्नेन संप्रसुप्ते जनार्दने ॥
व्रतस्थैर्मानवैर्भाव्यं तस्य देवस्य तुष्टये ॥ ८९ ॥
एकादश्यां दिने प्राप्ते शयने बोधने हरेः ॥
यत्किंचित्क्रियते कर्म श्रेष्ठं तच्चाक्षयं भवेत् ॥ ६.२३१.९० ॥
किंवात्र बहुनोक्तेन क्रियते यद्व्रतं नरैः ॥
तेन तुष्टिं परां याति दैत्योपरि स्थितो हरिः ॥९१॥
एवं स भगवान्प्राह सुप्तस्तत्र जनार्दनः ॥
किं वा तस्य ज्वरो जातो महती वेदनापि च ॥ ९२ ॥
तस्मिन्नहनि पापात्मा योन्नमश्नाति मानवः ॥
तस्मात्सर्वप्रयत्नेन संप्राप्ते हरिवासरे ॥ ९३ ॥
अन्यस्मिन्नपि भोक्तव्यं न नरेण विजानता ॥
किं पुनः शयनं यत्र कुरुते यत्र बोधनम् ॥ ९४ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजो त्तमाः ॥
हाटकेश्वरजे क्षेत्रे यस्माच्छेते जनार्दनः ॥ ९५ ॥
क्षीराब्धिं संपरित्यज्य सदा मासचतुष्टयम् ॥
श्रूयतां च फलं यत्स्यात्तस्मिन्नाराधिते विभो ॥ ९६ ॥
चतुरो वार्षिकान्मासान्यस्तं पूजयते विभुम् ॥
व्रतस्थः स नरो याति यत्र देवः स संस्थितः ॥ ९७ ॥
किं दानैर्बहुभिर्दत्तैः किं व्रतैः किमुपोषितैः ॥
तत्र यः पुंडरीकाक्षं सुप्तं पूजयति ध्रुवम् ॥ ९८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्यान एकादशीव्रतमाहात्म्यवर्णनंनामैकत्रिंशदुत्तरद्विशततमोऽध्यायः । २३१ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 232
॥ ऋषय ऊचुः ॥ ॥
प्रसुप्ते देवदेवेशे शंखचक्रगदाधरे ॥
यच्चान्यदपि कर्तव्यं नियमो व्रतमेव वा ॥ १ ॥
होमो वाथ जपो वाथ दानं वा तद्वदस्व नः ॥
॥ सूत उवाच ॥
यः कश्चिन्नियमो विप्राः प्रसुप्ते गरुडध्वजे ॥ २ ॥
अनंतफलदः स स्यादित्युवाच पितामहः ॥
तस्मात्सर्वप्रयत्नेन कश्चिद्बाह्यो विजानता ॥ ३ ॥
नियमो वा जपो होमः स्वाध्यायो व्रतमेव वा ॥
कर्तव्यं ब्राह्मणश्रेष्ठास्तुष्ट्यर्थं चक्रपाणिनः ॥ ४ ॥
चतुरो वार्षिकान्मासानेकभुक्तेन यो नयेत् ॥
वासुदेवं समुद्दिश्य स धनी जायते नरः ॥ ५ ॥
नक्षत्रैर्भोंजनं कुर्याद्यः प्रसुप्ते जनार्दने ॥
स धनी रूपसंपन्नः सुमतिश्च प्रजायते ॥ ६ ॥
एकांतरोपवासैश्च यो नयेद्द्विजसत्तमाः ॥
चतुरो वार्षिकान्मासान्वैकुंठे स सदा वसेत् ॥ ७ ॥
षष्ठान्नकालभोजी स्याद्यः प्रसुप्ते जनार्दने ॥
राजसूयाश्वमेधाभ्यां स कृत्स्नं फलमाप्नुयात्॥ ८ ॥
त्रिरात्रोपोषितो यस्तु चतुर्मासान्सदा नयेत् ॥
न स भूयोऽपि जायेत संसारेऽत्र कथंचन ॥ ९ ॥
सायंप्रातः परो भूत्वा चतुर्मासान्सदा नयेत्॥
अग्निष्टोमस्य यज्ञस्य स फलं लभते नरः ॥ ६.२३२.१० ॥
अयाचितं चरेद्यस्तु प्रसुप्ते मधुसूदने ॥
न विच्छेदो भवेत्तस्य कदाचित्सह बंधुभिः ॥ ११ ॥
तैलाभ्यंगं च यो जह्याद्घृताभ्यंगं विशेषतः ॥
चतुरो वार्षिकान्मासान्स स्वर्गे भोगभाग्भवेत् ॥ १२ ॥
ब्रह्मचर्येण यो मासांश्चतुरोऽपि नयेन्नरः ॥
विमानवरमारूढः स स्वर्गे स्वेच्छया वसेत् ॥ १३ ॥
यः स्नानं चतुरो मासान्कुरुते तैलवर्जितम् ॥
मधुमांसपरित्यागी स भवेन्मुक्तिभाक्सदा ॥ १४ ॥
वर्जयेच्छ्रावणे शाकं दधि भाद्रपदे च यः ॥
क्षीरमाश्वयुजे मासि कार्तिके च सदामिषम्॥ १८ ॥
न स पापेन लिप्येत संवत्सरकृते पुनः ॥
एतत्प्राह द्विजश्रेष्ठा मनुः स्वायंभुवो वचः ॥ १६ ॥
शाके संक्रमते ब्रह्मा श्रावणे मासि संस्थिते ॥
दध्नि भाद्रपदे विष्णुः क्षीरे चाश्वयुजे हरः ॥ १७ ॥
त्रयोऽपि कार्तिके मासि संक्रमंति तथाऽऽमिषे ॥
तस्मादेतान्स देवेषु सर्वथा परिवर्जयेत् ॥ १८ ॥
यः कांस्यं वर्जयेन्मर्त्यः प्रसुप्ते गरुडध्वजे ॥
स फलं प्राप्नुयात्कृत्स्नं वाजपेयातिरात्रयोः ॥ १९ ॥
अक्षारलवणाशी च यो भवेद्ब्राह्मणोत्तमः ॥
तस्यापि सकलाः पूर्ताः प्रभवंति सदा ततः ॥ ६.२३२.२० ॥
यो होमं चतुरो मासान्प्रकरोति तिलाक्षतैः ॥
स्वाहांतैर्वैष्णवैर्मंत्रैर्न स रोगेण युज्यते ॥ २१ ॥
यो जपेत्पौरुषं सूक्तं स्नात्वा विष्णोः स्थितोऽग्रतः ॥
मतिस्तस्य विवर्धेत शुक्लपक्षे यथोडुराट् ॥ २२ ॥
शतमष्टोत्तरं यावत्फलहस्तः प्रदक्षिणाम् ॥
करोति विष्णोर्मौनेन न स पापेन लिप्यते ॥ २३ ॥
मिष्टान्नं ब्राह्मणेंद्राणां यो ददाति स्वशक्तितः ॥
विशेषात्कार्तिके मासि सोऽग्निष्टोमफलं लभेत्॥ २४ ॥
यः स्वाध्यायं चतुर्वेदैर्विष्णोरायतने चरेत् ॥
चतुरो वार्षिकान्मासान्स विद्वान्सर्वदा भवेत् ॥ २५ ॥
नृत्यगीतादिकं यश्च कुर्याद्विष्णोः सदा गृहे ॥
अप्सरसोऽस्य कुर्वंति पुरतः स्वर्गतस्य च ॥ २६ ॥
यस्तु रात्रिदिनं विप्रो नृत्यगीतादिकं ददेत् ॥
चतुरो वार्षिकान्मासान्स गन्धर्वत्वमाप्नुयात् ॥ २७ ॥
एते च नियमाः सर्वे शक्यंते यदि भो द्विजाः ॥
कर्तुं च चतुरो मासानेकस्मिन्वाऽपि कार्त्तिके ॥ २८ ॥
तथापि चैव कर्तव्यं लोकद्वयमभीप्सता ॥
कार्तिक्यां ब्राह्मणश्रेष्ठा वैष्णवैः पुरुषैरिह ॥ २९ ॥
कांस्यं मांसं क्षुरं क्षौद्रं पुनर्भोजनमैथुने ॥
कार्तिके वर्जयेद्यस्तु य एतान्ब्राह्मणः सदा ॥ ६.२३२.३० ॥
पूर्वोक्तानां तु सर्वेषां नियमानां फलं लभेत् ॥ ३१ ॥
अथ यः कार्तिके मासि प्रासादस्योपरि द्विजाः ॥
जलशाय्याख्यदेवस्य कलशे दीपकं ददेत्॥
पूर्वोक्तनियमानां च स षण्णां फलभाग्भवेत् ॥ ३२ ॥
यद्यदिष्टतमं किंचि त्सुप्राप्यं चैव यद्भवेत् ॥
नियमस्तस्य कर्तव्यश्चातुर्मास्ये शुभार्थिभिः ॥ ३३ ॥
नियमे च कृते दद्याद्ब्राह्मणाय तदेव हि ॥
नियमस्तु कृतो यस्य स्वशक्त्या स्यात्फलं ततः ॥ ३४ ॥
यो विना नियमं मर्त्यो व्रतं वा जाप्यमेव वा ॥
चतुर्मासान्नयेन्मूर्खो जीवन्नपि मृतो हि सः ॥३५॥
यथा काक यवाः प्रोक्ता यथारण्यास्तिलोद्भवाः ॥
नाममात्रप्रसिद्धाश्च तथा ते मानवा भुवि ॥ ३६ ॥
तस्मात्सर्वप्रयत्नेन कार्यो यत्नेन कार्तिके ॥
एकोऽपि नियमः कश्चित्सुसूक्ष्मोऽपि द्विजोत्तमाः ॥ ३७ ॥
एतद्वः सर्वमाख्यातं चातुर्मासीसमुद्भवम्॥
व्रतानां नियमानां च माहात्म्यं विस्तराद्द्विजाः ॥३८॥
यश्चैतच्छृणुयान्नित्यं पठेद्वापि समाहितः ॥
चातुर्मासी कृतात्पापात्सोऽपि मुक्तिमवाप्नुयात् ॥ ३९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्याने चातुर्मास्यव्रतनियमवर्णनंनाम द्वात्रिंशदुत्तरद्विशतमोऽध्यायः ॥२३२ ॥। ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 233
॥ ऋषय ऊचुः ॥ ॥
सूत सूत महाभाग श्रोतुमिच्छामहे वयम् ॥
चातुर्मास्यव्रतानां हि त्वत्तो माहात्म्यविस्तरम् ॥१॥
तदस्माकं महाभाग कृपां कृत्वाऽधुना वद ॥
त्वद्वचोऽमृतपानेन भूयः श्रद्धाभिवर्धते ॥२॥
॥ सूत उवाच ॥ ॥
शृणुध्वं मुनयः सर्वे चातुर्मास्यव्रतोद्भवम् ॥
माहात्म्यं विस्तरेणैव कथयिष्यामि वोऽग्रतः ॥३॥
पुरा ब्रह्ममुखाच्छ्रुत्वा नानाव्रतविधानकम्॥
नारदः परिपप्रच्छ भूयो ब्रह्माणमादरात् ॥४॥
॥नारद उवाच ॥ ॥
देवदेव महाभाग व्रतानि सुबहून्यपि ॥
श्रुतानि त्वन्मुखाद्ब्रह्मन्न तृप्तिमधिगच्छति ॥ ५ ॥
अधुना श्रोतुमिच्छामि चातुर्मास्यव्रतं शुभम्॥ ६ । ॥
॥ ब्रह्मोवाच ॥ ॥
शृणु देवमुने मत्तश्चातुर्मास्यव्रतं शुभम् ॥
यच्छ्रुत्वा भारते खंडे नृणां मुक्तिर्न दुर्लभा ॥ ७ ॥
मुक्तिप्रदोऽयं भगवान्संसारोत्तारकारणम् ॥
यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ ८ ॥
मानुष्ये दुर्लभं लोके तत्राऽपि च कुलीनता ॥
तत्रापि सदयत्वं च तत्र सत्संगमः शुभः ॥ ९ ॥
सत्संगमो न यत्रास्ति विष्णुभक्तिर्व्रतानि च ॥
चातुर्मास्ये विशेषेण विष्णुव्रतकरः शुभः ॥ ६.२३३.१० ॥
चातुर्मास्येऽव्रती यस्तु तस्य पुण्यं निरर्थकम् ॥
सर्वतीर्थानि दानानि पुण्यान्यायतनानि च ॥ ११ ॥
विष्णुमाश्रित्य तिष्ठंति चातुर्मास्ये समागते ॥
सुपुष्टेनापि देहेन जीवितं तस्य शोभनम् ॥ १२ ॥
चातुर्मास्ये समायाते हरिं यः प्रणमेद्बुधः ॥
कृतार्थास्तस्य विबुधा यावज्जीवं वरप्रदाः ॥ १३ ॥
संप्राप्य मानुषं जन्म चातुर्मास्यपराङ्मुखः ॥
तस्य पापशतान्याहुर्देहस्थानि न संशयः ॥ १४ ॥
मानुष्यं दुर्लभं लोके हरिभक्तिश्च दुर्लभा ॥
चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने ॥ १५ ॥
चातुर्मास्ये नरः स्नानं प्रातरेव समाचरेत् ॥
सर्वक्रतुफलं प्राप्य देववद्दिवि मोदते ॥ १६ ॥
चातुर्मास्ये तु यः स्नानं कुर्यात्सिद्धिमवाप्नुयात् ॥
तथा निर्झरणे स्नाति तडागे कूपिकासु च ॥ १७ ॥
तस्य पापसहस्राणि विलयं यांति तत्क्षणात् ॥
पुष्करे च प्रयागे वा यत्र क्वापि महाजले ॥
चातुर्मास्येषु यः स्नाति पुण्यसंख्या न विद्यते ॥ १८ ॥
रेवायां भास्करक्षेत्रे प्राच्यां सागरसंगमे ॥
एकाहमपि यः स्नातश्चातुर्मास्ये न दोषभाक् ॥ १९ ॥
दिनत्रयं च यः स्नाति नर्मदायां समाहितः ॥
सुप्ते देवे जगन्नाथे पापं याति सहस्रधा ॥ ६.२३३.२० ॥
पक्षमेकं तु यः स्नाति गोदावर्यां दिनोदये ॥
स भित्त्वा कर्मजं देहं याति विष्णोः सलोकताम् ॥ २१ ॥
तिलोदकेन यः स्नाति तथा चैवामलोदकैः ॥
बिल्वपत्रोदकैश्चैव चातुर्मास्ये न दोषभाक् ॥ २२ ॥
गंगां स्मरति यो नित्यमुदपात्रसमीपतः ॥
तद्गांगेयं जलं जातं तेन स्नानं समाचरेत् ॥ २३ ॥
गंगाऽपि देवदेवस्य चरणांगुष्ठवाहिनी ॥
पापघ्नी सा सदा प्रोक्ता चातुर्मास्ये विशेषतः ॥ २४ ॥
यतः पापसहस्राणि विष्णुर्दहति संस्मृतः ॥
तस्मात्पादोदकं शीर्षे चातुर्मास्ये धृतं शिवम् ॥२५॥
चातुर्मास्ये जलगतो देवो नारायणो भवेत् ॥
सर्वतीर्थाधिकं स्नानं विष्णुतेजोंशसंगतम्॥२६॥
स्नानं दशविधं कार्यं विष्णुनाम महाफलम् ॥
सुप्ते देवे विशेषेण नरो देवत्वमाप्नुयात् ॥२७॥
विना स्नानं तु यत्कर्म पुण्यकार्यमयं शुभम् ॥
क्रियते निष्फलं ब्रह्मंस्तत्प्रगृह्णंति राक्षसाः ॥२८॥
स्नानेन सत्यमाप्नोति स्नानं धर्मः सनातनः ॥
धर्मान्मोक्षफलं प्राप्य पुनर्नैवावसीदति॥२९॥
ये चाध्यात्मविदः पुण्या ये च वेदांगपारगाः ॥
सर्वदानप्रदा ये च तेषां स्नानेन शुद्धता ॥६.२३३.३॥।
कृतस्नानस्य च हरिर्देहमाश्रित्य तिष्ठति ॥
सर्वक्रियाकलापेषु संपूर्ण फलदो भवेत् ॥ ३१ ॥
सर्वपापविनाशाय देवता तोषणाय च ॥
चातुर्मास्ये जलस्नानं सर्वपापक्षयावहम् ॥ ३२ ॥
निशायां चैव न स्नायात्संध्यायां ग्रहणं विना ॥
उष्णोदकेन न स्नानं रात्रौ शुद्धिर्न जायते ॥ ३३ ॥
भानुसंदर्शनाच्छुद्धिर्विहिता सर्वकर्मसु ॥
चातुर्मास्ये विशेषेण जलशुद्धिस्तु भाविनी ॥ ३४ ॥
अशक्त्या तु शरीरस्य भस्मस्नानेन शुध्यति ॥
मंत्रस्नानेन विप्रेंद्र विष्णुपादोदकेन वा ॥ ३५८ ॥
नारायणाग्रतः स्नानं क्षेत्र तीर्थनदीषु च ॥
यः करोति विशुद्धात्मा चातुर्मास्ये विशेषतः ॥ ३६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने चातुर्मास्यमाहात्म्ये ब्रह्मनारदसंवादे गंगोदकस्नानफलमाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरद्विशततमोऽध्यायः॥२३३॥॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 234
ब्रह्मोवाच ॥ ॥
पितॄणां तर्पणं कुर्याच्छ्रद्धायुक्तेन चेतसा ॥
स्नानावसाने नित्यं च गुप्ते देवे महाफलम् ॥१॥
संगमे सरितोस्तत्र पितॄन्संतर्प्य देवताः ॥
जपहोमादिकर्माणि कृत्वा फलमनंतकम् ॥२॥
गोविंदस्मरणं कृत्वा पश्चात्कार्याः शुभाः क्रियाः ॥
एष एव पितृदेवमनुष्यादिषु तृप्तिदः ॥ ३ ॥
श्रद्धां धर्मयुतां नाम स्मृतिपूतानि कारयेत् ॥
कर्माणि सकलानीह चातुर्मास्ये गुणोत्तरे ॥ ४ ॥
सत्संगो द्विजभक्तिश्च गुरुदेवाग्नि तर्पणम् ॥
गोप्रदानं वेदपाठः सत्क्रियासत्यभाषणम् ॥ ५ ॥
गोभक्तिर्दानभक्तिश्च सदा धर्मस्य साधनम् ॥
कृष्णे सुप्ते विशेषेण नियमोऽपि महा फलः ॥ ६ ॥
॥ नारद उवाच ॥ ॥
नियमः कीदृशो ब्रह्मन्फलं च नियमेन किम् ॥
नियमेन हरिस्तुष्टो यथा भवति तद्वद ॥७ ॥
॥ ब्रह्मोवाच ॥ ॥
नियमश्चक्षुरादीनां क्रियासु विविधासु च ॥
कार्यो विद्यावता पुंसा तत्प्रयोगान्महासुखम् ॥ ८ ॥
एतत्षड्वर्गहरणं रिपुनिग्रहणं परम् ॥
अध्यात्ममूलमेतद्धि परमं सौख्यकारणम् ॥ ९ ॥
तत्र तिष्ठंति नियतं क्षमासत्यादयो गुणाः ॥
विवेकरूपिणः सर्वे तद्विष्णोः परमं पदम् ॥ ६.२३४.१० ॥
कृत्वा भवति यज्ञान्यत्कृतकृत्यत्वमत्र तत् ॥
स्यात्तस्य तत्पूर्वजानां येन ज्ञातमिदं पदम् ॥ ११ ॥
तन्मुहूर्त्तमपि ध्यात्वा पापं जन्मशतोद्भवम्॥
भस्म साद्याति विहितं निरंजननिषेवणात् ॥ १२ ॥
प्रत्यहं संकुचत्यस्य क्षुत्पिपासादिकः श्रमः ॥
स योगी नियमी नित्यं हरौ सुप्ते विशिष्यते ॥ १३ ॥
चातुर्मास्ये नरो भक्त्या योगाभ्यासरतो न चेत् ॥
तस्य हस्तात्परिभ्रष्टममृतं नात्र संशयः ॥ १४ ॥
मनो नियमितं येन सर्वेच्छासु सदागतम्॥
तस्य ज्ञाने च मोक्षे च कारणं मन एव हि ॥ १५ ॥
मनोनियमने यत्नः कार्यः प्रज्ञावता सदा ॥
मनसा सुगृहीतेन ज्ञानाप्तिरखिला ध्रुवम् ॥ १६ ॥
तन्मनः क्षमया ग्राह्यं यथा वह्निश्च वारिणा ॥
एकया क्षमया सर्वो नियमः कथितो बुधैः ॥ १७ ॥
सत्यमेकं परो धर्मः सत्यमेकं परं तपः ॥
सत्यमेकं परं ज्ञानं सत्ये धर्मः प्रतिष्ठितः ॥ १८ ॥
धर्ममूलमहिंसा च मनसा तां च चितयन् ॥
कर्मणा च तथा वाचा तत एतां समाचरेत् ॥ १९ ॥
परस्वहरणं चौर्यं सर्वदा सर्वमानुषैः ॥
चातुर्मास्ये विशेषेण ब्रह्मदेवस्ववर्जनम् ॥ ६.२३४.२० ॥
अकृत्यकरणं चैव वर्जनीयं सदा बुधैः ॥
अहीनः सर्वकार्येषु यः सदा विप्र वर्तते ॥ २१ ॥
स च योगी महाप्राज्ञः प्रज्ञाचक्षुरहं नधीः ॥ ?
अहंकारो विषमिदं शरीरे वर्त्तते नृणाम् ॥ २२ ॥
तस्मात्स सर्वदा त्याज्यः सुप्ते देवे विशेषतः ॥
अनीहया जितक्रोधो जितलोभो भवेन्नरः ॥ २३ ॥
तस्य पापसहस्राणि देहाद्यांति सहस्रधा ॥
मोहं मानं पराजित्य शमरूपेण शत्रुणा ॥ २४ ॥
विचारेण शमो ग्राह्यः सन्तोषेण तथा हि सः ॥
मात्सर्यमृजुभावेन नियच्छेत्स मुनीश्वरः ॥ २५ ॥
चातुर्मास्ये दयाधर्मो न धर्मो भूतविद्रुहाम् ॥
सर्वदा सर्व दानेषु भूतद्रोहं विवर्जयेत् ॥ २६ ॥
एतत्पापसहस्राणां मूलं प्राहुर्मनीषिणः ॥
तस्मात्सर्वप्रयत्नेन कार्या भूतदया नृभिः ॥ २७ ॥
सर्वेषामेव भूतानां हरिर्नित्यं हृदि स्थितः ॥
स एव हि पराभूतो यो भूतद्रोहकारकः ॥ २८ ॥
यस्मिन्धर्मे दया नैव स धर्मो दूषितो मतः ॥
दयां विना न विज्ञानं न धर्मो ज्ञानमेव च ॥ २९ ॥
तस्मात्सर्वात्मभावेन दयाधर्मः सनातनः ॥
सेव्यः स पुरुषैर्नित्यं चातुर्मास्ये विशेषतः ॥ ६.२३४.३० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चातुर्मास्यमाहात्म्ये शेपशाय्युपाख्याने ब्रह्म नारदसंवादे चातुर्मास्यनियमविधिमाहात्म्यवर्णनंनाम चतुस्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३४ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 235
॥ ब्रह्मोवाच ॥ ॥
दानधर्मं प्रशंसंति सर्वधर्मेषु सर्वदा ॥
हरौ सुप्ते विशेषेण दानं ब्रह्मत्वकारणम् ॥ १ ॥
अन्नं ब्रह्म इति प्रोक्तमन्ने प्राणाः प्रतिष्ठिताः ॥
तस्मादन्नप्रदो नित्यं वारिदश्च भवेन्नरः ॥ २ ॥
वारिदस्तृप्तिमायाति सुखमक्षय्यमन्नदः ॥
वार्यन्नयोः समं दानं न भूतं न भविष्यति ॥ ३ ॥
मणिरत्नप्रवालानां रूप्यं हाटकवाससाम्॥
अन्येषामपि दानानामन्नदानं विशिष्यते ॥ ४ ॥
अन्नोदकप्रदानं च गोप्रदानं च नित्यदा ॥
वेदपाठो वह्निहोमश्चातुर्मास्ये महाफलम् ॥ ९ ॥
वैकुण्ठपदवाञ्छा चेद्विष्णुना सह संगमे ॥
सर्वपापक्षयार्थाय चातुर्मास्येऽन्नदो भवेत् ॥ ६ ॥
सत्यंसत्यं हि देवर्षे मयोक्तं तव नारद ॥
जन्मांतरसहस्रेषु नादत्तमुपतिष्ठते ॥ ७ ॥
तस्मादन्नप्रदानेन सर्वे हृष्यंति जन्तवः ॥
देवाश्च स्पृहयंत्येनमन्नदानप्रदायिनम् ॥ ८ ॥
आज्यं देयं च पात्रेषु श्रद्धया वज्रमिश्रितम् ॥
वज्रदानकरो मर्त्यश्चातुर्मास्ये न मानवः ॥ ९ ॥
भोजनं गुरुविप्राणां घृतदानं च सत्क्रिया ॥
एतानि यस्य तिष्ठन्ति चातुर्मास्ये न मानवः ॥ ६.२३५.१० ॥
सद्धर्मः सत्कथा चैव सत्सेवा दर्शनं सताम् ॥
विष्षुपूजा रतिर्दाने चातुर्मास्येषु दुर्लभाः ॥ ११ ॥
पितॄनुद्दिश्य यो मर्त्यश्चातुर्मास्येऽन्नदो भवेत् ॥
सर्वपापविशुद्धात्मा पितृलोकमवामुयात् ॥ १२ ॥
देवाः सर्वेऽन्नदानेन तृप्ता यच्छन्ति वांछितम् ॥
पिपीलिकाऽपि यद्गेहाद्भक्ष्यमादाय गच्छति ॥ १३ ॥
रात्रौ दिवाऽनिषिद्धान्नो ह्यन्नदानमनुत्तमम् ॥
हरौ सुप्ते हि पापघ्नं वार्य मपि शत्रुषु ॥ १४ ॥
चातुर्मास्ये दुग्धदानं दधि तक्रं महाफलम् ॥
जन्मकाले येन बद्धः पिंडस्तद्दानमुत्तमम् ॥ १५ ॥
शाकप्रदाता नरकं यमलोकं न पश्यति ॥
वस्त्रदः सोमलोकं च वसेदाभूतसंप्लवम् ॥ १६ ॥
सुप्ते देवे यथाशक्ति ह्यन्यासु प्रतिमासु च ॥
पुष्पवस्त्रप्रदानेन सन्तानं नैव हीयते ॥ १७ ॥
चन्दनागुरुधूपं च चातुर्मास्ये प्रयच्छति ॥
पुत्रपौत्रसमायुक्तो विष्णुरूपी भवेन्नरः ॥१८ ॥
सुप्ते देवे जगन्नाथे फलदानं प्रय च्छति ॥
विप्राय वेदविदुषे यमलोकं न पश्यति ॥ १९ ॥
विद्यादानं च गोदानं भूमिदानं प्रयच्छति ॥
विष्णुप्रीत्यर्थमेवेह स तारयति पूर्वजान् ॥ ६.२३५.२० ॥
गुडसैंधवतैलादिमधुतिक्ततिलान्नदः ॥
देवतायास्समुद्दिश्य तासां लोकं प्रयाति हि ॥ २१ ॥
चातुर्मास्ये तिलान्दत्त्वा न भूयः स्तनपो भवेत् ॥
यवप्रदाता वसते वासवं लोकमक्षयम् ॥ २२ ॥
हूयेत हव्यं वह्नौ च दानं दद्याद्द्विजातये ॥
गावः सुपूजिताः कार्याश्चातुर्मास्ये विशेषतः ॥ २३ ॥
यत्किंचित्सुकृतं कर्म जन्मावधि सुसंचितम् ॥
चातुर्मास्ये गते पात्रे विमुखे यन्न दीयते ॥ २४ ॥
प्रणश्यति क्षणादेव वचना द्यस्तु प्रच्युतः ॥
दिवसेदिवसे तस्य वर्द्धते च प्रतिश्रुतम् ॥ २५ ॥
तस्मान्नैव प्रतिश्राव्यं स्वल्पमप्याशु दीयते ॥
तावद्विवर्द्धते दानं यावत्तन्न प्रयच्छति ॥ २६ ॥
यो मोहान्मनुजो लोके यावत्कोटिगुणं भवेत् ॥
ततो दशगुणा वृद्धिश्चातुर्मास्ये प्रदातरि ॥ २७ ॥
नरके पतनं तस्य याव दिंद्राश्चतुर्दश ॥
अतस्तु सर्वदा देयं नरैर्यत्तु प्रतिश्रुतम् ॥ २८ ॥
अन्यस्मै न प्रदातव्यं प्रदत्तं नैव हारयेत् ।
चातुर्मास्येषु यः शय्यां द्विजाग्र्याय प्रयच्छति ॥ २९ ॥
वेदोक्तेन विधानेन न स याति यमालयम् ॥
आसनं वारिपात्रं च भाजनं ताम्रभाजनम् ॥ ६.२३५.३० ॥
चातुर्मास्ये प्रयत्नेन देयं वित्तानुसारतः ॥
सर्वदानानि विप्रेभ्यो ददत्सुप्ते जगद्गुरौ ॥ ३१ ॥
आत्मानं पूर्वजैः सार्द्धं स मोचयति पातकात् ॥
गौर्भूश्च तिलपात्रं च दीपदानमनुत्तमम् ॥ ३२ ॥
ददद्विजातये मुक्तो जायते स ऋणत्रयात् ॥ ३३ ॥
स विश्वकर्ता भुवनेषु गोप्ता स यज्ञभुक्सर्वफलप्रदश्च ॥
दानानि वस्तुष्वधिदैवतं च यस्मिन्समुद्दिश्य ददाति मुक्तः ॥ ३४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये शेषशाय्युपाख्याने चातुर्मास्यमाहात्म्ये ब्रह्मनारदसंवादे चातुर्मास्यदानमहिमवर्णनंनाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ ॥ २३५ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 236
॥ ब्रह्मोवाच ॥ ॥
इष्टवस्तुप्रदो विष्णुर्लोकश्चेष्टरुचिः सदा ॥
तस्मात्सर्वप्रयत्नेन चातुमास्ये त्यजेच्च तत् ॥ १ ॥
नारायणस्य प्रीत्यर्थं तदेवाक्षय्यमाप्यते ॥
मर्त्यस्त्यजति श्रद्धावान्सोऽनंतफलभाग्भवेत् ॥ २ ॥
कांस्यभाजनसंत्यागाज्जायते भूपतिर्भुवि ॥
पालाशपत्रे भुञ्जानो ब्रह्मभूयस्त्वमश्नुते ॥ ३ ॥
ताम्रपात्रे न भुञ्जीत कदाचिद्वा गृही नरः ॥
चातुर्मास्ये विशेषेण ताम्रपात्रं विवर्जयेत् ॥ ४ ॥
अर्कपत्रेषु भुञ्जानोऽनुपमं लभते फलम् ॥
वटपत्रेषु भोक्तव्यं चातुर्मास्ये विशेषतः ॥ ५ ॥
अश्वत्थपत्रसंभोगः कार्यो बुधजनैः सदा ॥
एकान्नभोजी राजा स्यात्सकलं भूमिमण्डले ॥ ६ ॥
तथा च लवणत्यागात्सुभगो जायते नरः ॥
गोधूमान्नपरित्यागाज्जायते जनवलभः ॥ ७ ॥
अशाकभोजी दीर्घायुश्चातुर्मास्येऽभिजायते ॥
रसत्यागान्महाप्राणी मधुत्यागात्सुलोचनः ॥ ८ ॥
मुद्गत्यागाद्रिपुमृती राजमाषाद्धनाढ्यता ॥
अश्वाप्तिस्तंडुलत्यागाच्चातुर्मास्येऽभिजायते ॥ ९ ॥
फलत्यागाद्बहुसुतस्तैलत्यागात्सुरूपिता ॥
ज्ञानी तुवरिसंत्यागाद्बलं वीर्यं सदैव हि ॥ ६.२३६.१० ॥
मार्गमांसपरित्यागान्नरकं न च पश्यति ॥
शौकरस्य पीरत्यागाद्ब्रह्मवासमवाप्नुयात् ॥ ११ ॥
ज्ञानं लावकसन्त्यागादाज्यत्यागे महत्सुखम् ॥
आसवं सम्परित्यज्य मुक्तिस्तस्य न दुर्लभा ॥ १२ ॥
सबलः कनकत्यागाद्रूप्यत्यागेन मानुषः ॥ ६९॥
दधिदुग्धपरित्यागी गोलोके सुख भाग्भवेत् ॥ १३
ब्रह्मा पायससंत्यागात्क्षिप्रात्यागान्महेश्वरः ॥
कन्दर्पोऽपूपसंत्यागान्मोदकत्याजकः सुखी ॥ १४ ॥
गृहाश्रमपरित्यागी बाह्या श्रमनिषेवकः ॥
चातुर्मास्यं हरिप्रीत्यै न मातुर्जठरे शिशुः ॥ १५ ॥
नृपो मरीचसंत्यागाच्छुण्ठीत्यागेन सत्कविः ॥
शर्करायाः परित्यागाज्जायते राजपूजितः ॥ १६ ॥
गुडत्यागान्महाभूतिस्तथा दाडिमवर्जनात् ॥
रक्तवस्त्रपरित्यागाज्जायते जनवल्लभः ॥ १७ ॥
पट्टकूलपरित्यागादक्षय्यं स्वर्ग माप्नुयात् ॥
माषान्नचणकान्नस्य त्यागान्नैव पुनर्भवः ॥ १८ ॥
कृष्णवस्त्रं सदा त्याज्यं चातुर्मास्ये विशेषतः ॥
सूर्यसंदर्शनाच्छुद्धिर्नीलवस्त्रस्य दर्शनात् ॥ १९ ॥
चंदनस्य परित्यागाद्गांधर्वं लोकमश्नुते ॥
कर्पूरस्य परित्यागाद्यावज्जीवं महाधनी ॥ ६.२३६.२० ॥
कुसुम्भस्य परित्यागान्नैव पश्येद्यमाल यम् ॥
केशरस्य परित्यागान्मनुष्यो राजवल्लभः ॥ २१ ॥
यक्षकर्दमसंत्यागाद्ब्रह्मलोके महीयते ॥
ज्ञानी पुष्पपरित्यागाच्छय्यात्यागे महत्सु खम्॥ २२ ॥
भार्यावियोगं नाप्नोति चातुर्मास्ये न संशयः ॥
अलीकवादसंत्यागान्मोक्षद्वारमपावृतम् ॥ २३ ॥
परमर्मप्रकाशश्च सद्यःपापसमा गमः ॥
चातुर्मास्ये हरौ सुप्ते परनिन्दां विवर्जयेत् ॥ २४ ॥
परनिन्दा महापापं परनिन्दा महाभयम् ॥
परनिन्दा महद्दुःखं न तस्यां पातकं परम् ॥ २५ ॥
केवलं निन्दने चैव तत्पापं लभते गुरु ॥
यथा शृण्वान एव स्यात्पातकी न ततः परः ॥ २६ ॥
केशसंस्कारसंत्यागात्तापत्रयविवर्जितः ॥
नखरोमधरो यस्तु हरौ सुप्ते विशेषतः ॥ २७ ॥
दिवसेदिवसे तस्य गंगास्नानफलं भवेत् ॥ २५ ॥
सर्वोपायैर्विष्णुरेव प्रसाद्यो योगिध्येयः प्रवरैः सर्ववर्णेः ॥
विष्णोर्नाम्ना मुच्यते घोरबन्धाच्चातुर्मास्ये स्मर्यतेऽसौ विशेषात् ॥ २९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिता यां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने चातुर्मास्यमाहात्म्ये ब्रह्मनारदसंवाद इष्टवस्तुपरित्यागमहिमवर्णनंनाम षट्त्रिंशदुत्तरद्वि शततमोऽध्यायः ॥ २३६ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 237
॥ नारद उवाच ॥ ॥
कदा विधिनिषेधौ च कर्तव्यौ विष्णुसन्निधौ ॥
युष्मद्वाक्यामृतं पीत्वा तृप्तिर्मम न विद्यते ॥ १ ॥
॥ ब्रह्मोवाच ॥ ॥
कर्कसंक्रांतिदिवसे विष्णुं संपूज्य भक्तितः ॥
फलैरर्घ्यः प्रदातव्यः शस्तजंबूफलैः शुभैः ॥ २ ॥
जंबूद्वीपस्य संज्ञेयं फलेन च विजायते ॥
मन्त्रेणानेन विप्रेंद्र श्रद्धाधर्मसुसंयतैः ॥ ३ ॥
षण्मासाभ्यंतरे मृत्युर्यत्र क्वापि भवेन्मम ॥
तन्मया वासुदेवाय स्वयमात्मा निवेदितः ॥ ४ ॥
॥ इति मंत्रेणार्घ्यम् ॥ ॥
ततो विधिनिषेधौ च ग्राह्यौ भक्त्या हरेः पुरः ॥
चातुर्मास्ये समायाते सर्वलोकमहासुखे ॥ ५ ॥
विधिर्वेदविधिः कार्यो निषेधो नियमो मतः ॥
विधिश्चैव निषेधश्च द्वावेतौ विष्णुरेव हि ॥ ६ ॥
तस्मात्सर्वप्रयत्नेन सेव्य एव जनार्दनः ॥
विष्णोः कथा विष्णुपूजा ध्यानं विष्णोर्नतिस्तथा । ७ ॥
सर्वमेव हरिप्रीत्या यः करोति स मुक्तिभाक् ॥
वर्णाश्रमविधेर्मूर्तिः सत्यो विष्णुः सनातनः ॥ ८ ॥
चातुर्मास्ये विशेषेण जन्मकष्टादिनाशनम् ॥
हरिरेव व्रताद्ग्राह्यो व्रतं देहेन कारयेत् ॥
देहोऽयं तपसा शोध्यः सुप्ते देवे तपोनिधौ ॥ २९ ॥
॥ नारद उवाच ॥ ॥
किं व्रतं किं तपः प्रोक्तं ब्रह्मन्ब्रूहि सविस्तरम् ॥
सुप्ते देवे मया कार्यं कृतं यच्च महाफलम् ॥ ६.२३७.१० ॥
॥ ब्रह्मोवाच ॥ ॥
व्रतं विष्णुव्रतं विद्धि विष्णुभक्तिसमन्वितम् ॥
तपश्च धर्मवर्तित्वं कृच्छ्रादिकमथापि वा ॥ ११ ॥
शृणु व्रतस्य माहात्म्यं वक्ष्यामि प्रथमं तव ॥
ब्रह्मचर्यव्रतं सारं व्रतानामुत्तमं व्रतम् ॥ १२ ॥
ब्रह्मचर्यं तपः सारं ब्रह्मचर्यं महत्फलम् ॥
क्रियासु सकलास्वेव ब्रह्मचर्यं विवर्द्धयेत् ॥ १३ ॥
ब्रह्मचर्यप्रभावेण तप उग्रं प्रवर्त्तते ॥
ब्रह्मचर्यात्परं नास्ति धर्मसाधन मुत्तमम्॥ १४ ॥
चातुर्मास्ये विशेषेण सुप्ते देवे गुणोत्तरम् ॥
महाव्रतमिदं लोके तन्निबोध सदा द्विज ॥ १५ ॥
नारायणमिदं कर्म यः करोति न लिप्यते ॥
शतत्रयं षष्टियुतं दिनमाहुश्च वत्सरे ॥ १६ ॥
तत्र नारायणो देवः पूज्यते व्रतकारिभिः ॥
सत्क्रियाममुकीं देव कारयिष्यामि निश्चयः ॥ १७ ॥
कुरुते तद्व्रतं प्राहुः सुप्ते देवे गुणोत्तरम् ॥
वह्निहोमो विप्रभक्तिः श्रद्धा धर्मे मतिः शुभा ॥ १८ ॥
सत्संगो विष्णुपूजा च सत्यवादो दया हृदि॥
आर्जवं मधुरा वाणी सच्चरित्रे सदा रतिः ॥ १९ ॥
वेदपाठस्तथाऽस्तेयमहिंसा ह्रीः क्षमा दमः ॥
निर्लोभताऽक्रोधता च निर्मोहोऽममताऽर तिः ॥ २० ॥
श्रुतिक्रियापरं ज्ञानं कृष्णार्पितमनोगतिः ॥
एतानि यस्य तिष्ठंति व्रतानि ब्रह्मवित्तम ॥ २१ ॥
जीवन्मुक्तो नरः प्रोक्तो नैव लिप्य ति पातकैः ॥
व्रतं कृतं सकृदपि सदैव हि महाफलम् ॥ २२ ॥
चातुर्मास्ये विशेषेण ब्रह्मचर्यादिसेवनम् ॥
अव्रतेन गतं येषां चातुर्मास्यं सदा नृणाम् ॥ २३ ॥
धर्मस्तेषां वृथा सद्भिस्तत्त्वज्ञैः परिकीर्तितः ॥
सर्वेषामेव वर्णानां व्रतचर्या महाफलम् ॥ २४ ॥
स्वल्पापि विहिता वत्स चातुर्मा स्ये सुखप्रदा ॥
सर्वत्र दृश्यते विष्णुर्व्रतसेवापरैर्नृभिः ॥ २५ ॥
चातुर्मास्ये समायाते पालयेत्तत्प्रयत्नतः ॥ २६ ॥
भजस्व विष्णुं द्विजवह्नितीर्थवेदप्रभेदमयमूर्तिमजं विराजम् ॥
यत्प्रसादाद्भवति मोक्षमहातरुस्थस्तापं न यास्यति भवार्कसमुद्भवं तम् ॥ २७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये व्रतमहिमवर्णनंनाम सप्तत्रिं शदुत्तरद्विशततमोऽध्यायः ॥ २३७ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 238
॥ ब्रह्मोवाच ॥ ॥
तपः शृणुष्व विप्रेंद्र विस्तरेण महामते ॥
यस्य श्रवणमात्रेण चातुर्मास्येऽ, घनाशनम् ॥ १ ॥
षोडशैरुपचारैश्च विष्णोः पूजा सदा तपः ॥
ततः सुप्ते जगन्नाथे महत्तप उदाहृतम् ॥ २ ॥
करणं पंचयज्ञानां सततं तप एव हि ॥
तन्निवेद्य हरौ चैव चातुर्मास्ये महत्तपः ॥ ३ ॥
ऋतुयानं गृहस्थस्य तप एव सदैव हि ॥
चातुर्मास्ये हरिप्रीत्यै तन्निषेव्यं महत्तपः ॥ ४ ॥
सत्यवादस्तपो नित्यं प्राणिनां भुवि दुर्लभम् ॥
सुप्ते देवपतौ कुर्वन्ननंतफलभाग्भवेत् ॥ ५ ॥
अहिंसादिगुणानां च पालनं सततं तपः ॥
चातुर्मास्ये त्यक्तवैरं महत्तप उदारधीः ॥ ६ ॥
तप एव महन्मर्त्यः पंचायतनपूजनम् ॥
चातुर्मास्ये विशेषेण हरिप्रीत्या समाचरेत् ॥ ७ ॥ ॥
॥ नारद उवाच ॥ ॥
पंचायतनसंज्ञेयं कस्योक्ता सा कथं भवेत् ॥
कथं पूजा च कर्तव्या विस्तरेणाशु तद्वद ॥ ८ ॥
॥ ब्रह्मोवाच ॥ ॥
प्रातर्मध्याह्नपूजायां मध्ये पूज्यो रविः सदा ॥
रात्रौ मध्ये भवेच्चंद्रस्तद्वर्णकुसुमैः शुभैः ॥ ९ ॥
वह्निकोणे तु हेरंबं सर्वविघ्नोपशांतये ॥
रक्तचंदन पुष्पैश्च चातुर्मास्ये विशेषतः ॥ ६.२३८.१० ॥
नैर्ऋतं दलमास्थाय भगवान्दुष्टदर्पहा ॥
गृहस्थस्य सदा शत्रुविनाशं विदधाति सः ॥ ११ ॥
नैर्ऋत्यकोणगं विष्णुं पूजयेत्सर्वदा बुधः ॥
सुगन्धचंदनैः पुष्पैर्नैवेद्यैश्चातिशोभनैः ॥ १२ ॥
गोत्रजा वायुकोणे तु पूजनीया सदा बुधैः ॥
पुत्रपौत्रप्रवृद्ध्यर्थं सुमनोभिर्मनोहरैः ॥ १३ ॥
ऐशाने भगवान्रुद्रः श्वेतपुष्पैः सदाऽर्चितः ॥
अपमृत्युविनाशाय सर्वदोषापनुत्तये ॥ १४ ॥
जागर्ति महिमा यस्य ब्रह्माद्यैर्नैव लिख्यते ॥
पंचायतनमेतद्धि पूज्यते गृहमेधिभिः ॥ १५ ॥
तप एतत्सदा कार्यं चातुर्मास्ये महाफलम् ॥
पर्वकालेषु सर्वेषु दानं देयं तपः सदा ॥
चातुर्मास्ये विशेषेण तदनंतं प्रजायते ॥ १६ ॥
शौचं तु द्विविधं ग्राह्यं बाह्यमाभ्यंतरं सदा ॥
जलशौचं तथा बाह्यं श्रद्धया चांतरं भवेत् ॥ ॥ १७ ॥
इद्रियाणां ग्रहः कार्यस्तपसो लक्षणं परम् ॥
निवृत्त्येंद्रियलौल्यं च चातुर्मास्ये महत्तपः ॥ १८ ॥
इन्द्रियाश्वान्सन्नियम्य सततं सुखमेधते ॥
नरके पात्यते प्राणैस्तैरेवोत्पथगामिभिः ॥ १९ ॥
ममतारूपिणीं ग्राहीं दुष्टां निर्भर्त्स्य निग्रहेत् ॥
तप एव सदा पुंसां चातुर्मास्येऽधिगौरवम् ॥ ६.२३८.२० ॥
काम एष महाशत्रुस्तमेकं निर्जयेद्दृढम् ॥
जितकामा महात्मानस्तैर्जितं निखिलं जगत् ॥ २१ ॥
एतच्च तपसो मूलं तपसो मूलमेव तत् ॥
सर्वदा कामविजयः संकल्पविजयस्तथा ॥ २२ ॥
तदेव हि परं ज्ञानं कामो येन प्रजायते ॥
महत्तपस्तदेवाहुश्चातुमास्ये फलोत्तमम् ॥२३॥
लोभः सदा परित्याज्यः पापं लोभे समास्थितम् ॥
तपस्तस्यैव विजयश्चातुर्मास्ये विशेषतः ॥ २४ ॥
मोहः सदाऽविवेकश्च वर्जनीयः प्रयत्नतः ॥
तेन त्यक्तो नरो ज्ञानी न ज्ञानी मोहसंश्रयात ॥२५॥
मद एव मनुष्याणां शरीरस्थो महारिपुः ॥
सदा स एव निग्राह्यः सुप्ते देवे विशेषतः ॥२६॥
मानः सर्वेषु भूतेषु वसत्येव भयावहः ॥
क्षमया तं विनिर्जित्य चातुर्मास्ये गुणाधिकः॥२७॥
मात्सर्यं निर्जयेत्प्राज्ञो महापातककारणम् ॥
चातुर्मास्ये जितं तेन त्रैलोक्यममरैः सह ॥२८॥
अहंकारसमाक्रांता मुनयो विजितेंद्रियाः ॥
धर्ममार्गं परित्यज्य कुर्वत्युन्मार्गजां क्रियाम् ॥२९॥
अहंकारं परित्यज्य सततं सुखमाप्नुयात् ॥
चातुर्मास्ये विशेषेण तस्य त्यागे महाफलम् ॥६.२३८.३॥।
एतद्धि तपसो मूलं यदेतन्मनसस्त्यजेत् ॥
त्यक्तेष्वेतेषु सर्वेषु पर ब्रह्ममयो भवेत् ॥ ३१ ॥
प्रथमं कायशुद्ध्यर्थं प्राजापत्यं समाचरेत् ॥
शयने देवदेवस्य विशेषेण महत्तपः ॥ ३२ ॥
हरेस्तु शयने नित्यमेकांतरमु पोषणम् ॥
यः करोति नरो भक्त्या न स गच्छेद्यमालयम् ॥ ३३ ॥
हरिस्वापे नरो नित्यमेकभक्तं समाचरेत् ॥
दिवसेदिवसे तस्य द्वादशाहफलं लभेत् ॥ ३४ ॥
चातुर्मास्ये नरो यस्तु शाकाहारपरो यदि ॥
पुण्यं क्रतुसहस्राणां जायते नात्र संशयः ॥ ३५ ॥
चातुर्मास्ये नरो नित्यं चांद्राय णव्रतं चरेत् ॥
एकैकमासे तत्पुण्यं वर्णितुं नैव शक्यते ॥ ३६ ॥
सुप्ते देवे च पाराकं यः करोति विशुद्धधीः ॥
नारी वा श्रद्धया युक्ता शतजन्माघ नाशनम् ॥ ३७ ॥
कृच्छ्रसेवी भवेद्यस्तु सुप्ते देवे जनार्दने ॥
पापराशिं विनिर्धूय वैकुण्ठे गणतां व्रजेत् ॥ ३८ ॥
तप्तकृच्छ्रपरो यस्तु सुप्ते देवे जनार्दने ॥
कीर्तिं संप्राप्य वा पुत्रं विष्णुसायुज्यतां व्रजेत् ॥ ३९ ॥
दुग्धाहारपरो यस्तु चातुर्मास्येऽभिजायते ॥
तस्य पापसहस्राणि विलयं यांति देहिनः ॥ ६.२३८.४० ॥
मितान्नाशनकृद्धीरश्चातुर्मास्ये नरो यदि ॥
निर्धूय सकलं पापं वैकुण्ठपदमाप्नुयात् ॥ ४१ ॥
एकान्नाशनकृन्मर्त्यो न रोगैरभि भूयते ॥
अक्षारलवणाशी च चातुर्मास्ये न पापभाक् ॥ ४२ ॥
कृताहारो महापापैर्निर्मुक्तो जायते ध्रुवम् ॥
हरिमुद्दिश्य मासेषु चतुर्षु च न संशयः ॥ ४३ ॥
कन्दमूलाशनकरः पूर्वजान्सह चात्मना ॥
उद्धृत्य नरकाद्घोराद्याति विष्णुसलोकताम् ॥ ४४ ॥
नित्यांबुप्राशनकरश्चातुर्मास्ये यदा भवेत् ॥
दिनेदिनेऽश्वमेधस्य फलमाप्नोत्यसंशयम् ॥ ४५ ॥
शीतवृष्टिसहो यस्तु चातुर्मास्ये नरो भवेत् ॥
हरिप्रीत्यै जगन्नाथस्तस्यात्मानं प्रयच्छति ॥ ४६ ॥
महापाराकसंज्ञं तु महत्तप उदाहृतम् ॥
मासैकमुपवासेन सर्वं पूर्णं प्रजायते ॥ ४७ ॥
देवस्वापदिनादौ तु यावत्पवित्रद्वादशी ॥
पवित्रद्वादशीपूर्वं यावच्छ्रवणद्वादशी ॥ ४८ ॥
महापाराकमेतद्धि द्वितीयं परिकीर्तितम् ॥
श्रवणद्वादशीपूर्वं प्राप्ता चाश्विनद्वादशी ॥४९॥
महापाराक तृतीयं प्राज्ञैश्च समुदाहृतम् ॥
आश्विनद्वादशी चादौ प्राप्ता देवसुबोधिनी ॥ ६.२३८.५० ॥
महापाराकमेतद्धि चतुर्थं परिकथ्यते ॥
एतेषामेकमपि च नारी वा पुरुषोऽपि वा ॥ ५१ ॥
यः करोति नरो भक्त्या स च विष्णुः सनातनः ॥
इदं च सर्वतपसां महत्तप उदाहृतम् ॥ ५२ ॥
दुष्करं दुर्लभं लोके चातुर्मास्ये मखाधिकम् ॥
दिवसेदिवसे तस्य यज्ञायुतफलं स्मृतम् ॥ ५३ ॥
महत्तप इदं येन कृतं जगति दुर्लभम् ॥
इदमेव महापुण्यमिदमेव महत्सुखम् ॥
इदमेव परं श्रेयो महापाराकसेवनम् ॥ ५४ ॥
नारायणो वसेद्देहे ज्ञानं तस्य प्रजायते ॥
जीवन्मुक्तः स भवति महापातककारकः ॥ ५५ ॥
तावद्गर्जंति पापानि नरकास्तावदेव हि ॥
तावन्मायासहस्राणि यावन्मासो पवासकः ॥ ५६ ॥
चातुर्मास्युपवासी यो यस्य प्रांगणिको भवेत् ॥
सोऽपि हत्यासहस्राणि त्यक्त्वा निष्कल्मषो भवेत् ॥ ५७ ॥
य इदं श्रावयेन्मर्त्यो यः पठेत्सततं स्वयम् ॥ ५८ ॥
सोऽपि वाचस्पतिसमः फलं प्राप्नोत्यसंशयम् ॥ ५९ ॥
इदं पुराणं परमं पवित्रं शृण्वन्गृणन्पापविशुद्धिहेतु ॥
नारायणं तं मनसा विचिन्त्य मृतोऽभिगच्छत्यमृतं सुराधिकम् ॥ ६.२३८.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तपोमहिमावर्णनं नामाष्टत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३८ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 239
॥ नारद उवाच ॥
उपचारैः षोडशभिः पूजनं क्रियते कथम् ॥
ते के षोडश भावाः स्युर्नित्यं ये शयने हरेः ॥ १ ॥
एतद्विस्तरतो ब्रूहि पृच्छतो मे प्रजापते ॥
तव प्रसादमासाद्य जगत्पूज्यो भवाम्यहम् ॥ २ ॥
॥ ब्रह्मोवाच ॥ ॥
विष्णुभक्तिर्दृढा कार्या वेदशास्त्रविधानतः ॥
वेदमूलमिदं सर्वं वेदो विष्णुः सनातनः ॥ ३ ॥
ते वेदा ब्राह्मणाधारा ब्राह्मणाश्चाग्निदैवताः ॥
अग्नौ प्रास्ताहुतिर्विप्रो यज्ञे देवं यजन्सदा ॥ ४ ॥
जगत्संधारयेत्सर्वं विष्णुपूजारतः सदा ॥
नारायणः स्मृतो ध्यातः क्लेशदुःखादिनाशनः ॥ ५ ॥
चातुर्मास्ये विशेषेण जलरूपगतो हरिः ॥
जलादन्नानि जायंते जगतां तृप्तिहेतवे ॥ ६ ॥
विष्णुदेहांशसंभूतं तदन्नं ब्रह्म इष्यते ॥
तदन्नं विष्णवे दत्त्वा ह्यावाहनपुरःसरम् ॥ ७ ॥
पुनर्जन्मजराक्लेशसंस्कारैर्नाभिभूयते ॥
आकाशसंभवो वेद एक एव पुराऽभवत् ॥ ८ ॥
ततो यजुःसामसंज्ञामृग्वेदः प्राप भूतये ॥
ऋग्वेदोऽभिहितः पूर्वं यजुःसहस्रशीर्षेति च ॥ ९ ॥
षोडशर्चं महासूक्तं नारायणमयं परम् ॥
तस्यापि पाठमात्रेण ब्रह्महत्या निव र्तते॥6.239.१०॥।
विप्रः पूर्वं न्यसेद्देहे स्मृत्युक्तेन निजे बुधः॥
ततस्तु प्रतिमायां च शालग्रामे विशेषतः॥११॥
क्रमेण च ततः कुर्यात्पश्चादावाहनादिकम्॥
आवाह्य सकलं रूपं वैकुण्ठस्थानसंस्थितम्॥१२॥
कौस्तुभेन विराजंतं सूर्यकोटिसमप्रभम्।.
दंडहस्तं शिखासूत्रसहितं पीतवाससम् ॥१३॥
महासंन्यासिनं ध्यायेच्चातुर्मास्ये विशेषतः ॥
एवं रूपमयं विष्णुं सर्वपापौघहारिणम् ॥१४॥
आवाहयेच्च पुरतो ध्यानसंस्थं द्विजोत्तम॥
ऋचा प्रथमया चास्योंकारादिसमुदीर्णया ॥१५॥
द्वितीयया चासनं च पार्षदैश्च समन्वितम्॥
सौवर्णान्यासनान्येषां मनसा परिचिन्तयेत् ॥१६॥
चिन्तनैर्भक्तियोगेन परिपूर्णं च तद्भवेत् ॥
पाद्यं तृतीयया कार्यं गंगां तत्र स्मरेद्बुधः ॥ १७ ॥
अर्घ्यः कार्यस्ततो विष्णोः सरिद्भिः सप्तसागरैः ॥
पुनराचमनं कार्यममृतेन जगत्पतेः ॥१८॥
त्रिभिराचमनैः शुद्धिर्ब्राह्मणस्य निगद्यते ॥
अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः ॥१९॥
हृत्कण्ठ तालुगाभिश्च यथावर्णं द्विजातयः ॥
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरंततः ॥6.239.२०॥।
पञ्चम्याऽऽचमनं कार्यं भक्तियुक्तेन चेतसा ॥
भक्तिग्राह्यो हृषीकेशो भक्त्याऽऽत्मानं प्रयच्छति ॥ २१ ॥
ततः सुवासितैस्तोयैः सर्वोषधिसमन्वितैः ॥
शेषोदकैः स्वर्णघटैः स्नानं देवस्य कारयेत् ॥ २२ ॥
तीर्थोदकैः श्रद्धया च मनसा समुपाहृतैः ॥
अश्रद्धया रत्नराशिः प्रदत्तो निष्फलो भवेत् ॥ २३ ॥
वार्यपि श्रद्धया दत्तमनंतत्वाय कल्पते ॥
चातुर्मास्ये विशेषेण श्रद्धया पूयते नरः ॥ २४ ॥
षष्ठ्या स्नानं ततः कार्यं पुनराचमनं भवेत् ॥
दद्याच्च वाससी स्वर्णसहिते भक्तिशक्तितः ॥ २५ ॥
आच्छादितं जगत्सर्वं वस्त्रेणाच्छादितो हरिः ॥
चातुर्मास्ये विशेषेण वस्त्रदानं महाफलम् ॥ २६ ॥
पुनराचमनं देयं यतये विष्णुरूपिणे ॥
वस्त्रदानं च सप्तम्या कार्यं विष्णोर्मुनीश्वर ॥ २७ ॥
यज्ञोपवीतमष्टम्या तच्चाध्यात्मतया शृणु ॥
सूर्यकोटिसमस्पर्शं तेजसा भास्वरं तथा ॥ २८ ॥
क्रोधाभिभूते विप्रे तु तडित्कोटिसभप्रभम्॥
सूर्येन्दुवह्निसंयोगाद्गुणत्रयसमन्वितम् ।। २९ ॥
त्रयीमयं ब्रह्मविष्णुरुद्ररूपं त्रिविष्टपम् ॥
यस्य प्रभावाद्विप्रेंद्र मानवो द्विज उच्यते ॥ 6.239.३० ॥
जन्मना जायते शूद्रः संस्काराद्द्विज उच्यते ॥
शापानुग्रहसामर्थ्यं तथा क्रोधः प्रसन्नता ॥ ३१ ॥
त्रैलोक्यप्रवरत्वं च ब्राह्मणादेव जायते ॥
न ब्राह्मणसमो बन्धुर्न ब्राह्मणसमा गतिः ॥ ३२ ॥
न ब्राह्मणसमः कश्चित्त्रैलोक्ये सचराचरे ॥
दत्तोपवीते ब्रह्मण्ये सुप्ते देवे जनार्दने ॥ ॥ ३३ ॥
सर्वजगद्ब्रह्ममयं संजातं नात्र संशयः ॥
नवम्या च सुलेपश्च कर्तव्यो यज्ञमूर्तये ॥ ३४ ॥
सुयक्षकर्दमैर्लिप्तो विष्णुर्येन जगद्गुरुः ॥
तेना प्यायितमेतद्धि वासितं यशसा जगत् ॥ ३५ ॥
तेजसा भास्करो लोके देवत्वं प्राप्य मानवः ॥
ब्रह्मलोकादिके लोके मोदते चंदनप्रदः ॥ ३६ ॥
चंदनालेपसुभगं विष्णुं पश्यंति मानवाः ॥
न ते यमपुरं यांति चातुर्मास्ये विशेषतः ॥ ३७ ॥
दशम्या पुष्पपूजा च भक्तिपूजा तथैव च ॥
पुष्पे चैव सदा लक्ष्मीर्वसत्येव निरंतरम् ॥ ३८ १।
लक्ष्म्याः सर्वत्र गामिन्या दोषो नैव प्रजायते ॥
यथा सर्वमयो विष्णुर्न दोषैरनुभूयते ॥ ३९ ॥
तथा सर्वमयी लक्ष्मीः सतीत्वान्नैव हीयते ॥
प्रतिमासु च सर्वासु सर्वभूतेषु नित्यदा ॥ 6.239.४० ॥
मनुष्यदेवपितृषु पुष्पपूजा विधीयते ॥
पुष्पैः संपूजितो येन हरिरेकः श्रिया सह ॥ ४१ ॥
आब्रह्मस्तंबपर्यंतं पूजितं तेन वै जगत् ॥
अतः सुश्वेतकुसुमैर्विष्णुं संपूजयेत्सदा ॥४२ ॥
चातुर्मास्ये विशेषेण भक्तियुक्तः सदा शुचिः ॥
भक्त्या सुविहिता ब्रह्मन्पुष्पपूजा नरैर्यदि ॥ ४३ ॥
यंयं काममभिध्यायेत्तस्य सिद्धिर्निरंतरा ॥
पुष्पैरुपचितं विष्णुं यद्यन्ये प्रणमंति च ॥ ४४ ॥
तेषामप्यक्षया लोकाश्चातुर्मास्येऽधिकं फलम् ॥
एकादश्या धूपदानं कर्तव्यं यतये हरौ ॥ ४५ ॥
वनस्पति रसो दिव्यो गंधाढ्यो गन्ध उत्तमः॥
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ४६ ॥
इमं मंत्रं समुच्चार्य धूपमागुरुजं शुभम् ॥
दद्याद्भगवते नित्यं चातुर्मास्ये महाफलम् ॥ ४७ ॥
कर्पूरचन्दनदलैः सितामधुसमन्वितम् ॥
मांसीजटाभिः सहितं सुप्ते देवेऽथ सत्तम ॥ ४८ ॥
देवा घ्राणेन तुष्यंति धूपं घ्राणहरं शुभम्॥
द्वादश्या दीपदानं तु कर्तव्यं मुक्तिमिच्छुभिः ॥ ४९ ॥
दीपः सर्वेषु कार्येषु प्रथमस्तेजसां पतिः ॥
दीपस्तमौघनाशाय दीपः कांतिं प्रयच्छति ॥ 6.239.५० ॥
तस्माद्दीपप्रदानेन प्रीयतां मे जनार्दनः ॥
अयं पौराणजो मंत्रो वेदर्चेन समन्वितः ॥
दीपप्रदाने सकलः प्रयुक्तो नाशयेदघम् ॥ ५१ ॥
चातुर्मास्ये दीपदानं कुरुते यो हरेः पुरः ॥
तस्य पापमयो राशिर्निमेषादपि दह्यते ॥ ५२ ॥
तावत्पापानि गर्जंति तावद्बिभेति पातकी ॥
यावन्न विहितो भास्वान्दीपो नारायणालये ॥ ५३ ॥
दर्शनादपि दीपस्य सर्वसिद्धिर्नृणां भवेत् ॥ ५४ ॥
कामनां यां समुद्दिश्य दीपं कारयते हरौ ॥
सासा सिद्ध्यति निर्विघ्ना सुप्तेऽनंते गुणोत्तरम् ॥ ५५ ॥
पंचायतनसंस्थेषु तथा देवेषु पंचसु ॥
विहितं दीपदानं च चातुर्मास्ये महाफलम् ॥ ५६ ॥
एको विष्णुस्तुष्यते मुक्तिदाता नित्यं ध्यातः पूजितः संस्तुतश्च ॥
यच्चाभीष्टं यच्च गेहे शुभं वा तत्तद्देयं मुक्तिहेतोर्नृवर्यैः ॥ ५७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तपोऽधिकारषोडशोपचारदीपमहिमवर्णनंनामैकोनचत्वारिंशदुत्तर द्विशततमोऽध्यायः ॥ २३९ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 240
॥ ब्रह्मोवाच ॥ ॥
हरेर्दीपस्तु मद्दीपादधिकोऽयं प्रकुर्वतः ॥
वैकुण्ठवास एव स्यान्ममैश्वर्यमवांछितम् ॥ १ ॥
॥ नारद उवाच ॥ ॥
दीपोऽयं विष्णुभवने मन्त्रवद्विहितो नरैः ॥
सदा विशेषफलदश्चातुर्मास्येऽधिकः कथम् ॥ २ ॥ ॥
॥ ब्रह्मोवाच ॥ ॥
विष्णुर्नित्याधिदैवं मे विष्णुः पूज्यः सदा मम ॥
विष्णुमेनं सदा ध्याये विष्णुर्मत्तः परो हि सः ॥ ३ ॥
स विष्णु वल्लभो दीपः सर्वदा पापहारकः ॥
चातुर्मास्ये विशेषेण कामनासिद्धिकारकः ॥ ४ ॥
विष्णुर्दीपेन संतुष्टो यथा भवति पुत्रक ॥
तथा यज्ञसहस्रैश्च वरं नैव प्रयच्छति ॥ ५ ॥
स्वल्प व्ययेन दीपस्य फलमानंतकं नृणाम् ॥
अनंतशयने प्राप्ते पुण्यसंख्या न विद्यते ॥ ६ ॥
तस्मात्सर्वात्मभावेन श्रद्धया संयुतेन च ॥
दीपप्रदानं कुरुते हरेः पापैर्न लिप्यते ॥ ७ ॥
उपचारैः षोडशकैर्यतिरूपे हरौ पुनः ॥
दीपप्रदाने विहिते सर्वमुद्द्योतितं जगत् ॥ ८ ॥
दीपादनंतरं ब्रह्मन्नन्नस्य च निवेदनम् ॥
त्रयोदश्या भक्तियुक्तैः कार्यं मोक्षपदस्थितैः ॥ ९ ॥
अमृतं संपरित्यज्य यदन्नं देवता अपि ॥
स्पृहयंति गृहस्थस्य गृहद्वारगताः सदा ॥ 6.240.१० ॥
हरौ सुप्ते विशेषेण प्रदेयः प्रत्यहं नरैः ॥
फलैरर्घ्यो विष्णुतुष्ट्यै तत्कालसमुदा हृतैः ॥ ११ ॥
तांबूलवल्लीपत्रैश्च तथा पूगफलैः शुभैः ॥
द्राक्षाजंब्वाम्रजफलैरक्रोडैर्दाडिमैरपि ॥ १२ ॥
बीजपूरफलैश्चैव दद्यादर्घ्यं सुभक्तितः ॥
शंखतोयं समादाय तस्योपरि फलं शुभम्॥ १३ ॥
मंत्रेणानेन विप्रेन्द्र केशवाय निवेदयेत् ॥
पुनराचमनं देयमन्नदानादनंतरम् ॥ १४ ॥
आर्तिक्यं च ततः कुर्यात्सर्वपापविनाशनम् ॥
चतुर्दश्या नमस्कुर्याद्विष्णवे यतिरूपिणे ॥ १५ ॥
पंचदश्या भ्रमः कार्यः सर्वदिक्षु द्विजैः सह ॥
सप्तसागरजै स्तोयैर्दत्तैर्यत्फलमाप्यते ॥ १६ ॥
तत्तोयदानाच्च हरेः प्राप्यते विष्णुवल्लभैः ॥
चतुर्वारभ्रमीभिश्च जगत्सर्वं चराचरम् ॥ १७ ॥
क्रांतं भवति विप्राग्र्य तत्तीर्थगमनादिकम् ॥
षोडश्या देवसायुज्यं चिन्तयेद्योगवित्तमः ॥ १८ ॥
आत्मनश्च हरेर्नित्यं न मूर्तिं भावयेत्तदा ॥
मूर्तामूर्तस्वरूप त्वाद्दृश्यो भवति योगवित् ॥ १९ ॥
तस्मिन्दृष्टे निवर्तेत सदसद्रूपजा क्रिया ॥
आत्मानं तेजसां मध्ये चिन्तयेत्सूर्यवर्चसम् ॥ 6.240.२० ॥
अहमेव सदा विष्णुरित्यात्मनि विचारयन् ॥
लभते वैष्णवं देहं जीवन्मुक्तो द्विजो भवेत् ॥ २१ ॥
चातुर्मास्ये विशेषेण योगयुक्तो द्विजो भवेत् ॥
इयं भक्तिः समादिष्टा मोक्षमार्गप्रदे हरौ ॥ २२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्यु पाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये दीपदानादिसायुज्यचिन्तनान्तभक्तिनिरूपणं नाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४०॥। ॥छ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 241
॥ ईश्वर उवाच ॥ ॥
एतत्ते पूजनं विष्णोः षोडशोपायसंभवम् ॥
कथितं यद्द्विजः कृत्वा प्राप्नोति परमं पदम् ॥ १ ॥
तथा च क्षत्रियविशां करणान्मुक्तिरुत्तमा ॥
शूद्राणां नाधिकारोऽस्मिन्स्त्रीणां नैव कदाचन ॥ २ ॥
॥ कार्तिकेय उवाच ॥ ॥
शूद्राणां च तथा स्त्रीणां धर्मं विस्तरतो वद ॥
केन मुक्तिर्भवेत्तेषां कृष्णस्याराधनं विना ॥ ३ ॥
॥ ईश्वर उवाच ॥ ॥
सच्छूद्रैरपि नो कार्या वेदाक्षरविचारणा ॥
न श्रोतव्या न पठ्या च पठन्नरकभाग्भवेत् ॥ ४ ॥
पुराणानां नैव पाठः श्रवणं कारयेत्सदा ॥
स्मृत्युक्तं सुगुरोर्ग्राह्यं न पाठः श्रवणादिकम् ॥ ५ ॥
॥ स्कंद उवाच ॥ ॥
सच्छूद्राः के समाख्यातास्तांश्च विस्तरतो वद ॥
के संतः के च शूद्राश्च सच्छूद्रा नामतश्च के ॥ ६ ॥
॥ ईश्वर उवाच ॥ ॥
धर्मोढा यस्य पत्नी स्यात्स सच्छूद्र उदाहृतः ॥
समानकुलरूपा च दशदोषविवर्जिता ॥ ७ ॥
उद्वोढा वेदविधिना स सच्छूद्रः प्रकीर्तितः ॥
अक्लीवाऽव्यंगिनी शस्ता महारोगाद्यदूषिता ॥ ८ ॥
अनिंदिता शुभकला चक्षुरोगविवर्जिता ॥
बाधिर्यहीना चपला कन्या मधुरभाषिणी ॥ ९ ॥
दूषणैर्दशभिर्हीना वेदोक्तविधिना नरैः ॥
विवाहिता च सा पत्नी गृहिणी यस्य सर्वदा ॥ 6.241.१० ॥
सच्छूद्रः स तु विज्ञेयो देवादीनां विभागकृत् ॥
पुण्यकार्येषु सर्वेषु प्रथमं सा प्रकीर्तिता ॥ ११ ॥
तया सुविहितो धर्मः संपूर्णफलदायकः ॥
चातुर्मास्ये विशेषेण तया सह गुणाधिकः ॥ १२ ॥
भार्यारतिः शुचिर्भृत्यादीनां पोषणतत्परः ॥
श्राद्धादिकारको नित्यमिष्टापूर्त्तप्रसाधकः ॥ १३ ॥
नमस्कारान्तमन्त्रेण नामसंकीर्तनेन च ॥
देवा स्तस्य च तुष्यन्ति पंचयज्ञादिकैः शुभैः ॥ १४ ॥
स्नानं च तर्पणं चैव वह्निहोमोऽप्यमंत्रकः ॥
ब्रह्मयज्ञोऽतिथेः पूजा पंचयज्ञान्न संत्यजेत् ॥ १५ ॥
कार्यं स्त्रीभिश्च शूद्रैश्च ह्यमंत्रं पंचयज्ञकम् ॥
पंचयज्ञैश्च संतुष्टा यथैषां पितृदेवताः ॥ १६ ॥
तथा पतिव्रतायाश्च पतिशुश्रूषया सदा ॥
पतिव्रताया देहे तु सर्वे देवा वसंति हि ॥ १७ ॥
अतस्ताभ्यां समेताभ्यां धर्मादीनां समागमः ॥
यदोभयोर्मते पृष्टे संतुष्टाः पितृदेवताः ॥ १८ ॥
कार्यादीनां च सर्वेषां संगमस्तत्र नित्यदा ॥
चातुर्मास्ये समायाते विष्णुभक्त्या तयोः शिवम् ॥ १९ ॥
समानजातिसंभूता पत्नी यस्य धृता भवेत् ॥
पूर्वो भर्त्ताऽर्द्धभागी स्याद्द्वितीयस्य न किंचन ॥ 6.241.२० ॥
अर्थकार्याधिकारोऽस्यास्तेन धर्मार्धधारिणी ॥
स्वंस्वं कृतं सदैव स्यात्तयोः कर्म शुभाशुभम् ॥ ॥ २१ ॥
याऽनुगच्छति भर्तारं मृतं सुतपसा द्विज ॥
साध्वी सा हि परिज्ञेया तया चोद्ध्रियते कुलम् ॥ २२ ॥
अन्यजातेर्मृतस्याथ धृता वापि विवाहिता ॥
वैश्वानरस्य मार्गेण सा तमुद्धरते पतिम् ॥ २३ ॥
यथा जलाच्च जंबालः कृष्यते धार्मिकैर्नृभिः ॥
एवमुद्धरते साध्वी भर्त्तारं याऽनुग च्छति ॥ २४ ॥
अन्यजातिसमुद्भूता अन्येन विधृता यदि ॥
तावुभौ धर्मकार्येषु संत्याज्यौ नित्यदा मतौ ॥ २५ ॥
स्वंस्वं कर्म प्रकुरुतः सत्कर्म जं स्वकं फलम् ॥
तस्माद्वरिष्ठा हीना वा सत्कुल्या शूद्रसंभवैः ॥ २६ ॥
धृता न कार्या सा पत्नी यत्करोति न वर्द्धते ॥
तया सह कृतं पुण्यं वर्द्धते दशधोत्तरम् ॥ २७ ॥
अनन्ततृप्तिदं नैव तत्सुतैरपि वा तथा ॥
क्रयक्रीता च या कन्या दासी सा परिकीर्तिता ॥ २८ ॥
सच्छूद्रस्याधिकारे सा कदाचिन्नैव जायते ॥
या कन्या स्वयमुद्यम्य पित्रा दत्ता वराय च ॥ २९ ॥
विवाहविधिनोदूढा पितृदेवार्थसाधिनी ॥
सुलक्षणा विनीता सा विवेकादिगुणा शुभा ॥ 6.241.३० ॥
सच्चरित्रा पतिपरा सा तेभ्यो दातुमर्हति ॥
विशुद्धकुलजा कन्या धर्मोढा धर्मचारिणी ॥ ३१ ॥
सा पुनाति कुलं सर्वं मातृतः पितृतस्तथा ॥
एष एव मया प्रोक्तः सच्छूद्राणां परो विधिः ॥ ३२ ॥
अधोजातिसमुद्भूता सच्छूद्रात्क्रमहीनजा ॥
विवाहो दशधा तेषां दशधा पुत्रता भवेत् ॥ ३३ ॥
चत्वार उत्तमाः प्रोक्ता विवाहा मुनिसत्तम ॥
शेषाः सर्वप्रकृतिषु कथिताश्च पुराविदैः । ३४ ॥
प्राजापत्यस्तथा ब्राह्मो दैवार्षो चातिशोभना ॥
गांधर्वश्चासुरश्चैव राक्षसश्च पिशाचकः ॥३५॥
प्रातिभो घातनश्चेति विवाहाः कथिता दश ॥
एते हि हीनजातीनां विवाहाः परिकीर्तिताः ॥३६॥
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ॥
गूढोत्पन्नोऽपविद्धश्च कानीनश्च सहोढजः ॥३७॥
क्रीतः पौनर्भवश्चापि पुत्रा दशविधाः स्मृताः ॥
औरसादपि हीनाश्च तेऽपि तेषां शुभावहाः ॥ ३८ ॥
अष्टादशमिता नीचाः प्रकृतानां यथातथा ॥
विधिनैव क्रिया नैव स्मृति मार्गोऽपि नैव च ॥३९॥
तासां ब्राह्मणशुश्रूषा विष्णुध्यानं शिवार्चनम् ॥
अमन्त्रात्पुण्यकरणं दानं देयं च वै सदा ॥6.241.४॥।
न दानस्य क्षयो लोके श्रद्धया यत्प्रदीयते ॥
अश्रद्धयाऽशुचितया दानं वैरस्यकारणम् ॥ ४१ ॥
अहिंसादि समादिष्टो धर्मस्तासां महाफलः ॥
चातुर्मास्ये विशेषेण त्रिदिवेशादिसेवया ॥४२॥
सुदर्शनैस्तथा धर्मः सेव्यते ह्यविरोधिभिः [।
सच्छूद्रैर्दानपुण्यैश्च द्विजशुश्रूषणादिभिः॥४३॥
वृत्तिश्च सत्यानृतजा वाणिज्यव्यव हारजा ॥
अशीतिभागमारद्याद्व्याजाद्वार्धुषिकः शते ॥४४॥
सपादभागवृद्धिस्तु क्षत्त्रियादिषु गृह्यते ॥
एवं न बन्धो भवति पातकस्य कदाचन॥४५॥
प्रातःकर्म सुरेशानां मध्याह्ने द्विजसेवनम् ॥
अपराह्णेऽथ कार्याणि कुर्वन्मर्त्यः सुखी भवेत् ॥ ४६ ॥
गृहस्थैश्च सदा भाव्यं यावज्जीवं क्रियापरैः ॥
पंचयज्ञरतैश्चैवातिथिद्विजसुपूजकैः ॥ ४७ ॥
विष्णुभक्तिरतैश्चैव वेदमन्त्रविपाठकैः ॥
सततं दानशीलैश्च दीनार्तजनवत्सलैः ॥ ४८ ॥
क्षमादिगुणसंयुक्तैर्द्वादशाक्षरपूजकैः ॥
षडक्षरमहोद्गारपरमानन्दपूरितैः ॥ ४९ ॥
सदपत्यैः सदाचारैः सतां शुश्रूषणैरपि ॥
विमत्सरैः सदा स्थेयं तापक्लेशविवर्जितैः ॥ 6.241.५० ॥
प्रव्रज्यावर्जनैरेवं सच्छूद्रैर्धर्मतत्परैः ॥
तोषणं सर्वभूतानां कार्यं वित्तानुसारतः ॥ ५१ ॥
सदा विष्णुशिवादीनां ये भक्तास्ते नराः सदा ॥
देववद्दिवि दीव्यंति चातुर्मास्ये विशेषतः ॥ ५२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये शेषशाय्युपाख्यान ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तपोऽधिकारे सच्छूद्रकथनंनामैकचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ ॥ २४१ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 242
॥ ऋषय ऊचुः ॥ ॥
नारद उवाच ॥ ॥
अष्टादश प्रकृतयः का वदस्व पितामह ॥
वृत्तिस्तासां च को धर्मः सर्वं विस्तरतो मम ॥ १ ॥ ॥
॥ ब्रह्मोवाच ॥ ॥
मज्जन्माभूद्भगवतो नाभिपंकजकोशतः ॥
स्वकालपरिमाणेन प्रबुद्धस्य जगत्पतेः ॥ २ ॥
ततो बहुतिथे काले केशवेन पुरा स्मृतः ॥
स्रष्टुकामेन विविधाः प्रजा मनसि राजसीः ॥ ३ ॥
अहं कमलजस्तत्र जातः पुत्रश्चतुर्मुखः ॥
उदरं नाभिनालेन प्रविश्याथ व्यलोकयम् ॥ ४ ॥
तत्र ब्रह्मांडकोटीनां दर्शनं मेऽभवत्पुनः ॥
विस्मयाच्चिंतयानस्य सृष्ट्यर्थमभिधावता ॥ ५ ॥
निर्गम्य पुनरेवाहं पद्मनालेन यावता ॥
बहिरागां विस्मृतं तत्सर्वं सृष्ट्यर्थकारणम् ॥ ६ ॥
पुनरेव ततो गत्वा प्रजाः सृष्ट्वा चतुर्विधाः ॥
नाभिनालेन निर्गत्य विस्मृतेनांतरात्मना ॥ ७ ॥
तदाहं जडवज्जातो वागुवाचाशरीरिणी ॥
तपस्तप महाबुद्धे जडत्वं नोचितं तव ॥ ८ ॥
दशवर्षसहस्राणि ततोऽहं तप आस्थितः॥
पुनराकाशजा वाणी मामुवाचाविनश्वरा ॥ ९ ॥
वेदरूपाश्रिता पूर्वमाविर्भूता तपोबलात् ॥
ततो भगवताऽऽदिष्टः सृज त्वं बहुधा प्रजाः ॥ ६.२४२.१० ॥
राजसं गुणमाश्रित्य भूतसर्गमकल्मषम् ॥
मनसा मानसी सृष्टिः प्रथमं चिंतिता मया ॥ ११ ॥
ततो वै ब्राह्मणा जाता मरीच्यादिमुनीश्वराः ॥
तेषां कनीयांस्त्वं जातो ज्ञानवेदांतपारगः ॥ १२ ॥
कर्मनिष्ठाश्च ते नित्यं सृष्ट्यर्थं सततोद्यताः ॥
निर्व्यापारो विष्णुभक्त एकांतब्रह्मसेवकः ॥ १३ ॥
निर्ममो निरहंकारो मम त्वं मानसः सुतः ॥
क्रमान्मया तु तेषां वै वेदरक्षार्थमेव च ॥ १४ ॥
प्रथमा मानसी सृष्टिर्द्विजात्यादिर्विनिर्मिता ॥
ततोहमांगिकीं सृष्टिं सृष्टवांस्तत्र नारद ॥ १५ ॥
मुखाच्च ब्राह्मणा जाता बाहुभ्यः क्षत्रिया मम ॥
वैश्या ऊरुसमुद्भूताः पद्भ्यां शूद्रा बभूविरे ॥ १६ ॥
अनुलोमविलोमाभ्य ांक्रमाच्च क्रमयोगतः ॥
शूद्रादधोऽधो जाताश्च सर्वे पादतलोद्भवाः ॥ १७ ॥
ताः सर्वास्तु प्रकृतयो मम देहांशसंभवाः ॥
नारद त्वं विजानीहि तासां नामानि वच्मि ते ॥ १९ ॥
ब्राह्मणः क्षत्रियो वैश्यस्त्रय एव द्विजातयः ॥
वेदास्तपोऽध्ययनं च यजनं दानमेव च ॥ १९ ॥
वृत्तिरध्यापनाच्चैव तथा स्वल्पप्रतिग्रहात् ॥
विप्रः समर्थस्तपसा यद्यपि स्यात्प्रतिग्रहे ॥ ६.२४२.२० ॥
तथापि नैव गृह्णीयात्तपोरक्षा यतः सदा ॥
वेदपाठो विष्णुपूजा ब्रह्मध्यानमलोभता ॥ २१ ॥
अक्रोधता निर्मलत्वं क्षमासारत्वमार्यता ॥
क्रियातत्परता दानक्रिया सत्यादिभिर्गुणैः ॥ २२ ॥
भूषितो यो भवेन्नित्यं स विप्र इति कथ्यते ॥
क्षत्रियेण तपः कार्यं यजनं दानमेव च ॥ २३ ॥
वेदपाठो विप्रभक्तिरेषां शस्त्रेण जीवनम्॥
स्त्रीबालगोब्राह्मणार्थे भूम्यर्थे स्वामिसंकटे ॥ २४ ॥
संप्रतिशरणं चैव पीडितानां च शब्दिते ॥
आर्तत्राणपरा ये च क्षत्रिया ब्रह्मणा कृताः ॥ २५ ॥
धनवृद्धिकरो वैश्यः पशुपालः कृषीवलः ॥
रसादीनां च विक्रेता देवब्राह्मणपूजकः ॥ २६ ॥
अर्थवृद्धिकरो व्याजा यज्ञकर्मादिकारकः ॥
दानमध्ययनं चेति वैश्यवृत्तिरुदाहृता ॥ २७ ॥
एतान्येव ह्यमंत्राणि शूद्रः कारयते सदा ॥
नित्यं षड्दैवतं श्राद्धं हन्तकारोऽग्नि तर्पणम्॥ २८ ॥
देवद्विजातिभक्तिश्च नमस्कारेण सिद्ध्यति ॥
शूद्रोऽपि प्रातरुत्थाय कृत्वा पादाभिवंदनम् ॥ २९ ॥
विष्णुभक्तिमयाञ्श्लोकान्पठन्विष्णुत्वमाप्नुयात्॥
वार्षिकव्रतकृन्नित्यं तिथिवाराधिदैवतः ॥ ६.२४२.३० ॥
अन्नदः सर्वजीवानां गृहस्थः शूद्र ईरितः ॥
अमंत्राण्यपि कर्माणि कुर्वन्नेव हि मुच्यते ॥ ३१ ॥
चातुर्मास्यव्रतकरः शूद्रोऽपि हरितां व्रजेत् ॥
शिल्पी च नर्तकश्चैव काष्ठकारः प्रजापतिः ॥ ३२ ॥
वर्धकिश्चित्रकश्चैव सूत्रको रजकस्तथा ॥
गच्छकस्तन्तुकारश्च चक्रिकश्चर्मकारकः ॥ ३३ ॥
सूनिको ध्वनिकश्चैव कौल्हिको मत्स्यघातकः ॥
औनामिकस्तु चंडालः प्रकृत्याष्टादशैव ते ॥ ३४ ॥
शिल्पिकः स्वर्णकारकश्च दारुकः कांस्यकारकः ॥
काडुकः कुम्भकारश्च प्रकृत्या उत्तमाश्च षट् ॥ ३५ ॥
खरवाह्युष्ट्रवाही हयवाही तथैव च ॥
गोपाल इष्टिकाकारो अधमाधमपञ्चकम् ॥ ३६ ॥
रजकश्चर्मकारश्च नटो बुरुड एव च ॥
कैवर्त्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः ॥३७॥
यो यस्य हीनो वर्णेन स चाष्टादशमो नरः ॥
सर्वासां प्रकृतीनां च उत्तमा मध्यमाः समाः ॥३८॥
भेदास्त्रयः समाख्याता विज्ञेयाः स्मृतिनिर्णयात् ॥
शिल्पिनः सप्त विज्ञेया उत्तमाः समुदाहृताः ॥ ३९ ॥
स्वर्णकृत्कंबुकश्चैव तन्दुलीपुष्पलावकः ॥
तांबूली नापितश्चैव मणिकारश्च सप्तधा ॥ ६.२४२.४० ॥
न स्नानं देवताहोमस्तपोनियम एव च ॥
न स्वाध्यायवषट्कारौ न च शुद्धिर्विवाहिता ॥ ४१ ॥
एतासां प्रकृतीनां च गुरुपूजा सदोदिता ॥
विप्राणां प्राकृतो नित्यं दानमेव परो विधिः ॥ ४२ ॥
सर्वेषामेव वर्णानामाश्रमाणां महामुने ॥
सर्वासां प्रकृतीनां च विष्णुभक्तिः सदा शुभा ॥ ४३ ॥
इति ते कथितं सर्वं यथाप्रकृतिसंभवम् ॥
कथां शृणु महापुण्यां शूद्रः शुद्धिमगाद्यथा ॥ ४४ ॥
इदं पुराणं परमं पवित्रं विशुद्धधीर्यस्तु शृणोति वा पठेत् ॥
विधूय पापानि पुरार्जितानि स याति विष्णोर्भवनं क्रियापरः ॥ ४५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्येऽष्टादशप्रकृतिकथनंनाम द्विचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४२ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 243
॥ ब्रह्मोवाच ॥ ॥
शूद्रः पैजवनोनाम गार्हस्थ्याच्छुद्धिमाप्तवान् ॥
धर्ममार्गाविरोधेन तन्निबोध महामते ॥ १ ॥
आसीत्पैजवनः शूद्रः पुरा त्रेतायुगे किल ॥
स्वधर्मनिरतः ख्यातो विष्णुब्राह्मणपूजकः ॥ २ ॥
न्यायागतधनो नित्यं शांतः सर्वजनप्रियः ॥
सत्यवादी विवेकज्ञस्तस्य भार्या च सुन्दरी ॥ ३ ॥
धर्मोढा वेदविधिना समानकुलजा शुभा ॥
पतिव्रता महाभागा देवद्विजहिते रता ॥ ॥ ४ ॥
काश्यां संबंधिता बाला वैजयंत्यां विवाहिता ॥
सा धर्माचरणे दक्षा वैष्णवव्रतचारिणी ॥ ५ ॥
भर्त्रा सह तथा सम्यक्चिक्रीडे सुविनीतवत् ॥
सोऽपि रेमे तया काले हस्तिन्येव महागजः ॥६॥
अर्थाप्तिः पूर्वपुण्येन जाता तस्य महात्मनः ॥
वाणिज्यं स्वजनैर्नित्यं स्वदेशपरदेशजम् ॥ ॥७॥
कारयत्यर्थजातैश्च परकीयस्वकीयजैः ॥
एवमर्थश्च बहुधा संजातो धर्मदर्शिनः ॥ ८ ॥
पुत्रत्रयं च संजातं पितुः शुश्रूषणे रतम् ॥
तस्य पुत्राः पितुर्भक्ता द्रव्यादिमदवर्जिताः ॥ ९ ॥
पितृवाक्यरताः श्रेष्ठाः स्वधर्माचारशोभनाः ॥
पित्रोः शुश्रूषणादन्यन्नाभिनंदंति किंचन ॥6.243.१०॥
ते सम्बन्धैः सुसंबद्धाः पित्रा धर्मार्थदर्शिना ॥
तत्पत्न्यो मातृपित्रर्चां कारयंत्यनिवारितम् ॥ ११ ॥
ऋद्धिमद्भवनं तस्य धनधान्यसमन्वितम् ॥
सोऽपि धर्मरतो नित्यं देवतातिथिपूजकः ॥ १२ ॥
गृहागतो न विमुखो यस्य जातु कदाचन ॥
शीतकाले धनं प्रादादुष्णकाले जलान्नदः ॥ १३ ॥
वर्षा काले वस्त्रदश्च बभूवान्नप्रदः सदा ॥
वापीकूपतडागादिप्रपादेवगृहाणि च ॥ १४ ॥
कारयत्युचिते काले शिवविष्णुव्रतस्थितः ॥
इष्टधर्मस्तु वर्णानां समाचीर्णो महाफलः ॥ १५ ॥
अन्येषां पूर्तधर्माणां तेषां पूर्तकरः सदा ॥
स बभूव धनाढ्योपि व्यसनैर्न समाश्रितः ॥ १६ ॥
विष्णुभक्तिरतो नित्यं चातुर्मास्ये विशेषतः ॥१८॥
एकदा गालवमुनिः शिष्यैर्बहुभिरावृतः ॥ १७ ॥
ब्रह्मज्ञानरतः शांतस्तपोनिष्ठो महावशी ॥
अभ्याजगाम शूद्रस्य गेहे पैजवनस्य सः ॥ १८ ॥
स वाग्भिर्मधुभिस्तस्य अभ्युत्थानासनादिभिः ॥
उपचारैः पुनर्युक्तः कृतार्थ इव मानयन् ॥ १९ ॥
अद्य मे सफलं जन्म जातं जीवितमुत्तमम् ॥
अद्य मे सफलो धर्मः कुशलश्चोद्धृतस्त्वया ॥ 6.243.२० ॥
मम पापसहस्राणि दृष्ट्या दग्धानि ते मुने ॥
गृहं मम गृहस्थस्य सकलं पावितं त्वया ॥ २१ ॥
तस्य भक्त्या प्रसन्नोऽभूद्गतमार्गपरिश्रमः ॥
उवाच मुनिशार्दूलः सच्छूद्रं तं कृतांजलिम् ॥ २२ ॥
कच्चित्ते कुशलं सौम्य मनो धर्मे प्रवर्तते ॥
अर्थानुबंधाः सततं बन्धुदारसुतादयः ।1 २३ ॥
गोविन्दे सततं भक्तिस्तथा दाने प्रवर्तते ॥
धर्मार्थकाम कार्येषु सप्रभावं मनस्तव ॥ २४ ॥
विष्णुपादोदकं नित्यं शिरसा धार्यते न वा ॥
पादोद्भवं च गंगोदं द्वादशाब्दफलप्रदम् ॥ २५ ॥
चातुर्मास्ये विशेषेण तत्फलं द्विगुणं भवेत् ॥
हरिभक्तिर्हरिकथा हरिस्तोत्रं हरेर्नतिः ॥ २६ ॥
हरिध्यानं हरेः पूजा सुप्ते देवे च मोक्षकृत् ॥
एवं ब्रुवाणं स मुनिं पुनराह नतिं गतः ॥ २७ ॥
भवद्दृष्ट्याश्रमफलमेतज्जातं न संशयः ॥
तथापि श्रोतुमिच्छामि तव वाणीमनामयीम् ॥ २८ ॥
भवादृशानां गमनं सर्वार्थेषु प्रकल्पते ॥
ततस्तौ सुमुदा युक्तौ संजातौ हृष्टचेतसौ ॥ २९ ॥
मुनिं पैजवनोनाम सच्छूद्रः प्राह संमतः ॥
किमागमनकृत्यं ते कथयस्व प्रसादतः ॥ 6.243.३० ॥
को वा तीर्थप्रसंगश्च चातुर्मास्ये समीपगे ॥
गालवः प्राह सच्छूद्रं धार्मिकं सत्यवादिनम् ॥ ३१ ॥
मम तीर्थावसिक्तस्य मासा बहुतरा गताः ॥
इदानीमाश्रमं यास्ये चातुर्मास्ये समागते ॥ ३२ ॥
आषाढशुक्लैकादश्यां करिष्ये नियमं गृहे ॥
नारायणस्य प्रीत्यर्थं श्रेयोऽर्थं चात्मनस्तथा ॥
प्रत्युवाच मुनिर्धर्मान्विनयानतकन्धरम् ॥ ३३ ॥
॥ पैजवन उवाच ॥ ॥
मामनुग्रहजां बुद्धिं ब्रूहि त्वं द्विजपुंगव ॥
वेदेऽधिकारो नैवास्ति वेदसारजपस्य वा ॥ ३४ ॥
पुराणस्मृतिपाठस्य तस्मात्किंचिद्वदस्व मे ॥
तत्त्वात्मसदृशं किंचिद्भाति रूपं महाफलम् ॥ ३५ ॥
चातुर्मास्ये विशेषेण मुक्तिसंसाधकं वद ॥ ३६ ॥
॥ गालव उवाच ॥ ॥
शालिग्रामगतं विष्णुं चक्रांकित पुटं सदा ॥
येऽर्चयन्ति नरा नित्यं तेषां भुक्तिस्त्वदूरतः ॥ ३७ ॥
शालिग्रामे मनो यस्य यत्किंचित्क्रियते शुभम् ॥
अक्षय्यं तद्भवेन्नित्यं चातुर्मास्ये विशेषतः ॥ ३८
शालिग्रामशिला यत्र यत्र द्वारावती शिला ॥
उभयोः संगमः प्राप्तो मुक्तिस्तस्य न दुर्लभा ॥ ३९ ॥
शालिग्रामशिला यस्यां भूमौ संपूज्यते नृभिः ॥
पञ्चक्रोशं पुनात्येषा अपि पापशतान्वितैः ॥ 6.243.४० ॥
तैजसं पिंडमेतद्धि ब्रह्मरूपमिदं शुभम् ॥
यस्याः संदर्शनादेव सद्यः कल्मषनाशनम् ॥ ४१ ॥
सर्वतीर्थानि पुण्यानि देवतायतनानि च ॥
नद्यः सर्वा महाशूद्र तीर्थत्वं प्राप्नुवंति हि ॥४२॥
सन्निधानेन वै तस्याः क्रिया सर्वत्रशोभनाः ॥
व्रजंति हि क्रियात्वं च चातुर्मास्ये विशेषतः ॥ ४३ ॥
पूज्यते भवने यस्य शालिग्राम शिला शुभा ॥
कोमलैस्तुलसीपत्रैर्विमुखस्तत्र वै यमः ॥ ४४ ॥
ब्राह्मणक्षत्रियविशां सच्छूद्राणामथापि वा ॥
शालिग्रामाधिकारोऽस्ति न चान्येषां कदाचन ॥ ४५ ॥
॥ सच्छूद्र उवाच ॥ ॥
ब्रह्मन्वेदविदां श्रेष्ठ सर्वशास्त्रविशारद ॥
स्त्रीशूद्रादिनिषेधोऽयं शालिग्रामे हि श्रूयते ॥ ४६ ॥
मादृशस्त्वं कथं शालिग्रामपूजाविधिं वद ॥ ४७ ॥
॥ गालव उवाच ॥ ॥
असच्छूद्रगतं दास निषेधं विद्धि मानद ।।
स्त्रीणामपि च साध्वीनां नैवाभावः प्रकीर्तितः ॥ ४८ ॥
मा भूत्संशयस्तेनात्र नाऽऽप्नुषे संशयात्फलम् ॥
शालिग्रामार्चनपराः शुद्धदेहा विवेकिनः ॥ ४९ ॥
न ते यमपुरं यांति चातुर्मास्ये च पूजकाः ॥
शालिग्रामार्पितं माल्यं शिरसा धारयंति ये ॥ 6.243.५० ॥
तेषां पापसहस्राणि विलयं यांति तत्क्षणात्॥
शालिग्राम शिलाग्रे तु ये प्रयच्छंति दीपकम् ॥ ५१ ॥
तेषां सौरपुरे वासः कदाचिन्नैव हीयते ॥
शालिग्रामगतं विष्णुं सुमनोभिर्मनोहरैः॥
येऽर्चयंति महाशूद्र सुप्ते देवे हरौ तथा ॥ ५२ ॥
पंचामृतेन स्नपनं ये कुर्वंति सदा नराः ॥
शालिग्रामशिलायां च न ते संसारिणो नराः॥ ५३ ॥
मुक्तेर्निदानममलं शालिग्रामगतं हरिम् ॥
हृदि न्यस्य सदा भक्त्या यो ध्यायति स मुक्तिभाक् ॥ ५४ ॥
तुलसीदलजां मालां शालिग्रामोपरि न्यसेत् ॥
चातुर्मास्ये विशेषेण सर्वकामानवाप्नुयात् ॥ ५५ ॥
न तावत्पुष्पजा माला शालिग्रामस्य वल्लभा ॥
सर्वदा तुलसी देवी विष्णोर्नित्यं शुभा प्रिया ॥ ॥ ५६ ॥
तुलसी वल्लभा नित्यं चातुर्मास्ये विशेषतः ॥
शालिग्रामो महाविष्णुस्तुलसी श्रीर्न संशयः ॥ ५७ ॥
अतो वासितपानीयैः स्नाप्यं चंदनचर्चितैः ॥
मंजरीभिर्युतं देवं शालग्रामशिलाहरिम् ॥ ५८ ॥
तुलसीसंभवाभिश्च कृत्वा कामानवाप्नुयात् ॥
पत्रे तु प्रथमे ब्रह्मा द्वितीये भगवाञ्छिवः ॥ ५९ ॥
मंजर्यां भगवान्विष्णुस्तदेकस्थत्रया सदा ॥
मंजरी दलसंयुक्ता ग्राह्या बुधजनैः शुभा ॥ 6.243.६० ॥
तां निवेद्य गुरौ भक्त्या जन्मादिक्षयकारणम् ॥
शालिग्रामे धूपराशिं निवेद्य हरितत्परः ॥ ६१ ॥
चातुर्मास्ये विशेषेण मनुष्यो नैव नारकी॥
शालिग्रामं नरो दृष्ट्वा पूजितं कुसुमैः शुभैः ॥ ६२ ॥
सर्वपापविशुद्धात्मा याति तन्मयतां हरौ ॥
य स्तौत्यश्मगतं विष्णुं गंडकीजलसंभवम् ॥ ६३ ॥
श्रुतिस्मृतिपुराणैश्च सोऽपि विष्णुपदं व्रजेत् ॥
शालिग्रामशिलायाश्च चतुर्विंशतिसंख्यकाः ॥
भेदाः संति महाशूद्र ताञ्छृणुष्व महामते ॥ ६४ ॥
इमाः पूज्याश्च लोकेऽत्र चतुर्विंशतिसंख्यकाः ॥
तासां च दैवतं विष्णुं नामानि च वदाम्यहम् ॥ ६५ ॥
स एव मूर्त्तश्चतुरुत्तरासिर्विंशद्भिरेको भगवान्यथाऽऽद्यः ॥
स एव संवत्सरनामसंज्ञः स एव ग्रावागत आदिदेवः ॥ ६६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने शालिग्रामपूजनमाहात्म्यवर्णनंनाम त्रिचत्वारिंशत्युत्तरद्विशततमोऽध्यायः ॥ २४३ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 244
॥ पैजवन उवाच ॥ ॥
एतान्भेदान्मम ब्रूहि विस्तरेण तपोधन ॥
त्वद्वाक्यामृतपानेन तृषा नैव प्रशाम्यति ॥ १ ॥
॥ गालव उवाच ॥ ॥
शृणु विस्तरतो भेदान्पुराणोक्तान्वदामि ते ॥
याञ्छ्रुत्वा मुच्यतेऽवश्यं मनुजः सर्वकिल्बिषात् ॥ २ ॥
पूर्वं तु केशवः पूज्यो द्वितीयो मधुसूदनः ॥
संकर्षणस्तृतीयस्तु ततो दामोदरः स्मृतः ॥ ३ ॥
पंचमो वासुदेवाख्यः षष्ठः प्रद्युम्नसंज्ञकः ॥
सप्तमो विष्णुरुक्तश्चाष्टमो माधव एव च ॥ ४ ॥
नवमोऽनंतमूर्त्तिश्च दशमः पुरुषोत्तमः ॥
अधोक्षजस्ततः पश्चाद्द्वादशस्तु जनार्दनः ॥ ५ ॥
त्रयोदशस्तु गोविंदश्चतुर्दशस्त्रिविक्रमः ॥
श्रीधरश्च पंचदशो हृषीकेशस्तु षोडशः ॥ ६ ॥
नृसिंहस्तु सप्तदशो विश्वयोनिस्ततः परम्॥
वामनश्च ततः प्रोक्त स्ततो नारायणः स्मृतः ॥ ७ ॥
पुंडरीकाक्ष उक्तस्तु ह्युपेंद्रश्च ततः परम् ॥
हरिस्त्रयोविंशतिमः कृष्णश्चांत्य उदाहृतः ॥ ९ ॥
शालिग्रामस्य भेदांश्च मयोक्तास्तव शूद्रज ॥
मूर्तिभेदास्तथा प्रोक्ता एत एव महाधन ॥ ९ ॥
मूर्त्तयस्तिथिनान्म्यः स्युरेकादश्यः सदैव हि ॥
संवत्सरेण पूज्यंते चतुर्विंश तिमूर्तयः ॥ ६.२४४.१० ॥
देवावताराश्च तथा चतुर्विंशतिसंख्यकाः ॥
मासा मार्गशिराद्याश्च मासार्द्धाः पक्षसंज्ञकाः ॥ ११ ॥
अधीशसहितान्नित्यं पूजयन्भक्तिमान्भवेत् ॥
चतुर्विंशतिसंज्ञं च चतुष्टयमुदाहृतम् ॥ १२ ॥
एतच्चतुष्टयं नृणां धर्मकामार्थमोक्षदम् ॥
यः शृणोति नरो भक्त्तया पठेद्वापि समाहितः ॥ १३ ॥
भूतसर्गस्य गोप्ताऽसौ हरिस्तस्य प्रसीदति ॥ १४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये शालिग्रामशिलासुमूर्त्त्युत्पत्तिवर्णनंनाम चतुश्चत्वारिंशदुत्तरद्वि शततमोध्यायः ॥ २४४ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 245
॥ पैजवन उवाच ॥ ॥
शालिग्रामशिलायां च जगदादिः सनातनः ॥
कथं पाषाणतां प्राप्तो गण्डक्यां तच्च मे वद ॥
त्वत्प्रसादेन विप्रर्षे हरौ भक्तिर्दृढा भवेत् ॥
भवंतस्तीर्थरूपा हि दर्शनात्पापहारिणः ॥ २ ॥
तीर्थामृतावगाहेन यथा पवित्रता नृणाम् ॥
भवद्वाक्यामृताज्जाता तथा मम न संशयः ॥ ३ ॥
॥ गालव उवाच ॥ ॥
इतिहासस्त्वयं पुण्यः पुराणेषु च पठ्यते ॥
यथा स एव भगवाञ्छालिग्रामत्वमागतः ॥ ४ ॥
महेश्वरश्च लिंगत्वं कथयेऽहं तवाऽनघ ॥
पूर्वं प्रजापतिर्दक्षो ब्रह्मणोंऽगुष्ठ संभवः ॥ ५ ॥'
तस्यासीद्दुहिता साध्वी सतीनाम्नी सुलक्षणा ॥
हरेणोढा विधिज्ञेन वेदोक्तविधिना ततः ॥ ६ ॥
स चकार महायज्ञे हरद्वेषं विमूढधीः ॥
तेन द्वेषेण महता सती प्रकुपिता भृशम् ॥ ७ ॥
यज्ञवेद्यां समागम्य वह्निधारणया तदा ॥
प्राणायामपरा भूत्वा देहोत्सर्गं चकार सा ॥ ८ ॥
पितृभागं परित्यज्य स्वभागेन युता सती ॥
मनसा ध्यानमगमच्छीतलं च हिमालयम् ॥ ९ ॥
यत्रयत्र मनो याति स्वकर्मवशगं मृतौ ॥
अवतारस्तत्रतत्र जायते नात्र संशयः ॥ ६.२४५.१० ॥
दह्यमाना हि सा देवी हिमालयसुताऽभवत् ॥
तत्र सा पार्वती भूत्वा तप उग्रं समाश्रिता ॥ ११ ॥
शिवभक्तिरता नित्यं हरव्रतपरायणा ॥
शृंगे हिमवतः पुत्री मनो न्यस्य महेश्वरे ॥ ॥ १२ ॥
ततो वर्षसहस्रांते भगवान्भूतभावनः ॥
अथाजगाम तं देशं विप्ररूपो महेश्वरः ॥ १३ ॥
तां ज्ञात्वा तपसा शुद्धां कर्मभावैः परीक्षितैः ॥
ततो दिव्यवपुर्भूत्वा करे जग्राह पार्वतीम् ॥ १४ ॥
तपसा निर्जितश्चास्मि करवाणि च किं प्रियम् ॥
ततः प्राह महेशानं प्रमाणं मे पिता गुरुः । ॥ १५ ॥
सप्तर्षीन्स तथोक्तस्तु प्रेषयामास शंकरः ॥
ते तत्र गत्वा समयं वक्तुं हिमवता सह ॥ १६ ॥
निवेद्य च महेशानं प्रेषिता मुनयो ययुः ।
ततो लग्नदिने देवा महेन्द्रादय ईश्वरम् ॥ १७ ॥
ब्रह्मविष्णुपुरोगाश्च पुरोधायाग्निमाययुः ॥
योगसिद्धा समायांतं वरवेषं वृषध्वजम् । १८ ।
हिमवान्पूजयामास मधुपर्कादिकैः शुभैः ॥
उपचारैर्मुदा युक्तो मानयन्कृतकृत्यताम् ॥ १९ ॥
वेदोक्तेन विधानेन तां कन्यां समयोजयत् ॥
पाणिग्रहेण विधिना द्विजातिगणसंवृतः ॥ ६.२४५.२० ॥
वह्निं प्रदक्षिणीकृत्य गिरीशस्तदनन्तरम् ॥
दानकाले च गोत्रादि पृष्टो लज्जापरो हर ॥२१॥
ब्रह्मणो वचनात्तेन विधिशेषोऽवशेषितः॥
चरुप्राशनकाले तु पंचवक्त्रप्रकाशकृत्॥२२॥
सहितः सकलैर्देवैः कुतूहलपरायणः॥
गिरिजार्थं समायुक्तो वरः सोऽपि महेश्वरः॥२३॥
नवकोटिमुखां दृष्ट्वा साट्टहासो जनोऽभवत्॥
वैदिकी श्रुतिरित्युक्ता शिव त्वं स्थिरतां व्रज॥२४॥
लज्जिता सा परित्यागं नाकरोत्पंचजन्मसु ॥
भर्त्तारमसितापांगी हरमेवाभ्यगच्छत ॥ २५ ॥
देवानां पर्वतानां च प्रहृष्टं सकलं कुलम् ॥
ततो विवाहे संपूर्णे हरोऽगात्कौतुकौकसि ॥ २६ ॥
गणानां चापि सान्निध्ये सा नामर्षयदंबिका ॥
पारिबर्हं ततो दत्त्वा शैलेन स विसर्जितः ॥ २७ ॥
मानितः सत्कृतश्चापि मन्दराचलमभ्यगात्॥
विश्वकर्मा ततस्तस्य क्षणेन मणिमद्गृहम् ॥ २८ ॥
निर्ममे देवदेवस्य स्वेच्छावर्द्धिष्णुमंदिरम् ॥
सर्वर्द्धिमत्प्रशस्ताभं मणिविद्रुमभूषितम् ॥ २९ ॥
स्थूणासहस्रसंयुक्तं मणिवेदिमनोहरम् ॥
गणा नंदिप्रभृतयो यस्य द्वारि समाश्रिताः ॥ ६.२४५.३० ॥
त्रिनेत्राः शूलहस्ताश्च बभुः शंकररूपिणः ॥
वाटिका अस्य परितः पारिजाताः सहस्रशः ॥ ३१ ॥
कामधेनुर्मणिर्दिव्यो यस्य द्वारि समाश्रितौ ॥
तस्मिन्मनोहरतरे कामवृद्धिकरे गृहे ॥ ३२ ॥
पार्वत्या वसतः सार्द्धं कामो दृष्टिपथं ययौ ॥
वायुरूपः शिवं दृष्ट्वा कामः प्रोवाच शंकरम् ॥ ३३ ॥
नमस्ते सर्वरूपाय नमस्ते वृषभध्वज ॥
नमस्ते गणनाथाय पाहि नाथ नमोऽस्तु ते ॥३४॥
त्वया विरहितं लोकं शववत्स्पृशते मही ॥
न त्वया रहितं किञ्चि द्दृश्यते सचराचरे ॥ ३५ ॥
त्वं गोप्ता त्वं विधाता च लोकसंहारकारकः ॥
कृपां कुरु महादेव देहदानं प्रयच्छ मे ॥ ३६ ॥
॥ ईश्वर उवाच ॥ ॥ ॥
यन्मया त्वं पुरा दग्धः पर्वते पुरतोऽनघ ॥
तस्या एव समीपे त्वं पुनर्भव स्वदेहवान् ॥ ३७ ॥
एवमुक्तस्ततः कामः स्वशरीरमुपागतः ॥
ववंदे चरणौ शूद्र विनयावनतोऽभवत् ॥ ३८ ॥
ततो ननाम चरणौ पार्वत्याः संप्रहृष्टवान् ॥
लब्धप्रसादस्तु तयोः समीपाद्भुवनत्रये ॥ ३९ ॥
चचार सुमहातेजा महामोहबलान्वितः ॥
पुष्पधन्वा पुष्पबाणस्त्वाकुञ्चितशिरोरुहः ॥ ६.२४५.४० ॥
सदा घूर्णितनेत्रश्च तयोर्देहमुपाविशत् ॥
दिव्यासवैर्दिव्यगंधैर्वस्त्रमाल्यादिभिस्तथा ॥ ४१ ॥
सख्यः संभोगसमये परिचक्रुः समंततः ॥
एवं प्रक्रीडतस्तस्य वत्सराणां शतं ययौ ॥ ४२ ॥
साग्रमेका निशा यद्वन्मैथुने सक्तचेतसः ॥
एतस्मिन्नंतरे देवास्तारकप्रद्रुता भयात् ॥
ब्रह्माणं शरणं जग्मुः स्तुत्वा तं शरणं गताः ॥ ४३ ॥
॥ देवा उचुः ॥ ॥
तारकोऽसौ महारौद्रस्त्वया दत्तवरः पुरा ॥ ४४ ॥
विजित्य तरसा शक्रं भुंक्ते त्रैलोक्यपूजितः ॥
वधोपायो यथा तस्य जायते त्वं कुरु स्वयम् ॥ ॥ ४५ ॥
॥ ब्रह्मोवाच ॥ ॥
मया दत्तवरश्चासौ मयैवोच्छिद्यते नहि ॥
स्वयं संवर्ध्य कटुकं छेत्तुं कोऽपि न चार्हति ॥ ४६ ॥
तस्मात्तस्य वधोपायं कथयामि महात्मनः ॥
पार्वत्यां यो महेशानात्सूनुरुत्पत्स्यते हि सः ॥ ४७ ॥
दिनसप्तकवान्भूत्वा तारकं स हनिष्यति ॥
इति वाक्यं तु ते श्रुत्वा मंदरं लोकसुंदरम्॥ ४८ ॥
ब्रह्मलोकात्समाजग्मुः पीडिता दैत्यदानवैः ॥ ४९ ॥
तत्र नंदिप्रभृतयो गणाः शूलभृतः पुरः ॥
गृहद्वारे ह्युपा वृत्य तस्थुः संयतचेतसः ॥ ६.२४५.५० ॥
॥ देवा ऊचुः ॥ ॥
देवाश्च दुःखातुरचेतसो भृशं हतप्रभास्त्यक्तगृहाश्रयाखिलाः ॥
संप्राप्य मासांश्चतुरः स्तपः स्थिता देवे प्रसुप्ते हरतोषणं परम् ॥ ५१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने तारकोपद्रुतानां देवानां शिवदर्शनार्थं मंदराचलंप्रतिगमनवर्णनंनाम पञ्चचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४५ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 246
॥ गालव उवाच ॥ ॥
शक्रादयस्तु देवेशा दुःखसंतप्तमानसाः ॥ ॥
ईश्वरादर्शनभ्रांतमनः कर्मेंद्रिया रतिम् ॥ १ ॥
न प्रापुर्लोकनाथं ते कृत्वा यः प्रतिमाकृतिम् ॥
तपसाराधयामासुः सर्वभूतहृदिस्थितम् ॥ २ ॥
कपर्दशिरसं देवं शूलहस्तं पिनाकिनम् ॥
कपालखट्वांगधरं दशहस्तं किरीटिनम्॥ ३ ॥
उमासहितमीशानं पंचवक्त्रं महाभुजम्॥
कर्पूरगौरदेहाभं सितभूतिविभूषितम्॥ ॥ ४ ॥
नागयज्ञोपवीतेन गजचर्मसमन्वितम् ॥
कृष्णसारत्वचा चापि कृतप्रावरणं विभुम् ॥ ५ ॥
कृतध्यानाः सुरास्तत्र वृक्षाधारे समाश्रिताः ॥
व्रतचर्यां समाश्रित्य प्रचक्रुस्तप उत्तमम् ॥ ६ ॥
षडक्षरेण मंत्रेण शैवेन विहिताः सुराः ॥
॥ शूद्र उवाच ॥ ॥
व्रतचर्या त्वया या सा प्रोक्ता संजा यते कथम् ॥ ७ ॥
ब्रह्मन्विस्तरतो ब्रूहि न तृप्येते वचोऽमृतैः ॥ ८ ॥
॥ गालव उवाच ॥ ॥
जपन्भस्म च खट्वांगं कपालं स्फाटिकं तथा ॥
रुंडमालां पंचवक्त्रमर्द्धचंद्रं च मूर्द्धनि ॥ ९ ॥
चित्रकृत्तिपरीधानं कौपीनकुण्डलद्वयम् ॥
घंटायुग्मं त्रिशूलं च सूत्रं चर्यास्वरूपकम् ॥ ६.२४६.१० ॥
अमीभिर्लक्षणैर्लक्ष्यं मयोक्तं तव शूद्रज ॥
अनेन विधिना सर्वे देवा वह्निपुरोगमाः ॥ ११ ॥
सर्व आराधयामासुः सर्वोपायैर्वरप्रदम् ॥
चातुर्मास्ये च संपूर्णे सपूर्णे कार्तिकेऽमले ॥ १२ ॥
चीर्णव्रतान्सुरान्दृष्ट्वा विशुद्धांश्च महेश्वरः ॥
मतिं तेषां ददौ तुष्टो जीवात्मा सर्वभूतदृक् ॥ १३ ॥
शतरुद्रीयजाप्येन विधानसहितेन च ॥
ध्यानेन दीपदानेन चातुर्मास्ये तुतोष सः ॥ १४ ॥
पूजनैः षोडशविधैर्यथा विष्णोस्तथा हरे ॥
कुर्वाणान्भक्तिभावेन ज्ञात्वा देवान्समागतान् ॥ १५ ॥
प्रहृष्टो भगवान्रुद्रो ददौ तेषां शुभा मतिम् ॥
ततः संमंत्र्य ते देवा वह्निं स्तुत्वा यथार्थतः ॥ १६ ॥
प्रसन्नवदनं चक्रुः कार्यसाधनतत्परम् ॥
कर्मसाक्षी महातेजाः कृत्वा पारावतं वपु ॥ १७ ॥
प्रविवेश ततो मध्ये द्रष्टुं देवं महेश्वरम् ॥
चकार गतिविक्षेपं गुंठनैरवगुंठनैः ॥१८॥
लुंठनैः सर्पणैश्चैव चारुरूपोऽद्भुतां गतिम् ॥
तं दृष्ट्वा भगवांस्तत्र कारणं समबुद्ध्यत ॥१९॥
ऊर्ध्वरेतास्ततस्तस्मिन्ससर्जादौ दधार तत् ॥
वीर्यं वह्निमुखे चैव सोत्पपात गृहाद्बहिः ॥ ६.२४६.२० ॥
गते तस्मिन्पतंगेऽथ पार्वती विफलश्रमा ॥
संक्रुद्धा सर्वदेवानां सा शशाप महेश्वरी ॥ २१ ॥
यस्मान्ममेच्छा विहता भवद्भिर्दुष्टबुद्धिभिः ॥
तस्मात्पाषाणतामाशु व्रजंतु त्रिदिवौकसः ॥ २२ ॥
निरपत्या निर्दयाश्च सर्वे देवा भविष्यथ ॥
ततः प्रसादयामासुः प्रणताः शापयंत्रिताः ॥ २३ ॥
महद्दुःखं संप्रविष्टाः पुनः पुनरथाब्रुवन् ॥ २४ ॥
॥ देवा ऊचुः ॥ ॥
त्वं माता सर्वदेवानां सर्वसाक्षी सनातनी ॥
उत्पत्तिस्थितिसंहारकारणं जगतां सदा ॥ २५ ॥
भूतप्रकृतिरूपा त्वं महाभूतसमाश्रिता ॥
अपर्णा तपसां धात्री भूतधात्री वसुन्धरा ॥ २६ ॥
मंत्राराध्या मन्त्रबीजं विश्वबीजलयस्थितिः ॥
यज्ञादिफलदात्री च स्वाहारूपेण सर्वदा ॥ २७ ॥
मन्त्रयन्त्रसमोपेता ब्रह्मविष्णुशिवादिषु ॥
नित्यरूपा महारूपा सर्वरूपा निरञ्जना ॥ २९८ ॥
दोषत्रयसमाक्रान्त जननैः श्रेयसप्रदा ॥
महालक्ष्मीर्महाकालीमहादेवी महेश्वरी ॥ २९ ॥
विश्वेश्वरी महामाया मायाबीजवरप्रदा ॥
वररूपा वरेण्या त्वं वरदात्री वरासुता ॥ ६.२४६.३० ॥
बिल्वपत्रैः शुभैर्ये त्वां पूजयन्ति नराः सदा ॥
तेषां राज्यप्रदात्री च कामदा सिद्धिदा सदा ॥ ३१ ॥
चातुर्मास्येऽर्चिता यैस्त्वं बिल्वपत्रैर्विशेषतः ॥
तेषां वांछितसिद्ध्यर्थं जाता कामदुघा स्वयम् ॥ ३२ ॥
येऽर्चयंति सदा लोके महेश्वरसमन्विताम् ॥
बिल्वपत्रैर्महाभक्त्या न तेषां दुःखदुष्कृती ॥ ३३ ॥
चातुर्मास्ये विशेषेण तव पूजा महाफला ॥
अद्यप्रभृति यैर्लोकैर्बिल्वपत्रैस्तु पूजिता ॥ ३४ ॥
विधास्यसि महेशानि तेषां ज्ञानमनुत्तमम्॥
चातुर्मास्येऽधिकफलं बिल्वपत्रं वरानने ॥ ३५ ॥
उमामहेश्वरप्रीत्यै दत्तं विधिवदक्षयम् ॥
यथा श्रीस्तुलसीवृक्षे तथा बिल्वे च पार्वती ॥ ३६ ॥
त्वं मूर्त्या दृश्यसे विश्वं सकलाभीष्टदायिनी ॥
चातुर्मास्ये विशेषेण सेवितौ द्वौ महाफलौ ॥ ३७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्य माहात्म्ये पैजवनोपाख्याने पार्वत्येन्द्रादीनां शापप्रदानवृत्तान्तवर्णनंनाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ॥ २४६ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 247
॥ पैजवन उवाच ॥ ॥
श्रीः कथं तुलसीरूपा बिल्ववृक्षे च पार्वती ॥
एतच्च विस्तरेण त्वं मुने तत्त्वं वद प्रभो ॥ १ ॥ ॥
॥ गालव उवाच ।1 ॥
पुरा दैवासुरे युद्धे दानवा बलदर्पिताः ॥
देवान्निजघ्नुः संग्रामे घोररूपाः सुदारुणाः ॥ २ ॥
देवाश्च भय संविग्ना ब्रह्माणं शरणं ययुः ॥
ते स्तुत्वा पितरं नत्वा वृहस्पतिपुरःसराः ॥ ३ ॥
तस्थुः प्रांजलयः सर्वे तानुवाच पितामहः ॥
किमर्थं म्लानवदना अस्मद्गेहमुपागताः ॥ ४ ॥
कारणं कथ्यतामाशु वह्नीन्द्रवसुभिर्युताः॥
॥ देवा ऊचुः ॥
दैत्यैः पराजितास्तात संगरेऽद्भुतकारिभिः ॥ ९ ॥
वयं सर्वे पराक्रांता अतस्त्वां शरणं गताः ॥
त्राह्यस्मान्देवदेवेश शरणं समुपागतान् ॥ ६ ॥
तच्छ्रुत्वा भगवान्प्राह ब्रह्मा लोकपितामहः ॥
मया न शक्यते कर्त्तुं पक्षः कस्य जनस्य च ॥ ७ ॥
वक्ष्याम्युपायं सद्धर्माश्रितानां भवतां पुरः ॥
एकदा शिवभक्तानां विवादः सुमहानभूत्॥
समं केशवभक्तैश्च परस्परजिगीषया ॥
ततस्तु भगवान्रुद्रः स्वभक्तानां च पश्यताम् ॥ ९ ॥
ऐक्यं विष्णुगणैः कुर्वन्दध्रे रूपं महाद्भुतम् ॥
तदा हरिहराख्यं च देहार्द्धाभ्यां दधार सः॥6.247.१०।।
हरश्चैवार्द्धदेहेन विष्णुरर्द्धेन चाभवत् ॥
एकतो विष्णुचिह्नानि हरचिह्नानि चैकतः॥११॥
एकतो वैनतेयश्च वृषभश्चान्यतोऽभवत् ॥
वामतो मेघवर्णाभो देहोऽश्मनिचयोपमः ॥ १२ ॥
कर्पूरगौरः सव्ये तु समजायत वै तदा ॥
द्वयोरैक्यसमं विश्वं विश्वमैक्यमवर्त्तत १३॥
विभेदमतयो नष्टाः श्रुतिस्मृत्यर्थबाधकाः ॥
पाखंडिनो हैतुकाश्च सर्वे विस्मयमागमन् ॥ १४ ॥
स्वंस्वं मार्गं परित्यज्य ययुर्निर्वाणपद्धतिम् ॥
मंदरे पवतश्रेष्ठे सा मूर्तिर्नित्यसंस्तुता ।। १५ ॥
प्रमथाद्यैर्गणैश्चैव वर्त्ततेऽद्यापि निश्चला ॥
सृष्टिस्थित्यंतकर्त्री सा विश्वबीजमनंतका ॥ १६ ॥
महेशविष्णसंयुक्ता सा स्मृता पापनाशिनी ॥
योगिध्येया सदापूज्य सत्त्वाधारगुणातिगा ॥ १७ ॥
मुमुक्षवोऽपि तां ध्यात्वा प्रयांति परमं पदम् ॥
चातुर्मास्ये विशेषेण ध्यात्वा मर्त्यो ह्यमानुषः ॥ १८ ॥
तत्र गच्छंति ये तेषां स देवः संविधास्यति ॥
इत्युक्त्वा भगवांस्तेषां तत्रैवांतरधीयत ॥ १९ ॥
तेऽपि वह्निमुखा देवाः प्रजग्मुर्मंदराचलम् ॥
बभ्रमुस्तत्र तत्रैव विचिन्वाना महेश्वरम् ॥ 6.247.२० ॥
पार्वतीं बिल्ववृक्षस्थां लक्ष्मीं च तुलसीगताम् ॥
आदौ सर्वं वृक्षमयं पूर्वं विश्वमजायत ॥ २१ ॥
एते वृक्षा महाश्रेष्ठाः सर्वे देवांशसंभवाः ॥
एतेषां स्पर्शनादेव सर्वपापैः प्रमुच्यते [। २२ ॥
चातुर्मास्ये विशेषेण महापापौघहारिणः ॥
यदा तेनैव ददृशुर्देवास्त्रिभुवनेश्वरम् ॥ २३ ॥
तदाकाशभवा वाणीं प्राह देवान्यथार्थतः ॥
ईश्वरः सर्वभूतानां कृपया वृक्षमाश्रितः ॥ २४ ॥
चातुर्मास्येऽथ संप्राप्ते सर्वभूतदयाकरः ॥
अश्वत्थोऽतः सदा सेव्यो मंदवारे विशेषतः ।। २५ ।
नित्यमश्वत्थसंस्पर्शात्पापं याति सहस्रधा ॥
दुग्धेन तर्पणं ये वै तिलमिश्रेण भक्तितः ॥ २६ ॥
सेचनं वा करिष्यंति तृप्तिस्तत्पूर्वजेषु च ॥
दर्शनादेव वृक्षस्य पातकं तु विनश्यति ॥ २७ ॥
पिप्पलः पूजितो ध्यातो दृष्टः सेवित एव वा ॥
पापरोगविनाशाय चातुर्मास्ये विशेषतः ॥
अश्वत्थं पूजितं सिक्तं सर्वभूतसुखावहम् ॥ २८ ॥
सर्वामयहरं चैव सर्वपापौघहारिणम् ॥
ये नराः कीर्तयिष्यंति नामाप्यश्वत्थवृक्षजम् ॥ २९ ॥
न तेषां यमलोकस्य भयं मार्गे प्रजायते ॥
कुंकुमैश्चंदनैश्चैव सुलिप्तं यश्च कारयेत ॥ 6.247.३० ॥
तस्य तापत्रयाभावो वैकुंठे गणता भवेत् ॥
दुःस्वप्नं दुष्टचिंताञ्च दुष्टज्वरपराभवान् ॥ ३१ ॥
विलयं नय पापानि पिप्पल त्वं हरिप्रिय ॥
मंत्रेणानेन ये देवाः पूजयिष्यंति पिप्पलम् ॥ ३२ ॥
ततस्तेषां धर्मराजो जायते वाक्यकारकः ॥
अश्वत्थो वचनेनापि प्रोक्तो ज्ञानप्रदो नृणाम् ।१ ३३ ॥
श्रुतो हरति पापं च जन्मादि मरणावधि ॥
अश्वत्थसेवनं पुण्यं चातुर्मास्ये विशेषतः ॥ ३४ ।।
सुप्ते देवे वृक्षमध्यमास्थाय भगवान्प्रभुः ॥
जलं पृथ्वीगतं सर्वं प्रपिबन्निव सेवते ॥ ३५ ॥
जलं विष्णुर्जलत्वेन विष्णुरेव रसो महान् ॥
तस्माद्वृक्षगतो विष्णुश्चातुर्मास्येऽघनाशनः ॥ ३६ ॥
सर्वभूतगतो विष्णुराप्याययति वै जगत् ॥
तथाश्वत्थगतं विष्णुं यो नमस्येन्न नारकी ॥ ३७ ॥
अश्वत्थं रोपयेद्यस्तु पृथिव्यां प्रयतो नरः ॥
तस्य पापसहस्राणि विलयं यांति तत्क्षणात् ॥ ३८ ॥
अश्वत्थः सर्ववृक्षाणां पवित्रो मंगलान्वितः ॥
मुक्तिदो रोपितो ध्यातश्चातुर्मास्येऽघनाशनः ॥ ३९ ॥
अश्वत्थे चरणं दत्त्वा ब्रह्महत्या प्रजायते ॥
निष्कारणं संकुथित्वा नरके पच्यते ध्रुवम् ॥ 6.247.४० ॥
मूले विष्णुः स्थितो नित्यं स्कंधे केशव एव च ॥
नारायणस्तु शाखासु पत्रेषु भगवान्हरिः ॥ ४१ ॥
फलेऽच्युतो न संदेहः सर्वदेवैः समन्वितः ॥
चातुर्मास्ये विशेषेण द्रुमपूजी स मुक्तिभाक् ॥ ४२ ॥
तस्मात्सर्वप्रयत्नेन सदैवाश्वत्थसेवनम् ॥
यः करोति नरो भक्त्या पापं याति दिनोद्भवम् ॥ ४३ ॥
स एव विष्णुर्द्रुम एव मूर्तो महात्मभिः सेवितपुण्यमूलः ॥
यस्याश्रयः पापसहस्रहंता भवेन्नृणां कामदुघो गुणाढ्यः ॥ ४४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्यान अश्वत्थमहिमवर्णनंनाम सप्तचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४७ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 248
॥ वाण्युवाच ॥ ॥
पलाशो हरिरूपेण सेव्यते हि पुराविदैः ॥
बहुभिर्ह्युपचारैस्तु ब्रह्मवृक्षस्य सेवनम् ॥ १ ॥
सर्वकामप्रदं प्रोक्तं महापातकनाशनम् ॥
त्रीणि पत्राणि पालाशे मध्यमं विष्णुशापितम् ॥ २ ॥
वामे ब्रह्मा दक्षिणे च हर एकः प्रकीर्तितः ॥
पलाशपात्रे यो भुंक्ते नित्यमेव नरोत्तमः ॥ ३ ॥
अश्वमेधसहस्रस्य फलं प्राप्नोत्यसंशयम् ॥
चातुर्मास्ये विशेषेण भोक्तुर्मोक्षप्रदं भवेत् ॥ ४ ॥
पयसा वाथ दुग्धेन रविवारेऽनिशं यदि ॥
चातुर्मास्येऽर्चितो यैस्तु ते यांति परमंपदम् ॥५॥
दृश्यते यदि पालाशः प्रातरुत्थाय मानवैः ॥
नरकानाशु निर्धूय गम्यते परमं पदम् ॥ ६ ॥
पालाशः सर्वदेवानामाधारो धर्मसाधनम् ॥
यत्र लोभस्तु तस्य स्यात्तत्र पूज्यो महातरुः ॥७॥
यथा सर्वेषु वर्णेषु विप्रो मुख्यतमो भवेत् ॥
मध्ये सर्वतरूणां च ब्रह्मवृक्षो महोत्तमः ॥८॥
यस्य मूले हरो नित्यं स्कंधे शूलधरःस्वयम् ॥
शाखासु भगवान्रुद्रः पुष्पेषु त्रिपुरांतकः ॥ ९ ॥
शिवः पत्रेषु वसति फले गणपतिस्तथा ॥
गंगापतिस्त्वचायां तु मज्जायां भगवा न्भवः ॥ ६.२४८.१० ॥
ईश्वरस्तु प्रशाखासु सर्वोऽयं हरवल्लभः ॥
हरः कर्पूरधवलो यथावद्वर्णितः सदा ॥ ११ ॥
तथा ह्ययं ब्रह्मरूपः सितवर्णो महाभगः॥
चिंतितो रिपुनाशाय पापसंशोषणाय च ॥ १२ ॥
मनोरथप्रदानाय जायते नात्र संशयः ॥
गुरुवारे समायाते चातुर्मास्ये तथैव च ॥ १३ ॥
पूजितश्च स्तुतो ध्यातः सर्वदुःखविनाशकः ॥ १४ ॥
देवस्तुत्यो देवबीजं परं यन्मूर्तं ब्रह्म ब्रह्मवृक्षत्वमाप्तम् ॥
नित्यं सेव्यः श्रद्धया स्थाणुरूपश्चातुर्मास्ये सेवितः पापहा स्यात्॥ १५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने पालाशमहिमवर्णनंनामाष्टचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४८ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 249
वाण्युवाच ॥ ॥
तुलसी रोपिता येन गृहस्थेन महाफला ॥
गृहे तस्य न दारिद्र्यं जायते नात्र संशयः ॥ १ ॥
तुलस्या दर्शनादेव पापराशिर्निवर्तते ॥
श्रियेऽमृतकणोत्पन्ना तुलसी हरिवल्लभा ॥ २ ॥
पिबन्त्या रुचिरं पानं प्राणिनां पापहारिणी ॥
यस्या रूपे वसेल्लक्ष्मीः स्कन्धे सागरसंभवा ॥ ३ ॥
पत्रेषु सततं श्रीश्च शाखासु कमला स्वयम् ॥
इन्दिरा पुष्पगा नित्यं फले क्षीराब्धिसंभवा ॥ ४ ॥
तुलसी शुष्ककाष्ठेषु या रूपा विश्वव्यापिनी ॥
मज्जायां पद्मवासा च त्वचासु च हरिप्रिया ॥ ५ ॥
सर्वरूपा च सर्वेशा परमानन्ददायिनी ॥
तुलसी प्राशको मर्त्यो यमलोकं न गच्छति । ६ ।
शिरस्था तुलसी यस्य न याम्यैरनुभूयते ॥
मुखस्था तुलसी यस्य निर्वाणपददायिनी ॥ ७ ॥
हस्तस्थातुलसीयस्य स तापत्रयवर्जितः ॥
तुलसी हृदयस्था च प्राणिनां सर्वकामदा ॥ ८ ॥
स्कन्धस्था तुलसी यस्य स पापैर्न च लिप्यते ॥
कण्ठगा तुलसी यस्य जीवन्मुक्तः सदा हि सः ॥ ९ ॥
तुलसीसंभवं पत्रं सदा वहति यो नरः ॥
मनसा चिन्तितां सिद्धिं संप्राप्नोति न संशयः ॥ ॥ 6.249.१० ॥
तुलसींसर्वकायार्थसाधिनीं दुष्टवारिणीम् ॥
यो नरः प्रत्यहं सिञ्चेन्न स याति यमालयम् ॥ ११ ॥
चातुर्मास्ये विशेषेण वन्दितापि विमुक्तिदा ॥
नारायणं जलगतं ज्ञात्वा वृक्षगतं तथा ॥ १२ ॥
प्राणिनां कृपया लक्ष्मीस्तुलसीवृक्षमाश्रिता ॥
चातुर्मास्ये समायाते तुलसी सेविता यदि ॥ १३ ॥
तेषां पापसहस्राणि यांति नित्यं सहस्रधा ॥
गोविन्दस्मरणं नित्यं तुलसीवनसेवनम् ॥ १४ ॥
तुलसीसेचनं दुग्धै श्चातुर्मास्येऽतिदुर्लभम् ॥
तुलसीं वर्द्धयेद्यस्तु मानवो यदि श्रद्धया ॥ १५ ॥
आलवालांबुदानैश्च पावितं सकलं कुलम् ॥
यथा श्रीस्तुलसीसंस्था नित्यमेव हि वर्द्धते ॥ १६ ॥
तथातथा गृहस्थस्य कामवृद्धिः प्रजायते ॥
ब्रह्मचारीगृहस्थश्च वानप्रस्थो यतिस्तथा ॥ १७ ॥
तथा प्रकृतयः सर्वास्तुलसीसेवने रताः ॥
श्रद्धया यदि जायन्ते न तासां दुःखदो हरिः ॥ १८ ॥
एको हरिः सकलवृक्षगतो विभाति नानारसैस्तु परिभावितमूर्तिरेव ॥
वृक्षाधिवासमगमत्कमला च देवी दुःखादिनाशनकरी सततं स्मृताऽपि ॥ १९ ॥
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठ नाग रखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने तुलसीमाहात्म्यवर्णनंनामैकोनपञ्चाशदुत्तर द्विशततमोऽध्यायः ॥२४९॥
खण्डः ६ (नागरखण्डः) — Adhyāya 250
॥ वाण्युवाच ॥ ॥
बिल्वपत्रस्य माहात्म्यं कथितुं नैव शक्यते॥
तवोद्देशेन वक्ष्यामि महेन्द्र शृणु तत्त्वतः ॥१॥
विहारश्रममापन्ना देवी गिरिसुता शुभा ॥
ललाटफलके तस्याः स्वेदबिन्दुरजायत ॥२॥
स भवान्या विनिक्षिप्तो भूतले निपपात च ॥
महातरुरयं जातो मन्दरे पर्वतोत्तमे ॥ ३ ॥
ततः शैलसुता तत्र रममाणा ययौ पुनः ॥
दृष्ट्वा वनगतं वृक्षं विस्मयोत्फुल्ललोचना ॥ ४ ॥
जयां च विजयां चैव पप्रच्छ च सखीद्वयम् ॥
कोऽयं महातरुर्दिव्यो विभाति वनमध्यगः ॥
दृश्यते रुचिराकारो महाहर्षकरो ह्ययम् ॥ ५ ॥
॥ जयोवाच ॥ ॥
देवि त्वद्देहसंभूतो वृक्षोऽयं स्वेदबिन्दुजः ॥
नामाऽस्य कुरु वै क्षिप्रं पूजितः पापनाशनः ॥ ६ ॥
॥ पार्वत्युवाच ॥ ॥
यस्मात्क्षोणीतलं भित्त्वा विशिष्टोऽयं महातरुः ॥ ७ ॥
उदतिष्ठत्समीपे मे तस्माद्बिल्वो भवत्वयम् ॥
इमं वृक्षं समासाद्य भक्तितः पत्रसंचयम् ॥ ८ ॥
आहरिष्यत्यसौ राजा भविष्यत्येव भूतले ॥
यः करिष्यति मे पूजां पत्रैः श्रद्धासमन्वितः ॥ ९ ॥
यंयं काममभिध्यायेत्तस्य सिद्धिः प्रजायते ॥
यो दृष्ट्वा बिल्वपत्राणि श्रद्धामपि करिष्यति ॥ ६.२५०.१० ॥
पूजनार्थाय विधये धनदाऽहं न संशयः ॥
पत्राग्रप्राशने यस्तु करिष्यति मनो यदि ॥
तस्य पापसहस्राणि यास्यंति विलयं स्वयम ॥ ११ ॥
शिरः पत्राग्रसंयुक्तं करोति यदि मानवः ॥
न याम्या यातना ह्यस्य दुःखदात्री भविष्यति ॥ १२ ॥
इत्युक्त्वा पार्वती हृष्टा जगाम भवनं स्वकम् ॥
सखीभिः सहिता देवी गणैरपि समन्विता ॥ १३ ॥
॥ वाण्युवाच ॥ ॥
अयं बिल्वतरुः श्रेष्ठः पवित्रः पापनाशनः ॥
तस्य मूले स्थिता देवी गिरिजा नात्र संशयः ॥ १४ ॥
स्कन्धे दाक्षायणी देवी शाखासु च महेश्वरी ॥
पत्रेषु पार्वती देवी फले कात्या यनी स्मृता ॥ १५ ॥
त्वचि गौरी समाख्याता अपर्णा मध्यवल्कले ॥
पुष्पे दुर्गा समाख्याता उमा शाखांगकेषु च ॥ १६ ॥
कण्टकेषु च सर्वेषु कोटयो नवसंख्यया ।
शक्तयः प्राणिरक्षार्थं संस्थिता गिरिजाऽऽज्ञया ॥१७ ॥
तां भजंति सुपत्रैश्च पूजयंति सनातनीम् ॥
यंयं कामयते कामं तस्य सिद्धिर्भवेद्ध्रुवम्॥ १८ ॥
महेश्वरी सा गिरिजा महेश्वरी विशुद्धरूपा जनमोक्षदात्री॥
हरं च दृष्ट्वाथ पलाशमाश्रितं स्वलीलया बिल्ववपुश्चकार सा ॥ १९ ॥
इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातु र्मास्यमाहात्म्ये पैजवनोपाख्याने बिल्वोत्पत्तिवर्णनंनाम पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२५०॥।
खण्डः ६ (नागरखण्डः) — Adhyāya 251
॥ गालव उवाच ॥ ॥
इत्युक्त्वाऽऽकाशजावाणी विरराम शुभप्रदा ॥
तेऽपि देवास्तदाश्चर्यं महद्दृष्ट्वा महाव्रताः ॥ १ ॥
चतुष्टयं च वृक्षाणां चातुर्मास्ये समागते ॥
अपूजयंश्च विधिवदैक्यभावेन शूद्रज ॥ २ ॥
चातुर्मास्येऽथ संपूर्णे देवो हरिहरात्मकः ॥
प्रसन्नस्तानुवाचाथ भक्त्या प्रत्यक्षरूपधृक् ॥ ३ ॥
यूयं गच्छत देवेश महा व्रतपरायणाः ॥
भुंक्त स्वान्स्वांश्चाधिकारान्मया ते दानवा हताः ॥ ४ ॥
इत्युक्त्वा देवदेवेशावैक्यरूपधरौ यदा ॥
गणानां देवतानां च बुद्धिं निर्भेदतां तदा ॥ ५ ॥
नयन्तौ तौ तदा चेशा बभूवतुररिन्दमौ॥
तेऽपि देवा निराबाधा हृष्टचित्ता ह्यभेदतः ॥ ६ ॥
प्रययुः स्वांश्चाधिकारान्विमानगण कोटिभिः ॥
॥ गालव उवाच ॥ ॥
तथा तत्रापि ते देवाः पार्वत्याः शापमोहिताः ॥ ७ ॥
स्तुत्वा तां बिल्वपत्रैश्च पूजयित्वा महेश्वरीम् ॥
प्रसन्नवदनां स्तुत्वा प्रणिपत्य पुनःपुनः ॥ ८ ॥
सा प्रोवाच ततो देवान्विश्वमाता तु संस्तुता ॥
मम शापो वृथा नैव भविष्यति सुरोत्तमाः ॥ ९ ॥
तथापि कृतपापानां करवाणि कृपां च वः ॥
स्वर्गे दृषन्मया नैव भविष्यथ सुरोत्तमाः ॥ ६.२५१.१० ॥
मर्त्यलोकं च संप्राप्य प्रतिमासु च सर्वशः ॥
सर्वे देवाश्च वरदा लोकानां प्रभविष्यथ ॥ ११ ॥
पाणिग्रहेण विहिता ये कुमाराः कुमारिकाः ॥
तेषांतेषां प्रजाश्चैव भविष्यथ न संशयः ॥ १२ ॥
इत्युक्त्वा सा भगवती देवतानां वरप्रदा ॥
विष्णुं महेश्वरं चैव प्रोवाच कुपिता भृशम् ॥ १३ ॥
देवास्तस्या भयान्नष्टा मर्त्येषु प्रतिमां गताः ॥
भक्तानां मानसं भावं पूरयन्तः सुसंस्थिताः ।। १४ ॥
यस्माद्विष्णो महेशानस्त्वयाऽपि न निषेधितः ॥
तस्मात्त्वमपि पाषाणो भविष्यसि न संशयः ॥ १५ ॥
हरोऽप्यश्ममयं रूपं प्राप्य लोकविगर्हितम् ॥
लिंगाकारं विप्रशापान्महद्दुःखमवाप्स्यति ॥ १६ ॥
तच्छ्रुत्वा भगवान्विष्णुः पार्वतीमनुकूलयन् ॥
उवाच प्रणतो भूत्वा हरभार्यां महेश्वरीम् ॥ १७ ॥
॥ श्रीविष्णुरुवाच ॥ ॥
महाव्रते महादेवि महादेवप्रिया सदा ॥
त्वं हि सत्त्वरजःस्था च तामसी शक्तिरुत्तमा ॥ १८ ॥
मात्रात्रयसमोपेता गुणत्रयविभाविनी ॥
मायादीनां जनित्री त्वं विश्वव्यापकरूपिणी ॥ १९ ॥
वेदत्रयस्तुता त्वं च साध्यारूपेण रागिणी ॥
अरूपा सर्वरूपा त्वं जनसन्तानदायिनी ॥ ६.२५१.२० ॥
फलवेला महाकाली महालक्ष्मीः सरस्वती ॥
ओंकारश्च वषट्कारस्त्वमेव हि सुरेश्वरि ॥ २१ ॥
भूतधात्रि नमस्तेऽस्तु शिवायै च नमोऽस्तु ते ॥
रागिण्यै च विरागिण्यै विकराले नमः शुभे ॥ २२ ॥
एवं स्तुता प्रसन्नाक्षी प्रसन्नेनांतरात्मना ॥
उवाच परमोदारं मिथ्यारोषयुतं वचः ॥ २३ ॥
मच्छापो नाऽन्यथा भावी जनार्दन तवाप्ययम् ॥
तत्राऽपि संस्थितस्त्वं हि योगीश्वरविमुक्तिदः ॥ २४ ॥
कामप्रदश्च भक्तानां चातुर्मास्ये विशेषतः ॥
निम्नगा गंडकीनाम ब्रह्मणो दयिता सुता ॥ २५ ॥
पाषाणसारसंभूता पुण्यदात्री महाजला ॥
तस्याः सुविमले नीरे तव वासो भविष्यति ॥ २६ ॥
चतुर्विंशतिभेदेन पुराणज्ञैर्निरीक्षितः ।
मुखे जांबूनदं चैव शालग्रामः प्रकीर्तितः ॥ २७ ॥
वर्त्तुलस्तेजसः पिंडः श्रिया युक्तो भविष्यसि ॥
सर्वसामर्थ्यसंयुक्तो योगिनामपि मोक्षदः ॥ २८ ॥
ये त्वां शिलागतं विष्णुं पूजयिष्यंति मानवाः ॥
तेषां सुचिन्तितां सिद्धिं भक्तानां संप्रयच्छसि ॥ २९ ॥
शिलागतं च देवेशं तुलस्या भक्ति तत्पराः ॥
पूजयिष्यंति मनुजास्तेषां मुक्तिर्न दूरतः ॥ ६.२५१.३० ॥
शिलास्थितं च यः पश्येत्त्वां विष्णुं प्रतिमागतम् ॥
सुचक्रांकितसर्वांगं न स गच्छेद्यमालयम् ॥ ३१ ॥
॥ गालव उवाच ॥ ॥
इति ते कथितं सर्वं शालग्रामस्य कारणम् ॥
यथा स भगवान्विष्णुः पाषाणत्वमुपा गतः ॥ ३२ ॥
गोविन्दोऽपि महाशापं लब्ध्वा स्वभवनं गतः ॥
पार्वती च महेशानं कुपिता प्रणमय्य च ॥ ३३ ।
एवं स एव भगवान्भवभूत भव्यभूतादिकृत्सकलसंस्थितिनाशनांकः ॥
सोऽपि श्रिया सह भवोऽपि गिरीशपुत्र्या सार्द्धं चतुर्षु च द्रुमेषु निवासमाप ॥ ३४ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैज वनोपाख्याने विष्णुशापोनामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५१ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 252
॥ शूद्र उवाच ॥ ॥
महदाश्चर्यमेतद्धि यत्सुरा वृक्षरूपिणः ॥
चातुर्मास्ये समायाते सर्ववृक्षनिवासिनः ॥ १ ॥
भगवन्के सुरास्ते तु केषुकेषु निवासिनः ॥
एतद्विस्तरतो ब्रूहि ममानुग्रहकाम्यया ॥ २ ॥
॥ गालव उवाच ॥ ॥
अमृतं जलमित्याहुश्चातुर्मास्ये तदिच्छया ॥
लीलया विधृतं देवैः पिबंति द्रुमदेवताः ॥ ३ ॥
तस्य पानान्महातृप्तिर्जायते नाऽत्र संशयः ॥
बलं तेजश्च कांतिश्च सौष्ठवं लघुविक्रमः ॥ ४ ॥
गुणा एते प्रजायन्ते पानात्कृष्णांशसंभवात् ॥
नित्यामृतस्यपानेन बलं स्वल्पं प्रजायते ॥ ५ ॥
भोजनं तत्प्रशंसंति नित्यमेतन्न संशयः ॥
तस्माच्चतुर्षु मासेषु पिबन्ति जलमेव हि ॥ ६॥
वृक्षस्थाः पितरो देवाः प्राणिनां हित काम्यया ॥
वृक्षाणां सेवनं श्रेष्ठं सर्वमासेषु सर्वदा ॥ ७ ॥
चातुर्मास्ये विशेषेण सेविताः सौख्यकारकाः ॥
तिलोदकेन वृक्षाणां सेचनं सर्वकाम दम् ॥ ८ ॥
क्षीरवृक्षाः क्षीरयुक्तैस्तोयैः सिक्ताः शुभप्रदाः ॥
चतुष्टयं च वृक्षाणां यच्चोक्तं पूर्वतो मया ॥ ९ ॥
चातुर्मास्ये विशेषेण सर्वकाम फलप्रदम् ॥
ब्रह्मा तु वटमाश्रित्य प्राणिनां स वरप्रदः ॥ 6.252.१० ॥
सावित्रीं तिलमास्थाय पवित्रं श्वेतभूषणम् ॥
सुप्ते देवे विशेषेण तिलसेवा महाफला ॥ ११ ॥
तिलाः पवित्रमतुलं तिला धर्मार्थसाधकाः ॥
तिला मोक्षप्रदाश्चैव तिलाः पापापहारिणः ॥ १२ ॥
तिला विशेषफलदास्तिलाः शत्रुविनाशनाः ।
तिलाः सर्वेषु पुण्येषु प्रथमं समुदाहृताः ॥ १३ ॥
न तिला धान्यमित्याहुर्देवधान्यमिति स्मृतम् ॥
तस्मात्सर्वेषु दानेषु तिल दानं महोत्तमम् ॥ १४ ॥
कनकेन युता येन तिलादत्तास्तु शूद्रज ॥
ब्रह्महत्यादिपापानां विनाशस्तेन वै कृतः ॥ १५ ॥
सावित्री च तिलाः प्रोक्ता सर्वकार्यार्थसाधकाः ॥
तिलैस्तु तर्पणं कुर्याच्चातुर्मास्ये विशेषतः ॥ १६ ॥
तिलानां दर्शनं पुण्यं स्पर्शनं सेवनं तथा ॥
हवनं भक्षणं चैव शरीरोद्वर्त्तनं तथा ॥ १७ ॥
सर्वथा तिलवृक्षोऽयं दर्शनादेव पापहा ॥
चातुर्मास्ये विशेषेण सेवितः सर्वसौख्यदः ॥ १८ ॥
महेन्द्रो यवमा स्थाय स्थितो भूतहिते रतः ॥
यवस्य सेवनं पुण्यं दर्शनं स्पर्शनं तथा ॥ १९ ॥
यवैस्तु तर्पणं कुर्याद्देवानां दत्तमक्षयम् ॥
प्रजानां पतयः सर्वे चूतवृक्षमुपाश्रिताः ॥ 6.252.२० ॥
गन्धर्वा मलयं वृक्षमगुरुं गणनायकः ॥
समुद्रा वेतसं वृक्षं यक्षा पुन्नागमेव च ॥ २१ ॥
नागवृक्षं तथा नागाः सिद्धाः कंकोलकं द्रुमम् ॥
गुह्यकाः पनसं चैव किन्नरा मरिचं श्रिताः ॥ २२ ॥
यष्टीमधु समाश्रित्य कन्दर्पोऽभूद्व्यवस्थितः ॥
रक्तांजनं महावृक्षं वह्निराश्रित्य तिष्ठति ॥ २३ ॥
यमो विभीतकं चैव बकुलं नैर्ऋताधिपः ॥
वरुणः खर्जुरीवृक्षं पूगवृक्षं च मारुतः ॥ २४ ॥
धनदोऽक्षोटकं वृक्षं रुद्राश्च बदरीद्रुमम्॥
सप्तर्षीणां महाताला बहुलश्चामरैर्वृतः ॥ २५ ॥
जंबूर्मेघैः परिवृतः कृष्णवर्णोऽघनाशनः ॥
कृष्णस्य सदृशो वर्णस्तेन जंबू नगोत्तमः ॥ २६ ॥
तत्फलैर्वासुदेवस्तु प्रीतो भवति दानतः ॥
जंबूवृक्षं समाश्रित्य कुर्वंति द्विजभोजनम् ॥ २७ ॥
तेषां प्रीतो हरिर्दद्यात्पु रुषार्थचतुष्टयम्॥
चातुर्मास्ये समायाते सुप्ते देवे जनार्दने ॥ २८ ॥
ब्राह्मणान्भोजयेद्यस्तु सपत्नीकाञ्छुचिः स्थितः ॥
तेन नारायणस्तुष्टो भवे ल्लक्ष्मीसहायवान् ॥ २९ ॥
लक्ष्मीनारायणप्रीत्यै वस्त्रालंकरणैः शुभैः॥
परिधाय सपत्नीकः कृतकृत्यो भवेन्नरः ॥ 6.252.३० ॥
यद्रात्रित्रितयेनैव वटा शोकभवेन च ॥
फलं संजायते तच्च जंबुना द्विजभोजनात् ॥ ३१ ॥
तस्मिन्दिने एकभुक्तं कारयेत्कृत्यकृत्तदा ॥
बहुना च किमुक्तेन जंबूवृक्ष प्रपूजनात् ॥ ३२ ॥
पुत्रपौत्रधनैर्युक्तो जायते नात्र संशयः ॥
जंबूर्मेघैः परिवृता विद्युताऽशोक एव च ॥ ३३ ॥
वसुभिः स्वीकृतो नित्यं प्रियालश्च महानगः ॥
आदित्यैस्तु जपावृक्षो ह्यश्विभ्यां मदनस्तथा ॥ ३४ ॥
विश्वेभिश्च मधूकश्च गुग्गुलः पिशिताशनैः ॥
सूर्येणार्कः पवित्रेण सोमे नाथ त्रिपत्रकः ॥ ३५ ॥
खदिरो भूमिपुत्रेण अपामार्गो बुधेन च ॥
अश्वत्थो गुरुणा चैव शुक्रेणोदुम्बरस्तथा ॥ ३६ ॥
शमी शनैश्चरेणाथ स्वीकृता शूद्रजातिभिः॥
राहुणा स्वीकृता दूर्वा पितॄणां तर्पणोचिता॥३७॥
विष्णोश्च दयिता नित्यं चातुर्मास्ये विशेषतः॥
केतुना स्वीकृतो दर्भो याज्ञिकेयो महाफलः॥३८॥
विना येन शुभं कर्म संपूर्णं नैव जायते॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्॥३९॥
मुमूर्षूणां मोक्षरूपो धरासंस्थो महाद्रुमः ॥
अस्मिन्वसंति सततं ब्रह्मविष्णुशिवाः सदा ॥ 6.252.४० ॥
मूले मध्ये तथाऽग्रे च यस्य नामापि तृप्ति दम् ॥
अन्येऽपि देवा वृक्षांस्तानधिश्रित्य महाद्रुमाः ॥ ४१ ॥
प्रवर्त्तंते हि मासेषु चतुर्षु च न संशयः ॥
चातुर्मास्ये देवपत्न्यः सर्वा वल्लीसमाश्रि ताः ॥ ४२ ॥
प्रयच्छंति नृणां कामान्वांछितान्सेविता अपि ॥
तस्मात्सर्वात्मभावेन पिप्पलो येन सेवितः ॥ ४३ ॥
सेविताः सकला वृक्षा श्चातुर्मास्ये विशेषतः ॥
तुलसी सेविता येन सर्ववल्यश्च सेविताः ॥ ४४ ॥
आप्यायितं जगत्सर्वमाब्रह्मस्तंबसेवितम् ॥
चातुर्मास्ये गृह स्थेन वानप्रस्थेन वा पुनः ॥ ४५॥
ब्रह्मचारियतिभ्यां च सेविता मोक्षदायिनी ॥
एतेषां सर्ववृक्षाणां छेदनं नैव कारयेत् ॥ ४६ ॥
चातुर्मास्ये विशेषेण विना यज्ञादिकारणम्॥
एतदुक्तमशेषेण यत्पृष्टोऽहमिह त्वया ॥ ४७ ॥
यथा वृक्षत्वमापन्ना देवाः सर्वेऽपि शूद्रज ॥ ४८ ॥
अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं दश तित्तिडीश्च ॥
कपित्थबिल्वामलकीत्रयं च एतांश्च दृष्ट्वा नरकं न पश्येत् ॥ ४९ ॥
सर्वे देवा विश्ववृक्षेशयाश्च कृष्णा धारा कृष्णमध्याग्रकाश्च ॥
यस्मिन्देवे सेविते विश्वपूज्ये सर्वं तृप्तं जायते विश्वमेतत् ॥6.252.५० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये वृक्षमाहात्म्यकथनं नाम द्विपञ्चाशदुत्तरद्विशततमो ऽध्यायः ॥ २५२ ॥ छ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 253
॥ शूद्र उवाच ॥ ॥
पार्वतीकुपिता देवी कथं देवेन शूलिना ॥
प्रसादं च गता शप्त्वा यत्कोपात्क्षुभ्यते जगत् ॥ १ ॥
कथं स भगवान्रुद्रो भार्याशापमवाप ह ॥
वैकृतं रूपमासाद्य पुनर्दिव्यं वपुः श्रितः ॥ २ ॥
॥ गालव उवाच ॥ ॥
देवा रूपाण्यदृश्यानि कृत्वा देव्या महाभयात्॥
मनुष्यलोके सकले प्रतिमासु च संस्थिताः ॥ ३ ॥
तेषामपि प्रसन्ना साऽनुग्रहं समुपाकरोत् ॥
विष्णुस्तुता महाभागा विश्वमाताऽघनाशिनी ॥ ४ [।
तेषां बलाच्च पार्वत्याः शापभारेण यन्त्रितः ॥
तां नित्यमेवानुनयन्नृचे सोवाच शंकरम् ॥ ५ ॥
एते देवा विश्व पूज्या विश्वस्य च वरप्रदाः ॥
मत्प्रसादाद्भविष्यंति भक्तितस्तोषिता नरैः ॥ ६ ॥
त्वामृते मम कर्मेदं कृतं साधुविनिन्दितम् ॥
वेद्यां विवाह काले च प्रत्यक्षं सर्वसाक्षिकम् ॥ ७ ॥
यत्सप्तमंडलानां च गमनं च करार्पणम् ॥
वह्निश्च वरुणः कृष्णो देवताश्च सवल्लभाः ॥ ८ ॥
चतुर्दिक्ष्वंग संयुक्ता देवब्राह्मणसंयुताः ॥
एतेषामग्रतो दिब्यं कृत्वा त्वं जनसंसदि ॥ ९ ॥
प्रमादात्सत्त्वमापन्नो व्यभिचारं कथं कृथाः ॥
गुरुवोऽपि न सन्मार्गे प्रवर्त्तंते जनौघवत् ॥ ६.२५३.१० ॥
निग्राह्याः सर्वलोकेषु प्रबुद्धैः श्रूयते श्रुतौ ॥
पुत्रेणापि पिता शास्यः शिष्येणापि गुरुः स्वयम् ॥ ११ ॥
क्षत्रियैर्ब्राह्मणः शास्यो भार्यया च पतिस्तथा ॥
उन्मार्गगामिनं श्रेष्ठमपि वेदान्तपारगम् ॥ १२ ॥
नीचैरपि प्रशास्येत श्रुतिराह सनातनी ॥
सन्मार्ग एव सर्वत्र पूज्यते नापथः क्वचित् ॥ १३ ॥
येन स्वकुलजो धर्मस्त्यक्तः स पतितो भवेत् ॥
मृतश्च नरकं प्राप्य दुःखभारेण युज्यते ॥ ॥ १४ ॥
धर्मं त्यजति नास्तिक्याज्ज्ञातिभेदमुपागतः ॥
स निग्राह्यः सर्वलोकैर्मनुधर्मपरायणैः ॥ १५ ॥
कुलधर्माञ्ज्ञातिधर्मान्देशधर्मान्महेश्वर ॥
ये त्यजंति च तेऽवश्यं कुलाच्च पतिता जनाः ॥ १६ ॥
अग्नित्यागो व्रतत्यागो वचनत्याग एव च ॥
धर्मत्यागो नैव कार्यः कुर्वन्पतित एव हि ॥ ॥ १७ ॥
न पिता न च ते माता न भ्राता स्वजनोऽपि च ॥
पश्यते तव वार्तां च अस्पृश्यस्त्वमदन्विषम् ॥ १८ ॥
अस्थिमालाचिताभस्म जटाधारी कुचैलवान् ॥
चपलो मुक्तमर्यादस्तस्थुं नार्हसि मेऽग्रतः ॥ १९ ॥
अब्रह्मण्योऽव्रती भिक्षुर्दुष्टात्मा कपटी सदा ॥
नार्हसि त्वं मम पुरः संभाषयितुमीश्वर ॥ ६.२५३.२० ॥
एवं सा रुदती देवी बाष्पव्याकुललोचना ॥
महादुःखयुतैवासीद्देवेशेऽनुनयत्यपि ॥ २१ ॥
पुनरेव प्रकुपिता हरं प्रोवाच भामिनी ॥
तवार्जवं न हृदये काठिन्यं वेद्मि नित्यदा ॥ २२ ॥
ब्राह्मणैस्त्वासुरैरुक्तं तन्मृषा प्रतिभाति मे ॥
यस्मान्मयि महादुष्टभाव एव कृतस्त्वया ॥ २३ ॥
ब्राह्मणा वंचिता यस्माद्ब्राह्मणैस्त्वं हनिष्यसे ॥
एवमुक्त्वा भगवती पुनराह न किञ्चन ॥ २४ ॥
ईशः प्रसन्नवदनामुपचारैरथाकरोत् ॥
शनैर्नीतिमयैर्वाक्यैर्हेतुमद्भिर्महेश्वरः ॥ २५ ॥
प्रसन्नलोचनां ज्ञात्वा किंचित्प्राह हरस्ततः ॥
कोपेन कलुषं वक्त्रं पूर्णचन्द्र समप्रभम् ॥ २६ ॥
कस्मात्त्वं कुरुषे भद्रे युक्तमेव वचो न ते ॥
सर्वभूतदया कार्या प्राणिनां हि हितेच्छया ॥ २७ ॥
यद्यपीष्टो हि यस्यार्थो न कार्यं परपीडनम् ॥
जगत्सर्वं सुतप्रायं तवास्ति वरवर्णिनि ॥ २८ ॥
जगत्पूज्या त्वमेवैका सर्वरूपधरानघे ॥
मया यदि कृतं कर्मावद्यं देव हिताय वै ॥ २९ ॥
तथाप्येवं तव सुतो भविष्यति न संशयः ॥
अथवा मम सर्वेभ्यः प्राणेभ्योऽपि गरीयसी ॥ ६.२५३.३० ॥
यदिच्छसि तथा कुर्यां तथा तव मनोरथान्॥
प्रसन्नवदना भूत्वा कथयस्व वरानने ॥ ३१ ॥
इत्युक्ता सा भगवती पुनराह महेश्वरम् ॥
चातुर्मास्ये च संप्राप्ते महाव्रत धरो यदि ॥ ३२ ॥
देवतानां च प्रत्यक्षं तांडवं नर्तसे यदि ॥
पारयित्वा व्रतं सम्यग्ब्रह्मचर्यं महेश्वर ॥ ३३ [।
मत्प्रीत्यै यदि देहार्थं वैष्णवं च प्रयच्छसि ॥
शापस्यानुग्रहं कुर्यां प्रसववदना सती ॥ ३४ ॥
नान्यथा मम चित्तं त्वां विश्वासमनुगच्छति ॥
तच्छ्रुत्वा भगवांस्तुष्टस्तथेति प्रत्युवाच ताम् ॥ ३५ ॥
सापि हृष्टा भगवती शापस्यानुग्रहे वृता ॥ ३६ ॥
इदं पुराणं मनुजः शृणोति श्रद्धायुक्तो भेदबुद्ध्या दृढत्वम् ॥
तस्या वश्यं जीवितं सर्वसिद्धं मर्त्याः सत्यात्तच्छ्रयत्वं प्रयांति ॥ ३७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये शंकरकृतपार्वत्यनुनयो नाम त्रिपंचाशदुत्तरद्विशततमोऽध्यायः ॥ ॥ २५३ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 254
शूद्र उवाच ॥ ॥
इदमाश्चर्यरूपं मे प्रतिभाति वचस्तव ॥
यद्यपि स्यान्महाक्लेशो वदतस्तव सुव्रत ॥ १ ॥
तथापि मम भाग्येन मत्पुण्यैर्मद्गृहं गतः ॥
न तृप्ये त्वन्मुखांभोजाच्च्युतं वाक्यामृतं पुनः ॥ २ ॥
पिबन्गौरीकथाख्यानं विशेषगुणपूरितम् ॥
कथं महेश्वरो नृत्यं चकार सुरसंवृतः ॥ ३ ॥
चातुर्मास्ये कथं जातं कि ग्राह्यं व्रतमुच्यते ॥
अनुग्रहं कृतवती सा कथं को ह्यनुग्रहः ॥ ४ ॥
एतद्विस्तरतो ब्रूहि पृच्छतो मे द्विजोत्तम ॥
भगवान्पूज्यते लोके ममानुग्रहकारकः ॥ ५ ॥
प्रसन्नवदनो भूत्वा स्वस्थः कथय सुव्रत ॥
गालवश्चापि तच्छ्रुत्वा पुनराह प्रहृष्टवान् ॥ ६ ॥
॥ गालव उवाच ॥ ॥
इतिहासमिमं पुण्यं कथयामि तवानघ ॥
शृणुष्वावहितो भूत्वा यज्ञायुतफलप्रदम्॥ ७ ॥
चातुर्मास्येऽथ संप्राप्ते हरो भक्तिसमन्वितः ॥
ब्रह्मचर्यव्रतपरः प्रहृष्टवदनोऽभवत् ॥ ८ ॥
देवतानां च संकल्पं महर्षीणां चकार ह ॥
समागत्य ततो देवा मन्दराचलमास्थिताः ॥ ९ ॥
प्रणम्य ते महेशानं तस्थुः प्रांजलयोऽग्रतः ॥
तानुवाच सुरान्सर्वान्हरो दृष्ट्वा समागतान्॥६.२५४.१० ॥
पार्वत्याभिहितं प्राह कस्मिन्कार्यांतरे सति ॥
मया नियुक्तेऽभिनये यत्र साहाय्यकारिणः ॥ ११ ॥
भवंत्विंद्रपुरोगाश्च चातुर्मास्ये समागते ॥
ते तथोचुश्च संहृष्टा नमस्कृत्य च शूलिनम् ॥ १२ ॥
स्वंस्वं भवनमाजग्मुर्विमानैः सूर्यसन्निभैः ॥
तथाऽऽषाढे शुक्लपक्षे चतुर्दश्यां महेश्वरः ॥ १३ ॥
प्रनर्त्तयितुमारेभे भवानीतोषणाय च ॥
मंदरे पर्वतश्रेष्ठे तत्र जग्मुर्महर्षयः ॥ १४ ॥
नारदो देवलो व्यासः शुकद्वैपायनादयः ॥
अंगिराश्च मरीचिश्च कर्दमश्च प्रजापतिः ॥ १५ ॥
कश्यपो गौतमश्चात्रिर्वसिष्ठो भृगुरेव च ॥
जमदग्निस्तथोत्तंको रामो भार्गव एव च ॥ १६ ॥
अगस्त्यश्च पुलोमा च पुलस्त्यः पुलहस्तथा ॥
प्रचेताश्च क्रतुश्चैव तथैवान्ये महर्षयः ॥ १७ ॥
सिद्धा यक्षाः पिशाचाश्च चारणाश्चारणैः सह ॥
आदित्या गुह्यकाश्चैव सा ध्याश्च वसवोऽश्विनौ ॥ १८ ॥
एते सर्वे तथेन्द्राद्या ब्रह्मविष्णुपुरोगमाः ॥
समाजग्मुर्महेशस्य नृत्यदर्शनलालसाः ॥ १९ ॥
ततो गणा नंदिमुखा रत्नानि प्रददुस्तथा ॥
भूषणानि च वासांसि मुन्यादिभ्यो यथाक्रमम् ॥ ६.२५४.२० ॥
ततो वाद्यसहस्रेषु वादित्रेषु समंततः ॥
सर्वैर्जयेति चैवोक्ता भगवा न्व्रतमादिशत्॥ २१ ॥
भवानी हृष्टहृदया महादेवं व्यलोकयत् ॥
जया च विजया चैव जयन्ती मंगलारुणा ॥ २२ ॥
चतुष्टयसखीमध्ये विर राज शुभानना ॥
तस्याः सान्निध्ययोगेन जगद्भाति गुणोत्तरम् ॥ २३ ॥
यस्याः शरीरजा शोभा वर्णितुं नैव शक्यते ॥
ईशोऽपि गणकोटीभिर्ना नावक्त्त्राभिरीक्षितः ॥ २४ ॥
पिशाचभूतसंघैश्च वृतः परमशोभनः ॥
स्वर्णवेत्रधरो नन्दी बभौ कपिमुखोऽग्रतः ॥ २५ ॥
विद्याधराश्च गंधर्वाश्चि त्रसेनादयस्तथा ॥
चित्रन्यस्ता इव बभुस्तत्र नागा मुनीश्वराः ॥ २६ ॥
श्रीरागप्रमुखा रागास्तस्य पुत्रा महौजसः ॥
अमूर्त्ताश्चैव ते पुत्रा हरदेव समुद्भवाः ॥ २७ ॥
एकैकस्य च षड्भार्याः सर्वासां च पितामहः ॥
ताभिः सहैव ते रागा लीलावपुर्धरास्तथा ॥ २८ ॥
प्रादुर्बभूवुः सहसा चिंतितास्तेन शंभुना ॥
तेषां नामानि ते वच्मि शृणुष्व त्वं महाधन ॥ २९ ॥
श्रीरागः प्रथमः पुत्र ईश्वरस्य विमोहनः ॥
आसां चक्रे भ्रुवोर्मध्ये परब्रह्म प्रदायकः ॥ ६.२५४.३० ॥
तन्मध्यश्चैव माहेशात्समुद्भूतो गणोत्तमः ॥
द्वितीयोऽथ वसन्तोऽभूत्कटिदेशान्महायशाः ॥ ३१ ॥
महदंकश्च भूतानां चक्राच्चैव विशुद्धितः ॥
पंचमस्तु तृतीयोऽभूत्सुतो विश्वविभूषणः ॥ ३२ ॥
महेश्वरहृदो जातं चक्रं चैवमनाहतम् ॥
नासादेशात्समुद्भूतो भैरवो भैरवः स्वयम्॥ ॥ ३३ ॥
मणिपूरकनामेदं चक्रं तद्धि विमुक्तिदम् ॥
पंचाशच्च तथा वर्णा अंका नाम महेश्वरात् ॥ ३४ ॥
राशयो द्वादश तथा नक्षत्राणि तथैव च ॥
स्वाधिष्ठानसमुद्भूता जगद्बीजसमन्विताः ॥ ३५ ॥
क्षणेन वृद्धिमायांति ततो रेतः प्रवर्तते ॥
रेतसस्तु जगत्सृष्टं तदीशजननेंद्रियम् ॥ ३६ ॥
आधाराच्च महान्षष्ठो नटो नारायणोऽभवत् ॥
महेशवल्लभः पुत्रो नीलो विष्णुपराक्रमः ॥ ३७ ॥
एते मूर्तिधरा रागा जाता भार्यासहायिनः ॥
भार्यास्तेषां समुद्भूताः शिरोभागात्पिनाकिनः ॥ ३८ ॥
षट्त्रिंशत्परिमाणेन ततस्तास्त्वं निशामय ॥
गौरी कोलाहली धीरा द्राविडी माल कौशिकी ॥ ३९ ॥
षष्ठी स्याद्देवगांधारी श्रीरागत्य प्रिया इमाः ॥
आन्दोला कौशिकी चैव तथा चरममंजरी ॥ ६.२५४.४० ॥
गंडगिरी देवशाखा राम गिरी वसन्तगा ॥
त्रिगुणा स्तम्भतीर्था च अहिरी कुंकुमा तथा ॥ ४१ ॥
वैराटी सामवेरी च षड्भार्याः पंचमे मताः॥
भैरवी गुर्जरी चैव भाषा वेलागुली तथा ॥ ४२ ॥
कर्णाटकी रक्तहंसा षड्भार्या भैरवानुगाः ॥
बंगाली मधुरा चैव कामोदा चाक्षिनारिका ॥ ४३ ॥
देवगिरी च देवाली मेघ रागानुगा इमा ॥
त्रोटकी मीडकी चैव नरादुम्बी तथैव च ॥ ४४ ॥
मल्हारी सिन्धुमल्हारी नटनारायणानुगाः ॥
एता हि गिरिशं नत्वा महेशं च महेश्वरीम् ॥ ४५ ॥
स्वमूर्त्तिवाहनोपेताः स्वभर्तृसहिताः स्थिताः ॥
ब्रह्मा मृदंगवाद्येन तोषयामास शंकरम् ॥ ४६ ॥
चतुरक्षरवाद्येन सुवाद्यं चाकरोत्पुनः ॥
तालक्रियां महेशाय दर्शयामास केशवः ॥ ४७ ॥
वायवस्तत्र वाद्यं च चक्रुः सुस्वरमोजसा ॥
महेन्द्रो वंशवाद्यं च सुगिरं सुस्वरं बहुः ॥ ४८ ॥
वह्निः शूर्परवं चक्रे पणवं च तथाश्विनौ ॥
उपांगवादनं चक्रे सोमः सूर्यः समंततः ॥ ४९ ॥
घंटानां वादनं चक्रुर्गणाः शतसहस्रशः ॥
मुनीश्वरास्तथा देव्यः पार्वतीसहितास्तथा ॥ ६.२५४.५० ॥
स्वर्णभद्रासनेष्वेते ह्युपविष्टा व्यलोकयन् ॥
शृंगाणां वादनं चक्रुर्वसवः समहोरगाः ॥ ॥ ५१ ॥
भेरीध्वनिं तथा साध्या वाद्यान्यन्ये सुरोत्तमाः ॥
झर्झरीगोमुखादीनि साध्याश्चक्रुर्महोत्सवे ॥ ५२ ॥
तन्त्रीलयसमायुक्ता गंधर्वा मधुर स्वराः ॥
सुवर्णशृंगनादं च चक्रुः सिद्धाः समंततः ॥ ५३ ॥
ततस्तु भगवानासीन्महानटवपुर्धरः ॥
मुकुटाः पंचशीर्षे तु पन्नगैरुपशोभिताः ॥ ॥ ५४ ॥
जटा विमुच्य सकला भस्मोद्धूलितविग्रहः ॥
बाहुभिर्दशभिर्युक्तो हारकेयूरसंयुतः ॥ ५५ ॥
त्रैलोक्यव्यापकं रूपं सूर्यकोटिसमप्रभम् ॥
कृत्वा ननर्त्त भगवान्भासुरं स महानगे ॥ ५६ ॥
ततं वीणादिकं वाद्यं कांस्यतालादिकं घनम् ॥
वंशादिकं तु वादित्रं तोमरादिकनामकम् ॥ ५७॥
चतुर्विधं ततो वाद्यं तुमुलं समजायत ॥
तालानां पटहादीनां हस्तकानां तथैव च ॥ ५८ ॥
मानानां चैव तानानां प्रत्यक्षं रूपमाबभौ ॥
सुकंठं सुस्वरं मुक्तं सुगम्भीरं महास्वनम्॥ ५९ ॥
विश्वावसुर्नारदश्च तुंबुरुश्चैव गायकाः ॥
जगुर्गंधर्वपतयोऽप्सरसो मधुरस्वराः ॥ ६.२५४.६० ॥
ग्रामत्रयसमोपेतं स्वरसप्तकसंयुतम् ॥
दिव्यं शुद्धं च सांकल्पं तत्र गेयमवर्त्तत ॥ ६१ ॥
पर्वतोऽपि महानादं हरपादतलाहतः ॥
भ्रमिभिर्भ्रमयंस्तत्र महीं सपुरकाननाम्॥ ६२ ॥
हस्तकांश्चतुराशीतिं स ससर्ज सदाशिवः ॥
ललाटफलकस्वेदात्सूतमागधबंदिनः ॥६३॥
महेशहृदयाज्जाता गंधर्वा विश्वगायकाः ॥
ते मूर्त्ता देवदेवस्य सुरंगालयसंयुताः ॥ ६४ ॥
प्रेक्षकाणामृषीणां च चक्रुराश्चर्यमोजसा ॥
किन्नराः पुष्पवर्षाणि ससृजुः स्वैर्गुणैरिह ॥ ६५ ॥
एवं चतुर्षुमासेषु यदा नृत्यमजायत ॥
अतिक्रांता शरज्जाता निर्मलाकाशशोभिता ॥ ६६ ॥ पद्मखंडसमाच्छन्नसरोवरमुखांबुजा ॥
फलवृक्षौषधीभिश्च किंचित्पांडुमुखच्छविः ॥ ६७ ॥
ऊर्जशुक्लचतुर्दश्यां प्रसन्ना गिरिजा तदा ॥
समाप्तव्रतचर्यः स ईश्वरोऽपि तदा बभौ ॥ ६८ ॥
सा चोवाच तदा शंभुं विकचस्वरलोचना ॥
विप्रशापपातितं च यदा लिंगं भविष्यति ॥ ६९ ॥
नर्मदाजलसंभूतं विश्वपूज्यं भविष्यति ॥
एवमुक्त्वा ततस्तुष्टा हरस्तोत्रं चकार ह ॥ ६.२५४.७० ॥
नमस्ते देवदेवाय महादेवाय मौलिने ॥
जगद्धात्रे सवित्रे च शंकराय शिवाय च ॥ ॥ ७१ ॥
कपर्दिनेऽजयादाय ब्रह्मगर्भाय ते नमः ॥
हिरण्यरेतसे तुभ्यं नीलग्रीवाय ते नमः ॥ ७१ ॥
नमो ब्रह्मण्य देवाय सितभूतिधराय च ॥
पंचवक्त्राय रूपाय नीरूपाय नमोनमः ॥ ७३ ॥
सहस्राक्षाय शुभ्राय नमस्ते कृत्तिवाससे ॥
अन्धकासुरमोक्षाय पशूनां पतये नमः ॥ ७४ ॥
विप्रवह्निमुखाग्राय हराय च भवाय च ॥
शंकराय महेशाय ईश्वराय नमो नमः ॥ ७६ ॥
अमूर्तब्रह्मरूपाय मूर्त्तानां भावनाय च ॥
नमः शिवाय चोग्राय हराय च भवाय च ॥ ७६ ॥
नमः कृष्णाय शर्वाय त्रिपुरांतक हारिणे ॥
अघोराय नमस्तेऽस्तु नमस्ते पुरुषाय ते ॥ ७७ ॥
सद्योजाताय तुभ्यं भो वामदेवाय ते नमः ॥
ईशानाय नमस्तुभ्यं पंचास्याय कपालिने ॥ ७८ ॥
विरूपाक्षाय भावाय भगनेत्रनिपातिने ॥
पूषदंतनिपाताय महायज्ञनिपातिने ॥ ७९ ॥
मृगव्याधाय धर्माय कालचक्राय चक्रिणे ॥
महापुरुषपूज्याय गणानां पतये नमः ॥ ६.२५४.८० ॥
गंगाधराय मृडिने भवानीप्रियकारिणे ॥
जगदानंददात्रे च ब्रह्मरूपाय ते नमः ॥९१॥
गुणातीताय गुणिने सूक्ष्माय गुरवेऽपि च ॥
नमो महास्वरूपाय भस्मनो जन्मकारिणे ॥ ८२ ॥
वैराग्यरूपिणे नित्यं योगाचार्याय वै नमः ॥
मयोक्तमप्रियं देव स्मरसंहारकारक ॥ ८३ ॥
क्षंतुमर्हसि विश्वेश शिरसा त्वां प्रसादये ॥
शापानुग्रह एवैष कृतस्ते वै न संशयः ॥ ८४ ॥
ममापराधजो मन्युर्न कार्यो भवताऽनघ ॥
एवं प्रसादितः शंभुर्हृष्टात्मा त्रिदशैः सह ॥ ८५ ॥
तीर्णव्रतपरानंदनिर्भरः प्राह तामुमाम् ॥
य इमां मत्स्तुतिं भक्त्या पठिष्यति तवोद्गताम् ॥
तस्य चेष्टवियोगश्च न भविष्यति पार्वति ॥ ८६ ॥
जन्मत्रयधनैर्युक्तः सर्वव्याधिविवर्जितः ॥
भुक्त्वेह विविधान्भोगानंते यास्यति मत्पुरम् ॥ ८७ ॥
इत्युक्त्वा तां महेशोऽपि स्वमंगं प्रददौ ततः ॥
वैष्णवं वामभागं सा प्रतिजग्राह पार्वती ॥ ८८ ॥
शर्वं कपालहस्तं च ग्रीवार्द्धे गरलान्वितम् ॥
रुण्डमालार्द्धहारं च सितगौरं समंततः ॥ ८९ ॥
ब्रह्मांडकोटिजनकं जटाभिर्भूषितं शिरः ॥
सित द्युतिकलाखंडरत्नभासावभासितम् ॥ ६.२५४.९० ॥
स्वर्णाभरणसंयुक्तमेकतो भुजगांगदम् ॥
एकतः कृत्तिवसनमन्यतः पट्टकूलवत् ९१ ॥
मत्स्य वाहनसंयुक्तमन्यतो वृषभांकितम् ॥
एकतः पार्षदैः सेव्यमन्यतः सखिसेवितम् ॥ ९२ ॥
रूपमेवंविधं दृष्ट्वा ब्रह्माद्या देवतागणाः ॥
तुष्टुवुः परया भक्त्या तेजोभूषितलोचनम् ॥ ९३ ॥
त्वमेको भगवान्सर्वव्यापकः सर्वदेहिनाम् ॥
पितृवद्रक्षकोऽसि त्वं माता त्वं जीवसंज्ञकः ॥ ९४ ॥
साक्षी विश्वस्य बीजं त्वं ब्रह्मांडवशकारकः ॥
उत्पद्यंते विलीयंते त्वयि ब्रह्मांडकोटयः ॥ ९५ ॥
ऊर्मयः सागरे नित्यं सलिले बुद्बुदा यथा ॥
अहं कदा चित्ते नेत्रात्कदाचित्तव भालतः ॥ ९६ ॥
क्वचित्संगे शिवादेव्या प्राहुर्भूत्वा सृजे जगत् ॥
तवाज्ञाकरिणः सर्वे वयं ब्रह्मादयः सुराः ॥ ९७ ॥
अनंतवैभवोऽनंतोऽनंतधामाऽस्यनंतकः ॥
अनंतः सर्वभंगाय कुरुषे रूपमद्भुतम् ॥ ९८ ॥
भवानि त्वं भयं नित्यमशिवानां पवित्रकृत् ॥
शिवा नामपि दात्री त्वं तपसामपि त्वं फलम् ९९ ॥
यः शिवः स स्वयं विष्णुर्यो विष्णुः स सदाशिवः ॥
इत्यभेदमतिर्जाता स्वल्पा नस्त्वत्प्रसादतः॥ ॥ ६.२५४.१०० ॥
यत्किंचिच्च जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा ॥
मध्ये बहिश्च तत्सर्वं त्रयं व्याप्य स्थिता यदा ॥ १ ॥
जगत्पूज्ये सुरेशानि जगद्वंद्ये तथांबिके ॥
प्रसादं कुरु देवेशि देवेश प्रणता वयम् ॥ २ ॥
इत्युक्त्वा त्रिदशाः सर्वे हृष्टा जग्मुर्यथागतम् ॥ ३ ॥
॥ गालव उवाच ॥ ॥
तद्दिव्यरूपमतुलं भुवि ये मनुष्याः संसारसागरसमुत्तरणैकपोतम् ॥
संचिन्तयंति मनसा हृतकिल्बिषास्ते ब्रह्मस्वरूपमनुयांति विमुक्तसंगाः ॥ ॥१०४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्य माहात्म्ये हरतांडवनर्त्तनवर्णनंनाम चतुःपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५४ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 255
गालव उवाच ॥ ॥
एवं ते लब्धशापाश्च पार्वतीशाप पीडिताः ॥
अनपत्या बभूवुश्च तथा च प्रतिमानवाः ॥ १ ॥
शालग्रामस्तु गंडक्यां नर्मदायां महेश्वरः ॥
उत्पद्यते स्वयंभूश्च तावेतौ नैव कृत्रिमौ ॥ २ ॥
चतुर्विंशतिभेदेन शालग्रामगतो हरिः ॥
परीक्ष्यः पुरुषैर्नित्यमेकरूपः सदाशिवः ॥ ३ ॥
शालग्रामशिला यत्र गंडकीविमले जले ॥
तत्र स्नात्वा च पीत्वा च ब्रह्मणः पदमाप्नुयात् ॥ ४ ॥
तां पूजयित्वा विधिवद्गंडकीसंभवां शिलाम् ॥
योगीश्वरो विशुद्धात्मा जायते नात्र संशयः ॥ ५ ॥
एतत्ते कथितं सर्वं यत्पृष्टोऽहमिह त्वया ॥
यथा हरो विप्रशापं प्राप्तवांस्तन्निशामय ॥ ६ ॥
यः शृणोति नरो भक्त्या वाच्यमानामिमां कथाम् ॥
गिरीशनृत्यसंबन्धामुमादेहार्द्धवर्णिताम् ॥ ७ ॥
ब्रह्मणः स्तुतिसंयुक्तां स गच्छेत्परमां गतिम् ॥
श्लोकार्द्धं श्लोकपादं वा समस्तं श्लोकमेव वा ॥ ८ ॥
यः पठेदविरोधेन मायामानविवर्जितः ॥
स याति परमं स्थानं यत्र गत्वा न शोचति ॥ ९ ॥
चातुर्मास्ये विशेषेण पठञ्छृण्वन्नरोत्तमः ॥
लभते चिंतितां सिद्धिं धनपुत्रादिसंवृतः॥६.२५५.१॥।
यथा ब्रह्मादयो देवा गीतवाद्याभियोगतः ॥
परां सिद्धि मवापुस्ते दुर्गाशिवसमीपतः ॥ ११ ॥
वर्षाकाले च संप्राप्ते भक्तियोगे जनार्दने ॥
महेश्वरेऽथ दुर्गायां न भूयः स्तनपो भवेत् ॥ १२ ॥
गणेशस्य सदा कुर्याच्चातुर्मास्ये विशेषतः ॥
पूजां मनुष्यो लाभार्थं यत्नो लाभप्रदो हि सः ॥१३॥
सूर्यो नीरोगतां दद्याद्भक्त्या यैः पूज्यते हि सः॥
चातुर्मास्ये समायाते विशेषफलदो नृणाम् ॥ १४ ॥
इदं हि पंचायतनं सेव्यते गृहमेधिभिः ॥
चातुर्मास्ये विशेषेण सेवितं चिंतितप्रदम् ॥ १५ ॥
शालग्रामगतं विष्णुं यः पूजयति नित्यदा ॥
द्वारवतीचक्रशिलासहितं मोक्षदायकम् ॥ १६ ॥
चातुर्मास्ये विशेषेण दर्शनादपि मुक्तिदम् ॥
यस्मिन्स्तुते स्तुतं सर्वं पूजिते पूजितं जगत् ॥ १७ ॥
पूजितः पठितो ध्यातः स्मृतो वै कलुषापहः ॥
शालग्रामे किं पुनर्यच्छालग्रामगतो हरिः ॥ १८ ॥
पुनर्हि हरिनैवेद्यं फलं चापि धृतं जलम् ॥
चातुर्मास्ये विशेषेण शालग्रामगतं शुभम् ॥ १९ ॥
तिलाः पुनंत्यर्पिताश्च शालग्रामस्य शूद्रज ॥
चातुमास्ये विशेषेण नरं भक्त्या समन्वितम् ॥ ६.२५५.२० ॥
स लक्ष्मीसहितो नित्यं धनधान्यसमन्वितः ॥
महाभाग्यवतां गेहे जायते नात्र संशयः ॥२१॥
स लक्ष्मीसहितो विष्णुर्विज्ञेयो नात्र संशयः ॥
तं पूजयेन्महाभक्त्या स्थिरा लक्ष्मीर्गृहे भवेत् ॥ २२ ॥
तावद्दरिद्रता लोके तावद्गर्जति पातकम् ॥
तावत्क्लेशाः शरीरेऽस्मिन्न यावत्पूजयेद्धरिम् ॥ २३ ॥
स एव पूज्यते यत्र पंचक्रोशं पवित्रकम् ॥
करोति सकलं क्षेत्रं न तवाऽशुभसंभवः ॥ २४ ॥
एतदेव महाभाग्यमेतदेवमहातपः ॥
एष एव परो मोक्षो यत्र लक्ष्मीशपूजनम् ॥ २५ ॥
शंखश्च दक्षिणावर्त्तो लक्ष्मीनारायणात्मकः ॥
तुलसी कृष्णसारोऽत्र यत्र द्वारवती शिला ॥
तत्र श्रीर्विजयो विष्णुर्मुक्तिरेवं चतुष्टयम्॥ २६ ॥
लक्ष्मीनारायणे पूजां विधातुर्मनुजस्य तु ॥
ददाति पुण्यमतुलं मुक्तो भवति तत्क्षणात् ॥ २७ ॥
चातुर्मास्ये विशेषेण पूज्यो लक्ष्मीयुतो हरिः ॥ २८ ॥
कुर्वतस्तस्य देवस्य ध्यानं कल्मषनाशनम् ॥
तुलसीमञ्जरीभिश्च पूजितो जन्मनाशनः ॥ २९ ॥
पूजितो बिल्वपत्रेण चातुर्मास्येऽघहृत्तमः ॥ ६.२५५.३० ॥
सर्वप्रयत्नेन स एव सेव्यो यो व्याप्य विश्वं जगतामधीशः ॥
काले सृजत्यत्ति च हेलया वा तं प्राप्य भक्तो न हि सीदतीति ॥ ३१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये लक्ष्मीनारायणमहिमवर्णनंनाम पञ्चपञ्चाशदुत्तरद्विशततमोअध्यायः ॥ २५५ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 256
॥ गालव उवाच ॥ ॥
एकदा भगवान्रुद्रः कैलासशिखरे स्थितः ॥
दधार परमां लक्ष्मीमुमया सहितः किल ॥ १ ॥
गणानां कोटयस्तिस्रस्तं यदा पर्यवारयन् ॥
वीरबाहुर्वीरभद्रो वीरसेनश्च भृङ्गिराट् ॥ २ ॥
रुचिस्तुटिस्तथा नन्दी पुष्पदन्तस्तथोत्कटः ॥
विकटः कण्टकश्चैव हरः केशो विघंटकः ॥ ३ ॥
मालाधरः पाशधरः शृङ्गी च नरनस्तथा ॥
पुण्योत्कटः शालिभद्रो महाभद्रो विभद्रकः ॥ ४ ॥
कणपः कालपः कालो धनपो रक्तलोचनः ॥
विकटास्यो भद्रकश्च दीर्घजिह्वो विरोचनः ॥ ५ ॥
पारदो घनदो ध्वांक्षी हंसक्री नरकस्तथा ॥
पंचशीर्षस्त्रिशीर्षश्च क्रोडदंष्ट्रो महाद्भुत ॥ ६ ॥
सिंहवक्त्रो वृषहनुः प्रचण्डस्तुंडिरेव च ॥
एते चान्ये च बहवस्तदा भवसमीपगाः ॥ ७ ॥
महादेव जयेत्युच्चैर्भद्रकालीसमन्विताः ॥
भूतप्रेतपिशाचानां समूहा यस्य वल्लभाः ॥८॥
अस्तुवंस्तं समीपस्था वसन्ते समुपागते ॥
वनराजिर्विभाति स्म नवकोरकशोभिता ॥ ९ ॥
दक्षिणानिलसंस्पर्शः कवीनां सुखकृद्बभौ ॥
वियोगिहृदयाकर्षी किंशुकः पुष्पशोभितः ॥ ॥ ६.२५६.१० ॥
द्वन्द्वादिविक्रियाभावं चिक्रीडुश्च समंततः ॥
तस्मिन्विगाढे समये मनस्युन्मादके तथा ॥ ११ ॥
नंदी दंडधरः संज्ञां दृष्ट्वा चक्रे हरो परः॥
अलं चापलदोषेण तपः कुर्वंतु भो गणाः ॥ १२ ॥
तदा सर्वे वनमपि भूकांडजमभूत्पुनः ॥
गणास्ते तप आतस्थुर्दृष्ट्वा कान्तिंवसन्तजाम् ॥ १३ ॥
ततः सा विश्वजननी पार्वती प्राह शंकरम् ॥
इयं ते करगा नित्यमक्षमाला महेश्वर ॥ १४ ॥
त्वया किं जप्यते देव संदेहयति मे मनः ॥
त्वमेकः सर्व भूतानामादिकृत्सकलेश्वरः ॥ १५ ॥
न माता न पिता बंधुस्तव जातिर्न कश्चन ॥
अहं तव परं किंचिद्वेद्मि नास्तीति किंचन ॥ १६ ॥
श्रमेण त्वं समायुक्तो श्वासोच्छ्वासपरायणः॥
जपन्नपि महाभक्त्या दृश्यसे त्वं मया सदा ॥१७॥
त्वत्तःपरतरं किचिद्यत्त्वं ध्यायसि चेतसा ॥
तन्मे कथय देवेश यद्यहं दयिता तव॥ १८ ॥
इति स्पृष्टस्तदा शंभुरुवाच हरिसेवकः ॥
हरेर्नामसहस्राणां सारं ध्यायामि नित्यशः ॥ १९ ॥
जपामि रामनामांकमवातरं(?) ससप्तमम्॥
चतुर्विशतिसंख्याकान्प्रादुर्भावान्हरेर्गुणान् ॥ ६.२५६.२० ॥
एतेषामपि यत्सारं प्रणवाख्यं महत्फलम् ॥
द्वादशाक्षरसंयुक्तं ब्रह्मरूपं सना तनम्॥ २१ ॥
अक्षरत्रयसंबद्धं ग्रामत्रयसमन्वितम् ॥
सबिंदुं प्रणवं शश्वज्जपामि जपमालया ॥ २२ ॥
वेदसारमिदं नित्यं द्व्यक्षरं सततोद्यतम् ॥
निर्मलं ह्यमृतं शांतं सदूपममृतोपमम् ॥ २३ ॥
कलातीतं निर्वशगं निर्व्यापारं महत्परम् ॥
विश्वाधारं जगन्मध्यं कोटिब्रह्मांडबीजकम्॥ २४ ॥
जडं शुद्धक्रियं वापि निरंजनं नियामकम् ॥
यज्ज्ञात्वा मुच्यते क्षिप्रं घोरसंसारबंधनात् ॥ २५ ॥
ओंकारसहितं यच्च द्वादशाक्षरबीजकम् ॥
जपतः पापकोटीनां दावाग्नित्वं प्रजायते ॥ २६ ॥
एतदेव परं गुह्यमेतदेव परं महः ॥
एतद्धि दुर्लभं लोके लोकत्रयविभूषणम्॥ २७ ॥
प्राप्यते जन्मकोटीभिः शुभाशुभविनाशकम् ॥
एतदेव परं ज्ञानं द्वादशाक्षरचिन्तनम् ॥ २८ ॥
चातुर्मास्ये विशेषेण ब्रह्मदं चिंतितप्रदम् ॥
एतदक्षरजं स्तोत्रं यः समाश्रयते सदा ॥ २९ ॥
मनसा कर्मणा वाचा तस्य नास्ति पुनर्भवः ॥
द्वादशाक्षरसंयुक्तं चक्रद्वादशभूषितम् ॥ ६.२५६.३० ॥
मासद्वादशनामानि विष्णोर्यो भक्तितत्परः ॥
शालग्रामेषु तान्युक्त्वा न्यसेदघहराणि च ॥ ३१ ॥
दिवसेदिवसे तस्य द्वादशाहफलं लभेत् ॥
द्वादशाक्षर माहात्म्यं वर्णितुं नैव शक्यते ॥ ३२ ॥
जिह्वासहस्रैरपि च ब्रह्मणापि न वार्यते ॥
महामन्त्रो ह्ययं लोके जप्यो ध्यातः स्तुतस्तथा ॥ ३३ ॥
पापहा सर्वमासेषु चातुर्मास्ये विशेषतः ॥
इदं रहस्यं वेदानां पुराणानामनेकशः ॥ ३४ ॥
स्मृतीनामपि सर्वासां द्वादशाक्षरचिन्तनम्॥
चिंतनादेव मर्त्यानां सिद्धिर्भवति हीप्सिता ॥ ३५ ॥
पुण्यदानेन याम्येन मुक्तिर्भवति शाश्वती ॥
वर्णैस्तथाश्रमैरेव प्रणवेन समन्वितैः ॥ ३६ ॥
जपैर्ध्यानैः शमपरैर्मोक्षं यास्येत निश्चितम ॥
शूद्राणां चापि नारीणां प्रणवेन विवर्जितः ॥ ३७ ॥
प्रकृतीनां च सर्वासां न मन्त्रो द्वादशाक्षरः ॥
न जपो न तपः कार्यं कायक्लेशाद्विशुद्धिता ॥ ३८ ॥
विप्रभक्त्या च दानेन विष्णुध्यानेन सिद्ध्यति ॥
तासां मन्त्रो रामनाम ध्येयः कोट्यधिको भवेत् ॥ ३९ ॥
रामेति द्व्यक्षरजपः सर्वपापापनोदकः ॥
गच्छंस्तिष्ठञ्छयानो वा मनुजो रामकीर्तनात् ॥ ६.२५६.४० ॥
इह निर्वर्ततो याति प्रान्ते हरिगणो भवेत् ॥
रामेति द्व्यक्षरो मन्त्रो मंत्रकोटिशताधिकः ॥ ४१ ॥
सर्वासां प्रकृतीनां च कथितः पापनाशकः ॥
चातुर्मास्येऽथ संप्राप्ते सोऽप्यनंतफलप्रदः ॥ ४२ ॥
चातुर्मास्ये महापुण्ये लभ्यते भक्तितत्परैः ॥
देववन्निष्फलं तेषां यमलोकस्यसेवनम् ॥ ४३ ॥
न रामादधिकं किंचित्पठनं जगतीतले ॥
रामनामाश्रया ये वै न तेषां यमयातना ॥ ४४ ॥
ये च दोषा विघ्नकरा मृतका विग्रहाश्च ये ॥
राम नामैव विलयं यांति नात्र विचारणा ॥ ४५ ॥
रमते सर्वभूतेषु स्थावरेषु चरेषु च ॥
अन्तरात्मस्वरूपेण यच्च रामेति कथ्यते ॥ ४६ ।
रामेति मत्रराजोऽयं भयव्याधिनिषूदकः ॥
रणे विजयदश्चापि सर्वकार्यार्थसाधकः ॥ ४७ ॥
सर्वतीर्थफलः प्रोक्तो विप्राणामपि कामदः ॥
रामचन्द्रेति रामेति रामेति समुदाहृतः ॥ ४८ ॥
द्व्यक्षरो मन्त्रराजोऽयं सर्वकार्यकरो भुवि ॥
देवा अपि प्रगायंति रामनामगुणाकरम् ॥ ४९ ॥
तस्मात्त्वमपि देवेशि रामनाम सदा वद ॥
रामनाम जपेद्यो वै मुच्यते सर्वकिल्बिषैः ॥ ६.२५६.५० ॥
सहस्रनामजं पुण्यं रामनाम्नैव जायते ॥
चातुर्मास्ये विशेषेण तत्पुण्यं दशधोत्तरम् ॥ ५१ ॥
हीनजातिप्रजातानां महदह्यति पातकम् ॥ ५२ ॥
रामो ह्ययं विश्वमिदं समयं स्वतेजसा व्याप्य जनांतरात्मना ॥
पुनाति जन्मांतरपातकानि स्थूलानि सूक्ष्माणि क्षणाच्च दग्ध्वा ॥ ५३ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये रामनाममहिमवर्णनं नाम षट्पंचाशदुत्तरद्विशततमोऽध्यायः ॥ २५६ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 257
॥ पार्वत्युवाच ॥ ॥
द्वादशाक्षरमाहात्म्यं मम विस्तरतो वद ॥
यथावर्णं यत्फलं च यथा च क्रियते मया ॥ १ ॥
॥ श्रीमहादेव उवाच ॥ ॥
द्विजातीनां सहोंकारसहितो द्वादशाक्षरः ॥
स्त्रीशूद्राणां नमस्कारपूर्वकः समुदाहृतः ॥ २ ॥
प्रकृतीनां रामनाम संमतो वा षडक्षरः ॥
सोऽपि प्रणवहीनः स्यात्पुराणस्मृतिनिर्णयः ॥ ३ ॥
क्रमोऽयं सर्ववर्णानां प्रकृतीनां सदैव हि ॥
क्रमेण रहितो यस्तु करोति मनुजो जपम् ॥
तस्य प्रकुप्यति विभुर्नरकादिप्रदायकः ॥ ४ ॥
॥ पार्वत्युवाच ॥ ॥
मया त्रिमात्रया स्वामिन्सेव्यते जगदीश्वरः ॥
रूपमस्य कथं जाने वचसामप्यगोचरम् ॥ ५ ॥
॥ ईश्वर उवाच । ॥
प्रणवस्याधिकारो न तवास्ति वरवर्णिनि ॥
नमो भगवते वासुदेवायेति जपः सदा ॥ ६ ॥
॥ पार्वत्युवाच ॥ ॥
यदि सप्रणवं दद्याद्द्वादशाक्षरचिंतनम ॥
प्रणवे नाधिकारो मे कथं भवति धूर्जटे । ७ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
प्रणवः सर्वदेवानामादिरेष प्रकीर्तितः ॥
ब्रह्मा विष्णुः शिवश्चैव वसंति दयितायुताः ॥ ८ ॥
तत्र सर्वाणि भूतानि सर्व तीर्थानि भागशः ॥
तिष्ठंति सर्वतीर्थानि कैवल्यं ब्रह्म एव यः ॥९॥
तस्य योग्या तदा देवि भविष्यसि यदा तपः ॥
चातुर्मास्ये हरिप्रीत्यै करिष्यसि शुभानने ॥ ६.२५७.१० ॥
तपसा प्राप्यते कामस्तपसा च महत्फलम् ॥
तपसा जायते सर्वं तत्तपः सुलभं नरैः ॥ ११ ॥
यशः सौभाग्यमतुलं क्षमासत्यादयो गुणाः ॥
सुलभं तपसा नित्यं तपश्चर्त्तुं न शक्यते ॥ १२ ॥
यदा हि तपसो वृद्धिस्तदा भक्तिर्हरौ भवेत् ॥
तदा हि तपसो हानिर्यदा भक्तिं विना कृतम् ॥ १३ ॥
तावत्तपांसि गर्जंति देहेऽस्मिन्सततं नृणाम् ॥
यदा विष्णुं स्मरेन्नित्यं जिह्वाग्रं पावनं भवेत् ॥ १४ ॥
यथा प्रदीपे ज्वलिते प्रणश्यति महत्तमः ॥
तथा हरेः कथायां च याति पापमनेकधा ॥ १५।।
तस्मात्पार्वति यत्नेन हरौ सुप्ते तपः कुरु ॥
चातुर्मास्येऽथ संप्राप्ते प्रणवेन समन्वितम् ॥ १६ ॥
विशुद्धहृदया भूत्वा मन्त्रराजमिमं जप। ॥
स एव भगवांस्तुष्टो द्वादशाक्षरसंयुतम् ॥ १७ ॥
प्रदास्यति परं ज्ञानं ब्रह्मरूपमखण्डितम् ।
ब्रह्मकल्पांतकोटीषु जप त्वं द्वादशाक्षरम् ॥ १८ ॥
मन्त्रराजं सप्रणवं ध्यायेत्सोऽपि न पश्यति ॥
इत्युक्ता सा तपोनिष्ठा तपश्चरितुमागता ॥ १९ ॥
हिमाचलस्य शिखरे चातुर्मास्ये समागते ॥
ब्रह्मचर्यव्रतपरा वसनत्रयसंयुता ॥ ६.२५७.२० ॥
प्रातर्मध्येऽपराह्ने च ध्यायन्ती हरिशंकरम् ॥
वपुर्यथा पुरा कृष्टं पूजने शंकरस्य च ॥ २१ ॥
सखीजन समायुक्ता पितुः शृंगे मनोहरे ॥
अतपत्सा विशालाक्षी क्षमादिगुणसंयुता ॥ २२ ॥
॥ गालव उवाच ॥ ॥
या हि योगीश्वरध्येया या वन्द्या विश्ववन्दिता ॥
जननी या च विश्वस्य साऽपि कामात्तपोगता ॥ २३ ॥
या हि प्रकृतिसद्रूपा तडित्कोटिसमप्रभा ॥
विरजा या स्वयं वन्द्या गुणातीताचरत्तपः ॥ २४ ॥
पृथ्व्यंबु तेजो वायुश्च गगनं यन्मयं विदुः ॥
मूलप्रकृतिरूपा या सा चकारोत्तम तपः ॥ २५ ॥
या स्थावरं जंगममाशु विश्वं व्याप्य स्थिता या प्रकृतेः पुरापि ॥
स्पृहादिरूपेण च तृप्तिदात्री देवे प्रसुप्ते तपसाऽऽप शुद्धिम् ॥ २६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये द्वादशाक्षरनाममहिमपूर्वकपार्वतीतपोवर्णनं नाम सप्तपंचाशदुत्तरशततमोऽध्यायः ।। २५७ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 258
॥ गालव उवाच ॥ ॥
प्रवृत्तायां शैलपुत्र्यां महत्तपसि दारुणे ॥
कन्दर्पेण पराभूतो विचचार महीं हरः ॥ १ ॥
वृक्षच्छायासु तीर्थेषु नदीषु च नदेषु च ॥
जलेन सिंचत्स्ववपुः सर्वत्रापि महेश्वरः ॥ २ ॥
तथापि कामाकुलितो न लेभे शर्म कर्हिचित् ॥
एकदा यमुनां दृष्ट्वा जलकल्लोलमालिनीम् ॥ ॥ ३ ॥
विगाहितुं मनश्चक्रे तापार्तिं शमयन्निव ॥
कृष्णं बभूव तन्नीरं हरकायाग्निवह्निना ॥ ४ ॥
दग्धं विगाहनेनाशु मषीप्रायं तदा बभौ १।
साऽपि दिव्यवपुः पूर्वं श्यामा भूत्वा हराद्यतः ॥ ५ ॥
स्तुत्वा नत्वा महेशानमुवाच पुनरेव सा ॥
प्रसादं कुरु देवेश वशगास्मि सदा तव ॥ ६ ॥
॥ ईश्वर उवाच ॥ ॥
अस्मिंस्तीर्थवरेपुण्ये यः स्नास्यति नरो भुवि ॥
तस्य पापसहस्राणि यास्यंति विलयं ध्रुवम् १। ७ ॥
हरतीर्थमिति ख्यातं पुण्यं लोके भविष्यति ॥
इत्युक्त्वा तां प्रणम्याथ तत्रैवांतरधीयत ॥ ८ ॥
तस्यास्तीरे महेशोऽपि कृत्वा रूपं मनोहरम् ॥
कामालयं वाद्यहस्तं कृतपुंड्रं जटाधरम् ॥ ९ ॥
स्वेच्छया मुनिगेहेषु दर्शयत्यंगचापलम् ॥
क्वचिद्गायति गीतानि क्वचिन्नृत्यति छन्दतः ॥ 6.258.१० ॥
स च क्रुद्ध्यति हसति स्त्रीणां मध्यगतः क्वचित् ॥
एवं विचरतस्तस्य ऋषिपत्न्यः समंततः ॥ ११ ॥
पत्युः शुश्रूषणं गेहे त्यक्त्वा कार्याण्यपि क्षणात् ॥
तमेव मनसा चक्रुः पतिरूपेण मोहिताः ॥ १२ ॥
भ्रमंत्यश्चैव हास्यानि चक्रुस्ता अपि योषितः ॥
ततस्तु मुनयो दृष्ट्वा तासां दुःशीलभावनाम् ॥ १३ ॥
चुक्रुधुर्मुनयः सर्वे रूपं तस्य मनोहरम् ॥
गृह्यतां हन्यतामेष कोऽयं दुष्ट उपागतः ॥ १४ ॥
इति ते गृह्य काष्ठानि यदोपस्थे ययुस्तदा ॥
पलायितः स बहुधा भयात्तेषां महात्मनाम् ॥ १५ ॥
यो जीवकलया विश्वं व्याप्य तिष्ठति देहिनाम् ॥
न ज्ञायते न च ग्राह्यो न भेद्यश्चापि जायते ॥ १६ ॥
न शेकुस्ते यदा सर्वे ग्रहीतुं तं महेश्वरम् ॥
तदा शिवं प्रकुपिता शेपुरित्थं द्विजातयः ॥ १७ ॥
यस्माल्लिंगार्थमागत्य ह्याश्रमांश्चोरवत्कृतम् ॥
परदारापहरणं तल्लिङ्गं पततां भुवि ॥ १८ ॥
सद्य एव हि शापं त्वं दुष्टं प्राप्नुहि तापस ॥
एवमुक्ते स शापाग्निर्वज्ररूपधरो महान् ॥ १९ ॥
तल्लिगं धूर्जटेश्छित्त्वा पातयामास भूतले ॥
रुधिरौघपरिव्याप्तो मुमोह भगवान्विभुः ॥ 6.258.२० ॥
वेदनार्त्तोज्ज्वलवपुर्महाशापाभिभूतधीः ॥
तं तथा पतितं दृष्ट्वा त आजग्मुर्महर्षयः ॥ २१ ॥
आकाशे सर्वभूतानि त्रेसुर्विश्वं चचाल ह ॥
देवाश्च व्याकुला जाता महाभयमुपागताः ॥ २२ ॥
ज्ञात्वा विप्रा महेशानं पीडिता हृदयेऽभवन् ॥
शुशुचुर्भृशदुःखार्ता दैवं हि बलवत्तरम् ॥ २३ ॥
किं कृतं भगवानेष देवैरपि स सेव्यते ॥
साक्षी सर्वस्य जगतोऽस्माभिर्नैवोपलक्षितः ॥ २४ ॥
वयं मूढधियः पापाः परमज्ञानदुर्बलाः॥
कथमस्माभिर्यस्यात्मा श्रुतश्च न निवेदितः ॥ २५ ॥
मयेदृशो गृहस्थाय ह्यात्माऽयं न निवेदितः ॥
निर्विकारो निर्विषयो निरीहो निरुपद्रवः ॥ २६ ॥
निर्ममो निरहंकारो यः शंभुर्नोपलक्षितः ॥
यस्य लोका इमे सर्वे देहे तिष्ठंति मध्यगाः ॥ २७ ॥
स एष जगतां स्वामी हरोऽस्माभिर्न वीक्षितः ॥
इत्युक्त्वा ते ह्युपविष्टा यावत्तत्र समागताः ॥ २८ ॥
तान्दृष्ट्वा सहसा त्रस्तः पुनरेव महेश्वरः ॥
विप्रशापभयान्नष्टस्त्रिपुरारिर्दिवं ययौ ॥ २९ ॥
सुरभिं गां च गोलोके तां तुष्टाव सुसंयतः १।
सृष्टिस्थिति विनाशानां कर्त्र्यै मात्रे नमोनमः ॥ 6.258.३० ॥
या त्वं रसमयैर्भावैराप्यायसि भूतलम् ॥
देवानां च तथासंघान्पितॄणामपि वै गणान् ॥ ३१ १।
सर्वै र्ज्ञाता रसाभिज्ञैर्मधुरास्वाददायिनी ॥
त्वया विश्वमिदं सर्वं बलस्नेहसमन्वितम् ॥ ३२ ॥
त्वं माता सर्वरुद्राणां वसूनां दुहिता तथा ॥
आदित्यानां स्वसा चैव तुष्टा वांच्छितसिद्धिदा ॥ ३३ ॥
त्वं धृतिस्त्वं तथा पुष्टिस्त्वं स्वाहा त्वं स्वधा तथा ॥
ऋद्धिः सिद्धिस्तथा लक्ष्मीर्धृतिः कीर्ति स्तथा मतिः ॥ ३४ ॥
कांतिर्लज्जा महामाया श्रद्धा सर्वार्थसाधिनी ॥
त्वया विरहितं किंचिन्नास्ति त्रिभुवनेष्वपि ॥ ३५ ॥
वह्नेस्तृप्तिप्रदात्री च देवादीनाम् च तृप्तिदा ॥
त्वया सर्वमिदं व्याप्तं जगत्स्थावरजंगमम् ॥ ३६ ॥
पादास्ते वेदाश्चत्वारः समुद्राः स्तनतां ययुः ॥
चंद्रार्कौ लोचने यस्या रोमाग्रेषु च देवताः ॥ ३७ ॥
शृङ्गयोः पर्वताः सर्वे कर्णयोर्वायवस्तथा ॥
नाभौ चैवामृतं देवि पातालानि खुरास्तथा ॥३८॥
स्कन्धे च भगवान्ब्रह्मा मस्तकस्थः सदाशिवः ॥
हृद्देशे च स्थितो विष्णुः पुच्छाग्रे पन्नगास्तथा ॥ ३९ ।।
शकृत्स्था वसवः सर्वे साध्या मूत्रस्थितास्तव ॥
सर्वे यज्ञा ह्यस्थिदेशे किन्नरा गुह्यसंस्थिताः ॥ 6.258.४० ॥
पितॄणां च गणाः सर्वे पुरःस्था भांति सर्वदा ॥
सर्वे यक्षा भालदेशे किन्नराश्च कपोलयोः ॥ ४१ ॥
सर्वदेवमयी त्वं हि सर्वभूतविवृद्धिदा ॥
सर्वलोकहिता नित्यं मम देहहिता भव ॥ ४२ ॥
प्रणतस्तव देवेशि पूजये त्वां सदाऽनघे ॥
स्तौमि विश्वार्तिहन्त्रीं त्वां प्रसन्ना वरदा भव ॥ ४३ ॥
विप्रशापाग्निना दग्धं शरीरं मम शोभने ॥
स्वतेजसा पुनः कर्त्तुमर्हस्यमृतसंभवे ॥ ४४ ॥
इत्युक्त्वा ता परिक्रम्य तस्या देहे लयं गतः ॥
साऽपि गर्भे दधाराथ सुरभिस्तदनन्तरम् ॥ ४५ ॥
कालातिक्रमयोगेन सर्वव्याकुलतां ययौ ॥
यस्मिन्प्रनष्टे देवेशे विप्रशापभयावृते ॥ ४६ ॥
देवा महार्तिं प्रययुश्चचाल पृथिवी तथा ॥
चंद्रार्कौ निष्प्रभौ चैव वायुरुच्चण्ड एव च ॥ ४७ ॥
समुद्राः क्षोभमग मंस्तस्मिन्काले द्विजोत्तम ॥ ४८ ॥
यस्मिञ्जगत्स्थावरजंगमादिकं काले लयं प्राप्य पुनः प्ररोहति ॥
तस्मिन्प्रनष्टे द्विजशापपीडिते जयद्धतप्राय मवर्तत क्षणात् ॥ ४९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये हरशापो नामाष्टपंचाशदुत्तरद्विशततमोऽध्यायः ॥ २५८ ॥ ॥ ।
खण्डः ६ (नागरखण्डः) — Adhyāya 259
॥ गालव उवाच ॥ ॥
तस्मिंस्तु पतिते लिंगे योजनायामविस्तृते॥
विषादार्त्ता ऋषिगणास्तत्राजग्मुः सहस्रशः ॥ १ ॥
व्यलोकयन्त सर्वत्र दृष्ट्वा तत्र महेश्वरम्॥
नासौ दृष्टिपथे तेषां बभूव भयविह्वलः ॥ २ ।१
वीर्यं वर्षसहस्राणि बहून्यपि सुसंचितम् ॥
पृथिवीं सकलां व्याप्य स्थितं ददृशिरे द्विजाः ॥३॥
तद्दृष्ट्वा सुमहल्लिंगं रुधिराक्तं जलैः प्लुतम् ॥
ब्राह्मणाः संशयगता दह्यमाना वसुन्धरा ॥ ४ ॥
तल्लिंगं तत्र संस्थाप्य चक्रुस्तां नर्मदां नदीम् ॥
तज्जलं नर्मदारूपं ल्लिंगं चामरकण्टकम्॥५..
