6. Skanda Purāṇa (part 6 of 9)
खण्डः ६ (नागरखण्डः) — Adhyāya 3
सूत उवाच।
ततः प्रणम्य भूयः स वसिष्ठं मुनिपुंगवम्।
ययौ तत्र सुतास्तस्य यत्र ते शतसंख्यकाः॥६.३.१॥
तानपि प्राह नत्वा स तमेवार्थं नराधिपः।
वसिष्ठवचनं कृत्स्नं तस्य तैरपि शंसितम्॥६.३.२॥
ततस्तान्स पुनः प्राह युष्माकं जनकोऽधुना।
अशक्तो मा दिवं नेतुं सशरीरं विसर्जितः॥६.३.३॥
तस्माद्यदि न मां यूयं याजयिष्यथ सांप्रतम्।
परित्यज्य करिष्यामि शीघ्रमन्यं पुरोहितम्॥६.३.४॥
यो मां यज्ञप्रभावेन नयिष्यति सुरालयम्।
अनेनैव शरीरेण सहितं गुरुपुत्रकाः॥६.३.५॥
तस्य तद्वचनं श्रुत्वा सर्वे ते मुनिसत्तमाः।
परं कोपं समाविष्टास्तमूचुः परुषाक्षरैः॥६.३.६॥
यस्मात्त्वया गुरुस्त्यक्तो हितकृत्पापवानसि।
तस्माद्भवाधुना पाप चंडालो लोकनिंदितः॥६.३.७॥
अथ तद्वचनांते स तत्क्षणात्पृथिवीपतिः।
बभूवांत्यजरूपाढ्यो विकृताकारदेहभृत्॥६.३.८॥
यवमध्यः कृशग्रीवः पिंगाक्षो भुग्ननासिकः।
कृष्णांगः शंकुवर्णश्च दुर्गंधेन समावृतः॥६.३.९॥
अथात्मानं समालोक्य विकृतं स नराधिपः।
चण्डालधर्मिणं सद्यो लज्जयाऽधोमुखः स्थितः॥६.३.१०॥
याहियाहीति विप्रैस्तैर्भर्त्स्यमानो मुहुर्मुहुः।
सर्वतः सारमेयैश्च क्लिश्यमानो निरर्गलैः।
काककोकिलसंकाशो जीर्णवस्त्रावगुंठितः॥६.३.११॥
ततः स चिन्तयामास दुःखेन महता वृतः।
किं करोमि क्व गच्छामि कथं शांतिर्भविष्यति॥६.३.१२॥
किं मयैतत्सुमूर्खेण वांछितं दुर्लभं पदम्।
तत्प्रभावेन विभ्रष्टः कुलधर्मोऽपि मे स्वकः॥६.३.१३॥
किं जलं प्रविशाम्यद्य किं वा दीप्तं हुताशनम्।
भक्षयामि विषं किं वा कथं स्यान्मृत्युरद्य मे॥६.३.१४॥
अनेन वपुषा दारान्वीक्षयिष्यामि तान्कथम्।
तादृशेन शरीरेण याभिः संक्रीडितं मया॥६.३.१५॥
कथं पुत्रांस्तथा पौत्रान्सुहृत्संबंधिबांधवान्।
वीक्षयिष्यामि तान्भूयस्तथान्यं सेवकं जनम्॥६.३.१६॥
ये मया निर्जिताः सर्वे रिपवः संगरे पुरा॥१५॥
तेऽद्य मामीदृशं श्रुत्वा हर्षं यास्यंति निर्भयाः॥६.३.१७॥
ये मया तर्पिता दानैर्ब्राह्मणा वेदपारगाः।
तेऽद्य मामीदृशं श्रुत्वा संभविष्यंति दुःखिताः॥६.३.१८॥
तथा ये सुहृदोऽभीष्टा नित्यं मम हिते रताः।
कामवस्थां प्रयास्यन्ति दृष्ट्वा मां स्थितमीदृशम्॥६.३.१९॥
भद्रजात्या गजा ये मे मदान्धाः षष्टिहायनाः।
मया विना मिथो युद्धे कस्तानद्य नियोक्ष्यति॥६.३.२०॥
अश्वास्तित्तिरकल्माषाः सुदांताः सादिभिर्दृढैः।
कस्तांश्चित्रपदन्यासैर्नियाम्यति मया विना॥६.३.२१॥
तथा मे भृत्यवर्गास्ते कुलीना युद्धदुर्मदाः।
मां विना कस्य यास्यंति समीपेऽद्य सुदुःखिताः॥६.३.२२॥
संख्याहीनस्तथा कोशस्तादृङ्मे बहुरत्नभाक्।
कस्य यास्यति संभोगं मया हीनस्तु रक्षितः॥६.३.२३॥
तथा मे संख्यया हीनं धान्यं गोजाविकं महत्।
भविष्यति कथं हीनं मयाभीष्टैस्तु रक्षितम्॥६.३.२४॥
एवं बहुविधं राजा स विलप्य च दुःखितः।
जगाम नगराभ्याशं पद्भ्यामेव शनैःशनैः॥६.३.२५॥
ततो रात्रौ समासाद्य स्वं पुरं जनवर्जितम्।
द्वारे स्थित्वा समाहूय पुत्रं मंत्रिभिरन्वितम्॥६.३.२६॥
कथयामास वृत्तांतं सर्वं शापसमुद्भवम्।
दूरे स्थितः स पुत्राणां वसिष्ठस्य महात्मनः॥६.३.२७॥
वज्रपातोपमं वाक्यं तेऽपि तस्य निशम्य तत्।
बाष्पपर्याकुलैरास्यै रुरुदुः शोकसंयुताः॥६.३.२८॥
हा नाथ हा महाराज हा नित्यं धर्मवत्सल।
त्वया हीना भविष्यामः कथमद्य सुदुःखिताः॥६.३.२९॥
किमेतद्युज्यते तेषां वासिष्ठानां दुरात्मनाम्।
शापं ददुः स्वयाज्यस्य विशेषाद्विनतस्य च॥६.३.३०॥
ते वयं राजशार्दूल परित्यज्य गृहादिकम्।
अन्त्यजत्वं गमिष्यामस्त्वया सार्धमसंशयम्॥६.३.३१॥
त्रिशंकुरुवाच।
भक्तिश्चेदस्ति युष्माकं ममोपरि निरर्गल।
तन्मे पुत्रस्य मंत्रित्वं सर्वे कुरुत सांप्रतम्॥६.३.३२॥
हरिश्चंद्रः सुपुत्रोयं मम ज्येष्ठः सुवल्लभः।
नियोजयध्वमव्यग्राः पदव्यां मम सत्वरम्॥६.३.३३॥
अहं पुनः करिष्यामि यन्मे मनसि संस्थितम्।
मृत्युं वा संप्रयास्यामि सदेहो वा सुरालयम्॥६.३.३४॥
एवमुक्त्वा परित्यज्य सर्वांस्तान्स महीपतिः।
जगामारण्यमाश्रित्य पद्भ्यामेव शनैः शनैः॥६.३.३५॥
तेपि सन्मंत्रिणस्तूर्णं पुत्रं तस्य सुसम्मतम्।
राज्ये नियोजयासमासुर्नादवादित्रनिःस्वनैः॥६.३.३६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये त्रिशंकूपाख्याने हरिश्चन्द्रराज्योपलंभोनाम तृतीयोऽध्यायः॥३॥
खण्डः ६ (नागरखण्डः) — Adhyāya 4
सूत उवाच।
त्रिशंकुरिति संचिन्त्य विश्वामित्रं महामुनिम्।
मनसा सुचिरं कालं ततश्चक्रे विनिश्चयम्॥६.४.१॥
विश्वामित्रं परित्यज्य नान्योस्ति भुवनत्रये।
यः कुर्यान्मे परित्राणं दुःखादस्मात्सुदारुणात्॥६.४.२॥
कुरुक्षेत्रं समुद्दिश्य प्रतस्थे स ततः परम्।
सुश्रांतः क्षुत्पिपासार्तो मार्गपृच्छापरायणः॥६.४.३॥
ततः कालेन संप्राप्य कुरुक्षेत्रं स पार्थिवः।
यत्नेनान्वेषयामास विश्वामित्राश्रमं ततः॥६.४.४॥
एवं चान्वेषमाणेन तेन भूमिभृता तदा।
सुदूरादेव संदृष्टं नीलद्रुमकदम्बकम्॥६.४.५॥
उपरिष्टाद्बकैर्हंसैर्भ्रममाणैः समंततः।
आटिभिर्मद्गुभिश्चैव समन्ताज्जलपक्षिभिः॥६.४.६॥
स मत्वा सलिलं तत्र पिपासार्तो महीपतिः।
प्रतस्थे सत्वरो हृष्टो जलवातहृतक्लमः॥६.४.७॥
अथापश्यन्मनोहारि सौम्यसत्त्वनिषेवितम्।
आश्रमं नदितीरस्थं मनःशोकविनाशनम्॥६.४.८॥
पुष्पितैः फलितैर्वृक्षैः समंतात्परिवारितम्।
विविधैर्मधुरारावैर्नादितं विहगोत्तमैः॥६.४.९॥
क्रीडंति नकुलाः सर्पैरूलूका यत्र वायसैः।
मूषकैर्वृषदंशाश्च द्वीपिनो विविधैर्मृगैः॥६.४.१०॥
अथापश्यन्नदीतीरे स तपस्विगणावृतम्।
स्वाध्यायनिरतं दांतं विश्वामित्रं तपोनिधिनम्॥६.४.११॥
तेजसा तपसातीव दीप्यमानमिवानलम्।
चीरवल्कलसंवीतं शालवृक्षं समाश्रितम्॥६.४.१२॥
अथ गत्वा स राजेन्द्रो दूरस्थोऽपि प्रणम्य तम्।
अष्टांगेन प्रणामेन स्वनाम परिकीर्तयन्॥६.४.१३॥
तथान्यानपि तच्छिष्यान्कृताञ्जलिपुटः स्थितः।
यथाक्रमं यथाज्येष्ठं श्रद्धया परया युतः॥६.४.१४॥
धूलिधूसरितांगं तं ते तु दृष्ट्वा महीपतिम्।
चंडाल इति मन्वानाश्चिह्नैर्गात्रसमुद्भवैः॥६.४.१५॥
भर्त्सयामासुरेवाथ वचनैः परुषाक्षरैः।
धिक्छब्दैश्च तथैवान्ये याहियाहीति चासकृत्॥६.४.१६॥
कस्त्वं पापेह संप्राप्तो मुनीनामाश्रमोत्तमे।
वेदध्वनिसमाकीर्णे साधूनामपि दुर्लभे॥६.४.१७॥
तस्माद्गच्छ द्रुतं यावन्न कश्चित्तापसस्तव।
दत्त्वा शापं करोत्याशु प्राणानामपि संक्षयम्॥६.४.१८॥
त्रिशंकुरुवाच।
त्रिशंकुर्नाम भूपोऽहं सूर्यवंशसमुद्भवः।
शप्तो वसिष्ठपुत्रैश्च चंडालत्वे नियोजितः॥६.४.१९॥
सोऽहं शरणमापन्नः शापमुक्त्यै द्विजोत्तमाः।
विश्वामित्रं जगन्मित्रं नान्या मेऽस्ति गतिः परा॥६.४.२०॥
विश्वामित्र उवाच।
वसिष्ठस्य भवान्याज्यस्तत्पुत्राणां विशेषतः।
तत्कस्मादीदृशे पापे तैस्त्वमद्य नियोजितः॥६.४.२१॥
कोऽपराधस्त्वया तेषां कृतः पार्थिवसत्तम।
प्राणद्रोहः कृतः किं वा दारधर्षणसंभवः॥६.४.२२॥
त्रिशंकुरुवाच।
अनेनैव शरीरेण स्वर्गाय गमनं प्रति।
मया संप्रार्थितो यज्ञो वसिष्ठान्मुनिसत्तमात्॥६.४.२३॥
तेनोक्तं न स यज्ञोऽस्ति येन स्वर्गे प्रगम्यते।
अनेनैव शरीरेण मुक्त्वा देहांतरं नृप॥६.४.२४॥
तच्छ्रुत्वा स मया प्रोक्तो यदि मां न नयिष्यति।
स्वर्गं चानेन कायेन सद्यो यज्ञप्रभावतः॥६.४.२५॥
तदन्यं गुरुमेवाद्य कर्ताहं नास्ति संशयः।
एतज्ज्ञात्वा मुनिः प्राह यत्क्षेमं तत्समाचर॥६.४.२६॥
ततोऽहं तेन संत्यक्तस्तत्पुत्रान्प्राप्य निष्ठुरान्।
प्रोक्तवानथ तत्सर्वं यद्वसिष्ठस्य कीर्तितम्॥६.४.२७॥
ततस्तैः शोकसंतप्तैः शप्तोस्मि मुनिसत्तम।
नीतश्चेमां दशां पापां चंडालत्वे नियोजितः॥६.४.२८॥
सोऽहं त्वां मनसा ध्यात्वा सुदूरादिहरागतः(?)।
आशां गरीयसीं कृत्वा कुरुक्षेत्रे मुनीश्वर॥६.४.२९॥
नासाध्यं विद्यते किंचित्त्रिषु लोकेषु ते मुने।
तस्मात्कुरु प्रतीकारं दुःखितस्य ममाधुना॥६.४.३०॥
सूत उवाच।
तस्य तद्वचनं श्रुत्वा विश्वामित्रो मुनीश्वरः।
वसिष्ठस्पर्धयोवाच मुनिमध्ये व्यवस्थितः॥६.४.३१॥
अहं त्वां याजयिष्यामि तेन यज्ञेन पार्थिव।
गच्छसि त्रिदिवं येन इष्टमात्रेण तत्क्षणात्॥६.४.३२॥
त्वमेवं विहितो भूप वासिष्ठैरंत्यजस्तु तैः।
मया भूयोऽपि भूपालः कर्तव्यो नात्र संशयः॥६.४.३३॥
तस्मादागच्छ भूपाल तीर्थयात्रां मया सह।
कुरु तीर्थप्रभावेण येन त्वं स्याः शुचिः पुनः॥६.४.३४॥
तथा यज्ञक्रियार्हश्च चंडालत्वविवर्जितः।
नास्ति तत्पातकं यच्च तीर्थस्नानान्न नश्यति॥६.४.३५॥
सूत उवाच।
एवं स निश्चयं कृत्वा गाधिपुत्रो मुनीश्वरः।
त्रिशंकुं पृष्ठतः कृत्वा तीर्थयात्रामथाव्रजत्॥६.४.३६॥
कुरुक्षेत्रं सरस्वत्यां प्रभासे कुरुजांगले।
पृथूदके गयाशीर्षे नैमिषे पुष्करत्रये॥६.४.३७॥
वाराणस्यां प्रयागे च केदारे श्रवणे नदे।
चित्रकूटे च गोकर्णे शालिग्रामेऽचलेश्वरे॥६.४.३८॥
शुक्लतीर्थे सुराज्याख्ये दृषद्वति नदे शुभे।
अथान्येषु सुपुण्येषु तीर्थेष्वायतनेषु च॥६.४.३९॥
एवं तस्य नरेंद्रस्य सार्धं तेन महात्मना।
अतिक्रांतो महान्कालो भ्रममाणस्य भूतले॥६.४.४०॥
मुच्यते न च पापेन चंडालत्वेन स द्विजाः।
एवंविधेषु तीर्थेषु स्नातोपि च पृथक्पृथक्॥६.४.४१॥
ततः क्रमात्समायातः सोऽर्बुदं पर्वतं प्रति।
तत्रारुह्य समालोक्य पापघ्नमचलेश्वरम्॥६.४.४२॥
यावदायतनात्तस्मान्निर्गच्छति मुनीश्वरः।
तावत्तेनेक्षितो नाममार्कंडो मुनिसत्तमः॥६.४.४३॥
सोऽपि दृष्ट्वा जगन्मित्रं विश्वामित्रं मुनीश्वरम्।
प्रोवाचाथ कुतः प्राप्तः सांप्रतं त्वं मुनीश्वर॥६.४.४४॥
कोऽयं तवानुगो रौद्रो दृश्यते चांत्यजाकृतिः।
एतत्सर्वं समाचक्ष्व पृच्छतो मम सन्मुने॥६.४.४५॥
विश्वामित्र उवाच।
एष पार्थिवशार्दूलस्त्रिशंकुरिति विश्रुतः।
वसिष्ठस्य सुतैर्नीतश्चंडालत्वं प्रकोपतः॥६.४.४६॥
मया चास्य प्रतिज्ञातं सप्तद्वीपवतीं महीम्।
प्रभ्रमिष्याम्यहं यावन्मेध्यत्वं त्वमुपेष्यसि॥६.४.४७॥
भ्रांतोऽहं भूतले यानि तीर्थान्यायतनानि च।
नचैष मेध्यतां प्राप्तः परिश्रांतोस्मि सांप्रतम्॥६.४.४८॥
तस्मात्सर्वां महीं त्यक्त्वा लज्जया परया युतः।
द्वीपान्महार्णवांस्त्यक्त्वा संप्रयास्याम्यतः परम्॥६.४.४९॥
मा वसिष्ठस्य पुत्राणामुपहासपदं गतः।
प्रतिज्ञारहितो विप्र सत्यमेद्ब्रवीम्यहम्॥६.४.५०॥
श्रीमार्कंडेय उवाच।
यद्येवं मुनिशार्दूल कुरुष्व वचनं मम।
सप्तद्वीपवतीं पृथ्वीं मा त्यक्त्वा कुत्रचिद्व्रज॥६.४.५१॥
एतस्मात्पर्वतात्क्षेत्रं हाटकेश्वरसंज्ञितम्।
अस्ति नैर्ऋतदिग्भागे देशे चानर्तसंज्ञके॥६.४.५२॥
तत्राद्यं स्थापितं लिंगं हाटकेन सुरोत्तमैः।
यत्तत्संकीर्त्यते लोके पाताले हाटकेश्वरम्॥६.४.५३॥
पातालजाह्नवीतोयं यत्रैवास्ति द्विजोत्तम।
उद्धृते शंभुना लिंगे विनिष्क्रांतं रसातलात्॥६.४.५४॥
तत्र प्रविश्य यत्नेन पातालं वसुधाधिपः।
करोतु जाह्नवीतोये स्नानं श्रद्धासमन्वितः॥६.४.५५॥
पश्चात्पश्यतु तल्लिंगं हाटकेश्वरसंज्ञितम्।
भविष्यति ततः शुद्धश्चंडालत्वविवर्जितः॥६.४.५६॥
त्वमपि प्राप्स्यसि श्रेयः परं हृदयसंस्थितम्।
ततोन्यदपि यत्किंचित्तत्रैव तपसि स्थितः॥६.४.५७॥
सूत उवाच।
तस्य तद्वचनं श्रुत्वा विश्वामित्रो मुनीश्वरः।
त्रिशंकुना समायुक्तो गतस्तत्र द्रुतं ततः॥६.४.५८॥
पाताले देवमार्गेण प्रविश्य नृपसत्तमम्।
त्रिशंकुं स्नापयामास विधिदृष्टेन कर्मणा॥६.४.५९॥
स्नातमात्रोथ राजा स हाटकेश्वदर्शनात्।
चंडालत्वेन निर्मुक्तो बभूवार्कसमद्युतिः॥६.४.६०॥
ततस्तं स मुनिः प्राह प्रणतं गतकल्मषम्।
दिष्ट्या मुक्तोसि राजेंद्र चंडालत्वेन सांप्रतम्॥६.४.६१॥
दिष्ट्या प्राप्तः परं तेजो दिष्ट्या प्राप्तः परं तपः।
तस्माद्यजस्व सत्रेण विधिवद्दक्षिणावता॥६.४.६२॥
येन संप्राप्स्यसे सिद्धिं नित्यं या हृदये स्थिता।
त्वत्कृते प्रार्थयिष्यामि स्वयं गत्वा पितामहम्॥६.४.६३॥
मखांशं सर्वदेवाद्यो येन गृह्णाति ते मखे।
तस्मादत्रैव संभारान्सर्वान्यज्ञसमुद्भवान्।
आनय ब्रह्मलोकाच्च यावदागमनं मम॥६.४.६४॥
बाढमित्येव सोऽप्याह स मुनिः संशितव्रतः।
पितामहमुपागम्य प्रणिपत्याब्रवीद्वचः॥६.४.६५॥
याजयिष्याम्यहं भूपं त्रिशंकुं प्रपितामह।
मानुषेण शरीरेण येन गच्छति ते पदम्॥६.४.६६॥
तस्मादागच्छ तत्र त्वं यज्ञवाटं पितामह।
सर्वैः सुरगणैः सार्धं शिवविष्णुपुरःसरैः॥६.४.६७॥
प्रगृहाण स्वहस्तेन यज्ञभागं यथोचितम्।
सशरीरो दिवं याति येनासौ त्वत्प्रसादतः॥६.४.६८॥
ब्रह्मोवाच।
न यज्ञकर्मणा स्वर्गःस्वेन कायेन लभ्यते।
मुक्त्वा देहांतरं ब्रह्मंस्तस्मान्मैवं वदस्व माम्॥६.४.६९॥
वयमग्निमुखाः सर्वे हविर्गृह्णामहे मखे।
वेदोक्तविधिना सम्यग्यजमानहिताय वै॥६.४.७०॥
तस्माद्वह्निमुखे भूयः स जुहोति हविर्द्विज।
ततः संप्राप्स्यति स्वर्गं त्वत्प्रसादादसंशयम्॥६.४.७१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्रयां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये त्रिशंकूपाख्याने विश्वामित्रकृतत्रिशंकुयाजनोपक्रमवर्णनंनाम चतुर्थोऽध्यायः॥४॥
खण्डः ६ (नागरखण्डः) — Adhyāya 5
सूत उवाच।
तच्छ्रुत्वा ब्रह्मणो वाक्यं विश्वामित्रो रुषान्वितः।
पितामहमुवाचेदं पश्य मे तपसो बलम्॥६.५.१॥
याजयित्वा त्रिशंकुं तं विधिवद्दक्षिणावता।
यज्ञेनात्रा(?) नयिष्यामि पश्यतस्ते पितामह॥६.५.२॥
एवमुक्त्वा द्रुतं गत्वा विश्वामित्रो धरातलम्।
चकार याजने यत्नं त्रिशंकोः सुमहात्मनः॥६.५.३॥
ददौ दीक्षां समाहूय ब्राह्मणान्वेदपारगान्।
यत्रकर्मोचिते काले तस्मिन्नेव वने शुभे॥६.५.४॥
बभूव स स्वयं धीमानध्वर्युर्यज्ञकर्मणि।
तस्मिन्होता च शांडिल्यो ब्रह्मा गौतम एव च॥६.५.५॥
आग्नीध्रश्च्यवनो नाम मैत्रावरुणः कार्मिकः।
उद्गाता याज्ञवल्क्यश्च प्रतिहर्ता च जैमिनिः॥६.५.६॥
प्रस्तोता शंकुवर्णश्च तथोन्नेता च गालवः।
पुलस्त्यो ब्राह्मणाच्छंसी होता गर्गो मुनीश्वरः॥६.५.७॥
नेष्टा चैव तथात्रिस्तु अच्छावाको भृगुः स्वयम्।
तान्सर्वानृत्विजश्चक्रे त्रिशंकुः श्रद्धयान्वितः॥६.५.८॥
वासोभिर्मुकुटैश्चैव केयूरैः समलंकृतान्।
कृत्वा केशपरित्यागं दधत्कृष्णाजिनं तथा॥६.५.९॥
ऐणशृङ्गसमायुक्तः पयोव्रतपरायणः।
दीर्घसत्राय तान्सर्वान्योजयामास वै ततः॥६.५.१०॥
एवं तस्मिन्प्रवृत्ते च दीर्घसत्रे यथोचिते।
आजग्मुर्ब्राह्मणा दिव्या वेदवेदांगपारगाः॥६.५.११॥
तथान्ये तार्किकाश्चैव गृहस्थाः कौतुकान्विताः।
दीनांधकृपणाश्चैव ये चान्ये नटनर्तकाः॥६.५.१२॥
दीयतां दीयतामाशु एतेषामेतदेव हि।
भुज्यतांभुज्यतां लोकाः प्रसादः क्रियतामिति॥६.५.१३॥
इत्येष निनदस्तत्र श्रूयते सततं महान्।
यज्ञवाटे सदा तस्मिन्नान्यश्चैव कदाचन॥६.५.१४॥
तत्र सस्यमयाः शैला दृश्यंते परिकल्पिताः।
सुवर्णस्य च रूप्यस्य रत्नानां च विशेषतः॥६.५.१५॥
दानार्थं ब्राह्मणेंद्राणामसंख्याश्चापि धेनवः।
तथैव वाजिनो दांता मदोन्मत्ता महागजाः॥६.५.१६॥
समंतात्कल्पितास्तत्र दृश्यंते पर्वतोपमाः।
वर्तमाने महायज्ञे तस्मिन्नेव सुविस्तरे॥६.५.१७॥
आहूता यज्ञभागाय नाभिगच्छंति देवताः।
केवलं वह्निवक्त्रेण तस्य गृह्णंति तद्धविः॥६.५.१८॥
एवं द्वादशवर्षाणि यजतस्तस्य भूपतेः।
व्यतीतानि न संप्राप्तमभीष्टं मनसः फलम्॥६.५.१९॥
ततश्चावभृथस्नानं कृत्वा सत्रसमाप्तिजम्।
ऋत्विजस्तर्पयित्वा तान्दक्षिणाभिर्यथार्हतः॥६.५.२०॥
विससर्ज समस्तांश्च तथान्यानपि संगतान्।
संबंधिनो वयस्यांश्च त्रिशंकुर्मुनिसत्तमाः॥६.५.२१॥
ततः प्रोवाच विनतो विश्वामित्रं मुनीश्वरम्।
स भूपो व्रीडया युक्तः प्रणिपातपुरः सरम्॥६.५.२२॥
त्वत्प्रसादान्मया प्राप्तं दीर्घसत्रसमुद्भवम्।
परिपूर्णफलं ब्रह्मन्दुर्लभं सर्वमानवैः॥६.५.२३॥
तथा जातिः पुनर्लब्धा भूयो नष्टापि सन्मुने।
त्वत्प्रसादेन विप्रर्षे चंडालत्वं प्रणाशितम्॥६.५.२४॥
परं मे दुःखमेवैकं हृदि शल्यमिवार्पितम्।
अनेनैव शरीरेण यन्न प्राप्तं त्रिविष्टपम्॥६.५.२५॥
उपहासं करिष्यंति वसिष्ठस्य सुता मुने।
अद्य व्यर्थ श्रमं श्रुत्वा मामप्राप्तं त्रिविष्टपम्॥६.५.२६॥
तथा तद्वचनं सत्यं वसिष्ठस्य व्यवस्थितम्।
यत्तेनोक्तं न यज्ञेन सदेहैर्गम्यते दिवि॥६.५.२७॥
सोऽहं तपः करिष्यामि सांप्रतं वनमाश्रितः।
न करिष्यामि भूयोऽपि राज्यं पुत्रनिवेदितम्॥६.५.२८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये त्रिशंकूपाख्याने विश्वामित्रेण त्रिशंकोः सशरीरस्वर्गारोहणाय द्वादशवार्षिकयज्ञकरणंनाम पञ्चमोऽध्यायः॥५॥
खण्डः ६ (नागरखण्डः) — Adhyāya 6
सूत उवाच।
तच्छ्रुत्वा वचनं तस्य त्रिशंकोर्मुनिपुंगवः।
विश्वामित्रोऽब्रवीद्वाक्यं किंचिल्लज्जासमन्वितः॥६.६.१॥
मा विषादं महीपाल विषयेऽत्र करिष्यसि।
अनेनैव शरीरेण त्वां नयिष्याम्यहं दिवम्॥६.६.२॥
तत्तत्कर्म करिष्यामि स्वर्गार्थे नृपसत्तम।
तवाभीष्टं करिष्यामि किं वा यास्यामि संक्षयम्॥६.६.३॥
एवमुक्त्वा परं कोपं कृत्वोपरि दिवौकसाम्।
उवाच च ततो रौद्रं प्रत्यक्षं तस्य भूपतेः॥६.६.४॥
यथा मया द्विजत्वं हि स्वयमेवार्जितं बलात्।
तथा सृष्टिं करिष्यामि स्वकीयां नात्र संशयः॥६.६.५॥
ततस्तं स समालोक्य शंकरं शशिशेखरम्।
प्रणम्य विधिवद्भक्त्या स्तुतिं चक्रे महामुनिः॥६.६.६॥
विश्वामित्र उवाच।
जय देव जयाचिंत्य जय पार्वतिवल्लभ।
जय कृष्ण जगन्नाथ जय कृष्ण जगद्गुरो॥६.६.७॥
जयाचिंत्य जयामेय जयानंत जयाच्युत।
जयामर जयाजेय जयाव्यय सुरेश्वर॥६.६.८॥
जय सर्वग सर्वेश जय सर्वसुराश्रय।
जय सर्वजनध्येय जय सर्वाघनाशन॥६.६.९॥
त्वं धाता च विधाता च त्वं कर्ता त्वं च रक्षकः।
चतुर्विधस्य देवेश भूतग्रामस्य शंकर॥६.६.१०॥
यथा तिलस्थितं तैलं यथा दधिगतं घृतम्।
तथैवाधिष्ठितं कृत्स्नं त्वया गुप्तेन वै जगत्॥६.६.११॥
त्वं ब्रह्मा त्वं हृषीकेशस्त्वं शक्रस्त्वं हुताशनः।
त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्दुस्त्वं दिवाकरः॥६.६.१२॥
अथवा बहुनोक्तेन किं स्तवेन तव प्रभो।
समासादेव वक्ष्यामि विभूतिं श्रुतिनोदिताम्॥६.६.१३॥
यत्किंचित्त्रिषु लोकेषु स्थावरं जंगमं विभो।
तत्सर्वं भवता व्याप्तं काष्ठं हव्यभुजा यथा॥६.६.१४॥
श्रीभगवानुवाच।
परितुष्टोऽस्मि भद्रं ते वरं प्रार्थय सन्मुने।
यत्ते हृदि स्थितं नित्यं सर्वं दास्याम्यसंशयम्॥६.६.१५॥
विश्वामित्र उवाच।
यदि तुष्टोसि देवेश यदि देयो वरो मम।
तन्मे स्यात्सृष्टिमाहात्म्यं त्वत्प्रसादान्महेश्वर॥६.६.१६॥
एवमस्त्विति तं चोक्त्वा भगवान्वृषभध्वजः।
सर्वैर्गणैः समायुक्तस्ततश्चादर्शनं गतः॥६.६.१७॥
विश्वामित्रोऽपि तत्रैव स्थितो ध्यानपरायणः।
चक्रे चतुर्विधां सृष्टिं स्पर्द्धया हंसगामिनः॥६.६.१८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वक्षेत्रमाहात्म्ये त्रिशंकूपाख्याने विश्वामित्रवरलब्धिर्नाम षष्ठोऽध्यायः॥६॥
खण्डः ६ (नागरखण्डः) — Adhyāya 7
॥ सूत उवाच ॥ ॥
एवं ध्यायमानेन जलमाविश्य काम्यया ॥
सृष्टं संध्याद्वयं तच्च दृश्यतेऽद्यापि वै द्विजाः ॥ १ ॥
ततो देवगणाः सर्वे सृष्टास्तेन महात्मना ॥
वैमानिकाश्च ये केचिन्नक्षत्राणि ग्रहास्तथा ॥ २ ॥
मनुष्योरगरक्षांसि वीरुधो वृक्षसंयुताः ॥
सप्तर्षयो ध्रुवाद्याश्च ये चान्ये गगनेचराः ॥ ३ ॥
एवं हि भगवान्सृष्ट्वा विश्वामित्रः स मन्युमान् ॥
स्वकीयेष्वथ कृत्येषु योजयामास तांस्ततः ॥ ४ ॥
एतस्मिन्नेव काले तु द्वौ सूर्यो युगपद्दिवि ॥
उदितौ रात्रिनाथौ च जाताश्च द्विगुणा ग्रहाः ॥
द्विगुणानि च भान्येव सह सप्तर्षिभिर्द्विजाः ॥ ५ ॥
एवं वियति ते सर्वे स्पर्द्धमानाः परस्परम् ॥
दृश्यंते द्विगुणीभूता जनविभ्रमकारकाः ॥ ६ ॥
एतस्मिन्नन्तरे शक्रः सह सर्वेर्दिवालयैः ॥
जगाम तत्र यत्रास्ते भगवान्कमलासनः ॥ ७
प्रोवाचाथ प्रणम्योच्चैः कृतांजलिपुटः स्थितः ॥
स्तुतिं कृत्वा सुरैः सार्धं वेदोक्तैः स्तवनैर्द्विजाः ॥ ८ ॥
सृष्टिः कृता सुरश्रेष्ठ विश्वामित्रेण सांप्रतम् ॥
मनुष्ययक्षसर्पाणां देवगंधर्वरक्षसाम् ॥ ९ ॥
तस्माद्वारय तं गत्वा स्वयमेव पितामह ॥
यावन्न व्याप्यते सर्वं तत्सष्ट्येदं चराचरम् ॥ १०
तस्य तद्वचनं श्रुत्वा तेनैव सहितो विधिः ॥
गत्वोवाच जगन्मित्रं विश्वामित्रं मुनीश्वरम् ॥ ११ ॥
निवृत्तिं कुरु विप्रर्षे सांप्रतं वचनान्मम ॥
सृष्टैर्यावन्न नश्यंति सर्वे देवाः सवासवाः ॥ १२ ॥ ॥
विश्वामित्र उवाच ॥ ॥
अनेनैव शरीरेण त्रिशंकुर्नृपसत्तमः॥
यदि गच्छति ते लोके तत्सृष्टिं न करोम्यहम् ॥ १३ ॥
॥ ब्रह्मोवाच ॥ ॥
एष गच्छतु भूपालो मया सह त्रिविष्टपम् ॥
अनेनैव शरीरेण त्वत्प्रसादान्मुनीश्वर ॥ १४
विरामं कुरु सृष्टेस्त्वं नैतदन्यः करिष्यति ॥
न कृतं केनचिल्लोके तत्कर्म भवता कृतम्॥ १५ ॥
॥ विश्वामित्र उवाच ॥ ॥
यन्मया कोपयुक्तेन कृतेयं सृष्टिरब्जज ॥
तत्क्षतव्यं त्वया देव सर्वलोकपितामह ॥।६॥
तथाऽक्षयास्तु मे देव सृष्टिस्तव प्रसादतः ॥
या कृता न करिष्यामि भूयो ऽन्यां पद्मसंभव ॥ १७ ॥
॥ व्रह्मोवाच ॥ ॥
भविष्यति ध्रुवा विप्र सृष्टिर्या भवता कृता ॥
परं सर्वेषु कृत्येषु यज्ञार्हा न भविष्यति ॥ १८ ॥ ???
एवमुक्त्वा समादाय त्रिशंकुं प्रपितामहः ॥
ब्रह्मलोकं गतो हृष्टो मुनिस्तत्रैव संस्थितः ॥ १९ ॥
इति स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये त्रिशंकूपाख्याने त्रिशंकुस्वर्गप्राप्तिवर्णनंनाम सप्तमोऽध्यायः ॥७॥ ॥९॥
खण्डः ६ (नागरखण्डः) — Adhyāya 8
॥ सूत उवाच ॥ ॥
एवं स्वर्गमनुप्राप्ते त्रिशंकौ नृपसत्तमे ॥
सशरीरे द्विजश्रेष्ठा विश्वामित्रसमुद्यमात् ॥ ६.८.१ ॥
तत्तीर्थं ख्यातिमायातं समस्ते भुवनत्रये ॥
ततःप्रसूति लोकानां धर्मकामार्थमोक्षदम् ॥ २ ॥
अस्पृष्टं कलिदोषेण तथान्यैरुपपातकैः ॥
ब्रह्महत्यादिकैश्चैवत्रिपुरारेः प्रभावतः ॥ ३ ॥
यस्तत्र त्यजति प्राणाञ्छ्रद्धा युक्तेन चेतसा ॥
स मोक्षमाप्नुयान्मर्त्यो यद्यपि स्यात्सुपापकृत् ॥ ४ ॥
कृमिपक्षिपतंगा ये पशवः पक्षिणो मृगाः ॥
तेऽपि तत्र मृता यांति शिवलोकमसंशयम्॥ ५ ॥
स्नानं ये तत्र कुर्वंति श्रद्धापूतेन चेतसा ॥
त्रिशंकुरिव ते स्वर्गे प्रयांत्यपि विधर्मिणः ॥ ६ ॥
घर्मार्त्ता वा तृषार्ता वा येऽवगाहंति तज्जलम्॥
तेऽपि यांति परं स्थानं यत्र देवो महेश्वरः ॥ ७ ॥
विश्वामित्रोऽपि तद्दृष्ट्वा तीर्थमाहात्म्यमुत्तमम् ॥
कुरुक्षेत्रं परित्यज्य तत्र वासमथाकरोत्॥ ८ ॥
तथान्ये मुनयः शांतास्त्यक्त्वा तीर्थानि दूरतः॥
तत्राश्रमपदं कृत्वा प्रयाताः परमं पदम् ॥ ९ ॥
तथैव मनुजाः सर्वे दूरादागत्य सत्वराः ॥
तत्र स्नात्वा दिवं यांति कृत्वा पापशतान्यपि ॥ ६.८.१० ॥
एवं तस्य प्रभावेण तीर्थस्य द्विजसत्तमाः ॥
गच्छमानेषु लोकेषु सुखेन त्रिदिवालयम् ॥ ११ ॥
अग्निष्टोमादिका सर्वाः समुच्छेदं गताः क्रियाः ॥
न कश्चिद्यजते मर्त्यो न व्रतं कुरुते नरः ॥ १२ ॥
न यच्छति तथा दानं न च तीर्थं निषेवते ॥
केवलं कुरुते स्नानं लिंगभेदे समाहितः ॥ १३ ॥
ततः प्रगच्छति स्वर्गं विमानवरमाश्रितः ॥ १४ ॥
ततः प्रपूरिताः सर्वे स्वर्गलोका नरैर्द्विजाः ॥
ब्रह्मविष्णुशिवेन्द्रादीन्स्पर्धमानैः सुरोत्तमान् ॥ १५ ॥
ततो देवगणाः सर्वे यज्ञभागविवर्जिताः ॥
कृच्छ्रं परमनुप्राप्ता मन्त्रं चक्रुः परस्परम्॥१६॥
हाटकेश्वरमाहात्म्यात्स्वर्गलोकः प्रपूरितः ॥
ऊर्ध्वबाहुभिराकीर्णः स्पर्धमानैः समंततः ॥ १७ ॥
तस्मात्तत्क्रियतां कर्म येनोच्छेदं प्रगच्छति ॥
तीर्थमेद्धरापृष्ठे हाटकेश्वरसंज्ञितम्॥ १८ ॥
ततः संवर्तको वायुः शक्रादेशात्समंततः ॥
तत्क्षेत्रं पूरयामास पांसुभिर्द्विजसत्तमाः ॥ १९ ॥
एवं नाशमनुप्राप्ते तस्मिंस्तीर्थे स्थलोच्चये ॥
जाते जाताः क्रियाः सर्वा भूयोऽपि क्रतुसंभवाः ॥ ६.८.२० ॥
ततः कालेन महता वल्मीकः समपद्यत ॥
तस्मिन्क्षेत्रे स पाताले संप्रयातः शनैःशनैः ॥ २१ ॥
अथ पातालतो नागास्तेन मार्गेण कौतुकात् ॥
मर्त्यलोकं समायांति भ्रमंति च धरातले॥२२॥
तत्र ते मानवान्भोगान्भुक्त्वा चैव यथेच्छया॥
पुनर्निर्यांति तेनैव मार्गेण निजमंदिरम्॥२३॥
ततो नागबिलः ख्यातः स सर्वस्मिन्धरातले ॥
गतागतेन नागानां स वल्मीको द्विजोत्तमाः ॥ २४ ॥
कस्यचित्त्वथ कालस्य भगवान्पाकशासनः ॥
ब्रह्महत्यासमोपेतो निस्तेजाः समपद्यत ॥ २५ ॥
ततः पितामहादेशं लब्ध्वा मार्गेण तेन सः ॥
प्रविश्य चेक्षयामास पाताले हाट केश्वरम् ॥ २६ ॥
अथाऽभूत्पापनिर्मुक्तस्तत्क्षणात्तस्य दर्शनात्॥
तेजसा च समायुक्तः पुनः प्राप त्रिविष्टपम् ॥ २७ ॥
स दृष्ट्वा तत्प्रभावं तल्लिंगं देवस्य शूलिनः ॥
हाटकेश्वरसंज्ञस्य भयं चक्रे नरोद्भवम् ॥ २८ ॥
यदि कश्चित्पुमानत्र त्रिशंकुरिव भूपतिः ॥
पूजयिष्यति तल्लिंगं विपाप्मा श्रद्धया सह ॥ २९ ॥
यापयिष्यति तन्नूनं मामस्मात्त्रिदशालयात् ॥
तस्मात्संपूरयाम्येनं मार्गं पाता लसंभवम् ॥ ६.८.३० ॥
ततश्च त्वरया युक्तो रक्तशृंगं नगोत्तमम् ॥
प्रचिक्षेप बिले तस्मिन्स्वयमेव शतक्रतुः ॥ ३१ ॥
॥ ऋषय ऊचुः ॥॥ ॥ ॥
ब्रह्महत्या कथं जाता देवेन्द्रस्य महात्मनः ॥
कस्मिन्काले च सर्वं नो विस्तरात्सूत कीर्तय ॥ ३२ ॥
रक्तशृंगो गिरिः कोऽयं संक्षिप्तस्तत्र तेन यः ॥
मानुषाणां भयं तस्य कतमस्य शचीपतेः ॥ ३३ ॥
॥ सूत उवाच ॥ ॥
पुरा त्वष्ट्रा द्विजश्रेष्ठा हिरण्यकशिपोः सुता ॥
विवाहिता रमानाम श्रेष्ठरूपगुणान्विता ॥ ३४ ॥
अथ तस्या ययौ कालः सुप्रभूतः सुतं विना ॥
ततो वैराग्यसंपन्ना सुतार्थं तपसि स्थिता ॥। ॥ ३५ ॥
ध्यायमाना सुराधीशं देवदेवं महेश्वरम् ॥
बलिपूजोपहारेण सम्यक्छ्रद्धासमन्विता ॥ ३६ ॥
नियता नियताहारा स्नानजप्यपरायणा ॥
यच्छमाना द्विजाग्र्येभ्यो दानानि विविधानि च ॥ ३७ ॥
ततो वर्षसहस्रांते तस्यास्तुष्टो महेश्वरः ॥
उवाच वरदोऽस्मीति वृणुष्व यदभीप्सितम् ॥ ३८ ॥
सा वव्रे मम पुत्रोऽस्तु भगवंस्त्वत्प्रसादतः ॥
शूरः शस्त्रैरवध्यश्च विप्रदानवरूपधृक् ॥ ३९ ॥
वेदाध्ययन संपन्नो यज्ञकर्मसमुद्यतः ॥
तेजसा यशसा ख्यातः सर्वेषामपि देहिनाम् ॥ ६.८.४० ॥
॥ भगवानुवाच ॥ ॥
भविष्यति न संदेहः पुत्रस्ते बलवान्सुधीः ॥
अवध्यः सर्वशस्त्राणां महातेजोभिरन्वितः ॥ ४१ ॥
यज्वा दानपतिः शूरो वेदवेदांगपारगः ॥
ब्राह्मणोक्ताः क्रियाः सर्वाः करिष्यति स कृत्स्नशः ॥
अजेयः संगरे चैव कृत्स्नैरपि सुरासुरैः ॥ ४२ ॥
एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः ॥
ऋतौ सापि दधे गर्भं सकाशाद्विश्वकर्मणः ॥ ॥ ४३ ॥
ततश्च सुषुवे पुत्रं दशमे मासि शोभनम् ॥
द्वादशार्कप्रतीकाशं सर्वलक्षणलक्षितम् ॥ ४४ ॥
तस्य चक्रे पिता नाम प्राप्ते द्वादशमे दिने ॥।
प्रसिद्धं वृत्र इत्येव पूजयित्वा द्विजोत्तमान् ॥ ४५ ॥
अथासौ ववृधे बालः शुक्लपक्षे यथोडुराट् ॥
पितृमातृकृतानंदो बन्धुवर्गेण लालितः ॥ ४६॥
ततोऽस्य प्रददौ काले व्रतं विप्रजनोचितम् ॥
समभ्येत्य स्वयं शुक्रो दानवस्यापि संद्विजः ॥ ४७ ॥
स चापि चतुरो वेदान्ब्रह्मचारिव्रते स्थितः ॥
वेदांगैः सहितान्वृत्रः पपाठ गुरुवत्सलः ॥ ४८ ॥
ततो यौवनमासाद्य भूमिपालानशेषतः ॥
जित्वा धरां वशे चक्रे पातालं तदनंत रम्॥ ४९ ॥
ततश्चेंद्रजयाकांक्षी समासाय सुरालयम् ॥
सहस्राक्षमुखान्देवान्युद्धे चक्रे पराङ्मुखान् ॥ ६.८.५० ॥
अथ तेन समं वज्री चक्रेऽष्टादश संयुगान्॥
एकस्मिन्नपि नो लेभे विजयं द्विजसत्तमाः ॥ ५१ ॥
हतशेषैः सुरैः सार्धं सर्वांगक्षतविक्षतैः ॥
ततो जगाम वित्रस्तो ब्रह्मलोकं दिवा लयात्॥ ५२ ॥
वृत्रोऽपि बुभुजे कृत्स्नं त्रैलोक्यं सचराचरम् ॥
शाक्रं पदं समास्थाय निहताशेषकंटकम् ॥ ५३ ॥
यज्ञभागभुजश्चक्रे दानवान्बल गर्वितान् ॥
देवस्थानेषु सर्वेषु यथोक्तेषु महाबलः ॥ ५४ ॥
एवं त्रैलोक्यराज्येऽपि लब्धे तस्य द्विजोत्तमाः ॥
न संतोषश्च संजज्ञे ब्रह्मलोकाभि कांक्षया ॥ ५५ ॥
ततः शुक्रं समाहूय प्रोवाच मधुरं वचः ॥
विनयावनतो भूत्वा चतुर्भिः सचिवैः सह ॥ ५६ ॥
॥ वृत्र उवाच ॥ ॥
ब्रह्मलोकं गतः शक्रो भयाद्गुरुकुलोद्वह ॥
कथं गतिर्भवेत्तत्र मम ब्रूहि यथातथम् ॥ ५७ ॥
येन शक्रं विरंचिं च सूदयिष्ये तथाखिलम् ॥
तुभ्यं दत्त्वा ब्रह्म लोकं भोक्ष्यामि त्रिदिवं स्वयम् ॥ ५८ ॥
॥ शुक्र उवाच ॥ ॥
न गतिर्विद्यते तत्र तव दानवसत्तम ॥
तस्मात्त्रैलोक्यराज्येन संतोषं कर्तुम र्हसि ॥ ५९ ॥
॥ वृत्र उवाच ॥ ॥
यावत्तिष्ठति सुत्रामा तावन्नास्ति सुखं मम ॥
तस्मान्निष्कंटकार्थाय यतिष्येऽहं द्विजोत्तम ॥ ६.८.६० ॥
कथं शक्रस्य संजाता गतिस्तत्र भृगूद्वह ॥
न भविष्यति मे ब्रूहि कथं साऽद्य महामते ॥ ६१ ॥
॥ शुक्र उवाच ॥ ॥
तेन पूर्वं तपस्तप्तं नैमिषे दानवोत्तम ॥
यावद्वर्षसहस्रांतं ध्यायमानेन शंकरम्॥ ६२ ॥
तत्प्रभावाद्गतिस्तस्य तत्र जाता सदैव हि ॥
सभृत्यपरिवारस्य नान्यदस्तीह कारणम्॥ ६३ ॥
योऽन्योऽपि नैमिषारण्ये तद्रूपं कुरुते तपः ॥
ब्रह्मलोके गतिस्तस्य जायते नात्र संशयः ॥ ६४ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा सत्वरं गत्वा नैमिषं तीर्थमुत्तमम् ॥
तपश्चक्रे ततस्तीव्रं ध्यायमानो महेश्वरम् ॥ ६५ ॥
त्रैलोक्यरक्षणार्थाय संनिरूप्य दनूत्त मान्॥
महाबलसमोपेताञ्छक्राधिकपराक्रमान् ॥ ६६ ॥
वर्षास्वाकाशस्थायी स हेमन्ते सलिलाश्रयः ॥
पंचाग्निसाधको ग्रीष्मे स वभूवा निलाशनः ॥ ६७ ॥
एवं तस्य व्रतस्थस्य जग्मुर्वर्षशतानि च ॥
तत्र भीतास्ततो देवा ब्रह्मविष्णुपुरःसराः ॥ ६८ ॥
चक्रुश्च सततं मंत्रं तद्विनाशाय केवलम् ॥
वीक्षयंति च च्छिद्राणि न च पश्यंति दुःखिताः ॥ ६९ ॥
अथाब्रवीत्स्वयं विष्णुश्चिरं निश्चित्य चेतसा ॥
वधोपायं समालोक्य वृत्रस्य प्रमुदान्वितः । ६.८.७० ॥
॥ विष्णुरुवाच ॥ ॥
तस्य शक्र वधोपायो मया ज्ञातोऽधुना ध्रुवम् ॥
तच्छ्रुत्वा कुरु शीघ्रं त्वमुपायो नास्ति कश्चन ॥ ७१ ॥
अवध्यः सर्वशस्त्राणां स कृतः शूलपाणिना ॥
तस्मादस्थिमयं वज्रं तद्वधार्थं निरूपय ॥ ७२ ॥
॥ इन्द्र उवाच ॥ ॥
अस्थिभिः कस्य जीवस्य वज्रं देव भविष्यति ॥
गजस्य शरभस्याथ किं वान्यस्य वदस्व मे ॥ ७३ ॥
॥ विष्णुरुवाच ॥ ॥
शतहस्तप्रमाणं तत्षडस्रि च सुराधिप ॥
मध्ये क्षामं तु पार्श्वाभ्यां स्थूलं रौद्रसमाकृति ॥ ७४ ॥
॥ इंद्र उवाच ॥ ॥
न तादृग्दृश्यते सत्त्वं त्रैलोक्येपि सुरेश्वर ॥
यस्यास्थिभिर्विधीयेत वजमेवंविधाकृति ॥ ७५ ॥
॥ विष्णुरुवाच ॥ ॥
दधीचिर्नाम विप्रोऽस्ति तपः परममा स्थितः ॥
द्विगुणं च तथा दीर्घः सरस्वत्यां कृताश्रमः ॥ ७६ ॥
तं गत्वा प्रार्थयाशु त्वं स्वान्यस्थीनि प्रदास्यति ॥
नादेयं विद्यते किंचित्तस्य संप्रार्थितस्य हि ॥ ७७ ।
ततः शक्रः सुरैः सार्धं गत्वा तस्य तदाश्रमम् ॥
प्राचीसरस्वतीतीरे पुष्करे द्विजसत्तमाः ॥ ७९ ।
अथ देवान्समा लोक्य संप्राप्तान्निजमंदिरे ॥
दधीचिः संप्रहृष्टात्मा सत्वरः संमुखं ययौ ॥ ७९ ॥
स प्रणम्य सहस्राक्षं तथान्यानपि सन्मुनिः ॥
अर्घ्यादिभिस्ततः पूजां चक्रे तेषां ततः परम् ॥ ६.८.८० ॥
ततः प्रोवाच हृष्टात्मा विनयावनतः स्थितः ॥
स्वयमेव सहस्राक्षं प्रणिपत्य मुहुर्मुहुः ॥ ८१ ॥ ॥
॥ दधीचिरुवाच ॥ ॥
किमर्थमागता देवाः कृत्यं चाशु निवेद्यताम् ॥
धन्योऽहमागतो यस्य गृहे त्वं बलसूदन ॥ ८२ ॥
॥ शक्र उवाच ॥ ॥
वृत्रेण निर्जिताः सर्वे वयं ब्राह्मणसत्तम ॥
स वध्यो नहि शस्त्राणां सर्वेषां वरपुष्टितः । ८३ ॥
सोऽस्थिसंभववज्रस्य वध्यः स्यादब्रवीद्धरिः॥
शतहस्तप्रमाणस्य न च जीवोस्ति तादृशः ॥ ८४ ॥
त्वां मुक्त्वा ब्राह्मणश्रेष्ठ तस्मादस्थीनि यच्छ नः ॥
स्वकीयानि भवेद्येन वज्रं तस्य विनाशकम् ॥ ८५ ॥
कुरु कृत्यं द्विजश्रेष्ठ देवानामार्तिनाशनम् ॥
अन्यथा विबुधाः सर्वे नाशं यास्यंति कृत्स्नशः ॥ ८६ ॥
॥ सूत उवाच ॥
तच्छ्रुत्वा संप्रहृष्टात्मा दधीचिर्भगवान्मुनिः ॥
अत्यजज्जीवितं तेषां हितार्थाय दिवौकसाम् ॥ ८७ ॥
ततो देवाः प्रहृष्टास्ते गृहीत्वास्थीनि कृत्स्नशः ॥
ततश्चक्रुर्महावज्रं यादृशं विष्णुनोदितम् ॥ ८८ ॥
अथ शक्रस्तदादाय नैमिषाभिमुखो ययौ ॥
भयेन महता युक्तो वेपमानो निशागमे ॥ ८९ ॥
तत्र ध्यानस्थितं वृत्रं दूरस्थस्त्रिदशाधिपः ॥
वज्रेण ताडयामास पलायनपरायणः ॥ ६.८.९० ॥
सोऽपि वजप्रहारेण भस्मसात्सम पद्यत ॥
वृत्रो दानवशार्दूलो वह्निं प्राप्य पतंगवत् ॥ ९१ ॥
शक्रोऽपि भयसंत्रस्तो गत्वा सागरमध्यगम् ॥
पर्वतं सुदुरारोहं तुंगशृंगं समाश्रितः ॥ ॥ ९२ ॥
न जानाति हतं वृत्रं वज्रघातेन तेन तम् ॥
केवलं वीक्षते मार्गं वृत्रागमनसंभवम् ॥ ९३ ॥
एतस्मिन्नंतरे देवाः संप्रहृष्टतनूरुहाः ।
सूत्रं विनिहतं दृष्ट्वा तुष्टुवुस्त्रिदशाधिपम् ॥ ९४ ॥
न जानंति भयान्नष्टं तस्मिन्सागरपर्वते ।
अन्विष्य चिरकालेन कृच्छ्रात्संप्राप्य तं ततः॥ ९५ ॥
वीक्षांचक्रुः समासीनं विषमे गिरिगह्वरे ॥
तेजोहीनं तथा दीनं ब्रह्महत्यापरिप्लुतम् ॥ ९६ ॥
गात्रदुर्गंधितासंगैः पूरयन्तं दिशो दश ॥ ९७ ॥
अथोवाच चतुर्वक्त्रो दृष्ट्वा शक्रं तथाविधम् ॥
समस्तान्देवसंघातान्दूरस्थः पापशंकया ॥ ९८ ॥
शक्रोऽयं विबुधश्रेष्ठा ब्रह्महत्यापरिप्लुतः ।
तस्मातत्त्याज्यः सुदूरेण नो चेत्पापमवाप्स्यथ ॥ ९९ ॥
पश्यध्वं सर्वलिंगानि ब्रह्महत्यान्वितानि च ॥
अस्य गात्रेषु दृश्यंते तस्माद्गच्छामहे दिवि ॥ ६.८.१०० ॥
पितामहमुखान्दृष्ट्वा देवान्प्राप्तान्सुराधिपः ॥
पराङ्मुखानकस्माच्च संजातान्विस्मयान्वितः ॥॥॥।
ततः प्रोवाच संभ्रांतः किमिदं गम्यते सुराः ॥
दृष्ट्वापि मामनाभाष्य कच्चित्क्षेमं गृहे मम ॥ १०२ ॥
कच्चित्स निहतस्तेन मम वज्रेण दानवः ॥
कच्चिन्न मां स युद्धार्थमन्वेष यति दुर्मतिः ॥ १०३ ॥
॥ ब्रह्मोवाच ॥ ॥
निहतः स त्वया शक्र तेन वज्रेण दानवः ॥
गतो मृत्युवशं पापो न भयं कर्तुमर्हसि ॥ १०४ ॥
परं तस्य वधाज्जाता ब्रह्महत्या सुगर्हिता ॥
तव शक्र न तेनाद्य स्पृशामोऽस्पृश्यतां गतम् ॥ १०५ ॥
॥ इन्द्र उवाच ॥ ॥
मया विनिहताः पूर्वं बहवः किल दानवाः ॥
ब्रह्महत्या न संजाता मम हत्याधुना कथम् ॥ १०६ ॥
॥ ब्रह्मोवाच ॥ ॥
ते त्वया निहता युद्धे क्षात्रधर्मेण वासव ॥
विशुद्धा दानवाः सर्वे तेन जातं न पातकम् ॥ १०७ ॥
एष यज्ञोपवीताढ्यो विशेषात्तपसि स्थितः।
छलेन निहतः शक्र तेन त्वं पापसंयुतः ॥ १०८ ॥ ॥
॥ इन्द्र उवाच ॥ ॥
जानाम्यहं चतुर्वक्त्र स्वं कायं पापसंयुतम् ॥
चिह्नैर्ब्रह्मवधोद्भूतैस्तस्माच्छुद्धिं वदस्व मे ॥ १०९ ॥
यया याति द्रुतं पापं ब्रह्महत्यासमुद्भवम् ॥
स्पृश्यो भवामि सर्वेषां देवानां प्रपितामह ॥ ६.८.११० ।
॥ ब्रह्मोवाच ॥ ॥
तीर्थयात्रां सुरश्रेष्ठ तदर्थं कर्तुमर्हसि ।
तया विना न ते पापं नाशमायाति कृत्स्नशः ॥ १११ ॥
॥ सूत उवाच ॥ ॥
ततस्तद्वचनाच्छक्रस्तीर्थयात्रापरायणः ॥
बभ्राम सकलां पृथ्वीं स्नानं कुर्वन्पृथक्पृथक् ॥ ११२ ॥
तीर्थेषु सुप्रसिद्धेषु नदीनदयुतेषु च ॥
वाराणस्यां प्रयागे च प्रभासे कुरुजांगले ॥ ११३ ॥
तथान्येषु सहस्राक्षो विपाप्मा न व्यजायत ॥
ततो वैराग्यमापन्नश्चिन्तयामास चेतसि ॥।१४॥
अहं स्नातः समस्तेषु तीर्थेषु धरणीतले॥
न च पापेन निर्मुक्तः किं करोमि च सांप्रतम् ॥ ११५ ॥
किं पतामि गिरेः शृंगाद्विषं वा भक्षयामि किम् ॥
त्रैलोक्यराज्यविभ्रष्टो नाहं जीवितुमुत्सहे ॥ ११६ ॥
एवं वैराग्यमापन्नो गिरिमारुह्य वासवः ॥
यावत्क्षिपति चात्मानं मरणे कृतनिश्चयः । ११७ ॥
तावद्देवोत्थिता वाणी गगनाद्द्विजसत्तमाः ॥
मा शक्र साहसं कार्षीर्वैराग्यं प्राप्य चेतसि ॥ ११८ ॥
त्वया राज्यं प्रकर्तव्यं स्वर्गेऽद्यापि युगाष्टकम् ॥
तस्मात्पापविशुद्ध्यर्थं शृणु शक्र समा हितः ॥ ११९ ॥
कुरुष्व वचनं शीघ्रं भावनीयं न चान्यथा ॥
यत्त्वया पांसुभिः पूर्वं विवरं परिपूरितः ॥ ६.८.१२० ॥
हाटकेश्वरजे क्षेत्रे यत्र देवः स्वयं हरः ॥
तत्र नागबिलो जातो वल्मीकात्त्रिदशाधिप ॥ १२१ ॥
येन नागा धरापृष्ठे निर्गच्छंति व्रजंति च ॥
तेन मार्गेण गत्वा त्वं पाताले हाटकेश्वरम् ॥
स्नात्वा पातालगंगायां पूजयस्व महेश्वरम् ॥ १२२ ॥
ततः पापविनिर्मुक्तो भविष्यसि न संशयः ॥
संप्राप्स्यसि च भूयोऽपि देवराज्यमकण्टकम् ॥ १२३ ॥
॥ सूत उवाच ॥ ॥
अथ शक्रः समाकर्ण्य तां गिरं गगनोत्थिताम् ॥
जगाम सत्वरं तत्र यत्र नागबिलः स च ॥ १२४ ॥
ततः प्रविश्य पातालं गंगातोयपरिप्लुतः ॥
पूजयामास तल्लिंगं हाटकेश्वरसंज्ञितम् ॥ १२५ ॥
अथ तस्य क्षणाज्जातं शरीरं मलवर्जितम् ॥
दुर्गन्धश्च गतो नाशं तेजोवृद्धिर्बभूव ह ॥ १२६ ॥
एतस्मिन्नंतरे प्राप्ता ब्रह्मविष्णुमुखाः सुराः ॥
प्रोचुश्च देवराजं तं मुक्तपापं प्रहर्षिताः ॥ १२७ ॥
प्राप्तस्तु मेध्यतां शक्र विमुक्तो ब्रह्महत्यया ॥
तस्मादागच्छ गच्छामः सहितास्त्रिदशालयम् ॥ १२८ ॥
एतन्नाग बिलं शक्र पुनः पूरय पांसुभिः ॥
नो चेदागत्य चानेन मानुषाः सिद्धिहेतवः ॥ १२९ ॥
एतल्लिंगं समभ्यर्च्य स्नात्वा भागीरथीजले ॥
अपि पापसमायुक्ता यास्यंति परमां गतिम् ॥ ६.८.१३० ॥
ततस्ते त्रिदशाः सर्वे स च देवं शतक्रतुः ॥
प्रणिपत्य पुनः प्रोच्चैः प्रजग्मुस्त्रिदशालयम् ॥।३॥।
ततो जज्ञे महांस्तत्र स्वर्गे वृत्रवधोत्सवः ॥
देवेन्द्रत्वमनुप्राप्ते पुनः शक्रे द्विजोत्तमाः ॥ १३२ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं हाटकेश्वरसंभवम् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥ १३३ ॥
यश्चैतत्कीर्तयेद्भक्त्या शृणोति च समाहितः ॥
स याति परमं स्थानं जरा मरणवर्जितम्॥ १३४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वृत्रवधवर्णनंनामाष्टमो ऽध्यायः ॥ ८ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 9
॥ सूत उवाच ॥ ॥
अथ शक्रः समाहूय प्रोचे संवर्तकानिलम् ॥
हाटकेश्वरजेक्षेत्रे महान्नागबिलोऽस्ति वै ॥ १ ॥
तं पूरय ममादेशाद्द्रुतं गत्वाऽभिपांसुभिः ॥
येन न स्याद्गतिस्तत्र कस्यचिन्मृत्युधर्मिणः ॥२॥
॥ वायुरुवाच ॥ ॥
तवादेशान्मया पूर्वं पूरितो विवरो यदा ॥।
लिंगोद्भवस्तदा शापः प्रदत्तो मे पुरारिणा ॥ ३ ॥
यस्माल्लिंगं ममैतद्वै त्वया पांसुभिरावृतम् ॥
तस्मात्समानधर्मा त्वं गन्धवाहो भविष्यसि ॥ ४ ।
यद्वत्कर्पूरजं गन्धं समग्रं त्वं हि वक्ष्यसि ॥
अमेध्यसंभवं तद्वन्मम वाक्यादसंशयम् ॥५॥
तस्मात्कुरु प्रसादं मे विदित्वैतत्सुरेश्वर ॥
कृत्येऽस्मिन्स्म र्यतामन्यस्त्रिपुरारेर्बिभेम्यहम् ॥६॥
ततः संचिंतयामास पूरणं त्रिदशाधिपः ॥
तस्य नागबिलस्यैव नैव किंचिदवैक्षत ॥७॥
ततस्तं प्राह देवेज्यःस्वय मेव शतक्रतुम् ॥
कस्मात्त्वं व्याकुलीभूतः कृत्येऽस्मिंस्त्रिदशाधिप ॥ ८ ॥
अस्ति पर्वतमुख्योऽत्र नाम्ना ख्यातो हिमालयः ॥
तस्य पुत्रत्रयं जातं तच्च शक्र शृणुष्व मे ॥ ९ ॥
मैनाकः प्रथमः प्रोक्तो द्वितीयो नंदिवर्धनः॥
रक्तशृंगस्तृतीयस्तु पर्वतः परिकीर्तितः ॥ ६.९.१० ॥
स मैनाकः समुद्रांतः प्रविष्टः शक्र ते भयात् ॥
पक्षाभ्यां सहितोऽद्यापि स तत्रैव व्यवस्थितः ॥ ११ ॥
नंदिवर्धन इत्येष द्वितीयः परिकीर्तितः ॥
वसिष्ठाश्रमजो रन्ध्रस्ते न कृत्स्नः प्रपूरितः ॥ १२ ॥
हिमाचलसमादेशाद्वसिष्ठस्य च सन्मुनेः ॥
देवभूमिं परित्यज्य स गतस्तत्र सत्वरम् ॥ १३ ॥
तृतीयस्तिष्ठतेऽद्यापि रक्तशृंगः स्मृतोऽत्र यः ॥
तमानय सहस्राक्ष बिलं सार्पं प्रपूरय ॥ १४ ॥
नान्यथा पूरितुं शक्यो बिलोऽयं त्रिदशाधिप ॥
तं मुक्त्वा पर्वत श्रेष्ठं सत्यमेतन्मयोदितम् ॥ १५ ॥
॥ सूत उवाच ॥
तच्छ्रुत्वा देवपूज्यस्य वचनं त्रिदशाधिपः ॥
जगाम सत्वरं तत्र स यत्रास्ते हिमालयः ॥ ॥ १६ ॥
ततः प्रोवाच तं गत्वा सामपूर्वमिदं वचः ॥
हिमाचलं गिरिश्रेष्ठं सिद्धचारणसेवितम् ॥ १७ ॥
॥ इन्द्र उवाच ॥ ॥
हाटकेश्वरजे क्षेत्रे महान्नागबिलः स्थितः ॥
तेन गत्वा नरा देवं पाताले हाटकेश्वरम् ॥ १८ ॥
पूजयिष्यंति ये केचिदपि पापपरायणाः ॥
मया सार्धं करिष्यंति ततः स्पर्द्धां नगोत्तम ॥ १९ ॥
तस्मात्पुत्रमिमं तत्र रक्तशृंगं हिमालय ॥
प्रेषयस्व बिलो येन पूर्यते सोऽहिसंभवः ॥ ६.९.२० ॥
कुरुष्व त्वं ममातिथ्यं गृहप्राप्तस्य पर्वत ॥
आत्मपुत्रप्रदानेन कीर्तिं प्राप्स्यस्यलौकिकीम् ॥ २१ ॥
बाढमित्येव सोऽप्युक्त्वा पूजयित्वा च देवपम् ॥
ततः प्रोवाच तं पुत्रं रक्तशृंगं हिमालयः ॥ २२ ॥
तवार्थाय सहस्राक्षः पुत्र प्राप्तो ममांतिकम् ॥
तस्माद्गच्छ द्रुतं तत्र यत्र नागबिलः स्थितः ॥ २३ ॥
पूरयित्वा ममादेशात्तं त्वं शक्रस्य कृत्स्नशः ॥
सुखी भव सहानेन तथान्यैः सुरसत्तमैः ॥ २४ ॥
॥ रक्तशृंग उवाच ॥ ॥
नाहं तत्र गमिष्यामि मर्त्य भूमौ कथंचन ॥
यत्र कण्टकिनो वृक्षा रूक्षाः फलविवर्जिताः ॥ २५ ॥
न सिद्धा न च गंधर्वा न देवा न च किंनराः ॥
न च तीर्थानि रम्याणि न नद्यो विमलोदकाः ॥ २६ ॥
तथा पापसमाचारा मनुष्याः शीलवर्जिताः ॥
दुष्टचित्ताः सदा सर्वे तिर्यग्योनिगता अपि ॥ २७ ॥
तथा मम नगश्रेष्ठ पक्षौ द्वावपि कर्तितौ ॥
शक्रेण तेन नो शक्तिर्गंतुमस्ति कथंचन ॥ २८ ॥
तस्मात्कंचित्सहस्राक्ष उपायं तत्कृते परम् ॥
चिंतयत्वेव मां मुक्त्वा सत्यमेतन्मयोदितम् ॥ २९ ॥
॥ शक्र उवाच॥ ॥
अह त्वां तत्र नेष्यामि स्वहस्तेन विदारितम् ॥
तत्रापि सुशुभा वृक्षा भविष्यंति तवाश्रयाः ॥ ६.९.३० ॥
तथा पुण्यानि तीर्थानि देवतायतनानि च ॥
समंतात्ते भविष्यंति मुनीनामाश्रमास्तथा ॥ ३१ ॥
अत्रस्थस्य प्रभावो यस्तव पर्वत नंदन ॥
मद्वाक्यात्तत्र संस्थस्य कोटिसंख्यो भविष्यति ॥ ३२ ॥
तथा ये मानवास्तत्र पापात्मानोऽपि भूतले ॥
विपाप्मानो भविष्यंति सहसा तव दर्शनात् ॥ ३३ ॥
तस्माद्गच्छ द्रुतं तत्र मया सार्धं नगात्मज ॥
न चेद्वज्रप्रहारेण करिष्यामि सहस्रधा ॥ ३४ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा रक्तशृंगो भयान्वितः॥
प्रविष्टः सहसागत्य तस्मिन्नागबिले गतः ॥ ३५ ॥
निमग्नो ब्राह्मणश्रेष्ठा नासाग्रं यावदेव हि ॥
शृंगैर्मनोरमैस्तुं गैः समग्रैः सहितस्तदा ॥
वृक्षगुल्मलताकीर्णै रम्यपक्षिनिषेवितैः ॥ ३६ ॥
एवं संस्थाप्य तं शक्रो हिमाचलसुतं नगम् ॥
ततः प्रोवाच सहृष्टो वरो मत्तः प्रगृह्यताम् ॥ ३७ ॥
॥ रक्तशृंग उवाच ॥ ॥
एष एव वरोऽस्माकं यत्त्वं तुष्टः सुरेश्वर ॥
किं वरेण करिष्यामि त्वत्प्रसादादहं सुखी ॥ ३८ ॥ ॥
॥ इन्द्र उवाच ॥ ॥
न वृथा दर्शनं मे स्यादपि स्वप्ने नगात्मज ॥
किं पुनर्दर्शने जाते कृते कृत्ये विशेषतः॥३९॥
॥ रक्तशृंग उवाच ॥ ॥
अवश्यं यदि देयो मे वरः सर्वसुराधिप ॥
विभवो मे द्विजार्थाय सर्वः स्यात्सर्वदा विभो ॥६.९.४॥।
॥ इन्द्र उवाच ॥ ॥
भविष्यति महीपालश्चमत्कार इति स्मृतः ॥
तव मूर्धनि विप्रार्थं स पुरं स्थापयिष्यति ॥ ४१ ॥
तत्र ब्राह्मणशार्दूला वेदवेदांगपारगाः॥
विभवं तव निःशेषं भजिष्यंति प्रहर्षिताः ॥ ४२ ॥
तथाहं चैत्रमासस्य चतुर्दश्यां नगात्मज॥
कृष्णायां स्वयमागत्य शृंगे मुख्यतमे तव॥४३॥
पूजयिष्यामि देवेशं हाटकेश्वरसंज्ञितम् ॥
सर्वैर्देवगणैः सार्धं तथा किंनरगुह्यकैः ॥४४॥
तमेकं दिवसं चात्र शृंगे तव हरः स्वयम्॥
अस्माभिः सहितस्तुष्टो निवासं प्रकरिष्यति ॥ ४५ ॥
प्रभावस्तेन ते मुख्य स्त्रैलोक्येऽपि भविष्यति ॥
स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदिवालयम्॥४६॥
॥ सूत उवाच ॥॥
एवमुक्त्वा सहस्राक्षस्ततः प्राप्तस्त्रिविष्टपम्॥
रक्तशृंगोऽपि तस्थौ च व्याप्य नागबिलं तदा ॥४७॥
तस्योपरि सुमुख्यानि तीर्थान्यायतनानि च ॥
संजातानि मुनीनां च संजाताश्च तथाऽऽश्रमाः ॥ ॥४८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागबिलपूर्तिवर्णनंनाम नवमोऽध्यायः॥९॥
खण्डः ६ (नागरखण्डः) — Adhyāya 10
॥ सूत उवाच ॥
आनर्त्ताधिपतिर्भूपश्चमत्कार इति स्मृतः ॥
एतस्मिन्नंतरे प्राप्तस्तत्र हंतुं वने मृगान् ॥॥।
स ददर्श मृगीं दूरान्निश्चलांगीं तरोरधः ॥
स्तनं सुताय यच्छंतीं विश्वस्तामकुतोभयाम् ॥ २ ॥
अथ तां पार्थिवस्तूर्णं शरेणानतपर्वणा ॥
जघानाकर्णकृष्टेन मर्मस्थाने प्रहर्षितः ॥ ३ ॥
सहसा सा हता तेन गार्द्ध्रपत्रेण पत्रिणा ॥
दिशो विलोकयामास समंताद्व्यथयार्दिता ॥ ४ ॥
अथ दृष्ट्वा महीपालं नातिदूरे धनुर्धरम् ॥
प्रोवाचाश्रुपरिक्लिन्नवदना सुतवत्सला ॥ ५ ॥
॥ मृग्युवाच ॥ ॥
अयुक्तं पृथिवीपाल यत्त्वयैतदनुष्ठितम् ॥
हताऽहं बालवत्साऽद्य शरेणानतपर्वणा ॥६॥
नाऽहं शोचामि भूपाल मरणं स्वशरीरगम् ॥
यथेमं वालकं दीनं क्षीरास्वादनलंपटम् ॥ ७ ॥
यस्मात्त्वयेदृशं कर्म निर्दयं समनुष्ठितम् ॥
कुष्ठव्याधिसमायुक्तस्तस्मात्सद्यो भविष्यसि ॥ ८ ॥
॥ राजोवाच ॥ ॥
स्वधर्म एष भूपानां कुर्वंति मृगसंक्षयम् ॥
तस्मात्स्वधर्मसंयुक्तं न मां त्वं शप्तुमर्हसि ॥ ९ ॥
॥ मृग्युवाच ॥ ॥
सत्यमेतन्महीपाल यत्त्वया परिकीर्तितम् ॥
क्षत्त्रियाणां वधार्थाय मृगाः सृष्टाः स्वयंभुवा ॥ ६.१०.१०॥
परं तेन विधिस्तेषांकृतो यस्तं महीपते ॥
शृणुष्वाऽवहितो भूत्वा वदंत्या मम सांप्रतम् ॥ ११ ॥
सुप्तं मैथुनसंयुक्तं स्तनपानक्रियोद्यतम् ॥
हत्वा मृगं जलासक्तं नरः पापेन लिप्यते ॥ १२ ॥
एतस्मात्कारणाच्छापस्तव दत्तो मया नृप ॥
न कामतो न मृत्योर्वा सत्येनात्मानमालभे ॥ १३ ॥
एवमुक्त्वा मृगी प्राणान्सा मुमोच व्यथान्विता ॥
कुष्ठव्याधिसमायुक्तः सोऽपि राजा बभूव ह ॥ १४ ॥
स दृष्ट्वा कुष्ठसंयुक्तं पार्थिवः स्वं कलेवरम्॥
ततः स्वान्सेवकानाह समाहूय सुदुःखितः ॥ १५ ॥
अहं तपश्चरिष्यामि पूजयिष्यामि शंकरम् ॥
तावद्यावत्प्रणाशो मे कुष्ठव्याधेर्भविष्यति ॥ १६ ॥
यत्किंचित्त्रिषु लोकेषु प्रार्थयंति नराः सुखम् ॥
तत्सर्वं तपसा साध्यं तस्मात्कार्यं मया तपः ॥ १७ ॥
अधुनैकोऽहमैकाहमेकैकस्मिन्वनस्पतौ ॥
चरन्भैक्षं तु नियमैश्चरिष्यामि धरातले॥।८॥
पांसुना समवच्छन्ने शून्यागारे प्रतिश्रयः ॥
वृक्षमूलनिकेते वा मुक्तसर्वप्रियाप्रियः ॥।९॥
समः शत्रुषु मित्रेषु समलोष्टाश्मकांचनः ॥
भूत्वा कालं नयिष्यामि यावत्कालस्य संस्थितिः ॥६.१०.२०॥।
एवं तान्सेवकान्भूपः सोऽभिधाय विसृज्य च ॥
तीर्थयात्रा परो भूत्वा बभ्राम वसुधातले॥२१॥।
ततः कालेन महता प्राप्य विप्रसमुद्भवम् ॥
उपदेशं नृपः प्राप्तः शंखतीर्थं महोदयम्॥२२॥
हाटकेश्वरजे क्षेत्रे सर्वव्याधिविनाशकम् ॥
विख्यातं त्रिषु लोकेषु पूरितं स्वच्छवारिणा ॥ २३ ॥
तत्राऽसौ स्नानमात्रेण तत्क्षणात्पार्थिवोतमः ॥
कुष्ठव्याधिवि निर्मुक्तः संजातः सुमहाद्युतिः ॥ २४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शंखतीर्थमाहात्म्ये चमत्कारनृपतिकुष्ठनिवृत्तिवृत्तान्तवर्णनंनाम दशमोऽध्यायः ॥ १० ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 11
ऋषय ऊचुः ॥ ॥
चमत्कारः कथं राजा मुक्तः कुष्ठेन सूतज ॥
कथं तेन तपस्तप्तं कियत्कालं च भूभुजा ॥ १ ॥
कतमे ब्राह्मणास्ते वै शंखतीर्थं प्रदर्शितम् ॥
यैस्तस्य रोगमुक्त्यर्थं दुःखितस्य महात्मनः ॥ २ ॥
कतमं शंखतीर्थं तत्कस्मिन्स्थाने व्यवस्थितम् ॥
किंप्रभावं च निःशेषं सर्वं विस्तरतो वद ॥ ३ ॥
॥ सूत उवाच ॥ ॥
अहं वः कीर्तयिष्यामि कथामेतां मनोहराम् ॥
सर्वपापहरां विप्राश्चमत्कारनृपोद्भवाम् ॥ ४ ॥
स भ्रांतः सर्वतीर्थानि प्रभासाद्यानि कृत्स्नशः ॥
तपस्वी नियताहारो भिक्षान्नकृतभोजनः ॥५॥
पृच्छमानो भिषग्मुख्यानौषधानि मुहुर्मुहुः ॥
मंत्रान्मंत्रविदश्चैव रोगनाशाय नित्यतः ॥ ॥ ६ ॥
न लेभे किंचिदिष्टं वा स मंत्रं भेषजं च वा ॥
तीर्थं वा नृपशार्दूलो येन स्याद्व्याधिसंक्षयः ॥ ७ ॥
ततश्च पार्थिवश्रेष्ठो वैराग्यं परमं गतः ॥
एकाकी यतचित्तात्मा सर्वसत्त्वविराजिते ॥ ९७ ॥
निवासमकरोत्तस्मिन्क्षेत्रे पुण्यतमे चिरम् ॥
शीर्णपर्णफलाहारो भूमौ शेते सदा निशि ॥
अन्य स्याऽन्यस्य वृक्षस्य मदाहंकारवर्जितः ॥ ९ ॥
ततः कतिपयाहस्य भ्रममाणो महीपतिः ॥
सोऽपश्यद्ब्राह्मणश्रेष्ठांस्तीर्थयात्राश्रयान्बहून् ॥ 6.11.१० ॥
ततः प्रणम्य तान्विप्रानुपविष्टान्धरातले ॥
विश्वामित्राश्रमस्यांते प्रोवाच विनयान्वितः ॥॥॥
॥ राजोवाच ॥ ॥
अहं नाम्ना चमत्कारः पार्थिवः सूर्यवंशजः ॥
आनर्त्ताधिपतिर्व्याप्तः कुष्ठेन द्विजसत्तमाः ॥।२॥
अस्ति कश्चिदुपायोऽत्र दैवो वा मानुषोऽपि वा ॥
भेषजं वाऽथ मंत्रो वा येन कुष्ठं प्रशाम्यति ॥ १३ ॥
ममोपरि दयां कृत्वा वदध्वं द्विजसत्तमाः ॥
कुष्ठग्रस्तशरीरं च परं कृच्छ्रमुपागतम् ॥।४॥
अथवा वित्थ नो यूयं त्यक्ष्यामीह कलेवरम् ॥
प्रविश्याग्निं जलं वाऽपि भक्षयित्वाऽथ वा विषम्॥ १५ ॥
तस्य तद्वचनं श्रुत्वा सर्वे ते द्विजसत्तमाः ॥
प्रोचुः कृपासमाविष्टास्ततस्तं पृथिवीश्वरम् ॥ १६ ॥
अस्ति पार्थिवशार्दूल स्थानादस्माददूरतः ॥
शंखतीर्थमिति ख्यातं सर्वरोगक्षयावहम् ॥ १७ ॥
ये नरा व्याधिना ग्रस्ताः काणाश्चांधास्तथा जडाः ॥
हीनांगाश्चाऽधिकांगाश्च कुरूपा विकृताननाः ॥ १८ ॥
तेऽपि चैत्रस्य कृष्णादौ स्नातास्तत्राकृताशनाः ॥
भवंति नीरुजः सद्यश्चित्रासंस्थे निशाकरे ॥ १९ ॥
अस्माभिः शतशो दृष्टा द्वादशार्कसमप्रभाः ॥
कामदेवसमाकारास्तेजोवीर्यसमायुताः ॥ 6.11.२० ॥
॥ ॥ राजोवाच ॥ ॥
शंखतीर्थं कथं ज्ञेयं मया ब्राह्मणसत्तमाः ॥
कथं चैव समुत्पन्नं वदध्वं मम विस्तरात् ॥ २१ ॥
॥ ब्राह्मणा ऊत्रुः ॥ ॥
आसीत्पूर्वं मुनिश्रेष्ठो लिखिताख्यो महीतले ॥
शांडिल्यस्य मुनेः पुत्रस्तपोवीर्यसमन्वितः ॥ २२ ॥
अथ तस्यानुजो जज्ञे शंखाख्यो धर्मशास्त्रवित् ॥
कन्दमूलफलाहारः सदैव तपसि स्थितः ॥ २३ ॥
कस्यचित्त्वथ कालस्य लिखितस्याऽऽश्रमं ययौ ॥
शंखः स्वादुफलार्थाय पीडितोतिबुभुक्षया ॥ २४ ॥
स शून्यमाश्रमं प्राप्य लिखितस्य महात्मनः ॥
आत्मीयानीति मन्वानः फलानि जगृहे ततः ॥ २५ ॥
भक्षयामास भूरीणि पक्वानि मधुराणि च ॥
एतस्मिन्नन्तरे प्राप्तो लिखितः शिष्यसंयुतः ॥२६ ॥
स गृहीतफलं दृष्ट्वा शंखं प्रोवाच कोपतः ॥ २७ ॥
अदत्तानि मया पाप फलानि हृतवानसि ॥
कस्मात्त्वं चौर्यरूपेण नानुबन्धमवेक्षसे ॥ २८ ॥
॥ शंख उवाच ॥॥ ॥ ॥
सत्यमेतद्द्विजश्रेष्ठ यत्त्वया परिकीर्तितम् ॥
फलानि प्रगृहीतानि विजनेऽत्र तवाश्रमे ॥ २९ ॥
तस्मात्कुरु यथार्हं मे निग्रहं चौर्यसंभवम् ॥।
इह लोकः परश्चैव येन मे स्यात्सुखावहः ॥ 6.11.३० ॥
ततः स हस्तमादाय हस्ते शंखस्य तत्क्षणात् ॥
चकर्त कोपमाविष्टो वार्यमाणोऽपि तापसैः ॥। ॥ ३१ ॥
छिन्नहस्तोऽपि शंखस्तु तपश्चक्रे सुदारुणम् ॥
विशेषेण समासाद्य स्वाश्रमे भूय एव तु ॥ ३२ ॥
ततस्तुष्टो महादेवस्तस्य कालेन केन चित् ॥
प्रोवाच दर्शनं गत्वा तं च शंखमुनीश्वरम् ॥ ३३ ॥
॥ महेश्वर उवाच ॥ ॥
भोभो मुने महासत्त्व दुष्करं कृतवानसि ॥
वरं गृहाण मत्तस्त्वं मनसा समभीप्सितम्॥ ३४ ॥
॥ शंख उवाच ॥ ॥
यदि तुष्टोसि मे देव वरं चेद्यच्छसि प्रभो ॥
स्यातां मे तादृशौ हस्तौ भूयोऽपि सुरसत्तम ॥ ३५ ॥
तथेदं मम नामांकं तीर्थं स्यात्सुरसत्तम ॥
विख्यातं सर्वलोकेषु सर्वपापहरं नृणाम् ॥ ३६ ॥
हीनांगो वाधिकांगो वा व्याधिना ग्रस्त एव च ॥
अत्र स्नानं करोत्याशु स भूयः स्यात्पुनर्नवः ॥ ३७ ॥
॥ भगवानुवाच ॥ ॥
एतत्तीर्थं तु विख्यातं तव नाम्ना भविष्यति ॥
अद्यप्रभृति विप्रेन्द्र देहिनां पापनाशनम् ॥ ३८ ॥
हीनांगो वाधिकांगो वा योऽत्र स्नानं करिष्यति ॥
चैत्रे शुक्ले निराहारश्चित्रासंस्थे निशाकरे ॥
सुवर्णांगः स तेजस्वी भविष्यति न संशयः ॥ ३९ ॥
सकामो यदि विप्रेंद्र ध्यायमानः सुरूपताम् ॥
निष्कामो वा परं स्थानं गमि ष्यति शिवात्मकम्॥ 6.11.४० ॥
अत्र श्राद्धे कृते ब्रह्मंश्चतुर्दश्यां निशाकरे ॥
चित्रास्थिते प्रयास्यंति पितरस्तृप्तिमुत्तमाम् ॥ ४१ ॥
अद्यैव विप्रशार्दूल चैत्रशुक्लांत उत्तमः ॥
अपराह्णे निशानाथश्चित्रायोगं प्रयास्यति ॥ ४२ ॥
तत्रोपवासयुक्तस्य सम्यक्स्नातस्य तत्क्षणात् ॥
स्यातां हस्तौ सुरूपाढ्यौ यथा पूर्वं तथा हि तौ ॥ ४३ ॥
एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥
शंखोऽपि कुतपे काले तत्र स्नानमथाकरोत् ॥ ४४ ॥
ततश्च तत्क्षणाज्जातौ हस्तौ तस्य यथा पुरा ॥
रक्तोत्पलनिभौ कांतौ मत्स्यचिह्नेन चिह्नितौ ॥ ४५ ॥
॥ब्राह्मणा ऊचुः॥
एवं तद्धरणीपृष्ठे तीर्थं जातं नृपोत्तम ॥
प्रभावाद्देवदेवस्य चंद्रांकस्य शुभावहम् ॥ ४६ ॥
तस्मात्त्वमपि राजेंद्र तत्र स्नानं समाचर ॥
चैत्रे शुक्लचतुर्दश्यां चित्रासंस्थे निशाकरे ॥ ॥ ४७ ॥
भविष्यसि न संदेहः सर्वरोगविवर्जितः॥
वयं ते दर्शयिष्यामः प्राप्ते काले यथोदिते ॥४८॥
॥ सूत उवाच ॥ ॥
ततः कतिपयाहेन चैत्रकृष्णादिरागतः ॥
चित्रासंस्थे निशानाथे संप्राप्ता च चतुर्दशी ॥ ४९ ॥
ततस्ते ब्राह्मणा भूपं समादाय च तत्क्षणात् ॥
शंखतीर्थं समुद्दिश्य गतास्तस्य हितैषिणः ॥ 6.11.५० ॥
ततः स मनसि ध्यात्वा कुष्ठव्याधिपरिक्षयम् ॥
स्नानं चक्रे यथान्यायं श्रद्धया परया युतः ॥ ५१ ॥
ततः कुष्ठविनिर्मुक्तो द्वादशार्कसमप्रभः ।
निष्क्रांतः सलिलात्तस्माद्धर्षेण महतान्वितः ॥ ५२ ॥
ततः प्रणम्य तान्सर्वान्ब्राह्मणान्वेदपारगान् ॥
कृतांजलिपुटो भूत्वा वाक्यमेतदुवाच ह ॥ ५३ ॥
प्रसादेन हि युष्माकं मुक्तोऽहं ब्राह्मणोत्तमाः ॥
कुष्ठव्याधेर्महाकालं गर्हितोस्म्येव देहिनाम् ॥ ५४ ॥
तस्मान्नाहं करिष्यामि राज्यं ब्राह्मणसत्तमाः ॥
तीर्थेऽत्रैवाधुना नित्यं चरिष्यामि महत्तपः ॥ ५५ ॥
एतद्राज्यं च देशं च हस्त्यश्वादि तथापरम् ॥
यत्किंचिद्विद्यते मह्यं तद्गृह्णंतु द्विजोत्तमाः ॥ ५६ ॥
ममैवानुग्रहार्थाय दयां कृत्वा बृहत्तराम् ॥
दीनस्य भक्तियुक्तस्य विरक्तस्य विशेषतः ॥ ५७ ॥ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
न वयं रक्षितुं शक्ता राज्यं पार्थिवसत्तम ॥
तत्किं तेन गृहीतेन येन स्याद्राज्यविप्लवः ॥ ५८ ॥
जामदग्न्येन रामेण पुरा दत्ता वसुन्धरा ॥
त्रिःसप्त क्षत्रियैर्हीनां कृत्वास्माकं नृपोत्तम ॥ ५९ ॥
सा भूयोपि हृताऽस्माकं क्षत्रियैर्बलवत्तरैः॥
तिरस्कृत्य द्विजान्सर्वाँल्लीलयापि मुहुर्मुहुः ॥ 6.11.६० ॥
॥ राजोवाच ॥ ॥
अहं वः प्रकरिष्यामि रक्षां ब्राह्मणसत्तमाः ॥
तपस्थितोऽपि कार्येऽत्र न भीः कार्या कथंचन ॥ ६१ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
अवश्यं यदि ते श्रद्धा विद्यते दानसंभवा ।
क्षेत्रेऽत्रापि महापुण्ये कृत्वा देहि पुरोत्तमम् ॥ ॥। ६२ ॥
सर्वेषां ब्राह्मणेंद्राणां प्राकारपरिखान्वितम् ॥
सुखेन येन तिष्ठामः स्नात्वा तीर्थैः पृथग्विधैः ॥
गृहस्थधर्मिणः सर्वे स्वाध्यायनिरता सदा । ६३ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा स महीपालस्तथेत्युक्त्वा प्रहर्षितः ॥
नगरं कल्पयामास स्थाने तत्र महत्तमम् ॥ ६४ ॥
प्राकारेण सुतुंगेन परिखाद्येन सर्वतः ॥
आयामव्यासतश्चैव क्रोशमात्रं मनोहरम् ॥ ६५ ॥
त्रिकचत्वरसंशुद्धं शोभितं सर्वतो ध्वजैः ॥
प्रासादैः प्रोन्नतैः कान्तैः समंतात्सुधया वृतैः ॥ ६६ ॥
मत्तवारणकोपेतैर्बहुभिर्भूभिरेव च ॥
संपूर्णं सत्यकामाद्यैः साधुलोकप्रशंसितैः ॥ ६७ ॥
ततो गृहाणि सर्वाणि पूरयित्वा स भूमिपः ॥
सुवर्णमणिमुक्तादिपदार्थैरपरैरपि ॥ ६८ ॥
ब्राह्मणेभ्यः कुलीनेभ्यो वेदविद्भ्यो विशेषतः ॥
श्रोत्रियेभ्यश्च दांतेभ्यः स तु श्रद्धासमन्वितः ॥ ६९ ॥
यथाज्येष्ठं यथाश्रेष्ठं प्रक्षाल्य चरणौ ततः ॥
शास्त्रोक्तेन विधानेन प्रददौ द्विजसत्तमाः ॥ 6.11.७० ॥
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शंखतीर्थोत्पत्तिमाहात्म्यवर्णने चमत्कारभूपतिना व्राह्मणेभ्यो नगरदानवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 12
॥ सूत उवाच ॥ ॥
एवं स वसुधापालो ब्राह्मणेभ्यः स्वशक्तितः ॥
ददौ तु नगरं कृत्वा पुरंदरपुरोपमम् ॥ १ ॥
मुक्ताप्रवालवैडूर्यरत्नहेमविचित्रितैः ॥
भ्राजमानं गृहश्रेष्ठैर्द्यौर्नक्षत्रगणैरिव ॥२॥
प्रासादैः स्फाटिकैश्चैव कैलासशिखरोपमैः ॥
पताकाशोभितैर्दिव्यैः समंतात्परिवारितम् ॥ ३ ॥
कांचनैः सुविचित्रैश्च प्रोन्नतैरमलैः शुभैः ॥
तोरणानां सहस्रैश्च शोभितं सुमनोहरम् ॥। ॥ ४ ॥
मणिसोपानशोभाभिर्दीर्घिकाभिः समंततः ॥
आरामकूपयंत्राद्यैः सर्वोपकरणैर्युतम् ॥
निवेद्य ब्राह्मणेंद्राणां कृतकृत्यो बभूव सः॥ ५ ॥।
शंखतीर्थे स्थितो नित्यं समाहूय ततः सुतान्॥
पुत्रान्पौत्रांस्तथा भृत्यान्वाक्यमेतदुवाच ह ॥ ६ ॥
एतत्पुरं मया कृत्वा ब्राह्मणेभ्यो निवेदितम् ॥
भवद्भिर्मम वाक्येन रक्षणीयं प्रयत्नतः । ७ ॥
यथा स्युर्ब्राह्मणाः सर्वे सुखिनो हृष्टमानसाः ॥
युष्माभिः पालनं कार्यं तथा सर्वैः समाहितैः॥
यश्चैतान्भक्तिसंयुक्तः पालयिष्यति भूमिपः ।
अन्योऽपि परमं तेजः स संप्राप्स्यति भूतले ॥ ९ ॥
अजेयः सर्वशत्रूणां प्रतापी स्फी तिसंयुतः ॥
भविष्यति न सन्देहो ब्राह्मणानां स पालनात् ॥ ६.१२.१० ॥
पुत्रपौत्रसुभृत्याढ्यो दीर्घायू रोगवर्जितः ॥
ब्राह्मणानां प्रसादेन मम वाक्याद्भविष्यति ॥ ११ ॥
यः पुनर्द्वेषसंयुक्तः संतापं चैव नेष्यति ॥
एतान्ब्राह्मणशार्दूलान्नरकं स प्रयास्यति ॥ १२ ॥
तथा दुःखानि संप्राप्य दृष्ट्वा नैकान्पराभवान् ॥
वियोगानिष्टबन्धूनां व्याधिग्रस्तो विगर्हितः ॥ १३ ॥
वंशोच्छेदं समासाद्य गमिष्यति यमालयम् ॥
तस्मात्सर्वप्रयत्नेन रक्षणीयमिदं पुरम् ॥
मम वाक्याद्विशेषेण हितमिच्छद्भिरात्मनः ॥ १४ ॥
एवं स भूपतिः सर्वांस्ता नुक्त्वा तपसि स्थितः ॥
तेऽपि सर्वे तथा चक्रुर्यथा तेन च शिक्षिताः ॥ १५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चमत्कारभूपेन पुरस्थित्यर्थं निजपुत्रादीनामुपदेशकरणवर्णनंनाम द्वादशोऽध्याय ॥ १२ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 13
॥ ॥सूत उवाच ॥ ॥
एवं निवेद्य पुत्राणां स राज्यं पृथिवीपतिः ॥
पुरं च तद्द्विजातिभ्यः प्रदाय स्वयमेव हि ॥ १ ॥
तत आराधयामास देवदेवं महेश्वरम् ॥
कृत्वा तदाऽऽश्रमं तत्र श्रद्धया परया युतः ॥ २ ॥
स बभूव फलाहारो यावद्वर्षशतं नृपः ॥
शीर्णपर्णाशनः पश्चात्तावत्कालं समाहितः ॥ ३ ॥
ततः परं जलाहारो जातो वर्षशतं हि सः ॥
वायुभक्षस्ततोऽभूत्स यावद्वर्षशतं परम्॥ ४ ॥
ततस्तुष्टो महादेवस्तस्य वर्षशते गते ॥
चतुर्थे वायुभक्षस्य दर्शने समुपस्थितः ॥ ५ ॥
प्रोवाच परितुष्टोऽस्मि मत्तः प्रार्थय वांछितम् ॥
अहं ते संप्रदास्यामि दुर्लभं त्रिदशैरपि ॥ ६ ॥
॥ राजोवाच ॥ ॥
एतत्पुण्यतमं क्षेत्रं नानातीर्थसमाश्रयम् ॥
हाटकेश्वरमाहात्म्यात्सर्वपापक्षयापहम् ॥ ७ ॥
तस्मात्तव निवासेन भूयान्मेध्यतमं पुनः ॥
एतन्मे वांछितं देव देहि तुष्टिं गतो यदि ॥ ८ ॥
मयैतदग्र्यं निर्माय ब्राह्मणेभ्यो निवेदितम् ॥
पुरं शर्वाऽमराधीश श्रद्धापूतेन चेतसा ॥ ९ ॥
तस्मिंस्त्वया सदा वासः कर्तव्यो मम वाक्यतः ॥
निश्चलत्वेन येन स्याद्गणैः सर्वैः समन्वितम् ॥ ६.१३.१० ॥
॥ भगवानुवाच ॥ ॥
अचलोऽहं भविष्यामि स्थानेऽत्र तव भूमिप ॥
अचलेश्वर इत्येव नाम्ना ख्यातो जगत्त्रये ॥ ११ ॥
यो मामत्र स्थितं मर्त्यो वीक्षयिष्यति भक्तितः ॥
भविष्यंत्यचलास्तस्य सर्वदैव विभूतयः ॥१२॥
माघशुक्लचतुर्दश्यां मम लिंगस्य यो नरः ॥
श्रद्धया परया युक्तः कर्ता यो घृतकंबलम् ॥१३॥
बाल्ये वयसि यत्पापं वार्धके यौवनेऽपि वा ॥
तद्यास्यति क्षयं तस्य तमः सूर्योदये यथा ॥ १४ ॥
तस्मात्स्थापय मे लिंगं त्वमत्रैव महीपते ॥
अहं येन करोम्येव तत्र वासं सदाचलः ॥ १५ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः ॥
सोऽपि राजा चकाराशु प्रासादं सुमनोहरम् ॥ १६ ॥
तत्र संस्थापयामास लिंगं देवस्य शूलिनः ॥
श्रद्धया परया युक्तः सर्वलक्षणलक्षितम् ॥।७॥
यस्मिन्दृष्टेऽथवा स्पृष्टे ध्याते वा पूजितेऽपि वा ॥
नरो विमुच्यते पापादाजन्ममरणांतिकात् ॥।८॥
ततः संचिंतयामास भूपालः किं महेश्वरः ॥
सांनिध्यं निश्चलो भूत्वा लिंगेऽत्रैव करिष्यति ॥ १९ ॥
एतस्मिन्नंतरे जाता वाणी गगनगोचरा ॥
हर्षयन्ती महीपालं चमत्कारं सुनिस्वना ॥ ६.१३.२० ॥
मा त्वं भूमिपशार्दूल कार्यचिन्तां करिष्यसि ॥
अस्मिन्वासं सदात्रैव लिंगे कर्तास्मि नित्यशः ॥ २१ ॥
तथान्यदपि ते वच्मि प्रत्ययार्थं वचो नृप ॥
तच्छ्रुत्वा निर्वृतिं गच्छ वीक्षस्वैव च यत्नतः ॥ २२ ॥।
सदा मे निश्चला छाया लिंगस्यास्य भविष्यति ॥
एकैव पृष्ठदेशस्था न दिक्संस्था भविष्यति ॥ २३ ॥
॥ सूत उवाच ॥ ॥
ततः स वीक्षयामास तां छायां लिंगसंभवाम् ॥
तद्रूपां निश्चलां नित्यं तद्दिक्संस्थे दिवाकरे ॥ २४ ॥
ततो हर्षं परं गत्वा प्रणिपत्य च तं भुवि ॥
कृतकृत्यमिवात्मानं स मेने पार्थिवोत्तमः ॥ २५ ॥
अद्यापि दृश्यते छाया तादृग्रूपा सदा हि सा ॥
तस्य लिंगस्य विप्रेन्द्रा जाता विस्मयकारिणी ॥ २६ ॥
षण्मासाभ्यंतरे मृत्युर्यस्य स्याद्भुवि भो द्विजाः ॥
न स पश्यति तां छायामेषोऽन्यः प्रत्ययः परः ॥ २७ ॥
॥ सूत उवाच ॥ ॥
एवं स भगवांस्तत्र सर्वदैव व्यवस्थितः ॥
अचलेश्वररूपेण चमत्कारपुरांतिके ॥ २८ ॥
निश्चलत्वेन देवेशोह्यष्टषष्टिषु मध्यमः ॥
क्षेत्राणां वसते तत्र तस्य वाक्यान्महेश्वरः ॥ २९ ॥
तेन तत्पावनं क्षेत्रं सर्वेषामिह कीर्तितम् ॥
कामदं मुक्तिदं चैव जायते सर्वदेहिनाम् ॥ ६.१३.३० ॥
तथान्यदपि यद्वृत्तं वृत्तांतं तत्प्रभावजम् ॥
तदहं संप्रवक्ष्यामि श्रूयतां द्विजसत्तमाः ॥ ३१ ॥
अचलेश्वरमाहात्म्यात्तस्मिन्क्षेत्रे नरा द्रुतम्॥
वांछितं मनसः सर्वे लभंते सकलं फलम् ॥ ३२ ॥
स्वर्गमेके परे मोक्षं धनधान्यसुतांस्तथा ॥
यो यं काममभिध्याय पूजयेदचलेश्वरम्॥
तंतं स लभते मर्त्यः स्वल्पायासेन च द्रुतम् ॥ ३३ ॥
अथ दृष्ट्वा सहस्राक्षः सर्वे पापनरा भुवि ॥
स्वर्गं यांति तथा मोक्षं प्राप्नुवन्ति च सम्मुखम् ॥ ३४ ॥
ततः क्रोधं च कामं च लोभं द्वेषं भयं रतिम् ॥
मोहं च व्यसनं दुर्गं मत्सरं रागमेव च ॥ ३५ ॥
सर्वान्मूर्तान्समाहूय ततः प्रोवाच सादरम्॥
स्वयमेव सहस्राक्षो रहस्ये द्विजसत्तमाः ॥ ३६ ।
नरो वा यदि वा नारी चमत्कारपुरं प्रति ॥
यो गच्छति धरापृष्ठे युष्माभिर्वार्य एव सः ॥ ३७ ॥
तत्रैव वसमानोऽपि यो गच्छेदचलेश्वरम् ॥
मद्वाक्यात्स विशेषेण सर्वैर्वार्यः प्रयत्नतः ॥ ३८ ॥
ते तथेति प्रतिज्ञाय गत्वा शक्रस्य शासनात् ॥
चक्रुस्ततः समुच्छिन्नं तन्माहात्म्यं गतं भुवि ॥ ३९ ॥
एतद्वः सर्वमाख्यातमाख्यानं पापनाशनम् ॥
अचलेश्वरदेवस्य तस्मिन्क्षेत्रे निवासिनः ॥ ६.१३.४० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽचलेश्वरमाहात्म्यवर्णनंनाम त्रयोदशोध्यायः ॥ ॥ १३ ॥ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 14
॥ सूत उवाच ॥ ॥
यदन्यत्तत्र सञ्जातमाश्चर्यं द्विजसत्तमाः ॥
तदहं कीर्तयिष्यामि रहस्यं हृदि संस्थितम् ॥ १ ॥
चमत्कारपुरे कश्चिद्वैश्यजातिसमुद्भवः ॥
बभूव पुरुषो मूको दरिद्रेण समन्वितः ॥ २ ॥
यो दौःस्थ्यात्सर्वलोकानां करोति पशुरक्षणम् ॥
कुटुम्बभरणार्थाय संतुष्टो येनकेनचित् ॥ ३ ॥
कदाचिद्रक्षतस्तस्य पशूंस्तान्वनभूमिषु ॥
पशुरेको विनिष्क्रांतः स्वयूथात्तृणलोभतः ॥४॥।
कृष्ण पक्षे चतुर्दश्यां चैत्रमासे द्विजोत्तमाः ॥
न तदा लक्षितस्तेन गच्छमानो यदृच्छया ॥ ५ ॥
अथ यावद्गृहं प्राप्तः स मूकः पशुपालकः ॥
तावत्तस्य च गोः स्वामी भर्त्सयन्समुपागतः ॥ ६ ॥
किं पाप न समायातः पशुरेकोऽद्य नो यथा ॥
नूनं त्वया हतः सोऽपि विक्रीतोऽपिहितोऽथवा ॥
तस्मा दानय मे क्षिप्रं निराहारोऽपि गां त्वरात् ॥ ७ ॥
तच्छ्रुत्वा भयसंत्रस्तः स मूकः पशुपालकः ॥
निष्क्रांतो यष्टिमादाय निराहारोऽपि मन्दिरात् ॥ ॥ ८ ॥
ततोऽरण्यं समासाद्य वीक्षांचक्रे समंततः ॥
सूक्ष्मदृष्ट्या स दुर्गाणि गहनानि वनानि च । ९ ॥
अथ तेन क्वचिद्दृष्टं पदं तस्य पशोः स्फुटम् ॥
अटव्यां भ्रममाणेन परिज्ञातं च कृत्स्नशः ॥ ६.१४.१० ॥
ततश्च तत्पदान्वेषी स जगाम वनाद्वनम् ॥
चमत्कारपुरस्यास्य समंताद्द्विजसत्त माः ॥ ११ ॥
एवं प्रदक्षिणा तस्य जाता पशुदिदृक्षया ॥
स्थानस्य चैव निर्वेशे पशोश्चापिद्विजोत्तमाः ॥ १२ ॥
प्रदक्षिणावसाने च पशुर्लब्धो हि तेन सः ॥
निशांतेऽथ गृहं नीत्वा स्वामिने विनिवेदितः ॥ १३ ॥
चैत्रे पुण्यतमे मासि कृष्णपक्षे चतुर्दशीम् ॥
क्षेत्रे पुण्यतमे देवास्तीर्थान्या यांति सर्वशः ॥ १४ ॥
एवमज्ञानभावेन कृता ताभ्यां प्रदक्षिणा ॥
पशुपालपशुभ्यां वै सुपुण्ये तत्र वासरे ॥ १५ ॥
निराहारस्य मूकस्य साहारस्य पशोस्तथा ॥ १६ ॥
विना स्नानेन भक्षाच्च दैवाद्द्विजवरोत्तमाः ॥
ततः काले व्यतिक्रांते कियन्मात्रे स्वकर्मतः ॥
उभौ पंचत्वमापन्नौ पृथक्त्वेनायुषः क्षये ॥ १७ ॥
ततश्च पशुपालस्तु दशार्णाधिपतेः सुतः ॥
संजातस्तत्प्रभावेन पूर्वजातिमनुस्मरन् ॥ १८ ॥
सोऽपि जज्ञे पशुस्तस्य सचिवो द्विजसत्तमाः ।
जातिस्मरो यथा राजा सर्वदा नृपसंमतः॥।९॥
अथागत्य स राजेंद्रस्तेनैव सह मंत्रिणा ॥
कृष्णपक्षे चतुर्दश्यां पुरस्तस्याः प्रदक्षिणाम् ॥ ६.१४.२० ॥
चक्रे संवत्सरस्यांते श्रद्धया परया युतः ॥
निराहारश्च मौनेन पदातिर्द्विजसत्तमाः ॥ २१ ॥
एकदा तत्र चाऽऽयाता मुनयः शंसितव्रताः ॥
तीर्थे पापहरे पुण्ये विश्वामित्रसमुद्भवे ॥ २२ ॥
याज्ञवल्क्यो भरद्वाजः शुनःशेपोऽथ गालवः ॥
देवलो भागुरिर्धौम्यः कश्य पश्च्यवनो भृगुः ॥ २३ ॥
तथान्ये शंसिताऽऽत्मानो ब्रह्मचर्यपरायणाः ॥
तीर्थयात्राप्रसंगेन तस्मिन्क्षेत्रे समागताः ॥ २४ ॥
तान्दृष्ट्वा स महीपालः प्रणिपत्य कृतांजलिः ॥
यथाज्येष्ठं यथाश्रेष्ठं पूजयामास भक्तितः ॥ २५ ॥
ततस्तेषां स मध्ये च संनिविष्टो महीपतिः ॥
तथागतः स भूपालः सर्वै स्तैश्चाभिनंदितः ॥ २६ ॥
ततश्चक्रुः कथा दिव्या मुनयस्ते महीपतेः ।
पुरतो मुनिमुख्यानां चरितानि महात्मनाम् ॥ २७ ॥
राजर्षीणां पुराणानां धर्मशास्त्रसमुद्भवाः ॥
आनंदं तस्य राजर्षेर्जनयंतो द्विजोत्तमाः ॥ २८ ॥
अथ क्वाऽपि कथांते स पार्थिवस्तैर्महर्षिभिः ॥
पृष्टः कौतूहलाविष्टैर्दत्त्वा श्रौतीस्तदाशिषः ॥ २९ ॥
॥ ऋषय ऊचुः ॥ ॥
वर्षेवर्षे महीपाल त्वमत्राऽऽगत्य यत्नतः ॥
करोषि मंत्रिणा सार्धं पुरस्याऽस्य प्रदक्षिणाम् ॥ ॥ ६.१४.३० ॥
अस्मिन्क्षेत्रे सुतीर्थानि संति पार्थिवसत्तम ॥
तथाऽन्यानि प्रसिद्धानि देवतायतनानि च । ३१ ॥
आदरस्तेषु वै राजन्नास्ति स्वल्पो ऽपि कर्हिचित् ॥
एतन्नः कौतुकं जातं न चेद्गुह्यं प्रकीर्तय ॥ ३२ ॥
॥ सूत उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा विनयाऽवनतः स्थितः ॥
स प्रोवाच वचो भूपः किंचिद्व्रीडासमन्वितः॥३३॥
यत्पृष्टोऽस्मि द्विजश्रेष्ठा युष्माभिः सांप्रतं मम ॥
तद्गुह्यं न मयाऽऽख्यातं कस्यचिद्धरणीतले ॥३४॥
तथाऽपि हि प्रकर्तव्यं युष्माकं सत्यमेव हि ॥
अपि गुह्यतमं चेत्स्याच्छृण्वंतु मुनिसत्तमाः ॥ ३५ ॥
॥ सूत उवाच ॥ ॥
ततः स कथयामास पूर्वजातिसमुद्भवम् ॥
वृत्तांतं तन्मुनींद्राणां तेषां ब्राह्मणसत्तमाः ॥ ३६ ॥
यथा नष्टः पशुस्तस्य कृता यद्वदवेक्षणा ॥
यथा प्रदक्षिणा जाता चमत्कारपुरस्य तु । ३७ ॥
जातिस्मृतिर्यथा जाता प्राक्तनी तत्प्रभावतः ॥
राज्यप्राप्तिर्विभूतिश्च तथेष्टाप्तिः पदेपदे ॥ ३८ ॥
तच्छ्रुत्वा मुनयः सर्वे प्रहृष्टाः पृथिवीपतेः ॥
आशीर्वादान्बहून्दत्त्वा साधुसाध्विति चाऽब्रुवन् ॥ ३९ ॥
समुत्थाय ततश्चक्रुः पुरस्तस्याः प्रदक्षिणाम् ॥
यथोक्तविधिना सर्वे श्रद्धया परया युताः ॥ ६.१४.४० ॥
गताश्च परमां सिद्धिं तत्प्रभावात्सुदुर्लभाम् ॥
जपयज्ञप्रदानैर्या तीर्थसेवादिकैरपि ॥ ४१ ॥
सोऽपि राजा स मन्त्री च जातौ वैमानिकौ सुरौ ॥
अद्याऽपि तौ हि दृश्येते तारारूपौ नभस्तले ॥ ४२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चमत्कारपुरप्रदक्षिणामाहात्म्यवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 15
पञ्चदशोऽध्यायः
नारद उवाच-
नारायणस्तदा देवो जटावल्कलधार्यथ
द्वितीयोऽनुचरस्तस्य ह्याययौ फलहस्तवान् १
तौ दृष्ट्वा स्मरदूती सा विललाप मृगेक्षणा
तच्छ्रुत्वा वचनं तस्याः प्रोचतुस्तां च तावुभौ २
भयं मा गच्छ कल्याणि त्वामावां त्रातुमागतौ
वने घोरे प्रविष्टासि कथं दुष्टनिषेविते ३
एवमाश्वास्य तां तन्वीं राक्षसं प्राह माधवः
मुंचेमामधमाचार मृद्वंगीं चारुहासिनीम् ४
रेरे मूर्ख दुराचार किं कर्तुं त्वं व्यवस्थितः
सर्वस्वं लोकनेत्राणामाहारं कर्तुमुद्यतः ५
भव पुण्यप्रभावेयं हंस्येतां मंडनं भुवः
अद्यलोकं निरालोकं कंदर्पं दर्पवर्जितम् ६
करिष्यस्यधुना त्वं च हत्वा वृंदारिकां वने
तस्मादिमां विमुंचाशु सुखप्रासाददेवताम् ७
इति श्रुत्वा हरेर्वाक्यं राक्षसः कुपितोऽब्रवीत्
समर्थस्त्वं यदि तदा मोचयाद्यैव मत्करात् ८
इत्युक्तमात्रे वचने माधवेन क्रुधेक्षितः
पपात भस्मसाद्भूतस्त्यक्त्वा वृंदां सुदूरतः ९
अथोवाच प्रमुग्धा सा मायया जगदीशितुः
कस्त्वं कारुण्यजलधिर्येनाहमिह रक्षिता १०
शारीरं मानसं दुःखं सतापं तपसां निधे
त्वया मधुरया वाचा हृतं राक्षसनाशनात् ११
तवाश्रमे तपः सौम्य करिष्यामि तपोधन १२
तापस उवाच-
भरद्वाजात्मजश्चाहं देवशर्मेति विश्रुतः
विहाय भोगानखिलान्वनं घोरमुपागतः १३
अनेन बटुनासार्धं मम शिष्येण कामगाः
बहुशः संति चान्येऽपि मच्छिष्याः कामरूपिणः १४
त्वं चेन्ममाश्रमे स्थित्वा चिकीर्षसि तपः शुभे
एहि राज्ञ्यपरं यामो वनं दूरस्थितं यतः १५
इत्युक्त्वा राजपत्नीं तां ययौ प्राचीं दिशं हरिः
वनं प्रेतपिशाचाढ्यं मंदगत्या नराधिप १६
वृंदारिकाश्रुपूर्णाक्षी तस्य पृष्ठानुगा ययौ
स्मरदूती च तत्पृष्ठे मां प्रतीक्षेति वादिनी १७
अत्रांतरे दुराचारः कोपि पापाकृतिर्वने
जालं प्रसारयामास तद्यदा जीवपूरितम् १८
ततः संकोचयामास तज्जालं पापनायकः
जालस्थांस्तु तदा जीवानुपाहृत्य मुमोच ह १९
स च व्याधः स्त्रियौ दृष्ट्वा स्मरदूती जगाद ताम्
देवि मामत्तुमायाति करे गृह्णातु मां सखी २०
वृंदा तयोक्तं श्रुत्वैनं विकृतास्यं व्यलोकयत्
वीक्ष्यतं भयवातेन निर्धूता सिंधुजप्रिया २१
दुद्राव विकलं शुभ्रं स्मरदूत्या समं वने
विद्रवंती समं सख्या तापसाश्रममागता २२
सा तापसवने तस्मिन्ददर्शात्यंतमद्भुतम्
पक्षिणः कांचनीयांगान्नानाशब्दसमाकुलान् २३
सापश्यद्धेमपद्माढ्यां वापीं तु स्वर्णभूमिकाम्
क्षीरं वहंति सरितः स्रवंति मधु भूरुहः २४
शर्कराराशयस्तत्र मोदकानां च संचयाः
भक्ष्याणि स्वादुसर्वाणि बहून्याभरणानि च २५
बहुशस्त्राणि दिव्यानि नभसः संपतंति च
क्रीडंति हरयस्तृप्ता उत्पतंति पतंति च २६
मठेति सुंदरं वृंदा तं ददर्श तपस्विनम्
व्याघ्रचर्मासनगतं भासयंतं जगत्त्रयम् २७
तमुवाच विभो पाहि पाहि पापर्द्धिकादथ
तपसा किं च धर्मेण मौनेन च जपेन च २८
भीतत्राणात्परं नान्यत्पुण्यमस्ति तपोधन
एवमुक्तवती भीता सालसांगी तपस्विनम् २९
तावत्प्राप्तः सदुष्टात्मा सर्वजीवप्रबंधकः
वृंदादेवी भयत्रस्ता हरिकंठे समाश्लिषत् ३०
सुखस्पर्शं भुजाभ्यां सा शोकवल्लीव लिंगिता
तवालिंगनभावेन पुनरेव भविष्यति ३१
शिरः सर्वांगसंपन्नं त्वद्भर्तुरधिकं गुणैः
अथ त्वं प्रमदे गच्छ पत्यर्थे चित्रशालिकाम् ३२
सा चित्रशालामित्युक्ता विवेश मुनिना तदा
दिव्यपर्यंकमारूढा गृह्य कांतस्य तच्छिरः ३३
चकाराधरपानं सा मीलिताक्ष्यतिलोलुपा
यावत्तावदभूद्राजन्रूपं जालंधराकृति ३४
तत्कांतसदृशाकारस्तद्वक्षस्तद्वदुन्नतिः
तद्वाक्यस्तन्मनोभावस्तदासीज्जगदीश्वरः ३५
अथ संपूर्णकायं तं प्रियं वीक्ष्य जगाद सा
तव कुर्वे प्रियं स्वामिन्ब्रूहि त्वं स्वरणं च मे ३६
वृंदावचनमाकर्ण्य प्राह मायासमुद्रजः
शृणु देवि यथा युद्धं वृत्तं शंभोर्मया सह ३७
प्रिये रुद्रेण रौद्रेण छिन्नं चक्रेण मे शिरः
तावत्वत्सिद्धियोगाच्च त्वद्गतेन ममात्मना ३८
छिन्नं तदत्र चानीतं जीवितं तेंगसंगतः
प्रिये त्वं मद्वियोगेन बाले जातासि दुःखिता ३९
क्षंतव्यं विप्रियं मह्यं यत्त्वां त्यक्त्वा रणं गतः
इत्यादि वचनैस्तेन वृंदा संस्मारिता तदा ४०
तांबूलैश्च विनोदैश्च वस्त्रालंकरणैः शुभैः
अथ वृंदारिका देवी सर्वभोगसमन्विता ४१
प्रियं गाढं समालिंग्य चुचुंब रतिलोलुपा
मोक्षादप्यधिकं सौख्यं वृंदा मोहनसंभवम् ४२
मेने नारायणो देवो लक्ष्मीप्रेमरसाधिकम्
वृंदां वियोगजं दुःखं विनोदयति माधवे ४३
तत्क्रीडाचारुविलसद्वापिका राजहंसके
तद्रूपभावात्कृष्णोऽसौ पद्मायां विगतस्पृहः ४४
अभूद्वृंदावने तस्मिंस्तुलसीरूप धारिणी
वृंदांगस्वेदतो भूम्यां प्रादुर्भूताति पावनी ४५
वृंदांग संगजं चेदमनुभूय सुंखं हरिः
दिनानि कतिचिन्मेने शिवकार्यं जगत्पतिः ४६
एकदा सुरतस्यांते सा स्वकंठे तपस्विनम्
वृंदा ददर्श संलग्नं द्विभुजं पुरुषोत्तमम् ४७
तं दृष्ट्वा प्राह सा कंठाद्विमुच्य भुजबंधनम्
कथं तापसरूपेण त्वं मां मोहितुमागतः ४८
निशम्य वचनं तस्याः सांत्वयन्प्राह तां हरिः
शृणु वृंदारिके त्वं मां विद्धि लक्ष्मीमनोहरम् ४९
तव भर्ता हरं जेतुं गौरीमानयितुं गतः
अहं शिवः शिवश्चाहं पृथक्त्वे न व्यवस्थितौ 6.15.५०
जालंधरो हतः संख्ये भज मामधुनानघे
नारद उवाच-
इति विष्णोर्वचः श्रुत्वा विषण्णवदनाभवत्
ततो वृंदारिका राजन्कुपिता प्रत्युवाच ह ५१
रणे बद्धोऽसि येन त्वं जीवन्मुक्तः पितुर्गिरा
विविधैः सत्कृतो रत्नैर्युक्तं तस्य हृता वधूः ५२
पतिर्धर्मस्य यो नित्यं परदाररतः कथम्
ईश्वरोऽपि कृतं भुंक्ते कर्मेत्याहुर्मनीषिणः ५३
अहं मोहं यथानीता त्वया माया तपस्विना
तथा तव वधूं माया तपस्वीकोऽपि नेष्यति ५४
इति शप्तस्तथा विष्णुर्जगामादृश्यतां क्षणात्
सा चित्रशालापर्यंकः स च तेऽथप्लवंगमाः ५५
नष्टं सर्वं हरौ याते वनं शून्यं विलोक्य सा
वृंदा प्राह सखीं प्राप्य जिह्मं तद्विष्णुना कृतम् ५६
त्यक्तं पुरं गतं राज्यं कांतः संदेहतां गतः
अहं वने विदित्वैतत्क्व यामि विधिनिर्मिता ५७
मनोरथानां विषयमभून्मे प्रियदर्शनम्
प्राह निःश्वस्य चैवोष्णं राज्ञी वृंदातिदुःखिता ५८
मम प्राप्तं हि मरणं त्वया हि स्मरदूतिके
इत्युक्ता सा तया प्राह मम त्वं प्राणरूपिणी ५९
तस्यास्तथोक्तमाकर्ण्य इतिकर्त्तव्यतां ततः
वने निश्चित्य सा वृंदा गत्वा तत्र महत्सरः ६०
विहाय दुःखमकरोद्गात्रक्षालनमंबुना
तीरे पद्मासनं बद्ध्वा कृत्वा निर्विषयं मनः ६१
शोषयामास देहं स्वं विष्णुसंगेन दूषितम्
तपश्चचारसात्युग्रं निराहारा सखीसमम् ६२
गंधर्वलोकतो वृंदामथागत्याप्सरोगणः
प्राह याहीति कल्याणि स्वर्गं मा त्यज विग्रहम् ६३
गांधर्वं शस्त्रमेतत्त्रिभुवनविजयं श्रीपतिस्तोषमग्र्यं
नीतो येनेह वृंदे त्यजसि कथमिदं तद्वपुः प्राप्तकामम्
कांतं ते विद्धि शूलिप्रवरशरहतं पुण्यलाभस्य भूषास्वर्गस्य त्वं
भवाद्य द्रुतममरवनं चंडिभद्रे भज त्वम् ६४
श्रुत्वा शास्त्रं वधूनां जलधिजदयिता वाक्यमाह प्रहस्य
स्वर्गादाहृत्य मुक्तात्रिदशपति वधूश्चातिवीरेण पत्या
आदौ पात्रं सुखानामहममरजिता प्रेयसा तद्वियुक्तानिर्दुष्टा तद्य
तिष्ये प्रियममृतगतं प्राप्नुयां येन चैव ६५
इत्युक्त्वा ससखी वृंदा विससर्जाप्सरोगणान्
तत्प्रीतिपाशबद्धास्ता नित्यमायांति यांति च ६६
योगाभ्यासेन वृंदाथ दग्ध्वा ज्ञानाग्निना गुणान्
विषयेभ्यः समाहृत्य मनः प्राप ततः परम् ६७
दृष्ट्वा वृंदारिकां तत्र महांतश्चाप्सरोगणाः
तुष्टुवुर्नभसस्तुष्टा ववृषुः पुष्पवृष्टिभिः ६८
शुष्ककाष्ठचयं कृत्वा तत्र वृंदाकलेवरम्
निधायाग्निं च प्रज्वाल्य स्मरदूती विवेश तम् ६९
दग्धं वृंदांगरजसां बिंबं तद्गोलकात्मकम्
कृत्वा तद्भस्मनः शेषं मंदाकिन्यां विचिक्षिपुः ७०
यत्र वृंदा परित्यज्य देहं ब्रह्मपथं गता
आसीद्वृंदावनं तत्र गोवर्द्धनसमीपतः ७१
देव्योऽथ स्वर्गमेत्य त्रिदशपतिवधूसत्त्वसंपत्तिमाहुर्देवीभ्यस्तन्निशम्य प्रमुदितमनसो निर्जराद्याश्च सर्वे
शत्रोर्दैत्यस्य हित्वा प्रबलतरभयं भीमभेर्यो निजघ्नुः श्रुत्वा तत्रासनस्थः
परिजननिवहोवापशोभां शुभस्य ७२
इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशतसहस्रसंहितायां जालंधरोपाख्याने वृंदाया ब्रह्मपदप्राप्तिर्नाम पंचदशोऽध्यायः १५
खण्डः ६ (नागरखण्डः) — Adhyāya 16
॥ ॥ सूत उवाच ॥ ॥
तस्मात्सर्वप्रयत्नेन त्यक्त्वाऽन्या निखिलाः क्रियाः ॥
रक्तशृंगस्य सांनिध्यं सेवनीयं विचक्षणैः ॥ १ ॥
किं दानैः किं क्रियाकांडैः किं यज्ञैः किं व्रतैरपि ॥
तत्क्षेत्रं सेवयेद्भक्त्या हाटकेश्वरसंभवम् ॥२॥
अग्निष्टोमादयो यज्ञाः सर्वे संपूर्णदक्षिणाः ॥
तस्य क्षेत्रस्य पुरतः कलां नार्हंति षोडशीम् ॥ ३ ॥
चान्द्रायणानि कृच्छ्राणि तथा सांतपनानि च ॥
तस्य क्षेत्रस्य पुरतः कलां नार्हंति षोडशीम्॥४॥
प्रभासाद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ॥
तस्य क्षेत्रस्य पुरतः कलां नार्हंति षोडशीम्॥५॥
भूमिदानानि सर्वाणि धर्माः सर्वे दयादिकाः॥
तस्य क्षेत्रस्य पुरतः कलां नार्हंति षोडशीम्॥६॥
तत्र राजर्षयः पूर्वं प्रभूताः सिद्धिमागताः ॥
पशवः पक्षिणः सर्पाः सिंहव्याघ्रा मृगादयः ॥७॥
तत्र कालवशान्नष्टास्तेऽपि प्राप्ता दिवालयम् ॥
यस्तत्र व्रतहीनोऽपि कृषिकर्मरतोऽपि वा ॥९॥
निवासं कुरुते विप्रा मृतस्तत्र दिवं व्रजेत् ॥
किंवा च बहुनोक्तेन भूयोभूयो द्विजोत्तमाः ॥९॥
श्रूयतां परमं गुह्यं तस्य क्षेत्रस्य संभवम् ॥
पुनंति क्षेत्रतीर्थानि संवासादिह मानवान् ॥ ६.१६.१० ॥
हाटकेश्वरजं क्षेत्रं पुनाति स्मरणादपि ॥
किं पुनर्दर्शनाद्विप्राः स्पर्शनाच्च विशेषतः ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रक्तशृङ्गसांनिध्यसेवनफलश्रैष्ठ्यवर्णनंनाम षोडशोऽ ध्यायः॥१६॥ ॥॥
खण्डः ६ (नागरखण्डः) — Adhyāya 17
॥ ऋषय ऊचुः ॥ ॥
चमत्कारपुरोत्पत्तिः श्रुता त्वत्तो महामते ॥
तत्क्षेत्रस्य प्रमाणं यत्तदस्माकं प्रकीर्तय ॥॥।
यानि तत्र च पुण्यानि तीर्थान्यायतनानि च ॥
सहितानि प्रभावेण तानि सर्वाणि कीर्तय ॥ २ ॥
॥ सूत उवाच ॥ ॥
पञ्चक्रोशप्रमाणेन क्षेत्रं ब्राह्मणसत्तमाः ॥
आयामव्यासतश्चैव चमत्कारपुरोत्तमम् ॥ ३ ॥
प्राच्यां तस्य गयाशीर्षं पश्चिमेन हरेः पदम् ॥
दक्षिणोत्तरयोश्चैव गोकर्णेश्वरसंज्ञितौ ॥४॥
हाटकेश्वर संज्ञं तु पूर्वमासीद्द्विजोत्तमाः ॥
तत्क्षेत्रं प्रथितं लोके सर्वपातकनाशनम् ॥ ५ ॥
यतः प्रभृति विप्रेभ्यो दत्तं तेन महात्मना ॥
चमत्कारेण तत्स्थानं नाम्ना ख्यातिं ततो गतम् ॥ ६ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तं तस्य पूर्वे गयाशिरः ॥
माहात्म्यं तस्य नो ब्रूहि सूतपुत्र सविस्तरम् ॥ ७ ॥
॥ सूत उवाच ॥ ॥
आसीद्विदूरथोनाम हैहयाधिपतिः पुरा ॥
यो वै दानपतिर्दक्षः शत्रुपक्षक्षयावहः ॥ ८ ॥
स कदाचिन्मृगान्हंतुं नृपः सेनावृतो ययौ ॥
नानावृक्षलताकीर्णं वनं श्वापदसंकुलम् ॥ ९ ॥
स जघान मृगांस्तत्र शरैराशीविषोपमैः ॥
महिषांश्चवराहांश्च तरक्षूञ्च्छम्बरान्रुरून् ॥ ६.१७.१० ॥
सिंहान्व्याघ्रान्गजान्मत्ताञ्च्छतशोऽथ सहस्रशः ॥
अथ तेन मृगो विद्धः शरेणाऽऽनतपर्वणा ॥ ११ ॥
न पपात धरापृष्ठे सशरो दुद्रुवे द्रुतम्॥
ततः स कौतुकाविष्टस्तस्य पृष्ठे हयोत्तमम् ॥
प्रेरयामास वेगेन मनोमारुतवेगधृक् ॥ १२ ॥
ततः सैन्यं समुत्सज्य मृगं लिप्सुर्महीपतिः ॥
अन्यद्वनांतरं प्राप्तो रौद्रं चित्तभयावहम् ॥ १३ ॥
कण्टकीबदरीप्रायं शाल्मलीवनसंकुलम् ॥
तथान्यैः कण्टकाकीर्णै रूक्षै र्वृक्षैः समन्वितम् ॥ १४ ॥
तत्र रूक्षाऽखिला भूमिर्निर्जला तमसा वृता ॥
चीरिकोलूकगृधाढ्या शीर्षच्छायाविवर्जिता ॥ १५ ॥
ग्रीष्मे मध्यगते सूर्ये मृगाकृष्टः स पार्थिवः ॥
दूराध्वानं जगामाऽथ प्रासपाणिर्वराश्वगः ॥ १६ ॥
तेन तस्यानुगा भृत्याः सर्वे सुश्रांतवाहनाः ॥
क्षुत्पिपासाकुलाः श्रांताः स्थाने स्थाने समाश्रिताः ॥ १७ ॥
सिंहव्याघ्रैस्तथा चान्यैः पतिता नष्टचेतनाः ॥
भक्ष्यंते चेतयन्तोऽपि तथाऽन्ये चलनाक्षमाः ॥ १८ ॥
ततः सोऽपि महीपालः क्षुत्पिपासासमाकुलः ॥
दृष्ट्वा तद्व्यसनं प्राप्तमात्मनः सेवकैः समम् ॥ १९ ॥
कांतारस्यांतमन्विच्छन्प्रेरयामास तं हयम्॥
जात्यं सर्वगुणोपेतं कशाघातैः प्रताडयन् ॥ ६.१७.२० ॥
ततः स नृपतिस्तेन वायुवेगेन वाजिना ॥
नीतो दूरं दुर्गमार्गं सर्वजंतुविवर्जितम् ॥ २१ ॥
एवं तस्य नरेन्द्रस्य कांदिशीकेऽनवस्थिते ॥
सोऽश्वोऽपतद्धरापृष्ठे सोऽप्यधस्तात्तुरंगमात् ॥ २२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विदूरथमृगयावर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥ ॥ छ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 18
सूत उवाच ॥ ॥
ततः सोऽपि महीपालः क्षुत्पिपासासमाकुलः ॥
पपात धरणीपृष्ठे पद्भ्यां गत्वा वनांतरम् ॥ १ ॥
अथाऽपश्यद्वियत्स्थानात्स त्रीन्प्रेतान्सु दारुणान् ॥
ऊर्ध्वकेशान्सुरक्ताक्षान्कृष्णदन्तान्कृशोदरान् ॥ २ ॥
तान्दृष्ट्वा भयसंत्रस्तो विशेषेण स भूपतिः ॥
निराशो जीविते कृच्छ्रादिदं वचनमब्रवीत् ॥ ३ ॥
के यूयं विकृताकारा मया दृष्टा न कर्हिचित् ॥
एवंविधा नृलोकेऽत्र भ्रमता प्राग्विभीषणाः ॥ ४ ॥
विदूरथो नरेन्द्रोऽहं क्षुत्पिपासातिपीडितः ॥
मृगलिप्सुरिह प्राप्तो वने जन्तुविवर्जिते ॥ ५ ॥
ततस्तेषां तु यो ज्येष्ठो मांसादः प्रत्युवाच तम् ॥
कृतांजलिपुटो भूत्वा विनयावनतः स्थितः । ६ ॥
वयं प्रेता महाराज निवसामोऽत्र कानने ॥
स्वकर्मजनिताद्दोषाद्दुःखेन महता वृताः ॥ ७ ॥
अहं मांसादकोनाम द्वितीयोऽयं विदैवतः ॥
कृतघ्नश्च तृतीयस्तु त्रयाणामेष पापकृत् ॥ ८ ।
॥राजोवाच ॥ ॥
सर्वेषां देहि नां नाम जायते पितृमातृजम् ॥
किमेतत्कारणं येन सर्वे यूयं स्वनामकाः ॥ ९ ॥
तच्छ्रुत्वा प्राह मांसादः कर्मनामानि पार्थिव ॥
मिथः कृतानि संज्ञार्थमस्माभिः स्वयमेव हि । ६.१८.१० ॥
शृणुष्वाऽवहितो भूत्वा सर्वेषां नः पृथक्पृथक् ॥
कर्मणा येन संजातं प्रेतत्वमिह भूमिप ॥ ११ ॥
वयं हि ब्राह्मणा जात्या वैदिशाख्ये पुरे नृप ॥
देवरातस्य विप्रस्य गृहे जाता महात्मनः ॥ १२ ॥
नास्तिका भिन्नमर्यादाः परदाररताः सदा ॥
पाप कर्मरतास्तत्र शुभकर्मविवर्जिताः ॥ १३ ॥
जिह्वालौल्यप्रसंगेन मया भुक्तं सदाऽऽमिषम् ॥
तेन मे कर्मजं नाम मांसादाख्यं व्यवस्थितम् ॥ १४ ॥
द्वितीयोऽयं महाराज यस्तिष्ठति तवाऽग्रतः ॥
अनेनाऽन्नं सदा भुक्तमकृत्वा देवतार्चनम् ॥ १५ ॥
तेन कर्मविपाकेन प्रेतयोनिं समाश्रितः ॥
विदैवत इति ख्यातो द्वितीयोऽयं सुपापकृत् ॥ १६ ॥
सदैवाऽनुष्ठिताऽनेन सुपापेन कृतघ्नता ॥
कृतघ्नः प्रोच्यते तेन कर्मणा नृपसत्तम ॥ १७ ॥ ॥
॥ राजोवाच ॥ ॥
आहारेण नृलोकेऽस्मिन्सर्वे जीवन्ति जन्तवः ॥
युष्माकं कतमो योऽत्र प्रोच्यतां मे सविस्तरम् ॥ १८ ॥
॥ मांसाद उवाच ॥ ॥
भोज्यकाले गृहे यत्र स्त्रीणां युद्धं प्रवर्तते ।
अपि मन्त्रौषधीप्रायं प्रेता भुंजति तत्र हि ॥ १९ ॥
भुज्यते यत्र भूपाल वेंश्वदेवं विना नरैः ॥
पाकस्याग्रमदत्त्वा च प्रेता भुंजति तत्र च ॥ ६.१८.२० ॥
रात्रौ यत्क्रियते श्राद्धं दानं वा पर्ववर्जितम्॥
तत्सर्वं नृपशार्दूल प्रेतानां भोजनं भवेत्॥ ॥ २१ ॥
यस्मिन्नो मार्जनं हर्म्ये क्रियते नोपलेपनम् ॥
न मांगल्यं च सत्कारः प्रेता भुंजति तत्र हि ॥ २२ ॥
भिन्नभाण्डपरित्यागो यत्र न क्रियते गृहे ॥
न च वेदध्वनिर्यत्र प्रेता भुञ्जंति तत्र हि ॥२३॥
यच्छ्राद्धं दक्षिणाहीनं क्रियाहीनं च वा नृप ॥
तथा रजस्वलादृष्टं तदस्माकं प्रजायते॥२४॥
हीनांगा ह्यधिकांगा वा यस्मिञ्च्छ्राद्धे द्विजातयः ॥
भुंजते वृषलीनाथास्तदस्माकं प्रजायते ॥ २५ ॥
अतिथिर्यत्र संप्राप्तः श्राद्धकाल उपस्थिते ॥
अपूजितो गृहाद्याति तच्छ्राद्धं प्रेततृप्तिदम् ॥२६॥
किं वा ते बहुनोक्तेन शृणु संक्षेपतो नृप ॥
अस्माकं भोजनं नित्यं यत्त्वं श्रुत्वा विगर्हसि ॥२७॥
यदन्नं केशसूत्रास्थिश्लेष्मादिभिरुपप्लुतम् ॥
हीनजात्यैश्च संस्पृष्टं तदस्माकं प्रजायते ॥ २८ ॥
॥ राजोवाच ॥ ॥
केन कर्मविपाकेन प्रेतत्वं जायते नृणाम्॥
एतन्मे सर्वमाचक्ष्व मांसाद मम पृच्छतः ॥२९॥
॥ मांसाद उवाच ॥ ॥
यो भवेन्मानवः क्षुद्रस्तथा पैशुन्यसूचकः ॥
मृष्टमांसाशने सक्तः स प्रेतो जायते नरः ॥६.१८.३॥।
अकृत्वा देवकार्यं च तथा च पितृतर्पणम्॥
योऽश्नात्यदत्त्वा भृत्येभ्यः स प्रेतो जायते नरः ॥३॥।
परदाररतश्चैव परवित्तापहारकः ॥
परापवादसंतुष्टः स प्रेतो जायते नरः ॥३२॥
कन्यां यच्छति वृद्धाय नीचाय धनलिप्सया ॥
कुरूपाय कुशीलाय स प्रेतो जायते नरः ॥ ३३ ॥
कुले जातां विनीतां च धर्मपत्नीं सुखोच्छ्रिताम् ॥
यस्त्यजेद्दोषनिर्मुक्तां स प्रेतो जायते नरः ॥ ३४ ॥
देवस्त्रीगुरुवित्तानि यो गृहीत्वा न यच्छति ॥
विशेषाद्ब्राह्मणस्वं च स प्रेतो जायते नरः ॥ ३५ ॥
परव्यसनसंतुष्टः कृतघ्नो गुरुतल्पगः ॥
दूषको देवविप्राणां स प्रेतो जायते नरः ॥ ३६ ॥
दीयमानस्य वित्तस्य ब्राह्मणेभ्यः सुपापकृत् ॥
विघ्नमारभते यस्तु स प्रेतो जायते नरः ॥ ३७ ॥
शूद्रान्नेनोदरस्थेन ब्राह्मणो म्रियते यदि ॥
स प्रेतो जायते राजन्यद्यपि स्यात्षडंगवित् ॥ ३८ ॥
कुलदेशोचितं धर्मं यस्त्यक्त्वाऽन्यत्समाचरेत् ॥
कामाद्वा यदि वा लोभात्स प्रेतो जायते नरः ॥ ३९ ॥
एतत्ते सर्वमाख्यातं मया पार्थिवसत्तम ॥
येन कर्मविपाकेन प्रेतः संजायते नरः ॥ ६.१८.४० ॥
॥ राजोवाच ॥ ॥
कृतेन कर्मणा येन न प्रेतो जायते नरः ॥
तन्मे कीर्तय मांसाद विस्तरेण विशेषतः ॥ ४१ ॥
॥ मांसाद उवाच ॥ ॥
मातृवत्परदारान्यः परद्रव्याणि लोष्टवत् ॥
यः पश्यत्यात्मवज्जंतून्न प्रेतो जायते नरः ॥ ४२ ॥
अन्नदानपरो नित्यं विशेषेणातिथिप्रियः ॥
स्वाध्यायव्रतशीलो यो न प्रेतो जायते नरः ॥ ४३ ॥
समः शत्रौ च मित्रे च समलोष्टाश्मकांचनः ॥
समो मानापमानेषु न प्रेतो जायते नरः ॥ ४४ ॥
दानधर्मप्रवृत्तानां धर्ममार्गा नुयायिनाम् ॥
प्रोत्साहं वर्धयेद्यस्तु न प्रेतो जायते नरः ॥ ४९ ॥
यूकामत्कुणदंशादीन्सर्वसत्त्वानि यो नरः ॥
पुत्रवत्पालयेन्नित्यं न प्रेतो जायते नरः ॥ ४६ ॥
सदा यज्ञक्रियोपेतः सदा तीर्थपरायणः ॥
शास्त्रश्रवणसंयुक्तो न प्रेतो जायते नरः ॥ ४७ ॥
वापीकूपतडागानामारामाणां विशे षतः ॥
आरोपकः प्रपाणां च न प्रेतो जायते नरः ॥ ४८ ॥
एतद्वः सर्वमाख्यातं स्वगुह्यं वसुधाधिप ॥
निर्विण्णाः प्रेतभावेन तस्मात्त्वं नो गतिर्भव ॥ ४९ ॥
गत्वा गयाशिरः पुण्यमेकैकस्य पृथक्पृथक् ॥
श्राद्धं देहि महीपाल त्रयाणामपि सादरम् ॥ ६.१८.५० ॥
प्रेतत्वं याति येनेदं त्वत्प्र सादात्सुदारुणम् ॥
नाऽन्यथा मुक्तिरस्माकं भविष्यति कथंचन ॥ ५१ ॥
॥ राजोवाच ॥ ॥
ईदृग्जातिस्मृतिर्यस्यां प्रेतयोनौ च खे गतिः ॥
धर्माधर्मपरिज्ञानं तच्च कस्मात्प्रनिंदसि ॥ ५२ ॥
॥ मांसाद उवाच ॥ ॥
प्रेतयोनिरियं राजन्नवमी देवसंज्ञिता ॥
गुणत्रयसमायुक्ता शेषैर्दोषैः समंततः ॥ ५३ ॥
एका जातिस्मृतिः सम्यगस्यामेवप्रजायते ॥
खेचरत्वं तथैवान्यद्धर्माधर्मविनिश्चयः ॥ ५४ ॥
एतद्गुणत्रयं प्रोक्तं प्रेतयोनौ नृपोत्तम ॥
दोषानपि च ते वच्मि ताञ्च्छृणुष्व समाहितः ॥ ५५ ॥
यदि तावद्वनादस्माद्यामोन्यत्र वयं नृप ॥
अदृष्टमुद्गराघातैर्नूनं हन्यामहे ततः ॥ ॥ ५६ ॥
तथा धर्मक्रियाः सर्वा मानुषाणामुदाहृताः ॥
न प्रेतानां न देवानां नान्येषां मानुषं विना ॥ ५७ ॥
पश्यामो दूरतो राजञ्जलपूर्णाञ्जला शयान् ॥
पिपासाकुलिताः श्रांता भास्करे वृषसंस्थिते ॥ ५८ ॥
गच्छामः संनिधौ तेषां यदि पार्थिवसतम ॥
अदृष्टमुद्गराघातैर्वयं हन्यामहे ततः ॥ ५९ ॥
तथा रसवती सिद्धाः पश्यामो दूरसंस्थिताः ॥
क्षुधाविष्टा गृहस्थानां गृहेषु विविधा नृप ॥ ६.१८.६० ॥
तथा सुफलिनो वृक्षान्कलपक्षिभिरावृतान् ॥
स्निग्धान्सच्छाययोपेतान्सेवितुं न लभामहे ॥ ६१ ॥
किंवा ते बहुनोक्तेन यद्यत्कर्म विगर्हितम् ॥
क्लेशदं च तदस्माकं स्वयमेवोपतिष्ठते ॥ ६२ ॥
न च्छिद्रेण विनाऽस्माकं प्राणयात्रा प्रजायते ॥
न जलानि न च च्छाया न यानं न च वाहनम् ॥ ६३ ॥
एतस्मात्कारणान्नित्यं भ्रमामश्छिद्रहेतवे ॥
प्राप्ते रात्रिमुखे राजन्न प्रातर्न च वासरे ॥ ६४ ॥
यत्त्वं शंससि चाऽस्माकं खेचरत्वं महीपते ॥
व्यर्थं तदपि न श्रेयः शृणु तत्रापि कारणम् ॥ ६५ ॥
क्रियते खेचरत्वेन किंकिं धर्मं विनिश्चयैः ॥
यतो न सिध्यते मोक्षो जाति स्मृत्यादिकं तथा ॥ ६६ ॥
तस्माद्दोषादिमे राजन्गुणा यद्यपि कीर्तिताः ॥
प्रेतानां यान्समाश्रित्य काचित्सिद्धिर्न जायते ॥ ६७ ॥
विषादो जायते भूयो गुणैरेतैर्नराधिप ॥
अशक्ताः प्रेतयोगाद्वै सर्वस्य शुभकर्मणः ॥ ६८ ॥
॥ राजोवाच । ॥
यदि यास्यामि भूयोऽहं गृहमस्मान्महावनात् ॥
तत्करिष्यामि सर्वेषां गयाश्राद्धमसंशयम् ॥ ६९ ॥
तारयिष्यामि सर्वांश्च सर्वपापैः प्रयत्नतः ॥
अप्यात्मदेहदानेन सत्येनात्मानमालभे ॥ ॥ ६.१८.७० ॥
यस्माद्धृद्गतशंका मे हृता युष्माभिरद्य वै ॥
येन तत्प्राप्य युष्माकमुपकारं करोम्यहम् ॥ ७१ ॥
॥ मांसाद उवाच ॥ ॥
इतः स्थानान्महाराज नातिदूरे जलाशयः ।
अस्ति नानाद्रुमोपेतश्चित्ताह्लादकरः परः ॥ ७२ ॥
तस्मादुदङ्मुखो गच्छ यत्र ते जलपक्षिणः ॥
दृश्यंते व्योममार्गेण प्रगच्छतः समंततः ॥ ७३ ॥
॥ सूत उवाच ॥ ॥
अथासौ नृपशार्दूलः समुत्थाय शनैःशनैः ॥
सौम्यां दिशं समुद्दिश्य प्रतस्थे स तु दुःखितः ॥ ७४ ॥
एवं प्रगच्छता तेन क्षुत्पिपासाकुलेन च ।
अदूरादेव संदृष्टं नीलं द्रुमकदंबकम् ॥
भ्रममाणैर्बकैर्हंसैः सारसैर्मद्गुभिस्तथा ॥७६॥
स गत्वा सलिलं तत्र तद्वातेन महीपतिः ॥
आहूत इव शीतेन प्रययौ त्वरयान्वितः ॥ ७६ ॥
अथाऽपश्यन्मनोहारि सौम्यसत्त्वनिषेवितम् ॥
आश्रमं ह्रदतीरस्थं तापसैः सर्वतो वृतम् ॥ ७७ ॥
पुष्पितैः फलितैर्वृक्षैः समंतात्परिवेष्टितम् ॥
विचित्रैर्मधुरारावैर्नादितं विहगोत्तमैः ॥ ७८ ॥
तत्रापश्यन्नगाधस्तात्तपस्विगणसेवितम् ॥
शिवधर्मपरं शांतं जैमिनिं मुनिसत्तमम्॥ ७९ ।
अथ गत्वा स राजेंद्रः प्रणिपत्य मुनीश्वरम् ॥
तथान्यानपि तच्छिष्यान्निपपात धरातले ॥ ६.१८.८० ॥
ते दृष्ट्वाऽदृष्टपूर्वं तं राजलक्षणलक्षितम्॥
धूलिधूसरितांगं च भस्मावृतमिवाचलम् ॥ ८१ ॥
मन्यमाना महीपालं विस्मयोत्फुल्ललोचनाः ॥
प्रोचुश्च मधुरैर्वाक्यैराशीर्वादपुरःसरैः ॥ ८२ ॥
कुतस्त्वमनुसंप्राप्तो वनेऽस्मिञ्जनवर्जिते ॥
एकाकी सुकुमारांगः पदातिः श्रमविह्वलः ॥ ९३ ॥
पार्थिवस्येव लिंगानि दृश्यंते तव भूरिशः ॥
न विद्मो निश्चयं तस्माद्वदागमनकारणम् ॥ ८४ ॥
अथोवाच नृपः कृच्छ्रात्पिपासा मां प्रबाधते ॥
तस्माद्वदत पानीयं यत्पीत्वा कीर्तयाम्यहम् ॥ ८५ ॥
ततस्तैर्दर्शितं तोयं समीपे यन्महीपतेः ॥
सोऽपि पीत्वाऽवगाह्याथ वितृष्णः समपद्यत ॥ ८६ ॥
ततः फलानि पक्वानि तरूणां पतितान्यधः ॥
सुमृष्टानि समादाय भक्षयामास वांछया ॥ ८७ ॥
ततस्तृप्तिं परां प्राप्य गत्वा जैमिनिसंनिधौ ॥
उपविष्टः प्रणम्योच्चैस्तथान्यांश्च मुनीन्क्रमात् ॥ ८८ ॥
उवाच च निजां वार्तां कृतांजलिपुटः स्थितः ॥
स पृष्टस्तापसैः सर्वैः सुविस्मयसमन्वितैः ॥ ८९ ॥
विदूरथो महीपोऽहं माहिष्मत्यां कृतास्पदः ॥
मृगलिप्सुर्वने घोरे प्रविष्टः सैनिकैः सह ॥ ६.१८.९० ॥
ततो मे भ्रममाणस्य प्रणष्टाः सर्वसैनिकाः ॥
गुल्मैरंतरिताश्चाऽन्ये न जानेऽहं कथं स्थिताः ॥ ९१ ॥
आसीद्धयो ममाऽधस्ताज्जात्यः सर्वगुणान्वितः ॥
सोऽपि कर्मविपाकेन पञ्चत्वं समुपस्थितः ।ा ९२ ॥
भ्रममाणस्त्वहं प्राप्त आयुःशेषतयात्र च ॥
तद्ब्रूत कः प्रदेशोऽयं कियद्दूरे च मे पुरी ॥ ९३ ॥
ततस्ते तापसाः प्रोचुर्विद्महे न वयं पुरीम् ॥
त्वां च देशं च ते राजन्कोऽयं देशश्च कीर्त्यते ॥ ९४ ॥
नरेन्द्रैर्नैव नः कार्यं न दिशैर्न पुरैर्नृप ॥
वनेचरा वयं नित्यं शिवाराधनतत्पराः ॥ ९५ ॥
सर्वे शीर्णानि वृक्षाणां पुष्पाणि च फलानि च ॥
भक्षयामोऽथ पत्राणि शरी रस्थितिहेतुना ॥ ९६ ॥
मानुषैः सह संसर्गं संभाषं च नराधिप ॥
न कुर्मो न च पश्यामो गच्छामोऽन्यत्र दूरतः ॥ ९७ ॥
एकैकस्य तरोर्मूले दिवसं वा दिनद्वयम्॥
तिष्ठामो न भवेद्येन ममत्वं तत्समुद्भवम् ॥९८॥
कारणात्तव राजेंद्र निशामेतां वनस्पतौ ॥
नेष्यामोऽन्यत्र यास्यामः प्रभा तेऽन्यत्र कानने ॥ ९९ ॥
एकाकिनं पदातिं च विशस्त्रं श्रमविह्वलम् ॥
त्वां दृष्ट्वा भूपतेऽस्माकं दया जाता ततोऽधिका ॥६.१८.॥॥।
एकाकी पार्थिवेन्द्रोऽयं नेष्यति च कथं निशाम् ॥
वनेऽस्मिन्मंत्रयित्वैवं ततोऽत्रैव व्यवस्थिताः ॥ १०१ ॥
तस्मादत्रैव नेष्यामः समेताः शर्वरीमिमाम्॥
गंतव्यं प्रातरुत्थाय ततः सर्वैर्यदृच्छया १०२ ॥
एवं संवदतां तेषां भगवांस्तीक्ष्णदीधितिः ॥
अस्ताचलमनुप्राप्तः कुंकुमक्षोदसंनिभः ॥ १०३ ॥
अथ तास्तापसान्राजा प्रोवाच प्रणतः स्थितः ॥
संध्याकालः समायातः सांप्रतं मुनिसत्तमाः ॥
तस्मात्संध्याविधिः कार्यः सर्वैरेव यथोचितः ॥ १०४ ॥
अथ ते मुनयः सर्वे स च राजा तथा द्विजाः ॥
चक्रुः सायंतनं कर्म यथोद्दिष्टं पुरातनैः ॥ १०५ ॥
कामिभिः कामिनीलोकैः प्रियोक्तैरभिवां छिता ॥
असत्स्त्रीभिर्विशेषेण संप्राप्ता रजनी ततः ॥ १०६ ॥
पीयूषार्णववेलेव विषवृक्षलतेव च ॥
उलूकैश्चक्रवाकैश्च युगपद्या विलोक्यते ॥ १०७॥
उलूका राक्षसाश्चौराः कामिनः कुलटांऽगनाः ॥
यां वांछंति सदा सोत्काः सुवृष्टिमिव कर्षुकाः ॥ १०८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मांसादवचनादृष्याश्रमपदं प्राप्तस्य विदूरथस्य मुनिभिः सह संवादपूर्वकसांयतनकर्मादिविधानवर्णनंनामाष्टादशोऽध्यायः ॥ १८ ॥ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 19
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे प्राप्तास्तस्य भूपस्य सेवकाः ॥
केचिच्च दैवयो गेन श्वापदैरर्धभक्षिताः ॥ १ ॥
क्षुत्पिपासातुरा दीना दुःखेन महताऽन्विताः ॥
पदपद्धतिमार्गेण येन यातः स भूपतिः ॥ २ ॥
ते दृष्ट्वा पार्थिवं तत्र दिष्ट्यादिष्ट्येति सादरम् ॥
ब्रुवंतः पादयोस्तस्य पतिता हर्षसंयुताः ॥ ३ ॥
ततस्तस्य नरेन्द्रस्य व्यसनं सैन्यसंभवम् ॥
प्रोचुश्चैव यथादृष्टम नुभूतं यथाश्रुतम् ॥४॥
अथ ते तापसाः सर्वे स च राजा ससेवकः ॥
प्रसुप्ताः पादपस्याधः पर्णान्यास्तीर्यभूतले ॥५॥
ततस्तेषां प्रसुप्तानां सर्वेषां तत्र कानने ॥
अतिक्रांता सुखेनैव रजनी सा महात्मनाम् ॥ ६ ॥
ततः स प्रातरुत्थाय कृतपूर्वाह्णिकक्रियः ॥
तं मुनिं प्रणिपत्योच्चैरनुज्ञाप्य मुहु र्मुहुः ॥ ७ ॥
निजैस्तैः सेवकैः सार्धं प्रस्थितः स्वपुरीं प्रति ॥
माहिष्मतीं समुद्दिश्य दृष्ट्वा मार्गे शनैःशनैः ॥ ८ ॥
ततो निजगृहं प्राप्य कञ्चि त्कालं महीपतिः ॥
विश्रम्य प्रययौ पश्चात्तूर्णं पुण्यं गयाशिरः ॥ ९ ॥
तच्च कालेन संप्राप्य स्नात्वा धौतांबरः शुचिः ॥
मांसादाय ददौ श्राद्धं श्रद्धापूतेन चेतसा ॥ ६.१९.१० ॥
अथाऽसौ पृथिवीपालः स्वप्नांते च ददर्श तम् ॥
दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम् ॥
विमानवरमारूढं स्तूयमानं च किंनरैः ॥ ११ ॥
॥ मांसाद उवाच ॥ ॥
प्रसादात्तव भूपाल मुक्तोऽहं प्रेतयोनितः ॥
स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदिवा लयम्॥ १२ ॥
ततः स प्रातरुत्थाय हर्षाविष्टो महीपतिः ॥
विदैवतं समुद्दिश्य चक्रे श्राद्धं यथोचितम् ॥ १३
सोऽपि तेनैव रूपेण तस्य संदर्शनं गतः ॥
स्वप्नांऽते भूमिपालस्य तद्वच्चोक्त्वा दिवं गतः ॥ १४ ॥
ततः प्रातस्तृतीयेऽह्नि कृतघ्नस्य महीपतिः ॥
चक्रे श्राद्धं यथापूर्वं श्रद्धापूतेन चेतसा ॥ १५ ॥
ततः सोऽपि समायातस्तस्य स्वप्ने महीपतेः ॥
तेनैव प्रेतरूपेण दुःखेन महता वृतः ॥ १६ ॥
॥ कृतघ्न उवाच ॥
न मे गतिर्महाराज संजाता पापकर्मिणः ॥
तडागवित्तचौरस्य कृतघ्नस्य तथैव च ॥ १७ ॥
तस्मात्संजायते मुक्तिर्यथा मे पार्थिवोत्तम ॥
तथैव त्वं कुरुष्याऽद्य सत्यवाक्यपरो भव ॥ १८ ॥
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥
सत्यमेव परं ज्ञानं सत्यमेव परं श्रुतम् ॥ १९ ॥
सत्येन वायु र्वहति सत्येन तपते रविः ॥
सागरः सत्यवाक्येन मर्यादां न विलंघयेत् ॥ ६.१९.२० ॥
तीर्थसेवा तपो दानं स्वाध्यायो गुरुसेवनम् ॥
सर्वं सत्यविहीनस्य व्यर्थं संजायते यतः ॥ २१ ॥
सर्वे धर्मा धृताः पूर्वमेकत्राऽन्यत्र चाप्यृतम् ॥
तुलायां कौतुकाद्देवैर्जातं तत्र ऋतं गुरु ॥ २२ ॥
तस्मात्सत्यं पुरस्कृत्य मां तारय महामते ॥
एतत्ते परमं श्रेयस्तपसोऽपि भविष्यति ॥ २३ ॥
॥ विदूरथ उवाच ॥ ॥
कथं ते जायते मुक्तिर्वद मे प्रेत सत्वरम् ॥
करोमि येन तत्कर्म यद्यपि स्यात्सुदुष्करम् ः। २४ ॥
॥ प्रेत उवाच ॥ ॥
चमत्कारपुरे भूप श्रीक्षेत्रे हाटकेश्वरे ॥
आस्ते पांसुभिराच्छन्नं कलेर्भीतं गयाशिरः ॥ २५ ॥
अधस्तात्प्लक्षवृक्षस्य दर्भस्थानैः समंततः ॥
कालशाकैस्तथानेकैस्तिलैश्चारण्यसंभवैः ॥ ॥ २६ ॥
तत्र गत्वा तिलैस्तैस्त्वं तैः शाकैस्तैः कुशैस्तथा ॥
श्राद्धं देहि द्रुतं येन मुक्तिः संजायते मम ॥ २७ ॥
तस्य तद्वचनं श्रुत्वा स दीनस्य दयान्वितः॥
जगाम तत्र यत्राऽऽस्ते स वृक्षः प्लक्षसंज्ञकः॥ २८ ॥
दृष्ट्वा शाकांस्तिलांस्तांस्तु दर्भांस्तेन यथोदितान्॥
अखनत्तत्र देशे च जलार्थे लघु कूपिकाम् ॥ २९ ॥
ततः कृतघ्नमुद्दिश्य श्राद्धं चक्रे यथोदितम् ॥
आनीय ब्राह्मणाञ्छ्रेष्ठान्वेदवेदांगपारगान् ॥ ६.१९.३. ॥
कृतमात्रे ततः श्राद्धे दिव्य रूपधरः पुमान्॥
विमानवरमारूढो विदूरथमथाऽब्रवीत् ॥ ३१ ॥
मुक्तोऽहं त्वत्प्रसादाच्च प्रेतत्वाद्दारुणाद्विभो ॥
स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदशालयम् ॥ ३२ ॥
॥ सूत उवाच ॥ ॥
ततः प्रभृति सा तत्र कूपिका ख्यातिमागता ॥
पितॄणां पुष्टिदा नित्यं गयाशीर्षसमुद्भवा॥ ३३ ॥
प्रेतपक्षस्य दर्शायां यस्तस्यां श्राद्धमाचरेत् ॥
कालशाकेन विप्रेंद्रास्तथारण्योद्भवैस्तिलैः ॥ ३४ ॥
कृंतितैश्च तथा दर्भैः सम्यक्छ्रद्धासमन्वितः ।
स प्राप्नोति फलं कृत्स्नं कृतघ्नप्रेततीर्थतः ॥ ३५ ॥
अग्निष्वात्ताः पितृगणास्तथा बर्हिषदश्च ये ॥
तत्र संनिहिता नित्यमाज्यपाः सोमपास्तथा ॥ ३६ ॥
तस्मात्सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत् ॥
काले वा
यदि वाऽकाले पितॄणां तुष्टये सदा ॥ ३७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मांसादादिप्रेतत्रयस्य विदूरथकृतश्राद्धद्वारा मुक्तिदाने पितृकूपिकातीर्थमा हात्म्यवर्णनंनामैकोनविंशोऽध्यायः ॥ १९ ॥ ॥ छ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 20
॥ सूत उवाच ॥ ॥
तत्र दाशरथी रामो वनवासाय दीक्षितः ॥
भ्रममाणो धरापृष्ठे सीतालक्ष्मणसंयुतः ॥ १ ॥
समाऽऽयातो द्विजश्रेष्ठा यत्र सा पितृकूपिका ॥
तृषार्तश्च श्रमार्तश्च निषसाद धरातले ॥ २ ॥
एतस्मिन्नंतरे प्राप्तो भगवान्दिननायकः ॥
अस्ताचलं जपापुष्पसन्निभो द्विजसत्तमाः ॥ ३ ॥
ततः प्लक्षनगाधस्तात्पर्णान्यास्तीर्य भूतले ॥
सायंतनं विधिं कृत्वा सुष्वाप रघुनन्दनः ॥ ४ ॥
अथाऽवलोकयामास स्वप्ने दशरथं नृपम् ॥
यद्वत्पूर्वं प्रियाऽऽलापसंसक्तं हृष्टमानसम् ॥ ५ ॥
ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥
विप्रानाहूय तत्सर्वं कथयामास राघवः ॥ ६ ॥
अद्य स्वप्ने मया विप्राः प्रियालापपरः पिता ॥
अतिहृष्टमना दृष्टः श्वेतमाल्यानुलेपनः ॥ ७ ॥
तत्कीदृक्परिणामोऽस्य स्वप्नस्य द्विजसत्तमाः ॥
भविष्यति प्रजल्पध्वं परं कौतूहलं यतः ॥ ८ ॥ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
पितरः श्राद्धकामा ये वृद्धिं पश्यंति वा नृप ॥
ते स्वप्ने दर्शनं यांति पुत्राणामिति नः श्रुतम् ॥ ९ ॥
तदस्यां कूपिकायां च स्वयमेव गया स्थिता ॥
तेन त्वया पिता दृष्टः स्वप्ने श्राद्धस्य वांछकः ॥ ६.२०.१० ॥
तस्मात्कुरु रघुश्रेष्ठ श्राद्धमत्र यथोदितम् ॥
नीवारैः शाक मूलैश्च तथाऽरण्योद्भवैस्तिलैः ॥ ११ ॥
अथैवामन्त्रयामास तान्विप्रान्रघुसत्तमः ॥
श्राद्धेषु श्रद्धया युक्तः प्रसादः क्रियतामिति ॥ १२ ॥
बाढमित्येव ते चोक्त्वा स्नानार्थं द्विजसत्तमाः ॥
गताः सर्वे सुसंहृष्टा स्वकीयानाश्रमान्प्रति व १३ ॥
अथ तेषु प्रयातेषु ब्राह्मणेषु रघूत्तमः ॥
प्रोवाच लक्ष्मणं पार्श्वे विनयावनतं स्थितम् ॥ १४ ॥
शाकमूलफलान्याशु श्राद्धार्थं समुपानय ॥
सौमित्रानय वैदेही स्वयं पचति भामिनी ॥ १५ ॥
तच्छ्रुत्वा लक्ष्मणस्तूर्णं जगामाऽरण्यमेव हि ॥
श्राद्धार्थमानिनायाऽऽशु फलानि विविधानि च ॥ १६ ॥
धात्रीफलानि चाऽऽम्राणि चिर्भटानीं गुदानि च ॥
करीराणि कपित्थानि तथैवाऽन्यानि भूरिशः ॥ १७ ॥
ततश्च पाचयामास तदर्थे जनकोद्भवा ॥
रामादेशात्स्वयं साध्वी विनयेन समन्विता ॥ १८ ॥
ततश्च कुतपे प्राप्ते काले ते द्विजसत्तमाः ॥
कृताह्निकाः समायाता रामभक्तिसमन्विताः ॥ १९ ॥
एतस्मिन्नंतरे सीता प्लक्षवृक्षांतरे स्थिता॥
आत्मानं गोपयामास यथा वेत्ति न राघवः॥६.२०.२०
स तां सीतेति सीतेति व्याहृत्याथ मुहुर्मुहुः॥
स्त्रीधर्मिणीति मत्वा तु लक्ष्मणं चेदमब्रवीत् ॥ २१ ॥
वत्स लक्ष्मण शुश्रूषां विप्राणां श्राद्धसंभवाम्॥
पादप्रक्षालनाद्यां त्वं यथावत्कर्तुमर्हसि ॥ २२ ॥
बाढमित्येव संप्रोक्तो लक्ष्मणः शुभलक्षणः ॥
चक्रे सर्वं तथा कर्म यथा नारी विचक्षणा ॥ २३ ॥
ततो निर्वर्तिते श्राद्धे ब्राह्मणेषु गतेष्वथ ॥
जनकस्य सुता साध्वी तत्क्षणात्समुपस्थिता ॥ २४ ॥
तां दृष्ट्वा राघवः सीतां कोपसंरक्तलोचनः ॥
प्रोवाच परुषैर्वाक्यैर्भर्त्समानो मुहुर्मुहुः॥ २५ ॥
आयातेषु द्विजातेषु श्राद्धकाल उपस्थिते ॥
क्व गता वद पापे त्वं मां परित्यज्य दूरतः ॥ २६ ॥
नैतद्युक्तं कुलस्त्रीणां विशेषादत्र कानने ॥
विहर्तुं दूरतः शून्ये तस्मात्त्याज्याऽसि मैथिलि ॥ २७ ॥
तस्य तद्वचनं श्रुत्वा भीता सा जनकोद्भवा ॥
उवाच वेपमानांगी प्रस्खलंत्या गिरा ततः ॥ २८ ॥
न मामर्हसि कार्येऽस्मिन्गर्हितुं रघुसत्तम ॥
यस्मादहमतिक्रान्ता स्थानादस्माच्छ्रणुष्व तत् ॥ २९ ॥
पिता तव मया दृष्टः साक्षाद्दशरथः स्वयम् ॥
ब्राह्मणस्य शरीरस्थो द्वितीयश्च पितामहः ॥ ६.२०.३० ॥
पितुः पितामहोऽन्यस्य तृतीयस्य रघूत्तम ॥
त्रयाणां च तथान्येषां त्रयोऽन्ये नृपसंनिभाः ॥ ३१ ॥
ब्राह्मणानां मया दृष्टाः शरीरस्थाः सुहर्षिताः ॥
मातामहानहं मन्ये तानपि त्रीनहं स्फुटम् ॥ ३२ ॥
ततो ऽहं लज्जया नष्टा दृष्ट्वा श्वशुरसंगमान् ॥
येन भुक्तानि भोज्यानि पुरा मृष्टान्यनेकशः ॥ ३३ ॥
तथा खाद्यानि लेह्यानि चोष्याणि च विशेषतः ॥
पिता तव कथं सोऽद्य कषायाणि कटूनि च ॥
भक्षयिष्यति दत्तानि स्वहस्तेन मया विभो ॥ ३४ ॥
एतस्मात्कारणान्नष्टा त्वत्समीपादहं विभो ॥
श्राद्धकालेऽपि संप्राप्ते सत्येनात्मानमालभे ॥ ३५८ ॥
तच्छ्रुत्वा संप्रहृष्टात्मा रामो राजीवलोचनः ॥
साधुसाध्विति तां प्राह परिष्वज्य मुहुर्मुहुः ॥ ३६ ॥
ततो भुक्त्वा स्वयं रामो लक्ष्मणेन समन्वितः ॥
सायाह्ने समनुप्राप्ते संध्याकार्यं विधाय च ॥ ३७ ॥
प्रोवाच लक्ष्मणं वत्स पर्णान्यास्तीर्य भूतले ॥
शय्यां कुरु समानीय पादशौचाय सज्जलम् ॥ ३८ ॥
ततः कोपपरीतात्मा सौमित्रिः प्राह राघवम् ॥
नाहं शय्यां करिष्यामि पादप्रक्षालनं न च ॥ ३९ ॥
तथाऽन्यदपि यत्किंचित्कर्म स्वल्पमपि प्रभो ॥
त्वां वा त्यक्त्वा गमिष्यामि कुत्रचित्पीडितो भृशम्॥ ॥ ६.२०.४० ॥
प्रेष्यत्वेन रघुश्रेष्ठ सत्यमेतन्मयोदितम् ॥
सीतायाः किं समादेश्यं न किंचित्संप्रयच्छसि ॥
अपि स्वल्पतरं राम मया त्वं किं करिष्यसि ॥ ४१ ॥
तस्य तद्वचनं श्रुत्वा विकृतं चापि राघवः ॥
तूष्णीं बभूव मेधावी हास्यं कृत्वा मनाक्ततः ॥ ४२ ॥
ततः स्वयं समुत्थाय कृत्वा स्वा स्तरकं शुभम् ॥
सीतया क्षालितांघ्रिस्तु सुष्वाप तदनंतरम् ॥ ४३ ॥
लक्ष्मणोऽपि विदूरस्थः कोपसंरक्तलोचनः ॥
वृक्षमूलं समाश्रित्य सुप्तश्चित्ते व्यचिंतयत् ॥ ४४ ॥
हत्वैनं राघवं सुप्तं सीतां पत्नीं विधाय च॥
किं गच्छामि निजं स्थानं विदेशं वाऽपिदूरतः ॥ ४५ ॥
एवं चिंतयतस्तस्य बहुधा लक्ष्मणस्य सा ॥
व्यतिक्रांता निशा विप्राः कृच्छ्रेण महता ततः ॥ ४६ ॥
न तस्य निश्चयो जज्ञे तस्मिन्कृत्ये कथंचन ॥
कोपात्प्रणष्टनिद्रस्य सोष्णं निःश्वसतो मुहुः ॥ ४७ ॥
ततः प्रभाते विमले कृतपूर्वाह्णिकक्रियः ॥
रामः सीतां समादाय प्रस्थितो दक्षिणां दिशम्॥ ४८ ॥
लक्ष्मणोऽपि धनुः सज्यं कृत्वा संधाय सायकम् ॥
अनुव्रजति पृष्ठस्थस्तस्य च्छिद्रं विलोकयन् ॥ ४९ ॥
ततो गोकर्णमासाद्य प्रणम्य च महेश्वरम् ॥
प्रतस्थे राघवो यावत्सौमित्रिस्तावदागतः ॥ ६.२०.५० ॥
बाष्पपर्याकुलाक्षश्च व्रीडयाऽधोमुखः स्थितः ॥
प्रणम्य शिरसा रामं ततः प्राह सुदुः खितः ॥ ५१ ॥
कुरु मे निग्रहं नाथ स्वामिद्रोहसमुद्भवम् ॥
अतिपापस्य दुष्टस्य कृतघ्नस्य रघूत्तम ॥ ५२॥
उत्तराणि विरुद्धानि तव दत्तानि भूरिशः ॥
मया विनाऽपराधेन वधोपायश्च चिंतितः ॥ ५३ ॥
ततश्च तं परिष्वज्य रामोऽपि निजबांधवम् ॥
बाष्पक्लिन्नमुखः प्राह क्षांतं वत्स मया तव ॥ ५४ ॥
न ते त्वन्यः प्रियः कश्चिन्मां मुक्त्वा वेद्म्यहं स्फुटम्॥
तस्मादागच्छ गच्छामो मार्गं वेलाधिका भवेत् ॥५५॥
॥ लक्ष्मण उवाच ॥ ॥
यदि मे निग्रहं नाथ न करिष्यसि सांप्रतम् ॥
प्राणत्यागं करिष्यामि वह्नावात्मविशुद्धये॥ ५६ ॥
रामलक्ष्मणयोरेवं वदतोस्तत्र कानने ॥
आजगाम मुनिश्रेष्ठो मार्कंड इति यः स्मृतः ॥ ५७ ॥
ततः प्रणम्य तं रामः सीतालक्ष्मणसंयुतः ॥
प्रोवाच स्वागतं तेस्तु कुतः प्राप्तोऽसि सन्मुने ॥ ५८ ॥ ॥
॥ मार्कंडेय उवाच ॥ ॥
प्रभासादहमायातः सांप्रतं रघुनंदन ॥
स्वमाश्रमं गमिष्यामि क्षेत्रेऽत्रैव व्यवस्थितम् ॥ ५९॥
मया राघव तत्राऽस्ति स्थापितः प्रपितामहः ॥
तस्याऽद्य दिवसे यात्रा बहुश्रेयःप्रदा स्मृता ॥ ६.२०.६० ॥
तस्मात्त्वमपि तत्रैव तूर्णमेव मया सह ॥
ममाश्रमपदे स्थित्वा पश्य देवं पितामहम् ॥ ६१ ॥
येन स्याः सर्वशत्रूणामगम्यस्त्वं रघूद्वह ॥
ज्येष्ठपञ्चदशीयोगे ज्येष्ठपुत्रः समाहितः ॥ ६२ ॥
यस्तत्र कुरुते स्नानं तस्य मृत्युभयं कुतः ॥
साऽद्य पंचदशी राम ज्येष्ठमाससमुद्भवा ॥
ज्येष्ठानक्षत्रसंयुक्ता तस्मात्स्नातुं त्वमर्हसि ॥ ६३ ॥
ततः संप्रस्थितं रामं दृष्ट्वा प्रोवाच लक्ष्मणः ॥
कुरु मे निग्रहं तावद्गच्छ तीर्थं ततः प्रभो ॥ ६४ ॥
॥ राम उवाच ॥ ॥
स्थितेऽस्मिन्मुनिशार्दूले समीपे वत्स लक्ष्मण ॥
अनर्हा निष्कृतिः कर्तुं तस्मादेनं प्रयाचय ॥ ६५ ॥
॥ लक्ष्मण उवाच ॥ ॥
स्वामिद्रोहे कृते ब्रह्मन्प्रायश्चित्तं यदीक्ष्यते ॥
तन्मे देहि स्फुटं येन कायशुद्धिः प्रजायते ॥ ६६ ॥
॥ मार्कंडेय उवाच ॥ ॥
ममाऽऽश्रमसमीपेऽस्ति सुतीर्थं बालमंडनम् ॥
स्वामिद्रोहरताः स्नाता मुच्यंते तत्र पातकैः ॥ ६७ ॥।
तत्र शक्रो विपाप्माभूद्धत्वा गर्भं दितेः पुरा ॥
विश्वस्ताया विशेषेण मातुः काकुत्स्थसत्तम ॥
तस्मात्तत्र द्रुतं गत्वा स्नानं कुरु महामते ॥ ६८ ॥
ततः प्रमुच्यसे पापात्स्वामिद्रोहसमुद्भवात् ॥
अपरं नास्ति ते दोषो मनसा पातकं कृतम् ॥ ६९ ॥
मनस्तापेन शुध्येत मतमेतन्मनीषिणाम् ॥
त्वया तु मनसा द्रोहः कृतो रामकृते यतः ॥ ६.२०.७० ॥
ईदृक्षान्मनसस्तापात्तस्माच्छुद्धोऽसि लक्ष्मण ॥
अपरं शृणु मे वाक्यं नास्ति दोषस्तवा नघ ॥ ७१ ॥
ईदृक्क्षेत्रप्रभावोऽयं सौभ्रात्रेण विवर्जितः ॥
पंचक्रोशात्मके क्षेत्रे ये वसन्त्यत्र लक्ष्मण ॥ ७२ ॥
अपि स्वल्पं न सौभ्रात्रं तेषां संजायते क्वचित् ॥ ७३ ॥
तावत्स्नेहपरो मर्त्यस्तावद्वदति कोमलम् ॥
चमत्कारोद्भवं क्षेत्रं यावन्न स्पृशतेंऽघ्रिभिः ॥ ७४ ॥
येऽन्येपि निवसंत्यत्र पशवः पक्षिणो मृगाः ॥
तेऽपि सौहार्द्दनिर्मुक्ताः सस्पर्द्धा इतरेतरम् ॥ ७५ ॥
कस्यचित्केनचित्सार्धं सौहार्दं नैव विद्यते ॥
तस्मान्नैवास्ति ते दोष ईदृक्क्षे त्रस्य संस्थितिः ॥ ७६ ॥
तथापि यदि ते काचिच्छंका चित्ते व्यवस्थिता ॥
तत्स्नानं कुरु गत्वा तु तस्मिंस्तीर्थे सुशोभने ॥ ७७ ॥
यत्र शक्रो विपाप्माऽभूद्द्रोहं कृत्वा सुदारुणम्॥
विश्वस्ताया दितेः पूर्वं गर्भपातसमुद्रवम् ॥ ७८ ॥
एवमुक्तस्तु सौमित्रिर्गत्वा तत्र द्विजोत्तमाः ॥
तीर्थे स्नानाच्च संपन्नो विशुद्धः शक्रसेविते ॥
रामोऽपि तत्र गत्वाशु मार्कंडेयवराश्रमे ॥ ७९ ॥
स्नानं कृत्वा यथान्यायं ददर्शाऽथ पितामहम् ॥
जगामाऽथ दिशं याम्यां सीतालक्ष्मणसंयुतः ॥ ६.२०.८० ॥
तत्प्रभावाज्जघानाऽथ खरादीन्राक्षसोत्तमान् ॥
तथा वै रावणं रौद्रं मेघनादसमन्वितम् ॥ ८३ ॥
इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रामकृतयाम्यदिशाप्रयाणे बालमंडनतीर्थमाहात्म्य वर्णनंनाम विंशोऽध्यायः ॥ २० ॥ ॥ ध ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 21
॥ ब्राह्मणा ऊचुः ॥ ॥
मार्कंडेन कदा तत्र स्थापितः प्रपितामहः ॥
कस्मिन्स्थाने कृतस्तेन स्वाश्रमो मुनिना वद ॥ १ ॥
॥ सूत उवाच ॥ ॥
मृकण्डाख्यो द्विजश्रेष्ठ आसीद्वेदविदां वरः ॥
चमत्कारपुराभ्याशेवानप्रस्याश्रमे स्थितः ॥ २ ॥
शांतात्मा नियमोपेतश्चकार सुमहत्तपः ॥
तस्यैवं वर्तमानस्य वानप्रस्थस्य चाश्रमे ॥ ३ ॥
पश्चिमे वयसि प्राप्ते पुत्रो जज्ञे सुशोभनः ॥
सर्वलक्षणसंपूर्णः पूर्णचंद्रसमप्रभः ॥ ४ ॥
मार्कंड इति नामाऽथ तस्य चक्रे पिता स्वयम् ॥
सोऽतीव ववृधे बालस्तस्मिन्नाश्रम उत्तमे॥५॥
शुक्लपक्षं समासाद्य तारापतिरिवांबरे॥
वर्धमानस्य तस्यैवमतीताः पंच वत्सराः॥
बालक्रीडाप्रसक्तस्य पितुरुत्सङ्गवर्तिनः॥६॥
कस्यचित्त्वथ कालस्य कश्चित्तत्र समागतः॥
सामुद्रिकस्य कृत्स्नस्य वेत्ता ज्ञानविधानभू_॥७॥
स तं शिशुं समालोक्य नखाग्रान्मूर्द्धजावधिम्॥
विस्मयोत्फुल्लनयन ईषद्धास्यमथाऽकरोत् ॥ ८ ॥
मृकंडोऽपि समालोक्य ज्ञानिनं सस्मिताननम् ॥
पप्रच्छ विनयोपेतः किंचित्तुष्टेन चेतसा ॥ ॥ ९ ॥
॥ मृकण्ड उवाच ॥ ॥
कस्मात्त्वं विप्रशार्दूल वीक्ष्येमं मम दारकम् ॥
सुचिरं विस्मयाविष्टस्ततोऽभूः सस्मिताननः ॥ ६.२१.१० ॥
॥ सूत उवाच ॥ ॥
असकृत्तेन संपृष्टः सकृद्ब्राह्मणसत्तमः ॥
ततश्च कथयामास हास्यकारणमेव हि ॥ ११ ॥
॥ ब्राह्मण उवाच ॥ ॥
लक्षणानि शिशोरस्य दृश्यंते यानि सन्मुने ॥
गात्रस्थानि भवेत्सत्यं तैः पुमानजरामरः ॥ १२ ॥
अस्य भावि पुनश्चाऽस्माद्दिवसान्निधनं शिशोः ॥
षड्भिर्मासैर्न सन्देहः सत्यमेतन्मयोदितम् ॥ १३ ॥
एवं ज्ञात्वा द्विजश्रेष्ठ कुरुष्वाऽस्य हितं च यत् ॥
इह लोके परे चैव बालकस्य ममाऽऽज्ञया ॥ १४ ॥
एवमुक्त्वा स विप्रेंद्रो जगामाऽभीप्सितां दिशम् ॥
मृकण्डोऽपि ततस्तस्य चक्रे मौंजीनिबन्धनम् ॥ १५ ॥
अकालेऽपि कुमारस्य किंचिद्ध्यात्वा निजे हृदि ॥
कारणं कारणज्ञः स ततः प्रोवाच तं सुतम् ॥ १६ ॥
यं कं चिद्वीक्षसे पुत्र भ्रममाणं द्विजोत्तमम् ॥
तस्यावश्यं त्वया कार्यं विनयादभि वादनम् ॥ १७ ॥
एवं तस्य व्रतस्थस्य षण्मासा दिवसैस्त्रिभिः ॥
हीनाः स्युर्ब्राह्मणेंद्राणां नमस्कारपरस्य च ॥ १९ ॥
एतस्मिन्नंतरे प्राप्ता अग्नि तीर्थपरायणाः ॥
सप्तर्षयः स्थितो यत्र मार्कंडो धृतमेखलः ॥ १९ ॥
तान्दृष्ट्वा स मुनीन्सर्वान्नमश्चक्रे मुनेः सुतः ॥
दीर्घायुर्भव तैरुक्तः सर्वैरपि पृथक्पृथक् ॥ ६.२१.२० ॥
अथ तं बालभावेन कौतुकाद्ब्रह्मचारिणः ॥
चिरं दृष्ट्वाऽब्रवीद्वाक्यं वसिष्ठो मुनिपुंगवः ॥ २१ ॥
सर्वैरेष शिशुः प्रोक्तो दीर्घा युरिति सादरम्॥