नरकं वारयत्येतत्सेवितं नरकापहम्॥
भूतग्रहाश्च सर्वेऽपि यास्यंति विलयं ध्रुवम्॥६॥
तत्र स्नात्वा जलं पीत्वा संतर्प्य च पितॄंस्तथा।.
सर्वान्कामानवाप्नोति मनुष्यो भुवि दुर्लभान्॥७॥
लिंगानि नार्मदेयानि पूजयिष्यंति ये नराः॥
तेषां रुद्रमयो देहो भविष्यति न संशयः॥
चातुर्मास्ये विशेषेण लिंगपूजा महाफला॥
चातुर्मास्ये रुद्रजपं हरपूजा शिवे रतिः॥ ९॥
पंचामृतेन स्नपनं न तेषांगर्भवेदना ॥
ये करिष्यंति मधुना सेचनं लिंगमस्तके ॥ ६.२५९.१० ॥
तेषां दुःखसहस्राणि यास्यंति विलयं ध्रुवम् ॥
दीपदानं कृतं येन चातु र्मास्ये शिवाग्रतः ॥ ११ ॥
कुलकोटिं समुद्धृत्य स्वेच्छया शिवलोकभाक् ॥
चन्दनागुरुधूपैश्च सुश्वेतकुसुमैरपि ॥ १२ ॥
नर्मदाजललिंगं ये ह्यर्च यिष्यंति ते शिवाः ॥
शिला हरत्वमापन्नाः प्राणिनामपि का कथा ॥ १३ ॥
तत्संभूतं महालिंगं जलधारणसंयुतम् ॥
पूजयित्वा विधानेन चातुर्मास्ये शिवो भवेत् ॥ १४ ॥
चातुर्मास्ये ये मनुजा नर्मदाऽमरकण्टके ॥
तीर्थे स्नास्यंति नियतास्तेषां वासस्त्रिविष्टपे ॥ १५ ॥ ॥
॥ ब्रह्मोवाच ॥ ॥
इत्युक्त्वा ते द्विजास्तत्र स्थाप्य लिंगं यथाविधि ॥
अमरकण्टकतीर्थे नर्मदां च महानदीम् ॥ १६ ॥
पुनश्चिन्तापरा जाता विश्वस्य क्षोभकारणे ॥
पद्मासनगता भूत्वा प्राणायामपरायणाः ॥ १७ ॥
चिन्तयामासुरव्यग्रं हृदयस्थं महे श्वरम् ॥
ततो देवा महेंद्राद्याः संप्राप्यामरकण्टकम् ॥ १८ ॥
ब्राह्मणानां स्तुतिं चक्रुर्विनयानतकन्धराः ॥
नमोऽस्तु वो द्विजातिभ्यो ब्रह्मविद्भ्यो महेश्वराः ॥ १९ ॥
भूसुरेभ्यो गुरुभ्यश्च विमुक्तेभ्यश्च वंधनात् ॥
यूयं गुणत्रयातीता गुणरूपा गुणाकराः ॥ ६.२५९.२० ॥
गुणत्रयमयैर्भावैः सततं प्राणबुद्बुदाः ॥
येषां वाक्यजलेनैव पापिष्ठा अपि शुद्धताम् ॥
प्रयांति पापपुंजाश्च भस्मसाद्यांति पापिनाम् ॥ २१ ॥
शस्त्रं लोहमयं येषां वागेव तत्समन्विताः ॥
पापैः पराभिभूतानां तेषां लोकोत्तरं बलम् ॥ २२ ॥
क्षमया पृथिवीतुल्याः कोपे वैश्वानरप्रभाः ॥
पातनेऽनेकशक्तीनां समर्था यूयमेव हि ॥ २३ ॥
स्वर्गादीनां तथा याने भवन्तो गतयो ध्रुवम् ॥ २४ ॥
सत्कर्मकारकाश्चैव सत्कर्मनिरताः सदा ॥
सत्कर्मफलदातारः सत्कर्मेभ्यो मुमुक्षवः ॥ २५ ॥
सावित्रीमंत्रनिरता ये भवंतोऽघनाशनाः ॥
आत्मानं यजमानं च तारयंति न संशयः ॥ २६ ॥
वह्नयश्च तथा विप्रास्तर्पिताः कार्यसाधकाः ॥
चातुर्मास्ये विशेषेण तेषां पूजा महाफला ॥ २७ ॥
कोपिताः सर्वदेहस्य नाशनाय भवंति हि १।
तावन्न वज्रमिंद्रस्य शूलं नैव पिनाकिनः ॥ २८ ॥
दण्डो यमस्य तावन्नो यावच्छापो द्विजोद्भवः ॥
अग्निना ज्वाल्यते दृश्यं शापोद्दिष्टानपि स्वयम् ॥ २९ ॥
हंति जातानजातांश्च तस्माद्विप्रं न कोपयेत्॥
विप्रकोपाग्निना दग्धो नरकान्नैव मुच्यते ॥ ६.२५९.३० ॥
शस्त्रक्षतोऽपि नरकान्मुच्यते नात्र संशयः ॥
देवानां मधुधान्यानां सामर्थ्यं भेदनेन हि ॥ ३१ ॥
वाङ्मात्रेण हि विप्रस्य भिद्यते सकलं जगत् ॥
ते यूयं गुरवोऽस्माकं विश्वकारणकारकाः ॥
प्रसादपरमा नित्यं भवंतु भुवनेश्वराः ॥ ३२ ॥
ईश्वरेण विना सर्वे वयं लोकाश्च दुःखिताः ॥
तत्कथ्यतां स भगवान्कुत्रास्ते परमेश्वरः ॥ ३३ ॥ ॥
गालव उवाच ॥ ॥
ज्ञात्वा मुनिभयत्रस्तं देवेशं शूलपाणिनम् ॥ ३४ ॥
सुरभीगर्भसंभूतं देवानूचुर्महर्षयः ॥
स्वागतं देवदेवेभ्यो ज्ञातो वै स महेश्वरः ॥ ३५ ॥
तत्र गच्छंतु देवेशा यत्र देवः सनातनः ॥
इत्युक्त्वा ते महात्मानः सह देवैर्ययुस्तदा ॥ ३६ ॥
गोलोकं देवमार्गेण यत्र पायसकर्दमाः ॥
घृतनद्योमधु ह्रदा नदीनां यत्र संघशः ॥ ३७ ॥
पूर्वजानां गणाः सर्वे दधिपीयूषपाणयः ॥
मरीचिपाः सोमपाश्च सिद्धसंघास्तथा परे ॥ ३८ ॥
घृतपाश्चैव साध्याश्च यत्र देवाः सनातनाः ॥
ते तत्र गत्वा मुनयो ददृशुः सुरभीसुतम् ॥ ३९ ॥
तेजसा भास्करं चैव नीलनामेति विश्रुतम् ॥
इतस्ततोऽभिधावंतं गवां संघातमध्यगम् ॥ ६.२५९.४० ॥
नंदा सुमनसा चैव सुरूपा च सुशीलका ॥
कामिनी नंदिनी चैव मेध्या चैव हिरण्यदा ॥ ४१ ॥
धनदा धर्मदा चैव नर्मदा सकलप्रिया ॥
वामनालंबिका कृष्णा दीर्घशृंगा सुपिच्छिका ॥ ४२ ॥
तारा तरेयिका शांता दुर्विषह्या मनोरमा ॥
सुनासा दीर्घनासा च गौरा गौरमुखीह या ॥ ४३ ॥
हरिद्रवर्णा नीला च शंखिनी पंचवर्णका ॥
विनताभिनताचैव भिन्नवर्णा सुपत्रिका ॥ ४४ ॥
जयाऽरुणा च कुण्डोध्नी सुदती चारुचंपका ॥
एतासां मध्यगं नीलं दृष्ट्वा ता मुनिदेवताः ॥४५॥
विचरंति सुरूपं तं संजातविस्मयोन्मुखाः ॥
मुनीश्वराः कृपाविष्टा इन्द्राद्या हृष्टमानसाः ॥
स्तुतिमारेभिरे कर्त्तुं तेजसा तस्य तोषिताः ॥ ४६ ॥ ॥
॥ शूद्र उवाच ॥ ॥
कथं नीलेति नामासौ जातोयमद्भुताकृतिः ॥
किमस्तुवन्प्रसन्नास्ते ब्राह्मणा विश्वकारणम् ॥ ४७ ॥
॥ गालव उवाच ॥ ॥
लोहितो यस्तु वर्णेन मुखे पुच्छे च पांडुरः ॥ ४८ ॥
श्वेतः खुरविषाणेषु स नीलो वृषभः स्मृतः ॥
चतुष्पादो धर्मरूपो नील लोहितचिह्नकः ॥ ४९ ॥
कपिलः खुरचिह्नेषु स नीलो वृषभः स्मृतः ॥
योऽसौ महेश्वरो देवो वृषश्चापि स एव हि ॥ ६.२५९.५० ॥
चतुष्पादो धर्मरूपो नीलः पंचमुखो हरः ॥
यस्य संदर्शनादेव वाजपेयफलं लभेत् ॥ ५१ ॥
नीले च पूजिते यस्मिन्पूजितं सकलं जगत् ॥
स्निग्धग्रासप्रदानेन जगदाप्यायितं भवेत् ॥ ५२ ॥
यस्य देहे सदा श्रीमान्विश्वव्यापी जनार्दनः ॥
नित्यमर्चयते योऽसौ वेदमन्त्रैः सनातनैः ॥ ५३ ॥
॥ ऋषय ऊचुः ॥ ॥
त्वं देवः सर्वगोप्तॄणां विश्वगोप्ता सनातनः ॥
विघ्नहर्ता ज्ञानदश्च धर्मरूपश्च मोक्षदः ॥५४॥
त्वमेव धनदः श्रीदः सर्वव्याधिनिषूदनः ॥
जगतां शर्मकरणे प्रवृत्तः कनकप्रदः ॥ ५५ ॥
तेजसां धाम सर्वेषां सौरभेय महाबल ॥
शृंगाग्रे धृतकैलासः पार्वतीसहितस्त्वया ॥ ५६ ॥
३३ स्तुत्यो वेदमयो वेदात्मा वेदवित्तमः ॥
वेदवेद्यो वेदयानो वेदरूपो गुणाकरः ॥ ५७ ॥
गुणत्रयेभ्योऽपि परो याथात्म्यं वेद कस्तव ॥
वृषस्त्वं भगवान्देव यस्तुभ्यं कुरुते त्वघम् ॥ ५८ ॥
वृषलः स तु विज्ञेयो रौरवादिषु पच्यते ॥
यदा स्पृष्टः स तु नरो नरकादिषु यातनाः ॥ ५९ ॥
सेवते पापनिचयैर्निगाढप्रायबन्धनैः ॥
क्षुत्क्षामं च तृषाक्रांतं महाभारसमन्वितम् ॥ ६.२५९.६० ॥
निर्दया ये प्रशोष्यंति मतिस्तेषां न शाश्वती ॥
चतुर्भिः सहितं मर्त्या विवाहविधिना तु ये ॥ ६१ ॥
विवाहं नीलरूपस्य ये करिष्यंति मानवाः ॥
पितॄनुद्दिश्य तेषां वै कुले नैवास्ति नारकी ॥ ॥ ६२ ॥
त्वं गतिः सर्वलोकानां त्वपिता परमेश्वरः ॥
त्वया विना जगत्सर्वं तत्क्षणादेव नश्यति ॥ ६३ ॥
परा चैव तु पश्यंती मध्यमा वैखरी तथा ॥
चतुर्विधानां वचसामीश्वरं त्वां विदुर्बुधाः ॥ ६४ ॥
चतुःशृंगं चतुष्पादं द्विशीर्षसप्तहस्तकम् ॥
त्रिधा बद्धं धर्ममयं त्वामेव वृषभं विदुः ॥ ६५ ॥
तृप्तिदं सर्वभूतानां विश्वव्यापकमोजसा ॥
ब्रह्म धर्ममयं नित्यं त्वामात्मानं विदुर्जनाः ॥ ६६ ॥
अच्छेद्यस्त्वमभेद्यस्त्वमप्रमेयोमहा यशाः ॥
अशोच्यस्त्वमदाह्योऽसि विदुः पौराणिका जनाः ॥ ६७ ॥
त्वदाधारमिदं सर्वं त्वदाधारमिदं जगत् ॥
त्वदाधाराश्च देवाश्च त्वदाधारं तथा मृतम् ॥ ६८ ॥
जीवरूपेण लोकांस्त्रीन्व्याप्य तिष्ठसि नित्यदा ॥
एवं स संस्तुतो नीलो विप्रैस्तैः सोमपायिभिः ॥ ६९ ॥
प्रसन्नवदनो भूत्वा विप्रा न्प्रणतितत्परः ॥
पुनरेव वचः प्रोचुर्विप्राः कृतशिवागसः ॥ ६.२५९.७० ॥
वरं ददुर्महेशस्य नीलरूपस्य धर्मतः ॥
एकादशाहे प्रेतस्य यस्य नोत्सृज्यते वृषः ॥ ७१ ॥
प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥
पुनरेव सुसर्पंतं दृष्ट्वा नीलं महावृषम् ॥ ७२ ॥
स्वल्पक्रोधसमाविष्टं द्विजाश्चक्रुस्तमं कितम् ॥
चक्रं च वामभागेषु शूलं पार्श्वे च दक्षिणे ॥ ७३ ॥
उत्ससृजुर्गवां मध्ये तं देवैर्गोपितं तदा ॥
ततो देवगणाः सर्वे महर्षीणां गणाः पुनः ॥
स्वानि स्थानानि ते जग्मुर्मुनयो वीतमत्सराः ॥ ७४ ॥
एवमृषीणां दयितासु सक्तः कामार्त्तचित्तो मुनिपुंगवानाम् ॥
शापं समासाद्य शिवोऽपि भक्त्या रेवाजलेऽगात्सुशिलामयत्वम् ॥ ७९ ॥
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने वृषस्तुतिर्नामैकोनषष्ट्युत्तरद्विशततमोअध्यायः ॥ २५९ ॥ [। छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 260
॥ गालव उवाच ॥ ॥
इति ते कथितं सर्वं शालग्रामकथानकम् ॥
महेश्वरस्य चोत्पत्तिर्यथा लिंगत्वमाप सः ॥ १ ॥
तस्माद्वरं लिंगरूपं शालग्रामगतं हरिम् ॥
येऽर्चयंति नरा भक्त्या न तेषां दुःखयातनाः ॥ २ ॥
चातुर्मास्ये समायाते विशेषात्पूजयेच्च तौ ॥
अर्चितौ यावभेदेन स्वर्गमोक्षप्रदायकौ ॥ ३ ॥
देवौ हरिहरौ भक्त्या विप्रवह्निगवां गतौ ॥
येऽर्चयंति महाशूद्र तेषां मोक्षप्रदोहरिः ॥ ॥ ४ ॥
वेदोक्तं कारयेत्कर्म पूर्तेष्टं वेदतत्परः ॥
पंचायतनपूजा च सत्यवादो ह्यलोलता ॥ ५ ॥
विवेकादिगुणैर्युक्तः स शूद्रो याति सद्गतिम्॥
ब्रह्मचर्यं तपो नान्यद्द्वादशाक्षरचिंतनात् १। ६ ॥
मन्त्रैर्विना षोडश सोपचारैः कार्या सुपूजा नरकादिहंतुः ॥
यथा तथा वै गिरिजापतेश्च कार्या महा शूद्र महाघहंत्री ॥ ७ ॥
॥ ब्रह्मोवाच ।। ॥
एवं कथयतोरेषा रजनी क्षयमाययौ ॥
सच्छूद्रो गालवश्चैव शिष्यैश्च परिवारितः ॥ ८ ॥
स तेन पूजितो विप्रो ययौ शीघ्रं निजाश्रमम् ॥ ९ ॥
य इमं श्रुणुयान्मर्त्यो वाचयेत्पाठयेच्च वा ॥
श्लोकं वा सर्वमपि च तस्य पुण्यक्षयो न हि ॥ ६.२६०.१० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्य माहात्म्ये पैजवनोपाख्याने षष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६० ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 261
॥ नारद उवाच ॥ ॥
कथं नित्या भगवती हरपत्नी यशस्विनी ॥
योगसिद्धिं सुमहतीं प्राप मासचतुष्टये ॥ १ ॥
मन्त्रराजमिमं जप्त्वा द्वादशाक्षरसंभवम् ॥
एतन्मे विस्तरेण त्वं कथयस्व यथातथम्॥२॥ ॥
।। ब्रह्मोवाच ॥ ॥
चातुर्मास्ये हरौ सुप्ते पार्वती नियतव्रता ॥
मनसा कर्मणा वाचा हरिभक्तिपरायणा ॥ ३ ॥
चारुशृंगे पितुर्नित्यं तिष्ठंती तपसि स्थिता ॥
देवद्विजाग्निगोऽश्वत्थातिथिपूजापरायणा ॥ ४ ॥
चातुर्मास्येऽथ संप्राप्ते विमले हरिवासरे ॥
जजाप परमं मंत्रं यथादिष्टं पिनाकिना ॥ ५ ॥
शंखचक्रधरो विष्णुश्चतुर्हस्तः किरीटधृक् ॥
मेघश्यामोंऽबुजाक्षश्च सूर्यकोटिसमप्रभः ॥ ६ ।।
गरुडाधिष्ठितो हृष्टो वसन्व्याप्य जगत्त्रयम् ॥
श्रीवत्सकौस्तुभयुतः पीतकौशेयवस्त्रकः ॥७॥
सर्वाभरणशोभाभिरभिदीप्तमहावपुः ॥
बभाषे पार्वतीं विष्णुः प्रसन्नवदनः शुभाम्॥
देवि तुष्टो ऽस्मि भद्रं ते कथयस्व तवेप्सितम् ॥ ८ ॥
॥ पार्वत्युवाच ॥ ॥
तज्ज्ञानममलं देहि येन नावर्त्तनं भवेत् ॥
इत्युक्तः स महाविष्णुः प्रत्युवाच हरप्रियाम् ॥९॥
स एव देवदेवेशस्तव वक्ष्यत्यसंशयम् ॥
स एव भगवान्साक्षी देहांतरबहिःस्थितः ॥६.२६१.१०॥।
विश्वस्रष्टा च गोप्ता च पवित्राणां च पावनः ॥
अनादिनिधनो धर्मो धर्मादीनां प्रभुर्हि सः ॥ ११ ॥
अक्षरत्रयसेव्यं यत्सकलं ब्रह्म एव सः ॥
मूर्त्तामूर्त्तस्वरूपेण योऽजो जन्मधरो हि सः ॥ १२ ॥
ममाधिकारो नैवास्ति वक्तुं तव न संशयः ॥
इत्युक्त्वा भगवानीशो विरराम प्रहृष्टवान् ॥१३॥
एतस्मिन्नंतरे शंभुर्गिरिजाश्रममभ्यगात् ॥
सर्वभूत गणैर्युक्तो विमाने सार्वकामिके ॥ १४ ॥
तया वै भगवान्देवः पूजितः परमेश्वरः ॥
सखीनामपि प्रत्यक्षमाश्चर्यं समजायत ॥ १५ ॥
स्तुत्वाऽथ तं महादेवं विष्णुर्देहे लयं ययौ ॥
अथोवाच महेशानः पार्वतीं परमेश्वरः ॥ १६ ॥
विमानवरमारुह्य तुष्टोऽहं तव सुव्रते ॥
गत्वैकांतप्रदेशं ते कथये परमं महः ॥ १७ ॥
एवमुक्त्वा भगवतीं करे गृह्य मुदान्वितः ॥
विमानवरमारोप्य लीलया प्रययौ तदा ॥ १९ ॥
नानाधातुमयानद्रीन्नानारत्नविचित्रितान् ॥
नदीनिर्झरकुंजांश्च नदान्कोकिलकूजितान् ॥१९॥
अखातान्देवखातांश्च गंगाद्याः सरितस्तथा ॥
सौगंधिकांश्च कल्हारान्सहस्रदलपिंजरान् ॥६.२६१.२॥।
दर्शन्यकर्णिकारांश्च कोविदारान्महाद्रुमान् ॥
तालांस्तमालान्हिंतालान्प्रियंगून्पनसानपि ॥ २१ ॥
तिलकान्बकुलांश्चैव बहूनपि च पुष्पितान् ॥
क्षेत्राणि कलनाभानि पिञ्जराणि विदर्शयन् ॥ २२ ॥
ययौ देवनदीतीरे गतं शरवणं महत् ॥
फुल्लकाशं स्वर्णमयं शरस्तंबगणान्वितम् ॥ २३ ॥
हेम भूमिविभागस्थं वह्निकांतिमृगद्विजम् ॥
तत्र तीरगतानां च मुनीनामूर्ध्वरेतसाम् ॥ २४ ॥
आश्रमान्स विमानाग्रे तिष्ठन्पत्न्यै प्रदर्शयत् ॥
षट्कृत्तिकाश्च ददृशे पार्वती वनसन्निधौ ॥ २५ ॥
स्नाताः स्वलंकृताश्चन्द्रपत्न्यस्ता विरजांबराः ॥
ऊचुस्ता योजितकरा केऽयं पुत्राय गम्यते ॥ २६ ॥
तत्कथ्यतां महाभागे स च ते दर्शनं गतः ॥ २७ ॥
॥ पार्वत्युवाच ॥ ॥
मम भाग्यवशात्पुत्रः कथमुत्संगमाहरेत् ॥
न ह्यभाग्यवशात्पुंसां क्वापि सौख्यं निरन्तरम्॥२८॥
सुतनाम्नाप्यहं दृष्ट्वा भवतीनां च दर्शनात्॥
किमर्थमिह संप्राप्ताः कथ्यतामविलंबितम्॥२९॥
कृत्तिका ऊचुः॥
वयं तव सुतं न्यस्तं प्रदातुमिह सुन्दरि॥
चातुर्मास्ये रवौ स्नातुमागता देवनिम्नगाम्॥६.२६१.३०॥।
पार्वत्युवाच॥
न हास्यावसरः सख्यः सत्यमेव हि कथ्यताम्॥
एकांतावसरे हास्यं जायते चेतरेतरम्॥३१॥
कृत्तिका ऊचुः॥
सत्यं वदामहे देवि तव त्रैलोक्यशोभिते॥
अस्य स्तंबसमूहस्य मध्यस्थं बालकं वृणु॥३२॥
कृत्तिकानां वचः श्रुत्वा शंकिता पार्वती तदा॥
ददर्श बालं दीप्ताभं षण्मुखं दीप्तवर्चसम्॥३३॥
तडित्कोटिप्रतीकाशं रूपदिव्यश्रिया युतम्॥
वह्निपुत्रं च गांगेयं कार्तिकेयं महाबलम्॥ ३४॥
सा वत्सेति गृहीत्वा तं कुमारं पाणिना मुदा॥
विमानमध्यमादाय कृत्वोत्संगे ह्युवाच ह॥ ३५॥
चिरंजीव चिरं नन्द चिरं नंदय बाधवान्॥
इत्युक्त्वा गाढमालिंग्य मूर्ध्नि चाघ्राय तं सुतम्॥३६॥
संहृष्टा परमोदारं भास्वरं हृष्टमानसम्॥
कार्तिकेयो महाप्रेम्णा प्रणिपत्य महेश्वरम्॥३७॥
ततः प्रांजलिरव्यग्रः प्रहृष्टेनांतरात्मना॥
तद्विमानं ययौ शीघ्रं तीर्त्वा नदनदीपतीन्॥३८॥
जंबुद्वीपमतिक्रम्य लक्षयोजनमायतम्॥
ततः समुद्रं द्विगुणं लवणोदं तथैव च॥३९॥
उत्तरांश्च कुरून्नीत्वा विमानेनार्कतेजसा॥
समुद्रद्विगुणं द्वीपं कुशनाभेति कीर्तितम्॥६.२६१.४॥।
दिव्यलोकसमाक्रांतं दिव्यपर्वतसंकुलम्॥
इक्षूदाद्विगुणं द्वीपं तद्द्वीपाद्द्विगुणः पुनः॥४१॥
तमतिक्रम्य तत्सिन्धोर्दविगुणं क्रौंचसंज्ञितम्॥
ततोऽपि द्विगुणः सिन्धुः सुरोदो यक्षसेवितः॥४२॥
ततोऽपि द्विगुणं द्वीपं शाकद्वीपेतिसंज्ञितम्॥
अर्णवद्विगुणं तस्मादाज्यरूपं सुनिर्मितं॥४३॥
परमस्वादसंपूर्णं यत्र सिद्धाः समंततः॥
तस्माच्च द्विगुणं द्वीपं शाल्मलीवृक्षसंज्ञितम्॥४४॥
समुद्रो द्विगुणस्तत्र दधिमंडोदसंभवः॥
साध्या वसंति नियतं महत्तपसि संस्थिताः॥ ४५॥
ततोऽपि द्विगुणं द्वीपं प्लक्षनामेति विश्रुतम्॥
क्षीरोदो द्विगुणस्तत्र यत्रयत्रमहर्षयः॥
षडिमानि सुदिव्यानि भौमः स्वर्ग उदाहृतः॥
तत्र स्वर्णमयी भूमिस्तथा रजतसंयुता॥४७॥
दृष्टवा मधूपलस्वादैः सर्वकामप्रदायका॥
यत्र स्त्रीपुरुषाणां च कल्पवृक्षा गृहे स्थिताः॥४८॥
वासांसि भूषणानां च समूहान्हर्षयंति च॥
एतानि दक्षचिह्नानि द्वीपानि मुनिसत्तम॥४९॥
महेश्वरो विमानेन व्यतिक्रामद्विहायसा॥
प्लक्षद्वीपस्य च प्रांते द्विगुणः क्षीरसागरः॥६.२६१.५॥।
तन्मध्ये सुमह्द्वीपं श्वेतं नाम सुनिश्चितम्॥
रम्यकः पर्वतस्तत्र शतशृंगोमितद्रुमः॥५१॥
तस्य शृंगे महद्दिव्ये विमानं स्थापितं तदा॥
तदाऽमृतफलैर्वृक्षैः सेविते हेमवालुके॥५२॥
क्षीरच्छेदेन विहृते शिलातलसुसंवृते॥
विविक्ते सर्वसुभगे मणिरत्नसमन्विते॥५३॥
उमायै कथयामास देवदेवः पिनाकधृक् ॥
कार्तिकेयोऽपि शुश्राव गुह्याद्गुह्यतरं महत् ॥५४ ।
ध्यानयोगं मंत्ररूपं द्वादशाक्षरसंज्ञितम् ।१
प्रणवेन युतं साग्रं सरहस्यं श्रुतेः परम् ॥ ॥ ५५ ॥
॥ ईश्वर उवाच ॥ ॥
अक्षरत्रयसंयुक्तो मन्त्रोऽयं सकृदक्षरः ॥
माघमासहितश्चायममाक्षोहेनश्चायममायो विश्वपावनः ॥
विष्णुगम्यो विष्णु मध्यो मन्त्रत्रयसमन्वितः ॥
तुरीयकलयाऽशेषब्रह्मांडगणसेवितः ५७ ॥
निष्कामैर्मुनिभिः सेव्यो महाविद्यादिसेवितः ॥
नाभितः शिरसि व्याप्त अखण्डसुखदायकः। ९८८ ॥
ओंकारेति प्रियोक्तिस्ते महादुःखविनाशनः ॥
तं पूर्वं प्रणवं ध्यात्वा ज्ञानरूपं सुखाश्रयम् ॥ ५९ ॥
ज्ञात्वा सर्वगतं ब्रह्म देहशोधनतत्परः १।
पद्मासनपरो भूत्वा संपूज्य ज्ञानलोचनः ॥ ६.२६१.६० ॥
नेत्रे मुकुलिते कृत्वा शुरो करौ कृत्वा तु संहतौ ॥
चेतसि ध्यानरूपेण चिंतयेच्छिवमंगलम् ॥ ६१ ॥
तडित्कोटिप्रतीकाशं सूर्यकोटिसमच्छविम् ॥
चन्द्रलक्षसमच्छन्नं पुरुषं द्योतिताखिलम् १। ६२॥
मूर्त्तामूर्त्तवैराजं तं सदसद्रूप मव्यम् ॥
चिंतयित्वा विराड्रूपं न भूयःस्तनपो भवेत् ॥
चातुर्मास्ये सकृदपि ध्यानात्कल्मषसंक्षयः॥ ६३ ।१
एवं च मद्रूपमिदं मुरारेरमोघवीर्यं गुण तोप्यपारम् १।
विलोकयेद्योऽघविनाशनाय क्षणं प्रभुर्जन्मशतोद्भवाय ।। ६४ ।।
इति श्रीस्कांदे महापुराण एकाशीसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये ध्यानयोगोनामैकषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६१ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 262
॥ पार्वत्युवाच ॥ ॥
ध्यानयोगमहं प्राप्य ज्ञानयोगमवाप्नुयाम् ॥
तथा कुरुष्व देवेश यथाहममरी भव ।। १ ॥
॥ ईश्वर उवाच ॥ ।१
प्रत्युक्तोऽयं मंत्रराजो द्वादशाक्षरसंज्ञितः ॥
जप्तव्यः सुकुमारांगि वेदसारः सनातनः ॥ २ ॥
प्रणवः सर्ववेदाद्यः सर्वब्रह्मांडयाजकः ।।
प्रथमः सर्वकार्येषु सर्वसिद्धिप्रदायकः ॥ ३ ॥
सितवर्णो मधुच्छंदा ऋषिर्ब्रह्मा तु देवता ।।
परमात्मा तु गायत्री नियोगः सर्वकर्मसु ।। ४ ॥
एतद्ब्रह्ममयं बीजं विश्वमत्र समन्वितम् १।
वेदवेदांग तत्त्वाख्यं सदसदूपमव्ययम् ॥ ५ ॥
नकारः पीतवर्णस्तु जलबीजः सनातनः ॥
बीजं पृथ्वी मनश्छन्दो विषहा विनियोगतः ॥ ६ ॥
मोकारः पृथिवी बीजो विश्वामित्रसमन्वितः ॥
रक्तवर्णो महातेजा धनदो विनियोजितः । ७ ॥
भकारः पंचवर्णस्तु जलबीजः सनातनः ॥
मरीचिना समायुक्तः पूजितः सर्वभोगदः ॥ ८ ॥
गकारो हेमरक्ताभो भरद्वाजसमन्वितः ॥
वायुबीजो विनिर्योगं कुर्वतामादिभोगदः ॥। ९ ॥
वकारः कुन्दधवलो व्योमबीजो महाबलः ॥
ऋषिमंत्रिपुरस्कृत्य योजितो मोक्षदायकः ॥ ६.२६२.१० ।१
तकारो विद्युद्विकारः सोमबीजं महत्स्मृतम् ॥
अंगिरावर्द्धमूलं च वर्जितं कर्मका मिकम् १। ११ ॥
वाकारो धूम्रवर्णश्च सूर्यबीजं मनोजवम् ॥
पुलस्त्यर्षिसमायुक्तं नियुक्तं सर्वसौख्यदम् ।१ १२ ॥
सुकारश्चाक्षरो नित्यं जपाकुसुम भास्वरः ॥
मनो बीजं दुर्विषह्यं पुलहाश्रितमर्थिदम् ॥ १३ ॥
देकाराक्षरकं बीजं हंसरूपं च कर्बुरम् ।१ ।
सिद्धिबीजं महासत्त्वं क्रतौ क्रतुनियोजितम् ॥ १४ ॥
वाकारो निर्मलो नित्यं यजमानस्तु बीजभृत् ॥
प्रचेताश्रियमाश्रेयं मोक्षे मोक्षप्रदायकम् ॥ १५ ॥
यकारस्य महाबीजं पिंगवर्णश्च खेचरी ॥
भूचरी च महासिद्धिः सर्वदा भूविचिन्तनम् ॥ १६ ॥
भृगुयन्त्रे समाश्रांतिनियोगे सर्वकर्मकृत् ॥
गायत्रीछंद एतेषां देहन्यासक्रमो भवेत् ॥ १७ ॥
ओंकारं सर्वदा न्यस्यन्नकारं पादयोर्द्वयोः ॥
मोकारं गुह्यदेशे तु भकारं नाभिपंकजे ॥ १८ ॥
गकारं हृदये न्यस्य वकारः कण्ठ मध्यगः ॥
तेकारं दक्षिणे हस्ते वाकारो वामहस्तगः ॥ १९ ॥
सुकारं मुखजिह्वायां देकारः कर्णयोर्द्वयोः ॥
वाकारश्चक्षुषोर्द्वन्द्वे यकारं मस्तके न्यसेत् ॥ ६.२६२.२० ॥
लिंगमुद्रा योनिमुद्रा धेनुमुद्रा तथा त्रयम् ॥
सकलं कृतमेतद्धि मंत्ररूपे बिजाक्षरम् ॥ २१ ॥
योजयेत्प्रत्यहं देवि न स पापैः प्रलिप्यते ॥
एतद्द्वादशलिंगारं कूर्मस्थं द्वादशाक्षरम् ॥ २२ ॥
शालग्रामशिलाश्चैव द्वादशैव हि पूजिताः ॥
ताभिः सहाकरैरेभिः प्रत्यक्षैः सह संसदि ॥ २३ ॥
यथावर्णमनुध्यानैर्मुनिबीजसमन्वितैः ॥
विनियोगेन सहितैश्छन्दोभिः समलंकृतैः ॥ २४ ॥
ध्यानैजपैः पूजितैश्च भक्तानां मुनिसत्तम ॥
मोक्षो भवति बन्धेभ्यः कर्मजेभ्यो न संशयः ॥ २५८ ॥
अयं हि ध्यानकर्माख्यो योगो दुष्प्राप्य एव हि ॥
ध्यानयोगं पुनर्वच्मि शृणुष्वैकाग्रमानसा ॥ २६ ॥
ध्यानयोगेन पापानां क्षयो भवति नान्यथा ॥
जपध्यानमयो योगः कर्मयोगो न संशयः ॥ २७ ॥
शब्दब्रह्मसमुद्भूतो वेदेन द्वादशाक्षरः ॥
ध्यानेन सर्वमाप्नोति ध्यानेनाप्नोति शुद्धताम् ॥ २८ ॥
ध्यानेन परमं ब्रह्म मूर्त्तौ योगस्तु ध्यानजः ॥
सावलम्बो ध्यानयोगो यन्नारायणदर्शनम् ॥ २९॥
द्वितीयो निखिलालम्बो ज्ञानयोगेन कीर्तितः ॥
अरूपमप्रमेयं यत्सर्वकायं महः सदा ॥ ६.२६२.३० ॥
तडित्कोटिसमप्रख्यं सदोदितमखंडितम् ॥
निष्कलं सकलं वापि निरंजनमयं वियत् ॥ ३१ ॥
तत्स्वरूपं भोगरूपं तुर्यातीतमनोपमम् ॥
विभ्रांतकरणं मूर्तं प्रकृतिस्थं च शाश्वतम्॥ ३२ ॥
दृश्यादृश्यमजं चैव वैराजं सततोज्ज्वलम् ॥
बहुलं सर्वजं धर्म्यं निर्विकल्पमनीश्वरम् ॥ ३३ ॥
अगोत्रं वरणं वापि ब्रह्मांडशतकारणम् ॥
निरीहं निर्ममं बुद्धिशून्यरूपं च निर्मलम् ॥ ३४ ॥
तदीशरूपं निर्देहं निर्द्वंद्वं साक्षिमात्रकम् ॥
शुद्धस्फटिकसंकाशं ध्यातृध्येयविवर्जितम् ॥
नोपमेयमगाधं त्वं स्वीकुरुष्व स्वतेजसा ॥ ३५ ॥
॥ पार्वत्युवाच ॥ ॥
तत्कथं प्राप्यते सम्यग्ज्ञानं योगिस्वरूपिणम्॥
नारायणममूर्तं च स्थानं तस्य वद प्रभो ॥ ३६ ॥
॥ ईश्वर उवाच ॥ ॥
शिरः प्रधानं गात्रेषु शिरसा धार्यते महान्॥ ॥ ३७।।
शिरसा पूजितो देवः पूजितं सकलं जगत् ॥
शिरसा धार्यते योगः शिरसा ध्रियते बलम् ॥ ३८ ॥
शिरसा ध्रियते तेजो जीवितं शिरसि स्थितम् ॥
सूर्यः शिरो ह्यमूर्त्तस्य मूर्तस्यापि तथैव च ॥ ३९ ॥
उरस्तु पृथिवीलोकः पादश्चैव रसातलम् ॥
अयं ब्रह्मांडरूपे च मूर्त्तामूर्त्तस्वरूपतः ॥ ६.२६२.४० ॥
विष्णुरेव ब्रह्मरूपो ज्ञानयोगाश्रयः स्वयम् ॥
सृजते सर्वभूतानि पालयत्यपि सर्वशः ॥ ४१ ॥
विनाशयति सर्वं हि सर्वदेवमयो ह्ययम् ॥
सर्वमासेष्वाधिपत्यं यस्य विष्णोः सनातनम् ॥ ४२ ॥
तस्मात्सर्वेषु मासेषु सर्वेषु दिवसेष्वपि ॥
सर्वेषु यामकालेषु संस्मरन्मुच्यते हरिम् ॥ ४३ ॥
चातुर्मास्ये विशेषेण ध्यानमात्रात्प्रमुच्यते ॥
अमूर्त्तसेवनं गंगातीर्थध्यानाद्वरं परम् ॥ ४४ ॥
सर्वदानोत्तरं चैव चातुर्मास्ये न संशयः ॥
सर्वमासकृतं पापं चातुर्मास्ये शुभाशुभम् ॥ ४५ ॥
अक्षय्यं तद्भवेद्देवि नात्र कार्या विचारणा ॥
तस्मात्सर्वप्रयत्नेन ज्ञानयोगो बहूत्तमः ॥ ॥ ४६ ॥
सेवितो विष्णुरूपेण ब्रह्ममोक्षप्रदायकः ॥
शृणुष्वावहिता भूत्वा मूर्त्तामूर्ते स्थितिं शुभे ॥ ४०७ ॥
न कथ्येयं यस्य कस्य सुतस्याप्य परस्य च ॥
अदांतायाथ दुष्टाय चलचित्ताय दांभिके ॥ ४८ ॥
स्ववाक्च्युताय निंद्याय न वाच्या योगजा कथा ॥
नित्यभक्ताय दांताय शमादि गुणिने तथा ॥ ४९ ॥ ।
विष्णुभक्ताय दातव्या शूद्रायापि द्विजन्मने ॥
अभक्तायाप्यशुचये ब्रह्मस्थानं न कथ्यते ॥ ६.२६२.५० ॥
मद्भक्त्या योगसिद्धिं त्वं गृहाणाशु तपोधने ॥
अभूतं ज्ञानगम्यं तं विद्धि नारायणं परम् ॥ ५१ ॥
नादरूपेण शिरसि तिष्ठंतं सर्वदेहिनाम् ॥
स एव जीवशिरसि वर्त्तते सूर्यबिंबवत् ॥ ५२ ॥
सदोदितः सूक्ष्मरूपो मूर्त्तो मूर्त्या प्रणीयते ॥
अभ्यासेन सदा देवि प्राप्यते परमात्मकः ॥ ५३ ॥
शरीरे सकला देवा योगिनो निवसंति हि ॥
कर्णे तु दक्षिणे नद्यो निवसंति तथाऽपराः ॥ ५४ ॥
हृदये चेश्वरः शंभुर्नाभौ ब्रह्मा सनातनः ॥
पृथ्वी पादतलाग्रे जलं सर्वगतं तथा ॥ ५५ ॥
तेजो वायुस्तथाऽऽकाशं विद्यते भालमध्यतः॥
हस्ते च पंच तीर्थानि दक्षिणे नात्र संशयः ॥ ५६ ॥
सूर्यो यद्दक्षिणं नेत्रं चन्द्रो वाममुदाहृतम् ॥
भौमश्चैव बुधश्चैव नासिके द्वे उदाहृते ॥ ५७ ॥
गुरुश्च दक्षिणे कर्णे वामकर्णे तथा भृगुः ॥
मुखे शनैश्चरः प्रोक्तो गुदे राहुः प्रकीर्तितः ॥ ५८ ॥
केतुरिंद्रियगः प्रोक्तो ग्रहाः सर्वे शरीरगाः ॥
योगिनो देहमासाद्य भुवनानि चतुर्दश ॥ ५९ ॥
प्रवर्त्तंते सदा देवि तस्माद्योगं सदाभ्यसेत् ॥
चातुर्मास्ये विशेषेण योगी पापं निकृन्तति ॥ ६.२६२.६० ॥
मुहूर्त्तमपि यो योगी मस्तके धारयेन्मनः ॥
कर्णै पिधाय पापेभ्यो मुच्यतेऽसौ न संशयः ॥ ६१ ॥
अंतरं नैव पश्यामि विष्णोर्योगपरस्य वा ॥
एकोऽपि योगी यद्गेहे ग्रासमात्रं भुनक्ति च ॥ ६२ ॥
कुलानि त्रीणि सोऽवश्यं तारयेदात्मना सह ॥
यदि विप्रो भवेद्योगी सोऽवश्यं दर्शनादपि ॥ ६३ ॥
सर्वेषां प्राणिनां देवि पापराशि निषूदकः ॥
सक्रियो ब्रह्मनिरतः सच्छूद्रो योगभाग्यदि ॥ ६४ ॥
भवेत्सद्गुरुभक्तो वा सोऽप्यमूर्त्तफलं लभेत् ॥
यो योगी नियताहारः परब्रह्म समाधिमान् ॥ ६५ ॥
चातुर्मास्ये विशेषेण हरौ स लयभाग्भवेत् ॥
यथा सिद्धकरस्पर्शाल्लोहं भवति कांचनम् ॥ ६६ ॥
तथा मूर्त्तं हरिप्रीत्या मनुष्यो लयमाव्रजेत् ॥
यथा मार्गजलं गंगापतितं त्रिदशैरपि ॥ ६७ ॥
सेवितं सर्वफलदं तथा योगी विमुक्तिदः ॥
यथा गोमयमात्रेण वह्निर्दीप्यति सर्वदा ॥ ६८ ॥
देवतानां मुखं तद्धि कीर्त्यते याज्ञिकैः सदा ॥
एवं योगी सदाऽभ्यासाज्जायते मोक्षभाजनम् ॥ ६९ ॥
योगोऽयं सेव्यते देवि ज्ञानासिद्धिप्रदः सदा ॥
सनकादिभिराचार्यैर्मुमुक्षुभिरधीश्वरैः ॥ ६.२६२.७० ॥
प्रथमं ज्ञानसंपत्तिर्जायते योगिनां सदा ॥
तेषां गृहीतमात्रस्तु योगी भवति पार्वति ॥ ७१ ॥
ततस्तु सिद्धयस्तस्य त्वणिमाद्याः पुरोगताः ॥
भवन्ति तत्रापि मनो न दद्याद्योगिनां वरः ॥ ७२ ॥
सर्वदानक्रतुभवं पुण्यं भवति योगतः ॥
योगात्सकलकामाप्तिर्न योगाद्भुवि प्राप्यते ॥ ७३ ॥
योगान्न हृदयग्रंथिर्न योगान्ममता रिपुः ॥
न योगसिद्धस्य मनो हर्त्तुं केनापि शक्यते ॥ ७४ ॥
स एव विमलो योगी यच्चित्तं शिरसि स्थितम् ॥
स्थिरीभूतव्यथं नित्यं दशमद्वारसंपुटे ॥ ७५ ॥
कणौं पिधाय मर्त्यस्य नादरूपं विचिन्वतः ॥
तदेव प्रणवस्याग्रं तदेव ब्रह्म शाश्वतम् ॥ ७६ ॥
तदेवानंतरूपाख्यं तदेवामृतमुत्तमम् ॥
घ्राणवायौ प्रघोषोऽयं जठराग्नेर्महत्पदम् ॥ ७७ ॥
पंचभूतं निवासं यज्ज्ञानरूपमिदं पदम् ॥
पदं प्राप्य विमुक्तिः स्याज्जन्मसंसारबंधनात् ॥ ७८ ॥
यदाप्तिर्दुलभा लोके योगसिद्धिप्रदायिका ॥ ७९ ॥
एवं ब्रह्ममयं विभाति सकलं विश्वं चरं स्थावरं विज्ञानाख्यमिदं पदं स भगवान्विष्णुः स्वयं व्यापकः ॥
ज्ञात्वा तं शिरसि स्थितं बहुवरं योगेश्वराणां परं प्राणी मुंचति सर्पवज्जगतिजां निर्मोकमायाकृतिम् ॥ ६.२६२.८० ॥
इति श्रीस्कांदे महापुराण एकाशीति साहरस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये ज्ञानयोगकथनं नाम द्विषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६२ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 263
॥ ईश्वर उवाच ॥ ॥
यदि चेत्तामसं कर्म त्यक्त्वा कर्मसु जायते ॥
तदा ज्ञानमयो योगी जीवतां मोक्षदायकः ॥ १ ॥
यदा निर्ममता देहे यदा चित्तं सुनिर्मलम् ॥
यदा हरौ भक्तियोगस्तदा बन्धो न कर्मणा ॥ २ ॥
कुर्वन्नेव हि कर्माणि मनः शांतं नृणां यदा ॥
तदा योगमयी सिद्धिर्जायते नात्र संशयः ॥ ३ ॥
गुरुत्वं स्थानमसकृदनुभूय महामतिः ॥
जीवन्विष्णुत्वमासाद्य कर्म संगात्प्रमुच्यते ॥ ४ ॥
कर्माणि नित्यजातानि नित्यनैमित्तिकानि च ॥
इच्छया नैव सेव्यानि दुःखतापविवृद्धये ॥ ५ ॥
कर्मणामीशितारं च विष्णुं विद्धि महेश्वरि ॥
तस्मिन्संत्यज्य सर्वाणि संसारान्मुच्यतेऽखिलात् ॥ ६ ॥
एतदेव परं ज्ञानमेतदेव परं तपः ॥
एतदेव परं श्रेयो यत्कृष्णे कर्मणोऽर्पणम् ॥ ७ ॥
अयं हि निर्मलो योगो निर्गुणः स उदाहृतः ॥
तद्विष्णोः कर्म जनितं शुभत्व प्रतिपादनम् ॥ ८ ॥
तावद्भ्रमंति संसारे पितरः पिंडतत्पराः ॥
यावत्कुले भक्तियुतः स्तो नैव प्रजायते ९ ॥
तावद्द्विजानि गर्जंति तावद्गर्जति पातकम् ॥
तावत्तीर्थान्यनेकानि यावद्भक्तिं न विंदति ॥ ६.२६३.१० ॥
स एव ज्ञानवाँल्लोके योगिनां प्रथमो हि सः ॥
महाक्रतूनामाहर्ता हरिभक्तियुतो हि सः ॥ ११ ॥
निमिषं निर्नयन्मेषं योगः समभिजायते ॥
वाणीजये योगिनस्तु गोमेधश्च प्रकीर्तितः ॥ ॥ १२ ॥
मनसो विजये नित्यमश्वमेधफलं लभेत् ॥
कल्पनाविजयान्नित्यं यज्ञं सौत्रामणिं लभेत् ॥ १३ ॥
देहस्योत्सर्जनान्नित्यं नरयज्ञः प्रकीर्तितः ॥
पंचेंद्रियपशून्हत्वाऽनग्नौ शीर्षे च कुण्डले ॥ १४ ॥
गुरूपदेशविधिना ब्रह्मभूतत्वमश्नुते ॥
स योगी नियताहारोदण्डत्रितयधारकः ॥ १५ ॥
त्रिदंडी स तु विज्ञेयो ज्ञाते देवे निरंजने ॥
मनोदण्डः कर्मदण्डो वाग्दंडो यस्य योगिनः ॥ १६ ॥
स योगी ब्रह्मरूपेण जीवन्नेव समाप्यते ॥
अज्ञानी बाध्यते नित्यं कर्मभिर्बंधनात्मकैः ॥१७ ॥
कुर्वन्नेव हि कर्माणि ज्ञानी मुक्तिं प्रयाति हि ॥
यदा हि गुरुभिः स्थानं ब्रह्मणः प्रतिपाद्यते ॥ १८ ॥
तदैष मुक्तिमाप्नोति देहस्तिष्ठति केवलम् ॥
यावद्ब्रह्मफलावाप्त्यै प्रयाति पुरुषोत्तमः ॥ १९ ॥
तावत्कर्ममयी वृत्तिर्ब्रह्म वृक्षांतराभवेत् ॥
अवांतराणि पर्वाणि ज्ञेयानि मुनिभिः सदा ॥ ६.२६३.२० ॥
मोक्षमार्गो द्विजैश्चैव श्रुतिस्मृतिसमुच्चयात् ॥
मोक्षोऽयं नगराकारश्चतुर्द्वार समाकुलः ॥ २१ ॥
द्वारपालास्तत्र नित्यं चत्वारस्तु शमादयः ॥
त एव प्रथमं सेव्या मनुजैर्माक्षदायकाः ॥ २२ ॥
शमश्च सद्विचारश्च संतोषः साधुसंगमः ॥
एते वै हस्तगा यस्य तस्य सिद्धिर्न दूरतः ॥ २३ ॥
योगसिद्धिर्विष्णुभक्त्या सद्धर्माचरणेन च ॥
प्राप्यते मनुजैर्देवि ह्येतज्ज्ञानमलं विदुः ॥ २४ ॥
ज्ञानार्थं च भ्रमन्मर्त्यो विद्यास्थानेषु सर्वशः ॥
सद्यो ज्ञानं सद्गुरुतो दीपार्चिरिव निर्मला ॥ २५ ॥
मुहूर्तमात्रमपि यो लयं चिंत यति ध्रुवम् ॥
तस्य पापसहस्राणि विलयं यांति तत्क्षणात् ॥ २६ ॥
रागद्वेषौ परित्यज्य क्रोधलोभविवर्जितः ॥
सर्वत्र समदर्शी च विष्णुभक्तस्य दर्शनम् ॥ २७ ॥
सर्वेषामपि जीवानां दया यस्य हृदि स्थिरा ॥
शौचाचारसमायुक्तो योगी दुःखं न विंदति ॥ २८ १।
मायाधिपटलैर्हीनो मिथ्या वस्तुविरागवान् ॥
कुसंसर्गविहीनश्च योगसिद्धेश्च लक्षणम् ॥ २९ ॥
ममतावह्निसंयोगो नराणां तापदायकः ॥
उत्पन्नः शमनं तस्य योगिनां शांतिचारणम् ॥ ६.२६३.३० ॥
इन्द्रियाणामथोद्धृत्य मनसैव निषेधयेत् ॥
यथा लोहेन लोहं च घर्षितं तीक्ष्णतां व्रजेत् ॥ ३१ ॥
बुद्धिर्हि द्विविधा देहे देया ग्राह्या विशुद्धिदा ॥
संसारविषया त्याज्या परब्रह्मणि सा शुभा ॥ ३२ ॥
अहंकारो यथा देवि पापपुण्यप्रदायकः ॥
ज्ञाते तत्त्वे शुभफले कृतः संधाय नान्यथा ॥ ३३ ॥
श्यामलं च उपस्थं च रूपातीतान्नराः शिवम् ॥
हृदिस्थं सिरशिस्थं च द्वयं बद्धविमुक्तये ॥ ॥ ३४ ॥
एतदक्षरमव्यकममृतं सकलं तव ॥
रूपरूपविष्णुरूपरूपमूर्तिनिवेदितम् ॥ ३६ ॥
एवं ज्ञात्वा विमुच्येत योगी संसारबन्धनात् ॥
गुरूपदेशाद्गृहस्थो लभते नान्यथा क्वचित् ॥३६॥
यदा गुरुः प्रसन्नात्मा तस्य विश्वं प्रसीदति ॥
गुरुश्च तोषितो येन संतुष्टाः पितृदेवताः ॥ ३७ ॥
गुरूपदेशः प्रतिमा सद्विचारः समे मनः ॥
क्रिया च ज्ञानसहिता मोक्षसिद्धेर्हि लक्षणम् [। ३८ ॥
क्रियापतिर्विष्णुरेव स्वयमेव हि निष्क्रि यः ॥
स च प्राणविरूपाय द्वादशाक्षरवीजकः ॥३९॥
द्वादशाक्षरकं चक्रं सर्वपापनिबर्हणम् ॥
दुष्टानां दमनं चैव परब्रह्मप्रदायकम् ॥ ६.२६३.४० ॥
एतदेव परं ब्रह्म द्वादशाक्षररूपधृक् ॥
मया प्रकाशितं देवि स्कन्दे हि विमलं तव ॥४१॥
एतत्सारं योगिनां ध्यानरूपं भक्तिग्राह्यं श्रद्धया चिन्तयेच्च ॥
चातुर्मास्ये जन्मकोट्यां च जातं पापं दग्ध्वा मुक्तिदः कैटभारिः ॥ ४२ ॥
॥ब्रह्मोवाच ॥ ॥
एतस्मिन्नगरे तत्र क्षीरसागरमध्यतः ॥
उज्जहार विमानाग्रे तेजोभाराभिपीडितः ॥ ४३ ॥
उरो बाहुकृतिं कुर्वन्सान्निध्यं समुपागतः ॥
महामत्स्योऽज्ञातपूर्वः सन्निधानेऽनहंकृतिः ॥ ४४ ॥
हुंकारगर्भे मत्स्यं च दृष्ट्वा तं स महेश्वरः ॥
तेजसा स्तंभयामास वाक्यमेतदुवाच ह ॥ ४५ ॥
कस्त्वं मत्स्योदरस्थश्च देवो यक्षोऽथ मानुषः ॥
कथं जीवसि देहांतर्गतो मम वद प्रभो ॥ ४६ ॥
॥ मत्स्य उवाच ॥ ॥
अहं मत्स्योदरे क्षिप्तः समुद्रे क्षीरसंभवे ॥
मात्रा तु पितृवाक्येन नायं मम कुलान्वितः ॥४७॥
कुलक्षयभयात्तेन जातं स्वकुलनाशनम् ॥
गंडांतयोगजनितो बालो न गृहकर्मकृत् ॥ ४८ ॥
इति मात्रा दुःखितया निरस्तः शृणु वंशजः ॥
झषेणापि गृहीतोऽस्मि कालो मेऽत्र महानभूत् ॥ ४९ ॥
तव वाक्यामृतैरेभिर्ज्ञानयोगो महानभूत् ॥
तेन त्वं सकलो ज्ञातो मया मूर्तोऽथ मूर्त्तगः। ॥६.२६३.५०॥।
अनुज्ञां मम देवेश देहि निष्क्रमणाय च ॥
यथाऽहं पितृपो ब्रह्मन्भवान्याश्चापि लक्ष्यते ॥ ५१ ॥
॥ हर उवाच ॥ ॥ विप्रोऽसि सुतरूपोऽसि पूज्योस्यासि बभाषतः ॥
बहिर्निष्क्रम वेगेन स्तंभितोऽसि महाझषः ॥ ५२ ॥
ततोऽसौ शिरसा जात उत्क्लेशान्मत्स्ययोजितः ॥
ततो हि विकृतं वक्त्रं क्षणाद्बहिरुपागतः ॥ ५३ ॥
रूपवान्प्रतिमायुक्तो मत्स्यगंधेन संयुतः ॥
सोमकांतिसमस्तत्र ह्यभवद्दिव्यगंधभाक् ॥ ८५४ ॥
उमापि प्रणतं चामुं सुतं स्वोत्संगभाजनम् ॥
चकार तस्य नामापि हरः परमहर्षितः ॥ ८९५ ॥
यस्मान्मत्स्योदराज्जातो योगिनां प्रवरो ह्ययम् ॥
तस्मात्तु मत्स्य नाथेति लोके ख्यातो भविष्यति ॥ ५६ ॥
अच्छेद्यः स्यान्नरतनुर्ज्ञानयोगस्य पारगः ॥
निर्मत्सरोऽपि निर्द्वंद्वो निराशो ब्रह्मसेवकः ॥ ५७ ॥
जीवन्मुक्तश्च भविता भुवनानि चतुर्दश ॥
इत्युक्तश्च महेशानं प्रणमंश्च पुनःपुनः ॥
महेश्वरेण सहितो मंदराचलमाययौ ॥ ५८ ॥
॥ ब्रह्मोवाच ॥ ॥
कृत्वा प्रदक्षिणं देवीं स्कन्दमालिंग्य सोऽगमत् ॥ ५९ ॥
ततः सा पार्वती हृष्टा प्राप्य ज्ञानमनुत्तमम् ॥
एवं सा परमां सिद्धिं प्रणवस्यप्रभा जनम् ॥ ६.२६३.६० ॥
सा प्राप्य जगतां माता द्वादशाक्षरजांबुना ॥
इमां मत्स्येन्द्रनाथस्य चोत्पत्तिं यः शृणोति च ॥ ६१ ॥
चातुर्मास्ये विशेषेण सोऽश्वमेधफलं लभेत्॥६२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाह्स्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये मत्स्येन्द्रनाथोत्पत्तिकथनं नाम त्रिषष्ट्युत्तरद्विशततमोऽध्यायः॥२६३॥
खण्डः ६ (नागरखण्डः) — Adhyāya 264
ब्रह्मोवाच॥
कार्तिकेयश्च पार्वत्याः प्राणेभ्यश्चातिवल्लभः॥
संक्रीडति समीपस्थो नानाचेष्टाभिरुद्यतः॥१॥
रक्तकांतिर्महातेजाः षण्मुखोऽद्भुत विक्रमः॥
क्वचिद्गायति चात्यर्थं क्वचिन्नृत्यति स्वेच्छया॥२॥
मातरं पितरं दृष्ट्वा विनयावनतः क्वचित्॥
क्वचिच्च गंगापुलिने सिकतालेपनाकृतिः॥३॥
गणैः सह विचिन्वानो विविधान्वनभूरुहान्॥
एवं प्रक्रीडितस्तस्य दिवसाः पंच जज्ञिरे॥४॥
ततो देवा महेन्द्राद्यास्तारकत्रासविद्रुताः॥
स्तुवन्तः शंकरं सर्वे तारकस्य जिघृक्षया॥५॥
चक्रुः कुमारं सेनान्यं जाह्नव्यां स्वगणैः सुराः॥
सस्वनुर्देववाद्यानि पुष्पवर्षं पपात ह॥६॥
वह्निस्तु स्वां ददौ शक्तिं हिमवान्वाहनं ददौ॥
सर्वदेवसमुद्भूतगणकोटिसमावृतः॥७॥
प्रणम्य मुनिसंघेभ्यः प्रययौ रिपुविग्रहे॥
ताम्रवत्यां नगर्यां च शंखं दध्मौ प्रतापवान्॥८॥
ततस्तारकसैन्यस्य दैत्यदानवकोटयः॥
समाजग्मुस्तस्य पुराच्छंखनादभयातुराः॥९॥
स्ववाहनसमारूढाः संयता बलदर्पिताः॥
देवाः सर्वेऽपि युयुधुः स्कन्दतेजोपबृंहिताः॥६.२६४.१०॥
तदा दानवसैन्यानि निजघान च सर्वशः॥
विष्णुचक्रेण ते छिन्नाः पेतुरुर्व्यां सहस्रशः॥११॥
ततो भग्नाश्च शतशो दानवा निहतास्तदा॥
नद्यः शोणितसंभूता जाता बहुविधामुने॥१२॥
तद्भग्नं दानवबलं दृष्ट्वा स युयुधे रणे॥
बभंज सद्यो देवेशो बाणजालैरनेकधा॥१३॥
शक्तिनायुध्य गंगिन्याश्चिक्षेप कृष्णप्रेरिताः॥
सरथं च सयंतारं चक्रे तं भस्मसात्क्षणात्॥१४॥
शेषाः पातालमगमन्हतं दृष्ट्वाऽथ तारकम्॥
ततो देवगणाः सर्वे शसंसुस्तस्य विक्रमम्॥ १५॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिस्तथाऽभवत्॥
ते लब्धविजयाः सर्वे महेश्वरपुरोगमाः॥ १६॥
सिषिचुः सर्वदेवानां सेनापत्ये षडाननम्॥
ततः स्कंदं समालिंग्य पार्वती हर्षगद्गदा॥१७॥
मांगल्यानि तदा चक्रे स्वसखीभिः समावृता॥
एवं च तारकं हत्वा सप्तमेऽहनि बालकः॥१८॥
मंदराचलमासाद्य पितरौ संप्रहर्षयन्॥
उवाच सकलं स्कन्दः परमानंदनिर्भरः॥१९॥
काले दारक्रियां तस्य चिन्तयामास शंकरः॥
स उवाच प्रसन्नात्मा गांगेयममितद्युतिम्॥६.२६४.२०॥
प्राप्तः कालस्तव विभो पाणिग्रहणसंमतः॥
कुरु दारान्समासाद्य धर्मस्ते पुंससंमतः॥२१।
क्रीडस्व विविधैर्भोगैर्विमानैः सह कामिकैः॥
तच्छ्रुत्वा भगवान्स्कन्दः पितरं वाक्यमब्रवीत्॥
अहमेव हि सर्वत्र दृश्यः सर्वगणेषु च॥
दृश्यादृश्यपदार्थेषु किं गृह्णामि त्यजामि किम्॥२३॥
याः स्त्रियः सकला विश्वे पार्वत्या ताः समा हि मे॥
नराः सर्वेऽपि देवेश भवद्वत्तान्विलोकये॥२४॥
त्वं गुरुर्मां च रक्षस्व पुनर्नरकमज्जनात्॥
येन ज्ञातमिदं ज्ञानं त्वत्प्रसादादखंडितम्॥२५॥
पुनरेव महाघोरसंसाराब्धौ निमज्जये॥
दीपहस्तो यथा वस्तु दृष्ट्वा तत्करणं त्यजेत्॥२६॥
तथा ज्ञानमधिप्राप्य योगी त्यजति संसृतिम्॥
ज्ञात्वा सर्वगतं ब्रह्म सर्वज्ञ परमेश्वर॥२७॥
निवर्त्तंते क्रियाः सर्वा यस्य तं योगिनं विदुः॥
विषये लुब्धचित्तानां वनेऽपि जायते रतिः॥२८॥
सर्वत्र समदृष्टीनां गेहे मुक्तिर्हि शाश्वती॥
ज्ञानमेव महेशान मनुष्याणां सुदुर्लभम्॥२९॥
लब्धं ज्ञानं कथमपि पंडितो नैव पातयेत्॥
नाहमस्मि न माता मे न पिता न च बांधवः॥६.२६४.३०॥
ज्ञानं प्राप्य पृथक्भावमापन्नो भुवनेष्वहम्॥
प्राप्यं भागमिदं दैवात्प्रभावात्तव नार्हसि॥३१॥
वक्तुमेवंविधं वाक्यं मुमुक्षोर्मे न संशयः॥
यदाग्रहपरा देवी पुनःपुनरभाषत॥३२॥
तदा तौ पितरौ नत्वा गतोऽसौ क्रौञ्चपर्वतम्॥
तत्राश्रमे महापुण्ये चचार परमं तपः॥३३॥
जजाप परमं ब्रह्म द्वादशाक्षरबीजकम्॥
पूर्वं ध्यानेन सर्वाणि वशीकृत्येन्द्रियाणि च॥३४॥
ममतां संवियुज्याथ ज्ञानयोगमवाप्तवान्॥
सिद्धयस्तस्य निर्विघ्ना अणिमाद्या यदाऽऽगताः॥३५॥
तदा तासां गणा क्रुद्धो वाक्यमेतदुवाच ह॥
ममापि दु्ष्टभावेन यदि यूयमुपागताः॥३६॥
तदास्मत्समशांतानां नाभिभूतिं करिष्यथ॥
एवं ज्ञात्वा महेशोऽपि यतो ज्ञानमहोदयम्॥३७॥
मत्तोऽपि ज्ञानयोगेनस्कन्दोऽप्यधिकभावभृत्॥
विस्मयाविष्टहृदयः पार्वतीमनुशिष्टवान्॥३८॥
पुत्रशोकपरां चोमां शुभैर्वाक्यामृतैर्हरः॥
चातुर्मासस्य माहात्म्यं सर्वपापप्रणाशनम्॥३९॥
महेश्वरो वा मधुकैटभारिर्हृद्याश्रितो ध्यानमयोऽद्वितीयः॥
अभेदबुद्ध्या परमार्तिहंता रिपुः स एवातिप्रियो भवेत्ततः॥६.२६४.४०॥
सूत उवाच॥
एतद्वः कथितं विप्राश्चातुर्मास्यसमुद्भवम्॥
माहात्म्यं विस्तरेणैव किमन्यच्छ्रोतुमिच्छथ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तारकासुरवधो नाम चतुःषष्ट्युत्तरद्विशततमोऽध्यायः॥२६४॥
खण्डः ६ (नागरखण्डः) — Adhyāya 265
ऋषय ऊचुः॥
प्रभूतानि त्वयोक्तानि व्रतानि नियमास्तथा॥
प्रसुप्ते पुंडरीकाक्षे येषां संख्या न विद्यते॥१॥
अशक्त्या हि शरीरस्य नियमानां कथं चरेत्॥
व्रतं हि सुकुमारांगो दानैर्वापि वदस्व नः॥२॥
सूत उवाच॥
अशक्तो नियमं कर्तुं सुकुमारो भवेत्तु यः॥
तेन तत्र प्रकर्तव्यं विख्यातं भीष्मपंचकम्॥३॥
कार्त्तिकस्य सिते पक्ष एकादश्यां समाहितः॥
प्रातरुत्थाय विप्रेंद्र कर्तव्यं दंतधावनम्॥४॥
ततस्तु नियमं कुर्याद्वासुदेवपरायणः॥
पूर्वोक्तानां च सर्वेषां नियमानां द्विजोत्तमाः॥५॥
उपवासः प्रकर्तव्यस्तस्मिन्नहनि भक्तितः॥
अशक्त्या वा शरीरस्य हेमं दद्यात्स्वशक्तितः॥६॥
ब्राह्मणाय हविष्यान्नं दातव्यं वैष्णवैर्नरैः।
एवं पञ्चदिनं यावत्कर्तव्यं व्रतमुत्तमम्॥७॥
पूजनीयो हृषीकेशो जलशायिस्वरूपधृक्॥
गंधैर्धूपैश्च नैवेद्यै रात्रिजागरणैरपि॥८॥
षष्ठेऽहनि ततो जाते पूजयेद्ब्राह्मणोत्तमान्॥
तांश्च वस्त्रैर्हिरण्येन मिष्टान्नेन प्रभक्तितः॥९॥
ततः कृतांजलिर्भूत्वा याचयेद्ब्राह्मणोत्तमान्॥
सर्वे मे नियमाः प्राप्ता युष्माकं च प्रसादतः॥६.२६५.१०॥
ततस्तैरपि वक्तव्यं चतुर्मासीसमुद्भवम्॥
व्रतानां नियमानां च व्रतं भूयात्तवाखिलम्॥११॥
ततो विसर्ज्य तान्विप्रान्भोजनं स्वयमाचरेत्॥
सर्वाहारेण राजेंद्र पंचगव्यप्रपूर्वकम्॥१२॥
यः करोति व्रतं तस्य फलं स्याद्बहुपुण्यदम्॥
यः पुनर्व्रतमेतद्धि कुरुते दिनपंचकम्॥
उपवासपरस्तस्य फलं शतगुणं भवेत्॥१३॥
एकादश्यां हरेः पूजां जातिपुष्पैः समाचरेत्॥
द्वादश्यां बिल्वपत्रेण शतपत्र्या ततः परम्॥
त्रयोदश्यां चतुर्दश्यां सुरभ्या भक्तिपूर्वकम्॥१४॥
भृंगराजेन पुण्येन पौर्णमास्यां प्रपूजयेत्॥
प्रतिपद्दिवसे सर्वैः पूजनीयो जनार्दनः॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्॥१५॥
प्रतिपद्दिवसे सर्वान्प्राशयेत्कायशुद्धये॥
अगरं गुग्गुलं चैव कर्पूरं तगरं त्वचा॥१६॥
एकैकं निर्वपेद्धूपं प्रतिपद्दिवसेऽखिलम्॥
जलशायी जगद्योनिः शेषपर्यंकमाश्रितः॥१७॥
अर्घं गृह्णातु मे देवो भीष्मपंचकसिद्धये॥
मंत्रेणानेन दातव्यो ह्यर्घो देवस्य भक्तितः॥१८॥
शंखतोयं समादाय सपुष्पफलचंदनैः॥
नैवेद्यं परमान्नं च स्वशक्त्या निर्वपेद्द्विजाः॥१९॥
एतद्वः सर्वमाख्यातं व्रतं वै भीष्मपंचकम्॥
संप्राप्यते फलं चैव व्रतानां नियमैः सह॥६.२६५.२०॥
ऋषय ऊचुः॥ यदेतद्भवता प्रोक्तमशून्यशायिनीव्रतम्॥
इन्द्रेण यत्कृतं पूर्वं तुष्ट्यर्थं चक्रपाणिनः॥
प्रसुप्तस्य महाभाग फलं चैव प्रकीर्तितम्॥२१॥
कस्मिन्काले प्रकर्तव्यं केनैव विधिना तथा॥
तस्मात्सूत महाभाग विधानं विस्तराद्वद॥२२॥
सूत उवाच॥
श्रावण्यां समतीतायां द्वितीयादिवसे स्थिते॥
प्रातरुत्थाय विप्रेन्द्रा नक्षत्रे विष्णुदैवते॥
पापिष्ठैः पतितैर्म्लेच्छैः संभाषं नैव कारयेत्॥२३॥
ततो मध्याह्नसमये स्नात्वा धौतांबरः शुचिः॥
जलशायिनमासाद्य मंत्रेणानेन पूजयेत्॥२४॥
श्रीवत्सधारिञ्छ्रीकांत श्रीधामञ्छ्रीपतेऽव्यय॥
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम्॥२५॥
पितरो मा प्रणश्यंतु मा प्रणश्यंतु चाग्नयः॥
देवता मा प्रणश्यंतु मत्तो दांपत्यभेदतः॥२६॥
लक्ष्म्या वियुज्यसे कृष्ण न कदाचिद्यथा भवान्॥
तथा कलत्रसम्बन्धो देव मा मे प्रणश्यतु॥२७॥
लक्ष्म्या ह्यशून्यं शयनं यथा ते देव सर्वदा॥
शय्या ममाप्यशून्यास्तु तथा जन्मनि जन्मनि॥ २८॥
एवमर्थं निवेद्याथ ततो विप्रं प्रपूजयेत्॥
यथाशक्त्या द्विजश्रेष्ठा वित्तशाठ्यं विवर्जयेत्॥२९॥
एवं भाद्रपदे मासि आश्विने कार्तिके तथा॥
पूजयेच्च जगन्नाथं जलशायिनमच्युतम्॥६.२६५.३०॥
अक्षारभोजनं कार्यं विशेषात्तैलवर्जितम्॥
समाप्तौ च ततो दद्याद्ब्राह्मणेंद्राय भक्तितः॥३१॥
फलव्रीहिसमोपेतां शय्यां वस्त्रसमन्विताम्॥
सुवर्णं दक्षिणायां च तथैव च फलं लभेत्॥३२॥
एवं यः कुरुते सम्यग्व्रतमेतत्समाहितः॥
तस्य तुष्टिपथं याति जलशायी जगद्गुरुः॥३३॥
यथा शक्रस्य संतुष्टः पूर्वमेव द्विजोत्तमाः॥
अशून्यं शयनं तस्य भवेज्जन्मनि जन्मनि॥३४॥
अष्टमासकृतं पापमज्ञानाज्ज्ञानतोऽपि वा॥
अशून्यशयनात्सर्वं व्रतान्नाशं नयेत्पुमान्॥३५॥
पुत्रहीना च या नारी काकवन्ध्या च या भवेत्॥
विधवा या करोत्येतद्व्रतमेवं समाहिता॥
तस्यास्तुष्टो जगन्नाथः कायशुद्धिं प्रयच्छति॥३६॥
न तस्या जायते बुद्धिः कदाचित्पापसंभवा॥
न कामोपहता बुद्धिः कथंचिदपि जायते॥३७॥
कुमारिकापि या सम्यग्व्रतमेतत्समाचरेत्॥
सा पतिं लभते विप्राः कुलीनं रूपसंयुतम्॥३८॥
निष्कामः कुरुते यस्तु व्रतमेतत्समाहितः॥
चातुर्मास्युद्भवानां च नियमानां फलं लभेत्॥३९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्याने अशून्यशयनव्रतमाहात्म्यवर्णनं नाम पञ्चषष्ट्युत्तरद्विशततमोऽध्यायः॥२६५॥
खण्डः ६ (नागरखण्डः) — Adhyāya 266
ऋषय ऊचुः॥
श्रुतानि मुख्यतीर्थानि तत्क्षेत्रप्रोद्भवानि च॥
येषु स्नातो नरः स्म्यक्सर्व तीर्थफलं लभेत्॥१॥
लिंगानि च महाभाग तत्र मुख्यानि यानि च॥
यैर्दृष्टैर्लभ्यते श्रेयः सर्वेषां तानि नो वद॥२॥
सूत उवाच॥
तत्र च मंकणाख्यं तु लिंगमस्ति सुशोभनम्॥
तथा सिद्धेश्वरं नाम गौतमेश्वरसंयुतम्॥३॥
कपालेश्वमन्यच्च चतुर्थं परिकीर्तितम्॥
एकैकं सर्वलिंगानां फलं यच्छत्यसंशयम्॥
यथोक्तविधिना सम्यग्यथोक्तं द्विजसत्तमाः॥४॥
तत्र तावत्प्रवक्ष्यामि मंकणेश्वरजं फलम्॥
मकाराक्षरयुक्तस्य लिंगस्यात्र द्विजोत्तमाः॥५॥
शिवरात्रिं समासाद्य यस्तस्य पुरुषो द्विजाः॥
कुर्याज्जागरणं रात्रौ निराहारः स्थितः शुचिः॥६॥
सर्वलिंगोद्भवं चैव फलं दर्शनसंभवम्॥
जायते नात्र संदेह इत्युवाच हरः स्वयम्॥७॥
ऋषय ऊचुः॥
शिवरात्रिर्महाभाग कस्मिन्काले तु सा भवेत्॥
विध्यानं चैव माहात्म्यं सर्वं नो विस्तराद्वद॥८॥
सूत उवाच॥ माघस्य कृष्णपक्षे या तिथिश्चैव चतुर्दशी॥
तस्या रात्रिः समाख्याता शिवरात्रिसमुद्भवा॥९॥
तस्यां सर्वेषु लिंगेषु सदा संक्रमते हरः॥
विशेषात्सर्वपुण्येषु ख्यातेयं मंकणेश्वरे॥६.२६६.१०॥
ऋषय ऊचुः॥
शिवरात्रिः कथं जाता केनैषा च विनिर्मिता॥
कस्माद्बहुफला जाता सर्वं नो विस्तराद्वद॥११॥
सूत उवाच॥
अत्र वः कीर्तयिष्यामि पूर्ववृत्तं कथानकम्॥
भर्तृयज्ञस्य संवादमश्वसेनस्य भूपतेः॥१२॥
आनर्ताधिपतिः पूर्वमश्वसेन इति स्मृतः॥
आसीद्धर्मपरो नित्यं वेदवेदागंपारगः॥१३॥
भर्तृयज्ञः पुरा तेन इदं पृष्टः कुतूहलात्॥
कलिकालं समुद्वीक्ष्य वर्धमानं दिनेदिने॥१४॥
अश्वसेन उवाच॥
कलिकालकृते किंचिद्व्रतं मे वद सन्मुने॥
स्वल्पायासं महत्पुण्यं सर्वपापप्रणाशनम्॥१५॥
स्वल्पायुषः सदा मर्त्या ब्रह्मन्कृतयुगे पुरा॥
त्रेतायां द्वापरे चैव किमु प्राप्ते कलौ युगे॥१६।
तस्माद्वर्षव्रतं त्यक्त्वा किंचिदेकाह्निकं वद॥१७॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्॥
न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम्॥१८।
तस्य तद्वचं श्रुत्वा भर्तृयज्ञ उदारधीः॥
अब्रवीत्सुचिरं ध्यात्वा ज्ञात्वा दिव्येन चक्षुषा॥ १९॥
अस्ति राजन्व्रतं पुण्यं शिवरात्रीतिसंज्ञितम्॥
एकाह्निकं महाराज सर्वपातकनाशनम्॥६.२६६.२०॥
तत्र यद्दीयते दानं हुतं जप्तं तथैव च॥
सर्वमक्षयतां याति रात्रि जागरणे कृते॥२१॥
अपुत्रो लभते पुत्रानधनो धनमाप्नुयात्॥
स्वल्पायुर्दीर्घमायु्ष्यं शत्रूणां चैव संक्षयम्॥२२॥
यंयं काममभिध्यायन्व्रतमेतत्समाचरेत्॥
तंतं समाप्नुयान्मर्त्यो निष्कामो मोक्षमाप्नुयात्॥२३॥
कार्पण्येनाथ वित्तेन यदि कुर्यात्प्रजागरम्॥
तथा वर्षकृतात्पापान्मुच्यते नात्र संशयः॥२४॥
यानि कान्यत्र लिंगानि स्थावराणि चराणि च॥
तेषु संक्रमते देवस्तस्यां रात्रौ यतो हरः॥२५॥
शिवरात्रिस्ततः प्रोक्ता तेन सा हरवल्लभा॥
प्रार्थितः स सुरैः सर्वैर्लोकानुग्रहकाम्यया॥२६॥
भगवन्कलिकालेऽस्मिन्सर्वपापसमन्विते॥
वर्षपापविशुद्ध्यर्थं दिनमेकं क्षितौ व्रज॥
येन त्वत्पूजया पूता मर्त्याः शुद्धिमवाप्नुयुः॥२७॥
ततो दत्तं हुतं तेषामस्माकमुपतिष्ठति॥
यदुच्छिष्टं नरैर्दत्तं तद्वृथा जायतेऽखिलम्॥२८॥
कलिकाले न चास्माकं किंचिदेवोपतिष्ठति॥
अशुद्धैर्मानवैर्दत्तं प्रभूतमपि शंकर॥२९॥
श्रीभगवानुवाच॥
माघमासस्य कृष्णायां चतुर्दश्यां सुरेश्वर॥
अहं यास्यामि भूपृष्ठे रात्रौ नैव दिवा कलौ॥६.२६६.३०॥
लिंगेषु च समस्तेषु चलेषु स्थावरेषु च॥
संक्रमिष्याम्यसंदिग्धं वर्षपापविशुद्धये॥३१॥
तस्यां रात्रौ हि मे पूजां यः करिष्यति मानवः॥
मंत्रैरेतैः सुरश्रेष्ठ विपाप्मा स भविष्यति॥३२॥
ॐ सद्योजाताय नमः॥
ॐ वामदेवाय नमः॥
ॐ घोराय नमः॥
ॐ तत्पुरुषाय नमः॥
ॐ ईशानाय नमः॥
एवं वक्त्राणि संपूज्य गन्धपुष्पानुलेपनैः॥
वस्त्रैर्दीपैश्च नैवेद्यैस्ततोऽर्घं संप्रदापयेत्॥
मंत्रेणानेन संपूज्य मां ध्यात्वा मनसि स्थितम्॥३३।
गौरीवल्लभ देवेश सर्वाद्य शशिशेखर॥
वर्षपापविशुद्ध्यर्थमर्घो मे प्रतिगृह्यताम्॥३४।
ततः संपूजयेद्विप्रं भोजनाच्छादनादिभिः॥
दत्त्वाथ दक्षिणां तस्मै वित्तशाठ्यं विवर्जयेत्॥३५॥
धर्माख्यानकथाभिश्च सलास्यैस्तांडवैस्तथा॥३६॥
एवं करिष्यते योऽत्र व्रतमेतत्सुरेश्वर॥
वर्षपापविशुद्ध्यर्थं प्रायश्चित्तं भविष्यति॥३७॥
तच्छ्रुत्वा त्रिदशाः सर्वे प्रणम्य शशिशेखरम्॥
संप्रहृष्टा नरश्रेष्ठ स्वानि स्थानानि भेजिरे॥३८॥
प्रेषयामासुरुर्व्यां च नारदं मुनिसत्तमम्॥
प्रबोधनाय लोकानां शिवरात्रिकृते सदा॥३९॥
सोऽपि गत्वा धरापृष्ठं श्रावयामास सर्वतः॥
शिवरात्रेस्तु माहात्म्यं यदुक्तं शूलपाणिना॥ ६.२६६.४०॥
ततः प्रभृति संजाता शिवरात्रिर्धरातले॥
सर्वकामप्रदा पुण्या सर्वपातकनाशिनी॥४१॥
अत्र वः कीर्तयिष्यामि पुरावृत्तं कथानकम्॥
यद्वृत्तं नैमिषारण्ये लुब्धकस्यात्र कस्यचित्॥४२॥
तत्रासील्लुब्धकः कश्चिज्जातिमात्रान्न कर्मतः॥
व्यसेनानाभिभूतात्मा परवित्तापहारकः॥४३।
न कदाचिद्व्रतं तेन न दत्तं न जपः कृतः॥
केवलं च हृतं वित्तं लोकानां छलसंश्रयात्॥४४॥
कस्यचित्त्वथ कालस्य शिवरात्रिः समागता॥
माघमासेऽसितेपक्षे सर्वपातकनाशिनी॥४५॥
तत्रास्त्यायतनं पुण्यं देवदेवस्य शूलिनः॥
तत्र जागरणं रात्रौ प्रारब्धं बहुभिर्ज्जनैः॥४६॥
नारीभिर्नरशार्दूल भूषिताभिः सुभूषणैः॥
अथासौ चिंतयामास चोरो दृष्ट्वाथ जागरम्॥४७॥
गच्छामि यदि कांचित्स्त्रीं भूषणैः परिभूषिताम्॥
निष्क्रांतां बाह्यतश्चास्य प्रासादस्याप्नुयामहम्॥४८॥
ततो हत्वा समादाय भूषणानि व्रजाम्यहम्॥४९।
एवं निश्चित्य मनसा गतस्तस्य समीपतः।
कर्णिकारं समारुह्य स्थितो गुप्तस्ततो हि सः॥६.२६६.५०॥
वीक्षमाणो दिशः सर्वा नारीनिष्क्रामणोद्भवाः॥
चौरकर्मप्रवृत्तस्य शीतार्तस्य विशेषतः॥५१॥
अल्पापि निद्रा नायाता न च नारी विनिर्गता॥
तस्याधस्तात्ततो लिंगमभवत्तु धरोद्भवम्॥
गत्वा च पत्राण्यादाय प्रचिक्षेपास्य चोपरि॥५२॥
एतस्मिन्नेव काले तु प्रोद्गतस्तीक्ष्णदीधितिः॥
असतीनां च चौराणां कामिनामसुखावहः॥ ५३॥
ततो नराश्च नार्यश्च जग्मुः स्वंस्वं निकेतनम्॥
उपचारपराः शांताः प्रणिपत्य महेश्वरम्॥५४॥
सोऽपि चौरो निराशश्च क्षुत्क्षामः शीतविह्वलः॥
अवतीर्य द्रुमात्तस्मादुपायं कंचिदाश्रितः॥५५॥
ततः कालेन महता पंचत्वं समपद्यत॥
जातो जातिस्मरः सोऽथ दशार्णाधिपतेर्गृहे॥५६॥
उपवासप्रभावेन बलादपि प्रजागरात्॥
शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया॥५७॥
ततो राज्यं समासाद्य पितृपैतामहं महत्॥
कारयामास लिंगस्य प्रासादं तस्य शोभनम्॥५८॥
वर्षेवर्षे समाश्रित्य शिवरात्रौ प्रजागरात्॥
उपवासपरोभूत्वा गीतवादित्रनिःस्वनैः॥५९॥
धर्माख्यानकथाभिश्च गीतध्वनिभिरेव च॥
पूर्वोक्तमंत्रैः संपूज्य अर्घं दत्त्वा विधानतः॥
संतर्प्य ब्राह्मणान्कामैर्जगाम निलयं निजम्॥६.२६६.६०॥
कस्यचित्त्वथ कालस्य शिवरात्रौ समागताः॥
प्रासादे तत्र मुनयः प्राप्ता शाण्डिल्यपूर्वकाः॥६१॥
शांडिल्योऽथ भरद्वाजो यवक्रीतोऽथ गालवः॥
पुलस्त्यः पुलहो गार्ग्यस्तथान्ये बहवो नृप॥६२॥
सोऽपि राजा बृहत्सेनो दशार्णाधिपतेः सुतः॥
संप्राप्तो जागरं कर्तुं तस्य लिंगस्य चाग्रतः॥६३॥
पूजयित्वा ततो देवं प्रणिपत्य मुनीश्वरान्॥
उपविष्टस्तस्य चाग्रे ह्यनुज्ञातो द्विजोत्तमैः॥६४॥
ततस्तस्याग्रतश्चक्रुः कथास्ते बहुधा नृप॥
राजर्षीणामतीतानां ब्रह्मर्षीणां विशेषतः॥६५॥
अथ कस्मिन्कथांते स तैः पृष्टो ब्रह्मवादिभिः॥
कौतुकाविष्टचित्तैश्च विस्मयोत्फुल्ललोचनैः॥६६॥
राजन्पृच्छामहे सर्वे वयं कौतूहलान्विताः॥
यदि ब्रवीषि नः सत्यं देवतायतने स्थितः॥६७॥
राजोवाच॥
यदि ज्ञास्यामि विप्रेंद्राः कथयिष्याम्यसंशयम्॥
देवस्याग्रे च संपृष्टः सत्येनात्मानमालभे॥६८॥
ऋषय ऊचुः॥
पुष्कलानि परित्यज्य कस्माद्दानान्यनेकशः॥
जागरं कर्तुकामोऽत्र स्वदेशादुपतिष्ठसि॥६९॥
वर्षेवर्षे सदा प्राप्ते नूनं त्वं वेत्सि कारणम्॥
रहस्यं यदि ते न स्यात्तद्ब्रवीहि नराधिप॥६.२६६.७०॥
सूत उवाच॥
सवैलक्ष्यं स्मितं कृत्वा ततः प्राह स दुर्मनाः॥
रहस्यं परमं ह्येतदवाच्यं हि द्विजोत्तमाः॥७१॥
तथापि च वदिष्यामि पृष्टो देवाग्रतो यतः॥७२॥
ततः स कथयामास पूर्वदेहसमुद्भवम्॥
मलिम्लुचस्ततो नूनं शिवरात्रिसमुद्भवम्॥७३॥
चौर्यभावेन देवस्य पूजनं जागरस्तथा॥
उपवासं विना तेन शिवरात्रौ पुरा कृतम्॥७४॥
जातिस्मरणसंयुक्तं जन्मजातं यथातथम्॥
ततस्ते मुनयः सर्वे साधुवादान्पृथग्विधान्॥७५॥
नृपोत्तमस्य राजर्षेर्दत्त्वाशीर्भिः समन्वितान्॥
रात्रौ जागरणं कृत्वा प्रजग्मुस्ते निजाश्रमान्॥७६॥
सोऽपि राजासमभ्यर्च्य तं देवं तान्द्विजोत्तमान्॥
जगाम स्वपुरं पश्चात्कृत्वा रात्रौ प्रजागरम्॥७७॥
भर्तृयज्ञ उवाच॥
शिवरात्रिः समुत्पन्ना एवं भूमितले नृप॥
एवंविधं च माहात्म्यं तस्यास्ते परिकीर्तितम्॥७८॥
तस्मात्सर्वप्रयत्नेन कार्या स नृपसत्तम॥
कलिकाले विशेषेण य इच्छेद्भूतिमात्मनः॥७९॥
एषा कृता दिलीपेन नलेन नहुषेण च॥
मान्धात्रा धुंधुमारेण सगरेण युयुत्सुना॥६.२६६.८०॥
तथान्यैश्च विशेषेण सम्यक्छ्रद्धासमन्वितैः॥
प्राप्ताश्च हृद्गताः कामा ये दिव्या ये च मानुषाः॥८१॥
तथा चैव तु सावित्र्या श्रिया देव्या तु सीतया॥
अरुंधत्या सरस्वत्या मेनया रंभया तथा॥८२॥
इंद्राण्याथ दृषद्वत्या स्वधया स्वाहया तथा॥
रत्या प्रीत्या प्रभावत्या गायत्र्या च नृपोत्तम॥
सर्वाः प्राप्ताः प्रियान्कामानतिसौभाग्यसंयुतान्॥८३॥
यश्चैतां पठते व्युष्टिं भावेन शिवसंनिधौ।
दिनजात्पातकात्सोऽपि मुच्यते नात्र संशयः॥८४॥
नास्ति गंगासमं तीर्थं नास्ति देवो हरोपमः॥
शिवरात्रेः परं नास्ति तपः सत्यं मयोदितम्॥८५॥
सर्वरत्नमयो मेरुः सर्वाश्चर्यमयं तपः॥
सर्वधर्ममयी राजञ्छिवरात्रिः प्रकीर्तिताः॥८६॥
गरुडः पक्षिणां यद्वन्नदीनां सागरो यथा।
प्रधानः सर्वधर्माणां शिवरात्रिस्तथोत्तमा॥८७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शिवारात्रिमाहात्म्यवर्णनं नाम षट्षष्ट्युत्तरद्विशततमोऽध्यायः॥२६६॥
खण्डः ६ (नागरखण्डः) — Adhyāya 267
सूत उवाच॥
तस्मादेषा महाराज शिवरात्रिर्विपश्चिता॥।
कर्तव्या पुरुषेणात्र लोकद्वयमभीप्सुना॥१॥
आनर्त उवाच॥
मंकणेश्वरमाहात्म्यं मया विस्तरतः श्रुतम्॥
शिवरात्रिसमोपेतं यत्त्वया परिकीर्तितम्॥ २॥
सांप्रतं वद मे कृत्स्नं सिद्धेश्वरसमुद्भवम्॥
विस्तरेण महाभाग परं कौतूहलं हि मे॥३॥
भर्तृयज्ञ उवाच॥
सिद्धेश्वर इति ख्यातो महादेवो महीपते॥
तस्योत्पत्तिस्त्वया पूर्वं श्रुतात्र वदतो मम॥४॥
सांप्रतं तत्फलं वच्मि तस्मिन्दृष्टे तु दानजम्॥
यत्फलं जायते नॄणां चक्रवर्तित्व संभवम्॥५॥
तुलापुरुषदानं च तत्र राजन्प्रशश्यते॥
य इच्छेच्चक्रवर्तित्वं समस्ते धरणीतले॥६॥
आनर्त उवाच॥
तुलापुरुषदानस्य यो विधिः परिकीर्तितः॥
तं मे सर्वं समाचक्ष्व विस्तरेण महामुने॥७॥
भर्तृयज्ञ उवाच॥
चंद्रसूर्योपरागे वा अयने विषुवे तथा॥
तीर्थे वा पुरुषश्रेष्ठ तुलापुरुषसंभवम्॥८॥
प्रशंसंति विधिं सम्यक्प्राप्ते वा चेंदुसंक्षये॥
ब्राह्मणानां सुदांतानामनुष्ठानवतां सताम्॥९॥
वेदाध्ययनयुक्तानां निर्दोषाणां च पार्थिव॥
विभज्य स भवेद्देयो नैकस्य च कथंचन॥६.२६७.१०॥
शुचौ देशे समे पुण्ये पूर्वोत्तरप्लवे शुभे॥
मंडपं कारयेद्विद्वान् रम्यं ष़ोशहस्तकम्॥
तन्मध्ये कारयेद्वेदिं चतुर्हस्त प्रमाणतः।
यजमानस्य हस्तेन हस्तैकेन समुच्छ्रिताम्॥१२॥
चतुर्हस्तानि कुण्डानि चतुर्दिक्षु प्रकल्पयेत ॥
एकहस्तप्रमाणानि आयामव्यासविस्तरात्॥
ऐशान्यामपरां वेदिं हस्तमात्रां न्यसेच्छुभाम्॥
रत्निमात्रोत्थितां चैव ग्रहांस्तत्र प्रकल्पयेत्॥ १४॥
युग्मांश्च ऋत्विजः कार्याश्चतुर्दिक्षु यथाक्रमम्॥
बह्वृचोऽध्वर्यश्चैव च्छंदोगाथर्वणावपि॥ १५॥
तूष्णीं तु देवताहोमस्तैः कार्यः सुसमाहितैः॥
तल्लिंगैर्नृपतेमंत्रैः स्वशक्त्या जप एव च॥१६॥
एकहस्तप्रविष्टं तु चतुर्हस्तोच्छ्रितं तथा॥
स्तंभद्वयं तु कर्तव्यं वेदियाम्योत्तरे स्थितम्॥१७॥
तन्मध्ये सुशुभं काष्ठं स्तंभजात्यं दृढं न्यसेत्॥
चन्दनः खदिरो वाथ बिल्वोवाऽश्वत्थ एव वा॥ १८॥
तिंदुको देवदारुर्वा श्रीपर्णी वा वटोऽथवा॥
अष्टौ वृक्षाः शुभाः शस्ताः स्तंभार्थं नृपसत्तम्॥१९॥
शिक्यद्वय समोपेतां तन्मध्ये विन्यसेत्तुलाम्॥
स्नातः शुक्लांबरधरः शुक्लमाल्यानुलेपनः॥६.२६७.२०।
पूरयित्वा समंताच्च लोकपालान्यथाक्रमम्॥
स्तंभान्संपूजयत्पश्चाद्गन्धमाल्यानुलेपनैः॥२१॥
तुलां च पार्थिवश्रेष्ठ पुण्याहं च प्रकीर्तयेत्॥
यजमानो निजैः सर्वैरायुधैः कायसंस्थितैः॥२२॥
पश्चिमां दिशमास्थाय प्राङ्मुखः श्रद्धयाऽन्वितः॥
कृतांजलिपुटो भूत्वा इमं मंत्रमुदीरयेत्॥२३॥
ब्रह्मणो दुहिता नित्यं सत्यं परममाश्रिता॥
काश्यपी गोत्रतश्चैव नामतो विश्रुता तुला॥२४॥
त्वं तुले सत्यनामासि स्वभीष्टं चात्मनः शुभम्॥
करिष्यामि प्रसादं मे सांनिध्यं कुरु सांप्रतम्॥२५॥
ततस्तस्यां समारुह्य स्वशक्त्या यत्समाहृतम्॥
दानार्थं पूर्वमायोज्यं शिक्येन्यस्मिन्नरोत्तम॥२६॥
सुवर्णं रजतं वाऽथ वस्त्रं चान्यदभीप्सितम्॥
यावत्साम्यं भवेद्राजन्नात्मनोऽभ्यधिकं च वा॥२७॥
ततोऽभीष्टां समासाद्य देवतां शिक्यमाश्रितः॥
उदकं जलमध्ये च तदर्थं प्रक्षिपेद्द्रुतम्॥२८॥
सतिलं सहिरण्यं च साक्षतं विधिपूर्वकम्॥
अवतीर्य ततः सर्वं ब्राह्मणेभ्यो निवेदयेत्॥२९॥
यत्फलं प्राप्यते पश्चात्तदिहैकमनाः शृणु॥६.२६७.३०॥
अजानता जानता वा यत्पापं तु भवेत्कृतम्॥
तत्सर्वं नाशयेन्मर्त्यो दानस्यास्य प्रभावतः॥३१॥
यावन्मात्रं कृतं पापमतीतं नृपसत्तम॥
तावन्मात्रं क्षयं याति तुलापुरुषदानतः॥३२॥
ईश्वराणां समादिष्टं कायक्लेशभयात्मनाम्॥
पुरश्चरणमेतद्धि दानं तौल्यसमुद्भवम्॥३३॥
एतद्दत्तं दिलीपेन कार्तवीर्येण भूपते॥
पृथुना पुरुकुत्सेन तथान्यैरपि पार्थिवैः॥३४॥
एतत्पुण्यं प्रशस्यं च सर्वकामप्रदं नृणाम्।
तुलापुरुषदानं च सर्वोपद्रवनाशनम्॥३५॥
आधयो व्याधयो न स्युर्न वैधव्यं गदोद्भवम्॥
संजायते नृपश्रेष्ठ न वियोगः स्वबन्धुभिः॥
तुलापुरुषदानस्य फलमेतदुदाहृतम्॥३६॥
तुलापुरुषदानस्य प्रदत्तस्य नृपोत्तम॥
न शक्यते कथयितुं फलं यत्स्यात्कलौ युगे॥३७॥
दक्षिणामूर्तिमासाद्य सिद्धेश्वरविभोः पुरः॥
यः प्रयच्छति भूपाल सहस्रगुणितं फलम्॥३८॥
तस्मात्सर्वप्रयत्नेन प्राप्य सिद्धेश्वरं विभुम्॥
तुलापुरुषदानं च कर्तव्यं सुविवेकिना।३९॥
एकत्र सर्वतीर्थानि सर्वाण्यायतनानि च॥
हाटकेश्वरजे क्षेत्रे कथितानि स्वयंभुवा॥६.२६७.४०॥
सिद्धेश्वरः सुरश्रेष्ठ एकत्र समुदाहृतः॥
तस्मिन्दृष्टे तथा स्पृष्टे पूजिते नृपसत्तम॥
सर्वेषां लभते मर्त्यः फलं यत्परिकीर्तितम्॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्रीसिद्धेश्वरमाहात्म्ये तुलापुरुषदानमाहात्म्यवर्णनं नाम सप्तषष्ट्युत्तरद्विशततमोऽध्यायः॥२६७॥
खण्डः ६ (नागरखण्डः) — Adhyāya 268
आनर्त उवाच॥
कर्मणा केन मर्त्ये च नराणां जायते वद॥
चक्रवर्तित्वमखिलं सर्वशत्रुविमर्दनम्॥१॥
भर्तृयज्ञ उवाच॥
दुर्लभं भूमिपालत्वं सर्वपापैर्नराधिप॥
तपोभिर्नियमैर्दानैस्तथान्यैश्च शुभैर्व्रतैः॥ २॥
यः पुनर्भूपतिर्भूत्वा पृथ्वीं दद्याद्धिरण्मयीम्॥
गौतमेश्वरदेवस्य पुरतः श्रद्धयान्वितः॥
चक्रवर्ती भवेन्नूनमेवमाह पितामहः॥ ३॥
मांधाता धुन्धुमारश्च हरिश्चंद्रः पुरूरवाः।
भरतः कार्तवीर्यश्च षडेते चक्रवर्तिनः॥४।
पृथ्वीदानं पुरा कृत्वा गौतमेश्वरसंनिधौ।
दत्त्वा हिरण्मयीं पृथ्वीं सार्वभौमास्ततः स्थिताः॥५॥
आनर्त उवाच॥
भगवन्केन विधिना दातव्या सा वसुन्धरा॥
अहं दास्यामि तां नूनं श्रद्धा मे महती स्थिता॥६॥
भर्तृयज्ञ उवाच॥
कार्या पलशतेनोर्वी वृत्ताकारा नृपोत्तम॥
तदर्धेनाथवा शक्त्या पंचविंशत्पलात्मिका॥७॥
धरादाने महाराज वित्तशाठ्यं विवर्जयेत्॥
नैव पंचपलादर्वाक्प्रदातव्या कथञ्चन॥
लवणेक्षुसुरासर्पिर्दधिदुग्धजलोद्भवाः॥
समुद्राः सप्त चैतांस्तु कक्षायां तत्र दर्शयेत्॥९॥
जंबूप्लक्षकुशक्रौंचशाकशाल्मलिपुष्कराः।
समुद्रान्सरितः सप्त द्वैगुण्येन प्रकल्पयेत्॥६.२६८.१०॥
महेन्द्रो मलयः सह्यो हिमवान्गंधमादनः॥
विंध्यः शृंगी च सप्तैव कल्पयेत्कुलपर्वतान्॥११।.
मध्ये प्रकल्पयेन्मेरुं दिक्षु विष्कम्भपर्वतान्॥
जंबून्यग्रोधनीपांश्च प्लक्षश्चैव तथा द्रुमान्॥१२॥
गंगाद्याः सरितस्तत्र प्राधान्येन प्रकल्पयेत्॥
एवं निर्माप्य वसुधां सर्वां हेममयीं नृप॥१३।.
मंडपं कारयेत्पश्चाद्यथापूर्वं प्रकल्पितम्॥१४॥
कुण्डानि तोरणान्येव ब्राह्मणग्रहपूजने॥
पूर्ववत्सकलं कृत्वा मध्ये वेदिं प्रकल्पयेत्॥१५॥
तत्र संस्थापयेत्पृथ्वीं पंचगव्येन पार्थिव॥
यथोक्तमंत्रैस्तल्लिंगैस्ततः शुद्धोदकेन तु॥१६॥
इमं मे गंगे यमुने पंचनद्यस्त्रिपुष्करम्॥
श्रीसूक्तं पावमानं च हैमीं च तदनंतरम्॥१७॥
स्नानकर्मणि योग्यांश स्वादिष्ठायनमुत्तमम्॥१८॥
एवं संस्नाप्य विधिवद्वासांसि परिधापयेत्॥
युवा सुवासा मंत्रेण सूक्ष्माणि विविधानि च॥१९॥
ये भूतानामधीत्येवं ततः प्रोच्य प्रपूजयेत्॥
धूरसीति च मंत्रेण धूपं दद्यात्समाहितः॥६.२६८.२०॥
अग्निर्ज्योतीति मंत्रेण कुर्यादारार्तिकं ततः॥
अहमस्मीति मंत्रेण सप्तधान्यं प्रकल्पयेत्॥२१॥
एवं कृत्वाऽखिलं तस्या यजमानः सितांबरः॥
पुरः स्थितोंजलिं बद्ध्वा मंत्रानेतानुदाहरेत्॥२२॥
त्वया संधार्यते विश्वं जगदेतच्चराचरम्॥
तव दानं करिष्यामि सांनिध्यं कुरु मेदिनि॥२३॥
शरीरेष्वपि भूतानां त्वं देवि प्रथमं स्थिता॥
ततश्चान्यानि भूतानि जलादीनि वसुन्धरे॥२४॥
ये त्वां यच्छंति ते भूयस्त्वां लभंते न संशयः॥
इह लोके परे चैव पार्थिवं रूपमाश्रिता॥२५॥
एवं स्तुत्वा समादाय तोयं हेमाकृतिं नृप॥
वासुदेवं हृदि स्थाप्य मंत्रेणानेन कल्पयेत्॥२६॥
पातालादुद्धृता येन पृथ्वी सा लोककारिणा॥
अस्या दानेन च सदा प्रीयतां मे जनार्दनः॥२७॥
एवमुच्चार्य तत्तोयं तोयमध्ये परिक्षिपेत्॥
न भूमौ नैव हस्ते च ब्राह्मणस्य नृपोत्तम॥२८॥
ततो विसर्जयेद्देवीं मन्त्रेणानेन भागशः॥
आगता च यथान्यायं पूजिता च यथाविधि॥२९॥
अस्माकं त्वं हितार्थाय यत्रेष्टं तत्र गम्यताम्॥
उस्रा वेदेति मंत्रेण समुच्चार्य ततः परम्॥
ब्राह्मणेभ्यः प्रदातव्या संविभज्य नराधिप॥६.२६८.३०॥
एवं ते सर्वमाख्यातं पृथिवीदानमुत्तमम्।
शृणुयात्पार्थिवो भावी दाता जन्मनिजन्मनि॥३१॥
यो राजा पृथिवीं दद्याद्विधिनानेन पार्थिव॥
राज्यभ्रंशो न वंशेऽपि तस्य संजायते क्वचित्॥३२॥
राज्यभ्रंशसमोपेता ये दृश्यंते महीभुजः॥
न तैर्वसुन्धरा दत्ता ब्राह्मणानां धृतात्मनाम्॥३३॥
तस्मात्सर्वप्रयत्नेन पृथ्वीदानं समाचरेत्॥
न हरेत्परदत्तां च कथंचिदपि मेदिनीम्॥३४॥
एतत्पुण्यं प्रशस्यं च पृथिवीदानमुत्तमम्॥
शृण्वतामपि राजेंद्र तद्देहाद्यघनाशनम्॥३५॥
आस्तां तावत्प्रदानं च पृथिव्याः पृथिवीपतेः॥
दातुः संप्रेरणं यस्या अज्ञानौघविनाशनम्॥३६॥
रूपवान्सुभगश्चैव तथा च प्रियदर्शनः॥
आधिव्याधिविनिर्मुक्तः पुत्रपौत्रसमन्वितः॥३७॥
मेधावी जायते मर्त्यो दानस्यास्य प्रभावतः॥
इत्थंभूता महाराज कृत्वा राज्यमकण्टकम्॥३८॥
प्रीता विष्णोः पदं यांति शाश्वतं यन्निरामयम्॥
अन्यत्रापि धरादानात्प्रकुर्याच्चक्रवर्तिताम्॥३९॥
एकजन्मांतरं यावत्सम्यग्दत्तं नृपोत्तमः॥
गौतमेश्वरदेवस्य यत्पुरा पुरतः कृतम्॥६.२६८.४०॥
सप्तजन्मांतरं यावत्प्रकरोति न संशयः॥
तस्मात्सर्वप्रयत्नेन तत्र देया मही नृप॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गौतमेश्वरमाहात्म्ये पृथ्वीदानमाहात्म्यवर्णनंनामाष्टषष्ट्युत्तरद्विशततमोऽध्यायः॥२६८॥
खण्डः ६ (नागरखण्डः) — Adhyāya 269
सूत उवाच॥
कपालेशस्य माहात्म्यं श्रूयतामधुना द्विजाः॥
चतुर्थस्य महाभागास्तत्र क्षेत्रे स्थितस्य च॥१।.
श्रुतमात्रेण येनात्र नरः पापात्प्रमुच्यते॥२॥
ऋषय ऊचुः॥
त्रयाणां चैव लिंगानां पूर्वोक्तानां महामते॥
श्रुतास्माभिः समुत्पत्तिःकपालेश्वरवर्जिता॥
केनायं स्थापितो देवः कपालेश्वरसंज्ञितः॥ ३॥
तस्मिन्दृष्टे फलं किं स्यात्पूजिते च वदस्व नः॥४॥
सूत उवाच॥
इंद्रेण स्थापितः पूर्वमेष देवो द्विजोत्तमाः॥
कपालेश्वसंज्ञस्तु ब्रह्महत्या विमुक्तये॥५॥
तत्प्रभावत्सुरश्रेष्ठ स्तया मुक्ते द्विजोत्तमाः॥
पापं पूरुषदानेन इत्येषा वैदिकी श्रुतिः॥॥
अन्योऽपि यो नरस्तं च पूजयित्वा प्रभक्तितः॥
प्रयच्छेद्ब्राह्मणेन्द्राय शुद्धये पापपूरुषम्॥
स मुच्येत्पातकाद्घोराद्ब्रह्महत्यासमुद्भवात्॥७॥
दक्षिणामूर्तिमासाद्य प्रोवाचेदं बृहस्पतिः॥
हाटकेश्वरजे क्षेत्रे गत्वा तं वीक्ष्य शंकरम्॥८॥
यो ददाति शरीरं च कृत्वा हेममयं ततः॥
मुच्यते नात्र संदेहः पातकैः पूर्वसंयुतैः॥९॥
ऋषय ऊचुः॥
ब्रह्महत्या कथं जाता सुरेन्द्रस्य हि सूतज॥
एतन्नः सर्वमाचक्ष्व परं कौतूहलं हि नः॥६.२६९.१०॥
कपालेश्वरसंज्ञस्तु कथं देवोऽत्र संस्थितः॥
ब्रह्महत्या कथं नष्टा तत्प्रभावाद्दिवस्पतेः॥११॥
स पापपूरुषो देयो विधिना केन सूतज॥
कैर्मंत्रैः स हि देयः कैश्चैव ह्युपस्करैः॥१२॥
दर्शनात्पूजनाच्चापि किं फलं जायते नृणाम्॥
अदत्त्वा स्वशरीरं वा पूजया केवलं वद॥१३॥
सूत उवाच॥
अहं वः कीर्तयिष्यामि कथामेतां पुरातनीम्॥
यां श्रुत्वापि महाभागा नरः पापात्प्रमुच्यते॥१४॥
अज्ञानाज्ज्ञानतो वापि विहितैरन्यजन्मजैः॥
दृष्टमात्रेण येनात्र पातकात्तद्दिनोद्भवात्॥
मुच्यते नात्र संदेहः सत्यमेतन्मयोदितम्॥१५॥
पुरा त्वष्टुः सुतो जज्ञे वृत्रो हि द्विजसत्तमाः॥
पुलोमदुहितुः पार्श्वाद्विभावर्याः सुवीर्यवान्॥१६॥
स बाल एव धर्मात्मा आसीत्सर्वजनप्रियः॥
दानवं भावमुत्सृज्य द्विजभक्तिपरायणः॥१७॥
स गत्वा पुष्करारण्यं परमेण समाधिना॥
तोषयामास देवेशं पद्मजं तपसि स्थितः॥१८॥
तस्य तुष्टः स्वयं ब्रह्मा दृष्टिगोचरमागतः॥
प्रोवाच वरदोऽस्मीति किं ते कृत्यं करोम्यहम्॥१९॥
वृत्र उवाच॥
यदि तुष्टोसि मे देव ब्राह्मणत्वं प्रयच्छ मे।
ब्राह्मणत्वं समासाद्य साधयामि परं पदम्॥६.२६९.२०॥
तेन किंचिदसाध्यं न ब्राह्मण्येन भवेन्मम॥
ब्राह्मणेन समं चान्यन्न किंचित्प्रतिभाति मे॥२१॥
परमं दैवतं किंचिन्न विप्राद्विद्यते परम्॥
तस्मान्मे हृत्स्थितं नान्यदपि राज्यं त्रिविष्टपे॥२२॥
सूत उवाच॥
तस्य तद्वचनं श्रुत्वा तुष्टस्तस्य पितामहः॥
ब्राह्मणत्वं स्वयं दत्त्वा ततः प्रोवाच सादरम्॥२३॥
मया त्वं विहितो विप्र पुत्र प्रकुरु वांछितम्॥
प्रसादयस्व सततं ब्राह्मणान्ब्रह्मवित्तमान्॥२४॥
ब्राह्मणैः सुप्रसन्नैश्च प्रीयंते सर्वदेवताः॥
तस्मात्सर्वप्रयत्नेन पूजनीया द्विजोत्तमाः॥२५॥
सूत उवाच॥
एवमुक्तस्तदा तेन वृत्रोऽभूद्ब्राह्मणस्ततः॥
ब्राह्म्या लक्ष्म्या समोपेतो ब्रह्मचर्यपरायणः॥२६॥
तस्मिंस्तपसि संस्थे तु हता इंद्रेण दानवाः॥
वंशोच्छेदे समापन्ने दानवानां महात्मनाम्॥२७॥
ततस्ते दानवाः सर्वे पराभूताः सुरैस्ततः॥
स्वं स्थानं संपरित्यज्य दुःखशोकसमन्विताः॥२८॥
तन्मातरं पुरस्कृत्वा तत्सकाशमुपागताः॥
स च तां मातरं दृष्ट्वा वृतां तैश्च समन्वितः॥२९॥
दानवैश्च पराभूतैस्तथाभूतां च मातरम्॥
किमागमनकृत्यं च दुःखितानां ममांतिके॥६.२६९.३०॥
दानवा ऊचुः॥
वयं देवैः पराभूता भवंतं शरणागताः॥
क्व यामोऽन्यत्र चाऽस्माकं त्वां विना नास्ति संश्रयः॥३१॥
तेषां तद्वचनं श्रुत्वा वृत्रः प्रोवाच सादरम्॥
देवानहं हनिष्यामि गम्यतां तत्र मा चिरम्॥३२॥
तवागमनकृत्यं च मातः कथय सांप्रतम्॥३३॥
मातोवाच॥
तथा कुरु महाभाग शीघ्रं दारपरिग्रहम्॥
वंशवृद्धौ प्रमाणं चेद्वाक्यं तव ममोद्भवम्॥३४॥
एष एव परो धर्म एष एव परो नयः॥
पुत्रस्य जननीवाक्यं यत्करोति समाहितः॥ ३५॥
तथा स्त्रीणां पतिं मुक्त्वा नान्यास्ति भुवि देवता॥
जनन्यां जीवमानायां तथैव च सुतस्य च॥३६॥
अतिक्रम्य च या नारी पतिं धर्मपरा भवेत्॥
तत्सर्वं विफलं तस्या जायते नात्र संशयः॥३७॥
पुत्रः स्वजननीवाक्यं योऽतिक्रम्य यथारुचि॥
करोति धर्मकृत्यानि तानि सर्वाणि तस्य च॥३८॥
भवंति च तथा नूनं वृथा भस्महुतं यथा॥
अरण्ये रुदितानीव ऊषरे वापितानि च॥३९॥
यथैव बधिरस्याग्रे गीतं नृत्यमचक्षुषः॥
तद्वन्मातृमतादन्यकृतं पुत्रस्य धर्मजम्॥६.२६९.४०॥
सर्वं कर्म न संदेहस्तेनाहं त्वामुपागता॥
बंधूनां वचनात्पुत्र दुःखार्ता च विशेषतः॥४१॥
किं वा ते बहुनोक्तेन भूयो भूयश्च पुत्रक॥
आनृण्यं जायते यद्वत्पितॄणां तत्तथा शृणु॥४२॥
तव वत्स प्रमाणं चेत्कुरुष्व च वचो मम॥
तस्यास्तद्वचनं श्रुत्वा वृत्रः संचिंत्य चेतसि॥४३॥
श्रुतिस्मृत्युक्तमार्गेण न मातुर्विद्यते परम्॥
स तथेति प्रतिज्ञाय आनिनाय परिग्रहम्॥४४॥
त्वष्टा तस्मै ददौ प्रीतस्ततो रत्नान्यनेकशः॥
संख्याहीनानि तस्यैव कुप्याकुप्यमनंतकम्॥४५॥
हस्त्यश्वयानकोशाढ्यं सोऽभिषिक्तः पदे निजे॥
दानवानां महावीर्यो ब्राह्मण्येन समन्वितः॥४६॥
अभिषिक्तं तदा वृत्रं स्वराज्ये तेऽसुरादयः॥
श्रुत्वाभिषेकं संहृष्टास्तस्य वृत्रस्य बांधवाः॥४७॥
दानवाश्च समाजग्मुर्ये तत्रासन्पुरोगताः॥
पातालाद्गिरिदुर्गाच्च स्थलदुर्गेभ्य एव च॥
कृतवैराः समं देवैः कोपेन महता वृताः॥ ४८॥
ततः प्रोत्साहितः सर्वैर्दानवैः स महाबलः॥
प्रस्थितः शत्रुनाशाय महेन्द्रभवनं प्रति॥४९॥
शक्रोऽपि वृत्रमाकर्ण्य समायांतं युयुत्सया॥
सन्मुखः प्रययौ हृष्टः सर्वदेवसमन्वितः॥६.२६९.५०॥
ततः समभवद्युद्धं देवानां दानवैः सह॥
मेरुपृष्ठे सुविस्तीर्णे नित्यमेव दिवानिशम्॥५१॥
नित्यं पराजयो जज्ञे देवानां दानवैः सह॥
तत्रोवाच गुरुः शक्र मा युद्धं कुरु देवप॥५२॥
वृत्रोऽयं दारुणो युद्धे बलद्वयसमन्वितः॥
चत्वारश्चाग्रतो वेदाः पृष्ठतः सशरं धनुः॥५३॥
तेन जेयतमो दैत्यस्तवैव च महाहवे॥
तस्मात्संधानमेतेन त्वं कुरुष्व शचीपते॥५४॥
ततो विश्वासमाया तं जहि वज्रेण दानवम्॥
षडुपायै रिपुर्वध्य इति शास्त्रनिदर्शनम्॥५५॥
भुंजानश्च शयानश्च दत्त्वा कन्यामपि स्वकाम्॥
विप्रदानेन संयोज्य कृत्वापि शपथं गुरुम्॥
मायाप्रपंचमासाद्य तस्मादेवं समाचर॥५६॥
इन्द्र उवाच॥
यद्येवं च स्वयं गत्वा त्वं विश्वासे नियोजय॥
तव वाक्येन विश्वासं नूनं यास्यति दानवः॥५७॥
सूत उवाच॥
शक्रस्य मतमाज्ञाय प्रतस्थे च बृहस्पतिः॥
यत्र वृत्रः स्थितो दैत्यो युद्धार्थं कृतनिश्चयः॥५८॥
वृत्रोऽपि तं समालोक्य स्वयं प्राप्तं बृहस्पतिम्॥
सदैव द्विजभक्तः स हृष्टात्मा समपद्यत॥
विशेषात्प्रणिपत्योच्चैर्वाक्यमेतदभाषत॥५९॥
वृत्र उवाच॥
स्वागतं ते द्विजश्रेष्ठ किं करोमि प्रशाधि माम्॥
प्रिया मे ब्राह्मणा यस्मात्तस्मात्कीर्तय सांप्रतम्॥६.२६९.६०॥
बृहस्पतिरुवाच॥ संदिग्धो विजयो युद्धे यस्माद्दैवेन सत्तम॥
तस्मात्कुरु महेंद्रेण व्यवस्थां वचनान्मम॥६१॥
त्वं भुंक्ष्व भूतलं कृत्स्नं शक्रश्चापि त्रिविष्टपम्॥
व्यवस्थयाऽनया नित्यं वर्तितव्यं परस्परम्॥६२॥
वृत्र उवाच॥
अहं तव वचो ब्रह्मन्करिष्यामि सदैव हि।
संगमं कुरु शक्रेण सांप्रतं मम सद्द्विज॥६३॥
सूत उवाच॥
अथ शक्रं समानीय बृहस्पतिरुदारधीः॥
वृत्रेण सह संधानं चक्रे चैव परस्परम्॥६४॥
एकारिमित्रतां गत्वा तावुभौ दैत्यदेवपौ॥
प्रहृष्टौ गतवन्तौ तौ ततश्चैव निजं गृहम्॥६५॥
अथ शक्रच्छलान्वेषी सदा वृत्रस्य वर्तते॥
न च्छिद्रं लभते क्वापि वीक्षमाणोपि यत्नतः॥६६॥
कथंचिदपि सोऽभ्येति तत्सकाशं पुरंदरः॥
किंचिच्छिद्रं समासाद्य तत्प्रतापेन दह्यते॥६७॥
इंद्र उवाच॥
न शक्नोमि च तं दैत्यं वीक्षितुं च कथंचन॥
तेजसा सर्वतो व्याप्तं तत्कथं सूदयाम्यहम्॥६८॥
तस्मात्कंचिदुपायं मे तद्वधार्थं प्रकीर्तय॥
यथा शक्नोमि तत्सोढुं तेजस्तस्य दुरात्मनः॥६९॥
सूत उवाच॥
तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा बृहस्पतिः॥
ततः प्रोवाच तं शक्रं विनयावनतं स्थितम्॥६.२६९.७०॥
बृहस्पतिरुवाच॥
तस्य ब्राह्म्यं स्थितं तेजः सम्यग्गात्रे पुरंदर॥
वीक्षितुं नैव शक्नोषि तेन त्वं त्रिदशाधिप॥७१॥
तथा ते कीर्तयिष्यामि तस्योपायं वधोद्भवम्॥
वधयिष्यसि येनात्र तं त्वं दानवसत्तमम्॥७२॥
प्राचीसरस्वतीतीरे पुष्करारण्यमाश्रितः॥
दधीचिर्नाम विप्रर्षिः शतयोजनमुच्छ्रितः॥७३।.
तत्र नित्यं तपः कुर्वन्स्तौति नित्यं पितामहम्।
स निर्विण्णो मुनिश्रेष्ठः प्राणानां धारणे हरे॥७४॥
चिरंतनो मुनिः स स्याज्जरयातिसमावृतः॥
तं प्रार्थय द्रुतं गत्वा तस्यास्थीनि गुरूणि च॥७५॥
स ते दास्यस्त्यसंदिग्धं त्यक्त्वा प्राणानतिप्रियान्॥
तस्यास्थिभिः प्रहरणं वज्राख्यं ते भविष्यति॥७६॥
अमोघं ते ततो नूनं त्वं वृत्रं सूदयिष्यसि॥
तस्य वज्रस्य तत्तेजो ब्रह्मतेजोऽभिबृंहितम्॥
तेन वृत्रोद्भवं तेजः प्रशमं संप्रयास्यति॥७७॥
सूत उवाच॥
तच्छ्रुत्वा सत्वरं शक्रः सर्वैर्दैवगणैः सह॥
जगाम पुष्करारण्ये यत्र प्राची सरस्वती॥७८॥
त्रयस्त्रिंशत्समोपेता तीर्थानां कोटिभिर्युता॥
दधीचेराश्रमं तत्र सोऽविशच्चित्रसंयुतम्॥७९॥
क्रीडंते नकुलैः सर्पा यत्र तुष्टिं गता मिथः॥
मृगाः पंचाननैः सार्धं वृषदंशास्तथाऽऽखुभिः॥६.२६९.८०॥
उलूक सहिताः काका मिथो द्वेषविवर्जिताः॥
प्रभावात्तस्य तपसो दधीचेः सुमहात्मनः॥८१॥
दधीचिरपि चालोक्य देवाञ्छक्रपुरोगमान्॥
समायातान्प्रहृष्टात्मा सत्वरं संमुखोभ्यगात्॥८२॥
ततश्चार्घ्यं समादाय प्रणिपत्य मुहुर्मुहुः॥
शक्रमभ्यागतं प्राह किं ते कृत्यं करोम्यहम्॥८३॥
गृहायातस्य देवेश तच्छीघ्रं मे निवेदय॥८४।.
इंद्र उवाच॥
आतिथ्यं कुरु विप्रेंद्र गृहायातस्य सन्मुने॥
त्वदस्थीनि निजान्याशु मम देह्यविकल्पितम्॥८५॥
अतदर्थमहं प्राप्तस्त्वत्सकाशं मुनीश्वर॥
अस्थिभिस्ते परं कार्यं देवानां सिद्धिमेष्यति॥८६॥
सूत उवाच॥
इंद्रस्य तद्वचः श्रुत्वा दधीचिस्तोषसंयुतः॥
ततः प्राह सहस्राक्षं सर्वैर्देवैः समन्वितम्॥८७॥
अहो नास्ति मया तुल्यः सांप्रतं भुवि कश्चन॥
पुण्यवान्यस्य देवेशः स्वयमर्थी गृहागतः।८८॥
धन्यानि च ममास्थीनि यानि देवेश ते हितम्॥
करिष्यंति सदा कार्यं रक्षार्थं त्रिदिवौकसाम्॥८९॥
एषोऽहं संप्रदास्यामि प्रियान्प्राणान्कृते तव॥
गृहाण स्वेच्छयाऽस्थीनि स्वकार्यार्थं पुरंदर॥६.२६९.९०॥
एवमुक्त्वा महर्षिः स ध्यानमाश्रित्य सत्वरम्॥
ब्रह्मरंध्रेण निःसार्य प्राणमात्मानमत्यजत्॥९१॥
तदात्मना परित्यक्तं तस्य गात्रं च तत्क्षणात्॥
पतितं मेदनीपृष्ठे व्यसु तद्द्विजसत्तमाः॥ ९१॥
तस्मिन्नेव काले तु तस्यास्थीनि शतक्रतुः॥
प्रगृह्य विश्वकर्माणं ततः प्रोवाच सादरम्॥९३॥
एतैरस्थिभिः शीघ्रं मे कुरु त्वं वज्रमायुधम्॥
येन व्यापादयाम्याशु वृत्रं दानवसत्तमम्॥९४॥
तस्य तद्वचनं श्रुत्वा विश्वकर्मा त्वरान्वितः॥
यथायुधं तथा चक्रे वज्राख्यं दारुणाकृति॥९५॥
षडस्रि शतपर्वाख्यं मध्ये क्षामं विभीषणम्॥
प्रददौ च ततस्तस्मै सहस्राक्षाय धीमते॥९६॥
अथ तं स समादाय द्वादशार्कसमप्रभम्॥
समाधिस्थं चरैर्ज्ञात्वा वृत्रं संध्यार्चने रतम्॥९७॥
ततश्च पृष्ठभागं स समाश्रित्य त्रिलोकराट्॥
चिक्षेप वज्रमुद्दिश्य तद्वधार्थं समुत्सुकः॥९८॥
स हतस्तेन वज्रेण दानवो भस्मसाद्गतः॥
शक्रोपि हतमज्ञात्वा भयात्तस्याथ दुद्रुवे॥९९॥
मनुष्यरहिते देशे विषमे गुल्मसंवृते॥
लिल्ये शक्रस्तदा सर्वं मेने वृत्रमयं जगत्॥६.२६९.१००॥
एतस्मिन्नंतरे देवाः पश्यंतः सर्वतो दिशम्॥
सिद्धचारणगन्धर्वा आजग्मुश्च शतक्रतुम्॥१०१॥
ततः कृच्छ्राच्च तैर्दृष्टः शक्रोऽसौ गहने वने।
निलीनो भयसंत्रस्तो गुल्ममध्ये व्यवस्थितः॥१०२॥
देवा ऊचुः॥
किं त्वं भीतः सहस्राक्ष वृत्रोऽयं घातितस्त्वया॥
परिवारेण सर्वेण वीक्षितोऽस्माभिरेव च॥१०३॥
अस्मादागच्छ गच्छामो गृहं प्रति पुरंदर॥
कुरु त्रैलोक्यराज्यं त्वं सांप्रतं हतकण्टकम्॥१०४॥
तच्छ्रुत्वाऽथ विनिष्क्रांतो गुल्ममध्याच्छतक्रतुः॥
हृष्टरोमा हतं श्रुत्वा वृत्रं दानवसत्तमम्॥ १०५॥
अथ पश्यंति यावत्तं देवाः सर्वे शतक्रतुम्॥
तावत्तेजोविहीनं तद्गात्रं दुर्गंधितायुतम्॥१०६॥
दृष्ट्वा लोकगुरुर्ब्रह्मा देवान्सर्वानुवाच ह॥
शक्रोऽयं सांप्रतं व्याप्तः पापया ब्रह्महत्यया॥१०७॥
यदनेन हतो वृत्रो ब्रह्मभूतश्छलेन सः॥
तस्मात्त्याज्यः सुदूरेण नो चेत्पापमवाप्स्यथ॥१०८॥
ब्रह्मघ्नेन समं स्पर्शः संभाषोऽथ विनिर्मितः॥
पापाय जायते पुंसां तस्मात्तं दूरतस्त्यजेत्॥१०९॥
आस्तां संस्पर्शनं तस्य संभाषो वा विशेषतः॥
दर्शनं वापि तस्याहुः सर्वपापप्रदं नृणाम्॥६.२६९.११०॥
सूत उवाच।.
तच्छ्रुत्वा ब्रह्मणो वाक्यं शक्रो दृष्ट्वाऽऽत्मनस्तनुम्॥
तेजसा संपरित्यक्तां दुर्गन्धेन समावृताम्॥१११॥
ततः प्रोवाच लोकेशं दीनः प्रणतकन्धरः॥
तवाहं किंकरो देव त्वयेंद्रत्वे नियोजितः॥११२॥
तस्मात्कुरु प्रसादं मे ब्रह्महत्याविनाशनम्॥
प्रायश्चित्तं विभो ब्रूहि येन शुद्धिः प्रजायते॥११३।
ब्रह्मोवाच॥
अष्टषष्टिषु तीर्थेषु त्वं स्नात्वा बलसूदन॥
आत्मानं हेमजं देहि पापपूरुषसंज्ञितम्॥११४॥
मंत्रवत्तं यथोक्तं च ब्राह्मणाय महात्मने॥
स्नात्वा पुण्यजले तीर्थे ब्रह्मघ्नोऽहमिति ब्रुवन्॥११५॥
स्नातमात्रस्य ते हस्ताद्यत्र तत्पतति क्षितौ॥
तेजः संजायतेगात्रे दुर्गंधश्च प्रणश्यति॥११६॥
तस्मिंस्तीर्थे त्वया तच्च स्थाप्यं शक्र कपालकम्॥
महेश्वरस्य नाम्ना च पूजनीयं ततः परम्॥११७॥
पंचभिर्वक्त्रमंत्रैश्च ततो देयाऽऽत्मतस्तनूः॥
हेमोद्भवा द्विजेन्द्राय ततः शुद्धिमवाप्स्यसि॥११८॥
शक्रस्तु तद्वचः श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः॥
कपालं वृत्रजं गृह्य तीर्थयात्रां ततो गतः॥११९॥
अष्टषष्टिषु तीर्थेषु गच्छन्स च सुरेश्वरः॥
हाटकेश्वरजे क्षेत्रे समायातः क्रमेण च॥६.२६९.१२०॥
विश्वामित्रह्रदे स्नात्वा यावत्तस्माद्विनिर्गतः॥
कपालं पतितं तस्मात्स्वयमेव हतात्मनः॥१२१॥
ततस्तं पूजयामास मन्त्रैर्वक्त्रसमुद्भवैः॥
सर्वपापहरैः पुण्यैर्यथोक्तैर्ब्रह्मणा पुरा॥१२२॥
एतस्मिन्नेव काले तु दुर्गन्धो नाशमाप्तवान्॥
तच्छरीराद्द्विजश्रेष्ठा महत्तेजो व्यजायत॥१२३॥
एतस्मिन्नन्तरे ब्रह्मा सह देवैः समागतः॥
ब्रह्महत्याविमुक्तं तं ज्ञात्वा सर्वसुराधिपम्॥१२४॥
श्रीब्रह्मोवाच॥
ब्रह्महत्याकृतो दोषो गतस्ते सुरसत्तम॥
शेषपापविशुद्ध्यर्थं स्वर्णदानं प्रयच्छ भोः॥ १२५॥
कपालमेतद्देशेऽत्र यत्त्वया परिपूजितम्॥
वृत्रस्य पंचभिर्मंत्रैर्हरवक्त्रसमुद्भवैः॥ १२६॥
प्रदास्यसि ततो भक्त्या हेमजामात्मनस्तनुम्॥
विधिना मंत्रयुक्तेन तव पापं प्रयास्यति॥
यद्यत्पूर्वकृतं कृत्स्नं प्रदाय ब्राह्मणाय भोः॥१२७॥
एवमुक्तस्ततः शक्रो ब्रह्मणा सुरसंनिधौ॥
तथेत्युक्त्वा तु तत्कालं पापपिंडं निजं ददौ॥१२८॥
कृत्वा हेममयं विप्रा ब्राह्मणाय महात्मने॥
गर्तातीर्थसमुत्थाय वाताख्यायाहिताग्नये॥१२९॥
एतस्मिन्नंतरे विप्रो गर्हितः सोऽथ नागरैः।.
धिग्धिक्पाप वृथा वेदा ये त्वया पारिताः पुरा॥६.२६९.१३०॥
नास्माभिः सह संपर्कं कदाचित्त्वं करिष्यसि॥
गृहीतं यत्त्वया दानं पापपिंडसमुद्भवम्॥१३१॥
ततः प्रोवाच विप्रः स उपमन्युकुलोद्भवः॥
विवर्णवदनो भूत्वा नाम्ना ख्यातः स वातकः॥ १३२॥
त्वया शक्र प्रदत्तो मे पापपिंडः स्वको यतः॥
मया प्रतिग्रहस्तेन दाक्षिण्येन कृतस्तव॥१३३॥
न लोभेन सुरश्रेष्ठ पश्यतस्ते विगर्हितः॥
अहं च ब्राह्मणैः सर्वैरेतैर्नगरवासिभिः॥ १३४॥
तस्मान्नाहं ग्रहीष्यामि एतं तव प्रतिग्रहम्॥१३५॥
भूयोऽपि तव दास्यामि न त्वं गृह्णासि चेत्पुनः॥ ब्र
ह्मशापं प्रदास्यामि दारुणं च क्षयात्मकम्॥१३६॥
इंद्र उवाच॥
वेदागंपारगो विप्रो यदि कुर्यात्प्रतिग्रहम्॥
न स पापेन लिप्येत पद्मपत्रमिवांभसा॥१३७॥
तस्मात्ते पातकं नास्ति शृणुष्वात्र वचो मम॥
एतैस्त्वं गर्हिते यस्माद्ब्राह्मणैर्नगरोद्भवैः॥१३८॥
एतेषां सर्वकृत्येषु प्रधानस्त्वं भविष्यसि॥
एतेषां पुत्रपौत्रा ये भविष्यंति तथा तव॥१३९॥
ते सर्वे चाज्ञया तेषां वर्तयिष्यंत्यसंशयम्॥
युष्मद्वाक्यविहीनं यत्कृत्यं स्वल्पमपि द्विज॥६.२६९.१४०॥
तेषां संपत्स्यते वन्ध्यं यथा भस्महुतं तथा॥
कपालमोचनं नाम ख्यातमेतद्भविष्यति॥१४१॥
ये तु संस्मृत्य मनुजाः कपालं मम सद्द्विज॥
तत्र श्राद्धं करिष्यंति ते नरा मुक्तिसंयुताः॥
श्राद्धपक्षे विशेषेण प्रयास्यंति परांगतिम्॥१४२॥
स्थानबाह्यद्विजातीनां कुले दारपरिग्रहम्॥
कृत्वा त्वद्गोत्रसंभूता ब्राह्मणा मत्प्रसादतः॥१४३॥
व्यवहार्या भविष्यंति नगरे सर्वकर्मसु॥
एवमुक्त्वा सहस्राक्षस्ततश्चादर्शनं गतः॥१४४॥
वातोपि तेन वित्तेन प्रतिग्रहकृतेन च॥
चकार तत्र प्रासादं देवदेवस्य शूलिनः॥१४५॥
ततः प्रोवाच शक्रस्तान्ब्राह्मणान्नगरोद्भवान्॥
कपालमोचने स्नात्वा यो देवं ह्यर्चयिष्यति॥१४६॥
ब्रह्महत्योद्भवं पापं तस्य नश्यत्यसंशयम्॥
महापातकयुक्तो वा विपाप्मा संभविष्यति॥१४७॥
स तथेति प्रतिज्ञाय ब्राह्मणान्नगरोद्भवान्॥
तत्रैव स्वाश्रमं कृत्वा पूजयामास शंकरम्॥१४८॥
ततःप्रभृति यत्किंचित्तेषां कृत्यं प्रजायते॥
तद्वाक्येन प्रकुर्वंति तत्र ये नागरः स्थिताः॥१४९॥
एतस्मात्कारणाज्जातो मध्यगो द्वितीयस्त्विह॥६.२६९.१५०॥
एतद्वः सर्वमाख्यातमाख्यानं पापनाशनम्॥
कपालेश्वरदेवस्य शृण्वतां पठतां नृणाम्॥१५१॥
यथा देवेश्वरस्यात्र पापं नष्टं महात्मनः॥
ब्रह्महत्या यथा नष्टा तस्मिंस्तीर्थे द्विजोत्तमाः॥१५२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वातकेश्वरक्षेत्रकपालमोचनेश्वरोत्पत्तिमाहात्म्यवर्णनं नामैकोनसप्तत्युत्तरद्विशततमोऽध्यायः॥२६९॥
खण्डः ६ (नागरखण्डः) — Adhyāya 270
आनर्त उवाच॥
मूर्खत्वाद्वा प्रमादाद्वा कामाद्बालस्यतोऽपि वा॥
यो नरः कुरुते पापं प्रायश्चित्तं करोति न ॥१॥
तस्य पापक्षयकरं पुण्यं ब्रूहि द्विजोत्तम॥
येन मुक्तिर्भवेत्सद्यो यदि तुष्टोऽसि मे प्रभो॥२॥
लोभमोहपरो योऽसौ पापपिंडं महामुने॥
प्रददाति विधिं ब्रूहि येन यच्छाम्यहं द्रुतम्॥३॥
भर्तृयज्ञ उवाच॥
दद्यात्स्वपिंडं सौवर्णं पंचविंशत्पलात्मकम्॥४॥
विधायापरपक्षे तु स्नापयित्वा विधानतः॥
मंडपाद्यं च प्राक्कृत्वा स्नात्वा धौतांबरः शुचिः॥५॥
तदा स्वरूपं पृथ्व्यादि पूजयेत्पापकृन्नरः॥
तथा स मुच्यते पापात्तत्कृताद्धि न संशयः॥६॥
चतुर्विंशतितत्त्वानि पृथिव्यादीनि यानि च॥
तेषां नामभिस्तत्पिंडं पूजयेतन्नराधिपः॥७॥
ॐ पृथिव्यै नमः॥
ॐ अद्भ्यो नमः॥
ॐ तेजसे नमः॥
ॐ वायवे नमः॥
ॐ आकाशाय नमः॥
ॐ घ्राणाय नमः॥
ॐ जिह्वायै नमः॥
ॐ चक्षुषे नमः॥
ॐ त्वचे नमः॥
ॐ श्रोत्राय नमः॥
ॐ गन्धाय नमः॥
ॐ रसाय नमः॥
ॐ रूपाय नमः॥
ॐ स्पर्शाय नमः॥
ॐ शब्दाय नमः॥
ॐ वाचे नमः॥
ॐ पाणिभ्यां नमः॥
ॐ पादाभ्यां नमः॥
ॐ पायवे नमः॥
ॐ उपस्थाय नमः॥
ॐ मनसे नमः॥
ॐ बुद्ध्यै नमः॥
ॐ चित्ताय नमः॥
ॐ अहंकाराय नमः।
ॐ क्षेत्रात्मने नमः॥
ॐ परमात्मने नमः॥
धूपं धूरसि मंत्रेण अग्निर्ज्योतीति दीपकम्॥
युवा सुवासेति च ततो वासांसि परिधापयेत्॥८॥
ततो ब्राह्मणमानीय वेदवेदांगपारगम्॥
प्रक्षाल्य चरणौ तस्य वासांसि परिधापयेत्॥९॥
केयूरैः कंकणैश्चैव अंगुलीयकभूषणैः॥ ६.२७०.१०॥
भूषयित्वा तनुं तस्य ततो मूर्तिं समानयेत्॥
मंत्रेणानेन राजेंद्र ब्राह्मणाय निवेदयेत्॥११॥
एष आत्मा मया दत्तस्तव हेममयो द्विज॥
यत्किंचिद्विहितं पापं पूर्वं भूयात्तवाखिलम्॥१२॥
इति दानमंत्रः॥
ततस्तु ब्राह्मणो राजन्मंत्रमेतं समुच्चरेत्॥१३॥
यत्किंचिद्विहितं पापं त्वया पूर्वंमया हि तत्॥
गृहीतं मूर्तिरूपं तत्ततस्त्वं पापवर्जितः॥
इति प्रतिग्रहमंत्रः॥ १४॥
एवं दत्त्वा विधानेन ततो विप्रं विसर्जयेत्॥
एवं कृते ततो राजंस्तस्मै दत्त्वाथ दक्षिणाम्॥१५॥
यथा तुष्टिं समभ्येति ततः पापं नयत्यसौ॥
तस्मिन्कृते महाराज प्रत्ययस्तत्क्षणाद्भवेत्॥ १६॥
शरीरं लघुतामेति तेजोवृद्धिश्च जायते॥
स्वप्ने च वीक्षते रात्रौ संतुष्टमनसः स्थितान्॥१७॥
नरान्स्त्रियः सितैर्वस्त्रैः श्वेतमाल्यानुलेपनैः॥
श्वेतान्गोवृषभानश्वांस्तीर्थानि विविधानि च॥१८॥
एतत्ते सर्वमाख्यातं पापपिंडस्य दापनम्॥
श्रवणादपि राजेंद्र यस्य पापैः प्रमुच्यते॥१९॥
अन्यत्रापि महादानं पापपिण्डो हरेन्नृप॥६.२७०.२०।
एकजन्मकृतं पापं निजकायेन निर्मितम्॥
कपालेश्वरदेवस्य सहस्रगुणितं हरेत्॥२१॥
पूर्ववच्चैव कर्तव्यो वेदिमंडपयोर्विधिः॥
परं होमः प्रकर्तव्यो गायत्र्या केवलं नृप॥२२।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कपालेश्वरक्षेत्रमाहात्म्यप्रसंगेन पापपिंडप्रदानविधानवर्णनंनाम सप्तत्युत्तरद्विशततमोऽध्यायः॥२७०॥
खण्डः ६ (नागरखण्डः) — Adhyāya 271 (part 1)
सूत उवाच॥
अथान्यदपि तत्रास्ति सुपुण्यं लिंगसप्तकम्॥
येनार्चितेन दृष्टेन पूजितेन विशेषतः॥१॥
दीर्घायुर्जायते मर्त्यः सर्वरोगविवर्जितः॥
मार्कण्डेश्वर इत्युक्तस्तत्र देवो महेश्वरः॥२॥
इन्द्रद्युम्नेश्वरोऽन्यस्तु सर्वपापहरो हरः॥
पालेश्वरस्तथा चैव सर्वव्याधिविनाशनः॥३॥
ततो घंटशिवः ख्यातो यो घंटेन प्रतिष्ठितः॥
कलशेश्वरसंज्ञस्तु वानरेश्वरसंयुतः॥४॥
ईशान शिव इत्युक्तस्तत्र क्षेत्रेश्वरेश्वरः॥
पूजितो मानवैर्भक्त्या कामान्यच्छत्यमानुषान्॥५॥
वांछितान्मनसा सर्वान्कलिकालेऽपि संस्थिते॥६॥
ऋषय ऊचुः॥
कोऽयं मार्कंडसंज्ञस्तु येन लिंगं प्रतिष्ठितम्॥
इन्द्रद्युम्नो महीपालः कतमो वद सूतज॥७॥
तथा पालकनामा च येनायं स्थापितो हरः॥
तथा यो घण्टसंज्ञस्तु कस्मिञ्जातः स चान्वये॥८॥
कलशाख्यस्तु यः ख्यातो वानरेण समन्वितः॥
ईशानोप्यखिलं ब्रूहि परं नःकौतुकं स्थितम्॥ ९।
यतोऽत्र जायते श्रेयः पुनः पुंसां प्रकीर्तय॥
यैरेतैः स्थापिता देवाः क्षेत्रेऽस्मिन्मानवोत्तमैः॥६.२७१.१०॥
तथा तेषां समाचारं प्रभावं चैव सूतज॥
दानं वापि यथाकालं मंत्रांश्च विस्तराद्वद॥११॥
सूत उवाच॥
अहं वः कीर्तयिष्यामि कथामेतां पुरातनीम्॥
कथितां भर्तृयज्ञेन आनर्ताधिपतेः स्वयम्॥१२॥
श्रुतयापि यया मर्त्यो दीर्घायुर्जायतेनरः॥
नापमृत्युमवाप्नोति कथंचित्तत्प्रभावतः॥१३॥
यो मार्कंड इति ख्यातः प्रथमं परिकीर्तितः।
संभूतिस्तस्य संप्रोक्ता युष्माकं पापनाशिनी॥१४॥
इंद्रद्युम्नं प्रवक्ष्यामि सांप्रतं मुनिसत्तमाः॥
यद्वंशो यत्प्रभावश्च सर्वभूपालमानितः॥१५।.
इंद्रद्युम्नो महीपाल आसीत्पूर्वं द्विजोत्तमाः॥
ब्राह्मण्यश्च शरण्यश्च साधुलोकप्रपालकः॥
यज्वा दानपतिर्दक्षः सर्वभूतहिते रतः॥१६।
न दुर्भिक्षं न च व्याधिर्न च चौरकृतं भयम्॥
तस्मिञ्छासति धर्मज्ञे आसील्लोकस्य कस्यचित्॥१७॥
यथैव वर्षतो धारा यथा वा दिवि तारकाः॥
गंगायां सिकता यद्वत्संख्यया परिवर्जिताः॥१८॥
तद्वत्तेन कृता यज्ञाः सर्वे संपूर्णदक्षिणाः॥
अग्निष्टोमोऽतिरात्रश्च उक्थः षोडशिकास्तथा॥१९॥
सौत्रामण्याऽथ पशवश्चातुर्मास्या द्विजोत्तमाः॥
वाजपेयाश्वमेधाश्च राजसूया विशेषतः॥६.२७१.२०॥
पौण्डरीकास्तथैवान्ये श्रद्धापूतेन चेतसा॥२१।
तेन दानानि दत्तानि तीर्थेषु च विशेषतः॥
मिष्टान्नानि द्विजेंद्राणां दक्षिणासहितानि च॥२२॥
न तदस्ति धरापृष्ठे नगरं पत्तनं तथा॥
तीर्थं वा यत्र नो तस्य विद्यते त्रिदशालयः॥२३॥
तेन कन्यासहस्राणि अच्युतान्यर्बुदानि च॥
ब्राहमणेभ्यः प्रदत्तानि ब्राह्मणानां धनार्थिनाम्॥२४॥
दशमीदिवसे तस्य रात्रौ च गजपृष्ठिगः॥
दुन्दुभिस्ताड्यमानस्तु बभ्राम सकलं पुरम्॥ २५॥
प्रत्यूषे वैष्णवं भावि पापहारि च वासरम्॥
उपवासः प्रकर्त्तव्यो मुक्त्वा वृद्धं च बालकम्॥
अन्यथा निग्रहिष्यामि भोजनं यः करिष्यति॥२६॥
इंद्रद्युम्नः स राजर्षिस्तदा विष्णोः प्रसादतः॥
तेनैव स्वशरीरेण ब्रह्मलोकं तदा गतः॥२७॥
तत्र कल्पसहस्रांते स प्रोक्तो ब्रह्मणा स्वयम्॥
इंद्रद्युम्न धरां गच्छ न स्थातव्यं त्वयाऽधुना॥२८॥
इंद्रद्युम्न उवाच।
कस्माच्च्यावयसे ब्रह्मन्निजलोकाद्द्रुतं हि माम्॥
अपापमपि देवेश तथा मे वद कारणम्॥२९॥
श्रीब्रह्मोवाच॥
तव कीर्तिसमुच्छेदः संजातोऽद्य धरातले॥
यावत्कीर्तिर्धरापृष्ठे तावत्स्वर्गे वसेन्नरः॥६.२७१.३०॥
एतस्मात्कारणाल्लोकाः स्वनामांकानि चक्रिरे॥
वापीकूपतडागानि देवतायतनानि च॥३१॥
तस्माद्गच्छ धरापृष्ठं स्वां कीर्तिं नूतनां कुरु॥
यदि वांछसि लोकेऽस्मिन्मामके वसतिं चिरम्॥ ३२॥
अथात्मानं स राजेंद्रो यावत्पश्यति तत्क्षणात्॥
तावत्प्राप्तं धरापृष्ठे कांपिल्य नगरं प्रति॥३३॥
अथ पप्रच्छ लोकान्स किमेतन्नगरं स्मृतम्॥
कोऽयं देशः कोऽत्र राजा किं पुरं नगरं च किम्॥३४॥
ते तमूचुः परं चैतत्कांपिल्यमिति विश्रुतम्॥
आनर्तनामा देशोऽयं राजात्र पृथिवीजयः॥३५॥
को भवान्किमिहायातः किंचित्कार्यं वदस्व नः॥३६॥
इंद्रद्युम्न उवाच॥ इंद्रद्युम्नो महीपालः पुरासीद्रोचके पुरे॥
देशे वैजरुके पूर्वं स देशः क्व च तत्पुरम्॥ ३७॥
जना ऊचुः॥
न वयं तत्पुरं विद्मो न देशं न च भूपतिम्॥
इन्द्रद्युम्नाभिधानं च यं त्वं पृच्छसि भद्रक॥३८॥
इंद्रद्युम्न उवाच॥
चिरायुरस्ति कोऽप्यत्र यस्तं वेत्ति महीपतिम्॥
देशं वा तत्पुरं वापि तन्मे वदथ मा चिरम्॥३९॥
जना ऊचुः॥
सप्तकल्पस्मरो नाम मार्कंडेयो महामुनिः॥
श्रूयते नैमिषारण्ये तं गत्वा पृच्छ वेत्स्यसि॥६.२७१.४०॥
अथासौ सत्वरं गत्वा व्योममार्गेण तं मुनिम्॥
पप्रच्छ प्रणिपत्योच्चैर्नैमिषारण्यमाश्रितम्॥४१॥
इंद्रद्युम्नेति वै भूपस्त्वया दृष्टः श्रुतोऽथ वा॥
चिरायुस्त्वं श्रुतोऽस्माभिः पृच्छामस्तेन सन्मुने॥४२॥
श्रीमार्कंडेय उवाच॥ सप्तकल्पांतरे भूपो न दृष्टो न मया श्रुतः॥
इंद्रद्युम्नाभिधानोऽत्र तत्र किं नु वदामि ते॥४३॥
तस्य तद्वचनं श्रुत्वा निराशः स महीपतिः॥
वैराग्यं परमं गत्वा मरणे कृतनिश्चयः॥४४॥
तेन चानीय दारूणि प्रज्वाल्य च हुताशनम्॥
प्रवेष्टुकामः स प्रोक्त इन्द्रद्युम्नो महीपतिः॥४५॥
त्वया चात्र न कर्तव्यमहं ते मित्रतां गतः॥
नाशयिष्यामि ते मृत्युं यद्यपि स्यान्महत्तरम्॥४६॥
नीरोगोऽसि सुभव्योऽसि कस्मान्मृत्युं प्रवांछसि॥
वद मे कारणं मृत्योः प्रतीकारं करोमि ते॥४७॥
इंद्रद्युम्न उवाच॥
चिरायुर्मे भवान्प्रोक्तः कांपिल्यपुरवासिभिः ॥
तेनाहं तव पार्श्वेऽत्र समायातो महामुने॥४८॥
इंद्रद्युम्नोद्भवां वार्तां त्वं वदिष्यसि सन्मुने॥
मत्कीर्तिर्न परिज्ञाता ततो मृत्युं व्रजाम्यहम्॥४९॥
सूत उवाच॥
तस्य तं निश्चयं ज्ञात्वा दयावान्स मुनीश्वरः॥
वृथाश्रमं च तं ज्ञात्वा दाक्षिण्यादिदमब्रवीत्॥६.२७१.५०॥
यद्येवं मा विशाग्निं त्वमहं ज्ञास्यामि तं नृपम्॥
नाडीजंघो बको नाम ममास्ति परमः सुहृत्॥५१॥
चिरंतनश्च सोऽस्माकं नूनं ज्ञास्यति तं नृपम्॥
तस्मादागच्छ गच्छावस्तस्य पार्श्वे हिमाचले॥५२॥
साधूनां दर्शनं जातु न वृथा जायते क्वचित्॥५३॥
एवमुक्त्वा ततस्तौ तु प्रस्थितौ मुनिपार्थिवौ॥
व्योममार्गेण संतुष्टौ बकं प्रति हिमाचले॥५४॥
बकोऽपि तं समालोक्य मार्कण्डेयं समागतम्॥
संमुखः प्रययौ तुष्टः स्वागतेनाभ्यपूजयत्॥५५॥
धन्योऽहं कृतपुण्योऽहं यस्य मे त्वत्समागमः॥
भो भो ब्रह्मविदां श्रेष्ठ आतिथ्यं ते करोमि किम्॥५६॥
श्रीमार्कंडेय उवाच॥
मत्तोपि त्वं चिरायुश्च यतो मित्रं व्यवस्थितः॥
इन्द्रद्युम्नो महीपालस्त्वया दृष्टः श्रुतोऽथवा॥५७॥
एतस्य मम मित्रस्य तेन दृष्टेन कारणम्॥
अन्यथा जायते मृत्युस्ततोऽहं त्वां समागतः॥५८॥
बक उवाच॥ सप्तद्विगुणितान्कल्पान्स्मराम्यहमसंशयम्॥
न स्मरामि कथामेव इंद्रद्युम्नसमुद्भवाम्॥५९॥
आस्तां हि दर्शनं तावत्सत्यमेतन्मयोदिम्॥६.२७१.६०॥
इंद्रद्युम्न उवाच॥
तपसः किं प्रभावोऽयं दानस्य नियमस्य च॥
यदायुरीदृशं जातं बकत्वेऽपि वदस्व नः॥६१॥
बक उवाच॥ घृतकंबलमाहात्म्याद्देवदेवस्य शूलिनः॥
ममायुरीदृशं जातं बकत्वं मुनिशापतः॥६२॥
अहमासं पुरा बालो ब्राह्मणस्य निवेशने॥
चमत्कारपुरे रम्ये पाराशर्यस्य धीमतः॥६४॥
नाम्ना च विश्वरूपाख्यो नाम्ना ऽन्येन बक स्मृतः॥
अतीव चपलत्वेन संयुक्तः पितृवल्लभः॥६४॥
कस्यचित्त्वथ कालस्य संक्रांतौ मकरस्य भोः॥
संप्राप्यातीव चापल्याल्लिंगं जागेश्वरं मया॥
घृतकुम्भे परिक्षिप्तं पूजितं जनकेन यत्॥६५॥
अथ रात्र्यां व्यतीतायां पृष्टोऽहं जनकेन च॥
त्वया पुत्र परिक्षिप्तं नूनं जागेश्वरं क्वचित्॥
तस्माद्वद प्रयच्छामि तेन ते भक्ष्यमुत्तमम्॥६६॥
ततो मयाज्यकुम्भाच्च तस्मादादाय सत्वरम्॥
भक्ष्यलौल्यात्पितुर्हस्ते विन्यस्तं घृतसंप्लुतम्॥६७॥
कस्यचित्त्वथ कालस्य पंचत्वं च समागतः॥
जातिस्मरस्ततो जातस्तत्प्रभावान्नृपालये॥६८॥
आनर्ताधिपतेर्हर्म्ये नाम्ना ख्यातस्त्वहं बकः॥
चमत्कारपुरे देवो हरः संस्थापितो मया॥६९॥
तत्प्रभावेण विप्रेंद्र प्राप्तः पैतामहं पदम्॥६.२७१.७०॥
ततो यानि धरापृष्ठे सुलिंगानि स्थितानि च॥
घृतेनच्छादयाम्येव मकरस्थे दिवाकरे॥
मया यत्स्थापितं लिंगं चमत्कारपुरे शुभम्॥७१॥
आराधितं दिवा नक्तं राज्ये संस्थाप्य पुत्रकम्॥
नियोज्य सर्वतो भृत्यान्धनवस्त्रसमन्वितान्॥७२॥
ततःकालेन महता तुष्टो मे भगवाञ्छिवः॥
मत्समीपं समासाद्य वाक्यमेतदुवाच सः॥७३॥
परितुष्टोऽस्मि भद्रं ते तव पार्थिवसत्तम॥
घृतकंबलदानेन संख्यया रहितेन च॥ ७४॥
तस्माद्वरय भद्रं ते वरं यन्मनसि स्थितम्॥
अदेयमपि दास्यामि यद्यपि स्यात्सुदुर्लभम्॥७५॥
ततो मया हरः प्रोक्तो यदि तुष्टोऽसि मे प्रभो।.
कुरुष्व मां गणं देव नान्यत्किंचिद्वृणोम्यहम्॥७६॥
श्रीभगवानुवाच॥
बकैहि त्वं महाभाग कैलासं पर्वतोत्तमम्॥
मया सार्धमनेनैव शरीरेण गणो भव॥७७॥
अन्योऽपि मर्त्यलोकेत्र यः करिष्यति मानवः॥
मकरस्थे रवौ मह्यं संक्रांतौ रजनीमुखे।
स नूनं मद्गणो भावी सकृत्कृत्वाऽथ कंबलम्॥७८॥
त्वं पुनर्मामकं लिंगं समं कुर्वन्भविष्यसि॥
धर्मसेनेति विख्यातो विकृत्या परिवर्जितः॥७९॥
एवमुक्त्वा स भगवान्मामादाय ततः परम्॥
कैलासं पर्वतं गत्वा गणकोटीशतामदात्॥६.२७१.८०॥
कस्यचित्त्वथ कालस्य भ्रममाणो यदृच्छया॥
गतोऽहं पर्वतश्रेष्ठं हिमवंतं महागिरिम्॥८१।.
यत्रास्ते गालवो नाम सदैव तपसि स्थितः॥
तस्य भार्या विशालाक्षी सर्वलक्षणलक्षिता॥ ८२॥
सप्तरक्ता त्रिगंभीरा गूढगुल्फा कृशोदरी॥
तां दृष्ट्वा मन्मथाविष्टः संजातोऽहं मुनीश्वर॥८३॥
चिंतितं च मया चित्ते कथमेतां हराम्यहम्॥
तस्माच्छिष्यत्वमासाद्य भक्तिमस्य करोम्यहम्॥८४॥
शुश्रूषानिरतो भूत्वा येन प्राप्नोमि भामिनीम्॥८५॥
ततो बटुकरूपेण संप्राप्तो गालवो मया॥
संसारस्य विरक्तोऽहं करिष्यामि मह्त्तपः॥८६॥
दीक्षां यच्छ विभो मह्यं येन शिष्यो भवामि ते॥८७॥
आहरिष्याम्यहं दर्भांस्तथा सुमनसः सदा॥
समिधश्च सदैवाहं फलानि जलमेव च॥८८॥
स मां विनयसंपन्नं ज्ञात्वा ब्राह्मणरूपिणम्॥
ददौ दीक्षां ततो मह्यं शास्त्रदृष्टेन कर्मणा॥८९॥
अथ दीक्षां समासाद्य तोषयामि दिनेदिने ॥
तं चैव तस्य पत्नीं तां यथोक्तपरिचर्यया॥
अशुद्धेनापि चित्तेन छिद्रान्वेषणतत्परः॥६.२७१.९०॥
अन्यस्मिन्दिवसे प्राप्ते सा स्त्रीधर्मसमन्विता॥
उटजं दूरतस्त्यक्त्वा रात्रौ सुप्ता मनस्विनी॥९१।.
सोऽहं रूपं महत्कृत्वा तामादाय तपस्विनीम्॥
सुखसुप्तां सुविश्रब्धां प्रस्थितो दक्षिणामुखः॥९२॥
अथासौ संपरित्यक्ता संस्पर्शान्मम निद्रया॥
चौररूपं परिज्ञाय मां शिष्यं प्ररुरोद ह॥९३॥
साब्रवीच्च स्वभर्तारं गालवं मुनिसत्तमम्॥
एष शिष्यो दुराचारो हरते मामितः प्रभो॥९४॥
तस्माद्रक्ष महाभाग यावद्दूरं न गच्छति॥९५॥
तच्छ्रुत्वा गालवः प्राह तिष्ठतिष्ठेति चासकृत्॥
पापाचार सुदुष्टात्मन्गतिस्ते स्तंभिता मया॥९६॥
तस्य वाक्यात्ततो मह्यं गतिस्तंभो व्यजायत॥
यद्वल्लिखित एवाहं प्रतिष्ठामि सुनिश्चलः॥९७॥
ततस्तेन च शप्तोऽहं गालवेन महात्मना॥
वंचितोऽहं त्वया यस्माद्बको भव सुदुर्मते॥९८॥
ततः पश्यामि चात्मानं सहसा बकरूपिणम्॥
बकत्वेऽपि न मे नष्टा या स्मृतिः पूर्वसंभवा॥९९।
ततः साऽपि च तत्पत्नी सचैलं स्नानमाश्रिता॥
मत्स्पर्शादुःखितांगी च शापाय समुपस्थिता॥६.२७१.१००॥
यस्मात्पाप त्वया स्पृष्टा प्रसुप्ताहं रजस्वला॥
बकधर्मं समाश्रित्य भर्त्ता मे वंचितस्त्वया॥
अन्यरूपं समास्थाय तस्मात्सत्यं बको भव॥१०१॥
एवं शप्तस्ततो द्वाभ्यां ताभ्यां वै दुःखसंयुतः॥
चरणाभ्यां प्रलग्नस्तु गालवस्य महात्मनः॥१०२॥
गणोऽहं देवदेवस्य त्रिनेत्रस्य महात्मनः॥
पालकेति च विख्यातो गणकोटिप्रभुः स्थितः॥१०३॥
सोऽहमत्र समायातः प्रभोः कार्येण केनचित्॥
तव भार्यां समालोक्य कामदेववशं गतः॥१०४॥
क्षमापराधं त्वं मह्यमेवं ज्ञात्वा मुनीश्वर॥
दुर्विनीतः श्रियं प्राप्य विद्यामैश्वर्यमेव च॥१०५॥
न तिष्ठति चिरं स्थाने यथाहं मदगर्वितः॥
शिष्यरूपं समास्थाय ततः प्राप्तस्तवांतिकम्॥१०६॥
अस्या हरणहेतोश्च महासत्या मुनीश्वर॥
तस्मात्कुरु प्रसादं मे दीनस्य प्रणतस्य च॥१०७॥
अनुग्रहप्रदानेन क्षमा यस्मात्तपस्विनाम्॥
कोकिलानां स्वरो रूपं नारीरूपं पतिव्रता॥
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम्॥१०८॥
सूत उवाच॥
तस्य तत्कृपणं श्रुत्वा सोपि माहेश्वरो मुनिः॥
ज्ञात्वा तं बांधवस्थाने दयां कृत्वाऽब्रवीद्वचः॥१०९॥
सत्यवाक्तिष्ठते विप्रश्चमत्कारपुरे शुभे॥६.२७१.११०॥
भर्त्तृयज्ञ इति ख्यातस्तदा तस्योपदेशतः॥
बकत्वं यास्यते नूनं मम वाक्यादसंशयम्॥१११॥
ततः पश्यामि चात्मानं बकत्वेन समाश्रितम्॥११२॥
एवं मे दीर्घमायुष्यं संजातं शिवभक्तितः॥
घृतकम्बलमाहात्म्याद्बकत्वं मुनिशापतः॥ ११३॥
इंद्रद्युम्न उवाच॥ एतदर्थं समानीतस्त्वत्सकाशं विहंगम॥
इंद्रद्युम्नस्य वार्तार्थं मरणे कृतनिश्चयः॥११४॥
सा त्वया नैव विज्ञाता ममाभाग्यैर्विहंगम॥
सेवयिष्याम्यहं तस्मात्प्रदीप्तं हव्यवाहनम्॥११५॥
प्रतिज्ञातं मया पूर्वमेतन्निश्चित्य चेतसि॥
इंद्रद्युम्ने ह्यविज्ञाते संसेव्यः पावको मया॥११६॥
तस्माद्देहि ममादेशं मार्कंडेयसमन्वितः॥
प्रविशामि यथा वह्निं भ्रष्टकीर्तिरहं बक॥११७॥
मार्कंडेय उवाच॥
वेत्सि चान्यं नरं कञ्चिद्वयसा चात्मनोऽधिकम्॥
पृच्छामि येन तं गत्वा कृते ह्यस्य महात्मनः॥ ११८॥
श्रद्धया परया युक्तः संप्राप्तोऽयं मया सह॥
तत्कथं त्यजति प्राणान्सहाये मयि संस्थिते॥११९॥
अपरं च क्षमं वाक्यं यत्त्वां वच्मि विहंगम॥
अयं दुःखेन संयुक्तः साधयिष्यति पावकम्॥
अहमेनमनुद्धृत्य कस्माद्गच्छामि चाश्रमम्॥६.२७१.१२०॥
सूत उवाच॥
तयोस्तं निश्चयं ज्ञात्वा बकः परमदुर्मना॥
सुचिरं चिंतयामास कथं स्यादेतयोः सुखम्॥१२१॥
ततो राजा मुनिश्चैव दारूण्याहृत्य पावकम्॥
प्रवेष्टुकामौ तौ दृष्ट्वा बको वचनमब्रवीत्॥१२२॥
मम वाक्यं कुरु प्राज्ञ यदि जीवितुमिच्छसि॥
ज्ञातः सोऽद्य मया व्यक्तमिन्द्रद्युम्नं नराधिपम्॥१२३॥
यो ज्ञास्यति मम ज्येष्ठः सर्वशास्त्रविचक्षणः॥
तत्त्वमेनं समादाय मरणे कृतनिश्चयम्॥ १२४॥
निश्वसन्तं यथा नागं बाष्पव्याकुललोचनम्॥
समागच्छ मया सार्धं कैलासं पर्वतं प्रति॥१२५॥
यत्रास्ति दयितो मह्यमुलूकश्चिरजीवभाक्॥
स नूनं ज्ञास्यते तं हि मा वृथा मरणं कृथाः॥ १२६॥
ततोऽसौ तेन संयुक्तो बकेन सुमहात्मना॥
मार्कंडेयेन संप्राप्तः कैलासं पर्वतोत्तमम्॥१२७॥
सोऽपि दृष्ट्वा बकं प्राप्तं मित्रं परमसंमतम्॥
समागच्छदसौ हृष्टः स्वागतेनाभ्यनन्दयत्॥१२८॥
अथ तं चैव विश्रान्तं समालिङ्ग्य मुहुर्मुहुः॥
प्राकारवर्णनामासौ वाक्यमेतदुवाच ह॥१२९॥
स्वागतं ते द्विजश्रेष्ठ भूप सुस्वागतं च ते॥
सख्येऽद्य यच्च ते कार्यं वदागमनकारणम्॥६.२७१.१३०॥
कावेतौ पुरुषौ प्राप्तौ त्वया सार्धं ममांतिकम्॥
दिव्यरूपौ महाभागौ तेजसा परिवारितौ॥१३१॥
बक उवाच॥
एष मार्कंडसंज्ञोऽत्र प्रसिद्धो भुवनत्रये॥
महेश्वरप्रसादेन संसिद्धिं परमां गतः॥
द्वितीयोऽसौ सुहृच्चास्य कश्चिन्नो वेद्मि तत्त्वतः॥
मार्कंडेन समायातः सुहृदा व ममांतिकम्॥१३२॥
यदि जानासि तं भूपमिन्द्रद्युम्नं महामते॥
तत्त्वं कीर्तय येनासौ मरणाद्विनिवर्तते॥१३५॥
चिरायुस्त्वं मया ज्ञातो ह्यतः प्राप्तोऽस्मि तेंऽतिकम्॥१३६॥
उलूक उवाच॥
अष्टाविंशत्प्रमाणेन कल्पा जातस्य मे स्थिताः॥
न दृष्टो न श्रुतः कश्चिदिंद्रद्युम्नो महीपतिः॥१३७॥
इंद्रद्युम्न उवाच॥
तव कस्मादुलूकत्वं शीघ्रं तन्मे प्रकीर्तय॥
एतन्मे कौतुकं भावि यत्ते ह्यायुरनन्तकम्॥
उलूकत्वं च संजातं रौद्रं लोकविगर्हितम्॥१३८॥
उलूक उवाच॥
शृणु तेऽहं प्रवक्ष्यामि दीर्घायुर्मे यथा स्थितम्॥
महेश्वरप्रसादेन बिल्वपत्रार्चनान्मया॥
उलूकत्वं मया प्राप्तं भृगोः शापान्महात्मनः॥१३९॥
अहमासं पुरा विप्रः सर्वविद्यासु पारगः॥
चमत्कारपुरे श्रेष्ठे नाम्ना ख्यातस्तु घंटकः॥
ब्रह्मचारी दमोपेतो हरपूजार्चने रतः॥६.२७१.१४०॥
अखंडितैर्बिल्वपत्रैरग्रजातैस्त्रिपत्रकैः॥
त्रिकालं पूजितः शंभुर्लक्षमात्रैः सदा मया॥१४१॥
ततो वर्षसह्स्रांते तुष्टो मे भगवान्हरः॥
प्रोवाच दर्शनं गत्वा मेघगंभीरया गिरा॥१४२॥
अहं तुष्टोऽस्मि ते वत्स वरं वरय सुव्रत॥
अखंडितैर्बिल्वपत्रैस्त्रिकाले यत्त्वयार्चितः॥१४३॥
बिल्वस्य प्रसवाग्रेण त्रिपत्रेण प्रजायते॥
एकेनापि यथातुष्टिस्तथान्येषां न कोटिभिः॥१४४॥
पुष्पाणामपि भद्रं ते सुगंधानामपि ध्रुवम्॥
सखे मया प्रणम्योच्चैः स प्रोक्तः शशिशेखरः॥१४५॥
यदि तुष्टोसि मे देव यदि देयो वरो मम॥
तन्मां कुरु जगन्नाथ जरामरणवर्जितम्॥१४६॥
स तथेति प्रतिज्ञाय महादेवो महेश्वरः॥
कैलासं प्रति देवेशः क्षणाच्चादर्शनं गतः॥१४७॥
ततोहं परितुष्टोथ वरं प्राप्य महेश्वरात्॥
कृतकृत्यमिवात्मानं चिंतयामि प्रहर्षितः॥१४८॥
एतस्मिन्नेव काले तु भार्गवो मुनिसत्तमः॥
कुशलः सर्वशास्त्रेषु वेदवेदांग पारगः॥१४९॥
तस्य भार्याऽभवत्साध्वी नाम्ना ख्याता सुदर्शना॥
प्राणेभ्योऽपि प्रिया तस्य गालवस्य मुनेः सुता॥६.२७१.१५०॥
तस्य कन्या समभवद्रूपेणाप्रतिमा भुवि॥
सा मया सहसा दृष्टा क्रीडमाना यथेच्छया॥१५१॥
मध्यक्षामा सुकेशी च बिंबोष्ठी दीर्घलोचना॥
तामहं वीक्षयित्वा तु कामदेववशं गतः॥१५२॥
ततः पृष्टा मया कस्य कन्येयं चारुलोचना॥
विभक्तसर्वावयवा देवकन्येव राजते॥१५३॥
सखीभिः कीर्तिता मह्यं भार्गवस्य मुनेः सुता॥
एषा चाद्यापि कन्यात्वे वर्तते चारुहासिनी॥१५४॥
ततोऽहं भार्गवं गत्वा विनयेन समन्वितः॥
ययाचे कन्यकां ता च कृतांजलिपुटः स्थितः॥ १५५।
सवर्णं मां परिज्ञाय सोऽपि भार्गवनंदनः॥
दत्तवांस्तां महाभाग विरूपस्यापि कन्यकाम्॥१५६॥
अथ सा कन्यका ज्ञात्वा पित्रा दत्तास्मि धर्मतः॥
विरूपाय ततो गत्वा मातरं वाक्यमब्रवीत्॥५७॥
सुलज्जा साऽतिदुःखार्ता पश्यांब जनकेन च ॥
विरूपाय प्रदत्तास्मि नाहं जीवितुमुत्सहे॥१५८॥
विषं वा भक्षयिष्यामि प्रवेक्ष्यामि हुताशनम्॥
तस्यास्तद्वचनं श्रुत्वा निषिद्धः स द्विजस्तया॥१५९॥
कस्मान्नाथ प्रदत्तासौ विरूपाय त्वया विभो॥
कन्यकेयं सुरूपाढ्या सर्वलक्षणसंयुता॥६.२७१.१६०॥
एतच्छ्रुत्वा तु वचनं भार्गवो मुनिसत्तमः॥
ततस्तां गर्हयित्वासौ धिङ्नारी पुरुषायते॥१६१॥
अनेन प्रार्थिता कन्या मया चास्मै प्रदीयते॥
तत्किं निषेधयसि मां दीयमानां सुतामिमाम्॥१६२॥
इत्युक्त्वा स प्रसुष्वाप पत्न्याथ कन्यया समम्॥१६३॥
ततोऽर्द्धरात्रे चागत्य मया सुप्ता च भार्गवी॥
हृत्वा स्वभवने नीता निशि सुप्ते जने तदा॥१६४॥
नियुक्ता कामधर्मेण ह्यनिच्छंती बलान्मया॥
विप्रः प्रातर्जजागार पिता तस्यास्ततः परम्॥१६५॥
क्वासौ सा दुहिता केन हृता नष्टा मदीयिका॥
अथासौ वीक्षितुं बाह्ये बभ्राम स्ववनांतिकम्॥१६६॥
पदसंहतिमार्गेण मुनिभिर्बहुभिर्वृतः॥
तेन दृष्टाऽथ सा कन्या कृतकौतुकमंगला॥१६७॥
रुदंती सस्वनं तत्र लज्जमाना ह्यधोमुखी॥
ततः कोपपरीतात्मा मां प्रोवाच स भार्गवः॥ १६८॥
निशाचरस्य धर्मेण यस्मादूढा सुता मम॥
निशाचरो भवानस्तु कर्मणानेन सांप्रतम्।१६९॥
घंटक उवाच॥
निर्दोषं मां द्विजश्रेष्ठ कस्मात्त्वं शपसि द्रुतम्॥
त्वयैषा मे स्वयं दत्ता तेन रात्रौ हृता मया॥६.२७१.१७०॥
यो दत्वा कन्यकां पूर्वं पश्चाद्यच्छेन्न दुर्मतिः।
स याति नरकं घोरं यावदाभूतसंप्लवम्॥१७१॥
अथासौ चिंतयामास सत्यमेतेन जल्पितम्॥
पश्चात्तापसमोपेतो वाक्यमेतदुवाच ह॥१७२॥
सत्यमेतत्त्वया प्रोक्तं न मे वचनमन्यथा॥
उलूकरूपसंयुक्तो भविष्यसि न संशयः॥१७३॥
उत्पत्स्यते यदा चात्र भर्तृयज्ञो महामुनिः॥
तस्योपदेशमासाद्य भूयः प्राप्स्यसि स्वां तनुम्॥१७४॥
ततः कौशिकरूपं तु पश्याम्यात्मानमेव च॥
तथापि न स्मृतिर्नष्टा मम या पूर्वसंभवा॥१७५॥
अथ या तत्सुता चोढा मया तस्मिन्गिरौ तदा॥
सापि मां संनिरीक्ष्याथ तद्रूपं दुःखसंयुता॥
प्रविष्टा हव्यवाहं सा विधवात्वमनिच्छती॥१७६॥
एवं मे कौशिकत्वं हि संजातं तु महाद्युते॥
भार्गवस्य तु शापेन कन्यार्थे यत्तवोदितम्॥१७७॥
अखंडबिल्वपत्रेण पूजितो यन्महेश्वरः॥
चिरायुस्तेनसंजातं सत्यमेतन्मयोदितम्॥१७८॥
सत्यं कथय यत्कृत्यं गृहायातस्य किं तव॥
प्रकरोमि महाभाग यद्यपि स्यात्सुदुर्लभम्॥१७९॥
इन्द्रद्युम्न उवाच ॥
इन्द्रद्युम्नस्य ज्ञानाय प्राप्तोऽहं यत्तवांतिकम्॥
नाडीजंघेन चानीतो मरणे कृतनिश्चयः॥६.२७१.१८०॥
यदि नो ज्ञास्यति भवांस्तं कीर्त्या च कुलेन च॥
प्रविशामि ततो नूनं प्रदीप्तं हव्यवाहनम्॥१८१॥
नो चेत्कीर्तय मे कञ्चिदन्यं तु चिरजीविनम्॥
पृच्छामि तेन तं गत्वा येन वेत्ति न वा च सः॥१८२॥
बक उवाच॥
युक्तमुक्तमनेनाद्य तत्कुरुष्व वदास्य भोः॥
यदि जानासि कंचित्वमात्मनश्चिरजीविनम्॥१८३॥
नो चेदहमपि क्षिप्रं प्रविशामि हुताशनम्॥
मार्कंडेनापि सहितः सांप्रतं तव पश्यतः॥१८४॥
एवम् ज्ञात्वा महाभाग चिन्तयस्व चिरंतनम्॥
कंचिद्भूमितलेऽन्यत्र यतस्त्वं चिरजीवधृक्॥१८५॥
आशया परया प्राप्तस्तवाहं किल मंदिरे॥
पुमानेष विशेषेण मार्कंडेयः प्रियो मम ॥१८६॥
संत्यत्र पर्वतश्रेष्ठाः शतशोऽथ सहस्रशः॥
येषु सन्ति महाभागास्तापसाश्चिरजीविनः॥
नान्यथा जीवितं चास्य कथंचित्संभविष्यति॥१८७॥
इंद्रद्युम्नस्य राजर्षेर्हितं परमकं भवेत्॥
तथावयोर्द्वयोश्चापि तस्माच्चिंतय सत्वरम्॥१८८॥
तस्य तं निश्चयं ज्ञात्वा मरणार्थं महीपतेः॥
स उलूकः कृपां गत्वा ततो वचनमब्रवीत्॥१८९॥
यद्येवं तु महाभाग मर्तुकामोऽसि सांप्रतम्॥
तदागच्छ मया सार्धं गन्धमादनपर्वतम्॥६.२७१.१९०॥
तत्र संतिष्ठते गृध्रः स च मे परमः सुहृत्॥
चिरंतनस्तथा सम्यक्स ते ज्ञास्यति तं नृपम्॥
कथयिष्यत्यसंदिग्धं मम वाक्यादसंशयम्॥१९१॥
तस्य तद्वचनं श्रुत्वा मार्कंडेयादिभिस्त्रिभिः॥
प्रोक्तः सर्वैर्महाभाग मा त्वं प्रविश पावकम्॥१९२॥
वयं यास्यामहे सर्वे त्वया सार्धं च तत्र हि॥
कदाचित्सोऽपि जानाति इंद्रद्युम्नं महीपतिम्॥१९३॥
तेषां तद्वचनं श्रुत्वा आशया परया युतः॥
स राजा सह तैः सर्वैः प्रययौ गंधमादनम्॥१९४॥
गृध्रराजोऽपि तान्दृष्ट्वा सर्वानेव कृतांजलिः॥
उलूकं पुरतो दृष्ट्वा प्रहृष्टः सन्मुखो ययौ॥१९५॥
ततोऽब्रवीत्प्रहृष्टात्मा स्वागतं ते द्विजोत्तम॥
चिरकालात्प्रदृष्टोऽसि क एतेऽन्येऽत्र ये स्थिताः॥१९६॥
उलूक उवाच॥
एष मे परमं मित्रं नाडीजंघो बकः स्मृतः॥
एतस्यापि तु मार्कण्डः संस्थितः परमः सुहृत्॥१९७॥
असौ त्रैलोक्यविख्यातः सप्तकल्पस्मरो भुवि॥
एतस्यापि सुहृत्कश्चिन्नैनं जानामि सत्वरम्॥१९८॥
म्रियमाणो मया ह्येष समानी तस्तवांतिकम्॥
अयं जीवति विज्ञात इंद्रद्युम्ने नरेश्वरे॥
नो चेत्प्रविशति क्षिप्रं प्रदीप्तं हव्यवाहनम्॥१९९॥
स त्वं जानासि चेद्ब्रूहि इन्द्रद्युम्नं महीपतिम्॥
चिरंतनो मयापि त्वं तेन प्रष्टुं समागतः॥६.२७१.२००॥
गृध्र उवाच॥
इन्द्रद्युम्नेति विख्यातं राजानं न स्मराम्यहम्॥
न दृष्टो न श्रुतश्चापि इन्द्रद्युम्नो महीपतिः॥२०१॥
तस्य तद्वचनं श्रुत्वा सोऽपि राजा सुदुर्मनाः॥
मनसा चिन्तयामास मरणे कृतनिश्चयः॥२०२॥
ततस्तु कौतुकाविष्टस्तं पप्रच्छ द्विजोत्तमम्॥
कर्मणा केन संप्राप्तमायुष्यं चेदृशं वद॥२०३॥
ततः संभावयिष्यामि श्रुत्वा तेऽहं विभावसुम्॥२०४॥
गृध्र उवाच॥ अहमासं चमत्कारपुरे मर्कटकः किल॥
उपत्यकायां तत्रैव रक्तशृंगस्य भूभृतः॥२०५॥
तत्रैवास्ति महच्छंभोर्मंदिरं मंदरोपमम्।
चित्रेश्वराभिधानं च सर्वपातकनाशनम्॥२०६॥
वसंते तत्र संप्राप्ते पौरजानपदैस्तथा॥
आगत्य चैव सुमहानुत्सवो विहितोऽभवत्॥२०७॥
लिंगस्य सविधै रम्ये सर्वर्तुफलितद्रुमे॥
कानने कामिनीलोककांते जनमनोहरे॥
लिंगमारोपितं चारु तरोरांदोलके मुदा॥ २०८॥
कृत्वा दमनकेनार्चां स्थाप्यांदोले सुयंत्रिते॥
ययुस्ते स्वगृहं पश्चादर्चयित्वा त्रिलोचनम्॥२०९॥
ततोऽहं रजनीवक्त्रे तां दोलां सुमनोहराम्॥
कौतुकाविष्टहृदयो दोलयामि मुहुर्मुहुः॥६.२७१.२१०॥
एवं संदोलयानस्य मम प्राप्ता नरास्तदा॥
कैश्चित्तैस्त्रासितो हत्वा लगुडैः सर्वतोदिशम्॥२११॥
ततः पंचत्वमापन्नस्तत्रैवायतने द्रुतम्॥
ततो जातिस्मरो भूत्वा संजातो नृपमंदिरे॥२१२॥
कोटीश्वरस्यविख्यातो नाम्ना चैव कुशध्वजः॥
पितृपैतामहं राज्यं मया प्राप्तं ततः क्रमात्।२१३॥
कोटीशे समनुप्राप्ते परलोकं स्वकर्मणा ॥
जागेश्वरं महाभागं दोलयामि यथेच्छया॥२१४॥
शिवसिद्धांतजैर्मंत्रैर्गुरुणा संनिवेदितैः॥
ततः कालेन महता तुष्टो देवो हरो मम॥
भवतो वरदश्चास्मि वाक्यमेतदुवाच ह॥२१५॥
कुशध्वज प्रतुष्टोऽस्मि श्रद्धया परया तव॥
वरं वृणीष्व भद्रं ते यः सदा मनसि स्थितः॥२१६॥
ततो मया प्रणम्योच्चैः स प्रोक्तो भगवान्हरः॥२१७॥
यदि तुष्टोसि मे देव तन्मां कुरु निजं गणम्॥
त्रैलोक्यराज्यमपि मे नान्यत्संप्रति रोचते॥२१८॥
एवमुक्तो मया देवो विमाने मां निधाय सः॥
शिवलोकं महापुण्यं सहसा मां समानयत्॥२१९॥
ततः प्रसादतश्चाहं भवान्याश्च हरस्य च॥
क्रीडामि स्वेच्छया तत्र गणमध्ये व्यवस्थितः॥६.२७१.२२०॥
कस्यचित्त्वथ कालस्य विमानवरमाश्रितः ॥
स्वेच्छयाभ्रममाणस्तु प्राप्तोऽत्रैव महागिरौ ॥ २२१ ॥
वसंतसमये प्राप्ते प्रवृत्ते दक्षिणानिले ॥
अग्निवेश्यसुता दृष्टा विवस्त्रा जलम ध्यगा ॥ २२२ ॥
आलिभिर्बहुभिर्युक्ता क्रीडमाना यथेच्छया ॥
मुष्टिग्राह्या तु मध्ये सा बिंबोष्ठी वारिजेक्षणा ॥ २२३ ॥
बिल्वस्तनी शशांकास्या सर्वलक्षणलक्षिता ॥
ततोऽहं मन्मथाविष्टः समभूवं हि तत्क्षणात् ॥ २२४ ॥
अवतीर्य विमानाग्र्याद्गृहीताथ करे मया ॥
प्रकुर्वाणाथ करुणं पक्षिणीकुररी यथा ॥ २२५ ॥
ततः कन्या मुनींद्राणां याः स्थितास्तत्र वारिणि ॥
रुदंत्यः संप्रयातास्ता अग्निवेश्यस्य संनिधौ ॥ २२६ ॥
नीयते त्वत्सुता ब्रह्मन्विमानवरमाश्रिता ॥
वैमानिकेन केनापि क्रन्दमाना निरर्गलम् ॥२२७ ॥
तच्छ्रुत्वा कुपितः सोऽथ व्योममार्गावलोकनः ॥
स्वाश्रमात्संप्रयातः स भर्त्समानो मुहुर्मुहुः॥२२९॥
तिष्ठतिष्ठेति च प्रोच्य स्तंभयामास सर्वतः ॥
तपसोग्रेण विप्रस्य विमानं मम संस्थितम् ॥२२९॥
अब्रवीच्च ततो मां स कोपेन महताऽन्वितः ॥
यस्मात्पाप त्वया कन्या क्रीडती विहृताधुना ॥ ६.२७१.२३० ॥
अकामा मांसपेशीव यथा गृध्रेण दुर्मते ॥
तस्माद्गृध्रो भवत्वाशु मम वाक्यादसंशयम् ॥२३१॥
एवमुक्तस्ततस्तेन लज्जयाऽहं परिप्लुतः ॥
निवेद्य कन्यकां तस्मै प्रणिपत्य मुहुर्मुहुः ॥ २३२ ॥
ततः प्रोक्तो मया विप्रस्त्वग्निवेश्यो महातपाः ॥
न मया ते सुता ज्ञाता न कोपयितुमर्हसि॥२३३॥
गृध्रत्वं मे यथा न स्यात्तथाकुरु मुनीश्वर ॥२३४॥
ततोऽहं तेन च प्रोक्तो न मिथ्यावचनं मम ॥
कथंचिज्जायते तस्माद्गृध्रत्वं प्रभविष्यति ॥ २३५ ॥
आनर्तस्योपदेशेन यदा यास्यसि भोऽधम ॥
भर्तृयज्ञं महाभागमुपदेशकृते तदा ॥ २३६ ॥
तस्माच्च निष्कृतिं प्राप्य गृध्रत्वं ते प्रयास्यति ॥
स मयाऽन्वेषमाणेन न दृष्टो नैव च श्रुतः ।
निर्विण्णो गृध्रभावेन शापांतो न च मेऽभवत् ॥ २३७ ॥
गृध्र उवाच ॥ ॥
एतत्ते सर्वमाख्यातं गृधत्वस्य च कारणम् ॥
आयुष्यं च यथा जातं मम संख्याविवर्जितम् ॥ २३८ ॥
इन्द्रद्युम्न उवाच ॥ ॥
अनुज्ञां देहि मे शीघ्रं प्रविशामि हुताशनम् ॥
येन वैराग्यमापन्नो न हि जीवितुमुत्सहे ॥ ॥ २३९ ॥
एवमुक्तः स तेनाथ चिंतयामास चेतसि ॥
ममांतिकं समायात एवं मित्रसमन्वितः ॥
तत्करोमि यथाशक्त्या स्वोपकारं सुदुर्लभम् ॥ ॥६.२७१.२४॥।
ततः प्रोवाच तं प्रीत्या दाक्षिण्यं परमं गतः ॥
मा साधय चाग्निं भोः शृणु तावद्वचो मम ॥२४१॥
अहं ते कीर्तयिष्यामि मत्तो योऽपि चिरंतनः ॥२४२॥
यो ज्ञास्यति न संदेह इंद्रद्युम्नं महीपतिम् ॥२४२॥
तदागच्छ मया सार्धं तत्समीपं महात्मनः ॥
सहायैः सहितः सर्वैर्मया सार्धं तथैव च ॥२४३॥
॥ इंद्रद्युम्न उवाच ॥ ॥
कस्तवाप्यधिकोऽप्यस्ति जीवितव्येन सद्द्विज ॥
एतन्मे कौतुकं भूरि तस्माद्वद महामते ॥ २४४ ॥
गृध्र उवाच ॥
अस्ति मंथरकोनाम कमठश्चिरजीवितः ॥
मानसे सरसि ख्यात इन्द्रद्युम्नं स वेत्स्यति ॥ २४५ ॥
तस्य तद्वचनं श्रुत्वा मार्कंडाद्याश्च ते त्रयः ॥
तमूचुः पार्थिवश्रेष्ठं मरणे कृतनिश्चयम् ॥ २४६ ॥
युक्तमुक्तं महाभाग गृधराजेन धीमता ॥
तत्र यास्यामहे सर्वे यत्रासौ कमठः स्थितः ॥ २४७ ॥
अनिर्वेदः श्रियो मूलं यतः शंसंति पंडिताः॥
नीतिशास्त्रविदः सर्वे तस्मादागच्छ गम्यताम् ॥ २४८ ॥
॥ सूत उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वाकृच्छ्रान्निर्वर्त्य पार्थिवः ॥
मरणाद्ब्राह्मणश्रेष्ठा वैराग्यं परमं गतः ॥ २४९ ॥
अथ ते प्रस्थिताः सर्वे गंधमादनपर्वतात् ॥
पंचापि च समादिश्य मानसं सर उत्तमम् ॥
अथ प्राप्ताः क्रमेणैव गच्छमाना विहायसा ॥ ६.२७१.२५० ॥
मानसं तत्सरो रम्यं कूर्मस्तोयाद्विनिर्गतः ॥
निदाघे सेवमानस्तु संतिष्ठति यदृच्छया ॥ २५१ ॥
स च तांश्चतुरो दृष्ट्वा सुचिरं च निरीक्ष्य तान् ॥
परिज्ञाय ततः सर्वान्प्रनष्टः सलिलं प्रति ॥ २५२ ॥
अथ तं कौशिकः प्राह गच्छमानं पराङ्मुखम् ॥
भोभो मित्राय मां दृष्ट्वा संजातोऽसि पराङ्मुखः ॥ २५३ ॥
सुनीचोऽपि गृहं प्राप्तो भवेत्पूज्य तमः सताम् ॥ २५४ ॥
अथासौ तोयमध्यस्थः शिरोमात्रं बहिर्गतः ॥
प्रत्युवाचाथ तं गृध्रं विनयाद्द्विजसत्तमाः ॥ २५५ ॥
नाहं पराङ्मुखो जात स्त्वां दृष्ट्वाऽनंतरावुभौ॥
पंचमोऽयं समभ्येति यो युष्माकं महापुमान् ॥ २५६ ॥
भयात्तस्य प्रणष्टोऽहमिंद्रद्युम्नस्य भूपतेः ॥
अनेन तु प्रदग्धा मे पुरा पृष्ठिर्मखाग्निना ॥
सततं यजमानेन रोचके सत्पुरोत्तमे ॥ २५७ ॥
एतदीयं पुनः स्मृत्वा भयं मे सुमहत्स्थितम् ॥
इंद्रद्युम्नस्य राजर्षेः कीर्ति संश्रयणं महत् ॥ २५८ ॥
इत्येवमुक्ते वचने कमठेन तदा दिवः ॥
देवदूतः समागच्छच्छासनात्परमेष्ठिनः ॥ २५९ ॥
॥ देवदूत उवाच ॥
आगच्छागच्छ राजर्षे सांप्रतं ब्रह्मणोंऽतिकम् ॥
उक्तोऽहं ब्रह्मणा राजन्कीर्तिश्चास्य पृथग्विधा ॥ ६.२७१.२६० ॥
यदा प्रकाशतां याति स्वल्पापि जगती तले ॥
तदाऽऽनेयो द्रुतं राजा मम लोके सुदुर्लभे [। २६१ ॥
तस्मादागच्छ गच्छामो विमानारोहणं कुरु ॥
नयामि येन तत्पार्श्वं ब्रह्मणोऽव्यक्तजन्मनः ॥ २६२ ॥
॥इंद्रद्युम्न उवाच ॥ ॥
यद्येते सुहृदो मह्यं बककौशिककच्छपाः ॥
मार्कंडेयेन सहिता आगच्छंति मया सह ॥ २६३ ॥
आगच्छामि त्वया सार्धं तदहं ब्रह्मणोंऽतिकम् ॥
अन्यथा नागमिष्यामि सत्यमेतन्मयोदितम् ॥ २६४ ॥ ॥
॥ देवदूत उवाच ॥ ॥
एते हरगणाः सर्वे शापभ्रष्टा क्षितिं गताः ॥
शापांते हरपार्श्वे तु यो यास्यंत्यसंशयम् ॥२६५॥
तस्मादागच्छ गच्छामो मुक्त्वात्रैतान्द्रुतं नृप ॥
न चैषां रोचते स्वर्गो मुक्त्वा देवं महेश्वरम् ॥ २६६ ॥
॥ इंद्रद्युम्न उवाच ॥ ॥
यद्येवं गच्छ ते भद्रं नाहं गंता त्रिविष्टपम् ॥
तथातथा यतिष्यामि भविष्यामि यथा गणः ॥ २६७ ॥
तत्रस्थस्य ध्रुवं भावि नित्यं च पतनाद्भयम् ॥
एवमुक्तः स तेनाथ समादाय विमानकम् ॥ २६८ ॥
ब्रह्मलोकं गतो दूतो वैलक्ष्यं परमं गतः ॥
इंद्रद्युम्नोपि प्रपच्छ तं कूर्मं विनयान्वितः ॥ २६९ ॥
आख्याहि कूर्म स्वं कर्म यदीदृक्त्वं चिरंतनः ।
कर्मणा केन तत्प्राप्तं कूर्मत्वं शंस मे द्रुतम् ॥ ६.२७१.२७० ॥
॥ कूर्म उवाच ॥ ॥
अहमासं पुरा विप्रो बालभावे व्यवस्थितः॥
चमत्कारपुरे रम्ये शांडिल्यो नाम विश्रुतः ॥ २७१ ॥
बालक्रीडासु सर्वासु क्रीडमानो यदृच्छया ॥
पक्वेष्टिकमयं शंभोः क्रीडता निर्मितं गृहम् ॥
तत्र जागेश्वरं लिंगं हृत्वाऽथ विनिवेशितम् ॥ २७२ ॥
ततोऽहं भक्तिसंयुक्तः पूजयामि दिनेदिने ॥
क्रीडमानो विना मंत्रैः शिशुभिः परिवारितः ॥ २७३ ॥
कस्यचित्त्वथ कालस्य मरणे समुपस्थिते ।
जातिस्मरो ह्यहं विप्रो जातो वै वैदिशे पुरे ॥ २७४ ॥
ततो मेऽभ्यधिका जाता भक्तिर्देवं हरं प्रति ॥
कृत्त्वा भिक्षाटनं नित्यं याचयित्वा धनं बहु ॥ २७६ ॥
कृत्वा प्रासादमात्रं तु लिंगं संस्थापितं मया ॥
पूजयामि ततो भक्त्या देवं पशुपतिं हरम् ॥ २७६ ॥
ब्रह्मविद्यासमोपेतो भिक्षान्नकृतभोजनः ॥
ब्रह्मचर्यसमोपेतस्त्रिकालं च जपञ्छिवम् ॥ २७७॥
ततस्तेन प्रभावेन संजा तोऽहं भवांतरे ॥
सार्वभौमो महीपालो जातिस्मरणसंयुतः ॥ २७८ ॥
ततः संख्याविहीनाश्च प्रासादाः कारिता मया ॥
त्रिनेत्रस्य महाराज कैलास शिखरोपमाः ॥२७९॥
तथा निरूपिता पूजा बहुपुष्पसमुद्भवा ॥
नान्यत्किंचित्करोम्यत्र धर्म दानादिकं नृप ॥ ६.२७१.२८० ॥
ततः कालेन महता तुष्टो मे शशिशेखरः ॥
ततः प्रोवाच राजर्षे प्रहसञ्छ्लक्ष्णया गिरा ॥ २८१ ॥
जयदत्त प्रतुष्टोऽस्मि तव पार्थिवसत्तम ॥
भक्त्याऽनया द्रुतं ब्रूहि किं ते यच्छामि वांछितम्॥ २८२ ॥
प्रणिपत्य ततोऽष्टांगं स्तुत्वा चैव पृथिग्विधम् ॥
मया प्रोक्तो हरो राजन्कुरु मामजरामरम् ॥
स तथेति प्रतिज्ञाय गतोंऽतर्धानमेव हि ॥ २८३ ॥
अप्रमेयगतिर्देवश्चतुर्दशजगत्पतिः ॥
ततोऽहं तुष्टिसंयुक्तो जरामरणवर्जितः ॥
विचरामि महीपृष्ठे स्वेच्छया शत्रु वर्जितः ॥ २८४ ॥
ततः कालेन महता गतेन नृपसत्तम ॥
बहुकामाग्निसंतप्तः शिवभक्तिविवर्जितः ॥ २८५ ॥
यांयां पश्यामि रूपाढ्यां परनारीं मनोरमाम् ॥
तांतां निरीक्ष्य सुचिरं धर्षयामि ततः परम् ॥ २८६ ॥
धर्मराजभयत्यक्तः पार्थिवत्वं समाश्रितः ॥ २८७ ॥
एतस्मिन्नंतरे राजन्मम पापेन कर्मणा ॥
हाहाकारस्ततो जातः समग्रे धरणीतले ॥ २८८ ॥
एतस्मिन्नंतरे प्राप्तो धर्मराजः शिवांतिकम् ॥
अब्रवीत्प्रणिपत्योच्चैर्दुःखित स्तदनंतरम्॥२८९॥
त्वया देव महीपालो जयदत्तो महीतले ॥
यो निर्मितः प्रतुष्टेन जरामरणवर्जितः॥६.२७१.२९॥।
स सतीनां सतीत्वं च बलान्नाशयते कुधीः ॥
सर्वो भूपभयाल्लोकः सर्वधर्मबहिष्कृतः ॥ २९१ ॥
संजातो विबुधश्रेष्ठ न स्वभावात्कथंचन ॥
तस्यैकमपि मे नास्ति भयं सत्यं ब्रवीमि ते ॥ २९२ ॥
तस्माद्वारय तं शीघ्रं यावद्धर्मो न नश्यति ॥
मर्त्यलोकादशेषेण सतीनां धर्षणेन च ॥ २९३ ॥
एवमुक्तस्ततो देवः कोपेन महतान्वितः ॥
शशाप मां समानीय वेपमानं कृताञ्जलिम् ॥ २९४ ॥
यस्माद्दुष्टसमाचार कृतं कर्म विगर्हितम् ॥
तस्मान्मच्छाप निर्दग्धः कमठो वै भविष्यसि ॥ २९५ ॥
ततो मया सुदीनेन प्रार्थितः परमेश्वरः ॥
शापांतं मे कुरुष्वेश कुरुष्व च दयां मम ॥ २९६ ॥
ततस्तेन पुनः प्रोक्तं कल्पांते षष्टिसंज्ञिते ॥
स्वशरीरं पुनः प्राप्य मद्गणस्त्वं भविष्यसि ॥ २९७ ॥
एतस्मिन्नंतरे कूर्मः संजातोऽहं महीपते ॥
समुद्रसलिलं प्राप्य संस्थितो दुःखितोऽनिशम् ॥ २९८ ॥
कस्यचित्त्वथकालस्य राजंस्त्वं भूतले स्थितः ॥
यजनार्थं समानीतः समुद्रसलिलस्त्वया ॥२९९॥।
स्थापितो भूमिपृष्ठे तु मंत्रै संस्तंभितस्तथा ॥
ममोपरि ततो यज्ञाः कृताः शतसहस्रशः ॥ ६.२७१.३०० ॥
क्रियमाणैश्च यैर्दग्धा मम पृष्ठिः समंततः ॥।
दह्यतोऽपि महाराज तेन यज्ञाग्निना तदा ॥
प्रसादनान्महेशस्य न मे प्राणात्ययो ऽभवत्॥ ३०१ ॥
केवलं जायते दाहो यथा पापं पुरा कृतम्॥
अनुभूतं च तत्सर्वं हरकोपादसंशयम् ॥ ३०२ ॥
अथ प्राप्ते दिवं चैव त्वयि पार्थिवसत्तम ॥
एकार्णवे तु संजाते जलपूर्णे धरातले ॥
संप्राप्तः प्लवमानस्तु ततोऽहं मानसं सरः ॥ ३०३ ॥
षड्पंचाशत्प्रमाणेन कल्पा मम च संस्थिताः ॥
चतुर्भिरपरैर्मोक्षः कूर्मत्वात्संभविष्यति ॥ ३०४ ॥।
एतत्ते सर्वमाख्यातं दीर्घायुष्ट्वस्य कारणम् ॥
हरप्रसादकरणाद्बहुपुष्पार्चनाद्विभोः ॥ ३०५ ॥
कूर्मत्वं च यथा जातं कामदेवस्य कोपतः ॥
स त्वं वद महाभाग गृहायातस्य किं तव ॥
करोमि सांप्रतं कृत्यं शत्रोरपि हृदि स्थितम् ॥ ३०६ ॥
त्वया मे सुचिरं कालं दग्धा पृष्ठिर्मखाग्निना ॥
अद्यापि च प्रपश्यामि तां ज्वलंतीमिव स्थिताम् ॥ ३०७ ॥
एतस्मात्कारणान्नष्टस्त्वां दृष्ट्वाहं महीपते ॥
कस्मात्त्वं न गतः स्वर्गं विमानेऽपि समागते ॥
एतस्मात्कारणाद्धर्मं प्रकुर्वंति नराधिपाः ॥ ३०८ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
स्वर्गस्थाने च लोकानां नित्यं च पतना द्भयम् ॥
तन्न यास्याम्यहं तत्र यतिष्यामि विमुक्तये ॥ ३०९ ॥
स त्वं करोषि चेत्कृत्यं गृहायातस्य मे मखे ॥
चिरंतनं कथय मे यद्यस्ति तव सौहृदम् ॥ ६.२७१.३१० ॥
॥ कूर्म उवाच ॥ ॥
लोमशो नाम विप्रर्षिः स मत्तोऽस्ति चिरंतनः ॥
श्रूयते स मया दृष्टो नदीतीरं समाश्रितः ॥३११॥ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
तदागच्छत गच्छामो यतः सर्वे द्रुतं स्वयम्॥
पृच्छामो बहुकालस्य जीवितस्य च कारणम्॥३१२॥
अथ ते सहिताः पञ्च व्योममार्गेण संस्थिताः ॥
अथ ते ददृशुस्तत्र लोमशं च निराश्रयम् ॥ ३१३ ॥
स्वाध्यायनिरतं दांतं जपहोमपरायणम् ॥
सव्य हस्ते तृणौघेन छायार्थं विधृतेन च ॥ ३१४ ॥
दधतं चाक्षमालां च दक्षिणेन करेण हि ॥
ते तं दृष्ट्वा महात्मानं कृत्वा तस्य प्रदक्षिणाम् ॥
उपविष्टास्ततः सर्वे स्वागतेनाभिनन्दिताः ॥ ३१५ ॥
पृष्टास्तेन ततश्चैव के यूयं किमिहागताः ॥
विश्रब्धं कथ्यतां मह्यं येन सर्वं करोम्यहम् ॥ ॥ ३१६ ॥
॥ कूर्म उवाच ॥ ॥
मार्कंडो नाम विप्रर्षिः सप्तकल्पस्मरो ह्ययम् ॥
इन्द्रद्युम्नेन चानीतो भूभुजानेन सन्मुने ॥ ३१७ ॥
बकस्यास्य समीपे तु नाडीजंघस्य धीमतः ॥
चिरायुरिति विज्ञाय आत्मनश्चायुरुत्तमम् ॥
इन्द्रद्युम्नस्य वार्तार्थं द्विगुणायुषमात्मनः ॥ ३१८ ॥
अथ तेन न विज्ञातो यदा स पृथिवीपतिः ॥
तदा द्वावपि चायातावुलूकस्यास्य संनिधौ ॥ ३१९ ॥
द्विगुणास्तत्प्रमाणेन कल्पाश्चास्य महात्मनः ॥
वर्तंते नैव विज्ञातो नृपो ह्येतेन सद्द्विज ॥ ६.२७१.३२० ॥
ततस्त्रयोऽपि चानीता गृध्रराजस्य चान्तिकम् ॥ ३२१ ॥
षट्पञ्चाशत्प्रमाणेन कल्पाश्चास्य महात्मनः ॥
वर्तन्ते नैव विज्ञातो नृपो ह्येतेन सद्द्विज ॥ ३२२ ॥
चत्वारोऽपि समानीता एतेनैव ममान्तिकम् ॥
चिरायुषं च मां ज्ञात्वा मित्रभावेन ते द्विज ॥ ३२३ ॥
मयाप्यसौ परिज्ञातो दूरादेव समागतः ॥
इन्द्रद्युम्नो ध्रुवं ह्येष दग्धा पृष्ठिः पुरा मम ॥ ३२४ ॥
येन यज्ञाग्निना मंत्रै स्तंभयित्वा क्षितेरधः ॥
ततोऽहं तद्भयान्नष्टो गृध्राद्यैश्च निवारितः ॥ ३२५ ॥
उपालंभैस्तु बहुभिः प्रणया ज्जलमाविशत् ॥
मयोक्तोऽथ स भूयोऽपि नाहं तव पराङ्मुखः ॥ ३२६ ॥
इन्द्रद्युम्नेन मे पृष्ठिर्येन दग्धा मखाग्निना ॥
एतस्मिन्नन्तरे स्वर्गाद्देवदूतो महामनाः ॥
विमानवरमारूढः प्राप्तश्चास्य महात्मनः ॥ ३२७ ॥
कीर्तिलोपाच्युतः स्वर्गादयमासीन्महीपतिः ॥
ततो विमानमायातमुक्तमात्रे मया दिवः ॥ ३२८ ॥
अथासौ न गतः स्वर्गं विनाऽस्माभिर्द्विजोत्तम ॥
मार्कंडेयं परित्यज्य तिर्यग्योनिगतैस्त्रिभिः ॥ ३२९ ॥
पृच्छतोऽस्य मया प्रोक्तमायुष्यं चात्मनः पुनः ॥
षण्णवतिप्रमाणेन कल्पा मे जीवतो गताः । ६.२७१.३३० ॥
पृष्टोऽहं पूर्वमेवात्र संस्थितस्तव पार्श्वतः ॥
चिरंतनतमो ब्रूहि मया त्वं तु निवेदितः ॥ ३३१ ॥
एतस्मात्कारणात्प्राप्ता वयं सर्वे तवांतिकम् ॥
तस्माद्यत्पृच्छते भूप एष त्वां तत्प्रकीर्तय ॥ ३३२ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
लोमशोऽप्यथ तं प्राह विश्रब्धं पृच्छ पार्थिव ॥
अवश्यं कथयिष्यामि यन्मां त्वं परिपृच्छसि ॥ ३३३ ॥
॥ इंद्रद्युम्न उवाच ॥ ॥
कस्मात्त्वं ग्रीष्मकालेऽपि मध्यं प्राप्ते दिवाकरे ॥
निवासार्थं गृहं रम्यं किमर्थं न करिष्यसि ॥ ३३४ ॥
॥ ॥ लोमश उवाच ॥ ॥
कस्यार्थे क्रियते गेहमनित्यं जीवितं यतः ॥
यदि स्याच्छाश्वतो देहस्तदर्थं क्रियते च तत् ॥ ३३५ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
सर्वेषामेव लोकानां चिरायुः श्रूयते भवान् ॥
तेनाहमपि संप्राप्तो भवद्दर्शनकाम्यया ॥ ३३६ ॥
॥ लोमश उवाच ॥ ॥
कल्पे कल्पे तु संप्राप्ते रोमकं मम नश्यति ॥
अभावे सर्वरोम्णां च ततो नाशो भविष्यति ॥ ३३७ ॥
पश्य त्वं मच्छरीरेऽस्मिन्प्रकाशं रोमवर्जितम् ॥
न करोमि गृहं तेन कारणेन महामते ॥३३८॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
किं त्वया विहितं कर्म येनेदृग्जीवितं स्थितम् ॥
किं दानस्यप्रभावोऽयं तपसो नियमस्य वा ॥ ३३९ ॥
॥ लोमश उवाच ॥ ॥
अहमासं पुरा शूद्रो दरिद्रेण परिप्लुतः ॥
भ्रमामि मेदिनीपृष्ठ उदरस्य कृते सदा ॥६.२७१.३४॥।
कर्मयोगेन महता संप्राप्तो हाटकेश्वरम्॥
क्षुत्क्षामस्तु पिपासार्तो यत्रैतल्लिंगमुत्तमम् ॥
अवधूतं ततो लिंगं मया दृष्ट्वा स्वयंभु तत्॥ ३४१ ॥
स्नापितं तोयमादाय शीतमेतत्सुनिर्मलम्॥
ततस्तु कमलैरेतैर्मया पूजा विनिर्मिता ॥३४२॥
अथ पूजां विनिर्वर्त्य यावन्मार्गसमाश्रितः ॥ क्षु
त्क्षामकण्ठस्य ततः प्राणा नष्टास्तदा मम ॥३४३॥
अथाहं ब्राह्मणगृहे जातो जातिस्मरस्ततः ॥
सर्वं स्मरामि भूपाल देवदेवस्यपूजनात् ॥ ३४४ ॥
ततो मूकत्वमापन्नो नैव जल्पामि किंचन ॥
ईशान इति मे नाम पिता चक्रे प्रहर्षितः ॥३४५॥
ईशानेन यतो दत्तः पूर्वमाराधितेन च ॥
वैराग्यं परमं प्राप्तो इष्ट्वा संसारसंस्थितिम् ॥३४६॥
पिता मे बहुवात्सल्याद्भेषजानि प्रयोजयेत्॥
वाचार्थं मंत्रवादांश्च तथा चैवोपयाचितम् ॥
ब्राह्मणान्पृच्छते नित्यं दिवारात्रिमतंद्रितः ॥ ३४७ ॥
ततो मे जायते हास्यं निजचित्ते नराधिप ॥
दृष्ट्वा संसारसंसक्तिं पितुर्मातुश्च भूरिशः ॥३४८॥
ततश्च यौवनं प्राप्तः क्रमेण नृपसत्तम ॥
यदा तदा निशि त्यक्त्वा तावुभौ चात्र संगतः ॥ ३४९ ॥
ततो हृष्टमना नित्यं पूजयामि समाहितः ॥
ईशानं परया भक्त्या संस्नाप्य सलिलेन च ॥६.२७१.३५॥।
ब्राह्मणीतीर्थजातेन त्रिकालं नृपसत्तम ॥
शिलोंछवृत्तिमासाद्य प्राणयात्रां समाचरन् ॥
नीवारैर्बदरैः शाकैश्चिर्भटैः फलपत्रकैः ॥ ३५१ ॥
ततो मे भगवान्रुद्रः सर्वदेवेश्वरो हरः ॥
अब्रवीद्दर्शनं गत्वा मेघगम्भीरया गिरा ॥ ३५२ ॥
परितुष्टोऽस्मि ते वत्स वरं वरय सुवते ॥
अदेयमपि दास्यामि यद्यपि स्यात्सुदुर्लभम्॥ ३५३ ॥
ततस्तं प्रणिपत्योच्चैः स्तुत्वा वाक्यैः पृथग्विधैः ॥
मया प्रोक्तं कुरु विभो जरामरण वर्जितम्॥३५४॥
श्रीभगवानुवाच॥ अमरत्वं यतो नास्ति मर्त्यलोकेऽत्र कर्हिचित्॥
मर्यादां कुरु तस्मात्त्वं जीवितस्य स्वकस्य वै॥३५५॥
ततो मे भगवानुक्तः कल्पांते समुपस्थिते ॥
रोम्ण एकस्य मे नाशो जायतां त्रिदशेश्वर॥३५६॥
यदा च सर्वरोम्णां मे विनाशः संप्रजायते ॥
तदा मम गणत्वं च जायतां तावकं विभो ॥ ३५७ ॥
एवं भविष्यतीत्युक्तं परं लिंग सदा मम ॥
स्नाप्यं जलेन चैतेन ब्राह्मणीसंभवेन च ॥ ३९८ ॥
ब्रह्माद्यैः पूजनीय च त्रिकालं द्विजसत्तम ॥
ममकैवासरं यावत्तव चायुर्भविष्यति ॥ ३५९ ॥
अन्योऽपि यो नरो भक्त्या पूजयिष्यति मामिह ॥
स्नापयिष्यति सद्भक्त्या विपाप्मा स भविष्यति ॥ ६.२७१.३६० ॥
नापमृत्युर्भवेत्तस्य कदाचिद्द्विजसत्तम ॥
सकृत्संपूजिते ऽप्येवं ब्रह्माद्यैर्मत्कलेवरे ।। ३६१ ॥
सकृत्पिबति यस्तोयं ब्रह्मतीर्थसमुद्भवम् ॥
सर्वपापविशुद्धात्मा तत्क्षणाज्जायते हि सः ॥ ३६२ ॥
एवमुक्त्वाथ देवेशस्ततश्चादर्शनं गतः ॥ ३६३ ॥
अहं तु संस्थितश्चात्र ततः प्रभृति पार्थिव ॥
पूजयानश्च सद्भक्त्या लिंगमेतत्सदैव हि ॥ ३६४ ॥
एतस्मात्कारणाज्जातं ममायुरतिविस्तृतम् ॥
शंकरस्य प्रसादेन नान्यदस्तीह कारणम् ॥ ३६५ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
अहमप्यर्चयिष्यामि लिंगमेत त्त्वया सह ॥
नान्यत्र वा गमिष्यामि ममैवं हृदि निश्चयः ॥ ३६६ ॥
॥ लोमश उवाच ॥ ॥
एवं कुरु महाभाग त्वमवाप्स्यसि वांछितम् ॥
हरभक्तस्य लोकस्य वांछितं नास्ति दुलर्भम् ॥ ३६७ ॥
नाडीजंघो गृहं यातु मार्कंडगृधकौशिकाः ॥
कच्छपेन समायुक्तस्त्वं हि तिष्ठ ममा श्रमे ॥ ३६८ ॥
ततः प्रोचुश्च ते सर्वे न वयं तु नरेश्वर ॥
त्वां विना संप्रयास्यामो भूय एव निजालयम् ।
लिंगमाराधयिष्यामो यदेतद्भवता र्चितम् ॥ ३६९ ॥
एवमुक्त्वा तु ते सर्वे लोमशस्य वराश्रमे ॥
तस्थुः संपूजयामासुस्त्रिकालं लिंगमेव तत् ॥ ६.२७१.३७० ॥
संस्नाप्य ब्राह्मणीतोयैः पद्मा द्यैः पूजयंति च ॥ ३७१ ॥
कस्यचित्त्वथ कालस्य नारदो मुनिसत्तमः ॥
तीर्थयात्राप्रसंगेन संप्राप्तस्तत्र यत्र ते ॥ ३७२ ॥
अथ ? नारदं दृष्ट्वा कृत्वा चैवार्हणक्रियाम् ॥
विश्रांतं च ततो ज्ञात्वा पप्रच्छुर्विनयान्विताः ॥ ३७३ ॥
शापभ्रष्टा वयं सर्वे यतः संवर्तदर्शनात् ॥
बकाद्याश्चैव चत्वारः कूर्मांताश्च महामुने ॥ ३७४ ॥
न स विज्ञायते क्वापि कस्मिन्स्थाने व्यवस्थितः ॥
किंरूपः किंप्रमाणश्च किमाचारः क्व संस्थितः ॥ ३७५ ॥
स त्वं यदि विजानासि यत्र तं संस्थितं मुनिम् ॥
तद्वदस्व महाभाग न किंचित्तेऽस्त्यगोचरम् ॥ ३७६ ॥
॥ श्रीनारद उवाच ॥ ॥
अहं जानामि तं सम्यक्संवर्तं मुनिसत्तमम् ॥
गुप्ताचारेण तिष्ठंतं नान्यो वेत्ति कथंचनम् ॥ ३७७ ॥
वाराणास्यां स्थितो नित्यं सोऽवधूतो महामुनिः ॥
विवस्त्रो मलदिग्धांगः सदारण्यं समाश्रितः ॥ ३७८ ॥
भिक्षार्थं कुतपे काले समागच्छति तां पुरीम् ॥
पाणिपात्रकृताहारो गृहैः कैश्चित्सदैव हि॥ ३७९ ॥
भूयोपि याति सायाह्ने किंचिदेव वनांतरम् ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 271 (part 2)
तस्यां पुर्यां तथारूपाः शतशोऽथ सहस्रशः ॥ ६.२७१.३८० ॥
तिष्ठंति तापसश्रेष्ठास्तस्य वक्ष्यामि लक्षणम् ॥
भवद्भिः स यथा ज्ञेयो मम वाक्यादसंशयम् ॥ ३८१ ॥
वाराणस्याः प्रतोल्यां च स्थापनीयं सुयत्नतः ः।
कुणपं चैव गुप्तं च यथा नो वेत्ति कश्चन ॥ ३८२ ॥
यास्यंति तापसाः सर्वे तमतिक्रम्य भूरिशः ॥
संवर्तो दिव्यदृष्टिस्तु शल्यं नातिक्रमिष्यति ॥ ३८३ ॥
निवर्तनं तु यश्चक्रे भूभागात्कुणपाश्रयात् ॥
स संवर्तः परिज्ञेयः प्रष्टव्यश्च ततः परम् ॥ ३८४ ॥
यदि पृच्छति केनाहं भवतां संनिवेदितः ॥
नारदेन ततो वाच्यं स त्वां जानाति वै सदा ॥ ३८५ ॥
यदि पृच्छति भूयः स नारदः क्व स तिष्ठति ॥ ३८६ ॥
ततो वाच्यो निवेद्य त्वां प्रतिष्टो हव्यवाहनम् ॥ ॥ ३८७ ॥
तच्छ्रुत्वा नारदवचः सर्वे वै लोमशादयः ॥
वाराणसीं पुरीं प्राप्तास्तस्य दर्शनलालसाः ॥ ३८८ ॥
प्रतोल्यां कुणपं स्थाप्य गुप्तं लोकैरलक्षितम् ॥
स्वयं चैव स्थिता दूरं प्रेक्षमाणाः प्रयत्नतः ॥ ३८९ ॥
ततस्तु कुतपे काले संवर्तस्तु समागतः ॥
यादृग्रूपः पुरा प्रोक्तो नारदेन महात्मना ॥ ६.२७१.३९० ॥
स दृष्ट्वा कुणपं तत्र दिव्यदृष्ट्या महामुनिः ।।
निवृत्तः क्षुत्पिपासार्तो नैव शल्यमलंघयत् ॥ ३९१ ॥
अथ ते तं समुद्दिश्य पृष्ठतोऽनुययुस्तदा ॥
तिष्ठतिष्ठेति जल्पंतः प्रसादः क्रियतामिति । ३९२ ०॥
सोऽपि निर्भर्त्सयन्नेतान्निवर्तध्वमिति ब्रुवन् ॥
मा गच्छत मत्समीपमिति प्रोच्य पलायितम् ॥ ३९३ ॥
अथ दूरतरं गत्वा स प्रोवाच क्षुधान्वितः ॥ ३९४ ॥
केनादिष्टोऽस्मि युष्माकं स शीघ्रं मे निवेद्यताम्॥
शापाग्नौ येन तं पापं भस्मसात्प्रकरोम्यहम् ॥ ३९५ ॥
॥ त ऊचुः ॥ ॥
नारदेन समाख्यातो भवानत्र स्थितो हि नः ॥
कथयित्वा ततो वह्नौ संप्रविष्टः स तत्क्षणात् ॥ ३९६ ॥
॥ संवर्त उवाच ॥ ॥
अहं तदेव कर्ता च तस्य दुष्टस्य सांप्रतम् ॥
निर्दिष्टो येन युष्माकं गुप्ताचारं समाश्रितः ॥ ३९७ ॥
त ऊचुः. ॥ ॥
भगवन्नारदेनोक्तस्त्वमस्माकं महामुने ॥
चिरादन्वेष्यमाणानां नान्यस्त्वां वेत्ति कश्चन ॥ ३९८ ॥
तावन्निवेद्य चास्माकं प्रविष्टो हव्यवाहनम् ॥
तत्क्षणादेव विप्रेंद्र न विद्मस्तत्र कारणम् ॥ ३९९ ॥
॥ संवर्त उवाच ॥ ॥
अहमप्यतिसंक्रुद्धः शापात्कर्तुं समुद्यतः ॥६.२७१.४०॥।
एतदेवहि तस्माच्च स्वयमेव कृतं च यत् ॥०
तस्माद्वदथ मे शीघ्रं कस्माद्यूयं समागताः ॥ ४०१ ॥
चिरं स्थास्यामि नात्राहं भ्रमिष्यामि पुरीं प्रति ॥
प्राणयात्राकृते भिक्षां करिष्यामि स्वयं यतः ॥ ४०२ ॥
विशल्यः क्रियतां मार्गः कुणपं ह्रियतां च यत् ॥
नोचेच्छापं प्रदास्यामि यद्येवं न करिष्यथ ॥ ४०३ ॥
तथाहं नैव वक्तव्यः कस्यचिच्चात्र संस्थितः ।
अन्वेषयति मां नित्यं मरुत्तः पृथिवीपतिः ॥ ४०४ ॥
यज्ञार्थं नैव तं भूपं याजयिष्ये कथंचन ॥
धिषणेन परित्यक्तो गुरुणा स महीपतिः ॥ ४०५ ॥
गुरुपुत्रं च मां ज्ञात्वा ततोऽन्वेषयते हि माम् ॥ ४०६ ॥
॥ त ऊचुः ॥ ॥
शापभ्रष्टा वयं सर्वे चत्वारोऽपि बकादयः ॥
पक्षित्वं चैव संप्राप्ता ब्रह्मशापेन सन्मुने ॥ ॥ ४०७ ॥
महेश्वरगणाश्चैव वयं त्रैलोक्यवंदिताः ॥
तिर्यग्योनिं समानीता वैराग्यं परमं गताः ॥ ४०८ ॥
शापांतस्तु समादिष्टस्तैर्विप्रैः स्त्रीसमु द्भवः ।
तवोपदेशतस्तेन बकाद्याः शरणं गताः ॥ ४०९ ॥
तस्मात्त्राहि महाभाग पक्षित्वात्सांप्रतं विभो ॥ ६.२७१.४१० ॥
निर्विण्णाश्चिरकालं च पक्षित्वस्य निषेवणात् ॥
एतच्च कारणं नान्यत्तव संगसमुद्भवम् ॥ ४१३ ॥
॥ संवर्त उवाच ॥ ॥
यद्येवं गम्यतां शीघ्रं चमत्कारपुरं प्रति ॥
भर्तृ यज्ञः स्थितोऽप्यत्र सर्वसंदेहहारकः ॥ ४१२ ॥
स वै दास्यति सर्वेषामुपदेशं सुशोभनम् ॥
तेन प्राप्स्यथ संदेहं पूर्वीयं च यथास्थितम् ॥ ॥ ४१३ ॥
स पूर्वं याज्ञवल्क्योऽभूत्सर्वशास्त्रार्थपारगः ॥
ततो भवांतरेऽन्यस्मिन्कात्यायन इति स्मृतः ॥ ४१४ ॥
ततो देहांतरं प्राप्य ख्यातो वररुचिर्द्विजः ॥
ततो देहांतरेऽन्यस्मिन्वेश्यापुत्रो बभूव ह ॥ ४१५ ॥
आराधिता ब्रह्मसुता देवी वाग्रूपिणी सदा ॥
न च तुष्टा स्वयं देवी कारणं वीक्ष्य किंचन ॥ ४१६ ॥
ब्राह्मणेन प्रजातस्तु देहांतं प्राप्य किंचन ॥
तस्य वक्त्रं समापन्ना स्वयमेव सरस्वती ॥ ४१७ ॥
पूर्वमाराधिता नित्यं न सा त्यजति कर्हिचित् ॥
तस्याश्चर्यमभूच्चान्यद्यज्ञे वेश्यासुतस्य हि ॥ ४१९ ॥
ब्रह्मसूत्रं समभ्येति स्कंधे निर्याति गच्छति ॥ ४१९ ॥
पूर्वेषामेव लोकानां यज्ञकर्मसु संस्थितान् ॥
स संदेहान्हरत्येव यथा नान्योऽत्र कश्चन ॥ ६.२७१.४२० ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा प्रणिपत्य मुहुर्मुहुः ॥
गतास्ते कुणपं यत्र संवर्तेन प्रणोदिताः ॥ ४२१ ॥
तच्चाकृष्य ततः सर्वे चमत्कारपुरं गताः ॥
वास्तुस्थानपदे तीर्थे तं दृष्ट्वा तत्र संस्थितम् ॥ ४२२ ॥
प्रणिपत्य ततः प्रोचुः सर्वे विनयसंस्थिताः ॥
ब्रह्मशापेन निर्दग्धा वयं चत्वार एव हि ॥ ४२३ ॥
पक्षित्वं समनुप्राप्तास्त्रयः कूर्मत्वमन्यकः ॥
य एते च त्रयोऽस्माकं स्थिताः पार्श्वे महत्तराः ॥४२४॥
मार्कंडः कथितो ह्येष इंद्रद्युम्नस्तथा परः ॥
तृतीयो लोमशो नाम विख्यातः सुमहातपाः ॥ ४२५ ॥
जीवितव्यस्य निर्विण्णास्त्रय एव च सांप्रतम् ॥
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥ ४२६ ॥ ॥
सूत उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा भर्तृयज्ञो महामुनिः ॥
अब्रवीत्सुचिरं ध्यात्वा ज्ञात्वा दिव्येन चक्षुषा ॥ ४२७ ॥
यूयं सप्तैव लिंगानि स्थापयध्वं समागताः ॥
हाटकेश्वरजे क्षेत्रे. नाम्ना चैवांतिके निभोः ॥ ४२८ ॥
ततो दानानि सप्तैव तेषामग्रे प्रयच्छत ॥
कुलपर्वतसंज्ञानि सर्वपापहराणि च ॥ ४२९ ॥
ततः प्राप्स्यथ चाभीष्टं वपुर्दिव्यं मनोरमम् ॥
गणत्वं देवदेवस्य त्रिने त्रस्य महात्मनः ॥ ६.२७१.४३० ॥
॥ त ऊचुः ॥ ॥
प्रकीर्तय विभो दानं तेषां यच्छामहे यथा ॥
प्रमाणं च विधानं च विस्तरेण महामुने ॥४३१॥
॥ भर्तृयज्ञ उवाच ॥ ॥
देयो हेममयो मेरुः कैलासो रजतोद्भवः ॥
कार्प्पासेन हिमाद्रिस्तु गुडजो गंधमादनः ॥४३२॥
सुवेलस्तु तिलैर्देयो विंध्यः शर्करया तथा ॥
लवणेन तथा शृंगी यथोक्तविधिना ततः ॥ ४३३ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा संस्थाप्य विधिपूर्वकम् ॥
सप्तलिंगानि तैः पश्चात्प्रदत्ताः कुलपर्वताः ॥ ४३४ ॥
इंद्रद्युम्नेश्वरस्याग्रे इंद्रद्युम्नः प्रतापवान् ॥
मेरुं हेममयं कृत्वा भर्तृयज्ञमते स्थितः ॥ ४३५ ॥।
मार्कंडेश्वरदेवस्य मार्कंडेन च धीमता ॥
कैलासो राजतो दत्तो भक्तिपूर्वं द्विजोत्तमाः ॥ ४३६ ॥
कार्पासो हिमवान्दत्तः पालकेन द्विजातये ॥
गंधमादनसंज्ञस्तु प्रदत्तो गुडजः पुरः ॥ ४३७ ॥
घंटकेश्वरदेवस्य घंटकेन द्विजोत्तमाः ॥
कच्छपेन तु संदत्तः सुवेलः पर्वतोत्तमः ॥ ४३८ ॥
कच्छपेश्वरदेवस्य पुरस्तिलमयस्तथा ॥
शार्करस्तु तदा शैलः प्रदत्तो भक्तिपूर्वकम्॥ ४३९ ॥
शैल ईशानसंज्ञेन निजदेवस्य चाऽग्रतः ॥
वानरेश्वर देवस्य पुरतो द्विजसत्तमाः ॥ ६.२७१.४४० ॥
गृध्रेणाथ प्रदत्तस्तु लवणाख्यो महागिरिः॥
शृंगी नाम महाभागः श्रद्धापूतेन चेतसा ॥ ४४१ ॥
तत्राश्चर्यमभूद्विप्रा दत्तमात्रैर्नगोत्तमैः ॥
पक्षित्वं निर्गतं तेषां कूर्मत्वमितरस्य च ॥ ४४२ ॥
एतस्मिन्नेव काले तु सर्वे ते तत्प्रभावतः ॥
दिव्यमाल्यांबरधरा दिव्यगंधानुलेपनाः ॥
संजाता ब्राह्मणश्रेष्ठा ये च तत्संमुखे स्थिताः ॥ ४४३ ॥
विमानानि च सर्वेषां समायातानि तत्क्षणात् ।१
भर्तृयज्ञमनुप्राप्य प्रणिपत्य च तान्द्विजान् ॥
कैलासं पर्वतं प्राप्ता विमानवरमाश्रिताः ॥ ४४४ ॥
एतद्वः सर्वमाख्यातं यथा तल्लिंगसप्तकम् ॥
हाटकेश्वरजे क्षेत्रे संजातं पापनाशनम् ॥४४५॥
अन्योऽपि यः पुनस्तेषां लिंगानां भक्तिसंयुतः॥
कुलपर्वतदानं च कुर्यात्सोऽपि शिवं व्रजेत्॥४४८॥
तानि लिंगानि यो मर्त्यः प्रातरुत्थाय वीक्षते ॥
अज्ञानविहितात्पापात्सोऽपि मुक्तिमवाप्नुयात्॥४४७॥
यश्चैतान्पर्वतान्सप्त क्रमेणात्र प्रयच्छति॥
द्विजातिभ्यः स्वलिंगानां पुरतस्त्रिदिवं व्रजेत् ॥४४८॥
स्थित्वा कल्पांतरं तत्र संसेव्य च वराप्सराः ॥
दिव्यान्भोगांश्च संसेव्य यदा भूमौ प्रजायते॥
चक्रवर्तित्वमासाद्य सार्वभौमः प्रजायते ॥ ४४९ ॥
एकेन तु प्रदत्तेन जायते पापसंक्षयः ॥
द्वाभ्यां पुत्राश्च पौत्राश्च वांछितानि फलानि च ॥ ६.२७१.४५० ।
त्रिभिः संजायते राजा चतुर्भिर्मंडलेश्वरः ॥
भारतस्य च खण्डस्य स्वामी भवति पंचभिः ॥ ४५१ ॥
जंबुद्वीपाधिपः षङ्भिश्चक्रवर्ती च सप्तभिः ॥
विधिवत्पर्वतैर्दत्तैरेत दाह पितामहः ॥४५२॥
नरः स्याद्ब्राह्मणश्रेष्ठाः सदाजन्मनिजन्मनि ॥
न दुःखितो दरिद्रो वा व्याधितो वा प्रजायते ॥ ४५३ ॥
सौभाग्यसुखसंयुक्तः सुदेहो रत्नवान्भवेत् ॥
सर्वराज्यविनिर्मुक्तः प्रतापी विजितेन्द्रियः ॥ ४५४ ॥
तस्मात्सर्वप्रयत्नेन भूमिपालैर्विशेषतः ॥
एतं च पर्वता देया उद्दिश्य निजदेवताः ॥ ४५५ ॥
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सप्तलिंगोत्पत्ति माहात्म्यवृत्तान्तवर्णनंनामैकसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७१ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 272
ऋषय ऊचुः ॥ ।
यदेतद्भवता प्रोक्तमीशानस्य महीपतेः॥
ईश्वरेण पुरा दत्तमायुर्यावत्स्ववासरम्॥ १ ॥
किंप्रमाणं भवेत्तस्य दिवसस्य ब्रवीहि नः ॥
॥ सूत उवाच ॥ ॥
अहं वः कीर्तयिष्यामि प्रमाणं दिवसस्य तु ॥ २ ॥
माहेश्वरस्य विप्रेन्द्राः श्रूयतां गदतः स्फुटम् ॥
निमेषस्य चतुर्भागस्त्रुटिः स्यात्तद्द्वयं लवः ॥ ३ ॥
लवद्वयं यवः प्रोक्तः काष्ठा ते दश पंच च ॥
त्रिंशत्काष्ठाः कलामाहुः क्षणस्त्रिंशत्कलो मतः ॥ ४ ॥
क्षणैः षष्ट्या पलं प्रोक्तं षष्ट्या तेषां च नाडिका ॥
नाडिकाद्वितयेनैव मुहूर्तं परिकीर्तितम् ॥ ५ ॥
त्रिंशन्मुहूर्त्तमुद्दिष्टमहोरात्रं मनीषिभिः ॥
मासस्त्रिंशदहोरात्रैद्वौ द्वौ मासावृतुं विदुः ॥ ६ ॥
ऋतुत्रयं चाप्ययनमयने द्वे तु वत्सरम् ॥
मानुषाणां हि सर्वेषां स एव परिकीर्तितः ॥ ७ ॥
स देवानामहोरात्रं पुराणज्ञाः प्रचक्षते ॥
अयनं चोत्तरं शुक्लं यद्देवानां दिनं च तत् ॥
यद्दक्षिणं तु सा रात्रिः शुभकर्मविगर्हिता ॥ ८ ॥
यथा सुप्तो न गृह्णाति किंचिद्भोगादिकं नरः ॥
तथा देवाश्च यज्ञांशान्न गृह्णन्ति कथं चन ॥ ९ ॥
अनेनैव तु मानेन मानवेन द्विजोत्तमाः ॥
लक्षैः सप्तदशाख्यैस्तु वत्सराणां प्रकीर्तितम् ॥ ६.२७२.१० ॥
अष्टाविंशत्सहस्रैस्तु वत्सराणां कृतं युगम् ॥
तस्मिञ्छ्वेतोऽभवद्विष्णुर्भगवान्यो जगद्गुरुः ॥ ११ ॥
लोकाः पापविनिर्मुक्ताः शांता दांता जितेन्द्रियाः ॥
दीर्घायुषस्तथा सर्वे सदैव तपसि स्थिताः ॥ १२ ॥
यो यथा जन्म चाप्नोति तथा स म्रियते नरः॥
न पुत्रसंभवो मृत्युर्वीक्ष्यते जनकैः क्वचित् ॥ १३ ॥
कामः क्रोधस्तथा लोभो दंभो मत्सर एव च ॥
न जायते नृणां तत्र युगे तु द्विजसत्तमाः ॥१४॥
ततस्त्रेतायुगं भावि द्वितीयं मुनिसत्तमाः ॥
पादेनैकेन पापं तु रौद्रं धर्मे तदाविशत् ॥ १५ ॥
ततो रक्तत्वमभ्येति भगवान्मधुसूदनः ॥
पापांशेऽपि च संप्राप्ते सस्पर्द्धो जायते जनः ॥ १६ ॥
स्वर्गमार्गकृते सर्वे चक्रुर्यज्ञांस्ततः परम् ॥
अग्निष्टोमादिकांस्तत्र बहुहोमादिकांस्तथा ॥ १७ ॥
देवलोकांस्ततो यांति मूलाद्यावच्चतुर्दश ॥
ब्रह्मलोकस्य पर्यंतं स्वकीयैर्य ज्ञकर्मभिः ॥१९॥
किंचित्स्वल्पायुषस्तत्र जायन्ते स्पर्धयाऽन्विताः ॥
परं तत्रापि नो यांति मृत्युं पुत्राः कथंचन ॥ १९ ॥
जनके विद्यमाने च स्व ल्पदोषाः प्रकीर्तिताः ॥
कामक्रोधादयो ये च भवंति न भवंति च ॥ ६.२७२.२० ॥
एकया वेलया तत्र वापितं सस्यमुत्तमम् ॥
सप्तवारान्प्रगृह्णंति वैश्याः कृषिपरायणाः ॥ २१ ॥
सर्वा घटस्रवा गावो महिष्यश्च चतुर्गुणाः ॥
प्रयच्छंति तथा क्षीरमुष्ट्र्यस्तासां चतुर्गुणम् ॥ २२ ॥
अजाविकास्तथा पादं नार्यः सर्वास्तथैव च ॥
वेदाध्ययनसंपन्नाः प्रतिग्रहविवर्जिताः ॥
शापानुग्रहकृत्येषु समर्थाः संभवंति च २३ ॥
क्षत्रियाः क्षात्रधर्मेण पालयंति वसुंधराम् ॥
न तत्र दृश्यते चौरो न च जारः कथंचन ॥
स्वधर्मनिरताः सर्वे वर्णाश्चैव व्यवस्थिताः ॥ २४ ॥
तच्च द्वादशभिर्लक्षैर्वत्सराणां प्रकीर्तितम् ॥
षण्णवत्या सहस्रैस्तु द्वितीयं युगमुत्तमम् ॥२५॥
ततश्च द्वापरं भावि तृतीयं द्विजसत्तमाः ॥
द्वौ पादौ तत्र पापस्य द्वौ च धर्मस्य संस्थितौ॥
भगवान्वासुदेवश्च कपिलस्तत्र जायते ॥ २६ ॥
तच्चाष्टलक्षमानेन वत्सराणां प्रकीर्तितम् ॥
चतुःषष्टिभिरन्यैस्तु सहस्राणां द्विजोत्तमाः ॥ २७ ॥
कामः क्रोधस्तथा लोभो दंभो मत्सर एव च ॥
षडेते तत्र जायंते ईर्ष्या चैव तु सप्तमी॥२८॥
अथ संसेवितास्तैस्तु मानवाश्च परस्परम् ॥
विरुद्धांश्च प्रकुर्वंति नाप्नुवंति यथा दिवम् ॥ २९ ॥
केचित्तत्रापि जायंते शांता दांता जितेंद्रियाः ॥
न सर्वेऽपि द्विजश्रेष्ठा यतोऽर्द्धं पातकस्य तु ॥ ६.२७२.३० ॥
ततः कलियुगं प्रोक्तं चतुर्थं च सुदारुणम् ॥
एकपादो वृषो यत्र पापं पादैस्त्रिभिः स्थितम् ॥ ३१ ॥
कृष्णत्वं याति देवोऽपि तत्र चैव चतुर्भुजः ॥
एक पादोऽपि धर्मस्य यावत्तावत्प्रवर्तते ॥ ३२ ॥
पश्चान्नाशं समभ्येति यावत्तावच्छनैःशनैः ॥
प्रमाणं तस्य निर्दिष्टं लक्षाश्चत्वार एव हि ॥ ३३ ॥
द्वात्रिंशच्च सहस्राणि युगस्यैवांतिमस्य च ॥
कलिना तत्र संपृष्टा मर्त्याः सर्वे परस्परम् ॥ ३४ ॥
विबुधैस्ते प्रवर्तंते रागद्वेषपरायणाः ॥
यस्ययस्य गृहे वित्तं तथा नार्यो मनोरमाः ॥३६॥
तेनतेन समं मैत्रीं कलौ कुर्वंति मानवाः ॥
विधवानां यतीनां च सर्वेषां च तपस्विनाम्॥३६॥
लोकद्वयविनाशः स्याद्यतश्चेतो न शुध्यति ॥
प्रावृट्कालेऽपि संप्राप्ते दुर्भिक्षेण प्रपीडिताः ॥ ३७ ॥
भ्रमंति च कलौ लोका गगनासक्तदृष्टयः॥
जानाति चापि तनयः पिता चेन्निधनं व्रजेत् ॥ ३८ ।
ततोहं गृहपो भूयां बांधवो ह्यपि बांधवम् ॥
स्नुषापि वेत्ति चित्तेन यदि श्वश्रूः क्षयं व्रजेत् ॥ ३९ ॥
मम स्याद्गृह ऐश्वर्यं तत्सर्वं नान्यथा व्रजेत् ॥
काव्यैरुपहता वेदाः पुत्रा जामातृकैस्तथा ॥ ६.२७२.४० ॥
शालकैर्बांधवाश्चैव ह्यसतीभिः कुलस्त्रियः ॥
शूद्रास्तपस्विनश्चैव शूद्रा धर्मस्य सूचकाः ॥४१॥
ब्राह्मणानां ततः शूद्रा उपदेशं वदंति च ॥
अल्पोदकास्तथा मेघा अल्पसस्या च मेदिनी ॥ ४२ ॥
अल्पक्षीरास्तथा गावः क्षीरे सर्पिस्तथाऽल्पकम् ।
सर्वभक्षास्तथा विप्रा नृपा निष्करुणास्ततः ॥
कृष्या लज्जंति वैश्याश्च शूद्रा ब्राह्मणप्रेषकाः ॥ ४३ ॥
हेतुवादरता ये च भंडंविद्यापराश्च ये ॥
तेते स्युर्भूमिपालस्य सदाऽभीष्टाः कलौ युगे ॥४४॥
श्वःश्वःपापीयदिवसाः पृथिवी गतयौवना ।
अतिक्रांत शुभाः कालाः पर्युपस्थितदारुणाः ॥४५॥
यथायथा युगं भावि वृद्धिं यांति स्त्रियो नराः ॥
तथातथा प्रयांति स्म लघुतां जंतुभिः सह ॥४६॥
द्वादशमे चैव कन्या स्याद्भर्तृसंयुता ॥४७॥
ततः षोडशमे वर्षे नराः पलितयौवनाः ॥
शौचाचारपरित्यक्ता निजकार्यपरास्तथा ॥ ४८ ॥
भविष्यंति युगस्यांते नराः अंगुष्ठमात्रकाः ॥
गृहं च तेऽथ कुर्वंति बिलैराखुसमुद्भवैः ॥ ४९ ॥
तथा प्रावरणं तेषां कृमिवस्त्रं भविष्यति ॥
एकवर्णा भविष्यंति वर्णाः सर्वे ततः परः ॥
म्लेछीभूता दुराचारा धर्मकृत्यविदूषकाः ॥६.२७२.५॥।
एवं जाते ततो लोके ब्राह्मणो हरिपिंगलः ॥
कल्किगोत्रसमुत्पन्नस्तान्सर्वा न्सूदयेत्ततः ॥९१॥
पश्चात्कृतयुगं भावि भूयोऽपि द्विजसत्तमाः ॥५२॥
एवं युगसहस्रेण संप्राप्तेन ततः परम् ॥
ब्रह्मणो दिवसं भावि रात्रिश्चैव ततः परम् ॥ ५३ ॥
ततश्चानेन मानेन षष्ट्या युक्तैस्त्रिभिः शतैः ॥
ब्रह्मणो वत्सरं भावि केशवस्य च तद्दिनम् ॥ ५४ ॥
आत्मीये जीविते ब्रह्म यावद्वर्षशतं स्थितः ॥
केशवोऽपि स्वमानेन वर्षाणां जीविते शतम् ॥ ५५ ॥
वर्षेण वासुदेवस्य दिनं माहेश्वरं भवेत् ॥
निजमानेन सोप्यत्र याव द्वर्षशतं स्थितः ॥ ५६ ॥
ततः शक्तिस्वरूपः स्यात्सोऽक्षयी कीर्त्यते यतः ॥
सदाशिवस्य निःश्वासः शैवं वर्षशतं भवेत् ॥
उच्छ्वासस्तु पुनस्तस्य शक्तिरूपेण संस्थितः ॥ ५७ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं शिवशक्तिसमुद्भवम् ॥
यावदायुः प्रमाणं च मानुषाढ्यं च यद्भवेत् ॥ ॥ ५८ ॥
भवद्भिः शांकरं पृष्टो द्विजा अस्मि दिनं पुरा ॥
मया पुनस्तु सर्वेषां मर्त्यादीनां तु कीर्तितम् ॥ ५९ ॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये युगस्वरूपवर्णनंनाम द्विसप्तत्युत्तरद्विशततमोअध्यायः ॥ २७२ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 273
॥ सूत उवाच ॥ ॥
एतेषां तु सहस्रेण भवेद्ग्राह्यं दिनं द्विजाः ॥
चतुर्दश सहस्राक्षा जायंते तत्र वासरे ॥ १ ॥
सप्तमस्तु सहस्राक्षः सांप्रतं वर्ततेऽत्र यः ॥
एकसप्ततिसंवर्तचतुर्दशदिने विधेः ॥ २ ॥
युगानां कुरुते राज्यं मनवश्च तथा परे ॥
स्वायंभुवप्रभृतयो यथा शक्रास्तथा स्थिताः ॥ ॥ ३ ॥
जायन्तो नाम शक्रोऽयं सांप्रतं वर्तते तु यः ॥
वैवस्वतो मनुश्चैव अष्टाविंशत्प्रमाणकः ॥ ४ ॥
चतुर्युगस्य संजातो गतेस्मिञ्छेषमात्रके ॥
भविष्यति बलिः शक्रो वासुदेवप्रसादतः ॥ ५ ॥
तेन तस्य प्रतिज्ञातं राज्यं चैवाष्टमे मनौ ॥ ६ ॥
एवं सर्वे सुराश्चान्ये त्रयस्त्रिंशत्प्रमाणतः ॥।
कोटयः प्रभविष्यंति यथा चैव तथा पुरा ॥ ७ ॥
योऽयं ब्रह्मा स्थितो विप्राः सांप्रतं सृष्टिकारकः ॥
तस्यानेन प्रमाणेन जातं संवत्सराष्टकम् ॥ ॥ ८ ॥
षण्मासाश्च दिनार्धं च प्रथमं शुक्लपूर्वकम्॥
सौरसावनचंद्रार्क्षैर्मानैरेभिश्चतुर्विधैः ॥ ९ ॥
कलौ निर्याति सर्वेषां भूतानां क्षितिमण्डले ॥
पंचषष्ट्याऽधिकैश्चैव दिनानां च शतैस्त्रिभिः ॥
भवेत्संवत्सरं सौरं पञ्चोनैस्तैश्च सावनम् ॥ ६.२७३.१० ॥
चांद्र एकादशोनस्तु त्रिंशद्धीन उडूद्भवः ॥
शीतातपौ तथा वृष्टिः सौरमानेन जायते ॥ ११ ॥
वृक्षाणां फलनिष्पत्तिः सस्यानां च तथा परा ।
अग्निष्टोमादयो यज्ञा वर्तंते ये धरातले ॥ १२ ॥
उत्साहाश्च विवाहाश्च सावनेन भवंति च ॥
कुसीदाद्याश्च ये केचिद्व्यवहाराश्च वृत्तिजाः ॥ १३ ॥
अधिमासप्रयुक्तेन ते स्युश्चांद्रेण निर्मिताः ॥
नाक्षत्रेण तु मानेन सिध्यंते ग्रहचारिकाः ॥ १४ ॥
नान्यत्किंचिद्धरापृष्ठ एतन्मानचतुष्टयात् ॥
एतेन तु प्रमाणेन देवदैत्याश्च मानवाः ॥ १५ ॥
वर्त्तंते ब्राह्मणश्रेष्ठाः श्रुतिरेषा पुरातनी ॥
एतद्युगप्रमाणं तु यः पठेद्भक्तिसंयुतः ॥ १६ ॥
एतेषामेव लिंगानां सप्तानां ब्राह्मणोत्तमाः ॥
नापमृत्यु भयं तस्य कथंचित्संभविष्यति ॥ १७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये युगप्रमाणवर्णनंनाम त्रिसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७३
खण्डः ६ (नागरखण्डः) — Adhyāya 274
॥ सूत उवाच ॥ ॥
तथान्यदपि तत्रास्ति दुर्वासःस्थापितं पुरा ॥
तल्लिंगं देवदेवस्य त्रिनेत्रस्य महात्मनः ॥ १ ॥
चैत्रमासि नरो यस्तु तमाराधयते द्विजाः ॥
नृत्यगीतप्रवाद्यैश्च त्रिकालं विहितक्षणः ॥
स नूनं तत्प्रसादेन गन्धर्वाधिपतिर्भवेत् १। २ ॥
॥ ऋषय ऊचुः ॥ ॥
दुर्वासा नामकश्चायं केनायं स्थापितो हरः ॥
कस्मिन्काले महाभाग सर्वं नो विस्तराद्वद ॥ ३ ॥
॥ सूत उवाच ॥ ॥
आसीत्पुरा निंबशुचो वैदिशे च पुरोत्तमे ॥ ४ ॥
स च पूजयते लिंगं किंचिन्मठपतिः स्थितः ॥
स यत्किंचिदवाप्नोति वस्त्राद्यं च तथा परम् ॥ ५ ॥
माहेश्वरस्य लोकस्य विक्रीणीते ततस्ततः ॥
ततो गृह्णाति नित्यं स हेम मूल्येन तस्य च ॥ ६ ॥
न करोति व्ययं तस्य केवलं संचये रतः ॥
ततः कालेन महता मंजूषाऽस्य निरर्गला ॥
जाता हेममयी विप्राः कार्पण्यनिरतस्य च ॥ ७ ॥
अथ संस्थाप्य भूमध्ये मंजूषां तां प्रपूरिताम् ॥
करोति व्यवहारं स कक्षां तां नैव मुंचति ॥ ८ ॥
कदाचिद्देवपूजायां सोऽपि ब्राह्मणसत्तमाः ॥
विश्वासं नैव निर्याति कस्यचिच्च कथंचन ॥ ९ ॥
कस्यचित्त्वथ कालस्य परवित्तापहारकः ॥
अलक्षद्ब्राह्मणस्तच्च दुःशीलाख्यो व्यचिंतयत् ॥ ६.२७४.१० ॥
ततः शिष्यो भविष्यामि विश्वासार्थं दुरात्मनः ॥
सुदीनैः कृपणैर्वाक्यैश्चाटुकारैः पृथग्विधैः ॥ ११ ॥
आलस्यं च दिवानक्तं साधयिष्याम्यसंशयम् ॥
अन्यस्मिन्नहनि प्राप्ते दृष्ट्वा तं मठमध्यगम् ॥ १२ ॥
ततः समीपमगमद्दंडाकारं प्रणम्य च ॥
अब्रवीत्प्रांजलिर्भूत्वा विनयावनतः स्थितः ॥ १३ ॥
भगवंस्ते प्रभावोऽद्य तपसा वै मया श्रुतः ॥ १४ ॥
यदन्यस्तापसो नास्ति ईदृशोऽत्र धरातले ॥
तेनाहं दूरतः प्राप्तो वैराग्येण समन्वितः ॥ १५ ॥
संसारासारतां ज्ञात्वा जन्ममृत्युजरात्मिकाम्॥
अर्थात्स्वप्नप्रतीकाशं यौवनं च नृणा मिह ॥ १६ ॥
यद्वत्पर्वतसंजाता नदी च क्षणभंगुरा ॥
पुत्राः कलत्राणि च वा ये चान्ये बांधवादयः ॥ १७ ॥
ते सर्वे च परिज्ञेया यथा पाप समागमाः ॥
तत्संसारसमुद्रस्य तारणार्थं ब्रवीहि मे ॥ १८ ॥
उपायं कंचिदद्यैव उपदेशे व्यवस्थितम् ॥
तरामि येन संसारं प्रसादात्तव सुव्रत ॥ १९ ॥
तस्य तद्वचनं श्रुत्वा रोमांचित तनूरुहः ॥
ज्ञात्वा माहेश्वरः कोऽयं चिंतावान्समुपस्थितः ॥ ६.२७४.२० ॥
यथा ब्रवीषि धन्योऽसि यस्य ते मतिरीदृशी ॥
तारुण्ये वर्तमानस्य सुकुमारस्य चैव हि ॥ २१ ।
तारुण्ये वर्तमानो यः शांतः सोऽत्र निगद्यते ॥
धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥ २२ ॥
यद्येवं सुविरक्तिः स्यात्संसारोपरि संस्थिता ॥
समाराधय देवेशं शंकरं शशिशेखरम् ॥ २३ ॥
नान्यथा घोरजाप्येन तीर्यते भवसागरः ॥
मया सम्यक्परिज्ञातमेतच्छास्त्रसमागमात् ॥ २४ ॥
शूद्रो वा यदि वा विप्रो म्लेछो वा पापकृन्नरः ॥
शिवदीक्षासमोपेतः पुष्पमेकं तु यो न्यसैत् [। २५ ॥
षडक्षरेण मंत्रेण लिंगस्योपरि भक्तितः ॥
स तां गतिमवाप्नोति यांयां यांतीह यज्विनः ॥ ५६ ॥
यो ददाति प्रभक्त्या च शिवदीक्षान्विताय च ॥
वस्त्रोपानहकौपीनं स यज्ञैः किं करिष्यति ॥ २७ ॥
तच्छ्रुत्वा चरणौ तस्य दुःशीलोऽसौ तदाऽऽददे ॥
विन्यस्य स्वशिर स्ताभ्यां ततोवाक्यमुवाच ह ॥ २८ ॥
शिवदीक्षाप्रमाणेन प्रसादं कुरु मे प्रभो ॥
शुश्रूषां येन ते नित्यं प्रकरोमि समाहितः ॥ २९ ॥
ततोऽसौ तापसो विप्राश्चिंतयामास चेतमि ॥
दक्षोऽयं दृश्यते कोऽपि पुमांश्चैव समागतः ॥ ६.२७४.३० ॥
ममास्ति नापरः शिष्यस्तस्मादेनं करोम्यहम् ॥
ततोऽब्रवीत्करे गृह्य यद्येवं वत्स मे समम् ॥
समयं कुरु येन त्वां दीक्षयाम्यद्य चैव हि ॥ ३१ ॥
त्वया कुटीरकं कार्यं मठस्यास्य विदूरतः ॥
प्रवेशो नैव कार्यस्तु ममात्रास्तं गते रवौ ॥ ३२ ॥
॥ दुःशील उवाच ॥ ॥
तवादेशः प्रमाणं मे केवलं तापसोत्तम ॥
किं मठेन करिष्यामि विशेषाद्रा त्रिसंगमे ॥ ३३ ॥
यः शिष्यो गुरुवाक्यं तु न करोति यथोदितम् ॥
तस्य व्रतं च तद्व्यर्थं नरकं च ततः परम् ॥ ३४ ॥
तच्छ्रुत्वा तुष्टिमापन्नः शिवदीक्षां ततो ददौ ॥
तस्मै विनययुक्ताय तदा निंबशुचो मुनिः ॥ ३५ ॥
ततःप्रभृति सोऽतीव तस्य शुश्रूषणे रतः॥।
रंजयामास तच्चित्तं परिचर्यापरायणः ॥ ३६ ॥
मनसा चिन्तयानस्तु तन्मात्रार्थं दिनेदिने ॥
न च्छिद्रं वीक्षते किंचिद्वीक्षमाणोऽपि यत्नतः ॥ ३७ ॥
शैवोऽपि च स कक्ष्यां तां तां मात्रां हेमसंभवाम् ॥
कथंचिन्मोक्षते भूमौ भोज्ये देवार्चनेऽपि न॥३८ ॥
ततोऽसौ चिन्तयामास दुःशीलो निजचेतसि ॥
मठे तावत्प्रवेशोऽस्ति नैव रात्रौ कथंचन ॥ ३९ ॥
सूर्यास्तमानवेलायां यत्प्रयच्छति तत्क्षणात् ॥
परिघं सुदृढं पापस्तत्करोमि च किं पुनः ॥ ६.२७४.४० ॥
मठोऽयं सुशिलाबद्धो नैव खातं प्रजायते ॥
तुंगत्वान्न प्रवेशः स्यादुपायैर्विविधैः परैः ॥ ४१ ॥
तत्किं विषं प्रयच्छामि शस्त्रैर्व्यापादयामि किम् ॥
दिवापि पशुमारेण पंचत्वं वा नयामि किम् ॥ ४२ ॥
एवं चिन्तयतस्तस्य प्रावृट्काल उपस्थितः ॥
श्रावणस्यासिते पक्षे कर्कटस्थे दिवाकरे ॥ ४३ ॥
प्राप्तो महेश्वरस्तस्य कोऽपि तत्र धनी द्रुतम् ॥
तेनोक्तं प्रणिपत्योच्चैः करिष्यामि पवित्रकम् ॥ ४४ ॥
चतुर्द्दश्यामहं स्वामिन्यद्यादेशो भवेत्तव ॥
यद्यागच्छसि मे ग्रामं प्रसादेन सम न्वितः ॥ ४५ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा तुष्टिमापन्नस्ततो निंबशुचो मुनिः ॥
तथेति चैवमुक्त्वा तं प्रेषयामास तत्क्षणात् ॥ ४६ ॥
आगमिष्याम्यहं काले स्वशिष्येण समन्वितः ॥
करिष्यामि परं श्रेयस्तव वत्स न संशयः ॥ ४७ ॥
अथ काले तु संप्राप्ते चिन्तयित्वा प्रभातिकम् ॥
प्रभातसमये प्राप्ते स शैवः प्रस्थितस्तदा ॥
दुःशीलेन समायुक्तः संप्रहृष्टतनूरुहः ॥ ४८ ॥
ततो वै गच्छमानस्य तस्य मार्गे व्यवस्थिता ॥
पुण्या नदी सुविख्याता मुरला सागरंगमा ॥ ४९ ॥
स तां दृष्ट्वाऽब्रवीद्वाक्यं वत्स शिष्य करोम्यहम् ॥
भवता सह देवार्चां मुरलायां स्थिरो भव ॥ ६.२७४.५० ॥
बाढमित्येव स प्रोक्त्वा संस्थितोऽस्यास्तटे शुभे ॥
सोऽपि निंबशुचस्तस्य रंजितः सर्वदा गुणैः ॥ ५१ ॥
सुशिष्यं तं परिज्ञाय विश्वासं परमं गतः॥
स्थगितां तां समादाय हेममात्रासमुद्भवाम् ॥ ५२ ॥
जागेश्वरसमोपेतां स कन्थां व्याक्षिपत्क्षितौ ॥
पुरीषोत्सर्गकार्येण ततस्तोकांतरं गतः ॥ ५३ ॥
यावच्चादर्शनं प्राप्तो वेतसैः परिवारितः ॥
तावन्मात्रां समादाय दुःशीलः प्रस्थितो द्रुतम् ॥
उत्तरां दिशमाश्रित्य प्रहृष्टेनांतरात्मना ॥ ५४ ॥ ।
अथासौ चागतो यावद्दुःशीलं नैव पश्यति ॥
केवलं दृश्यते कन्था जागेश्वरसमन्विता ॥ ५५ ॥
ततः शीघ्रतरं शौचं किञ्चित्कृत्वा सुदुर्मनाः ॥
विनैवाचमनं प्राप्तः सा कन्था यत्र तिष्ठति ॥५६ ॥
यावन्मात्राविहीनां च ततो ज्ञात्वा च तां हृताम् ॥
तेन शिष्येण मूर्च्छाढ्यो निपपात महीतले ॥ ५७ ॥
ततश्च चेतनां प्राप्य कृच्छ्राच्चोत्थाय तत्क्षणात् ॥
शिलायां ताडयामास निजांगानि शिरस्तथा ॥ ५८ ॥
हा हतोऽस्मि विनष्टोऽस्मि मुष्टस्तेन दुरात्मना ॥
किं करोमि क्व गच्छामि कथं तं वीक्षयाम्यहम्॥ ५९ ॥
ततस्तु पदवीं वीक्ष्य तस्य तां चलितो ध्रुवम् ॥
वृद्ध भावात्परिश्रांतो वावृत्य स मठं गतः ॥ ६.२७४.६० ॥
दुःशीलोऽपि समादाय मात्रां स्थानांतरं गतः ॥
ततस्तेन सुवर्णेन व्यवहारान्करोति सः ॥ ६१ ॥
ततो गृहस्थतां प्राप्तः कृतदारपरिग्रहः ॥
वृद्धभावं समापन्नः संतानेन विवर्जितः ॥ ६२ ॥
कस्यचित्त्वथ कालस्य तीर्थयात्रापरायणः ॥
भार्यया सहितो विप्रश्चमत्कारपुरं गतः ॥ ६३ ॥
स्नात्वा तीर्थेषु सर्वेषु देवतायतनेषु च ॥
भ्रममाणेन संदृष्टो दुर्वासा नाम सन्मुनिः ॥ ६४ ॥
निजदेवस्य सद्भक्त्या नृत्यगीतपरायणः ॥
तं च दृष्ट्वा नमस्कृत्य वाक्यमेतदुवाच सः ॥ ६५ ॥
केनैतत्स्थापितं लिंगं निर्मलं शंकरोद्भवम् ॥
किं त्वं नृत्यसि गीतं च पुरोऽस्य प्रकरोषि च ॥
मुनीनां युज्यते नैव यदेतत्तव चेष्टितम्॥६६॥
॥ दुर्वासा उवाच ॥ ॥
मयैतत्स्थापितं लिंगं देवदेवस्य शूलिनः॥
नृत्यगीतप्रियो यस्माद्देवदेवो महेश्वरः ॥ ६७ ॥
न मेऽस्ति विभवः कश्चिद्येन भोगं करोम्यहम्॥६८॥
एतस्मिन्नंतरे प्राप्तश्चिर्भटिर्नाम योगवित् ॥
तेन पृष्टः स दुर्वासा वेदांतिकमिदं वचः ॥६९॥ चिर्भटि
असूर्या नाम ते लोका अंधेन तमसा वृताः ॥
तांस्ते प्रेत्याऽभिगच्छंति ये केचात्महनो जनाः ॥ ॥ ६.२७४.७० ॥
उपविश्य ततस्तेन तस्य दत्तस्तु निर्णयः ॥
दुःशीलेनापि तत्सर्व विज्ञातं तस्य संस्तुतम् ॥ ७१ ॥
ततो विशेषतो जाता भक्तिस्तस्य हरं प्रति ॥
तं प्रणम्य ततश्चोच्चैर्वाक्यमेतदुवाच ह ॥ ७२ ॥
भगवन् ब्राह्मणोऽस्मीति जात्या चैव न कर्मणा ॥
न कस्यचिन्मया दत्तं कदाचिन्नैव भोजनम् ॥
केवलं देवविप्राणां वंचयित्वा धनं हृतम् ॥
व्यसनेनाभिभूतेन द्यूतवेश्योद्भवेन च ॥ ७४ ॥
तथा च ब्राह्मणेनापि मया शैवो गुरुः कृतः ॥
वंचितश्च तथानेकैश्चाटुभिर्विहृतं धनम् ॥ ७५ ॥
तस्य सक्तं धनं भूयः साधुमार्गेण चाहृतम् ॥
स चापि च गुरुर्मह्यं परलोकमिहागतः ॥ ॥ ७६ ॥
पश्चात्तापेन तेनैव प्रदह्यामि दिवानिशम् ॥
पुरश्चरणदानेन तत्प्रसादं कुरुष्व मे ॥ ७७ ॥
अस्ति मे विपुलं वित्तं न संतानं मुनीश्वर ॥
तन्मे वद मुने श्रेयस्तद्वित्तस्य यथा भवेत् ॥
इह लोके परे चैव येन सर्वं करोम्यहम् ॥ ७८ ॥
॥ दुर्वासा उवाच ॥ ॥
कृत्वा पापसहस्राणि पश्चाद्धर्मपरो भवेत् ॥
यः पुमान्सोऽतिकृच्छ्रेण तरेत्संसारसागरम् ॥ ७९ ॥
दिनेनापि गुरुर्योऽसौ त्वया शैवो विनिर्मितः ।
अधर्मेणापि संजातः स गुरुस्तेन संशयः ॥ ६.२७४.८० ॥
ब्राह्मणो ब्रह्मचारी स्याद्ग्रहस्थस्तदनंतरम् ॥
वानप्रस्थो यतिश्चैव तत श्चैव कुटीचरः ॥ ८१ ॥
बहूदकस्ततो हंसः परमश्च ततो भवेत् ॥
ततश्च मुक्तिमायाति मार्गमेनं समाश्रितः ॥ ८२ ॥
त्वया पुनः कुमार्गेण यद्व्रतं ब्राह्मणेन च [।
शैवमार्गं समास्थाय तन्महापातकं कृतम् ॥ ८३ ॥
॥ दुःशील उवाच ॥ ॥
सर्वेष्वेव हि वेदेषु रुद्रः संकीर्त्यते प्रभुः ॥
तत्किं दोषस्त्वया प्रोक्तस्तस्य दीक्षासमुद्भवः ॥ ८४ ॥
॥ दुर्वासा उवाच ॥ ॥
सत्यमेतत्त्वया ख्यातं वेदे रुद्रः प्रकीर्तितः ॥
बहुधा वासुदेवोऽपि ब्रह्मा चैव विशेषतः ॥ ८५ ॥
परं विप्रस्य या दीक्षा व्रतवंधसमुद्भवा ॥
गायत्री परमा जाप्ये गुरुर्व्रतपरो हि सः ॥
वैष्णवीं चाथ शैवीं च योऽन्यां दीक्षां समाचरेत् ॥ ८६ ॥
ब्राह्मणो न भवेत्सोऽत्र यद्यपि स्यात्षडंगवित् ॥
अपरं लिंगभेदस्ते संजातः कपटादिषु ॥ ८७ ॥
व्रतत्यागान्न संदेहस्तत्र ते नास्ति किंचन ॥
प्रायश्चित्तं मया सम्यक्स्मृतिमार्गेण चिंतितम्॥ ८८ ॥
॥ दुःशील उवाच ॥ ॥
सतां सप्तपदीं मैत्रीं प्रवदंति मनीषिणः ॥
मित्रतां तु पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु ॥ ८९ ॥
अस्ति मे विपुलं वित्तं यदि तेन प्रसिद्ध्यति ॥
तद्वदस्व महाभाग येन सर्वं करोम्यहम् ॥ ॥ ६.२७४.९० ॥
॥ दुर्वासा उवाच ॥ ॥
एक एव ह्युपायोऽस्ति तव पातकनाशने ॥
तं चेत्करोषि मे वाक्याद्विशुद्धः संभविष्यसि ॥ ९१ ॥
तपः कृते प्रशंसंति त्रेतायां ज्ञानमेव च ॥
द्वापरे तीर्थयात्रां च दानमेव कलौ युगे ॥ ९२ ॥
सांप्रतं कलिकालोऽयं वर्तते दारुणाकृतिः ॥
तस्मात्कृष्णाजिनं देहि सर्वपापविशुद्धये ॥ ९३ ॥
तथा च ते घृणाऽप्यस्ति गुरुवित्तसमुद्भवा ॥
तदर्थं कुरु तन्नाम्ना शंकरस्य निवेशनम्॥ ९४ ॥
येन तस्मादपि त्वं हि आनृण्यं यासि तत्क्षणात् ॥
अन्यत्रापि च तद्वित्तं यत्किंचिच्च प्रपद्यते ॥ ९५ ॥
ब्राह्मणेभ्यो विशिष्टेभ्यो नित्यं देहि समाहितः ॥
तिलपात्रं सदा देहि सहिरण्यं विशेषतः ॥ ९६ ॥
येन ते सकलं पापं देहान्नाशं प्रगच्छति ॥
अपरं चैत्रमासेऽहं सदाऽऽगच्छामि भक्तितः ॥ ९७ ॥
कल्पग्रामात्सुदूराच्च प्रासादेऽत्र स्वयं कृते ॥
पुनर्यामि च तत्रैव व्रतमेतद्धि मे स्थितम् ॥ ९८ ॥
तस्माच्चिंत्यस्त्वयाह्येष प्रासादो यो मया कृतः ॥
चिंतनीयं सदैवेह स्नानादिभिरनेकशः ॥ ९९ ॥
॥ दुःशील उवाच ॥ ॥
करिष्यामि वचस्तेऽहं यथा वदसि सन्मुने ॥ ६.२७४.१०० ॥ ॥ ॥
॥ दुर्वासा उवाच ॥ ॥
सर्वपापविशुद्ध्यर्थं दत्ते कृष्णाजिने द्विजः ॥
प्रयच्छ तिलपात्राणि गुप्तपापस्य शुद्धये ॥ १०१ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा दत्तं तेन महात्मना ॥
ततः कृष्णाजिनं भक्त्या ब्राह्मणायाहिताग्नये ॥ १०२ ॥
दुर्वाससः समा देशाद्यथोक्तविधिना द्विजाः ।
यच्छतस्तिलपात्राणि तस्य नित्यं प्रभक्तितः ॥ १०३ ॥
गतपापस्य दीक्षां च ददौ निर्वाणसंभवाम् ॥
तथासौ गतपापस्य दीक्षां दत्त्वा यथाविधि ॥ १०४ ॥
ततः प्रोवाच मधुरं देहि मे गुरुदक्षिणाम् ॥ १०५ ॥
॥ दुःशील उवाच ॥ ॥
याचस्व त्वं प्रभो शीघ्रं यां ते यच्छामि दक्षिणाम् ॥
तां प्रदास्यामि चेच्छक्तिर्वित्तशाठ्यविवर्जिताम्॥ १०६ ॥
॥ दुर्वासा उवाच ॥ ॥
कल्पग्रामं गमिष्यामि सांप्रतं वर्तते कलिः ॥
नाहमत्रागमिष्यामि यावन्नैव कृतं भवेत् ॥ १०७ ॥
अर्धनिष्पादितो ह्येष प्रासादो यो मया कृतः ॥
परिपूर्तिं त्वया नेय एषा मे गुरुदक्षिणा ॥ १०८ ॥
नृत्यगीतादिकं यच्च तथा कार्यं स्वशक्तितः ॥
पुरतोऽस्य बलिर्देयस्तथान्यत्कुसुमादिकम् ॥ १०९ ॥
एवमुक्त्वा गतः सोऽथ कल्पग्रामं मुनीश्वरः ॥
दुःशीलोऽपि तथा चक्रे यत्तेन समुदाहृतम् ॥ ६.२७४.११० ॥
॥ सूत उवाच ॥ ॥
एवं तस्य प्रभक्तस्य तत्कार्याणि प्रकुर्वतः ॥
तन्नाम्ना कीर्त्यते सोऽथ दुःशील इति संज्ञितः ॥ १११ ॥
चैत्रमासे च यो नित्यं तं च देवं प्रपश्यति ॥
क्षणं कृत्वा स पापेन वार्षिकेण प्रमुच्यते ॥ ११२ ॥
यः पुनः स्नपनं तस्य सर्वं चैव करोति च ॥
त्रिंशद्वर्षोद्भवं पापं तस्य गात्रात्प्रणश्यति ॥ ११३ ॥
यः पुनर्नृत्यगीताद्यं कुरुते च तदग्रतः ॥
आजन्ममरणात्पापात्सोऽपि मुक्तिमवाप्नुयात् ॥११४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दुर्वासःस्थापित
शिवलिंगस्य दुःशीलेश्वरसंज्ञाप्राप्तिकारणवृत्तान्तवर्णनं नाम चतुःसप्तत्युत्तर द्विशततमोऽध्यायः ॥ २७४ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 275
॥ सूत उवाच ॥ ॥
दुःशीलोऽपि च तत्कृत्वा गुरोर्नाम्ना शिवालयम् ॥
निम्बेश्वर इति ख्यातं दक्षिणां दिशमाश्रितम् ॥ १ ॥
चकार परया भक्त्या तत्पादाब्जमनुस्मरन् ॥
तथा तस्य तु भार्या या नाम्ना शाकंभरी स्मृता ॥ २ ॥
स्वनामांका तत्र दुर्गा तथा संस्थापिता तया ॥
ततस्तु तद्धनं ताभ्यां किचिच्छेषं व्यवस्थितम् ॥ ३ ॥
पूजार्थं देवताभ्यां च ब्राह्मणेभ्यः समर्पितम् ॥
भिक्षाभुजौ ततो जातौ दम्पती तौ ततः परम् ॥ ४ ॥
कस्यचित्त्वथ कालस्य दुःशीलो निधनं गतः ॥ ५ ॥
शाकंभर्यपि तत्कायं गृहीत्वा हव्यवाहनम् ॥
प्रविष्टा नृपशार्दूल निर्विकल्पेन चेतसा ॥ ६ ॥
ततो विमानमारुह्य वराप्सरःसुसेवितम् ॥
गतौ तौ द्वावपि स्वर्गं संप्रहृष्टतनूरुहौ ॥ ७ ॥
एतं दुःशीलजं यस्तु पठेदाख्यानमुत्तमम् ॥
स सर्वैर्मुच्यते पापैरज्ञानविहितैर्नृप ॥ ८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये निम्बेश्वरशाकंभर्युत्पत्तिमाहात्म्यवर्णनं नाम पञ्चसप्तत्युत्तरद्विशततमोद्भयायः ॥ २७५ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 276
॥ सूत उवाच ॥ ॥
तथान्येऽपि वसन्तीह रुद्रा एकादशैव तु ॥
सञ्जाता ब्राह्मणश्रेष्ठा मुनीनां हितकाम्यया ॥ १ ॥
यैर्दृष्टैः पूजितै र्वापि स्तुतैर्वाथ नमस्कृतैः ॥
विपाप्मा जायते मर्त्यः सर्वदोषविवर्जितः ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
एक एव श्रुतो रुद्रो न द्वितीयः कथंचन ॥
गौरी भार्याप्रिया यस्य स्कन्दः पुत्रः प्रकीर्तितः ॥ ३ ॥
तेनैकं विद्महे रुद्रं नान्यमीशं कथंचन ॥
तस्माद्ब्रूहि महाभाग सर्वानेतान्सुविस्तरात् ॥ ४ ॥
॥ सूत उवाच ॥ ॥
सत्यमेतन्महाभागा यद्भवद्भिरुदाहृतम् ॥
एक एव स्थितो रुद्रो न द्वितीयः कथंचन ॥ ५ ॥
परं यथा च सञ्जाता रुद्रा एकादशात्र भोः ॥
तथाहं कीर्तयिष्यामि शृणुध्वं सुसमाहिताः ॥ ६ ॥
वाराणस्यां पुरा संस्था मुनयः शंसितव्रताः ॥
हाटकेश्वरदेवस्य दर्शनार्थं समुत्सुकाः ॥ ७ ॥
प्रस्थिताः समयं कृत्वा स्पर्धमानाः परस्परम् ॥
अहंपूर्वमहं पूर्वं वीक्षयिष्यामि तं विभुम् ॥ ८ ॥
सर्वेषामग्रतो भूत्वा पाताले हाटकेश्वरम् ॥
यश्चादौ तत्र गत्वा च नेक्षयिष्यति तं हरम् ॥
सर्वेषां श्रमजं पापं तस्यैकस्य भविष्यति ॥ ९ ॥
एवमुक्त्वा ततः सर्वे वाराणस्यां ततः परम् ॥
प्रस्थिता धावमानाश्च वेगेन महता ततः ॥ ६.२७६.१० ॥
एतस्मिन्नन्तरे देवो हाटकेश्वरसंज्ञितः ॥
ज्ञात्वा तेषामभिप्रायं मिथः स्पर्द्धासमुद्भवम् ॥
आत्मनो दर्शनार्थाय बहुभक्तिपुरस्कृतम् ॥ ११ ॥
लघुना रक्ष्यमाणेन सर्वेषां च महात्मनाम् ॥
नागरंध्रेण निष्क्रम्य पातालाच्चैव तत्क्षणात् ॥ १२ ॥
एकादशप्रकारं स कृत्वा रूपं मनोहरम् ॥
त्रिशूलभृत्त्रिनेत्रं च कपर्देन विभूषितम् ॥ १३ ॥
शशिखंडधरं चैव रुण्डमालाप्रधारकम् ॥
समं चैव स्थितस्तेषां दर्शने शंकरः प्रभुः ॥ १८३ ॥
ततस्ते वै समालोक्य पुरस्थं वृषभध्वजम् ॥
जानुभ्यां धरणीं गत्वा स्तुतिं चक्रुस्ततस्ततः ॥ १५ ॥
एको जानाति देवोऽयं मम संदर्शनं गतः ॥
देवदेवो महादेवः प्रथमं भक्तवत्सलः ॥ १६ ॥
अन्यो जानाति मे पूर्वं जातस्ते तापसोत्तमः ॥
स्तुतिं चक्रुश्च विप्रेंद्रा जानुभ्यामवनिं गताः ॥१७॥ ॥
॥ तापसा ऊचुः ॥ ॥
नमो देवाधिदेवाय सर्वदेवमयाय च ॥
नमः शांताय सूक्ष्माय नमश्चांधकभेदिने ॥ १८ ॥
नमोऽस्तु सर्वरुद्रेभ्यो ये दिवं संश्रिताः सदा ॥
जीवापयंति जगतीं वायुभिश्च पृथग्विधैः ॥ १९ ॥
नमोऽस्तु सर्वरुद्रेभ्यो ये स्थिता वारुणीं दिशम् ॥
रक्षंति सर्वलोकांश्च पिशाचानां दुरात्मनाम् ॥ ६.२७६.२० ॥
नमोऽस्तु सर्वरुद्रेभ्यो दिशमूर्ध्वं समाश्रिताः ॥
रक्षंति सकलांल्लोकान्भूतार्नां जंभकाद्भयात् ॥ २१ ॥
नमोऽस्तु सर्वरुद्रेभ्यो येऽध ऊर्ध्वं समाश्रिताः ॥
रक्षंति सकलांल्लोकान्कूष्मांडानां भयात्सदा ॥ २२ ॥
असंख्याताः सहस्राणि ये रुद्रा भूमिमाश्रिताः ॥
नमस्तेभ्योऽपि सर्वेभ्यस्तेषां रक्षंति ये रुजः ॥ २३ ॥
एवं स्तुतास्तु ते रुद्रा एकादशतपस्विभिः ॥
एकादशापि तान्प्रोचुर्भक्तिनम्रांस्तु तापसान् ॥ २४ ॥
॥ रुद्रा ऊचुः ॥ ॥
एकादशप्रकारोऽहं तुष्टो वस्तापसोत्तमाः ॥
बहुभक्त्यतिरेकेण व्रियतां च यथेप्सितम् ॥२५॥
॥ तापसा ऊचुः ॥ ॥
यदि तुष्टोसि नो देव यदि यच्छसि वांछितम् ॥
एकादशप्रकारैस्तु सदा स्थेयमिहैव तु ॥ २६ ॥
हाटकेश्वरजे क्षेत्रे सर्वतीर्थमये शुभे ॥
आराधनं प्रकुर्वाणा वसामो येन वै वयम् ॥ २७ ॥
॥ श्रीभगवानुवाच ॥ ॥
एकादशप्रकारा या मूर्तयो निर्मिता मया ॥
एताभिरेव सर्वाभिः स्थास्याम्यत्र सदैव हि ॥ २८ ॥
आद्या तु मम या मूर्तिः सा कैलासं समाश्रिता ॥
संतिष्ठति सदैवात्र कैलासे पर्वतोत्तमे ॥ २९ ॥
एतास्तु मूर्तयोऽस्माकं स्थास्यंत्यत्रैव सर्वदा ॥
सर्वेषामेव लोकानां हिताय द्विजसत्तमाः ॥ ६.२७६.३० ॥
नामभिश्च क्रमेणैव युष्मदीयैः स्वयं द्विजाः ॥
विश्वामित्रह्रदे स्नात्वा एता मूर्तीर्ममात्र वै ॥
पूजयिष्यंति ये मर्त्यास्ते यास्यंति परां गतिम् ॥ ३१ ॥
किं वाचा बहुनोक्तेन भूयोभूयो द्विजोत्तमाः ॥
या तासां क्रियते पूजा एकादशगुणा भवेत् ॥ ३२ ॥
एवमुक्त्वा त्रिनेत्रस्तु तत्रैवादर्शनं गतः ॥
तेऽपि तत्राश्रमं कृत्वा श्रद्धया परया युताः ॥
मूर्तीश्च ताः समाराध्य संप्राप्ताः परमं पदम् ॥ ३३ ॥
अन्योऽपि यः पुमांस्ताश्च आराधयति श्रद्धया ॥
स याति परमं स्थानं यत्र देवो महेश्वरः ॥ ३४ ॥
ततः प्रभृति ते जाता रुद्रा एकादशैव तु ॥
संख्यया देवदेवस्य महेश्वरवपुर्धराः ॥ ३५ ॥
तेजोत्तमास्ते संयुक्तास्त्रिनेत्राः शूलपाणयः ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥ ३६ ॥
एकादशप्रकारस्तु यथा जातो महेश्वरः ॥
चैत्रे मासि सिते पक्षे चतुर्दश्यां दिने स्थिते ॥ ३७ ॥
यस्तान्पूजयते भक्त्या स याति परमां गतिम् ॥
अधनो धनमाप्नोति ह्यपुत्रः पुत्रवान्भवेत् ॥ ३८ ॥
सरोगो रोगमुक्तस्तु पराभूतो रिपुक्षयम् ॥
तत्समाराधनादेव कामानंत्यमवाप्नुयात् ॥ ३९ ॥
यः पुनः शिवदीक्षाढ्यो भस्मस्नानपरायणः ॥
तत्समाराधनं कुर्याच्छृणु तस्यापि यत्फलम् ॥ ६.२७६.४० ॥
यदन्यः प्राप्नुयान्मर्त्यस्तत्पूजासंभवं फलम् ॥
षडक्षरेण मंत्रेण पुष्पेणैकेन तत्फलम् ॥ ४१ ॥
शिवदीक्षाधरो यस्तु शतघ्नं लभते फलम् ॥
तस्माच्छतघ्नमाप्नोति शैवात्पाशुपतश्च यः ॥
तस्मात्कालमुखो यश्च महाव्रतधरश्च यः ॥ ४२ ॥
मूर्तीर्यास्ताश्च ये भक्त्या विनताः पूजयंति च ॥
सर्वेषामेव तेषां तु फलं शतगुणं भवेत् ॥ ४३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य एकादशरुद्रोत्पत्ति वर्णनं नाम षट्सप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७६ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 277
॥ ऋषय ऊचुः ॥ ॥
कि नामानो द्विजास्ते च वाराणस्याः समागताः॥
एकादशप्रकारोऽसौ येषां रुद्रः प्रभक्तितः ॥
तत्संज्ञाश्च समाचक्ष्व विस्तरेण महामुने ॥ १ ॥
॥ सूत उवाच ॥ ॥
एकस्तेषां मृगव्याधो विख्यातो भुवनत्रये ॥
द्वितीयः सर्वसंज्ञश्च निंदितश्च तृतीयकः॥ २ ॥
महायशाश्चतुर्थस्तु कथ्यते मुनिसत्तमाः ॥
अजैकपाद इत्युक्तः पंचमो मुनि सत्तमाः ॥ ३ ॥
अहिर्बुध्न्यस्तथा षष्ठः पिनाकी सप्तमस्तथा ॥
परं तपस्तथान्यस्तु दहनो नवमस्तथा ॥ ४ ॥
ईश्वरो दशमः प्रोक्तः कपाली चांति मस्तथा ॥
तेषामेतानि नामानि स्थितान्येव हि यानि च ॥
रुद्राणामपि तान्येव विहितानि हरेण तु ॥ ५ ॥
॥ ऋषय ऊचुः ॥ ॥
कानि दानानि शस्यानि तदर्थं वद नो द्रुतम् ॥
जपश्चैव पुरा प्रोक्तस्त्वया कार्यो यथैव च ॥ ६ ॥
॥ सूत उवाच ॥ ॥
तदुद्दिश्य प्रदातव्यमेकैकस्य पृथक्पृथक् ॥
प्रत्यक्षाश्च महाभाग दातव्या धेनवः क्रमात् ॥ ७ ॥
मृगव्याधाय प्रत्यक्षा गौर्देया च गुडोद्भवा ॥
कपालिने प्रदातव्या नवनीतसमुद्भवा ॥ ८ ॥
अजपादाय चाज्योत्था अहिर्बुध्न्याय हेमजा ॥
पिनाकिने प्रदातव्या धेनुर्लवणसम्भवा ॥ ९ ॥
परंतपाय विप्रेन्द्रास्तथैव रसस म्भवा ॥
अन्नजा दहनायोक्ता ईश्वराय जलोद्भवा ॥ ६.२७७.१० ॥
एता ददाति यो विप्रा एतेषां च महात्मनाम् ॥
चक्रवर्ती भवेन्नूनमेतदाह पितामहः ॥॥ ॥ ११ ॥
अन्यत्रापि प्रदत्ताश्च किं पुनर्भवसंनिधौ ॥
तस्मात्सर्वप्रयत्नेन एता देयाः प्रयत्नतः ॥ १२ ॥
धेनवो यो न शक्तः स्यादेका देया प्रयत्नतः ॥
सर्वेषामेव रुद्राणां भर्तृयज्ञवचो यथा ॥ १३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये एकादशरुद्रसमीपे दानमाहात्म्यवर्णनं नाम सप्तसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७७ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 278
॥ सूत उवाच ॥ ॥
ये चान्ये भास्करा स्तत्र संति ब्राह्मणसत्तमाः ॥
हाटकेश्वरजे क्षेत्रे याज्ञवल्क्यप्रतिष्ठिताः ॥ १ ॥
यस्तान्पूजयते भक्त्या हृदि कृत्वाऽभिवांछितान् ॥
सप्तम्यां चैव सप्तम्यां लभते नात्र संशयः ॥ २ ॥
॥ ऋषय उचुः ॥ ॥
एक एव स्थितः सूर्यो दृश्यते च नभस्तले ॥
तत्कथं द्वादशैते च तत्र क्षेत्रे प्रतिष्ठिताः ॥
कस्मिन्काले तथा कृत्ये किमर्थं सूतनन्दन ॥ ३ ॥
॥ सूत उवाच ॥ ॥
आसीत्पूर्वं कृतिर्नाम शुनःशेपसमुद्भवः ॥ ॥ ४ ॥
तस्य पुत्रः शुनः पुत्रो बभूव मुनिसत्तमः ॥
चारायणः सुतस्तस्य वभूव मुनिसत्तमः ॥ ५ ॥
कस्यचित्त्वथ कालस्य ब्रह्मा लोक पितामहः ॥
सावित्रीशापनिर्दग्धो ह्यवतीर्णो धरातले ॥ ६ ॥
गायत्री च यदा विप्रास्तेनोढा यज्ञकर्मणि ॥
प्राक्स्थितां च परित्यज्य सर्वदेवसमागमे ॥
कालात्ययो भवेन्नैव सावित्र्यागमने स्थिरे ॥ ७ ॥
ततस्तस्य समादेशाद्गायत्री गोपकन्यका ॥
शक्रेण च समानीता दिव्यलक्षणलक्षिता ॥ ८ ॥
गोपकन्यां च तां ज्ञात्वा गोश्च वक्त्रेण पद्मजः ॥
प्रवेश्याकर्षयामास गुह्येन च ततः परम् ॥ ९ ॥
ब्राह्मणानां गवां चैव कुलमेकं द्विधा स्थितम् ॥
एकत्र मन्त्रास्तिष्ठंति हविरेकत्र संस्थितम् ॥ ६.२७८.१० ॥
तेन तां ब्राह्मणीं कृत्वा पश्चात्तस्याः परिग्रहम् ॥
गृह्योक्तविधिना चक्रे पुरःस्थोऽपि पितामहः ॥११॥
पत्नीशालोपविष्टायां ततस्तस्यां द्विजोत्तमाः ॥
सावित्री समनुप्राप्ता देवपत्नीभिरावृता ॥ १२ ॥
ततस्तां सा समालोक्य रशनासमलंकृताम् ॥
दौर्भाग्यदुःखमापन्ना शशाप च विधिं ततः ॥ १३ ॥
॥ सावित्र्युवाच ॥ ॥
यस्मात्त्वया परित्यक्ता निर्दोषाहं पितामह ॥
पितामहोऽसि मे नूनमद्यप्रभृति संगमे ॥ १४ ॥
मनुष्याणां भवेत्कृत्यमन्यनारीपरिग्रहः ॥
एतत्त्वया कृतं यस्मान्मा नुषस्त्वं भविष्यसि ॥ १५ ॥
कामार्तश्च विशेषेण मम वाक्यादसंशयम्॥ १६ ॥
एवमुक्त्वा तु सावित्री त्यक्त्वा तं यज्ञमंडपम् ॥
गिरेः शिखरमारूढा तपश्चक्रे महत्ततः ॥ १७ ॥
पितामहोऽपि तच्छापाच्चारायणनिवेशने ।
अवतीर्णो धरापृष्ठे कालेन महता ततः ॥ १८ ॥
स यदा यौवनं भेजे मानुषं च पुरा स्थितः ।।
तथातथा च तापेन कामोत्थेन प्रपीड्यते ॥ १९ ।
ततोऽसौ वीक्षते नारीं कन्यां वाथ तपस्विनीम् ॥
अविकल्पमना भेजे रूपसौभाग्यगर्वितः ॥ ६.२७८.२० ॥
ततस्तं ब्यसनार्तं च दृष्ट्वा चारायणो मुनिः ॥
स्वयं निःसारयामास प्रकोपेन निजाश्रमात् ॥ २१ ॥
स च पित्रा परित्यक्तो भ्रममाणस्ततस्ततः ॥
चमत्कारपुरं प्राप्तः शाकल्यो यत्र तिष्ठति ॥ २२ ॥
नाम्ना ब्राह्मणशार्दूलो नागरो वेदपारगः ॥
वृतः शिष्य सहस्रेण वेदविद्यां प्रचारयन्॥ २३ ॥
अथ तं स प्रणम्योच्चैः शिष्यत्वं समुपागतः ॥
वेदाध्ययनसंपन्नो बभूवाथ चिरादपि ॥ २४ ॥
एतस्मिन्नेव काले नु आनर्ताधिपतिः स्वयम् ॥
आगतस्तिष्ठते यत्र जलशायी हरिः स्वयम् ॥ २५ ॥
चातुर्मास्यव्रतं तेन गृहीतं तत्पुरस्तदा ॥
प्रार्थितस्तु ततो विप्राः शाकल्यस्तैन भूभुजा ॥ २६ ॥
शांतिकं पौष्टिकं नित्यं त्वया कार्यं ममालये ॥
यावत्तिष्ठाम्यहं चात्र प्रसादः क्रियतामिति ॥ २७ ॥
बाढमित्येव स प्रोक्त्वा दाक्षिण्येन द्विजोत्तमाः ॥
एकैकं प्रेषयामास स्वशिष्यं तस्य मंदिरे ॥ २८ ॥
स शांतिकं विधायाथ दत्त्वाशीः पार्थिवस्य च ॥
संप्राप्य दक्षिणां तस्मात्पुनरेति च तं द्विजम् ॥ २९॥
शाकल्याय च तां दत्त्वा दक्षिणां निजमंदिरे ॥
जगाम नित्यमेवं हि व्यवहारो व्यवस्थितः ॥ ६.२७८.३० ॥
अन्यस्मिन्नहनि प्राप्ते शाकल्येन विसर्जितः ॥
शांत्यर्थं याज्ञवल्क्यस्तु पार्थिवस्यनिवेशनम् ॥ ३१ ॥
तस्य भूपस्य रूपाढया मंथरास्ति विलासिनी ॥
रात्रौ च कामिता तेन कामाढयेन सुकामिनी ॥ ३२ ॥
भावैर्वात्स्यायनप्रोक्तैः समालिंगनपूर्वकैः ॥
स तया विविधैः कृत्तो मयूरपदकादिभिः ॥
शरीरे चाधरे चैव तथा मणिप्रवालकैः ॥ ३३ ॥
संप्राप्तोऽध्ययनार्थाय यावच्छाकल्यसन्निधौ ॥
तावत्संप्रेषितस्तेन शांत्यर्थं भूपमंदिरे ॥ ३४ ॥
सोऽपि संप्रेषितस्तेन गत्वा तं पार्थिवालयम् ॥
शांतिकं च ततश्चक्रे यथोक्तविधिना द्विजाः ॥ ३५ ॥
शांतिकस्यावसाने तु प्रगृह्य कलशोदकम् ॥
पंचांगैः कल्पितं रुद्रैः स्वयमेवाभिमंत्रितैः ॥ ३६ ॥
साक्षतं सुमनोयुक्तं समादाय गतस्ततः ॥
संतिष्ठते नृपो यत्र आनर्तो त्रतसंयुतः ॥ ३७ ॥
द्यामालेखीति मंत्रं स प्रोच्चार्य विधिपूर्वकम् ॥
छंदर्षिसहितं चैव यावत्क्षिपति मस्तके ॥
तावन्निरीक्षितस्तेन नखलेखाविकर्तितः ॥ ३८ ॥
खंडितेनाधरेणैव ततोऽभूद्दुर्मना नृपः ॥ ३९ ॥
विटप्रायं तु तं दृष्ट्वा मलिनांबरधारिणम्॥
तं प्रोवाच विहस्योच्चै देहि विप्राऽक्षताञ्जलम् ॥ ६.२७८.४० ॥
मंदुरायां स्थितं यच्च काष्ठमेतत्प्रदृश्यते ॥
याज्ञवल्क्यस्ततो दृष्ट्वा सकोपस्तमुपाद्रवत् ॥ ४१ ॥
क्षिप्त्वा तत्र जलं विप्राः साक्षतं गृहमागमत् ॥
अगृह्य दक्षिणां तस्य पार्थिवस्य यथास्थिताम् ॥ ४२ ॥
एतस्मिन्नंतरे तस्य धवकाष्ठस्य सर्वतः ॥
निष्क्रांता विविधाः शाखाः पल्लवैः समलंकृताः ॥ ४३ ॥
तद्दृष्ट्वा विस्मितः सोऽथ आनर्ताधिपतिर्नृपः ॥
पश्चात्तापं परं चक्रे धिङ्मयैवमनुष्ठितम् ॥ ४४ ॥
स नूनं विबुधः कोऽपि विप्ररूपेण संगतः ॥
येनेदृशः प्रभावोऽयं तस्य मंत्रस्य संस्थितः ॥ ४५ ॥
यद्यहं प्रतिगृह्णामि तस्य मन्त्रोदितं जलम् ॥
जरामरणहीनस्तु तद्भवाभि न संशयः ॥ ४६ ॥
एवं चिंतयतस्तस्य तद्दिनं विस्मितस्य च ॥
पार्थिवस्य द्विजश्रेष्ठा जातं वर्षशतोपमम् ॥ ४७ ॥
दिवसे तु समाक्रांते कथंचित्तस्य भूपतेः [।
विभावरी क्षयं याति कथंचिन्नैव शारदी ॥ ४८ ॥
ततः प्रभातसमये समुत्थाय महीपतिः ॥
आह्वयामास शाकल्यं पुरुषैराप्तकारिभिः ॥४९॥
ततः प्रोवाच विनयात्सादरं प्रांजलिः स्थितः ॥
कल्ये शिष्यः समायातो यस्त्वदीयो ममांतिकम् ॥ ६.२७८.५० ॥
शांत्यर्थं प्रेषणीयस्तु सोऽद्यापि च द्विजोत्तम ॥
तस्योपरि परा भक्तिर्मम जाताऽद्य केवलम् ॥ ५१ ॥
स तथेति प्रतिज्ञाय गत्वाऽथ निजमन्दिरम् ॥
प्रोवाच याज्ञवल्क्यं च शांत्यर्थं श्लक्ष्णया गिरा ॥ ५८२ ॥
गच्छ वत्स त्वमद्यैव पार्थिवस्य निवेशनम् ॥
शांत्यर्थं तेन भूयोऽपि त्वमेवाशुनिमंत्रितः ॥ ५३ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
नाहं यास्यामि तद्धर्म्ये शांत्यर्थं द्विजपुंगव ॥
अनादरेण दृष्टोऽहं नाशीर्मे च समाहृता ॥ ५४ ॥
काष्ठोपरि मया दत्ता तस्य वाक्यादसंशयम् ॥
तस्मात्प्रेषय चान्यं त्वं गुरो शिष्यं विचक्षणम् ॥
आनर्तं रंजयेद्यस्तु विवेकेन समन्वितम् ॥ ५५ ॥
॥ शाकल्य उवाच ॥ ॥
राजाऽऽदेशः सदा कार्यः पुरुषैर्देशवासिभिः ॥
योगक्षेमविधानाय तथा लाभाय केवलम् ॥५६ ॥
प्रतिकूलो भवेद्यस्तु पाथिवानां स मन्दधीः ॥
न तस्य जायते सौख्यं कथंचिद्द्विजसत्तम ॥ ५७ ॥
ये जात्यादि महोत्सेकान्न नरेंद्रानुपासते ॥
तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥ ५८ ॥
एवं तयोर्विवदतोस्तदा वै गुरुशिष्ययोः ॥
भूयोऽपि तत्र संप्राप्ताः पुरुषाः पार्थिवेरिताः ॥ ५९ ॥
प्रोचुश्च त्वरया युक्ताः शाकल्यं प्रांजलिस्थिताः ॥
शिष्यं तं प्रेषय क्षिप्रं राजा मार्गं प्रतीक्षते ॥ ६.२७८.६० ॥
असकृत्प्रोच्यमानोऽपि यदा गच्छति नैव सः ॥
तदा संप्रेषयामास उद्दालकमथारुणिम् ॥ ६१ ॥
शिष्यं विनयसंपन्नं कृतांजलिपुटं स्थितम् ॥
गच्छ वत्स समादेशात्सांप्रतं नृपमंदिरम् ॥ ६२ ॥
शांतिकर्म विधायाथ स्वाध्यायं च ततः कुरु ॥ ६३ ॥
स तथेति प्रतिज्ञाय गत्वा तं पार्थिवालयम् ॥
चकार शांतिकं कर्म विधिदृष्टेन कर्मणा ॥ ६४ ॥
ततः कलशतोयं स साक्षतं सुमनोन्वितम् ॥
गृहीत्वोपाद्रवत्तत्र यत्र राजा व्यवस्थितः ॥ ॥ ६५ ॥
॥ राजोवाच ॥ ॥
स्वकीयमन्त्रलिंगेन अभिषेकं तु यच्छ भोः ॥
काष्ठस्यास्य यदग्रे ते प्रोत्थितं तिष्ठते द्विज ॥ ६६ ॥
ततस्तेन शुभं मंत्रं प्रोच्याभीष्टं जलं स्वयम् ॥
अभिषिच्य च तत्काष्ठं ततश्च स्वगृहं ययौ ॥ ६७ ॥
तावद्रूपं च तत्काष्ठं दृष्ट्वाऽऽनर्तो महीपतिः ॥
विषादसहितश्चैव पश्चात्तापसमन्वितः ॥ ६८ ॥
भूयस्तु प्रेषयामास याज्ञवल्क्यकृते तदा ॥
अन्यं दूतं विदग्धं च शाकल्यस्य द्विजाश्रयम्॥ ६९ ॥
वेदना कायसंस्था मे वर्तते द्विजसत्तम ॥
शांत्यर्थं प्रेषया क्षिप्रं तं शिष्यं पूर्वसंचितम् ॥ ६.२७८.७० ॥
अपमानं कृतं तस्य मया कल्ये द्विजोत्तम ॥
तेन मे सहसा व्याधिराशीर्वादमनिच्छतः ॥ ७१ ॥
तस्मात्प्रेषय मे शीघ्रं येन मे स्वस्थता भवेम् ॥
असकृत्प्रोच्यमानोऽपि यदा नैव स गच्छति ॥ ७२ ॥
याज्ञवल्क्यस्ततः शिष्यमन्यं प्रोवाच सादरम् ॥
ततस्तं मधुकं पैग्यं प्रेषयामास तद्गृहे ॥ ॥। ७३ ॥
तेनापि विहितं तच्च यथोद्दालकनिर्मितम् ॥
आशीर्वादो नृपोद्देशाद्दत्तः काष्ठस्य तस्य च ॥ ७४ ॥
तद्रूपमपि तत्काष्ठं दृष्ट्वा भूयोऽपि पार्थिवः ॥
अन्यं संप्रेषयामास याज्ञवल्क्यकृते नरम् ॥ ७९ ॥
असकृत्प्रोच्यमानोऽपि याज्ञवल्क्यो व्रजेन्न हि ॥
यदा तदा बहुगुणमन्यं शिष्यं प्रदिष्टवान्॥ ७६ ॥
प्रचूडं भागवित्तिं च सोऽपि गत्वा यथा पुरा ॥
चकार शांतिकं कर्म यथा ताभ्यां पुरा कृतम्॥ ७७ ॥
ततः शांत्युदकं तस्मिन्प्राक्षिपच्चैव दारुणि ॥
मंत्रवच्च तथाप्येव तद्रूपं च व्यवस्थितम् ॥ ७८ ॥
ततः स्वयं ययौ राजा शाकल्यस्य निवेशनम् ॥
याज्ञवल्क्यस्य मन्त्रार्थं पश्चात्तापसमन्वितः ॥ ७९ ॥
प्रणम्य स द्विजश्रेष्ठः शाकल्यं च द्विजोत्तमम्॥
शांत्यर्थं मम हर्म्ये त्वं कल्ये शिष्यं समादिश ॥
येन मे जायते शांतिः शरीरस्य द्विजोत्तम ॥ ६.२७८.८० ॥
ततः प्रोवाच शाकल्यो याज्ञवल्क्यं द्विजोत्तमाः ॥
भूयोऽपि शृण्वतस्तस्य आनर्तस्य महीपतेः ॥ ८१ ॥
याज्ञवल्क्य द्रुतं गच्छ ममादेशान्नृपालयम् ॥
राज्ञोस्य रोगनाशाय शांतिकं कुरु पुत्रक ॥ ॥ ८२ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
नाहं तत्र गमिष्यामि गुरो मैवं ब्रवीहि माम् ॥
अपमानः कृतोऽनेन गुरो मम महीभुजा ॥ ८३ ॥
तस्य तद्वचनं श्रुत्वा स कोपं परमं गतः ॥
अब्रवीद्भर्त्समानस्तु याज्ञवल्क्यं ततः परम् ॥ ८४ ॥
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ॥
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चानृणी भवेत् ॥ ८५ ॥
यस्मात्त्वं शिष्यतां गत्वा मम वाक्यं करोषि न ॥
तस्मात्त्वां योजयिष्यामि ब्रह्म शापेन सांप्रतम् ॥ ८६ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
अन्यायेन हि चेच्छापं गुरो मम प्रदास्यसि ॥
अहमप्येव दास्यामि प्रतिशापं तवाधुना ॥ ८७ ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ॥
उत्पथे वर्तमानस्य परित्यागो विधीयते ॥ ८८ ॥
तस्मात्त्वं हि मया त्यक्तः सांप्रतं हि न मे गुरुः ॥
अविशषेण शिष्यार्थं यदादेशं प्रयच्छसि ॥ ८९ ॥
यावंतस्ते स्थिताः शिष्यास्तावद्भिर्दिवसैरहम् ॥
तवादेशं करिष्यामि नोचेद्यास्यामि दूरतः ॥ ६.२७८.९० ॥
॥ शाकल्य उवाच ॥ ॥
यदि गच्छसि चान्यत्र तत्त्वं विद्यां परित्यज ॥
यां मया पाठितः पाप व्रज पश्चात्कुशिष्य भोः ॥ ९१ ॥
मयाभिमंत्रितं तोयं क्षुरिकामुण्डसंभवम् ॥
पिब तस्याः प्रभावेण शीघ्रमेव त्यजिष्यसि ॥
जठरान्मामकीं विद्यां त्वयाधीता पुरा तु या ॥९२ ॥
एवमुक्त्वा स चामंत्र्य मंत्रैराथर्वणैर्जलम् ॥
पानाय प्रददौ तस्मै वांत्यर्थं सद्विजोत्तमः ॥ ९३ ॥
याज्ञवल्क्योऽपि तत्पीत्वा जलं तेनाभिमंत्रितम् ॥
वांतिं कृत्वा सहान्नेन तद्विद्यां तां परित्यजत् ॥ ९४ ॥
ततो मूढत्वमापन्नो विश्वामित्रह्रदं शुभम् ॥
गत्वा स्नातो विधानेन शुचि र्भूत्वा समाहितः ॥ ९५ ॥
चकार मूर्तीस्ता भक्त्या रवेर्द्वादशसंख्यया ॥
प्रतिष्ठाप्य ततः सर्वाः पूजयामास भक्तितः ॥ ९६ ॥
धाता मित्रोऽर्यमा शक्रो वरुणः सांब एव च ॥
भगो विवस्वान्पूषा च सविता दशमस्तथा ॥
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ॥ ९७ ॥
एवं द्वादशधा सूर्यः स्थापितोऽत्र विपश्चिता ॥
आराधितस्ततो नित्यं गन्धपुष्पानुलेपनैः ॥ ९८ ॥
ततः कालेन महता गत्वा प्रत्यक्षतां रविः ॥
प्रोवाच सुन्दरं प्रीत्या वाक्यमेतन्मुनिं प्रति ॥ ९९ ॥
याज्ञवल्क्य प्रतुष्टोऽहं तव ब्राह्मणसत्तम ॥
इष्टं ददामि ते ब्रूहि यद्यत्संप्रति वांछितम् ॥ ६.२७८.१०० ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
वरं ददासि चेन्मह्यं वेदपाठे नियोजय ॥
मां विभो येन शिष्यत्वं तव गच्छामि सांप्रतम् ॥ १०१ [।
॥ आदित्य उवाच ॥ ॥
मया पर्यटनं कार्यं सदैव द्विजसत्तम ॥
मेरोः प्रदक्षिणार्थाय लोकालोककृते द्विज ॥ १०२ ॥
तत्कथं योजयामि त्वां वेदपाठेन स द्विज ॥ १०३ ॥
तस्मात्त्वं लघुतां गत्वा मम मुख्यहयस्य च ॥
श्रवणे तिष्ठ मद्वाक्यात्तेजसा चैव येन मे ॥ १०४ ॥
न दह्यसि महाभाग तत्र स्थोऽध्ययनं कुरु ॥
स तथेति प्रतिज्ञाय प्रविश्यादित्यवाजिनः ॥ १०५ ॥
कर्णेऽपठत्ततो वेदांश्चतुरोऽपि च तन्मुखात् ॥
अंगोपांगसमोपेतान्परिशिष्टसमन्वितान् ॥ १०६ ॥
ततः समाप्ते स प्राह प्रार्थयस्व विभो हि माम् ॥
प्रदास्यामि न सन्देहस्तवाद्य गुरुदक्षिणाम् ॥ १०७ ॥
॥ आदित्य उवाच ॥ ॥
यानि सूक्तानि ऋग्वेदे मदीयानि द्विजोत्तम ॥
सावनानि यजुर्वेदे सामानि च तृतीयके ॥ १०८ ॥
कल्पोक्तानि चतुर्थे च तानि सर्वाणि भूतले ॥
त्वया प्रचारणीयानि कृत्वा व्याख्यानमुत्तमम् ॥ १.९ ॥
ये द्विजास्तानि सर्वाणि कीर्तयिष्यंति मे पुरः ॥
ते सर्वे पाप निर्मुक्ताः प्रयास्यंति दिवालयम् ॥ ६.२७८.११० ॥
व्याख्यास्यंति पुनर्ये च मम भक्तिपरायणाः ॥
ते यास्यंति द्विजा मुक्तिं सत्यमेतन्मयोदितम् ॥ ॥ १११ ॥
॥ सूत उवाच ॥ ॥
एवं वेदान्पठित्वा स प्रदत्त्वा गुरुदक्षिणाम् ॥
सूर्यायाभ्यागतो भूयश्चमत्कारपुरं प्रति ॥ ११२ ॥
ततः शाकल्यमभ्येत्य गुरुस्त्वं प्राङ् मम स्थितः ॥
प्रार्थयस्व महाभाग दास्यामि गुरुदक्षिणाम् ॥ ११३ ॥
ज्येष्ठो भ्राता पिता चैव माता चैव गुरुस्तथा ॥
वैरुद्ध्येनापि वर्तंते यद्येते द्विजसतम ॥
तथापि पूजनीयाश्च पुरुषेण न संशयः ॥ ११४ ॥
सांगोपांगा मयाधीता वेदाश्चत्वार एव च ॥
अधीताश्चैव सर्वेषां तेषामर्थोऽवधारितः ॥ ११५ ॥
तत्त्वं वद महाभाग कां ते यच्छामि दक्षिणाम् ॥ ११६ ॥
॥ शाकल्य उवाच ॥ ॥
यानि वेदरहस्यानि सूर्येण कथितानि ते ॥ ११७ ॥
यैः स्यात्पापप्रणाशश्च व्याख्यातैः पठितैस्तथा ॥
तानि मे कीर्तय क्षिप्रमेषा मे गुरुदक्षिणा ११८ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
तदागच्छ मया सार्धं यत्र सूर्याः प्रतिष्ठिताः ॥
मया द्वादश तेषां च कीर्तयिष्यामि चात्रतः ॥११९॥
तच्छ्रुत्वा शिष्यसंयुक्तः शाकल्यस्तैश्च सद्द्विजैः ॥
शिष्यैस्तिष्ठन्ति ये तत्र स्थापितास्तेन भास्कराः ॥ ६.२७८.१२० ॥
ततस्तु कीर्तयामास व्याख्यानं तत्पुरः स्थितः ॥
वेदान्तानां च सर्वेषां यथोक्तं रविणा पुरा ॥ १२१ ॥
अवसाने च तेषां तु चतुश्चरणसंभवैः ॥
ब्राह्मणैर्याज्ञवल्क्यस्तु वेदान्तज्ञैः प्रतोषितः ॥ १२२ ॥
प्रोक्तस्तव प्रसादेन वेदांतज्ञा वयं स्थिताः ॥
श्रुताध्ययनसंपन्ना याचस्व गुरुदक्षिणाम् ॥ १२३ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
एतेषां भास्कराणां च मदीयानां पुरो द्विजाः ॥
कीर्तयिष्यंति ये विप्रास्तेषां युष्मत्प्रसादतः ॥
भूया स्वर्गगतिर्विप्रा एषा मे गुरु दक्षिणा ॥ १२४ ॥
ये पुनर्भक्तिसंयुक्ताः करिष्यंति विचारणम् ॥
तेषां तुर्यपदं यच्च जरामरणवर्जितम् ॥ १२५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
भविष्यति कलौ विप्रा दौस्थ्यभावसमन्विताः ॥
पठने नैव शक्ताश्च व्याख्यानस्य च का कथा ॥ १२६ ॥
तस्मात्सारस्वतं ब्रूहि वेदानां द्विजसत्तम ॥
अपि दौस्थ्यसमायुक्ता येन ते कीर्तयंति च ॥ १२७ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
रथं युञ्जंति सूक्तं यत्प्रथमं वित्तलक्षणम् ॥
त्रिष्टुभेति च यत्सूक्तं तथाद्यं ब्राह्मणोत्तमाः ॥ १२९३ ॥
चित्रं देवानामिति च तथान्यत्तस्य वल्लभम् ॥
हंसः शुचिषदित्युक्तं ततश्चापि प्रहर्षदम् ॥ १२९ ॥
पावमानं तथा सूक्तं ये पठिष्यंति बह्वृचः ॥
इत्येषामाद्यमेवं तु ते यास्यंति परां गतिम्॥ ६.२७८.१३० ॥
एकविंशतिसामानि आदित्येष्टानि यानि च ॥
सामगाः कीर्तयिष्यंति येऽत्रस्थाः शुचयः स्थिताः ॥ १३१ ॥
निश्चयं तु परं धृत्वा येऽपि स्तोष्यंति भास्करम् ॥
ततस्तेऽपि प्रयास्यंति निर्भिद्य रविमंडलम् ॥ १३२ ॥
क्षुरिकासंपुटं चैव सूर्यकल्पं तथैव च ॥
शांतिकल्पसमायुक्तं कीर्तयिष्यंति ये द्विजाः ॥ १३३ ॥
अथर्वपाठकास्तेऽपि प्रयास्यंति परां गतिम् ॥
मूर्खा अपि समागत्य संप्राप्ते सूर्यवासरे ॥ १३४ ॥
प्रणामं ये करिष्यंति श्रद्धया परया युताः ॥
सप्तरात्रकृतात्पापान्मुक्तिं प्राप्संति ते द्विजाः ॥ १३५ ॥
॥ सूत उवाच ॥ ॥
तथेति तैः प्रतिज्ञाते चतुश्चरणसंभवैः ॥
ब्राह्मणैर्याज्ञवल्क्यस्तु विज्ञातो येन केन तु ॥ ॥ १३६ ॥
विदेहेन ततः प्राप्तः श्रवणार्थं नराधिपः ॥
वेदांतानां च सर्वेषां रत्नाख्येन महीभुजा ॥ १३७ ॥
तेनापि च परिज्ञाय माहात्म्यं सूर्यसं भवम् ॥
ततः संस्थापितः सूर्यस्तस्मिन्स्थाने द्विजोत्तमाः ॥ १३८ ॥
तं चापि सूर्यवारेण यः प्रपश्यति मानवः ॥
सप्तरात्रकृतात्पापान्मुच्यते नात्र संशयः ॥ १३९ ॥
एतद्वः कथितं सर्वं माहात्म्यं सूर्यसंभवम् ॥
यः शृणोति नरो भक्त्या अश्वमेधफलं लभेत् ॥ ६.२७८.१४० ॥
संक्रांतौ यत्प्रदानेन सूर्ये वा श्रवणेन तु ॥
तत्फलं समवाप्नोति श्रुत्वा माहात्म्यमुतमम् ॥ १९१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये द्वादशार्कोत्पत्तिरत्नादित्योत्पत्तिमाहात्म्ये याज्ञवल्क्यवृत्तांतवर्णनं नामाष्टसप्तत्युत्तरद्विशततमोऽध्यायः ।। २७८ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 279
सूत उवाच ॥ ॥
एतत्पुराणमखिलं पुरा स्कन्देनभाषितम् ॥
भृगवे ब्रह्मपुत्राय तस्माल्लेभे तथांगिराः ॥१॥
ततश्च च्यवनः प्राप स ऋचीकस्ततो मुनिः ॥
एवं परंपराप्राप्तं सर्वेषु भुवनेष्वपि ॥२॥
स्कांदं पुराणमेतच्च कुमारेण पुरोद्धृतम् ॥
यः शृणोति सतां मध्ये नरः पापात्प्रमुच्यते ॥ ३ ॥
इदं पुराणमायुष्यं वर्णानां च सुखावहम् ॥
निर्मितं षण्मुखेनेह नियतं सुमहात्मना ॥ ४ ॥
एवमेतत्पुरा ख्यातमाख्यानं भद्रमस्तु वः ॥ ५ ॥
हाटकेश्वरक्षेत्रस्य माहात्म्यं शृणुते नरः ॥
न तस्य पुण्यसंख्यानं कर्तुं शक्येत केनचित् ॥ ६ ॥
य इदं धर्ममाहात्म्यं ब्राह्मणाय प्रयच्छति ॥
स्वर्गलोके वसेत्तावद्यावदक्षरसंख्यया ॥७॥
यथा हि वर्षतो धारा यथा वा दिवि तारकाः ॥
गंगायां सिकता यद्वत्तद्वत्संख्या न विद्यते ॥ ८ ॥
यो नरः शृणुयाद्भक्त्या दिनानि च कियंति वै ॥
सर्वार्थसिद्धो भवति य इमां पठते कथाम् । ९ ॥
पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ॥
लभते पतिकामा या पतिं कन्या मनोरमम् ॥ ६.२७९.१० ॥
समागमं लभंते च वांधवाश्च प्रवासिभिः ॥
स्कांदं पुराणं श्रुत्वा तु पुमाना प्नोति वांछितम् ॥ ११ ॥
शृण्वतः पठतश्चैव सर्वकामप्रदं नृणाम् ॥
महीं विजयते राजा शत्रूंश्चाप्यधितिष्ठति ॥ १२ ॥
पुण्यं श्रुत्वा पुराणं वै दीर्घमा युश्च विंदति ॥
वेदविच्च भवेद्विप्रः क्षत्रियो राज्यमाप्नुयात् ॥ १३ ॥
धनं धान्यं तथा वैश्यः शूद्रः सुखमवाप्नुयात् ॥
यः श्लोकपादं शृणुयाद्विष्णुलोकं स गच्छति ॥ १४ ॥
श्रुत्वा पुराणमेतद्धि वाचकं यस्तु पूजयेत् ॥
तेन ब्रह्मा च विष्णुश्च रुद्रश्चैव प्रपूजितः ॥ १५ ॥
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत्॥
पृथिव्या नास्ति तद्द्रव्यं यद्दत्त्वा ह्यनृणी भवेत् ॥१६॥
अतः संपूजनीयस्तु व्यासः शास्त्रोपदेशकः ॥
गोभूहिरण्यवस्त्राद्यैर्भोजनैः सार्व कामिकैः ॥१७॥
य एवं भक्तियुक्तस्तु श्रुत्वा शास्त्रमनुतमम् ॥
पूजयेदुपदेष्टारं स शैवं पदमाप्नुयात् ।। १८ ॥
पुराणश्रवणादेव अनेकभवसंचितम् ॥
पापं प्रशममायाति सर्वतीर्थफलं लभेत् ॥१९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये पुराणश्रवणमाहात्म्यवर्णनंनामैकोनाशीत्युत्तरद्विशततमोऽध्यायः ॥२७९॥ ॥
इति श्रीस्कांदे महापुराणे षष्ठं नागरखण्डं समाप्तम् ॥ ६ ॥
खण्डः ६(नागरखण्डः) — Adhyāya 103
॥ ॥ ऋषय ऊचुः ॥
आश्चर्यं सूतपुत्रैतद्यत्त्वया परिकीर्तितम् ॥
यत्स्थापितानि लिंगानि राक्षसैरपि वानरैः ॥ १ ॥
तस्माद्विस्तरतो ब्रूहि यत्रयत्र यथायथा ॥
तैः स्थापितानि लिंगानि येषु स्थानेषु सूतज ॥ २ ॥
॥ सूत उवाच ॥ ॥'
सुग्रीवः संभ्रमित्वाथ क्षेत्रं सर्वमशेषतः ॥
बालमंडनकं प्राप्य तत्र स्नात्वा समाहितः ॥ ३ ।
मुखलिंगं ततस्तत्र स्थापयामास शूलिनः ॥।
तथान्यैर्वानरैः सर्वैमुखलिंगानि शूलिनः ॥
स्वसंज्ञार्थं द्विजश्रेष्ठाः स्थापितानि यथेच्छया ॥ ४ ॥
यस्तेषां मुखलिंगानां करोति घृतकंबलम्॥।
मकरस्थेन सूर्येण शिवलोकं स गच्छति ॥ ५ ॥
ततः पश्चिमदिग्भागे तस्य क्षेत्रस्य राक्षसैः ॥
संस्थापितानि लिङ्गानि चतुर्वक्त्राणि च द्विजाः ॥_ ॥ ६ ॥
रामेण पूर्वदिग्भागे प्रासादानां च पंचकम् ॥
स्थापितं भक्तियुक्तेन सर्वपातकनाशनम् ॥ ७ ॥
तथादक्षिणदिग्भागे कूपिका तेन निर्मिता॥।
आनर्त्तीयतडागस्य समीपे पापनाशनी ॥ ८ ॥
यस्तस्यां कुरुते श्राद्धं संप्राप्ते दक्षिणायने ॥
सोऽश्वमेधफलं प्राप्य पितृलोके महीयते ॥ ९ ॥।
यस्तत्र दीपकं दद्यात्कार्तिके मासि च द्विजाः ॥
न स पश्यति रौद्रांस्तान्नरकानेकविंशतिम् ॥
न चांधो जायते क्वापि यत्रयत्र प्रजायते ॥ 6.103.१० ॥॥ ॥
॥ ऋषय ऊचुः ॥ ॥
आनर्त्तीयतडागं तत्केन तत्र विनिर्मितम् ॥
किंप्रभावं च कार्त्स्न्येन सूतपुत्र प्रकीर्तय ॥ ११ ॥
॥ सूत उवाच ॥ ॥।
आनर्त्तीयतडागस्य महिमा द्विजसत्तमाः ॥
एकवक्त्रेण नो शक्यो वक्तुं वर्षशतैरपि ॥ १२ ॥
आश्विनस्य सिते पक्षे चतुर्दश्यां समाहितः ॥
स्नात्वा देवान्पितॄंश्चैव तर्पयेद्विधिपूर्वकम् ॥ १३ ॥
ततो दीपोत्सवदिने श्राद्धं कृत्वा समाहितः ॥
दामोदरं यमं पूज्य दीपं दद्यात्स्वभक्तितः ॥ ॥ १४ ॥
संपूज्यो धर्मराजस्तु गन्धपुष्पानुलेपनैः ॥
माषास्तिलाश्च दातव्या गोविंदः प्रीयतामिति ॥ १५ ॥
तिलमाषप्रदानेन द्विजानां तर्पणेन च ॥
यमेन सहितो देवः प्रीयते पुरुषोत्तमः ॥ १६ ॥
य एवं कुरुते विप्रास्तीर्थ आनर्त संज्ञिते ॥
सोऽश्वमेधफलं प्राप्यब्रह्मलोके महीयते ॥ १७ ॥।
यस्मिन्दिने समायातो रामस्तत्र प्रहर्षितः ॥
तस्मिन्द्विजोत्तमैः सर्वैः प्रोक्तः सोऽभ्येत्य सादरम् ॥ १८ ॥
अत्रागस्त्यो मुनिश्रेष्ठस्तिष्ठते रघुनंदन ॥
तं गत्वा पश्य विप्रेन्द्र मित्रावरुणसंभवम् ॥ १९ ॥
अथ तेषां वचः श्रुत्वा रामो राजीवलोचनः ॥
वानरै राक्षसैः सार्धं प्रहृष्टः सत्वरं ययौ ॥ 6.103.२०
अष्टांगप्रणिपातेन तं प्रणम्य रघूत्तमः ॥
परिष्यक्तो दृढं तेन सानन्देन महात्मना ॥ २१ ॥
नातिदूरे ततस्तस्य विनयेन समन्वितः ॥
उपविष्टो धरापृष्ठे कृतांजलिपुटः स्थितः ॥ २२ ॥
ततः पृष्टस्तु मुनिना कथयामास विस्तरात् ॥
वृत्तांतं सर्वमात्मीयं स्वर्गस्य गमनं प्रति ॥ २३ ॥
यथा सीता परित्यक्ता यथा सौमित्रिणा कृतः ॥
परित्यागः स्वकीयस्य संत्यक्तेन महात्मना ॥ ॥ २४ ॥
तथा सुग्रीवमासाद्य तथैव च विभीषणम् ॥
संभाष्य चागमस्त्वत्र ततः पुष्पकसंस्थितिः ॥२५ ॥
ततोऽगस्त्यः कथाश्चित्राश्चक्रे तस्य पुरस्तदा ॥
राजर्षीणां पुराणानां दृष्टांतैर्बहुभिर्मुनिः ॥ २६ ॥
ततः कथावसाने च चलचित्तं रघूत्तमम् ॥
विलोक्य प्रददौ तस्मै रत्नाभरणमुत्तमम् ॥ २७ ॥
यन्न देवेषु यक्षेषु सिद्धविद्याधरेषु च ॥
नागेषु राक्षसेन्द्रेषु मानुषेषु च का कथा ॥ २८ ॥
यस्येन्द्रायुधसंघाश्च निष्क्रामंति सहस्रशः ॥
रात्रौ तमिस्रपक्षेऽपि लक्ष्यतेऽर्कोपमत्विषः ॥ २९ ॥
तद्रामस्तु गृहीत्वाऽथ विस्मयोत्फुल्ललोचनः ॥
पप्रच्छ कौतुकाविष्टः कुतस्त्वेतन्मुने तव ॥ ॥ 6.103.३० ॥
अत्यद्भुतकरं रत्नैर्निर्मितं तिमिरापहम् ॥
कण्ठाभरणमाख्याहि नेदमस्ति जगत्त्रये ॥ ३१ ॥
॥ अगस्तिरुवाच ॥ ॥
यत्पश्यसि रघुश्रेष्ठ तडागमिदमुत्तमम् ॥
ममाश्रमसमीपस्थं तद्देवदेवनिर्मितम् ॥ ३२ ॥
तस्य तीरे मया दृष्टं यदाश्चर्यमनुत्तमम् ॥
तत्तेऽहं संप्रवक्ष्यामि शृणुष्व रघु नन्दन ॥ ३३ ॥
कदाचिद्राघवश्रेष्ठ निशीथेऽहं समुत्थितः ॥
पश्यामि व्योममार्गेण प्रद्योतं भास्करोपमम् ॥ ३४ ॥
यावत्तावद्विमानं तदप्सरोगणराजितम् ॥
तस्य मध्यगतश्चैकः पुरुषस्तरुणस्तथा ॥
अन्धस्तत्र समारूढः स्तूयते किन्नरैर्नृपः ॥ ३५ ॥
रत्नाभरणमेतच्च बिभ्रत्कण्ठे सुनिर्मलम् ॥
द्वादशार्कप्रतीकाशं कामदेव इवापरः ॥ ३६ ॥
अथोत्तीर्य विमानाग्र्यात्स्कंधलग्नो रघूद्वह ॥
एकस्य देवदूतस्य सलिलांतमुपागतः ॥ ३७ ॥
ततश्च सलिलात्तस्मादाकृष्य च कलेवरम् ॥
मृतकस्य ततो दंतैर्भक्षयामास सत्वरम् ॥ ३८ ॥
यथायथा महामांसं स भक्षयति राघव ॥
तथातथा पुनः कायं तद्रूपं तत्प्रजायते ॥ ३९ ॥
ततस्तृप्तिं चिरात्प्राप्य शुचिर्भूत्वा प्रहर्षितः ॥
निष्कम्य सलिलाद्यावद्विमानमधिरोहति ॥ 6.103.४० ॥
तावन्मया द्रुतं गत्वा स पृष्टः कौतुकान्नृपः ॥
सेव्यमानोऽपि गन्धर्वैः समंताद्बुद्धितत्परैः ॥ ४१ ॥
भोभो वैमानिकश्रेष्ठ मुहूर्तं प्रतिपालय ॥
अगस्तिर्नाम विप्रोऽहं मित्रावरुणसंभवः ॥ ४२ ।
तच्छ्रुत्वा सम्मुखो भूत्वा प्रणाममकरोत्ततः ॥
तैश्च वैमानिकैः सार्धं सर्वैस्तैः किन्नरादिभिः ॥ ४३ ॥