तृतीयेऽह्नि पुनः प्राणांस्त्यक्ष्यत्ययमसंशयः ॥ २२ ॥
तन्न युक्तं भवेदीदृगस्माकं वचनं द्विजाः ॥
तस्मात्तत्क्रियतां कर्म येनायं स्याच्चिरायुधृक् ॥ २३ ॥
ततो मिथः समालोच्य सर्वे ते मुनिपुंगवाः ॥
प्रोचुर्न जीवनोपायो भवेन्मुक्त्वा पितामहम् ॥ २४ ॥
तस्मात्तस्य पुरो नीत्वा बालोऽयं क्षीणजीवितः ॥
क्रियतां तस्य वाक्येन यथा स्याच्चिरजीवभाक् ॥ २५ ॥
ततस्तु ते समादाय सत्वरं ब्रह्मचारिणम् ॥
ब्रह्मलोकं समाजग्मुस्त्यक्त्वा तीर्थपराक्रमम् ॥ २६ ॥
ततः प्रणम्य तं देवं वेदोक्तैः स्तवनैर्द्विजाः ॥
स्तुत्वाऽथ संविधे तस्य निषेदुस्तदनन्तरम् ॥ २७ ॥
तेषामनंतरं सोऽपि नमश्चक्रे पितामहम् ॥
बालः प्रोक्तश्च दीर्घायुर्भवेति च स्वयंभुवा ॥ २८ ॥
अथोवाच मुनीन्सर्वान्विश्रांतान्पद्मयोनिजः ॥
कुतो यूयं समायाताः सांप्रतं केन हेतुना ॥ २९ ॥
प्रोच्यतां चापि यत्कृत्यं युष्माकं क्रियतेऽधुना ॥
मद्गृहे संप्रयातानां कोऽयं बालोऽपि सद्व्रती ॥ ६.२१.३० ॥
॥ मुनय ऊचुः ॥ ॥
तीर्थयात्राप्रसंगेन भ्रममाणा महीतलम् ः।
चमत्कारपुराभ्याशे वयं प्राप्ताः पितामह ॥ ३१ ॥
तत्रानेन वयं देव बालकेनाऽभिवादिताः ॥
क्रमात्सर्वेरपि प्रोक्तो दीर्घायुरिति सादरम् ॥ ३२ ॥
एतस्य तु पुनः शेषमायुषो दिवसत्र यम् ॥
विद्यते विबुधश्रेष्ठ व्रीडितास्तेन वै वयम् ॥ ३३ ॥
ततश्चैनं समादाय वयं प्राप्तास्तवांतिकम् ॥
भवताऽपि तथा प्रोक्तो दीर्धायु र्बालकोऽस्त्वयम् ॥ ३४ ॥
तस्माद्यथा वयं सत्या भवता सह पद्मज ॥
भवाम कुरु तत्कृत्यमेतस्मादागता वयम् ॥ ३५ ॥
॥ सूत उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा मुनीनां पद्मसंभवः ॥
प्रोवाच प्रहसन्वाक्यं समादाय च बालकम् ॥ ३६ ॥
मत्प्रसादादयं बालोजरामृत्युवि वर्जितः ॥
भविष्यति न संदेहो वेदविद्याविचक्षणः ॥ ३७ ॥
तस्मात्प्राग्धरणीपृष्ठं व्रजध्वं मुनिसत्तमाः ॥
बालमेनं समादाय तस्मिन्नेवास्य मंदिरं ॥ ३८ ॥
यावदस्य पिता वृद्धः पुत्रदर्शनविह्वलः ॥
न याति निधनं सार्धं धर्मपत्न्या द्विजोत्तमाः ॥ ३९. ॥
अथाऽऽयाताश्च तं बालं सर्वे ते मुनि सत्तमाः ॥
आगत्य वसुधापृष्ठं तस्यैवाश्रमसंनिधौ ॥ ६.२१.४० ॥
अमुंचन्नग्नितीर्थे तं समाभाष्य ततः परम् ॥
तीर्थयात्राकृते पश्चाज्जग्मुरन्यत्र सत्वरम् ॥ ॥ ४१ ॥
एतस्मिन्नंतरे विप्रो मृकंडः सुतवत्सलः ॥
नापश्यत्स्वसुतं पश्चाद्विललाप सुदुःखितः ॥ ४२ ॥
अहो मे तनयोऽभीष्टः कथमद्य न दृश्यते॥
कूपांतः पतितः किं नु किं व्यालैर्वा निपातितः ॥ ४३ ॥
कृत्वा मां दुःखसंतप्तं मातरं चापि पुत्रकः ॥
प्रस्थितो दीर्घमध्वानं विरुद्धं कृतवान्विधिः ॥ ॥ ४४ ॥
पश्य ब्राह्मणि पापेन मया दुष्कृतकारिणा ॥
न बालस्य मुखं दृष्टं प्रस्थितस्य यमालये ॥४५॥
कथितं ज्ञानिना तेन मम पूर्वं महात्म ना ॥
षङ्भिर्मासैः सुतस्तेऽयं देहत्यागं करिष्यति ॥ ४६ ॥
सोऽहं पुत्रस्य दुःखेन साधयिष्ये हुताशनम् ॥
यावच्छोकाग्निना कायो दह्यते न वरान ने ॥ ४७ ॥
॥ ब्राह्मण्युवाच ॥ ॥
ममापि मतमेतद्धि यत्त्वया परिकीर्तितम् ॥
तत्किं चिरयसि ब्रह्मञ्छीघ्रं दारूणि चानय ॥ ४८ ॥
येनाऽहं भवता सार्धं प्रवेक्ष्यामि हुताशनम् ॥
पुत्रशोकेन संतप्ता सुभृशं दुःखशांतये ॥ ४९ ॥
॥ सूत उवाच ॥ ॥
एवं तयोः प्रवदतोर्दंपत्योर्द्विज सत्तमाः ॥
आजगामाऽथ संहृष्टः स बालः सन्निधिं तयोः ॥ ६.२१.५० ॥
तं दृष्ट्वा ब्राह्मणो हृष्टो ब्राह्मण्या सहितस्तदा ॥
आनंदाश्रुप्लुताक्षोऽथ सम्मुख स्तमुपाद्रवत् ॥ ५१ ॥
भूयोभूयः परिष्वज्य सभार्यः पृष्टवांस्तदा ॥
क्व गतः स्वाश्रमाद्वत्स चिरात्कस्मादिहाऽऽगतः॥ ५२ ॥
शोकार्णवे परिक्षिप्य मां सभार्यं वयोऽधिकम् ॥
तन्मा पुत्रक भूयस्त्वमीदृक्कर्म करिष्यसि ॥ ५३ ॥
॥ मार्कंडेय उवाच ॥ ॥
अत्राऽद्य मुनयः प्राप्ता मया ते चाभिवादिताः ॥
क्रमेण विनयात्तात स्मरमाणेन ते वचः ॥ ५४
दीर्घायुर्भव तैरुक्तः सर्वैरेव द्विजोत्तमैः ॥
दृष्ट्वा मां विस्मयाविष्टैर्बालकं व्रतिनं विभो ॥ ५५ ॥
अथ तात समालोक्य तेषां मध्यगतो मुनिः ॥
वसिष्ठस्तान्मुनीन्सर्वान्प्रोवाच प्रहसन्निव ॥ ५६ ॥
॥ वसिष्ठ उवाच ॥ ॥
दीर्घायुर्भव यः प्रोक्तो युष्माभिर्मुनिपुंगवाः ॥
तृतीये दिवसे सोऽयं बालः पंचत्वमेष्यति ॥ ५७ ॥
ततस्ते मुनयो भीता असत्यात्तात तत्क्षणात् ॥
समादाय ययुस्तत्र यत्र ब्रह्मा व्यवस्थितः ॥ ५८ ॥
नमस्कृतेन तेनाऽपि प्रोक्तोऽहं पद्मयोनिना ॥
दीर्घायुर्भव पृष्टश्च कुतस्त्वमिह चागतः ५९ ॥
अथ तैर्मुनिभिः सर्वैर्वृत्तांतं तस्य कीर्तितम्॥
आशीर्वादोद्भवं प्रोक्तं ततो वयमिहागताः॥ ६.२१.६० ॥
यथाऽयं बालको देव त्वत्प्रसादात्पितामह ॥
दीर्घायुर्जायते लोके तथा त्वं कर्तुमर्हसि ॥ ६१ ॥
ततोऽहं ब्रह्मणा तात जरामरणवर्जितः ॥
विहितः प्रेषितस्तूर्णं स्वगृहं प्रति तैः समम् ॥ ६२ ॥
ते तु मां मुनयोत्रैव प्रमुच्याश्रमसन्निधौ ॥
स्नानार्थं विविशुः सर्वे ह्रदेऽत्रैव सुशोभने ॥ ६३ ॥
तच्छ्रुत्वा वचनं तस्य मृकंडो हर्षसंयुतः ॥
प्रययौ सत्वरं तत्र यत्र ते मुनयः स्थिताः ॥ ६४ ॥
प्रणम्य तान्मुनीन्सर्वान्कृताञ्जलिपुटः स्थितः ॥
प्रोवाच वः प्रसादेन कुलं मे वृद्धिमागतम् ॥ ६५ ॥
साधु प्रोक्तमिदं कैश्चिदाचार्यैर्मुनिसत्तमाः ॥
साधुलोकं समाश्रित्य विख्यातं च जगत्त्रये ॥ ६६ ॥
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ॥
तीर्थं फलति कालेन सद्यः साधुसमागमः ॥ ६७ ॥
तस्मादतिथयः प्राप्ता यूयं सर्वेऽद्य मे गृहम् ॥
प्रकरोमि किमातिथ्यं प्रोच्यतां द्विजसत्तमाः ॥ ६८ ॥
॥ ऋषय ऊचुः ॥ ॥
एतदेव मुनेऽस्माकमातिथ्यं कोटिसंमितम् ॥
अल्पायुरपि ते बालो यज्जातो मृत्युवर्जितः ॥ ६९ ॥
॥ मृकण्ड उवाच ॥ ॥
मृत्युनाऽऽलिंगितं बालमस्मदीयं मुनीश्वराः ॥
भवद्भिरद्य संरक्ष्य कुलं कृत्स्नं समुद्धृतम् ॥ ६.२१.७० ॥
ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ॥
निष्कृतिर्विहिता सद्भिः कृतघ्ने नाऽस्ति निष्कृतिः ॥ ७१ ॥।
तस्मात्कृतघ्नतादोषो न स्यान्मम मुनीश्वराः ॥
यथा कार्यं भवद्भिश्च तथा सर्वैर्न संशयः ॥ ७२ ॥
॥ ऋषय ऊचुः ॥ ॥
यदि प्रत्युपकाराय मन्यसे त्वं द्विजोत्तम ॥
गृहं कुरुष्व नो वाक्याद्देवस्य परमेष्ठिनः ॥ ७३ ॥
येनाऽयं बालकस्तेऽद्य कृतो मृत्युविवर्जितः ॥
तस्मात्स्थापय तीर्थेन देवं तं प्रपितामहम्॥७४॥
पुत्रेण सहितः पश्चादाराधय दिवानिशम्॥
वयमेव त्वया सार्धं तं च देवं पितामहम्॥७५॥
नित्यं प्रपूजयिष्यामस्तथान्येऽपि द्विजोत्तमाः॥
बालेनाऽनेन सार्धं ते सख्यमत्र स्थितं यतः॥
बालसख्यमिति ख्यातं नाम्ना तेन भविष्यति॥७६॥
तीर्थमन्यैरिति ख्यातं बालकानां हितावहम्॥
रोगार्तानां भयार्तानामस्माकं वचनात्सदा॥७७॥
अस्मिंस्तीर्थे शिशुं लोकाः स्नापयिष्यंति ये द्विज॥
रोगार्तं वा भयार्तं वा पीडितं वा ग्रहादिभिः॥७८॥
भविष्यति न संदेहः सर्वदोषविवर्जितः ॥
पितामहप्रसादेन तथाऽस्मद्वचनाद्द्विज ॥ ७९ ॥
ये पुनर्मानुषा विप्र निष्कामाः श्रद्धयान्विताः ॥
स्नानमात्रं करिष्यंति ते यांति परमां गतिम्॥ ६.२१.८० ॥
एवमुक्त्वाथ ते सर्वे मुनयः शंसितव्रताः ॥
तमामंत्र्य मुनिं जग्मुस्तीर्थान्यन्यानि सत्वराः ॥ ८१ ॥
मृकण्डोऽपि सपुत्रश्च तस्मिन्स्थाने पितामहम् ॥
स्थापयामास संहृष्टो ज्येष्ठे ज्येष्ठास्थिते विधौ ॥ ८२ ॥
ततश्चाऽऽराधयामास दिवारात्रमतंद्रितः ॥
सपुत्रः श्रद्धया युक्तः संप्राप्तश्च परां गतिम् ॥ ८३ ॥
॥ सूत उवाच ॥ ॥
ततःप्रभृति तत्तीर्थं बालसख्यमिति स्मृतम्॥
पावनं सर्वजंतूनां बालानां रोगनाशनम्॥ ८४ ॥
ज्येष्ठे ज्येष्ठासु यो बालस्तत्र स्नानं समाचरेत् ॥
न स पीडामवाप्नोति यावत्संवत्सरं द्विजाः ॥ ८५ ॥
ग्रहभूतपिशाचानां शाकिनीनां विशेषतः ॥
अगम्यः सर्वदुष्टानां तथाऽन्येषां प्रजायते ॥८६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये बालसख्यतीर्थमाहात्म्यवर्णनंनामैकविंशोऽध्यायः॥ ॥ २१ ॥ ॥ ध ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 22
॥ ऋषय ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तं तीर्थे शक्रसमुद्रवम्॥
स्वामिद्रोहकृतात्पापान्निर्मुक्तो यत्र लक्ष्मणः ॥ १ ॥
कथं तत्र पुरा शक्रः स्वामिद्रोहसमुद्भवात् ॥
पातकादेव निर्मुक्तः कस्मिन्काले च सूतज॥२॥
कस्माद्दितेर्महेन्द्रेण कृतं कृत्यं तथाविधम् ॥
येन संसूदितो गर्भः सर्वं विस्तरतो वद ॥३॥
॥ सूत उवाच ॥ ॥
ब्रह्मणो दक्षिणांगुष्ठाज्जज्ञे दक्षः प्रजापतिः ॥
स च संजनयामास पचाशत्कन्यकाः शुभाः ॥४॥
ददौ च दश धर्माय कश्यपाय त्रयोदश ॥
दिव्येन विधिना दक्षः सप्तविंशतिमिंदवे ॥ ५ ॥
अदितिश्च दितिश्चैव द्वे भार्ये मुख्यतां गते ॥
कश्यपस्य द्विजश्रेष्ठाः प्राणेभ्योऽपि प्रिये सदा ॥ ६ ॥
ततः स जनयामास देवाञ्च्छक्रपुरःसरान्॥
अदित्यां चैव दैत्यांश्च दित्यां स बलवत्तरान् ॥७॥
तेषां त्रैलोक्यराज्यार्थं मिथो जज्ञे महाहवः ॥
तत्र शक्रेण ते दैत्याः संग्रामे विनिपातिताः ॥ ८ ॥
ततः शोकपरा चक्रे दितिर्व्रतमनुत्तमम् ॥
पुत्रार्थं नियमोपेता क्षेत्रेऽत्रैव समाहिता ॥ ९ ॥
ततो वर्षसहस्रांते तस्यास्तुष्टो महेश्वरः ॥
उवाच परितुष्टोऽस्मि वरं प्रार्थय वांछितम् ॥ ६.२२.१० ॥
साऽब्रवीद्यदि मे तुष्टस्त्वं देव शशिशेखर ॥
तत्पुत्रं देहि देवानां सर्वेषां बलवत्तरम्॥
यज्ञभागप्रभोक्तारं देवानां दर्पनाशनम् ॥ ११ ॥
अवध्यं संगरे पूर्वैः सर्वैदेवैः सवासवैः ॥
स तथेति प्रतिज्ञाय जगामादर्शनं हरः ॥ १२ ॥
दितिश्चैवाऽदधाद्गर्भं कश्यपान्मुनिपुंगवात् ॥
ततः शक्रो भयं चक्रे ज्ञात्वा तं गर्भसंभवम्॥
वदतो मुनिमुख्यस्य नारदस्य महात्मनः ॥ १३ ॥
ततो दुष्टां मतिं कृत्वा तस्य गर्भस्य नाशने ॥
चक्रे तस्याः स शुश्रूषां दिवारात्रमतंद्रितः ॥ १४ ॥
छिद्रमन्वेषमाणस्तु सुसूक्ष्ममपि च द्विजाः ॥
न तस्या लभते क्वाऽपि गता मासा नवैव तु ॥ १५ ॥
ततश्च दशमे मासि संप्राप्ते प्रसवोद्भवे ॥
गर्भालसा निशावक्त्रे सुप्ता सा दक्षिणामुखी ॥ १६ ॥
निद्रावशं तु संप्राप्ता विसंज्ञा समपद्यत॥
शक्रहस्तावमर्दोत्थपादसौख्येन निश्चला ॥ १७ ॥
तां विसंज्ञामथो वीक्ष्य त्यक्त्वा पादौ शतक्रतुः ॥
प्रविवेशोदरं तस्यास्तीक्ष्णं शस्त्रं करे दधत् ॥
तेनाऽसौ सप्तधा चके गर्भं शस्त्रेण देवपः ॥ १८ ॥
अथाऽपश्यत्क्षणात्सप्त वालकान्पूर्णविग्रहान् ॥
ततस्तानपि सप्तैव सप्तधा कृतवान्हरिः ॥ १९ ॥
जाता एकोनपञ्चाशदथ तत्रैव बालकाः ॥
तान्दृष्ट्वा वृद्धिमापन्नांस्ततो भीतः शतक्रतुः ॥
निश्चक्रामोदरातूर्णं दित्या यावन्न लक्षितः ॥ ६.२२.२० ॥
ततः प्रभाते विमले प्रोद्गते रविमंडले ॥
दितिः संजनयामास सप्तधा सप्त बालकान्॥ २१ ॥
ततोऽभ्येत्य सहस्राक्षो दुर्गंधेन समावृतः ॥
निस्तेजा म्लानवक्त्रश्च लज्जयाऽ धोमुखः स्थितः ॥ २२ ॥
तं दृष्ट्वा तादृशं शक्रं दितिः प्रोवाच सादरम् ॥
प्रणतं संस्थितं पार्श्वे भयव्याकुलचेतसम् ॥ २३ ॥
किं त्वं शक्र निरु त्साहस्तेजोद्युतिविवर्जितः ॥
शरीरात्तव दुर्गन्धः कस्मादीदृक्प्रजायते ॥ २४ ॥
किं त्वया निहतो विप्रोगुरुर्वाबालकोऽथवा ॥
नारी वा येन ते नष्टं तेजो गात्रसमुद्भवम् ॥ २५ ॥
हतो नखांभसा वा त्वं घृष्टः शूर्पानिलेन च ॥
अजामार्जनिकोत्थैश्चरजोभिर्वा समाश्रितः ॥ २६ ॥
॥ शक्र उवाच ॥ ॥
सत्यमेतन्महाभागे यत्त्वयोक्तोऽस्मि सांप्रतम् ॥
रात्रौ प्रविष्टः सुप्ताया जठरे तव पापकृत् ॥ २७ ॥
कृन्तश्चैकोनपञ्चाशत्कृत्वो गर्भो मया शुभे ॥
तावन्मात्रास्ततो जाता बालकाः सर्व एव ते ॥ २८ ॥
ततो भीत्या विनिष्क्रान्तस्त्वया देवि न लक्षितः ॥
एतस्मात्कारणाज्जाता तेजोहानिरनिन्दिते ॥ २९ ॥
॥ दितिरुवाच ॥ ॥
यस्मात्सत्यं त्वया प्रोक्तं पुरतो मम देवप ॥
तस्मात्प्रार्थय मत्तस्त्वं वरं यन्मनसेप्सि तम् ॥ ६.२२.३० ॥
॥ शक्र उवाच ॥ ॥
एते तव सुता देवि च्छिद्यमाना मयासिना ॥
रुदन्तो वारिता मन्दं मा रुदन्तु मुहुर्मुहुः ॥ ३१ ॥
मरुतो नामविख्यातास्तस्मात्संतुजगत्रये ॥
दैत्यभावविनिर्मुक्ता मद्विधेया मम प्रियाः ॥ ३२ ॥
यज्ञभागभुजः सर्वे भविष्यंति मया सह ॥
यस्मादेतन्मया तीर्थं बालकैस्तव मंडितम् ॥ ३३ ॥
बहुभिर्यास्यति ख्यातिं बालमंडनमित्यतः ॥
या च स्त्री गर्भसंयुक्ता स्नानं भक्त्या करिष्यीत ॥
न भविष्यंति छिद्राणि तस्या गर्भे कथंचन ॥ ३४ ॥
प्राप्ते प्रसवकाले तु या जलं प्राशयिष्यति ॥
तीर्थस्यास्य सुखेनैव प्रसविष्यति सा सुतम् ॥ ३५ ॥ ॥
॥ दितिरुवाच ॥ ॥
तवोच्छेदाय देवेश याचितः प्राङ्मया हरः ॥
एकं देव सुतं देहि सर्वदेवनिबर्हणम् ॥ ३६ ॥
त्वया चैकोनपंचाशत्प्रकारः स विनिर्मितः ॥
यस्मादृतं त्वया प्रोक्तं तस्मादेतद्भविष्यति ॥ ३७ ॥
॥ सूत उवाच ॥ ॥
ततः प्रभृति ते जाता मरुतो विबुधैः समम् ॥
यज्ञभागस्य भोक्तारो दितेः शक्रस्य शासनात् ॥ ३८॥
अथ प्राह सहस्राक्षो देवाचार्यं बृहस्पतिम् ॥
मातुर्द्रोहकृतं पापं कथं यास्यति संक्ष यम्॥ ३९ ॥
॥ बृहस्पतिरुवाच ॥ ॥
अत्रैव कुरु देवेन्द्र तपः पापविशुद्धये ॥
तीर्थे यत्र कृतं पापं सर्वपातकनाशने ॥६.२२.४॥।
न यज्ञैर्न च दानेन नान्यैस्तीर्थसमाश्रयैः ॥
मातुर्द्रोहकृतं पापं नाशं याति पुरंदर ॥
एवमेतत्परित्यज्य तीर्थं मातुस्तवाऽऽश्रयम् ॥४॥।
॥ सूत उवाच ॥ ॥
ततस्तूर्णं सह साक्षः सहस्राक्षेशसंज्ञितम् ॥
लिंगं संस्थापयामास स्वयमेव द्विजोत्तमाः ॥ ४२ ॥
त्रिकालं पूजयामासपुष्पधूपानुलेपनैः ॥
तथान्यैर्बलिसत्का रैर्गीतैर्नृत्यैःपृथग्विधैः ॥ ४३ ॥
ततो वर्षसहस्रांते तुष्टस्तस्य महेश्वरः ॥
प्रोवाच वरदोऽस्मीति शक्र प्रार्थय वांछितम् ॥ ४४ ॥
॥ शक्र उवाच ॥ ॥।
मातुर्द्रोहकृतं पापं यातु मे त्रिपुरांतक ॥
तथाऽन्येषां मनुष्याणां येऽत्र त्वां श्रद्धयान्विताः ॥
पूजयिष्यंति सद्भक्त्या स्नानं कृत्वा समाहिताः ॥ ४५ ॥ ॥
॥ सूत उवाच ॥ ॥
स तथेति प्रतिज्ञाय जगामादर्शनं हरः ॥
शक्रोऽपि रहितः पापैर्जगाम त्रिदशालयम् ॥ ४६ ॥
एवं तत्र समुत्पन्नं तीर्थं तद्बालमंडनम् ॥।
स्वामिद्रोहकृतात्पापान्मुच्यंते यत्र मानवाः ॥ ४७ ॥
एतद्वः सर्वमाख्यातं बालमंडनसंभवम् ॥
माहात्म्यं तु द्विज श्रेष्ठाः शृणुध्वमथ सादरम् ॥ ४८ ॥
आश्विनस्य सिते पक्षे दशम्यादि यथाक्रमम् ॥
यस्तत्र कुरुते श्राद्धं यावत्पंचदशी तिथिः ॥ ४९ ॥
तीर्थानां स हि सर्वेषां स्नानजं लभते फलम् ॥
श्राद्धस्य करणाद्वापि वाजिमेधफलं द्विजाः ॥ ६.२२.५० ॥
तस्मिन्काले सहस्राक्षः समागच्छति भूतले ॥
भागानां मर्त्यजातानां सेवनाय सदैव हि ॥ ५१ ॥
यावद्भूमितले शक्रस्तिष्ठत्येवं द्विजोत्तमाः ॥
तीर्थे तीर्थानि सर्वाणि तावत्तिष्ठन्ति तत्र वै॥५२॥।
तस्मात्सर्वप्रयत्नेन तस्मिन्काले विशेषतः ॥
स्नात्वा तत्र शुभे तीर्थै शक्रेश्वरमथाऽर्चयेत् ॥ ५३ ॥
अत्र श्लोकौ पुरा गीतौ नारदैन सुर षिंणा॥
शृण्वंतु मुनयः सर्वे कीर्त्यमानौ मया हि तौ ॥ ५४ ॥
बालमंडनके स्नात्वा शक्रेश्वरमथेक्षयेत् ॥
यः पुमानाश्विने मासि प्राप्ते श्रवण पञ्चके ॥
स पापैर्मुच्यते सर्वैराजन्ममरणाद्भुवि ॥ ५५ ॥
प्रभावात्तस्य तीर्थस्य सत्यमेतद्द्विजोत्तमाः ॥ ५६ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये बालमण्डनतीर्थमाहात्म्यवर्णनंनाम द्वाविंशोऽध्यायः॥२२॥
खण्डः ६ (नागरखण्डः) — Adhyāya 23
सूत उवाच॥
तस्यैव पश्चिमे भागे मृगतीर्थमनुत्तमम्॥
अस्ति पुण्यतमं ख्यातं समस्ते धरणीतले॥॥।
तत्र ये मानवास्तीर्थे सम्यक्छ्रद्धासमन्विताः ॥
चैत्रशुक्लचतुर्दश्यां स्नानं कुर्वंतिभास्करे ॥ २ ॥
मध्ये स्थिते न ते यांति तिर्यग्योनौ कथंचन ॥
अपि पापसमोपेता दोषैः सर्वैः समन्विताः ॥ ३ ॥
कृतघ्ना नास्तिकाश्चौरा मर्यादाभेदकास्तथा ॥
स्नाता ये तत्र सत्तीर्थे ते यांति परमां गतिम् ॥
विमानवरमारूढाः स्तूयमानाश्च किंनरैः ॥ ४ ॥
॥ ऋषय ऊचुः ॥ ॥
मृगतीर्थं कथं तत्र संजातं सूतनंदन ॥
किं प्रभावं समाचक्ष्व परं कौतूहलं हि नः ॥ ॥ ५ ॥
॥ सूत उवाच ॥ ॥
पूर्वं तत्र महारण्ये नानामृगगणावृते ॥
नानाविहंगसंघुष्टे नानावृक्षसमाकुले ॥ ६ ॥
समायाता महारौद्रा लुब्ध काश्चापपाणयः ॥
कृष्णांगा भ्रममाणास्ते यमदूता इवाऽपरे ॥ ७ ॥
एतस्मिन्नंतरे दृष्टं मृगयूथं तरोरधः ॥
उपविष्टं सुविश्रब्धं तैस्तदा द्विज सत्तमाः ॥ ८ ॥
अथ ताँल्लुब्धकान्दृष्ट्वा दूरतोऽपि भयातुराः ॥
पलायनपराः सर्वे मृगा जग्मुर्द्रुतं ततः ॥ ९ ॥
अथ ते सन्निधौ दृष्ट्वा गंभीरं सलिलाशयम् ॥
प्रविष्टा हरिणाः सर्वे भयार्ताः शरपीडिताः ॥ ६.२३.१० ॥
ततस्तत्सलिलस्यांतस्ते मृगाः सर्व एव हि ॥
मानुषत्वमनुप्राप्तास्तत्प्रभावा द्द्विजोत्तमाः ॥ ११ ॥
अथ तान्मानुषीभूतान्पप्रच्छुर्लुब्धका मृगान्॥
मृगयूथं समायातं मार्गेणानेन सांप्रतम् ॥
केन मार्गेण निर्यातं तस्माद्वदत मा चिरम् ॥ १२ ॥
॥ मानुषा ऊचुः ॥ ॥
वयं ते हरिणाः सर्वे मानुषत्वं सुदुर्लभम् ॥
तीर्थस्याऽस्य प्रभावेन प्राप्ताः सत्यं न संशयः ॥ १३ ॥
तच्छ्रुत्वा विस्मयाविष्टास्ततस्ते लुब्धका द्रुतम् ॥
त्यक्त्वा धनूंषि बाणांश्च स्नानं तत्र प्रचक्रिरे ॥।४॥
स्नानमात्रात्ततः सर्वे दिव्यमाल्यानुलेपनाः ॥
दिव्यगात्रधरा सर्वे संजाताः पार्थिवोत्तमाः ॥ १५ ॥
॥ ऋषय ऊचुः ॥ ॥
अत्याश्चर्यमिदं सूत यत्त्वया परिकीर्तितम् ॥
स्नानमात्रेण ते प्राप्ता लुब्धकास्तादृशं वपुः ॥ १६ ॥
तथा मानुष्यमापन्ना मृगास्तोयावगाहनात् ॥
तत्कथं मेदिनीपृष्ठे तत्तीर्थं संबभूव ह ॥ १७ ॥
॥ सूत उवाच ॥ ॥
लिंगभेदोद्भवं तोयं यत्पुरा वः प्रकीर्तितम् ॥
आच्छन्नं पांसुभिः कृत्स्नं वायुना शक्रशासनात् ॥ १८ ॥
वल्मीकरंध्रमासाद्य तन्निष्क्रांतं पुनर्द्विजाः ॥
कालेन महता तत्र प्रदेशे स्वल्पमेव हि ॥ १९ ॥
यत्र स्नातः पुरा सद्यस्त्रिशंकुः पृथिवीपतिः ॥
दिव्यं वपुः पुनः प्राप्त श्चंडालत्वेन संस्थितः ॥ ६.२३.२० ॥
एतस्मात्कारणात्तत्र स्नाताः सारंगलुब्धकाः ॥
सर्वे पापविनिर्मुक्ताः संप्राप्ताः परमं वपुः ॥ २१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मृगतीर्थमाहात्म्यवर्णनंनामत्रयोविंशोऽध्यायः ॥ २३ ॥ ॥छ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 24
॥ सूत उवाच ॥ ॥
तत्र विष्णुपदं नाम तीर्थं तीर्थे शुभे स्थितम् ॥
अपरं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥ १ ॥
अयने दक्षिणे प्राप्ते यस्तत्पूज्य समाहितः ॥
निवेदयेत्तथात्मानं सम्यक्छ्रद्धासमन्वितः ॥ २ ॥
स मृतोऽप्ययने याम्ये तद्विष्णोः परमं पदम् ॥
प्राप्नोति नात्र संदेहस्तत्प्रभावाद्द्विजोत्तमाः ॥ ३ ॥
तथा चैवोत्तरे प्राप्ते पूजयित्वा यथाविधि ॥
सम्यङ्निवेदयेद्भक्त्या आत्मानं यः समाहितः ॥
सोऽपि विष्णोः पदं पुण्यं प्राप्य संजायते सुखी ॥ ४ ॥
॥ ऋषय ऊचुः ॥ ॥
कथं तत्र पदं जातं विष्णोरव्यक्तजन्मनः ॥
कथं निवेद्यते तत्र सम्यगात्माऽ यनद्वये ॥ ५ ॥
तस्मिन्दृष्टेऽथवा स्पृष्टे यत्फलं लभ्यते नरैः ॥
तत्सर्वं सूतज ब्रूहि परं कौतृहलं हि नः ॥ ६ ॥
॥ सूत उवाच ॥ ॥
बलिर्बद्धो यदा तेन विष्णुना प्रभविष्णुना ॥
तदा क्रमैस्त्रिभिर्व्याप्तं त्रैलोक्यं सचराचरम् ॥ ७ ॥
हाटकेश्वरजे क्षेत्रे संन्यस्तः प्रथमः क्रमः ॥
महर्लोके द्विती यस्तु तदा तेन महात्मना ॥ ८ ॥
तृतीयस्य समुद्योगं यदा चक्रे स चक्रधृक् ॥
तदा भिन्नं द्विजश्रेष्ठा ब्रह्मांडं लघुतां गतम् ॥ ९ ॥
पादाग्रेणाथ संभिन्ने ब्रह्मांडे निर्मलं जलम् ॥
अंगुष्ठाग्रेण संप्राप्तं क्रमेण धरणीतले ॥ 6.24.१० ॥
ब्रह्मलोकं तदा कृत्स्नं प्लावयित्वा जलं हि तत् ॥
शुद्धस्फटिकसंकाशं कुन्देन्दुसदृशद्युति ॥
मत्स्यकच्छपसंकीर्णं ग्राहयूथैः समाकुलम् ॥ ११ ॥
ततः प्रभृति सा लोके गंगा विष्णुपदी स्मृता ॥
पवित्रमपि तत्क्षेत्रं नयन्ती सा पवित्रताम् ॥ १२ ॥
एवं विष्णोः पदं तत्र संजातं मुनिसत्तमाः ॥
सर्वपापहरं पुंसां तदा विष्णुपदी स्मृता ॥ १३ ॥
यस्तस्यां श्रद्धया युक्तः स्नानं कृत्वा यथोदितम् ॥
स्पर्शयेत्तत्पदं विष्णोः स याति परमं पदम् ॥ १४ ॥
यस्तत्रकुरुते श्राद्धं सम्यक्छ्रद्धासमन्वितः ॥
स्नात्वा विष्णुपदीतोये गयाश्राद्धफलं लभेत् ॥ १५ ॥
माघमासे नरः स्नानं प्रातरुत्थाय तत्र यः ॥
करोति सततं मर्त्यः स प्रयागफलं लभेत् ॥ १६ ॥
अथवा वत्सरं यावत्क्षणं कृत्वात्र भक्तितः ॥
तत्र स्नानं च यः कुर्यात्स मुक्तिं लभते नरः ॥ १७ ॥
यस्यास्थीनि जले तत्र क्षिप्यंते मनुजस्य च ॥
अपि पाप समाचारः स प्राप्नोति परां गतिम् ॥ १८ ॥
अपि पक्षिपतंगा ये पशवः कृमयो मृगाः ॥
प्रविष्टाः सलिले तस्मिंस्तृषार्ता भक्तिवर्जिताः ॥ १९ ॥
तेऽपि पापविनिर्मुक्ता देहांते चातिदुर्लभम् ॥
चक्रिणस्तत्पदं यांति जरामरणवर्जितम् ॥ 6.24.२० ॥
किं पुनः श्रद्धयोपेताः पर्वकाल उपस्थिते ॥
दत्त्वा दानं द्विजेन्द्राणां नरा वेदविदां द्विजाः ॥ २१ ॥
तत्र गाथा पुरा गीता नारदेन महर्षिणा ॥
विष्णुपद्याः समालोक्य प्रभावं पापनाशनम् ॥ २२ ॥
किं व्रतैर्नियमैर्वापि तपोभिर्विविधैर्मखैः ॥
कृतैर्विष्णुपदीतोये संस्थिते धरणीतले ॥ २३ ॥
एकः सर्वेषु तीर्थेषु स्नानं मर्त्यः समाचरेत् ॥
एको विष्णुपदीतोये स्नाति द्वाभ्यां समं फलम् ॥ २४ ॥
एको दानानि सर्वाणि ब्राह्मणेभ्यः प्रयच्छति ॥
एको विष्णुपदीतोये स्नाति द्वाभ्यां समं हि तत् ॥ २५ ॥
पञ्चाग्निसाधको ग्रीष्मे वर्षास्वाकाशमाश्रितः ॥
जलाश्रयश्च हेमंत एकः स्यात्पुरुषः क्षितौ ॥ २६ ॥
अन्यो विष्णुपदीतोये स्नात्वा विष्णुपदं स्पृशेत् ॥
तावुभावपि निर्दिष्टौ समौ पुरुषसत्तमौ ॥ २७ ॥
एकांतरोपवासी य एकः स्याज्जीवितावधि ॥
एकोविष्णुपदीतोये स्नाति द्वाभ्यां समं फलम् ॥ २८ ॥
त्रिरात्रोपोषितस्त्वेको यावद्वर्षशतं नरः ॥
एको विष्णुपदीतोये स्नाति द्वाभ्यां समं फलम् ॥ २९ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा मुनिश्रेष्ठो नारदो द्विजसत्तमाः ॥
विरराम मुनीनां स बहूनां पुरतोऽसकृत् ॥ 6.24.३० ॥
तस्मात्सर्व प्रयत्नेन स्नानं तत्र समाचरेत ॥
संस्पृशेच्च पदं विष्णोर्य इच्छेच्छ्रेय आत्मनः ॥ ३१ ॥
॥ ऋषय ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तमात्मानं विनिवेदयेत् ॥
विष्णोः पदस्य संप्राप्ते अयने दक्षिणोत्तरे ॥ ३२ ॥
तत्केन विधिना सूत मन्त्रैश्च वद सत्वरम् ॥
वयं येन च तत्कुर्मः सर्वं भक्तिसमन्विताः ॥ ३३ ॥
॥ सूत उवाच ॥
दक्षिणे चोत्तरे चापि संप्राप्ते चायनद्वये ॥
पूजयित्वा पदं विष्णोरिमं मन्त्रमुदीरयेत् ॥ ३४ ॥
षण्मासाभ्यंतरे मृत्युर्यद्यकस्माद्भवेन्मम ॥
तत्ते पदं गतिर्मे स्यादहं ते भृत्यतां गतः ॥ ३५ ॥
एवं प्रोच्य हरिं पश्चात्पूजयेद्ब्राह्मणांस्ततः ॥
अथ तैः सममश्नीयात्ततः प्राप्नोति सद्गतिम् ॥ ३६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विष्णुपदीतीर्थोत्पत्तिवर्णनंनाम चतुर्विंशोऽध्यायः ॥ २४ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 25
॥ सूत उवाच ॥ ॥
तत्राश्चर्यमभूत्पूर्वं यत्तद्ब्राह्मणसत्तमाः ॥
तद्वोऽहं संप्रवक्ष्यामि गंगामाहात्म्यसंभवम् ॥ १ ॥
चमत्कारपुरे विप्रः पुरासीत्संशितव्रतः ॥
चंडशर्मेति विख्यातो रूपौदार्यगुणान्वितः ॥ २ ॥
स यदा यौवनोपेतस्तदा वेश्यानुरागकृत् ॥
श्रोत्रियोऽप्यभवद्विप्रो यौवनोद्भारपीडितः ॥ ३ ॥
स कदाचिन्निशीथेऽथ तृषार्तश्च समुत्थितः ॥
प्रार्थयामास तां वेश्यां पानीयं पातुमुत्सहे ॥ ४ ॥
अथ सा सलिलभ्रांत्या करकं मद्यसंभवम् ॥
समादाय ददौ पानं तस्मै निद्राकुलाय च ॥ ५ ॥
मुखमध्यगते मद्ये सोऽपि तां कोपसंयुतः॥
वेश्यां प्रभर्त्सयामास धिग्धिक्शब्दैर्मुहुर्मुहुः ॥६॥
किमिदंकिमिदं पापे त्वया कर्म विगर्हितम् ॥
कृतं यन्मुखमध्ये मे प्रक्षिप्ता निंदिता सुरा ॥ ७ ॥
ब्राह्मण्यमद्य मे नष्टं मद्यपानादसंशयम् ॥
प्रायश्चित्तं करिष्यामि तस्मादात्मविशुद्धये ॥ ८ ॥
एवमुक्त्वा विनिष्क्रम्य तद्गृहाद्दुःखसंयुतः ॥
रुरोदाथ तदा गत्वा करुणं निर्जने वने ॥ ९ ॥
ततः प्रभातवेलायां स्नात्वा वस्त्रसमन्वितः ॥
त्यक्त्वा गात्रस्य रोमाणि समस्तानि द्विजोत्तमाः ॥ ६.२५.१० ॥
संप्राप्तो विप्रमुख्यानां सभा यत्र व्यवस्थिता ॥
पठंति सर्वशास्त्राणि वेदांतानि च कृत्स्नशः ॥ ११ ॥
अथासौ प्रणिपत्योच्चैः प्रोवाच द्विजसत्तमान्॥
जलभ्रांत्या सुरा पीता मया कुरुत निग्रहम् ॥ १२ ॥
अथ ते धर्मशास्त्राणि प्रविचार्य पुनःपुनः ॥
तमूचुर्ब्राह्मणाः सर्वे प्रायश्चित्तकृते स्थितम्॥ १३ ॥
॥ ब्राह्मणा ऊचुः ॥
अज्ञानाज्ज्ञानतो वापि सुरां चेद्ब्राह्मणः पिबेत्॥
अग्निवर्णं घृतं पीत्वा तावन्मात्रंविशु ध्यति ॥ १४ ॥
स त्वं वांछसि चेच्छुद्धिमग्निवर्णं घृतं पिब ॥
यावन्मात्रा सुरा पीता तावन्मात्रं विशुद्धये ॥ १५ ॥
स तथेति प्रतिज्ञाय घृतमादाय तत्क्षणात् ॥
चक्रे वह्निसमं यावत्पानार्थं द्विजसत्तमाः॥ १६ ॥
तावत्तस्य पिता प्राप्तः श्रुत्वा वार्तां सभार्यकः ॥
किमिदं किमिदं पुत्र ब्रुवाणो दुःख संयुतः ॥
अश्रुपूर्णेक्षणो दीनो वाष्पगद्गदया गिरा ॥ १७ ॥
ततः स कथयामास सर्वरात्रिसमुद्भवम्॥
वृत्तांतं तच्च विप्राणां प्रायश्चित्तं यथोचितम् ॥ ॥।८॥
अथ स ब्राह्मणान्प्राह सर्वांस्तान्द्विजसत्तमाः ॥
प्रायश्चित्तं सुतायास्मै ममान्यत्संप्रदीयताम् ॥।९॥
संचिन्त्य धर्मशास्त्राणि विचार्य च पुनः पुनः ॥
सर्वस्वमपि दास्यामि पुत्रहेतोरसंशयम् ॥ ६.२५.२० ॥
ततस्ते ब्राह्मणाः सर्वे भूयोभूयश्च सादरम् ॥
विचिंत्य धर्मशास्त्राणि तमूचुर्मुनिसत्तमाः ॥ ॥२॥।
नान्यदस्ति सुरापाने प्रायश्चित्तं द्विजन्मनाम् ॥
मौंजीहोमं विना विप्र यद्युक्तं तत्समाचर ॥२२॥
ततः स स्वसुतं प्राह नैव त्वं कर्तुमर्हसि ॥
यच्छ दानानि विप्रेभ्यस्तीर्थयात्रां समाचर ॥ २३ ॥
ततः शुद्धिं समाप्नोषि क्रमान्नियमसंयुतः ॥
व्रतैश्च विविधैश्चीर्णैः सत्यमेतद्ब्रवीम्यहम् ॥ २४ ॥
न ब्राह्मणसमादिष्टं प्रायश्चित्त विशुद्धये ॥ २५ ॥
॥ पुत्र उवाच ॥ ॥
एतन्मम महाभागा यद्ब्रुवंति व्रतादिकम् ॥
तस्मात्कार्यो मया तात मौंजीहोमो न संशयः ॥ २६ ॥
यन्मया तु कृतं बाल्ये तत्सर्वं क्षंतुमर्हसि ॥ २७ ॥
॥ सूत उवाच ॥ ॥
तस्य तं निश्चयं ज्ञात्वा स पिता सुतवत्सलः ॥
सर्वस्वं प्रददौ रुष्टो मरणे कृतनिश्चयः ॥ २८ ॥
साऽपि तस्य सती भार्या कृत्वा मृत्युविनिश्चयम् ॥
तमुवाच सुतं दृष्ट्वा सर्वं दत्त्वा गृहादिकम्॥ २९ ॥
आवाभ्यां संप्रविष्टाभ्यां वह्नौ पुत्र ततस्तदा ॥
मौंजीहोमस्त्वया कार्यो मां तातं यदि मन्यसे ॥ ६.२५.३० ॥
ततस्तौ दम्पती हृष्टौ यावद्वह्निसमीपगौ ॥
संजातौ मरणार्थाय स च ताभ्यां समुद्भवः ॥ ३१ ॥
तावत्प्राप्तो मुनिर्नाम शांडिल्यो वेदपारगः ॥
तीर्थयात्राप्रसंगेन तत्र देशे द्विजोत्तमाः ॥ ३२ ॥
स वृत्तांतं समाकर्ण्य कोपसंरक्तलोचनः ॥
अब्रवीद्ब्राह्मणान्सर्वान्भर्त्समानो मुहुर्मुहुः ॥ ३३ ॥
अहो मूढतमा यूयं यदेतद्ब्राह्मणत्रयम् ॥
वृथा मृत्युमवाप्नोति निग्रहे सुगमे सति॥३४॥
अत्र कात्यायनेनोक्तं यद्वचः सुमहात्मना ॥
तच्छृण्वन्तु द्विजाः सर्वे प्रायश्चित्ती तथाप्ययम् ॥ ३५ ॥
चांद्रायणानि कृच्छ्राणि तथा सांतपनानि च ॥
प्रायश्चित्तानि दीयंते यत्र गंगा न विद्यते ॥ ३६ ॥
अत्र विष्णुपदी गंगा तत्क्षेत्रे तु द्विजोत्तमाः ॥
तस्यां स्नानं करोत्वेष ततः शुद्धिमवाप्स्यति ॥ ३७ ॥
मौंजीहोमः प्रमाणं स्यान्मुनिवाक्येन चेद्भवेत् ॥
तदेतदपि वाक्यं हि कात्यायनमुनेः स्फुटम् ॥ ३८ ॥
ततस्ते ब्राह्मणाः सर्वे हर्षेण महतान्विताः ॥
साधुसाध्विति तं प्रोच्य प्रोचुः सत्यमिदं मुने ॥ ३९ ॥
ततः प्रबोध्य तं विप्रं निन्युस्तत्र द्विजोत्तमाः ॥
यत्र विष्णुपदी गंगा स्वयमेव व्यवस्थिता ॥ ६.२५.४० ॥
तत्र स ब्राह्मणो यावद्गंगातोयसमुद्भवम् ॥
गंडूषं कुरुते वक्त्रे तावच्छुद्धो बभूव सः ॥
उदरादखिलं तोयं निष्क्रांतं द्विजसत्तमाः ॥ ४१ ॥
ततोऽवगाहते यावत्तस्यास्तोयं सुशोभनम् ॥
तावदाकाशसंभूता गम्भीरोवाच भारती ॥ ४२ ॥
शुद्धोऽयं ब्राह्मणः साक्षाद्विष्णुपद्याः समागमात् ॥
स्नानादाचमनादेव तस्माद्यातु गृहं निजम् ॥ ॥ ४३ ॥
ततस्ते ब्राह्मणाः सर्वे चंडशर्मादयश्च ये ॥
दिष्ट्यादिष्ट्येति जल्पन्तः स्वानि हर्म्याणि भेजिरे ॥ ४४ ॥
॥ सूत उवाच ॥ ॥
एवं प्रभावा सा विप्रा गंगा विष्णुपदी स्थिता ॥
तस्य क्षेत्रस्य सीमांते पश्चिमे पापनाशिनी ॥ ४५ ॥
एतद्वः सर्वमाख्यातं विष्णुपद्याः समुद्भवम् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥ ४६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये विष्णुपदीगंगामाहाम्यवर्णनंनाम पञ्चविंशोऽध्यायः ॥ २५ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 26
॥ सूत उवाच ॥ ॥
यत्पूर्वापरसीमान्तं तन्मया संप्रकीर्तितम् ॥
दक्षिणोत्तरसंभूतं तद्वो वक्ष्यामि सांप्रतम् ॥ १ ॥
अस्ति भूभितले ख्याता मधुराख्या महापुरी ॥
नानाविप्रसमाकीर्णा यमुनातटसंश्रया ॥ २ ॥
तस्यामासीद्द्विजश्रेष्ठो गोकर्ण इति विश्रुतः ॥
वेदाध्ययनसंपन्नः सर्वशास्त्रविचक्षणः ॥ ३ ॥
अथापरोऽस्ति तन्नामा तत्र विप्रो वयोऽन्वितः ॥
सोऽपि च ब्राह्मणः श्रेष्ठः सर्वविद्यासु पारगः ॥ ४ ॥
कस्यचित्त्वथकालस्य यमः प्राह स्वकिंकरम् ॥
ऊर्ध्वकेशं सुरक्ताक्षं कृष्णदन्तं भयानकम् ॥ ५ ॥
अद्य गच्छ द्रुतं दूत मथुराख्यां महापुरीम् ॥
आनयस्व द्विजश्रेष्ठं तस्यां गोकर्णसंज्ञकम् ॥ ६ ॥
तस्यायुषः क्षयो जातो मध्याह्नेऽद्यतने दिने ॥
त्याज्योऽन्योऽस्ति च तत्रैव चिरायुस्तादृशो द्विजः ॥ .७ ॥
॥ सूत उवाच ॥ ॥
अथ दूतो द्रुतं गत्वा तां पुरीं यमशासनात् ॥
विभ्रमादानयामास गोकर्णं च चिरायुषम्॥ ८ ॥
ततः कोपपरीतात्मा यमः प्रोवाच किंकरम् ॥
दीर्घायुरेष आनीतो धिक्पाप किमिदं कृतम् ॥९॥
तस्मात्प्रापय तत्रैव यावदस्य च बन्धुभिः ॥
नो गात्रं दह्यते शोकात्सुसमिद्धेन वह्निना ॥ ६.२६.१० ॥
॥ ॥ ब्राह्मण उवाच ॥ ॥
नाहं तत्र गमिष्यामि दिष्ट्या प्राप्तोस्मि तेंऽतिकम्॥
वांछमानः सदा मृत्युं दारिद्र्येण कदर्थितः ॥ ११ ॥
॥ यम उवाच ॥ ॥
निमिषेणापि नो मर्त्यमानयामि महीतलात् ॥
आयुःशेषेण विप्रेन्द्र पूर्णेनाथ त्यजामि न॥ १२ ॥
तत एव हि मे नाम धर्मराज इति स्मृतम्॥
समत्वात्सर्वजंतूनां पक्षपातविवर्जनात् ॥ १३ ॥
तस्माद्गच्छ गृहं विप्र यावद्गात्रं न दह्यते ॥
बंधुभिस्तव शोकार्तैर्नाधुना तत्र ते स्थितिः ॥ १४ ॥
प्रार्थयस्व मनोऽभीष्टं वरं ब्राह्मणसत्तम ॥
न वृथा दर्शनं मे स्यात्कथंचिदपि देहिनाम् ॥ १५ ॥
॥ ब्राह्मण उवाच ॥ ॥
अवश्यं यदि गंतव्यं मया देव गृहं पुनः ॥
तन्ममाचक्ष्व पृच्छामि वरश्चैष भवेन्मम ॥ १६ ॥
एते ये नरका रौद्राः सेविताः पापकर्मभिः ॥
दृश्यंते वद कः केन कर्मणा सेव्यते जनैः ॥ १७ ॥
॥ यम उवाच ॥ ॥
असंख्या नरका विप्र यथा प्राणिगणाः क्षितौ ॥
कृत्स्नशः कथितुं शक्या नैववर्षशतैरपि ॥ १८ ॥
कीर्तयिष्यामि तेषां ते प्राधान्येन द्विजोत्तम ॥
एकविंशतिसंख्या ये पापिलोककृते कृताः ॥ १९ ॥
आद्योऽयं रौरवो नाम नरको द्विजसत्तम ॥
प्रतप्ततैलकुंभेषु पच्यंते यत्र जंतवः ॥ ६.२६.२० ॥
हा मातस्तात पुत्रेति प्रकुर्वंति सुदारुणम्॥
परपाकरताः क्षुद्राः परद्रव्या पहारकाः ॥ २१ ॥
द्वितीय एष विप्रेंद्र महारौरवसंज्ञितः ॥
कृतघ्नैः सेव्यते नित्यं तथा च गुरुतल्पगैः॥२२ ॥
रोरूयमाणैर्दाहार्तैः पच्यमानै र्हविर्भुजा ॥
खंडशः क्रियमाणैश्च तीक्ष्णशस्त्रैरनेकधा ॥ २३ ॥
तृतीयोंऽधतमोनाम नरकः सुभयावहः ॥
अत्र ये पुरुषा यांति तांश्च वक्ष्यामि सुद्विज ॥ २४ ॥
दुष्टेन चक्षुषा दृष्टाः परदारा नराधमैः ॥
सुलोहास्याः खगास्तेषां हरंत्यत्र विलोचने ॥ २९ ॥
चतुर्थोऽयं प्रतप्ताख्यो नरकः संप्रकीर्तितः ॥
अत्र ते यातनां भुक्त्वा तथा शुद्धा भवंति च ॥ २६ ॥
यैः कृता सततं निंदा गुरुदेवतपस्वि नाम्॥
तेषामुत्पाट्यते जिह्वा जाताजाताऽत्र भूरिशः ॥ २७ ॥
एषोऽन्यः पंचमो नाम सुप्रसिद्धो विदारकः ॥
मित्रद्रोहरताश्चात्र च्छिद्यंते करपत्रकैः ॥ २८ ॥
प्रतप्तवालुकापूर्णो ध्मायते यश्च वह्निना ॥
निकुम्भ इति विख्यातः षष्ठो लोकभयावहः ॥ २९ ॥
प्राणांतिकं पुरा दत्तं यैर्दुःखं प्राणिनां नरैः ॥
अपराधं विना तेऽत्र पच्यंते वालुकोत्करैः ॥ ६.२६.३० ॥
बीभत्सुरिति विख्यातः सप्तमो नरकाधमः ॥
मूत्रामेध्य समाकीर्णः समंतादतिगर्हितः ॥ ३१ ॥
राजगामि च पैशुन्यं यैः कृतं सुदुरात्मभिः ॥
अमेध्यपूर्णवक्त्रास्ते धार्यंतेऽत्र नराधमाः ॥ ३२ ॥
कुत्सितोनाम विख्यातो द्विजायं चाष्टमोऽधमः ॥
श्लेष्ममूत्राभिसंपूर्णैस्तथा गन्धैश्च कुत्सितैः ॥ ३३ ॥
गुरुदेवातिथिभ्यश्च स्वभृत्येभ्यो विशेषतः ॥
अदत्त्वा भोजनं यैस्तु कृतं तेऽत्र व्यवस्थिताः ॥ ३४ ॥
एष दुर्गमनामा च नवमो द्विजसत्तम ॥
तीक्ष्णकंटकसंकीर्णः सर्पवृश्चिकसंकुलः ॥ ॥ ३५ ॥
एकसार्थप्रयाताय क्षुत्क्षामायावसीदते ॥
अदत्त्वा भोजनं यैश्च कृतं तेऽत्र व्यवस्थिताः ॥ ३६ ॥
दशमोऽयं सुविख्यातो नरको नामदुः सहः ॥
तप्तलोहमयैः स्तंभैः समंतात्परिवारितः ॥ ३७ ॥
ये पापाः परदारेषु रक्ता मिष्टामिषेषु वा ॥
तप्तलोहमयान्स्तंभांस्तेऽत्रालिंगंति मानवाः ॥ ॥ ३८ ॥
एकादशोऽपरश्चायमाकर्षाख्यः प्रकीर्तितः ॥
नरको विप्रशार्दूल तप्तसंदंशसंकुलः ॥ ३९ ॥
स्त्रीविप्रगुरुदेवानां वित्तं चाश्नंति ये नराः ॥
संदंशैरपि कृष्यंते तत्र तप्तैः समंततः ॥ ६.२६.४० ॥
संदंशो द्वादशश्चायं तथाऽभक्ष्यप्रभक्षकाः ॥
लोहदंतमुखैर्गृधैर्भक्ष्यंतेऽत्र नराधमाः ॥ ४१ ॥
एष त्रयोदशोनाम सुविख्यातो नियंत्रकः ॥
समंतात्कृमिभिर्व्याप्तस्तथा च दृढबन्धनैः ॥ ४२ ॥
न्यासापहारकाः पापास्तत्र बद्धाश्च बंधनैः ॥
कृमिवृश्चिक कीटाद्यैर्भक्ष्यते द्विजसत्तम ॥ ४३ ॥
तथा चतुर्दशोनाम नरकोऽधोमुखः स्थितः ॥
नरकाणां समस्तानामेष रौद्रतमाकृतिः ॥ ४४ ॥
अत्र चाधोमुखा बद्धा वृक्षशाखावलंबिताः ॥
पच्यंते वह्निनाऽधस्ताद्ब्रह्मघ्ना ये च मानवाः ॥ ४५ ॥
यूकामत्कुणदंशाद्यैः संकीर्णोऽयं द्विजोत्तम ॥
नरको भीषणो नाम ख्यातः पञ्चदशो महान् ॥ ४६ ॥
कूटसाक्ष्यरतानां च तथैवानृतवादिनाम् ॥
अत्राश्रयो मया दत्तस्तथान्येषां कुकर्मिणाम् ॥ ४७ ॥
एष षोडश उद्दिष्टो नरको नाम क्षुद्रदः ॥
युधार्तैर्मानवैर्व्याप्तः समंताद्द्विजसत्तम ॥४९॥
मृष्टमांसानि यैः पापैर्भक्षितानि द्विजन्मभिः ॥
क्षुधार्तास्ते निजं कायं भक्षयंत्यत्र संस्थिताः ॥ ४९ ॥
तथा सप्तदशश्चायं क्षाराख्यो नरकः स्मृतः ॥
सुक्षारेण समाकीर्णः सर्वप्राणिभयावहः ॥ ६.२६.५० ॥
व्रतभंगकरा ये च ये च पाषण्डिनो नराः ॥
तेऽत्रागत्य शितैः शस्त्रैः पिष्यंते पापकृत्तमाः ॥ ५१ ॥
एष चाष्टादशो नाम कथितश्च निदाघकः ॥
ज्वलितांगारसंकीर्णो दुःसेव्यः सर्वदेहिनाम् ॥ ५२ ॥
दूषयंति च ये शास्त्रं काव्यं विप्रं च कन्यकाम् ॥
अंगारांतः स्थितातेऽत्र ध्रियंते मानवा द्विज ॥ ॥ ५३ ॥
एकोनविंशतिश्चायं प्रख्यातः कूटशाल्मलिः ॥
सुतीक्ष्णकंटकाकीर्णः समंताद्द्विजसत्तम ।ा ५४ ॥
नास्तिका भिन्नमर्यादा ये च विप्रस्य घातकाः ॥
ते सर्वेऽत्र नरा नित्यमारुहंति पतंति च ॥९५॥
एष विंशतिमो नाम नरको द्विजसत्तम ॥
असिपत्रवनाख्यश्च कष्टसेव्यो दुरात्मभिः ॥ ॥ ५६ ॥
अत्र यांति नरा विप्र पररंध्रनिरीक्षकाः ॥
कूटकर्मरता ये च शास्त्रविक्रयकारकाः ॥ ५७ ॥
एकविंशतिमा चैषा नाम्ना वैतरणी नदी ॥
सर्वैरेव नरैर्गम्या धर्मपापानुयायिभिः ॥ ५८ ॥
मृत्युकाले समुत्पन्ने धेनुं यच्छंति ये नराः ॥
तस्या लांगूलमाश्रित्य तारयंति सुखेन च ॥ ५९ ॥
अदत्त्वा गां च ये मर्त्या म्रियंते द्विजसत्तम ॥
तीर्त्वा हस्तादिभिर्दुर्गा त इमां संतरंति च ॥ ६.२६.६०॥।
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तम ॥
विस्तरेण तव प्रीत्या स्वरूपं नरकोद्भवम्॥६१॥।
तस्माद्गच्छ गृहं शीघ्रं यावद्गात्रं न दह्यते॥
बन्धुभिस्तव शोकार्तैर्गृहीत्वा वांछितं धनम् ॥ ६२ ॥ ॥
॥ ब्राह्मण उवाच ॥ ॥
यदि देव मया सम्यग्गंतव्यं निजमंदिरम् ॥
तद्ब्रूहि कर्मणा येन नरकं याति नो नरः ॥ ६३ ॥
॥ यम उवाच ॥ ॥ ॥
तीर्थयात्रापरो नित्यं देवतातिथिपूजकः ॥
ब्रह्मण्यश्च शरण्यश्च न याति नरकं नरः ॥ ६४ ॥
परोपकारसंयुक्तो नित्यं जपपरायणः ॥
स्वाध्यायनिरतश्चैव न याति नरकं द्विज ॥ ६५ ॥
वापीकूपतडागानि देवतायतनानि च ॥
यः करोति नरो नित्यं नरकं न स पश्यति ॥ ६६ ॥
हेमंते वह्निदो यः स्यात्तथा ग्रीष्मे जलप्रदः ॥
वर्षास्वाश्रयदो यश्च नरकं न स पश्यति ॥ ६७ ॥
व्रतोपवाससंयुक्तः शांतात्मा विजितेंद्रियः ॥
ब्रह्मचारी सदा ध्यानी नरकं याति नो नरः ॥ ६८ ॥
अन्नप्रदो नरो यः स्याद्विशेषेण तिलप्रदः ॥
अहिंसानिरतश्चैव नरकं न स पश्यति ॥६९॥
वेदाध्ययनसंपन्नः शास्त्रासक्तः सुमृष्टवाक् ॥
धर्माख्यानपरो नित्यं नरकं न स पश्यति ॥ ६.२६.७० ॥
॥ ब्राह्मण उवाच ॥ ॥
एतन्मूर्खोऽपि जानाति शुभकर्मकरः पुमान् ॥
न याति नरकं स्वर्गे तथा पापक्रियारतः ॥ ७१ ॥
तस्मादशुभकर्मापि कर्मणा येन पातकम् ॥
स्वल्पेनापि निहन्त्याशु याति स्वर्गं नरस्ततः ॥ ७२ ॥
तन्मेब्रूहि सुरश्रेष्ठ व्रतं नियममेव वा ॥
तीर्थं वा जपहोमं वा सर्वलोकसुखावहम् ॥ ७३ ॥
॥ यम उवाच ॥ ॥
अत्र ते सुमहद्गुह्यं कीर्तयिष्ये द्विजोत्तध ॥
गोपनीयं प्रयत्नेन वचनान्मम सर्वदा ॥७४॥
महापातकयुक्तोऽपि पुरुषो येन कर्मणा ॥
अनुष्ठितेन नो याति नरकं क्लेशकारकम्॥ ७५ ॥
आनर्तविषये रम्यं सर्वतीर्थमयं शुभम् ॥
हाटकेश्वरजं क्षेत्रं महापातकनाशनम्॥७६॥
तत्रैकमपि मासार्धं यो भक्त्या पूजयेद्धरम्॥
स सर्वपापयुक्तोऽपि शिवलोके महीयते ॥ ७७ ॥
तस्मात्तत्र द्रुतं गत्वा त्वमाराधय शंकरम् ॥
येन गच्छसि निर्वाणं दशभिः पुरुषैः सह॥ ७८ ॥
॥सूत उवाच॥ ॥
उपदेशं समाकर्ण्य स यदा प्रस्थितो गृहम्॥
धर्मराजस्य संहष्टो मधुरां नगरीं प्रति ॥७९॥
तावद्द्वितीयं गो कर्णं दूत आदाय संगतः ॥
दर्शयामास धृत्वाग्रे धर्मराजस्य सत्वरम् ॥ ६.२६.८० ॥
ततः प्रोवाच तं दूतं धर्मराजः प्रहर्षितः ॥
गोकर्णं पुरतो दृष्ट्वा द्वितीयं प्रस्थितं गृहम् ॥८१॥।
यस्मात्कालात्ययं कृत्वाऽऽनीतोऽयं ब्राह्मणस्त्वया ॥
तस्मादेनमपि क्षिप्रं द्वितीयेन समं त्यज ॥८२॥
ततस्तौ तत्क्षणान्मुक्तौ गोकर्णौ ब्राह्मणौ समम् ॥
स्वंस्वं कलेवरं प्राप्य सहसाथ समन्वितौ ॥ ८३ ॥
ततः स कथयामास गोकर्णः प्रथमो द्विजः ॥
यमोपदेशसंजुष्टो द्वितीयाय सविस्तरम् ॥ ८४ ॥
ततो गृहं परित्यज्य गोकर्णौ द्वावपि स्थितौ ॥
देवतायतनैर्व्याप्तं क्षेत्रं दृष्ट्वाऽखिलं ततः ॥ ८५ ॥
लिंगे संस्थापिते ताभ्यां सीमांते दक्षिणोत्तरे ॥
हाटकेश्वरजं क्षेत्रं संप्राप्य तपसि द्रुतम् ।। ८६ ॥
ततः शिवं समाराध्य तपः कृत्वा यथोचितम् ॥
सशरीरौ दिवं प्राप्तौ तत्प्रभावाद्विजोत्तमाः ॥ ८७ ॥
ताभ्यां मार्गचतुर्दश्यां कृष्णायां जागरः कृतः ॥
यः करोति नरो भक्त्या स गच्छति शिवालयम् ॥ ८८ ॥
अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात् ॥
निष्कामस्तु पुनर्मोक्षं नरो याति न संशयः ॥ ८९ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं सीमांतं द्विजसत्तमाः ॥
क्षेत्रस्यास्य प्रमाणं च विस्तरेण चतुर्दिशम् ॥ ६.२६.९० ॥
अत्रांतरे नरा ये च निवसंति द्विजोत्तमाः ॥
कृषिकर्मोद्यताश्चापि यांति ते परमां गतिम् ॥
किं पुनर्नियतात्मानः शांता दांता जितेंद्रियाः ॥ ९१ ॥
अपि कीटपतंगा ये पशवः पक्षिणो मृगाः ॥
तस्मिन्क्षेत्रे मृता यांति स्वर्गलोकं न संशयः ॥ ९२ ॥
किं पुनर्ये नरास्तत्र कृत्वा प्रायोपवेशनम् ॥
संन्यस्ताः श्रद्धयोपेता हृदयस्थे जनार्दने ॥ ९३ ॥
तस्मात्सर्व प्रयत्नेन तत्क्षेत्रं सेव्यमेव हि ॥
विशेषेण कलौ प्राप्ते युगे पापसमावृते ॥ ९४ ॥
पुनंति स्नानदानाभ्यां सर्वतीर्थान्यसंशयम् ॥
हाटकेश्वरजं क्षेत्रं पुनर्वासात्पुनाति च ॥ ९५ ॥
वापीकूपतडागेषु यत्रयत्र जलं द्विजाः ॥
तत्रतत्र नरः स्नातः सर्वपापैः प्रमुच्यते ॥ ९६ ॥
किं य्रज्ञैः किं वृथा दानैः क व्रतैः किं जपैरपि ॥
वरं तत्र कृतो वासः क्षेत्रे स्वर्गमभीप्सुभिः ॥ ९७ ॥
एतत्पवित्रमायुष्यं मांगल्यं पापनाशनम् ॥
हाटकेश्वरजक्षेत्रमाहात्म्यं शृण्वतां सदा ॥ ९८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गोकर्णतीर्थमाहात्म्य वर्णनंनाम षड्विंशोऽध्यायः ॥ २६ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 27
॥ ऋषय ऊचुः ॥ ॥
चतुर्युगस्वरूपं तु माहात्म्यं चैव सूतज ॥
प्रमाणं वद कार्त्स्न्येन परं कौतूहलं हि नः ॥ १ ॥
॥ सूत उवाच ॥ ॥
इममर्थं पुरा पृष्टो वासवेन बृहस्पतिः ॥
यथा प्रोवाच विप्रेंद्रास्तद्वो वक्ष्यामि सांप्रतम् ॥ २ ॥
पुरा शक्रं समासीनं सभायां त्रिदशैः सह ॥
सह शच्या महात्मानमुपासांचक्रिरे सुराः ॥ ३ ॥
गन्धर्वाप्सरसश्चैव सिद्धविद्याधराश्च ये ॥
गुह्यकाः किंनरा दैत्या राक्षसा उरगास्तथा ॥ ४ ॥
कलाः काष्ठानिमेषाश्च नक्षत्राणि ग्रहास्तथा ॥
सांगा वेदास्तथा मूर्तास्तीर्थान्यायतनानि च ॥ ५ ॥।
तथा चक्रुः कथाश्चित्रा देवदानवरक्षसाम् ॥
राजर्षीणां पुराणानां ब्रह्मर्षीणां विशेषतः ॥ ६ ॥
कस्मिंश्चिदथ संप्राप्ते प्रस्तावे त्रिदशेश्वरः ॥
पप्रच्छ विनयोपेतो विप्रश्रेष्ठं बृहस्पतिम् ॥ ७ ॥
भगवञ्छ्रोतुमिच्छामि प्रमाणं युगसंभवम् ॥
माहात्म्यं च स्वरूपं च यथावद्वक्तुमर्हसि ॥ ८ ॥
॥ बृहस्पति रुवाच ॥ ॥
अहं ते कीर्तयिष्यामि माहात्म्यं युगसंभवम् ॥
यत्प्रमाणं स्वरूपं च शृणुष्वावहितः स्थितः ॥ ९ ॥
अष्टाविंशतिसहस्राणि लक्षाः सप्तदशैव तु ॥
प्रमाणेन कृतं प्रोक्तं यत्र शुक्लो जनार्दनः॥६.२७.१०॥॥
चतुष्पादस्तथा धर्मः सुसंपूर्णा वसुन्धरा ॥
कामक्रोधविनिर्मुक्ता भयद्वेषविवर्जिताः॥॥॥
जनाश्चिरायुषस्तत्र शान्तात्मानो जितेन्द्रियाः ॥
पञ्चतालप्रमाणाश्च दीप्तिमन्तो बहुश्रुताः ॥ १२ ॥
तत्र षोडशसाहस्रं बालत्वं जायते नृणाम् ॥
ततश्च यौवनं प्रोक्तं द्वात्रिंशद्यावदेव हि ॥ १३ ॥
ततः परं च वार्द्धक्यं शनैः संजायते नृणाम्॥
लक्षांते परमं यावदन्येषामधिकं क्वचित् ॥ १४ ॥
तत्र सत्त्वाश्च ये केचित्पशवः पक्षिणो मृगाः ॥
दैवीं वाचं प्रजल्पंति न विरोधं व्रजंति च ।ा१५॥
क्रीडंति नकुलैः सर्पा बिडाला मूषकैः समम् ॥
पञ्चाननैर्मृगा नित्यमुलूकाश्चापि वायसैः ॥।६॥
अकृष्टा च मही सस्यं जनयत्यति भूरिशः ॥
व्रीहिमुद्गयवप्रायं सुस्वादु बलवृद्धिदम् ॥।७॥
सर्वर्तुफलिनो वृक्षाः सपुष्पफलधारिणः ॥
सुपत्राः कंटकैर्हीनाः कल्पपादपसंनिभाः॥।८॥
धेनवश्च प्रयच्छंति वांछितं स्वादु सत्पयः ॥
सर्वेष्वपि हि कालेषु भूरि सर्प्पिःप्रदं नृणाम्॥ १९ ॥
न तत्र विधवा नारी जायते न च दुर्भगा ॥
काकवंध्या सुतैर्हीना न च शीलविवर्जिता ॥६.२७.२०॥।
यथाजन्म तथा मृत्युः क्रमात्संजायते नृणाम् ॥
न वीक्षते पिता पुत्रं मृतं क्वापि कदाचन ॥ २१ ॥
न प्रेतत्वं च लोकानां मृतानां तत्र जायते ॥
न चापि नरके वासो न च रोगव्यथा क्वचित् ॥ २२ ॥
वेदांतगा द्विजाः सर्वे नित्यं स्वाध्यायशीलिनः ॥
वेदव्याख्यानसंहृष्टा ब्रह्मज्ञानविचक्षणाः ॥ २३ ॥
क्षत्रियाश्चापि भूपालमेकं कृत्वा सुभक्तितः ॥
तदादेशात्प्रभुंजंति महीं धर्मेण नित्यशः ॥२४॥
वैश्या वैश्यजनार्हाणि चक्रुः कर्माणि भूरिशः ॥
पशुपालनपूर्वाणि क्रयविक्रयजानि च ॥ २५ ॥
मुक्त्वैकां द्विजशुश्रूषा न शूद्रास्तत्र चक्रिरे ॥
किंचित्कर्म सुरश्रेष्ठ श्रद्धया परया युताः ॥ २६ ॥
न तत्र चांत्यजो जज्ञे न च संकरसंभवः ॥
नापवित्रो न वर्णानां पञ्चमो दृश्यते भुवि ॥ २७ ॥
यजनं याजनं दानं व्रतं नियम एव च ॥
तीर्थयात्रां नरास्तत्र निष्कामा एव कुर्वते ॥ २८ ॥
एवंविधं सहस्राक्ष मया ते परिकीर्तितम् ॥
आद्यं कृतयुगं पुण्यं सर्वलोकसुखावहम् ॥ २९ ॥
ततस्त्रेतायुगं नाम द्वितीयं संप्रवर्तते ॥
वर्षाणां षण्णवत्याढ्या लक्षा द्वादश संख्यया ॥ ६.२७.३० ॥
सोऽपि साक्षाजगन्नाथः श्वेतद्वीपाश्रयाश्रितः ॥
तत्र रक्तत्वमायाति भग वान्गरुडध्वजः ॥ ३१ ॥
त्रिपादस्तत्र धर्मः स्यात्पादेनैकेन पातकम् ॥
तेनापि जायते स्पर्द्धा वर्णानामितरेतरम् ॥ ३२ ॥
ततः फलानि वांछंति तीर्थयात्रोद्भवानि ते ॥
व्रतानां नियमानां च स्वर्गवासादिहेतवः ॥ ३३ ॥
ततः कामवशान्मोहं सर्वे गच्छंति मानवाः ॥
मोहाद्द्रोहं ततो गत्वा पापं कुर्वंत्यनुक्रमात् ॥ ३४ ॥
ततस्तु रौरवादीनि नरकाणि यमः स्वयम् ॥
सज्जीकरोति देवेन्द्र ह्येकविंशतिसंख्यया ॥ ३५ ॥
कर्मानुसारतस्तानि सेवयंति नराधमाः ॥
केचिदन्ये महेन्द्रादिलोकान्मोक्षं तथा परे ॥ ३६ ॥
त्रिविधाः पुरुषास्तत्र श्रेष्ठाश्चाधममध्यमाः ॥
त्रिविधानि च कर्माणि प्रकुर्वंति सुरेश्वर ॥ ३७ ॥
उन्नतास्तालमात्रेण तेजोवीर्यसमन्विताः ॥
चक्रुश्च कृषिकर्माणि वैश्याश्चैवान्नलिप्सया ॥ ३८ ॥
उप्तक्षेत्रं सकृच्चापि सप्तवारं लुनंति ते ॥
यथर्तु फलिनो वृक्षा यथर्तु कुसुमान्विताः ॥ ३९ ॥
यथर्तु पत्रसंयुक्तास्तत्र स्युः सुमनोहराः ॥
अग्निष्टोमादिका यज्ञाः प्रवर्तंते सहस्रशः ॥ ६.२७.४० ॥
इतरेतरसंस्पर्धैः क्रियमाणा नृपोत्तमैः ॥
ब्राह्मणैश्च सुरश्रेष्ठ स्वर्गलोकमभीप्सुभिः ॥ ४१ ॥
तीर्थयात्रां व्रतं दानं नियमं संयमं तथा ॥
परलोकमभीप्संतस्तत्र कुर्वंति मानवाः ॥ ४२ ॥
सहस्रेण तु वर्षाणां तत्र स्याद्यौवनं नृणाम् ॥
सहस्रपञ्चकं यावदूर्ध्वं वार्द्धक मुच्यते ॥ ४३ ॥
रजकश्चर्मकारश्च नटो बुरुड एव च ॥
कैवर्त्तमेदभिल्लाश्च चंडालाः शूद्रमानवाः ॥ ४४ ॥
संभवंति युगे तस्मिन्यो निसंसर्गतो विभो ॥
तथान्ये संख्यया हीना एतेभ्यो निंदिता नराः ॥ ४५८ ॥
॥ इन्द्र उवाच ॥ ॥
उत्पत्तिः कथमेतेषामंत्यजानां द्विजो त्तम ॥
यथावद्वद कार्त्स्न्येन अत्र कौतूहलं महत् ॥ ४६ ॥
॥ बृहस्पतिरुवाच ॥ ॥
एतेषामष्टधा सृष्टिर्जायतेंऽत्यजसंभवा ॥
योनि दोषात्सुरश्रेष्ठ जातेर्वक्ष्याम्यहं स्फुटम् ॥ ४७ ॥
ब्राह्मण्यां क्षत्रियाज्जातः सूत इत्यभिधीयते ॥
सूतेन रजकश्चैव रजकेन च चर्मकृत् ॥ ॥ ४८ ॥
चर्मकारेण संजज्ञे नटश्चांत्यजसंज्ञकः ॥
चत्वारः क्षेत्रसंभूता एते क्षेत्रे द्विजन्मनाम् ॥ ४९ ॥
तथा च मागधो जज्ञे वैश्येन द्विजसंभवे ॥
क्षेत्रे मागधवीर्येण बुरुडो मरुदुत्तम ॥ ६.२७.५० ॥
बुरुडेन च कैवर्तः कैवर्तेन च मेदकः ॥
चत्वारो वैश्यसंभूता एते क्षेत्रे द्विजन्मनाम् ॥
प्रजायन्ते सुरश्रेष्ठ सवकर्मसु गर्हिताः ॥ ५१ ॥
तथा शूद्रेण संजज्ञे ब्राह्मण्यां सुरसत्तम ॥
भिल्लाख्यश्चापि भिल्लेन चंडालश्च प्रजायते ॥ ५२ ॥
एतौ द्वावपि शूद्रेण भवतो द्विजसंभवे ॥
क्षेत्रे सर्वसुराधीश सत्यमेतन्मयोदितम् ॥ ५३ ॥
एतत्त्रेतायुगे प्रोक्तं मया ते सुरसत्तम ॥
आकर्णय प्रयत्नेन द्वापरस्याधुना स्थितिम् ॥ ५४ ॥
लक्षाष्टकप्रमाणेन तद्युगं परिकीर्तितम् ॥
चतुःषष्टिसहस्राणि वर्षाणां परिसं ख्यया ॥
कपिशो जायते तत्र भगवान्गरुडध्वजः ॥ ५५ ॥
द्वौ पादौ चैव धर्मस्य द्वौ पापस्य व्यवस्थितौ ॥
तत्र स्याद्यौवनं नृणां गते वर्षशतेऽ खिले ॥ ५६ ॥
ततोऽन्यैः समतिक्रांतैर्वार्धक्यं पञ्चभिः शतैः ॥
तत्र सत्यानृता लोका देवा भूपास्तथा परे ॥ ५७ ॥
नार्यश्चापि सुरश्रेष्ठ तत्स्व रूपाः प्रकीर्तिताः ॥
पंचहस्तप्रमाणेन चतुर्हस्तास्तथा परं ॥ ५८ ॥
नातिरूपेण संयुक्ता न च रूपविवर्जिताः ॥
अव्यक्तजल्पकाश्चापि पशवः पक्षिणो मृगाः ॥ ५९ ॥
नातिपुष्पफलैर्युक्ता वृक्षाश्चापिसुरेश्वर ॥
सस्यानि तानि जायन्ते तत्र चोप्तानिकर्षुकैः ॥ ६.२७.६० ॥
वर्षंति जलदाः कामं भवन्त्योषधयोऽखिलाः ॥
यत्किंचिद्भूतले ज्ञानं शास्त्रं वा सुरसत्तम ॥
तत्तत्र समभावेन न सत्यं नैव चानृतम् ॥ ६१ ॥
तीर्थानां च मखानां च द्वापरे सुरसत्तम ॥
फलं भावानुरूपेण दानानां च प्रजायते ॥ ६२ ॥
एतत्तव समाख्यातं युगं द्वापरसंज्ञकम् ॥
मया सर्वं सुराधीश यथादृष्टं यथा श्रुतम् ॥ ६३ ॥
शृणुष्वावहितो भूत्वा वदतो मम सांप्रतम् ॥
रौद्रं कलियुगंनाम यत्र कृष्णो जनार्दनः ॥ ६४ ॥
द्वात्रिंशच्च सहस्राणि वर्षाणां कथितं विभो ॥
तथा लक्षचतुष्केण साधुलोकविवर्जितम् ॥६५॥
तत्रैकपादयुक्तश्च धर्मः पापं त्रिभिः स्मृतम् ॥
पूर्वार्धेभ्यः परं सर्वं संभविष्यति पात कम् ॥ ६६ ॥
न शृण्वंति पितुः पुत्रा न स्नुषा भ्रातरो न च ॥
न भृत्या न कलत्राणि यत्र द्वेषः परस्परम् ॥ ६७ ॥
यत्र षोडशमे वर्षे नराः पलित यौवनाः ॥
तत्र द्वादशमे वर्षे गर्भं धास्यति चांगना ॥ ६८ ॥
आयुः परं मनुष्याणां शतसंख्यं सुरेश्वर ॥
नागानां च तरूणां च वर्षाणां यत्र नाधिकम् ॥ ६९ ॥
द्वात्रिंशद्धयमुख्यानां चतुर्विंशतिः खरोष्ट्रयोः ॥
अजानां षोडश प्रोक्तं शुनां द्वादशसंख्यया ॥ ६.२७.७० ॥
चतुष्पदानामन्येषां विंशतिः पंचभिर्युता ॥
यत्र काकाश्च गृध्राश्च कौशिकाश्चिरजीविनः ॥ ७१ ॥
तथा पापपरा लोका दुःस्थिताश्च विशेषतः ॥
तथा कण्टकिनो वृक्षा रूक्षाः पुष्पफलच्युताः ॥
सेवितास्तेऽपि गृध्राद्यैर्यत्र च्छायाविवर्जिताः ॥ ७२ ॥
यत्र धर्मो ह्यधर्मेण पीड्यते सुरसत्तम ॥
असत्येन तथा सत्यं भूपाश्चौरैः सदैव तु ॥ ७३ ॥
गुरवश्च तथा शिष्यैः स्त्रीभिश्च पुरुषाधमाः ॥
स्वामिनो भृत्यवर्गैश्च मूर्खैश्चापि बहुश्रुताः ॥ ७४ ॥
यत्र सीदंति धर्मिष्ठा नराः सत्यपरायणाः ॥
दान्ता विवेकिनः शान्तास्तथा परहिते रताः ॥ ७५ ॥
आधयो व्याधयश्चैव तथा पीडा महाद्भुता ॥
सदैव संस्थिता यत्र साधुपीडनवांछया ॥ ७६ ॥
अल्पायुषस्तथा मर्त्या जायंते वर्णसंकरात् ॥
ये केचन प्रजीवंति दुःखेन ते समन्विताः ॥७७॥
न वर्षति घनः काले संप्राप्तेऽपि यथोचिते ॥
न सस्यं स्यात्सुवृष्टेपि कर्षुकस्यापि वांछितम् ॥ ७८ ॥
न च क्षीरप्रदा गावो यद्यपि स्युः सुपोषिताः ॥
न भवंति प्रभू ताश्च यत्नेनापि सुरक्षिताः ॥ ७९ ॥ ॥
आविकानां तथोष्ट्रीणां यत्र क्षीरप्रशंसकाः ॥
लोका भवंति निःश्रीकास्तथा ये च मलिम्लुचाः ६.२७.८० ॥
तथा तपस्विनः शूद्राः शूद्रा धर्मपरायणाः ॥
शूद्रा वेदविचारज्ञा यज्ञकर्मणि चोद्यताः ॥ ८१ ॥
शूद्राः प्रतिग्रहीतारः शूद्रा दानप्रदास्तथा ॥
शूद्राश्चापि तथा वन्द्याः शद्रास्तीर्थेषु संस्थिताः ॥ ८२ ॥
पंचगर्तान्खनंत्येव मृत्युकाले नराधमाः ॥
शिरसा हस्तपादाभ्यां मोहात्संनष्टचेतनाः ॥ ८३ ॥
वेदविक्रयकर्तारो ब्राह्मणाः शौचवर्जिताः ॥ ८४ ॥
स्वाध्यायरहिताश्चैव शूद्रान्ननिरताः सदा ॥
असत्प्रतिग्रहाः प्रायो जिह्वालौल्यसमुत्सुकाः ॥ ८५ ॥
पाखंडिनो विकर्मस्थाः परदारोपजीविनः॥
कार्यकारणमाश्रित्य यत्र स्नेहः प्रजायते॥८६॥
न स्वभावात्सहस्राक्ष कथंचिदपि देहिनाम्॥
यास्यंति म्लेच्छभावं च सर्वे वर्णा द्विजातयः॥८७॥
नष्टोत्सवाविधर्माणो नित्यं संकरकारकाः॥
सार्धहस्तत्रयाः पूर्वं भविष्यंति युगादितः॥८८॥
ततो ह्रासं प्रयास्यंति वृद्धिं याति कलौ युगे ॥
भविष्यन्ति ततश्चांते मनुष्या बिलशायिनः ॥ ८९ ॥
अल्पत्वाद्दुर्लभत्वाच्च अशक्ता गृहकर्मणि ॥
भविष्यंत्यफला यज्ञास्तथा वेदव्रतानि च ॥ ६.२७.९० ॥
नियमाः संयमाः सर्वे मंत्रवादास्तथैव च ॥
तीर्थानि म्लेच्छसंस्पर्शाद्दूषितानि शतक्रतो ॥ ॥ ९१ ॥
स्वस्वभावविहीनानि हीनानि च तथा जलैः ॥
कुत्सिता मंत्रवादा ये कुत्सिताश्च तपस्विनः ॥ ९२ ॥
तत्र ते संभविष्यंति कुत्सिता ये च मानवाः ॥
कुलीनमपि संत्यज्य वरं रूपवयोन्वितम् ॥ ९३ ॥
वित्तलोभात्प्रदास्यंति कुत्सिताय नराः सुताम् ॥
कन्यकाः प्रसविष्यंति कन्यकाः सुरतोत्सुकाः ॥ ९४ ॥
कन्यकाः प्रकरिष्यंति पुरुषैः सह संगतिम् ॥
भर्तारं वंचयिष्यंति कुलीना अपि योषितः ॥ ९५ ॥
सर्वकृत्येषु दुःशीलाः। सुयत्नेनापि रक्षिताः ॥
निर्दयाश्चापि भूपालाः पीडयिष्यंति कर्षुकान् ॥ ९६ ॥
पीडयिष्यंति निर्दोषान्वित्तलोभादसंशयम् ॥
वधार्हमपि संप्राप्य वित्तलोभान्मलिम्लुचम् ॥ ९७ ॥
संत्यक्ष्यंति युगे तस्मिन्प्राणिद्रोहेऽपि वर्तिनम् ॥
क्षात्रधर्मं परित्यज्य करिष्यंति तथा रणम् ॥ ९८ ॥
॥ बृहस्पतिरुवाच ॥ ॥
एतद्वः सर्वमाख्यातं युगानां लक्षणं मया ॥
प्रमाणं च सुरश्रेष्ठ चतुर्णामप्यसंशयम् ॥ ९९ ॥
यश्चैतत्कीर्तयेन्मर्त्यः सदैव सुसा माहितः ॥
स नूनं मुच्यते पापादाजन्ममरणांतिकात् ॥ ६.२७.१०० ॥
शृणुयाद्वा नरो यश्च श्रद्धापूतेन चेतसा ॥
सोऽपि मुच्येन्न सन्देहः पापाच्च दिवसोद्भवात् ॥ १०१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये चतुर्युगस्वरूपवर्णनंनाम सप्तविंशोऽध्यायः ॥ २७ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 28
॥ सूत उवाच ॥ ॥
तस्यां देवसभायां च संस्थिता ये द्विजोत्तमाः ॥
प्रभासादीनि तीर्थानि मूर्तानि सकलानि च ॥ १ ॥
तानि श्रुत्वा वचस्तस्य देवाचार्यस्य तादृशम् ॥
भयं कृत्वा महच्चित्ते प्रोचुश्च त्रिदिवेश्वरम् ॥ २ ॥
यद्येवं देवदेवेश भविष्य त्यशुभं युगम् ॥
वयं नाशं समेष्यामो न स्थास्यामो जगत्त्रये ॥ ३ ॥
पुरंदराद्य चास्माकं स्थानं किंचित्प्रदर्शय ॥
तस्मात्कीर्तय नः स्थानं किंचित्क्वापि पुरंदर ॥ ४ ॥
यदाश्रित्य नयिष्यामो रौद्रं कलियुगं विभो ॥
अस्पृष्टानि नरैर्म्लेच्छैः प्रभावसहितानि च ॥
पाताले स्वर्गलोके वा मर्त्ये वा सुरसत्तम ॥ ५ ॥
तेषां तद्वचनं श्रुत्वा कृपाविष्टः शतक्रतुः ॥
प्रोवाच ब्राह्मणश्रेष्ठं भूय एव बृहस्पतिम् ॥ ६ ॥
अस्पृष्टं कलिना स्थानं किंचि द्वद बृहस्पते ॥
समाश्रयाय तीर्थानां यदि वेत्सि जगत्त्रये ॥ ७ ॥
शक्रस्य तद्वचः श्रुत्वा चिरं ध्यात्वा वृहस्पतिः ॥
तत्र प्रोवाच तीर्थानि भया द्भीतानि हर्षयन्॥ ८ ॥
हाटकेश्वरमित्युक्तमस्ति क्षेत्रमनुत्तमम् ॥
लिंगस्य पतनाज्जातं देवदेवस्य शूलिनः ॥ ९ ॥
यत्र पूर्वं तपस्तप्तं विश्वामित्रेण धीमता ॥
त्रिशंकोर्भूमिपालस्य कृते तीर्थे महात्मना ॥ ६.२८.१० ॥
यत्र स्थित्वा सभूपालस्त्रिशंकुः पापवर्जितः ॥
चण्डालत्वं परित्यज्य सदेह स्त्रिदिवं गतः ॥ ११ ॥
यत्र शक्रसमादेशात्पूरितं पांसुभिः पुरा ॥
संवर्तकेन रौद्रेण वायुना तीर्थमुत्तमम् ॥ १२ ॥
यत्र रक्षत्यधस्ताच्च स स्वयं हाटकेश्वरः ॥
उपरिष्टात्प्रदेशं च कलौ देवोऽचलेश्वरः ॥ १३ ॥
हाटकेश्वरमाहात्म्यादस्पृष्टं कलिना हि तत् ॥
पंचक्रोशप्रमाणेन अचलेश्वरजेन च ॥ १४ ॥
तस्मास्वांशेन गच्छंतु तत्र तीर्थान्यशेषतः ॥
तेषां कलिभयं शक्र नैव तत्रास्त्यसंशयम् ॥ १५ ॥
तच्छ्रुत्वा वचनं तस्य सर्वतीर्थानि तत्क्षणात् ॥
हाटकेश्वरसंज्ञं तत्क्षेत्रं जग्मुर्द्विजोत्तमाः ॥ १६ ॥
यज्ञोपवीतमात्राणि कृत्वा स्थानानि चात्मनः ॥
क्षेत्रमासादयामासुस्तत्सर्वहि द्विजोत्तमाः ॥ १७ ॥
एतस्मात्कारणाजात क्षेत्रं पुण्यतमं हि तत् ॥
हाटकेश्वरदेवस्य महापातकनाशनम् ॥ १८ ॥
॥ ऋषय ऊचुः ॥ ॥
अत्याश्चर्यमिदं सूत यत्त्वयैतदुदाहृतम् ॥
संगमं सर्वतीर्थानां क्षेत्रे तत्र प्रकीर्तितम् ॥ १९ ॥
तावन्मात्रप्रभावाणि तत्स्थानि प्रभवंति किम् ॥
तानि तीर्थानि नो ब्रूहि विस्तरेण महामते ॥ ६.२८.२० ॥
नामतः स्थानतश्चैव तथा चैव प्रभावतः ॥
सर्वाण्यपिमहाभाग परं कौतूहलं हि नः ॥ ॥ २१ ॥
॥ सूत उवाच ॥ ॥
तिस्रः कोट्योऽर्धकोटिश्च तीर्थानां द्विजसत्तमाः ॥
हाटकेश्वरजं क्षेत्रं व्याप्य सर्वं व्यवस्थिताः ॥ ॥ २२ ॥
न तेषां कीर्तनं शक्यं कर्तुं वर्षशतैरपि ॥
तथा स्वायंभुवस्यादौ कल्पस्य प्रथमस्य च ॥ २३ ॥
कृतः समाश्रयस्तत्र क्षेत्रे तीर्थैः शुभावहे ॥
बहुत्वादथ कालस्य बहूनि द्विजसत्तमाः ॥ २४ ॥
उच्छेदं संप्रयातानि तीर्थान्यायतनानि च ॥
यान्यहं वेद कार्त्स्न्येन प्रभावसहितानि च ॥
तानि वः कीर्तयिष्यामि शृणुध्वं सुसमाहिताः ॥ २५ ॥
येषां संश्रवणादेव नरः पापात्प्रमुच्यते
ध्यानात्स्नानात्तथा दानात्स्पर्शनाद्विजसत्तमाः ॥ २६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये हाटकेश्वरक्षेत्रे सर्वतीर्थसमाश्रयवर्णनंनामाष्टाविंशोऽध्यायः ॥ २८ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 29
॥ सूत उवाच ॥ ॥
एवं सर्वेषु तीर्थेषु संस्थितेषु द्विजोत्तमाः ॥
तत्क्षेत्रं ख्यातिमापन्नं समस्ते धरणीतले ॥ १ ॥
समस्तेभ्यस्ततोऽदूरान्मुनयः शंसितव्रताः ॥
संश्रयंति ततो भूपास्तपोऽर्थं जरयाऽन्विताः ॥ २ ॥
तथा ते लिंगिनो दान्ताः सिद्धिकामाः समंततः ॥
समाश्रयंति तत्क्षेत्रं सवर्तीर्थसमा श्रयम् ॥ ३ ॥
तत्र सिद्धेश्वरंनाम लिंगमस्ति द्विजोत्तमाः ॥
सर्वसिद्धिप्रदं नृणां स्वयं सिद्धिप्रदायकम्॥ ४ ॥
निर्विद्य भूतले शर्वः सर्वव्यापी सदा शिवः ॥
हाटकेश्वरसंज्ञेऽस्मिन्क्षेत्रे देवः स्वयं स्थितः ॥ ५ ॥
लिंगरूपेण भगवान्प्रादुर्भूतः स्वयं हरः॥
स्मरणाद्दर्शनाच्चैव सर्वसिद्धिप्रदः सदा ॥६॥
सिद्धेनाराधितो यस्मात्तस्मात्सिद्धेश्वरः स्मृतः ॥
तस्यैव वरदानाद्धि अत्रैवावस्थितो हरः ॥ ७ ॥
यस्तं पश्यति सद्भक्त्या शुचिः स्पृशति वा नरः ॥
वांछितं लभते सद्यो यद्यपि स्यात्सुदुर्लभम् ॥ ८ ॥
तत्र सिद्धिं गताः पूर्वं शतशः पुरुषा भुवि ॥
दर्शनात्स्पर्शनाच्चान्ये प्रणामादपरे नराः ॥ ९ ॥
दक्षिणामूर्तिमासाद्य मन्त्रं तस्य षडक्षरम् ॥
यो जपेच्छ्रद्धयोपेतस्तस्यायुः संप्रवर्धते ॥ ६.२९.१० ॥
यावत्संख्यं जपेन्मत्रं तावत्संख्यान्यहानि सः ॥
आयुषः परतो मर्त्यो जीवते नात्र संशयः ॥ ११ ॥
॥ ऋषय ऊचुः ॥ ॥
अत्याश्चर्यमिदं सूत यत्त्वया परिकीर्तितम् ॥
आयुषोऽप्यधिकं मर्त्यो जीवते यदि मानवः ॥ १२ ॥
॥ सूत उवाच । ॥
अत्र वः कीर्तयिष्यामि स्वयमेव मया श्रुतम् ॥
वदतस्तत्समुद्दिश्य यद्वत्सस्य महात्मनः ॥ १३ ॥
पुरा मे वसमानस्य पुरतोऽत्र पितुर्गृहे ॥
आयातः स मुनिस्तत्र वत्सो नाम महाद्युतिः ॥ १४ ॥
वहमानो युवावस्थां द्वादशार्कसमद्युतिः ॥
अंगैः सर्वैस्तु रूपाढ्यः कामदेव इवापरः ॥ १५ ॥
मत्पित्रा स तदा दृष्टस्ततो भक्त्याऽभिवादितः ॥
अर्घ्यं दत्त्वा ततः प्रोक्तो विश्रांतो विनयेन च ॥ १६ ॥
स्वागतं तव विप्रेंद्र कुतस्त्वमिह चागतः ॥
आदेशो दीयतां मह्यं किं करोमि यथोचितम् ॥ १७ ॥
॥ वत्स उवाच ॥ ॥
तवाश्रमपदे सूत चातुर्मास्यसमुद्भवम् ॥
कर्तुमिच्छाम्यनुष्ठानं शुश्रूषां चेत्करोषि मे ॥ १८ ॥
॥ लोमहर्षण उवाच ॥ ॥
एवं विप्र करिष्यामि तवादेशमसंशयम् ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यस्त्वं मे गृहमागतः ॥ १९ ॥
एवमुक्ताथ मामाह स पिता द्विजसत्तमाः ॥
त्वया वत्सस्य कर्तव्या शुश्रूषा नित्यमेव हि ॥ ६.२९.२० ॥
ततोऽहं विनयोपेतस्तस्य कृत्यानि कृत्स्नशः ॥
करोमि स च मे रात्रौ चित्राः कीर्तयते कथाः ॥ २१ ॥
राजर्षीणां पुराणानां देवदानवरक्षसाम् ॥
द्वीपानां पर्वतानां च स्वयं दृष्ट्वा सहस्रशः ॥ २२ ॥
एकदा तु मया पृष्टः कथांते प्राप्य कौतुकम् ॥
विस्मयाविष्टचित्तेन स द्विजो द्विजसत्तमाः ॥ २३ ॥
भगवन्सुकुमारं ते शरीरं प्रथमं वयः ॥
द्वीपानां च करोषि त्वं कथाश्चित्राः पृथक्पृथक् ॥ २४ ॥
कथं सर्वं धरापृष्ठं ससमुद्रं निरीक्षितम् ॥
स्वल्पेन वयसा तात ( ?) विस्तरतो वद ॥ २५ ॥
त्वया ये कीर्तिता द्वीपाः समुद्राः पर्वतास्तथा ॥
मनसापि न शक्यास्ते गन्तुं मर्त्यैः कथंचन ॥ २६ ॥
अत्र कौतूहलं जातमश्रद्धेयं वचस्तथा ॥
श्रुत्वा श्रद्धेयवाक्यस्य तस्मात्सत्यं प्रकीर्तय ॥ २७ ॥
तपसः किं प्रभावोऽयं किं वा मंत्रपराक्रमः ॥
येन पृथ्वीतलं कृत्स्नं त्वया दृष्टं मुनीश्वर ॥ २८ ॥
किं वा देवप्रसादस्तु तवौषधिकृतोऽथवा ॥
तच्च पुण्यतमं तात त्वं मे ब्रूहि सविस्तरम् ॥ २९ ॥
अथ मां स मुनिः प्राह विहस्य मुनिसत्तमाः ॥
सत्यमेतत्त्वया ज्ञातं मम मंत्रपराक्रमम् ॥ ६.२९.३० ॥
सदाहमष्टसंयुक्तं सहस्रं शिवसन्निधौ ॥
जपामि शिवमंत्रस्य षडक्षरमितस्य च ॥ ३१ ॥
त्रिकालं तेन मे जातं सुस्थिरं यौवनं मुने ॥
अतीतानागतं ज्ञानं जीवितं च सुखोदयम् ॥ ३२ ॥
मम वर्षसहस्राणि बहूनि प्रयुतानि च ॥
संजातानि महाभाग दृश्यते प्रथमं वयः ॥ ३३ ॥
अत्र ते कीर्तयिष्यामि विस्तरेण महामते ॥
यथा सिद्धिर्मया प्राप्ता प्रसादाच्छंकरस्य च ॥ ३४ ॥
अहं हि ब्राह्मणो नाम्ना वत्सः ख्यातो महीतले ॥
नानाशास्त्रकृताभ्यासः पुराऽऽसं वेदपारगः ॥ ३५ ॥
एतस्मिन्नेव काले तु मेनका च वराप्सराः ॥
वसंतसमये प्राप्ता मर्त्यलोके यदृच्छया ॥ ३६ ॥
सा गता भ्रममाणाथ काम्यकंनाम तद्वनम् ॥
मत्तकोकिलनादाढ्यं मनोज्ञद्रुमसं कुलम् ॥ ३७ ॥
यत्रास्ते मुनिशार्दूलो देवरात इति स्मृतः ॥
व्रतस्वाध्यायसंपन्नस्तपसा ध्वस्तकिल्विषः ॥ ३८ ॥
उपविष्टो नदीतीरे देवतार्च्चापरायणः ॥
श्रद्धया परया युक्त एकाकी निर्जने वने ॥ ३९ ॥
अथ सा पश्यतस्तस्य विवस्त्रा प्राविशज्जलम् ॥
दिव्यरूपसमोपेता घर्मार्ता वरवर्णिनी ॥ ॥ ६.२९.४० ॥
अथ तस्य मुनींद्रस्य रेतश्चस्कन्द तत्क्षणात् ॥
दृष्ट्वा तां चारुसर्वांगीं जलमध्यं समाश्रिताम् ॥ ४१ ॥
एतस्मिन्नंतरे प्राप्ता सारंगी सुपिपासिता ॥
जलमिश्रं तया रेतः पीतं सर्वमशेषतः ॥ ४२ ॥
अथ साऽपि दधे गर्भं मानुषं वै प्रभावतः ॥
अमोघरेतसो मासे सुषुवे दशमे ततः॥४३॥
जनयामास दीप्तांगी कन्यां पद्मदलेक्षणाम् ॥
तस्मिन्नेव जले पुण्ये देवराताश्रमं प्रति ॥ ४४ ॥
अथ तां स मुनिर्ज्ञात्वा स्वज्ञानेन स्ववीर्यजाम् ॥
कृपया परयाविष्टो जग्राह च पुपोष च ॥ ४५ ॥
स्नेहेन महता युक्तः कृतकौतुकमंगलः ॥
रक्षमाणो वने चैनां श्वापदेभ्यः प्रयत्नतः ॥ ४६ ॥।
आजहार सुमृष्टानि तत्कृते सुफलानि सः ॥
स्वयं गत्वा सुदूरं च कानने श्वापदाकुले ॥ ४७ ॥
तत्रस्था ववृधे सा च नाम्ना ख्याता मृगावती ॥
शुक्लपक्षे यथा व्योम्नि कलेव शशलक्ष्मणः ॥ ४८ ॥
अथ सा भ्रममाणेन मया दृष्टा मृगेक्षणा ॥
ततोऽहं कामबाणेन तत्क्षणात्ताडितो हृदि ॥ ॥ ४९ ॥
विज्ञाय च कुमारीं तां सवर्णां चारुहासिनीम् ॥
आदरेण गृहं गत्वा स मुनिर्याचितस्ततः ॥ ६.२९.५० ॥
प्रयच्छैनां मम ब्रह्मन्पत्न्यर्थं निज कन्यकाम् ॥
यथात्मा पोषयिष्यामि भोजनाच्छादनादिभिः ॥ ५१ ॥
ततस्तेन प्रदत्ता मे तत्क्षणादेव सुन्दरी ॥
विधिना शास्त्रदृष्टेन नक्षत्रे भग दैवते ॥ ५२ ॥
ततः कतिपयाहस्य मयोढा सा सुविस्मिता ॥
सखीजनसमायुक्ता फलार्थं निर्गता वने ॥ ५३ ॥
अथ वीरुधसंछन्ने वने तस्मिन्सुसंस्थिते ॥
तया न्यस्तं पदं मूर्ध्नि तृणाच्छन्नस्य भोगिनः ॥ ५४ ॥
सा दष्टा सहसा तेन पतिता वसुधातले ॥
विषार्दिता गतप्राणा तत्क्षणादेव भामिनी ॥ ५५ ॥
अथ सख्यः समागत्य तस्या दुःखेन दुःखिताः ॥
शशंसुस्ता यथावृत्तं रुदन्त्यो मम सूतज ॥ ५६ ॥
ततोऽहं सत्वरं गत्वा दृष्ट्वा तां पतितां भुवि ॥
विलापान्कृतवान्दीनो रुदितं करुणस्वरम् ॥ ५७ ॥
इयं मे सुविशालाक्षी मनःप्राणसमा प्रिया ॥
मृता भूमौ यया हीनो नाहं जीवितुमुत्सहे ॥ ५८ ॥
सोऽहमद्य गमिष्यामि परलोकं सहानया ॥
प्रियारहितहर्म्यस्य जीवितस्य च किं फलम् ॥ ५९ ॥
पुत्रपौत्रवधूभिश्च भृत्यवर्गयुतस्य च ॥
पत्नीहीनानि नो रेजुर्गृहाणि गृहमेधिनाम् ॥ ६.२९.६० ॥
यदीयं कर्णनेत्रांता तन्वंगी मधुरस्वरा॥
न जीवति पृथुश्रोणी मरिष्येऽ हमसंशयम् ॥ ६१ ॥
एवं विलपमानस्य मम सूत कुलोद्वह ॥
आगताः सुहृदः सर्वे रुरुदुस्तेऽपि दुःखिताः ॥ ६२ ॥
रुदित्वा सुचिरं तत्र तैः समं महतीं चिताम् ॥
कृत्वा तां संनिधायाथ प्रदत्तो हव्यवाहनः ॥ ६३ ॥
तत आदाय मां कृच्छ्रान्निन्युश्च स्वगृहं प्रति ॥
रुदन्तं प्रस्खलन्तं च मुह्यमानं पदेपदे ॥ ६४ ॥
ततो निशावशेषेऽहमुत्थाय त्वरयाऽन्वितः ॥
कांतादुःखपरीतात्मा गतोऽरण्यं तदेव हि ॥ ६५ ॥
कामेनोन्मत्ततां प्राप्तो भ्रममाण इतस्ततः ॥
विलपन्नेव दुःखार्तो वने जनविवर्जिते ॥ ६६ ॥
क्व गतासि विशालाक्षि विजनेऽस्मिन्विहाय माम् ॥
नाहं गृहं गमिष्यामि मम दुःखाय निर्दयः ॥ ६७ ॥
एषोऽरुणकरस्पर्शात्स्वाभां त्यजति चंद्रमाः ॥
निशाक्षये निरुत्साहो यथाहं विधिना कृतः ॥ ६८ ॥
अयं तनुः समायाति सविता रक्तमंडलः॥
निगदिष्यति मे वार्तां नूनं कच्चित्त्वदुद्भवाम् ॥ ६९ ॥
गगनं व्यापयन्सूर्यः संतापयति मां भृशम् ॥
बाह्ये चाभ्यंतरे कामः कथं वक्ष्यामि जीवितम् ॥ ६.२९.७० ॥
करींदः स्वयमभ्येति तत्कुचाभौ समुद्वहन् ॥
कुम्भौ गत्वा तु पृच्छामि यदि शंसति तां प्रियाम् ॥ ७१ ॥
एवं प्रलपमानस्य मम मोहो महानभूत् ॥
भास्करांशुप्रतप्तस्य मदनाकुलितस्य च ॥ ७२ ॥
यंयं पश्यामि तत्राहं भ्रममाणो महावने ॥
वृक्षं वा प्राणिनो वापि तंतं पृच्छामि मोहतः ॥ ७३ ॥
त्वद्दंतमुसलप्रख्यं यस्या ऊरुयुगं गज ॥
तां बालां वद चेद्दृष्टा दयां कृत्वा ममोपरि ॥ ७४
त्वया जंबूक चेद्दृष्टा बिंबाफलनिभाधरा ॥
दयिता मम तद्ब्रूहि श्रेयस्ते भविता महत् ॥ ७५ ॥
अथवा बिल्व शंस त्वं यदि बिल्वोपमस्तनी ॥
भ्रममाणा वने दृष्टा मम प्राणसमा प्रिया ॥७६॥
त्वत्पुष्पसदृशांगी सा मम भार्या मनस्विनी ॥
स त्वं चंपक जानीषे यदि त्वं शंस मे द्रुतम् ॥७७॥
मधूक तव पुष्पेण दयितायाः समौ शुभौ ॥
कपोलौ पांडुरच्छायौ दृष्ट्वा त्वां स्मृतिमागतौ ॥७८॥
कदलीस्तंभ सुव्यक्तं प्रियायाश्च सुकोमलौ ॥
ऊरू त्वत्तोऽपि तन्वंग्याः सत्येनात्मानमालभे ॥७९॥
भोभो मृग न मे भार्या त्वया दृष्टाऽत्र कानने ॥
त्वत्समे लोचने स्पष्टे कज्जलेन समावृते ॥ ६.२९.८० ॥
तृणादोऽपि सुवृद्धोऽपि वने वृद्धोऽपि यः पशुः ॥
सोऽपि कांतापरित्यक्तो न मृगो रमते क्षणम्॥८॥।
कांतायाः पुरतो नित्यं विधत्तेंऽगं कलापकृत् ॥
विहंगयोनि जातोऽपि वृद्ध्यर्थं पुष्पधन्वनः॥८२॥
योऽयं संदृश्यते हंसो हंसीमनुस्मरत्यसौ ॥
गतिस्तादृङ्न चाप्यस्य मत्प्रियायाश्च यादृशी ॥८३॥
एक एव सुधन्योऽयं चक्रवाको विहंगमः ॥
मुहूर्तमपि योऽभीष्टां न त्यजेच्चक्रवाकिकाम् ॥ ८४ ॥
य एष श्रूयते रावो विभ्रमं जनयन्मम ॥
किंवा पिकसमुत्थो ऽयं किं वा मे दयितोद्भवः॥ ८५ ॥
मां दृष्ट्वाऽयं मृगो याति तं मृगी याति पृष्ठतः ॥
धावमाना ममाप्येवमनुयाति पुरा प्रिया ॥८६॥
वारणोऽयं प्रियां कांतामनुरागानुयायिनीम् ॥
स्पर्शयत्यग्रहस्तेन मम संस्मारयन्प्रियाम ॥ ८७ ॥
हा प्रिये मृगशावाक्षि तप्तकांचनसंनिभे ॥
कथं मां न विजानासि भ्रमंतमिह कानने ॥ ८८ ॥
क्व सा भक्तिः क्व सा प्रीतिः क्व सा तुष्टिः क्व सा दया ॥
निगदन्तं सुदीनं मां संभाषयसि नो यतः ॥ ८९ ॥
एवं प्रलपमानस्य मम प्राप्ताः सुहृज्जनाः ॥
अन्वेषंतः पदं तत्र वनेषु विषमेषु च ॥ ६.२९.९० ॥
ततस्तैः कोपरक्ताक्षैः प्रोक्तोऽहं सूतनंदन ॥
भर्त्सद्भिः परुषैर्वाक्यैर्धिक्त्वां काममयाधुना ॥ ९१ ॥
त्वं किं शोचसि मूढात्मन्नशोच्यं जीवितं नृणाम् ॥
यतस्त्वामपि शोचंतं शोचयिष्यंति चापरे ॥ ९२॥
यूयं वयं तथा चान्ये संजाताः प्राणिनो भुवि ॥
सर्व एव मरिष्यामस्तत्र का परिदेवना ॥ ९३ ॥
अदर्शनात्प्रिया प्राप्ता पुनश्चादर्शनं गता ॥
न सा तव न तस्यास्त्वं वृथा किमनुशोचसि ॥ ९४ ॥
नायमत्यंतसंवासः कस्यचित्केनचित्सह ॥
अपि स्वेन शरीरेण किमुतान्यैर्वृथा जनैः ॥ ९५ ॥
मृतं वा यदि वा नष्टं योतीतमनुशोचति ॥
स दुःखेन लभेद्दुःखं द्वावनर्थो प्रपद्यते ॥ ९६ ॥
एवं संबोधयित्वा मां गृहीत्वा ते मुहुर्जनैः ॥
निन्यु र्गृहं ततः सर्वे वनात्तस्मात्सुदारुणात् ॥ ९७ ॥
ततो मम गृहस्थस्य स्मरमाणस्य तां प्रियाम् ॥
उत्पन्नः सुमहान्कोपः सर्पान्प्रति महामते ॥ ९८ ॥
ततः कोपपरीतेन प्रतिज्ञातं मया स्फुटम् ॥
सर्पानुद्दिश्य यत्सर्वं तन्निबोधय दारुणम् ॥ ९९ ॥
अद्यप्रभृति चेन्नाहं सर्पं दृष्टिवशं गतम् ॥
निहन्मि दण्डघातेन तत्पापं स्याद्ध्रुवं मम ॥ ६.२९.१०० ॥
यच्च निक्षेपहर्तॄणां यच्च विश्वासघातिनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ १०१ ॥
यत्पापं साधुनिंदायां मातापितृवधे च यत् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ १०२ ॥
परदाररतानां च यत्पापं जीवघातिनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ १०३ ॥
उक्तौ चाभिरतानां च यत्पापं गरदायिनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ १०४ ॥
कृतघ्नानां च यत्पापं परवित्तापहारिणाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ १०५ ॥
यत्पापं शस्त्रकर्तृणां तथा वह्निप्रदायिनाम्॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ १०६ ॥
व्रतभंगेन यत्पापं व्रतिनां निंदयापि यत् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ १०७ ॥
यत्पापं भ्रूणहत्यायां मृष्टमांसाशिनां च यत् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ १०८ ॥
वृक्षच्छेद प्रसक्तानां यत्पापं शल्यकारिणाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ १०९ ॥
पाखंडिनां च यत्पापं नास्तिकानां च यद्भवेत् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ ६.२९.११० ॥
मांसमद्यप्रसक्तानां यत्पापं विटभोजिनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ १११ ॥
मृषावादप्रसक्तानां पररंध्रावलोकिनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ ११२ ॥
यत्पापं साक्ष्यकर्तृणां धान्यसंग्रहकारिणाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ ११३ ॥
आखेटकरतानां च यत्पापं पाशदायिनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ ११४ ॥
नित्यं प्रेषणकर्तॄणां यत्पापं मधुजीविनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ ॥ ११५ ॥
अदृष्टदेववक्त्राणां यत्पापं मत्स्यजीविनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ ११६ ॥
विवादे पृच्छमानानां पक्षपातेन जल्पताम् ॥
भयाद्वा यदि वा लोभाद्द्वेषाद्वा कामतोऽपि वा ॥ ११७ ॥
यत्पापं तु भवेत्तेषां निर्दयानां दुरात्मनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ ११८ ॥
कन्याविक्रयकर्तृणां यत्पापं पापसंगिनाम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ ११९ ॥
विद्याविक्रयकर्तॄणां यत्पापं समुदाहृतम् ॥
तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥ ६.२९.१२० ॥
एवं मया प्रतिज्ञाय कोपाविष्टेन सूतज ॥
गृहीतो लगुडः स्थूलो वधार्थं पवनाशिनाम् ॥ १२१ ॥
ततःप्रभृत्यहं भूमौ भ्रमामि लगुडायुधः ॥
ब्राह्मीं वृत्तिं परित्यज्य मार्गमाणो भुजंगमान् ॥ १२२ ॥
मया कोपपरीतेन बहवः पन्नगा हताः ॥
विषोल्बणा महाकायास्तथान्ये मध्यमाधमाः ॥ १२३ ॥
एकदाहं वनं प्राप्तो गहनं लगुडायुधः ॥
शयानं तत्र चापश्यं जलसर्पं वयोऽधिकम् ॥ १२४ ॥
ततोऽहं दंडमुद्यम्य कालदंडोपमं रुषा ॥
हन्मि तं यावदेवाहं स मां प्रोवाच पन्नगः ॥ १२५ ॥
नापराध्यामि ते किंचिदहं ब्राह्मणसत्तम ॥
संरंभात्तत्किमर्थं मां जिघांससि वयोऽधिकम् ॥ १२६ ॥
ततो मया स संप्रोक्तः कोपात्सलिलपन्नगः ॥
महामन्युपरीतेन स्मृत्वा भार्यां मृगावतीम् ॥
मम भार्या प्रिया पूर्वं सर्पेणासीद्विनाशिता ॥१२७ ॥
ततोऽहं तेन वैरेण सूदयामि महो रगान् ॥
अद्य त्वामपि नेष्यामि वैवस्वतगृहं प्रति ॥
हत्वा दंडप्रहारेण तस्मादिष्टतमं स्मर ॥१२८॥
ततः स मां पुनः प्राह भयेन महतावृतः॥
शृणु तावद्वचोऽस्माकं ततः कुरु यथोचितम् ॥१२९॥
अन्ये ते पन्नगा विप्र ये दशंतीह मानवान् ॥
वयं सलिलसंभूता निर्विषाः सर्परूपिणः ॥ ६.२९.१३० ॥
एवं प्रजल्पमानोऽपि स दंडेन मया हतः ॥
सूत तत्सूदनार्थाय निर्विकल्पेन चेतसा ॥ १३१ ॥
अथासौ लगुडस्पर्शात्तत्क्षणादेव पन्नगः॥
द्वादशार्कप्रतीकाशो बभूव पुरुषो महान्॥ १३२ ॥
तदाश्चर्यं समालोक्य ततोऽहं विस्मयान्वितः ॥
उक्तवांस्तं प्रणम्योच्चैः क्षम्यतामिति सादरम् ॥ १३३ ॥
को भवान्किमिदं रूपं कृतं सर्पमयं विभो ॥
किं वा ते ब्रह्मशापोऽयं किं वा क्रीडासदेदृशी ॥ १३४ ॥
ततः प्रोवाच मां हृष्टः स नरः प्रश्रयान्वितः॥
शृणुष्वावहितो भूत्वा वृत्तांतं स्वं वदामि ते ॥ १३५ ॥
अहमासं पुरा विप्र चमत्कारपुरोत्तमे ॥
युवा परमतेजस्वी धनवान्सुसमृद्धिभाक् ॥ १३६ ॥
तत्रैव नगरे रम्ये ह्यस्ति पुण्यं शिवालयम् [।
सिद्धेश्वरस्य देवस्य पताकाभिरलंकृतम ॥।३७॥
कस्यचित्त्वथ कालस्य तत्र यात्रा व्यजायत ॥
तत्र वादित्रघोषेण नादितं भुवनत्रयम् ॥ १३८ ॥
अथ तत्र समायाता मुनयः संशितव्रताः ॥
देवस्य दर्शनार्थाय शतशोऽथ सहस्रशः ॥ १३९ ॥
शैवाः पाशुपताश्चैव तथा कापालिकाश्च ये ॥
महाव्रतधराश्चान्ये शिवभक्तिपरायणाः ॥ ६.२९.१४० ॥
एकाहारा निराहारा वायुभक्षास्तथापरे ॥
अब्भक्षाः फल भक्षाश्च शीर्णपर्णाशिनस्तथा ॥ १४१ ॥
तेऽभिवन्द्य यथान्यायं देवदेवं महेश्वरम् ॥
उपाविष्टाः पुरस्तस्य कथाश्चक्रुः पृथग्विधाः ॥ १४२ ॥
राजर्षीणां पुराणानां देवेन्द्राणां च हर्षिताः ॥
दयाधर्मसमोपेतास्तथान्येऽपि च भूरिशः ॥ १४३ ॥
केचित्तत्र प्रनृत्यंति गायंति च तथाऽपरे ॥
साधवो भक्तिसंयुक्ता वाद्यं चक्रुश्च भूरिशः ॥।९४॥
अन्ये दानानि यच्छंति धनिनः श्रद्धयान्विताः ॥
दीनांधकृपणेभ्यश्च तपस्विभ्यो विशेषतः ॥।४५॥
एवं महोत्सवे तत्र वर्तमाने महोदये ॥
आगतो बहुभिः सार्धमहं यौवनगर्वितः ॥ १४६ ॥
शिवदर्शनविद्वेषी तमसा संवृताशयः ॥
यात्रोत्सव विनाशाय प्रेरितोऽन्यैः सुदुर्जनैः ॥ १४७ ॥
जलसर्पं समादाय सुदीर्घं भीषणाकृतिम् ॥
लेलिहानं मुहुर्जिह्वां जरया परया वृतम् ॥ १४८ ॥
ततश्च क्षिप्तवांस्तत्र महाजनसमागमे ॥
तं दृष्ट्वा विद्रुताः सर्वे जना मृत्युभयार्दिताः ॥ १४९ ॥
तत्रासीत्तापसो नाम्ना सुप्रभः शंसितव्रतः ॥
समाधिस्थः सुशिष्याढ्यस्तपसा दग्धकिल्बिषः ॥ ६.२९.१५० ॥
निष्कंपां सुदृढामृज्वीं नातिस्तब्धां न कुंचिताम् ॥
ग्रीवां दधत्स्थिरां यत्नाद्गात्रयष्टिं च सर्वतः ॥ १५१ ॥
संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥
तालुमध्यगतेनैव जिह्वाग्रेणाचलेन च ॥ १५२ ॥
आवर्तपंकजांतःस्थमष्टपत्र मधोमुखम्॥
तन्मध्यकर्णिकासंस्थं संपश्यन्रविमंडलम् ॥।५८३॥
तस्यापि मध्यतश्चान्यं नरमंगुष्ठमात्रकम् ॥
द्वादशार्कप्रतीकाशमप्रतर्क्यतमाकृतिम्॥।५४॥
पश्यन्पद्मासनस्थं च वैदनाथं महेश्वरम्॥
यमक्षरं वदंत्येव सर्वगं सर्ववेदिनम् ॥ १५५ ॥
अनिंद्यं चाप्यभेद्यं च जरामरणवर्जितम् ॥
पुलकांचितसर्वांगो योगनिद्रावशंगतः ॥ १५६ ॥
आनंदाश्रुपरिक्लिन्नः संनिरुद्धेंद्रियाकृतिः ॥
कुंभयित्वोदरांतःस्थं स्वभ्यासाद्वायुपञ्चकम् ॥।५७॥
अंगुष्ठतर्जनीयोगं कृत्वा हृदयसंगतम् ॥
एवं तत्रोपविष्टस्य स सर्पस्तस्य विग्रहम् ॥ १५८ ॥
वेष्टयामास भोगेन निश्चलस्य महात्मनः ॥
एतस्मिन्नंतरे शिष्यस्तस्यासीत्सुतपोऽन्वितः ॥ १५९ ॥
श्रीवर्धनइतिख्यातो नानाशास्त्रकृतश्रमः ॥
स दृष्ट्वा सर्पभोगेन समंताद्वेष्टितं गुरुम् ॥ ६.२९.१६० ॥
नातिदूरस्थितं मां च ज्ञात्वा तत्कर्मकारिणम्॥
उवाच परुषं वाक्यं कोपसंरक्तलोचनः ॥ १६१ ॥
स्फुरताधरयुग्मेन बाष्पगद्गदया गिरा ॥
मया चेत्सुतपस्तप्तं गुरुशुश्रूषया सदा ॥ १६२ ॥
निर्विकल्पेन चित्तेन यदि ध्यातो महेश्वरः ॥
तेन सत्येन दुष्टोऽयं पापात्मा ब्राह्मणाधमः ॥
ईदृक्कायो भवत्वाशु गुरुर्मे येन धर्षितः ॥ १६३ ॥
अथाहं सर्पतां प्राप्तस्तत्क्षणादेव दारुणाम् ॥
पश्यतां सर्वलोकानां वदतां साधुसाध्विति ॥ १६४ ॥।
अथ गत्वा समाधेः स पर्यंतं संयतो मुनिः ॥
ददर्श निज गात्रस्थं द्विजिह्वं दारुणाकृतिम् ॥ १६५ ॥
अथ सर्पाकृतिं मां च दुःखेन महतान्वितम् ॥॥
तटस्थं भयसंत्रस्तं तथा सर्वजनं तदा ॥१६६ ॥
ततो विज्ञाय तत्सर्वं स मुनिर्ज्ञानचक्षुषा ॥
अब्रवीत्कृपायाविष्टः शिष्यं श्रीवर्धनं रुषा ॥।६७ ॥॥
न मे प्रियं कृतं शिष्य त्वयैतत्कर्म कुर्वता॥
शपता ब्राह्मणं दीनं नैष धर्मस्तपस्विनाम्॥१६८॥
समो मानेऽपमाने च समलोष्टाश्मकांचनः॥
तपस्वी सिद्धिमायाति सुहृच्छत्रुसमाकृतिः॥१६९॥
तस्मादजानता वत्स शप्तोऽयं ब्राह्मणस्त्वया॥
बाल्यभावात्प्रसादोऽस्य भूयोयुक्तो ममाज्ञया॥ ६.२९.१७० ॥
अथ श्रीवर्धनः प्राह प्रणिपत्य निजं गुरुम् ॥
अमर्षवशमापन्नः कृतांजलिपुटः स्थितः ॥ १७१ ॥
अज्ञानाद्यदिवा ज्ञानान्मया यद्व्याहृतं वचः ॥
तत्तथैव न संदेहस्तस्मान्मौनं गुरो कुरु ॥ १७२ ॥
न मृषा वचनं प्रोक्तं स्वैरेणापि गुरो मया ॥
किं पुनर्यत्तवार्थाय तस्मान्मौनं समाचर ॥ १७३ ॥
पश्चादुदयते सूर्यः शोषं याति महार्णवः ॥
अपि मेरुश्च शीर्येत न मे स्यादन्यथा वचः ॥ १७४ ॥
तमुवाच गुरुः शिष्यं स पुनः श्लक्ष्णया गिरा ॥
जानाम्यहं न ते वाणी कथंचिज्जायतेऽन्यथा ॥ १७५ ॥
सदा शिष्यो वयःस्थोपि शासनीयः प्रयत्नतः ॥।
किं पुनर्बाल एव त्वं तेन त्वां वच्मि भूरिशः ॥ १७६ ॥
धर्मं न व्ययते कोऽपि मुनीनां पूर्वसंचितम् ॥
तपोधर्मविहीनानां गतिस्तेषां न विद्यते ॥ १७७ ॥
क्षमैका सिद्धिदा प्रोक्ता यतीनां च विशेषतः ३॥
तस्मात्क्षमां पुरस्कृत्य वर्तितव्यं तपस्विभिः ॥ १७८ ॥
न पापं प्रति पापः स्याद्बुद्धिरेषा सनातनी॥
आत्मनैव हतः पापो यः पापं तु समाचरेत्॥१७९॥
दग्धः स दहते भूयो हतमेव निहंति च॥
सम्यग्ज्ञानपरित्यक्तो यः पापे पापमाचरेत्॥६.२९.१८०॥।
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः॥
अपकारिषु यः साधुः कीर्त्यते जनैः॥ १८१॥।
एवमुक्त्वा स तं शिष्यं ततो मामिदमब्रवीत् ॥
दयया परया युक्तः सुव्रतः शंसितव्रतः ॥ १८२ ॥
नान्यथा वचनं भावि मम शिष्यस्य पन्नग ॥
कञ्चित्कालं प्रतीक्षस्व तस्मात्सर्पवपुःस्थितः ॥ १८३ ॥
॥ सर्प उवाच ॥ ॥
कस्मिन्काले मुनिश्रेष्ठ शापो मेऽस्तमुपैष्यति ॥
प्रसादं कुरु दीनस्य शापस्याज्ञानिनस्तथा ॥ १८४ ॥
॥ सुव्रत उवाच ॥ ॥
मुहूर्तमपि गीतादि यः करोति शिवालये ॥
न तस्य शक्यते कर्तुं संख्या धर्मस्य भद्रक ॥ १८५ ॥
मुहूर्तमपि यो विघ्नं करोति च महोत्सवे ॥
तस्य पापस्य नो संख्या कर्तुं शक्या हि केनचित् ॥ १८६ ॥
तस्मात्त्वं पापको विप्रो नैव मुक्तिमवाप्स्यसि ॥
वार्तासंगेन दुर्बुद्धे तस्माच्छृणु वचो मम ॥।८७॥
शैवं षडक्षरं मंत्रं योजपेच्छ्रद्धयान्वितः ॥
अपि ब्रह्मवधा त्पापं जातं तस्य प्रणश्यति ॥ १८८ ॥
दशभिर्दिनजं पापं विंशत्या वत्सरोद्भवम् ॥
षडक्षरस्य जाप्येन पापं क्षालयते नरः ॥ १८९ ॥
तस्मात्त्वं जलमध्यस्थस्तं मंत्रं जप सादरम् ॥
येन पापं क्षयं याति कृतमप्यन्यजन्मनि ॥ ६.२९.१९० ॥
यदा त्वां जलमध्यस्थं वत्सोनाम द्विजो रुषा ॥
ताडयिष्यति दण्डेन तदा मोक्षमवाप्स्यसि ॥ १९१ ॥
तस्माद्गच्छ द्रुतं सर्प स्थानादस्माज्जलाशये ॥
किञ्चिदिष्टं मया प्रोक्तो विरराम स सन्मुनिः ॥ १९२ ॥
ततोऽहं दुःखसंयुक्तः संप्राप्तोऽत्र जलाशये ॥
षडक्षरं जपन्मन्त्रं नित्यमेव व्यवस्थितः ॥ १९३ ॥
त्वत्प्रसादादहं मुक्तः सर्पत्वाद्ब्राह्मणोत्तम ॥
किं करोमि प्रियं तेऽद्य तस्माच्छीघ्रतरं वद ॥ १९४ ॥
वत्सोनाम न सन्देहः स त्वं यः कीर्तितो मम ॥
सुव्रतेन विमानं मे पश्यैतदुपसर्पति ॥ १९५ ॥
ततः प्रोक्तो मया सम्यक्स सर्पो दिव्यरूपधृक् ॥
भगवन्नुपदेशं मे किञ्चिद्देहि शुभावहम् ॥ १९६ ॥
येन नो जायते दुःखं प्रियलोपसमुद्भवम् ॥
न दारिद्यं न च व्याधिर्न च शत्रुपराभवः ॥ १९७ ॥
अथोवाच स मां भूयः सोत्सुकः पुरुषोत्तमः ॥
प्रश्नभारः समाख्यातस्त्वया मम द्विजोत्तम ॥ १९८ ॥
न चैतच्छक्यते वक्तुं विमाने समुपस्थिते ॥
विस्तरात्तु ततो वच्मि संक्षेपेण तव द्विज ॥ १९९ ॥
शैवः षडक्षरो मन्त्रो नृणामशुभहारकः ॥
स त्वया शक्तितो विप्र जपनीयो दिवानिशम् ॥ ॥ ६.२९.२०० ॥
ततः प्राप्स्यत्यसंदिग्धं यद्यद्वांछसि चेतसा ॥
स्वर्गं वा यदि वा मोक्षं विमुक्तः सर्वपातकैः ॥ २०१ ॥
मया हि सुमहत्पापं सर्वदा समनुष्ठितम् ॥
तत्रापि मंत्रमाहात्म्यात्प्राप्ता लोका महोदयाः ॥ २०२ ॥
एको दानानि सर्वाणि यच्छति श्रद्धयान्वितः ॥
षडक्षरं जपेन्मंत्रमन्यस्ताभ्यां समं फलम् ॥ २०३ ॥
सर्वतीर्थाभिषेकं च कुरुतेऽन्यो नरो द्विज ॥
षडक्षरं जपेन्मंत्रमन्यस्ताभ्यां समं फलम् ॥ २०४ ॥
चांद्रायणसहस्रं तु कुरुतेऽन्यो यथोचितम् ॥
षडक्षरं जपेदन्यो मंत्रं ताभ्यां समं फलम् ॥ २०५ ॥
वर्षास्वाकाशशायी च हेमंते सलिलाशयः ॥
पञ्चाग्निसाधको ग्रीष्मे यावद्वर्षशतं नरः ॥ २०६ ॥
अन्यः षडक्षरं मन्त्रं शुचिः श्रद्धासमन्वितः ॥
जपेदहर्निशं मर्त्यः फलं ताभ्यां समं स्मृतम् ॥ ॥ २०७ ॥
पितृपक्षे सदा चैको गयायां श्राद्धमाचरेत् ॥
अन्यः षडक्षरं मन्त्रं जपेत्ताभ्यां समं फलम् ॥ २०८ ॥
गोसहस्रं ददात्येकः कार्तिक्यां ज्येष्ठपुष्करे ॥
षडक्षरं जपेन्मंत्रमन्यस्ताभ्यां समं फलम् ॥ २०९ ॥
संनिहित्यां नरः स्नाति राहुग्रस्ते दिवाकरे ॥
एको अन्यस्तु जपेन्मन्त्रं षडर्णं तुल्यमेव तत् ॥ ६.२९.२१० ॥
सोमे सोमग्रहेऽन्यस्तु सोमनाथं प्रपश्यति ॥
अन्यः षडक्षरं मन्त्रं जपेत्ताभ्यां समं फलम् ॥ २११ ॥
एकश्चण्डीश्वरं पश्येदयने चोत्तरे नरः ॥
अन्यः षडक्षरं मन्त्रं जपेत्ताभ्यां समं फलम् ॥ २१२ ॥
भृगुपातं पतेदेकः केदारं वीक्ष्य भक्तितः ॥
अन्यः षडक्षरं मंत्रं जपेत्ताभ्यां समं फलम् ॥ २१३ ॥
करीषं साधयेदन्यो दत्त्वा सर्वस्वमादितः ॥
षडक्षरं जपेन्मंत्रमन्यस्ताभ्यां समं फलम् ॥ २१४ ॥
सर्व संगपरित्यागं कृत्वैको ज्ञानमाप्नुयात् ॥
अन्यः षडक्षरं मन्त्रं जपेत्ताभ्यां समं फलम् ॥ २१५ ॥
एतत्ते परमं गुह्यं मया विप्र प्रकीर्तितम् ॥
नास्तिकाय न दातव्यं भक्तिहीनाय नैव च ॥ २१६ ॥
तथान्यदपि वक्ष्यामि हितबुद्ध्या द्विजोत्तम ॥
मम वाक्यं कुरुष्वाद्य यदीच्छसि परां गतिम्॥ २१७ ॥
अहिंसा परमो धर्मः सर्ववेदे प्रकीर्तितः ॥
ब्राह्मणस्य विशेषेण तस्मात्सर्पवधं त्यज ॥ २१८॥
अहिंसकानि भूतानि यो हिनस्ति सुनिर्दयः ॥
स याति नरकं घोरं यावदाभूतसंप्लवम् ॥ २१९ ॥
चराचराणां भूतानामभयं यः प्रयच्छति ॥
सर्वदा सर्वसौख्याढ्यो जायते दिवि चेह च ॥ ६.२९.२२० ॥
नास्ति भर्गसमो देवो नास्ति गंगासमा नदी ॥
नास्ति हिंसासमं पापं नास्ति धर्मो दयापरः ॥ २२१ ॥
अथाहमब्रुवं तं च तच्छ्रुत्वा तस्य जल्पितम् ॥
अहिंसालक्षणं धर्मं परलोकभयातुरः ॥ २२२ ॥
मन्यते वृद्धलोकानामेतद्वाक्यं श्रुतं मया ॥
भूपतेर्नेव दोषः स्याद्वने व्यापादितैर्मृगैः ॥ २२३ ।
प्रवदंति तथा वैद्या वैद्यशास्त्रविचक्षणाः ॥
भवंति पुष्टिसंयुका मांसादाश्चिरजीविनः ॥ २२४ ॥
तदत्र विषये ब्रूहि परं निःश्रेयसं वचः ॥
सर्वं कर्तास्म्यसंदिग्धं तव वक्त्राद्विनिर्गतम् ॥ २२५ ॥
अथ मां स पुनः प्राह वद मैवं द्विजोत्तम ॥
मतमेतद साधूनां पापानां मांसगृद्धिनाम् ॥ २२६ ॥
अहो शोच्यतमा लोके पापात्मानः सुनिर्दयाः ॥
सर्वदोषाकरं मांसं मूढाः स्वादंति ये नराः ॥ ॥। २२७ ॥
न मांसमायुषो हेतुरारोग्यस्य बलस्य वा ॥
सर्वमेतदसत्यं स्याच्छ्रणुष्वाद्य निदर्शनम् ॥ २२८ ॥
मांसाशिनोऽपि दृश्यंते रोगार्ता दुर्बलास्तथा ॥
स्वल्पायुषश्च मत्वैवं मांसं वर्जय दूरतः ॥ २२९ ॥
अमांसादा अपि क्ष्मायां दृश्यंते रोगवर्जिताः ॥
चिरायुषश्च पीनांगास्त स्मान्मांसं विवर्जयेत् ॥ ६.२९.२३० ॥
यो भक्षयति मांसानि सत्त्वानां जीवितैषिणाम् ॥
स याति नरकं घोरं तत्रस्थो भक्ष्यते च तैः ॥ २३१ ॥
न हि मांसं तृणात्काष्ठादुपलादपि जायते ॥
हते जंतौ भवेन्मांसं तस्मात्तत्परिवर्जयेत् ॥ २३२ ॥
एतदेव हि दृष्टांतं मांसस्य परिवर्जने ॥
यदंगं ह्रियते स्वं च कंटकेनापि विक्षतम् ॥२३३॥
आत्मौपम्येन भूतानि तस्मात्सर्वाणि पंडितैः ॥
द्रष्टव्यानि न हिंस्यानि रक्षणीयानि शक्तितः ॥ २३४ ॥
हंता चैवानुमंता च विशस्ता क्रयविक्रयी ॥
संस्कर्ता चोपहर्ता च खादकश्चाष्ट घातकाः ॥ २३५ ॥
धनेन क्रयकृद्धंति भक्षणेन च खादकः ॥
घातको वधबंधाभ्यामित्यन्यस्त्रिविधो वधः ॥ २३६ ॥
कर्मणा मनसा वाचा यो हिनस्ति न किंचन ॥
स प्राप्नोति परं स्थानं जरा मरणवर्जितम् ॥ २३७ ॥
शाकमूलफलाहारो ब्रह्मचर्यपरायणः ॥
न तस्य फलमाप्नोति यदि हिंसापरो नरः ॥ २३८ ॥
एको वर्षशतं साग्रं तपस्तपति दुस्तरम् ॥
अहिंसानिरतो यस्तु तयोः श्रेष्ठो दयान्वितः ॥ २३९ ॥
यंयं कामयते कामं दुष्प्रापमपि मानवः ॥
तं तमाप्नोत्यसंदिग्धं यदि स्यात्सुदयान्वितः ॥ ६.२९.२४० ॥
कामगेन विमानेन दिव्यस्त्रीशतसेवितः ॥
देववन्मोदते स्वर्गे सवभूताभयप्रदः ॥ २४१ ॥
एवमुक्त्वा महात्मा स पश्यतो मम सूतज ॥
विमानवरमारुह्य गतश्च त्रिदिवालयम् ॥ २४२ ॥
गन्धर्वैर्गीयमानस्तु स्तूयमानश्च किन्नरैः ॥
षडक्षरस्य मंत्रस्य माहात्म्ये न महामते ॥ २४३ ॥
तस्मिन्गते तदा स्वर्गं दुःखं मे समुपस्थितम् ॥
स्मृत्वा पूर्वं हतान्सर्पान्भग्नगात्रोऽभवं तदा ॥ २४४ ॥
ततोऽहं कृतवांस्तत्र विप्रलापाननेकशः ॥
स्वकर्मभयसंत्रस्तस्तस्मिन्नेव महावने ॥ २४५ ॥
अहो मया नृशंसेन बहवः प्राणिनो हताः ॥
निन्दितश्च महादेवो नर कार्तिर्भविष्यति ॥ २४६ ॥
सोऽहं हिंसां परित्यज्य चरिष्यामि महत्तपः ॥
शिवदीक्षां समासाद्य पूजयिष्ये महेश्वरम् ॥ २४७ ॥
यत्किंचित्त्रिषु लोकेषु प्रार्थयंति नराः सुखम् ॥
तत्सर्वं तपसा साध्यं तस्मात्कार्यं मया तपः ॥ २४८ ॥
अधुनैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ ॥
चरन्भैक्षं मुनिर्मौनी चरिष्याम्याश्रमानिमान् ॥ २४९ ॥
पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः ॥
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥ ६.२९.२५० ॥
एवं विलप्य यत्नेन मया सूतकुलोद्वह ॥
गृहीतं भक्तियुक्तेन शिवदीक्षाव्रतं ततः ॥ २५१ ॥
षडक्षरस्य मंत्रस्य अयुतं प्रजपाम्यहम् ॥
त्रिसन्ध्यं श्रद्धया युक्तः सिद्धेश्वरसमीपतः ॥ २५२ ॥
तत्प्रभावेन मे स्थैर्यं संजातं यौवनोद्भवम् ॥
तथा लोकातंरज्ञानं खेचरत्वं च सूतज ॥ २५३ ॥
सिद्धेश्वरं प्रयास्यामि द्वापरांते ह्यवस्थिते ॥
सदाशिवं प्रयास्यामि सत्यमेतन्मयोदितम् ॥ २५४ ॥
एतत्ते सर्वमाख्यातं मया सूतज मोक्षदम् ॥
षडक्षरस्य माहात्म्यं सर्वपापप्रणाशनम् ॥ २५५ ॥
यश्चैतच्छृणुयान्नित्यं सम्यक्छ्रद्धासमन्वितः ॥
आजन्ममरणात्पापात्सोऽपि मुच्येत मानवः ॥। ॥ २५६ ॥
तस्मात्त्वं हि महाभाग मन्त्रमेनं सदा जप ॥
संप्राप्स्यसि परान्कामान्मनसा वांछितान्सदा ॥ २५७ ॥
सूत उवाच ॥ ॥
एतच्छ्रुतं मया पूर्वं सकाशात्तस्य सद्गुरोः ॥
षडक्षरस्य माहात्म्यं यद्युष्माकं प्रकीर्तितम् ॥ २५८ ॥
धन्यं यशस्यमायुष्यं शत्रुपक्षक्षयावहम् ॥
पठतां शृण्वतां नित्यं सर्वकामाभयप्रदम् ॥ २५९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये षडक्षरमन्त्रमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनामैकोनत्रिंशोऽध्यायः ॥ २९ ॥ ॥ ध ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 30
॥ ऋषय ऊचुः ॥ ॥
तोषितः केन सिद्धेन तत्र सिद्धेश्वरो विभुः ॥
एतत्सर्वं समाचक्ष्व विस्तरात्सूतनन्दन ॥ १ ॥
॥ सूत उवाच ॥ ॥
आसीत्सिद्धाधिपोनाम पुरा हंस इति स्मृतः ॥
अनपत्यतया तस्य कालश्चक्राम भूरिशः ॥ २ ॥
ततश्चिन्ता प्रपन्नः स गत्वा देवपुरोहितम् ॥
पप्रच्छागिरसः पुत्रं विप्रश्रेष्ठं बृहस्पतिम् ॥ ३ ॥
भगवंश्चानपत्यस्य वार्द्धकं मे समागतम् ॥
तस्मादपत्यलाभाय ममोपायं प्रकीर्तय ॥ ४ ॥
तीर्थयात्रां व्रतं वापि शांतिकं वा द्विजोत्तम ॥
येन स्यात्संततिः शीघ्रं त्वत्प्रसादाद्बृहस्पते ॥ ५ ॥
बृहस्पतिश्चिरं ध्यात्वा सिद्धं प्राह ततः परम् ॥
चमत्कारपुरं क्षेत्रं गत्वा तत्र तपः कुरु ॥ ६ ॥
ततः प्राप्स्यसि सत्पुत्रं वंशोद्धारक्षमं शुभम् ॥
नान्यं पश्यामि सिद्धेश सुतोपायं शुभावहम् ॥ ७ ॥
ततस्तत्क्षेत्रमासाद्य स सिद्धः श्रद्धयान्वितः ॥
लिंगं संपूजयामास यथोक्तविधिना स्वयम् ॥ ८ ॥
ततश्चाराधयामास दिवानक्तमतंद्रितः ॥
बलि पूजोपहारेण गीतवाद्योच्छ्रयादिभिः ॥ ९ ॥
चांद्रायणैस्तथा कृच्छ्रैः पाराकैर्द्विजसत्तमाः ॥
तथा मासोपवासैश्च तोषयामास शंकरम् ॥ ६.३०.१० ॥
ततो वर्षसहस्राभ्यां तस्य तुष्टो महेश्वरः ॥
प्रोवाच दर्शनं गत्वा वृषारूढः सहोमया ॥ ११ ॥
हंसाद्य तव तुष्टोऽहं तस्मात्प्रार्थय वांछितम् ॥
अहं ते संप्रदास्यामि दुष्प्राप्यमपि निश्चितम् ॥ १२ ॥
॥ हंस उवाच ॥ ॥
अपत्यार्थं समारंभो मयाऽद्य विहितः पुरा ॥
तस्मात्त्वं देहि मे पुत्रान्वंशोद्धारक्ष मान्विभो ॥ १३ ॥
त्वया चैव सदा लिंगे स्थेयमत्र सुरोत्तम ॥
मम वाक्यादसंदिग्धं सर्वलोकहितार्थतः ॥ १४ ॥
॥ श्रीभगवानुवाच ॥
अद्यप्रभृति लिंगेस्मिन्नाश्रयो मे भविष्यति ॥
तव वाक्येन सिद्धेश सत्यमेतन्मयोदितम् ॥।५॥
यो मामत्र स्थितं मर्त्यः पूजयिष्यति भक्तितः ॥
तस्याहं संप्रदास्यामि चित्तस्थं सकलं फलम् ॥ १६ ॥
यो मे लिंगस्य याम्याशां स्थित्वा मंत्रं जपिष्यति ॥
षडक्षरं प्रदास्यामि तस्यायुष्यं सुतान्वितम् ॥॥ ॥ १७ ॥
एवमुक्त्वा महादेवस्ततश्चादर्शनं गतः ॥
हंसोऽपि च गृहं गत्वा पुत्रानाप महोदयान्॥ १८ ॥
तस्मात्सर्वप्रयत्नेन तल्लिंगं यत्नतो द्विजाः ॥
स्पर्शनीयं च पूज्यं च नमस्कार्यं प्रयत्नतः ॥ १९ ॥
षडक्षरेण मन्त्रेण कीर्तनीयं च शक्तितः ॥
वांछद्भिर्वांछितान्कामान्दुर्लभांस्त्रिदशैरपि ॥६.३०.२०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सिद्धेश्वरोत्पत्तिवृत्तान्तवर्णनंनाम त्रिंशोऽध्यायः ॥ ॥ ३० ॥ ॥ व ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 31
॥ सूत उवाच ॥ ॥
तथान्यदपि तत्रास्ति नागतीर्थमनुत्तमम्॥
यत्र स्नातस्य सर्पाणां न भयं जायते क्वचित्॥ १ ॥
तत्र श्रावणपञ्चम्यां यो नरः स्नानमाचरेत् ॥
कृष्णायां न भयं तस्य कुलेऽपि स्यादहेः क्वचित् ॥ २ ॥
तत्र पूर्वं तपस्तप्तं मातुः शापप्रपीडितैः ॥
शेष प्रभृतिनागैस्तु मुक्तिहेतोर्हुताशनात् ॥ ३ ॥
कम्बलाश्वतरौ नागौ तथा ख्यातौ धरातले ॥
तत्र तप्त्वा तपस्तीव्रं संसिद्धिं परमां गतौ ॥ ४ ॥
अनंतो वासुकिश्चैव तक्षकश्च महावलः ॥
कर्कोटश्चैव नागेन्द्रो मणिकण्ठस्तथापरः ॥५॥
ऐरावतस्तथा शंखः पुण्डरीको महाविषः ॥
शेषपूर्वाः स्मृता नागा एतेऽत्र नव नायकाः ॥ ६ ॥
एतेषां पुत्रपौत्राश्च तेषामपि विभूतिभिः ॥
असंख्याभिरिदं व्याप्तं समस्तं धरणीतलम्॥ ७ ॥
अथ ते कुटिला दुष्टा भक्षयंति सदा जनान् ॥
बहुत्वादपि संस्पर्शादपराधं विनापि च ॥ ८ ॥
ततः प्रजा इमाः सर्वा ब्रह्माणं शरणं गताः ॥
पीडिताः स्म सुरश्रेष्ठ सर्पेभ्यो रक्ष सत्वरम् ॥ ९ ॥
यावन्न शून्यतां याति सकलं वसुधातलम् ॥
व्याप्तं सर्वैस्ततः सर्पैर्विषाढ्यैरतिभीषणैः ॥ ६.३१.१० ॥
अथ तानब्रवीद्ब्रह्मा शेषाद्यान्नवनायकान्॥
स्वसंततेः प्ररक्षध्वं भक्ष्यमाणा इमाः प्रजाः ॥ ११ ॥
ते तथेति प्रतिज्ञाय जग्मुः सर्वे भुजंगमाः ॥।२॥
अथ तेषां बहुत्वाच्च नैव रक्षा प्रजायते ॥
वारिता अपि ते यस्मात्प्रकुर्वंति प्रजाक्षयम् ॥ १३ ॥
ततः कोपपरीतात्मा तानाहूय कुलाधिपान्॥
तानुवाच स्वयं ब्रह्मा सर्वदेवसमागमे ॥ १४ ॥
भक्षयंति यतः सर्पा अपराधं विना प्रजाः ॥
वारिता अपि ते तस्मात्तान्निगृह्णामि सांप्रतम् ॥ १५ ॥
भविष्यति महीपालो भूतले जनमेजयः॥
चित्रभानुर्मखे तस्य सर्पान्संभक्षयिष्यति ॥।६॥
मातुः शापाद्विशेषेण मंत्राकृष्टा द्विजोत्तमैः ॥
स्वयमेव पतिष्यंति सुसमिद्धे हुताशने ॥।७॥
तच्छ्रुत्वा वेपमानास्ते सर्पाणां नवनायकाः ॥
प्रोचुः प्रांजलयः सद्यः प्रणिपत्य पितामहम्॥ १८ ॥
भगवन्कुटिला ज्ञातिरस्माकं भवता कृता ॥
तत्कस्मात्कुरुषे कोपं जातिधर्मानुवर्तिनाम्॥।९॥
ब्रह्मोवाच॥
यदि नाम मया सृष्टा यूयं दिष्ट्या विषोल्बणाः ०।
अपराधं विना कस्माद्भक्षयध्व इमाः प्रजाः ॥ ६.३१.२० ॥
॥ नागा ऊचुः ॥ ॥
मर्यादां कुरु देवेश अस्माकं मानवैः सह ॥
अथवा संप्रयच्छस्व स्थानं मानुषवर्जितम् ॥ ॥ २१ ॥
पारिक्षितमखे तस्मिन्सर्पाणां चित्रभानुना ॥
समंताद्दह्यमानानां रक्षोपायं प्रचिंतय ॥ २२ ॥
यथा न संततिच्छेदो जायते प्रपितामह ॥
अस्माकं सर्वलोकेषु तथा त्वं कर्तुमर्हसि ॥ २३ ॥
॥ ब्रह्मोवाच॥ ॥
जरत्कारुरिति ख्यातो भविष्यति क्वचिद्द्विजः ॥
स संतानकृते भार्यां भूमावन्वेषयिष्यति ॥ २४ ॥
भाविनी च भवद्वंशे जरत्कन्या सुशोभना ॥
सा देया चादरात्तस्मै पुत्रार्थं वरवर्णिनी ॥ २५ ॥
ताभ्यां यो भविता पुत्रः स शेषान्रक्षयिष्यति ॥
सर्पाञ्छुद्धसमाचारान्मर्यादासु व्यवस्थितान् ॥ २६ ॥
सुतलं नितलं चैव तथैव वितलं च यत् ॥
तस्याधस्ताच्चतुर्थे च वसतिर्वो धरातले ॥ २७ ॥
मया दत्तेऽतिरम्ये च सर्वभोगसमन्विते ॥
तस्माद्व्रजत तत्रैव परित्यज्य महीतलम् ॥ २८ ॥
तत्र भुंजथ सद्भोगा न्गत्वाऽऽशु मम शासनात् ॥
पुत्रपौत्रसमोपेतांस्त्रिदशैरपि दुर्लभान् ॥ २९ ॥
॥ नागा ऊचुः ॥ ॥
भोगानपि प्रभुंजाना न वयं तत्र पद्मज ॥
शक्नुमो वस्तुमुर्व्यां नस्तस्मात्स्थानं प्रदर्शय ॥
मर्यादया वर्तयामो यत्रस्था मानवैः समम् ॥ ६.३१.३० ॥
॥ ब्रह्मोवाच ॥ ॥
एषा तिथिर्मया दत्ता युष्माकं धरणीतले ॥
पंचमी शेषकालस्तु नेयस्तत्रं रसातले ॥ ३१ ॥
तत्रागतैर्न हंतव्या मानवा दोषवर्जिताः ॥
मंत्रसंरक्षितांगाश्च तथौषधिकृतादराः ॥ ३२ ॥
चमत्कारपुरे क्षेत्रे मया दत्ता स्थितिः सदा ॥
पृथिव्यां कुलमुख्यानां नागानां नागसत्तमाः ॥ ३३ ॥
॥ सूत उवाच ॥ ॥
एवमुक्ताश्च ते नागा ब्रह्मणा सत्वरं ययुः ॥
पातालं कुलमुख्याश्च तस्मिन्क्षेत्रे व्यवस्थिताः ॥ ३४ ॥
तत्र श्रावणपंचम्यां यस्तान्पूजयते नरः ॥
स प्राप्नोति नरोऽभीष्टं तेषामेव प्रसादतः ॥ ३५ ॥
तस्य वंशेऽपि सर्पाणां न भयं स्यान्न किल्बिषम् ॥
न रोगो नोपसर्गश्च न च भूतभयं क्वचित् ॥ ३६ ॥
अपुत्रस्तत्र यः श्राद्धं करोति सुतवांछया ॥
पुत्रं विशिष्टमासाद्य पितॄणामनृणो हि सः ॥ ३७ ॥
तथा वंध्या च या नारी पंचम्यां भास्करोदये ॥
श्रावणे कुरुते स्नानं कृष्णपक्षे विशेषतः ॥
सा सद्यो लभते पुत्रं स्ववंशोद्धरणक्षमम् ॥ ३८ ॥
सर्वरोगविनिर्मुक्तं सुरूपं विनयान्वितम् ॥
भ्रष्टराज्यो नरो यो वा तत्र स्नानं समाचरेत् ॥ ३९ ॥
ततः पूजयते नागाञ्छ्रावणे पंचमीदिने ॥
स हत्वाऽरिगणा न्सर्वान्भूयोराज्यमवाप्नुयात् ॥ ६.३१.४० ॥
येषां मृत्युर्मनुष्याणां जायते सर्पभक्षणात् ॥
न तेषां जायते मुक्तिः प्रेतभावात्कथंचन ॥ ४१ ॥
यावन्न क्रियते श्राद्धं तस्मिंस्तीर्थे द्विजोत्तमाः ॥
तस्मात्सर्वप्रयत्नेन मृतस्याहिप्रदंक्षणात् ॥
श्राद्धं कार्यं प्रयत्नेन तस्मिंस्तीर्थेऽहिसंभवे ॥ ४२ ॥
अत्र वः कीर्तयिष्यामि पुरावृत्तां कथां शुभाम् ॥
इन्द्रसेनस्य राजर्षेः सर्वपातकनाशिनीम् ॥ ४३ ॥
इन्द्रसेनो महीपालः पुरासीद्रिपुदर्पहा ॥
अश्वमेधसहस्रेण इष्टं तेन महात्मना ॥ ४४ ॥
ततः स दैवयोगेन प्रसुप्तः शयने शुभे ॥
दष्टः सर्पेण मुक्तश्च इन्द्रसेनो महीपतिः ॥
वियुक्तश्चैव सहसा जीवितव्येन तत्क्षणात् ॥ ४५ ॥
ततस्तस्य सुतोऽभीष्टस्तस्योद्देशेन कृत्स्नशः ॥
चकार प्रेतकार्याणि स्मृत्युक्तानि च भक्तितः ॥ ॥ ४६ ॥
गंगायामस्थिपातं च कृत्वा श्राद्धानि षोडश ॥
गयां गत्वा ततश्चक्रे श्राद्धं श्रद्धासमन्वितः ॥ ४७ ॥
अथ स्वप्नांतरे प्राप्तः पिता तस्य स भूपतिः ॥
प्रोवाच दुःखितः पुत्रं बाष्पव्याकुललोचनम् ॥ ४८ ॥
सर्पमृत्योः सकाशान्मे प्रेतत्वं पुत्र संस्थितम् ॥
तेन मे भवता दत्तं न किञ्चिदुपतिष्ठते ॥ ४९ ॥
चमत्कारपुरं क्षेत्रं तस्मात्त्वं गच्छ सत्वरम् ॥
तत्र तीर्थे कुरु श्राद्धं सर्पाणां मत्कृते सुत ॥ ६.३१.५० ॥
येन संजायते मोक्षः प्रेतत्वा द्दारुणान्मम ॥
स ततः प्रातरुत्थाय तत्स्मृत्वा नृपतेर्वचः ॥ ५१ ॥
प्रेतरूपस्य दुःखार्तस्तत्तीर्थं सत्वरं गतः ॥
चकार च ततः श्राद्धं श्रावणे पंच मीदिने ॥ ५२ ॥
स्नात्वा श्रद्धासमोपेतः संनिवेश्य पुरोधसम् ॥
ततः स दर्शनं प्राप्तो भूयोऽपि च यथा पुरा ॥ ५३ ॥ प्रे
तरूपेण दुःखार्तो वाक्यमेतदुवाच ह ॥
न मयाऽऽसादितं किञ्चिद्यत्त्वया मत्कृते कृतम् ॥ ५४ ॥
फलं श्राद्धस्य चात्र त्वं कारणं शृणु पुत्रक ॥
श्राद्धार्हा ब्राह्मणाश्चात्र चमत्कारपुरोद्भवाः ॥ ५५ ॥
क्षेत्रेऽपि गर्हिताः श्राद्धे येऽन्यत्र व्यंगकादयः ॥
अत्र यत्क्रियते किञ्चिद्दानं वा व्रतमेव च ॥ ५६ ॥
तथान्यदपि विप्रार्हं कर्म यज्ञसमुद्भवम्॥
तत्तेषां वचनात्सर्वं पूर्णं स्यादपि खंडितम् ॥
परोक्षे वापि संपूर्णं वृथा संजायते स्फुटम् ॥ ५७ ॥
तस्मादस्मात्पुराद्विप्रान्समानीय ततः परम् ॥
मम नाम्ना कुरु श्राद्धं येन मुक्तिः प्रजायते ॥ ५८ ॥
अथासौ प्रातरुत्थाय स्मरमाणः पितुर्वचः ॥
दुःखेन महताविष्टः प्रविवेश पुरोत्तमे ॥ ५९ ॥
ततश्चान्वेषयामास श्राद्धार्हान्ब्राह्मणान्नृपः ॥
यत्नतोऽपि न लेभे स धनाढ्या ब्राह्मणा यतः ॥ ६.३१.६० ॥
न तत्र दुःखितः कश्चिद्दरिद्रोऽपि न दुःखितः ॥
नाकर्मनिरतो वापि पाखण्डनिरतोऽथवा ॥ ६१ ॥
स्थानेस्थाने महानादा उत्सवाश्च गृहेगृहे ॥
वेदविद्याविनोदाश्च स्मृति वादास्तथैव च ॥ ६२ ॥
श्रूयंते याज्ञिकानां च यज्ञकर्मसमुद्भवाः॥
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम्. ॥
न मृत्युः कस्यचित्तत्र पुरे ब्राह्मण सेविते ॥ ६३ ॥
यथर्तुवर्षी पर्जन्यः सस्यानि गुणवन्ति च ॥
भूरिक्षीरस्रवा गावः क्षीराण्याजाविकानि च ॥ ६४ ॥
यंयं प्रार्थयते विप्रं स श्राद्धार्थं महीपतिः ॥
स स तं भर्त्सयामास दुरुक्तैः कोपसंयुतः ॥ ६५ ॥
धिग्धिक्पापसमाचार क्षत्रियापसदात्मक ॥
किं कश्चिद्ब्राह्मणोऽश्नाति प्रेतश्राद्धे विशेषतः ॥ ६६ ॥
तस्माद्गच्छ द्रुतं यावन्न कश्चिच्छपते द्विजः ॥
निहन्ति वा प्रकोपेन स्वर्गमार्गनिरोधकम् ॥ ६७ ॥
॥ सूत उवाच ॥ ॥
ततः स दुःखितो राजा निश्चक्राम भयार्दितः ॥
चमत्कारपुरात्तस्माद्वैलक्ष्यं परमं गतः ॥ ६८ ॥
चिन्तयामास राजेंद्र स्मृत्वावस्थां पितुश्च ताम् ॥
किं करोमि क्व गच्छामि कथं मे स्यात्पितुर्गतिः ॥ ६९ ॥
ततः स सचिवान्सर्वान्प्रेषयित्वा गृहं प्रति ॥
एकाकी भिक्षुरूपेण स्थितस्तत्रैव सत्पुरे ॥६.३१.७०॥।
स ज्ञात्वा नगरे तत्र ब्राह्मणं शंसितव्रतम् ॥
सर्वेषां ब्राह्मणेंद्राणां मध्ये दाक्षिण्यभाजनम् ॥ ७१ ॥
देवशर्माभिधानं तु शरणागतवत्सलम् ॥
आहिताग्निं चतुर्वेदं स्मृतिमार्गानुयायिनम् ॥ ७२ ॥
ततस्तु प्रातरुत्थाय कृत्वांत्यजमयं वपुः ॥
शोधयामास कृच्छ्रेण मलोत्सर्गनिकेतनम् ॥ ७३ ॥ ।
अथ यः कुरुते कर्म तत्र विष्ठाप्रशोधनम् ॥
सोऽभ्येत्य तमुवाचेदं कोपसंरक्तलोचनः ॥ ७४ ॥
कुतस्त्वमिह संप्राप्तो मद्वृत्तेरुपघातकृत् ॥
तस्माद्गच्छ द्रुतं नो चेन्नयिष्ये यमसादनम् ॥ ७५ ॥
तस्यैवं वदतोऽप्याशु बलात्स पृथिवीपतिः ॥
शोधयामास तत्स्थानं देवशर्मसमुद्भवम् ॥ ७६ ॥
ततः संवत्सरस्यांते चंडालेन द्विजोत्तमाः ॥
स प्रोक्त उचिते काले प्रणिपत्य च दूरतः ॥ ७७ ॥
स्वामिंस्तव कुलेप्येवं गूथाशोधनकर्मकृत् ॥
तदस्माकं न चान्यस्य तत्किमन्यः प्रवेशितः ॥ ७८ ॥
अथ श्रुत्वा च तद्वाक्यं स प्राह द्विजसत्तमः ॥
न मया कश्चिदन्योऽत्र निर्दिष्टो गोप्यकर्मणि॥
अधिकारस्त्वयात्मीयस्तथा कार्यो यथा पुरा ॥ ७९ ॥
तदान्यदिवसे प्राप्ते सोंऽत्यजः कोपसंयुतः ॥
शस्त्रमादाय संप्राप्तो वधार्थं तस्य भूपतेः ॥६.३१.८०॥
शस्त्रोद्यतकरं दृष्ट्वा प्रहारेकृतनिश्चयम् ॥
ततस्तं लीलया भूयो मुष्टिना मूर्ध्न्यताडयत् ॥ ८१ ॥
ततस्तस्य विनिष्क्रांते लोचने तत्क्षणाद्द्विजाः ॥
सुस्राव रुधिरं पश्चात्पपात गतजीवितः ॥ ८२ ॥
तं श्रुत्वा निहतं तेन चंडालं निजकिंकरम् ॥
देवशर्मातिकोपेन तद्वधार्थमुपागतः ॥ ८३ ॥
ततः पुत्रैश्च पौत्रैश्च सहितोऽन्यैश्च बन्धुभिः ॥
लोष्टैस्तं ताडयामास भर्त्समानो मुहुर्मुहुः ॥ ८४ ॥
सोऽपि संताड्यमानस्तु प्रहारैर्जर्जरीकृतः ॥
वेदोच्चारं ततश्चक्रे दर्शयित्वोपवीतकम् ॥ ८५ ॥
अथ ते विस्मिताः सर्वे देवशर्मपुरःसराः ॥
ब्राह्मणास्तं समुद्वीक्ष्य वेदोच्चारपरायणम् ॥ ८६ ॥
पृष्टश्च किमिदं कर्म तवांत्यजजनोचितम् ॥
एषा वेदात्मिका वाणी स्पष्टाक्षरकलस्वना ॥
तत्किं शापपरिभ्रष्टस्त्वं कश्चिद्ब्राह्मणोत्तमः ॥ ८७ ॥
येनैवं कुरुषे कर्म गर्हितं चांत्यजैरपि ॥
ततः स प्रहसन्नाह क्षत्रियोऽहं महीपतिः ॥
विष्णुसेन इति ख्यातो हैहयान्वयसंभवः ॥ ८८ ॥
सोहमाराधनार्थाय त्वस्मिन्स्थान उपागतः॥
अद्य संवत्सरो जातः कर्मण्यस्मिन्रतस्य च॥८९॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा स विप्रः कृपयान्वितः ॥
कृतांजलिपुटो भूत्वा तमुवाच महीपतिम्॥६.३१.९०॥
किं तत्कृत्यं समुद्दिश्य त्वयैतत्कर्म गर्हितम् ॥
कृतं कीर्तय येनाशु तवाभीष्टं करोम्यहम् ॥९॥।
नास्ति मे किञ्चिदप्राप्तं तथाऽसाध्यं महीपते ॥
तस्मात्तव करिष्यामि कृत्यं यद्यपि दुर्लभम् ॥ ९२ ॥
॥ राजोवाच ॥ ॥
पिता ममाहिना दष्टः प्रेतत्वं समुपागतः ॥
सोऽत्र नागह्रदे श्राद्धे कृते मुक्तिमवाप्नुयात् ॥ ९३ ॥
तस्मात्तत्तारणार्थाय विप्रकृत्यं समाचर ॥
एतदर्थं मयैतत्ते कृतं कर्म विगर्हितम् ॥ ९४ ॥ ॥
॥ देवशर्मोवाच ॥ ॥
एवं कुरु नृपश्रेष्ठ श्राद्धेऽहं ते पितुः स्वयम् ॥
ब्राह्मणः संभविष्यामि तस्माच्छ्राद्धं समाचर ॥ ९५ ॥
॥ सूत उवाच ॥ ॥
अथ ते सुहृदस्तस्य पुत्राः पौत्राश्च बांधवाः ॥
प्रोचुर्नैतत्प्रयुक्तं ते श्राद्धं भोक्तुं विगर्हितम् ॥ ९६ ॥
तस्माद्यदि भवानस्य श्राद्धे भोक्ता ततः स्वयम् ॥
सर्वे भवन्तं त्यक्षामस्तथान्येऽपि द्विजोत्तमाः ॥ ९७ ॥
॥ देवशर्मोवाच ॥ ॥
कामं त्यजत मां सर्वे यूयमन्येऽपि ये द्विजाः ॥
मयैवास्य प्रतिज्ञातं भोक्तुं श्राद्धे महीपतेः ॥ ९८ ॥
एवमुक्त्वा स विप्रेंद्रस्तेनैव सहितस्तदा ॥
नागह्रदं समासाद्य श्राद्धे वै भुक्तवानथ ॥ ९९ ॥
भुक्तमात्रे ततस्तस्मिन्वागुवाचाशरीरिणी ॥
नादयंती जगत्सर्वं हर्षयंती महीपतिम् ॥ ६.३१.१०० ॥
प्रेतभावाद्विनिर्मुक्तः पुत्राहं त्वत्प्रभावतः ॥
स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदिवालयम् ॥ १०१ ॥
तत्कृत्वा नृपतिर्हृष्टस्तं प्रणम्य द्विजोत्तमम् ॥
प्रोवाच कुरु मे वाक्यं यद्ब्रवीमि द्विजोत्तम ॥ १०२ ॥
अस्ति माहिष्मतीनाम नगरी नर्मदातटे ॥
सा चास्माकं राजधानी पितृपर्यागता विभो ॥ १०३ ॥
अहं यच्छामि ते ब्रह्मन्समस्तविषयान्विताम्॥
मया भृत्येन तत्रस्थः कुरु राज्यमकंटकम् ॥ १०४ ॥
॥ देवशर्मोवाच ॥ ॥
न चैतद्युज्यते वक्तुं न विप्रो राज्यमर्हति ॥
तस्माद्गच्छ निजं राज्यं परिपालय पार्थिव ॥॥५॥
॥ सूत उवाच ॥ ॥
एवं विसर्जितस्तेन जगाम स महापतिः ॥
स्वं देशं हर्षसंयुक्तः कृतकृत्यो द्विजोत्तमाः ॥ ॥ १०६ ॥
सोऽपि सर्वैः परित्यक्तो ब्राह्मणैः पुरवासिभिः ॥
देवशर्मा समुद्दिश्य दोषं श्राद्धसमुद्भवम् ॥ १०७ ॥
ततो नागह्रदे तस्मिन्स कृत्वा निजमन्दिरम् ॥
निवासमकरोत्तत्र स्वाध्यायनिरतः शुचिः ॥ १०८ ॥
तत्रस्थस्य निरस्तस्य ये पुत्राः स्युर्द्विजोत्तमाः ॥
तेषां संततयो ऽद्यापि ते प्रोक्ता बाह्यवासिनः ॥ १०९ ॥
एतद्वः सर्वमाख्यातं नागतीर्थसमुद्भवम् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥ ६.३१.११० ॥
यश्चैतत्पठते भक्त्या संप्राप्ते पंचमीदिने ॥
शृणुयाद्वा न वंशेऽपि तस्य स्यात्सार्पजं भयम् ॥ १११ ॥
तथा विमुच्यते पापाद्भक्षजातान्न संशयः ॥
कृतादज्ञानतो विप्राः सत्यमेतन्मयोदितम् ॥ ११२ ॥
तस्मात्सर्वप्रयत्नेन नागतीर्थमनुत्तमम् ॥
माहात्म्यं पठनीयं वा श्रोतव्यं वा समाहितैः ॥ ११३ ॥
श्राद्धकाले तु संप्राप्ते यश्चैतत्पठते द्विजः ॥
स प्राप्नोति फलं कृत्स्नं गयाश्राद्धसमुद्भवम् ॥ ११४ ॥
तथा ये कीर्तिता दोषाः श्राद्धे द्रव्यसमुद्भवाः ॥
व्रतवैक्लव्यजाश्चापि तथा ब्राह्मणसंभवाः ॥ ११५ ॥
ते सर्वे नाशमायांति कीर्त्यमाने समाहितैः ॥
नागह्रदस्य माहात्म्ये श्राद्धकाल उपस्थिते ॥ ११६ ॥
तथा विनिहता गोभिर्ब्राह्मणैः श्वापदैरपि ॥
एतस्मिन्पठिते श्राद्धे गच्छंति परमां गतिम् ॥ ११७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागह्रदमाहात्म्यवर्णनंनामैकत्रिंशोऽध्यायः ॥ ३१ ॥ ॥ छ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 32
॥ सूत उवाच ॥ ॥
तथान्योऽस्ति द्विजश्रेष्ठास्तस्मिन्क्षेत्रे शुभावहे ॥
सप्तर्षीणां सुविख्यात आश्रमः सर्वकामदः ॥ १ ॥
तत्र श्रावणमासस्य पंचदश्यां समाहितः ॥
यः करोति नरः स्नानं स लभेद्वांछितं फलम् ॥ २ ॥
कन्दमूलफलैः शाकैर्यस्तत्र श्राद्धमाचरेत् ॥
स प्राप्नोति फलं कृत्स्नं राजसूयाश्वमेधयोः ॥ ३ ॥
पंचम्यां शुक्लपक्षे तु मासि भाद्रपदे द्विजाः ॥
यस्तान्पूजयते भक्त्या पुष्पधूपानुलेपनैः ॥
विधिनानेन विप्रेन्द्राः सर्वानेव यथाक्रमम् ॥ ४ ॥
ॐ अत्रये नमः ॥
ॐ वसिष्ठाय नमः ॥
ॐ कश्यपाय नमः ॥
ॐ भरद्वाजाय नमः ॥
ॐ गौतमाय नमः ॥
ॐ कौशिकाय नमः ॥
ॐ जमदग्नये नमः ॥
ॐ अरुंधत्यै नमः ॥
॥ पूजामंत्रः ॥ ॥
जह्नुकन्यापवित्रांगा गृहीतजपमालिकाः ॥
गृह्णंत्वर्घं मया दत्तमृषयः सर्वकामदाः ॥ ५ ॥
॥ ऋषय ऊचुः ॥ ॥
तत्र सप्तर्षिभिस्तीर्थं कस्मिन्काले व्यवस्थितम् ॥
विस्तरात्सूतज ब्रूहि परं कौतूहलं हि नः ॥ ६ ॥
॥ सूत उवाच ॥ ॥
अनावृष्टिः पुरा जाता लोके द्वादशवार्षिकी ॥
सर्वोषधिक्षयो जातस्ततो लोकाः क्षयार्दिताः ॥ ७ ॥
अस्थिशेषा निरुत्साहास्त्यक्तधर्मव्रतक्रियाः ॥
अभक्ष्यभक्षणपरास्तथैवापेयपायिनः ॥ ८ ॥
त्यजंति मातरः पुत्रान्कलत्राणि तथा नराः ॥
भृत्यान्स्वानपि वित्तेशाः का कथान्यसमुद्भवान् ॥ ९ ॥
संत्यक्तान्यग्निहोत्राणि ब्राह्मणैर्याजकैरपि ॥
व्रतानि व्रतिभिर्दांतैरपि वृद्धतमैर्द्विजाः ॥ ६.३२.१० ॥
दृश्यते चैव यत्रैव सस्यं वापि कथंचन ॥
ह्रियते लज्जया हीनैस्तत्र क्षुत्क्षामकैर्नरैः ॥ ११ ॥
एवमन्नक्षये जाते पीडिते धरणीतले ॥
सप्तर्षयः क्षुधाविष्टा बभ्रमुस्तत्रतत्र च॥ १२ ॥
अत्रिश्चैव वसिष्ठश्च कश्यपः सुमहातपाः ॥
भरद्वाजस्तथा चान्यो गौतमः संशितव्रतः॥
कौशिको जमदग्निश्च तथैवारुंधती सती ॥ १३ ॥
अथ तेषां समस्तानां चंडाभूत्परिचारिका ॥
पशुवक्त्रस्तथा भृत्यो विनयेन समवितः ॥ १४ ॥
ततस्ते विषयं प्राप्ता वृषादर्भिमहीपतेः ॥
क्षुत्क्षामा मुनयोऽत्यर्थं देशे चानर्तसंज्ञके ॥ १५ ॥
तत्र भिक्षाकृते भ्रांतास्ततश्चैव गृहाद्गृहम् ॥
न ग्रासमपि सस्यस्य प्राप्नुवंस्ते द्विजोत्तमाः ॥।६॥
ततस्तैः पतितो भूमौ दृष्टो मृतकुमारकः ॥
मंत्रयित्वा मिथः पश्चाद्गृहीतो भक्षणाय च ॥ १७ ॥
अपचन्यावदग्नौ तं क्षुधया परिपीडिताः ॥
वृषादर्भिर्नृपः प्राप्तः श्रुत्वा तेषां विचेष्टितम् ॥ १८ ॥
॥ वृषादर्भिरुवाच ॥ ॥
किमिदं गर्हितं कर्म क्रियते मुनिसत्तमाः ॥
राक्षसानामयं धर्मो महामांसस्य भक्षणम् ॥ १९ ॥
सोऽहं सस्यं प्रदास्यामि ग्रामान्व्रीहीन्यवानपि॥
मम वाक्यादसंदिग्धं त्यजर्ध्वं मृतबालकम् ॥ ६.३२.२० ॥
॥ ऋषय ऊचुः ॥ ॥
प्रायश्चित्तं समादिष्टं महामांसस्य भक्षणात् ॥
प्रतिग्रहस्य भूपाला दापत्कालेऽपि नो नृप ॥ २१ ॥
पश्चात्तपश्चरिष्यामो महामांससमुद्भवम् ॥
पातकं नाशयिष्यामो भक्षयामो वयं ततः ॥ २२ ॥
॥ वृषादर्भि रुवाच ॥ ॥
प्रतिग्रहो द्विजातीनां प्रोक्ता वृत्तिरनिंदिता ॥
ग्राह्यो मत्तस्ततः सर्वैर्नात्र कार्या विचारणा ॥ २३ ॥
॥ ऋषय ऊचुः ॥ ॥
राज प्रतिग्रहो घोरो मध्वास्वादो विषोपमः ॥
स दूराद्ब्राह्मणैस्त्याज्यो विशेषात्कृतिभिर्नृप ॥ २४ ॥
दशसूनासमश्चक्री दशचक्रिसमो ध्वजी ॥
दश ध्वजिसमा वेश्या दशवेश्यासमो नृपः ॥ २५ ॥
दशसूनासहस्रेण तुल्यो राजप्रतिग्रहः ॥
कस्तस्य प्रतिगृह्णाति लोभाढ्यो ब्राह्मणो यथा ॥ २६ ॥
रौरवादिषु सर्वेषु नरकेषु स पच्यते ॥
तस्माद्गच्छ गृहे भूप स्वस्ति तेऽस्तु सदैव हि ॥ २७ ॥
वयमन्यत्र यास्यामो ग्रहीष्यामो न ते धनम् ॥
एवमुक्त्वाथ ते सर्वे मुनयः शंसितव्रताः ॥ २८ ॥
परित्यज्य कुमारं तं मृतं तमपि भूमिपम् ॥
चमत्कारपुरं क्षेत्रं समुद्दिश्य ततो ययुः ॥ २९ ॥
सोऽपि राजा ततस्तैस्तु भर्त्सितोऽतिरुषान्वितः ॥
जिज्ञासार्थं ततस्तेषां चक्रे कर्म द्विजोत्तमाः ॥ ६.३२.३० ॥
ततः सुवर्णपूर्णानि विधायोदुम्बराणि च ॥
तेषां मार्गाग्रतो भूमौ समंतादथ चाक्षिपत् ॥ ३१ ॥
॥ सूत उवाच ॥ ॥
अथ ते मुनयो दृष्ट्वा पतितानि धरातले ॥
उदुम्बराणि संदृष्ट्वा जगृहुः क्षुधयार्दिताः ॥ ३२ ॥
अथ तानि समालक्ष्य गुरूणि मुनिसत्तमाः ॥
अत्रिरेकं परिस्फोट्य सुवर्णं वीक्ष्य चाब्रवीत्॥३३॥ ॥
॥ अत्रिरुवाच ॥ ॥
नास्माकं मुनयोऽज्ञानं नास्माकं गृहबुद्धयः ॥
हैमानिमान्विजानंतो ग्रहीष्याम उदुम्बरान् ॥ ३४ ॥
तस्मादेतानि संत्यज्य हेमगर्भाणि दूरतः ॥
उदुम्बराणि यास्यामः फलानि विगतस्पृहाः ॥ ३५ ॥
सार्वभौमो महीपाल एकोऽन्यश्च निरीहकः ॥
सुभगस्तु तयोर्नित्यं भूयाद्भूयो निरीहकः ॥ ३६ ॥
धर्मार्थमपि विप्राणां संचयोऽर्थस्य गर्हितः ॥
प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरम् ॥ ॥ ३७ ॥
त्यजतः संचयान्सर्वान्यांति हानिमुपद्रवाः ॥
न हि सर्वार्थवान्कश्चिद्दृश्यते निरुपद्रवः ॥ ३८ ॥
निर्धनत्वं तथा राज्यं तुलायां धारयेद्बुधः ॥
अकिंचनत्वमधिकं जायते संमतिर्मम ॥ ३९ ॥
॥ कश्यप उवाच ॥ ॥
अनर्थोऽयं मुने प्राप्तो यदर्थस्य परिग्रहः ॥
अर्थैश्वर्यविमूढात्मा श्रेयसा मुच्यते हि सः ॥ ६.३२.४० ॥
अर्थसंपद्विमोहाय विमोहो नरकाय च ॥
तस्मादर्थं प्रयत्नेन श्रेयोऽर्थी दूरतस्त्यजेत् ॥ ॥४१ ॥
योर्थेन साध्यते धर्मः क्षयिष्णुः स प्रकीर्तितः ॥
यः पुनस्तपसा साध्यः स मोक्षायेति मे मतिः ॥ ४२ ॥
॥ भरद्वाज उवाच ॥ ॥
जीर्यंति जीर्यतः केशा दंता जीर्यंति जीर्यतः ॥
चक्षुः श्रोत्रे तथा पुंसस्तृष्णैका तरुणायते ॥ ४३ ॥
सूच्या सूत्रं यथा वस्त्रं संचारयति सूचिका ॥
तद्वत्संसारसूत्रं च वांछयात्मा नयत्यसौ ॥। ४४ ॥
यथा शृंगं हि कायेन वर्द्धमानेन वर्धते।
तद्वत्तृष्णापि वित्तेन वर्द्धमानेन वर्द्धते॥४५॥
अनंतपारा दुष्पूरा तृष्णा दुःखशतावहा॥
अधर्मबहुला चैव तस्मात्तां परिवर्जयेत्॥४६॥
गौतम उवाच॥
संतुष्टः केन चाल्योऽस्ति फलैरपि विवर्जितः॥
सर्वोपीन्द्रियलौल्येन संकटे भ्रमति द्विजाः॥४७॥
सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम्॥
उपानद्गूढपादस्य ननु चर्मास्तृतेव भूः॥४८॥
संतोषामृततृप्तानां यत्सुखं शांतचेतसाम् ॥
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ ४९ ॥
असंतोषः परं दुःखं संतोषः परमं सुखम् ॥
सुखार्थी पुरुषस्तस्मात्संतुष्टः सततं भवेत् ॥ ६.३२.५० ॥
॥ विश्वामित्र उवाच ॥ ॥
कामं कामयमानस्य यदि कामः स सिध्यति ॥
तथान्यो जायते पुंसस्तत्क्षणादेव कल्पितः ॥ ५१ ॥
न जातु कामी कामानां सहस्रैरपि तुष्यति ॥
हविषा कृष्णवर्त्मेव वांछा तस्य विवर्धते ॥ ॥५२ ॥
कामानभिलषन्मोहान्न नरः सुखमाप्नुयात् ॥
श्येनालयतरुच्छायां व्रजन्निव कपिञ्जलः ॥ ५३ ॥
नित्यं सागरपर्यन्तां यो भुङ्क्ते पृथिवीमिमाम् ॥
तुल्याश्मकाश्चनश्चैव स कृतार्थो महीपतेः ॥ ५४ ॥
॥ जमदग्निरुवाच ॥ ॥
योऽर्थं प्राप्याधमो विप्रः शोचितव्येपि हृष्यति ॥
न च पश्यति मन्दात्मा नरकं चा कुतोभयः॥ ५५ ॥
प्रतिग्रहसमर्थानां निवृत्तानां प्रतिग्रहात् ॥
य एव ददतां लोकास्त एवाप्रतिगृह्णताम्॥५६॥
अरुन्धत्युवाच॥
बिसतंतुर्यथाऽनन्तो नालमासाद्य संस्थितः॥
तृष्णा चैवमनाद्यन्ता स्थिता देहे शरीरिणाम्॥५७॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः॥
याऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥५८॥
चण्डोवाच॥
सर्पादिवद्धनाद्यस्माद्बिभ्यतीमे ममेश्वराः ॥
यतस्ततो विशेषेण कस्मात्तस्माद्भयं मम ॥५६॥ ॥
पशुमुख उवाच॥
यदाचरन्ति विद्वांसः सदा धर्मपरायणाः।.