सोऽयं राजा मया पृष्टः कृतानतिः पुरः स्थितः ॥
कस्त्वमीदृग्वपुः श्रीमान्विमानवरमाश्रितः ॥
सेव्यमानोऽप्सरोभिश्च गन्धर्वैः किन्नरैस्तथा ॥ ॥ ४४ ॥
अत्राऽऽगत्य तडागांते महामांसप्रभक्षणम् ॥
कृतवानसि वैकल्यं कस्मात्ते दृष्टिसंभवम् ॥ ४५ ॥
॥ वैमानिक उवाच ॥ ॥
साधु साधु मुनिश्रेष्ठ यत्त्वं प्राप्तो ममान्तिकम् ॥
अवश्यं सानुकूलो मे विधिर्यत्त्वं समागतः ॥ ४६ ॥
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ॥
कालेन फलते तीर्थं सद्यः साधुसमागमः ॥ ४७ ॥
तस्मात्सर्वं तवाख्यानं कथयामि महामुने ।
येन मे गर्हितं भोज्यं विभवश्च तथेदृशः ॥ ४८ ॥
अहमासं पुरा राजा श्वेतोनाम महामुने ॥
आनर्ताधिपतिः पापः सर्वलोकनिपीडकः ॥ ४९ ॥
न किंचित्प्राङ्मया दत्तं न हुतं जातवेदसि ॥
न च रक्षा कृता लोके न त्राताः शरणागताः ॥ 6.103.५० ॥
दृष्ट्वादृष्ट्वा मया रत्नं यत्किंचिद्धरणीतले ॥ ।
तद्वै बलाद्धृतं सर्वं सर्वेषामिह देहिनाम् ॥ ५१ ॥
ततः कालेन दीर्घेण जराग्रस्तस्य मे बलात् ॥
हृतं राज्यं स्वपुत्रेण मां निर्वास्य विगर्हितम् ॥ ॥ ५२ ॥
ततोऽहं जरया ग्रस्तो वैराग्यं परमं गतः॥
समायातोऽत्र विप्रेंद्र भ्रममाण इतस्ततः ॥ ५३ ॥
ततः क्षुत्क्षामकण्ठोऽहं स्नात्वाऽत्र सलिले शुभे॥
मृतश्च संनिविष्टोहं क्षुधया परिपीडितः॥ ५४॥
प्राविश्याऽत्र जले पुण्ये पंचत्वं समुपागतः ॥
ततश्च तत्क्षणादेव विमानं समुपस्थितम् ॥ । ॥ ५५ ॥
मामन्येन शरीरेण समादाय च किंकराः ॥
तत्रारोप्य ततः प्राप्ता ब्रह्मणः सदनं प्रति ॥ ५६ ॥
दिव्यमाल्यावरधरंदिव्यगन्धानुलेपनम् ॥
दिव्याभरणसंजुष्टं स्तूयमानं च किन्नरैः ॥ ५७ ॥
ततो ब्रह्मसभामध्ये ह्यहं तैर्देवकिंकरैः ॥
तादृग्रूपो विचक्षुश्च धारितो ब्रह्मणः पुरः ॥ ५८ ॥
सर्वैः सभागतैर्दृष्टा विस्मितास्यैः परस्परम् ॥
अन्यैश्च निन्दमानैश्च धिक्छब्दस्य प्रजल्पकैः ॥ ५९ ॥
॥ किंकरा ऊचुः ॥ ॥
एष देवश्चतुर्वक्त्रः सभेयं तस्य सम्भवा ॥
सर्वैर्देवगणैर्जुष्टा प्रणामः क्रियतामिति ॥ 6.103.६० ॥
ततोऽहं प्रणिपत्योच्चैस्तं देवं देवसंयुतम् ॥
उपविष्टः सभामध्ये व्रीडयाऽवनतः स्थितः ॥ ६१ ॥
यथायथा कथास्तत्र प्रजायन्ते सभातले ॥
देवद्विजनरेन्द्राणां धर्माख्यानानि कुंभज ॥ ६२ ॥
तथातथा ममातीव क्षुद्वृद्धिं संप्रगच्छति ॥
जाने किं भक्षयाम्याशु दृषदः काष्ठमेव वा ॥ ६३ ॥
ततो मया प्रणम्योच्चैर्विज्ञप्तः प्रपितामहः ॥
प्राणिपत्य मुनिश्रेष्ठ लज्जां त्यक्त्वा सुदूरतः ॥६४॥
क्षुधा मां बाधते अतीव सांप्रतं प्रपितामह ॥
तथा पश्यामि नो किंचित्तादृग्भोज्यं प्रयच्छ मे ॥६५॥
क्षुत्पिपासादयो दोषा न विद्यंतेऽत्र ते किल ॥
स्वर्गे स्थितस्य यच्चैतत्तत्किमेवंविधं मम॥६६॥
॥ पितामह उवाच ॥ ॥
त्वया नान्नं क्वचिद्दत्तं कस्यचित्पृथिवीतले ।
तेनात्रापि बुभुक्षा ते वृद्धिं गच्छति दुर्मते ॥ ६७ ॥
तथा हृतानि रत्नानि यानि दृष्टिगतानि ते ॥
चक्षुर्हीनस्ततो जातो मम लोके गतोऽपि च ॥ ६८ ॥
यस्त्वं पातकयुक्तोऽपि संप्राप्तो मम मंदिरम्॥
तद्वक्ष्याम्यखिलं तेऽहं शृणुष्वैकमनाः स्थितः॥ ६९ ॥
यस्मिञ्जले त्वया मुक्ताः प्राणाः पापा त्मनापिच ॥
श्वेतद्वीपपतिस्तत्र कलिकालभयातुरः ॥ 6.103.७० ॥
ततोऽस्य स्पर्शनात्सद्यो विमुक्तः सर्वपातकैः ॥
अन्नादानात्परा पीडा जायते क्षुत्समु द्भवा ॥७१॥
तथा रत्नापहारेण सञ्जाता चांधता तव ॥
नैवान्यत्कारणं किंचित्सत्यमेतन्मयोदितम् ॥७२ ॥
ततो मया विधिः प्रोक्तः पुनरेव द्विजोत्तम ॥
एषोऽपि ब्रह्मलोकस्ते नरकादतिरिच्यते ॥
तस्मात्तत्रैव मां देव प्रेषयस्व किमत्र वै ॥ ७३ ॥
॥ ब्रह्मोवाच ॥ ॥
तस्मात्तत्रैव गच्छ त्वं प्रेषि तोऽसि किमत्र वै ॥
नरके तव वासो न श्वेतद्वीपसमुद्भवम् ॥७४॥
माहात्म्यं नाशमायाति शास्त्रं स्यात्सत्यवर्जितम् ॥
तस्मात्त्वं नित्यमारूढो विमा ने त्रैवसुन्दरे ॥ ७५ ॥
गत्वा जलाशये तस्मिन्यत्र प्राणाः समुज्झिताः ॥
तमेव निजदेहं च भक्षयस्व यथेच्छया ॥ ७६ ॥
तद्भविष्यति मद्वाक्या दक्षयं जलमध्यगम्॥
तावत्कालं च दृष्टिस्ते भोज्यकाले भविष्यति ॥ ७७ ॥
ततोऽहं तस्य वाक्येन दीपोत्सवदिने सदा ॥
निशीथेऽत्र समा गत्य भक्षयामि निजां तनुम् ॥ ७८ ॥
ततस्तृप्तिं प्रगच्छामि यावद्दैवं दिनं स्थितम् ॥
मानुषं च तथा वर्षमीदृग्रूपो व्यवस्थितः ॥ ७९ ॥
नास्त्यसाध्यं मुनिश्रेष्ठ तव किंचिज्जगत्त्रये ॥
येनैकं चुलुकं कृत्वा निपीतः पयसांनिधिः ॥ 6.103.८० ॥
तस्मान्मुने दयां कृत्वा ममोपरि महत्तराम् ॥
अकृत्या द्रक्ष मामस्मात्सर्वलोकविगर्हितात् ॥ ८१ ॥
तथा दृष्टिप्रदानं मे कुरुष्व मुनिसत्तम ॥
निर्विण्णोऽस्म्यंधभावेन नान्या त्वत्तोऽस्ति मे गतिः ॥ ॥ ८२ ॥
तस्य तद्वचनं श्रुत्वा कृपया मम मानसम्॥
द्रवीभूतं तदा वाक्यमवोचं तं रघूत्तम ॥ ८३ ॥
त्वमन्ननिष्क्रयं देहि कण्ठस्थमिह भूषणम् ॥
येन नाशं प्रयात्येषा बुभुक्षा जठरोद्भवा ॥ ८४ ॥
तथाऽद्यप्रभृति प्राज्ञ रत्नदीपान्सुनिर्मलान् ॥
अत्रैव सरसस्तीरे देहि दामोदराय च ॥ ८५ ॥
द्ध?स येन संजायते दृष्टिः शाश्वती तव निर्मला ॥
मम वाक्यादसंदिग्धं सत्येनात्मानमालभे ॥ ८६ ॥
॥ राजोवाच ॥ ॥
ममोपरि दयां कृत्वा त्वमेव मुनिसत्तम ॥
गृहाण रत्नसंभूतं कण्ठाभरणमुत्तमम् ॥ ८७ ॥
ततो दयाभिभूतेन मया तस्य प्रतिग्रहः ॥
निःस्पृहेणापि संचीर्णो मुनिना रण्यवासिना।
ततः प्रक्षाल्य मे पादौ यावत्तेनान्ननिष्क्रये।
विभूषणमिदं दत्तं सद्भक्त्या भावितात्मने॥
ततस्तस्य प्रणष्टा सा बुभुक्षा तत्क्षणान्नृप ॥
संजाता परमा तृप्तिर्देवपीयूषसंभवा ॥ 6.103.९० ॥
तस्य नष्टं मृतं कायं तच्च जीर्णं पुरोद्भवम् ॥
यदासीदक्षयं नित्यं तस्मिंस्तोये व्यवस्थितम् ॥ ९१ ॥
ततः संस्थापितस्तेन तस्मिन्स्थाने सुभक्तितः ॥
दामोदरो रघुश्रेष्ठ कृत्वा प्रासादमुत्तमम् ९२ ॥
तस्याग्रे श्रद्धया युक्तो दीपं दयाद्यथायथा ॥
तथातथा भवेद्दृष्टिस्तस्य नित्यं सुनिर्मलाम् ॥ ९३ ॥
ततो मासात्समासाद्य दिव्यचक्षुर्महीपतिः ॥
स बभूव नृपश्रेष्ठः स्पृहणीयतमः सताम्॥ ९४ ॥
ततः प्रोवाच मां हृष्टः प्रणिपत्य कृतांजलिः ॥
हर्षगद्गदया वाचा प्रस्थितस्त्रिदिवं प्रति ॥ ९५ ॥
त्वत्प्रसादात्प्रणष्टा मे बुभुक्षाऽतिसुदारुणा ॥
तथा दृष्टिश्च संजाता दिव्या ब्राह्मणसत्तम ॥ ९६ ॥
अनुज्ञां देहि मे तस्माद्येन गच्छामि सांप्रतम् ॥
ब्रह्मलोकं मुनिश्रेष्ठ तीर्थस्यास्य प्रभावतः ॥ ९७ ॥
ततो मया विनिर्मुक्तः प्रणिपत्य मुहुर्मुहुः ॥
स जगाम प्रहृष्टात्मा ब्रह्मलोकं सनातनम् ॥ ९८ ॥
एवं मे भूषणमिदं जातं हस्तगतं पुरा ॥
तव योग्यमिदं ज्ञात्वा तुभ्यं तेन निवेदितम् ॥ ९९ ॥
ततः प्रभृति राजेंद्र समागत्यात्र मानवाः ॥
रत्नदीपान्प्रदायोच्चैः स्नात्वाऽत्र सलिले शुभे ॥
कार्तिके मासि निर्यांति देहांते त्रिदिवालयम् ॥ 6.103.१०० ॥
ये पुनः प्राणसंत्यागं प्रकुर्वंति समाहिताः ॥
पापात्मानोऽपि ते यांति ब्रह्मलोकं रघूत्तम ॥ १०१ ॥
ततो दृष्ट्वा सहस्राक्षः प्रभावं तज्जलोद्भवम् ॥
पांसुभिः पूरयामास समंताद्भयसंकुलम् ॥ १०२ ॥
तदद्य दिवसः प्राप्तो दीपोत्सवसमुद्भवः ॥
सुपुण्योऽत्र ममादेशात्त्वं कुरुष्व सुकूपिकाम् ॥ १०३ ॥
तस्यां स्नानं विधायाथ पितॄंस्तर्पय राघव ॥
देवस्यास्य पुरो देहि रत्नदीपमनुत्तमम् ॥॥४॥
येन संजायते सिद्धिर्ब्रह्मलोकसमुद्भवा ॥
अनेनैव शरीरेण सत्यमेतन्मयोदितम् ॥॥५॥
ततस्ते राघवादेशा त्सर्वे राक्षसवानराः ॥
तस्मिन्देशे विनिदधुः कूपिकां विमलोदकाम् ॥॥६॥
तत्र स्नात्वा पितॄंस्तर्प्य रत्नदीपं प्रदाय च ॥
समस्तं कार्तिकं यावदयोध्यां प्रस्थितास्ततः । १०७ ॥
ततो विभीषणं मुक्त्वा हनूमंतं च वानरम् ॥
ब्रह्मलोकं गताः सर्वे तत्तीर्थस्य प्रभावतः ॥ १०८ ॥
॥ सूत उवाच ॥ ॥
अद्यापि दीपदानं यः कुरुते तत्र सादरम् ॥
संप्राप्ते कार्तिके मासि स्नात्वा तत्र जले शुभे ॥
स सर्वपातकैर्मुक्तो ब्रह्मलोके महीयते ॥ १०९ ॥
एवं तत्र समुत्पन्नं तत्तडागं शुभावहम् ॥
आनर्त्तीयं तथा विष्णुकूपिका सा च शोभना ॥ 6.103.११० ॥
इति श्रीस्कांदे महापुराण एकाशीति साहरुयां संहि तायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये आनर्तकतीर्थकूपिकामाहात्म्यवर्णनंनाम त्र्यधिकशततमोऽध्यायः ॥ १०३ ॥ ॥ छ ॥ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 1
॥ श्रीगणेशाय नमः ॥
अथ तृतीयमर्बुदखण्डं प्रारभ्यते ॥
॥ व्यास उवाच ॥ ॥
ॐनमोनंताय सूक्ष्माय ज्ञानगम्याय वेधसे ॥
शुद्धाय विश्वरूपाय देवदेवाय शंभवे ॥ १ ॥
॥ ऋषय ऊचुः ॥ ॥
कथितो वंशविस्तारो भवता सोमसूर्ययोः ॥
मन्वंतराणि सर्वाणि सृष्टिश्चैव पृथग्विधा ॥ २ ॥
अधुना श्रोतुमिच्छामस्तीर्थमाहात्म्यमुत्तमम् ॥
कानि तीर्थानि पुण्यानि भूतलेऽस्मिन्महामते ॥ ३ ॥
॥ सूत उवाच ॥ ॥
नाना तीर्थानि लोकेऽस्मिन्येषां संख्या न विद्यते ॥
तिस्रः कोट्योऽर्द्धकोटिश्च तेषां संख्या कृता पुरा ॥ ४ ॥
क्षेत्राणि सरितश्चैव पर्वताश्च नदा स्तथा ॥
ऋषीणां तपसो वीर्यान्माहात्म्यं परमं गताः ॥ ५ ॥
तेषां मध्येऽर्बुदोनाम सर्वपापहरोऽनघः ॥
अस्पृष्टः कलिदोषेण वसिष्ठस्य प्रभावतः ॥ ६ ॥
पुनंति सर्वतीर्थानि स्नानदानादिकैर्यथा ॥
अर्बुदो दर्शनादेव सर्वपापहरो नृणाम् ॥ ७ ॥
॥ ऋषय ऊचुः ॥ ॥
किं प्रमाणोऽर्बुदो नाम कस्मिन्देशे व्यवस्थितः ॥
कथं वासिष्ठमाहात्म्यात्प्रथितो धरणीतले ॥ ८ ॥
कानि तीर्थानि मुख्यानि ह्यर्बुदे संति पर्वते ॥
सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि नः ॥ ९ ॥
॥ सूत उवाच ॥ ॥
अहं च संप्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥
अर्बुदस्य द्विजश्रेष्ठा माहात्म्यं च यथा श्रुतम् ॥ 7.3.1.१० ॥
वसिष्ठो नाम देवर्षिः पितामहसमुद्भवः ॥
स पूर्वं भूतलं प्राप्तस्तपस्तेपे सुदारुणम् ॥ ११ ॥
नियतो नियताहारः सर्वभूतहिते रतः ॥
वर्षास्वाकाशवासी च हेमंते सलिलाशयः ॥ १२ ॥
पंचाग्निसाधको ग्रीष्मे जपहोमपरायणः ॥
केनचित्त्वथ कालेन तस्य धेनुः पयस्विनी ॥
नंदिनीति सुविख्याता सा वै कामदुघा शुभा ॥ १३ ॥
सा कदाचिद्धरापृष्ठे भ्रममाणा तृणाशया ॥
पतिता दारुणे श्वभ्रे अगाधे तिमिरावृते ॥ १४ ॥
एतस्मिन्नेव काले तु भगवांस्तीक्ष्णदीधितिः ॥
अस्तं गतो न संप्राप्ता नंदिनी मुनिसत्तमाः ॥ १५ ॥
तस्याः क्षीरेण नित्यं स सायं प्रातर्द्विजो मुनिः ॥
करोति होममग्नौ हि सुसमिद्धे जितव्रतः ॥ १६ ॥
अथ चिंतापरो विप्रः प्रायश्चित्तभयाद्ध्रुवम् ॥
वीक्षांचक्रे वने तस्मिन्समेषु विषमेषु च ॥ १७ ॥
स तच्छ्वभ्रमथासाद्य भूंभारावमथाशृणोत् ॥
तां प्रोवाच मुनिश्रेष्ठः कथं त्वं पतिता शुभे ॥ १८ ॥
अहं होमस्य चोद्वेगान्निःसृतस्त्वामवेक्षितुम्॥
साऽब्रवीद्भक्षमाणाहं विप्रर्षे तृणवांछया ॥ १९ ॥
पतितात्र विभो त्राहि कृच्छ्रादस्मात्सुदुःसहात् ॥
तस्यास्तद्वचनं श्रुत्वा स मुनिर्ध्यान मास्थितः ॥ 7.3.1.२० ॥
सरस्वतीं समादध्यौ नदीं त्रैलोक्यपावनीम् ॥
सा ध्याता मनसा तेन मुनिना तत्र तत्क्षणात् ॥ २१ ॥
श्वभ्रं तत्पूरयामास समंताद्विमलैर्जलैः ॥
परिपूर्णं ततः श्वभ्रे निष्क्रांता नंदिनी तदा ॥ २२ ॥
संहृष्टा मुनिना सार्द्धं ययावाश्रमसम्मुखम् ॥ २३ ॥
स दृष्ट्वा श्वभ्रमध्यं तं गंभीरं च महामुनिः ॥
चिंतयामास मेधावी श्वभ्रस्यैव प्रपूरणे ॥ २४ ॥
तस्य चिंतयतो विप्रा बुद्धिरेषोदपद्यत ॥
आनीय पर्वतं मुक्त्वा श्वभ्रमेतत्प्रपूर्यते ॥
तस्माद्गच्छाम्यहं शीघ्रं हिमवन्तं नगोत्तमम् ॥ २५ ॥
स एव पर्वतं चात्र प्रेषयिष्यति भूधरः ॥
येन स्यात्परिपूर्णं च श्वभ्रमेतन्महात्मना ॥ २६ ॥
ततो जगाम स मुनिर्हिमवन्तं नगोत्तमम् ॥
दृष्ट्वा वसिष्ठमायांतं हिम वान्हृष्टमानसः ॥
अर्घ्यपाद्यादिसंस्कारैः संपूज्य इदमब्रवीत् ॥ २७ ॥
स्वागतं ते मुनिश्रेष्ठ सफलं मेऽद्य जीवितम् ॥
यद्भवान्मे गृहे प्राप्तः पूज्यः सर्वदिवौकसाम् ॥ २८ ॥
ब्रूहि कार्यं मुनिश्रेष्ठ अपि जीवितमात्मनः ॥
नूनं तुभ्यं प्रदास्यामि नियोगो दीयतां मम ॥२९॥
॥वसिष्ठ उवाच॥ ॥
ममाश्रमस्य सांनिध्ये श्वभ्रमस्ति सुदारुणम् ॥
अगाधं नन्दिनी तत्र पतिता धेनुरुत्तमा ॥ 7.3.1.३० ॥
यत्नादाकर्षिता तस्माद्भूयः पतनजाद्भयात् ॥
तवांतिकमनुप्राप्तो नान्यो योग्यो महीपतिः ॥ ३१ ॥
तस्मात्कञ्चिन्नगश्रेष्ठं तत्र प्रेषय भूधरम्॥
येन तत्पूर्यते श्वभ्रं भृशं प्रेषय तादृशम् ॥ ३२ ॥
॥ हिमवानुवाच ॥ ॥
किंप्रमाणं मुने श्वभ्रं विस्तारायामतो वद ॥
तत्प्रमाणं नगं कंचित्प्रेषयामि विचिंत्य च ॥ ३३ ॥
॥ वसिष्ठ उवाच ॥ ॥
द्विसहस्रं तु दैर्घ्येण विस्तरेण त्रिसहस्रकम्॥
न संख्या विद्यतेऽधस्तात्तस्य पर्वतसत्तम ॥ ३४ ॥
॥ हिमवानुवाच ॥ ॥
कथं तेन प्रमाणेन सञ्जातो विवरो महान्॥
अभूत्कौतूहलं तेन सर्वं विस्तरतो वद ॥ ३५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे तृतीयेऽर्बुदखण्डे वसिष्ठाश्रमसमीपवर्ति विवरवृत्तान्तोपक्रमवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 2
॥ वसिष्ठ उवाच ॥ ॥
आसीत्पूर्वं मुनिर्नाम्ना गौतमश्च महातपाः ॥
अहिल्या दयिता तस्य धर्मपत्नी यशस्विनी ॥ १ ॥
शिष्यानध्यापयामास स मुनिः शतशस्तदा ॥
श्रुताध्ययनसंपन्नान्विससर्ज ततो गृहान्॥ २ ॥
तस्यान्योऽपि च यः शिष्यो गुरुभक्तिपरायणः ॥
उत्तंको नाम मेधावी न्यवसत्तस्य मन्दिरे ॥ ३ ॥
न तं विसर्जयामास जरयापि परिप्लुतम्॥
उत्तंकोऽपि सुशिष्यत्वान्नो वेत्ति पलितं शिरः ॥ ४ ॥
जातकार्यसमायुक्तो विद्यापारंगतोऽपि सः ॥
केनचित्त्वथ कालेन काष्ठार्थं स बहिर्ययौ ॥ ५ ॥
प्रभूतानि समादाय आश्रमं परमं गतः ॥
अथासौ न्यक्षिपत्तत्र भूतले काष्ठसंचयम्॥ ६ ॥
काष्ठलग्नां तदा श्वेतां जटामेकां ददर्श सः ॥
स दृष्ट्वा दुःखमापन्नः कृपणं पर्यचिन्तयत् ॥७॥
धिग्धिङ्मे जीवितं नष्टं कुतः कार्यरतस्य च ॥
कलत्र संग्रहं नैव मया कृतमबुद्धिना॥८॥
भविष्यति कुलच्छेदः शैथिल्यान्मम दुर्मतेः॥
गुरुपत्न्या च संदृष्ट उत्तंको दुःखितस्तदा॥९॥
तस्य दुःखं तथा क्षिप्रं गौतमाय निेवेदितम्॥
गौतमेन तथेत्युक्त्वा मृदुवाण्या स भाषितः॥7.3.2.१०॥
वत्स गच्छ गृहं त्वं च अग्निहोत्रादिकाः क्रियाः॥
पालयस्व विधानेन पत्न्या सह न संशयः ॥ ११ ॥
इत्युक्तो गुरुणा सोऽपि प्रत्युवाच गुरुं प्रति ॥
दक्षिणां प्रार्थय स्वामिन्नहं दास्याम्यसंशयम् ॥ १२ ॥
॥ गौतम उवाच ॥ ॥
सेवा कृता त्वया वत्स महती मम सर्वदा ॥
तेनैव परिपूर्णत्वं जातं मे नात्र संशयः ॥ १३ ॥ ॥
॥ उत्तंक उवाच ॥ ॥
किंचिद्ग्राह्यं त्वया स्वामिन्सन्तोषो जायते मम ॥
त्वत्प्रसादान्मुनिश्रेष्ठ विद्यापारंगतोऽस्म्यहम् ॥ १४ ॥
॥ गौतम उवाच ॥ ॥
न ग्राह्यं च मया पुत्र सन्तुष्टः सेवयास्म्यहम् ॥
नेच्छाम्यहं धनं त्वत्तः सुखं गच्छ गृहं प्रति ॥ १५ ॥
इत्युक्तो गुरुणा सोऽपि मातरं चाभ्यभाषत ॥
किंचिद्ग्राह्यं मया मातः सन्तोषो दीयतां मम ॥ १६ ॥
॥ गुरुपत्न्युवाच ॥ ॥
सौदासं गच्छ पुत्र त्वं ममाज्ञां कुरु सत्वरम् ॥
मदयन्ती प्रिया तस्य धर्मपत्नी यशस्विनी ॥ १७ ॥
कुण्डलेऽथानय क्षिप्रं मदयंत्याश्च पुत्रक ॥
नो चेच्छापं प्रदास्यामि पञ्चमेऽह्नि न आगतः ॥ १८ ॥
इत्युक्तो गुरुपत्न्या स प्रस्थितः सत्वरं तदा ॥
सौदासस्यगृहं प्राप व्याघ्रास्यं तं च दृष्टवान् ॥ १९ ॥
दृष्ट्वा प्राह तदा विप्रं भक्षणार्थमुपस्थितम् ॥
भक्षयिष्यामि वै विप्र त्वामहं नात्र संशयः ॥ 7.3.2.२० ॥
॥ उत्तंक उवाच ॥ ॥
अवश्यं भक्षय त्वं मामेकं शृणु नराधिप ॥
देहि मे कुण्डले तात दत्त्वाऽहं गुरवे पुनः ॥
आगमिष्यामि भक्षस्व मा त्वं कार्यविवर्जितम् ॥ २१ ॥
॥ सौदास उवाच ॥ ॥
गच्छ त्वं मन्दिरे दुर्गे यत्राऽऽस्ते दयिता मम ॥
तां त्वमासाद्य यत्नेन जीवितव्यभयाद्द्विज ॥ २२ ॥
याच्यतां मम वाक्येन सा ते दास्यति कुण्डले ॥
त्वया च नान्यथा कार्यं यत्सत्यं द्विजसत्तम ॥ २३ ॥
॥ वसिष्ठ उवाच ॥ ॥
मदयन्त्याः समीपं तु गत्वोवाच द्विजोत्तमः ॥
देहि मे कुण्डले देवि सौदासस्त्वां समादिशत् ॥२४॥
॥ मदयंत्युवाच ॥ ॥
सन्देहोऽद्यापि मे विप्र कुण्डले द्विजसत्तम ॥
अभिज्ञानं त्वमानीय नृपस्य द्विज दर्शय ॥ २५ ॥
स गत्वा त्वरितं भूपमभिज्ञानमयाचत ॥ २६ ॥
॥ सौदास उवाच ॥ ॥
यैर्विना सुगतिर्नास्ति दुर्गतिं ये नयंति वै ॥
गत्वैवं ब्रूहि तां साध्वीं मम वाक्यं द्विजोत्तम ॥
प्रदास्यति ततो नूनं कुण्डले रत्नमंडिते ॥ २७ ॥
॥ वसिष्ठ उवाच ॥ ॥
प्रत्यभिज्ञानमादाय गत्वा तस्यै न्यवेदयत् ॥ २८ ॥
ततोऽसौ प्रददौ तस्मै गृह्ण मे कुण्डले द्विज ॥
उवाच यत्नमास्थाय नीयतां द्विजसत्तम ॥ २९ ॥
एते च वांछते नित्यं तक्षको द्विज कुण्डले ॥
स तथेति समादाय विस्मयोत्फुल्ललोचनः ॥
कौतुकात्पुनरागत्य राजानं वाक्यमब्रवीत्॥7.3.2.३०॥
अभिज्ञानान्मया भूप सम्प्राप्ते दीप्तकुण्डले ॥
वाक्यार्थस्तु न विज्ञातस्ततोऽहं पुनरागतः ॥३१॥
कौतुकाद्वद मे राजन्स्वकार्ये च यथास्थितम् ॥
कैर्विना सुगतिर्नास्ति दुर्गतिं के नयंति च ॥ ३२ ॥
॥ सौदास उवाच ॥ ॥
आराधिता द्विजा विप्र भवंति सुगतिप्रदाः ॥
असन्तुष्टा दुर्गतिदाः सद्यो मम यथा पुरा ॥३३ ॥
एतावान्मम शापोऽयं वसिष्ठस्य महात्मनः।।
तेनोक्तं त्वां यदा कश्चित्प्रश्नं विख्यापयिष्यति ॥ ३४ ॥
तदा दोषविनिर्मुक्तो भविष्यसि न संशयः ॥
त्वत्प्रसादाद्विनिर्मुक्तो ह्यहं शापाद्द्विजोत्तम ॥
सात्त्विकं धाम चापन्नो गच्छ विप्र नमोऽस्तु ते ॥ ३५ ॥
॥ वसिष्ठ उवाच॥ ॥
उत्तंकस्तेन निर्मुक्तः सत्वरं पथमाश्रितः ॥
गच्छंश्चातिक्षुधाविष्टो ऽपश्यद्बिल्वफलानि सः ॥ ३६ ॥
ततः कृष्णाजिने बद्ध्वा कुण्डले न्यस्य भूतले ॥
आरुरोह फलाकांक्षी स मुनिः क्षुधयाऽन्वितः ॥ ३७ ॥
एतस्मिन्नेव काले तु तक्षकः पन्नगोत्तमः ॥
गृहीत्वा कुण्डले तूर्णमगमद्दक्षिणामुखः ॥ ३८ ॥
अथोत्तंकः फलाहारी अवतीर्य धरातले ॥
सर्वतोऽन्वेषयामास वेगेन महता वृतः ॥ ३९ ॥
स दृष्ट्वा सम्मुखं प्राप्तं समीपं पन्नगोत्तमः ॥
प्रविवेश बिलं रौद्रमन्धकारेण संवृतम् ॥ 7.3.2.४० ॥
उत्तंकोऽपि बिलं प्राप्तः प्रविश्य तमसावृतम्॥
दण्डकाष्ठं समादाय कुपितोह्यखनत्तदा ॥ ॥ ४१ ॥
तं तथा दुःखितं दृष्ट्वा सक्लेशं गुरुकार्यतः ॥
वज्रमारोपयामास दण्डांते पाकशासनः ॥४२॥
ततो विदारयामास स शीघ्रं धरणीतलम् ॥
प्रविष्टश्चैव पातालं कुण्डलार्थं परिभ्रमन् ॥४३॥
सोऽपश्यद्वाजिनं तत्र सर्वश्वेतं गुणान्वितम्॥
तेनोक्तः स्पृश मे गुह्यं ततः कार्यं भविष्यति ॥४४॥
स चकार तथा शीघ्रं ततो धूमो व्यजायत ॥
पातालं तेन सर्वत्र व्याप्तं भूधर वह्निना ॥ ४५ ॥
ततश्च व्याकुलाः सर्वे पन्नगाः समुपाद्रवन्॥
तक्षकं पुरतः कृत्वा संप्राप्ताः कुण्डलान्विताः ॥
उत्तंकाय ततो दत्त्वा प्रणिपत्य ययुर्गृहम्॥ ४६ ॥
॥ वसिष्ठ उवाच ॥ ॥
अथाश्वस्तमुवाचेदमहमग्निर्द्विजोत्तम ॥
यस्त्वयाऽऽराधितः पूर्वमुपाध्यायनिदेशतः ॥ ४७ ॥
ज्ञात्वा त्वां दुःखितं प्राप्तमिह प्राप्तः कृपापरः ॥
सर्वथा त्वं च मे पृष्ठं भगवञ्छीघ्रमारुह ॥ ४८ ॥
नयामि तत्र यत्रास्ते गुरुः सर्वगुणालयः ॥
आरूढस्तस्य पृष्ठे स प्रतस्थे ह्याश्रमं प्रति ॥ ४९ ॥
तत्क्षणात्समनुप्राप्तो गौतमस्य निवेशनम् ॥
एतस्मिन्नेव काले तु अहिल्या कृतमंडना ॥7.3.2.५०॥
स्नाता चाभ्येत्य भर्तारं साध्वी वाक्यमुवाच ह ॥
उत्तंकोऽद्य न संप्राप्तः शापं दास्याम्यहं ध्रुवम् ॥ ५१ ॥
शिथिलो गुरुकृत्येषु स यदालक्षितो मया ॥
तस्या वाक्यावसाने तु उत्तंकः पर्य्यदृश्यत ॥ ५२ ॥
प्रसन्नवदनो हृष्टः कुण्डलाभ्यां समन्वितः ॥
प्रणिपत्य स तां भक्त्या कुण्डले संन्यवेदयत् ॥ ५३ ॥
सा दृष्ट्वा तत्क्षणात्साध्वी कर्णाभ्यां संन्यवेशयत्॥
स्वगृहाय ततस्तूर्णमुत्तंकं विससर्ज ह ॥ ५४ ॥
॥ वसिष्ठ उवाच ॥ ॥
एवं स विवरो जातस्तक्षकोत्तंककारणात् ॥
यथा मे चिंत्यते नित्यं धेन्वर्थं श्वभ्रपूरणे ॥ ५५ ॥
तस्मात्त्वं पूरय क्षिप्रं नान्यः शक्तोऽत्र कर्मणि ॥
शीघ्रं कुरु नगश्रेष्ठ मम कार्यमसंशयम् ॥ ५६ ॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे विवरोत्पत्तिवृत्तांते गौतमशिष्योत्तंकचरित्रवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 3
॥ सूत उवाच ॥ ॥
श्रुत्वा हिमाचलो वाक्यं वसिष्ठस्य महात्मनः॥
चिन्तयामास तत्कार्यं विवरस्य प्रपूरणे॥१॥
चिरं विचार्य तमृषिमिदमाह नगोत्तमः॥
क उपायो नगानां वै तत्र गंतुं वदस्व मे ॥२॥
पक्षच्छेदस्तु शक्रेण सर्वेषां च पुरा कृतः ॥
तस्मादस्य मुनिश्रेष्ठ कार्यस्य पश्य निश्चयम्॥३॥ ॥
॥ वसिष्ठ उवाच ॥ ॥
अस्त्युपायो नगानां तु तत्र नेतुं महानग ॥
तवायं तनयस्तत्र विख्यातो नंदिवर्द्धनः ॥४॥
तस्यार्बुद इति ख्पातो वयस्यः परमं प्रियः ॥
नागः प्राणभृतां श्रेष्ठः खेचरोऽपि च वीर्यवान् ॥५॥
स वा ऊर्ध्वगतिः क्षिप्रं क्षणान्नेष्यत्यसंशयः ॥
लीलया सर्वकृत्येषु तं विदित्वाऽहमागतः ॥६॥
आदेशो दीयतामस्य दुःखं कर्तुं च नार्हसि ॥
अवश्यं यदि भक्तोऽसि तत्र प्रेषय सत्वरम्॥७॥
॥सूत उवाच॥ ॥
वसिष्ठस्य वचः श्रुत्वा हिमवान्पुत्रवत्सलः ॥
दुःखेन महताऽऽविष्टश्चिंतयामास भूधरः ॥८॥
मैनाकस्तनयोऽस्माकं प्रविष्टः सागरे भयात् ॥
ज्येष्ठं तु सर्वथा चाथ वसिष्ठो नेतुमागतः ॥
किं कृत्यमधुनाऽस्माकं कथं श्रेयो भविष्यति ॥ ९ ॥
इतः शापभयं तीव्रमितो दुःखं च पुत्रजम्॥
वरं पुत्रवियोगोऽस्तु न शापो द्विजसंभवः ॥ 7.3.3.१० ॥
स एवं निश्चयं कृत्वा नंदिवर्धनमुक्तवान् ॥
गच्छ त्वं पुत्र मे वाक्याद्वसिष्ठस्याश्रमं प्रति ॥ ११ ॥
तत्रास्ति विवरो रौद्रस्तं प्रपूरय सत्वरम् ॥
अर्बुदं नागमादाय मित्रं प्राणभृतां वरम् ॥ १२ ॥
॥ नंदिवर्द्धन उवाच ॥ ॥
पापीयान्स विभो देशः फलमूलैर्विवर्जितः ॥
पालाशैः खादिरैराढ्यो धवैः शाल्मलिभिस्तथा ॥ १३ ॥
सुनिष्ठुरैर्नृपशुभिर्भिल्लैश्च विविधैरपि ॥
नद्यो वहंति नो तत्र दुष्टा लोकाश्च वासिनः ॥
नार्होऽहं पर्वतश्रेष्ठ तत्र गंतुं कथंचन ॥ १४ ॥
अथोवाच वसिष्ठस्तं संत्रस्तं नंदिवर्द्धनम् ॥
मा भीः कार्या त्वया तत्र देशे दौष्ट्यात्कथंचन ॥ १५ ॥
तव मूर्ध्नि सदा वासो मम तत्र भविष्यति ॥
तीर्थानि सरितो देवाः पुण्यान्यायतनानि च ॥ १६ ॥
वृक्षाश्च विविधाकाराः पत्रपुष्पफलान्विताः ॥
सदा तत्र भविष्यंति मृगाश्च विहगाः शुभाः ॥ १७ ॥
अहमेवानयिष्यामि तवार्थे च महेश्वरम् ॥
तदा स्थास्यंति वै तत्र सर्वे देवाः सवासवाः ॥ ॥ १८ ॥
॥ सूत उवाच ॥ ॥
वसिष्ठस्य वचः श्रुत्व संहृष्टो नंदिवर्द्धनः ॥
अर्बुदं नागमासाद्य वाक्यमेतदुवाच ह ॥ १९ ॥
तत्र यावोऽद्य भद्रं ते वयस्य विनयान्वित ॥
एतत्कार्यमहं मन्ये सांप्रतं द्विजसंभवम् ॥ 7.3.3.२० ॥
॥ अर्बुद उवाच ॥ ॥
अहं तत्रागमिष्यामि स्नेहात्ते पर्वतात्मज ॥
तत्रैव च वसिष्यामि त्वया सार्द्धमसंशयम्॥ २१ ॥
किं त्वहं प्रणयाद्भ्रातर्वक्ष्यामि यद्वचः शृषु ॥
प्रणयान्नान्यथा कार्यं यद्यहं तव संमतः ॥ २२ ॥
मन्नाम्ना ख्यातिमायातु नान्यत्किंचिद्वृणोम्यहम्॥
ततः सोऽपि प्रतिज्ञाय आरूढस्तस्य चोपरि ॥
प्रणम्य पितरौ चैव प्रतस्थे मुनिना सह ॥ २३ ॥
दिव्यैर्वृक्षैः शुभैः पूर्णैर्नदीनिर्झरसंकुलैः ॥
मधुरैर्विहगैर्युक्तो मृगैः सौम्यैः समन्वितः ॥ २४ ॥
मुक्तोऽर्बुदेन तत्रैव विवरे मुनिवाक्यतः ॥
समस्तस्तत्रानासाग्रं गतः पर्वतसत्तमः ॥ २५ ॥
विमुक्तो विवरे तस्मिन्नर्बुदेन महात्मना ॥
परिपूर्णे महारौद्रे संतुष्टो मुनिपुंगवः ॥ २६ ॥
ब्रवीच्चार्बुदं नागं वरं वरय सुव्रत ॥
परितुष्टोऽस्मि ते भद्र कर्मणानेन पन्नग ॥ २७ ॥
॥ अर्बुद उवाच ॥ ॥
एष एव वरोऽस्माकं यत्त्वं तुष्टो महामुने ॥
अवश्यं यदि दातव्यं तच्छृणुष्व द्विजोत्तम ॥ २८ ॥
यच्चैतच्छिखरे ह्यस्मिन्निर्झरं निर्मलोदकम् ॥
नागतीर्थमिति ख्यातिं भूतले यातु सर्वतः ॥ २९ ॥
अत्रैवाहं वसिष्यामि मित्रस्नेहात्सदा मुने ॥
तत्र स्नात्वा दिवं यातु मानवस्त्वत्प्रसादतः ॥ 7.3.3.३० ॥
अपि वंध्या च या नारी स्नानमात्रं समाचरेत्॥
सा स्यात्पुत्रवती विप्र सुखसौभाग्यसंयुता ॥ ३१ ॥
॥ वसिष्ठ उवाच ॥ ॥
या वंध्यास्मिञ्जले पूर्णे स्नानमात्रं करिष्यति ॥
सापि पुत्रमवाप्नोति सर्वलक्षणलक्षितम् ॥ ३२ ॥
नभसः शुक्लपंचम्यां फलैः पूजां करोति च ॥
अपि वर्षशता नारी सा भविष्यति पुत्रिणी ॥ ३३ ॥
येऽत्र स्नानं करिष्यंति ह्यस्मिंस्तीर्थे च भक्तितः ॥
यास्यंति ते परं स्थानं जरामरणवर्जितम् ॥ ३४ ॥
श्राद्धं चात्र करिष्यंति पंचम्यां ये समाहिताः ॥
मासे नभसि तीर्थस्य फलं तेषां भविष्यति ॥ ३५ ॥
॥ सूत उवाच ॥ ॥
एवं दत्त्वा वरं तस्य वसिष्ठो भगवान्मुनिः ॥
नंदिवर्द्धनमभ्येत्य वाक्यमेतदुवाच ह ॥ ३६ ॥
वरं च व्रियतां वत्स परितुष्टोऽस्मि तेऽनघ ॥
विनयात्सौहृदात्सर्वं दास्यामि यत्सुदुर्ल्लभम्॥ ३७ ॥
॥ नंदिवर्द्धन उवाच ॥ ॥
तवास्तु वचनं सत्यं पूर्वोक्तं मुनिसत्तम ॥
सांनिध्यं जायतामत्र अवश्यं तव सर्वदा ॥ ३८ ॥
यथाहमर्बुदेत्येवं ख्यातिं गच्छामि भूतले ॥
प्रसादाच्चैव ते भूयादेतन्मे मनसि स्थितम् ॥ ३९ ॥
॥ सूत उवाच ॥ ॥
एवमस्त्विति तं प्रोच्य वसिष्ठो भगवान्मुनिः ॥
चक्रे स्वमाश्रमं तत्र तस्य वाक्येन नोदितः ॥ 7.3.3.४० ॥
पनसैश्चंपकैराम्रैः प्रियंगुबिल्वदाडिमैः ॥
नानापक्षिसमायुक्तो देवगन्धर्वसेवितः ॥ ४१ ॥
तस्थौ तत्र मुनिश्रेष्ठो ह्यरुंधत्या समन्वितः ॥
गोमतीमानयामास तपसा मुनिसत्तमः ॥ ४२ ॥
यस्यां स्नात्वा दिवं यांति अतिपापकृतो नराः ॥
माघमासे विशेषेण मकरस्थे दिवाकरे ॥ ४३ ॥
येत्र स्नानं करिष्यंति ते यास्यंति परां गतिम् ॥४४॥
माघमासे विशेषेण तिलदानं करोति यः ॥
तिलसंख्यानि वर्षाणि स्वर्गे तिष्ठति मानवः ॥ ४५ ॥
बहुना किमिहोक्तेन स्तानमात्रं समाचरेत् ॥ ४६ ॥
वसिष्ठस्य मुखं दृष्ट्वा पुनर्जन्म न विद्यते ॥
अरुंधती पूजनीया पूजनीया विशेषतः ॥ ४७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे वसिष्ठाज्ञया नन्दिवर्धनपर्वतेन विवरपूरणवर्णनंनाम तृतीयोऽध्यायः ॥३ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 4
सूत उवाच ॥ ॥
स कृत्वा स्वाश्रमं तत्र वसिष्ठो भगवान्मुनिः ॥
तत्र शंभोर्निवासाय तपस्तेपे सुदारुणम्॥ १ ॥
स बभूव मुनिः सम्यक्फलाहारसमन्वितः ॥
शीर्ण पर्णाशनः पश्चाद्द्वे शते समपद्यत ॥ २ ॥
जलाहारः पञ्चशतवर्षाणि संबभूव ह ॥
वर्षाणां वायुभक्षोऽभूत्ततो दशशतानि च ॥ ३ ॥
पञ्चाग्निसाधको ग्रीष्मे हेमन्ते सलिलाशयः ॥
वर्षास्वाकाशवासी च सहस्रं च ततोऽभवत् ॥ ४ ॥
ततस्तुष्टो महादेवस्तस्यर्षेः सुमहात्मनः ॥
भित्त्वा तं पर्वतं सद्यस्तत्पुरो लिंगमुत्थितम् ॥
तं दृष्ट्वा विस्मयाविष्टो मुनिः स्तोत्रमुदैरयत्॥ ५ ॥
नमः शिवाय शुद्धाय सर्वगायाऽमृताय च ॥
कपर्द्दिने नमस्तुभ्यं नमस्तस्मै त्रिमूर्त्तये ॥ ६ ॥
नमः स्थूलाय सूक्ष्माय व्यापकाय महात्मने ॥
निषंगिणे नमस्तुभ्यं त्रिनेत्राय नमोनमः ॥ ७ ॥
नमश्चन्द्रकलाधार नमो दिग्वसनाय च ॥
पिनाकपाणये तुभ्यमष्टमूर्ते नमोनमः ॥ ८॥
नमस्ते ज्ञानरूपाय ज्ञानगम्याय ते नमः ॥
नमस्ते ज्ञानदेहाय सर्वज्ञानमयाय च ॥ ९ ॥
काशीपते नमस्तुभ्यं गिरिशाय नमोनमः ॥
जगत्कारणरूपाय महादेवाय ते नमः ॥ 7.3.4.१० ॥
गौरीकान्त नम स्तुभ्यं नमस्तुभ्यं शिवात्मने ॥
ब्रह्मविष्णुस्वरूपाय त्रिनेत्राय नमोनमः ॥ ११ ॥
विश्वरूपाय शुद्धाय नमस्तुभ्यं महात्मने ॥
नमो विश्वस्वरूपाय सर्वदेवमयाय च ॥ १२ ॥
॥ सूत उवाच ॥ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
परितुष्टोऽस्मि ते भद्रं वरं वरय सुव्रत ॥ १३ ॥
इत्युक्त्वा पर्वतं भित्त्वा तत्पुरो लिंगमुत्थितम् ॥ १४ ॥
॥ वसिष्ठ उवाच ॥ ॥
लिंगेऽस्मिंस्तव सांनिध्यं सदा भवतु शंकर ॥
मया पूर्वं प्रतिज्ञातं नगस्येह महात्मने ॥
सत्यं कुरु वचो मे त्वं यदि तुष्टोऽसि शंकर ॥ १५ ॥
॥ श्रीभगवानुवाच ॥ ॥
अद्यप्रभृति लिंगेऽस्मिन्सांनिध्यं मे भविष्यति ॥
त्वद्वाक्याद्ब्राह्मणश्रेष्ठ सर्वं सत्यं भविष्यति ॥ १६ ॥
स्तोत्रेणानेन यो मर्त्यो मां स्तविष्यति भक्तितः ॥
कृष्णपक्षे चतुर्दश्यामाश्विने मुनिसत्तम ॥ १७ ॥
मत्प्रियार्थं तु शक्रेण प्रेषिता मुनिसत्तम ॥
मन्दाकिनीति विख्याता नदी त्रैलोक्यपाविनी ॥ १८ ॥
देवस्योत्तरदिग्भागे कुंडं तिष्ठति नित्यशः ॥
तस्यां स्नात्वा मुनिश्रेष्ठ लिंगं मे पश्यते तु यः ॥
स याति परमं स्थानं जरामरणवर्जितम् ॥ १९ ॥
अचलं भेदयित्वा तु यस्मान्मे लिंगमुद्गतम्॥
अचलेश्वरनाम्नैव लोके ख्यातिं गमिष्यति ॥ 7.3.4.२० ॥
अस्य लिंगस्य माहात्म्यान्न कदाचिच्चलिष्यति ॥
सर्वथा म इदं लिंगं प्रलयान्ते न चाल्यते ॥ २१ ॥
॥ सूत उवाच ॥
एतावदुक्त्वा वचनं विरराम महेश्वरः ॥
वसिष्ठोऽपि सुहृष्टात्मा गौतमाद्या मुनीश्वराः ॥ २२ ॥
शक्रादयस्ततो देवास्तीर्थान्यायतनानि च ॥
आनयामास ब्रह्मर्षिस्तपसा पर्वतोत्तमे ॥ २३ ॥
ततस्तुष्टः सुरश्रेष्ठस्तत्र वासमथाकरोत्॥ २४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडेऽचलेश्वरोत्पत्ति वर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 5
॥ ऋषय ऊचुः ॥ ॥
अर्बुदस्य च माहात्म्यं विस्तरेण वदस्व नः ॥
कौतुकं सूत नो जातं कथयस्व यथा शुभम् ॥ १ ॥
॥ सूत उवाच ॥ ॥
पुरासीच्च ऋषिश्रेष्ठः पुलस्त्यो भगवान्मुनिः ॥
ययातेश्च गृहे यातस्तं नत्वा चाब्रवीन्नृपः॥ २ ॥ ।
। ययातिरुवाच ॥ ॥
स्वागतं ते मुनिश्रेष्ठ सफलं मेऽद्यजीवितम् ॥
कथयस्व प्रसादेन कथामर्बुदसंभवाम् ॥ ३ ॥
अर्बुदाख्यो नगो नाम विख्यातो यो धरातले ॥
तस्य यात्राक्रमं ब्रूहि तत्फलं द्विजसत्तम ॥ ४ ॥
सर्वं विस्तरतो ब्रूहि तीर्थयात्रापरायण ॥
तस्माद्वद मुनिश्रेष्ठ येन यात्रां करोम्यहम् ॥५ ॥
॥ पुलस्त्य उवाच ॥ ॥
बहुधर्ममयो राजन्नर्बुदः पर्वतोत्तमः ॥
अशक्तो विस्तराद्वक्तुमपि वर्षशतैरपि ॥ ६ ॥
संक्षेपादेव वक्ष्यामि तीर्थमुख्यानि ते तथा ॥
नागतीर्थं तु तत्राद्यं सर्वकामप्रदं नृणाम् ॥ ७ ॥
नारीणां च विशेषेण पुत्रसौभाग्यदायकम् ॥
शृणु राजन्पुरावृत्तं यतोऽत्याश्चर्यमुत्तमम्॥ ८ ॥
गौतमी ब्राह्मणी नाम्ना सती साध्वी पतिव्रता ॥
बालवैधव्यसंप्राप्ता तीर्थयात्रापरायणा ॥ ९ ॥
अर्बुदं सा च संप्राप्ता नागतीर्थं विवेश ह ॥
तस्मिञ्जले निमग्ना सा स्नातुमभ्याययौ पुरा ॥ 7.3.5.१० ॥
नायका पुत्रसंयुक्ता तत्तीर्थं समुपागता ॥
शुश्रूषां सा तस्तस्याश्चक्रे नानाविधां नृप ॥ ११ ॥
सर्वोपकरणैर्दर्भैः सुमनोभिः पृथग्विधैः ॥
अथ सा चिंतयामास गौतमी पुत्रदुःखिता ॥ १२ ॥
धन्योऽयं तनयो ह्यस्याः शुश्रूषां कुरुते सदा ॥
पुत्रयुक्ता त्वियं धन्या धिगहं पुत्रवर्जिता ॥ १३ ॥
अहं भर्त्रा वियुक्ता च पुत्रहीना सुदुःखिता ॥
अथ सा निर्गता तस्मात्सलिलान्नृपसत्तम ॥१४॥
विनाऽपि भर्तृसंयोगात्सद्यो गर्भवती ह्यभूत् ॥
सा गर्भलक्षणैर्युक्ता सुजनव्रीडयाऽन्विता ॥ १५ ॥
चकार मरणे बुद्धिं ज्वालयामास पावकम् ॥ एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥ १६ ॥
॥ वागुवाच ॥ ॥
नो त्वं गौतमि चित्याग्नौ प्रवेशं कर्तुमर्हसि ॥
दोषो नास्ति तवात्रार्थे तीर्थस्यास्य प्रभावतः ॥ १७ ॥
यो यद्वांछति चित्ते च जलमध्ये स्थितो नरः ॥
चिन्तितं च तदाप्नोति नारी वा नात्र संशयः ॥ १८ ॥
त्वया तस्याः सुतं दृष्ट्वा पुत्रवांछा कृता हृदि ॥
तव गर्भगतो नूनं पुत्रः पुत्रि भविष्यति ॥ १९ ॥
तस्माद्विरम भद्रं ते निर्दोषासि पतिव्रते ॥
विरराम ततः साध्वी गौतमी मरणान्नृप ॥ 7.3.5.२० ॥
श्रुत्वाऽऽकाशगतां वाणीं देवदूतेन भाषिताम् ॥
दृष्ट्वा पतिं विना गर्भं वाक्यमेत दुवाच ह ॥ २१ ॥
अहो तीर्थप्रभावोऽयमपूर्वः प्रतिभाति मे ॥
यत्र संजायते गर्भः स्त्रीणां शुक्ररजोविना ॥ २२ ॥
नाहं कुत्रापि यास्यामि मुक्त्वेदं तीर्थमुत्तमम् ॥
एवमुक्त्वा ततः साध्वी तत्रैव न्यवसत्सदा ॥२३॥
पुत्रं वै जनयामास सर्वलक्षणलक्षितम् ॥
तत्र पार्थिवशार्दूल कृष्णपक्षे ऽश्विनस्य च ॥२४॥
यः पुनः कुरुते श्राद्धं तस्य वंशो न नश्यति ॥
न प्रेतो जायते राजन्वंशे तस्य कदाचन ॥२५॥
यः पुमान्कामरहितः स्नानं तत्र समाचरेत्॥
श्राद्धं च पार्थिवश्रेष्ठ तस्य लोकाः सनातनाः ॥२६॥
या स्त्री पुष्पफलान्येव तीर्थे चास्मिन्विसर्जयेत् ॥
सा स्यात्पुत्रवती धन्या सौभाग्यं च प्रपद्यते ॥ २७ ॥
निष्कामा स्वर्गमाप्नोति दुष्प्राप्यं त्रिदशैरपि ॥
तस्मात्सर्वप्रयत्नेन यात्रां तस्य समाचरेत् ॥ २८ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे नागतीर्थमाहात्म्यवर्णनंनाम पंचमोऽध्यायः ॥ ५ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 6
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ वसिष्ठं तपसां निधिम् ॥
यं दृष्ट्वा मानवः सम्यक्कृतार्थत्वमवाप्नुयात् ॥ १ ॥
तत्रास्ति जलसम्पूर्णं कुण्डं पापहरं नृणाम्॥
तस्मिन्कुण्डे नृपश्रेष्ठ वसिष्ठेन महात्मना ॥ २ ॥
गोमती च समानीता तपसा नृपसत्तम ॥
तत्र स्नातो नरः सम्यक्पातकै र्विप्रमुच्यते ॥३॥
ऋषिधान्येन यस्तत्र श्राद्धं नृप समाचरेत् ॥
स पितृंस्तारयेत्सर्वान्पक्षयोरुभयोरपि ॥४॥
अत्र गाथा पुरा गीता नारदेन महात्म ना ॥
स्नात्वा पुण्योदके तत्र दृष्ट्वा तं मुनिसत्तमम् ॥ ५ ॥
किं गयाश्राद्धदानेन किमन्यैर्मखविस्तरैः ॥
वसिष्ठस्याश्रमं प्राप्य यः श्राद्धं कुरुते नरः ॥
स पितॄंस्तारयेत्सर्वानात्मना नृपसत्तम ॥ ६ ॥
तत्रैवारुंधती साध्वी वसिष्ठस्य समीपतः ॥
पूजनीया विशेषेण सर्वकामप्रदा नृणाम् ॥ ७ ॥
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥
वसिष्ठदर्शनात्सद्यो नराणां याति संक्षयम् ॥८॥
दीपं प्रयच्छते यस्तु वसिष्ठाग्रे समाहितः ॥
सुखसौभाग्यसंयुक्तस्तेजस्वी जायते नरः ॥ ९ ॥
उपवासपरो यस्तु तत्रैका रजनीं नयेत् ॥
स याति परमं स्थानं यत्र सप्तर्षयोऽमलाः ॥ 7.3.6.१० ॥
त्रिरात्रिं कुरुते यस्तु वसिष्ठाग्रे समाहितः ॥
स याति च महर्लोकं जरामरणवर्जितः ॥ ११ ॥
यस्तु मासोपवासं च वसिष्ठाग्रे करोति च ॥
सोऽपि मुक्तिमवाप्नोति न याति स भवार्णवम्॥ १२॥
श्रावणस्य सिते पक्षे पौर्णमास्यां समाहितः॥
ऋषिं तर्पयते यस्तु ब्रह्मलोकं स गच्छति॥१३॥
वसिष्ठस्याग्रतो यस्तु गायत्र्यष्टशतं जपेत्॥
आजन्ममरणात्पापात्सद्यो मुच्येत मानवः॥ १४॥
वामदेवं यजेत्तत्र यदि श्रद्धासमन्वितः॥
अग्निष्टोमफलं राजन्सद्यः प्राप्नोति मानवः ॥ १५ ॥
तस्मात्सर्वप्रयत्नेन द्रष्टव्योऽसौ महामुनिः ॥
शुचिभिः श्रद्धया युक्तास्ते यास्यंति परं पदम् ॥ १६ ॥
तस्मात्सर्वात्मना राजन्वामदेवं च पूजयेत्॥ १७ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे वसिष्ठाश्रममाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 7
पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ सुपुण्यमचलेश्वरम् ॥
यं दृष्ट्वा सिद्धिमाप्नोति नरः श्रद्धासमन्वितः ॥ १ ॥
तत्र कृष्णचतुर्दश्यां यः श्राद्धं कुरुते नरः ॥
आश्विने फाल्गुने वापि स याति परमां गतिम् ॥ २ ॥
यस्तु पूजयते भक्त्या दक्षिणां दिशमास्थितः ॥
पुष्पैः पत्रैः फलैश्चैव सोऽश्वमेधफलं लभेत् ॥ ३ ॥
पंचामृतेन यस्तत्र तर्पणं कुरु ते नरः ॥
सोऽपि देवस्य सांनिध्यं शिवलोकमवाप्नुयात् ॥ ४ ॥
प्रदक्षिणांते यस्तस्य प्रणामं कुरुते नरः ॥
नश्यंति सर्वपापानि प्रदक्षिणपदेपदे ॥ ५ ॥
तत्राश्चर्यमभूत्पूर्वं तत्त्वं शृणु महामते ॥
मया पूर्वं श्रुतं स्वर्गे नारदाच्छक्रसन्निधौ ॥ ६ ॥
तत्र पूर्वं शुको नीडं वृक्षे चैवाकरोद्द्विजः ॥
गतागतेन नीडस्य कुरुते तं प्रदक्षिणाम्॥ ७ ॥
न च भक्त्या महाराज पक्षियोनिसमुद्भवः ॥
अथासौ मृत्युमापन्नः कालेन महता शुकः ॥ ८ ॥
संजातः पार्थिवे वंशे राजा वेणुरिति स्मृतः ॥
जातिस्मरो महाराज सर्वशत्रुनिकृन्तनः ॥ ९ ॥
स तं स्मृत्वा प्रभावं हि प्रदक्षिणासमुद्भवम् ॥
अचलेश्वरमासाद्य प्रदक्षिणामथाकरोत् ॥ 7.3.7.१० ॥
नक्तं दिनं महाराज नान्यत्किंचित्करोति सः ॥
न तथा तपसे यत्नो न नैवेद्ये कथंचन ॥ ११ ॥
न पुष्पे धूपदाने च प्रदक्षिणापरः सदा ॥
केनचित्त्वथ कालेन मुनयोऽत्र समागताः ॥ १२ ॥
नारदः शौनकश्चैव हारीतो देवलस्तथा ॥
गालवः कपिलो नंदः सुहोत्रः कश्यपो नृपः ॥ १३ ॥
एते चान्ये च बहवो देवव्रतपरायणाः ॥
केचित्स्नानं कारयंति तस्य लिंगस्य भक्तितः ॥ १४ ॥
अन्ये च विविधां पूजां जपमन्ये समाहिताः ॥
एके नृत्यंति राजेंद्र गायंति च तथा परे ॥ १५ ॥
बलिमन्ये प्रयच्छंति स्तुतिं कुर्वंति चापरे ॥
अथाश्चर्यं परं दृष्ट्वा प्रदक्षिणापरं नृपम् ॥ १६ ॥
परं कौतुकमापन्ना वाक्यमेतदथाब्रुवन् ॥
प्रदक्षिणासमुद्भूतं कारणं ज्ञातुमिच्छवः ॥ १७ ॥ ॥
॥ ऋषय ऊचुः ॥ ॥
कस्मात्त्वं पार्थिवश्रेष्ठ प्रदक्षिणापरः सदा ॥
देवस्यास्य विशेषेण सत्यं नो वक्तुमर्हसि ॥ १८ ॥
न ददासि जलं लिंगे प्रभूतं सुमनोहरम् ॥
पुष्पधूपादिकं वाथ स्तोत्राणि विविधानि च ॥ १९ ॥
समर्थोऽसि तथान्येषां दानानां त्वं महीपते ॥
एतन्नः कौतुकं सर्वं यथावद्वक्तुमर्हसि ॥ 7.3.7.२० ॥
॥ वेणुरुवाच ॥ ॥
यदहं संप्रवक्ष्यामि श्रूयतां द्विजसत्तमाः ॥
पूर्वदेहांतरे वृत्तं सर्वं सत्यं विशेषतः ॥ २१ ॥
प्रासादेऽस्मिन्पुरा पक्षी शुकोऽहं स्थितवांस्तदा ॥
कृतवांश्च तदा देवं प्रदक्षिणामहर्निशम् ॥२२॥
कृपयाऽस्य प्रभावाच्च जातो जातिस्मरस्त्वहम् ॥
अधुना परया भक्त्या यत्करोमि प्रदक्षिणाम् ॥ २३ ॥
न जाने किं फलं मेऽद्य देवस्यास्य प्रसादतः ॥
एतस्मात्कारणाच्चाहं नान्यत्किंचित्करोमि भोः ॥ २४ ॥ ॥
॥ पुलस्त्य उवाच ॥ ॥
वेणुवाक्यं ततः श्रुत्वा मुनयः शंसितव्रताः ॥
विस्मयोत्फुल्लनयनाः साधुसाध्विति चाब्रुवन् ॥ २५ ॥
ततः प्रदक्षिण पराः सर्वे तत्र महर्षयः ॥
बभूवुर्मुनयः सर्वे श्रद्धया परया युताः ॥ २६ ॥
सोऽपि राजा महाभागो वेणुः शंभोः प्रसादतः ॥
शाश्वतं स्थानमापन्नो दुर्ल्लभं त्रिदशैरपि ॥ २७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडेऽचलेश्वरप्रभाववर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 8
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ भद्रकर्णं महाह्रदम् ॥
त्रिनेत्राभाः शिला यत्र दृश्यंतेऽद्यापि भूरिशः ॥१॥
तस्यैव पश्चिमे भागे लिंगमस्ति पिनाकिनः ॥
यं दृष्ट्वा मानवस्तत्र त्रिनेत्रसदृशो भवेत् ॥ २ ॥
भद्रकर्णगणोनाम पुरासीच्छिववल्लभः ॥
तेनात्र स्थापितं लिंगं ह्रदश्चैव विनिर्मितः ॥ ३ ॥
केनचित्त्वथ कालेन संग्रामे दानवैः सह ॥
युयुधे पुरतः शंभोर्नानागणसमन्वितः ॥ ४ ॥
नष्टे स्कंदे हते सैन्ये वीरभद्रे पराजिते ॥
गतास्ते भयसंत्रस्ता महाकाले विनिर्जिते ॥ ५ ॥
बलवान्नमुचिर्नाम दानवो बलवत्तरः ॥
खड्गचर्मधरः शीघ्रं महेश्वरमुपाद्रवत् ॥ ६ ॥
भद्रकर्णस्तु तं दृष्ट्वा दानवं तदनंतरम् ॥
पतंतं संमुखस्तस्य तिष्ठतिष्ठेति चाब्रवीत् ॥ ७ ॥
छित्त्वाऽसिमसिना तस्य चर्म चापि महाबलः ॥
स्तनयोरंतरे दैत्यं कोपाविष्टोऽहनन्नृप ॥ ८ ॥
अथासौ निहतस्तेन प्रविश्य विपुलं तमः ॥
निपपात महीपृष्ठे वायुभग्न इव द्रुमः ॥
वधं प्राप्तस्तु दैत्योऽसौ नत्वा हरमसौ स्थितः ॥
सत्ये स्थितं च तं दृष्ट्वा ततस्तुष्टो महेश्वरः ॥ 7.3.8.१० ॥
॥ श्रीभगवानुवाच ॥ ॥
तव वीर्येण संतुष्टो धर्मेण च विशेषतः ॥
वरं वरय भद्रं ते नित्यं यो हृदये स्थितः ॥ ११ ॥
॥ भद्रकर्णं उवाच ॥ ॥
यन्मया स्थापितं लिंगमर्बुदे सुरसत्तम ॥
अत्रास्तु तव सांनिध्यं ह्रदेऽस्मिंश्च स्थिरो भव ॥ १२ ॥
॥ श्रीभगवानुवाच ॥ ॥
माघमासे चतुर्द्दश्यां कृष्णपक्षे सदा मम ॥
सांनिध्यं च विशेषेण ह्रदे लिंगे भविष्यति ॥ १३ ॥
भद्रकर्णह्रदे स्नात्वा त्रिनेत्रं यः समाहितः ॥
द्रक्ष्यते स तु मे स्थानं शाश्वतं यास्यति धुवम् ॥ १४ ॥
तस्मात्सर्वत्र यत्नेन स्नानं तत्र समाचरेत् ॥
पूजयित्वा च तल्लिंगं शिवलोकं स गच्छति ॥ १५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे भद्रकर्णह्रदत्रिनेत्रमाहात्म्यवर्णनंनामाष्टमोऽध्यायः ॥ ८ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 9
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ तीर्थं त्रैलोक्यविश्रुतम् ॥
केदारमिति विख्यातं सर्वपापहरं नृणाम् ॥ १ ॥
यत्र मन्दाकिनी पुण्या सरस्वत्या समागता ॥
तत्र स्नातो नरो राजन्मुच्यते सर्वकिल्बिषैः ॥ २ ॥
शृणु राजन्यथावृत्तमितिहास पुरातनम् ॥
ऋषिभिर्बहुधा गीतमर्बुदे पर्वतोत्तमे ॥ ३ ॥
अजपालो नृपश्रेष्ठः सूर्यवंशसमुद्भवः ॥
सप्तद्वीपवतीं पृथ्वीं स पाति नात्र संशयः ॥ ४ ॥
न हस्तिनो न पादाता न चाश्वास्तस्य भूपतेः ॥
न रथाश्च महाराज न कोशाश्च तथाविधाः ॥ ५ ॥
न गृह्णाति करं राजन्प्रजाभ्योथाधिकं नृप ॥
राज्यं स ईदृशं चक्रे सर्वलोकहिते रतः ॥६॥
जातापराधो भूपृष्ठे जायते चेत्कथंचन ॥
तं गत्वा निग्रहं तस्य चक्रुः शस्त्राणि तत्क्षणात् ॥ ७ ॥
एवमस्य नरेन्द्रस्य वर्त्तमानस्य भूतले ॥
सुखेन रमते लोको राज्ये निहतकंटके ॥ ८ ॥
कामं वर्षति पर्जन्यः सस्यानि रसवंति च ॥
गावः प्रभूतदुग्धाश्च विद्यमाने नराधिपे ॥ ९ ॥
केनचित्त्वथ कालेन वसिष्ठो भगवान्मुनिः ॥
तीर्थयात्राप्रसंगेन तस्य गेहमुपागतः ॥ 7.3.9.१० ॥
तं दृष्ट्वा पूजयामास शास्त्रदृष्टेन वर्त्मना ॥
प्रत्युत्थानाभिवादाभ्यामर्घ्यपाद्यादिभिस्तथा ॥ ११ ॥
एवं संपूजितस्तेन भक्त्या परमया नृप ॥
सुखोपविष्टो विश्रांतो वसिष्ठो मुनिसत्तमः ॥
राजर्षीणां कथाश्चक्रे देवर्षीणां तथैव च ॥ । ॥ १२ ॥
ततः कथावसाने तु कस्मिंश्चिन्नृपसत्तम ॥
पप्रच्छ विनयोपेतस्तं मुनिं शंसितव्रतम् ॥ १३ ॥
॥ अजपाल उवाच ॥ ॥
अतीतानागतं विप्र वर्त्तमानं तथैव च ॥
त्वं वेत्सि सकलं ब्रह्मंस्तपश्चर्याप्रभावतः ॥ १४ ॥
कौतुकं हृदि मे जातं वर्त्तते मुनिपुंगव ॥
प्रसादः क्रियतां मह्यं कथयस्व प्रसादतः ॥ १५ ॥
॥ वसिष्ठ उवाच॥ ॥
ब्रूहि पार्थिवशार्दूल यत्ते मनसि वर्त्तते ॥
कथयिष्यामि तत्सर्वं यद्यपि स्यात्सुदुर्ल्लभम् ॥ १६ ॥
॥ राजोवाच ॥ ॥
केन कर्मविपाकेन ममैतद्राज्यमुत्तमम् ॥
निष्कण्टकं सदा क्षेमं सर्वकामसमन्वितम् ॥ १७ ॥
न दीनो न च दुःखार्त्तो व्याधिग्रस्तो न कोऽपि च ॥
विद्यते मम राज्ये च न दरिद्रो महामुने ॥ १८ ॥
नारीयं मम साध्वी च प्राणेभ्योऽपि गरीयसी ॥
मच्चित्ता मद्गतप्राणा नित्यं मम हिते रता ॥
अनया चिंतितं ब्रह्मन्सर्वं विस्तरतो वद ॥ १९ ॥
किं दानस्य प्रभावेन व्रतयागस्य वा मुने ॥
तपसो वा मुनिश्रेष्ठ व्रतस्य नियमस्य च ॥ 7.3.9.२० ॥
जन्मान्तरकृतं पुण्यं परं कौतूहलं हि मे ॥
कथयस्व प्रसादेन विस्तरेण द्विजोत्तम ॥ २१ ॥ ॥
॥ वसिष्ठ उवाच ॥ ॥
शृणु सर्वं महीपाल विस्तरेण च कथ्यते ॥
न च मन्युस्त्वया कार्यो न च व्रीडा महामते ॥ २२ ॥
अन्यदेहांतरे राजञ्छूद्रजातिसमुद्भवः ॥
शूद्रजातिरियं साध्वी तव पत्नी ह्यभूत्पुरा ॥ २३ ॥
केनचित्त्वथ कालेन दुर्भिक्षे समुपस्थिते ॥
अन्नक्षयान्महाराज सर्व लोकः क्षुधार्दितः ॥ २४ ॥
ततस्त्वं भार्यया सार्द्धमन्यदेशांतरे गतः ॥
समारुह्य च कृच्छ्रेण कस्मिंश्चिद्गिरिनिर्झरे ॥ २५ ॥
त्वया दृष्टं मनोहारि शुभं पंकजकाननम् ॥
तत्र स्नात्वा पयः पीत्वा पितृदेवाः प्रतर्पिताः ॥ २६ ॥
मनसा चिंतितं ह्येतत्पद्मान्यादाय करोम्यहम् ॥
विक्रयं येन चाहारो भवेन्मम च सर्वथा ॥ २७ ॥
ततः पद्मानि भूरीणि गृहीत्वा भार्यया सह ॥
गतो यत्र जनो भूरि गतः पार्थिवसत्तम ॥ २८ ॥
न केऽपि प्रति गृह्णंति लोका दुर्भिक्षपीडिताः॥
भ्रमितस्त्वं च सर्वत्र श्रांतो वैराग्यमागतः ॥ २९ ॥
ततो दिनावसाने तु गुहामेकां समाश्रितः ॥
भूमौ पद्मानि निक्षिप्य क्षुधाविष्टः प्रसुप्तवान्॥ 7.3.9.३० ॥
एतस्मिन्नेव काले तु कर्णयोस्ते समागतः ॥
पठतां द्विजमुख्यानां ध्वनिर्वेदपुराणयोः ॥ ३१ ॥
तं श्रुत्वा सहसोत्थाय ज्ञात्वा जागरणं ततः ॥
पद्मान्यादाय तत्रैव सभार्यः शिवमंदिरे ॥ ३२ ॥
तत्र नागवती वेश्या शिवरात्रिपरायणा ॥
केदारे परया भक्त्या करोति निशि जागरम् ॥ ३३ ॥
तस्याः पार्श्वे स्थिता दासी त्वया पृष्टा नरेश्वर ॥
देवस्य पुरतो बाले किमर्थं रात्रिजागरम् ॥ ३४ ॥
तयोक्तं शिवरात्र्यां वै वेश्येयं वरवर्णिनी ॥
कुरुते नागवती नाम रात्रौ भक्त्या च जागरम् ॥ ३५ ॥
यः श्रद्धाभक्तिसंयुक्तः कुरुते रात्रिजागरम् ॥
पूजयित्वा महादेवं स याति परमं पदम्॥ ३६ ॥
कृत्वोपवासं पद्मैर्य्यः पूजयेत्त्र्यंबकं नरः ॥
स याति रुद्रसालोक्यं सेव्यमानो ऽप्सरोगणैः ॥ ३७ ॥
सकामो लभते कामान्देवैरपि सुदुर्ल्लभान् ॥
स त्वं पद्मानि मे देहि कांचनं च पलत्रयम्॥
एतेषां मूल्यमादाय प्राणाधारं समाचर ॥ ३८ ॥
ततस्त्वं भार्यया चोक्तो गृह्यमाणे च कांचने ॥
न ग्राह्यं मूल्यमेतेषां त्वया नाथ कथंचन ॥ ३९ ॥
उपवासो बलाज्जातो ह्यन्नाभावाद्वयोरपि ॥
पद्मैरेभिर्हरः पूज्यो द्वाभ्यामेवाद्य निश्चयम् ॥ 7.3.9.४०॥
इदं त्वयाऽद्य कर्त्तव्यं त्याज्यमस्यास्तु कांचनम्॥
भार्याया वचनं श्रुत्वा तैः पद्मैः पूजितः शिवः ॥४१॥
श्रद्धया च सभार्येण जागरं च शिवाग्रतः ॥
कृतं त्वया महाराज भार्यया शिवमंदिरे ॥४२॥
पुराणश्रवणं जातं तत्र पार्थिवसत्तम ॥
शिवरात्र्यां महाराज पद्मैस्तु पूजितः शिवः ॥४३॥
केदारस्याग्रतो भक्त्या रात्रौ जागरणं तथा॥
कृतं त्वया महाराज एकाग्रेण च चेतसा॥४४॥
ततःप्रभाते संजाते भिक्षां कृत्वा च पारणा ॥
कृता त्वया महाराज शिवाग्रे सह भार्यया ॥४४॥
ततः कालांतरेणैव कालधर्मं गतो भवान् ॥
भार्येयं च त्वया सार्धं संप्रविष्टा हुताशनम् ॥४६॥
ततो जाता महाराज दशार्णाधिपतेः सुता ॥
वैदेहे नगरे राजा जातस्त्वं पार्थिवोत्तम ॥ ४७ ॥
अजपाल इति ख्यातो नाम्ना च धरणीतले ॥
सर्वेषां प्राणिनां त्वं च वल्लभो नृपसत्तम ॥ ४८ ॥
एतस्मात्कारणाज्जाता भार्येयं प्राणसंमता ॥
भूयोऽपि तव संजाता यन्मां त्वं परिपृच्छसि ॥४९॥
तस्य देवस्य माहात्म्यात्केदारस्य महीपतेः ॥
राज्यं ते सुखदं नृणां तथा निहतकण्टकम् ॥ 7.3.9.५० ॥
प्राप्तं त्वया महाराज केदारस्य प्रसादतः ॥
येन त्वं सैन्यहीनोऽपि पृथिवीं परिरक्षसि ॥ ५१ ॥
॥ पुलस्त्य उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा स राजा विस्मयान्वितः ॥
गमनाय मतिं चक्रे केदारं प्रति भूमिपः ॥ ५२ ॥
स गत्वा पर्वते रम्ये पूजयित्वा च तं विभुम् ॥
शिवरात्रिपरः सम्यग्वर्षेवर्षे बभूव ह ॥ ५३ ॥
पुत्रं राज्ये च संस्थाप्य ततोऽर्बुदमथागमत् ॥
प्राप्तो मुक्तिं ततो भूयः सभार्यस्तत्प्रभावतः ॥ ५४ ॥
एतत्ते सर्वमाख्यातं केदारस्य महीपते ॥
माहात्म्यं शुभदं नृणां सर्व पापप्रणाशनम् ॥ ५५ ॥
माघफाल्गुनयोर्मध्ये कृष्णपक्षे चतुर्दशी ॥
शिवरात्रिरिति ख्याता भूतलेऽस्मिन्महामते ॥ ५६ ॥
तस्यां तु सर्वथा राजन्यात्रां तस्य समाचरेत्॥
केदारस्य महाराज प्रकुर्यात्पूजनं नृप ॥ ५७ ॥
माघकृष्णचतुर्दश्यां यः कुर्यात्तत्र जागरम् ॥
कृतोपवासो नृपते शिवलोकं स गच्छति ॥ ५८ ॥
स्नात्वा गंगासरस्वत्योः संगमे सर्वकामदे ॥
ये प्रपश्यन्ति केदारं ते यास्यंति परां गतिम् ॥ ५९ ॥
कुण्डे केदारसंज्ञे यः प्रपिबेद्विमलं जलम् ॥
सप्तपूर्वान्सप्त परान्पूर्वजांस्तारयेत्तु सः ॥ 7.3.9.६० ॥
यश्चैतच्छृणुयान्नित्यं भक्त्या परमया नृप ॥
सोऽपि पापैर्विमुच्येत केदारस्य प्रभावतः ॥ ६१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे केदारमाहात्म्यवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 10
॥ ययातिरुवाच ॥ ॥
केदारं श्रूयते ब्रह्मन्पर्वते च हिमाचले ॥
गंगा तस्माद्विनिष्क्रान्ता प्रविष्टा पूर्वसागरम् ॥ १ ॥
तथा सरस्वती देवी चूतवृक्षाद्विनिर्गता ॥
पश्चिमं सागरं प्राप्ता गृहीत्वा वडवानलम्॥ २ ॥
कथमत्र समायातः केदारश्चात्र कौतुकम्॥
सर्वं विस्तरतो ब्रूहि विचित्रं मम भूसुर ॥ ३ ॥
॥ पुलस्त्य उवाच ॥ ॥
सत्यमेतन्महाराज यन्नोऽत्र परिपृच्छसि ॥
शृणुष्वावहितो भूत्वा यथा जातं श्रुतं तु वै ॥ ४ ॥
गंगाद्यानि च तीर्थानि केदाराद्या दिवौकसः ॥
मया सह पुरा देवाः शक्राद्या नृपसत्तमाः ॥ ५ ॥
ब्रह्माणं प्रति राजेन्द्र गताः सर्वे महर्षयः॥
सर्वे तत्र कथाश्चक्रुर्धर्म्या नाना पृथक्पृथक् ॥ ६ ॥
समुदाये च देवानां सर्वतीर्थानि पार्थिव ॥
क्षेत्राण्युप स्थितान्येव वनान्युपवनानि च ॥ ७ ॥
ततः कथाप्रसंगेन इन्द्रः प्राह चतुर्मुखम् ॥
कौतुकेन समायुक्तः पप्रच्छ नृपसत्तम ॥ ८ ॥ ॥
॥ इन्द्र उवाच ॥ ॥
भगवन्पुण्यमाहात्म्यं श्रोतुमिच्छामि सांप्रतम् ॥
प्रमाणं चैव सर्वेषां कृतादीनां पृथग्विधम् ॥ ९ ॥
॥ ब्रह्मोवाच ॥ ॥
लक्षं सप्तदश प्रोक्तं युगमानं सुराधिप ॥
अष्टाविंशतिभिः सार्द्धं सहस्रैः कृतमुच्यते ॥ 7.3.10.१० ॥
लक्षद्वादशभिः प्रोक्तं युगं त्रेताभिसंज्ञितम् ॥
षण्णवत्यधिकैश्चैव सहस्रैः परिमाणितम्॥ ११ ॥
लक्षाण्यष्टौ चतुःषष्टिसहस्रैः परिकीर्तितम् ॥
ततो वै द्वापरं नाम युगं देवप्रकीर्तितम् ॥ १२ ॥
लक्षैश्चतुर्भिर्विख्यातो द्वात्रिंशद्भिः कलिस्तथा॥
सहस्रैश्च सुरश्रेष्ठ युगमानमितीरितम्॥ १३॥
चतुष्पदः कृते धर्मः शुक्लवर्णो जनार्दनः॥
न दुर्भिक्षं न च व्याधिस्तस्मिन्भवति वै क्वचित् ॥ १४ ॥
क्रियते च तदा धर्मो नाकाले मरणं नृणाम् ॥
लांगलेन विना सस्यं भूरिक्षीराश्च धेनवः ॥ १५ ॥
कामः क्रोधो भयं लोभो मत्सरश्चाभ्यसूयता ॥
तस्मिन्युगे सहस्राक्ष न भवंति कदाचन ॥ १६ ॥
ततस्त्रेतायुगे जातस्त्रिपादो धर्म एव च ॥
चिरायुषो नरास्तस्मिन्रक्तवर्णो जनार्दनः ॥ १७ ॥
तस्मिन्यज्ञाः प्रवर्त्तंते प्राणिनामिष्टदायिनः ॥
न कामादिप्रवृत्तिश्च तस्मिन्संजायते नृणाम्॥ १८ ॥
तपसा ब्रह्मचर्येण स्नानैर्दानैः पृथग्विधैः ॥
तथा यज्ञैर्जपैर्होमैस्तत्र वृत्तिर्भवेन्नृणाम् ॥ १९ ॥
ततस्तु द्वापरं नाम तृतीयं युग मुच्यते ॥
द्विपदो धर्मः सञ्जातः पीतवर्णो जनार्द्दनः ॥ 7.3.10.२० ॥
फलाकांक्षाप्रवृत्तानि जपयज्ञतपांसि च ॥
सत्यानृतान्वितो लोको द्वापरे सुरसत्तम ॥ २१ ॥
तत्रान्योन्यं महीपाला युयुधुर्वसुधातले ॥
सुपूताश्च दिवं यांति यज्ञैरिष्ट्वा जनार्दनम् ॥ २२ ॥
ततः कलियुगं घोरं चतुर्थं तु प्रव र्त्तते ॥
एकपादो भवेद्धर्मः संत्रस्तो नित्यपूजने ॥ २३ ॥
कृष्णवर्णो भवेद्विष्णुः पापाधिक्यं प्रवर्तते ॥
माया च मत्सरश्चैव कामः क्रोधस्तथा भयम् ॥ २४ ॥
अर्थलुब्धास्तथा भूपा लोभमोहशतान्विताः ॥
अल्पायुषो नरास्तत्र अल्पसस्या च मेदिनी ॥ २५ ॥
अल्पक्षीरास्तथा गावः सत्यहीना द्विजातयः ॥
तत्र मायाविनो लोका जैह्व्यौपस्थ्यपरायणाः ॥ २६ ॥
सत्यहीनास्तथा पापा भविष्यंति कलौ युगे ॥
तत्र षोडशमे वर्षे नराः पलितकुन्तलाः ॥ २७ ॥
नार्यो द्वादशमे वर्षे भविष्यंति सुगर्भिताः ॥
भविष्यति क्रमाद्वर्णसंकरश्च सुराधिप ॥ २८ ॥
एकाकारा भविष्यंति सर्ववर्णाश्रमाश्च वै ॥
नाशं यास्यंति यज्ञाश्च कुलधर्मः सनातनः ॥ २९ ॥
व्यर्थानि तत्र तीर्थानि म्लेच्छस्पृष्टानि सर्वशः ॥
भविष्यंति सुरश्रेष्ठ प्रभावरहितानि च ॥ 7.3.10.३० ॥
एतच्छ्रुत्वा ततो वाक्यं ब्रह्मणोऽव्यक्तजन्मनः ॥
तत्र स्थितानि तीर्थानि ब्रह्माणमिदमब्रुवन् ॥ ॥ ३१ ॥
॥ तीर्थान्यूचुः ॥ ॥
कथं वयं भविष्यामः संप्राप्ते दारुणे कलौ ॥
स्थानं नो ब्रूहि देवेश स्थातव्यं च सदैव हि ॥ ३२ ॥
॥ ब्रह्मोवाच ॥ ॥
अर्बुदः पर्वतश्रेष्ठः कलिस्तत्र न विद्यते ॥
अतस्तत्र च गंतव्यं तीर्थैरायतनैः सह ॥ ३३ ॥
अपि कृत्वा महत्पापमर्बुदं प्रेक्षते तु यः ॥
कलिदोषविनिर्मुक्तः स यास्यति परां गतिम् ॥३४॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा चतुर्वक्त्रो ब्रह्मलोकं गतो नृप ॥
ततः सर्वाणि तीर्थानि गतानि च कलौ युगे ॥ ३५ ॥
भूमावर्बुदशैलेन्द्रे संस्थितानि कलेर्भयात् ॥
गंगा सरस्वती चैव यमुना पुष्कराणि च ॥ ३६ ॥
कुरुक्षेत्रं प्रभासं च ब्रह्मावर्तं तथैव च॥
तिस्रःकोट्योऽर्द्धकोटिश्च यानि तीर्थानि भूतले ॥ ३७ ॥
तेषां वासश्च सञ्जातः पर्वतेऽर्बुदसंज्ञिके ॥
एवं तत्र समापन्ना गंगा चैव सरस्वती ॥ ३८ ॥
तत्र शांता नराः सम्यक्परं निर्वाणमाप्नुयुः ॥
श्राद्धं कृत्वा महाराज स्वर्गे यांति च पूर्वजाः ॥ ३९ ॥
शृणु तत्राभवत्पूर्वं यदाश्चर्यं महामते ॥
ऋषिर्मंकणकोनाम सरस्वत्यास्तटे स्थितः ॥ 7.3.10.४० ॥
तपस्तेपे सुधर्मात्मा कामक्रोधविवर्जितः ॥
तस्यैवं वर्तमानस्य क्षुतमासीत्कदाचन ॥ ४१ ॥
पित्तं प्रपतितं तत्र तच्च रक्तमयं बभौ ॥
तद्दृष्ट्वाऽतीव हृष्टः स मंकणर्षिर्बभूव ह ॥ ४२ ॥
सिद्धोऽहमिति विज्ञाय ततो नृत्यं चकार सः ॥
तस्यैवं वर्तमानस्य जगत्स्थावरजंगमम् ॥ ४३ ॥
तत्र संक्षोभमापन्नं सागरा अपि चुक्षुभुः ॥
गृहकृत्यानि संत्यज्य सर्वे विस्मयमा गताः ॥ ४४ ॥
तस्यैवं नृत्यमानस्य सर्वे लोका नृपोत्तम ॥
ननृतुः पार्थिवश्रेष्ठ प्रभावात्तस्य सन्मुनेः ॥ ४५ ॥
ततो देवगणाः सर्वे गत्वा कामनिषूदनम् ॥
यथाऽयं नृत्यते नैव तथा कुरु महेश्वर ॥४६॥
अथ ब्राह्मणरूपेण शंभुनोक्तो द्विजोत्तमः ॥
त्वया ब्रह्मंस्तपस्तप्तमधुना नृत्यते कथम् ॥ ॥ ४७ ॥
॥ मंकण उवाच ॥ ॥
किं न पश्यसि हे ब्रह्मन्रक्तं पित्तं च मे स्थितम् ॥
संजातं सिद्धिमापन्नो रक्तं पित्तं यतो मम ॥ ४८ ॥
एतस्मात्कारणाद्धर्षाद्द्विज नृत्यं करोम्यहम् ॥
एवमुक्तस्ततस्तेन देवदेवो महेश्वरः ॥ ४९ ॥
तर्जन्या ताडयामास स्वांगुष्ठं नृपसत्तम ॥
ततोंगुष्ठाद्विनिष्क्रांतं भस्म वै बिसपांडुरम् ॥ 7.3.10.५० ॥
ततो मंकणकं प्राह पश्य विप्र करान्मम ॥
शुभ्रं भस्म विनिष्क्रांतं पश्य मे द्विज कौतुकम् ॥ ५१ ॥ ॥
॥ पुलस्त्य उवाच ॥ ॥
तद्दृष्ट्वा विस्मितो विप्रो ज्ञात्वा तं वृषभध्वजम् ॥
जानुभ्यामवनिं गत्वा वाक्यमेतदुवाच ह ॥५२॥
॥ मंकण उवाच ॥ ॥
नूनं भवान्महादेवः साक्षाद्दृष्टः प्रसीद मे ॥
निश्चितं त्वं मया ज्ञात एतन्मे हृदि वर्तते ॥ ५३ ॥
नान्यस्यायं प्रभावश्च त्वया यो मे प्रदर्शितः ॥
मां समुद्धर देवेश कृपां कृत्वा महेश्वर ॥ ५४ ॥
॥ श्रीमहादेव उवाच ॥ ॥
सम्यग्ज्ञातोऽस्मि विप्रेन्द्र त्वयाऽहं नात्र संशयः ॥
वरं वरय भद्रं ते नृत्याधिक्यं यतः कृतम् ॥ ५५ ॥
॥ मंकण उवाच ॥ ॥
येऽत्र स्नानं प्रकुर्वंति सरस्वत्यां समाहिताः ॥
त्वत्प्रसादात्फलं तेषां राजसूयाश्वमेधयोः ॥ ५६ ॥
॥ श्रीमहादेव उवाच ॥ ॥
येऽत्र स्नानं करिष्यंति सरस्वत्यां समाहिताः ॥
ते यास्यंति परं स्थानं जरामरणवर्जितम् ॥ ५७ ॥
अत्र गंगासरस्वत्योः संगमे लोकविश्रुते ॥
श्राद्धं कुर्युर्द्विजश्रेष्ठ ते यास्यंति परां गतिम् ॥ ५८ ॥
सुवर्णं येऽत्र दास्यंति यथाशक्त्या द्विजोत्तमे ॥
सर्व पापविनिर्मुक्तास्ते यास्यन्ति परां गतिम् ॥ ५९ ॥
इत्युक्त्वांतर्दधे राजन्देवदेवो महेश्वरः ॥ 7.3.10.६० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डेऽर्बुदाचले कलियुगपभावात्सर्वतीर्थागमनवर्णनंनाम दशमोऽध्यायः ॥ १० ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 11
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ देवं कोटीश्वरं परम् ॥
यं दृष्ट्वा मानवः सम्यक्परां सिद्धिमवाप्नुयात् ॥ १ ॥
शृणु तत्राभवत्पूर्वं यदाश्चर्यं महीपते ॥
दक्षिणस्या मुनिवराः कोटिसंख्याप्रमाणतः ॥ २ ॥
अन्योऽन्यं स्पर्धया सर्वे हेलयाऽर्बुदमागताः ॥
अहं पूर्वमहं पूर्वं प्रपश्याम्यचलेश्वरम् ॥ ३ ॥
आगमिष्यति यः पश्चाद्ब्राह्मणः श्वा भविष्यति ॥
पापीयान्भक्तिरहितः श्रद्धाहीनो भविष्यति ॥ ४ ॥
इत्येवं स्पर्धमानास्ते हेलयाऽर्बुदमागताः ॥
ततः सर्वे यतात्मानः सम्यग्व्रतपरायणाः ॥ ५ ॥
शांतास्तपस्विनः सर्वे वेदविद्याविशारदाः ॥
तेषामीहितमाज्ञाय सम्यक्कामनिषूदनः ॥ ६ ॥
कृपया परयाविष्टो भक्तिभावान्महेश्वरः ॥
कोटिं कृत्वाऽऽत्मलिंगानां तस्मिन्स्थाने व्यवस्थितः ॥ ७ ॥
एकस्मिन्नेव काले तु सर्वैर्दृष्टो महेश्वरः ॥
मुनिभिश्च नृपश्रेष्ठ कोटिसंख्यैः पृथक्पृथक् ॥ ८ ॥
अथ ते मुनयः सर्वे समं दृष्ट्वा महेश्वरम् ॥
विस्मयोत्फुल्लनयना साधुसाध्विति चाब्रुवन् ॥ ९ ॥
भक्तियुक्ता द्विजाः सर्वेऽस्तुवंस्ते वैदिकैः स्तवैः ॥
तेषां तुष्टस्ततः शंभुर्वाक्यमेतदुवाच ह ॥ 7.3.11.१० ॥ ॥
॥ श्रीमहादेव उवाच ॥ ॥
तुष्टोऽहं मुनयः सर्वे श्रद्धया परया हि वः ॥
वरं वै व्रियतां शीघ्रं सर्वैश्चैव पृथक्पृथक् ॥११॥
॥ ऋषय ऊचुः ॥ ॥
एष एव वरोऽस्माकं सर्वेषां हृदि वर्त्तितः ॥
युगपद्दर्शनाद्देव जायतां फलमुत्तमम् ॥ १२ ॥
॥ श्रीमहादेव उवाच ॥ ॥
न वृथा दर्शनं मे स्याद्विशेषाद्ब्राह्मणस्य च ॥
दर्शनं ये करिष्यंति तेषां च तीर्थजं फलम् ॥ १३ ॥
॥ मुनय ऊचुः ॥ ॥
अवश्यं यदि दातव्यो वरोऽस्माकं महेश्वर ॥
एकं कोटिमयं लिंगं क्रियतां वृषभध्वज ॥ १४ ॥
यस्मिन्दृष्टे फलं नृणां जायते कोटिलिंगजम् ॥
एवमेष वरोऽस्माकं दीयतां वृषभध्वज ॥ ॥ १५ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवं सप्रार्थमानानां मुनीनां भावितात्मनाम् ॥
निर्भिद्य पर्वतश्रेष्ठं सहसा लिंगमुद्गतम् ॥ १६ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
कृपया परया सर्वांस्तानृषीन्वसुधाधिप ॥ १७ ॥
॥ वागुवाच ॥ ॥
कोटीश्वराख्यं मे लिंगं लोके ख्यातिं गमिष्यति ॥
माघकृष्णचतुर्द्दश्यां यश्चैनं पूजयिष्यति ॥ १८ ॥
सर्वं कोटिगुणं तस्य फलं विप्रा भविष्यति ॥
दाक्षिणात्यो नरो यस्तु श्राद्धमत्र करिष्यति ॥ १९ ॥
फलं कोटिगुणं तस्य गयाश्राद्धसमं भवेत् ॥
तस्माद्विशेषतः पूज्यं मम लिंगं च मानवैः ॥ 7.3.11.२० ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा तु सा वाणी विरराम महीपते ॥
ततस्ते मुनयः सर्वे गंधधूपानुलेपनैः ॥ २१ ॥
तल्लिंगं पूजयामासुः श्रद्धया परया नृप ॥
पूजयित्वा गताः सिद्धिं सर्वे लिंगप्रसादतः ॥ २२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभातखण्डे तृतीयेऽर्बुदखण्डे कोटीश्वरमाहात्म्यवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 12
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ रूपतीर्थमनुत्तमम् ॥
सर्वपापहरं नॄणां रूपसौभण्यदायकम्॥ १ ॥
तत्र पूर्वं वपुर्नाम्ना लोके ख्याता वराप्सराः ॥
सिद्धिं गता महाराज यथा पूर्वं निगद्यते ॥ २ ॥
पुराऽऽसीत्काचिदाभीरी विरूपा विकृतानना ॥
लम्बोदरी च कुग्रीवा स्थूलदंतशिरोरुहा ॥ ३ ॥
एकदा फलमादातुं भ्रममाणाऽर्बुदाचले ॥
माघशुक्लतृतीयायां पतिता गिरिनिर्झरे ॥ ४ ॥
दिव्यमाल्यांबरधरा दिव्यैरंगैः समन्विता ॥
पद्मनेत्रा सुकेशांता सर्वलक्षणलक्षिता ॥ ५ ॥
सा संजाता महाराज तीर्थस्यास्य प्रभावतः ॥
एतस्मिन्नेव काले तु शक्रस्तत्र समागतः ॥ ६ ॥
क्रीडार्थं पर्वतश्रेष्ठे तां ददर्श शुभेक्षणाम् ॥
ततः कामशरैर्विद्धस्तामुवाच सुमध्यमाम् ॥ ७ ॥
॥ इन्द्र उवाच ॥ ॥
का त्वं वद वरारोहे किमर्थं त्वमिहागता ॥
देवी वा नागकन्या वा सिद्धा विद्याधरी तु वा ॥ ८ ॥
मनो मेऽपहृतं सुभ्रूस्त्वया च पद्मनेत्रया ॥
शक्रोऽहं सर्वदेवेशो भज मां चारुहासिनि ॥ ९ ॥
॥ नार्युवाच ॥ ॥
आभीरी त्रिदशाधीश तथाहं बहुभर्तृका ॥
फलार्थं तु समायाता पतिता गिरिनिर्झरे ॥ 7.3.12.१० ॥
स्नात्वा रूपमिदं प्राप्ता सुरूपं च शुभं मया ॥
दुर्ल्लभस्त्वं हि देवानां किं पुनर्मर्त्यजन्मनाम् ॥ ११ ॥
वशगास्ते सुराः सर्वे मयि किं क्रियते स्पृहा ॥
भज मां त्रिदशाधीश यथाकामं सुराधिप ॥ १२ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्तस्तया शक्रः कामयामास तां तदा ॥
निवृत्तमदनो भूत्वा तामुवाच सुमध्यमाम् ॥ १३ ॥
॥ इन्द्र उवाच ॥ ॥
वरं वरय कल्याणि यत्ते मनसि वर्त्तते ॥
विनयात्तव तुष्टोऽहं दास्यामि वरमुत्तमम् ॥ १४ ॥
॥ नार्युवाच ॥ ॥
माघशुक्लतृतीयायां नरो वा वनिता तथा ॥
स्नानं यः कुरुते भक्त्या प्रीताः स्युः सर्वदेवताः ॥ १५ ॥
सुरूपं जायतां तेषां दुर्ल्लभं त्रिदशैरपि ॥
मां नय त्वं सहस्राक्ष सुरावासं सुराधिप ॥१६॥
॥ पुलस्त्य उवाच ॥ ॥
एवमस्त्विति तामुक्त्वा गृहीत्वा तां सुराधिपः ॥
विमाने च तया सार्द्धं जगाम त्रिदिवं प्रति ॥ १७ ॥
वपुः प्राप्तं तया यस्मात्तस्मात्पा र्थिवसत्तम ॥
नाम्ना वपुरिति ख्याता सा बभूव वराप्सराः ॥ १८ ॥
माघशुक्लतृतीयायां देवास्तस्मिञ्जलाशये ॥
स्नानं सर्वे प्रकुर्वंति प्रभाते भक्तिसंयुताः ॥१९॥
तत्रान्या देवकन्याश्च सिद्धयक्षांगनास्तथा ॥
यस्तत्र कुरुते स्नानं तस्मिन्काले नराधिप ॥7.3.12.२०॥
रूपं च लभते तादृग्यादृग्लब्धं तया पुरा ॥
सर्वे तत्र भविष्यंति सिद्धविद्याधरोरगाः ॥ २१ ॥
तस्यैव पूर्वदिग्भागे बिलमस्ति सुशोभनम् ॥
यत्रागत्य प्रकुर्वंति स्नानं पातालकन्यकाः। ॥२२॥
तत्र स्नात्वा गृहीत्वापो बिले तस्मिन्व्रजंति ताः ॥
तत्र वैनायके पीठे महत्पाषाणजं जलम्॥२३॥
तेनोदकेन संयुक्तः सिद्धो भवति मानवः ॥
गृहीत्वा तज्जलं यस्तु यत्र यत्राभिगच्छति ॥ २४ ॥
स्वर्गे वा भूतले वापि न केनापि प्रधृष्यते ॥
तत्रास्ति विवरद्वारे तिलकोनाम पादपः ॥ २५ ॥
तस्य पुष्पैः फलैश्चैव सर्वं कार्यं प्रसिद्ध्यति ॥
भक्षणाद्धारणाद्वापि सिद्धो भवति मानवः ॥२६॥
तस्मिन्बिले तु पाषाणाः समन्ताच्छंखसन्निभाः ॥
तेनोदकेन संस्पृष्टा भवंति च हिरण्मयाः ॥ २७ ॥
वन्ध्या नारी जलं तत्र या पिबेत्तिलकान्वितम् ॥
अपि वर्षशताब्दा च सद्यो गर्भवती भवेत्॥ ॥ २८ ॥
व्याधिग्रस्तोऽपि यो मर्त्त्यः स्नानं तत्र समाचरेत् ॥
नीरोगो जायते सद्यो ग्रहग्रस्तो विमुच्यते ॥ २९ ॥
भूतप्रेतपिशाचानां दोषः सद्यः प्रणश्यति ॥
तेनोदकेन संस्पृष्टे सर्वं नश्यति दुष्कृतम् ॥ 7.3.12.३० ॥
अपि कीटपतंगा ये पिशाचाः पक्षिणो मृगाः ॥
तेनोदकेन ये स्पृष्टाः सद्यो यास्यंति सद्गतिम् ॥ ३१ ॥
॥ ययातिरुवाच ॥ ॥
अप्यद्भुतमिदं ब्रह्मन्माहात्म्यं भवता मम ॥
कथितं रूपतीर्थस्य न भूतं न भविष्यति ॥ ॥ ३२ ॥
किमत्र कारणं ब्रह्मन्सर्वेभ्योऽप्यधिकं स्मृतम् ॥
सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि मे ॥ ३३ ॥
॥ पुलस्त्य उवाच ॥ ॥
तत्र पूर्वं तपस्तप्तमदित्या नृपसत्तम ॥
इन्द्रे राज्यपरिभ्रष्टे बलौ त्रैलोक्यनायके ॥
अवतीर्णश्चतुर्बाहुरदित्यां नृपसत्तम ॥ ३४ ॥
तस्मिञ्जाते महाविष्णावदित्या चासुरान्तके ॥
गुप्तया विवरद्वारे भयाद्दानवसंभवात् ॥ ३५ ॥
जातमात्रो हरिस्तस्मिन्स्थापितो निर्झरे तया ॥
तस्मात्पवित्रतां प्राप्तं तीर्थं नॄणामभीष्टदम् ॥ ३६ ॥
न चान्यत्कारणं राजन्सत्यमेतन्मयोदितम् ॥
माघशुक्लतृतीयायां तत्र जातस्त्रिविक्रमः ॥ ३७ ॥
तिलकः सर्व वृक्षाग्र्यः पुत्रवत्परिपालितः ॥
अदित्या सेवितो नित्यं स्वहस्तेन जलैः शुभैः ॥ ३८ ॥
एतत्ते सर्वमाख्यातं तीर्थमाहात्म्यमुत्तमम् ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥
सर्वकामप्रदं नॄणामिह लोके परत्र च ॥ ३९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे रूपतीर्थमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 13
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ तीर्थं त्रैलोक्यविश्रुतम् ॥
अंबरीषस्य राजर्षेरैशान्यां पापनाशनम् ॥ १ ॥
यत्र स्वयं हृषीकेशः काले च कलिसंज्ञके ॥
तस्य वाक्यादृतस्तीर्थे स्वयं हि परितिष्ठति ॥ २ ॥
पुरासीत्पृथिवीपालो ह्यंबरीषो युगे कृते ॥
हरिमाराधयामास तपस्तेपे सुदुष्करम् ॥ ३ ॥
तस्मिंस्तीर्थे स राजेन्द्रो मितभक्षो जितेन्द्रियः ॥
सहस्रमेकं वर्षाणां तत आसीत्फलाशनः ॥ ४ ॥
सहस्रे द्वे ततो राजञ्छीर्णपर्णाशनोऽभवत्॥
सहस्रे द्वे ततो भूयो जलाहारो बभूव ह ॥ ५ ॥
सहस्रत्रितयं राजन्वायुभक्षो बभूव ह ॥
चिन्तयन्पुंडरीकाक्षं मानसे श्रद्धयान्वितः ॥ ६ ॥
दश वर्षसहस्रान्ते ततश्च नृपसत्तम ॥
तुतोष भगवान्विष्णुस्तस्यासौ दर्शनं ददौ ॥ ७ ॥
कृत्वा देवपते रूपमारुह्यैरावतं गजम् ॥
अब्रवीद्वरदोऽस्मीति अंबरीषं नराधिपम् ॥ ८ ॥
॥ इंद्र उवाच ॥ ॥
वरं वरय भद्रं ते राजन्यन्मनसीप्सितम् ॥
त्वां दृष्ट्वा भक्तिसंयुक्तमागतोऽहमसंशयम् ॥ ९ ॥ ॥
॥ अंबरीष उवाच ॥ ॥
मुक्तिं दातुमशक्तोसि त्वं च वृत्रनिषूदन ॥
तव प्रसादाद्देवेश त्रैलोक्यं मम वर्त्तते ॥
स्वागतं गच्छ देवेश न वरो रोचते मम ॥ 7.3.13.१० ॥
सर्वथा दास्यते मह्यं वरं तुष्टश्चतुर्भुजः ॥
तदाहं प्रतिगृह्णामि गच्छ देव नमोस्तु ते ॥ ११ ॥
॥ इन्द्र उवाच ॥ ॥
वरं वरय राजर्षे यत्ते मनसि वर्त्तते ॥
ब्रह्मविष्णुत्रिनेत्राणामहमीशो नृपोतम ॥ १२ ॥
अन्येषां चैव देवानां त्रैलोक्यस्याप्यहं विभुः ॥
वरं वरय तस्मात्त्वं प्रसादान्मे सुदुर्ल्लभम् ॥ १३ ॥
प्रसन्ने मयि राजेन्द्र प्रसन्नाः सर्वदेवताः ॥
कुरु मे वचनं राजन्गृह्यतां वरमुत्तमम् ॥ १४ ॥
॥ अंबरीष उवाच ॥ ॥
राजा त्वं सर्वदेवानां त्रैलोक्यस्य तथेश्वरः ॥
सप्तद्वीपवती राजा अहं वृत्रनिषूदन ॥ १५ ॥
हषीकेशस्य सद्भक्तं विद्धि मां तात निश्चयम् ॥
आगतश्च हृषीकेशो वरं दास्यत्यसंशयम् ॥ १६ ॥
॥ इन्द्र उवाच ॥ ॥
ददतो मम भूपाल न गृह्णासि वरं यदि ॥
वज्रं त्वां प्रेरयिष्यामि वधाय कृतनिश्चयः ॥ १७ ॥
एवमुक्त्वा सहस्राक्षः सृक्किणी परिलेलिहन् ॥
कुलिशं भ्रामयामास गृहीत्वा दक्षिणे करे ॥ १८ ॥
तस्येवं भ्राम्यमाणस्य महोत्पाता बभूविरे ॥
ततः पर्वतशृंगाणि विशीर्णानि समंततः ॥ १९ ॥
आवृतं गगन मेघैर्विधुन्वानैर्महीं तदा ॥
न किंचिद्दृश्यते तत्र सर्वं संतमसावृतम् ॥ 7.3.13.२० ॥
एतस्मिन्नेव काले तु स राजा हरिवत्सलः ॥
निमील्य लोचने स्वीये समाधिस्थो बभूव ह ॥ २१ ॥
ततस्तुष्टो जगन्नाथ साक्षात्प्रत्यक्षतां गतः ॥
ऐरावतः स गरुडस्तत्क्षणात्समजायत ॥ २२ ॥
तमुवाच हृषीकेशो मेघगंभीरया गिरा ॥
ध्यानस्थितं नृपश्रेष्ठं शंख चक्रगदाधरः ॥ २३ ॥ ॥
श्रीभगवानुवाच ॥ ॥
परितुष्टोऽस्मि ते वत्सानन्यभक्त जनेश्वर ॥
वरं वरय भद्रं ते यद्यपि स्यात्सुदुर्लभम् ॥ २४ ॥ ॥
॥ अंबरीष उवाच ॥ ॥
यदि प्रसन्नो भगवन्यदि देयो वरो मम ॥
संसाराब्धेस्तारणाय वरदो भव मे हरे ॥ २५ ॥
॥ पुलस्त्य उवाच ॥ ॥
अथाह भगवान्विष्णुरंबरीषं जनाधिपम् ॥
ज्ञानयोगं सुविस्तीर्णं संसारक्षयकारणम् ॥ २६ ॥
यस्मिञ्जाते नरः सद्यः संसारान्मुच्यते नृप ॥
श्रुत्वा स नृपतिः सम्यक्प्रणम्योवाच केशवम् ॥ २७ ॥
॥ अंबरीष उवाच ॥ ॥
भगवन्यस्त्वया प्रोक्तो योगोऽयं मम विस्तरात् ॥
दुर्ज्ञेयः स नृणां देव विशेषाच्च कलौ युगे ॥ २८ ॥
अपि चेत्सुप्रसन्नोऽसि क्रियायोगं ब्रवीहि मे ॥
लोकानां तारणार्थाय शंखचक्रगदाधर ॥ २९ ॥
॥ पुलस्त्य उवाच ॥ ॥
ततस्तस्मै नरेन्द्राय क्रियायोगं जनार्द्दनः ॥
यथायोग्यं नृपश्रेष्ठ कथयामास केशवः ॥ 7.3.13.३० ॥
तं श्रुत्वा तुष्टहृदयोंऽबरीषो वाक्यमब्रवीत् ॥ ३१ ॥
॥ अंबरीष उवाच ॥ ॥
यदि तुष्टोऽसि भगवन्रूपेणानेन माधव ॥
ममाश्रमे त्वं देवेश सदा सन्निहितो भव ॥ ३२ ॥
यतस्त्वत्प्रतिमामेकामर्चयामि विधानतः ॥
पूजयिष्यंति लोकास्त्वां शंखचक्रगदाधरम् ॥ ३३ ॥
॥ पुलस्त्य उवाच ॥ ॥
तथोक्तो माधवेनासौ चकार हरिमंदिरम् ॥
प्रतिमां पूजयामास गन्धपुष्पानुलेपनैः ॥ ३४ ॥
ततः कालेन महता भगवान्विष्णुमंदिरे ॥
तेनैव वपुषा प्राप्तः सपुत्रः सहबांधवः ॥ ३५ ॥
अद्यापि भगवान्विष्णुः सत्यवाक्येन भूपतेः ॥
सदा संनिहितो विष्णुस्तस्मिन्नवसरे कलौ ॥ ३६ ॥
तदारभ्य महाराज क्रियायोगो धरातले ॥
प्रवृत्तः प्रतिमाकारः काले च कलिसंज्ञके ॥ ३७ ॥
यस्तं पूजयते भक्त्या हृषीकेशे नृपार्बुदे ॥
स याति विष्णुसालोक्यं प्रसादाच्च हरेर्नृप ॥ ३८ ॥
एकादश्यां महाराज जागरं यः सदा नृप ॥
करिष्यति निराहारो हृषीकेशाग्रतः स्थितः ॥
स यास्यति परं स्थानं दुर्ल्लभं त्रिदशैरपि ॥ ॥ ३९ ॥
यत्पुण्यं कपिलादाने कार्तिक्यां ज्येष्ठपुष्करे ॥
तत्फलं लभते मर्त्त्यो हृषीकेशस्य दर्शनात् ॥ 7.3.13.४० ॥
शुक्ले वा यदि वा कृष्णे संप्राप्ते हरिवासरे ॥
यः पश्यति हृषीकेशमश्वमेधफलं लभेत् ॥ ४१ ॥
तस्मात्सर्वप्रयत्नेन पूजयेत्तु विधानतः ॥
यस्तत्र चतुरो मासन्सम्यग्व्रतपरायणः ॥
अभ्यर्चयेद्धृषीकेशं न स भूयोऽभिजायते ॥ ४२ ॥
एकः सर्वाणि तीर्थानि करोति नृपसत्तम ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥ ॥ ४३ ॥
एको दानानि सर्वाणि ब्राह्मणेभ्यः प्रयच्छति ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥ ४४ ॥
एकः कन्यासहस्रं तु प्रदद्याच्च यथाविधि ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥ ४५ ॥
सूर्यग्रहे कुरुक्षेत्रे दद्याद्दानमनुत्तमम् ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥ ४६ ॥
अग्निष्टोमादिभिर्यज्ञैर्यजत्येकः सदक्षिणैः॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥ ४७ ॥
एको हिमालयं गत्वा त्यजति स्व कलेवरम् ॥
पश्यत्यन्यो हषीकेशं चातुर्मास्यं समाहितः ॥।४८॥।
एकस्तु भृगुपातेन त्यजेद्देहं सुतीर्थके ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥ ४९ ॥
एकः प्रायोपवेशेन प्राणांस्त्यजति मानवः ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥ 7.3.13.५० ॥
ब्रह्मज्ञानं वदत्येकः श्रुत्वा ज्ञानवि शारदः ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥ ५१ ॥
गयाश्राद्धं करोत्येकः पितृपक्षे नृपोत्तम ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥ ५२ ॥
चांद्रायणसहस्रं च करोत्येकः समाहितः ॥
पश्यत्यन्यो हृषीकेशं चातुमास्यं समाहितः ॥ ५३ ॥
व्रतं तपः सहस्राब्दमेकः सम्यक्चरेन्नरः ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥ ५४ ॥
एकस्तु चतुरो वेदान्सम्यक्पठति ब्राह्मणः ॥
पश्यत्यन्यो हृषीकेशं चातुर्मास्यं समाहितः ॥ ५५ ॥
बहुना किमिहोक्तेन शृणु संक्षेपतो नृप ॥
एकतस्तु भवेत्सर्वमेकतो हरिदर्शनम् ॥ ५६ ॥
तस्मात्सर्वप्रयत्नेन स्थातव्यं हरिसंनिधौ ॥
अम्बरीषस्य राजर्षेः स्थानके पापनाशने ॥ ५७ ॥
एकतस्तु हृषीकेश एकतः कर्णिकेश्वरः ॥
तयोर्मर्त्या मृता ये च मानवा नृपसत्तम ॥ ५८ ॥
अपि कृत्वा महत्पापं गच्छंति हरिसन्निधौ ॥
हृषीकेशं समालोक्य सद्यो मुक्तिमवाप्नुयात् ॥ ५९ ॥
पुष्पमेकं हृषीकेशे यश्चारोपयते नृप ॥
सुखसौभाग्यसंयुक्त इह लोके परत्र च ॥ 7.3.13.६० ॥
हृषीकेशस्य यो भक्त्या करिष्यत्यनुलेपनम् ॥
स यास्यति परं स्थानं जरामरणवर्जितम् ॥ ६१ ॥
संमार्जनं च तस्याग्रे यः करोति समाहितः ॥
यावत्यो रेणवस्तत्र तावद्वर्षशतानि सः ॥
मोदते विष्णुलोकस्थो नात्र कार्या विचारणा ॥ ६२ ॥
कार्तिके शुक्लपक्षे च एकादश्यां नृपोत्तम ॥
दीपमारोपयेद्यश्च हृषीकेशाग्रतो नृप ॥ ६३ ॥
यथायथा प्रकाशेत पापं जन्मांतरार्जितम् ॥
तथातथा व्रजेन्नाशं तस्य कायादशेषतः ॥ ६४ ॥
पंचामृतेन यः पूजां हृषीकेशे करिष्यति ॥
दध्ना क्षीरेण वा यस्तु न स भूयोऽभिजायते ॥ ६५ ॥
तस्मात्सर्वप्रयत्नेन हृषीकेशं समर्चयेत् ॥
संसारबंधतो राजन्मुक्तिमाप्नोति मानवः ॥ ६६ ॥
हृषीकेशे विशेषेण कर्त्तव्यं पूजनं सदा ॥ ६७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे हृषीकेशमाहात्म्य वर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 14
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ देवं सिद्धेश्वरं परम् ॥
सिद्धिदं प्राणिनां सम्यक्सिद्धेन स्थापितं पुरा ॥ १ ॥
तत्र विश्वावसुर्नाम सिद्धस्तेपे महातपः ॥
बहुवर्षाणि संस्थाप्य शिवं भक्तिपरायणः ॥ २ ॥
जितक्रोधो जितमदो जितसर्वेंद्रियक्रियः ॥
तावद्वर्षसहस्रांते भगवान्वृषभध्वजः ॥
तुतोष नृपतेस्तस्य स्वयं दर्शनमाययौ ॥ ३ ॥
अब्रवीत्तं महादेवो वरदोस्मीति पार्थिव॥ ४ ॥
॥ श्रीभगवानुवाच ॥ ॥
वरं वरय भद्रं ते यत्ते मनसि वर्त्तते ॥
दास्यामि ते प्रसन्नोऽहं यद्यपि स्यात्सुदुर्लभम् ॥ ५ ॥ ॥
॥ विश्वावसुरुवाच ॥ ॥
एतल्लिंगं सुरश्रेष्ठ ध्यात्वा मनसि निश्चयम् ॥
सर्वान्कामानवाप्नोतु प्रसादात्तव शंकर ॥ ६॥
॥ पुलस्त्य उवाच ॥ ॥
एवमस्त्विति स प्रोच्य तत्रैवांतरधीयत ॥
सिद्धेश्वरं ततो गत्वा सिद्धिं याति सहस्रशः ॥ ७ ॥
प्रभावात्तस्य लिंगस्य कामानिष्टानवाप्नुयुः ॥
ततो धर्मक्रियाः सर्वा गता नाशं धरातले ॥ ८ ॥
न कश्चिद्यजते यज्ञैर्न दानानि प्रयच्छति ॥
सिद्धेश्वरप्रसादेन सिद्धिं यांति नरा भुवि ॥ ९ ॥
उच्छिन्नेषु च यज्ञेषु दानेषु नृपसत्तम ॥
इन्द्राद्यास्त्रिदशाः सर्वे परं दुःखमुपागताः ॥ 7.3.14.१० ॥
ज्ञात्वा यज्ञविघातं च तद्विघाताय वासवः ॥
वज्रेणाच्छादयामास यथा सिद्धिर्न जायते ॥ ११ ॥
तथापि संनिधौ तस्य सिद्धेशस्य नृपोत्तम ॥
कर्मणो जायते सिद्धिः पातकस्य परिक्षयः ॥ १२ ॥
यस्तु माघचतुर्द्दश्यां सोमवारे नृपोत्तम ॥
शुक्लायां वाथ कृष्णायां स्पृष्ट्वा सिद्धो भवेन्नरः ॥ १३ ॥
अद्यापि जायते सिद्धिः सत्यमेतन्मयोदितम्॥
तस्मात्सिद्धेश्वरं गत्वा नत्वा यास्यति सद्गतिम् ॥ १४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे सिद्धेश्वरमाहात्म्यवर्णनंनाम चतुर्द्दशोऽध्यायः ॥ १४ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 15
॥ पुलस्त्य उवाच ॥ ॥
ततः शुक्रेश्वरं गच्छेच्छुक्रेण स्थापितं पुरा ॥
यं दृष्ट्वा मानवः सद्यः सर्वपापैः प्रमुच्यते ॥ १ ॥
दृष्ट्वा दैत्यान्पुरा देवैर्निर्जितान्नृपसत्तम ॥
चिन्तयामास मेधावी भार्गवस्तान्प्रति द्विजः ॥ २ ॥
कथं दैत्याः सुराञ्जित्वा प्राप्स्यंति च महायशः ॥
आराध्य शंकरं सिद्धिं गच्छामि मनसेप्सितम् ॥ ३ ॥
एवं स निश्चयं कृत्वा गतोऽर्बुदमथाचलम् ॥
भूमे विवरमासाद्य तपस्तेपे सुदारुणम् ॥ ४ ॥
शिवलिंगं प्रतिष्ठाप्य धूपगंधानुलेपनैः ॥
अनिशं पूजयामास श्रद्धया परयान्वितः ॥ ५ ॥
ततो वर्षसहस्रांते तुतोष भगवाञ्छिवः ॥
तस्य संदर्शनं दत्त्वा वाक्यमेतदुवाच ह ॥ ६ ॥
॥ श्रीमहादेव उवाच ॥ ॥
परितुष्टोऽस्मि ते विप्र भक्त्या तव द्विजोत्तम ॥
वरं वरय भद्रं ते यद्यपि स्यात्सुदुर्लभम् ॥ ७ ॥
॥ शुक्र उवाच ॥ ॥
यदि तुष्टो महादेव विद्यां देहि महेश्वर ॥
यया जीवंति संप्राप्ता मृत्युं संख्येपि जंतवः ॥ ८ ॥
॥ पुलस्त्य उवाच ॥ ॥
प्रदाय वै शिवस्तस्मै तां विद्यां नृपसत्तम ॥
अब्रवीच्च पुनः शुक्रं वरमन्यं वृणीष्व मे ॥ ९ ॥
॥ शुक्र उवाच ॥ ॥
एतत्कार्तिकमासस्य शुक्लाष्टम्यां तु यः स्पृशेत् ॥
ततो लिंगं पूजयेच्च यः पुमाञ्छ्रद्धयान्वितः॥ 7.3.15.१० ॥
अल्पमृत्युभयं तस्य मा भूत्तव प्रसादतः ॥
इष्टान्कामानवाप्नोतु इहलोके परत्र च ॥ ११ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमस्त्विति स प्रोच्य तत्रैवांतरधीयत ॥
शुक्रोपि दानवान्संख्ये हतान्देवैरनेकशः ॥१२॥
विद्यायाश्च प्रभावेन जीवयामास तान्मुनिः ॥
तस्याग्रेऽस्मिन्महाकुण्डं निर्मलं पापनाशनम् ॥ १३ ॥
तत्र स्नातो नरः सम्यक्पातकैश्च प्रमुच्यते ॥
तत्र श्राद्धेन राजेंद्र तुष्टा यांति पितामहाः ॥ १४ ॥
तर्पिताः सलिलेनैव किं पुनः पिंडदानतः ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥ १५ ॥
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे तृतीयेऽर्बुदखण्डे शुक्रेश्वरमाहात्म्यवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 16
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ तीर्थं पापप्रणाशनम्॥
मणिकर्णिकसंज्ञं तु सर्वलोकेषु विश्रुतम्॥१॥
यत्र सिद्धिं गता राजन्वालखिल्या महर्षयः॥
तैस्तत्र निर्मितं कुण्डं सुरम्यं गिरि गह्वरे ॥ २ ॥
तेषां तत्रोपविष्टानां मुनीनां भावितात्मनाम् ॥
महाश्चर्यमभूत्तत्र तत्त्वं शृणु नराधिप ॥ ३ ॥
किरातवनिता काचिन्नाम्ना च मणिकर्णिका ॥
अतिकृष्णा विरूपाक्षी कराला भीषणाकृतिः ॥ ४ ॥
तृषार्त्ता तत्र संप्राप्ता मध्यंदिनगते रवौ ॥
ग्रस्ते च राहुणा सूर्ये प्रविष्टा सलिले तु सा ॥ ५ ॥
एतस्मिन्नेव काले तु दिव्यरूपवपुर्धरा ॥
मुनीनां पश्यतां चैव विनिष्क्रांता सुमध्यमा ॥ ६ ॥
अथ तस्याः पतिः प्राप्तस्तदन्वेषणतत्परः ॥
पप्रच्छ तां वरारोहां पत्न्या दुःखेन दुःखितः ॥ ७ ॥
मम भार्यात्र संप्राप्ता यदि दृष्टा सुमध्यमे ॥
शीघ्रं वद वरारोहे बालकोऽयं तदुद्भवः ॥ ८ ॥
तृषार्त्तश्च क्षुधाविष्टो रुदते च मुहुर्मुहुः ॥
दृष्टा चेत्कथ्यतां सुभ्रूर्विनाऽयं तां मरिष्यति ॥ ९ ॥
॥ स्त्र्युवाच ॥ ॥
साऽहं ते दयिता कान्त तीर्थस्यास्य प्रभावतः ॥
दिव्यरूपमिदं प्राप्ता देवैरपि सुदुर्लभम् ॥ 7.3.16.१० ॥
त्वं चापि सलिले ह्यस्मिन्कुरु स्नानं त्वरान्वितः ॥
प्राप्स्यसि त्वं परं रूपं यथा प्राप्तं मयाऽनघ ॥ ११ ॥
अथासौ सह पुत्रेण प्रविष्टस्तत्र निर्झरे ॥
विमुक्ते भास्करे राजन्विरूपश्चाभवत्पुनः ॥ १२ ॥
दुःखेन मृत्युमापन्नस्तस्मिन्नेव जलाशये ॥
अथ सा भर्तृशोकाच्च मरणे कृतनिश्चया ॥ १३ ॥
चितिं कृत्वा समं तेन ज्वालयामास पावकम् ॥
अथ ते मुनयो दृष्ट्वा तथाशीलां शुभांगनाम् ॥ १४ ॥
कृपया परयाविष्टास्तामूचुर्विस्मयान्विताः ॥
सर्वे तस्याश्च संदृष्ट्वा साहसं च नृपोत्तम ॥ १५ ॥
॥ ऋषय ऊचुः ॥ ॥
दिव्यरूपं त्वया प्राप्तं देवैरपि सुदुर्लभम् ॥
कस्मादेनं सुपाप्मानमनुगच्छसि भामिनि ॥ १६ ॥
॥ स्त्र्युवाच ॥ ॥
पतिव्रताहं विप्रेन्द्राः सदा भर्तृपरायणा ॥
किं रूपेण करिष्यामि विना पत्या निजेन च ॥ १७ ॥
विरूपो वा सुरूपो वा दरिद्रो वा धनाधिपः ॥
स्त्रीणामेकः पतिर्भर्त्ता गतिर्नान्या जगत्त्रये ॥ १८ ॥
बालकोऽयं मुनिश्रेष्ठा भवच्छरणमागतः ॥
अहं कान्तेन संयुक्ता प्रविशामि हुताशनम् ॥ १९ ॥
॥ पुलस्त्य उवाच ॥ ॥
अथ ते मुनयः सर्वे ज्ञात्वा तस्याः सुनिश्चयम् ॥
कृपया परयाविष्टाः संवीक्ष्य च परस्परम् ॥ 7.3.16.२० ॥
ततो जीवापयामासुस्तत्पतिं ते मुनीश्वराः ॥
सद्रूपेण समायुक्तं दिव्य लक्षणलक्षितम् ॥ २१ ॥
एतस्मिन्नेव कालं तु विमानं मनसेप्सितम् ॥
देवकन्यासमाकीर्णं सद्यस्तत्र समागतम् ॥ २२ ॥
अथ तौ दंपती तेषां मुनीनां भावितात्मनाम् ॥
पुरतः प्रणिपत्याथ प्रस्थितौ त्रिदिवं प्रति ॥ २३ ॥
अथ तैर्मुनिभिः प्रोक्ता सा नारी मणिकर्णिका ॥
वरं वरय कल्याणि सर्वे तुष्टा वयं तव ॥ २४ ॥
पतिव्रतत्वेन तुष्टाः सत्येन च विशेषतः ॥
नास्माकं दर्शनं व्यर्थं जायते च कथंचन ॥ २५ ॥
॥ मणिकर्णिकोवाच ॥ ॥
यदि मां मुनयस्तुष्टाः प्रयच्छथ वरं मुदा ॥
यदत्रास्ति महालिंगं मन्नाम्ना तद्भविष्यति ॥ २६ ॥
एतदेव ममाभीष्टं नान्यदस्ति प्रयोजनम्॥
सर्वेषां च प्रसादेन स्वर्गं गच्छामि सांप्रतम् ॥ २७ ॥
॥ ऋषय ऊचुः ॥ ॥
एवं भवतु ते ख्यातिस्तीर्थलिंगे वरानने ॥
तव नामान्वितं जातं तीर्थं वै मणिकर्णिका ॥ २८ ॥
॥ पुलस्त्य उवाच ॥ ॥
भर्त्रा सह दिवं प्राप्ता पुत्रेणैव समन्विता ॥
वालखिल्यास्तपोनिष्ठा विशेषात्तत्र संस्थिताः ॥ २९ ॥
तत्र सूर्यग्रहे प्राप्ते स्नानदानादिकाः क्रियाः ॥
यः करोति फलं तस्य कुरुक्षेत्र समं भवेत् ॥ 7.3.16.३० ॥
यं यं काममभिध्याय स्नानं तत्र करोति यः ॥
तं तं प्राप्नोति राजेन्द्र सम्यग्ध्यानसमन्वितः ॥ ३१ ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥
तीर्थे दानं यथाशक्त्या देवर्षिपितृतर्पणम् ॥ ३२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे मणिकर्णिकेश्वरमाहात्म्यवर्णनंनाम षोडशोऽध्यायः ॥ १६ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 17
॥ पुलस्त्य उवाच ॥ ॥
पंगु तीर्थं ततो गच्छेत्सर्वपातकनाशनम् ॥
यत्र पूर्वं तपस्तप्तं पंगुना ब्राह्मणेन च ॥ १ ॥
पंगुनामा द्विजः पूर्वं च्यवनस्यान्वयेऽभवत् ॥
अशक्तश्चलितुं भूमौ पंगुभावान्नृपोत्तम ॥ २ ॥
गृहकृत्यनियुक्तोऽसावेकदा बान्धवैर्नृप ॥
पंगुर्गंतुं न शक्तोऽसौ परं दुःखमवाप्तवान् ॥ ३ ॥
अथासौ तैः परित्यक्तो गत्वार्बुदमथाचलम् ॥
एकं सरः समासाद्य तपस्तेपे सुदारुणम् ॥ ४ ॥
लिंगं संस्थाप्य तत्रैव पूजयामास तं विभुम् ॥
गन्धपुष्पादिनैवेद्यैः सम्यक्छ्रद्धासमन्वितः ॥ ५ ॥
शिवभक्तिपरो जातो वायुभक्षो बभूव ह ॥
जपहोमरतो नित्यं पंगुनामा द्विजोत्तमः ॥ ६ ॥
ततस्तुष्टो महादेवो ब्राह्मणं नृपसत्तम ॥
पंगुं प्रति महाराज वाक्यमेतदुवाच ह ॥ ७ ॥
॥ ईश्वर उवाच ॥ ॥
पंगो तुष्टो महादेवो वरं वरय सुव्रत ॥
तव दास्याम्यहं सर्वं यद्यपि स्यात्सुदुर्लभम् ॥ ८ ॥
॥ पंगुरुवाच ॥ ॥
नाम्ना मे ख्यातिमायातु तीर्थमेतत्सुरेश्वर ॥
पंगुभावोऽत्र मे यातु प्रसादात्तव शंकर ॥ ९ ॥
तवास्तु सततं चात्र सांनिध्यं सह भार्यया ॥
एवमुक्तः स तेनाथ विप्रं प्रति वचोब्रवीत् ॥ 7.3.17.१० ॥
॥ ईश्वर उवाच ॥ ॥
नाम्ना तव द्विजश्रेष्ठ तीर्थमेतद्भविष्यति ॥
ख्यातिं तपःप्रभावेन तीर्थं यास्यति सत्तम ॥ ११ ॥
चैत्रशुक्लचतुर्द्दश्यां सांनिध्यं मे भवेत्तथा ॥ १२ ॥ ॥
॥ पुलस्त्य उवाच ॥ ॥
स्नानमात्रेण विप्रोऽसौ दिव्यरूपमवाप ह ॥
तत्र तस्थौ महादेवो गौर्या सह महेश्वरः ॥ १३ ॥
तस्मिन्दिने नृपश्रेष्ठ स्नानं तत्र समाचरेत् ॥
स पंगुत्वाद्विनिर्मुक्तो दिव्यरूपमवाप्नुयात् ॥ १४ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे पंगुतीर्थमाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 18
॥ ॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ यमतीर्थमनुत्तमम् ॥
मोचकं नरकेभ्यश्च प्राणिनां पापनाशनम् ॥ १ ॥
पुरा चित्रांगदो नाम राजा परमलोभवान् ॥
न तेन सुकृतं किंचित्कृतं पार्थिवसत्तम ॥ २ ॥
अतीव निष्ठुरो दुष्टो देवब्राह्मणपीडकः ॥
परदारहरो नित्यं परवित्तहरस्तथा ॥ ३ ॥
सत्यशौचविहीनस्तु मायामत्सरसंयुतः ॥
स कदाचिन्मृगयासक्त आरूढोऽर्बुदपर्वते ॥ ४ ॥
अटनात्स परिश्रांतः क्षुत्पिपासासमाकुलः ॥
तेन तत्र ह्रदः प्राप्तः स्वच्छोदकप्रपूरितः ॥ ५८ ॥
पद्मिनीभिः समाकीर्णो ग्राहनक्रझषाकुलः ॥
नानापक्षिसमायुक्तो मनोहारी सुविस्तरः ॥ ६ ॥
तृषार्तः संप्रविष्टः स तस्मिन्नेव जलाशये ॥
ग्राहेण तत्क्षणाद्धृत्वा भक्षितो नृपसत्तम ॥ ७ ॥
तस्यार्थे नरका रौद्रा निर्मिताश्च यमेन च ॥
यमदूतैस्ततः क्षिप्तः स नीत्वा पापकृत्तमः ॥ ८ ॥
तस्य स्पर्शेन ते सर्वे नरकस्था सुखं गताः ॥
ते दूता धर्मराजाय वृत्तांतं नरको द्भवम् ॥
आचख्युर्विस्मयाविष्टा नरकस्थानां सुखोद्भवम् ॥ ९ ॥
तदा वैवस्वतः प्राह भूमावस्त्यर्बुदाचलः ॥
तत्र मेऽतिप्रियं तीर्थं यत्र तप्तं मया तपः ॥ 7.3.18.१० ॥
तत्रासौ मृत्युमापन्नो भात्यदस्त्विह कारणम् ॥
तैरुक्तं सत्यमेतद्धि मृतोऽसावर्बुदाचले ॥
ग्राहेण स धृतस्तत्र मृत्युं प्राप्तो नृपाधमः ॥११॥ ॥
॥ यम उवाच ॥ ॥
मुच्यतामाशु तेनायं नानेयाश्चापरे जनाः ॥
ये मृता मम तीर्थे वै सर्वपातकनाशने ॥ १२ ॥
ततस्तैः किंकरैर्मुक्तो यमवाक्यान्नृपोत्तम ॥
त्रिविष्टपं मुदा प्राप्तः सेव्यमानोऽप्सरोगणैः॥ १३ ॥
यस्तु भक्तिसमायुक्तः स्नानं तत्र समाचरेत् ॥
स याति परमं स्थानं जरामरणवर्जितम् ॥ १४ ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥
चैत्रशुक्लत्रयोदश्यां यत्र सिद्धिं गतो यमः ॥ १५ ॥
तस्मिन्नेव नरः सम्यक्छ्राद्धकृत्यं समाचरेत् ॥
आकल्पं पितरस्तस्य स्वर्गे तिष्ठंति पार्थिव ॥१६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे तृतीयेऽर्बुदखण्डे यमतीर्थमाहात्म्यवर्णनंनामाष्टादशोऽध्यायः ॥ १८ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 19
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ तीर्थं पापप्रणाशनम् ॥
वाराहस्य हरेरिष्टं सदा वाससुखप्रदम् ॥ १ ॥
वाराहेणावतारेण पृथ्वी तत्र समुद्धृता ॥
हरिणोक्ता स्थिरा तिष्ठ न भेतव्यं कदाचन ॥ २ ॥
अहं चेतो गमिष्यामि वैकुण्ठे च पुनः शुभे ॥
वरं वरय कल्याणि यद्यदिष्टं सुदुर्लभम् ॥ ३ ॥
॥ पृथिव्युवाच ॥ ॥
यदि देयो वरो मह्यं शंखचक्रगदाधर ॥
अनेन वपुषा तिष्ठ ह्यस्मिंस्तीर्थे सदा हरे ॥ ४ ॥
॥ हरिरुवाच ॥ ॥
अनेन वपुषा देवि पर्वतेऽर्बुदसंज्ञके ॥
अहं स्थास्यामि ते वाक्यात्सदा लोक हिते रतः ॥ ५ ॥
ममाग्रे यो ह्रदः पुण्यः सुनिर्मलजलान्वितः ॥
माघमासे सिते पक्ष एकादश्यां समाहितः ॥ ६ ॥
तत्र स्नात्वा नरो भक्त्या मुच्यते ब्रह्महत्यया ॥
तत्र श्राद्धं करिष्यंति मनुष्याः श्रद्धयान्विताः ॥ ७ ॥
पितॄणां जायते तृप्तिर्यावदाभूतसंप्लवम् ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥ ८ ॥
॥ पुलस्त्य उवाच ॥ ॥
इत्युक्त्वांतर्दधे राजन्गोविंदो गरुडध्वजः ॥
तस्मिन्दिने नृपश्रेष्ठ स्नात्वा व्रतं समाचरेत् ॥९॥
तर्पणं पिंडदानं च यः कुर्याद्भक्तितत्परः ॥
स याति विष्णुसालोक्यं पूर्वजैः सह पार्थिव ॥ 7.3.19.१० ॥
तत्र दानं प्रशंसंति गत्वा ब्राह्मणसत्तमे ॥
अस्मिंस्तीर्थे नृपश्रेष्ठ गोदानं च करोति यः ॥ ११ ॥
रोमसंख्यानि वर्षाणि स्वर्गे तिष्ठति मानवः ॥
तस्मात्सर्वात्मना राजन्गोदानं च समाचरेत् ॥ १२ ॥
एकादश्यां विशेषेण कर्त्तव्यं स्नानमुत्तमम् ॥
दानं कुर्याद्यथाशक्त्या स याति परमां गतिम् ॥ १३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे वाराहतीर्थमाहात्म्यवर्णनंनामैकोनविंशोध्यायः ॥ १९ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 20
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेत चंद्रेशं प्रभासं नृपसत्तम ॥
प्रभा तत्र पुरा प्राप्ता चंद्रेण सुमहात्मना ॥ १ ॥
दक्षस्य कन्यका राजन्सप्तविंशतिसंख्यया ॥
ऊढाश्चंद्रेण ताः सर्वा अश्विनीप्रमुखाः पुरा ॥ २ ॥
तासां मध्ये च रोहिण्या सह रेमे स नित्यदा ॥
त्यक्ताः सर्वाश्च चंद्रेण दक्षकन्याः सुदुःखिताः ॥
गत्वा स्वपितरं नत्वा प्राहुरस्राविलेक्षणाः ॥ ३ ॥
वयं त्यक्ताः प्रजानाथ निर्दोषाः पतिना ततः ॥
शरणं त्वामनुप्राप्ता दुःखेन महतान्विताः ॥ ४ ॥
गतिर्भव सुरश्रेष्ठ सर्वेषां त्वं हितं कुरु ॥
अस्माकमुपदिश्यैनं चंद्रं च रोहिणीरतम् ॥ ५ ॥
॥ पुलस्त्य उवाच ॥ ॥
स तासां वचनं श्रुत्वा गतो यत्र निशाकरः ॥
अब्रवीच्च समं पश्य सर्वासु तनयासु मे ॥ ६ ॥
अथ व्रीडासमायुक्तश्चंद्रस्तं प्रत्यभाषत ॥
तव वाक्यं करिष्यामि दक्ष गच्छ नमोस्तु ते ॥ ७ ॥
गते दक्षे ततो भूयश्चंद्रमा रोहिणीरतः ॥
त्यक्त्वा च कन्यकाः सर्वाः प्रजापतिसमुद्भवाः ॥ ८ ॥
अथ गत्वा पुनः सर्वा दक्षमूचुः सुदुःखिताः ॥
न कृतं तव वाक्यं वै चंद्रेणैव दुरात्मना ॥ ९ ॥
दौर्भाग्यदुःखसंतप्ता मरिष्याम न संशयः ॥
अनेन जीवितेनापि मरणं निश्चयं भवेत् ॥ 7.3.20.१० ॥
॥ पुलस्त्य उवाच ॥ ॥
अथ रोषसमायुक्तो दक्षो गत्वाऽब्रवीद्विधुम् ॥
मम वाक्यं त्वया चंद्र यस्मात्पाप कृतं न हि ॥ ११ ॥
क्षयमेष्यसि तस्मात्त्वं यक्ष्मणा नास्ति संशयः॥
एवं दत्त्वा ततः शापं गतो दक्षः स्वमालयम् ॥ १२ ॥
यक्ष्मणा व्यापितश्चंद्रः क्षयं याति दिनेदिने ॥
क्षीणो द्युतिविहीनस्तु चिंतयामास चंद्रमाः ॥ १३ ॥
कि कर्त्तव्यं मया तत्र ह्यस्मिञ्छापे सुदारुणे ॥
अथ किं पूजयिष्यामि सर्वकामप्रदं शिवम् ॥ १४ ॥
स एवं निश्चयं कृत्वा गतोर्बुदमथाचलम् ॥
तपस्तेपे जितक्रोधो जपहोमपरायणः ॥ १५ ॥
तस्मै तुष्टो महादेवो वर्षाणामयुते गते ॥
अब्रवीद्वरदोऽस्मीति ततोऽस्मै दर्शनं ददौ ॥ १६ ॥
॥ ईश्वर उवाच ॥ ॥
वरं वरय भद्रं ते यत्ते मनसि वर्तते ॥
तव दास्याम्यहं चंद्र यद्यपि स्यात्सुदुर्ल्लभम्॥ १७ ॥
॥ चंद्र उवाच॥ ॥
व्याधिक्षयं सुरश्रेष्ठ कुरु मे त्रिपुरांतक ॥
यक्ष्मणा व्यापितो देहो ममायं च जगत्पते ॥ १८ ॥
॥ ईश्वर उवाच ॥ ॥
दक्षशापेन ते चंद्र यक्ष्मा काये व्यवस्थितः ॥
न शक्तो ह्यन्यथा कर्तुं शापस्तस्य महात्मनः ॥१९॥
तस्मात्त्वं तस्य ताः सर्वाः कन्यका मम वाक्यतः ॥
निशाकर समं पश्य तव व्याधिर्गमिष्यति ॥ 7.3.20.२० ॥
कृष्णे क्षयश्च ते चंद्र शुक्ले वृद्धिर्भविष्यति ॥
वरं वरय भद्रं ते अन्यमिष्टं सुदुर्ल्लभम्॥२१ ॥
॥ चंद्र उवाच ॥ ॥
चंद्रग्रहे नरो योऽत्र सोमवारे च शंकर ॥
भक्त्या स्नानं करोत्येव स यातु परमां गतिम् ॥ २२ ॥
पिण्डदानेन देवेश स्वर्गं गच्छंतु पूर्वजाः ॥
प्रसादात्तव देवेश तीर्थं भवतु मुक्तिदम् ॥ २३ ॥
॥ ईश्वर उवाच ॥ ॥
भविष्यंति नरोऽत्रैव विपाप्मानो निशाकर ॥
यस्मात्प्रभा त्वया प्राप्ता तीर्थेऽस्मिन्विमलोदके॥ २४ ॥
प्रभासतीर्थं विख्यातं तस्मादेतद्भविष्यति॥
यत्र सोमग्रहे प्राप्ते सोमवारे विशेषतः ॥ २५ ॥
करिष्यंति नराः स्नानं ते यास्यंति परां गतिम् ॥
येऽत्र श्राद्धं करिष्यंति पिंडदानं तथा नराः ॥ ॥ २६ ॥
गयाश्राद्धसमं पुण्यं तेषां चंद्र भविष्यति ॥
तथा दानं प्रकर्तव्यं सोम लोकैर्ग्रहे तव ॥ २७ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा विरूपाक्षस्तत्रैवांतरधीयत ॥
चन्द्रोऽपि बुभुजे सर्वाः पत्नीश्च दक्षसंभवाः ॥ २८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे चंद्रप्रभासतीर्थमाहात्म्यवर्णनंनाम विंशोऽध्यायः ॥ २० ॥ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 21
॥ पुलस्त्य उवाच॥ ॥
ततो गच्छेन्नृपश्रेष्ठ पिण्डोदकमनुत्तमम् ॥
तीर्थं यत्र तपस्तप्तं पिण्डोदकद्विजातिना ॥ १ ॥
पुरा पिण्डोदकोनाम ब्राह्मणोऽभून्महामते ॥
मन्दप्रज्ञोऽल्पमेधावी सोपाध्यायेन पाठितः ॥ २ ॥
अशक्तोऽध्ययनं कर्तुं जाड्यभावान्महीपते ॥
स वैराग्यं परं गत्वा संप्राप्तो गिरिगह्वरे ॥ ३ ॥
एतस्मिन्नेव कालेतु तत्रैव च सरस्वती॥
वीणाविनोदसंयुक्ता विविक्ते तमुपस्थिता ॥ ४ ॥
तं दृष्ट्वा ब्राह्मणं खिन्नं वैराग्येण समन्वितम् ॥
कृपाविष्टा महादेवी वाक्यमेतदुवाच ह ॥ ५ ॥
॥ सरस्वत्युवाच ॥ ॥
कस्मात्त्वं खिद्यसे विप्र विरक्त इव भाससे ॥
कस्मान्न हृष्यसि हृदा कस्मादत्र त्वमागतः ॥
वद शीघ्रं महाभाग तवांतिके वसाम्यहम् ॥ ६ ॥
॥ पिण्डोदक उवाच ॥ ॥
अहं वैराग्यमापन्न उपाध्यायतिरस्कृतः ॥
ज्ञानहीनो महाभागे मृत्युं वांछामि सांप्रतम् ॥ ७ ॥
न मे सरस्वती देवी जिह्वाग्रे परिवर्तते ॥
कारणं नान्यदस्तीह मृत्योर्मम वरानने ॥ ॥
दृष्टोऽकस्मात्त्वया चाहं ततो यास्यामि चान्यतः ॥
मरणं हि मम श्रेयो मूकभावान्न जीवितम् ॥ ९ ॥
॥ सरस्वत्युवाच ॥. ॥
अहं सरस्वती देवी सदास्मिन्वरपर्वते॥
निशासुखे त्रयोदश्यां करोमि वसतिं द्विज ॥
तस्मात्त्वं प्रार्थय वरं यदभीष्टं सुदुर्लभम् ॥ 7.3.21.१० ॥
॥ पिण्डोदक उवाच ॥ ॥
प्रसादात्तव वै वाणि सर्वज्ञत्वं ममेप्सितम् ॥
एतत्तीर्थं तु मन्नाम्ना ख्यातिं यातु शुचिस्मिते ॥ ११ ॥
॥ सरस्वत्युवाच ॥ ॥
अद्यप्रभृति सर्वज्ञो ह्यत्र लोके भविष्यसि ॥
नाम्ना तव तथा तीर्थमेतत्ख्यातिं प्रयास्यति ॥१२॥
निशामुखे त्रयोदश्यां योऽत्र स्नानं करिष्यति ॥
भविष्यति स सर्वज्ञो यद्यपि स्यात्सुमन्दधीः ॥ १३ ॥
अत्र मे सततं वासो भविष्यति द्विजोत्तम ॥
यस्मात्तस्मात्सदा स्नानं कर्तव्यं सुसमाहितैः ॥ १४ ॥
एवमुक्त्वा ततो देवी तत्रैवांतरधीयत ॥
पिण्डोदको हि सर्वज्ञो भूत्वाथ स्वगृहं ययौ ॥
व्यस्मापयज्जनान्सर्वांस्तत्तीर्थस्य समाश्रयात् ॥ १५ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे पिण्डोदकतीर्थमाहात्म्यवर्णनंनामैकविंशोऽध्यायः ॥ २१ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 22
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ श्रीमातां देववंदिताम् ॥
सर्वकामप्रदां नृणामिहलोके परत्र च ॥१॥
या च सर्वमयी शक्तिर्यया व्याप्तमिदं जगत् ॥
सा तस्मिन्पर्वते साक्षात्स्वयं वासमरोचयत् ॥२॥
पुरा देवयुगे राजा कलिंगोनाम दानवः ॥
जरामरणहीनोसौ देवानां च भयंकरः॥३॥
तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्॥
बलप्रभावतः स्वर्गो जितस्तेन सुराधिपः ॥
ब्रह्मलोकमनुप्राप्तो देवैः सर्वैः समन्वितः ॥४॥
तेन दैत्येन सर्वेऽपि त्रासिताः सुरमानवाः ॥
कलिंगोनाम दैत्यः स स्वयमिन्द्रो बभूव ह ॥ ५ ॥
वसवो मरुतः साध्या विश्वेदेवाः सुरर्षयः ॥
तेन सर्वे कृता दैत्या यथायोग्यं नराधिप ॥ ६ ॥
यज्ञभागान्स्वयं सर्वे बुभुजुस्ते च दानवाः ॥
तपोऽर्थे च ततो देवा गताः सर्वेऽर्बुदाचलम् ॥ ७ ॥
अद्यापि देवताखातं त्रैलोक्ये ख्यातिमागतम् ॥
तत्र व्रतपराः सर्वे पत्रमूलफलाशिनः ॥ ८ ॥
अव्यक्ताः परमत्रासाद्ध्यायंतस्ते च संस्थिताः ॥
पंचाग्निसाधकाः केचित्तत्र व्रतपरायणाः ॥ ९ ॥
एकाहारा निराहारा वायुभक्षास्तथा परे ॥
अन्ये मासोपवासाश्च चान्द्रायणपरायणाः ॥ 7.3.22.१० ॥
कृच्छ्रसांतपने निष्ठा महापाराकिणः परे ॥
अंबुभक्षा वायुभक्षाः फेनपाश्चोष्मपाः परे ॥ ११ ॥
जपहोमपराश्चान्ये ध्यानासक्तास्तथा परे ॥
बलिनैवद्यदानैश्च गंधधूपैर्नराधिप ॥ १२ ॥
पूजयंतः परां शक्तिं देवीं स्वकार्यहेतवे ॥
एवं तेषां व्रतस्थानां तपसा भावितात्मनाम् ॥
विमुक्तिरभवद्राजन्सर्वेषां कर्मबन्धनात् ॥ १३ ॥
ततः पूर्णे सहस्रांते वर्षाणां नृपसत्तम॥
देवी प्रत्यक्षतां प्राप्ता कन्यकारूपधारिणी॥ १४॥
पूर्वं जाता महाराज धूममूर्तिर्भयावहा॥
ततो ज्वाला ततः कन्या शुक्लवासोऽनुलेपना॥
दृष्ट्वा तां तुष्टुवुर्देवाः कृतांजलिपुटास्ततः॥ १५॥
नमोऽस्तु सर्वगे देवि नमस्ते सर्वपूजिते॥
कामगेऽचिन्त्ये नमस्ते त्रिदशाश्रये ॥ १६ ॥
नमस्ते परमादेवि ब्रह्मयोने नमोनमः ॥
अर्धमात्रेक्षरे चैव तस्यार्धार्धे नमोनमः ॥ १७ ॥
नमस्ते पद्मपत्राक्षि विश्वमातर्नमोनमः ॥
नमस्ते वरदे देवि रजःसत्त्वतमोमयि ॥ १८ ॥
स्वस्वरूपस्थिते देवि त्वं च संसारलक्षणम् ॥
त्वं बुद्धिस्त्वं धृतिः क्षांतिस्त्वं स्वाहा त्वं स्वधा क्षमा ॥ १९ ॥
त्वं वृद्धिस्त्वं गतिः कर्त्री शची लक्ष्मीश्च पार्वती ॥
सावित्री त्वं च गायत्री अजेया पापनाशिनी ॥7.3.22.२०॥
यच्चान्यदत्र देवेशि त्रैलोक्येऽस्तीतिसंज्ञितम् ॥
तद्रूपं तावकं देवि पर्वतेषु च संस्थितम् ॥ २१ ॥
वह्निना च यथा काष्ठं तंतुना च यथा पटः ॥
तथा त्वया जगद्व्याप्तं गुप्ता त्वं सर्वतः स्थिता ॥ २२ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवं स्तुता जगन्माता तानुवाच सुरोत्तमान् ॥
वरो मे याच्यतां शीघ्रमभीष्टः सुरसत्तमाः ॥ २३ ॥
किमत्र गुप्तभावेन तिष्ठथ श्वभ्रमध्यगाः ॥
मद्भक्तानां भयं नास्ति त्रैलोक्येपि चराचरे ॥ २४ ॥ ॥
॥ देवा ऊचुः ॥
कलिंगेन वयं देवि निरस्ताः संगरे मुहुः ॥
तेन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ २५ ॥
यज्ञभागो हृतोऽस्माकं दैत्यानां स प्रकल्पितः ॥
तेन स्वर्गः समाक्रान्तः सुराः सर्वे निराकृताः ॥ २६ ॥
हत्वा दैत्यान्यथा भूयः शक्रः स्वपदमाप्नुयात् ॥
तथा कुरु महाभागे वर एषोऽस्मदीप्सितः ॥ २७ ॥
॥ देव्युवाच ॥ ॥
यथा यूयं मया सृष्टास्तथैवायं महासुरः ॥
विशेषो नास्ति मे कश्चिदुभयोः सुरसत्तमाः ॥ २८ ॥
तस्मात्तान्वारयिष्यामि शक्राद्यांस्त्रिदिवात्पुनः ॥
एवमुक्त्वा वरारोहा प्रेषयामास पार्थिव ॥ २९ ॥
दूतं कलिंगदैत्याय त्यज त्वं त्रिदिवं द्रुतम् ॥
स गत्वा बाष्कलिं दैत्यं सामपूर्वं वचोऽब्रवीत् ॥ 7.3.22.३० ॥
॥ दूत उवाच ॥ ॥
या सा सर्वगता देवी शक्तिरूपा शुचि स्मिता ॥
श्रीमाता जगतां माता देवैराराधिता परा ॥
तेषां तुष्टा च देवी त्वामिदं वचनमब्रवीत् ॥ ३१ ॥
स्वस्थानं गच्छ शीघ्रं त्वं शक्रो यातु त्रिविष्टपम् ॥
मद्वाक्याद्दानवश्रेष्ठ देवत्वं न भवेत्तव ॥ ३२ ॥
॥ पुलस्त्य उवाच ॥ ॥
स दूतवचनं श्रुत्वा दानवो मदगर्वितः ॥ ३४ ॥
अहं लोकेश्वरो मत्वा सगर्वमिदमब्रवीत् ॥ ३३ ॥
॥ बाष्कलिरुवाच ॥ ॥
का श्रीमातेति के देवा नास्मात्स्वर्गं त्यजाम्यहम् ॥
न तां जानामि तांश्चैव गत्वा ब्रूहि ममाज्ञया ॥ ३४ ॥
न भवद्भ्यस्वहं स्वर्गं प्रयच्छामि कथंचन ॥
दूतोऽवध्यो भवेद्राज्ञामपि वैरे सुदारुणे ॥
एतस्मात्कारणाद्दूत न त्वां प्राणैर्वियोजये ॥ ३५ ॥
श्रीमातां यदि मे दूत दर्शयिष्यसि चेत्ततः ॥
अभीष्टान्संप्रदास्यामि सत्यमेव ब्रवीम्यहम् ॥ ३६ ॥
अहं त्वया समं तत्र यास्ये यत्र स्थिता च सा ॥
निग्रहं च करिष्यामि वाक्यं मे सत्यकारणम् ॥ ३७ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा मदोन्मत्तो दूतेन च स दानवः ॥
अर्बुदं प्रययौ तूर्णं रोषेण महता वृतः ॥ ३८ ॥
दृष्ट्वा बाष्कलिमायांतं देवाः शक्रपुरोगमाः ॥
वार्यमाणास्तदा देव्या पलायनपरायणाः ॥ ३९ ॥
भयेन महताविष्टा दिशो भेजुः समंततः ॥
अथासौ बाष्कलिः प्राप्तः सैन्येन महता वृतः ॥ 7.3.22.४० ॥
श्रीमाता तिष्ठते यत्र पर्वतेर्बुदसंज्ञके ॥
दूतं च प्रेषयामास तमुवाच नराधिपः ॥ ४१ ॥
॥ बाष्कलिरुवाच ॥ ॥
गच्छ दूतवर ब्रूहि श्रीमातां चारुहासिनीम्॥
भार्या मे भव सुश्रोणि अहं ते वशगः सदा ॥ ४२ ॥
भविष्यति हि मे राज्यं सर्वं वशगतं तव ॥
अन्यथा धर्षयिष्यामि सर्वैः सार्द्धं सुरोत्तमैः ॥४३॥
किमिंद्रेणाल्पवीर्येण किमन्यैश्च वरानने ॥
सहस्राक्षो न मे तुल्यो न मे तुल्याः सुरासुराः ॥ ४४ ॥
॥ पुलस्त्य उवाच ॥ ॥
एतच्छ्रुत्वा ततो गत्वा स दूतः संन्यवेदयत् ॥
तस्य सर्वं यथावाक्यं तेनोक्तं च महीपते ॥४५॥
ततः श्रुत्वा स्मितं कृत्वा चिंतयामास भामिनी ॥
जरा मरणहीनोयं दैत्येन्द्रः शंभुना कृतः ॥ ४६ ॥
कथमस्य मया कार्यो निग्रहो देवताकृते ॥
पुनश्चिंतयते यावत्सा देवी दानवं प्रति ॥
तावत्तत्रागतः शीघ्रं स कामेन परिप्लुतः ॥ ४७ ॥
अथ दृष्टिनिपातेन सा देवी दानवाधिपम् ॥
व्यलोकयत्ततस्तस्या निश्चयः संबभूव ह ॥ ४८ ॥
ततो जहास सा देवीशनकैर्वृपसत्तम ॥
मुखात्तस्यास्ततः सैन्यं निष्क्रांतमतिभीषणम्॥ ४९ ॥
हस्तिनो हयवर्याश्च पादाताश्च पृथग्विधाः ॥
रथसाहस्रमारूढा योधाश्चापि सहस्रशः ॥ 7.3.22.५० ॥
तैः सैन्यं दानवेशस्य सर्वं शस्त्रैर्निपातितम् ॥
पश्यतस्तस्य दैत्यस्य निश्चलस्यासुरस्य च ॥ ५१ ॥
हते सैन्य बले तस्मिन्निंद्राद्यास्त्रिदिवौकसः ॥
तामूचुर्वचनं देवि दानवं हन्तुमर्हसि ॥
नास्मिञ्जीवति नो राज्यं स्वर्गे देवि भविष्यति ॥ ५२ ॥
॥ पुलस्त्य उवाच ॥ ॥
श्रुत्वा तद्वचनं तेषां ज्ञात्वा तं मृत्युवर्जितम् ॥
पर्वतस्य महाशृंगं दत्त्वा तस्योपरि स्वयम् ॥ ५३ ॥
निविष्टा सा जगन्माता श्रीमाता कामरूपिणी ॥
हिताय जगतां राजन्नद्यापि वरपर्वते ॥
तत्रैव वसते साक्षान्नृणां कामप्रदायिनी ॥ ५४ ॥
एतस्मिन्नेव काले तु सर्वे देवाः सवासवाः ॥
तुष्टुवुस्तां महाशक्तिं भयहन्त्रीं प्रहर्षिताः ॥ ५५ ॥
प्रसन्नाऽभूत्ततो देवी तेषां तत्र नराधिप ॥
स्वंस्वं स्थानं सुराः सर्वे परियांतु गतव्यथाः ॥
गत्वा स्थानं स्वकं सर्वे परिपांतु गतव्यथाः ॥ ५६ ॥
वरं वरय देवेन्द्र ब्रूहि यत्ते मनोगतम् ॥
तत्सर्वं संप्रदास्यामि तुष्टाहं भक्तितस्तव ॥ ५७ ॥ ॥
॥ इन्द्र उवाच ॥ ॥
यदि तुष्टासि मे देवि शाश्वते भक्तिवत्सले ॥
अत्रैव स्थीयतां तावत्स्वर्गे यावदहं विभुः ॥ ५८ ॥
प्रशास्मि राज्यं देवेशि शाश्वते भक्तवत्सले ॥
अजरश्चामरश्चैव यतो दैत्यः सुरेश्वरि ॥ ५९ ॥
हरेण निर्मितः पूर्वं येन तिष्ठति निश्चलः ॥
प्रसादात्तव लोकाश्च त्रयः संतु निरामयाः ॥7.3.22.६०॥
अत्र त्वां पूजयिष्यामो वयं सर्वे समेत्य च ॥
चैत्रशुक्लचतुर्द्दश्यां दृष्ट्वा त्वां यांतु सद्गतिम् ॥ ६१ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा सहस्राक्षः सर्वदेवैः समन्वितः ॥
हृष्टस्त्रिविष्टपं प्राप्तो देव्यास्तस्याः प्रभावतः ॥ ६२ ॥
सापि तत्र स्थिता देवी देवानां हितकाम्यया ॥ ॥। ६३ ॥
यस्तां पश्यति चैत्रस्य चतुर्द्दश्यां सिते नृप ॥
स याति परमं स्थानं जरामरणवर्ज्जितम् ॥ ६४ ॥
किं व्रतैर्नियमैर्वापि दानैर्दत्ते नराधिप ॥
सर्वे तद्दर्शनस्यापि कलां नार्हंति षोडशीम् ॥ ६५ ॥
तत्रैव पादुके दिव्ये तया न्यस्ते नराधिप ॥
यस्ते पश्यति भूयोऽसौ संसारं न हि पश्यति ॥
सर्वान्कामानवाप्नोति इह लोके परत्र च ॥ ६६ ॥
॥ ययातिरुवाच ॥ ॥
कस्मिन्काले द्विजश्रेष्ठ देव्या मुक्तेऽत्र पादुके ॥
कस्माच्च कारणाद्ब्रूहि सर्वं विस्तरतो मम ॥ ६७ ॥
॥ पुलस्त्य उवाच ॥ ॥
तां देवीं मानवाः सर्वे संवीक्ष्य नृपसत्तम ॥
प्राप्नुवंति परां सिद्धिं द्विविधां धर्मकारिणः ॥ ६८ ॥
एतस्मिन्नेव काले तु यज्ञदानादिकाः क्रियाः ॥
प्रणष्टा भूतले राजंस्तीर्थयात्राव्रतोद्भवाः ॥ ६९ ॥
शून्यास्ते नरकाः सर्वे संबभूवुर्यमस्य ये ॥
यज्ञभागविहीनाश्च देवाः कष्टमुपागताः ॥ 7.3.22.७० ॥
अथ सर्वे नृपश्रेष्ठ देवास्तत्र समागताः ॥
ऊचुर्गत्वाऽर्बुदं तत्र श्रीमातां परमे श्वरीम्॥ ७१ ॥
॥ देवा ऊचुः ॥ ॥
अग्निष्टोमादिकाः सर्वाः क्रिया नष्टाः सुरेश्वरि ॥
मर्त्यलोके वयं तेन कर्मणातीव पीडिताः ॥ ७२ ॥
दृष्ट्वा त्वां देवि पाप्मानः सिद्धिं यांति सपूर्वजाः ॥
तस्माद्यथा वयं पुष्टिं व्रजामस्ते प्रसादतः ॥ ७३ ॥
न निष्क्रामति दैत्यश्च बाष्कलिस्त्वं तथा कुरु ॥ ७४ ॥
॥ पुलस्त्य उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा संचिंत्य सुचिरं तदा ॥
मुक्त्वा स्वे पादुके तत्र कृत्वा चाश्मसमुद्भवे ॥
देवानुवाच राजेंद्र सर्वानर्त्तिमुपागतान् ॥ ७५ ॥
॥ श्रीदेव्युवाच ॥ ॥
युष्मद्वाक्येन त्यक्तो हि मयाऽयं पर्वतोत्तमः ॥
विन्यस्ते पादुके तस्य रक्षार्थं बाष्कलेः सुराः ॥ ७६ ॥
मत्पादुकाभराक्रांतो न स दैत्यः सुरोत्तमाः ॥
स्थानात्प्रचलितुं शक्तः स्तंभितः स्याद्यथा मया ॥ ७७ ॥
एतच्छास्त्रं मया कृत्स्नं पादुकार्थं विनिर्मितम् ॥
अध्यात्मकं हितार्थाय प्राणिनां पृथिवीतले ॥ ७८ ॥
शास्त्रमार्गेण चानेन भक्त्या यः पादुके मम ॥
पूजयिष्यति सिद्धिः स्यात्तस्य मद्दर्शनोद्भवा ॥ ७९ ॥
चैत्रशुक्लचतुर्द्दश्यामहमत्रार्बुदे सदा ॥
अहोरात्रे वसिष्यामि सुगुप्ता गिरिगह्वरे ॥ ॥ 7.3.22.८० ॥
पर्वतोऽयं ममाभीष्टो न च त्यक्तुं मनो दधे ॥
तथापि संपरित्यक्तो युष्माकं हितकाम्यया ॥ ८१ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा तु सा देवी समंताद्देवकिंनरैः ॥
स्तूयमाना ययौ स्वर्गं मुक्त्वा ते पादुके शुभे ॥ ८२॥
अद्यापि सिद्धिमायांति योगिनो ध्यानतत्पराः ॥
तन्निष्ठास्तद्गतप्राणा यथा देव्याः प्रदर्शनात्॥ ८३ ॥
एतत्ते सर्वमाख्यातं यन्मां त्व परिपृच्छसि ॥
श्रीमातासंभवं पुण्यं पादुकाभ्यां च भूमिप ॥८४॥
यस्त्वेतत्पठते भक्त्या श्लाघते वाऽथ यो नरः ॥
सर्वपापैर्महाराज मुच्यते ज्ञानतत्परः ॥ ८५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे श्रीमातामाहात्म्यवर्णनंनाम द्वाविंशोऽध्यायः ॥ २२ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 23
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ शुक्लतीर्थमनुत्तमम् ॥
यत्ख्यातिमगमत्पूर्वं सकाशाद्दाशवर्गतः ॥ १ ॥
पुराऽऽसीद्रजको नाम्ना शमिलाक्षो महीपते ॥
नीलीमध्ये तु वस्त्राणि प्रक्षिप्तानि महीपते ॥ २ ॥
अथासौ भयमापन्नो ज्ञात्वा वस्त्रविडंबनम्॥
देशांतरं प्रस्थितोऽसौ स्वकुटुम्बसमावृतः ॥ ३ ॥
अथ तस्य सुता राजन्दाशकन्यासखी शुभा ॥
दुःखेन महताविष्टा दाश्यंतिकमुपाद्रवत् ॥ ४ ॥
तस्यै निवेदयामास भयं वस्त्रसमुद्भवम् ॥
विदेशचलनं चैव बाष्पगद्गदया गिरा ॥ ५ ॥
दाशकन्यापि दुःखेन तस्या दुःखसमन्विता ॥
अब्रवीद्वाष्संक्लिन्नां निश्वसंती मुहुर्मुहुः ॥ ६ ॥
॥ दाशकन्योवाच ॥ ॥
अस्त्युपायो महानत्र विदितो मम शोभने ॥
ध्रुवं तेन कृतेनैव निर्भयं ते च ते पितुः ॥ ७ ॥
अत्रास्ति निर्झरं सुभ्रूरर्बुदे वरवर्णिनि ॥
तत्र मे भ्रातरश्चैव तथान्ये मत्स्यजीविनः ॥ ८ ॥
यच्चान्यदपि तत्रैव क्षिप्यते सलिले शुभे ॥
तत्सर्वं शुक्लतामेति पश्य मे वपुरीदृशम् ॥ ९ ॥
सर्वेषामेव दाशानां तस्य तोयस्य मज्जनात् ॥
तानि वस्त्राणि तत्रैव तातस्तव सुमध्यमे ॥
जले प्रक्षालयेत्क्षिप्रं प्रयास्यंति सुशुक्लताम् ॥ 7.3.23.१० ॥
त्वयाऽत्र न भयं कार्यं गत्वा तातं निवारय ॥
प्रस्थितं परदेशाय नात्र कार्या विचारणा ॥ ११ ॥
॥ पुलस्त्य उवाच ॥ ॥
सा तस्या वचनं श्रुत्वा गत्वा सर्वं न्यवेदयत् ॥
जनकाय सुता तूर्णं ततोऽसौ तुष्टिमाप्तवान्॥ १२ ॥
प्रातरुत्थाय तूर्णं स निर्झरं तमुपाद्रवत्॥
क्षिप्तमात्राणि राजेन्द्र तानि वस्त्राणि तेन वै ॥ ॥ १३ ॥
तस्मिंस्तोयेतिशुक्लत्वं गतानि बहुलां ततः ॥
कांतिमापुश्च परमां तथा दृष्ट्वांबराणि च ॥ १४ ॥
अथासौ विस्मयाविष्टस्तानि चादाय सत्वरः ॥
राज्ञे निवेदयामास वृत्तांतं च तदुद्भवम् ॥ १५ ॥
ततो विस्मयमापन्नः स राजा तत्र निर्झरे ॥
अन्यानि नीलीरक्तानि वस्त्राणि चाक्षिपज्जले ॥ १६ ॥
सर्वाणि शुक्लतां यांति विशिष्टानि भवंति च ॥
ज्ञात्वा ततः परं तीर्थं स्नानं चक्रे यथाविधि ॥ १७ ॥
त्यक्त्वा राज्यं स तत्रैव तपस्तेपे महीपतिः ॥
ततः सिद्धिं परां प्राप्तस्तीर्थस्यास्य प्रभावतः ॥ १८ ॥
एकादश्यां नरस्तत्र यः श्राद्धं कुरुते नृप ॥
स कुलानि समुद्धृत्य दश याति दिवं ततः ॥
स्नानेनव विपापत्वं तत्क्षणादेव जायते ॥ १९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे शुक्लतीर्थमाहात्म्यवर्णनंनाम त्रयोविंशोऽध्यायः ॥ २३ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 24
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ गुहामध्यनिवासिनी ॥
देवी कात्यायनी यत्र शुंभदानवनाशिनी ॥ १ ॥
शुंभोनाम महादैत्यः पुराऽऽसीत्पृथिवीतले ॥
तेन सर्वं जगद्व्याप्तं जित्वा देवान्रणाजिरे ॥ २ ॥
स शंकरवराद्दैत्यो देवदानवरक्षसाम्॥
अवध्यो योषितं मुक्त्वा सर्वेषां प्राणिनां भुवि ॥ ३ ॥
ततो देवगणाः सर्वे गत्वाऽर्बुदमथाचलम् ॥
तपस्तेपुर्वधार्थाय शुंभस्य जगतीपते ॥
देवीमाराधयामासुर्व्यक्तरूपां सुरेश्वरीम् ॥ ४ ॥
अथ तेषां प्रसन्ना सा दृष्टिगोचरमागता ॥
अब्रवीद्वरदास्मीति ब्रूत किं करवाणि च ॥ ५ ॥
॥ देवा ऊचुः ॥ ॥
सर्वं नोऽपहृतं देवि शुंभेन सुदुरात्मना ॥
तं निषूदय कल्याणि सोवध्योन्यैः सदा रणे ॥ ६ ॥
त्वया संरक्षिता देवि पुरा बाष्कलितो वयम् ॥ ७ ॥
नान्याऽस्माकं गतिर्मातस्त्वां मुक्त्वा चारुहासिनीम् ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्ता सुरैर्देवी गत्वा शुंभनिकेतनम्॥
आजुहाव रणे क्रुद्धा भर्त्सयित्वा मुहुर्मुहुः ॥ ७ ॥
स तया याचिते युद्धे ज्ञात्वा तां योषितं नृप ॥
अवज्ञाय ततो दैत्यः प्रेषयामास दानवान् ॥ ९ ॥
जीवग्राहेण दुष्टेयं गृह्यतां परुषस्वना ॥
क्रियतां दारुणो दंडो मम वाक्यान्न संशयः ॥ 7.3.24.१० ॥
अथ तस्य समादेशाद्दानवास्तां ततो द्रुतम् ॥
गत्वा निर्भर्त्सयामासुर्वेष्टयित्वा दिशो दश ॥ ११ ॥
ततोऽवलोकनाद्दैत्यास्तया ते भस्मसात्कृताः ॥
ततः शुंभः प्रकुपितः स्वयमेव समाययौ ॥१२॥
अब्रवीत्तिष्ठतिष्ठेति खङ्गमुद्यम्य भीषणः ॥
सोऽपिदेव्या महाराज तथा चैवावलोकितः ॥१३॥
अभवद्भस्मसात्सद्यः पतंग इव पावकम्॥
हते तस्मिंस्ततो दैत्याः शेषाः पार्थिवसत्तम॥
भित्त्वा रसातलं जग्मुः पातालं भयसंयुताः ॥१४॥
ततो देवगणाः सर्वे तुष्टुवुस्तां सुरेश्वरीम्॥
अब्रुवंश्च वरं ब्रूहि यत्ते मनसि वर्त्तते ॥१५॥
देव्युवाच ॥ ॥
तत्रैव पर्वते स्थास्ये ह्यर्बुदेऽहं सुरोत्तमाः ॥
अभीष्टः पर्वतोऽस्माकं सं सदाऽर्बुदसंज्ञितः ॥१६॥
॥ देवा ऊचुः ॥ ॥
तत्रस्थां त्वां समालोक्य मर्त्त्या यांति त्रिविष्टपम् ॥
विना यज्ञैस्तथा दानैः स्वर्गः संकीर्णतां गतः॥
नान्यत्कारणमस्तीह निषेधस्य सुरेश्वरि ॥१७॥
॥ देव्युवाच ॥ ॥
तत्राहं विजने रम्ये गुहामध्ये सुरेश्वराः ॥
स्थास्यामि विरलाः केचिद्यास्यंति प्राणिनो मम ॥
दृष्टिगोचरमार्गे हि गत्वा तं पर्वतं प्रति ॥१७॥
॥ देवा ऊचुः ॥ ॥
यद्येवं देवि तेऽभीष्टमेवं कुरु शुचिस्मिते ॥
वयं त्वां तत्र द्रक्ष्यामः शुक्लाष्टम्यां सदा शुचेः ॥ १९ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्ताः सुरा देव्या प्रहृष्टास्त्रिदिवं ययुः ॥
सापि देवी गिरौ तत्र गत्वा चैवार्बुदे नृप ॥ 7.3.24.२० ॥
गुहामध्यं समासाद्य नित्यं जगद्धिताय वै ॥
विविक्ते न्यवसत्प्रीता दुर्ल्लभा सुरमानवैः ॥ २१ ॥
यस्तां पश्यति राजेन्द्र शुक्लाष्टम्यां समाहितः ॥
अभीष्टं स सदाप्नोति यद्यपि स्यात्सुदुर्ल्लभम् ॥२२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे कात्यायनीमाहात्म्यवर्णनंनाम चतुर्विंशोऽध्यायः ॥ २४ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 25
॥ पुलस्त्य उवाच ॥ ॥
ततः पिंडारकं गच्छेत्तीर्थं पापहरं नृप ॥
यत्र पूर्वं तपस्तप्तं मंकिना ब्राह्मणेन च ॥
सिद्धिं गतस्तथा राजंस्तीर्थस्यास्य प्रभावतः ॥ १ ॥
पुरा मंकिरभूद्विप्रो नाममात्रेण भूपते ॥
मूर्खो ब्राह्मणकृत्यानामनभिज्ञः सुमन्दधीः ॥ २ ॥
अथासौ पर्वते रम्ये लोकानां नृपसत्तम ॥
महिषी रक्षयामास ततः पिंडारकर्मणि ॥३॥
कस्यचित्त्वथ कालस्य तेन वित्तमुपार्जितम्॥
दूरात्कृच्छ्रेण च स्तोकं जगृहे गोयुगं ततः ॥ ४॥।
ततस्तद्दमयामास गोयुगं नृपसत्तम ॥
अथ दैववशाद्राजन्दमितं तस्य गोयुगम्॥ ५ ॥
निबद्धमुष्ट्रमासाद्य ग्रीवादेशे बलात्स्थितम् ॥
अथोष्ट्रस्त्वरया राजन्नुत्थितस्त्रासतत्परः ॥६॥
गोयुगेन हि ग्रीवायां लम्बमानेन भूपते ॥
तद्दृष्ट्वा सुमहाश्चर्यं विनाशं गोयुगस्य तु ॥ ७ ॥
मंकिर्वैराग्यमापन्नस्त्यक्त्वा ग्रामं वनं ययौ ॥
स गत्वा निर्झरं कञ्चिदर्बुदे नृपसत्तम ॥८॥
त्रिकालं कुरुते स्नानं गायत्रीजपमुत्तमम् ॥
तेनासौ गतपापोऽभूद्दिव्यदर्शी च भूमिप ॥९॥
एतस्मिन्नेव काले तु तेन मार्गेण शंकरः ॥
सह गौर्या विनिष्क्रांतः क्रीडार्थं रम्यपर्वते ॥7.3.25.१०॥
स दृष्टः सहसा तेन पिंडारेण महात्मना ॥
प्रणाममकरोद्राजंस्ततस्तं शंकरोऽब्रवीत् ॥ ११ ॥
न वृथा दर्शनं मे स्याद्वरो मे गृह्यतां द्विज ॥
यदभीष्टं महाराज यद्यपि स्यात्सुदुर्लभम् ॥ १२ ॥
॥ पिंडारक उवाच ॥ ॥
गणोऽहं तव देवेश भवानि त्रिपुरांतक ॥
यथा तथा कुरु विभो नान्यन्मे हृदि वर्तते ॥ १३ ॥
एतत्पिण्डारकं तीर्थ मम नाम्ना प्रसिध्यतु ॥ १४ ॥
॥ भगवानुवाच ॥ ॥
भविष्यसि गणोऽस्माकं देहांते त्वं द्विजोत्तम ॥
एतत्पिंडारकंनाम तीर्थमत्र भविष्यति ॥ १५ ॥
अहमत्र महाष्टम्यां निवेक्ष्यामि महामते ॥
ये च स्नानं करिष्यंति संप्राप्ते चाष्टमीदिने ॥
ते यास्यंति परं स्थानं यत्राहं नित्यसंस्थितः ॥ १६ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा महादेवस्तत्रैवांतरधीयत ॥।
मंकिः पिंडारकस्तत्र तपस्तेपे दिवानिशम् ॥ १७ ॥
ततः कालेन महता त्यक्त्वा देहं दिवं गतः ॥
यत्रास्ते भगवान्रुद्रो गणस्तत्र बभूव ह ॥ १८ ॥।
तस्मात्सर्वप्रयत्नेन स्नानं मन्त्रेण चाचरेत् ॥१९॥
राजेन्द्र महिषीदानमथाष्टम्यां विशेषतः ॥
य इच्छति सदाऽभीष्टमिह लोके परत्र च ॥7.3.25.२०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे पिंडारकतीर्थमाहात्म्यवर्णनंनाम पंचविंशोऽध्यायः॥ २५॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 26
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ तीर्थं त्रैलोक्यविश्रुतम् ॥
तस्मिन्कनखलंनाम पर्वते पापनाशने ॥ १ ॥
शृणु तत्राऽभवत्पूर्वं यदाश्चर्यं महीपते ॥
पार्थिवः सुमतिर्नाम संप्राप्तोऽर्बुदपर्वते ॥२॥
सूर्यग्रहे महीपाल तीर्थं कनखलं गतः ॥
तेन विप्रार्थमानीतं सुवर्णं जात्यमेव हि ॥३॥
प्रभूतं पतितं तोये प्रमादात्तस्य भूपतेः ॥
न लब्धं तेन भूपाल अन्वेषणपरेण च ॥ ४ ॥
ततः स्नात्वा गृहं प्राप्तः पश्चात्तापसमन्वितः ॥
ततः कालेन महता स भूयस्तत्र चागतः ॥ ५ ॥
स्नानार्थं भास्करे ग्रस्ते तं च देशमपश्यत ॥
चिंतयामास मेधावी ह्यस्मिन्देशे तदा मम ॥ ६ ॥
सुवर्णं पतितं हस्तान्न च लब्धं कथंचन ॥ ७ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवं चिंतयतस्तस्य वागुवाचाशरीरिणी ॥
नात्र नाशोऽस्ति राजेन्द्र इह लोके परत्र च ॥ ८ ॥
अत्र कोटिगुणं जातं सुवर्णं यत्पुरातनम् ॥
पश्चात्तापस्त्वया भूरि कृतो यद्द्रव्यनाशने ॥ ९ ॥
तस्मात्संख्या च संजाता तथैवाकल्पितस्य च ॥
येऽत्र श्रद्धासमायुक्ताः सुवर्णैर्नृपसत्तम ॥
यत्नाच्छ्राद्धं करिष्यंति सुवर्णं च विशेषतः ॥ 7.3.26.१० ॥
ब्राह्मणेभ्यः प्रदास्यंति संख्या तस्य न विद्यते ॥
अत्रान्वेषय देशे त्वं प्राप्स्यसे नाऽत्र संशयः ॥ ११ ॥
स श्रुत्वा भारती तत्र ह्याकाशादुत्थितां नृप ॥
अन्वेषमाणोऽस्मिन्देशे सुवर्णं तच्च लब्धवान् ॥ १२ ॥
शुभ्रं कोटिगुणं प्राज्यं ततस्तुष्टिं समागतः ॥
ज्ञात्वा तीर्थप्रभावं तं ब्राह्मणेभ्यः सहस्रशः ॥
प्रददौ च दयायुक्त उद्दिश्य पितृदेवताः ॥ १३ ॥
ततस्तस्य प्रभावेण स दानस्य महीपतिः ॥
संजातो धनदोनाम यक्षो नानाधनप्रदः ॥ १४ ॥
तत्र यः कुरुते श्राद्धं ग्रहे सूर्यस्य भूमिप ॥
आकल्पं पितरस्तस्य तृप्तिं यांति सुतर्पिताः ॥ १५ ॥
स्नानेन ऋषयो देवास्तुष्टिं यांति महोरगाः ॥
नाशः संजायते सद्यः पापस्य पृथिवीपते ॥ १६ ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥
यथाशक्त्या तथा दानं श्राद्धं च नृपसत्तम ॥ १७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे कनखलतीर्थमाहात्म्यवर्णनंनाम षङ्विंशोऽध्यायः ॥ ॥ २६ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 27
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ चक्रतीर्थमनुत्तमम् ॥
यत्र चक्रं पुरा मुक्तं विष्णुना प्रभविष्णुना ॥ १ ॥
निहत्य दानवान्संख्ये कृत्वा स्नानं सुनिर्झरे ॥
विष्णुः प्राक्षालयत्तोयं तेन तन्मेध्यतां गतम् ॥ २ ॥
तत्र श्राद्धं तु यः कुर्याच्छयने बोधने हरेः ॥
आकल्पं पितरस्तस्य तृप्तिं यांति नराधिप ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे चक्रतीर्थप्रभाववर्णनंनाम सप्तविंशोऽध्यायः ॥ २७ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 28
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ सुपुण्यं मानुषं ह्रदम् ॥
यत्र स्नातो नरः सम्यङ्मनुष्यो जायते सदा ॥ १ ॥
न तिर्यक्त्वमवाप्नोति कृत्वाऽपि बहुपातकम् ॥
तत्राश्चर्यमभूत्पूर्वं यत्तच्छृणु नराधिप ॥ २ ॥
मृगयूथमनुप्राप्त व्याधव्याप्तं समन्ततः ॥
ते मृगा भयसन्त्रस्ताः प्रविष्टा जलमध्यतः ॥ ३ ॥
सद्यो मनुष्यतां प्राप्ताः पूर्वजातिस्मरास्तथा ॥
एतस्मिन्नेव काले तु व्याधास्ते समुपागताः ॥ ४ ॥
चापबाणधराः सर्वे यथा वै यमकिंकराः ॥
पप्रच्छुश्च मृगान्भूप मानुषत्वमुपागतान् ॥ ५ ॥
मृगयूथमनु प्राप्तमस्मिन्स्थाने जलाश्रये ॥
केन मार्गेण तद्यातं वदध्वं सत्वरं हि नः ॥
वयं सर्वे परिश्रांताः क्षुत्तृड्भ्यां च विशेषतः ॥ ६ ॥
॥ मनुष्या ऊचुः ॥ ॥
वयं ते हरिणाः सर्वे मानुष्यं भावमाश्रिताः ॥
तीर्थस्यास्य प्रभावेण सत्यमेतदसंशयम् ॥ ७ ॥
॥ पुलस्त्य उवाच ॥ ॥
ततस्ते शबराः सर्वे त्यक्त्वा चापानि पार्थिव ॥
कृत्वा स्नानं जले तस्मिन्सद्यः सिद्धिं गता नृप ॥ ८ ॥
ततः शक्रस्तु तद्दृष्ट्वा तीर्थं पापहरं नृप ॥
पूरयामास सर्वत्र पांसुभिर्नृपसत्तम ॥ ९ ॥
अद्यापि मनुजास्तत्र बुधाष्टम्यां नराधिप ॥
स्नानं ये प्रकरिष्यंति तिर्यक्त्वं न व्रजंति ते ॥ 7.3.28.१० ॥
पितृमेधफलं कृत्स्नं श्राद्धदानादवाप्नुयुः ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे मनुष्यतीर्थप्रभाव वर्णनंनामाष्टाविंशोऽध्यायः ॥ २८ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 29
॥ पौलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ कपिलातीर्थमुत्तमम् ॥
यत्र स्नातो नरः सम्यङ्मुच्यते सर्वकिल्बिषैः ॥ १ ॥
पुराऽभून्नृपतिर्नाम सुप्रभः परवीरहा ॥
नित्यं च मृगयाशीलो मृगाणामहिते रतः ॥ २ ॥
न तथा स्त्रीषु नो भोगे नाश्वयाने न वारणे ॥
तस्याभूदनुरागश्च यथा मृगविमर्द्दने ॥ ३ ॥
स कदाचिन्नृपश्रेष्ठ मृगासक्तोऽर्बुदं गतः ॥
अपश्यत्सानुदेशे च मृगीं शिशुसमावृताम् ॥ ४ ॥
स्तनं धयन्तीं सुस्निग्धां शिशोः क्षीरानुरागिणः ॥
सा तेन विद्धा बाणेन सहसा नतपर्वणा ॥ ५ ॥
अथ सा पार्थिवं दृष्ट्वा प्रगृहीतशरासनम् ॥
द्वितीयं योजयानं च मृगी बाणं सुनिर्मलम् ॥ ६ ॥
ततः सा कोपसन्तप्ता भूपालं प्रत्यभाषत ॥
नायं धर्मः स्मृतः क्षात्त्रो यस्त्वयाद्य निषेवितः ॥७ ॥
शयानो मैथुनासक्तः स्तनपो व्याधिपीडितः ॥
न हंतव्यो मृगो राजन्मृगी च शिशुना वृता ॥ ८ ॥
तदद्य मरणं जातं मम सर्वं नृपाधम ॥
तव बाणं समासाद्य पुत्रस्य च मया विना ॥ ९ ॥
यस्मादहमधर्मेण हता भूमिपते त्वया ॥
तस्मादत्रैव सानौ त्वं रौद्रव्याघ्रो भविष्यसि॥ 7.3.29.१० ॥
॥ पुलस्त्य उवाच ॥ ॥
तच्छ्रुत्वा सुमहत्पापं स नृपो भयसंकुलम् ॥
तां वै प्रसादयामास प्राणशेषां तदा मृगीम् ॥ ११ ॥
अविवेकान्मया भद्रे हता त्वं निर्घृणेन च ॥
कुरु शापविमोक्षं त्वं तस्माद्दीनस्य सन्मृगि ॥ १२ ॥
॥ मृग्युवाच ॥ ॥
यदा तु कपिलां नाम द्रक्ष्यसे त्वं पयस्विनीम् ॥
धेनुं तया समालापात्प्रकृतिं यास्यसे पुनः ॥ १३ ॥
एवमुक्त्वा मृगी राजाग्रतः प्राणैर्व्ययुज्यत ॥
पीडिता शरघातेन पुत्रस्नेहाद्विशेषतः ॥ १४ ॥
अथाऽसौ पार्थिवः सद्यो रौद्रास्यः समजायत ॥
व्याघ्रो दशकरालश्च तीक्ष्णदन्तनखस्तथा ॥
भक्षयामास तां सेनामात्मीयां क्रोधमूर्च्छितः ॥ १५ ॥
ततस्ते सैनिका राजन्हतशेषाः सुदुःखिताः ॥
स्वगृहाणि ययुस्तत्र यथा वृत्तं जने पुरे ॥ १६ ॥
निवेदयन्तो वृत्तांतं चत्वरेषु त्रिकेषु च ॥
यथा वै व्याघ्रतां प्राप्तः स राजाऽर्बुदपर्वते ॥ १७ ॥
तच्छ्रुत्वा वचनं तस्य पुत्रं भूरिपराक्रमम् ॥
राज्येऽभिषेचयामासु नाम्ना ख्यातं महौजसम् ॥ १८ ॥
कस्यचित्त्वथ कालस्य तस्मिन्सानौ नृपोत्तम ॥
तृषार्तं गोकुलं प्राप्तं गोपगोपीसमाकुलम् ॥ १९ ॥
तत्रैका गौः परिभ्रष्टा स्वयूथात्तृणतृष्णया ॥
कपिलेति च विख्याता स्वयूथस्याग्रगामिनी॥ ॥ 7.3.29.२० ॥
अच्छिन्नाग्रतृणं या तु सदा भक्षयते नृप ॥
अथ सा गह्वरं प्राप्ता गिरेः शून्यं भयंकरम् ॥ २१ ॥
तत्राससाद तां व्याघ्रो दंष्ट्रोत्कटमुखावहः ॥
सा तं दृष्टवती पापं त्रासमाप मृगीव हि ॥ २२ ॥
स्मरंती गोकुले बद्धं स्वसुतं क्षीरपायिनम् ॥
दुःखेन रुदतीं तां स दृष्ट्वोवाच मृगाधिपः ॥ २३ ॥
॥ व्याघ्र उवाच ॥ ॥
किं वृथा रुद्यते धेनो मां प्राप्य न हि जीवितम् ॥
विद्यते कस्यचिन्मूर्खे स्मरेष्टां देवतां ततः ॥ २४ ॥ ॥
॥ कपिलोवाच ॥ ॥
स्वजीवितभयाद्व्याघ्र न रोदिमि कथंचन ॥
पुत्रो मे बालको गोष्ठ्यां क्षीरपायी प्रतीक्षते ॥ २५ ॥
नाद्यापि स तृणा न्यत्ति तेनाहं शोकविक्लवा ॥
रोद्मि व्याघ्र सुतस्नेहात्सत्येनात्मानमालभे ॥ २६ ॥
पाययित्वा सुतं बालं दृष्ट्वा पृष्ट्वा जनं स्वकम् ॥
पुनः प्रत्यागमिष्यामि यदि त्वं मन्यसे विभो ॥ २७ ॥
॥ व्याघ्र उवाच ॥ ॥
गत्वा स्वसुतसांनिध्यं दृष्ट्वात्मीयं च गोकुलम् ॥
पुनरागमनं यत्ते न च तच्छ्रद्दधाम्यहम् ॥ २८ ॥
भयान्मां भाषसे चैवं नास्ति प्राणसमं भयम् ॥
तस्मात्प्राणभयान्न त्वमागमिष्यसि धेनुके ॥ २९ ॥
॥ कपिलो वाच ॥ ॥
शपथैरागमिष्यामि सत्यमेतच्छृणुष्व मे ॥
प्रत्ययो यदि ते भूयान्मां मुञ्च त्वं मृगाधिप ॥ 7.3.29.३० ॥
॥ व्याघ्र उवाच ॥ ॥
ब्रूहि ताञ्छपथान्भद्रे समागच्छसि यैः पुनः॥
ततोऽहं प्रत्ययं गत्वा मोचयिष्यामि वा न वा ॥ ३१ ॥
॥ कपिलोवाच ॥ ॥
वेदाध्ययनसंपन्नं ब्राह्मणं वंचयेत्तु यः ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३२ ॥
गुरुद्रोहरतानां च यत्पापं जायते नृणाम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३३ ॥
यत्पापं ब्राह्मणं हत्वा गां च हत्वा प्रजायते ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३४ ॥
मित्रद्रोहे च यत्पापं यत्पापं गुरुवंचके ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३५ ॥
यो गां स्पृशति पादेन ब्राह्मणं पावकं तथा ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३६ ॥
कूपारामतडागानां यो भंगं कुरुत नरः ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३७ ॥
कृतघ्नस्य च यत्पापं सूचकस्य च यद्भवेत् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३८ ॥
मद्यमांसरतानां च यत्पापं जायते नृणाम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ३९ ॥
राजपैशुन्यकर्तॄणां यत्पापं जायते नृणाम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ 7.3.29.४० ॥
वेदविक्रयकर्तॄणां यत्पापं संप्रजायते ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ४१ ॥
दीयमानं द्विजातीनां निवारयति योऽल्पधीः ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ४२ ॥
विश्वस्तघातकानां च यत्पापं समुदाहृतम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ४३ ॥
द्विजद्वेषरतानां हि यत्पापं जायते नृणाम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ४४ ॥
परवादरतानां च पापं यच्च दुरात्मनाम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ॥ ४५ ॥
रात्रौ ये पापकर्माणो भक्षंति दधिसक्तुकान् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ४६ ॥
वृंताकं मूलकं श्वेतं रक्तं येऽश्नंति गृंजनम् ॥
तेन पापेन लिप्यामि यद्यहं नागमे पुनः ॥ ४७ ॥
॥ पुलस्त्य उवाच ॥ ॥
स तस्याः शपथाञ्छ्रुत्वा विस्मयोत्फुल्ललोचनः ॥
प्रत्ययं च तदा गत्वा व्याघ्रो वाक्यमथाब्रवीत् ॥ ४८ ॥
॥ व्याघ्र उवाच ॥ ॥
गच्छ त्वं गोकुले भद्रे पुनरागमनं कुरु ॥
न चैतदवगंतव्यं यदयं वञ्चितो मया ॥ ४९ ॥
कपिले गच्छ पश्य त्वं तनयं सुतवत्सले ॥
पाययित्वा स्तनं पूर्णमवघ्राय च मूर्धनि ॥ 7.3.29.५० ॥
मातरं भ्रातरं दृष्ट्वा सखीः स्वजनवबांधवान् ॥
सत्यमेवाग्रतः कृत्वा नान्यथा कर्तुमर्हसि ॥ ५१ ॥
॥ पुलस्त्य उवाच ॥ ॥
साऽनुज्ञाता मृगेन्द्रेण कपिला पुत्रवत्सला ॥।
अश्रुपूर्णमुखी दीना प्रस्थिता गोकुलं प्रति ॥ ५२ ॥
वेपमाना भयोद्विग्ना शोकसागरमध्यगा ॥
करिणीव हि रौद्रेण हरिणा सा बलीयसा ॥।
ततः स्वगोकुलं प्राप्ता रभमाणा मुहुर्मुहुः ॥ ५३ ॥
तस्याः शब्दं ततः श्रुत्वा ज्ञात्वा वत्सः स्वमातरम् ॥
सम्मुखः प्रययौ तूर्णमूर्द्ध्वपुच्छः प्रहर्षितः ॥ ५४ ॥
अकालागमनं तस्या रौद्रं भंभारवं तथा ॥
दृष्ट्वा श्रुत्वा च वत्सोऽसौ शंकितः परिपृच्छति ॥ ५५ ॥
॥ वत्स उवाच ॥ ॥
न ते पश्यामि सौम्यत्वं दुर्मना इव लक्ष्यमे ॥
किमर्थमन्यवेलायां समायाता वदस्व मे ॥ ५६ ॥
॥ कपिलोवाच ॥ ॥
पिब पुत्र स्तनं पश्चात्कारणं चापि मे शृणु ॥
आगताऽहं तव स्नेहात्कुरु तृप्तिं यथेप्सिताम् ॥५७ ॥
अपश्चिममिदं पुत्र दुर्लभं मातृदर्शनम् ॥
मयाऽद्य पुत्र गंतव्यं शपथैरागता यतः ॥५८॥
व्याघ्रस्य कामरूपस्य दातव्यं जीवितं मया ॥
तेनाहं शपथैर्मुक्ता कारणात्तव पुत्रक ॥ ५९ ॥
मयाऽद्य तत्र गंतव्यं मृगराजसमीपतः ॥
यदा च शपथैः पुत्र दास्यामि च कलेवरम् ॥7.3.29.६०॥
॥ वत्स उवाच ॥ ॥
अहं तत्र गमिष्यामि यत्र त्वं गंतुमिच्छसि ॥
श्लाघ्यं हि मरणं मेऽद्य त्वया सह न संशयः ॥६१॥
एकाकिनाऽपि मर्त्तव्यं यस्मान्मया त्वया विना ॥
यदि मां सहितं तत्र त्वया व्याघ्रो वधिष्यति ॥६२॥
या गतिर्मातृभक्तानां ध्रुवं सा मे भविष्यति ॥
तस्मादवश्यं यास्यामि त्वया सह न संशयः ॥ ६३ ॥
अथवाऽत्रैव तिष्ठ त्वं शपथाः संतु मे तव ॥
तव स्थाने प्रयास्यामि मातस्त्वं यदि मन्यसे ॥ ६४ ॥
जनन्या विप्रयुक्तस्य जीवितं न हि मे प्रियम् ॥
नास्ति मातृसमः कश्चिद्बालानां क्षीरजीविनाम् ॥ ६५ ॥
नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः ॥
ये मातृनिरताः पुत्रास्ते यांति परमां गतिम् ॥ ६६ ॥
॥ कपिलोवाच ॥ ॥
ममैव विहितो मृत्युर्न ते पुत्रक सांप्रतम् ॥
न चायमन्यभूतानां मृत्युः स्यादन्यमृत्युतः ॥ ६७ ॥
अपश्चिममिदं पुत्र मातुः सन्देशमुत्तमम् ॥
शृणुष्वावहितो भूत्वा परिणामसुखावहम् ॥ ६८ ॥
वने चर सदा वत्स अप्रमादपरो भव ॥
प्रमादात्सर्वभूतानि विनश्यंति न संशयः ॥ ६९ ॥
न च लोभेन चर्तव्यं विषमस्थं तृणं क्वचित् ॥
लोभाद्विनाशो जंतूनामिह लोके परत्र च ॥ 7.3.29.७० ॥
समुद्रमटवीं युद्धं विशंते लोभमोहिताः ॥
लोभादि कार्यमत्युग्रं कुर्वंति त्याज्य एव सः ॥ ७१ ॥
लोभात्प्रमादादाश्वासात्पुरुषो बाध्यते त्रिभिः ॥
तस्माल्लोभो न कर्त्तव्यो न प्रमादो न विश्वसेत् ॥ ७२ ॥
आत्मा च सततं पुत्र रक्षितव्यः प्रयत्नतः ॥
सर्वेभ्यः श्वापदेभ्यश्च म्लेच्छेभ्यस्तस्करादितः ॥७३॥
तिर्यग्भ्यः पापयोनिभ्यः सदा विचरता वने ॥
न च शोकस्त्वया कार्यः सर्वेषां मरणं धुवम् ॥ ७४ ॥
अस्माकं प्रतिवाचं च शृणु शोकविनाशिनीम् ॥
यथा हि पथिकः कश्चिच्छायार्थी वृक्षमास्थितः ॥
विश्रान्तश्च पुनर्याति तद्वद्भूतसमागमः ॥ ७५ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवं संभाष्य तं वत्समवघ्राय च मूर्द्धनि ॥
स्वमातरं सखीवर्गं ततो द्रष्टुं समागता ॥ ७६ ॥
अब्रवीच्च ततो वाक्यं पुत्रशोकेन दुःखिता ॥
अंबाः शृणुत मे वाक्यमपश्चिममिदं स्फुटम् ॥ ७७ ॥
अनाथमबलं दीनं फेनपं मम पुत्रकम् ॥
मातृशोकाभिसंतप्तं सर्वास्तं पालयिष्यथ ॥ ७८ ॥
भाविनीनामयं पुत्रः सांप्रतं च विशेषतः ॥
स्नपनीयः पायितव्यः पोष्यः पाल्यः स्वपुत्रवत् ॥ ७९ ॥
चरंतं विषमे स्थाने चरंतं परगोकुले ॥
अकार्येषु प्रवर्तंतं हे सख्यो वारयिष्यथ ॥ 7.3.29.८० ॥
क्षमध्वं च महाभागा यास्येऽहं सत्यसंश्रयात् ॥
यत्राऽसौ तिष्ठते व्याघ्रो मुक्ताऽहं येन सांप्रतम् ॥ ८१॥
सर्वास्ता वचनं श्रुत्वा तस्याः शोकसमन्विताः ॥
विषादं परमं गत्वा वाक्यमूचुः सुदुःखिताः॥ ८२॥
कपिले नैव गंतव्यं न ते दोषो भविष्यति॥
प्राणात्यये न दोषोऽस्ति संपराये च दारुणे॥ ८३॥
अत्र गाथा पुरा गीता मुनिभिर्धर्मवादिभिः॥
प्राणात्यये समुत्पन्ने शपथे नास्ति पातकम्॥ ८४॥
कपिलोवाच॥
प्राणिनां प्राण रक्षार्थं वदाम्येवानृतं वचः ॥
नात्मार्थमुपयुञ्जामि स्वल्पमप्यनृतं क्वचित् ॥ ८५ ॥
अश्वमेधसहस्रं तु सत्यं च तुलया धृतम् ॥
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ८६ ॥
तस्मान्नानृतमात्मानं करिष्ये जीविताशया ॥
आज्ञापयतु मामार्या यास्ये यत्र मृगाधिपः ॥ ८७ ॥
॥ वयस्या ऊचुः ॥ ॥
कपिले त्वं नमस्कार्या सर्वैरपि सुरासुरैः ॥
यत्त्वं परमसत्येन प्राणांस्त्यजसि दुस्त्यजान् ॥ ८८ ॥
अवश्यं न च ते भावी मृत्युः सत्यात्कथंचन ॥
प्रमाणं यदि सत्यं हि व्रज पंथाः शिवोऽस्तु ते ॥ ८९ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्ता च कपिला गता यत्र मृगाधिपः ॥
अथासौ कपिलां दृष्ट्वा विस्मयोत्फुल्ललोचनः ॥
अब्रवीत्प्रश्रितं वाक्यं हर्षगद्गदया गिरा ॥ 7.3.29.९० ॥
॥ व्याघ्र उवाच ॥ ॥
स्वागतं तव कल्याणि कपिले सत्यवादिनि ॥
नहि सत्यवतां किंचिदशुभं विद्यते क्वचित् ॥ ९१ ॥
त्वयोक्तं कपिले पूर्वं शपथैरागमाय च ॥
तेन मे कौतुकं जातं याताऽऽगच्छेत्पुनः कथम् ॥ ९२ ॥
तस्माद्गच्छ मया मुक्ता यत्राऽसौ तनयस्तव ॥
तिष्ठते गोकुले बद्धः क्षीरपायी सुदुःखितः ॥९३॥ ॥
॥ पुलस्त्य उवाच ॥ ॥
एतस्मिन्नेव काले तु स राजा प्रकृतिं गतः ॥
मृगीशापेन निर्मुक्तो दिव्यरूपवपुर्धरः ॥
ततोऽब्रवीत्प्रहृष्टात्मा कपिलां सत्यवादिनीम् ॥ ९४ ॥
॥ राजोवाच ॥ ॥
प्रसादात्तव मुक्तोऽहं शापादस्मात्सुदारुणात् ॥
किं ते प्रियं करोम्यद्य धेनुके ब्रूहि सत्वरम् ॥ ९५ ॥
॥ कपिलोवाच ॥ ॥
कृतकृत्याऽस्मि राजेन्द यत्त्वं मुक्तोऽसि किल्बिषात्॥
पिपासा बाधतेत्यर्थं सांप्रतं जलमानयम् ॥ ९६ ॥
नैवानृतं विजानीहि सत्यमेतन्मयोदितम् ॥ ९७ ॥
॥ पुलस्त्य उवाच ॥ ॥
अथासौ पार्थिवो हस्ते चापमादाय सत्वरम् ॥
सज्यं कृत्वा शरं गृह्य जघान धरणीतलम् ॥ ९८ ॥
ततः सलिलमुत्तस्थौ निर्मलं शीतलं शुभम् ॥
तत्र सा कपिला स्नात्वा वितृषा समपद्यत ॥ ९९ ॥
एतस्मिन्नन्तरे धर्मः स्वयं तत्र समागतः ॥
अब्रवीत्कपिलां हृष्टो वरं वरय शोभने ॥7.3.29.१०० ॥
तव सत्येन तुष्टोऽहं नास्ति ते सदृशी क्वचित् ॥
त्रैलोक्ये सकले धेनुर्न भविष्यति वै शुभे ॥ १०१ ॥
॥ कपिलोवाच ॥ ॥
प्रसादात्तव गच्छेय सह राज्ञा सगोकुला ॥
सुप्रभेण पदं दिव्यं जरामरणवर्जितम्॥ १०२ ॥
मन्नाम्ना ख्यातिमायातु पुण्यमेतज्जलाशयम् ॥
सर्वपापहरं नृणां सर्वकामप्रदं तथा ॥ १०३ ॥
॥ धर्म उवाच ॥ ॥
येऽत्र स्नानं करिष्यंति सुपुण्ये सलिले शुभे ॥
चतुर्द्दश्यां विशेषेण ते यास्यंति परां गतिम् ॥ १०४ ॥
तव नाम्ना सुपुण्यं हि तीर्थमेतद्भविष्यति ॥
दर्शमुद्दिश्य मर्त्यस्तु प्राप्स्यते गोसहस्रकम् ॥
स्नानाल्लक्षगुणं दानात्पुण्यं चैव तथाऽक्षयम् ॥ १०५ ॥
येऽत्र श्राद्धं करिष्यंति मानवाः सुसमाहिताः॥
सर्वदानफलं तेषां भुक्तिमुक्ती महात्मनाम् ॥ १०६ ॥
अपि कीटपतंगा ये तृषार्ताः सलिले शुभे ॥
मज्जयिष्यति यास्यंति तेऽपि स्थानं दिवौकसाम्॥ १०७ ॥
किं पुनर्भक्तिसंयुक्ता मानवाः सत्यवादिनः ॥
मनस्विनो महाभागाः श्रद्धावंतो विचक्षणाः ॥ १०८ ॥
॥ पुलस्त्य उवाच ॥ ॥
एतस्मिन्नेव काले तु विमानानि सहस्रशः ॥
समायातानि राजेंद्र कपिलायाः प्रभावतः ॥ १०९ ॥
तान्यारुह्याथ कपिला गोपगोकुलसंकुला ॥
सुप्रभेण समायुक्ता तत्पदं परमं गता ॥ 7.3.29.११० ॥
तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥
श्राद्धं चैवात्मनः शक्त्या दानं पार्थिवसत्तम ॥ ॥ १११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे कपिलातीर्थमाहात्म्यवर्णनंनामैकोनत्रिंशोऽध्यायः॥२९॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 30
पुलस्त्य उवाच॥
अग्नितीर्थं ततो गच्छेत्पावनं परमं नृणाम्॥
तत्र वह्निः पुरा नष्टो लब्धश्च त्रिदशैरपि॥ १ ॥
ययातिरुवाच॥
किमर्थं भगवन्वह्निः पुरा नष्टो द्विजोत्तम॥
कथं तत्रैव लब्धस्तु कौतुकं मे महामुने॥२॥
पुलस्त्य उवाच॥
पुरा वृष्टिनिरोधोऽभूद्यावद्द्वादशवत्सरान्॥
संशयं परमं प्राप्तः सर्वो लोकः क्षुधार्दितः ॥ ३ ॥
प्रायो मृतो मृतप्रायः शेषोऽभूद्धरणीतले ॥
नष्टा अरण्यजा ग्राम्याः पशवः पक्षिणो मृगाः ॥ ४ ॥
एवं कृच्छ्रमनुप्राप्ते मर्त्यलोके नराधिपः ॥
विश्वामित्रो मुनिवरः संदेहं परमं गतः ॥ ५ ॥
अन्नौषधिरसाभावादस्थिशेषो व्यजायत ॥
अन्यस्मिन्दिवसे प्राप्तः क्षुत्क्षामः पर्यटन्दिशः ॥ ६ ॥
चंडालनिलयं प्राप्तः क्षुत्तृषापीडितो भृशम् ॥
तत्रापश्यन्मृतं श्वानं शुष्कं पार्थिवसत्तम ॥ ७ ॥
तमादाय गृहं प्राप्तः प्रक्षाल्य सलिलेन तु ॥
क्षुत्क्षामः पाचयामास ततस्तं पावकेऽजुहोत् ॥ ८ ॥
अभक्ष्यभक्षणं ज्ञात्वा हव्यवाहस्ततो नृप ॥
शक्रस्योपरि मन्युं स्वं चक्रेऽतीव महीपते ॥ ९ ॥
नष्टौषधिरसे लोके युक्तमेतद्धि सांप्रतम् ॥
यादृगाप्तं हविस्तादृगग्निभक्षो विशिष्यते ॥ 7.3.30.१० ॥
नाभक्ष्यं भक्षयिष्यामि त्यजिष्ये क्षितिमंडलम् ॥
येन शक्रादयो देवा यांति कष्टतरां दशाम्॥ ११ ॥
एवं संचिंत्य मनसा सकोपो हव्यवाहनः ॥
प्रणष्टः सकलं हित्वा मर्त्यलोकं चराचरम् ॥ १२ ॥
प्रणष्टे सहसा वह्नावग्निष्टोमादिकाः क्रियाः ॥
प्रणष्टास्तु जनाः सर्वे विशेषात्संशयं गताः ॥ १३ ॥
ततो देवगणाः सर्वे संदेहं परमं गताः ॥
यज्ञभागविहीनत्वान्मंत्रं चक्रुस्ततो मिथः ॥ १४ ॥
त्यक्तस्तु वह्निना मर्त्यस्ततो नाशं गता नराः ॥
शेषनाशाद्वयं सर्वे विनंक्ष्यामो न संशयः ॥ १५ ॥
तस्मादन्वेष्यतां वह्निर्यत्र तिष्ठति सांप्रतम् ॥
यथा चरति मर्त्ये च तथा नीतिर्विधीयताम्॥ १६ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवं ते निश्चयं कृत्वा सर्वे देवाः सवासवाः ॥
अन्वैषयंस्तथाग्निं ते समंतात्क्षितिमंडले ॥ १७ ॥
ततस्ते पुरतो दृष्ट्वा शुकं श्रांता दिवौकसः ॥
पप्रच्छुः श्रद्धया वह्निर्यदि दृष्टः प्रकथ्यताम् ॥१८॥
॥ शुक उवाच ॥ ॥
योऽयं वंशो महानग्रे प्रदग्धो वह्निसंगतः ॥
प्रणष्टो हव्यवाहोत्र मया दृष्टो महाद्युतिः ॥ १९ ॥
शुकेनावेदितो वह्निः शप्त्वा तं मन्युना वृतः ॥
गद्गदा भावि ते वाणी प्रोक्त्वेदं प्रस्थितो द्रुतम् ॥ 7.3.30.२० ॥
प्रविवेश शमीगर्भमश्वत्थं तरुसत्तमम् ॥
तत्रस्थो द्विपराज्ञा स कथितो विबुधान्प्रति ॥ २१ ॥
स तं प्रोवाच ते जिह्वा विपरीता भविष्यति ॥
ततो जलाशयं गत्वा पर्वतेऽर्बुदसंज्ञके ॥ २२ ॥
प्रविष्टो भगवान्वह्निर्यथा देवैर्न लक्ष्यते ॥
तत्रोत्थेन दर्दुरेण तेषां प्रोक्तो हुताशनः ॥ २३ ॥
अत्राऽसौ तिष्ठते वह्निर्निर्झरे पर्वतस्य च ॥
दग्धाश्च जलजाः सर्वे सुतप्तेनैव वारिणा ॥ ॥ २४ ॥
कृच्छ्रादहं विनिष्क्रांतस्तस्मान्मृत्युमुखात्सुराः ॥
तच्छ्रुत्वा यत्नमास्थाय प्रविष्टो हव्यवाहनः ॥ २५ ॥
भविष्यसि विजिह्वस्त्वं शप्त्वा तं दर्दुरं नृपः ॥ २६ ॥
ततो देवगणाः सर्वे निष्क्रांताः सलिलाश्रयात् ॥
संवेष्ट्य तुष्टुवुः सर्वे स्तवैर्वेदोद्भवैर्नृप ॥ २७ ॥
॥ देवा ऊचुः ॥ ॥
त्वमग्ने सर्वभूतानामंतश्चरसि पावक ॥
त्वया हीनं जगत्सर्वं नाशं यास्यति सत्वरम् ॥ २८ ॥
त्वं मुखं सर्वदेवानां त्वयि लोकाः प्रतिष्ठिताः ॥
भूलोके च त्वया त्यक्ते वयं सर्वे सवासवाः ॥
विनाशमेव यास्यामस्तस्मात्त्वं त्रातुमर्हसि ॥ २९ ॥
त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं दिवाकरः ॥
त्वं चंद्रस्त्वं च धनदो मरुत्त्वं च सुरेश्वरः ॥7.3.30.३०॥
इंद्राद्या विबुधाः सर्वे त्वदायत्ता हुताशन ॥
किमर्थं भगवन्मर्त्त्यं त्यक्त्वा त्वमत्र संस्थितः ॥
किमर्थं भगवन्नस्माननागांस्त्यक्तुमिच्छसि ॥ ३१ ॥
॥ पुलस्त्य उवाच ॥ ॥
वेष्टितो भगवान्वह्निर्देवैः स्तुतिपरायणैः ॥
तस्यैव निर्झरस्याथ तटस्थो वाक्यमब्रवीत् ॥ ३२ ॥
॥ वह्निरुवाच ॥ ॥
अभक्ष्यभक्षणे शक्रो मामिच्छति नियोजितुम् ॥
तेनैव न करोत्येष वृष्टिं मर्त्त्ये सुरेश्वरः ॥ ३३ ॥
अतोऽहं भूतलं त्यक्त्वा प्रविष्टो निर्झरे त्विह ॥
प्रणष्टान्नरसे लोके न चाहं स्थातुमुत्सहे ॥ ३४ ॥
॥ शक्र उवाच ॥ ॥
शृणु यस्मान्मया रोधः कृतो वृष्टेर्हुताशन ॥
देवापिर्नाम धर्मज्ञः क्षत्रियाणां यशस्करः ॥ ३५ ॥
प्रतीपस्तत्सुतः साधुः सर्वशीलवतां वरः ॥
देवापौ च गते स्वर्गं ज्येष्ठभ्रातरमग्रजम्॥
संत्यक्त्वा जगृहे राज्यं शंतनुस्तत्सुतोऽवरः ॥ ३६ ॥
एतस्मात्कारणाद्राज्ये तस्य वृष्टिर्निराकृता ॥
तवादेशात्करिष्यामि निवर्तस्व हुताशन ॥ ३७ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा सहस्राक्षः पुष्करावर्तकान्घनान् ॥
द्रुतमाज्ञापयामास वृष्ट्यर्थं जगतीतले॥ ३८॥
अथ शक्रसमादिष्टा विद्युत्वन्तो बलाहकाः॥
गम्भीरराविणः सर्वं भूतलं प्रचुरैर्जलैः॥
पूरयामासुरत्युग्रा द्युतिमन्तो महीपते॥ ३९॥
ततोऽगमत्परां तुष्टिं भगवान्हव्यवाहनः॥
रोचयामास भूपृष्ठे वसतिं देवकारणात्॥ 7.3.30.४०॥
देवा ऊचुः॥
तवाऽऽदेशात्कृता वृष्टिरन्यत्कार्यं हुताशन ॥
यत्ते प्रियं तदस्माकं सुशीघ्रं हि निवेदय ॥ ४१ ॥
॥ अग्निरुवाच ॥ ॥
एतज्जलाशयं पुण्यं मन्नाम्ना तीर्थमुत्तमम् ॥
ख्यातिं यातु धरापृष्ठे युष्माकं हि प्रसादतः ॥ ४२ ॥
॥ देवा ऊचुः ॥ ॥
अग्नितीर्थमिदं लोके प्रख्यातिं संप्रयास्यति ॥
अत्र स्नातो नरः सम्यगग्निलोकं प्रयास्यति ॥ ४३ ॥
यस्तिलान्दास्यति नरस्तीर्थेऽस्मिन्सुसमाहितः ॥
अग्निष्टोमस्य यज्ञस्य फलं तस्य भविष्यति ॥४४॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा सुराः सर्वे स्वस्वस्थानं ययुस्ततः ॥
वह्निश्च भगवान्राजन्यथापूर्वमवर्तत ॥ ४५ ॥
यश्चैत्पठते नित्यं प्रातरुत्थाय चोत्तमम् ॥ अग्नितीर्थस्य माहात्म्यं मुच्यते सर्वपातकैः ॥ ४६ ॥
अहोरात्रकृतात्पापात्स शृण्वन्नपि मुच्यते ॥ ४७ ॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डेऽग्नितीर्थमाहात्म्यवर्णनंनाम त्रिंशोऽध्यायः ॥ ३० ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 31
॥ पुलस्त्य उवाच ॥ ॥
रक्तानुबन्धं वै गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ॥
यत्र स्नातो नरः सम्यङ्मुच्यते ब्रह्महत्यया ॥ १ ॥
पुराऽऽसीत्पार्थिवोनाम इंद्रसेनो महीपतिः ॥
तस्याऽऽसीत्सुप्रिया भार्या सुनन्दानाम भामिनी ॥
पतिव्रता पतिप्राणा सदा पत्युः प्रिये स्थिता ॥ २ ॥
कस्यचित्त्वथ कालस्य स राजा सपरिग्रहः ॥
परदेशं गतो हंतुं शत्रुसंघं दुरासदम् ॥ ३ ॥
तं निहत्य धनं भूरि गृहीत्वा प्रस्थितो गृहम् ॥
ततोऽग्रे प्रेषयामास स दूतं कृत्रिमं नृप ॥ ४ ॥
सुनन्दां ब्रूहि गत्वा त्वमिन्द्रसेनो हतो रणे ॥
तदाकारस्ततो लक्ष्यः पातिव्रत्ये ममाज्ञया ॥ ५ ॥
यदि सा निश्चयं गच्छेन्मरणं प्रति भामिनी ॥
तदा रक्ष्या प्रयत्नेन वाच्यं हास्यं ममोद्भवम् ॥ ६ ॥
एवमुक्तो गतो दूतस्तत्क्षणान्नृपसत्तम ॥
तस्यै निवेददामास यदुक्तं तेन भूभुजा ॥ ७ ॥
अथ तस्य वचः श्रुत्वा सुनंदा चारुहासिनी ॥
गतप्राणा नृपश्रेष्ठ पतिप्राणा महासती ॥ ८ ॥
यस्मिन्काले मृता सा तु सुनन्दा शीलमंडना ॥
तस्मिन्काले नृपः सोऽपि तत्पापेन समाश्रितः ॥ ९ ॥
अथापश्यद्द्वितीयां स च्छायां गात्रस्य चोपरि ॥
तथा गुरुतरं कायं सालस्यं समपद्यत ॥ 7.3.31.१० ॥
तेजोहीनं सुदुर्गंधि विवर्णं नृपसत्तम ॥
अथ प्राप्तो गृहं राजा श्रुत्वा भार्यासमुद्भवम् ॥ ११ ॥
विनाशं दुःखशोकार्तः करुणं पर्यदेवयत्॥
स ज्ञात्वा पापमात्मानं स्त्रीहत्यासुविदूषितम्॥ १२ ॥
ब्राह्मणानां समादेशात्तथा यात्रापरोऽभवत् ॥
कृत्वौर्द्ध्वदैहिकं तस्या लघुमात्र परिग्रहः ॥
वाराणस्यां गतः पूर्वं तत्र दानं ददौ बहु ॥१३॥
कपालमोचने तीर्थे सर्वपापप्रणाशने ॥
त्रिनेत्रो यत्र निर्मुक्तः पुरा वै ब्रह्महत्यया ॥१४॥
तस्य च्छाया द्वितीया सा न नष्टा तत्र भूपते ॥
ततः कनखलं प्राप्तः सुपुण्यं शुद्धिदं नृणाम् ॥ १५ ॥
तथैव पुष्करारण्यं तस्मादमरकण्टकम् ॥
कुरुक्षेत्रं ततो राजन्प्राप्तोऽसौ नृपसत्तमः ॥ १६ ॥
प्रभासं सोमतीर्थं च ततस्तु कृमिजांगले ॥
एकहंसं ततो राजन्पुण्यपारिप्लवं ततः ॥ १७ ॥
रुद्रकोटिं विरूपाक्षं ततः पंचनदं नृप ॥
एवमादीनि तीर्थानि पुण्यान्यायतनानि च ॥
परिभ्रमन्महीपाल परिश्रांतो नराधिपः ॥ १८ ॥
ततो वर्षसहस्रांते संप्राप्तोऽर्बुदपर्वते ॥
तत्रापश्यन्नरपतिस्तीर्थान्यायतनानि च ॥ १९ ॥
तपस्विसंघान्विविधान्ब्राह्मणान्वेदपारगान् ॥
ददौ दानानि बहुशो ब्राह्मणेभ्यो यदृच्छया ॥ 7.3.31.२० ॥
प्राप्तो रक्तानुबंधं च तीर्थं तत्रैव पर्वते ॥
तत्र स्नातो विनिष्क्रांतो यावत्पश्यति भूमिपः ॥ २१ ॥
तावन्न दृश्यते च्छाया द्वितीया स्त्रीवधोद्भवा ॥
लघुत्वं सर्वगात्राणि संप्राप्तानि महीपते ॥ २२ ॥
विगन्धता प्रणष्टा च तेजोवृद्धिः पराभवत् ॥
ततो हृष्टमना भूत्वा दत्त्वा दानानि भूरिशः ॥
स्तूयमानश्चतुर्दिक्षु बंदिभिः प्रस्थितो गृहम् ॥ २३ ॥
ततो रक्तानुबंधस्य सोमातिक्रमणं नृप ॥
यावत्करोति राजेन्द्र तावदस्य पुनस्तथा ॥२४॥
सा च्छाया दृश्यते देहे द्वितीया नृपसत्तम ॥
स एव गन्धो गात्रेषु तेजोहानिश्च सा नृप ॥ २५ ॥
ततो दुःखाभिसंतप्तो गतस्तत्रैव तत्क्षणात् ॥
रक्तबंधमनुप्राप्तो विपाप्मा सोऽभवत्पुनः ॥ २६ ॥
स ज्ञात्वा तीर्थमाहात्म्यं परं पार्थिवसत्तमः ॥
तत्र दारूणि चाहृत्य चितां कृत्वा ततो नृप ॥
दानं दत्त्वा द्विजाग्रेभ्यः प्रविष्टो हव्यवाहनम् ॥ २७ ॥
ततो विमानमारुह्य परित्यज्य कलेवरम् ॥
दिव्यमाल्यांबरधरः शिवलोकमुपागमत् ॥ २८ ॥
शिवलोकमनुप्राप्ते तस्मिन्पार्थिवसत्तमे ॥
देवर्षयस्तदा वाक्यमिदमाहुः सुविस्मयात् ॥ २९ ॥
तीर्थेभ्यस्तु परं तीर्थमिदं वै पावनं परम् ॥
इन्द्रसेनो ह्यतः पापात्तीर्थसंगाद्व्यमुच्यत ॥ 7.3.31.३० ॥
ततः प्रभृति तत्तीर्थं ख्यातं च धरणीतले ॥
रक्तानां प्राणिनां यस्मादनुबन्धं करोति यत् ॥ ३१ ॥
रक्तानुबन्धमित्येव तस्मात्तत्कीर्त्त्यते क्षितौ ॥
तत्र सन्तर्प्य वै देवान्यः श्राद्धं कुरुते नृप ॥ ३२ ॥
तत्र संक्रमणे भानोर्यः स्नानं कुरुते नरः ॥
श्रद्धया परया युक्तो मुच्यते ब्रह्महत्यया ॥ ३३ ॥
पितृक्षेत्रे गयायां च श्राद्धं यः कुरुते नरः ॥
गयाश्राद्धसमं प्राहुः फलं तस्य महर्षयः ॥ ३४ ॥
चन्द्रसूर्योपरागे वा गोदानं नृपसत्तम ॥
यः करोति नरस्तत्र स कुलान्सप्त तारयेत् ॥ ३५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे रक्तानुबन्धमाहात्म्यवर्णनंनामैकत्रिंशोऽध्यायः ॥ ॥ ३१ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 32
पुलस्त्य उवाच ॥ ॥
महाविनायकं गच्छेत्ततः पार्थिवसत्तम ॥
यस्मिन्दृष्टे नृणां सद्यो निर्विघ्नत्वं प्रजायते ॥ १ ॥ ॥
॥ ययातिरुवाच ॥ ॥
कथं महत्त्वमगमत्पूर्वं तत्र विनायकः ॥
कस्मिन्काले द्विजश्रेष्ठ सर्वं विस्तरतो वद ॥ २ ॥ ॥
पुलस्त्य उवाच ॥ ॥
पुरोद्वर्त्तनजं लेपं गृहीत्वा नृप पार्वती ॥
विनोदार्थं चकाराथ बालकं सुकुमारकम् ॥ ३ ॥
लेपाभावाच्छिरोहीनं शेषांगावयवं नृप ॥
यथोक्तं निर्मयित्वा तं स्कन्दं वाक्यमथाब्रवीत् ॥ ४ ॥
लेपमानय भद्रं ते शिरोऽर्थं स्कन्द सत्वरम् ॥
येनायं पुत्रको मे स्याद्भ्राता ते परदुर्जयः ॥ ५ ॥
ततो गौरीसमादेशाल्लेपालब्धौ नृपोत्तम ॥
मत्तं गजवरं दृष्ट्वा शिरस्तस्य समानयत् ॥ ६ ॥
तस्मिन्नियोजयामास गात्रे लेपसमुद्भवे ॥
महद्धीदं शिरो भावि पुत्र कस्मात्त्वयाऽऽहृतम् ॥ ७ ॥
ब्रुवंत्याश्चापि पार्वत्या मा मेति च मुहुर्मुहुः ॥
न्यस्ते शिरसि तद्गात्रे दैवयोगान्नराधिप ॥ ८ ॥
विशेषान्नायकत्वं च गात्रेभ्यः समजायत ॥
बालकप्रतिमं कान्तं सर्वलक्षणलक्षितम् ॥ ९ ॥
त्रिगंभीरं चतुर्हस्तं सप्तरक्तं महीपते ॥
षडुन्नतं पञ्चदीर्घं पश्चसूक्ष्मं सुसुन्दरम्॥ 7.3.32.१० ॥
त्रिविस्तीर्णं महाराज दृष्ट्वा गौरी सुविस्मिता ॥
सजीवं कारयामास स्वशक्त्या शक्तिरूपिणी ॥ ११ ॥
स सजीवः कृतो देव्या समुत्तस्थौ च तत्क्षणात् ॥
आदेशं याचयामास विनयानतकन्धरः ॥ १२ ॥
तं दृष्ट्वा चाद्भुताकारं प्रोक्त्वा पुत्रं मुहुर्मुहुः ॥
शंभोः सकाशमनयत्प्रहृष्टेनान्तरात्मना ॥ १३ ॥
ततोऽब्रवीत्सुतं देव ममैव गात्रलेपजम् ॥
देहि देव वरानित्थं महत्त्वं येन गच्छति ॥ १४ ॥
॥ श्रीभगवानुवाच ॥ ॥
शरीरस्थं शिरो मुख्यं यस्मात्पर्वतनन्दिनि ॥
महत्त्विदं शिरः प्रोक्तं त्वया स्कन्देन योजितम्॥ १५ ॥
विशेषान्नायकत्वं च गात्रे चास्य यतः स्थितम्॥
महाविनायको ह्येष तस्मान्नाम्ना भविष्यति ॥ १६॥
गणानां चैव सर्वेषामाधिपत्यं नगात्मजे ॥
अस्य दत्तं मया यस्माद्भविष्यति गणाधिपः ॥ १७ ॥
सर्वकार्येषु ये मर्त्याः पूर्वमेनं गणाधिपम् ॥
स्मरिष्यंति न वै तेषां कार्यहानिर्भविष्यति ॥ १८ ॥
ततोऽस्य प्रददौ स्कन्दः प्रक्रीडार्थं कुठारकम् ॥
तदेव चायुधं तस्य सुप्रियं हि सदाऽभवत् ॥ १९ ॥
ततो गौरी ददौ भोज्यपात्रं मोदकपूरितम् ॥
पुत्रस्नेहात्स तत्प्राप्य लास्यमेवं तदाऽकरोत् ॥ 7.3.32.२० ॥
तस्य भक्ष्यस्य गन्धेन निष्क्रान्तो मूषको बिलात् ॥
भक्षणाच्चामरो जातस्तस्य वाह्यो व्यजायत ॥ २१ ॥
॥ पुलस्त्य उवाच ॥ ॥
महाविनायको ह्येवं तत्र जातो मही पते ॥
तस्मिन्दृष्टे च यत्पुण्यं तत्त्वमेकमनाः शृणु ॥ २२ ॥
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि यत् ॥
करोति मानवो राजंस्तस्मात्पापात्प्रमुच्यते ॥ २३ ॥
माघमासे सिते पक्षे चतुर्थ्यां समुपोषितः ॥
यस्तं पश्यति वाग्ग्मी स सर्वज्ञश्च प्रजायते ॥
तस्याग्रे सुमहत्कुण्डं स्वच्छोदकपूरितम् ॥ २४ ॥
तत्र स्नात्वा नरो भक्त्या यः पश्यति विनायकम्॥
तस्यान्वयेऽपि सर्वज्ञा जायन्ते मानवा नृप ॥२५॥
गणानां त्वेति मंत्रेण कृत्वा वै त्रिः प्रदक्षिणम्॥
यस्तं पश्यति राजेन्द्र दुरितं न स पश्यति ॥ २६ ॥
तस्मात्सर्वप्रयत्नेन तं प्रपश्येद्विनायकम् ॥
य इच्छेत्सकलान्कामानिह लोके परत्र च ॥ २७ ॥
गृहस्थोऽपि च यो भक्त्या स्मरेत्कार्य उपस्थिते ॥
अविघ्नं तस्य तत्सर्वं संसिद्धिमुपगच्छति ॥ २८ ॥
प्रातरुत्थाय यो मर्त्यः स्मरेद्देवं विनायकम् ॥
तस्य तद्दिनजातानि सिद्धिं कृत्यानि यांति हि ॥ २९ ॥
विवाहे कलहे युद्धे प्रस्थाने कृषिकर्मणि ॥
प्रवेशे च स्मरेद्यस्तु भक्तिपूर्वं विनायकम् ॥
तस्य तद्वांछितं सर्वं प्रसादात्तस्य सिद्ध्यति ॥ 7.3.32.३० ॥
महाविनायकीं शांतिं यः करोति समाहितः ॥
न तं प्रेता ग्रहा रोगाः पीडयंति विनायकाः ॥३१॥
॥ ययातिरुवाच ॥ ॥
महावैनायिकीं शांतिं वद मे मुनिसत्तम ॥
के मंत्राः किं विधानं च परं कौतूहलं हि मे ॥ ३२ ॥
॥ पुलस्त्य उवाच ॥ ॥
शुक्लपक्षे शुभे वारे नक्षत्रे दोषवर्जिते ॥
श्रेष्ठचंद्रबले शांतिं गणेशस्य समाचरेत् ॥ ३३ ॥
पूर्वोत्तरे समे देशे कृत्वा वेदिं च मंडपम् ॥
मध्ये चाष्टदलं पद्मं गृह्यसूत्रं प्रयोजयेत् ॥३४॥
इन्द्रादिलोकपालांश्च दिक्षु सर्वासु भूपते ॥
गणेशपूर्विकाश्चापि मातरश्च विशेषतः ॥ ३५ ॥
गंधपुष्पोपहारैश्च यथोक्तैर्बलिविस्तरैः ॥
श्वेतवस्त्रयुगच्छन्नं कलशं जलपूरितम् ॥ ३६ ॥
तस्यैव पूर्वदिग्भागे सहिरण्यं फलान्वितम् ॥ ३७ ॥
गणानां त्वेति मंत्रेण सहस्रं चाष्टसंयुतम् ॥
जपेत्तत्र तथा चारून्पंचांगान्नृपसत्तम ॥ ३५ ॥
विनायकं समुद्दिश्य पुरः कुण्डे करात्मके ॥
चतुरस्रे योनियुते मेखलाभिर्विभूषिते ॥ ३९ ॥
मधुदूर्वाक्षतैहोमैर्ग्रहहोमादनंतरम् ॥
गणानां त्वेति मंत्रेण दशसाहस्रिकस्तथा ॥ 7.3.32.४० ॥
कार्यो वै पार्थिवश्रेष्ठ कार्यश्चोदङ्मुखैर्द्विजैः ॥
चतुर्भिश्चतुरै राजन्पीतवस्त्रानुलेपनैः ॥ ४१ ॥
पीतांबरधरैश्चैव धृतहेमांगुलीयकैः ॥
ततो होमावसाने तु यजमानं नृपोत्तम ॥ ४२ ॥
मृगचर्मोपरिस्थं च मंत्रैरेभिर्विधानतः ॥
स्नापयेत्प्राङ्मुखं शांतं शुक्लवस्त्रावगुंठितम् ॥ ४३ ॥
इमं मे गंगे यमुने पंचनद्यः सुपुष्करे ॥
श्रीसूक्तसहितं विष्णोः पावमानं वृषाकपिम् ॥ ४४ ॥
सम्यगुच्चार्य विघ्नानां ततो नाशं प्रपद्यते ॥
ग्रहाः सौम्यत्वमायांति भूता नश्यंति तत्क्षणात् ॥४५॥
आधयो व्याधयो रौद्रा दुष्टरोगा ज्वरादयः ॥
प्रणश्यंति द्रुतं सर्वे तथोत्पाताः सुदारुणाः ॥ ४६ ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥
विनायकस्य माहात्म्यं महत्त्वं शांतिकं तथा ॥४७॥
यश्च कीर्त्तयते सम्यक्चतुर्थ्यां सुसमाहितः ॥
शृणोति वा नृपश्रेष्ठ तस्याऽविघ्नं सदा भवेत् ॥ ४८ ॥
यंयं काममभिध्यायन्यजेच्चेदं समाहितः ॥
तत्तदाप्नोति नूनं च गणनाथप्रसादतः ॥ ४९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे विनायकमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 33
॥ पुलस्त्य उवाच ॥ ॥
ततः पार्थेश्वरं गच्छेदेवं पातकनाशनम् ॥
यं दृष्ट्वा मानवः सम्यङ्मुच्यते सर्वपातकैः ॥ १ ॥
पार्थानाम्न्यभवत्साध्वी देवलस्य प्रिया सती ॥
तया पूर्वं तपस्तप्तं तत्र स्थाने महीपते ॥ २ ॥
सा पूर्वमभवद्वंध्या ऋषिपत्नी यशस्विनी ॥
वैराग्यं परमं गत्वा ततश्चैवार्बुदं गता ॥ ३ ॥
वायुभक्षा निराहारा समचित्ताऽऽसने स्थिता ॥
ततो वर्षसहस्रांते भक्त्या तस्या महीपते ॥ ॥ ४ ॥
उद्भिद्य धरणीपृष्ठं सहसा लिंगमुत्थितम् ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥ ५ ॥
पूजयैतन्महाभागे शिवलिंगं सुपावनम् ॥
त्वद्भक्त्या धरणीपृष्ठान्निःसृतं कामदं महत् ॥ ६ ॥
यो यं काममभिध्यायन्पूजयिष्यति मानवः ॥
अन्योपि तदभिप्रेतं प्राप्स्यते नात्र संशयः ॥ ॥ ७ ॥
पार्थेश्वराख्यमेतद्धि लोके ख्यातिं गमिष्यति ॥
एवमुक्त्वा ततो वाणी विरराम महीपते ॥८॥
ततः सा विस्मयाविष्टा पूजयामास तत्तदा ॥
ततः पुत्रशतं प्राप्तं दिव्यं वंशधरं तथा ॥ ९ ॥
ततः प्रभृति तल्लिंगं विख्यातं धरणीतले ॥
तत्रास्ति निर्मलं तोयं गिरिगह्वरनिःसृतम् ॥ 7.3.33.१० ॥
तत्र स्नात्वा नरः सम्यग्यस्तं पश्यति भावतः ॥
न स पश्यति संसारे दुःखं संतानसंभवम् ॥ ११ ॥
शुक्लपक्षे चतुर्द्दश्यां जागरं तस्य चाग्रतः ॥
यः करोति निराहारः स पुत्रं लभते धुवम् ॥ १२ ॥
पिंडनिर्वापणं तत्र यः करोति समाहितः ॥
तस्य पुत्रत्वमायाति पितरस्तत्प्रसादतः ॥ ॥ १३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे पार्थेश्वरमाहात्म्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 34
॥ पुलस्त्य उवाच ॥ ॥
कृष्णतीर्थं ततो गच्छेत्कृष्णस्य दयितं सदा ॥
यत्र सन्निहितो नित्यं स्वयं विष्णुर्महीपते ॥ ॥
॥ ययातिरुवाच ॥ ॥
कृष्णतीर्थं कथं तत्र जातं ब्राह्मणसत्तम ॥
कस्मिन्काले मुने ब्रूहि सर्वं विस्तरतो मम ॥ ॥॥ २ ॥
॥ पुलस्त्य उवाच ॥ ॥
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजंगमे ॥
चंद्रार्कपवने नष्टे ज्योतिषि प्रलयं गते ॥ ३ ॥
ततो युगसहस्रांते विबुद्धः कमलासनः ॥
एकाकी चिंतयामास कथं सृष्टिर्भवेदिति ॥ ४ ॥
भ्रमंश्चापि चतुर्वक्त्रो यावत्पश्यति दूरतः ॥
चतुर्भुजं विशालाक्षं पुरुषं पुरतः स्थितम् ॥ ५ ॥
तं चोवाच चतुर्वक्त्रः कस्त्वं केन विनिर्मितः ॥
किमर्थमिह संप्राप्तः सर्वं विस्तरतो वद ॥ ६ ॥
तमुवाचाथ गोविंदः प्रहसञ्छ्लक्ष्णया गिरा ॥ ७ ॥
अहमाद्यः पुमानेको मया सृष्टो भवानपि ॥
स्रष्टुमिच्छामि भूयोऽपि भूतग्रामं चतुर्विधम् ॥ ८॥
॥ पुलस्त्य उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा क्रुद्धो देवः पितामहः ॥
अब्रवीत्परुषं वाक्यं भर्त्सयंश्च पुनःपुनः ॥ ९ ॥
सृष्टस्त्वं हि मया मूढ प्रथमोऽहमसंशयम् ॥
त्वादृशानां सहस्राणि करिष्येऽहमसंशयम् ॥ 7.3.34.१० ॥
एवं विवदमानौ तौ मिथो राजन्महाद्युती ॥
स्पर्धया रोषताम्राक्षौ युयुधाते परस्परम्॥ ११ ॥
मुष्टिभिर्बाहुभिश्चैव नखैर्दंतैर्विकर्षणैः ॥
एवं वर्षसहस्रं तु तयोर्युद्धमवर्त्तत ॥ १२ ॥
ततो वर्षसहस्रांते तयोर्मध्ये नृपोत्तम ॥
प्रादुर्भूतं महालिंगं दिव्यं तेजोमयं शुभम् ॥ १३ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
युद्धाद्ब्रह्मन्निवर्तस्व त्वं च विष्णो ममाज्ञया ॥ १४ ॥
एतन्माहेश्वरं लिंगं योऽस्य चांते गमिष्यति ॥
स ज्येष्ठः स विभुः कर्त्ता युवयोर्नात्र संशयः ॥ १५ ॥
अधोभागं व्रजत्वेक एकश्चोर्द्ध्वं ममाज्ञया ॥
तच्छ्रुत्वा सत्वरो ब्रह्मा व्योममार्गं समाश्रितः ॥ १६ ॥
विदार्य वसुधां कृष्णोऽप्यधस्तात्सत्वरं गतः ॥
स भित्त्वा सप्तपातालानधो यावत्प्रयाति च ॥
तावत्कालाग्निरुद्रस्तु दृष्टस्तेन महात्मना ॥ १७ ॥
गंतुमिच्छंस्ततोऽधस्ताद्यावद्वेगं करोति सः ॥
तावत्तस्यार्चिभिर्दग्धः कृष्णत्वं समपद्यत ॥ १८ ॥
ततो मूर्छाभिसंतप्तो दह्यमानोऽद्भुताग्निना ॥
निवर्त्य सहसा विष्णुर्वैलक्ष्यं परमं गतः ॥ १९ ॥
तथा लिंगं समासाद्य भक्त्या पूजा कृता ततः ॥
वेदोक्तैः परमैः सूक्ष्मैः स्तुतिं चक्रे महीपते ॥ 7.3.34.२० ॥
ब्रह्माऽपि व्योममार्गेण गतो हंसविमानतः ॥
दिव्यं वर्षसहस्रं तु तस्यांतं नाभ्यपद्यत ॥ २१ ॥
ततो वर्षसहस्रांते केतकीं सोऽप्यपश्यत ॥
आयांतीं व्योममार्गेण तया पृष्टश्चतुर्मुखः ॥ २२ ॥
क्व त्वया गम्यते ब्रह्मन्निरालंबे महापथि ॥
शून्ये तत्त्वं समाचक्ष्व परं कौतूहलं हि मे ॥ २३ ॥
॥ ब्रह्मोवाच ॥ ॥
मम स्पर्धा समुत्पन्ना विष्णुना सह शोभने ॥
लिंगस्यास्य हि पर्यंतं यो लभिष्यति चावयोः ॥ २४ ॥
स ज्यायानितरो हीनो ह्येतदुक्तं पिनाकिना ॥
प्रस्थितोऽहं ततश्चोर्द्ध्वमधोमार्गं गतो हरिः ॥ २५ ॥
लब्ध्वा लिंगस्य पर्यंतं यास्यामि क्षितिमंडले ॥
तस्य तद्वचनं श्रुत्वा तत्पुष्पमभ्यभाषत ॥ २६ ॥
व्यर्थश्रमोऽसि लोकेश नांतो लिंगस्य विद्यते ॥
चतुर्युगसहस्राणां कोटिरेका पितामह ॥ २७ ॥
लिंगमूर्ध्नः पतंत्या मे कालो जातो महाद्युते ॥
तथापि क्षिति पृष्ठं तु न प्राप्तास्मि कथंचन ॥ २८ ॥
यावत्कालेन हंसस्ते योजनं संप्रगच्छति ॥
तावत्कालेन गच्छामि योजनानामहं शतम् ॥ २९ ॥
तस्मान्निवर्तनं युक्तं मम वाक्येन ते विभो ॥
दर्शयित्वा च मां विष्णोर्ज्येष्ठत्वं व्रज सांप्रतम् ॥ 7.3.34.३० ॥
ततो हृष्टमना भूत्वा गृहीत्वा तां चतुर्मुखः ॥
पुनर्वर्षसहस्रांते भूमिपृष्ठमुपागतः ॥
दर्शयामास तां विष्णोरेषा लिंगस्य मूर्धतः ॥ ३१ ॥
मयाऽऽनीता शुभा माला लब्धश्चांतं चतुर्भुज ॥
त्वया लब्धो न चासत्यं वद मे पुरुषोत्तम ॥ ३२ ॥
॥ विष्णुरुवाच ॥ ॥
अनंतस्याप्रमेयस्य देवदेवस्य शूलिनः ॥
नाहं शक्तः परं पारं गंतुं ब्रह्मन्कथंचन ॥ ३३ ॥
यदि त्वयाऽस्य पर्यंतो लब्धो ब्रह्मन्कथंचन ॥
तत्ते तुष्टिं गतो नूनं देवदेवो महेश्वरः ॥ ३४ ॥
नान्यथा चास्य पर्यंतो दृश्यते केन चित्क्वचित् ॥
तस्माज्ज्येष्ठो भवाञ्छ्रेष्ठः कनिष्ठोऽहमसंशयम् ॥ ३५ ॥
॥ पुलस्त्य उवाच ॥ ॥
एतस्मिन्नेव काले तु भगवान्वृषभध्वजः ॥
कोपं चक्रे महाराज ब्रह्माणं प्रति तत्क्षणात् ॥ ३६ ॥
अथाह दर्शनं गत्वा धिग्धिग्व्यर्थप्रजल्पक ॥
मिथ्या प्रजल्पमानेन किमिदं साहसं कृतम् ॥ ॥ ३७ ॥
यस्मात्त्वया मृषा प्रोक्तं मम पर्यंतदर्शनम् ॥
तस्मात्त्वं सर्ववर्णानां पूजार्हो न भविष्यसि ॥ ३८ ॥
ये च त्वां पूजयिष्यंति मानवा मोह संयुताः ॥
ते कृच्छ्रं परमं प्राप्य नाशं यास्यंति कृत्स्नशः ॥ ३९ ॥
केतक्या च तथा प्रोक्तं यस्मात्तस्मात्सुदुष्टया ॥
अस्या हि स्पर्शनाल्लोकः श्वपाकत्वं प्रयास्यति ॥ 7.3.34.४० ॥
एवं शापो तयोर्दत्त्वा देवः प्रोवाच केशवम् ॥
प्रसन्नवदनो भूत्वा तदा तुष्टो महेश्वरः ॥ ४१ ॥
॥ भगवानुवाच ॥ ॥
वासुदेव महाबाहो तुष्टस्तेऽहं महामते॥
सत्यसंभाषणादेव वरं वरय सुव्रत ॥४२॥
॥ श्रीवासुदेव उवाच॥ ॥
एष एव वरः श्लाघ्यो यत्त्वं तुष्टो महेश्वरः ॥
न चापुण्यवतां देव त्वं तुष्टिमधिगच्छसि ॥
अवश्यं यदि मे देयो वरो देवेश्वर त्वया ॥४३॥
लिंगमेतदनंताख्यं लघुतां नय मा चिरम्॥
येन सृष्टिर्भवेल्लोके व्याप्तं विश्वमनेन तु ॥ ४४ ॥
॥ पुलस्त्य उवाच ॥ ॥
ततः संक्षिप्य तल्लिंगं लघु कृत्वा महेश्वरः ॥
अब्रवीत्केशवं भूयः शृणु वाक्यमिदं हरे ॥ ४५ ॥
एतन्मेध्यतमे देशे लिंगं स्थापय मे हरे ॥
पूजय त्वं विधानेन परं श्रेयः प्रपत्स्यसे ॥ ४६ ॥
मम तेजोविनिर्दग्धः कृष्णत्वं हि यतो गतः ॥
कृष्ण एव ततो नाम लोके ख्यातिं गमिष्यति ॥ ४७ ॥
कृष्णकृष्णेति ते नाम प्रातरुत्थाय मानवः ॥
कीर्तयिष्यति यो भक्त्या स याति परमां गतिम् ॥४८॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा तमीशानस्तत्रैवांतरधीयत ॥
वासुदेवोऽपि तल्लिंगं गृहीत्वाऽर्बुदपर्वते ॥
निर्झरे स्थापयामास सुपुण्ये विमलोदके ॥ ४९ ॥
कृष्णतीर्थं ततो जातं नाम्ना हि धरणीतले ॥
शृणु पार्थिवशार्दूल तत्र स्नातस्य यत्फलम् ॥ 7.3.34.५० ॥
स्नात्वा कृष्णह्रदे पुण्ये तल्लिंगं पश्यते तु यः ॥
सर्वतीर्थोद्भवं श्रेयः स मर्त्त्यो लभतेऽखिलम् ॥ ५१ ॥
तथा च सर्वदानानां निष्कामः प्राप्नुयात्फलम् ॥
सकामोऽपि फलं चेष्टं यद्यपि स्यात्सुदुर्ल्लभम् ॥ ५२ ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥
य इच्छेच्छाश्वतं श्रेयो नात्र कार्या विचारणा ॥ ५३ ॥
एकादश्यां महाराज निराहारो जितेन्द्रियः ॥
यस्तत्र जागरं कृत्वा लिंगस्याग्रे सुभक्तितः ॥ ५४ ॥
प्रभाते कुरुते श्राद्धं यस्तु श्रद्धासमन्वितः ॥
पितृन्संतारयेत्सर्वान्पूर्वजैः सह धर्मवित् ॥ ५५ ॥
तिलान्कृष्णान्नरस्तत्र ब्राह्मणेभ्यो ददाति यः ॥
ब्रह्महत्यादिभिः पापैः स मर्त्त्यो मुच्यते ध्रुवम् ॥ ॥ ५६ ॥
दर्शनादेव राजेन्द्र कृष्णतीर्थस्य मानवः ॥
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ ५७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे कृष्णतीर्थमाहात्म्यवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 35
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ तीर्थं पापप्रणाशनम् ॥
मामुह्रदमिति ख्यातं तस्मिन्पर्वतरोधसि ॥ १ ॥
तत्र स्नातो नरः सम्यक्छ्रद्धावान्सुसमाहितः ॥
मुच्यते पातकैर्घोरैः पूर्वजन्मकृतैरपि ॥ २ ॥
तस्य पश्चिमदिग्भागे लिंगमस्ति महीपते ॥
सर्वकामप्रदं नृणां स्थापितं मुद्गलेन तु ॥ ३ ॥
स्नात्वा मामुह्रदे पुण्ये यस्तल्लिंगं च पश्यति ॥
शुक्लपक्षे चतुर्द्दश्यां फाल्गुने मासि मानवः ॥
स प्राप्नोति परं श्रेयः सर्वतीर्थेषु दुर्लभम् ॥ ४ ॥
यस्तत्र कुरुते श्राद्धं दक्षिणां मूर्तिमाश्रितः ॥
पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम्॥ ५ ॥
तत्र दानं प्रशंसंति नीवाराणां महर्षयः ॥
शाकमूलादिभिः श्राद्धं पितॄणां तुष्टिदं नृप ॥ ६ ॥
॥ ययातिरुवाच ॥ ॥
मामुह्रदमिति विभो कथं नामाऽभवत्पुरा ॥
मुद्गलस्याश्रमं ब्रूहि मम सर्वं विधानतः ॥ ७ ॥ ॥
॥ पुलस्त्य उवाच ॥ ॥
तत्रस्थस्य पुरा राजन्मुद्गलस्य महात्मनः ॥
विमानं वरमादाय देवदूतः समागतः ॥ ८ ॥
सोऽब्रवीद्देवराज्ञाहं प्रेषितो मुनिसत्तम ॥
तवार्थायाऽऽरुहैनं त्वं विमानं गम्यतां दिवि॥ ९ ॥
॥ मुद्गल उवाच ॥ ॥
स्वर्गस्य ये गुणा दूत ये च दोषा प्रकीर्तिताः ॥।
तान्मे वद करिष्येऽहं श्रुत्वा वै यत्क्षमं भवेत्॥ 7.3.35.१० ॥
ब्रूहि तान्सकलान्दूत त्वागमिष्याम्यहं ततः ॥ ११ ॥
॥ देवदूत उवाच॥ ॥
अलमेतेन दर्पेण क्रियतां शक्रजल्पितम्॥
पुण्यैः स्वकैर्द्विजश्रेष्ठ समागच्छेरिदं ततः ॥ १२ ॥
॥ मुद्गल उवाच ॥ ॥
अश्रुतैस्तैर्न गच्छेऽहमेतन्मे हृदि निश्चितम् ॥
करिष्येऽहं तपो भूरि पूजयिष्ये महेश्वरम् ॥ १३ ॥
॥ दूत उवाच ॥ ॥
न शक्तः स्वर्गुणान्वक्तुमपि वर्षशतैरपि ॥
संक्षेपात्कथयिष्यामि यदि ते निश्चयः परः ॥ १४ ॥
नंदनादीनि रम्याणि तत्र देववनानि च ॥
अनन्यसदृशा भोगाः सदा तृप्तिर्द्विजोत्तम ॥४५॥।
बुभुक्षा नैव तृष्णा च निद्रालस्ये न च प्रभो ॥
रंभाद्यप्सरसो मुख्या गंधर्वास्तुंबरादयः ॥
रमयंति नरं तत्र गीतैर्नृत्यैरनेकशः ॥ १६ ॥
एवं च वसते तत्र जनः स्वर्गे तपोधन ॥
यावत्पुण्यक्षयस्तावत्पश्चात्पातमवाप्नुयात् ॥१७॥
एक एव मुने दोषः स्वर्लोके प्रतिभाति मे ॥
स एव पतनाख्यस्तु स्वर्गिणां च भयावहः ॥ १८ ॥
न पुण्यं लभते तत्र कर्तुं विप्र कथंचन ॥
कर्मभूमिरियं ब्रह्मन्भोगभूमिस्तु सा स्मृता ॥ १९ ॥
यदत्र क्रियते कर्म शुभं तत्रोप भुज्यते ॥
तथा दृष्ट्वा विमानस्थान्भूरिधर्मादिसंयुतान्॥7.3.35.२०॥
बहुतेजोन्वितान्स्वर्गे ह्यल्पपुण्यो द्विजोत्तम ॥
पश्चात्तापजदुःखेन स्वर्गस्थो दुःखितः सदा ॥ २१ ॥
न मया सुकृतं भूरि कृतं मर्त्त्ये कथंचन ॥ २२ ॥
तथा च पतमानांश्च दृष्ट्वा चान्यान्सहस्रशः ॥
आत्मनश्च महद्दुःखं जायते च तदद्भुतम्॥ २३ ॥
एतत्ते सर्वमाख्यातं गुणदोषसमुद्भवम् ॥
स्वर्गसंचेष्टितं ब्रह्मन्कुरुष्व यदभीप्सितम् ॥ २४ ॥
॥ मुद्गल उवाच ॥ ॥
पतनस्य भयं यत्र पुण्यहानिर्न वर्द्धनम्॥
तेन स्वर्गेण मे दूत नैव कार्यं कथंचन॥ २५॥
वाच्यस्त्वया ममादेशाद्देवराजः स्फुटं वचः॥
क्षम्यतामपराधो मे न स्वर्गाय स्पृहा मम॥ २६॥
तत्कर्माऽहं करिष्यामि येन नो पतनाद्भयम्।.
साधयिष्यामि ताँल्लोकान्ये सदा पातवर्जिताः॥ २७॥ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा नृपश्रेष्ठ मुद्गलः स्वर्गनिःस्पृहः ॥
स्थितस्तत्रैव निरतः शिवध्यानपरायणः ॥ २८ ॥
श्रुत्वा दूतोऽपि शक्रस्य तस्य वाक्यं सविस्तरम्॥
कथयामास शक्रस्य तं भूयः सोऽभ्यभाषत ॥ २९ ॥
देवदूताप्रमाणं च विमानं हि त्वया कृतम् ॥
न कृतं केन चित्पूर्वं न करिष्यति कश्चन ॥ 7.3.35.३० ॥
तस्मात्तत्र द्रुतं गत्वा बलादानय तं मुनिम् ॥
आनयस्वान्यथा शापं तव दास्याम्यसंशयम् ॥ ३१ । ॥
॥ पुलस्त्य उवाच ॥ ॥
शक्रस्य वचनं श्रुत्वा देवदूते भयान्वितः ॥
प्रस्थितः सत्वरं तत्र मुद्गलो यत्र तिष्ठति ॥ ३२ ॥
मुद्गलोऽपि विमानस्थं पुनर्दृष्ट्वा समागतम् ॥
मामुह्रदे प्रविश्याथ वारयामास तं तदा ॥ ३३ ॥
स तस्य वचनेनैव स्तंभितो लिखितो यथा ॥
चलितुं नैव शक्नोति प्रभावात्तस्य सन्मुनेः ॥ ३४ ॥
चिरकालगतं ज्ञात्वा दूतं तु त्रिदशाधिपः ॥
स्वयं तत्राययौ कोपादारुह्यैरावणं गजम् ॥ ३५ ॥।
अथ दृष्ट्वा तदा दूतं स्तंभितं मुद्गलेन तु ॥
वधार्थं तूद्यतस्तस्य स वज्रं भ्रामयंस्तदा ॥ ३६ ॥
एतस्मिन्नेव काले तु उत्पातास्तत्र दारुणाः ॥
अपसव्यं मृगाश्चक्रुः पशवः पक्षिणश्च ये ॥
तान्दृष्ट्वा चिन्तयामास मुद्गलो विस्मयान्वितः ॥ ३७ ॥
अथ दृष्ट्वांबरगतं वज्रोद्यतकरं हरिम् ॥
स्तंभयामास तं सद्यो दृष्टिपातेन मुद्गलः ॥ ३८ ॥
तत्र शक्रः स्तुतिं चक्रे भग्नोत्साहो नृपोत्तम ॥
मुञ्च मां ब्राह्मणश्रेष्ठ यास्यामि त्रिदशालयम् ॥ ३९ ॥
स्वर्गे वा यदि वा मर्त्त्ये तिष्ठ त्वं स्वेच्छया द्विज ॥
मया कृतः समुद्योगो हितार्थं ते मुने ह्ययम् ॥ 7.3.35.४० ॥
वरं वरय भद्रं ते नित्यं यो मनसि स्थितः ॥
तं ते सर्वं प्रदास्यामि यद्यपि स्यात्सुदुर्लभम् ॥ ४१ ॥
॥ मुद्गल उवाच ॥ ॥
एष एव वरः श्लाघ्यो यत्त्वं दृष्टः सुरेश्वर ॥
दर्शनं ते सहस्राक्ष स्वप्नेष्वपि सुदुर्लभम् ॥ ४२ ॥
अवश्यं यदि मे देयो वरो वृत्रनिषूदन ॥
त्वत्प्रसादेन मे मोक्षो जायतां शीघ्रमेव हि ॥ ४३ ॥
मा मु ह्रदं समागत्य दूतः प्रोक्तो मया यतः ॥
ततो मामुह्रदमिति ख्यातिं यातु धरातले ॥ ४४ ॥
तीर्थमेतत्सहस्राक्ष सर्व पापप्रणाशनम् ॥
अत्र स्नात्वा दिवं यांतु त्वत्प्रसादात्सुरेश्वर ॥ ४५ ॥
पिण्डदानात्परां प्रीतिं लभंतां पितरोऽत्र हि ॥ ४६ ॥
॥ इन्द्र उवाच ॥ ॥
मामुह्रदमिति ख्यातं तीर्थमेतद्भविष्यति ॥
वरिष्ठं नात्र सन्देहो मत्प्रसादाद्विजोत्तम ॥ ४७ ॥
अत्र ये फाल्गुने मासि पौर्णमास्यां समाहिताः ॥
करिष्यंति पुनः स्नानं ते यास्यंति परां गतिम् ॥ ४८ ॥
पिण्डदानाद्गयातुल्यं लप्स्यंते फलमुत्तमम् ॥
पुण्यदानफलं चात्र संख्याहीनं द्विजोत्तम ॥ ४९ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा ययौ स्वर्गं दूतमादाय वज्रभृत् ॥
मुद्गलोऽपि परं ब्रह्म चिंतयन्ह्यनिशं ततः ॥ 7.3.35.५० ॥
शुक्लध्यानपरो भूत्वा मोक्षं प्राप्तस्ततोऽक्षयम् ॥ ५१ ॥
अत्र गाथा पुरा गीता नारदेन महात्मना ॥
बहुविप्रसमवाये पर्वतेस्मिन्महीपते ॥ ५२ ॥
मामु ह्रदे नरः स्नात्वा दृष्ट्वा तं मुद्गलेश्वरम् ॥
इह भुक्त्वाऽखिलान्कामानन्ते मुक्तिमवाप्स्यति ॥
एतस्मात्कारणाद्राजन्मामुह्रदमिति स्मृतम् ॥ ५३ ॥
तत्तीर्थं सर्वतीर्थानां प्रवरं लोकविश्रुतम् ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥ ५४ ॥
मोक्षकामो विशेषेण य इच्छेत्परमं पदम् ॥
चण्डिकाश्रममासाद्य किं पुनः परितप्यते ॥ ५५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेऽर्बुदखण्डे मामुह्रदोत्पत्तिवर्णनंनाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 36
॥ ययातिरुवाच ॥ ॥
चंडिकाया द्विजश्रेष्ठ कथं तत्राश्रमोऽभवत् ॥
कस्मिन्काले फलं तेन किं दृष्टेन भवेन्नृणाम् ॥ १ ॥
॥ पुलस्त्य उवाच ॥ ॥
शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥
यां श्रुत्वा मानवः सम्यक्सर्वपापैः प्रमुच्यते ॥ २ ॥
पुरा देवयुगे राजन्महिषोनाम दानवः ॥
पितामहवराद्दृप्तः सर्वदेवभयंकरः ॥ ३ ॥
तेन शक्रादयो देवा जिताः संख्ये सहस्रशः ॥
भयात्तस्य दिवं हित्वा गतास्ते वै यथादिशम् ॥ ४ ॥
त्रैलोक्यं स वशे कृत्वा स्वयमिन्द्रो बभूव ह ॥ ५ ॥
आदित्या वसवो रुद्रा नासत्यौ मरुतां गणाः ॥
कृतास्तेन तथा दैत्या यथार्हं बलवत्तराः ॥ ६ ॥
वह्निर्भयं समापन्नस्त्यक्त्वा देवगणांस्तदा ॥
दानवेभ्यो हविर्भागं देवेभ्यो न प्रयच्छति ॥ ७ ॥
उद्द्योतं कुरुते सूर्यो यादृक्तस्याभिसंमतः ॥
यज्ञभागं विनाऽप्येष भयात्पार्थिवसत्तम ॥ ८ ॥
लोकपालास्तथा सर्वे तस्य कर्म प्रचक्रिरे ॥
दासवत्पार्थिवश्रेष्ठ यज्ञभागं विनाकृताः ॥ ॥ ९ ॥
कस्यचित्त्वथ कालस्य सर्वे देवाः समेत्य तु ॥
पप्रच्छुर्विनयोपेता विप्रश्रेष्ठं बृहस्पतिम् ॥ 7.3.36.१० ॥
भगवान्किं वयं कुर्मः कुत्र यामो निराश्रयाः ॥
तस्माद्ब्रूहि क्षयोपायं महिषस्य दुरात्मनः ॥ ११ ॥
एवमुक्तो गुरुर्द्देवैर्ध्यात्वा कालं चिरं नृप ॥
ततस्तांस्त्रिदशान्प्राह जीवयन्निव भूपतेः ॥ १२ ॥
॥ बृहस्पतिरुवाच ॥ ॥
ब्रह्मलब्धवरो दैत्यः पौरुषे च व्यवस्थितः ॥
अवध्यः सर्वदेवानां मुक्त्वेकां योषितं सुराः ॥
व्रजध्वं सहितास्तस्मादर्बुदं पर्वतोत्तमम् ॥ १३ ॥
तपोऽर्थं तत्र संसिद्धिर्जायतामचिराद्धि वः ॥
शक्तिरूपां परां देवीं चंडिकां कामरूपिणीम्॥१४॥
आराधयध्वमेकांते यया व्याप्तमिदं जगत् ॥
सा तुष्टा वै वधार्थं तु महिषस्य दुरात्मनः ॥ १५ ॥
करिष्यति समुद्योगमवतारसमुद्भवम् ॥
तस्या हस्तेन सोऽवश्यं वधं प्राप्स्यति दुर्मतिः ॥ १६ ॥
अहं वः कीर्तयिष्यामि शक्तियं मंत्रमुत्तमम् ॥
पूजाविधानसंयुक्तं भुक्तिमुक्तिप्रदं शुभम् ॥ १७ ॥। ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्ताः सुराः सर्वे हर्षेण महतान्विताः ॥
तेनैव सहिता राजन्गताः पर्वतमर्बुदम् ॥ १८ ॥
तत्र स्नाताञ्छुचीन्सर्वान्दीक्षयामास गीष्पतिः ॥
शक्तियैः परमैर्मंत्रैः सद्यःसिद्धिकरैर्नृप ॥ १९ ॥
सार्धयामत्रयं तत्र परिवारसमन्विताः ॥
बलिपूजोपहारैश्च गंधं माल्यानुलेपनैः ॥ 7.3.36.२० ॥
मंत्रेण विविधेनैव चारुस्तोत्रेण भक्तितः ॥
प्रार्थयंतस्तथा नित्यं दीपज्योतिः समाहिताः ॥ २१ ॥
निर्ममा निरहंकारा गुरुभक्तिपरायणाः ॥
अंगन्याससमायुक्ताः समदर्शित्वमागताः ॥२२॥
एवं संतिष्ठमानानां तेषां पार्थिवसत्तम ॥
सप्त मासा व्यतिक्रांतास्ततस्तुष्टा सुरेश्वरी ॥ २३ ॥
दीपज्योतिःसमावेशात्तेषां गात्रेषु पार्थिव ॥
मंत्रेण परिपूतानां परं तेजो व्यवर्धत ॥ २४ ॥
द्वादशार्कप्रभा जाताः षण्मासाभ्यंतरेण ते ॥
अथ तांस्तेजसा युक्ताञ्ज्ञात्वा जीवो महीपते ॥ २५ ॥
मंडलं रचयामास सर्वसिद्धिप्रदायकम् ॥
उपवेश्य ततः सर्वान्समस्तांस्त्रिदशालयान् ॥ २६ ॥
तेषां शरीरगं तेजः शक्तियैर्मंत्रसत्तमैः ॥
आकृष्य न्यसयामास मंडले तत्र पार्थिव ॥ २७ ॥
ततस्तेजोमयी कन्या तत्र जाता स्वरूपिणी ॥
शक्तिरूपा महाकाया दिव्यलक्षणलक्षिता ॥ २८ ॥
इंद्रस्तस्यै ददौ वज्रं स्वपाशं च जलेश्वरः ॥
शक्तिं च भगवानग्निः सिंहयानं धनाधिपः ॥ २९ ॥
अन्ये चैव गणाः सर्वे निजशस्त्राणि हर्षिताः ॥
तस्यै ददुर्नृपश्रेष्ठ स्तुतिं चक्रुः समाहिताः ॥ 7.3.36.३० ॥
॥ देवा ऊचुः ॥ ॥
नमस्ते देवदेवेशि नमस्ते कांचनप्रभे ॥
नमस्ते पद्मपत्राक्षि नमस्ते जगदम्बिके ॥ ३१ ॥
नमस्ते विश्वरूपे च नमस्ते विश्वसंस्तुते ॥
त्वं मतिस्त्वं धृतिः कांतिस्त्वं सुधा त्वं विभावरी ॥ ३२ ॥
क्षमा ऋद्धिः प्रभा स्वाहा सावित्री कमला सती ॥
त्वं गौरी त्वं महामाया चामुण्डा त्वं सरस्वती ॥ ३३ ॥
भैरवी भीषणाकारा चंडमुंडासिधारिणी ॥
भूतप्रिया महाकाया घटाली विक्रमोत्कटा ॥ ३४ ॥
मद्यमांसप्रिया नित्यं भक्तत्राणपरायणा ॥
त्वया व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ ३५ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवं स्तुता सुरैः सर्वैस्ततो देवी प्रहर्षिता ॥
तानब्रवीद्वरं सर्वा गृह्णंतु मम देवताः ॥ ३६ ॥
॥ देवा ऊचुः ॥ ॥
दानवो महिषो नाम पितामहवरान्वितः ॥
अवध्यः सर्वभूतानां देवानां च तथा कृतः ॥ ३७ ॥
मुक्त्वैकां योषितं देवि तस्मात्त्वं विनिपातय ॥ ३८ ॥
॥ देव्युवाच ॥ ॥
गच्छध्वं त्रिदशाः सर्वे स्वानि स्थानानि निर्वृताः ॥ ३९ ॥
अहं तं सूदयिष्यामि समये पर्युपस्थिते ॥
एवमुक्ता गताः सर्वे देवाः स्थानानि हर्षिताः ॥ 7.3.36.४० ॥
देवी तत्रैव संहृष्टा स्थिता पर्वतरोधसि ॥
कस्यचित्त्वथकालस्य नारदो भगवान्मुनिः ॥ ४१ ॥
तत्र देवीं च संदृष्ट्वा तीर्थयात्रापरायणः ॥
त्रिविष्टपमनुप्राप्तो महिषो यत्र तिष्ठति ॥ ४२ ॥
तत्र दृष्ट्वा मुनिं प्राप्तं प्रणम्य महिषासुरः ॥
विनयेन समायुक्तो ह्यभ्युत्थानमथाकरोत् ॥४३॥
ततस्तं पूजयामास मधुपर्कार्घविष्टरैः ॥
सुखासीनं सुविश्रांतं ज्ञात्वा वाक्यमुवाच ह ॥ ४४ ॥
कुतो भवानितः प्राप्तः किमर्थं मुनिसत्तम ॥
अमी पुत्रास्तथा राज्यं कलत्राणि धनानि च ॥ ४५ ॥
अहं भृत्यसमायुक्तः किमनेन द्विजोत्तम ॥
सर्वं तेऽहं प्रदास्यामि ब्रूहि येन प्रयोजनम्॥ ४६ ॥
॥ नारद उवाच ॥ ॥
अभिनंदामि ते सर्वमेतत्त्वय्युपपद्यते ।
निःस्पृहा हि वयं नित्यं मुनिधर्मं समाश्रिताः ॥ ४७ ॥
कौतूहलादिह प्राप्तश्चिरात्ते दर्शनं गतः ॥
मर्त्त्यलोकात्समायातो यास्यामि ब्रह्मणः पदम् ॥ ४८ ॥
॥ महिषासुर उवाच ॥ ॥
क्वचिद्दृष्टं त्वया किञ्चिदाश्चर्यं भूतले मुने ॥
दैवं वा मानुषं वापि दानवा लंभिता विभो ॥ ४९ ॥
॥ नारद उवाच ॥ ॥
अत्याश्चर्यं मया दृष्टं दानवेन्द्र धरातले ॥
यत्र दृष्टं क्वचित्पूर्वं त्रैलोक्ये सचराचरे ॥ 7.3.36.५० ॥
अस्त्यर्बुद इति ख्यातः पर्वतो धरणीतले ॥
सर्वर्तुपुष्पितैर्वृक्षैः शोभितः स्वर्गसन्निभः ॥ ५१ ॥
बकुलैश्चंपकैश्चाम्रैरशोकैः कर्णिकारकैः ॥
शालैस्तालैश्च खर्जूरैर्वटैर्भल्लातकैर्धवैः ॥ ५२ ॥
सरलैः पनसैर्वृक्षैस्तिंदुकैः करवीरकैः ॥
मंदारैः पारिजातैश्च मलयैश्चंदनैस्तथा ॥ ५३ ॥
पुष्पजातिविशेषैश्च सुगंधैरप्यनेककैः ॥
खाद्यैः सर्वेस्तथा लेह्यैश्चोष्यैः फलवरैर्वृतः ॥ ५४ ॥
न स वृक्षो न सा वल्ली नौषधी सा धरातले ॥
न तत्र याऽसुरज्येष्ठ पर्वते वीक्षिता मया ॥ ५५ ॥
पक्षिणो मधुरारावाश्चकोरशिखिचातकाः ॥
कोकिला धार्तराष्ट्राश्च भ्रमराः श्वेतपत्रकाः ॥ ५६ ॥
येषां शब्दं समाकर्ण्य मुनयोऽपि समाहिताः ॥
क्षोभं यांति त्रिकालज्ञाः कंदर्पशरपीडिताः ॥ ५७ ॥
निर्झराणि सुरम्याणि नद्यश्च विमलोदकाः ॥
पद्मिनीखंडसंयुक्ता ह्रदाः शतसहस्रशः ॥ ५८ ॥
पद्मपत्रविशालाक्षा मध्यक्षामाः शुचिस्मिताः ॥
विवेकिनो नरास्तत्र शास्त्रव्रतसमन्विताः ॥ ५९ ॥
किं चात्र बहुनोक्तेन यत्किंचित्तत्र पर्वते ॥
स्वेदजांडजसंज्ञेया उद्भिज्जाश्च जरायुजाः ॥
सर्वलोकोत्तरास्तत्र दृश्यंते पर्वतोत्तमे ॥ 7.3.36.६० ॥
दशयोजनविस्तारो द्वाभ्यां संहितपर्वतः ॥
उच्चैः पंच च स श्रीमान्मर्त्ये स्वर्गो व्यजायत ॥ ६१ ॥
तत्राऽहं कौतुकाविष्ट इतश्चेतश्च वीक्षयन् ॥
सर्वाश्चर्यमयीं नारीमपश्यं लोकसुंदरीम् ॥ ६२ ॥
न देवी नापि गंधर्वी नासुरी न च मानुषी ॥
तादृग्रूपा मया दृष्टा न श्रुता च वरांगना ॥ ६३ ॥
रतिः प्रीतिरुमा लक्ष्मीः सावित्री च सरस्वती ॥
तस्या रूपस्य लेशेन नैतास्तुल्याः स्त्रियोऽखिलाः ॥ ६४ ॥
अहं दृष्ट्वा तथा रूपां नारीं कामेन पीडितः ॥
तदा दानवशार्दूल वैक्लव्यं परमं गतः ॥ ६५ ॥
ततो धैर्यमवष्टभ्य मया मनसि चिंतितम् ॥
न करिष्ये समालापं तया सह च कर्हिचित् ॥ ६६ ॥
यस्या दर्शनमात्रेण कामो मे हृदि वर्द्धितः ॥
तस्याः संभाषणेनेव किं भविष्यति मे पुनः ॥ ६७ ॥
चिरकालं तपस्तप्तं ब्रह्मचर्येण वै मया ॥
नाशं यास्यति तत्सर्वं विषयैर्निर्जितस्य च ॥
तस्माद्गच्छामि चान्यत्र यावन्न विकृतिर्भवेत् ॥ ६८ ॥
नारीनाम तपोविघ्नं पूर्वं सृष्टं स्वयंभुवा ॥
अर्गला स्वर्गमार्गस्य सोपानं नरकस्य च ॥ ६९ ॥
तावद्धैर्यं तपः सत्यं तावत्स्थैर्यं कुलत्रपा ॥
यावत्पश्यति नो नारीमैकांते च विशेषतः ॥ 7.3.36.७० ॥
एतत्संचिंत्य बहुधा निमील्य नयने ततः ॥
अप्रजल्प्य वरारोहां तामहं चात्र संस्थितः ॥ ७१ ॥
॥ पुलस्त्य उवाच ॥ ॥
नारदस्य वचः श्रुत्वा महिषः कामपीडितः ॥
श्रवणादपि राजेंद्र पुनः पप्रच्छ तं मुनिम् ॥ ७२ ॥
॥ महिषासुर उवाच ॥ ॥
काऽसौ ब्राह्मणशार्दूल तादृग्रूपा वरांगना ॥
यस्याः संदर्शनादेव भवानेव स्मरान्वितः ॥ ७३ ॥
देवी वा मानुषी वापि यक्षिणी पन्नगी मुने ॥
कुमारी वा सकांता वा ब्रूहि सर्वं सविस्तरम् ॥ ७४ ॥
॥ नारद उवाच ॥ ॥
न सा पृष्टा मया किंचिन्न जानामि तदन्वयम् ॥
एतन्मे वर्त्तते वित्ते सा कुमारी यशस्विनी ॥ ७६ ॥
अक्षमालाधरा बाला कमंडलुसमन्विता ॥
तपस्तेपे गिरौ तत्र हेतुना केनचिच्छुभा ॥ ७६ ॥
सोऽहं यास्यामि दैत्येश ब्रह्मलोकं सनातनम् ॥
नोत्सहे तत्कथां कर्तुं कामबाणभयातुरः ॥ ॥ ७७ ॥
एवमुक्त्वा ततो राजन्ब्रह्मलोकं गतो मुनिः ॥
महिषोऽपि स्मराविष्टश्चरं तस्याः समादिशत् ॥ ७८ ॥
गत्वा भवान्द्रुतं तत्र दृष्ट्वा तां च वरांगनाम्॥
किमर्थं सा तपस्तेपे को वै तस्याः परिग्रहः ॥ ७९ ॥
अथाऽसौ महिषादेशाद्दूतो गत्वार्बुदाचलम् ॥
दृष्ट्वा तां पद्मगर्भाभां ज्ञात्वा सर्व विचेष्टितम् ॥ 7.3.36.८० ॥
तस्मै निवेदयामास महिषाय सविस्मयः ॥
दृष्टा दैत्यवर स्त्री च सर्वलक्षणलक्षिता ॥ ८१ ॥
देवतेजोभवा कन्या साऽद्यापि वरवर्णिनी ॥
त्वद्वधार्थं तपस्तेपे कौमारव्रतमाश्रिता ॥ ८२ ॥
एवं तत्र भवंती स्म पृष्टाः सर्वे तपस्विनः ॥
सत्यमेतन्महाभाग कुरुष्व यदनंतरम् ॥ ८३ ॥
तस्या रूपं वयः कांतिर्वर्णितुं नैव शक्यते ॥
नालापं कुरुते बाला सा केनापि समं विभौ ॥ ८४ ॥
॥ पुलस्त्य उवाच ॥ ॥
तच्छ्रुत्वा महिषो वाक्यं भूयः कामनिपीडितः ॥
दूतं संप्रेषयामास दानवं च विचक्षणम् ॥८५ ॥
विचक्षण द्रुतं गत्वा मदर्थे तां तपस्विनीम् ॥
सामभेदप्रदानेन दंडेनापि समानय ॥ ८६ ॥
अथाऽसौ प्रययौ शीघ्रं प्रणिपत्य विचक्षणः ॥
अर्बुदे पर्वतश्रेष्ठे यत्र सा परमेश्वरी ॥
प्रणम्य विनयोपेतो वाक्यमेतदुवाच ताम्॥८७॥
महिषो नाम विख्यातस्त्रैलोक्याधिपतिर्बली॥
दनुवंशसमुद्भूतः कामरूपसमन्वितः॥८८॥
स त्वां वांछति कल्याणि धर्मपत्नीं स्वधर्मतः ॥
तस्माद्वरय भद्रं ते सर्वकामप्रदं पतिम् ॥ ८९ ॥
यदि स्यात्तव कांतोऽसौ त्वं च तस्य तथा प्रिया॥
तत्कृतार्थं द्वयोरेव यौवनं नात्र संशयः ॥ 7.3.36.९० ॥
एवमुक्ता ततस्तेन देवी वचनमब्रवीत् ॥
किञ्चित्कोपसमायुक्ता मुहुः प्रस्फुरिताधरा ॥ ९१ ॥
॥ देव्युवाच ॥ ॥।
अवध्यः सर्वथा दूतः सर्वत्र परिकीर्तितः ॥
अवस्थासु ततो न त्वं सहसा भस्मसात्कृतः ॥९२॥
गत्वा ब्रूहि दुराचारं महिषं दानवाधमम् ॥
नाहं शक्या त्वया पाप लब्धुं नान्येन केनचित् ॥ ९३ ॥
वधार्थं ते समुद्योग एष सर्वो मया कृतः ॥
तस्यास्तद्वचनं श्रुत्वा महिषं स पुनर्ययौ ॥ ९४ ॥
भयेन महताविष्टस्तस्या रूपेण विस्मितः ॥
सर्वं निवेदयामास महिषाय विचेष्टितम् ॥
तस्याश्चैव तथाऽऽलापानस्पृहत्वं च कृत्स्नशः ॥ ९५ ॥
तच्छुत्वा महिषो राजन्कामबाणप्रपीडितः ॥
सेनापतिं समाहूय वाक्यमेतदुवाच ह ॥९६॥
अर्बुदे पर्वते सेनां कल्पयस्व सुदुर्धराम् ॥
हस्त्यश्वकल्पितां भीमां रथपत्तिसमाकुलाम् ॥ ९७ ॥
ततोऽसौ कल्पयामास चतुरंगां वरूथिनीम् ॥
पताकाच्छत्रशबलां वादित्रारावभूषिताम् ॥ ९८ ॥
ततो द्विपाश्च संनद्धा दृश्यंतेऽधिष्ठिता भटैः ॥
इतश्चेतश्च धावन्तः सपक्षाः पर्वता इव ॥ ९९ ॥
अश्वाश्चैवाप्यकल्माषा वायुवेगाः सुवर्चसः ॥
अंगत्राणसमायुक्ताः शतशोऽथ सहस्रशः ॥ 7.3.36.१०० ॥
विमानप्रतिमाकारा रथास्तेन प्रकल्पिताः ॥
किंकिणीजालसद्घंटापताकाभिरलंकृताः ॥ १०१ ॥
पत्तयश्च महाकाया महेष्वासा महाबलाः ॥
असिचर्मधराश्चान्ये प्रासपट्टिशपाणयः ॥ १०२ ॥
लक्षमेकं मतंगानां रथानां त्रिगुणं ततः ॥
अश्वा दशगुणा राजन्नसंख्याताः पदातयः ॥ १०३ ॥
ततश्चार्बुदमासाद्य वेष्टयित्वा स दूरतः ॥
संमितैः सचिवैः सार्धं तदंतिकमुपाद्रवत् ॥ १०४ ॥
ध्यानस्थां वीक्ष्य तां देवीं कन्दर्पशरपीडितः ॥
ततोऽब्रवीत्स तां वाक्यं विनयेन समन्वितः ॥ १०५ ॥
श्रुत्वा तवेदृशं रूपमहं प्राप्तो वरानने ॥
गांधर्वेण विवाहेन तस्माद्वरय मां द्रुतम् ॥ १०६ ॥
षष्टिभार्यासहस्राणि मम संति शुचिस्मिते ॥
कृत्वा मां दर्पितं कांतं तासां त्वं स्वामिनी भव ॥ ॥ १०७ ॥
अनर्हं ते तपो बाले भुंक्ष्व भोगान्यथेप्सितान् ॥
त्रैलोक्यस्वामिनी भूत्वा मया सार्धमहर्निशम् ॥१०८॥
एवमुक्ताऽपि सा तेन नोत्तरं प्रत्यभाषत ॥
ततः कामसमाविष्टस्तदंतिकमुपाययौ ॥१०९॥
ततस्तं लोलुपं दृष्ट्वा सा देवी कोपसंयुता ॥
अस्मरद्वाहनं सिंहं समायातः स साऽऽरुहत् ॥ 7.3.36.११० ॥
अब्रवीत्परुषं वाक्यं गच्छगच्छेति चासकृत् ॥
नो चेत्त्वां च वधिष्यामि स्थानेऽस्मिन्दानवाधम ॥ १११ ॥
अथाऽसौ सचिवैः सार्द्धं समंतात्पर्यवेष्टयत् ॥
प्रग्रहार्थं तु तां देवीं कामबाणप्रपीडितः ॥ ११२ ॥
ततो जहास सा देवी सशब्दं परमेश्वरी ॥
तस्मादहर्निशं सार्द्धं निष्क्रांता पुरुषा घनाः ॥ ११३ ॥
सुसन्नद्धाः सशस्त्राश्च रोषेण महताऽन्विताः ॥
ततस्तानब्रवीद्देवी पापोऽयं वध्यतामिति ॥ ११४ ॥
ततस्ते सहिताः सर्वे महिषं समुपाद्रवन्॥
तिष्ठतिष्ठेति जल्पन्तो मुंचन्तोऽस्त्रणि भूरिशः ॥ ११५ ॥
ततः समभवद्युद्धं गणानां दानवैः सह ॥
ततस्ते सचिवाः सर्वे वैवस्वतगृहं गताः ॥ ११६ ॥
अथाऽसौ महिषो रुष्टः सचिवैर्विंनिपातितैः ॥
स्वसैन्यमानयामास तस्मिन्पर्वतरोधसि ॥ ११७ ॥
रथप्रवरमारुह्य सारथिं समभाषत ॥
नय मां सारथे तूर्णं यत्र साऽऽस्ते व्यवस्थिता ॥ ११८ ॥
हत्वैनामद्य यास्यामि पारं रोषस्य दुस्तरम् ॥
एवमुक्तस्ततो राजन्प्रेरयामास सारथिः ॥ ११९ ॥
रथं तेनैव मार्गेण यत्र सा तिष्ठते ध्रुवम् ॥
एतस्मिन्नेव काले तु तत्रोत्पाताः सुदारुणाः ॥ 7.3.36.१२० ॥
बहवस्तेन मार्गेण येनासौ प्रस्थितो नृप ॥
सम्मुखः प्रववौ वातो रूक्षः कर्करसंयुतः ॥ १२१ ॥
पपात महती चोल्का निहत्य रविमंडलम् ॥
अपसव्यं मृगाश्चक्रुस्तस्य मार्गे नृपोत्तम ॥ १२२ ॥
उपविष्टास्तथा वांता बहुमूत्रं प्रसुस्रुवुः ॥
रथध्वजे समाविष्टो गृध्रः शब्दमथाकरोत् ॥ १२३ ॥
स तान्सर्वाननादृत्य महोत्पातान्सुदारुणान् ॥
प्रययौ सम्मुखस्तस्या देव्याः कोपपरायणः ॥ १२४ ॥
विमुंचंश्च शरान्नादांस्तिष्ठतिष्ठेति च ब्रुवन् ॥
न कश्चिद्दृश्यते तत्र तेषां मध्ये नृपोत्तम ॥ १२५ ॥
महिषं रोषसंयुक्तं यो वारयति संगरे ॥
तेन हत्वा गणगणान्कृतं रुधिरकर्दमम् ॥। ॥ १२६ ॥
ततो देवी समासाद्य प्रोक्ता गर्वेण पार्थिव ॥
न त्वया संगरो भीरु नूनं कर्तुं ममोचितः ॥ १२७ ॥
न च बालिशि मे वीर्यं न सौभाग्यं न वा धनम् ॥
न करोषि हि तेन त्वं मम वाक्यं कथञ्चन ॥ १२८ ॥
नूनं तत्त्वेन जानामि अवलिप्तासि भामिनि॥
कुरुष्वाद्यापि मे वाक्यं भार्या भव मम प्रिया ॥ १२९ ॥
स्त्रियं त्वां नोत्सहे हंतुं पौरुषे च व्यवस्थितः ॥
असकृन्निर्जितः संख्ये मया शक्रः सुरैः सह ॥ 7.3.36.१३० ॥
त्रैलोक्ये नास्ति मत्तुल्यः पुमान्कश्चिच्च बालिशि॥
एवमुक्ता ततो देवी कोपेन महताऽन्विता ॥ १३१ ॥
प्रगृह्य सशरं चापं वाक्यमेतदुवाच ह ॥
नालापो युज्यते पाप कर्तुं सह मम त्वया ॥ १३२ ॥
कुमार्याः कामयुक्तेन तथापि शृणु मे वचः ॥
न त्वया निर्जितः शक्रः स्ववीर्येण रणाजिरे ॥ १३३ ॥
पितामह वरं देवा मन्यंते दानवाधम ॥
गौरवात्तस्य तेन त्वमात्मानं मन्यसेऽधिकम् ॥ १३४ ॥
मुक्त्वैकां कामिनीं पाप त्वं कृतः पद्मयोनिना ॥
अवध्यः सर्वसत्त्वानां पुंसः जातौ धरातले ॥ १३५ ॥
पितामहवरः सोऽत्र जयशीलोऽसि दानव ॥
यदि ते पौरुषं चास्ति तच्छीघ्रं संप्रदर्शय ॥ १३६ ॥
एषा त्वामिषुभिस्तीक्ष्णैर्नयामि यमसादनम् ॥
एवमुक्त्वा ततो देवी शरानष्टौ मुमोच ह ॥ १३७ ॥
चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ॥
सारथेश्च शिरः कायाच्छरेणैकेन चाक्षिपत् ॥ १३८ ॥
ध्वजं चिच्छेद चैकेन ततोऽन्येन हृदि क्षतः ॥
स गात्रविद्धो व्यथितो ध्वजयष्टिं समाश्रितः ॥ ॥ १३९ ॥
मूर्छया सहितो राजन्किंचित्कालमधोमुखः ॥
ततः स चेतनो भूत्वा मुमोच निशिताञ्छरान् ॥ 7.3.36.१४० ॥
देवी सखीसमायुक्ता सर्वदेशेष्वताडयत् ॥
ततः क्षुरप्रबाणेन धनुस्तस्य द्विधाऽकरोत् ॥ १४१ ॥
छिन्नधन्वा ततो दैत्यश्चर्मखङ्गसमन्वितः ॥
विद्राव्य सहसा देवीं तिष्ठतिष्ठेति चाब्रवीत्॥ १४२ ॥
तस्य चापततस्तूर्णं खड्गं द्वाभ्यां ह्यकृन्तयत् ॥
शराभ्यामर्धबाणेन प्रहस्य प्रासमेव च ॥ १४३ ॥
विशस्त्रो विरथो राजन्स तदा दानवाधमः ॥
ततोऽस्मरच्छरान्भूप शस्त्राणि विविधानि च ॥ १४४ ॥
ब्रह्मास्त्रं मनसि ध्यायंस्तृणं तस्यै मुमोच सः ॥
मुक्तेनास्त्रेण तस्मिंस्तु धूमवर्तिर्व्यजायत ॥ १४५ ॥
एतस्मिन्नेव काले तु स ब्रह्मास्ते दिवौकसः ॥
परं भयमनुप्राप्ता दृष्ट्वा तस्य पराक्रमम् ॥ १४६ ॥
ततो देवी क्षणं ध्यात्वा तदस्त्रं पार्थिवोत्तम ॥
ब्रह्मास्त्रेणाहनत्तूर्णं ततो व्यर्थं व्यजायत ॥ १४७ ॥
ब्रह्मास्त्रे विफले जाते ह्याग्नेयं दानवोत्तमः ॥
प्रेषयामास तां क्रुद्धो ह्यहनद्वारुणेन सा॥ १४८ ॥
एवं नानाप्रकाराणि तेन मुक्तानि सा तदा ॥
अस्त्राणि विफलान्येव चक्रे देवी सहस्रशः ॥ १४९ ॥
एवं निःशेषितास्त्रोऽसौ दानवो बलवत्तरः।.
चकार परमां मायां दिव्यैरस्त्रैः सुरेश्वरी॥ 7.3.36.१५०॥
व्यक्षिपच्च महाकायं महिषं पर्वताकृतिम्॥
दीर्घतीक्ष्णविषाणाभ्यां युक्तमंजनसंनिभम्॥ १५१॥
सिंहस्कंधं च सा देवी ततस्तमध्यरोहत॥
खड्गेन तीक्ष्णेन शिरो देवी तस्य न्यकृंतत॥ १५२।
शूलेन भेदयामास पृष्ठदेशे सुरेश्वरी ॥
ततः कलेवरात्तस्मान्निश्चक्राम महान्पुमान् ॥ १५३ ॥
चर्मखड्गधरो रौद्रस्तिष्ठतिष्ठेति चाब्रवीत् ॥
तमप्येवं गृहीत्वा तत्केशपाशे सुरेश्वरी ॥ १५४ ॥
निस्त्रिंशेनाहनत्प्रोच्चैः स च प्राणैर्व्ययुज्यत ॥
दानवः पार्थिवश्रेष्ठ पार्श्वे सिंहविदारिते ॥ १५५ ॥
ततो जघान भूयोऽपि दानवान्सा रुषान्विता ॥
हतशेषाश्च ये दैत्या निर्भिद्य धरणीतलम् ॥ १५६ ॥
प्रविष्टा भयसंत्रस्ताः पातालं जीवितैषिणः ॥
ततो देव गणाः सर्वे वसवो मरुतोऽश्विनौ ॥१५७॥
विश्वेदेवास्तथा साध्या रुद्रा गुह्यककिन्नराः ॥
आदित्याः शक्रसंयुक्ताः समेत्य परमेश्वरीम् ॥ १५८ ॥
समंताद्दिव्यपुष्पैश्च तां देवीं समवाकिरन् ॥
स्तुवंतो विविधैः स्तोत्रैर्नमंतो भक्तितत्पराः ॥ १५९ ॥
युक्तं कृतं महेशानि यद्धतः पापकृत्तमः ॥
त्रैलोक्यं सकलं ध्वस्तं पापेनानेन सुंदरि ॥ 7.3.36.१६० ॥
त्वया दत्तं पुना राज्यं वासवस्य त्रिविष्टपे ॥
तस्माद्वरय भद्रं ते वरं यन्मनसीप्सितम् ॥
सर्वे देवाः प्रसन्नास्ते प्रदास्यंति न संशयः ॥ १६१ ॥
॥ देव्युवाच ॥ ॥
यदि देवाः प्रसन्ना मे यदि देयो वरो मम ॥
आश्रमोऽत्रैव मे पुण्यो जायतां ख्यातिसंयुतः॥ १६२॥
अस्मिंश्चाहं सदा देवाः स्थास्यामि वरपर्वते॥ १६३॥
रूपेणानेन देवेशि ये त्वां द्रक्ष्यंति मानवाः॥
आश्रमेऽत्र महापुण्ये ते यास्यंति परां गतिम्॥१६४॥
ब्रह्मज्ञानसमायुक्तास्ते भविष्यंति मानवाः॥ १६५॥
यस्माच्चंडं कृतं कर्म त्वया दानवसूदनात्॥
तस्मात्त्वं चंडिकानाम लोके ख्यातिं गमिष्यसि॥ १६६॥
तव नाम्ना तथा ख्यात आश्रमोऽयं भविष्यति॥ १६७॥
येऽत्र कृष्ण चतुर्द्दश्यामाश्विने मासि शोभने ॥
पिंडदानं करिष्यंति स्नानं कृत्वा समाहिताः ॥ १६८ ॥
गयाश्राद्धफलं कृत्यं तेषां देवि भविष्यति ॥
त्वद्दर्शनात्तथा मुक्तिः पातकस्य भविष्यति ॥ १६९ ॥
॥ कृष्ण उवाच ॥ ॥
एकरात्रिं भविष्यंति येऽत्र श्रद्धासमन्विताः ॥
उपवासपरास्तेषां पापं यास्यति संक्षयम् ॥ 7.3.36.१७० ॥
पुत्रहीनश्च यो मर्त्यो नारी वापि समाहिता ॥
तन्मनाः पिंडदानं वै तथा स्नानं करिष्यति ॥
अपुत्रो लभते शीघ्रं सुपुत्रं नात्र संशयः ॥ १७१ ॥
॥ इन्द्र उवाच ॥ ॥
भ्रष्टराज्यो नृपो योऽत्र स्नानं दानं करिष्यति ॥
सर्वशत्रुक्षयस्तस्य राज्यावाप्तिर्भविष्यति ॥ १७२ ॥ ॥
॥ अग्निरुवाच॥ ॥
अत्रागत्य शुचिः श्राद्धं यः करिष्यति मानवः ॥
आत्मवित्तानुसारेण तस्य यज्ञफलं भवेत् ॥१७३॥
॥ यम उवाच॥ ॥
अत्र स्नात्वा तिलान्यस्तु ब्राह्मणेभ्यः प्रदास्यति ॥
अल्पमृत्युभयं तस्य न कदाचिद्भविष्यति ॥१७४॥
॥ राक्षसा ऊचुः ॥ ॥
पिंडदानं नरा येऽत्र करिष्यंति तवाऽऽश्रमे ॥
प्रेतोत्थं न भयं तस्य देवि क्वापि भविष्यति ॥१७५॥
॥ वरुण उवाच ॥ ॥
स्नानार्थं ब्राह्मणेंद्राणां योऽत्र तोयं प्रदास्यति ॥
विमलस्तु सदा भावि इह लोके परत्र च ॥ १७६ ॥
॥ वायुरुवाच ॥ ॥
विलेपनानि शुभ्राणि सुगंधानि विशेषतः ॥
योत्र दास्यति विप्रेभ्यो नीरोगः स भविष्यति ॥ १७७ ॥
॥ धनद उवाच ॥ ॥
योऽत्र वित्तं यथाशक्त्या ब्राह्मणेभ्यः प्रदास्यति ॥
न भविष्यति लोके स वित्तहीनः कथंचन ॥ ॥ १७८ ॥
॥ ईश्वर उवाच ॥ ॥
योऽत्र व्रतपरो भूत्वा चातुर्मास्यं वसिष्यति ॥
इह लोके परे चैव तस्य भावि सदा सुखम् ॥ १७९ ॥ ॥
॥ वसव ऊचुः ॥ ॥
त्रिरात्रं यो नरः सम्यगुपवासं करिष्यति ॥
आजन्ममरणात्पापान्मुक्तः स च भविष्यति ॥7.3.36.१८०॥।
॥ आदित्य उवाच ॥ ॥
अत्राश्रमपदे पुण्ये ये नरा भक्तिसंयुताः ॥
छत्रोपानत्प्रदातारस्तेषां लोकाः सनातनाः ॥ १८१ ॥
॥ अश्विनावूचतुः ॥ ॥
मिष्टान्नं श्रद्धयोपेतो ब्राह्मणाय प्रदास्यति ॥
योऽत्र तस्य परा प्रीतिर्भविष्यत्यविनाशिनी १। १८२ ॥
॥ तीर्थान्यूचुः ॥ ॥
अद्यप्रभृति सर्वेषां तीर्थानामिह संस्थितिः ॥
भविष्यति विशेषेण ह्याश्रमे लोकविश्रुते ॥१८३॥
कृष्णपक्षे चतुर्द्दश्यामाश्विने मासि भक्तितः ॥
उपवासपरो भूत्वा योऽत्र स्नानं करिष्यति ॥
सर्वेषामेव तीर्थानां स फलं हि लभिष्यति ॥ १-४ ॥
॥ गंधर्वा ऊचुः ॥ ॥
गीतवाद्यानि यश्चात्र प्रकरिष्यति मानवः ॥
सप्तजन्मांतराण्येव रूपवान्स भविष्यति ॥ १८५ ॥
॥ ऋषय ऊचुः ॥ ॥
आश्रमेऽस्मिंस्त्रिरात्रं य उपवासं करिष्यति ॥
चांद्रायणसहस्रस्य फलं तस्य भविष्यति ॥ १८६ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवं सर्वे वरान्दत्त्वा देव्यै देवा नृपोत्तम ॥
तदाज्ञया दिवं जग्मुर्देवी तत्रैव संस्थिता ॥ १८७ ॥
अथ मर्त्त्या दिवं जग्मुर्दृष्ट्वा देवीं तदाश्रमे ॥
अनायासेन संपूर्णास्ततो मर्त्यैस्त्रिविष्टपः ॥ १८८ ॥
अग्निष्टोमादिकाः सर्वाः क्रिया नष्टा धरातले ॥
धर्मक्रियास्तथा चान्या मुक्त्वा देव्याः प्रपूजनम् ॥ १८९ ॥
ततो भीतः सहस्राक्षः संमंत्र्य गुरुणा सह ॥
आह्वयामास वेगेन कामं क्रोधं भयं मदम् ॥ 7.3.36.१९० ॥
व्यामोहं गृहपुत्रोत्थं तृष्णामायासमन्वितम् ॥
गत्वा यूयं द्रुतं मर्त्ये स्थातुकामान्नरान्स्त्रियः ॥१९१॥
चंडिकायतने पुण्ये सेवध्वं हि ममाज्ञया ॥
विशेषेणाश्विने मासि कृष्णपक्षेंऽत्यवासरे ॥ १९२ ॥
एवमुक्तास्ततः सर्वे कामाद्यास्ते द्रुतं ययुः ॥
मर्त्यलोके महाराज रक्षां चक्रुश्च सर्वशः ॥ १९३ ॥
एवं ज्ञात्वा द्रुतं गच्छ तत्र पार्थिवसत्तम ॥
यदीच्छसि परं श्रेय इह लोके परत्र च ॥ १९४ ॥
यो याति चंडिकां द्रष्टुमबुर्दं प्रति पार्थिव ॥
नृत्यंति पितरस्तस्य गर्जंति च पितामहाः ॥ १९५ ॥
तारयिष्यति नः सर्वान्स पुत्रो य इहाश्रमे ॥
चंडिकायाः प्रगत्वाऽथ कुर्याच्छ्राद्धं समाहितः ॥ १९६ ॥
एकया लभ्यते राज्यं स्वर्गश्चैव द्वितीयया ॥
तृतीयया भवेन्मोक्षो यात्रया तत्र पार्थिव ॥ १९७ ॥
तस्मात्सर्वप्रयत्नेन यात्रां तत्र समाचरेत् ॥
अर्बुदे पर्वतश्रेष्ठे सर्वतीर्थमये शुभे ॥ १९८ ॥
तत्र श्लोकः पुरा गीतो नारदेन महर्षिणा ॥
स्नात्वा तत्राश्रमे पुण्ये बहुविप्र समागमे ॥ ११९ ॥
पुनंत्येवान्यतीर्थानि स्नानदानैरसंशयम् ॥
अर्बुदालोकनादेव विपाप्मा तत्र जायते ॥ 7.3.36.२०० ॥
यः शृणोति सदाख्यानमेत च्छ्रद्धासमन्वितः ॥
स प्राप्नोति नरश्रेष्ठ कामान्मनसि वांछितान् ॥ २०१ ॥
यस्यैतत्तिष्ठते गेहे लिखितं पुस्तकं नृप ॥
तस्यापि वांछिताः कामाः संपद्यते दिनेदिने ॥ २०२ ॥
पठति श्रद्धयोपेतो यो वा भूमिपते नरः ॥
सोऽपि यात्राफलं राजँल्लभते पुरुषोत्तमः ॥ २०३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे .तृतीयेऽर्बुदखण्डे चंडिकाश्रमोत्पत्तिमाहात्म्यवर्णनंनाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 37
॥ पुलस्त्य उवाच ॥ ॥
नागह्रदं ततो गच्छेत्तीर्थं पापप्रणाशनम् ॥
यत्र नागैस्तपस्तप्तं रम्ये पर्वतरोधसि ॥ १ ॥
कद्रूशापं पुरा श्रुत्वा नागाः सर्वे भयातुराः ॥
पप्रच्छुर्नागराजानं शेषं प्रणतकन्धराः ॥ २ ॥
मातृशापेन संतप्ता वयं पन्नगसत्तम ॥
किं कुर्मः क्व च गच्छामः शापमोक्षो भवेत्कथम्॥ ३ ॥
॥ शेष उवाच ॥ ॥
प्रसादिता मया माता शापमुक्तिकृते पुरा ॥
तयोक्तं ये तपोयुक्ता धर्मात्मानः सुसंयताः ॥ ४ ॥
न दहिष्यति तान्वह्निर्यज्ञे पारिक्षितस्य हि ॥
तस्माद्गत्वार्बुदंनाम पर्वतं धरणीतले ॥ ५ ॥
तत्र यूयं तपोयुक्ता भवध्वं सुसमाहिताः ॥
यत्रास्ते सा स्वयं देवी चंडिका कामरूपिणी ॥ ६ ॥
यस्याः संकीर्त्तनेनापि नश्यंति विपदो ध्रुवम् ॥
आराधयध्वमनिशं तां देवीं मम वाक्यतः ॥ ७ ॥
तस्याः प्रसादतः सर्वे भविष्यथ गतज्वराः ॥
एतमेवात्र पश्यामि उपायं नागसत्तमाः ॥
दैवो वा मानुषो वाऽपि नान्यो वो मुक्तिकारकः ॥ ८ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्तास्ततो नागा नागराजेन पार्थिव ॥
प्रणम्य तं ततो जग्मुरर्बुदं पर्वतं प्रति ॥ ९ ॥
ते भित्त्वा धरणीपृष्ठं पर्वते तदनन्तरम् ॥
निजग्मुर्बिलमार्गेण कृत्वा श्वभ्रे सुविस्तरम् ॥ 7.3.37.१० ॥
ततो धृतव्रताः सर्वे देवी भक्तिपरायणाः ॥
वसंति भक्तिसंयुक्ताश्चण्डिकाराधनाय ते ॥ ११ ॥
तस्थुस्तत्र सदा होमं कुर्वन्तो जाप्यमुत्तमम् ॥
एकाहारा निराहारा वायुभक्षास्तथा परे ॥ १२ ॥
दन्तोलूखलिनः केचिदश्मकुट्टास्तथा परे ॥
पञ्चाग्निसाधकाश्चान्ये सद्यः प्रक्षालकास्तथा ॥ १३ ॥
गीतं वाद्यं तथा चक्रुरन्ये देवाः पुरस्तदा ॥
अनन्यश्रदयोपेतांस्तान्दृष्ट्वा पन्नगोत्तमान् ॥ १४ ॥
ततो देवी सुसन्तुष्टा वाक्यमेतदुवाच ह ॥ १५ ॥ ॥
॥ देव्युवाच ॥ ॥
परितुष्टास्मि वो वत्साः किमर्थं तप्यते तपः ॥
वरयध्वं वरं मत्तो यः स्थितो भवतां हृदि ॥ १६ ॥
॥ नागा ऊचुः ॥ ॥
मातृशापेन संतप्ता वयं देवि निराश्रयाः ॥
नागराजसमादेशाच्छरणं त्वां समागताः ॥ १७ ॥
सा त्वं रक्ष भयात्तस्माच्छापवह्निसमुद्भवात् ॥
वयं मात्रा पुरा शप्ताः कस्मिंश्चित्कारणान्तरे ॥
पारिक्षितस्य यज्ञे वः पावको भक्षयिष्यति ॥ १८ ॥
॥ देव्युवाच ॥ ॥
यावत्तस्य भवेद्यज्ञ स्तावद्यूयं ममान्तिके ॥
संतिष्ठत विना भीत्या भोगान्भुङ्ध्वं सुपुष्कलान् ॥ १९ ॥
समाप्ते च क्रतौ भूयो गंतारः स्वं निकेतनम् ॥
युष्माभिर्भेदितं यस्मादेतत्पर्वतकन्दरम् ॥ 7.3.37.२० ॥
नागह्रदं तु तत्तीर्थमेतद्भावि धरातले ॥
अत्र यः श्रावणे मासि पञ्चम्यां भक्तितत्परः ॥ २१ ॥
करिष्यति नरः स्नानं तस्य नाहिकृतं भयम् ॥
भविष्यति पुनः श्राद्धात्पितॄन्संतारयिष्यति ॥ २२ ॥
ये भोगा भूतले ख्याता ये दिव्या ये च मानुषाः ॥
नरो नित्यं लभिष्यति न संशयः ॥ २३ ॥
॥ पुलस्त्य उवाच ॥ ॥
ततो हृष्टा बभूवुस्ते मुक्त्वा तद्दारुणं भयम् ॥
देव्याः शरणमापन्नास्तस्थुस्तत्र नगोत्तमे ॥ २४ ॥
ततः कालेन महता सत्रे पारिक्षितस्य च ॥
निर्वृत्ते ते तदा जग्मुः सुनिर्वृत्ता रसातलम् ॥ २५ ॥
देव्या चैवाभ्यनुज्ञाताः प्रणिपत्य मुहुर्मुहुः ॥
कृच्छ्रात्पार्थिवशार्दूल तद्भक्त्या निश्चलीकृताः ॥ २६ ॥
अद्यापि कृष्णपंचम्यां श्रावणे मासि पार्थिव ॥
सान्निध्यं तत्र कुर्वंति देवीदर्शनलालसाः ॥ २७ ॥
तस्मात्सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत् ॥
स्नानं च पार्थिवश्रेष्ठ य इच्छेच्छ्रेय आत्मनः ॥ २८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे नागोद्भवतीर्थमाहात्म्य वर्णनंनाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 38
॥ पुलस्त्य उवाच ॥ ॥
कुंडं तु शिवलिंगाख्यं ततो गच्छेन्महीपते ॥
यत्र सा जाह्नवी गुप्ता तिष्ठते भूपसत्तम ॥ १ ॥
तस्यां स्नातो नरः सम्यक्सर्वतीर्थफलं लभेत् ॥
मुच्यते पातकात्कृत्स्नादाजन्ममरणांतिकात् ॥ २ ॥
॥ ययाति रुवाच ॥ ॥
किमर्थं तत्र सा गुप्ता जाह्नवी तिष्ठते विभो ॥
कस्मिन्काले समायाता परं कौतूहलं हि मे ॥ ३ ॥
॥ पुलस्त्य उवाच ॥ ॥
यदा प्रसादितो देवैर्भगवान्वृषभध्वजः ॥
अर्बुदेऽस्मिन्सदा स्थेयमचलेन त्वया विभो ॥ ४॥
तत्र संस्थापिते लिंगे स्वयं देवेन शंभुना ॥
यत्पातितं पुरा लिंगं वालखिल्यैर्महर्षिभिः ॥ ५ ॥
अतिकोपसमायुक्तैः कस्मिंश्चित्कारणांतरे ॥
तदा देवेन प्रतिज्ञातं सर्वेषां त्रिदिवौकसाम् ॥ ६ ॥
अचले तु मयात्रैव स्थातव्यं नात्र संशयः ॥
ततः कालेन महता वसतस्तस्य तत्र च ॥ ७ ॥
अचलेश्वररूपस्य गंगा चित्ते व्यजायत ॥
कथं नित्यं तया सार्द्धं भविष्यति समागमः ॥ ८ ॥
अथ जानाति नो गौरी मानिनी परमेश्वरी ॥
तस्यैवं चिन्तयानस्य बहुशो नृपसत्तम ॥ ९ ॥
उपायं सुमहद्ध्यात्वा जाह्नवीसंगसंभवम् ॥
तेनादिष्टा गणाः सर्वे नंदिभृङ्गिपुरःसराः ॥ 7.3.38.१० ॥
अभिप्रायोऽस्ति मे कश्चिज्जलाश्रयव्रतोद्भवः ॥
क्रियतामुत्तमं कुण्डमस्मिन्पर्वतरोधसि ॥ ११ ॥
तत्राहं जलमध्यस्थः स्थास्यामि जलतत्परः ॥
तच्छ्रुत्वा त्वरितं चक्रुर्गणाः कुण्डमनेकशः ॥ १२ ॥
स्वच्छोदकसमाकीर्णं सुतीर्थं सुसुखावहम् ॥
ततो गौरीमनुज्ञाप्य जाह्नवीसंगलालसः ॥ १३ ॥
व्रतव्याजेन देवेशो विवेश तदनन्तरम् ॥
चिन्तयामास तत्रस्थो गंगां त्रैलोक्यपाविनीम् ॥ १४ ॥
सा ध्याता तत्क्षणात्तत्र शिवेन सह संगता ॥
एवं स भगवांस्तत्र जाह्नवीं भजते सदा ॥ १५ ॥
व्रतव्याजेन राजेन्द्र न तु गौरी व्यजानत ॥
कस्यचित्त्वथ कालस्य नारदो भगवान्मुनिः ॥
कैवल्यज्ञानसंपन्नस्तत्रायातः परिभ्रमन् ॥ १६ ॥
स तु दृष्ट्वा महादेवं जलस्थं व्रतधारिणम् ॥
कामजैरिंगितैर्युक्तं तत्राऽसौ विस्मयान्वितः ॥ १७ ॥
वक्त्रनेत्रविकारोऽयं किमस्य व्रतधारिणः ॥
ईदृक्कामसमायुक्तस्ततो ध्यानस्थितो मुनिः ॥ १८ ॥
अथाऽपश्यद्ध्यानदृष्ट्या गंगासक्तं महेश्वरम् ॥
गौर्या भयेन सव्याजं ततो विस्मयमागतः ॥ १९ ॥
तदा स कथयामास सर्वं हरविचेष्टितम् ॥ 7.3.38.२० ॥
ततो देवी त्वरायुक्ता ययौ यत्र महेश्वरः ॥
आताम्रनयना रोषाद्वेपमाना मुहुर्मुहुः ॥ २१ ॥
तां दृष्ट्वा कोपसंयुक्तां समायातां महेश्वरीम् ॥
उवाच जाह्नवी भीता ज्ञात्वा दिव्येन चक्षुषा ॥ २२ ॥
आवयोः संगमे देवी नारदेन निवेदिता ॥
सेयं रुष्टा समायाति कुरुष्व यदनन्तरम् ॥ २३ ॥
॥ श्रीमहादेव उवाच ॥ ॥
कर्त्तव्यं जाह्नवि श्रेयः पुरो गत्वा नगात्मजाम् ॥
अत्यर्थं मानिनी ह्येषा साम्ना च वशवर्तिनी ॥ २४ ॥
तत्क्षणाज्जायते साध्वी तस्मात्सामपरा भव ॥
नो चेच्छापं मया सार्धं तव दास्यत्यसंशयम् ॥ २५ ॥
एवमुक्ता च रुद्रेण जाह्नवी नृपसत्तम ॥
कुण्डान्निर्गत्य सा गंगा सम्मुखं प्रययौ तदा ॥ २६ ॥
प्रत्युद्ययौ सलज्जा च कृतांजलिपुरःसरा ॥
प्रणम्य शिरसा चेयं ततः प्राह स्वलंकृता ॥ २७ ॥
पुराऽहं तव कांतेन निपतन्ती नभस्तलात् ॥
धृता देवि तवा प्येतद्विदितं नृपतेः कृते ॥ २८ ॥
भगीरथाभिधानस्य ततः स्नेहो व्यवर्धत ॥
आवयोस्तव भीत्या च नाभूत्क्वापि समागमः ॥ २९ ॥
अधुना तव वाक्येन जानेऽहं न सुरेश्वरि ॥
समाहूताऽस्मि रुद्रेण किं वा स्वच्छन्दतः शुभे ॥ 7.3.38.३० ॥
त्रैलोक्यस्य प्रभुरयं तन्निष्क्रम्य कथञ्चन ॥
तस्मादत्रैव संप्राप्ता सत्यमेतन्मयोदितम् ॥ ३१ ॥
॥ पुलस्त्य उपाच ॥ ॥
तस्यास्तद्वचनं श्रुत्वा ततो देवी प्रहर्षिता ॥
प्रोवाच मधुरं वाक्यं सत्यमेतत्त्व योदितम्॥ ३२ ॥
तस्माद्वरय भद्रं ते वरं मत्तो यथेप्सितम् ॥
मुक्त्वैकं पतिधर्म्मत्वे मम कांतं महेश्वरम्॥ ३३ ॥
॥ गंगोवाच ॥ ॥
अपि दौर्भाग्ययुक्ताऽहं भार्या जाताऽस्मि शूलिनः ॥
तस्मादेकं दिनं देहि क्रीडनार्थमनेन तु ॥ ३४ ॥
चैत्रशुक्लत्रयोदश्यामहोरात्रं सुरेश्वरि ॥
शिवकुंडं तथास्त्वेतन्मया यस्मात्समावृतम् ॥ ३५ ॥
शिवगंगाभिधानं च तस्मात्कुण्डं धरातले ॥
ख्यातिं यातु प्रसादेन तव पर्वतनंदिनि ॥ ३६ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमस्त्विति सा देवी प्रोच्य गंगां महानदीम् ॥
ततो विसर्जयामास तामालिंग्य मुहुर्मुहुः ॥ ३७ ॥
गतायामथ गंगायामधोवक्त्रं सुलज्जितम् ॥
पाणौ गृह्य ययौ रुद्रं भ्रममाणा गृहं प्रति ॥३८॥
एवमेतत्पुरावृत्तं तस्मिन्कुण्डे नराधिप ॥
तस्मात्सर्वप्रयत्नेन चतुर्द्दश्यां समाहितः ॥ ३९ ॥
शुक्लायां चैत्रमासे तु स्नानं तत्र समाचरेत् ॥
सांनिध्याद्देवदेवस्य गंगायाश्च नृपोत्तम ॥ 7.3.38.४० ॥
यत्र संक्षयमायाति सर्वं तत्राशुभं कृतम् ॥
तत्र यो वृषभं दद्याद्ब्राह्मणाय नृपोत्तम ॥
तद्रोमसंख्ययास्वर्गे स पुमान्वसति ध्रुवम् ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे शिवगंगाकुण्डोत्पत्तिमाहात्म्यवर्णनंनामाष्टात्रिंशोऽध्यायः ॥ ३८ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 39
॥ ययातिरुवाच ॥ ॥
यत्त्वया कीर्तितं ब्रह्मन्पूर्वं देवैः प्रसादितः ॥
लिंगं संस्थापयामास स्थिररूपो महेश्वरः ॥ १ ॥
कस्मात्तत्पातितं लिंगं वालखिल्यैर्महात्मभिः ॥
कस्मात्तत्राचलो जातो देवदेवो महेश्वरः ॥ २ ॥
एतन्मे कौतुकं सर्वं यथावद्वक्तुमर्हसि ॥
तस्मिन्दृष्टे च किं पुण्यं नराणां तत्र जायते ॥ ३ ॥
॥ पुलस्त्य उवाच ॥ ॥
महेश्वरस्य माहात्म्यं शृणु पार्थिवसत्तम ॥
अत्र ते कीर्तयिष्यामि पूर्ववृत्तं कथांतरम् ॥ ४ ॥
यदा पञ्चत्वमापन्ना सती सत्यपराक्रमा ॥
अपमानेन दक्षस्य यज्ञे न च निमंत्रिता ॥ ५ ॥
तदा कामो द्रुतं गृह्य पुष्पचापं तमभ्यगात्॥
कन्दर्प्पं सहसा दृष्ट्वा सन्धितेषुं सुदुर्जयम् ॥ ६ ॥
आपतन्तं भयात्तस्य प्रणष्टस्त्रिपुरांतकः ॥
स तदा भ्रममाणश्च इतश्चेतश्च पार्थिव ॥ ७ ॥
वालखिल्याश्रमं प्राप्तः पुण्यं सद्वृक्षशोभितम् ॥
स तत्र भगवांस्तेषां दारैर्दृष्टः सुरूपवान्॥ ८ ॥
दिग्वासाः सुप्रियालापस्ततस्ताः काममोहिताः ॥
त्यक्त्वा पुत्रगृहाद्यं च सर्वास्तत्पृष्ठसंस्थिताः ॥
बभूवुश्चानिशं राजन्मां भजस्वेति चाब्रुवन् ॥ ९ ॥
चक्रुरालिंगनं काश्चिच्चुम्बनं च तथापराः ॥
अन्यास्तस्य हि लिंगं तत्स्पृशंति च मुहुर्मुहुः ॥ 7.3.39.१० ॥
स चापि भगवाञ्छम्भुर्निष्कामः परमेश्वरः ॥
जगद्व्याप्तिं समाश्रित्य सर्वप्राणिषु वर्तते ॥ ११ ॥
स चापि भगवाच्छंभुस्तासां सरति प्राङ्मुखः ॥
भ्रांतस्तत्राश्रमे तेषां दारान्कामेन पीडयन् ॥ १२ ॥
अथ ते मुनयो दृष्ट्वा विकृतिं दारसंभवाम् ॥
अजानन्तो महादेवं रुष्टास्तस्य महात्मनः ॥ ॥ १३ ॥
ददुः शापं सुसंतप्ताः कलत्रार्थे परंतप ॥
पततां पततां लिङ्गमेतत्ते पापकृत्तम ॥ १४ ॥
विडम्बयसि नो दारानजस्रं चास्य दर्शनात् ॥
ततश्चैवापतल्लिंगं तत्क्षणात्तत्पुरद्विषः ॥ १५ ॥
ब्रह्मवाक्येन राजर्षे चकम्पे वसुधा ततः ॥
शीर्णानि गिरिशृंगाणि चुक्षुभुर्मकरालयाः ॥ ॥ १६ ॥
ततो देवगणाः सर्वे भयत्रस्ता नराधिप ॥
अकाले प्रलयं मत्वा त्रैलोक्ये पर्यवस्थितम् ॥ १७ ॥
तत पितामहं जग्मु स्तस्मै सर्वं न्यवेदयन् ॥
प्रलयस्येव चिह्नानि दृश्यन्ते परमेश्वर ॥ १८ ॥
किं निमित्तं सुरश्रेष्ठ न जानीमो वयं प्रभो ॥
तेषां तद्वचनं श्रुत्वा चिरं ध्यात्वा पितामहः ॥ १९ ॥
अब्रवीत्पातितं लिंगं वालखिल्यैः पिनाकिनः ॥
तेनैते दारुणोत्पाताः संजाता भयसूचकाः ॥ 7.3.39.२० ॥
तस्मान्मया समायुक्ताः सर्वे तत्र दिवौकसः ॥
व्रजंतु येन तल्लिंगं स्थाने संस्थापयेच्छिवः ॥२१॥
यावन्नो जायते लोके प्रलयोऽ कालसंभवः ॥
एवं संमंत्र्य ते सर्वे ततोऽर्बुदमुपाययुः ॥ २२ ॥
वालखिल्याश्रमे यत्र तल्लिंगं निपपात ह ॥
तुष्टुवुर्विविधैः सूक्तैर्वेदोक्तैर्विनयान्विताः ॥ २३ ॥
॥ देवा ऊचुः ॥ ॥
नमस्ते देवदेवेश भक्तानां चाभयंकर ॥
नमस्ते सर्ववासाय सर्वयज्ञमयाय च ॥ २४ ॥
सर्वेश्वराय देवाय परमज्योतिषे नमः ॥
नमः स्फुटतर ज्ञानगम्याय वेधसे ॥ २५ ॥
त्र्यंबकाय च भीमाय पिनाकवरपाणये ॥
त्वयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ २६ ॥
संसारे विबुधश्रेष्ठ जगत्स्थावरजंगमम् ॥
न तदस्ति त्रिलोकेऽस्मिन्सुसूक्ष्ममपि शंकर ॥
यत्त्वया न प्रभो व्याप्तं सृष्टिसंहारकारणात् ॥ २७ ॥
पृथिव्यादीनि भूतानि त्वया सृष्टानि कामतः ॥
यास्यंति तानि भूयोऽपि तव काये जगत्पते ॥ २८ ॥
प्रसीद भगवंस्तस्माल्लिंगमेतत्सुरेश्वर ॥
स्थाने स्थापय भद्रं ते यावन्न स्यात्प्रजाक्षयः ॥ २९ ॥
॥ श्रीभगवानुवाच ॥ ॥
निर्विकारस्य मल्लिंगं वालखिल्यैः प्रपातितम्॥
कथं भूयः प्रगृह्णामि यावच्छुद्धिर्न जायते ॥ 7.3.39.३० ॥
शक्तोऽहं वालखिल्यानां निग्रहं कर्त्तुमञ्जसा ॥
किन्तु मे ब्राह्मणा मान्याः पूज्याश्च सुरसत्तमाः ॥ ३१ ॥
अचलं लिंगमेतद्धि नोद्धर्त्तुं शक्यते विभो ॥
एक एवात्र निर्दिष्ट उपायो नापरः स्मृतः ॥ ३२ ॥
यदि मे त्वं पुरा लिंगं पूजयेथाः पितामह ॥
ततो देवगणाः सर्वे ततो विप्रास्ततोऽपरे ॥ ३३ ॥
ततो नौ शांतिमागच्छेज्जगत्स्थावरजंगमम् ॥ ३४ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्तः स भगवाञ्छंकरेण नृपोत्तम ॥
ततस्तं पूजयामास ब्रह्मा पूर्वं सुभक्तितः ॥ ३५ ॥
ब्रह्मणोऽनन्तरं विष्णुस्ततः शक्र स्ततोऽपरे ॥
वालखिल्यादयो विप्रा मन्त्रैश्च शतरुद्रियैः ॥ ३६ ॥
ततस्ते दारुणोत्पाता उपशांताश्च तत्क्षणात् ॥
अभवत्सुमुखो लोको वृत्तो गन्धवहो मृदुः ॥ ३७ ॥
अथोवाच महादेवः सर्वांस्तांस्त्रिदशालयान्॥
वृणुध्वं सुवरं सर्वे मत्तो यन्मनसीप्सितम् ॥ ३८ ॥
॥ देवा ऊचुः ॥ ॥
तव लिंगस्य संस्पर्शादपि पापकृतो नराः ॥
स्वर्गं यास्यंति देवेश नाशं यास्यति किल्बिषम् ॥
व्रतदानानि सर्वाणि तीर्थयात्रायुतानि च ॥ ३९ ॥
तस्माद्वज्रेण देवेन्द्रस्तवैतल्लिंगमुत्तमम्॥
छादयिष्यति सर्वत्र यदि त्वं मन्यसे प्रभो ॥ 7.3.39.४० ॥
॥ श्रीभगवानुवाच ॥ ॥
अभिप्रायो ममाप्येष वर्तते हृदि पद्मज ॥
एवं करोतु देवेन्द्रः सर्वधर्मविवृद्धये ॥ ४१ ॥
पुलस्त्य उवाच ॥ ॥
ततः संछादयामास वज्रेण त्रिदशाधिपः ॥
तल्लिंगं सर्वमर्त्यानां यथाऽदृश्यं व्यजायत ॥ ४२ ॥
अद्यापि वज्रसंस्पर्शात्तत्सान्निध्यं गतो नरः ॥
आजन्ममरणात्पापान्मुच्यते नात्र संशयः ॥ ॥ ४३ ॥
माहात्म्यं कीर्तितं यस्मात्तल्लिंगे शंकरेण तु ॥
वस्त्रेणाच्छादितं चैव शक्रेणैव धरातले ॥ ४४ ॥
ततःप्रभृति लिंगस्य मर्त्त्ये पूजा व्यजायत ॥
पुरासीच्छंकरः पूज्यो यथान्ये त्रिदशालयाः ॥ ४५ ॥
एवमेतत्पुरावृत्तमर्बुदे पर्वतोत्तमे ॥
लिंगस्य पतनात्पूजां यन्मां त्वं परि पृच्छसि ॥ ४६ ॥
फाल्गुनान्तचतुर्द्दश्यां नैवेद्यं नूतनैर्यवैः ॥
यो ददात्यचलेशाय स भूयो नेह जायते ॥ ४७ ॥
ब्राह्मणान्भोजयेद्यस्तु भक्त्या तस्मिन्नवैर्यवैः ॥
यवसंख्याप्रमाणानि युगानि दिवि मोदते ॥ ४८ ॥
तत्र दानं प्रशंसन्ति सक्तूनां मुनिसत्तमाः ॥
नूतनानां महाराज यतः प्रोक्तं पुरारिणा ॥ ४९ ॥
किं दानैर्विविधैर्दत्तैः किं यज्ञैश्च सुविस्तरैः ॥
किं तीर्थैर्विविधैहोमैस्तपोभिः किं च कष्टदैः ॥ 7.3.39.५० ॥
फाल्गुनान्तचतुर्द्दश्यां सुमहेश्वरसन्निधौ ॥
धर्माण्येतानि सर्वाणि कलां नार्हंति षोडशीम्॥ ५१ ॥
शृणु राजन्पुरा वृत्तं तत्राश्चर्यं यदुत्तमम् ॥
कश्चित्पापसमाचारः कुष्ठी क्षामतनुर्नरः ॥ ५२ ॥
भिक्षार्थमागतस्तत्र लोकैरन्यैः समन्वितः ॥
तेन भिक्षार्जितं तत्र सक्तूनां कुडवं नृप ॥ ५३ ॥
ततो रोग परिक्लेशाद्भोजनं न चकार सः ॥
दाघार्दितो जले तस्मिन्स्नातो भक्तिविवर्जितः ॥
सक्तून्कृत्वोपधाने तान्स च सुप्तो निशागमे ॥ ५४ ॥
ततो निद्राभिभूतस्य सारमेयो जहार च ॥
भक्षयामास युक्तोऽन्यैः सारमेयैर्बुभुक्षितः ॥ ५५ ॥
अथासौ विस्मयाद्राजन्पंचत्वं समुपस्थितः ॥
ततो जातिस्मरो जातो विदर्भाधिपतेर्गृहे ॥ ५६ ॥
भीमोनाम नृपश्रेष्ठ दमयन्तीपिता हि यः ॥
तं प्रभावं हि विज्ञाय सक्तूनां तत्र पर्वते ॥ ५७ ॥
फाल्गुनांतचतुर्दश्यां वर्षे वर्षे जगाम सः ॥
कृत्वा चैवोपवासं तु रात्रौ जागरणं तथा ॥ ५८ ॥
अचलेश्वरसान्निध्ये ददौ सक्तूंस्ततो बहून् ॥
सहिरण्यान्द्विजेन्द्राणां पशुपक्षिमृगेषु च ॥ ५९ ॥
अथ ते मुनयः सर्वे गालवप्रमुखा नृप ॥
पप्रच्छुः कौतुकाविष्टाः सक्तुदानकृते नृपम् ॥ 7.3.39.६० ॥
॥ ऋषय ऊचुः ॥ ॥
हस्त्वश्वरथदानानां शक्तिरस्ति तवाद्भुता ॥
कस्मात्सक्तून्प्रमुक्त्वा त्वं नान्यद्दातुमिहेच्छसि ॥ ६१ ॥
॥ पुलस्त्य उवाच ॥ ॥
अथाऽसौ कथयामास पूर्वमेतत्समुद्भवम् ॥
सक्तुदानस्य माहात्म्यं मुनीनां भावितात्मनाम् ॥ ६२ ॥
पूर्वं भक्त्या विहीनस्य शुना वै सक्तवो हृताः ॥
तत्प्रभावादियं प्राप्तिर्मम जाता द्विजोत्तमाः ॥ ६३ ॥
सांप्रतं भक्तिद त्तानां किं स्याज्जानामि नो फलम्॥
एतस्मात्कारणाद्दानं सक्तूनां प्रकरोम्यहम् ॥
तीर्थेऽस्मिन्भक्तिसंयुक्तः सत्येनात्मानमालभे ॥ ६४ ॥ ॥
॥ पुलस्त्य उवाच ॥ ॥
ततस्ते मुनयो हृष्टाः साधुसाध्विति चाब्रुवन्॥
चक्रुश्चैवात्मशक्त्या ते सक्तूनां दानमुत्तमम् ॥ ६५॥
एष प्रभावो राजर्षे सक्तुदानस्य कीर्त्तितः ॥
महेश्वरस्य माहात्म्यं सत्यं चापि प्रकीर्त्तितम् ॥ ६६ ॥
यश्चैतच्छृणुयाद्भक्त्या कथ्यमानं द्विजाननात् ॥
अहोरात्र कृतात्पापान्मुच्यते नात्र संशयः ॥ ६७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे शिवलिंग महेश्वरमाहात्म्यवर्णनंपुरःसर सक्तुदानमाहात्म्यवर्णनंनामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 40
॥ पुलस्त्य उवाच ॥ ॥
ततः कामेश्वरं गच्छेत्तत्र कामप्रतिष्ठितम् ॥
यस्मिन्दृष्टे सदा मर्त्यः सुरूपः सुप्रभो भवेत् ॥ १ ॥
॥ ययातिरुवाच ॥ ॥
त्वया प्रोक्तं पुरा शंभुः कामबाण भयात्किल ॥
वालखिल्याश्रमं प्राप्तो यत्र लिंगं पपात ह ॥ २ ॥
स कथं पूजितस्तेन शंभुर्मे कौतुकं महत् ॥
वद सर्वं द्विजश्रेष्ठ कामेश्वरनिवेशनम् ॥ ३ ॥
॥ पुलस्त्य उवाच ॥ ॥
मुक्तलिंगेऽपि देवेशे न स्मरस्तं मुमोच ह ॥
दर्शयन्नात्मनो बाणं तस्यासौ पृष्ठतः स्थितः ॥ ४ ॥
ततो वाराणसीं प्राप्तस्तद्भयात्त्रिपुरांतकः ॥
तत्राऽपि च तथा दृष्ट्वा धृतचापं मनोभवम्॥५॥
ततः प्रयागमापन्नः केदारं च ततः परम्॥
नैमिषं भद्रकर्णं च जंबूमार्गे त्रिपुष्करम् ॥६॥
गोकर्णं च प्रभासं च पुण्यं च कृमिजांगलम्॥
गगाद्वारं गयाशीर्षं कालाभीष्टं वटेश्वरम् ॥७॥
किं वा तेन बहूक्तेन तीर्थान्यायतनानि च ॥
असंख्यानि गतो देवः कामं च ददृशे तथा ॥ ८ ॥
यत्रयत्र महादेवस्तद्भयान्नृप गच्छति ॥
तत्रतत्र पुनः कामं प्रपश्यति धृतायुधम्॥ ९ ॥
कस्यचित्त्वथकालस्य पुनः प्राप्तोऽर्बुदं प्रति ॥
तत्रापश्यत्तथा काममाकर्णाकर्षितायुधम्॥
आकुंचितैकपादं च स्थिरदृष्टिं नृपो त्तम ॥ 7.3.40.१० ॥
अथाऽसौ भगवाञ्छांतः प्रियादुःखसमन्वितः ॥
क्रोधं चक्रे विशेषेण दृष्ट्वा तं पुरतः स्थितम्॥ ११ ॥
तस्य कोपाभिभूतस्य तृतीयान्नयनान्नृप ॥
निश्चक्राम महाज्वाला ययाऽसौ भस्मसात्कृतः ॥ १२ ॥
सचापः सशरो राजंस्तस्मिन्पर्वतरोधसि ॥
शंकरो रोषपर्यंतं गत्वा सौख्यमवाप्तवान्॥ १३ ॥
कैलासं पर्वतश्रेष्ठं जगाम सुरपूजितः ॥
दग्धे मनोभवे भार्या रतिरस्य पतिव्रता ॥
व्यलपत्करुणं दीना पतिशोकपरि प्लुता ॥ १४ ॥
ततो दारूणि चाहृत्य चितिं कृत्वा नराधिप ॥
आरुरोहाग्निसंदीप्तां चितिं सा पतिदुःखिता॥
तावदाकाशगां वाणीं शुश्राव च यशस्विनी॥ १५॥
वागुवाच॥
मा पुत्रि साहसं कार्षीस्तपसा तिष्ठ सुन्दरि॥
भूयः प्राप्स्यसि भर्त्तारं कामें तुष्टेन शंभुना॥१६॥
सा श्रुत्वा तां तदा वाणीं समुत्तस्थौ समुमध्यमा॥
देवमाराधयामास दिवानक्तमतंद्रिता॥
व्रतैर्दानैर्जपैर्होमैरुपवासैस्तथा परैः॥१७॥
ततो वर्ष सहस्रांते तुष्टस्तस्या महेश्वरः ॥
अब्रवीद्वद कल्याणि वरं यन्मनसि स्थितम् ॥ १८ ॥
॥ रतिरुवाच ॥ ॥
यदि तुष्टोऽसि मे देव भगवँल्लोक भावनः ॥
अक्षतांगः पुनः कामः कांतो मे जायतां पतिः ॥ १९ ॥
एवमुक्ते तया वाक्ये तत्क्षणात्समुपस्थितः ॥
यथा सुप्तो महाराज तद्वद्रूपः स हर्षित ॥ 7.3.40.२० ॥
इक्षुयष्टिमयं चापं पुष्पबाणसमन्वितम् ॥
भृंगश्रेणिमय्या मौर्व्या शोभितं सुमनोहरम् ॥ २१ ॥
ततो रतिसमायुक्तः प्रणिपत्य महेश्वरम्॥
अनुज्ञातस्तु तेनैव स्वव्यापारेऽभ्यवर्त्तत ॥ २२ ॥
स दृष्ट्वा शिवमाहात्म्यं श्रद्धां कृत्वा नृपोत्तम ॥
शिवं संस्थापयामास पर्वतेऽर्बुदसंज्ञिते ॥ २३ ॥
यस्मिन्दृष्टे महाराज नारी वा यदि वा नरः ॥
सप्तजन्मांतराण्येव न दौर्भाग्यमवाप्नुयात् ॥ २४ ॥
एवमेतन्मया ख्यातं यन्मां त्वं परिपृच्छसि ॥
कामेश्वरस्य माहात्म्यं कामदाह सविस्तरम् ॥ २५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे कामेश्वरमाहात्म्यवर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४० ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 41
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ मार्कंडेयस्य चाश्रमम्॥
यत्र पूर्वं तपस्तप्तं मार्कंडेन महात्मना ॥ १ ॥
मृकण्डो ब्राह्मणोनाम पुराऽऽसीच्छंसितव्रतः ॥
अन्ते वयसि संजातस्तस्य पुत्रोऽतिसुन्दरः ॥ २ ॥
सर्वलक्षणसंपूर्णः शांतः सूर्यसमप्रभः ॥
कस्यचित्त्वथ कालस्य तस्याश्रमपदे नृप ॥ ३ ॥
आगतो ब्राह्मणो ज्ञानी कश्चित्सामुद्रविच्छुभः ॥
ततोऽसौ क्रीडमानस्तु बालकः पंचवार्षिकः ॥ ४ ॥
आनासाग्रशिखाग्राभ्यां चिरं चैवावलोकितः ॥
ततोऽहसत्स सहसा तं मृकण्डो ह्यलक्षयत्॥ ५ ॥
अथाऽब्रवीच्चिरं दृष्टस्त्वया पुत्रो मम द्विज॥
ततो हसितवान्भूयः किमिदं कारणं वद॥ ६॥
असकृत्स मृकण्डेन यावत्पृष्टो द्विजोत्तमः ॥
उपरोधवशात्तस्मै यथार्थं संन्यवेदयत् ॥ ७ ॥
अस्य बालस्य चिह्नानि यानि काये द्विजोत्तम ॥
अजरश्चामरश्चैव तैर्भवेत्पुरुषः किल ॥ ८ ॥
षण्मासेनास्य बालस्य नूनं मृत्युर्भविष्यति ॥
एतस्मात्कारणाद्धास्यं मयाऽकारि द्विजोत्तम ॥
अनृतं नोक्तपूर्वं मे वैरिष्वपि कदाचन ॥ ९ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा तु स ज्ञानी उषित्वा तत्र शर्वरीम् ॥
मृकंडेनाभ्यनुज्ञात इष्टं देशं जगाम ह ॥ 7.3.41.१० ॥
मृकंडोपि सुतं ज्ञात्वा ततः क्षीणायुषं नृप ॥
पंचवार्षिकमप्यार्त्तश्चकारोपनयान्वितम् ॥ ११ ॥
श्रुताध्ययनसंपन्नं यंयं पश्यसि चाग्रतः ॥
तस्याभिवादनं कार्यं त्वया पुत्रक नित्यशः ॥ १२ ॥
ततश्चक्रे ब्रह्मचारी पितुर्वाक्यं विशेषतः ॥ १३ ॥
बालं वृद्धं युवानं च यंयं पश्यति चक्षुषा ॥
नमस्करोति तं सर्वं ब्राह्मणं विनयान्वितः ॥ १४ ॥
कस्यचित्त्वथ कालस्य तस्याश्रमसमीपतः ॥
सप्तर्षयः समायातास्तीर्थयात्रापरायणाः ॥ १५ ॥
अथ तान्सत्वरं गत्वा वंदयामास पार्थिव ॥
बालः सविनयोपेतः सर्वांश्चैव यथाक्रमम् ॥ १६ ॥
दीर्घायुर्भव तैरुक्तः स बालस्तुष्टितत्परैः ॥
आस्थिताश्च यथाभीष्टं देशं बालं विसर्ज्य तम् ॥ १७ ॥
तेषां मध्येंऽगिरानाम दिव्यज्ञानसमन्वितः ॥
तेनावलोकितो बालः सूक्ष्मदृष्ट्या परंतप ॥ १८ ॥
अथ तानब्रवीत्सर्वान्मुनीन्किंचित्सविस्मयः ॥
दीर्घायुर्न च बालोऽयं युष्माभिः संप्रकीर्तितः ॥ १९ ॥
गमिष्यति कुमारोऽयं निधनं पंचमे दिने ॥
तन्न युक्तं हि नो वाक्यमसत्यं द्विजसत्तमाः ॥ 7.3.41.२० ॥
यथाऽयं चिरजीवी स्यात्तथा नीतिर्विधीयताम् ॥
अथ ते मुनयो भीता मिथ्या वाक्यस्य पार्थिव ॥ २१ ॥
बालकं तं समादाय ब्रह्मलोकं गतास्तदा ॥
तत्र दृष्ट्वा चतुर्वक्त्रं नमश्चक्रुर्मुनीश्वराः ॥ २२ ॥
तेषामनंतरं तेन बालके नाभिवादितः ॥
दीर्घायुर्भव तेनाऽपि ब्रह्मणोक्तः स बालकः ॥ २३ ॥
ततः सप्तर्षयो हृष्टाः स्वचित्ते नृपसत्तम ॥
सुखासीनान्सविश्रांतानब्रवीन्मुनिपुंगवान् ॥ २४ ॥
॥ ब्रह्मोवाच ॥ ॥
परिपृच्छत किं कार्यं कुतो यूयमिहागताः ॥ २५ ॥
॥ ऋषय ऊचुः ॥ ॥
तीर्थयात्राप्रसंगेन भ्रममाणा महीतलम् ॥
अर्बुदं पर्वतं नाम तस्य तीर्थेषु वै गताः ॥ २६ ॥
अथागत्य द्रुतं दूराद्बालेनानेन वंदिताः ॥
दीर्घायुर्भव संदिष्टस्ततश्चायमनेकधा ॥
पंचमे दिवसेऽस्यापि मृत्युर्देव भविष्यति ॥ २७ ॥
यथा वयं त्वया सार्द्धमसत्या न चतुर्मुख ॥
भवामोऽस्य कृते देव तथा किंचिद्विधीयताम्॥ २८॥
अथ ब्रह्मा प्रहृष्टात्मा दृष्ट्वा तं मुनिदारकम् ॥
मत्प्रसादादयं बालो भावी कल्पायुरब्रवीत् ॥ २९ ॥
ततस्ते मुनयो हृष्टास्तमादाय गृहं प्रति ॥
प्रस्थिता ब्रह्मलोकात्तु नमस्कृत्वा चतुर्मुखम् ॥ 7.3.41.३० ॥
अथ तस्य पिता तत्र मृकंडो मुनिसत्तमः ॥
ततो भार्यासमायुक्तो विललाप सुदुःखितः ॥ ३१ ॥
हा पुत्रपुत्र करुणं रुदित्वा धर्मवत्सलः ॥
अनामंत्र्य च मां कस्माद्दीर्घं पंथानमाश्रितः ॥३२॥
अकृत्वापि क्रियाः कार्याः कथं मृत्युवशं गतः ॥
सोऽहं त्वया विना पुत्र न जीवामि कथंचन ॥ ३३ ॥
एवं विलपतस्तस्य बहुधा नृपसत्तम ॥
बालश्चाभ्यागतस्तत्र यत्र देशे पुरा स्थितः ॥ ३४ ॥
अथासौ प्रययौ बालः प्रहृष्टेनांतरात्मना ॥
तं दृष्ट्वा पथि तातश्च संप्रहृष्टो बभूव ह ॥ ३५ ॥
पप्रच्छांकं समारोप्य चिरागमन कारणम्॥
ततः स कथयामास सर्वं मुनिविचेष्टितम् ॥
दर्शनं ब्रह्मलोकस्य पद्मयोनेर्वरं तथा ॥ ३६ ॥
॥ बालक उवाच ॥ ॥
अजरश्चामरश्चाहं कृतस्तात स्वयंभुवा ॥
तस्मात्सत्यं मदर्थे ते व्येत्वसौ मानसो ज्वरः ॥३७॥
सोऽहमाराधयिष्यामि तथैव चतुराननम् ॥
कृत्वाऽऽश्रमपदं रम्यमर्बुदे पर्वतोत्तमे ॥ ३८ ॥
अमृतस्रावि तद्वाक्यं श्रुत्वा पुत्रस्य स द्विजः ॥
मृकंडो हर्षसंयुक्तो वाचमित्यब्रवीच्च तम् ॥ ३९ ॥
मार्क्कंडोऽपि द्रुतं गत्वा रम्य मर्बुदपर्वतम् ॥
तपस्तेपे सुविस्तीर्णं ध्यायन्देवं पितामहम्॥ 7.3.41.४० ॥
तस्याश्रमपदे पुण्ये श्रावणे मासि पार्थिव ॥
पौर्णमास्यां विशेषेण यः कुर्यात्पितृतर्पणम् ॥
पितृमेधफलं तस्य सकलं स्यादसंशयम् ॥४१॥
ऋषियोगेन यस्तत्र तर्पयेद्ब्राह्मणोत्तमान् ॥
ब्रह्मलोके चिरं वासस्तस्य संजायते नृप ॥ ॥ ४२ ॥
यः स्नानं कुरुते तत्र सम्यक्छ्रद्धासमन्वितः ॥
नाल्पमृत्युभयं तस्य कुले क्वापि प्रजायते ॥ ४३ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्ड तृतीयेऽर्बुदखण्डे मार्कंडेयाश्रमपदोत्पत्तिवर्णनंनामैकचत्वारिंशोऽध्यायः ॥४१॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 42
॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ लिंगं पापहरं परम्॥
उद्दालकेन मुनिना स्थापितं लोकविश्रुतम् ॥ १ ॥
तस्मिन्स्पृष्टेऽथ वा दृष्टे पूजिते च विशेषतः ॥
सर्वरोग विनिर्मुक्तो गार्हस्थ्यं प्राप्नुयान्नरः ॥ २ ॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्ड उद्दालकेश्वरमाहात्म्यवर्णनंनाम द्विचत्वारिंशोऽध्यायः ॥४२ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 43
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ सिद्धलिंगं सुसिद्धिदम्॥
सिद्धैस्तु स्थापितं लिंगं सर्वपातकनाशनम् ॥ १ ॥
तत्रास्ति शोभनं कुण्डं सुनिर्मलजलान्वितम् ॥
तत्र स्नातो नरः सम्यङ्मुच्यते ब्रह्महत्यया ॥ २ ॥
यंयं काममभिध्यायंस्तत्र स्नाति नरो नृप ॥
अवश्यं तमवाप्नोति निष्ठांते च परां गतिम् ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे सिद्धेश्वरमहिमवर्णनंनाम त्रयश्चत्वारिंशोऽध्यायः ॥४३॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 44
पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ गजतीर्थमनुत्तमम् ॥
यत्र पूर्वं तपस्तप्तं दिग्गजैर्भावितात्मभिः ॥ १ ॥
भूभारधरणैश्चान्यैरैरावणमुखैर्नृप ॥
तत्र स्नातो नरः सम्यग्गजदानफलं लभेत् ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे गजतीर्थप्रभाववर्णनंनाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 45
॥ पुलस्त्य उवाच॥ ॥
देवखातं ततो गच्छेत्सुपुण्यं तीर्थमुत्तमम् ॥
यत्ख्यातिर्विबुधैः सर्वैः स्वयमेव व्यधीयत ॥ १ ॥
तत्र यः कुरुते श्राद्धममावास्यां विशेषतः ॥
कन्यागते रवौ राजन्स लभेत्परमं पदम् ॥
पितॄन्स तारयत्येव प्राप्तानपि सुदुर्गतिम्॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे श्रीदेवखातोत्पत्तिमाहात्म्यवर्णनंनाम पंचचत्वारिंशोऽध्यायः ॥ ४५ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 46
॥ पुलस्त्य उवाच ॥ ॥
ततो व्यासेश्वरं गच्छेद्व्यासेन स्थापितं हि यत् ॥
तं दृष्ट्वा जायते मर्त्यो मेधावी मतिमाञ्छुचिः ॥
सप्तजन्मांतराण्येव व्यासस्य वचनं यथा ॥ १ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे व्यासतीर्थमाहात्म्यवर्णनंनाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 47
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ सुपूर्णं गौतमाश्रमम् ॥
यत्र पूर्वं तपस्तप्तं गौतमेन महात्मना ॥ १ ॥
पुराऽऽसीद्गौतमो नाम मुनिः परमधार्मिकः ॥
स भक्त्याऽऽराधयामास देवदेवं महेश्वरम् ॥ २ ॥
भक्त्याऽऽराधयमानस्य निर्भिद्य धरणीतलम् ॥
समुत्तस्थौ महल्लिंगं परं माहेश्वरं नृप ॥ ३ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
पूजयैतन्महल्लिंगं त्वद्भक्त्या समुपस्थितम्॥
वरं वरय भद्रं ते यत्ते मनसि वर्तते ॥४॥
॥ गौतम उवाच॥ ॥
अत्राश्रमपदे देव त्वया शम्भो जगत्पते ॥
सदा कार्यं हि सान्निध्यं यदि तुष्टो मम प्रभो॥ ५ ॥
यस्त्वां पश्यति सद्भक्त्या ब्रह्मलोकं स गच्छतु ॥ ६ ॥
॥ आकाशवाण्युवाच ॥ ॥
माघमासे चतुर्द्दश्यां योऽत्र मां वीक्षयिष्यति ॥
कृष्णायां ब्राह्मणश्रेष्ठ स यास्यति परां गतिम् ॥७॥
एवमुक्त्वा ततो वाणी विरराम महीपते ॥
तत्रास्ति कुण्डमपरं पवित्रं जलपूरितम्॥
तत्र स्नातो नरः सद्यः कुलं तारयतेऽखिलम् ॥ ८ ॥
यस्तत्र कुरुते श्राद्धं विशेषादिन्दुसंक्षये ॥
गयाश्राद्धफलं तस्य सकलं जायते ध्रुवम् ॥ ९ ॥
तत्र दानं प्रशंसंति तिलानां मुनिपुंगवाः ॥
तिलसंख्यानि वर्षाणि दानात्स्वर्गे वसेन्नृप ॥ 7.3.47.१० ॥
अर्बुदे गौतमी यात्रा सिंहस्थे च बृहस्पतौ ॥
अमायां सोमवारेण द्विषड्गोदावरीफलम् ॥ ११ ॥
षष्टिवर्षसहस्राणि भागीरथ्यवगाहने ॥
सकृद्गोदावरीस्नानात्सिंहस्थे च बृहस्पतौ ॥ १२ ॥
इति श्रीस्कान्दे महापुराण एकाशातिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे गौतमाश्रमतीर्थमाहात्म्यवर्णनंनाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 48
॥ पुलस्त्य उवाच ॥ ॥
कुलसंतारणं गच्छेत्तत्र तीर्थमनुत्तमम् ॥
यत्र स्नातो नरः सम्यक्कुलं तारयतेऽखिलम्॥ १ ॥
दश पूर्वान्भविष्यांश्च तथात्मानं नृपोत्तम ॥
उद्धरेच्छ्रद्धयायुक्तस्तत्र दानेन मानवः ॥ २ ॥
आसीदप्रस्तुतो नाम राजा पूर्वं स पापकृत् ॥
नापि दानं तथा ज्ञानं न ध्यानं न च सत्क्रिया ॥ ३ ॥
तस्मिञ्छासति लोकानां नासीत्सौख्यं कदाचन ॥
परदार रुचिर्नित्यं महादण्डपरश्च सः ॥ ४ ॥
न्यायतोऽन्यायतो वापि करोति धनसंग्रहम् ॥
स घातयति लोकांश्च निर्दोषान्पापकृत्तमः ॥ ५ ॥
ततो वार्धक्यमापन्नस्तथापि न शमं गतः ॥
कस्यचित्त्वथ कालस्य पितृभिः प्रतिबोधितः ॥
तं प्रसुप्तं समासाद्य नारकेयैः सुदुःखितैः ॥ ६॥
॥ पितर ऊचुः ॥ ॥
वयं शुद्धसमाचारा नित्यं धर्मपरायणाः ॥
दानयज्ञतपःशीलाः स्वदारनिरतास्तथा ॥ ७ ॥
स्वकर्मभिः कुलांगार दिवं प्राप्ता यथार्हतः ॥
कुपुत्रं त्वां समासाद्य नरकं समुपस्थिताः ॥
तस्मादुद्धर नः सर्वान्कृत्वा किंचिच्छुभार्चनम् ॥ ८ ॥
कर्मभिस्तव पापात्मन्वयं नरकमाश्रिताः ॥
नरकं दश यास्यंति भविष्याश्च तथा भवान् ॥ ९ ॥
एवमुक्त्वा च ते सर्वे पितरस्तु सुदुःखिताः ॥
याताश्च नरकं भूयः प्रबुद्धः सोऽपि पार्थिवः ॥ 7.3.48.१० ॥
ततो दुःखमनुप्राप्तः पितृवाक्यानि संस्मरन् ॥
रुरोद प्रातरुत्थाय तं भार्या प्रत्यभाषत ॥ ११ ॥
॥ इन्दुमत्युवाच ॥ ॥
किमर्थं राजशार्दूल त्वं रोदिषि महास्वनम् ॥
कथं ते कुशलं राज्ये शरीरे वा पुरेऽथवा ॥ १२ ॥ ॥
॥ राजोवाच ॥ ॥
मया दृष्टोऽद्य स्वप्नांते पिता ह्यथ पितामहः ॥
अपश्यं दुःखितान्देवि ताभ्यामथाग्रजान्पितॄन् ॥ १३ ॥
उपालब्धोऽस्मि तैः सर्वैस्तव कर्मभिरीदृशैः ॥
दारुणे नरके प्राप्ता अधर्मादिविचेष्टितैः ॥ १४ ॥
अथान्ये दश यास्यन्ति भविष्याश्च भवानपि ॥
तस्मात्कृत्वा शुभं कर्म दुर्गतेश्चोद्धरस्व नः ॥ १५ ॥
एवमुक्तः प्रबुद्धोऽहं पितृभिर्वरवर्णिनि ॥
तेनाहं दुःखमापन्नस्तद्वाक्यं हृदि संस्मरन् ॥ १६ ॥ ॥
॥ इन्दुमत्युवाच ॥ ॥
सत्यमेतन्महाराज यदुक्तोऽसि पितामहैः ॥
न त्वया सुकृतं कर्म संस्मरेऽहं कृतं पुरा ॥ १७ ॥
यथा सुपुत्रमासाद्य तरंति पितरो नृप ॥
कुपुत्रेण तथा यांति नरकं नात्र संशयः ॥ १८ ॥
स त्वमाहूय विप्रेंद्रान्धर्मशास्त्रविचक्षणान् ॥
पृष्ट्वा तान्कुरु यच्छ्रेयः पितॄणामात्मना सह ॥ १९ ॥
आनयामास राजाऽसौ ततो विप्राननेकशः ॥
वेदवेदांगतत्त्वज्ञान्धर्मशास्त्रविचक्षणान् ॥
उवाच विनयोपेतो भार्यया सहितो हितान्॥ 7.3.48.२० ॥
॥ राजोवाच ॥ ॥
कर्मणा केन पितरो निरयस्था द्विजोत्तमाः ॥
स्वर्गं यांति सुपुत्रेण तारिताः प्रोच्यतां स्फुटम् ॥ ॥ २१ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
पितृमेधेन राजेंद्र कृतेन विधिपूर्वकम् ॥
निरयस्था दिवं यांति यद्यपि स्युः सुपापिनः ॥ २२ ॥
॥ राजोवाच ॥ ॥
दीक्षयंतु द्विजाः सर्वे तदर्थं मां धृतव्रतम् ॥
यत्किंचिदत्र कर्त्तव्यं प्रोच्यतामखिलं हि तत् ॥ २३ ॥
तथोक्तास्ते नृपेंद्रेण ब्राह्मणाः सत्यवादिनः ॥
समग्राः पार्थिवं प्रोचुर्यदुक्तं यज्ञकर्मणि ॥ २४ ॥
दीक्षा ग्राह्या नृपश्रेष्ठ पुरश्चरणमादितः ॥
कृत्वा कायविशुद्ध्यर्थं ततः श्रेयस्करी भवेत् ॥ २५ ॥
स त्वं पापसमाचारो बाल्यात्प्रभृति पार्थिव ॥
असंख्यं पातकं तस्मात्तीर्थयात्रां समाचर ॥ २६ ॥
सर्वतीर्थाभिषिक्तस्त्वं यदा स्यान्नृपसत्तम ॥
प्रायश्चित्तेन योग्यः स्यास्ततो यज्ञस्य नान्यथा ॥ २७ ॥