तदेव विदुषा कार्यमात्मनो हितमिच्छता॥६.३२.६०॥
सूत उवाच॥
इत्युक्त्वा हेमगर्भाणि त्यक्त्वा तानि फलानि च॥
ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः ॥६॥।
चमत्कारपुरेक्षेत्रे विविशुस्ते ततः परम् ॥
ददृशुः सहसा प्राप्तं परिव्राजं शुनोमुखम् ॥ ६२ ॥
तेनैव सहितास्तत्र गत्वा किञ्चिद्वनान्तरम्॥
दृष्टवन्तस्ततो हृद्यं सरः पंकजशोभितम् ॥ ६३ ॥
ततो बुभुक्षयाविष्टा बिसान्यादाय भूरिशः ॥
तीरे निक्षिप्य सरसश्चक्रुः पुण्यां जल क्रियाम् ॥ ६४ ॥
अथोत्तीर्यजलात्सर्वे ते समेत्य परस्परम् ॥
बिसानि तान्यपश्यन्त इदं वचनमब्रुवन् ॥ ६५ ॥
॥ऋषय ऊचुः ॥ ॥
केन क्षुधाभितप्तानामस्माकं निर्दयात्मना ॥
मृणालानि समस्तानि स्थानादस्माद्धृतानि च ॥ ६६ ॥
ते शंकमाना अन्योन्यमृषयः शंसितव्रताः ॥
प्रचक्रुः शपथान्रौद्रानात्मनः प्रविशुद्धये ॥ ६७ ॥
॥ कश्यप उवाच ॥ ॥
सर्वभक्षः सदा सोऽस्तु न्यासलोभं करोतु वा ॥
कूटसाक्षित्वमभ्ये तु बिसस्तैन्यं करोति यः ॥ ६८ ॥
धर्मं करोतु दंभेन राजानं चोपसेवताम् ॥
मधुमांसं सदाश्नातु बिसस्तैन्यं करोति यः ॥ ६९ । ॥
॥ वसिष्ठ उवाच ॥ ॥
अनृतौ मैथुनं यातु दिवा वाप्यथ पर्वणि ॥
अतिथिः स्यात्ततोऽन्योन्यं बिसस्तैन्यं करोति यः ॥ ६.३२.७० ॥ ॥
॥ भरद्वाज उवाच ॥ ॥
योधिगम्य गुरोः शास्त्रं निष्क्रयं न प्रयच्छति ॥
तस्यैनसा स युक्तोस्तु बिसस्तैन्यं करोति यः ॥ ७१ ॥
नृशंसोऽस्तु स सर्वत्र समृद्ध्या चाप्यहंकृतः ॥
मत्सरी पिशुनश्चैव बिसस्तैन्यं करोति यः ॥ ७२ ॥
॥ विश्वामित्र उवाच ॥ ॥
एकाकी मृष्टम श्नातु प्रशंस्यादथ चात्मनः ॥
वेदविक्रयकर्तास्तु बिसस्तैन्यं करोति यः ॥ ७३ ॥
॥ जमदग्निरुवाच ॥ ॥
कन्यां यच्छतु वृद्धाय स भूयाद्वृषली पतिः ॥
अस्तु वार्धुषिको नित्यं बिसस्तैन्यं करोति यः ॥ ७४
॥ गौतम उवाच ॥ ॥
स गृह्णात्वविकादानं करोतु हयविक्रयम्॥
प्रकरो तु गुरोर्निंदां बिसस्तैन्यं करोति यः ॥७५ ॥
॥ अत्रिरुवाच ॥ ॥
मातरं पितरं नित्यं दुर्मतिः सोऽवमन्यताम् ॥
शूद्रं पृच्छतु धर्मार्थं बिसस्तैन्यं करोति यः ॥ ७६ ॥
प्रतिश्रुत्य न यो दद्याद्ब्राह्मणाय गवादिकम् ॥
तस्यैनसा स युज्येत बिसस्तैन्यं करोति यः ॥-७७ ॥
॥ अरुंधत्युवाच ॥ ॥
करोतु पत्युः पूर्वं सा भोजनं शयनं तथा ॥
नारी दुष्टसमाचारा बिसस्तैन्यं करोति या ॥ ७८ ॥
॥ चण्डोवाच ॥ ॥
स्वामिनः प्रतिकूलास्तु धर्मद्वेषं करोतु च॥
साधुद्वेषपरा चैव बिसस्तैन्यं करोति या ॥ ७९ ॥
पशुमुख उवाच ॥ ॥
स्वामिद्रोहरतो नित्यं स भूयात्पापकृन्नरः ॥
साधु द्वेषपरश्चैव बिसस्तैन्यं करोति यः ॥ ६.३२.८० ॥
॥ शुनोमुख उवाच ॥ ॥
वेदान्स पठतु न्यायाद्गृहस्थः स्यात्प्रियातिथिः ॥
सत्यं वदतु चाजस्रं बिसस्तैन्यं करोति यः ॥ ८१ ॥
॥ ऋषय ऊचुः ॥ ॥
इष्ट एव द्विजातीनां यस्त्वया शपथः कृतः ॥
बिसस्तैन्यं हि चास्माकं तन्नूनं भवता कृतम् ॥ ८२ ॥
॥ शुनोमुख उवाच ॥ ॥
मया हृतानि सर्वेषां बिसानीमानि वो द्विजाः ॥
धर्मान्वै श्रोतुकामेन मां जानीत पुरंदरम् ॥ ८३ ॥
युष्माकं परितुष्टोऽस्मि लोभाभावाद्द्विजोत्तमाः ॥
तस्मात्स्वर्गं मया सार्द्धं शीघ्रमागम्यतामिति ।ा ८४ ॥
॥ ऋषय ऊचुः ॥ ॥
मोक्षमार्गं समासक्ता न वयं स्वर्गलिप्सवः ॥
तस्मात्तपश्चरिष्यामः सरसीह विमुक्तये ॥ ८५ ॥
पूर्णा सागरपर्यंतां चरित्वा पृथिवी मिमाम् ॥
प्राणयात्रां प्रकुर्वाणा मृणालैर्मुनिसत्तमाः ॥
तस्माद्गच्छ तव श्रेयो भूयादस्मात्समागमात् ॥ ८६ ॥
॥ शक्र उवाच ॥ ॥
न वृथा दर्शनं मे स्यात्कदाचिदपि सुव्रताः ॥
तस्माद्गृह्णीत यच्चित्ते सदाभीष्टं व्यवस्थितम् ॥ ८७ ॥
॥ ऋषय ऊचुः ॥ ॥ ,
आश्रमोऽयं सुविख्यातो भूयाच्छक्र महीतले ॥
नाम्नास्माकं तथा नृणां सर्वपातकनाशनः ॥ ८८ ॥
वयं स्थास्यामहे नित्यमत्रैव सुरसत्तम ॥
तपोऽर्थं भावितात्मानो यावन्मोक्षगतिर्ध्रुवा ॥ ८९ ॥
॥ इन्द्र उवाच ॥ ॥
त्रैलोक्येऽपि सुविख्यात आश्रमो वो भविष्यति ॥
तथा कामप्रदश्चैव लोकानां संभविष्यति ॥ ६.३२.९० ॥
यो यं काममभिध्याय श्राद्धमत्र करिष्यति ॥
श्रावणे पौर्णमास्यां च स तं सर्वमवा प्स्यति ॥ ९१ ॥
निष्कामो वा नरो यस्तु श्राद्धं दानमथापि वा ॥
प्रकरिष्यति मोक्षं स समवाप्स्यत्यसंशयम् ॥ ९२ ॥
ये चात्र देहं त्यक्ष्यंति युष्माकं चाश्रमे शुभे ॥
अपि पापसमायुक्तास्ते यास्यंति परां गतिम् ॥ ९३ ॥
इंगुदैर्बदरैर्वापि बिल्वैर्भल्लातकैरपि ॥
पितॄनुद्दिश्य यः श्राद्धं करिष्यति समाहितः ॥ ९४ ॥
स यास्यति परां सिद्धिं दुर्लभां त्रिदशैरपि ॥
सर्वपापविनिर्मुक्तः स्तूयमानश्च किंनरैः ॥ ९५ ॥ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा सहस्राक्षस्तैः सर्वैरभिनंदितः ०।
जगामादर्शनं तेऽपि स्थितास्तत्र द्विजोत्तमाः ॥ ९६ ॥
ततः काले गते तेऽपि कृत्वा तीव्रं महत्तपः ॥
संप्राप्ताः परमं स्थानं जरामरणवर्जितम् ॥ ९७ ॥
तैस्तत्र स्थापितं लिङ्गं देवदेवस्य शूलिनः ॥
तस्य संदर्शनादेव नरः पापाद्विमुच्यते ॥ ९८ ॥
यस्तल्लिंगं पुनर्भक्त्या पुष्पधूपानुलेपनैः ॥
अर्चयेत्स ध्रुवं मुक्तिं प्राप्नोति द्विजसत्तमाः ॥ ९९ ॥
एतत्पवित्र मायुष्यं सर्वपातकनाशनम्॥
सप्तर्षोणां समाख्यातमाश्रमस्यानुकीर्तनम् ॥ ६.३२.१०० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सप्तर्ष्याश्रममाहात्म्यवर्णनंनाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 33
॥ सूत उवाच ॥ ॥
अगस्त्यस्याश्रमोऽन्योस्ति तथा तत्र द्विजोत्तमाः ॥
यत्र तिष्ठति विश्वात्मा स्वयं देवो महेश्वरः ॥ १ ॥
शुक्लपक्षे चतुर्दश्यां चैत्रमासे दिवाकरः ॥
स्वयमभ्येत्य देवेशं पूजयत्येव शंकरम् ॥ २ ॥
तस्मादन्योऽपि यस्तस्यां भक्त्या चागत्य शंकरम् ॥
तमेव पूजयेद्भक्त्या स याति देवमन्दिरम् ॥ ॥ ३ ॥
यस्तत्र कुरुते श्राद्धं सम्यक्छ्रद्धासमन्वितः ॥
पितरस्तस्य तृप्यंते पितृमेधे कृते यथा ॥ ४ ॥
॥ ऋषय ऊचुः ॥ ॥
अगस्त्यस्याश्रमं प्राप्य कस्माद्देवो दिवाकरः ॥
प्रदक्षिणां प्रकुरुते वदैतन्मे सुविस्तरम् ॥ ५ ॥
॥ सूत उवाच ॥ ॥
कथयामि कथामेतां शृणुत द्विज सत्तमाः ॥
अस्ति विंध्य इति ख्यातः पर्वतः पृथिवीतले ॥ ६ ॥
यस्य वृक्षाग्रशाखायां संलग्नास्तरणेः कराः ॥
पुष्पपूगा इवाधःस्थैर्लक्ष्यंते मुग्धसि द्धकैः ॥ ७ ॥
अनभिज्ञास्तमिस्रस्य यस्य सानुनिवासिनः ॥
रत्नप्रभाप्रणुन्नस्य कृष्णपक्षनिशास्वपि ॥ ८ ॥
यस्य सानुषु मुंचंतो भांति पुष्पाणि पादपाः ॥
वायुवेगवशान्नूनं नीरौघ नीरदा इव ॥ ९ ॥
यस्मिन्नानामृगा भांति धावमाना इतस्ततः ॥
कलत्रपुत्रपुष्ट्यर्थं लोभार्थं मानवा इव ॥ ॥ ६.३३.१० ॥
निर्यासच्छद्मना बाष्पं वासिताशेषदिङ्मुखम् ॥
मुञ्चंति तरवो यत्र दन्तिदन्तक्षतत्वचः॥ ११ ॥
चीरिकाविरुतैर्दीर्घै रुदंत इव चापरे ॥
हस्तिहस्तहता वृक्षा मन्यन्ते यस्य सानुषु ॥ १२ ॥
इतश्चेतश्च गच्छद्भिर्निर्झरांभोभिरावृतः ॥
शुशुभे सितवस्त्राढ्यैः पुमानिव विभूषितः ॥ ॥ १३ ॥
यस्य स्पर्द्धा समुत्पन्ना पूर्वं सह सुमेरुणा ॥
ततः प्राह सहस्रांशुं गत्वा स क्रोधमूर्च्छितः ॥ १४ ॥
कस्माद्भास्कर मेरोस्त्वं प्रकरोषि प्रदक्षिणाम् ॥
कुलपर्वतसंज्ञेऽपि न करोषि कथं मयि ॥ १५ ॥
॥ भास्कर उवाच ॥ ॥
न वयं श्रद्धया तस्य गिरेः कुर्मः प्रदक्षिणाम् ॥
एष मे विहितः पन्था येनेदं विहितं जगत् ॥ १६ ॥
तस्य तुंगानि शृंगाणि व्याप्य खं संश्रितानि च ॥
तेन संजायते तस्य बलादेव प्रद क्षिणा ॥ १७ ॥
एतच्छ्रुत्वा विशेषेण संक्रुद्धो विंध्यपर्वतः ॥
प्रोवाच पश्य भानो त्वं तर्हि तुंगत्वमद्य मे ॥
रुरोधाथ नभोमार्गं येन गच्छति भास्करः ॥ १८ ॥
अथ रुद्धं समालोक्य मार्गं वासरनायकः ॥
चिन्तयामास चित्ते स्वे सांप्रतं किं करोम्यहम् ॥ १९ ॥
करोमि यद्यहं चास्य पर्वतस्य प्रदक्षिणाम् ॥
तद्भविष्यति कालस्य चलनं भुवनत्रये ॥ ६.३३.२० ॥
मासर्तुभुवनानां च तथा भावी विपर्ययः ॥
अग्निष्टोमादिकाः सर्वाः क्रिया यास्यंति संक्षयम् ॥
नष्टयज्ञोत्सवे लोके देवानां स्यान्महाव्यथा ॥ २१ ॥
एवं संचिन्त्य चित्तेन बहुधा तीक्ष्णदीधितिः ॥
जगाम मनसा भीतः सोऽगस्त्यं मुनिपुंगवम् ॥ २२ ॥
नान्योस्ति वारणे शक्तो विंधस्यास्य हि तं विना ॥
अगस्त्यं ब्राह्मणश्रेष्ठं मित्रावरुणसंभवम् ॥ २३ ॥
ततो द्विजमयं रूपं स कृत्वा तीक्ष्णदीधितिः ॥
चमत्कारपुरक्षेत्रे तस्याश्रमपदं ययौ ॥ २४ ॥
ततस्तु वैश्वदेवांते वेदोच्चारपरायणः ॥
प्रोवाच सोऽतिथिः प्राप्तस्तवाहं मुनिसत्तम ॥ २५ ॥
ततोऽगस्त्यः कृतानन्दः स्वागतं ते महामुने ॥
मनोरथ इवाध्यातो योऽग्निकार्यांत आगतः ॥ २६ ॥
तत्त्वं ब्रूहि मुनिश्रेष्ठ यद्ददामि तवेप्सितम् ॥
अदेयं नास्ति मे किञ्चित्कालेऽस्मिन्प्रार्थितस्य च ॥ २७ ॥
॥ भास्कर उवाच ॥ ॥
अहं भास्कर आयातो विप्ररूपेण सन्मुने ॥
सर्वकार्यक्षमं मत्वा त्वामेकं भुवनत्रये ॥ २८ ॥
त्वया पूर्वं सुरार्थाय प्रपीतः पयसांनिधिः ॥
वातापिश्च तथा दैत्यो भक्षितो द्विजकण्टकः ॥ २९ ॥
तस्माद्गतिर्भवास्माकं सांप्रतं मुनिसत्तम ॥
देवानामिह वर्णानां त्वमेव शरणं यतः ॥ ६.३३.३० ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा स मुनिर्विप्रा विशेषेण प्रहर्षितः ॥
अर्घ्यं दत्त्वा दिनेशाय ततः प्रोवाच सादरम् ॥ ३१ ॥
धन्योऽस्म्यनुगृहीतोस्मि यन्मे त्वं गृहमागतः ॥
तस्माद्ब्रूहि करिष्यामि तव वाक्यमखंडितम् ॥ ३२ ॥
॥ भास्कर उवाच ॥ ॥
एष विंध्याचलोऽस्माकं मार्गमावृत्य संस्थितः ॥ ।
स्पर्द्धया गिरिमुख्यस्य सुमेरोर्मुनिसतम ॥ ३३ ॥
सामाद्यैर्विविधोपायैस्तस्मादेनं निवारय ॥
कालात्ययो यथा न स्याद्गतेर्भंगस्तथा कुरु ॥ ३४ ॥। ॥
॥ अगस्त्य उवाच ॥ ॥
अहं ते वारयिष्यामि वर्धमानं कुलाचलम् ॥
स्वस्थानं गच्छ तस्मात्त्वं सुखीभव दिवाकर ॥ ३५ ॥
ततः स प्रेषितस्ते न भास्करस्तीक्ष्णदीधितिः ॥
स्वं स्थानं प्रययौ हृष्टस्तमामंत्र्य मुनीश्वरम् ॥ ३६ ॥
अगस्त्योऽपि द्रुतं गत्वा विंध्यं प्रोवाच सादरम् ॥
न्यूनतां व्रज मद्वाक्याच्छीघ्रं पर्वतसत्तम ॥३७॥
दाक्षिणात्येषु तीर्थेषु स्नाने जाताद्य मे मतिः ॥
तवायत्ता गिरे सैव तत्कुरुष्व यथोचितम् ॥ ३८ ॥
स तस्य वचनं श्रुत्वा विंध्यः पर्वतसत्तमः ॥
अभजन्निम्नतां सद्यो विनयेन समन्वितः॥३९॥
अगस्त्योऽपि समासाद्य तस्यांतं दक्षिणं द्विजाः॥
त्वयैवं संस्थितेनाथ() स्थातव्यमित्युवाच तम् ॥ ६.३३.४० ॥
यावदागमनं मह्यं नात्र कार्या विचारणा ॥
नो चेच्छापं प्रदास्यामि येन संयास्यसि क्षयम् ॥४॥।
स तथेति प्रतिज्ञाय शापाद्भीतो नगोत्तमः॥
न जगाम पुनर्वृद्धिं तस्यागमनवांछया॥४२॥
सोऽपि तेनैवमार्गेण निवृत्तिं न करोति च॥
यावदद्यापि विप्रेंद्रा दक्षिणां दिशमाश्रित तः ॥४३॥
अथ तत्रैव चानीय लोपामुद्रां मुनीश्वरः ॥
समाहूय सहस्रांशुं ततः प्रोवाच सादरम् ॥ ४४ ॥
तव वाक्यान्मया त्यक्तः स्वाश्रमस्तीक्ष्णदी धिते ॥
तवार्थे च न गंतव्यं भूयस्तत्र कथंचन ॥ ४५ ॥
तस्मान्मद्वचनाद्भानो चतुर्दश्यां मधौ सिते ॥
यन्मया स्थापितं तत्र लिंगं पूज्यं हि तत्त्व या ॥ ४६ ॥
॥ भास्कर उवाच ॥ ॥
एवं मुने करिष्यामि तव वाक्यादसंशयम् ॥
पूजयिष्यामि तल्लिंगं वर्षांते स्वयमेव हि ॥ ४७ ॥
योऽन्यो हि तद्दिने लिंगं पूजयिष्यति मानवः ॥
मम लोकं समासाद्य स भविष्यति मुक्तिभाक् ॥ ४८॥
॥ सूत उवाच ॥ ॥
एतस्मात्कारणात्तत्र भगवांस्तीक्ष्णदीधितिः ॥
चैत्रशुक्लचतुर्दश्यां सांनिध्यं कुरुते सदा ॥ ४९ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोस्मि द्विजोत्तमाः ॥
भूयो वदत वै कश्चित्संदेहश्चे द्धृदि स्थितः ॥ ६.३३.५० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ऽगस्त्याश्रममाहात्म्यवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ३३ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 34
॥ ऋषय ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तं तं मुनिं प्रति सूतज ॥
त्वया पुरा सुरार्थाय प्रपीतः पयसांनिधिः ॥ १ ॥
तत्त्वं सूतज नो ब्रूहि विस्तरेण महामते ॥
यथा तेन पुरा पीतो मुनिना पयसांनिधिः ॥ २ ॥
॥ सूत उवाच ॥ ॥
कालेया इति विख्याताः पुरा दानवसत्तमाः ॥
संभूताः सर्वदेवानां वीर्योत्साहप्रणाशकाः ॥ ३ ॥
ततस्तैः पीडितं दृष्ट्वा विष्णुना प्रभविष्णुना ॥
त्रैलोक्यं शक्तियोगेन प्रोक्तो देवो महेश्वरः ॥४॥
एतदीशान दैतेयैस्त्रैलोक्यं परिपीडितम्॥
कालिकेयैर्महावीर्येस्तस्मात्कार्यो महाहवः॥
अद्यैव तैः समं देव समासाद्य धरातलम्॥ ५ ॥
ततो विष्णुश्च रुद्रश्च सहस्राक्षः सुरैः सह ॥
शितशस्त्रधराः सर्वे संप्राप्ता धरणीतलम् ॥ ६ ॥
अथ ते दानवाः सर्वे श्रुत्वा देवान्स- मागतान् ॥
युद्धार्थं सहसा जग्मुः संमुखाः कोपसंयुताः ॥ ७ ॥
ततोऽभवन्महायुद्धं देवानां दानवैः सह ॥
त्रैलोक्यं कंपितं येन समस्तं भय विह्वलम्॥ ८ ॥
अथ कालप्रभोनाम दानवो बलगर्वितः ॥
स शक्रं पुरतो दृष्ट्वा वज्रोच्छ्रितकरं स्थितम्॥
प्रोवाच प्रहसन्वाक्यं मेघगम्भीरनिःस्वनः ॥ ९ ॥
मुंच वज्र सहस्राक्ष पश्यामि तव पौरुषम् ॥
चिरात्प्राप्तोऽसि मे दृष्टिं दिष्ट्या त्वं त्रिदिवेश्वरः ॥ ६.३४.१० ॥
ततश्चिक्षेप संक्रुद्धस्तस्य वज्रं शतक्रतुः ॥
सोऽपि तल्लीलया धृत्वा जगृहे सव्यपाणिना ॥ ११ ॥
ततः शक्रं समुद्दिश्य गदां गुर्वीं मुमोच सः ॥
सर्वायसमयीं रौद्रां यमजिह्वामिवापराम् ॥ १२ ॥
तया हतः सहस्राक्षो विसंज्ञो रुधिरप्लुतः ॥
ध्वजयष्टिं समाश्रित्य संनिविष्टो रथोपरि ॥ १३ ॥
अथ तं मातलिर्दृष्ट्वा विसंज्ञं वलघातिनम्॥
प्राङ्मुखं च रथं चक्रे संस्मरन्सारथेर्नयम् ॥ १४ ॥
ततः पराङ्मुखीभूते रथे शक्रस्य संगरे ॥
दुद्रुवुर्भयसंत्रस्ताः सर्वे देवाः समंततः ॥ १५ ॥
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ॥
व्रीडां विहाय विध्वस्ताः पृष्ठदेशे शितैः शरैः ॥ १६ ॥
अथ भग्नं बलं दृष्ट्वा दानवैर्मधुसूदनः ॥
आरुह्य गरुडं तूर्णं कालप्रभमुपाद्रवत् ॥ १७ ॥
ततस्ते दानवाः सर्वे परिवार्य शितैः शरैः ॥
सम्यगाच्छादयामासुर्गर्जमाना मुहुर्मुहुः॥।८ ॥
स तैराच्छादितो विष्णुः शुशुभे च समंततः ॥
सम्यक्पुलकितांगश्च रक्ताचल इवापरः ॥ १९ ॥
ततः शार्ङ्गविनिर्मुक्तैः शरैः कंकपतत्रिभिः ॥
छेदयित्वेषुजालानि दैतेयान्निजघान सः ॥ ६.३४.२० ॥
ततो दैत्यगणाः सर्वे हन्यमाना सुरारिणा ॥
त्रातारं नाभ्यगच्छंत मृगाः सिंहार्दिता इव ॥ २१ ॥
एतस्मिन्नंतरे दैत्यः कालखंज इति स्मृतः॥
स कोपवशमापन्नो वासुदेवमुपाद्रवत् ॥ २२ ॥
स हत्वा पञ्चभिर्बाणैर्वासुदेवं शिला शितैः ॥
जघान गरुडं क्रुद्धो दशभिर्नतपर्वभिः॥२३॥
ततः सुदर्शनं चक्रं तस्य दैत्यस्य माधवः ।]
प्रमुमोच वधार्थाय ज्वालामालासमावृतम् ॥२४॥
सोऽपि तच्चक्रमालोक्य वासुदेवकराच्च्युतम् ॥
आगच्छंतं प्रसार्यास्यं ग्रस्तुं तत्संमुखो ययौ ॥ २५ ॥
अग्रसच्च महादैत्यस्तिष्ठतिष्ठेति चाब्रवीत् ॥
वासुदेवं समुद्दिश्य ततश्चिक्षेप सायकान् ॥ २६ ॥
ततश्चक्री स दैत्येन ग्रस्तचक्रेण ताडितः ॥
सुपर्णेन समायुक्तो जगाम विषमां व्यथाम् ॥ २७ ॥
एतस्मिन्नंतरे क्रुद्धो भगवांस्त्रिपुरांतकः ॥
दृष्ट्वा हरिं तथाभूतं शक्रं चापि पराङ्मुखम् ॥ २८ ॥
ततः शूलप्रहारेण तं निहत्य दनोः सुतम् ॥
शरैः पिनाकनिर्मुक्तैर्जघानोच्चैस्तथा परान् ॥ २९ ॥
कालप्रभं प्रकालं च कालास्यं कालविग्रहम् ॥
जघान भगवाञ्छंभुस्तथान्यानपि नायकान् ॥६.३४.३०॥
ततः प्रधानास्ते सर्वे दानवा अपिदारुणाः ॥
पलायनपरा जाता निरुत्साहा द्विषज्जये ॥ ३१ ॥
ततः शक्रश्च विष्णुश्च लब्धसंज्ञौ धृतायुधौ ॥
श्लाघयंतौ महादेवं संस्थितौ रणमूर्धनि ॥ ३२ ॥
एतस्मिन्नंतरे भग्नान्समुद्वीक्ष्य दनोः सुतान् ॥
जघ्नुः शरशतैः शस्त्रैः सर्वे देवाः सवासवाः ॥ ३३ ॥
अथ ते हतभूयिष्ठा दानवा बलवत्तराः ॥
हन्यमानाः शितैर्बाणैस्त्रिदशैर्जितकाशिभिः ॥ ३४ ॥
अगम्यं मनसा तेषां प्रविष्टा वरुणालयम् ॥
शस्त्रैश्च क्षतसर्वांगा हतनाथाः सुदुःखिताः ॥ ३५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमा हात्म्येऽगस्त्याश्रममाहात्म्येऽगस्त्यकृतसमुद्रप्राशनवृत्तान्ते देवासुरसंग्रामवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 35
॥ सूत उवाच ॥ ॥
एवं तेषु प्रभग्नेषु हतेषु च सुरोत्तमाः ॥
प्रहृष्टमनसः सर्वे स्तुत्वा देवं महेश्वरम् ॥ १ ॥
तेनैव चाथ निर्मुक्ताः प्रणम्य च मुहुर्मुहुः ॥
स्वंस्वं स्थानमथाजग्मुः शक्रविष्णुपुरःसराः ॥ २ ॥
तेऽपि दानवशार्दूला हताशाश्च सुरोत्तमैः ॥
मंत्रं प्रचक्रिरे सर्वे नाशाय त्रिदिवौकसाम् ॥ ३ ॥
तेषां मंत्रयतामेष निश्चयः समपद्यत ॥
नान्यत्र धर्मविध्वंसाद्देवानां जायते क्षयः ॥ ४ ॥
तस्मात्तपस्विनो यै च ये च यज्ञपरायणाः ॥
तथान्ये निरता धर्मे निहन्तव्या निशागमे ॥ ५ ॥
एवं ते निश्चयं कृत्वा निष्क्रम्य वरुणालयात् ॥
रात्रौ सदैव निघ्नंति जनान्धर्मपरायणान् ॥ ६ ॥
यत्र यत्र भवेद्यज्ञः सत्रं ऽप्युत्सवोऽथवा ॥
तत्र गत्वा निशायोगे प्रकुर्वंति जनक्षयम् ॥ ७ ॥
तैः प्रसूता मखा ध्वस्ता दीक्षिता विनिपातिताः ॥
ऋत्विजश्च तथान्येऽपि सामान्या द्विजसत्तमाः ॥ ८- ॥
आश्रमे मुनिमुख्यस्य शांडिल्यस्य महात्मनः ॥
सहस्रं ब्राह्मणेंद्राणां भक्षितं तैर्दुरात्मभिः. ॥ ९ ॥
शतानि च सहस्राणि निहतानि द्विजन्मनाम् ॥
विश्वामित्रस्य पञ्चैव सप्तात्रेश्चैव धीमतः ॥ ६.३५.१० ॥
एतस्मिन्नेव काले तु समस्तं धरणीतलम् ॥
नष्टयज्ञोत्सवं जातं कालेयभयपीडितम् ॥ ११ ॥
न कश्चिच्छयनं रात्रौ प्रकरोति मही तले ॥
धृतायुधा जनाः सर्वे तिष्ठंति सह तापसैः ॥ १२ ॥
रात्रौ स्वपंति ये केचिद्विश्वस्ता धर्मभाजनाः ॥
तेषामस्थीनि दृश्यंते प्रातरेव हि केवलम् ॥ १३ ॥
अथ देवगणाः सर्वे यज्ञभागविनाकृताः ॥
प्रजग्मुः परमामार्ति ब्रह्मविष्णुपुरस्सराः ॥ १४ ॥
ततो गत्वा समुद्रांतं वधाय सुरविद्विषाम् ॥
न शेकुर्विषमस्थांस्तान्मनसापि प्रधर्षितुम् ॥ १५ ॥
ततः समुद्रनाशाय मंत्रं चक्रुः सुदुःखिताः ॥
तस्मिन्नष्टे भवन्त्येव वध्या दानवसत्तमाः ॥१६॥
अगस्त्येन विना नैष शोषं यास्यति सागरः ॥
तस्मात्संप्रार्थयामोत्र कृत्ये गत्वा मुनीश्वरम् ॥१७॥
चमत्कारपुरे क्षेत्रे स तिष्ठति च सन्मुनिः ॥
तस्मात्तत्रैव गच्छामो येन गच्छति सत्वरम् ॥१८॥
एवं निश्चित्य ते सर्वे त्रिदशास्तस्य चाश्रमम् ॥
संप्राप्ता मुनिमुख्यस्य मित्रावरुण जन्मनः ॥ १९ ॥
सोऽपि सर्वान्समालोक्य संप्राप्तान्सुरसत्तमान् ॥
प्रहृष्टः सम्मुखस्तूर्णं जगामातीव सन्मुनिः ॥ ६.३५.२० ॥
प्रोवाच प्रांजलिर्वाक्यं हर्ष गद्गदया गिरा ॥
ब्रह्मादींस्तान्सुरान्दृष्ट्वा विस्मयोत्फुल्ललोचनः ॥ २१ ॥
चमत्कारपुरं क्षेत्रमेतन्मेध्यमपि स्थितम् ॥
भूयो मेध्यतरं जातं युष्माकं हि समाश्रयात्॥ २२ ॥
तस्माद्वदत यत्कृत्यं मया संसिद्ध्यतेऽधुना ॥
तत्सर्वं प्रकरिष्यामि यद्यपि स्यात्सुदुष्करम्॥ २३ ॥
॥ देवा ऊचुः ॥ ॥
कालेया इति दैत्या ये हतशेषाः सुरैः कृताः ॥
ते समुद्रं समाश्रित्य निघ्नंति शुभकारिणः ॥ २४ ॥
शुभे नाशमनुप्राप्ते ध्रुवं नाशो दिवौकसाम् ॥
तस्मात्तेषां वधार्थाय त्वं शोषय महार्णवम् ॥ २५ ॥
येन ते गोचरं प्राप्ता दृष्टेर्दानवसत्तमाः ॥
बध्यंते विबुधैः सर्वे जायंते च मखा इह ॥ २६ ॥ ॥
॥ अगस्त्य उवाच ॥ ॥
अहं संवत्सरस्यांते शोषयिष्यामि सागरम् ॥
विद्याबलं समाश्रित्य योगिनीनां सुरोत्तमाः ॥ २७ ॥
तस्माद्व्रजत हर्म्याणि यूयं याति हि वत्सरम् ॥
यावद्भूयोऽपि वर्षांते कार्यमागमनं ध्रुवम् ॥ २८ ॥
ततो मया समं गत्वा शोषिते वरुणालये ॥
हंतव्या दानवा दुष्टा हन्त यैः पीड्यते जगत् ॥ २९ ॥
ततो देवगणाः सर्वे गताः स्वेस्वे निकेतने ॥
अगस्त्योऽपि समुद्योगं चक्रे विद्यासमुद्भवम् ॥ ६.३५.३० ॥
ततः सर्वाणि पीठानि यानि संति धरातले ॥
तानि तत्रानयामास मंत्रशक्त्या महामुनिः ॥ ३१ ॥
अष्टम्यां च चतुर्दश्यां तेषु संपूज्य भक्तितः ॥
योगिनीनां च वृन्दानि कन्यकानां विशेषतः ॥ ३२ ॥
विद्यां विशोषिणीनाम समाराधयत द्विजः ॥
पूजयित्वा दिशां पालान्क्षेत्रपालानपि द्विजः ॥
आकाशचारिणीं चैव देवतां श्रद्धया द्विजः ॥ ३३ ॥
ततः संवत्सरस्यांते प्रसन्ना तस्य देवता ॥
प्रोवाच वद यत्कृत्यं सिद्धाहं तव सन्मुने ॥ ॥ ३४ ॥
॥ अगस्त्य उवाच ॥ ॥
यदि देवि प्रसन्ना मे तदास्यं विश सत्वरम् ॥
येन संशोषयाम्याशु समुद्रं देवि वाग्यतः ॥ ३५ ॥
सा तथेति प्रतिज्ञाय प्रविष्टा सत्वरं मुखे ॥
संशोषणी महाविद्या तस्यर्षेर्भावितात्मनः ॥ ३६ ॥
एतस्मिन्नंतरे प्राप्ताः सर्वे देवाः सवासवाः ॥
धृतायुधकरा हृष्टाः संनद्धा युद्धहेतवे ॥ ३७ ॥
ततः संप्रस्थितो विप्रो देवैः सर्वैः समाहितः ॥
वारिराशिं समुद्दिश्य संशुष्कवदनस्तदा ॥ ३८ ॥
अथ गत्वा समुद्रांतं स्तूयमानो दिवालयैः ॥
पिपासाकुलितोऽतीव सर्वान्देवानुवाच ह ॥ ३९ ॥
एषोऽहं सागरं सद्यः शोषयिष्यामि सांप्रतम् ॥
यूयं भवत सोद्योगा वधाय सुरविद्विषाम् ॥ ६.३५.४० ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा मुनिः सोऽथ मत्स्यकच्छपसंकुलम्॥
हेलया प्रपपौ कृत्स्नं ग्राहैः कीर्णं महार्णवम् ॥ ४१ ॥
ततः स्थलोपमे जाते ते दैत्याः सुरसत्तमैः ॥
वध्यन्ते निशितैर्बाणैः समन्ताद्विजिगीषुभिः ॥ ४२ ॥
अथ कृत्वा महद्युद्धं यथा शक्त्यातिदारुणम् ॥
हतभूयिष्ठशेषा ये भित्त्वा भूमिं गता अधः॥४३॥
ततः प्रोचुः सुराः सर्वे स्तुत्वा तं मुनिसत्तमम् ॥
परित्यज जलं भूयः पूरणार्थं महोदधेः ॥ ४४ ॥
नैषा वसुमती विप्र समुद्रेण विनाकृता ॥
राजते वस्तुसंत्यक्ता यथा नारी विभूषिता ॥ ४५ ॥
॥ अगस्त्य उवाच ॥ ॥।
या मयाऽऽराधिता विद्या वर्षंयावत्प्रशोषणी ॥
तया पीतमिदं तोयं परिणामगतं तथा ॥ ४६ ॥
एष यास्यति वै पूर्तिं भूयोऽपि वरुणालयः ॥
खातश्चागाधतां प्राप्तो गंगातोयैः सुनिर्मलैः ॥ ४७ ॥
सगरोनाम भूपालो भविष्यति महीतले ॥
तत्पुत्राः षष्टिसाहस्राः खनिष्यंति न संशयः ॥ ४८ ॥
तस्यैवान्वयवान्राजा भविष्यति भगीरथः ॥
स ज्ञातिकारणाद्गंगां ब्रह्मांडादानयिष्यति ॥ ४९ ॥
प्रवाहेण ततस्तस्याः समंतादंभसांनिधिः ॥
भविष्यति सुसंपूर्णः सत्यमेतन्मयोदितम् ॥ ६.३५.५० ॥
॥ देवा ऊचुः ॥ ॥
देवकृत्यं मुनिश्रेष्ठ भवता ह्युपपादितम् ॥
तस्मात्प्रार्थय चित्तस्थं वरं सर्वं मुनीश्वर ॥ ५१ ॥
॥ अगस्त्य उवाच ॥ ॥
चमत्कारपुरे क्षेत्रे मया पीठान्यशेषतः ॥
आनीतानि प्रभावेन मंत्राणां सुरसत्तमाः ॥ ५२ ॥
तस्मात्तेषां सदा वासस्तत्रैवास्तु प्रभावतः ॥
सर्वासां योगिनीनां च मातॄणां च विशेषतः ॥ ५३ ॥
अष्टम्यां च चतुर्दश्यां तानि यः श्रद्धयाऽन्वितः ॥
पूजयिष्यति तस्य स्यात्समस्तं मनसेप्सितम् ॥ ५४ ॥
॥ देवा ऊचुः ॥ ॥
यस्माच्चित्राणि पीठानि त्वयानीतानि तत्र हि ॥
तस्माच्चित्रेश्वरं नाम पीठमेकं भविष्यति ॥ ५५ ॥
यो यं काममभिध्याय तत्र पूजां करिष्यति ॥
योगिनीनां च विद्यानां मातॄणां च विशेषतः ॥ ५६ ॥
तंतं कामं नरः शीघ्रं संप्राप्स्यति महामुने ॥
अस्माकं वरदानेन यद्यपि स्यात्सुपापकृत्॥ ५७ ॥
एवमुक्त्वा सुराः सर्वे तमामन्त्र्य मुनीश्वरम् ॥
गतास्त्रिविष्टपं हृष्टाः सोऽप्यगस्त्यः स्वमाश्रमम् ॥ ५८ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं यथा स पयसांनिधिः ॥
अगस्त्येन पुरा पीतो देवकार्यप्रसिद्धये ॥ ५९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽगस्त्यकृतसमुद्र प्राशनवृत्तांतेऽगस्त्याहूतपीठसमूहस्य देवैश्चित्रेश्वरपीठनामपूर्वकवरप्रदानवर्णनंनाम पञ्चत्रिंशत्तमोऽध्यायः ॥ ३५ ॥ ॥९॥
खण्डः ६ (नागरखण्डः) — Adhyāya 36
॥ ऋषय ऊचुः ॥ ॥
चित्रेश्वरमिदं पीठमगस्त्यमुनिनिर्मितम् ॥
यत्प्रमाणं यत्प्रभावं तदस्माकं प्रकीर्तय ॥ १ ॥
॥ सूत उवाच ॥ ॥
तस्य पीठस्य माहात्म्यं वक्तुं नो शक्यते द्विजाः ॥
सहस्रेणापि वर्षाणां मुखानामयुतैरपि ॥ २ ॥
तत्र सिद्धिमनुप्राप्ताः शतशोऽथ सहस्रशः ॥
अनुध्यानसमायुक्ता योगिनः शंसितव्रताः ॥ ३ ॥
अन्यपीठेषु या सिद्धिर्वर्षानुष्ठानतो भवेत् ॥
दिनेनैकेन तां सिद्धिं लभंते योगिनो ध्रुवम् ॥ ४ ॥
यस्तत्राथ र्वणान्मंत्राञ्जपेच्छ्रद्धासमन्वितः ॥
तेषामर्थोद्भवं कृत्स्नं फलं प्राप्नोति स ध्रुवम् ॥ ५ ॥
पुत्रकामो नरस्तत्र पुंलिंगान्यो जपेन्नरः ॥
स लभेतेप्सितान्पुत्रान्यद्यपि स्याज्जरान्वितः ॥ ६ ॥
गर्भोपनिषदं तत्र पुत्रकामो जपेन्नरः ॥
अपि वन्ध्याप्रसंगेन स्यात्स पुत्रसमन्वितः ॥ ७ ॥
शत्रुलोकविनाशाय यो जपेच्छतरुद्रियम् ॥
तस्मिन्पीठेऽरयस्तस्य सद्यो गच्छंति संक्षयम् ०। ८ ॥
भूतप्रेतपिशाचादिरक्षार्थं तत्र मानवः ॥
यो जपेद्वामदेव्यं च स स्याद्धि निरुपद्रवः ॥ ९ ॥
कोऽदादिति नरस्तत्र कन्यार्थं यो जपेदृचम् ॥
यां कन्यां ध्यायमानस्तु स तां प्राप्नोत्यसंशयम् ॥ ६.३६.१० ॥
यो भूपालप्रसादार्थमिमं देवा निशं जपेत् ॥
निरर्गलः प्रसादः स्यात्तस्य पार्थिवसंभवः ॥ ११ ॥
स्वस्त्रीस्नेहकृतेयस्तु तं पत्नीभिरिति द्विजाः ॥।
जपेद्भार्या भवेत्साध्वी तस्य सा स्नेहवत्सला ॥ १२ ॥
यो लोकानुग्रहार्थाय जपेददितिरित्यपि ॥
तस्य लोकानुरागः स्यात्सलाभश्च विशेषतः ॥ ॥ १३ ॥
वित्तार्थी यो जपेत्तत्र श्रीसूक्तं मनुजो द्विजाः ॥
सर्वतस्तस्य वित्तानि समागच्छंत्यनेकशः ॥ १४ ।
भूमीति यो जपेत्साम भूम्यर्थं तत्र मानवः ॥
स भवेद्भूपतिर्नूनं नीचजातिरपि ध्रुवम् ॥।५॥
जपेद्रथंतरं साम यानार्थं तत्र यो नरः ॥
स प्राप्नोति हि यानानि शीघ्रगानि शुभानि च ॥ १६ ॥
गजार्थी यो जपेत्तत्र गणानां द्विजसत्तमाः ॥
स प्राप्नोति गजान्मर्त्यो मदप्लावितभूतलान् ॥ १७ ॥
न तद्रक्षेति यो मन्त्रं जपेद्र क्षाकृते नरः ॥
तस्य स्यात्सर्वतो रक्षा समेषु विषमेषु च ॥ १८ ॥
सप्तर्षय इति श्रेष्ठां यो जपेत्तु समाहितः ॥
ऋचं रोगविनाशाय स रोगैः परि मुच्यते ॥ १९ ॥
यदुभी यो जपेत्तत्र ग्रहपीडार्दितो जनः ॥
सानुकूला ग्रहास्तस्य प्रभवंति न संशयः ॥ ६.३६.२० ॥
भूतपीडार्दितो यश्च बृहत्साम जपेन्नरः ॥
पितृवज्जायते तस्य स भूतोऽप्यंतकोऽपि चेत् ॥ २१ ॥
यात्रासिद्धिकृते यश्च जपेत्सूक्तं च शाकुनम् ॥
तस्य संसिध्यते यात्रा यद्यपि स्यादकिंचनः ॥ २२ ॥
सर्पनाशाय यस्तत्र सार्पसूक्तं जपेन्नरः ॥
न तस्य मंदिरे सर्पाः प्रविशंति कथंचन ॥ २३ ॥
विषनाशाय यस्तत्र जपेच्छ्र द्धासमन्वितः ॥
उत्तिष्ठेति विषं सद्यस्तस्य नाशं प्रयास्यति ॥ २४ ॥
स्थावरजगमं वापि कृत्रिमं यदि वा विषम् ॥
तस्य नाम्ना विनिर्याति तमः सूर्योदये यथा ॥ २५ ॥
व्याघ्रसाम जपेद्यस्तु तत्र श्रद्धासमन्वितः ॥
तस्य व्याघ्रादयो व्याला जायंते सौम्यचेतसः ॥ २६ ॥
कृषिकर्मप्रसि द्ध्यर्थं यो जपेल्लांगलानि च ॥
वृष्टिहीनेऽपि लोकेऽस्मिन्कृषिस्तस्य प्रसिध्यति ॥ २७ ॥
ईतिनाशाय तत्रैव जपेद्देवव्रतं नरः ॥
ततः संकीर्त्तना देव ईतयो यांति संक्षयम् ॥ २८ ॥
अनावृष्टिहते लोके पंचेंद्रं तत्र यो जपेत् ॥
तस्य हस्तकृते होमे तन्मंत्रैः स्याज्जलागमः ॥ २९ ॥
दंष्ट्राभ्या मिति यस्तत्र नरश्चौरार्दितः पठेत् ॥
नोपद्रवो भवेत्तस्य कदाचिच्चौरसंभवः ॥ ६.३६.३० ॥
विवादार्थं जपेद्यस्तु संसृष्टमिति तत्र च ॥
विवादे विजय स्तस्य पापस्यापि प्रजायते ॥ ३१ ॥
यो रिपूच्चाटनार्थाय नरो रुद्रशिरो जपेत् ॥
तस्य ते रिपवो यांति देशं त्यक्त्वा कुबुद्धितः ॥ ३२ ॥
मोहनाय रिपूणां च यो जपेद्विष्णुसंहिताम् ॥
तस्य मोहाभिभूतास्ते जायंते रिपवो ध्रुवम् ॥ ३३ ॥
वशीकरणहेतोर्यः कूष्मांडीः प्रजपेन्नरः ॥
शत्रवोऽपि वशे तस्य किं पुनः प्रमदादयः ॥ ३४ ॥
यः स्तंभाय रिपूणां वै प्राजापत्यं च वारुणम् ॥
मंत्रं जपेद्द्विजश्रेष्ठाः सम्यक्छ्रद्धापरायणः ॥
मंत्रसंस्तंभितास्तस्य जायंते सर्वशत्रवः ॥ ३५ ॥
जपेत्काली करालीति यः शोषाय नरो द्विजाः ॥
स शोषयति तत्कृत्स्नं यच्चित्ते धारयेन्नरः ॥ ३६ ॥
एष मंत्रस्तदा जप्तो ह्यगस्त्येन महात्मना॥
यत्प्रभावान्नदीनाथस्तेन संशोषितो ध्रुवम् ॥ ३७ ॥
एतत्प्रभावं यत्पीठं मंत्राणां सिद्धिकारकम्॥
ऐहिकानां फलानां च तन्मया वः प्रकीर्तितम् ॥ ३८ ॥
यो वांछति पुनः स्वर्गं स तत्र द्विजसत्तमाः ॥
स्नानं करोतु दानं च श्राद्धं चापि विशेषतः ॥ ३९ ॥
अथ वांछति यो मोक्षं विरक्तो भवसागरात् ॥
निष्कामस्तत्र संतुष्टस्तपस्तप्येत्सुबुद्धिमान् ॥ ६.३६.४० ॥
॥ ऋषय ऊचुः ॥ ॥
मंत्रजाप्यस्य माहात्म्यं यत्त्वया नः प्रकीर्तितम्॥
तत्कथं सिद्धिमायाति मंत्रजाप्यं हि सूतज ॥ ४१ ॥
॥ सूत उवाच ॥ ॥
अत्र तत्कथयिष्यामि यन्मया पितृतः श्रुतम् ॥
वदतो ब्राह्मणेंद्रस्य पुरा दुर्वाससो मुनेः ॥ ४२ ॥
तेन पूर्वं पिताऽस्माकं पृष्टो दुर्वाससा द्विजाः ॥
मंत्रवादकृते यच्च शृणुध्वं सुसमाहिताः ॥ ४३ ॥ ॥
॥ दुर्वासा उवाच ॥ ॥
साधयिष्याम्यहं मन्त्रमभीष्टं कमपि व्रती ॥
तस्य सिद्धिकृते ब्रूहि विधानं शास्त्रसंभवम् ॥ ४४ ॥
॥ लोमहर्षण उवाच ॥ ॥
मंत्राणां साधनं कष्टं सर्वेषामपि सन्मुने ॥
प्रत्यवायसमोपेतं बहुच्छिद्रसमाकुलम्॥४५॥
तस्मान्मंत्रकृते सिद्धिं यदि त्वं वांछसि द्विज॥
चमत्कारपुरे क्षेत्रे तत्र त्वं गंतुमर्हसि ॥ ४६ ॥
तत्र चित्रेश्वरीपीठमगस्त्येन विनिर्मितम् ॥
सद्यः सिद्धिकरं प्रोक्तं मन्त्राणां हृदि वर्तिनाम् ॥४७ ॥
न तत्र जायते छिद्रं प्रत्यवायो न च द्विज ॥
नासिद्धिर्वरदानेन सर्वेषां त्रिदिवौकसाम् ॥ ४८ ॥
चातुर्युंग्यं हि तत्पीठं स्थितानां सिद्धिमाह रेत् ॥
युगानुरूपतः सद्यस्ततो वक्ष्याम्यहं द्विज ॥ ४९ ॥
यो यं साधयितुं मन्त्रमिच्छति द्विजसत्तम ॥
स तस्य पूर्वमेवाथ लक्षमेकं जपेन्नरः ॥ ॥ ६.३६.५० ॥
ततो भवति संसिद्धो मंत्रार्हः स नरः शुचिः ॥
जपेद्ब्राह्मणशार्दूल ततो लक्षचतुष्टयम् ॥
दशांशेन तु होमः स्यात्सुसमिद्धे हुताशने ॥ ॥ ५१ ॥
ततस्तु जायते सिद्धिर्नूनं तन्मंत्रसंभवा ॥
तत्र सौम्येषु कृत्येषु होमः सिद्धार्थकैः सितैः ॥ ५२ ॥
जातीपुष्पैश्च विप्रेन्द्र स्मृतो ब्राह्मण भोजनैः ॥
तथा रौद्रेषु कृत्येषु रक्तपुष्पैः सगुग्गुलैः ०॥
तर्पणैः कन्यकानां च होमः स्यात्स फलप्रदः ॥ ५३ ॥
एतत्कृतयुगे प्रोक्तं मंत्रसाधनमुत्त मम् ॥
सर्वेषां साधकानां च मया प्रोक्तं द्विजोत्तम ॥ ५४ ॥
एतत्त्रेतायुगे प्रोक्तं पादोनं मन्त्रसाधनम् ॥
युग्मार्धं द्वापरे कार्यं चतुर्थांशं कलौ युगे ॥ ५५ ॥
एवं तत्र समासाद्य सिद्धिं मंत्रसमुद्भवाम् ॥
तत्र पीठे ततः कृत्यं साधयेत्स्वेच्छया नरः ॥ ५६ ॥
शापानुग्रहसामर्थ्यसंयुतस्तेज साऽन्वितः ॥
अजेयः सर्वभूतानां साधूनां संमतस्तथा ॥ ५७ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा स मुनिस्तस्य पितुर्मम वचोऽखिलम् ॥
ततश्चित्रेश्वरं पीठं समायातोऽथ सन्मुनिः ॥ ५८ ॥
तत्र संसाधयामास सर्वान्मंत्रान्यथाक्रमम् ॥
विधिना शास्त्रदृष्टेन श्रद्धया परया युतः॥ ५९ ॥
इति संसिद्धमंत्रः स चमत्कारपुरं गतः ॥
विप्राणां प्रार्थनार्थाय भूमिखंडकृते द्विजाः ॥ ६.३६.६० ॥
इति श्रीस्कांदे महपुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये चित्रेश्वरीपीठमाहात्म्यवर्णनंनाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 37
॥ सूत उवाच ॥
अथापश्यत्स विप्राणां वृन्दं वृन्दारकोपमम्॥
संनिविष्टं धरापृष्ठे लीलाभाजि द्विजोत्तमाः॥॥।
एके वेदविदस्तत्र वेदव्याख्यानतत्पराः॥
परस्परं सुसंक्रुद्धा विवदंति जिगीषवः ॥ २ ॥
यज्ञविद्याविदोऽन्येऽपि यज्ञाख्यानपरायणाः ॥
तत्र विप्राः प्रदृश्यंते शतशो ब्रह्मवादिनः ॥ ३ ॥
अन्ये ब्राह्मणशार्दूला वेदांगेषु विचक्षणाः ॥
प्रवदंति च संदेहान्वृन्दानामग्रतः स्थिताः ॥ ४ ॥
वेदाभ्यासपराश्चान्ये तारनादेन सर्वशः ॥
नादयंतो दिशां चक्रं तत्र सम्यग्द्विजोत्तमाः ॥ ५ ॥
अन्ये कौतूहलाविष्टाः संचरान्विषमान्मिथः ॥
पप्रच्छुर्जहसुश्चान्ये ज्ञात्वा मार्गप्रवर्तिनम् ॥ ६ ॥
स्मृतिवादपराश्चान्ये तथान्ये श्रुतिपाठकाः ॥
संदेहान्स्मृतिजानन्ये पृच्छंति च परस्परम् ॥ ७ ॥
कीर्तयंति तथा चान्ये पुराणं ब्राह्मणोत्तमाः ॥
वृद्धानां पुरतस्तत्र सभामध्ये व्यवस्थिताः ॥ ८ ॥
अथ तान्स मुनिर्दृष्ट्वा ब्राह्मणान्संशितव्रतान् ॥
अभिवाद्य ततः प्राह सादरं विनयान्वितः ॥ ९ ॥
मम बुद्धिः समुत्पन्ना शम्भोरायतनं प्रति ॥
कर्तुं ब्राह्मणशार्दूलास्तस्मात्स्थानं प्रदर्श्यताम् ॥ ६.३७.१० ॥
तवाहं देवदेवस्य शम्भोः प्रासादमुत्तमम् ॥
विधायाराधयिष्यामि तमेव वृषभध्वजम् ॥ ११ ॥
स एवं जल्पमानोऽपि मुहुर्मुहुरतंद्रितः ॥
न तेषामुत्तरं लेभे शुभं वा यदि वाशुभम् ॥ १२ ॥
ततः कोपपरीतात्मा समुनिस्तान्द्विजोत्तमान् ॥
शशाप तारशब्देन यथा शृण्वंति कृत्स्नशः ॥ १३ ॥
॥ दुर्वासा उवाच ॥ ॥
विद्यामदो धनमदस्तृतीयोऽभिजनोद्भवः ॥
एते मदावलिप्तानामेत एव सतां दमाः ॥ १४ ॥
तत्र येऽपि हि युष्माकं मदा एव व्यवस्थिताः ॥
यतस्ततोऽन्वयेऽप्येवं भविष्यति मदान्विताः ॥ १५ ॥
सदा सौहृदनिर्मुक्ताः पितरोऽपि सुतैः सह ॥
भविष्यंति पुरे ह्यस्मिन्किं पुनर्बांधवादयः ॥ १६ ॥
एवमुक्त्वा स विप्रेन्द्रो निवृत्तस्तदनन्तरम् ॥
अपमानं परं प्राप्य ब्राह्मणानां द्विजोत्तमाः ॥ १७ ॥
अथ तन्मध्यगो विप्र आसीद्वृद्धतमः सुधीः ॥
सुशील इति विख्यातो वेदवेदांगपारगः ॥ १८ ॥
स दृष्ट्वा तं मुनिं क्रुद्धं गच्छंतमपमानितम् ॥
सत्वरं प्रययौ पृष्ठे तिष्ठ तिष्ठेति च ब्रुवन्॥ १९ ॥
अथासाद्य गतं दूरं प्रणिपत्य मुनिं च सः ॥
प्रोवाच क्षम्यतां विप्र विप्राणां वचनान्मम ॥ ६.३७.२० ॥
एतैः स्वाध्यायसंपन्नैर्न श्रुतं वचनं तव ॥
नोत्तरं तेन संदत्तं सत्यमेतद्ब्रवीम्यहम् ॥ २१ ॥
तस्माद्भूमिर्मया दत्ता शंभुहर्म्यकृते तव ॥
अस्मिन्स्थाने द्विजश्रेष्ठ प्रासादं कर्तुमर्हसि ॥ २२ ॥
तस्य तद्वचनं श्रुत्वा दुर्वासा हर्षसंयुतः ॥
क्षितिदानोद्भवां चक्रे स्वस्ति ब्राह्मणसत्तमाः ॥
प्रासादं निर्ममे पश्चात्तस्य वाक्ये व्यवस्थितः ॥ २३ ॥
अथ ते ब्राह्मणा ज्ञात्वा सुशीलेन वसुन्धरा ॥
देवतायतनार्थाय दत्ता तस्मै तपस्विने ॥ २४ ॥
सर्वे कोपसमायुक्ताः सुशीलं प्रति ते द्विजाः ॥ २५ ॥
ततः प्रोचुः समासाद्य येन शप्ता दुरात्मना ॥
वयं तस्मै त्वया दत्ता प्रासादार्थं वसुन्धरा ॥ २६ ॥
तस्मात्त्वमपि चास्माकं बाह्य एव भविष्यसि ॥
सुशीलोऽपि हि दुःशीलो नाम्ना संकीर्त्यसे बुधैः ॥ २७ ॥
एषोऽपि तापसो दुष्टो यः करोति शिवालयम् ॥।
नैव तस्य भवेत्सिद्धिश्चापि वर्षशतैरपि ॥ २८ ॥
तथा कीर्तिकृतां लोके कीर्तनं क्रियते नरैः ॥
ततः संपश्यतां चास्य कीर्तिर्नास्य तु दुर्मतेः ॥ ॥ २९ ॥
एष दुःशीलसंज्ञो वै तव नाम्ना भविष्यति ॥
प्रासादो नाममात्रेण न संपूर्णः कदाचन ॥ ६.३७.३० ॥
यस्मात्सौहृदनिर्मुक्ताः कृतास्तेन वयं द्विजाः ॥
मदैस्त्रिभिः समायुक्ताः सर्वान्वयसमन्विताः ॥ ३१ ॥
तस्मादेषोऽपि पापात्मा भविष्यति स कोपभाक् ॥
तप्तं तप्तं तपो येन संप्रयास्यति संक्षयम्॥ ३२ ॥
एवमुक्त्वाथ ते विप्राः कोपसंरक्तलोचनाः ॥
दुःशीलं संपरित्यज्य प्रविष्टाः स्वपुरे ततः ॥ ३३ ॥
दुःशीलोऽपि बहिश्चक्रे गृहं तस्य पुरस्य च ॥
देवशर्मा यथापूर्वं संत्यक्तः पुरवासिभिः ॥ ३४ ॥
तस्यान्वयेऽपि ये जातास्ते बाह्याः संप्रकीर्तिताः ॥
बाह्याः क्रियासु सर्वासु सर्वेषां पुरवासिनाम् ॥ ३५ ॥
॥ सूत उवाच ॥ ॥
एवं तेषु द्विजेंद्रेषु शापं दत्त्वा गतेषु च ॥
दुर्वासाः प्राह दुःशीलं कोपसंरक्तलो चनः ॥ ३६ ॥
मम सिद्धिं गता मंत्राः समर्थाः शत्रुसंक्षये ॥
आथर्वणास्तथा चान्ये वेदत्रयसमुद्भवाः ॥ ३७ ॥
तस्मादेतत्पुरं कृत्स्नं पशुपक्षि समन्वितम् ॥
नाशमद्य नयिष्यामि यथा शत्रोर्हि दुष्टकः ॥ ३८ ॥
॥ दुःशील उवाच ॥ ॥
नैतद्युक्तं नरश्रेष्ठ तव कर्तुं कथंचन ॥।
ब्राह्मणानां कृते कर्म ब्राह्मणस्य विशेषतः ॥ ३९ ॥
निघ्नंतो वा शपंतो वा वदंतो वापि निष्ठुरम् ॥
पूजनीयाः सदा विप्रा दिव्याँल्लोकानभीप्सुभिः ॥ ६.३७.४० ॥
ब्राह्मणैर्निर्जितैर्मेने य आत्मानं जयान्वितम् ॥
तामिस्रादिषु घोरेषु नरकेषु स पच्यते ॥ ४१ ॥
आत्मनश्च पराभूतिं तस्माद्विप्रात्सहेत वै ॥
य इच्छेद्वसतिं स्वर्गे शाश्वतीं द्विजसत्तम ॥ ४२ ॥
एतेषां ब्राह्मणेंद्राणां क्षेत्रे सिद्धिं समागताः ॥
मंत्रास्ते तत्कथं नाशं त्वमेतेषां करिष्यसि ॥ ४३ ॥
ब्रह्मघ्ने च सुरापे च चौरे भग्नवते तथा ॥
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ ॥ ४४ ॥
तस्मात्कोपो न कर्तव्यः क्षेत्रे चात्र व्यवस्थितैः ॥
क्षमां कुरु मुनिश्रेष्ठ कृपां कृत्वा ममोपरि ॥४५ ॥
॥ सूत उवाच ॥ ॥
स तथेति प्रतिज्ञाय तत्र कृत्वावसत्तपः ॥
प्राप्तश्च परमां सिद्धिं दुर्लभां त्रिदशैरपि ॥ ४६ ॥
दुःशीलाख्यः क्षितौ सोऽपि प्रासादः ख्याति मागतः ॥
यस्य संदर्शनादेव नरः पापात्प्रमुच्यते ॥ ४७ ॥
तस्य मध्यगतं लिंगं शुक्लाष्टम्यां सदा नरः ॥
यः पश्यति क्षणं ध्यात्वा नरकं स न पश्यति ॥ ४८ ॥
इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दुःशीलाख्यप्रासादोत्पत्ति वर्णनंनाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 38
॥ सूत उवाच ॥ ॥
तत्रैव स्थापितं लिंगं धुन्धुमारेण भूभुजा ॥
सर्वरत्नमयं कृत्वा प्रासादं सुमनोहरम् ॥ १ ॥
तत्र कृत्वाऽऽश्रमं श्रेष्ठं तपस्तेपे सुदारुणम् ॥
यत्प्रभावादयं देवस्तस्मिँल्लिङ्गे व्यवस्थितः ॥ २ ॥
तस्य संनिहिता वापी कृता तेन महात्मना ॥
सुनिर्मलजलापूर्णा सर्वतीर्थोपमा शुभा ॥ ३ ॥
धुन्धुमारेश्वरं पश्येत्तत्र स्नात्वा नरोत्तमः ॥
न स पश्यति दुर्गाणि नरकाणि यमालये ॥ ४ ॥
॥ ऋषय ऊचुः ॥ ॥
धुंधुमारो महीपालः कस्मिन्वंशे बभूव सः ॥
कस्मिन्काले तपस्तप्तं तेनात्र सुमहात्मना ॥ ५ ॥
॥ सूत उवाच ॥ ॥
सूर्यवंशसमुद्भूतो बृहदश्वसुतो बली ॥
ख्यातः कुवलयाश्वेति धंधुमारस्तथैव सः ॥ ६ ॥
तेन धुन्धुर्महादैत्यो निहतो मरुजांगले ॥
धुन्धुमारः स्मृतस्तेन विख्यातो भुवनत्रये ॥ ७ ॥
चमत्कारपुरं क्षेत्रं स गत्वा पावनं महत् ॥
तपस्तेपे वयोंऽते च ध्यायमानो महेश्वरम् ॥ ८ ॥
संस्थाप्य सुमहल्लिंगं प्रासादे रत्नमंडिते ॥
बलिपूजोपहाराद्यैः पुष्पधूपानुलेपनैः ॥ ९ ॥
ततस्तस्य महादेवः स्वयमेव महेश्वरः ॥
प्रत्यक्षोऽभूद्वृषारूढो गौर्या सह तथा गणैः ॥ ६.३८.१० ॥
उवाच वरदोऽस्मीति प्रार्थयस्व यथेप्सितम् ॥
सर्वं तेऽहं प्रदास्यामि यद्यपि स्यात्सुदुर्लभम् ॥ ११ ॥ ॥
धुन्धुमार उवाच ॥ ॥
यदि देयो वरोऽस्माकं त्वया सर्वसुरेश्वर ॥
संनिधानं प्रकर्तव्यं लिंगेऽस्मिन्वृषभध्वज ॥ १२ ॥
॥ श्रीभगवानुवाच ॥ ॥
चैत्रे शुक्लचतुर्दश्यां सांनिध्यं नृपसत्तम ॥
अहं सदा करिष्यामि गौर्या सार्धं न संशयः ॥ १३ ॥
तत्र वाप्यां नरः स्नात्वा यो मां संपूजयिष्यति ॥
लिंगेऽस्मिन्संस्थितं भूप मम लोकं स यास्यति ॥ १४ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥
सोऽपि राजा प्रहृष्टा त्मा स्थितस्तत्रैव मुक्तिभाक् ॥ १५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धुन्धुमारेश्वरमाहात्म्यवर्णनंनामाष्टात्रिंशो अध्यायः ॥ ३८ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 39
॥ सूत उवाच ॥ ॥
तस्यैवोत्तरदिग्भागे धुन्धुमारेश्वरस्य च ॥
ययातिना नरेंद्रेण स्थापितं लिंगमुत्तमम् ॥ १ ॥
देवयान्या तथान्यच्च तथा शर्मिष्ठया द्विजाः ॥
भार्यया भूपतेस्तस्य सर्वकामफलप्रदम् ॥ २ ॥
स यदा सर्वभोगानां तृप्तिं प्राप्तो द्विजोत्तमाः ॥
तदा पुत्रस्य राज्यं स्वं वपुश्चैव न्यवेदयत् ॥३॥
जरामादाय तद्गात्राद्भार्याभ्यां सहितस्तदा ॥
पप्रच्छ विनयोपेतो मार्कंडं मुनिसत्तमम् ॥ ४ ॥
भगवन्सर्वतीर्थानां क्षेत्राणां च वदस्व मे ॥
यत्प्रधानं पवित्रं यत्तदस्माकं प्रकीर्तय ॥ ५ ॥ ॥
॥ श्रीमार्कंडेय उवाच ॥ ॥
क्षेत्राणामिह सर्वेषां तीर्थैः सर्वैरलंकृतम् ॥
चमत्कारपुरं क्षेत्रं सांप्रतं प्रतिभाति नः ॥ ६ ॥
यत्र विष्णुपदी गंगा जंतूनां पापनाशिनी ॥
स्वयं स्थिता नृपश्रेष्ठ तथा देवा हरादयः ॥ ७ ॥
तथान्यानि च तीर्थानि यानि संति धरातले ॥
तेषां यत्र च सांनिध्यं सर्वदा नृपसत्तम ॥ ८ ॥
शिला यत्र द्विपञ्चाशद्धस्तानां परिसंख्यया ॥
पितामहेन निर्मुक्ता प्रमोदाय द्विजन्मनाम् ॥ ९ ॥
यदन्यत्र शुभं कर्म वर्षेणैकेन सिध्यति ॥
तत्तत्र दिवसेनापि सिद्धिं याति क्षितीश्वर ॥ ६.३९.१० ॥
तस्मात्तत्र द्रुतं गत्वा तपः कुरु महीपते ॥
येन प्राप्स्यसि चित्तस्थाँल्लोकान्भार्यासमन्वितः ॥ ११ ॥
तस्य तद्वचनं श्रुत्वा स राजा नहुषात्मजः ॥
चमत्कारपुरे क्षेत्रे भार्याभ्यां सहितो ययौ ॥ १२ ॥
ततः संस्थाप्य तल्लिंगं देवदेवस्य शूलिनः ॥
सम्यगाराधयामास श्रद्धया परया युतः ॥ १३ ॥
ततस्तस्य प्रभावेन भार्याभ्यां सहितो नृपः ॥
विमानवरमारूढो जगाम त्रिदिवालयम् ॥ १४ ॥
किन्नरैर्गीयमानश्च स्तूयमानश्च चारणैः ॥
स्पर्द्धमानः समं देवैर्द्वादशार्कसमप्रभः ॥ १५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ययातीश्वरमाहात्म्यवर्णनंनामैकोनचत्वारिंशोऽध्यायः॥ ॥ ३९ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 40
॥ ऋषय ऊचुः ॥ ॥
यदेषा भवता प्रोक्ता ब्राह्मी तत्र महाशिला ॥
मोक्षदा सर्वजंतूनां तथा पातकनाशिनी ॥ १ ॥
सा कथं स्थापिता तत्र किंप्रभावा च सूतज ॥
एतन्नो ब्रूहि निःशेषं न हि तृप्यामहे वयम् ॥ २ ॥
॥ सूत उवाच ॥ ॥
ब्रह्मलोकनिविष्टस्य ब्रह्मणोऽ व्यक्तजन्मनः ॥
पुराऽभून्महती चिन्ता तीर्थयात्रासमुद्भवा ॥ ३ ॥
सर्वेषामेव देवानां संति तीर्थानि भूतले ॥
मुक्त्वा मां तन्मया कार्यं तीर्थमेकं धरातले ॥ ४ ॥
यत्र त्रिकालमासाद्य कर्म संध्यासमुद्भवम् ॥
मर्त्यलोकं समासाद्य करोमि तदनंतरम् ॥ ५ ॥
तथान्यदपि यत्किञ्चित्कर्म धर्म्यं हितावहम् ॥
तत्करोमि यथान्येऽपि चक्रुर्देवाः शिवादयः ॥ ६ ॥
न स्वर्गेऽस्ति हि कृत्यानामधिकारोऽत्र कश्चन ॥
शुभानां कर्मणामेव केवलं भुज्यते फलम् ॥ ७ ॥
तस्माद्यत्र धरापृष्ठे शिलेयं निपतिष्यति ॥
त्रिसंध्यं तत्र गन्तव्यमनुष्ठानार्थमेव हि ॥ ८ ॥
एवमुक्त्वा सुविस्तीर्णां शिलां तामा सनोद्भवाम् ॥
प्रचिक्षेप धरापृष्ठं समुद्दिश्य पितामहः ॥ ९ ॥
अथ सा पतिता भूमौ सर्वरत्नमयी शिला ॥
चमत्कारपुरे क्षेत्रे सर्वक्षेत्रमहोदये ॥ ६.४०.१० ॥।
तत आगत्य लोकेशः स्वयमेव धरातलम् ॥
तत्क्षेत्रं वीक्षयामास व्याप्तं तीर्थैः समन्ततः ॥ ११ ॥
ततः पुण्यतमे देशे दृष्ट्वा तां समुपस्थिताम् ॥
शिलामानंदमापन्नः प्रोवाच तदनन्तरम् ॥ १२ ॥
अहो धन्यतमो मत्तो नान्योऽस्ति भुवनत्रये ॥
सर्वतीर्थमये क्षेत्रे यतो जातात्र संस्थितिः ॥।३॥
सलिलेन विना यस्मान्न क्रिया संप्रवर्तते ॥
तस्मादत्र मया कार्यः शुचितोयो महाह्रदः ॥ १४ ॥
ततः संचिंतयामास स्वसुतां च सरस्वतीम् ॥
जन संस्पर्शभीत्या च पातालतलवाहिनीम् ॥ १५ ॥
अथ भूमितलं भित्त्वा प्रादुर्भूता महानदी ॥
तां शिलाममलैस्तोयैः क्षालयन्ती समंततः ॥ १६ ॥
अथ मूर्तिमती भूत्वा प्रोवाच प्रपितामहम् ॥
किमर्थं संस्मृता देवममादेशः प्रदीयताम्॥।७॥
॥ ब्रह्मोवाच ॥ ॥
त्वयात्रैव सदा स्थेयं शिलायां मम संनिधौ ॥
संध्यात्रयेऽपि त्वत्तोयैर्येन कृत्यं करोम्यहम् ॥ १८ ॥
तथा ये मानवाः स्नानं करिष्यंति जले तव ॥
ते यास्यंति परां सिद्धिं दुर्लभां देवा मानुषैः ॥ १९ ॥
॥ सरस्वत्युवाच ॥ ॥
अहं कन्या सुरश्रेष्ठ पातालतलवाहिनी ॥
जनस्पर्शभयाद्भीता नागच्छामि महीतले ॥ ६.४०.२० ॥
तवादेशोऽन्यथा नैव मया कार्यः कथंचन ॥
एवं मत्वा सुरश्रेष्ठ यद्युक्तं तत्समाचर ॥ २१ ॥
॥ ब्रह्मोवाच ॥ ॥
तवार्थे कल्पयिष्यामि स्थानेऽत्रैव महाह्रदम् ॥
अगम्यं सर्वमर्त्यानां तत्र त्वं स्थातुमर्हसि ॥ २२ ॥
एवमुक्त्वा स देवेशश्चखान च महाह्रदम् ॥
ततः सरस्वती तत्र स्वस्थानमकरो दथ ॥ २३ ॥
ततो दृष्टिविषान्सर्पानादिदेश पितामहः ॥
युष्माभिः सर्वदा स्थेयं ह्रदेस्मिञ्छासनान्मम ॥ २४ ॥
यथा सरस्वतीं मर्त्या न स्पृशंति कथंचन ॥
भवद्भिः सर्वथा कार्यं तथा पन्नगसत्तमाः ॥ २५ ॥
॥ सूत उवाच ॥ ॥
एवं ब्रह्मा व्यवस्थाप्य तत्र क्षेत्रे सरस्वतीम् ॥
तां च चित्रशिलां मध्ये ब्रह्मलोकं जगाम ह ॥ २६ ॥
अथ मंकणकोनाम महर्षिः संशितव्रतः ॥
क्षेत्रे तत्र समायातो विषविद्याविचक्षणः ॥ २७ ॥
सक्रमाद्भ्रममाणस्तु तस्मिन्सर्पाभिरक्षिते ॥
तं मुनिं वेष्टयामासुर्बबन्धुश्चैव पाशकैः ॥ २८ ॥
सोऽपि विद्याबलात्सर्पान्निर्विषांस्तांश्चकारह ॥
तत्र स्नात्वा शुचिर्भूत्वा कृत्वा च पितृतर्पणम् ॥
निष्क्रांतः सलिलात्तस्मात्कृतकृत्यो मुदान्वितः ॥ २९ ॥
ततश्चक्रे मुनिर्यावत्सम्यक्कुशपरिग्रहम् ॥
दर्भाग्रेणास्य हस्ताग्रं पाटितं तावदेव हि ॥ ६.४०.३० ॥
अथ तस्मात्क्षताज्जातस्तस्य शाकरसो महान् ॥
तं दृष्ट्वा स विशेषेण हर्षितो विस्मयान्वितः ॥ ३१ ॥
सिद्धोऽहमिति विज्ञाय नृत्यं चक्रे ततः परम् ॥
ब्राह्मीं शिलां समारुह्य आनंदाश्रुपरिप्लुतः ॥ ३२ ॥
अथैवं नृत्यमानस्य मुनेस्तस्य महात्मनः ॥
लास्यं चक्रे ततः सर्वं जगत्स्थावरजंगमम् ॥ ३३ ॥
चमत्कारपुरं कृत्स्नं भग्नं नष्टा द्विजोत्तमाः ॥
प्रासादैर्ध्वंसितैस्तत्र हाहाकारो महानभूत् ॥३४॥
]ततो देवगणाः सर्वे तद्दृष्ट्वा तस्य चेष्टितम्॥
लास्यस्य वारणार्थाय प्रोचुर्वृषभवाहनम्॥ ३५ ॥
अनेन नृत्यमानेन जगत्स्थावरजंगमम् ॥
नृत्यं करोति देवेश तस्माद्गत्वा निवारय ॥ ३६ ॥
नान्यः शक्तः सुरश्रेष्ठ मुनिमेनं कथंचन ॥
निषेधयितुमीशान ततः कुरु जगद्धितम् ॥ ३७ ॥
अथ तेषां वचः श्रुत्वा भगवान्वृषभध्वजः ॥
कृत्वा रूपं द्विजेंद्रस्य तत्सकाशमुपाद्रवत् ॥ ३८ ॥
अब्रवीच्च मुने कस्मात्त्वयैतन्नृत्यतेऽधुना ॥
तस्मात्कार्यं वदाशु त्वं परं कौतूहलं हि नः ॥ ३९ ॥
एवमुक्तः स विप्रेंद्रः शंकरेण द्विजोत्तमाः ॥
हस्तं संदर्शयामास तस्य शाकरसान्वितम् ॥ ६.४०.४० ॥
किं नपश्यसि मे ब्रह्मन्कराच्छाकरसो महान्॥
संजातः क्षतवक्त्रेण तस्मात्सिद्धिरुपस्थिता ॥ ४१ ॥
एतस्मात्कारणाद्विप्र नृत्यमेतत्करोम्यहम्॥
आनंदं परमं प्राप्य सिद्धिजं सिद्धसत्तम ॥ ४२ ॥
एवं तु वदतस्तस्य भगवान्वृषभध्वजः ॥
अंगुष्ठं ताडयामास स्वांगुल्यग्रेण तत्क्षणात् ॥ ४३ ॥
निश्चक्राम ततो भस्म हिमस्फटिकसंनिभम्॥
क्षताग्रात्सहसा तस्य महाविस्मयकारकम्॥ ४४ ॥
ततः प्रोवाच तं विप्रं स देवो द्विजसत्तमाः ॥
यस्यांगुष्ठाग्रतो मह्यं निष्क्रांतं भस्म पांडुरम् ॥ ४५ ॥
तथाप्यहं मुनिश्रेष्ठ न नृत्यं कर्तुमुत्सहे ॥
त्वं पुनर्नृत्यसे कस्मादपि शाकरसेक्षणात्॥ ॥ ४६ ॥
विरामं कुरु तस्मात्त्वं नृत्यादस्माद्विगर्हितात् ॥
तपः क्षरति विप्रेन्द्र नृत्यगीताद्द्विजन्मनः ॥ ४७ ॥
अथासौ तत्समुद्वीक्ष्य क्षताद्भस्मविसर्जनम् ॥
नृत्यं व्रीडान्वितस्त्यक्त्वा तस्य चक्रे नमस्कृतिम् ॥ ४० ॥
अब्रवीत्त्वामहं मन्ये नान्यं देवान्महेश्वरात् ॥
तस्मात्कुरु प्रसादं मे यथा न स्यात्तपःक्षतिः ॥ ४९ ॥
॥ श्रीभगवानुवाच ॥ ॥
तपस्ते मत्प्रसादेन वृद्धिं शस्यति नित्यशः ॥
स्थानेऽत्र भवता सार्धमहं स्थास्यामि सर्वदा ॥ ६.४०.५० ॥
आनन्दितेन भवता प्रार्थितोऽहं यतो मुने ॥
आनन्देश्वरसंज्ञस्तु ख्यातिं यास्यामि भूतले ॥
एतत्पुरं च मे नाम्ना आनन्दाख्यं भविष्यति ॥ ५१ ॥
एवमुक्त्वा महादेवो गतश्चादर्शनं ततः ॥
सोऽपि मंकणकस्तत्र तपस्तेपे मुनीश्वरः ॥ ५२ ॥
अथ ते पन्नगाः प्रोचुः प्रणिपत्य मुनीश्वरम्॥
भगवन्निर्विषाः सर्वे वयं हि भवता कृताः ॥ ९३ ॥
तस्मात्कुरु प्रसादं नो यथा स्याद्दारुणं विषम् ॥
नो चेद्वयं गमिष्यामः सर्वलोक पराभवम्॥ ५४ ॥
॥ मंकणक उवाच ॥ ॥
अनृतं न मया प्रोक्तं स्वैरेणापि कदाचन ॥
तस्मादेवंविधाः सर्वे जलसर्पा भविष्यथ ॥ ५५ ॥ ॥
॥ सूत उवाच ॥ ॥
ततःप्रभृति संजाता जलसर्पा महीतले ॥
तद्वद्रूपा द्विजिह्वाश्च केवलं विषवर्जिताः ॥ ५६ ॥
अथ तस्मिन्ह्रदे मर्त्याः स्नात्वा सारस्वते शुभे ॥
स्पृष्ट्वा चित्रशिलां तां च प्रयांति परमां गतिम् ॥ ५७ ॥
अथ भीतः सहस्राक्षो गत्वा देवं पितामहम् ॥
यमेन सहितस्तूर्णं प्रोवाचेदं वचस्तदा ॥ ५८ ॥
त्वत्प्रसादात्समुद्वीक्ष्य गच्छंति मनुजा दिवम् ॥
पितामह महातीर्थं यत्त्वया विहितं क्षितौ ॥
सारस्वतं नरास्तत्र स्नात्वा यांति त्रिविष्टपम् ॥ ५९ ॥
अपि पापसमाचाराः सर्वधर्मबहिष्कृताः ॥
तत्र स्नात्वा शिलां स्पृष्ट्वा तदैवायांति सद्गतिम्॥ ६.४०.६० ॥
॥ यम उवाच ॥ ॥
अप्रमाणं विभो कर्म संप्रयातं ममोचितम् ॥
शुभाशुभपरिज्ञानं सर्वेषामेव देहिनाम् ॥ ६१ ॥
तस्मात्त्यज त्वं मां देव यद्वा तत्तीर्थमुत्तमम्॥
यत्प्रभावाज्जनैर्हीनाः संजाता नरका मम ॥ ६२ ॥
तस्य तद्वचनं श्रुत्वा यमस्य प्रपितामहः ॥
प्राह पार्श्वस्थितं शक्रं तत्तीर्थं नय संक्षयम् ॥ ६३ ॥
ततः शक्रो ह्रदं गत्वा पूरयामास पांसुभिः ॥
ह्रदं सारस्वतं तं च तां च चित्रशिलां द्विजाः ॥ ६४ ॥
अद्यापि मनुजः सम्यक्त स्मिन्स्थाने व्यवस्थितः ॥
यः करोति तपश्चर्यां स शीघं सिद्धिमाप्नुयात् ॥ ६५ ॥
सोऽपि मंकणकस्तत्र सार्द्धं देवेन शंभुना ॥
तिष्ठत्यद्यापि विप्रेंद्र पूरितं चैव पांसुभिः ॥ ६६ ॥
लिंगं मंकणकन्यस्तं तत्रास्ति सुमहोदयम् ॥
तत्स्पृष्ट्वा मानवाः पापैर्मुच्यंते द्विजसत्तमाः ॥ ६७ ॥
माघ शुक्लचतुर्दश्यां यस्तं पूजयते नरः ॥
स पापैरपि संयुक्तः शिवलोके महीयते ॥ ६८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चित्रशिलामाहात्म्यवर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४० ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 41
॥ सूत उवाच ॥ ॥
तस्यैवोत्तरदिग्भागे देवस्य जलशायिनः ॥
स्थानमस्ति सुविख्यातं सर्वपातकनाशनम् ॥ १ ॥
यस्तत्पूजयते भक्त्या शयने बोधने हरेः ॥
उपवासपरो भूत्वा स गच्छेद्वैष्णवं पदम् ॥ २ ॥
अशून्यशयनानाम द्वितीया दयिता तिथिः ॥
सदैव देवदेवस्य कृष्णा सुप्तस्य या भवेत् ॥ ३ ॥
तस्यां यः पूजयेत्तत्र तं देवं जलशायिनम्॥
शास्त्रोक्तेन विधानेन स गच्छति हरेः पदम् ॥ ४ ॥
॥ ऋषय ऊचुः ॥ ॥
जलशायी कथं तत्र संप्राप्तः सूतनन्दन ॥
पूज्यते विधिना केन तत्सर्वं विस्तराद्वद ॥ ५ ॥
॥ सूत उवाच ॥ ॥
पुरासीद्बाष्कलिर्नाम दानवेन्द्रो महाबलः ॥
अजेयः सर्वदेवानां गन्धर्वोरगरक्षसाम् ॥ ६ ॥
अथासौ भूतलं सर्वं वशीकृत्वा महाबलः ॥
ततो दैत्यगणैः सार्द्धं जगाम त्रिदशालयम् ॥ ७ ॥
तत्राभवन्महायुद्धं देवासुरविनाशकम् ॥
देवानां दानवानां च क्रुद्धानामितरेतरम् ॥ ८ ॥
वर्षाणामयुतं तावदहन्यहनि दारुणम् ॥
तत्रासृक्कर्दमो जातः पर्वतश्चास्थि संभवः ॥ ९ ॥
ततो वर्षसहस्रांते दशमे समुपस्थिते ॥
जितस्तेन सहस्राक्षः ससैन्यः सपरिग्रहः ॥ ६.४१.१० ॥
ततः स्वर्गं परित्यज्य सर्वदेवगणैः सह ॥
जगाम शरणं विष्णोः श्वेतद्वीपं प्रतिश्रयम् ॥ ११ ॥
यत्रास्ते भगवान्विष्णुर्योगनिद्रावशंगतः ॥
शयानः शेषपर्यंके लक्ष्म्या संवाहितांघ्रियुक् ॥ १२ ॥
ततो वेदोद्भवैः सूक्तैः स्तुतिं चक्रुः समंततः ॥
तस्य देवस्य सद्भक्ताः सर्वे देवाः सवासवाः ॥ १३ ॥
अथोत्थाय जगन्नाथः प्रोवाच बलसूदनम् ॥
कच्चित्क्षेमं सहस्राक्ष सांप्रतं भुवनत्रये ॥
यत्त्वं देवगणैः सार्द्धं स्वयमेव इहागतः ॥ १४ ॥
॥ शक्र उवाच ॥ ॥
बाष्कलिर्नाम देत्येन्द्रो हरलब्धवरो बली ॥
अजेयः संगरे देवैस्तेनाहं विजितो रणे ॥ १५ ॥
संस्थितिश्च कृता स्वर्गे सांप्रतं मधु सूदन ॥
तेनैष शरणं प्राप्तो देवैः सार्द्धं सुरोत्तम ॥ १६ ॥
हिरण्याक्षभयाद्देवा हिरण्यकशिपोः पुरा ॥
त्वया त्राता वयं सर्वे तथान्येषां दुरात्मनाम् ॥।७॥
तस्मादस्मादपि त्राहि दानवाद्बलवत्तरात् ॥
बाष्कलेर्नास्ति देवेश त्वां मुक्त्वान्या परा गतिः ॥।८॥
॥ श्रीभगवानुवाच ॥ ॥
अहं तं निग्रहीष्यामि संप्राप्ते समये स्वयम्॥
तस्मात्त्वं समयंयावत्कुरु शक्र तपो महत् ॥ १९ ॥
येन ते जायते शक्तिस्तपोवीर्येण वासव ॥
वधाय तस्य दैत्यस्य बलयुक्तस्य बाष्कलेः ॥ ६.४१.२० ॥
॥ शक्र उवाच ॥ ॥
कस्मिन्क्षेत्रे जगन्नाथ करोमि सुमहत्तपः ॥
तस्य दैत्यस्य नाशार्थं तद स्माकं प्रकीर्तय ॥ २१ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा भगवान्विष्णुः प्रोवाचाथ पुरंदरम् ॥
चिरं मनसि निश्चित्य क्षेत्राण्यायतनानि च ॥ २२ ॥
चमत्कारपुरं क्षेत्रं शक्र सिद्धिप्रदायकम् ॥
तस्मात्तत्र द्रुतं गत्वा तद्वधार्थं तपः कुरु ॥ २३ ॥
॥ शक्र उवाच ॥ ॥
न वयं भवता हीना यास्यामोऽन्यत्र केशव ॥
बाष्कलेर्दानवेन्द्रस्य भयाद्भीताः कथंचन ॥ २४ ॥
तस्मादागच्छ तत्र त्वं स्वयमेव सुरेश्वर ॥
त्वया संरक्षितो येन करोमि सुमहत्तपः ॥ २६ ॥
॥ सूत उवाच ॥ ॥
ततः स भगवान्विष्णुस्तथेत्युक्त्वा सुरैः सह ॥
चमत्कारपुरं क्षेत्रमाजगाम सह श्रिया ॥ ॥ २६ ॥
अथ देवगणाः सर्वे तत्र गत्वा तदाऽऽश्रमान् ॥
चक्रुः पृथक्पृथग्घृष्टास्तपोऽर्थं कृतनिश्चयाः ॥ २७ ॥
वासुदेवोऽपि संस्मृत्य क्षीरोदं तत्र सागरम् ॥
आनिनायाशु विस्तीर्णं ह्रदे तस्मिन्पुरातने ॥ २८ ॥
चकार शयनं तत्र श्वेतद्वीपे यथा पुरा ॥
स्तूयमानः सुरैः सर्वैः समंताद्विनयान्वितैः ॥ २९ ॥
अथाषाढस्य संप्राप्ते द्वितीयादिवसे शुभे ॥
कृष्णपक्षे सहस्राक्षं स्वयमेव बृहस्पतिः ॥
प्रोवाच वचनं श्लक्ष्णं बाष्पव्याकुल लोचनम् ॥ ६.४१.३० ॥
॥ बृहस्पतिरुवाच ॥ ॥
अशून्यशयनानाम द्वितीयाद्य पुरंदर ॥
अतीव दयिता विष्णोः प्रसुप्तस्य जलाशये ॥ ३१ ॥
अस्यां संपूजितो विष्णुर्यावन्मासचतुष्टयम् ॥
ददाति सकलान्कामान्ध्यातश्चेतसि सर्वदा ॥
शास्त्रोक्तविधिना सम्यग्व्रतस्थो जलशायिनम् ॥ ३२ ॥
एवं स चतुरो मासान्द्वितीयादिवसे हरिम् ॥
पूजयित्वा सहस्राक्षस्तेजसा सहितोऽभवत् ॥ ३३ ॥
तं दृष्ट्वा तेजसा युक्तं परितुष्टो जनार्दनः ॥
प्रोवाच शक्र गच्छाद्य वधार्थं तस्य बाष्कलेः ॥
सर्वैर्देवगणैः सार्धं विजयस्ते भविष्यति ॥ ३४ ॥
॥ शक्र उवाच ॥ ॥
बिभेमि तस्य देवाहं दानवेन्द्रस्य दुर्मतेः ॥
त्वया विना न गच्छामि सार्धं सर्वैः सुरैरपि ॥ ३५ ॥
॥ श्रीभगवानुवाच ॥ ॥
त्वया सह सहस्राक्ष चक्रमेतत्सुदर्शनम् ॥
गमिष्यति वधार्थाय मदीयं सुरविद्विषाम् ॥ ३६ ॥
एवमुक्त्वा हरिश्चक्रं प्रमुमोच सुदर्शनम् ॥
वधार्थं दानवेन्द्राणां शक्रेण सहितं तदा ॥ ३७ ॥
शक्रोऽपि सहितस्तेन गत्वा चक्रेण कृत्स्नशः ॥
सर्वानुत्सादयामास दानवान्रणमूर्धनि ॥ ३८ ॥
स चापि बाष्कलिस्तेन च्छिन्नश्चक्रेण कृत्स्नशः ॥
पपात धरणीपृष्ठे वज्राहत इवाचलः ॥ ३९ ॥
तथान्ये बहवः शूरा दानवा बलदर्पिताः ॥
हत्वा सुदर्शनं चक्रं भूयः प्राप्तं हरेः करम्॥ ६.४१.४० ॥
तेऽपि शक्रादयो देवाः प्रहृष्टा गतसंशयाः ॥
भूयो विष्णुं समेत्याथ प्रोचुर्नत्वा ततः परम् ॥ ४१
प्रभावात्तव देवेश हताः सर्वेऽमरारयः ॥
प्राप्तं त्रैलोक्यराज्यं च भूयो निहतकंटकम् ॥ ४२ ॥
तस्मात्कीर्तय यत्कृत्यं तच्च श्रेयस्करं मम ॥
सदा स्यात्पुंडरीकाक्ष तथा शत्रुभयावहम् ॥ ४३ ॥
॥ श्रीभगवानुवाच ॥ ॥
मयात्रैव सदा स्थेयं रूपेणानेन वासव ॥
सर्वलोकहितार्थाय ह्रदे पुण्य जलाश्रये ॥ ४४॥
त्वया तस्मात्समागम्य चातुर्मास्यं शचीपते ॥
प्रयत्नेन प्रकर्तव्यमशून्यशयनं व्रतम् ॥ ४५ ॥
न भवंति सहस्राक्ष येन ते परि पंथिनः ॥
तथाभीष्टफलावाप्तिर्मत्प्रसादादसंशयम् ॥ ४६ ॥
अन्योऽपि यो नरो भक्त्या पूजयिष्यति मामिह ॥
संप्राप्स्यति स ताँल्लोकान्दुर्लभांस्त्रि दशैरपि ॥ ४७ ॥
तस्माद्गच्छ सहस्राक्ष कुरु राज्यं त्रिविष्टपे ॥
भूयोऽप्यत्रैव देवेश द्रष्टव्योऽस्मि न संशयः ॥
कार्यकाले समायाते श्वेतद्वीपे यथा तथा ॥ ४८ ॥
॥ सूत उवाच ॥ ॥
ततः प्रणम्य तं दृष्ट्वा प्रजगाम शतक्रतुः ॥
वासुदेवोऽपि तत्रैव स्थितो लोकहिताय च ॥ ४९ ॥
एवं तत्र द्विजश्रेष्ठा जलशायी जनार्दनः ॥
सर्वलोकहितार्थाय संस्थितः परमेश्वरः ॥ ६.४१.५० ॥
यस्तं पूजयते भक्त्या श्रद्धया परया युतः ॥
चातुर्मास्ये विशेषेण स याति परमां गतिम् ॥ ५१ ॥
तथा देवगणैः सर्वैर्द्वारका तत्र सा कृता ॥
संपूज्य तु नरा यांति चातुर्मास्ये त्रिविष्टपम् ॥ ५२ ॥
शेषकालेऽपि चित्तस्थान्कामान्मर्त्यः समाप्नुयात् ॥
तस्मात्सर्वप्रयत्नेन पूज्या सा द्वारका नरैः ॥
सर्वेष्वपि हि कालेषु चातुमास्ये विशेषतः ॥ ५३ ॥
एतद्वः सर्वमाख्यातं सर्वपातकनाशनम् ॥
आख्यानं देवदेवस्य सुपुण्यं जलशायिनः ॥ ५४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युत्पत्तिवर्णनंनामैकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 42
॥ सूत उवाच ॥ ॥
विश्वामित्रसमुद्भूतं कुण्डं तत्रापरं शुभम् ॥
संतिष्ठते द्विजश्रेष्ठाः सर्वकामप्रदायकम् ॥ १ ॥
तत्र चैत्रतृतीयायां कृते स्नाने भवेन्नरः ॥
दिव्यरूपधरः साक्षात्कामोऽन्यो द्विजसत्तमाः ॥ २ ॥
नारी वा श्रद्धयोपेता तत्र स्नात्वा प्रजावती ॥
भवेत्सौभाग्यसंयुक्ता स्पृहणीयतमा क्षितौ ॥ ३ ॥ ॥
॥ ऋषय ऊचुः ॥ ॥
तीर्थं तस्य मुनेस्तत्र कस्मिन्काले व्यवस्थितम् ॥
निर्मलं केन निःशेषं वद त्वं सूतनंदन ॥ ४ ॥
॥ सूत उवाच ॥ ॥
तत्रास्ति निर्झरः पूर्वं सामान्यो द्विजसत्तमाः ॥
अवधूतो धरापृष्ठे माहात्म्येन व्यवस्थितः ॥ ५ ॥
यत्र देवनदी गंगा स्वयमेव व्यवस्थिता ॥
यस्यां स्नातः पुमान्सद्यः सर्वपापैः प्रमुच्यते ॥ ६ ॥
यस्तत्र कुरुते श्राद्धं पितॄनुद्दिश्य भावितः ॥
तदक्षयं भवेच्छ्राद्धं पितॄणां तृप्तिकारकम् ॥ ७ ॥
यत्किंचिद्दीयत दानं तस्मिंस्तीर्थवरे द्विजाः ॥
हुतजप्यादिकं चैव तदनंतफलं भवेत् ॥ ८ ॥
कस्यचित्त्वथ कालस्य मृगी व्याधशराहता ॥
प्रविष्टा सलिले तस्मिंस्तत्र पञ्चत्वमागता ॥ ९ ॥
चैत्रशुक्लतृतीयायां मध्याह्ने द्विजसत्तमाः ॥
नक्षत्रे यमदैवत्ये मार्तंडस्य च वासरे ॥ ६.४२.१० ॥
अथ तत्तोयमाहात्म्यान्मेनकानाम साऽभवत् ॥
अप्सरास्त्रिदशेंद्रस्य समंताच्चारुहासिनी ॥ ११ ॥
स्मरमाणाऽथ सा तस्य प्रभावं वरवर्णिनी ॥
तीर्थमागत्य सद्भक्त्या स्नानं तत्र समाचरत् ॥
चैत्रशुक्लतृतीयायां यामर्क्षे सूर्यवासरे ॥ १२ ॥
एकदा दिवसे तस्मिन्भ्रममाणो मुनीश्वरः ॥
विश्वामित्र इति ख्यातस्तत्रायातस्तपोऽन्वितः ॥ १३ ॥
साऽपि स्वर्गात्समायाता देवतादर्शनार्थतः ॥
पूजयित्वाथ तं देवं प्रस्थिता त्रिदिवं प्रति ॥ १४ ॥
सा दृष्ट्वा तं मुनिं तत्र भ्रममाणमितस्ततः ॥
यौवनस्थं सुरूपाढ्यं पंचबाणमिवापरम्॥ १५ ॥
व्रतप्रभावजैर्व्याप्तं तेजोभिर्भास्करं यथा ॥
बाल्यात्प्रभृति चीर्णेन तपसा दग्धकिल्बिषम्॥ १६ ॥
सा तस्य दर्शनादेव कामबाणप्रपीडिता ॥
सानंदाः सुरतार्थाय समीपं समुपाद्रवत् ॥ १७ ॥
स दृष्ट्वाऽदृष्टपूर्वां तां मार्गपृच्छाकृते ततः ॥
सम्मुखः प्रययौ तूर्णं प्रहृष्टेनांतरात्मना ॥ १८ ॥
उवाच देशं तां पृच्छन्स्त्रीधर्मांश्च विशेषतः ॥
शुभलाभोऽस्तु ते भद्रे मनसा कर्मणा गिरा ॥ १९ ॥
सदैव वासुदेवस्य भक्तिश्चाव्यभिचारिणी॥
कच्चित्त्वं वर्तसे पुत्रि पतिपादपरायणा ॥
चारित्रविनयोपेता सर्वदा प्रियवादिनी ॥ ६.४२.२० ॥
कच्चित्त्वं सर्वदाभीष्टा पत्युर्दानैस्तथार्च्चनैः ॥
बंधून्स्वमित्रवर्गं च तत्पुरः पृष्ठतोपि वा ॥ २१ ॥
कच्चिद्भर्तरि संसुप्ते त्वं निशवशमेष्यसि॥
उत्थानमप्रबुद्धे च करोषि वरवर्णिनि ॥ २२ ॥
कच्चित्प्रातः समुत्थाय करोषि गृहमार्जनम् ॥
स्वयमेव वरारोहे मण्डनं चोपमण्डनम्॥ २३ ॥
कच्चिदेवान्नमस्कृत्य गुरुं च तदनंतरम् ॥
करोषि त्वं प्राणयात्रां दत्त्वान्नं शक्तितो जलम् ॥ २४ ॥
कच्चिदस्तंगते सूर्ये नान्नमश्नासि भाभिनि ॥
अदत्त्वा वा स्वभृत्येभ्यः साधुभ्यश्च विशेषतः ॥ २५ ॥
कच्चित्पिबसि पानीयं सप्तवारविशोधितम् [।
निबिडेन स्ववस्त्रेण पालयंती जलोद्भवान्॥ २६.॥
कच्चिद्दयासमोपेता गात्रक्लेशकरानपि ॥
यूकामत्कुणदंशादीन्पुत्रवत्परिरक्षसि॥ २७ ॥
कच्चित्साधुमुखान्नित्यं शिवधर्मं सुभक्तितः ॥
शृणोषि भक्तितो भद्रे प्रकरोषि च सादरम् ॥ २८ ॥
क्वचिच्छ्रुत्वाऽऽगमं पुण्यं प्रकरोषि च पूजनम्॥
शास्त्रस्य वाचकस्यापि व्याख्यातुश्च विशेषतः ॥ २९ ॥
कच्चित्पुराणशास्त्राणि प्रणीतानि जनेश्वरैः ॥
संलेख्याक्षररम्याणि साधुभ्यः संप्रयच्छसि ॥ ६.४२.३० ॥
यः श्रुत्वा सर्व शास्त्राणि निष्क्रयं न प्रयच्छति ॥
शास्त्रचौरः स विज्ञेयो न चैवाप्नोति तत्फलम् ॥ ३१ ॥
कच्चिच्छिवालये नृत्यगीतवाद्यादिकाः क्रियाः ॥
बलिपूजोपहारांश्च त्वं करोषि च शक्तितः ॥ ३२ ॥
कच्चित्प्रावरणं वस्त्रं सुभगे सर्वमेव च ॥
संप्रयच्छसि साधुभ्यः प्रणिपातपुरःसरम् ॥ ३३ ॥
वृथा पर्यटनं नित्यं कच्चिन्न परमंदिरे ॥
त्वं करोषि विशालाक्षि विशेषेण निशागमे ॥ ३४ ॥
कच्चिन्नाश्नासि भद्रे त्वं स्वभर्तरि बुभुक्षिते ॥
आज्ञाभंगं प्रयत्नेन कच्चित्तत्र प्ररक्षसि ॥ ३५ ॥
कच्चित्प्रकुपिते कांते नोत्तराणि प्रयच्छसि ॥
तस्यकोपप्रणाशार्षं प्रियं कच्चिच्च जल्पसि ॥ ३६ ॥
कच्चित्त्वं प्रोषिते कांते मलिनांबरधारिणी ॥
जायसे च तथा दीना विवर्णवदना कृशा ॥ ३७ ॥
कच्चिन्मंदिरपृष्ठे त्वं न धत्से भिन्नभाजनम् ॥
उच्छिष्टं वा जनैस्त्यक्तमपि कार्योपकारकम् ॥ ३९ ॥
कच्चिद्व्रजसि नो रात्रौ जागरेषु कथासु च ॥
निर्झरेषु विविक्तेषु पुलिनेषु वनेषु च ॥ ३९ ॥
कच्चिन्न कुरुषे मैत्रीं बंधकीभिः समं शुभे ॥
धात्रीभिर्मालिकस्त्रीभी रजकीभिश्च भामिनि ॥ ६.४२.४० ॥
कञ्चिद्दधासि नित्यं त्वं मुखं कुंकुमरंजितम् ॥
शिरः पुष्पसमाकीर्णं नेत्रे कज्जलरंजिते ॥ ४१ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रकुण्डोत्पत्तिवृत्तान्ते विश्वामित्रमेनकासमागमवर्णनंनाम द्विचत्वारिंशो ध्यायः ॥ ४२ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 43
॥ मेनकोवाच ॥ ॥
अन्यास्ता नायिका विप्र यासां धर्मस्त्वयोदितः ॥
स्वेच्छाचारविहारिण्यो वयं वेश्या दिवौकसाम् ॥ १ ॥
स त्वं वद महाभाग कस्माद्देशात्समागतः ॥
मम चित्तहरो वापि तीर्थे धर्मिष्ठसंश्रये ॥ २ ॥
त्वां दृष्ट्वाहं महाभाग कामदेव समाकृतिम् ॥
पुलकांचितसर्वांगी कामबाणप्रपीडिता ॥ ३ ॥
तस्माद्भजस्व मां रक्तां नो चेद्यास्यामि संक्षयम् ॥
कामबाणप्रदग्धा वै पुरोऽपि तव तापस ॥
ततः स्त्रीवधपापेन लिप्यसे त्वं न संशयः ॥ ४ ॥
॥ तापस उवाच ॥ ॥
वयं व्रतधराः सुभ्रु ब्रह्मचर्यपरायणाः ॥
मूर्खाः कामविधौ भद्रे निरताः शिवशासने ॥ ५ ॥
सर्वेषां व्रतिनां मूलं ब्रह्मचर्यमुदाहृतम् ॥
विशेषाच्छिवभक्तानामेवं भूयो विधास्यसि ॥ ६ ॥
अपि वर्षशतं साग्रं यत्तपः कुरुते व्रती ॥
सकृत्स्त्रीसंगमान्नाशं याति पाशुपतस्य च ॥ ७ ॥
मां च पाशुपतं लुब्धा कस्मात्त्वं भीरु भाषसे ॥
ईदृक्पापतमं कर्म गर्हितं शिवशासने ॥ ८ ॥
यः स्त्रीं भजति पापात्मा वृथा पाशुपतव्रती ॥
सोऽतीतान्दश चाधाय पुरुषान्नरके पचेत् ॥ ९ ॥
आस्तां तावत्समा संगं संस्पर्शं च वरानने ॥
संभाषमपि पापाय स्त्रीभिः पाशुपतस्य च ॥ ६.४३.१० ॥
तस्माद् द्रुततरं गच्छ स्थानादस्माद्वरांगने ॥
यत्रावाप्स्यसि चाभीष्टं तत्र त्वं गन्तुमर्हसि ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रकुण्डोत्पत्तिवृत्तान्ते विश्वामित्रमेनकासंवादवर्णनंनाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 44
॥ मेनकोवाच ॥ ॥
नूनं हि कामधर्मे त्वं न प्रवीणो महाद्युते ॥
तेन मामीदृशैर्वाक्यैर्निवारयसि रागिणीम् ॥ १ ॥
॥ सूत उवाच ॥ ॥
एवमुक्तस्ततो भूयो विश्वामित्रोऽब्रवीदिदम् ॥
कोपेन महता युक्तो निःस्पृहस्तत्परिग्रहे ॥ २ ॥
॥ विश्वामित्र उवाच ॥ ॥
त्वं जीव गच्छ वा मृत्युं नाहं कर्तास्मि ते वचः ॥
व्रतनाशात्तु यत्पापमधिकं स्त्रीवधाद्भवेत् ॥ ३ ॥
प्रायश्चित्तं बुधैरुक्तं व्रतिनां स्त्रीवधे कृते ॥
न संगात्तु पुनस्तासां तस्मात्त्वं गन्तुमर्हसि ॥ ४ ॥
न केवलं व्रतोपेताः स्त्रीसंगात्पापमाप्नुयुः ॥
व्रतबाह्या अपि नराः सक्ताः स्त्रीषु पतंत्यधः ॥ ५ ॥
संसारभ्रमणं नारी प्रथमेपि समागमे ॥
वह्निप्रदक्षिणा व्याजन्यायेनैव प्रदर्शयेत् ॥ ६ ॥
तस्मात्स्त्रीभिः समं प्राज्ञः संभाषामपि वर्जयेत् ॥
आस्तां तावत्समासंगं य इच्छेच्छ्रेय आत्मनः ॥७ ॥
अंगार सदृशा नारी घृतकुंभसमः पुमान् ॥
अस्पर्शाद्दृढतामेति तत्संपर्काद्विलीयते ॥ ८ ॥
स्त्रियो मूलमनर्थानां सर्वेषां प्राणिनां भुवि ॥
तस्मात्त्याज्या सुदूरेण ताः स्वर्गस्य निरोधकाः ॥ ९ ॥
कुलीना वित्तवत्यश्च नाथवत्योऽपि योषितः ॥
एकस्मिन्नंतरे रागं कुर्वंत्येताः सुचञ्चलाः ॥६.४४.१०॥
न स्त्रीभ्यः किंचिदन्यद्धि पापाय विद्यते भुवि ॥
यासां संगसमासाद्य संसारे भ्रमते जनः ॥॥॥
नीचोऽपि कुरुते सेवां यस्तासां विजनेष्वथ ॥
विरूपं वापि नीचं वा तं सेवन्ते हि ताः स्त्रियः ॥ १२ ॥
अनर्थत्वान्मनुष्याणां भयात्परिजनस्य च ॥
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥ १३ ॥
॥सूत उवाच ॥ ॥
एवं संभर्त्सिता तेन मेनका कोपसंयुता ॥
शशाप तं मुनिश्रेष्ठं स्फुरमाणोष्ठसंपुटा ॥ १४ ॥
यस्मात्त्वया परित्यक्ता सकामाहं सुदुर्मते॥
त्यजता कामजं धर्मं तस्माच्छापं गृहाण मे ॥ १५ ॥
अद्यैव भव दुबुर्द्धे वलीपलितसंयुतः ॥
जराजर्ज्जरितांगश्च तुच्छदृष्टिर्विरंगितः ॥ १६ ॥
॥ सूत उवाच ॥ ॥
उक्तमात्रे तु वचने तत्क्षणान्मुनिसत्तमः ॥
बभूव तादृशः सद्यस्तया यादृक्प्रकीर्तितः ॥ १७ ॥
ततः कोपपरीतात्मा सोऽपि तां शप्तुमुद्यतः ॥
कमण्डलोर्जलं गृह्य संतापाद्रक्तलोचनः ॥ १८ ॥
निर्दोषोऽपि त्वया यस्माच्छप्तोऽहं गणिकाधमे ॥
तस्माद्भव त्वमप्याशु जराजर्जरितांगिका ॥ १९ ॥
सापि तद्वचनात्सद्यस्तादृग्रूपा व्यजायत ॥
यादृशोऽसौ मुनिश्रेष्ठो वलीपलितगात्रभृत् ॥ ६.४४.२० ॥
अथ तादृक्स्वरूपेण स्नाता तत्र जला शये ॥
भूयोऽपि तादृशी जाता यादृशी संस्थिता पुरा ॥ २१ ॥
तद्दृष्ट्वा परमाश्चर्यमतीव त्वरयान्वितः॥
सोऽपि तत्राकरोत्स्नानं संजातश्च यथा पुरा ॥ २२ ॥
ततस्तौ तीर्थमाहात्म्याद्रूपौदार्यगुणान्वितौ ॥
मिथ आमंत्र्य संहृष्टौ गतौ देशं यथेप्सितम् ॥ २३ ॥
एवं तीर्थस्य माहात्म्यं विज्ञाय भगवानृषिः ॥
लिंगं संस्थापयामास देवदेवस्य शूलिनः ॥ २४ ॥
तपश्चकार सुमहत्तस्मिंस्तीर्थवरे तदा ॥
कुशस्तम्बेन कृतवांस्तत्सरो विपुलं विभुः ॥ ॥ २५ ॥
तत्र स्नात्वा नरो यस्तु पूजयेल्लिंगमुत्तमम् ॥
विश्वामित्रेश्वरं ख्यातं स गच्छेच्छिवमंदिरम् ॥ २६ ॥
अद्यापि दृश्यते तत्र गंगोदकसमं जलम् ॥
सर्वपापहरं पुण्यं सर्वकामप्रदायकम् ॥ २७ ॥
यस्तत्र कुरुते स्नानं श्रद्धापूतेन चेतसा ॥
स देवलोकमासाद्य पितृभिः सह मोदते ॥२८॥
ततःप्रभृति तत्तीर्थं ख्यातिं प्राप्तं महीतले ॥
पाताले स्वर्गलोके च रूपौदार्यप्रदं नृणाम् ॥ २९ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥
विश्वामित्रेश माहात्म्यं सर्वपातकनाशनम् ॥ ६.४४.३० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेवरक्षेत्रमाहात्म्ये विश्वामित्रकुण्डोत्पत्ति विश्वामित्रेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ४४ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 45
॥ सूत उवाच ॥ ॥
तत्रैवास्ति द्विजश्रेष्ठाः सुपुण्यं पुष्करत्रयम्॥
यत्र पूर्वं तपस्तप्तमानर्ताधिपभूभुजा ॥ १ ॥
यस्तत्र कार्तिके मासि कृत्तिकास्थे निशाकरे ॥
मध्याह्ने कुरुते स्नानं स गच्छति परां गतिम् ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
कथं तत्र समायातं सुपुण्यं पुष्करत्रयम् ॥
कस्मिन्स्थाने च विज्ञेयं कैश्चिह्नैर्वद सूतज ॥ ॥ ३ ॥
॥ सूत उवाच ॥ ॥
अहं वः कीर्तयिष्यामि यैश्चिह्नैः पुष्करत्रयम् ॥
प्राग्दृष्टं मुनिना तत्र विश्वामित्रेण धीमता ॥ ४ ॥
पुरा निवसतस्तस्य विश्वामित्रस्य सन्मुनेः ॥
संप्राप्ता कार्तिकी पुण्या कृत्तिकायोगसंयुता ॥ ५ ॥
सर्वतीर्थमयं क्षेत्रं तद्विज्ञाय तपोनिधिः ॥
ततश्च चिन्तयामास स्वचित्ते गाधिनन्दनः ॥ ६ ॥
अद्येयं कार्तिकी पुण्या कृत्तिकायोगसंयुता ॥
यस्यां स्नाने नरैः श्रेयः प्राप्यते पुष्करोदके ॥
आद्यं तु पुष्करं दूरे न गन्तुं शक्यतेऽधुना ॥ ७ ॥
तस्मादत्र स्थितं यच्च तस्मिन्स्नानं करोम्यहम् ॥
स एवं निश्चयं कृत्वा श्रद्धापूतेन चेतसा ॥ ८ ॥
ततश्चान्वेषयामास पुष्कराणि समंततः ॥
बहुत्वात्तत्र तीर्थानां निश्चयं नान्वपद्यत ॥९॥
दृष्ट्वादृष्ट्वा जलस्थानं स्नानं चक्रे ततः परम्॥
स तदा श्रममापन्नो भ्रममाण इतस्ततः॥६.४५.१०॥
वृक्षमूलं समाश्रित्य निविष्टश्च क्षितौ ततः॥
तुष्टावाथ शुचिर्भूत्वा श्रद्धया च त्रिपुष्करम् ॥॥॥
मध्यमाद्योजनं स्वर्गः कनिष्ठादर्ध योजनम् ॥
ज्येष्ठकुण्डात्पुनः ख्यातो हस्तप्रायः शुभात्मभिः ॥ १२ ॥
पावयंति हि तीर्थानि स्नानदानादसंशयम् ॥
पुष्करालोकनादेव नरः पापात्प्रमु च्यते ॥ १३ ॥
पुष्करारण्यमाश्रित्य शाकमूलफलैरपि ॥
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥ १४ ॥
पुष्करे दुष्करं स्नानं पुष्करे दुष्करं तपः ॥
पुष्करे दुष्करो वासः सर्वं पुष्करदुष्करम् ॥ १५ ॥
कार्तिक्यां कृत्तिकायोगे पुष्करे स्नाति यो नरः ॥
स क्षणान्मुच्यते पापादाजन्ममरणोद्भवात् ॥ १६ ॥
ज्येष्ठे प्रातश्च मध्याह्ने मध्यमे स्नाति यो नरः ॥
कनिष्ठेऽस्तमिते भानौ सकृत्स्वर्गमवाप्नुयात् ॥ १७ ॥
तावत्तिष्ठति देहेषु पातकं सर्वदेहिनाम् ॥
यावन्न पौष्करैस्तोयैः स्नानं वै कुर्वते नराः ॥ १८ ॥
दिवाकरकरैः स्पृष्टं तमो यद्वत्प्रणश्यति ॥
पुष्करोदकसंस्पर्शाच्छीघ्रं गच्छति पातकम् ॥ १९ ॥
ब्रह्महत्यादिकं पापं कृत्वापि पुरुषो भुवि ॥
कार्तिक्यां पुष्करे स्नात्वा निर्दोषत्वं प्रपद्यते ॥ ६.४५.२० ॥
किं दानैः किं व्रतैर्होमैः किं यज्ञैर्वहुविस्तरैः ॥
कार्तिक्यां पुष्करे स्नानैः सर्वेषां लभ्यते फलम् ॥ २१ ॥
यद्येषा भारती सत्या मया सम्यमुदीरिता ॥
तन्मे स्याद्दर्शनं शीघ्रं सद्यः पुष्करसंभवम् ॥ २२ ॥
एवं तस्य ब्रुवाणस्य विश्वामित्रस्य धीमतः ॥
अशरीराऽभवद्वाणी गगनाद्द्विजसत्तमाः ॥ २३ ॥
विश्वामित्र मुनिश्रेष्ठ सदा मे गगने स्थितिः ॥
मुक्त्वैकां कार्तिकीं चैव कृत्तिकायोगसंयुताम् ॥ २४ ॥
तदत्र दिवसे वासो मम भूमितले ध्रुवम् ॥
अस्मिन्नेव वने पुण्ये तत्त्वं स्नानं समाचर ॥ २५ ॥
॥ विश्वामित्र उवाच ॥ ॥
सर्वेषामेव तीर्थानां श्रूयते च समाश्रयः ॥
तत्कथं वेद्मि तीर्थेश त्वामत्रैव व्यवस्थितम् ॥ २६ ॥
तदोत्थिता पुनर्वाणी तारा गगनगोचरा ॥
विश्वामित्रं मुनिश्रेष्ठं हर्षयंती द्विजोत्तमाः ॥ २७ ॥
नातिदूरे वनादस्मादत्र संति जलाशयाः ॥
तेषामेकतमे पद्मं विद्यतेऽधोमुखं स्थितम् ॥ २८ ॥
ऊर्ध्ववक्त्रं द्वितीये च तिर्यग्वक्त्रं तृतीयके ॥
तत्रोर्ध्वास्यैः सरोजैश्च विज्ञेयं ज्येष्ठपुष्करम् ॥ २९ ॥
पार्श्ववक्त्रैर्द्विजश्रेष्ठ मध्यमं परिकीर्तितम् ॥
अधोवक्त्रैस्तथा ज्ञेयं कनिष्ठं पुष्करं क्षितौ ॥ ६.४५.३० ॥
एतैश्चिह्नैर्मुनिश्रेष्ठ ज्ञात्वा स्नानं समाचर ॥
तच्छ्रुत्वा स मुनिस्तूर्णं समुत्थाय ययौ ततः ॥ ३१ ॥
तादृशैः कमलैस्तत्र संस्थितास्ते जलाशयाः ॥
तान्दृष्ट्वा श्रद्धयोपेतः कृत्वा स्नानं यथाक्रमम् ॥ ३२ ॥
ततश्च विधिना सम्यक्चकारपितृतर्पणम् ॥ ३३ ॥
ततः शाकैश्च मूलैश्च नीवारैः फलसंयुतैः ॥
चकार विधिना श्राद्धं तत्रैव द्विजसत्तमाः ॥ ३४ ॥
तत्र तस्यैव तीरस्थो वीक्षांचक्रे समाहितः ॥
कार्तिक्यां कृत्तिकायोगे चिह्नदर्शनलालसः ॥ ३५॥
॥ ब्राह्मणा ऊचुः ॥ ॥
कीदृशं जायते चिह्नं कार्तिक्यां ज्येष्ठपुष्करे ॥
संप्राप्ते कृत्तिकायोगे सर्वं तत्र वदाशु नः ॥ ३६ ॥
॥ सूत उवाच ॥ ॥
कार्तिक्यां कृत्तिकायोगे यदा गच्छति चंद्रमाः ॥
तदा निष्क्रामति श्रेष्ठं कमलं जलमध्यतः ॥ ३७ ॥
तन्मध्येंऽगुष्ठमात्रस्तु पुरुषो दृश्यते जनैः ॥
सुस्नातैः श्रद्धयोपेतैस्ततस्तीर्थफलं लभेत् ॥ ३८ ॥
एतस्मात्कारणात्स्नात्वा विश्वामित्रो महामुनिः ॥
तच्चिह्नं वीक्षयामास महद्यत्नं समाश्रितः ॥ ॥ ३९ ॥
तस्यैवं वीक्षमाणस्य विश्वामित्रस्य धीमतः ॥
आनर्ताधिपतिस्तत्र प्राप्तो राजा बृहद्बलः ॥ ६.४५.४० ॥
अत्यंतं मृगयाश्रांतो हत्वा मृगगणान्बहून् ॥
ऋक्षांश्चैव वराहांश्च सारंगानथ संबरान् ॥ ४१ ॥
सिंहान्व्याघ्रान्वृकांश्चैव हिंसानारण्यचारिणः ॥
तथान्यानपि मध्याह्ने तेन मार्गेण संगतः ॥ ४२ ॥
अथापश्यद्द्रुमोपांते विश्वामित्रं मुनीश्वरम् ॥
उपविष्टं कृतस्नानं वीक्षमाणं जलाशयम् ॥ ४३ ॥
ततस्तं प्रणिपत्योच्चैरवतीर्य तुरंगमात् ॥
श्रमार्त्तः सलिले तस्मिन्प्रविवेश नृपोत्तमः ॥ ४४ ॥
एतस्मिन्नंतरे तोयात्कमलं तद्विनिर्गतम् ॥
सहस्रपत्रसंजुष्टं द्वादशार्कसमप्रभम् ॥ ॥ ४५ ॥
तद्दृष्ट्वा स महीपालः पद्ममत्यद्भुतं महत् ॥
जग्राह कौतुकाविष्टः स्वयं सव्येन पाणिना ॥ ४६ ॥
स्पृष्टमात्रे ततस्तस्मिन्कमले द्विजसत्तमाः ॥
उत्थितः सुमहाञ्छब्दो विश्वं येन प्रपूरितम् ॥ ४७ ॥
तं शब्दं स महीपालः श्रुत्वा मूर्छामुपाविशत् ॥
पतितश्च जले तस्मिन्पद्मं चादर्शनं गतम् ॥ ४८ ॥
ततः कृच्छ्रेण महता कर्षितः सलिलाद्बहिः ॥
सेवकैर्दुःखशोकार्त्तैर्हाहेति प्रतिजल्पकैः ॥ ४९ ॥
ततस्तीरं समासाद्य कृच्छ्रात्प्राप्याथ चेतनाम् ॥
यावद्वीक्षयति स्वांगं तावत्कुष्ठं समागतम् ॥ ६.४५.५० ॥
ततो विषादमापन्नो दृष्ट्वा तादृङ्निजं वपुः ॥
शीर्णघ्राणांघ्रिहस्तं च घर्घरस्वरसंयुतम् ॥ ५१ ॥
अथ गत्वा मुनेः पार्श्वे विश्वामित्रस्य भूमिपः ॥
उवाच वचनं दीनं बाष्पगद्गदया गिरा ॥ ॥ ५२ ॥
भगवन्पश्य मे जातं यादृशं वपुरेव हि ॥
अकस्मादेव मग्नस्य सलिलेऽत्र विगर्हितम् ॥ ५३ ॥
तत्किं पानीयदोषो वा किं वा भूमेर्मुनी श्वर ॥
येनेदृक्सहसा यातं विकृतिं मे शरीरकम् ॥ ५४ ॥
॥ विश्वामित्र उवाच ॥ ॥
सावित्रं पद्ममेवैतद्यत्स्पृष्टं भूपते त्वया ॥
उच्छिष्टेन रविर्मध्ये स्वयं यस्य व्यवस्थितः ॥ ५५ ॥
यदा स्यात्कृत्तिकायोगः कार्तिके मासि पार्थिव ॥
शशांकस्य तदा चैतज्जायते पौष्करे जले ॥ ५६ ॥
तदिदं पुष्करं ज्येष्ठं भवान्यत्र श्रमातुरः ॥
प्रविष्टः कार्तिकी चाद्य कृत्तिकायोगसंयुता ॥ ५७ ॥
एतद्वीक्ष्य नरो ह्यत्र स्नानं कुर्याज्जलाशये ॥
श्रद्धया परया युक्तः स गच्छति परां गतिम् ॥५८॥
उच्छिष्टेन त्वया राजन्हरणाय हि केवलम् ॥
एतत्सरोरुहं स्पृष्टं तेनेदृक्संस्थितं फलम् ॥५९॥ ॥
॥ बृहद्बल उवाच ॥ ॥
कथं मे स्यान्मुनिश्रेष्ठ कुष्ठव्याधिपरिक्षयः ॥
तपसा नियमेनापि व्रतेनापि कृतेन वै ॥ ६.४५.६० ॥
॥ विश्वामित्र उवाच ॥ ॥
आराधय सहस्रांशुमस्मिन्क्षेत्रे महीपते ॥
ततः प्राप्स्यसि संसिद्धिं कुष्ठनाशसमुद्भवाम् ॥ ६१ ॥
तच्छ्रुत्वा स मुनेर्वाक्यं भूमिपालो बृहद्बलः ॥
तत्क्षणात्स्थापयामास सूर्यस्य प्रतिमां तदा ॥ ६२ ॥
अर्चयामास विधिवत्पुष्पधूपानुलेपनैः ॥
श्रद्धया परया युक्तो रविवारे विशेषतः॥ ॥ ६३ ॥
उपवासपरो भूत्वा रक्तचन्दनसंयुतैः ॥
पूजयन्रक्तपुष्पैश्च श्रद्धया परया युतः ॥ ६४ ॥
ततः संवत्सरस्यांते स बभूव महीपतिः ॥
कुष्ठ व्याधि विनिर्मुक्तो द्वादशार्कसमप्रभः ॥ ६५ ॥
ततः स्वं राज्यमासाद्य भुक्त्वा भोगाननेकशः ॥
देहांते दिननाथस्य संप्राप्तो मंदिरं तथा ॥ ६६ ॥
॥ ॥ सूत उवाच ॥ ॥
एवं तत्र द्विजश्रेष्ठा विश्वामित्रेण धीमता ॥
प्रकटं सर्वलोकस्य विहितं पुष्करत्रयम् ॥ ६७ ॥
यस्तत्र कार्तिके मासे कार्त्तिक्यां कृत्तिकासु च ॥
प्रकरोति नरः स्नानं ब्रह्मलोकं स गच्छति ॥ ६८ ॥
तथा यो भास्करं पश्येद्बृहद्वलप्रतिष्ठितम् ॥
वत्सरं रविवारेण यावत्कृत्वा क्षणं नरः ॥
स मुच्यते नरो रोगैर्यदि स्याद्रोगसंयुतः ॥ ६९ ॥
नीरोगो वा नरः सद्यो लभते मनसेप्सितम् ॥
निष्कामो मोक्षमाप्नोति प्रसादात्तीक्ष्णदीधितेः ॥ ६.४५.७० ॥
कार्त्तिक्यां कृत्तिकायोगे वृषोत्सर्गं करोति यः ॥
पुष्करेषु सुपुण्येषु सोऽश्वमेधफलं लभेत् ॥ ७१ ॥
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ॥
यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ७२ ॥
एकतः सर्वतीर्थानि सर्वदानानि चैकतः ॥
एकतस्तु वृषोत्सर्गः कार्तिक्यां पुष्करेषु च ॥ ७३ ॥
यश्चैतच्छुणुयान्नित्यं पठेद्वा श्रद्धयान्वितः ॥
संप्राप्य सर्वकामान्वै ब्रह्मलोके महीयते ॥ ७४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये त्रिपुष्करमाहात्म्यवर्णनंनाम पंचचत्वारिंशोऽध्यायः ॥ ४५ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 46
॥ ऋषय ऊचुः ॥ ॥
अन्यानि तत्र तीर्थानि यानि संति महामते ॥
तानि कीर्तय सर्वाणि परं कौतूहलं हि नः ॥ १ ॥
॥ सूत उवाच ॥ ॥
तत्र सारस्वतं तीर्थमन्यदस्ति सुशोभनम् ॥
यत्र स्नातोऽतिमूकोऽपि भवेद्वाक्यविचक्षणः ॥ २ ॥
लभते चेप्सितान्कामान्मानुषान्दैविकानपि ॥
ब्रह्मलोकादिपर्यतांस्तथालोकान्द्विजोत्तमाः ॥ ३ ॥
पुरासीत्पार्थिवो ना्ना विख्यातो बलवर्धनः ॥
समुद्रवलयामुर्वीं बुभुजे यो भुजार्जिताम्॥ ४ ॥
तस्य पुत्रः समुत्पन्नः सर्वलक्षणसंयुतः ॥
तस्य नाम पिता चक्रे संप्राप्ते द्वादशेऽहनि ॥
अम्बुवीचिरिति स्पष्टं समाहूय द्विजोत्तमान् ॥ ५ ॥
ततः स ववृधे बालो लालितस्तेन भूभुजा ॥
मूकभावं समापन्नो न शक्रोति प्रजल्पितुम् ॥ ६ ॥
ततोऽस्य सप्तमे वर्षे संप्राप्ते बलवर्धनः ॥
पंचत्वं समनुप्राप्तः संग्रामे शत्रुभिर्हतः ॥ ७ ॥
ततो मूकोऽपि बालोपि मंत्रिभिस्तस्य भूपतेः ॥
स सुतः स्थापितो राज्ये अभावेऽन्यसुतस्य च ॥ ८ ॥
एवं तस्य महीपस्य राज्यस्थस्य जडात्मनः ॥
बालत्वे वर्तमानस्य राज्यं विप्लवमध्यगात् ॥ ९ ॥
ततो जलचरन्यायः संप्रवृत्तो महीतले ॥
पीड्यंते सर्वलोकास्तु दुर्बला बलवत्तरैः ॥ ६.४६.१० ॥
ततस्ते मंत्रिणः प्रोचुर्वसिष्ठं स्वपुरोहितम् ॥
वचोऽर्थं नृपतेरस्य कुरूपायं महामुने ॥ ११ ॥
पश्य कृत्स्नं धरापृष्ठे शून्यतां समुपस्थितम् ॥
जडत्वान्नृपतेरस्य तस्मात्कुरु यथोचितम् ॥ ॥ १२ ॥
ततस्तु सुचिरं ध्यात्वा दीनान्प्रोवाच मंत्रिणः ॥
सर्वानार्तिसमोपेताञ्छृण्वतस्तस्य भूपतेः ॥ १३ ॥
अस्ति सारस्वतं तीर्थं सर्वकामप्रदं नृणाम् ॥
हाटकेश्वरजे क्षेत्रे तत्रायं स्नातु भूपतिः ॥ १४ ॥
अथ तद्वचनात्सद्यः स गत्वा तत्र सत्वरम् ॥
स्नानात्तीर्थेऽथ संजातस्तत्क्षणात्स कल स्वनः ॥ १५ ॥
तत्प्रभावं सरस्वत्याः स विज्ञाय महीपतिः ॥
श्रद्धया परया युक्तो ध्यायमानः सरस्वतीम् ॥ १६ ॥
ततस्तूर्णं समादाय मृत्तिकां स नदीतटात् ॥
चकार भारतीं देवीं स्वयमेव चतुर्भुजाम् ॥ १७ ॥
दधतीं दक्षिणे हस्ते कमलं सुमनोहरम् ॥
अक्षमालां तथान्यस्मिञ्जिततारक वर्चसम् ॥ १८ ॥
कमण्डलुं तथान्यस्मिन्दिव्यवारिप्रपूरितम् ॥
पुस्तकं च तथा वामे सर्वविद्यासमुद्भवम् ॥ १९ ॥
ततो मेध्ये शिलापृष्ठे तां निवेश्य प्रयत्नतः ॥
पूजयामास सद्भक्त्या धूपमाल्पानुलेपनैः ॥ ६.४६.२० ॥
चकार च स्तुतिं पश्चाच्छ्रद्धापूतेन चेतसा ॥
तदग्रे प्रयतो भूत्वा स्वरेण महता नृपः ॥ २१ ॥
सदसद्देवि यत्किञ्चिद्बन्धमोक्षात्मकं पदम् ॥
तत्सर्वं गुप्तया व्याप्तं त्वया काष्ठं यथाग्निना ॥ २२ ॥
सर्वस्य सिद्धिरूपेण त्वं जनस्य हृदि स्थिता ॥
वाचारूपेण जिह्वायां ज्योतीरूपेण चक्षुषि ॥ २३ ॥
भक्तिग्राह्यासि देवेशि त्वमेका भुवनत्रये ॥
शरणागतदीनार्तपरित्राणपरायणे ॥२४॥
त्वं कीर्तिस्त्वं धृतिर्मेधा त्वं भक्तिस्त्वं प्रभा स्मृता ॥
त्वं निद्रा त्वं क्षुधा कीर्तिः सर्वभूतनिवासिनी ॥ २५ ॥
तुष्टिः पुष्टिर्वपुः प्रीतिः स्वधा स्वाहा विभावरी ॥
रतिः प्रीतिः क्षितिर्गंगा सत्यं धर्मो मनस्विनी ॥ २६ ॥
लज्जा शांतिः स्मृतिर्दक्षा क्षमा गौरी च रोहिणी ॥
सिनीवाली कुहू राका देवमाता दितिस्तथा ॥ २७ ॥
ब्रह्माणी विनता लक्ष्मीः कद्रूर्दाक्षायणी शिवा ॥
गायत्री चाथ सावित्री कृषिर्वृष्टिः श्रुतिः कला ॥ २८ ॥
बलानाडी तुष्टिकाष्ठा रसना च सरस्वती ॥
यत्किञ्चित्त्रिषु लोकेषु बहुत्वाद्यन्न कीर्तितम् ॥ २९ ॥
इंगितं नेंगितं तच्च तद्रूपं ते सुरेश्वरि॥
गन्धर्वाः किन्नरा देवाः सिद्धविद्याधरोरगाः ॥ ६.४६.३० ॥
यक्षगुह्यकभूताश्च दैत्या ये च विनायकाः ॥
त्वत्प्रसादेन ते सर्वे संसिद्धिं परमां गताः ॥ ३१ ॥
तथान्येऽपि बहुत्वाद्ये न मया परिकीर्तिताः ॥
आराधितास्तु कृच्छ्रेण पूजिताश्च सुविस्तरैः ॥
हरंतु देवताः पापमन्ये त्वं कीर्तिताऽपि च ॥ ३२ ॥
एवं स्तुता सा देवेशी भूभुजा तेन भारती ॥
ययौ प्रत्यक्षतां तूर्णं प्राह चेदं सुहर्षिता ॥ ३३ ॥
॥ सरस्वत्युवाच ॥ ॥
स्तोत्रेणानेन भूपाल भक्त्या सुस्थिरया सदा ॥
परितुष्टास्मि तेनाशु वरं वृणु यथेप्सितम्॥ ३४ ॥
॥ राजोवाच ॥ ॥
अद्यप्रभृति मद्वाक्यात्त्वया स्थेयमसंशयम् ॥
अत्रार्चायां त्रिलोकेस्मि न्यावत्कीर्तिर्मम स्थिरा ॥ ३५ ॥
यस्त्वामाराधयेत्सम्यगत्रस्थां मन्निमित्ततः ॥
भक्त्यानुरूपमेवाशु तस्मै देयं त्वया हि तत् ॥ ३६ ॥
॥ सरस्वत्युवाच॥
यो मामत्र स्थितां नित्यं स्नात्वाऽत्र सलिले शुभे॥
अष्टम्यां च चतुर्दश्यां पूजयिष्यति मानवः ॥ ३७ ॥
तस्याहं वांछितान्कामान्संप्रदास्यामि पार्थिव ॥
॥ सूत उवाच ॥ ॥
एवं तत्र स्थिता देवी स्वयमेव सरस्वती ॥ ३८॥
ततःप्रभृति लोकानां हिताय परमेश्वरी ॥
अष्टम्यां च चतुर्दश्यामुपवासपरायणः ॥ ३९ ॥
यस्तां पूजयते मर्त्यः श्वेतपुष्पानुलेपनैः ॥
स स्याद्वाग्ग्मी सुमेधावी सदा जन्मनिजन्मनि ॥६.४६.४०॥
सरस्वत्याः प्रसादेन जायमानः पुनःपुनः ॥
अन्वयेऽपि न तस्यैव कश्चिन्मूर्खः प्रजायते ॥ ४१ ॥
यो धर्मश्रवणं तस्याः पुरतः कुरुते नरः॥
स नूनं वसति स्वर्गे तत्प्रभावाद्युगत्रयम्॥४२॥
विद्यादानं नरो यश्च तस्या ह्यायतने सदा ॥
करोति श्रद्धया युक्तः सोऽश्वमेधफलं लभेत् ॥४३॥
यो यच्छति द्विजेन्द्राय धर्मशास्त्रसमुद्भवम्॥
पुस्तकं वाजिमेधस्य स समग्रं फलं लभेत् ॥ ४४ ॥
यो वेदाध्ययनं तस्याः करोति पुरतः स्थितः ॥
सोऽग्निष्टोमस्य यज्ञस्य कृत्स्नं फलमवाप्नुयात् ॥ ४५८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सरस्वती तीर्थमाहात्म्यवर्णनंनाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 47
॥ ऋषय ऊचुः ॥ ॥
महाकालस्य माहात्म्यं विस्तरेण महामते ॥
अस्माकं सूतज ब्रूहि सर्वं वेत्ति यतो भवान् ॥ १ ॥
॥सूत उवाच ॥ ॥
आसीत्पूर्वं महीपाल इक्ष्वाकुकुलनन्दनः ॥
रुद्रसेन इति ख्यातः सर्वशत्रुनिषूदनः ॥ २ ॥
समुद्र इव गांभीर्ये सौम्यत्वे शशिसंनिभः ॥
वीर्ये यथा सहस्राक्षो रूपे कन्दर्पसन्निभः ॥ ३ ॥
तस्य कांतीति विख्याता पुरी सर्वगुणान्विता ॥
राजधान्यभवच्छ्रेष्ठा प्रोच्चप्राकारतोरणा ॥ ४ ॥
तथैवासीत्प्रिया तस्य भार्या परमसंमता ॥
ख्याता पद्मवतीनाम रूपौदार्य गुणान्विता ॥ ५ ॥
स तया सहितो राजा वैशाख्या दिवसे सदा ॥
समभ्येति निजस्थानात्सैन्येनाल्पेन संवृतः ॥ ६ ॥
चमत्कारपुरे क्षेत्रे पीठे तत्र द्विजोत्तमाः ॥
महाकालस्य देवस्य पुरतो रात्रिजागरम् ॥
करोति श्रद्धया युक्तः सभार्यः स महीपतिः ॥ ७ ॥
उपवासपरो भूत्वा ध्यायमानो महेश्वरम् ॥
गीतवाद्येन हृद्येन नृत्येन द्विजसत्तमाः ॥
धर्माख्यानेन विप्राणां वेदाध्ययनविस्तरैः ॥ ८ ॥
ततः प्रातः समुत्थाय स्नात्वा धौतांबरः शुचिः ॥
ददौ दानानि विप्रेभ्यस्तपस्विभ्यो विशेषतः ॥ ९ ॥
दीनांधकृपणेभ्यश्च तथान्येभ्यः सहस्रशः ॥
वर्षेवर्षे सदैवं स समभ्येत्य महीपतिः ॥
वैशाख्यां जागरं तस्य देवस्य पुरतोऽकरोत् ॥ ६.४७.१० ॥
यथायथा स भूपालः कुरुते रात्रिजागरम् ॥
महाकालाग्रतस्तस्य तथा वृद्धिः प्रजायते ॥ ११ ॥
शत्रवो विलयं यांति लक्ष्मीर्वृद्धिं प्रगच्छति ॥
एकदा स समायातस्तत्र यावन्महीपतिः ॥ १२ ॥
तत्रैव दिवसे तावन्महाकालस्य चाग्रतः ॥
अपश्यद्ब्राह्मणश्रेष्ठान्नानादिग्भ्यः समागतान् ॥ १३ ॥
वेदाध्ययनसंपन्नान्व्रतनिष्ठापरायणान् ॥
एके तत्र कथाश्चक्रुः सुपुण्या ब्राह्मणोत्तमाः ॥ १४ ॥
राजर्षीणां पुराणानां देवर्षीणां तथा परे ॥
तीर्थानां च तथा चान्ये ब्रह्मर्षीणां तथा परे ॥
यज्ञानां सागराणां च द्वीपानां च मनोहराः ॥ १५ ॥
अथ तान्पृथिवीपालः स प्रणम्य यथाक्रमम् ॥
उपविष्टः सभामध्ये तैः सर्वैश्चाभिनंदितः ॥ १६ ॥
कस्मिंश्चिदथ संप्राप्ते कथांते ते मुनीश्वराः ॥
पप्रच्छुर्भूमिपालं तु कौतूहलसमन्विताः ॥ १७ ॥
वैशाखीदिवसे राजंस्त्वं सदाभ्येत्य दूरतः ॥
वर्षेवर्षेऽस्य देवस्य पुरतो रात्रिजागरम् ॥ १८ ॥
प्रकरोषि प्रयत्नेन त्यक्त्वान्याः सकलाः क्रियाः ॥
स्नानदानादिका याश्च निर्दिष्टाः शास्त्रचिंतकैः ॥ १९ ॥
न ते यदि रहस्यं स्यात्तदाऽशेषं प्रकीर्तय ॥
नूनं त्वं वेत्सि तत्सर्वं यत्फलं रात्रिजागरे ॥ ६.४७.२० ॥
॥ राजोवाच ॥ ॥
रहस्यं परमं चैव यत्पृष्टोऽहं द्विजोत्तमाः ॥
युष्माभिः कीर्तयिष्यामि तथाप्यखिलमेव हि ॥ २१०
अहमासं वणिग्जात्या पुरा वै वैदिशे पुरे ॥
निर्धनो बंधुभिर्मुक्तः परिभूतः पदेपदे ॥ २२ ॥
कस्यचित्त्वथ कालस्य भगवान्पाकशासनः ॥
वैदिशे नाकरोद्वृष्टिं सप्त वर्षाणि पंच च ॥ २३ ॥
ततो वृष्टिनिरोधेन सर्वे लोकाः क्षुधार्द्दिताः ॥
अन्नाभावान्मृताः केचित्केचिद्देशांतरे गताः ॥ २४ ॥
ततोऽहं स्वां समादाय पत्नीं क्षुत्क्षामगात्रिकाम् ॥
अश्रुपूर्णमुखीं दीनां प्रस्खलन्तीं पदेपदे ॥२५॥
सौराष्ट्रं मनसि ध्यात्वा प्रस्थितस्तदनन्तरम् ॥
सुभिक्षं लोकतः श्रुत्वा जीवनाय द्विजोत्तमाः ॥२६॥
क्रमेण गच्छमानोऽथ भिक्षान्नकृतभोजनः ॥
आनर्तविषयं प्राप्तश्चमत्कारपुरांतिके ॥ २७ ॥
तत्र रम्यं मया दृष्टं पद्मिनीखण्डमंडितम् ॥
सरः स्वच्छोदकापूर्णं जलपक्षिभिरावृतम् ॥ २८ ॥
ततोऽहं तत्समासाद्य स्नातः शीतेन वारिणा ॥
क्षुधार्तश्च तृषार्तश्च श्रमार्तश्च विशेषतः ॥ २९ ॥
अथाहं भार्यया प्रोक्तो गृहाणेश जलाशयात् ॥
जलजानि क्रयार्थाय येन स्यादद्य भोजनम् ॥ ६.४७.३० ॥
एतत्संदृश्यते दूरात्पुरंदरपुरोपमम् ॥
पुरश्रेष्ठं समासाद्य विक्रयं कर्तुमर्हसि ॥ ॥३॥।
ततो मया गृहीतानि पद्मानि द्विजसत्तमाः ॥
विक्रयार्थं प्रभूतानि वाच्छमानेन भोजनम् ॥३२॥
चमत्कारपुरं प्राप्य ततोऽहं द्विजसत्तमाः ॥
भ्रांतस्त्रिकेषु सर्वेषु चत्वरेषु गृहेषु च ॥ ३३ ॥
न कश्चित्प्रतिगृह्णाति तानि पद्मानि मानवः ॥
मम भाग्यवशाल्लोको जातः क्रयपराङ्मुखः ॥३४॥
अथ क्षुत्क्षामकण्ठस्य श्रांतस्य मम भास्करः ॥
अस्ताचलमनुप्राप्तः संध्याकालस्ततोऽभवत् ॥ ३५ ॥
ततो वैराग्यमापन्नः सुप्तोऽहं भग्नमंदिरे ॥
तानि पद्मानि भूपृष्ठे निधाय सह भार्यया। ३६ ॥
अथार्धरात्रे संप्राप्ते श्रुतो गीतध्वनिर्मया ॥
ततश्च चिंतितं चित्ते जागरोऽयमसंशयम् ॥३७॥
तस्माद्गच्छामि चेत्कश्चित्पद्मान्येतानि मे नरः ॥
मूल्येन प्रतिगृह्णाति भोजनं जायते ततः ॥ ३८ ॥
एवं विनिश्चयं कृत्वा पद्मान्यादाय सत्वरम्॥
सभार्यः प्रस्थितस्तत्र यत्र गीतस्य निःस्वनः ॥ ३९ ॥
ततश्चायतने तस्मिन्प्राप्तोऽहं मुनिपुंगवाः ॥
अपश्यं देवदेवेशं महाकालं प्रपूजितम् ॥
अग्रस्थितैर्द्विजश्रेष्ठैर्जपगीतपरायणैः ॥ ६.४७.४० ॥
एके नृत्यं प्रकुर्वंति गीतमन्ये जपं परे ॥
अन्ये होमं द्विजश्रेष्ठा धर्माख्यानमथापरे ॥ ४१ ॥
ततः कश्चिन्मया पृष्टः क्रियते जागरोऽत्र किम् ॥
क एते जागरासक्ता लोकाः कीर्तय मे द्रुतम् ॥ ४२ ॥
तेनोक्तमेष देवस्य महाकालस्य जागरः ॥
क्रियते ब्राह्मणैर्भक्त्या उपवासपरायणैः ॥ ४३ ॥
अद्य पुण्यतिथिर्नाम वैशाखी पुण्यदा परा ॥
यस्यामस्य पुरो भक्त्या नरः कुर्यात्प्रजागरम् ॥
महाकालस्य देवस्य सौख्यं प्राप्नोत्यसंशयम् ॥ ४४ ॥
संति पद्मानि मे यच्छ मूल्यमादाय भद्रक ॥
भोजनार्थमहं दद्मि कलधौतपलत्रयम् ॥ ४५ ॥
ततोऽवधारितं चित्ते मया ब्राह्मणसत्तमाः ॥
पूजयामि महाकालं पद्मैरेतैः सुरेश्वरम् ॥ ४६ ॥
न मया सुकृतं किंचिदन्यदेहांतरे कृतम् ॥
नियतं तेन संभूत इत्थंभूतोऽस्मि दुर्गतः ॥ ४७ ॥
परं क्षुत्क्षामकंठेयं भार्या मे प्रियवादिनी ॥
अन्नाभावान्न संदेहः प्रातर्यास्यति संक्षयम् ॥ ४८ ॥
एवं चिंतयमानस्य मम सा दयिता ततः ॥
प्रोवाच मधुरं वाक्यं विनयावनता स्थिता ॥४९॥
मा नाथ कुरु पद्मानां विक्रयं धनलोभतः ॥
कुरुष्व च हितं वाक्यं यत्ते वक्ष्यामि सांप्रतम् ॥ ६.४७.५० ॥
उपवासो बलाज्जातः सस्याभावादसंशयम् ॥
अस्माकं जागरं चापि भविष्यति बुभुक्षया ॥ ५१ ॥
तत्रोभाभ्यां कृतं स्नानं दिवा सरसि शोभने ॥
घर्मार्त्ताभ्यां श्रमार्त्ताभ्यां कृतदेवार्चनं तथा ॥५२॥
तस्माद्देवं महाकालं पूजयामोऽधुना वयम् ॥
पद्मैरेतैः परं श्रेय आवयोर्येन जायते ॥ ५३ ॥
॥ राजोवाच ॥ ॥
उभाभ्यामथ हृष्टाभ्यां पूजितोऽयं महेश्वरः ॥
तैः पद्मैः सत्त्वमास्थाय कृत्वा पूजां द्विजोत्तमाः ॥ ५४ ॥
क्षुत्पीडया समायाता नैव निद्रा कथंचन ॥
स्वल्पापि मंदिरे चात्र स्थितयोर्हरसन्निधौ ॥५५॥
ततः प्रभातसमये प्रोद्गते रविमंडले ॥
मृतोऽहं क्षुधयाविष्टः स्थानेऽत्रैव द्विजोत्तमाः ॥ ५६ ॥
अथ सा दयिता मह्यं तदादाय कलेवरम्॥
हर्षेण महताविष्टा प्रविष्टा हव्यवाहनम् ॥ ५७ ॥
तत्प्रभावादहं जातः कांतीनाथो महीपतिः ॥
दशार्णाधिपतेः कन्या सापि जातिस्मरा सती ॥ ५८ ॥
ततः स्वयंवरं प्राप्ता मां विज्ञाय निजं पतिम् ॥
मयापि सैव विज्ञाय पूर्वपत्नी समाहृता ॥ ५९ ॥
एतस्मात्कारणादस्य महाकालस्य जागरम् ॥
वर्षेवर्षे च वैशाख्यां करोमि द्विजसत्तमाः ॥ ६.४७.६० ॥
अनया प्रियया सार्धं पुष्पधूपानुलेपनैः ॥
पूजयित्वा महाकालं सत्यमेतन्मयोदितम् ॥ ६१ ॥
कृतो विप्रा मया त्वेष स तदा रात्रिजागरः ॥
यथाप्येतत्फलं जातं देवस्यास्य प्रभावतः ॥ ६२ ॥
अधुना श्रद्धया युक्तो यथोक्तविधिना ततः ॥
यत्करोमि न जानामि किं मे संयच्छते फलम् ॥ ६३ ॥
एतद्वः सर्वमाख्यातं मया सत्यं द्विजोत्तमाः ॥
येन सत्येन तेनैष महाकालः प्रसीदतु ॥ ६४ ॥
॥ सूत उवाच ॥ ॥
एतच्छ्रुत्वा द्विजश्रेष्ठा विस्मयोत्फुल्ललोचनाः ॥
प्रचक्रुर्जपतेस्तस्य साधुवादाननेकशः ॥ ६५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
सत्यमुक्तं महीपाल त्वयैतदखिलं वचः ॥
महाकालप्रसादेन न किंचिद्दुर्लभं भुवि ॥ ६६ ॥
तस्माद्विशेषतः सर्वे वर्षेवर्षे वयं नृप ॥
करिष्यामोऽस्य देवस्य श्रद्धया रात्रिजागरम् ॥ ६७ ॥
ततः स पार्थिवस्ते च सर्व एव द्विजातयः ॥
प्रचक्रुर्जागरं तस्य महाकालस्य संनिधौ ॥६८॥
विशेषाद्धर्षसंयुक्ता विविधैर्गीतवादनैः ॥
धर्माख्यानैश्च नृत्यैश्च वेदोच्चारैः पृथग्विधैः ॥
तदारभ्य नृपाः सर्वे प्रचक्रुर्विस्मयान्विताः ॥ ६९ ॥
ततः प्रभाते विमले समुत्थाय स भूपतिः ॥
पूजयित्वा महाकालं तांश्च सर्वान्द्विजोत्तमान् ॥
अनुज्ञाप्य ययौ हृष्टः ससैन्यः स्वपुरं प्रति ॥ ६.४७.७० ॥
ततः कालेन संप्राप्य देहान्तं स महीपतिः ॥
संप्राप्तः परमं स्थानं जरामरणवर्जितम् ॥ ७१ ॥
एतद्वः सर्वमाख्यातं महाकालसमुद्भवम् ॥
माहात्म्यं ब्राह्मण श्रेष्ठाः सर्वपातकनाशनम् ॥ ७२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये महाकालेश्वरमाहात्म्यवर्णनंनाम सप्तचत्वारिंशत्तमोऽध्यायः ॥ ४७ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 48
॥ सूत उवाच ॥ ॥
तत्रैवास्य समुद्देशे हरिश्चंद्रस्य भूपतेः ॥
आश्रमो ऽस्ति सुविख्यातो नानाद्रुमसमावृतः ॥ १ ॥
यत्र तेन तपस्तप्तं संस्थाप्योमामहेश्वरौ ॥
यच्छता विविधं दानं ब्राह्मणेभ्योऽभिवांछितम् ॥ २ ॥
आसीद्राजा हरिश्चंद्रस्त्रिशंकुतनयः पुरा ॥
अयोध्याधिपतिः श्रीमान्सूर्यवंशसमुद्भवः ॥ ३ ॥
न दुर्भिक्षं न च व्याधिर्नाकालमरणं ध्रुवम् ॥
तस्मिञ्छासति धर्मेण न च चौरकृतं भयम् ॥ ४ ॥
कालवर्षी सदा मेघः सस्यानि प्रचुराणि च ॥
रसवंति च तोयानि सर्वर्तुफलिता द्रुमाः ॥ ५ ॥२
दंडस्तत्राभवद्वास्तौ गृहरोधोऽक्षदेवने ॥
एको दोषाकरश्चंद्रः प्रियदोषाश्च कौशिकाः ॥ ६ ॥
स्नेहक्षयश्च दीपेषु विवाहे च करग्रहः ॥
वृत्तभंगस्तथा गद्ये दानोत्थितिर्गजानने ॥ ७ ॥
तस्यैवं गुणयुक्तस्य सार्वभौमस्य भूपतेः ॥
एक एव महानासीद्दोषः पुत्रविवर्जितः ॥ ८ ॥
ततः पुत्रकृते गत्वा चकार सुमहत्तपः ॥
चमत्कारपुरे क्षेत्रे लिंगं संस्थाप्य भक्तितः ॥९॥
पंचाग्निसाधको ग्रीष्मे वर्षास्वाकाशसंस्थितः ॥
जलाश्रयश्च हेमंते स ध्यायति महेश्वरम् ॥ ६.४८.१० ॥
ततो वर्षसहस्रांते तस्य तुष्टो महेश्वरः ॥
प्रत्यक्षोऽभूत्समं गौर्या गणसंघैः समावृतः ॥ ११ ॥
उवाच वरदोऽस्मीति प्रार्थयस्व यथेप्सितम् ॥
अहं ते संप्रदास्यामि यद्यपि स्यात्सुदुर्लभम्॥।२॥
ततस्तं प्रणिपत्योच्चैः स्तुत्वा सूक्तैः श्रुतैरपि ॥
प्रोवाच विनयोपेतः कृतांजलिपुटः स्थितः ॥ १३ ॥
त्वत्प्रसादात्सुरश्रेष्ठ यत्किंचिद्धरणीतले ॥
तदस्ति मे गृहे सर्वं वांछितं स्वेन चेतसा ॥ १४ ॥
सुरूपाणि कलत्राणि राज्यं निहतकंटकम् ॥
शरीरं रोगनिर्मुक्तं संख्याहीनं तथा धनम्॥।५॥
एकं मे सुमहद्दुःखं यदपत्यं न विद्यते ॥
तस्माद्देहि सुतं देव प्रसन्नो यदि शंकर ॥।६॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
अचिरेण नृपश्रेष्ठ पुत्रस्तव भविष्यति ॥
मत्प्रसादान्न संदेहस्तस्माद्गच्छ द्रुतं गृहम्॥।७॥
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे गौरी कोपसंरक्तलोचना ॥
भर्त्सयित्वा महादेवं ततः प्रोवाच तं नृपम् ॥।८॥
यस्मात्त्वया महामूर्ख न प्रणामः कृतो मम ॥
हरादनंतरं तस्माच्छापं दास्याम्यहं तव ॥ १९ ॥
तव संलप्स्यते पुत्रो यथोक्तः शूलपाणिना ॥
परं तन्मृत्युजं दुःखं त्वं शिशुत्वेपि लप्स्यसे ॥ ६.४८.२० ॥
एवमुक्त्वा भगवती सार्धं देवेन शंभुना ॥
अदर्शनं ययौ पश्चात्तथान्यैरपि पार्श्वगैः॥ २१ ॥
सोऽपि राजा वरं लब्ध्वा शापं च तदनंतरम् ॥
न जगाम गृहं भूयश्चकार सुमहत्तपः ॥ २२ ॥
एकासनं समारूढौ कृत्वा गौरी महेश्वरौ ॥
ततश्चाराधयामास समं पुष्पानुलेपनैः ॥ २३ ॥
विशेषेण ददौ दानं ब्राह्मणेभ्यो महीपतिः ॥
भूमिशायी प्रशांतात्मा षष्ठकालकृताशनः ॥ २४ ॥
ततः संवत्सरस्यांते भगवान्वृषभध्वजः ॥
पार्वत्या सहितो भूयस्तस्य संदर्शनं गतः ॥ २५ ॥
ततः स नृपतिस्ताभ्यां युगपद्विधिपूर्वकम्॥
कृत्वा नतिं ततो वाक्यं विनयादिदमब्रवीत् ॥ २६ ॥
पुरा देवि मयानंदपूरे व्याकुल चेतसा ॥
न नता त्वं न मे कोपं तस्मात्त्वं कर्तुमर्हसि ॥ २७ ॥
देहार्धधारिणी देवि सदा त्वं शूलधारिणः ॥
तदैकस्मिन्नते कस्मान्न नता त्वं वदस्व मे ॥ २८ ॥
यस्तं नमति देवेशं तेन त्वं सर्वदा नता ॥
नतायां त्वयि देवेशो नतः स्यादिति मे मतिः ५२९ ॥
तथापि च पृथक्त्वेन मया त्वं तु नता सह ॥
एकासनं समारूढा तत्समं देवि पूजिता ॥ ६.४८.३० ॥
तस्मात्कुरु प्रसादं मे यः पुरोक्तः पुरारिणा ॥
सोस्तु वै सफलः सद्यो वरः पुत्रकृते मम ॥ ३१ ॥
यया वंशधरः पुत्रो दीर्घायुर्दृढविक्रमः ॥
त्वत्प्रसादाद्भवेद्देवि तथा त्वं कर्तुमर्हसि ॥ ३२ ॥
॥ श्रीदेव्युवाच ॥ ॥
नान्यथा मे वचो राजञ्जायतेऽत्र कथंचन ॥
तस्माद्बालोऽपि ते पुत्रः पंचत्वं समुपैष्यति ॥ ३३ ॥
दर्शयित्वा तु ते दुःखमल्पमृत्युसमुद्भवम् ॥
भूयः संप्राप्स्यति प्राणानचिरान्मे प्रसादतः ॥ ३४ ॥
भविष्यति च दीर्घायुस्ततो वंशधरो जयी ॥
सार्वभौमप्रधानश्च दानी यज्वा च धर्मवित् ॥ ॥ ३५ ॥
तस्माद्राजन्गृहं गत्वा कुरु राज्यमभीप्सितम् ॥
संप्राप्स्यसि सुतं श्रेष्ठं यादृशं कीर्तितं मया ॥ ३६॥
अन्योऽपि मानवो यो मां रूपेणा नेनसंस्थिताम् ॥
पूजयिष्यति चात्रैव समं देवेन शंभुना ॥ ३७ ॥
तस्याहं संप्रदास्यामि पुत्रान्हृदयवांछितान् ॥
तथान्यदपि यत्किंचिदचिरान्नात्र संशयः ॥ ३८ ॥
श्रीमहादेव उवाच ॥ ॥
भूय एव नृपश्रेष्ठ मत्तः प्रार्थय वांछितम् ॥
न वृथा दर्शनं मे स्यात्सत्यमेतद्ब्रवीमि ते ॥ ३९ ॥
॥ हरिश्चंद्र उवाच ॥ ॥
कृतकृत्योस्मि देवेश सर्वमस्ति गृहे मम ॥
पुत्रं त्यक्त्वा त्वया सोऽपि दत्तो वंशधरो जयी ॥ ६.४८.४० ॥
तथापि न तवादेशो व्यर्थः कार्यः कथंचन ॥
एतस्मात्कारणाद्देव याचयिष्यामि वांछितम् ॥ ४१ ॥
राजसूयकृतेऽस्माकं सदा बुद्धिः प्रवर्तते ॥
निषेधयंति मां सर्वे मन्त्रिणः सुहृदस्तदा ॥ ४२ ॥
सर्वैस्तैर्जायते यज्ञः पार्थिवैः करदीकृतैः ॥
युद्धं विना करं तेऽपि न यच्छन्ति यतो विभो ॥ ४३ ॥
ततो युद्धार्थिनं मां ते वारयंति हितैषिणः ॥
कृतोत्साहं मखप्राप्तौ नीतिमार्गसमाश्रिताः ॥ ४४ ॥
तस्मात्तव प्रसादेन राजसूयो भवेन्मखः ॥
अविघ्नः सिद्धिमायातु मम नान्यद्वृणोम्यहम् ॥४५॥
॥ सूत उवाच ॥ ॥
स तथेति प्रतिज्ञाय जगामादर्शन हरः ॥
सोऽपि लब्धवरो भूपः स्वमेव भवनं गतः ॥ ४६ ॥
एवं तेन नरेन्द्रेण पूर्वं तत्र विनिर्मितौ ॥
उमामहेश्वरौ पश्चान्निर्मितावितरैरपि ॥ ४७ ॥
यस्ताभ्यां कुरुते पूजां संप्राप्ते पंचमी दिने ॥
फलैः सर्वेषु गात्रेषु यावत्संवत्सरं द्विजाः ॥
सुतं प्राप्नोति सोऽभीष्टं स्ववंशोद्धरणक्षमम् ॥ ४८ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्य उमामहेश्वरोत्पत्तिमाहात्म्यवर्णनंनामाष्टाचत्वारिंशत्तमोऽध्यायः ॥ ४८ ॥ ॥ ॥ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 49
सूत उवाच ॥ ॥
तत्रैवास्ति महापुण्यो ह्रदतीरे व्यवस्थितः ॥
कलशेश्वर इत्याख्यः सर्वपापप्रणाशनः ॥ १ ॥
दृष्ट्वा प्रमुच्यते पापान्मनुष्यः कलशेश्वरम्॥ २ ॥
पुरासीत्कलशोनाम यदुवंशसमुद्भवः ॥
यज्वा दानपतिर्दक्षः सर्वलोकहिते रतः ॥ ३ ॥
कस्यचित्त्वथ कालस्य दुर्वासा मुनि सत्तमः ॥
चातुर्मास्यव्रतं कृत्वा तद्गृहं समुपस्थितः ॥ ४ ॥
अथोत्थाय नृपस्तूर्णं सम्मुखः प्रययौ मुदा ॥
स्वागतं स्वागतं तेस्तु ब्रुवाण इति सादरम् ॥ ५ ॥
ततः प्रणम्य तं भक्त्या प्रक्षाल्य चरणौ स्वयम् ॥
दत्त्वार्घमिति होवाच हर्षबाष्पाकुलेक्षणः ॥ ६ ॥
इदं राज्यममी पुत्रा इमा नार्य इदं धनम्॥
ब्रूहि सर्वं मुने त्वं च तव कार्यं ददाम्यहम् ॥ ७ ॥
॥ दुर्वासा उवाच ॥ ॥
युक्तमेतन्महाराज वक्तुं ते कार्यमीदृशम् ॥
गृहागताय विप्राय व्रतिनेऽस्मद्विधाय च ॥ ८ ॥
न मे किञ्चिद्धनैः कार्यं न राज्येन नृपोत्तम ॥
चातुर्मास्यव्रतोऽतोऽहं पारणं कर्तृमुत्सहे ॥ ९ ॥
तस्माद्यत्किञ्चिदन्नं ते सिद्धमस्ति गृहे नृप ॥
तद्देहि भोजनार्थं मे बुभुक्षातीव वर्धते ॥ ६.४९.१० ॥
॥ सूत उवाच ॥ ॥
ततः स पृथिवीपालो यथासिद्धं सुसंस्कृम् ॥
अन्नं भोज्यकृते तस्मै प्रददौ स्वयमेव हि ॥ ११ ॥
व्यञ्जनानि विचित्राणि पक्वान्नानि बहूनि च ॥
पेयं चोष्यं च खाद्यं च लेह्यमन्नमनेकधा ॥
तथा मांसं विचित्रं च लवणाद्यैः सुसंस्कृतम् ॥ १२ ॥
अथासौ बुभुजे विप्रः क्षुत्क्षामस्त्वरयान्वितः ॥
अविन्दन्न रसास्वादं बृहद्ग्रासैर्मुदान्वितः ॥ १३ ॥
अथ तृप्तेन मांसस्य ज्ञातस्तेन रसो द्विजाः ॥
ततः कोपपरीतात्मा तं शशाप मुनीश्वरः ॥ १४ ॥
यस्मान्मांसं त्वया दत्त्वा व्रतभंगः कृतो मम ॥
तस्मात्त्वमामिषाहारो रौद्रो व्याघ्रो भविष्यसि ॥ १५ ॥
ततः स भूपतिर्भीतः प्रणम्य च मुनीश्वरम् ॥
प्रोवाच दीनवदनो वेपमानः सुदुःखितः ॥ १६ ॥
तव क्षुत्क्षामकण्ठस्य मया भक्तिः कृता मुने ॥
यथासिद्धेन भोज्येन तत्कस्माच्छप्तुमुद्यतः ॥ १७ ॥
तस्मात्कुरु प्रसादं मे भक्तस्य विनतस्य च ॥
शापस्यानुग्रहेणैव शीघ्रं ब्राह्मणसत्तम ॥ १८ ॥
॥ दुर्वासा उवाच ॥ ॥
मुक्त्वा श्राद्धं तथा यज्ञं न मांसं भक्षयेद्द्विजः ॥
विशेषेण व्रतस्यांते चातुर्मास्योद्भवस्य च ॥ १९ ॥
उपवासपरो भूत्वा मांसमश्नाति यो द्विजः ॥
वृथामांसाद्वृथा तस्य तद्व्रतं जायते ध्रुवम् ॥ ६.४९.२० ॥
तस्माद्व्रतं प्रणष्टं मे चातुर्मास्यसमुद्भवम् ॥
तेन शप्तोऽसि राजेंद्र मया कोपेन सांप्रतम् ॥ २१ ॥
॥राजोवाच ॥ ॥
तथापि कुरु मे विप्र शापस्यांतं यथेप्सितम् ॥
भक्तियुक्तस्य दीनस्य निर्दोषस्य विशेषतः ॥ २२॥
॥ दुर्वासा उवाच ॥ ॥
यदा ते नंदिनी धेनुर्लिंगं बाणार्चितं पुरा ॥
दर्शयिष्यति ते मुक्तिस्तदा तूर्णं भविष्यति ॥ २३ ॥
एवमुक्त्वा स विप्रेन्द्रो जगाम निजमाश्रमम् ॥
बभूव सोऽपि भूपालो व्याघ्रो रौद्रतमाकृतिः ॥ २४ ॥
नष्टस्मृतिस्ततस्तूर्णं दृष्ट्वा जंतून्पुरःस्थितान् ॥
जघानोच्चाटितोन्यैश्च प्रविवेश महावनम् ॥ २५ ॥
अथ ते मंत्रिणस्तस्य शापस्यातं महीपतेः ॥
वांछतस्तस्य तद्राज्यं चक्रुरेव सुरक्षितम् ॥ २६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये कलशेश्वराख्याने कलशनृपतेर्दुर्वाससः शापेन व्याघ्रत्वप्राप्तिवर्णनंनामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 50
एवं तस्य नरेन्द्रस्य व्याघ्ररूपस्य कानने ॥
जगाम सुमहान्कालो निघ्नतो विविधान्द्विज ॥ १ ॥
कस्यचित्त्वथ कालस्य तस्मिन्देशे द्विजोत्तमाः ॥
आ यातं गोकुलं रम्यं गोपगोपीसमाकुलम् ॥ २ ॥
तत्रास्ति नन्दिनीनाम धेनुः पीनपयोधरा ॥
विस्तीर्णजघनाभोगा हंसवर्णा घटस्रवा ॥ ३ ॥
अथ सा निजयूथस्य सदाग्रे तृणवांछया ॥
भ्रममाणा निकुञ्जांते लिंगं देवस्य शूलिनः ॥ ४ ॥
अपश्यत्तेजसा युक्तं स्वयमेव व्यवस्थितम् ॥
द्वादशार्कप्रतीकाशं चित्ताह्लादकरं परम् ॥ ५ ॥
ततस्तस्योपरि स्थित्वा सुस्राव सुमहत्पयः ॥
श्रद्धया परया युक्ता तस्य स्नानकृते द्विजाः ॥ ६ ॥
एवं तां स्नपनं तस्य सदा लिंगस्य कुर्वतीम् ॥
न जानाति जनः कश्चिद्वने वृक्षसमाकुले ॥ ७ ॥
अन्यस्मिन्दिवसे तत्र स्थाने व्याघ्रः समागतः ॥
तीक्ष्णदंष्ट्रो महाकायः सर्वजन्तुभयावहः ॥ ८ ॥
अथ सा तत्र आयाता पतिता दृष्टिगोचरे ॥
नन्दिनी द्वीपिनस्तस्य दैवयोगाद्द्विजोत्तमाः ॥ ९ ॥
ततः सा गोकुले बद्धं स्मृत्वा स्वं लघुवत्सकम् ॥
अतृणादं पयोवृत्तिं करुणं पर्यदेवयत् ॥ ६.५०.१० ॥
अद्यैकाहं च संप्राप्ता कानने जनवर्जिते ॥
पुत्रं बालं परित्यज्य गोपैर्गोष्ठे नियंत्रितम् ॥ ११ ॥
येन सत्येन भक्त्याद्य स्नपनायाहमागता ॥
शिवस्य तेन सत्येन भूयान्मे सुतसंगमः ॥ १२ ॥
एवं सा करुणं यावन्नन्दिनी विलपत्यलम्॥
तावद्व्याघ्रः स्मितं कृत्वा प्रोवाच परुषाक्षरम् ॥ १३ ॥
॥ व्याघ्र उवाच ॥ ॥
प्रलापान्किं मुधा धेनो करोषि वशगा मम ॥
तस्मादिष्टतमं देवं स्मर स्वर्गकृते शुभे ॥ १४ ॥
॥ धेनुरुवाच ॥ ॥
नाहमात्मकृते व्याघ्र विलपामि सुदुः खिता ॥
शिवार्चनकृते मृत्युर्मम जातः शुभावहः ॥ १५ ॥
वत्सो मे गोकुले बद्धः स्मरमाणो ममागमम् ॥
सन्तिष्ठते पयोवृत्तिः कथं स्यात्स मया विना ॥ १६ ॥
एतस्मात्कारणाद्व्याघ्र विलपामि सुदुःखिता ॥
न चात्मजीवनार्थाय सत्येनात्मानमालभे ॥ १७ ॥
तस्मान्मुंच महाव्याघ्र मां सद्यः सुतवत्सलाम् ॥
सखीजनस्य तं दत्त्वा समागच्छामि तेंतिकम् ॥ १८ ॥
॥ व्याघ्र उवाच ॥ ॥
कथं मृत्युमुखं प्राप्य निष्क्रम्य च कथञ्चन ॥
भूयस्तत्रैव निर्यासि तस्मात्त्वां भक्षयाम्यहम् ॥ १९ ॥
॥ नन्दिन्युवाच ॥ ॥
शपथैरागमिष्यामि यैः पुनर्व्याघ्र तेंऽतिकम् ॥
तानाकर्णय मे वक्त्रात्ततो युक्तं समाचर ॥ ६.५०.२० ॥
यत्पापं ब्रह्महत्यायां मातापित्रोश्च वंचने ॥
तेन पापेन लिप्येहं नागच्छामि पुनर्यदि ॥ २१ ॥
विवस्त्रं स्नानसक्तानां दिवामैथुनगामिनाम् ॥
यत्पापं तेन लिप्येऽहं नागच्छामि पुनर्यदि ॥ २२ ॥
रजस्वलानुसक्तानां यत्पापं नग्नशायिनाम् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥ २३ ॥
विश्वासघातकानां च कृतघ्नानां च यद्भवेत् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥ ॥ २४ ॥
गोकन्याब्राह्मणानां च दूषकानां च यद्भवेत् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥ २५ ॥
वृथापाकप्रकर्तृणां वृथामांसाशिनां च यत् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥ २६ ॥
व्रतभंगप्रकर्तृणामनृतौ गामिनां च यत् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥ ॥ २७ ॥
पैशुन्यसूचकानां च यत्पापं शस्त्रकर्मणाम्॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥ २८ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहरस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये कलशेश्वरमाहात्म्ये गोव्याघ्रसंवादवर्णनंनाम पञ्चाशत्तमोऽध्यायः॥ ५० ॥छ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 51
॥ सूत उवाच ॥ ॥
अथ ताच्छपथाञ्छ्रुत्वा स व्याघ्रो विस्मयान्वितः ॥
सत्यं मत्वा पुनः प्राह नन्दिनीं पुत्रवत्सलाम् ॥ १ ॥
यद्येवं तद्गृहं गच्छ वीक्षयस्व निजात्मजम्॥
सखीनामर्पयित्वाथ भूय आगमनं कुरु ॥ २ ॥
॥ सूत उवाच ॥ ॥
इति व्याघ्रवचः श्रुत्वा सुशीला नन्दिनी तदा ॥
गतालयं समुद्दिश्य यत्र बालः सुतः स्थितः॥ ३ ॥
अथाकालागतां दृष्ट्वा मातरं त्रस्तचेतसम्॥
रंभमाणां समालोक्य वत्सः प्रोवाच विस्मयात् ॥४॥
कस्मात् प्राप्तास्यकाले तु कस्मादुद्भ्रांतमानसा ॥
वाष्पक्लिन्नमुखी कस्माद्वद मातर्द्रुतंमम ॥ ५ ॥
॥ नंदिन्युवाच ॥ ॥
यदि पृच्छसि मां पुत्र स्तनपानं समाचर ॥
येन तृप्तस्य ते सर्वं वृत्तांतं तद्वदाम्यहम् ॥ ६ ॥
॥ सूत उवाच ॥ ॥
सोऽपि तद्वचनं श्रुत्वा पीत्वा क्षीरं यथोचितम् ॥
आघ्रातश्च तया मूर्ध्नि ततः प्रोवाच सत्वरम् ॥ ७ ॥
सर्वं कीर्तय वृत्तांतमद्यारण्यसमुद्भवम् ॥
येन मे जायते स्वास्थ्यं श्रुत्वा मातस्तवास्यतः ॥ ८ ॥
॥ नंदिन्युवाच ॥ ॥
अहं गता महारण्ये ह्यद्य पुत्र यथेच्छया ॥
व्याघ्रेणासादिता तत्र भ्रममाणा इतस्ततः ॥ ९ ॥
स मया प्रार्थितः पुत्र भक्षमाणो नखायुधः ॥
शपथैरागमिष्यामि गोकुले वीक्ष्य चात्मजम्॥६.५१.१०॥
साहं तेन विनिर्मुक्ता शपथैर्बहुभिः कृतैः ॥
भूयस्तत्रैव यास्यामि दृष्टः संभाषितो भवान् ॥ ११ ॥
॥ वत्स उवाच ॥ ॥
अहं तत्रैव यास्यामि यत्र त्वं हि प्रगच्छसि ॥
श्लाघ्यं हि मरणं सम्यङ्मातुरग्रे ममाधुना ॥ १२ ॥
एकाकिनापि मर्तव्यं त्वया हीनेन वै मया ॥
विनापि क्षीरपानेन स्वल्पेन समयेन तु ॥ १३ ॥
यदि मातस्त्वया सार्धं व्याघ्रो मां सूदयिष्यति ॥
या गतिर्मातृभक्तानां सा मे नूनं भविष्यति ॥ १४ ॥
अथवा ये त्वया तस्य विहिताः शपथाः शुभे ॥
ते संतु मम तिष्ठ त्वं तस्मादत्रैव गोकुले ॥ ॥ १५ १।
नास्ति मातृसमो बन्धुर्बालानां क्षीरजीविनाम् ॥
नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः ॥ १६ ॥
नास्ति मातृसमः पूज्यो नास्ति मातृसमः सखा ॥
नास्ति मातृसमो देव इह लोके परत्र च ॥ १७ ॥
एवं मत्वा सदा मातुः कर्तव्या भक्तिरुत्तमैः ॥
तमेनं परमं धर्मं प्रजापतिविनिर्मितम् ॥
अनुतिष्ठंति ये पुत्रास्ते यांति परमां गतिम् ॥ १८ ॥
तस्मादहं गमिष्यामि त्वं च तिष्ठात्र गोकुले ॥
आत्मप्राणैस्तव प्राणान्रक्षयिष्याम्यसंशयम् ॥ १९ ॥
॥ नंदिन्युवाच ॥ ॥
ममैव विहितो मृत्युर्न ते पुत्राद्य वासरे ॥
तत्कथं मम जीवं त्वं रक्षस्यसुभिरात्मनः ॥ ॥ ६.५१.२० ॥
अपश्चिममिदं पुत्र मातृसंदिष्टमुत्तमम् ॥
त्वया कार्यं प्रयत्नेन मद्वाक्यमनुतिष्ठता ॥ २१ ॥
भ्रममाणो वने पुत्र मा प्रमादं करिष्यसि ॥
लोभात्संजायते नाश इहलोके परत्र च ॥ २२ ॥
समुद्रमटवीं युद्धं विशंते लोभमोहिताः ॥
इह तन्नास्ति लोभेन यत्र कुर्वंति मानवाः ॥ २३ ॥
लोभात्प्रमादाद्विश्रंभात्पुरुषो वध्यते त्रिभिः ॥
तस्माल्लोभो न कर्तव्यो न प्रमादो न विश्वसेत् ॥ २४ ॥
आत्मा पुत्र त्वया रक्ष्यः सर्वदैव प्रय त्नतः ॥
सर्वेभ्यः श्वापदेभ्यश्च भ्रमता गहने वने ॥ २५ ॥
विषमस्थं तृणान्नाद्यं कथंचित्पुत्रक त्वया ॥
नैकाकिना प्रगंतव्यं यूथं त्यक्त्वा निजं क्वचित् ॥ २६ ॥
एवं संभाष्य तं वत्समवलिह्य मुहुर्मुहुः ॥
शोकेन महताविष्टा बाष्पव्याकुललोचना ॥ २७ ॥
ततः सखीजनं सर्वं गता द्रष्टुं द्विजोत्तमाः ॥
नन्दिनीं पुत्रशोकेन पीडितांगी सुविह्वला ॥ २८ ॥
ततः प्रोवाच ताः सर्वा गत्वाऽरण्यं द्विजोत्तमाः ॥
चरंतीः स्वेच्छया हृष्टा वांछितानि तृणानि ताः ॥२९ ॥
बहुले चंपके दामे वसुधारे घटस्रवे ॥
हंसनादि प्रियानंदे शुभक्षीरे महोदये ॥ ६.५१.३० ॥
तथान्या धेनवो याश्च संस्थिता गोकुलांतिके ॥
शृण्वंतु वचनं मह्यं कुर्वंतु च ततः परम् ॥
अद्याहं निजयूथस्य भ्रमंती नातिदूरतः ॥ ३१ ॥
ततश्च गहनं प्राप्ता वनं मानुषवर्जितम् ॥
व्याघ्रेणासादिता तत्र भ्रमंती तृणवांछया ॥ ३२ ॥
युष्माकं दर्शनार्थाय सुतसंभाषणाय च ॥
संप्राप्ता शपथैः कृच्छ्रात्तं विश्वास्य नखायुधम् ॥ ३३ ॥
दृष्टः संभाषितः पुत्रः शासितश्च मया हि सः ॥
अधुना भवतीनां च प्रदत्तः पुत्रको यथा ॥ ३४ ॥
अज्ञानाज्ज्ञानतो वापि भवतीनां मया कृतम् ॥
यत्किंचिद्दुष्कृतं भद्रास्तत्क्षंतव्यं प्रसादतः ॥३५॥
अनाथो ह्यबलो दीनः क्षीरपो मम बालकः ॥
मातृशोकाभिसंतप्तः पाल्यः सर्वाभिरेव सः ॥ ३६ ॥
भ्रममाणोऽसमे स्थाने व्रजमानोऽन्यगोकुले ॥
अकार्येषु च संसक्तो निवार्यः सर्वदाऽऽदरात् ॥ ३७ ॥
अहं तत्र गमिष्यामि स व्याघ्रो यत्र संस्थितः ॥
अपश्चिमप्रणामोऽयं सर्वासां विहितो मया ॥ ३८ ॥
॥ धेनव ऊचुः ॥ ॥
न गंतव्यं त्वया तत्र कथंचिदपि नंदिनि ॥
आपद्धर्मं न वेत्सि त्वं नूनं येन प्रगच्छसि ॥ ३९ ॥
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु जातिर्न विवाहकाले ॥
प्राणात्यये सर्वधनापहारे पंचानृतान्याहुरपातकानि ॥ ६.५१.४० ॥
तस्मात्तत्र न गंतव्यं दोषो नास्त्यत्र ते शुभे ॥
पालयस्व निजं पुत्रं व्रजास्माभिर्निजं गृहम् ॥ ॥ ४१ ॥
॥ नंदिन्युवाच ॥ ॥
परेषां प्राणयात्रार्थं तत्कर्तुं युज्यते शुभाः ॥
आत्मप्राणहितार्थाय न साधूनां प्रशस्यते ॥ ४२ ॥
सत्ये प्रतिष्ठितो लोको धर्मः सत्ये प्रतिष्ठितः ॥
उदधिः सत्यवाक्येन मर्यादां न विलंघयेत् ॥ ४३ ॥
विष्णवे पृथिवीं दत्त्वा बलिः पातालमाश्रितः ॥
सत्यवाक्यं समाश्रित्य न निष्क्रामति दैत्यपः ॥ ४४ ॥
यः स्वं वाक्यं प्रतिज्ञाय न करोति यथोदितम् ॥
किं तेन न कृतं पापं चौरेणाकृत बुद्धिना ॥ ४५ ॥
॥ सख्य ऊचुः ॥ ॥
त्वं नंदिनि नमस्कार्या सर्वेरपि सुरासुरैः ॥
या त्वं सत्यप्रतिष्ठार्थं प्राणांस्त्यजसि दुस्त्यजान् ॥ ४६ ॥
किं त्वां कल्याणि वक्ष्यामः स्वयं धर्मार्थवादिनीम् ॥
सवरेंपि गुणैर्युक्ता नित्यं सत्ये प्रतिष्ठिताम् ॥ ४७ ॥
तस्माद्गच्छ महाभागे न शोच्यः पुत्रकस्तव ॥
भवत्या यद्वयं प्रोक्तास्तत्करिष्याम एव हि ॥ ४८ ॥
एतत्पुनर्वयं विद्मः सदा सत्यवतां नृणाम् ॥
न निष्फलः क्रियारंभः कथंचिदपि जायते ॥ ४९ ॥
॥ सूत उवाच ॥ ॥
एवं संभाष्य तं सर्वं नंदिनी स्वसखीजनम् ॥
प्रस्थिता व्याघ्रमुद्दिश्य पुत्रशोकेन पीडिता ॥ ६.५१.५० ॥
शोकाग्निनापि संतप्ता निराशा पुत्रदर्शने ॥
वियुक्ता चक्रवाकीव लतेव पतिता तरोः ॥ ५१ ॥
अंधेव दृष्टिनिर्मुक्ता प्रस्खलंती पदेपदे ॥
वनाधिदेवताः सर्वाः प्राऽर्थयच्च सुतार्थतः ॥ ५२ ॥
प्रसुप्तं भ्रममाणं वा मम पुत्रं सुबालकम् ॥
वनाधिदेवताः सर्वा रक्षंतु वचनान्मम ॥ ५३ ॥
एवं प्रलप्य मनसा संप्राप्ता तत्र यत्र सः ॥
आस्ते विस्फूर्जितास्यश्च तीक्ष्णदंष्ट्रो भयावहः ॥ ५४ ॥
व्याघ्रः क्षुत्क्षामकण्ठश्च तस्या मार्गावलोककः ॥
संरंभाटोपसंयुक्तः सृक्किणी परिलेहयन् ॥ ५५ ॥
॥ नंदिन्युवाच ॥ ॥
आगताहं महाव्याघ्र सत्ये च शपथे स्थिता ॥
कुरु तृप्तिं यथाकामं मम मांसेन सांप्रतम् ॥ ५६ ॥
तां दृष्ट्वा सोऽपि दुष्टात्मा वैराग्यं परमं गतः ॥
सत्याशया पुनः प्राप्ता संत्यज्य प्राणजं भयम् ॥ ५७ ॥
॥ व्याघ्र उवाच ॥ ॥
स्वागतं तव कल्याणि सुधेनो सत्यवादिनि ॥
न हि सत्यवतां किंचिदशुभं विद्यते क्वचित् ॥ ५८ ॥
त्वयोक्तं शपथैर्भद्रे आगमिष्याम्यहं पुनः ॥
तेन मे कौतुकं जातं किमेषा प्रकरिष्यति ॥ ५९ ॥
सोऽहं भद्रे दुराचारो नृशंसो जीवघातकः ॥
यास्यामि नरकं घोरं कर्मणानेन सर्वदा ॥ ६.५१.६० ॥
तस्मात्त्वं मे महाभागे पापास्यातिदुरात्मनः ॥
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥ ६१ ॥
येन मे स्यात्परं श्रेय इह लोके परत्र च ॥
न तेऽस्त्यविदितं किंचित्सत्याचारान्मतिर्मम ॥ ६२ ॥
तस्मात्त्वं धर्मसर्वस्वं संक्षेपान्मम कीर्तय ॥
सत्संगमफलं येन मम संजायतेऽखिलम्॥ ६३ ॥
॥ नंदिन्युवाच ॥ ॥
तपः कृते प्रशंसंति त्रेतायां ध्यानमेव च ॥
द्वापरे यज्ञयोगं च दानमेकं कलौ युगे ॥
सर्वेषामेव दानानां नास्ति दानमतः परम् ॥ ६४ ॥
चराचराणां भूतानामभयं यः प्रयच्छति ॥
स सर्वभयनिर्मुक्तः परं ब्रह्मा धिगच्छति ॥ ६५ ॥
॥ व्याघ्र उवाच ॥ ॥
अन्येषां चैव भूतानां तद्दानं युज्यते शुभे ॥
अहिंसया भवेद्येषां प्राणयात्रान्नपूर्वकम् ॥ ६६ ॥
न हिंसया विनाऽस्माकं यतः स्यात्प्राणधारणम् ॥
तस्माद्ब्रूहि महाभागे किञ्चिन्मम सुखावहम् ॥
उपदेशं सुधर्माय हिंसकस्यापि देहिनाम् ॥ ॥ ६७ ॥
॥ नन्दिन्युवाच ॥ ॥
अत्रास्ति सुमहल्लिंगं पुरा बाणप्रतिष्ठितम् ॥
गहने यत्प्रभावेन त्वया मुक्तास्म्यहं ध्रुवम् ॥ ६८ ॥
तस्य त्वं प्रातरुत्थाय कुरु नित्यं प्रदक्षिणाम् ॥
प्रणामं च ततः सिद्धिं वांछितां समवाप्स्यसि ॥ ६९ ॥
नान्यस्य कर्मणः शक्तिर्विद्यते ते नखायुध ॥
पूजादिकस्य हीनत्वाद्धस्ताभ्यामिति मे मतिः ॥ ६.५१.७० ॥
एवमुक्त्वाथ सा धेनुर्व्याघ्रस्याथ वनांतिके ॥
तल्लिंगं दर्शयामास पुरः स्थित्वा द्विजोत्तमाः ॥ ७१ ॥
सोऽपि संदर्शनात्तस्य तत्क्षणान्मुक्तिमाप्तवान् ॥
व्याघ्रत्वात्पार्थिवो भूयः स बभूव यथा पुरा ॥ ७२ ॥
शापं दुर्वाससा दत्तं राज्यं स्वं सहितैः सुतैः ॥
सस्मार स नृपश्रेष्ठस्ततः प्रोवाच नंदिनीम् ॥ ७३ ॥
नृपः कलशनामाहं हैहयान्वयसंभवः ॥
शप्तो दुर्वाससा पूर्वं कस्मिंश्चित्कारणांतरे ॥ ७४ ॥
ततः प्रसादितेनोक्तस्तेनाहं नंदिनी यदा ॥
दर्शयिष्यति तल्लिंगं तदा मुक्तिर्भविष्यति ॥ ७५ ॥
सा नूनं नन्दिनी त्वं हि ज्ञाता शापान्ततो मया ॥
तत्त्वं ब्रूहि प्रदेशोऽयं कतमो वरधेनुके ॥ ७६ ॥
येन गच्छाम्यहं भूयः स्वगृहं प्रति सत्वरम् ॥
मार्गं दृष्ट्वा महाभागे मानुषं प्राप्य कञ्चन ॥७७ ॥ ॥
॥ नंदिन्युवाच ॥ ॥
चमत्कारपुरक्षेत्रमेतत्पातकनाशनम् ॥
सर्वतीर्थमयं राजन्सर्वकामप्रदायकम् ॥ ७८ ॥
यदन्यत्र भवेच्छ्रेयो वत्सरेण तपस्विनाम् ॥
दिनेनैवात्र तत्सम्यग्जायते नात्र संशयः ॥ ७९ ॥
एवं मत्वा मया लिंगं स्नापितं पयसा सदा ॥
एतद्यूथं परित्यज्य भक्त्या पूतेन चेतसा ॥ ६.५१.८० ॥
॥ राजोवाच ॥ ॥
गच्छ नन्दिनि भद्रं ते निजं प्राप्नुहि बालकम् ॥
गोकुलं च सखीः स्वाश्च तथान्यं च सुहृज्जनम् ॥ ८१ ॥
एतत्क्षेत्रं मया पूर्वं ब्राह्मणानां मुखाच्छ्रुतम् ॥
वांछितं च सदा प्रष्टुं न च द्रष्टुं प्रपारितम् ॥ ८२ ॥
राज्यकर्मप्रसक्तेन भोगासक्तेन नंदिनि ॥
स्वयमेवाधुना लब्धं नाहं सन्त्यक्तुमुत्सहे ॥ ८३ ॥
दिष्ट्या मे मुनिना तेन दत्तः शापो महात्मना ॥
कथं स्यादन्यथा प्राप्तिः क्षेत्रस्यास्य सुशोभने ॥ ॥ ८४ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा महीपालो नन्दिनीं तां विसृज्य च ॥
स्थितस्तत्रैव तल्लिंगं ध्यायमानो दिवानिशम् ॥ ८५ ॥
प्रासादं तत्कृते मुख्यं विधायाद्भुतदर्शनम् ॥
कैलासशिखराकारं तपस्तेपे तदग्रतः ॥ ८६ ॥
ततस्तस्य प्रभावेन स्वल्पैरेव दिनैर्द्विजाः ॥
संप्राप्तः परमां सिद्धिं दुर्लभां याज्ञिकैरपि ॥ ८७ ॥
तत्र यः कार्तिके मासि दीपकं संप्रयच्छति ॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ८८
मार्गशीर्षे च सम्प्राप्ते गीतनृत्यादिकं नरः ॥
तदग्रे कुरुते भक्त्या स गच्छति परां गतिम् ॥ ८९ ॥
एतद्वः सर्वमाख्यातं सर्वपातकनाशनम् ॥
कलशेश्वरमाहात्म्यं विस्तरेण द्विजोत्तमाः ॥ ६.५१.९० ॥
भक्त्या पठति यश्चैतच्छ्रद्धया परया युतः ॥
सोऽपि पापविनिर्मुक्तः शिवलोके महीयते ॥ ९१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कलशेश्वरमाहात्म्यवर्णनंनामैकोनपंचाशत्तमोऽ ध्यायः ॥ ५१ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 52
॥ सूत उवाच ॥ ॥
उमामहेश्वरौ तत्र स्थापितौ तेन भूभुजा ॥
प्रासादं परमं कृत्वा साधुदृष्टिसुखप्रदम् ॥ १ ॥
तस्याग्रतः शुभं कुंडं तत्र चैव विनिर्मितम् ॥
स्वच्छोदकेन सम्पूर्णं पद्मिनीखंडमंडितम् ॥ २ ॥
स्नात्वा तत्र नरो भक्त्या तौ पश्येद्यः समाहितः ॥
माघशुक्लचतुर्दश्यां न स भूयोऽत्र जायते ॥ ३ ॥
तस्यैव पूर्वदिग्भागेऽगस्त्यकुण्डसमीपतः ॥
अस्ति वापी महापुण्या सर्वपातकनाशिनी ॥ ४ ॥
तस्यां यः कुरुते स्नानं मासि वै फाल्गुने नरः ॥
सोपवासः सिताष्टम्यां वांछितं लभते च सः ॥ ५ ॥
तस्या दक्षिणदिग्भागे तत्रास्ति कपिला नदी ॥
कपिलो यत्र संप्राप्तः सिद्धिं सांख्यसमुद्भवाम् ॥ ६ ॥
कपिलायाश्च पूर्वेण सिद्धक्षेत्रं प्रकीर्तितम् ॥
यत्र सिद्धिं गताः सिद्धाः पुरा शत सहस्रशः ॥ ७ ॥
यो यं काममभिध्याय तपस्तत्र समाचरेत् ॥
षण्मासाभ्यंतरे नूनं स तमाप्नोति मानवः ॥ ८ ॥
तस्याधस्ताच्छिला विप्रा विद्यते वैष्णवी शुभा ॥
भ्रमन्ती चतुरस्रा च सर्वपातकनाशिनी ॥ ९ ॥
सदा महानदीतोयक्षालिता मुक्तिदा नृणाम् ॥
गंगायमुनयोर्मध्ये संनिविष्टा सरस्वती ॥ ६.५२.१० ॥
त्रिवेणी वहते तस्याः पुरतो भुक्तिमुक्तिदा ॥
तस्यामुपरि दग्धानां ब्राह्मणानां विशेषतः ॥ ११ ॥
नूनं मुक्तिर्भवेत्तेषां चिता भस्मनि गोष्पदम् ॥
दृश्यते तत्र तज्ज्ञात्वा संस्कार्या ब्राह्मणा मृताः ॥ १२ ॥
तस्यैवोत्तरदिग्भागे रुद्रकोटिर्द्विजोत्तमाः ॥
अस्ति संपूजिता विप्रै र्दाक्षिणात्यैर्महात्मभिः ॥ १३ ॥
महायोगिस्वरूपेण दाक्षिणात्या द्विजोत्तमाः ॥
चमत्कारपुरे क्षेत्रे श्रुत्वा स्वयमुमापतिम् ॥ १४ ॥
ततः कौतूहलाविष्टाः श्रद्धया परया युताः ॥
कोटिसंख्या द्रुतं जग्मुस्तस्य दर्शनवांछया ॥ १५ ॥
अहंपूर्वमहंपूर्वं वीक्षयिष्यामि तं हरम् ॥
इति श्रद्धासमो पेताश्चक्रुस्ते शपथं गताः ॥ १६ ॥
एतेषां मध्यतो यस्तं महायोगिनमीश्वरम् ॥
चरमं देवमीक्षेत भविष्यति स पापकृत् ॥ १७ ॥
ततस्तेषामभिप्रायं ज्ञात्वा देवो महेश्वरः ॥
भक्तिप्रीतो हितार्थाय कोटिरूपैर्व्यवस्थितः ॥ १८ ॥
हेलया दर्शनं प्राप्तः सर्वेषां द्विजसत्तमाः ॥
ततः प्रभृति तत्स्थानं रुद्रकोटीतिविश्रुतम् ॥ १९ ॥
तदर्थं पठितः श्लोको नारदेन पुरा द्विजाः ॥
रुद्रावर्तं समालोक्य प्रहृष्टेन द्विजोत्तमाः ॥ ६.५२.२० ॥
आषाढीं कार्तिकीं माघीं तथा चैत्रसमुद्भवाम् ॥
धन्याः पृथिव्यां लप्स्यंते रुद्रावर्ते चतुर्दशीम् ॥ २१ ॥
आजन्मशतसाहस्रं कृत्वा पापं नरः क्षितौ ॥
रुद्रावर्तं समालोक्य विपाप्मत्वं प्रपद्यते ॥ २२ ॥
रुद्रावर्त्ते नरो गत्वा दृष्ट्वा योगेश्वरं हरम् ॥
शुक्लपक्षे चतुर्दश्यां विपाप्मा जायते ध्रुवम् ॥ २३ ॥
यस्तत्र कुरुते श्राद्धं महायोगिपुरे द्विजाः ॥
रुद्रावर्ते स चाप्नोति फलं शतमखोद्भवम् ॥ २४ ॥
उपवासपरो भूत्वा यः कुर्याद्रात्रिजागरम् ॥
कामगेन विमानेन स स्वर्गे याति मानवः ॥ २५ ॥
तत्र यः कपिलां दद्याद्ब्राह्मणायाहिताग्नये ॥
स गणः स्यान्न संदेहो हरस्य दयितस्तथा ॥ २६ ॥
षडक्षरं जपेद्यस्तु महायोगिपुरः स्थितः ॥
मंत्रं तस्य भवेच्छ्रेयः षङ्गुणं राजसूयतः ॥ २७ ॥
यस्तस्य पुरतो भक्त्या जपेद्वा शतरुद्रियम् ॥
चतुर्णामपि वेदानां सोऽधीतानां भजेत्फलम् ॥ २८ ॥
गीतं वा यदि वा नृत्यं तत्पुरः कुरुते नरः ॥
स सर्वेषां भजेच्छ्रेयो मखानां नात्र संशयः ॥२९॥
एवमुक्त्वा द्विजश्रेष्ठाः स मुनिर्ब्रह्मसंभवः ॥
विरराम ततो हृष्टस्तीर्थयात्रां गतो द्रुतम् ॥ ६.५२.३० ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये रुद्रकोटिमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ॥ ९२ ॥ ॥ छ ॥ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 53
॥ सूत उवाच ॥ ॥
तत्रैवोज्जयनीपीठमस्ति कामप्रदं नृणाम् ॥
प्रभूताश्चर्यसंयुक्तं बहुसिद्धनिषेवितम् ॥ १ ॥
यस्य मध्यगतो नित्यं स्वयमेव महेश्वरः ॥
महाकालस्वरूपेण स तिष्ठति द्विजोत्तमाः ॥ २ ॥
वैशाख्यां यो नरस्तत्र कृत्वा श्राद्धं समाहितः ॥
ततः पश्यति देवेशं महाकाल इति स्मृतम्॥
पूजयेद्दक्षिणां मूर्तिं समाश्रित्य द्विजोत्तमाः ॥ ३ ॥
दश पूर्वान्दशातीतानात्मानं च द्विजोत्तमाः ॥
पुरुषान्स समुद्धृत्य शिवलोके महीयते ॥ ४ ॥
यो यं काममभिध्याय तत्र पीठं प्रपूजयेत् ॥
संपूज्य योगिनीवृंदं कन्यकावृन्दमेव च ॥ ५ ॥
स तत्कृत्स्नमवाप्नोति यदपि स्यात्सुदुर्लभम् ॥
तत्र वैशाखमासस्य पौर्णमास्यां समाहितः ॥ ६ ॥
श्रद्धायुक्तो नरो यो वा उपवासपरः शुचिः ॥
करोति जागरं तस्य पुरतः श्रद्धयान्वितः ॥
स याति परमं स्थानं जरामरणवर्जितम् ॥ ७ ॥
किं व्रतैः किं वृथा दानैः किं जपैर्नियमेन वा ॥
महाकालस्य ते सर्वे कलां नार्हंति षोडशीम् ॥ ८ ॥
॥ सूत उवाच ॥ ॥
तत्रैवास्ति महाभागा भ्रूणगर्तेति विश्रुता ॥
गर्ता सुविपुलाकारा सर्वपातकनाशिनी ॥ ९ ॥
ब्रह्महत्याविनिर्मुक्तः सौदासो यत्र पार्थिवः ॥
स्त्रीहत्यया विनिर्मुक्तः सुषेणो वसुधाधिपः ॥ ६.५३.१० ॥
॥ ऋषय ऊचुः ॥ ॥
ब्रह्महत्या कथं तस्य सौदासस्य महीपतेः ॥
ब्रह्मण्यस्यापि संजाता तदस्माकं प्रकीर्तय ॥ ११ ॥
श्रूयते स महीपालो ब्राह्मणानां हिते रतः ॥
कर्मणा मनसा वाचा ब्रह्मघ्नः सोऽभवत्कथम् ॥ १२ ॥
विमुक्तश्च कथं भूयो भ्रूणगर्तामुपाश्रितः ॥
सापि गर्ता कथं जाता सर्वं नो वद विस्तरात् ॥ १३ ॥
॥ सूत उवाच ॥ ॥
यदा लिंगस्य पातोऽभूद्देवदेवस्य शूलिनः ॥
तदा स लज्जयाविष्टो लिंगाभावाद्द्विजोत्तमाः ॥ १४ ॥
कृत्वाऽतिविपुलां गर्तां प्रविवेश ततः परम् ॥
न कस्यचित्तदात्मानं दर्शयामास शूलधृक् ॥ १५ ॥
एवं सा तत्र संजाता गर्ता ब्राह्मणसत्तमाः ॥
यथा तस्यां विपाप्माभूत्सौ दासस्तद्वदाम्यहम् ॥ १६ ॥
आसीन्मित्रसहोनाम राजा परमधार्मिकः ॥
सौदासस्तत्सुतः साक्षात्सूर्यवंशसमुद्भवः ॥ १७ ॥
तेनेष्टं विपुलैर्यज्ञैः सुवर्णवरदक्षिणैः ॥
असंख्यातानि दानानि प्रदत्तानि महात्मना ॥ १८ ॥
कस्यचित्त्वथ कालस्य सत्रे द्वादशवार्षिके ॥
वर्तमाने यथान्यायं विधिदृष्टेन कर्मणा ॥ १९ ॥
क्रूराक्षः क्रूरबुद्धिश्च राक्षसौ बलवत्तरौ ॥
यज्ञविघ्नाय संप्राप्तौ संप्राप्ते रजनीमुखे ॥ ६.५३.२० ॥
राक्षसैर्बहुभिः सार्धं तथान्यैर्भूतसंज्ञितैः ॥
पिशाचैश्च दुराधर्षैर्यज्ञविध्वंसतत्परैः ॥ २१ ॥
अथ ते राक्षसाः सर्वे किंचिच्छिद्रमवेक्ष्य च ॥
विविशुर्यज्ञवाटं तं प्रसर्पन्तः समंततः ॥ २२ ॥
निघ्नन्तो ब्राह्मणश्रेष्ठान्भक्षयन्तो हवींषि च ॥
तथा यानि विचित्राणि यज्ञार्थे कल्पितानि च ॥ २३ ॥
एतस्मिन्नंतरे तत्र हाहाकारो महानभूत् ॥
भक्ष्यमाणेषु विप्रेषु राक्षसैर्बलवत्तरैः ॥ २४ ॥
ततो मैत्रसहिः क्रुद्धस्त्यक्त्वा दीक्षाव्रतं नृपः ॥
आदाय सशरं चापं ध्वंसयामास वीक्ष्य तान् ॥ २५ ॥
कृतरक्षो वसिष्ठेन स्वयमेव पुरोधसा ॥
क्रूराक्षं सूदयामास राक्षसैर्बहुभिः सह ॥ २६ ॥
क्रूरबुद्धिरथो वीक्ष्य हतं श्रेष्ठं सहोदरम् ॥
तं च पार्थिवशार्दूलमगम्यं ब्रह्मतेजसा ॥ २७ ॥
हतशेषान्समादाय राक्षसान्बलसंयुतः ॥
पलायनं भयाच्चक्रे क्षतांगस्तस्य सायकैः ॥ २८ ॥
ततस्तद्वैरमाश्रित्य भ्रातुर्ज्येष्ठस्य राक्षसः ॥
छिद्रमन्वेषयामास तद्वधाय दिवानिशम् ॥ २९ ॥
एवं सवीक्षमाणस्य तस्य च्छिद्रं महात्मनः ॥
समाप्तिमगमद्विप्राः सत्रं तद्द्वादशाब्दिकम् ॥ ६.५३.३० ॥
न सूक्ष्ममपि संप्राप्तं छिद्रं तेन दुरात्मना ॥
वसिष्ठविहिता रक्षा सत्रे तस्य महीपतेः ॥ ३१ ॥
अथासौ ब्राह्मणान्सर्वान्विसृज्याहितदक्षिणान्॥
कृतांजलिपुटो भूत्वा वसिष्ठमिदमब्रवीत् ॥ ३२ ॥
स्वहस्तेन गुरोद्याहं त्वां भोजयितुमुत्सहे ॥
क्रियतां तत्प्रसादो मे भुक्त्वाद्य मम मन्दिरे ॥ ३३ ॥
॥ सूत उवाच ॥ ॥
स तथेति प्रतिज्ञाय वसिष्ठो मुनिसत्तमः ॥
क्षालितांघ्रिः स्वयं तेन निविष्टो भोजनाय वै ॥ ३४ ॥
कूरबुद्धिरथो वीक्ष्य तदर्थं चामिषं शुभम् ॥
सुसंस्कृतं विधानेन सूपकारैर्द्विजोत्तमाः ॥३५॥
उखां कृत्वा ततस्तादृक्तत्प्रमाणामतर्किताम्॥
महामांसाभृतां कृत्वा तां जहारामिषान्विताम् ॥३६॥
अथासौ मुनिशार्दूलो भुंजानो बुबुधे हि तत् ॥
महामांसमिति क्रुद्धस्तत्र प्रोवाच मन्युमान्॥ ३७ ॥
महामांसाशनं यस्मात्कारितोऽहं त्वयाधम ॥
रक्षोवद्राक्षसस्तस्मात्त्वमद्यैव भविष्यसि ॥३८ ॥
ततः संशोधयामास तस्य मांसस्य चागमम् ॥
निपुणं सूपकारांस्तान्दृष्ट्वा राजा पृथक्पृथक् ॥ ३९ ॥
तेऽब्रुवन्नैतदस्माभिः श्रपितं मांसमीदृशम् ॥
श्रद्धीयतां महीपाल नान्येन मनुजेन वा ॥ ६.५३.४० ॥
राक्षसं वा पिशाचं वा दानवं वा विना विभो ॥
एतज्ज्ञात्वा ततो नाथ यद्युक्तं तत्समाचर ॥ ४१ ॥
एतस्मिन्नंतरे तस्य नारदो मुनिसत्तमः॥
समागत्याब्रवीत्सर्वं तद्राक्षसविचेष्टितम्॥ ४२ ॥.