प्रभासादीनि तीर्थानि यानि संति धरातले ॥
गंतव्यं तेषु सर्वेषु स्नानं कुरु समाहितः ॥ २८ ॥
मनसा गच्छ दुर्गाणि ददद्दानमनुत्तमम् ॥
नश्येत्तेनाशुभं किंचिदपि ब्रह्मवधोद्भवम् ॥
यन्न याति नृणां राजंस्तीर्थस्नानादिना भुवि ॥ २९ ॥
॥ पुलस्त्य उवाच ॥ ॥
विप्राणां वचनं श्रुत्वा स राजा श्रद्धयाऽन्वितः ॥
तीर्थयात्रापरो भूत्वा परिबभ्राम मेदिनीम्॥ ॥ 7.3.48.३० ॥
नियतो नियताहारो ददद्दानानि भूरिशः ॥
राज्ये पुत्रं प्रतिष्ठाप्य वसुं सत्यपराक्रमम् ॥ ३१ ॥
कस्यचित्त्वथ कालस्य तीर्थयात्रानुषंगतः ॥
यातोऽसौ नृपतिश्चैव ह्यर्बुदे निर्मलोदकम् ॥ ३२ ॥
स स्नानमकरोत्तत्र श्रद्धापूतेन चेतसा ॥
स्नातमात्रस्य तस्याथ तस्मिन्नेव जलाशये ॥ ॥ ३३ ॥
विमुक्ताः पितरो रौद्रान्नरकात्सुप्रहर्षिताः ॥
ततो दिव्यविमानस्था दिव्यमाल्यांबरान्विताः ॥ ३४ ॥
तमूचुस्तारिताः सर्वे वयं पुत्र त्वयाऽधुना ॥
तीर्थस्यास्य प्रभावेण भविष्याश्च तथा दश ॥ ३५ ॥
आत्मा च पार्थिवश्रेष्ठ स्नानाच्च जलतर्पणात् ॥
यस्मात्कुलं त्वया पुत्र तीर्थेऽस्मिंस्तारितं ततः ॥ ३६ ॥
कुलसंतारणंनाम तीर्थमेतद्भविष्यति ॥
तस्मात्त्वमपि राजेंद्र सहाऽस्माभिर्दिवं प्रति ॥
आगच्छानेन देहेन तीर्थस्यास्य प्रभावतः ॥ ३७ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्तः स राजेंद्रो दिव्यकांतिवपुस्तदा ॥
तं विमानमथारुह्य गतः स्वर्गं च तैः सह ॥ ३८ ॥
एष प्रभावो राजर्षे कुलसंतारणस्य च ॥
मया ते वर्णितः सम्यग्भूयः किं परिपृच्छसि ॥ ३९ ॥
॥ ययातिरुवाच ॥ ॥
स किंप्रभावो राजा स तथा पापसमन्वितः ॥
स्वदेहेन गतः स्वर्गमेतन्मे कौतुकं महत् ॥ 7.3.48.४० ॥
॥ पुलस्त्य उवाच ॥ ॥
राकासोमव्यतीपात समकाले नृपोत्तम ॥
स स्नातो यत्र भूपालस्तन्महच्छ्रेयसे परम् ॥ ४१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे तृतीयेऽर्बुदखंडे कुलसंतारणतीर्थमाहात्म्यवर्णनंनामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 49
॥ पुलस्त्य उवाच ॥ ॥
रामतीर्थं ततो गच्छेत्पुण्यमृषिनिषेवितम्॥
तत्र स्नातस्य मर्त्त्यस्य जायते पापसंक्षयः ॥ १ ॥
पितॄणां च परा तुष्टिर्यावदाभूतसंप्लवम् ॥
पुरासीद्भार्गवो रामः सर्वशस्त्रभृतां वरः ॥ २ ॥
तेन पूर्वं तपस्तप्तं शत्रूणामिच्छता क्षयम्॥
ततः पाशुपतं नाम तस्यास्त्रं परमं ददौ ॥ ३ ॥
तपस्तुष्टो महादेवो गते वर्षशतत्रये ॥
अब्रवीद्वरदोऽस्मीति स वव्रे शत्रुसंक्षयम् ॥ ४ ॥
ततः पाशुपतं नाम तस्यास्त्रं परमं ददौ ॥
स्मरणेनापि शत्रूणां यस्य संजायते क्षयः ॥ ५ ॥
अब्रवीद्वचनं चापि प्रहस्य वृषभध्वजः ॥
जामदग्न्य महाबाहो शृणु मे परमं वचः ॥ ६ ॥
अस्त्रेणानेन युक्तस्त्वमजेयः सर्वदेहिनाम् ॥
भविष्यसि न संदेहो मत्प्रसादाद्भृगूद्वह ॥ ७ ॥
एतज्जलाशयं पुण्यं त्रैलोक्ये सचराचरे ॥
रामतीर्थमिति ख्यातं मत्प्रसादाद्भविष्यति ॥ ८ ॥
येऽत्र श्राद्धं करिष्यंति पौर्णमास्यां समाहिताः ॥
संप्राप्ते कार्त्तिके मासि कृत्तिकायोगसंयुते ॥ ९ ॥
पितृमेधफलं तेषामशेषं च भविष्यति ॥
तथा शत्रुक्षयो राजन्वासः स्वर्गेषु चाक्षयः ॥ 7.3.49.१० ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा महादेवस्ततश्चादर्शनं गतः ॥
रामोऽप्यसूदयत्क्षत्रं पितृदुःखेन दुःखितः ॥ ११ ॥
त्रिःसप्त तर्पयामास पितॄंस्तत्र प्रहर्षितः ॥
जमदग्नौ मृते तेन प्रतिज्ञातं महात्मना ॥ १२ ॥
दृष्ट्वा मातुः क्षतान्यंगे त्रिःसप्त मनुजाधिप ॥
शस्त्रजातानि विप्राणां समाजे समुपस्थिते ॥ १३ ॥
पिता मे निहतो यस्मात्क्षत्रियैस्तापसो द्विजः ॥
अयुध्यमान एवाथ तस्मात्कृत्वा त्रिसप्त वै ॥ १४ ॥
क्षत्त्रहीनामहं पृथ्वीं प्रदास्ये सलिलं पितुः ॥
तत्सर्वं तस्य संजातं तीर्थमाहात्म्यतो नृप ॥ १५ ॥
तस्मात्सर्वं प्रयत्नेन श्राद्धं तत्र समाचरेत् ॥
क्षत्रियश्च विशेषेण य इच्छेच्छत्रुसंक्षयम् ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे रामतीर्थमाहात्म्यवर्णनंनामैकोनपंचाशत्तमोऽध्यायः ॥ ४९ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 50
॥ पुलस्त्य उवाच ॥ ॥
कोटितीर्थं ततो गच्छेत्सर्वपातकनाशनम् ॥
तीर्थानां यत्र संजाता कोटिः पार्थिव हेलया ॥१॥
यदा स्यात्कलिकालस्तु रौद्रो राजन्महीतले ॥
म्लेच्छभूता जनाः सर्वे तत्स्पर्शात्तीर्थविप्लवः ॥ २ ॥
तिस्रः कोट्योऽर्धकोटिश्च तीर्थानां भूमिवासिनाम् ॥
तेषां कोटिस्ततोऽवात्सीत्पर्वतेऽर्बुदसंज्ञके ॥ ३ ॥
पुष्करे च तथा कोटिः कुरुक्षेत्रे च पार्थिव ॥
वाराणस्यामर्धकोटिः स्तुता देवैः सवासवैः ॥
राजन्नेतानि रक्षंति सर्वे देवाः सवासवाः ॥ ४ ॥
यदा यदा भयार्त्तानि म्लेच्छस्पर्शात्समंततः ॥
स्थानेष्वेतेषु तिष्ठंति तीर्थान्युक्तेषु सत्वरम् ॥ ५ ॥
कोटितीर्थानि त्रीण्येव तत्र जातानि भूतले ॥
अर्ध कोटिसमेतानि सर्वपापहराणि च ॥ ६ ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥
कृष्णपक्षे त्रयोदश्यां नभस्ये च विशेषतः ॥ ७ ॥
तत्र स्नानादिकं सर्वं जपहोमादिकं च यत् ॥
सर्वं कोटिगुणं राजंस्तत्प्रसादादसंशयम् ॥ ८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे कोटितीर्थप्रभाववर्णनंनाम पंचाशत्तमोऽध्यायः ॥ ५० ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 51
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ चंद्रोद्भेदमनुत्तमम् ॥
तीर्थं पापहरं नृणां निशानाथेन निर्मितम् ॥ १ ॥
प्रतिज्ञातं यदा राजन्ग्रहणे चंद्रसूर्ययोः ॥
राहुणा कृतवैरेण च्छिन्ने शिरसि विष्णुना ॥ २ ॥
तदा भयान्वितश्चन्द्रो मत्वा दैत्यं दुरासदम्॥
पीयूषभक्षणोद्युक्तं ततश्चार्बुदमभ्यगात् ॥ ३ ॥
तत्र भित्त्वा गिरेः शृंगे कृत्वा विवरमुत्तमम्॥
प्रविष्टस्तस्य मध्ये तु तपस्तेपे सुदुश्चरम्॥ ४ ॥
ततः कालेन महता तुष्टस्तस्य महेश्वरः ॥
अब्रवीद्वृणु भद्रं ते वरं यत्ते हृदिस्थितम् ॥ ५ ॥
॥ चंद्र उवाच ॥ ॥
प्रतिज्ञातं सुरश्रेष्ठ राहुणा ग्रहणं मम ॥
बलवानेष दुर्धर्षः प्रकृत्या सिंहिकासुतः ॥ ६ ॥
सांप्रतं भक्षितं तेन पीयूषं सुरसत्तम ॥
अहं मध्ये धृतश्चापि राहुणाऽसौ दुरासदः ॥ ७ ॥
पीयमानेऽमृते देव देवैः पूर्वं पराजितैः ॥
दैवतं रूपमास्थाय दानवोऽसौ समागतः ॥ ८ ॥
अपिबच्चामृतं राहुस्तेनास्य मृत्युवर्जितम् ॥
अमृतं चाक्षयं जातं शिरो देवभयप्रदम् ॥ ९ ॥
ततो देवैः कृतं साम ग्रहमध्ये प्रतिष्ठितः ॥
प्रतिज्ञाते ग्रहेऽस्माकं ततो मे भयमाविशत् ॥ 7.3.51.१० ॥
भयात्तस्य सुरश्रेष्ठ भित्त्वा शृंगं गिरेरिदम् ॥
कृतं श्वभ्रमगाधं च तपोऽर्थं सुरसत्तम ॥
तस्मादत्र प्रसादं मे कुरु कामनिषूदन ॥ ११ ॥
॥ भगवानुवाच ॥ ॥
अवध्यः सर्वदेवानामजेयः स महाबलः ॥
करिष्यति ग्रहं नूनं राहुः कोपपरायणः ॥
परं तव निशानाथ करिष्येऽहं प्रतिक्रियाम् ॥ १२ ॥
ग्रहणे तव संप्राप्ते स्नानदानादिकाः क्रियाः ॥
करिष्यंति जना लोके सम्यक्छ्रेयःसमन्विताः ॥ १३ ॥
ताभिस्तव न संतापः स्वल्पोऽप्येवं भविष्यति ॥
अक्षयं सुकृतं तेषां कृतं कर्म भविष्यति ॥ १४ ॥
ग्रहणे तव संजाते मम वाक्यादसंशयम् ॥
एतद्भिन्नं त्वया यस्मात्तपोऽर्थं शिखरं गिरेः ॥
चन्द्रोद्भेदमिति ख्यातं तीर्थं लोके भविष्यति ॥ १५ ॥
ग्रहणे तव संप्राप्ते योऽत्र स्नानं करिष्यति ॥
न तस्य पुनरेवात्र जन्म लोके भविष्यति ॥१६॥
यो वा सोमदिने स्नानं दर्शनं तत्र चाचरेत् ॥
तव लोके ध्रुवं वासस्तस्य चंद्र भविष्यति ॥ १७ ॥
एवमुक्त्वा स भगवांस्ततश्चांतर्दधे हरः॥
चन्द्रोऽपि प्रययौ हृष्टः स्वस्थानं नृपसत्तम ॥ १८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे चन्द्रोद्भेदतीर्थमाहात्म्यवर्णनंनामैकपंचाशत्तमोऽध्यायः ॥ ॥ ५१ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 52
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ ईशानीशिखरं महत् ॥
यत्र गौर्या तपस्तप्तं सुपुण्यं लोकविश्रुतम् ॥ १ ॥
यस्य संदर्शनेनापि नरः पापात्प्रमुच्यते ॥
लभते चातिसौभाग्यं सप्तजन्मांतराणि च ॥ २ ॥
॥ ययातिरुवाच ॥ ॥
कस्मिन्काले तपस्तप्तं देव्या तत्र मुनीश्वर ॥
किमर्थं च महत्त्वेतत्कौतुकं वक्तुमर्हसि ॥ ३ ॥
॥ पुलस्त्य उवाच ॥ ॥
शृणु राजन्कथां दिव्यामद्भुतां लोकविश्रुताम् ॥
यस्याः संश्रवणादेव मुच्यते सर्वपातकैः ॥ ४ ॥
पुरा गौर्या समासक्तं ज्ञात्वा देवाः सवासवाः ॥
मंत्रं चक्रुर्भयाविष्टा एकांते समुपाश्रिताः ॥ ९ ॥
वीर्यं यदि त्रिनेत्रस्य क्षेत्रे गौर्याः पतिष्यति ॥
अस्माकं पतनं नूनं जगतश्च भविष्यति ॥ ६ ॥
संततेस्तु विनाशाय ततो गच्छामहे वयम्॥ ७ ॥
एवं संमंत्र्य देवास्ते कैलासं पर्वतं गताः ॥
ततस्तु नंदिना सर्वे निषिद्धाः समयं विना ॥ ८ ॥
॥ नंद्युवाच ॥ ॥
एकांते भगवान्रुद्रः सहगौर्या व्यवस्थितः ॥
तस्माद्देवगणाः सर्वे गच्छध्वं निलयं स्वकम् ॥ ९ ॥
अथ देवगणाः सर्वे वञ्चयित्वा च तं गणम्॥
प्रैषयंस्तत्र वायुं च गुप्तमूचुर्वचस्त्विदम्॥ 7.3.52.१० ॥
गत्वा वायो भवं ब्रूहि न कार्या संततिस्त्वया ॥
एवं देवगणा देव प्रार्थयंति भयातुराः ॥ ११ ॥
ततो वायुर्द्रुतं गत्वा स्थितो यत्र महेश्वरः ॥
उच्चैर्जगाद तद्वाक्यं यदुक्तं त्रिदशालयैः ॥ १२ ॥
ततस्तु भगवाञ्छर्वो व्रीडया परया युतः ॥
गौरीं त्यक्त्वा समुत्तस्थौ बाढमित्येव चाब्रवीत् ॥ १३ ॥
ततो गौरी सुदुःखार्ता शशाप त्रिदशालयान् ॥ १४ ॥
॥ गौर्युवाच ॥ ॥
यस्मादहं कृता देवैः पुत्रहीना समागतैः ॥
तस्मात्तेऽपि भविष्यन्ति सन्तानेन विवर्ज्जिताः ॥ १५ ॥
यस्माद्वायो समायातः स्थानेऽस्मिञ्जनवर्जिते ॥
तस्मात्कायविनिर्मुक्तस्त्वं भविष्यसि सर्वदा ॥ १६ ॥
एवमुक्त्वा ततो दीर्घं भर्तुः कोपपरायणा ॥
त्यक्त्वा पार्श्वं गता राजन्नर्बुदं नगसत्तमम्॥ १७ ॥
सुतार्थं सा तपस्तेपे यतवाक्कायमानसा ॥
ततो वर्षसहस्रान्ते देवदेवो महेश्वरः ॥९१८ ॥
इन्द्राद्यैर्विबुधैः सार्द्धं तदंतिकमुपागमत्॥
अथ शक्रो विनीतात्मा देवीं ता प्रत्यभाषत ॥ १९ ॥
एष देवः शिवः प्राप्तस्तव पार्श्वं स्वलज्जया ॥
नायाति तत्प्रसादोऽस्य क्रियता महती भव ॥ 7.3.52.२० ॥
॥ देव्युवाच ॥ ॥
त्यक्ताऽहं तव वाक्येन पतिना समयान्विता ॥
पुत्रं लब्ध्वा प्रयास्यामि तस्य पार्श्वे सुरेश्वर ॥ २१ ॥
तस्यास्तं निश्चयं ज्ञात्वा स्वयं देवः समाययौ ॥
अब्रवीत्प्रहसन्वाक्यं प्रसादः क्रियतामिति ॥ २२॥
दृष्टिदानेन देवेशि भाषणेन वरानने ॥
मया देवहितं कार्यं सर्वावस्थासु पार्वति ॥ २३ ॥
अकाले तेन मुक्ताऽसि निवृत्तिः सुरते कृता ॥
पुत्रार्थं ते समारंभो यतश्चासीत्सुरेश्वरि ॥ २४ ॥
तस्मात्ते भविता पुत्रो निजदेहसमुद्भवः ॥
मत्प्रसादादसंदिग्धं चतुर्थे दिवसे प्रिये ॥ २५ ॥
निजांगमलमादाय यादृग्रूपं सुरेश्वरि ॥
करिष्यसि न सन्देहस्तादृगेव भविष्यति ॥ २६ ॥
सद्यो देवगणानां च दैत्यानां च विशेषतः ॥
तथा वै सर्वमर्त्त्यानां सिद्धिदो बहुरूपधृक् ॥ २७ ॥
एवमुक्ता त्रिनेत्रेण परितुष्टा सुरेश्वरी ॥
आलापं पतिना चक्रे सार्द्धं हर्षसमन्विता ॥ २८ ॥
चतुर्थे दिवसे प्राप्ते ततः स्नात्वा शिवा नृप ॥
तदोद्वर्त्तनजं लेपं गृहीत्वा कौतुकात्किल ॥
चतुर्भुजं चकाराऽथ हरवाक्याद्विनायकम् ॥ २९ ॥
ततः सजीवतां प्राप्य हरवाक्येन तं तदा ॥
विशेषेण महाराज नायकोऽसौ कृतः क्षितौ ॥
सर्वेषां चैव मर्त्यानां ततः ख्यातो बभूव ह ॥ 7.3.52.३० ॥
विनायक इति श्रीमान्पूज्यस्त्रैलोक्यवासिनाम् ॥
सर्वेषां देवमुख्यानां बभूव हि विनायकः ॥ ३१ ॥
ततो देवगणाः सर्वे देवीप्रियहिते रताः ॥
तस्मै ददुर्वरान्दिव्यान्प्रोचुर्देवीं च पार्थिव ॥ ३२ ॥ ॥
॥ देवा ऊचुः ॥ ॥
तवायं तनयो देवि सर्वेषां नः पुरःसरः ॥
प्रथमं पूजिते चास्मिन्पूजा ग्राह्या ततः सुरैः ॥ ३३ ॥
एतच्छृंगं गिरे रम्यं तव संसेवनाच्छुभे ॥
सर्वपापहरं नृणां दर्शनाच्च भविष्यति ॥ ३४ ॥
येऽत्र स्नानं करिष्यन्ति सुपुण्ये सलिलाश्रये ॥
ते यांस्यंति परं स्थानं जरामरणवर्जितम् ॥ ३५ ॥
माघमासे तृतीयायां शुक्लायां ये समाहिताः ॥
सप्तजन्मांतराण्येव भविष्यन्ति सुखान्विताः ॥ ३६ ॥
एवमुक्त्वा सुराः सर्वे स्वस्थानं तु ततो गताः ॥
देवोऽपि सहितो देव्या कैलासं पर्वतं गतः ॥ ३७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्ड ईशानीशिखरमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 53
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेद्ब्रह्मपदं तीर्थं त्रैलोक्यविश्रुतम् ॥
यत्र पूर्वं पदं न्यस्तं ब्रह्मणा लोककारिणा ॥ १ ॥
पुरा ब्रह्मादयो देवास्तत्र सर्वे समाहिताः ॥
अर्बुदे पर्वते रम्य ऋषयश्च सुनिर्मलाः ॥ २ ॥
अचलेश्वरयात्रायां सुभक्त्या भाविता नृप ॥
अथ ते मुनयः सर्वे प्रोचुर्देवं पितामहम् ॥ ३ ॥
॥ ऋषय ऊचुः ॥ ॥
प्रभूतनियमैर्होमैर्व्रतस्नानैश्च नित्यशः ॥
उपवासैश्च निर्विण्णा वयं सर्वे पितामह ॥ ४ ॥
तस्मात्सदुपदेशं त्वं किंचिद्दातुमिहार्हसि ॥
तरामो येन देवेश दुर्गं संसारसागरम् ॥ ५ ॥
अयाचितोपचारैश्च जपहोमैः सुदुष्करैः ॥
मन्त्रैर्व्रतैस्तथा दानैः स्वर्गप्राप्तिं वदस्व नः ॥ ६ ॥
तेषां तद्वचनं श्रुत्वा तदा देवः कृपान्वितः ॥
चिंतयामास सुचिरमिह किंचित्प्रहस्य च ॥७॥
ततः स्वकं पदं त्यक्त्वा रम्ये पर्वतरोधसि ॥
अथोवाच मुनीन्सर्वान्ब्रह्मा संश्लक्ष्णया गिरा ॥ ८ ॥
॥ ब्रह्मोवाच ॥ ॥
एतन्महापदं रम्यं सर्वपातकनाशनम् ॥
स्पृशंतु ऋषयः सर्वे ततो यास्यथ सद्गतिम् ॥ ॥९॥
विना स्नानेन दानेन व्रतहोमजपादिभिः॥
हितार्थं सर्वलोकानां मया न्यस्तं पदं शुभम्॥7.3.53.१०॥
अस्मिन्पदे मया न्यस्ते यांति लोकाः सहस्रशः॥
स्पृशंतु ऋषयः सर्वे देवाश्चापि पदं मम ॥ ११ ॥
एकैवात्र प्रकर्त्तव्या श्रद्धा वाऽव्यभिचारिणी ॥
यश्च श्रद्धान्वितः सम्यक्पदमेतन्मुनीश्वराः ॥ १२ ॥
पूजयिष्यति संप्राप्ते कार्तिके पूर्णिमादिने ॥
तोयैः फलैश्च विविधैर्गंधमाल्यानुलेपनैः ॥ १३ ॥
ब्राह्मणान्भोजयित्वा तु मिष्टान्नेन स्वशक्तितः ॥
स यास्यति न सन्देहो मम लोकं सुदुर्लभम् ॥ १४ ॥
॥ पुलस्त्य उवाच ॥ ॥
ततो मुनिगणाः सर्वे सम्यक्छ्रद्धासमन्विताः ॥
पूजयित्वा पदं तत्र ब्रह्मलोकं समागताः ॥ १५ ॥
तस्मात्सर्वप्रयत्नेन पदं पूज्यं नरोत्तम ॥
पितामहपदं सम्यक्छ्रद्धया स्वर्गदायकम्॥ १६ ॥
अन्यत्कौतूहलं राजन्महद्दृष्टं महाद्भुतम् ॥
पदस्य तस्य यच्छ्रुत्वा जायते विस्मयो महान् ॥ १७ ॥
आयामविस्तरेणाऽपि प्राप्ते कृतयुगे नृप ॥
न संख्या जायते राजञ्छुक्लवर्णस्य मानवैः ॥ १८ ॥
ततस्त्रेतायुगे प्राप्ते रक्तवर्णं प्रदृश्यते ॥
सुव्यक्तं संख्यया युक्तं सर्वलोकनमस्कृतम् ॥ १९ ॥
द्वापरे कपिलं तच्च लघुमात्रं प्रदृश्यते ॥
कलौ कृष्णं सुसूक्ष्मं च रम्ये पर्वतरोधसि ॥ 7.3.53.२० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे ब्रह्मपदोत्पत्तिमाहात्म्यवर्णनंनाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 54
॥ पुलस्त्य उवाच ॥ ॥
ततस्त्रिपुष्करं गच्छेदभीष्टं पद्मजस्य च ॥
ब्रह्मणा तत्समानीतं पर्वतेऽर्बुदसंज्ञके ॥ १ ॥
वसिष्ठस्य पुरा सत्रे वर्त्तमाने नराधिप ॥
तस्मिन्नगे समायाता ब्रह्माद्याश्च सुरोत्तमाः ॥ २ ॥
प्रतिज्ञातं महाराज ब्रह्मणाऽव्यक्तजन्मना ॥
यावत्स्थास्ये नृलोकेऽस्मिंस्तावत्सन्ध्यां त्रिपुष्करे ॥
वंदयिष्यामि संप्राप्ते संध्याकाले समाहितः ॥ ३ ॥
एतस्मिन्नेव काले तु प्रस्थितः पुष्करं प्रति ॥
संध्यार्थं पद्मजो यावद्वसिष्ठस्तावदब्रवीत् ॥ ४ ॥
॥ वसिष्ठ उवाच ॥ ॥
कर्मकालश्च सम्प्राप्तो यज्ञेऽस्मिन्सुरसत्तम ॥
स विना न त्वया देव सिद्धिं यास्यति कर्हिचित् ॥ ५॥
तस्मादानय चात्रैव पद्मयोने त्रिपुष्करम् ॥
संध्योपास्तिं ततः कृत्वा तत्र भूयः सुरेश्वर ॥
ब्रह्मत्वं कुरु देवेश सत्रे चास्मिन्दयानिधे ॥ ६ ॥
एवमुक्तो वसिष्ठेन ब्रह्मा लोक पितामहः ॥
ध्यात्वा तत्रानयामास ज्येष्ठमध्यकनिष्ठिकम् ॥
पुष्करत्रितयं चागात्सुपुण्ये सलिलाशये ॥ ७ ॥
ततःप्रभृति संजातमर्बुदेऽस्मिंस्त्रिपुष्करम् ॥ ८ ॥
तत्र यः कार्तिके मासि पौर्णमास्यां समाहितः ॥
स्नानं करोति दानं च तस्य लोकाः सनातनाः ॥ ९ ॥
तस्य चोत्तरदिग्भागे सावित्रीकुण्डमुत्तमम् ॥
स्नानदानादिकं कुर्वन्यत्र याति शुभां गतिम् ॥ 7.3.54.१० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे त्रिपुष्करमाहात्म्यवर्णनंनाम चतुष्पंचाशत्तमोऽध्यायः ॥ ५४ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 55
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ पुण्यं रुद्रह्रदं शुभम् ॥
यत्र स्नातो नरो भक्त्या गणाधीशत्वमाप्नुयात् ॥ १ ॥
पुरा हत्वांऽधकं दैत्यं सगणो वृषभध्वजः ॥
ततः स्नातो ह्रदं कृत्वा ततो रुद्रह्रदोऽभवत् ॥ २ ॥
चतुर्द्दश्यां महाराज यस्तत्र कुरुते नरः ॥
स्नानं तस्य भवेत्पुण्यं सर्वतीर्थसमुद्भवम् ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे रुद्रह्रदमाहात्म्यवर्णनंनाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ॥ ५५ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 56
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ गुहेश्वरमनुत्तमम् ॥
गुहामध्ये गतं लिंगं सिद्धैः संपूजितं पुरा ॥ १ ॥
यंयं काममभिध्याय संपूजयति मानवः ॥
तंतं स लभते राजन्निष्कामो मोक्षमाप्नुयात् ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे गुहेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशत्तमोऽध्यायः ॥५६ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 57
॥ पुलस्त्य उवाच ॥ ॥
अवियुक्तवनं गच्छेत्ततः पार्थिवसत्तम ॥
यस्मिन्दृष्टे नरोभीष्टैर्न वियुज्येत कर्हिचित् ॥१॥
तत्र पूर्वं शची राजन्प्रविष्टा दुःखसंयुता ॥
नहुषेण हृते राज्ये देवेन्द्रस्य महात्मनः ॥ २ ॥
तत्प्रभावात्पुनः प्राप्तो वियुक्तोऽपि शतक्रतुः ॥
ततस्तस्य वरो दत्तो वनस्य हि तया नृप ॥ ३ ॥
नरो वा यदि वा नारी वियुक्ताऽत्र वने शुभे ॥
प्रियैर्निवास एकस्मिन्रात्रिमेकां वसिष्यति ॥ ४ ॥
स तेन लभते संगं भूय एव यथा मया ॥
प्रियैः स लभते वासमेकरात्रं वसन्नृप ॥ ५ ॥
फलदानं प्रशंसंति तत्र ब्राह्मणसत्तमाः ॥
वंध्यानां च विशेषेण यतः पुत्रफलं लभेत् ॥ ६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डेऽवियुक्तक्षेत्रमाहात्म्यवर्णनंनाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 58
॥ पुलस्त्य उवाच ॥ ॥
उमामाहेश्वरं गच्छेत्ततो राजन्सुपुण्यदम्॥
स्थापितं भक्तियुक्तेन धुन्धुमारेण यत्पुरा ॥ १ ॥
दांपत्यं पूजयेद्भक्त्या यस्तत्र मनुजाधिप ॥
सप्त जन्मांतराण्येव न स दौर्भाग्यमाप्नुयात ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्ड उमामाहेश्वरतीर्थमाहात्म्यवर्णनंनामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 59
॥ पुलस्त्य उवाच ॥ ॥
ततो महौजसं गच्छेत्तीर्थं पातकनाशनम् ॥
यस्मिन्स्नातो नरो राजंस्तेजसा युज्यते ध्रुवम् ॥
ब्रह्महत्याग्निना शक्रः पुरा दैन्यं परं गतः ॥ १ ॥
निःश्रीकस्तेजसा हीनो दुर्गन्धेन समन्वितः ॥
परित्यक्तः सुरैः सर्वैर्विषादं परमं गतः ॥ २ ॥
ततः पप्रच्छ देवेन्द्रो द्विजश्रेष्ठं बृहस्पतिम् ॥
भगवंस्तेजसो वृद्धिः कथं स्यान्मे यथा पुरा ॥ ३ ॥
॥ बृहस्पतिरुवाच ॥ ॥
तीर्थयात्रां सुरश्रेष्ठ कुरुष्व धरणीतले ॥
तीर्थं विना ध्रुवं वृद्धिस्तेजसो न भविष्यति ॥४॥
ततस्तीर्थान्यनेकानि भ्रांत्वा शक्रो नराधिप ॥
क्रमेणैवार्बुदं प्राप्तस्तत्र दृष्ट्वा जलाशयम् ॥
स्नानं चक्रे ततः श्रान्तो महौजाः प्रत्यपद्यत ॥ ५ ॥
दुर्गन्धेन विनिर्मुक्तस्ततो देवैः समावृतः ॥
उवाच प्रहसन्वाक्यं शृणुध्वं सर्वदेवताः ॥ ६ ॥
येऽत्र स्नानं करिष्यन्ति प्राप्ते शक्रोच्छ्रये सदा ॥
आश्विने शुक्लपक्षांते ते यास्यंति परां गतिम् ॥
सुश्रीकाश्च भविष्यंति सदा जन्मनिजन्मनि ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे महौजसतीर्थप्रभाववर्णनंनामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 60
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ जंबूतीर्थमनुत्तमम् ॥
तत्र स्नातो नरः सम्यगिष्टं फलमवाप्नुयात्। ॥
जंबूद्वीपसमुत्थानां तीर्थानां नृपसत्तम ॥ १ ॥
आसीत्पुरा निमिर्नाम क्षत्रियः सूर्यवंशजः ॥
वयसः परिणामे स पर्वतं चार्बुदं गतः ॥ २ ॥
प्रायोपवेशनं कृत्वा स्थितस्तत्र समाहितः ॥
अथाजग्मुर्मुनिगणास्तस्य पार्श्वे सहस्रशः ॥ ३ ॥
चक्रुर्धर्मकथां पुण्यां राजर्षीणां महात्मनाम् ॥
देवर्षीणां पुराणानां तथान्येषां महात्मनाम् ॥ ४ ॥
ततः कश्चित्कथांते च लोमशो नाम सन्मुनिः ॥
कीर्त्तयामास माहात्म्यं सर्वतीर्थसमुद्भवम् ॥ ५ ॥
तच्छ्रुत्वा पार्थिवो राजन्निमिः परमदुर्मनाः ॥
बभूव न कृतं पूर्वं यतस्तीर्थावगाहनम् ॥ ६ ॥
ततः प्रोवाच तं विप्रमस्त्युपायो द्विजोत्तम ॥
कश्चिद्येन च सर्वेषां तीर्थानां लभ्यते फलम् ॥ ७ ॥ ॥
॥ लोमश उवाच ॥ ॥
दया मे नृप सञ्जाता त्वां दृष्ट्वा दुःखितं भृशम् ॥
तीर्थयात्राकृते यस्मात्करिष्येऽहं तव प्रियम् ॥ ८ ॥
अत्रैव चानयिष्यामि जंबूद्वीपोद्भवानि च ॥
सर्वतीर्थानि राजेन्द्र मन्त्रशक्त्या न संशयः ॥ ९ ॥
स्नानं कुरु महाराज ह्येकीभूतेषु तत्र च ॥
अस्मिञ्जलाशये पुण्ये सत्यमेतद्ब्रवीम्यहम् ॥ 7.3.60.१० ॥
एवमुक्त्वा स विप्रर्षिर्ध्यानं चक्रे समाहितः ॥
ततस्तीर्थानि सर्वाणि तत्रायातानि तत्क्षणात् ॥ ११ ॥
प्रत्ययार्थं च राजर्षे जंबूवृक्षो व्यजायत ॥
तत्र स्नानं नृपश्चक्रे सर्वतीर्थमये ध्रुवे ॥ १२ ॥
सदेहश्च गतः स्वर्गे तीर्थस्नानादनन्तरम् ॥
ततः प्रभृति तत्तीर्थं जंबूतीर्थमनुस्मृतम् ॥ १३ ॥
कन्यागते रवौ तत्र यः श्राद्धं कुरुते नरः ॥
गयाशीर्षसमं तस्य पुण्यमाहुर्महर्षयः ॥ १४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे जंबूतीर्थप्रभाववर्णनंनाम षष्टितमोऽध्यायः ॥ ६० ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 61
॥ पुलस्त्य उवाच ॥ ॥
गंगाधरं ततो गच्छेत्सुपुण्यं विमलोदकम् ॥
येन गंगा धृता राजन्निपतन्ती नभस्तलात् ॥ १ ॥
आहूता देव देवेन ह्यचलेश्वररूपिणा ॥
हरेण रभसा राजन्यत्पुरा कथितं तव ॥ २ ॥
तत्र यः कुरुते स्नानमष्टम्यां च समाहितः ॥
स गच्छेत्परमं स्थानं देवै रपि सुदुर्लभम् ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयऽर्बुदखण्डे गंगाधरतीर्थमाहात्म्य वर्णनंनामैकषष्टितमोऽध्यायः ॥ ६१ ॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 62
॥ पुलस्त्यस्य उवाच ॥ ॥
ततः कटेश्वरं गच्छेल्लिंगं गौरीविनिर्मितम् ॥
तथा गंगेश्वरं चान्यद्गङ्गया निर्मितं स्वयम् ॥ १ ॥
पुरा समभवद्युद्धमुमायाः सह गंगया ॥
सौभाग्यं प्रति राजेन्द्र ततो गौरीत्यभाषत ॥ २ ॥
यया संपूजितः शंभुः शीघ्रं यास्यति दर्शनम् ॥
सा सौभाग्यवती नूनभावयोः संभविष्यति ॥ ३ ॥
एवमुक्ता ततो गंगा सत्वरैत्यात्र पर्वते ॥
लिंगमन्वेषयामास चिरकालादवाप सा ॥ ४ ॥
दृष्ट्वा गौर्याथ कटकं पर्वतस्य मनोहरम् ॥
लिंगाकारं महाराज पूजयामास सा तदा ॥ ५ ॥
सम्यक्छ्रद्धासमोपेता ततस्तुष्टो महेश्वरः ॥
प्रददौ दर्शनं तस्या वरदोऽस्मीति चाब्रवीत् ॥ ६ ॥
॥ गौर्युवाच ॥ ॥
सापत्न्यजेर्ष्यया देव मया लिंगं प्रकल्पितम् ॥
तस्मात्कटेश्वराख्या च लोके चास्य भविष्यति ॥ ७ ॥
या नारी पतिना मुक्ता सपत्नीदुःखदुःखिता ॥
अस्य संदर्शनादेव सा भविष्यति विज्वरा ॥
सुतसौभाग्यसंपन्ना भर्तृप्राणसमा तथा ॥ ८ ॥
गंगयाराधितो देव एवमेव वरं ददौ ॥
तस्माल्लिंगद्वयं तच्च द्रष्टव्यं मनुजाधिप ॥ ९ ॥
विशेषतश्च नारीभिः सपत्नीदोषहानिदम् ॥
सुखसौभाग्यदं नित्यं तथाऽभीष्टप्रदं नृणाम् ॥ 7.3.62.१० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे कटेश्वरगंगेश्वरमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ॥ ६२॥
खण्डः ७ (प्रभासखण्डः) · अर्बुदखण्डम् — Adhyāya 63
॥ पुलस्त्य उवाच ॥ ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥
अर्बुदस्य महाराज माहात्म्यं हि समासतः ॥ १ ॥
विस्तरेण च संख्या स्यादपि वर्षशतैरपि ॥
असंख्यानीह तीर्थानि पुण्यान्यायतनानि च ॥
पदेपदे गृहाण्येव निर्मितानि महर्षिभिः ॥ २ ॥
न तत्तीर्थं न सा सिद्धिर्न स वृक्षो महीपते ॥
न सा नदी न देवेशो यस्य तत्रास्ति न स्थितिः ॥ ३ ॥
ये वसंति महाराज सुरम्येऽर्बुदपर्वते ॥
नूनं ते पुण्यकर्माणो न वसंति त्रिविष्टपे ॥ ४ ॥
किं तस्य जीवितेनार्थः किं धनैः किं जपैर्नृप ॥
यो न पश्यति मन्दात्मा समन्तादर्बुदाचलम् ॥ ५ ॥
अपि कीटपतंगा ये पशवः पक्षिणो मृगाः ॥
स्वेदजाश्चाण्डजाश्चापि ह्युद्भिज्जाश्च जरायुजाः ॥ ६ ॥
तस्मिन्मृता महाराज निष्कामाः कामतोऽपि वा ॥
ते यान्ति शिवसायुज्यं जरा मरणवर्जितम् ॥ ७ ॥
यश्चैतच्छुणुयान्नित्यं पुराणं श्रद्धयान्वितः ॥
अर्बुदस्य महाराज स यात्राफलमश्नुते ॥ ८ ॥
तस्मात्सर्वप्रयत्नेन यात्रां तत्र समाचरेत् ॥
य इच्छेदात्मनः सिद्धिमिह लोके परत्र च ॥ ९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडेऽर्बुदखण्डमाहात्म्यफलश्रुतिवर्णनंनाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥
इति श्रीस्कान्दे महापुराणे सप्तमे प्रभासखण्डे तृतीयमर्बुदखण्डं सम्पूर्णम् ॥ ७ - ३ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 1
॥॥श्रीगणेशाय नमः ॥ ॥
अथ स्कांदे महापुराणे सप्तमे प्रभासखण्डे चतुर्थं द्वारकामाहात्म्यम् ॥
॥ शौनक उवाच ॥ ॥
कथं सूत युगे ह्यस्मिन्रौद्रे वै कलिसंज्ञके ॥
बहुपाखंडसंकीर्णे प्राप्स्यामो मधुसूदनम् ॥ १ ॥
युगत्रये व्यतिक्रान्ते धर्माचारपरे सदा ॥
प्राप्ते कलियुगे घोरे क्व विष्णुर्भगवानिति ॥ २ ॥
॥ सूत उवाच ॥ ॥
दिवं याते महाराजे रामे दशरथात्मजे ॥
दुष्टराजन्यभारेण पीडिते धरणीतले ॥ ३ ॥
देवानां कार्यसिद्ध्यर्थं भूभारहरणाय च ॥
वसुदेवगृहे साक्षादाविर्भूते जनार्दने ॥ ४ ॥
नंदव्रजं गते देवे पूतनाशोषणे सति ॥
घातिते च तृणावर्ते शकटे परिवर्तिते ॥ ॥ ५ ॥
दमिते कालिये नागे प्रलंबे च निषूदिते ॥
धृते गोवर्धने शैले परित्राते च गोकुले ॥ ६ ॥
सुरभ्या चाभिषिक्ते तु इन्द्रे च विमदीकृते ॥
रासक्रीडारते देवे दारिते केशिदानवे ॥ ७ ॥
अक्रूरवचनाद्देवे मथुरायां गते हरौ ॥
हते कुवलयापीडे मल्लराजे च घातिते ॥ ८ ॥
पश्यतां देव दैत्यानां भोजराजे निपातिते ॥
यदुपुर्यामभिषिक्त उग्रसेने नराधिपे ॥ ९ ॥
जरासंधबले रौद्रे यवने च हते क्षितौ ॥
राजसूये क्रतुवरे चैद्ये चैव निपातिते ॥ 7.4.1.१० ॥
निवृत्ते भारते युद्धे भारे च क्षपिते भुवः ॥
यात्राव्याजसमानीते प्रभासं यादवे कुले ॥ ११ ॥
मद्यपानप्रसक्ते तु परस्परवधो द्यते ॥
कलहेनातिरौद्रेण विनष्टे यादवे कुले ॥ १२ ॥
गात्रं संत्यज्य चात्रैव गतेऽनंते धरातलात् ॥
अश्वत्थमूललमाश्रित्य समासीने जनार्दने ॥ ॥ १३ ॥
व्याधप्रहारभिन्नांगे परित्यक्ते कलेवरे ॥
स्वधामसंस्थिते देवे पार्थे च पुनरागते ॥ १४ ॥
यदुपुर्य्यां प्लावितायां सागरेण समंततः ॥
शक्रप्रस्थं ततो गत्वा कारयित्वा हरेर्गृहम् ॥ १५ ॥
द्वापरे च व्यतिक्रांते धर्माधर्मविमिश्रिते ॥
संप्राप्ते च महारौद्रे युगे वै कलिसंज्ञिते ॥ १६ ॥
क्षीयमाणे च सद्धर्मे विधर्मे प्रबले तथा ॥
नष्टधर्मक्रियायोगे वेदवादबहिष्कृते ॥
एकपादे स्थिते धर्मे वर्णाश्रमविवर्जिते ॥ १७ ॥
अस्मिन्युगे विलुलिते ह्यृषयो वनचारिणः ॥
समेत्यामंत्रयन्सर्वे गर्गच्यवनभार्गवाः ॥ १८ ॥
असितो देवलो धौम्यः क्रतुरुद्दालकस्तथा ॥
एते चान्ये च बहवः परस्परमथाब्रुवन् ॥ १९ ॥
पश्यध्वं मुनयः सर्वे कलिव्याप्तं दिगंतरम् ॥
समंतात्परिधावद्भिर्दस्युभिर्बाध्यते प्रजा ॥ 7.4.1.२० ॥
अधर्मपरमैः पुंभिः सत्यार्जवनिराकृतैः ॥
कथं स भगवान्विष्णुः संप्राप्यो मुनिसत्तमाः ॥ २१ ॥
को वा भवाब्धौ पततस्तारयिष्यति संगतान् ॥
न कलौ संभवस्तस्य त्रियुगो मधुसूदनः ॥
तं विना पुंडरीकाक्षं कथं स्याम कलौ युगे ॥ २२ ॥
तेषां चिंतयतामेवं दुःखितानां तपस्विनाम् ॥
उवाच वचनं तत्र ऋषिरुद्दालकस्तदा॥ २३॥
उद्दालक उवाच ॥
यावन्न कलिदोषेण लिप्यामो मुनिसत्तमाः ॥
अपापा ब्रह्मसदनं गच्छामः परिसंगताः ॥ २४ ॥
पृच्छामो लोकधातारं स्थितं विष्णुं कलौ युगे ॥
यदि विष्णुः कलौ न स्याद्रुद्रेण ब्रह्मणाऽसह ॥ २५ ॥
तं विना पुंडरीकाक्षं त्यक्ष्यामः स्वकलेवरम् ॥
विना भगवता लोके कः स्थास्यति कलौ युगे ॥ २६ ॥
तच्छ्रुत्वा वचनं तस्य ऋषयः संशितव्रताः ॥
साधुसाध्विति ते चोक्त्वा प्रस्थिता ब्रह्मणोंऽतिकम्॥ २७ ॥
कथयन्तः कथां विष्णोः स्वरूपमनुवर्णनम् ॥
तापसाः प्रययुः सर्वे संहृष्टा ब्रह्मणोंऽतिकम् ॥ ॥२८॥
ददृशुस्ते तदा देवमासीनं परमासने ॥
पितामहभूतगणैर्मूर्तामूर्तैर्वृतं तथा ॥ २९ ॥
दृष्ट्वा चतुर्मुखं देवं दंडवत्प्रणताः क्षितौ ॥
प्रणम्य देवदेवं तु स्तोत्रेण तुषुवुस्तदा ॥ 7.4.1.३० ॥
॥ ऋषय ऊचुः ॥ ॥
नमस्ते पद्मसंभूत चतुर्वक्त्राक्षयाव्यय ॥
नमस्ते सृष्टिकर्त्रे तु पितामह नमोऽस्तु ते ॥३१॥
एवं स्तुतः सन्मुनिभिः सुप्रीतः कमलोद्भवः ॥
पाद्यार्घ्येणाभिवन्द्यैतान्पप्रच्छ मुनिपुंगवान् ॥ ३२ ॥
॥ ब्रह्मोवाच ॥
किमागमनकृत्यं वो ब्रूत तत्त्वेन पुत्रकाः ॥
कुशलं वो महाभागाः पुत्रशिष्याग्निबन्धुषु ॥ ३३ ॥
॥ ऋषय ऊचुः ॥ ॥
भवत्प्रसादात्सकलं प्राप्तं नस्तपसः फलम् ॥
यद्भवंतं प्रपश्यामः सर्वदेवगुरुं प्रभुम् ॥ ३४ ॥
शृण्वेतत्कारणं शंभो एते प्राप्तास्तवांतिकम् ॥
युगत्रये व्यतिक्रांते कृतादिद्वापरांतके ॥ ३५ ॥
प्राप्ते कलियुगे घोरे क्व विष्णुः पृथिवीतले ॥
यं दृष्ट्वा परमां मुक्तिं यास्यामो मुक्तबन्धनाः ॥ ३६ ॥
॥ ब्रह्मोवाच ॥ ॥
मत्स्यकूर्मादिरूपैश्च भगवाञ्ज्ञायते मया ॥
विष्णोः पारमिकां मूर्तिं न जानामि द्विजोत्तमाः ॥ ३७ ॥
॥ ऋषय ऊचुः ॥ ॥
यदि त्वं न विजानासि तात विष्णोरवस्थितिम् ॥
गत्वा प्रयागं तत्रैव संत्यक्ष्यामः कलेवरम् ॥ ३८ ॥
॥ ब्रह्मोवाच ॥ ॥
मा विषादं व्रजध्वं हि उपदेक्ष्यामि वो हितम् ॥
इतो व्रजध्वं पातालं यत्रास्ते दैत्यसत्तमः ॥ ३९ ॥
तं गत्वा परिपृच्छध्वं प्रह्लादं दैत्यसत्तमम् ॥
स ज्ञास्यति हरेः स्थानं याथातथ्येन भो द्विजाः ॥7.4.1.४०॥
तच्छुत्वा वचनं तस्य ब्रह्मणः परमात्मनः ॥
प्रणिपत्य च देवेशं प्रस्थितास्ते तपोधनाः ॥ ४१ ॥
जग्मुः संहृष्टमनसः स्तुवन्तो दैत्यसत्तमम् ॥
धन्यः स दैत्यराजोऽयं यो जानाति जनार्द्दनम् ॥ ४२ ॥
इति संचिंतयानास्ते प्राप्ता वै सुतलं द्विजाः ॥४३॥
गत्वा ते तस्य नगरं विविशुर्भवनोत्तमम् ॥
दूरादेव स तान्दृष्ट्वा बलिर्वैरोचनिस्तदा ॥
प्रत्युत्थायार्हयाञ्चक्रे प्रह्लादेन समन्वितः ॥ ४४ ॥
मधुपर्कं च गां चैव दत्त्वा चार्घ्यं तथैव च ॥
उवाच प्रांजलिर्भूत्वा प्रहृष्टेनांतरात्मना॥ ४५॥
स्वागतं वो महाभागाः सुव्युष्टा रजनी मम॥
भवतो यत्प्रपश्यामि ब्रूत किं करवाणि च॥ ४६॥
एवं हि दैत्यराजेन सत्कृतास्ते द्विजोत्तमाः॥
ऊचुः प्रहृष्टमनसो दानवेन्द्रसुतं तदा॥ ४७॥
ऋषय ऊचुः ॥ ॥
कार्यार्थिनस्तु संप्राप्ताः प्रह्लाद हरिवल्लभ ॥
तदस्माकं महाबाहो भवांस्त्राता भवार्णवात् ॥ ४८ ॥
कथं दैत्य युगे ह्यस्मिन्रौद्रे वै कलिसंज्ञके ॥
भविष्यामो विना विष्णुं भीतानामभयप्रदम् ॥ ४९ ॥
अस्मिन्युगे ह्यधर्मेण जितो धर्मः सनातनः ॥
अनृतेन जितं सत्यं विप्राश्च वृषलैर्जिताः ॥ 7.4.1.५० ॥
विटैर्जिता वेदमार्गाः स्त्रीभिश्च पुरुषा जिताः ॥
ब्राह्मणाश्चापि वध्यन्ते म्लेच्छ राजन्यरूपिभिः ॥ ५१ ॥
अस्मिन्विलुलितप्राये वर्णाश्रमविवर्जिते ॥
अविलुप्ते वेदमार्गे क्व विष्णुर्भगवानिति ॥ ५२ ॥
विना ज्ञानाद्विना ध्यानाद्विना चेंद्रियनिग्रहात् ॥
प्राप्यते भगवान्यत्र तद्गुह्यं कथयस्व नः ॥५३॥
दैत्यराज त्वमस्माकं सुहृन्मार्गप्रदर्शकः ॥
कथयस्व महाभाग यत्र तिष्ठति केशवः ॥ ५४ ॥
एवं स द्विजमुख्यैश्च संपृष्टो दैत्यसत्तमः ॥
प्रणम्य ब्राह्मणान्सर्वान्भक्त्या संहृष्टमानसः ॥ ५५ ॥
स नमस्कृत्य देवेभ्यो ब्रह्मणे परमात्मने ॥
भगवद्भक्तिर्युक्तः सन्व्याहर्त्तुमुपचक्रमे ॥ ५६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये कलिभीतमहर्षिभिर्ब्रह्मवचनात्प्रह्लादसंनिधौ कलियुगे भगवत्स्थितिविषये प्रश्नकरणवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 2
॥ प्रह्लाद उवाच ॥ ॥
सर्वेषामपि भूतानां दैत्यदानवरक्षसाम् ॥
भवन्तो वै पूज्यतमा देवादीनां तथैव च ॥१॥
अनुज्ञया तु युष्माकं प्रसादात्केशवस्य हि ॥
अधिष्ठानं भगवतः कथयामि निबोधत ॥ २ ॥
पश्चिमस्य समुद्रस्य तीरमाश्रित्य तिष्ठति ॥
कुशस्थलीति या पूर्वं कुशेन स्थापिता पुरी ॥ ३ ॥
वहते गोमती यत्र सागरेण समंततः ॥
द्वारावतीति सा विप्रा आनर्त्तेषु प्रकीर्त्तिता ॥ ४ ॥
तस्यां वसति विश्वात्मा सर्वकामप्रदो हरिः ॥
कला षोडशसंयुक्तो मूर्तिं द्वादशकान्वितः॥ ५ ॥
तदेव परमं धाम तदेव परमं पदम् ॥
द्वारका सा च वै धन्या यत्राऽऽस्ते मधुसूदनः ॥ ६ ॥
यत्र कृष्णश्चतुर्बाहुः शंखचक्रगदाधरः ॥
नरा मुक्तिं प्रयास्यंति तत्र गत्वा कलौ युगे ॥ ७ ॥
तच्छ्रुत्वा वचनं तस्य प्रह्लादस्य महात्मनः ॥
विस्मयाविष्टमनसस्त- मूचुर्मुनिसत्तमाः ॥ ८ ॥
॥ ऋषय ऊचुः ॥ ॥
क्षयं यदुकुले याते भारे चोपहृते भुवः ॥
प्रभासे यादवश्रेष्ठः स्वस्थानमगमद्धरिः ॥ ९ ॥
द्वारावत्या प्लावितायां समंतात्सागरेण हि ॥
कथं स भगवांस्तत्र कलौ दैत्य प्रकीर्त्यते ॥ 7.4.2.१० ॥
कथयस्व सुरश्रेष्ठ कथं विष्णुर्महीतले ॥
स्थितश्चानर्त्तविषय एतद्विस्तरतो वद॥ ११॥
उग्रसेने नरपतौ प्रशासति वसुन्धराम् ॥
कृष्णो यदुपुरीमेतां शोभयामास सर्वतः ॥१२॥
रममाणे रमानाथे रामाभिरमणे हरौ ॥
एकदा तु समासीने सभायां यदुसत्तमे १३ ॥
कथाभिः क्रियमाणाभिर्विचित्राभिरनेकधा ॥
उद्धवः कथयामास प्रचारं यदुनंदनम् ॥ १४ ॥
यात्रायामनुसंप्राप्तं दुर्वाससमकल्मषम् ॥
स्थितं तं गोमतीतीरे चक्रतीर्थसमीपतः ॥ १५ ॥
तच्छ्रुत्वा सहसोत्थाय भगवान्रुक्मिणीगृहम् ॥
जगाम हृष्टमनसा विश्वशक्तिरधोक्षजः ॥ १६ ॥
आगत्योवाच वैदर्भीं संप्राप्तमृषिसत्तमम् ॥
तपोनिर्धूत पाप्माऽयमत्रिपुत्रो महातपाः ॥ १७ ॥
आतिथ्येनार्चितो विप्रो दास्यते च महोदयम्॥
गृहिणी न गृहे यस्य सत्पात्रागमनं वृथा ॥ १८ ॥
तस्य देवा न गृह्णंति पितरश्च तथोदकम्॥
तदागच्छस्व गच्छामो निमंत्रयितुमत्रिजम् ॥ १९ ॥
तथेत्युक्त्वा तु सा देवी रथमारुरुहे सती ॥
रथमारुह्य देवेशो रुक्मिण्या सहितो हरिः ॥
जगाम तत्र यत्रास्ते दुर्वासा मुनिसत्तमः ॥ 7.4.2.२० ॥
दृष्ट्वा ज्वलंतं तपसा कूले नदनदीपतेः ॥
कापालिकस्य पुरतः सुस्नातं वरसीकरैः ॥ २१ ॥
प्रणम्य भगवान्भक्त्या पप्रच्छाऽनामयं ततः ॥
पश्चाद्विदर्भतनया रुक्मिणी प्रणनाम तम् ॥ २२ ॥
दुर्वासाश्चापि तौ दृष्ट्वा दर्शनार्थमुपागतौ ॥
पप्रच्छ कुशलं तत्र स्वागतेनाभिनंद्य च ॥२३॥
॥ दुर्वासा उवाच ॥ ॥
कुशलं कृष्ण सर्वत्र कुत्र वासस्तवाऽधुना ॥
कति दारा धनापत्यमेतद्विस्तरतो वद ॥ २४ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
समुद्रेण प्रदत्ता मे भूभिर्द्वादशयोजना ॥
तस्यां निवसतो ब्रह्मन्पुरी हेममयी मम ॥ २५ ॥
प्रासादास्तत्र सौवर्णा नवलक्षाणि संख्यया ॥
तस्यां वसामि संहृष्टस्त्वत्प्रसादात्सुनिर्भयः ॥ २६ ॥
तच्छुत्वा वचनं तस्य विस्मयाविष्टमानसः ॥
प्रत्युवाच स दुर्वासाः प्रहस्य मधुसूदनम्॥२७॥
वसंति तावका ये च तेषां संख्या वदस्व भोः ॥
यावत्यश्च महिष्यस्ते पुत्राः परिजनास्तथा ॥२८॥
॥ श्रीकृष्ण उवाच ॥ ॥
ब्रह्मन्षोडशसाहस्रं भार्य्याश्चाष्टाधिका मम॥
तासां मध्येऽभीष्टतमा विदर्भाधिपतेः सुता ॥ २९ ॥
एकैकस्या दश सुताः कन्या चैका तथा मुने ॥
षट्पंचाशद्यदूनां तु कोट्यः परिजनो मम॥ 7.4.2.३० ॥
शेषाः प्रकृतयो ब्रह्मंस्तेषां संख्या न विद्यते ॥
तच्छ्रुत्वा चिंतयामास किमेतदिति विस्मितः ॥ ३१ ॥
अहो ह्यनंतवीर्यस्य मायामाश्रित्य तिष्ठतः ॥
अनंता सर्वकर्तृत्वे प्रवृत्तिर्दृश्यतामिय म्॥३२॥
॥ दुर्वासा उवाच ॥ ॥
स्वागतं ते महाबाहो ब्रूहि किं करवाणि ते ॥
दर्शनेन त्वदीयेन प्रीतिमेति च मे मनः॥३३॥
॥ श्रीकृष्ण उवाच॥ ॥
यदि प्रसन्नो भगवांस्तदागच्छस्व मे गृहम्॥
शिरसा धार्य्य पादांबु प्रयास्यामि पवित्रताम्॥ ३४॥
दुर्वासा उवाच॥
अक्षमासारसर्वस्वं किं मां नयसि माधव॥
नय मां यदि मद्वाक्यं करोषि सह भार्यया॥३५॥
प्रह्लाद उवाच॥
एवमस्त्विति चोक्त्वा स प्रस्थितः स्वरथेन हि।
तं दृष्ट्वा प्रस्थितं विष्णुं प्रहस्योवाच भर्त्सयन्॥ ३६ ॥
॥ दुर्वासा उवाच ॥ ॥
दुर्वाससं न जानासि मुञ्चेमान्हयसत्तमान् ॥
त्वं च भार्या तथा चेयं वहतं स्वरथेन माम् ॥ ३७ ॥
॥श्रीकृष्ण उवाच ॥ ॥
भगवन्यथा प्रब्रवीषि विप्र कर्तास्मि तत्तथा ॥
त्वया कृपालुना ब्रह्मन्पारितोऽहं सबांधवः॥ ३८ ॥
॥ प्रह्लाद उवाच॥ ॥
तौ तथा ऋषिवर्य्योऽसौ युक्तां देवीं रथे स्वके ॥
तथैव पुण्डरीकाक्षं याहि याहीत्यभाषत॥ ३९ ॥
तं दृष्ट्वा देवताः सर्वा वहमानं रथं हरिम् ॥
साधुसाध्विति भाषंत ऊचुः सर्वे परस्परम् ॥ 7.4.2.४० ॥
अहो ब्रह्मण्यदेवस्य परां भक्तिं प्रपश्यत ॥
स्कन्धे कृत्वा धुरं यो हि वहते भार्य्यया सह ॥ ४१ ॥
विकीर्यमाणः कुसुमैः सुरसंघैर्जनार्दनः ॥
जगाम स रथं गृह्य सभार्यो द्वारकां प्रति ॥ ॥ ४२ ॥
उह्यमाने रथे तस्मिन्रुक्मिणी तृषिताऽभवत् ॥
उवाच कृष्णं वैदर्भी श्रमव्याकुललोचना ॥ ४३ ॥
श्रान्ता भारपरिक्लिष्टा वहती कोपनं द्विजम् ॥
पाययित्वोदकं कान्त नय मां मन्दिरं स्वकम् ॥ ४४ ॥
तच्छ्रुत्वा वचनं तस्याः पादाक्रान्त्या धरातलात् ॥
आनयामास भगवान्गगां त्रिपथगां शुभाम् ॥ ४५ ॥
तद्दृष्ट्वा निर्मलं शीतं सुगंधं पावनं तथा ॥
पपौ पिपासिता देवी रुक्मिणी जाह्नवीजलम् ॥ ४६॥
पीतं तया जलं दृष्ट्वा चुकोप ऋषिसत्तमः ॥
जज्वाल ज्वलनप्रख्यः शशाप परमेश्वरीम् ॥ ४७ ॥
॥ दुर्वासा उवाच ॥
मामपृष्ट्वा जलं यस्मात्पीतवत्यसि रुक्मिणी॥
तस्मात्पानरता नित्यं भविष्यसि न संशयः॥ ४८॥
अवियुक्ता रथाद्यस्मान्मामपृष्ट्वा जलं त्वया॥
पीतं तस्माच्च कृष्णेन वियुक्ता त्वं भविष्यसि ॥ ४९ ॥
॥ प्रह्लाद उवाच ॥ ॥
एतावदुक्त्वा वचनं क्रोधसंरक्तलोचनः ॥
परित्यज्य रथं विप्रो भूमावेवावतिष्ठति ॥ 7.4.2.५० ॥
एवं शप्ता तदा देवी रुदोदातीव विह्वला ॥
उवाच कृष्णं करुणं कथं स्थास्ये त्वया विना ॥ ५१ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
आयास्ये प्रत्यहं देवि द्विकालं भवनं तव ॥
यो मां पश्यति चात्रस्थं स त्वामेव प्रपश्यति ॥ ५२ ॥
मां हि दृष्ट्वा नरो यस्तु त्वां न पश्यति भक्तितः ॥
अर्द्ध्ं यात्रा फलं तस्य भविष्यति न संशयः ॥ ५३ ॥
आश्वास्य च प्रियामेवं ब्राह्मणं यदुनन्दनः ॥
ततः प्रसादयामास दुर्वाससमकल्मषम् ॥ ५४ ॥
बाह्यो पवनमध्ये तु पूजयामास तं तथा ॥
अवनिज्य स्वयं पादौ विप्रपादावनेजनम् ॥
धारयामास शिरसा जगतः पावनो हरिः ॥ ५५ ॥
दत्त्वार्घ्यं गां च विप्राय मधुपर्कं स भक्तितः ॥
विधिवद्भोजयामास षड्रसेन द्विजोत्तमम् ॥ ५६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये दुर्वासो द्वारकानयन दुर्वासोदत्त रुक्मिणीशापवृत्तान्तवर्णनं नाम द्वितीयोऽध्यायः॥२॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 3
ऋषय ऊचुः॥
अहो ब्रह्मण्यदेवस्य कृष्णस्यामिततेजसः ॥
महिमा यदयं नैव मृषा चक्रे मुनेर्वचः ॥ १ ॥
तेन चक्रे न रोषं स सेतुपालो जनार्दनः ॥
भृगोर्यश्चरणाघातं दधार हृदि लाञ्छनम् ॥ २ ॥
सा तु देवी कथं तेन प्रेयसा विप्रयोजिता ॥
एकाकिनी स्थिता तत्र कथ्यतामसुरेश्वर ॥ ३ ॥
उत्कण्ठिता अति वयं श्रोतुं द्वारवतीं मुदा ॥
इदमादौ बुभुत्सामश्चित्तखेदापनुत्तये ॥ ४ ॥
॥ प्रह्लाद उवाच ॥ ॥।
श्रूयतामृषयः सर्वे गदतो मम विस्तरात् ॥
यथा शापोद्भवं दुःखं मुमोच हरिवल्लभा ॥५॥
अथ दुर्वाससः शापमवाप्यारुन्तुदं तदा॥
यादवेन्द्रस्य गृहिणी सहसा पर्यदेवयत् ॥६॥ ॥
॥ रुक्मिण्युवाच ॥ ॥
कल्याणी बत वाणीयं लौकिकी संविभाव्यते ॥
कूपके चैव सिन्धौ च प्रमाणान्नाधिकं जलम् ॥ ७ ॥
यासाहं भूरिभाग्या वै प्राप्य नाथं जगत्पतिम्॥
इयमेकाकिनी जाता पौलस्त्याद्देवहेलनात् ॥ ८ ॥
क्व मंगलालयः श्रीमाननवद्यगुणो हरिः ॥
अल्पपुण्या सुसंबाधा कामिनी क्वातिचञ्चला ॥ ९ ॥
तथापि घटयामास धाता वंचनकोविदः ॥
विधानमशुभाया मे वियोगविषमव्यथम् ॥ 7.4.3.१० ॥
अन्यथा वर्णगुरवः स्नातास्त्रैविद्यवर्त्मनि ॥
कथं नु शप्तुमर्हन्ति स्वयं खिन्नामनागसम् ॥ ११ ॥
विदधे वज्रमयं तु किं न्विदं हृदयं मेऽतिकठोरमेव हि ॥
शतधा न विदीर्यते यतो विरहे दुर्विषहे मधुद्विषः ॥ १२ ॥
अधिकृत्य सुदुश्चरं तपः प्रतिलब्धः प्रथमं मयात्मजः ॥
तनयेन विनाकृताऽप्यहं न मृता पंचसु वासरेष्विह ॥ १३ ॥
उपलभ्य सुदारुणामिमामपि पीडामवितास्म्यहं तदा ॥
यदिदं विधुनोति कल्मषं खलु तन्मां समुपेत्य लक्षवृद्धिम् ॥ १४ ॥
इति साऽतिविलप्य दुःखितार्था कुररीतुल्यतया शुशोच वेगात् ॥
विरहेण विघूर्णिताशया द्विजशापापहता मुमूर्च्छ सद्यः ॥ १५ ॥
अथ दुर्वाससा शप्ता रुक्मिणी कृष्णवल्लभा ॥
मूर्च्छनामाप तत्रैव ह्याजगाम पयोनिधिः ॥ १६ ॥
सुधाशीकरगर्भेण पद्मकिंजल्कवायुना ॥
न्यवीजयदिमां देवीं रुक्मिणीं कृष्णवल्लभाम्॥ १७ ॥
एतस्मिन्नन्तरे तत्र व्योममार्गेण नारदः ॥
गायन्गुणान्भगवतो वीणापाणिः समागतः ॥ १८ ॥
स दृष्ट्वा सिंधुनाऽऽश्वास्यमानां विश्वस्य मातरम् ॥
अवतीर्य श्रुतकथो बोधयामास नारदः ॥ १९ ॥
॥ नारद उवाच ॥ ॥
मा खेदं देव देवेशि देवि त्वदधिपे पतौ ॥
दूरीकृते विप्रशापात्कुरु कल्याणि धीरताम् ॥ 7.4.3.२० ॥
त्वं हि साक्षाद्भगवती कृष्णश्च पुरुषोत्तमः ॥
अवतीर्णो धराभारमपनेतुं यदृच्छया ॥ २१ ॥
देवो ह्यसौ परं ब्रह्म सदाऽनिर्विण्णमानसः ॥
मायाशक्तिस्त्वमेतस्य सर्गस्थित्यन्तकारिणः ॥ २२ ॥
संहृत्य निखिलं शेते ययाऽसौ कलया स्वराट् ॥
तदापि न वियुज्येत त्वया विश्वपतिः प्रभुः ॥ २३ ॥
अवियुक्तस्त्वया नित्यं देवदेवो जगत्पतिः ॥
लीलावतारेष्वेतस्य सर्वेषु त्वं सहायिनी ॥ २४ ॥
योगं वियोगं च तथा न यात्येष त्वयाऽनघे ॥
विडंबयति भूतानामुपकाराय चेश्वरः ॥ २५ ॥
आराधनीयाः सततं भूदेवा भूतिमीप्सता ॥
प्रकोपनीया नैवैते तत्त्वज्ञा हि तपस्विनः ॥ २६ ॥
इत्येवं शिक्षयँल्लोकं वियोगं तेऽनुमन्यते ॥
मुनि शापाद्धरिः साक्षाद्गूढः कपटमानुषः ॥ २७॥
अपि स्मरसि कल्याणि जातो रघुकुले स्वयम्॥
लोकानुग्रहमन्विच्छन्भूभारहरणोत्सुकः ॥ २८ ॥
तं हरिं जगतामीशं रुक्मिणि त्वं न वेत्सि किम्॥
प्राणेभ्योऽपि गरीयांसमयं देवः स एव हि ॥ २९ ॥
येनेदं पूरितं विश्वं बहिरन्तश्च सुव्रते ॥
असंगस्य विभोः संगः कथं स्यादिति मन्मतिः ॥ 7.4.3.३० ॥
तया त्वया नियुक्तोऽसाविति प्रत्येमि सर्वशः ॥
तद्विमुञ्चाऽऽधिमत्यर्थमात्मानमनुसंस्मर॥
प्रसीद मातः संधेहि धीरतां स्वमनीषया ॥ ३१ ॥
इति ब्रुवति देवर्षाववसाने नदीपतिः ॥
प्रोवाच वचनं तस्यै वाचा मृदुसुवर्णया ॥ ३२ ॥ ॥
॥ समुद्र उवाच ॥ ॥
यदाह देवि देवर्षिर्नत्वा त्वां सत्यमेव तत् ॥
गीयसे त्वं हि वेदेषु नित्यं विष्णुः सहायिनी ॥ ३३ ॥
परः पुमानेव निरस्तविग्रहो गूढोऽधिपस्ते विदधाति भूयः ॥
विश्वं व्यवस्थापयति स्वरोचिषा त्वया सहायेन बिभर्ति मूर्तिम् ॥ ३४ ॥
तदेष परिखेदस्ते न मनागपि युज्यते ॥
वक्षःस्थलस्था भवती नित्यं श्रीवत्सलक्ष्मणः ॥ ३५ ॥
इयं भागीरथी देवी मदादेशादुपागता ॥
विनोदयिष्यत्यनिशं त्वां हि देवि शरीरिणी ॥ ३६ ॥
एतस्याः स्यान्मृदु स्वादु पयः पूरोपशोभितम् ॥
प्रदेशोऽयमशेषोऽपि भविता त्वत्सुखप्रदः ॥ ३७ ॥
नानाद्रुमलताकीर्णं निकुंजैरुपशोभितम् ॥
मातंगैश्च समाजुष्टं मंजुगुंजन्मधुव्रतम्॥ ३८ ॥
नवपल्लवभङ्गीभिः कुसुमस्तबकैः शुभैः ॥
फलैरमृतकल्पैश्च मंजरी राजिभिस्तथा ॥ ३९ ॥
नंदनस्य श्रिया जुष्टं मनोनयननन्दनम्॥
वनं रम्यतरं चात्र ह्यचिरेण भविष्यति ॥ 7.4.3.४० ॥
त्वया संबोधनीयाः स्म वयं मातः सदैव हि ॥
अगम्यरूपा विद्या त्वमस्माभिर्बोध्यसे कथम् ॥ ४१ ॥
तदा वामनुजानीहि प्रसीद परमेश्वरि ॥
नमस्ते विश्वजननि भूयो ऽपि च नमोनमः ॥ ४२ ॥
॥ प्रह्लाद उवाच ॥ ॥
एवमुक्त्वा जगद्धात्रीं जग्मतुस्तौ यथागतम् ॥
आजगाम च तत्रैव देवी भागीरथी स्वयम् ॥ ४३ ॥
वनं समभवत्तत्र दिव्यभूरुहसेवितम् ॥
सेव्यं समस्तलोकानां फलपुष्पसमृद्धिमत् .॥ ४४ ॥
प्रसादेन च भूतानां गंगाऽशेषाघहारिणी ॥
भूषयामास तद्देशं सा च विष्णुपदी सरित् ॥ ४५॥
देवो च मुनिवाक्येन गंगायाश्च विनोदनात् ॥
सौन्दर्या तस्य देशस्य किञ्चित्स्वास्थ्यमवाप ह ॥ ४६ ॥
अथ विष्णुपदीं देवीं श्रुत्वा सागरसंगताम् ॥
इतस्ततः समाजग्मुः श्रद्दधानाः पयस्विनीम् ॥४७॥
द्वारकावासिनश्चैव जनाः काननशोभया ॥
हृष्टचित्ताः समाजग्मुरनिशं रुक्मिणीवनम् ॥४८॥
श्रुत्वा तदखिलं सर्वं दुर्वासाः शांभवी कला ॥
चुकोप स्मयमानश्च भूय एतदभाषत ॥ ४९ ॥
॥ दुर्वासा उवाच ॥ ॥
कः प्रभुस्त्रिषु लोकेषु मह्यं वचनमन्यथा ॥
विधातुमपि देवानामाद्यो लोकपितामहः ॥ 7.4.3.५० ॥
किं न जानाति लोकोऽयं मयि रोषकषायिते ॥
शक्रं प्रति त्रिभुवनं भ्रष्टश्रीकमभूत्तदा ॥५१ ॥
मम शापमविज्ञाय नन्दनप्रतिमे वने ॥
कथं सा रुक्मिणी तत्र रमते जनसेविते ॥ ५२ ॥
तदेते तरवः सर्वे संत्वभोज्यफला नृणाम् ॥
विभ्रष्टसर्वसौभाग्याः कुसुमस्तबकोज्झिताः ॥ ५३ ॥
इयं तु शापनिर्दग्धा हरचूडामणिः सरित् ॥
वार्यस्याः स्यादपेयं तु नैवेह स्थातुमर्हति ॥५४॥
॥ प्रह्लाद उवाच ॥ ॥
तदा सर्वमभूत्तत्र यद्यदाह च वै मुनिः ॥
वाचि वीर्यं हि विप्राणां निर्मितं विष्णुना स्वयम् ॥ ५५ ॥
सा तु देवी तथा वृत्तमवेक्ष्य भृशदुःखिता ॥
मेने दुरत्ययं दैवमापतत्तत्पुनःपुनः ॥ ५६ ॥
ततस्तु सा विनिश्चित्य मरणं दुःखभेषजम् ॥
उत्तरीयांबरेणैव बहिः किञ्चित्प्रबद्ध्य तु ॥ ॥।५७॥
अथावबुध्य तत्सर्वं सर्वभूतगुहाशयः ॥
तां ज्ञात्वा सत्वरं चाऽऽगात्सुपर्णेन दयानिधिः ॥५८ ॥
ददर्श तादृशीं देवीं कण्ठपाशकरां विभुः ॥
अधस्तात्तरुशाखायां निमीलितविलोचनाम् ॥ ५९ ॥
विभ्रष्टभूषणगणां कृशदेहवल्लीं म्लानाननांबुजरुचं मरणे प्रसक्ताम् ॥
मेने स विग्रहवतीं करुणां कृपालुस्तां सौख्यदां गुणवतीं प्रणतार्तिहन्त्रीम् ॥ 7.4.3.६० ॥
संश्रुत्य साऽपि पतगाधिपते रवं वै प्रोन्मील्य नेत्रकमलेऽथ ददर्श कृष्णम् ॥
सामन्यत त्रिकविवर्तितलोचनाब्जं प्राप्तं तमिष्टसुहृदं निजजीवनाथम् ॥ ६१ ॥
सा रोमहर्षविवशा त्रपया परीता कोपानुरागकलुषा कृतविप्रलापा ॥
संवर्द्धितद्विगुणशोकभरा च देवी नानारसं बत दृशोर्विषयं प्रपेदे ॥ ६२ ॥
तस्याः ससाध्वसविसर्गचिकीर्षितायाः पाशं व्यपोह्य करचारु सरोरुहेण ॥
आदाय पाणिममृतोपमया च वाचा संजीवयन्निदमुदारमुदाजहार ॥ ६३ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
किमेतत्साहसं भीरु चिकीर्षत्यविचारितम् ॥
ननु देवि ममाचक्ष्व किं नु ते खेदकारणम् ॥ ६४ ॥
त्वं विद्याऽहं परो बोधस्त्वं माया चेश्वरस्त्वहम् ॥
त्वं च बुद्धिरहं जीवो वियोगः कथमावयोः ॥ ६५ ॥
त्वया विमोहितात्मानो भ्राम्यन्त्यजभवादयः ॥
सा कथं क्षुभ्यसि त्वं तु किं स्वधाम न बुध्यसे ॥ ६६ ॥
त्वया हि बद्धा ऋषयस्ते चरन्तीह कर्मभिः ॥
तां त्वां कथमृषिः शप्तुं शक्नुयाद्वरवर्णिनि ॥ ६७ ॥
शिक्षार्थं त्विह लोकानामेवं मे देवि चेष्टितम् ॥
मन्मायया समाविष्टः कुरुते विवशः पुमान् ॥
पश्य कोपपरीतात्मा यः स शान्तो मुनीश्वरः ॥ ६८ ॥
॥ प्रह्लाद उवाच ॥ ॥
सोऽभ्येत्य भक्तिनम्रोऽथ दुर्वासा मुनिसत्तमः ॥
विचार्य मनसा सर्वं पश्चात्तापानुपाश्रयत् ॥ ६९ ॥
किं मया कृतमित्युक्त्वा तत्समीपमुपागमत् ॥
अपतद्विलुठन्भूमौ दण्डवच्चाश्रुसंप्लुतः ॥ 7.4.3.७० ॥
पितरौ जगतो देवौ क्षामयामास दीनवत् ॥
तुष्टाव सूक्तवाक्यैस्तु रहस्यैर्भक्तिसंयुतः ॥ ७१ ॥
आह चेदं जगन्नाथं यदि मय्यस्त्यनुग्रहः ॥
तदा पुरेव संयोगो देव देव्या विधीयताम् ॥ ७२ ॥
अथ प्रहस्य गोविन्दस्तमाह मुनिसत्तमम्॥
न हि ते वचनं जातु मृषा भवितुमर्हति ॥ ७३ ॥
मयैवं विहितः सेतुः कथमुच्छेद्यतां द्विज ॥
सद्भिराचरितः सेतुः सिद्धो लोकस्य पालकः ॥ ७४ ॥
दिनेदिने द्विकालं च आयास्ये मुनिसत्तम ॥
विनोदयिष्ये तां तां तु मुनिकन्यां च काम्यया ॥ ७५ ॥
तुष्यामि साधनैर्नान्यैर्मत्कथाकथनैरपि ॥
यथा संपूज्य मामत्र मम प्रीतिर्भविष्यति ॥ ७६ ॥
यदा च मयि वै(?)कुण्ठमधिरूढे महामुने ॥
प्रवेक्ष्यति तदा तेजो मम सर्वं त्रिविक्रमे ॥ ७७ ॥
रुक्मिणीयं च मन्मूर्तेः संयोगं पुनरेष्यति ॥
इयं भागीरथी चापि सागरेण समा गुणैः ॥
त्यक्त्वा ह्यशेषदुःखानि सुखं चैव गमिष्यति ॥ ७८ ॥
अनुग्रहं विधायैवमृषिणा सह केशवः ॥
विवेश स्वपुरीं तत्र विधायोपांतिकं मुनिम् ॥ ७९ ॥
सापि देवी च संबुध्य तदा तस्य विचेष्टितम्॥
अनुग्रहाद्भगवतो बभूव विगत ज्वरा ॥ 7.4.3.८० ॥
यतश्च मुक्ता दुःखेन तत्र देवी हरिप्रिया॥
ततो भागीरथी सा तु गदिता दुःखमोचिनी ॥ ८१ ॥
अमावास्यां पौर्णमास्यां यस्तस्याः संगमे शुभे ॥
स्नायादशेषदुःखात्तु स नरः परिमुच्यते ॥ ८२ ॥
अष्टम्यां च चतुर्दश्यां नवम्यां चावलोकिता ॥
नराणां रुक्मिणी देवी सर्वान्कामा न्प्रयच्छति ॥ ८३ ॥
इत्येतत्कथितं देव्या ऋषयो दुःखमोचनम् ॥
अनुग्रहश्च देवस्य किं भूयः श्रोतुमिच्छथ ॥ ८४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये रुक्मिणीदुःखमोचनवर्णनंनाम तृतीयोऽध्यायः ॥३॥ ॥७॥।
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 4
॥ श्रीप्रह्लाद उवाच ॥
एवं संपूजितस्तेन हरिणा ब्राह्मणोत्तमः ॥
उवाच परिसन्तुष्टो वरं ब्रूहीति केशवम्॥ १ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
यदि तुष्टोऽसि भगवन्यदि देयो वरो मम ॥
स्थातव्यमत्र भवता न त्यक्तव्यं कदाचन ॥ २ ॥
॥ दुर्वासा उवाच ॥ ॥
यदि तिष्ठाम्यहं कृष्ण तथा त्वमपि केशव ॥
तिष्ठस्व षोडशकलो नित्यं मद्वचनेन हि ॥ ३ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
येऽत्र पश्यंति भक्त्या त्वां मां चापि द्विजसत्तम ॥
किं दास्यसि फलं तेषां भाविनां भगवन्वद ॥ ४ ॥
॥ दुर्वासा उवाच ॥ ॥
यः स्नात्वा संगमे कृष्ण गोमत्याः सागरस्य च ॥
त्वां मां समर्चति नरः सर्वपापैः समुच्यते ॥५ ॥
तथान्यच्छृणु कृष्णात्र स्नात्वा दास्यति यद्धनम् ॥
मम दत्तस्य देवेश प्राप्नुयात्षोडशोत्तरम्॥ ६ ॥
॥ श्रीकृष्ण उवाच ॥
यो नरः पूजयित्वा त्वां पूजयिष्यति मामिह ॥
तस्य मुक्तिं प्रदास्यामि या सुरैरपि दुर्ल्लभा ॥ ७ ॥
॥ प्रह्लाद उवाच ॥ ॥
परस्परं वरौ दत्त्वा कृष्णदुर्वाससौ मुदा॥
ततः प्रभृति विप्रेन्द्रास्तस्मिन्स्थाने ह्यतिष्ठताम्॥
वरदानमिति प्रोक्तं तत्तीर्थं सर्वकामदम् ॥ ८ ॥
वरदाने नरः स्नातो गोसहस्रफलं लभेत् ॥
विष्णुदुर्वाससोर्यत्र वरदानमभूत्पुरा ॥ ९ ॥
तदाप्रभृति विप्रेन्द्रास्तिष्ठते द्वारकां हरिः ॥
दुर्वाससा गिरा बद्धो न जहाति कदाचन ॥ 7.4.4.१० ॥
यत्र त्रैविक्रमी मूर्तिर्वहते यत्र गोमती ॥
नरा मुक्तिं प्रयास्यंति चक्रतीर्थेन संगताः ॥ ११ ॥
कलेवरं परित्यक्तं प्रभासे हरिणा यदा ॥
कलाभिः सहितं तेजस्तस्यां मूर्तौ निवेशितम् ॥ १२ ॥
तस्मात्कलियुगे विप्रा नान्यत्र प्राप्यते हरिः ॥
यदि कार्य्यं हि कृष्णेन तत्र गच्छत मा चिरम् ॥ १३ ॥
॥ ऋषय ऊचुः ॥ ॥
साधु भागवतश्रेष्ठ साधु मार्गप्रदर्शक ॥
यत्त्वया हि परिज्ञातं तन्न जानाति कश्चन ॥ १४ ॥
किं फलं गमने तस्यां किं फलं कृष्णदर्शने ॥
कानि तीर्थानि तत्रैव के देवास्तद्वदस्व नः ॥ १५ ॥
कस्मिन्मासे तिथौ कस्यां कस्मिन्पर्वणि मानवैः ॥
गन्तव्यं कानि देयानि दानानि दनुजर्षभ ॥ १६ ॥
॥सूत उवाच ॥ ॥
इति पृष्टस्तदा तैस्तु महाभागवतोऽसुरः ॥
कथयामास विप्रेभ्यो भगवद्भक्तिसंयुतः ॥ १७ ॥
॥ प्रह्लाद उवाच ॥ ॥
भो भूमिदेवाः शृणुत परं गुह्यं सनातनम् ॥
यत्कस्यचिन्न चाख्यातं तद्वदामि सुविस्तरात् ॥ १८ ॥
यदा मतिं च कुरुते द्वारकागमनं प्रति ॥
तदा नरकनिर्मुक्ता गायन्ति पितरो दिवि ॥ १९ ॥
यावत्पदानि कृष्णस्य मार्गे गच्छति मानवः ॥
पदेपदेऽश्वमेधस्य यज्ञस्य लभते फलम् ॥ 7.4.4.२० ॥
यात्रार्थं देवदेवस्य यः प्रेरयति चापरान् ॥
मानवान्नात्र सन्देहो लभते वैष्णवं पदम् ॥ २१ ॥
द्वारकां गच्छमानस्य यो ददाति प्रतिश्रयम् ॥
तथैव मधुरां वाचं नन्दते क्रीडते हि सः ॥ २२ ॥
अध्वनि श्रांतदेहस्य वाहनं यः प्रयच्छति ॥
हंसयुक्तेन स नरो विमानेन दिवं व्रजेत् ॥ २३ ॥
यात्रायां गच्छमानस्य मध्याह्ने क्षुधितस्य च ॥
अन्नं ददाति यो भक्त्या शृणु तस्यापि यद्भवेत् ॥ २४ ॥
गयाश्राद्धेन यत्पुण्यं लभते मानवो भुवि ॥
अन्नदानेन तत्पुण्यं पितॄणां तृप्तिरक्षया ॥ २५ ॥
उपानहौ तु यो दद्याद्द्वारकां प्रति गच्छताम्॥
कृष्णप्रसादात्स नरो गजस्कन्धेन गच्छति ॥ ॥२६॥
विघ्नमाचरते यस्तु द्वारकां प्रति गच्छताम्॥
नरके मज्जते मूढः कल्पमात्रं तु रौरवे॥२७॥
मार्गस्थितस्य यो धन्यः प्रयच्छति कमण्डलु्म्॥
प्रपादानसहस्रस्य फलमाप्नोति मानवः॥२८॥
यात्रायां गच्छमानस्य पादभ्यंगं ददाति यः॥
पादप्रक्षालनं चैव सर्वान्कामानवाप्नुयात् ॥ २९ ॥
गाथां शृणोति यो विष्णोर्गीतं च गायतः पथि ॥
दानं ददाति विप्रेन्द्रास्तस्माद्धन्यतरो न हि॥ 7.4.4.३०॥
कैलासशिखरावासं श्वेताभ्रमिव निर्मलम् ॥
प्रासादं कृष्णदेवस्य यः पश्यति नरोत्तमः॥ ३१ ॥
दूराद्धेममयं दृष्ट्वा कलशं ध्वजसंयुतम्॥
वाहनं संपरित्यज्य लुठते धरणीं गतः ॥ ३२ ॥
पञ्चसूनाकृतं पापं तथाऽधर्मकृतं च यत् ॥
कृमिकीटपतंगाश्च निहताः पथि गच्छता ॥
परान्नं परपानीयमस्पृश्य स्पर्शसंगमम् ॥
तत्सर्वं नाशमाप्नोति भगवत्केतुदर्शनात् ॥ ३४॥
पठेन्नामसहस्रं तु स्तवराजमथापि वा ॥
गजेन्द्रमोक्षणं चैव पथि गच्छञ्छनैः शनैः ॥ ३५ ॥
गायमानो भगवतः प्रादुर्भावाननेकधा ॥
नृत्यद्भिर्हर्षसंयुक्तैर्हृष्यमाणः पुनःपुनः ॥
स्वयं नृत्यन्हर्षयुक्तो भक्तो गच्छेद्धरेः पुरम् ॥ ३६ ॥
विष्णोः क्रीडाकरं स्थानं भुक्तिमुक्तिप्रदायकम् ॥
यस्मिन्दृष्टे कलौ नॄणां मुक्तिरेवोपजायते ॥ ३७ ॥
॥ प्रह्लाद उवाच ॥ ॥
पूर्वं हि देवराजेन बृहस्पतिरुदारधीः ॥
प्रणम्य परया भक्त्या पृष्टश्च स महामतिः ॥ ३८ ॥
॥ इन्द्र उवाच ॥ ॥
द्वारकायाश्च माहात्म्यं कथयस्व प्रसादतः ॥
चतुर्युगं यथाभागैर्धर्मवृद्धिं जनो लभेत् ॥ ३९ ॥
एतच्छ्रुत्वा महेन्द्रस्य वचनं मुनिसत्तमाः ॥
बृहस्पतिरुवाचैनं महेन्द्रं देव संवृतम्॥ 7.4.4.४० ॥
॥ बृहस्पतिरुवाच ॥ ॥
कृतं त्रेता द्वापरं च कलिश्च सुरसत्तम ॥
चतुर्युगमिदं प्रोक्तं तत्त्वतो मुनिसत्तमैः ॥ ४१ ॥
कृते धर्मश्चतुष्पादो वेदादिफलमेव च ॥
तीर्थं दानं तपो विद्या ध्यानमायुररोगता ॥ ४२ ॥
पादहीनं सर्वमेतद्युगं त्रेताभिधं प्रभो ॥
पादद्वयं द्वापरे तु सर्वस्यैतस्य वासव ॥ ४३ ॥
पादेनैकेन तत्सर्वं विभागे प्रथमे कलौ ॥
ऊर्ध्वं विनाशः सर्वस्य भविष्यति न संशयः ॥ ४४ ॥
मन्त्रास्तीर्थानि यज्ञाश्च तपो दैवादिकं तथा ॥
प्रगच्छंति समुच्छेदं वेदाः शास्त्राणि चैव हि ॥४५॥
म्लेच्छप्रायाश्च भूपाला भविष्यन्त्यमराधिप॥
लोकः करिष्यते निन्दां साधूनां व्रतचारिणाम् ॥ ४६ ॥
॥ प्रह्लाद उवाच ॥ ॥
श्रुत्वा बृहस्पतेर्वाक्यमेतत्तीर्थस्य भो द्विजाः ॥
प्रकंपिताः सुराः सर्वे म्लेच्छ संसर्गजाद्भयात् ॥ ४७ ॥
बृहस्पतिं सुरगुरुं पप्रच्छुर्विनयान्विताः ॥
म्लेच्छसंसर्गजो दोषो गंगयापि न पूयते ॥ ४८ ॥
कथयस्व प्रसादेन स्थानं कलिविवर्जितम् ॥
यत्र गत्वा निवत्स्यामो यास्यामो निर्वृतिं पराम् ॥ ४९ ॥
येन दुःखविनिर्मुक्ता भविष्यामो गतव्यथाः ॥
कृपया सुमुखो भूत्वा ब्रूहि तीर्थं हिताय नः ॥ 7.4.4.५० ॥
॥ प्रह्लाद उवाच ॥ ॥
एतच्छ्रुत्वा सुरेन्द्रस्य वाक्यमंगिरसां वरः ॥
चिरं ध्यात्वा जगादेदं वाक्यं देवपुरोहितः ॥ ॥ ५१ ॥
॥ बृहस्पतिरुवाच ॥ ॥
पञ्चक्रोशप्रमाणं हि तीर्थं तीर्थवरोत्तमम्॥
द्वारकानाम विख्यातं कलिदोषविवर्जितम्॥ ॥५२॥
विष्णुना निर्मितं स्थानं लोकस्य गतिदायकम् ॥
मुक्तिदं कलिकाले तु ज्ञानहीनजनस्य च ॥५३ ॥
ऊषरं कर्मणां क्षेत्रं पुण्यं पापविनाशनम्॥
न प्ररोहंति पापानि पुनर्नष्टानि तत्र वै ॥ ५४ ॥
तिस्रः कोटयोऽर्धकोटी च तीर्थानीह महीतले ॥ ५५ ॥
एवं तीर्थयुता तत्र द्वारका मुक्तिदायका ॥
सेवनीया प्रयत्नेन प्राप्य मानुष्यमुत्तमम् ॥५६॥
॥ प्रह्लाद उवाच ॥ ॥
बृहस्पतेर्वचः श्रुत्वा शतक्रतुरथाऽब्रवीत् ॥
वाचस्पते मम इहि द्वारवत्या महोदयम्॥
गमने किं फलं प्रोक्तं कृष्णदेवस्य दर्शने ॥ ५७ ॥
अन्यानि तत्र तीर्थानि मुख्यानि वद मे गुरो ॥
यथाभिषेके गोमत्याः फलं यदपि संगमे ॥५८॥। ॥
॥ बृहस्पतिरुवाच ॥ ॥
श्रूयतां तात वक्ष्यामि माहात्म्यं द्वारकोद्भवम् ॥
मनुष्यरूपो भगवान्यत्र क्रीडति केशवः ॥५९॥
नारायणः स ईशानो ध्येयश्चादौ जगन्मयः ॥
स एव देवतामुख्यः पुरीं द्वारवतीं स्थितः ॥ 7.4.4.६० ॥
एकैकस्मिन्पदे दत्ते पुरीं द्वारवतीं प्रति ॥
पुण्यं क्रतुसहस्रेण कलौ भवति देहिनाम् ॥६१॥
कलौ कृष्णपुरीं रम्यां ये गच्छंति नरोत्तमाः ॥
कुलकोटिशतैर्युक्तास्ते गच्छन्ति हरेः पदम् ॥६२॥
ये ध्यायंति मनोवृत्त्या गमनं द्वारकां प्रति ॥
तेषां विलीयते पापं पूर्वजन्मायुतैः कृतम् ॥ ६३ ॥
कृष्णस्य दर्शने बुद्धिर्जायते यस्य देहिनः ॥
वक्त्रावलोकनात्तस्य पापं याति सहस्रधा ॥ ६४ ॥
ये गता द्वारकायां च ये मृताः कृष्णसन्निधौ ॥
न तेषां पुनरावृत्तिर्यावदाभूतसंप्लवम् ॥६५॥
सुलभा मथुरा काशी ह्यवन्ती च तथा सुराः ॥
अयोध्या सुलभा लोके दुर्लभा द्वारका कलौ ॥ ६६ ॥
गत्वा कृष्णपुरीं रम्यां षण्मासात्कृष्णसंनिधौ॥
जीवन्मुक्तास्तु ते ज्ञेयाः सत्यमेतत्सुरोत्तम ॥ ६७ ॥
कृष्णक्रीडाकरं स्थानं वाञ्छन्ति मनसा प्रिये ॥
तेषां हृदि स्थितं पापं क्षालयेत्प्रेतनायकः ॥ ६८ ॥
अत्युग्राण्यपि पापानि तावत्तिष्ठन्ति विग्रहे ॥
यावन्न गच्छति नरः कलौ द्वारवतीं प्रति ॥ ६९ ॥
पुण्यसंख्या च तीर्थानां ब्रह्मणा विहिता पुरा ॥
दानाध्ययन संज्ञानां मुक्त्वा द्वारवतीं कलौ ॥ 7.4.4.७० ॥
चक्रतीर्थे तु यो गच्छेत्प्रसंगेनापि मानवः ॥
कुलैकविंशतियुतः स गच्छेत्परमं पदम् ॥ ७१ ॥
लोभेनाऽप्यपराधेन दम्भेन कपटेन वा ॥
चक्रतीर्थं च यो गच्छेन्न पुनर्विशते भवम् ॥ ७२ ॥
प्रयागे ह्यस्थिपातेन यत्फलं परिकीर्तितम् ॥
तदेव शतसाहस्रं चक्रतीर्थास्थिपातनात् ॥ ७३ ॥
पृथिव्यां चैव तत्तीर्थं परमं परिकीर्तितम् ॥
चक्रतीर्थमिति ख्यातं ब्रह्महत्याविनाशनम् ॥ ७४ ॥
ये ये कुले भविष्यंति तत्पूर्वं मानवाः क्षितौ ॥
सर्वे विष्णुपुरं यांति चक्रतीर्थास्थिपातनात् ॥ ७५ ॥
किं जातैर्बहुभिः पुत्रैर्गणनापूरकात्मकैः ॥
वरमेको भवेत्पुत्रश्चक्रतीर्थं तु यो व्रजेत् ॥ ७६ ॥
तपसा किं प्रतप्तेन दानेनाध्ययनेन किम् ॥
सर्वावस्थोऽपि मुच्येत गतः कृष्णपुरीं यदि ॥ ७७ ॥
कलिकाल कृतैर्दोषैरत्युग्रैरपि मानवः ॥
कलौ कृष्णमुखं दृष्ट्वा लिप्यते न कदाचन ॥ ७८ ॥
दानं चाध्ययनं शौचं कारणं न हि पुत्रक ॥
हीनवर्णोऽपि पापात्मा गतः कृष्णपुरीं यदि ॥ ७९ ॥
वाराणस्यां कुरुक्षेत्रे नर्मदायां च यत्फलम् ॥
तत्फलं निमिषार्धेन द्वारवत्यां दिनेदिने ॥ 7.4.4.८० ॥
धन्यानामपि धन्यास्ते देवानामपि देवताः ॥
कृष्णोपरि मतिर्येषां हीयते न कदाचन ॥ ८१ ॥
श्रवणद्वादशीयोगे गोमत्युदधिसंगमे ॥
स्नात्वा कृष्णसुतं दृष्ट्वा लिप्यते नैव स क्वचित् ॥ ८२ ॥
यस्य कस्यापि मासस्य द्वादशी प्राप्य मानवः ॥
कृष्णक्रीडापुरीं दृष्ट्वा मुक्तः संसारगह्वरात् ॥ ८३ ॥
येषां कृष्णालये प्राणा गताः सुरपते कलौ ॥
स्वर्गान्न तेषामावृत्तिः कल्पकोटिशतैरपि ॥ ८४ ॥
विज्ञेया मानुषा वत्स गर्भस्थास्ते महीतले ॥
द्वारवत्यां न यैर्देवो दृष्टः कंसनिषूदनः ॥ ८५ ॥
दुर्लभो द्वारकावासो दुर्लभं कृष्णदर्शनम् ॥
दुर्लभं गोमतीस्नानं दुर्लभो रुक्मिणीपतिः ॥ ८६ ॥
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ॥
द्वापरे तु परो यज्ञः कलौ केशवकीर्तनम् ॥ ८७ ॥
हेमभारसहस्रैस्तु दत्तैर्यत्फलमाप्यते ॥
दृष्ट्वा तत्कोटि गुणितं हरेः सर्वप्रदं मुखम् ॥ ८८ ॥
द्वारकायां च यद्दत्तं शंखोद्धारे तथैव च ॥
पिंडारके महातीर्थे दत्तं चैवाक्षयं भवेत् ॥ ८९ ॥
गोमहिष्यादि यद्दत्तं सुवर्णवसनानि च ॥
वृषो भूमिग्रहो रूप्यं कन्यादानं तथैव च ॥ 7.4.4.९० ॥
यच्चान्यदपि देवेन्द्र त्रिषु स्थानेषु यच्छति ॥
तन्मुक्तिकारकं प्रोक्तं पितॄणामात्मनस्तथा ॥ ९१ ॥
ऊषरं हि यतो लोके क्षेत्रमेतत्प्रकीर्तितम् ॥
अतो मुक्तिकरं सर्वं दानं चोक्तं महर्षिभिः ॥ ९२ ॥
यत्किंचित्कुरुते तत्र दानं क्रीडावगाहनम् ॥
तदनन्तफलं प्राह भगवान्मधुसूदनः ॥ ९३ ॥
प्रेतत्वं नैव तस्यास्ति न याम्या नारकी व्यथा ॥
येन द्वारवतीं गत्वा कृतं कृष्णाऽवलोकनम् ॥ ९४ ॥
वारिमात्रेण गोमत्यां पिण्डदाने कृते कलौ ॥
पितॄणां जायते तृप्तिर्यावदाभूतसंप्लवम् ॥ ९५ ॥
नित्यं कृष्णपुरीं रम्यां ये स्मरन्ति गृहस्थिताः ॥
नमस्याः सर्वलोकानां देवानां च सुरोत्तम ॥ ९६ ॥
ब्रह्मज्ञानं गयाश्राद्धं मरणं गोग्रहेषु च ॥
वासः पुंसां द्वारकायां मुक्तिरेषा चतुर्विधा ॥ ९७ ॥
ब्रह्मज्ञानेन मुच्यन्ते प्रयागे मरणेन वा ॥
अथवा स्नानमात्रेण गोमत्यां कृष्णसंनिधौ ॥ ९८ ॥
कृतार्थः कृतपुण्योऽहं ब्रवीत्येवं महोदधिः ॥
पवित्रितं च मद्गात्रं गोमतीवारिसंप्लवात् ॥ ९९ ॥
अत्युग्राण्यपि पापानि तावत्तिष्ठंति विग्रहे ॥
यावत्स्नानं न गोमत्यां वारिणा पापहारिणा ॥ 7.4.4.१०० ॥
चक्रतीर्थे नरः स्नात्वा गोमत्यां रुक्मिणीह्रदे ॥
दृष्ट्वा कृष्णमुखं रम्यं कुलानां तारयेच्छतम् ॥ १०१ ॥
कृष्णं च ये द्वारवतीं मनुष्याः स्मरंति नित्यं हरिभक्तियुक्ताः ॥
विधूतपापाः किल संभवांते गच्छंति लोकं परमं मुरारेः ॥ १०२ ॥
अधौतपादः प्रथमं नमस्कुर्याद्गणेश्वरम् ॥
सर्वविघ्रविनाशश्च जायते नात्र संशयः ॥ १०३ ॥
नीलोत्पलदलश्यामं कृष्णं देवकिनन्दनम् ॥
दण्डवत्प्रणमेत्प्रीत्या प्रणमेदग्रजं पुनः ॥ १०४ ॥
बाल्ये च यत्कृतं पापं कौमारे यौवने तथा ॥
दर्शनात्कृष्णदेवस्य तन्नश्येन्नात्र संशयः ॥ १०५ ॥
वाण्याऽथ मनसा यच्च कर्मणा समुपार्जितम् ॥
पापं जन्मसहस्रेण तन्नश्येन्नात्र संशयः ॥ १०६ ॥
हेमभारसहस्रैस्तु दत्तैर्यत्फलमाप्यते ॥
तत्फलं कोटिगुणितं कृष्णवक्त्रावलोकनात् ॥ १०७ ॥
नमस्कृत्य च देवेशं पुण्डरीकाक्षमच्युतम् ॥
दुर्वाससं महेशानं द्वारकापरिरक्षकम् ॥१०८॥
प्रणम्य परया भक्त्या वैनतेयसमन्वितम् ।ऽ।
द्वारमागत्य च पुनः स्वर्गद्वारोपमं शुभम्॥ १०९ ॥
विश्रम्य च मुहूर्त्तार्द्धं सुहृद्भिर्बान्धवैर्वृतः ॥
तत्राश्रितान्समाहूय ब्राह्मणान्मन्त्रकोविदान् ॥
पूजाद्रव्यं समानीय ततस्तीर्थं व्रजेद्बुधः ॥ 7.4.4.११० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकायात्राविधिवर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 5
॥ प्रह्लाद उवाच ॥ ॥
ततो गच्छेद्द्विजश्रेष्ठा गोमतीं कृष्णसंश्रयाम् ॥
यस्या दर्शनमात्रेण मुच्यते सर्वपातकैः ॥
सर्वपापविनिर्मुक्तः कृष्णसायुज्यमाप्नुयात्॥ १ ॥
दुरितौघक्षयकरममंगल्यविनाशनम् ॥
सर्वकामप्रदं नॄणां प्रणमेद्गोमतीजलम् ॥ २ ॥
महापापक्षयकरमगतीनांगतिप्रदम् ॥
पूर्वपुण्यवशात्प्राप्तं प्रणमेद्गोमतीजलम् ॥ ३ ॥
॥ ऋषय ऊचुः ॥ ॥
दैत्येन्द्र संशयोऽस्माकं तं त्वं छेत्तुमिहार्हसि ॥
इयं का गोमती तत्र केनानीता महामते ॥ ४ ॥
केन कार्यवशेनेह संप्राप्ता वरुणालयम् ॥
सर्वं भागवतश्रेष्ठ ह्येतद्विस्तरतो वद ॥ ५ ॥
॥ प्रह्लाद उवाच ॥ ॥
एकार्णवे पुरा भूते नष्टे स्थावर जंगमे ॥
तदा ब्रह्मा समभवद्विष्णोर्नाभिसरोरुहात् ॥ ६ ॥
आदिष्टः प्रभुणा ब्रह्मा सृजस्व विविधाः प्रजाः ॥
इति धाता समादिष्टो हरिणा सृष्टि कारणे ॥ ७ ॥
उक्त्वा बाढमिति ब्रह्मा ततः सृष्टौ मनो दधे ॥
ससर्ज मानसात्सद्यः सनकाद्यान्कुमारकान् ॥
उवाच वचनं ब्रह्मा प्रजाः सृजत पुत्रकाः ॥ ८ ॥
ब्रह्मणो वचनं श्रुत्वा ते कृतांजलयोऽब्रुवन् ॥
भगवन्भगवद्रूपं द्रष्टुकामा वयं प्रभो ॥ ९ ॥
न बन्धमनुवर्त्तामः सृष्टिरूपं दुरासदम्॥
इत्युक्त्वा ते ययुः सर्वे सनकाद्या कुमारकाः ॥ 7.4.5.१०॥
पश्चिमां दिशमास्थाय तीरे नदनदीपतेः ॥
तेजोमयस्य रूपस्य द्रष्टुकामा महात्मनः ॥
तस्मिन्मानसमाधाय तेपिरे परमं तपः ॥ ११ ॥
बहुवर्षसहस्रैस्तु प्रसन्ने धरणीधरे ॥
भित्त्वा जलं समुत्तस्थौ तेजोरूपं दुरासदम् ॥ ॥ १२ ॥
अनेकदैत्यदमनं बहुयंत्रविदारणम् ॥
सूर्यकोटिप्रभाभासं सहस्रारं सुदर्शनम् ॥ १३ ॥
तं दृष्ट्वा विस्मिताः सर्वे ब्रह्मपुत्राः परस्परम् ॥
वीक्षमाणा भगवतः परमायुधमुत्तमम् ॥ १४ ॥
तान्विलोक्य तथाभूतान्वागुवाचाशरीरिणी ॥
भो ब्रह्मपुत्रा भगवाञ्छ्रीघ्रमाविर्भविष्यति ॥ १५ ॥
अर्हणार्थं भगवतः शीघ्रमर्घ्यं प्रकल्प्यताम्॥
आयुधं लोकनाथस्य द्विजाः शीघ्रं प्रसाद्यताम् ॥ १६ ॥
तच्छ्रुत्वाऽऽकाशवचनं तुष्टुवुस्ते सुदर्शनम् ॥ १ ॥
ऋषय उचुः ॥ ॥
ज्योतिर्मय नमस्तेऽस्तु नमस्ते हरिवल्लभ ॥
सुदर्शन नमस्तेऽस्तु सहस्राराऽक्षराऽव्यय ॥१८॥
नमस्ते सूर्यरूपाय ब्रह्म रूपाय ते नमः ॥
अमोघाय नमस्तुभ्यं रथांगाय नमोनमः ॥ १९ ॥
एवं ते पूजयामासुः सुमनोभिस्तथाऽक्षतैः ॥ 7.4.5.२० ॥
स्तवैर्नानाविधैः स्तुत्वा प्रणेमुर्हरिवल्लभम् ॥
तत्प्रसाद्य सुनाभं तु प्रभुसंदर्शनोत्सुकाः ॥ २० ॥
अस्मरन्मनसा देवं ब्रह्माणं पितरं स्वकम् ॥
तेषां तु चिंतितं ज्ञात्वा ब्रह्मा गंगामथाब्रवीत् ॥ २१ ॥
याहि शीघ्रं सरिच्छ्रेष्ठे पृथिव्यां हरिकारणात् ॥
गां गता त्वं महाभागे ततो बहुमताऽसि मे ॥ २२ ॥
उर्व्यां ते गोमती नाम सुप्रसिद्धं भविष्यति ॥ २३ ॥
वसिष्ठस्यानुगा भूत्वा याहि शीघ्रं धरातलम् ॥
तातं पुत्रीवानुयाता वसिष्ठतनया भव ॥ २४ ॥
बाढमित्येव सा देवी प्रस्थिता वरुणालयम् ॥
वसिष्ठस्त्वग्रतो याति तं गंगा पृष्ठतोऽन्वगात् ॥ २५ ॥
तां दृष्ट्वा मनुजाः सर्वे वसिष्ठेन समन्विताम् ॥
नमश्चक्रुर्महाभागां गच्छतो पश्चिमार्णवम् ॥ २६ ॥
आविर्बभूव तत्रैव यत्र ते मुनयः स्थिताः ॥
द्रष्टुकामा हरे रूपं श्रिया जुष्टं चतुर्भुजम् ॥ २७ ॥
दृष्ट्वा वसिष्ठमनुगामायान्तीं सुरपावनीम् ॥
अवाकिरन्महाभागां सुमनोभिश्च सर्वशः ॥ २८ ॥
दिव्यैर्माल्यैः सुगन्धैश्च गन्धधूपैस्तथाऽक्षतैः ॥
संपूज्य हृष्टमनसः साधुसाध्विति चाब्रुवन् ॥ २९ ॥
वसिष्ठं तेऽग्रगं दृष्ट्वा ह्युदतिष्ठंस्ततो द्विजाः ॥
अर्घ्यादिसत्क्रियां कृत्वा प्रहृष्टा इदमब्रुवन् ॥ ॥ 7.4.5.३० ॥
यस्मात्त्वया समानीता ह्यस्मिँल्लोके सरिद्वरा ॥
तस्मात्तव सुतेत्येवं ख्यातिं लोके गमिष्यति ॥ ३१ ॥
गोः स्वर्गादागता यस्मादिदं स्थानं मती मता ॥
तस्माद्धि गोमतीनाम ख्यातिं लोके गमिष्यति ॥ ३२ ॥
अस्या दर्शनमात्रेण मुक्तिं यास्यंति मानवाः ॥
किं पुनः स्नान दानादि कृत्वा यांति हरेः पदम् ॥ ३३ ॥
तामेव चार्घ्यं दत्त्वा ते योगींद्रा ईडिरे हरिम् ॥
परं पुरुषसूक्तेन पुरुषं शेषशायिनम् ॥ ३४ ॥
इति संस्तुवतां तेषां हरिराविर्बभूव ह ॥
पीतकौशेयवसनो वनमालाविभूषितः ॥
दिव्यमाल्यानुलिप्तांगो दिव्याभरणभूषितः ॥ ३५ ॥
शेषासनगतं देवं दिव्यानेकोद्यतायुधम् ॥
ज्वलत्किरीटमुकुटं स्फुरन्मकरकुंडलम् ॥ ३६ ॥
भक्ताभयप्रदं शांतं श्रीवत्सांकं महाभुजम् ॥
सदा प्रसन्नवदनं घनश्यामं चतुर्भुजम् ॥ ३७ ॥
पादसंवाहनासक्तलक्ष्म्या जुष्टं मनोहरम् ॥
तं दृष्ट्वा मुनयः सर्वे हर्षोत्कर्षसमन्विताः ॥
विष्णुं ते विष्णुसूक्तैश्च तुष्टुवुर्वेदसंभवैः ॥ ३८ ॥
एवं संस्तुवता तेषां विष्णुर्दीनानुकंपकः ॥
उवाच सुप्रसन्नेन मनसा द्विजसत्तमान् ॥ ३९ ॥
॥ श्रीभगवानुवाच ॥ ॥
भोभोः कुमारास्तुष्टोऽहं प्रदास्यामि यथेप्सितम् ॥
भविष्यथ ज्ञानयुता अस्पृष्टा मम मायया ॥ 7.4.5.४० ॥
यस्मान्मोक्षार्थिभिर्विप्रा जलेनाहं प्रसादितः ॥
तस्मादिदं परं तीर्थं सर्वकामप्रदं परम् ॥ ४१ ॥
अनुग्रहाय भवतां यत्र चक्रं सुदर्शनम् ॥
निःसृतं प्रथमं विप्रा जलं भित्त्वा ममाग्रतः ॥ ॥ ४२ ॥
चक्रतीर्थमिति ख्यातं तस्मादेतद्भविष्यति ॥
ममापि नियतं वासो भविष्यति महार्णवे ॥ ४३ ॥
येऽत्र स्नानं प्रकुर्वंति प्रसंगेनापि मानवाः ॥
चक्रतीर्थे द्विजश्रेष्ठास्तेषां मुक्तिः करे स्थिता ॥ ४४ ॥
भवतोऽपि सदा ह्यत्र तिष्ठध्वं च द्विजर्षभाः ॥
वायुभूतांतरिक्षस्थाः सर्वकामस्य दायकाः ॥ ४५ ॥
॥ प्रह्लाद उवाच ॥ ॥
तच्छ्रुत्वा हृष्टमनसः कृत्वार्घ्यं सुरपावनीम् ॥
अवनिज्य हरेः पादौ मूर्ध्नाऽपश्चाप्यधारयन् ॥ ॥ ४६ ॥
प्रक्षाल्य सा हरेः पादौ प्रविष्टा वरुणालयम् ॥
तस्मिन्महापापहरा गोमती सागरं गता ॥ ४७ ॥
वरं दत्त्वा ततो विष्णुस्तत्रैवान्तर धीयत ॥
सनकाद्या ब्रह्मसुतास्तस्थुस्तत्र समाहिताः ॥ ४८ ॥
एवं सा गोमती तत्र संजाता सागरंगमा ॥
सर्वपापहरा प्रोक्ता पूर्वगंगेति या श्रुता ॥ ॥ ४९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्यं सनत्कुमारतपोबलेन भगवत्प्रादुर्भाव वृत्तान्तवर्णनपुरःसर गोमत्युत्पत्तिमाहात्म्यवर्णनंनाम पञ्चमोऽध्यायः ॥ ५ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 6
॥ ऋषय ऊचुः ॥ ॥
साधुसाधु महाभाग प्रह्लादा सुरसत्तम ॥
येन नः कलिमध्ये तु दर्शितो भगवान्हरिः ॥ १ ॥
त्वन्मुखक्षीरसिंधूत्था कथेयममृतोपमा ॥
कर्णाभ्यां पिबतां तृप्तिर्मुनीनां न प्रजायते ॥
कथयस्व महाबाहो तीर्थयात्रां सुविस्तराम् ॥ २ ।
अस्माभिस्तत्र गंतव्यं वहते यत्र गोमती ॥
तिष्ठते यत्र भगवांश्चक्रतीर्थावलोककः ॥ ॥३ ॥
भवाब्धौ पतितांस्तात उद्धरस्व भवार्णवात् ॥
तीर्थयात्राविधानं च कथयस्व महामते ॥ ४ ॥
॥ प्रह्लाद उवाच ॥ ॥
गत्वा तु गोमतीतीरे प्रणमेद्दंडवच्च ताम् ॥
प्रक्षाल्य पाणिपादौ च कृत्वा च करयोः कुशान् ॥ ५ ॥
गृहीत्वा तु फलं शुभ्रमक्षतैश्च समन्वितम् ॥
प्राङ्मुखः प्रयतो भूत्वा दद्यादर्घ्यं विधानतः ॥ ६ ॥
ब्रह्मलोकात्समायाते वसिष्ठतनये शुभे ॥
सर्वपापविशुद्ध्यर्थं ददाम्यर्घ्यं तु गोमति ॥ ७ ॥
वसिष्ठतनये देवि सुरवंद्ये यशस्विनि ॥
त्रैलोक्यवंदिते देवि पापं मे हर गोमति ॥ ८ ॥
इत्युच्चार्य्य द्विजश्रेष्ठा मृदमालभ्य पाणिना ॥
विष्णुं संस्मृत्य मनसा मंत्रमेतमुदीरयेत् ॥ ९ ॥
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे ॥
उद्धृताऽसि वराहेण कृष्णेन शतबाहुना ॥ 7.4.6.१० ॥
मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् ॥
त्वया हतेन पापेन पूतः संवत्सरं भवेत् ॥११॥
इत्येवं मृदमालिप्य स्नानं कुर्य्याद्यथाविधि ॥
आपो अस्मानिति स्नात्वा शृणुध्वं यत्फलं लभेत् ॥ १२ ॥
कुरुक्षेत्रे च यत्पुण्यं राहुग्रस्ते दिवाकरे ॥
स्नानमात्रेण तत्पुण्यं गोमत्यां कृष्णसन्निधौ ॥ १३ ॥
भक्त्या स्नात्वा तु तत्रैवं कुर्यात्कर्म यथोदितम्॥
देवान्पितॄन्मनुष्यांश्च तर्पयेद्भावसंयुतः ॥ १४ ॥
ये च रौरवसंस्था हि ये च कीटत्वमागताः ॥
गोमतीनीरदानेन मुक्तिं यांति न संशयः ॥ १५ ॥
विनाप्यक्षतदर्भैर्वा विना भावनया तथा ॥
वारिमात्रेण गोमत्यां गयाश्राद्धफलं लभेत् ॥ १६ ॥
ततश्च विप्रानाहूय वेदज्ञांस्तीरसंश्रयान् ॥
विश्वेदेवादि संपूज्य पितॄणां श्राद्धमाचरेत् ॥ १७ ॥
श्रद्धया परया युक्तः श्राद्धं कृत्वा विधानतः ॥
दक्षिणां च ततो दद्यात्सुवर्णं रजतं तथा ॥ १८ ॥
सुवर्णशृंगसहितां राजतखुरभूषिताम् ॥
रत्नपुच्छां वस्त्रयुतां ताम्रपृष्ठां सवत्सकाम् ॥ २९ ॥
दद्याद्विप्रं समभ्यर्च्य वस्त्रालंकारभूषणैः ॥
सप्तधान्ययुतां दद्याद्विष्णुर्मे प्रीयतामिति ॥ 7.4.6.२० ॥
आसीमांतं विसृज्यैतान्ब्राह्मणान्नियतेंद्रियः ॥
दीनांधकृपणेभ्यश्च दानं दद्यात्स्वशक्तितः ॥ २१ ॥
गोमती गोमयस्नानं गोदानं गोपिचन्दनम् ॥
दर्शनं गोपिनाथस्य गकाराः पंच दुर्लभाः ॥ २२ ॥
तस्माच्चैव प्रकर्तव्यं गोदानं गोमतीतटे ॥
एवं कृत्वा द्विजश्रेष्ठाः कृतकृत्यो भवेन्नरः ॥ २३ ॥
ये गता नरकं घोरं ये च प्रेतत्वमागताः ॥
पूर्वकर्मविपाकेन स्थावरत्वं गताश्च ये ॥ २४ ॥
पितृपक्षे च ये केचिन्मातृपक्षे कुलोद्भवाः ॥
सर्वे ते मुक्तिमायांति गोमत्या दर्शनात्कलौ ॥ २५ ॥
कृतं श्राद्धं नरैर्यैस्तु गोमत्यां भूसुरोत्तमाः ॥
हयमेधस्य यज्ञस्य फलमायांत्यसंशयम् ॥ २६ ॥
गंगास्नानेन यत्पुण्यं प्रयागे परिकीर्त्तितम् ॥
तत्पुण्यं समवाप्नोति गोमत्यां श्राद्धकृन्नरः ॥ २७ ॥
विष्णुलोकं हि गच्छंति पितरस्तत्कुलोद्भवाः ॥
अनेकजन्मसाहस्रं पापं याति न संशयः ॥ २८ ॥
वाचा च यत्कृतं पापं कर्मणा मनसा तथा॥
तत्सर्वं विलयं याति गोमतीदर्शनेन हि॥२९॥
यो नरः कार्त्तिके स्नानं गोमत्यां कुरुते द्विजाः॥
प्रसन्नो भगवांस्तस्य लक्ष्म्या सह न संशयः॥7.4.6.३०॥
प्रत्यहं हुतँ भोक्तारं तर्पयेत्सुसमाहितः॥
प्रत्यहं षड्रसं देयं भोजनं च द्विजातये॥३१॥
पूजयेत्कृष्णदेवं च प्रत्यहं भक्तितत्परः ॥
येन केनापि विप्रेन्द्राः स्थातव्यं नियमेन तु ॥३२॥
ब्राह्मणानुज्ञया तत्र गृह्णीयान्नियमान्नरः ॥
संपूर्णे कार्त्तिके मासि संप्राप्ते बोधवासरे ॥ ३३ ॥
पंचामृतेन देवेशं स्नापयेत्तीर्थवारिणा ॥
श्रीखण्डं कुंकुमोन्मिश्रं मृगनाभिसमन्वितम् ॥
विलेपयेच्च देवेशं भक्त्या दामोदरं हरिम् ॥ ३४ ॥
कुसुमैर्वारिसंभूतैस्तुलस्या करवीरकैः ॥
तद्देशसंभवैः पुष्पैः पूजयेद्गरुडध्वजम् ॥ ३५ ॥
नैवेद्यं रुचिरं दद्याद्वि ष्णुर्मे प्रीयतामिति ॥
गीतवाद्यादिनृत्येन तथा पुस्तकवाचनैः ॥ ३६ ॥
रात्रौ जागरणं कार्य्यं स्तोत्रैर्नानाविधैरपि ॥
आहूय ब्राह्मणान्भक्त्या भोजयेच्च स्वशक्तितः ॥ ३७ ॥
ततो रथस्थितं देवं पूजयेद्गरुडध्वजम् ॥
कार्त्तिकांते च विप्रेंद्रा गोमत्युदधिसंगमे ॥ ३८ ॥
स्नात्वा पितॄंश्च संतर्प्य पूजयेच्च जनार्द्दनम् ॥
सुवस्त्रैर्भूषणैश्चापि समभ्यर्च्य रमापतिम् ॥
अनुज्ञया तु विप्राणां व्रतं संपूर्णतां नयेत् ॥ ३९ ॥
एवं यः स्नाति विप्रेन्द्राः कार्त्तिके कृष्णसन्निधौ ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥7.4.6.४०॥
माघस्नानं नरो भक्त्या गोमत्यां कुरुते तु यः ॥
वैनतेयोदये नित्यं संतुष्टः सह भार्यया ॥ ४१ ॥
तिला हिरण्यसहिता देया ब्राह्मणसत्तमे ॥
मोदका गुडसंमिश्राः प्रत्यहं दक्षिणान्विताः ॥ ४२ ॥
तिलैराज्याप्लुतैर्होमः कर्त्तव्यः प्रत्यहं नरैः ॥
होमार्थं सेवयेद्वह्निं न शीतार्थं कदाचन ॥४३॥
गोमत्यां स्नाति यो भक्त्या माघं माधववल्लभम् ॥
समाप्तौ रक्तवस्त्राणि कञ्चुकोष्णीषमेव च ॥ ४४ ॥
दद्यादुपानहौ भक्त्या कुंकुमं च विशेषतः ॥
कम्बलं तैलपक्वं च विष्णुर्मे प्रीयतामिति ॥ ४५ ॥
स्वामिकार्य्यमृतानां च संग्रामे शस्त्रसंकुले ॥
गवार्थे ब्राह्मणार्थे च मृतानां या गतिः स्मृता ॥ ४६ ॥
माघस्नाने च सा प्रोक्ता गोमत्यां नात्र संशयः ॥
सर्वदानफलं तस्य सर्व तीर्थफलं तथा ॥ ४७ ॥
माघस्नानान्नरो याति विष्णुलोकं सनातनम् ॥
सर्वान्कामानवाप्नोति समभ्यर्च्य जनार्द्दनम् ॥ ४८॥
माघं यः क्षपते सर्वं गोमत्युदधिसंगमे ॥
ब्राह्मणानुज्ञया विप्राः सर्वं संपूर्णतां व्रजेत् ॥ ४९ ॥
पापिनोऽपि द्विजश्रेष्ठा ये स्नाता गोमतीजले ॥
यज्विनां च गतिं यांति प्रसादाच्चक्रपाणिनः ॥ 7.4.6.५० ॥
ब्रह्मरुद्रपदादूर्ध्वं यत्पदं चक्रपाणिनः ॥
स्नानमात्रेण गोमत्यां तत्प्रोक्तं कृष्णसंनिधौ ॥ ५१ ॥
मित्रद्रोहे च यत्पापं यत्पापं गुरुघातिनि ॥
तत्पापं समवाप्नोति यात्राभंगं करोति यः ॥५२॥
ब्रह्मस्वहारिणः पापास्तथा देवस्वहारिणः ॥
स्नानमात्रेण शुद्ध्यंति गोमत्यां नात्र संशयः ॥ ५३ ॥
भीताऽभयप्रदानेन यत्पुण्यं लभते नरः ॥
तत्पुण्यं समवाप्नोति गोमत्यां स्नानमात्रतः ॥ ५४ ॥
भीताभय प्रदानेन पुत्रानिष्टान्न संशयः ॥
धनकामस्तु विपुलं लभते धनमूर्जितम्॥ ५५ ॥
प्राप्नुयादीप्सितान्कामान्गोमतीनीरसंगमे ॥
कृतकृत्यो भवेद्विप्रा ऋणान्मुच्येत पैतृकात् ॥ ५६ ॥
मनसा वचसा चैव कर्मणा यदुपार्जितम् ॥
तत्सर्वं नश्यते पापं गोमतीनीरसंगमात् ॥ ५७ ॥
पीतांबरधरो भूत्वा तथा गरुडवाहनः ॥
वनमाली चतुर्बाहुर्दिव्यगन्धानुलेपनः ॥
याति विष्ण्वालयं विप्रा अपुनर्भवलक्षणम् ॥ ५८ ॥
गोमतीस्नानमात्रेण मानवो नात्र संशयः ॥
सर्वपापविनिर्मुक्तो याति विष्णुं सनातनम् ॥ ५९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये गोमत्युदधिसंगमे स्नानदानादिमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 7
॥ श्रीप्रह्लाद उवाच ॥ ॥
ततो गच्छेद्द्विजश्रेष्ठा रथांगाख्यं महोदधिम् ॥
चक्रांका यत्र पाषाणा दृश्यंते मुक्तिदायकाः ॥ १ ॥
यैः पूज्यते जगन्नाथः प्रत्यहं भाव संयुतैः ॥
सदा नेत्रैरनिमिषैर्वीक्ष्यते च जनार्दनः ॥ २ ॥
यच्च साक्षाद्भगवता दृष्टं कृष्णेन दृष्टितः ॥
तत्तीर्थं सर्वपापघ्नं चक्राख्यं परमं हरेः ॥ ३ ॥
यस्य प्रसिद्धिः परमा त्रैलोक्ये सचराचरे ॥
प्रयागादधिकं यच्च मुक्तिदं ह्यस्ति पावनम् ॥ ४ ॥
सुरैरपि प्रपूज्यंते यत्रांगानि शरीरिणाम् ॥
अंकितानि च चक्रेण षण्मासान्नात्र संशयः ॥ ५ ॥
यद्दृष्ट्वा मुच्यते पापात्प्रसंगेनापि मानवः ॥
तत्तीर्थं सर्वतीर्थानां पावनं प्रवरं स्मृतम्॥ ॥ ६ ॥
तत्र गत्वा द्विजश्रेष्ठाः प्रक्षाल्य चरणौ मुदा ॥
करौ चास्यं चैव पुनः प्रणमेद्दंडवत्पुनः ॥ ७ ॥
प्रणिपत्य गृहीत्वार्घ्यं पंचरत्नसमन्वितम् ॥
सपुष्पाक्षतगंधैश्च फलहेमसुचंदनैः ॥ ८ ॥
संपन्नमर्घ्यमादाय मंत्रमेतमुदीरयेत् ॥
प्रत्यङ्मुखः सुनियतः संमुखो वा महोदधेः ॥९॥
ॐ नमो विष्णु रूपाय विष्णुचक्राय ते नमः ॥
गृहाणार्घ्यं मया दत्तं सर्वकामप्रदो भव ॥ 7.4.7.१० ॥
अग्निश्च तेजो मृडया च रुद्रो रेतोधा विष्णुरमृतस्य नाभिः ॥
एतद्ब्रुवन्वाडवाः सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् ॥११॥
मृदमालभ्य सजलां विप्रा देवकरच्युताम् ॥
धारयित्वा तु शिरसा स्नानं कुर्य्याद्यथाविधि ॥ १२ ॥
तर्पयेच्च पितॄन्देवान्मनुष्यांश्च यथाक्रमम् ॥
तर्पयित्वा हविर्द्रव्यं प्रोक्षयित्वा च भक्तितः ॥ १३ ॥
अश्वमेधसहस्रेण सम्यग्यष्टेन यत्फलम् ॥
स्नानमात्रेण तत्प्रोक्तं चक्रतीर्थे द्विजोत्तमाः ॥ १४ ॥
प्रयागे यत्फलं प्रोक्तं माघ्यां माधवपूजने ॥
स्नानमात्रेण तत्प्रोक्तं चक्र तीर्थे द्विजोत्तमाः ॥ १५ ॥
कारयेच्च ततः श्राद्धं पितॄणां श्रद्धयान्वितः ॥
विश्वेदेवान्सुवर्णेन राजतेन तथा पितॄन् ॥ १६ ॥
संतर्प्य भोजनेनैव वस्त्रालंकारभूषणैः॥
दीनान्धकृपणेभ्यश्च दानं देयं स्वशक्तितः॥ १७॥
चक्रतीर्थे तीर्थवरे विशेषाद्द्विजसत्तमाः॥
रत्नदानं प्रकुर्वीत प्रीणनार्थं जगत्पतेः ॥ १८ ॥
गन्त्रीमनडुहा युक्तां सर्वास्तरणसंयुताम् ॥
सोपस्करां च दद्याद्वै विष्णुर्मे प्रीयतामिति॥ १९ ॥
सुविनीतं शीलयुतं तथा सोपस्करं हयम् ॥
भूषयित्वा च विप्राय दद्याद्दक्षिणया सह ॥ 7.4.7.२० ॥
एवं कृते द्विजश्रेष्ठाः कृतकृत्यो भवेन्नरः॥
मुक्तिं प्रयांति तस्यैव पितरस्त्रिकुलोद्भवाः ॥ २१ ॥
प्रेतयोनिं गता ये च ये च कीटत्वमागताः ॥
पच्यंते नरके ये च महारौरवसंज्ञके ॥ २२ ॥
ते सर्वे तृप्तिमायांति चकतीर्थ प्रभावतः ॥
श्राद्धे कृते द्विजश्रेष्ठा गयाश्राद्धफलं लभेत् ॥ २३ ॥
या गतिर्मातृभक्तानां यज्वनां या गतिः स्मृता ॥
चक्रतीर्थे द्विजश्रेष्ठाः स्नात्वा तां लभते नरः ॥ २४ ॥
श्राद्धं प्रशस्तं विप्रेंद्राः संप्राप्ते चंद्रसंक्षये ॥
सूर्यग्रहे विशेषेण कुरुक्षेत्रफलं स्मृतम् ॥
श्राद्धे स्नाने तथा दाने पितॄणां तर्पणे तथा॥ २५ ॥
प्रशस्तं चक्रतीर्थं च नात्र कार्य्या विचारणा ॥ २६ ॥
सर्वदा पावनं विप्राश्चक्रतीर्थं न संशयः ॥
यस्तु श्राद्धं प्रकुर्वीत यात्रायामागतो नरः ॥ २७ ॥
चक्रतीर्थे द्विजश्रेष्ठाः संपूज्य मधुसूदनम् ॥
पूजितेषु द्विजेंद्रेषु विष्णुसांनिध्यमाप्नुयात् ॥ २८ ॥
वाचा कृतं कर्मकृतं मनसां समुपार्जितम् ॥
स्नानमात्रेण तत्पापं नश्यते नात्र संशयः ॥ २९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे चतुर्थे द्वारकामाहात्म्ये गोमत्युदधिसंगमतीरस्थचक्रतीर्थमाहात्म्यवर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 8
॥ प्रह्लाद उवाच ॥ ॥
मा गच्छध्वं सुरनदीं कालिंदीं मा सरस्वतीम् ॥
गच्छध्वं च द्विजश्रेष्ठा गोमत्युदधिसंगमे ॥ १ ॥
प्राप्यते हेलया यत्र सर्वे कामा न संशयः ॥
गोमतीजलकल्लोलैः क्रीडते यत्र सागरः ॥ २ ॥
पापघ्नं गोमतीतीरं प्राप्यते पुण्यवन्नरैः ॥
सागरेण च संमिश्रं महापातकनाशनम् ॥ ३ ॥
गोमती संगता यत्र सागरेण द्विजोत्तमाः ॥
मुक्तिद्वारं तु तत्प्रोक्तं कलिकाले न संशयः ॥ ४ ॥
यत्पुण्यं लभते तूर्णं गंगासागरसंगमे ॥
तत्पुण्यं समवाप्नोति गोमत्युदधिसंगमे ॥ ५ ॥
नमस्कृत्य च तोयेशं गोमतीं च सरिद्वराम् ॥
अर्घ्यं दद्याद्विधानेन कृत्वा च करयोः कुशान् ॥ ६ ॥
मंत्रेणानेन विप्रेंद्रा दद्यादर्घ्यं विधानतः ॥
ब्राह्मणैः सह संगत्य सदा तत्तीर्थवासिभिः ॥ ७ ॥
भक्त्या चार्घ्यं प्रदास्यामि देवाय परमा त्मने ॥
त्राहि मां पापिनं घोरं नमस्ते सुररूपिणे ॥ ८ ॥
तीर्थराज नमस्तुभ्यं रत्नाकर महार्णव ॥
गोमत्या सह गोविंद गृहाणार्घ्यं नमोऽस्तु ते ॥ ९॥
दत्त्वा चार्घ्यं शिखां बद्ध्वा संस्मृत्य जलशायिनम् ॥
कुर्याच्च प्राङ्मुखः स्नानं ततः प्रत्यङ्मुखस्तथा॥ 7.4.8.१०॥
स्नात्वा च परया भक्त्या पितॄन्संतर्पयेत्ततः ॥
विश्वेदेवादि संपूज्य पितॄणां श्राद्धमाचरेत् ॥ ११ ॥
यथोक्तां दक्षिणां दद्याद्विष्णुर्मे प्रीयतामिति ॥
विशेषतः प्रदातव्यं सुवर्णं विप्रसत्तमाः ॥ १२ ॥
दंपत्योर्वाससी चैव कंचुकोष्णीषमेव च ॥
लक्ष्म्या सह जगन्नाथो विष्णुर्मे प्रीयतामिति ॥ १३ ॥
महादानानि सर्वाणि गोमत्युदधिसंगमे ॥
सप्तद्वीपपतिर्भूत्वा विष्णुलोके महीयते ॥ १४ ॥
यस्तुलापुरुषं दद्याद्गोमत्युदधिसंगमे ॥
सप्तद्वीपपतिर्भूत्वा विष्णुलोके महीयते ॥ १५ ॥
आत्मानं तोलयेद्यस्तु स्वर्णेन रजतेन वा ॥
वस्त्रैर्वा कुंकुमैर्वापि फलैर्वापि तथा रसैः ॥ १६ ॥
भुक्त्वा भोगान्सुविपुलांस्तथा कामान्मनोहरान् ॥
संपूज्यमानस्त्रिदशैर्याति विष्ण्वालयं नरः ॥ १७ ॥
हिरण्यरूप्यदानं च ह्यश्वं धेनुं तथैव च ॥
गोमतीसंगमे दत्त्वा सर्वान्कामानवाप्नुयात् ॥ १८ ॥
भूमिदानं च यो दद्याद्गोमत्युदधिसंगमे ॥
स्नात्वा शुचिर्हरिं स्मृत्वा तस्माद्धन्यतरो नहि ॥ १९ ॥
कन्यादानं च यः कुर्याद्विद्यादानमथापि वा ॥
गोमत्याः संगमे स्नात्वा याति ब्रह्मपदं नरः ॥ 7.4.8.२० ॥
यो दद्यात्स्वर्णधेनुं च घृतधेनुं समाहितः ॥
ब्रह्माण्डदानमपि वा तस्य पुण्यमनंतकम् ॥ २१ ॥
तथा लवणधेनुं च जलधेनुमथापि वा ॥
दत्त्वा याति परं स्थानं गोमत्युदधिसंगमे ॥ २२ ॥
युगादिषु च सर्वेषु गोमत्युदधिसंगमे ॥
स्नात्वा संतर्प्य च पितॄनक्षयं लोकमाप्नुयात् ॥ २३ ॥
आषाढ्यां च तथा माघ्यां कार्तिक्यां संगमे नरः ॥
पितॄणां तर्पणं स्नानं श्राद्धं पावकपूजनम् ॥
कुर्याच्चैव तथा दानं यदीच्छेदक्षयं पदम् ॥ २४ ॥
पितॄणां चाक्षया तृप्तिर्गयाश्राद्धेन वै यथा ॥
तद्वच्छ्राद्धान्महाभाग गोमत्युदधिसंगमे ॥ २५ ॥
कुर्य्यात्स्नानं तथा दानं पितॄणां तर्पणं तथा ॥
पञ्चकासु द्विजश्रेष्ठास्तथा चैवाष्टकासु च ॥ २६ ॥
वैधृतौ च व्यतीपाते छायायां कुंजरस्य च ॥
षष्ठ्यां च कपिलाख्यायां तथा हि द्वादशीषु च ॥ २७ ॥
गोमत्यां संगमे स्नात्वा दद्याद्दानं विशेषतः ॥
निर्मलं स्थानमाप्नोति यत्र गत्वा न शोचति ॥ २८ ॥
श्राद्धपक्षे त्वमावास्यां गोमत्युदधिसंगमे ॥
हेलया प्राप्यते पुण्यं दत्त्वा पिण्डं गयासमम् ॥ २९ ॥
तस्मात्सर्वं प्रयत्नेन त्वमावास्यां द्विजोत्तमाः ॥
श्राद्धं हि पितृपक्षांते कार्य्यं गोमतिसंगमे ॥ 7.4.8.३० ॥
यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत् ॥
पक्षश्राद्धकृतं पुण्यं दिनेनैकेन लभ्यते ॥ ३१ ॥
श्रद्धाहीनं मन्त्रहीनं पात्रहीनमथापि वा ॥
द्रव्यहीनं कालहीनं मनसः स्वास्थ्यवर्जितम् ॥ ३२ ॥
श्राद्धपक्षे ह्यमायां तु गोमत्युदधिसंगमे ॥
परिपूर्णं भवेत्सर्वं पितॄणां तृप्तिरक्षया ॥ ३३ ॥
गोमती कमला चैव चंद्रभागा तथैव च ॥
तिस्रस्तु संगता नद्यः प्रविष्टा वरुणालयम् ॥ ३४ ॥
गयायां पिंडदानेन प्रयागे ह्यस्थिपातने ॥
तत्पुण्यं समवाप्नोति पक्षांते श्राद्धकृन्नरः ॥ ३५ ॥
यदीच्छेत्सर्वतीर्थेषु हेलया त्वभिषेचनम् ॥
स्नानं कुर्वीत भक्त्या वै गोमत्युदधिसंगमे ॥ ३६ ॥
पक्षेपक्षे समग्रा तु पितृपूजा कृता च यैः ॥
सम्पूर्णा जायते तेषां गोमत्युदधिसंगमे ॥ ३१७ ॥
श्राद्धे कृते त्वमावस्यां पितृपक्षे च वै द्विजाः ॥
अपुत्रा चैव या नारी काकवंध्या च या भवेत् ॥ ३८ ॥
मृतपुत्रा तथा विप्राः संगमे स्नानमाचरेत् ॥
दोषैः प्रमुच्यते सर्वैर्गोमप्युदधिसंगमे ॥
स्नात्वा सुखमवाप्नोति प्रजां च चिरजीविनीम् ॥ ३९ ॥
यानि कानि च दानानि पृथिव्यां सम्भवंति हि ॥
तानि सर्वाणि देयानि गोमत्युदधिसंगमे ॥ 7.4.8.४० ॥
सर्वदैव च विप्रेन्द्रा विशेषात्सर्वपर्वसु ॥
स्नानं कुर्वीत नियतो गोमत्युदधिसंगमे ॥ ४१ ॥
दर्शनादेव पापस्य क्षयो भवति भो द्विजाः ॥
प्रणामे मनसस्तुष्टिर्मुक्तिश्चैवावगाहने ॥ ४२ ॥
श्राद्धे कृते पितॄणां तु तृप्तिर्भवति शाश्वती ॥
दाने मनोरथावाप्तिर्जायते नात्र संशयः ॥ ४३ ॥
कृतकृत्यास्तु ते धन्या यैः कृतं पितृतर्पणम् ॥
श्राद्धं च ऋषिशार्दूला गोमत्युदधिसंगमे ॥ ४४ ॥
पितृपक्षे च वै केचिन्मातृपक्षे तथैव च ॥
तथा श्वशुरपक्षे च ये चान्ये मित्रबांधवाः ॥ ४५ ॥
स्थावरत्वं गता ये च पुद्गलत्वं च ये गताः ॥
पिशाचत्वं गता ये च ये च प्रेतत्वमागताः ॥ ४६ ॥
तिर्य्यग्योनिगता ये च ये च कीटत्वमागताः ॥
स्नानमात्रेण ते सर्वे मुक्तिं यांति न संशयः ॥ ४७ ॥
किं पुनः श्राद्धदानादि गोमतीसंगमे तथा ॥
कृत्वा मुक्तिमवाप्नोति मानवो नात्र संशयः ॥ ४८ ॥
श्रवणद्वादशीयोगे गोमत्युदधिसंगमे ॥
स्नात्वा मुक्तिमवाप्नोति यत्र गत्वा न शोचति ॥ ४९ ॥
सन्त्यज्य सर्वतीर्थानि गोमत्युदधिसंगमे ॥
स्नानं कृत्वा तथा श्राद्धं कृतकृत्यो भवेन्नरः ॥
परं लोकमवाप्नोति ह्यर्चयित्वा तु वामनम् ॥ 7.4.8.५० ॥
सम्यक्स्नात्वा नरो यस्तु पूजयेद्गरुडध्वजम् ॥
पीतांबरधरो भूत्वा दिव्याभरणभूषितः ॥ ५१ ॥
वीक्ष्यमाणः सुरस्त्रीभिर्नागारिकृतकेतनः ॥
चतुर्भुजधरो भूत्वा वनमालाविभूषितः ॥
संस्तूयमानो मुनिभिर्याति विष्ण्वालयं नरः ॥ ५२ ॥
गोमतीसंगमे स्नात्वा कृतकृत्यो भवेन्नरः ॥
यत्र दैत्यवधं कृत्वा विष्णुना प्रभविष्णुना ॥ ५३ ॥
चक्रं प्रक्षालितं पूर्वं कृष्णेन स्वयमेव हि ॥
तेनैव चक्रतीर्थं हि ख्यातं लोकत्रये द्विजाः ॥ ५४ ॥
भवंति यत्र पाषाणाश्चक्रांका मुक्तिदायकाः ॥
यैः पूजितैर्जगन्नाथः कृष्णः सांनिध्यमाव्रजेत् ॥ ५५ ॥
तत्रैव यदि लभ्येत चक्रैर्द्वादशभिः सह ॥ ५६ ॥
द्वादशात्मा स विज्ञेयो मोक्षदः सर्वदेहिनाम् ॥
एकचक्रांकितो यस्तु द्वारवत्यां सुशोभनः ॥ ५७ ॥
सुदर्शनाभिधानोऽसौ मोक्षैकफलदो हि सः ॥
लक्ष्मीनारायणो द्वाभ्यां भुक्तिमुक्तिफलप्रदः ॥ ५८ ॥
त्रिभिस्त्रिविक्रमश्चैव त्रिवर्गफलदायकः ॥
श्रीप्रदो रिपुहन्ता च चतुर्भिः संयुतः स हि ॥ ५९ ॥
पञ्चभिर्वासुदेवस्तु जन्ममृत्युभयापहः ॥
प्रद्युम्नः षड्भिरेवासौ लक्ष्मीं कांतिं ददाति यः ॥ 7.4.8.६० ॥
सप्तभिर्बलभद्रश्च चक्रगोऽत्र प्रकीर्तितः ॥
लाच्छितश्चाष्टभिर्भक्तिं ददाति पुरुषोत्तमः ॥ ६१ ॥
सर्वं दद्यान्नवव्यूहो दुर्लभो यः सुरैरपि ॥
दशावतारो दशमी राज्यदो नात्र संशयः ॥६२ ॥
एकादशभिरैश्वर्यं चक्रगः संप्रयच्छति ॥
निर्वाणं द्वादशात्मा च द्वादशभिर्ददाति च ॥ ६३ ॥
अत ऊर्ध्वं महाभागाः सौख्यमोक्षप्रदायकाः ॥
यतोऽत्र ते च पाषाणाः कृष्णचक्रेण चित्रिताः ॥ ६४ ॥
तेषां स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषैः ॥
चक्रतीर्थे नरः स्नात्वा कृष्णचक्रेण चिह्नितः ॥ ६५ ॥
पूजयित्वा चक्रधरं हरिं ध्यायेत्सनातनम् ॥
नापुत्रो नाधनो रोगी न स संजायते नरः ॥ ६६ ॥
ब्रह्महत्यादिकं पापं मनोवाक्कायकर्मजम् ॥
तत्सर्वं विलयं याति सकृच्चक्रांकदर्शनात् ॥ ६७ ॥
म्लेच्छ देशे शुभे वापि चक्रांको दृश्यते यदि ॥
तत्र चैव हरिक्षेत्रं मुक्तिदं नात्र संशयः ॥ ६८ ॥
मृत्युकालेऽपि सम्प्राप्ते यदि ध्यायेद्धरिं नरः ॥
चक्रांकं धारयेदंगे स याति परमं पदम्॥६९॥
हृदयस्थे च चक्रांके पूतो भवति तत्क्षणात् ॥
नोपसर्पंति तं भीता दूताः कृष्णायुधं तदा ॥
वैष्णवं लोकमा प्नोति नात्र कार्या विचारणा ॥7.4.8.७० ॥
अपि पापसमाचारः किं पुनर्धार्मिकः शुचिः ॥
गोमती संगमे स्नात्वा चक्रतीर्थे तथैव च ॥
मुच्यते पातकैर्घोरै र्मानवो नात्र संशयः ॥७१॥
राजसाः सत्त्वमायांति विष्णुधर्मं सनातनम् ॥
क्षेत्रस्य तस्य माहात्म्यात्सत्यमेतत्प्रकीर्तितम् ॥ ७२ ॥
तामसं राजसं चापि यत्किञ्चिद्विष्णुपूजने ॥
तच्च सत्त्वत्वमायाति निम्नगा च यथार्णवे ॥ ७३ ॥
दुर्लभा द्वारका विप्र दुर्लभं गोमतीजलम् ॥
दुर्लभं जागरो रात्रौ दुर्लभं कृष्णदर्शनम् ॥ ७४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये गोमत्युदधि संगमस्नानादिमाहात्म्यपूर्वक चक्रतीर्थमाहात्म्यवर्णनंनामाष्टमोऽध्यायः ॥ ८ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 9
॥ प्रह्लाद उवाच ॥ ॥
ततो गच्छेद्द्विजश्रेष्ठाः सप्तकुण्डान्सुविश्रुतान् ॥
सर्वपापप्रशमनानृद्धिबुद्धिविवर्द्धनान्॥१॥
आराधितः स च यदा हरिराविर्बभूव ह ॥
संस्तूयमानो मुनिभिर्लक्ष्म्या सह जगत्पतिः ॥ २ ॥
अर्हणं च तदा चक्रुर्हरये सुरगङ्गया ॥
वामपार्श्वे स्थितां पद्मामभिषेक्तुं समुद्यताम् ॥ ३ ॥
सनकाद्या ब्रह्मसुताः सप्तैते मनसा द्विजाः ॥
पृथक्पृथग्घ्रदान्कृत्वा सिषिचुः सागरोद्भवाम् ॥ ४ ॥
ततो लक्ष्मीह्रदाः प्रोक्ता देव्या नात्रैव संज्ञिताः ॥
प्राप्ते तु द्वापरस्यांते रुक्मिणीसंश्रयेण तु ॥ ५ ॥
रुक्मिणीह्रदमित्येवं कलौ ख्यातिं गताः पुनः ॥
भृगुणा सेवितं यस्माद्भृगुतीर्थमिति स्मृतम् ॥ ६ ॥
तस्मिन्गत्वा महाभागाः प्रक्षाल्य चरणौ मृदा ॥
आचम्य च कुशान्गृह्य प्राङ्मुखो नियतः शुचिः ॥ ७ ॥
संपूर्णं चार्घ्यमादाय फलपुष्पाक्षतादिभिः ॥
रजतं च शिरे कृत्वा मन्त्रमेतमुदीरयेत् ॥ ८ ॥
भक्त्या चार्घ्यं प्रदास्यामि ह्रदे रुक्मिणिसंज्ञिते ॥
सर्वपापविनाशाय रुक्मिण्याः प्रीणनाय च ॥ ९ ॥
स्नानं कुर्य्यात्ततो विप्राः कृत्वा शिरसि तारकम् ॥
देवान्मनुप्यान्सन्तर्प्य पितॄनथ विशेषतः ॥ 7.4.9.१० ॥
श्राद्धं ततः प्रकुर्वीत विप्रानाहूय भक्तितः ॥
दक्षिणां च ततो दद्याद्रजतं रुक्ममेव च ॥ ११ ॥
विशेषतः प्रदेयानि फलानि रसवन्ति च ॥
दम्पत्योर्भोजनं दद्यान्मिष्टान्नेन द्विजोत्तमाः ॥ १२॥
विप्रपत्न्यस्तु संपूज्याः स्त्रियश्चान्याः स्वशक्तितः ॥
कञ्चुकै रक्तवस्त्रैश्च रुक्मिणी प्रीयतामिति ॥ १३ ॥
एवं कृते द्विजश्रेष्ठाः कृतकृत्यो भवेन्नरः ॥
सर्वान्कामानवाप्नोति विष्णुलोकं स गच्छति ॥ १४ ॥
वसते च सदा गेहे लक्ष्मीस्तस्य न संशयः ॥
आरोग्यं मनसस्तुष्टिर्न चोद्वेगः कदाचन ॥ १५ ॥
पितॄणामक्षया तृप्तिः प्रजा भवति निश्चला ॥
हीनसत्त्वो नैव भवेद्दीर्घायुश्च भवेन्नरः ॥ १६ ॥
आढ्यो भवति सर्वत्र यः स्नातो रुक्मिणी ह्रदे ॥
न लक्ष्म्या मुच्यते विप्रा नालक्ष्म्या व्रियते नरः ॥ १७ ॥
न वैरं कलहस्तस्य यः स्नातो रुक्मिणीह्रदे ॥
गमनागमनं न स्यात्संसारभ्रमणं तथा ॥ १८ ॥
दुःखशोकौ कुतस्तस्य यः स्नातो रुक्मिणीह्रदे ॥
सर्वपापविनिर्मुक्तो महाभयविवर्जितः ॥ १९ ॥
सर्वान्कामानिह प्राप्य याति विष्णुपदं नरः ॥ 7.4.9.२० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारका माहात्म्ये रुक्मिणीह्रदमाहात्म्यवर्णनंनाम नवमोऽध्यायः ॥ ९ ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 10
॥ प्रह्लाद उवाच ॥ ॥
ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं पापप्रणाशनम् ॥
कृकलासमिति ख्यातं नृगतीर्थमनुत्तमम् ॥ १ ॥
नृगो यत्र महीपालः कृकलासवपुर्धरः ॥
कृष्णेन सह संगत्य संप्राप परमां गतिम् ॥ २ ॥ ; ॥
॥ ऋषय ऊचुः ॥ ॥
नृगो नाम नृपः कोऽयं कथं कृष्णेन संगतः ॥
कर्मणा कृकलासत्वं केन तद्वद विस्तरात् ॥ ३ ॥
॥ प्रह्लाद उवाच ॥ ॥
नृगो नाम नृपो विप्राः सार्वभौमो बलान्वितः ॥
बुद्धिमान्धृतिमान्दक्षः श्रीमान्सर्वगुणान्वितः ॥ ४ ॥
अनेकशतसाहस्रा भूमिपा अपि तद्वशाः ॥ । ।
हस्त्यश्वरथसंघैश्च पत्तिभिर्बहुभिर्वृतः ॥ ५ ॥
सैन्यं च तस्य नृपतेः कोशं चैवाक्षयं तथा ॥
स नित्यं गुरुभक्तश्च देवताराधने रतः ॥ ६ ॥
महा दानानि विप्रेन्द्रा ददात्यनुदिनं नृपः ॥
शश्वत्स गोसहस्रं तु ददाति नृपसत्तमः ॥ ७ ॥
प्रक्षाल्य चरणौ भक्त्या ह्युपविश्यासने शुभे ॥
परिधाप्य शुभे क्षौमे सुगन्धेनोपलिप्य च ॥ ८ ॥
संपूज्य पुष्पमालाभि धूपेन च सुगन्धिना ॥
ददौ दक्षिणया सार्द्धं प्रतिविप्राय गां तदा ॥
तांबूलसहितां भक्त्या विष्णुर्मे प्रीयतामिति ॥ ९ ॥
एवं प्रददतस्तस्य यजतश्च तथा मखैः ॥
ययौ कालो द्विजश्रेष्ठा भोगांश्चैवानुभुञ्जतः ॥ 7.4.10.१० ॥
एकदा तु द्विजश्रेष्ठं जैमिनिं संशितव्रतम् ॥
श्रद्धया तं च नृपतिः प्रतिग्रहपराङ्मुखम् ॥
उवाच वाक्यं नृपतिः कृतांजलिपुटः स्थितः ॥ ११ ॥
मामुद्धर महाभाग कृपां कुरु तपोनिधे ॥
गृहाण गां मया दत्तां दयां कृत्वा ममोपरि ॥ १२ ॥
तच्छ्रुत्वा वचनं तस्य अनिच्छन्नपि गौरवात् ॥
नृपस्य चाब्रवीद्विप्र एवमस्त्विति लज्जितः ॥ १३ ॥
अवनिज्य ततः पादौ शिरसा धारयज्जलम् ॥
सुवर्णशृंगसहितां रौप्यखुरविभूषिताम् ॥ १४ ॥
रत्नपुच्छां कांस्यदोहां सितवस्त्रावगुंठिताम् ॥
समभ्यर्च्य च विप्रेन्द्रं ददौ दक्षिणयान्विताम् ॥ १५ ॥
आसीमान्तमनुव्रज्य हृष्टो राजा बभूव ह ॥
तरुणीं हंसवर्णां च हंसीनामेति विश्रुताम् ॥ १६ ॥
गां गृह्य स्वगृहं प्राप्तो दाम्ना बद्धां सवत्सकाम् ॥
स तस्यै यवसं चार्द्रं ददौ ब्राह्मणसत्तमः ॥ १७ ॥ ॥
सुतृप्ता यवसेनैव मध्याह्ने तृषितां तदा ॥
गृहीत्वा निर्ययौ विप्रो दामबद्धां जलाशयम् ॥ १८ ॥
मार्गे गजाश्वसंबाधे त्रस्ता सा उष्ट्रदर्शनात् ॥
हस्तादाच्छिद्य सा धेनुर्ब्राह्मणस्य ययौ तदा ॥ १९ ॥
विचिन्वन्सकलामुर्वीं नापश्यत्तां द्विजर्षभः ॥
सा ययौ विद्रुता धेनुस्तन्महद्राजगोधनम् ॥ ॥ 7.4.10.२० ॥
द्वितीयेऽह्नि पुनर्विप्रमाहूय नृपसत्तमः ॥
संपूज्य विधिवद्भक्त्या वस्त्रालंकारभूषणैः ॥ २१ ॥
विधिवद्गां ददौ तां च स नृपः सोमशर्मणे ॥
गृहीत्वा राजभवनान्निर्ययौ गां द्विजर्षभः ॥ २२ ॥
आशंसमानो राजानं धर्मज्ञमिति कोविदम् ॥
स च विप्रो विचिन्वानः सर्वतो गां सुदुःखितः ॥ ॥ २३ ॥
ददर्श पथि गच्छन्तीं पृष्ठतः सोमशर्मणः ॥
दृष्ट्वा तां गां च स मुनिर्जैमिनिस्तमभाषत ॥ २४ ॥
मम गां चापि हृत्वा त्वं नयसे दस्युवत्कथम् ॥
स तस्य वचनं श्रुत्वा विस्मयं दस्युकीर्त्तनात् ॥ २५ ॥
राजतो हि मया लब्धां गां नयामि स्वमन्दिरम् ॥
गोहर्त्तेति च मां कस्माद्ब्रवीषि द्विजसत्तम ॥ २६ ॥
॥ ब्राह्मण उवाच ॥ ॥
मयापि राजतो लब्धा ममेयं गौर्न संशयः ॥
कथं नयसि विप्र त्वं मयि जीवति मन्दिरम् ॥ २७ ॥
सोऽब्रवीदद्य मे लब्धा कथं मां वदसे मृषा ॥
सोऽब्रवीद्ध्यो मया लब्धा बलान्नेतुं त्वमिच्छसि ॥ २८ ॥
ममेयमिति संक्रुद्धः सोमशर्माऽब्रवीद्वचः ॥
प्रज्वलत्क्रोधरक्ताक्षो ममेयमिति सोऽपरः ॥ २९ ॥
विवदतौ तथा विप्रौ राजद्वारमुपागतौ ॥
कुर्वाणौ कलहं घोरं त्यक्तुकामौ स्वजीवितम् ॥ 7.4.10.३० ॥
संक्रुद्धौ ब्राह्मणौ दृष्ट्वा शपन्तौ तौ परस्परम् ॥
राज्ञे निवेदयामास द्वास्थं प्रणयपूर्वकम् ॥ ३१ ॥
अवज्ञाय तदा विप्रौ विवदन्तौ रुषान्वितौ ॥
कामव्याकुलचेतस्को न बहिर्निःसृतो नृपः ॥ ३२ ॥
एवं विवदमानौ तौ त्रिरात्रं समुपस्थितौ ॥
अवज्ञातौ नृपेणाथ राजानं प्रति च क्रुधा ॥ ३३ ॥
ऊचतुः कुपितो वाक्यं सामर्षौ नृपतिं प्रति ॥
अवमन्यसे नौ यस्मात्त्वं न निर्गच्छसि मन्दिरात् ॥ ३४ ॥
शास्ता भवान्प्रजानां हि न न्यायेन नियोक्ष्यति ॥
भविष्यति भवांस्तस्मात्कृकलासो न संशयः ॥ ३५ ॥
एवं शप्त्वा तदा विप्रावन्यस्मै गां प्रदाय तौ ॥
क्षुधितौ खेदसंयुक्तौ स्वगृहं गन्तुमुद्यतौ ॥३६॥
प्रस्थितौ तौ नृगो द्वार आगत्य समुपस्थितः ॥
दंडवत्प्रणिपत्याऽऽशु कृतांजलिरभाषत ॥ ३७ ॥
अमोघवचना यूयं तत्तथा न तदन्यथा ॥
ममोपरि कृपां कृत्वा शापांत उपदिश्यताम् ॥ ३८ ॥
तस्य तद्वचनं श्रुत्वा ऊचतुर्वचनं नृपम् ॥
द्वापरस्य युगस्यान्तं भगवान्देवकीसुतः ॥ ३९ ॥
वसुदेवगृहे राजन्हरिराविर्भविष्यति ॥
तस्य संस्पर्शनादेव शापमुक्तिर्भविष्यति ॥ 7.4.10.४० ॥
इत्युक्त्वा तौ तदा विप्रौ प्रयातौ स्वनिवेशनम् ॥
राजा बहुविधान्भोगान्भुक्त्वा दत्त्वा च भूरिशः ॥ ॥ ४१ ॥
इष्ट्वा च विविधैर्यज्ञैः कालधर्ममुपेयिवान् ॥
ततः स गतवान्विप्रा धर्मराजनिवेशनम् ॥ ४२ ॥
सत्कृत्योक्तो यमेनाथ स्वागतेन नृपोत्तमः ॥
प्रथमं सुकृतं राजन्नथवा दुष्कृतं त्वया ॥
भोक्तव्यमिति मे ब्रूहि तत्ते संपाद्यते मया ॥ ४३ ॥
॥ नृग उवाच ॥ ॥
यद्यस्ति दुष्कृतं किंचित्प्रथमं प्रतिपादय ॥
अनुज्ञातो यमेनैवं कृकलासो भवेति वै ॥
ततो वर्षसहस्राणि कृकलासत्वमाप्तवान् ॥ ४४ ॥
एकस्मिन्दिवसे विप्राः सर्वे यदुकुमारकाः ॥
वनं जग्मुर्मृगान्हन्तुं सर्वे कृष्णसमन्विताः ॥ ४५ ॥
तृषार्द्दिताश्च मध्याह्ने विचिन्वंतो जलं ह्रदे ॥
सत्वं च सुमहत्तत्र कृकलासं च संस्थितम् ॥ ४६ ॥
चक्रुश्चोद्धरणे तस्य यत्नं यदुकुमारकाः ॥
आकृष्यमाणः स तदा गुरुत्वान्न चचाल ह ॥ ४७ ॥
यदा न शेकुस्ते सर्व आचख्युः कृष्णरामयोः ॥
ददर्श तं तदा कृष्णो नृगं मत्वा हसन्निव ॥ ४८ ॥
चिक्षेप वामहस्तेन लीलयैव जगत्पतिः ॥
स संस्पृष्टो भगवता विमुक्तः शापबंधनात् ॥४९॥
त्यक्त्वा कलेवरं राजा दिव्यमाल्यानुलेपनः ॥
कृतांजलिरुवाचेदं भक्त्या परमया युतः ॥ 7.4.10.५० ॥
नमस्ते जगदाधार सर्गस्थित्यंतकारिणे ॥
सहस्रशिरसे तुभ्यं ब्रह्मणेऽनंतशक्तये ॥ ५१ ॥
एवं संस्तुवतः प्राह भगवान्देवकीसुतः ॥
ददामि ते वरं तुष्टो यत्ते मनसि वर्त्तते ॥ ५२ ॥
याहि पुण्यकृताँल्लोकान्दर्शनात्स्पर्शनाच्च मे ॥
एवमुक्तः स देवेन संप्रहृष्टतनूरुहः ॥ ५३ ॥
उवाच यदि तुष्टोऽसि यदि देयो वरो मम ॥
गर्त्तेयं मम नाम्ना तु ख्यातिं गच्छतु केशव ॥ ५४ ॥
यः स्नात्वा परया भक्त्या पितॄन्संतर्पयिष्यति ॥
त्वत्प्रसादेन गोविंद विष्णुलोकं स गच्छतु ॥ ५५ ॥
एवमुक्त्वा स भगवान्पुनर्द्वारावतीमगात् ॥ ५६ ॥
स च राजा विमानेन दिव्यमाल्यानुलेपनः ॥
जगाम भवनं विष्णोर्विबुधैरनुसंस्तुतः ॥ ५७ ॥
॥ प्रह्लाद उवाच ॥ ॥
तदाप्रभृति विप्रेंद्राः स कूपो नृगसंज्ञया ॥
वरदानाच्च कृष्णस्य पावनः सर्वदेहिनाम् ॥ ॥ ५८ ॥
तत्र गत्वा द्विजश्रेष्ठा ह्यर्घ्यं दद्याद्यथाविधि ॥
फलपुष्पाक्षतैर्युक्तं चंदनेन च भूसुराः ॥ ५९ ॥
नमस्ते विश्वरूपाय विष्णवे परमात्मने ॥
अर्घ्यं गृहाण देवेश कूपेऽस्मिन्नृगसंज्ञके ॥ 7.4.10.६० ॥
ततः स्नायाद्द्विजश्रेष्ठा मृदमालिप्य पाणिना ॥
संतर्पयेत्पितॄन्देवान्मनुष्यांश्च यथाक्रमात् ॥ ॥ ६१ ॥
ततः श्राद्धं प्रकुर्वीत पितॄणां श्रद्धयान्वितः ॥
विप्रेभ्यो भोजनं दद्याद्दक्षिणां च स्वशक्तितः ॥ ६२ ॥
विशेषतः प्रदातव्या सवत्सा गौः स्वलंकृता ॥
शय्या सोपस्करां दद्याद्विष्णुर्मे प्रीयतामिति ॥ ६३ ॥
दीनांधकृपणानां च सदा तत्तीरवासिनाम् ॥
दद्याद्दानं स्वशक्त्या च वित्त शाठ्यविवर्जितः ॥६४॥
स्नानमात्रेण विप्रेन्द्रा लभेद्गोदानजं फलम्॥
पितृणां श्राद्धदानेन वियोनिं न च गच्छति ॥६५॥
कृकलासे कृतं श्राद्धं येनैव तर्पणं तथा ॥
स गच्छेद्विष्णुलोकं तु पितृभिः सहितो नरः ॥ ६६ ॥
तथा मनोरथावाप्तिर्यात्रा च सफला भवेत् ॥
सर्वतीर्थफलावाप्तिं लभते नात्र संशयः ॥ ६७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये कृकलासापरनामकनृग तीर्थमाहात्म्यवर्णनंनाम दशमोऽध्यायः ॥ १० ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 11
॥ प्रह्लाद उवाच ॥ ॥
ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं विष्णुपदोद्भवम् ॥
यस्य दर्शनमात्रेण गंगास्नानफलं लभेत् ॥ १ ॥
यस्योत्पत्तिर्मया पूर्वं कथिता द्विजसत्तमाः ॥
यस्य संस्मरणादेव कीर्तनात्पापनाशनम् ॥ २ ॥
हरिणा या समानीता रुक्मिण्यर्थे महात्मना ॥
यस्या गण्डूषमात्रेण हयमेधफलं लभेत् ॥ ३ ॥
विष्णोः पादप्रसूताया वैष्णवीति च विश्रुता ॥
तत्र गत्वा महाभाग गृहीत्वाऽर्घ्यं विधानतः ॥ ४ ॥
नमस्ये त्वां भगवति विष्णुपादतलोद्भवे ॥
गृहाणार्घ्यमिदं देवि गंगे त्वं हरिणा सह ॥ ५ ॥
इत्युच्चार्य द्विजश्रेष्ठा मृदमालभ्य पाणिना ॥
प्राङ्मुखः संयतो भूत्वा स्नानं कुर्यादतन्द्रितः ॥ ६ ॥
देवान्पितॄन्मनुष्यांश्च तर्पितव्यं तिलाक्षतैः ॥
उपहृत्योपहारांश्च ह्याहूय ब्राह्मणांस्ततः ॥ ७ ॥
श्रद्धया परया युक्तः श्राद्धं कुर्याद्विचक्षणः ॥
यथोक्तां दक्षिणां दद्यात्सुवर्णं रजतं तथा ॥ ८ ॥
दीनान्ध कृपणानाञ्च दानं देयं स्वशक्तितः ॥
विशेषतः प्रदातव्यं सुवर्णं द्विजसत्तमाः ॥ ९ ॥
उपानहौ ततो देये जलकुम्भं द्विजातये ॥
दध्योदनं सलवणं शाकजीरकसंयुतम् ॥ 7.4.11.१० ॥
रक्तवस्त्रैः कंचुकीभी रुक्मिणीं परिधापयेत् ॥
विप्रपत्नीश्च विप्रांश्च विष्णुर्मेप्रीयतामिति॥ ११ ॥
एवं कृते द्विज श्रेष्ठाः कृतकृत्यो भवेन्नरः॥
पितॄणामक्षया तृप्तिर्गयाश्राद्धेन वै यथा ॥ १२ ॥
वैष्णवं लोकमायान्ति पितरस्त्रिकुलोद्भवाः ॥
जीवते स श्रियायुक्तः पुत्रपौत्रसमन्वितः ॥ १३ ॥
प्रीतः सदा भवेत्तस्य रुक्मिण्या सह केशवः ॥
यच्छते वाञ्छितान्सर्वानैहिकामुष्मिकान्प्रभुः ॥ १४ ॥
एतन्माहात्म्यमतुलं विष्णुपादोद्भवं तथा ॥
यः शृणोति हरौ भक्त्या सर्वपापैः स मुच्यते ॥ १५ ॥
श्रुत्वाऽध्यायमिमं पुण्यं सर्वपापैः प्रमुच्यते ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये विष्णुपदतीर्थमाहात्म्यवर्णनंनामैकादशोऽध्याय.॥ ॥ ११ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 12
॥ प्रह्लाद उवाच ॥ ॥
ततो गच्छेद्द्विजश्रेष्ठा गोप्रचारमतः परम् ॥
यत्र स्नात्वा नरो भक्त्या लभेद्गोदानजं फलम् ॥ १ ॥
यत्र स्नातो जगन्नाथो नभस्ये दैवतैर्वृतः ॥
कटदानं च तत्प्रोक्तं द्वादश्यां द्विजसत्तमाः ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
कथं तु तत्र दैत्येन्द्राऽभवद्वै गोप्रचारकम् ॥
तीर्थं कथय तत्त्वेन यत्र स्नातो जनार्द्दनः ॥ ३ ॥
॥ प्रह्लाद उवाच ॥ ॥
हते कंसे भोजराजे कृष्णेनामिततेजसा ॥
उग्रसेने चाभिषिक्ते मधुपुर्य्यां महात्मना ॥ ४ ॥
उद्धवं प्रेषयामास गोकुले गोकुलप्रियः ॥
सुहृदां प्रियकामार्थं गोपगोपीजनस्य च ॥ ५ ॥
नमस्कृत्य च गोविदं प्रययौ नंदगोकुलम् ॥
स तत्सदृशवेषेण वस्त्रालंकारभूषणैः ॥ ६ ॥
तं दृष्ट्वा दिवसस्यांते गोविंदानुचरं प्रियम् ॥
उद्धवं पूजयामास वस्त्रालंकारभूषणैः ॥ ७ ॥
तं भुक्तवंतं विश्रांतं यशोदा पुत्रवत्सला ॥
आनंदबाष्पपूर्णाक्षी पप्रच्छानामयं हरेः ॥ ८ ॥
कच्चिद्धि स्तः सुखं पुत्रौ रामकृष्णौ यदूत्तमौ ॥
कच्चित्स्मरति गोविंदो वयस्यान्गोपबालकान् ॥ ९ ॥
कच्चिदेष्यति गोविंदो गोकुलं मधुरेश्वरः ॥
तारयिष्यति पुत्रोऽसौ गोकुलं वृजिनार्णवात् ॥ 7.4.12.१० ॥
इत्युक्त्वा बाष्पपूर्णाक्षौ यशोदा नंद एव च ॥
दीर्घं रुरुदतुर्दीनौ पुत्रस्नेहवशंगतौ ॥ ११ ॥
उद्धवस्तौ ततो दृष्ट्वा प्राणसंशयमागतौ ॥
मधुरैः कृष्णसंदेशैः स्नेहयुक्तैरजीवयत् ॥ १२ ॥
नमस्करोति भवतीं भवंतं च सहाग्रजः ॥
अनामयं पृष्टवांश्च तौ च क्षेमेण तिष्ठतः ॥ १३ ॥
क्षिप्रमेष्यति दाशार्हो रामेण सहितो विभुः ॥
अत्रागत्य जगन्नाथो विधास्यति च वो हितम् ॥ १४ ॥
इत्येवं कृष्णसंदेशैः समाश्वास्योद्धवस्तदा ॥
सुखं सुष्वाप शयने नन्दाद्यैरभिनंदितः ॥ १५ ॥
गोप्यस्तदा रथं दृष्ट्वा द्वारे नंदस्य विस्मिताः ॥
कोऽयं कोऽयमिति प्राहुः कृष्णागमनशंकया ॥ १६ ॥
गोपालराजस्य गृहे रथेनादित्यवर्चसा ॥
समागतो महाबाहुः कृष्णवेषानुगस्तथा ॥ १७ ॥
परस्परं समागम्य सर्वास्ता व्रजयोषितः ॥
विविक्ते कृष्णदूतं तं पप्रच्छुः शोककर्षिताः ॥ १८ ॥ ॥
श्रीगोप्य ऊचुः ॥ ॥
कस्मात्त्वमिह संप्राप्तः किं ते कार्य्यमिहाद्य वै ॥
दस्युरूपप्रतिच्छन्नो ह्यस्मान्संहर्तुमिच्छसि ॥ १९ ॥
पूर्वमेव हतं तेन कृष्णेन हृदयादिकम्॥
पाययित्वाऽधरविषं योषिद्व्रातं पलायितः ॥ 7.4.12.२० ॥
इत्येवमुक्त्वा ता गोप्यो मुमुहुः शोकविह्वलाः ॥
ईक्षंत्यः कृष्णदासं तं निपेतुर्धरणीतले ॥ २१ ॥
उद्धवस्तं जनं दृष्ट्वा कृष्णस्नेहहृताशयम् ॥
आश्वासयामास तदा वाक्यैः श्रोत्रसुखावहैः ॥ २२ ॥
॥ उद्धव उवाच ॥ ॥
भगवानपि दाशार्हः कन्दर्पशरपीडितः ॥
न भुंक्ते न स्वपिति च चिन्तयन्वस्त्वहर्निशम् ॥ २३ ॥
तच्छ्रुत्वा वचनं तस्य ललिता क्रोधमूर्छिता ॥
उद्धवं ताम्रनयना प्रोवाच रुदती तदा ॥ २४ ॥
॥ ललितोवाच ॥ ॥
असत्यो भिन्नमर्य्यादः क्रूरः क्रूरजनप्रियः ॥
त्वं मा कृथा नः पुरतः कथां तस्याऽकृतात्मनः ॥ २५ ॥
धिग्धिक्पापसमाचारो धिग्धिग्वै निष्ठुराशयः ॥
हित्वा यः स्त्रीजनं मूढो गतो द्वारवतीं हरिः ॥ २६ ॥ ॥
॥ श्यामलोवाच ॥ ॥
किं तस्य मन्दभाग्यस्य अल्पपुण्यस्य दुर्मतेः ॥
मा कुरुध्वं कथाः साध्व्यः कथां कथयताऽपराम् ॥ २७ ॥ ॥
॥ धन्योवाच ॥ ॥
केनायं हि समानीतो दूतो दुष्टजनस्य च ॥
यातु तेन पथा पापः पुनर्नायाति येन च ॥२८॥
॥ विशाखोवाच ॥ ॥
न शीलं न कुलं यस्य नास्ति पापकृतं भयम् ॥
तस्य स्त्रीहनने साध्व्यो ज्ञायते जन्म कर्म च ॥
हीनस्य पुरुषार्थेन तेन संगो निरर्थकः ॥ २९ ॥ ॥
॥ राधोवाच ॥ ॥
भूतानां घातने यस्य नास्ति पापकृतं भयम् ॥
तस्य स्त्रीहनने साध्व्यः शंका कापि न विद्यते ॥ 7.4.12.३० ॥
॥ शैब्योवाच ॥ ॥
सत्यं ब्रूहि महाभाग किं करोति यदूत्तमः ॥
संगतो नागरस्त्रीभिरस्माकं किं कथां स्मरेत् ॥ ३१ ॥
॥ पद्मोवाच ॥ ॥
कदोद्धव महाभाग नागरीजनवल्लभः ॥
समेष्यतीह दाशार्हः पद्मपत्रायतेक्षणः ॥ ३२ ॥
॥ भद्रोवाच ॥ ॥
हा कृष्ण हा गोपवर हा गोपीजनवल्लभ ॥
समुद्धर महाबाहो गोपीः संसारसागरात्॥ ३३ ॥
॥ प्रह्लाद उवाच ॥ ॥
इति ता विविधैर्वाक्यैर्विलपंत्यो व्रजस्त्रियः ॥
रुरुदुः सुस्वरं देव्यः स्मरंत्यः कृष्ण चेष्टितम् ॥ ३४ ॥
तासां तद्रुदितं श्रुत्वा भक्तिस्नेहसमन्वितः ॥
विस्मयं परमं गत्वा साधुसाध्विति चाब्रवीत् ॥ ३५ ॥
॥ उद्धव उवाच ॥ ॥
यं न ब्रह्मा न च हरो न देवा न महर्षयः ॥
स्वभावमनुगच्छंति सर्वा धन्या व्रजस्त्रियः ॥ ३६ ॥
सर्वासां सफलं जन्म जीवितं यौवनं धनम् ॥
यासां भवेद्भगवति भक्तिरव्यभिचारिणी ॥ ३७ ॥
॥ गोप्य ऊचुः ॥ ॥
साधु दर्शय गोविंदं साधु दर्शय वल्लभम् ॥
नयास्मान्साधु तत्रैव यत्र तिष्ठति सोऽच्युतः ॥ ३७ ॥
॥ प्रह्लाद उवाच ॥ ॥
तासां तद्भाषितं श्रुत्वा तथा विलपितं बहु ॥
बाढमित्येव ता ऊच उद्धवः स्नेहविह्वलाः ॥ ३९ ॥
उद्धवेन समं सर्वास्ततस्ता व्रजयोषितः ॥
अनुजग्मुर्मुदा युक्ताः कृष्णदर्शनलालसाः ॥ 7.4.12.४० ॥
गायन्त्यः प्रियगीतानि तद्बालचरितानि च ॥
जग्मुः सहैव शनकैरुद्धवेन व्रजांगनाः ॥ ४१ ॥
यदुपुर्य्यां ततो दृष्ट्वा उद्यानविपिनावलीः ॥
अद्य देवं प्रपश्यामः कृष्णाख्यं नंदनंदनम् ॥ ॥ ४२ ॥
द्वारवत्यां तु गमनाद्ध्यानाल्लक्ष्मीपतेस्तदा ॥
अशेषकल्मषान्मुक्ता विध्वस्ताखिलबन्धनाः ॥ ४३ ॥
संप्राप्तास्तास्ततः सर्वास्तीरे मयसरस्य च ॥
प्रणिपत्योद्धवः प्राह गोपिकाः कृष्णदेवताः ॥ ४४ ॥
स्थीयतां मातरश्चात्रात्रैवेष्यति महाभुजः ॥
कृष्णः कमलपत्राक्षो विधास्यति च वो हितम् ॥ ४५ ॥
॥ गोप्य ऊचुः ॥ ॥
कस्योद्धव इदं चात्र सरः सारसशोभितम् ॥
संपूर्णं पंकजैश्चित्रैः कल्हारकुमुदोत्पलैः ॥ ४६ ॥ ॥
॥ उद्धव उवाच ॥ ॥
मयो नाम महादैत्यो मायावी लोकविश्रुतः ॥
कृतं तेन सरः शुभ्रं तस्य नाम्ना च विश्रुतम् ॥ ४७ ॥
॥ श्रीगोप्य ऊचुः ॥ ॥
शीघ्रमानय गोविंदं साधु दर्शय चाच्युतम्॥
नयनानंदजननं तापत्रयविनाशनम् ॥ ४८ ॥
तच्छ्रुत्वा वचनं तासां गोपिकानां तदोद्धवः ॥
दूतैः समानयामास श्रीकृष्णं शीघ्रयायिभिः ॥ ४९ ॥
आयांतं शीघ्रयानेन दृष्ट्वा देवकिनंदनम् ॥
भ्राजमानं सुवपुषा वनमालाविभूषितम् ॥ ॥ 7.4.12.५० ॥
ज्वलत्किरीटमुकुटं स्फुरन्मकरकुण्डलम्॥
श्रीवत्सांकं महाबाहुं पीतकौशेयवाससम् ॥ ५१ ॥
आतपत्रैर्वृतं मूर्ध्नि संवृतं वृष्णिपुंगवैः ॥
संस्तुतं बंदिमुख्यैश्च गीतवादित्रनिस्वनैः ॥ ५२ ॥
पौरजानपदैर्लोकैर्वैष्णवैः सर्वतो वृतम् ॥
पश्यन्तं हंसमिथुनैः सरः सारसशोभितम् ॥५३ ॥
तं दृष्ट्वाऽच्युतमायांतं लोककांतं मनोहरम् ॥
प्रियं प्रियाश्चिराद्दृष्ट्वा मुमुहुस्ता व्रजांगनाः ॥ ५४ ॥
चिराय संज्ञां संप्राप्य विलेपुश्च सुदुःखिताः ॥
हा नाथ कांत हा कृष्ण हा व्रजेश मनोहर ॥५५ ॥
संवर्धितोऽसि यैर्बाल्ये क्रीडितो वत्सपालकैः ॥
तेऽपि त्वया परित्यक्ताः कथं दुष्टोऽसि निर्घृणः ॥ ५६ ॥
न ते धर्मो न सौहार्द्दं न सत्यं सख्यमेव च ॥
पितृमातृपरित्यागी कथं यास्यसि सद्गतिम् ॥ ५७ ॥
स्वामिन्भक्तपरित्यागः सर्वशास्त्रेषु गर्हितः ॥
त्यजताऽस्मान्वने वीर धर्मो नावेक्षितस्त्वया ॥ ५८ ॥
॥ प्रह्लाद उवाच ॥ ॥
श्रुत्वा तासां विलपितं गोपीनां नंद नंदन।
अनन्यशरणाः सर्वा भावज्ञो भगवान्विभुः॥
सांत्वयामास वचनैर्व्रजेशस्ता व्रजांगनाः॥ ५९॥
अध्यात्मशिक्षया गोपीः प्रभुस्ता अन्वशिक्षयत्॥ 7.4.12.६०॥
श्रीभगवानुवाच॥
भवतीनां वियोगो मे न हि सर्वात्मना क्वचित्॥
वसामि हृदये शश्वद्भूतानामविशेषतः॥६१॥
अहं सर्वस्य प्रभवो मत्तो देवाः सवासवाः ॥