तच्छ्रुत्वा कोपमापन्नः स राजा शप्तुमुद्यतः ॥
वसिष्ठं स्वकरे कृत्वा जलं सौदासभूपतिः ॥
शापोद्यतं च तं दृष्ट्वा नारदो वाक्यमब्रवीत् ॥ ४३ ॥
निघ्नन्तो वा शपन्तो वा द्विषन्तो वा द्विजातयः॥
नमस्कार्या महीपाल तथापि स्वहितेच्छुना॥
गुरुरेष पुनर्मान्यस्तव पार्थिवसत्तम॥४४॥
तस्मान्नार्हसि शप्तुं त्वं प्रतिशापेन सन्मुनिम् ॥
निषिद्धः स तथा भूपस्ततस्तत्सलिलं करात् ॥
पादयोः कृत्स्नमुपरि प्रमुमोच ततः परम् ॥ ४५ ॥
अथ तौ चरणौ तस्य तप्त शापोदकप्लुतौ ॥
दग्धौ कृष्णत्वमापन्नौ तत्क्षणाद्द्विजसत्तमाः ॥ ४६ ॥
कल्माषपाद इत्युक्तस्ततःप्रभृति स क्षितौ ॥
भूपालो द्विजशार्दूला ना्म्ना तेन विशेषतः ॥ ४७ ॥
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे विप्रो वसिष्ठो लज्जयान्वितः ॥
ज्ञात्वा दत्तं वृथा शापं तस्य भूमिपतेस्तदा ॥ ४८॥
उवाच व्यर्थः शापोऽयं तव दत्तो मया नृप ॥
न च मे जायते वाक्यमसत्यं हि कथंचन ॥ ४९ ॥
तस्मात्त्वं राक्षसो भूत्वा कञ्चित्कालं नृपो त्तम ॥
स्वरूपं लप्स्यसे भूयो यस्मिन्काले शृणुष्व तम् ॥ ६.५३.५० ॥
यदा त्वं क्रूरबुद्धिं तं राक्षसं निहनिष्यसि ॥
तदा त्वं लप्स्यसे मोक्षं राक्षसत्वात्सुदारुणात् ॥ ५१ ॥
॥ सूत उवाच ॥ ॥
एतस्मिन्नन्तरे राजा यातुधानो बभूव सः ॥
ऊर्ध्वकेशो महाकायः कृष्णदन्तो भया नकः ॥ ५२ ॥
ततो जघान विप्रेन्द्रान्राक्षसं भावमाश्रितः ॥
यज्ञान्विध्वंसयामास मुनीनामाश्रमानपि ॥ ५३ ॥
कस्यचित्त्वथ कालस्य क्रूर बुद्धिः स राक्षसः ॥
ज्ञात्वा तं राक्षसीभूतमेकदाऽऽयुधवर्जितम् ॥ ५४ ॥
भ्रातुर्वधकृतं वैरं स्मरमाणस्ततः परम् ॥
तद्वधार्थं समायातो राक्षसैर्बहुभिर्वृतः ॥ ५५ ॥
ततस्तं वेष्टयित्वापि समंताद्राक्षसो नृपम् ॥
प्रोवाच वचनं क्रुद्धो नादेनापूरयन्दिशः ॥ ५६ ॥
त्वया यो निहतोऽस्माकं ज्येष्ठो भ्राता सुदुर्मते ॥
वसिष्ठस्य बलाद्यज्ञे तस्याद्य फलमाप्नुहि ॥ ५७ ॥
॥ राजोवाच ॥ ॥
यद्ब्रवीषि दुराचार कर्मणा तत्समाचर ॥
शारदस्येव मेघस्य गर्जितं तव निष्फलम् ॥ ५८ ॥
एवमुक्त्वा समादाय ततो वृक्षं स पार्थिवः ॥
प्राद्रवत्संमुखं तस्य गर्जमानो यथा घनः ॥५९॥
सोऽपि वृक्षं समुत्पाट्य क्रोधसंरक्तलोचनः ॥
त्रिशंखां भृकुटीं कृत्वा तस्याप्यभिमुखं ययौ ॥ ६.५३.६० ॥
एवं द्वावपि तौ शूरौ वृक्षयुद्धं महाबलौ ०।
कृतवन्तौ वने तत्र बहुवृक्षक्षयावहम् ॥ ६१ ॥
अथ तं श्रांतमालोक्य कूरबुद्धिं महीपतिः ॥
प्रगृह्य पादयोर्वेगाद्भ्रामयामास पुष्करे ॥ ६२ ॥
ततश्चास्फोटयामास भूमौ कोपसमन्वितः ॥
चक्रे चामिषखण्डं स पिष्ट्वापिष्ट्वा मुहुर्मुहुः ॥ ६३ ॥
तस्मिंस्तु निहते शूरे राक्षसे स महीपतिः ॥
राक्षसत्वाद्विनिर्मुक्तो लेभे कायं नृपोद्भवम् ॥ ६४ ॥
ततस्ते राक्षसाः शेषाः समंतात्तं महीपतिम्॥
परिवार्य महावृक्षैर्जघ्नुः पाषाणवृष्टिभिः॥ ६५ ॥
ततस्तानपि भूपालो जघान प्रहसन्निव ॥
वृक्षहस्तस्तु विश्रब्धो लीलया द्विजसत्तमाः ॥ ६६ ॥
ततश्च स्वपुरं प्राप्तः संप्रहृष्टतनूरुहः ॥
राक्षसानां वधं कृत्वा लब्ध्वा देहं पुरातनम् ॥ ६७ ॥
ततस्तं तेजसा हीनं दुर्गंधेन समावृतम् ॥
ब्रह्महत्योद्भवैश्चिह्नैरन्यैरपि पृथग्विधैः ॥ ६८ ॥
दृष्ट्वा ते मंत्रिणस्तस्य पुत्र पौत्रास्तथा परे ॥
नोपसर्पंति भूपालं पापस्पर्शभयान्विताः ॥ ६९ ॥
ऊचुश्च पार्थिवश्रेष्ठ न त्वमर्हसि संगमम् ॥
कर्तुं सार्धमिहास्माभिर्ब्रह्महत्या न्वितो यतः ॥ ६.५३.७० ॥
तस्माद्वसिष्ठमाहूय प्रायश्चित्तं समाचर ॥
अशुद्धं शुद्धिमायाति येन गात्रमिदं तव ॥ ७१ ॥
ततः स पार्थिवस्तूर्णं वसिष्ठं मुनिपुंगवम् ॥
समाहूयाब्रवीद्वाक्यं दूरस्थो विनयान्वितः ॥ ७२ ॥
तव प्रसादतो विप्र स हतो राक्षसो मया॥
मुक्तशापोऽस्मि संजातः परं शृणु वचो मुने ॥ ७३ ॥
मम गात्रात्सुदुर्गंधः समुद्गच्छति सर्वतः ॥
भाराक्रांतानि गात्राणि सर्वाण्येवाचलानि च ॥ ७४ ॥
तत्किमेतद्द्विजश्रेष्ठ तेजो हानिरतीव मे ॥
मंत्रिणोऽपि तथा पुत्रा न स्पृशंति यतोऽद्य माम् ॥ ७५ ॥
॥ वसिष्ठ उवाच ॥ ॥
राक्षसत्वं प्रपन्नेन त्वया पार्थिवसत्तम ॥
ब्राह्मणा बहवो ध्वस्तास्तथा विध्वंसिता मखाः ॥
तेषां त्वं पार्थिवश्रेष्ठ संस्पृष्टो ब्रह्महत्यया ॥ ७६ ॥
॥ राजोवाच ॥ ॥
तदर्थं देहि मे विप्र प्रायश्चित्तं विशुद्धये ॥
येन निर्मुक्तपापोऽहं राज्यं प्राप्नोमि चात्मनः ॥ ७७ ॥
॥ वसिष्ठ उवाच ॥ ॥
अत्रार्थे तीर्थयात्रां त्वं कुरु पार्थिव सत्तम ॥
निर्ममो निरहंकारस्ततः सिद्धिमवाप्स्यसि ॥ ७८ ॥
ततः स पार्थिवश्रेष्ठः संयतात्मा जितेंद्रियः ॥
प्रयागादिषु तीर्थेषु स्नानं चक्रे समा हितः ॥ ७९ ॥
न नश्यति स दुर्गंधो न च तेजः प्रवर्धते ॥
न कायो लघुतां याति नालस्येन विमुच्यते ॥ ६.५३.८० ॥
ततः संभ्रममाणश्च कदाचि द्द्विजसत्तमाः ॥
चमत्कारपुरे क्षेत्रे स्नानार्थं समुपागतः ॥ ८१ ॥
सुश्रांतः क्षुत्पिपासार्तो निशीथे तमसावृते ॥
गर्तायां पतितोऽकस्मात्पूर्णायां पयसा नृपः ॥ ८२ ॥
कृच्छ्रात्ततो विनिष्क्रांतस्तीर्थात्तस्मान्महीपतिः ॥
यावत्पश्यति चात्मानं द्वादशार्कसमप्रभम् ॥ ८३ ॥
दुर्गंधेन परित्यक्तं सोद्यमं लघुतां गतम् ॥
दृष्ट्वा च चिंतयामास नूनं मुक्तोऽस्मि पातकात् ॥ ८४ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
हर्षयन्ती महीपालं विमुक्तं ब्रह्महत्यया ॥८५॥
विमुक्तोऽसि महाराज सांप्रतं पूर्वपातकैः ॥
तीर्थस्यास्य प्रभावेन तस्माद्गच्छ निजं गृहम्॥ ८६ ॥
अत्र संनिहितो नित्यं भ्रूणरूपेण शंकरः ॥
कृष्णपक्षे विशेषेण चतुर्दश्यां महीपते ॥ ८७ ॥
यदा प्रपतितं लिंगं देवदेवस्य शूलिनः ॥
द्विजशापेन गर्तैषा तदानेन विनिर्मिता ॥ ८८ ॥
लज्जितेन स्ववासार्थं महद्दुःखयुतेन च ॥
सतीवियोगयुक्तेन भ्रूणत्वं प्रगतेन च ॥ ८९ ॥
सर्वपापहरा तेन गर्तेयं पृथि वीपते ॥
भ्रूणगर्तेति विख्याता तस्य नामा जगत्त्रये ॥ ६.५३.९० ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वाथ सा वाणी विररामांऽतरिक्षगा ॥
सोऽपि पार्थिवशार्दूलः प्रहृष्टः स्वपुरं ययौ ॥ ९१ ॥
ततस्तं पापनिर्मुक्तं तेजसा भास्करोपमम् ॥
दृष्ट्वा पुत्रास्तथा मर्त्याः प्रणेमुस्तुष्टिसंयुताः ॥ ९२ ॥
सोऽपि ब्राह्मणशार्दूलो वसिष्ठस्तं महीपतिम्॥
समभ्येत्य ततः प्राह हर्षगद्गदया गिरा ॥ ९३ ॥
दिष्ट्या मुक्तोसि राजेंद्र पापाद्ब्रह्मवधोद्भवात् ॥
दिष्ट्या त्वं तेजसा युक्तः पुनः प्राप्तो निजं पुरम् ॥ ९४ ॥
तस्मात्कीर्तय भूपाल कस्मिंस्तीर्थे समागतः ॥
त्वं मुक्तः पातकाद्घोराद्ब्रह्महत्यासमुद्भवात् ॥ ९५ ॥
ततः स कथयामास भ्रूणगर्तासमुद्भवम् ॥
वृत्तांतं तस्य विप्रर्षेरनुभूतं यथा तथा ॥ ९६ ॥
ततस्ते मंत्रिणो वृद्धाः स च राजा मुनीश्वरः ॥
पुत्रं प्रतर्दनंनाम राज्ये संस्थाप्य तत्क्षणात् ॥ ९७ ॥
भ्रूणगर्तां समासाद्य तामेव द्विजसत्तमाः ॥
तपश्चेरुर्महादेवं ध्यायमाना दिवा निशम् ॥ ९८॥
गताश्च परमां सिद्धिं कालेनाल्पेन दुर्लभाम् ॥
भ्रूणरूपधरं देवं पूजयित्वा महेश्वरम् ॥ ९९ ॥
ततःप्रभृति सा गर्ता प्रख्याता धरणीतले ॥
भ्रूणगर्तेति विप्रेंद्राः सर्वपातकनाशिनी ॥ ६.५३.१०० ॥
तत्र कृष्णचतुर्दश्यां यः श्राद्धं कुरुते नरः ॥
स पितॄंस्तारयेन्नूनं दश पूर्वान्दशा परान्॥ १०१ ॥
तस्मात्सर्वप्रयत्नेन तत्र श्राद्धं समाचरेत् ॥
स्नानं च ब्राह्मणश्रेष्ठा दानं वापि स्वशक्तितः ॥ १०२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये भ्रूणगर्तामाहात्म्यवर्णनंनाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 54
॥ सूत उवाच ॥ ॥
चर्ममुंडा तथा देवी तस्मिन्स्थाने व्यवस्थिता ॥
नलेन स्थापिता पूर्वं स्वयमेव महात्मना ॥ १ ॥
अभ्यर्चयति तां भक्त्या यो महानवमी दिने ॥
स कामान्वांछिताँल्लब्ध्वा पदं प्राप्नोति शाश्वतम् ॥ २ ॥
वीरसेनसुतः पूर्वं नलोनाम महीपतिः ॥
आसीत्सर्वगुणोपेतः सर्व शत्रुक्षयावहः ॥ ३ ॥
भार्या तस्याभवत्साध्वी प्राणेभ्योपि गरीयसी ॥
दमयंतीति विख्याता विदर्भाधिपतेः सुता ॥ ४ ॥
अथासौ कलिनाविष्टो द्यूतं चक्रे महीपतिः ॥
पुष्करेण समं विप्रा दायादेन दिवानिशम् ॥ ५ ॥
ततः स व्यसनासक्तो वार्यमाणोऽपि सज्जनैः ॥
हारयामास सप्तांगं राज्यं मुक्त्वा च तां प्रियाम् ॥ ६ ॥
अथ तां स समादाय प्रविष्टो गहनं वनम् ॥
निर्जलं लज्जयाविष्टो दुःखव्याकुलितेंद्रियः ॥ ७ ॥
ततः स चिंतयामास यद्येषा भीममंदिरे ॥
याति तन्मुच्यते कष्टाद्वनवाससमुद्भवात् ॥ ८ ॥
न मया तत्र गंतव्यं कथंचिदपि मानिना ॥
तस्मादेनां परित्यज्य रात्रौ गच्छामि दूरतः ॥ ९ ॥
येन त्यक्ता मया साध्वी कुण्डिनं याति तत्पुरम् ॥
स एवं निश्चयं कृत्वा सुखसुप्तां विहाय ताम् ॥
प्रजगाम वनं घोरं वन्यश्वापदसंकुलम्॥ ६.५४.१० ॥
प्रत्यूषे चापि सोत्थाय यावत्पश्यति भाभिनी ॥
तावत्पश्यतिशून्यं स्वं पार्श्वं यत्र नलः स्थितः ॥ ११ ॥
ततो विलप्य दुःखार्ता करुणं तत्र कानने ॥
जगाम मार्गमाश्रित्थ पितुर्हर्म्यं शनैःशनैः ॥ १२ ॥
नलोऽपि च वने तस्मिन्भ्रममाणो महीपतिः ॥
एकाकी वृक्षकुंजानि सेवयामास सर्वदा ॥ १३ ॥
ततस्तद्वनमुत्सृज्य जगामान्यन्महावनम् ॥
नानावृक्षगणैर्युक्तं बहुश्वापदसंकुलम् ॥ १४ ॥
एवं स पृथिवीपालो भ्रममाणोवनाद्वनम् ॥
हाटकेश्वरजं क्षेत्रमाससाद ततः परम् ॥ १५ ॥
एतस्मिन्नंतरे प्राप्तं तन्महानवमीदिनम् ॥
विशेषाद्यत्र भूपालाः पूजयन्ति सुरेश्वरीम् ॥ १६ ॥
ततः स मृन्मयीं कृत्वा चर्ममुण्डधरां नृपः ॥
विभवाभावतः पश्चात्फलमूलैरतर्पयत् ॥ १७ ॥
ततस्तस्याः स्तुतिं कृत्वा पुरः स्थित्वा कृतांजलिः ॥
श्रद्धया परया युक्तो निषधाधिपतिः स्वयम् ॥ १८ ॥
जय सर्वगते देवि चर्ममुण्डधरे वरे ॥
जय दैत्यकुलोच्छेददक्षे दक्षात्मजे शुभे ॥ १९ ॥
कालरात्रि जयाचिन्त्ये नवम्यष्टमिवल्लभे ॥
त्रिनेत्रे त्र्यंबकाभीष्टे जय देवि सुरार्चिते॥ ॥ ६.५४.२० ॥
भीमरूपे सुरूपे च महाविद्ये महाबले ॥
महोदये महाकाये जयदेवि महाव्रते ॥ २१ ॥
नित्यरूपे जगद्धात्रि सुरामांसवसाप्रिये ॥
विकरालि महाकालि जय प्रेतजनानुगे ॥ २२ ॥
शवयानरते रम्ये भुजंगाभरणान्विते ॥
पाशहस्ते महाहस्ते रुधिरौघकृतास्पदे ॥ २३ ॥
फेत्कारा रवशोभिष्ठे गीतवाद्यविराजिते ॥
जयानाद्ये जय ध्येये भर्गदेहार्धसंश्रये ॥ २४ ॥
त्वं रतिस्त्वं धृतिस्तुष्टिस्त्वं गौरी त्वं सुरेश्वरी ॥
त्वं लक्ष्मीस्त्वं च सावित्री गायत्री त्वमसंशयम् ॥ २५ ॥
यत्किंचित्त्रिषु लोकेषु स्त्रीरूपं देवि दृश्यते ॥
तत्सर्वं त्वन्मयं नात्र विकल्पोऽस्ति मम क्वचित् ॥ २६ ॥
येन सत्येन तेन त्वमत्रावासं द्रुतं कुरु ॥
सान्निध्यं भक्तितस्तुष्टा सुरासुरनमस्कृते ॥ २७ ॥
॥ सूत उवाच ॥ ॥
एवं स्तुता च सा देवी नलेन पृथिवीभुजा ॥
प्रोवाच दर्शनं गत्वा तं नृपं भक्तवत्सला ॥ २८ ॥
॥ श्रीदेव्युवाच ॥ ॥
परितुष्टाऽस्मि ते वत्स स्तोत्रेणानेन सांप्रतम् ॥
तस्माद्गृहाण मत्तस्त्वं वरं मनसि संस्थितम् ॥ २९ ॥
॥ नल उवाच ॥ ॥
दमयन्तीति मे भार्या प्राणेभ्योऽपि गरीयसी ॥
सा मया निर्जने मुक्ता
वने व्यालगणान्विते ॥ ६.५४.३० ॥
अखण्डशीलां निर्दोषां यथाहं त्वत्प्रसादतः ॥
लभे भूयोऽपि तां देवि तथात्र कुरु सत्वरम् ॥ ३१ ॥
स्तोत्रेणानेन यो देवि स्तुतिं कुर्यात्पुरस्तव ॥
तत्रैव दिवसे तस्मै त्वया देयं मनोगतम् ॥ ३२ ॥
॥ सूत उवाच ॥ ॥
सा तथेति प्रतिज्ञाय जगामादर्शनं ततः ॥
सोऽपि पार्थिवशार्दूलो लेभे सर्वं तयोदितम् ॥ ३३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नलनिर्मितचर्ममुण्डामाहात्म्यवर्णनंनाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 55
॥ सूत उवाच ॥ ॥
तस्या एव समीपस्थं देवदेवं नलेश्वरम् ।।
दृष्ट्वा विमुच्युते पापात्स्थापितं नलभूभुजा ॥ १ ॥
यस्तं पश्येन्नरो भक्त्या माघे षष्ठ्यां सिते द्विजाः ॥
सर्व रोगविनिर्मुक्तः प्राप्नोति परमं पदम् ॥ २ ॥
कण्डूः पामाथ दद्रूणि मंडलानि विचर्चिका ॥
दर्शनात्तस्य नश्यन्ति जन्तूनां भावितात्मनाम् ॥ ३॥
अस्ति तस्याग्रतः कुण्डं स्वच्छोदकसुपूरितम्॥
मत्स्यकूर्मसमाकीर्णं पद्मिनीखंडमंडितम् ॥ ४ ॥
यस्तत्र कुरुते स्नानं प्रत्यूषे सोमवासरे ॥
अपि कुष्ठामयमस्तः स भूयः स्यात्पुनर्नवः ॥ ५ ॥
यदा संस्थापितः शंभुर्नलेन पृथिवीभुजा ॥
तदा तुष्टेन स प्रोक्तो ब्रूहि किं ते करोम्यहम् ॥ ६ ॥ ॥
॥ नल उवाच ॥ ॥
अत्र स्थेयं त्वया देव सदा सन्निहितेन च ॥
सर्वलोकहितार्थाय रोगनाशाय शंकर ॥ ७ ॥
॥ शंकर उवाच ॥ ॥
अहं त्वद्वचनाद्राजन्संप्राप्ते सोमवासरे ॥
प्रत्यूषे च निवत्स्यामि प्रासादे नात्र संशयः ॥ ८ ॥
माघाष्टम्यामहोरात्रं सकलं च महीपते ०।
प्राणिनां रोगनाशाय शुक्लपक्षे विशेषतः ॥ ९ ॥
यो मामत्र स्थितं तत्र दिवसे वीक्षयिष्यति ॥
स्नात्वा सुविमले कुंडे सम्यक्छ्रद्धासमन्वितः ॥
तस्य नाशं प्रयास्यंति व्याधयो गात्रसंभवाः ॥ ६.५५.१० ॥
योऽस्य कुंडस्य संभूतां मृत्तिकामपि मानवः ॥
संधास्यति निजे देहे सोमवारे निशाक्षये ॥
सोऽपि रोगैर्विनिर्मुक्तः संभविष्यति पुष्टिमान् ॥ ११ ॥
निष्कामस्तु पुनर्यो मां तस्मिन्काले नृपोत्तम ॥
पूजयिष्यति सद्भक्त्या पुष्पधूपानुलेपनैः ॥
सर्वपापविनिर्मुक्तो मम लोकं स यास्यति ॥ १२ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा स भगवांस्त्रैलोक्यदीपको हरः ॥
अन्तर्धानं गतो विप्रा यथा दीपोऽत्र तत्क्षणात् ॥ १३ ॥
नलोऽपि तुष्टिमापन्नस्तमाराध्य चिरं नृपः ॥
तदाहूयाखिलान्विप्रांश्चमत्कारपुरोद्भवान् ॥।४॥
एष संस्थापितः शंभुर्मया युष्मत्पुरोंतिके ॥
येन दृष्टेन रोगाणां सर्वेषां जायते क्षयः ॥ १५ ॥
अधुनाहं गमिष्यामि स्वराज्याय कृते द्विजाः ॥
निषधां च पुरीमेष सर्वैः पूज्यः समाहितैः ॥ १६ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
एवं पार्थिवशार्दूल करिष्यामः समाहिताः ॥
तव देवकृते यत्नं यात्राद्यासु क्रियासु च ॥ १७ ॥
तथा पूजां करिष्यामः श्रद्धया परया युताः ॥
अस्माकं पुत्रपौत्रा ये भविष्यंति तथा परे ॥
वंशजास्ते करिष्यंति पूजामस्य सुभक्तितः ॥ १८ ॥
॥ सूत उवाच ॥ ॥
एवमुक्तः स भूपालस्तैर्विप्रैस्तुष्टिसंयुतः ॥
प्रतस्थे तान्प्रणम्योच्चैः सर्वैस्तैश्चाभिनंदितः ॥ ॥ १९ ॥
एवं स भगवाञ्छंभुस्तस्मिन्स्थाने व्यवस्थितः ॥
हिताय सर्वलोकानां सर्वरोगक्षयावहः ॥ ६.५५.२० ॥
तस्मात्सर्वप्रयत्नेन वीक्षणीयः सदा हि सः ॥
विशेषात्सोमवारेण शाश्वतं श्रेय इच्छता ॥ २१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये नलेश्वरमाहात्म्यवर्णनंनाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 56
॥ सूत उवाच ॥ ॥
तस्यापि नातिदूरस्थं सांबादित्यं सुरेश्वरम् ॥
दृष्ट्वा कामानवाप्नोति सर्वान्मर्त्यो हृदि स्थितान्॥ १ ॥
यस्तु माघस्य शुक्लायां सप्तम्यां रविवासरे ॥
भक्त्या संपश्यते मर्त्यो नरकान्न स पश्यति ॥ २ ॥
आसीत्पूर्वं द्विजो नाम गालवः स महामुनिः ॥
स्वाध्यायनिरतो नित्यं वेदवेदांगपारगः ॥ ३ ॥
शुचिव्रतपरः शांतो देवद्विजपरायणः ॥
कृतज्ञश्च सुशीलश्च यज्ञकर्मविचक्षणः ॥ ४ ॥
तस्यैवं वर्तमानस्य संप्राप्तं पश्चिमं वयः ॥
अपुत्रस्य द्विजश्रेष्ठास्ततो दुःखं व्यजायत ॥ ५ ॥
ततः सर्वं परित्यज्य गृहकृत्यं स भक्तिमान् ॥
सूर्यमाराधयामास क्षेत्रेऽत्रैव समाहितः ॥ ६ ॥
वटवृक्षं समाश्रित्य श्रद्धया परया युतः ॥
स्थापयित्वा रवेरर्चां यथोक्तां पंचरात्रिके ॥ ७ ॥
वर्षास्वाकाशशायी च हेमंते जलसंश्रयः ॥
पंचाग्निसाधको ग्रीष्मे निराहारो जितेन्द्रियः ॥ ८ ॥
ततः पंचदशे वर्षे संप्राप्ते भगवान्रविः ॥
वटवृक्षं समाश्रित्य समीपस्थमुवाच तम् ॥ ९ ॥
॥ श्रीसूर्य उवाच ॥ ॥
वरदोस्म्यद्य भद्रं ते वरं प्रार्थय गालव ॥
अतिदुर्लभमप्याशु तव दास्याम्यसंशयम् ॥६.५६.१०॥
॥ गालव उवाच ॥ ॥
अपुत्रोऽहं सुरश्रेष्ठ पश्चिमे वयसि स्थितः ॥
तस्माद्देहि सुतं मह्यं वंशवृद्धिकरं परम् ॥ ११ ॥
॥ श्रीसूर्य उवाच ॥ ॥
वंशवृद्धिकरो विप्र पुत्रस्तव भविष्यति ॥
तेजस्वी च यशस्वी च शास्त्रज्ञो वेद पारगः॥।२॥
येयं त्वया कृता मेऽर्चा सांबसूर्यस्य संनिधौ ॥
सांबसूर्याभिधानोऽयं भविष्यति धरातले॥।३॥
अन्योऽपि श्रद्रयोपेतो य एनं पूजयिष्यति ॥
सप्तम्यां सूर्यवारेण यावद्द्वादश भास्कराः ॥।४॥
सप्तम्यश्च द्विजश्रेष्ठ निराहारस्तु भक्तितः या ॥
स प्राप्स्यति न संदेहः पुत्रं वंशविवर्धनम् ॥ १५ ॥
एवमुक्त्वा च सप्ताश्वो विरराम दिवाकरः ॥
गालवोऽपि प्रहृष्टात्मा जगाम निजमंदिरम् ॥ १६ ॥
नातिदीर्घेण कालेन ततस्तस्याभव तत्सुतः॥
यथोक्तस्तेन देवेन सर्वलक्षणलक्षितः ॥ १७ ॥
ततश्चक्रे पिता नाम वटेश्वर इति स्वयम् ॥
वटस्थेन यतो दत्तः संतुष्टेनांशुमालिना ॥ १८ ॥
वटेश्वरसुतान्दृष्ट्वा पौत्रांश्च द्विजसत्तमाः ॥
गालवः सूर्यमापन्नः कृत्वा सुविपुलं तपः ॥ १९ ॥
वटेश्वरोऽपि संज्ञाय पित्रा संस्थापितं रविम् ॥
तदर्थं कारयामास प्रासादं सुमनोहरम् ॥ ६.५६.२० ॥
ततःप्रभृति लोके च स वटादित्यसंज्ञितः ॥
पुत्रप्रदो ह्यपुत्राणां विख्यातो भुवनत्रये ॥ २१ ॥
सप्तम्यां सूर्यवारेण उपवासपरायणः ॥
यस्तं पूजयते भक्त्या सप्तमीर्द्वादश क्रमात् ॥
स प्राप्नोति सुतं श्रेष्ठं स्ववंशस्य विवर्धनम् ॥ २२ ॥
निष्कामो वा नरो यस्तु तं पूजयति मानवः ॥
स मोक्षमाप्नुयान्नूनं दुर्लभं त्रिदशैरपि ॥ २३ ॥
अथ गाथा पुरा गीता नारदेन सुरर्षिणा ॥
दृष्ट्वा पुत्रप्रदं देवं वटादित्यं सुरेश्वरम् ॥ २४ ॥
अपि वर्षशता नारी वंध्या वा दुर्भगापि वा ॥
सांबसूर्यप्रसादेन सद्यो गर्भवती भवेत् ॥ २५ ॥
किं दानैः किं व्रतैर्ध्यानैः किं जपैः सोपवासकैः ॥
पुत्रार्थं विद्यमानेऽथ सांबसूर्ये सुरेश्वरे ॥ २६ ॥
वर्षमेकं नरो भक्त्या यः पश्येत्सूर्यवासरे ॥
कृतक्षणोऽत्र पुत्रं स लभते चोत्तमं सुखम्॥ २७ ॥
तस्मात्सर्वप्रयत्नेन तं देवं यत्नतो द्विजाः ॥
पश्येदात्महितार्थाय स्ववंशपरिवृद्धये ॥ २८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सांबादित्यमाहात्म्यवर्णनंनाम षट्पञ्चाशत्तमोऽध्यायः ॥ ॥ ५६॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 57
॥ सूत उवाच ॥ ॥
तस्मिन्क्षेत्रे तथादित्यः स्थापितो द्विजसत्तमाः ॥
भीष्मेण ब्राह्मणेंद्राणां संमतेन तथात्मना ॥ १ ॥
शंतनोर्दयितः पुत्रो गांगेय इति विश्रुतः ॥
आसीत्पुरा वरो नृणामूर्ध्वरेताः सुविश्रुतः ॥ २ ॥
तस्यासीत्तुमुलं युद्धं भार्गवेण समं महत् ॥
त्रयोविंशद्दिनान्येव देवासुररणोपमम्॥
अंबाकृते शितैः शस्त्रैरस्त्रैश्च तदनंतरम्॥ ३ ॥
ततो ब्रह्मादयो देवाः स्वयमेव व्यवस्थिताः ॥
ताभ्यां निवारणार्थाय शांत्यर्थं सर्वदेहिनान् ॥
गताश्च ते समुत्थाप्य पुनरेव त्रिविष्टपम् ॥ ४ ॥
अंबापि प्राप्य परमं गांगेयोत्थं पराभवम् ॥
प्रविष्टा कोपरक्ताक्षी सुसमिद्धे हुताशने॥५॥
भर्त्सयित्वा नदीपुत्रं बाष्पव्याकुललोचना॥
ततःप्रोवाच मध्यस्था वह्नेः कुरुपितामहम्॥६॥
यस्माद्भीष्म त्वया त्यक्ता कामार्ताहं सुदुर्मते॥
तस्मात्तव वधायाशु भविष्यामि पुनः क्षितौ॥७॥
स्त्रीहत्यया समायुक्तस्त्वं च नूनं भविष्यसि॥
प्रमाणं यदि धर्मोऽत्र स्मृतिशास्त्रसमुद्भवः ॥ ८ ॥
ततः स घृणयाऽऽविष्टो भीष्मः कुरुपितामहः ॥
मार्कंडेयं मुनिश्रेष्ठं पप्रच्छ विनयान्वितः॥९॥
भगवन्काशिराजस्य सुतया मे प्रजल्पितम् ॥
मम मृत्युकरं पापं सकलं ते भविष्यति ॥ ६.५७.१० ॥
तत्किं स्याद्वाक्यमात्रेण नो वा ब्राह्मणसत्तम ॥
अत्र मे संशयस्तत्त्वं यथावद्वक्तुमर्हसि॥ ११ ॥
॥ श्रीमार्कंडेय उवाच ॥ ॥
आक्षिप्तस्ताडितो वापि यमुद्दिश्य त्यजेदसून् ॥
स्त्रीजनो वा द्विजो वापि तस्य पापं तु तद्भवेत् ॥ १२ ॥
स्त्रियं वा ब्राह्मणं वापि तस्मान्नैव प्रकोपयेत् ॥
निघ्नंतं वा शपंतं वा यदीच्छेच्छुभमात्मनः ॥ १३ ॥
त्वया पुनर्वराकी सा कामार्ता समुपेक्षिता ॥
जित्वा स्वयंवरे पूर्वं तत्कथं स्यान्न पापभाक् ॥।४॥
॥ भीष्म उवाच ॥ ॥
तदर्थं वद मे ब्रह्मन्प्रायश्चित्तं विशुद्धये ॥
तपो वा यदि वा दानं व्रतं नियममेव वा ॥ १५ ॥
॥ मार्कंडेय उवाच ॥ ॥
दशानां ब्राह्मणेंद्राणां यद्वधे पातकं स्मृतम् ॥
तत्पापं स्त्रीवधे कृत्स्नं जायते भरतर्षभ ॥ १६ ॥
तदत्र विषये दानं न तपो न व्रतादिकम् ॥
तीर्थसेवां परित्यज्य तस्मात्त्वं तां समाचर ॥ १७ ॥
॥ ॥ सूत उवाच ॥ ॥
स तस्य वचनं श्रुत्वा भीष्मः कुरुपितामहः ॥
तीर्थयात्रापरो भूत्वा बभ्राम क्षितिमंडले॥।८॥
ततः क्रमात्समायातो भ्रममाणो महीतले ॥
चमत्कारपुरे क्षेत्रे नानातीर्थसमाकुले ॥ १९ ॥
अथापश्यन्महात्मा स सुपुण्यं तद्गयाशिरः ॥
स्नात्वा श्राद्धं च विधिवद्यावच्छ्रद्धासम न्वितः ॥ ६.५७.२० ॥
चक्रे तावन्नभोवाणी वाक्यमेतदुवाच ह ॥
भीष्मभीष्म महाबाहो नार्हस्त्वं श्राद्धजं विधिम् ॥ २१ ॥
कर्तुं स्त्रीहत्ययायुक्तस्तस्माच्छृणु वचो मम ॥
शर्मिष्ठातीर्थमित्येव ख्यातं पातकनाशनम् ॥ २२ ॥
अस्मात्स्थानात्समीपस्थं वारुण्यां दिशि पुण्यकृत् ॥
कृष्णांगारकषष्ठ्यां यो नरः स्नानं समाचरेत् ॥ २३ ॥
स स्त्रीहत्याकृतात्पापान्मुच्यते नात्र संशयः ॥
तस्मादद्य दिने पुत्र भौमवारसमन्विता ॥ २४ ॥
सैव षष्ठी तिथिः पुण्या तस्मात्तत्र द्रुतं व्रज ॥
अहं तव पिता पुत्र शंतनुः पृथिवीपतिः ॥ २५ ॥
स्त्रीहत्ययान्वितं ज्ञात्वा ततस्तूर्णमिहागतः ॥
ततो भीष्मो द्रुतं गत्वा तत्र स्थाने समाहितः ॥ २६ ॥
स्नानं कृत्वा ततः श्राद्धं चक्रे श्रद्धासमन्वितः ॥
ततो भूयः समागत्य स तं प्रोवाच शतनुः ॥ २७ ॥
विपाप्मा त्वं कुरुश्रेष्ठ संजातोऽसि न संशयः ॥
तस्मान्निजं गृहं गच्छ राज्यचिंतां समाचर ॥ २८ ॥
ततः स विस्मयाविष्टो ज्ञात्वा तीर्थमनुत्तमम् ॥
वासुदेवात्मिकामर्चां तथान्यां कुरुसत्तमः ॥ २९ ॥
पारिजातमयीं मूर्तिं रवेर्लक्षणलक्षिताम् ॥
सुप्रमाणां सुरूपां च श्रद्धापूतेन चेतसा ॥ ६.५७.३० ॥
तथान्यत्स्थापयामास लिंगं देवस्य शूलिनः ॥
दुर्गां च भक्तिसंयुक्तो विधिदृष्टेन कर्मणा ॥ ३१ ॥
ततः सर्वान्समाहूय स विप्रान्पुरसंभवान् ॥
प्रोवाच कौरवो भीष्मो विनयावनतः स्थितः ॥ ३२ ॥
मया विनिर्मितं विप्रा देवागारचतुष्टयम् ॥
एतत्क्षेत्रे च युष्माकं दयां कृत्वा ममोपरि ॥ ३३ ॥
पालयध्वं प्रयास्यामि स्वगृहं प्रति सत्वरम्॥
प्रेरितः पितृभिर्दिव्यैः स्वर्गमार्गसमाश्रितैः ॥ ३४ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
गच्छगच्छ कुरुश्रेष्ठ सुविश्रब्धः स्वमायया ॥
वयं सर्वे करिष्यामो युष्मच्छ्रेयोऽभिवर्धनम् ॥ ३५ ॥
देवश्रेणिरियं राजन्या त्वयात्र विनिर्मिता ॥
अस्याः पूजादिकं सर्वं करिष्यामः सदा वयम्॥ ३६ ॥
तवापि विनयं दृष्ट्वा परितुष्टा वयं नृप ॥
सर्वान्प्रार्थय तस्मात्त्वं वरं स्वं मनसि स्थितम् ॥३७ ॥
॥ भीष्म उवाच ॥ ॥
एष एव वरोऽस्माकं यत्संतुष्टा द्विजोत्तमाः ॥
तथाप्याशु वचः कार्यं युष्मदीयं मयाधुना ॥ ३८ ।१
एतानि देवसद्मानि मदीयानि नरो भुवि ॥
यो यं काममभिध्याय पूजयेच्छ्रद्धयाऽन्वितः ॥
प्रसादादेव युष्माकं तस्य तत्स्यादसंशयम् ॥ ३९ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
आदित्यस्य करिष्यामो यात्रां भाद्रपदे वयम् ॥
सप्तम्यां सूर्यवारेण सर्वदैव समाहिताः ॥ ६.५७.४० ॥
तथा शिवस्य चाष्टम्यां चैत्रशुक्ले विशेषतः ॥
चतुर्दश्यां महाभाग तव स्नेहान्न संशयः ॥ ४१ ॥
शयने बोधने विष्णोः संप्राप्ते द्वादशीदिने ॥
विष्णोरपि च दुर्गायाः संप्राप्ते नवमीदिने ॥४२॥
आश्विने शुक्लपक्षे च गीतवादित्रनिस्वनैः॥
महोत्सवं तथा चित्रैर्हास्यलास्यैः पृथग्विधैः ॥ ४३.॥
यस्तत्र मानवो नित्यं श्रद्धया परया युतः ॥
करिष्यति च गीतादि स यास्यति परां गतिम् ॥ ४४ ॥
वयं तस्य भविष्यामः सदैव प्रीतमानसाः ॥
प्रदास्यामस्तथा कामान्मनसा वांछितान्नृप ॥ ॥ ४५ ॥
एवमुक्त्वाथ ते विप्राः स्वानि स्थानानि भेजिरे ॥
भीष्मोऽपि हर्षसंयुक्तः स्वगृहं प्रस्थितस्ततः ॥ ४६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये गांगेययात्राख्यानंनाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥ ॥ छ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 58
॥ सूत उवाच ॥ ॥
एवं संस्थाप्य गांगेयः पुण्यं देवचतुष्टयम् ॥
ततः संस्थापयामास गंगां त्रिपथगामिनीम् ॥ १ ॥
कूपिकायां महाभाग शिवलिंगस्य पूर्वतः ॥
ततः प्रोवाच तान्हृष्टः संपूज्य द्विजसत्तमान् ॥ २ ॥
अस्यां यः पुरुषः स्नानं कृत्वा मां वीक्षयिष्यति ॥
सर्वपापविनिर्मुक्तः शिवलोकं प्रयास्यति ॥ ३ ॥
करिष्यति तथा यस्तु शपथं चात्र मानवः ॥
असत्यं यास्यति क्षिप्रं स यमस्य गृहं प्रति ॥ ४ ॥
एवमुक्त्वा महाभागो भीष्मः कुरुपितामहः ॥
जगाम स्वपुरं तस्माद्धर्षेण महता वृतः ॥ ५ ॥
॥ सूत उवाच ॥
तत्रासीच्छूद्रसंभूतः पौंड्रकोनाम नामतः ॥
बालभावे समं मित्रैः स क्रीडति दिवानिशम् ॥ ६ ॥
हास्यभावाच्च मित्रस्य पुस्तकं तेन चोरितम् ॥
मित्रैः पृष्टः पौण्ड्रकः स प्राह नैव मया हृतम् ॥ ७ ॥
पुस्तकं चैव युष्माकं चिन्तनीयं सदैव तत् ॥
भवद्भिर्यत्नमास्थाय दृश्यतां क्वापि पुस्तकम् ॥ ८ ॥
कृताश्च शपथास्तत्र स्नात्वा भागीरथीजले ॥
अदुष्टचेतसा तेन दत्तं तत्पुस्तकं हृतम् ॥ ९ ॥
पुनश्च रुचिरं हास्यं कृत्वा तेन समं बहु ॥
अथासावभवत्कुष्ठी तत्क्षणादेव गर्हितः ॥ ६.५८.१० ॥
स त्यक्तो बांधवैः सर्वैः कलत्रैरपि वल्लभैः ॥
ततो वैराग्यमापन्नो भृगुपातं पपात सः ॥ ११ ॥
जातश्च तत्प्रभावेन कुष्ठेन परिवर्जितः ॥
शास्त्रचौर्यकृताद्दोषान्मूकरूपः स हास्यकृत् ॥ १२ ॥
न कार्यः शपथस्तस्मात्तस्याग्रेऽपि लघुर्द्विजाः ॥
अपि हास्योपचारेण आत्मनः सुखमिच्छता ॥ १३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शिवगंगामाहात्म्यवर्णनंनाम अष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 59
॥ सूत उवाच ॥ ॥
तस्मिन्क्षेत्रे रविः पूर्वं विदुरेण प्रतिष्ठितम् ॥
शिवश्च परया भक्त्या तथा विष्णुर्द्विजोत्तमाः ॥ १ ॥
यस्तान्पूजयते भक्त्या मानुषो भक्तितस्ततः ॥
स यास्यति परं स्थानं यज्ञैरपि सुदुर्लभम् ॥२ ॥
हस्तिनापुरसंस्थेन विदुरेण पुरा द्विजाः ॥
गालवो मुनिशार्दूलः पृष्टः स्वगृहमागतः ॥ ३ ॥
अपुत्रस्य गतिर्लोके कीदृक्संजायते परे ॥
एतन्मे पृच्छतो ब्रूहि कृत्वा सद्भावमुत्तमम् ॥ ४ ॥
॥ गालव उवाच ॥ ॥
अपुत्रस्य गतिर्नास्ति मृतः स्वर्गं न गच्छति ॥
द्वादशानामपि तथा यद्येकोऽपि न विद्यते ॥ ५ ॥
औरसः क्षेत्रजश्चैव क्रयक्रीतश्च पालितः ॥
पौनर्भवः पुनर्दत्तः कुंडो गोलस्तथा परः ॥
कानीनश्च सहोढश्च अश्वत्थो ब्रह्मवृक्षकः ॥ ६ ॥
एतेषामपि यद्येकः पुरुषाणां न जायते ॥
तन्नूनं नरके वासः पुंसंज्ञे वै प्रजायते ॥ ७ ॥ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा वचनं तस्य गालवस्य महात्मनः ॥
अपुत्रत्वात्परं दुःखं जगाम विदुरस्तदा ॥ ८ ॥
तप्तस्तं गालवः प्राह मा त्वं दुःखपदं व्रज ॥
मद्वाक्यात्पुत्रकं वृक्षं विष्णुसंज्ञं द्रुतं कुरु ॥९॥
तस्मात्प्राप्स्यसि निःशेषं फलं पुत्रसमुद्भवम् ॥
गत्वा पुण्यतमे देशे रक्तशृंगस्य मूर्धनि ॥६.५९.१०॥
हाटकेश्वरजे क्षेत्रे सर्ववृद्धिशुभोदये ॥
तस्य तद्वचनं श्रुत्वा विदुरस्तत्क्षणाद्ययौ ॥ ११ ॥
तत्स्थानं गालवोद्दिष्टं हर्षेण महतान्वितः ॥
तत्राश्वत्थतरुं स्थाप्य पुत्रत्वे चाभिषेच्य च ॥ १२ ॥
वैवाहिकेन विधिना कृतकृत्यो बभूव ह ॥
ततो बभ्राम तत्क्षेत्रं तीर्थयात्रापरायणः॥ १३ ॥
कीर्तितानि विचित्राणि राजर्षीणां महात्मनाम् ॥
श्रुत्वा स्थानानि गत्वा च ददर्श स्थानदेवताः॥।४ ॥
स दृष्ट्वा कुरुवृद्धस्य कीर्तनानि महात्मनः ॥
ततश्चक्रे मतिं तत्र दिव्यप्रासादकर्मणि ॥ १५ ॥
ततो माहेश्वरं लिंगं वटाधस्ताद्विधाय सः ॥
विष्णुं च स्थापयामास अश्वत्थस्य तरोरधः ॥ १६ ॥
निवेश्य च तथा दिव्यं ब्राह्मणेभ्यो न्यवेदयत् ॥
एतद्देवत्रयं क्षेत्रे युष्माकं हि मया कृतम् ॥
भवद्भिः सकला चास्य चिन्ताकार्या सदैव हि ॥ १७ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
वयमस्य करिष्यामो यात्राद्याः सकलाः क्रियाः ॥ १८ ॥
तथा वंशोद्भवा ये च पुत्राः पौत्रास्तथापरे ॥
करिष्यंति क्रियाः सर्वास्त्वं गच्छ स्वगृहं प्रति ॥ १९ ॥
ततो जगाम विदुरः स्वपुरं प्रति हर्षितः ॥
कृतकृत्यो द्विजास्ते च चक्रुर्वाक्यं तदुद्भवम्॥ ६.५९.२० ॥
माघमासस्य सप्तम्यां सूर्यवारेण यो नरः ॥
पूजयेद्भास्करं तत्र स याति परमां गतिम् ॥ २१ ॥
शिवं वा सोमवारेण शुक्लाष्टम्यां विशेषतः ॥
शयने बोधने विष्णुं सम्यक्छ्रद्धासमन्वितः ॥ २२ ॥
तस्मात्सर्वप्रयत्नेन देवानां तत्त्रयं शुभम् ॥
पूजनीयं विशेषेण नरैः स्वर्गतिमीप्सुभिः ॥ २३ ॥
तत्र सिद्धिं गताः पूर्वं मुनयः संशितव्रताः ॥
विदुरेश्वरमाराध्य शतशोऽथ सहस्रशः ॥ २४ ॥
ततस्तत्सिद्धिदं ज्ञात्वा लिंगं वै पाकशासनः ॥
पांसुभिः पूरयामास यथा कश्चिन्न बुध्यते ॥ २५ ॥
कस्यचित्त्वथ कालस्य विदुरस्तत्र चागतः ॥
दृष्ट्वा लोपगतं लिंगं दुःखेन महतान्वितः ॥ २६ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
मा त्वं कुरु विषादं हि लिंगार्थे विदुराधुना ॥२७॥।
योऽयं स दृश्यते वालो वटस्तस्य तले स्थिता ॥
देवद्रोणिः सुरेशेन पांसुभिः परिपूरिता ॥ २८ ॥
ततो गजाह्वयात्तूर्णं समानीय धनं बहु ॥
शोधयामास तत्स्थानं दिवारात्रमतन्द्रितः ॥ २९ ॥
ततो विलोक्य तान्देवान्हर्षेण महतान्वितः ॥
प्रासादं निर्ममे तेषां योग्यं साध्वभिसंस्थितम् ॥ ॥ ६.५९.३० ॥
कैलासशिखराकारं भास्करार्थे महामुनिः ॥
जटामध्यगतं दृष्ट्वा वटस्य च महेश्वरम् ॥ ३१ ॥
प्रासादं नाकरोत्तत्र लिंगं यावन्न चालयेत् ॥
वासुदेवस्य योग्यां च कृत्वा शालां बृहत्तराम् ॥ ३२ ॥
दत्त्वा वृत्तिं च संहृष्टो ब्राह्मणेभ्यो निवेद्य च ॥
जगाम स्वाश्रमं भूयो विप्रानामंत्र्य तांस्ततः ॥ ३३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विदुरकृतदेवप्रासादवृत्तान्त वर्णनंनामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 60
॥ ऋषय ऊचुः ॥ ॥
माहित्थेयं त्वयाख्याता या पुरा सूतनन्दन ॥
केन संस्थापिता तत्र वद सर्वमशेषतः ॥ १ ॥
॥ सूत उवाच ॥ ॥
शोषणीनाम या विद्या पुरागस्त्येन साधिता ॥
आथर्वणेन मन्त्रेण स्वयं च परमेश्वरी ॥ ॥ २ ॥
ततः संशोषितस्तेन स समुद्रो महात्मना ॥
मित्रावरुणपुत्रेण सा प्रोक्ता पुरतः स्थिता ॥ ३ ॥
माहित्थं साधितं यस्मात्त्वया मे सकलं शुभम् ॥
माहित्थानाम तस्मात्त्वं देवता संभविष्यसि ॥ ४ ॥
चमत्कारपुरक्षेत्रे पूजां प्राप्स्यस्यनुत्तमाम् ॥
यस्त्वामाथर्वणैर्मन्त्रैस्तत्रस्थां भक्तिसंयुतः ॥ ५ ॥
पूजयिष्यति वृद्धिं च सर्वकालमवाप्स्यति ॥
तस्मात्तत्र द्रुतं गच्छ मया सार्द्धं पुरोत्तमे ॥ ६ ॥
द्विजानां रक्षणार्थाय नित्यं संनिहिता भव ॥
एवं सा तत्र संभूता माहित्था वरदेवता ॥ ७ ॥
ययाऽयं चलितः शैलः स्वशक्त्या निश्चलीकृतः ॥
स्कन्देनेह द्विजश्रेष्ठाः शक्त्या विद्धस्तदग्रतः ॥ ॥
नरादित्यस्ततश्चान्यो यो नरेण प्रतिष्ठितः ॥
षष्ठ्यां तं सूर्यवारेण दृष्ट्वा पापात्प्रमुच्यते ॥ ९ ॥
न शत्रूणां पराभूतिं प्रयास्यति यथार्जुनः ॥
रोगी विमुच्यते रोगाद्दरिद्रो धनमाप्नुयात् ॥ ६.६०.१० ॥
तथा गोवर्धनधरं तत्र देवं जनार्दनम् ॥
यः पश्येत्कार्तिके शुक्ले संप्राप्ते प्रथमे दिने॥
तस्य गावः प्रभूताः स्युर्नीरोगा द्विसत्तमाः ॥ ११ ॥
नरसिंहवपुः साक्षात्तथा देवो हरिः स्वयम् ॥
तथा विनायकस्तत्र सर्वकामप्रदायकः ॥
सर्वविघ्नहरश्चैव स्थापितश्चार्जुनेन हि ॥ १२ ॥
यस्तं पूजयते भक्त्या चतुर्थ्यां मोदकाशनैः ॥
स सर्वविघ्ननिर्मुक्तो लभते वांछितं फलम् ॥
तत्र स्थितो द्विजेंद्राणां हिताय द्विजसत्तमाः ४१३ ॥
यस्तमाथर्वणैर्मंत्रैः पूजयेद्द्वादशीदिने ॥
कार्तिकस्य सिते पक्षे स याति परमां गतिम् ॥ १४ ॥
तथा तत्र द्विजश्रेष्ठा नरनारायणावुभौ ॥
देवौ परमतेजस्वी यस्तौ पश्यति भक्तितः ॥ १५ ॥
पूजयेच्च द्विजश्रेष्ठा द्वादश्या दिवसे स्वयम् ॥
स याति परमं स्थानं जरामरणवर्जितम् ॥ १६ ॥
तीर्थयात्राकृतारंभः कुन्तीपुत्रो धनंजयः ॥
हाटकेश्वरजे क्षेत्रे समायातो द्विजोत्तमाः ॥ १७ ॥
दृष्ट्वा तत्पावनं क्षेत्रं तीर्थपूगप्रपूरितम्॥
आदित्यं स्थापयामास प्रासादे सुमनोहरे ॥ १८ ॥
नरनारायणौ देवौ तस्याग्रे स्थापितौ ततः ॥
तथा गोवर्धनधरस्तत्र देवः प्रतिष्ठितः ॥ १९ ॥
नरसिंहं तथैवान्यं श्रद्धया परया युतः ॥
एवं संस्थाप्य कौंतेयो देवगृहसुपंचकम् ॥ ६.६०.२० ॥
ततो विप्रान्समाहूय सर्वांस्तान्पुरसंभवान् ॥
प्रोवाच प्रणतो भक्त्या धनं दत्त्वा सुपुष्कलम् ॥ २१ ॥
मया संस्थापितः सूर्यः सर्वरोगक्षयावहः ॥
तथार्पितश्च युष्माकं चिंतनीयं सदैव तु ॥ २२ ॥
॥ विप्रा ऊचुः ॥ ॥
गच्छ त्वं पांडवश्रेष्ठ सुविश्रब्धः स्वमालयम् ॥
वयं सर्वे करिष्यामस्तवश्रेयोऽभिवर्धनम् ॥ २३ ॥
ततोऽर्जुनः प्रहृष्टात्मा तेभ्यो दत्त्वा धनं बहु॥
तानामंत्र्य नमस्कृत्य जगाम स्वपुरं प्रति ॥ २४ ॥
।। सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं नरादित्यस्य संभवम् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः शृण्वतां पापनाशनम् ॥ २५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नरादित्यमाहात्म्यवर्णनंनाम षष्टितमोऽध्यायः ॥ ६० ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 61
॥ ऋषय ऊचुः ॥ ॥
शर्मिष्ठातीर्थमित्युक्तं त्वया यच्च महामते ॥
कथं जातं महाभाग किंप्रभावं तु तद्वद ॥ १ ॥
॥ सूत उवाच॥ ॥
आसीद्राजा वृकोनाम सोमवंश समुद्भवः ॥
ब्रह्मण्यश्च शरण्यश्च सर्वलोकहिते रतः ॥ २ ॥
तस्य भार्याऽभवत्साध्वी प्राणेभ्योऽपि गरीयसी ॥
सर्वलक्षणसंपन्ना पतिव्रतपरायणा ॥ ॥ ३ ॥
अथ तस्यां समुत्पन्ना प्राप्ते वयसि पश्चिमे ॥
कन्यका दिवसे प्राप्ते सर्वशास्त्रविगर्हिते ॥ ४ ॥
तत आनीय विप्रान्स ज्योतिर्ज्ञानविचक्षणान् ॥
पप्रच्छ कीदृशी कन्या ममेयं संभविष्यति ॥ ५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
या कन्या प्राप्नुयाज्जन्म चित्रासंस्थे दिवाकरे ॥
चंद्रे वापि चतुर्दश्यां सा भवेद्विषकन्यका ॥ ६ ॥
यस्तस्याः प्रतिगृह्णाति पाणिं पार्थिवसत्तम ॥
षण्मासाभ्यंतरे मृत्युं स प्राप्नोति नरो ध्रुवम् ॥ ७ ॥
यस्मिन्सा जायते हर्म्ये षण्मासाभ्यंतरे च तत् ॥
करोति विभवैर्हीनं धनदस्याप्यसंशयम् ॥ ८ ॥
सेयं तव सुता राजन्यथोक्ता विष कन्यका ॥
पैतृकं श्वाशुरीयं च हनिष्यति गृहद्वयम् ॥ ९ ॥
तस्मादिमां परित्यज्य सुखी भव नराधिप ॥
श्रद्दधासि वचोऽस्माकं हित मुक्तं यदि प्रभो ॥ ६.६१.१० ॥
॥ राजोवाच ॥ ॥
त्यक्ष्यामि यदि नामैतां धारयिष्यामि वा गृहे ॥
अन्यदेहोद्भवं कर्म फलिष्यति तथापि मे ॥ ११ ॥
शुभं वा यदि वा पापं न तु शक्यं प्ररक्षितुम् ॥
तस्मात्कर्म पुरस्कृत्य नैव त्यक्ष्यामि कन्यकाम् ॥ १२ ॥
येनयेन शरीरेण यद्यत्कर्म करोति यः ॥
तेनतेनैव भूयः स प्राप्नोति सकलं फलम् ॥ १३ ॥
यस्यां यस्यामवस्थायां क्रियतेऽत्र शुभाशुभम् ॥
तस्यां तस्यां ध्रुवं तस्य फलं तद्भुज्यते नरैः ॥ १४ ॥
न नश्यति पुराकर्म कृतं सर्वेंद्रियैरिह ॥
अकृतं जायते नैव तस्मान्नास्ति भयं मम ॥ १५ ॥
आयुः कर्म च वित्तं च विद्या निधनमेव च ॥
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ १६ ॥
यथा वृक्षेषु वल्लीषु कुसुमानि फलानि च ॥
स्वकालं नातिवर्तंते तद्वत्कर्म पुराकृतम् ॥ १७ ॥
येनैव यद्यथा पूर्वं कृतं कर्म शुभाशुभम् ॥
स एव तत्तथा भुंक्ते नित्यं विहितमात्मनः ॥ १८ ॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ॥
तथैवं कोटिमध्यस्थं कर्तारं कर्म विन्दति ॥ १९ ॥
अन्यदेहकृतं कर्म न कश्चित्पुरुषो भुवि ॥
बलेन प्रज्ञया वापि समर्थः कर्तुमन्यथा ॥ ६.६१.२० ॥
अन्यथा शास्त्रगर्भिण्या धिया धीरो महीयते ॥
स्वामिवत्प्राक्कृतं कर्म विदधाति तदन्यथा ॥ २१ ॥
स्वकृतान्युपतिष्ठंति सुखदुःखानि देहिनाम् ॥
हेतुभूतो हि यस्तेषां सोऽहंकारेण बध्यते ॥ २२ ॥
सुशीघ्रमभिधावन्तं निजं कर्मानुधावति ॥
शेते सह शयानेन तिष्ठन्तमनुतिष्ठति ॥ २३ ॥
यथा छायातपौ नित्यं सुसंबद्धौ परस्परम् ॥
तथा कर्म च कर्ता च नात्र कार्या विचारणा ॥ २९ ॥
येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव वा ॥
नरः स बद्धो रज्ज्वेव बलात्तत्रैव नीयते ॥ २५ ॥
प्रमाणं कर्मभूतानां सुखदुःखोपपादने ॥
सावधानतया यच्च जाग्रतां स्वपतामपि ॥ २६ ॥
तैलक्षये यथा दीपो निर्वाणमधिगच्छति ॥
कर्मक्षये तथा जंतुर्निर्वाणमधिगच्छति ॥ २७ ॥
न मन्त्रा न तपो दानं न तीर्थं न च संयमः ॥
समर्था रक्षितुं जंतुं पीडितं पूर्वकर्मभिः ॥ २८ ॥
संगत्या जठरे न्यस्तो रेतोबिन्दुरचेतनः ॥
ऋतुकाले मनुष्येण वृद्धिं गच्छति कर्मतः ॥ २९ ॥
अन्नपानानि जीर्यंति यत्र भक्ष्यं च भक्षितम् ॥
तस्मिन्नेवोदरे गर्भः कथं नाम न जीर्यति ॥ ६.६१.३० ॥
तस्मात्कर्मकृतं सर्वं देहिनामत्र जायते ॥
शुभं वा यदि वा पापमिति मे निश्चयः सदा ॥ ३१ ॥
अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति ॥
जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥ ३२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये विषकन्यकोत्पत्तिवर्णनंनामैकषष्टितमोऽध्यायः ॥ ६१ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 62
॥ सूत उवाच ॥ ॥
एवं स निश्चयं कृत्वा पार्थिवो द्विजसत्तमाः ॥
नात्यजत्तां तथोक्तोऽपि दैवज्ञैर्विषकन्यकाम् ॥
दीयमानामपि प्रीत्या न च गृह्णाति भूभुजा ॥ १ ॥
शर्मणष्ठीवनं यस्मात्तया स्वपितुराहितम् ॥
शर्मिष्ठेति सुविख्याता ततः सा ह्यभवद्भुवि ॥ २ ॥
एतस्मिन्नंतरे तस्य शत्रवः पृथिवीपतेः ॥
सर्वतः पीडयामास राष्ट्रं क्रोधसमन्विताः। ॥३॥
अथा सौ पार्थिवः क्रुद्धः स्वसैन्यपरिवारितः ॥
युद्धाय निर्ययौ स्थानान्मृत्युं कृत्वा निवर्तने ॥४॥
ततः संप्राप्य ताञ्छत्रूंश्चकार स महाहवम् ॥
चतुरंगेन सैन्येन यमराष्ट्रविवर्धनम् ॥ ५॥
ततश्च दशमे प्राप्ते शत्रुभिः स महीपतिः ॥
निहतो दिवसे सर्वैर्वेष्टयित्वा समन्ततः ॥ ६ ॥
ततस्तस्य नरेन्द्रस्य हतशेषाश्च ये नराः ॥
भयार्तास्ते द्रुतं जग्मुः स्वपुरं प्रति दुःखिताः ॥ ७ ॥
तेपि शत्रुगणाः सर्वे संप्रहृष्टा जिगीषवः ॥
तत्पुरं वेष्टयामासुस्तत्पुत्रोच्छेदनाय वै ॥ ८ ॥
एतस्मिन्नंतरे पौराः सर्वे शोकपरायणाः ॥
जगर्हुः परुषैर्वाक्यैर्दुष्टां तां विषकन्यकाम् ॥९॥
अस्या दोषेण पापाया मृतश्च स महीपतिः॥
तथा राष्ट्रस्य विध्वंसे भविष्यति पुरः क्षयः ॥ ६.६२.१० ॥
उक्तः स नृपतिः पूर्वं ब्राह्मणैर्ज्ञानिभिस्तदा ॥
त्यजैनां बहुदोषाढ्यां निन्दितां विषकन्यकाम् ॥॥॥
न तेन तत्कृतं वाक्यमपि तेषां हितैषिणाम् ॥
स्नेहपाशनिबद्धेन दयाढ्येन महात्मना॥।२॥
तस्मादद्यापि पापैषा वध्यतामाशु कन्यका ॥
निर्यास्यतां पुरादस्माद्यावन्न स्यात्पुरक्षयः ॥ १३ ॥
॥ सूत उवाच ॥ ॥
सापि श्रुत्वा जनोक्तांस्तानपवादान्पृथग्विधान् ॥
वैराग्यं परमं गत्वा निंदां चक्रे तथात्मनः ॥ १४ ॥
ततो रात्रौ विनिष्क्रम्य भयशोकसमन्विता ॥
प्रतस्थेऽरण्यमासाद्य मरणे कृतनिश्चया ॥।५॥
अथ दृष्टं तया क्षेत्रं हाटकेश्वरजं महत् ॥
तपस्विभिः समाकीर्णं चित्ताह्लादकरं परम् ॥ १६ ॥
अथ तस्याः स्मृतिर्जाता पूर्वजन्मसमुद्भवा ॥
चंडालत्वे मया पूर्वं गौरेका वितृषीकृता ॥ १७ ॥
तत्प्रभावादहं जाता सुपुण्ये नृपमंदिरे ॥
क्षेत्रस्यास्य प्रभावेन तस्मादत्रैव मे स्थितिः ॥ १८ ॥
सूत उवाच ॥ ॥
अन्यदेहांतरे ह्यासीच्चंडाली सा विगर्हिता ॥
बहुप्रसूतिसंयुक्ता दरिद्रेण कदर्थिता ॥ १९ ॥
अथ सा भ्रममाणाऽत्र क्षेत्रे प्राप्ता तृषार्दिता ॥
मध्यंदिनगतेसूर्ये ज्येष्ठमासे सुदारुणे ॥ ६.६२.२० ॥
अथापश्यत्स्तोकजलां सा तत्र लघुकूपिकाम् ॥
तृषार्तां कपिलां गां वर्तमानां तदां तिके ॥ २१ ॥
ततो दयां समाश्रित्य त्यक्त्वा स्नेहं सुतोद्भवम् ॥
आत्मनश्च तथा प्राणान्गां वितृष्णामथाकरोत् ॥ २२ ॥
जलाभावे तथा सा च समस्तैर्बालकैः सह ॥
वैवस्वतगृहं प्राप्ता गोभक्तिधृतमानसा ॥ २३ ॥
ततो नृपगृहे जाता तत्प्रभावाद्द्विजोत्तमाः ॥
पूर्वकर्मविपाकेन संजाता विष कन्यका ॥ २४ ॥
॥ ऋषय ऊचुः ॥ ॥
केन कर्मविपाकेन संजाता विषकन्यका ॥
स्वकुलोच्छेदनकरी सर्वं सूत ब्रवीहि नः ॥ २५ ॥
॥ सूत उवाच ॥ ॥
चंडालत्वे तया विप्रा वर्तंत्या भ्रममाणया ॥
देवतायतने दृष्टा गौरी हेममयी शुभा ॥ २६ ॥
ततस्तां विजने प्राप्य गत्वा देशांतरं मुदा॥
यावत्करोति खंडानि विक्रयार्थं सुनिंदिता ॥
तावदन्वेषमाणास्तां संप्राप्ता नृपसेवकाः ॥२७॥
अथ ते तां समालोक्य भर्त्सयित्वा मुहुर्मुहुः॥
संताड्य लकुटाघातैर्लोष्टघातैश्च मुष्टिभिः ॥ २८ ॥
ततः सुवर्णमादाय त्यक्त्वा तां रुधिरप्लुताम् ॥
अवध्यैषेति संचिंत्य स्वपुरं प्रति ते गताः ॥२९॥
यत्तया पार्वती स्पृष्टा ततो वै खण्डशः कृता ॥
तेन कर्मविपाकेन संजाता विषकन्यका ॥ ६.६२.३० ॥
ततः संस्मृतिमासाद्य पूर्वजन्मसमुद्भवाम् ॥
माहात्म्यं जलदानस्य गोपीतस्य विचार्य च ॥
चकार कूपिकास्थाने तडागं विमलोदकम् ॥३॥।
समुद्रप्रतिमं चारु पद्मिनीखंडमंडितम् ॥
मत्स्यकच्छपसंकीर्णं शिशुमारविराजितम् ॥ ३२ ॥
सेवितं बहुभिर्हंसैर्बकैश्चक्रैः समंततः ॥
अगाधसलिलं पुण्यं सेवितं जलजंतुभिः ॥ ३३ ॥
प्रासादं तत्समीपस्थं साधु दृष्टिमनोहरम् ॥
कारयित्वातिसंभक्त्या कैलासशिखरोपमम् ॥ ३४ ॥
ततस्तत्र तपस्तेपे गौरीं संस्थाप्य भक्तितः॥
तदग्रे व्रतमास्थाय यथोक्तं शास्त्र संभवम्॥ ३५ ॥
प्रातः स्नात्वा तु हेमंते गौरीं संपूज्य भक्तितः॥
बलिपूजोपहारैश्च विप्रदानादिभिस्तथा ॥ ३६ ॥
ततश्च शिशिरे प्राप्ते सायं प्रातः समाहिता ॥
एकांतरोपवासैः सा स्नानं चक्रे नृपात्मजा ॥ ३७ ॥
वसंते नृत्यगीतैश्च तोषयामास पार्वतीम् ॥
षष्ठकालाशना साध्वी सस्यदानपरा यणा ॥ ३८ ॥
पञ्चाग्निसाधका ग्रीष्मे फलाहारं तपस्विनी ॥
चकार श्रद्धयोपेता वृकभूमिपतेः सुता ॥ ३९ ॥
वर्षासु च जलाहारा भूत्वा सा विष कन्यका ॥
आकाशे शयनं चक्रे परित्यक्तकुटीरका ॥ ६.६२.४० ॥
वायुभक्षा सती चाऽथ साऽनयच्छरदं ततः ॥
कृतजप्यपरा नित्यं पार्वतीगतमानसा ॥४॥।
एवमाराधयंत्याश्च तस्या देवीं गिरेः सुताम् ॥
जगाम सुमहान्कालो न लेभे फलमीहितम् ॥४२॥
मुखं वलिभिराक्रान्तं पलितैरंकितं शिरः॥
कन्याभावेपि वर्तंत्या न च तुष्टा हरप्रिया ॥ ४३ ॥
कस्यचित्त्वथ कालस्य तत्परीक्षार्थमेव सा ॥
शक्राणीरूपमास्थाय ततः सन्दर्शनं गता ॥४४॥
सुधावदातं सूर्याभं कैलासशिखरोपमम् ॥
सुप्रलंबकरं मत्तं चतुर्दंतं महागजम् ॥ ४५ ॥
समास्थाय वृता स्त्रीभिर्देवानां सर्वतो दिशम् ॥
दधती मुकुटं मूर्ध्नि हारकेयूरभूषिता ॥ ४६ ॥
पांडुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥
सेव्यमानाऽप्सरोभिश्च स्तूयमाना च किन्नरैः ॥ ४७ ॥
गन्धर्वैर्गीयमानासीत्ततः प्रोवाच सादरम् ॥
वरं यच्छामि ते पुत्रि प्रार्थयस्व यथेप्सितम् ॥ ४८ ॥
अनेन तपसा तुष्टा पुष्कलेन तवाधुना ॥
अहं भार्या सुरेन्द्रस्य शचीति परिकीर्तिता ॥
त्रैलोक्येऽपि स्वयं प्राप्ता दयां कृत्वा तवोपरि ॥ ४९ ॥
त्वया महत्तपस्तप्तं ध्यायंत्या हरवल्लभाम् ॥
तपसा तुष्टिमायाता भवानी न सुनिष्ठुरा ॥ ६.६२.५० ॥
॥ सूत उवाच ॥ ॥
सा तस्या वचनं श्रुत्वा शक्राण्या विषकन्यका ॥
नमस्कृत्वाऽथ तामूचे कृतांजलिपुटा स्थिता ॥ ५१ ॥
॥ विषकन्योवाच ॥ ॥
नाहं त्वत्तो वरं देवि प्रार्थयामि कथञ्चन ॥
तथान्यासामपींद्राणि देवतानामसंशयम्॥ ५२ ॥
अप्यहं नरकं रौद्रं प्रगच्छामींद्रवल्लभे ॥
हरकांता समादेशान्न स्वर्गेऽपि तवाज्ञया ॥ ५३ ॥
अनादिमध्यपर्य्यन्ता ज्ञानैश्वर्यसम न्विता ॥
या देवी पूज्यते देवैर्वरं तस्या वृणोम्यहम्॥ ५४ ॥
यामाराधयते विष्णुर्ब्रह्मा रुद्रश्च वासवः ॥
वांछितार्थं सदा देवीं वरं तस्या वृणो म्यहम् ॥ ५५ ॥
यया व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ॥
स्त्रीरूपैर्विविधैर्देव्या वरं तस्या वृणोम्यहम् ॥ ५६ ॥
॥ श्रीदेव्युवाच ॥ ॥
अहं भार्या सुरेन्द्रस्य प्राणेभ्योऽपि गरीयसी ॥
ममाज्ञां पालयन्ति स्म देवदानवपन्नगाः ॥ ५७ ॥
किंनरा गुह्का यक्षाः किं पुनर्मर्त्यधर्मिणः ॥
तस्मात्त्वं किं न गृह्णासि वरं मत्तः कुतापसि ॥ ५८ ॥
तन्नूनं वज्रघातेन चूर्णयिष्यामि ते शिरः ॥
तस्यास्तद्वचनं श्रुत्वा तापस्यथ ततो द्विजाः ॥ ५९ ॥
धैर्यमालंब्य तां प्राह भूय एव सुरेश्वरीम् ॥
स्वामिनी त्वं हि देवानां सत्यमेतदसंशयम् ॥ ६.६२.६० ॥
यस्याः प्राप्तं त्वयैश्वर्यं परा तां तोषयाम्यहम् ॥
स्वल्पमप्यपराधं ते न करोमि सुरेश्वरि ॥ ६१ ॥
तथापि वधयोग्यां मां मन्यसे विक्षिपायुधम् ॥
अन्यच्चापि वचो मह्यं शक्राणि शृणु सादरम् ॥ ॥ ६२ ॥
तच्छुत्वा कुरु यच्छ्रेयो विचिन्त्य मनसा ततः ॥
न त्वं न ते पतिः शक्रो न चान्येपि सुरासुराः ॥
मां निषूदयितुं शक्ताः पार्वत्यां शरणं गताम् ॥ ६३ ॥
तस्माद्द्रुतं दिवं गच्छ मा त्वं कोपं वृथा कुरु ॥
सन्मार्गे वर्तमानायां मम सर्वसुरेश्वरि ॥ ६४ ॥
॥ सूत उवाच ॥ ॥
एवं सा तां शचीमुक्त्वा दुःखिता विषकन्यका ॥
चिन्तयामास तदिदं मरणे कृतनिश्चया ॥ ६५ ॥
न प्रसीदति मे देवी यस्मात्पर्वतनंदिनी ॥
तस्मान्मां यदि शक्राणी नैषा व्यापादयिष्यति ॥ ६६ ॥
तन्नूनं ज्वलनं दीप्तं सेवयिष्यामि सत्वरम् ॥
अथापश्यत्क्षणेनैव तं चैरावणवारणम् ॥ ६७ ॥
दुग्धकुंदेन्दुसंकाशं संजातं सहसा वृषम् ॥
तस्योपरि स्थितां देवीं शंभुना सह पार्वतीम् ॥ ६८ ॥
चतुर्भुजां प्रसन्नास्यां दिव्यरूपसमन्विताम् ॥
शुक्लमाल्यांबरधरां चन्द्रार्धकृतमस्तकाम् ॥ ६९ ॥
ततः सम्यक्समालोक्य ज्ञात्वा तां पर्वतात्मजाम् ॥
विषकन्या स्तुतिं चक्रे प्रणिपत्य मुहुर्मुहुः ॥ ६.६२.७० ॥
नमस्ते देवदेवेशि नमस्ते सर्ववासिनि ॥
सर्वकामप्रदे सत्ये जरामरणवर्जिते ॥ ७१ ॥
शक्रादयोऽपि देवास्ते परमार्थेन नो विदुः ॥
स्वरूपवर्णनं कर्तुं किं पुनर्देवि मानुषी ॥ ७२ ॥
यस्याः सर्वं महीव्योमजलाग्निपवनात्मकम् ॥
ब्रह्मांडमंगसंभूतं सदेवासुरमानुषम् ॥ ७३ ॥
न तस्या जन्मनि ब्रह्मा न नाशाय महेश्वरः ॥
पालनाय न गोविंदस्तां त्वां स्तोष्याम्यहं कथम्॥७४॥
तथाष्टगुणमैश्वर्यं यस्याः स्वाभाविकं परम् ॥
निरस्तातिशयं लोके स्पृहणीयतमं सदा ॥ ७५ ॥
यस्या रूपाण्यनेकानि सम्यग्ध्यानपरायणाः ॥
ध्यायंति मुनयो भक्त्या प्राप्नुवंति च वांछितम् ॥ ७६ ॥
हृदि संकल्प्य यद्रूपं ध्यानेनार्चंति योगिनः ॥
सम्यग्भावात्मकैः पुष्पैर्मोक्षाय कृत निश्चयाः ॥ ७७ ॥
तां देवीं मानुषी भूत्वा कथं स्तौमि महेश्वरीम् ॥ ७८ ॥
॥ देव्युवाच ॥ ॥
परितुष्टास्मि ते पुत्रि वरं प्रार्थय सुव्रते ॥
असंदिग्धं प्रदास्यामि यत्ते हृदि सदा स्थितम् ॥ ७९ ॥
॥ विषकन्योवाच ॥ ॥
भर्तुरर्थे मया देवि कृतोऽयं तपउद्यमः ॥
तत्किं तेन करिष्यामि सांप्रतं जरयावृता ॥ ६.६२.८० ॥
तस्मादत्राऽऽश्रमे साकं त्वया स्थेयं सदैव तु ॥
हिताय सर्वनारीणां वचनान्मम पार्वति ॥ ८१ ॥ ॥
॥ श्रीदेव्युवाच ॥ ॥
अद्यप्रभृत्यहं भद्रे श्रेष्ठेऽस्मिन्नाश्रमे शुभे ॥
स्वमाश्रमं करिष्यामि यत्ते हृदि समाश्रितम् ॥ ८२ ॥
माघशुक्लतृतीयायां या ऽत्र स्नानं करिष्यति ॥
नारी सा मत्प्रसादेन लप्स्यते वांछितं फलम् ॥ ८३ ॥
अपि कृत्वा महापापं नारी वा पुरुषोऽथवा ॥
यत्र स्नात्वा प्रसादान्मे विपाप्मा संभविष्यति ॥ ८४ ॥
अत्र ये फलदानं च प्रकरिष्यंति मानवाः ॥
सफलाः सकलास्तेषामाशाः स्युर्नात्र संशयः ॥ ८५ ॥
अपि हत्वा स्त्रियं मर्त्यो योऽत्र स्नानं करिष्यति॥
माघशुक्लतृतीयायां विपाप्मा स भविष्यति ॥ ८६ ॥
या तत्र कन्यका भद्रे स्नानं भक्त्या करि ष्यति ॥
तस्मिन्दिने पतिश्रेष्ठं लप्स्यते नात्र संशयः ॥ ८७ ॥
॥सूत उवाच ॥ ॥
एवमुक्त्वा ततो गौरी तां च पस्पर्श पाणिना ॥
ततश्च तत्क्षणाज्जाता दिव्यरूपवपुर्द्धरा ॥ ८८ ॥
वृद्धत्वेन परित्यक्ता दिव्यमाल्यानुलेपना ॥
पीनोन्नतकुचाभोगा प्रमत्तगजगामिनी ॥ ८९ ॥
ततस्तां सा समादाय विधाय निजकिंकरीम् ॥
कैलासं पर्वतश्रेष्ठं जगाम हरसंयुता ॥ ६.६२.९० ॥
ततःप्रभृति तत्तीर्थं शर्मिष्ठातीर्थमुच्यते ॥
प्रख्यातं त्रिषु लोकेषु सर्वपातकनाशनम् ॥ ९१ ॥
तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥
माघशुक्लतृतीयायां यथावद्द्विजसत्तमाः ॥ ९२ ॥
एतत्पवित्रमायुष्यं सर्व पातकनाशनम् ॥
स्त्रीतीर्थसंभवं नॄणां माहात्म्यं यन्मयोदितम् ॥ ९३ ॥
यश्चैतत्प्रातरुत्थाय सदा पठति मानवः ॥
स सर्वाँल्लभते कामान्मनसा वांछितान्सदा ॥९४॥
तथा पर्वणि संप्राप्ते यश्चैतत्पठते नरः ॥
शृणोति चाशु भक्त्या यः स याति शिवमंदिरम्॥९५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये शर्मिष्ठातीर्थमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 63
॥ सूत उवाच ॥ ॥
अथ सोमेश्वराख्यं च तत्र लिंगं सुशोभनम् ॥
अस्ति ख्यातं त्रिलोकेऽत्र स्वयं सोमेन निर्मितम् ॥ १ ॥
सोमवारेण यस्तत्र वत्सरं यावदर्चयेत् ॥
क्षणं कृत्वा स रोगेण दारुणेनापि मुच्यते ॥२॥
यक्ष्मणापि न संदेहः किं पुनः कुष्ठपूर्वकैः ॥
तस्मात्सर्वप्रयत्नेन रोगार्त्तस्तं प्रपूजयेत् ॥३॥
तदाराध्य पुरा सोमः क्षयव्याधिसमन्वितः ॥
बभूव नीरुग्देहोऽसौ यथा पांड्यो नराधिपः ॥ ४ ॥
॥ ऋषय ऊचुः ॥ ॥
ओषधीनामधीशस्य कथं सोमस्य सूतज ॥
क्षयव्याधिः पुरा जाता उपशांतिं कथं गतः ॥५॥
एतन्नः सर्वमाचक्ष्व विस्तरेण महामते॥
तथा तस्य महीपस्य पांड्यस्यापि कथां शुभाम् ॥ ६ ॥
॥ सूत उवाच ॥ ॥
दक्षस्य कन्यकाः पूर्वं सप्तविंशतिसंख्यया ॥
उपयेमे निशानाथो देवाग्निगुरुसंनिधौ ॥ ७ ॥
नक्षत्रसंज्ञिता लोके कीर्त्यंते या द्विजोत्तमैः ॥
दैवज्ञैरश्विनीपूर्वा रूपौदार्यगुणान्विताः ॥८॥
अथ तासां समस्तानां मध्ये तस्य निशापतेः ॥
रोहिणी वल्लभा जज्ञे प्राणेभ्योऽपि गरीयसी ॥ ९ ॥
ततः समं परित्यज्य सर्वास्ता दक्षकन्यकाः ॥
रोहिण्या सह संयुक्तः संबभूव दिवानिशम् ॥ ६.६३.१० ॥
ततस्ताः काम संतप्ता दौर्भाग्येन समन्विताः ॥
प्रोचुर्दुःखान्विता दक्षं गत्वा बाष्पप्लुताननाः ॥ ११ ॥
वयं यस्मै त्वया दत्ताः पत्न्यर्थं तात पापिने॥
ऋतुमात्रमपि प्रीत्या सोऽस्माकं न प्रयच्छति ॥ १२ ॥
तस्मात्प्राणान्विहास्यामः संप्रविश्य हुताशनम् ॥
अविलंबान्महाभाग सत्यं ब्रूमस्तवाग्रतः ॥३ ॥ १३ ॥
॥ सूत उवाच ॥ ॥
तासां तद्वचनं श्रुत्वा दक्षो दुःखसमन्वितः ॥
सर्वास्ताः स्वयमादाय जगाम शशिसंनिधौ ॥ १४ ॥
ततः प्रोवाच सोऽन्वक्षं तासां दक्षः प्रजापतिः ॥
भर्त्सयन्परुषैर्वाक्यैर्निशानाथं मुहुर्मुहुः ॥ १५ ॥
किमिदं युज्यते कर्तुं त्वया रात्रिपतेऽधम ॥
कर्म मूढ सतां बाह्य धर्मशास्त्रविगर्हितम्॥ १६ ॥
ऋतुकालेऽपि संप्राप्ते सुता मम समुद्भवाः ॥
यन्न संभाषसि प्रीत्या धर्मशास्त्रं न वेत्सि किम् ॥ १७ ॥
ऋतु स्नातां तु यो भार्यां संनिधौ नोपगच्छति ॥
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥ १८ ॥
तस्य तद्वचनं श्रुत्वा सलज्जो रात्रिनायकः ॥॥
प्रोवाचाधोमुखो दक्षं प्रकरिष्ये वचस्तव ॥ १९ ॥
ततो हृष्टमना दक्षः सुताः सर्वा हिमद्युते ॥
निवेद्यामंत्र्य तं पश्चाज्जगाम निजमंदिरम् ॥ ६.६३.२० ॥३
चन्द्रोऽपि पूर्ववत्सर्वास्ताः परित्यज्य दक्षजाः ॥
रोहिण्या सह संसर्गं प्रचकारानुरागतः ॥ २१ ॥
अथ ता दुःखिता भूयो जग्मुर्यत्र पिता स्थितः ॥
प्रोचुश्च बाष्पपूर्णाक्षास्तत्कालसदृशं वचः ॥ २२ ॥
एतत्तात महद्दुःखमस्माकं वर्तते हृदि ॥
यद्दौर्भाग्यं प्रसंजातं सर्वस्त्रीजनगर्हितम् ॥ ॥ २३ ॥
यत्पुनस्त्वं कृतस्तेन कामुकेन दुरात्मना ॥
व्यर्थश्रमोऽप्रमाणीव कृतेऽस्माकं गतः स्वयम् ॥ २४ ॥
तद्दुःखं न वयं शक्ता हृदि धर्तुं कथंचन ॥
रमते स हि रोहिण्या चंद्रमाः सहितोऽनिशम् ॥ २५ ॥
विशेषात्तव वाक्येन निषिद्धो रात्रिनायकः ॥
अनुज्ञां देहि तस्मात्त्वमस्माकं तत्र सांप्रतम् ॥
दौर्भाग्यदुःखसंतप्तास्त्यजामो येन जीवितम् ॥ २६ ॥
॥ सूत उवाच ॥ ॥
तासां तद्वचनं श्रुत्वा दक्षः कोपसमन्वितः ॥
शशाप शर्वरीनाथं गत्वा तत्संनिधौ ततः ॥ २७ ॥
यस्मात्पाप न मे वाक्यं त्वया धर्मसमन्वितम् ॥
कृतं तस्मात्क्षयव्याधिस्त्वां ग्रसिष्यति दारुणः ॥ २८ ॥
एवमुक्त्वा ययौ दक्षश्चन्द्रोऽपि द्विजसत्तमाः ॥
तत्क्षणाद्यक्ष्मणाश्लिष्टः क्षयं याति दिने दिने ॥ २९ ॥
ततोऽसौ कृशतां प्राप्तः संपरित्यज्य रोहिणीम् ॥
अशक्तः सेवितुं कामं वभ्राम जगतीतले ॥ ६.६३.३० ॥
क्षयव्याधिप्रणाशाय पृच्छ मानश्चिकित्सकान्॥
औषधानि विचित्राणि प्रकुर्वाणो जितेन्द्रियः ॥ ३१ ॥
तथापि मुच्यते नैव यक्ष्मणा स निशापतिः ॥
दक्षशापेन रौद्रेण क्षयं याति दिनेदिने ॥ ३२ ॥
ततो वैराग्यमापन्नस्तीर्थयात्रापरायणः ॥
बभूव श्रद्धयायुक्तस्त्यक्त्वा भेषजमुत्तमम् ॥ ३३ ॥
अथासौ भ्रममाणस्तु तीर्थान्यायतनानि च ॥
संप्राप्तो ब्राह्मणश्रेष्ठाः प्रभासं क्षेत्रमुत्तमम्॥ ३४ ॥
तत्र स्नात्वा शुचिर्भूत्वा प्रभासं वीक्ष्य रात्रिपः ॥
यावत्संप्रस्थितोन्यत्र तावदग्रे व्यवस्थितम् ॥ ३५ ॥
अपश्यद्रोमकंनाम स मुनि संशितव्रतम् ॥
तपोवीर्यसमोपेतं सर्वसत्त्वानुकम्पकम् ॥ ३६ ॥
तं दृष्ट्वा स प्रणम्योच्चै स्ततः प्रोवाच सादरम् ॥
क्षयव्याधियुतश्चन्द्रो निर्वेदाद्द्विजसत्तमाः ॥ ३७ ॥
परिक्षीणोऽस्मि विप्रेंद्र क्षयव्याधिप्रभावतः ॥
तस्मात्कुरु प्रतीकार महं त्वां शरणं गतः ॥ ३८ ॥
मया चिकित्सकाः पृष्टास्तैरुक्तं भेषजं कृतम् ॥
अनेकधा महाभाग परिक्षीणो दिनेदिने ॥ ३९ ॥
यदि नैवोपदेशं मे कञ्चित्त्वं संप्रदास्यसि ॥
व्याधिनाशाय तत्तेन त्यक्ष्याम्यद्य कलेवरम् ॥ ६.६३.४० ॥
॥ रोमक उवाच ॥ ॥
अन्यस्यापि निशानाथ न शापः कर्तुमन्यथा ॥
शक्यते किं पुनस्तस्य दक्षस्यामिततेजसः ॥ ४१ ॥
तस्मादत्रोपदेशं ते प्रयच्छामि सुसंमतम् ॥
येन ते स्यादसंदिग्धं क्षयव्याधि परिक्षयः ॥ ४२ ॥
नादेयं किंचिदस्तीह देवदेवस्य शूलिनः ॥
संप्रहृष्टस्य तद्वाक्यात्तस्मादाराधयस्व तम् ॥ ४३ ॥
अष्टषष्टिषु तीर्थेषु सत्यं वासः सदा क्षितौ ॥
तेषु संस्थाप्य तल्लिंगं तस्य नाशाय रात्रिप ॥ ४४ ॥
आराधय ततो नित्यं श्रद्धापूतेन चेतसा ॥
संप्राप्स्यसि न संदेहः क्षयव्याधि परिक्षयम् ॥ ४५ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा संप्रहृष्टो निशापतिः ॥
तस्मिन्प्रभासके क्षेत्रे दिव्यलिंगानि शूलिनः ॥
संस्थाप्य पूजयामास स्वनामांकानि भक्तितः ॥ ४६ ॥
ततस्तुष्टो महादेवस्तस्य संदर्शनं गतः ॥
प्रोवाच वरदोऽस्मीति प्रार्थयस्व यथेप्सितम् ॥ ४७ ॥ ॥
॥ चन्द्र उवाच ॥ ॥
परं क्षीणोऽस्मि देवेश यक्ष्मणाहं पदांतिकम् ॥
प्राप्तस्तस्मात्परित्राहि नान्यत्संप्रार्थयाम्यहम् ॥ ४८ ॥
तस्य तद्वचनं श्रुत्वा भगवान्वृषभध्वजः ॥
दक्षमाहूय तत्रैव ततः प्रोवाच सादरम् ॥ ४९ ॥
एष चंद्रस्त्वया शप्तो जामाता न कृतं शुभम् ॥
तस्मादनुग्रहं चास्य मम वाक्यात्समाचर ॥ ६.६३.५० ॥
॥ दक्ष उवाच ॥ ॥
मया धर्म्यमपि प्रोक्तो वाक्यमेष कुबुद्धिमान् ॥
नाकरोन्मे पुरः प्रोच्य करिष्यामीत्य सत्यवाक् ॥ ५१ ॥
तेन शप्तस्तु कोपेन सुतार्थे वृषभध्वज ॥
हास्येनापि मया प्रोक्तं नान्यथा संप्रजायते ॥ ५२ ॥
॥ देवदेव उवाच ॥ ॥
अद्यप्रभृति सर्वास्ताः सुता एष निशाकरः ॥
समाः संवीक्षते नित्यं मम वाक्यादसंशयम् ॥ ५३ ॥
तस्मात्पक्षं क्षयं यातु पक्षं वृद्धिं प्रगच्छतु ॥
येन ते स्याद्वचः सत्यं मत्प्रसादसमन्वितम् ॥ ५४ ॥
ततो दक्षस्तथेत्युक्त्वा जगाम निजमन्दिरम् ॥
देवोऽपि शंकरो भूयः प्रोवाच शशलांछनम् ॥ ५५ ॥
भूयोऽपि प्रार्थयाभीष्टं मत्तस्त्वं शशलांछन ॥
येन सर्वं प्रयच्छामि यद्यपि स्यात्सुदुर्लभम् ॥ ५६ ॥ ॥
॥ चन्द्र उवाच ॥ ॥
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ॥
तत्स्थापितेषु लिंगेषु मया सर्वेषु सर्वदा॥
संनिधानं त्वया कार्यं लोकानां हित काम्यया ॥ ५७ ॥
॥ देव उवाच ॥ ॥
अष्टषष्टिषु लिंगेषु स्थापितेषु त्वया विभो ॥
सोमवारेण सांनिध्यं करिष्ये वचनात्तव ॥ ५८ ॥
एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः ॥
चन्द्रोऽपि हर्षसंयुक्तः समं पश्यति तास्ततः ॥ ५९ ॥
सुता दक्षस्य विप्रेंद्रा शंकरस्य वचः स्मरन्॥
ततो हर्ष समायुक्ता वभूवुस्तदनंतरम् ॥ ६.६३.६० ॥
एवं सोमेश्वरास्तत्र बभूवुर्द्विजसत्तमाः ॥
अष्टषष्टिषु तीर्थेषु तथान्येषु ततः परम् ॥ ६१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सोमनाथोत्पत्तिमाहात्म्यवर्णनंनाम त्रिषष्टितमोऽध्यायः ॥ ॥ ६३ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 64
॥ सूत उवाच ॥ ॥
चमत्कारी पुरा देवी तत्रैवास्ति द्विजोत्तमाः ॥
चमत्कारनरेंद्रेण स्थापिता श्रद्धया पुरा ॥ १ ॥
यया स महिषः पूर्वं निहतो दानवो रणे ॥
कौमारव्रतधारिण्या मायाशतसहस्रधृक् ॥ २ ॥
यदा तन्निर्मितं तत्र पुरं तेन महात्मना ॥
तस्य संरक्षणार्थाय तदा सा स्थापिता द्विजाः ॥ ३ ॥
पुरस्य तस्य रक्षार्थं तथा तत्पुरवासिनाम् ॥
सर्वेषां ब्राह्मणेंद्राणां भक्त्या भावितचेतसाम् ॥ ४ ॥
यस्तामभ्यर्चयेत्सम्यङ्महानवमिवासरे ॥
कृत्स्नं संवत्सरं तस्य न भयं जायते क्वचित् ॥ ५ ॥
भूतप्रेतपिशाचेभ्यः शत्रुतश्च विशेषतः ॥
रोगेभ्यस्तस्करेभ्यश्च दुष्टेभ्योऽन्येभ्य एव च ॥ ६ ॥
यंयं काममभिध्यायञ्छुक्लाष्टम्यां नरः शुचिः ॥
तां पूजयति सद्भक्त्या स तमाप्नोत्यसंशयम् ॥ ७ ॥
निष्कामः सुखमाप्नोति मोक्षं नास्त्यत्र संशयः ॥
तस्या देव्याः प्रसादेन सत्यमेतन्मयोदितम् ॥ ८ ॥
तामाराध्य गताः पूर्वं सिद्धिं भूरिर्महीभुजः ॥
ब्राह्मणाश्च तथान्येऽपि योगिनः परमेश्वरीम् ॥ ९ ॥
यस्तस्याः श्रद्धयोपेतः प्रकरोति प्रदक्षिणाम् ॥
नित्यं संवत्सरं यावत्तिर्यग्योनौ न स व्रजेत्॥६.६४,१०॥
तस्या आयतने पूर्वमाश्चर्यमभवन्महत् ॥
यत्तद्वः कीर्तयिष्यामि शृणुध्वं सुसमाहिताः ॥ ११ ॥
आसीच्चित्ररथोनाम पूर्वं पार्थिवसत्तमः ॥
दशार्णाधिपतिः ख्यातः सर्वशत्रुनिबर्हणः ॥ १२ ॥
शुक्लाष्टम्यां सदा भक्त्या स तस्याः श्रद्धयान्वितः ॥
अष्टोत्तरशतं यावत्प्रचकार प्रदक्षिणाम् ॥ १३ ॥
ततः प्रणम्य तां देवीं संप्रयाति पुनर्गृहम् ॥
सैन्येन चतुरंगेण समंतात्परिवारितः ॥ १४ ॥
एवं तस्य नरेंद्रस्य प्रदक्षिणरतस्य च ॥
जगाम सुमहान्कालो देव्या भक्तिरतस्य च ॥ १५ ॥
कस्यचित्त्वथ कालस्य स राजा तत्र संगतः ॥
अपश्यद्ब्राह्मणश्रेष्ठान्देवीगृहसमाश्रितान् ॥ १६ ॥
ततः प्रदक्षिणां कृत्वा तां देवीं स महीपतिः ॥ १६ ॥
अग्रस्थांस्तान्द्विजान्सर्वान्नमश्चक्रे समाहितः ॥ १७ ॥
ततस्तैः सहितैस्तत्र सहासीनः कथाः शुभाः ॥
राजर्षीणां पुराणानां विप्रर्षीणां चकार ह ॥ १८ ॥
ततः कस्मिन्कथांते स पृष्टस्तैर्द्विजसत्तमैः ॥
कौतूहलसमोपेतैर्विनयावनतः स्थितः ॥ ॥ १९ ॥
राजन्पृच्छामहे सर्वे त्वां वयं कौतुकान्विताः ॥
तस्मात्कीर्तय चेद्गुह्यं न तत्तव व्यवस्थितम् ॥ ६.६४.२० ॥
मासिमासि सदाष्टम्यां त्वं शुक्लायां सुदूरतः ॥
आगत्य देवतायाश्च प्रकरोषि प्रदक्षिणाम् ॥ २१ ॥
यत्नेनान्याः परित्यज्य सर्वाः पूजादिकाः क्रियाः ॥
नूनं वेत्सि फलं कृत्स्नं यत्प्रदक्षिणसंभवम्॥ २२ ॥
॥ राजोवाच ॥ ॥ सत्यमेतद्द्विजश्रेष्ठा यद्भवद्भिरुदाहृतम् ॥
रहस्यमपि वक्तव्यं युष्माकं सांप्रतं मया ॥ २३ ॥
अहमास शुकः पूर्वमस्मिन्नायतने शुभे ॥
देव्याः पश्चिमदिग्भागे कुलायकृतसंश्रयः ॥ २४ ॥
तत्र निर्गच्छतो नित्यं कुर्वतश्चप्रवेशनम् ॥
प्रदक्षिणाभवद्देव्या नित्यमेव द्विजोत्तमाः ॥ २५ ॥
ततः कालेन मे मृत्युः संजातोऽत्रैव मंदिरे ॥
तत्प्रभावेण संजातो राजा जातिस्मरोऽत्र हि ॥ ॥ २६ ॥
एतस्मात्कारणाद्दूरात्समभ्येत्य प्रदक्षिणाम् ॥
करोम्यस्या द्विजश्रेष्ठा देवतायाः समाहितः ॥ २७ ॥
पुरा भक्तिविहीनेन कुलाये वसता मया ॥
कृता प्रदक्षिणा देव्यास्तेन जातोऽस्मि भूपतिः ॥ २८ ॥
अधुना श्रद्धया युक्तो यत्करोमि प्रदक्षिणाम् ॥
किं मे भविष्यति श्रेयस्तन्न वेद्मि द्विजोत्तमाः ॥ २९ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा तस्य ते विप्रा विस्मयोत्फुल्ललोचनाः ॥
साधुवादं तथा चक्रुस्तस्य भूपस्य हर्षिताः ॥ ॥ ६.६४.३० ॥
ततः स पार्थिवः सर्वान्प्रणम्य द्विजसत्तमान् ॥
अनुज्ञाप्य ययौ तूर्णं स्वगृहाय ससैनिकः ॥ ३१ ॥
अधुना श्रद्धया युक्तो यः करोति प्रदक्षिणाम् ॥
सर्वपापविनिर्मुक्तो लभते वांछितं फलम् ॥ ३२ ॥
ततः प्रभृति ते विप्राः सर्वे भक्तिपुरःसराः ॥
तस्याः प्रदक्षिणां चक्रुस्तथान्ये मुक्तिहेतवे ॥ ३३ ॥
प्राप्ताश्च परमां सिद्धिं वांछितां तत्प्रभावतः ॥
इह लोके परे चैव दुर्लभां त्रिदशैरपि ॥ ३४ ॥
तस्मात्सर्वप्रयत्नेन तां देवीमिह संश्रयेत् ॥
सर्वकामप्रदां नृणां तस्मिन्क्षेत्रे व्यवस्थिताम् ॥ ३५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये चमत्कारीदुर्गामाहात्म्यवर्णनंनाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥ ॥ ध ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 65
॥ सूत उवाच ॥ ॥
तथान्यदपि तत्रास्ति तडागं देवनिर्मितम् ॥
यत्रानर्तो नृपः सिद्धः सुहयो नाम नामतः ॥ १ ॥
तेनैव भूभुजा तत्र लिंगं संस्थापितं शुभम् ॥
आनर्तेश्वरसंज्ञं च सर्व सिद्धिप्रदं नृणाम् ॥ २ ॥
तत्रांगारकषष्ठ्यां यस्तडागे स्नानमाचरेत् ॥
स प्राप्नोति नरः सिद्धिं यथाऽऽनर्ताधिपेन च ॥ ३ ॥
॥ ऋषय ऊचुः ॥ ॥
कथं सिद्धिस्तु संप्राप्ता आनर्तेन महात्मना ॥
सर्वं कथय तत्सूत सर्वं वेत्सि न संशयः ॥ ४ ॥
॥ सूत उवाच ॥ ॥
आनर्तः सुहयो नाम पुरासीत्पृथिवीपतिः ॥
सर्वारिभिर्हतो युद्धे पलायनपरायणः ॥
उच्छिष्टो म्लेच्छसंस्पृष्ट एकाकी बहुभिर्वृतः ॥ ५ ॥
अथ तस्य कपालं च कापालिक व्रतान्वितः ॥
जगृहे निजकर्मार्थं ज्ञात्वा तं वीरसंभवम् ॥ ६ ॥
आनर्तेश्वरसांनिध्ये वसमानो वने स्थितः ॥
स रात्रौ तेन तोयेन सर्वदेवमयेन च ॥ ॥ ७ ॥
तडागोत्थेन संपूर्णं रात्रौ कृत्वा प्रमुंचति ॥
आसीत्पूर्वं वणिङ्नाम्ना सिद्धसेन इति स्मृतः ॥
धनी भृत्यसमोपेतः सदा पुण्यपरायणः ॥ ८ ॥
कस्यचित्त्वथ कालस्य पण्यबुद्ध्या द्विजोत्तमाः ॥
प्रस्थितश्चोत्तरां काष्ठां स सार्थेन समन्वितः ॥ ९ ॥
अथ प्राप्तः क्रमात्सर्वैः स गच्छन्मरुमंडल म् ॥
वृक्षोदकपरित्यक्तं सर्वसत्त्वविवर्जितम्॥ ६.६५.१० ॥
तत्र रात्रिं समासाद्य श्रांताः पांथाः समन्ततः॥
सुप्ताः स्थानानि संसृत्य गता निद्रावशं तथा ॥ ११ ॥
ततः प्रत्यूषमासाद्य समुत्थाय च सत्वरम् ॥
प्रस्थिता उत्तरां काष्ठां मुक्त्वैकं शूद्रसेवकम् ॥ १२ ॥
स वै मार्गपरिश्रांतो गत्वा निद्रावशं भृशम् ॥
न जजागार जातेऽपि प्रयाणे बहुशब्दिते ॥ १३ ॥
न च तैः स स्मृतः सार्थैर्यैः समं प्रस्थितो गृहात् ॥
न च केनापि संदृष्टः स तु रोधसि संस्थितः ॥ १४ ॥
एवं गते ततः सार्थे प्रोद्गते सूर्यमंडले ॥
तीव्रतापपरिस्पृष्टो जजागार ततः परम् ॥१५॥
यावत्पश्यति नो किञ्चित्तस्मिन्स्थाने स सार्थकम्॥
न च तेषां मरौ तस्मिँल्लक्ष्यते पदपद्धतिः॥।६॥
ततो दुःखपरीतात्मा धावमान इतस्ततः॥
पतितो मेदिनीपृष्ठे मध्याह्ने क्षुत्तृषार्दितः ॥।७॥
एवं तस्य तृषार्तस्य पतितस्य धरातले ॥
धृतप्राणस्य कृच्छ्रेण संयातोऽस्ताचलं रविः ॥ १८ ॥
ततः किंचित्ससंज्ञोऽभून्मंदीभूते दिवाकरे ॥
चिन्तयामास चित्तेन क्वाहं गच्छामि सांप्रतम् ॥ १९ ॥
न लक्ष्यते क्वचिन्मार्गो दृश्यते न च मानुषम् ॥
नात्र तोयं न च च्छाया नूनं मे मृत्यु रागतः ॥ ६.६५.२० ॥
एवं चिन्ताप्रपन्नस्य तस्य शूद्रस्य निर्जने ॥
मरौ तस्मिन्समायाता शर्वरी तदनन्तरम् ॥ २१ ॥
अथ क्षणेन शुश्राव स गीतं मधुरध्वनि ॥
पठतां नन्दिवृद्धानां तथा शब्दं मनोहरम् ॥ २२ ॥
अथापश्यत्क्षणेनैव प्रेतसंघैः सभावृतम् ॥
प्रेतमेकं च सर्वेषामाधिपत्ये व्यव स्थितम् ॥ २३ ॥
ततस्ते पार्श्वगाः प्रेता एके नृत्यं प्रचक्रिरे ॥
तत्पुरो गीतमन्ये तु स्तुतिं चैव तथा परे ॥ २४ ॥
अथासौ प्राह तं शूद्रमतिथे कुरु भोजनम् ॥
स्वेच्छया पिब तोयं च श्रेयो येन भवेन्मम ॥ २५ ॥
ततः स भोजनं चक्रे क्षुधार्तश्च पपौ जलम् ॥
भयं त्यक्त्वा सुविश्रब्धः प्रेतराजस्य शासनात् ॥ २६ ॥
ततः प्रेताश्च ते सर्वे प्रेतत्वेन समन्विताः ॥
यथाज्येष्ठं यथान्यायं प्रचक्रुर्भोजनक्रियाम्॥२७॥
एवं तेषां समस्तानां विलासैः पार्थिवोचितैः ॥
अतिक्रान्ता निशा सर्वा क्रीडतां द्विजसत्तमाः ॥ २८ ॥
ततः प्रभाते विमले प्रोद्गते रविमंडले ॥
यावत्पश्यति शूद्रः स तावत्तत्र न किञ्चन ॥ २९ ॥
ततश्च चिन्तयामास किमेतत्स्वप्नदर्शनम् ॥
चित्तभ्रमोऽथवाऽस्माकमिन्द्रजालमथापि वा ॥ ६.६५.३० ॥
अथवा सत्यमेतद्धि यतो मे तृप्तिरुत्तमा ॥
संजातेयं क्षुधार्त्तस्य पिपासाकुलितस्य च ॥३॥।
एवं चिन्तयमानस्य भास्करो गगनांगणम् ॥
समारुरोह तापेन तापयन्धरणीतलम् ॥ ३२ ॥
ततः कंचित्समाश्रित्य स्वल्पच्छायं महीरुहम् ॥
प्राप्तवान्दिवसस्यांतं क्षुत्पिपासाप्रपीडितः ॥ ३३ ॥
ततो निशामुखे प्राप्ते भूयोऽपि प्रेतराजकम् ॥
प्रेतैस्तैश्चसमोपेतं तथारूपं व्यलोकयत् ॥ ३४ ॥
तथैव भोजनं चक्रे तस्यातिथ्यसमुद्भवम् ॥
भयेन रहितः शूद्रो हर्षेण महतान्वितः ॥ ३५ ॥
एवं तस्य निशावक्त्रे नित्यमेव स भूपतिः ॥
आतिथ्यं प्रकरोत्येव समागत्य तथैव च ॥ ३६ ॥
ततोऽन्यदिवसे प्राप्ते तेन शूद्रेण भूपतिः ॥
पृष्टः किमेतदाश्चर्यं दृश्यते रजनीमुखे ॥ ३७ ॥
विभवस्ते महाभाग प्रणश्यति निशाक्षये ॥
एतत्कीर्तय मे गुह्यं न चेत्प्रेतप संस्थितम् ॥
अत्र कौतूहलं जातं दृष्ट्वेदं सुविचेष्टितम् ॥ ३८ ॥
॥ प्रेत उवाच ॥ ॥
अस्ति पुण्यं महाक्षेत्रं हाटकेश्वरसंज्ञितम् ॥
गंगा च यमुना चैव स्थिते तत्र च संगमे ॥ ३९ ॥
ताभ्यामतिसमीपस्थं शिवस्यायतनं शुभम् ॥
महाव्रतधरस्तत्र तपस्यति सुनैष्ठिकः ॥ ६.६५.४० ॥
स सदा रात्रिशौचार्थं कपालं जलपूरितम् ॥
मदीयं शयने चक्रे तत्र कृत्वा निजां क्रियाम् ॥ ४१ ॥
तत्प्रभावान्ममेयं हि विभूतिर्जायते निशि ॥
दिवा रिक्ते कृते याति भूय एव महामते॥४२॥
तस्मात्कुरु प्रसादं मे तत्र गत्वा कपालकम् ॥
चूर्णं कृत्वा मदीयं तत्तस्मिंस्तोये विनिक्षिप ॥४३॥
येन मे जायते मोक्षः प्रेतभावात्सुदारुणात् ॥ ४४ ॥
तथा तत्रास्ति पूर्वस्यां दिशि तत्तीर्थमुत्तमम् ॥
गयाशिर इति ख्यातं प्रेतत्वान्मुक्तिदा यकम् ॥ ४५ ॥
तत्र गत्वा कुरु श्राद्धं सर्वेषां त्वं महामते ॥
दृश्यते तव पार्श्वस्था भद्र संपुटिका शुभाम् ॥ ४६ ॥
अस्यां नामानि सर्वेषां यथाज्येष्ठं समालिख ॥
ततः श्राद्धं कुरुष्वाशु दयां कृत्वा गरीयसीम् ॥ ४७ ॥
वयं त्वां तत्र नेष्यामः सुखोपायेन भद्रक॥
निधिं च दर्शयिष्यामः श्राद्धार्थं सुमहत्तरम् ॥ ४८ ॥
तथेति समनुज्ञाते तेन शूद्रेण सत्वरम् ॥
निन्युस्तं स्कन्धमारोप्य शूद्रं क्षेत्रे यथोदितम् ॥ ४९ ॥
दर्शयामासुरेवास्य निधानं भूरिवित्तजम् ॥
तदादाय गतस्तत्र यत्रासौ नैष्ठिकः स्थितः ॥ ६.६५.५० ॥
ततः प्रणम्य तं भक्त्या कथ यामास विस्तरात् ॥
तस्य भूतपतेः सर्वं वृत्तांतं विनयान्वितः ॥ ५१ ॥
ततो लब्ध्वा कपालं तच्चूर्णयित्वा समाहितः ॥
गंगायमुनयोर्मध्ये प्रचिक्षेप मुदान्वितः ॥ ५२ ॥
एतस्मिन्नंतरे प्रेतो दिव्यरूपवपुर्धरः ॥
विमानस्थोऽब्रवीद्वाक्यं शूद्रं तं हर्षसंयुतः ॥ ५३ ॥
प्रसादात्तव मुक्तोऽहं प्रेतत्वाद्दारुणादितः ॥
स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदिवालयम् ॥ ५४ ॥
एतेषामेव सर्वेषामिदानीं श्राद्धमाचर ॥
गत्वा गयाशिरः पुण्यं येन मुक्तिः प्रजायते ॥ ५५ ॥
ततः स विस्मयाविष्टस्तेषामेव पृथक्पृथक् ॥
श्राद्धं चक्रे च भूतानां नित्यमेव समाहितः ॥ ५६ ॥
तेऽपि सर्वे गताः स्वर्गं प्रेतास्तस्य प्रभावतः ॥
ददुश्च दर्शनं तस्य स्वप्रे हर्षसमन्विताः ॥ ५७ ॥
ततः शूद्रः स विज्ञाय तत्क्षेत्रं पुण्यवर्ध नम् ॥
न जगाम गृहं भूयस्तत्रैव तपसि स्थितः ॥ ५८ ॥
गंगायमुनयोः पार्श्वे शूद्रकेश्वरसंज्ञितम् ॥
लिगं संस्थापितं तेन सर्वपातकनाशनम् ॥ ५९ ॥
यस्तयोर्विधिवत्स्नानं कृत्वा पूजयते नरः ॥
शूद्रकेश्वरसंज्ञं च लिंगं श्रद्धासमन्वितः ॥ ६.६५.६० ॥
स सर्वैः पातकैर्मुक्तः प्रयाति शिव मंदिरम्॥
स्तूयमानश्च गंधर्वैर्विमानवरमाश्रितः ॥ ६१ ॥
यस्तत्र त्यजति प्राणान्कृत्वा प्रायोपवेशनम् ॥
न च भूयोऽत्र संसारे स जन्माप्नोति । मानवः ॥ ६२ ॥
गंडूषमपि तोयस्य यस्तस्य निवसन्पिबेत् ॥
सोऽपि संमुच्यते पापादाजन्ममरणांतिकात्॥६३॥
यस्तत्र ब्राह्मणेंद्राणां संप्रयच्छति भोजनम् ॥
पितरस्तस्य तृप्यंति यावत्कल्पशतत्रयम् ॥ ६४ ॥
त्रुटिमात्रं च यो दद्यात्तत्र स्वर्णं समाहितः ॥
स प्राप्नोति फलं कृत्स्नं राजसूयाश्वमेधयोः ॥ ६५ ॥
तस्मात्सर्वप्रयत्नेन तत्तीर्थवरमाश्रयेत् ॥
य इच्छेच्छाश्वतं स्वर्गं सदैव मनुजो द्विजाः ॥ ६६ ॥
अत्र गाथा पुरा गीता गौतमेन महर्षिणा॥
गंगायमुनयोस्तं च प्रभावं वीक्ष्य विस्मयात् ॥ ६७ ॥
गंगायमुनयोः संगे नरः स्नात्वा समाहितः ॥
शूद्रेश्वरं समालोक्य सद्यः स्वर्गमवाप्नुयात् ॥ ६८ ॥
एतद्वः सर्वमाख्यातं गंगायमुनयोर्मया ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥ ६९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्य आनर्तकेश्वरशूद्रकेश्वरमाहात्म्यवर्णनंनाम पंचषष्टितमोऽध्यायः ॥ ६५ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 66
॥ सूत उवाच ॥ ॥
तथा तत्रास्ति विख्यातं रामह्रद इति स्मृतम् ॥
यत्र ते पितरस्तेन रुधिरेण प्रतर्पिताः ॥ १ ॥
तत्र भाद्रपदे मासि योऽमावास्यामवाप्य च ॥
पितॄन्संतर्पयेद्भक्त्या सोऽश्वमेधफलं लभेत् ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
अत्याश्चर्यमिदं सूत यद्ब्रवीषि महामते ॥
यत्तेन पितरस्तत्र रुधिरेण प्रतर्पिताः ॥ ३ ॥
पितृणां तर्पणार्थाय मेध्याः संकीर्तिता बुधैः ॥
पदार्था रुधिरं प्रोक्तं राक्षसानां प्रतर्पणे ॥ ४ ॥
श्रुतिस्मृतिविरुद्धं च कर्म सद्भिर्विगर्हितम् ॥
जामदग्न्येन तच्चीर्णं कस्मात्सूत वदस्व नः ॥ ५ ॥
॥ सूत उवाच॥ ॥
तेन कोपवशात्कर्म प्रतिज्ञां परिरक्षता ॥
तत्कृतं तर्पिता येन पितरो रुधिरेण ते ॥ ६ ॥
पिता तस्य पुरा विप्रा जमदग्निर्निपातितः ॥
क्षत्रियेण स्वधर्मस्थो विना दोषं द्विजोत्तमाः ॥ ७ ॥
ततः कोपपरीतेन तेन प्रोक्तं महात्मना ॥
रक्तेन क्षत्रियोत्थेन संतर्प्याः पितरो मया ॥ ८ ॥
एतस्मात्कारणात्तेन रुधिरेण महात्मना ॥
पितरस्तर्पिता सम्यक्तिलमिश्रेण भक्तितः ॥ ९ ॥
॥ ऋषय ऊचुः ॥ ॥
जमदग्निर्हतः कस्मात्क्षत्रियेण महामुनिः ॥
किंनामा स च भूपालो विस्तराद्वद सूत तत् ॥ ६.६६.१० ॥
॥ सूत उवाच ॥ ॥
ऋचीकतनयः पूर्वं जमदग्निरिति स्मृतः ॥
हाटकेश्वरजे क्षेत्रे तत्रासीद्दग्धकल्मषः ॥ ११ ॥
चत्वारस्तस्य पुत्राश्च बभूवुर्गुणसंयुताः ॥
जघन्योऽपि गुणज्येष्ठस्तेषां रामो बभूव ह ॥ १२ ॥
कदाचिद्वसतस्तस्य जमदग्नेर्महावने ॥
पुत्रेषु कन्दमूलार्थं निर्गतेषु वनाद्बहिः ॥ १३ ॥
एतस्मिन्नंतरे प्राप्तो हैहयाधिपतिर्बली ॥
सहस्रार्जुन इत्येव विख्यातो यो महीतले ॥ १४ ॥
मृगलिप्सुर्वने तस्मिन्भ्रममाण इतस्ततः ॥
श्रमार्तो वृषराशिस्थे भास्करे दिनमध्यगे ॥ १५ ॥
ततस्तमाश्रमं दृष्ट्वा नानाद्रुम समाकुलम् ॥
चतुरंगेन सैन्येन सहितः प्रविवेश ह ॥।६॥
अथापश्यत्स तत्रस्थं जमदग्निं महामुनिम् ॥
उपविष्टं कृतस्नानं देवार्चनपरायणम्॥।७॥
अथ तं पार्थिवं दृष्ट्वा स मुनिस्तुष्टिसंयुतः ॥
अर्घं दत्त्वा यथान्यायं स्वागतेनाभिनंद्य च ॥ १८ ॥
सोऽपि तं प्रणिपत्योच्चैर्विनयेन समन्वितः ॥
प्रतिसंभाषयामास कुशलं पर्यपृच्छत ॥ १९ ॥
॥ राजोवाच ॥ ॥
कच्चित्ते कुशलं विप्र पुत्रशिष्यान्वितस्य च ॥
साग्निहोत्र कलत्रस्य परिवारयुतस्य च ॥ ६.६६.२० ॥
अद्य मे सफलं जन्म जीवितं सफलं च मे ॥
यत्त्वं तपोनिधिर्दृष्टः सर्वलोकनमस्कृतः ॥ २१ ॥
एवमुक्त्वा स राजर्षिर्विश्रम्य सुचिरं ततः ॥
पीत्वापस्तमुवाचेदं प्रणिपत्य महामुनिम्॥ २२ ॥
अनुज्ञां देहि मे ब्रह्मन्प्रयास्यामि निजं गृहम्॥
मम कृत्यं समादेश्यं येन ते स्यात्प्रयोजनम् ॥ २३ ॥
॥ जमदग्निरुवाच ॥ ॥
देवतार्चनवेलायां त्वं मे गृहमुपागतः ॥
मनोरथ इव ध्यातः सर्वदेवमयोऽतिथिः ॥ २४ ॥
तस्मान्मेऽस्ति परा प्रीतिर्भक्तिश्च नृपसत्तम ॥
तत्कुरुष्व मया दत्तं स्वहस्तेनैव भोजनम् ॥ २५ ॥
राजा वा ब्राह्मणो वाथ शूद्रो वाप्यंत्यजोऽपि वा ॥
वैश्वदेवान्तसंप्राप्तः सोऽतिथिः स्वर्गसंक्रमः ॥ २६ ॥
॥ राजोवाच ॥ ॥
ममैते सैनिका ब्रह्मञ्छतशोऽथ सहस्रशः ॥
तैरभुक्तैः कथं भोक्तुं युज्यते मम कीर्तय ॥ २७ ॥
॥ जमदग्निरुवाच ॥ ॥
सर्वेषां सैनिकानां ते संप्रदास्यामि भोजनम् ॥
नात्र चिंता त्वया कार्या मुनिर्निष्किंचनो ह्यहम् ॥ २८ ॥
यैषा पश्यति राजेंद्र धेनुर्बद्धा ममांतिके ॥
एषा सूते मनोभीष्टं प्रार्थिता सर्वदैव हि ॥ २९ । ॥
॥ सूत उवाच ॥ ॥
ततश्च कौतुकाविष्टः स नृपो द्विजसत्तमाः ॥
बाढमित्येव संप्रोच्य तस्मिन्नेवाश्रमे स्थितः ॥ ६.६६.३० ॥
ततः संतर्प्य देवांश्च पितॄंश्च तदनंतरम् ॥
पूजयित्वा हविर्वाहं ब्राह्मणांश्च ततः परम् ॥ ३१ ॥
उपविष्टस्ततः सार्धं सर्वैर्भृत्यैर्बुभुक्षितैः ॥
श्रमार्तैर्विस्मयाविष्टैः कृते तस्य द्विजोत्तमाः ॥ ३२ ॥
ततः स प्रार्थयामास तां धेनुं मुनिसत्तमः ॥
यो यत्प्रार्थयते देहि भोज्यार्थं तस्य तच्छुभे ॥ ३३ ॥
ततः सा सुषुवे धेनुरन्नमुच्चावचं शुभम् ॥
पक्वान्नं च विशेषेण चित्ताह्लादकरं परम् ॥ ३४ ॥
ततः खाद्यं च चव्यं च लेह्यं चोष्यं तथैव च ॥
व्यंजनानि विचित्राणि कषायकटुकानि च ॥
अम्लानि मधुराण्येव तिक्तानि गुणवंति च ॥ ३५ ॥
एवं प्राप्य परां तृप्तिं तया धेन्वा स भूपतिः ॥
सेवकैः सबलैः सार्ध मन्नैरमृतसंभवैः ॥ ३६ ॥
ततो भुक्त्यवसाने तु प्रार्थयामास भूपतिः ॥
तां धेनुं विस्मयाविष्टो जमदग्निं महामुनिम् ॥ ३७ ॥
कामधेनुरियं ब्रह्मन्नार्हारण्यनिवासिनाम् ॥
मुनीनां शान्तचित्तानां तस्माद्यच्छ मम स्वयम् ॥ ३८ ॥
येनाऽकरान्करोम्यद्य लोकांस्तस्याः प्रभावतः ॥
साधयामि च दुर्गस्थाञ्छत्रून्भूरिबलान्वितान् ॥ ३९ ॥
एवं कृते तव श्रेयो भविष्यति च सद्यशः ॥
इह लोके परे चैव तस्मात्कुरु मयोदितम् ॥ ६.६६.४० ॥ ॥
॥ जमदग्निरुवाच ॥ ॥
होमधेनुरियं राजन्ममैका प्राणसंमता ॥
अदेया सर्वदा पूज्या तस्मान्नार्हसि याचितुम् ॥ ४१ ॥
॥ राजोवाच ।१ ॥
अहं शतसहस्रं ते यच्छाम्यस्याः कृते द्विज ॥
धेनूनामपरं वित्तं यावन्मात्रं प्रवांछसि ॥ ४२ ॥
॥ जमदग्निरुवाच ॥ ॥
अविक्रेया महाराज सामान्यापि हि गौः स्मृता ॥
किं पुनर्होमधेनुर्या प्रभावैरीदृशैर्युता ॥ ४३ ॥
विमोहाद्ब्राह्मणो यो गां विक्रीणाति धनेच्छया ॥
विक्रीणाति न सन्देहः स निजां जननीमिह ॥ ४४ ॥
सुरां पीत्वा द्विजं हत्वा द्विजानां निष्कृतिः स्मृता ॥
धेनुविक्रयकर्तॄणां प्रायश्चित्तं न विद्यते ॥ ४५ ॥
॥ राजोवाच ॥ ॥
यदि यच्छसि नो विप्र साम्ना धेनुमिमां मम ॥
बलादपि हरिष्यामि तस्मात्साम्ना प्रदीयताम् ॥ ४६ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा कोपसंयुक्तो जमदग्निर्द्विजोत्तमाः ॥
अस्त्रमस्त्रमिति प्रोच्य समुत्तस्थौ सभातलात् ॥ ४७ ॥
ततस्ते सेवकास्तस्य नृपतेश्चित्तवेदिनः ॥
अप्राप्तशस्त्रं तं विप्रं निजघ्नुर्निशितायुधैः ॥ ४८ ॥
तस्यैवं वध्यमानस्य जमदग्नेर्महात्मनः ॥
रेणुकाख्या प्रिया भार्या पपातोपरि दुःखिता ॥ ॥ ४९ ॥
साऽपि नानाविधैस्तीक्ष्णैः खण्डिता वरवर्णिनी ॥
आयुःशेषतया प्राणैर्न कथंचिद्वियोजिता ॥ ६.६६.५० ॥
एवं हत्वा स विप्रेन्द्रं जमदग्निं महीपतिः ॥
तां धेनुं कालयामास यत्र माहिष्मती पुरी ॥ ५१ ॥
अथ सा काल्यमाना च धेनुः कोपसमन्विता ॥
जमदग्निं हतं दृष्ट्वा ररम्भ करुणं मुहुः ॥ ५२ ॥
तस्याः संरम्भमाणाया वक्त्रमार्गेण निर्गताः ॥
पुलिन्दा दारुणा मेदाः शतशोऽथ सहस्रशः ॥ ५३ ॥
नानाशस्त्रधराः सर्वे यमदूता इवापराः ॥
प्रोचुस्तां सादरं धेनुमाज्ञां देहि द्रुतं हि नः ॥ ५४ ॥
साऽब्रवीद्धन्यतामेतद्धैहयाधिपतेर्बलम् ॥
अथ तैः कोपसंयुक्तैर्दारुणैर्म्लेच्छजातिभिः ॥
विनाशयितुमारब्धं शितैः शस्त्रैर्निरर्गलम् ॥ ५५ ।१
न कश्चित्पुरुषस्तेषां सम्मुखोऽप्यभवद्रणे ॥
किं पुनः सहसा योद्धुं भयेन महतान्वितः ॥ ५६ ॥
अथ भग्नं बलं दृष्ट्वा वध्यमानं समंततः ॥
पुलिन्दैर्दारुणाकारैः प्रोचुस्तं मन्त्रिणो नृपम् ॥ ५७ ॥
तेजोहानिः परा तेऽद्य जाता ब्रह्मवधाद्विभो ॥
तस्माद्धेनुं परित्यज्य गम्यतां निजमंदिरम् ॥ ५८ ॥
यावन्नागच्छते तस्य रामोनाम सुतो बली ॥
नो चेत्तेन हतोऽत्रैव सबलो वधमेष्यसि ॥ ५९ ॥
नैषा शक्या बलान्नेतुं कामधेनुर्महोदया ॥
शक्तिरूपा करोत्येवं या सृष्टिं स्वयमेव हि ॥ ६.६६.६० ॥
ततः स पार्थिवो भीतस्तेषां वाक्याद्विशेषतः ॥
जगाम हित्वा तां धेनुं स्वस्थानं हतसेवकः ॥ ६१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जमदग्निवधवर्णनंनाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 67
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे प्राप्तो रामो भ्रातृभिरन्वितः ॥
फलानि कन्दमूलानि गृहीत्वाऽऽश्रमसम्मुखः ॥ १ ॥
स दृष्ट्वा स्वाश्रमं ध्वस्तं पुलिन्दैर्बहुशो वृतम् ॥
लकुटाश्मप्रहारैस्तु तां धेनुं जर्जरीकृताम् ॥ २ ॥
पप्रच्छ किमिदं सर्वं व्याकुलत्वमुपागतम् ॥
आश्रमास्पदमाभीरैः पुलिन्दैश्च समावृतम् ॥ ३ ॥
केनैषा मामिका धेनुः प्रहारैर्जर्जरीकृता ॥
तापस्यस्तापसाः सर्वे कस्मादेते रुदन्ति च ॥ ४ ॥
क्व स मेऽद्य पिता वृद्धो माता च सुतवत्सला ॥
न मामद्य यथापूर्वं स्नेहाच्चायाति सम्मुखी ॥ ५ ॥
अथ तस्य समाचख्युर्वृत्तांतं सर्वतापसाः ॥
यथादृष्टं सुदुःखार्ता सहस्रार्जुनचेष्टितम् ॥ ६ ॥
ततस्ते भ्रातरः सर्वे वज्रपातोपमं वचः ॥
श्रुत्वा दृष्ट्वा च तं शस्त्रैः खंडितं जनकं निजम् ॥ ७ ॥
मातरं क्षतसर्वाङ्गीं प्राणशेषां व्यथान्विताम्॥
रुरुदुः शोकसन्तप्ता मुक्त्वा रामं महाबलम्॥ ८ ॥
रुदित्वाथ चिरं कालं विप्रलप्य मुहुर्मुहुः ॥
अन्त्येष्टिं चक्रिरे तस्य वेदोक्तविधिना ततः ॥ ९ ॥
अथ दाहावसाने ते कृत्वा गर्तां यथोचिताम्॥
मुक्त्वा रामं ददुस्तोयं पितुः पुत्रास्तिलान्वितम् ॥ ६.६७.१० ॥
अथान्यैस्तापसैः प्रोक्तो रामः शस्त्रभृतां वरः ॥
न प्रयच्छसि कस्मात्त्वं प्रेतपित्रे जलांजलिम्॥ ११ ॥
अथासौ बहुधा प्रो क्तस्तापसैर्जमदग्निजः ॥
प्रहारान्गणयन्मातुः शितशस्त्रविनिर्मितान्॥ १२ ॥
ततस्तानब्रवीद्रामो विनिःश्वस्य मुनीश्वरान् ॥
निषेधस्तोयदानस्य श्रूयतां यन्मया कृतः ॥ १३ ॥
अपराधं विना तातः क्षत्रियेण हतोमम ॥
एकविंशतिः प्रहाराणां मातुरंगे स्थिता मम ॥ १४ ॥
तस्मान्निःक्षत्रियामुर्वीं यद्यहं न करोमि वै ॥
प्रहारसंख्यया विप्रास्तन्मे स्यात्सर्वपातकम् ॥ १५ ॥
पितृमातृवधाज्जातं यत्कृतं तेन पाप्मना ॥
क्षत्रियापसदेनात्र तथान्यदपि कुत्सितम् ॥ १६ ॥
ततस्तस्यैव चान्येषां क्षत्रियाणां दुरात्मनाम् ॥
रुधिरैः पूरयित्वेमां गर्तां पितृजलोचिताम् ॥
तर्पयिष्यामि रक्तेन पितरं नाहमंभसा ॥ १७ ॥
॥ सूत उवाच ॥ ॥
श्रुत्वा ते दारुणां तस्य प्रतिज्ञां तापसोत्तमाः ॥
परं विस्मयमापन्ना नोचुः किंचित्ततः परम् ॥ १९ ॥
अथाशौचांतमासाद्य रामः क्रोधसमन्वितः ॥
तीक्ष्णं परशुमादाय माहिष्मत्युन्मुखं ययौ ॥ १९ ॥
सर्वैस्तैः शबरैः सार्धं पुलिन्दैर्मेदकैस्तथा ॥
बद्धगोधांगुलित्राणैर्वरबाणधनुर्धरैः ॥ ६.६७.२० ॥
तथाऽर्जुनोऽपि तं श्रुत्वा समायातं भृगूत्तमम् ॥
सैन्येन महता युक्तं प्रतिज्ञाधारिणं तथा ॥ २१ ॥
ततस्तु सम्मुखो दृष्टो युद्धार्थं स विनिर्ययौ ॥
सार्धं नानाविधैर्योधैः सर्वैर्देवासुरोपमैः ॥ २२ ॥
अथाभवन्महायुद्धं पुलिन्दानां द्विजोत्तमाः ॥
हैहयाधिपतेर्योधैः सार्धं देवासुरोपमैः ॥ २३ ॥
ततस्ते हैहयाः सर्वे शरैराशीविषोपमैः ॥
वध्यन्ते शबरैः संख्ये गर्जमानैर्मुहुर्मुहुः ॥ २४ ॥
ब्रह्महत्यासमुत्थेन पातकेन ततश्च ते ॥
जाता निस्तेजसः सर्वे प्रपतंति धरातले ॥ २५ ॥
न कश्चित्पौरुषं तत्र संप्रदर्शयितुं क्षमः ॥
पलायनपरा सर्वे वध्यन्ते निशितैः शरैः ॥ २६ ॥
अथ भग्नं बलं दृष्ट्वा हैहयाधिपतिः क्रुधा ॥
स्वचापं वाञ्छयामास सज्यं कर्तुं त्वरान्वितः ॥
शक्नोति नारोपयितुं सुयत्नमपि चाश्रितः ॥ २७ ॥
ततश्चाकर्षयामास खङ्गं कोशात्सुनिर्मलम् ॥
आक्रष्टुं न च शक्रोति वैलक्ष्यं परमं गतः ॥ २८ ॥
गदया निर्जितो रौद्रो रावणो लोकरावणः ॥
यया साप्यपतद्धस्तात्तत्क्षणात्पृथिवीतले ॥ २९ ॥
नर्मदायाः प्रवाहो यैः सहस्राख्यैः करैः शुभैः ॥
विधृतस्तेन ते सर्वे बभूवुः कम्पविह्वलाः ॥ ६.६७.३० ॥
न शस्त्रं शेकुरुद्धर्तुं दैवयोगात्कथंचन ॥
दिव्यास्त्राणां तथा सर्वे मन्त्रा विस्मृतिमागताः ॥ ३१ ॥
एतस्मिन्नंतरे रामः संप्राप्तः क्रोधमूर्छितः ॥
तीक्ष्णं परशुमुद्यम्य ततस्तं प्राह निष्ठुरम् ॥ ३२ ॥
हैहयाधिपते पाप यैः करैर्जनको मम ॥
त्वया विनिहतस्तान्मे शीघ्रं दर्शय सांप्रतम् ॥ ३३ ॥
ब्रह्मतेजोहतः सोऽपि प्रोक्तस्तेन सुनिष्ठुरम् ॥
नोवाच चोत्तरं किंचिदालेख्ये लिखितो यथा ॥३४॥
ततो भुजवनं तस्य रामः शस्त्रभृतां वरः ॥
मुहुर्मुहुर्विनिर्भर्त्स्य प्रचकर्त शनैःशनैः ॥ ३५ ॥
ततश्छित्त्वा शिरस्तस्य कुठारेण भृगूद्वहः ॥
जग्राह रुधिरं यत्नात्प्रहारेभ्यः स्वयं द्विजाः ॥ ३६ ॥
पूरयित्वा महाकुम्भाञ्छबरेभ्यो ददौ ततः ॥
म्लेच्छेभ्यो लुब्धकेभ्यश्च ततः प्रोवाच सादरम् ॥३७॥
हाटकेश्वरजे क्षेत्रे गर्ता मे भ्रातृभिः कृता ॥
पितृसंतर्पणार्थाय सलिलेन परिप्लुता ॥ ३८ ॥
प्रक्षिपध्वं द्रुतं गत्वा तस्यां रक्तमिदं महत् ॥
पापस्यास्य सपत्नस्य ममादेशादसंशयम् ॥ ३९ ॥
येन तातं निजं भक्त्या तर्पयित्वा विधानतः ॥
ऋणस्य मुक्तिर्भवति येन मे पैतृकस्यच ॥ ६.६७.४० ॥
इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सहस्रार्जुनवधवर्णनंनाम सप्तषष्टितमोऽ ध्यायः ॥ ६७ ॥ ॥ ध ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 68
॥ सूत उवाच ॥ ॥
अथ ते शबरा यत्नाद्रक्तं तद्धैहयोद्भवम् ॥
तत्र निन्युः स्थिता यत्र गर्ता सा पितृसंभवा ॥ १ ॥
भार्गवोऽपि च तं हत्वा रक्तमादाय कृत्स्नशः ॥
ततः संप्रेषयामास यत्र गर्ताऽथ पैतृकी ॥ २ ॥
न स बालं न वृद्धं च परित्यजति भार्गवः ॥
यौवनस्थं विशेषेण गर्भस्थं वाथ क्षत्रियम् ॥ ३ ॥
स्वयं जघान भूपान्स तेषां पार्श्वे तथा परान् ॥
विध्वंसाययति क्रुद्धः सैनिकैश्च समन्ततः ॥ ४ ॥
तथैवासृक्प्रगृह्णाति गृह्णापयति चादरात् ॥
तेषां पार्श्वैस्ततस्तूर्णं प्रेषयामास तत्र च ॥ ५ ॥
एवं निःक्षत्रियां कृत्वा कृत्स्नां पृथ्वीं भृगद्वहः ॥
हाटकेश्वरजे क्षेत्रे जगाम तदनन्तरम् ॥ ६ ॥
ततस्तै रुधिरैः स्नात्वा समादाय तिलान्बहून् ॥
अपसव्यं समाधाय प्रचक्रे पितृतर्पणम् ॥ ७ ॥
प्रत्यक्षं सर्वविप्राणां तथान्येषां तपस्विनाम् ॥
प्रतिज्ञां पूरयित्वाऽथ विशोकः स बभूव ह ॥ ८ ॥
ततो निःक्षत्रिये लोके कृत्वा हयमखं च सः ॥
प्रायच्छत्सकलामुर्वीं ब्राह्मणेभ्यश्च दक्षिणाम् ॥ ९ ॥
अथ लब्धवरा विप्रास्तमूचुर्भृगुसत्तमम् ॥
नास्मद्भूमौ त्वया स्थेयमेको राजा यतः स्मृतः ॥ ६.६८.१० ॥
सोऽपि बाढमिति प्रोच्य हर्षेण महतान्वितः ॥
महीपर्यंतमासाद्य प्रोवाचाथ नदीपतिम् ॥॥॥
आरोप्य सुमहच्चापमाग्नेयास्त्रं प्रयुज्य च ॥
त्रिशिखां भ्रुकुटीं कृत्वा कोपेन महतान्वितः ॥।२॥
॥ राम उवाच ॥ ॥
मया निःक्षत्रिया भूमिः कृता शैलवनान्विता ॥
ब्राह्मणेभ्यस्ततो दत्ता वाजिमेधे महामखे ॥।३॥
तस्मात्त्वं देहि मे स्थानं कृत्वाऽपसरणं स्वयम्॥
न हि दत्त्वा ग्रही ष्यामि विप्रेभ्यो मेदिनीं पुनः ॥ १४ ॥
न करोष्यथवा वाक्यं ममाद्य त्वं नदीपते ॥
स्थलरूपं करिष्यामि वह्न्यस्त्रपरिशोषितम् ॥ १५ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा समुद्रो भयसंकुलः ॥
अपसारं ततश्चक्रे यावत्तस्याभिवांछितम् ॥ १६ ॥
ततश्चकार तत्रैव वसतिं स भृगूद्वहः ॥
तपश्चर्यासमायुक्तः पितुर्वधमनुस्मरन्॥।७॥
ततः सर्वान्पुलिन्दांश्च शवरान्मेदसंयुतान् ॥
भूम्यन्ते धारयामास पर्वतेषु स भार्गवः ॥।८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये परशुरामकृतमहीदानपूर्वकसमुद्रापसारणवृत्तान्तवर्णनंनामा ष्टाषष्टितमोऽध्यायः ॥ ६८ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 69
॥ सूत उवाच ॥ ॥
ततो निःक्षत्रिये लोके क्षत्त्रिण्यो वंशकारणात् ॥
क्षेत्रजान्ब्राह्मणेभ्यश्च सुषुवुस्तनया न्वरान्॥॥।
ते वृद्धिं च समासाद्य क्षेत्रजाः क्षत्रियोपमाः ॥
जगृहुर्मेदिनीं वीर्यात्संनिरस्य द्विजोत्तमान्॥२॥
ततस्ते ब्राह्मणाः सर्वे परिभूतिपदं गताः॥
प्रोचुर्भार्गवमभ्येत्य दुःखेन महतान्विताः॥ ३ ॥
रामराम महाबाहो या त्वया वसुधा च नः ॥
वाजिमेधे मखे दत्ता क्षत्रियैः सा हता बलात्॥
तस्मान्नो देहि तां भूयो हत्वा तान्क्षत्रियाधमान् ॥
कुरु श्रेयोऽभिवृद्धिं तां यद्यस्ति तव पौरुषम् ॥ ५ ॥
ततो रामः क्रुधाविष्टो भूयस्तैः शवरैः सह ॥
पुलिन्दैर्मेदकैश्चैव क्षत्रियांताय निर्ययौ ॥ ६ ॥
तत्रैव क्षत्रियान्हत्वा रक्तमादाय तद्बहु ॥
तां गर्तां पूरयामास चकार पितृतर्पणम् ॥ ७ ॥
प्रददौ ब्राह्मणेभ्यश्च वाजिमेधे धरां पुनः ॥
तैश्च निर्वासितस्तत्र जगामोदधिसंनिधौ ॥ ८ ॥
एवं तेन कृता पृथ्वी सर्वक्षत्त्रविवर्जिता ॥
त्रिःसप्तवारं विप्रेंद्रा द्विजेभ्यश्च निवेदिता ॥ ९ ॥
तर्पिताः पितरश्चैव रुधिरेण महात्मना ॥
प्रतिज्ञा पालिता तस्माद्विकोपश्च बभूव सः ॥ ६.६९.१० ॥
एकविंशतिमे प्राप्ते ततश्च पितृतर्पणे ॥
अशरीराऽभवद्वाणी खस्था पितृसमुद्भवा ॥ ११ ॥
रामराम महाभाग त्यजैतत्कर्म गर्हितम् ॥
वयं ते तुष्टिमापन्नाः स्ववाक्यपरिपाल नात् ॥ १२ ॥
यत्त्वया विहितं कर्म नैतदन्यः करिष्यति ॥
न कृतं केनचित्पूर्वं पितृवैरसमुद्भवम् ॥ १३ ॥
तस्मात्तुष्टा वयं वत्स दास्यामश्चित्त वांछितम्।
प्रार्थयस्व द्रुतं तस्माद्दुर्लभं त्रिदशैरपि॥१४॥
राम उवाच।
पितरो यदि तुष्टा मे यच्छंति यदि वांछितम्।
तस्मात्तीर्थमिदं पुण्यं मन्नाम्ना लोकविश्रुतम्।
रक्तदोषविनिर्मुक्तं सेवितं वरतापसैः॥१५॥
पितर ऊचुः।
पितृतर्पणजा गर्ता त्वया येयं विनिर्मिता।
रामह्रद इति ख्यातिं प्रयास्यति जगत्त्रये ॥ १६ ॥
यत्र भक्तियुता लोकास्तर्पयिष्यंति वै पितॄन् ॥
तेऽश्वमेधफलं प्राप्य प्रयास्यंति परां गतिम्॥।१७॥
कृष्णपक्षे चतुर्दश्यां मासि भाद्रपदे नरः॥
करिष्यति च यः श्राद्धं भक्त्या शस्त्रहतस्य च॥।१८॥
अपि प्रेतत्वमापन्नं नरके वा समाश्रितम्॥
उद्धरिष्यति स प्रेतमपि पापसमन्वितम्॥।१९॥
सूत उवाच॥
एवमुक्त्वा तु रामं ते विरेमुस्तदनंतरम्॥
रामोऽपि च तपस्तेपे तत्रैव क्रोधवर्जितः॥६.६९.२०॥
तस्मात्सर्वप्रयत्नेन तत्र शस्त्रहतस्य च॥
तस्मिन्दिने प्रकर्तव्यं श्राद्धं श्रद्धासमन्वितैः॥२१॥।
उपसर्ग मृतानां च सर्पाग्निविषबन्धनैः॥
तत्र मुक्तिप्रदं श्राद्धं दिने तस्मिन्नुदाहृतम्॥२२॥
यः पितॄंस्तर्पयेत्तत्र प्रेतपक्षे जलैरपि॥
स तेषामनृणो भूत्वा पितृलोके महीयते॥२३॥
एतद्वः सर्वमाख्यातं रामह्रदसमुद्भवम्॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम्॥२४॥
श्राद्धकाले नरो भक्त्या यश्चैतत्पठति स्वयम्॥
स गयाश्राद्धजं कृत्स्नं फलमाप्नोत्यसंशयम्॥२५॥
पर्वकाले ऽथवा प्राप्ते पठेद्ब्राह्मणसंनिधौ॥
पितृमेधस्य यज्ञस्य स फलं लभते ऽखिलम्॥२६॥
शृणुयाद्वापि यो भक्त्या कीर्त्यमानमिदं नरः॥
सौत्रामणौ कृते कृत्स्नं फलमाप्नोत्यसंशयम्॥२७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्या संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रामह्रदोत्पत्तिवृत्तान्तवर्णनंनामैकोनसप्ततितमोऽ ध्यायः ॥ ६९ ॥ ॥ ध ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 70
॥ सूत उवाच ॥ ॥
तथान्यापि च तत्रास्ति शक्तिः पापप्रणाशिनी ॥
कार्तिकेयेन निर्मुक्ता हत्वा वै तारकं रणे ॥ १ ॥
तथास्ति सुमहत्कुण्डं स्वच्छोदकसमावृतम् ॥
तेनैव निर्मितं तत्र यः स्नात्वा तां प्रपूजयेत् ॥
स पापान्मुच्यते सद्य आजन्ममरणांति कात् ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
कस्मिन्काले विनिर्मुक्ता सा शक्तिस्तेन नो वद ॥
किमर्थं स्वामिना तत्र किंप्रभावा वद स्वयम् ॥ ॥ ३ ॥
॥ सूत उवाच ॥ ॥
पुरासीत्तारकोनाम दानवोऽतिबलान्वितः ॥
हिरण्याक्षस्य दायादस्त्रैलोक्यस्य भयावहः ॥ ४ ॥
स ज्ञात्वा जनकं ध्वस्तं विष्णुना प्रभविष्णुना ॥
तपस्तेपे ततस्तीव्रं गोकर्णं प्राप्य पर्वतम् ॥ ५ ॥
यावद्वर्षसहस्रांतं शीर्णपर्णा शनः स्थितः॥
ध्यायमानो महादेवं कायेन मनसा गिरा॥६॥
वरुपूजोपहारैश्च नैवेद्यैर्विविधैस्ततः॥
ततो वर्षसहस्रांते स दैत्यो दुःखसंयुतः ॥ ७ ॥
ज्ञात्वा रुद्रमसंतुष्टं ततो रौद्रं तपोऽकरोत् ॥
विनिष्कृत्त्यात्ममांसानि जुहोतिस्म हुताशने ॥ ८ ॥
ततस्तुष्टो महादेवो वृषारूढ उमापतिः ॥
सर्वैरेव गणैः सार्धं तस्य संदर्शनं ययौ ॥ ९ ॥
तत्र प्रोवाच संहृष्टस्तारनादेन नादयन् ॥
दिशः सर्वा महादेवो हर्ष गद्गदया गिरा ॥ ६.७०.१० ॥
भोभोस्तारक तुष्टोऽस्मि साहसं मेदृशं कुरु ॥
प्रार्थयस्व मनोऽभीष्टं येन ते प्रददाम्यहम् ॥ ११ ॥
॥ तारक उवाच ॥
अजेयः सर्वदेवानां त्वत्प्रसादादहं विभो ॥
यथा भवामि संग्रामे त्वां विहाय तथा कुरु ॥ १२ ॥
॥ भगवानुवाच ॥ ॥
मत्प्रसादादसंदिग्धं सर्वमेतद्भविष्यति ॥
त्वया यत्प्रार्थितं दैत्य त्वमेको बलवानिह ॥ १३ ॥
एवमुक्त्वा महादेवः स्वमेव भवनं गतः ॥
तारकश्चापि संहृष्टस्तथैवनिज मन्दिरम् ॥ १४ ॥
ततो दानवसैन्येन महता परिवारितः ॥
गतः शक्रपुरीं योद्धुं विख्याताममरावतीम् ॥ १५ ॥
अथाभवन्महायुद्धं देवानां दानवैः सह ॥
यावद्वर्षसहस्रांते मृत्युं कृत्वा निवर्तनम् ॥ १६ ॥
तत्राभवत्क्षयो नित्यं देवानां रणमूर्धनि ॥
विजयो दानवानां च प्रसादाच्छूलपा णिनः ॥ १७ ॥
ततश्चक्रुरुपायांस्ते विजयाय दिवौकसः ॥
वर्माणि सुविचित्राणि यन्त्राणि परिखास्तथा ॥ १८ ॥
अन्यान्यपि शरीरस्य रक्षणार्थं प्रयत्नतः ॥
तथैव योधमुख्यानां विशेषाद्द्विजसत्तमाः ॥ १९ ॥
ससृजुस्ते सुराधीशा दानवेभ्यो दिवानिशम् ॥ ६.७०.२० ॥
मुद्गरा भिंडिपालाश्च शतघ्न्योऽथ वरेषवः ॥
प्रासाः कुन्ताश्च भल्लाश्च तस्मिन्काले विनिर्मिताः ॥
विशेषाहवसंबन्धव्यूहानां प्रक्रियाश्च याः ॥ २१ ॥
तथान्यानि विचित्राणि कूटयुद्धान्यनेकशः ॥
भीषिकाः कुहकाश्चैव शक्रजालानि कृत्स्नशः ॥ २२ ॥
न च ते विजयं प्रापुस्तथापि द्विजसत्तमाः ॥
दानवेभ्यो महायुद्धे प्रहारैर्जर्जरीकृताः॥२३॥
अथ प्राह सहस्राक्षो भयत्रस्तो बृहस्पतिम् ॥
दिनेदिने वयं दैत्यैर्विजयामो द्विजोत्तम ॥ २४ ॥
यथायथा रणार्थाय सदुपायान्करोम्यहम् ॥
तथातथा पराभूतिर्जायते मे महाहवे ॥ २५ ॥
तदुपायं सुराचार्य स्वबुद्ध्या त्वं प्रचिन्तय ॥
येन मे स्याज्जयो युद्धे तव कीर्तिरनिन्दिता ०। २६ ॥
॥ सूत उवाच ॥ ॥
ततो बृहस्पतिः प्राह चिरं ध्यात्वा शचीपतिम् ॥
प्रहृष्टवदनो ज्ञात्वा जयोपायं महाहवे ॥ ॥ २७ ॥
मया शक्र परिज्ञातः स उपायो महाहवे ॥
जीयन्ते शत्रवो येन लीलयैवापि भूरिशः ॥ २८ ॥
यदाभीष्टं वरं तेन प्रार्थितस्त्रिपुरांतकः ॥
तदैवं वचनं प्राह प्रणिपत्य मुहुर्मुहुः ॥ २९ ॥
अजेयः सर्वदेवानां त्वत्प्रसादादहं विभो ॥
यथा भवामि संग्रामे त्वां विहाय तथा कुरु ।। ६.७०.३०
न तं स्वयं महादेवः स्वशिष्यं सूदयिष्यति ॥
विषवृक्षमपि स्थाप्य कश्छिनत्ति पुनः स्वयम् ॥ ३१ ॥
यो वै पिता स पुत्रः स्याच्छ्रुतिवाक्यमिदं स्मृतम् ॥
तस्माज्जनयतु क्षिप्रं हरस्तन्नाशकृत्सुतम् ॥ ३२ ॥
येन सेनाधिपत्ये तं विनियोज्य महाहवम् ॥
कुर्मो दैत्यैः समं शस्त्रैः प्राप्नुयाम ततो जयम् ॥३३॥
एष एव उपायोऽत्र मया ते परिकीर्तितः ॥
विजयाय सहस्राक्ष नान्योऽस्ति भुवनत्रये ॥ ३४ ॥
ततो देवगणैः सर्वैः समेतः पाकशासनः ॥।
तमर्थं प्रोक्तवाञ्छंभुं विनयावनतः स्थितः ॥ ३५ ॥
सुतस्य जननार्थाय कुरु यत्नं वृषध्वज॥
येन सेनाधिपत्ये तं योजयामि दिवौकसाम् ॥३६॥
प्राप्नोम्यहं च संग्रामे विजयं त्वत्प्रसादतः ॥
निहत्य दानवान्सर्वांस्तारकेण समन्वितान् ॥ ३७ ॥
नान्यथा विजयो मे स्यात्संग्रामे दानवैः सह॥।
इति मां प्राह देवेज्यो ज्ञात्वा सम्यङ्महामतिः ॥ ३८ ॥
अथोवाच विहस्योच्चैः शंकरस्त्रिदशेश्वरम् ॥
करिष्यामि वचः क्षिप्रं तव शक्र न संशयः॥ । ॥ ३९ ॥
पुत्रमुत्पादयिष्यामि सर्वदैत्यविनाशकम् ॥
यं त्वं सेनापतिं कृत्वा जयं प्राप्स्यसि सर्वदा ॥ ६.७०.४० ॥
एवमुक्त्वा महादेवो गत्वा कैलास पर्वतम् ॥
गौर्या समं ततश्चक्रे कामधर्मं यथोचितम् ॥ ४१ ॥
हावैर्भावैः समोपेतं हास्यैरन्यैस्तदात्मिकैः ॥
यावद्वर्षसहस्रांतं दिव्यं चैव निमेषवत् ॥ ॥ ४२ ॥
अथ देवगणाः सर्वे भयसंत्रस्तमानसाः ॥
चक्रुर्मंत्रं तदर्थं हि तारकेण प्रपीडिताः ॥ ४३ ॥
सहस्रं वत्सराणां तु रतासक्तस्य शूलिनः ॥
अतिक्रांतं न देवानां तेन कृत्यं विनिर्मितम् ॥ ४४ ॥
तस्माद्गच्छामहे तत्र यत्र देवो महेश्वरः ॥
संतिष्ठते समं गौर्या कैलासे विजने स्थितः ॥४५॥।
ततस्तत्रैव संजग्मुः सर्वे देवाः सवासवाः ॥
उद्वहन्तः परामार्तिं तारकारिसमुद्भवाम् ॥ ४६ ॥
अथ कैलासमासाद्य यावद्यांति भवांतिकम्॥
निषिद्धा नंदिना तावन्न गंतव्यमतः परम् ॥ ४७ ॥
रहस्ये भगवान्सार्धं पार्वत्या समवस्थितः ॥
अस्माकमपि नो गम्यं तस्मात्तावन्न गम्यताम् ॥ ४८ ॥
ततस्तैर्विबुधैः सर्वैः प्रेषितस्तत्र चानिलः॥
किं करोति महादेवः शीघ्रं विज्ञायतामिति ॥ ४९ ॥
अथ वायुर्गतस्तत्र यत्रास्ते भगवाञ्छिवः ॥
गौर्या सह रतासक्त आनन्दं परमं गतः ॥ ६.७०.५० ॥
अथ प्रचलिते शुक्रे स्थानादप्राप्तयोनिके ॥
देवेन वीक्षितो वायुर्नातिदूरे व्यवस्थितः ॥ ५१ ॥
ततो व्रीडा समोपेतस्तत्क्षणादेव चोत्थितः ॥
भावासक्तां प्रियां त्यक्त्वा मा मोत्तिष्ठेतिवादिनीम् ॥ ५२ ॥
अब्रवीदथ तं वायुं विनयावनतं स्थितम् ॥
किमर्थं त्वमिहायातः कच्चित्क्षेमं दिवौकसाम् ॥ ५३ ॥
॥ वायुरुवाच ॥ ॥
एते शक्रादयो देवा नंदिना विनिवारिताः ॥
तारकेण हतोत्साहास्तिष्ठंति गिरिरोधसि ॥ ५४ ॥
तस्मादेतान्समाभाष्य समाश्वास्य च सादरम् ॥
प्रेषयस्व द्रुतं तत्र यत्र ते दानवाः स्थिताः ॥ ५५ ॥
अथ तानाह्वयामाम तत्क्षणात्त्रिपुरांतकः ॥
संप्राह चविषण्णास्यः कृतांजलिपुटान्स्थितान् ॥ ५६ ॥
॥ श्रीभगवानुवाच ॥ ॥
युष्मत्कृते समारंभः पुत्रार्थं यो मया कृतः ॥
स्वस्थानाच्चलिते शुक्रे कृतो मोघोद्य वायुना ॥ ५७ ॥
एतद्वीर्यं मया धैर्यात्स्तंभितं लिंगमध्यगम् ॥
अमोघं तिष्ठते सर्वं क्व दधामि निवेद्यताम्॥ ५८ ॥
येन संजायते पुत्रो दानवांतकरः परः ॥
सेनानाथश्च युष्माकं दुर्द्धरः समरे परैः ॥ ५९ ॥
एतत्कल्पाग्निसंकाशं धर्तुं शक्नोति नापरः ॥
विना वैश्वानरं तस्माद्दधात्वेष सनातनम्॥ ६.७०.६० ॥
येन तत्र प्रमुञ्चामि सुताय विजयाय च ॥
एतद्वीर्यं महातीव्रं द्वादशार्कसमप्रभम् ॥ ॥ ६१ ॥
अथ प्राहुः सुराः सर्वे वह्निं संश्लाघ्य सादराः ॥
त्वं धारयाग्ने वक्त्रांते वीर्यमेतद्भवोद्भवम् ॥ ६२ ॥
ततः प्रसारयामास स्ववक्त्रं पावको द्रुतम्॥
कुर्वञ्छक्रसमादेशमविकल्पेन चेतसा ॥६३॥
शंकरोऽप्यक्षिपत्तत्र कामबाणप्रपीडितः ॥
गौरीं भगवतीं ध्यायन्नानन्दं परमं गतः॥६४॥
पावकोऽपि भृशं तेन कल्पाग्निसदृशेन च ॥
दह्यमानोऽक्षिपद्भूमौ शरस्तंबे सुविस्तरे॥६५॥
एतस्मिन्नंतरे प्राप्ता भ्रममाणा इतस्ततः॥
भार्यास्तत्र मुनीनां ताः षण्णां षट्कृत्तिकाः शुभाः॥६६॥
तासां निदेशयामास स्वयमेव शतक्रतुः ॥
एतद्बीजं त्रिनेत्रस्य परिपाल्यं प्रयत्नतः ॥ ६७ ॥
अत्र संपत्स्यते पुत्रो द्वादशार्कसमप्रभः ॥
भवतीनामपि प्रायः पुत्रत्वं संप्रयास्यति ॥ ६८ ॥
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खंडे हाटकेश्वरक्षेत्रमाहात्म्ये कार्तिकेयोत्पत्तिवृत्तांतवर्णनंनाम सप्ततितमोऽध्यायः ॥ ६.७०.७० ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 71
॥ सूत उवाच ॥ ॥
तास्तथेति प्रतिज्ञाय चक्रुस्तच्छक्रशासनम् ॥
सूतिकागृहधर्मे यत्तच्चक्रुस्तस्य सर्वशः ॥ १ ॥
अथान्यदिवसे बालो द्वादशार्कसमद्युतिः ॥
संजज्ञे तेन वीर्येण द्विभुजैक मुखः शुभः ॥ २ ॥
यथासौ जातमात्रस्तु प्ररुरोद सुदुःखितः ॥
तच्छ्रुत्वा रुदितं सर्वाः कृत्तिकास्तमुपागताः ॥ ३ ॥
महासेनोऽपि संवीक्ष्य मातॄस्ताः समुपागताः॥
सोत्कण्ठः षण्मुखो जातो द्वादशाक्षभुजस्तथा ॥ ४ ॥
एकैकस्याः पृथक्तेन प्रपपौ प्रयतः स्तनम् ॥
द्वाभ्यामालिंगयामास भुजाभ्यां स्नेहपूर्वकम्॥ ५ ॥
एतस्मिन्नंतरे प्राप्ता ब्रह्मविष्णुशिवादयः ॥
सर्वे देवाः सहेन्द्रेण गन्धर्वाप्सरसस्तथा ॥ ६ ॥
महोत्सवोऽथ संजज्ञे तस्मिन्स्थाने निरर्गलः ॥
गीतवाद्यप्रणादेन येनविश्वं प्रपूरितम् ॥ ७ ॥
रंभाद्या ननृतुस्तस्य विलासिन्यो दिवौकसाम् ॥
जगुश्च मुख्यगन्धर्वा श्चित्रांगदमुखाश्च ये ॥ ८ ॥
ततस्तु देवताः सर्वास्तस्य नाम प्रचक्रिरे ॥
स्कन्दनाद्रेतसो भूमौ स्कन्द इत्येव सादरम् ॥ ९ ॥
अथ तस्य कुमा रस्य तदा तत्राभिषेचनम् ॥
सेनापत्यं कृतं साक्षाद्देवानां शंभुना स्वयम् ॥ ६.७१.१० ॥
तस्य शक्तिः स्वयं दत्ता विधिनाऽद्भुतदर्शना ॥
अमोघा विजयार्थाय दैत्यपक्षक्षयाय च ॥ ११ ॥
मयूरो वाहनार्थाय त्र्यंबकेण सुशीघ्रतः ॥
दिव्यास्त्राणि महेन्द्रेण विष्णुनाथ महात्मना ॥ १२ ॥
ततोऽभीष्टानि शस्त्राणि देवैः सर्वैः पृथक्पृथक् ॥
तस्य दत्तानि संतुष्टैस्तथा मातृगणैरपि ॥ १३ ॥
ततस्तमग्रतः कृत्वा सेनानाथं सुरेश्वराः ॥
जग्मुः ससैनिकास्तत्र तारको यत्र संस्थितः ॥ १४ ॥
तारकोऽपि समालोक्य देवान्स्वयमुपागतान् ॥
युद्धार्थं हर्षसंयुक्तः सम्मुखः सत्वरं ययौ ॥ १५ ॥
ततोऽभूत्सुमहद्युद्धं देवानां दानवैः सह ॥
कोपसंरक्तनेत्राणां मृत्युं कृत्वा निवर्तनम् ॥ १६ ॥
अथ स्कन्देन संवीक्ष्य दूरस्थं तारकं रणे ॥
समाहूय ततो मुक्ता सा शक्तिस्तस्य मृत्यवे ॥ १७ ॥
अथासौ हृदयं भित्त्वा तस्य दैत्यस्य दारुणा ॥
चमत्कारपुरोपांते पतिता रुधिरोक्षिता ॥ १८ ॥
तारकस्तु गतो नाशं मुक्तः प्राणैश्च तत्क्षणात् ॥
ततो देवगणाः सर्वे संहृष्टास्तं महाबलम् ॥ १९ ॥
स्तोत्रैर्बहुविधैः स्तुत्वा प्रोचुस्तस्मिन्हते सति ॥
गताश्च त्रिदिवं तूर्णं सह शक्रेण निर्भयाः ।१ ६.७१.२० ॥
स्कन्दोऽपि तां समादाय शक्तिं तत्र पुरोत्तमे ॥
स्थापयामास येनैव रक्तशृंगोऽभवद्दृढः ॥ ॥ २१ ॥
ऋषय ऊचुः ॥ ॥
रक्तशृंगः कथं तेन निश्चलोऽपि दृढीकृतः ॥
कस्य वाक्येन नो ब्रूहि विस्तरेण महामते ॥ २२ ॥
॥ सूत उवाच ॥ ॥
यदा वै भूमिकम्पस्तु संप्रजातः सुदारुणः ॥
रक्तशृङ्गः प्रचलितः स्वस्थानादतिवेगतः ॥ २३ ॥
तस्य दैत्यस्य पातेन यथान्ये पर्व तोत्तमाः ॥
अथ हर्म्याणि सर्वाणि चमत्कारपुरे तदा ॥ २४ ॥
शीर्णानि चलिते तस्मिन्पर्वते व्यथिता द्विजाः ॥
प्रायशो निधनं प्राप्तास्तथाऽन्ये मूर्छयार्दिताः ॥ २५ ॥
हतशेषास्ततो विप्रा गत्वा स्कन्दं क्रुधान्विताः ॥
प्रोचुश्च किमिदं पाप त्वया कृतमबुद्धिना ॥ २६ ॥
नाशं नीता वयं सर्वे सपुत्रपशुबाधवाः ॥
तस्माच्छापं प्रदास्यामो वयं दुःखेन दुःखिताः ॥ २७ ॥
॥ स्कन्द उवाच ॥ ॥
हिताय सर्वलोकानां मयैतत्समनुष्ठितम् ॥
यद्धतो दानवो रौद्रो नान्यथा द्विजसत्तमाः ॥ २८ ॥
प्रसादः क्रियतां तस्मान्मान्या मे ब्राह्मणाः सदा ॥
मृतानपि द्विजान्सर्वानहं तानमृताश्रयात्॥ २९ ॥
पुनर्जीवितसंयुक्तान्करिष्यामि न संशयः ॥
तथा सुनिश्चलं शैलं करिष्यामि स्वशक्तितः ॥ ६.७१.३० ॥
एवमुक्त्वा समादाय तां शक्तिं रुधिरोक्षिताम् ॥
चक्रे स्थापनमस्यास्तु रक्तशृङ्गस्य मूर्धनि ॥ ३१ ॥
ततः प्रोवाच संहृष्टो देवतानां चतुष्टयम् ॥
आंबवृद्धां तथैवाम्रां माहित्थां च चमत्करीम् ॥ ३२ ॥
युष्माभिर्निश्चलः कार्यो भूयोऽयं नगसत्तमः ।।
प्रलयेऽपि यथा स्थानाद्रक्तशृङ्गश्चलेन्नहि ॥ ३३ ॥
सदैव ख्यातिमायातु मन्नाम्ना पुरमुत्तमम्॥३२॥
युष्माकं ब्राह्मणाः सर्वे पूजां दास्यंति सर्वदा॥३४॥
बाढमित्येव ताः प्रोच्य चतुर्दिक्षु ततश्च तम्॥
शूलाग्रैः सुदृढं चक्रुः स्कन्दवाक्येन हर्षिताः॥
ततश्चामृतमादाय मृतानपि द्विजोत्तमान्॥
स्कन्दो जीवापयामास द्विजभक्तिपरायणः॥३६॥
ततस्ते ब्राह्मणास्तत्र संहृष्टा वरमुत्तमम् ॥
ददुस्तस्य स च प्राह मन्नामैतत्पुरोत्तमम् ॥
सदैव ख्यातिमायातु एतन्मे हृदि वांछितम् ॥ ३७ ॥
॥ ऋषय ऊचुः ॥ ॥
एतत्स्कन्दपुरंनाम तव नाम्ना भविष्यति ॥
चमत्कारपुरं तद्वत्सांप्रतं सुरसत्तम ॥ ३८ ॥
पूजां तव करिष्यामः कृत्वा प्रासादमुत्त मम् ॥
तथैव देवताः सर्वाश्चतस्रोऽपि त्वया धृताः ॥ ३९ ॥
सर्वाः संपूजयिष्यामः सर्वकृत्येषु सादरम्॥
एतां चं तावकीं शक्तिं सदा सुरवरोत्तम ॥
विशेषात्पूजयिष्यामः षष्ठ्यां श्रद्धासमन्विताः ॥ ६.७१.४० ॥
॥ सूत उवाच ॥ ॥
एवं स ब्राह्मणैः प्रोक्तो महासेनो महाबलः ॥
स्थितस्तत्रैव तद्वा क्याज्ज्ञात्वा तत्क्षेत्रमुत्तमम् ॥ ४१ ॥
यस्तं पूजयते भक्त्या चैत्रषष्ठ्यां सुभावतः ॥
शुक्लायां तस्य संतुष्टिं कुरुते बर्हिवाहनः ॥ ४२ ॥
तस्यां शक्तौ नरो यश्च कुर्यात्पृष्ठिनिघर्षणम्॥
पूजयित्वा तु पुष्पाद्यैः सम्यक्छ्रद्धासमन्वितः ॥
स न स्याद्रोगसंयुक्तो यावत्संवत्सरं द्विजाः ॥ ४३ ॥
एवं तत्र धृता शक्तिस्तेन स्कन्देन धीमता ॥
रक्तशृंगस्य रक्षार्थं तत्पुरस्य विशेषतः ॥ ४४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये स्कन्दस्थापितशक्तिमाहात्म्यवर्णनंनामैकसप्ततितमोऽध्यायः ॥ ७१ ॥ ॥ ध ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 72
॥ सूत उवाच ॥ ॥
तत्रैव स्थापितं लिंगं धृतराष्ट्रेण भूभुजा ॥
दुर्योधनेन चालोक्य सर्वपापैः प्रमुच्यते ॥ १ ॥
॥ ऋषय ऊचुः ॥ ॥
कस्मिन्काले नरेन्द्रेण धृतराष्ट्रेण भूभुजा ॥
तत्र संस्थापितं लिगं वद त्वं रौमहर्षणे ॥ २ ॥
॥ सूत उवाच ॥ ॥
आसीद्भानुमतीनाम बलभद्रसुता पुरा ॥
सर्वलक्षणसंपन्ना रूपौ दार्यगुणान्विता ॥ ३ ॥
तां ददावथ पत्न्यर्थे धार्तराष्ट्राय धीमते ॥
दुर्योधनाय संमन्त्र्य विष्णुना सह यादवः ॥ ४ ॥
अथ नागपुरात्सर्वे भीष्म द्रोणादयश्च ये ॥
कौरवाः प्रस्थितास्तूर्णं पुरीं द्वारवतीं प्रति ॥५॥
तथा पांडुसुताः पंच परिवारसमन्विताः॥
सौभ्रात्रं मन्यमानास्ते दुर्योधनसमन्वि ताः ॥
जग्मुर्द्वारवतीं हृष्टाः सैन्येन महतान्विताः ॥६॥
अथ क्रमेण गच्छंतस्ते सर्वे कुरुपाण्डवाः ॥
आनर्तविषयं प्राप्ता धनधान्यसमाकुलम् ॥७॥
सर्वपापहरं पुण्यं यत्र तत्क्षेत्रमुत्तमम्॥
हाटकेश्वरदेवस्य विख्यातं भुवनत्रये ॥ ८ ॥
अथ प्राह विशुद्धात्मा वृद्धः कुरुपितामहः ॥
धृतराष्ट्रं महीपालं सपुत्रं प्रहसन्निव ॥ ९ ॥
॥ भीष्म उवाच ॥ ॥
एतद्वत्स पुरा दृष्टं मया क्षेत्रमनुत्तमम्॥
हाटकेश्वरदेवस्य सर्वपातकनाशनम् ॥ ६.७२.१० ॥
अत्राहं चैव नि र्मुक्तः स्त्रीहत्योद्भवपातकात् ॥
तस्मादत्रैव राजेंद्र तिष्ठामः पंचवासरान् ॥११॥
येन सर्वाणि पश्यामस्तीर्थान्यायतनानि च॥
यान्यत्र संति पुण्यानि मुनीनां भावितात्मनाम् ॥१२॥
अथ तद्वचनाद्राजा धृतराष्ट्रोंऽबिकासुतः ॥
शतसंख्यैः सुतैः सार्धं कौतूहलसमन्वितः ॥१३॥
जगाम सत्वरं तत्र यत्र तत्क्षेत्रमुत्तमम् ॥
तपस्विगणसंकीर्णं युक्तं चैवाश्रमैः शुभैः ॥ १४ ॥
ब्रह्मघोषेण महता नादितं सर्वतोदिशम् ॥
वह्निपूजोत्थधूम्रेण कलुषीकृतपाद पम् ॥
क्रीडामृगैश्च संकीर्णं धावद्भिर्बहुभिस्तथा ॥ १५ ॥
ततो निवार्य सैन्यं स्वमुपद्रवभयान्नृपः ॥
पञ्चभिः पांडवैः सार्धं शतसंख्यैस्तथा सुतैः ॥ ॥ १६ ॥
भीष्मेण सोमदत्तेन बाह्लीकेन समन्वितः॥
द्रोणाचार्येण वीरेण तत्पुत्रेण कृपेण च ॥१७॥
सौबलेन च कर्णेन तथान्यैरपि पार्थिवैः॥
परिवारपरित्यक्तैस्तस्मिन्क्षेत्रे चचार सः ॥ १८ ॥
तेऽपि सर्वे महात्मानः क्षत्रियास्तत्र संस्थिताः ॥
चक्रुर्धर्मक्रियाः सर्वाः श्रद्धापूतेन चेतसा ॥ १९ ॥
स्नानं चक्रुर्विधानेन तीर्थेषु द्विजसत्तमाः ॥
भ्रांत्वाभ्रांत्वा सुपुण्येषु श्रुत्वाश्रुत्वा द्विजन्मनाम् ॥ ६.७२.२० ॥
दानानि च विशिष्टानि ददुरिष्टानि चापरे ॥
दीनेभ्यः कृपणेभ्यश्च तपस्विभ्यो विशेषतः ॥ २१ ॥
चक्रुः श्राद्धक्रियाश्चान्ये पितॄनुद्दिश्य भक्तितः ॥
पितॄणां तर्पणं चान्ये तिलमिश्र जलेन च ॥ २२ ॥
अन्ये होमक्रिया भूपा जपमन्ये निरर्गलम् ॥
स्वाध्यायमपरे शान्ताः सम्यक्छ्रद्धासमन्विताः ॥ २३ ॥
देवतायतनान्यन्ये माहात्म्यसहितानि च ॥
श्रुत्वा पूर्वनृपाणां च पूजयंति विशेषतः ॥ २४ ॥
बलिदानैः सुवस्त्रैश्च गन्धपुष्पोपलेपनैः ॥
मार्जनैध्वजदानैश्च तथा प्रेक्षणकैः शुभैः ॥ २५ ॥
मंडनैः पुष्पमालाभिः समंताद्द्विजसत्तमाः ॥
हस्त्यश्वरथदानैश्च गोर्भिर्वस्त्रैश्च कांचनैः ॥
कृतार्था ब्राह्मणाः सर्वे कृतास्तै स्तत्र भक्तितः ॥ २६ ॥
एवं स्नात्वा तथाऽभ्यर्च्य देवान्विप्रान्नृपोत्तमाः ॥
धृतराष्ट्रसमायुक्ता जग्मुः स्वशिबिरं ततः ॥ २७ ॥
शंसन्तो विस्मया विष्टास्तीर्थान्यायतनानि च ॥
तस्मिन्क्षेत्रे द्विजांश्चैव तापसान्संशितव्रतान् ॥ २८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये धृतराष्ट्रादिकृतहाटकेश्वरक्षेत्रदर्शनवर्णनंनाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 73
॥ सूत उवाच ॥ ॥
एवं ते कौरवाः सर्वे पांडोः पुत्राश्च शालिनः ॥
तस्मात्स्थानात्ततो जग्मुर्यत्र द्वारवती पुरी ॥ १ ॥
तत्र गत्वा विवाहं तु चक्रुः संहृष्टमानसाः ॥
दुर्योधनस्य भूपस्य भानुमत्या समं तदा ॥ २ ॥
नानावादित्रघोषेण वेदध्वनियुतेन च ॥
गीतैर्मनोहरैः पाठैर्बन्दिनां च सहस्रशः ॥ ३ ॥
एवं महोत्सवो जज्ञे तत्र यावद्दिनाष्टकम् ॥
यादवानां कुरूणां च मिलितानां परस्परम् ॥ ४ ॥
कृतार्थास्तत्र संजाताः सूतमागध बन्दिनः ॥
चारणा ब्राह्मणेंद्राश्च तथान्येऽपि च तार्किकाः ॥ ५ ॥
ततस्तु नवमे प्राप्ते दिवसे कुरुपांडवाः ॥
भीष्माद्याः पुंडरीकाक्षमिदमूचुः ससौहृ दम् ॥ ६ ॥
न वयं पुंडरीकाक्ष तव रामस्य चाश्रयम् ॥
कथंचित्त्यक्तुमिच्छामः स्नेहपाशनियंत्रिताः ॥ ७ ॥
तथापि च प्रगन्तव्यं स्वपुरं प्रति माध व ॥
बलभद्रसमायुक्तस्तस्मान्नः कुरु मोक्षणम् ॥ ८ ॥
॥ विष्णुरुवाच ॥ ॥
न तावद्वत्सरो जातो न मासः पक्ष एव च ॥
स्थितानामत्र युष्माकं तत्किमौत्सुक्यमागतम् ॥ ९ ॥
तस्मादत्रैव तिष्ठामः सहिताः कुरुपांडवाः ॥
यूयं वयं विनोदेन मृगयाक्षोद्भवेन च ॥ ६.७३.१० ॥
शस्त्रशिक्षाक्रियाभिश्च दमनेन च दन्तिनाम् ॥
तथाभिवांछितैरन्यैः स्नेहोऽस्ति यदि वो मयि ॥ ११ ॥
॥ भीष्म उवाच ॥ ॥
उपपन्नमिदं विष्णो यत्त्वया व्याहृतं वचः ॥
परं शृणुष्व मे वाक्यं यदर्थं ह्युत्सुका वयम् ॥ १२ ॥
आनर्तविषयेऽस्माभिरागच्छद्भिस्तवांतिकम् ॥
दृष्टमत्यद्भुतं क्षेत्रं हाटकेश्वरजं महत् ॥
तत्र लिंगानि दृष्टानि भूपतीनां महात्मनाम् ॥ १३ ॥
सूर्यचन्द्रान्वयोत्थानामन्येषां च महात्मनाम् ॥ १४ ॥
देवानां दानवानां च मुनीनां च विशेषतः ॥
साकाराणि सुतेजांसि नानाप्रासादभोजि च ॥ १५ ॥
ततश्च कुरुमुख्यानां पांडवानां च माधव ॥
लिंगसंस्थापनार्थाय तत्र जाता मतिर्दृढा ॥ १६ ॥
ते वयं तत्र गत्वाशु यथाशक्त्या यथेच्छया ॥
लिंगानि स्थापयिष्यामः स्वानिस्वानि पृथक्पृथक् ॥ १७ ॥
एतस्मात्कारणात्तूर्णं चलिता वयमच्युत ॥
न वयं तव संगस्य तृप्यामोऽब्दशतैरपि ॥ १८ ॥
तस्मादाज्ञापयस्वाद्य कृत्वा चित्तं दृढं विभो ॥
भूयोऽप्यत्रागमिष्यामस्तव दर्शनलालसाः ॥ १९ ॥
॥ श्रीभगवानुवाच ॥ ॥
अहं जानामि तत्क्षेत्रं सुपुण्यं पापनाशनम् ॥
तापसैः कीर्तितं नित्यं ममान्यैस्तीर्थयात्रिकैः ॥ ६.७३.२० ॥
तस्मात्तत्र समेष्यामो युष्माभिः सहिता वयम् ॥
लिंग संस्थापनार्थाय क्षेत्रदर्शनवांछया ॥ २१ ॥
॥ सूत उवाच ॥ ॥
तच्छुत्वा कौरवाः सर्वे परं हर्षमुपागताः ॥
तथा पांडुसुताश्चैव ये चान्ये तत्र पार्थिवाः ॥ २२ ।
ते तु संप्रस्थिताः सर्वे मिलिताः कुरुपांडवाः ॥
गजवाजिविमर्देन कम्पयन्तो वसुन्धराम् ॥ २३ ॥
अथ तत्क्षेत्रमासाद्य दूरे कृत्वा निवेशनम् ॥
कौरवा यादवा मुख्याश्चमत्कारपुरं गताः ॥ २४ ॥
तत्र सर्वान्समाहूय ब्राह्मणान्विनयान्विताः ॥
प्रोचुर्दत्त्वा विचित्राणि भूषणाच्छादनानि च ॥ २५ ॥
वयं सर्वेऽत्र वांछामो लिगसंस्थापनक्रियाम् ॥
कर्तुं प्रासादमुख्यानां पृथक्त्वेन स्वशक्तितः ॥ २६ ॥
तस्मात्कृत्वा प्रसादं नो दयां च द्विजसत्तमाः ॥
आज्ञापयत शीघ्रं हि येन कर्म प्रवर्तते ॥ २७ ॥
भविष्यथ तथा यूयं होतारः सर्वकर्मसु ॥
न चान्यो ब्राह्मणो बाह्यो यद्यपि स्याद्बृहस्पतिः ॥ २८ ॥
यतोऽस्माभिः श्रुता वार्ता कीर्त्यमाना पुरातनी ॥
विष्णुना तस्य राजर्षेः प्रेतश्राद्धसमुद्भवा ॥ २९ ॥
यथा तेन कृतं श्राद्धं पितुः प्रेतस्य यत्नतः ॥
ब्राह्मणानां पुरोऽन्येषां यथोक्तानामपि द्विजाः ॥ ६.७३.३० ॥
यथोक्तविधिना तीर्थे नागानां पंचमीदिने ॥।
श्रावणे मासि नो मुक्तः पिता तस्य तथापि सः ॥ ३१ ॥
प्रेतत्वात्सर्पदोषेण संजाता द्विजसत्तमाः ॥
देवशर्मपुरो यावत्तत्कृतं श्राद्धमादरात् ॥
तावत्पिता विनिर्मुक्तः प्रेतत्वाद्दारुणाद्द्विजाः ॥ ३२ ॥
यदत्र क्रियते किंचित्कर्म धर्म्यं द्विजोत्तमाः ॥
तद्बाह्यं च भवेद्व्यर्थमेतद्विद्मः स्फुटं वयम् ॥ ॥ ३३ ॥
प्रार्थयामो विशेषेण तेन दैन्यं समागताः ॥
प्रसादः क्रियतां तस्मादाज्ञां यच्छत मा चिरम् ॥ ३४ ॥
॥ सूत उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा ब्राह्मणास्ते परस्परम् ॥
मन्त्रं चक्रुस्तदर्थं हि किं कृतं सुकृतं भवेत् ॥ ३५ ॥
एके प्रोचुर्न दास्यामः प्रासादार्थं वसुन्धराम् ॥
एतेषामपि चैकस्य तस्माद्गच्छंतु सत्वरम् ॥ ३६ ॥
पंचक्रोशप्रमाणेन क्षेत्रमेतद्व्यवस्थितम् ॥
पूर्वेषामपि देवानां प्रासादैस्तत्समावृतम् ॥ ३७ ॥
अन्ये प्रोचुर्धनोमत्ता यूयं च सुखमाश्रिताः ॥
दारिद्यार्तिं न जानीथ ब्रूथ तेन भृशं वचः ॥ ३८ ॥
तस्माद्वयं प्रदास्याम एतेषां हि वसु न्धराम् ॥
अर्थसिद्धिर्भवेद्येन भूषा स्थानस्य जायते ॥ ३९ ॥
तथान्ये मध्यमाः प्रोचुर्यत्र साक्षाज्जनार्दनः ॥
स्वयं प्रार्थयते भूमिं तत्कस्मान्न प्रदीयते ॥ ६.७३.४० ॥
तस्माद्यत्र समायाताः कुरुपांडवयादवाः ॥
प्राधान्येन प्रकुर्वंतु प्रासादांस्तेन चापरे ॥ ४१ ॥
याचते यत्र गांगेयः स्वयमेव तथा परः ॥
धृतराष्ट्रः सपुत्रश्च पांडवाश्च महाबलाः ॥
लिंगसंस्थापनार्थाय निषेधस्तत्र नार्हति ॥ ४२ ॥
तेषां तद्वचनं श्रुत्वा प्रतिपन्नं द्विजोत्तमैः ॥
निर्धनैः सधनैश्चापि सस्पृहैर्निःस्पृहैरपि ॥ ४३ ॥
ततः समेत्य ते सर्वे ब्राह्मणाः कुरुसत्तमान् ॥
यादवान्पांडवान्प्रोचुः कृत्वा वै मन्त्रनिश्चयम् ॥ ४४ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
एतत्स्वल्पतरं क्षेत्रं सर्वेषामपि भूभुजाम् ॥
प्रासादैः सर्वतो व्याप्तं तत्किं ब्रूमोऽधुना वयम् ॥ ४५ ॥
तद्भवंतः प्रकुर्वंतु प्राधान्येन यदृच्छया ॥
क्षेत्रेऽत्रैवाभिमुख्येन प्रासादान्सुमनोहरान् ॥
यथाज्येष्ठं यथाश्रेष्ठं पृथक्त्वेन व्यवस्थिताः ॥ ४६ ॥
अथ हर्षसमायुक्ता धृतराष्ट्रमुखाः क्रमात् ॥
प्राधान्येन यथाश्रेष्ठं चक्रुः प्रासादपद्धतिम् ॥ ४७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धृतराष्ट्रादिकृतप्रासादस्थापनोद्यमवर्णनंनाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥ ॥॥
खण्डः ६ (नागरखण्डः) — Adhyāya 74
॥ सूत उवाच ॥ ॥
धृतराष्ट्रेण भूपेन शतपुत्रान्वितेन च ॥
लिंगानां स्थापितं तत्र शतमेकोत्तरं द्विजाः ॥ १ ॥
तथा च पांडवैः सर्वैः स्थापितं लिंगपंचकम् ॥
द्रौपद्या चाऽथ कुन्त्याऽथ गांधार्याऽथ यदृच्छया ॥ २ ॥
भानुमत्या च गौरीणां स्थापितं च चतुष्टयम् ॥
विदुरेणाथ शल्येन कलिं गेन युयुत्सुना ॥ ३ ॥
बाह्लीकेन सपुत्रेण कर्णेनाथ ससूनुना ॥
तथा शकुनिना तत्र द्रोणेन च कृपेण च ॥ ४ ॥
अश्वत्थाम्ना पृथक्त्वेन लिङ्गमेकैकमुत्तमम् ॥
स्थापितं परया भक्त्या वरप्रासादमाश्रितम् ॥ ५ ॥
तथा संस्थापितं तत्र विष्णुना प्रभविष्णुना ॥
लिंगं प्रासादमाधाय प्रोत्तुंगशिखरान्वितम् ॥ ६ ॥
सात्वतेनापि सांबेन बलभद्रेण धीमता ॥
प्रद्युमेनानिरुद्धेन तथान्यैर्मुख्ययादवैः ॥ ७ ॥
चारुदेष्णादिभिः पुत्रै रुक्मिण्या दशभिः सुतैः ॥
लिंगानां दशकं मुख्यं स्थापितं श्रद्धयान्वितैः ॥ ८ ॥
एवं संस्थाप्य लिङ्गानि ते सर्वे कुरुपांडवाः ॥
यादवाश्च सुसंहृष्टा कृतकृत्यास्तदा। ऽभवन् ॥ ९ ॥
तत्र स्थित्वा चिरं कालं दत्त्वा दानान्यनेकशः ॥
धनाढ्यान्ब्राह्मणान्कृत्वा चमत्कारपुरोद्भवान् ॥ ६.७४.१० ॥
दत्त्वा तेभ्यो वरान्नागान्ह याञ्जात्याननेकशः॥
सद्ग्रामाणि विचित्राणि क्षेत्राणि च सुधेनवः ॥ ११ ॥
महोक्षांश्च सुवस्त्राणि भूस्थानान्याश्रयांस्तथा ॥
दासीदासांस्तथा भृत्यान्दानानि विविधानि च ॥ १२ ॥
तत आमन्त्र्य तान्सर्वान्प्रणिपत्य मुहुर्मुहुः ॥
स्वस्थानं प्रति संहृष्टाः प्रजग्मुः सर्व एव ते ॥ १३ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं स्थापितं तेन भूभुजा ॥
तथा तद्धृतराष्ट्रेण लिंगं पातकनाशनम् ॥ १४ ॥
तथान्यैरपि भूपालैः प्राधान्येन व्यवस्थितैः ॥
पाण्डवैर्यादवैश्चैव पृथक्त्वेन व्यवस्थितैः ॥।५॥
यस्तानि पुरुषः सम्यक्पूजयेद्भक्तिभावितः ॥
स लभेच्चाखिलान्कामान्वांछितान्स्वेन चेतसा ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कौरवपाण्डवयादवकृतलिंग प्रतिष्ठावृत्तांतवर्णनंनाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 75
॥ सूत उवाच ॥ ॥
पुरा कल्पे भगवता एतत्क्षेत्रमनुत्तमम् ॥
रुद्रेण ब्रह्मणे दत्तं तुष्टेन द्विजसत्तमाः ॥ १ ॥
यदा तु स्थापितं लिंगं हाटकेश्वरसंज्ञितम् ॥
देवैः प्रीतेन रुद्रेण प्रदत्तं ब्रह्मणे पुनः ॥ २ ॥
एतत्क्षेत्रं तदा दत्तं शंभुना षण्मुखस्य ह ॥
रक्षणार्थं हि विप्राणां कलिकालादिदोषतः ॥३॥
ब्रह्मणा प्रार्थितेनेदं स्वयमादिममुत्तमम् ॥
पित्रादिष्टस्तु गांगेयस्तत्र वासमथाकरोत् ॥ ४ ॥
कार्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम् ॥
सप्तजन्म भवेद्विप्रो धनाढ्यो वेदपारगः ॥५॥
महासेनस्य देवस्य प्रासादं सुमनोहरम्॥
उच्चैः स्थितं सर्वलोके पातुकाममिवांबरम् ॥ ६ ॥
तच्छ्रुत्वा विबुधाः सर्वे कौतुकादेत्य सत्वरम् ॥
वीक्षांचक्रुस्ततो गत्वा दृष्ट्वा मेध्यतमं पुरम् ॥ ७ ॥
प्रासादस्योत्तरे देशे प्राच्ये देशे तथा द्विजाः ॥
यज्ञक्रियासमारंभांश्चकुर्विप्रैर्यथोदितान् ॥८॥
इष्ट्वा च विबुधाः सर्वे दत्त्वा तेभ्यश्च दक्षिणाम् ॥
जग्मुस्त्रिविष्टपं हृष्टा लब्ध्वा तत्स्थानजं फलम् ॥ ९ ॥
ततस्तु देवयजनंनाम तस्य बभूव ह ॥
यदन्यत्र शतं कृत्वा क्रतूनां फलमाप्नुयात् ॥
तदत्रैकेन लभते क्रतुना दक्षिणावता ॥ ६.७५.१० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये यज्ञ भूमिमाहात्म्यवर्णनंनाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥ ॥ अ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 76
॥ सूत उवाच ॥ ॥
तथान्यदपि तत्रास्ति भास्करत्रितयं शुभम् ॥
यैस्तुष्टैस्त्रिषु लोकेषु मानवो मुक्तिमाप्नुयात् ॥ १ ॥
मुण्डीरं प्रथमं तत्र कालप्रियं तथापरम् ॥
मूलस्थानं तृतीयं च सर्वव्याधिविनाशनम् ॥ २ ॥
तत्र संक्रमते सूर्यो मुंडीरे रजनीक्षये ॥
कालप्रिये च मध्याह्ने मूलस्थाने क्षपागमे ॥ ३ ॥
तस्मिन्काले नरो भक्त्या पश्येदप्येकमेवच ॥
कृतक्षणो नरो मोक्षं सत्यं याति न संशयः ॥ ४ ॥
॥ ऋषय ऊचुः ॥ ॥
मुंडीरः पूर्वदिग्भागे धरित्र्याः श्रूयते किल ॥
मध्ये कालप्रियो देवो मूलस्थानं तदन्तरे ॥ ५ ॥
तत्कथं ते त्रयस्तत्र संजाताः सूत भास्कराः ॥
हाटकेश्वरजे क्षेत्रे सर्वं नो ब्रूहि विस्तरात् ॥ ६ ॥
॥ सूत उवाच ॥ ॥
अस्ति सागरपर्यंते विटंकपुरमुत्तमम् ॥
समुद्रवीचिसंसक्तप्रोच्चप्राकारमण्डनम् ॥ ७ ॥
तत्राभूद्ब्राह्मणः कश्चित्कुष्ठव्याधिसमन्वितः ॥
पूर्वकर्मविपाकेन यौवनेसमुपस्थिते ॥ ८ ॥
तस्य भार्याऽभवत्साध्वी कुलीना शीलमंडना ॥
तथाभूतमपि प्रायः सा पश्यति यथा स्मरम् ॥ ९ ॥
औषधानि विचित्राणि महार्घ्याण्यपि चाददे ॥
तदर्थमुपलेपांश्च पथ्यानि विविधानि च ॥ ६.७६.१० ॥
तथा भिषग्वरान्नित्यमानिनाय च सादरम् ॥
तदर्थे न गुणस्तस्य तथापि स्याच्छरीरजः ॥ ११ ॥
यथायथा स गृह्णाति भेषजानि द्विजोत्तमाः ॥
कुष्ठेन सर्वगात्रेषु व्याप्यते च तथातथा ॥ १२ ॥
अथैवं वर्तमानस्य तस्य विप्रवरस्य च ॥
गृहेऽतिथिः समायातः कश्चित्पांथः श्रमान्वितः ॥ १३ ॥
अथ विप्रं गृहं प्राप्तं दृष्ट्वा तस्य सती प्रिया ॥
अज्ञातमपिसद्भक्त्या सूपचारैरतोषयत् ॥ १४ ॥
अथ तं स्नातमाचांतं कृताहारं द्विजोत्तमम् ॥
विश्रान्तं शयने विप्रः प्रोवाच स गृहाधिपः ॥ १५ ॥
तेजोऽन्वितं यथा भानुं रूपौदार्यगुणान्वितम् ॥
यौवने वर्तमानं च मूर्तं काममिवापरम् ॥ १६ ॥
॥ कुष्ठ्युवाच ॥ ॥
कुत आगम्यते विप्र क्व यास्यसि वदाऽधुना ॥
एवं लावण्ययुक्तोऽपि किमेकाकी यथार्तिभाक् ॥ १७ ॥
॥ पथिक उवाच ॥ ॥
अस्ति कान्तीपुरीनाम पुरंदरपुरी यथा ॥
सुस्थितैः सेविता नित्यं जनैर्धर्मव्रतान्वितैः ॥ १८ ॥
तस्यामहं कृतावासो गृहस्थाश्रममावहन् ॥
ग्रस्तः कुष्ठेन रौद्रेण यथा त्वं द्विजसत्तम ॥ १९ ॥
ततः श्रुतं मया तावत्पुराणे स्कान्दसंज्ञिते ॥
भास्करत्रितयं भूमौ सर्वव्याधिविनाशनम् ॥ ६.७६.२० ॥
ततो निर्वेदमापन्नो भेषजैः क्लेशितश्चिरम् ॥
क्षारैश्चाम्लैः कषायैश्च कटुकैरथ तिक्तकैः ॥ २१ ॥
ततो विनिश्चयं चित्ते कृत्वा गृह्य धनं महत् ॥
मुण्डीरस्वामिनं गत्वा स्थितस्तस्यैव सन्निधौ ॥ २२ ॥
ततः प्रातः समुत्थाय नित्यं पश्यामि तं विभुम् ॥
पूजयामि स्वशक्त्या च प्रणमामि ततः परम्॥ २३ ॥
सूर्यवारे विशेषेण निराहारो यतेन्द्रियः ॥
करोमि जागरं रात्रौ गीतवादित्रनिःस्वनैः ॥ २४ ॥
ततः संवत्सरस्यांते तं प्रणम्य दिनाधिपम् ॥
कालप्रियं ततः पश्चाच्छ्रद्धया परया युतः ॥ २५ ॥
तेनैव विधिना विप्र तस्यापि दिवसेशितुः ॥
पूजां करोमि मध्याह्ने श्रद्धा पूतेन चेतसा ॥ २६ ॥
ततोऽपि वत्सरस्यांते तं प्रणम्याथ शक्तितः ॥
मूलस्थानं गतो देवमपरस्यां दिशि स्थितम् ॥ २७ ॥
तेनैव विधिना पूजा तस्यापि विहिता मया ॥
संध्याकाले द्विजश्रेष्ठ यावत्संवत्सरं स्थितः ॥ २८ ॥
ततः संवत्सरस्यांते स्वप्ने मां भास्करोऽब्रवीत् ॥
समेत्य प्रहसन्विप्रः संप्रहृष्टेन चेतसा ॥ २९ ॥
परितुष्टोऽस्मि ते विप्र कर्मणाऽनेन भक्तितः ॥
ममाराधनजेनैव तस्मात्कुष्ठं प्रयातु ते ॥ ६.७६.३० ॥
गच्छ शीघ्रं द्विजश्रेष्ठ श्रांतोऽसि निजमंदिरम् ॥
पश्य बंधुजनं सर्वं सोत्कण्ठं तत्कृते स्थितम् ॥ ३१ ॥
त्वया हृतं पुरा रुक्मं ब्राह्मणस्य महात्मनः ॥
तेन कर्मविपाकेन कुष्ठव्याधिरुपस्थितः ॥ ३२॥
स मया नाशितस्तुभ्यं प्रहृष्टेनाधुना द्विज ॥
एतज्ज्ञात्वा न कर्तव्यं सुवर्णहरणं पुनः ॥ ३३ ॥
दृश्यन्ते ये नरा लोके कुष्ठव्याधिसमाकुलाः ॥
सुवर्णहरणं सर्वैस्तैः कृतं पापकर्मभिः ॥ ३४ ॥
तस्माद्देयं यथाशक्त्या न स्तेयं कनकं बुधैः ॥
इच्छद्भिः परमं सौख्यं स्वशरीरस्य शाश्वतम् ॥ ३५ ॥
एवमुक्त्वा सहस्रांशुस्ततश्चादर्शनं गतः ॥
अहं च विस्मयाविष्टः प्रोत्थितः शयनाद्द्रुतम् ॥ ॥ ३६ ॥
यावत्पश्यामि देहं स्वं कुष्ठव्याधिपरिच्युतम् ॥
द्वादशार्कप्रभं दिव्यं यथा त्वं पश्यसे द्विज ॥ ३७ ॥
तस्मात्त्वमपि विप्रेंद्र भक्त्या तद्भास्करत्रयम् ॥
अनेन विधिना पश्य येन कुष्ठं प्रशाम्यति ॥३८॥
किमौषधैः किमाहांरैः कटुकैरपि योजितैः ॥
सर्वव्याधिप्रणाशेशे स्थितेऽस्मिन्भास्करत्रये ॥ ३९ ॥
स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं तां पुरीं प्रति ॥
गृहेऽद्य तव विश्रांतो यथा विप्र निजे गृहे ॥ ६.७६.४० ॥
एवमुक्तः स पांथेन तेन विप्रः स कुष्ठभाक् ॥
वीक्षांचक्रे ततो वक्त्रं स्वपत्न्या दुःखसंयुतः ॥ ४१ ॥
साऽब्रवीद्युक्तमुक्तं ते पांथेनानेन वल्लभ ॥
तस्मात्तत्र द्रुतं गच्छ यत्र तद्भास्करत्रयम् ॥ ४२ ॥
अहं त्वया समं तत्र शुश्रूषानिरता सती ॥
गमिष्यामि न संदेहस्तस्माद्गच्छ द्रुतं विभो ॥ ४३ ॥
एवमुक्तस्तया सोऽथ वित्तमादाय भूरिशः ॥
प्रस्थितः कांतया सार्धं मुण्डीरस्वामिनं प्रति ॥ ४४ ॥
प्रतिज्ञया गमिष्यामि द्रष्टुं तद्देवतात्रयम्॥
मुंडीरं कालनाथं च मूल स्थानं च भास्करम् ॥ ४५ ॥
ततः कृच्छ्रेण महता कुष्ठव्याधिसमाकुलः ॥
हाटकेश्वरजे क्षेत्रे संप्राप्तः स द्विजोत्तमाः ॥ ४६ ॥
तद्दृष्ट्वा सुमहत्क्षेत्रं तापसौघनिषेवितम् ॥
निर्विण्णः कुष्ठरोगेण पथि श्रांतोऽब्रवीत्प्रियाम् ॥ ४७ ॥
अहं निर्वेदमापन्नो रोगेणाथ बुभुक्षया ॥
मुण्डीरस्वामिनं यावन्न शक्रोमि प्रसर्पितुम् ॥४८॥
तस्मादत्रैव देहं स्वं विहास्यामि न संशयः ॥
त्वं गच्छ स्वगृहं कांते सार्थमासाद्य शोभनम् ॥४९॥
॥ पत्न्युवाच ॥ ॥
अभुक्ते त्वयि नो भुक्तं कदाचित्कांत वै मया ॥
एकांतेऽपि महाभाग न सुप्तं जाग्रति त्वयि ॥ ६.७६.५० ॥
तस्मादेतन्महाक्षेत्रं संप्राप्य त्वां व्यवस्थितम्॥
परलोकाय संत्यज्य कथं गच्छाम्यहं गृहम् ॥ ५१ ॥
दर्शयिष्ये मुखं तेषां त्वया हीना अहं कथम् ॥
बांधवानां गुरूणां च अन्येषां सुदृदा मपि ॥५२॥
तस्मात्त्वया समं नाथ प्रवेक्ष्यामि हुताशनम् ॥
स्नेहपाशविनिर्बद्धा सत्येनात्मानमालभे॥५३॥
यावतस्तव संजाता उपवासा महामते॥
तावंतश्च तथास्माकं कथं गच्छामि तद्गृहम्॥५४॥
एवं तस्या विदित्वा स निश्चयं ब्राह्मणस्तदा ॥
चितिं कृत्वा तु दाहार्थं तया सार्धे ततोऽविशत् ॥ ॥५५॥
भास्करं मनसि ध्यात्वा यावदग्निं समाददे ॥
तावत्पश्यति चाग्रस्थं सुदीप्तं पुरुषत्रयम्॥५६॥
तद्दृष्ट्वा विस्मयाविष्टः क एते पुरुषास्त्रयः॥
न कदाचिन्मया दृष्टा ईदृक्तेजःसमन्विताः ॥ ५७ ॥
॥ पुरुषा ऊचुः ॥ ॥
मा त्वं मृत्युपथं गच्छ कृत्वा वैराग्यमाकुलः ॥
व्यावृत्य स्वगृहं गच्छ स्व भार्यासहितो द्विज ॥ ५८ ॥
॥ ब्राह्मण उवाच ॥ ॥
प्रतिज्ञाय मया पूर्व गृहं मुक्तं निजं यतः ॥
मुण्डीरस्वामिनं दृष्ट्वा तथाऽन्यं कालवल्लभम् ॥ ॥ ५९ ॥
मूलस्थानं च कर्तव्यं ततः सस्यप्रभक्षणम् ॥
सोऽहं तानविलोक्याथ कथं गच्छामि मन्दिरम् ॥
भक्षयामि तथा सस्यं तेन त्यक्ष्यामि जीवितम्॥ ६.७६.६० ॥
॥ पुरुषा ऊचुः ॥ ॥
वयं ते भास्करा ब्रह्मंस्त्रयोऽत्रैव समागताः ॥
त्वद्भक्त्याकृष्टमनसो ब्रूहि किं करवामहे ॥ ६१ ॥ ॥
॥ ब्राह्मण उवाच ॥ ॥
यदि यूयं समायाताः स्वयमेव ममांतिकम् ॥
त्रयोऽपि भास्करा नाशमेष कुष्ठः प्रगच्छतु ॥ ६२ ॥
तथाऽत्रैव सदा स्थेयं क्षेत्रे युष्माभिरेव हि ॥
सांनिध्यं त्रिषु लोकेषु गन्तव्यं च यथा पुरा ॥ ६३ ॥
॥ भास्करा ऊचुः ॥ ॥
एवं विप्र करिष्यामः स्थास्यामो ऽत्र सदा वयम् ॥
त्वं चापि रोगनिर्मुक्तः सुखं प्राप्स्यस्यनुत्तमम् ॥ ६४ ॥
प्रासादत्रितयं तस्मादस्मदर्थं निरूपय ॥
येन त्रिकालमासाद्य गच्छामः संनिधिं द्विज ॥ ६५ ॥
एवमुक्त्वा तु ते सर्वे गताश्चाद्दर्शनं ततः ॥
सोऽपि पश्यति कायं स्वं यावद्रोगविवर्जितम् ॥ ६६ ॥
द्वादशार्क प्रतीकाशं सर्वलक्षणलक्षितम् ॥
ततः प्रोवाच तां भार्यां विनयावनतां स्थिताम् ॥ ६७ ॥
पश्य त्वं सुभ्रूर्मे गात्रं यादृग्रूपं पुनः स्थितम् ॥
प्रसादाद्देवदेवस्य भास्करस्यांशुमालिनः ॥ ६८ ॥
सोऽहमत्र स्थितो नित्यं पूजयिष्यामि भास्करम् ॥
न यास्यामि पुनः सद्म सत्यमेतन्मयोदितम्॥६९॥
एवमुक्त्वा स विप्रेन्द्रस्तस्मिन्क्षेत्रे सुशोभने॥
प्रासादत्रितयं रम्यं निर्ममे भक्तिसंयुतः॥६.७६.७॥।
मुण्डीरस्वामिनश्चैकमन्यत्कालप्रियस्य च॥
मूलस्थानस्य चान्यत्तु सत्पताकाविभूषितम्॥७॥।
त्रयाणामपि तेषां तु साध्वर्चाः शास्त्रसूचिताः॥
स्थापयामास सूर्याणां हस्तार्के सूर्यवासरे ॥। ७२ ॥
ततस्ताः पुष्पधूपाद्यैः समभ्यर्च्य चिरं द्विजः ॥
त्रिसंध्यं क्रमशः प्राप्तो देहांते भास्करालयम् ॥ ७३ ॥
॥ सूत उवाच ॥ ॥
एवं ते तत्र संजातास्त्रयोऽपि द्विजसत्तमाः ॥
भास्करा भक्तलोकस्य सर्वव्याधिविनाशकाः ॥ ७४ ॥
यस्तान्पश्यति काले स्वे यथोक्ते सूरर्यवासरे ॥
स वांछिताँल्लभेत्कामान्दुर्लभानपि मानवैः ॥७५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मुंडीरकालप्रियमूलस्थानप्रतिष्ठावर्णनंनाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 77
॥ ऋषय ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तं तत्र तौ परमेश्वरौ ॥
उमामहेश्वरौ सूत हरिश्चन्द्रेण भूभुजा ॥ १ ॥
कृतौ कथयसीत्येवं वेदिमध्यं समाश्रितौ ॥
उतान्यौ स्थापितौ तत्र चमत्कारपुरांतिकम् ॥ २ ॥
वेदिमध्यगतौ नित्यं पार्वतीपरमेश्वरौ ॥
एतत्संश्रूयते सूत विवाहः प्रागभूत्तयोः ॥
ओषधिप्रस्थमासाद्य पुरं हिम वतः प्रियम् ॥ ३ ॥
अत्र नः संशयो जातः श्रद्धेयमपि ते वचः॥
श्रुत्वा किं वा भ्रमस्तेऽयं किं वाऽस्माकं प्रकीर्तय ॥ ४ ॥
॥ सूत उवाच ॥ ॥
नास्माकं विभ्रमो जातो युष्माकं तु द्विजोत्तमाः ॥
परं यत्कारणं कृत्स्नं तद्ब्रवीमि निबोध्यताम् ॥ ५ ॥
य एष ओषधिप्रस्थे विवाहः प्रागभू त्तयोः ॥
उमात्रिनेत्रयो रम्यः सर्वदेवप्रमोदकृत् ॥ ६ ॥
वैवस्वतेऽन्तरे पूर्वं संजातो द्विजसत्तमाः ॥
सप्तमस्य तु विख्यातो युष्माकं विदितोऽत्र यः ॥ ७ ॥
हाटकेश्वरजे क्षेत्रे यश्चोद्वाहस्तयोरभूत् ॥
स्वायंभुवमनोराद्ये स संजातः सुविस्तरः ॥ ८ ॥
॥ ऋषय ऊचुः ॥ ॥
विवाह ओषधिप्रस्थे यः पुरा समभूत्तयोः ॥
पार्वतीहरयोः सूत सोऽस्माभिर्विस्तराच्छ्रुतः ॥ ९ ॥
हाटकेश्वरजे क्षेत्रे दक्षयज्ञे मनोहरे ॥
विवाहो वृषयानस्य मनौ स्वायंभुवे पुरा ॥ ६.७७.१० ॥
सोऽस्माकं कीर्तनीयश्च त्वया सूतकुलोद्वह ॥
विस्तरेण यथा वृत्तः एतन्न कौतुकं परम् ॥ ११ ॥
॥ सूत उवाच ॥ ॥
अत्र वः कीर्तयिष्यामि सर्वपातकनाशनम् ॥
विवाहसमयं सम्यग्देवदेवस्य शूलिनः ॥ १२ ॥
ब्रह्मणो दक्षिणांगुष्ठाद्दक्षः प्राचेतसोऽभवत् ॥
शतानि पञ्च कन्यानां तस्य जातानि च द्विजाः ॥ १३ ॥
तासां ज्येष्ठतमा साध्वी सतीनाम शुचिस्मिता ॥
बभूव कन्यका सर्वैर्गुणैर्युक्ताऽऽयतेक्षणा । ॥ १४ ॥
न देवी न च गंधर्वी नासुरी न च नागजा ॥
तादृग्रूपाऽभवच्चान्या यादृशी सा सुमध्यमा ॥ १५ ॥
अथ तां प्रददौ दक्षः पत्न्यर्थं शूल पाणये ॥
प्रार्थितां बहुशो यत्नात्सस्पृहाय स्पृहान्विताम् ॥।६॥
ततः पुण्यतमं क्षेत्रं कन्यादानस्य स क्षमम् ॥
संध्याय ससुतामात्यः सभृत्यः समुपस्थितः ॥ १७ ॥
ततश्चोद्वाहयोग्यानि वसुनि विविधान्यपि ॥
आनयामास भूरीणि मांगल्यानि विशेषतः ॥ १८ ॥
अथ चैत्रस्य शुक्लस्य नक्षत्रे भगदैवते ॥
त्रयोदश्यां दिने भानोः समायातो महेश्वरः ॥ १९ ॥
सर्वैः सुरगणैः सार्धं देवविष्णुपुरःसरैः॥
आदित्यैर्वसुभी रुद्रैरश्विभ्यां च तथाऽपरैः ॥ ६.७७.२० ॥
सिद्धैः साध्यगणैर्भूतैः प्रेतैर्वैनायकैस्तथा ॥
गन्धर्वैश्चारणौघैश्च गुह्यकैर्यक्षराक्षसैः ॥ २१ ॥
एतस्मिन्नंतरे दक्षः संप्रहृष्टतनूरुहः ॥
प्रययौ संमुखस्तस्य युक्तः सर्वैः सुहृद्गणैः ॥ २२ ॥
वाद्यमानैर्महावाद्यैः सूतमागधबन्दिभिः ॥
पठद्भिः सर्वतोऽनेकैर्गायद्भिर्गायनैस्तथा ॥ २३ ॥
ततः सर्वे सुरास्तत्र स्वयं दक्षेण पूजिताः ॥
यथाश्रेष्ठं यथाज्येष्ठमुपविष्टा यथाक्रमम् ॥
परिवार्याखिलां वेदिं मंडपांतरवर्तिनीम् ॥ २४ ॥
ततः पितामहं प्राह दक्षः प्रीतिपुरःसरम् ॥
प्रणिपत्य त्वया कर्म कार्यं वैवाहिकं विभोः ॥ २५ ॥
स्वयमेव सुताऽस्माकं येन स्यात्सुभगा सती ॥
पुत्र पौत्रवती नित्यं सुशीला पतिवल्लभा ॥ २६ ॥
बाढमित्येव सोऽप्युक्त्वा प्रहृष्टेनांतरात्मना ॥
समुत्थाय ततश्चक्रे कृत्यमर्हणपूर्वकम् ॥ २७ ॥
संप्रदानक्रियां कृत्वा तत्रैव विधिपूर्वकम् ॥
ततो हस्तग्रहं ताभ्यां मिथश्चक्रे यथाक्रमम् ॥
मातॄणां पुरतो वेधाः सतीशाभ्यां यथोचितम् ॥ २८ ॥
अथ वेदिं समासाद्य गृह्योक्तविधिनाऽखिलम् ॥
अग्निकार्यं यथोद्दिष्टं चकाराथ सुविस्तरम् ॥ २९ ॥
यथायथा स रम्याणि वीक्षतेंऽगानि कौतुकात् ॥
सत्याः पितामहो हृष्टः कामार्तोऽभूत्तथातथा ॥ ६.७७.३० ॥
तेनैकं वदनं मुक्त्वा तस्या वस्त्रावगुंठितम् ॥
वीक्षिताऽतिस्मरार्तेन यथा कश्चिन्न बुद्ध्यते ॥ ३१ ॥
न शंभोर्लज्जया वक्त्रं प्रत्यक्षं स व्यलोकयत् ॥
न च सा लज्जयाविष्टा करोति प्रकटं मुखम् ॥ ३२॥
ततस्तद्दर्शनार्थाय स उपायं व्यलो कयत् ॥
धूमद्वारेण कामार्तश्चकार च ततः परम् ॥ ३३ ॥
आर्द्रेंधनानि भूरीणि क्षिप्त्वाक्षित्वा विभावसौ ॥
स्वल्पाज्याहुतिविन्यासादार्द्रद्रव्योद्भव स्तथा ॥ ३४ ॥
एतस्मिन्नंतरे धूमः प्रादुर्भूतः समंततः ॥
तादृग्येन तमोभूतं वेदिमूलं विनिर्मितम् ॥ ३५ ॥
ततो धूमाकुलेनेत्रे भगवांस्त्रिपु रान्तकः ॥
हस्ताभ्यां छादयामास येऽन्ये तत्र व्यवस्थिताः ॥ ३६ ॥
ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रं पितामहः ॥
वीक्षयामास कामार्तः प्रहृष्टेनांतरात्मना ॥ ३७ ॥
तस्य रेतः प्रचस्कन्द ततस्तद्वीक्षणाद्द्रुतम् ॥
पतितं च धरापृष्ठे तुषारचयसंनिभम् ॥ ३८
ततश्च सिकतौघेना तत्क्षणात्पद्मसंभवः ॥
छादयामास तद्रेतो यथा कश्चिन्न बुद्ध्यते ॥ ३९ ॥
अथ तद्भगवाञ्च्छंभुर्ज्ञात्वा दिव्येन चक्षुषा ॥
रेतोऽवस्कन्दनात्तस्य कोपादेतदुवाच ह ॥ ६.७७.४० ॥
किमेतद्विहितं पाप त्वया कर्म विगर्हितम् ॥
नैवार्हा मम कान्ताया वक्त्रवीक्षाऽनुरागतः ॥ ४१ ॥
त्वं वेत्सि शंकरेणैतत्कर्मजालं न विंदितम्॥
त्रैलोक्येऽपि मयाऽप्यस्ति गूढं तत्स्यात्कथं विधे॥
यत्किञ्चित्त्रिषु लोकेषु जंगमं स्थावरं तथा ॥
तस्याहं मध्यगो मूढ तैलं यद्वत्तिलांतगम्॥ ४३ ॥
तस्मात्स्पृश निजं शीर्षं ब्रह्मन्नेतदसंशयम्॥
यावदेवं गते ब्रह्मा शिरः स्पृशति पाणिना ॥
तावत्तत्र स्थितः साक्षात्तद्रूपो वृषवाहनः ॥ ४४ ॥
ततो लज्जापरीतांगः स्थितश्चाधोमुखो द्विजाः ॥
इन्द्राद्यैरमरैः सर्वैः सहितः सर्वतः स्थितैः ॥ ४५ ॥
अथाऽसौ लज्जयाविष्टः प्रणिपत्य महेश्वरम् ॥
प्रोवाच च स्तुतिं कृत्वा क्षम्यतां क्षम्यतामिति ॥ ४६ ॥
अस्य पापस्य शुद्ध्यर्थं प्राय श्चित्तं वद प्रभो ॥
निग्रहं च यथान्यायं येन पापं प्रयाति मे ॥ ४७ ॥
॥ श्रीभगवानुवाच॥ ॥
अनेनैव तु रूपेण मस्तकस्थेन वै ततः ॥
तपः कुरु समाधिस्थो ममाराधनतत्परः ॥ ४८ ॥
ख्यातिं यास्यति सर्वत्र नाम्ना रुद्रशिरः क्षितौ ॥
साधकः सर्वकृत्यानां तेजोभाजां द्विजन्म नाम् ॥ ४९ ॥
मानुषाणामिदं कृत्यं यस्माच्चीर्णं त्वयाऽऽधुना ॥
तस्मात्त्वं मानुषो भूत्वा विचरिष्यसि भूतले । ६.७७.५० ॥
यस्त्वां चानेन रूपेण दृष्ट्वा पृच्छां करिष्यति ॥
किमेतद्ब्रह्मणो मूर्ध्नि भगवांस्त्रिपुरांतकः ॥ ५१ ॥
ततस्ते चेष्टितं सर्वं कौतुकाच्च शृणोति यः ॥
परदारकृतात्पापात्ततो मुक्तिं प्रयास्यति ॥ ५२ ॥
यथायथा जनस्त्वेतत्कृत्यं ते कीर्तयिष्यति ॥
तथातथा विशुद्धिस्ते पापस्यास्य भविष्यति ॥ ५३ ॥
एतदेव हि ते ब्रह्मन्प्रायश्चित्तं प्रकीर्तितम्॥
जनहास्यकरं लोके तव गर्हाकरं परम् ॥ ५४ ॥
एतच्च तव वीर्यं तु पतितं वेदिमध्यगम् ॥
कामार्तस्य मया दृष्टं नैतद्व्यर्थं भविष्यति ॥ ५५ ॥
यावन्मात्रैः परिस्पृष्टमेतत्सैकतरेणुभिः ॥
तावन्मात्रा भविष्यंति मुनयः संशितव्रताः ॥ ५६ ॥
वालखिल्या इति ख्याताः सर्वेंऽगुष्ठप्रमाणकाः ॥
तपोवीर्यसमोपेताः शापानुग्रहकारकाः ॥ ५७ ॥
एतस्मिन्नंतरे तस्माद्वेदिमध्याच्च तत्क्षणात् ॥
अष्टाशीतिसहस्राणि मुनीनां भावितात्मनाम् ॥
अंगुष्ठकप्रमाणानि निष्क्रान्तानि द्विजोत्तमाः ॥ ५८ ॥
ततस्ते प्रणिपत्योच्चैः प्रोचुर्देवं पितामहम् ॥
स्थानं दर्शय नस्तात तपोऽर्थं कलिवर्जितम् ॥ ५९ ॥
॥ पितामह उवाच ॥ ॥
अस्मिन्क्षेत्रे मया सार्धं कुरुध्वं पुत्रकास्तपः ॥
गमिष्यथ परां सिद्धिं येन लोके सुदुर्लभाम् ॥ ६.७७.६० ॥
ते तथेति प्रतिज्ञाय कृत्वा तत्राश्रमं शुभम् ॥
वालखिल्यास्तपश्चक्रुः संसिद्धिं च परां गताः ॥ ६१ ॥
अथ ब्रह्मापि तत्कर्म सर्वं वैवाहिकं क्रमात् ॥
समाप्तिमनयत्प्रोक्तं यच्छ्रुतौ तेन च स्वयम् ॥ ६२ ॥
पतत्सु पुष्पवर्षेषु समन्ताद्गगनांगणात् ॥
वाद्यमानेषु वाद्येषु गीय मानैश्चगीतकैः ॥ ६३ ॥
पठत्सु विप्रमुख्येषु नृत्यमानासु रागतः ॥
रंभादिषु पुरन्ध्रीषु देवानां दृङ्मनोहरम्॥ ६४ ॥
एवं महोत्सवो जज्ञे तत स्तुंबुरुपूर्वकैः ॥
गीयमानेषु गीतेषु यथापूर्वं त्रिविष्टपे ॥ ६५ ॥
अथ कर्मावसाने स भगवांस्त्रिपुरांतकः ॥
प्रोवाच पद्मजं भक्त्या दक्षिणां ते ददामि किम् ॥ ६६ ॥
वैवाहिकी सुरश्रेष्ठ यद्यपि स्यात्सुदुर्लभा ॥
ब्रूहि शीघ्रं महाभाग नादेयं विद्यते मम ॥ ६७ ॥
॥ पितामह उवाच ॥ ॥
अनेनैव तु रूपेण वेद्यामस्यां सुरेश्वर ॥
त्वया स्थेयं सदैवात्र नृणां पापविशुद्धये ॥ ६८ ॥
येन ते सन्निधौ कृत्वा स्वाश्रमं शशिशेखर ॥
तपः करोमि नाशाय पापस्यास्य महत्तमम् ॥ ६९ ॥
चैत्रशुक्लत्रयोदश्यां नक्षत्रे भगदैवते ॥
सूर्यवारेण यो भक्त्या वीक्षयिष्यति मानवः ॥
तदैव तस्य पापानि प्रयास्यन्ति च संक्षयम् ॥ ६.७७.७० ॥
या नारी दुर्भगा वन्ध्या काणा रूपविवर्जिता ॥
साऽपि त्वद्दर्शनादेव भविष्यति सुरूपधृक् ॥
प्रजावती सुभोगाढ्या सुभगा नात्र संशयः ॥ ७१ ॥
॥ महेश्वर उवाच ॥ ॥
हिताय सर्वलोकानां वेद्यामस्यां व्यवस्थितः ॥
स्थास्यामि सहितः पत्न्या सत्यात्व द्वचनाद्विधे ॥ ७२ ॥
॥ सूत उवाच ॥ ॥
एवं स भगवांस्तत्र सभार्यो वृषभध्वजः ॥
विद्यते वेदिमध्यस्थो लोकानां पापनाशनः ०॥ ७३ ॥
एतद्वः सर्वमाख्यातं यथा तस्य पुराऽभवत् ॥
विवाहो वृषनाथस्य मनौ स्वायंभुवे द्विजाः ॥ ७४ ॥
विवाहसमये प्राप्ते प्रारम्भे वा शृणोति यः ॥
एतदाख्यानमव्यग्रं संपूज्य वृषभध्वजम् ॥
तस्याऽविघ्नं भवेत्सर्वं कर्म वैवाहिकं च यत् ॥ ७९ ॥
कन्या च सुखसौभाग्य शीलाचारगुणान्विता ॥
तथा स्यात्पुत्रिणी साध्वी पतिव्रतपरायणा ॥ ७६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये हराश्रयवेदिकामाहात्म्यवर्णनंनाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥ ॥ ध ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 78
॥ ऋषय ऊचुः ॥ ॥
ब्रह्मणा कतमे स्थाने तत्र सूत कृतं तपः ॥
वालखिल्यैश्च तैः सर्वैर्मुनिभिः शंसितव्रतैः ॥ १ ॥
॥ सूत उवाच ॥ ॥
तस्या वायव्यदिग्भागे हरवेद्या द्विजोत्तमाः ॥
सम्यक्छ्रद्धाप्रयत्नेन ब्रह्मणा विहितं तपः ॥ २ ॥
पश्चिमे वालखिल्यैश्च जपस्नानपरायणैः ॥
तत्राश्चर्यमभूद्यद्वै पूर्वं ब्राह्मण सत्तमाः ॥
आश्रमे चतुरास्यस्य तद्वो वक्ष्यामि सांप्रतम् ॥ ३ ॥
तत्र दुश्चारिणी काचिद्रात्रौ ब्राह्मणवंशजा ॥
देवदत्तं समासाद्य वल्लभं रमते सदा ॥ ॥ ४ ॥
अज्ञाता पतिना मात्रा तथान्यैरपि बांधवैः ॥
कृष्णपक्षं समासाद्य विजने हृष्टमानसा ॥ ५ ॥
कस्यचित्त्वथ कालस्य दृष्टा सा केनचि द्द्विजाः ॥
तत्रस्था जारसंयुक्ता स्वभर्तुश्च निवेदिता ॥ ६ ॥
अथासौ कोपसंयुक्तस्तस्या भर्ता सुनिष्ठुरैः ॥
वाक्यैस्तां गर्हयामास प्रहारैश्चाप्य ताडयत् ॥ ७ ॥
अथ सा धार्ष्ट्यमासाद्य स्त्रीस्वभावं समाश्रिता ॥
प्रोवाच बाष्पपूर्णाक्षी दीनांजलिपुटा स्थिता ॥ ८ ॥
किं मां दुर्जनवाक्येन त्वं ताडयसि निष्ठुरैः ॥
प्रहारैर्दोषनिर्मुक्तां त्वत्पादप्रणतां विभो ॥ ९ ॥
अहं त्वां शपथं कृत्वा भक्षयित्वाऽथ वा विषम् ॥
प्रविश्य हव्यवाहं वा करिष्ये प्रत्ययान्वितम्॥ ६.७८.१० ॥
अथ तां ब्राह्मणः प्राह यदि त्वं पापवर्जिता ॥
पुरतो देवविप्राणां कुरु दिव्यग्रहं स्वयम्॥ ११ ॥
सा तथेति प्रतिज्ञाय साहसेन समन्विता ॥
दिव्यग्रहं ततश्चक्रे यथोक्तविधिना सती ॥ १२ ॥
शुद्धिं च प्राप्ता सर्वेषां बन्धूनां च द्विजन्मनाम् ॥
पुरतश्च गुरूणां च देवानामपि पापकृत् ॥ १३ ॥
एतस्मिन्नन्तरे तस्याः साधुवादो महानभूत् ॥
धिक्छब्दश्च तथा पत्युः सर्वैर्दत्तः सुगर्हितः ॥ १४ ॥
अहो पापसमाचारो दुष्टोऽयं ब्राह्मणाधमः ॥
अपापां धर्मपत्नीं यो मिथ्यादोषेणयोजयेत् ॥ १५ ॥
एवं स निन्द्यमानस्तु सर्वलोकैर्द्विजोत्तमाः ॥
कोपं चक्रे ततो वह्निं समुद्दिश्य सदुःखितः ॥ १६ ॥
शापं दातुं मतिं चक्रे ततो वह्नेः सुदुःखितः ॥
अब्रवीत्परुषं वाक्यं निन्दमानः पुनःपुनः ॥ ॥ १७ ॥
मया स्वयं प्रदृष्टेयं जारेण सह संगता ॥
त्वया वह्ने सुपापेयं न कस्माद्भस्मसात्कृता ॥ १८ ॥
तस्मात्त्वां पापकर्माणमसत्यपक्षपातिनम् ॥
असंदिग्धं शपिष्यामि रौद्रशापेन सांप्रतम् ॥ १९ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा संक्रुद्धस्य द्विजन्मनः ॥
सप्तार्चिर्भयसंत्रस्तः कृतांजलिरुवाच तम् ॥ ६.७८.२० ॥
॥ अग्निरुवाच ॥ ॥
नैष दोषो मम ब्रह्मन्यन्न दग्धा तव प्रिया ॥
कृतागसाऽपि मे वाक्यं शृणुष्वात्र स्फुटेरितम् ॥ २१ ॥
अनया परकांतेन कृतः सह समागमः ॥
चिरं कालं द्विज श्रेष्ठ त्वया ज्ञाताद्य वासरे ॥ २२ ॥
परं यस्माद्विशुद्धैषा मया दग्धा न सा द्विज ॥
कारणं तच्च ते वच्मि शृणुष्वैकमनाः स्थितः ॥ २३ ॥
यत्रानया कृतः संगः परकांतेन वै द्विज ॥
तस्मिन्नायतने ब्रह्मा रुद्रशीर्षो व्यवस्थितः ॥ २४ ॥
तत्र कृत्वा रतं चित्रं परकांतसमं तदा ॥
पश्यति स्म ततो रुद्रं ब्रह्ममस्तकसंस्थितम् ॥ २५ ॥
ततः प्रक्षालयत्यंगं कुण्डे तत्राग्रतः स्थिते ॥
कृतपापापि तेनैषा शुद्धिं याति शुचिस्मिता ॥ ॥ २६ ॥
अत्र पूर्वं विपाप्माऽभूद्ब्रह्मा लोकपितामहः ॥
सतीवक्त्रं समालोक्य कामार्तोऽपि स पापकृत् ॥ २७ ॥
तस्मान्नास्त्यत्र मे दोषः स्वल्पोऽपि द्विजसत्तम॥
रुद्रशीर्षप्रभावोऽयं तस्य कुण्डोदकस्य च ॥ २८ ॥
तस्मादेनां समादाय संशुद्धां पापवर्जिताम् ॥
गृहं गच्छ द्विजश्रेष्ठ सत्यमेतन्मयो दितम्॥ २९ ॥
॥ ब्राह्मण उवाच ॥ ॥
या मया सहसा दृष्टा स्वयमेव हुताशन ॥
परकांतेन तां नाद्य शुद्धामपि गृहं नये ॥ ६.७८.३० ॥
इत्युक्त्वा च द्विजश्रेष्ठस्तां त्यक्त्वापि शुचिव्रतः ॥
जगाम स्वगृहं पश्चात्तथा जग्मुर्जना गृहान् ॥ ३१ ॥
सापि तेन परित्यक्ता पतिना हृष्टमानसा ॥
ज्ञात्वा तत्तीर्थमाहात्म्यं वैश्वानरमुखेरितम् ॥ ३२ ॥
तेनैव परकांतेन विशेषेण रतिक्रियाम् ॥
तस्मिन्नायतने चक्रे कुण्डे तोयावगाहनम् ॥ ३३ ॥
अथान्ये परलोकस्य भीत्याऽतीव व्यवस्थिताः ॥
विमुखाः परदारेषु नार्यश्चापि पतिव्रताः ॥ ३४ ॥
दूरतोऽपि समभ्येत्य ते सर्वे तत्र मंदिरे ॥
रुद्रशीर्षाभिधानं च प्रचक्रुः सुरतोत्सवम् ॥ ३५ ॥
निमज्जंति ततः कुण्डे तस्मिन्पातकनाशने ॥
भवंति पापनिर्मुक्ता रुद्रशीर्षावलोकनात् ॥ ३६ ॥
एतस्मिन्नंतरे नष्टो धर्मः पत्नीसमुद्भवः ॥
पुरुषाणां ततः स्त्रीणां निजकांतासमुद्भवः ॥ ३७ ॥
यो यां पश्यति रूपाढ्यां नारीमपि कुलोद्भवाम् ॥
स तत्रानीय संहृष्टो भजते द्विजसत्तमाः ॥ ३८ ॥
तथा नारी सुरूपाढ्यं यं पश्यति नरं क्वचित् ॥
सापि तत्र समानीय कुरुते सुरतोत्सवम् ॥ ३९ ॥
लिप्यते न च पापेन कथंचित्तकृतेन च ॥
नरो वा यदि वा नारी तत्तीर्थस्य प्रभावतः ॥ ६.७८.४० ॥
कस्यचित्त्वथ कालस्य तत्र राजा विदूरथः ॥
आनर्त्तविषये जज्ञे वार्धक्यं च क्रमाद्ययौ ॥ ४१ ॥
तस्य भार्याऽभवत्तन्वी तरुणी वररूपधृक् ॥
पश्चिमे वयसि प्राप्ते प्राणेभ्योऽपि गरीयसी ॥ ॥ ४२ ॥
न तस्याः स जराग्रस्तश्चित्ते वसति पार्थिवः ॥
तस्मिंस्तीर्थे समागत्य वांछितं रमते नरः ॥ ४३ ॥
पार्थिवोऽपि परिज्ञाय तस्यास्तच्च विचेष्टितम् ॥
कोपाविष्टस्ततो गत्वा तस्मिन्क्षेत्रे सुशोभने ॥ ४४ ॥
तत्कुण्डं पूरयामास ततः पांशूत्करैर्द्रुतम् ॥
बभंज तं च प्रासादं ततः प्रोवाच दारुणम् ॥ ४५ ॥
यश्चैतत्पूरितं कुण्डं पांशुना निखनिष्यति ॥
प्रासादं च पुनश्चैनं करिष्यति पुनर्नवम् ॥ ४६ ॥
परदारकृतं पापं तस्य संपत्स्यतेऽखिलम् ॥
यदत्र प्रकरिष्यंति मानवाः काममोहिताः ॥४७॥
॥ सूत उवाच ॥ ॥
एवं स पार्थिवः प्रोच्य तामादाय ततः प्रियाम् ॥
जगाम स्वगृहं पश्चात्प्रहृष्टेनांतरात्मना ॥४८॥
अथ तां विरतां ज्ञात्वा सोऽन्यचित्तां प्रियां नृपः ॥
यत्नेन रक्षयामास विश्वासं नैव गच्छति ॥ ४९ ॥
अन्यस्मिन्दिवसे शस्त्रं सूक्ष्मं वेण्यां निधाय सा॥
जगाम शयनं तस्य वधार्थं वरवर्णिनी॥६.७८.५०॥।
ततस्तेन समं हास्यं कृत्वा क्षत्रियभावजम्॥
सुरतं रुचिरैर्भावैर्हावैर्भूरिभिरेव च ॥५१॥।
ततो निद्रावशं प्राप्तं तं नृपं सा नृपप्रिया ॥
स्ववेण्याः शस्त्रमादाय निजघान सुनिर्दया॥५२॥
एवं तस्य फलं जातं सद्यस्तीर्थस्य भंगजम् ॥
आनर्ताधिपते रौद्रं सर्वलोकविगर्हितम् ॥ ५३ ॥
अद्यापि तत्र देवेशो रुद्रशीर्षः स तिष्ठति ॥
लिंगभेदभयात्तेन न स भग्नो द्विजोत्तमाः ॥५४॥
यस्तस्य पुरतः स्थित्वा जपेद्रुद्रशिरः शुचिः ॥
माघशुक्लचतुर्दश्यां पूजयित्वा स्रगादिभिः ॥५५॥
वांछितं लभते चाशु तस्येशस्य प्रभावतः॥
अष्टोत्तरशतं यावद्यो जपेत्पुरतः स्थितः ॥ ५६ ॥
रुद्रशीर्षं न संदेहः स याति परमां गतिम् ॥
एकवारं नरो यो वा तत्पुरः पठति द्विजः ॥ ५७ ॥
नित्यं दिनकृतात्पापान्मुच्यते द्विजसत्तमाः ॥
एतद्वः सर्वमाख्यातं रुद्रशीर्षसमुद्भवम् ॥ ५८ ॥
माहात्म्यं सर्वपापानां सद्यो नाशनकारकम्॥
मंगलं परमं ह्येतदायुष्यं कीर्तिवर्धनम्॥
रुद्रशीर्षस्य माहात्म्यं तस्माच्छ्रोतव्यमादरात् ॥ ५९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये रुद्रशीर्ष (जागेश्वर )माहात्म्यवर्णनंनामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥ ॥ ध ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 79
॥ सूत उवाच ॥ ॥
तस्यैव दक्षिणे भागे वालखिल्यैः प्रतिष्ठितम् ॥
लिंगमस्ति सुविख्यातं सर्वपातकनाशनम् ॥ १ ॥
यमाराध्य च तैः पूर्वं शक्रामर्षसमन्वितैः ॥
गरुडो जनितः पक्षी ख्यातो विष्णुरथोऽत्र यः ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
कथं तेषां समुत्पन्नः शक्रस्योपरि सूतज ॥
प्रकोपो वालखिल्यानां संजज्ञे गरुडः कथम् ॥ ३ ॥
॥ सूत उवाच ॥ ॥
पुरा प्रजापतिर्दक्षस्तस्मिन्क्षेत्रे सुशोभने ॥
चकार विधिवद्यज्ञं संपूर्णवरदक्षिणम् ॥ ४ ॥
ततः शक्रादयो देवाः सहायार्थं निमंत्रिताः ॥
दक्षेण मुनयश्चैव तथा राजर्षयोऽमलाः ॥ ५ ॥
तथा वेदविदो विप्रा यज्ञकर्मविचक्षणाः ॥
गृहस्थाश्रमिणो ये च ये चारण्यनिवासिनः॥ ६ ॥
अथ ते वालखिल्याख्या मुनयः संशितव्रताः॥
एकां समिधमादाय साहाय्यार्थं प्रजापतेः ॥
प्रस्थिता यज्ञवाटं तं भारार्ताः क्लेशसंयुताः ॥ ७ ॥
अथ तेषां समस्तानां मार्गे गोष्पदमागतम् ॥
जलपूर्णं समायातमकालजलदागमे ॥ ८ ॥
ततस्तरीतु कामास्ते क्लिश्यमाना इतस्ततः ॥
समिद्भारश्रमोपेता देवराजेन वीक्षिताः ॥ ९ ॥
गच्छता तेन मार्गेण मखे दक्षप्रजापतेः ॥
ततश्चिरं समालोक्य स्मितं कृत्वा स कौतुकात् ॥
जगामाथ समुल्लंघ्य ऐश्वर्यमदगर्वितः॥६.७९.१०॥॥
ततस्ते कोपसंयुक्ताः शक्राद्दृष्ट्वा पराभवम् ॥
निवृत्य स्वाश्रमं गत्वा चक्रुर्मंत्रं सनिश्चयम् ॥ ११॥।
शाक्रं पदं समासाद्य यस्मादेतेन पाप्मना ॥
अतिक्रांता वयं सर्वे तस्मात्पात्यः स सत्पदात् ॥ १२ ॥
अन्यः शक्रः प्रकर्तव्यो मंत्रवीर्यसमुद्भवः ॥
आथर्वणैर्महासूक्तैराभिचारिकसंभवैः ॥ १३ ॥
येन व्यापाद्यते तेन शक्रोऽयं मदगर्वितः ॥
मखमाहात्म्यसंपन्नः स्वल्पबुद्धिपरा क्रमः ॥ १४ ॥
ततस्ते शुचयो भूत्वा स्कंदसूक्तेन पावकम् ॥
जुहुवुश्च दिवारात्रौ क्षुरिकोक्तेन सोद्यमाः ॥ १५८ ॥
गर्भोपनिषदेनैव नीलरुद्रैर्द्विजोत्तमाः ॥
रुद्रशीर्षेण काम्येन विष्णुसूक्तयुतेन चं ॥ १६ ॥
निधाय कलशं मध्ये मंडलस्योदकावृतम् ॥
होमांते तत्र संस्पर्शं चक्रुस्तस्य जलैः शुभैः ॥ १७ ॥
एतस्मिन्नंतरे शक्रः प्रपश्यति सुदारुणान् ॥
उत्पातानात्मनाशाय जायमानान्समंततः ॥ १८ ॥
वामो बाहुश्च नेत्रं च मुहुः स्फुरति चास्य वै ॥
न च पश्यति नासाग्रं जिह्वाग्रं च तथा हनुम् ॥ १९ ॥
शिरोहीनां तथा छायां गगने भास्करद्वयम् ॥
अरुंधतीं ध्रुवं चैव न च विष्णुपदानि सः ॥ ६.७९.२० ॥
न च मंदं न चाकाशे संस्थितां स्वर्धुनीं हरिः ॥
स्वपन्पश्यति कृष्णांगीं नित्यं नारीं धृतायुधाम् ॥ २१ ॥
मुक्तकेशीं विवस्त्रां च कृष्णदंतां भयानकाम् ॥
तान्दृष्ट्वा स महोत्पातान्देवराजो बृहस्पतिम् ॥ २२ ॥
पप्रच्छ भयसंत्रस्तः किमेतदिति मे गुरो ॥
जायंते सुमहोत्पाता दुर्निमित्तानि वै पृथक् ॥ २३ ॥
किं मे भविष्यति प्राज्ञ विनाशः सांप्रतं वद ॥
किं वा त्रैलोक्य राज्यस्य किं वा वित्तादिकस्य च ॥ २४ ॥
॥ बृहस्पतिरुवाच ॥ ॥
ये त्वया मदमत्तेन वालखिल्या महर्षयः ॥
उल्लंघिताः स्थिता मार्गे गोष्पदं तर्त्तुमिच्छवः ॥ २५ ॥
तैरेवाथर्वणैर्मंत्रैस्त्वकृतेऽस्ति शचीपते ॥
कृतो होमः सुसंपूर्णः कलशश्चाभिमंत्रितः ॥ २६ ॥
युष्माकं सुविनाशाय सर्वदेवाधिनायकः ॥
भविष्यति न संदेहो मंत्रैराथर्वणैर्हरिः ॥ २७ ॥
तस्य तद्वचनं श्रुत्वा सहस्राक्षो भयान्वितः ॥
दक्षं गत्वा च दीनास्यः प्रोवाच तदनंतरम् ॥ २८ ॥
अस्मन्नाशाय मुनिभिर्वालखिल्यैः प्रजापते ॥
प्रोद्यमो विहितः सम्यक्छक्रस्यान्यस्य वै कृते ॥ २९ ॥
तान्वारय स्वयं गत्वा यावन्नो जायते परः ॥
शक्रोऽस्मद्ध्वंसनार्थाय नास्ति तेषामसाध्यता ॥ ६.७९.३० ॥
अथ दक्षो द्रुतं गत्वा शक्राद्यैरमरैर्वृतः ॥
प्रहसंस्तानुवाचेदं विनयेन समन्वितः ॥ ३१ ॥
किमेतत्क्रियते विप्राः कर्म रौद्रतमं महत् ॥
त्रैलोक्यं व्याकुलं येन सर्वमेतद्व्यवस्थितम् ॥ ३२ ॥
अथ ते दक्षमालोक्य समायातं स्वमाश्रयम् ॥
संमुखाश्चाभ्ययुस्तूर्णं प्रगृहीतार्घ्यपाणयः ॥ ३३ ॥
अर्घ्यं दत्त्वा यथान्यायं पूजां कृत्वाथ भक्तितः ॥
प्रोचुश्च प्रणता भूत्वा स्वागतं ते प्रजापते ॥ ३४ ॥
आदेशो दीयतां शीघ्रं यदर्थमिह चागतः ॥
अपि प्राणप्रदानेन करिष्यामः प्रियं तव ॥ ३५ ॥ ॥
॥ दक्ष उवाच ॥ ॥
एतद्रौद्रतमं कर्म सर्वदेवभयावहम् ॥
त्याज्यं युष्माभिरव्यग्रैरेतदर्थमिहागतः ॥ ३६ ॥
॥ मुनय ऊचुः ॥ ॥
वयं शक्रेण ते यज्ञे समायाताः सुभक्तितः ॥
उल्लंघिता मदोद्रेकात्कृत्वा हास्यं मुहुर्मुहुः ॥ ३७ ॥
शक्रोच्छेदाय चास्माभिः शकोऽन्यो वीर्यमंत्रतः ॥
प्रारब्धः कर्तुमत्युग्रैर्होमांतश्च व्यवस्थितः ॥ ३८ ॥
तत्कथं मंत्रवीर्यं तत्क्रियते मोघमित्यहो ॥
वेदोक्तं च विशेषेण तस्मादत्र वद प्रभो ॥ ३९ ॥
त्वमेव यदि शक्तः स्यादन्यथा कर्तुमेव हि ॥
कुरुष्व वा स्वयं नाथ नास्माकं शक्तिरीदृशी ॥ ६.७९.४० ॥
॥ दक्ष उवाच ॥ ॥
सत्यमेतन्महाभागा यद्युष्माभिः प्रकीर्तितम् ॥
नान्यथा शक्यते कर्तुं वेदमन्त्रोद्भवं बलम् ॥ ४१ ॥
तद्य एष कृतो होमो युष्माभिर्वेदमंत्रतः ॥
देवराजार्थमव्यग्रैः कलशश्चाभिमंत्रितः ॥ ४२ ॥
सोऽयं मद्वचनाद्राजा भविष्यति पतत्रिणाम् ॥
तेजोवीर्यसमोपेतः शक्रादपि सुवीर्यवान् ॥ ४३ ॥
एतस्य देवराजस्य क्षंतव्यं मम वाक्यतः ॥
तत्कृतं मूढभावेन यदनेन विचेष्टितम् ॥ ४४ ॥
एवमुक्त्वाथ तेषां तं सहस्राक्षं भयातुरम् ॥
दर्शयामास दक्षस्तु विनयावनतं स्थितम् ॥ ४५ ॥
तेऽपि दृष्ट्वा सहस्राक्षं वेपमानं कृतांजलिम् ॥
प्रोचुर्माऽतिक्रमं शक्र ब्राह्मणानां करिष्यसि ॥ ४६ ॥
भूयो यदि दिवेशानामाधिपत्यं प्रवांछसि ॥
अपि मन्दोऽपि मूर्खोऽपि क्रियाहीनोऽपि वा द्विजः ॥
नावज्ञेयो बुधैः क्वापि लोकद्वय मभीप्सुभिः ॥ ४७ ॥
॥ इन्द्र उवाच ॥ ॥
अज्ञानाद्यदि वा ज्ञानाद्यन्मया कुकृतं कृतम् ॥
तत्क्षंतव्यं द्विजैः सर्वैर्विशेषाद्दक्ष वाक्यतः ॥ ४८ ॥
प्रगृह्यतां वरोऽस्माकं यः सदा वर्तते हृदि ॥
प्रदास्यामि न संदेहो नादेयं विद्यते मम ॥ ४९ ॥
॥ मुनय ऊचुः ॥ ॥
अस्मिन्कुण्डे नरो होमं यः कुर्याच्छ्रद्धयाऽन्वितः ॥
एतल्लिंगं समभ्यर्च्य तस्याऽस्तु हृदि वांछितम् ॥ ६.७९.५० ॥
॥ इन्द्र उवाच ॥ ॥
एतल्लिंगं समभ्यर्च्य योऽत्र होमं करिष्यति ॥
कुंडेऽत्र वांछितं सद्यः सफलं स हि लप्स्यते ॥ ५१ ॥
निष्कामो वाऽथ संपूज्य लिंगमेतच्छुभावहम् ॥
प्रयास्यति परां सिद्धिं त्रिदशैरपि दुर्लभाम् ॥ ५२ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा सहस्राक्षो वालखिल्यान्मुनीश्वरान् ॥
ऐरावतं समारुह्य दक्षयज्ञे ततो गतः ॥ ५३ ॥
दक्षोऽपि विधिवद्यज्ञं चकार द्विजसत्तमाः ॥
संहृष्टैर्वालखिल्यैस्तैरुपविष्टैः समीपतः ॥ ५४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाह वालखिल्याश्रममाहात्म्यकथनंनामैकोनाशीतितमोऽध्यायः ॥ ७९ ॥ ॥ ध ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 80
अथ सुपर्णाख्यमाहात्म्यं भविष्यंति ॥
॥ ऋषय ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तं तेजोवीर्यसमन्वितः ॥
गरुडस्तेन संजज्ञे मुनीनां होमकर्मणा ॥ १ ॥
स कथं तत्र संभूत एतन्नो विस्तराद्वद ॥
विनतायाः समुद्भूत इत्येषा श्रूयते श्रुतिः ॥ २ ॥
॥ सूत उवाच ॥ ॥
योऽसावाथर्वणैर्मंत्रैः कलशश्चाभिमन्त्रितः ॥
तैर्मंत्रैर्वालखिल्यैश्च महाऽमर्षसमन्वितैः ॥ ३ ॥
निवारितैश्च दक्षेण सूचिते विहगाधिपे ॥
कश्यपस्तं समादाय कलशं प्रययौ गृहम् ॥ ४ ॥
ततः प्रोवाच संहृष्टो विनतां दयितां निजाम् ॥
एतत्पिब जलं भद्रे मन्त्रपूतं महत्तरम् ॥ ५ ॥
येन ते जायते पुत्रः सहस्राक्षाधिको बली ॥
तेजस्वी च यशस्वी च अजेयः सर्व दानवैः ॥ ६ ॥
तस्य तद्वचनं श्रुत्वा तत्क्षणादेव संपपौ ॥
तत्तोयं सा वरारोहा सद्यो गर्भं ततो दधे ॥ ७ ॥
एवं तज्जलपानेन तेजोवीर्यसम न्वितः ॥
कश्यपाद्गरुडो जज्ञे सर्वसर्पभयावहः ॥ ८ ॥
येनामृतं हृतं वीर्यात्परिभूय पुरंदरम् ॥
मातृभक्तिपरीतेन सर्पाणां संनिवेदितम् ॥ ९ ॥
यो जज्ञे दयितो विष्णोर्वाहनत्वमुपागतः ॥
ध्वजाग्रे तु रथस्यापि यः सदैव व्यवस्थितः ॥ ६.८०.१० ॥
येन पूर्वं तपस्तप्त्वा क्षेत्रेऽत्रैव महात्मना ॥
त्रिनेत्रस्तुष्टिमानीतो गतपक्षेण धीमता ॥ ११ ॥
पक्षाप्तिर्येन संजाता यस्य भूयोऽपि तादृशी ॥
देवदेवप्रसादेन विशिष्टा चाऽथ निर्मिता ॥ १२ ॥ ॥
॥ मुनय ऊचुः ॥ ॥
कथं तस्य गतौ पक्षौ गरुडस्य महात्मनः ॥
पुनर्लब्धौ कथं तेन कथं तुष्टो महेश्वरः ॥
एतन्नो विस्तराद्ब्रूहि सूतपुत्र यथातथम् ॥ १३ ॥
॥ सूत उवाच ॥ ॥
पुरासीद्ब्राह्मणो मित्रं भृगुवंशकुलोद्वहः ॥
गरुडस्य द्विजश्रेष्ठा बालभावादपि प्रभो ॥ १४ ॥
तस्य कन्या पुरा जाता माधवी नाम संमता ॥
रूपौदार्यसमोपेता सर्वलक्षणलक्षिता ॥ १५ ॥
न देवी न च गन्धर्वी नासुरी न च पन्नगी ॥
तादृग्रूपा महाभागा यादृशी सा सुमध्यमा ॥ १६ ॥
अथ तस्या वरार्थाय गरुडं विहगाधिपम् ॥
स प्रोवाच परं मित्रं विनयावनतः स्थितः ॥ ॥ १७ ॥
एतस्या मम कन्याया वरं त्वं विहगाधिप ॥
सदृशं वीक्षयस्वाद्य येन तस्मै ददाम्यहम् ॥ १८ ॥
॥ गरुड उवाच ॥ ॥
मम पृष्ठं समारुह्य समस्तं क्षितिमंडलम् ॥
त्वं भ्रमस्व द्विजश्रेष्ठ गृहीत्वेमां च कन्यकाम् ॥ १९ ॥
ततस्तस्याः कुमार्या वै अनुरूपं गुणान्वितम् ॥
स्वयं चाहर भर्तारमेषा मैत्री ममोद्भवा ॥ ६.८०.२० ॥
॥ सूत उवाच ॥
एवमुक्तोऽथ विप्रः स तत्क्षणात्कन्यया सह ॥
आरूढो गारुडं पृष्ठं वरार्थाय द्विजोत्तमाः ॥ २१ ॥
यंयं पश्यति विप्रः स कुमारं तरुणाकृतिम् ॥
स स नो तस्य चित्तांते वर्ततेस्म कथंचन ॥ २२ ॥
कस्यचिद्रूपमत्युग्रं न कुलं च सुनिर्मलम् ॥
कुलं रूपं च यस्य स्यात्तस्य नो गुणसंचयः ॥ २३ ॥
यस्य वा गुणसन्दोहस्तस्य नो रूपमुत्तमम् ॥
पक्षपातं च वित्तं च तथान्यद्वरलक्षणम् ॥ २४ ॥
एवं वर्षसहस्रांते भ्रमतस्तस्यभूतलम् ॥
विप्रस्य पक्षिनाथस्य वरार्थाय द्रिजोत्तमाः ॥ २५ ॥
कदाचिदथ तौ श्रान्तौ भ्रममाणावितस्ततः ॥
क्षेत्रेऽत्रैव समायातौ वासुदेवदिदृक्षया ॥ २६ ॥
श्वेतद्वीपं समालोक्य तथान्यां बदरीं शुभाम् ॥
क्षीरोदं च सवैकुण्ठं तथान्यं तस्य संश्रयम् ॥ २७ ॥
अथ ताभ्यां मुनिर्दृष्टो नारदो ब्रह्मसंभवः ॥
सांत्वपूर्वं तदा पृष्टो विष्णुं ब्रह्म सनातनम् ॥ ॥ २८ ॥
क्व देवः पुंडरीकाक्षः सांप्रतं वर्तते मुने ॥
विष्णुस्थानानि सर्वाणि वीक्षितानि समंततः ॥
आवाभ्यां संप्रहृष्टाभ्यां न संदृष्टः स केशवः ॥ २९ ॥
॥ नारद उवाच ॥ ॥
जलशायिस्वरूपेण यावन्मासचतुष्टयम् ॥
हाटकेश्वरजे क्षेत्रे स संतिष्ठति सर्वदा ॥ ६.८०.३० ॥
तस्मात्तद्दर्शनार्थाय गम्यतां तत्र मा चिरम् ॥
येन सन्दर्शनं याति द्वाभ्यामपि स चक्रधृक् ॥ ३१ ॥
अहमप्येव तत्रैव प्रस्थितस्तस्य दर्शनात् ॥
प्रस्थितश्च त्वया युको देवकार्येण केनचित् ॥ ३२ ॥
अथ तौ पक्षिविप्रेन्द्रौ स च ब्रह्मसुतो मुनिः ॥
प्राप्ताः सर्वे स्थितो यत्र जलशायी जनार्दनः ॥ ३३ ॥
अथ दृष्ट्वा महत्तेजो वैष्णवं दूरतोऽपि तम् ॥
ब्राह्मणं गरुडः प्राह नारदश्च मुनीश्वरः ॥ ३४ ॥
अत्रैव त्वं द्विजश्रेष्ठ तिष्ठ दूरेऽपि तेजसः ॥
वैष्णवस्य सुतायुक्तः कल्पांताग्निसमम् व (?)॥ ३५ ॥
नो चेत्संपत्स्यसे भस्म पतंग इव पावकम् ॥
समासाद्य निशायोगे मूढं भावं समाश्रितः ॥ ३६ ॥
आवाभ्यां तत्प्रसादेन सोढमेतत्सुदुःसहम् ॥
न करोति शरीरार्ति तथान्यदपि कुत्सितम् ॥ ३७ ॥
एवं तं ब्राह्मणं तत्र मुक्त्वा दूरे सुतान्वितम् ॥
गतौ तौ तत्र संसुप्तस्तोये यत्र जनार्दनः ॥ ३८ ॥
दिव्यस्तुतिपरौ मूर्ध्नि धृतहस्तांजलीपुटौ ॥
पुलकांकितसर्वांगावानन्दाश्रुप्लुताननौ ॥ ३९ ॥
त्रिःपरिकम्य तं देवमष्टांगं प्रणतौ हरिम्॥
दृष्टवन्तौ च पादांते संनिविष्टां समुद्रजाम् ॥ ६.८०.४० ॥
पादसंवाहनासक्तां विष्णु वक्त्राहितेक्षणाम्॥
अथापरां वयोवृद्धां श्वेतवस्त्रावगुंठिताम् ॥ ४१ ॥
सन्निविष्टां तदभ्याशे सम्यग्ध्यानपरायणाम् ॥
द्वादशार्कप्रभायुक्तां कृशांगीं पुलकान्विताम्॥ ४२ ॥
अथ तौ विष्णुना हर्षादुभावपि प्रहर्षितौ ॥
संभाषितौ च संपृष्टौ यदर्थं च समागतौ ॥ ४३ ॥
॥ श्रीनारद उवाच ॥ ॥
अहं हि सुरकार्येण संप्राप्योऽत्र तवांतिकम् ॥
गरुडो वै ब्राह्मणाय यन्मां पृच्छसि केशव ॥ ४४ ॥
॥ श्रीभगवानुवाच ॥ ॥
कच्चित्क्षेमं मुनिश्रेष्ठ सर्वेषां त्रिदिवौकसाम् ॥
कच्चिन्नेंद्रस्य संजातं भयं दानवसंभवम् ॥ ४५ ॥
यज्ञभागं लभंते स्म कच्चिद्देवाः सवासवाः ॥
कच्चिन्न दानवः कश्चिदुत्कटोऽभूद्धरातले ॥ ४६ ॥
॥ श्रीनारद उवाच ॥ ॥
सांप्रतं धरणी प्राप्ता चतुर्वक्त्रस्य संनिधौ ॥
रोरूयमाणा भारार्ता दानवैः पीडिता भृशम् ॥
प्रोवाच पद्मजं तत्र दुःखेन महताऽन्विता ॥ ४७ ॥
॥ धरण्युवाच ॥ ॥
कालनेमिर्हतो योऽसौ विष्णुनाप्रभविष्णुना ॥
उग्रसेनसुतः कंसः संभूतः स महासुरः ॥ ४८ ॥
अरिष्टो धेनुकः केशी प्रलम्बोनाम चापरः ॥
तथान्या तु महारौद्रा पूतना नाम राक्षसी ॥ ४९ ॥
इतश्चेतश्च धावद्भिर्दानवैरेभिरेव च॥
वृथा मे जायते पीडा तथान्यैरपि दारुणैः ॥ ६.८०.५० ॥
ऊर्ध्वबाहुस्तथा जातो मर्त्यलोके जनोऽधुना ॥
बहुत्वान्न प्रमाति स्म कथंचिद्धि ममोपरि ॥ ५१ ॥
भारावतरणं देव न करिष्यसि चाशु चेत् ॥
रसातलं प्रयास्यामि तदाऽहं नात्र संशयः ॥ ५२ ॥
तस्यास्तद्वचनं श्रुत्वा ब्रह्मणा लोककर्तृणा ॥
संमंत्र्य विबुधैः सार्धं प्रेषितोऽहं तवांतिकम् ॥ ५३ ॥
प्रोक्तव्यो भगवान्वाक्यं त्वया देवो जनार्दनः ॥
यथाऽवतीर्य भूपृष्ठे भारमस्याः प्रणाशयेत् ॥ ५४ ॥
तस्माद्भूभितले देव कृत्वा जन्म स्वयं विभो ॥
भारं नाशय मेदिन्या एतदर्थ मिहागतः ॥ ५५ ॥
॥ श्रीभगवानुवाच ॥ ॥
एवं मुने करिष्यामि संमंत्र्य ब्रह्मणा सह ॥
भारावतरणं भूमेः साकं देवैः सवासवैः ॥ ५६ ॥
एवमुक्त्वाऽथ तं विष्णुर्नारदं मुनिपुंगवम् ॥
ततश्च गरुडं प्राह त्वं किमर्थमिहागतः ॥ ५७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णाख्यमाहात्म्ये विष्णुदर्शनमाहात्म्यवर्णनंनामाशीतितमोऽध्यायः ॥ ८० ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 81
॥ ॥ श्रीगरुड उवाच ॥ ॥
ममास्ति दयितं मित्रं ब्राह्मणो भृगुवंशजः ॥
तस्यास्ति माधवीनाम कन्या कमललोचना ॥ १ ॥
न तस्याः सदृशः कांतः प्राप्तस्तेन महात्मना ॥
यतस्ततोऽहमादिष्टः कांतमस्यास्त्वमानय ॥
अनुरूपं द्विजश्रेष्ठ यद्यहं संमतस्तव ॥ २ ॥
ततो मयाऽखिला भूमिस्तद्वरार्थं विलोकिता ॥
न तदर्थं वरो लब्धः सर्वैः समुचितो गुणैः ॥ ३ ॥
ततस्त्वं पुण्डरीकाक्ष मम चित्ते व्यवस्थितः ॥
अनुरूपः पतिस्तस्याः सर्वैरेव गुणैर्युतः ॥ ४ ॥
तस्मात्पाणिग्रहं तस्याः स्वीकुरुष्व सुरेश्वर ॥
अत्यन्तरूपयुक्ताया मम वाक्यप्रणोदितः ॥ ५ ॥
॥ भगवानुवाच ॥ ॥
अत्रानय द्विजश्रेष्ठ तां कन्यां कमलेक्षणाम्॥
येन दृष्ट्वा स्वयं पश्चात्प्रकरोमि यथोदितम् ॥ ६ ॥
॥ गरुड उवाच ॥ ॥
तव तेजोभयादेव सा कन्या जनकान्विता ॥
मया दूरे विनिर्मुक्ता तत्कथं तामिहानये ॥ ७ ॥
॥ श्रीभगवानुवाच ॥ ॥
अत्र तां मम तत्तेजो जनकेन समन्विताम्॥
न हि धक्ष्यति तस्मात्त्वं शीघ्रं द्विजवराऽऽनय ॥ ८ ॥
एवमुक्तस्ततस्तेन विष्णुना प्रभविष्णुना ॥
तां कन्या मानयामास तं च विप्रभृगूद्वहम्॥ ९ ॥
अथासौ प्रणिपत्योच्चैर्ब्राह्मणो मधुसूदनम् ॥
लक्ष्मीवन्न्यविशत्पार्श्वे गरुडस्य समीपतः ॥ ६.८१.१० ॥
सापि कन्या वरारोहा बाल्यभावादनिन्दिता ॥
शय्यैकांते समाविष्टा दक्षिणे मुरविद्विषः ॥ ११ ॥
अथ कोपपरीतांगी महिष्याधर्ममाश्रिता ॥
लक्ष्मीः शशाप तां कन्यां सपत्नीति विचिन्त्य च ॥ १२ ॥
यस्मान्मे पुरतः पापे कांतस्य मम हर्षिता॥
शय्यायां त्वं समाविष्टा लज्जां त्यक्त्वा सुदूरतः ॥
तस्मादश्वमुखी नूनं विकृता त्वं भविष्यसि ॥ १३ ॥
एवं शापे श्रिया दत्ते हाहाकारो महानभूत् ॥
सर्वेषां तत्र संस्थानां कोपश्चापि द्विजन्मनः ॥ ॥ १४॥
॥ ब्राह्मण उवाच ॥ ॥
सहस्रं याच्यते कन्या करोत्येकः करग्रहम् ॥
वाङ्मात्रेण न तस्याः स्यात्पत्नीभावः कथंचन ॥ १९ ॥
यावन्नाग्निद्विजातीनां प्रत्यक्षं गुरुसंनिधौ ॥
ससंकल्पं स्वयं दत्ता गृह्योक्तविधिना जनैः ॥ १६ ॥
तस्मात्तद्दोषनिर्मुक्ता सपत्न्येषा समा त्वया ॥
कृता वाजिमुखी पापे त्वं गजास्या भविष्यसि ॥।७॥
एवमुक्त्वा स विप्रेंद्रस्ततः प्रोवाच केशवम्॥
आतिथ्यं विहितं ह्येतत्तव पत्न्या यथोचितम् ॥
तस्मात्तत्र प्रयास्यामि यत्र स्यात्तादृशी सुता ॥ १८ ॥
॥ श्रीभगवानुवाच ॥ ॥
न सन्तापस्त्वया कार्यः कृत्येस्मिन्द्विजसत्तम ॥
ममांतिके प्रयातानां नाशुभं जायते क्वचित् ॥ १९ ॥
तस्मान्नाश्वमुखी ह्येषा जन्मन्यस्मिन्भविष्यति ॥
गृहीत्वेमां गृहं गच्छ प्रयच्छ स्वेप्सिताय च ॥ ६.८१.२० ॥
शयने वामदिग्भागः कलत्राणामुदाहृतः ॥
दक्षिणे बन्धुलोकानां तत्कालोचितशायिनाम्॥२॥।
सेयं तव सुता विप्र बंधुस्थानं समाश्रिता ॥
भविष्यति ततो जामिः कनिष्ठा मेऽन्यजन्मनि ॥ २२ ॥
अवतीर्णस्य भूपृष्ठे देवकार्येण केनचित् ॥
वाजिवक्त्रधरा प्रोक्ता यद्येषा मम कांतया ॥२३॥
ततोऽहं सुमहत्कृत्वा तपश्चैवानया सह ॥
करिष्यामि शुभास्यां च तथा लक्ष्मीमपि द्विज ॥ २४ ॥
एवं स भगवान्विप्रं तं सन्तोष्य तदा गिरा ॥
गरुडेन समं चक्रे कथाश्चित्रा मनोरमाः ॥ २५ ॥
अथ तस्मिन्कथांते स गरुडः पुरुषोत्तमम् ॥
प्रोवाच तां स्त्रियं दृष्ट्वा वृद्धां तेजःसमन्विताम् ॥ ॥ २६ ॥
अपूर्वेयं सुरश्रेष्ठ स्त्री वृद्धा तव पार्श्वगा ॥
किमर्थं केयमाख्याहि कुतः प्राप्ता जनार्दन ॥ २७ ॥
॥ श्रीभगवानुवाच ॥ ॥
एषा ख्याता खगश्रेष्ठ लोकेऽस्मिन्वृद्धकन्यका ॥
शांडिलीनाम सर्वज्ञा ब्रह्मचर्यपरायणा ॥ २८ ॥
तपोवीर्यसमोपेता सर्वदेवाभिवंदिता ॥
नास्ति वै चेदृशी नारी खगेन्द्रात्र जगत्त्रये ॥ २९ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा विहस्य विहगाधिपः ॥
प्रोवाच वासुदेवं च तां विलोक्य चिरं द्विजाः ॥ ६.८१.३० ॥
॥ गरुड उवाच ॥ ॥
नैतच्चित्रं तपो यच्च क्रियते सुमहत्तरम् ॥
यथा च दीयते दानं यच्च तत्रास्ति चाद्भुतम्॥
तथा च क्रियते युद्धं संग्रामे युद्धशालिभिः ॥ ३१ ॥
नाश्चर्यं चित्रमेतच्च ब्रह्मचर्यं तदद्भुतम् ॥
विशेषाद्यौवनावस्थां संप्राप्य पुरुषोत्तम ॥ ३२ ॥
विशेषेण च नारीभिरत्र न श्रद्दधाम्यहम् ॥
अवश्यं यौवनस्थेन तिर्यग्योनिगतेन च ॥ ३३ ॥
विकारः खलु कर्तव्यो नाधि काराय यौवनम् ॥
यदि न प्राप्नुवंत्येताः पुरुषं योषितः क्वचित् ॥ ३४ ॥
अन्योन्यं मैथुनं चक्रुः कामबाणप्रपीडिताः ॥
कुष्ठिनं व्याधितं वापि स्थविरं व्यंगमेव च ॥
अप्येताः पुरुषाभावे मन्यंते पंचसायकम् ॥ ३५ ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ॥
नांतकः सर्वभूतानां न पुंसां वामलोचना ॥ ३६ ॥
न परत्र भयादेता मर्यादां विदधुः स्त्रियः ॥
मुक्त्वा भूपभयं चैकमथवा गुरुजं भयम् ॥ ३७ ॥
॥ सूत उवाच ॥ ॥
एवं तस्य वचः श्रुत्वा शांडिली ब्रह्मचारिणी ॥
मौनव्रतधराऽप्येवं हृदि कोपं दधार सा ॥ ३८ ॥
एतस्मिन्नंतरे तस्य पक्षिनाथस्य तत्क्षणात् ॥
उभौ पक्षौ गतौ नाशं रुण्डाकारोऽत्र सोऽभवत् ॥ ३९ ॥
मांसपिंडमयो रौद्रः सर्वरोगविवर्जितः ॥
अशक्तश्च तथा गन्तुं पदमात्रमपि क्वचित् ॥ ॥ ६.८१.४० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णपक्षपातवर्णनंनामैकाशीतितमोऽध्यायः ॥ ८१ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 82
॥ सूत उवाच ॥ ॥
तद्दृष्ट्वा पुंडरीकाक्षो गरुडस्य विचेष्टितम् ॥
विस्मितश्चिंतयामास किमिदं सांप्रतं स्थितम् ॥ १ ॥
अपि वज्रप्रहारेण यस्य रोमापि न च्युतम् ॥
तौ पक्षौ सहसा चास्य कथं निपतितौ भुवि ॥ २ ॥
नूनमेतेन या स्त्रीणां कृता निंदा महात्मना॥
दूषितं ब्रह्मचर्यं यच्छांडिलीं समवेक्ष्य च॥३॥
अनया पातितौ पक्षौ तपःशक्तिप्रभावतः॥
नान्यस्य विद्यते शक्तिरीदृशी भुवनत्रये ॥ ४ ॥
ततः प्रसादयामास शांडिलीं गरुडध्वजः ॥
तदर्थं विनयोपेतः स्मितं कृत्वा द्विजोत्तमाः ॥ ५ ॥
॥ श्रीभगवानुवाच ॥ ॥
सामान्यवचनं प्रोक्तं सर्वस्त्रीणामनेन हि ॥
तत्किमर्थं महाभागे त्वया चैवेदृशः कृतः ॥ ६ ॥
॥ शांडिल्युवाच ॥ ॥
मम वक्त्रं समालोक्य स्मितं चक्रे जनार्दन ॥
स्त्रीनिंदा विहितानेन स्वमत्यापि जगद्गुरो ॥ ७ ॥
एतस्मात्कारणादस्य निग्रहोऽयं मया कृतः ॥
मनसा न च वाक्येन न च केशव कर्मणा ॥ ८ ॥
॥ श्रीभगवानुवाच ॥ ॥
तथापि कुरु चास्य त्वं प्रसादं गतकल्मषे॥
मम वाक्यानुरोधेन यदिमां मन्यसे शुभे ॥ ९ ॥
॥ शांडिल्युवाच ॥ ॥
मनसापि मया ध्यातं शुभं वा यदिवाऽशुभम् ॥
नान्यथा जायते देव विशेषात्कोपयुक्तया ॥ ६.८२.१० ॥
तस्मादेष ममादेशादाराध यतु शंकरम् ॥
पक्षलाभाय नान्यस्य शक्तिर्दातुं व्यवस्थिता ॥ ११ ॥
अथवा पुंडरीकाक्ष रूपमीदृग्व्यवस्थितः ॥
एष संस्थास्यते लोके सत्यमेतद्ब्रवीम्यहम् ॥ १२ ॥
॥ सूत उवाच ॥ ॥
तस्यास्तद्वचनं श्रुत्वा तं प्रोवाच जनार्दनः ॥
गरुडं दैन्यसंयुक्तं भासपिंडोपमं स्थितम् ॥ १३ ॥
एष एव वरश्चास्या द्विपदेश्या द्विजोत्तम ॥
पक्षलाभाय यत्प्रोक्तं तव शंभुप्रसादनम् ॥ १४ ॥
तस्मादाराधय क्षिप्रं त्वं देवं शशिशेखरम् ॥
अव्यग्रं चित्तमास्थाय दिवारात्रमतंद्रितः ॥ १५ ॥
येन ते तत्प्रभावेन भूयः स्यात्तादृशं वपुः ॥
तस्य देवस्य माहात्म्यादचिरादपि काश्यप ॥ १६ ॥
तच्छ्रुत्वा गरुडस्तूर्णं धृतपाशुपतव्रतः ॥
संस्थाप्य देवमीशानं ततस्तं तोषमानयत् ॥ १७ ॥
चांद्रायणानि कृच्छ्राणि तथा सांतपनानि च ॥
प्राजापत्यानि चक्रेऽथ पाराकाणि तदग्रतः ॥ १८ ॥
स्नात्वा त्रिषवणं पश्चाद्भस्मस्नान परायणः ॥
जपन्रुद्रशिरो रुद्रान्नीलरुद्रांस्तथापरान् ॥ १९ ॥
चक्रे पूजां स्वयं तस्य स्नापयित्वा यथाविधि ॥
बलिपूजोपहारांश्च विधानेन प्रयच्छति ॥ ६.८२.२० ॥
एवं तस्य व्रतस्थस्य जपपूजापरस्य च ॥
ततो वर्षसहस्रांते गतस्तुष्टिं महेश्वरः ॥
अब्रवीद्वरदोऽस्मीति वृणुष्वेष्टं द्विजोत्तम ॥ ॥ २१ ॥
॥ गरुड उवाच ॥ ॥
पश्यावस्थां ममेशान शांडिल्या या विनिर्मिता ॥
पक्षपातः कृतोऽस्माकं तमहं प्रार्थयामि वै ॥ २२ ॥
त्वयात्रैव सदा लिंगे स्थेयं हर ममाधुना ॥
मम वाक्यादसंदिग्धं यदि चेष्टं प्रयच्छसि ॥ २३ ॥
॥ भगवानुवाच ॥ ॥
अद्यप्रभृति मे चात्र लिंगे वासो भविष्यति ॥
त्वं च तद्रूपसंपन्नो विशेषाद्बलवेगभाक् ॥ २४ ॥
भविष्यसि न संदेहो मत्प्रसादाद्विहंगम ॥
एवमुक्त्वाथ तं देवः स्वयं पस्पर्श पाणिना ॥ २५ ॥
ततोऽस्य पक्षौ संजातौ तत्क्षणादेव सुन्दरौ ॥
तथा रोमाणि दिव्यानि जातरूपोपमानि च ॥ २६ ॥
ततः प्रणम्य तं देवं प्रहष्टः स विहंगमः ॥
गतः स्वभवनं पश्चादनुज्ञाप्य महेश्वरम् ॥ २७ ॥
देवोपि वचनात्तस्य तस्मिँल्लिंगे सदा हरः ॥
निवासमकरोत्सम्यक्प्राप्ते संध्यात्रये सदा ॥२ ॥
तस्य चायतने पुण्ये योगात्प्राणान्परित्यजेत् ॥
प्रायोपवेशनं कृत्वा न स भूयोऽपि जायते २९ ॥
अपि पाप समाचारः कौलो वा निर्घृणोऽपि वा ॥
ब्रह्मघ्नो वा सुरापो वा चौरो वा भ्रूणहाऽपि वा ॥ ६.८२.३० ॥
त्रिकालं पूजयन्यस्तु श्रद्धापूतेन चेतसा ॥।
संवत्सरं वसेत्सोऽपि शिवलोके महीयते ॥ ३१ ॥
अथवा सोमवारेण यस्तं पश्यति मानवः ॥
कृत्वा क्षणं सुभक्त्या यो यावत्संवत्सरं द्विजाः ॥। ॥ ३२ ॥
सोऽपि याति न संदेहः पुरुषः शिवमन्दिरे ॥
विमानवरमारूढः सेव्यमानोऽप्सरोगणैः॥३३॥
तस्मात्सर्वप्रयत्नेन कलिकाले विशेषतः॥
द्रष्टव्यो वै सुपर्णाख्यो देवः श्रद्धासमन्वितैः ॥३४॥
संत्याज्याश्च तथा प्राणास्तदग्रेप्रायसंश्रितैः ॥
वांछद्भिः शिवसांनिध्यं सत्यमेतन्मयोदितम् ॥। ॥ ३५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णेश्वराख्यमाहात्म्यवर्णनंनाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 83
॥ सूत उवाच ॥ ॥
तत्राश्चर्यमभूत्पूर्वं यत्तद्ब्राह्मणसत्तमाः ॥
अहं वः कीर्तयिष्यामि पुराणे यदुदाहृतम् ॥ १ ॥
वेणुर्नाम महीपालः पुरासीत्सूर्यवंशजः ॥
सदैव पापसंयुक्तो दुर्मेधाः कामपीडितः ॥ २ ॥
शासनानि प्रदत्तानि ब्राह्मणानां महात्मनाम् ॥
अन्यैः पार्थिवशार्दूलैस्तेन तानि हृतान्यलम् ॥ ३ ॥
विध्वंसिताः स्त्रियो नैका विधवाश्च विशेषतः ४
कुमार्यो रूपवत्यश्च तथा निज कुलोद्भवाः ॥ ४ ॥
देवताराधनं पूजां कर्तुं नैव ददाति सः ॥
न च यज्ञं न होमं च स्वाध्यायं न च पापकृत् ॥ ५ ॥
प्रोवाचाथ जनान्सर्वान्मां पूजयत सर्वदा ॥
न मामभ्यधिकोऽन्योऽस्ति देवो वा ब्राह्मणोऽपि वा ॥ ६ ॥
मया तुष्टेन सर्वेषां संपत्स्यति हृदि स्थितम् ॥
इह लोकेष्वसंदिग्धं शुभं वा यदि वाऽशुभम् ॥ ७ ॥
तेन शस्त्रविहीनानां विश्वस्तानां वधः कृतः ॥
संत्यक्ताः शरणं प्राप्ताः पुरुषा भयविह्वलाः ॥ ९ ॥
नष्टो महाहवं दृष्ट्वा शत्रुसंघानुपस्थितान् ॥
क्षात्रं धर्मं परित्यज्य प्राणरक्षार्थमेव हि ॥ ९ ॥
अचौराः प्रगृहीताश्च चौराः संरक्षिताः सदा ॥
साधवः क्लेशिता नित्यं तेषां संहरता धनम् ॥ ६.८३.१० ॥
न कृतं च व्रतं तेन श्रद्धापूतेन चेतसा ॥
न दत्तं ब्राह्मणेभ्यश्च न च यष्टं कदाचन ॥। ॥ ११ ॥
एवं तस्य नरेन्द्रस्य पापासक्तस्य नित्यशः ॥
कुष्ठव्याधिरभूदुग्रो वंशोच्छेदश्च सद्द्विजाः ॥ १२ ॥
ततस्तं व्याधिना ग्रस्तं पुत्रपौत्रविवर्जितम् ॥
दायादाः सहसोपेता राज्यं जह्रुस्ततः परम् ॥ १३ ॥
तं च निर्वासयामासुस्तस्माद्देशात्पदातिकम् ॥
एकाकिनं परित्यक्तं सर्वैरपि सुहृद्गणैः ॥ १४ ॥
सोऽपि सर्वैः परित्यक्तस्तेन पापेन कर्मणा ॥
कलत्रैरपि चात्मीयैः स्मृत्वा पूर्वविचेष्टितम् ॥ १५ ॥
एकाकी भ्रममाणोऽथ सोऽपि कष्टवशं गतः ॥
क्षुत्तृष्णासुपरिश्रांतः क्षेत्रेऽत्रैव समागतः ॥ १६ ॥
ततः प्रासादमासाद्य सुपर्णाख्यसमुद्भवम् ॥
यावत्प्राप्तः परित्यक्तस्ताव त्प्राणैरुपोषितः ॥ १७ ॥
ततो दिव्यवपुर्भूत्वाविमानवरमाश्रितः ॥
जगाम शिवलोकं स दुर्लभं धार्मिकैरपि ॥ १८ ॥
सेव्यमानोप्सरोभिश्च स्तूयमानश्च किन्नरैः ॥
गीयमानश्च गन्धर्वैः शिवपार्श्वे व्यवस्थितः ॥ १९ ॥
अथ तं संनिधौ दृष्ट्वा गौरी पप्रच्छ सादरम्॥
कोऽयं देव समायातः सुकृती तव मन्दिरे ॥
अनेन किं कृतं कर्म यत्प्राप्तोऽत्र विभूतिधृक् ॥ ६.८३.२० ॥
॥ श्रीभगवानुवाच ॥ ॥
एष पापसमाचारः सदाऽऽसीत्पृथिवीपतिः ॥
वेणुसंज्ञो धरापृष्ठे कुष्ठव्याधिसमाकुलः ॥ २१ ॥
स संत्यक्तो निजैर्दारैः शत्रुवर्गेण धर्षितः ॥
भ्रममाणः समायातः सुपर्णाख्यस्य मन्दिरे ॥ २२ ॥
उपवासपरिश्रांतः सांनिध्यं मम यत्र च ॥
सर्वप्राणैः परित्यक्तस्तस्मिन्नायतने शुभे ॥ २३ ॥
तत्प्रभावादिह प्राप्तः सत्यमेतन्मयोदितम् ॥
अन्योऽप्यनशनं कृत्वा प्राणान्यस्तत्र संत्यजेत् ॥ २४ ॥
स सर्वाभ्यधिकां भूतिं प्राप्नुयाद्वरवर्णिनि ॥
यानेतान्वीक्षसे देवि गणान्मे पार्श्वसंस्थितान् ॥ २५ ॥
एतैस्तत्र कृतं सर्वैर्देवि प्रायोपवेशनम् ॥
अपि कीटपतंगा ये पशवः पक्षिणो मृगाः ॥
प्रासादे तत्र निर्मुक्ताः प्राणैर्यांति ममांतिकम् ॥ २६ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा पार्वती वाक्यं प्रोक्तं देवेन शम्भुना ॥
विस्मयाविष्टहृदया साधु साध्विति साऽब्रवीत् ॥ २७ ॥
ततःप्रभृति लोकेऽत्र पुरुषा मुक्तिमिच्छवः ॥
दूरतोऽपि समभ्येत्य स्वान्प्राणांस्तत्र तत्यजुः ॥ २८ ॥
प्रायोपवेशनं कृत्वा श्रद्धया परया युताः ॥
गच्छन्ति च परां सिद्धिमपि पापपरायणाः ॥ २९ ॥
एतद्वः सर्वमाख्यातं सर्वपातकनाशनम् ॥
सुपर्णाख्यस्य माहात्म्यं यन्मया स्वपितुः श्रुतम् ॥ ६.८३.३० ॥
इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णाख्यमाहात्म्यवर्णनंनाम त्र्यशीतितमोऽध्यायः ॥ ८३ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 84
॥ ऋषय ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तं देवदेवेन विष्णुना ॥
माधवीं भगिनीं प्राप्य जन्मांतरमुपस्थिताम् ॥ १ ॥
अश्ववक्त्रां करिष्यामि तपसा सुशुभाननाम् ॥
सा कथं विहिता तेन तपस्तप्तं तथा कथम् ॥
सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि नः ॥ २ ॥
॥ सूत उवाच ॥ ॥
नारदस्य समाकर्ण्य तं सन्देशं सुरोद्भवम् ॥
गत्वा विष्णुः सुरैः सार्द्धं प्रचक्रे मंत्रनिश्चयम् ॥ ३ ॥
भारावतरणार्थाय दानवानां वधाय च ॥
वसुदेवगृहे श्रीमान्द्वापरांते ततो हरिः ॥ ४ ॥
देवक्या जठरे देवः संजातो दैत्यदर्पहा ॥
तथान्या रोहिणीनाम भार्या तस्य च याऽभवत् ॥ ५ ॥
तस्यां जज्ञे हलीनाम बलभद्रः प्रतापवान् ॥
तृतीया सुप्रभानाम वसुदेवप्रिया च या ॥ ६ ॥
तस्यां सा माधवी जज्ञे अश्ववक्त्रस्वरूपधृक् ॥
तां दृष्ट्वा विकृताकारां सुतां जातां च सुप्रभा ॥
वासुदेवसमायुक्ता विषादं परमं गता ॥ ७ ॥
अथ ते यादवाः सर्वे कृतशान्तिकपौष्टिकाः ॥
स्वस्तिस्वस्तीति संत्रस्ताः प्रोचुर्भूयात्कुलेऽत्र नः ॥८॥
एवं सा यौवनोपेता तथा दुःखसमन्विता ॥
न कश्चिद्वरयामास वाजिवक्त्रां विलोक्य ताम् ॥ ९ ॥
ततश्च भगवान्विष्णुर्ज्ञात्वा तां भगिनीं तथा ॥
मातरं पितरं चैव तथा दुःखसमन्वितौ ॥ ६.८४.१० ॥
तामादाय गतस्तूर्णं बलदेवसमन्वितः ॥
हाटकेश्वरजे क्षेत्रे तपस्तप्तुं ततः परम् ॥ ११ ॥
ब्रह्माणं तोषयामास सम्यग्यज्ञपरायणः ॥
व्रतैश्च विविधैर्दानैर्ब्राह्मणानां च तर्पणैः ॥ १२ ॥
ततस्तुष्टिं गतो ब्रह्मा वर्षांते तस्य शार्ङ्गिणः ॥
उवाच वरदोऽस्मीति प्रार्थयस्वाभिवांछितम् ॥ १३ ॥
॥ विष्णुरुवाच ॥ ॥
एषा मे भगिनी देव जाताऽश्ववदना किल ॥
तव प्रसादात्सद्वक्त्रा भूयादेतन्ममेप्सितम् ॥ १४ ॥
॥ श्रीब्रह्मोवाच ॥ ॥
एषा शुभानना साध्वी मत्प्रसादाद्भविष्यति ॥
सुभद्रा नाम विख्याता वीरसूः पतिवल्लभा ॥ १५ ॥
एतद्रूपां पुमान्योऽत्र पूजयिष्यति भक्तितः ॥
एतां विष्णो त्वया सार्धं तथानेन च सीरिणा ॥ १६ ॥
द्वादश्यां माघमासस्य गंधपुष्पानुलेपनैः ॥
सोऽप्यवाप्स्यति यच्चित्ते वर्तते नात्र संशयः ॥ १७ ॥
या नारी पतिना त्यक्ता वंध्या वा भक्तिसंयुता ॥
तृतीयादिवसे चैतां पूजयिष्यति केशव ॥ १८ ॥
भविष्यति सुपुत्राढ्या सुभगा सा सुखान्विता ॥
ऐश्वर्यसहिता नित्यं सर्वैः समुदिता गुणैः ॥ १९ ॥
एवमुक्त्वा चतुर्वक्त्रो विरराम ततः परम् ॥
वासुदेवोऽपि हृष्टात्मा ययौ द्वारवतीं पुरीम् ॥ ६.८४.२० ॥
तामादाय विशालाक्षीं चंद्रबिंबसमाननाम् ॥
बलदेवसमायुक्तो ह्यनुज्ञाप्य पिताम हम्॥ २१ ॥
॥ सूत उवाच ॥ ॥
एवं सा माधवी विप्राः सुभगारूपमास्थिता ॥
अवतीर्णा धरापृष्ठे लक्ष्मीशापप्रपीडिता ॥ २२ ॥
उपयेमे सुतः पांडोर्यां पार्थश्चारुहासिनीम् ॥
जज्ञे तस्याः सुतो वीरोऽभिमन्युरिति विश्रुतः ॥ २३ ॥
एतद्वः सर्वमाख्यातं माधबीजन्मसम्भवम् ॥
सुपर्णाख्यस्य देवस्य कथासंगाद्द्विजोत्तमाः ॥ २४ ॥
यश्चैतत्पठते मर्त्यो भक्त्या युक्तः शृणोति वा ॥
मुच्यते स नरः पापात्तद्दिनैकसमुद्भवात् ॥ २५।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णाख्यतीर्थमाहात्म्ये माधव्या अश्वमुख्याः श्रीकृष्णतपश्चर्यया पद्मादत्तशापविमुक्तिपूर्वक सुभद्रात्वप्राप्तिवर्णनंनाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 85
॥ ऋषय ऊचुः ॥ ॥
माधव्याः पद्मया दत्तो यः शापस्तस्य यत्फलम् ॥
परिणामोद्भवं सर्वं श्रुतमस्माभिरद्य तत् ॥ १ ॥
तेन यत्कमला शप्ता ब्राह्मणेन महात्मना ॥
सा कथं गज वक्त्राऽथ पुनर्जाता शुभानना ॥ २ ॥
॥ सूत उवाच ॥ ॥
शापेन तस्य विप्रस्य तत्क्षणादेव सा द्विजाः ॥
गजवक्त्रा समुत्पन्ना महाविस्मयकारिणी ॥ ३ ॥
सा प्रोक्ता हरिणा तिष्ठ किञ्चित्कालांतरे शुभे ॥
अनेनैव तु रूपेण यावत्स्याद्द्वापरक्षयः ॥ ४ ॥
ततोऽहं मेदिनीपृष्ठे ह्यवतीर्य समुद्रजे ॥
तपः शक्त्या करिष्यामि भूयस्त्वां तु शुभाननाम् ॥ ५ ॥
अवज्ञायाथ सा तस्य तद्वाक्यं शार्ङ्गधन्विनः ॥
शुभास्यत्वकृते तेपे तपस्तीव्रं सुहर्षिता॥ ॥ ६॥
एतत्क्षेत्रं समासाद्य त्रिकालं स्नानमाचरत्॥
ब्रह्माणं तोषयामास दिवारात्रिमतंद्रिता॥ ७॥
तामुवाच ततो ब्रह्मा वर्षांते तुष्टिमागतः ॥
वरं प्रार्थय तुष्टोऽहं तव केशववल्लभे ॥ ८ ॥
॥ लक्ष्मीरुवाच ॥ ॥
गजास्याहं कृता देव शापं दत्त्वा सुदारुणम् ॥
ब्राह्मणेन सुक्रुद्धेन कस्मिश्चित्कारणांतरे ॥९॥
तस्मात्तद्रूपिणीं भूयो मां कुरुष्व पितामह ॥
यदि मे तुष्टिमापन्नो नान्यत्किंचिद्वृणोम्यहम् ॥ ६.८५.१० ॥
॥ ब्रह्मोवाच ॥ ॥
भविष्यति शुभं वक्त्रं मत्प्रसादादसंशयम् ॥
तव भद्रे विशेषेण तस्मात्त्वं स्वगृहं व्रज ॥ ११ ॥
महत्त्वं ते मया दत्तमद्यप्रभृति शोभने ॥
महालक्ष्मीति ते नाम तस्मादत्र भविष्यति ॥ १२ ॥
गजवक्त्रां नरो यस्त्वां पूजयिष्यति भक्तितः ॥
स गजाधिपतिर्भूपो भविष्यति च भूतले ॥ १३ ॥
द्वितीयादिवसे यस्त्वां महालक्ष्मीरिति ब्रुवन् ॥
श्रीसूक्तेन सुभक्त्याऽथ देवि संपूजयिष्यति ॥ १४ ॥
सप्तजन्मांतराण्येव न भविष्यति सोऽधनः॥
एवमुक्त्वा चतुर्वक्त्रो विरराम ततः परम्॥ १५ ॥
साऽपि हृष्टा गता देवी यत्र तिष्ठति केशवः ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये महालक्ष्मीमाहात्म्यवर्णनंनाम पञ्चाशीतितमोऽध्यायः॥ ८५ ॥छ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 86
॥ सूत उवाच ॥ ॥
अथान्यापि च तत्रास्ति सप्तविंशतिका तथा ॥
नक्षत्रैः स्थापिता देवी वांछितस्य प्रदायिनी ॥ १ ॥
दक्षस्य तनया पूर्वं सप्तविंशतिसंख्यया ॥
उद्वाहिता हि सोमेन पूर्वं ब्राह्मणसत्तमाः ॥ २ ॥
तासां मध्ये ऽभवच्चैका रोहिणी तस्य वल्लभा ॥
प्राणेभ्योऽपि सदासक्तस्तया सार्धं स तिष्ठति ॥ ३ ॥
ततो दौर्भाग्यसंतप्ताः सर्वा स्ता दक्षकन्यकाः ॥
वैराग्यं परमं गत्वा क्षेत्रेऽस्मिंस्तपसि स्थिताः ॥ ४ ॥
संस्थाप्य देवतां दुर्गां श्रद्धया परया युताः ॥
बलिपूजोपहारैस्तां पूजयंत्यः सुरेश्वरीम् ॥ ५ ॥
ततः कालेन महता तासां सा तुष्टिमभ्यगात् ॥
अब्रवीच्च प्रतुष्टोऽहं वरं दास्यामि पुत्रिकाः ॥ ६ ॥
तस्मात्तत्प्रार्थ्यतां चित्ते यद्युष्माकं व्यवस्थितम् ॥
सर्वं दास्याम्यसंदिग्धं यद्युष्माकं हृदि स्थितम् ॥ ७ ॥
ततः प्रोचुश्च ताः सर्वाः प्रसादात्तव वांछितम् ॥
अस्माकं विद्यते देवि यावत्त्रैलोक्यसंस्थितम् ॥ ८ ॥
एकं पत्युः सुखं मुक्त्वा यत्सौभाग्यसमुद्भवम् ॥
तस्मात्तद्देहि चास्माकं यदि तुष्टासि चंडिके ॥ ९ ॥
वयं दौर्भाग्यदोषेण सर्वाः क्लेशं परं गताः ॥
न शक्नुमः प्रियान्प्राणान्देहे धर्तुं कथंचन ॥ ६.८६.१० ॥
॥ श्रीदेव्युवाच ॥ ॥
अद्यप्रभृति युष्माकं सौभाग्यं पतिसंभवम्॥
मत्प्रसादादसंदिग्धं भविष्यति सुखोदयम्॥ ११ ॥
अन्यापि या पतित्यक्ता स्त्री मामत्र स्थितां सदा ॥
पूजयिष्यति सद्भक्तया चतुर्दश्यामुपोषिता ॥ १२ ॥
सा भविष्यति सौभाग्ययु्क्ता पुत्रवती सती ॥
यावत्संवत्सरं तावदेकभक्तपरायणा ॥ १३ ॥
अक्षारलवणाशा या नारी मां पूजयिष्यति ॥
न तस्याः पतिजं दुःखं दौर्भाग्यं वा भविष्यति ॥ १४ ॥
आश्विनस्य सिते पक्षे संप्राप्ते नवमीदिने ॥
उपवासपरा या मां निशीथे पूजयिष्यति ॥
तस्याः सौभाग्यमत्युग्रं सर्वदा वै भविष्यति ॥ १५ ॥
एवमुक्त्वा तु सा देवी विरराम द्विजोत्तमाः ॥
ताश्च सर्वाः सुसंहृष्टा जग्मुर्दक्षस्य मंदिरम्॥ १६ ॥
एतस्मिन्नंतरे दक्ष आहूतः शूलपाणिना ॥
प्रोक्तः कस्मात्त्वया चन्द्रो यक्ष्मणा संनियोजितः ॥
तदयुक्तं कृतं दक्ष जामाताऽयं यतस्तव ॥ १७ ॥
॥ दक्ष उवाच ॥ ॥
अनेन तनया मह्यमष्टाविंशतिसंख्यया ॥
ऊढा अखण्डचारित्रास्तास्त्यक्ता दोषवर्जिताः ॥
मुक्त्वैकां रोहिणीं देव निषिद्धेन मयाऽसकृत् ॥ १८ ॥
ततो मयाऽतिकोपेन नियुक्तो राजयक्ष्मणा ॥
असत्यजल्पको मन्दः कामदेववशं गतः ॥ १९ ॥
॥ श्रीभगवानुवाच ॥ ॥
अद्यप्रभृति सर्वासां समं स प्रचरिष्यति ॥
मद्वाक्यान्नात्र संदेहः सत्यमेतन्मयोदितम्॥ ६.८६.२० ॥
त्वयापि यद्वचः प्रोक्तमसत्यं स्यान्न तत्क्वचित् ॥
तस्मादेष क्षयं पक्षं वृद्धिं पक्षं प्रयास्यति ॥ २१ ॥
दक्षोऽपि बाढमित्येव तत्प्रोक्त्वा च ययौ गृहम् ॥
चंद्रस्तु दक्षकन्यास्ताः समं पश्यति सर्वदा ॥ २२ ॥
गच्छमानः क्षयं पक्षं वृद्धिं पक्षं च सद्द्विजाः ॥
सापि देवी ततः प्रोक्ता सप्तविंशतिका क्षितौ ॥
सर्वसौभाग्यदा स्त्रीणां तस्मिन्क्षेत्रे व्यवस्थिता ॥ २३ ॥
यश्चैतत्पुरतस्तस्याः संप्राप्ते चाष्टमीदिने ॥
शुचिर्भूत्वा पठेद्भक्त्या स सौभाग्यमवाप्नुयात् ॥ २४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सप्तविंशतिकामाहात्म्यवर्णनंनाम षडशीतितमोऽध्यायः ॥ ८६ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 87
॥ सूत उवाच ॥ ॥
तथा तत्रास्ति विप्रेन्द्राः सोमस्यायतनं शुभम्॥
यस्यापि दर्शनादेव मुच्यते पातकैर्नरः ॥ १ ॥
सोमवारे तु संप्राप्ते सोमस्य ग्रहणे नरः ॥
यस्तं पश्यति पापोऽपि नरकं न स पश्यति ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
सर्वेषामेव देवानां दृश्यंतेऽत्र समाश्रयाः ॥
अत्र चंद्रस्य चैवैकः कथं जातः समाश्रयः ॥ ३ ॥
एतन्नः सूतपुत्रातिचित्रं मनसि वर्तते ॥
तस्माद्वद महाभाग सर्वं त्वं वेत्स्यशेषतः ॥ ४ ॥
॥ सूत उवाच ॥ ॥
एनज्जगद्द्विजश्रेष्ठाः सर्वं सोममयं स्मृतम् ॥
तस्मात्प्रतिष्ठिते तस्मिंस्त्रैलोक्यं स्यात्प्रतिष्ठितम् ॥ ५ ॥
एताश्चौषधयः सर्वाः सस्याद्याश्चेह भूतले ॥
सर्वाः सोममयास्ताश्च याभिर्जीवंति जंतवः ॥ ६ ॥
तस्माद्ब्रह्मादयो देवाः सोमं प्राप्य क्रमाद्द्विजाः ॥
तृप्तिं यांति परां हृष्टा यतस्तस्माद्वरोऽत्र सः ॥ ७ ।
अग्निष्टोमादयो यज्ञास्तथा सोमे प्रतिष्ठिताः ॥
तस्य पानाद्यतस्तृप्तिं तत्र यांति द्विजोत्तमाः ॥ ८ ॥
एतस्मात्कारणात्सोमः सर्वेषामधिकः स्मृतः ॥
देवानां दानवानां च स हि पूज्यतमः स्मृतः ॥ ९ ॥
यथान्येषां सुरेन्द्राणां हर्म्याणि धरणीतले ॥
क्रियन्ते रात्रिनाथस्य तद्वत्कुर्वंति मानवाः ॥ ६.८७.१० ॥
यैर्येर्नरैर्निशेशस्य प्रासादो विहितः क्षितौ ॥
तेते मुक्तिपदं प्राप्ताः कृत्वाऽथ शुभसंचयम् ॥ ११ ॥
यन्महेश्वरहर्म्याणां सहस्रेण भवेच्छुभम् ॥
तदेके नैव चंद्रस्य प्राप्नुवंति शुभं नराः ॥ १२ ॥
अथ चन्द्रोत्थहर्म्यस्य माहात्म्यं तद्द्विजोत्तमाः ॥
ज्ञात्वा ब्रह्मादयो देवा भयसंत्रस्तमानसाः ॥
तद्विघ्नार्थमिदं प्रोचुर्मेरुमूर्धानमाश्रिताः ॥ १३ ॥
सौम्यर्क्षे सोमवारेण सौम्ये मासि च संस्थिते ॥
तिथौ च सोमदेवत्ये प्राप्ते सोमग्रहे तथा ॥
सकारैः पंचभिर्युक्ते काले सोमस्य मंदिरम् ॥ १४ ॥
य एकाहेन संपाद्य प्रासादं स्थापयिष्यति ॥
चंद्रं स सर्वदेवोत्थहर्म्यस्याप्नोति सत्फलम् ॥ १५ ॥
सहस्रगुणितं सम्यक्छ्रद्धापूतेन चेतसा ॥
अन्यथा यस्तु चंद्रस्य प्रासादं प्रकरिष्यति ॥ १६ ॥
वंशोच्छेदं समासाद्य नरकं स प्रयास्यति ॥
एतस्मात्कारणाद्भीता न कुर्वंति नरा भुवि ॥ १७ ॥
प्रासादं रात्रिनाथस्य सुपुण्यमपि सद्द्विजाः ॥
य एष रात्रिनाथस्य क्षेत्रेऽत्रैव व्यवस्थितः ॥ १८ ॥
प्रासादस्त्वंबरीषेण भूभुजा स विनिर्मितः ॥
कथंचित्समयं प्राप्य यथोक्तं शास्त्रचिंतकैः ॥ १९ ॥
तस्यैवोत्तरदिग्भागे द्वितीयोऽन्यः प्रतिष्ठितः ॥
चन्द्रमा धंधुमारेण तद्वत्सोऽपि प्रतिष्ठितः ॥ ६.८७.२० ॥
ततश्च तौ महीपालौ तत्प्रभावादुभौ द्विजाः ॥
गतौ च परमां सिद्धिं जन्ममृत्युविवर्जिताम् ॥ ॥ २१ ॥
प्रासादोऽन्यस्तृतीयस्तु क्षेत्रे प्राभासिके तथा ॥
इक्ष्वाकुणा नरेंद्रेण श्रद्धायुक्तेन निर्मितः ॥ २२ ॥
प्रासादत्रयमेतद्धि मुक्त्वात्र धरणीतले ॥
अपरो नास्ति चन्द्रस्य सत्यमेतन्मयोदितम् ॥
एकोऽस्ति नर्मदातीरे पुण्ये रेवोरिसंगमे ॥ २३ ॥
एतद्वः सर्वमाख्यातं चन्द्रमाहात्म्यमुत्तमम् ॥
पठतां शृण्वतां चापि सर्वपातकनाशनम् ॥ २४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहत्म्ये सोमप्रासादमाहात्म्यवर्णनंनाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 88
॥ ऋषय ऊचुः ॥ ॥
यास्त्वया देवताः प्रोक्ताश्चतस्रः सूतनंदन ॥
चमत्कारी महित्था च महालक्ष्मीस्तथाऽपरा ॥ १ ॥
अंबावृद्धा चतुर्थी च तासां तिस्रः प्रकीर्तिताः॥
विस्तरेण चतुर्थी च अंबावृद्धा न कीर्तिता ॥ २ ॥
एतस्याः सर्वमाचक्ष्व प्रभावं सूतसंभव ॥
केनैषा निर्मिता यात्रा सर्वं विस्तरतो वद ॥ ३ ॥
॥ सूत उवाच ॥ ॥
एषा तपोमयी शक्तिरम्बावृद्धा सुरेश्वरी ॥
यथात्र संस्थिता पूर्वं तत्सर्वं श्रूयतां मम ॥ ४ ॥
चमत्कारमहीपेन पुरमेतद्यदा कृतम्॥
तदा तद्रक्षणार्थाय निर्मिता भावितात्मना ॥
चतस्रो देवता ह्येताः संमतेन द्विजन्मनाम् ॥ ५ ॥
अथ तस्य महीपस्य अंबानामाभवत्सुता ॥
तथान्या वृद्धसंज्ञा च रूपौदार्यगुणान्विते ॥ ६ ॥
उभे ते काशिराजेन परिणीते द्विजोत्तमाः ॥
गृह्योक्तेन विधानेन देवविप्राग्निसंनिधौ ॥ ७ ॥
कस्यचित्त्वथ कालस्य काशिराजस्य भूपतेः ॥
तैः कालयवनैः सार्धमभवत्संगरो महान् ॥ ८ ॥
अथ तैर्निहतः संख्ये सभृत्यबलवाहनः ॥
हरलब्धवरै रौद्रैः काशिराजः प्रतापवान् ॥ ९ ॥
अथांबा चैव वृद्धा च वैधव्यं प्राप्य दुःखदम् ॥
हाटकेश्वरजं क्षेत्रं गत्वा ते वांछितप्रदम् ॥ ६.८८.१० ॥
देव्या आराधने यत्नं कृतवत्यौ ततः परम् ॥
नाशार्थं पतिशत्रूणां धृतवत्यौ शुभव्रतम् ॥ ११ ॥
यावद्वर्षशतं साग्रं न च तुष्टा सुरेश्वरी ॥
ततो वैराग्यमासाद्य वांछंत्यौ स्वतनुक्षयम् ॥ १२ ॥
मंत्रैराथर्वणैर्विप्राः क्षुरिकासूक्तसंभवैः ॥
छित्त्वाच्छित्त्वा स्वमांसानि मंत्रपूतानि भक्तितः ॥ १३ ॥
कृतवत्यौ ततो होमं सुसमिद्धे हुताशने ॥
अग्निकुण्डात्ततस्तस्माश्चतुर्हस्ता शुभानना ॥ १४ ॥
श्वेतवस्त्रा विनिष्क्रांता नारी बालार्कसव्रिभा ॥
तथान्या च सुनेत्रास्या तप्तहाटकसन्निभा । १५ ॥
तस्मात्कुण्डाद्विनिष्क्रांता धृतखड्गा भयावहा ॥
साऽपरापि तथारूपा शक्तिः परमदारुणा ॥ १६ ॥
प्रोचतुस्ते वरं हृत्स्थं प्रार्थ्यतामिति दुर्लभम् ॥ ॥ १७ ॥
॥ ते ऊचतुः ॥ ॥
अस्माकं दयितो भर्त्ता काशिराजः प्रतापवान् ॥
निहतः संगरे क्रुद्धैर्यवनैः कालपूर्वकैः ॥ १८ ॥
युष्मदीय प्रसादेन यथा तेषां परिक्षयः ॥
सञ्जायते महादेव्यौ तथा कार्यमसंशयम् ॥ १९ ॥
स्थातव्यं च तथात्रैव उभाभ्यामपि सादरम् ॥
स्वपुरस्य प्ररक्षार्थमेतत्कृत्यं मतं हि नौ ॥ ६.८८.२० ॥
तयोस्तद्वचनं श्रुत्वा उभे ते देवते ततः॥
संप्रोच्य बाढमित्येवं तस्मिन्कुण्डे व्यवस्थिते ॥ २१ ॥
एतस्मिन्नंतरे तस्मात्कुण्डाच्छतसहस्रशः ॥
निष्क्रांताः संख्यया हीना मातरो नैकरूपिकाः ॥ २२ ॥
एका गजमुखी तत्र तथान्या तुरगानना ॥
सारमेय मुखाश्चान्याः पक्षिच्छागमुखाः पराः ॥ २३ ॥
तिर्यञ्च वपुषश्चान्या वक्त्रैर्मानुषसंभवैः ॥
त्रिशीर्षाः पञ्चशीर्षाश्च दशशीर्षास्तथा पराः ॥ २४ ॥
गुह्य स्थानस्थितैर्वक्त्रैरेकाश्चान्या हृदिस्थितैः ॥
पार्श्वसंस्थैः स्थिताश्चान्या अन्याः पृष्ठिगतैर्मुखैः ॥ २५ ॥
एकहस्ता द्विहस्ताश्च पञ्चहस्तास्तथापराः ॥
अन्या विंशतिहस्ताश्च विहस्ताश्च तथापराः ॥ २६ ॥
बहुपादा विपादाश्च एकपादास्तथापराः ॥
तथान्याश्चार्धपादाश्च अधोवक्त्रा विभीषणाः ॥ ॥ २७ ॥
एकनेत्रा द्विनेत्राश्च त्रिनेत्राश्च तथापराः ॥
काश्चिद्गजसमारूढा हयारूढास्तथापराः ॥ २८ ॥
वृषवानरसिंहाजव्याघ्रसर्पास्थिताः पराः ॥
गोधाश्वरासभारूढास्तथा च विहगाश्रिताः ॥ २९ ॥
कूर्मकुक्कुटसर्पादिसमारूढाः सहस्रशः ॥
प्रकुर्वंत्यो रुदन्त्यश्च गायन्त्यश्च तथा पराः ॥
नृत्यंत्यश्च हसंत्यश्च क्रीडासक्ताः परस्परम् ॥ ६.८८.३० ॥
ऊर्ध्वकेशा विकेशाश्च गात्रकेशाश्च भूरिशः ॥
लंबकेशा विकेशाश्च वाजिकेशास्तथैव च ॥३॥।
ह्रस्वदन्त्यो विदंत्यश्च दीर्घदन्त्यो विभीषणाः ॥
गजदंत्यस्तथैवान्या लोहदंत्योभयावहाः ॥ ३२ ॥
लंबकर्ण्यो विकर्ण्यश्च शूर्पकर्ण्यस्तथा पराः ॥
शंकुकर्ण्यः कुकर्ण्यश्च बहुकर्ण्यः सुकर्णिकाः ॥ ३३ ॥
एकवस्त्रा विवस्त्राश्च बहुवस्त्रास्तथा पराः ॥
चर्मप्रावरणाश्चैव कथाप्रावरणान्विताः ॥ ३४ ॥
खङ्गहस्ताः शराहस्ताः कुंतहस्ताश्च भीषणाः ॥
पाशहस्तास्तथैवान्याः प्रासचापकराः पराः ॥
शूलमुद्गरहस्ताश्च भुशुंडिकरभूषिताः ॥ ३५ ॥
अथ ताभ्यां तथाऽऽकर्ण्य ताः सर्वा हर्षसंयुताः ॥
प्रस्थितास्तत्र ता यत्र ते कालयवनाः स्थिताः ॥३६॥
ततस्ते तत्समालोक्य बलं देवीसमुद्रवम् ॥
रौद्र रूपधरं तीव्रं विकृतं विकृतैर्मुखैः ॥३७॥
विषण्णवदनाः सर्वे भयभीता समंततः ॥
धावतो भक्षितास्ताभिर्देवताभिः सुनिर्दयम् ॥ ३८ ॥
बालवृद्धसमोपेतं तेषां राष्ट्रं दुरात्मनाम् ॥
स्त्रीभिश्च सहितं ताभिर्देवताभिः प्रभक्षितम् ॥३९॥
एवं निर्वास्य तद्राष्ट्रं सर्वास्ता हर्षसंयुताः ॥
भूय एव निजं स्थानं संप्राप्ता द्विजसत्तमाः ॥ ६.८८.४० ॥
ततः प्रोचुः प्रणम्योच्चैस्ताभ्यां विनयपूर्वकम् ॥
हतास्ते यवनाः कृष्णाः सपुत्रपशुबांधवाः ॥४॥।
उद्वासितस्तथा सर्वो देशस्तेषां स वै महान् ॥
सांप्रतं दीयतां कश्चिदाहारस्तृप्तिहेतवे ॥
निवासाय ततः स्थानं किंचिच्चावेद्यतां हि नः ॥ ४२ ॥
॥ देव्यावूचतुः॥ ॥
मर्त्यलोकेऽत्र या नार्यो गर्भवत्यः स्वपंति च ॥
संध्याकालप्रकाशे च तासां गर्भोऽस्तु वो द्रुतम् ॥ ४३ ॥
रुदंत्यो या विनिर्यांति चत्वरेषु त्रिकेषु च ॥
तासां गर्भस्तु युष्माकं संप्रदत्तः प्रभुज्यताम् ॥ ४४ ॥
उच्छिष्टा याः प्रसर्पंति रमन्ते च स्वपंति च ॥
तासां गर्भः समस्तानां युष्माकं भोज नाय वै ॥ ४५ ॥
सूतिकाभवने यस्मिन्नुच्छिष्टं चोपजायते ॥
स बालकस्तु युष्माकं भोजनाय प्रकल्पितः ॥ ४६ ॥
न षष्ठीजागरो यस्य बालकस्य भविष्यति ॥
स भविष्यति भोज्याय युष्माकं नात्र संशयः ॥ ४७ ॥
नाशं यास्यति वा यत्र पावकः सूतिकागृहे ॥
स भविष्यति भोज्याय युष्माकं बालरूपधृक् ॥ ४८ ॥
मांगल्यैः संपरित्यक्तं यद्भवेत्सूतिकागृहम् ॥
तस्मिन्यस्तिष्ठते बालः स युष्माकं प्रकल्पितः ॥४९॥
संध्यायां बालका ये वा स्वपंत्याकाशदेशगाः॥
ते सर्वे भोजनार्थाय युष्माकं संनिवेदिताः ॥ ६.८८.५० ॥
यस्य जन्मदिने प्राप्ते वर्षांते क्रियते न च ॥
मांगल्यं तस्य यद्गात्रं तद्युष्माकं प्रकल्पितम् ॥ ५१ ॥
तैलाभ्यंगं नरः कृत्वा यश्च स्नानं करोति न ॥
स दत्तो भोजनार्थाय युष्माकं नात्र संशयः ॥ ५२ ॥
उच्छिष्टो यः पुमांस्तिष्ठेद्यो वा चत्वरमध्यगः॥
भक्षणीयः स सर्वाभिर्निर्विकल्पेन चेतसा ॥५३ ॥
रजस्वलां व्रजेद्यो वा पुरुषः काममोहितः॥
नग्नः शेते तथा स्नाति भक्षणीयः स सत्वरम् ॥ ५४ ॥
दक्षिणाभिमुखो रात्रौ यश्च स्नाति विमूढधीः ॥
शेते च शयने सोऽपि भक्षणीयश्च सत्वरम् ॥५५॥
उदङ्मुखश्च यो रात्रौ दिवा वा दक्षिणामुखः ॥
मूत्रोत्सर्गं पुरीष वा प्रकुर्याद्भक्ष्य एव सः ॥ ५६ ॥
यः कुर्याद्रजनीवक्त्रे दधिसक्तुप्रभक्षणम् ॥
अंत्यजाभिगमं चाथ भक्षणीयो द्रुतं हि सः ॥ ५७ ॥
॥ सूत उवाच ॥ ॥
एवं ताभ्यां तदा प्रोक्ता देवतास्ताः समंततः ॥
परिवार्य तदा तस्थुः संप्रहृष्टेन चेतसा ॥ ५८ ॥
एतस्मिन्नंतरे राजा चमत्कारः प्रतापवान् ॥
प्रासादं निर्ममे ताभ्यां कैलासशिखरोपमम् ॥ ५९ ॥
ततः प्रभृति ते ख्याते क्षेत्रे तत्र महोदये ॥
अंबावृद्धाभिधाने च पुररक्षापरे सदा ॥ ६.८८.६० ॥
यः पुमान्प्रातरुत्थाय ताभ्यां पश्यति चाननम् ॥
तस्य संवत्सरंयावन्न च च्छिद्रं प्रजायते ॥ ६१ ॥
वृद्ध्यादौ वाथ चांते वा ताभ्यां पूजां करोति यः ॥
न तस्य जायते च्छिद्रं कथंचिदपि भूतले ॥ ६२ ॥
यात्राकाले पुमान्यश्च ताभ्यां पूजां समाचरेत् ॥
स वांछितफलं प्राप्य शीघ्रं स्वगृहमाप्नुयात् ॥ ६३ ॥