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ॥ ६२ ॥
ब्रह्मा रुद्रश्च विष्णुश्च सनकाद्या महर्षयः ॥
इंद्रियाणि मनो बुद्धिस्तथा सत्त्वं रजस्तमः ॥ ६३ ॥
कामः क्रोधश्च लोभश्च मोहोऽहंकार एव च ॥
एतत्सर्वमशेषेण मत्तो गोप्यः प्रवर्त्तते ॥ ६४ ॥
एतज्ज्ञात्वा महाभागा मा स्म कृध्वं मनः शुचि ॥
सर्वभूतेषु मां नित्यं भावयध्वमकल्मषाः॥ ६५ ॥
॥ प्रह्लाद उवाच ॥ ॥
ताः कृष्णवचनं श्रुत्वा गोप्यो विध्वस्तबन्धनाः ॥
विमुक्तसंशयक्लेशा दर्शनानन्दसंप्लुताः॥
ऊचुश्च गोपवध्वस्ताः कृष्णं निर्मलमानसाः ॥ ६६ ॥ ॥
॥ गोप्य ऊचुः ॥ ॥
अद्य नः सफलं जन्म अद्य नः सफला दृशः ॥
यत्त्वां पश्याम गोविन्द नागरीजनवल्लभम् ॥ ६७ ॥
पुण्यहीना न पश्यंति कृष्णाख्यं पुरुषं परम् ॥
वाक्यैर्हेत्वर्थसंयुक्तैर्यदि संबोधिता वयम् ॥
तथापि माया हृदयान्नापैति मधुसूदन ॥ ६८ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
दर्शनात्स्पर्शनाच्चास्य विमुक्ताऽशेषबन्धनाः ॥
स्नात्वा च सकलान्कामानवाप्स्यथ व्रजांगनाः ॥ ६९ ॥
॥ गोप्य ऊचुः ॥ ॥
अद्भुतो हि प्रभावस्ते सरसोऽस्य उदाहृतः ॥
विधिं ब्रूहि जगन्नाथ विस्तराद्वृष्णिनन्दन ॥ 7.4.12.७० ॥
॥ श्रीकृष्ण उवाच ॥ ॥
भवतीनां मया सार्द्धं सञ्जातमत्र दर्शनम् ॥
तस्मान्मया सदा ह्यत्र स्नातव्यं नियमेन हि ॥ ७१ ॥
यः स्नात्वा परया भक्त्या पितॄन्सन्तर्पयिष्यति ॥
श्रावणस्य सिते पक्षे द्वादश्यां नियतः शुचिः ॥ ७२ ॥
दत्त्वा दानं स्वशक्त्या च मामुद्दिश्य तथा पितॄन् ॥
लभते वैष्णवं लोकं पितृभिः परिवारितः ॥ ७३ ॥
मय तीर्थं समासाद्य कृत्वा च करयोः कुशान् ॥
फलमेकं गृहीत्वा तु मन्त्रेणार्घ्यं प्रदापयेत् !। ७४ ॥
गृहान्धकूपे पतितं माया पाशशतैर्वृतम् ॥
मामुद्धर महीनाथ गृहाणार्घ्यं नमोऽस्तु ते ॥ ७५ ॥
॥ अर्घ्यमन्त्रः ॥ ॥
स्नात्वा यः परया भक्त्या पितॄन्संतर्प्य भावतः ॥
कुर्याच्छ्राद्धं च परया पितृभक्त्या समन्वितः ॥ ७६ ॥
दक्षिणां च ततो दद्याद्रजतं रुक्ममेव च ॥
विशेषतः प्रदातव्यं पायसं च सशर्करम् ॥ ७७ ॥
नवनीतं घृतं छत्रं कंबलाजिनमेव च ॥
भवतीभिः समं यस्मात्संजातं मम दर्शनम् ॥
आगंतव्यं मया तस्मात्सदा ह्यस्मिञ्जलाशये ॥ ७८ ॥
योऽत्र स्नानं प्रकुरुते मयस्य सरसि प्रियाः ॥
गंगास्नानफलं तस्य विष्णुलोकस्तथाऽक्षयः ॥ ७९ ॥
मुक्तिं प्रयांति तस्यैव पितरस्त्रिकुलोद्भवाः ॥
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः ॥
यावज्जीवं सुखं भुक्त्वा चान्ते हरिपुरं व्रजेत् ॥ 7.4.12.८० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये मयनिर्मितसरोमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः ॥१२ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 13
॥ श्रीप्रह्लाद उवाच ॥ ॥
इति कृष्णवचः श्रुत्वा गोप्यः संहृष्टमानसाः ॥
तस्मिन्मयसरे स्नात्वा विमुक्ताऽशेषबन्धनाः ॥ १ ॥
कृष्णदर्शनसंजातपरमानन्दसंप्लुताः ॥
ऊचुश्च वचनं गोप्यो मधुरं माधवं प्रति ॥ २ ॥
॥ गोप्य ऊचुः ॥ ॥
धन्यः स दैत्यप्रवरो मयो येन कृतं सरः ॥
यस्मिंस्त्वं देवतैः सार्द्धं समेष्यसि जगत्पते ॥ ३ ॥
यदि तुष्टोऽसि भगवन्ननुग्राह्या वयं यदि ॥
अस्माकमपि वार्ष्णेय कारयस्व सरोत्तमम् ॥ ४ ॥
कीर्त्तनान्मृत्युलोकेऽस्मिंस्तव संदर्शनेन हि ॥
अहर्निशं तव ध्यानाद्यास्यामः परमां गतिम् ॥ ५ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
करिष्ये वः प्रियं साध्व्यो यूयं मम परिग्रहाः ॥
अनुग्राह्या मया नित्यं भक्तिग्राह्योऽस्मि सर्वदा ॥ ६ ॥
॥ प्रह्लाद उवाच ॥ ॥
इत्युक्त्वा भगवान्कृष्णो गोपीनां हितकाम्यया ॥
सरसः सन्निधौ तस्य सरस्त्वन्यच्चकार ह ॥ ७ ॥
तदगाधं स्वच्छजलं नलिनीदलशोभितम् ॥
हंससारसयुग्मैश्च चक्रवाकैश्च शोभितम् ॥ ८ ॥
कुमुदोत्पलकह्लारपद्मिनीखण्डमण्डितम् ॥
सेवितं द्विजमुख्यैश्च सिद्धविद्याधरैस्तथा ॥ ९ ॥
सेवितं यदुनारीभिस्तथा यदुकुमारकैः ॥
दिवारात्रौ सुसंपूर्णं सर्वैर्जानपदैर्जनैः ॥ 7.4.13.१० ॥
तं दृष्ट्वा जलकल्लोलैः सुसंपूर्णं जलाशयम् ॥
हर्षाद्गोपीजनं कृष्णः प्रोवाच वचनं तदा ॥ ११ ॥
पश्यध्वं गोपिकाः शुभ्रं सरः सरं समीपतः ॥
स्वच्छमिष्टजलापूर्णं सज्जनानां यथा मनः ॥ १२ ॥
कारणाद्भवतीनां च यस्मात्कृतमिदं सरः ॥
भवतीनां तथा नाम्ना ख्यातमेतद्भविष्यति ॥ १३ ॥
गोर्वाचावाचकः शब्दो भवतीभिर्मया सह ॥
गोप्रचारेति वै नाम्नां ख्यातिं लोके गमिष्यति ॥ १४ ॥
युष्माकं प्रियकामार्थं यस्मात्कृतमिदं सरः ॥
तस्माद्गोपीसर इति ख्यातिं लोके गमिष्यति ॥ १५ ॥
॥ गोप्य ऊचुः ॥ ॥
अनुग्राह्या यदि वयमस्मन्नाम्ना कृतं सरः ॥
अन्यत्किमपि वार्ष्णेय प्रार्थयामो वदस्व नः ॥ १६ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
प्रार्थ्यतां यदभिप्रेतं यद्वो मनसि वर्तते ॥
भक्त्या समागता यूयं नास्त्यदेयं ततो मया ॥ १७ ॥
॥ गोप्य ऊचुः ॥ ॥
यदि तुष्टोऽसि भगवन्यदि देयो वरो हि नः ॥
तस्मात्त्वया सदा कृष्ण नरयानेन माधव ॥ १८ ॥
अत्रागत्य नभस्येऽस्मिन्स्नातव्यं नियमेन हि ॥
यत्र त्वं तत्र देवाश्च यज्ञास्तीर्थानि केशव ॥ १९ ॥
यत्र त्वं तत्र दानानि व्रतानि नियमाश्च ये ॥
ओंकारश्च वषट्कारः स्वाहाकारः स्वधा तथा ॥ 7.4.13.२० ॥
भूर्भुवःस्वर्महर्ल्लोको जनः सत्यं तपस्तथा ॥
त्वन्मयं हि जगत्सर्वं सदेवासुरमानुषम् ॥२१ ॥
तस्मात्त्वयि जगन्नाथे ह्यत्र स्नाते जनार्दने ॥
स्नातमत्र त्रिभुवनं भविष्यति न संशयः ॥ २२ ॥
त्रैलोक्यपावनी गंगा तव पादजलं हि तत् ॥
लक्ष्मीर्वक्षःस्थलस्थाने मुखे देवी सरस्वती ॥ २३ ॥
सर्वभूतमयश्चात्र ततस्त्वं जगदीश्वर ॥
यद्ददासि मनुष्याणां भविष्याणां कलौ युगे ॥
तद्वदस्व महाबाहो कृपां कृत्वा जगत्पते ॥ २४ ॥
यात्रायामागतानां च अथ षण्मासवासिनाम् ॥
सदैवात्र स्थितानां च यत्फलं तद्वदस्व नः ॥ २५ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
यत्फलं हि मनुष्याणां स्नातानां गोपिकासरे ॥
तच्छृणुध्वमसंदिग्धं प्रसन्ने मयि गोपिकाः ॥ २६ ॥
सोपस्करां सवत्सां च वस्त्रालंकारभूषिताम् ॥
यथोक्तदक्षिणोपेतां ब्राह्मणाय कुटुंबिने ॥ २७ ॥
सदाचाराय शुद्धाय दरिद्रायानुकारिणे ॥
गां दत्त्वा फलमाप्नोति स्नानमात्रेण तत्फलम् ॥ २८ ॥
यावत्पदानि मनुजः कृष्णेन सह गच्छति ॥
कुलानि देव्यस्तावंति वसंति हरिमन्दिरे ॥ २९ ॥
कृष्णेन सह गच्छन्ति गीतवादित्रनिस्वनैः ॥
स्तुवन्तो विविधैः स्तोत्रैर्गोविंदं गोपिकासरे ॥ 7.4.13.३० ॥
न मातुर्जठरे तेषां यातना जायते नृणाम् ॥
सर्वान्कामानवाप्यांते वैष्णवं लोकमाप्नुयुः ॥ ३१ ॥
अर्घ्यं दत्त्वा विधानेन स्नानं कुर्याद्विचक्षणः ॥
मंत्रेणानेन वै साध्व्यः श्रद्धया परया युतः ॥ ३२ ॥
नमस्ते गोपरूपाय विष्णवे परमात्मने ॥
गोप्रचारे जगन्नाथ गृहाणार्घ्यं नमोऽस्तु ते ॥ ३३ ॥
अर्घ्यं दत्त्वा विधानेन मृदमालिप्य पाणिना ॥
स्नायाच्छ्रद्धासमायुक्तस्तर्पयेत्पितृदेवताः ॥ ३४ ॥
श्राद्धं कुर्य्यात्ततो भक्त्या एकचित्तः समाहितः ॥
यथोक्तदक्षिणा दद्याद्रजतं रुक्ममेव च ॥ ३५ ॥
विशेषतः प्रदातव्यं तांबूलं कज्जलं तथा ॥
दुकूलानि च देयानि तथा कौसुंभकानि च ॥ ३६ ॥
दंपत्योर्वाससी चैव भूषणानि स्वशक्तितः ॥
गावो देया द्विजातिभ्यो वृषभाश्च धुरंधराः ॥
दीनांधकृपणानां च दानं देयं स्वशक्तितः ॥ ३७ ॥
एवं कृत्वा नरः सम्यगुत्तमां गतिमाप्नुयात् ॥
प्रयांति परमं लोकं पितरस्त्रिकुलोद्भवाः ॥ ३८ ॥
लभते पुत्रकामस्तु पुत्रानिष्टान्मनोरमान् ॥ ३९ ॥
यं यं कामयते कामं स्वर्गमोक्षादिकं नरः ॥
तत्सर्वं समवाप्नोति यः स्नाति गोपिकासरे ॥ 7.4.13.४० ॥
यावल्लोका भविष्यंति तावत्स्थास्यति वै सरः ॥
यावत्सरो यशस्तावद्भवतीनां भविष्यति ॥ ४१ ॥
यावत्कीर्तिर्मनुष्येषु तावत्स्वर्गे महीयते ॥
विमुक्ताः सकलात्पापाद्यास्यंति परमां गतिम् ॥ ४२ ॥
तत्पुण्यं गोपीसर इदं जलैः पूर्णं सदैव हि ॥
अवगाह्यं मया गोप्यो नभस्ये नियमेन हि ॥ ४३ ॥
भवत्यः पतिभावेन ब्रह्मभावेन वा पुनः ॥
चिंतयंत्यः परं मां हि परागतिमवाप्स्यथ ॥ ४४ ॥
॥ प्रह्लाद उवाच ॥ ॥
अनुज्ञाता भगवता ततस्ता गोपकन्यकाः ॥
नमस्कृत्य च गोविंदं ययुः सर्वा यथागता ॥ ४५ ॥
भगवानपि गोविंद उद्धवेन समन्वितः ॥
विसृज्य गोपिकाः कृष्णः स्वकं मंदिरमाविशत् ॥ ४६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये गोपीसरस्तीर्थमाहात्म्यवर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 14
॥ श्रीप्रह्राद उवाच ॥ ॥
संत्यनेकानि तीर्थानि बह्वाश्चर्यकराणि च ॥
प्राप्ते कलियुगे घोरे तानि पुप्लुविरेर्णवे ॥ १ ॥
उद्देशतो मया विप्राः कीर्त्यमाना निबोधत ॥
संक्षेपतो विप्रवरा यथा तेषां च याः क्रियाः ॥ २ ॥
संहृत्य च भुवो भारं साधू न्संस्थाप्य सत्पथे ॥
द्वारवत्यामगात्कृष्णो वृष्णिसंघैः समावृतः ॥ ३ ॥
दर्शनार्थं तदा ब्रह्मा दैवतैः परिवारितः ॥
वरुणो यमवित्तेशौ सूर्य्याचन्द्रमसौ तथा ॥ ४ ॥
आगत्य सह कृष्णेन कार्यं संसाध्य चात्मनः ॥
वेधाश्चक्रे तदा तीर्थं स्वनाम्ना कीर्तितं भुवि ॥ ५ ॥
ब्रह्मकुण्डमिति ख्यातं सर्वपापहरं शुभम् ॥
तत्तीरे स्थापयामास सहस्रकिरणं प्रभुम् ॥ ६ ॥
मूलं सुराणां हि किल ब्रह्मा लोकपितामहः ॥
तेन संस्थापितं यस्मान्मूल स्थानमिति स्मृतम् ॥ ७ ॥
ब्रह्मतीर्थं तु तद्दृष्ट्वा चन्द्रश्चक्रे ततः सरः ॥
तडागं चन्द्रनाम्ना वै सर्वपापप्रणाशनम् ॥ ८ ॥
तं दृष्ट्वा तेजसा युक्तं संहृष्टाः सुरसत्तमाः ॥
ऊचुस्ते लोकस्रष्टारं शृणुष्व वचनं हि नः ॥ ९ ॥
योऽत्र स्नानं प्रकुरुते पितॄन्संतर्पयिष्यति ॥
पूजयिष्यति देवेशं मूलस्थानं सुरर्षभ ॥ 7.4.14.१० ॥
सर्वपापविनिर्मुक्तो धनधान्यसमन्वितः ॥
सप्तम्यां माघमासस्य शुक्लपक्षे द्विजर्षभाः ॥
योऽत्र स्नानं प्रकुरुते मानवो भक्तिसंयुतः ॥ ११ ॥
मूलस्थानं च देवेश संस्नाप्य प्रविलेपयेत् ॥
पूजयिष्यति वस्त्राद्यैः स्वशक्त्या भूषणैस्तथा ॥ १२ ॥
पुष्पधूपादिभिश्चैव नैवेद्येन च मानवः ॥
सर्वान्कामानवाप्नोति ब्रह्मलोकं स गच्छति ॥ १३ ॥
सावित्रीं च ततो दृष्ट्वा ब्रह्मणा स्थापितां च वै ॥
कृत्वा चायतनं दिव्यं स्वां मूर्तिं सन्निवेश्य च ॥
नाम चक्रे तदा देव्याः स्वयं तस्याः पितामहः ॥ १४ ॥
यः पश्यति स्वयं भक्त्या कृष्णं दृष्ट्वा जगत्पतिम् ॥
सावित्रीं स सुखी भूत्वा सर्वान्कामानवाप्नुयात् ॥ १५ ॥
आयुरारोग्यमैश्वर्य्यं पुत्रसन्तानमेव च ॥
न दौर्भाग्यं भवेत्तस्य न दारिद्यं न मूर्खता ॥
न च व्याधिभयं तस्य यः पश्यति विधिं नरः ॥ १६ ॥
गत्वा संस्नापयेद्देवीं कुंकुमेन कुसुंभकैः ॥
संछाद्य वस्त्रैः संपूज्य पुष्पैर्नानाविधै स्तथा ॥ १७ ॥
नैवेद्यफलतांबूलग्रीवासूत्रकदीपकैः ॥
संपूज्य परया भक्त्या यात्रां च सफला लभेत् ॥ १८ ॥
न वैधव्यं न दौर्भाग्यं न वंध्या न मृतप्रजा ॥
विधिर्दृष्टो नरैर्यैस्तु कुले तेषां प्रजायते ॥ १९ ॥
तस्मात्सर्वप्रयत्नेन विधिं पश्येत्सुभावतः ॥
परितुष्टो भवेत्कृष्णो यात्रा च सफला भवेत् ॥ 7.4.14.२० ॥
॥ प्रह्लाद उवाच ॥ ॥
ब्रह्मणा स्थापितं दृष्ट्वा सरः परमशोभनम् ॥
इन्द्रश्चक्रे महाभागः सरः परमशोभनम् ॥ २१ ॥
स्थापयामास देवेशो लिंगमप्रतिमौजसम् ॥
तस्मिन्स्नात्वा च लभते यस्मादिन्द्रपदं नरः ॥ २२ ॥
तस्मादिन्द्रपदं नाम सुप्रसिद्धं धरातले ॥
इन्द्रेण स्थापितं लिंगं यस्माद्भावनया सह ॥
प्रसिद्धमिंद्रनाम्ना वा इन्द्रेश्वरमिति स्मृतम् ॥२३॥
यस्य प्रसिद्धिरतुला वृद्धिलिंगमिति द्विजाः॥
यस्य दर्शनमात्रेण मुच्यते सर्वपातकैः ॥ २४ ॥
पितॄणामक्षया तृप्तिर्जायते द्विजसत्तमाः ॥
अष्टम्यां च चतुर्द्दश्यां स्नात्वा चेन्द्रपदे नरः ॥ २५ ॥
इन्द्रेश्वरं च संपूज्य याति मुक्तिपदं नरः ॥
विशेषतस्तु संपूज्यो मकरस्थे दिवाकरे ॥ २६ ॥
उत्तरायणसंक्रांतौ लिंगपूरणकेन हि ॥
शिवरात्रौ विशेषेण संपूज्य उमया सह ॥
रात्रौ जागरणं कृत्वा परमं लोकमाप्नुयात् ॥ २७ ॥
॥ प्रह्लाद उवाच॥ ॥
ब्रह्मतीर्थं च तद्दृष्ट्वा तथा शक्रसरोभवम् ॥
दर्शयन्विष्णुना सार्द्धमेकरूपत्वमाप्नुयात् ॥ २८ ॥
सरश्चकार देवेशो भगवान्पार्वतीपतिः ॥
सुमृष्टनिर्मलजलं नलिनीदलशोभितम् ॥ २९ ॥
उत्पलैः सर्वतश्छन्नं सरः सारसशोभितम् ॥
तदगाधजलं दृष्ट्वा स्वयमेव पिनाकधृक् ॥
सब्रह्मविष्णुना सार्द्धं स्नातस्तत्र वृषध्वजः ॥ 7.4.14.३० ॥
ते देवास्तत्सरो दृष्ट्वा ब्रह्मविष्णुसुराऽसुराः ॥
ऊचुः सर्वे सुसंहृष्टा वीक्षंतः पार्वतीपतिम् ॥ ३१ ॥
यस्मात्कृतमिदं देवा ईश्वरेण महत्सरः ॥
महादेव सरोनाम सुप्रसिद्धं भविष्यति ॥ ३२ ॥
योऽत्र स्नानं प्रकुरुते पितॄणां तर्पणं तथा ॥
श्राद्धं पितॄणां भक्त्या च स गच्छेत्परमां गतिम् ॥ ३३ ॥
सुप्रसन्ना भविष्यन्ति सर्वे देवा न संशयः ॥
दर्शनात्पापनिर्मुक्तो महादेवसरस्य च ॥ ३४ ॥
महेशस्य च तद्दृष्ट्वा सरः परमशोभनम् ॥
चकार पार्वती तत्र सरश्चाप्रतिमं तथा ॥ ३५ ॥
गौरीसर इति ख्यातं सर्वपापप्रणाशनम् ॥
तत्र स्नात्वा नरो भक्त्या न दुर्गतिमवाप्नुयात् ॥ ३६ ॥
न दौर्भाग्यं स्त्रियश्चैव न वैधव्यं कदाचन ॥
स्नात्वा गौरीतीर्थवरे सर्वान्कामानवाप्नुयात् ॥३७॥
वरुणश्च ततो दृष्ट्वा पुण्यान्यायतनानि च ॥
चकार च सरो दिव्यं विष्णुभक्तिसमन्वितः ॥ ३८ ॥
नाम्ना वरुणपदं तच्च पापक्षयकरं भुवि ॥
नभस्ये पौर्णमास्यां च संतर्प्य पितृदेवताः ॥ ३९ ॥
श्राद्धं कृत्वा विधानेन पितॄणां श्रद्धयान्वितः ॥
उत्तमं लोकमाप्नोति यत्र गत्वा न शोचति ॥ 7.4.14.४० ॥
प्रदद्यादुदकुम्भांश्च दध्योदनसमन्वितान् ॥
गाश्च वासांसि रत्नानि विष्णुर्मे प्रीयतामिति ॥ ४१ ॥
सरो दृष्ट्वा जलेशस्य सरश्चक्रे धनेश्वरः ॥
यक्षाधिपसरोनाम सुप्रसिद्धं धरातले ॥ ४२ ॥
तथा तत्र नरो भक्त्या संपूज्य पितृदेवताः ॥
सर्वान्कामानवाप्नोति दद्याद्वस्त्रद्विजातये ॥ ४३ ॥
॥ प्रह्लाद उवाच ॥ ॥
विष्णुं वरप्रदं श्रुत्वा भ्रातॄणां ब्रह्मनंदनाः ॥
मंदाकिनी वसिष्ठेन समानीता धरातले ॥ ४४ ॥
अम्बरीषादयः सर्व आजग्मुः कृष्णपालिताम्॥
द्वारवत्यां च ते दृष्ट्वा गोमतीं सागरंगमाम् ॥ ४५ ॥
तीर्थानि देवतानां च पुण्यान्यायतनानि च ॥
तीर्थं पंचनदं चक्रुः प्रजानां पतयस्तथा ॥ ४६ ॥
पंच नद्यः समाहूतास्तत्राऽऽजग्मुः सुरान्विताः ॥
मरीचये गोमती च लक्ष्मणा चात्रये तथा ॥ ४७ ॥
चंद्रभागा चांगिरसे पुलहाय कुशावती ॥
पावनार्थं जांबवती जगाम क्रतवे तथा ॥ ४८ ॥
तासु स्नात्वा महाभागा ब्रह्मपुत्रा यशस्विनः ॥
नाम तस्य तदा चक्रुः पंचनद्यश्च तापसाः ॥४९॥
तस्मात्पंचनदं तीर्थं सर्वपापप्रणाशनम् ॥
स्नातव्यं तत्र मनुजैः स्वर्गमोक्षार्थिभिस्तदा ॥ 7.4.14.५० ॥
तत्र गत्वा सुनियतो गृहीत्वार्घ्यं फलेन हि ॥
मंत्रेणानेन वै विप्रा दद्यादर्घ्यं विधानतः ॥ ५१ ॥
ब्रह्मपुत्रैः समानीताः पंचैताः सरितां वराः ॥
गृह्णंत्वर्घ्यमिमं देव्यः सर्वपापप्रशांतये ॥५२॥
॥ इत्यर्घ्यमन्त्रः ॥ ॥
स्नानं कृत्वा विधानेन पितॄन्संतर्प्पयेन्नरः ॥
श्राद्धं कुर्य्याद्विधानेन श्रद्भया परया युतः ॥५३॥
पंचरत्नं ततो देयं सप्तधान्यं द्विजातये ॥
दीनांधकृपणानां च दानं दद्यात्स्वशक्तितः ॥ ५४ ॥
सर्वान्कामानवाप्नोति विष्णुलोकं स गच्छति ॥
पुत्रपौत्रसमायुक्तः परं सुखमवाप्नुयात् ॥ ५५ ॥
प्रेतयोनिं गता ये च ये च कीटत्वमागताः ॥
सर्वे ते मुक्तिमायांति पितरस्त्रिकुलोद्भवाः ॥ ५६ ॥
श्रुत्वाऽध्यायमिमं पुण्यं शिवलोके च मोदते ॥
सर्वपाप विनिर्मुक्तः स याति परमं पदम् ॥ ५७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये पञ्चनदतीर्थमाहात्म्यवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 15
॥ प्रह्लाद उवाच । ॥
श्रुत्वा तमागतं देवं ब्रह्माणं पितरं स्वकम् ॥
सनकाद्या नमस्कर्त्तुं जग्मुः सर्वे पितामहम् ॥१॥
तं दृष्ट्वा लोककर्त्तारं दण्डवत्प्रणताः क्षितौ ॥
ततो दृष्ट्वा स तनयान्संगृह्य परिषस्वजे ॥२॥
पृष्टश्चानामयं तैस्तु पृष्ट्वा तान्समुवाच ह ॥
आराधितो यैर्भगवान्धन्या यूयं वयं तथा ॥ ३ ॥
संसिद्धिं परमां याता भगवद्दर्शनेन हि ॥
न ज्ञातं पुत्रकाः सम्यगज्ञानाद्बालबुद्धिभिः ॥ ४ ॥
येनार्चितो महादेवस्तस्य तुष्यति केशवः ॥
अनर्चिते नीलकण्ठे न गृह्णात्यर्चनं हरिः ॥
तस्मात्सर्वप्रयत्नेन पूज्यतां नीललोहितः॥ ५॥
येन संपूर्णतां याति कृष्णपूजा कृता सदा॥
तच्छ्रुत्वा वचनं तस्या ब्रह्मपुत्रा ययुस्तदा॥ ६॥
देवागाराग्रतो गत्वा योगसिद्धा महर्षयः॥
लिंगं संस्थापयामासुः शिवभक्तिपुरस्कृता॥ ७॥
संस्थाप्य शिवलिंगं ते स्नानार्थं मुनिसत्तमाः॥
कूपं चक्रुस्ततः सर्व ऋषयः संशितव्रताः ॥ ८ ॥
दृष्ट्वा तममृतप्रख्यं जलपूर्णं सुनिर्मलम् ॥
संहृष्टा ऋषयः सर्वे साधुसाध्विति चाब्रुवन् ॥ ९ ॥
स्थापितं शिवलिंगं च दृष्ट्वा लोकपितामहः ॥
उवाच वचनं ब्रह्मा प्रीतः पुत्रांस्तदा द्विजाः ॥ 7.4.15.१० ॥
॥ ब्रह्मोवाच ॥ ॥
भवद्भिर्योगसंसिद्धैर्यस्मात्संस्थापितः शिवः ॥
तस्मात्सिद्धेश्वर इति ख्यातिं लोके गमिष्यति ॥ ११ ॥
समीपे शितिकण्ठस्य कूपोयमृषिभिः कृतः ॥
ऋषितीर्थमिति ख्यातं तस्माल्लोके भविष्यति। ॥ १२ ॥
विना श्राद्धेन विप्रेन्द्रा दानेन पितृतर्पणात् ॥
भक्तितः स्नानमात्रेण पितृभिः सह मुच्यते ॥ १३ ॥
असत्यवादिनो ये च परनिन्दा परायणाः ॥
स्नानमात्रेण शुध्यन्ति ऋषितीर्थे न संशयः ॥ १४ ॥
स्नानं प्रशस्तं विषुवे मन्वादिषु तथैव च ॥
तथा कृतयुगाद्यायां माघस्य द्विजसत्तमाः ॥ १५ ॥
शिवरात्रौ वसेद्यस्तु लिंगे सिद्धेशसंज्ञिते ॥
स्नात्वा ऋषिकृते तीर्थे किं तस्यान्येन वै द्विजाः ॥
गत्वा तत्र महाभागा गृहीत्वा फलमुत्तमम् ॥ १६ ॥
अर्घ्यं दत्त्वा विधानेन कृत्वा च करयोः कुशान् ॥
गृह्णंत्वर्घ्यमिमं देवा योगसिद्धा महर्षयः ॥ १७ ॥
ऋषितीर्थे च पापघ्ने सिद्धेश्वरसमन्विते ॥
दत्त्वार्घ्यं मृदमालभ्य स्नानं कुर्यात्समाहितः ॥१८॥
तर्पयेच्च पितॄन्देवान्मनुष्यांश्च यथाक्रमम् ॥
ततः श्राद्धं प्रकुर्वीत पितॄणां श्रद्धयाऽन्वितः ॥ १९ ॥
तथा च दक्षिणां दद्याद्वित्तशाठ्यविवर्जितः ॥
विशेषतः प्रदेयानि फलानि रसवंति च ॥ 7.4.15.२० ॥
दद्याच्छयामाकनीवारान्विद्रुमं चाजिनानि च ॥
सप्तधान्यानि शालींश्च सक्तूंश्च गुडसंयुतान् ॥ २१ ॥
गंधमाल्यानि तांबूलं वस्त्राणि च तथा पयः ॥
एवं कृत्वा समग्रं च कृतकृत्यो भवेन्नरः ॥ २२ ॥
पूजयित्वा महादेवं सिद्धेश्वरमुमापतिम् ॥
सफलं जन्म मर्त्यस्य जीवितं च सुजीवितम् ॥ २३ ॥
यः स्नात्वा ऋषितीर्थे तु पश्येत्सिद्धेश्वरं शिवम् ॥
पितरस्तस्य तुष्यन्ति तुष्यन्ति च पितामहाः ॥ २४ ॥
अपुत्रा पुत्रिणः स्युस्ते पुत्रिणश्चापि पौत्रिणः ॥
निर्धना धनवंतश्च सिद्धेश्वररता नराः ॥ २५ ॥
दुष्कृतं याति विलयं सुकृतं च विवर्द्धते ॥
भवेन्मनोरथावाप्तिः प्रणते सिद्धनायके ॥ २६ ॥
ऋषितीर्थे नरः स्नात्वा दृष्ट्वा सिद्धेश्वरं हरम् ॥
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ २७ ॥
शिवरात्र्यां विशेषेण सिद्धेशः संप्रपूजितः ॥
यंयं कामयते कामं तं ददाति न संशयः ॥
चिन्तामणिसमः स्वामी ह्यथवा चाक्षयो निधिः ॥२८॥
श्रुत्वाध्यायमिमं पुण्यं सर्वाघहरणं परम् ॥
प्रयाति परमं स्थानं मानवः श्रद्धयान्वितः॥२९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारका माहात्म्य ऋषितीर्थसिद्धेश्वरमाहात्म्यवर्णनंनाम पञ्चदशोऽध्यायः॥१५॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 16
प्रह्लाद उवाच॥
ततो गच्छेद्द्विजश्रेष्ठा गदातीर्थमनुत्तमम्॥
यत्र स्नात्वा नरो भक्त्या लभेद्भूदानजं फलम्॥ १ ॥
तर्पयेत्पितृदेवांश्च ऋषींश्चैव यथाक्रमम् ॥
श्राद्धं च कारयेत्तत्र पितॄणां तृप्तिहेतवे ॥ २ ॥
गदातीर्थे तु देवेशं विष्णुं वाराहरूपिणम् ॥
समभ्यर्च्य नरो भक्त्या विष्णुलोके महीयते ॥ ३ ॥
नागतीर्थं ततो गच्छेत्सरः परमशो भनम्॥
यत्र स्नात्वा नरः सम्यङ्नागलोकमवाप्नुयात् ॥ ४ ॥
भद्रतीर्थं ततो गच्छेत्सरस्त्रिभुवनार्चितम् ॥
स्नानमात्रेण लभते तिलधेनुफलं नरः ॥ ॥ ५ ॥
चित्रातीर्थं ततो गच्छेत्सरः परमशोभनम् ॥
स्नानमात्रेण लभते घृतधेनुफलं नरः ॥ ६ ॥
यदा द्वारावती विप्रा प्लाविता सागरेण हि ॥
पुण्यानि बहुतीर्थानि च्छन्नानि जलपांसुभिः ॥ ७ ॥
दृश्यानि कतिचित्संति ह्यदृश्यान्यपराणि च ॥
तानि सर्वाणि विप्रेन्द्राः कथयिष्यामि सर्वतः ॥ ८ ॥
चंद्रभागां ततो गच्छेत्सर्वपापप्रणाशिनीम् ॥
यत्र स्नात्वा नरो भक्त्या वाजपेयफलं लभेत् ॥ ९ ॥
देवी चंद्रार्चिता यत्र यशोदा नंदनंदिनी ॥
कौमारिका शक्तिहस्ता खङ्गखेटकधारिणी ॥ 7.4.16.१०॥
केश्यादिदैत्यदलिनी स्वसा वै रामकृष्णयोः ॥
यस्या दर्शनमात्रेण सर्वान्कामानवाप्नुयात्॥ ११ ॥
ततो गच्छेत विप्रेन्द्रास्तीर्थं महिषसंज्ञकम् ॥
यस्य दर्शनमात्रेण मुच्यते सर्वपातकैः ॥ १२ ॥
मुक्तिद्वारं ततो गच्छेत्तीर्थं पाप प्रणाशनम्॥ १३ ॥
वसिष्ठेन समानीता मुनिना यत्र गोमती ॥
स्नातो भवति गंगायां यत्र स्नात्वा कलौ युगे ॥ १४ ॥
गोमती निःसृता यस्मा त्प्रविष्टा वरुणालयम् ॥
तत्र स्नात्वा नरो भक्त्या अश्वमेधफलं लभेत् ॥ १५ ॥
भृगुणा हि तपस्तप्तं स्थापिता यत्र चांबिका ॥
भृग्वर्चिता ततो देवी प्रसिद्धा श्रूयते क्षितौ ॥ १६ ॥
संसिद्धिं परमां याति यस्याः संस्मरणान्नरः ॥
शिवलिंगान्यनेकानि यत्र सन्ति महीतले ॥१७॥
ततो गच्छेत विप्रेन्द्राः कालिन्दीसर उत्तमम्॥
कालिन्दी सूर्यतनया सरश्चक्रे त्वनुत्तमम् ॥ १८ ॥
तत्र स्नात्वा नरो भक्त्या न दुर्गतिमवाप्नुयात् ॥
सांबतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम्॥ १९ ॥
कृत्वा श्राद्धं च विधिवल्लभेद्गोदानजं फलम् ॥ 7.4.16.२० ॥
गच्छेच्च शांकरं तीर्थं ततस्त्रैलोक्यपावनम् ॥
यत्र स्नात्वा नरो भक्त्या लभेद्बहुसुवर्णकम् ॥ २१ ॥
ततो नागसरो गच्छेत्तीर्थं पापप्रणाशनम् ॥
पितॄन्सन्तर्प्य विधिवन्नागलोकमवाप्नुयात् ॥ २२ ॥
लक्ष्मीं नदीं ततो गच्छेद्गच्छन्तीं सागरं प्रति ॥
यस्या दर्शनमात्रेण मुच्यते सर्वपातकैः ॥ २३ ॥
श्राद्धे कृते तु विप्रेन्द्राः पितरो मुक्तिमाप्नुयुः ॥
दाने मनोरथावाप्तिर्जायते नात्र संशयः॥ २४॥
कंबुसरस्ततो गच्छेत्तीर्थं पापप्रणाशनम्॥
तर्पणे च कृते श्राद्धे ह्यग्निष्टोमफलं लभेत्॥२५॥
कुशतीर्थं ततो गच्छेत्स्नात्वा सन्तर्पयेत्पितॄन्॥
दानं दत्त्वा यथाशक्त्या निर्मलं लोकमाप्नुयात्॥२६॥
द्युम्नतीर्थं च तत्रैव सर्वपापप्रणाशनम्॥
कृत्वा श्राद्धं च तत्रैव वाजिमेधफलं लभेत् ॥ २७ ॥
कुशतीर्थं ततो गच्छेत्पितॄणां तृप्तिरक्षया ॥
यत्र श्राद्धात्तर्पणाच्च जायते नात्र संशयः ॥ ॥ २८ ॥
जालतीर्थं ततो गच्छेत्सर्वपापहरं शुभम् ॥
दुर्वाससा यत्र शप्ताः कोपाद्यदुकुमारकाः ॥ २९ ॥
देवो जालेश्वरस्तत्र सं बभूव उमापतिः ॥
जालेश्वरं नरो दृष्ट्वा सद्यः पापात्प्रमुच्यते ॥ 7.4.16.३० ॥
संपूज्य देवं भक्त्या च शिवलोकमवाप्नुयात् ॥ ३१ ॥
चक्रस्वामिसुतीर्थं च ततो गच्छेद्धि मानवः ॥
कृत्वा स्नानं पितॄंस्तर्प्य विष्णुलोकमवाप्नुयात् ॥ ३२ ॥
जरत्कारुकृतं तीर्थं सर्वपापप्रणाशनम् ॥
स्नात्वा तत्र द्विजश्रेष्ठा न दुर्गतिमवाप्नुयात् ॥ ३३ ॥
ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं खञ्जनकाभिधम् ॥
आसीत्खञ्जनको नाम दैत्यश्चातिबलान्वितः ॥ ३४ ॥
ततः खञ्जनकं तीर्थं तस्य नाम्नेति विश्रुतम् ॥
तत्र स्नात्वा नरो याति सोमलोकं न संशयः ॥ ३५ ॥
सन्ति तीर्थान्यनेकानि सुगुप्तानि द्विजोत्तमाः ॥
तानि गच्छेत्तु विप्रेन्द्राः सर्वपापापनुत्तये ॥ ३६ ॥
ततो गच्छेद्द्विजश्रेष्ठास्तीर्थमानकदुन्दुभेः ॥
शूरतीर्थं परमकं गदतीर्थमतः परम् ॥ ३७ ॥
गावल्गणस्य तीर्थं च अक्रूरस्य महात्मनः ॥
बलदेवस्य तीर्थं तु उग्रसेनस्य चापरम् ॥ ३८ ॥
अर्जुनस्य च तीर्थं तु सुभद्रातीर्थमेव च ॥
देवकीतीर्थमाद्यं तु रोहिणीतीर्थमेव च ॥ ३९ ॥
उद्धवस्य च तीर्थं तु सारंगाख्यं तथैव च ॥
सत्यभामाकृतं तीर्थं भद्रातीर्थमतः परम् ॥ 7.4.16.४० ॥
जामदग्न्यस्य तीर्थं तु रामस्य च महात्मनः ॥
भासतीर्थं च तत्रैव शुकतीर्थमतः परम् ॥ ४१ ॥
कर्दमस्य च तीर्थं तु कपिलस्य महात्मनः ॥
सोमतीर्थं च तत्रैव रोहिणीतीर्थमेव च ॥ ४२ ॥
एतान्यन्यानि संक्षेपान्मया वः कथितानि च ॥
सर्वपापहराणीह मोक्षदानि न संशयः ॥ ४३ ॥
प्रच्छन्नानि द्विजवरास्तीर्थानि कलिसंक्रमे ॥
प्लावितानि समुद्रेण पांसुनाऽप्युदकेन च ॥ ४४ ॥
एतन्मया वः कथितं संक्षेपात्तीर्थविस्तरम् ॥
आत्मप्रज्ञानुमानेन किमन्यच्छ्रोतुमिच्छथ ॥ ४५ ॥
शृणुयात्परया भक्त्या तीर्थयात्रामिमां द्विजाः ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ४६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारका माहात्म्ये तीर्थवृन्दमाहात्म्यवर्णनंनाम षोडशोऽध्यायः ॥ १६ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 17
॥ प्रह्लाद उवाच ॥ ॥
कृत्वाऽभिषेकं तीर्थेषु यथावद्दत्त दक्षिणः ॥
पूजयेच्च ततो देवं कृष्णाख्यं पुरुषं परम् ॥ १ ॥
॥ ऋषय ऊचुः ॥ ॥
पूजाविधिं तु कृष्णस्य श्रोतुकामाः समासतः ॥
कथयाऽऽचरणोपेतं यथावद्दैत्यसत्तम ॥ २ ॥
द्वारपालाश्च के तत्र कः पूर्वं कश्च पृष्ठतः ॥
पुरीयं सर्वतो दैत्य तिष्ठते केन पालिता ॥ ३ ॥
आनुपूर्व्यात्समासेन पूजनीया यथाविधि ॥
कथयस्व विधिज्ञोऽसि कृष्णैकचरणप्रियः ॥ ४ ॥
॥ श्रीप्रह्लाद उवाच ॥ ॥
श्रूयतां पूजनं विप्राः श्रुतपूर्वं विधानतः ॥
कलौ कृष्णस्य विप्रेन्द्रा यथावदनुपूर्वशः ॥ ५ ॥
पूर्वद्वारस्थितान्देवाञ्छुणुध्वं सुसमाहिताः ॥
जयंतः प्रथमं पूज्यः सर्वपापहरः शुभः ॥ ६ ॥
स्थापितो देवराजेन पूजार्थं केशवस्य हि ॥
तस्यैवानुचरान्वक्ष्ये तान्निबोधत सत्तमाः ॥ ७ ॥
वज्रनाभः सुनाभश्च वज्रबाहुर्महा हनुः ॥
वज्रदंष्ट्रो वज्रधारी वज्रहा वज्रलोचनः ॥ ८ ॥
श्वेतमूर्धा श्वेतमाली जयन्तानुचराश्च ते ॥
एते शस्त्रोद्यतकरा रक्षन्ते तमहर्निशम् ॥ ९ ॥
पूर्वद्वारे सुसंनद्धा जयन्तोद्देशकारिणः ॥
पूर्वद्वारे च रक्षार्थं नरनाथो विनायकः ॥ 7.4.17.१० ॥
तरुणार्कश्च वै सूर्यो देव्यो वै सहमातरः ॥
ईश्वरश्चापि दुर्वासा नागराजस्तु तक्षकः ॥ ११ ॥
सेनानीः कार्तिकेयश्च राक्षसश्च महाहनुः ॥
तत्र दीर्घनखोनाम दानवः सुप्रतिष्ठितः ॥ १२ ॥
विश्वावसुश्च गन्धर्वो मेनका च वराप्सराः ॥
सनत्कुमारसहितो वसिष्ठो भगवानृषिः ॥ १३ ॥
एते पूज्याः पूर्वतस्तु न्यग्रोधश्च महाद्रुमः ॥
पूर्वद्वारस्थिता ह्येत आग्नेयाञ्छृणुताथ मे ॥ १४ ॥
ज्वालामुखोऽथ रक्ताक्षः स्मशाननिलयः क्रथः ॥
मांसादो रुधिराहारः कृष्णः कृष्णजटाधरः ॥ १५ ॥
त्रासनो भञ्जनश्चैव ह्याग्न्येय्यां दिशि संस्थिताः ॥
दिशं रक्षंति संनद्धा दक्षिणां शृणुताथ मे ॥ १६ ॥
दण्डपाणिर्महानादः पाशहस्तः सुलोचनः ॥
अनिवर्त्यक्रमश्चैव तथा दुंदुभिनिस्वनः ॥ १७ ॥
खरस्वनो घर्घरवाक्तथा मौनप्रियः सदा ॥
मल्लिकाक्षश्च एतेषां प्रणतो द्वारपालकः ॥ १८ ॥
दक्षिणद्वाररक्षार्थं दुन्दुभिश्च विनायकः ॥
महिषार्कश्च वै सूर्यो भूषणश्च तथेश्वरः ॥ १९ ॥
चण्डिका च तथा देवी ह्यूर्द्ध्वबाहुश्च राक्षसः ॥
पद्माक्षः क्षेत्रपालश्च नागश्चाश्वतरस्तथा ॥ 7.4.17.२० ॥
चित्रांगदश्च गन्धर्व उर्वशी च वराप्सराः ॥
यो राजा सर्ववृक्षाणां शालश्चापि महाद्रुमः ॥ २१ ॥
सनातन ऋषिश्रेष्ठो ह्यगस्त्यश्च महातपाः ॥
एते याम्यदिशि द्वारं रक्षन्ति सुसमाहिताः ॥ २२ ॥
गीतकृन्नर्तको नग्नः कंबली दहनप्रियः ॥
हसनो नेत्रभंगश्च भ्रूविकारो विजृंभकः ॥ २३ ॥
मुशली प्रभुरेतेषां संनद्धो वर्तते द्विजाः ॥
रक्षन्ति नैर्ऋतीमाशां पश्चिमां शृणुतापरान् ॥ २४ ॥
स्वस्तिकः शंखमूर्द्धा च नीलवासाः शुभाननः॥
पाशहस्तः शूलहस्त एकपादैकलोचनः॥ २५॥
पश्चिमायां दिशि तथा पुष्पदन्तो विनायकः॥
उद्धवार्कश्च वै सूर्यः शिवः सत्राजितेश्वरः ॥ २६ ॥
तुंबरुर्नामगन्धर्वो घृताची च वराप्सराः ॥
महोदरश्च नागेन्द्रो राक्षसश्च घटोत्कचः ॥ २७ ॥
दैत्यः पञ्चजनोनाम ऋषिः कश्यप एव च ॥
देवी कपालिनीनाम अश्वत्थस्तु महाद्रुमः ॥ २८ ॥
कपिलः क्षेत्रपालश्च प्रतीचीं पान्ति वै दिशम् ॥
नमस्कार्यास्तथा पूज्या वायव्यो शृणुतापरान् ॥ २९ ॥
भंजनो भैरवश्चैव कालिकोऽथ घटोदरः ॥
झंझकामर्दनः पिंगो रुरुः सर्वभुजोव्रणी ॥7.4.17.३०॥
सुपार्श्वः प्रभुरेतेषां संनद्धः पालयन्दिशम् ॥
उदीच्यां दिशि विप्रेन्द्राः श्यामलश्च गणाधिपः ॥ ३१ ॥
मन्वन्तको विरूपाक्षो गोलकः श्वेत संप्लुतः ॥
उन्मत्तः प्रभुरेतेषामुदीच्यां पालयन्दिशम् ॥ ३२ ॥
मूलस्थानश्च वै सूर्य्य इन्द्रेशश्च महेश्वरः ॥
देवी कण्ठेश्वरीनाम क्षेत्रपालश्च खञ्जनः ॥ ३३ ॥
वासुकिर्नागराजश्च कूर्मपृष्ठश्च दानवः ॥
सनकश्च ऋषिश्रेष्ठो गोलको राक्षसस्तथा ॥ ३४ ॥
नारदोनाम गन्धर्वो रंभा चैव वराप्सराः ॥
एते पूज्याः प्रयत्नेन प्लक्षोनाम महाद्रुमः ॥ ३५ ॥
यक्षेशः सवितानाम श्यामः पूज्यः प्रयत्नतः ॥
ऐशान्यां दिशि विप्रेन्द्राः स्थिता ये तान्वदाम्यहम्॥ ३६ ॥
दुर्धरो भैरवारावः किंकिणीको महाबलः ॥
करालो विकटो मूलो बलिभुक्तो बलिप्रियः ॥ ३७ ॥
एतेषां क्षेत्रपालानां सस्त्रीणां च द्विजोत्तमाः ॥
नेता प्रभु(म?)श्च स्वामी च जयन्तः पालकस्तथा ॥ ३८ ॥
निगृह्णात्यनुगृह्णाति रक्षिता पुरवासिनाम् ॥
जयन्तादेशमादाय ते दुष्टान्घातयन्ति च ॥ ३९ ॥
नागस्थलस्थितः स्वामी जयन्तः पालकः सदा ॥
नागराजैः परिवृतः पूजनीयः प्रयत्नतः ॥ 7.4.17.४० ॥
मांसप्रियमुखाश्चैत ऐशानीं पांति वै दिशम् ॥
सहस्रशीर्षको देवः शेषो नागस्थलस्थितः ॥
अनन्तो वासुकिश्चैव तक्षकः पद्म एव च ॥ ४१ ॥
शंखः कंबलकश्चैव नागश्चाश्वतरस्तथा ॥
मुक्तकः कालियश्चैव जनकोऽथापराजितः ॥ ४२ ॥
कर्कोटकमुखा नागास्ते च सन्ति सहस्रशः ॥
ते पूज्या गंधपुष्पैश्च बलिभिर्धूपदीपकैः ॥४३॥
पायसेन च मांसेन ह्यन्नाद्यैः सुरया तथा ॥
ततः संपूज्य देवशं जयंतं रक्षिणां वरम् ॥ ४४ ॥
गंध पुष्पोपहारैश्च धूपवस्त्रादिभूषणैः ॥
ततो गच्छेद्द्विजश्रेष्ठाः कृष्णं देवकिनन्दनम् ॥
संपूज्यः प्रथमं तत्र गणेशो रुक्मिसंज्ञकः॥४५॥
॥ ऋषय ऊचुः ॥ ॥
कथं स रुक्मिदैत्येन्द्रो यो दुष्टो गणतां गतः ॥
साक्षाद्भगवतो द्वारि प्रत्यहं पूज्यते नरः ॥ ४६ ॥
॥ श्रीप्रह्लाद उवाच ॥ ॥
कृष्णाय रुक्मिणीं दातुं यदा भीष्मक उद्यतः ॥
तद्द्वेषात्क्रोधसंयुक्तो रुक्मी चैद्यममन्यत ॥४७॥
यदा जहार भगवान्रुक्मिणीमंबिकालयात् ॥
सर्वान्विद्राव्य वै भूपाञ्जरासन्धमुखान्रणे ॥४८॥
तदा रुक्मी महाबाहुर्भीष्मकस्य सुतो बली ॥
नाहत्वा विनिवर्तिष्ये तमहं यादवं रणे ॥४९॥
प्रतिज्ञां सर्वभूपानां शृण्वतां कृतवान्द्विजाः॥
एवमुक्त्वा स सन्नद्धो युद्धाय परिधावितः॥7.4.17.५०॥
अक्षौहिण्या दलेनैवायुद्ध्यत्कृष्णेन भो द्विजाः ॥
स युध्यमानः कृष्णेन वध्यमानो हतौजसः ॥५१॥
बद्धो भगवता तत्र कृत्वा वैरूप्यमेव च ॥
रामेण बंधनान्मुक्तो मरणाय मतिं दधौ ॥५२॥
रुक्मिणी भ्रातरं दृष्ट्वा मरणे कृतनिश्चयम्॥
उवाच कृष्णं वैदर्भी भ्रातरं ह्यानयस्व मे ॥५३॥
ततस्तत्प्रियकामार्थमनुमान्य जनार्द्दनः॥
चकार पार्षदां मध्ये प्रवरं विघ्ननाशनम् ॥५४॥
एतस्मात्कारणाद्विप्राः प्रथमं पूज्यते सदा ॥
गंधधूपाक्षतैर्वस्त्रैर्मोदकैस्तं प्रतर्पयेत् ॥५५॥
तस्मिंस्तुष्टे जगन्नाथस्तुष्टो भवति नान्यथा ॥५६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये भगवत्परिचारकवर्गकथनपूर्वकरुक्मिगर्वपरिहारवृत्तान्तवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥ ॥ छ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 18
॥ श्रीप्रह्लाद उवाच ॥ ॥
पूजयेद्गणनाथं तं रुक्मिणं रुक्मभूषितम् ॥
दुर्वाससं च कृष्णं च बलभद्रं च भक्तितः ॥ १ ॥
यजत्येको महायज्ञैः संपूर्णवरदक्षिणैः ॥
एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ ॥ २ ॥
वापीकूपतडागानि करोत्येकः समाहितः ॥
एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ ॥ ३ ॥
गोभूतिलहिरण्यादि ददात्येको दिनेदिने ॥
एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ ॥ ४ ॥
प्राणायामादिसंयुक्तो जपध्यानपरायणः ॥
एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ ॥ ५ ॥
जाह्नव्यादिषु तीर्थेषु सुस्नात्वैकः समाहितः ॥
एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ ॥६॥
त्रिभिर्विक्रमणैर्येन विक्रांतं भुवनत्रयम् ॥
त्रिविक्रमं च तं दृष्ट्वा मुच्यते पातकत्रयात् ॥ ७ ॥
॥ ऋषय ऊचुः ॥ ॥
कथं त्रैविक्रमी मृर्त्तिरागतेयं धरातले ॥
कलान्यासाच्च कृष्णत्वं कदेयं प्राप्तवत्यथ ॥ ८ ॥
दैत्य संशयमस्माकं छेत्तुमर्हस्यशेषतः ॥
दुर्वाससश्च कृष्णस्य संभवः कथ्यतामिति ॥ ९ ॥
॥ प्रह्लाद उवाच ॥ ॥
तच्छ्रूयतां द्विजश्रेष्ठा यथा मूर्त्तिस्त्रिविक्रमी ॥
दुर्वाससा समायुक्ता संभूता धरणीतले ॥ 7.4.18.१० ॥
पूर्वं कृतयुगस्यांते बलिना च पुरंदरः ॥
निर्जित्य भ्रंशितः स्थानात्तदर्थं मधुसूदनः ॥ ॥ ११ ॥
कश्यपाद्वामनो जज्ञे ततोऽभूच्च त्रिविक्रमः ॥
त्रिभिः क्रमैर्मिताँल्लोकानाक्रम्य मधुहा हरिः ॥ १२ ॥
बलिं चकार भगवान्पातालतलवासि नम् ॥
भक्त्या त्वनन्यया कृष्णो दैत्येन परितोषितः ॥ १३ ॥
स्वयं चैवाऽवसत्तत्र भक्त्या क्रीतो हरिस्तदा ॥
अनुग्रहाय भगवान्द्वारपालो बभूव ह ॥१४॥
दुर्वासाश्चापि भगवानात्रेयो मुनिसत्तमः॥
अटंस्तीर्थानि मोक्षार्थं मुक्तिक्षेत्रमचिंतयत् ॥१५॥
एवं चितयमानः स ज्ञानदृष्ट्या महामुनिः॥
गोमत्या संगमो यत्र चक्रतीर्थेन भो द्विजाः ॥ १६ ॥
तन्मुक्तिक्षेत्रमाज्ञाय गमनाय मतिं दधे ॥
सोतीत्य नगरग्रामानुद्यानानि वनानि च ॥ १७ ॥
आनर्त्तविषयं प्राप्य दैत्यभूमिं विवेश ह ॥
निःस्वाध्यायवषट्कारां वेदध्वनिविवर्ज्जिताम् ॥१८॥
कुशेन दैत्यराजेन सेवितां पालितां तथा ॥
बहुम्लेच्छ समाकीर्णामधर्मोपार्जकैर्जनैः ॥ १९ ॥
प्रत्यासन्नामिति ज्ञात्वा चक्रतीर्थमगाद्द्विजः ॥
स्नात्वा च संगमे पुण्ये मोक्ष्येऽहं च कृताह्निकः ॥ 7.4.18.२० ॥
इति कृत्वा स नियमं ययौ शीघ्रं मुनिस्तदा ॥
स्नात्वा शीघ्रं प्रयास्यामि दैत्यभूमिं विहाय च॥२१॥
इत्येवं चिंतयन्मार्गे शीघ्रमेव जगाम सः॥
दृष्ट्वा च संगमं पुण्यं गोमत्या सागरस्य च ॥ २२ ॥
निधाय वाससी तत्र मृदमालभ्य गोमयम् ॥
शिखां च बद्ध्वा करयोः कृत्वा च नियतः कुशान् ॥ ॥ २३ ॥
यावत्स्नाति च विप्रोऽसौ दृष्टो दैत्यैर्दुरात्मभिः ॥
ब्रुवंतः कोऽयमित्येवं हन्यतांहन्यतामिति ॥२४॥
अस्माभिः पालिते देशे कः स्नाति मनुजाधमः ॥
ब्रुवंत इति जघ्नुस्ते जानुभिर्मुष्टिभिस्तथा ॥ २५ ॥
ब्राह्मणोऽहं न हंतव्यः श्रुत्वा चाऽतीव पीडितः ॥
तं दृष्ट्वा हन्यमानं तु ब्राह्मणं तैर्दुरात्मभिः ॥ २६ ॥
निवारयामास च तान्रुरुर्नाम महासुरः ॥
जगृहुस्तस्य वस्त्राणि कुशांस्ते चिक्षिपुर्जले ॥ २७ ॥
चकर्षुश्चरणौ गृह्य शपंतो दुष्टचेतसः ॥
पदे गृहीत्वा तमृषिं नीत्वा सीम्नि व्यसर्जयन् ॥ २८ ॥
तं तदा मूर्छितप्रायं दृष्ट्वोचुः कुपिताश्च ते ॥
अत्रागतो यदि पुनर्हनिष्यामो न संशयः ॥
आनर्त्तविषयांस्तान्वै दृष्ट्वा तत्र जलाशयम् ॥ २९ ॥
प्राणसंशयमापन्नस्ततश्चिंतापरोऽभवत् ॥
शप्येहं यदि दैतेयांस्तपसः किं व्ययेन मे ॥ 7.4.18.३० ॥
अथवा नियमभ्रष्टस्त्यक्ष्ये चेदं कलेवरम् ॥
मम पक्षं च कः कुर्य्यात्को मे दास्यति जीवितम् ॥ ३१ ॥
चक्रतीर्थे च कः स्नानं कारयिष्यति मामिह ॥
को वा दैत्यगणानेताञ्छक्तो जेतुं महामृधे ॥
तं विना पुण्डरीकाक्षं भक्तानामभयप्रदम् ॥ ३२ ॥
ब्रह्मादीनां च नेतारं शरणागतवत्सलम् ॥
चक्रहस्तं विना मेद्य कोन्यः शर्म्मप्रदो भवेत् ॥ ३३ ॥
इति ध्यात्वा च सुचिरं ज्ञात्वा पातालवासि नम् ॥
आत्रेयो विष्णुशरणं जगाम धरणीतलम् ॥ ३४ ॥
उपवासैः कृशो दीनो भूतलं प्रविवेश ह ॥
स दैत्त्यराजभवनं गन्धर्वाप्सरसावृतम् ॥ ॥ ३५ ॥
शोभितं सुरमुख्येन विष्णुना प्रभविष्णुना ॥
दुर्वासाः प्रविवेशाथ प्रहृष्टेनांतरात्मना॥ ३६ ॥
दुर्वाससमथायांतं दृष्ट्वा दैत्यपतिस्तदा ॥
प्रत्युत्थायार्हयांचक्रे स्वासने संन्यवेशयत् ॥३७॥
मधुपर्कं च गां चैव दत्त्वार्घ्यं पार्श्वतः स्थितः ॥
प्रोवाच प्रणतो ब्रह्मन्कथमत्रागतो भवान् ॥३८॥
सुखोपविष्टः स ऋषिस्तत्रापश्यत्त्रिविक्रमम् ॥
दैत्येन्द्रद्वारदेशे तु तिष्ठन्तमकुतोभयम् ॥ ३९ ॥
तं दृष्ट्वा देवदेवेशं श्रीवत्सांकं चतुर्भुजम् ॥
रुरोद स ऋषिश्रेष्ठस्त्राहित्राहीत्युवाच च ॥ 7.4.18.४० ॥
संसारभयभीतानां दुःखितानां जनार्दन ॥
शत्रुभिः परिभूतानां शरणं भव केशव ॥ ४१ ॥
मम दुःखाभितप्तस्य शत्रुभिः कर्षितस्य च ॥
पराभूतस्य दीनस्य क्षुधया पीडितस्य च ॥ ४२ ॥
अपूर्णनियमस्याऽथ क्लेशितत्य च दानवैः ॥
ब्रह्मण्यदेव विप्रस्य शरणं भव केशव ॥ ४३ ॥
इत्युक्त्वा दर्शयामास शरीरं दैत्यताडितम् ॥
तद्ब्राह्मणावमानं च दृष्ट्वा चुक्रोध वामनः ॥ ४४ ॥
केनापमानितो ब्रह्मन्नियमः केन खण्डितः ॥
कथयस्व महाभाग धर्मपाले मयि स्थिते ॥ ४५ ॥
॥ दुर्वासा उवाच ॥ ॥
मुक्तितीर्थमहं ज्ञात्वा ज्ञानेन मधुसूदन ॥
चक्रतीर्थं गतः स्नातुं यात्रायां हर्षसंयुतः ॥ ४६ ॥
अकृतस्नान एवाऽहं दृष्टो दैत्यैर्दुरासदैः ॥
गले गृहीतः कृष्णाहं मुष्टिभिस्ताडितस्तथा ॥ ४७ ॥
बलाद्गृहीत्वा वासांसि कुशांश्चैवाक्षतैः सह ॥
जले क्षिप्त्वा चरणयोर्गृहीत्वा मां समाकृषन् ॥ ४८ ॥
सीमांते मां तु प्रक्षिप्य प्रोचुस्ते दानवाधमाः ॥
हनिष्यामो यदि पुनरागंतासि न संशयः ॥ ४९ ॥
स्नातोऽहं चक्रतीर्थे तु करिष्ये भोजनं विभो ॥
तस्मात्स्नापय गोविंद नियमं सफलं कुरु ॥ 7.4.18.५० ॥
तव प्रसादात्स्नात्वाऽहं भुक्त्वा च प्रीतमानसः ॥
प्रतिज्ञां सफलां कृत्वा विचरिष्ये महीमिमाम् ॥ ५१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये चक्रतीर्थमाहात्म्ये राक्षसकृतदुर्वासःपराभववृत्तान्तवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 19
॥ प्रह्लाद उवाच ॥ ॥
तच्छ्रुत्वा देवदेवेशश्चिंतयित्वा पुनःपुनः ॥ उवाच वचनं तत्र दुर्वाससमकल्मषम् ॥ १॥
॥ श्रीभगवानुवाच ॥ ॥
पराधीनोऽस्मि विप्रेन्द्र भक्त्या क्रीतोऽस्मि नान्यथा ॥
बलेरादेशकारी च दैत्येन्द्रवशगो ह्यहम्॥ २ ॥
तस्मात्प्रार्थय विप्रेन्द्र दैत्यं वैरोचनिं बलिम्॥
अस्यादेशात्करिष्यामि यदभीष्टं तवाधुना ॥ ३ ॥
तच्छ्रुत्वा वचनं विप्रो बलिं प्रोवाच सत्वरम् ॥
यज्वनां त्वं वरिष्ठश्च दातॄणां त्वं मतोऽधिकः ॥ ४ ॥
पारावारः कृपायाश्च दयां कुरु ममोपरि ॥
प्रेषयस्व महाभाग देवं दैत्यविनिग्रहे ॥ ५ ॥
संपूर्णनियमः स्नातस्त्वत्प्रसादाद्भवाम्यहम्॥
तच्छुत्वा वचनं दैत्यो नातिहृष्टमनास्तदा ॥
दुर्वाससमुवाचेदं नैतदेवं भविष्यति ॥ ६ ॥
अन्यत्प्रार्थय विप्रेन्द्र यत्ते मनसि वर्त्तते ॥
तद्दास्यामि न सन्देहो यद्यपि स्यात्सुदुर्लभम् ॥ ७ ॥
आत्मानमपि दास्यामि नाहं त्यक्ष्ये हरिं द्विज ॥
बहुभिः सुकृतैः प्राप्तं कथं त्यक्ष्यामि केशवम् ॥ ८ ॥
॥ दुर्वासा उवाच ॥ ॥
नातिलुब्धं हि मां विद्धि किमन्यत्प्रार्थयाम्यहम् ॥
रक्ष मे जीवितं दैत्य प्रेषयस्व जनार्द्दनम् ॥ ९ ॥
॥ बलिरुवाच ॥ ॥
जानासि त्वं यथा विप्र हिरण्याक्षं निपातितम् ॥
भूत्वा यज्ञवराहस्तु दधारोर्वीं बलाद्दिवि ॥ 7.4.19.१० ॥
यथा च दैत्यप्रवरमवध्यं दैत्यदानवैः ॥
हतवान्हिरण्यकशिपुं नृसिंहः सर्वगः प्रभुः ॥ ११ ॥
तथैव वृत्रं नमुचिं रक्षो लंकेश संज्ञकम् ॥
जघान मायया विष्णुः सुरार्थं सुरसत्तमः ॥ १२ ॥
प्रथमं वामनो भूत्वा ह्ययाचत पदत्रयम् ॥
पुनस्त्रिविक्रमो भूत्वा भुवनानि जहार मे ॥ १३ ॥
मया पुण्यवशाद्विष्णुर्यदि प्राप्तः कथञ्चन ॥
नाहं त्यक्ष्ये जगन्नाथं मायावामनकं प्रभुम् ॥ १४ ॥
॥ दुर्वासा उवाच ॥ ॥
नाहं भोक्ष्ये विना स्नानं गोमत्युदधिसंगमे ॥
यदि न प्रेष्यसि हरिं ततस्त्यक्ष्ये कलेवरम् ॥ १५ ॥
॥ बलिरुवाच ॥ ॥
यद्भाव्यं तद्भवतु ते यज्जानासि तथा कुरु ॥
ब्रह्मरुद्रेन्द्रनमितं नाहं त्यक्ष्ये पदद्वयम् ॥ १६ ॥
तदा विवदमानौ तौ दृष्ट्वा स जगदीश्वरः ॥
ब्रह्मण्यदेवः कृपया ब्राह्मणं तमुवाच ह ॥ १७ ॥
स्वस्थो भव द्विजश्रेष्ठ स्नापयिष्ये न संशयः ॥
हत्वा दैत्यगणान्सर्वान्गोमत्युदधिसंगमे ॥ १८ ॥
॥ प्रह्लाद उवाच ॥ ॥ ।
श्रुत्वा भगवतो वाक्यं ब्राह्मणं प्रति दैत्यराट् ॥
दृढं जग्राह चरणौ पतित्वा पादयोस्तदा ॥ १९ ॥
ततः समृद्धिमगमत्पादौ दत्त्वा बलेः प्रभुः ॥
शंखचक्रगदापाणिर्विष्णुर्दुर्वाससाऽन्वितः ॥ 7.4.19.२० ॥
प्रस्थितौ तौ तदा दृष्ट्वा दुर्वाससजनार्द्दनौ ॥
अनन्तः पुरुषो ऽगच्छन्मुशली च हलायुधः ॥ २१ ॥
मुशली चाग्रतोऽगच्छत्ततो विष्णुस्त्रिविक्रमः ॥
तयोरन्वगमद्विप्रा दुर्वासा भूतलाद्बहिः ॥ २२ ॥
भित्त्वा रसातलं सर्वे समुत्तस्थुस्त्वरान्विताः ॥
आविर्बभूवुस्तत्रैव गोमत्युदधिसंगमे ॥ २३ ॥
सन्नद्धौ दृढधन्वानौ संकर्षणजनार्दनौ ॥
ऊचतुस्तौ तदा विप्रं कुरु स्नानं यदृच्छया ॥ २४ ॥
तयोस्तु वचनं श्रुत्वा स्नानं चक्रे त्वरान्वितः ॥
स्नात्वा चावश्यकं कर्म कर्तुमारभत द्विजः ॥ २५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये चक्रतीर्थे कृष्णबलरामदुर्वासससमागमपूर्वकं दुर्वाससः स्नानाद्याह्निकविधिविधान- वर्णनंनामैकोनविंशतितमोऽध्यायः ॥ ॥ १९ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 20
॥ प्रह्लाद उवाच ॥ ॥
ब्रह्मघोषध्वनिं श्रुत्वा दानवो दुर्मुखस्तदा ॥
क्रोधसंरक्तनयनो दुर्वाससमथाब्रवीत् ॥ १ ॥
हन्यमानस्त्वमस्माभिर्यदि मुक्तोसि वै द्विज ॥
कस्मात्पुनः समायातो मरणाय च दुष्टधीः ॥ २ ॥
इत्युक्त्वा मुष्टिना हन्तुं प्राद्रवद्दानवाधमः ॥
प्राह प्रधावमानं तं दुर्वासा मुनिसत्तमः ॥ ३ ॥
स्पर्शं मा कुरु पापिष्ठ ब्राह्मणं मां कृताह्निकम् ॥
तं दृष्ट्वा दानवं विष्णुर्ब्राह्मणं हन्तुमुद्यतम् ॥ १३ ॥
तस्य क्रुद्धो जगन्नाथो दुर्वाससः कृते तदा ॥
चक्रेण क्षुरधारेण शिरश्चिच्छेद लीलया ॥ ५ ॥
॥ प्रह्लाद उवाच ॥ ॥
दुर्मुखं निहतं दृष्ट्वा दानवो दुःसहस्तदा ॥
आक्रोशदुच्चैर्दितिजाञ्छीघ्रमागम्यतामिति ॥६॥
श्रुत्वा दैत्यगणाः सर्वे दुर्मुखं निहतं तदा ॥
दुर्वाससं पुनस्तत्र परित्रातं च विष्णुना ॥ ॥ ७ ॥
कूर्मपृष्ठो गोलकश्च क्रोधनो वेददूषकः ॥
यज्ञघ्नो यज्ञहंता च धर्मान्तकस्तपस्विहा ॥ ८ ॥
एते चान्ये च बहवो विविधायुधपाणयः ॥ ॥
क्रोधसंरक्तनयनाः शपन्तो ब्राह्मणं तथा ॥ ९ ॥
परिक्षिप्य तदात्रेयं विष्णुं संकर्षणं तथा ॥
तोमरैर्भिन्दिपालैश्च मुशलैश्च भुशुंडिभिः ॥ 7.4.20.१० ॥
अस्त्रैर्नानाविधैश्चापि युयुधुः क्रोधमूर्छिताः ॥
दानवैः संवृतो विष्णुः समन्ताद्घोरदर्शनैः ॥ ११ ॥
संकर्षणश्च शुशुभे चंद्रादित्यौ घनैरिव ॥
गृहीत्वा धनुषी दिव्ये शीघ्रं संयोज्य चाशुगान् ॥ १२ ॥
तान्मार्गणगणैर्दैत्याञ्जघ्नतुस्ते महामृधे ॥
ते हन्यमानाः समरे विष्णुना विद्रुता दिशः ॥ १३ ॥
दानवान्विद्रुतान्दृष्ट्वा विष्णुना निहतान्परान् ॥
गोलकः कूर्मपृष्ठश्च मानं कृत्वा न्यवर्तताम् ॥ १४ ॥
संकर्षणं गोलकश्च ह्याजघान त्रिभिः शरैः ॥
अनन्तं व्यथितं दृष्ट्वा गोलकः क्रोधमूर्छितः ॥१५ ॥
उत्पत्य तरसा मूर्ध्नि दुर्वाससमताडयत् ॥
स मुष्टिघाताभिहतश्चुक्रोश पतितः क्षितौ ॥१६॥
संकर्षणस्तु पतितं दृष्ट्वा मूर्ध्नि प्रताडितम् ॥
दृष्ट्वा चुकोप भगवांस्तिष्ठतिष्ठेति चाब्रवीत् ॥
संगृह्य मुशलं वीरो जघान समरे रिपुम् ॥ १७ ॥
मुशलेनाहतो मूर्ध्नि गोलको विकलेन्द्रियः ॥
संभिन्नमस्तकश्चैव पपात च ममार च ॥ १८ ॥
गोलकं पतितं दृष्ट्वा क्रन्दंतं ब्राह्मणं तथा ॥
कूर्मपृष्ठं च भगवान्विष्णुर्हन्तुं मनो दधे ॥
नाराचेन सुतीक्ष्णेन जघान हृदये रिपुम् ॥ १९ ॥
स विष्णुबाणाभिहतस्त्यक्तशस्त्रः पलायितः ॥
तस्मिन्प्रभिन्नेऽतिबले गते वै कूर्मपृष्ठके ॥
अभज्यत बलं सर्वं विद्रुतं च दिशो दश ॥ 7.4.20.२० ॥
तत्प्रभग्रं बलं सर्वं निहतं गोलकं तथा ॥
द्वारस्थः कथयामास दैत्यराज्ञे कुशाय सः ॥ २१ ॥
गोलकं निहतं श्रुत्वा दैत्यानन्यांश्च दैत्यराट् ॥
योधानाज्ञापयामास सन्नद्धान्स्वबलस्य च ॥ २२ ॥
आज्ञां कुशस्य ते लब्ध्वा दैत्याः पंचजनादयः ॥
युद्धायाभिमुखाः सर्वे रथैर्नागैश्च निर्ययुः ॥ २३ ॥
अनीकं दशसाहस्रं कूर्मपृष्ठस्य निर्ययौ ॥
अयुते द्वे रथानां तु नागानामयुतं तथा ॥ २४ ॥
दशायुतानि चाश्वानामुष्ट्राणां च तथैव च ॥
बकश्च निर्ययौ दैत्यो बहुसैन्यसमन्वितः ॥ २५ ॥
तथा दीर्घनखो दैत्यः स्वेनानीकेन संवृतः ॥
मंत्रिपुत्रो महामायो दैत्यराज कुशस्य वै ॥
निर्ययौ विघसो दैत्यः प्रघसश्च महाबलः ॥ २६ ॥
ऊर्द्ध्वबाहुर्वक्रशिराः कञ्चुकश्च शिवोलुकैः ॥
ब्रह्मघ्नो यज्ञहा दैत्यो राहुर्बर्बरकस्तथा ॥ २७ ॥
सुनामा वसुनामा च मंत्रिणौ बुद्धिसत्तमौ ॥
सेनापतिश्चोग्रदंष्टस्तस्य भ्राता महाहनुः ॥ २८ ॥
एते चान्ये च बहवो दैत्याः क्रोधसमन्विताः ॥
महता रथघोषेण निर्ययुर्युद्धकांक्षिणः ॥ २९ ॥
स्नात्वा शुक्लांबरधरः शुक्लमालाविभूषितः ॥
कुशः शंभुं महादेवं भवानीपतिमव्ययम् ॥
आर्चयमास भूतेशं परमेण समाधिना ॥ 7.4.20.३० ॥
पंचामृतेन संस्नाप्य तथा गन्धैर्वि लिप्य च ॥
अर्चयामास दैत्येन्द्रो ह्यनेककुसुमोत्करैः ॥ ३१ ॥
गीतवादित्रशब्दैश्च तथा मंगलवाचकैः ॥
पूजयित्वा महादेवं ब्राह्मणान्स्वस्ति वाच्य च ॥ ३२ ॥
भूषयित्वा भूषणैश्च मणिवज्रविभूषणैः ॥
मुकुटेनार्कवर्णेन ज्वलद्भास्कररोचिषा ॥ ३३ ॥
भ्राजमानो दैत्यराजो हारेणाऽतीव शोभितः ॥
संनह्य च महाबाहुः सारथिं समुदैक्षत ॥ ३४ ॥
सुनामानं वसुं चैव मंत्रिणौ वाक्यमब्रवीत् ॥
कश्चायमसुरान्हंति किमर्थं ज्ञायतामिति ॥ ॥ ३५ ॥
तस्य तद्वचनं श्रुत्वा रुरुर्वचनमब्रवीत् ॥
गतेह्नि ब्राह्मणः स्नातुं गोमत्याः संगमे किल ॥ ३६ ॥
आगतः प्रतिषिद्धः सन्दैत्यैस्तत्र मही पते ॥
तेन विष्णुः समानीतः संकर्षणसमन्वितः ॥ ३७ ॥
सोऽस्मान्हंति महाराज ब्रह्मण्यो जगदीश्वरः ॥
तेन ते बहवो दैत्या हताः केचित्पलायिताः ॥ ३८ ॥
॥ सुनामोवाच ॥ ॥
स्नात्वा गच्छतु विप्रोऽसौ वासुदेवसमन्वितः ॥
राजन्वृथा विग्रहेण किं कार्यं कथयस्व नः ॥ ३९ ॥
तस्य तद्वचनं श्रुत्वा कुशः क्रोधसमन्वितः ॥
कथं गोलकहंतारं न हनिष्यामि केशवम् ॥7.4.20.४०॥
एतावदुक्त्वा स क्रुद्धो ययौ दैत्यपतिस्तदा ॥
ततो वादित्र शब्दैश्च भेरीशब्दैः समन्वितः ॥ ४१ ॥
ददर्श तत्र देवेशं सहस्रशिरसं प्रभुम् ॥
तथा विष्णुं चक्रपाणिं दुर्वाससमकल्मषम् ॥ ४२ ॥
ईश्वरांशं च तं दृष्ट्वा न हन्तव्योऽयमीश्वरः ॥
विष्णुमुद्दिश्य तान्सर्वान्प्रेरयामास दानवान् ॥ ४३ ॥
नागैः पर्वतसंकाशै रथैर्जलदसन्निभैः ॥
अश्वैर्महाजवैश्चैव परिवव्रुः समंततः ॥ ४४ ॥
ततो युद्धं समभवद्देवयोर्दानवैः सह ॥
आच्छादितौ तौ ददृशुर्दैत्यैर्देवगणास्तदा ॥ ४५ ॥
ततो गृहीत्वा मुशलं हलं च बलवान्हली ॥
जघान दैत्यप्रवरान्कालानलयमोपमान् ॥ ४६ ॥
ते हन्यमाना दैतेया बलेन बलशालिना ॥
सर्वतो विद्रुता भग्नाः कुशमेव ययुस्तदा ॥ ४७ ॥
बकश्च यज्ञकोपश्च ब्रह्मघ्नो वेददूषकः ॥
महामखघ्नो जंभश्च राहुर्वक्रशिरास्तथा ॥४८॥
एते चान्ये च बहवः प्रवरा दानवोत्तमाः ॥
क्रोधसंरक्तनयना बिभिदुस्ते जनार्द्दनम् ॥ ४९ ॥
ततः क्रोधसमायुक्तौ संकर्षणजनार्दनौ ॥
चक्रलांगलघातेन जघ्नतुर्दानवोत्तमान् ॥ 7.4.20.५० ॥ ।
चक्रेण च शिरः कायाच्चिच्छेदाशु बकस्य वै ॥
चूर्णयामास मुशली यज्ञहंतारमेव च ॥ ५१ ॥
राहुं जघान चक्रेण तथान्यान्मुशलेन च ॥
ते हता हन्यमानाश्च भग्ना जग्मुर्दिशो दश ॥५२॥
कुशः स्वां वाहिनीं दृष्ट्वा विद्रुतां निहतां तथा ॥
क्रोधसंरक्तनयनः प्राह याहीति सारथिम् ॥५३॥
स तयोरंतिकं गत्वा नाम विश्राव्य चात्मनः ॥
उवाच कस्त्वं दैतेयान्मम हंसि गदाधर ॥ ५४ ॥
॥ श्रीवासुदेव उवाच ॥ ॥
यस्माद्विमुक्तिदं पुण्यं गोमत्युदधिसंगमम् ॥
रुद्धं दुरात्मभिः पापैस्तस्मात्ते निहता मया ॥ ५५ ॥
॥ कुश उवाच ॥ ॥
मां न जानासि चात्रस्थं कथं जीवन्प्रयास्यसि ॥
युध्यस्व त्वं स्थिरो भूत्वा ततस्त्यक्ष्यसि जीवितम् ॥ ५६ ॥
इत्युक्त्वा पंचविंशत्या ताडयामास केशवम् ॥
अनंतं चाष्टभिर्बाणैर्हत्वाऽऽत्रेयं निरीक्ष्य तम् ॥
ईश्वरांशं च तं दृष्ट्वा प्राह याहीति मा चिरम् ॥ ५७ ॥
स बाणैर्भिन्नसर्वांगः शार्ङ्गं हि धनुषां वरम् ॥
विकृष्य घातयामास चतुर्भिश्चतुरो हयान् ॥ ५८ ॥
सारथेस्तु शिरः कायादर्द्धचंद्रेण पत्त्रिणा ॥
चिच्छेद धनुरेकेन ध्वजमेकेन चिच्छिदे ॥ ५९ ॥
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥
प्रगृह्य च महाखङ्गमुवाच वचनं तदा ॥ 7.4.20.६० ॥
यदि त्वां पातयिष्यामि कीर्तिर्मे ह्यतुला भवेत् ॥
पातितोऽहं त्वया वीर यास्यामि परमां गतिम् ॥ ६१ ॥
तिष्ठतिष्ठ हरे स्थाने शरणं मे सदाशिवः ॥
धावंतमतिसंक्रुद्धं खङ्गहस्तं निरीक्ष्य तम् ॥
चक्रेण शितधारेण शिरश्चिच्छेद लीलया ॥ ६२ ॥
तं छिन्नशिरसं भूमौ पतितं वीक्ष्य दानवम् ॥
अथोवाह रथेनाजौ दैत्यः खंजनकस्तथा ॥ ६३ ॥
अपयाते कुशे दैत्ये विष्णुः संकर्षणस्तदा ॥
दुर्वाससा च सहितः संन्यवर्तत हर्षितः ॥ ६४ ॥
शिवालये तु पतितं कुशं निक्षिप्य दानवः ॥
स्नानगन्धार्चनैर्धूपैर्गीतवाद्यैरतोषयत् ॥ ६५ ॥
अवाप जीवितं सद्यः प्रसादाच्छंकरस्य च ॥
उत्थितः स तदा दैत्यो ब्रुवञ्छिवशिवेति च ॥ ६६ ॥
तं पुनर्जोवितं दृष्ट्वा दैत्यं दैत्यगणस्तदा ॥
उवाच सुमना वाक्यं वर्द्धस्व सुचिरं विभो ॥६७॥
स्नापयित्वा यदि पुनर्ब्राह्मणं विनिवर्त्तते ॥
यथेष्टं गच्छतु तदा किं वृथा विग्रहेण ते ॥ ६८ ॥
तस्य तद्वचनं श्रुत्वा कुशो वचनमब्रवीत् ॥
गच्छ प्रेषय तौ शीघ्रं विप्रत्राणकरावुभौ ॥ ६९ ॥
स च राज्ञा समादिष्ट सुमना मुनिसत्तमाः ॥
उवाच विष्णुमानम्य नमस्कृत्य हलायुधम् ॥ 7.4.20.७० ॥
कुशेन प्रेषितश्चास्मि समीपे ते जनार्दन ॥
किं तवापकृतं नाथ येन दैत्याञ्जिघांससि॥ ७१॥
दुर्वाससं स्नापयित्वा गच्छ मुक्तोऽसि मानद ॥
अमरत्वं महादेवात्प्राप्तं विद्धि कुशेन हि ॥ ७२ ॥ ॥
॥ श्रीविष्णुरुवाच ॥ ॥
मुक्तितीर्थमिदं रुद्धं भवद्भिः पापकर्मभिः ॥
तस्माद्धनिष्ये सर्वांश्च दानवान्नात्र संशयः ॥७३॥
दुर्वाससश्च ये दर्भास्तिलाश्चैवाक्षतैः सह ॥
पुनस्तानानयध्वं हि क्षिप्ता ये वरुणालये ॥ ७४ ॥
सवाहनपरीवाराः सजातिकुलबांधवाः ॥
पुण्यतीर्थमिदं हित्वा प्रविशध्वं धरातले ॥ ७५ ॥
सुमनास्तद्वचः श्रुत्वा क्रोधसंरक्तलोचनः ॥
युध्यध्वमिति तं चोक्त्वा नैतदेवं भविष्यति ॥ ७६ ॥
कुशाय कथयामास यदुक्तं शार्ङ्गधन्विना ॥
क्रुद्धस्तद्वचनं श्रुत्वा मंत्रिणा समुदीरितम् ॥ ७७ ॥
रथमारुह्य वेगेन ययौ योद्धुमरिंदमः ॥
संस्मृत्य मनसा देवं पिनाकिं वृषभध्वजम् ॥ ७८ ॥
ततः प्रववृते युद्धं सुमहल्लोमहर्षणम् ॥
अन्येषां दानवानां च केशवस्य कुशस्य च ॥ ७९ ॥
यज्ञघ्नो गदया गुर्व्या संकर्षणमताडयत् ॥
संकर्षणहतः शीर्ष्णि मुसलेन पपात ह ॥ 7.4.20.८० ॥
कञ्चुकं च जघानाशु चक्रेण भगवान्हरिः ॥
उल्मुकश्चाथ निहतो ब्रह्मघ्नश्च निपातितः ॥ ॥ ८१ ॥
एते चान्ये च बहवो घातिताः केशवेन हि ॥
दानवान्पतितान्दृष्ट्वा कुशः परमकोपितः ॥८२॥
जघान युधि संरब्धः परमास्त्रेण केशवम् ॥
भगवान्क्रोधसंयुक्तश्चक्रेण चाहरच्छिरः ॥ ८३ ॥
तं छिन्नशिरसं भूमौ पातितं वीक्ष्य केशवः ॥
चिच्छेद बाहू पादौ च खङ्गेन तिलशस्तथा ॥८४॥
खंडशो घातितं दृष्ट्वा केशवेन कुशं तदा ॥
संगृह्य ते पुनर्देत्या निन्युः सर्वे शिवालयम् ॥ ८५ ॥
प्रसादाच्छूलिनः सद्यो जीवितं प्राप्य दानवः ॥
उत्थितः सहसा क्रुद्धः क्व विष्णुरिति चाब्रवीत् ॥ ८६ ॥
गदामुद्यम्य संक्रुद्धो योद्धुमागाज्जनार्द्दनम् ॥
तमुद्यतगदं दृष्ट्वा निहतं जीवितं पुनः ॥ ॥ ८७ ॥
दुर्वाससमथोवाच किमिदं न म्रियेत यत् ॥
मयाऽसकृच्छिरश्छिन्नं खंडशस्तिलशः कृतम् ॥ ८८ ॥
जीवत्ययं पुनः कस्मात्कारणं कथ यस्व नः ॥
इत्युक्तश्चिंतयामास ध्यानेन ऋषिसत्तमः ॥ ८९ ॥
ज्ञात्वा तत्कारणं सर्वमुवाच मधुसूदनम् ॥
महादेवेन तुष्टेन कुशोऽयममरः कृतः ॥ ॥ 7.4.20.९० ॥
खंडशश्च कृतश्चापि न च प्राणैर्वियुज्यते ॥
ततः स विस्मयाविष्टो हंतव्योऽयं मया कथम् ॥ ९१ ॥
उपायं च करिष्यामि येनायं न भवे दिति ॥
ततः स जीवितं प्राप्य प्रसादाच्छंकरस्य च ॥
चर्मखङ्गमथादाय तिष्ठतिष्ठेति चाब्रवीत् ॥ ९२ ॥
तमायांतं ततो दृष्ट्वा कुशं शिवपरिग्रहम् ॥
जघान गदया गुर्व्या गदाहस्तं तदा कुशम् ॥ ९३ ॥
स भिन्नमूर्द्धा न्यपतत्केशवेनाभिताडितः ॥
भूमौ निपतितं वेगात्परिगृह्य कुशं हरिः ॥ ॥ ९४ ॥
गर्ते निक्षिप्य तद्देहं पूरयामास वै पुनः ॥
लिंगं संस्थापयामास तस्योपरि जनार्द्दनः ॥ ९५ ॥
स लब्धसंज्ञो दनुजः शिवलिंगमपश्यत ॥
आत्मोपरिस्थितं तच्च तदा चिन्तापरोऽभवत्॥ ९६ ॥
इति श्रीस्कान्देमहापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये चक्रतीर्थे राक्षसकुशविष्णुयुद्धे कुशराक्षसोपरि विष्णुना शिवलिंगस्थापनवर्णनंनाम विंशतितमोऽध्यायः ॥ २० ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 21
॥ श्रीप्रह्लाद उवाच ॥ ॥
शिवलिगमलंघ्यं हि बुद्धिपूर्वं हतो ह्यहम् ॥
उवाच कृष्णं दनुजश्छलितोऽहं त्वयाऽनघ ॥ १ ॥
॥ श्रीविष्णु रुवाच ॥ ॥
परितुष्टोस्मि ते दैत्य शौर्येण शिवसंश्रयात् ॥
वरं वरय भद्रं ते यदिच्छसि महामते ॥ २ ॥
॥ कुश उवाच ॥ ॥
यथा पूज्यो महादेवो मम त्वं च तथा हरे ॥
एक एव द्विधामूर्तिस्तस्मात्त्वां वरयाम्यहम् ॥ ३ ॥
शिवलिंगं त्वया नाथ स्थापितं यन्ममोपरि ॥
मम नाम्ना भवतु च कुशेश्वर इति स्मृतम् ॥४॥
अनुग्राह्यो यद्यहं ते मम कीर्तिर्भवत्वियम् ॥
एवं भविष्यतीत्युक्तस्तत्रैवावस्थितोऽसुरः ॥ ५ ॥
ततोऽन्यदानवान्सर्वान्प्रेषयामास माधवः ॥
रसातलगता केचित्केचिद्विष्णुं समागताः ॥ ६ ॥
अनंतः संस्थितस्तत्र विष्णुश्च तदनंतरम् ॥
ज्ञात्वा विमुक्तिदं तीर्थं दुर्वासा मुनिपुंगवः ॥ ७ ॥
गोमत्यां चक्रतीर्थे च भगवांश्च त्रिविक्रमः ॥
तेन तन्मुक्तिदं मत्वा दुर्वासास्तत्र संस्थितः ॥ ८ ॥
एवं त्रिविक्रमः स्वामी तदाप्रभृति संस्थितः ॥
कलौ पुनः कलान्यासात्कृष्णत्वमगमत्प्रभुः ॥ ९ ॥
॥ प्रह्लाद उवाच ॥ ॥
पूजाविधिं हरेर्विप्राः शृणुध्वं सुसमाहिताः ॥
विशेषात्फलदः प्रोक्तः पूजितो मधुमाधवे ॥ 7.4.21.१० ॥
मधुसूदनीं नरो यस्तु द्वारवत्यां करोति च ॥
पूजयेत्कृष्णदेवं च स्नापयित्वा विलिप्य च ॥ ११ ॥
गन्धैश्च वाससाऽऽच्छाद्य धूपैर्दीपैरनेकधा ॥
नैवेद्यैर्भूषणैश्चैव तांबूलेन फलेन च ॥ १२ ॥
आरार्तिकेन संपूज्य दण्डवत्प्रणिपत्य च ॥
घृतेन दीपकं दत्त्वा रात्रौ जागरणं तथा ॥
कुर्य्याच्च गीतवादित्रैस्तथा पुस्तकवाचकैः ॥ १३ ॥
कृत्वा चैवं विधिं भक्त्या सर्वान्कामानवाप्नु यात् ॥ १४ ॥
तथा नभसि सम्पूज्य पवित्रारोपणेन च ॥
पितॄणां चाक्षया तृप्तिः सफलाः स्युर्मनोरथाः ॥ १५ ॥
प्रबोधवासरे प्राप्ते कार्तिके द्विज सत्तमाः ॥
संपूज्य कृष्णं देवेशं परां गतिमवाप्नुयात् ॥ १६ ॥
तथा नभस्ये संपूज्य पवित्रारोपणेन च ॥
सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति ॥ १७ ॥
युगादिषु च संपूज्य ह्ययने दक्षिणोत्तरे ॥
आषाढज्येष्ठमाघेषु पौषादिद्वादशीषु च ॥ १८ ॥
कलौ कृष्णं पूजयित्वा गोमत्युदधिसंगमे ॥
विमलं लोकमाप्नोति यत्र गत्वा न शोचति ॥ १९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये गोमतीतीरस्थ क्षेत्रस्थ भगवत्पूजामाहात्म्यवर्णनंनामैकविंशतितमोऽध्यायः ॥ २१ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 22
॥ श्रीप्रह्लाद उवाच ॥ ॥
शृणुध्वं द्विजशार्दूला यथावत्कथयामि वः ॥
स्नापयित्वा जगन्नाथं तथा गंधैर्विलिप्य च ॥
पूजयित्वा तुलस्या तु भूषयित्वा च भूषणैः ॥ १ ॥
नैवेद्येन च सन्तर्प्य तथा नीराजनादिभिः ॥
दुर्वाससं तथा पूज्य पुंडरीकाक्षमेव च ॥२॥
अनंतं वैनतेयादीन्भक्त्या सम्पूज्य मानवः ॥
दद्याद्दानं स्वशक्त्या च वित्तशाठ्यविवर्जितः ॥ ३ ॥
दीनांधकृपणांस्तत्र तर्पयेच्च समाश्रितान् ॥ ४ ॥
रुक्मिणीं च ततो गच्छेद्विदर्भतनयां नरः ॥
उपहृत्योपहारांश्च बलिभिर्गंधदीपकैः ॥ ५ ॥
पीडयंति ग्रहास्तावद्व्याधयोऽभिभवंति च ॥
भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ ॥ ६ ॥
उपसर्गभयं तावद्दुःखं च भूतसंभवम् ॥
भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ ॥ ७ ॥
भवेद्दरिद्री दुःखी च तावद्वै परयाचकः ॥
भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ ॥ ८ ॥
तावन्मृतप्रजा नारी दुर्भाग्या दुःखसंयुता ॥
भक्त्या न पश्यति यदा नारीकृष्णप्रियां तथा ॥ ९ ॥
तावच्छत्रुभयं पुंसां गृहभंगं च मूर्खता ॥
भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ॥7.4.22.१०॥
संपूज्य क्रृष्णं विधिवद्रुक्मिणीं पूजयेत्ततः ॥
स्नापयेद्दधिदुग्धाभ्यां मधुशर्करया तथा ॥ ११ ॥
घृतेन विविधैर्गन्धैस्तथैवेक्षुरसेन च ॥
तीर्थोदकेन संस्नाप्य सर्वान्कामानवाप्नुयात् ॥ १२ ॥
एवं यः स्नापये द्देवीं रुक्मिणीं क्रृष्णवल्लभाम् ॥
न तस्य दुर्ल्लभं किंचिदिह लोके परत्र च ॥ १३ ॥
श्रीखण्डकुंकुमेनैव तथा मृगमदेन च ॥
विलेपयेदपुत्रस्तु स पुत्रं लभते धुवम् ॥ १४ ॥
सदा स भोगी भवति रूपवाञ्जनपूजितः ॥
पूजयेन्मालतीपुष्पैः शतपत्रैः सुगन्धिभिः ॥ १५ ॥
करवीरैर्मल्लिकाभिश्च चम्पकैस्तु विशेषतः ॥
कमलैर्वारिसंभूतैः केतकीभिश्च पाटलैः ॥ १६ ॥
धूपेनागुरुणा चैव पूजयेद्गौग्गु लेन च ॥
वस्त्रैः सुकोमलैः शुभ्रैर्नानादेशसमुद्भवैः ॥ १७ ॥
भक्त्या संछाद्य वैदर्भीं रुक्मिणीं कृष्णवल्लभाम् ॥
भूषणैर्भूषयेद्देवीं मणिरत्न समन्वितैः ॥ १८ ॥
तस्मिन्कुले नाऽसुखः स्यान्नाऽधर्मो नाऽधनस्तथा ॥
नाऽपुत्रो न विकर्मस्थः कितवो नीचसेवकः ॥ १९ ॥
यैः पूजिता जगन्माता रुक्मिणी मानवैः कलौ ॥
नैवेद्यैर्भक्ष्यभोज्याद्यैर्देवी मे प्रीयतामिति ॥
तांबूलं च सकर्पूरं भावेन विनिवेदयेत् ॥ 7.4.22.२० ॥
गृहीत्वा च फलं शुभ्रं ह्यक्षतैश्च समन्वितम्॥
मन्त्रेणानेन वै विप्रा ह्यर्घ्यं दद्याद्विधानतः ॥ २१ ॥
कृष्णप्रिये नमस्तुभ्यं विदर्भाधिपनंदिनि ॥
सर्वकामप्रदे देवि गृहाणार्घ्यं नमोऽस्तु ते ॥ २२ ॥
आरार्तिकं ततः कुर्याज्ज्वलन्तं भावनान्वितः ॥
नीराजनं प्रकर्तव्यं कर्पूरेण विशेषतः ॥ २३ ॥
शंखे कृत्वा तु पानीयं भ्रामयेद्भावसंयुतः ॥
भ्रामयित्वा च शिरसा धारणीयं विशुद्धये ॥ २४ ॥
दण्डवत्प्रणमेद्भूमौ नमः कृष्णप्रियेति च ॥
विप्रपत्नीश्च विप्रांश्च पूजयेच्छक्तितो द्विजाः॥ २५ ॥
ग्रीवासूत्रकसिन्दूरैर्वासोभिः कञ्चुकैस्तथा ॥
सुगन्धकुसुमैरर्च्य कुंकुमेन विलिप्य च ॥ २६ ॥
कौसुंभकैः कज्जलेन तांबूलेन च तोषयेत् ॥
भक्ष्यैर्भोज्यैमोदकैश्च इक्षुभिर्मधुसर्पिभिः ॥ २७ ॥
प्रीतो भवति देवेशो रुक्मिण्या सह केशवः ॥
विशेषतः फलानीह दातव्यानि द्विजोत्तमाः ॥ २८ ॥
उन्मत्तकं ततो देवं द्वारपालं प्रपूजयेत् ॥
स्नापयित्वा सुगन्धेन कुंकुमेन विलिप्य च ॥ २९ ॥
धूपेन धूपयित्वा तु पुष्पाद्यैः संप्रपूजयेत ॥
नैवेद्यैर्भक्ष्यभोज्यैश्च मांसेन सुरया तथा ॥ 7.4.22.३० ॥
प्रभूतबलिभिश्चैव पिष्टेन विविधेन च ॥
योगिनीनां चतुःषष्टिं तस्मिन्पीठे प्रपूजयेत् ॥ ३१ ॥
अर्चयेद्धरसिद्धिं च क्षेत्रपालं च सर्वशः ॥
विरूपस्वामिनीं तत्र तथा वै सप्तमातरः ॥ ३२ ॥
अष्टमूर्तीः कृष्णपत्नीः पीठे तस्मिन्प्रपूजयेत् ॥
रुक्मिणीं सत्यभामां च शुभां जांबवतीं तथा ॥ ३३ ॥
मित्रविन्दां च कालिन्दीं भद्रां नाग्नजितीं तथा ॥
अष्टमीं लक्ष्मणां तत्र पूजयेत्कृष्णवल्लभाः ॥ ३४ ॥
एताः संपूज्य विधिवत्संतर्प्य दधिपायसैः ॥
गीतवादित्रघोषेण दीपैर्जागरणेन च ॥ ३५ ॥
पुत्र पौत्रसमायुक्तो धनधान्यसमन्वितः ॥
सर्वान्कामानवाप्नोति तस्य विष्णुः प्रसीदति ॥ ३६ ॥
किं तस्य वहुदानैस्तु किं व्रतैर्नियमैस्तथा ॥
येन दृष्टा जगन्माता रुक्मिणी कृष्णवल्लभा ॥ ३७ ॥
किं यज्ञैर्बहुभिस्तस्य संपूर्णवरदक्षिणैः ॥
येन दृष्टा जगन्माता रुक्मिणी कृष्णवल्लभा ॥ ३८ ॥
तेन दत्तं हुतं तेन जप्तं तेन सनातनम् ॥
येन दृष्टा जगन्माता रुक्मिणी कृष्णवल्लभा ॥३९॥
हेलया तेन संप्राप्ताः सिद्धयोऽष्टौ न संशयः ॥
गत्वा द्वारवतीं येन दृष्टा केशववल्लभा ॥ 7.4.22.४० ॥
सफलं जीवितं तस्य सफलाश्च मनोरथाः ॥
कलौ कृष्णपुरीं गत्वा दृष्ट्वा माधववल्लभाम् ॥ ४१ ॥
देव राज्येन किं तस्य तथा मुक्तिपदेन च ॥
न दृष्टा चेज्जगन्माता रुक्मिणी कृष्णवल्लभा ॥ ४२ ॥
तस्मात्सर्वप्रयत्नेन रुक्मिणी कृष्णवल्लभा ॥
सदाऽर्चनीया मनुजैर्द्रष्टव्या सर्वकामदा॥४३॥
विशेषतः पूजनीया नवरात्रे सदाश्विने ॥
नवम्यां तु नरैर्यैस्तु पूजिता हरिवल्लभा॥४१॥
स्नानगन्धादि वस्त्रैस्तु प्रभूतबलिभिस्तथा ॥
गीतवादित्रघोषेण दीपजागरणेन च ॥
तोषिता भीष्मकसुता सर्वान्कामान्प्रयच्छति ॥ ४५ ॥
तथा दीपोत्सवदिने चतुर्द्दश्यां समाहितः ॥
पूजयित्वा यथाशास्त्रमीप्सितं लभते फलम् ॥ ४६ ॥
माघमासे सिताष्टम्यां कन्दर्प्पजननी तु यैः ॥
पूजिता गन्धपुष्पाद्यैरुपहारैरनेकशः ॥
सफलं जीवितं तेषां सफलाश्च मनोरथाः ॥ ४७ ॥
द्वादश्यां चैत्रमासे तु कृष्णेन सह रुक्मिणीम् ॥
ये पश्यंति नरा देवीं रुक्मिणीं मधुमाधवे ॥
कृष्णेन सह गच्छन्तीं धन्यास्ते मानवा भुवि ॥४८॥
पुत्रपौत्रसमायुक्ता धनधान्यसमन्विताः॥
जीविते व्याधिनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ४९ ॥
ज्येष्ठाष्टम्यां नरैर्यैस्तु पूजिता कुष्णवल्लभा ॥
तेषां मनोरथावाप्तिर्जायते नात्र संशयः ॥ 7.4.22.५० ॥
तथा भाद्रपदे मासि मातुः पूजा कृता तु यैः ॥
सर्वपापविनिर्मुक्ता यांति विष्णुपदे नराः ॥ ५१ ॥
कार्त्तिके मासि द्वादश्यां रुक्मिणीं कृष्णसंयुताम् ॥
ये पश्यंति नरास्तेषां न भयं विद्यते क्वचित् ॥ ५२ ॥
यस्त्वेकत्र स्थितां पश्येद्रुक्मिणीं कृष्णसंयुताम् ॥
सफलं जीवितं तस्य ह्यक्षया पुत्रसंततिः ॥
अक्षयं धनधान्यं च कदा नैव दरिद्रता ॥ ५३ ॥
य एवं रुक्मिणीं पश्येत्पूजयेत्कृष्णवल्लभाम् ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ५४ ॥
यः स्नायात्सर्वतीर्थेषु दानं शक्त्या ददाति यः ॥
तस्य पुण्यफलं चैव लोके यज्जायते द्विजाः ॥
कथितं तदशेषेण कलौ कृष्णस्य संस्थितौ ॥ ५५ ॥
द्वारावतीं विना विप्रा मुक्तिर्न प्राप्यते कलौ ॥
पुराणसंहितामेतां कृतवान्बलिबन्धनः ॥
ददौ स तु प्रसादेन पूर्वं मह्यं द्विजोत्तमाः ॥ ५६ ॥
इहार्थे च पुरा प्रोक्तं इतिहासो द्विजोत्तमाः ॥
प्रद्युम्नेन सुसंवादे मार्कण्डेन महात्मना ॥ ५७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये रुक्मिणीपूजनमाहात्म्यवर्णनंनाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥ छ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 23
॥ मार्कंडेय उवाच ॥ ॥
द्वारकायाश्च माहात्म्यमिंद्रद्युम्न निबोध मे ॥
कलौ निवसते यत्र क्लेशहा रुक्मिणीपतिः ॥ १ ॥
कलौ कृष्णस्य माहात्म्यं ये शृण्वंति पठंति च ॥
न तेषां जायते वासो यमलोके युगाष्टकम् ॥ २ ॥
नित्यं कृष्णकथा यस्य प्राणादपि गरीयसी ॥
न तस्य दुर्ल्लभं किंचिदिह लोके परं नृप ॥ ३ ॥
मन्वंतरसहस्रैस्तु काशीवासेन यत्फलम् ॥
तत्फलं द्वारकावासे वसतां पंचभिर्दिनैः ॥ ४ ॥
कलौ निवसते यस्तु श्वपचो द्वारकां यदि ॥
यतीनां गतिमाप्नोति प्राह ह्येवं प्रजापतिः ॥५ ॥
द्वारकां गंतुकामं यः प्रत्यहं कुरुते नरः ॥
फलमाप्नोति मनुजः कुरुक्षेत्रसमुद्भवम् ॥ ६ ॥
सोमग्रहे च यत्प्रोक्तं यत्फलं सोमनायके ॥
दृष्ट्वा तत्फलमाप्नोति द्वारवत्यां जनार्द्दनम् ॥ ७ ॥
पुष्करे कार्त्तिकीं कृत्वा यत्फलं वर्षकोटिभिः ॥
तत्फलं द्वारकावासे दिनेनैकेन जायते ॥ ८ ॥
द्वारकायां दिनैकेन दृष्टे देवकिनंदने ॥
फलं कोटिगुणं ज्ञेयमत्र लक्षशतोद्भवम् ॥ ९ ॥
कलौ निवसतां भूप धन्यास्तेषां मनोरथाः ॥
कृष्णस्य दर्शने नित्यं द्वारकागमने मतिः ॥ 7.4.23.१० ॥
एकामपि द्वादशीं तु यः करोति नृपोत्तम ॥
कृष्णस्य सन्निधौ भूप द्वारकायाः फलं शृणु ॥ ११ ॥
धन्यास्ते कृतकृत्यास्ते ते जना लोकपावनाः ॥
दृष्टं कृष्णमुखं यैस्तु पापकोट्ययुतापहम् ॥ १२ ॥
यत्फलं व्रतसंयुक्तैर्वासरैः कृष्णसंयुतैः ॥
यज्ञैर्दानैर्बृहद्भिश्च द्वारकायां तथैकया ॥ १३ ॥
क्षीरस्नानं प्रकुर्वंति ये नराः कृष्ण मूर्धनि ॥
शताश्वमेधजं पुण्यं बिंदुना बिंदुना स्मृतम् ॥ १४ ॥
दधि क्षीराद्दशगुणं घृतं दध्नो दशोत्तरम् ॥
घृताद्दशगुणं क्षौद्रं क्षौद्राद्दशगुणोत्तरम् ॥। । १५॥
पुष्पोदकं च रत्नोदं वर्द्धनं च दशोत्तरम्॥
मंत्रोदकं च गंधोदं तथैव नृपसत्तम॥ १६ ॥
इक्षो रसेन स्नपनं शतवाजिमखैः समम्॥
तथैव तीर्थनीरं स फलं यच्छति भूमिप ॥१७ ॥
कृष्णं स्नानार्द्रगात्रं च वस्त्रेण परिमार्जति॥
तस्य लक्षार्जितस्यापि भवेत्पापस्य मार्जनम्॥ १८ ॥
स्नापयित्वा जगन्नाथं पुष्पमालावरोहणम् ॥
कुरुते प्रतिपुष्पं तु स्वर्णनिष्कायुतं फलम् ॥ १९ ॥
स्नानकाले तु देवस्य शंखादीनां तु वादनम् ।
कुरुते ब्रह्मलोके तु वसते ब्रह्मवासरम् ॥ 7.4.23.२० ॥
स्नानकाले स कृष्णस्य पठेन्नामसहस्रकम् ॥
प्रत्यक्षरं लभेत्प्रेष्टं कपिलागोशतोद्भवम् ॥ २१ ॥
फलमेतन्महीपाल गीतायाः परिकीर्तितम् ॥
गजेंद्रमोक्षणेनैवं स्तवराजेन कीर्त्तितम् ॥ २२ ॥
स्तवैर्ऋषिकृतैरन्यैः पठितैश्च नराधिप ॥
तोषमाप्नोति देवेशः सर्वान्कामान्प्रयच्छति ॥ २३ ॥
किं पुनर्वेदपाठं तु स्नानकाले करोति यः ॥
तस्य यल्लभते पुण्यं न ज्ञातं नरनायक ॥ २४ ॥
स्नान काले च संप्राप्ते कृष्णस्याग्रे तु नर्तनम् ॥
गीतं चैव पुनस्तत्र स्तवनं वदनेन हि ॥२५ ॥
स्नानकाले तु कृष्णस्य जयशब्दं करोति यः ॥
करताल समायुक्तं गीतनृत्यं करोति च ॥२६॥
तत्र चेष्टां प्रकुर्वाणो हसते जल्पतेऽपि वा ॥
मुक्तं तेन परं मातुर्योनियंत्रस्य निर्गमम् ॥ २७ ॥
नोत्तानशायी भवति मातुरंके नरेश्वर ॥
गुणान्पठति कृष्णस्य यः काले स्नानकर्मणः ॥ २८ ॥
चंदनागुरुमिश्रेण कंकुमेन सुगंधिना ॥
विलेपयति यः कृष्णं कर्पूरमृगनाभिना ॥
कल्पं तु भवने विष्णोर्वसते पितृभिः सह ॥२९॥
प्रत्येकं चंदनादीनामिंद्रद्युम्न न चान्यथा ॥
नानादेशसमुद्भूतैः सुवस्त्रैश्च सुकोमलैः ॥ 7.4.23.३० ॥
धूपयित्वा सुगंधैश्च यो धूपयति मानवः ॥
मन्वंतराणि वसते तत्संख्यानि हरेर्गृहे ॥३१॥
स्वशक्त्या देवदेवेशं भूषणैर्भूषयंति च ॥
हेमजैरतुलैः शुभ्रैर्मणिजैश्च सुशोभनैः ॥ ३२ ॥
तेषां फलं महाराज रुद्राश्च वासवादयः ॥ ३३ ॥
जानंति मुनयो नैव वर्जयित्वा तु माधवम् ॥
येऽर्चयंति जगन्नाथं कृष्णं कलिमलापहम् ॥
केतकीतुलसीपत्रैः पुष्पैर्मालतिसंभवैः ॥ ३४ ॥
तद्देशसंभवैश्चान्यैर्भूरिभिः कुसुमैर्नृप ॥
एकैकं नृप शार्दूल राजसूयसमं स्मृतम् ॥ ३५ ॥
ये कुर्वंति नराः पूजां स्वशक्त्या रुक्मिणीपतेः ॥
क्रीडंति विष्णुलोके ते मन्वतरशतं नराः ॥ ३६ ॥
यः पुनस्तुलसीपत्रैः कोमलमंजरीयुतैः ॥
पूजयेच्छ्रद्धया यस्तु कृष्णं देवकिनंदनम् ॥ ३७ ॥
या गतिर्योगयुक्तानां या गतिर्योगशालिनाम् ॥
या गतिर्दानशीलानां या गतिस्तीर्थसेविनाम् ॥ ३८ ॥
या गतिर्मातृभक्तानां द्वादशीं वेधवर्जिताम् ॥
कुर्वतां जागरं विष्णोर्नृत्यतां गायतां फलम् ॥३९॥
वैष्णवानां तु भक्तानां यत्फलं वेदवादिनाम् ॥
पठतां वैष्णवं शास्त्रं वैष्णवानां तु यच्छताम् ॥ 7.4.23.४० ॥
तुलसीमालया कृष्णः पूजितो रुक्मिणी पतिः ॥
फलमेतन्महीपाल यच्छते नात्र सशयः ॥ ४१ ॥
यथा लक्ष्मीः प्रिया विष्णोस्तुलसी च ततोऽधिका ॥
द्वारकायां समुत्पन्ना विशेषेण फलाधिका ॥ ४२ ॥
यत्र तत्र स्थितो विष्णुस्तुलसीदलमालया ॥
पूजितो द्वारकातुल्यं पुण्यं स यच्छते कलौ ॥ ४३ ॥
योऽर्चयेत्केतकीपत्रैः कृष्णं कलिमलापहम् ॥
पत्रेपत्रेऽश्वमेधस्यफलं यच्छति भूभुज ॥४४॥
योऽर्चयेन्मालतीपुष्पैः कृष्णं त्रिभुवनेश्वरम् ॥
तेनाप्तं नास्ति संदेहो यत्फलं दुर्लभं हरेः ॥ ४५ ॥
ऋतुकालोद्भवैः पुष्पैर्योऽर्चयेद्रुक्मिणीपतिम् ॥
सर्वान्कामानवाप्नोति दुर्लभान्देवमानुषैः ॥ ४६ ॥
कृष्णेनागुरुणा कृष्णं धूपयंति कलौ युगे ॥
सकर्पूरेण राजेन्द्र कृष्णतुल्या भवंति ते ॥ ४७ ॥
साज्येन गुग्गुलेनापि सुगंधेन जनार्द्दनम् ॥
धूपयित्वा नरो याति पदं भूयः सदा शिवम् ॥ ४८ ॥
यो ददाति महीपाल कृष्णस्याग्रे तु दीपकम् ॥
पातकं तु समुत्सृज्य ज्योतीरूपं लभेत्पदम् ॥ ४९ ॥
द्वारे कृष्णस्य यो नित्यं दीपमालां करोति हि ॥
सप्तद्वीपवतीराज्यं द्वीपेद्वीपे फलं लभेत् ॥ 7.4.23.५० ॥
नैवेद्यानि मनोज्ञानि कृष्णाय विनिवेदयेत् ॥
कल्पांतं तत्पितॄणां हि तृप्तिर्भवति शाश्वती ॥ ५१ ॥
फलानि यच्छते यो वै सुहृद्यानि नरेश्वर ॥
जायंते तस्य कल्पांतं सफलास्तु मनोरथाः ॥ ५२ ॥
तांबूलं तु सकर्पूरं सपूगं नरनायक ॥
कृष्णाय यच्छते यो वै पदं तस्याग्निदैवतम् ॥ ५३ ॥
सनीरं कर्पुरोपेतं कुंभं कृष्णाग्रतो न्यसेत् ॥
कल्पांते न जलापेक्षां कुर्वंति च पितामहाः ॥५४॥
व्यजनेनाथ वस्त्रेण सुभक्त्या मातरिश्वना ॥
देवदेवस्य राजेन्द्र कुरुते धर्मवारणम्॥५९॥
तत्कुले नास्ति पापिष्ठो न च लोके यमस्य च ॥
वायुलोकान्महीपाल न पुनर्विद्यते गतिः॥५६॥
कृष्णवेश्मनि यः कुर्य्यात्सधूपं पुष्पमंडपम् ॥
सपुष्पकविमानैस्तु क्रीडते कोटिभिर्द्दिवि॥५७॥
चलच्चामरवातेन कृष्णं यस्तोषयेन्नरः ॥
तस्योत्तमांगं देवेशश्चुंबते स्वमुखेन हि ॥५८॥
यः कुर्यात्कृष्णभवनं कदलीस्तंभशोभितम् ॥ ॥
वसत्यर्कलोके तु यावद्वसति मेदिनी ॥ ५९ ॥
धूपं चंदनमालां तु कुरुते कृष्णसद्मनि ॥
देवकन्यायुतैर्लक्षैः सेव्यते सुरनायकैः ॥ 7.4.23.६० ॥
ध्वजमारोपयेद्यस्तु प्रासादोपरि भक्तितः ॥
तस्य ब्रह्मपदे वासः क्रीडते ब्रह्मणा सह ॥ ६१ ॥
प्रांगणं वर्णकोपेतं स्वस्तिकैश्च समन्वितैः ॥
देवदेवस्य कुरुते क्रीडते भुवनत्रये॥६२॥
यो दद्यान्मण्डपे पुष्पप्रकरं रुक्मिणीपतेः॥
देवोद्यानेषु सर्वेषु क्रीडते नरनायकैः॥६३॥
प्रासादे देवदेवस्य चित्रकर्म करोति यः॥
वसते रुद्रलोके तु यावत्तिष्ठंति सागराः॥६४॥
दद्याच्चन्द्रमयं यस्तु कृष्णोपरि नरेश्वर॥
वसते द्वारकां यावत्सोमलोके स तिष्ठति ॥६५ ॥
छत्रं बहुशलाकं तु किंकिणीवस्रगुण्ठितम् ॥
दिव्यरत्नैश्च संयुक्तं हेमदण्डसमन्वितम् ॥ ६६ ॥
समर्पयति कृष्णाय च्छत्रं लक्षार्बुदैर्वृतम् ॥
अमरैः सहितः सर्वैः क्रीडते पितृभिः सह ॥ ६७ ॥
दद्यान्नरविमानं तु कृष्णाय नरनायक ॥
सत्कृतो धनदेनैव वसते ब्रह्मवासरम् ॥ ६८ ॥
कृता पूजा दिकं भूप ज्वलंतं कृष्णमूर्द्धनि ॥
आरार्तिकं प्रकुर्वाणो मोदते कृष्णसन्निधौ ॥ ६९ ॥
दीप्तिमंतं सकर्पूरं करोत्यारार्तिकं नृप ॥
कृष्णस्य वसते लोके सप्तकल्पानि मानवः ॥ 7.4.23.७० ॥
धृत्वा शंखोदकं यस्तु भ्रामयेत्केशवोपरि ॥
संनिधौ वसते विष्णोः कल्पांतं क्षीरसागरे ॥ ७१ ॥
एवं कृत्वा तु कृप्णस्य यः करोति प्रदक्षिणाम् ॥
पठन्नामसहस्रं तु स्तवमन्यं पठन्नृप ॥
सप्तद्वीपवतीपुण्यं लभते तु पदेपदे ॥ ७२ ॥
कुर्य्याद्दण्डनमस्कारमश्वमेधायुतैः समम् ॥
कृष्णं संतोषयेद्यस्तु सुगीतैर्मधुरैः स्वरैः ॥
सामवेदफलं तस्य जायते नात्र संशयः ॥ ७३ ॥
यो नृत्यति प्रहृष्टात्मा भावैर्बहु सुभक्तितः ॥
स निर्द्दहति पापानि मन्वंतरकृतान्यपि ॥ ७४ ॥
यः कृष्णाग्रे महाभक्त्या कुर्य्यात्पुस्तकवाचनम् ॥
प्रत्यक्षरं लभेत्पुण्यं कपिलाशतदानजम् ॥ ।७५॥
ऋग्यजुःसामभिर्वाग्भिः कृष्णं संतोषयंति ये ॥
कल्पांतं ब्रह्मलोके तु ते वसंति द्विजोत्तमाः ॥ ७६ ॥
योगशास्त्राणि वेदांता न्पुराणं कृष्णसन्निधौ ॥
पठंति रविबिंबं ते भित्त्वा यांति हरेर्लयम् ॥ ७७ ॥
गीता नामसहस्रं तु स्तवराजो ह्यनुस्मृतिः ॥
गजेन्द्रमोक्षणं चैव कृष्णस्यातीव वल्लभम् ॥ ७८ ॥
श्रीमद्रागवतं यस्तु पठते कृष्णसन्निधौ ॥
कुलकोटिशतैर्युक्तः क्रीडते योगिभिः सदा ॥ ७९ ॥
यः पठेद्रामचरितं भारतं व्यासभाषितम् ॥
पुराणानि महीपाल प्राप्तो मुक्तिं न संशयः ॥7.4.23.८०॥
द्वादशीवासरे प्राप्त एवं कुर्वंति ये नराः ॥
गीताद्यैः शतसाहस्रं पुण्यं यच्छति केशवः ॥ ८१॥
जागरे कोटिगुणितं पुण्यं भवति भूभिप ॥
वसतां द्वारकावासात्प्रत्यहं लभते फलम् ॥८२॥
गोमतीनीरपूतानां कृष्णवक्त्रावलोकि नाम् ॥
दर्शनात्पातकं तेषां याति वर्षशतार्जितम् ॥८३॥
धन्यास्ते मानुषे लोके गोमत्युदधिवारिणा॥
तर्पयंति पितॄन्देवान्गत्वा द्वारवतीं कलौ ॥ ॥८४॥
गंगाद्वारे प्रयागे च गंगायां कुरुजांगले ॥
प्रभासे शुक्लतीर्थे च श्रीस्थले पुष्करेऽपि च ॥८५॥
स्नानेन पिंडदानेन पितॄणां तर्पणे कृते ॥
तृप्तिर्भवति भूपाल तथा गोमतिदर्शनात् ॥८६॥
योजनैर्बहुभिस्तिष्ठन्गोमतीति च यो वदेत् ॥
चांद्रायणसहस्रस्य फलमाप्नोति यत्नतः ॥ ८७ ॥
धन्या द्वारवती लोके वहते यत्र गोमती ॥
स्वयं तु तिष्ठते यत्र नित्यं रुक्मिणिवल्लभः ॥८८॥
न स्नाता गोमतीतीरे कलौ पापेन मोहिताः ॥
भविष्यति कथं तेषां पापबंधस्य संक्षयः ॥ ८९ ॥
निर्मिता स्वर्गनिःश्रेणी कलौ कृष्णेन गोमती ॥
मनसः प्रीतिजननी जंतूनां नरसत्तम ॥ 7.4.23.९० ॥
न दृश्यं स्वर्गसोपानं दृश्यते गोमतीसमम्॥
सुखदं पापिनां पुंसां स्नानमात्रेण मोक्षदम् ॥ ९१ ॥
गोमतीनीरसंयुक्तो यत्र गर्जति सागरः ॥
तत्र गच्छेन्नरव्याघ्र कृष्णस्तिष्ठति यत्र वै॥ ९२ ॥
यत्र चक्रांकितशिला गोमत्युदधिनिःसृताः ॥
यच्छंति पूजिता मोक्षं तां पुरीं को न सेवते ॥ ९३ ॥
यत्र चक्रांकिता मृत्स्ना तिष्ठते निर्मला नृप ॥
कलौ पापविनाशार्थं तां पुरीं को न सेवते ॥ ९४ ॥
अप्रदृश्या पुरा लोके दैत्यदानवरक्षसाम् ॥
शरण्या देवतादीनां पुरीं तां को न सेवते ॥ ९५ ॥
त्यजते यां कलौ नैव कृष्णो देवकिनन्दनः ॥
कर्मणा मनसा वाचा तां पुरीं को न सेवते ॥ ९६ ॥
॥ मार्कंडेय उवाच ॥ ॥
शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥
यां श्रुत्वा मुच्यते नूनं दुःखसंसार बंधनात् ॥ ९७ ॥
अवन्तीविषये पूर्वं ब्राह्मणो वेदपारगः ॥
चंद्रशर्मेति विख्यातः शिवभक्तः सदा नृप ॥ ९८ ॥
मनसा कर्मणा वाचा नान्यं ध्याति सदाशिवात् ॥
शैवाद्व्रताद्व्रतं नान्यत्करोति च नराधिप ॥ ९९ ॥
नोपवासं हरिदिने कुरुते न व्रतं हरेः ॥
विना चतुर्दशीं राजन्नान्यदेवसमुद्भवम् ॥ 7.4.23.१०० ॥
यत्रयत्र शिवक्षेत्रं यत्र तीर्थं तु शांकरम् ॥
तत्र गच्छति राजेन्द्र वैष्णवं नैव गच्छति ॥ १०१ ॥
प्रतिवर्षं तु कुरुते सोमनाथस्य दर्शनम् ॥
न जहाति विशेषेण सोमपर्व नरेश्वर ॥ १०२ ॥
एवं प्रकुर्वतस्तस्य वर्षाणि नवसप्ततिः ॥
गतानि किल राजेन्द्र शिवभक्तिं प्रकुर्वतः॥१०३॥
कदाचित्सोमपर्वण्यागते सोमोपनायकम्॥
नानादेशान्महीपाल ह्यसंख्याताश्च मानवाः॥ १०४॥
गताः कृष्णपुरीं सर्वे दृष्ट्वा सोमेश्वरं प्रभुम्॥
आहूतस्तैश्चंद्रशर्मा न गतो द्वारकां पुरीम्॥१०५॥
शिवक्षेत्रात्परं तीर्थं नाहं मन्ये जग त्त्रये ॥
नान्यदेवो मया ज्ञात ईश्वराद्देवनायकात् ॥ १०६ ॥
विनाऽन्ये चंद्रशर्माणं गतास्ते द्वारकां पुरीम् ॥
अन्यस्मिन्दिवसे राजन्गच्छतः स्वगृहं प्रति ॥
चक्रुस्ते दर्शनं स्वप्ने चंद्रशर्मपितामहाः ॥ १०८ ॥
प्रेतभूता महाकायाः क्षुत्क्षामाश्चैव भीषणाः ॥
दृष्ट्वा स्वप्नं महा रौद्रं भीतोऽसौ च प्रकंपितः ॥ १०९ ॥
॥ चन्द्रशर्मोवाच ॥ ॥
के यूयं विकृताकारा जंतूनां च भयानकाः ॥
पृथ्वीसमुद्भवा जीवा न दृष्टा न श्रुता मया ॥ 7.4.23.११० ॥
॥ प्रेता ऊचुः ॥ ॥
मा भयं कुरु विप्रेंद्र तव पूर्वपितामहाः ॥
आगतास्त्वत्समीपे तु महादुःखेन पीडिताः ॥ १११ ॥ ॥
॥ चन्द्रशर्मोवाच ॥ ॥
इष्टं दत्तं तपस्तप्तं भवद्भिर्मत्पितामहैः ॥
प्रेतत्वे कारणं यत्स्याद्भवतां विस्मयो मम ॥११२॥
॥ प्रेता ऊचुः ॥ ॥
शृणु पुत्र प्रवक्ष्यामः प्रेतयोनेस्तु कारणम् ॥
वासरं वासुदेवस्य सदा विद्धं कृतं पुरा ॥ ११३ ॥
प्रेतत्वं तेन संप्राप्तमस्माभिः शृणु पुत्रक ॥
विशेषेण कृतं रात्रौ विद्धं जागरणं हरेः ॥ ११४ ॥
पतनं नरके घोरे भविष्यति न संशयः ॥
त्वया सह न संदेहो यावदाभूतसंप्लवम् ॥ ११५ ॥
चन्द्रशर्मोवाच ॥ ॥
हरिभक्तिविहीनानां द्वादशीव्रतवर्जिनाम्॥
नाशं न याति प्रेतत्वं पूजितैः शंकरादिभिः ॥११६॥
न वा सन्तोषितो देवो भक्त्या त्रिपुरनाशनः ॥
प्रदास्यति गतिं नूनं प्रेतत्वं न गमिष्यति ॥ ११७ ॥
॥ प्रेता ऊचुः ॥ ॥
प्रायश्चित्तं विना पुत्र द्वादशीवेधसंभवम् ॥
आपन्न गच्छते नूनं प्रेतत्वं नैव गच्छति ॥ ११८ ॥
प्रायश्चित्ती सदा पुत्र पूजयानोऽपि शंकरम् ॥
विना केशवपूजाभिः पापं भजति गोवधम् ॥ ११९ ॥
प्रथमं केशवः पूज्यः पश्चाद्देवो महेश्वरः ॥
पूजनीयाश्च भक्त्या वै याश्चान्याः संति देवताः ॥ 7.4.23.१२० ॥
मूलाच्छाखाः प्रशाखाश्च भवंति बहुशस्ततः ॥
वासुदेवात्समुद्भूतं जगदेतच्चराचरम्॥ १२१ ॥
तस्मान्मूलं परित्यज्य शाखां नैवार्चयेद्बुधः ॥
विशेषेण जगन्नाथं त्रैलोक्याधिपतिं हरिम् ॥ १२२॥
तद्दिने ये प्रकुर्वंति सम्यग्वेधेन शोभितम् ॥
सशल्यं तन्न संदेहः प्रेतत्वं याति तेन च ॥ १२३ ॥
हव्यं देवा न गृह्णन्ति कव्यं च पितरस्तथा ॥
पूजां गृह्णाति नो सूर्यस्तथा चैव पितामहाः ॥ १२४ ॥
प्रेतास्ते ये प्रकुर्वंति सशल्यं वासरं हरेः ॥
पौर्णमासीद्वये प्राप्ते राका साग्निविवर्जिता ॥ १२५ ॥
विशेषेण तु वैशाखी श्राद्धादीनां प्रशस्यते ॥
वैशाखे तु तृतीयां वै पूर्वविद्धां करोति यः ॥ १२६ ॥
हव्यं देवा न गृह्णंति कव्यं चैव पितामहाः॥
यत्र देवा न गृह्णंति कथं तत्र पितामहाः ॥
तस्मात्कार्य्या तृतीया च पूर्वविद्धा बुधैर्नरैः ॥ १२७ ॥
कुर्वते यदि मोहाद्वा प्रेतत्वं शाश्वतं ततः ॥
नापयाति कृतैः पुण्यैर्बहुशस्तीर्थसेवनैः ॥ १२८ ॥
दशमीं पौर्णमासीं च पित्रोः सांवत्सरं दिनम् ॥
पूर्वविद्धं प्रकुर्वाणो नरकं प्रतिपद्यते ॥ १२९॥
दर्शश्च पौर्णमासी च साग्निकैः पूर्वसंयुता ॥
नाग्निहीनैस्तु कर्त्तव्या पुनराह प्रजापतिः ॥7.4.23.१३०॥
क्षयाहे तु पुनः प्रोक्ता स्वकालव्यापिनी तिथिः ॥
श्राद्धं तत्र प्रकर्तव्यं ह्रासवृद्धी न कारणम् ॥ १३१ ॥
तत्रोक्तं मनुना पुत्र वेदांतैर्भाष्यकारिभिः ॥
तत्प्रमाणं प्रकर्तव्यं प्रेतत्वं भवतोऽन्यथा ॥ ॥ १३२ ॥
एतै. प्रकारैः प्रेतत्वं प्राणिनां जायते भुवि ॥
निरीक्ष्य धर्मशास्त्राणि कार्य्यं विहितमात्मनः ॥ १३३ ॥
प्रणम्य सोमनाथं तु यात्रां कृत्वा न गच्छति ॥
कृष्णस्य दर्शनार्थाय तस्य किं जायते फलम् ॥ १३४ ॥
कथ्यते परमा मूर्तिर्हरिरीश्वरसं संस्थिता॥
विभेदो नात्र कर्तव्यो यथा शंभुस्तथा हरिः॥ १३५॥
कृष्णस्य सोमनाथस्य नांतरं दृश्यते क्वचित्॥
यात्रा श्रीसोमनाथस्य संपूर्णा कृष्णदर्शनात्॥ १३६॥
तस्मादुभयतः पुत्र गन्तव्यं नात्र संशयः॥
दृष्ट्वा सोमेश्वरं देवं गंतव्यं द्वारकां प्रति॥ १३७॥
प्रभासे सोमनाथस्य लिंगमध्ये व्यवस्थितः ॥
स्वयं तिष्ठति पुण्यात्मा भोगं गृह्णाति केशवः ॥ १३८ ॥
दृष्ट्वा सोमेश्वरं देवं द्वारकां न नरो गतः ॥
पतनं नरके घोरे पितॄणां च भविष्यति ॥ १३९ ॥
विशेषेण त्वया वत्स न कृतं द्वादशीव्रतम् ॥
व्रतं कृतं यदस्माभिस्तत्कृतं वेधसंयुतम् ॥
निर्गमं यमलोकाद्धि तदस्माकं न दृश्यते ॥ 7.4.23.१४० ॥
॥ चन्द्रशर्मोवाच ॥ ॥
यदि तात मयाऽज्ञानान्न कृतं द्वादशीव्रतम् ॥
कस्मात्कृतं सशल्यं तु भवद्भिर्द्वादशीव्रतम् ॥ १४१ ॥
॥ प्रेता ऊचुः ॥ ॥
कुविप्रैस्तु कुदैवज्ञैः शुक्रमायाविमोहितैः ॥
पारुष्यताहेतुकैश्च प्रेतयोनिमिमां गताः ॥ ॥ १४२ ॥
दत्तं तप्तं हुतं जप्तमस्माकं विफलं गतम् ॥
संप्राप्ता प्रेतयोनिस्तु सशल्याद्वादशीव्रतात् ॥ १४३ ॥
सशल्यं ये प्रकुर्वंति वासरं केशव प्रियम् ॥
तेषां पितामहाः स्वर्गात्प्रेतत्वं यांति पुत्रक ॥ १४४ ॥
॥ चन्द्रशर्मोवाच ॥ ॥
प्रेतत्वं नाशमायाति कथमेतत्पितामहाः ॥
कर्मणा केन तत्सर्वं यच्चाहं प्रकरोमि तत् ॥ १४५ ॥
॥ प्रेता ऊचुः ॥ ॥
मा गयां मा प्रयागं च पुष्करे कुरुजांगले ॥
अयोध्यायामवंत्यां वा मधुरायां न चार्बुदे ॥ १४६ ॥
न चान्यत्तीर्थलक्षं तु वर्जयित्वा तु गोमतीम् ॥
गंगा सरस्वती चैव नर्मदा नैव पुष्करम् ॥ १४७ ॥
यादृशं गोमतीतीरे कलौ प्रेतत्वनाशनम् ॥
गोमतीनीरदानेन कृष्णवक्त्रविलोकनात् ॥ १४८ ॥
विलयं यांति पापानि जन्मकोटिकृतान्यपि ॥
वृथा संन्यासिनां पुण्यं वृथा च वनवासिनाम् ॥ १४९ ॥
सशल्यं वासरं विष्णोः कुर्वंति यदि पुत्रक ॥
तस्माद्गच्छ मुखं पश्य पूर्णचन्द्रसमं मुखम् ॥ 7.4.23.१५० ॥
कृष्णस्य द्वारकां गत्वा यथास्माकं गतिर्भवेत् ॥
विफलं तव संजाता न कृतं यदुपार्ज्जितम् ॥ १५१ ॥
तद्व्यर्थ सकलं जातं विना केशव पूजनात् ॥
विना केशवपूजायाः शंकरो यस्त्वयार्च्चितः ॥
तत्पुण्यं विफलं जातं प्रेतयोनिं गमिष्यसि ॥ १५२ ॥
संपूर्णं तव पुण्यं च द्वारका कृष्णदर्शनात् ॥
भविष्यति न सन्देहो गोमत्युदधिसन्निधौ ॥ १५३ ॥
दृष्ट्वा सोमेश्वरं देवं कृष्णं यदि न पश्यति ॥
यात्राफलं न चाप्नोति वदत्येवं स्वयं शिवः ॥ १५४ ॥
दृष्टोऽहं तैर्न सन्देहो यैः कृतं कृष्णदर्शनम् ॥
एका मूर्तिर्न सन्देहो मम कृष्णस्य नांतरम् ॥ १५५ ॥
दृष्ट्वा मां द्वारकां गत्वा कर्त्तव्यं कृष्णदर्शनम् ॥
दृष्ट्वा कृष्णं तु मां पश्येद्यास्यत्येव महाफलम् ॥ १५६ ॥
कृष्णदर्शनपूतात्मा यो मां पश्यति मानवः ॥
न तस्य पुनरावृत्तिर्मम लोकाच्च वैष्णवात् ॥ १५७ ॥
इत्याह देवदेवेशः स्वयं सोमपतिः पुरा ॥
विप्राणां श्रुतमस्माभिर्वदतां पुष्करे सताम् ॥ १५८ ॥
तस्माद्गच्छ प्रयाणार्थ कुरु कृष्णस्य दर्शनम् ॥
अन्यथा यास्यसे योनिं पैशाचीं पापदायिनीम् ॥ १५९ ॥
कृतापराधोऽपि यदा कुरुते कृष्णदर्शनम् ॥
मुच्यते नाऽत्र संदेहः पापाज्जन्मकृतादपि ॥ 7.4.23.१६० ॥
पूजिते देवदेवेशे कृष्णे देवकिनन्दने ॥
पूजिता देवताः सर्वा ब्रह्मरुद्रभगादिकाः ॥ १६१ ॥
विना कृष्णस्य पूजां च रुद्राद्यास्त्रिदिवौकसः ॥
पूजिता नैव कुर्वंति तुष्टिं पुत्र पितामहाः ॥ १६२ ॥
तस्माद्द्वारवतीं गत्वा कृष्णस्य दर्शनं कुरु ॥
प्रेतयोनेर्विनिर्मुक्ता यास्यामः परमां गतिम् ॥ १६३ ॥
गोमतीनीरधौतानि यस्यांगानि कलौ युगे ॥
मुनिभिर्योनिगमनं तस्य दृष्टं न पुत्रक ॥ १६४ ॥
ताडिताः पादयुग्मेन गोमतीनीरवीचयः ॥
अगतीनां प्रकुर्वति गतिं वै ब्रह्मवादिनाम् ॥ १६५ ॥
यः पुनः कुरुते श्राद्धं गोमत्युदधिसंगमे ॥
पितॄणां जायते तृप्तिर्यावदाभूतसंप्लवम् ॥ १६६ ॥
ससागरधरायां च सर्वतीर्थेषु यत्फलम् ॥
दिनेनैकेन तत्पुण्यं द्वारकाकृष्णसन्निधौ ॥ १६७ ॥
यत्फलं त्रिदशैर्दृष्टं सर्वतीर्थसमुद्भवम् ॥
तत्फलं लभते सर्वं द्वारकायां दिनेदिने ॥ १६८ ॥
तीर्थकोटिसहस्रैस्तु कृतैः श्राद्धैश्च यत्फलम् ॥
पितॄणां तत्फलं प्रोक्तं गोमतीतिलतर्पणात् ॥ १६९ ॥
यतीनां भोजनं यस्तु यच्छते कृष्णमन्दिरे ॥
सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसंख्यया ॥ 7.4.23.१७० ॥
कौपीनाच्छादनं छत्रं पादुके च कमण्डलुम् ॥
दत्त्वा संन्यासिनां याति सप्त कल्पानि तत्फलम् ॥ १७१ ॥
धन्यास्ते मानवाः पुत्र वसन्ति श्वपचादयः ॥
द्वारकायां गतिं यांति वसतां तत्र योगिनाम् ॥ ॥ १७२ ॥
त्रिकालं ये प्रपश्यंति वदनं प्रत्यहं हरेः ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ १७३ ॥
या नारी विधवा भूत्वा कुरुते द्वारकाश्रयम् ॥
कुलायुतसहस्रं तु नयते परमं पदम् ॥ १७४ ॥
पुत्रेणापीह किं कार्य्यं न गतो द्वारकां यदि ॥
नारी पुत्रशताच्छ्रेष्ठा गत्वा कृष्णपुरीं वसेत् ॥ ॥ १७५ ॥
कृष्णं कृष्णपुरीं गत्वा योऽर्च्चयेत्तुलसीदलैः ॥
प्राप्तं जन्मफलं तेन तारिताः प्रपितामहाः ॥ १७६ ॥
तुलसीदलमालां तु कृष्णोत्तीर्णां तु यो वहेत् ॥
पत्रेपत्रेऽश्वमेधानां दशानां लभते फलम् ॥ १७७ ॥
तुलसीकाष्ठसंभूतां यो मालां वहते नरः ॥
फलं यच्छति दैत्यारिः प्रत्यहं द्वारकोद्भवम् ॥ १७८ ॥
निवेद्य विष्णवे मालां तुलसीकाष्ठसंभवाम् ॥
वहते यो नरो भक्त्या तस्य नैवास्ति पातकम् ॥
सदा प्रीतमनास्तस्य कृष्णो देवकिनंदनः ॥ १७९ ॥
तुलसीकाष्ठसंभूतं शिरोबाह्वादिभूषणम् ॥
जायते यस्य मर्त्यस्य तस्य देहे सदा हरिः ॥ 7.4.23.१८० ॥
तुलसीमालया यस्तु भूषितः कर्म चाऽऽचरेत् ॥
पितॄणां देवतानां च कृतं कोटिगुणं कलौ ॥१८१॥
तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः ॥
दृष्ट्वा दूरेण नश्यंति वातोद्धूता यथाऽलयः ॥ १८२ ॥
जायते तद्ग्रहे नैव पापसंक्रमणं कुतः ॥
श्रुतं पुराणमस्माभिः कथितं ब्रह्मवादिभिः ॥ १८३ ॥
तस्मान्माला त्वया धार्य्या तुलसीकाष्ठसंभवा ॥
हरते नात्र संदेह ऐहिकामुष्मिकं त्वघम् ॥ १८४ ॥
तुलसीमालया यस्तु भूषितो भ्रमते यदि ॥
दुःस्वप्नं दुर्निमित्तं च न भयं शात्रवं क्वचित् ॥ १८५ ॥
कृत्वा वै तीर्थसंन्यासं यतयो विधवाः स्त्रियः ॥
जीवन्मुक्ताः कलौ ज्ञेयाः कुलकोटिसमन्विताः ॥ ॥ १८६ ॥
धारयंति न ये मालां हैतुकाः पापमोहिताः ॥
नरकान्न निवर्तंते दग्धाः कोपाग्निना हरेः ॥ १८७ ॥
उन्मीलिनी वंजुलिनी त्रिस्पृशा पक्षवर्द्धिनी ॥
त्वया पुत्र प्रकर्त्तव्या जयंती विजया जया ॥ १८८ ॥
पापघ्नी चाष्टमी प्रोक्ता कृष्णस्यातीव वल्लभा ॥
कृता कलौ युगे पुत्र द्वारका मोक्षदायिनी ॥ १८९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वारकागमनमाहात्म्य तुलसीधारणमाहात्म्यवर्णनंनाम त्रयोविंशतितमोऽध्यायः ॥ २३ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 24
॥ श्रीमार्कंडेय उवाच ॥ ॥
पितॄणां प्रेतरूपाणां कृत्वा वाक्यं महीपते ॥
चंद्रशर्मा द्विजश्रेष्ठो द्वारकां समुपागतः ॥ १ ॥
रुक्मिणीसहितः कृष्णो यत्र तिष्ठति चान्वहम् ॥
यत्र तिष्ठंति तीर्थानि तत्र यातो द्विजोत्तमः ॥ २ ॥
यत्र तिष्ठंति यज्ञाश्च यत्र तिष्ठंति देवताः ॥
यत्र तिष्ठंति ऋषयो मुनयो योगवित्तमाः ॥ ३ ॥
या पुरी सिद्धगंधर्वैः सेव्यते किंनरैर्नरेः ॥
अप्सरोगणयक्षैश्च द्वारका सर्वकामदा ॥ ४ ॥
स्वर्गारोहणनिश्रेणी वहते यत्र गोमती ॥
सा पुरी मोक्षदा नृणां दृष्टा विप्रवरेण हि ॥५॥
यस्याः सीमां प्रविष्टस्य ब्रह्महत्यादिपातकम् ॥
नश्यते दर्शनादेव तां पुरीं को न सेवते ॥ ६ ॥
गत्वा कृष्णपुरीं दृष्ट्वा गोमतीं चैव सागरम् ॥
मन्ये कृतार्थमात्मानं जीवितं यौवनं धनम् ॥ ७ ॥
दृष्ट्वा कृष्णपुरीं रम्यां कृष्णस्य मुखपंकजम् ॥
धन्योऽहं कृत्यकृत्योहं सभाग्योऽहं धरातले ॥ ॥ ८ ॥
दृष्ट्वा कृष्णमुखं रम्यं रुक्मिणीं द्वारकां पुरीम्॥
तीर्थकोटिसहस्रैस्तु सेवितैः किं प्रयोजनम् ॥९॥
पुण्यैर्लक्षसहस्रैस्तु प्राप्ता द्वारवती शुभा ॥
शुक्ला वैशाखमासे तु संप्राप्ता मधुसूदनी ॥ 7.4.24.१० ॥
द्वादशी त्रिस्पृशानाम पापकोटिशतापहा ॥
धन्याः सर्वे मनुष्यास्ते वैशाखे मधुसूदनी ॥१ १॥
संप्राप्ता त्रिस्पृशा यैस्तु बुधवारेण संयुता ॥
न यज्ञैस्तु न वेदैस्तु न तीर्थैः कोटिसेवितैः ॥
प्राप्यते तत्फलं नैव द्वारकायां यथा नृणाम् ॥ १२ ॥
एवमुक्त्वा द्विजश्रेष्ठो गोमतीतीरमाश्रितः ॥
उपस्पृश्य यथान्यायं शास्त्रदृष्टेन कर्मणा ॥ १३ ॥
कृत्वा स्नानं यथोक्तं तु संतर्प्य पितृदेवताः ॥
चक्रतीर्थात्समादाय शिलांश्चक्रांकिताञ्छुभान् ॥
पूजिताः पुरुषसूक्तेन यथोक्तविधिना नृप ॥ १४ ॥
शिवपूजा कृता पश्चात्संस्मृत्य पितृभाषितम् ॥
दत्त्वा पिंडोदकं सम्यक्पितॄणां विधिपूर्वकम् ॥१५॥
विलेपनं च वस्त्राणि पुष्पाणि धूपदीपको ॥
नैवेद्यानि मनोज्ञानि कंदमूलफलानि च ॥ १६ ॥
तांबूलं च सकर्पूरं कृत्वा नीराजनादिकम् ॥
प्रदक्षिणां नमस्कारं स्तुतिपूर्वं पुनःपुनः ॥ १७ ॥
क्षमापयित्वा देवेशं चक्रे जागरणं ततः ॥
यामत्रये व्यतीते तु चंद्रशर्मा ह्युवाच ह ॥ १८ ॥
आतुरस्य च दीनस्य शृणु कृष्ण वचो मम ॥
संसारभयसंत्रस्तं मां त्वमुद्धर केशव ॥१९॥
त्वत्पादांबुज भक्तानां न दुःखं पापिनामपि ॥
किं पुनः पापहीनानां द्वादशीसेविनां नृणाम्॥7.4.24.२०॥
दशमीवेधजं पापं कथितं मम पूर्वजैः ॥
दुष्कृतं नाशमायातु त्वत्प्रसादाज्जनार्द्दन ॥ २१ ॥
सविद्धं त्वद्दिनं कृष्ण यत्कृतं जागरं हरे ॥
तत्पापं विलयं यातु यथालवणमंभसि ॥ २२ ॥
सविद्धं वासरं यस्मा त्कृतं मम पितामहैः ॥
प्रेतत्वं तेन संप्राप्तं महादुःखप्रसाधकम् ॥ २३ ॥
यथा प्रेतत्वनिर्मुक्ता मम पूर्वपितामहाः ॥
मुक्तिं प्रयांति देवेश तथा कुरु जगत्पते ॥ २४ ॥
पुनरेव यदुश्रेष्ठ प्रसादं कर्तुमर्हसि ॥
अविद्यामोहितेनापि न कृतं तव पूजनम् ॥ २५ ॥
मया पापेन देवेश शिवभक्तिः समाश्रिता ॥
तव भक्तिः कृता नैव न कृतं तव वासरम् ॥ २६ ॥
न दृष्टा द्वारका कृष्ण न स्नातो गोमतीजले ॥
न दृष्टं पादपद्मं च त्वदीयं मोक्षदा यकम् ॥ २७ ॥
न कृता द्वारकायात्रा दृष्ट्वा सोमेश्वरं प्रभुम् ॥
विफलं सुकृतं जातं यन्मया समुपार्जितम् ॥ २८ ॥
मत्पूर्वजैस्तु कथितं सर्वमेव सुरेश्वर ॥
तत्पुण्यं मा वृथा यातु प्रसादात्तव केशव ॥ २९ ॥
दृष्टं तु तव वक्त्रं च दुर्ल्लभं भुवनत्रये ॥
तन्नास्ति देवकीपुत्र पुराणेषु श्रुतं मया ॥7.4.24.३०॥
सापराधास्तु ये केचिच्छिशुपालादयः स्मृताः ॥
त्वत्करेण हताः कोपान्मुक्तिं प्राप्ता महीवराः ॥ ३१ ॥
अद्यप्रभृति कर्त्तव्यं पूजनं प्रत्यहं च तत्॥
पलार्धेनापि विद्धं स्याद्भोक्तव्यं वासरे तव ॥ ३२ ॥
त्वत्प्रिया च मया कार्य्या द्वादशी व्रतसंयुता ॥
भक्तिर्भागवतानां च कार्य्या प्राणैर्द्धनैरपि ॥॥ ३३ ॥
नित्यं नामसहस्रं तु पठनीयं तव प्रियम् ॥
पूजा तु तुलसीपत्रैर्मया कार्या सदैव हि ॥ ३४ ॥
तुलसीकाष्ठसंभूता माला धार्य्या सदा मया ॥
नृत्यं गीतं च कर्त्तव्यं संप्राप्ते जागरे तव ॥ ३५ ॥
द्वारकायां प्रकर्त्तव्यं प्रत्यहं गमनं मया ॥
त्वत्कथाश्रवणार्थं च नित्यं पुस्तकवाचनम् ॥ ३६ ॥
नित्यं पादोदकं मूर्ध्ना मया धार्यं सुभक्तितः ॥
नैवेद्यभक्षणं चैव करिष्यामि सुभक्तितः ॥ ३७ ॥
निर्माल्यं शिरसा धार्य्यं त्वदीयं सादरं मया ॥
तव दत्त्वा यदिष्टं तु भक्षणीयं सदा मया ॥ ३८ ॥
तथा तथा प्रकर्त्तव्यं येन तुष्टिर्भवेत्तव ॥
तथ्यमेतन्मया कृष्ण तवाग्रे परिकीर्तितम् ॥ ३९ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
साधुसाधु महाभाग चन्द्रशर्मन्द्विजोत्तम ॥
आगमिष्यंति मल्लोके त्वया सह पितामहाः ॥ 7.4.24.४० ॥
पश्य प्रेतत्वनिर्मुक्ता मत्प्रसादाद्द्विजोत्तम ॥
आकाशे गरुडारूढास्तव पूर्वपितामहाः ॥ ४१ ॥
॥ पितामहा ऊचुः ॥ ॥
त्वत्प्रसादाद्वयं पुत्र मुक्तिं प्राप्ता न संशयः ॥
प्रेतयोनेर्विनिर्मुक्ताः कृष्णवक्त्रावलोकनात् ॥ ४२.॥
धन्यास्ते मानुषे लोके पुत्रपौत्रप्रपौत्रकाः ॥
दृष्ट्वा श्रीसोमनाथं तु कृष्णं पश्यंति द्वारकाम् ॥ ४३ ॥
धन्या च विधवा नारी कृष्णयात्रां करोति या ॥
उद्धरिष्यति लोकेऽस्मिन्कुलानां निरयाच्छतम् ॥ ४४ ॥।
श्वपचोऽपि करोत्येवं यात्रां च हरिशांकरीम्॥
स याति परमां मुक्तिं पितृभिः परिवारितः ॥ ४५ ॥
यः पुनस्तीर्थसंन्यासं कृत्वा तिष्ठति तत्र वै ॥
विष्णुलोकान्निवृत्तिर्न कल्पकोटिशतैरपि ॥४६॥
वंचितास्ते न सन्देहो दृष्ट्वा सोमेश्वरं प्रभुम् ॥
दृष्टं कृष्णमुखं नैव न स्नाता गोमतीजले ॥ ४७ ॥
किं जलैर्बहुभिः पुण्यैस्तीर्थकोटिसमुद्भवैः ॥
दृष्ट्वा सोमेश्वरं यस्तु द्वारकां नैव गच्छति ॥
धिक्कुर्वंति च तं पापं पितरो दिवि संस्थिताः ॥ ४८ ॥
दृष्ट्वा सोमेश्वरं देवं कृष्णं दृष्ट्वा पुनः शिवम्॥
सौपर्णे कथितं पुण्यं यात्राशतसमुद्भवम् ॥ ४९ ॥
दृष्ट्वा सोमेश्वरं देवं कृष्णं नैव प्रपश्यति ॥
मोहाद्व्यर्थगतं तस्य सर्वं संसारकर्म वै ॥ 7.4.24.५० ॥
आगत्य यः प्रभासे च कृष्णं पश्यति वै नरः ॥
प्रभासायुतसंख्यं तु फलमाप्नोति यत्नतः ॥ ५१ ॥
यस्मात्सर्वाणि तीर्थानि सर्वे देवास्तथा मखाः ॥
द्वारकायां समायांति त्रिकालं कृष्णसंनिधौ ॥ ५२ ॥
तीर्थैर्नानाविधैः पुत्र तत्स्थानैः किं प्रयोजनम् ॥
फलं समस्ततीर्थानां दृष्ट्वा द्वारवतीं लभेत् ॥ ५३ ॥
हते कंसे जरासन्धे नरके च निपातिते ॥
उत्तारिते भुवो भारे कृष्णो देवकिनंदनः ॥
चक्रे द्वारवतीं रम्यां सन्निधौ सागरस्य च ॥ ५४ ॥
स्थितः प्रीतमनाः कृष्णो लप्स्यते कामिनीसुखम् ॥ ५५ ॥
ब्रह्माग्निवायुसूर्याश्च वासवाद्या दिवौकसः ॥
मर्त्त्या विप्राश्च राजानः पातालात्पन्नगेश्वराः ॥ ५६ ॥
नद्यो नदाश्च शैलाश्च वनान्युपवनानि च ॥
पुरग्रामा ह्यरण्यानि सागराश्च सरांसि च ॥ ५७ ॥
यक्षाश्चासुरगंधर्वाः सिद्धा विद्याधरास्तथा ॥
रम्भाद्यप्सरसश्चैव प्रह्लादाद्या दितेः सुताः ॥
रक्षा विभीषणाद्याश्च धनदो रक्ष नायकः ॥ ५८ ॥
ऋषयो मुनयः सिद्धाः सनकाद्याश्च योगिनः ॥
ग्रहा ऋक्षाणि योगाश्च ध्रुवः परमवैष्णवः ॥ ५९ ॥
यत्किंचित्त्रिषु लोकेषु तिष्ठते स्थाणुजंगमम् ॥
श्रीकृष्णसन्निधौ नित्यं प्रत्यहं तिष्ठते सदा ॥ 7.4.24.६० ॥
न त्यजंति पुरीं पुण्यां द्वारकां कृष्णसेविताम् ॥
सा त्वया सेविता पुत्र सांप्रतं कृष्णदर्शनात् ॥
पिशाचयोनिनिर्मुक्ता यास्यामः परमां गतिम् ॥ ६१ ॥
द्वादशीवेधजंपापं द्वारकायाः प्रभावतः ॥
नष्टं पुत्र न सन्देहः संप्राप्ताः परमं पदम् ॥ ६२ ॥
द्वादशीवेधसम्भूतं यत्त्वया पापमर्जितम् ॥
कृष्णस्य दर्शनात्क्षीणं न जह्यं द्वादशीव्रतम् ॥ ६३ ॥
रक्षणीयं प्रयत्नेन वेधो दशमिसम्भवः ॥
नो चेत्पुत्र न संदेहः प्रेतयोनिमवाप्स्यसि ॥ ६४ ॥
त्रैलोक्य संभवं पापं तेषां भवति भूतले॥
सशल्यं ये प्रकुर्वंति वासरं कृष्णसंज्ञकम्॥६५॥
प्रायश्चित्तं न तस्यास्ति सशल्यं वासरं हरेः ॥
ये कुर्वंति न ते यांति मन्वतरशतैर्दिवम् ॥ ६६ ॥
प्रेतत्वं दुःसहं पुत्र दुःसहा यमयातना ॥
तस्मात्पुत्र न कर्त्तव्यं सशल्यं द्वादशीव्रतम् ॥ ६७ ॥
कारयंति हि ये त्वज्ञाः कूटयुक्ताश्च हेतुकाः ॥
प्रेतयोनिं प्रयास्यंति पितृभिः सह सर्वतः ॥ ६८ ॥
द्वादशी दशमीविद्धा संतानप्रविनाशिनी ॥
ध्वंसिनी पूर्वपुण्यानां कृष्णभक्तिविनाशिनी ॥६९॥
स्वस्ति तेऽस्तु गमिष्यामः प्रसादाद्रुक्मिणीपतेः ॥
प्राप्तं विष्णुपदं पुत्र अपुनर्भवसंज्ञकम् ॥7.4.24.७०॥ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
चंद्रशर्मन्प्रसन्नोऽहं तव भक्त्या द्विजोत्तम ॥
शैवभावप्रपन्नोऽपि यस्त्वं जातोऽसि वैष्णवः ॥ ७१ ॥
नवसप्ततिवर्षाणि न कृतं वासरे मम ॥
संपूर्णं मत्प्रसादेन तव जातं न संशयः ॥७२॥
एकेनैवोपवासेन त्रिस्पृशासंभवेन हि ॥
द्वारकायाः प्रसादेन मद्दृष्ट्यालोकनेन हि ॥ ७३ ॥
अविद्यामोहितेनैव शिवभक्त्या ममार्चनम् ॥
न कृतं मत्प्रसादेन कृतं चैव भविष्यति ॥ ७४ ॥
वैशाखे यैरहं दृष्टो द्वारकायां द्विजोत्तम ॥
त्रिस्पृशावासरे चैव वंजुलीवासरे तथा ॥ ७५ ॥
उन्मीलिनीदिने प्राप्ते प्राप्ते वा पक्षवर्द्धिनी ॥
नैतेषां चापराधोऽस्ति यद्यपि ब्रह्मघातकाः ॥ ७६ ॥
जन्मप्रभृति पुण्यस्य प्रकृतस्यापि भूसुर ॥
मत्पुरीदर्शनेनापि फलभागी भवेन्नरः ॥ ७७ ॥
दृष्ट्वा समस्ततीर्थानि प्रभासादीनि भूतले ॥
मत्पुरीदर्शनेनैव पृष्ट्वाऽपीह भवेत्फलम् ॥ ७८ ॥
माहात्म्यं द्वारकायास्तु मद्दिने यत्र तत्र वा ॥
पठेन्मम पुरीं पुण्यां लभते मत्प्रसादतः ॥ ७९ ॥
मत्पुरीं वसतां पुण्यं त्रिकालं मम दर्शनात् ॥
तत्फलं समवाप्नोति यस्त्विदं पठते कलौ ॥ 7.4.24.८० ॥
कलौ काशी च मथुरा ह्यवंती च द्विजोत्तम ॥
अयोध्या च तथा माया कांची चैव च मत्पुरी ॥ ८१ ॥
शालिग्रामभवं चैव बदरी च तथोत्तमा ॥
कुरुक्षेत्रं भृगुक्षेत्रं पुष्करं शुभसंज्ञकम् ॥८२॥
प्रयागं च प्रभासं च क्षेत्रं वै हाटकेश्वरम् ॥
गंगाद्वारं शौकरं च गंगासागरसंगमम् ॥ ८३ ॥
नैमिषं दण्डकारण्यं तथा वृन्दावनं द्विज ॥
सैंधवं चार्बुदाख्यं च सर्वाण्यायतनानि च ॥ ८४ ॥
वनानि मागधादीनि पुष्कराणि द्विजोत्तम ॥
शैलराजादयः शैला हिमाद्रिप्रमुखा हि ये ॥ ८५ ॥
गंगादयश्च सरितो भूतले संति यानि वै ॥
तीर्थानि त्रिषु कालेषु समानि द्वारकापुरः ॥ ८६ ॥
कलिना कलितं सर्वं वर्जयित्वा तु मत्पुरीम् ॥
विप्र वर्षशते प्राप्ते मत्पुर्यां मम दर्शने ॥ ८७ ॥
तव मृत्युर्महीदेव मत्प्रसादाद्भविष्यति ॥
त्रिस्पृशावासरे प्राप्ते वैशाखे शुक्लपक्षतः ॥ ८८ ॥
संगमे बुधवारस्य दिवा भूमौ ममाग्रतः ॥
दशमं द्वारमासाद्य तव प्राणस्य निर्गमम् ॥
भविष्यति न संदेहो मत्प्रसादेन भूसुर ॥ ८९ ॥
स्वस्थानं गच्छ विप्रेंद्र सर्वान्कामानवाप्स्यसि ॥
मद्भक्तानां युगांतेऽपि विनाशो नोपपद्यते ॥ 7.4.24.९० ॥
मद्भक्तिं वहतां पुंसामिह लोके परेऽपि वा ॥
नाशुभं विद्यते किंचित्कुलकोटिं नयेद्दिवम् ॥ ९१ ॥
॥ मार्कण्डेय उवाच ॥ ॥
ततो वर्षशते प्राप्ते गत्वा द्वारवतीं पुरीम् ॥
प्राणान्कृष्णोपदेशेन त्यक्त्वा मोक्षं जगाम ह ॥ ९२॥
इन्द्रद्युम्न तदाख्यातं माहात्म्यं द्वारकाभवम् ॥
पुनरेव् प्रवक्ष्यामि यत्ते मनसि वर्त्तते ॥ ९३ ॥
शृण्वतां पठतां चैव माहा त्म्यं द्वारकाभवम् ॥
सर्वं फलमवाप्नोति कृष्णेन कथितं च यत् ॥ ९४ ॥
विस्तारयंति लोकेऽस्मिँल्लिखितं यस्य वेश्मनि ॥
प्रत्यक्षं द्वारकापुण्यं प्राप्यते कृष्णसंभवम् ॥ ९५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकाखण्डे चन्द्रशर्मोपाख्याने चन्द्रशर्मणो द्वारकागमनपूर्वक कृष्णदत्तवरग्रहणादि द्वारकानगरीश्रैष्ठ्यमाहात्म्यवर्णनंनाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 25
॥ इंद्रद्युम्न उवाच ॥ ॥
कथयस्व मुनिश्रेष्ठ किंचित्कौतूहलं मम ॥
पुण्यं पवित्रं पापघ्नं तीर्थं तु वद विस्तरात् ॥ १ ॥
॥ मार्कण्डेय उवाच ॥ ॥
मथुरा द्वारकाऽयोध्या कलिकाले पुरीत्रयम् ॥
धर्मार्थकामदं भूप मोक्षदं हरिवल्लभम् ॥ २ ॥
मधुरायां तु कालिंदी गोमती कृष्णसन्निधौ ॥
अयोध्यायां तु सरयूर्मुक्तिदा सेविता सदा ॥ ३ ॥
द्रारवत्यामयोध्यायां कृष्णं रामं शुभप्रदम् ॥
मथुरायां हरिं विष्णुं स्मृत्वा मुक्तिमवाप्नुयात् ॥ ४ ॥
धन्या सा मथुरा लोके यत्र जातो हरिः स्वयम् ॥
द्वारका सफला लोके क्रीडितं यत्र विष्णुना ॥ ५ ॥
धन्यानामपि सा पूज्या अयोध्या सर्वकामदा ॥
या स्वयं रामदेवेन पालिता धर्मबुद्धिना ॥ ६ ॥
यद्ददाति फलं काशी सेविता कल्पसंख्यया ॥
कला ददाति मथुरा वासरेणापि तत्फलम् ॥ ७ ॥
मन्वंतरसहस्रे तु प्रयागे यत्फलं भवेत् ॥
निमिषार्द्धेन वसतां द्वारकायां तु तत्फलम् ॥ ८ ॥
प्रभासे च कुरुक्षेत्रे यत्फलं वत्सरैः शतैः ॥
वसतां निमिषार्द्धेन ह्ययोध्यायां च तद्भवेत् ॥ ९ ॥
अयोध्याधिपतिं रामं मथुरायां तु केशवम् ॥
द्वारकावासिनं कृष्णं कीर्तनं चापि दुर्ल्लभम् ॥ 7.4.25.१० ॥
मथुराकीर्तनेनापि श्रवणाद्द्वारकापुरः ॥
अयोध्यादर्शनेनापि त्रिशुद्धं च पदं व्रजेत्॥ ११ ॥
कृष्णं स्वयंभुवं देवं द्वारका त्रिदिवोपमा ॥
श्रुता चाप्यथवा दृष्टा कुरुते जन्मसंक्षयम् ॥ १२ ॥
श्रुताभिलिखिता दृष्टा ह्ययोध्या मथुरापुरी ॥
पापं हरति कल्पोत्थं द्वारका च तृतीयका ॥ १३ ॥
कृष्णं विष्णुं हरिं देवं विश्रांतं च कलौ स्मृतम् ॥
द्वादश्यां जागरे रात्रावश्वमेधायुतं फलम् ॥ १४ ॥
बालक्रीडनकं स्थानं ये स्मरंति दिनेदिने ॥
स्वर्णशैलपदं नृणां जायते राजसत्तम ॥ १५ ॥
धन्यास्ते मानवा लोके कलिकाले नरोत्तम॥
प्लवनं सिंधुतोयेन गोमत्यां यैर्नरैः कृतम् ॥ १६ ॥
पश्चिमाशां नरः स्नात्वा कृत्वा वै करसंपुटम् ॥
द्वारकां ये स्मरिष्यंति तेषां कोटिगुणं फलम् ॥ १७ ॥
मनसा चिन्तयेद्यो वै कलौ द्वारवतीं पुरीम् ॥
कपिलाऽयुतपुण्यं च लभते हेलया नरः ॥ १८ ॥
गंगासागरजं पुण्यं गंगाद्वारभवं तथा ॥
कलौ द्वारवतीं गत्वा प्राप्नोति मनुजाधिप ॥ १९ ॥
सप्तकल्पस्मरो भूप मार्कण्डेयः स्मराम्यहम् ॥
समाना वाऽधिका वापि द्वारवत्या न कापि पूः ॥7.4.25.२०॥
दुर्वाससा समो धन्यो नास्ति नाप्यधिको नृप ॥
भाषाबंधं येन कृत्वा द्वारकायां धृतो हरिः ॥ २१ ॥
मा काशीं मा कुरुक्षेत्रं प्रभासं मा च पुष्करम् ॥
द्वारकां गच्छ राजर्षे पश्य कृष्णमुखं शुभम् ॥ २२ ॥
अश्वमेधसहस्रं तु राजसूयशतं कलौ ॥
पदेपदे च लभते द्वारकां याति यो नरः ॥ २३ ॥
सफलं जीवितं तेषां कलौ नृपवरोत्तम ॥ ये
षां न स्खलितं चित्तं द्वारकां प्रति गच्छताम् ॥ २४ ॥
माता च पुत्रिणी तेन पिता चैव पितामहाः ॥
पिंडदानं कृतं येन गोमत्यां कृष्णसन्निधौ ॥ २५ ॥
गोपीचन्दनमुद्रां तु कृत्वा भ्रमति भूतले ॥
सोऽपि देशो भवेत्पूतः कि पुनर्यत्र संस्थितम् ॥ २६ ॥
द्वारकायां समुद्भूतां तुलसीं कृष्णसेविताम् ॥
नित्यं बिभर्ति शिरसा स भवेत्त्रिदशाधिपः॥ २७ ॥
दैत्यारेर्भगवत्तिथिश्च विजया नीरं च गगोद्भवं नित्यंकाशिपुरी तथैव तुलसी धात्रीफलं वल्लभम्॥२८॥
शास्त्रं भागवतं तथा च दयितं रामायणं द्वारका पुण्यं मालतिसम्भवं सुदयितं गीतं कृतं जागरम् ॥ २९ ॥
गृहे यस्य सदा तिष्ठेद्गोपीचन्दनमृत्तिका ॥
द्वारका तिष्ठते तत्र कृष्णेन सहिता कलौ ॥ 7.4.25.३० ॥
कृतघ्नो वाऽथ गोघ्नोऽपि हैतुकः कृत्स्नपापकृत् ॥
गोपीचन्दनसंपर्कात्पूतो भवति तत्क्षणात् ॥ ३१ ॥
गोपीचन्दनखंडं तु यो ददातीह वैष्णवे ॥
कुलमेकोत्तरं तेन शतं तारितमेव वा ॥ ३२ ॥
द्वारकासम्भवा भूप तुलसी यस्य मंदिरे ॥
तस्य वैवस्वतो नित्यं बिभेति सह किंकरैः ॥ ॥ ३३ ॥
द्वारकासंभवा मृत्स्ना तुलसीकृष्णकीर्तनम् ॥
क्रतुकोटिशतं पुण्यं कथितं व्याससूनुना ॥ ३४ ॥
आलोड्य सर्वशास्त्राणि पुराणानि पुनःपुनः ॥
मया दृष्टा महीपाल न द्वारकासमा पुरी ॥ ३५ ॥
द्वारकागमनं येन कृतं कृष्णस्य कीर्तनम् ॥
स्नातं तीर्थसहस्रैस्तु तेनेष्टं क्रतुकोटिभिः ॥३६॥
इद्रियाणां तु दमनं किं करिष्यति देहिनाम् ॥
सांख्यमध्ययनं चापि द्वारकां गच्छते न चेत् ॥३७॥
पशवस्ते न सन्देहो गर्दभेन समा जनाः ॥
दृष्टं कृष्णमुखं यैर्न गत्वा द्वारवतीं पुरीम् ॥ ३८ ॥
कृतकृत्यास्तु ते धन्या द्वादश्यां जागरे हरेः ॥
कृत्वा जागरणं भक्त्या नृत्यमाना मुहुर्मुहुः ॥३९॥
कृष्णालयं तु यो गत्वा गोमत्यां पिंडपातनम् ॥
करोति शक्त्या दानं च मुक्तास्तस्य पितामहाः ॥7.4.25.४०॥
प्रेतत्वं च पिशा चत्वं न भवेत्तस्य देहिनः ॥
जन्मजन्मनि राजेंद्र यो गतो द्वारकां पुरीम् ॥ ४१ ॥
अनशनेन यत्पुण्यं प्रयागे त्यजतस्तनुम् ॥
द्वादश्यां निमिषार्द्धेन तत्फलं कृष्णसन्निधौ ॥ ४२ ॥
सूर्यग्रहे गवां कोटिं दत्त्वा यत्फलमाप्नुयात् ॥
तत्फलं कलिकाले तु द्वारवत्यां दिनेदिने ॥ ४३ ॥
कोटिभारं सुवर्णस्य ग्रहणे चंद्रसूर्ययोः ॥
दत्त्वा यत्फलमाप्नोति तत्फलं कृष्णदर्शने ॥ ४४ ॥
दोलासंस्थं च ये कृष्णं पश्यंति मधुमाधवे ॥
तेषां पुत्राश्च पौत्राश्च मातामहपितामहाः ॥ ४५ ॥
श्वशुराद्याः सभृत्याश्च पशवश्च नरोत्तम ॥
क्रीडंति विष्णुना सार्द्धं यावदाभूतसंप्लवम् ॥ ४६ ॥
या काचिद्द्वादशी भूप जायते कृष्णसन्निधौ ॥
पश्यामि नांतरं किञ्चित्कलिकाले विशेषतः ॥ ४७ ॥
कृष्णस्य सन्निधौ नित्यं वासरा द्वादशीसमाः ॥
युगादिभिः समाः सर्वे नित्यं कृष्णस्य सन्निधौ॥४८॥
कलौ द्वारवती सेव्या ज्ञात्वा पुण्यं विशेषतः ॥
षटपुर्यश्चैव सुलभा दुर्ल्लभा द्वारका कलौ॥४९॥
स्मरणात्कीर्तनाद्यस्माद्भुक्तिमुक्ती सदा नृणाम् ॥
दुर्वाससा तु ऋषिणा रक्षिता तिष्ठते पुरी॥7.4.25.५०॥
कलौ न शक्यते गंतुं विना कृष्णप्रसादतः ॥
कृष्णस्य दर्शनं कर्तुं यान्ति रुद्रादयः सुराः॥५१॥
त्रिकालं जगतीनाथ रुक्मिणीदर्शनाय च ॥
सफला भारती तस्य कृष्णकृष्णेति या वदेत्॥५२॥
द्वारका यायिनं दृष्ट्वा गायंति दिविसंस्थिताः ॥
नरकात्पितरो मुक्ताः प्रचलंति हसंति च ॥५३॥
गोप्यं यत्पातकं पुंसां गोमती तद्व्यपोहति ॥
स्मरणात्कीर्त्तनाद्वापि किं पुनः प्लवने कृते ॥ ५४ ॥
रुक्मिणीसहितं देवं शंखोद्धारे च शंखिनम् ॥
पिंडारके चतुर्बाहुं दृष्ट्वाऽन्यैः किं करिष्यति ॥५५॥
रुक्मिणी देवकीपुत्रश्चक्रतीर्थं च गोमती ॥
गोपीनां चंदनं लोके तुलसी दुर्लभा कलौ ॥ ५६ ॥
दुर्लभास्ते सुता ज्ञेया धरणीपापनाशकाः ॥
गयां गत्वा तु ये पिंडं द्वारकां कृष्णदर्शनम् ॥
करिष्यंति कलौ प्राप्ते वंजुलीसमुपोषणम् ॥ ५७ ॥
समं पुण्यफलं तेषां वंजुली द्वारका समा ॥
येन न्यूना नाधिकाऽपि कथितं विष्णुना स्वयम् ॥ ५८ ॥
वंजुली चाधिकां राजञ्छृणु वक्ष्यामि कारणम्॥
द्वादश्यामुपवासेन द्वादश्यां पारणेन तु ॥
प्राप्यते हेलया चैव तद्विष्णोः परमं पदम् ॥ ५९ ॥
गृहेषु वसतां तीर्थं गृहेषु वसतां तपः ॥
गृहेषु वसतां मोक्षो वंजुलीसमुपोषणात् ॥ 7.4.25.६० ॥
वंजुली द्वारका गंगा गया गोविंदकीर्त्तनम् ॥
गोमती गोकुलं गीता दुर्ल्लभं गोपिचन्दनम् ॥ ६१ ॥
एतच्छृणोति यो भक्त्या कृत्वा मनसि केशवम् ॥
अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥ ६२ ॥
श्रोष्यंति जागरे ये वै माहात्म्यं केशवस्य च ॥
सर्वपापविनिर्मुक्ताः पदं यास्यंति वैष्णवम् ॥ ॥ ६३ ॥
पठिष्यंति नरा नित्यं ये वै श्रोप्यंति भक्तितः ॥
तुलापुरुषदानस्य फलं ते प्राप्नुवंति हि॥ ६४॥
कृष्णजागरणे दानं यच्चाल्पमपि दीयते ॥
सर्वं कोटिगुणं ज्ञेयमित्याहुः कवयो नृप ॥ ६५ ॥
मानकूटं तुलाकूटं कन्याहयगवां क्रयात् ॥
तत्सर्वं विलयं याति द्वादश्यां जागरे कृते ॥ ६६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये वंजुलीद्वारकागंगागयागोविन्दगोमतीगोकुल गीतागोपीचन्दनमाहात्म्यवर्णनंनाम पञ्चविंशतितमोऽध्यायः ॥ २५ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 26
॥ श्रीमार्कण्डेय उवाच ॥ ॥
प्रह्लादं सर्वधर्मज्ञं वेदशास्त्रार्थपारगम् ॥
वैष्णवागमतत्त्वज्ञं भगवद्भक्तितत्परम् ॥ १ ॥
सुखासीनं महाप्राज्ञमृषयो द्रष्टुमागताः ॥
सर्वशास्त्रार्थतत्त्वज्ञाः स्वधर्मप्रतिपालकाः ॥ ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
विना ज्ञानाद्विना ध्यानाद्विना चेन्द्रियनिग्रहात् ॥
अनायासेन येनैतत्प्राप्यते परमं पदम् ॥ ३ ॥
संक्षेपात्कथय स्नेहाद्दृष्टादृष्टफलोदयम् ॥
धर्मान्मनुजशार्दूल ब्रूहि सर्वानशेषतः ॥ ४ ॥
इत्युक्तोऽसौ महाभागो नारायणपरायणः ॥
कथयामास संक्षेपात्सर्वलोकहितोद्यतः ॥ ५ ॥
॥ श्रीप्रह्लाद उवाच ॥ ॥
श्रूयतामभिधास्यामि गुह्याद्गुह्यतरं महत् ॥
यस्य संश्रवणादेव सर्वपापक्षयो भवेत् ॥ ॥ ६ ॥
अष्टादशपुराणानां सारात्सारतरं च यत् ॥
तदहं कथयिष्यामि भुक्तिमुक्तिफलप्रदम् ॥ ७ ॥
सुखासीनं महादेवं जगतः कारणं परम् ॥
पप्रच्छ षण्मुखो भक्त्या सर्वलोकहितोद्यतः ॥ ८ ॥
॥ स्कन्द उवाच ॥ ॥
भगवन्सर्वलोकानां दुःखसंसारभेषजम् ॥
कथयस्व प्रसादेन सुखोपायं विमुक्तये ॥ ९ ॥
॥ ईश्वर उवाच ॥ ॥
चतुर्विधं तु यत्पापं कोटिजन्मार्जितं कलौ ॥
जागरे वैष्णवं शास्त्रं वाचयित्वा व्यपोहति ॥7.4.26.१०॥
वैष्णवस्य तु शास्त्रस्य यो वक्ता जागरे हरेः ॥
मद्भक्तं तं विजानीयाद्विपन्नस्त्वन्यथा भवेत् ॥ ११ ॥
हरिजागरणं कार्यं मद्भक्तेन विजानता ॥
अन्यथा पापिनो ज्ञेया ये द्विषन्ति जनार्द्दनम् ॥ १२ ॥
जागरं ये च कुर्वंति गायंति हरिवासरे ॥
अग्निष्टोमफलं तेषां निमिषार्द्धेन षण्मुख॥१३॥
जागरे पश्यतां विष्णोर्मुखं रात्रौ मुहुर्मुहुः ॥
येषां हृष्यंति रोमाणि रात्रौ जागरणे हरेः ॥
कुलानि दिवि तावंति वसंति हरिसन्निधौ ॥ १४ ॥
यमस्य पथि निर्मुक्ता जनाः पापशतैर्वृताः॥
गीतशास्त्रविनोदेन द्वादशीजागरान्विताः ॥ १५ ॥
सुप्रभाता निशा तेषां धन्याः सुकृतिनो नराः ॥
प्राणात्ययेन मुह्यंति यैः कृतं जागरं हरेः ॥१६॥
पुत्रिणस्ते नरा लोके धनिनः ख्यातपौरुषाः ॥
येषां वंशोद्भवाः पुत्राः कुर्वंति हरिजागरम् ॥१७॥
इष्टं मखैः कृतं दानं दत्तं पिंडं गयाशिरे ॥
स्नातं नित्यं प्रयागे तु यैः कृतं जागरं हरेः ॥ १८ ॥
दयिता विष्णुभक्ताश्च नित्यं मम षडानन ॥
कुर्वंति वासरं विष्णोर्यस्माज्जागरणं हितम् ॥१९ ॥
श्रुत्वा हर्षं न चाप्नोति जागरं न करोति यः ॥
प्रकटीकरोति तन्नूनं जनन्या दुर्विचेष्टितम् ॥ 7.4.26.२० ॥
संप्राप्य वासरं विष्णोर्न येषां जागरो हरेः ॥
व्यर्थं गतं च तत्पुण्यं तेषां वर्षशतोद्भवम् ॥ २१ ॥
पुत्रो वा पुत्रपुत्रो वा दौहित्रो दुहिताऽपि वा ॥ ।
करिष्यति कुलेऽस्माकं कलौ जागरणं हरेः ॥ २२ ॥
पात्यमानाः प्रजल्पंति पितरो यमकिंकरैः ॥
मुक्तिर्भविष्यत्यस्माकं नरकाज्जागरे कृते ॥२३॥ ।
नान्यथा जायतेऽस्माकं मुक्तिर्यज्ञशतैरपि ॥
विना जागरणेनैव नरलोकात्कथंचन ॥
तस्माज्जागरणं कार्यं पितॄणां हितमिच्छता ॥ २४ ॥
भक्तिर्भागवतानां च गोविंदस्यापि कीर्तनम् ॥
न देहग्रहणं तस्मात्पुनर्लोके भविष्यति ॥ २५ ॥
जागरं कुरुते यश्च संगमे विजयादिने ॥
पुनर्द्देहप्रजननं दग्धं तेनाऽऽत्मना स्वयम् ॥ २६ ॥
त्रिस्पृशा वासरं येन कृतं जागरणान्वितम् ॥
केशवस्य शरीरे तु स लीनो नात्र संशयः ॥२७ ॥
उन्मीलिनी कृता येन रात्रौ जागरणान्विता ॥
प्रभवंति न पापानि स्थूलसूक्ष्माणि तस्य तु ॥ २८ ॥
सतालवाद्यसंयुक्तं संगीतं जागरं हरेः ॥
यः कारयति देवस्य द्वादश्यां दानसंयुतम् ॥ २९ ॥
तस्य पुण्यं प्रवक्ष्यामि महाभागवतस्य हि ॥
तिलप्रस्थहस्रं तु सहिरण्यं द्विजातये ॥
दत्त्वा यत्फलमाप्नोति ह्ययने रविसंक्रमे ॥ 7.4.26.३० ॥
हेमभारशतं नित्यं सवत्सं कपिलायुतम् ॥
प्रेक्षणीयप्रदानेन तत्फलं प्राप्नुयात्कलौ ॥ ३१ ॥
यः पुनर्वासरे पुत्र दिव्यैर्ऋषिकृतैः स्तवैः ॥
तोषयेत्पद्मनाभं वै वैदिकैर्विष्णुसामभिः ॥ ३२ ॥
ऋग्यजुःसामसम्भूतैवैष्णवैश्चैव पुत्रक ॥
संस्कृतैः प्राकृतैः स्तोत्रैरन्यैश्च विविधैस्तथा ॥ ३३ ॥
प्रीतिं करोति देवेशो द्वादश्यां जागरे स्थितः ॥
शृणु पुण्यं समासेन यद्गीतं ब्रह्मणा मम ॥ ३४ ॥
त्रिःसप्तकृत्वो धरणीं त्रिगुणीकृत्य षण्मुख ॥
दत्त्वा यत्फलमाप्नोति तत्फलं प्राप्नुयान्नरः ॥ ३५ ॥
गवां शतसहस्रेण सवत्सेनापि यत्फलम् ॥
तत्फलं प्राप्नुयान्मर्त्त्यः स्तोत्रैर्यस्तोषयेद्धरिम् ॥ ३६ ॥
वैदिकी दशगुणा प्रीतिर्यामेनैकेन जागरे ॥
एवं फलानुसारेण कार्य्यं जागरणं हरेः ॥ ३७ ॥
यः पुनः पठते रात्रौ गीतां नामसहस्रकम् ॥
द्वादश्यां पुरतो विष्णोर्वेष्णवानां समीपतः ॥ ३८ ॥
पुण्यं भागवतं स्कांदपुराणं दयितं हरेः ॥
माधुरं बालचरितं गोपीनां चरितं तथा ॥ ३९ ॥
एतान्पठति रात्रौ यः पूजयित्वा तु केशवम् ॥
न वेद्म्यहं फलं वत्स यदि ज्ञास्यति केशवः ॥ 7.4.26.४० ॥
दीपं प्रज्वालयेद्रात्रौ यः स्तवैर्हरिजागरे ॥
न चास्तं गच्छते तस्य पुण्यं कल्पशतैरपि ॥ ४१ ॥
मंजरीसहितैः पत्रैस्तुलसीसम्भवैर्हरिम् ॥
जागरे पूजयेद्भक्त्या नास्ति तस्य पुनर्भवः ॥ ४२ ॥
स्नानं विलेपनं पूजा धूपं दीपं च संस्तवम् ॥
नैवेद्यं च सतांबूलं जागरे दत्तमक्षयम् ॥४३॥
ध्यातुमिच्छति षड्वक्त्रं यो मां भक्तिपरायणः ॥
स करोतु महाभक्त्या द्वादश्यां जागरं हरेः ॥ ४४ ॥
वासरे वासुदेवस्य सर्वे देवाः सवासवाः ॥
देहमाश्रित्य तिष्ठंति ये प्रकुर्वंति जागरम् ॥ ४५ ॥
जागरेवासुदेवस्य महाभारतकीर्तनम् ॥
ये कुर्वंति गतिं यांति योगिनां ते न संशयः ॥ ४६ ॥
चरितं रामदेवस्य ये वधं रावणस्य च ॥
पठंति जागरे विष्णोस्ते यांति परमां गतिम ॥ ४७
अधीत्य चतुरो वेदान्कृत्वा चैवार्चनं हरेः ॥
स्नात्वा च सर्वतीर्थेषु जागरे तत्फलं हरेः ॥ ४९ ॥
रथानामयुतैर्यत्तु सहस्रैर्वरवारणैः ॥ लक्षेणाश्ववराणां तु तत्फलं जागरे हरेः ॥ ४९ ॥
धान्यशैलसहस्रैस्तु तुलापुरुषको टिभिः ॥
यत्फलं मुनिभिः प्रोक्तं तत्फलं जागरे हरेः ॥ 7.4.26.५० ॥
कन्याकोटिप्रदानं च स्वर्णभारशतं तथा ॥
दत्तं रत्नायुतशतं यैः कृतो जागरो हरेः ॥ ५१ ॥
अष्टादशपुराणैस्तु पठितैर्यत्फलं भवेत् ॥
तत्फलं शतसाहस्रं कृते जागरणे हरेः ॥ ५२ ॥
मन्वादि पठतां शास्त्रं यत्फलं हि द्विजन्मनः ॥
अधिकं फलमाप्नोति कुर्वाणो जागरं हरेः ॥ ५३ ॥
दुर्भिक्षे चान्नदातॄणां पुंसां भवति यत्फलम् ॥
संन्यासिनां सहस्रैस्तु यत्फलं भोजितैः कलौ ॥
फलं तत्समवाप्नोति कुर्वतां जागरं हरेः ॥ ५४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वादशीजागरणमाहात्म्यवर्णनंनाम षड्विंशतितमोऽध्यायः ॥ २६ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 27
॥ ईश्वर उवाच ॥ ॥
स्थित्वा द्वादशिजागरे क्रतु समे दुःखापहे पुण्यदे रम्यं भागवतं शृणोति पुरुषः कृत्वा हरेः पूजनम् ॥
पुण्यं वाजिमखस्य कोटिगुणितं संप्राप्य भक्तोत्तमश्छित्त्वा पाशसमूह पक्षनिचयं प्राप्नोति कृष्णालयम् ॥ १ ॥
हत्यापापसमूहकोटिनिचयैर्गुर्वंगना- कोटिभिःस्तेयैर्लक्षगुणैर्गुरोर्वधकरैः संवेष्टितो यद्यपि ॥
श्रुत्वा भागवतं छिनत्ति सकलं कृत्वा हरेर्जागरं मुक्तिं याति नरेन्द्र निर्मलवपुर्भित्त्वा रवेर्मंडलम् ॥ २ ॥
एकादशी द्वादशिसंप्रविष्टा कृता नभस्ये श्रवणेन युक्ता ॥
विशेषतः सोमसुतेन संगमे करोति मुक्तिं प्रपितामहानाम् ॥ ३ ॥
यद्दीयते द्वादशिवासरे शुभे विष्णुं समुद्दिश्य तथा पितॄणाम् ॥
पर्य्याप्तमिष्ठैः क्रतुतीर्थदानैर्भक्त्या प्रदत्तं खलु मेरुतुल्यम् ॥ ४ ॥
महानदीं प्राप्य दिनं च विष्णोस्तोयांजलिं यस्तुपितॄन्ददाति ॥
श्राद्धं कृतं तेन समाः सहस्रं यच्छन्ति कामान्पितरः सुतृप्ताः ॥५॥
शरणागतानां परिपालनेन ह्यन्नप्रदानेन शृणुष्व पुत्र ॥
ऋणप्रदाने द्विजदेवतानां तद्वै फलं जागरणेन् विष्णोः ॥ ६ ॥
यः स्वर्णधेनुं मधुनीरधेनुं कृष्णाजिनं रौप्यसुवर्णमेरु ॥
ब्रह्मांडदानं प्रददाति याति स वै फलं जागरणेन विष्णोः ॥ ७ ॥
सत्येन शौचेन दमेन यत्फलं क्षमादयादानबलेन षण्मुख ॥
दशाश्वमेधैर्बहुदक्षिणैश्च तेषां फलं जागरणेन विष्णोः ॥ ८ ॥
स्नानेन यत्प्राप्य नदीं वीरष्ठां यत्पिंडदानेन पितुर्गयायाम् ॥
यद्धेमदानात्कुरुजांगले च तत्स्यात्फलं जागरणेन विष्णोः ॥ ९ ॥
हत्यायुतानां यदि संचितानिस्तेयानि रुक्मस्य तथामितानि ॥
निहंत्यनेकानि पुराकृतानि श्रीजागरे ये प्रपठंति गीतम् ॥ 7.4.27.१० ॥
मार्गं न ते सौरपुरस्य दूतान्वनांतरं षण्मुख किंचिदन्यत् ॥
स्वप्ने न पश्यंति च ते मनुष्या येषां गता जागरणेन निद्रा ॥ ११ ॥
काषायवस्त्रैश्च जटाभरैश्च पूर्ताग्निहोत्रैः किमु चान्य मन्त्रैः ॥
धर्मार्थकामवरमोक्षकरीं च भद्रामेकां भजस्व कलिकालविनाशिनीं च ॥ १२ ॥
इत्युक्तपूर्वं किल नारदेन श्रेयोर्थबुद्ध्या विनतासुताय ॥
कृष्णात्परं नान्यदिहास्ति दैवं व्रतं तदह्नः परमं न किंचित् ॥ १३ ॥
भोभोः सुराः शृणुत नारद इत्यवोचद्भोभोः खगेन्द्रऋषिसिद्धमुनीन्द्रसंघाः ॥
उत्क्षिप्य बाहुमथ भक्तजनेन चोक्तं नैकादशीव्रतसमं व्रतमस्ति किंचित्॥ १४ ॥
पक्षीन्द्र पापपुरुषा न हरिं भजंति तद्भक्तिशास्त्रनिरता न कलौ भवंति ॥
कुर्वंति मूढमनसो दशमीविमिश्रामेकादशीं शुभदिनं च परित्यजंति ॥ १५ ॥
आर्त्तः सदा चैव सदा च रोगी पापी सदा चैव सदा च दुःखी ॥
सदा कुलघ्नोऽथ सदा च नारकी विद्धं मुरारेर्दिनमाश्रयेत्तु यः ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वादशीजागरणस्य सर्वतोवरेण्यत्ववर्णनंनाम सप्तविंशतितमोऽध्यायः ॥ २७ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 28
॥ मार्कण्डेय उवाच ॥ ॥
कृत्वा जागरणं विष्णोर्यथान्यायं नरेश्वर ॥
पितॄन्यच्छति पुण्यं च ततः किं कुरुते यमः ॥ १ ॥
भुक्तो वा यदि वाऽभुक्तः स्वच्छो वाऽस्वच्छ एव वा ॥
विमुक्तिः कथिता तत्र हरिजागरणान्नृणाम् ॥२॥
अस्नातो वा नरः स्नातो जागरे समुपस्थिते ॥
सर्वतीर्थाप्लुतो ज्ञेयस्तं दृष्ट्वा दिवमाव्रजेत् ॥ ३ ॥
श्वपचा जागरं कृत्वा पदं निर्वाणमागताः ॥
किं पुनर्वर्णसंभूताः सदाचारपरास्तथा ॥ ४ ॥
युवतीनादमाकर्ण्य यथा निद्रा न जायते ॥
जागरे चैवमेव स्यात्तत्कथानां च कीर्तने ॥ ५ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥
उत्कल्लनं मनःपापं शोधयेद्विष्णु जागरः ॥ ६ ॥
विमुक्तिः कामुकस्योक्ता किं पुनर्वीक्षतां हरिम् ॥ ७ ॥
वाचिकं मानसं पापं करणैर्यदुपार्जितम्॥
अन्यैर्निमिषमात्रेण व्यपोहति न संशयः ॥ ८ ॥
गोष्ठ्यां समागता ये तु तेषां पापं कुतः स्मृतम् ॥
मातृपूजा गयाश्राद्धं सुतीर्थगमनं तथा ॥
जागरस्य नृणां राजन्समानि कवयो विदुः ॥ ९ ॥
जननीपूजनं भूप ह्यश्वमेधायुतैः समम् ॥
पूर्णं वर्षशतं भूप कुशाग्रेणोद्धृतं जलम् ॥ 7.4.28.१० ॥
पिबन्पात्रे द्विजः सम्यक्तीर्थे पुष्करसंज्ञिते ॥
जागरस्यैव चैतानि कलां नार्हंति षोडशीम् ॥ ११ ॥
कृत्वा कांचनसंपूर्णां वसुधां वसुधाधिप ॥
दत्त्वा यत्फलमाप्नोति तत्फलं हरिजागरे ॥ १२ ॥
निकृंतनं कर्मणश्च ह्यात्मना दुष्कृतं कृतम् ॥
व्यपोहति न संदेहो येन जागरणं कृतम् ॥ ॥
संक्षेपतः प्रवक्ष्यामि पुनरेव महीपते ॥
जागरे पद्मनाभस्य यत्फलं कवयो विदुः ॥ १४ ॥
रवेर्बिंबमिदं भित्त्वा स योगी हरिजागरे ॥
प्रयाति परमं स्थानं योगिगम्यं निरंजनम् ॥
सांख्ययोगैः सुदुःखेन प्राप्यते यत्पदं हरेः ॥ १५ ॥
नद्यो नदा यथा यांति सागरे संस्थितिं क्रमात् ॥
एवं जागरणात्सर्वे तत्पदे यांति संस्थितिम् ॥ १६ ॥
मेरुमंदरमानानि कृत्वा पापानि वा नरः ॥
हरिजागरणे तानि व्यपोहति न संशयः ॥ १७ ॥
राज्यं स्वर्गं तथा मोक्षं यच्चान्यदीप्सितं नृणाम् ॥
ददाति भगवान्कृष्णः स्वगीतैर्जागरे स्थितः ॥ १८ ॥
जागरेणैव पापानां श्वपचानां महीपते ॥
तत्पदं कविभिः प्रोक्तं किं पुनस्तु द्विजन्मनाम् ॥ १९ ॥
जपध्यानविहीनस्य गायकस्यापि भूपते ॥
कर्मभ्रष्टस्य च प्रोक्तो मोक्षस्तु हरिजागरे ॥ 7.4.28.२० ॥
तन्नास्ति त्रिषु लोकेषु पुण्यं पुण्यवतां नृणाम् ॥
यत्तु साधयते भूप जागरे संव्यवस्थितः ॥ २१ ॥
त्वया पुनरिदं कार्य्यं स्मर्त्तव्यो गरुडध्वजः ॥
एकादश्यां न भोक्तव्यं कर्तव्यं जागरं सदा ॥ २२ ॥
जागरे वर्त्तमानस्य श्वपचस्य गतिर्भवेत् ॥
किंपुनर्वर्णजातीनां वैष्णवानां महीपते ॥ २३ ॥
ये तु जागरणे निद्रां न यांति नृपपुंगव ॥
न तेषां जननी याति खेदं गर्भावधारणात् ॥ २४ ॥
तस्माज्जागरणं कार्य्यं मातुर्जठरवर्जिभिः ॥
भीतेर्मोक्षपरैर्मर्त्यैः सुखचेष्टाबहिष्कृतैः ॥ २५ ॥
यस्तु जागरणं रात्रौ कुर्याद्भक्तिसमन्वितः ॥
निमिषेनिमिषे राजन्नश्वमेधफलं लभेत् ॥ २६ ॥
शयनो त्थापनाभ्यां च समं पुण्यमुदाहृतम् ॥
विशेषो नास्ति भूपाल विष्णुना कथितं पुरा ॥ २७ ॥
ब्राह्मणाः क्षत्रिया वैश्याः स्थिताः शूद्राश्च जागरे ॥
पक्षिणः कृमिकीटाश्च ह्यनेके चैव जंतवः ॥
ते गताः परमं स्थानं योगिगम्यं निरंजनम् ॥ २८ ॥
यानि कानि च पापानि ब्रह्महत्यासमानि च ॥
कृष्णजागरणे तानि क्षयं यांति न संशयः ॥ २९ ॥
एकतः क्रतवः सर्वे सर्वतीर्थसमन्विताः ॥
एकतो देवदेवस्य जागरः कृष्णवल्लभः ॥
न समं ह्यधिकः प्रोक्तः कविभिः कृष्णजागरः ॥ 7.4.28.३० ॥
सूर्यशक्रादयो देवा ब्रह्मरुद्रादयो गणाः ॥
नित्यमेव समायांति जागरे कृष्णवल्लभे ॥ ३१ ॥
गंगा सरस्वती रेवा यमुना च शतह्रदा॥
चंद्रभागा वितस्ता च नद्यः सर्वाश्च तत्र वै ॥३२॥
सरांसि च ह्रदाश्चैव समुद्राः कृत्स्नशो नृप ॥
एकादश्यां नृपश्रेष्ठ गच्छंति हरिजागरे ॥ ३३ ॥
स्पृहणीयास्तु देवेभ्यो ये नराः कृष्णजागरे ॥
नृत्यं गीतं प्रकुर्वंति वीणावाद्यं तथैव च ॥ ३४ ॥
भक्त्या वाऽप्यथवाऽभक्त्या शुचिर्वाप्यथवाऽशुचिः ॥
कृत्वा जागरणं विष्णोर्मुच्यते पापकोटिभिः ॥ ३५ ॥
पादयोः पांसुकणिका यावत्तिष्ठंति भूतले ॥
तावद्वर्षसहस्राणि जागरी वसते दिवि ॥ ३६ ॥
तस्माद्गृहं प्रगन्तव्यं जागरे माधवस्य च ॥
कलौ मलविनाशाय द्वादशद्वादशीषु च ॥ ३७ ॥
सुबहून्यपि पापानि कृत्वा जागरणं हरेः ॥
निर्द्दहेन्मेरुतुल्यानि युगकोटिशतान्यपि ॥ ३८ ॥
उन्मीलिनी महीपाल यैः कृता प्रीतिसंयुतैः ॥
कलौ जागरणोपेता फलं वक्ष्यामि तच्छृणु ॥ ३९ ॥
स्थितौ युगसहस्रं तु पादेनैकेन भूतले ॥
काश्यां च जाह्नवीतीरे तत्फलं लभते नरः ॥7.4.28.४०॥
भवेद्युगसहस्रं च विनाऽऽहारेण यत्फलम्॥
उन्मीलिनीं समासाद्य फलं जागरणे हरेः ॥ ४१ ॥
दुष्प्राप्यं वैष्णवं स्थानं मखकोटिशतैः कृतैः ॥
हेलया प्राप्यते नूनं द्वादश्यां जागरे कृते ॥ ४२ ॥
न कुर्वंति व्रतं विष्णोर्जागरेण समन्वितम् ॥
परस्वं पारदार्यं च पापं तान्प्रति गच्छति ॥४३॥
एकेनैवोपवासेन भावहीनास्तु मानवाः ॥
निर्द्दग्धाऽखिलपापास्ते प्रयांति स्वर्गकाननम् ॥ ४४ ॥
यत्र भागवतं शास्त्रं यत्र जागरणं हरेः ॥
शालिग्रामशिला यत्र तत्र गच्छेद्धरिः स्वयम्॥ ४५ ॥
न पुर्य्यः पावनाः सप्त कलौ वेदवचो नहि ॥
यादृशं वासरं विष्णोः पावनं जागरान्वितम्॥ ४६ ॥
संप्राप्ते वासरे विष्णोर्ये न कुर्वंति जागरम्॥
मज्जंति नरके घोरे नरानार्य्यो न संशयः ॥ ४७ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वादशीजागणरणमाहात्म्यवर्णनंनामाष्टाविंशतितमोऽध्यायः ॥ २८ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 29
॥ प्रह्लाद उवाच ॥ ॥
अथान्यच्च प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ॥
द्वारकायाः परं पुण्यं माहात्म्यं ह्युत्तमोत्तमम् ॥ १ ॥
इतिहासं पुरावृत्तं वर्णयिष्ये मनोहरम् ॥
तीर्थक्षेत्रादिदेवानामृषीणां संशयापहम् ॥२॥
सौभाम्यमतुलं दृष्ट्वा सिंहराशिगते गुरौ ॥
गोदावर्य्यां द्विजश्रेष्ठा नारदो भगवत्प्रियः ॥ ३ ॥
गौतमस्याऽभितो दृष्ट्वा त्रैलोक्यसंभवानि वै ॥
तीर्थानि सरितः सर्वा विस्मयं परमं गतः ॥ ४ ॥
तत्र काशी कुरुक्षेत्रमयोध्या मथुरापुरी ॥
माया कांची ह्यवंती च अरण्यान्याश्रमैः सह ॥ ५ ॥
हरिक्षेत्रं गया मिश्रक्षेत्रं च पुरुषोत्तमम् ॥
प्रभासादीनि पुण्यानि मुक्तिक्षेत्राण्यशेषतः ॥ ६ ॥
जाह्नवी यमुना रेवा तत्र पुण्या सरस्वती ॥
सरयूर्गंडकी तापी पयोष्णी सरितां वरा ॥ ७ ॥
कृष्णा भीमरथी पुण्या कावेर्य्याद्याः सरिद्वराः ॥
स्वर्गे मर्त्ये च पाताले वर्त्तमानाः सतीर्थकाः ॥ ८ ॥
स्थिता गोदावरीतीरे सिंहराशिं गते गुरौ ॥
तथा च पुष्करादीनि सप्तसिंधुसरांसि च ॥ ९ ॥
मेर्वादिपर्वताः पुण्या दर्शनात्पापनाशनाः ॥
तीर्थराज प्रयागश्च सर्वतीर्थसमन्वितः ॥ 7.4.29.१० ॥
वेदोपवेदाः शास्त्राणि पुराणानि च सर्वशः ॥
सिद्धा मुनिगणाः सर्वे देवर्षिपितृदेवताः ॥ ११ ॥
चंद्रादित्यौ सुरगणाः सिंहस्थे च बृहस्पतौ ॥
स्थिता गोदावरीतीरे वर्षमेकं प्रहर्षिताः ॥१२ ॥
यानि कानि च पुण्यानि तीर्थक्षेत्राणि संति वै ॥
त्रैलोक्ये तानि सर्वाणि गौतम्यां वीक्ष्य विस्मिताः ॥ १३ ॥
देवर्षिर्नारदस्तत्र मुनिभिर्मुदितोऽवसत् ॥
सिंहस्यांते(स्थांते) च सर्वाणि स्वस्थानगमनाय वै ॥१४॥
आमन्त्र्य गौतमीं देवीं स्थितानि पुरतस्ततः ॥
सर्वेषां शृण्वतां विप्रा गौतमी खिन्नमानसा ॥
तप्ता दुर्जनसंसर्गान्नारदं दुःखिताऽब्रवीत् ॥ १५ ॥
॥ गौतम्युवाच ॥ ॥
पश्यैतानि सुतीर्थानि गंगाद्याः सरितोऽमलाः ॥
सागरा गिरयः पुण्या गयात्रितयमेव च॥१६॥
क्षेत्राणि मोक्षदान्यंग त्रैलोक्यजानि नारद ॥
देवाश्च पितरः सिद्धा ऋषयो मानवादयः ॥१७॥
तीर्थ राज प्रयागश्च सर्वतीर्थसमन्वितः ॥
एतेषामेव सर्वेषां मत्संसर्गान्महामुने ॥
विशुद्धानां प्रकाशेन राजते भुवनत्रयम् ॥१८॥
प्रयांति तानि सर्वाणि स्वंस्वं स्थानं प्रति प्रभो ॥
अधुनाऽहं परिश्रांता दह्यमाना त्वहर्निशम् ॥१९॥
दुर्जनानां सुसंपर्काद्भृशं पापात्मना प्रभो ॥
सौभण्यमधुना प्राप्तं सत्संसर्गेण नारद ॥7.4.29.२०॥
प्रयांत्येतानि सर्वाणि स्वस्थानं मुदितानि च ॥२१॥
एतानि मत्प्रसादेन पुण्यानि कथितानि च ॥
कथय श्रमशांत्यर्थं दुःखि ता किं करोम्यहम्॥२२॥
॥ प्रह्लाद उवाच ॥ ॥
गोदावर्य्या वचः श्रुत्वा भगवान्नारदो द्विजाः ॥
क्षणं ध्यात्वा तु दुःखार्त्तः प्राह संशयमानसः ॥२३॥ ॥
॥ नारद उवाच ॥ ॥
अहो अत्यद्भुतं ह्येतद्गौतम्या व्यसनं महत् ॥
पश्यन्त्वसंशयं देवास्तीर्थक्षेत्रसरिद्वराः॥२४॥
सत्पुण्यनिचयो यस्यां युष्माकं समभूद्ध्रुवम् ॥
तस्याः पापाग्निशमनं कथं स्यादिति चिन्त्यताम्॥ २५ ॥
॥ श्रीप्रह्लाद उवाच ॥ ॥
तदा चिन्तयतां तेषां सर्वेषां भावितात्मनाम् ॥
गौतमो भगवांस्तत्र समायातो मुनीश्वराः ॥ २६ ॥
दृष्ट्वा तमृषयो देवा यथोचितमपूजयन् ॥
जाह्नवी यमुना पुण्या नर्मदा च सरस्वती ॥ २७ ॥
अन्याश्च सर्वाः सरितस्त्रैलोक्यमनुवर्तिताः ॥
वाराणसी कुरुक्षेत्र प्रमुखान्याश्रमैः सह ॥
युगपत्तानि सर्वाणि संपूज्य मुनिमबुवन्॥२८॥
त्वत्प्रसादेन वै त्राताः सम्यक्छुद्धा महामुने ॥
यदानीता त्वया गंगा गौतमी भूतलं प्रति ॥२९॥
कृतार्था मानवाः सर्वे सर्वपापविवर्जिताः ॥
किंतु दुर्जनसंपर्कात्संतप्ता गौतमी भृशम्॥7.4.29.३०॥
कथं पापैर्विनिर्मुक्ता परमानन्दसंप्लुता ॥
सुप्रभा जायते देवी तद्गौतम विचिन्त्यताम् ॥ ३१ ॥
॥ प्रह्लाद उवाच ॥ ॥
एवमुक्तो मुनिस्तैस्तु चिन्ताकुलितमानसः ॥
नारदस्य मुखं वीक्ष्य प्रहसन्गौतमोऽब्रवीत् ॥ ३२ ॥
॥ गौतम उवाच ॥ ॥
सर्वेषां क्षेत्रतीर्थानां महाशुभविनाशिनी ॥
गौतमीयं महाभागा अस्यास्तापः क्व शाम्यति ॥३३॥
नास्ति लोकत्रये तीर्थं स्नातुं सिंहगते गुरौ ॥
यद्वै नायाति गौतम्यां क्षेत्रं चापि विशुद्धये ॥
काशीप्रयागमुख्यानि राजंते यत्प्रसादतः ॥ ३४ ॥
वदंतु मुनयः सर्वे क्षेत्रतीर्थसमाश्रिताः ॥
शुद्धं विचार्यं यत्कार्य्यं मयाऽस्मिञ्जातसंकटे ॥ ३५ ॥
॥ प्रह्लाद उवाच ॥ ॥
इत्युक्त्वा मुनयः सर्वे नोचुः किञ्चिद्विमोहिताः ॥
तत्रोपायमविज्ञाय गौतमीं गौतमोऽब्रवीत् ॥ ३६ ॥
॥ गौतम उवाच ॥ ॥
आनीतासि मया देवि तपसाऽऽराध्य शंकरम्॥
वदिष्यति स चोपायमित्युक्त्वाऽचिन्तयत्तदा ॥३७॥
गौतमः श्रद्धया भक्त्या गंगामौलिमखंडधीः ॥
तदाऽभून्महदाश्चर्यं शृण्वंतु ऋषयोऽमलाः ॥ ३८ ॥
ध्यायमाने महादेवे गौतमेन महात्मना ॥
अकस्मादभवद्वाणी हर्षयन्ती जगत्त्रयम् ॥ ३९ ॥
नादयन्ती दिशः सर्वा आब्रह्मभुवनं द्विजाः ॥
अरूपलक्षणाकारा विषादशमनी शुभा ॥। ॥ 7.4.29.४० ॥
॥ दिव्यवाण्युवाच ॥ ॥
अहो बत महाश्चर्य्यं सर्वेषां सुखदे शुभे ॥
प्रसंगेऽत्र महाक्षेत्रे मग्ना दुःखार्णवे बुधाः॥ ४१ ॥
अहो हे गौतमाचार्य्य ऋषयो नारदादयः ॥
शृण्वंतु तीर्थक्षेत्राणि कृपया संवदाम्यहम् ॥ ४२ ॥
पश्चिमस्य समुद्रस्य तीरमाश्रित्य वर्तते ॥
अस्माच्च दिशि वायव्यां द्वारकाक्षेत्रमुत्तमम् ॥ ४३ ॥
यत्राऽऽस्ते गोमती पुण्या सागरेण समन्विता ॥
पश्चिमाभिमुखो यत्र महाविष्णुः सदा स्थितः ॥ ४४ ॥
अनेकपापराशीनामुग्राणामपि सर्वदा ॥
दाहस्थान समाख्यातमिन्धनानां यथाऽनलः ॥ ४५ ॥
देवविश्वद्रुहो यत्र दग्ध्वा पातकमद्भुतम् ॥
लोकत्रयवधाज्जातं विराजतेऽर्कवत्सदा ॥ ४६ ॥
तद्गम्यतां महाभागा गोमतीमघदाहकाम् ॥
गोदावरीं पुरस्कृत्य क्षेत्रतीर्थसमन्विताम् ॥ ४७ ॥
प्राप्य द्वारवतीं पुण्यां मत्प्रसादाद्द्विजोत्तमाः ॥
प्रभावाद्द्वारकायाश्च सत्यमाविर्भविष्यति ॥ ४८ ॥
॥ प्रह्लाद उवाच ॥ ॥
इत्युक्ते सति ते सर्वे हर्ष निर्भरमानसाः ॥
श्रुत्वा सर्वोत्तमं क्षेत्रं जगर्जुर्हरिनामभिः ॥ ४९ ॥
जितं भो जितमस्भाभिर्धन्या धन्यतमा वयम् ॥
दैवादपगतो मोहो ज्ञातं तीर्थोत्तमोत्तमम् ॥ 7.4.29.५० ॥
तदा सर्वाणि तीर्थानि क्षेत्रारण्याश्रमैः सह ॥
वाराणसीप्रयागादि सरांसि सिन्धवो नगाः ॥ ५१ ॥
गया च देवखातानि पितरो देवमानवाः ॥
श्रुत्वा प्रमुदिता वाचं प्रोचुर्जयजयेति च ॥ ५२ ॥
अहो सर्वोत्तमं क्षेत्रं सर्वेषां नोऽघनाशनम् ॥
राजानं तीर्थराजानं द्वारकां शिरसा नमः॥ ९३ ॥
॥ श्रीप्रह्लाद उवाच ॥ ॥
श्रुत्वा सर्वोत्तमं क्षेत्रं तीर्थं सर्वोत्तमोत्तमम् ॥
देवोत्तमोत्तमं देवं श्रीकृष्णं क्लेशनाशनम् ॥५४॥
उत्कण्ठा ह्यभवत्तेषां तीर्थादीनां ह्यनुत्तमा ॥
प्रोचुरन्योन्यतो वाचं सर्वाणि युगपत्तदा ॥ ५५ ॥
॥ ऋषितीर्थदेवा ऊचुः ॥ ॥
कदा द्रक्ष्यामहे पुण्यां द्वारकां कृष्णपालिताम् ॥
श्रीकृष्णदेवमूर्तिं च कृष्णवक्त्रं सुशोभितम् ॥ ५६ ॥
कदा नु गोमतीस्नानमस्माकं तु भविष्यति ॥
चक्रतीर्थे कदा स्नात्वा कृष्णदेवस्य मंदिरम् ॥
द्रक्ष्यामः सुमहापुण्यं मुक्तिद्वारमपावृतम् ॥ ५७ ॥
दुर्ल्लभो द्वारकावासो दुर्ल्लभं कृष्णदर्शनम् ॥
दुर्ल्लभं गोमती स्नानं रुक्मिणीदर्शनं द्विजाः ॥ ५८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये गौतमीतीरस्थसमस्ततीर्थक्षेत्रादीनां देववाण्या द्वारकाप्रभावं श्रुत्वा द्वारकागमनोत्सुकतापूर्वक गोमतीवर्णनंनामैकोनत्रिंशत्तमोऽध्यायः ॥ २९ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 30
॥ ॥ श्रीप्रह्लाद उवाच ॥ ॥
तदा तेषां सुतीर्थानां क्षेत्राणामभवन्मुदः ॥
गन्तुं द्वारवतीं पुण्यां सर्वेषामपि सर्वशः ॥ १ ॥
द्वारकागमने दृष्ट्वा तथा नारदगौतमौ ॥
महोत्सवो महांस्तत्र भविष्यति मनोहरः ॥२ ॥
तीर्थानां कृष्णयात्रायां गन्तव्यमित्यवो चतुः ॥
अथ ते ह्यृषयो देवाः सर्वतीर्थसमन्विताः ॥ ३ ॥
गौतमीं तु पुरस्कृत्य ययुर्द्वारवतीं मुदा ॥
तदा सर्वाणि तीर्थानि क्षेत्रारण्यानि कृत्स्नशः ॥
द्वारकागमनं चक्रुः सानन्दा ऋषयः सुराः ॥ ४ ॥
श्रद्धया परया भक्त्या कृष्णदर्शनलालसाः॥
वीणानिनादतत्त्वज्ञं नारदं पथि तेऽ ब्रुवन्॥ ५ ॥
॥ ऋषय ऊचुः ॥ ॥
राशयः पुण्यपुञ्जानां कृता वै तपसां तथा ॥
यज्ञदानव्रतानां च तीर्थानां महतां भुवि ॥ ६ ॥
संप्राप्तस्तत्प्रसादोऽयं यद्द्रक्ष्यामः कुशस्थलीम् ॥
पृच्छामहेऽधुना त्वां वै योगिनां परमं गुरुम् ॥ ७ ॥
द्वारकायास्तु यात्रायां को विधिः संप्रकीर्तितः ॥
नियमः कोऽत्र कर्त्तव्यो वर्जनीयं च किं मुने ॥ ८ ॥
श्रोतव्यं कीर्तितव्यं च स्मर्तव्यं किं च वै पथि ॥
उत्सवाश्चात्र के प्रोक्ता द्वारकायाश्च तत्पथि॥।
एकैकश्च महाभाग भक्तानन्दविवर्द्धनम् ॥
एतत्सर्वं महाभाग कृपया संप्रकीर्त्यताम् ॥ 7.4.30.१० ॥
॥ श्रीनारद उवाच ॥ ॥
कृताभ्यंगस्तु पूर्वेद्युः संपूज्य श्रद्धया हरिम्॥
भोजयेद्वैष्णवान्विप्रान्स्वशक्त्या संप्रहर्षितः ॥ ११ ॥
अनुज्ञातो महाविष्णोः प्रसादमुपयुज्य वै ॥
शयीत भुवि सुप्रीतो द्वारकां कृष्णमानसः ॥ १२ ॥
श्वोभूते तु शुचिः स्नातः संपूज्य जगदीश्वरम् ॥
प्रदक्षिणं नमस्कृत्य महाविष्णोरनुज्ञया ॥
पृष्ट्वा कुलवृद्धांश्च ब्राह्मणान्वैष्णवान्प्रियान्॥ १२ ॥
ततस्तु तदनुज्ञातो गीतवादित्रसंस्तवैः ॥
यात्रारंभं प्रकुर्वीत द्वारकायां प्रहर्षितः ॥ १४ ॥
द्वारकां गच्छमानस्तु शान्तो दांतः शुचिः सदा ॥
ब्रह्मचर्यमधः शय्यां कुर्वीत नियतेन्द्रियः ॥ १५ ॥
सहस्रनामपठनं पुराणपठनं तथा ॥
कर्त्तव्यं सकृपं चित्तं सतां शुश्रूषणं तथा ॥ १६ ॥
अन्नदानादिकं सर्वं विभवे सति मानवः ॥
अपि स्वल्पं स्वशक्त्या वै कृतं कोटिगुणं भवेत् ॥ १७ ॥
पथि कृष्णस्य यो भक्त्या ग्रासमेकं प्रयच्छति ॥
द्वीपांता तेन दत्ता भूः पुण्यस्यान्तो न विद्यते ॥ १८ ॥
किं पुनर्द्वारकाक्षेत्रे कृष्णस्य च समीपतः ॥
कलावेकेकसिक्थे च राजसूयायुतं फलम्॥ १९ ॥
गयाश्राद्धसहस्राणि कृतानि शतसंख्यया ॥
अन्नदानं कृतं यैस्तु द्वारकापथि मानवैः ॥ 7.4.30.२० ॥
औषधं चान्नपानीयं पादुके कंबलं तथा॥
वासांस्युपानहौ चैव वित्तं च विभवे सति ॥
वर्जयेत्संकरं विद्वान्यूथालापांस्तथैव च ॥ २१ ॥
परनिन्दां च पैशुन्यं परस्य परिवञ्चनम् ॥
परान्नं परपाकं च सति वित्ते त्यजेद्बुधः ॥ २२ ॥
न दोषो हीनवित्तस्य तावन्मात्रपरिग्रहे ॥
श्रोतव्या सत्कथा विष्णोर्नामसंकीर्त्तनामृतम्॥ २३ ॥
द्वारकापथिगच्छद्भिरन्योन्यं भक्तिवर्द्धनम् ॥
जप्तव्यं वैदिकं जाप्यं स्तोत्रमागमिकं तथा ॥ २४ ॥
यात्रायां यत्फलं प्रोक्तं श्रीकृष्णस्य च वै कलौ ॥
न शक्यते मया वक्तुं वदनैर्युगसंख्यया ॥ २५ ॥
इत्येतत्कथितं सर्वं यत्पृष्टं तु द्विजोत्तमाः ॥
यतध्वं तत्प्रयत्नेन विष्णुप्राप्तौ च सत्वरम् ॥ २६ ॥
॥ श्रीप्रह्लाद उवाच ॥ ॥
एवं ते नारदेनोक्ता मुनयो हृष्टमानसाः ॥
चक्रुस्ते सहिताः सर्वे कृष्णदेवस्य तत्पथि ॥ २७ ॥
केचिच्छृण्वन्ति ता विष्णोः सत्कथा लोकविश्रुताः ॥
यासां संश्रवणादेव भगवान्विशते हृदि ॥ २८ ॥
कीर्त्यमानानि नामानि महापुण्यप्रदानि वै ॥
पावनानि सदा लोके कलौ विप्रा विशेषतः ॥ २९ ॥
पुराणसंहिता दिव्या मुनिभिः परिकीर्तिताः ॥
प्रकाशयंति या विष्णोर्महिमानं सुमंगलम् ॥ 7.4.30.३० ॥
सद्गुणाः कर्मवीर्य्याणि कृतानि विष्णुना पुरा ॥
लीलावताररूपैस्तु शृण्वन्ति परया मुदा ॥ ॥३१॥
अपरे वासुदेवस्य चरितानि सुमंगलाः ॥
वदंति परया भक्त्या सानन्दाः साश्रुलोचनाः ॥ ३२ ॥
अन्ये स्मरंति देवेशमनादिनिधनं विभुम्॥
केचिज्जपंति मुनयः स्तोत्राणि परया मुदा ॥ ३३ ॥
केचित्तु शतनामानि जपन्ति मुनयः पथि ॥
अन्ये सहस्रनामानि लक्षनाम तथाऽपरे ॥ ३४ ॥
केचिल्लौकिकगीतानि हरिनामानि हर्षिताः ॥
उत्सवैश्च व्रजंत्यन्ये पताकादिविभूषिताः ॥ ३५ ॥
गीतवादित्रघोषेण करतालस्वनेन च ॥ ॥
नास्ति धन्यतमस्तस्मात्त्रिषु लोकेषु कश्चन ॥ ३६ ॥
दर्शनं यस्य संजातं वैष्णवानामनुत्तमम्॥
तथैव जाह्नवी पुण्या यमुना च सरस्वती ॥ ॥ ३७ ॥
रेवाद्याः सरितः सर्वाः प्रचक्रुर्गीतनर्त्तनम् ॥
प्रयागादीनि तीर्थानि सागराः पर्वतोत्तमाः ॥ ३८ ॥
वाराणसी कुरुक्षेत्रं पुण्यान्यन्यानि कृत्स्नशः ॥
त्रैलोक्ये यानि तीर्थानि क्षेत्राणि देवनायकाः ॥
चक्रुर्गीतं च नृत्यं च द्वारकायाश्च सत्पथि ॥ ३९ ॥
एकैकस्मिन्पदे दत्ते द्वारकापथि गच्छताम् ॥
पुण्यं क्रतुसहस्राणां तत्पादरजसंख्यया ॥ 7.4.30.४० ॥
अथ ते मुनयः सर्वे तीर्थक्षेत्रादिसंयुताः ॥
श्रीमत्कृष्णालयं दूराद्ददृशुर्नारदादयः ॥ ४१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वारकां प्रति गोदावर्यादितीर्थक्षेत्रदेव महर्षिगमनोत्सवयात्रावर्णनंनाम त्रिंशत्तमोऽध्यायः ॥ ३० ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 31
॥ प्रह्लाद उवाच॥। ॥
दिव्यस्वप्रभया ध्वांतं भूतानां नाशयन्सदा ॥
जनयन्परमानंदं भक्तानां च भयापहः ॥ १ ॥
पताकाभिर्ध्वजस्थाभिर्द्वारकाजयवर्द्धनः ॥
दिव्यपुण्यप्रकाशेन राजते गिरिराडिव ॥ २ ॥
दृष्ट्वाऽऽलयं तदा विष्णोस्तदायुधविभूषितम्॥
विहाय पादुके च्छत्रं दण्डवत्पतिता भुवि ॥ ३ ॥
भूमिसंलुठनं तेषां तीर्थानामद्भुतं महत् ॥
अभवद्विप्र शार्दूलाः क्षेत्रादीनां च सर्वशः ॥ ४ ॥
वाराणसी कुरुक्षेत्रं प्रयागो जाह्नवी तथा ॥
यमुना नर्मदा पुण्या पुण्या प्राची सरस्वती ॥ ५ ॥
गोदावरी महापुण्या गया तिस्रस्तु मंगलाः ॥
शालिग्रामं महाक्षेत्रं पुण्या चक्रनदी शुभा ॥ ६ ॥
पयोष्णी तपती कृष्णा कावेर्य्याद्याः सुपुण्यदाः ॥
पुष्करादीनि तीर्थानि सागराः पर्वतोत्तमाः ॥ ७ ॥
अयोध्या मथुरा माया अवंत्याद्याश्च मुक्तिदाः ॥
श्रीरंगाख्यमनंतं च प्रभासं च विशेषतः ॥ ८ ॥
पुरुषोत्तमं महाक्षेत्रमरण्यान्यादयः शुभाः ॥
त्रैलोक्ये वर्त्तमानानि सर्वतीर्थानि सर्वशः ॥ ९ ॥
दृष्ट्वा कृष्णालयं पुण्यं मुहुर्मुहुः प्रहर्षिताः ॥
जय शब्दैर्नमःशब्दैर्गर्जंतो हरिनामभिः ॥ 7.4.31.१० ॥
आनंदाश्रूणि मुंचंतः प्रेम्णा गद्गदया गिरा ॥
स्तुवंति मुनयः सर्वे तीर्थादीनि च सर्वशः ॥ ११ ॥
अथ संस्तुवतां तेषामन्योन्यं मुदितात्मनाम् ॥
वीक्ष्य वक्त्राणि सर्वेषां महर्षिर्नारदोऽब्रवीत् ॥ १२ ॥
॥ श्रीनारद उवाच ॥ ॥
राशयः पुण्य पुंजानां कृता युष्माभिरुत्तमाः ॥
तज्जन्मना सहस्रैस्तु यद्दृष्टं कृष्णमंदिरम् ॥ १३ ॥
दर्शनं कृष्णदेवस्य द्वारकागमने मतिः ॥
दृढभक्तिर्महाविष्णोर्नाल्पस्य तपसः फलम् ॥ १४ ॥
धन्या वै पूर्वजास्तेषां वंशजाः कृष्णदर्शनं ॥
सोत्सवा द्वारकां यांति पश्यंति च हरिप्रियाम् ॥ १९ ॥
धन्येयं गौतमी गंगा गौतमोऽयं महातपाः ॥
यत्प्रसादेन सर्वेषां कल्याणं समुपस्थितम् ॥ १६ ॥
यज्ञाध्ययनदानानां तपोव्रतसमाधिनाम्॥
संप्राप्तफलमस्माभिर्युष्माभिः सर्वतीर्थकाः ॥ १७ ॥
यूयं सर्वाणि तीर्थानि क्षेत्राणि चैव कृत्स्नशः ॥
कृष्णाज्ञया सर्वकालं तिष्ठध्वं सर्वदैवतैः ॥ ॥ १८ ॥
वसंति येऽत्र ते धन्या एकाहमपि पावनाः ॥
पश्यंतु सुमहाभागा गोदावर्य्यत्र जाह्नवी ॥ १९ ॥
इयं च शोभते पुण्या द्वारका कृष्ण वल्लभा ॥
प्रपश्यंतु महाभागास्तथा वाराणसीं शुभाम् ॥ 7.4.31.२० ॥
क्षेत्राणि कुरुमुख्यानि पश्यंतु द्वारकां प्रभोः ॥
तादृशी मथुरा काशी मायाऽध्योध्या च राजते ॥ २१ ॥
अवन्ती न च कांची च क्षेत्रं च पुरुषोत्तमम् ॥
सूर्योपरागकालेऽपि कुरुक्षेत्रं न राजते ॥ २२ ॥
ईदृशं न गयातीर्थं यादृगेतत्प्रकाशते ॥ २३ ॥
ग्रहनक्षत्रताराणां यथा सूर्य्यो विराजते ॥
सक्षेत्रतीर्थराजानां द्वारकार्को विराजते ॥ २४ ॥
॥ प्रह्लाद उवाच ॥ ॥
निशम्य नारदेनोक्तं प्रहृष्टाश्च तथा द्विजाः ॥
क्षेत्राणि सर्वतीर्थानि पुरस्कृत्य च गौतमम् ॥ २५ ॥
विहाय गौतमीं तत्र प्रययुर्ह्यग्रतोग्रतः ॥
प्रहृष्टा गौतमी तत्र प्रणम्य त्वरिता ययौ ॥ २६ ॥
गीतवाद्यैश्च नृत्यैश्च पताकाभिः समंततः ॥
प्रययुः स्तोत्रपाठैश्च सर्वे ते द्वारकाश्रये ॥ २७ ॥
स तीर्थान्यग्रतः कृत्वा मध्ये कृत्वा तु शोभनम् ॥
प्रयागं तीर्थराजं च प्रहृष्टं क्षेत्रदर्शनात् ॥ २८ ॥
ततः पश्चात्सरित्स्नानं चकार ऋषिसत्तमः ॥
जाह्नवी गौतमी रेवा यमुनाप्राक्सरस्वती ॥ २९ ॥
सरयूर्गंडकी तापी पयोष्णी यमुना तथा ॥
कृष्णा भीमरथी गंगा कावेरी चाघनाशिनी ॥ ॥ 7.4.31.३० ॥
मंदाकिनी महापुण्या पुण्या भोगवती नदी ॥
व्रजंति युगपत्सर्वाः पश्यंत्यो द्वारकां पुरीम् ॥ ३१ ॥
ततस्ते सागराः सप्त स्वैःस्वैस्तीर्थैः समन्विताः ॥
ततः पश्चादरण्यान्याश्रमैः पुण्यैयुतानि च ॥ ३२ ॥
ततस्तु पर्वता रम्या मेर्वाद्यास्तु सुशोभनाः ॥
नृत्यंतो गायमानाश्च स्तवाद्यैस्तु महर्षिभिः ॥ ३३ ॥
ततश्च ऋषयो देवाः समंताद्धृष्टमानसाः ॥
गायंतो नृत्यमानाश्च गर्जंतो हरिनामभिः ॥ ३४ ॥
वादित्रनिनदैरुच्चैर्जयशब्दैः प्रहर्षिताः ॥
प्राप्तास्ते गोमतीतीरं सर्वयज्ञसमन्विताः ॥
ववंदिरे महापुण्याः सर्वे ते हृष्टमानसाः ॥ ३५ ॥
॥ श्रीनारद उवाच ॥ ॥
हे भागीरथि हे रेवे यमुने शृणु गौतमि ॥
श्रेष्ठा श्रीगोमतीदेवी विख्याता भुवनत्रये ॥ ३६ ॥
यस्याः सकृज्जलस्नानं स्पर्द्धते ब्रह्मविद्यया ॥
तेन वै गोमती सेयं सर्वतीर्थोत्तमोत्तमा ॥
ब्रह्मज्ञानेन मुच्यंते प्रयागमरणेन वा ॥
स्नानमात्रेण गोमत्यां मुच्यते पूर्वजैः सह ॥ ३७ ॥
॥ प्रह्लाद उवाच ॥ ॥
निशम्य तानि तीर्थानि माहात्म्यं महदद्भुतम् ॥
गोमत्याः श्रद्धया स्नात्वा उत्सवैरग्रतो ययुः ॥ ३८ ॥
ततः क्षेत्राणि तीर्थानि सरितः सागरादयः ॥
ददृशुर्द्वारकां रम्यामागता द्वारमण्डपे ॥ ३९ ॥
स्थितां सिंहासने दिव्ये मणिकांचनभूषिते ॥
सुन्दरां शुक्ल वर्णां च रुद्रादित्यसमप्रभाम् ॥ 7.4.31.४० ॥
दिव्यवस्त्रां सुगंधाढ्यां रत्नाभरणभूषिताम् ॥
किरीटकुण्डलैर्दिव्यैः शोभितां कंकणादिभिः ॥ ४१ ॥
वरदाभयहस्तां च शंखचक्रगदायुधाम्॥
श्वेतातपत्रशोभाढ्यां चामरव्यजनादिभिः ॥ ४२ ॥
संस्तवैः स्तूयमानां च गीतवाद्यादिहर्षिताम् ॥
महासिंहासनस्थां तु दृष्ट्वा द्वारवतीं पुरीम्॥
प्रणेमुर्युगपत्सर्वे सर्वाणि च सुभक्तितः ॥ ४३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये मूर्तिमतीद्वारवतीदर्शनवर्णनंनामैकत्रिंशत्तमोऽध्यायः ॥ ३१ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 32
॥ प्रह्लाद उवाच ॥
नारदस्त्वग्रतो गत्वा प्रणम्याथ हरिप्रियाम् ॥
उवाच ललितां वाचं हर्षयन्द्वारकां पुरीम् ॥ १ ॥
॥ श्रीनारद उवाच ॥ ॥
पश्यपश्य महाभागे सर्वे प्राप्ताः सुशोभने ॥
तीर्थक्षेत्राणि देवाश्च ऋषयश्चैव कृत्स्नशः ॥ २ ॥
पश्येमं पुरतः प्राप्तं प्रयागं तीर्थकैः सह ॥
द्वारके तव पादाब्जे लुण्ठंते श्रद्धयाद्भुतम् ॥ ३ ॥
इदं तु पुष्करं तीर्थं नमति श्रद्धया शुभे ॥
इयं तु गौतमी पुण्या सर्वतीर्थसमाश्रया ॥ ४ ॥
सिंहस्थे च गुरौ भद्रे संप्राप्ता सौभगं महत् ॥
किन्तु दुर्जनसंसर्गाद्दग्धा पापाग्निना भृशम् ॥ ५ ॥
तत्रोपायमभिज्ञाय ऋषीणां शृण्वतां तदा ॥
श्रुत्वा कर्णे महच्छब्दं संप्राप्तेयं तवांतिकम् ॥ ६ ॥
नमस्करोति देवि त्वां द्वारके गौतमी शुभा ॥
पश्यपश्य महापुण्या इयं भागीरथी शुभा ॥ ७ ॥
नमस्करोति ते पादौ संहृष्टा च पुनःपुनः ॥
पश्येमां नर्मदां रम्यां प्रणतां तव पादयोः ॥ ८ ॥
यमुना चन्द्रभागेयमियं प्राचीसरस्वती ॥
सरयूर्गंडकी प्राप्ता गोमती पूर्ववाहिनी ॥ ॥ ९ ॥
शोणः सिन्धुनदी चैता अन्याश्च सरितां वराः ॥
कृष्णा भीमरथी पुण्या कावेर्य्याद्याः सरिद्वराः ॥ 7.4.32.१० ॥
सीताचक्षुर्नदी भद्रा नमंत्येताः पदांबुजम् ॥
द्वारके ता महापुण्याः सप्तद्वीपोद्भवाः पराः॥११॥
मन्दाकिनी महापुण्या भोगवत्यादिसंयुता॥
पश्याश्चर्यमिदं भद्रे वाराणसी विमुक्तिदा ॥१२॥
भक्त्या ते च पदांभोजं शिरस्याधाय वर्तते ॥
कुरुक्षेत्रं महापुण्यं नमति त्वामहर्निशम् ॥१३॥
द्वारके मथुरां पश्य प्रणतां तव पादयोः ॥
अयोध्याऽवंतिकामायास्ता नमंति पदांबुजम्॥ १४ ॥
कांची गया विशाला च विरजा लुठति क्षितौ ॥
शालिग्रामं महाक्षेत्रं पतितं तव पादयोः॥
विराजते प्रभासं च क्षेत्रं च पुरुषोत्तमम् ॥ १५ ॥
भार्गवादीनि चान्यानि सर्वक्षेत्राणि सुन्दरि ॥
द्वारके प्रणमंति त्वां भक्त्योत्थाय पुनःपुनः ॥ ॥ १६ ॥
पश्येमान्सागरान्सप्त पतितस्तांब पादयोः ॥
पश्यारण्यानि सर्वाणि नैमिषं प्रणतं पुरः ॥ १७ ॥
धनुष्कं च दशारण्यं दंडकारण्यमर्बुदम्॥
नारायणाश्रमं पश्य द्वारके प्रणतं तथा ॥ १८ ॥
अयं मेरुश्च कैलासो मन्दराद्याः सहस्रशः ॥
हिमाद्रिर्विंध्यशैलश्च श्रीशैलाद्याः प्रहर्षिताः ॥
एते ह्यृषिगणाः सर्वे नमंतिस्म पुनःपुनः ॥ १९ ॥
गंगाद्याः सागराः शैला नृत्यंति पुरतस्तव ॥
ऋषिदेवगणाः सर्वे सर्वे गर्जंति नामभिः ॥ 7.4.32.२० ॥ ॥
॥ श्रीप्रह्लाद उवाच ॥ ॥
इत्येवं वदतस्तस्य द्वारका हृष्टमानसा ॥
नृत्यतो मुदितान्वीक्ष्य सर्वान्प्रेम्णाभिनंद्य च ॥
उवाच ललिता वाचं गौतमीं स्पृश्य पाणिना ॥ २१ ॥
भागीरथीप्रयागादीन्क्षेत्रादीनथ सर्वशः ॥
द्वारका मधुरालापैः सर्वानानंदयत्तदा ॥ २२ ॥
अथाश्चर्यमभूत्तत्र सर्वानंदविवर्द्धनम् ॥
अथ तावत्तदाऽऽकाशे गीतवाद्यजयस्वनाः ॥ २३ ॥
गर्जनानि सुपुण्यानि हरिशब्दैः पृथक्पृथक् ॥
अपश्यन्वै तदा सर्वे ब्रह्माद्या देवनायकाः ॥ २४ ॥
महेशः स्वगणैः सार्द्धं भवान्या समदृश्यत ॥
इन्द्रस्तु त्रिदशैः सार्द्धं यक्षगन्धर्वकिन्नरैः ॥ २५ ॥
मरुद्भिर्लोकपालैश्चा नृत्यमानाः प्रहर्षिताः ॥
सिद्धविद्याधराः सर्वे वस्वादित्याश्च सग्रहाः ॥ २६ ॥
भृग्वाद्याः सनकाद्याश्च नृत्यमानाः प्रहर्षिताः ॥
ब्रह्माणं च नमस्कृत्य सप्तस्वर्गस्थिताः सुराः ॥ २७ ॥
ऊचुस्ते द्वारकां दृष्ट्वा ब्रह्मेशानादयस्तदा ॥
हर्षविह्वलितात्मानो वीक्ष्याऽन्योन्यं च विस्मिताः ॥ २८ ॥ ॥
॥ देवा ऊचुः ॥ ॥
सेयं वै द्वारका देवी वहते यत्र गोमती ॥
यत्राऽऽस्ते भगवान्कृष्णः सेयं पुण्या विराजते ॥ २९ ॥
सर्वक्षेत्रोत्तमा या च सर्वतीर्थोत्तमोत्तमा ॥
स्वर्गादप्यधिका भूमौ द्वारकेयं प्रकाशते ॥ 7.4.32.३० ॥
एतद्वै चक्रतीर्थं च यच्छिला चक्र चिह्निता ॥
मुक्तिदा पापिनां लोके म्लेच्छदेशेऽपि पूजिता ॥ ३१ ॥
॥ प्रह्लाद उवाच ॥ ॥
ब्रह्मादीनागतान्दृष्ट्वा विस्मिता नारदादयः ॥
क्षेत्राणि तीर्थमुख्यानि विस्मितानि सरिद्वराः ॥
प्रणेमुर्युगपत्सर्वे सर्वाः सर्वाणि सर्वशः ॥ ३२ ॥
ब्रह्मादीनां च तीर्थानां दृष्ट्वा यात्रां मनोहराम् ॥
द्वारकां प्रति विप्रेन्द्रा विस्मिता द्वारकौकसः ॥ ३३ ॥
दृष्ट्वा देवगणाः सर्वे द्वारकां प्रति मंदिरे ॥
गीतवाद्यादि निर्घोषैर्नृत्यमानाः प्रहर्षिताः ॥ ३४ ॥
वदन्तो जयशब्दांश्च सेयं कृष्णप्रियेति च ॥
दृष्ट्वा ब्रह्ममहेशानौ द्वारकां प्रीतमानसौ ॥ ३५ ॥
त्यक्त्वा च वाहने श्रेष्ठे दण्डवत्पतितौ भुवि ॥
ऊचतुश्च तदा देवौ द्वारकां प्रति हर्षितौ ॥ ३६ ॥
श्रेष्ठा त्वमम्ब सर्वेभ्योऽस्मदादिभ्योऽपि सर्वतः ॥
यतस्त्वां न त्यजेत्साक्षाद्भगवान्विष्णुरव्ययः ॥ ३७ ॥
अतो दर्शय देवेशं कृष्णं कंसविनाशनम् ॥
यद्दर्शनान्महासिद्धिः सर्वेषां च भविष्यति ॥ ३८ ॥ ॥
॥ प्रह्लाद उवाच ॥ ॥
इत्युक्त्वा प्रययौ देवी तीर्थक्षेत्रादिसंयुता ॥
ब्रह्मेशानौ पुरस्कृत्य हृष्टौ दृष्ट्वा महोत्सवान् ॥ ३९ ॥
गीतवाद्यपताकैश्च दिव्योपायनपाणिभिः ॥
प्राप्योवाच ततो देवान्द्वारका हर्षविह्वला ॥ 7.4.32.४० ॥
पश्यतां पश्यतां देवाः सोऽयं वै द्वारकेश्वरः ॥
प्राप्य संदर्शनं यस्य मुक्तानां यत्फलं भवेत् ॥
न विद्यते सहस्रेषु ब्रह्मांडेषु च यत्फलम् ॥ ४१ ॥
ततो देवगणाः सर्वे क्षेत्रतीर्थादिसंयुताः ॥
पश्चिमाभिमुखं दृष्ट्वा कृष्णं क्लेशविनाशनम् ॥
प्रणेमुर्युगपत्सर्वे प्रहृष्टाः समुपागताः ॥ ४२ ॥
गीतवाद्यप्रघोषैश्च नृत्यमानाः समंततः ॥
जयशब्दं नमःशब्दं गर्जंतो हरिनामभिः ॥ ४३ ॥
ब्रह्मा भवो भवानी च सेन्द्रा देवगणा भुवि ॥
दृष्ट्वा कृष्णं प्रणेमुस्ते भक्त्योत्थाय पुनःपुनः॥ ४४ ॥
प्रयागादीनि तीर्थानि गंगाद्याः सरितोऽमलाः ॥
ऋषयो देवगंधर्वाः शुकाद्याः सनकादयः ॥
वीक्ष्य वक्त्रं महाविष्णोः प्रणेमुश्च मुहुर्मुहुः ॥ ४५ ॥
कृष्णकृष्णेति कृष्णेति जय कृष्णेति वादिनः ॥
स्नात्वा तु गोमतीनीरे तीरे चैव महोदधेः ॥
कमलासनः संहृष्टः श्रीमत्कृष्णमपूजयत् ॥ ४६ ॥
स्वर्धेनुपयसा स्नाप्य दिव्यैश्चा मृतपंचकैः ॥
भवश्चाथ भवानी च पूजयामास भक्तितः ॥ ४७ ॥
इन्द्रो देवगणाः सर्वे योगिनः सनकादयः ॥
ऋषयो नारदाद्याश्च गंगाद्याश्च सरिद्वराः ॥ ४८ ॥
अमूल्याभरणैर्भक्त्या महारत्नविनिर्मितैः ॥
दिव्यैर्माल्यैरनेकैश्च नन्दनादिसमुद्भवैः ॥ ४९ ॥
प्रियया श्रीतुलस्या वै श्रीमत्कृष्णमपूजयन् ॥
धूपैर्नीराजनैर्दिव्यैः कर्पूरैश्च पृथक्पृथक् ॥ 7.4.32.५० ॥
नैवेद्यैर्विविधैः पुष्पैर्दिव्यैः कर्पूरवासितैः ॥
सकर्पूरैश्च तांबूलैः प्रियैश्चोपायनैस्तथा ॥५१
महामांगलिकैः सर्वैः सुदिव्यैर्मंगलाऽऽर्तिकैः ॥
संपूज्यैवं महाविष्णुं कृष्णं क्लेशविनाशनम् ॥
प्रहृष्टा ननृतुः सर्वे गीतवाद्यप्रहर्षिताः ॥५२ ॥
पुरतः कृष्णदेवस्य ह्यप्सरोभिः समन्विताः ॥
ब्रह्मा च ब्रह्मपुत्राश्च ततः सेन्द्रा मरुद्गणाः ॥ ५३ ॥
ब्रह्मादीन्नृत्यतः प्रेक्ष्य भगवान्कमलेक्षणः ॥
वारयामास हस्तेन प्रीतः प्राह सुरान्विभुः॥ ५४ ॥
॥ श्रीभगवानुवाच ॥ ॥
भोभो ब्रह्मन्महेशान हे भवानि महेश्वरि ॥
क्षेत्राणि सर्वतीर्थानि नारदः सनकादयः ॥
प्रीतोऽहं भवता सम्यक्सर्वान्कामानवाप्स्यथ ॥ ५५ ॥
॥ प्रह्लाद उवाच ॥ ॥
तदाभिलषिताँल्लब्ध्वा स र्वान्कामवरानथ ॥
भक्त्या परमया श्रीमत्कृष्णं प्रोचुः प्रहर्षिताः ॥ ५६ ॥
॥ देवा ऊचुः ॥ ॥
प्राप्तः कामवरोऽस्माभिः सर्वतः कृपया विभो ॥
सप्रेमा त्वत्पदांभोजे भक्तिर्भव्याऽनपायिनी ॥ ५७ ॥
॥ प्रह्लाद उवाच ॥ ॥
तथैव पूजयामासू रुक्मिणीं कृष्णवल्लभाम् ॥
अथ ब्रह्ममहेशानौ सर्वेषां शृण्व तामिदम् ॥ ५८ ॥
श्रद्धया परया युक्तौ द्वारकां प्रत्यवोचतुः ॥
त्वं देवि सर्वतीर्थानां क्षेत्राणामुत्तमोत्तमा ॥ ५९ ॥
पर्वतानां यथा मेरुः सिन्धूनां सागरो यथा ॥
प्राणो यथा शरीराणामिन्द्रियाणां तु वै मनः ॥ 7.4.32.६० ॥
तेजस्विनां यथा वह्निस्तत्त्वानां चैत्त्य ईज्यते ॥
यथा ग्रहर्क्षताराणां सोमो वै ज्योतिषां धुवम् ॥
एषां प्रकाशपुंजानां यथा सूर्य्यः प्रकाशते ॥ ६१ ॥
यथा नः सर्वदेवानां महाविष्णुरयं महान् ॥
तथैव सर्वतीर्थानां पूज्येयं द्वारका शुभा ॥ ६२ ॥
॥ प्रह्लाद उवाच ॥ ॥
इत्युक्त्वा सर्वदेवानां क्षेत्रादीनां च सत्तमाः ॥
आधिपत्ये सुरेशानौ द्वारकामभिषेचतुः ॥ ६३ ॥
ब्रह्मेशानौ तथा देवाः प्रजेशा ऋषयोऽमलाः ॥
तीर्थानां क्षेत्रराजानां महाराजत्वकारणम्॥६४॥
चक्रुर्महाभिषेकं तु द्वारकायाः प्रहर्षिताः॥
वादयन्तो विचित्राणि वादित्राणि महोत्सवे ॥ ६५ ॥
दिव्यैः पञ्चामृतैस्तोयैः सर्वतीर्थसमुद्भवैः ॥
पुण्यैश्चाकाशगंगाया दिग्गजानां करोद्धृतैः ॥ ६६ ॥
अथ वासांसि दिव्यानि दत्त्वा चाऽऽचमनं तथा ॥
चर्चितां चन्दनैर्दिव्यैर्दिव्याभरणभूषिताम् ॥ ६७ ॥
पूजां च चक्रिरे पुष्पैश्चंदनादिसमुद्भवैः ॥
तदा जाता महादिव्या पुरुषाः पार्षदा हरेः ॥ ६८ ॥
विष्वक्सेनसुनंदाद्या द्योतयन्तो दिशो दश ॥
जयशब्दं नमःशब्दं वदंतः पुष्पवर्षिणः ॥ ६९ ॥
गीतवादित्रघोषेण नृत्यमानाः प्रहर्षिताः ॥
किरीटकुण्डलैर्हारैर्वैजयंत्या विभूषिताः ॥ 7.4.32.७० ॥
श्यामाश्चतुर्भुजाः पीतवस्त्रमाल्यैर्विभूषिताः ॥
स्वप्रभा दीप्यमानौ ते दृष्ट्वा ब्रह्ममहेश्वरौ ॥ ७१ ॥
नारदं सनकादींश्च महाभागवतानृषीन् ॥
तेऽपि तानपि संहृष्टाः प्रहर्षागतसंभ्रमाः ॥७२॥
ववंदिरे ततो ऽन्योऽन्यं हृष्टा आलिंगनादिभिः ॥
ऋषयोऽन्ये च देवाश्च प्रणेमुर्विष्णुपार्षदान् ॥ ७३ ॥
अथ ते समुपागम्य द्वारकां विष्णुपार्षदाः ॥
नत्वाऽथ द्वारकानाथं द्वारकां वै तथैव च ॥ ७४ ॥
संपूज्य श्रद्धया भक्त्या निःश्रेयसवनोद्भवैः ॥
कुसुमैर्विविधैर्दिव्यैस्तुलस्या तद्वनोत्थया ॥ ७५ ॥
तदुत्पन्नैः फलैर्दिव्यैर्धूपैर्नीराजनैः प्रभुम् ॥
विविधैश्चान्नतांबूलैर्दत्त्वा कृष्णमतोषयन् ॥ ७६ ॥
क्षेत्रतीर्थादिराजानां महाराजस्त्वमीश्वरि ॥
इति सर्वे वदन्तस्तु द्वारकां च ववंदिरे ॥ ७७ ॥
एतस्मिन्नंतरे विप्रा देवदुन्दुभिनिस्वनाः ॥
अश्रूयंत महाशब्दा अभवन्पुष्पवृष्टयः ॥७८॥
अथाऽऽसीन्महदाश्चर्य्यं शृण्वन्तु ऋषिसत्तमाः ॥
कुरुक्षेत्रं प्रयागं च सव्यदक्षिणपार्श्वयोः ॥ ७९ ॥
स्थित्वा जगृहतुर्द्दिव्ये श्वेतच्छत्रे मनोहरे ॥
द्वारकायस्तथा शुभ्रे चामरव्यजने शुभे ॥ 7.4.32.८० ॥
अयोध्या मथुरा माया वाराणसी जयस्वनैः ॥
स्तुवंत्यन्यास्तथान्यानि सर्वक्षेत्राणि सर्वशः ॥ ८१ ॥
तीर्थानि सरितः सर्वा द्वारकाया मुखांबुजम् ॥
पश्यतः परमानंदं लेभिरे देवमानवाः ॥ ८२ ॥
आहुश्च पार्षदा विष्णोर्धन्यान्येतानि सर्वशः ॥
दृष्ट्वा तु द्वारकां पुण्यां सर्वलोकैकमण्डनाम् ॥ ८३ ॥
वेदयज्ञतपोजाप्यैः सम्यगाराधितो हरिः ॥
प्रसीदेद्यस्य तस्य स्याद्द्वारकागमने मतिः ॥ ८४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये विष्णुपार्षदवर्णितद्वारकामाहात्म्यवर्णनंनाम द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 33
॥ श्रीप्रह्लाद उवाच ॥ ॥
श्रुत्वा ब्रह्ममहेशानौ यदुक्तं विष्णुपार्षदैः ॥
द्वारकायास्तु माहात्म्यं तद्वर्णयितुमूचतुः॥ ॥ १ ॥
॥ श्रीब्रह्मेशानावूचतुः ॥ ॥
भोभोः क्षेत्राणि तीर्थानि सरांसि सागरादयः ॥
प्रयागादीनि तीर्थानि काश्याद्या मुक्तिदायकाः ॥ २ ॥
भवतां तीर्थराजानां महाराजस्त्वियं शुभा ॥
द्वारका सेवनीया वै स्थीयतां स्वेच्छया बहिः ॥ ३ ॥
॥ श्रीप्रह्लाद उवाच ॥ ॥
महेशवचनं श्रुत्वा सर्वेषामुत्सवोऽभवत् ॥
प्रदक्षिणां ततः कृत्वा द्वारकां प्रणिपत्य च ॥
आवासं चक्रिरे तत्र क्षेत्रतीर्थानि हर्षतः ॥ ४ ॥
भागीरथी प्रयागं च यमुना च सरस्वती ॥
सरयूगंडकी पुण्या गोमती पूर्ववाहिनी ॥ ५ ॥
अन्याश्च सरितः सर्वाः सिन्धुशोणौ नदौ तथा ॥
पंचाशत्कोटिभिस्तीर्थैर्दिग्भागे ह्युत्तरे स्थिताः ॥
लंपटाः कृष्णसेवायां पश्यतो द्वारकां मुहुः ॥ ६ ॥
मन्दाकिनी तथा पुण्या नदी भागीरथी च या ॥
महानदी नर्मदा च शिप्रा प्राची सरस्वती ॥ ७ ॥
चक्षुर्भद्रा तथा सीता नद्योऽन्याः पापनाशिनी ॥
वर्तंते पूर्वदिग्भागे तीर्थैश्च षष्टिकोटिभिः ॥ ८ ॥
पयोष्णी तपती पुण्या विदर्भा च पयस्विनी ॥
गोदावरी महापुण्या भीमा कृष्णानदी तथा ॥ ९ ॥
कावेरीप्रमुखाः पुण्या अन्यैश्चैवाघनाशिनीः ॥
स्वतीर्थसहिता भक्त्या नवनवतिकोटिभिः ॥ 7.4.33.१० ॥
स्थिता दक्षिणदिग्भागे द्वारकासेवनोत्सुकाः ॥
क्रीडंति गोमतीनीरे तीरे च कृष्णसन्निधौ ॥१ १॥
सप्तद्वीपेषु याः संति तथाऽन्या वै सरिद्वराः ॥
सागराश्च तथा सप्त पश्चिमायां दिशि स्थिताः ॥१२॥
क्रीडंति चक्रतीर्थे वै तीर्थैश्च शतकोटिभिः॥
पश्यंति च मुहुः कृष्णं पश्चिमाभिमुखं सदा ॥ १३ ॥
विदिशासु च सर्वासु तीर्थसंख्या न विद्यते ॥
पुष्करादीनि तीर्थानि विशाला विरजा गया ॥ १४ ॥
शतैककोटिभिस्तीर्थैर्गोमत्युदधिसंगमे ॥
वर्त्तंते कृष्णसेवायां सोत्सवानि द्विजोत्तमाः ॥ १५ ॥
वाराणसी पूरैशान्यामवन्ती पूर्वदिक्स्थिता ॥
आग्नेय्यां दिशि कांती च दक्षिणे मथुरा स्थिता ॥ १६ ॥
नैर्ऋत्यां च तथा माया अयोध्या पश्चिमे स्थिताः॥
वायव्यां तु कुरुक्षेत्रं हरिक्षेत्रं तथोत्तरे ॥ १७ ॥
शिवक्षेत्रं च ऐशान्यामैंद्र्यां च पुरुषोत्तमः ॥
आग्नेय्यां च भृगुक्षेत्रं प्रभासं दक्षिणाश्रितम्॥१८॥
श्रीरंगं नैर्ऋते भागे लोहदंडं तु पश्चिमे ॥
नारसिंहानि वायव्ये कोकामुख्यं तथोत्तरे ॥ १९ ॥
कामाख्या रेणुकादीनि शाक्तेयानि च सर्वशः ॥
क्षेत्रराजानि सर्वाणि यथास्थाने वसंति हि ॥ 7.4.33.२० ॥
उत्तरे चैव सौराणि गाणपत्यानि कृत्स्नशः ॥
क्षेत्राण्युत्तरतः संति रुक्मिण्याः सन्निधौ द्विजाः ॥ २१ ॥
धेनुकं नैमिषारण्यं दंडकं सैंधवं तथा ॥
दशारण्यमर्बुदं च नरनारायणाश्रमम् ॥ २२ ॥
यथादिशं वसंति स्म द्वारकायाः समन्ततः ॥
मेर्वाद्याः पर्वताः सौम्ये द्वारकासेवनोत्सुकाः ॥ २३ ॥
कैलासाद्याश्च ऐशान्यामैन्द्र्यां हिमवदादयः ॥
श्रीशैलाद्याश्च आग्नेय्यां सिंहाद्र्याद्या यमे तथा ॥ २४ ॥
नैर्ऋत्यां वाममार्गाद्या महेन्द्रऋषभादयः ॥
अन्ये च पुण्यशैलाश्च सलोकालोक मानसाः ॥
द्वारकां परितः संति पर्य्युपासंति प्रत्यहम् ॥ २५ ॥
एवं ब्रह्मादयो देवा ऋषयः सनकादयः ॥
क्षेत्रतीर्थादिभिर्युक्ता अन्यैः पुण्यतमैस्तथा ॥ २६ ॥
श्रद्धया परया भक्त्या कन्याराशिस्थिते गुरौ ॥
आयांति द्वारकां द्रष्टुं ब्राह्म्याद्याश्च प्रहर्षिताः॥ २७ ॥
इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकामाहात्म्यवर्णनपूवकं द्वारकायां सर्वतीर्थक्षेत्रादिकृतनिवास वर्णनंनाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ३३॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 34
॥ श्रीप्रह्लाद उवाच ॥ ॥
एवमद्भुतमाहात्म्यं द्वारकायां मुनीश्वराः ॥
सर्वेषां क्षेत्रतीर्थानां महापापविदारक्म्॥१॥
वर्णानामश्रमाणां च पतितानां विशेषतः।
महापापहरं प्रोक्तं महापुण्यविवर्द्धनं॥२॥
अत्युग्रपापराशीनां दाहस्थानं यथा स्मृतम् ॥
द्वारकागमनं विप्राः किं पुनर्द्वारकास्थितिः ॥ ३ ॥
विशेषेण तु विप्रेन्द्राः कन्याराशिस्थिते गुरौ ॥
ब्रह्मादयोपि दृश्यंते यत्र तीर्थैश्च संयुताः ॥ ४ ॥
प्रतिवर्षं प्रकुर्वंति द्वारकागमनं नराः ॥
तेषां पादरजः स्पृष्ट्वा दिवं यांति च पापिनः ॥ ५॥
गोमती नीरपूतानां कृष्णवक्त्रावलोकिनाम् ॥
दर्शनात्पातकं तेषां याति जन्मशतार्जितम् ॥ ६ ॥
इतिहासेन पूर्वोक्तं श्रूयतां मुनिपुङ्गवाः ॥
दिलीपवसिष्ठ संवादे परमाश्चर्य्यवर्द्धनम् ॥ ७ ॥
काश्यां तु वज्रलेपो हि क्षेत्र एकत्र नश्यति ॥
यातुर्दर्शनतः श्रुत्वा दिलीपो वाक्यमब्रवीत् ॥ ८ ॥
॥ दिलीप उवाच ॥ ॥
वज्रलेपश्च काश्यां तु घोरो यत्र विनश्यति ॥
कृत्स्नशोऽथ महापुण्यं प्राप्यं यत्र तदस्ति किम् ॥ ९ ॥
न प्ररोहंति पापानि यस्मिन्क्षेत्रे द्विजोत्तम ॥
तत्क्षेत्रं कथ्यतां पुण्यं यत्र पापं प्रणश्यति ॥7.4.34.१०॥
॥ वसिष्ठ उवाच ॥ ॥
आसीत्काश्यां पुरा कश्चित्त्रिदण्डी मोक्षधर्मवित् ॥
जपन्दशाश्वेमेधे तु गायत्रीं च समाहितः॥ ११ ॥
तत्र काचित्समायाता युवती गजगामिनी ॥
तीरे संस्थाप्य वासांसि गंगायाः श्रमशान्तये ॥
प्रविष्टा च जले नग्ना जलक्रीडां चकार ह ॥ १२ ॥
नग्नां तां क्रीडतीं वीक्ष्य यतिर्मदनपूरितः ॥
दैवाग्निभ्रंशितो मार्गात्सहसा च विमोहितः ॥ १३ ॥
मनसा कामयामास साऽपि तं तरुणं यतिम् ॥
तयोश्च संगतिस्तत्र संजाता पापकर्मणोः ॥ १४ ॥
तया विमोहितः सद्यस्तामेवानुससार सः ॥
तत्प्रीत्यै चार्जयामास धनमन्यायतस्तदा ॥ १५ ॥
वाराणस्यां हि न त्यक्तश्चंडालस्य प्रतिग्रहः ॥
स्नानहीनः सदा पापी रात्रौ चौर्य्येण वर्त्तते ॥१६॥
कस्मिंश्चित्समये पापी मांसार्थी तु वनं गतः ॥
ददर्श प्रमदां तत्र मातंगीं मदिरेक्षणाम् ॥ १७ ॥
तस्याः प्रथमतारुण्यं दृष्ट्वा गर्वेण पाप्मना ॥
वनेऽथ निर्जने तत्र मातंगीसंगमेयिवान् ॥ १८ ॥
तया सहान्नपानादि कृतवान्पापमोहितः ॥
अश्नाति सुरया पंकं गोमांसं पापलंपटः ॥ १९ ॥
तद्गृहे निधनं प्राप्तः पापात्मा सर्वभक्षकः ॥
वाराणसीप्रभावेन न प्राप्तो नरकं तदा ॥ 7.4.34.२० ॥
किं तु तत्र कृतं पापं वज्रलेपं सुदारुणम् ॥
शूद्रीसंपर्क पापेन जातोऽसौ क्रूरयोनिषु ॥ २१ ॥
वृको व्याघ्रोरगः श्वानः शृगालः सूकरोऽभवत् ॥
दुरंतां यातनां प्राप्तः शमलेशं न विन्दति ॥ २२ ॥
एवं जन्मसहस्रैस्तु न तस्य पापकर्मणः ॥
मातंग्या संगजं पापं व्यनश्यत युगायुतैः ॥ २३ ।
ततोऽसौ सप्तमे जातः शशकश्चैव जन्मनि ॥
ततोऽसौ राक्षसो जातः पापात्मा सर्वभक्षकः ॥ २४ ॥
प्राणिनो भक्षयन्सर्वान्संप्राप्तो विंध्यपर्वते ॥
अस्मादनन्तरं भाव्यं कृकलासत्वमद्भुतम्॥ ॥ २५ ॥
शूद्रीसंगजपापेन भाव्यं च कृमियोनिना ॥
मातंगीसंगमे प्रोक्तं फलं ह्यतिजुगुप्सितम् ॥ २६ ॥
युगायुतं सहस्रैस्तु भोक्ष्यमाणं सुदारुणम् ॥
अत्याश्चर्य्यमभूत्तत्र दिलीप श्रूयतां महत् ॥ २७ ॥
आलोकितं च विंध्याद्रौ सर्वेषां विस्मयास्पदम् ॥
दृष्ट्वा द्वारावतीं कश्चित्कृष्णवक्त्रं सुशोभनम् ॥ २८ ॥
गोमतीनीरपूतस्तु विंध्यं प्राप्तः स पांथिकः ॥
मात्रां कृष्णप्रसादस्य स्कन्धे कृत्वा प्रहर्षितः ॥ २९ ॥
प्रयास्यन्स्वगृहं तत्र ददर्श पथि राक्षसम् ॥
द्रुतं च क्रूरकर्माणं दृष्ट्वा भक्षितुमागतम् ॥ 7.4.34.३० ॥
तस्य दर्शनमात्रेण वज्रलेपः सुदारुणः ॥
वाराणसीसमुद्भूतो भस्मसादभवत्क्षणात् ॥ ३१ ॥
जन्मकोटिशतेनापि यो न शक्यो व्यपोहितुम् ॥
तत्पापपर्वतान्मुक्तः कृष्णपांथिकदर्शनात् ॥ ३२ ॥
दग्धेऽथ क्रूरभावे तु घनमुक्तो यथा शशी ॥
रेजे पुण्यप्रकाशेन कृष्णपांथिकदर्शनात् ॥ ३३ ॥
ततोऽभिमुखमभ्येत्य द्वारकापथिकं मुदा ॥
ननाम श्रद्धया भूमौ तद्दर्शनमहोत्सवः ॥ ३४ ॥
नत्वाऽथ विस्मितः प्राह अहोऽद्य तव दर्शनात् ॥
गतो घोरतमो भावः प्राप्ता संसिद्धिरुत्तमा ॥ ३५ ॥
कस्मात्त्वमागतो भद्र प्रभावः कीदृशस्तव ॥
वज्रलेपस्तु काश्यां वै दग्धस्ते दर्शनादनु ॥ ३६ ॥
॥ वसिष्ठ उवाच ॥ ॥
इत्येवं राक्षसेनोक्तं श्रुत्वा कृष्णस्य पांथिकः ॥
विस्मयं परमापन्नः प्राह तं हर्षमानसः ॥ ३७ ॥
॥ पांथिक उवाच ॥ ॥।
श्रीमद्द्वारवतीं दृष्ट्वा ह्यागतोऽस्म्यत्र राक्षस ॥
वज्रलेपहरोऽस्माकं प्रभावः कृष्णदर्शनात्॥ ३८ ॥
गोमत्यां यः सकृत्स्नात्वा पश्येत्कृष्णमुखांबुजम् ॥।
सर्वानुद्धरते पापादपि त्रैलाक्यदाहकात् ॥ ३९ ॥
॥ वसिष्ठ उवाच ॥ ॥
इत्युक्तो राक्षसो हृष्टः शुद्धात्मा भक्तिसंयुतः ॥
नत्वा प्रदक्षिणं कृत्वा संप्राप्तो द्वारकां तदा ॥ 7.4.34.४० ॥
गोमत्यां स तनुं त्यक्त्वा प्राप्तोऽसौ वैष्णवं पदम् ॥
स्तूयमानः सुरेशानैर्गधर्वैः पुष्पवृष्टिभिः ॥ ४१ ॥
इत्थं महाप्रभावो हि द्वारकायाः प्रकीर्त्तितः ॥
न प्ररोहंति पापानि यस्याः पांथिकदर्शनात् ॥
द्वारकायां तु किं वाच्यं न प्ररोहंति पातकम् ॥ ४२ ॥
इत्येतत्कथितं राजन्यत्पृष्टोहं त्वयाऽनघ ॥
सर्वक्षेत्रोत्तमं क्षेत्रं वज्रलेपविनाशनम् ॥ ४३ ॥
॥ श्रीप्रह्लाद उवाच ॥ ॥
वसिष्ठेनोदितं श्रुत्वा दिलीपो हृष्ट मानसः ॥
द्वारकां क्षेत्रराजं तं ज्ञात्वा च विस्मयं ययौ ॥ ४४ ॥
ययौ द्वारवतीं हृष्टो देवदेवस्य सादरम् ॥
कृष्णं दृष्ट्वा परां सिद्धिं संप्राप्तो देवमंदिरे ॥ ४५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकापान्थदर्शन मात्रतः काश्यां कृतस्य पापवज्रलेपस्य विनाशने यतिवृत्तान्तवर्णनपूर्वकं दिलीपकृतद्वारकायात्रावर्णनंनाम चतुस्त्रिंशत्तमोऽध्यायः ॥ ३४ ॥ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 35
॥ प्रह्लाद उवाच ॥ ॥
अहो क्षेत्रस्य माहात्म्यं समंताद्दशयोजनम् ॥
दिविष्ठा यत्र पश्यंति सर्वानेव चतुर्भुजान् ॥ १ ॥
अहो क्षेत्रस्य माहात्म्यं दृष्ट्वा नित्यं चतुर्भुजान् ॥
द्वारकावासिनः सर्वान्नमस्यंति दिवौकसः ॥ २ ॥
अहो क्षेत्रस्य माहात्म्यं सर्वशास्त्रेषु विश्रुतम् ॥
अहो क्षेत्रस्य माहात्म्यं शृण्वंतु ऋषयोऽमलाः ॥ ३ ॥
मुक्तिं नेच्छंति यत्रस्थाः कृष्णसेवोत्सुकाः सदा ॥
यत्रत्याश्चैव पाषाणा यत्र क्वापि विमुक्तिदाः ॥ ४ ॥
अपि कीट पतंगाद्याः पशवोऽथ सरीसृपाः ॥
विमुक्ताः पापिनः सर्वे द्वारकायाः प्रसादतः ॥
किं पुनर्मानवा नित्यं द्वारकायां वसंति ये ॥ ५ ॥
या गतिः सर्वजंतूनां द्वारकापुरवासिनाम् ॥
सा गतिर्दुर्लभा नूनं मुनीनामूर्द्ध्वरेतसाम् ॥ ६ ॥
सर्वेषु क्षेत्रतीर्थेषु वसतां वर्षकोटिभिः ॥
तत्फलं निमिषाद्धेंन द्वारकायां दिनेदिने ॥ ७ ॥
द्वारकायां स्थिताः सर्वे नरा नार्य्यश्चतुर्भुजाः ॥
द्वारकावासिनः सर्वान्यः पश्येत्कलुषापहान् ॥
सत्यंसत्यं द्विजश्रेष्ठाः कृष्णस्यातिप्रियो भवेत् ॥ ८ ॥
द्वारकावासिनो ये वै निंदंति पुरुषाधमाः ॥
कृष्णस्नेहविहीनास्ते पतंति दुःखसागरे ॥ ९ ॥
जयंतेन भृशं त्रस्ताः शूलाग्रारोपिताश्चिरम् ॥
कर्षितास्ताडितास्ते वै मूर्च्छिताः पुनरुत्थिताः ॥ 7.4.35.१० ॥
त्राहित्राहि जयंत त्वं वदंतो हि भयातुराः ॥
स्मरंतः पूर्वपापं ते जयंतेन प्रताडिताः ॥११॥
॥ जयंत उवाच ॥ ॥
किं कृतं मंदभाग्यैर्वो यत्पापं च सुदारुणम् ॥
सर्वं पुण्यफलं लब्ध्वा द्वारकावासमुत्तमम्॥१२॥
द्वारकावासिनां निंदा महापापाधिका ध्रुवम् ॥
न निवर्तेत तत्पापं सा ज्ञेया परमेश्वरी ॥ १३ ॥
अतः कृष्णाज्ञया सर्वान्पापिनो दंडयाम्यहम् ॥
वैष्णवानां च निंदायाः फलं भुक्त्वा सुदारुणम् ॥ १४ ॥
ततस्तु द्वारकायां च पुण्यं जन्म भविष्यति ॥
कृष्णं प्रतोष्य संसिद्धिर्भविष्यति सुदुर्ल्लभा ॥ १५ ॥
तस्मात्तद्भुज्यतां पापं जातं वैष्णवनिंदनात् ॥
तत्रत्यानां प्रभुर्नैव यम ईष्टे महेश्वरः ॥ १६ ॥
॥ श्रीप्रह्लाद उवाच ॥ ॥
तस्माद्द्वारवतीं गत्वा संसेव्यो देवनायकः ॥ १७ ॥
गोमतीतीरमाश्रित्य द्वारकायां प्रयच्छति ॥
यत्तु किंचिद्धनं विप्राः श्रूयतां तत्फलोदयम् ॥ १८ ॥
हेमभारसहस्रैस्तु रविवारे रविग्रहे ॥
कुरुक्षेत्रे यदाप्नोति गजाश्वरथदानतः ॥ १९ ॥
सहस्रगुणितं तस्मात्सत्यंसत्यं मयोदितम् ॥
हेममाषार्द्धमानेन द्वारकादानयोगतः ॥ 7.4.35.२० ॥
पत्राणां चैव पुष्पाणां नैवेद्यसिक्थसंख्यया ॥
कृष्णदेवस्य पूजायामनंतं भवति द्विजाः ॥ २१ ॥
अन्नदानं तु यः कुर्य्याद्द्वारकायां तु तत्फलम्॥
नैव शक्नोम्यहं वक्तुं ब्रह्मा शेषमहेश्वरौ ॥ २२॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽप्यथ वांऽत्यजः ॥
नारी वा द्वारकायां वै भक्त्या वासं करोति वै ॥ २३ ॥
कुलकोटिं समुद्धृत्य विष्णुलोके महीयते ॥
सत्यंसत्यं द्विजश्रेष्ठा नानृतं मम भाषितम्॥ २४॥
द्वारकावासिनं दृष्ट्वा स्पृष्ट्वा चैव विशेषतः ॥
महापापविनिर्मुक्ताः स्वर्गलोके वसंति ते ॥ २५ ॥
पांसुवो द्वारकाया वै वायुना समुदीरिताः ॥
पापिनां मुक्तिदाः प्रोक्ताः किं पुनर्द्वारका भुवि ॥ २६ ॥
॥ श्रीप्रह्लाद उवाच ॥
श्रूयतां द्विजशार्दूला महामोहविनाशनम्॥
द्वारकायाश्च माहात्म्यं गोमतीकृष्णसन्निधौ ॥ २७ ॥
कुशावर्त्तात्समारभ्य यावद्वै सागरावधि ॥
यस्यां तिथौ समायाति सिंहे देवपुरोहितः॥ २८ ॥
तस्यां हि गोमतीस्नानं द्विषङ्गोदावरीफलम्॥
अवगाहिता प्रयत्नेन सिंहांते गौतमी सकृत् ॥ २९॥
गोदावर्य्यां भवेत्पुण्यं वसतो वर्षसंख्यया ॥
तत्फलं समवाप्नोति गोमतीसेवनाद्द्विजाः ॥7.4.35.३०॥
गोमत्यां श्रद्धया स्नानं पूर्णे सिंहस्थिते गुरौ ॥
सहस्रगुणितं तत्स्याद्द्वारवत्यां दिनेदिने ॥ ३१ ॥
गच्छगच्छ महाभाग द्वारकामिति यो वदेत् ॥
तस्यावलोकनादेव मुच्यते सर्वपातकैः ॥ ३२॥
द्वारकेति च यो ब्रूयाद्द्वारकाभिमुखो नरः ॥
कृपया कृष्णदेवस्य मुक्तिभागी भवेद्ध्रुवम् । ३३ ॥
द्वारकां गोमतीं पुण्यां रुक्मिणीं कृष्णमेव च॥
स्मरंति येऽन्वहं भक्त्या द्वारकाफलभागिनः ॥ ३४ ॥
सहस्रयोजनस्थानां येषां स्यादिति मानसम्॥
द्वारवत्यां गमिष्यामो द्रक्ष्यामो द्वारकेश्वरम् ॥ ३५ ॥
सर्वपापैः प्रमुच्यंते धन्यास्ते लोकपावनाः ॥
किं वाच्यं द्वारकायात्रां ये प्रकुर्वंति मानवाः ॥
किं पुनर्द्वारकानाथं कृष्णं पश्यंति ये नराः ॥ ३६ ॥
मित्रध्रुग्ब्रह्महा गोघ्नः परदारापहारकः ॥
मातृहा पितृहा चैव ब्रह्मस्वापहरस्तथा ॥ ३७ ॥
एते चान्ये च पापिष्ठा महापापयुताश्च ये ॥
सर्वपापैः प्रमुच्यंते कृष्णदेवस्य दर्शनात् ॥३८ ॥
किं वेदैः श्रद्धया हीनैर्व्याख्यानैरपि कृत्स्नशः ॥
हेमभारसहस्रैः किं कुरुक्षेत्रे रविग्रहे ॥ ३९ ॥
गजाश्वरथदानैः किं किं मंदिरप्रतिष्ठया ॥
तेषां पूजादिना सम्यगिष्टा पूर्तादिभिश्च किम् ॥ 7.4.35.४० ॥
राजसूयाश्वमेधाद्यैः सर्वयज्ञैश्च किं भवेत् ॥
सेवनैः क्षेत्रतीर्थानां तपोभिर्विविधैस्तु किम् ॥ ४१ ॥
किं मोक्षसाधनैः क्लेशैर्ध्यानयोगसमाधिभिः ॥
द्वारकेश्वरकृष्णस्य दर्शनं यस्य जायते॥ ४२॥
माहात्म्यं द्वारकायास्तु अथवा यः शृणोति च ॥
विशेषेण तु वैशाख्यां जयंत्याश्चैव जागरे॥ ४३॥
माघ्यां च फाल्गुने चैत्रे ज्येष्ठे चैव विशेषतः॥
अद्यापि द्वारका पुण्या कलावपि विशेषतः॥४४॥
यस्यां सत्रं प्रपां कृत्वा प्रासादं मंचमेव च॥
यतीनां शरणं कृत्वा तीरे मंडपमेव च॥४५॥
वापीकूपतडागानां जीर्णोद्धारमथापि वा॥
मूर्तिं विष्णोः प्रतिष्ठाप्य दत्त्वा वा भोगसाधनम् ॥ ४६॥
श्रूयतां तत्फलं विप्राः सर्वोत्कृष्टं वदाम्यहम् ॥
संप्राप्य वांछितान्कामान्कृष्णानुग्रहभाजनम्॥४७॥
तेजोमयेषु लोकेषु भुक्त्वा भोगाननुक्रमात् ॥
प्राप्नोति विष्णुलोकं वै नरो देवनमस्कृतम् ॥ ४८ ॥
स्थापयेद्द्वारकायां वै मूर्तिं दारुशिलामयीम्॥
त्रैलोक्यं स्थापितं तेन विष्णोः सायुज्यतामियात्॥४९॥
प्ररोहो नास्ति पापस्य पुण्यस्य वृद्धिरुत्तमा ॥
द्वारकायां कथं जातं वैलक्षण्यमिदं प्रभो ॥
क्षेत्रेभ्यः सर्वतीर्थेभ्य आश्चर्य्यं कथयंति ते ॥ 7.4.35.५० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकानाममाहात्म्यवर्णनंनाम पञ्चविंशोऽध्यायः ॥ ३५ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 36
॥ सूत उवाच ॥ ॥
प्रह्लादस्य वचः श्रुत्वा स्थितस्तत्र सभास्थले ॥
पप्रच्छात्युत्सुकमना बलिस्तत्क्षेत्रवैभवम् ॥१॥
प्रह्लादस्तद्वचः श्रुत्वा भक्तिभावपुरस्कृतम् ॥
अभिनन्द्य च तं प्रेम्णा प्रवक्तुमुपचक्रमे ॥२॥
॥ प्रह्लाद उवाच॥ ॥
एकैकस्मिन्पदे दत्ते पुरीं द्वारवतीं प्रति ॥
पुण्यं क्रतुसहस्राणां फलं भवति देहिनाम् ॥३॥
येऽपीच्छंति मनोवृत्त्या गमनं द्वारकां प्रति ॥
तेषां प्रलीयते पापं पूर्वजन्मायुतार्जितम् ॥४॥
अत्युग्राण्यपि पापानि तावत्तिष्ठंति विग्रहे ॥
यावन्न गच्छते जंतुः कलौ द्वारवतीं प्रति ॥५॥
लोभेनाऽप्युपरोधेन दंभेन कपटेन वा ॥
चक्रतीर्थे तु यो गच्छेन्न पुनर्विशते भुवि ॥६।
हीनवर्णोऽपि पापात्मा मृतः कृष्णुपुरीं प्रति ॥
कलि कालकृतैर्दोषैरत्युग्रैरपि मानवः ॥
भक्त्या कृष्णमुखं दृष्ट्वा न लिप्यति कदाचन ॥७॥
तावद्विराजते काशी ह्यवंती मथुरापुरी ॥
यावन्न पश्यते जंतुः पुरीं कृष्णेन पालिताम्॥ ८ ॥
येषां कृष्णालये प्राणा गता दानवनायक ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ ९ ॥
दुर्लभो द्वारकावासो दुर्लभं कृष्णदर्शनम् ॥
दुर्लभं गोमतीस्नानं रुक्मिणीदर्शनं कलौ ॥ 7.4.36.१० ॥
नित्यं कृष्णपुरीं रम्यां ये स्मरंति गृहे स्थिताः ॥
न तेषां पातकं किंचिद्देहमाश्रित्य तिष्ठति ॥ ११ ॥
केशवार्चा गृहे यस्य न तिष्ठति महीपते ॥
तस्यान्नं न च भोक्तव्यमभक्ष्येण समं स्मृतम् ॥ १२ ॥
नोष्णत्वं द्विज राजे वै न शीतत्वं हुताशने ॥
वैष्णवानां न पापत्वमेकादश्युपवासिनाम् ॥ १३ ॥
नास्ति नास्ति महाभागाः कलिकालसमं युगम् ॥
स्मरणात्कीर्त्तनाद्विष्णोः प्राप्यते परमव्ययम् ॥ १४ ॥
सत्यभामापतिर्यत्र यत्र पुण्या च गोमती ॥
नरा मुक्तिं प्रयास्यंति तत्र स्नात्वा कलौ युगे ॥ १५ ॥
माधवे शुक्लपक्षे तु त्रिस्पृशां द्वादशीं यदि ॥
लभते द्वारकायां तु नास्ति धन्यतरस्ततः ॥ १६ ॥
त्रिस्पृशां द्वादशीं प्राप्य गत्वा कृष्णपुरीं नरः ॥
यः करोति हरेर्भक्त्या सोऽश्वमेधफलं लभेत्॥ १७ ॥
नंदायां तु जयायां वै भद्रा चैव भवेद्यदि ॥
उपवासार्चने गीते दुर्ल्लभा कृष्णसन्निधौ ॥१८॥
उदयैकादशी स्वल्पा अंते चैव त्रयोदशी ॥
संपूर्णा द्वादशी मध्ये त्रिस्पृशा च हरेः प्रिया ॥ १९ ॥
एकेन चोपवासेन उपवासाऽयुतं फलम् ॥
जागरे शतसाहस्रं नृत्ये कोटिगुणं कलौ ॥ 7.4.36.२० ॥
तत्फलं लभते मर्त्त्यो द्वारकायां दिनेदिने ॥
गृहेषु वसतामेतत्किं पुनः कृष्णसंनिधौ ॥ ॥ २१ ॥
वाङ्मनःकायजैर्दोषैर्हता ये पापबुद्धयः ॥
द्वारवत्यां विमुच्यंते दृष्ट्वा कृष्णमुखं शुभम् ॥ २२ ॥
दैत्येश्वर नराः श्लाघ्या द्वारवत्यां गताश्च ये ॥ २३ ॥
दुर्ल्लभानीह तीर्थानि दुर्लभाः पर्वतोत्तमाः ॥
दुर्ल्लभा वैष्णवा लोके द्वारकावसतिः कलौ ॥ २४ ॥
गवां कोटिसहस्राणि रत्नको टिशतानि च ॥
दत्त्वा यत्फलमाप्नोति तत्फलं कृष्णसन्निधौ ॥ २५ ॥
यस्याः सीमां प्रविष्टस्य ब्रह्महत्यादिपातकम् ॥
नश्यते दर्शनादेव तां पुरीं को न सेवते ॥ २६ ॥
चक्रांकिता शिला यत्र गोमत्युदधिसंगमे ॥
यच्छति पूजिता मोक्षं तां पुरीं को न सेवते ॥ २७ ॥
सिंहस्थे च गुरौ विप्रा गोदावर्य्यां तु यत्फलम्॥
तत्फलं स्नानमात्रेण गोमत्यां कृष्णसन्निधौ ॥ २८ ॥
द्वारकाऽवस्थितं तोयं षण्मासं पिबते नरः ॥
तस्य चक्रांकितो देहो भवते नात्र संशयः ॥ २९ ॥
मन्वन्तरसहस्राणि काशीवासेन यत्फलम् ॥
तत्फलं द्वारकायां च वसतः पंचभिर्द्दिनैः ॥ 7.4.36.३० ॥
तावन्मृतप्रजा नारी दुर्भगा दैत्यपुंगव ॥
यावन्न पश्यते भक्त्या कलौ कृष्णप्रियां पुरीम् ॥ ३१ ॥
रुक्मिणीं सत्यभामां च देवीं जांबवतीं तथा ॥
मित्रविंदां च कालिंदीं भद्रां नाग्नजितीं तथा ॥ ३२ ॥
संपूज्य लक्ष्मणां तत्र वैष्णवीः कृष्णवल्लभाः ॥
एताः संपूज्य विधिवच्छ्रेष्ठपुत्रश्च लभ्यते ॥ ३३ ॥
तावद्भवभयं पुंसां गृहभंगश्च मूर्खता ॥
यावन्न पश्यते भक्त्या कलौ कृष्णपुरीं नरः ॥ ३४ ॥
न सर्वत्र महापुण्यं संगमे सरितांपतेः ॥
जाह्नवीसंगमान्मुक्तिर्गोमतीनीरसंगमात् ॥
संपर्के गोमतीनीरपूतोऽहं कृष्णसन्निधौ ॥ ३५ ॥
गोमतीनीरसंपृक्तं ये मां पश्यंति मानवाः ॥
न तेषां पुनरावृत्तिरित्याह सरितांपतिः ॥ ३६ ॥
द्वारकां गच्छमानस्य विपत्तिश्च भवेद्यदि ॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ॥ ३७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वारकादर्शनगोमतीसरित्स्नानविधिमाहात्म्यवर्णनंनाम षट्त्रिंशोऽध्यायः ॥ ३६॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 37
॥ श्रीप्रह्लाद उवाच ॥ ॥
कृष्णकृष्णेति कृष्णेति श्वपचो जागरन्निशि ॥
जपेदपि कलौ नित्यं कृष्णरूपी भवेद्धि सः ॥ १ ॥
कृष्णकृष्णेति कृष्णेति कलौ वदत्यहर्निशम् ॥
नित्यं यज्ञायुतं पुण्यं तीर्थकोटिसमुद्भवम् ॥ २ ॥
संपूर्णैकादशी भूत्वा द्वादश्यां वर्द्धते यदि ॥
उन्मीलिनीति विख्याता तिथीनामुत्तमा तिथिः ॥३॥
वंजुलीवासरे ये वै रात्रौ कुर्वंति जागरम्॥
यज्ञायुतायुतं पुण्यं मुहूर्तार्द्धेन जायते॥४॥
संपूर्णा द्वादशी भूत्वा वर्द्धते चापरे दिने ॥
त्रयोदश्यां मुनिश्रेष्ठा वंजुली दुर्ल्लभा कलौ ॥ ५ ॥
उन्मीलिनीमनुप्राप्य ये प्रकुर्वंति जागरम् ॥
निमिषार्द्धेन तत्पुण्यं गवां कोटिफलप्रदम् ॥ ६॥
संपूर्णैकादशी भूत्वा प्रत्यऽहं वर्द्धते यदि ॥
दर्शश्च पौर्णमासी च पक्षवृद्धिस्तथोच्यते ॥७॥
पक्षवृद्धिकरीं प्राप्य ये प्रकुर्वंति जागरम् ॥
निमिषार्द्धार्द्धमात्रेण गवां कोटिफलप्रदम् ॥ ८ ॥
॥ श्रीप्रह्लाद उवाच ॥ ॥
चक्रतीर्थे नरः स्नात्वा मुच्यते सर्व किल्बिषैः ॥
स याति परमं स्थानं दाहप्रलयवर्जितम् ॥ ९ ॥
चक्रं प्रक्षालितं यत्र कृष्णेन स्वयमेव हि ॥
तेन वै चक्रतीर्थं हि पुण्यं च परमं हरेः ॥
भवंति तत्र पाषाणाश्चक्रांका मुक्तिदायकाः ॥ 7.4.37.१० ॥
तत्रैव यदि लभ्यंते चक्रैर्द्वादशभिः सह ॥
द्वादशात्मा स विज्ञेयो मोक्षदः परिकीर्तितः ॥ ॥ ११ ॥
एकचक्रेण पाषाणो द्वारवत्यां सुशोभनः ॥
सुदर्शनाभिधेयोसौ मोक्षैकफलदायकः ॥१२॥
लक्ष्मीनारायणौ द्वौ तौ भुक्तिमुक्तिफलप्रदौ ॥
त्रिभिश्चैवाच्युतं देवं सदेन्द्रपददायकम् ॥ १३ ॥
भूतिदो विघ्नहंता च चतुश्चक्रो जनार्द्दनः ॥
पञ्चभिर्वासुदेवस्तु जन्ममृत्युभयापहः ॥ १४ ॥
प्रद्युम्नः षड्भिरेवासौ लक्ष्मीं कांतिं ददाति च ॥
सप्तभिर्बलदेवस्तु गोत्रकीर्तिविवर्द्धनः ॥ १५ ॥
वांछितं चाष्टभिर्भक्त्या ददाति पुरुषोत्तमः ॥
सर्वं दद्यान्नवव्यूहो दुर्ल्लभो यः सुरोत्तमैः ॥ १६ ॥
राज्यप्रदो दशभिस्तु दशावतार एव च ॥
एकादशभिरैश्वर्य्यमनिरुद्धः प्रयच्छति ॥ १७ ॥
निर्वाणं द्वादशात्मा तु चक्रैर्द्वादशभिः स्मृतम् ॥
अत ऊर्ध्वमनंतोऽसौ सौख्यमोक्षप्रदायकः ॥ १८ ॥
ये केचित्तत्र पाषाणाः कृष्णचक्रेण मुद्रिताः॥
तेषां स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषैः ॥ १९ ॥
ब्रह्महत्यादिकं पापं मनोवाक्कायकर्मजम् ॥
तत्सर्वं विलयं याति चक्रांकितप्रपूजनात् ॥7.4.37.२०॥
म्लेच्छदेशे शुभे वाऽपि चक्रांको यत्र तिष्ठति ॥
योजनानि दश द्वे च मम क्षेत्रं च सुन्दरि ॥ २१ ॥
मृत्युकाले च संप्राप्ते हृदये यस्तु धारयेत् ॥
चक्राकं पापदलनं स याति परमां गतिम् ॥ २२ ॥
गोमतीसंगमे स्नात्वा भृगुतीर्थे तथैव च ॥
न मातुर्वसते कुक्षौ यद्यपि स्यात्स पातकी ॥ ॥ २३ ॥
तामसं राजसं वापि यत्कृतं विष्णुपूजनम् ॥
तत्सात्त्विकत्वमभ्येति निम्नगांभो यथार्णवे ॥ २४ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकाक्षेत्रस्थसुदर्शनप्रमुखानन्तान्तचक्रचिह्नांकित पाषाणमाहात्म्यवर्णनपूर्वकतत्पूजनफलादिकथनंनाम सप्तत्रिंशत्तमोऽध्यायः ॥३७॥ ।
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 38
॥श्रीप्रह्लाद उवाच ॥ ॥
द्वारकायाश्च माहात्म्यं शृणु पौत्र मयोदितम् ॥
शृण्वतो गदतश्चापि मुक्तिः कृष्णाद्भवेद्ध्रुवम् ॥ १ ॥
पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ॥
अथ पुत्रस्य पौत्रेण नाकमेवाधिरोहति॥२॥
यस्य पुत्रः शुचिर्दक्षः पूर्वे वयसि धार्मिकः ॥
विष्णुभक्तिं च कुरुते तं पुत्रं कवयो विदुः ॥ ३ ॥
हेमशृंगं रौप्यखुरं सवत्सं कांस्यदोहनम्॥
सवस्त्रं कपिलानां तु सहस्रं च दिनेदिने ॥ ४ ॥
दत्त्वा यत्फलमाप्नोति ब्राह्मणे वेदपारगे ॥
तत्फलं स्नानमात्रेण गोमत्यां मधुभिद्दिने ॥ ५ ॥
यस्त्वेकं भोजयेद्विप्रं द्वारकायां च संस्थितम् ॥
सुभिक्षे भो द्विजश्रेष्ठाः फलं लक्षगुणं भवेत्॥६॥
फलं लक्षगुणं प्रोक्तं दुर्भिक्षे कृष्णसन्निधौ॥
एवं धर्मानुसारेण दयाद्भिक्षां तु भिक्षुके ॥ ७ ॥
अपि नः स कुले कश्चिद्भविष्यति नरोत्तमः ॥
यो यतीनो कलौ प्राप्ते पितॄनुद्दिश्य दास्यति ॥ ८ ॥
द्वारकायां विशे षेण सत्कृत्य कृष्णसन्निधौ ॥
अन्नदानं यतीनां तु कौपीनाच्छादनानि च ॥ ९ ॥
नात्मनः क्रतुभिः स्विष्टैर्नास्ति तीर्थैः प्रयोजनम्॥
यत्र वा तत्र वा कार्य्यं यतीनां प्रीणनं सदा ॥ 7.4.38.१० ॥
श्वपचादयोऽपि ते धन्या ये गता द्वारकां पुरीम् ॥
प्राप्य भागवतान्ये वै पितॄनुद्दिश्य पुत्रकाः ॥ ॥ ११ ॥
भक्त्या संपूजयिष्यंति वस्त्रैर्दानैश्च भूरिभिः ॥ १२ ॥
गयापिंडेन नास्माकं तृप्तिर्भवति तादृशी ॥
यादृशी विष्णुभक्तानां सत्कारेणोप जायते ॥ १३ ॥
वैशाखे ये करिष्यंति द्वादशीं कृष्णसन्निधौ ॥
कृष्णं संपूजयन्तश्च रात्रौ कुर्वंति जागरम् ॥१४॥
माहात्म्यं पठनीयं तु द्वारकासंभवं शुभम् ॥
कृष्णस्य बालचरितं बालकृष्णादिदर्शनम् ॥ १५ ॥
क्रीडनं गोकुलस्यैव क्रीडा गोपीजनस्य च ॥
कृष्णावतारकर्माणि श्रोतव्यानि पुनःपुनः ॥ १६ ॥
रुक्मशृंगीं रौप्यखुरीं मुक्तालांगूलभूषिताम्॥
सवत्सां ब्राह्मणे दत्त्वा होमार्थं चाहिताग्नये ॥ १७ ॥
निमिषस्पर्शनांशेन फलं कृष्णस्य जागरे ॥
यत्किंचित्कुरुते पापं कोटिजन्मसु मानवः ॥
कृष्णस्य जागरे रात्रौ दहते नात्र संशयः ॥ १८ ॥
पठेद्भागवतं रात्रौ पुराणं दयितं हरेः ॥
यावत्सूर्य्यकृताऽऽलोको यावच्चन्द्रकृता निशा ॥ १९ ॥
यावत्ससागरा पृथ्वी यावच्च कुलपर्वताः ॥
तावत्कालं वसेत्स्वर्गे नान्यथा मम भाषितम् ॥ 7.4.38.२० ॥
आस्फोटयंति पितरः प्रहर्षंति पितामहाः ॥
एवं तं स्वसुतं दृष्ट्वा शृण्वानं कृष्णसंभवम् ॥ २१ ॥
द्वारकायाश्च माहात्म्यं यत्र नो जागरे पठेत् ॥
तन्म्लेच्छसदृशं स्थानमपवित्रं परित्यजेत् ॥ २२ ॥
शालिग्रामशिला नैव यत्र भागवता न हि ॥
त्यजेत्तीर्थं महापुण्यं पुण्यमायतनं त्यजेत् ॥ २३ ॥
त्यजेद्गुह्यं तथाऽरण्यं यत्र न द्वादशीव्रतम् ॥ २४ ॥
सुदेशोऽपि भवेन्निंद्यो यत्र नो वैष्णवा व्रतम्॥
कुदेशोऽपि भवेत्पुण्यो यत्र भागवताः कलौ ॥ २५ ॥
संकीर्णयोनयः पूता ये भक्ता मधुसूदने ॥
म्लेच्छतुल्याः कुलीनास्ते ये न भक्ता जनार्दने॥ २६ ॥
रथारूढं प्रकुर्वंति ये कृष्णं मधुमाधवे ॥
मुक्तिं प्रयांति ते सर्वे कुलकोटिसमन्विताः ॥ २७ ॥
देवकीनन्दनस्यार्थे रथं कारापयन्ति ये ॥
कल्पांतं विष्णुलोके ते वसन्ति पितृभिः सह ॥ २८ ॥
द्वारकायास्तु माहात्म्यं श्रावयेद्यः कलौ नृणाम्॥
भावमुत्पादयेद्यो वै लभेत्क्रतुशतंफलम् ॥ २९ ॥
यो नार्चयति पापिष्ठो देवमन्यत्र गच्छति ॥
कोटिजन्मार्जितं पुण्यं हरते रुक्मिणीपतिः ॥ 7.4.38.३० ॥
शंखोद्धारसमुद्भूतां नित्यं देहे बिभर्त्ति हि ॥
मृत्तिकां दैत्यराजेन्द्र शृणु वक्ष्यामि यत्फलम् ॥ ३१ ॥
यो ददाति यतीनां च वैष्णवानां प्रयच्छति ॥
स्वर्णभारशतं पुण्ड्रं नित्यं प्राप्नोति मानवः ॥ ३२ ॥
गृहे यस्य सदा तिष्ठेच्छंखोद्धारस्य मृत्तिका ॥
नित्य क्रियाकृतंपुण्यं लभेत्कोटिगुणं बले ॥ ३३ ॥
यस्य पुण्ड्रं ललाटे तु गोपीचंदनसंज्ञकम् ॥
न जहाति गृहं तस्य लक्ष्मीः कृष्णप्रिया द्विजाः ॥ ३४ ॥
न ग्रहो बाधते तस्य नोरगो न च राक्षसः ॥
पिशाचा न च कूष्मांडा न च प्रेता न जंभकाः ॥ ३५ ॥
नाग्निचौरभयं तस्य दरीणां चैव बन्धनम् ॥
विद्युदुल्काभयं चैव न चोत्पातसमुद्भवम् ॥ ३६ ॥
नारिष्टं नापशकुनं दुर्निमित्तादिकं च यत् ॥
सत्कृते विष्णुभक्ते च शालिग्रामशिलार्चने ॥ ३७ ॥
पीते पादोदके विप्रा नैवेद्यस्यापि भक्षणे ॥
तुलसीसन्निधौ विष्णोर्विलयावसरे कृते ॥ ३८ ॥
पुरा देवेन कथितं शृणु पात्रं वदाम्यहम् ॥
प्रिया भागवता येषां तेषां दासोऽस्म्यहं सदा ॥ ३९॥
विहाय मथुरां काशीमवन्तीं सर्वपापहाम् ॥
मायां कांचीमयोध्यां च संप्राप्ते च कलौ युगे ॥ ॥ 7.4.38.४० ॥
वसाम्यहं द्वारकायां सर्वसेनासमावृतः ॥
तीर्थव्रतैर्यज्ञदानै रुद्राद्यैर्मुनिचारणैः ॥ ४१ ॥
श्रद्धात्यागेन भक्त्या वा यस्तोषयितुमिच्छति ॥
गत्वा द्वारवतीं रम्यां द्रष्टव्योऽहं कलौ युगे ॥ ४२ ॥
त्रैलोक्ये यानि तीर्थानि मया शुद्धानि भूरिशः ॥।
विन्यस्तानि च गोमत्यां चक्रतीर्थेऽतिपावने ॥ ४३ ॥
दिनेनैकेन गोमत्यां चक्रतीर्थे कलौ युगे ॥
त्रैलोक्यसंभवैस्तीर्थैः स्नातो भवति मानवः ॥ ४४ ॥
कोटिपापविनिर्मुक्तो मत्समं वसते नरः ॥
मम लोके न संदेहः कुलकोटिसमन्वितः ॥ ४५ ॥
नापराधकृतैः पापैर्लिप्तः स्यादु त्कटैः कृतैः ॥
शतजन्मायुतानीह लक्ष्मीर्न च्यवते गृहात् ॥ ४६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये गोमतीतीरगत द्वारकाचक्रतीर्थयोर्जागरादिमाहात्म्यवर्णनं-नामाष्टात्रिंशत्तमोऽध्यायः ॥ ३८ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 39
॥ श्रीप्रह्लाद उवाच ॥ ॥
जया च विजया चैव जयंती पापनाशिनी ॥
उन्मीलिनी वंजुली च त्रिस्पृशा पक्षवर्द्धिनी ॥ १ ॥
पुण्यं सर्वपुराणानां ते लभंते दिनेदिने ॥
पक्वान्नं ये प्रकुर्वंति हविर्द्धान्यसमुद्भवम् ॥ २ ॥
जागरे पद्मनाभस्य घृतेनैव सुपाचितम् ॥
वर्तिद्वयसमायुक्तं दीपं घृतसमन्वितम् ॥ ३ ॥
यः कुर्य्याज्जागरे विष्णोः शालिग्रामशिलाग्रतः ॥
शालग्रामशिलाग्रे तु ये प्रकुर्वंति जागरम् ॥ ४ ॥
कुर्वंति नृत्यवाद्ये च लोकानां रंजनाय च ॥
संछादयंति कुसुमैः शालिग्रामशिलां च ये ॥ ५ ॥
चक्रांकितां विशेषेण प्रतिमां वैष्णवीं द्विजाः ॥
चंदनं च सकर्पूरं कृष्णागुरुसमन्वितम् ॥ ६ ॥
युक्तं मृगमदेनापि यः करोति विलेपनम् ॥
द्वादश्यां देवदेवस्य रात्रौ जागरणे सदा ॥ ७ ॥
तस्य पुण्यं प्रवक्ष्यामि संक्षेपेण च वोऽग्रतः ॥
तत्फलं कोटितीर्थे तु उज्जयिन्यां महालये ॥ ८ ॥
वाराणस्यां कुरुक्षेत्रे मथुरायां त्रिपुष्करे ॥
अयोध्यायां प्रयागे च तीर्थे सागरसंगमे ॥ ९ ॥
सर्वपुण्येषु तीर्थेषु देवतायतनेषु च ॥
कृतैर्यज्ञायुतैस्तत्र व्रतदानैश्च पुष्कलैः ॥ 7.4.39.१० ॥
वेदैरधीतैर्यत्पुण्यं पुराणैश्चावगाहितैः ॥
तपोभिश्चरितैः पुण्यं सम्यगाश्रम पालनैः ॥ ११ ॥
यत्फलं मुनिभिः प्रोक्तं वेदव्यासेन पुत्रक ॥
तत्फलं जागरे विष्णोः पक्षयोः शुक्लकृष्णयोः ॥ १२ ॥
हैमवत्यै पुरा प्रोक्तं कैलासे शूलपाणिना ॥
नारदाय पुरा प्रोक्तं ब्रह्मणा मत्समीपतः ॥ १३ ॥
अरुणेन वज्रहस्ताय कथितं पृच्छते पुरा ॥
द्वादशीजागरस्योक्तं फलं विप्रा मया च वः॥
तत्कुरुध्वं द्विजा यूयं जागरं विष्णुवासरे ॥ १४ ॥
॥ सूत उवाच ॥ ॥
इत्युक्त्वा ब्राह्मणान्प्राह बलिं पौत्रं स्वकं ततः ॥
त्वमपि श्रद्धया पौत्र कुरु जागरणं हरेः ॥ १५ ॥
द्वारका मनसा ध्याता पापं वर्षशतान्वितम् ॥
कीर्तनाच्छतजन्मोत्थं दहते नात्र संशयः ॥ १६ ॥
पापं जन्मसहस्रोत्थं पदमात्रेण गच्छताम् ॥
द्वारका हरते नूनं मुक्तिः कृष्णस्य दर्शनात् ॥ १७ ॥
न शक्नोति यदा गंतुं द्वारकां चैव मानवः ॥
माहात्म्यं पठनीयं तु द्वारकासंभवं गृहे ॥ १८ ॥
दातव्यं वैष्णवानां तु श्रोतव्यं भक्तिभावतः ॥
द्वादश्यां च विशेषेण पठनीयं तु जागरे ॥ १९ ॥
द्वारका संभवं पुण्यं स संप्राप्नोति मानवः ॥
प्रसादाद्वासुदेवस्य सत्यंसत्यं च भाषितम् ॥ 7.4.39.२० ॥
गृहे संतिष्ठते नित्यं मथुरा द्वारका तथा ॥
अवंती च तथा माया प्रयागं कुरुजांगलम् ॥ २१ ॥
त्रिपुष्करं नैमिषं च गंगाद्वारं च सौकरम् ॥
चंद्रेशं चैव केदारं तथा रुद्रमहालयम् ॥ २२ ॥
वस्त्रापथं महादेवं महाकालं तथैव च ॥
भूतेश्वरं भस्मगात्रं सोमनाथमुमापतिम्॥ २३ ॥
कोटिलिंगं त्रिनेत्रं च देवं भृगुवनेचरम् ॥
दीपेश्वरं महानादं देवं चैवाचलेश्वरम् ॥ २४ ॥
ब्रह्मादयः सुरगणा गृहे तिष्ठंति सर्वदा ॥
पितरो नागगंधर्वा मुनयः सिद्धचारणाः ॥ २५ ॥
तीर्थानि यानि कानि स्युरश्वमेधादयो मखाः ॥
कृष्णजन्माष्टमीं पौत्र यः करोति विशेषतः ॥ २६ ॥
यथा भागवतं शास्त्रं तथा भागवतो नरः ॥
उभयोरंतरं नास्ति हरहर्योस्तथैव च ॥ २७ ॥
नीलीक्षेत्रं तु यो याति मूलकं भक्षयेत्तु यः ॥
नैवास्ति नरकोद्धारं कल्पकोटिशतैरपि ॥ २८ ॥
नीलीकर्म तु यः कुर्य्याद्ब्राह्मणो लोभमोहितः ॥
नाप्नोति सुकृतं किंचित्कुर्य्याद्वा रसविक्रयम् ॥ २९ ॥
प्रसीदति न विश्वात्मा वैष्णवे चापमानिते ॥
अश्वत्थं छेदयेद्यो वै एकैकस्मिंश्च पर्वणि ॥ 7.4.39.३० ॥
मन्वंतराणि तावंति रौरवे वसतिर्भवेत् ॥
अरिष्टकाष्ठैर्दैत्येंद्र कार्य्यं यः कुरुते क्वचित् ॥
न पूजामर्घदानं च तस्य गृह्णाति भास्करः ॥ ३१ ॥
छेदापकस्य चार्के तु च्छेदकस्य च दैत्यज ॥
शतं जन्मानि दारिद्यं जायते च सरोगता ॥ ३२ ॥
रोपयेत्पालयेद्यो वै सूर्य्यवृक्षं नरोत्तमः ॥
सप्तकल्पं वसेत्सोऽत्र समीपे भास्करस्य हि ॥ ३३ ॥
रोपितैर्देववृक्षैस्तु यत्फलं लक्षकोटिभिः ॥
न्यग्रोधवृक्षेणैकेन रोपितेन फलं हि तत् ॥ ३४ ॥
धात्रीद्रुमेऽप्येवमेव फलं भवति रोपिते ॥
तुलसीरोपणे चैव अधिकं चापि सुव्रत ॥
अमरत्वं च ते यांति नात्र कार्य्या विचारणा ॥ ३५ ॥
द्वारकां कलिकाले तु प्रातरुत्थाय कीर्तयेत् ॥
स सर्वपापनिर्मुक्तः स्वर्गं याति न संशयः ॥ ३६ ॥
रोहिणीसहिता ये न द्वादशी समुपोषिता ॥
महापातकसंयुक्तः कल्पांते नाकमाप्नुयात् ॥ ३७ ॥
वासरः को विना सूर्य्यं विना सोमेन का निशा ॥
विना वृक्षेण को ग्रामो द्वादशी किं व्रतं विना ॥ ३८ ॥
गृहं च नरकं तस्य यमदण्डं द्वितीयकम् ॥
न यत्र पठते नित्यं विष्णोर्नामसहस्रकम् ॥ ३९ ॥
नरकं च भवेत्तस्य द्वितीयं यमशासनम् ॥
नैव भागवतं यत्र पुराणं गीयते कलौ ॥
अन्धकूपेषु क्षिप्यंते ज्वलितेषु हुताशने ॥ 7.4.39.४० ॥
द्विषंति ये भागवतं न कुर्वंति दिनं हरेः ॥
यमदूतैश्च नीयन्ते तथा भूमौ भवंति ते ॥ ४१ ॥
वाच्यमानं न शृण्वंति हरेश्चरितमुत्तमम् ॥
करपत्रैश्च पीड्यंते सुतीव्रैर्यम शासनात्॥ ४२ ॥
निन्दां कुर्वंति ये पापा वैष्णवानां महात्मनाम् ॥
तेषां निरयपातस्तु यावदाभूतसंप्लवम् ॥ ४३ ॥
गोकोटितीर्थादधिकं स्नानं तत्राधिकं भवेत् ॥
ये पश्यंति महापुण्या गोपीचंदनमृत्तिकाम्॥
गंगास्नानफलं तेषां जायते नात्र संशयः ॥ ४४ ॥
वैष्णवानां प्रयच्छंति गोपीचं दनमृत्तिकाम् ॥
येषां ललाटे तिलकः गोपीचंदनसंभवम्॥ ४५ ॥
गोपीचंदनपुंड्रेण द्वादश्यां जागरे कृते ॥
विष्णोर्नामसहस्रस्य पाठेन मुक्तिमाप्नुयात् ॥ ४६ ॥
ये नित्यं प्रातरुत्थाय वैष्णवानां तु कीर्तनम्॥
गोमतीस्मरणं कुर्युः कृष्णतुल्या न संशयः ॥ ४७ ॥
ये नित्यं प्रातरुत्थाय द्वारकेति वदंति च ॥
तीर्थकोटिभवं पुण्यं लभंते च दिनेदिने ॥ ४८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वादशीव्रतादिमाहात्म्यवर्णनंनामैकोनचत्वारिंशत्तमोऽध्यायः ॥ ३९ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 40
॥ श्रीप्रह्लाद उवाच ॥ ॥
स्वनामांकित पत्रैस्तु श्रीपतिं योऽर्चयेत वै ॥
सप्तलोकाननुप्राप्य सप्तद्वीपाधिपो भवेत्॥ १ ॥
माकान्तवृक्षपत्रैस्तु योऽर्चयेत सदा हरिम् ॥
पुण्यं भवति तस्येह वाजिमेधायुतं कलौ ॥ २ ॥
लक्ष्मीं सरस्वतीं देवीं सावित्रीं चंडिकां तथा ॥
पूजयित्वा दिवं याति पत्रैः श्रीवृक्षसंभवैः ॥ ३ ॥
तुलस्या अधिकं प्रोक्तं दलं श्रीवृक्षसंभवम्॥
तस्मान्नित्यं प्रयत्नेन पूजनीयः सदाऽच्युतः ॥ ४ ॥
द्वादश्यां रविवारेण श्रीवृक्षमर्चयन्ति ये ॥
ब्रह्महत्यादिकैः पापैर्न लिप्यंते कृतैरपि ॥ ५ ॥
यथा करिपदेऽन्यानि प्रविशंति पदानि च ॥
तथा सर्वाणि पुण्यानि प्रविष्टानि हरेर्दिने ॥ ६ ॥
अध्रुवेणैव देहेन प्रतिक्ष णविनाशिना ॥
कथं नोपासते जंतुर्द्वादशीं जागरान्विताम् ॥ ७ ॥
अतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्द्दश ॥
नरकात्तारयेत्सर्वाँल्लोकान्कृष्णेति कीर्तनात् ॥
न ते जीवंति लोकेऽस्मिन्यत्रतत्र स्थिता नराः ॥ ८ ॥
द्वारकायां च संप्राप्तास्त्रिषु लोकेषु वंदिताः॥
द्वारकायां प्रकुर्वंति यतीनां भोजनं स्थितिम् ॥
ग्रासेग्रासे मखशतं ते लभंते फलं नराः ॥९ ॥
यतीनां ये प्रयच्छंति कौपीनाच्छादनादिकम् ॥
वसतां द्वारकामध्ये यथाशक्त्या तु भोजनम् ॥
शृणु पुण्यं प्रवक्ष्यामि समासेन हि दैत्यज ॥ 7.4.40.१० ॥
कोटिभिर्वेदविद्वद्भिर्गयायां पितृवत्सलैः ॥
भोजितैर्यत्समाप्नोति तत्फलं दैत्यनायक ॥ ११ ॥
एकस्मिन्भोजिते पौत्र भिक्षुके फलमीदृशम्॥
दातव्यं भिक्षुके चान्नं कुर्य्याद्वै चात्मविक्रयम् ॥ १२ ॥
धन्यास्ते यतयः सर्वे ये वसंति कलौ युगे ॥
कृष्णमाश्रित्य दैत्येन्द्र द्वारकायां दिनेदिने ॥ १३ ॥
प्राणिनो ये मृताः केचिद्द्वारकां कृष्णसन्निधौ ॥
पापिनस्तत्पदं यांति भित्त्वा सूर्यस्य मंडलम् ॥ १४ ॥
द्वारकाचक्रतीर्थे ये निवसंति नरोत्तमाः ॥
तेषां निवारिताः सर्वे यमेन यमकिंकराः ॥ १५ ॥
स्नात्वा पश्यंति गोमत्यां कृष्णं कलिमलापहम् ॥
न तेषां विषये यूयं न चास्मद्विषये तु ते ॥ १६ ॥
अपि कीटः पतंगो वा वृक्षा वा ये तदाश्रिताः ॥
यांति ते कृष्णसदनं संसारे न पुनर्हिं ते ॥ १७ ॥
किं पुनर्द्विजवर्य्याश्च क्षत्रियाश्च विशेषतः ॥
त्रिवर्णपूजासंयुक्ताः शूद्रास्तत्र निवासिनः ॥ १८ ॥
गीतां पठंति कृष्णाग्रे कार्तिकं सकलं द्विजाः ॥
एकभक्तेन नक्तेन तथैवायाचितेन च ॥ १९ ॥
त्रिरात्रेणापि कृच्छ्रेण तथा चान्द्रायणेन च ॥
यावकैस्तप्तकृच्छ्राद्यैः पक्षमासमुपोषणैः ॥ 7.4.40.२० ॥
क्षपयंति च ये मासं कार्तिकं व्रतचारिणः ॥
स्नात्वा वै गोमतीनीरे तथा वै रुक्मिणीह्रदे ॥ २१ ॥
शंखचक्रगदा हस्ताः कृष्णरूपा भवंति ते ॥
उपोष्यैकादशीं शुद्धां दशमीसंगवर्जिताम् ॥ २२ ॥
श्राद्धं कुर्वंति द्वादश्यां चक्रतीर्थे च निर्मले ॥
ब्राह्मणान्भोजयित्वा च मधुपायससर्पिषा ॥ २३ ॥
संतर्प्य विधिवद्भक्त्या शक्त्या दत्त्वा तु दक्षिणाम् ॥
गोभूहिरण्यवासांसि तांबूलं च फलानि च ॥ २४ ॥
उपानहौ च्छत्रसुमं जलपूर्णा घटास्तथा ॥
पक्वान्नसंयुताः शुभ्राः सफला दक्षिणान्विताः॥ २५ ॥
एवं यः कुरुते सम्यक्कृष्णमुद्दिश्य कार्तिके ॥
मार्कंडेय समा प्रीतिः पितॄणां जायते ध्रुवम् ॥ २६ ॥
कृष्णस्य त्रिदशैः सार्द्धं तुष्टिर्भवति चाक्षया ॥ २७ ॥
ये कार्तिके पुण्यतमा मनुष्यास्तिष्ठंति मासं व्रतदानयुक्ताः ॥
रथांगतीर्थे कृतपूतगात्रास्ते यांति पुण्यं पदमव्ययं च ॥ २८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये कार्तिके चक्रतीर्थस्नानदानश्राद्धादिमाहात्म्यवर्णनंनाम चत्वारिंशत्तमोऽध्यायः॥ ४० ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 41
॥ श्रीप्रह्लाद उवाच ॥ ॥
धन्यास्तु नरलोकास्ते गोमत्यां तु कृतोदकाः ॥
पूजयिष्यंति ये कृष्णं केतकीतुलसीदलैः ॥ १ ॥
न तेषां संभवोऽस्तीह घोरसंसा रगह्वरे ॥
तेषां मृत्युः पुनर्नास्ति ह्यमरत्वं हि ते गताः ॥ २ ॥
अन्यत्र वै यतीनां तु कोटीनां यत्फलं भवेत् ॥
द्वारकायां तु चैकेन भोजितेन ततोऽधिकम् ॥ ३ ॥
अतीतं वर्त्तमानं च भविष्यद्यच्च पातकम् ॥
निर्द्दहेन्नास्ति संदेहो द्वारका मनसा स्मृता ॥ ४ ॥
ज्ञात्वा कलियुगे घोरे हाहाभूतमचेतनम्॥
द्वारकां ये न मुञ्चन्ति कृतार्थास्ते नरोत्तमाः ॥ ५ ॥
मृतानां यत्र जंतूनां श्वेतद्वीपे स्थितिः सदा ॥ ६ ॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपाश्च ये ॥
एकविंशतिः पितृगणा द्वारकायां वसंति ते॥ ७ ॥
पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा ॥
कुरुक्षेत्रादि क्षेत्राणि काश्यादीन्यूषराणि च ॥ ८ ॥
गयादिपितृतीर्थानि प्रभासाद्यानि यानि च ॥
स्थानानि यानि पुण्यानि ग्रामाश्च निवसंति वै ॥ ९ ॥
काश्यादिपुर्यो या नित्यं निवसंति कलौ युगे ॥
नित्यं कृष्णस्य सदने पापिनां मुक्तिदे सदा ॥ 7.4.41.१० ॥
वैशाखशुक्लद्वादश्यां प्रबोधिन्यां शेषतः ॥
वैशाख्यां दैत्यशार्दूल कल्पादिषु युगादिषु ॥ ११ ॥
चंद्रसूर्योपरागेषु मन्वादिषु न संशयः ॥
व्यतीपातेषु संक्रांतौ वैधृतौ दैत्यनायक ॥ १२ ॥
तिलोदकं च यद्दत्त तत्स्थले पितृभक्तितः ॥
तत्सर्वमक्षयं प्रोक्तं गोमत्यां स्नानपूर्वकम् ॥१३ ॥
येऽत्र श्राद्धं प्रकुर्वंति पिंडदानपुरःसरम् ॥
तेषामत्राक्षया तृप्तिः पितॄणामुपजायते ॥ १४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थ द्वारकामाहात्म्ये गोमतीस्नान कृष्णपूजन यतिभोजन दान श्राद्धादिसत्फलवर्णनंनामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 42
॥ प्रह्लाद उवाच ॥ ॥
वृषोत्सर्गं करिष्यंति वैशाख्यां चैव कार्तिके ॥
द्वारकायां पिशाचत्वं मुक्त्वा यांति पितामहाः ॥ १ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥
एवंविधानि पापानि कृत्वा चैव गुरूण्यपि॥ २ ॥
स्नानमात्रेण गोमत्यां श्रीकृष्णस्य च दर्शनात् ॥
विलयं याति दैत्येन्द्र कल्पकोटिकृतान्यपि ॥ ३ ॥
रुक्मिणीं ये प्रपश्यंति भक्तियुक्ताः कलौ नराः ॥
पुरीं प्रदक्षिणां कृत्वा जप्त्वा नामसहस्रकम् ॥ ४ ॥
प्रदक्षिणीकृतं सर्वं ब्रह्मांडं नात्र संशयः ॥
महादानैस्तु चान्यत्र यत्फलं परिकीर्तितम्॥
द्वारकायां तु रुक्मिण्यां दृष्टायां जायते तदा ॥ ५ ॥
द्वादशीवासरे प्राप्ते माहात्म्यं द्वारकाभवम् ॥
पठते संनिधौ विष्णोः शृणु वक्ष्यामि तत्फलम् ॥ ६ ॥
सर्वेषु चैव लोकेषु कामचारी विराजते ॥
पद्मवर्णेन यानेन किंकिणीजालमालिना ॥ ७ ॥
दिव्यश्वेताश्वयुक्तेन कामगेन यथासुखम् ॥
आभूतसंप्लवं यावत्क्रीडतेऽप्सरसां गणैः ॥ ८ ॥
कृतकृत्यश्च भवति कल्पकोटिसमन्वितः ॥
यथा निर्मथनादग्निः सर्वकाष्ठेषु दृश्यते ॥
तथा च दृश्यते धर्मो द्वादशीसेवनान्नरे ॥९॥
अतः परं प्रवक्ष्यामि पितृभिः परिकीर्तितम् ॥
अपि स्यात्स कुलेऽस्माकं गोमत्यां श्रद्धया नरः ॥
स्नात्वा संपूज्य कृष्णं च श्राद्धं कुर्यात्सपिण्डकम् ॥ 7.4.42.१०॥
अपि स्यात्स कुलेऽस्माकं गोमत्युदधिसंगमे ॥
स्नात्वा पश्यति यः कृष्णमस्माकं तारणाय वै ॥ ११ ॥
अपिस्यात्स कुलऽस्माकं यः श्रुत्वा ब्राह्मणाननात् ॥
द्वारकामाहात्म्यमिदं पूजयिष्यति भक्तितः ॥ १२ ॥
भविष्यति कुलेऽस्माकं यो गच्छेद्द्वारकां पुरीम् ॥
संप्राप्य द्वादशीं शुद्धां यः करिष्यति जागरम् ॥ १३ ॥
भविष्यति कुलेऽस्माकं पुत्रो वा दुहिता तथा ॥
स्तुवन्नामसहस्रं तु कृष्णस्याग्रे पठिष्यति ॥ १४ ॥
अपि स्यात्स कुलेऽस्माकं भविष्यति धृतव्रतः ॥
गोपीचन्दनदानेन यस्तोषयति वैष्णवान्॥ ॥ १५ ॥
अपि स्यात्स कुलेऽस्माकं वैष्णवानां तु सन्निधौ ॥
द्वारकायाश्च माहात्म्यं पठिष्यति जितेन्द्रियः ॥ १६ ॥
भविष्यति कुलेऽस्माकं माहात्म्यं द्वारकाभवम् ॥
लिखित्वा कृष्णतुष्ट्यर्थं स्वगृहे धारयिष्यति ॥ १७ ॥
स्वर्णदानं च गोदानं भूमिदानं तथैव च ॥
यावज्जीवं भवेद्दत्तं येनेदं धारितं कलौ ॥ १८ ॥
तप्तकृच्छ्रं महाकृच्छ्रं मासोपोषणमेव च ॥
यावज्जीवं कृतं तेन येनेदं श्रावितं कलौ ॥ १९ ॥
प्रायश्चित्तानि चीर्णानि पापानां नाशनाय ? ॥
द्वारकायाश्च माहात्म्यं येन विस्तारितं कलौ ॥ 7.4.42.२० ॥
तावत्तिष्ठंति पुरुषे ब्रह्महत्यादिकानि च ॥
यावन्न लिखते जंतुर्माहात्म्यं द्वारकाभवम् ॥ २१ ॥
दानैः सर्वैश्च किं तस्य सर्वतीर्थावगाहनैः ॥
द्वारकायाश्च माहात्म्यं येनेदं लिखितं गृहे ॥ २२ ॥
सर्व दुःखप्रशमनं सर्वकार्य्यप्रसाधनम्॥
चतुर्वर्गप्रदं नित्यं हरिभक्तिविवर्द्धनम् ॥ २३ ॥
न चाधिर्भवते नूनं याम्यं तस्य भयं नहि ॥
माहात्म्यं पठते यत्र द्वारकायाः समुद्भवम्॥ २४ ॥
लिखितं तिष्ठते यस्य गृहे तत्तीर्थमेव च ॥
बलाच्छुणुष्व माहात्म्यं द्वारकायाः समुद्भवम् ॥ २५ ॥
विधि मन्त्रक्रियाहीनां पूजां गृह्णाति केशवः ॥
माहात्म्यं तिष्ठते नित्यं लिखितं यस्य वेश्मनि ॥
न तस्यागःसहस्रैस्तु कृतैर्लिप्यति मानवः ॥ २६ ॥
यः पठेच्छृणुते वापि माहात्म्यं द्वारकाभवम् ॥
न भवेद्भूतवैकल्यं धर्मवैकल्यमेव च ॥ २७ ॥
यः स्मरेत्प्रातरुत्थाय माहात्म्यं द्वारकाभवम् ॥
द्वादशीनां च सर्वासां यच्चोक्तं लभते फलम् ॥ २८ ॥
त्रिदशैः पूज्यते नित्यं वन्द्यते सिद्धचारणैः ॥
माहात्म्यं पठते यो वै द्वारकायाः समुद्भवम् ॥ २९ ॥
द्वारका वसते यत्र तत्र विष्णुः सनातनः ॥
तत्र तीर्थानि सर्वाणि सर्वे देवाः सवासवाः ॥
यज्ञा वेदाश्च ऋषयस्त्रैलोक्यं सचरा चरम् ॥ 7.4.42.३० ॥
शक्तो हि द्वारकां गंतुं मानवो न हि पुत्रक ॥
कृष्णदर्शनजं पुण्यं माहात्म्यं पठतो भवेत् ॥३१ ॥
सत्यं शौचं श्रुतं वित्तं सुशीलं च क्षमाऽऽर्जवम् ॥
सर्वं च निष्फलं तस्य माहात्म्यं न शृणोति यः ॥ ३२ ॥
षण्मासे च भवेत्पुत्रो लक्ष्मीश्चैव विवर्द्धते ॥
तस्य यः शृणुते भक्त्या माहात्म्यं द्वारकाभवम् ॥ ३३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वारकाक्षेत्रे वृषोत्सर्गादिक्रियाकरण द्वारकामाहात्म्यश्रवणादिफलवर्णनंनाम द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 43
॥ प्रह्लाद उवाच ॥ ॥
सावित्रीं च भवानीं च दुर्गां चैव सरस्वतीम् ॥
योऽर्चयेत्तुलसीपत्रैः सर्वकामसमन्वितः ॥ १ ॥
गृहीत्वा तुलसीपत्रं भक्त्या विष्णुं समर्चयेत् ॥
अर्चितं तेन सकलं सदेवासुरमानुषम्॥ २ ॥
चतुर्द्दश्यां महेशानं पौर्णमास्यां पितामहम् ॥
येऽर्चयन्ति च सप्तम्यां तुलस्या च गणाधिपम् ॥३ ॥
शंखोदकं तीर्थवराद्वरिष्ठं पादोदकं तीर्थवराद्वरिष्ठम्॥
नैवेद्यशेषं क्रतुकोटितुल्यं निर्माल्यशेषं व्रतदानतुल्यम् ॥ ४ ॥
मुकुन्दाशनशेषं तु यो भुनक्ति दिनेदिने ॥
सिक्थेसिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम् ॥ ५ ॥
नैवेद्यशेषं तुलसीविमिश्रं विशेषतः पादजलेन विष्णोः ॥
योऽश्नाति नित्यं पुरुषो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥ ६ ॥
यः श्राद्धकाले हरिभुक्तशेषं ददाति भक्त्या पितृदेवतानाम् ॥
तेनैव पिंडात्सुतिलैर्विमिश्रादाकल्पकोटिं पितरः सुतृप्ताः ॥ ७ ॥
स्नानार्चनक्रियाकाले घंटावाद्यं करोति यः ॥
पुरतो वासुदेवस्य गवां कोटिफलं लभेत् ॥ ८ ॥
सर्ववाद्यमयी घंटा केशवस्य सदा प्रिया ॥
वादनाल्लभते पुण्यं यज्ञकोटिफलं नरः ॥ ९ ॥
वादित्राणामभावे तु पूजाकाले च सर्वदा ॥
घंटावाद्यं नरैः कार्य्यं सर्ववाद्यमयी यतः ॥ 7.4.43.१० ॥
तुलसीकाष्ठसंभूतं चन्दनं यच्छते हरेः ॥
निर्द्दहेत्पातकं सर्वं पूर्वजन्मशतार्जितम् ॥ ११ ॥
ददाति पितृ पिंडेषु तुलसीकाष्ठचन्दनम् ॥
पितॄणां जायते तृप्तिर्गयाश्राद्धेन वै तथा ॥ १२ ॥
सर्वेषामेव देवानां तुलसीकाष्ठचन्दनम् ॥
पितॄणां च विशेषेण सदाऽभीष्टं हरेः कलौ ॥ १३ ॥
हरेर्भागवता भूत्वा तुलसीकाष्ठचन्दनम् ॥
नार्पयति सदा विष्णोर्न ते भागवताः कलौ ॥ १४ ॥
शरीरं दह्यते यस्य तुलसीकाष्ठवह्निना ॥
नीयमानो यमेनापि विष्णुलोकं स गच्छति ॥ १५ ॥
यद्येकं तुलसीकाष्ठं मध्ये काष्ठस्य यस्य हि ॥
दाहकाले भवेन्मुक्तः पापकोटिशतायुतैः ॥ १६ ॥
दह्यमानं नरं दृष्ट्वा तुलसीकाष्ठवह्निना ॥
जन्मकोटिसहस्रैस्तु तोषितस्तैर्जनार्दनः ॥ १७ ॥
दह्यमानं नरं सर्वे तुलसीकाष्ठवह्निना ॥
विमानस्थाः सुरगणाः क्षिपंति कुसुमांजलीन् ॥ १८ ॥
नृत्यंत्योऽप्सरसो हृष्टा गीतं गायन्ति सुस्वरम् ॥
ज्वलते यत्र दैत्येन्द्र तुलसीकाष्ठपावकः ॥ १९ ॥
कुरुते वीक्षणं विष्णुः सन्तुष्टः सह शंभुना ॥ 7.4.43.२० ॥
गृहीत्वा तं करे शौरिः पुरुषं स्वयमग्रतः॥
मार्जते तस्य पापानि पश्यतां त्रिदिवौकसाम् ॥
महोत्सवं च कृत्वा तु जयशब्दपुरःसरम् ॥ २१ ॥
॥ सूत उवाच ॥ ॥
प्रह्लादेनोदितं श्रुत्वा माहात्म्यं द्वारकाभवम् ॥
प्रहृष्टा ऋषयः सर्वे तथा दैत्येश्वरो बलिः ॥ २२ ॥
ततः सर्वेऽभिनन्द्यैनं प्रह्लादं दैत्यपुङ्गवम् ॥
उद्युक्ता द्वारकां गत्वा द्रष्टुं कृष्णमुखाम्बुजम् ॥ २३ ॥
ततस्ते बलिना सार्धं मुनयः संशितव्रताः ॥
आगत्य द्वारकां स्नात्वा गोमत्यां विधिपूर्वकम् ॥ २४ ॥
कृष्णं दृष्ट्वा समभ्यर्च्य कृत्वा यात्रां यथाविधि ॥
दत्त्वा दानानि बहुशः कृतकृत्यास्ततोऽभवन् ॥ २५ ॥
जग्मुः स्वीयानि स्थानानि बलिः पातालमाययौ ॥
प्रह्लादं च प्रणम्याशु मेने स्वस्य कृतार्थताम् ॥ २६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकामाहात्म्यश्रवणादिफलश्रुतिवर्णनपुरःसरतुलसीपत्रकाष्ठमहिमवर्णनपूर्वकं प्रह्लादद्विजसंवाद समाप्त्यनंतरं बलिना सह द्विजकृतद्वारकायात्राविधिवर्णनंनाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३ ॥
खण्डः ७ (प्रभासखण्डः) · द्वारकामाहात्म्यम् — Adhyāya 44
॥ सूत उवाच ॥ ॥
एतत्पुराणमखिलं पुरा स्कन्देन भाषितम् ॥
भृगवे ब्रह्मपुत्राय तस्माल्लेभे तथांऽगिराः ॥ १ ॥
ततश्च च्यवनः प्राप ऋचीकश्च ततो मुनिः ॥
एवं परंपरा प्राप्तं सर्वेषु भुवनेष्वपि ॥ २ ॥
स्कान्दं पुराणमेतच्च कुमारेण पुरोद्धृतम् ॥
यः शृणोति सतां मध्ये नरः पापाद्विमुच्यते ॥ ३ ॥
इदं पुराणमायुष्यं चतुर्वर्णसुखप्रदम् ॥
निर्मितं षण्मुखेनेह नियतं सुमहात्मना ॥ ४ ॥
एवमेतत्समाख्यातमाख्यानं भद्रमस्तु वः ॥ ५ ॥
मण्डितं सप्तभिः खण्डैः स्कान्दं यः शृणुयान्नरः ॥
न तस्य पुण्यसंख्यानं कर्तुं शक्येत केनचित् ॥ ६ ॥
य इदं धर्ममाहात्म्यं ब्राह्मणाय प्रयच्छति ॥
स्वर्गलोके वसेत्तावद्यावदक्षरसंख्यया ॥ ७ ॥
यथा हि वर्षतो धारा यथा वा दिवि तारकाः ॥
गंगायां सिकता यद्वत्तद्वत्संख्या न विद्यते ॥ ८ ॥
यो नरः शृणुयाद्भक्त्या दिनानि च कियन्ति वै ॥
सर्वार्थसिद्धो भवति य एतत्पठते नरः ॥ ९ ॥
पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ॥
लभते पतिकामा या पतिं कन्या मनोरमम् ॥ 7.4.44.१०॥
समागमं लभन्ते च बान्धवाश्च प्रवासिभिः ॥
स्कान्दं पुराणं श्रुत्वा तु पुमानाप्नोति वाञ्छितम् ॥ ११ ॥
शृण्वतः पठतश्चैव सर्वकामप्रदं नृणाम्॥१२॥
पुण्यं श्रुत्वा पुराणं वै दीर्घमायुश्च विन्दति॥
महीं विजयते राजा शत्रूंश्चाप्यधितिष्ठति॥१३॥
वेदविच्च भविद्विप्रः क्षत्रियो राज्यमाप्नुयात्॥
धनं धान्यं तथा वैश्यः शूद्रः सुखमवाप्नुयात्॥१४॥
अध्यायमेकं शृणुयाच्छ्लोकं श्लोकार्धमेव वा॥
यः श्लोकपादं शृणुयाद्विष्णुलोकं स गच्छति ॥ १५ ॥
श्रुत्वा पुराणमेतद्धि वाचकं यस्तु पूजयेत्॥
तेन ब्रह्मा च विष्णुश्च रुद्रश्चैव प्रपूजितः ॥ १६ ॥
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ॥
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा ह्यनृणी भवेत् ॥ १७ ॥
अतः संपूजनीयस्तु व्यासः शास्त्रोपदेशकः ॥
गोभू हिरण्यवस्त्राद्यैर्भोजनैः सार्वकामिकैः ॥ १८ ॥
य एवं भक्तियुक्तस्तु श्रुत्वा शास्त्रमनुत्तमम् ॥
पूजयेदुपदेष्टारं स शैवं पदमाप्नुयात् ॥ १९ ॥
पुराणश्र वणादेव अनेकभवसंचितम् ॥
पापं प्रशममायाति सर्वतीर्थफलं लभेत् ॥ 7.4.44.२० ॥
अमृतेनोदरस्थेन म्रियन्ते सर्वदेवताः ॥
कण्ठस्थितविषेणापि यो जीवति स पातु वः ॥ २१ ॥
॥ व्यास उवाच ॥ ॥
इत्युक्त्वोपरते सूते शौनकादि महर्षयः ॥
संपूज्य विधिवत्सूतं प्रशस्याथाभ्यनन्दयन् ॥ ॥ २२ ॥
ऋषय ऊचुः ॥ ॥
कथितो भवता सर्गः प्रतिसर्गस्तथैव च ॥
वंशानुवंशचरितं पुराणानामनुक्रमः ॥ २३ ॥
मन्वन्तरप्रमाणं च ब्रह्माण्डस्य च विस्तरः ॥
ज्योतिश्चक्रस्वरूपं च यथावदनुवर्णितम् ॥ २४ ॥
धन्याः स्म कृतकृत्याः स्म वयं तव मुखाम्बुजात् ॥
स्कान्दं महापुराण हि श्रुत्वा सूतातिहर्षिताः ॥ २५ ॥
वयं महर्षयो विप्राः प्रदद्मोऽद्य तवाऽऽशिषः ॥
व्यासशिष्य महाप्राज्ञ चिरं जीव सुखी भव ॥ २६ ॥
इति दत्त्वाऽऽशिषस्तस्मै दत्त्वा वासोविभूषणम् ॥
विसृज्य लोमशं सूतं यज्ञकर्माण्यथाचरन् ॥ २७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये स्कन्दमहापुराणश्रवणपठनपुस्तकप्रदानपौराणिकव्यासपूजनमाहात्म्यवर्णनपूर्वकं समस्तस्कान्दमहा पुराणग्रन्थसमाप्त्युपसंहारसूतसत्कारवृत्तान्तवर्णनंनाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ४४ ॥
इति श्रीस्कान्दे महापुराणे सप्तमे प्रभासखण्डे चतुर्थं द्वारकामाहात्म्यं सम्पूर्णम् ॥ (७-४) ॥
॥ इति श्रीस्कान्दे महापुराणे सप्तमं प्रभासखण्डं सम्पूर्णम्॥ ७ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 1
॥ अथश्रीस्कान्दे महापुराणे सप्तमं प्रभासखण्डम् ॥ ७ ॥
॥ श्रीगणेशाय नमः ॥
॥ अथ प्रभासखण्डं प्रारभ्यते ॥
॥ तत्रेदं प्रथमं प्रभासक्षेत्रमाहात्म्यम् ॥ ५ ॥
ॐनमः श्रीपरमात्मने परमपुरुषोत्तमाय ॥
ॐ नमो हरिहरहिरण्यगर्भेभ्यो नमो व्यासवाल्मीकिशुकपराशरेभ्यः ॥
॥ व्यास उवाच ॥ ॥
यश्चाद्यः पुरुषः पुराण इति यः संस्तूयते सर्वतः सोमेशः सुरसंयुतः क्षितितले यैर्वीक्षितो हीक्षणैः॥
ते तीर्त्वा विततांतरं भवभयं भूत्याऽभिसंभूषिताः स्वर्गं यानवरैःप्रयान्ति सुकृतैर्यज्ञै यथा यज्विनः ॥ १ ॥
प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने ॥
षड्त्रिंशत्तत्त्वदेहाय नमश्चिन्मात्रमूर्तये ॥ २ ॥
अमृतेनोदरस्थेन म्रियन्ते सर्वदेवताः ॥
कंठस्थित विषेणापि यो जीवति स पातुः वः ॥ ३ ॥
सत्रान्ते सूतमनघं नैमिषेया महर्षयः॥
पुराणसंहितां पुण्यां पप्रच्छू रोमहर्षणम्॥ ४ ॥
त्वया सूत महा बुद्धे भगवान्ब्रह्मवित्तमः ॥
इतिहासपुराणार्थे व्यासः सम्यगुपासितः ॥ ५ ॥
तस्य ते सर्वरोमाणि वचसा हर्षितानि यत् ॥
द्वैपायनस्यानुभावात्ततोऽभू रोमहर्षणः ॥ ६ ॥
भवन्तमेव प्रथमं व्याजहार स्वयं प्रभुः ॥
मुनीनां संहितां वक्तुं व्यासः पौराणिकीं कथाम् ॥ ७ ॥
त्वं हि स्वायंभुवे यज्ञे सुत्याहे वितते हरिः ॥
संभूतः संहितां वक्तुं स्वांशेन पुरुषोत्तमः ॥ ८ ॥
तस्माद्भवन्तं पृच्छामः पुराणे स्कन्दकीर्तिते ॥
प्रभासक्षेत्रमाहात्म्ये ब्राह्मी यात्रा श्रुता पुरा ॥ ९ ॥
अधुना वैष्णवीं रौद्रीं यात्रां सर्वार्थसंयुताम् ॥
वक्तुमर्हसि चास्माकं पुराणार्थविशारद ॥ 7.1.1.१० ॥
मुनीना वचनं श्रुत्वा सूतः पौराणिकोत्तमः ॥
प्रणम्य शिरसा प्राह व्यासं सत्यवतीसुतम् ॥ ११ ॥
॥ रोमहर्षण उवाच ॥ ॥
श्रीवत्सांकं जगद्योनिं हरिमोंकाररूपिणम् ॥
अप्रमेयं गुरुं देवं निर्मलं निर्मलाश्रयम् ॥ १२ ॥
हंसं शुचिषदं व्योम व्यापकं सर्वदं शिवम् ॥
उदासीनं निरायासं निष्प्रपञ्चं निरञ्जनम् ॥ १३ ॥
शून्यं बिंदुस्वरूपं तु ध्येयं ध्यानविवर्जितम् ॥
अस्ति नास्तीति यं प्राहुः सुदूरे चान्तिके च यत् ॥ १४ ॥
मनोग्राह्यं परं धाम पुरुषाख्यं जगन्मयम् ॥
हृत्पंकजसमासीनं तेजोरूपं निरिन्द्रियम् ॥ १५ ॥
एवंविधं नमस्कृत्य परमात्मानमीश्वरम् ॥
कथां वदिष्ये द्विविधां द्विशरीरां तथैव तु ॥ १६ ॥
दिव्यभाषासमोपेतां वेदाधिष्ठानसंयुताम् ॥
पञ्चसंधिसमायुक्तां षडलंकारभूषिताम् ॥ १७ ॥
सप्तसाधनसंयुक्तां रसाष्टगुणरंजिताम् ॥
गुणैर्नवभिराकीर्णां दशदोषविवर्जिताम् ॥ १८ ॥
विभाषाभूषितां तद्वदेकायत्तां मनोहराम् ॥
पञ्चकारणसंयुक्तां चतुष्करणसम्मताम् ॥१९ ॥
पुनश्च द्विविधां तद्वज्ज्ञानसंदोहदायिनीम् ॥
व्यासेन कथितां पुण्यां शृणुध्वं पापनाशिनीम् ॥ 7.1.1.२० ॥
यां श्रुत्वा पापकर्मापि गच्छेद्धि परमां गतिम् ॥
दुःखत्रयविनिर्मुक्तः सर्वातङ्कविवर्जितः ॥ २१ ॥
न नास्तिके कथां पुण्यामिमां ब्रूयात्कदाचन ॥
श्रद्दधानाय शान्ताय कीर्तनीया द्विजातये ॥२२ ॥
निषेकादिः श्मशानान्तो मन्त्रैर्यस्योदितो विधिः ॥
तस्य शास्त्रेऽधिकारोऽस्ति ज्ञेयो नान्यस्य कस्यचित्॥ २३ ॥
चतुःपक्षावदातस्य विशुद्धिर्ब्राह्मणस्य च ॥
सद्वृत्तस्याधिकारोऽस्ति शास्त्रेऽस्मिन्वेदसम्मते ॥ २४ ॥
यथा सुराणां प्रवरो देवदेवो महेश्वरः ॥
नदीनां च यथा गंगा वर्णानां ब्राह्मणो यथा ॥ २५ ॥
अक्षराणां तु सर्वेषामोंकारः प्रथमो यथा ॥
पूज्यानां तु यथा माता गुरूणां च यथा पिता ॥
तथैव सर्वशास्त्राणां प्रधानं स्कन्दकीर्तितम् ॥ २६ ॥
पुरा कैलासशिखरे ब्रह्मादीनां च सन्निधौ ॥
स्कान्दं पुराणं कथितं पार्वत्यग्रे पिनाकिना ॥ ॥ २७ ॥
पार्वत्या षण्मुखस्याग्रे तेन नन्दिगणाय वै ॥
नन्दिना तु कुमाराय तेन व्यासाय धीमते ॥ २८ ॥
व्यासेन मे समाख्यातं भवद्भ्योऽहं प्रकीर्तये ॥ २९ ॥
यूयं सद्भावसंयुक्ता यतः सर्वे महर्षयः ॥
तेन मे भाषितुं श्रद्धा भवतां स्कन्दसंहिताम् ॥ 7.1.1.३० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रश्नाध्यायवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥
खण्डः ७ (प्रभासखण्डः) · प्रभासक्षेत्र माहात्म्यम् — Adhyāya 2
॥ ऋषय ऊचुः ॥ ॥
कथाया लक्षणं ब्रूहि गुणदोषान्सविस्तरान् ॥
आर्षेयपौरुषेयाणां काव्यचिह्नपरीक्षणम् ॥
कथं ज्ञेयं महाबुद्धे श्रोतुमिच्छामहे वयम् ॥ १ ॥
॥ सूत उवाच ॥ ॥
अथ संक्षेपतो वक्ष्ये पुराणानामनुक्रमम् ॥
लक्षणं चैव संख्यां च उक्तभेदांस्तथैव च ॥ २ ॥
पुरा तपश्चचारोग्रममराणां पितामहः ॥
आविर्भूतास्ततो वेदाः सषडंगपदक्रमाः ॥ ३ ॥
ततः पुराणमखिलं सर्वशास्त्रमयं ध्रुवम् ॥
नित्यशब्दमयं पुण्यं शत कोटिप्रविस्तरम् ॥ ४ ॥
निर्गतं ब्रह्मणो वक्त्राद्ब्राह्मं वैष्णवमेव च ॥
शैवं भागवतं चैव भविष्यं नारदीयकम् ॥ ५ ॥
मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च ॥
लैङ्गं तथा च वाराहं स्कांदं वामनमेव च ॥ ६ ॥
कौर्म्यं मात्स्यं गारुडं च वायवीयमनन्तरम् ॥
अष्टादशं समुद्दिष्टं सर्वपातकनाशनम् ॥ ॥ ७ ॥
एकमेव पुरा ह्यासीद्ब्रह्माण्डं शतकोटिधा ॥ ८ ॥
ततोऽष्टादशधा कृत्वा वेदव्यासो युगेयुगे ॥
प्रख्यापयति लोकेऽस्मिन्साक्षान्नारायणांशजः ॥ ९ ॥
अन्यान्युपपुराणानि मुनिना कथितानि तु ॥
तानि वः कथयिष्यामि संक्षेपादवधार्यताम् ॥ 7.1.2.१० ॥
आद्यं सनत्कुमारोक्तं नारसिंहमतः परम् ॥
तृतीयं स्कान्दमुद्दिष्टं कुमारेणानुभाषितम् ॥ ११॥
चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम्॥
दुर्वाससोक्तमाश्चर्य्यं नारदोक्तमतः परम् ॥१२॥
कापिलं मानवं चैव तथैवोशनसेरितम्॥
ब्रह्माण्डं वारुणं चान्यत्कालिकाह्वयमेव च॥ १३॥
माहेश्वरं तथा सांबं सौरं सर्वार्थसंचयम्॥।
पराशरोक्तं परमं मारीचं भार्गवाह्वयम् ॥१४॥
एतान्युपपुराणानि कथितानि द्विजोत्तमाः॥१५॥
॥ ऋषय ऊचुः ॥ ॥
पुराणसंख्यामाचक्ष्व सूत विस्तरशः क्रमात्॥
दानधर्ममशेषज्ञ यथावदनुपूर्वशः ॥ १६॥
॥ सूत उवाच ॥ ॥
इदमेव पुराणेऽस्मिन्पुराणपुरुषस्तदा ॥
यदुक्तवान्स विश्वात्मा मनवे तन्निबोधत ॥१७॥
पुराणं सर्वशास्त्राणां ब्रह्माण्डं प्रथमं स्मृतम् ॥
अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः॥१८॥
पुराणमेकमेवासीत्तस्मिन्कल्पान्तरेतथा॥
त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् ॥ १९॥
विनिर्दग्धेषु लोकेषु कृष्णेनानन्तरूपिणा ॥
साङ्गांश्च चतुरो वेदान्पुराणन्यायविस्तरम् ॥7.1.2.२०॥।
मीमांसां धर्मशास्त्रं च परिगृह्यात्मसात्कृतम् ॥
मत्स्यरूपेण च पुनः कल्पादावुदकार्णवे॥२१॥
अशेषमेव कथितं ब्रह्मणे दिव्यचक्षुषे ॥
ब्रह्मा जगाद च मुनींस्त्रिकालज्ञानदर्शनः ॥ २२ ॥
प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः ॥ २३ ॥
ततः कालक्रमेणासौ व्यासरूपधरो हरिः ॥
अष्टादशपुराणानि संक्षेप्स्यति युगेयुगे ॥ २४ ॥
चतुर्लक्षप्रमाणानि द्वापरेद्वापरे सदा ॥
तदाष्टादशधा कृष्णा भूर्लोकेऽस्मिन्प्रभाषते ॥ २५ ॥
अद्याऽपि देवलोके तु शतकोटिप्रविस्तरम् ॥
तदर्थोऽत्र चतुर्लक्षः संक्षेपेण निवेशितः ॥ २६ ॥
पुराणानि दशाष्टौ च सांप्रतं तदिहोच्यते॥
नामतस्तानि वक्ष्यामि संख्यां च मुनिसत्तमाः ॥ २७ ॥
ब्रह्मणाऽभिहितं पूर्वं यावन्मात्रं मरीचये ॥
ब्राह्मं तद्दशसाहस्रं पुराणं तदिहोच्यते ॥ २८ ॥
लिखित्वा तच्च यो दद्याज्जलधेनुसमन्वितम् ॥
वैशाख्यां पौर्णमास्यां च ब्रह्मलोके महीयते ॥ २९ ॥
एतदेव यदा पद्ममभूद्धैरण्मयं जगत् ॥
तद्वृत्तांताश्रयांतं तत्पाद्ममित्युच्यते बुधैः ॥ 7.1.2.३० ॥
पाद्मं तत्पञ्चपञ्चाशत्सहस्राणीह पठ्यते ॥
तत्पुराणं च यो दद्यात्सुवर्णकमलान्वितम् ॥
ज्येष्ठे मासि तिलैर्युक्तं सोऽश्वमेधफलं लभेत् ॥ ३१ ॥
वाराहकल्पवृत्तान्तमधिकृत्य परात्परः ॥
यत्राह धर्मानखिलांस्तदुक्तं वैष्णवं विदुः ॥३२॥
चरितैरञ्चितं विष्णोस्तल्लोके वैष्णवं विदुः ॥
त्रयोविंशतिसाहस्रं पुराणं तत्प्रकीर्तितम् ॥ ३३ ॥
तदाषाढे च यो दद्याद्घृतधेनुसमन्वितम् ॥
पौर्णमास्यां विशुद्धायां सं पदं याति वैष्णवम् ॥ ३४ ॥
श्रुतकल्पप्रसङ्गेन धर्मान्वायुरथाब्रवीत् ॥
यत्र तद्वायवीयं स्याद्रुद्रमाहात्म्यसंयुतम् ॥ ३५ ॥
चतुर्विंशतिसाहस्रं नाना वृत्तान्तसंयुतम् ॥
धर्मार्थकाममोक्षैश्च साधुवृत्तसमन्वितम्॥ ३६ ॥
श्रावण्यां श्रावणे मासि गुडधेनुसमन्वितम् ॥
यो दद्याद्दधिसंयुक्तं ब्राह्मणाय कुटुम्बिने ॥
शिवलोके स पूतात्मा कल्पमेकं वसेन्नरः ॥ ३७ ॥
पुनः संजायते मर्त्यो ब्राह्मणो वेदवित्तमः ॥
वेदविद्यार्थतत्त्वज्ञो व्याख्यातत्त्वार्थवित्तमः ॥ ३८ ॥
यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः ॥
वृत्रासुरवधोपेतं तद्भागवतमुच्यते ॥ ३९ ॥
सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः॥
तद्वृत्तान्तोद्भवं पुण्यं पुण्योद्वाहसमन्वितम् ॥ 7.1.2.४० ॥
लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् ॥
पौर्णमास्यां प्रौष्ठपद्यां स याति परमां गतिम् ॥ ॥४१॥
अष्टादशसहस्राणि पुराणं तत्प्रकीर्तितम्॥४२॥
यत्राह नारदो धर्मान्बृहत्कल्पाश्रयांस्त्विह ॥
पञ्चविंशत्सहस्राणि नारदीयं तदुच्यते ॥४३॥
तदिषे पञ्चदश्यां तु यो दद्याद्धेनुसंयुतम्॥
उत्तमां सिद्धिमाप्नोति इह लोके परत्र च॥
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥४४॥
यत्राधिकृत्य शकुनीन्धर्माधर्मविचारणम् ॥
पुराणं नवसाहस्रं मार्कण्डेयं तदुच्यते ॥ ४५॥
परिलिख्य च यो दद्यात्सौवर्णकरिसंयुतम् ॥
कार्तिक्यां पौण्डरीकस्य यज्ञस्य फलभाग्भवेत् ॥ ४६ ॥
यत्तदीशानकल्पस्य वृत्तान्तमधिकृत्य च ॥
वशिष्ठायाऽग्निना प्रोक्तमाग्नेयं तत्प्रचक्षते ॥ ४७ ॥
लिखित्वा तच्च यो दद्याद्धेमपद्मसमन्वितम् ॥
मार्गशीर्षे विधानेन तिलधेनुयुतं तथा ॥
तच्च षोडशसाहस्रं सर्वक्रतुफलप्रदम् ॥ ४८ ॥
यत्राधिकृत्य माहात्म्यमादित्यस्य चतुर्मुखः ॥
अघोरकल्पवृत्तान्तप्रसंगेन जगत्पतिः ॥
मनवे कथयामास भूतग्रामस्य लक्षणम् ॥ ४९ ॥
चतुर्दशसहस्राणि तथा पञ्चशतानि च ॥
भविष्यचरितप्रायं भविष्यं तदिहोच्यते ॥ 7.1.2.५० ॥
तत्पौषमासि यो दद्यात्पौर्णमास्यां विमत्सरः ॥
गुडकुम्भसमायुक्तमग्निष्टोमफलं लभेत् ॥ ॥ ५१ ॥
रथंतरस्य कल्पस्य वृत्तान्तमधिकृत्य च ॥
सावर्णिना नारदाय कृष्णमाहात्म्यसंयुतम् ॥
प्रोक्तं ब्रह्मवराहस्य चरितं वर्ण्यतेऽत्र च ॥५२॥
तदष्टादशसाहस्रं ब्रह्मवैवर्तमुच्यते ॥
पुराणं ब्रह्मवैवर्तं यो दद्याद्ब्राह्मणोत्तमे ॥
माघमासे पौर्णमास्यां ब्रह्मलोके महीयते ॥ ५३ ॥
यत्राग्निलिङ्गमध्यस्थः प्राह देवो महेश्वरः ॥
धर्मार्थकाममोक्षार्थानाग्नेयमधिकृत्य च ॥ ५४ ॥
कल्पं तल्लैङ्गमित्युक्तं पुराणं ब्रह्मणा स्वयम् ॥ ५५ ॥
तदेकादशसाहस्रं फाल्गुन्यां यः प्रयच्छति ॥
तिलधेनुसमायुक्तं स याति शिवसात्म्यताम् ॥५६॥
महावराहस्य पुनर्माहात्म्यमधिकृत्य च ॥
विष्णुनाऽभिहितं क्षोण्यै तद्वाराहमिहोच्यते ॥५७॥
मानवस्य प्रसंगेन धन्यस्य मुनिसत्तमाः ॥
चतुर्विंशत्सहस्राणि तत्पुराणमिहोच्यते ॥ ५८ ॥
काञ्चनं गरुडं कृत्वा तिलधेनुसमन्वितम्॥
पौर्णमास्यामथो दद्याद्ब्राह्मणाय कुटुम्बिने॥
वाराहस्यप्रसादेन पदमाप्नोति वैष्णवम्॥५९॥
यत्र माहेश्वरान्धर्मानधिकृत्य च षण्मुखम् ॥
कल्पे तत्पुरुषे वृत्ते चरितैरुपबृंहितम् ॥7.1.2.६॥।
स्कांदं नाम पुराणं तदेकाशीति निगद्यते॥
सहस्राणि शतं चैकमिति मर्त्येषु पठ्यते॥६१॥
परिलेख्य च यो दद्याद्धेमशूलसमन्वितम् ॥
शैवं स पदमाप्नोति मकरोपगमे रवेः ॥ ६२ ॥
त्रिविक्रमस्य माहात्म्यमधिकृत्य चतुर्मुखः ॥
त्रिवर्गमभ्यधात्तत्तु वामनं परिकीर्तितम् ॥ ६३॥
पुराणं दशसाहस्रं कौर्मकल्पानुगं शिवम्॥ ६४ ॥
यः शरद्विषुवे दद्याद्धेमवस्त्रसमन्वितम्॥
क्षौमावृतं युतं धेन्वा स पदं याति वैष्णवम् ॥६५॥
यच्च धर्मार्थकामानां मोक्षस्य च रसातले ॥
माहात्म्यं कथयामास कूर्मरूपी जनार्दनः ॥६६॥
इन्द्रद्युम्नप्रसंगेन ऋषीणां शक्रसन्निधौ ॥
सप्तदशसहस्राणि लक्ष्मीकल्पानुषङ्गिकम् ॥६७॥
यो दद्यादयने कौर्मं हेमकूर्मसमन्वितम्॥
गोसहस्रप्रदानस्य स फलं प्राप्नुयान्नरः॥६८॥
श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः॥
मत्स्यरूपी च मनवे नरसिंहोपवर्णनम् ॥६९॥
अधिकृत्याब्रवीत्सप्तकल्पवृत्तं मुनिव्रताः॥।
तन्मात्स्यमिति जानीध्वं सहस्राणि चतुदर्श ॥ 7.1.2.७० ॥
विषुवे हैममत्स्येन धेन्वा क्षौमयुगान्वितम् ॥
यो दद्यात्पृथिवी तेन दत्ता भवति चाखिला ॥॥ ॥७१॥
यदा वा गरुडे कल्पे विश्वाण्डाद्गरुडोऽभवत् ॥
अधिकृत्याब्रवीत्कृष्णो गारुडं तदिहोच्यते ॥७२॥
तदष्टादश चैकं च सहस्राणीह पठ्यते ॥।
स्वर्णहंससमायुक्तं यो दद्यादयने परे ॥
स सिद्धिं लभते मुख्यां शिवलोके च संस्थितिम् ॥ ७३ ॥
ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रवीत्पुनः ॥
तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम् ॥७४॥
भविष्याणां च कल्पानां श्रूयते यत्र विस्तरः ॥
तद्ब्रह्माण्डं पुराणं तु ब्रह्मणा समुदाहृतम् ॥ ७९ ॥
यो दद्यात्तु व्यतीपात ऊर्णायुगसमन्वितम् ॥
राजसूयसहस्रस्य फलमाप्नोति मानवः ॥ ७६ ॥
हेमधेन्वायुतं तच्च ब्रह्मलोकफलप्रदम्॥
चतुर्लक्षमिदं प्रोक्तं व्यासेनाद्भुतकर्मणा ॥ ७७ ॥
इदं लोकहितार्थाय संक्षिप्तं द्वापरे द्विजाः ॥ ७८ ॥
इदमद्यापि देवेषु शतकोटिप्रविस्तरम् ॥
उपभेदान्प्रवक्ष्यामि लोके ये संप्रतिष्ठिताः ॥ ७९ ॥
पाद्मे पुराणे यत्प्रोक्तं नारसिंहोपवर्णनम् ॥
तच्चाष्टादशसाहस्रं नारसिंहमिहोच्यते ॥ 7.1.2.८० ॥
नन्दिने यत्र माहात्म्यं कार्तिकेयेन वर्णितम् ॥
लोके नन्दिपुराणं वै ख्यातमेतद्द्विजोत्तमाः ॥ ८१ ॥
यत्र साम्बं पुरस्कृत्य भविष्यति कथानकम् ॥
प्रोच्यते तत्पुनर्लोके सांबमेव मुनिव्रताः ॥ ८२ ॥
एवमादित्यसंज्ञं तु तत्रैव परिपठ्यते ॥
अष्टादशभ्यस्तु पृथक्पुराणं यच्च दृश्यते ॥
विजानीध्वं द्विजश्रेष्ठास्तदेतेभ्यो विनिर्गतम् ॥ ८३ ॥
पञ्चाङ्गानि पुराणस्य चाख्यानमितरत्स्मृतम् ॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥
वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥ ८४ ॥
ब्रह्मविष्ण्वर्करुद्राणां माहात्म्यं भुवनस्य च ॥
संहारश्च प्रदृश्येत पुराणं पञ्चलक्षणम् ॥ ८५ ॥
धर्मश्चार्थश्च कामश्च मोक्षश्च परिकीर्त्यते ॥
सर्वेष्वपि पुराणेषु तद्विरूढे च यत्फलम् ॥ ८६ ॥
सात्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः ॥
राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः ॥ ८७ ॥
तद्वदग्रे च माहात्म्यं तामसेषु शिवस्य हि ॥
संकीर्णे च सरस्वत्याः पितॄणां च निगद्यते ॥ ८८ ॥
चतुर्भिर्भगवान्विष्णुर्द्वाभ्यां ब्रह्मा तथा रविः ॥
अष्टादशपुराणेषु शेषेषु भगवाञ्छिवः ॥ ८९ ॥
वेदवन्निश्चलं मन्ये पुराणं वै द्विजोत्तमाः ॥
वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥ 7.1.2.९० ॥
बिभेत्यल्पश्रुताद्वेदो मामयं चालयिष्यति ॥
इतिहासपुराणैस्तु निश्चलोऽयं कृतः पुरा ॥ ९१ ॥
यन्न दृष्टं हि वेदेषु न दृष्टं स्मृतिषु द्विजाः ॥
उभयोर्यत्र दृष्टं च तत्पुराणेषु गीयते ॥ ९२ ॥
यो वेद चतुरो वेदान्सांगोपनिषदो द्विजः ॥
पुराणं नैव जानाति न च स स्याद्विचक्षणः ॥ ९३ ॥
अष्टादशपुराणानि कृत्वा सत्यवतीसुतः ॥
भारताख्यानमकरोद्वेदार्थैरुपबृंहितम् ॥ ९४ ॥
लक्षेणैकेन तत्प्रोक्तं द्वापरान्ते महात्मना ॥
वाल्मीकिना च यत्प्रोक्तं रामोपाख्यानमुत्तमम् ॥ ९५ ॥
ब्रह्मणा विहितं यच्च शतकोटिप्रविस्तरम्॥
आह तन्नारदायैव तेन वाल्मीकये पुनः ॥ ९६ ॥
वाल्मीकिना च लोके तु धर्मकामार्थसाधकम् ॥ ॥ ९७ ॥
एवं सपादाः पञ्चैते लक्षाः पुण्याः प्रकीर्तिताः ॥
पुरातनस्य कल्पस्य पुराणे तु विदुर्बुधाः ॥ ९८ ॥
इतिहासपुराणानि भिद्यन्ते काल गौरवात् ॥
स्कान्दं तथा च ब्रह्माण्डं पुराणं लैङ्गमेव च ॥ ९९ ॥
वाराहकल्पे विप्रेन्द्रास्तेषां भेदः प्रवर्तते ॥
अष्टादशप्रकारेण ब्रह्माण्डं भिन्नमेव हि ॥ 7.1.2.१०० ॥
अष्टादशपुराणानि तेन जातानि भूतले ॥
लैङ्गमेकादशविधं प्रभिन्नं द्वापरे शुभम् ॥ १०१ ॥
स्कान्दं तु सप्तधा भिन्नं वेद व्यासेनधीमता ॥
एकाशीतिसहस्राणि शतं चैकं तु संख्यया ॥ १०२ ॥
तस्याऽऽद्यो यो विभागस्तु स्कन्दमाहात्म्यसंयुतः ॥
माहेश्वरः समाख्यातो द्वितीयो वैष्णवः स्मृतः ॥ १०३ ॥
तृतीयो ब्रह्मणः प्रोक्तः सृष्टिसंक्षेपसूचकः ॥
काशीमाहात्म्यसंयुक्तश्चतुर्थः परिपठ्यते ॥ १०४ ॥
रेवायाः पञ्चमो भागः सोज्जयिन्याः प्रकीर्तितः ॥
षष्ठः कल्पो नागरश्च तीर्थमाहात्म्यसूचकः ॥ १०५ ॥
सप्तमो यो विभागोऽयं स्मृतः प्राभासिको द्विजाः॥
सर्वे द्वादशसाहस्रा विभागाः संप्रकीर्तिताः ॥ १०६ ॥
अस्मिन्प्राभासिकः सर्वो वर्ण्यते क्षेत्रविस्तरः ॥
तीर्थानां चैव माहात्म्यं माहात्म्यं शंकरस्य च ॥ १०७ ॥
अन्येषां चैव देवानां माहात्म्यं च प्रकीर्त्यते ॥
इति भेदः पुराणानां संक्षेपात्कथितो द्विजाः ॥ १०८ ॥
इममष्टादशानां तु पुराणानामनुक्रमम्॥
यः पठेद्धव्यकव्येषु स याति भवनं हरेः॥१०९॥
इदं पवित्रं हि यशोनिधानमिदं पितॄणामपि वल्लभं च॥
इदं च देवेष्वमृताय नित्यमिदं महापातकहृच्च पुंसाम्॥7.1.2.११॥।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ससंख्याकाष्टादशमहापुराणोपपुराणवर्णनपूर्वक पुराणपुस्तकदानफलवर्णनं नाम द्वितीयोऽध्यायः॥२॥