सदाष्टम्यां चतुर्दश्यां यस्ताभ्यां बलिमाहरेत् ॥
स कामानाप्नुयादिष्टानिह प्रेत्य च सद्गतिम् ॥ ६४ ॥
यो महानवमीसंज्ञे दिवसे श्रद्धयान्वितः ॥
ताभ्यां समाचरेत्पूजां स सदा स्यादकण्टकी ॥ ॥ ६५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येंऽबावृद्धामाहात्म्यवर्णनंनामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 89
॥ सूत उवाच ॥ ॥
एवं तत्र स्थिते नित्यं तस्मिन्मातृगणे द्विजाः ॥
बालकानां क्षयो जज्ञे ब्राह्मणानां गृहेगृहे ॥ १ ॥
तरुणानां विशेषेण चमत्कारपुरोत्तरे ॥
छिद्रमन्वेषमाणास्ता भ्रमंत्यखिलदेवताः ॥ २ ॥
ततस्ते ब्राह्मणाः सर्वे ज्ञात्वा छिद्रसमुद्भवम् ॥
विघातं बालकानां च देवताभिर्विनिर्मितम् ॥ ३ ॥
अम्बावृद्धे समासाद्य पूजयित्वा प्रयत्नतः ॥
प्रोचुश्च दुःखसन्तप्ता विनयावनताः स्थिताः ॥ ४ ॥
रक्षार्थं सर्वविप्राणां चमत्कारेण भूभुजा ॥
भवद्भ्यां निर्मितः श्रेष्ठः प्रासादोऽयं मनोहरः ॥ ९ ॥
ह्रियंते बालका रात्रौ छिद्रं प्राप्य सहस्रशः ॥
युष्मदीयाभिरेताभिर्देवताभिः समन्ततः ॥ ६ ॥
प्रसादः क्रियतां तस्माद्ब्राह्मणानां महात्मनाम् ॥
नो चेत्पुरं परित्यज्य यास्यामोऽन्यत्र भूतले ॥ ७ ॥
तेषां तद्वचनं श्रुत्वा ततोंऽबा कृपयान्विता ॥
हत्वा पादप्रहारेण भूमिं चक्रे गुहां ततः ॥ ८ ॥
तस्यां स्वे पादुके न्यस्य ततः प्रोवाच देवताः ॥
सर्वास्ता नतसर्वांगीर्विनयेन समन्विताः ॥ ९ ॥
इमे मत्पादुके दिव्ये गुहामध्यगते सदा ॥
सर्वाभिः सेवनीये च न गन्तव्यं बहिः क्वचित् ॥ ६.८९.१० ॥
या काचिल्लौल्यमास्थाय निष्क्रमिष्यति मोहतः ॥
सा दिव्यभावनिर्मुक्ता शृगाली संभविष्यति ॥ ११ ॥
॥ देवता ऊचुः ॥ ॥
अत्र स्थाने महादेवि कोऽस्माकं प्रकरिष्यति ॥
पूजां को वात्र चाहारस्तस्माद्ब्रूहि सुरेश्वरि ॥ १२ ॥
॥ अम्बोवाच ॥ ॥
अत्रागत्य विनिर्मुक्ता योगिनो ध्यानचिन्तकाः ॥
पूजां सम्यक्करिष्यंति सर्वासां भक्तिसंयुताः ॥ १३ ॥
पादुके मे प्रपूज्यादौ मांस मद्यादिभिः क्रमात् ॥
अवाप्स्यंति च संसिद्धिं दुर्लभाममरैरपि ॥ १४ ॥
ततस्तथेति ताः प्रोच्य गुहामध्ये व्यवस्थिताः ॥
परिवार्य शुभे तस्याः पादुके मोक्षदायिके ॥ १५ ॥
ततस्तत्र समागत्य पुरुषा अपि दूरतः ॥
प्रपूज्य पादुके सम्यङ्मातॄस्ताश्च ततः परम्॥
प्रयांति च परां सिद्धिं जन्म मृत्युविवर्जिताम् ॥ १६ ॥
एतस्मिन्नंतरे नष्टा अग्निष्टोमादिकाः क्रियाः ॥
तीर्थयात्राव्रतान्येव संयमा नियमाश्च ये १७ ॥
ये चापि ब्राह्मणाः शांताः सदा मद्यस्य दूषणम् ॥
प्रकुर्वंति स्वहस्तेन तेऽपि मद्यैः पृथग्विधैः ॥ १८ ॥
तर्पयंति तथा मांसैस्त्यक्ताशेषमखक्रियाः ॥
पादुके मातृभिर्जुष्टे तथा धूपानुलेपनैः ॥ १९ ॥
एतस्मिन्नंतरे भीताः सर्वे देवाः सवासवाः ॥
दृष्ट्वा यज्ञक्रियोच्छेदं क्षुत्पिपासा समाकुलाः॥६.८९.२०॥।
प्रोचुर्महेश्वरं गत्वा विनयावनताः स्थिताः ॥
स्तुत्वा पृथग्विधैः सूक्तैर्वेदोक्तैः शतरुद्रियैः ॥ २१ ॥
देवा ऊचुः ॥ ॥
हाटकेश्वरजे क्षेत्रे पादुके तत्र संस्थिते ॥
अंबाया मातृभिः सार्धं गुहामध्ये सुगुप्तके ॥ २२ ॥
ब्राह्मणा अपिदेवेश मद्यमांसेन भक्तितः ॥
ताभ्यां पूजां प्रकुर्वंति प्रयांति परमां गतिम् ॥ २३ ॥
नष्टा धर्मक्रिया सर्वा मर्त्यलोकेत्र सांप्रतम् ॥
अस्माकं संक्षयो जातो यज्ञभागं विना प्रभो॥२४॥
तस्मात्त्वं कुरु देवेश यथा स्यात्पादुकाक्षयः॥
प्रभवंति मखा भूमावस्माकं स्युः परा मुदः ॥२५॥
॥ श्रीभगवानुवाच ॥ ॥
या सा अंबेति विख्याता शक्तिः सा परमेश्वरी॥
जगन्माताऽक्षया साक्षान्ममा पि जननी च सा ॥ २६ ॥
तत्कथं संक्षयस्तस्याः कर्तुं केनापि शक्यते ॥
मनसापि महाभागाः पादुकानां विशेषतः ॥ २७ ॥
परं तत्र करिष्यामि सुखोपायं सुरेश्वराः ॥
युष्मभ्यं पादुकायां च महत्त्वं येन जायते ॥ २८ ॥
एवमुक्त्वा ततो ध्यानं चक्रे देवो महेश्वरः ॥
व्यावृत्यकमलं हृत्स्थमष्टपत्रं सकर्णिकम् ॥ २९ ॥
तस्यांतर्गतमासीनमंगुष्ठाग्रमितं शुभम् ॥
द्वादशार्कप्रभं सूक्ष्मं स्वमात्मानं व्यलोकयत् ॥ ६.८९.३० ॥
तस्यैवं ध्यायमानस्य तृतीयनयनात्ततः ॥
श्वेतांबरधरा शुभ्रा निर्गता कन्यका शुभा ॥ ३१ ॥
अथ सा प्राह तं देवं प्रणिपत्य महेश्वरम् ॥
किमर्थं देव सृष्टास्मि ममादेशः प्रदीयताम् ॥ ३२ ॥
॥ श्रीभगवानुवाच ॥ ॥
हाटकेश्वरजे क्षेत्रे पादुके संस्थिते शुभे ॥
श्रीमातुर्जगतां मुख्ये ताभ्यां पूजां त्वमाचर ॥ ३३ ॥
कन्यकां संपरित्यज्य तवान्वयविवर्द्धिताम्॥
यः करिष्यति तत्पूजामाहारः स्यात्स मातृषु ॥ ३४ ॥
कौमारब्रह्मचर्य्येण त्वयापि च सुभक्तितः ॥
ताभ्यां पूजा प्रकर्तव्या नो चेन्नाशमवाप्स्यसि ॥ ३५ ॥
तव पूजा करिष्यन्ति ये नरा भक्तितत्पराः ॥
मातॄणां संमतास्ते स्युः सर्वदैव सुखान्विताः ॥ ३६ ॥
एवमुक्त्वा ततस्तस्या मंत्रमार्गं यथोचितम् ॥
पूजामार्गं विशेषेण कथयामास विस्तरात् ॥ ३७।
ततो विसर्जयामास दत्त्वा छत्रादिभूषणम् ॥
प्रतिपत्तिं महादेवस्तांश्च सर्वान्सुरेश्वरान् ॥ ३८ ॥
॥ कुमार्युवाच ॥ ॥
त्वयेतत्कथितं देव त्वदन्वयसमुद्भवाः ॥
कन्यकाः पूजयिष्यंति पादुके ते सुशोभने ॥ ३९ ॥
कौमारब्रह्मचर्य्येण भविष्यत्यन्वयः कथम् ॥
एतन्मे विस्तरात्सर्वं यथावद्वक्तुमर्हसि ।। ६.८९.४० ॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
यस्यायस्याः प्रसन्ना त्वं कन्यकाया वदिष्यसि ॥
मंत्रग्राममिमं सम्यक्त्वद्भावा सा भविष्यति ॥ ४१ ॥
एवं चान्या महाभागे पारंपर्येण कन्यकाः ॥
तव वंशोद्भवाः सर्वाः प्रभविष्यंति मंत्रतः ॥ ४२
ततः सा तां समासाद्य पादुकासंभवां गुहाम् ॥
पूजां चक्रे यथान्यायं यथोक्तं त्रिपुरारिणा ॥ ४३ ॥
॥ सूत उवाच ॥ ॥
तदन्वयसमुत्थायाः कन्यकायाः करेण यः ॥
पादुकाभ्यां नरः पूजां प्रकरोति समाहितः ॥
इह लोके सुखं प्राप्य स स्यात्प्रेत्य सुखान्वितः ॥ ४४ ॥
तस्मात्सर्वप्रयत्नेन कन्याहस्तेन पादुके ॥
पूजनीये विशेषेण पूज्या सा चापि कन्यका ॥ ४५ ॥
वांछद्भिः शाश्वतं सौख्यमिह लोके परत्र च ॥
मानवैर्भक्तिसंयुक्तैरित्युवाच महेश्वरः ॥ ४६ ॥
एतद्वः सर्वमाख्यातं माहात्म्यं पादुकोद्भवम् ॥
श्रीमातुरनुषंगेण अंबादेव्या द्विजोत्तमाः ॥ ४७ ॥
यश्चैतच्छृणुयाद्भक्त्या चतुर्दश्यां समाहितः ॥
तथाष्टम्यां विशेषेण स प्राप्नोति परं पदम् ॥ ४८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्रीमातुः पादुकामाहात्मवर्णनंनामैकोननवतितमोऽध्यायः ॥ ८९ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 90
॥ ऋषय ऊचुः ॥ ॥
अग्नितीर्थं त्वया प्रोक्तं ब्रह्मतीर्थं च यत्पुरा ॥
न तयोः कथितोत्पत्तिर्माहात्म्यं च महामते ॥ १ ॥
तस्माद्विस्तरतो ब्रूहि एकैकस्य पृथक्पृथक् ॥
न वयं तृप्तिमापन्नाः शृण्वतस्ते वचोऽमृतम् ॥ २ ॥
॥ सूत उवाच ॥ ॥
अत्र वः कीर्तयिष्यामि कथां पातकनाशिनीम् ॥
अग्नितीर्थसमुद्भूतां सर्वसौख्यावहां शुभाम्॥ ३ ॥
सोमवंशसमुद्भूतः प्रतीपो नाम भूपतिः ॥
पुरासीच्छौर्यसंपन्नो ब्रह्मज्ञानविचक्षणः॥ ४ ॥
तस्य पुत्रद्वयं जज्ञे सर्वलक्षणलक्षितम् ॥
देवापिः प्रथमस्तत्र द्वितीयः शंतनुर्द्विजाः ॥ ५ ॥
अथो शिवपदं प्राप्ते प्रतीपे नृपसत्तमे ॥
तपोऽर्थं राज्यमुत्सृज्य देवापिर्नियर्यौ वनम् ॥ ६ ॥
ततश्च मंत्रिभिः सर्वैः शंतनुस्तस्य चानुजः ॥
पितृपैतामहे राज्ये सत्वरं सन्नियोजितः ॥ ७ ॥
एतस्मिन्नंतरे शक्रो न ववर्ष क्रुद्धाऽन्वितः ॥
यावद्द्वादशवर्षाणि तस्मि न्राज्यं प्रशासति ॥ ८ ॥
अतः कृच्छ्रं गतः सर्वो लोकः क्षुत्परिपीडितः ॥
चामुंडासदृशो जातो यो न मृत्युवशंगतः ॥ ९ ॥
संत्यक्ताः पतिभिर्नार्यः पुत्राश्च पितृभिर्निजैः ॥
मातरश्च तथा पुत्रैर्लोकेष्वन्येषु का कथा ॥ ६.९०.१० ॥
दैवयोगात्क्वचित्किंचित्कस्यचिद्यदि दृश्यते ॥
सस्यं सिद्धमसिद्धं वा ह्रियते वीर्यतः परैः ॥ ११ ॥
शुष्का महीरुहाः सर्वे तथा ये च जलाशयाः॥
नद्यश्च स्वल्पतोयाश्च गंगाद्या अपि संस्थिताः ॥ १२ ॥
एवं वृष्टेः क्षये जाते नष्टे धर्मपथे तथा ॥
लोकेऽस्मिन्नस्थिसंघातैः पूरिते भस्मना वृते ॥ १३ ॥
न कश्चिद्यजनं चक्रे न स्वाध्यायं न च व्रतम् ॥
एवमालोक्यते व्योम वृष्ट्यर्थं क्षुत्समाकुलैः ॥ १४ ॥
एतस्मिन्नेव काले तु विश्वामित्रो महामुनिः ॥
चर्मास्थिशेषसर्वांगो बुभुक्षार्त इतस्ततः ॥ १५ ॥
परिभ्रमंस्ततः प्राप्य कंचिद्ग्रामं निरुद्वसम् ॥
मृतमर्त्योद्भवैव्याप्तमस्थिसंघैः समंततः ॥ १६ ॥
अथ तत्र भ्रमन्प्राप्तश्चंडालस्य निवेशनम्॥
शून्ये गोऽस्थिसमाकीर्णे दुर्गंधेन समावृते ॥ १७ ॥
अथापश्यन्मृतं तत्र सारमेयं चिरोषितम् ॥
संशुष्कं गन्धनिर्मुक्तं गृहप्रांते व्यवस्थितम् ॥ १९ ॥
समादाय ततस्तं च आपद्धर्मपरायणः ॥
प्रक्षाल्य सलिले पश्चात्प्रचकर्त तदा मुनिः ॥ १९ ॥
ततश्च श्रपयामास सुसमिद्धे हुताशने ॥
क्षुत्क्षामो भोजनार्थाय ततः पाकाग्रमेव च ॥ ६.९०.२० ॥
समादाय पितॄंस्तर्प्य यावदग्नौ जुहोति सः ॥
तावद्वह्निः परित्यज्य समस्तमपि भूतलम् ॥ २१ ॥
गतश्चादर्शनं सद्यः सर्वेषां क्षितिवासिनाम् ॥
चित्ते कोपं समाधाय शक्रस्योपरि भूरिशः ॥ २२ ॥
एतस्मिन्नंतरे वह्नौ मर्त्यलोकाद्विनिर्गते ॥
विशेषात्पीडिता लोका येऽवशिष्टा धरातले ॥ २३ ॥
एतस्मिन्नंतरे देवा ब्रह्मविष्णुपुरः सराः ॥
वह्नेरन्वेषणार्थाय वभ्रमुर्धरणीतले ॥ २४ ॥
अथ तैर्भ्रममाणैश्च प्रदृष्टोऽभूद्गजो महान् ॥
निश्वसन्पतितो भूमौ वह्नितापप्रपीडितः ॥ २५ ॥
अथ देवा गजं दृष्ट्वा पप्रच्छुस्त्वरयाऽन्विताः ॥
कच्चित्त्वया स दृष्टोऽत्र कानने पावको गज ॥ २६ ॥
॥ गज उवाच ॥
वंशस्तंबेऽत्र संकीर्णे संप्रविष्टो हुताशनः ॥
सांप्रतं तेन निर्दग्धः कृच्छ्रादत्राहमागतः ॥ २७ ॥
अथ तैर्वेष्टितस्तस्मिन्वंशस्तंबे हुताशनः ॥
देवैर्दत्त्वा गजेंद्रस्य शापं पश्चाद्विनिर्गतः ॥ ॥ २८ ॥
यस्मात्त्वयाहमादिष्टो देवानां वारणाधम ॥
तस्मात्तव मुखे जिह्वा विपरीता भविष्यति ॥ २९ ॥
एवं शप्त्वा गजं शीघ्रं नष्टो वैश्वानरः पुनः ॥
देवाश्चापि तथा पृष्ठे संलग्नास्तद्दिदृक्षया ॥ ६.९०.३० ॥
अथ दृष्टः शुकस्तैश्च भ्रममाणैर्महावने ॥
भोभोः शुक त्वया वह्निर्यदि दृष्टो निवेद्यताम् ॥ ३१ ॥
शुक उवाच ॥
योऽयं संदृश्यते दूराच्छमीगर्भे च पिप्पलः ॥
एतस्मिंस्तिष्ठते वह्निरश्वत्थे सुरसत्तमाः ॥ ३२ ॥
अत्रस्थो यः कुलायो म आसीच्छिशुसमन्वितः ॥
संदग्धस्तत्प्रतापेन अहंकृच्छ्राद्विनिर्गतः ॥३३॥
तच्छ्रुत्वा तैः सुरैः सर्वैः शमीगर्भः स तत्क्षणात् ॥
वेष्टितः पावकोऽप्याशु शुकं शप्त्वा विनिर्गतः ॥ ३४ ॥
अहं यस्मात्त्वया पाप देवानां संनिवेदितः ॥
तस्माच्छुक न ते वाणी विस्पष्टा संभविष्यति ॥ ३५ ॥
एवमुक्त्वा जातवेदा देवादर्शनवांछया ॥
हाटकेश्वरजे क्षेत्रे देवस्य परमेष्ठिनः ॥ ३६ ॥
जलाशयं सुगम्भीरं पूर्वोत्तरदिक्संस्थितम् ॥
दृष्ट्वा तत्र प्रविष्टस्तु निभृतं च समाश्रितः ॥ ३७ ॥
एतस्मिन्नंतरे तत्र मत्स्यकच्छपदर्दुराः ॥
वह्निप्रतापनिर्दग्धा दृश्यंते शतशो मृताः ॥ ३८ ॥
अथ चैकोऽर्धनिर्दग्ध आयुःशेषेण दर्दुरः ॥
तस्माज्जलाद्विनिष्क्रांतो दृष्टो देवैश्च दूरतः ॥ ३९ ॥
पृष्टश्च ब्रूहि चेद्भेक त्वया दृष्टो हुताशनः ॥
तदर्थमिह संप्राप्ताः सर्वे देवाः सवासवाः ॥ ६.९०.४० ॥
॥ भेक उवाच ॥
अस्मिञ्जलाशये वह्निः सांप्रतं पर्यवस्थितः ॥
तस्यैते जलमध्यस्था मृता भूरिजलोद्भवाः ॥ ४१ ॥
अस्माकं निधनं प्राप्तं कुटुम्बं सुरसत्तमाः ॥
अहं कृच्छ्रेण निष्क्रांत एतस्माज्जलसंश्रयात् ॥ ४२ ॥
तच्छ्रुत्वा ते सुराः सर्वे सर्वतस्तं जलाशयम् ॥
वेष्टयित्वा स्थितास्तत्र वह्निर्भेकं शशाप ह ॥ ४३ ॥
यस्माद्भेक त्वया मूढ देवेभ्योऽहं निवेदितः ॥
तस्मात्त्वं भविता नूनं विजिह्वोऽत्र धरातले ॥ ४४ ॥
एवमुक्त्वा ततः स्थानात्ततो वह्निर्विनिर्गतः ॥
तावत्स ब्रह्मणा प्रोक्तः स्वयमेव महात्मना ॥ ४५ ॥
भोभो वह्ने किमर्थं त्वं देवान्दृष्ट्वा प्रगच्छसि ॥
त्वमाद्यश्चैव सर्वेषामेतेषां संस्थितो मुखम् ॥ ४६ ॥
त्वय्याहुतिर्हुता सम्यगादित्यमुपतिष्ठते ॥
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ४७ ॥
तस्माद्धाता विधाता च त्वमेव जगतः स्थितः ॥
संतुष्टे धार्यते विश्वं त्वयि रुष्टे विनंक्ष्यति ॥ ४८ ॥
अग्निष्टोमादिका यज्ञास्त्वयि सर्वे प्रतिष्ठिताः ॥
अथ सर्वाणि भूतानि जीवंति तव संश्रयात् ॥ ४९ ॥
त्वमग्ने सर्वभूतानामन्तश्चरसि सर्वदा ॥
तेनैवान्नं च पानं च जठरस्थं पचत्यलम ॥ ६.९०.५० ॥
तस्मात्कुरु प्रसादं त्वं सर्वेषां च दिवौकसाम् ॥
कोपस्य कारणं ब्रूहि यतस्त्यक्त्वा प्रगच्छसि ॥ ५१ ॥ ॥
॥ सूत उवाच ॥
तस्य तद्वचनं श्रुत्वा देवस्य परमेष्ठिनः ॥
प्रोवाच प्रणयात्कोपं कृत्वा नत्वा च पद्मजम् ॥ ५२ ॥
॥ अग्निरुवाच ॥
अहं कोपं समाधाय शक्रस्योपरि पद्मज ॥
प्रणष्टो जगदुत्सृज्य यस्मात्तत्कारणं शृणु ॥ ५३ ॥
अनावृष्ट्या महेन्द्रस्य संजातश्चौषधीक्षयः ॥
ततोऽस्म्यहं श्वमांसेन विश्वामित्रेण योजितः ॥ ५४ ॥
एतस्मात्कारणान्नष्टो न कामान्न च संभ्रमात् ॥
अभक्ष्यभक्षणाद्भीतः सत्यमेतन्मयोदितम् ॥५५॥
तच्छ्रुत्वा स चतुर्वक्त्रः शक्रमाह ततः परम् ॥
युक्तमेव शिखी प्राह किमर्थं न च वर्षसि ॥ ५६ ॥
॥ शक्र उवाच ॥
ज्येष्ठं भ्रातरमुल्लंघ्य शंतनुः पृथिवीपतिः ॥
पितृपैतामहे राज्ये स निविष्टः पितामह ॥ ५७ ॥
एतस्मात्कारणाद्वृष्टिः संनिरुद्धा मया प्रभो ॥
तद्ब्रूहि किं करोम्यद्य त्वं प्रमाणं पितामह ॥ ५८ ॥
॥ पितामह उवाच ॥
तस्याक्रमस्य संप्राप्तं पापं तेन महीभुजा ॥
उपभुक्तमवृष्ट्याद्य तस्माद्वृष्टिं कुरु द्रुतम् ॥ ५९ ॥
मद्वाक्याद्याति नो नाशं यावदेतज्जगत्त्रयम् ॥
अकालेनापि देवेन्द्र सस्याभावाद्बुभुक्षया ॥ ६.९०.६० ॥
एतस्मिन्नंतरे शक्र आदिदेश त्वरान्वितः ॥
पुष्करावर्तकान्मेघान्वृष्ट्यर्थं धरणीतले ॥ ६१ ॥
तेऽपि शक्रसमादेशात्समस्तधरणीतलम् ॥
तत्क्षणात्पूरयामासुर्गर्जन्तो विद्युदन्विताः ॥ ६२ ॥
अथाब्रवीत्पुनर्ब्रह्मा देवैः सार्धं हुताशनम् ॥
अग्निहोत्रेषु विप्राणां प्रत्यक्षो भव पावक ॥
सांप्रतं त्वं वरं मत्तः प्रार्थयस्वाभिवांछितम् ॥ ६३ ॥
॥ अग्निरुवाच ॥
अयं जलाशयः पुण्यो मन्नाम्ना पृथिवीतले ॥
ख्यातिं यातु चतुर्वक्त्र वह्नितीर्थमिति स्मृतम् ॥६४॥
अत्र यः प्रातरुत्थाय स्नात्वा श्रद्धा समन्वितः ॥
अग्निसूक्तं जपित्वा च त्वां प्रपश्यति सादरम् ॥
तस्य तुष्टिस्त्वया कार्या द्रुतं मद्वाक्यतः प्रभो ॥ ६५ ॥
॥ श्रीब्रह्मोवाच ॥
अत्र यः प्रातरुत्थाय स्नात्वा वै वेदविद्द्विजः ॥
अग्निसूक्तं जपित्वा च वीक्षयिष्यति मां ततः ॥ ६६ ॥
अग्निष्टोमस्य यज्ञस्य सकलं लप्स्यते फलम् ॥
अनेकजन्मजं पापं नाशमेष्यति पावक ॥ ६७ ॥
॥ सूत उवाच ॥
एवमुक्त्वा स भगवान्विरराम पितामहः ॥
पावकोऽपि च विप्राणामग्निहोत्रेषु संस्थितः ॥ ६८ ॥
एवं तत्र समुद्भूतं वह्नितीर्थं महाद्भुतम् ॥
तत्र स्नातो नरः प्रातः सर्वपापैः प्रमुच्यते ॥ ६९ ॥
॥ अग्निरुवाच ॥
ममातृप्तस्य लोकेश तावद्द्वादशवत्सरान् ॥
क्षुत्पीडासंवृते मर्त्ये न प्राप्तं कुत्रचिद्धविः ॥ ६.९०.७० ॥
भविष्यंति तथा यज्ञा कालेन महता विभो ॥
संजातैः पशुभिर्भूयः सस्यादैरपरैर्भुवि ॥ ७१ ॥
thumb|400px|वसुधारा, स्वयम्भु
॥ श्रीब्रह्मोवाच ॥ ॥
अत्र ये ब्राह्मणाः केचिन्निवसंति हुताशन ॥
वसोर्द्धाराप्रदानेन ते त्वां नक्तंदिनं सदा ॥ ७२ ॥
तर्पयिष्यंति सद्भक्त्या ततः पुष्टिमवाप्स्यसि ॥
तेऽपि काम्यैर्मनोऽभीष्टैर्भविष्यंति समन्विताः ॥ ७३ ॥
संक्रांति समये येषां वसोर्धाराप्रदायिनाम् ॥
भविष्यति क्षुतं वह्ने हूयमाने तवानल ॥ ७४ ॥
तेषां पापं च यत्किंचिज्ज्ञानतोऽज्ञानतः कृतम् ॥
तद्यास्यति क्षयं सर्वमाजन्ममरणांतिकम्॥ ७५ ॥
त्वयि तुष्टिं गते पश्चाद्भविष्यति महीपतिः ॥
शिबिर्नाम सुविख्यात उशीनरसमुद्रवः ॥ ७६ ॥
स कृत्वा श्रद्धया युक्तः सत्रं द्वादशवार्षिकम्॥
वसोर्द्धाराप्रदानेन वर्षं त्वां तर्पयिष्यति ॥
कलशस्य च वक्त्रेणाविच्छिन्नेन दिवानिशम् ॥ ७७ ॥
ततस्तुष्टिं परां प्राप्य परां पुष्टिमवाप्स्यसि ॥
पूज्यमानो धरापृष्ठे सर्वैर्वेदविदां वरैः ॥ ७८ ॥
अद्यप्रभृति यत्किंचित्कर्म चात्र भविष्यति ॥
शांतिकं पौष्टिकं वापि वसोर्द्धारासमन्वितम् ॥
संभविष्यति तत्सर्वं तव तृप्तिकरं परम्॥ ७९ ॥
अपि यद्वैश्वदेवीयं कर्म किंचिद्द्विजन्मनाम् ॥
वसोर्द्धाराविहीनं च निष्फलं संभविष्यति ॥ ६.९०.८० ॥
यस्माद्भवति संपूर्णं कर्म यज्ञादिकं हि तत् ॥
शांतिकं वैश्वदेवं च पूर्णाहुतिरिहोच्यते ॥ ८१ ॥
यः सम्यक्छ्रद्धया युक्तो वसोर्द्धारां प्रदास्यति ॥
स कामं मनसा ध्यातं समवाप्स्यति कृत्स्नशः ॥ ८२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वसोर्द्धारामाहात्म्यवर्णनंनाम नवतितमोऽध्यायः ॥ ९० ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 91
॥ सूत उवाच ॥ ॥
एवमुक्त्वा स भगवान्विरराम पितामहः ॥
संतोष्य पावकं क्रुद्धं स्वयमेव द्विजोत्तमाः ॥ १ ॥
ततः सर्वैः सुरैः सार्धं शक्रविष्णुशिवादिभिः ॥
जगाम ब्रह्मलोकं च देवास्ते च निजं पदम् ॥ २ ॥
पावकोऽपि द्विजेंद्राणामग्निहोत्रेषु संस्थितः ॥
हविर्जग्राह विधिवद्वसोर्द्धारोद्भवं तथा ॥ ३ ॥
एवं तत्र समुद्भूतमग्नितीर्थमनुत्तमम् ॥
यत्र स्नातो नरः प्रातर्मुच्यते दिनजादघात् ॥ ४ ॥
अथ संप्रस्थितान्दृष्ट्वा तान्देवान्स्वाश्रमं प्रति ॥
गजेंद्रशुकमण्डूकास्ते प्रोचुर्दुःखसंयुताः ॥५॥
युष्मत्कृते वयं शप्ताः पावकेन सुरेश्वराः ॥
तस्माज्जिह्वाकृतेऽस्माकमुपायश्चिंत्यतामपि ॥६॥
॥ देवा ऊचुः ॥ ॥
विपरीतापि ते जिह्वा यथान्येषां गजोत्तम ॥
कार्यक्षमा न संदेहो भविष्यति विशेषतः ॥ ७ ॥
तथा यूयं नरेन्द्राणां मंदिरेषु व्यवस्थिताः ॥
बहु मानसमायुक्ता मृष्टान्नं भक्षयिष्यथ ॥ ८ ॥
यथा च शुक ते जिह्वा कृता मंदा हविर्भुजा ॥
तथापि भूमिपालानां शंसनीया भविष्यति ॥ ९ ॥
श्रीमतां च तथान्येषामस्मदीयप्रसादतः ॥
त्वं च मंडूक यत्तेन विजिह्वो वह्निना कृतः ॥
तद्भविष्यति ते शब्दो विजिह्वस्यापि दीर्घगः ॥ ६.९१.१० ॥
एवमुक्त्वाऽथ ते देवाः स्वस्थानं प्रस्थितास्ततः ॥
तेषामनुग्रहं कृत्वा कृपया परया युता ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागररखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽग्नितीर्थोत्पत्तिवर्णनंनामैकनवतितमोऽध्यायः ॥ ९१ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 92
॥ सूत उवाच ॥ ॥
अग्नितीर्थस्य माहात्म्यमेतद्वः परिकीर्तितम् ॥
ब्रह्मकुंडसमुत्पत्तिरधुना श्रूयतां द्विजाः ॥ १ ॥
यदा संस्थापितो ब्रह्मा मार्कंडेन महात्मना ॥
तदा विनिर्मितं तत्र कुण्डं शुचिजलान्वितम् ॥ २ ॥
प्रोक्तं च कार्तिके मासि कृत्तिकास्थे निशाकरे ॥
सम्यग्भीष्मव्रतं कृत्वा स्नात्वात्र सलिले शुभे ॥ ३ ॥
पूजयिष्यति यो देवं पद्मयोनिं ततः परम् ॥
स शूद्रोऽपि तनुं त्यक्त्वा ब्रह्मयोनौ प्रयास्यति ॥ ४ ॥
ब्राह्मणोऽपि यदि स्नानं तत्र कुण्डे करिष्यति ॥
कृत्वा भीष्मव्रतं सम्यग्ब्रह्मलोकं प्रयास्यति ॥ ५ ॥
एवं प्रवदतस्तस्य मार्कंडेयस्य सन्मुनेः ॥
श्रुतं तत्सकलं वाक्यं पशुपालेन केनचित् ॥ ६ ॥
ततः श्रद्धाप्रयुक्तेन तेन तद्भीष्मपंचकम् ॥
यथावद्विहितं सम्यक्कार्तिके मासि संस्थिते ॥ ७ ॥
ततश्च कृत्तिकायोगे पूर्णिमायां यथाविधि ॥
संपूज्य पद्मजं पश्चात्पूजितः पुरुषोत्तमः ॥ ८ ॥
ततः कालविपाकेन स पंचत्वमुपागतः ॥
ब्राह्मणस्य गृहे जातः पुरेऽत्रैव द्विजोत्तमाः ॥
जातिस्मरः प्रभायुक्तः पितृमातृप्रतुष्टिदः ॥ ९ ॥
एवं प्रगच्छतस्तस्य वृद्धिं तत्र पुरोत्तमे ॥
पितृमातृसमुद्भूतो यादृक्स्नेहो व्यवस्थितः ॥ ६.९२.१० ॥
अन्यदेहोद्भवे वापि तस्य शूद्रेपरिस्थितः ॥
स तस्य धनसंपन्नः सदैव कुरुते द्विजः ॥ ११ ॥
उपकारप्रदानं च यत्किंचित्तस्य संमतम् ॥
अन्यस्मिन्दिवसे शूद्रः स पिता पूर्वजन्मनः ॥
तस्य पञ्चत्वमापन्नः संप्राप्ते चायुषः क्षये ॥ १२ ॥
अथ तस्य महाशोकं स कृत्वा तदनंतरम् ॥
चकार प्रेतकार्याणि निःशेषाणि प्रभक्तितः ॥ १३ ॥
अथ तस्य समालोक्य तादृशं तद्विचेष्टितम् ॥
पृष्टः स कौतुकाविष्टैः पितृमातृसुतादिभिः ॥ १४ ॥
कस्मात्त्वमस्य नीचस्य पशुपालस्य सर्वदा ॥
अतिस्नेहसमायुक्तो निःस्पृहस्यापि शंस नः ॥ १५ ॥
तस्यापि प्रेतकार्याणि मृतस्यापि करोषि किम् ॥
एतन्नः सर्वमाचक्ष्व न चेद्गुह्यं व्यवस्थितम् ॥ १६ ॥
तेषां तद्वचनं श्रुत्वा किंचिल्लज्जासमन्वितः ॥
तानब्रवीच्छृणुध्वं च कथयिष्याम्यसंशयम् ॥ १७ ॥
अहमस्यान्यदेहत्वे पुत्र आसं सुसंमतः ॥
पशुपालनकर्मज्ञः प्राणेभ्यो वल्लभः सदा ॥ १८ ॥
कस्यचित्त्वथ कालस्य मार्कंडस्य महामुनेः ॥
श्रुतं प्रवदतो वाक्यं ब्रह्मकुण्डसमुद्भवम् ॥ १९ ॥
कार्तिक्यां कृत्तिकायोगे भीष्मपञ्चककृन्नरः ॥
सम्यक्छ्रद्धासमुत्पन्नो योऽत्र स्नानं करिष्यति ॥ ६.९२.२० ॥
दृष्ट्वा पितामहं देवं पूजयित्वा जनार्दनम् ॥
स भविष्यति शूद्रोऽपि ब्राह्मणश्चान्यजन्मनि ॥ २१ ॥
तन्मया विहितं सम्यक्स्नात्वा तत्र शुभावहे ॥
सुकुण्डे कार्तिके मासि तेन जातोऽस्मि सद्द्विजः ॥ २२ ॥
चन्द्रोदयस्य विप्रर्षेरन्वये भुवि विश्रुते ॥॥
संस्मरन्पूर्विकां जाति तेन स्नेहो मम स्थितः ॥
तस्योपरि महान्नित्यं शूद्रस्यापि निरर्गलः ॥ २३ ॥
अतोऽहं कृत्तिकायोगे कार्तिक्यां भक्तिसंयुतः ॥
ज्ञात्वा करोमि भीष्मस्य पंचकं व्रतमुत्तमम् ॥ २४ ॥
॥ सूत उवाच ॥ ॥
एवं तस्य वचः श्रुत्वा ते चान्ये च द्विजोत्तमाः ॥।
भीष्मस्य पञ्चकं चक्रुः सम्यक्छ्रद्धासमन्विताः। २५ ॥
ततःप्रभृति तत्कुण्डं विख्यातं धरणीतले ॥
स्थितमुत्तरदिग्भागे ब्रह्मकुण्डमिति स्मृतम् ॥ २६ ॥
यः स्नानं सर्वदा तत्र ब्राह्मणः प्रकरोति वै ॥
स संभवति विप्रेंद्रो जायमानः पुनः पुनः ॥ २७ ॥
इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्यवर्णनंनाम द्विनवतितमोध्यायः ॥९२॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 93
सूत उवाच ॥ ॥
अथान्यदपि तत्रास्ति गोमुखाख्यं सुशोभनम्॥
यद्गोवक्त्रात्पुरा लब्धं सर्वपातकनाशनम् ॥ १ ॥
पुरासीदत्र गोपालः कश्चित्कुष्ठसमावृतः ॥
चमत्कारपुरं विप्र अतीव क्षामतां गतः ॥ २ ॥
कस्यचित्त्वथ कालस्य तेन मार्गेण गोकुलम् ॥
मध्याह्नसमये प्राप्तं चंद्रे चित्रासमन्वितः ॥ ३ ॥
एकादश्यां तृषार्त्तं च भास्करे वृषसंस्थिते ॥
एकयापि ततो धेन्वा तृणस्तम्बमतीव हि ॥
नीलमालोकितं तत्र दूरादेत्य प्रहर्षिता ॥ ४ ॥
दन्तैर्द्रुतं समुत्पाट्य यावदाकर्षति द्विजाः ॥
तावत्तज्जडमार्गेण तोयधारा विनिर्गता ॥ ५ ॥
अथास्वाद्य तृणं तस्मात्तृषार्ता च शनैःशनैः ॥
पपौ तोयं सुविश्रब्धा सुस्वादु क्षीरसंनिभम् ॥ ६ ॥
तस्या वेगेन तत्तोयं पिबन्त्यास्तत्रभूतले ॥
गर्ता जाता सुविस्तीर्णा सलिलेन समावृता ॥ ७ ॥
ततोऽन्याः शतशो गावः पपुस्तोयं मुनिर्मलम् ॥
तृषार्त्तास्तद्द्विजश्रेष्ठाः पीयूषरससंनिभम् ॥ ८ ॥
यथायथा गता गावस्तत्र तोयं पिबंति ताः ॥
सा गर्ता वक्त्रसंस्पर्शाद्वृद्धिं याति तथा तथा ॥ ९ ॥
ततश्च गोकुले कृत्स्ने जाते तृष्णाविवर्जिते ॥
गोपालोऽपि तृषार्तस्तु तस्मिंस्तोये विवेश च ॥ ६.९३.१० ॥
अंगं प्रक्षाल्य पीत्वापो यावन्निष्क्रामति द्रुतम् ॥
तावत्पश्यति गात्रं स्वं द्वादशार्कसमप्रभम् ॥ ११ ॥
ततो विस्मयमापन्नो गत्वा स्वीयं निकेतनम् ॥
वृतांतं कथयामास लोकानां पुरतोऽखिलम् ॥ १२ ॥
तृणस्तम्बं यथा धेन्वा तत्रोत्पाट्य प्रशक्तितः ॥
यथा विनिर्गतं तोयं यथा तेनावगाहितम् ॥ १३ ॥
तद्दृष्ट्वा मानवाः सर्वे गत्वा दिव्यं जलं च तत् ॥
व्याधिग्रस्ता विशेषेण स्नानं चक्रुः समाहिताः ॥।४॥
भवंति च विनिर्मुक्ता रोगैः पापैश्च तत्क्षणात्॥
अपापाश्च पुनर्यांति तत्क्षणात्त्रिदिवालयम् ॥ १५ ॥
ततःप्रभृति तत्ख्यातं तीर्थं गोमुखसंज्ञितम् ॥
गोमुखाद्भूतले जातं यतश्चैवं द्विजोत्तमाः ॥ १६ ॥
अथ भीतः सहस्राक्षस्तद्दृष्ट्वा स्वर्गदायकम् ॥
अक्लेशेन मनुष्याणां पूरयामास पांसुभिः ॥ १७ ॥
॥ ऋषय ऊचुः ॥ ॥
किं तत्कारणमादिष्टं येन तत्तादृशं जलम् ॥
तस्मात्स्थानाद्विनिष्क्रांतं सूतपुत्र वदस्व नः ॥ १८ ॥
॥ सूत उवाच ॥ ॥
अत्र पूर्वं तपस्तप्तमम्बरीषेण भूभुजा ॥
पुत्र शोकाभिभूतेन तोषितो गरुडध्वजः ॥ १९ ॥
तस्य पुत्रः सुविख्यातः सुवर्चा इति विश्रुतः ॥
एको बभूव वृद्धत्वे कथंचिद्द्विजसत्तमाः ॥ ६.९३.२० ॥
पूर्वकर्मविपाकेन स बालोऽपि च तत्सुतः ॥
कुष्ठव्याधिसमाक्रांतः पितृमातृसुदुःखदः ॥ २१ ॥
अथ तत्कामिकं क्षेत्रं स गत्वा पृथिवीपतिः ॥
चकार रोगनाशाय स्वपुत्रार्थं महत्तपः ॥ २२ ॥
ततस्तुष्टिं गतस्तस्य स्वयमेव जनार्दनः ॥
प्रदाय दर्शनं वाक्यं ततः प्रोवाच सादरम् ॥ २३ ॥
परितुष्टोऽस्मि ते वत्स तस्माच्चित्तेऽभिवांछितम् ॥
प्रार्थयस्व प्रयच्छामि वरं पुत्र न संशयः ॥ २४ ॥
॥ राजोवाच ॥ ॥
ममायं संमतः पुत्रो ग्रस्तः कुष्ठेन केशव ॥
बालोऽपि तत्कुरुष्वास्य कुष्ठव्याधिपरिक्षयम् ॥ २५ ॥
॥ श्रीभगवानुवाच ॥ ॥
एष आसीत्पुरा राजा मेघवाहनसंज्ञितः ॥
ब्रह्मण्यश्च कृतज्ञश्च सर्वशास्त्रार्थपारगः ॥ २६ ॥
कस्यचित्त्वथ कालस्य ब्राह्मणोऽनेन घातितः ॥
अंतःपुरे निशाकाले प्रविष्टो जारकर्मकृत ॥ २७ ॥
अथ पश्यति यावत्स प्रभातेऽभ्युदिते रवौ ॥
यज्ञोपवीतसंयुक्तस्तावत्स द्विजरूपधृक् ॥ २८ ॥
अथ तं ब्राह्मणं मत्वा घृणाविष्टः सुदुःखितः ॥
गत्वा काशीपुरीं पश्चात्तपश्चक्रे समाहितः ॥ २९ ॥
राज्ये पुत्रं समाधाय वैराग्यं परमं गतः ॥
नियतो नियताहारो भिक्षान्नकृतभोजनः ॥ ६.९३.३० ॥
ततः कालेन संप्राप्तो यमस्य सदनं प्रति ॥
विपाप्मापि च चिह्नेन युक्तोऽयं पृथिवीपतिः ॥ ३१ ॥
ब्रह्मघातोद्भवेनैव बालभावेऽपि संस्थिते ॥
येऽत्र कुष्ठसमायुक्ता दृश्यंते मानवा भुवि ॥
तैर्नूनं ब्राह्मणाघातो विहितश्चान्यजन्मनि ॥ ३२ ॥
हाटकेश्वरजे क्षेत्रे यो गत्वा श्राद्धमाचरेत् ॥
पितॄणां चैव सर्वेषामनृणः स प्रजायते ॥ ३३ ।
न ब्राह्मणवधाद्बाह्यं कुष्ठव्याधिः प्रजायते ॥
एतत्सत्यं विजानीहि वदतो मम भूपते ॥ ३४ ॥
॥ अंबरीष उवाच ॥ ॥
एतदर्थं सुराधीश मया त्वं पूजितः प्रभो ॥
प्रसन्ने त्वयि देवेश नासाध्यं विद्यते भुवि ॥ ३५ ॥
एवमुक्तस्ततस्तेन भगवान्मधुसूदनः ॥
पातालजाह्नवीतोयं स सस्मार समाधिना ॥३६॥
सा ध्याता सहसा तेन विष्णुना प्रभविष्णुना ॥
कृत्वा तु विवरं सूक्ष्मं विनिष्क्रांताऽथ तत्क्षणात् ॥ ३७ ॥
ततः प्रोवाच वचनमंबरीषं चतुर्भुजः ॥
निमज्जतु सुतस्तेऽत्र सुपुण्ये जाह्नवीजले ॥ ३८ ॥
येन कुष्ठविनिर्मुक्तस्तत्क्षणादेव जायते ॥
तथा ब्रह्मवधोद्भूतैः पातकैरुपपातकैः ॥ ३९ ॥
एतस्मिन्नेव काले तु समानीय सुतं नृपः ॥
स्नापयामास तत्तोयैः प्रत्यक्षं शार्ङ्गधन्वनः ॥ ६.९३.४० ॥
ततः स बालकः सद्यः स्नातमात्रो द्विजोत्तमाः ॥
कुष्ठव्याधिविनिर्मुक्तो जातो बालार्कसंनिभः ॥ ४१ ॥
ततः प्रणम्य तं देवं हर्षेण महताऽन्वितः ॥
पित्रा समं जगामाथ स्वकीयं भवनं द्विजाः ॥ ४२ ॥
तस्मिन्गते महीपाले सपुत्रे तत्क्षणाद्धरिः ॥
तद्रंध्रं पूरयामास यथा नो वेत्ति कश्चन ॥ ४३ ॥
एतस्मात्कारणात्पूर्वं तत्तोयं सर्वपापहृत् ॥
यद्गोमुखेन भूयोऽपि भूतले प्रकटीकृतम् ॥ ४४ ॥
अद्यापि तज्जलस्पर्शात्सुपवित्रो धरातले ॥
यः स्नानं सूर्यवारेण कुरुतेऽर्कोदयं प्रति ॥
तस्य नाशं द्रुतं यांति गलगंडादिका इह ॥ ४९ ॥
व्याधयोपि महारौद्रा दद्रुपामा समुद्भवाः ॥
उपसर्गोद्भवाश्चैव विस्फोटकविचर्चिका ॥ ४६ ॥
निष्कामस्तु पुनर्मर्त्यो यः स्नानं तत्र भक्तितः ॥
कुरुते याति लोकं स देवदेवस्य चक्रिणः ॥ ४७ ॥
यस्मिन्दिने समानीता सा गंगा तत्र विष्णुना ॥
तस्मिन्दिने वृषे सूर्यः स्थितश्चित्रासु चंद्रमाः ॥ ४८ ॥
तिथिश्चैकादशी चैव देवदेवस्य शार्ङ्गिणः ॥
गोवक्त्रेण तृणस्तंबं यस्मिंश्चैव तु वासरे ॥
समाकृष्टं च तत्रैव योग एवं व्यवस्थितः ॥ ४९ ॥
तथान्येऽपि दिने तस्मिन्यदि तोयमवाप्य च ॥
स्नानं करोति सद्भक्त्या तत्फलं सोऽपि चाप्नुयात् ॥ ६.९३.५० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गोमुखतीर्थमाहात्म्यवर्णनंनाम त्रिनवतितमोऽध्यायः ॥ ९३ ॥ ।
खण्डः ६ (नागरखण्डः) — Adhyāya 94
॥ सूत उवाच ॥ ॥। ।
तथान्या लोहयष्टिस्तु तस्मिन्क्षेत्रेऽतिशोभना ॥
मुक्ता परशुरामेण भंक्त्वा निजकुठारकम् ॥ १ ॥
तां दृष्ट्वा मानवः सम्यगुपवासपरायणः ॥
मुच्यते हि स्वकात्पापात्तत्क्षणाद्विजसत्तमाः ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
कुतः परशुरामेण भंक्त्वा निजकुठारकम् ॥
निर्मिता लोहयष्टिः सा तत्रोत्सृष्टा च सा कुतः ॥३ ॥
॥ सूत उवाच ॥ ॥
यदा रामो ह्रदं कृत्वा तर्पयित्वा निजान्पितॄन् ॥
गतामर्षो द्विजेन्द्राणां दत्त्वा यज्ञे वसुन्धराम् ॥४॥
ततः संप्रस्थितो हृष्टो धृत्वा मनसि सागरम् ॥
स्नानार्थं तं समादाय कुठारं भास्करप्रभम् ॥५॥
तदा स मुनिभिः प्रोक्तः सर्वैस्तत्क्षेत्रवासिभिः ॥
वांछद्भिस्तु हितं तस्य सदा शमपरायणैः ॥ ६ ॥
रामराम महाभाग यद्धारयसि पाणिना॥
शस्त्रं पूर्णे प्रतिज्ञोऽपि तन्न युक्तं भवेत्तव ॥ ७ ॥
अनेन करसंस्थेन तव कोपः कथंचन ॥
न यास्यति शरीरस्थस्तस्मादेनं परित्यज ॥ ९ ॥
तेषां तद्वचनं श्रुत्वा ततो रामः कृतांजलिः ॥
प्रोवाच विनयोपेतः प्रहसंस्तान्द्विजोत्तमान् ॥ ९ ॥
कुठारश्चैव विप्रेंद्रा रुद्रतेजोद्भवेन च ॥
लोहेन निर्मितः पूर्वमक्षयो विश्वकर्मणा ॥६.९४.॥॥
तदहं संपरित्यज्य कथमेनं द्विजोत्तमाः ॥९ ।
क्षत्त्रधर्मपरोऽप्येवं प्रगच्छामि दिगंतरम् ॥ १॥।
यदि चैनं मया मुक्तं कुठारं च द्विजोत्तमाः ॥
ग्रहीष्यति परः कश्चिन्मम वध्यो भविष्यति॥१२॥
नापराधमिमं शक्तः सोढ़ुं चाहं कथंचन ॥
अपि ब्राह्मणमुख्यस्य जनस्यान्यस्य का कथा ॥ १३ ॥
तथापि नास्ति ते शांतिर्मुक्तेऽप्यस्मिन्द्विजोत्तमाः ॥
गृहीतेऽपि च युष्माभिस्तस्माद्रक्ष्यः प्रयत्नतः ॥ १४ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यद्येवं त्वं महाभाग रक्षार्थं संप्रयच्छसि ॥
अस्माकं तत्र भंक्त्वाशु पिंडं कृत्वा समर्पय ॥ १५ ॥
येन रक्षामहे सर्वे परमं यवमाश्रिताः ॥
न च गृह्णाति वा कश्चिद्गते कालांतरेऽपि च ॥ १६ ॥
तेषां तद्वचनं श्रुत्वा रामः शस्त्रभृतां वरः ॥
चक्रे लोहमयीं यष्टिं तं भंक्त्वा स कुठारकम् ॥ १७ ॥
ततः स ब्राह्मणेंद्राणामर्पयामास सादरम् ॥
रक्षार्थं भार्गवश्रेष्ठो विनयावनतः स्थितः ॥ १८ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
लोहयष्टिमिमां राम त्वत्कुठारसमुद्भवाम् ॥
वयं संरक्षयिष्यामः पूजयिष्याम एव हि ॥ १९ ॥
यथा शक्तिमयी कीर्तिः स्कन्दस्यात्र प्रतिष्ठिता ॥
लोहयष्टिमयी तद्वत्तव राम भविष्यति ॥ ६.९४.२० ॥
भ्रष्टराज्यस्तु यो राजा एनामाराधयिष्यति ॥
स्वं राज्यमचिरात्प्राप्य स प्रतापी भविष्यति ॥ २१ ॥
विद्याकृते द्विजो वा यः सदैनां पूजयिष्यति ॥
स विद्यां परमां प्राप्य सर्वज्ञत्वं प्रपत्स्यते ॥ २२ ॥
अपुत्रो वा नरो योऽथ नारी वा पूजयिष्यति ॥
एतां यष्टिं त्वदीयां च पुत्रवान्स भविष्यति ॥ २३ ॥
उपवासपरो भूत्वा यश्चैनां पूजयिष्यति ॥
आश्विनस्यासिते पक्षे चतुर्दश्यां विशेषतः ॥ २४ ॥
स प्राप्स्यति सदा कामानभीष्टान्मनसि स्थितान्॥ ॥ २४ ॥
एवं श्रुत्वा ततो रामस्तेषामेव द्विजन्मनाम् ॥
प्रणम्य प्रययौ तूर्णं समुद्रसदनं प्रति ॥ २५ ॥
तेऽपि विप्रास्ततस्तस्याश्चक्रुः प्रासादमुत्तमम् ॥
तत्र संस्थाय तां चक्रुस्ततः पूजासमाहिताः ॥ २६ ॥
प्राप्नुवंति च तत्पार्श्वात्कामानेव हृदि स्थितान् ॥
सुस्तोकेनाऽपि कालेन दुर्लभास्त्रिदशैरपि ॥ ६.९४.२७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये लोहयष्टिमाहात्म्यवर्णनं नाम चतुर्णवतितमोऽध्यायः ॥ ९४ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 95
॥ सूत उवाच ॥ ॥
अथान्यापि च तत्रास्ति देशकामप्रदा नृणाम् ॥
अजापालेन भूपेन स्थापिता पापनाशनी ॥ १ ॥
तां च शुक्लचतुर्दश्यामजापालेश्वरीं नरः ॥
यो वै पूजयते भक्त्या धूपपुष्पानुलेपनैः ॥
स प्राप्नोतीप्सितान्कामान्दुर्लभा सर्वमानवैः ॥ २ ॥
तस्या देव्याः प्रसादेन सत्यमेतन्मयोदितम् ॥
अजापालो महीपालः पुराऽऽसीत्संमतः सताम् ॥ ३ ॥
हितकृत्सर्वलोकस्य यथा माता यथा पिता ॥
तेन राज्यं समासाद्य पितृपैतामहं शुभम् ॥ ४ ॥
चिंतितं मनसा पश्चात्स्वयमेव महात्मना ॥
मया तत्कर्म कर्तव्यं यदन्यैरिह भूमिपैः ॥
न कृतं न करिष्यंति ये भविष्यन्त्यतः परम् ॥ ५ ॥
एष एव परो धर्मो भूपतीनामुदाहृतः ॥
यत्प्रजापालनं शश्वत्तासां च सुखसंस्थितिः ॥ ६ ॥
यथायथा करं भूपास्ता मां गृह्णंति लोलुपाः ॥
तथातथा मनःक्षोभो हृदये संप्रजायते ॥ ७ ॥
न करेण विना भूपा हस्त्यश्वादिबलं च यत् ॥
शक्नुवंति परित्रातुं पादातं च विशेषतः ॥ ८ ॥
विना तेन स गम्यः स्यान्नीचानामपि सत्वरम् ॥
एतस्मात्कारणाद्भूपाः करं गृह्णंति लोकतः ॥ ९ ॥
तस्मान्मया विनाप्याशु नागैश्चैव नरैस्तथा ॥
तपः शक्त्या प्रकर्तव्यं राज्यं निहतकण्टकम् ॥ ६.९५.१० ॥
करानगृह्णता तेन लोकान्रंजयता सदा ॥
अन्येषां भूमिपालानां विशेषेण महात्मनाम् ॥ ११ ॥
एवं चित्ते समाधाय वसिष्ठं मुनिपुंगवम् ॥
पुरोधसं समाहूय ततः प्रोवाच सादरम् ॥ १२ ॥
अत्र भूमितले विप्र सर्वेषां तीर्थमुत्तमम् ॥
अल्पकालेन सन्तुष्टिं यत्र याति महेश्वरः ॥
वासुदेवोऽथवा ब्रह्मा ह्येतच्छीघ्रं वदस्व मे ॥ १३ ॥
येनाहं सर्वलोकस्य हितार्थं तप आददे ॥
न स्वार्थं ब्राह्मणश्रेष्ठ सत्येनात्मानमालभे ॥ १४ ॥
॥ वसिष्ठ उवाच ॥
तिस्रः कोट्योर्धकोटी च तीर्थानामिह भूतले ॥
संति पार्थिवशार्दूल प्रभावसहितानि च ॥ १५ ॥
अष्टषष्टिस्तथा राजन्क्षेत्राणामस्ति भूतले ॥
येषां सांनिध्यमभ्येति सर्वदैव महेश्वरः ॥ १६ ॥
तथा सर्वे सुरास्तुष्टा ब्रह्मविष्णु शिवादयः ॥
परं सिद्धिप्रदं शीघ्रं मानुषाणां महीपते ॥ १७ ॥
हाटकेश्वरदेवस्य क्षेत्रं पातकनाशनम् ॥
देवानामपि सर्वेषां तुष्टिं गच्छति चंडिका ॥ १८ ॥
शीघ्रमाराधिता सम्यक्छ्रद्धायुक्तैर्नरैर्भुवि ॥
तस्मात्तत्क्षेत्रमासाद्य तां देवीं श्रद्धयान्वितः ॥
आराधय महाभाग द्रुतं सिद्धिमवाप्स्यसि ॥। ॥ १९ ॥
एवमुक्तः स तेनाथ गत्वा तत्क्षेत्रमुत्तमम् ॥
प्रतिष्ठाप्य च देवीं तां पूजयामास भक्तितः ॥ ६.९५.२० ॥
ब्रह्मचर्यपरो भूत्वा शुचिर्व्रतपरायणः ॥
नियतो नियताहारस्त्रिकालं स्नानमाचरन् ॥ २१ ॥
एवमाराध्यतस्तत्र गन्धपुष्पानुलेपनैः ॥
पूजापरस्य सा देवी तस्य तुष्टिं ततो गता ॥ २२ ॥ ॥
॥देव्युवाच ॥ ॥
परितुष्टास्मि ते वत्स व्रतेनानेन नित्यथः ॥
बलिपूजाविधानेन विहितेनामुना स्वयम् ॥ २३ ॥
तद्ब्रूहि येन ते सर्वं प्रकरोमि हृदि स्थितम् ॥
सद्य एव महीपाल त्रिदशैरपि दुर्लभम् ॥ २४ ॥
॥राजोवाच ॥ ॥
लोकानां हितकामेन मयैतद्व्रतमाहृतम् ॥
येन तेषां भवेत्सौख्यं मत्प्रसादादनुत्तमम् ॥२५॥
तस्माद्देहि महाभागे ज्ञानयुक्तानि भूरिशः ॥
ममास्त्राणि विचित्राणि स्वैरगाणि समन्ततः ॥२६॥
यानि जानंति भूपृष्ठे मम पार्श्वे स्थितान्यपि ॥
अपराधं सदा लोके परदारादि यत्कृतम् २७ ॥
अनुरूपं ततस्तस्य पातकस्य विनिग्रहम् ॥
प्रकुर्वंति मिथो येन न तेषां संकरो भवेत् ॥२८॥
मंत्रग्रामं तथा देवि मम देहि पृथग्विधम् ॥
निग्रहं व्याधिसत्त्वानां येन शीघ्रं करोम्यहम् ॥२९॥
येन स्युर्मनुजाः सर्वे मम राज्ये सुखान्विताः॥
नीरोगाः पुष्टिसंपन्ना भयशोकविवर्जिताः ॥ ६.९५.३० ॥
नाहं देवि करिष्यामि हस्त्यश्वरथसंग्रहम्॥
यतस्तेषां भवेत्पुष्टिर्वित्तैर्वित्तं करैर्भवेत् ॥
गृहीतैः सर्वलोकानां तस्मात्तन्न ममेप्सितम् ॥ ३१ ॥
॥ श्रीदेव्युवाच ॥ ॥
अत्यद्भुततरं कर्म त्वयैतत्पृथिवीपते ॥
प्रारब्धं यन्न केनापि कृतं न च करिष्यति ॥ ३२ ॥
तथाप्येवं करिष्यामि तव दास्यामि कृत्स्नशः ॥
ज्ञानयुक्तानि शस्त्राणि मंत्रग्रामं च तादृशम् ॥ ३३ ॥
गृह्यन्ते येन ते सर्वे व्याधयोऽपि सुदारुणाः ॥
परं सदैव ते रक्ष्या मन्मन्त्रैरपि संयुताः ॥ ३४ ॥
यदि दृष्टिपथात्तुभ्यं क्वचिद्यास्यंति दूरतः ॥
मानवान्पीडयिष्यंति चिरात्प्राप्याधिकं ततः ॥ ३५ ॥
यदा त्वं पृथिवीपाल स्वर्गं यास्यसि भूतलात् ॥
तदात्र सलिले स्थाप्या मदग्रे(*) यद्व्यवस्थितम् ॥ ३६ ॥
सर्वे मंत्रास्तथाऽस्त्राणि ममवाक्यादसंशयम् ॥
येन स्यात्पूर्ववत्सर्वो व्यवहारो नृपोद्भवः ॥ ३७ ॥
॥सूत उवाच ॥ ॥।
बाढमित्येव तेनोक्ते तत्क्षणाद्द्विजसत्तमाः ॥
प्रादुर्भूतानि दिव्यानि तस्यास्त्राणि बहूनि च ॥ ३८ ॥
ज्ञानसंपत्प्रयुक्तानि यादृशानि महात्मना ॥
तेन संयाचितान्येव व्याधिमंत्रास्तथैव च ॥ ३९ ॥
व्याधयो यैश्च गृह्यंते मुच्यंते स्वेच्छया सदा ॥
सुखेन परिपाल्यंते दृष्टिगोचरसंस्थिताः ॥ ६.९५.४० ॥
ततस्तं सकलं प्राप्य प्रसादं चंडिकोद्भवम् ॥
तच्च हस्त्यादिकं सर्वं ब्राह्मणेभ्यो ददौ नृप ॥ ४१ ॥
एकां मुक्त्वा निजां भार्यामेकं दशरथं सुतम् ॥
तांश्चापि सकलान्व्याधीन्मंत्रैः संयम्य यत्नतः ॥ ४२ ॥
अजारूपान्स्वयं पश्चाद्यष्टिमादाय रक्षति ॥
एवं तस्य नरेन्द्रस्य वर्तमानस्य भूतले ॥ ४३ ॥
गुप्तोऽपि नापराधः स्यात्कस्यचित्प्रकटः कुतः ॥
प्रमादाद्यदि भूलोके कश्चित्पापं समाचरेत् ॥ ४४ ॥
तद्रूपो निग्रहस्तस्य तत्क्षणादेव जायते ॥
वधं वा यदि वा बंधं क्लेशं चाऽरातिसंभवम् ॥ ४५ ॥
अदृष्टान्यपि शस्त्राणि तानि कुर्वंति तत्क्षणात् ॥
अन्येषां च महीपानां राज्ये गुप्तान्यनेकशः ॥
कुर्वन्ति मनुजास्तेषां चक्रे वैवस्वतो ग्रहम् ॥ ४६ ॥
न तत्र भयसंत्रस्तस्ततः पापसमाचरेत् ॥
प्रत्यक्षं वा विशेषेण ज्ञात्वा शस्त्रभयं च तत् ॥ ४७ ॥
ततस्ते पापनिर्मुक्ता लोकाः संशुद्धगात्रकाः ॥
रोगेषु निगृहीतेषु प्राप्ताः सुखमनुत्तमम् ॥ ४८ ॥
एवं स्थितेषु लोकेषु गतपापामयेषु च ॥
प्रयाताः शून्यतां सर्वे नरका ये यमालये ॥ ४९ ॥
न कश्चिन्नरकं याति न च मृत्युपथं नरः ॥
यथा कृतयुगं तादृक्त्रेतायामपि संस्थितम्॥ ६.९५.५० ॥
व्यवहारे ततो नष्टे यमलोकसमुद्भवे ॥
स्वर्गेण तुल्यतां प्राप्ते प्राणिभिर्मृत्युवर्जितैः ॥ ५१ ॥
ततो वैवस्वतो गत्वा ब्रह्मणः सदनं प्रति ॥
प्रोवाच दुःखसंपन्नः प्रणिपत्य पितामहम् ॥ ५२ ॥
अहं पुरा त्वया देव धर्माधर्मदिदृक्षया ॥
मानुषाणां समादिष्टो निग्रहानुग्रहं प्रति ॥ ०३३ ॥
अजापालेन भूपेन तत्सर्वं विफलीकृतम् ॥
तपःशक्त्या सुरश्रेष्ठ देवीमाराध्य चंडिकाम् ॥ ५४ ॥
नाधयो व्याधयस्तत्र न पापानि महीतले ॥
कस्यचिद्देव जायंते यथा कृतयुगे तथा ॥ ५५ ॥
तस्मात्कुरु सुरश्रेष्ठ पुनरेव यथा पुरा ॥
मदीयभवने कृत्स्नो व्यवहारः प्रजायते ॥ ५६ ॥
तस्य तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥
समीप उपविष्टस्य शिवस्याऽऽस्यं व्यलोकयत् ॥ ९७ ॥
अथाब्रवीत्प्रहस्योच्चैस्त्रिनेत्रश्चतुराननम् ॥
अत्यद्भुततमां श्रुत्वा तां वार्तां यमसंभवाम् ॥ ५८ ॥
॥ महेश्वर उवाच ॥ ॥
धर्ममार्गप्रवृत्तस्य सदाचारस्य भूपतेः ॥
कथं निवारणं तत्र क्रियते कश्च निग्रहः ॥ ५९ ॥
तस्मात्तेन महीपेन यस्मान्मार्गः प्रदर्शितः ॥
अपूर्वो धर्मसंभूतः कृतः सम्यङ्महात्मना ॥ ६.९५.६० ॥
तन्मयापि यथा चास्य प्रसादः सुरसत्तम ॥
अपूर्वः करणीयश्च यथा धर्मो न दुष्यति ॥ ६१ ॥
एवमुक्त्वा चतुर्वक्त्रं यमं प्राह ततः शिवः ॥
वदायुषोऽस्य यच्छेषमजापालस्य भूपतेः ॥
येन तत्समये प्राप्ते तं नयामि निजालयम् ॥ ६२ ॥ ॥
॥ यम उवाच ॥ ॥
पञ्चवर्षसहस्राणि तस्यातीतानि चायुषः ॥
तिष्ठंति पञ्चपञ्चाशत्प्रतीक्ष्येऽहं ततः कथम् ॥ ६३ ॥
यावत्कालं सुरश्रेष्ठ शून्ये जाते स्व आश्रये ॥
तस्मात्कुरु द्रुतं कंचिदुपायं तद्विनाशने ॥ ६४ ॥
एवमुक्ते यमेनाथ तं विसृज्य गृहं प्रति ॥
व्याघ्ररूपं समास्थाय स्वयं तत्संनिधौ ययौ ॥ ६५ ॥
यत्र संस्थो महीपः स प्रजापालनतत्परः ॥
मेघगम्भीरनिर्घोषं गर्जमानो मुहुर्मुहुः ॥ ६६ ॥
अजास्तास्तं च संवीक्ष्य व्याघ्रं रौद्रवपुर्द्धरम् ॥
अजापालं समुद्दिश्य संत्रस्ताः शरणं गताः ॥ ६७ ॥
तस्य यत्नपरस्यापि रक्षमाणस्य भूपतेः॥
अजास्ता व्याघ्ररूपेण शंकरेण प्रभक्षिताः ॥ ६८ ॥
अजानां कदनं दृष्ट्वा ततः स पृथिवीपतिः ॥
स्वहस्ताद्यष्टिमुत्सृज्य जग्राह निशितायुधम् ॥ ॥ ६९ ॥
यत्तस्य तुष्टया दत्तं चंडं चंडार्चिषा समम् ॥
तच्छस्त्रं च तथान्यानि देवीदत्तानि शंकरः ॥
शनैःशनैः प्रजग्राह स्ववक्त्रेण महेश्वरः ॥ ॥ ६.९५.७० ॥
अस्त्राभावात्ततस्तूर्णं ध्रियमाणेऽपि कांतया ॥
द्वंद्वयुद्धेन तं व्याघ्रं योधयामास भूपतिः ॥ ७१ ॥
ततस्तस्यांगसंस्पर्शान्मुक्त्वा व्याघ्रतनुं च ताम् ॥
दधार भस्मसंदिग्धां तनुं चन्द्रविभूषिताम् ॥ ७२ ॥
रुंडमालावरां दिव्यां सखट्वांगां सपन्नगाम् ॥
तां दृष्ट्वा स महीपालः सभार्यः प्रणतस्ततः ॥ ७३ ॥
प्रोवाचाथ स्तुतिं कृत्वा विनयावनतः स्थितः ॥
आनंदाश्रुपरिक्लिन्नो हर्षगद्गदया गिरा ॥ ७४ ॥
॥ राजोवाच ॥ ॥
अज्ञानाद्यन्मया देव प्रहारास्तव निर्मिताः ॥
तिरस्कारस्तथा दत्तस्तत्सर्वं क्षम्यतां विभो ॥ ७५ ॥
॥ श्रीभगवानुवाच ॥ ॥
क्षांत एष मया पुत्र तव सर्वः पराभवः ॥
परितुष्टेन ते कर्म दृष्ट्वा चैवातिमानुषम् ॥ ७६ ॥
यथा कृतं त्वया राज्यं प्रजाः संरक्षिता नृप ॥
तथान्यो भूपतिः कश्चिन्न कर्ता न करिष्यति ॥ ७७ ॥
तस्माद्गच्छ मया सार्धं पाताले पार्थिवोत्तम ॥
अनेनैव शरीरेण धर्मपत्न्यानया सह ॥ ७८ ॥।
नातः परं त्वया स्थेयं मर्त्यलोके कथंचन ॥
विरुद्धं सर्वदेवानां यतः कर्म त्वदुद्भवम् ॥ ७९ ॥
॥ राजोवाच ॥ ॥
एवं देव करिष्यामि गत्वाऽयोध्यां महापुरीम् ॥
पुत्रं राज्ये प्रतिष्ठाप्य मंत्रिणां संनिवेद्य च ॥ ६.९५.८० ॥
तथाहं देव देव्या च प्रोक्तः संतुष्टया पुरा ॥
मन्त्रग्रामो यया दत्तः शस्त्राणि विविधानि च ॥ ८१ ॥
यदा त्वं त्यजसि प्राज्ञ मर्त्यलोकं सुदुस्त्यजम् ॥
तदात्र मामके कुण्डे प्रक्षेप्तव्यानि कृत्स्नशः ॥ ८२ ॥
तानि चार्पय मे भूयो येनानृण्यं व्रजाम्यहम् ॥
तस्या देव्याः सुराधीश त्वत्प्रसादेन सांप्रतम् ॥ ८३ ॥
एवमुक्तस्ततस्तेन भगवांस्त्रिपुरांतकः ॥
आज्ञाप्य तानि सर्वाणि ददौ तत्र द्रुतं गतः ॥ ८४ ॥
अब्रवीच्च सुतस्तत्र स्वयं राजा भविष्यति ॥
वीर्यौदार्यसमोपेतो वंशस्योद्धरणक्षमः ॥ ८५ ॥
त्वं चागच्छ मया सार्धमद्यैव मम मंदिरे ॥
प्रविश्यात्र जले पुण्ये देवीकुण्डसमुद्भवे ॥ ८६ ॥
अद्य माघचतुर्दश्यां शुक्लायामपरोऽपि यः ॥
देवीमिमां च संपूज्य जलेऽस्मिन्भक्तिसंयुतः ॥ ८७ ॥
करिष्यति प्रवेशेन प्राणत्यागं नृपोत्तम ॥
स च यास्यति यत्रास्ते पाताले हाटकेश्वरः ॥ ८८ ॥
स्नानं वा पार्थिवश्रेष्ठ यः करिष्यति मानवः ॥
अष्टोत्तरशतं तस्य व्याधीनां न भविष्यति ॥ ॥ ८९ ॥
एवमुक्त्वा तमादाय नृपं भार्यासमन्वितम् ॥
अजाभिस्ताभिरस्त्रैश्च तैश्चापि परमेश्वरः ॥
प्रविवेश जले तस्मिन्देवीकुण्डसमुद्भवे ॥ ६.९५.९० ॥
ततश्च मंदिरं नीतः स्वकीयं द्विजसत्तमाः ॥
तेनैव नरदेहेन स कलत्रसमन्वितः ॥ ९१
अद्यापि तिष्ठते तत्र जरामरणवर्जितः ॥
पूजयानश्च तं देवं पाताले हाटकेश्वरम् ॥ ९२ ॥
एवं तत्र समुद्भूता सा देवी परमेश्वरी ॥
स्थापिता तेन भूपेन श्रद्धापूतेन चेतसा ॥ ९३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनंनाम पञ्चनवतितमोऽध्यायः ॥ ॥ ९५ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 96
॥ सूत उवाच ॥ ॥
एवं तस्मिन्गते भूपे ह्यजापाले रसातलम् ॥
तत्पुत्रश्चाभवद्राजा मंत्रिभिस्तु पुरस्कृतः ॥ १ ॥
यो नित्यमगमत्स्वर्गे वासवं रमते सदा ॥
शनैश्चरो जितो येन रोहिणीं परिभेदयन् ॥ २ ॥
गृहे यस्य स्वयं विष्णुर्भूत्वा चैव चतुर्विधः ॥
रावणस्य विनाशार्थं जन्म चक्रे प्रहर्षितः ॥ ३ ॥
तेनागत्यात्र सत्क्षेत्रे तोषितो मधुसूदनः ॥
प्रासादं शोभनं कृत्वा ततश्चैव प्रतिष्ठितः ॥ ४ ॥
तस्यापि विश्रुता वापी स्वयं तेन विनिर्मिता ॥
राजवापीति लोकेऽस्मिन्विख्यातिं परमां गता ॥ ५ ॥
तस्यां यः कुरुते श्राद्धं संप्राप्ते पञ्चमीदिने ॥
प्रेतपक्षे विशेषेण स नरः स्यात्सतां प्रियः ॥ ६ ॥
॥ ऋषय ऊचुः ॥ ॥
कथं तेन जितः सौरी रोहिणीशकटं च यत् ॥
भिंदानस्तोषितस्तेन कथं नारायणो वद ॥ ७ ॥
॥ । सूत उवाच ॥ ॥
तस्मिञ्छासति धर्मज्ञे स्वधर्मेण वसुन्धराम्॥
अतिसौख्यान्वितो लोकः सर्वदैव व्यजायत ॥ ८ ॥
बहुक्षीरप्रदा गावः सस्यानि गुणवंति च ॥
कामवर्षी च पर्जन्यो यथर्त्तुफलिता द्रुमाः ॥ ९ ॥
कस्यचित्त्वथ कालस्य दैवज्ञैस्तस्य भूपतेः ॥
कथितं रोहिणीभेदं रविपुत्रः करिष्यति ॥ ६.९६.१० ॥
तस्यानंतरमेवाशु दुर्भिक्षं संभविष्यति ॥
अनावृष्टिश्च भविता रौद्रा द्वादश वार्षिकी ॥
यया संपत्स्यते सर्वं भूतलं गतमानवम् ॥ ११ ॥
तेषां तद्वचनं श्रुत्वा स राजा कुपितोऽभ्यगात् ॥
शनैश्चरं समुद्दिश्य विमानमधिरुह्य च ॥ १२ ॥
तस्य तुष्टेन संदत्तं विमानं कामगं पुरा ॥
शक्रेण तत्र संतिष्ठञ्छनैश्चरमुपाद्रवत् ॥ १३ ॥
ततः सूर्यपथं मुक्त्वा ततश्चंद्रस्य पार्थिवः ॥
नक्षत्रसरणिं प्राप्य सज्यं कृत्वा महद्धनुः ॥ १४
तत्र बाणं समारोप्य शनैश्चरमुपाद्रवत् ॥
प्रोवाच पुरतः स्थित्वा सूर्यपुत्रमधोमुखम् ॥ १५ ॥
त्यजैनं रोहिणीमार्गं सांप्रतं त्वं शनैश्चर ॥
मद्वाक्यादन्यथाऽहं त्वां नयिष्यामि यमक्षयम् ॥ १६ ॥
एतेन निशिताग्रेग शरेणा नतपर्वणा ॥
दिव्यास्त्रमंत्रयुक्तेन सत्यमेतद्ब्रवीम्यहम् ॥ १७ ॥
तस्य तद्वचनं श्रुत्वा तादृग्रौद्रतमं महत् ॥
मन्दो विस्मयमापन्नस्ततश्चेदमभाषत ॥ ॥ १८ ॥
कस्त्वं ब्रूहि महाभाग मम मार्गं रुणत्सि यः ॥
अगम्यं केनचिल्लोके सर्वैरपि सुरासुरैः ॥ १९ ॥
राजोवाच ॥ ॥
अहं दशरथो नाम सूर्यवंशोद्भवो नृपः ॥
अजस्य तनयः प्राप्तः कामं वारयितुं क्रुधा ॥ ६.९६.२० ॥
॥ मंद उवाच ॥ ॥
न त्वया सह संबंधः कश्चिदस्ति महीपते ॥
मम यत्त्वं प्रकोपाढ्यो मन्मार्गं हंतुमिच्छसि ॥ २१ ॥
॥ राजोवाच ॥ ॥
रोहिणीसंभवं त्वं हि शकटं भेदयिष्यसि ॥
सांप्रतं मम दैवज्ञैर्वाक्यमेतदुदाहृतम् ॥ २२ ॥
तस्मिन्मन्द त्वया भिन्ने न वर्षति शतक्रतुः ॥
एतद्वदति दैवज्ञा ज्योतिःशास्त्रविचक्षणाः ॥ २३ ॥
जाते वृष्टिनिरोधेऽथ जायंतेऽन्नानि न क्षितौ ॥
अन्नाभावात्क्षयं यांति ततो भूभितले जनाः ॥ २४ ॥
जनोच्छेदे ततो जाते अग्निष्टोमादिकाः क्रियाः ॥
न भवंति धरा पृष्ठे ततः स्यादेव संक्षयः॥ २५ ॥
एतस्मात्कारणाद्रुद्धो मार्गस्ते सूर्यसंभव ॥
रोहिणीं गंतुकामस्य सत्यमेतन्मयोदितम् ॥२६॥
॥ शनिरुवाच ॥ ॥
गच्छ पुत्र निजं गेहं ममापि त्वं च रोचसे ॥
तुष्टोऽहं तव वीर्येण न त्वन्येन महीपते॥२७॥
न केनचित्कृतं कर्म यदेतद्भवता कृतम् ॥
न करिष्यति चैवान्यो देवो वा मानवोऽथ वा ॥ २८ ॥
नाहं पश्यामि भूपाल कथंचिदपि तूर्ध्वतः॥
यतो दृष्टिविनिर्दग्धं भस्मसाज्जायतेऽखिलम् ॥ २९ ॥
जातमात्रेण बालेन मया पादौ निरीक्षितौ ॥
तातस्य सहसा दग्धौ ततोऽहं वारितोंऽबया ॥ ६.९६.३० ॥
न त्वया पुत्र द्रष्टव्यं किंचिदेव कथंचन ॥
प्रमाणं यदि ते धर्मो मातृवाक्यसमुद्भवः ॥ ३१ ॥
तस्मात्त्वया महत्कर्म कृतमीदृक्सुदुष्करम् ॥
प्रजानां पार्थिवश्रेष्ठ त्यक्त्वा दूराद्भयं मम ॥ ३२ ॥
तस्मा त्तव कृते नाहं भेदयिष्यामि रोहिणीम् ॥
कथंचिदपि भूपाल युगांतररशतेष्वपि ॥ ३३ ॥
वरं वरय चास्माकं तस्मादद्य भविष्यति ॥
हृतत्स्थितं दुर्लभं भूप सर्वेषामिह देहिनाम् ॥ ३४ ॥
॥ राजोवाच ॥ ॥
तव यो वासरे प्राप्ते तैलाभ्यंगं करोति वै ॥
तस्याऽन्यदिवसं यावत्पीडा कार्या न च त्वया ॥ ३५ ॥
तिलदानं करोत्येवं लोहदानं च यस्तव ॥
करोति दिवसे शक्त्या यावद्वर्षं त्वया हि सः ॥ ३६ ॥
रक्षणीयः सुकृच्छ्रेषु संकटेषु सदैव हि ॥
त्वयि गोचरपीडायां संस्थिते चार्कसंभव ॥ ३७ ॥
यः कुर्याच्छांतिकं सम्यक्तिलहोमं च भक्तितः ॥
वासरे तव संप्राप्ते समिद्भिश्च तथाऽक्षतैः ॥ ३८ ॥
तस्य सार्धानि वर्षाणि सप्त कार्या प्रयत्नतः ॥
त्वया रक्षा महाभाग वरं चेन्मम यच्छसि ॥ ३९ ॥
॥ सूत उवाच ॥ ॥
एवमित्येव संप्रोच्य विरराम ततः परम् ॥
शनैश्चरो महीपालवचनाद्द्विजसत्तमाः ॥ ६.९६.४० ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽहं सुविस्तरात् ॥
भवद्भिः सूर्यपुत्रस्य राज्ञा दशरथेन हि ॥
संवादं रोहिणीभेदे सञ्जातं समुपस्थिते ॥ ४१ ॥
यश्चैतत्पठते नित्यं शृणुयाद्यो विशेषतः ॥
शनैश्चरकृता पीडा तस्य नाशं प्रगच्छति ॥ ४२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दशरथशनैश्चरसंवादवर्णनंनाम षण्णवतितमोऽध्यायः ॥ ९६ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 97
॥ सूत उवाच ॥ ॥
ततः प्रभृति नो मन्दो रोहिणीशकटं द्विजाः ॥
भिनत्ति वचनात्तस्य राज्ञो दशरथस्य च ॥ १ ॥
तद्वृत्तांतं समाकर्ण्य तस्य शक्रः प्रहर्षितः ॥
भूपालं तं समभ्येत्य ततश्चोवाच सादरम् ॥ २ ॥
अत्यद्भुततरं कर्म त्वयैतत्पृथिवीपते ॥
संसाधितं यदन्येन मनसापि न चिन्त्यते ॥ ३ ॥
अत एव हि संतुष्टिः सञ्जाताद्य तवोपरि ॥
वरं मत्तो गृहाणाद्य तदभीष्टं हृदि स्थितम् ॥ ४ ॥
॥ राजोवाच ॥ ॥
त्वया सह सुरश्रेष्ठ मैत्री संप्रार्थयाम्यहम् ॥
शाश्वती सर्वकृत्येषु परमां लोकसंस्थिताम् ॥५॥
॥ इन्द्र उवाच ॥
एवं भवतु राजेंद्र त्वया सह सदा मम ॥
संपत्स्यते सदा मैत्री वसोरिव च शाश्वती ॥ ६ ॥
त्वया सदैव मे पार्श्वे सभायां देवसंनिधौ ॥
आगन्तव्यं विशेषेण येन मैत्री प्रवर्धते॥७॥
एवमुक्त्वा सहस्राक्षो जगाम त्रिदिवालयम् ॥
राजापि चागतो हर्म्ये स्वकीये हर्षसंयुतः ॥८॥
रक्षयित्वा जगत्सर्वं शनैश्चर कृताद्भयात् ॥
अप्राप्यां प्राप्य संकीर्तिं स्तूयमानस्तु बन्दिभिः ॥ ९ ॥
ततः प्रभृति नित्यं स सन्ध्याकाल उपस्थिते ॥
सायाह्नं संविधायाथ याति शक्रस्य मंदिरे ॥६.९७.१०॥॥
तत्र स्थित्वा चिरं श्रुत्वा गंधर्वाणां मनोहरम् ॥
गीतं दृष्ट्वा च नृत्यं च तानादिविहितं शुभम् ॥११॥॥
विचित्रार्थाः कथाः श्रुत्वा देवर्षीणां मुखाच्च्युताः ॥
स्वयं च कीर्तयित्वाथ प्रयाति निजमंदिरम्॥१२॥
विमानवरमारुह्य हंसबर्हिणनादितम्॥
मनोहरपताकाभिः समंताच्च विभूषितम्॥१३॥
यदायदा स निर्याति शक्रस्थानान्निजालयम्॥
तदातदाऽऽसने तस्य क्रियतेऽभ्युक्षणं सदा॥१४॥
शक्रादेशात्तदा वेत्ति न स भूपः कथंचन ॥
अन्यस्मिन्दिवसे तस्य नारदो मुनिसत्तमः ॥
कथयामास तत्सर्वमभ्युक्षणसमुद्भवम् ॥ १५ ॥
वृत्तांतं तस्य राजर्षेस्तस्यैव गृहमागतः ॥
तीर्थयात्रा प्रसंगेन विद्वेषपरिवृद्धये ॥ १६ ॥
तच्छ्रुत्वा नारदेनोक्तं श्रद्धेयमपि भूपतिः ॥
न चक्रे हृदयेऽधर्ममात्मानं परिचिंतयन् ॥ १७ ॥
तथापि कौतुकाविष्टो गत्वा शक्रनिवेशनम् ॥
अन्यस्मिन्दिवसे स्थित्वा चिरं तत्र समुत्थितः ॥ १८ ॥
अलक्ष्यं वीक्षयामास स्वासनं दूरमास्थितः ॥
किंचित्सद्मांतरं प्राप्य कौतूहलसमन्वितः ॥ १९ ॥
ततः शक्रसमादेशादुत्थाय सुरकिंकरः ॥
प्रोक्षयामास तोयेन पार्थिवस्य तदासनम् ॥ ६.९७.२० ॥
तद्दृष्ट्वा कोपसंपन्नः स राजाऽभ्येत्य वासवम् ॥
प्रोवाच किमिदं शक्र प्रोक्ष्यते यन्ममासनम् ॥ २१ ॥
किं मया निहता विप्राः किं वा विप्रसमुद्भवम् ॥
शासनं लोपितं किंचित्किं वा विप्रा विनिंदिताः ॥ २२ ॥
किं वा नष्टोऽस्मि संग्रामे दृष्ट्वा शत्रून्समागतान् ॥
दैन्यं वा जल्पितं तेषां भयत्रस्तेन चेतसा ॥ २३ ॥
मम राज्येऽथवा शक्र दुर्बलो बलवत्तरैः ॥
पीड़्यते वाथ चौराद्यैर्मुष्यते वंचकैस्तथा ॥ २४ ॥
किं वा राज्ये मदीये च जायते योनिविप्लवः ॥
संकरो वाथ वर्णानां परित्यक्तविधिक्रमः ॥ २५ ॥
किं वा दुर्जनवाक्येन दूषितो दोषवर्जितः ॥
दंड्यते मम राज्ये च केनचित्त्रिदशेश्वर ॥ २६ ॥
किं वा चौरोऽथ पापो वा गृहीतो दोषवान्स्वयम् ॥
मुच्यते द्रव्यलोभेन तथान्यो वा जुगुप्सितः ॥ २७ ॥
किंस्विन्मया परित्यक्तः कोऽप्यत्र शरणागतः ॥
भयत्रस्तः सुभीतेन प्राणानां त्रिदशाधिप ॥ २८ ॥
कस्य वा पृष्ठमांसानि भक्षितानि मया क्वचित् ॥
कच्चिच्च त्रिदशाधीष ब्राह्मणस्य विशेषतः ॥ २९ ॥
किं वा दानं मया दत्त्वा ब्राह्मणाय महात्मने ॥ पश्चात्तापः
कृतः पश्चाद्दत्तं चोपेक्षितं च वा ॥ ६.९७.३० ॥
किं वा राज्ये मदीये च दीनानां प्रपतंति च ॥
अश्रुपाता दिवारात्रं दुःखितानां समंततः ॥ ३१ ॥
दैवं वा पैतृकं वापि किं वा कर्म गृहे मम ॥
लोपं गच्छति देवेन्द्र क्रियते वा विधिच्युतम् ॥ ३२ ॥
यत्त्वया क्रियते नित्यं तोयैरभ्युक्षणं मम ॥
आसनस्य द्रुतं ब्रूया यत्पापं विहितं मया ॥ ॥ ३३ ॥
॥ इन्द्र उवाच ॥ ॥
न विद्यते महाराज शरीरे तव पातकम् ॥
न राष्ट्रे च कुले गेहे भृत्यवर्गे विशेषतः ॥ ३४ ॥
परं शृणु प्रवक्ष्यामि यत्ते पापं भविष्यति ॥
तेन संप्रोक्ष्यते चैव आसनं सर्वदैव तु ॥ ३५ ॥
अपुत्रस्य गतिर्नास्ति न च स्वर्गं प्रपद्यते ॥
पैतृकेण नरो ग्रस्तो य ऋणेन सदा नृप ॥ ३६ ॥
द्वेष्यतां याति देवानां पितॄणां च विशेषतः ॥
यदा पश्यति पुत्रस्य वदनं पुरुषो नृप ॥ ३७ ॥
आनृण्यं समवाप्नोति पितॄणां स तदा ध्रुवम् ॥
स त्वं नैव गतो राजन्नानृण्यं यन्मयोदितम् ॥ ३८ ॥
पितॄणां तेन ते नित्यमासनेऽभ्युक्षणं कृतम् ॥
तस्माद्यतस्व पुत्रार्थं यदीच्छसि परां गतिम् ॥ ३९ ॥
आत्मानं नरकात्त्रातुं पुंसंज्ञाच्च तथा नृप ॥
एवमुक्तः स शक्रेण राजा दशरथस्तदा ॥ ६.९७.४० ॥
दुःखेन महता युक्तो लज्जयाऽधोमुखः स्थितः ॥
आमंत्र्याथ सहस्राक्षं गत्वाऽयोध्यां निजां पुरीम् ॥
अमात्यानां निजं राज्यमर्पयामास सत्वरः ॥ ४१ ॥
ततः प्रोवाच तान्सर्वांस्तपः कार्यं मयाऽधुना ॥
यावत्पुत्रस्य संप्राप्तिस्तावदेव न संशयः ॥४२॥
एतद्राज्यं प्रयत्नेन रक्षणीयं यथाविधि ॥
युष्माभिर्मम वाक्येन यावदागमनं मम ॥४३॥
॥ मंत्रिण ऊचुः ॥ ॥
युक्तमेतन्महाराज पुत्रार्थं यत्समुद्यमः ॥
क्रियते पुत्रहीनस्य किं राज्येन धनेन वा ॥ ॥ ४४ ॥
वयं रक्षां करिष्यामस्तव राज्ये समंततः ॥
निर्वृतिं त्वं समास्थाय कुरु पुत्रकृते तपः ॥ ४५ ॥
कार्तिकेयपुरं गत्वा यत्र पित्रा पुरा तव ॥
तपस्तप्तं यथा लब्धा सिद्धिश्च मनसेप्सिता ॥ ४६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्र माहात्म्ये दशरथकृततपःसमुद्योगवर्णनंनाम सप्तनवतितमोऽध्यायः ॥ ९७ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 98
॥ सूत उवाच ॥ ॥
ततो दशरथो राजा मंत्रिभिस्तैर्विसर्जितः ॥
हाटकेश्वरजं क्षेत्रं संप्राप्तो हर्षसंयुतः ॥ १ ॥
तत्रागत्य ततो देवीं पित्रा संस्थापिता पुरा ॥
पूजयित्वाऽथ सद्भक्त्या स्नात्वा कुण्डे शुभोदके ॥ २ ॥
ततोऽन्यानि च मुख्यानि दृष्ट्वा चायतनानि सः ॥
स्नात्वा तीर्थेष्वनेकेषु दत्त्वा दानान्यनेकशः ॥ ३ ॥
प्रासादं कारयामास देवदेवस्य चक्रिणः ॥
तत्र संस्थापयामास प्रतिमां वैष्णवीं शुभाम् ॥ ४ ॥
तस्याग्रे कारयामास वापीं स्वच्छोदकान्विताम् ॥
सोपानपंक्तिभिर्युक्तां साधुभिः संप्रशंसिताम्॥ ५ ॥
उदकेन ततस्तस्या देवाराधनतत्परः ॥
प्रकारैर्बहुभिस्तीव्रं चकार सुमहत्तपः ॥ ६ ॥
ततो वर्षशतेऽतीते तस्य तुष्टो जनार्दनः ॥
विलोक्य च तपस्तीव्रं विहितं तेन भूभुजा ॥ ७ ॥
प्रोवाच दर्शनं गत्वा पक्षिराजं समाश्रितः ॥
मेघगम्भीरयावाचा बहुदेवगणैर्वृतः ॥ ८ ॥
॥ श्रीविष्णुरुवाच ॥ ॥
परितुष्टोऽस्मि ते वत्स वरं वरय सुव्रत ॥
अपि ते दुर्लभं काममहं दास्यामि कृत्स्नशः ॥ ९ ॥
॥ राजोवाच ॥ ॥
पुत्रार्थोऽयं समारंभो मया देव कृतोऽखिलः ॥
तपसो देहि मे पुत्रांस्तस्माद्वंशविवृद्धिदान् ॥ ६.९८.१० ॥
अन्यत्सर्वं सुराधीश ध्रुवमस्ति गृहे स्थितम् ॥
प्रसादात्तव यत्किंचिद्वैभवं विद्यते मम ॥ ११ ॥
॥ विष्णुरुवाच ॥ ॥
अहं तव गृहे राजन्स्वयमेव न संशयः ॥
अवतारं करिष्यामि कृत्वा रूपचतुष्टयम्॥ १२ ॥
देवकार्याय तस्मात्त्वं गृहं गत्वा महीपते ॥
कुरु राज्यं यथान्यायं पितृपैतामहं महत् ॥ १३ ॥
तथेयं या त्वया वापी निर्मिता विमलोदका ॥
राजवापीति विख्याता लोके सेयं भविष्यति ॥ १४ ॥
अस्यां स्नात्वा नरो भक्त्या य एनां पूजयिष्यति ॥
श्रद्धया परया युक्तः संप्राप्ते पंचमीदिने ॥ १५ ॥
ततः करिष्यति श्राद्धं यावत्संवत्सरं नृप ॥
अपुत्रः प्राप्स्यते पुत्रान्वंशवृद्धिकरान्स हि ॥ १६ ॥
एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥
प्रहृष्टवदनो भूत्वा सोऽपि राजा ययौ गृहम् ॥ १७ ॥
ततः स्तोकेन कालेन तस्य पुत्रचतुष्टयम् ॥
संजातं लोके विख्यातं कलत्रत्रितयस्य च ॥ १८ ॥
कौशल्यानाम विख्याता तस्य भार्या सुशोभना ॥
ज्येष्ठा तस्यां सुतो जज्ञे रामाख्यः प्रथमः सुतः ॥ १९ ॥
तथान्या कैकयी नाम तस्य भार्या कनिष्ठिका ॥
भरतो नाम विख्यातस्तस्याः पुत्रोऽभवत्त्वसौ ॥ ६.९८.२० ॥
सुमित्राख्या तथा चान्या पत्नी या मध्यमा स्थिता ॥
शत्रुघ्नलक्ष्मणौ पुत्रौ तस्यां जातौ महाबलौ ॥ २१ ॥
तथान्या कन्यका चैका बभूव वरवर्णिनी ॥
ददौ यां पुत्रहीनस्य लोमपादस्य भूपतेः ॥२२॥
आनृण्यं भूपतिः प्राप्य एवं दशरथस्तदा॥
पितॄणां प्रययौ स्वर्गं कृतकृत्यस्तथा द्विजाः ॥ २३ ॥
अथ राजाऽभवद्रामः सार्वभौमस्ततः परम्॥
रावणो येन दुर्धर्षो निहतो देवकंटकः ॥ २४ ॥
येन रामेश्वरश्चात्र निर्मितो लक्ष्मणेश्वरः ॥
सीतादेवी तथा मूर्ता येन चात्र प्रतिष्ठिता ॥२५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये राजस्वामिराजवापीमाहात्म्यवर्णनंनामाष्टनवतितमोऽध्यायः ॥ ९८ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 99
॥ ऋषय ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तं तत्र रामेण निर्मितः ॥
रामेश्वरस्तथा सीता तेन तत्र विनिर्मिता ॥ १ ॥
तथा च लक्ष्मणार्थाय निर्मितस्तेन संश्रयः ॥
एतन्महद्विरुद्धं ते प्रतिभाति वचोऽखिलम् ॥ २ ॥
त्वया सूत पुरा प्रोक्तं रामो लक्ष्मणसंयुतः ॥
सीतया सहितः प्राप्तः क्षेत्रेऽत्र प्रस्थितो वने ॥ ३ ॥
श्राद्धं कृत्वा गयाशीर्षे लक्ष्मणेन विरुद्ध्य च ॥
पुनः संप्रस्थितोऽरण्यं क्रोधाविष्टश्च तं प्रति । ४ ॥
यत्त्वयोक्तं तदा तेन निर्मितोऽत्र महेश्वरः ॥
एतच्च सर्वमाचक्ष्व संदेहं सूतनन्दन ॥ ५ ॥
॥ सूत उवाच ॥ ॥
अत्र मे नास्ति संदेहो युष्माकं च पुनः स्थितः ॥
ततो वक्ष्याम्यशेषेण श्रूयतां द्विजसत्तमाः ॥
एतत्क्षेत्रं पुनश्चाद्यं न क्षयं याति कुत्रचित् ॥ ६ ॥
अन्यस्मिन्दिवसे प्राप्ते स तदा रघुनंदनः ॥
यदा विरोधमापन्नः सार्धं सौमित्रिणा सह ॥ ७ ॥
एतत्पुनर्दिनं चान्यद्यत्र तेन प्रतिष्ठितः ॥
रामेश्वरः स्वयं भक्त्या दुःखितेन महात्मना ॥ ८ ॥
॥ ऋषय ऊचुः ॥ ॥
अन्यस्मिन्दिवसे तत्र कस्मिन्काले रघूत्तमः ॥
संप्राप्तस्तस्य किं दुःखं संजातं तत्प्रकीर्तय ॥ ९ ॥ ।
॥ सूत उवाच ॥ ॥
कृत्वा सीतापरित्यागं रामो राजीवलोचनः ॥
लोकापवादसंत्रस्तस्ततो राज्यं चकार सः ॥ ६.९९.१० ॥
कृत्वा स्वर्णमयीं सीतां पत्नीं यज्ञप्रसिद्धये ॥
न स चक्रे महाभागो भार्यामन्यां कथंचन ॥ १॥।
दशवर्षसहस्राणि दशवर्षशतानि च ॥
ब्रह्मचर्येण चक्रे स राज्यं निहतकंटकम् ॥ १२ ॥
ततो वर्षसहस्रांते प्राप्ते चैकादशे द्विजाः ॥
देवदूतः समायातो रामस्य सदनं प्रति ॥।३॥
तेनोक्तं देवराजेन प्रेषितोऽहं तवांतिकम् ॥
तस्मात्कुरु समालोकं विजने त्वं मया सह ॥ १४ ॥
एवमुक्तस्तदा तेन दूतेन रघुनंदनः ॥
परं रहः समासाद्य मन्त्रं चक्रे ततः परम् ॥ १-५ ॥
तस्यैवमुपविष्टस्य मंत्रस्थाने महात्मनः ॥
बहुत्वादिष्टलोकस्य न रहस्यं प्रजायते ॥ १६ ॥
ततः कोपपरीतात्मा दूतः प्रोवाच सादरम् ॥
विहस्य जनसंसर्गं दृष्ट्वैकांतेऽपि संस्थिते ॥ १७ ॥
यथा दंष्ट्राच्युतः सर्पो नागो वा मदवर्जितः ॥
आज्ञाहीनस्तथा राजा मानवैः परिभूयते ॥ १८ ॥
सेयं तव रघुश्रेष्ठ नाज्ञास्ति प्रतिवेद्म्यहम् ॥
शक्रालापमपि त्वं च नैकांते श्रोतुमर्हसि ॥ १९ ॥
तस्य तद्वचनं श्रुत्वा कोपसंरक्तलोचनः ॥
त्रिशाखां भृकुटीं कृत्वा ततः स प्राह लक्ष्मणम्॥ ६.९९.२० ॥
ममात्र संनिविष्टस्य सहानेन प्रजल्पतः ॥
यदि कश्चिन्नरो मोहादागमिष्यति लक्ष्मण ॥
स्वहस्तेन न संदेहः सूदयिष्यामि तं द्रुतम् ॥ २१ ॥
न हन्मि यदि तं प्राप्तमत्र मे दृष्टिगोचरम्॥
तन्मा भून्मे गतिः श्रेष्ठा धर्मिणां या प्रपद्यते ॥ ॥ २२ ॥
एवं ज्ञात्वा प्रयत्नेन त्वया भाव्यमसंशयम् ॥
राजद्वारि यथा कश्चिन्न मया वध्यतेऽधुना ॥ २३ ॥
तमोमित्येव संप्रोच्य लक्ष्मणः शुभलक्षणः ॥
राजद्वारं समासाद्य चकार विजनं ततः॥ २४ ॥
देवदूतोऽपि रामेण समं चक्रे ततः परम्॥
मंत्रं शक्रसमादिष्टं तथान्यैः स्वर्गवासिभिः ॥ २५ ॥
॥ देवदूत उवाच ॥ ॥
त्वं रावणविनाशार्थमवतीर्णो धरातले ॥
स च व्यापादितो दुष्टः पापस्त्रैलोक्यकंटकः ॥ २६ ॥
कृतं सर्वं महाभाग देव कृत्यं त्वयाऽधुना ॥
तस्मात्संतु सनाथास्ते देवाः शक्रपुरोगमाः॥२७॥
यदि ते रोचते चित्ते नोपरोधेन सांप्रतम् ॥
प्रसादं कुरु देवानां तस्मादागच्छ सत्वरम् ॥
स्वर्गलोकं परित्यज्य मर्त्यलोकं सुनिंदितम् ॥२८॥
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे प्राप्तो दुर्वासा मुनिसत्तमः ॥
प्रोवाचाथ क्षुधाविष्टः क्वासौ क्वासौ रघूत्तमः ॥ २९ ॥
॥ लक्ष्मण उवाच ॥ ॥
व्यग्रः स पार्थिवश्रेष्ठो देवकार्येण केनचित् ॥
तस्मादत्रैव विप्रेंद्र मुहूर्तं परिपालय ॥६.९९.३०॥।
यावत्सांत्वयते रामो दूतं शक्रसमुद्भवम् ॥
ममोपरि दयां कृत्वा विनयावनतस्य हि ॥ ३१ ॥
॥ दुर्वासा उवाच ॥ ॥
यदि यास्यति नो दृष्टिं मम द्राक्स रघूत्तमः ॥
शापं दत्त्वा कुलं सर्वं तद्धक्ष्यामि न संशयः ॥ ३२ ॥
ममापि दर्शनादन्यन्न किंचिद्विद्यते गुरु ॥
कृत्यं लक्ष्मण यावत्त्वमन्यन्मूढ़ प्रकत्थसे ॥ ३३ ॥
तच्छ्रुत्वा लक्ष्मणश्चित्ते चिंतयामास दुःखितः ॥
वरं मे मृत्युरेकस्य मा भूयात्कुलसंक्षयः ॥ ३४ ॥
एवं स निश्चयं कृत्वा ततो राममुपाद्रवत् ॥
उवाच दंडवद्भूमौ प्रणिपत्य कृतांजलिः ॥ ३५ ॥
दुर्वासा मुनिशार्दूलो देव ते द्वारि तिष्ठति ॥
दर्शनार्थी क्षुधाविष्टः किं करोमि प्रशाधि माम् ॥ ३६ ॥
तस्य तद्वचनं श्रुत्वा ततो दूतमुवाच तम् ॥
गत्वेमं ब्रूहि देवेशं मम वाक्यादसंशयम् ॥
अहं संवत्सरस्यांत आगमिष्यामि तेंऽतिके ॥ ३७ ॥
एवमुक्त्वा विसृज्याथ तं दूतं प्राह लक्ष्मणम् ॥
प्रवेशय द्रुतं वत्स तं त्वं दुर्वाससं मुनिम् ॥ ३८ ॥
ततश्चार्घ्यं च पाद्यं च गृहीत्वा सम्मुखो ययौ ॥
रामदेवः प्रहृष्टात्मा सचिवैः परिवारितः ॥ ३९ ॥
दत्त्वार्घ्यं विधिवत्तस्य प्रणिपत्य मुहुर्मुहुः ॥
प्रोवाच रामदेवोऽथ हर्षगद्गदया गिरा ॥ ६.९९.४० ॥
स्वागतं ते मुनिश्रेष्ठ भूयः सुस्वागतं च ते ॥
एतद्राज्यममी पुत्रा विभवश्च तव प्रभो ॥ ४१ ॥
कृत्वा मम प्रसादं च गृहाण मुनिसत्तम ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वं मे गृहमागतः ॥
पूज्यो लोकत्रयस्यापि निःशेषतपसांनिधिः ॥ ४२ ॥
॥ मुनिरुवाच ॥ ॥
चातुर्मास्यव्रतं कृत्वा निराहारो रघूत्तम ॥
अद्य ते भवनं प्राप्य आहारार्थं बुभुक्षितः ॥ ४३ ॥
तस्मात्त्वं यच्छ मे शीघ्रं भोजनं रघुनंदन ॥
नान्येन कारणं किंचित्संन्यस्तस्य धनादिना ॥ ४४ ॥
ततस्तं भोजयामास श्रद्धापूतेन चेतसा ॥
स्वयमेवाग्रतः स्थित्वा मृष्टान्नैर्विविधैः शुभैः ॥ ४५ ॥
लेह्यैश्चोष्यैस्तथा चर्व्यैः खाद्यैरेव पृथग्विधैः ॥
यावदिच्छा मुनेस्तस्य तथान्नैर्विविधैरपि ॥ ४६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रामेश्वरस्थापनप्रस्तावे श्रीरामंप्रति दुर्वासः समागमनवृत्तांतवर्णनंनामैकोनशततमोऽ ध्यायः ॥ ९९ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 100
॥ सूत उवाच ॥ ॥
एवं भुक्त्वा स विप्रर्षिर्वांछया राममंदिरे ॥
दत्ताशीर्निर्गतः पश्चादामंत्र्य रघुनंदनम् ॥ १ ॥
अथ याते मुनौ तस्मिन्दुर्वाससि तदंतिकात् ॥
लक्ष्मणः खङ्गमादाय रामदेवमुवाच ह ॥ २ ॥
एतत्खङ्गं गृहीत्वाशु मां प्रभो विनिपातय ॥
येन ते स्यादृतं वाक्यं प्रतिज्ञातं च यत्पुरा ॥ ३ ॥
ततो रामश्चिरात्स्मृत्वा तां प्रतिज्ञां स्वयं कृताम् ॥
वधार्थं संप्रविष्टस्य समीपे पुरुषस्य च ॥ ४ ॥
ततोऽतिचिंतयामास व्याकुलेनांतरात्मना ॥
बाष्पव्याकुलनेत्रश्च निःष्वसन्पन्नगो यथा ॥ ५ ॥
तं दीनवदनं दृष्ट्वा निःष्वसंतं मुहुर्मुहुः ॥
भूयः प्रोवाच सौमित्रिर्विनयावनतः स्थितः ॥ ६ ॥
एष एव परो धर्मो भूपतीनां विशेषतः ॥
यथात्मीयं वचस्तथ्यं क्रियते निर्विकल्पितम् ॥ ७ ॥
तस्मात्त्वया प्रभो प्रोक्तं स्वयमेव ममाग्रतः ॥
तस्यैव देवदूतस्य तारनादेन कोपतः ॥ ९ ॥
योऽत्रागच्छति सौमित्रे मम दूतस्य संनिधौ ॥
तं चेद्धन्मि स्वहस्तेन नाहं तस्मात्सुपापकृत् ॥ ९ ॥
तदहं चागतस्तात भयाद्दुर्वाससो मुनेः ॥
निषिद्धोऽपि त्वयातीव तस्माच्छीघ्रं तु घातय ॥ ६.१००.१० ॥
ततः संमंत्र्य सुचिरं मंत्रिभिः सहितो नृपः ॥
ब्राह्मणैर्धर्मशास्त्रज्ञैस्तथान्यैर्वेदपारगैः ॥ ११ ॥
प्रोवाच लक्ष्मणं पश्चाद्विनयावनतं स्थितम् ॥
वाष्पक्लिन्नमुखो रामो गद्गदं निःश्वसन्मुहुः ॥ १२ ॥
व्रज लक्ष्मण मुक्तस्त्वं मया देशातरं द्रुतम् ॥
त्यागो वाथ वधो वाथ साधूनामुभयं समम् ॥ १३ ॥
न मया दर्शनं भूयस्तव कार्यं कथंचन ॥
न स्थातव्यं च देशेऽपि यदि मे वांछसि प्रियम् ॥ १४ ॥
तस्य तद्वचनं श्रुत्वा प्रणिपत्य ततः परम् ॥
निर्ययौ नगरात्तस्मात्तत्क्षणादेव लक्ष्मणः ॥ १५ ॥
अकृत्वापि समालापं केनचिन्निजमंदिरे ॥
मात्रा वा भार्यया वाथ सुतेन सुहृदाथवा ॥ १६ ॥
ततोऽसौ सरयूं गत्वाऽवगाह्याथ च तज्जलम् ॥
शुचिर्भूत्वा निविष्टोथ तत्तीरे विजने शुभे ॥ १७ ॥
पद्मासनं विधायाथ न्यस्यात्मानं तथात्मनि ॥
ब्रह्मद्वारेण तं पश्चात्तेजोरूपं व्यसर्जयत् ॥ १८ ॥
अथ तद्राघवो दृष्ट्वा महत्तेजो वियद्गतम् ॥
विस्मयेन समायुक्तोऽचिन्तयत्किमिदं ततः ॥ १९ ॥
अथ मर्त्ये परित्यक्ते तेजसा तेन तत्क्षणात् ॥
वैष्णवेन तुरीयेण भागेन द्विजसत्तमाः ॥ ६.१००.२० ॥
पपात भूतले कायं काष्ठलोष्टोपमं द्रुतम्॥
लक्ष्मणस्य गतश्रीकं सरय्वाः पुलिने शुभे ॥ २१ ॥
ततस्तु राघवः श्रुत्वा लक्ष्मणं गतजीवितम् ॥
पतितं सरितस्तीरे विललाप सुदुःखितः ॥ २२ ॥
स्वयं गत्वा तमुद्देशं सामात्यः ससुहृज्जनः ॥
लक्ष्मणं पतितं दृष्ट्वा करुणं पर्यदेवयत् ॥ २३ ॥
हा वत्स मां परित्यज्य किं त्वं संप्रस्थितो दिवम् ॥
प्राणेष्टं भ्रातरं श्रेष्ठं सदा तव मते स्थितम् ॥ २४ ॥
तस्मिन्नपि महारण्ये गच्छमानः पुरादहम् ॥।?
अपि संधार्यमाणेन अनुयातस्त्वया तदा ॥ २५ ॥
संप्राप्तेऽपि कबंधाख्ये राक्षसे बलवत्तरे ॥
त्वया रात्रिमुखे घोरे सभार्योऽहं प्ररक्षितः ॥ २६ ॥
येनेन्द्रजिद्धतो युद्धे तादृग्रूपो निशाचरः ॥
स एष पतितः शेते गतासुर्धरणीतले ॥ ९७ ॥
येन शूर्पणखा ध्वस्ता राक्षसी सा च दारुणा ॥
लीलयापि ममादेशात्सोयमेवंविधः स्थितः ॥ २८ ॥
यद्बाहुबलमाश्रित्य मया ध्वस्ता निशाचराः ॥
सोऽयं निपतितः शेते मम भ्राता ह्यनाथवत् ॥।? ॥ २९ ॥
हा वत्स क्व गतो मां त्वं विमुच्य भ्रातरं निजम् ॥
ज्येष्ठं प्राणसमं किं ते स्नेहोऽद्य विगतः क्वचित् ॥ ६.१००.३० ॥
॥ सूत उवाच ॥ ॥
एवं बहुविधान्कृत्वा प्रलापान्रघुनन्दनः ॥
मातृभिः सहितो दीनः शोकेन महतान्वितः ॥ ३१ ॥
ततस्ते मंत्रिणस्तस्य प्रोचुस्तं वीक्ष्य दुःखितम् ॥।
विलपंतं रघुश्रेष्ठं स्त्रीजनेन समन्वितम् ॥ ३२ ॥
॥ मंत्रिण ऊचुः ॥ ॥
मा शोकं कुरु राजेन्द्र यथान्यः प्राकृतः स्थितः ॥
कुरुष्व च यथेदं स्यात्सांप्रतं चौर्ध्वदैहिकम्॥ ३३ ॥
नष्टं मृतमतीतं च ये शोचन्ति कुबुद्धयः ॥
धीराणां तु पुरा राजन्नष्टं नष्टं मृतं मृतम् ॥ ३४ ॥
एवं ते मन्त्रिणः प्रोच्य ततस्तस्य कलेवरम् ॥
लक्ष्मणस्य विलप्यौच्चैश्चन्दनोशीरकुंकुमैः ॥ ३५ ॥
कर्पूरागुरुमिश्रैश्च तथान्यैः सुसुगन्धिभिः ॥
परिवेष्ट्य शुभैर्वस्त्रैः पुष्पैः संभूष्य शोभनैः ॥ ३६ ॥
चन्दनागुरुकाष्ठैश्च चितिं कृत्वा सुविस्तराम् ॥
न्यदधुस्तस्य तद्गात्रं तत्र दक्षिणदिङ्मुखम् ॥ ३७ ॥
एतस्मिन्नंतरे जातं तत्राश्चर्यं द्विजोत्तमाः ॥
तन्मे निगदतः सर्वं शृण्वंतु सकलं द्विजाः ॥ ३८ ॥
यावत्तेंऽतः समारोप्य चितां तस्य कलेवरम् ॥
प्रयच्छंति हविर्वाहं तावन्नष्टं कलेवरम् ॥ ३९ ॥
एतस्मिन्नंतरे वाणी निर्गता गगनांगणात् ॥
नादयंती दिशः सर्वाः पुष्पवर्षादनंतरम् ॥ ६.१००.४० ॥
रामराम महाबाहो मा त्वं शोकपरो भव ॥
न चास्य युज्यते वह्निर्दातुं चैव कथंचन ॥ ४१ ॥
ब्रह्मज्ञानप्रयुक्तस्य संन्यस्तस्य विशेषतः ॥
अग्निदानं न युक्तं स्यात्सर्वेषामपि योगिनाम् ॥ ४२ ॥
तवायं बांधवो राम ब्रह्मणः सदनं गतः।
ब्रह्मद्वारेण चात्मानं निष्क्रम्य सुमहायशाः ॥ ४३ ॥
अथ ते मंत्रिणः प्रोचुस्तच्छ्रुत्वाऽऽकाशगं वचः ॥
अशोच्यो यं महाराज संसिद्धिं परमां गतः ॥
लक्ष्मणो गम्यतां शीघ्रं तस्मात्स्वभवने विभो ॥ ४४ ॥
चिन्त्यन्तां राजकार्याणि तथा यच्चौर्ध्वदैहिकम् ॥
कुरु स्नेहोचितं तस्य पृष्ट्वा ब्राह्मणसत्तमान् ॥ ४५ ॥
॥ राम उवाच ॥
नाहं गृहं गमिष्यामि लक्ष्मणेन विनाऽधुना ॥
प्राणानत्र विहास्यामि यथा तेन महात्मना ॥ ४६ ॥
एष पुत्रो मया दत्तः कुशाख्यो मम संमतः ॥
युष्मभ्यं क्रियतां राज्ये मदीये यदि रोचते ॥ ४७ ॥
एवमुक्त्वा ततो रामो गन्तुकामो दिवालयम् ॥
चिन्तयामास भूयोऽपि स्मृत्वा मित्रं विभीषणम् ॥ ४८ ॥
मया तस्य तदा दत्तं लंकायां राज्यमक्षयम् ॥
बहुभक्तिप्रतुष्टेन यावच्चन्द्रार्कतारकाः ॥ ४९ ॥
अतिक्रूरतरा जाती राक्षसानां यतः स्मृता ॥
विशेषाद्वरपुष्टानां जायतेऽत्र धरातले ॥ ६.१००.५० ॥
तच्चेद्राक्षसभावेन स महात्मा विभीषणः ॥
करिष्यति सुरैः सार्धं विरोधं रावणो यथा ॥ ५१ ॥
तं देवाः सूदयिष्यंति उपायैः सामपूर्वकैः ॥
त्रैलोक्यकण्टको यद्वत्तस्य भ्राता दशाननः ॥ ५२ ॥
ततो मे स्यान्मृषा वाणी तस्माद्गत्वा तदंतिकम् ॥
शिक्षां ददामि तस्याहं यथा देवान्न दूषयेत् ॥ ५३ ॥
तथा मे परमं मित्रं द्वितीयं वानरः स्थितः ॥
सुग्रीवाख्यो महाभागो जांबवांश्च तथाऽपरः ॥ ५४ ॥
सभृत्यो वायुपुत्रश्च वालिपुत्रसमन्वितः ॥
कुमुदाख्यश्च तारश्च तथान्येऽपि च वानराः ॥५५॥
तस्मात्तानपि संभाष्य सर्वान्संमंत्र्य सादरम् ॥
ततो गच्छामि देवानां कृतकृत्यो गृहं प्रति ॥ ५६ ॥
एवं संचिन्त्य सुचिरं समाहूय च पुष्पकम् ॥
तत्रारुह्य ययौ तूर्णं किष्किन्धाख्यां पुरीं प्रति ॥५७॥
अथ ते वानरा दृष्ट्वा प्रोद्द्योतं पुष्पकोद्भवम् ॥
विज्ञाय राघवं प्राप्तं सत्वरं सम्मुखा ययुः ॥ ५८ ॥
ततः प्रणम्य ते दूराज्जानुभ्यामवनिं गताः ॥
जयेति शब्दमादाय मुहुर्मुहुरितस्ततः ॥५९॥
ततस्तेनैव संयुक्ताः किष्किन्धां तां महापुरीम् ॥
विविशुः सत्पताकाभिः समंतात्समलंकृताम् ॥ ६.१००.६०
अथोत्तीर्य विमानाग्र्यात्सुग्रीवभवने शुभे ॥
प्रविवेश द्रुतं रामः सर्वतः सुविभूषिते ॥ ६१ ॥
तत्र रामं निविष्टं ते विश्रांतं वीक्ष्य वानराः॥
अर्घ्यादिभिश्च संपूज्य पप्रच्छुस्तदनन्तरम् ॥६२॥
॥ वानरा ऊचुः ॥ ॥
तेजसा त्वं विनिर्मुक्तो दृश्यसे रघुनन्दन॥
कृशोऽस्यतीव चोद्विग्नः कच्चित्क्षेमं गृहे तव ॥६३॥
काये वाऽनुगतो नित्यं तथा ते लक्ष्मणोऽनुजः॥
न दृश्यते समीपस्थः किमद्य तव राघव ॥६४॥
तथा प्राणसमाऽभीष्टा सीता तव प्रभो ॥
दृश्यते किं न पार्श्वस्था एतन्नः कौतुकं परम् ॥६५॥
॥ सूत उवाच॥ ॥
तेषां तद्वचनं श्रुत्वा चिरं निःश्वस्य राघवः ॥
वाष्पपूर्णेक्षणो भूत्वा सर्वं तेषां न्यवेदयत् ॥६६॥
अथ सीता परित्यक्ता तथा भ्राता स लक्ष्मणः॥
यदर्थं तत्र संप्राप्तः स्वयमेव द्विजोत्तमाः ॥६७॥
तच्छ्रुत्वा वानराः सर्वे सुग्रीवप्रमुखास्ततः ॥
रुरुदुस्ते सुदुःखार्ताः समालिंग्य ततः परम्॥६८॥
एवं चिरं प्रलप्योच्चैस्ततः प्रोचू रघूत्तमम्॥
आदेशो दीयतां राजन्योऽस्माभिरिह सिध्यति ॥६९॥
धन्या वयं धरापृष्ठे येषां त्वं रघुसत्तम ॥
ईदृक्स्नेहसमायुक्तः समागच्छसि मंदिरे ॥ ६.१००.७० ॥
॥ राम उवाच ॥ ॥
उषित्वा रजनीमेकां सुग्रीव तव मंदिरे ॥
प्रातर्लंकां गमिष्यामि यत्रास्ते स विभीषणः ७१ ॥
प्रधानामात्ययुक्तेन त्वयापि कपिसत्तम ॥
आगंतव्यं मया सार्धं विभीषणगृहं प्रति ॥ ७२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्रीरामेश्वरस्थापन प्रस्तावे लक्ष्मणनिर्वाणोत्तरं श्रीरामस्य सुग्रीवनगरींप्रति गमनवर्णनंनाम शततमोऽध्यायः
खण्डः ६ (नागरखण्डः) — Adhyāya 101
॥ सूत उवाच ॥ ॥
एवं तां रजनीं तत्र स उषित्वा रघूत्तमः ॥
उपास्यमानः सर्वैस्तैः सद्भक्त्या वानरोत्तमैः ॥ १ ॥
ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥
कृत्वा प्राभातिकं कर्म समाहूयाथ पुष्पकम् ॥ २ ॥
सुग्रीवेण सुषेणेन तारेण कुमुदेन च ॥
अंगदेनाथ कुण्डेन वायुपुत्रेण धीमता ॥ ३ ॥
गवाक्षेण नलेनेव तथा जांबवतापि च ॥
दशभिर्वानरैः सार्धं समारूढः स पुष्पके ॥ ४ ॥
ततः संप्रस्थितः काले लंकामुद्दिश्य राघवः ॥
मनोजवेन तेनैव विमानेन सुवर्चसा ॥ ५ ॥
संप्राप्तस्तत्क्षणादेव लंकाख्यां च महापुरीम् ॥
वीक्षयंस्तान्प्रदेशांश्च यत्र युद्धं पुराऽभवत् ॥ ६ ॥
ततो विभीषणो दृष्ट्वा प्रोद्द्योतं पुष्पकोद्भवम् ॥
रामं विज्ञाय संप्राप्तं प्रहृष्टः सम्मुखो ययौ ॥
मंत्रिभिः सकलैः सार्धं तथा भृत्यैः सुतैरपि ॥ ७ ॥
अथ दृष्ट्वा सुदूरात्तं रामदेवं विभीषणः ॥
पपात दण्डवद्भूमौ जयशब्दमुदीरयन् ॥ ८ ॥
तथागतं परिष्वज्य सादरं स विभीषणम् ॥
तेनैव सहितः पश्चाल्लंकां तां प्रविवेश ह ॥ ९ ॥
विभीषणगृहं प्राप्य तत्र सिंहासने शुभे ॥
निविष्टो वानरैस्तैश्च समन्तात्परिवारितः ॥ ६.१०१.१० ॥
ततो निवेदयामास तस्मै सर्वं विभीषणः ॥
राज्यं पुत्रकलत्रादि यच्चान्यदपि किंचन ॥ ११ ॥
ततः प्रोवाच विनयात्कृतांजलिपुटः स्थितः ॥
आदेशो दीयतां देव ब्रूहि कृत्यं करोमि किम् ॥ १२ ॥
अकस्मादेव संप्राप्तः किमर्थं वद मे प्रभो ॥
किं नायातः स सौमित्रिस्त्वया सार्ध च जानकी ॥।३॥
॥ सूत उवाच ॥ ॥
निवेद्य राघवस्तस्मै सर्वं गद्गदया गिरा ॥
वाष्पपूरप्रतिच्छन्नवक्त्रो भूयो विनिःश्वसन् ॥ १४ ॥
ततः प्रोवाच सत्यार्थं विभीषणकृते हितम् ॥
तं चापि शोकसंतप्तं संबोध्य रघुनंदनः ॥ १५ ॥
अहं राज्यं परित्यज्य सांप्रतं राक्षसोत्तम ॥
यास्यामि त्रिदिवं तूर्णं लक्ष्मणो यत्र संस्थितः ॥ ॥ १६ ॥
न तेन रहितो मर्त्ये मुहूर्तमपि चोत्सहे ॥
स्थातुं राक्षसशार्दूल बांधवेन महात्मना ॥ १७ ॥
अहं शिक्षापणार्थाय तव प्राप्तो विभीषण ॥
तस्मादव्यग्रचित्तेन संशृणुष्व कुरुष्व च ॥ १८ ॥
एषा राज्योद्भवा लक्ष्मीर्मदं संजनयेन्नृणाम् ॥
मद्यवत्स्वल्पबुद्धीनां तस्मात्कार्यो न स त्वया ॥ १९ ॥
शक्राद्या अमराः सर्वे त्वया पूज्याः सदैव हि ॥
मान्याश्च येन ते राज्यं जायते शाश्वतं सदा । ६.१०१.२० ॥
मम सत्यं भवेद्वाक्य मेतस्मादहमागतः ॥
प्राप्तराज्यप्रतिष्ठोऽपि तव भ्राता महाबलः ॥ २१ ॥
विनाशं सहसा प्राप्तस्तस्मान्मान्याः सुराः सदा ॥
यदि कश्चित्समायाति मानुषोऽत्र कथंचन ॥
मत्काय एव द्रष्टव्यः सर्वैरेव निशाचरैः ॥ २२ ॥
तथा निशाचराः सर्वे त्वया वार्या विभीषण ॥
मम सेतुं समुल्लंघ्य न गंतव्यं धरातले ॥ २३ ॥
॥ विभीषण उवाच ॥ ॥
एवं विभो करिष्यामि तवादेशमसंशयम् ॥
परं त्वया परित्यक्ते मर्त्ये मे जीवितं व्रजेत् ॥ २४ ॥
तस्मान्मामपि तत्रैव त्वं विभो नेतुमर्हसि ॥
आत्मना सह यत्रास्ते प्राग्गतो लक्ष्मणस्तव ॥ २५ ॥
॥ श्रीराम उवाच ॥ ॥
मया तेऽक्षयमादिष्टं राज्यं राक्षससत्तम ॥
तस्मान्नार्हसि मां कर्तुं मिथ्याचारं कथंचन ॥ २६ ॥
अहमस्मिन्स्वके सेतौ शंकरत्रितयं शुभम् ॥
स्थापयिष्यामि कीर्त्यर्थं तत्पूज्यं भवता सदा ॥
भक्तिमान्प्रतिसंधाय यावच्चंद्रार्कतारकम् ॥ २७ ॥
एवमुक्त्वा रघुश्रेष्ठो राक्षसेन्द्रं विभीषणम् ॥
दशरात्रं तत्र तस्थौ लंकायां वानरैः सह ॥ २८ ॥
कुर्वन्युद्धकथाश्चित्रा याः कृताः पूर्वमेव हि ॥
पश्यन्युद्धस्य सर्वाणि स्थानानि विविधानि च ॥ २९ ॥
शंसमानः प्रवीरांस्तान्राक्षसान्बलवत्तरान् ॥
कुम्भकर्णेन्द्रजित्पूर्वान्संख्ये चाभिमुखागतान् ॥ ६.१०१.३० ॥
ततश्चैकादशे प्राप्ते दिवसे रघुनंदनः ॥
पुष्पकं तत्समारुह्य प्रस्थितः स्वपुरीं प्रति ॥ ३१ ॥
वानरैस्तैः समोपेतो विभीषणपुरःसरः ॥
ततः संस्थापयामास सेतुप्रांते महेश्वरम् ॥ ३२
मध्ये चैव तथादौ च श्रद्धापूतेन चेतसा ॥
रामेश्वरत्रयं राम एवं तत्र विधाय सः ॥ ३३ ॥
सेतुबंधं तथासाद्य प्रस्थितः स्वगृहं प्रति ॥
तावद्विभीषणेनोक्तः प्रणिपत्य मुहुर्मुहुः ॥ ३४ ॥
॥ विभीषण उवाच ॥ ॥
अनेन सेतुमार्गेण रामेश्वरदिदृक्षया ॥
मानवा आगमिष्यंति कौतुकाच्छ्रद्धयाविताः ॥ ३५ ॥
राक्षसानां महाराज जातिः क्रूरतमा मता ॥
दृष्ट्वा मानुषमायांतं मांसस्येच्छा प्रजायते ॥ ३६ ॥
यदा कश्चिज्जनं कश्चिद्राक्षसो भक्षयिष्यति ।
आज्ञाभंगो ध्रुवं भावी मम भक्तिरतस्य च ॥ ३७ ॥
भविष्यंति कलौ काले दरिद्रा नृपमानवाः ॥
तेऽत्र स्वर्णस्य लोभेन देवतादर्शनाय च ॥ ३८ ॥
नित्यं चैवागमिष्यन्ति त्यक्त्वा रक्षःकृतं भयम् ।
तेषां यदि वधं कश्चिद्राक्षसात्प्रापयिष्यति ॥ ३९ ॥
भविष्यति च मे दोषः प्रभुद्रोहोद्भवः प्रभो ॥
तस्मात्कंचिदुपायं त्वं चिन्तयस्व यथा मम ।
आज्ञाभंगकृतं पापं जायते न गुरो क्वचित् ॥ ६.१०१.४० ॥
तस्य तद्वचनं श्रुत्वा ततः स रघुसत्तमः ॥
बाढमित्येव चोक्त्वाथ चापं सज्जीचकार सः ॥। ॥ ४१ ॥
ततस्तं कीर्तिरूपं च मध्यदेशे रघूत्तमः॥
अच्छिनन्निशितैर्बाणैर्दशयोजनविस्तृतम्॥ ४२ ॥
तेन संस्थापितो यत्र शिखरे शंकरः स्वयम्॥।
शिखरं तत्सलिंगं च पतितं वारिधेर्जले ॥ ४३ ॥
एवं मार्गमगम्यं तं कृत्वा सेतुसमुद्भवम् ॥
वानरै राक्षसैः सार्धं ततः संप्रस्थितो गृहम् ॥ ४४ ॥।
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सेतुमध्ये श्रीरामकृतरामेश्वरप्रतिष्ठावर्णनंनामैको त्तरशततमोऽध्यायः ॥ १०१ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 102
॥ सूत उवाच ॥ ॥
संप्रस्थितस्य रामस्य स्वकीयं सदनं प्रति ॥
यदाश्चर्यमभून्मार्गे श्रूयतां द्विजसत्तमाः ॥ १ ॥
नभोमार्गेण गच्छत्तद्विमानं पुष्पकं द्विजाः ॥
अकस्मादेव सञ्जातं निश्चलं चित्रकृन्नृणाम् ॥ २ ॥
अथ तन्निश्चलं दृष्ट्वा पुष्पकं गगनांगणे ॥
रामो वायुसुतस्येदं वचनं प्राह विस्मयात् ॥ ३
त्वं गत्वा मारुते शीघ्रं भूमिं जानीहि कारणम् ॥
किमेतत्पुष्पकं व्योम्नि निश्चलत्वमुपागतम् ॥ ४ ॥
कदाचिद्धार्यते नास्य गतिः कुत्रापि केनचित् ॥
ब्रह्मदृष्टिप्रसूतस्य पुष्पकस्य महात्मनः ॥ ५ ॥
बाढमित्येव स प्रोच्य हनूमान्धरणीतलम् ॥
गत्वा शीघ्रं पुनः प्राह प्रणिपत्य रघूत्तमम् ॥ ६ ॥
अत्रास्याधः शुभं क्षेत्रं हाटकेश्वर संज्ञितम् ॥
यत्र साक्षाज्जगत्कर्ता स्वयं ब्रह्मा व्यवस्थितः ॥ ७ ॥
आदित्या वसवो रुद्रा देववैद्यौ तथाश्विनौ ॥
तत्र तिष्ठन्ति ते सर्वे तथान्ये सिद्धकिन्नराः ॥ ८ ॥
एतस्मात्कारणान्नैतदतिक्रामति पुष्पकम् ॥
तत्क्षेत्रं निश्चलीभूतं सत्यमेतन्मयोदितम् ॥ ९ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा कौतूहलसमवितः ॥
पुष्पकं प्रेरयामास तत्क्षेत्रं प्रति राघवः ॥६.१०२.॥॥
सर्वैस्तैर्वानरैः सार्धं राक्षसैश्च पृथग्विधैः ॥
अवतीर्य ततो हृष्टस्तस्मिन्क्षेत्रे समन्ततः ॥ ११ ॥
तीर्थमालोकयामास पुण्यान्यायतनानि च ॥
ततो विलोकयामास पितामहविनिर्मिताम् ॥
चामुण्डां तत्र च स्नात्वा कुण्डे कामप्रदायिनि ॥ १२ ॥
ततो विलोकयामास पित्रा तस्य विनिर्मितम्॥
रामः स्वमिव देवेशं दृष्ट्वा देवं चतुर्भुजम्॥ ॥ १३ ॥
राजवाप्यां शुचिर्भूत्वा स्नात्वा तर्प्य निजान्पितॄन् ॥
ततश्च चिन्तयामास क्षेत्रे त्र बहुपुण्यदे ॥ १४ ॥
लिंगं संस्थापयाम्येव यद्वत्तातेन केशवः ॥
तथा मे दयितो भ्राता लक्ष्मणो दिवमाश्रितः ॥ १५ ॥
यस्तस्य नामनिर्दिष्टं लिंगं संस्थापयाम्यहम् ॥
तं चापि मूर्तिमंतं च सीतया सहितं शुभम् ॥
क्षेत्रे मेध्यतमे चात्र तथात्मानं दृषन्मयम् ॥ १६ ॥
एवं स निश्चयं कृत्वा प्रासादानां च पंचकम् ॥
स्थापयामास सद्भक्त्या रामः शस्त्रभृतां वरः ॥ १७ ॥
ततस्ते वानराः सर्वे राक्षसाश्च विशेषतः ॥
लिंगानि स्थापयामासुः स्वानिस्वानि पृथक्पृथक् ॥ १८ ॥
तत्रैव सुचिरं कालं स्थितास्ते श्रद्धयाऽन्विताः ॥
ततो जग्मुरयोध्यायां विमानवरमाश्रिताः ॥ १९ ॥
एतद्वः सर्वमाख्यातं यथा रामेश्वरो महान् ॥
लक्ष्मणेश्वरसंयुक्तस्तस्मिंस्तीर्थे सुशोभने ॥ ६.१०२.२० ॥
यस्तौ प्रातः समुत्थाय सदा पश्यति मानवः ॥
स कृत्स्नं फलमाप्नोति श्रुते रामायणेऽत्र यत् ॥ २१ ॥
अथाष्टम्यां चतुर्दश्यां यो रामचरितं पठेत् ॥
तदग्रे वाजिमेधस्य स कृत्स्नं लभते फलम् ॥ २२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्रीरामचन्द्रेण हाटकेश्वरक्षेत्रे लक्ष्मणादिप्रासादपञ्चकनिर्माणप्रतिष्ठापनवर्णनंनाम द्व्युत्तरशततमोऽध्यायः ॥ १०२ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 104
॥ ऋषय ऊचुः ॥ ॥
राक्षसैस्तत्र लिंगानि यानि भक्त्या समन्वितैः ॥
स्थापितानि च माहात्म्यं तेषां सूत प्रकीर्तय ॥ १ ॥
॥ सूत उवाच ॥ ॥
तेषां पूजाकृते रौद्रा राक्षसा बलवत्तराः ॥
लंकापुर्याः समायांति सदैव शतशः पुरा ॥ २ ॥
आगच्छन्तो व्रजन्तस्ते मार्गे क्षेत्रे च तत्र च ॥
भक्षयन्ति जनौघांश्च बालवृद्धाञ्जनानपि ॥ ३ ॥
ततस्ते मानवाः सर्वे प्रद्रवंतः समंततः ॥
इतश्चेतश्च धावन्ति प्राणरक्षणतत्पराः ॥ ४ ॥
तथान्ये बहवो गत्वा ह्ययोध्याख्यां महापुरीम् ॥
रामपुत्रं नृपश्रेष्ठं कुशं प्रोचुः सुदुःखिताः ॥ ५ ॥
तव पित्रा समं प्राप्ताः पूर्वं ये राक्षसा नृप ॥
हाटकेश्वरजे क्षेत्रे विभीषणपुरःसराः ॥ ६ ॥
संस्थापितानि लिंगानि चतुर्वक्त्राणि तत्र वै ॥
राक्षसेंद्रैः स्वमन्त्रैस्तैस्तस्य क्षेत्रस्य पश्चिमे ॥ ७ ॥
तेनैव चानुषंगेण समागच्छंति नित्यशः ॥
तस्मिन्क्षेत्रे प्रकुर्वंति तथा लोकस्य भक्षणम् ॥ ८ ॥
यदि वा तानि लिंगानि कश्चित्संपूजयेन्नरः ॥
सद्यो विनाशमायाति सोऽप्यनर्थो महानभूत् ॥ ९ ॥
तस्माद्यदि न रक्षा नः करिष्यसि महीपते ॥
तच्छनैर्यास्यते लोकः सर्वोऽयं संक्षयं ध्रुवम् ॥ ६.१०४.१० ॥
तच्च क्षेत्रं विशेषेण यत्रागच्छंति ते सदा ॥
राक्षसाः क्रूरकर्माणो महामांसस्य लोलुपाः ॥ ११ ॥
तच्छ्रुत्वा स नृपस्तूर्णं स्वामात्यानां न्यवेदयत् ॥
राज्यभारं ततस्तत्र बलेन सहितो ययौ ॥ १२ ॥
अथ प्राप्तं कुशं दृष्ट्वा हतशेषा द्विजोत्तमाः ॥
प्रोचुस्तं भर्त्सयित्वा तु वचनैः परुषाक्षरैः ॥ १३ ॥
किमेवं क्रियते राज्यं यथा त्वं क्षत्रियाधमः ॥
करोषि यत्र विध्वंसं राक्षसै र्नीयते जनः । १४ ॥
नूनं जातो न रामेण भवान्रावणसंभवः ॥
येनोपेक्षसि सर्वान्नो राक्षसैः परिपीडितान् ॥ १५ ॥
सत्यमेतत्पुरा प्रोक्तं नीतिशास्त्रविचक्षणैः ॥
यस्य वर्णस्य यो राजा स वर्णः सुखमेधते ॥ १६ ॥
तस्मात्त्वं राक्षसोद्भूतो राक्षसैर्द्विजसत्तमान् ॥
उपेक्षसे ततः सर्वान्भक्ष्यमाणांस्तथापरान् ॥ १७ ॥
आर्तानां यत्र लोकानां दोषैः पार्थिवसंभवैः ॥
पतंत्यश्रूणि भूपृष्ठे तत्र राजा स दोषभाक् ॥ १८ ॥
॥ कुश उवाच ॥ ॥
प्रसादः क्रियतां विप्रा न मया ज्ञातमीदृशम् ॥
राक्षसेभ्यः समुत्पन्नो ब्राह्मणानां पराभवः ॥ १९ ॥
अद्यप्रभृति यः कश्चिद्विनाशं नीयते क्वचित् ॥
ब्राह्मणो वाऽथवाऽन्योऽपि तद्भवेन्मम पातकम् ॥ ६.१०४.२० ॥
एवमुक्त्वा ततस्तूर्णं प्रेषयामास राघवः ॥
विभीषणाय संक्रुद्धो दूतं भयविवर्जितम् ॥ २१ ॥
गच्छ दूत द्रुतं गत्वा त्वया वाच्यो विभीषणः ॥
रामोचितस्त्वया स्नेहो मया सह कृतो महान् ॥ २२ ॥
यद्राक्षसगणैः सार्धं मम भूमिं समंततः ॥
त्वं क्लेशयसि दुर्बुद्धे मां विश्वास्य सुभाषितैः ॥ २३ ॥
मम पित्रा कृतेयं ते प्रतिष्ठा राक्षसाधम ॥
तेन नो हन्मि ते भ्राता यथा तातेन शातितः ॥ २४ ॥
विषवृक्षोऽपि यो वृद्धिं स्वयमेव प्रणीयते ॥
कथं संछिद्यते सोऽत्र स्वयमेव मनीषिभिः ॥ २५ ॥
तस्मादद्य दिनादूर्ध्वं यदि कश्चिन्निशाचरः ॥
समुद्रस्योत्तरं पारं कथंचिदागमिष्यति ॥ २६ ॥
तदहं सत्वरं प्राप्य लंकां तव पुरीमिमाम् ॥
ससैन्यो ध्वंसयिष्यामि तथा सर्वान्निशाचरान् ॥ २७ ॥
त्वां च बद्ध्वा दृढैः पाशैर्निगडैश्च सुसंयतम् ॥
कारासंस्थं करिष्यामि सद्य एव न संशयः ॥ २८ ॥
एवमुक्तस्ततो दूतो गत्वा सेतुं द्रुतं ततः ॥
दृष्ट्वा रामेश्वरं देवं यावदग्रे व्यव स्थितः ॥ २९ ॥
तावत्पृष्टो जनैः कैश्चित्कस्त्वं वत्स इहागतः ॥
केन कार्येण नो ब्रूहि नात्र गच्छंति मानवाः ॥ ६.१०४.३० ॥
॥ दूत उवाच ॥ ॥
अहं कुशेन भूपेन विभीषणगृहं प्रति ॥
प्रेषितः कार्यमुद्दिश्य तत्र यास्याम्यहं कथम् ॥ ३१ ॥
॥ जना ऊचुः ॥ ॥
नातः परं नरः कश्चिद्गन्तुं शक्तः कथंचन ॥
भग्नः सेतुर्यतो मध्ये रामेणाक्लिष्टकर्मणा ॥ ३२ ॥
तस्मादत्रैव ते कार्यं सिद्धिं दूत प्रयास्यति ॥
विभीषणकृतं सर्वं दर्शनात्तस्य रक्षसः ॥ ३३ ॥
सर्वदा राक्षसेन्द्रोऽसौ शुभं रामेश्वरत्रयम् ॥
त्रिकालं पूजयत्येव नियमं समुपाश्रितः ॥ ३४ ॥
लंकाद्वारे स्थितो यो वै सेतुखण्डे महेश्वरः ॥
प्रभाते कुरुते तस्य स्वयं पूजां विभीषणः ॥ ३५ ॥
जलमध्यगतं यच्च सेतुखंडं द्वितीयकम् ॥
तत्र रामेश्वरो यश्च मध्याह्ने तं प्रपूजयेत् ॥ ३६ ॥
एनं देव निशीथे च सर्वदागत्य भक्तितः ॥
संपूजयेन्न सन्देहः सत्यमेतत्प्रकीर्तितम् ॥ ३७ ॥
तस्मात्तिष्ठ त्वमव्यग्रः स्थानेऽत्रैव समाहितः ॥
यावदागमनं तस्य राक्षसस्य महात्मनः ॥ ३८ ॥
तेनैव सहितः पश्चात्स्वेच्छया तस्य मन्दिरम् ॥
प्रयास्यसि गृहं वापि स्वकीयं तद्विसर्जितः ॥ ३९ ॥
अथ तेषां तदाकर्ण्य स दूतो हर्षसंयुतः ॥
बाढमित्येव चोक्त्वाथ तत्र चैव व्यवस्थितः ॥ ६.१०४.४० ॥
अथ प्राप्ते निशार्धे स राक्षसैः परिवारितः ॥
विभीषणः समायातस्तस्मिन्नायतने शुभे ॥ ४१ ॥
विमानवरमारूढः स्तूयमानः समन्ततः ॥
राक्षसैर्बंदिरूपैस्तैर्गीयमानस्तथा परैः ॥४२॥
उत्तीर्य च विमानाग्र्यात्कृत्वाऽथ त्रिः प्रदक्षिणाम् ॥
रामेश्वरं प्रणम्योच्चैः स्तोत्रमेतच्चकार सः ॥४३॥
नमस्ते देवदेवेश भक्तानामभयप्रद ॥
सर्वतः पाणिपादं ते सर्वतोक्षिशिरोमुखम् ॥ ४४॥
त्वं यज्ञस्त्वं वषट्कारस्त्वं चंद्रस्त्वं प्रभाकरः ॥
त्वं विष्णुस्त्वं चतुर्वक्त्रः शक्रस्त्वं परमेश्वरः ॥४५॥
यथा तिलगतं तैलं गूढं तिष्ठति सर्वदा॥
तथा त्वं सर्व लोकेषु गूढस्तिष्ठसि शंकर ॥ ४९५ ॥
यथा काष्ठगतो वह्निः संस्थितोऽपि न लक्ष्यते॥
मूढैः सर्वत्रसंस्थोपि तथा त्वं नैव लक्ष्यसे॥४७॥
यथा दधिगतं सर्पिर्निगूढत्वेन संस्थितम्॥
चराचरेषु भूतेषु तथा त्वं देव संस्थितः ॥४८॥
यथा जलं धरापृष्ठात्खनन्नाप्नोति मानवः ॥
तथा त्वां पूजयन्नित्यं मोक्षमाप्नोत्यसंशयम् ॥ ४९ ॥
तावच्च दुर्लभः स्वर्गस्तावच्छूराश्च शत्रवः ॥
यावदेव न सन्तोषं त्वं करोषि शरीरिणाम् ॥ ६.१०४.५० ॥
तावल्लक्ष्मीश्चला नॄणां तावद्रोगाः पृथग्विधाः ॥
न यावद्देवदेव त्वं सन्तोषं संप्रयास्यसि ॥ ५१ ॥
तावत्पुत्रोद्भवं दुःखं तथा प्रियसमु द्भवम्॥
यावत्त्वं देव नायासि सन्तोषं देहिनामिह । ५२ ॥
एवं स्तुत्वा ततो लिंगं स्नापयित्वा यथाविधि ॥
गन्धानुलेपनैदिव्यैर्मर्दयामास वै ततः ॥ ५३ ॥
पारिजातकपुष्पैश्च तथा सन्तानसम्भवैः ॥
कल्पपादपसंभूतैस्तथा मन्दारजैरपि ॥५४॥
पूजां चक्रे सुविस्तीर्णा श्रद्धया परया युतः ॥
दिव्यैराभरणैर्भूष्य दिव्यवस्त्रैस्ततः परम् ॥ ५५ ॥
स च गीतं स्वयं चक्रे तालमादाय पाणिना ॥
मूर्छातालकृतं रम्यं सप्तस्वरविराजितम् ॥ ५६ ॥
तानयुक्त्या समोपेतं ग्रामै रागैः स्वलंकृतम् ॥
एवं कृत्वा स शुश्रूषा तस्य देवस्य भक्तितः ॥ ५७ ॥
यावत्संप्रस्थितो भूयो लंकां प्रति विभीषणः ॥
तावद्दूतोऽग्रतः स्थित्वा कुशवाक्यमुवाच ह ॥ ५८ ॥
विशेषतस्तु तेनोक्तं यत्तस्य पुरतः पुरा ॥
अतिकोपाभिभूतेन प्ररक्तनयनेन च ॥ ५९ ॥
तच्छ्रुत्वाथ प्रणम्योच्चैर्दूतं प्राह विभीषणः ॥
कृतांजलिपुटो भूत्वा विनयावनतः स्थितः ॥६.१०४. ६० ॥
यद्येवं विहितं राज्ये रामपुत्रस्य राक्षसैः ॥
तन्नूनं तन्मया सर्वं विहितं दूतसत्तम ॥ ६१ ॥
तस्मान्महाप्रसादो मे कृतस्तेन महात्मना ॥
कुशेन प्रेषितो यस्त्वं मम मूर्खस्य संनिधौ ॥ ६२ ॥
एवमुक्त्वा स तान्सर्वाञ्छोधयामास राक्षसान् ॥
ये गत्वा भूतले मर्त्यान्ध्वंसयंति सदैव हि ॥ ६३ ॥
ततस्तत्रैव चानीय तस्य दूतस्य संनिधौ ॥
प्रत्येकं तानुवाचेदं कोपादश्रूणि चोत्सृजन्॥ ६४ ॥
यैः कृतो जनविध्वंसो राक्षसैः सुदुरात्मभिः ।।
राज्ये कुशस्य संप्राप्तैः प्रभोर्मम महात्मनः ॥ ॥ ६५ ॥
ते सर्वे व्यंतरा रौद्राः प्रभवंतु सुदुःखिताः ॥
लंकाद्वारगता नित्यं क्षुत्पिपासानिपीडिताः ॥ ६६ ॥
सर्वभोगपरित्यक्ताः शीतातपसहि ष्णवः ॥
श्लेष्ममूत्रकृताहारा निन्द्याः सर्वजनस्य च ॥ ६७ ॥
एवं दत्त्वाथ तेषां स शापं राक्षससत्तमः ॥
ततः प्राह च तं दूतं पुनरेव कृतां जलिः ॥ ६८ ॥
अद्यप्रभृति नो कश्चिद्राक्षसः संप्रयास्यति ॥
तस्माद्वाच्यो रघुश्रेष्ठो मद्वाक्यात्स कुशस्त्वया ॥
क्षम्यतामपराधो मे यदज्ञाना दयंकृतः ॥ ६९ ॥
राक्षसैर्दुष्टजातीयैर्महामांसस्यलोलुपैः ॥
कृतश्च निग्रहस्तेषां प्रत्यक्षं तव दूत यः ॥ ६.१०४.७० ॥
यदन्यदपि कृत्यं स्याद्दैवं वा मानुषं च वा ॥
मम भृत्यस्य तत्सर्वं कथनीयमशंकितम् ॥ ७१ ॥
॥ दूत उवाच ॥ ॥
यानि तत्र च लिंगानि राक्षसैर्निर्मितानि च ॥
तानि गत्वा स्वयं शीघ्रं त्वमुत्पाटय राक्षस ॥ ७२ ॥
एतदेव परं कृत्यं सर्वलोकसुखावहम् ॥
स्थापितानि च यान्येव मंत्रै राक्षससंभवैः ॥ ७३ ॥
संपूजितानि रक्षोभिश्चतुर्वक्त्राणि राक्षस॥
अजानन्मानवः कश्चिद्यदि पूजां समाचरेत् ॥७४॥
तत्क्षणान्नाशमायाति एतद्दृष्टं मया स्वयम्॥
एतस्मात्कारणाद्वच्मि त्वामहं राक्षसाधिप ॥
तैः स्थितैर्भूतले लिंगैः स्थिताः सर्वे निशाचराः ॥७५॥
॥ विभीषण उवाच ॥ ॥
मया पूर्वं प्रतिज्ञातं रामस्य पुरतः किल ॥
रामेश्वरमतिक्रम्य न गतव्यं धरातले ॥ ७६ ॥
अन्यच्च कारणं दूत प्रोक्तमत्र मनीषिभिः ॥
दुःस्थितं सुस्थितं वापि शिवलिंगं न चालयेत् ॥ ७७ ॥
तत्कथं तत्र गत्वाऽथ लिंगभेदं करोम्यहम् ॥
स्वयं माहेश्वरो भूत्वा प्रतिज्ञाय च वै स्वयम् ॥ ७८ ॥
तस्मात्प्रसादनीयस्ते मद्वाक्यात्स नराधिपः ॥
यद्युक्तं मया प्रोक्तं तत्त्वं कुरु विनिग्रहम्॥ ७९ ॥
एवमुक्त्वाथ तं दूतं रत्नैः सागरसंभवैः ॥
प्रभूतैर्भूषयित्वाऽथ विससर्ज नृपं प्रति ॥ ६.१०४.८० ॥
अथ ते राक्षसास्तेन शप्ताः प्रोचुः सुदुःखिताः ॥
कुरु शापस्य मोक्षं नः सर्वेषां राक्षसेश्वर ॥ ८१ ॥
॥ विभीषण उवाच ॥ ॥
नाहं करोमि भूयोऽपि युष्माकं राक्षसाधमाः। ॥
अनुग्रहं प्रशप्तानां वंचकानां विशेषतः ॥ ८२ ॥
तस्मात्सोऽपि रघुश्रेष्ठः प्रसादं वः करिष्यति ॥
मम वाक्याद संदिग्धं कालः कश्चित्प्रतीक्ष्यताम् ॥ ८३ ॥
एवमुक्त्वाऽथ रक्षेन्द्रः प्रेषयामास सत्वरम् ॥
दूतं कुशमहीपस्य मानुषं देवपूजकम् ॥ ८४ ॥
गत्वा ब्रूहि कुशं भूपं सत्वरं वचनान्मम ॥
एतेषां मत्प्रशप्तानां राक्षसानां दुरात्मनाम् ॥
अनुग्रहं कुरु विभो दीनानां भोजनाय वै ॥ ८५ ॥
एवमुक्तस्ततस्तेन इतो दूतेन संयुतः ॥
कुशस्तेन विनिर्यातः सत्वरं द्विजसत्तमाः ॥ ८६ ॥
ततो गत्वा द्रुतं दूतः कुशं प्रोवाच सादरम् ॥
प्रणिपत्य यथा न्यायं विनयावनतः स्थितः ॥ ८७ ॥
विभीषणो मया दृष्टो देवे रामेश्वरे विभो ॥
पूजार्थं तत्र चायातो राक्षसैर्बहुभिर्वृतः ॥ ८८ ॥
प्रोक्तो मया भवद्वाक्यमशेषं रघुनन्दन ॥
श्रुतं तेनापि तत्सर्वं विनयावनतेन च ॥ ८९ ॥
अजानतः प्रभो तस्य राक्षसैः सुदुरात्मभिः ॥
प्रजैवं पीडिता भूमौ महामांसस्य लोलुपैः ॥ ६.१०४.९० ॥
तच्छ्रुत्वा मन्मुखात्तेन सर्वेषां निग्रहः कृतः ॥
यैः कृतं कदनं भूमौ तव पार्थिव सत्तम ॥
कृतास्ते व्यन्तरा सर्वे पापाहारविहारिणः ॥ ९१ ॥
भविष्यथ तथा यूयं क्षुत्पिपासानिपीडिताः ॥
तैः सर्वैः प्रार्थितः सोऽपि भूयोभूयः प्रणम्य तम् ॥ ९२ ॥
शप्ताः सर्वे वयं तावत्प्रसादं कुरु तद्विभो ॥
ते तेनाथ ततः प्रोक्ता नाहं वो राक्षसाधमाः ॥ ९३ ॥
अनुग्रहं करिष्यामि न दास्यामि च भोजनम् ॥
कुशादेशान्मया सर्वे यूयं पापसमन्विताः ॥ ९४ ॥
निगृहीताः स युष्माकं प्रसादं प्रकरिष्यति ॥
तदर्थं प्रेषितो दूतस्त्वत्सकाशं महीपते ॥ ९५ ॥
रक्षसा तेन यद्युक्तमखिलं तत्त्वमाचर ॥
किं वा ते बहुनोक्तेन नास्ति भक्तस्तथा विधः ॥
भक्तिशक्तिसमोपेतो यथा ते स विभीषणः ॥ ९६ ॥
अद्यप्रभृति नो भूमौ विचरिष्यंति राक्षसाः ॥
तस्य वाक्यादसंदेहं त्वं राजन्सुख भाग्भव ॥ ९७ ॥
लिंगानां च कृते राजन्विज्ञप्तं तेन रक्षसा ॥
न मया चात्र राजेंद्र आगन्तव्यं कथंचन ॥
रामदेवस्य वाक्येन जंबुद्वीपे न मे गतिः ॥ ९८ ॥
अत्र स्थितस्य यत्कृत्यं दैवं वा मानुषं च वा ।
तवादेशं करिष्यामि यद्यपि स्यात्सुदुष्करम् । ९९ ॥
तस्मात्तेन महाराज रामेश्वरप्रपूजकः ॥
मनुष्यः प्रेषितो दूतो यस्तं पश्य महीपते ॥ ६.१०४.१०० ॥
अथ तस्य समादेशाड्ढौकनीयैः पृथग्विधैः ॥
सहितः स समायातो दूतो रक्षेंद्रनोदितः ॥ १०१ ॥
धात्रीफलप्रमाणानां तेन प्रस्थास्त्रयोदश ॥
मौक्तिकानां समानीताः कृते तस्य महीपतेः ॥ १०२ ॥
वैडूर्याणां मरकतानां मणीनां च द्विजोत्तमाः ॥
जात्यानां षोडश द्रोणाः समानीताः सुनिर्मलाः ॥ १०३ ॥
अग्निशौचानि वस्त्राणि तथा देवमयानि च ॥
असंख्यातानि वै हेम जात्यं संख्याविवर्जितम् ॥ १०४ ॥
तत्सर्वं दर्शयित्वाथ कुशाय सुमहात्मने ॥
कृत्वा प्रदक्षिणं पश्चात्प्रणाममकरोद्द्विजाः । ॥ १०५ ॥
एष पार्थिवशार्दूल राक्षसेन्द्रो विभीषणः ॥
प्रणामं कुरुते भक्त्या मन्मुखेनेदमब्रवीत् ॥ १०६ ॥
प्रसादात्ते पितुः क्षेमं मम राज्ये मही पते ॥
एष तिष्ठाम्यहं नित्यं पूजयंस्ते पितुर्हरम् ॥ ॥ १०७ ॥
मम राजन्नविज्ञातैर्यदि तैः सुदुरात्मभिः ॥
महीतले कृतं किंचिद्विरुद्धं क्षम्यतां मम ॥ १०८ ॥
एते ये राक्षसाः शप्तास्तवार्थाय मया प्रभो ॥
एतेषां प्रेतरूपाणां त्वमाहारं प्रकीर्तय ॥ १०९ ॥
॥ कुश उवाच ॥ ॥
ममादेशात्समागत्य तेऽत्र लिंगानि कृत्स्नशः ॥
पूरयंतु प्रयत्नेन पांसुभिः सर्वतोदिशम् ॥ ६.१०४.११० ॥
ततस्तु भोजनं तेषां यद्भविष्यति भूतले ॥
तद्वक्ष्यामि स्थिरो भूत्वा शृणु देवप्रपूजक ॥ १११ ॥
तुलागते सदादित्ये तैरागत्य धरातले ॥
विहर्तव्यं प्रयत्नेन यावद्वृश्चिकदर्शनम् ॥ ११२ ॥
तत्र यैर्न कृतं श्राद्धं प्रेतपक्षे नराधमैः ॥
कन्यास्थे वा रवौ यावन्न तुलांतगतिर्भवेत् ॥ ११३ ॥
ज्वररूपैस्तदंगस्थैर्भक्ष्यमन्नं पृथग्विधम् ॥
ममादेशादसंदिग्धं मासमेकं निशाचरैः ॥ ११४ ॥
विधिहीनं च यैर्दत्तं भुक्तं च विधिवर्जितम् ॥
श्राद्धं वा मानुषैः सेव्या ज्वररूपैश्च ते सदा ॥ ११५ ॥
एवं वाच्यास्त्वया सर्वे प्रेतास्ते मद्वचोऽखिलम् ॥
तस्मादागत्य कुर्वंतु कार्तिके मासि मद्वचः ॥ ११६ ॥
तथा दूत त्वया वाच्यो मम वाक्याद्विभीषणः ॥
प्रमादाद्यन्मया प्रोक्तं परुषं वचनं तव ॥ ११७ ॥
जानाम्यहं महाभाग न तेऽस्ति विकृतिः क्वचित् ॥
परिक्लिष्टं जनं दृष्ट्वा मयैतद्व्याहृतं वचः ॥ ११८ ॥
राक्षसेन्द्रे स्थिते भूमौ त्वयि जानाम्यहं सदा ॥
तिष्ठते जनको मह्यं रामः शस्त्रभृतां वरः ॥ ११९ ॥
एवमुक्त्वा ततो दूतं पूजया मास राघवः ॥
वस्त्रैर्बहुविधै रत्नैर्नद्युत्थैश्च पृथग्विधैः ॥ ६.१०४.१२० ॥
विभीषणकृते पश्चात्प्रेषयामास राघवः ॥
ढौकनीयान्यनेकानि यानि संति च तत्र वै ॥ १२१ ॥
॥ सूत उवाच ॥ ॥
एवं स सुखसंयुक्तान्कृत्वा सर्वान्द्विजोत्तमान् ।
एतत्सर्वं ददौ पश्चात्तेभ्यो मुक्तादिकं नृपः ॥ १२२ ॥
ढौकनीयं तथाऽऽयातं तल्लंकायाः पृथग्विधम् ॥
शासनानि तथान्यानि गजाश्वसहितानि च ॥ १२३ ॥
पत्तनानि विचित्राणि ग्रामाणि नगराणि च ॥
यच्चान्यद्वांछितं येन तद्दत्तं तेन तस्य वै ॥ १२४ ॥
ततः कुशेश्वरं देवं विधाय च लवेश्वरम् ॥
स्वां तनुं च महाभागौ भ्रातरौ तौ रघूत्तमौ ॥ १२५ ॥
निवेद्य ब्राह्मणेन्द्राणां कृत्वा वृत्तिं यथोचिताम् ॥
अयोध्यां नगरीं तूर्णं कृतकृत्यौ विनिर्गतौ ॥ १२६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कुशेश्वरलवेश्वरप्रतिष्ठावर्णनंनाम चतुरुत्तरशततमोऽध्यायः ॥ ॥ १०४ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 105
॥ सूत उवाच ॥ ॥
अथ प्राप्ते दिनाधीशे तुलायां द्विजसत्तमाः ॥
प्रेता लिंगोद्भवां भूमिं पूरयामासुरेव हि ॥ १ ॥
यत्किंचित्तत्र संस्थं तु आद्यतीर्थं सुरालयम् ॥
तत्सर्वं व्यन्तरैस्तैश्च पांसुभिः परिपूरितम् ॥ २ ॥
ततः क्षेमं समुत्पन्नं क्षेत्रे तत्र द्विजोत्तमाः ॥
अन्येषामपि लोकानां लिंगैस्तैर्लुप्तिमागतैः ॥ ३ ॥
कस्यचित्त्वथ कालस्य बृहदश्वो महीपतिः ॥
शाल्वदेशात्समायातः कस्मिश्चिद्युगपर्यये ॥ ४ ॥
स दृष्ट्वा विपुलां भूमिं प्रासादैः परिवर्जिताम् ॥
प्रासादार्थं मतिं चक्रे तत्र क्षेत्रे द्विजोत्तमाः ॥ ५ ॥
शिल्पिनश्च समाहूयानेकांस्तत्र सहस्रशः ॥
शोधयामास तां भूमिमधस्ताद्बहुविस्तृताम् ॥ ६ ॥
भूमौ निखन्यमानायां ततो लिंगानि भूरिशः ॥
चतुर्वक्त्राणि तान्येव यांति दृष्टेश्च गोचरम् ॥ ७ ॥
ततः स पार्थिवस्तैश्च लिंगैर्दृष्ट्वा वृतां भुवम् ॥
तत्क्षणान्मृत्युमापन्नः शिल्पिभिश्च समन्वितः ॥ ८ ॥
ततःप्रभृति नो तत्र कश्चिन्मर्त्यो महीतले ॥
प्रासादं कुरुते भीत्या तडागं कूपमेव च ॥ ९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये राक्षसलिंगच्छेदनंनाम पञ्चोत्तरशततमोऽध्यायः ॥ १०५ ॥ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 106
॥ ऋषय ऊचुः ॥ ॥
भूपृष्ठे पांसुभिस्तस्मिन्प्रेतैस्तैः परिपूरिते ॥
यानि तीर्थानि लुप्तानि लिङ्गानि च वदस्व नः ॥ १ ॥
॥ सूत उवाच ॥ ॥
असंख्यातानि तीर्थानि तथा लिंगानि च द्विजाः ॥
लोपं गतानि वक्ष्यामि प्राधान्येन प्रबोधत ॥ २ ॥
तत्र लोपं गतं तीर्थं चक्रतीर्थमिति स्मृतम् ॥
यत्र चक्रं पुरा न्यस्तं विष्णुना प्रभविष्णुना ॥ ॥ ३ ॥
मातृतीर्थं तथैवान्यत्सर्वकामप्रदं नृणाम् ॥
यत्र ता मातरो दिव्याः कार्तिकेयप्रतिष्ठिताः ॥ ४ ॥
मुचुकुन्दस्य राजर्षेस्तथान्यल्लिंग मुत्तमम् ॥
तत्र लोपं गतं विप्राः सगरस्य तु भूपतेः ॥ ५ ॥
इक्ष्वाकोर्वसुषेणस्य ककुत्स्थस्य महात्मनः ॥
ऐलस्य चन्द्रदेवस्य काशिराजस्य सन्मतेः ॥ ६ ॥
अग्निवेशस्य रैभ्यस्य च्यवनस्य भृगोस्तथा ॥
आश्रमो याज्ञवल्क्यस्य तत्र लोपं समाययौ ॥ ७ ॥
हारीतस्य महर्षेश्च हर्यश्वस्य महात्मनः ॥
कुत्सस्य च वसिष्ठस्य नारदस्य त्रितस्य च ॥ ८ ॥
तथैव ऋषिपत्नीनां तत्र लिंगानि भूरिशः॥
कात्यायन्याश्च शांडिल्या मैत्रेय्याश्च तथा पुरा ॥ ९ ॥
अन्यासां मुनिपत्नीनां यासां संख्या न विद्यते ॥
तत्राश्चर्यमभूदन्यत्पूर्यमाणे महीतले ॥ ६.१०६.१० ॥
पांसुभी राक्षसैर्यैस्तैः प्रेतैर्ब्राह्मणसत्तमाः ॥
तद्वोऽहं संप्रवक्ष्यामि श्रोतव्यं सुसमाहितैः ॥ १० ॥
दृष्ट्वा पांसुमयीं वृष्टिं मुक्तां प्रेतैः समंततः ॥
मातृवर्गेण तेनाथ प्रमुक्तः प्रचुरोऽनिलः ॥ ११ ॥
तेन पांसुकृता वृष्टिः समंतान्मथिता बहिः ।
तस्या भूमेः पतत्येव न किंचित्तत्र पूर्यते ॥ १३ ॥
ततस्ते व्यंतराः खिन्ना निराशास्तस्य पूरणे ॥
भूतास्तस्य पुरो गत्वा चुक्रुशुः कुशभूपतेः ॥ १४ ॥
अस्माभिर्विहिता तत्र पांसुवृष्टिर्महीपते ॥
नीयते शतधाऽन्यत्र मातृमुक्तेन वायुना ॥ १९ ॥
स त्वं तासां विघातार्थमुपायं भूप चिंतय ॥
येन तां पांसुभिर्भूमिं पूरयामः समंततः ॥ १६ ॥
तेषां तद्वचनं श्रुत्वा ततः कुशमहीपतिः ॥
रुद्रमाराधयामास तत्क्षेत्रं प्राप्य सद्द्विजाः ॥ १७ ॥
ततस्तस्य गतस्तुष्टिं वर्षांते भगवान्हरः ॥
प्रोवाच प्रार्थयाभीष्टं यत्ते मनसि वांछितम् ॥ १९८ ॥
॥ कुश उवाच ॥ ॥
यथा संपूर्यते चाशु पांसुभिर्भूमिमंडलम्॥
एतत्प्रेतप्रमुक्तैश्च प्रसादात्ते तथा कुरु ॥ १९ ॥
मया प्रेतगणादेव निर्दिष्टास्तस्य पूरणे ॥
मातृसंरक्ष्यमाणं तच्छक्यं चैतन्न पूरितुम् ॥ ६.१०६.२० ॥
तत्र राक्षसजैर्मंत्रैः संति लिंगानि च प्रभो ॥
प्रतिष्ठितानि तत्स्पर्शाद्दर्शनात्स्याज्जनक्षयः ॥ २१ ॥
अचलत्वात्तथा देव लिंगानां शास्त्रसद्भयात् ॥
अन्यदुत्पाटनाद्यं च नैव कुर्मः कथंचन ॥ २२ ॥
तस्माल्लिंगकृतो नाशो ब्राह्मणानां तपस्विनाम् ॥
यथा न स्यात्सुरश्रेष्ठ तथा नीतिर्विधीयताम् ॥ २३ ॥
ततश्च भगवान्रुद्रस्ताः समाहूय मातरः ॥
प्रोवाच त्यज्यतां स्थानं भवत्यो यत्र संस्थिताः ॥ २४ ॥
तत्र पांसुभिरव्यग्राः करिष्यंति दिवानिशम् ॥
प्रेताः कुशसमादेशाद्वृष्टिं लोकहिताय च ॥ २५ ॥
॥ मातर ऊचुः ॥ ॥
त्यक्ष्यामश्च तवादेशात्तत्स्थानं वृषभध्वज ॥
परं दर्शय चास्माकं किंचिदन्यत्तथाविधम् ॥ २६ ॥
क्षेत्रेऽत्रैव निवत्स्यामो येन स्कन्दकृते वयम् ॥
तेन संस्थापिताश्चात्र प्रोक्ताः स्थेयं सदा ततः ॥ २७ ॥
ततः प्रोवाच भगवांस्तस्मात्स्थानान्महत्तरम् ॥
स्थानं दास्यामि सर्वासां पृथक्त्वेन शुभावहम् ॥ २८ ॥
अष्टषष्टिस्तु क्षेत्राणां मदीयानां समंततः ॥
संस्थितास्ति महाभागा येषु मत्संस्थितिः सदा ॥ २९ ॥
अष्टषष्टिविभागेन भूत्वा सर्वाः पृथक्पृथक् ॥
तेषु तिष्ठथ मद्वाक्यात्पूजामग्र्यामवाप्स्यथ ॥ ६.१०६.३० ॥
तस्य देवस्य तच्छ्रुत्वा वाक्यं ता मातरस्तदा ॥
प्रहृष्टास्तत्परित्यज्य स्थानं स्कन्दविनिर्मितम् ॥ ३१ ॥
अष्टषष्टिविभागेन भूत्वा रूपैः पृथग्विधैः ॥
अष्टषष्टिषु क्षेत्रेषु तस्य ताः संस्थिताः सदा ॥ ३२ ॥
ततस्ताभिर्विनिर्मुक्तं तत्सर्वं भूमिमण्डलम् ॥
पांसुभिः पूरितं प्रेतैर्दिवारात्रमतंद्रितैः ॥ ३३ ।।
एवं तस्य वरं दत्त्वा भगवान्वृषवाहनः ॥
जगामादर्शनं पश्चात्सार्धं सवर्गैणैर्द्विजाः ॥३४॥
कुतोऽपि ब्राह्मणैः सर्वेस्तापसैश्च प्रशंसितः ॥
लब्धाशी प्रययौ तस्मादयोध्यानगरीं प्रति ॥ ३५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये लुप्ततीर्थमाहात्म्यकथनंनाम षडुत्तरशततमोऽध्यायः ॥ १०६ ॥
अवाङ्कपाठ्यांशः
खण्डः ६ (नागरखण्डः) — Adhyāya 107
ऋषय ऊचुः ॥ ॥
अष्टषष्टिरियं प्रोक्ता या त्वया सूतनन्दन ॥
क्षेत्राणां देवदेवस्य कथं सा तत्र संस्थिता ॥
एतत्सर्वं समाचक्ष्व परं कौतूहलं हि नः ॥ १ ॥
॥ सूत उवाच॥ ॥
प्रश्नभारो महानेष यो भवद्भिः प्रकीर्तितः ॥
तथापि कीर्तयिष्यामि नमस्कृत्वा पिनाकिनम् ॥ २ ॥
चमत्कारपुरेऽवासीत्पूर्वं ब्राह्मणसत्तमः ॥
वत्सस्यान्वयसंभूतश्चित्रशर्मा महायशाः ॥ ३ ॥
तस्य बुद्धिरियं जाता पाताले हाटकेश्वरम् ॥
अत्रानीय ततो भक्त्या पूजयामि दिवानिशम् ॥ ४ ॥
एवं स निश्चयं कृत्वा तपश्चके ततः परम् ॥
नियतो नियताहारः परां निष्ठां समाश्रितः ॥ ५ ॥
तस्यापि भगवाञ्छंभुः कालेन महता ततः ॥
संतुष्टो ब्राह्मण श्रेष्ठास्ततः प्रोवाच सादरम् ॥ ६ ॥
वरं प्रार्थय विप्रेन्द्र यत्ते मनसि वर्तते ॥
अपि त्रैलोक्यराज्यं ते तुष्टो दास्याम्यसंशयम् ॥ ७ ॥
तस्मात्प्रार्थय ते नित्यं यत्र चित्ते व्यवस्थितम् ॥
दुर्लभं सर्वदेवानां मनुष्याणां विशेषतः ॥ ८ ॥
॥ चित्रशर्मोवाच ॥ ॥
यदि तुष्टोसि मे देव वरं चेन्मे प्रयच्छसि ॥
तदत्रागच्छ पातालाल्लिंगरूपी सुरेश्वर ॥ ९ ॥
यत्पाताले स्थितं लिंगं ब्रह्मणा संप्रतिष्ठितम् ॥
हाटकेश्वरसंज्ञं तु तदिहायातु सत्व रम् ॥ ६.१०७.१० ॥
॥ श्रीभगवानुवाच ॥ ॥
अचलं सर्वलिंगं स्यात्सर्वत्रापि द्विजोत्तम ॥
कि पुनः प्रथमं यच्च ब्रह्मणा निर्मितं स्वयम् ॥ ११ ॥
तस्मात्थापय लिंगं तद्धाटकेन द्विजोत्तम ॥
हाटकेश्वरसंज्ञं तु लोके ख्यातं भविष्यति ॥ १२ ॥
सोमवारे चतुदश्यां शुक्लायां श्रद्धयान्वितः ॥
यस्तद्भक्तिसमायुक्तः पूजयिष्यति मानवः ॥।३॥
आद्यलिंगोद्भवं श्रेयः पूजया लप्स्यते द्विज ॥
एवमुक्त्वाऽथ भगवांस्ततश्चादर्शनं गतः ॥।४॥
चित्रशर्माऽपि कृत्वाथ प्रासादं सुमनोहरम् ॥
तत्र हेममयं लिंगं स्थापयामास भक्तितः ॥ १५॥
शास्त्रोक्तेन विधानेन पूजां चक्रे च नित्यशः ॥
ततस्त्रैलोक्य विख्यातं तल्लिंगं तत्र वै द्विजाः ॥ १६ ॥
दूरादभ्येत्य लोकाश्च पूजयंति ततः परम् ॥
अथ तत्र द्विजा येऽन्ये संस्थिता गुणवत्तराः ॥ १७ ॥
तेषां स्पर्धा ततो जाता दृष्ट्वा तस्य विचेष्टितम् ॥
एकस्थानप्रसूतानां सर्वेषां गुणशालिनाम् ॥ १८ ॥
अयं गुणविहीनोऽपि प्रख्यातो भुवनत्रये ॥
हराराधनमासाद्य यस्मात्तस्माद्वयं हरम् ॥
तदर्थे तोषयिष्यामः साम्यं येन प्रजायते ॥ १९ ॥
अष्टषष्टिः स्मृता लोके क्षेत्राणां शूलपाणिनः ॥
यत्र सान्निध्यमभ्येति त्रिकालं परमेश्वरः ॥ ६.१०७.२० ॥
अष्टषष्टिश्च गोत्राणामस्माकं चात्र संस्थिता ॥
एतेन मूढमनसा सार्धं सामान्यलक्षणा ॥ २२ ॥
तस्मादनेन चाराध्य भगवन्तं त्रिलोचनम् ॥
तच्च लिंगं समानीतमत्र पातालसंस्थितम् ॥ २२ ॥
तथा सर्वैश्च सर्वाणि क्षेत्रलिंगानि कृत्स्नशः ॥
आनेतव्यानि चाराध्य तपःशक्त्या महेश्वरम् ॥ २३ ॥
एतेषां सर्वगोत्राणामानेष्यति च शंकरः ॥
यद्गोत्रं क्षेत्रसंयुक्तं यच्चान्यद्वा भविष्यति ॥ २४ ॥
ततस्ते शर्मसंयुक्ताः सर्व एव द्विजोत्तमाः ॥
चक्रुस्तपःक्रियां सर्वे दुष्करां सर्वजन्तुभिः ॥ ॥ २५ ॥
जपैर्होमोपवासैश्च नियमैश्च पृथग्विधैः ॥
बलिपूजोपहारैश्च स्नानदानादिभिस्तथा ॥ २६ ॥
लिंगं संस्थाप्य देवस्य नाम्ना ख्यातं द्विजेश्वरम् ॥
मनोहरतरे प्रोच्चे प्रासादे पर्वतोपमे ॥ २७ ॥
त्यक्त्वा गृहक्रियाः सर्वास्तथा यज्ञसमुद्भवाः ॥
अन्याश्च लोकयात्रोत्थास्तोषयंति महेश्वरम् ॥ ॥ २८ ॥
एवमाराध्यमानोऽपि सन्तोषं परमेश्वरः ॥
नाभ्यगच्छत्परां तुष्टिं कथंचिदपि स द्विजाः ॥ २९ ॥
ततो वर्षसहस्रांते समाराध्य महेश्वरम् ॥
न च किञ्चित्फलं प्राप्ता यावत्क्रुद्धास्ततोऽखिलाः ॥६.१०७.३०॥।
अस्य मूर्खतमस्याऽपि त्वं शूलिंश्चित्रशर्मणः ॥
सुस्तोकेनाऽपि कालेन सन्तोषं परमं गतः ॥३१॥।
वयं वार्धक्यमापन्ना बाल्यात्प्रभृति शंकरम् ॥
पूजयन्तोऽपि नो दृष्टस्तथाऽपि परमेश्वर॥ ३२ ॥
तस्मात्सर्वे प्रकर्तव्यं हव्यवाहप्रवेशनम् ॥
अस्माभिर्निश्चयो ह्येष तवाग्रे सांप्रतं कृतः॥ ३३ ॥
ततश्चाहृत्य काष्ठानि सर्वे ते द्विजसत्तमाः ॥
ईश्वरं मनसि ध्यात्वा चिताश्चक्रुः पृथग्विधाः ॥३४॥
तथा सर्वं क्रियाकल्पं स्नानदानादिकं च यत् ॥
कृत्वा ते ब्राह्मणाः सर्वे सुसमिद्धहुताशनम् ॥३५॥
यावत्कृत्वा सुतैः सार्धं प्रविशंति समाहिताः ॥
तावत्स भगवांस्तुष्टस्तेषां संदर्शनं ययौ ॥ ३६ ॥
अब्रवीच्च विहस्योच्चैर्मेघगम्भीरया गिरा ॥
सर्वांस्तान्ब्राह्मणश्रेष्ठान्मृतान्संजीवयन्निव ॥ ३७ ॥
भो भो ब्राह्मणशार्दूला मा मैवं साहसं महत् ॥
यूयं कुरुत मद्वाक्यात्संतुष्टस्य विशेषतः ॥ ३८ ॥
तस्माद्वदत यच्चित्ते युष्माकं चैव संस्थितम् ॥
येन दत्त्वा प्रगच्छामि स्वमेव भुवनं पुनः ॥ ३९ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
अस्मिन्क्षेत्रे सुरश्रेष्ठ पुरस्यास्य च संनिधौ ॥
क्षेत्राणामष्टषष्टिर्या धन्या संकीर्त्यते जनैः ॥ ६.१०७.४० ॥
सदाभ्यैतु समं लिंगैस्तैराद्यैः सुरसत्तम ॥
येनामर्षप्रशांतिर्नः सर्वेषामिह जायते ॥ ४१ ॥
एष संस्पर्धतेऽस्माभिः सर्वैर्गुणविवर्जितः॥
त्वल्लिंगस्य प्रभावेन तस्मादेतत्समाचर ॥४२॥
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे विप्रो ज्ञात्वा तं वरदं हरम् ॥
उवाच स्पर्धया युक्तश्चित्रशर्मा महेश्वरम्॥४३॥
॥ चित्रशर्मोवाच ॥ ॥
एतैः प्राणपरित्यागमारभ्य तदनतरम् ॥
तुष्टिं नीतोऽसि देवश कृत्वा च सुमहत्तपः॥४४॥
मया स्पर्द्धमानैश्च केवलं गुणगर्वितैः ॥
तस्मादेषो न दातव्यत्वं त्वया किंचित्सुरेश्वर॥४६॥
यदि त्वं मामतिक्रम्य संप्रदास्यसि वांछितम् ॥
एतैः पुत्रकलत्रैश्च सार्धं प्रत्यक्षतस्तव ॥
पावकं साधयिष्यामि तस्माद्युक्तं समाचर ॥४६॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा भगवाञ्छशिशेखरः ॥
चिन्तयामास चित्तेन किमत्र सुकृतं भवेत् ॥ ४७ ॥
एते ब्राह्मणशार्दूला विनाशं यांति मत्कृते ॥
एषोऽपि सर्वसंसिद्धो गणतुल्यो द्विजोत्तमः ॥४८॥
तस्माद्द्वाभ्यां मया कार्यं क्षेत्रे सौख्यं यथा भवेत् ॥
ब्राह्मणानां विशेषेण तथा चात्र निवासिनाम् ॥४९॥
ममापि सर्वदा चित्ते कृत्यमेतद्धि वर्तते ॥
एक स्थाने करोम्येव सर्वक्षेत्राणि यानि मे ॥ ६.१०७.५० ॥
भविष्यति तथा कालो रौद्रः कलिसमुद्भवः ॥
तत्र क्षेत्राणि तीर्थानि नाशं यास्यंति भूतले ॥ ५१ ॥
सत्तीर्थैस्तद्भयात्सर्वैः क्षेत्रमेतत्समाश्रितम् ॥
आनयिष्याम्यहमपि स्वानि क्षेत्राणि कृत्स्नशः ॥५२॥
ततस्तं चित्रशर्माणं प्राह चेदं महेश्वरः ॥
शृणु मद्वचनं कृत्स्नं कुरुष्व तदनंतरम् ॥ ५३ ॥
अत्र क्षेत्राणि सर्वाणि मदीयानि द्विजोत्तम ॥
समागच्छंतु विप्राश्च प्रभवंतु प्रहर्षिताः ॥ ५४ ॥
तवापि योग्यतां श्रेष्ठां करिष्यामि महामते ॥
यदि मे वर्तसे वाक्ये मुक्त्वा स्पर्द्धां द्विजोद्भवाम् ॥ ५५ ॥
तुरीयमपि ते गोत्रं वेदोक्तेन क्रमेण च ॥
आद्यतां चापि ते सर्वे कीर्तयिष्यंति ते द्विजाः ॥ ५६ ॥
तथान्यदपि सन्मानं तव यच्छामि च द्विज ॥
आचन्द्रार्कमसंदिग्धं पुत्रपौत्रादिकं च यत् ॥ ५७ ॥
त्वदन्वये भविष्यंति पुत्रपौत्रास्तथा परे ॥
कृत्ये श्राद्धे तर्पणे वा क्रियमाणे विधानतः ॥ ५८ ॥
आद्यस्य वत्ससंज्ञस्य नाम उच्चार्य गोत्रजम् ॥
ततो नामानि चाप्येवं कीर्तयिष्यंति भक्तितः ॥ ५९ ॥
ततः संतर्पयिष्यंति पितॄनथ पितामहान् ॥
तथान्यानपि बंधूंश्च सुहृत्संबंधिबांधवान् ॥ ॥ ६.१०७.६० ॥
त्वदन्वये विना नाम्ना त्वदीयेन विमोहिताः ॥
ये पितॄंस्तर्पयिष्यंति तेषां व्यर्थं भविष्यति ॥ ६१ ॥
श्राद्धं वा यदि वा दानं तर्पणं वा त्वदुद्भवम् ॥
तस्मादहंकृतिं मुक्त्वा मामाराधय केवलम् ॥६२॥
येन सिद्धोऽपि संसिद्धिं परामाप्नोषि शाश्वतीम् ॥
एवं संबोध्य तं विप्रं कृत्वाद्यमपि पश्चिमम्॥६३॥
ततस्तान्ब्राह्मणानाह प्रासादः क्रियतामिति ॥
गोत्रंगोत्रं पुरस्कृत्य स्थाप्यं लिंगमनुत्तमम् ॥
येन संक्रमणं तेषु मम संजायतेद्विजाः ॥ ६४ ॥
अथ ते ब्राह्मणास्तत्र भूमिभागान्मनोहरान् ॥
दृष्ट्वादृष्ट्वा प्रचक्रुश्च प्रासादान्हर्षसंयुताः ॥ ६५ ॥
अष्टषष्टिमितान्दिव्यान्कैलासशिखरोपमान् ॥
तेषु संस्थापयामासु लिङ्गानि विविधानि च ॥
क्षेत्रेक्षत्रे च यन्नाम तत्तत्संज्ञां प्रचक्रिरे ॥ ६६ ॥
अथ तेषां पुनर्दृष्टिं गत्वा देवस्त्रिलोचनः ॥
प्रोवाच मधुरं वाक्यं कस्मिंश्चित्कालपर्यये ॥
आराधितस्तपःशक्त्या लिंगसंस्थापनादनु ॥ ६७ ॥
॥ श्रीभगवानुवाच ॥ ॥
परितुष्टोऽस्मि विप्रेंद्रा युष्माकमहमद्य वै ॥
एतन्मम कृतं कृत्यं भवद्भिरखिलं ततः ॥ ६८ ॥
अस्मदीयानि लिंगानि क्षेत्राणि च कलेर्भयात् ॥
ततो मान्याश्च मे यूयं नान्यैरेतद्भविष्यति ॥ ६९ ॥
तस्माच्चित्तस्थितं शीघ्रं प्रार्थयंतु द्विजोत्तमाः ॥
संप्रयच्छामि येनाशु यद्यपि स्यात्सुदुर्लभम् ॥ ६.१०७.७० ॥ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यदि देव प्रसन्नस्त्वमस्माकं च सुरेश्वर ॥
पश्चिमश्चित्रशर्मा च यथाद्यो भवता कृतः ॥ ७१ ॥
अस्मदीयं सदा नाम कीर्तनीयमसंशयम् ॥
श्राद्धकृत्येषु सर्वेषु यथा तेन समा वयम् ॥
भवामस्त्वत्प्रसादेन सांप्रतं चित्रशर्मणा ॥ ७२ ॥
॥श्रीभगवानुवाच ॥ ॥
युष्माकमपि ये केचिद्वशं यास्यंति मानवाः ॥
युवानः शास्त्रसंयुक्ता वेदविद्याविशारदाः ॥७३॥
आनयिष्यथ तान्यूयमामुष्यायणसंज्ञितान् ॥
नित्यं स्थिताश्च ते क्षेत्रे श्राद्धस्याक्षय्यकारकाः ॥ ७४ ॥
एवमुक्त्वाथ देवेशस्ततश्चादर्शनं गतः ॥
तेऽपि विप्राः सुसंतुष्टास्तत्र स्थाने व्यवस्थिताः ॥ ७५ ॥
एवं तत्र समस्तानि क्षेत्राण्यायतनानि च ॥
कलिभीतानि विप्रेंद्रा निवसंति सदैव हि ॥ ७६ ॥
एवं ते ब्राह्मणाः प्राप्य सिद्धिं चेश्वरपूजनात् ॥
ख्याताः सर्वत्र भुवने श्राद्धस्याक्षय्यकारकाः ॥ ७७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये ब्राह्मणचित्रशर्मलिंगस्थापनवृत्तांतवर्णनंनाम सप्तोत्तरशततमोऽध्यायः ॥ १०७ ॥ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 108
॥ ऋषय ऊचुः ॥ ॥
अष्टषष्टिप्रमाणानि यानि क्षेत्राणि सूतज ॥
त्वयोक्तानि च तान्येव नामतो नः प्रकीर्तय ॥ १ ॥
तथान्यानि च तीर्थानि यानि संति धरातले ॥
तानि कीर्तय कार्त्स्न्येन परं कौतूहलं हि नः ॥ २ ॥
॥ सूत उवाच ॥ ॥
यानि प्रोक्तानि तीर्थानि भवद्भिर्द्विजसत्तमाः ॥
अष्टषष्टिप्रमाणानि तथा क्षेत्राणि भूतले ॥३॥
तानि सर्वाणि भीतानि प्रविष्टानि रसातलम् ॥
तीर्थानि मुनिशार्दूलाः पापे ह्यत्र कलौ युगे ॥४॥
एतदेव पुरा पृष्टः पार्वत्या परमेश्वरः ॥
यद्भवद्भिरहं पृष्टस्तीर्थयात्राकृते द्विजाः ॥ ५ ॥
कैलासशिखरासीनः पुरा देवो महेश्वरः ॥
सर्वैर्गणगणैः सार्धमुपविष्टो वरासने ॥ ६ ॥
प्रणाम करणार्थाय ह्यागतेष्वमरेषु च ॥
गतेषु तेषु विप्रेंद्रा सर्वेषु त्रिदिवालयम् ॥
अर्धासनगता देवी वाक्यमेतदुवाच ह ॥ ७ ॥
॥ देव्युवाच ॥ ॥
देवदेव महादेव गंगाक्षालितशेखर ॥
वद मे तीर्थमाहात्म्यं यद्यहं वल्लभा तव । ८ ॥
तिस्रः कोट्योऽर्धकोटी च तीर्थानामिह भूतले ॥
संख्यया नामतो देव मह्यं कीर्तय सांप्रतम् । ९ ॥
यानि तीर्थान्यनेकानि क्षेत्राणि चैव मे प्रभो ॥
तानि कीर्तय देवेश सुगम्यं चैव देहिनाम् ॥
कीर्तनाच्च समग्राणां तीर्थानां लभ्यते फलम् ॥ ६.१०८.१० ॥
॥ ईश्वर उवाच ॥ ॥
तीर्थशब्दो वरारोहे धर्मकृत्येषु वर्तते ॥
धर्मस्थानेषु सर्वेषु तत्त्वं शृणु समाहिता ॥ ११ ॥
माता तीर्थं पिता तीर्थं तीर्थ साधुसमागमः ॥
धर्मानुचिंतनं चैव तथैव नियमो यमः ॥ १२ ॥
पुण्याः कथा वरारोहे देवर्षीणां कृतास्तथा ॥
आश्रयाः सन्मुनींद्राणां देवानां च तथा प्रिये ॥ १३ ॥
भूमिभागाः पवित्राः स्युः कीर्त्यते तीर्थमित्युत ॥
तेषां संदर्शनादेव स्मरणाच्चावगाहनात् ॥
मुच्यंते जन्तवः पापैरपि जन्मशतोद्भवैः ॥ १४ ॥
तथा पातकिनो ये च ये च विश्वासघातकाः ॥
तेऽपि सर्वे तथा मुक्तास्तेषां चैवावगाहनात्॥ १५ ॥
एवं पापानि संयांति नाशं सर्वांगसुन्दरि ॥
अपि ब्रह्मवधात्पापं यद्भवेदिह देहिनाम् ॥
तच्चापि तीर्थसंसर्गात्प्रलयं यात्यसंशयम् ॥ १६ ॥
ममापि करसंलग्नं कपालं ब्रह्मणः पुरा ॥
पतितं तीर्थसंसर्गात्तेषां चैवावगाहनात् ॥ १७ ॥
एवं सर्वेषु तीर्थेषु तथा ह्यायतनेषु च ॥
स्नातव्यं भक्तियुक्तेन चेतसा नान्यगामिना ॥ १८ ॥
यत्र स्नातैर्नरैः सम्यक्सर्वेषां लभ्यते फलम् ॥
ममाश्रयं विशालाक्षि सर्वपातकनाशनम्॥
कामदं च तथा नॄणां नारीणां च विशेषतः ॥ १९ ॥
एतद्गुह्यतमं देवि मम नित्यव्यवस्थितम् ॥
न कस्याऽपि मयाख्यातं देवेंद्रस्यापि पृच्छतः ॥ ६.१०८.२० ॥
वाल्लभ्यात्तव मे भद्रे कथितं वै वरानने ॥
अष्टषष्टिः प्रगम्यानि भक्त्या तीर्थानि मानवैः ॥ २१ ॥
ममाश्रयाणि तान्येव सर्वपापहराणि च ॥
कामदानि वरारोहे मत्प्रभावादसंशयम् ॥ २२ ॥
यं यं कामं समाधाय तत्र तीर्थे पुमान्यदि ॥
कृत्वा स्नानं ततो देवमर्चयेच्च महेश्वरम् ॥ २३ ॥
सुकृतं मनसि ध्यात्वा यैर्नरैः पूजितो हरिः ॥
आस्तां तेषां वरारोहे दर्शनं स्पर्शनं तथा ॥
स्मरणादपि मुच्यंते नराः पापैः पुराकृतैः ॥ २४ ॥
एते शक्रादयो देवास्तेषु तीर्थेषु सुन्दरि ॥
मां पूज्य त्रिदिवं प्राप्तास्तथान्ये नारदादयः ॥ २५ ॥
तान्यहं ते प्रवक्ष्यामि विस्तरेण पृथक्पृथक् ॥
नामतः शृणु देवेशि समाहितमनाः स्थिता ॥ २६ ॥
वाराणसी प्रयागं च नैमिषं चापरं तथा ॥
गयाशिरः सुपुण्यं च पवित्रं कुरुजांगलम् ॥ २७ ॥
प्रभासं पुष्करं चैव विश्वेश्वरमथापरम ॥
अट्टहासं महेन्द्रं च तथैवोज्जयनी च या ॥ २८ ॥
मरुकोटिः शंकुकर्णं गोकर्णं क्षेत्रमुत्तमम् ॥
रुद्रकोटिः स्थलेशं च हर्षितं वृषभध्वजम् ॥ २९ ॥
केदारं च तथा क्षेत्रं क्षेत्रं मध्यमकेश्वरम् ॥
सहस्राक्षं तथा क्षेत्रं तथान्यत्कार्तिकेश्वरम् ॥ ६.१०८.३० ॥
तथैव वस्त्रमार्गं च तथा कनखलं स्मृतम् ॥
भद्रकर्णं च विख्यातं दण्डकाख्यं तथैव च ॥ ३१ ॥
त्रिदण्डाख्यं तथा क्षेत्रं तथैव कृमिजांगलम् ॥
एकाम्रं च तथा क्षेत्रं क्षेत्रं छागलकं तथा ॥ ३२ ॥
कालिंजरं च देवेशि तथान्यन्मण्डलेश्वरम् ॥
काश्मीरं मरुकेशं च हरिश्चंद्रं सुशोभनम्॥ ३३ ॥
पुरश्चंद्रं च वामेशं कुकुटेश्वरमेव च ॥
भस्मगात्रमथोकारं त्रिसंध्या विरजा तथा ॥ ३४ ॥।
अर्केश्वरं च नेपालं दुष्कर्णं करवीरकम् ॥
जागेश्वरं तथा देवि श्रीशैलं पर्वतोत्तमम् ॥ ३५ ॥
अयोध्या चैव पातालं तथा कारोहणं महत् ॥
देविका च नदी पुण्या भैरवं पूर्वसागरः ॥ ३६ ॥
सप्तगोदावरीतीर्थं तथैव समुदाहृतम् ॥
निर्मलेशं तथान्यच्च कर्णिकारं सुशोभनम् ॥ ३७ ॥
कैलासं जाह्नवीतीरं जललिंगं च वाडवम्॥
बदरीतीर्थवर्यं च कोटितीर्थं तथैव च ॥ ३८ ॥
विंध्याचलो हेमकूटं गन्धमादनमेव च ॥
लिंगेश्वरं तथा क्षेत्रं लंकाद्वारं तथैव च ॥ ३९ ॥
नलेश्वरं तु मध्येशं केदारं रुद्रजालकम् ॥
सुवर्णाख्यं च वामोरु तथान्यत्षष्टिकापथम् ॥ ६.१०८.४० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेशवरक्षेत्रमाहात्म्ये ऽष्टषष्टितीर्थवर्णनंनामाष्टोत्तरशततमोऽध्यायः ॥ ॥ १०८ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 109
॥ ईश्वर उवाच ॥ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि वरानने ॥
सर्वेषामेव तीर्थानां सारं तीर्थसमुच्चयम् ॥ १ ॥
एतेष्वहं वरारोहे सर्वेष्वेव व्यवस्थितः ॥
नाम्ना चान्येषु तीर्थेषु त्रिदशानां हितार्थतः ॥ २ ॥
यो मामेतेषु तीर्थेषु स्नात्वा पश्यति मानवः ॥
कीर्तयेत्कीर्तनान्नाम्ना स नूनं मोक्षमाप्नुयात् ॥ ३ ॥
॥ श्रीदेव्युवाच ॥ ॥
येषु तीर्थेषु यन्नाम कीर्तनीयं तव प्रभो ॥
तत्कार्त्स्येन मम ब्रूहि यच्चहं तव वल्लभा ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
वाराणस्यां महादेवं प्रयागे च महेश्वरम् ॥
नैमिषे देवदेवं च गयायां प्रपितामहम् ॥ ५ ॥
कुरुक्षेत्रे विदुः स्थाणुं प्रभासे शशिशेखरम् ॥
पुष्करे तु ह्यजागन्धिं विश्वं विश्वेश्वरे तथा ॥ ६ ॥
अट्टहासे महानादं महेन्द्रे च महाव्रतम् ( १०) ॥
उज्जयिन्यां महाकालं मरुकोटे महोत्कटम् ॥७॥
शंकुकर्णे महातेजं गोकर्णे च महाबलम् ॥
रुद्रकोट्यां महायोगं महालिंगं स्थलेश्वरे ॥८॥
हर्षिते च तथा हर्षं वृषभं वृषभध्वजे ॥
केदारे चैव ईशानं शर्वं मध्यमकेश्वरे ( २० )।ं।९ ॥
सुपर्णाक्षं सहस्राक्षे सुसूक्ष्मं कार्तिकेश्वरे ॥
भवं वस्त्रापथे देवि ह्युग्रं कनखले तथा ॥ ६.१०९.१० ॥
भद्रकर्णे शिवं चैव दण्डके दण्डिनं तथा ॥
ऊर्ध्वरेतं त्रिदण्डायां चण्डीशं कृमिजांगले ॥ ११ ॥
कृत्तिवासं तथैकाम्रे छागलेये कपर्दिनम् ०३०) ॥
कालिञ्जरे नीलकण्ठं श्रीकण्ठं मण्डलेश्वरे ॥ १२ ॥
विजयं चैव काश्मीरे जयन्तं मरुकेश्वरे ॥
हरिश्चन्द्रे हरं चैव पुरश्चन्द्रे च शंकरम्॥ १३ ॥
जटिं वामेश्वरे विन्द्यात्सौम्यं वै कुक्कुटेश्वरे ॥
भूतेश्वरं भस्मगात्रे ओंकारेऽमरकण्टकम् ( ४०) ॥ १४ ॥
त्र्यंबकं च त्रिसंध्यायां विरजायां त्रिलोचनम् ॥
दीप्तमर्केश्वरे ज्ञेयं नेपाले पशुपालकम् ॥ १५ ॥
यमलिंगं च दुष्कर्णे कपाली करवीरके ॥
जागेश्वरे त्रिशूली च श्रीशैले त्रिपुरांतकम् ॥ १६ ॥
रोहणं तु अयोध्यायां पाताले हाटकेश्वरम् ( ५०) ॥
कारोहणे नकुलीशं देविकायामुमापतिम्॥ १७ ॥
भैरवे भैरवाकारममरं पूर्वसागरे ॥
सप्तगोदावरे भीमं स्वयंभूर्निर्मलेश्वरे ॥ १८ ॥
कर्णिकारे गणाध्यक्षं कैलासे तु गणाधिपम् ॥
गंगाद्वारे हिमस्थानं जल लिंगे जलप्रियम्( ६०) ॥ १९ ॥
अनलं वाडवेऽग्नौ च भीमं बदरिकाश्रमे ॥
श्रेष्ठे कोटीश्वरं चैव वाराहं विन्ध्यपर्वते ॥ ६.१०९.२० ॥
हेमकूटे विरूपाक्षं भूर्भुवं गन्धमादने ॥
लिंगेश्वरे च वरदं लंकायां च नरांतकम् (६८) ॥ २१ ॥
अष्टषष्टिरियं देवि तवाख्याता विशेषतः ॥
पठतां शृण्वतां वापि सर्वपातकनाशिनी ॥ २२ ॥
तस्मात्सर्वप्रयत्नेन कीर्तनीया विचक्षणैः ॥
कालत्रयेऽपि शुचिभिर्विशेषाच्छिवदीक्षितैः ॥ २३ ॥
लिखितापि वरारोहे यस्यैषा तिष्ठते गृहे ॥
न तत्र जायते दोषो भूतप्रेतसमुद्भवः ॥ २४ ॥
न व्याधेर्न च सर्पाणां न चौराणां वरानने ॥
नान्येषां भूभुजादीनां कदाचिदपि कुत्रचित् ॥ २५ ॥
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्येऽष्टषष्टितीर्थमाहात्म्य कथनंनाम नवोत्तरशततमोध्यायः ॥ १०९ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 110
॥ श्रीदेव्युवाच ॥ ॥
नैतेष्वपि सुरश्रेष्ठ सर्वेषु भुवि मानवाः ॥
अपि दीर्घायुषो भूत्वा स्नातुं शक्ताः कथंचन ॥ १ ॥
एतेषामपि साराणि मम तीर्थानि कीर्तय ॥
येषु स्नातो नरः सम्यक्सर्वेषां लभते फलम् ॥ २ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
एतेषां मध्यतो देवि तीर्थाष्टकमनुत्तमम् ॥
अस्ति स्नातैर्नरैस्तत्र सर्वेषां लभ्यते फलम् ॥ ३ ॥
नैमिषं चैव केदारं पुष्करं कृमिजांगलम् ॥
वाराणसी कुरुक्षेत्रं प्रभासं हाटकेश्वरम् ॥ ४ ॥
अष्टास्वेतेषु यः स्नातः सम्यक्छ्रद्धासमन्वितः ॥
स स्नातः सर्वतीर्थेषु सत्यमेतन्मयोदितम् ॥ ५ ॥
॥ श्रीदेव्युवाच ॥ ॥
कलिकाले महादेव भविष्यति कथंचन ॥
स्नानं तस्मान्मम ब्रूहि यत्सारं तीर्थमेव हि ॥ ६ ॥
अष्टानामपि चैतेषां देवदेव त्रिलोचन ॥
यद्यहं वल्लभा भक्ता तथा चित्तानुवर्तिनी ॥ ७ ॥
॥ ईश्वर उवाच ॥ ॥
अष्टानामपि देवेशि क्षेत्राणामस्ति चोत्तमम् ॥
एतेषामपि तत्क्षेत्रं हाटकेश्वरसंज्ञितम् ॥ ८ ॥
यत्र सर्वाणि क्षेत्राणि संस्थितानि ममाज्ञया ॥
तथान्यानि च तीर्थानि कलिकालेऽपि संस्थिते ॥ ९ ॥
तस्मात्सर्वप्रयत्नेन तत्क्षेत्रं सेव्यमेव हि ॥
मानुषैर्मोक्षमिच्छद्भिः सत्यमेतन्म योदितम् ॥ ६.११०.१० ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातमष्टषष्टिसमुद्भवम् ॥
समुच्चयं द्विजश्रेष्ठा नामदेवसमन्वितम् ॥ ११ ॥
यथा देवेन चाख्यातं पार्वत्या गुह्यमुत्तमम् ॥
प्रसन्नेन मया कृत्स्नं युष्माकं समुदाहृतम् ॥।२॥
यश्चैतत्पठते भक्त्या ह्यष्टषष्टिसमुद्भवम् ॥
स्नानजं लभते पुण्यं शृण्वानः श्रद्धयान्वितः ॥ १३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्य ऽष्टषष्टितीर्थमाहात्म्यवर्णनंनाम दशोत्तरशततमोऽध्यायः ॥ ११० ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 111
॥ ऋषय ऊचुः ॥ ॥
शिवक्षेत्राणि यैर्विप्रैः समानीतानि तत्र च ॥
तेषां सर्वाणि गोत्राणि वद सूतज विस्तरात् ॥ १ ॥
कस्य गोत्रोद्भवैर्विप्रैः किं क्षेत्रं समुपार्जितम् ॥
शंकरस्य प्रसादेन तस्मिन्काल उपस्थिते ॥२॥
कियत्यपि च गोत्राणि चमत्कारपुरोत्तमे ॥
स्थापितानि सुभक्तेन तेनानर्तेन सूतज ॥ ३॥
त्वया प्रोक्तं पुरा दत्तं पुरं कृत्वा द्विजन्मनाम् ॥
न च तेषां कृता संख्या तस्मात्तां परिकीर्तय ॥ ४ ॥
॥ सूत उवाच ॥ ॥
उपदेशः पुरा दत्तो द्विसप्ततिमुनीश्वरैः ॥
आनर्ताधिपतिः पूर्वं कुष्ठरोग प्रपीडितः ॥
शंखतीर्थं समागत्य स्नानं चक्रे त्वरान्वितः ॥ ५ ॥
तेन नाशं गतः कुष्ठो भूपतेस्तस्य तत्क्षणात् ॥
तस्य तीर्थस्य माहात्म्यान्निर्वि ण्णस्य तनुं प्रति ॥ ६ ॥
ततः स नीरुजो भूत्वा तोषेण महतान्वितः ॥
तानुवाच मुनिश्रेष्ठान् प्रणिपत्य मुहुर्मुहुः ॥ ७ ॥
सुवर्णं वा गजाश्वं वा राज्यं सकलमेव वा ॥
भवद्भ्यः संप्रदास्यामि तस्मादब्रूत द्विजोत्तमाः ॥ ८ ॥
यद्यस्य रोचते यावन्मात्रमन्यदपि द्विजाः ॥
प्रसादः क्रियतां मह्यं दीनस्य प्रणतस्य च ॥ ९ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
निष्परिग्रहधर्माणो वानप्रस्था वयं द्विजाः ॥
सद्यःप्रक्षालकाः किं नो राज्येन विभवेन च ॥ 6.111.१० ॥ ॥
॥ राजोवाच । ॥
उपकारं समासाद्य यः करोति न पापकृत् ॥
उपकारं पुनस्तस्य स कृतघ्न उदाहृतः ॥ ११ ॥
ब्रह्मघ्नं च सुरापे च चौरे भग्नव ते शठे ॥
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ १२ ॥
तस्मात्कृत्वा प्रसादं मे किंचिद्ब्रूत् द्विजोत्तमाः॥
येनानृण्यं प्रगच्छामि यद्यपि स्यात्सुजीवितम् ॥।३॥
॥ मुनय ऊचुः ॥ ॥
सत्यमेतन्महाभाग कृतघ्ने नास्ति निष्कृतिः॥
परं तत्र भवेद्दोषो यत्र दाता तु सस्पृहः॥।४॥
निःस्पृहो यत्र राजेन्द्र ह्युपकारपरो भवेत्॥
न तत्र जायते दोषः स्वल्पोऽपि च कथंचन ॥।५॥
तस्मात्त्वं गच्छ राज्यं स्वं स्वधर्मेण प्रपालय ॥
इह लोके परे चैव येन सौख्यं प्रजायते ॥ १६ ॥
एवं स भूमिपो विप्रैर्निषिद्धः स सहस्रधा ॥
कृच्छ्रेण तान्प्रणम्योच्चैर्जगाम स्वगृहं ततः ॥।७॥
तत्र गत्वा प्रहृष्टा त्माकृत्वा रम्यं महेश्वरम् ॥
गीतनृत्यसवाद्यैश्च रात्रिजागरणादिभिः ॥
चकार पूर्ववद्राज्यं समंताद्धतकंटकम् ॥ १८ ॥
चिंतयानो दिवानक्तं ब्राह्मणान्प्रति तत्सदा ॥
कथं तेषां द्विजेंद्राणामुपकारो भविष्यति ॥
मदीयो मम यैर्दत्तं गात्रमेतत्पुनर्नवम् ॥ १९ ॥
तेऽपि सर्वे मुनिश्रेष्ठाः खेचरत्व समन्विताः ॥
तपःशक्त्या यांति नानातीर्थेषु भक्तितः ॥ 6.111.२० ॥
तेषु स्नानं जपं कृत्वा तथैव पितृतर्पणम् ॥
प्राणयात्रां पुनश्चक्रुस्तत्रागत्य स्व आश्रमे ॥ २१ ॥
अन्ये तत्रैव कुर्वंति नित्यकृत्यानि ये द्विजाः ॥
तथान्ये दूरमासाद्य तीर्थं दृष्ट्वा मनोहरम् ॥ २२ ॥
उषित्वा रजनीं तत्र द्विरात्रं वा पुनर्गृहम्॥
समागच्छंति चान्ये तु त्रिरात्रेण समाययुः ॥ २३ ॥
वाराणस्यां प्रयागे वा पुष्करे वाथ नैमिषे ॥
प्रभासे वाऽथ केदारे ह्यन्यस्मिन्नहि वांछ्यते ॥ २४ ॥
कदाचिदथ ते सर्वे कार्तिक्यां पुष्करत्रये ॥
गता विनिश्चयं कृत्वा स्नानार्थं द्विजसत्तमाः ॥ २५ ॥
पंचरात्रं वसिष्यामो वयं तत्र समाहिताः ॥
तस्माद्वह्निषु दारेषु रक्षा कार्या स्वशक्तितः ॥ २६ ॥
एवं ते समयं कृत्वा गता यावद्द्विजोत्तमाः॥
तावद्ध पतिना ज्ञाता न कश्चित्तत्र तिष्ठति । २७ ॥
तेषां मध्ये मुनींद्राणां सुतीर्थाश्रमवासिनाम् ॥
दमयंतीति विख्याता चंद्रबिंबसमानना ॥ २८ ॥।
तामुवाच रहस्येवं व्रज त्वं चारुहासिनि।
हाटकेश्वरजे क्षेत्रे ममादेशोऽधुना ध्रुवम् ॥ २९ ॥
तत्र तिष्ठंति याः पत्न्यो मुनीनां भावितात्मनाम् ॥।
भूषणानि विचित्राणि तासां यच्छ यथेच्छया ॥ 6.111.३० ॥
न तासां पतयोऽस्माकं प्रकुर्वंति प्रतिग्रहम् ॥
कथंचिदपि सुश्रोणि लोभ्यमानापि भूरिशः ॥ ३१ ॥
स्त्रीणां भूषणजा चिन्ता सदा चैवाधिका भवेत् ॥
लौल्यं च कौतुकं चैव सदा भूषणजं भवेत् ॥ ३२ ॥
अपि मृन्मयकं किंचित्काष्ठसूत्रमयं च वा ॥
जतुकाचमयं वापि नारी धत्ते विभूषणम् ॥ ३३ ॥
एष एव भवेत्तेषामुपकारस्यसंभवः ॥
उपायः पद्मपत्राक्षि न चान्योऽस्ति कथंचन ॥ ३४ ॥
सा तथेति प्रतिज्ञाय विचित्राभरणानि च ॥
गृहीत्वा हर्षसंयुका ततस्तत्क्षेत्रमाययौ ॥३५॥
मणिमुक्तामयान्येव कुण्डलानि शुभानि च ॥
तथा चन्द्रोज्ज्वलाहारान्नूपुराणि बृहंति च ॥ ३६ ॥
इन्द्रनीलमहानीलवैडूर्यखचितानि च ।
पद्मरागैस्तथा वज्रैर्माणिक्यैश्च मनोरमैः॥३७॥
केशैः कंकणैर्दिव्यैः शक्रचापनिभैः शुभैः ॥
हेमसूत्रैश्च जात्यैश्च मेखलाभिस्तथैव च ॥ ३८ ॥
अथ सा बोधने विष्णोः संप्राप्ते दिवसे शुभे ।
उपवासपरा स्नाता एकस्मिन्सलिलाशये ॥ ३९ ॥
तीरदेशे निवेश्यैव महाभूषणपर्वतम् ॥
यस्य प्रभाभिरुग्राभिर्व्याप्तं गगनमंडलम् ॥ 6.111.४० ॥
एतस्मिन्नंतरे प्राप्तास्तापस्यः कौतुकान्विताः ॥
कीदृशा राजपत्नी सा किंरूपा किंविभूषणा ॥ ४१ ॥
अथ तास्तां समालोक्य दिव्यभूषणभूषिताम्॥
सुरूपांगीं समाधिस्थां चित्ते चिन्तां प्रचक्रिरे ॥ ४२ ॥
धन्येयं भूपतेर्भार्या यैवं भूषणभूषिता ॥
दमयंती सुरूपाढ्या सर्वलक्षणलक्षिता ॥ ४३ ॥
समाध्यंतं समासाद्य तापसीर्वीक्ष्य साऽपि च ॥
दमयंती नमश्चक्रे ताः सर्वा विधिपूर्वकम् ॥ ४४ ॥
ताः कृतांजलिना प्राह वल्गुवाक्यं मनोहरम् ॥
मयायं भूषणस्तोम उद्दिश्य गरुडध्वजम्॥
कल्पितोऽद्य दिने स्नात्वा समुपोष्य दिने हरेः ॥ ४५ ॥
तस्माद्गृह्णंतु तापस्यो मया दत्तानि वांछया ॥।
भूषणानि विचित्राणि प्रसादः क्रियतां मम ॥ ४६ ॥
ततश्चैकाऽब्रवीत्तासामेषा मुक्तावली मम ॥
इमां देहि न मे वांछा विद्यतेऽन्या नृपप्रिये॥४७॥
ततस्तया विहस्योच्चैः प्रक्षाल्य चरणौ स्वयम्॥
दत्ता मुक्तावली तस्या वस्त्रैर्दिव्यैः समन्विता ॥
यस्याः षण्माषतुल्यानि मौक्तिकान्यमलानि च ॥ ४८ ॥
शरत्काले यथा व्योम्नि नक्षत्राणि द्विजोत्तमाः॥
तथान्या स्पर्द्धया युक्ता ययाचेऽमलवर्चसम्॥
हारं निर्मूल्यतायुक्तं चित्ताह्लादकरं परम् ॥ ॥ ४९ ॥
अथ सा तं करे कृत्वा तस्या हारं प्रयच्छति ॥
तावदन्या प्रजग्राह हारं शृंगारलालसा ॥ 6.111.५० ॥
ततः शेषाश्च तापस्यो भूषणार्थं समुत्सुकाः ॥
सस्पर्द्धा जगृहुस्तानि भूषणानि स्वयं द्विजाः ॥ ५१ ॥
अन्याश्चान्याकरे कृत्वा भूषणं सुमनोहरम् ॥
बलादाकृष्य जग्राह धर्षयित्वा ततः परम्॥ ५२ ॥
यथायथा प्रगृह्णंति तापस्यो भूषणार्चिताः ॥
तथातथास्याः संजज्ञे दमयंत्या मुदा हृदि ॥ ५३ ॥
अन्यानि च प्रचिक्षेप शतशोऽथ सहस्रशः ॥
न तृप्तिर्जायते तासां तथापि द्विजसत्तमाः ॥५४॥
भूषणाभावमासाद्य ततः सा पार्थिवप्रिया ॥
हृष्टा प्रोवाच ताः सर्वाः संतोषः क्रियतामिति॥५५॥
पुनश्चैवानयिष्यामि प्रभाते नात्र संशयः॥
अन्यानि च विचित्राणि यस्या रोचंति यानि च॥५६॥
ततस्ताः सकलाः प्रोचुर्गच्छ त्वं पार्थिवप्रिये॥
आगंतव्यं च भूयोऽपि प्रगृह्याभरणानि च ॥ ५७ ॥
एवमुक्ता ततस्ताभिः प्रणिपत्य नृपप्रिया ॥
प्रहृष्टा प्रययौ तूर्णं स्वपुरं प्रति सद्द्विजाः ॥ ५८ ॥
तापस्योपि गृहं गत्वा वस्त्राणि विविधानि च ॥
भूषणानि च गात्रेषु सस्पर्द्धा निदधुस्तदा ॥ ५९ ॥
तापसीनां चतुष्कं च परित्यज्य यतव्रतम् ॥
शेषाभिः प्रगृहीतानि मण्डनानि यथेच्छया ॥ 6.111.६० ॥
ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥
भूयोपि राजपत्नी सा भूषणान्यंबराणि च ॥ ॥ ६१ ॥
तथैव प्रददौ तासां जगृहुश्च तथैव ताः ॥
एवं तस्याः प्रयच्छंत्या अहन्यहनि भक्तितः ॥ ६२ ॥
पंचरात्रमतिक्रांतं तृप्तास्तास्तापसप्रियाः ॥
न राज्ञी तृप्तिमायाति प्रयच्छंती प्रभक्तितः ॥ ६३ ॥
ततः शुश्राव तापस्यश्चतस्रोऽत्र सुनिःस्पृहाः ॥
वल्कलाजिनधारिण्यो न तस्याः पार्श्वमागताः ॥
न चान्या भूषिता दृष्ट्वा चक्रुरीर्ष्यां कथंचन ॥ ६४ ॥
अथ सा त्वरितं गत्वा तासां पार्श्वमनिंदिता ॥
भूषणानि महार्हाणि गृहीत्वा पंचमीदिने ॥ ६५ ॥
ततः प्रोवाच ताः सर्वाः प्रसादः क्रियतामिति ॥
इमानि भूषणार्थाय भूषणानि प्रगृह्यताम् ॥ ६६ ॥
॥ तापस्य ऊचुः॥(। २॥
नास्माकं भूषणैः कार्यं भूषिता वल्कलैर्वयम् ॥
तस्माद्गच्छ निजं हर्म्यमर्थिभ्यः संप्रदीयताम् ॥ ६७ ॥
वदन्तीनां तया सार्धमेवं तासां द्विजोत्तमाः।
चत्वारः पतयः प्राप्ता एकैकस्याः पृथक्पृथक् ॥६८॥
शुनःशेपोऽथ शाक्रेयो बौद्धो दान्तश्चतुर्थकः।
वियन्मार्गं हि चत्वारः स्वाश्रममाययुः ॥ ६९ ॥
शेषाः सर्वे गतिभ्रंशं प्राप्य भूमार्गमाश्रिताः ॥
अथ ते स्वाश्रमं दृष्ट्वा विकृताकारभूषणम् ॥
किमिदंकिमिदं प्रोचुर्यत्तापस्यो विडंबिताः ॥ 6.111.७० ॥
केनैवं पाप्मनाऽस्माकमाश्रमोऽयं विडंबितः ॥
प्रदत्त्वा तापसीनां च भूषणान्यंबराणि च ॥ ७१ ॥ ॥
॥ तत्पत्न्य ऊचुः ॥ ॥
चमत्कारस्य भूपस्य यैषा भार्या व्यवस्थिता ०९।
अनया संप्रदत्तानि सर्वासां भूषणानि वै ॥ ७२ ॥
अस्माकमपि संप्राप्ता गृहे वै नृपवल्लभा ॥
दातुं विभूषणान्येव निषिद्धाऽस्माभिरद्य सा ॥ ७३ ॥
॥ सूत उवाच ॥ ॥
तासां तद्वचनं श्रुत्वा ततस्ते कोप मूर्च्छिताः ।
ऊचुस्तां नृपतेर्भार्यां शापं दातुं मुहुर्मुहुः ॥ ७४ ॥
द्विसप्ततिर्वयं पापे स्नानार्थं पुष्करे गताः ॥
कार्तिक्यां व्योममार्गेण मनोमारुतरंहसा ॥ ७५ ॥
चत्वारस्त इमे प्राप्ता येषां दारैः प्रतिग्रहः ॥
न कृतस्तस्य भूपस्य कुभार्यायाः कथंचन ॥ ७६ ॥
तस्माद्विडंबितो यस्मादाश्रमोऽयं तपस्विनाम् ॥
शिलारूपा च भवती तस्माद्भवतु कुत्सिता ॥ ७०७ ॥
अथ सा तत्क्षणादेव शिलारूपा बभूव ह ॥
निश्चेष्टा तत्क्षणादेव मुनिवाक्यादनंतरम् ॥ ७८ ॥
ततः स परिवारोऽस्यास्तद्दुःखेन समाकुलः ॥
वाष्पपूर्णेक्षणो दीनः प्रस्थितः स्वपुरं प्रति ॥ ७९ ॥
कथयामास तत्सर्वं दमयंत्याः समुद्भवम् ॥
वृत्तांतं ब्राह्मणश्रेष्ठास्तस्याः शापसमुद्भवम् ॥ 6.111.८० ॥
श्रुत्वा स पार्थिवस्तूर्णं वृत्तांतं शापजं तदा ॥
प्रसादनाय विप्राणां दुःखितः स वनं ययौ ॥ ८१ ॥
ततस्ते मुनयस्तूर्णं चत्वारोऽपि महीपतिम् ॥
ज्ञात्वा प्रसादनार्थाय भार्यार्थं समुपस्थितम् ॥ ८२ ॥
अग्रिहोत्राणि दारांश्च समादाय ततः परम् ॥
कुरुक्षेत्रं समाजग्मुः खमार्गेण द्रुतं तदा ॥ ८३ ॥
पार्थिवोऽपि समन्वेष्य यत्नात्तान्सर्वतो मुनीन्।
निर्विण्णः श्रमार्तश्च भार्याव्यसनदुःखितः ॥९४॥
ततो जगाम तं देशं यत्र भार्या शिलामयी ॥
सा स्थिता तापसीवृन्दैः सर्वतोऽपि समन्विता ॥८५॥
अथ तां तादृशीं दृष्ट्वा सेवकैः सकलैर्वृतः ॥
हाहेति स मुहुः प्रोच्य मूर्च्छितः प्रापतत्क्षितौ ॥९६॥
ततः कृच्छ्रात्समासाद्य संज्ञां तोयसमुक्षितः॥
प्रलापमकरोत्पश्चात्स्मृत्वास्मृत्वा प्रियान्गुणान् ॥८७॥
हा प्रिये मृगशावाक्षि मम प्राणविनाशिनि ॥
मां मुक्त्वाऽद्य प्रियं कांतं क्व गतासि शुभानने ॥८८॥
नाभुक्ते मयि भुक्तासि निद्रां नाऽनिद्रिते गता ॥
न सौभाग्यस्य गर्वेण ममाज्ञा लंघिता क्वचित्॥ ८९ ॥
न स्मरामि त्वया प्रोक्तं कदाचिद्वि कृतं वचः ॥
रहस्यपि विशालाक्षि किमु भोजनसंसदि ॥ 6.111.९० ॥
॥ सूत उवाच ॥ ॥
एवं प्रलपतस्तस्य भूपतेः करुणं बहु ॥
आयाता मंत्रिणस्तस्य श्रुत्वा भूपं तथाविधम् ॥ ९१ ॥
ततः संबोध्य तं कृच्छाद्दृष्टान्तैर्वहुविस्तरैः ॥
राजर्षीणां पुराणानां महद्व्यसनसंभवैः ॥ ९२ ॥
निन्युस्तं भूपतिं दीनं वाष्पव्याकुललोचनम् ॥
निश्वसंतं यथानागं तेजसा परिवर्जितम् ॥ ९३ ॥
सोऽपि कृत्वाऽऽलयं तस्याः समंतात्सुमनोहरम्॥
कर्पूरागरुधूपाद्यैर्वस्त्रकुंकुमचन्दनैः ॥
योजयामास तां भार्यां शिलारूपामपि स्थिताम् ॥ ९४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये दमयन्त्युपाख्याने दमयन्त्या विप्रशापेन शिलात्वप्राप्तावानर्ताधिपतिकृतशोककथनंनामैकादशोत्तर शततमोऽध्यायः ॥ १११ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 112
सूत उवाच ॥ ॥
ततः कतिपयाहस्य गते तस्मिन्महीपतौ ॥
स्वगृहं प्रति दुःखार्ते परिवारसमन्विते ॥ १ ॥
पद्भ्यामेव समायाता ह्यष्टषष्टिर्द्विजोत्तमाः ॥
परिश्रांताः कृशांगाश्च धूलिधूसरिताननाः ॥ २ ॥
यावत्पश्यति दाराः स्वा दिव्याभरण भूषिताः ॥
दिव्यवस्त्रैः सुसंवीता राजपत्न्य इवापराः ॥ ३ ॥
ततश्च विस्मयाविष्टाः पप्रच्छुस्ते क्षुधान्विताः ॥
किमिदं किमिदं पापा विरुद्धं विहितं वपुः ॥ ४ ॥
कथं प्राप्तानि वस्त्राणि भूषणानि वराणि च ॥
नूनमस्मद्गतेर्भ्रंशः खे जातो नाऽन्यथा भवेत् ॥ ५ ॥
विकारमेनं संत्यक्त्वा युष्मदीयं सुगर्हिताः॥
अथ ताः सर्ववृत्तांतमूचुस्तापसयोषितः॥६॥
यथा राज्ञी समायाता दमयन्ती नृपप्रिया॥
भूषणानि च दत्तानि तया चैव यथा द्विजाः ॥ ७॥
यथा शापश्च सञ्जातो ब्राह्मणानां महात्मनाम्॥
अथ ते मुनयः क्रुद्धास्तच्छ्रुत्वा गर्हितं वचः ॥
राजप्रतिग्रहो निंद्यस्तापसानां विशेषतः॥८॥
ततो भूपस्य राष्ट्रस्य नाशार्थं जगृहुर्जलम्॥
क्रोधेन महताविष्टा वेपमाना निरर्गलम्॥९॥
अनेन पाप्मनाऽस्माकं कुभूपेन प्रणाशिता॥
खे गतिर्लोभयित्वा तु पत्न्योऽस्माकमकृत्रिमाः ॥
सरलास्तद्गणाः सर्वे येनेदृग्व्यसनं स्थितम् ॥॥6.112.१०॥
॥ सूत उवाच ॥ ॥
एवं ते मुनयो यावच्छापं तस्य महीपतेः॥
प्रयच्छंति च तास्तावदूचुर्भार्या रुषान्विताः ॥ ११ ॥
न देयो भूपतेस्तस्य शापो ब्राह्मणसत्तमाः ॥
अस्मदीयं वचस्तावच्छ्रोतव्यमविशंकितैः ॥।१२॥
वयं सर्वा नरेन्द्रस्य भार्यया समलंकृताः ॥
सुवस्त्रैर्भूषणैर्दिव्यैः श्रद्धापूतेन चेतसा ॥ १३ ॥
वयं दरिद्रदोषेण सदा युष्मद्गृहे स्थिताः ॥
कर्शिता न च संप्राप्तं सुखं मर्त्यसमु द्भवम् ॥१४॥
एतेषां परलोकोऽत्र विद्यते ये तपोरताः ॥
न च मर्त्यफलं किंचिदपि स्वल्पतरं भवेत् ॥१५॥
अन्येषां विषयस्थानामिह लोकः प्रकीर्तितः ॥
भोगप्रसक्तचित्तानां नीचानां सुदुरात्मनाम् ॥ १६ ॥
गृहस्थाश्रमिणां चैव स्वधर्मरतचेतसाम् ॥
इह लोकः परश्चैव जायते नाऽत्र संशयः ॥१७॥
ता वयं नात्र सन्देहो गृहस्थाश्रममुत्तमम् ॥
संसेव्य साधयिष्यामो लोकद्वयमनुत्तमम् ॥१८॥
तस्माद्गृहाणि रम्याणि प्रवदंति समाहिताः ॥
भूपालाद्भूमिमादाय वृत्तिं चैवाभिवांछिताम् ॥ १९ ॥
ततश्चैवाथ वीक्षध्वं पुत्रपौत्रसमुद्भवम् ॥
सौख्यं चापि कुमारीणां बांधवानां विशेषतः ॥ 6.112.२० ॥
न करिष्यथ चेद्वाक्यमेतदस्मदुदीरितम् ॥
सर्वाः प्राणपरित्यागं करिष्यामो न संशयः ॥ २१ ॥
यूयं स्त्रीवधपापेन युक्ताः सन्तस्ततः परम् ।
नरकं रौरवं दुर्गं गमिष्यथ सुनिश्चितम् ॥२२॥
एवं ते मुनयः श्रुत्वा तासां वाक्यानि तानि वै ॥
भूपृष्ठे तत्यजुस्तोयं शापार्थं यत्करैर्धृतम् ॥२३॥
ततस्तत्तोयनिर्दग्धं तद्विभागं क्षितेस्तदा ॥
ऊषरत्वमनुप्राप्तमद्यापि द्विजसत्तमाः ॥ २४ ॥
आस्तामन्नादिकं तत्र यदुत्पं न प्ररोहति ॥
न जन्म चाप्नुयाद्भूयः पक्षी वा कीट एव वा ॥ २५ ॥
तृणं वाथ मृगस्तत्र किं पुनर्भक्तिमान्नरः ॥
यस्तत्र कुरुते श्राद्धं श्रद्धया फाल्गुने नरः ॥ २६ ॥
पौर्णमास्यां रवैर्वारे स पितॄनुद्धरेन्निजान् ॥
अपि स्वकर्मणा प्राप्तान्नरके दारुणाकृतौ ॥ २७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दमयन्त्युपाख्यान ऊषरोत्पत्तिमाहात्म्यकथनंनाम द्वादशोत्तरशततमोऽध्यायः ॥ ११२ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 113
॥ सूत उवाच ॥ ॥
ततस्ते ब्राह्मणाः सर्वे गतकोपा दधुर्मतिम् ॥
यज्ञकर्मसु गार्हस्थ्ये पुत्रपौत्रसमुद्भवे ॥ १ ॥
एतस्मिन्नंतरे राजा स तान्प्राप्तान्द्विजोत्तमान्॥
श्रुत्वा भक्ति समायुक्तः प्रणामार्थमुपागतः ॥ २ ॥
श्रुत्वा कोपगतां वार्तामुपशामकृतां तथा ॥
गार्हस्थ्याप्रतिपन्नानां वाक्यैर्भार्यासमुद्भवैः ॥ ३ ॥
ततः प्रणम्य तान्सर्वान्साष्टांगं स महीपतिः ॥
ततः कृतांजलिपुटः प्रोवाच विनतः स्थितः ॥ ४ ॥
युष्मदीयप्रसादेन संप्राप्तं जन्मनः फलम् ॥
मया रोगविनाशेन तस्माद्ब्रूत करोमि किम् ॥ ५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
भार्यया तव राजेंद्र वयं सर्वत्र वासिनः ॥
नीताः कृतार्थतां दत्त्वा रत्नानि विविधानि च॥ ६ ॥
तस्मात्पुरवरं कृत्वा क्षेत्रेऽत्रैव सुशोभने ॥
अस्माकं देहि गार्हस्थ्यं येन सम्यक्प्रजायते ॥ ७ ॥
यजामो विविधैर्यज्ञैः सदा संपूर्णदक्षिणैः ।
इमं लोकं परं चैव साधयामः सदास्थिताः ॥ ८ ॥
तच्छ्रुत्वा पार्थिवो हृष्टस्तथेत्युक्त्वा ततः परम् ॥
अनुकूलदिने प्राप्ते शिल्पानाहूय भूरिशः ॥ ९ ॥
पुरं प्रकल्पयामास बहुप्राकारसंकुलम्॥
प्राकारपरिखायुक्तं गोपुरैः समलंकृतम् ॥ 6.113.१० ॥
अथाष्टषष्टिविप्राणां तत्र मध्ये नृपोत्तमः ॥
अष्टषष्टिगृहाण्येव चकार सुबृहंति च ॥ ११ ॥
मत्तवारणजुष्टानि दीर्घिकासहितानि च ॥
गृहोद्यानैः समेतानि यथा राजगृहाणि च ॥ १२ ॥
तथा कृत्वाऽथ रत्नौघैः पूरयित्वा तथा परैः।
ददौ तेभ्यो अष्टषष्टिं च ग्रामाणां तदनंतरम्॥१३॥
ततः सर्वान्समाहूय पुत्रपौत्रांस्तदग्रतः॥
प्रोवाच तारनादेन श्रूयतां जल्पतो मम ॥ १४ ॥
एतत्पुरं मया दत्तमेभिर्ग्रामैः समन्वितम् ॥
एतेभ्यो ब्राह्मणेंद्रेभ्यः श्रद्धापूतेन चेतसा ॥ १५ ॥
तस्माद्रक्षा प्रकर्तव्या यथा न स्यात्क्षतिः क्वचित् ॥
कष्टं वा ब्राह्मणेंद्राणां तथा चैव पराभवम्॥ १६ ॥
अस्मद्वंशसमुद्भूतो यस्त्वेतांस्तोषयिष्यति ॥
अन्यो वा भूपतिर्वृद्धिमग्र्यां नूनं स यास्यति ॥ १७ ॥
यश्चापराधसंयुक्तानेतान्खेदं नयिष्यति ॥
योजयिष्यति वा क्लेशैर्विविधैर्वा पराभवैः ॥
स शत्रुभिः पराभूतो वेष्टितो विविधैर्गदैः ॥ १८ ॥
इह लोके वियोगादीन्प्राप्य क्लेशान्सुदारुणान्॥
रौरवादिषु रौद्रेषु नरकेषु प्रयास्यति। १९ ॥
एवमुक्त्वा ततः सर्वं तेषां कृत्यं महीपतिः ॥
स्वयमेवाकरोन्नित्यं दिवारात्रमतंद्रितः ॥ 6.113.२० ॥
अथ ता ब्राह्मणेंद्राणां भार्याः सर्वाः द्विजोत्तमाः ॥
दमयंत्याः समासाद्य प्रासादं स्नेहवत्सलाः ॥ २१ ॥
कुंकुमागरुकर्पूरैः पुष्पैर्गंधैः पृथग्विधैः ॥
तदर्च्चा पूजयामासुः स च राजा दिनेदिने ॥ २२॥
अथ ताः प्रोचुरन्योन्यं तापस्यस्तत्पुरः स्थिताः ॥
तस्यभूपस्य संतोषं जनयंत्यो द्विजोत्तमाः ॥ २३ ॥
यदास्माकं गृहे वृद्धिः कदाचित्संभविष्यति ॥
तदग्रतश्च पश्चाच्च दमयंत्याः प्रपूजनम्॥
करिष्यामो न संदेहः सर्वकृत्येषु सर्वदा ॥ २४ ॥
एनां दृष्ट्वा कुमारी या वेदिमध्यं गमिष्यति॥
सा भविष्यत्यसंदेहः पत्युः प्राणसमा सदा ॥ २५ ॥
तस्मात्सर्वप्रयत्नेन कन्यायज्ञ उपस्थिते ॥
दमयंती प्रद्रष्टव्या पूजनीया प्रयत्नतः ॥२६॥
॥ सूत उवाच ॥
एवं तत्र पुरे तेन भूभुजा सुमहात्मना ।
अष्टषष्टिं च संस्थाप्य गोत्राणां निर्वृतिः कृता ॥ २७ ॥
तेषामपि च चत्वारि गोत्राण्युर गजाद्भयात्॥
गतानि तत्र यत्र स्युस्तानि पूर्वोद्भवानि च ।
चतुःषष्टिः स्थिता तत्र पुरे शेषा द्विजन्मनाम् ॥ २८ ॥
॥ ऋषय ऊचुः ॥ ॥
कीदृङनागभयं तेषां येन ते विगता विभो ।
परित्यज्य निजं स्थानमेतन्नो विस्तराद्वद ॥ २९ ॥
॥ सूत उवाच ॥ ॥
आनर्त्ताधिपतिः पूर्वमासीन्नाम्ना प्रभंजनः ॥
धर्मज्ञः सुप्रतापी च परपक्षक्षयावहः ॥ 6.113.३० ॥
ततस्तस्य सुतो जज्ञे प्राप्ते वयसि पश्चिमे ॥
अनिष्टस्थानसंस्थेषु ग्रहेषु द्विज सत्तमाः॥३॥।
ततस्तेन समाहूय दैवज्ञाञ्छास्त्रपंडितान्।
तेषां निवेदितं सर्वं कालं तस्य समुद्भवम्॥३२ ॥
दैवज्ञा ऊचुः॥
एष ते पृथिवीपाल जातः पुत्रः सुगर्हित।
काले ऽनिष्टप्रदे रौद्रे गंडांत त्रितयोद्भवे.३३॥
कथंचिदपि यद्येष जीवयिष्यति पार्थिव।
पितृमातृपुरार्थे च देशानुत्सादयिष्यति ॥ ३४ ॥
॥ राजोवाच ॥ ॥
अस्ति कश्चिदुपायोऽत्र दैवो वा मानुषोऽपि वा ॥
येन संजायते क्षेमं पुत्रस्य विषयस्य च ॥ ३५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यथा समुत्थितं यंत्रं यंत्रेण प्रतिहन्यते॥
यथा बाणप्रहाराणां कवचं वारणं भवेत ॥
तथा ग्रहविकाराणां शांतिर्भवति वारणम्॥ ३६॥
तस्मान्नित्यमनुद्विग्नः शांतिकं कुरु भूपते ॥
येन सर्वे ग्रहाः सौम्या जायंते च शुभावहाः ॥ ३७ ॥
अनिष्टस्थानसंस्थेषु ग्रहेषु विषमेषु च॥
ततः स सत्वं गत्वा चमत्कारपुरं नृपः॥३८॥
तत्र विप्रान्समावेश्य सर्वान्प्रोवाच सादरम्।
वयं युष्मत्प्रसादेन राज्यं कुर्मः सदैव हि॥३९॥
ये ऽतीता ये भविष्यंति वंशे ऽस्माकं नृपोत्तमाः॥
भवंतो ऽत्र गतिस्तेषां सस्यानां नीरदो यथा॥6.113.४०॥
यदत्र मत्सुतो जातो दुष्टस्थानस्थितैर्ग्रहैः ॥
दैवज्ञैः शांतिकं प्रोक्तं तस्यानिष्टस्य शांतिदम् ॥ ४१ ॥
तस्मात्कुरुत विप्रेंद्रा यथोक्तं शांतिकं मम ॥
न पुत्रश्च राष्ट्रं च विभवश्च विवर्धते ॥ ४२ ॥
ततस्ते ब्राह्मणाः प्रोचुः संमंत्र्याऽथ परस्परम् ॥
क्षेमाय तव भूनाथ करिष्यामोऽत्र शांतिकम् ॥' ॥ ४३ ॥
सदेव नियताः संतः शांताः षोडश ते द्विजाः ॥
उपहाराः सदा प्रेष्यास्त्वया भक्त्या महीपते ॥
मासांते चाभिषेकश्च ग्राह्यो रुद्रघटोद्भवः ॥ ४४ ॥
एवं प्रकुर्वतस्तुभ्यं पुत्रो वृद्धिं प्रयास्यति ।
तथा राष्ट्रं च कोशश्च यच्चान्यदपि किंचन॥४५॥
ततः प्रणम्य तान्हृष्टो गत्वा निजनिवेशनम्॥
उत्सवं पुत्रजन्मोत्थं चक्रे तैः प्रेरितः सदा ॥ ४६ ॥
संभारान्प्रेषयामास चमत्कारपुरे ततः ॥
मासांते चाभिषेकश्च ग्राह्यो वै विधिपूर्वकम् ॥ ४७ ॥
तेऽपि ब्राह्मणशार्दूलाश्चातुश्चरणसंभवाः ॥
क्रमेण शांतिकं चक्रुर्ब्रह्मचर्यपरायणाः॥४८॥
मासं मासं प्रति सदा शांता दांता जितेंद्रियाः ॥
ततो मासा वसानेऽन्ये चक्रुस्तच्छांतिकं द्विजाः॥ ४९ ॥
सोऽपि राजाऽथ मासांते समागत्य सुभक्तितः ॥
अभिषेकं समादाय पूजयित्वा द्विजोत्तमान् ॥ 6.113.५० ॥
वासोभिर्मुकुटैश्चैव गोभूदानेन केवलम् ॥
संतर्प्यान्यांस्तथा विप्रान्स्वस्थानं याति भूमिपः ॥ ५१ ॥
एवं प्रवर्तमाने च शांतिके तत्र भूपतेः ॥
जगाम सुमहान्कालः क्षेमारोग्यधनागमैः ॥ ५२ ॥
कस्यचित्त्वथ कालस्य मासादावपि भूपतेः ॥
प्रारब्धे शांतिके तस्मिन्महाव्याधिरजायत ॥ ॥ ५३ ॥
तत्पुत्रस्य विशेषेण तथैवांतःपुरस्य च ॥
राष्ट्रस्य च समग्रस्य वाहनानां तथा क्षयः ॥ ५४ ॥
स ततः प्रेषयामास शांत्यर्थं तत्र सत्पुरे ॥
सुसंभारान्विशेषेण दक्षिणाश्च विशेषतः ॥ ५५ ॥
यथायथा द्विजास्तत्र होमं कुर्वंति पावके ॥
तथा सर्वे विशेषेण रोगा वर्धंति सर्वशः ॥ ५६ ॥
म्रियन्ते वाजिनस्तस्य बृहन्तो वारणास्तथा ॥
शत्रवः सर्वकाष्ठासु विग्रहार्थमुपस्थिताः ॥ ५७ ॥
ततः स व्याकुलीभूतो रोगग्रस्तो महीपतिः ॥
चमत्कारपुरं प्राप्य सर्वान्विप्रानुवाच ह ॥ ५८ ॥
युष्माभिः स्वामिभिः संस्थैरापदोऽभिभवंति माम्॥
तत्किमेतन्महाभागाः क्षीयन्ते मम संपदः ॥
रोगाश्चैव विवर्धंते शत्रुसंघैः समन्विताः ॥ ५९ ॥
तस्माद्विशेषतो होमः कार्यो रोगप्रशांतये ॥.
दानानि च विशिष्टानि प्रदास्यामि द्विजन्मनाम् ॥ ॥ 6.113.६० ॥
ततस्ते ब्राह्मणाः सर्वे प्रत्यक्षं तस्य भूपतेः ॥
चक्रुः समाहिता भूत्वा शांतिकं तद्धिताय च ॥ ६१ ॥
यथायथा प्रयुञ्जीरन्होमांते सुसमा हिताः ॥
तथातथास्य भूपस्य वृद्धिं रोगः प्रगच्छति ॥ ६२ ॥
एतस्मिन्नंतरे क्रुद्धास्ते सर्वे द्विजसत्तमाः ॥
ग्रहानुद्दिश्य सूर्यादीञ्छापाय कृतनिश्चयाः ॥ ६३ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
पूजिता अपि सद्भक्त्या विधानेन तथा ग्रहाः ॥
पीडयंति पुरं राज्ञः सपुत्रपशुबांधवम् ॥ ६९ ॥
एवं ते निश्चयं कृत्वा शुचीभूय समाहिताः ॥
यावद्यच्छंति तच्छापं ग्रहेभ्यः क्रोधमूर्छिताः ॥ ६५ ॥
तावद्वह्निरुवाचेदं मूर्तो भूत्वा द्विजोत्तमान् ॥
मा प्रयच्छत विप्रेंद्राः शापं कोपात्कथंचन ॥ ६६ ॥
ग्रहेभ्यो दोषमुक्तेभ्यः श्रूयतां वचनं मम ॥
मासिमासि प्रकुर्वंति होमं ते षोडश द्विजाः ॥ ॥ ६७ ॥
तेषां मध्यस्थितश्चैकस्त्रिजातो ब्राह्मणाधमः ॥
तेन तद्दूषितं द्रव्यं समग्रं होमसंभवम् ॥ ६८-॥
मया दत्तं न गृह्णंति ते ग्रहा भास्करादयः ॥
तेन कुर्वंति भूपस्य पीडामप्यधिकामिमाम् ॥ ६९ ॥
तस्मादेनं परित्यज्य होमं कुरुत मा चिरम् ॥
येन प्रीतिं परां यांति ग्रहाः सर्वेऽर्कपूर्वकाः ॥ ॥ 6.113.७० ॥
आरोग्यश्च भवेद्राजा गतशत्रुः सुतान्वितः ॥
सततं सुखमभ्येति मच्छांतिकप्रभावतः ॥ ७१ ॥
एवमुक्त्वा स भगवान्वह्निश्चादर्शनं गतः ॥
तेऽपि विप्रा विषण्णास्या लज्जया परया वृताः ॥ ७२ ॥
ततस्तं पावकं भूयः स्तुवंतस्तत्र च स्थिताः ॥
प्रोचुर्वैश्वानरं ब्रूहि त्रिजातो योऽत्र च द्विजः ॥ ७३ ॥
येन तं संपरित्यज्य कुर्मः कर्म प्रशांतये ॥
निःशेषमेव दोषाणां भूपस्यास्य महात्मनः ॥ ७४ ॥
॥ वह्निरुवाच ॥ ॥
नाहं दोषं द्विजेद्राणां जानन्नपि कथंचन ॥
ब्रवीमि ब्राह्मणा वन्द्या मम सर्वे धरातले ॥ ७५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यदि तं ब्राह्मणं वह्ने नास्माकं कीर्तयिष्यसि ॥
तत्ते शापं प्रदास्यामस्तस्माच्छीघ्रं वदस्व नः ॥ ७६ ॥
॥ सूत उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा वह्निर्भयसमन्वितः ॥
चिरं विचिंतयामास कुर्वेऽतः किं शुभावहम् ॥ ७७ ॥
ब्राह्मणं दूषयिष्यामि यदि तावच्च पातकम् ॥
भविष्यति न संदेहः शापश्चापि तदुद्भवः ॥ ॥ ७८ ॥
कीर्तयिष्यामि वा नैव विद्यमानं द्विजोत्तमम् ॥
शपिष्यति न संदेहः क्रुद्धा आशीविषोपमाः ॥ ७९ ॥
एवं चिंतयतस्तस्य गात्रे स्वेदोऽभवन्महान्॥
येन तत्पूरितं कुण्डं होमार्थं यत्प्रकल्पितम् ॥6.113.८०॥।
ततः प्रोवाच तान्विप्रान्कृतांजलिपुटः स्थितः।
वेपमानो भयत्रस्तःकुण्डान्निष्क्रम्य पावकः ॥ ८१ ॥
नाहं स्वजिह्वया दोषं ब्राह्मणस्य समुद्भवम् ॥
कथञ्चित्कीर्तयिष्यामि तस्माच्छृण्वन्तु भो द्विजाः ॥ ९२ ॥
अत्र स्वेद जले विप्रा ये स्थिताः षोडश द्विजाः ॥
ते स्नानमद्य कुर्वंतु प्रविशुद्ध्यर्थमात्मनः ॥ ८३ ॥
एतेषां मध्यगो यश्च त्रिजातः स भविष्यति ॥
तस्य विस्फोटकैर्युक्तं स्नातस्यांगं भविष्यति ॥ ८४ ॥
ततस्ते ब्राह्मणाः सर्वे क्रमात्तत्र निमज्जनम् ॥
चक्रुः शुद्धिं गताश्चापि मुक्त्वैकं ब्राह्मणं तदा ॥ ॥ ८५॥
हाहाकारस्ततो जज्ञे महांस्तत्र जनोद्भवः ॥
दृष्ट्वा विस्फोटकैर्युक्तमकस्मात्तं द्विजोत्तमम् ॥ ८६ ॥
सोऽपि लज्जान्वितो विप्रः कृत्वाऽधो वदनं ततः ॥
निष्क्रांतोऽथ सभामध्यात्स्थानाद्विप्रसमुद्भवात् ॥ ८७ ॥
॥ वह्निरुवाच ॥ ॥
एतद्वः साधितं कृत्यं मया पूर्वं द्विजोत्तमाः।
तस्माद्यास्ये निजं स्थानं भवद्भिः पारमापितः ॥ ८८ ॥
न वृथा दर्शनं मे स्यादपि स्वप्रे द्विजोत्तमाः ॥
तस्मात्सम्प्रार्थ्यतां किंचिदभीष्टं हृदि संस्थितम् ॥ ८९ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
एतत्तव जलं वह्ने स्वेदजं सर्वदैव तु ॥
स्थिरं भवतु चात्रैव विशुद्ध्यर्थं द्विजन्मनाम् ॥ 6.113.९०।।
अन्यजातो नरो योऽत्र प्रकरोति निमज्जनम् ॥
तस्य चिह्नं त्वया कार्यं विस्फोटकसमुद्भवम् ॥ ९१ ॥
बाढमित्येव स प्रोच्या गतोंऽतर्धानमेव हि॥ ॥
पावकस्ते द्विजाः सर्वे मंत्रं चक्रुः परस्परम् ॥९२॥
अद्यप्रभृति सर्वेषां ब्राह्मणानां समुद्भवम् ॥
शुद्धिरत्र प्रकर्तव्या पितृमातृसमुद्द्भवा ॥९३॥'
चमत्कारपुरोत्थो यः कश्चिद्विप्रः प्रकीर्तितः ॥
सोऽत्र स्नातो विशुद्धश्च विज्ञेयः कुलपुत्रकः ॥ ९४ ॥
तस्मै कन्या प्रदातव्या स श्राद्धार्हो भविष्यति। ॥
धर्मकृत्येषु सर्वेषु योजनीयः स एव हि ॥ ९५ ॥
अष्टषष्टिषु गोत्रेषु मिलितेषु यथाक्रमम् ॥
तत्प्रत्यक्षं विशुद्धो यः स शुद्धः पंक्तिपावनः ॥ ९६ ॥
अपवादाश्च ये केचिद्ब्रह्महत्यादिकाः स्थिताः ॥
अन्येऽपि दुर्जनैः प्रोक्ता धर्मसन्देहकारकाः ॥ ९७ ॥
ते सर्वेऽत्र विशुद्धाः स्युर्विज्ञेयाः कुलपुत्रकाः ॥
अपवादास्तथा चान्ये नाशं यास्यंति चाखिलाः ॥ ९८ ॥
यावन्नात्र कृतं स्नानं प्रत्यक्षं च द्विजन्मनाम्॥
सर्वेषां तावदेवाऽत्र न स विप्रो भवेत्स्फुटम् ॥ ९९ ॥
॥ सूत उवाच ॥ ॥
एवं ते समयं कृत्वा चमत्कारपुरोद्भवाः ॥
ब्राह्मणाः शांतिकं चक्रुर्हितार्थं तस्य भूपतेः ॥॥6.113.१००॥।
तस्मिन्कुण्डे ततः स्नानं कृतं सर्वैर्महात्मभिः ॥
भयत्रस्तैर्विशुद्ध्यर्थं शेषैरपि महात्मभिः ॥ १०१ ॥
ततो नीरोगतां प्राप्तः स भूपस्तत्क्षणाद्विजाः ॥
यस्तत्र कुरुते स्नानमद्यापि द्विजसत्तमाः ॥ १०२ ॥
कार्तिक्यां परदारोत्थैः स विमुच्येत पातकैः ॥
एषां युगत्रये शुद्धिरासीत्तत्र द्विजन्मनाम् ॥ ॥ १०३ ॥
कुलशीलविहीनानामन्येषामपि पाप्मनाम् ॥
मत्वा कलियुगं घोरं परदारसुरंजितम् ॥
तत्र शुद्धिस्ततः सर्वैः कृता विप्रैश्च वाचिका ॥ ॥ १०४॥
पुरतो देवदेवस्य ब्रह्मणो द्विजसत्तमाः ॥
पितृमातृजवंशस्य विशुद्ध्यर्थमतंद्रितैः ॥॥५॥
अद्यापि कुरुते तत्र यः स्नानं द्विजसत्तमाः ॥
त्रिजातो दह्यते तत्र वह्निना स न संशयः ॥ १०६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेवरक्षेत्रमाहात्म्ये दमयन्त्युपाख्याने त्रिजातकविशुद्धयेऽग्निकुंडमाहात्म्यवर्णनंनाम त्रयोदशोत्तरशततमोऽध्यायः ॥ ११३ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 114
॥ सूत उवाच ॥ ॥
सोऽपि विप्रो द्विजश्रेष्ठा विस्फोटकपरिप्लुतः ॥
लज्जया परया युक्तो गत्वा किंचिद्वनांतरम् ॥ १ ॥
ततो वैराग्यमापन्नो रौद्रे तपसि संस्थितः ॥
त्यक्त्वा गृहादिकं सर्वं स्नेहं दारसुतोद्भवम्॥ २ ॥
नियमैः संयमैश्चैव शोषयन्नात्मनस्तनुम् ॥
किंचिज्जलाश्रयं गत्वा स्थापयित्वा महेश्वरम् ॥ ३ ॥
ततः कालेन महता तुष्टस्तस्य महेश्वरः ॥
प्रोवाच दर्शनं गत्वा प्रार्थयस्व यथेप्सितम् ॥ ४ ॥
॥ त्रिजात उवाच ॥ ॥
मातृदोषादहं देव वैलक्ष्यं परमं गतः ॥
मध्ये ब्राह्मणमुख्यानामानर्त्ताधिपतेस्तथा ॥ ५ ॥
अहं शक्नोमि नो वक्तुं कस्यचिद्दर्शितुं विभो ॥
त्रिजातोऽस्मीति विज्ञाय भूरिविद्यान्वितोऽपि च ॥ ६ ॥
तस्मात्सर्वोत्तमस्तेषामहं चैव द्विजन्मनाम् ॥
यथा भवामि देवेश तथा नीतिर्विधीयताम् ॥७॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
चमत्कारपुरे विप्रा ये वसंति द्विजोत्तम ॥
तेषां सर्वोत्तमो नूनं मत्प्रसादाद्भविष्यसि ॥ ८ ॥
तस्मात्कालं प्रतीक्षस्व कञ्चित्त्वं ब्राह्मणोत्तम ॥
समये समनुप्राप्ते त्वां च नेष्यामि तत्र वै ॥ ९ ॥
एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः ॥
ब्राह्मणोऽपि तपस्तेपे तथा संपूजयन्हरम् ॥ 6.114.१० ॥
कस्यचित्त्वथ कालस्य मत्कारपुरे द्विजाः ॥
मौद्गल्यान्वयसंभूतो देवरातोऽभवद्द्विजः ॥ ११ ॥.
तस्य पुत्रः क्रथोनाम यौवनोद्धतविग्रहः ॥
सदा गर्वसमायुक्तः पौरुषे च व्यवस्थितः॥१२॥
स कदाचिद्ययौ विप्रो नागतीर्थं प्रति द्विजाः ॥
श्रावणस्यासिते पक्षे पंचम्यां पर्यटन्वने ॥१३॥
अथापश्यत्स नागेन्द्रतनयं भूरिवर्च्चसम् ॥
रुद्रमालमिति ख्यातं जनन्या सह संगतम् ॥१४॥
अथाऽसौ तं समालोक्य सुलघुं सर्प पुत्रकम् ॥
जलसर्पमिति ज्ञात्वा लगुडेन व्यपोथयत् ॥१५॥
हन्यमानेन तेनाथ प्रमुक्तः सुमहान्स्वनः ॥
हा मातस्तात तातेति विपन्नोऽस्मि निरागसः॥१६॥
सोऽपि श्रुत्वाऽथ तं शब्दं ब्राह्मणो मानुषोद्भवम् ॥
सर्पस्य भयसंत्रस्तः सत्वरं स्वगृहं ययौ ॥१७॥
अथ सा जननी तस्य निष्क्रांता सलिलाश्रयात्॥
यावत्पश्यति तीरस्थं तावत्पुत्रं निपातितम्॥१८॥
ततो मूर्च्छामनुप्राप्ता दृष्ट्वा पुत्रं तथाविधम्॥
यष्टिप्रहारनिर्भिन्नं सर्वांगरुधिरोक्षितम्॥१९॥
अथ लब्ध्वा पुनः संज्ञां प्रलापानकरोद्बहून्॥
करुणं शोकसंतप्ता वाष्पपर्याकुलेक्षणा ॥6.114.२०॥।
हाहा पुत्र परित्यक्त्वा मां च क्वासि विनिर्गतः ॥
अनावृत्तिकरं स्थानं किं स्नेहो नास्ति ते मयि॥२१॥।
केन त्वं निहतः पुत्र पापेन च दुरात्मना ॥
निष्पापोऽपि च पुत्र त्वं कस्य क्रुद्धोऽद्यवै यमः॥२२॥
सपुरस्य सराष्ट्रस्य सकुटुंबस्य दुर्मतेः ॥
येन त्वं निहतोऽद्यापि पंचम्यां पूजितो न च ॥२३॥
रजसा क्रीडयित्वाऽद्य समागत्य चिरादथ॥
कामेनोत्संगमागत्य ग्लानिं नैष्यति चांबरम् ॥२४॥
गद्गदानि मनोज्ञानि जनहास्यकराणि च ॥
त्वया विनाऽद्य वाक्यानि को वदिष्यति मे पुरः ॥२५॥
पितुरुत्संगमाश्रित्य कूर्चाकर्षणपूर्वकम् ॥
कः करिष्यति पुत्राऽद्य सतोषं भवता विना ॥ २६ ॥
निषिद्धोऽसि मया वत्स त्वमायातोऽनुपृष्ठतः ॥
मर्त्यलोकमिमं तात बहुदोषसमाकुलम् ॥ २७ ॥
एवं विलप्य नागी सा संक्रुद्धा शोककर्षिता ॥
तं मृतं सुतमादाय जगामानंतसंनिधौ ॥ २८ ॥
ततस्तदग्रतः क्षिप्त्वा तं मृतं निजबालकम् ॥
प्रलापानकरोद्दीना वियुक्ता कुररी यथा ॥ २९ ॥
नागराजोऽपि तं दृष्ट्वा स्वपुत्रं विनिपातितम् ॥
जगाम सोऽपि मूर्च्छां च पुत्रशोकेन पीडितः ॥ 6.114.३० ॥
ततः सिक्तो जलैः शीतैः संज्ञां लब्ध्वा स कृच्छ्रतः ॥
प्रलापान्कृपणांश्चक्रे प्राकृतः पुरुषो यथा ॥३१॥।
एतस्मिन्नंतरे नागाः सर्वे तत्र समागताः॥
रुरुदुर्दुःखिताः संतो बाष्पपर्याकुलेक्षणाः॥३२॥
वासुकिः पद्मजः शंखस्तक्षकश्च महाविषः॥
शंखचूडः सचूडश्च पुंडरीकश्च दारुणः ॥ ३३ ॥
अञ्जनो वामनश्चैव कुमुदश्च तथा परः ॥
कम्बलाश्वतरौ नागौ नागः कर्कोटकस्तथा ॥ ३४ ॥
पुष्पदंतः सुदंतश्च मूषको मूषकादनः ॥
एलापत्रः सुपत्रश्च दीर्घास्यः पुष्पवाहनः ॥ ३५ ॥
एते चान्ये तथा नागास्तत्राऽऽयाताः सहस्रशः ॥
पुत्रशोकाभिसतप्तं ज्ञात्वा तं पन्नगाधिपम्॥ ३६ ॥
ततः संबोध्य ते सर्वे तमीशं पवनाशनम्॥
पूर्ववृत्तैः कथोद्भेदैर्दृष्टांतैर्विविधैरपि ॥ ३७ ॥
एवं संबोधितस्तैस्तु चिरात्पन्नगसत्तमः ॥
अग्निदाह्यं ततश्चक्रे तस्य पुत्रस्य दुःखितः ॥ ३८ ॥
जलदानस्य काले च सर्पान्सर्वानुवाच सः ॥
सर्वान्नागान्प्रदानार्थं तोयस्य समुपस्थितान्॥ ३९ ॥
नाहं तोयं प्रदास्यामि स्वपुत्रस्य कथंचन ॥
भवद्भिः प्रेरितोऽप्येवं तथान्यैरपि बांधवैः ॥ 6.114.४० ॥
यावत्तस्य न दुष्टस्य मम पुत्रांतकारिणः ॥
सदारपुत्रभृत्यस्य विहितो न परिक्षयः ॥ ४१ ॥
एवमुक्त्वा ततः शेषः शोधयामास तं द्विजम् ॥
येन संसूदितः पुत्रो दंडकाष्ठेन पाप्मना ॥ ४२ ॥
ततः प्रोवाच तान्नागान्पार्श्वस्थान्पन्नगाधिपः ॥
हाटकेश्वरजे क्षेत्रे यांतु मे सुहृदुत्तमाः ॥ ४३ ॥
पुत्रघ्नं तं निहत्याऽऽशु सकुटुम्बपरिग्रहम्॥
चमत्कारपुरं सर्वं भक्षणीयं ततः परम् ॥ ४४ ॥
तत्रैव वसतिः कार्या समस्तैः पन्नगोत्तमैः ॥
यथा भूयो वसेन्नैव तथा कार्यं च तत्पुरम् ॥ ४५ ॥
एवमुक्तास्ततस्तेन नागाः प्राधान्यतः श्रुताः ॥
गत्वाथ सत्वरं तत्र प्रथमं तं द्विजोत्तमम् ॥ ४६ ॥
देवरातसुतं सुप्तं भक्षयित्वा ततः परम् ॥
तत्कुटुंबं समग्रं च क्रोधेन महतान्विताः ॥ ४७ ॥
ततोऽन्यानपि संक्रुद्धा बालान्वृद्धान्कुमारकान् ॥
भक्षयामासुः सर्वे ते तिर्यग्योनिगता अपि ॥ ४८ ॥
एतस्मिन्नंतरे जातः पुरे तत्र सुदारुणः ॥
आक्रंदो ब्राह्मणेंद्राणां सर्पभक्षणसंभवः ॥ ४९ ॥
तत्र भूमौ तथाऽन्यच्च यत्किंचिदपि दृश्यते ॥
तत्सर्वं पन्नगैर्व्याप्तं रौद्रैः कृष्णवपुर्धरैः ॥ 6.114.५० ॥
एतस्मिन्नंतरे प्राप्ताः केचिन्मृत्युवशं गताः ॥
विषसं घूर्णिताः केचित्पतिता धरणीतले ॥ ५१ ॥
अन्ये गृहादिकं सर्वं परित्यज्य सुतादि च ॥
वित्रस्ताः परिधावंति वनमुद्दिश्य दूरतः ॥ ५२ ॥
अन्ये मंत्रविदो विप्राः प्रयतंते समंततः ॥
मंदं धावंति संत्रस्ता गृहीत्वौषधयः परे ॥ ५३ ॥
एवं तत्पुरमुद्दिश्य सर्वे ते पन्नगोत्तमाः ॥
प्रचरंति यथा कश्चिन्न तत्र ब्राह्मणो वसेत् ॥ ५४ ॥
अथ शून्यं पुरं कृत्वा सर्वे ते पन्नगोत्तमाः ॥
व्यचरन्स्वेच्छया तत्र तीर्थेष्वायतनेषु च ॥ ५५ ॥
न कश्चित्पन्नगः क्षेत्रात्त्यक्त्वा निर्याति बाह्यतः ॥
प्रविशेन्न परः कश्चित्तत्र क्षेत्रे च मानवः ॥ ५६ ॥
व्यवस्थैवं समुद्भूता सर्पाणां मानुषैः सह ।
वधभक्षणजा न्योन्यं बाह्याभ्यंतरसंभवा ॥ ५७ ॥
एतस्मिन्नंतरे शेषो मुक्त्वा दुःखं सुतोद्भवम् ॥
प्रहृष्टः प्रददौ तोयं तस्य जातिभिरन्वितः ॥ ५८ ॥
अथ ते ब्राह्मणाः केचित्सर्पेभ्यो भयविह्वलाः ॥
सशोका दिङ्मुखान्याशु ते सर्वे संगता मिथः ॥५९॥
ततो वनं समाजग्मुस्त्रिजातो यत्र संस्थितः ॥
हरलब्धवरो हृष्टः सुमहत्तपसि स्थितः ॥ 6.114.६० ॥
स दृष्ट्वा ताञ्जनान्सर्वांस्तथा दुःखपरिप्लुतान् ॥
पुत्रदारादिकं स्मृत्वा रुदतः करुणं बहु ॥ ६१ ॥
सोऽपि दुःखसमायुक्तो दृष्ट्वा तान्स्वपुरोद्भवान् ॥
ब्राह्मणेंद्रांस्ततः प्राह बाष्पव्याकुललोचनः ॥ ६२ ॥
शृण्वंतु ब्राह्मणाः सर्वे वचनं मम सांप्रतम् ॥
मया विनिर्गतेनैव तत्पुरात्तोषितो हरः ॥ ६३ ॥
तेन मह्यं वरो दत्तो वांछितो द्विजसत्तमाः ॥
गृहीतो न मयाद्यापि प्रार्थयिष्यामि सांप्रतम् ॥६४॥
यथा स्यात्संक्षयस्तेषां नागानां सुदुरात्मनाम् ॥
यैः कृतं नः पुरं कृत्स्नमुद्रसं पापकर्मभिः ॥ ६५ ॥
एवमुक्त्वाऽथ विप्रः स त्रिजातः परमेश्वरम् ॥
प्रार्थयामास मे देव तं वरं यच्छ सांप्रतम् ॥६६॥
ततः प्रोवाच देवेशः प्रार्थयस्व द्रुतं द्विज॥
येनाभीष्टं प्रयच्छामि यद्यपि स्यात्सुदुर्लभम् ॥ ६७ ॥ ॥
॥ त्रिजात उवाच ॥ ॥
नागैरस्मत्पुरं कृत्स्नं कृतं जनविवर्जितम् ॥
तत्तस्मात्ते क्षयं यांतु सर्वे वृषभवाहन ॥ ६८ ॥
येन तत्पूर्यते विप्रैर्भूयोऽपि सुरसत्तम ॥
ममापि जायते कीर्तिः स्वस्थानोद्धरणोद्भवा ॥ ६९ ॥
॥ श्रीभगवानुवाच ॥ ॥
नायुक्तं विहितं विप्र पन्नगैस्तैर्महात्मभिः ॥
निर्दोषश्चापि पुत्रोऽत्र येषां विप्रेण सूदितः ॥ 6.114.७० ॥
विशेषेण द्विजश्रेष्ठ संप्राप्ते पंचमीदिने ॥
तत्राऽपि श्रावणे मासि पूज्यंते यत्र पन्नगाः ॥ ७१ ॥
तस्मात्तेऽहं प्रवक्ष्यामि सिद्धमंत्रमनुत्तमम् ॥
यस्योच्चारणमात्रेण सर्प्पाणां नश्यते विषम् ॥ ७२ ॥
तं मंत्रं तत्र गत्वा त्वं तद्विप्रैरखिलैर्वृतः ॥
श्रावयस्व महाभाग तारशब्देन सर्वशः ॥७३॥
तं श्रुत्वा ये न यास्यंति पातालं पन्नगाधमाः ॥
युष्मद्वाक्याद्भविष्यंति निर्विषास्ते न संशयः ॥ ७४ ॥ ॥
॥ त्रिजात उवाच ॥ ॥
ब्रूहि तं मे महामंत्रं सर्वतीक्ष्णविनाशनम् ॥
येन गत्वा निजं स्थानं सर्पानुत्सादयाम्यहम् ॥७५॥
॥ श्रीभगवानुवाच ॥ ॥
गरं विषमिति प्रोक्तं न तत्रास्ति च सांप्रतम् ॥
मत्प्रसादात्त्वया ह्येतदुच्चार्यं ब्राह्मणोत्तम ॥ ७६
न गरं न गरं चैतच्छ्रुत्वा ये पन्नगाधमाः॥
तत्र स्थास्यंति ते वध्या भविष्यंति यथासुखम् ॥ ७७ ॥
अद्यप्रभृति तत्स्थानं नगराख्यं धरातले ॥
भविष्यति सुविख्यातं तव कीर्तिविवर्धनम् ॥ ७८ ॥
तथान्योपि च यो विप्रो नागरः शुद्धवंशजः ॥
नगराख्येन मंत्रेण अभिमंत्र्य त्रिधा जलम् ॥ ७९ ॥
प्राणिनं काल संदष्टमपि मृत्युवशंगतम् ॥
प्रकरिष्यति जीवाढ्यं प्रक्षिप्य वदने स्वयम् ॥6.114.८०॥।
अन्यत्रापि स्थितो मर्त्यो मंत्रमेतं त्रिरक्षरम् ॥
यः स्मरिष्यति संसुप्तो न हिंस्यः स्यादहेर्हि सः ॥८१॥।
स्थावरं जंगमं वापि कृत्रिमं वा गरं हि तत् ॥
तदनेन च मंत्रेण संस्पृष्टं त्वमृतायितम् ॥८२॥
अजीर्णप्रभवा रोगा ये चान्ये जठरोद्भवाः॥
मंत्रस्यास्य प्रभावेन सर्वे यांति द्रुतं क्षयम् ॥८३॥
एवमुक्त्वाऽथ तं विप्रं भगवान्वृषभध्वजः ॥
जगामादर्शनं पश्चाद्यथा दीपो वितैलकः ॥८४॥
त्रिजातोऽपि समं विप्रैर्हतशेषैस्तु तैर्द्रुतम् ॥
जगाम संप्रहृष्टात्मा चमत्कारपुरं प्रति ॥ ८५ ॥
एवं ते ब्राह्मणाः सर्वे त्रिजातेन समन्विताः ॥
न गरं न गरं प्रोच्चैरुच्चरंतः समाययुः ॥ ८६ ॥
हाटकेश्वरजं क्षेत्रं यत्तद्व्याप्तं समंततः ॥
रौद्रैराशीविषैः क्रूरैः शेषस्यादेशमाश्रितेः ॥८७॥
अथ ते पन्नगाः श्रुत्वा सिद्धमंत्र शिवोद्भवम् ॥
निर्विषास्तेजसा हीनाः समन्तात्ते प्रदुद्रवुः ॥८८॥
वल्मीकान्केचिदासाद्य चित्ररंध्रांतरोद्भवान् ॥
अन्ये चापि प्रजग्मुश्च पातालं दंदशूककाः ॥ ८९ ॥
ये केचिद्भयसंत्रस्ता वार्द्धक्येन निपीडिताः ॥
वालत्वेन तथा चान्ये शक्नुवंति न सर्पितुम् ॥ 6.114.९० ॥
ते सर्वे ब्राह्मणेन्द्रैस्तैः कृतस्य प्रतिकारकैः ॥
निहताः पन्नगास्तत्र दंडकाष्ठैः सहस्रशः ॥ ९१ ॥
एवमुत्साद्य तान्सर्वान्ब्राह्मणास्ते गतव्यथाः ।
तं त्रिजातं पुरस्कृत्य स्थानकृत्यानि चक्रिरे ॥ ९२ ॥
एवं तन्नगरं जातमस्मात्कालादनंतरम् ॥
देवदेवस्य भर्गस्य प्रसादेन द्विजोत्तमाः ॥ ९३ ॥
एतद्यः पठते नित्यमाख्यानं नगरोद्भवम् ॥
न तस्य सर्पजं क्वापि कथंचिज्जायते भयम् । ९४ ॥
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नगरसंज्ञोत्पत्तिवर्णनंनाम चतुर्दशोत्तरशततमोऽध्यायः ॥ ११४ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 115
त्रिजातो ब्राह्मणस्तत्र किन्नामा कस्य सम्भवः ॥
किंगोत्रश्चैव किंसंज्ञः कीर्तयस्व महामते ॥ १ ॥
किं कुलीनैर्गुणाढ्यैर्वा तेजोविद्याविचक्षणैः ॥
त्रिजातोऽपि वरं सोऽपि स्वं स्थानं येन चोद्धृतम् ॥ २ ॥
सूत उवाच ॥ ॥ सांकृत्यस्य मुनेर्वंशे स संभूतो द्विजोत्तमः ॥
प्रभाव इति विख्यातो दत्तसंज्ञो निमेः सुतः ॥ ३ ॥
स एवं स्थानमुद्धृत्य चकारायतनं शुभम् ॥
त्रिजातेश्वरनाम्ना च देवदेवस्य शूलिनः ॥ ४ ॥
तमाराध्य दिवा नक्तं सम्यक्छ्रद्धासमन्वितः॥
सशरीरो गतः स्वर्गं ततः कालेन केनचित् ॥ ५ ॥
यस्तं पश्यति सद्भक्त्या स्नापयेद्विषुवे सदा ॥
न त्रिजातः कुले तस्य कथञ्चिदपि जायते ॥ ६ ॥
॥ ऋषय ऊचुः ॥ ॥
यानि गोत्राणि नष्टानि यानि संस्थापितानि च॥
नामतस्तानि नो ब्रूहि तत्पुरं सूत नन्दन ॥ ७ ।।
॥ सूत उवाच ॥ ॥
तत्रोपमन्युगोत्रा ये क्रौंचगोत्रसमुद्भवाः ॥
कैशोर्यं गोत्रसंभूतास्त्रैवणेया द्विजोत्तमः ८ ॥
ते भूयोऽपि न संप्राप्ता यथा गोत्रचतुष्टयम् ॥
तत्पूर्वकं शुकादीनां यन्नष्टं नागजाद्भयात् ॥ ९ ॥
शेषान्वः संप्रवक्ष्यामि ब्राह्मणान्गोत्रसंभवान् ॥
कौशिकान्वयसं भूताः षड्विंशतिश्च ते स्मृताः ॥ १० ॥
कश्यपान्वयसंभूताः सप्ताशीतिर्द्विजोत्तमाः ॥
लक्ष्मणान्वयसंभूता एकविंशतिरागताः ॥ ११ ॥
तत्र नष्टाः पुनः प्राप्तास्तस्मिन्स्थाने सुदुःखिताः ॥
भारद्वाजास्त्रयः प्राप्ताः कौंडनीयाश्चतुर्दश ॥ १२ ॥
रैतिकानां तथा विंशत्पाराशर्याष्टकं तथा ॥
गर्गाणां च द्विविंशं च हारीतानां विविंशतिः ॥ १३ ॥
और्वभार्गवगोत्राणां पञ्चविंशदुदाहृताः ॥
गौतमानां च षड्विंशमालूभायनविंशतिः ॥ १४ ॥
मांडव्यानां त्रिविंशच्च बह्वृचानां त्रिविंशतिः ॥
सांकृत्यानां विशिष्टानां पृथक्त्वेन दशैव तु ॥ १५ ॥
तथैवांगिरसानां च पंच चैव प्रकीर्तिताः ॥
आत्रेया दश संख्याताः शुक्लात्रेयास्तथैव च ॥ १६ ॥
वात्स्याः पञ्च समाख्याताः कौत्साश्च नव सप्त वै ॥
शांडिल्या भार्गवाः पञ्च मौद्गल्या विंशतिः स्मृताः ॥।७॥
बौधायनाः कौशलाश्च त्रिंशन्मात्राः प्रकीर्तिताः ॥
अथर्वाः पंचपंचाशन्मौनसाः सप्तसप्ततिः ॥।८॥
याजुषास्त्रिंशतिः ख्याताश्च्यावनाः सप्त विंशतिः ॥
आगस्त्याश्च त्रयस्त्रिंशज्जैमिनेया दशैव तु ॥ १९॥
नैवृताः पंचपंचाशत्पाठीनाः सप्ततिर्द्विजाः ॥
गोभिलाश्चापि काक्वाश्च पंचपंच द्विजाः स्मृताः ॥२॥।
औशनसाश्च दाशार्हास्त्रयस्त्रय उदाहृताः ॥
लोकाख्यानां तथा षष्टिरैणिशानां द्विसप्ततिः ॥२१॥।
कापिष्ठलाः शार्कराख्या दत्ताख्याः सप्तसप्ततिः ॥
शार्कवानां शतं प्रोक्तं दार्ज्यानां सप्तसप्ततिः॥२२॥
कात्यायन्यास्त्रयोऽधिष्ठा वैदिशाश्च त्रयः स्मृताः ॥
कृष्णात्रेयास्तथा पंच दत्तात्रेया स्तथैव च ॥२३॥
नारायणाः शौनकेया जाबालाः शतसंख्यया ॥
गोपाला जामदन्याश्च शालिहोत्राश्च कर्णिकाः ॥२४॥
भागुरायणकाश्चैव मातृकास्त्रैणवास्तथा॥
सर्वे ते ब्राह्मणश्रेष्ठाः क्रमेण द्विजसत्तमाः ॥२५॥
एतेषामेव सर्वेषां सत्काराय द्विजोतमाः ॥
चत्वारिंशत्तथाष्टौ च पुरा प्रोक्ताः स्वयंभुवा ॥२६॥
ते सर्वे च पृथक्त्वेन निर्दिष्टाः पद्मयोनिना ॥
संध्यातर्पणकृत्यानि वैश्वदेवोद्भवानि च ॥
श्राद्धानि पक्षकृत्यानि पितृपिंडांस्तथैव च ॥२७॥
यज्ञोपवीतसंयुक्ताः प्रवराश्चैव कृत्स्नशः ॥
तथा मौंजीविशेषाश्च शिखाभेदाः प्रकीर्तिताः ॥ २८ ॥
त्रिजातेन समाराध्य देवदेवं पितामहम् ॥
तेषां कृत्वा द्विजेद्राणामात्मकीर्तिकृते तदा ॥ २९ ॥
॥ ऋषय ऊचुः ॥ ॥
कथं सन्तोषितो ब्रह्मा त्रिजातेन महात्मना ॥
कर्मकांडं कथं भिन्नं कृतं तेन महात्मना ॥
सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि नः ॥ ३० ॥
॥ सूत उवाच ॥ ॥
तस्यार्थे ब्राह्मणैः सर्वैस्तोषितः प्रपितामहः ॥
अनेनैवोद्धृतं स्थानमस्माकं सकलं विभो ॥ ३१ ॥
तस्मादस्य विभो यच्छ वेदज्ञानमनुतमम् ॥
येन कर्मविशेषाश्च जायतेऽत्र पुरोत्तमे ॥ ३२ ॥
एतस्य च गुरुत्वं च प्रसादात्तव पद्मज ॥
यथा भवति देवेश तया नीतिर्विधीयताम् ॥ ३३ ॥
ब्रह्मा ददौ ततस्तस्य मंत्रग्राममनुत्तमम् ॥
येन विज्ञायते सर्वं वेदार्थो यज्ञकर्म च ॥ ३४ ॥
ततः प्रोवाच तान्सर्वान्प्रहष्टेनातरात्मना ॥
एष वेदार्थसंपन्नो भविष्यति महायशाः ॥ ३५ ॥
भर्तृयज्ञ इति ख्यातो यज्ञकर्मविचक्षणः ॥
यदेव वक्ति युष्माकं क्रियाकांडमशंकितैः ॥ ३ ॥
तत्कार्यं स्वर्गमोक्षाय मम वाक्यात्प्रबोधितैः ॥
वेदार्थानेष सर्वेषां युष्माकं योजयिष्यति ॥ ३७ ॥
ये चान्येषु च देशेषु स्थानेषु च गताः क्वचित् ॥
एतत्स्थानं परित्यज्य सत्यमेतद्विजोत्तमाः ॥ ३८ ॥
वेदस्थाने च बुद्ध्यैष यत्कर्म प्रचरिष्यति ॥
नानृते वाथ पापे च वाणी चास्य चरिष्यति ॥ ३९ ॥
एवमुक्त्वा स देवेशो विरराम पितामहः ॥
भर्तृयज्ञोऽपि ताः सर्वाश्चक्रे यज्ञक्रियाः शुभाः ॥ ६.११५.४० ॥
ब्राह्मणानां हितार्थाय श्रुत्यर्थं तस्य केवलम् ॥
दशप्रमाणाः संप्रोक्ताः सर्वे ते ब्राह्मणोत्तमाः ॥ ४१ ॥
चतुःषष्टिषु गोत्रेषु ह्येवं ते ब्राह्मणोत्तमाः ॥
तेन तत्र समानीतास्त्रिजातेन महात्मना ॥ ४२ ॥
तेषामेकत्र जातानि दशपंचशतानि च ॥
सामान्य भोगमोक्षाणि तानि तेन कृतानि च ॥ ४३ ॥
अष्टषष्टिविभागेन पूर्वमायुव्ययोद्भवम् ॥
तत्रासीदथ गोत्रे च पुरुषाणां प्रसंख्यया ॥ ४४ ॥
ततः प्रभृति सर्वेषां सामान्येन व्यवस्थितम् ॥
त्रिजातस्य च वाक्येन येन दूरादपि द्रुतम् ॥ ४५ ॥
समागच्छंति विप्रेन्द्राः पुरवृद्धिः प्रजायते ॥
न कश्चिद्याति संत्यक्त्वा दौस्थ्यादन्यत्र च द्विजाः ॥ ४६ ॥
ततस्तेषां सुतैः पौत्रैर्नप्तृभिश्च सहस्रशः ॥
दौहित्रैर्भागिनेयैश्च भूयो भूरि प्रपूरितम् ॥ ॥ ४७ ॥
तत्पुरं वृद्धिमायाति दूर्वांकुरैरिव द्विजाः ॥
कांडात्कांडात्प्ररोहद्भिः संख्याहीनैरनेकधा ॥ ४८ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं गोत्रसंख्यानकं शुभम् ॥
ऋषीणां कीर्तनं चापि सर्वपातकनाशनम् ॥ ४९ ॥
यश्चैतत्पठते नित्यं शृणुयाद्वा प्रभक्तितः ॥
न स्यात्तस्य कुलच्छेदः कदाचिदपि भूतले ॥ ६.११५.५० ॥
तथा विमुच्यते पापैराजन्ममरणोद्भवैः ॥
न पश्यति वियोगं च कदाचित्प्रियसंभवम् ॥ ५१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽष्टषष्टितीर्थोपाख्याने भर्तृयज्ञकृतयज्ञविधानमुनिगोत्रवर्णनंनाम पंचदशोत्तरशततमोऽध्यायः ॥ ११५ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 116
॥ ॥ सूतउवाच ॥ ॥
तथान्यापि च तत्रास्ति सुविख्याताम्बरेवती ॥
देवी कामप्रदा पुंसां बालकानां सुखप्रदा ॥ १ ॥
यां दृष्ट्वा पूजयित्वाऽथ चैत्राष्टम्यां विशेषतः ॥
शुक्लायां नाप्नुयान्मर्त्यः कुटुम्बव्यसनं क्वचित् ॥ २ ॥
॥ ॥ ऋषय ऊचुः ॥ ॥
केन वा स्थापिता तत्र सा देवी चाम्बरेवती ॥
किंप्रभावा किंस्वरूपा सूतपुत्र वदस्व नः ॥ ३ ॥
॥ सूत उवाच ॥ ॥
यदा शेषेण संदिष्टा नानानागा विषोल्बणाः ॥
पुरस्यास्य विनाशाय क्रोधसंरक्तलोचनाः ॥
तदा तस्य प्रिया सा च पुत्रशोकेनपीडिता ॥ ४ ॥
स्वयमेवाग्रतो गत्वा भक्षयामास तं द्विजम् ॥
कुटुम्बेन समायुक्तं येन पुत्रो निपातितः ॥ ५ ॥
अथ तस्य द्विजेन्द्रस्य बालवैधव्यसंयुता ॥
अनुजाऽऽसीत्तपोयुक्ता ब्रह्मचर्यकृतक्षणा ॥ ६ ॥
सा दृष्ट्वा भक्षितं सर्वं भट्टिकाख्या कुटुम्बकम् ॥
नाग पत्न्या ततः प्राह जलमादाय पाणिना ॥ ७ ॥
यस्मात्त्वया कुटुम्बं मे नाशं नीतं द्विजिह्वके ॥
दर्शितं च महद्दुःखं मम बन्धुजनोद्भवम् ॥ ८ ॥
तथा त्वमपि संप्राप्य मानुषत्वं सुगर्हितम् ॥
मानुषं पतिमासाद्य पुत्रपौत्रानवाप्य च ॥ ९ ॥
तेषां विनाशजं दुःखं मा नुषे त्वमवाप्स्यसि ॥
नागत्वे वर्तमानायाः शापं तेऽमुं ददाम्यहम् ॥ ६.११६.१० ॥
साऽपि श्रुत्वाऽथ तं शापं रेवती भट्टिकोद्भवम् ॥
क्रोधेन महताविष्टा ह्यदशत्तां द्रुतं ततः ॥ ११ ॥
अथ तस्यास्तनुं प्राप्य नागीदंष्ट्रा विषोल्बणा ॥
जगाम शतधा नाशं बिभिदे न त्वचं क्वचित् ॥ १२ ॥
ततः सा लज्जयाविष्टा स्वरक्तप्लावितानना ॥
विषण्णा निषसादाथ संनिविष्टा धरातले ॥ १३ ॥
एतस्मिन्नंतरे नागास्तथान्ये ये समागताः ॥
रेवतीं ते समालोक्य तथारूपां भयान्विताम् ॥
प्रोचुश्च किमिदं देवि तव वक्त्रे रुजास्पदम् ॥ १४ ॥
अथवा किं प्रभावोऽयं कस्यचिद्रक्तसंपदः ॥ १५ ॥
॥ ॥ रेवत्युवाच ॥ ॥
येयं दुष्टतमा काचिद्दृश्यते दुष्टतापसी ॥
अस्या जातो विकारोऽयं ममास्ये नागसत्तमाः ॥ १६ ॥
तस्मादेनां महा दुष्टां भगिनीं तस्य दुर्मतेः ॥
येन मे निहतः पुत्रो द्विजपुत्रेण सांप्रतम् ॥ १७ ॥
भक्ष्यतां भक्ष्यतां शीघ्रं मम नाशाय संस्थिताम् ॥
सांप्रतं मन्मुखे तेनं रुधिरं पन्नगोत्तमाः ॥ १८ ॥
अथ ते पन्नगाः क्रुद्धा ददंशुस्तां तपस्विनीम् ॥
समं सर्वेषु गात्रेषु यथान्या प्राकृता स्त्रियम् ॥ १९ ॥
ततस्तेषामपि तथा मुखाद्दंष्ट्रा विनिर्गताः ॥
रुधिरं च ततो जज्ञे शेषपत्न्या यथा तथा ॥ ६.११६.२० ॥
अथ तस्याः प्रभावं तं दृष्ट्वा ते नागसत्तमाः ॥
शेषा भय परित्रस्ताः प्रजग्मुश्च दिशो दश ॥ २१ ॥
भट्टिकापि जगामाशु स्वाश्रमं प्रति दुःखिता ॥
भयत्रस्तैः समंताच्च वीक्ष्यमाणा महोरगैः ॥ २२ ॥
ततः सर्वं समालोक्य ताप्यमानं महोरगैः॥
तत्स्थानं स्वजनैर्मुक्तं दुःखेन महतान्वितैः ॥ २३ ।
जगामान्यत्र सा साध्वी सम्यग्व्रतपरायणा ॥
तीर्थ यात्रां प्रकुर्वाणा परिबभ्राम मेदिनीम् ॥ २४ ॥
एवमुद्वासिते स्थाने तस्मिन्सा रेवती तदा ॥
स्मृत्वा तं भट्टिकाशापं दुःखेन महताऽन्विता ॥ २५ ॥
कथं मे मानुषीगर्भे शापाद्वासो भविष्यति ॥
मानुष्येण च कांतेन प्रभविष्यति संगमः ॥ २६ ॥
नैतत्पुत्रोद्भवं दुःखं तथा मां बाधते ह्रदि ॥
यथेदं मानुषे गर्भे संवासो मानुषं प्रति ॥ २७ ॥
तथा दशनसंत्यक्ता कथं भर्तुः स्वमाननम् ॥
दर्शयिष्यामि भूयोऽपि क्षते क्षारोऽत्र मे स्थितः ॥ २८ ॥
तस्मात्परिचरिष्यामि क्षेत्रेऽत्रैव व्यवस्थिता ।
किं करिष्यामि संप्राप्य गृहं पुत्रं विनाकृता ॥ २९ ॥
ततश्चाराधयामास सम्यक्छ्रद्धासमन्विता ॥
अंबिकां सा तदा देवीं स्थापयित्वा सुरेश्वरीम् ॥ ६.११६.३० ॥
गन्धपुष्पोपहारेण नैवेद्यैर्विविधैरपि ॥
गीतनृत्यैस्तथा वाद्यैर्मनोहारिभिरेव च ॥ ३१ ॥
ततः कतिपयाहस्य तस्तास्तुष्टा सुरेश्वरी ॥
प्रोवाच वरदाऽस्मीति प्रार्थयस्व हृदि स्थितम् ॥ ३२ ॥
॥ रेवत्युवाच ॥ ॥
अहं शप्ता पुरा देवि ब्राह्मण्या कारणांतरे ॥
यत्त्वं मानुषमासाद्य स्वयं भूत्वा च मानुषी ॥ ३३ ॥
ततः संप्राप्स्यसि फलं तेषां नाशसमुद्रवम् ॥
महद्दुःखं स्वपुत्रोत्थं मम शापेन पीडिता ॥ ३४ ॥
तथा मम मुखाद्दंष्ट्रा संनीताश्च सुरेश्वरि ॥
तेषां च संभवस्तावत्कथं स्यात्त्वत्प्रभावतः ॥ ३५ ॥
भवंतु तनया नश्च तथा वंशविवर्धनाः ॥
एतन्मे वांछितं देवि नान्यत्संप्रार्थयाम्यहम् ॥ ३६ ॥
॥ देव्युवाच॥ ।
नात्र वासस्त्वया कार्यः कथंचिदपि शोभने ॥
मनुष्यगर्भसंवासो भर्त्ता च भविता नरः । ३७ ।
तस्माच्छृणुष्व मे वाक्यं यत्त्वां वक्ष्यामि सांप्रतम् ॥
दुःखनाशकरं तुभ्यं सत्यं च वरवर्णिनि ॥ ॥ ३८ ॥
उत्पत्स्यति न संदेहो देवकार्यप्रसिद्धये ॥
तव भर्त्ता त्रिलोकेऽस्मिन्कृत्वा मानुषविग्रहम् ॥ ३९ ॥
तक्षकाख्यस्तथा नागो द्विजशाप वशाच्छुभे ॥
सौराष्ट्रविषये राजा रैवताख्यो भविष्यति ॥६.११६.४॥।
तस्य क्षेमकरी भार्या नामवंशसमुद्भवा ॥
भविष्यति न संदेहो विशिष्टा विप्रशापतः ॥ ॥४॥।
तस्या गर्भं समासाद्य त्वं जन्म समवाप्स्यसि ॥
रामरूपस्य शेषस्य पुनर्भार्या भविष्यसि ॥४२॥
तस्मात्त्वं देवि मा शोकं कार्येऽस्मिन्कुरु शोभने ॥
तेन मानुषजे गर्भे संभूतिः संभविष्यति ॥ ४३ ॥
तत्र पश्यसि यन्नाशं स्वकुटुम्बसमुद्भवम् ॥
हिताय तदवस्थायास्तद्भविष्यत्यसंशयम् ॥ ४४ ॥
ततः परं युगं पापं यतो भीरु भविष्यति ॥
तदूर्ध्वं मर्त्यधर्माणो म्लेच्छाः स्थास्यंति सर्वतः ॥ ४५ ॥
ततः स्वर्गनिवासार्थं भगवान्देवकीसुतः ॥
संहर्ता स्वकुलं सर्वं स्वयमेव न संशयः ॥ ४६ ॥
भविष्यंति पुनर्दंष्ट्रास्तव वक्त्रे मनोरमाः ॥
तस्मात्त्वं गच्छ पातालं स्वभर्त्ता यत्र तिष्ठति ॥ ४७ ॥
अन्यच्चापि यदिष्टं ते किंचिच्चित्ते व्यवस्थितम् ॥
तत्कीर्तयस्व कल्याणि महांस्तोषो मम स्थितः ॥ ४८ ।
॥ रेवत्यु वाच ॥ ॥
स्थाने स्थेयं सदाऽत्रैव मम नाम्ना सुरेश्वरि ॥
येन मे जायते कीर्तिस्त्रैलोक्ये सचराचरे ॥४९॥
तथाऽहं नागलोकाच्च चतुर्दश्यष्टमीषु च ॥
सदा त्वां पूजयिष्यामि विशेषान्नवमीदिने ॥६.११६.५०॥।
आश्विनस्य सिते पक्षे सर्वैर्नागैः समन्विता ॥
प्रपूजां ते विधास्यामि श्रद्धया परया युता ॥५१॥
तस्मिन्नहनि येऽन्येऽपि पूजां दास्यंति ते नराः ॥
मा पश्यंतु प्रसादात्ते नरास्ते वल्लभक्षयम् । ५२ ।
॥ देव्युवाच ॥ ॥
एवं भद्रे करिष्यामि वासो मेऽत्र भविष्यति॥
त्वन्नाम्ना पूजकानां च श्रेयो दास्यामि ते सदा ॥
महानवमिजे चाह्नि विशेषेण शुचिस्मिते ॥ ५३ ॥
॥ सूत उवाच ॥ ॥
एवमुक्ता तया साऽथ रेवती शेषवल्लभा ॥
जगाम स्वगृहं पश्चाद्धर्षेण महतान्विता ५४ ॥
ततःप्रभृति सा देवी तस्मिन्क्षेत्रे व्यवस्थिता ॥
तन्नाम्ना कामदा नृणां सर्वव्यसननाशिनी ॥ ५५ ॥
अंबा सा कीर्त्यते दुर्गा रेवती सोरगप्रिया ॥
ततः संकीर्त्यते लोके भूतले चांबरेवती ॥ ५६ ॥
यस्तां श्रद्धासमोपेतः शुचिर्भूत्वा प्रपूजयेत् ॥
नवम्यामाश्विने मासि शुक्लपक्षे समाहितः ॥
न स संवत्सरं यावद्व्यसनं स्वकुलो द्भवम्॥ ५७॥
दृष्ट्वाग्रे छिद्रकं व्यालयुक्तं दोषैर्विमुच्यते ॥
ग्रहभूतपिशाचोत्थैस्तथान्यैरपि चापदैः ॥ ५८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येंऽबारेवतीतीर्थमाहात्म्यवर्णनंनाम षोडशोत्तरशततमोऽध्यायः ॥ ॥ ११६ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 117
॥ ऋषय ऊचुः ॥ ॥
भट्टिकाख्या पुरा प्रोक्ता या त्वया सूतनन्दन ॥
कस्मात्तस्याः शरीरान्ताद्दंष्ट्रा नागसमुद्भवाः ॥ १ ॥
विशीर्णाः किं प्रभावश्च तपसः सूतनन्दन ॥
किं वा मंत्रप्रभावश्च एतन्नः कौतुकं परम् ॥ २ ॥
यन्मानुषशरीरेऽपि विशीर्णास्ता विषोल्बणाः ॥
नागानां तु विशेषेण तस्मात्सर्वं प्रकीर्तय ॥ ३ ॥
। सूत उवाच ॥ ॥
सा पुरा ब्राह्मणी बाल्ये वर्तमाना पितुर्गृहे ॥
वैधव्येन समायुक्ता जाता कर्मविपाकतः ॥ ४ ॥
ततो बाल्येऽपि शुश्राव शास्त्राणि विविधानि च ॥
देवयात्रां प्रचक्रेऽथ तीर्थे स्नाति समाहिता ॥ ५ ॥
तत्र केदारदेवं च गत्वा नित्यं समाहिता ॥
प्रातरुत्थाय गीतं च भक्त्या चक्रे तदग्रतः ॥ ६ ॥
ततस्तद्गीतलौल्येन पातालात्समुपेत्य च ॥
तक्षको वासुकिश्चैव द्विज रूपधरावुभौ ॥ ७ ॥
साऽपि तत्र महद्गीतं तानैः सर्वैरलंकृतम्॥
मूर्च्छनाभिः समोपेतं सप्तस्वरविराजितम् ॥ ८ ॥
यतिभिश्च तथा ग्रामैर्वर्णग्रामैः पृथ ग्विधैः॥
ततं च विततं चैव घनं सुषिरमेव च ॥ ९ ॥
तालकालक्रियामानवर्धमानादिकं च यत् ॥
अविदग्धापि सा तेषां गीतांगानां द्विजांगना ॥
केवलं कंठसंशुद्ध्या ताभ्यां तोषं समादधे ॥६.११७.१०॥॥
ततस्तद्गीतलोभेन सर्वे तत्पुरवासिनः ॥
प्रातरुत्थाय केदारं समागच्छंति कौतुकात् ॥॥॥
कस्य चित्त्वथ कालस्य नागौ तौ स्वपुरं प्रति ॥
निन्युर्बलात्समुद्यम्य सर्वलोकस्य पश्यतः॥ १२ ॥
नागरूपं समाधाय रौद्रं जनविभीषणम् ॥
भोगाग्र्येण च संवेष्ट्य पातालतलमभ्ययुः ॥ १३ ॥
अथ तां स्वगृहं नीत्वा प्रोचतुः कामपीडितौ ॥
भवावाभ्यां विशालाक्षि भार्या धर्मपरायणा ॥
एतदर्थं समानीता त्वं पाताले महीतलात् ॥ १४ ॥
॥ भट्टिकोवाच ॥ ॥
यत्त्वं तक्षक मां शांतामनपेक्षां रतोत्सवे ॥
आनैषीरपहृत्याशु ब्राह्मणान्वय संभवाम् ॥ १५ ॥
मानुषं रूपमास्थाय पुरा मां त्वं समाश्रितः ॥
कामोपहृतचित्तात्मा तस्मान्मर्त्यो भविष्यसि ॥ १६ ॥
यदि मां त्वं दुराचार धर्षयिष्यसि वीर्यतः ॥
शतधा तव मूर्धाऽयं सद्य एव भविष्यति ॥ १७ ॥
तं श्रुत्वा सुमहाशापं तस्याः स भयविह्वलः ॥
ततः प्रसादयामास कृतांजलिपुटः स्थितः ॥ १८ ॥
मया त्वं कामसक्तेन समानीता सुमोहतः ॥
तस्मात्कुरु प्रसादं मे शापस्यांतो यथा भवेत् ॥ १९ ॥
॥ सूत उवाच ॥ ॥
एवं प्रसादिता तेन तक्षकेण द्विजात्मजा ॥
ततः प्रोवाच तं नागं बाष्पव्याकुललोचना ॥ ६.११७.२० ॥
यदि मां मर्त्यलोके त्वं भूयो न यसि तक्षक ॥
तत्र शापस्य पर्यंतं करिष्यामि न संशयः ॥ २१ ॥
एतस्मिन्नंतरे ज्ञात्वा मानुषीं स्वगृहागताम् ॥
तक्षकेण समानीतां कामोपहतचे तसा ॥ २२ ॥
ततस्तस्य कलत्राणि महेर्ष्यासंश्रितानि च ॥
तस्या नाशार्थमाजग्मुः कोपरक्तेक्षणानि च ॥ २३
अथ तासां परिज्ञाय तक्षकः स विचेष्टितम् ॥
वाञ्छञ्छापस्य पर्यंतं तत्पार्श्वाद्भयसंयुतः ॥२४॥
वज्रां नामास्मरद्विद्यां तस्या गात्रं ततस्तया ॥
योजयामास रक्षार्थं प्राप्ता चाथ भुजंगमी ॥ २५ ॥
अदशत्तां ततः क्रुद्धा ब्राह्मणस्य सुतां सतीम्॥
सपत्नीं मन्यमानोच्चैः शीर्णदंष्ट्रा व्यजायत ॥ २६ ॥
अथ तामपि सा क्रुद्धा शशाप द्विजसंभवा ॥
दृष्ट्वा सापत्न्यजैर्भावैर्वर्तमानां सहेर्ष्यया ॥ २७ ॥
यस्मात्त्वं दोषहीनां मां सदोषामिव मन्यसे ॥
तस्माद्भव द्रुतं पापे मानुषी दुःखभागिनी ॥ २८ ॥
अथ तां संगृहीत्वा स तक्षको नागसत्तमः ॥
केदारायतने तस्मिन्नर्धरात्रे मुमोच ह ॥ २९ ॥
ततः प्रोवाच तां देवीं कृतां जलिपुटः स्थितः ॥
शापांतं कुरु मे साध्वि स्वगृहं येन याम्यहम् ॥ ६.११७.३० ॥
॥ भट्टिकोवाच ॥ ॥
सौराष्ट्रविषये राजा त्वं भविष्यसि पन्नग ॥
भूमौ रैवतको नाम भोगानां भाजनं सदा ॥ ३१ ॥
ततश्चैव तनुं त्यक्त्वा क्षेत्रेष्वाश्रममध्यतः ॥
संप्राप्स्यसि निजं स्थानं तत्क्षेत्रस्य प्रभावतः ॥ ॥ ३२ ॥
॥ तक्षक उवाच ॥ ॥
एषा मम प्रिया कांता त्वया शापेन योजिता ॥
या सा भवतु मे भार्या मानुषत्वेऽपि वर्तिते ॥ ३३ ॥
एत त्कुरु प्रसादं मे दीनस्य परियाचतः ॥
माऽस्या भवतु चान्येन पुरुषेण समागमः ॥ ३४ ॥
॥ भट्टिकोवाच ॥ ॥
आनर्ताधिपतेरेषा भवित्री दुहिता शुभा॥
ततः पाणिग्रहं प्राप्य भार्या तव भविष्यति॥३५॥
क्षेमंकरीति विख्याता रूपयौवनशालिनी ॥
त्वया सार्धं बहून्भोगान्भुक्त्वाऽथ पृथिवीतले॥
परलोके पुनस्त्वां वै चानुयास्यति शोभना ॥ ३६॥
॥ सूत उवाच ॥ ॥
एवं च स तया प्रोक्तः क्षम्यतामिति सादरम् ॥
प्रणिपत्य जगामाऽथ निजं स्थानं प्रहर्षितः ॥३७॥
साऽपि प्राप्ते निशाशेषे केदारस्य पुरः स्थिता ॥
पुनश्चक्रे च तद्गीतं श्रुतिसौख्यकरं परम्॥३८॥
अथ तस्य समायाताः केदारस्य दिदृक्षवः॥
पुनः केदारभक्त्याढ्या ब्राह्मणाः शतशः परम् ॥३९॥
ते तां दृष्ट्वा समायातां भट्टिंकां तां द्विजोद्भवाम् ॥
विस्मयेन समायुक्ताः पप्रच्छुस्तदनंत रम्॥६.११७.४०॥।
कोऽसौ ब्राह्मणरूपेण नागः प्राप्तः सुशोभने ॥
तेन त्वं कुत्र नीतासि किमर्थं च वदस्व नः॥४॥।
कस्मात्पुनः प्रमुक्ताऽसि सर्वं वद यथातथम्॥
अत्र नः कौतुकं जातं सुमहत्तव कारणात्॥४२॥
॥ सूत उवाच ॥ ॥
ततः सा कथयामास सर्वं तक्षकसंभवम् ॥
वृत्तांतं नागसंभूतं शापानुग्रहजं तथा ॥ ४३ ॥
एतस्मिन्नंतरे प्राप्तं सर्वं तस्याः कुटुम्बकम् ॥
रोरूयमाणं दुःखार्तं श्रुत्वा तां तत्र चागताम् ॥ ४४ ॥
अथ सा जननी तस्या वाष्प पर्याकुलेक्षणा ॥
सस्वजे तां तथा चान्याः सख्यः स्निग्धेन चेतसा ॥ ४५ ॥
ततो निन्युर्गृहं स्वं च शृण्वंतश्च मुहुर्मुहुः ॥
नागलोकोद्भवां वार्तां विस्य याविष्टचेतसः ॥ ४६ ॥
अथ तत्र पुरे पौराः सर्वे प्रोचुः परस्परम् ॥
अयुक्तं कृतमेतेन ब्राह्मणेन दुरात्मना ॥ ४७ ॥
यदानीता सुतरुणी परहर्म्योषिता तया? ॥
अन्येषामपि विप्राणां संति नार्यो ह्यनेकशः ॥ ४८ ॥
तरुण्यो रूपवत्यश्च वैधव्येन समन्विताः ॥
तासामपि च सर्वासामेष न्यायो भविष्यति ॥
योनिसंकरजो नूनं तस्मान्निर्वास्यतामिति ॥ ४९ ॥
एकीभूय ततः सर्वे ब्राह्मणं तं द्विजोत्तमाः ॥
सामपूर्वमिदं वाक्यं प्रोचुः शास्त्र समुद्भवम् ॥ ६.११७.५० ॥
एषा तव सुता विप्र तरुणी रूपसंयुता ॥
सानुरागेण नागेण पाताले च समाहृता ॥ ५१ ॥
तद्वक्ष्यति प्रमुक्ताहं निर्दोषा तेन रागिणा ॥
न श्रद्धां याति लोकोऽयं शुद्धैषा समुदाहृता ५२ ॥
तस्माच्छुद्धिं द्विजेद्राणां प्रयच्छतु द्विजोत्तम ॥
येनान्येषामपि प्राज्ञ विनश्यंति न योषितः ॥ ५३ ॥
बाढमित्येव स प्रोक्त्वा ततस्तां विजने सुताम् ॥
पप्रच्छ यदि ते दोषः कश्चिदस्ति प्रकीर्तय॥ ५४ ॥
नो चेत्प्रयच्छ संशुद्धिं ब्राह्मणानां प्रतुष्टये ॥ ५५ ॥
॥ भट्टिकोवाच ॥ ॥
युक्तमुक्तं त्वया तात तथान्यैरपि च द्विजैः ॥
युक्ता स्याद्योषितः शुद्धिर्द्वारातिक्रमणादपि॥ ॥ ॥ ५६ ॥
किं पुनः परदेशं च गताया रागिणा सह ॥
तस्मादहं न संदेहः प्रातः स्नाता हुताशनम् ॥ ५७ ॥
प्रविश्य सर्वविप्राणां शुद्धिं दास्याम्य संशयम् ॥
अहमत्र च पानं च यच्चान्यदपि किंचन ॥
प्राशयिष्यामि संप्राप्य शुद्धिं चैव हुताशनात् ॥ ५८ ॥
एवमुक्तस्तया सोऽथ हर्षेण महतान्वितः ॥
प्रातरुत्थाय दारूणि पुरबाह्ये न्ययोजयत् ॥ ५९ ॥
भट्टिकाऽपि ततः स्नात्वा शुक्लांबरधरा शुचिः ॥
सर्वैः परिजनैः सार्धं तथा निज कुटुंबकैः ॥ ६.११७.६० ॥
प्रसन्नवदना हृष्टा विष्णुध्यानपरायणा ॥
जगाम तत्र यत्रास्ते सुमहान्दारुपर्वतः ॥ ६१ ॥
ततो वह्निं समाधाय स्वयं तत्र द्विजोत्तमाः॥
प्रदक्षिणात्रयं कृत्वा प्राह चैव कृतांजलिः ॥ ६२ ।
यदि मेऽस्ति क्वचिद्दोषः कामजोऽल्पोऽपि गात्रके ॥
कृतो वाऽपि बलात्तेन तक्षकेण दुरात्मना ॥ ६३ ॥
अन्येनापि च केनापि भविष्यत्यथवा परः ॥
तस्मात्प्रदहतु क्षिप्रं समिद्धोऽयं हुताशनः ॥ ६४
एवमुक्त्वाऽथ सा साध्वी प्रविष्टा निजहर्म्यवत् ॥
सुसमिद्धो हुतो वह्निर्जातो जलमयः क्षणात् ॥ ६५ ॥
सा च पश्यति चात्मानं जलमध्यगतां शुभा ।८०
पपाताऽथ महावृष्टिः कुसुमानां नभस्तलात् ॥ ६६ ॥
देवदूतो विमानस्थ इदं वाक्यमुवाच ह ॥
शुद्धासि त्वं महाभागे चारित्रै र्निजगात्रजैः ॥ ६७ ॥
न त्वया सदृशी चान्या काचिन्नारी भविष्यति ॥
तिस्रः कोट्योर्धकोटी च यानि लोमानि मानुषे ॥
प्रभवंति महाभागे सर्वगात्रेषु सर्वदा ॥ ६८ ।
तेषां मध्ये न ते साध्वि पापमेकमपि क्वचित् ।
तस्माच्छीघ्रं ग्रहं गच्छ निजं बांधवसंयुता ॥ ६९ ॥
कुरु कृत्यानि पुण्यानि समाराधय केशवम् ॥
एतच्चैव चितेः स्थानं त्वदीयं जलपूरितम् ॥ ६.११७.७० ॥
तव नाम्ना सुविख्यातं तीर्थं लोके भविष्यति ॥
येऽत्र स्नानं करिष्यंति शयने बोधने हरेः ॥ ७१ ॥
ते यास्यंति परां सिद्धिं दुष्प्राप्या याऽमरैरपि ॥
उक्त्वैवं विरता वाणी देवदूतसमुद्भवा ॥ ७२ ॥
भट्टिका तु ततो हृष्टा प्रणम्य जनकं निजम् ॥
नाहं गृहं गमिष्यामि किं करिष्याम्यहं गृहे ॥ ७३ ॥
अत्रैवाराधयिष्यामि निजतीर्थे सदाऽच्यु तम् ॥
तथा तपः करिष्यामि भिक्षान्नकृतभोजना ॥ ७४ ॥
तस्मात्तात गृहं गच्छ स्थिताऽहं चाग्र संश्रये ॥ ७५ ॥
ततः स जनकस्तस्यास्ते वाऽपि पुरवासिनः ॥
संप्रहृष्टा गृहं जग्मुः शंसतस्तां पृथक्पृथक् ॥ ७६ ॥
तया त्रैविक्रमी तत्र प्रतिमा प्राग्विनिर्मिता ॥
पश्चान्माहेश्वरं लिंगं कृत्वा प्रासादमुत्तमम् ॥ ७७ ॥
ततः परं तपश्चक्रे भिक्षान्नकृतभोजना ॥
शस्यमाना जनैः सर्वैश्चमत्कारपुरोद्भवैः ॥ ७८ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥
यथा तस्या दृढं कायमभेद्यं संस्थितं सदा ॥ ७९ ॥
सर्पाणां च तथाऽन्येषां शस्त्रादीनामपि द्विजाः ॥
यश्चैतत्पठते नित्यं भट्टिकाख्यानमुत्तमम् ॥
नापवादो भवेत्तस्य कुकृतो द्विजसत्तमाः ॥ ६.११७.८० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये भट्टिकातीर्थोत्पत्तिमाहात्म्यकथनंनाम सप्तदशोत्तरशततमोऽध्यायः ॥ ॥ ११७ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 118
॥ ऋषय ऊचुः ॥ ॥
यत्त्वया सूतज प्रोक्तं तक्षकः संभविष्यति ॥
सौराष्ट्रविषये राजा रैवताख्यो महाबलः ॥ १ ॥
तथा तस्य प्रिया भार्यो नाम्ना क्षेमंकरीति या ॥
आनर्ताधिपतेर्हर्म्ये संभविष्यति भामिनी ॥ २ ॥
ताभ्यां सर्वं समाचक्ष्व वृत्तांतं सूतनंदन ॥
अत्र नः कौतुकं जातं विचित्रं जल्पतस्तव ॥ ३ ॥
केदारश्च श्रुतोऽस्माभिः सूतपुत्र हिमाचले ॥
स कथं तत्र संजातः सर्वं विस्तरतो वद ॥ ४॥ ॥
॥ सूत उवाच ॥ ॥
अत्र वः कीर्तयिष्यामि सर्वं ब्राह्मणसत्तमाः ॥
यथा मया श्रुतं पूर्वं निजतातमुखाद्द्विजाः ॥ ६ ॥
पूर्वं तच्छापदोषेण तक्षको धरणीतले ॥
सौराष्ट्राधिपतेर्हर्म्ये रैवताख्यो बभूव ह ॥ ६ ॥
आनर्त्ताधिपतेश्चापि संजाता तनया गृहे ॥
तस्याश्चापि सुविख्यातं नाम जातं धरातले ॥ ७ ॥
क्षेमंकरीति विप्रेन्द्राः कर्मणा प्रकटीकृतम् ॥
आनर्ताधिपतिः पूर्वमासीद्राजा प्रभंजनः ॥ ८ ॥
तस्य वैरं समुत्पन्नं बहुभिः सह भूमिपैः ॥
ततो निर्वास्यते देशो नीयते पशवो बलात् ॥
शत्रुभिर्जायते युद्धं दिवा नक्तं द्विजोत्तमाः॥९॥
ततः कतिपयाहस्य तस्य भार्या प्रियंवदा ॥
ऋतुस्नाता दधाराथ गर्भं पुण्यं निजोदरे॥६.११८.१०॥॥
यतः प्रभृति तस्याः स गर्भोऽभूदुदराश्रयः॥
ततः प्रभृति राष्ट्रस्य क्षेमं जातं तथा पुरे॥॥॥
एके संख्ये जिता स्तेन शत्रवोऽपि सुदुर्जयाः ॥
निहताश्च तथैवान्ये मित्रभावं समाश्रिताः ॥ १२॥
ततो जज्ञे शुभा कन्या तस्याः पद्मायतेक्षणा॥
अंधकारेऽपि यद्रात्र्यां द्योतितं सूतिकागृहम्॥।३॥
अथाऽसौ पार्थिवश्चक्रे सुतवत्सुमहोत्सवम्॥
तस्यास्तोषसमायुक्तो गीतवाद्यादिनिस्वनैः ॥।४॥
दिने त्रयोदशे प्राप्ते नाम तस्या यथोचितम्॥
विहितं भूभुजा तेन विप्राणां पुरतो द्विजाः ॥।५॥
यस्मात्क्षेमं समुत्पन्नं गर्भवासेऽपि संस्थया ॥
अनया क्षेमंकरीनाम तस्मादेषाभवे द्द्विजाः ॥।६॥
एवं सुविहिता ख्याता वृद्धिं याति दिनेदिने ॥
शुक्लपक्षे कला चेन्दोर्यथैव गगनांगणे॥।७॥
ततस्तां यौवनोपेतां रैवताय महीपतिः ॥
ददौ सौराष्ट्रनाथाय काले वैवाहिके शुभे ॥ १८ ॥
अथ ताभ्यां सुता जाता रेवतीनाम विश्रुता ॥
भट्टिकाशापदोषेण शेषपत्नी यशस्विनी ॥।९॥
या तूढा रामरूपेण नागराजेन धीमता ॥
पुत्रपौत्रवती जाता सौभाग्यमदगर्विता ॥ ६.११८.२० ॥
न च ताभ्यां सुतो जातः कथंचिदपि वंशजः ॥
वयसोंऽतेऽपि विप्रेंद्रास्ततो दुःखं व्यजायत ॥ २१ ॥
अथ तौ मंत्रिवर्गस्य राज्यं सर्वमशेषतः ॥
अर्पयित्वा तु पुत्रार्थं तपोऽर्थमिह चागतौ ॥ ॥ २२ ॥
ततः स्वमाश्रमं गत्वा स्थितौ तत्र समाहितौ ॥
देवीं कात्यायनीं स्थाप्य तदाराधनतत्परौ ॥ २३ ॥
यया विनिहतो रौद्रो महिषाख्यो महासुरः ॥
कौमारव्रतधारिण्या तस्मिन्विन्ध्ये महाचले ॥ २४ ॥
ततस्ताभ्यां ददौ तुष्टा सा पुत्रं वंशवर्धनम् ॥
नाम्ना क्षेमजितं ख्यातं परपक्षक्षया वहम् ॥ २५ ॥
ततः स्वं राज्यमासाद्य भूयोऽपि स महीपतिः ॥.
स्वपुत्रं वर्धयामास हर्षेण महतान्वितः ॥ २६ ॥
यदा स यौवनोपेतः सञ्जातः क्षेमजित्सुतः ॥
तं च राज्ये नियोज्याऽथ स्वस्थानं स पुनर्ययौ ॥ २७ ॥
हाटकेश्वरजं क्षेत्रं तदेतद्द्विजसत्तमाः ॥
भार्यया सहितस्त्यक्त्वा शेषमन्यं परिच्छदम् ॥ २८ ॥
तत्र संस्थापयामास लिंगं देवस्य शूलिनः ॥
प्रासादं च मनोहारि ततश्चक्रे समाहितः॥ २९
रैवतेश्वरमित्युक्तं सर्वपातक नाशनम् ॥
दर्शनादेव सर्वेषां देहिनां द्विजसत्तमाः ॥ ६.११८.३० ॥
या पूर्वं स्थापिता दुर्गा तस्मिन्क्षेत्रे महीभुजा ॥
तस्याः क्षेमंकरी चक्रे प्रासादं श्रद्ध यान्विता ॥ ३१ ॥
सापि क्षेमंकरीनाम ततः प्रभृति कीर्त्यते ॥
कात्यायन्यपि या प्रोक्ता महिषासुरमर्दिनी ॥ ३२ ॥
यस्तां चैत्रसिते पक्षे संप श्येदष्टमीदिने ॥
तस्याभीष्टा भवेत्सिद्धिः सर्वदैव द्विजोत्तमाः ॥ ३३ ॥
एतद्वः सर्वमाख्यातं रैवतेश्वरवर्णनम् ॥
क्षेमंकर्याः प्रभावं च सर्वपातकनाशनम् ॥ ३४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये क्षेमंकरीरैवतेश्वरोत्पत्तितीर्थ माहात्म्यवर्णननामाष्टादशोत्तरशततमोऽध्यायः ॥ ११८ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 119
॥ ॥ऋषय ऊचुः ॥ ॥
यत्वया सूतज प्रोक्तं देवी कात्यायनी च सा ॥
महिषांतकरी जाता कथं सा मे प्रकीर्तय॥॥।
कीदृग्दानववर्यः स माहिषं रूपमाश्रितः ॥
कस्मात्स सूदितो देव्या तन्मे विस्तरतो वद ॥२॥
॥ सूत उवाच ॥ ॥
अत्र वः कीर्तयिष्यामि देव्या माहात्म्यमुत्तमम् ॥
श्रुतमात्रेऽपि मर्त्यानां येन शत्रुक्षयो भवेत् ॥ ३ ॥
हिरण्याक्षसुतः पूर्वं महिषोनाम दानवः ॥
आसीन्महिषरूपेण येन भुक्तं जगत्त्रयम्॥४॥
॥ ऋषय ऊचुः ॥ ॥
माहिषेण स्वरूपेण किंजातः सूतनंदन ॥
अथवा शापदोषेण सञ्जातः केनचिद्वद ॥५॥
॥ सूत उवाच ॥ ॥
संजातो हि सुरूपाढ्यः शतपत्रनिभाननः ॥
दीर्घबाहुः पृथुग्रीवः सर्वलक्षणलक्षितः ॥
नाम्ना चित्रसमः प्रोक्तस्तेजोवीर्यसमन्वितः । ६ ॥
सबाल्यात्प्रभृति प्रायो महिषाणां प्रबोधनम् ॥
करोति संपरित्यज्य सर्वमश्वादिवाहनम्॥ ७ ॥
कदाचिन्महिषारूढः स प्रतस्थे दनोः सुतः ॥
जाह्नवीतीरमासाद्य विनिघ्नञ्जलपक्षिणः ॥ ९ ॥
अथासीत्सुसमाधिस्थो दुर्वासा मुनिसत्तमः ॥
गंगातीरे विधायोच्चैः पद्मा सनमनुत्तमम् ॥ ९ ॥
विहंगासक्तचित्तेन शून्येन स मुनीश्वरः ॥
दृष्टो न महिषक्षुण्णः खुरैर्वेगवशाद्द्विजः ॥ ६.११९.१० ॥
ततः क्षतजदिग्धांगः स दृष्ट्वा दानवं पुरः ॥
अथ दृष्ट्वा प्रणामेन रहितं कोपमाविशत्॥॥॥
ततः प्रोवाच तं क्रुद्धस्तोयमादाय पाणिना ॥
यस्मात्पाप मम क्षुण्णं गात्रं महिषजैः खुरैः ॥ १२ ॥
समाधेश्च कृतो भंगस्तस्मात्त्वं महिषो भव ॥
यावज्जीवसि दुर्बुद्धे सम्यग्ज्ञानसमन्वितः ॥ १३ ॥
अथाऽसौ महिषो जातः कृष्णगात्रधरो महान् ॥
अतिदीर्घविषाणश्च अंजनाद्रिरिवापरः ॥ १४ ॥
ततः प्रसादयामास तं मुनिं विनयान्वितः ॥
शापातं कुरु मे विप्र बाल्यभावादजानतः ॥ १५ ॥
अथ तं स मुनिः प्राह न मे स्याद्वचनं वृथा ॥
तस्माद्यावत्स्थिताः प्राणास्तावदित्थं भविष्यति ॥ १६ ॥
महिषस्य स्वरूपेण निन्दितस्य सुदुर्मते ॥
एवं स तं परित्यज्य गंगातीरं मुनीश्वरः ॥
जगामाऽन्यत्र सोऽप्याशु गत्वा शुक्रमुवाच ह ॥ १७ ॥
अहं दुर्वाससा शप्तः कस्मिंश्चित्कारणांतरे ॥
महिषत्वं समानीतस्तस्मात्त्वं मे गतिर्भव ॥ १८ ॥
यथा स्यात्पूर्वजं देहं तिर्यक्त्वं नश्यते यथा ॥
प्रसादात्तव विप्रेंद्र तथा नीतिर्विधीयताम् ॥ १९ ॥
॥ शुक्र उवाच ॥ ॥
तस्य शापोऽन्यथा कर्तुं नैव शक्यः कथंचन ॥
केनापि संपरित्यज्य देवमेकं महेश्वरम् ॥ ६.११९.२० ॥
तस्मादाराधयाऽऽशु त्वं गत्वा लिंगमनुत्तमम् ॥
हाटकेश्वरजे क्षेत्रे सर्वसिद्धिप्रदायके ॥ २१ ॥
तत्र सञ्जायते सिद्धिः शीघ्रं दानवसत्तम ॥
अपि पापयुगे प्राप्ते किं पुनः प्रथमे युगे। २२ ॥
एवमुक्तः स शुक्रेण दानवः सत्वरं ययौ ॥
हाटकेश्वरजं क्षेत्रं तपस्तेपे ततः परम् ॥ २३ ॥
स्थापयित्वा महल्लिगं भक्त्या देवस्य शूलिनः ॥
प्रासादं च ततश्चक्रे कैलासशिखरोपमम् ॥ ०९४ ॥
तस्यैवं वर्तमानस्य तपःस्थस्य महात्मनः ॥
जगाम सुमहान्कालः कृच्छ्रे तपसि वर्ततः ॥ २५ ॥
ततस्तुष्टो महादेवो गत्वा तद्दृष्टिगोचरम् ॥
प्रोवाच परितुष्टोऽस्मि वरं वरय दानव ॥ २६ ॥
॥ महिष उवाच ॥ ॥
अहं दुर्वाससा शप्तो महिषत्वे नियोजितः ॥
तिर्यक्त्वं नाशमायातु तस्मान्मे त्वत्प्रसादतः ॥ २७ ॥
॥ श्रीभगवानुवाच ॥ ॥
नान्यथा शक्यते कर्तुं तस्य वाक्यं कथंचन ॥
तस्मात्तव करिष्यामि सुखोपायं शृणुष्व तम् ॥ २८ ॥
ये केचिन्मानवा भोगा दैविका ये तथाऽऽसुराः ॥
ते सर्वे तव गात्रेऽत्र सम्प्रयास्यंति संश्रयम् ॥ २९ ॥
भोगार्थमिष्यते कायं यतो मर्त्यं सुरासुरैः ॥
समवाप्स्यसि तान्सर्वांस्तस्मात्तव कलेवरम् ॥ ६.११९.३७ ॥
॥ महिष उवाच ॥ ॥
यद्येवं देवदेवेश भोगप्राप्तिर्भवेन्मम ॥
तस्मादवध्यमेवास्तु गात्रमेतन्मम प्रभो ॥ ३१ ॥
दशानां देवयोनीनां मनुष्याणां विशेषतः ॥
तिर्यञ्चानां च नागानां पक्षिणां सुरसत्तम ॥ ३२ ॥
॥ श्रीभगवानुवाच ॥ ॥
नावध्योऽस्ति धरापृष्ठे कश्चिद्देही च दानव ॥
तस्मादेकं परित्यक्त्वा शेषान्प्रार्थय दैत्यप ॥ ३३ ॥
ततः स सुचिरं ध्यात्वा प्रोवाच वृषभध्वजम् ॥
स्त्रियमेकां परित्यक्त्वा नान्येभ्यस्तु वधो मम ॥ ३४ ॥
तथात्र मामके तीर्थे यः कश्चिच्छ्रद्धया नरः ॥
करोति स्नानमव्यग्रस्त्वां पश्यति ततः परम् ॥ ३५ ॥
तस्य स्यात्त्वत्प्रसादेन संसिद्धिः सार्वकामिकी ॥
सर्वोपद्रवनाशश्च तेजोवृद्धिश्च शंकर ॥ ३६ ॥
॥ श्रीभगवानुवाच ॥ ॥
मार्गशुक्लचतुर्दश्यां तीर्थे स्नात्वाऽत्र तावके ॥
विलोकयिष्यति प्रीत्या मम लिंगं ततः परम् ॥ ३७ ॥
भूतप्रेतपिशाचादि संभवास्तस्य तत्क्षणात् ।
दोषा नाशं प्रयास्यंति तथा रोगा ज्वरादयः ॥ ३८ ॥
एवमुक्त्वाऽथ देवेशस्ततश्चादर्शनं गतः ॥
महिषोऽपि निजं स्थानं प्रजगाम ततः परम् ॥ ३९ ॥
स गत्वा दानवान्सर्वान्समाहूय ततः परम् ॥
प्रोवाचामर्षसंयुक्तः सभामध्ये व्यवस्थितः ॥ ६.११९.४० ॥
पिता मम पितृव्यश्च ये चान्ये मम पूर्वजाः ॥
दानवा निहता देवैर्वासुदेवपुरोगमैः ॥ ४१ ॥
तस्मात्तान्नाशयिष्यामि देवानपि महाहवे ॥
अहं त्रैलोक्यराज्यं हि ग्रहीष्यामि ततः परम् ॥ ४२ ॥
अथ ते दानवाः प्रोचुर्युक्तमेतदनुत्तमम् ॥
अस्मदीयमिदं राज्यं यच्छक्रः कुरुते दिवि ॥ ४३ ॥
तस्मादद्यैव गत्वाऽऽशु हत्वेन्द्रं रणमूर्धनि ॥
दिव्यान्भोगान्प्रभुञ्जानाः स्थास्यामः सुखिनो दिवि ॥ ४४ ॥
एवं ते दानवाः सर्वे कृत्वा मंत्रविनिश्चयम् ॥
मेरुशृंगं ततो जग्मुः सभृत्यबलवाहनः॥४५॥
अथ शक्रादयो देवा दृष्ट्वा तद्दानवोद्भवम्॥
अकस्मादेव संप्राप्तं बलं शस्त्रास्त्रसंयुतम्॥
युद्धार्थं स्वपुरद्वारि निर्ययुस्तदनंतरम्॥४६॥
आदित्या वसवो रुद्रा नासत्यौ च भिषग्वरौ।
विश्वेदेवास्तथा साध्याः सिद्धा विद्याधराश्च ये॥४७॥
ततः समभवद्युद्धं देवानां सह दानवैः।
मिथः प्रभर्त्स्यमानानां मृत्युं कृत्वा निवर्तनम्॥४८॥
एवं समभवद्युद्धं यावद्वर्षत्रयं दिवि।
रक्तनद्योतिविपुलास्तत्रातीव प्रसुस्रुवुः।४९॥
अन्यस्मिन्दिवसे शक्रं दृष्टैवारावणसंस्थितम्।
तं शुक्लेनातपत्रेण ध्रियमाणेन मूर्धनि।
देवैः परिवृतं दिव्यशस्त्रपाणिभिरेव च॥६.११९.५०॥
ततः कोपपरीतात्मा महिषो दानवाधिपः।
महावेगं समासाद्य तस्यैवाभिमुखो ययौ॥५१॥
शृंगाभ्यां च सुतीक्ष्णाभ्यां ततश्चैरावणं गजम्।
विव्याध हृदये सोऽथ चक्रे रावं सुदारुणम्॥५२॥
ततः पराङ्मुखो भूत्वा पलायनपरायणः।
अभिदुद्राव वेगेन पुरी यत्रामरावती॥५३॥
अंकुशोत्थप्रहारैश्च क्षतकुंभोऽपि भूरिशः।
महामात्रनिरुद्धोऽपि न स तस्थौ कथंचन॥५४॥
अथाब्रवीत्सहस्राक्षो महिषं वीक्ष्य गर्वितम्।
गर्जमानांस्तथा दैत्यान्क्ष्वेडनास्फोटनादिभिः॥५५॥
मा दैत्य प्रविजानीहि यन्नष्टस्त्रिदशाधिपः।
एष नागो रणं हित्वा विवशो याति मे बलात्॥५६॥
तस्मात्तिष्ठ मुहूर्तं त्वं यावदास्थाय सद्रथम्।
नाशयामि च ते दर्पं निहत्य निशितैः शरैः॥५७॥
एतस्मिन्नंतरे प्राप्तो मातलिः शक्रसारथिः।
सहस्रैदर्शभिर्युक्तं वाजिनां वातरंहसाम्॥५८॥
ते ऽथ मातलिना अश्वाः प्रतोदेन समाहताः।
उत्पतंत इवाकाशे सत्वं संप्रदुद्रुवुः॥५९॥
अथ चापं समारोप्य सत्वरं पाकशासनः।
शरैराशीविषाकारैश्छादयामास दानवम्॥६.११९.६०॥
ततः स वेगमास्थाय भूयोऽपि क्रोधमूर्छितः।
अभिदुद्राव वेगेन स यत्र त्रिदशाधिपः॥६१॥
ततस्तान्सुहयांस्तस्य शृंगाभ्यां वेगमाश्रितः।
दारयामास संक्रुद्ध आविध्याविध्य चासकृत्॥६२॥
ततस्ते वाजिनस्त्रस्ताः संजग्मुः क्षतवक्षसः।
रक्तप्लावितसर्वांगा मार्गमैरावणस्य च॥६३॥
ततः शक्ररथं दृष्ट्वा विमुखं सुरसत्तमाः।
सर्वे प्रदुद्रुवुर्भीतास्तस्य मार्गमुपाश्रिताः॥६४॥
ततस्तु दानवाः सर्वे भग्नान्दृष्ट्वा रणे सुरान्।
शस्त्रवृष्टिं प्रमुंचंतो गर्जमाना यथा घनाः॥६५॥
एतस्मिन्नंतरे प्राप्ता रजनी तमसावृता।
न किंचित्तत्र संयाति कस्यचिद्दृष्टिगोचरे॥६६॥
ततस्तु दानवाः सर्वे युद्धान्निर्वृत्य सर्वतः।
मेरुशृंगं समाश्रित्य रम्यं वासं प्रचक्रमुः॥६७॥
विजयेन समायुक्तास्तुष्टिं च परमां गताः।
कथाश्चक्रुश्च युद्धोत्था युद्धं तस्य यथा भवत्॥६८॥
देवाश्चापि हतोत्साहाः प्रहारैः क्षतविक्षताः।
मंत्रं चक्रुर्मिथो भूत्वा बृहस्पतिपुरःसराः॥६९॥
सांप्रतं दानवैः सैन्यमस्माकं विमुखं कृतम् ॥
विध्वस्तं सुनिरुत्साहमक्षमं युद्धकर्मणि ॥ ६.११९.७० ॥
तस्मात्त्यक्त्वा प्रवेक्ष्यामः पुरीं चैवामरावतीम् ॥
ब्रह्मणः सदनं यत्र न स्याद्दानवजं भयम्॥७॥।
एवं ते निश्चयं कृत्वा ब्रह्मलोकं ततो गताः ॥
शून्यां शक्रपुरीं कृत्वा सर्वे देवाः सवासवाः॥७२॥
ततः प्रातः समुत्थाय दानवास्ते प्रहर्षिताः ॥
शून्यां शक्रपुरीं दृष्ट्वा विविशुस्तदनंतरम् ॥ ७३ ॥
अथ शाक्रे पदे दैत्यं महिषं संनिधाय च ॥
प्रणेमुस्तुष्टिसंयुक्ताश्चक्रुश्चैव महोत्सवम् ॥ ७४ ॥
जगृहुर्यज्ञभागांश्च सर्वेषां त्रिदिवौकसाम् ॥
देवस्थानेषु सर्वेषु देवताऽभिमताश्च ये ॥ ७६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये देवसेनापराजयवर्णनंनामैकोनविंशत्युत्तरशततमोऽध्यायः ॥ ११९ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 120
॥ सूत उवाच ॥ ॥
एवं शक्रादयो देवा जितास्ते तु रणाजिरे ॥
महिषेण ततो राज्यं त्रैलोक्येऽपि चकार सः ॥ १ ॥
यत्किञ्चित्त्रिषु लोकेषु सारभूतं प्रपश्यति ॥
गजवाजिरथाश्वादि सर्वं गृह्णाति सोऽसुरः ॥ २ ॥
एवं प्रवर्तमानस्य तस्य देवाः सवासवाः ॥
वधार्थं मिलिताश्चक्रुः कथा दुःखसम न्विताः ॥ ३ ॥
एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तमः ॥
दृष्ट्वा तं माहिषं सर्वं व्यवहारं महोत्कटम् ॥ ४ ॥
ततश्च कथयामास सर्वं तेषां सविस्त रम् ॥
तस्य संचेष्टितं भूरि लोकत्रयप्रपीडनम् ॥ ५ ॥
अथ तेषां महाकोपो भूय एवाभ्यवर्धत ॥
नारदस्य वचः श्रुत्वा तादृग्लोककथोद्भवम् ॥ ॥ ६ ॥
तेषां कोपोद्भवो घर्मो वक्त्रद्वारेण निर्ययौ ॥
येन दिङ्मंडलं सर्वं तत्क्षणात्कलुषीकृतम् ॥ ७ ॥
एतस्मिन्नंतरे तत्र कार्तिकेयः समभ्ययात् ॥
पप्रच्छ च किमेतद्धि देवानां कोपकारणम् ॥
येन कालुष्यतां प्राप्तं दिक्चक्रं सकलं मुने ॥ च ॥
॥ नारद उवाच ॥ ॥
एतेषां सांप्रतं स्कन्द मया वार्ता निवेदिता ॥
त्रैलोक्यं दानवैः सर्वैर्यथा नीतं मदोत्कटैः ॥ ९ ॥
स्त्रीरत्नमश्वरत्नं वा न किंचित्कस्यचिद्गृहे ॥
ते दृष्ट्वा मोक्षयंति स्म दुर्निवार्या मदोत्कटाः ॥ ६.१२०.१० ॥
तच्छ्रुत्वा कार्तिकेयस्य विशेषात्संप्रजायत ॥
वक्त्रद्वारेण देवानां यथा कोपः समागतः ॥ ११ ॥
एतस्मिन्नंतरे जाता तत्कोपांते कुमारिका ॥
सर्वलक्षणसंपन्ना दिव्यतेजोऽन्विता शुभा ॥ १२ ॥
कार्तिकेयस्य कोपेन कोपे मिश्रे दिवौकसाम् ॥
यस्माज्जातात्र सा कन्या तस्मात्कात्यायनी स्मृता ॥ १३ ॥
ततस्तस्या ददौ वज्रमायुधं त्रिदशाधिपः ॥
शक्तिं स्कन्दः सुतीक्ष्णाग्रां चापं देवो जनार्दनः ॥ १४ ॥
त्रिशूलं च महादेवः पाशं च वरुणः स्वयम् ॥
आदित्यश्च सितान्बाणांश्चंद्रमाश्चर्म चोत्तमम् ॥ १५ ॥
निस्त्रिंशं निर्ऋतिस्तुष्ट उल्मुकं च हुताशनः ॥
वायुश्च च्छुरिकां तीक्ष्णां धनदः परिघं तथा ॥ १६ ॥
दण्डं प्रेताधिपो रौद्रं वधाय सुरविद्विषाम् ॥
द्वादशैवं समालोक्य साऽऽयुधानि द्विजोत्तमाः ॥ १७ ॥
कात्यायनी ततश्चक्रे भुजद्वादशकं तदा ॥
जग्राह च द्रुतं तानि सुरास्त्राणि दिवौकसाम् ॥ १८ ॥
ततः प्रोवाच तान्सर्वान्संप्रहृष्टतनूरुहा ॥
यदर्थं विबुधश्रेष्ठाः सृष्टा तद्ब्रूत मा चिरम्॥ १९ ॥
सर्वं कार्यं करिष्यामि युष्माकं नात्र संशयः ॥
॥ देवा ऊचुः ॥ ॥
महिषो दानवो रौद्रः समुत्पन्नोऽत्र सांप्रतम् ॥ ६.१२०.२० ॥
अवध्यः सर्वभूतानां मानुषाणां विशेषतः ॥
मुक्त्वैकां योषितं तेन त्वमस्माभिर्विनिर्मिता ॥ २१ ॥
तस्मात्त्वं सांप्रतं गच्छ विंध्याख्यं पर्वतोत्तमम् ॥
तपस्तत्र कुरुष्वोग्र तेजो येनाभिवर्धते ॥ २२ ॥
ततस्तु तेजःसंयुक्तां त्वां ज्ञात्वा वयमेव हि ॥
अग्रे धृत्वा करिष्यामो युद्धं तेन दुरात्मना ॥ २३ ॥
ततस्त्वच्छस्त्रनिर्दग्धः पंचत्वं स प्रयास्यति ॥
वयं च त्रिदशैश्वर्यं लभिष्यामो हतद्विषः ॥ २४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कात्यायन्युत्पत्तिवर्णनंनाम विंशत्युत्तरशततमोऽध्यायः॥ ॥१२०॥। ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 121
॥ सूत उवाच ॥ ॥
देवानां तद्वचः श्रुत्वा ततः सा परमेश्वरी ॥
प्रोवाच वाहनं किंचिद्देवा यच्छतु मे द्रुतम् ॥॥।
ततः सिंहं ददौ गौरी यानार्थं विकृताननम् ॥
तमारुह्य प्रतस्थे सा ततो विंध्यं नगं प्रति ॥ २ ॥
तस्यैकं शृंगमास्थाय रम्यं श्रेष्ठद्रुमान्वितम् ॥
फलपुष्पसमाकीर्णं लतामंडपमंडितम् ॥ ३ ॥
ततस्तपोऽकरोत्साध्वी तीव्रव्रतपरायणा ॥
संयम्येन्द्रियवर्गं स्वं ध्यायमाना महेश्वरम् ॥ ४ ॥
यथायथा तपोवृद्धिस्तस्याः सञ्जायते द्विजाः ॥
तथा रूपं च कांतिश्च शरीरे प्रतिवर्धते॥ ५ ॥
एतस्मिन्नंतरे प्राप्तास्तत्र दैत्येशकिंकराः ॥
ते तां दृष्ट्वा व्रतोपेतामत्यद्भुतवपुर्ध राम् ॥
गत्वा प्रोचुः स्वनाथस्य महिषस्य दुरात्मनः ॥ ६ ॥
॥ चारा ऊचुः ॥ ॥
भ्रममाणैर्धरापृष्ठे दृष्टाऽपूर्वा कुमारिका ॥
विन्ध्याचलेऽद्य चास्माभिर्भुजैर्द्वादशभिर्युता ॥
नानाशस्त्रधरैर्दीप्तैश्चर्मच्छादितगात्रका ॥७॥
न देवी न च गन्धर्वी नासुरी नागकन्यका ॥
तादृग्रूपा पुराऽस्माभिः काचिद्दृष्टा नितम्बिनी। ॥ ८ ॥
न विद्मो यन्निमित्तं सा तपश्चक्रे यशस्विनी ॥
स्वर्गकामाऽर्थकामा वा पतिकामाथ वा विभो॥ ९ ॥
॥ सूत उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा महिषो दानवाधिपः ॥
कामदेव वशं प्राप्तः श्रवणादपि तत्क्षणात् ॥ ६.१२१.१० ॥
ततस्तानग्रतः कृत्वा सैन्येन महता न्वितः ॥
जगाम कौतुकाविष्टो यत्रास्ते सा तु कन्यका ॥ ११ ॥
यथा मृत्युकृते मन्दः शृगालः सिंहवल्लभाम् ॥
वने सुप्तां सुविश्वस्तां सर्वथाप्य कुतोभयाम्॥१२॥
तस्याः संदर्शनादेव ततः कामशरैर्हतः॥
स दानवप्रधानश्च तत्क्षणादेव सद्द्विजाः॥१३॥
अथ प्राह प्रियं वाक्यमेकाकी तत्पुरःस्थितः॥
धृत्वा दूरतरेसैन्यं तस्या रूपेण मोहितः॥१४॥
विरुद्धं यौवनस्यैतद्व्रतं ते चारुहासिनि।
तस्मादेतत्परित्यक्त्वा त्रैलोक्यस्वामिनी भव ॥ १५ ॥
अहं हि महिषो नाम दानवेन्द्रो यदि श्रुतः ॥
मया येन सहस्राक्षो द्वन्द्वयुद्धे विनिर्जितः ॥ १६ ॥
त्रेलोक्यं सकलं मह्यं सांप्रतं च वशे स्थितम् ॥
तस्मात्त्वं भव सुश्रोणि भार्या मम सुवल्लभा ॥।७॥
सहस्रं मम भार्याणामन्यदस्ति सुशोभनम्॥
तत्सर्वं तेऽद्य भृत्यत्वं सांप्रतं प्रक रिष्यति॥।८॥
अहं चापि तवात्यंतं दासभावं समाश्रितः॥
वर्तयिष्यामि सुश्रोणि प्रदत्त्वाऽशेषसंपदः॥।९॥
॥सूत उवाच ॥॥
तस्य तद्वचनं श्रुत्वा ततः सा परमेश्वरी ॥
प्रोवाच भर्त्समाना तं कोपसंरक्तलोचना॥६.१२१.२॥।
धिग्धिक्पापसमाचार कुमारव्रतधारिणीम् ॥
कामोपहतचित्तात्मा किं मामित्थं प्रभा षसे ॥२॥।
अहं तव वधार्थाय निर्मिता विबुधोत्तमैः ॥
तस्मात्त्वां नाशयिष्यामि स्मरेष्टं यद्धृदि स्थितम्॥२२॥
॥ महिष उवाच ॥ ॥
यद्येवं तद्वरारोहे युक्ता स्याच्च कुमारिका ॥
प्रार्थनीया भवेदत्र सर्वेषां प्राणिनां यतः ॥२३॥
स्वर्गार्थं क्रियते धर्मस्तपश्च वरवर्णिनि ॥
येन भोगाः प्रभुञ्जंति ये दिव्या ये च मानुषाः ॥ २४ ॥
तस्माद्देहि ममात्मानं गांधर्वेण सुशोभने ॥
विवाहेन यतोऽन्येषां स प्रधानः प्रकीर्तितः ॥२५॥
एवं प्रवदतस्तस्य सा देवी क्रोधमूर्छिता ॥
तद्वक्त्रांतं समुद्दिश्य शरं चिक्षेप स क्षणात् ॥२६॥
विवेश वदनं तस्य वल्मीकं पन्नगो यथा ॥
अथ तैर्मार्गगणैर्विद्धः स वक्त्रांतान्नदंस्ततः ॥२७॥
सुस्राव रुधिरं भूरि गैरिकं पर्वतो यथा ॥
ततः कोपपरीतात्मा निवृत्त्याथ शनैः शनैः ॥२८॥
स्वसैन्यं त्वरितो भेजे कामेन च वशी कृतः॥
प्रोवाच सैनिकान्सर्वान्दुष्टा स्त्रीयं प्रगृह्यताम् ॥
यथा न त्यजति प्राणान्प्रहारैर्जर्जरीकृता॥२९॥
एषा मम न सन्देहः प्रिया भार्या भविष्यति॥
यदि नो शस्त्रपातेन पंचत्वमुपयास्यति ॥ ६.१२१.३० ॥
एवमुक्तास्तदा तेन दानवा युद्धदुर्मदाः ॥
दुद्रुवुः सम्मुखास्तस्या मुञ्चन्तो निशिताञ्छरान्।३॥।
एतस्मिन्नंतरे देवी सा दृष्ट्वा तानुपस्थितान् ॥
युद्धाय कृतसंकल्पांस्तर्जतश्च मुहुर्मुहुः। ३२ ॥
ततस्तु लीलया देवी मुक्ता तीक्ष्णान्महाशरान् ॥
तान्सर्वांस्ताडयामास सर्वमर्मसु तत्क्षणात् ॥ ३३ ॥
अथ तीक्ष्णैः शरैर्दैत्या निहता दानवास्तथा ॥
एके पंचत्वमापन्ना गताश्चान्य इतस्ततः॥३४॥
ततः सैन्यं समालोक्य तद्भग्नं च तया रणे ॥
कोपाविष्टस्ततो दैत्यः स्वयं तां समुपाद्रवत् ॥ ३५ ॥
यच्छञ्छृंगप्रहारांश्च तस्याः शतसहस्रशः ॥
गर्जितं विदधच्चोग्रं शारदाभ्रसमं मुहुः ॥ ३६ ॥
एतस्मिन्नंतरे देवी साट्टहासकृतस्वना ॥
त्रैलोक्यविवरं सर्वं यच्छब्देन प्रपूरितम् । ३७ ॥
एवं तस्या हसंत्याश्च वक्त्रान्तादथ निर्ययुः॥
पुलिंदाः शबरा म्लेछास्तथान्येऽरण्यवासिनः॥३८॥
शकाश्च यवनाश्चैव शतशश्तु वपुर्धरा?॥
वर्म स्थगितगात्राश्च यमदूता इवापरे॥३९॥
ते प्रोचुर्देवि नो ब्रूहि येन सृष्टा वयं क्षितौ॥
कार्येण क्रियते कृत्स्नं येन शीघ्रं वरानने॥६.१२१.४॥।
॥ देव्युवाच ॥ ॥
एतानस्य सुदुष्टस्य सैनिकान्बलगर्वितान् ॥
सूदयध्वं द्रुतं वाक्यादस्मदीयाद्यथेच्छया ॥ ४१ ॥
अथ ते तद्वचः श्रुत्वा वल्गंतोऽसिधनुर्द्धराः ॥
दैतेयबलमुद्दिश्य दुद्रुवुर्वेगमाश्रिताः ॥ ४२ ॥
ततस्तेषां महद्युद्धं मिथो जज्ञे सुदारुणम् ।
नात्मीयं न परं तत्र केनचिज्ज्ञा यते क्वचित् ॥ ४३ ॥
अथ ते दानवाः सर्वे योधैर्देवीसमुद्भवैः ॥
भग्ना व्यापादिताश्चान्ये प्रहारैर्जर्जरीकृताः ॥ ४४ ॥
ततो भग्नं बलं दृष्ट्वा महिषः क्रोधमूर्छितः ॥
तामुवाच क्रुधा देवीं वचनैः परुषाक्षरैः ॥ ४५ ॥
आः पापे स्त्रीति मत्वाद्य न हतासि मया युधि ॥
तस्मात्पश्य प्रहारं मे तत्त्वं बुध्यसि नान्यथा ॥ ४६ ॥
एवमुक्त्वा विशेषेण प्रहारान्स विचिक्षिपे ॥
विषाणाभ्यां महावेगो भर्त्सयानो मुहुर्मुहुः ॥ ४७ ॥
ततोऽभ्याशगतं दृष्ट्वा सा देवी दानवं च तम् ॥
आरुरोहाथ वेगेन पृष्ठिदेशेन कोपतः ॥ ४८ ॥
ततश्चुक्रोश दैत्योऽसौ व्योममार्गं समाश्रितः ॥
पृष्ठ्यास्तलेन निर्भिन्नो रुधिरौघपरिप्लुतः ॥ ४९ ॥
एतस्मिन्नंतरे सिंहः स तस्या ज्योतिसंभवः ॥
जग्राह पश्चिमे भागे दंष्ट्राग्रैर्निशितैः क्रुधा ॥ ६.१२१.५० ॥
ततो निश्चलतां प्राप्तः पादाक्रांतश्च दानवः॥
अकरोद्भैरवान्नादान्न शक्तश्चलितुं पदम् ॥ ५१ ॥
एतस्मिन्नंतरे प्राप्ताः सर्वे देवाः सवासवाः ॥
व्योमस्थास्तां तदा प्रोचुर्देवीं हर्षसमन्विताः ॥ ५२ ॥
एतस्य शिरसश्छेदं शीघ्रं कुरु सुरेश्वरि ॥
खङ्गेनानेन तीक्ष्णेन यावन्नो याति चान्यतः ॥ ५३ ॥
सा श्रुत्वा वचनं तेषां देवी कोपसमन्विता ॥
खड्गं व्यापारयामास कंठे तस्यातिपीवरे ॥ ५४ ॥
स तेन खड्गघातेन कंठः पीनोऽपि निष्ठुरः॥
द्विधा जज्ञेऽथ दैत्यस्य दधत्तुष्टिं दिवौकसाम् ॥ ५५ ॥
द्वादशार्कप्रतीकाशो वक्त्रांतश्चर्मखड्गधृक् ॥
भर्त्सयंस्तां महादेवीं खड्गोद्यतकरां तदा ॥
खड्गं व्यापारयन्गात्रे तस्या बालार्कसन्निभम् ॥ ५६ ॥
ततः केशेषु चाधाय यावत्तस्यापि चिक्षिपे ।
प्रहारं गात्रनाशाय तावदूचे स दानवः ॥ ५७ ॥
॥ दानव उवाच ॥ ॥
जय देवि जयाचिंत्ये जय सर्वसुरेश्वरि ॥
जय सर्वगते देवि जय सर्वजनप्रिये ॥ ५८ ॥
जय कामप्रदे नित्यं जय त्रैलोक्यसुन्दरि ॥
जय त्रैलोक्य रक्षार्थमुद्यते ह्यकुतोभये ॥ ५९ ॥
जय देवि कृतानंदे जय दैत्यविनाशिनि ॥
जय क्लेशच्छिदे कांते जयाभक्तविमोहदे ॥ ६.१२१.६० ॥
त्वं सृष्टिस्त्वं वरा देवी त्वं लक्ष्मीस्त्वं सरस्वती ।
त्वं स्वाहा त्वं स्वधा तुष्टिः पुष्टिर्मेधा धृतिः क्षमा ॥६॥।
तस्मात्कुरु प्रसादं मे प्राणान्रक्ष दयां कुरु॥
प्रणतस्य सुदीनस्य हीनस्य च विशेषतः॥६२॥
अहं दुर्वाससा शप्तो हिरण्याक्षसुतो बली॥
महिषत्वं समानीतस्त्वया देवी विमोक्षितः॥६३॥
तस्माद्दर्पः प्रमुक्तोऽद्य मया दानवसंभवः॥
किंकरत्वं प्रयास्यामि सांप्रतं ते सुरेश्वरि॥६४॥
जय सर्वगते देवि सर्वदुष्टविनाशिनि॥६५॥
इति तस्य वचः श्रुत्वा कृपणं सा सुरेश्वरी ॥
कृपाविष्टाऽब्रवीद्वाक्यं ततो व्योमस्थितान्सुरान्॥६६॥
किं करोमि दया जाता ममैनं प्रति हे सुराः ॥
तस्मान्नाहं हनिष्यामि दानवं दीनजल्पकम् ॥ ६७ ॥
विमुखं खड्गशस्त्रं च तवास्मीति प्रवादिनम् ॥
अपि मे पितृहंतारं न हन्यां रिपुमाहवे ॥ ६८ ॥
॥ देवा ऊचुः ॥ ।
न चेदसि च देवेशि त्वमेनं दानवाधमम् ॥
नाशयिष्यति तत्कृत्स्नं त्रैलोक्यं सचराचरम् ॥ ६९ ॥
एष व्यर्थःश्रमः सर्वस्तथास्माकं भविष्यति ॥
तव संभूतिसंभूतस्तव क्लेशस्तथाऽखिलः ॥ ६.१२१.७० ॥
॥ देव्युवाच ॥ ॥
नाहमेनं हनिष्यामि त्यजिष्यामि तथाऽमराः ॥
एनं कचग्रहं कृत्वा धारयिष्यामि सर्वदा ॥ ७१ ॥
॥ देवा ऊचुः ॥ ॥
साधुसाधु महाभागे युक्तमुक्तं त्वया वचः ॥
एतद्धि युज्यते कर्तुं कालेऽस्मिंस्त्रिदशेश्वरि ॥ ७२ ॥
सांप्रतं मर्त्यलोके त्वं रूपमेतत्समाश्रिता ॥
शस्त्रोद्यतकरा रौद्रा महिषोपरि संस्थिता ॥ ७३ ॥
अवाप्स्यसि परां पूजां दुर्लभा ममरैरपि ॥
यस्त्वामेतेन रूपेण संस्थितां पूजयिष्यति ॥ ७४ ॥
त्वमस्य संगतो भावि विख्याता विंध्यवासिनी ॥
किं ते वा बहुनोक्तेन शृणु संक्षेपतो वचः ॥ ७५ ॥
अस्मदीयं परं तथ्यं सर्वलोकहितावहम् ॥
पार्थिवानां त्वदायत्तं बलं देवि भविष्यति ॥ ७६ ॥
युद्धकाले समुत्पन्ने भक्तानां नात्र संशयः ॥
प्रस्थानं वा प्रवेशं च यः करिष्यति मानवः ॥ ७७ ॥
त्वां स्मृत्वा प्रणिपत्याथ पूजयित्वा विशेषतः ॥
तस्य संपत्स्यते सिद्धिः सर्वकृत्येषु सर्वदा ॥
इह कापुरुषस्यापि किं पुनः सुभटस्य च ॥ ७८ ॥
आश्विनस्य सिते पक्षे नवम्यां चाष्टमीदिने ॥
पूजयिष्यति यो मर्त्त्यस्त्वां सद्भक्तिसमन्वितः ॥ ७९ ॥
तस्य संवत्सरं यावत्समग्रं सुरसुन्दरि ॥
न भविष्यति वै रोगो न भयं न पराभवः ॥
नापमृत्युर्न चौरादि समुद्भूत उपद्रवः ॥ ६.१२१.८० ॥
। सूत उवाच ॥ ॥
एवमुक्त्वाथ ते देवास्तां देवीं हर्षसंयुताः ॥
अनुज्ञातास्तया जग्मुः स्वां पुरीममरावतीम् ॥ ॥ ९१ ॥
तत्र गत्वा चिरात्प्राप्य स्वं राज्यं पाकशासनः ॥
पालयामास संहृष्टस्त्रैलोक्यं हतकटकम् ॥ ८२ ॥
लोकाश्च सुखसंपन्नाः सर्वे जाता स्ततः परम्॥
यज्ञभागभुजो देवा भूयो जाता जगत्त्रये ॥ ८३ ॥
ततः परं च सा देवी त्रैलोक्ये ख्यातिमागता ॥
सर्वक्षेत्रेषु तीर्थेषु स्थानेषु च विशेषतः ॥ ८४ ॥
एतस्मिन्नंतरे जातः सुरथोनाम भूपतिः ॥
आनर्तस्तेन सद्भक्त्या क्षेत्रेऽत्रैव विनिर्मिता ॥ ८५ ॥
यस्तां पश्यति सद्भक्त्या चैत्राष्टम्यां सितेऽहनि ॥
स पुमान्वत्सरं यावत्कृतार्थः स्यान्न संशयः ॥ ८६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये महिषासुरपराजय कात्यायनीमाहात्म्यवर्णनंनाम एकविंशत्युत्तरशततमोऽध्यायः ॥ १२१ ॥ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 122
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोस्मि द्विजोत्तमाः ॥
यथा स निहतो देव्या महिषाख्यो दनूत्तमः ॥ १ ॥
सांप्रतं कीर्तयिष्यामि कथां पातकनाशिनीम् ॥
केदारसंभवां पुण्यां तां शृणुध्वं समाहिताः ॥ २ ॥
॥ ऋषय ऊचुः ॥ ।
केदारः श्रूयते सूत गंगाद्वारे हिमाचले ॥
स कथं चेह संप्राप्तः सर्वं विस्तरतो वद ॥ ३ ॥
॥ सूत उवाच ॥ ॥
एतत्सत्यं गिरौ तस्मिन्स्वयंभूः संस्थितः प्रभुः ॥
परं तत्र वसेद्देवो यावन्मासाष्टकं द्विजाः ॥ ४ ।
यावद्घर्मश्च वर्षा च तावत्तत्र वसेत्प्रभुः ॥
शीतकाले पुनश्चात्र क्षेत्रे संतिष्ठते सदा ॥ ॥ ५ ॥
॥ ऋषय ऊचुः ॥ ॥
किं तत्कार्यं वसेद्येन क्षेत्रे मासचतुष्टयम् ॥
हिमाचले यथैवाष्टौ सूतपुत्र वदस्व नः ॥ ६ ॥
॥ सूत उवाच ॥ ॥
पूर्वं स्वायंभुवस्यादौ मनोर्दैत्यो महाबलः ॥
हिरण्याक्षो महातेजास्तपोवीर्यसमन्वितः ॥ ७ ॥
तैर्व्याप्तं जगदेतद्धि निरस्य त्रिदशाधिपम् ॥
यज्ञ भागाश्चदेवानां हृता वीर्यप्रभावतः ॥ ८ ॥
अथ शक्रः सुरैः सार्धं गंगाद्वारं समाश्रितः ॥
तपस्तेपे सुदुःखार्तो राज्यश्रीपरिवर्जितः ॥ ९ ॥
तस्यैवं तप्यमानस्य तपस्तीव्रं महात्मनः ॥
माहिषं रूपमास्थाय निश्चक्राम धरातलात् ॥ ६.१२२.१० ॥
स्वयमेव महादेवस्ततः शक्रमुवाच ह ॥
केदारयामि मे शीघ्रं ब्रूहि सर्वं सुरोत्तम ॥
दैत्यानामथ सर्वेषां रूपेणानेन वासव ॥ ११ ॥
॥ इन्द्र उवाच ॥ ॥
हिरण्याक्षो महादैत्यः सुबाहुर्वक्र कन्धरः ॥
त्रिशृंगो लोहिताक्षश्च पंचैतान्दारय प्रभो ॥
हतैरेतैर्हतं सर्वं दानवानामसंशयम् ॥ १२ ॥
किमन्यैः कृपणैर्ध्वस्तैर्यैः किंचिन्नात्र सिध्यति ॥
तस्य तद्वचनश्रुत्वा भगवांस्तूर्णमभ्यगात् ॥
यत्र दानवमुख्योऽसौ हिरण्याक्षो महाबलः ॥ १३ ॥
अथ तं दूरतो दृष्ट्वा महिषं पर्वतोपमम् ॥
आयातं रौद्ररूपेण दानवाः सर्वतश्च ते ॥ १४ ॥
ततो जघ्नुश्च पाषाणैर्लगुडैश्च तथापरे ॥
क्ष्वेडितास्फोटितांश्चक्रुस्तथान्ये बलगर्विताः ॥ ॥ १५ ॥
अथवमन्य तान्देवः प्रहारं लीलया ददौ ॥
यत्रास्ते दानवेन्द्रोऽसौ चतुर्भिः सचिवैः सह ॥ १६ ॥।
ततः शस्त्रं समुद्यम्य यावद्धावति सम्मुखः ॥
तावच्छृंगप्रहारेण सोनयद्यमसादनम् ॥ १७ ॥
हत्वा तं सचिवान्पश्चात्सुबाहुप्रमुखांश्च तान् ॥
जघान हन्यमानोऽपि समन्ताद्दानवैः परैः ॥ १८ ॥
न तस्य लगते क्वापि शस्त्रं गात्रे कथंचन ॥
यत्नतोऽपि विसृष्टं च लब्धलक्षैः प्रहारिभिः ॥ १९ ॥
एवं पंच प्रधानास्तान्हत्वा दैत्यान्महेश्वरः ॥
भूयो जगाम तं देशं यत्र शक्रो व्यवस्थितः ॥
अब्रवीच्च प्रहष्टात्मा ततः शक्रं तपोन्वितम् ॥ ६.१२२.२० ॥
मया ते निहताः पंच दानवा ये त्वयेरिताः ॥
तस्मात्त्रैलोक्यराज्यं स्वं भूय एव समाचर ॥२॥।
मत्तोऽन्यदपि देवेश वरं प्रार्थय वांछितम् ॥
कैलासशिखरं येन गच्छामि त्वरयाऽन्वितः ॥ २२ ॥
॥ इन्द्र उवाच ॥ ॥
अनेनैव हि रूपेण तिष्ठ त्वं चात्र शंकर ॥
त्रैलोक्यरक्षणार्थाय धर्माय च शिवाय च ॥ २३ ॥
॥ श्रीभगवानुवाच ॥ ॥
एतद्रूपं मया शक्र कृतं तस्य वधाय वै ॥
अवध्यः सर्वभूतानां यतोन्येषां मया हतः ॥ २४ ॥
तस्मादत्रैव ते वाक्यात्स्थास्यामि सुर सत्तम ॥
अनेनैव तु रूपेण मोक्षदः सर्वदेहिनाम् ॥ २५ ॥
एवमुक्त्वा विरूपाक्षश्चक्रे कुंडं ततः परम् ॥
शुद्धस्फटिकसंकाशं सुस्वादुक्षीरवत्प्रियम् ॥ ॥ २६ ॥
ततः प्रोवाच देवेन्द्रं मेघगंभीरया गिरा ॥
शृण्वतां सर्वदेवानां भगवांस्त्रिपुरातकः ॥ २७ ॥
यो मां दृष्ट्वा शुचिर्भूत्वा कुंडमेतत्प्रपश्यति ॥
त्रिः पीत्वा वामसव्येन द्वाभ्यां चैव ततो जलम् ॥ २८ ॥
कराभ्यां स पुमान्नूनं तारयेच्च कुलत्रयम् ॥
अपि पापसमाचारं नरकेऽपि व्यव स्थितम् ॥ २९४
वामेन मातृकं पक्षं दक्षिणेनाथ पैतृकम् ॥
उभाभ्यामथ चात्मानं कराभ्यां मद्वचो यथा ॥ ६.१२२.३० ॥
॥ इन्द्र उवाच ॥ ॥
अहमागत्य नित्यं त्वां स्वर्गाद्वृषभवाहन ॥
अत्रस्थं पूजयिष्यामि पास्यामि च तथोदकम् ॥ ३१ ॥
के दारयामि यत्प्रोक्तं त्वया महिषरूपिणा ॥
केदार इति नाम्ना त्वं ततः ख्यातो भविष्यसि ॥ ३२ ॥
॥ श्रीभगवानुवाच ॥ ॥
यद्येवं कुरुषे शक्र ततो दैत्यभयं न ते ॥
भविष्यति परं तेजो गात्रे संपत्स्यतेऽखिलम् ॥ ३३ ॥
एवमुक्तः सहस्राक्षस्ततः प्रासादमुत्तमम् ॥
तदर्थं निर्मयामास साध्वालोकं मनोहरम् ॥ ३४ ॥ (साध्वालोकं- दर्शनीयतमम्)
ततः प्रणम्य तं देवमनुमन्त्र्य ततः परम् ॥
जगाम निजमावासं मेरुशृंगाग्रसंस्थितम् ॥ ३५ ॥
ततश्चागत्य नित्यं स स्वर्गाद्देवस्य शूलिनः ॥
केदारस्य सुभक्त्याढ्यां पूजां चक्रे समाहितः ॥ ३६ ॥
मन्त्रोदकं च त्रिः पीत्वा ययौ ब्राह्मणसत्तमाः ॥
कस्यचित्त्वथ कालस्य यावत्तत्र समाययौ ॥ ३७ ॥
तावद्धिमेन तत्सर्वं गिरेः शृंगं प्रपूरितम् ॥
तच्च कुण्डं स देवश्च प्रासादेन समन्वितः ॥ ३८ ॥
ततो दुःखपरीतात्मा भक्त्या परमया युतः ॥
तां दिशं प्रणिपत्योच्चैर्जगाम निजमंदिरम् ॥ ३९ ॥
एवमागच्छतस्तस्य गतं मासचतुष्टयम् ॥
अपश्यतो महादेवं दिदृक्षागतचेतसः ॥ ६.१२२.४० ॥
ततः प्राप्ते पुनर्विप्रा घर्मकाले हिमालये ॥
संयातो दृक्पथं देवः स तथारूपसंस्थितः ॥ ४१ ॥
ततः पूजां विधायोच्चैश्चातुर्मास्यसमुद्भवाम् ॥
गीतवाद्यादिकं चक्रे तत्पुरः श्रद्धयान्वितः ॥ ४२ ॥
अथ देवः समालोक्य तां श्रद्धां तस्य गोपतेः ॥
प्रोवाच दर्शनं गत्वा भगवांस्त्रिपुरांतकः ॥ ४३ ॥
परितुष्टोऽस्मि देवेश भक्त्या चानन्ययाऽनया ॥
तस्मात्प्रार्थय दास्यामि यं कामं हृदिसंस्थितम् ॥४४॥
॥ शक्र उवाच ॥ ॥
तव प्रसादात्संजातं ममैश्वर्यमनुत्तमम्॥
यत्किंचित्त्रिषु लोकेषु तत्सर्वं गृहसंस्थितम्॥४५॥
तस्माद्यदि प्रसादं मे करोषि वृषभध्वज ॥
वरं वा यच्छसि प्रीतस्तत्कुरुष्व वचो मम ॥ ४६ ॥
पर्वतोऽयं भवेद्गम्यो मासानष्टौ सुरेश्वर॥
यावन्मीनस्थितो भानुः प्रगच्छति श्रुतं मया ॥ ४७ ॥
ततः परमगम्यश्च हिमपूरेण संवृतः ॥
यदा स्याच्चतुरो मासान्यावत्कुम्भगतो रविः ॥ ४८ ॥
संजायतेऽप्यगम्यश्च ममापि त्रिपुरांतक ॥
किं पुनः स्वल्पसत्त्वानां नरादीनां सुरेश्वर ॥ ४९ ॥
तस्मात्स्वर्गेऽथ पाताले मर्त्ये वा त्रिदशेश्वर ॥
कुरुष्वानेनरूपेण स्थितिं मासचतुष्टयम् ॥
येन न स्यात्प्रतिज्ञाया हानिर्मम सुरेश्वर ॥ ६.१२२.५० ॥
॥ सूत उवाच ॥ ॥
ततो देवश्चिरं ध्यात्वा प्रोवाच बलसूदनम् ॥
परं संतोषमापन्नो मेघनिर्घोषनिःस्वनम् ॥ ॥ ५१ ॥
आनर्तविषये क्षेत्रं हाटकेश्वरसंज्ञितम्॥
अस्मदीयं सहस्राक्ष विद्यते धरणीतले ॥ ५२ ॥
तत्राहं वृश्चिकस्थेऽर्के सदा स्थास्यामि वासव॥
यावत्कुम्भस्य पर्यंतं तव वाक्यादसंशयम्॥ ५३ ॥
तस्मात्तत्र द्रुतं गत्वा कृत्वा प्रासादमुत्तमम् ॥
मम रूपं प्रतिष्ठाप्य कुरुपूजा यथोचिताम् ॥
येन तत्र निजं तेजो धारयामि तवार्थतः ॥ ५४ ॥
॥ सूत उवाच ॥ ॥
एतच्छ्रुत्वा सहस्राक्षो देवदेवस्य शूलिनः ॥
गत्वा तत्र ततश्चक्रे यद्देवेनेरितं वचः ॥ ५५ ॥
प्रासादं निर्मयित्वाथ रूपं संस्थाप्य शूलिनः ॥
कुण्डं चक्रे च तद्रूपं स्वच्छोदकसमावृतम्॥५६॥
ततश्चाराधयामास पुष्पधूपानुलेपनैः ॥
स्नात्वा कुण्डेऽपिबत्तोयं त्रिःकृत्वा च यथापुरा ॥ ५७ ॥
एवं स भगवांस्तत्र शक्रेणाराधितः पुरा ॥
समायातोऽत्र विप्रेंद्राः सुरम्यात्तु हिमाचलात् ॥ ५८ ॥
यस्तमाराधयेत्सम्यक्सदा मासचतुष्टयम् ॥
हिमपातोद्भवे मर्त्यः स शिवाय प्रपद्यते ॥ ५९ ॥
शेषकालेऽपि यः पूजां करोत्येव सुभक्तितः ॥
स पापं क्षालयेत्प्राज्ञ आजन्ममरणांतिकम् ॥ ६.१२२.६० ॥
तत्र गीतं प्रशंसंति नृत्यं चैव पृथग्विधम् ॥
देवस्य पुरतः प्राज्ञाः सर्वशास्त्रविशारदाः ॥ ६१ ॥
अत्र श्लोकः पुरा गीतो नारदेन सुरर्षिणा ॥
तद्वोऽहं कीर्तयिष्यामि श्रूयतां ब्राह्मणोत्तमाः ॥ ६२ ॥
केदारे सलिलं पीत्वा गयापिडं प्रदाय च ॥
ब्रह्मज्ञानमथासाद्य पुनर्जन्म न विद्यते ॥ ६३ ॥
एतद्वः सर्वमाख्यातं केदारस्य च संभवम् ॥
आख्यानं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥ ६४ ॥
यश्चैतत्छृणुयात्सम्यक्पठेद्वा तस्य चाग्रतः ॥
श्रावयेद्वापि वा विप्राः सर्वपातकनानम् ॥
केदारस्य स पापौघैर्मुच्यते तत्क्षणान्नरः ॥ ६५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये केदारोत्पत्तिमाहात्म्यवर्णनंनामद्वाविंशत्युत्तरशततमोऽध्यायः ॥ १२२ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 123
॥ सूत उवाच ॥ ॥
तथान्यदपि तत्रास्ति शुक्लतीर्थमनुत्तमम्॥
दर्भैः संसूचितं श्वेतैर्यदद्यापि द्विजोत्तमाः ॥ १ ॥
चमत्कारपुरे पूर्वमासीत्कश्चित्सुशल्यवित् ॥
रजकः शुद्धकोनाम पुत्रपौत्रसमन्वितः ॥ ॥ २॥
स सर्वरजकानां च प्राधान्येन व्यवस्थितः ॥
प्रधानब्राह्मणानां च करोत्यंबरशोधनम् ॥ ३ ॥
कस्यचित्त्वथ कालस्य नीलीकुण्ड्यां समाहितः ॥
प्राक्षिपद्ब्राह्मणेंद्राणां वासो विज्ञातवांश्चिरात् ॥ ४ ॥
अथासौ मन्दचित्तश्च स्वामाहूयकुटुम्बिनीम् ॥
पुत्रांश्च वचनं प्राह रहस्ये भयविह्वलः ॥ ५ ॥
निर्मूल्यानि सुवस्त्राणि ब्राह्मणानां महात्मनाम् ॥
नीलीमध्ये विमोहेन प्रक्षिप्तानि बहूनि च ॥ ६ ॥
वधबन्धादिकं कर्म ते करिष्यंत्यसंशयम् ॥
तस्मादन्यत्र गच्छामो गृहीत्वा रजनीमिमाम् ॥ ७ ॥
एवं स निश्चयं कृत्वा सारमादाय मंदिरात् ॥
प्रस्थितो भार्यया सार्द्धं कांदिशीको द्विजोत्तमाः ॥ ८ ॥
तावत्तस्य सुता गत्वा स्वां सखीं दाशसंभवाम् ॥
उवाच क्षम्यतां भद्रे यन्मया कुकृतं कृतम्॥ ९ ॥
अज्ञानाज्ज्ञानतो वापि प्रक्रीडंत्या त्वया सह ॥
प्रणयाद्बाल्यभावाच्च क्रोधाद्वाथ महेर्ष्यया ॥ ६.१२३.१० ॥
अथ सा सहसा श्रुत्वा बाष्पपर्याकुलेक्षणा ॥
उवाच किमिदं भद्रे यन्मामित्थं प्रभाषसे ॥ ११ ॥
॥ सख्युवाच ॥ ॥
मम तातेन नीलायां प्रक्षिप्तान्यंबराणि च ॥
ब्राह्मणानां महार्हाणि विभ्रमेण सुलोचने ॥ १२ ॥
तत्प्रभाते परिज्ञाय दंडं धास्यंति दारुणम् ॥
एवं चित्ते समास्थाय तातः संप्रस्थितोऽधुना ॥ १३ ॥
अहं तवातिकं प्राप्ता दर्शनार्थमनिन्दिते ॥
अनुज्ञाता प्रयास्यामि त्वया तस्मात्प्रमुच्यताम् ॥ १४ ॥
अथ सा तद्वचः श्रुत्वा प्रसन्नवदनाऽब्रवीत् ॥
यद्येवं मा सरोजाक्षि कुत्रचित्संप्रयास्यसि ॥ १५ ॥
निवारय द्रुतं गत्वा तातं नो गम्यतामिति ॥
अस्ति पूर्वोत्तरे भागे स्थानादस्माज्जलाशयः ॥ १६ ॥
तत्रैकदा विनिक्षिप्तं मम तातेन जालकम् ॥
अतीवकृष्णकेशोत्थं तावच्छुक्लत्वमागतम्॥।७॥
ततः स विस्मयाविष्टः स्वयं सस्नौ कुतूहलात् ।
यावच्छुक्लत्वमापन्नस्तादृक्कृष्णवपुर्धरः ॥ १९ ॥
सुश्वेतमूर्धजः सद्यः स्त्रीणां वैराग्यकारकः ॥
ततःप्रभृति नो ज्ञात्वा कश्चित्तत्र प्रगच्छति ॥ १९ ॥
तस्मात्तत्रैव वस्त्राणि प्रक्षालयतु सत्वरम् ॥
तातः स तव यास्यंति विशुद्धिं परमां शुभे ॥ ६.१२३.२० ॥
अथ सा सत्वरं गत्वा निजतातस्य तद्वचः ॥
सत्वरं कथयामास प्रहृष्टवदना सती ॥ २१
मम सख्या समादिष्टं नातिदूरे जलाशयः ॥
तत्र श्वेतत्वमायाति सर्वं क्षिप्तं सितेतरम् ॥२२॥
तस्मात्प्रक्षालय प्रातस्तत्र गत्वा जलाशये ॥
वस्त्राण्यमूनि शुक्लत्वं संप्रयास्यंत्यसंशयम्॥ २३॥
॥ रजक उवाच ॥
नैतत्संपत्स्यते पुत्रि यन्नीलस्य परिक्षयः ॥
वस्त्रलग्नस्य जायेत यतः प्रोक्तं पुरातनैः ॥२४॥
वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च ॥
एको ग्रहस्तु मीनानां नीलीमद्यपयोस्तथा ॥२५॥
॥ कन्योवाच ॥ ॥
तत्र ह्यागम्यतां तावद्वस्त्रणयादाय यत्नतः ॥
तोयाच्छुद्धिं प्रयास्यंति तदाऽऽगंतव्यमेव हि ॥ ॥२६॥
भूयोऽपि मंदिरे वाऽथ तस्मात्स्थानाद्दिगंतरम् ॥
गंतव्यं सकलैरेव ममैतद्धृदि संस्थितम्॥२७॥
तस्यास्तद्वचनं श्रुत्वा साधुसाध्विति तेऽसकृत् ॥
प्रोच्य बांधवभृत्याश्च रात्रावेव प्रजग्मिरे ॥२८॥
दाशकन्यां पुरः कृत्वा संशयं परमं गताः ॥
विभवेन समायुक्ता निजेन द्विजसत्तमाः ॥२९॥
ततः सा दर्शयामास दाशकन्या जलाशयम् ॥
बहुवीरुधसंछन्नं दुष्प्रवेशं च देहिनाम् ॥ ६.१२३.३० ॥
ततः स रजकस्तत्र वस्त्राण्यादाय सर्वशः ॥
प्रविष्टः सलिले तस्मिन्क्षालयामास वै द्विजाः ॥ ३१ ॥
अथ तानि सुवस्त्राणि मेचकाभानि तत्क्षणात् ॥
जातानि स्फटिकाभानि तत्क्षणादेव कृत्स्नशः ॥ ॥ ३२ ॥
ततस्तुष्टिसमायुक्तः साधुसाध्विति चाऽब्रवीत् ॥
समालिंग्य सुतां प्राह दाशकन्यां च सादरम् ॥ ३३ ॥
सुवस्त्राणि द्विजेंद्राणामर्पयामो यथाक्रमम् ॥ ३४ ॥
ततः स स्वगृहं गत्वा तानि वस्त्राणि कृत्स्नशः ॥
यथाक्रमेण संहृष्टः प्रददौ द्विजसत्तमाः ॥ ३५ ॥
अथ ते ब्राह्मणा दृष्ट्वा तां शुद्धिं वस्त्रसंभवाम् ॥
तं च श्वेतीकृतं चेदृग्रजकं विस्मयान्विताः ॥ ३६ ॥
पप्रच्छुः किमिदं चित्रं वस्त्रमूर्धजसंभवम् ॥
अनौपम्यं च संजातं वदस्व यदि मन्यसे ॥ ३७ ॥
॥ रजक उवाच ॥ ॥
एतानि विप्रा वस्त्राणि मया क्षिप्तानि मोहतः ॥
नीलीमध्ये सुवस्त्राणि विनष्टानि च कृत्स्नशः ॥ ॥ ३८ ॥
ततो भयं महद्भूतं कुटुम्बेन समन्वितः ॥
चलितो रजनीवक्त्रे दिगंते ब्राह्मणोत्तमाः ॥ ३९ ॥
अथैषा तनयाऽस्माकं गता निजसखीं प्रति ॥
दाशात्मजां सुदुःखार्ता पुनर्दर्शनलालसा ॥ ६.१२३.४० ॥
तया सर्वमभिप्रायं ज्ञात्वा मे दुःखहेतुकम् ॥
ततः संदर्शयामास स्थिताग्रे स्वजलाशयम् ॥ ४१ ॥
तस्मिन्प्रक्षिप्तमात्राणि वस्त्राणीमानि तत्क्षणात् ॥
ईदृग्वर्णानि जातानि विस्मयस्य हि कारणम् ॥ ४२ ॥
तथा मे मूर्धजाः कृष्णास्तत्र स्नातस्य तत्क्षणात् ॥
परं शुक्लत्वमापन्ना एतत्प्रोक्तं मया स्फुटम् ॥ ४३ ॥
एवं ते ब्राह्मणाः श्रुत्वा कौतूहलसमन्विताः ॥
तत्र जग्मुः परीक्षार्थं विक्षिप्य तदनंतरम् ॥ ४४ ॥
कृष्णद्रव्याणि भूरीणि केशादीनि सहस्रशः ॥
सर्वं तच्छुक्लतां याति त्यक्त्वा वर्णं मलीमसम् ॥ ४५ ॥
ततो वृद्धतया ये च विशेषाच्छ्वेतमूर्धजाः ॥
ते सस्नुः श्रद्धया युक्तास्तरुणाश्चापि धर्मिणः ॥ ४६ ॥
ततः शुक्लत्वमापन्नास्तेजोवीर्यसमन्विताः ॥
भवंति तत्प्रभावेन प्रयांति च परां गतिम् । ४७ ॥
अथ तद्वासवो दृष्ट्वा शुक्लतीर्थं प्रमुक्तिदम् ॥
पूरयामास रजसा मानुषोत्थभयेन च ॥ ४८ ॥
अद्यापि तत्र यत्किंचिज्जायतेऽथ तृणादिकम् ॥
तत्सर्वं शुक्लतामेति तत्तोयस्य प्रभावतः ॥ ४९ ॥
तत्रोत्थैर्यः कुशैः श्राद्धं कुरुते श्रद्धयान्वितः ।३
श्वैतैस्तैस्तारयेत्सर्वान्पितॄन्नरकगानपि । ६.१२३.५० ॥
तत्तीर्थोत्थां मृदं गात्रे योजयित्वा नरोत्तमः ॥
स्नानं करोति तीर्थानां सर्वेषां लभते फलम् ॥ ५१ ॥
यस्तैर्दर्भैर्नरो भक्त्या तिलैश्चारण्यसंभवैः ॥
करोति तर्पणं विप्राः स प्रीणाति पितामहान् ॥ ५२ ॥
अथाश्वमेधात्संप्राप्यं गयाश्राद्धेन यत्फलम् ॥
नीलसंज्ञगवोत्सर्गे तथात्रापि द्विजोत्तमाः ॥ ५३ ॥
॥ ऋषय ऊचुः ॥ ।
शुक्लतीर्थं कथं जातं तत्र त्वं सूतनंदन ॥
विस्तरेण समाचक्ष्व परं कौतूहलं हि नः ॥ ५४ ॥
॥ सूत उवाच ॥ ॥
श्वेतद्वीपः समानीतो विष्णुना प्रभविष्णुना ॥
तत्क्षेत्रे कलिभीतेन यथा शौक्ल्यं न संत्यजेत् ॥ ५५ ॥
कलिकालेन संस्पृष्टः श्वेतद्वीपोऽपि श्यामताम् ॥
न प्रयाति द्विजश्रेष्ठास्ततस्तत्र निवेशितः ॥ ५६ ॥
इतिश्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये शुक्लतीर्थमाहात्म्यवर्णनंनाम त्रयोविंशत्युत्तर शततमोध्यायः ॥ १२३ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 124
॥ सूत उवाच ॥ ॥
अथान्यदपि तत्रास्ति मुखारं तीर्थमुत्तमम् ॥
यत्र ते मुनयः श्रेष्ठा विप्राश्चौरेण संगताः॥॥।
यत्र सिद्धिं समापन्नः स चौरस्तत्प्रभावतः।
वाल्मीकिरिति विख्यातो रामायणनिबंधकृत्॥२॥
चमत्कारपुरे पूर्वं मांडव्यान्वय संभवः ॥
लोहजंघो द्विजो ह्यासीत्पितृमातृपरायणः ॥३॥
तस्यैका चाभवत्पत्नी प्राणेभ्योऽपि गरीयसी॥
पतिव्रता पतिप्राणा पतिप्रियहिते रता ॥४॥
अथ तस्य स्थितस्यात्र ब्रह्मवृत्त्याभिवर्ततः ॥
जगाम सुमहान्कालः पितृमातृरतस्य च ॥५॥
एकदा भगवाञ्छक्रो न ववर्ष धरातले ॥
आनर्तविषये कृत्स्ने यावद्वादशवत्सराः ॥ ६ ॥
ततः स कष्टमापन्नो लोहजंघो द्विजोत्तमाः ॥
न प्राप्नोति क्वचिद्भिक्षां न च किंचित्प्रतिग्रहम् ॥ ७ ॥
ततस्तौ पितरौ द्वौ तु दृष्ट्वा क्षुत्परिपीडितौ ॥
भार्यां च चिंतयामास दुःखेन महतान्वितः ॥ ८ ॥
किं करोमि क्व गच्छामि कथं स्याद्दर्शनं मम ॥
एताभ्यामपि वृद्धाभ्यां पत्न्याश्चैव विशेषतः ॥ ९ ॥
ततः स दुःखसंयुक्तः फलार्थं प्रययौ वने ॥
न च किंचिदवाप्नोति सर्वे शुष्का महीरुहाः ॥ ६.१२४.१० ॥
अथापश्यत्स वृद्धां स्त्रीं स्तोकसस्यसमन्विताम् ॥
गच्छमानां तथा तेन श्रमेण महतान्विताम् ॥॥॥
ततस्तत्सस्यमादाय वस्त्राणि च स निर्दयः॥
जगाम स्वगृहं हृष्टः पितृभ्यां च न्यवेदयत्॥१२॥
स एवं लब्धलक्षोऽपि दस्युकर्मणि नित्यशः।
कृत्वा चौर्यं पुपोषाथ निजमेव कुटुम्बकम्॥१३।
सुभिक्षे चापि संप्राप्ते नान्यत्कर्म करोति सः।
ब्राह्मीं वृत्तिं परित्यक्त्वा चौर्यकर्म समाचरत्॥१४॥
कस्यचित्त्वथ कालस्य तीर्थयात्राप्रसंगतः।
तत्र सप्तर्षयः प्राप्ता मरीचिप्रमुखा द्विजाः॥१५॥
ततस्तान्विजने दृष्ट्वा द्रोहकोपसमन्वितः।
यष्टिमुद्यम्य वेगेन तिष्ठध्वमिति चाब्रवीत्॥१६॥
त्रिशिखां भृकुटीं कृत्वा सत्वरं समुपाद्रवत्।
भर्त्समानः स परुषैर्वाक्यैस्तांस्ताडयन्निव॥१७॥
ततस्ते मुनयो दृष्ट्वा यमदूतोपमं च तम्।
यज्ञोपवीतसंयुक्तं प्रोचुस्ते कृपयान्विताः॥१८॥
ऋषय ऊचुः॥
अहो त्वं ब्राह्मणोऽसीति तत्कस्मादतिगर्हितम्।
करोषि कर्म चैतद्धि म्लेच्छकृत्यं तु बालिश॥१९॥
वयं च मुनयः शांतास्त्यक्ताऽशेषपरिग्रहाः।
नास्माकमपि पार्श्वस्थं किंचिद्गृह्णाति यद्भवनान्।६.१२४.२०॥
लोहजंघ उवाच।
एतानि शुभ्रचीराणि वल्कलान्यजिनानि च।
उपानहसमेतानि शीघ्रं यच्छंतु मे द्विजाः॥२१॥।
नो चेद्धत्वाप्रहारेण यष्ट्या वज्रोपमेन च ॥
प्रापयिष्यस्यसंदिग्धं धर्मराजनिवेशनम् ॥ २२ ॥
॥ ऋषय ऊचुः ॥
सर्वं दास्यामहे तुभ्यं वयं तावन्मलिम्लुच ॥
किंवदन्तीं वदास्माकं यां पृच्छामः कुतूहलात् ॥ २३ ॥
किमर्थं कुरुषे चौर्यं त्वं विप्रोऽसि सुनिर्घृणः ॥
किं जितो व्यसनै रौद्रैः किं वा व्याधद्विजो भवान् ॥२४॥
॥ लोहजंघ उवाच ॥ ॥
व्यसनार्थं न मे कृत्यमेतच्चौर्यसमुद्भवम् ॥
कुटुम्बार्थं विजानीथ धर्ममेतन्न संशयः ॥ २५ ॥
पितरौ मम वार्द्धक्ये वर्तमानौ व्यवस्थितौ ॥
तथा पतिव्रता पत्नी गृहधर्मविचक्षणा ॥ २६ ॥
उपार्ज्जयामि यत्किञ्चिदहमेतेन कर्मणा ॥
तत्सर्वं तत्कृते नूनं सत्येनात्मानमालभे ॥२७॥
तस्मान्मुंचथ प्राक्सर्वं विभवं किं वृथोक्तिभिः ॥
कृताभिः स्फुरते हस्तो ममायं हन्तुमेव हि ॥२८॥ ॥
ऋषय ऊचुः ॥ ॥
यद्येवं चौर तद्गत्वा त्वं पृच्छस्व कुटुम्बकम् ॥
ममपापांशभागी त्वं किं भविष्यसि किं न वा॥२९॥
यदि ते संविभागेन पापस्यांशोऽपि गच्छति ॥
तत्कुरुष्वाथवा पाप दुर्वहं ते भविष्यति ॥ ६.१२४.३० ॥
सकलं रौरवे रौद्रे पतितस्य सुदुर्मते ॥
वयं त्वा ब्राह्मणं मत्वा ब्रूम एतदसंशयम् ॥३१॥।
कृपाविष्टाः सहास्माभिः सञ्जातेऽपि सुदर्शने ॥
मुनीनां यतचित्तानां दर्शनाद्धि शुभं भवेत् ॥३२॥
एकः पापानि कुरुते फलं भुंक्ते महाजनः ॥
भोक्तारो विप्रमुच्यंते कर्ता दोषेण लिप्यते ॥ ३३ ॥
॥ सूत उवाच ॥ ॥
स तेषां तद्वचः श्रुत्वा चौरः किंचिद्भयान्वितः ॥
सत्यमेतन्न संदेहो यदेतैर्व्याहृतं वचः ॥ ३४ ॥
तस्मात्पृच्छामि तद्गत्वा निजमेव कुटुम्बकम् ॥
यदि स्यात्संविभागो मे पापांशस्य करोमि वै ॥ ३९ ॥
एतत्कर्म न गृह्णंति यदि वा संत्यजाम्यहम् ॥
महद्भयं समुत्पन्नं मम चेतसि सांप्रतम् ॥३६॥
यदि यूयं न चान्यत्र प्रयास्यथ मुनीश्वराः ॥
पलायनपरा भूत्वा तद्गत्वा निजमंदिरम् ॥३७॥
पृच्छामि पोष्यवर्गं च युष्मद्वाक्यं विशेषतः ॥
यदि तत्पातकांशं मे ग्रहीष्यति कुटुम्बकम् ॥
तद्युष्माकं ग्रहीष्यामि यत्किंचित्पार्श्वसंस्थितम् ॥ ३८ ॥
अथवा प्रतिषेधं मे पापस्यास्य करिष्यति ॥
तत्त्यजिष्याम्यसंदिग्धं सर्वान्वः सपरिच्छदान् ॥ ३९ ॥
ततस्ते शपथान्कृत्वा तस्य प्रत्ययकारणात् ॥
तस्योपरि दयां कृत्वा मुमुचुस्तं गृहं प्रति ॥ ६.१२४.४० ॥
सोऽपि गत्वाऽथ पप्रच्छ प्रगत्वा पितरं निजम् ॥
शृणु तात वचोऽस्माकं ततः प्रत्युत्तरं कुरु ॥ ४१ ॥
यत्कृत्वाहमकृत्यानि चौर्यादीनि सहस्रशः ॥
पुष्टिं करोमि ते नित्यस् तद्भागस्तेऽस्ति वा न वा ॥ ४२ ॥
पापस्य मम प्रब्रूहि पृच्छतोऽत्र यथातथम् ॥
अत्र मे संशयो जातस्तस्माच्छीघ्रं प्रकीर्तय ॥ ४३ ॥
॥ पितोवाच ॥
बाल्ये पुत्र मया नीतस्त्वं पुष्टिं व्याकुलात्मना ॥
शुभाऽशुभानि कृत्यानि कृत्वा स्निग्धेन चेतसा ॥ ४४ ॥
एतदर्थं पुनर्येन वार्धक्ये समुपस्थिते ।।।
गां पालयसि भूयोऽपि कृत्वा कर्म शुभाऽशुभम् ॥ ४५ ॥
न तस्य विद्यते भागस्तव स्वल्पोऽपि पुत्रक ॥
शुभस्य वाऽथ पापस्य सांप्रतं च तथा मम ॥ ४६ ॥
आत्मनैव कृतं कर्म स्वयमेवोपभुज्यते ॥
शुभं वा यदि वा पापं भोक्तारोन्यजनाः स्मृताः ॥ ४७ ॥
साधुत्वेनाथ चौर्येण कृष्या वा वाणिजेन वा ॥
त्वमुपानयसे भोज्यं न मे चिन्ता प्रजायते ॥ ४८ ॥
तस्मान्नैतद्धृदि स्थाप्यं कर्मनिंद्यं करिष्यसि ॥
यत्तस्यांशं प्रभोक्ता त्वं वयं सर्वे प्रभुंजकाः॥ ४९ ॥
॥ सूत उवाच ॥ ॥
स एतद्वचनं श्रुत्वा व्याकुलेनान्त्तरात्मना ॥
पप्रच्छ मातरं गत्वा तमेवार्थं प्रयत्नतः ॥६.१२४.५०॥।
ततस्तयापि तच्चोक्तं यत्पित्रा तस्य जल्पितम् ॥
असामान्यं शुभे पापे कृत्ये तस्य द्विजोत्तमाः ॥५१॥।
ततः पप्रच्छ तां भार्यां गत्वा दुःखसमन्वितः ॥
साऽप्युवाच ततस्तादृक्पापं गुरुजनोद्भवम् ॥ ५२ ॥
ततः स शोकसंतप्तः पश्चात्तापेन संयुतः ॥
गर्हयन्नेव चात्मानं ययौ ते यत्र तापसाः ॥५३॥
ततः प्रणम्य तान्सर्वान्कृतांजलिपुटः स्थितः।
गम्यतां गम्यतां विप्राः क्षम्यतां क्षम्यतां मम ॥ ५४ ॥
यन्मया मौर्ख्यमास्थाय युष्मन्निर्भर्त्सना कृता ॥
सुपाप्मना विमूढेन तस्मात्कार्या क्षमाद्य मे ॥ ५५ ॥
युष्मदीयं वचः कृत्स्नं मद्गुरुभ्यां प्रजल्पितम् ॥
भार्यया च द्विजश्रेष्ठास्तेन मे दुःखमागतम्॥५६॥
तस्मात्कुर्वंतु मे सर्वे प्रसादं मुनिसत्तमाः ॥
उपदेशप्रदानेन येन पापं क्षपाम्यहम् ॥५७॥
मया कर्म कृतं निंद्यं सदैव द्विजसत्तमाः॥
स्त्रियोऽपि च द्विजेंद्राश्च तापसाश्च विशेषतः ॥५८॥
ये ये दीनतरा लोका न समर्थाः प्रयोधितुम् ॥
ते मया मुषिताः सर्वे न समर्थाः कदाचन ॥५९॥
कुटुम्बार्थं विमूढेन साधुसंगविवर्जिना ॥
यथैव पठता शास्त्रं तन्मेऽद्य पतितं हृदि ॥६.१२४.६०॥।
यदि न स्याद्भवद्भिर्मे दर्शनं चाद्य सत्तमाः ॥
तदन्यान्यपि पापानि कर्ताहं स्यां न संशयः ॥ ६१ ॥
तेषां मध्यगतश्चासीत्पुलहो नाम सन्मुनिः ॥
हास्यशीलः स तं प्राह विप्लवार्थं द्विजोत्तमम् ॥ ॥ ६२ ॥
अहं ते कीर्तयिष्यामि मन्त्रमेकं सुशोभनम् ॥
यं ध्यायञ्जप्यमानस्त्वं सिद्धिं यास्यसि शाश्वतीम् ॥ ६३ ॥
जाटघोटेतिमन्त्रोऽयं सर्वसिद्धिप्रदायकः ॥ (टि. जाटघोटा = जातिगोत्र?)
तमेनं जप विप्र त्वं दिवारात्रमतंद्रितः ॥ ६४ ॥
ततो यास्यसि संसिद्धिं दुर्लभां त्रिदशैरपि ॥ ६५ ॥
एवमुक्त्वाथ ते विप्रास्तीर्थयात्रां ततो ययुः ॥
सोऽपि तत्रैव चौरस्तु स्थितो जपपरायणः ॥ ६६ ॥
अनन्यमनसा तेन प्रारब्धः स तदा जपः ॥
यथाऽभवत्समाधिस्थो येनावस्थां परां गतः ॥ ६७ ॥
तस्यैवं स्मरमाणस्य तं मन्त्रं ब्राह्मणस्य च ॥
निश्चलत्वं गतः कायः कार्ये च निश्चलः स्थितः ॥ ६८ ॥
ततः कालेन महता वल्मीकेन समावृतः ॥
समंताद्ब्राह्मणश्रेष्ठा ध्यानस्थस्य महात्मनः ॥ ६९ ॥
तौ मातापितरौ तस्य सा च भार्या मनस्विनी ॥
याता मृत्युवशं सर्वे तमन्वेष्य प्रयत्नतः ॥ ६.१२४.७० ॥
न विज्ञातश्च तत्रस्थः संन्यस्तः स महाव्रतः ॥
संसारभावनिर्मुक्तस्तस्मान्मुनिसमागमात् । ७१ ॥
कस्यचित्त्वथ कालस्य तेन मार्गेण ते पुनः ॥
तीर्थयात्राप्रसंगेन मुनयः समुपस्थिताः ॥ ७२ ॥
प्रोचुश्चैतद्द्विजाः स्थानं यत्र चौरेण संगमः ॥
आसीद्वस्तेन रौद्रेण ब्राह्मणच्छद्मधारिणा ॥ ७३ ॥
ततो वल्मीकमध्यस्थं शुश्रुवुर्निस्वनं च ते ॥
जाटघोटेतिमंत्रस्य तस्यैव च महात्मनः ॥ ७४ ॥
अथ भूम्यां प्रहारास्ते सस्वनुः सर्वतोदिशम् ॥
ते वल्मीकं ततो दृष्ट्वा तं चौरं तस्य मध्यगम् ॥ ७५ ॥
जपमानं तु तं मन्त्रं पुलहेन निवेदितः ॥
हास्यरूपेण यस्तस्य सिद्धिं च द्विजसत्तमाः ॥ ७६ ॥
यद्वा सत्यमिदं प्रोक्तमाचार्यैः शास्त्रदृष्टिभिः ॥
स्तोकं सिद्धिकृते तस्य यस्मात्सिद्धिरुपस्थिता ॥ ७७ ॥
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ॥
यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥ ॥ ७८ ॥
अथ तं वीक्ष्य संसिद्धं कुमन्त्रेणापि तस्करम् ॥
ते विप्रा विस्मयाविष्टाः कृपाविष्टा विशेषतः ॥ ७९ ॥
समाध्यर्हैस्ततो द्रव्यैस्तैलैस्तद्भेषजैरपि ॥ ६.१२४.८० ॥
ममर्दुस्तस्य तद्गात्रं समाधिस्थं चिरं द्विजाः ॥
ततः स चेतनां लब्धा आलोक्य च मुहुर्मुहुः ॥
प्रोवाच विस्मयाविष्टस्तान्मुनीन्प्रकृतानिति ॥ ८१ ॥
॥ लोहजंघ उवाच ॥ ॥
किमर्थं न गता यूयं मया मुक्ता द्विजोत्तमाः ॥
नाहं किंचिद्ग्रहीष्यामि युष्मदीयं कथंचन ॥
कुटुंबार्थं यतस्तस्माद्व्रजध्वं स्वेच्छयाऽधुना ॥ ८२ ॥
॥ मुनय ऊचुः॥ ॥
चिरकालाद्वयं प्राप्ताः पुनर्भ्रांत्वाऽत्र कानने ॥
समाधिस्थेन न ज्ञातः कालोऽतीतस्त्वया बहु ॥ ८३ ॥
तौ मातापितरौ वृद्धौ त्वया मुक्तौ क्षयं गतौ ।
त्वं च संसिद्धिमापन्नः परामस्मत्प्रसादतः ॥ ॥८४॥
वल्मीकांतः स्थितो यस्मात्संसिद्धिं परमां गतः ॥
वल्मीकिर्नाम विख्यातस्तस्माल्लोके भविष्यसि॥ ८५ ॥
अत्रस्थेन यतो मुष्टास्त्वया लोकाः पुरा द्विज ॥
मुखाराख्यं ततस्तीर्थमेतत्ख्यातिं गमिष्यति॥८६॥
येऽत्र स्नानं करिष्यंति श्रावण्यां श्रद्धया द्विजाः॥
क्षालयिष्यंति ते पापं चौर्य कर्मसमुद्भवम् ॥८७॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वाथ ते विप्रास्तमामंत्र्य मुनिं ततः ॥
प्रणतास्तेन संजग्मुर्वांछिताशां ततः परम् ॥ ८८ ॥
तपःस्थः सोऽपि तत्रैव वाल्मीकिरिति यः स्मृतः । ८९ ॥
मुनीनां प्रवरः श्रेष्ठः संजातश्च ततः परम् ॥
अद्यापि तिष्ठते मूर्तः स तत्रस्थो मुनीश्वरः ॥ ६.१२४.९० ॥
यस्तं प्रपूजयेद्भक्त्या स कविर्जायते भुवम्॥
अष्टम्यां च विशेषेण सम्यक्छ्रद्धासमन्वितः ॥ ९१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मुखारतीर्थोत्पत्तिवर्णनंनाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥ १२४ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 125
। सूत उवाच ॥ ॥
ततः कर्णोत्पलातीर्थं विख्यातं चास्ति शोभनम् ॥
यत्र स्नातो नरः सम्यङ्न वियोगमवाप्नुयात् ॥ १ ॥
कथंचिदपि चेष्टेन धनेनालिजनेन च ॥
पराक्रमेण धर्मेण कलत्रेण विशेषतः ॥ २ ॥
सत्यसंध इति ख्यातः पुरासीत्पृथिवीपतिः ॥
इक्ष्वाकुकुलसंभूतः सर्वरूपगुणैर्युतः ॥ ३ ॥
तस्य कर्णोत्पलानाम जाता कन्या सुशोभना ॥
बहुपुत्रस्य चैका सा सर्वलक्षणलक्षिता ॥ ४ ॥
अथ तस्याः पिता नाम चक्रे द्वादशमे दिने ॥
संमंत्र्य ब्राह्मणैः सार्धं भृत्यामात्यैर्मुहुर्मुहुः ॥ ५ ॥
यस्मात्कर्णोत्पला चेयं जाता मम कुमारिका ॥
तस्मात्कर्णोत्पलानाम जाता कन्या सुशोभना ॥ ६ ॥
बहु पुत्रस्य चैका सा सर्वलक्षणलक्षिता ॥
तस्मात्कर्णोत्पलानाम जायतां द्विजसत्तमाः ॥ ७ ॥
कृतनामाऽथ सा बाला वृद्धिं याति दिनेदिने ॥
आह्लादकारिणी नित्यं कला चांद्रमसी यथा ॥ ८ ॥
अथ सा क्रमशः प्राप्ता यौवनं बंधुलालिता ॥
हस्ताद्धस्तं प्रगच्छंती सर्वेषां द्विजसत्तमाः॥ ॥ ९ ॥
अथ तां यौवनोपेतां दृष्ट्वा स पृथिवीपतिः ।
चिंतयामास चित्तेन कस्येमां प्रददाम्यहम् ॥ ६.१२५.१० ॥
न तस्याः सदृशः कश्चिद्वरोऽत्र धरणीतले ॥
न स्वर्गे न च पाताले किं कृत्यं मेऽधुना भवेत् । ११ ॥
स एवं बहुधा ध्यात्वा तदर्थं पृथिवीपतिः ॥
निश्चयं प्राकरोच्चित्ते प्रष्टव्योऽत्र पितामहः ॥ १२
मयाद्य विषये चास्मिन्स देवः प्रेरयिष्यति ॥
तस्मै पुत्रीं प्रदास्यामि नान्यस्मै वै कथंचन ॥ १३ ॥
स एवं निश्चयं कृत्वा तामादाय ततः परम् ॥
ब्रह्मलोकं जगामाथ प्रष्टुं तस्याः कृते वरम् ॥ १४ ॥
अथ यावत्स संप्राप्तो ब्रह्मलोकं नरेश्वरः ॥
तावत्संध्या समुत्पन्ना ब्राह्मी ब्राह्मणसत्तमाः ॥ १५ ॥
एतस्मिन्नंतरे ब्रह्मा सायंतनक्रियोत्सुकः ॥
उपविष्टः समाधिस्थस्तत्कालं समपद्यत ॥ १६ ॥
सत्यसंधोऽपि तं दृष्ट्वा समाधिस्थं पितामहम् ॥
समाध्यंतं प्रतीक्षन्स उपविष्टः समीपतः ॥ १७ ॥
ततो विलोक्य चात्मानमात्मनि प्रपितामहः ॥
पद्मे प्रवर्तिते सम्यगष्टपत्रे हृदि स्थिते ॥ १८ ॥
कर्णिकामध्यगं दीप्तं बहुवर्णमतिस्थिरम् ॥
आनंदाश्रुपरिक्लिन्नवदनः पुलकांकितः ॥ १९ ॥
तत आचम्य प्रक्षाल्य चरणौ सर्वतोदिशम् ॥
अपश्यत्प्रणतः सर्वैर्ब्रह्मलोकनिवासिभिः ॥६.१२५.२० ॥
एतस्मिन्नंतरे राजा तामादाय शुभाननाम् ॥
नमस्कृत्य तया सार्धं ततः प्रोवाच सादरम् ॥ २१ ॥
अहं देव समायातो मर्त्यलोकात्तवांतिकम् ॥
सत्यसंधो महीपाल आनर्त भुवि विश्रुतः ॥ २२ ॥
इयं कर्णोत्पलानाम मम कन्या सुशोभना ॥
अस्या भुवि मया लब्धो न समोऽत्र पतिः क्वचित् ॥ २३ ॥
सदृशस्तेन चायातस्तव पार्श्वे सुरोत्तम ॥
तस्मान्मे ब्रूहि भर्त्तारमस्या येन ददाम्यहम् ॥ २४ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा ततः प्रोवाच पद्मजः ॥
विहस्य सर्वदेवानां समाजे द्विजसत्तमाः । २५ ॥
यदि पृच्छसि मे भूप कन्याधर्मपतिं प्रति ॥
तन्नैषा कस्यचिद्देया सांप्रतं शृणु कारणम् ॥ २६ ॥
आत्मश्रेणिप्रसूताय वयोज्येष्ठाय भूपते ॥
कन्या देया च धर्माय यशसे कुलवृद्धये ॥ २७ ॥
सेयं तव सुता मर्त्ये ज्येष्ठभावं समाश्रिता ॥
सर्वेषां भूमिपालानां यत्तत्त्वं कारणं शृणु ॥ २८ ॥
ममांतिकं प्रपन्नस्य तव जातं युगत्रयम्॥
अतीता भूतले मर्त्या ये दृष्टाः प्राक्त्वया नृप ॥ २९ ॥
अन्या सृष्टिः समुत्पन्ना सांप्रतं धरणीतले ॥
न त्वं जानासि माहात्म्यान्मम लोकसमुद्भवात्॥ ६.१२५.३० ॥
न देवा मानुषीं भार्यां कुर्वन्ति च कथंचन ॥
श्लेष्ममूत्रपुरीषाणां संस्थानं या विगर्हिता ॥ ३१ ॥
तस्मादत्रैव तिष्ठ त्वं सुतया सहितो नृप ॥
हस्त्यश्वादि च यत्किंचित्तत्सर्वं ते क्षयं गतम् ॥ ३२ ॥
पुत्राः पौत्रास्तथा भृत्या ये चान्ये बांधवास्तव ॥
ते सर्वे निधनं प्राप्ता ये चान्ये भवतेक्षिताः ॥ ३३ ॥
स तथेति प्रतिज्ञाय स्थितः पार्थिवसत्तमः ॥
यावत्तावत्सुदुःखार्ता रुदतीसाऽब्रवीत्सुता ॥ ३४ ॥
नाहं तात वसिष्यामि स्थानेस्मिन्ब्रह्मसंभवे ॥
सखीजनपरित्यक्ता बंधुवर्गविनाकृता ॥ ३५ ॥
तस्माद्यास्यामि तत्रैव यत्र सा जननी मम ॥
ताश्च सख्यः कृतानंदा याभिः संक्रीडितं मया ॥ ३६ ॥
भर्त्रा विनाकृता नाहं नयिष्ये कालसंस्थितिम् ॥
तस्मात्तत्र द्रुतं गच्छ यत्र मे जननी स्थिता ॥ ३७ ॥
तस्यास्तद्वचनं श्रुत्वा स्नेहार्द्रेण स चेतसा ॥
तामादाय ततः प्राप्तः स्वं देशं पार्थिवोत्तमः ॥ ३८ ॥
यावत्पश्यति तावत्स स्थलस्थाने जलाशयान् ॥
जलस्थानेषु संजाताः स्थलसंघाः सुदुर्गमाः ॥ ३९ ॥
अन्ये लोकास्तथा धर्मास्तेषां मध्ये व्यवस्थिताः ॥
पृच्छन्नपि न जानाति संबंधं केनचित्सह ॥ ६.१२५.४० ॥
तथा मर्त्यानिलस्पृष्टन्द्यतत्त्कणात्स महीपतिः ॥
सा च कन्या जराग्रस्ता संजाता श्वेतमूर्द्धजा ॥ ४१ ॥
वलिभिः पूर्णितांगी च शीर्णदंता कुचच्युता ॥
अमनोज्ञा विरूपांगी चिपिटाक्षी द्विजोत्तमाः ॥ ४२ ॥
सोपि राजा तथाभूतो वेपमानः पदेपदे ॥
पप्रच्छ भूपतिः कोत्र देशः कोयं पुरं च किम् ॥ ४३ ॥
अथ प्रोचुर्जनास्तस्य देश आनर्त इत्ययम् ॥
अयं भूपोत्र विख्यातः सुधर्मज्ञो बृहद्बलः ॥ ४४ ॥
एतत्प्राप्तिपुरंनाम एषा साभ्रमती नदी ॥
गर्तातीर्थमिदं पुण्यमेतस्याः परिकीर्तितम् ॥ ४९ ॥
यत्रैते मुनयः शांता दांताश्चाष्टगुणे रताः ॥
तपरता महाभागाः स्नानजप्ययपरायणाः ॥ ॥ ४६ ॥
ततः स तु समाकर्ण्य रुरोद कृतनिःस्वनः ॥
स्वसुतां तां समालिंग्य दुःखशोकसमन्वितः ॥ ४७ ॥
तौ च वृद्धतमौ दृष्ट्वा रुदतौ कृपयान्विताः ॥
सर्वे लोकाः समाजग्मुः पप्रच्छुश्च सुदुःखिताः ॥ ४८ ॥
किं त्वं वृद्ध सुदुःखार्तः प्ररोदिषि निरर्गलम् ॥
अनया वृद्धया सार्धं तस्मान्नः कारणं वद ॥ ४९ ॥
किं ते नष्टः प्रियः कश्चित्किं वा जातो धनक्षयः ॥
पराभूतोसि वा किं त्वं केनापि वद मा चिरम् ॥ ६.१२५.५० ॥
धर्मज्ञो दुष्टहंता च साधूनां पालने रतः ॥
राजा बृहद्बलोस्माकं येन ते कुरुते सुखम् ॥ ५१ ॥ ॥
सत्यसंध उवाच ॥ ॥
आनर्त्ताधिपतिश्चाहं सत्यसंध इति स्मृतः ॥
मम कर्णोत्पलानाम सुतेयं दयिता सदा ॥
सोहमस्याः प्रदानार्थं ब्रह्मलोकमितो गतः ॥
प्रष्टुं पितामहं देवं स्थितस्तत्र मुहूर्तवत् ॥ ९३ ॥
ततो भूयः समायातो यावत्पश्यामि भूतलम् ॥
तावद्विलोमतां प्राप्तं सर्वं नो वेद्मि किञ्चन ॥ ५४ ॥
तच्छ्रुत्वा ते जना गत्वा विस्मयोत्फुल्ललोचनाः ॥
बृहद्बलाय तत्सर्वमाचख्युस्तुष्टिसंयुताः ॥ ५५ ॥
सोऽपि तत्सर्वमाकर्ण्य ततः शीघ्रतरं गतः ॥
पद्भ्यामेव स्थितो यत्र सत्यसन्धो महीपतिः ॥ ५६ ॥
ततस्तं प्रणिपत्योच्चैः कृतांजलिपुटः स्थितः ॥
स्वागतं ते महीपाल भूयः सुस्वागतं च ते ॥ ५७ ॥
इदं राज्यं निजं भूयो मया भृत्येन सादरम् ॥
कुरुष्व स्वेच्छया देहि दानानि विविधानि च ॥ ५८ ॥
ततस्तं च समालिंग्य शिरस्याधाय चासकृत् ॥
उवाचाश्रुपरिक्लिन्नवदनो गद्गदाक्षरम् ॥ ५९ ॥
वत्स चीर्णं मया राज्यं दानं दत्तं पृथग्विधम् ॥
वाजिमेधमुखैर्यज्ञैरिष्टं संपूर्णदक्षिणैः ॥६.१२५.६॥।
तस्मात्तपश्चरिष्यामि सुतया चानया सह ॥
यथैषा लभते भूयस्तारुण्यं प्राक्तनं शुभम् ॥६॥।
॥ बृहद्बल उवाच ॥ ॥
पारंपर्येण राजेंद्र मयैतत्सकलं श्रुतम् ॥
सत्यसंधो महीपालः कन्यामादाय निर्गतः ॥ ६२ ॥
कुत्रचिन्न समायातः स भूयोऽपि पुरोत्तमे ॥
ततस्तत्सचिवै राज्यं प्रतिपाल्य चिरं नृप ॥
अभिषिक्तस्ततः पुत्रः सुहयोनाम विश्रुतः ॥ ६३ ॥
तस्याहं क्रमशो जातः सप्तसप्ततिमो विभो॥
पुरुषस्तव वंशस्य समुद्भूतो महापतिः ॥ ६४ ॥
तस्मादत्रैव कल्याणे स्थानेऽस्मिन्मेध्यतां गते ॥
गर्तातीर्थे कुरु विभो तपस्त्वमनया सह ॥ ६५ ॥
येन ते चरणौ नित्यं प्रणिपत्य त्रिसंधिजम्॥
श्रेयः प्राप्नोम्यसंदिग्धं प्रसादः क्रियतामिति ॥ ६६ ॥
॥ सत्यसंध उवाच ॥ ॥
हाटकेश्वरजे क्षेत्रे मयासीत्स्थापितं पुरा ॥
लिंगं वृषभनाथस्य तावदस्ति सुपुत्रक ॥ ६७ ॥
तत्तस्याराधनं नित्यं करिष्यामि दिवानिशम् ॥
तस्मात्प्रापय मां तत्र अनया सुतया सह ॥ ६८ ॥
एवं तयोः प्रवदतोरन्योन्यं भूमिपालयोः ॥
गर्त्तातीर्थात्समायाता ब्राह्मणाः कौतुकान्विताः ॥
श्रुत्वा भूमिपतिं प्राप्तं चिरंतनगुरुं शुभम्॥ ६९ ॥
ततः स पार्थिवस्तेषां दत्त्वार्घं प्रांजलिः स्थितः ॥
प्रोवाच स्वर्गवृत्तांतमास्यतामिति सादरम् ॥ ६.१२५.७० ॥
अथ ते ब्राह्मणाः सर्वे यथाज्येष्ठं यथासुखम्॥
उपविष्टा नरेंद्रस्य चतुर्दिक्षु सुविस्मिताः ॥
पप्रच्छुस्तं च भूपालं वार्तां ब्रह्मगृहोद्भवाम् ॥ ७१ ॥
यथा स तत्र निर्यात आगतश्च यथा पुरा ॥
आलापाः पद्मयोनेश्च यथा जातास्त्वनेकशः ॥ ७२ ॥
ततः कथांतमासाद्य सत्यसंधो महीपतिः ॥
किंचिदासाद्य तं प्राह समीपस्थं बृहद्बलम् ॥ ७३ ॥
मया इष्टं मखैश्चित्रैरनेकैर्भूरिदक्षिणैः ॥
दानानि च विचित्राणि येषां संख्या न विद्यते ॥ ७४ ॥
एकदाहं गतः पुत्र चमत्कारपुरोत्तमे ॥
दृष्टं मया पुरं तच्च समंताद्ब्राह्मणैवृतम् ॥ ७५॥
जपस्वाध्यायसंपन्नैरग्निहोत्रपरायणैः ॥
गृहस्थधर्मसंपन्नैर्लोकद्वयफलान्वितैः ॥ ७६ ॥
ततश्च चिंतितं चित्ते स वन्यो मम पूर्वजः ॥
येनैषोपार्जिता कीर्तिः शाश्वती क्षयवर्जिता ॥ ७७ ॥
तस्मादहमपि स्थाप्य पुरमीदृक्समुच्छ्रितम् ॥
ब्राह्मणेभ्यः प्रदास्यामि तत्कीर्तिपरिवृद्धये ॥ ७८ ॥
एवं चितयमानस्य मम नित्यं महीपते ॥
अवांतरेण संजातं ब्रह्मलोकप्रयाणकम् ॥ ७९ ॥
एतदेकं हि मे चित्ते पश्चात्तापकरं स्थितम्॥
नान्यत्किंचिन्महीपाल कृतकृत्यस्य सर्वतः ॥ ६.१२५.८० ॥
तस्मात्प्रार्थय विप्रेंद्रान्कांश्चिदेषां महात्मनाम् ॥
येन यच्छामि सुस्थानं कृत्वा तेभ्यस्तवाज्ञया ॥ ८१ ॥
ततः स प्रार्थयामास तदर्थं ब्राह्मणोत्तमान् ॥
ममोपरि दयां कृत्वा क्रियतां भोः परिग्रहः ॥ ८२ ॥
अस्य भूपस्य सद्भक्त्या यच्छतः पुरमुत्तमम् ॥
अहं वः पालयिष्यामि सर्वे मद्वंशजाश्च ते ॥ ॥ ८३ ॥
ततः कांश्चित्सुकृच्छ्रेण समानीय बृहद्बलः ॥
राज्ञे निवेदयामास एतेभ्यो दीयतामिति ॥ ८४ ॥
ततः प्रक्षाल्य सर्वेषां पादान्स पृथिवीपतिः ॥
सत्यसंधो ददौ तेभ्यः पुरार्थं भूमिमुत्तमाम् ॥ ८५ ॥
बृहद्बलस्य चादेशं ददौ संप्रस्थितः स्वयम् ॥
त्वयैतद्योग्यतां नेयं पुरं परपुरंजय ॥ ८६ ॥
गत्वा च स तया सार्धं तत्क्षेत्रं हाटकेश्वरम् ॥
तल्लिंगं प्राप्य संहृष्टश्चिरं तेपे तपस्ततः ॥ ८७ ॥
सापि कर्णोत्पला प्राप्य किंचित्पुण्यं जलाशयम् ॥
तपस्तेपे प्रतिष्ठाप्य गौरीं श्रद्धासमन्विता ॥ ८८ ॥
एतस्मिन्नंतरे राजा कालधर्ममुपागतः ॥
आनर्ताधिपतिर्युद्धे हतः पुत्रैः समन्वितः ॥ ८९ ॥
ततस्ते ब्राह्मणाः सर्वे गर्तातीर्थसमुद्भवाः ॥
सत्यसंधं समभ्येत्य प्रोचुर्दुःखसमन्विताः ॥ ६.१२५.९० ॥
परिग्रहः कृतोऽस्माभिः केवलं पृथिवीपते ॥
न च किंचित्फलं जातं वृत्तिजं नः पुरोद्भवम् ॥ ९१ ॥
तस्मात्कुरु स्थितिं त्वं च स्वधर्मपरिवृद्धये ॥?।
येन तद्वर्तनोपायो ह्यस्माकं नृपसत्तम ॥ ९२ ॥
राजा बृहद्बलो युद्धे कालधर्ममुपागतः ॥
यस्त्वया दर्शितोऽस्माकं वृत्त्यर्थं नृपसत्तम ॥ ९३ ॥
॥ सत्यसन्ध उवाच ॥ ॥
संन्यस्तोऽहं द्विजश्रेष्ठा वृत्तिं कर्तुं न च क्षमः ॥
यदि मे स्यात्पुमान्कश्चिदन्वयेऽपि न संशयः ॥ ९४ ॥
तस्माद्व्रजथ हर्म्यं स्वं प्रसादः क्रियतां मम ॥
अभाग्यैर्भवदीयैश्च हतो राजा बृहद्बलः ॥ ९५ ॥
एवमुक्ताश्च ते विप्रा मत्वा तथ्यं च तद्वचः ॥
स्वस्थानं त्वरिता जग्मुः सोऽपि चक्रे तपश्चिरम् ॥ ९६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सत्यसन्धनृपतिवृत्तान्तवर्णनंनाम पंचविंशत्यधिकशततमोऽध्यायः ॥ १२५ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 126
॥ सूत उवाच ॥ ॥
एवं तस्य तपस्थस्य पुत्र्या सह द्विजोत्तमाः ॥
आजग्मुर्ब्राह्मणाः सर्वे चमत्कारपुरोद्भवाः ॥ १ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
सन्देहेषु च सर्वेषु विवादेषु विशेषतः ॥
अभावात्पार्थिवेन्द्रस्य संजातश्च पराभवः ॥ २ ॥
ततश्च द्विजवर्यैः स संन्यस्तः पृथिवीपतिः ॥
पृष्टश्च प्रार्थितश्चैव निजराज्यस्य रक्षणे ॥
अन्यस्मिन्दिवसे प्राह कृतांजलिपुटः स्थितः ॥ ३ ॥
॥ राजोवाच ॥ ।
अनर्होऽहं द्विजश्रेष्ठाः संदेहं हर्तुमेव वः ॥
रक्षां कर्तुं विशेषेण त्यक्तशस्त्रोऽस्मि चाधुना ॥ ४ ॥.
॥ ब्राह्मणा ऊचुः ॥ ॥
सर्वे वयं महाराज भूपस्याप्यधिका यतः ॥
अहंकारेण दर्पेण निजं स्थानं समाश्रिताः ॥ ५ ॥
न कस्यचिन्महाराज कदापि च कथंचन ॥
वर्तनायाश्च सन्देहः स्थानकृत्येऽपि संस्थितः ॥ ६ ॥
असंख्याता कृता वृत्तिः पुराऽस्माकं महात्मना ॥
ततः सा वृद्धिमानीता तत्परैः पार्थिवोत्तमैः ॥ ७ ॥
त्वया चैव विशेषेण यावद्राजा बृहद्बलः ॥
आनर्तविषये राजा यो यः स्यात्स प्रयच्छति ॥ ८ ॥
सर्वां वृत्तिं गृहस्थानां यथायोग्यं प्रयत्नतः ॥
तवाग्रे किं वयं ब्रूमस्त्वं वेत्सि सकलं यतः ॥ ९ ॥
यथा वृत्तिः पुरा दत्ता यथा संरक्षिता त्वया ॥
तस्माच्चिन्तय राजेन्द्र स्थानं वर्तनसंभवम् ॥
उपायं येन मर्यादा वृत्तिस्तस्मात्सुखेन तु ॥ ६.१२६.१० ॥
ततः स सुचिरं ध्यात्वा गर्तातीर्थसमुद्भवान् ॥
आकार्योपमन्युवंशस्य संभवान्वेदपारगान् ॥ ११ ॥
प्रणिपातं प्रकृत्वाथ ततः प्रोवाच सादरम् ॥
मदीयस्थान संस्थानां ब्राह्मणानां विशेषतः ॥ १२ ॥
सर्वकृत्यानि कार्याणि भृत्यवद्विनयान्वितैः ॥
नित्यं रक्षा विधातव्या युष्मदीयं वचोखिलम् ॥ १३ ॥
एते संपालयिष्यन्ति मर्यादाकारमुत्तमम् ॥
सन्देहेषु च सर्वेषु विवादेषु विशेषतः ॥ १४ ॥
राजकार्येषु चान्येषु एते दास्यन्ति निर्णयम् ॥
युष्मदीयं वचः श्रुत्वा शुभं वा यदि वाऽशुभम् ॥ १५ ॥
एते पाल्याः प्रसादेन पुष्टिं नेयाश्च शक्तितः॥
ईर्ष्यां सर्वां परित्यज्य मदीयस्थानवृद्धये ॥ १६ ॥
बाढमित्येव तैः प्रोक्तः स राजा ब्राह्मणोत्तमान् ॥
चमत्कापुरोद्भूतान्भूयः प्रोवाच सादरम् ॥ १७ ॥
युष्माकं वर्तनार्थाय सर्वकृत्येषु सर्वदा ॥
एते विप्रा मया दत्ता गर्तातीर्थसमुद्भवाः ॥ १८ ॥
एतेषां वचनात्सर्वं युष्मदीयं प्रजायताम् ॥
प्रतिष्ठा जायते नूनं चातुश्चरणसूचिता ॥ १९ ॥
नान्यथा ब्राह्मणश्रेष्ठाः स्वल्पं वा यदि वा बहु ॥
प्रोक्तं लक्षमितैरन्यैर्युष्मदीयपुरोद्भवैः ॥ ६.१२६.२० ॥
॥ सूत उवाच ॥
ततस्ते ब्राह्मणा हृष्टास्तानादाय द्विजोत्तमान् ॥
तेषां मतेन चक्रुश्च सर्वकृत्यानि सर्वदा ॥ २१ ॥
ततस्तत्र पुरे जाता मर्यादा धर्मवर्द्धिनी ॥
सर्वकृत्येषु सर्वेषां तथा वृद्धिः पुरस्य च ॥ २२ ॥
तेऽपि तेषां प्रसादेन गर्त्तातीर्थभवा द्विजाः ॥
परां विभूतिमास्थाय मोदन्ते सुखसंयुताः ॥ २३ ॥
कस्यचित्त्वथ कालस्य स राजा तत्पुरोत्तमम् ॥
समभ्येत्य द्विजान्सर्वांस्ततः प्रोवाच सादरम् ॥२४॥
युष्मदीयप्रसादेन क्षेत्रेऽत्र सुमहत्तपः ॥
कृतं स्वर्गं प्रयास्यामि सांप्रतं तु द्विजोत्तमाः ॥ २५ ॥
नास्माकमन्वये कश्चित्सांप्रतं वर्तते नृपः ॥
तस्याहं लिंगमेतद्वै दर्शयामि द्विजोत्तमाः ॥२६॥
पूजार्थं चापि वृत्त्यर्थं भोगार्थं च विशेषतः ॥
तस्माद्युष्माभिरेवास्य पूजा कार्या प्रयत्नतः ॥
रथयात्रा विशेषेण दयां कृत्वा ममोपरि ॥ २७ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
सप्त विंशतिलिंगानि यथेष्टानि महीतले ॥
चमत्कारसुतानां च पूज्यंते सर्वदैव तु ॥ २८ ॥
अष्टाविंशतिमं तद्वदेतल्लिंगं तवोद्भवम् ॥
सर्वदा पूजयिष्यामो निश्चिन्तो भव पार्थिव ॥ २९ ॥
अस्य यात्रां करिष्यामः कार्तिके मासि सर्वदा ॥
बलिपूजोपहारांश्च गीतवाद्यानि शक्तितः ॥ ६.१२६.३० ॥
एवमुक्तः स तैर्हृष्टो गत्वात्मीयं तदाश्रमम् ॥
स्नापयित्वाथ तल्लिंगं पूजां चक्रे प्रभक्तितः ॥ ३१ ॥
॥ सूत उवाच ॥ ॥
एवं समर्पितं लिंगं तेन तद्धरसंभवम् ॥
सर्वेषां ब्राह्मणेंद्राणां वंशोच्छेदे स्थिते द्विजाः ॥ ३२ ॥
सकलं कार्तिकं मर्त्यो यस्तच्छ्रद्धासमन्वितः ॥
स्नापयेत्पूजयेच्चापि स नूनं मुक्तिमाप्नुयात् ॥ ३३ ॥
सोमस्य दिवसे प्राप्ते वर्षं यावत्कृतक्षणः ॥
तस्य पूजां करोत्येवं स्नापयित्वा विधानतः ॥
सोऽपि मुक्तिं व्रजेन्मर्त्य एतत्तातान्मया श्रुतम् ॥ ३४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सत्यसंधेश्वरमाहात्म्यवर्णनंनाम षड्विंशत्यधिकशततमोऽध्यायः ॥ १२६ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 127
॥ ऋषय ऊचुः ॥ ॥
या सा कर्णोत्पलानाम त्वयास्माकं प्रकीर्तिता ॥
किञ्चिज्जलाश्रयं प्राप्य तपस्तपति संस्थिता ॥
तस्याः सर्वं समाचक्ष्व यथा तपसि सा स्थिता ॥ १ ॥
॥ सूत उवाच ॥ ॥
गौरीपादकृतस्थाना श्रद्धया परया युता ॥
तावत्तुष्टिं गता देवी गिरिजा शंकरप्रिया ॥ २ ॥
ततः प्रोवाच ते पुत्रि तुष्टाहं वांछितं वद ॥
येन यच्छाम्यसंदिग्धं यद्यपि स्यात्सुदुर्लभम् ॥ ३ ॥
॥ कर्णोत्पलोवाच ॥ ॥
मम पत्युः कृते देवि मम तातः सुदुःखितः ॥
राज्याद्भ्रष्टः सुखाच्चापि कुटुंबेन विवर्जितः ॥ ४ ।
ततश्चैव तपस्तेपे वैराग्यं परमं गतः ॥
अहं वार्द्धक्यमापन्ना कौमार्येऽपि च संस्थिता ॥ ५ ॥
तस्माद्भवतु मे भर्त्ता कश्चिद्रूपोत्कटः स्मृतः ॥
सर्वेषां देवमर्त्यानां त्वत्प्रसादात्सुरेश्वरि ॥६॥
तथा स्यात्परमं रूपं तारुण्यं त्वत्प्रसादतः ॥
यथास्य जायते सौख्यं तापसस्यापि मे पितुः ॥ ७ ॥
॥ देव्युवाच ॥ ॥
माघमासतृतीयायां शनैश्चरदिने शुभे ॥
नक्षत्रे वसुदैवत्ये रूपं ध्यात्वाथ यौवनम् ॥ ८ ॥
त्वया स्नानं प्रकर्तव्यं सुपुण्येऽत्र जलाशये ॥
ततो दिव्य वपुर्भूत्वा यौवनेन समन्विता।
भविष्यसि न संदेहः सत्यमेतन्मयोदितम् ॥ ९ ॥
अन्यापि या महाभागे नारी स्नानं करिष्यति॥
तस्मिन्नहनि साप्येवं रूपयुक्ता भविष्यति ॥ ६.१२७.१०. ॥
॥सूत उवाच॥ ॥
एवमुक्त्वाथ सा देवी गता चादर्शनं ततः ॥
सापि चान्वेषयामास तृतीयां शनिना सह ॥ ११ ॥
वसुदेवात्मकेनैव नक्षत्रेण प्रयत्नतः ॥
ध्यायमाना च तां देवीं सर्वकामप्रदायिनीम् ॥ १२ ॥
ततः कतिपयाहस्य जाता सा योगसंयुता ॥
तृतीया या यथोक्ता च तया देव्या पुरा द्विजाः ॥ १३ ॥
ततः सा रूपसौभाग्यं यौवनं वांछितं पतिम् ॥
ध्यायमाना जले तस्मिन्नर्द्धरात्रे विवेश च ॥ १४ ॥
ततो दिव्यवपुर्भूत्वा यौवनेन समन्विता ॥
निष्क्रांता सलिलात्तस्माज्जनविस्मयकारिणी ॥ १५ ॥
एतस्मिन्नंतरे प्राप्तो गौरीवाक्यप्रबोधितः ॥
तदर्थं भगवान्कामः पत्न्यर्थं प्रीतिसंयुतः ॥
अब्रवीच्च महाभागे कामोहं स्वयमागतः ॥ १६ ॥
पार्वत्यादेशिता भार्या तस्मान्मे भव मा चिरम् ॥ ॥ १७ ॥
यस्मात्प्रीत्या समायातस्तवांतिकमहं शुभे ॥
तस्मात्प्रीतिरिति ख्याता मम भार्या भविष्यसि ॥ १८ ॥
॥ कर्णोत्पलोवाच ॥ ॥
यद्येवं स्मर मत्तातं तं गत्वा प्रार्थय स्वयम् ॥
स्वच्छंदा स्याद्यतः कन्या न कथंचित्प्रवर्तिता ॥ १९ ॥
य एष दृश्यते रम्यः प्रासादो नाति दूरतः ॥
अस्यांते तिष्ठतेऽस्माकं तातस्तपसि संस्थितः ॥ ६.१२७.२० ॥
अत्राहं पूर्वतो गत्वा तस्य तिष्ठामि चांतिके ॥
भवानागत्य पश्चाच्च प्रार्थयिष्यति मां ततः ॥ २१ ॥
बाढमित्येव कामोक्ते गता सा तत्समीपतः ॥
प्रणिपत्य ततः प्राह दिष्ट्या तात मया पुनः ॥ २२ ॥
संप्राप्तं यौवनं कांतं समाराध्य हरप्रियाम् ॥
तस्मात्कुरु विवाहं मे हृत्स्थं सुखमवाप्नुहि ॥ २३ ॥
मदर्थे प्रेषितो भर्त्ता तया देव्याऽतिसुन्दरः ॥
पुष्प चापः स्वयं प्राप्तः सोऽपि तात तवांतिकम् ॥ २४ ॥
अथ तां स समालोक्य स्वां सुतां यौवनान्विताम् ॥
हर्षेण महता युक्तां कांतयुक्तां विशेषतः ॥
अब्रवीदद्य मे पुत्रि संजातं तपसः फलम् ॥ २५ ॥
जीवितस्य च कल्याणि यत्वं प्राप्ता नवं वयः ॥
भर्तारं च तथाभीष्टं देव्या दत्तं मनोभवम् ॥ २६ ॥
एतस्मिन्नंतरे कामस्तस्यांतिकमुपाद्रवत् ॥
अब्रवीद्देहि मे भूप स्वां कन्यां चारुहासिनीम् ॥ २७ ॥
अस्या अर्थेऽहमादिष्टः स्वयं गौर्या नृपोत्तम ॥
कामदेव इति ख्यातस्त्रैलोक्यं येन मोहितम् ॥ २८ ॥
ततस्तामर्पयामास तां कन्यां स महीपतिः ॥
कृत्वाग्निं साक्षिणं वाक्याद्ब्राह्मणानां द्विजोत्तमाः ॥ २९ ॥
सा चास्य चाभवत्प्रीतिस्थानं यस्मात्सुलोचना ॥
रतेरनंतरा तस्मात्प्रीतिनामाऽभवच्छुभा ॥ ६.१२७.३० ॥
एवं तया तपस्तप्तं तस्मात्तत्र जलाशये ॥
तन्नाम्ना ख्यातिमायातं समस्तेऽत्र महीतले ॥ ३१ ॥
सकलं माघमासं च या स्त्री स्नानं समाचरेत् ॥
पुमान्वा प्रातरुत्थाय स प्रयागफलं लभेत् ॥ ३२ ॥
रूपवाञ्जायते दक्षः सदा जन्मनि जन्मनि ॥
न वियोगमवाप्नोति कदात्रिद्बांधवैः सह ॥ ३३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कर्णोत्पलातीर्थमाहात्म्यवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥ १२७ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 128
॥ सूत उवाच ॥ ॥
सत्यसन्धोपि हृष्टात्मा सतां दृष्ट्वा सुखान्विताम्॥
अभीष्टपतिना युक्तां कृतकृत्यो बभूव ह ॥ १ ॥
ततस्तस्यैव लिंगस्य दक्षिणां मूर्तिमाश्रितः ॥
दृढं पद्मासनं कृत्वा सम्यग्ध्यानपरायणः ॥ २ ॥
आत्मानमात्मनैवाथ ब्रह्मद्वारेण संस्थितः ॥
ततो निःसारयामास पुलकेन समन्वितः ॥ ३ ॥
अथ ते ब्राह्मणास्तस्य चमत्कारपुरोद्भवाः ॥
देवता दर्शनार्थाय प्राप्ता दृष्ट्वा कलेवरम् ॥ ४ ॥
अप्रियं तेजसा हीनं मृतमस्पृश्यतां गतम् ॥
लिंगस्य नातिदूरस्थं दाह्यार्थं यत्नमास्थिताः ॥ ५ ॥
यावद्गुर्वीं चितां कृत्वा तमन्वेष्टुं समुद्यताः ॥
तावन्नष्टं शवं तच्च ज्ञायते नैव कुत्रचित् ॥ ६ ॥
ततश्च विस्मयाविष्टास्तं प्रशंसासमन्वितैः ॥
वचनैर्बहुशो भूयो विकथ्य च मुहुर्मुहुः ॥ ७ ॥
ततस्तस्योत्थलिंगस्य सर्वं पूजादिकं च यत् ॥
सर्वे निरूपयामासुः सप्तविंशतिमध्यतः ॥ ८ ॥
लिंगानां तद्भवेन्नित्यं सत्यसंधस्य भूपतेः ॥
कामदं भक्तजंतूनां सर्वपातकनाशनम् ॥ ९ ॥
॥ ऋषय ऊचुः ॥ ॥
चमत्कारनरेंद्रस्य वंशे क्षीणे महामते ॥
आनर्त्ताधिपतिः कोऽन्यस्तत्र राजा बभूव ह ॥ ६.१२८.१० ॥
सूत उवाच ॥ ॥
बृहद्बले हते भूपे संग्रामे द्विजसत्तमाः ।
पुत्रबंधुसमायुक्ताः सर्व लोकाः समाययुः ॥ ११ ॥
यत्रस्थः स महीपालः सत्यसंधस्तपोन्वितः ॥
शोकोद्विग्नास्ततः प्राहुस्तं भूपं रहसि स्थितम् ॥ १२ ॥
क्षीणोऽयं तावको वंशो न कश्चिद्विद्यते यतः ॥
दायादोऽपि कथं पृथ्वी संप्रतीयं भविष्यति ॥ १३ ॥
अराजके नृपश्रेष्ठ मात्स्यो न्यायः प्रवर्तते ॥
राष्ट्रे चैव पुरे चैव ग्रामे चैव विशेषतः ॥ १४ ॥
परदाररता ये च ये च तस्करवृत्तयः ।
सर्वे राजभयाद्राजन्मर्यादां पालयंति वै ॥ १५ ॥
तस्मात्त्वं तप उत्सृज्य राज्यं पूर्वक्रमागतम् ॥
कुरु राज्यं तथा दारान्पुत्रार्थं प्राप्य मा चिरम् ॥ १६ ॥
॥ राजोवाच ॥ ॥
संन्यस्तोऽहं द्विजश्रेष्ठा न राज्यं कर्तुमुत्सहे ॥
न सुतानां न दाराणां संग्रहं च कथंचन ॥ १७ ॥
तत्पुत्रार्थं प्रवक्ष्यामि युष्माकं स्वामिनः कृते ॥
उपायं येन राजा स्यादानर्त्तो लोकपालकः ॥ १८ ।
जामदग्न्येन रामेण यदा क्षत्रं निपातितम् ॥
गर्भस्थमपि कार्त्स्न्येन कोपोपहतचेतसा ॥ १९ ॥
ततः क्षत्रियभार्याः प्रागृतुस्नानात्समाययुः ॥
ब्राह्मणान्पुत्रजन्मार्थं न कामार्थं कथंचन ॥ ६.१२८.२० ॥
ततः पुत्राः समुत्पन्नास्तेजोवीर्यसमन्विताः ॥
क्षेत्रजा भूमिपालानां संजाताश्च महीक्षितः ॥२१॥
तस्माद्बृहद्बलस्यैता भार्यास्तिष्ठंति या जनाः ॥
ब्राह्मणांस्ता उपागम्य ऋतुस्नाता यथोचितान् ॥ २२ ॥
लभिष्यंति च पुत्रांस्तास्तेभ्यः क्षत्रियपुंगवान् ॥
ये भूमिं पालयिष्यंति पालयिष्यंति च प्रजाः ॥ २३ ॥
तथाऽत्रास्ति शुभं कुण्डं वासिष्ठं पुत्रजन्मदम् ॥
यत्र स्नाता ऋतौ नारी सद्यो गर्भवती भवेत् ॥
अमोघरेताः कांता च स्नानादत्र प्रजायते ॥ २४ ॥
ये पूर्वं क्षत्रिया जाता ब्राह्मणैः क्षत्रिणीषु च ॥
ते सर्वे तत्प्रभावेन संजाता नात्र संशयः ॥ २५ ॥
ययायया द्विजो यश्च क्षत्रिण्याऽभूद्वृतः पुरा ॥
तया सह समागत्य स्नातं मन्त्रपुरस्कृतम् ॥ २६ ॥
सकृन्मैधुनसंसर्गात्ततस्तीर्थप्रभावतः ॥
सर्वासां यत्सुता जाता दुहिता न कथंचन ॥ २७ ॥
ये केचित्पुत्रदा मंत्राश्चातुश्चरणासंभवाः ।
ते सर्वेऽत्र वसिष्ठेन प्रयुक्ताः क्षत्त्रमिच्छता ॥ २८ ।
दंपत्योः स्नानमात्रेण जातेऽत्र स्यात्सुपुत्रकः॥
तस्मात्सुपुत्रदंनाम कुण्डमेतन्निगद्यते ॥ २९ ॥
तस्माद्भार्याः समस्तास्ता बृहद्बलसमुद्भवाः ॥
अत्र स्नानं प्रकुर्वंतु यथोक्तविधिना जनाः ॥ ६.१२८.३० ॥
नैव किंचिदसत्यं स्यान्न च निंदाकरं तथा ॥
श्रूयते च यतः श्लोकः पूर्वाचार्यैरुदाहृतः ॥ ३१ ॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्त्रमश्मनो लोहमुच्छ्रितम्॥
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ३२ ॥
तच्छ्रुत्वा जनाः सर्वे सचिवानां वचोखिलम् ॥
तदाचख्युर्द्रुतं गत्वा सत्यसंधस्य भूपतेः ॥ ३३ ॥
ततस्ताः सर्वशो दारा ब्राह्मणानतिसुन्दरान् ॥
ऋतुस्नाताः समाजग्मुर्नृपपत्न्यः सुहर्षिताः ॥ ३४ ॥
यत्र तत्पुत्रदं तीर्थं वसिष्ठेन विनिर्मितम् ॥
तत्र स्नात्वा सकृत्संगं समासाद्य द्विजोद्भवम् ॥ ३५ ॥
सर्वास्ताः पुत्रवत्यश्च संजाता द्विजसत्तमाः ॥
आसीत्तस्य नरेंद्रस्य शतं पंचभिरन्वितम् ॥ ३६ ॥
तासां समभवद्विप्राः शतं पंचाधिकं तथा ॥ ३७ ॥
प्रत्येकं वरपुत्राणां वंशवृद्धिकरं परम् ॥
आनंदजननं सम्यक्सर्वेषां राष्ट्रवासिनाम् ॥ ३८ ॥
तत्र श्रेष्ठोऽभवत्पुत्रो य आनर्तपतिर्भुवि ॥
अटोनाम सुविख्यातः सर्वशत्रुनिबर्हणः ॥ ३९ ॥
अटेश्वरइति ख्यातो येन देवोऽत्र निर्मितः ॥
सुभक्त्या येन दृष्टेन वंशोच्छित्तिर्न जायते ॥ ६.१२८.४० ॥
॥ ऋषय ऊचुः ॥ ॥
कस्मात्तस्य कृतं नाम एतच्चाऽट इति स्मृतम् ॥
अन्वयेन परित्यक्तं तस्मात्कीर्तय सूतज ॥४१॥
सचिवैर्ब्राह्मणैर्वापि तस्यैतन्नाम निर्मितम् ॥
मात्रा वा तत्समाचक्ष्व परं कौतूहलं हि नः ॥ ४२ ॥
॥ सूत उवाच ॥ ॥
न मात्रा तत्कृतं नाम न विप्रैः सचिवैर्नृप ॥
तत्कृतं देवदूतेन व्योमस्थेन द्विजोत्तमाः ॥ ४३ ॥
यथा तथा प्रवक्ष्यामि श्रोतव्यं सुसमाहितैः ॥
यया स भूपतिर्जातो दशार्णाधिपतेः सुता ॥ ४९ ॥
सा रूपयौवनोपेता रूपाढ्यं प्राप्य सद्द्विजम् ॥
प्रस्थिता स्नातुकामाथ पुत्रतीर्थे मृगेक्षणा ॥ ४५ ॥
सहिता तेन विप्रेण कंदर्पप्रतिमेन च ॥
अथ ताभ्यां महान्रामो मिथः संदर्शनात्स्थितः ॥ ४६ ॥
तादृङ्मात्रं सुकृच्छ्रेण प्राप्तं तीर्थं सुतप्रदम् ॥
ततः स्नात्वा जले तस्मिन्निष्क्रांतौ तौ सुकामुकौ ॥४७॥
व्रजमानौ च मार्गेऽपि कामधर्ममुपागतौ ॥
अत्यौत्सुक्यात्सुसंहृष्टौ लज्जां त्यक्त्वा सुदूरतः ॥ ४८ ॥
निंदमानस्य लोकस्य विच्छेदवचनैस्तदा ॥
वीर्योत्सर्गेऽथ संजाते यावदुत्तिष्ठते द्विजः ॥ ४९ ॥
तावदाकाशगा वाणी सहसा देवनिर्मिता ॥
अटताराजमार्गेण विप्रेणानेन वै यतः ॥ ६.१२८.५० ॥
उत्पादितस्तु पुत्रोऽयमौत्सुक्याद्ब्राह्मणेन तु ॥
अटाख्यो भूपतिस्तस्माल्लोके ख्यातो भविष्यति ॥ ५१ ॥
दीर्घायुर्बहुपुत्रश्च शत्रुंपक्षक्षयावहः ॥
एतस्मात्कारणाद्विप्रा अटाख्यः स बभूव ह ॥ ५२ ॥
स्ववंशोद्धरचंद्रोऽत्र वांछितार्थप्रदोऽर्थिनाम् ॥
तेनैतत्क्षेत्रमासाद्य स्थापितं लिंगमुत्तमम् ॥
स्वनाम्ना ब्राह्मणश्रेष्ठाः सर्वदेष्टप्रदं नृणाम् ॥ ५३ ॥
यस्तन्माघचतुर्दश्यां पूजयेच्छ्रद्धयान्वितः ॥
न तस्य जायते किंचिद्दुःखं संतानसंभवम् ॥ ५४ ॥
अपि वर्षशतानारी स्नात्वा कुण्डे सुतप्रदे ॥
अटेश्वरं ततः पश्येच्छिवभक्तिपरायणा ॥ ५५ ॥
सद्यः पुत्रमवाप्नोति वंशवृद्धिकरं परम् ॥ तत्प्रसादान्न संदेहः कार्तिकेय वचो यथा ॥ ५६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽटेश्वरोत्पत्तिमाहात्म्यवर्णनंनामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥ १२८ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 129
॥ सूत उवाच ॥
तथान्योऽपि च तत्रास्ति याज्ञवल्क्यसमुद्रवः ॥
आश्रमो लोक विख्यातो मूर्खाणामपि सिद्धिदः ॥ १ ॥
यत्र तप्त्वा तपस्तीव्रं याज्ञवल्क्येन धीमता ॥
संप्राप्ता निखिला वेदा गुरुणाऽपहृताश्च ये ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
कोऽसौ गुरुरभूत्तस्य याज्ञवल्क्यस्य धीमतः ॥
पाठयित्वा पुनर्येन हृता वेदा महात्मना ॥ ३ ॥
किमर्थं च समाचक्ष्व सूतपुत्रात्र विस्तरात्॥
कौतुकं परमं जातं सर्वेषां नो द्विजन्मनाम् ॥ ४ ॥
॥ सूत उवाच ॥ ॥
आसीद्ब्राह्मणशार्दूलः शाकल्य इति विश्रुतः॥
भार्गवान्वयसंभूतो वेद वेदांगपारगः ॥ ५ ॥
बृहत्कल्पे पुरा विप्रा वर्धमाने पुरोत्तमे ॥
बहुशिष्यसमायुक्तो वेदाध्ययनतत्परः ॥ ६ ॥
स सदा प्रातरुत्थाय विद्यादानं प्रयच्छति ।
शिष्येभ्यश्चानुरूपेभ्यः प्रसादाद्विजसत्तमाः ॥ ७ ॥
चकार स तदा विप्राः पौरोहित्यं महीपतेः ॥
सूर्यवंशप्रसूतस्य सुप्रियस्य महात्मनः ॥ ॥ ८ ॥
स तस्य धर्मकृत्यानि सर्वाण्येव दिनेदिने ॥
कृत्वा स्वगृहमभ्येति पूजितस्तेन भूभुजा ॥ ९ ॥
एकं शिष्यं समारोप्य शांत्यर्थं तस्य भूपतेः ॥
कथयित्वा प्रमाणं च विधानं होमसंभवम् ॥ ६.१२९.१० ॥
शिष्योऽपि सकलं कृत्वा तत्कर्म सुसमाहितः ॥
आशीर्वादं प्रदत्त्वा च भूपतेर्गृहमेति च ॥ ११ ॥
एवं प्रकुर्वतस्तस्य शाकल्यस्य महात्मनः ॥
पौरोहित्यं गतः कालः कियन्मात्रो द्विजोत्तमाः ॥ १२ ।
तदा वैवाहिके काले शप्तो यः शंभुना स्वयम् ॥
सुनिंद्यां विकृतिं दृष्ट्वा तस्य वेद्यां गतस्य च ॥ १३ ॥
अथ तं योजयामास शांत्यर्थं नृपमंदिरे ॥
याज्ञवल्क्यं स शाकल्यः प्रतिपद्यागतं तदा ॥ १४ ॥
सोऽपि तारुण्यगर्वेण वेश्याकरजविक्षतः ॥
सर्वांगेषु सुनिर्लज्जः प्रकटांगो जगाम वै ॥ १५ ॥
ततश्च शांतिकं कृत्वा जपांते भूपतिं च तम् ॥
शांतोदकप्रदानाय हस्यमानो जनैर्ययौ ॥ १६ ॥
पार्थिवोऽपि च तं दृष्ट्वा तादृग्रूपं विटं द्विजम् ॥
नाशीर्जग्राह तेनोक्तां वाक्यमेतदुवाच ह ॥ १७ ।
उच्छिष्टोऽहं द्विजश्रेष्ठ शय्यारूढो व्यवस्थितः ।
अत्र शालोद्भवे स्तंभे तस्मादेतज्जलं क्षिप ॥ १८ ॥
सोऽपि सावज्ञमाज्ञाय तं भूपं कुपिताननः ॥
तं च स्तंभं समुद्दिश्य ध्यात्वा तद्ब्रह्म शाश्वतम् ॥ १९ ॥
द्यां त्वमालिख्य इत्येव प्रोक्त्वा मंत्रं च याजुषम्॥ (यां त्वमालिख्य- पाठभेदः)
प्राक्षिपच्छांतिकं तोयं तस्य मूर्धनि सत्वरम्॥ ६.१२९.२० ॥
ततः स पतिते तोये स्तंभः पल्लवशोभितः ॥
तत्क्षणादेव संजज्ञे फल पुष्पैर्विराजितः ॥ २१ ॥
तं दृष्ट्वा पार्थिवः सोऽथ विस्मयोत्फुल्ललोचनः ॥
पश्चात्तापं विधायाथ वाक्यमेतदुवाच ह ॥ २२ ॥
अभिषेकं द्विजश्रेष्ठ ममापि त्वं प्रयच्छ भोः ॥
अनेनैव तु मन्त्रेण शुचित्वं मे व्यवस्थितम् ॥ २३ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
ममाभिषेकदानस्य त्वमनर्होऽसि पार्थिव ॥
तस्माद्यास्याम्यहं सद्यो यत्रस्थः स गुरुर्मम ॥ २४ ॥
॥ राजोवाच ॥ ॥
तव दास्यामि वस्त्राणि वाहनानि वसूनि च ॥
तस्माद्यच्छाभिषेकं मे मन्त्रेणाऽनेन सांप्रतम् ॥ २५ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
न होमांतं विना मन्त्रः स्फुरते पार्थिवोत्तम ॥
अभिषेकविधौ प्रोक्तो यः पूर्वं पद्मयोनिना ॥
तस्मान्नाहं करिष्यामि तव यद्वै हृदि स्थितम्॥ २६ ॥
इत्युक्त्वा वचनं भूपं याज्ञवल्क्यः स वै द्विजः ॥
जगाम स्वगृहं तूर्णं निस्पृहत्वं समाश्रितः ॥ २७
अपरेऽह्नि समायातं शाकल्यमथ भूपतिः ॥
प्रोवाच प्रांजलिर्भूत्वा विनयावनतः स्थितः ॥ २८ ॥
यस्त्वया प्रेषितः कल्य शिष्यो ब्राह्मणसत्तमः ॥
शांत्यर्थं प्रेषणीयश्च भूयोऽप्येवं गृहे मम ॥ २९ ॥
बाढमित्येव स प्रोक्त्वा ततो गत्वा निजालयम् ॥
याज्ञवल्क्यं समाहूय ततः प्रोवाच सादरम् ॥ ६.१२९.३० ॥
अद्यापि त्वं नरेंद्रस्य शांत्यर्थं भवने व्रज ॥
विशेषात्पार्थिवेंद्रेण समाहूतोऽसि पुत्रक ॥ ३१ ॥ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
नाहं तात गमिष्यामि शांत्यर्थं तस्य मंदिरे ॥
अवलेपेन युक्तस्य शुद्ध्या विरहितस्य च ॥ ३२ ॥
मया तस्याभिषेकार्थं सलिलं चोद्यतं च यत् ॥
सलिलं तेन तत्काष्ठे समादिष्टं कुबुद्धिना ॥ ३३ ॥
ततो मयापि तत्रैव तत्क्षणात्सलिलं च यत् ॥
तस्मिन्काष्ठे परिक्षिप्तं नीतं वृद्धिं च तत्क्षणात् ॥ ३४ ॥
॥ शाकल्य उवाच ॥ ॥
अत एव विशेषेण समाहूतोऽसि पुत्रक ॥
तस्मात्तत्र द्रुतं गच्छ नावज्ञेया महीभुजः ॥ ३५ ॥
अपमानाद्भवेन्मानं पार्थिवानामसंशयम् ॥
यः करोति पुनस्तत्र मानं न स भवेत्प्रियः ॥ ३६ ॥
कोपप्रसाद वस्तूनि विचिन्वंतीह ये सदा ॥
आरोहंति शनैर्भृत्या धुन्वंतमपि पार्थिवम् ॥ ३७ ॥
समौ मानापमानौ च चित्तज्ञः कालवित्तथा ॥
सर्वंसहः क्षमी विज्ञः स भवेद्राजवल्लभः ॥ ३८ ॥
अपमानमनादृत्य तस्माद्गच्छ नृपालयम् ॥
ममाज्ञापि न लंघ्या त एष धर्मः सनातनः ॥ ३९ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
आज्ञाभंगो ध्रुवं भावी परिपाटीव्यतिक्रमात् ॥
करोषि यदि शिष्याणां ये त्वया तत्र योजिताः ॥ ६.१२९.४० ॥
तस्माद्यदि बलान्मां त्वं योजयिष्यसि तं प्रति ॥
त्वां त्यक्त्वाऽन्यत्र यास्यामि यतः प्रोक्तं महर्षिभिः ॥ ४१ ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ॥
उत्पथे वर्तमानस्य परित्यागो विधीयते ॥ ४२ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा शाकल्यः क्रोधमूर्छितः ॥
ततः प्रोवाच तं भूयो भर्त्समानो मुहुर्मुहुः ॥ ४३ ॥
एकमप्यक्षरं यत्र गुरुः शिष्ये निवेदयेत् ॥
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा ह्यनृणी भवेत् ॥ ४४ ॥
तस्माद्गच्छ द्रुतं दत्त्वा मदध्ययनमालयम् ॥
त्यक्त्वा विद्यां मया दत्तां नो चेच्छप्स्याम्यहं तव ॥ ४५ ॥
एवमुक्त्वाभिमंत्र्याथ नादबिंदुसमुद्भवैः ॥
मंत्रैराथर्वणैस्तोयं पानार्थं चार्पयत्ततः ॥ ४६ ॥
सोऽपिबत्तत्क्षणात्तोयं तत्पीत्वा व्याकुलेंद्रियः ॥
उद्गिरद्वांतिधर्मेण तत्त्वविद्याविमिश्रितम् ॥ ४७ ॥
ततः प्रोवाच तं भूयः शाकल्यं कुपिताननः ॥
एकमप्यक्षरं नास्ति तावकीयं ममोदरे ॥ ४८ ॥
तस्माच्छिष्योऽस्मि ते नाहं न च मे त्वं गुरुः स्थितः ॥
सांप्रतं स्वेच्छयाऽन्यत्र प्रयास्यामि करोषि किम् ॥ ४९ ॥
एवमुक्त्वाऽथ निर्गत्य तस्मात्स्थानाच्चिरंतनात् ॥
पप्रच्छ मानवान्भूयः सिद्धिक्षेत्राणि चासकृत् ॥ ६.१२९.५० ॥
ततस्तस्य समादिष्टं क्षेत्रमेतन्मनीषिभिः ॥
सिद्धिदं सर्वजंतूनां न वृथा स्यात्कथंचन ॥ ५१ ॥
आस्तां तावत्तपस्तप्त्वा व्रतं नियममेव वा ॥
हाटकेश्वरजे क्षेत्रे सिद्धिः संवसतोऽपि च ॥ ५२ ॥
येनयेन च भावेन तत्र क्षेत्रे वसेज्जनः ॥
तस्यानुरूपिणी सिद्धिः शुभा स्याद्यदि वाऽशुभा ॥ ५३ ॥
तच्छ्रुत्वा च द्रुतं प्राप्य क्षेत्रमेतद्द्विजोत्तमाः ॥
भानुमाराधयामास स्थापयित्वा ततः परम् ॥ ५४ ॥
नियतो नियताहारो ब्रह्मचर्यपरायणः ॥
गायत्रं न्यासमासाद्य निर्विकल्पेन चेतसा ॥ ५५ ॥
ततश्च भगवांस्तुष्टो वर्षांते तमुवाच सः ॥
दर्शने तस्य संस्थित्वा तेजः संयम्य दारुणम् ॥ ५६ ॥
याज्ञवल्क्य वरं ब्रूहि यत्ते मनसि रोचते ॥
सर्वमेव प्रदास्यामि नादेयं विद्यते त्वयि ॥ ५७ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
यदि तुष्टः सुरश्रेष्ठ वेदाध्ययनसंभवे ॥
गुरुर्भव ममाद्यैव ममैतद्वांछितं हृदि । ५८ ॥
॥ भास्कर उवाच ॥ ॥
अहं तव कृपाविष्टस्तेजः संहृत्य तत्परम् ॥
ततश्चात्र समायातस्तेन नो दह्यसे द्विज ॥ ५९ ॥
तस्मादत्रैव कुंडे च मंत्रान्सारस्वताञ्छुभान् ॥
वेदोक्तान्क्षेपयिष्यामि स्वयमेव द्विजोत्तम ॥ ॥ ६.१२९.६० ॥
तत्र स्नात्वा शुचिर्भूत्वा यत्किंचिद्वेदसंभवम् ॥
पठिष्यसि सकृत्तत्ते कंठस्थं संभविष्यति ॥ ६१ ॥
तत्त्वार्थं प्रकटं कृत्स्नं विदितं ते भविष्यति ॥
मत्प्रसादान्न संदेहः सत्यमेतन्मयोदितम् ॥ ६२ ॥
अद्यादि मानवः प्रातः स्नात्वा त्वत्र ह्रदे च यः ॥
सावित्रेण च सूक्तेन मां दृष्ट्वा प्रपठिष्यति ॥
तस्मै तत्स्यादसंदिग्धं यत्तवोक्तं मया द्विज ॥ ६३ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
एवं भवतु देवेश यत्त्वयोक्तं वचोऽखिलम् ॥
परं मम वचोऽन्यच्च तच्छृणुष्व ब्रवीमि ते ॥ ६४ ॥
नाहं मनुष्यधर्माणमुपाध्यायं कथंचन ॥
करिष्यामि जगन्नाथ कृपां कुरु ममोपरि ॥ ६५ ॥
ततस्तस्या ददौ सूर्यो लघिमा नाम शोभनाम्॥
विद्यां हि तत्प्रभावाय सुतुष्टेनांतरात्मना ॥ ६६ ॥
ततस्तं प्राह कर्णांते ममाश्वानां प्रविश्य वै ॥
अभ्यासं कुरु विद्यानां वेदाध्ययनमाचर ॥ ६७ ॥
मन्मुखाद्ब्राह्मणश्रेष्ठ यद्येतत्तव वांछितम् ॥
न ते स्याद्येन दोषोऽयं मम रश्मिसमुद्भवः ॥ ६८ ॥
एवमुक्तः स तेनाथ वाजिकर्णं समाश्रितः ॥
लघुर्भूत्वाऽपठद्वेदान्भास्करस्य मुखात्ततः ॥ ६९ ॥
एवं सिद्धिं समापन्नो याज्ञवल्क्यो द्विजोत्तमाः ॥
कृत्वोपनिषदं चारु वेदार्थैः सकलैर्युतम् ॥ ६.१२९.७० ॥
जनकाय नरेंद्राय व्याख्याय च ततः परम् ॥
कात्यायनं सुतं प्राप्य वेदसूत्रस्य कारकम् ॥ ७१ ॥
त्यक्त्वा कलेवरं तत्र ब्रह्मद्वारि विनिर्मिते ॥
तत्तेजो ब्रह्मणो गात्रे योजयामास शक्तितः ॥ ७२ ॥
तस्य तीर्थे नरः स्नात्वा दृष्ट्वा तं च दिवाकरम् ॥
नादबिंदुं पठित्वा च तदग्रे मुक्तिमाप्नुयात् ॥ ७३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये याज्ञवल्क्याश्रममाहात्म्यवर्णनंनामैकोनत्रिंशदुत्तरशततमोऽध्यायः ॥ १२९ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 130
॥ऋषय ऊचुः ॥ ॥
याज्ञवल्क्यसुतः सूत यस्त्वया परिकीर्तितः ॥
कतमा तस्य माताभूत्सर्वं नो ब्रूहि विस्तरात् ॥ १ ॥
॥ सूत उवाच ॥ ॥
तस्य भार्याद्वयं श्रेष्ठमासीत्सर्वगुणान्वितम्॥
एका गुणवती तस्य मैत्रेयीति प्रकीर्तिता ॥ २ ॥
ज्येष्ठा चान्याथ कल्याणी ख्याता कात्यायनीति च ॥
यस्याः कात्यायनः पुत्रो वेदार्थानां प्रजल्पकः ॥ ३ ॥
ताभ्यां कुण्डद्वयं तत्र संतिष्ठति सुशोभनम् ॥
यत्र स्नाता नरा यांति लोकांस्तांश्च महोदयान् ॥४ ॥
कात्यायन्याश्च तीर्थस्य शांडिल्यास्तीर्थमुत्तमम्॥
पतिव्रतात्वयुक्तायास्तथान्यत्तत्र संस्थितम् ॥ ५ ॥
यत्र कात्यायनी प्राप्ता शांडिल्या प्रतिबोधिता ॥
वैराग्यं परमं प्राप्ता सपत्नीदुःखदुःखिता ॥ ६ ॥
तत्र या कुरुते स्नानं तृतीयायां समाहिता ॥
नारी मार्गसिते पक्षे सा सौभाग्यवती भवेत् ॥
अथ दौर्भाग्यसंपन्ना काणा वृद्धाऽथ वामना ॥
अभीष्टा जायते सा च तत्प्रभावाद्द्विजोत्तमाः ॥ ८ ॥
॥ ऋषय ऊचुः ॥ ॥
कीदृक्सपत्निजं दुःखं कात्यायन्या उपस्थितम् ॥
उपदेशः कथं लब्धः शांडिल्याः सूत कीदृशः ॥ ९ ॥
कात्यायन्या समाचक्ष्व कौतुकं नो व्यवस्थितम् ॥
सामान्यो भविता नैष उपदेशस्तयेरितः ॥ ६.१३०.१० ॥
॥ सूत उवाच ॥ ॥
मैत्रेय्या सह संसक्तं याज्ञवल्क्यं विलोक्य सा ॥
कात्यायनी सुदुःखार्ता संजाता चेर्ष्यया ततः ॥ ११ ॥
सा न स्नाति न भुंक्ते च न हास्यं कुरुते क्वचित् ॥
केवलं बाष्पपूर्णाक्षी निःश्वासाढ्या बभूव ह ॥ १२ ॥
ततः कदाचिदेवाथ फलार्थं निर्गता बहिः ॥
अपश्यच्छांडिलीनाम पतिपार्श्वे व्यवस्थिताम्॥ १३ ॥
कृतांजलिपुटां साध्वी विनयावनता स्थिताम् ॥
सोऽपि तस्या मुखासक्तः सानुरागः प्रसन्नदृक् ॥ १४ ॥
गुणदोषोद्भवां वार्तामापृच्छ्याकथयत्तथा ॥
सा च तौ दंपती दृष्ट्वा संहृष्टावितरेतरम् ॥ १५ ॥
चित्ते स्वे चिंतयामास सुधन्येयं तपस्विनी ॥
यस्याः पतिर्मुखासक्तो गुणदोषप्रजल्पकः ॥
सानुरागश्च सुस्निग्धो नान्यां नारीं बिभर्त्ति च ॥ १६ ॥
एवं संचित्य सा साध्वी भूयोभूयो द्विजोत्तमाः ॥
जगाम स्वाश्रमं पश्चान्निंद्यमाना स्वकं वपुः ॥ १७ ॥
ततः कदाचिदेकांते स्थितां तां शांडिलीं द्विजाः ॥
बहिर्गते भर्तरि च तस्याः कार्येण केनचित् ॥ १८ ॥
कात्यायनी समागम्य ततः पप्रच्छ सादरम् ॥
वद कल्याणि मे कंचिदुपदेशं महोदयम् ॥ १९ ॥
मुखप्रेक्षः सदा भर्त्ता येन स्त्रीणां प्रजायते ॥
नापमानं करोत्येव दुरुक्तवचनैः क्वचित् ॥ ॥ ६.१३०.२० ॥
नान्यां संगच्छते नारीं चित्तेनापि कथंचन ॥
अहं भर्तुः कृतैर्दुःखैरतीव परिपीडिता ॥
सपत्नीजैर्विशेषेण तस्मान्मे त्वं प्रकीर्तय ॥ ॥ २१ ॥
यथा ते वशगो भर्त्ता संजातः कामदः सदा ॥
मनसापि न संदध्यान्नारीमेष कथंचन ॥ २२ ॥
॥ शांडिल्युवाच ॥ ॥
शृणु साध्वि प्रवक्ष्यामि तवाहं गुह्यमुत्तमम् ॥
यथा ममाभवद्वश्यो मुखप्रेक्षस्तथा पतिः ॥ २३ ॥
मम तातः कुरुक्षेत्रे शांडिल्यो मुनिसत्तमः ॥
वानप्रस्थाश्रमेऽतिष्ठत्पूर्वे वयसि संस्थितः ॥ २४ ॥
तत्रैकाहं समुत्पन्ना कन्या तस्य महात्मनः ॥
वृद्धिं गता क्रमेणाथ तस्मिन्नेव तपोवने ॥ २५ ॥
करोमि तत्र शुश्रूषां होमकाले यथोचिताम् ॥
नीवारादीनि धान्यानि नित्यं चैवानयाम्यहम् ॥ २६ ॥
कस्यचित्त्वथ कालस्य नारदो मुनिसत्तमः ॥
आश्रमे मम तातस्य सुश्रांतः समुपागतः ॥ २७ ॥
तातादेशात्ततस्तत्र मया स विश्रमः कृतः ॥
पादशौचादिभिः कृत्यैः स्नानाद्यैश्च तथापरैः ॥ २८ ॥
ततो भुक्तावसानेऽथ निविष्टः मुखसंस्थित॥
मम मात्रा परिपृष्टो विनयाद्वरवर्णिनि ॥ २९ ॥
एकेयं कन्यकास्माकं जाते वयसि संस्थिते ॥
संजाता मुनिशार्दूल प्राणेभ्योऽपि गरीयसी ॥ ६.१३०.३० ॥
तदस्याः कीर्तय क्षिप्रं सुखोपायं सुखोदयम् ॥
व्रतं वा नियमं वा त्वं होमं वा मन्त्रमेव वा ॥ ३१ ॥
येन चीर्णेन भर्त्ता स्यात्सुसौम्यः सद्गुणान्वितः ॥
प्रियंवदो मुखप्रेक्षः परनारीपराङ्मुखः ॥ ३२ ॥
तस्यास्तद्वचनं श्रुत्वा स मुनिस्तदनंतरम् ॥
चिरं ध्यात्वा वचः प्राह प्रसन्नवदनस्ततः ॥ ३३ ॥
हाटकेश्वरजे क्षेत्रे पञ्चपिंडा व्यवस्थिता ॥
गौरी गौर्या स्वयं तत्र स्थापिता परमेश्वरी ॥ ३४ ॥
तामेषा वत्सरं यावच्छ्रद्धया परया युता ॥
सदा पूजयतु प्रीत्या तृतीयायां विशेषतः ॥ ३५ ॥
ततो वर्षांतमासाद्य संप्राप्स्यति यथोचितम् ॥
भर्त्तारं नात्र संदेहो यादृग्रूपं यथोचितम् ॥ ३६
तत्र पूर्वं गता गौरी परित्यज्य महेश्वरम् ॥
गंगेर्ष्यया महाभागे ज्ञात्वा क्षेत्रं सुसिद्धिदम् ॥ ३७ ॥
ततः सा चिंतयामास कां देवीं पूजयाम्यहम् ॥
सौभाग्यार्थं यतोऽन्या मां पूजयंति सुरस्त्रियः ॥ ३८ ॥
तस्मादहं प्रभक्त्याढ्या स्वयमात्मानमेव च ॥
आत्मनैव कृतोत्साहा पूजयिष्यामि सिद्धये ॥ ॥ ३९ ॥
ततः प्राणाग्निहोत्रोत्थैर्मंत्रैराथर्वणैः शुभैः ॥
मृत्पिंडान्पंच संयोज्य ह्येकस्थाने समाहिता ॥ ६.१३०.४० ॥
पृथ्वीमपश्च तेजश्च वायुमाकाशमेव च ।
तेषु संयोजयामास मृत्पिंडेषु निधाय सा ॥ ४१ ॥
महद्भूतानि चैतानि पञ्च देवी यतव्रता ॥
ततः संपूजयामास पुष्पधूपानुलेपनैः ॥ ४२ ॥
अथ तां तत्र विज्ञाय तपःस्थां गिरजां भवः ॥
तन्मंत्राकृष्टचित्तश्च सत्वरं समुपागतः ॥ ४३ ॥
प्रोवाच च प्रहृष्टात्मा कस्मात्त्वमिह चागता ॥
मां मुक्त्वा दोषनिर्मुक्तं मुखप्रेक्षं सदा रतम् ॥ ४४ ॥
तस्मादागच्छ कैलासं वृषारूढा मया सह ॥
अथवा कारणं ब्रूहि यदि दोषोऽस्ति मे क्वचित् ॥ ॥ ४५ ॥
॥ देव्युवाच ॥ ॥
त्वं मूर्ध्ना जाह्नवीं धत्से मूर्तां पदजलात्मिकाम् ॥
तस्मान्नाहं गमिष्यामि मंदिरं ते कथंचन ॥ ४६ ॥
यावन्न त्यजसि व्यक्तं मम सापत्न्यतां गताम् ॥
तथा नित्यं प्रणामं त्वं करोषि वृषभध्वज ॥ ४७ ॥
प्रत्यक्षमपि मे नित्यं संध्यायाश्च न लज्जसे ॥
तस्मादेतत्परित्यज्य कर्म लज्जाकरं परम् ॥ ४८ ॥
आकारयसि मां देव तत्स्याद्यदि मतं मम ॥
अन्यथाहं न यास्यामि तव हर्म्ये कथंचन ॥
एतच्छ्रुत्वा यदिष्टं ते कुरुष्व वृषभध्वज ॥ ४९ ॥
॥ देव उवाच । ॥
नाहं सौख्येन तां गंगां धारयामि सुरेश्वरि ॥ ६.१३०.५० ॥
भगीरथेन भूपेन प्रार्थितो ज्ञाति कारणात् ॥
दिव्यं वर्षसहस्रं तु तपस्तप्त्वा सुदारुणम् ॥ ५१ ॥
येन नो याति पातालं गंगा स्वर्गपरिच्युता ॥
तस्मात्त्वं देव मद्वाक्यात्स्वमूर्ध्ना वह जाह्नवीम् ॥५२॥
मया तस्य प्रतिज्ञातं धारयिष्याम्यसंशयम् ॥
आकाशाज्जाह्नवीवेगं पतंतं धरणीतले ॥ ५३ ॥
नो चेद्व्रजेत पातालं यदत्र विषयेस्थि?म्॥
ततोऽहं संप्रवक्ष्यामि तदिहैकमनाः शृणु ॥५४॥
एषा गंगा वरारोहे मम मूर्ध्नो विनिर्गता ॥
हिमवंतं नगं भित्त्वा द्विधा जाता ततः परम्॥५५॥
ततः सिंध्वभिधाना सा पश्चिमं सागरं गता॥
शतानि नव संगृह्य नदीनां परमेश्वरि ॥५६॥
तथा गंगाभिधाना च सैव प्राक्सागरं गता ॥
तावतीश्च समादाय नदीः पर्वतनन्दिनि ॥५७॥
एवमष्टादशैतानि नदीनां पर्वतात्मजे ॥
शतानि सागरे यांति तेन नित्यं स तिष्ठति ॥५८॥
सततं शोष्यमाणोऽपि वाडवेन दिवानिशम् ॥
समुद्रसलिलं मेघाः समादाय ततः परम् ॥५९॥
मर्त्यलोके प्रवर्षंति ततः सस्यं प्रजायते॥
सस्येन जीवते लोकः प्रभवन्ति मखास्तथा ॥
मखांशेन सुराः सर्वे तृप्तिं यांति ततः परम्॥ ६.१३०.६० ॥
एतस्मात्कारणान्मूर्ध्नि देवि गंगां दधाम्यहम् ॥
न स्नेहात्कामतो नैव जगद्येन प्रवर्तते ॥ ६१ ॥
अथवा सन्त्यजाम्येनां यदि मूर्ध्नः कथंचन ॥
तद्दूरं वेगतो भित्त्वा पृथ्वीं याति रसातलम् ॥ ६२ ॥
ततः शोषं व्रजेदाशु समुद्रः सरितां पतिः ॥
और्वेण पीयमानोऽत्र ततो वृष्टिर्न जायते ॥
वृष्ट्यभावाज्जगन्नाशः सत्यमेतन्मयोदितम् ॥ ६३ ॥
एवं गंगाकृते प्रोक्तं मया तव सुरेश्वरि ॥
शृणु सन्ध्याकृतेऽन्यच्च येन तां प्रणमाम्यहम्॥ ६४ ॥
इति श्रीस्कान्देमहापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्व रक्षेत्रमाहात्म्ये पंचपिण्डागौर्युत्पत्तिवर्णनंनाम त्रिंशदुत्तरशततमोऽध्यायः ॥ १३० ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 131
॥ देव उवाच ॥ ॥
एषा रात्रिः समादिष्टा दानवानां सुरेश्वरि ॥
पिशाचानां च भूतानां राक्षसानां विशेषतः ॥ १ ॥
यत्किंचित्क्रियते कर्म तत्र स्नानादिकं शुभम्॥
तत्सर्वं जायते तेषां पुरा दत्तं स्वयंभुवा ॥ २ ॥
मर्यादा तैः समं येन देवानां च यदा कृता ॥
अर्हाणां यज्ञभागस्य काश्यपानामथाग्रजाम्॥ ३ ॥
तदर्थं दशसाहस्रा दानवा युद्ध दुर्मदाः ॥
कुंतप्रासकरा भानुं रुंधन्त्युद्गतकार्मुकाः ॥४॥
तमुद्दिश्य सहस्रांशुं यज्जलं परिक्षिप्यते।
सावित्रेण च मन्त्रेण तेषां तज्जायते फलम् ॥५॥
ते हतास्तेन तोयेन वज्रतुल्येन तत्क्षणात् ॥
प्रमुंचंति सहस्रांशुं नित्यमेव सुरेश्वरि ॥ ६ ॥
एतस्मात्कारणात्तोयमस्त्ररूपं क्षिपाम्यहम् ॥
संध्या कालं समुद्दिश्य भानुं संध्यां न पार्वति ॥ ७ ॥
यद्यदाचरति श्रेष्ठस्तत्तदुत्तरतः स्थितः ॥
उदयार्थं रविं यान्तं निरुन्धन्ति च दारुणाः ॥ ८ ॥
तेऽपि संध्याजलैर्देवि निहता ब्राह्मणोत्तमैः ॥
मया च तं विमुञ्चंति मूर्च्छिता निपतन्ति च ॥ ९ ॥
एतस्मात्कारणाद्देवि सन्ध्ययोरुभयोरपि ॥
अहं चान्ये च विप्रा ये ते नमंति दिवाकरम्॥ ६.१३१.१० ॥
तस्मात्त्वं गृहमागच्छ त्यक्त्वेर्ष्यां पर्वतात्मजे ॥
प्रशस्यां त्वां परित्यक्त्वा नान्यास्ति हृदये मम ॥ ११ ॥
॥ देव्युवाच ॥ ॥
निष्कामो वा सकामो वा संध्यां स्त्रीसंज्ञितामिमाम् ॥
यत्त्वं नमसि देवेश तन्मे दुःखं प्रजायते ॥ १२ ॥
तस्माद्गङ्गापरित्यागं सन्ध्यायाश्च विशेषतः ॥
यावन्न कुरुषे देव तावत्तुष्टिर्न मे भवेत् ॥ १३ ॥
एवमुक्त्वाऽथ सा देवी विशेषव्रतमास्थिता॥
अवमन्य महादेवं प्रार्थयानमपि स्वयम्॥ १४ ॥
ततः स चिन्तयामास किमेतत्कारणं स्थितम्॥
विरक्ताऽपि ममोत्कण्ठां येनैषा प्रकरोति न ॥ १९ ॥
न च साम्ना व्रजेत्तुष्टिं कथंचिदपि पार्वती ॥
मृषेर्ष्यांधारिणी देवी नैतत्स्वल्पं हि कारणम् ॥ १६ ॥
ततो मन्त्रप्रभावं तं विज्ञाय परमेश्वरः ॥
ध्यानं धृत्वा सुसूक्ष्मेण ज्ञानेनाथ स्वयं ततः ॥ १७ ॥
तमेव मन्त्रं मन्त्रेण न्यासेन च विशेषतः ॥
सम्यगाराधयामास संपूज्यात्मानमात्मना ॥ १८ ॥
यथा देव्यात्मभूतानि पृथक्कृत्वा च पंच च ॥
पूजितानि तथा देवः सर्वेषामंतरे गतः ॥ १९ ॥
तान्येव पूजयामास पृथक्कृत्वा समाधितः ॥
नियोज्य च पुनर्बाह्ये ततः पूजां समाचरत् ॥६.१३१.२॥।
तस्मान्नास्ति परः कश्चित्पूज्यपूज्यः स एव च ॥
ऐश्वर्यात्सर्वदेवानामीशानस्तेन निर्मितः ॥ २१ ॥
एवं यावत्स ईशानः समाराधयति प्रभुः ॥
तावद्देवी समायाता मन्त्राकृष्टा च यत्र सः ॥ २२ ॥
ततः प्रोवाच तं देवं प्रणिपत्यकृतांजलिः ॥
ज्ञातं मया विभो सर्वं न मां त्यज तव प्रियाम् ॥ २३ ॥
तस्मादागच्छ गच्छावो यत्र त्वं वाञ्छसि प्रभो ॥
क्षम्यतां देव मे सर्वं न कृतं यद्वचस्तव ॥ २४ ॥
ततस्तुष्टो महादेवस्तामालिङ्ग्य शुचिस्मिताम् ॥
इदमूचे विहस्योच्चैर्मेघगम्भीरया गिरा ॥ २५ ॥
यैषा त्वयाऽऽत्मभूतोत्था निर्मिता परमा तनुः ॥
एतां या कामिनी काचित्पूजयिष्यति भक्तितः ॥
अनेनैव विधानेन तस्या भर्ता भविष्यति ॥ २६ ॥
तृतीयायां विशेषेण यावत्संवत्सरं शुभे ॥
सा लभिष्यति सत्कान्तं पुत्रदं सर्वकामदम् ॥ २७ ॥
तथैतां मामकीं मूर्तिमीशानाख्यां च ये नराः ॥
तेषां दुष्टापि या कान्ता सौम्या चैव भविष्यति ॥ २८ ॥
ये पुनः कन्यकाहेतोः पूजयिष्यंति भक्तितः ॥
यां कन्यां मनसि स्थाप्य तां लभिष्यन्त्यसंशयम् ॥२९॥
निष्कामाश्चापि ये मर्त्या पूजयिष्यंति सर्वदा ॥
ते यास्यंति परां सिद्धिं जरामरणवर्जिताम् ॥ ६.१३१.३० ॥
एवमुक्त्वा महादेवो वृषमारोप्य तां प्रियाम् ॥
स्वयमारुह्य पश्चाच्च कैलासं पर्वतं गतः ॥ ३१ ॥
॥ नारद उवाच । ॥
तस्मात्तव सुतेयं या तामाराधयतु द्रुतम् ॥
पञ्चपिण्डमया गौरीं यावत्संवत्सरं शुभाम् ॥ ३२ ॥
तृतीयायां विशेषेण ततः प्राप्स्यति सत्पतिम् ॥
मुखप्रेक्षमतिप्रीतं रूपादिभिर्गुणैर्युतम् ॥ ३३ ॥
॥ शांडिल्युवाच ॥ ॥
एवमुक्त्वा मुनिश्रेष्ठो नारदः प्रययौ ततः ॥
तीर्थयात्रां प्रति प्रीत्या मम मात्रा विसर्जितः ॥ ३४ ॥
मयापि च तदादेशात्कौमार्येपि च संस्थया ॥
पूजया वत्सरं यावत्पूजिता पतिकाम्यया ॥ ३५ ॥
तृतीयायां विशेषेण मार्गमासादितः शुभे ॥
नैवेद्यैर्विविधैर्दानैर्गंधमाल्यानुलेपनैः ॥ ३६ ॥
तत्प्रभावादयं प्राप्तो जैमिनिर्नाम सद्द्विजः ॥
कात्यायनि यथा दृष्टस्त्वया किं कीर्तितैः परैः ॥ ३७
तस्मात्त्वमपि कल्याणि पूजयैनां समाहिता ॥
संप्राप्स्यसि सुसौभाग्यं मैत्रेय्या सदृशं शुभे ॥ ३८ ॥
त्वया न पूजिता चेयं कौमार्ये वर्तमानया ॥
यावत्संवत्सरं गौरी तृतीयायां न चाधिकम् ॥ ३९ ॥
सापत्न्यं तेन संजातं सौभाग्येपि निरर्गले ॥
यथोक्तविधिना देवी सत्यमेतन्मयोदितम् ॥ ६.१३१.४० ॥
॥ सूत उवाच ॥ ॥
श्रुत्वा कात्यायनी सर्वं शांडिल्या यत्प्रकीर्तितम् ॥
ततः प्रणम्य तां पृष्ट्वा स्वमेव भवनं ययौ ॥ ४१ ॥
मार्गशीर्षेऽथ संप्राप्ते तृतीयादिवसे सिते ॥
तां देवीं पूजयामास वर्षं यावकृतक्षणा ॥ ४२ ॥
गौरिणीर्भोजयामास मृष्टान्नैर्भोजनै रसैः ॥
तैलक्षारपरित्यक्तैर्गन्धैः कुंकुमपूर्वकैः ॥ ४३ ॥
ततस्तु वत्सरे पूर्णे याज्ञवल्क्यस्तदन्तिकम् ॥
गत्वा प्रोवाच किं कष्टं त्वं करोषि शुचिस्मिते ॥ ४४ ॥
मया कांतेन रक्तेन कामदेन सदैव तु ॥
तस्मादागच्छ गच्छाव स्वमेव भवनं शुभे ॥ ४५ ॥
एवमुक्त्वा तु तां हृष्टां गृहीत्वा दक्षिणे करे ॥
जगाम भवनं पश्चात्पुलकांकितगात्रजाम् ॥ ४६॥
ततः परं तया सार्धं वर्तते हर्षिताननः ॥
मैत्रेय्या सहितो यद्वदविशेषेण सर्वदा ॥ ४७ ॥
ततः संजनयामास तस्यां पुत्रं गुणान्वितम् ॥
कात्यायनाभिधानं च यज्ञ विद्याविचक्षणम्॥ ४८ ॥
पुत्रो वररुचिर्यस्य बभूव गुणसागरः॥
सर्वज्ञः सर्वकृत्येषु वेदवेदांगपारगः ॥४९॥
स्थापितोऽत्र शुभे क्षेत्रे येन विद्यार्थिनां कृते ॥
समाराध्य विशेषेण चतुर्थ्यां शुक्लवासरे ॥ ६.१३१.५० ॥
महागणपतिर्भक्त्या सर्वविद्याप्रदायकः ॥
यस्तस्य पुरतो विप्राः शांतिपाठविधानतः ॥ ॥ ५१ ॥
गृह्णाति पुष्पमालां यः पठेच्छक्त्या द्विजोत्तमाः ॥
वेदांतकृत्स विप्रः स्यात्सदा जन्मनिजन्मनि ॥ ५२ ॥
अशक्त्या चाथ पाठस्य यो गृह्णाति धनेन च ॥
स विशेषाद्भवेद्विप्रो वेदवेदांगपारगः ॥ ५३॥
विदुषां स गृहे जन्म याज्ञिकानां सदा लभेत्॥
न कदाचित्तु मूर्खार्णां निन्दितानां कथञ्चन ॥ ५४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य ईशानोत्पत्तिपंचपिंडिकागौरीमाहात्म्य वररुचिस्थापितगणपतिमाहात्म्यवर्णनं नामैकत्रिंशदुत्तरशततमोऽध्यायः ॥ १३१ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 132
॥ ऋषय ऊचुः । ॥
त्वया सूतज तत्रस्थं याज्ञवल्क्यस्य कीर्तितम् ॥
तीर्थं वररुचेश्चैव वैनायक्यं प्रविद्यते ॥ १ ॥
कात्यायनस्य न प्रोक्तं किञ्चित्तत्र महामते ॥
किं वा तेन कृतं नैव किं वा ते विस्मृतिं गतम् ॥ २ ॥
तस्मादाचक्ष्व नः शीघ्रं यदि किंचिन्महात्मना ॥
क्षेत्रेत्र निर्मितं तीर्थं सर्वसिद्धिप्रदायकम् । ३ ॥
॥ सूत उवाच ॥ ॥
तेन वास्तुपदंनाम तत्र तीर्थविनिर्मितम् ॥
कात्यायनेन विप्रेण सर्वकामप्रदं नृणाम् ॥ ४ ॥
चत्वारिंशत्त्रिभिर्युक्ता देवता यत्र पंच च ॥
पूज्यंते पूजिताश्चापि सिद्धिं यच्छंति तत्क्षणात् ॥ ५ ॥
॥ ऋषय ऊचुः ॥ ॥
कस्मात्ता देवताः सूत पूज्यंते तत्र संस्थिताः ॥
नामतश्च विभागेन कीर्तयस्व पृथक्पृथक् ॥ ६ ॥
॥ सूत उवाच ॥ ॥
पूर्वं किंचिन्महद्भूतं निर्गतं धरणीतलात् ॥
अपूर्वं रौद्रमत्युग्रं कृष्ण दंतं भयानकम् ॥ ७ ॥
शंकुकर्णं कृशास्यं च ऊर्ध्वकेशं भयानकम् ॥
देवानां नाशनार्थाय मानुषाणां विशेषतः ॥ ॥
आकृष्टं दानवेंद्रेण मंत्रैः शुक्रप्रदर्शितैः ॥
अवध्यं सर्वशस्त्राणामस्त्राणां च विशेषतः ॥ ९ ॥
अथ देवाः समालोक्य तत्तादृक्सुभयावहम् ॥
जघ्नुः शस्त्रैः शितैश्चित्रैः कोपेन महतान्विताः ॥ ६.१३२.१० ॥
नैव शेकुस्तदंगेषु प्रहर्तुं यत्नमास्थिताः ॥
भक्ष्यंते केवलं तेन शतशोऽथ सहस्रशः ॥ ११ ॥
अथ ते यत्नमास्थाय सर्वे देवाः सवासवाः ॥
ब्रह्माणमग्रतः कृत्वा तद्भूतमभिदुद्रुवुः ॥ १२ ॥
ततः संगृह्य यत्नेन सर्वगात्रेषु सर्वतः ॥
तच्च पंचगुणैर्देवैः पातितं धरणीतले॥ ॥ १३ ॥
उपविष्टास्ततस्तस्य सर्वे भूत्वा समंततः ॥
प्रहारान्संप्रयच्छंति न लगंति च तस्य ते ॥ १४ ॥
आथर्वणेन सूक्तेन जातं चामृतबिंदुना ॥
तद्भूतं प्रेषितं दैत्यैर्मुंडेन च तदंतिकम्॥ १५ ॥
एवं वर्षसहस्रांतं तत्तथैव व्यवस्थितम् ।
न मुंचंति भयात्ते तु न हंतुं शक्नुवंति च ॥ १६ ॥
तस्योदरे स्थितो ब्रह्मा शक्राद्या अमराश्च ये ॥
चतुर्दिक्षु स्थिताः क्रुद्धा महद्यत्नेन संस्थिताः ॥
ततस्ते दानवाः सर्वे मंत्रं चक्रुः परस्परम् ॥ १७ ॥
अस्य भूतस्य रौद्रस्य शुक्रसृष्टस्य तत्क्षणात् ॥
एक एवात्र निर्दिष्ट उपायो देवसंक्षयः । १८ ॥
ततः शस्त्राणि तीक्ष्णानि दानवास्ते महाबलाः ॥
मुंचंतो विविधान्नादान्समाजग्मुः सहस्रशः ॥ १९ ॥
एतस्मिन्नंतरे विष्णुरागतस्तत्र तत्क्षणात् ॥
आह भूतं तदा विष्णुर्वचसा ह्लादयन्निव ॥ ६.१३२.२० ॥
यो यस्मिन्संस्थितो गात्रे देवस्तव समुद्भवे ॥
तत्र पूजां समादाय तस्मात्त्वां तर्पयिष्यति ॥२१॥
नैवंविधा तु लोकेऽस्मिन्पूजा देवस्य संस्थिता ॥
कस्यचिद्यादृशी तेऽद्य मया संप्रतिपादिता ॥ २२ ॥
ततस्तेन प्रतिज्ञातमविकल्पेन? चेतसा॥
एवं तेऽहं करिष्यामि परं मे वचनं शृणु ॥ २३ ॥
यदि कश्चिन्न मे पूजां करिष्यति कदाचन ॥
कथंचिन्मानवः कश्चित्स मे भक्ष्यो भविष्यति ॥ २४ ॥
॥ सूत उवाच ॥ ॥
बाढमित्येव च प्रोक्ते ततो देवेन चक्रिणा ॥
तद्भूतं निश्चलं जातं हर्षेण महतान्वितम् ॥ २५ ॥
ततो देवाः समुत्थाय तत्त्यक्त्वा शस्त्रपाणयः ॥
जघ्नुश्च निशितैः शस्त्रैः पलायनसमुत्सुकान् ॥
लज्जाहीनान्गतामर्षान्दीनवाक्यप्रजल्पकान् ॥ २६ ॥
ततः स्वस्थः स भूत्वा तु हरिर्दैत्यैर्निपातितैः ॥
प्रोवाच पद्मजं नाम भूतस्यास्य कुरुष्व भोः ॥ २७ ॥
॥ ब्रह्मोवाच ॥. ॥
अनेन तव वाक्यस्य प्रोक्तं वाक्यं हरे यतः ॥
वास्त्वेतदिति यस्माच्च तस्माद्वास्तु भविष्यति ॥ २८ ॥
एवमुक्त्वा हृषीकेश आहूय विश्वकर्मणे ॥
विधानं कथयामास पूजार्थं विस्तरान्वितम् ॥ २९ ॥
एतस्मिन्नंतरे प्राह याज्ञवल्क्यसुतः सुधीः ॥
विश्वकर्माणमाहूय प्रथमं द्विजसत्तमाः ॥ ६.१३२.३० ॥
हाटकेश्वरजे क्षेत्रे ममाश्रमपदं कुरु ॥
अनेनैव विधानेन प्रोक्तेन तु महामते ॥ ३१ ॥
ततोहं सकलं बुद्ध्वा वृद्धिं नेष्यामि भूतले ॥
बालावबोधनार्थाय तस्मादागच्छ सत्वरम् ॥ ३२ ॥
ततः संप्रेषयामास तं ब्रह्मापि तदंतिकम् ॥
विश्वकर्माणमाहूय स्वसुतस्य हिते स्थितः ॥ ३३ ॥
विश्वकर्मापि तत्रैत्य वास्तुपूजां यथोदिताम् ॥
चकार ब्रह्मणा प्रोक्तां यादृशीं सकलां ततः ॥ ३४॥
कात्यायनोऽपि तां सर्वां दृष्ट्वा चक्रे सहस्रशः ॥
तदा विश्वहितार्थाय शालाकर्मादि पूर्विकाम् ॥ । ३५ ॥
एवं वास्तुपदं जातं तस्मिन्क्षेत्रे द्विजोत्तमाः ॥
अस्मिन्क्षेत्रे नरः पापात्स्पृष्टो मुच्येत कर्मणा ॥ ३६ ॥
तथा न प्राप्नुयाद्दोषं गृहजातं कथंचन ॥
शिल्पोत्थं कुपदोत्थं च कुवास्तुजमथापि च ॥ ३७ ॥
वैशाखस्य तृतीयायां शुक्लायां रोहिणीषु च ॥
तत्पदं निहितं तत्र वास्तोस्तेन महात्मना ॥ ३८ ॥
तस्मिन्नपि च यः पूजां तेनैव विधिना नरः ॥
तस्य यः कुरुते सम्यक्स भूपत्वमवाप्नुयात् ॥ ३९ ॥
गृहं दोषान्वितं प्राप्य शिल्पादिभिरुपद्रुतम् ॥
तस्योपसंगमं प्राप्य समृद्धिं याति तद्दिने ॥ ६.१३२.४० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वास्तुपदोत्पत्तिमाहात्म्यवर्णनंनाम द्वात्रिंशदुत्तरशततमोऽध्यायः ।। १३२ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 133
॥ सूत उवाच ॥ ॥
तथाऽन्यापि च तत्रास्ति देवता द्विजसत्तमाः ॥
अजागृहेति विख्याता सर्वरोगक्षयावहा ॥ १ ॥
अजापालो यदा राजा सर्वलोकहिते रतः ॥
अजारूपाः प्रयांति स्म व्याधयः सकला द्विजाः ॥
तदा रात्रौ समानीय तस्मिन्स्थाने दधाति सः ॥ २ ॥
ततस्तदाश्रयात्स्थानमजागृहमिति स्मृतम् ॥
सर्वैर्जनैर्धरा पृष्ठेदर्शनाद्व्याधिनाशनम् ॥ ३ ॥
तत्रैश्वर्यमभूत्पूर्वं यत्तद्ब्राह्मणसत्तमाः ॥
अहं वः कीर्तयिष्यामि श्रोतव्यं सुसमाहितैः ॥ ४ ॥
तत्रागतो द्विजः कश्चित्क्षेत्रे तापसरूपधृक् ॥
तीर्थयात्राप्रसंगेन रात्रौ प्राप्तः श्रमान्वितः ॥ ५ ॥
अजावृंदमथालोक्य निविष्टं सुसुखान्वितम् ॥
रोमंथ कर्मसंयुक्तं विश्वस्तमकुतोभयम्॥ ६ ॥
स ज्ञात्वा मानुषेणात्र भवितव्यमसंशयम् ॥
न शून्याः पशवो रात्रौ स्थास्यंति विजने वने ॥ ७ ॥
ततः फूत्कृत्य फूकृत्य दिवं यावन्न संदधे ॥
कश्चिद्वाचं प्रसुप्तश्च तावत्तत्रैव चिंतयन् ॥ ८ ॥
अवश्यं मानुषेणात्र पशूनां रक्षणाय च ॥
आगंतव्यं कुतोऽप्याशु तस्मात्तिष्ठामि निर्भयः ॥ ९ ॥
एवं तस्य प्रसुप्तस्य गता सा रजनी ततः ॥
ततस्त्वरितवत्तस्य सुश्रांतस्य द्विजोत्तमाः ॥ ६.१३३.१० ॥
अथ यावत्प्रभाते स प्रपश्यति निजां तनुम् ॥
तावत्कुष्ठादिभी रोगैः समंतात्परिवारिताम् ॥ ११ ॥
अशक्तश्चलितुं स्थानादपि चैकं पदं क्वचित् ॥
तेजो हीनोऽपि रौद्रेण चिन्तयामास वै ततः ॥ १२ ॥
किमिदं कारणं येन ममैषा संस्थिता तनुः ॥
अकस्मादेव रोगोऽयं चलितुं नैव च क्षमः ॥१३॥
एवं चिन्तयमानस्य तस्य विप्रस्य तत्क्षणात्॥
द्वादशार्कप्रतीकाशः पुरुषः समुपागतः ॥ १४ ॥
तं यूथं कालयामास ततः संज्ञाभिराह्वयन् ॥
पृथक्त्वेन समादाय यष्टिं सव्येन पाणिना ॥ १५ ॥
अथापश्यत्स तं विप्रं व्याधिभिः सर्वतो वृतम्॥
अशक्तं चलितुं क्वापि ततः प्रोवाच सादरम्॥१६॥
कस्त्वमेवंविधः प्राप्तः स्थाने चात्र द्विजोत्तम ॥
नास्ति राज्ये मम व्याधिः कस्यचित्कुत्रचित्स्फुटम् ॥ १७॥
अजोनाम नरेन्द्रोऽहं यदि ते श्रोत्रमागतः॥
व्याधींश्च च्छागरूपेण रक्षामि जनकारणात् ॥१८॥
तस्माद्ब्रूहि शरीरस्थो यस्ते व्याधिर्व्यवस्थितः ॥
येनाऽहं निग्रहं तस्य करोमि द्विजसत्तम ।१९॥
॥ ब्राह्मण उवाच ॥ ॥
तीर्थयात्रापरोऽहं च भ्रमामि क्षितिमंडले॥
क्रमेणाऽत्र समायातः क्षेत्रेऽस्मिन्हाटकेश्वरे ॥ ६.१३३.२० ॥
निशावक्त्रे नृपश्रेष्ठ वासः संचिंतितो मया ॥
दृष्ट्वाऽमूंश्च पशून्भूप मानुषं भाव्यमेव हि ॥ २१ ॥
ततश्चात्र प्रसुप्तोऽहं पशूनामंतिके नृप ॥२२॥
अथ यावत्प्रभातेऽहं प्रपश्यामि निजां तनुम्॥
तावत्कुष्ठादिरोगैश्च समंतात्परिवारिताम् ॥ २३ ॥
नान्यत्किंचिन्नृपश्रेष्ठ कारणं वेद्मि तत्त्वतः ॥
किमेतेन नृपश्रेष्ठ भूयोभूयः प्रजल्पता ॥
बहुत्वात्कुरु तस्मान्मे यथा स्यान्नीरुजा तनुः॥ २४ ॥
ततस्ते व्याधयः प्रोक्ता अजापालेन भूभुजा ॥
केनाज्ञा खंडिता मेऽद्य को वध्यः सांप्रतं मम ॥ २५ ॥
॥ व्याधय ऊचुः ॥ ॥
मा कोपं कुरु भूपाल कृत्येऽस्मिंस्त्वं कथंचन ॥
यस्मादेष द्विजो विष्टः सांप्रतं व्याधिभिस्त्रिभिः ॥२६॥।
राजयक्ष्मा च कुष्ठं च पामा च द्विजसत्तम ॥
एते संसर्गजा दोषास्त्रयोऽद्यापि प्रकीर्तिताः ॥ २७ ॥
एतेषां प्रथमौ यौ द्वौ निवृत्तिरहितौ स्मृतौ ॥
औषधैश्चैव मंत्रैश्च शेषा नाशं व्रजंति च ॥२८॥
आभ्यां च ब्रह्मशापोस्ति येन नास्ति निवर्तनम् ॥
तस्मादत्र नृपश्रेष्ठ कुरु यत्ते क्षमं भवेत् ॥२९॥।
एतेन ब्राह्मणेनैते स्पृष्टा राजंस्त्रयोपि च॥
तस्मात्तावत्तनुं चास्याविशतां तावसंशयम्॥६.१३३.३०॥
अपरं शृणु भूपाल वचनं नो मुखाच्च्युतम्॥
हिताय सर्वजंतूनां तव श्रेयोविवृद्धये॥३॥।
यत्र स्थानं चिरं तत्र मेदिन्यां विहितं नृप।
पुरीषं च समाविद्धा तेनैषा मेदिनी द्रुतम्॥३२॥
कालांतरेपि ये मर्त्या भूम्यामस्यां समागताः।
भूमेः स्पर्शं करिष्यंति ते भविष्यंति चेदृशाः॥३३॥
वयं शेषा महाराज व्याधयो ये व्यवस्थिताः।
त्वया मुक्त्वा भविष्यामो मन्त्रौषधवशानुगाः ॥३४॥
नैतौ पुनस्तु दुर्ग्राह्यौ ब्रह्मशाप समुद्भवौ ॥३५॥
तच्छ्रुत्वा पार्थिवः सोऽपि तस्मिन्स्थाने व्यवस्थितः ॥
तं ब्राह्मणं पुनः प्राह न भेतव्यं त्वया द्विज ॥ ३६ ॥
अहं त्वां रक्षयिष्यामि व्याधेरस्मात्सुदारुणात् ॥
अत्र तस्मात्प्रतीक्षस्व कञ्चित्कालं ममाज्ञया ॥ ३७ ॥।
एवमुक्त्वा ततश्चक्रे तदर्थं सुमहत्तपः ॥
आराधयन्प्रभक्त्या च सम्यक्तां क्षेत्रदेवताम् ॥३८॥
मुंडेनाथर्वशीर्षेण दिवारात्रमतंद्रितः॥
क्षेत्रपालोत्थसूक्तेन वास्तुसूक्तेन च द्विजाः॥३९॥
सिद्धार्थै रक्तपुष्पैश्च गुग्गुलेन सुधूपितैः॥
होमं कुर्वन्नृपः पश्चान्नीलरुद्रान्विशेषतः॥६.१३३.४॥।
अथ नक्तावसानेन तस्य होमस्य चोत्थिता॥
भित्त्वा धरातलं देवी मन्त्राकृष्टा विनिर्गता॥४१॥
देवता तस्य क्षेत्रस्य ततः प्रोवाच तं नृपम्॥४२॥
एकाहं तव भूपाल होमस्यास्य प्रभावतः ॥
विनिर्गता धरापृष्ठात्क्षेत्रस्यास्याधिपा स्मृता ॥ ४३ ॥
तस्माद्वद महाभाग यत्ते कृत्यं करोम्यहम् ॥
परां तुष्टिमनुप्राप्ता तस्माद्ब्रूहि यदीप्सितम् ॥ ४४ ॥
॥ राजोवाच ॥ ॥
अत्र स्थाने सदा स्थेयं त्वया देवि विशेषतः ॥
व्याधिसंसर्गजो दोषो भूमेरस्या यथा व्रजेत् ॥ ॥ ४५ ॥
अद्यप्रभृति देवेशि तथा नीतिर्विधीयताम् ॥
नो चेदस्याः प्रसंगेन प्रभविष्यंति मानवाः ॥ ४६ ॥
व्याधिग्रस्ता यथा विप्रो योऽयं संदृश्यते पुरः ॥
मयात्र व्याधयः कालं चिरं संस्थापिता यतः ॥
भविष्यति च मे दोषो नो चेद्देवि न संशयः ॥ ४७ ॥
तथायं ब्राह्मणो रोगात्त्वत्प्रसादात्सुरेश्वरि ॥
मुक्तो भवतु मेदिन्यामत्र स्थेयं सदा त्वया ॥४८॥
॥ क्षेत्रदेवतोवाच ॥ ॥
एतत्स्थानं मया सर्वं व्याधिदोषविवर्जितम् ॥
विहितं सर्वदैवात्र स्थास्येऽहमिह सर्वदा ॥४९॥
सांप्रतं योऽत्र मे स्थाने व्याधिग्रस्तः समेष्यति ॥
पूजयिष्यति मां भक्त्या नीरोगः स भविष्यति ॥ ६.१३३.५० ॥
तस्मादद्य द्विजेंद्रोऽयं मां पूजयतु सादरम् ॥
भक्त्या परमया युक्तः शुचिर्भूत्वा समाहितः॥ ५१ ॥
अत्र क्षेत्रे पराऽन्यास्ति विख्याता चंद्रकूपिका। ॥
तस्यां स्नातु यथान्यायं नित्यमेव महीपते ॥ ५२ ॥
दक्षशापप्रशप्तेन या चंद्रेण पुरा कृता ॥
स्वस्नानार्थं क्षयव्याधिप्रग्रस्तेन महात्मना । ५३ ॥
तथा खण्डशिलानाम देवता चात्र तिष्ठति ॥
सौभाग्यकूपिकास्नानं कृत्वा तां च प्रपश्यतु ॥५४॥
या कृता कामदेवेन कुष्ठग्रस्तेन वै पुरा ।
स्नपनार्थं च कुष्ठस्य विनाशाय च सादरम् ॥ ५५॥
तथा चाप्सरसां कुण्डमत्रास्ति नृपसत्तम ॥
तत्र स्नात्वा रवेरह्नि ततः पामा प्रशाम्यति ॥ ९६ ॥
॥ सूत उवाच ॥
ततः स ब्राह्मणः प्राप्य सुपुण्यां चन्द्रकूपिकाम् ॥
स्नानं कृत्वा च तां देवीं पूजयामास भक्तितः ॥
यावन्मासं ततो मुक्तः सत्वरं राजयक्ष्मणा ॥ ५७
ततः सौभाग्यकूपीं तां दृष्ट्वा कामविनिर्मिताम् ॥
तथा स्नानं विधायाथ पश्यन्खंडशिलां च ताम् ॥ ५८ ॥
तद्वन्मासेन निर्मुक्तः कुष्ठेन द्विजसत्तमाः ॥
तस्या देव्याः प्रभावेन कूपिकायां विशेषतः । ५९ ॥
ततश्चाप्सरसां कुंडे स्नात्वैकं रविवासरम् ॥
पामया संपरित्यक्तो बुद्ध्येव विषयात्मकः ॥ ६.१३३.६० ॥
ततः स ब्राह्मणो जातो द्वादशार्कसमप्रभः ॥
तोषेण महता युक्तो दत्ताशीस्तस्य भूपतेः ॥ ६१ ॥
प्रययौ वांछितं देशमनुज्ञातश्च भूभुजा ॥
देवतायां प्रणामं च ताभ्यां कृत्वा पुनःपुनः ॥ ६२ ॥
सोपि राजा सदोषांस्तानजारूपान्विलोक्य च ॥
स्वस्यैव ब्राह्मणं दृष्ट्वा तं तथा संप्रहर्षितः ॥ ६३ ॥
स्वयं च प्रययौ तत्र यत्रस्थो हाटकेश्वरः ॥
तेनैव च शरीरेण निजकांतासमन्वितः ॥६४ ॥
अजागृहे स्थिता यस्मात्सा देवी क्षेत्रदेवता ॥
अजागृहा ततः ख्याता सर्वत्रैव द्विजोत्तमाः ॥ ६५ ॥
अद्यापि यक्ष्मणा ग्रस्तो यस्तां पूजयते नरः ॥
तैनैव विधिना सम्यक्स नीरोगो द्रुतं भवेत्॥ ६६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽजागृहोत्पत्तिमाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३३ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 134
॥ ऋषय ऊचुः ॥ ॥
यदा दक्षेण क्रुद्धेन पुरा शप्तो हिमद्युतिः ॥
तत्सर्वं भवता प्रोक्तं सोमनाथकथानकम्॥ १ ॥
सांप्रतं वद कामस्य यथा कुष्ठोऽभवत्पुरा ॥
येन दोषेण शापश्च केन तस्य नियोजितः ॥ २ ।
शिलाखंडा च या देवी तथा सौभाग्यकूपिका ॥
यथा तत्र समुत्पन्ना तथाऽस्माकं प्रकीर्तय ॥ ३ ॥
॥ सूत उवाच ॥ ॥
पुरासीद्ब्राह्मणो नाम हारीत इति विश्रुतः ॥
स तपस्तत्र संतेपे वानप्रस्थाश्रमे वसन् ॥ ४ ॥
तस्य भार्याऽभवत्साध्वी रूपौदार्यसमन्विता ॥
त्रैलोक्यसुन्दरी साक्षाल्लक्ष्मीरिव मधुद्विषः ॥ ५ ॥
ख्याता पूणकलानाम सर्वैः समुदितागुणैः ॥
तां दृष्ट्वा पद्मजोऽप्याशु कामस्य वशगोऽभवत् ॥ ६ ॥
कदाचिदपि स प्राप्तस्तस्मिन्क्षेत्रे मनोभवः ॥
सह रत्या तथा प्रीत्या कामेश्वरदिदृक्षया ॥ ७ ॥
एतस्मिन्नंतरे सापि स्नानार्थं तत्र चागता ॥
कृत्वा वस्त्रपरित्यागं विवेश जलाशयम् ॥ ८ ॥
अथ तां कामदेवोपि समालोक्य शुभाननाम्॥
आत्मीयैरपि निर्विद्धो हृदये पुष्पसायकैः ॥ ९ ॥
ततो रतिं परित्यक्त्वा प्रीतिं च शरपीडितः॥
विजनं कंचिदासाद्य प्रसुप्तः स तरोरधः ॥ ६.१३४.१० ॥
गात्रैः पुलकितैः सर्वैर्निःश्वासान्निःश्वसन्मुहुः ॥
अग्निवर्णान्सुदीर्घांश्च बाष्प पूर्णविलोचनः ॥ ११ ॥
तिष्ठन्स दर्शने तस्या एकदृष्ट्या व्यलोकयत्॥
योगीव सुसमाधिस्थो ध्यायंस्तद्ब्रह्म संस्थितम् ॥ १२ ॥
सापि कामं समालोक्य सानुरागं पुरः स्थितम् ॥
जृंभाभंगकृतास्यं च वेपमानशरीरकम् ॥ १३ ॥
सापि तद्बाणनिर्भिन्ना साभिलाषा बभूव ह ॥
कामं प्रति विशेषेण तस्य रूपेण मोहिता ॥ १४ ॥
अथ तस्माज्जलात्कृच्छ्राद्विनिष्क्रम्य शुचिस्मिता ॥
तीरोपांतं समासाद्य स्थिता तद्दृष्टिगोचरे ॥ १५ ॥
ततः कामः समुत्थाय शनैस्तदंतिकं ययौ ॥
कृतांजलिपुटो भूत्वा ततः प्रोवाच सादरम् ॥ १६ ॥
का त्वमत्र विशालाक्षि प्राप्ता स्नातुं जलाशये ॥
मम नाशाय चार्वंगि तस्माच्छृणु वचो मम ॥ १७ ॥
अहं पुष्पशरो लोके प्रसिद्धश्चारुहासिनि ॥
विडंबनां मया नीता देवा अपि निजैः शरैः ॥ १८ ॥
मद्बाणेनाहतो रुद्रः स्वशरीरे नितंबिनीम् ॥
अर्द्धेन धारयामास त्यक्त्वा लज्जां सुदूरतः ॥ १९ ॥
ब्रह्मा मच्छरनिर्भिन्नः स्वसुतां चकमे ततः ॥
जनयामास तान्विप्रान्वालखिल्यांस्तथाविधान् ॥ २० ॥
अहिल्यां चकमे शक्रो गौतमस्य प्रियां सतीम् ॥
मद्बाणैः पीडितोऽतीव स्वर्गादेत्य धरातलम् ॥ २१ ॥
एवं देवा अपि क्षुण्णा मच्छरैर्ये महत्तराः ॥
किं पुनर्मानवाः सुभ्रूः कृमिप्रायाः सुचंचलाः ॥ २२ ॥
आकीटांतं जगत्सर्वमाब्रह्मांतं तथैव च ॥
विडंबनां परां प्राप्तं मच्छरैश्चारुहासिनि ॥ २३ ॥
अहं पुनस्त्वया भीरु नीतोऽवस्थामिमां शुभे ॥ २४ ॥
तस्माद्देहि महाभागे ममाद्य रतदक्षिणाम् ॥
यावन्न यांति संत्यज्य मम प्राणाः कलेवरात् ॥ ॥ २५ ॥
॥ सूत उवाच ॥ ॥
सापि तद्वचनं श्रुत्वा पतिव्रतपरायणा ॥
हन्यमाना विशेषेण तद्बाणैर्हृदये भृशम् ॥ २६ ॥
अनभिज्ञा च सा साध्वी कामधर्मस्य केवलम् ॥
तापसैः सह संवृद्धा नान्यं जानाति किंचन ॥ २७ ॥
वक्तुं तद्विषये यच्च प्रोच्यते कामपीडितैः ॥
अधोमुखाऽलिखद्भूमिमंगुष्ठेन स्थिता चिरम् ॥ २८ ॥
एतस्मिन्नन्तरे भानुः प्राप्तश्चास्तं गिरिं प्रति ॥
विहारसमये प्राप्त आहिताग्निर्निवेशने ॥ २९ ॥
हारीतोऽपि चिरं वीक्ष्य तन्मार्गं चाकृताशनः ॥
ततः स चिंतयामास कस्मात्सा चात्र नागता ॥ ३० ॥
स्नात्वा तीर्थवरे तस्मिन्दृष्ट्वा तां चन्द्रकूपिकाम्॥
कामेश्वरं च देवेशं कामदं सुखदं नृणाम् ॥ ३१ ॥
ततः शिष्यसमायुक्तो वीक्षमाण इतस्ततः ॥
तं देशं समनुप्राप्तो यत्र तौ द्वावपि स्थितौ ॥ ३२ ॥
आलपन्बहुधा कामो हन्यमानो निजैः शरैः ॥
सापि चैव विशेषेण व्रीडयाऽधोमुखी स्थिता ॥ ३३ ॥
स गुल्मांतरितः सर्वं तच्छ्रुत्वा कामजल्पितम् ॥
तस्याश्च तद्गतं भावं ततः कोपादुवाच सः ॥ ३४ ॥
यस्मात्पाप त्वया पत्नी ममैवं शरपीडिता ॥
अनभिज्ञा तथा साध्वी पतिधर्मपरायणा ॥
कुष्ठव्याधिसमायुक्तस्तस्माद्विप्रियदर्शनः ॥ ३५ ॥
त्वं भविष्यसि पापात्मन्मुक्तो दारैः स्वकैरपि ॥
साऽपि चैव विशेषेण व्रीडयाऽधोमुखी स्थिता ॥ ३६ ॥
एषापि च शिलाप्राया भविष्यति विचेतना ॥
त्वां दृष्ट्वा या सरागाऽभून्निजधर्मबहिष्कृता ॥ ३७ ॥
ततः प्रसादयामास तं कामः प्रणिपत्य च ॥
न ज्ञातेयं मया विप्र तव भार्येति सुन्दरी ॥ ३८ ॥
तेन प्रोक्ता विरुद्धानि वाक्यानि विविधानि च ॥
एतस्या नास्ति दोषोऽत्र मद्बाणैः पीडिता भृशम् ॥ ३९
सानुरागा परं जाता नोक्तं किंचिद्वचो मुने ॥
तस्मान्नार्हसि शापं त्वं दातुमस्याः कथंचन ॥ ४० ॥
ममास्त्येषो ऽपराधोऽत्र तस्मान्मे निग्रहं कुरु ॥
भूयोऽपि ब्राह्मणश्रेष्ठ अस्याः शापसमुद्भवम् ॥ ४१ ॥
अपि रुद्रादयो देवा मद्बाणेभ्यो द्विजोत्तम ॥
सोढुं शक्ता न ते यस्मात्तत्कथं स्यादियं शिला ॥ ४२ ॥
तथात्र त्रिविधं पापं प्रवदंति मनीषिणः ॥
मानसं वाचिकं चैव कर्मजं च तृतीयकम्॥
तदस्माकं द्विधा जातमेकं चास्या मुनीश्वर । ४३ ॥
भार्यायास्ते सुरूपायास्तस्मात्संपूर्णनिग्रहम् ॥
करिष्यसि न ते भीतिः काचिदस्ति परत्रजा ॥ ॥ ४४ ॥
मनस्तापाद्व्रजेत्पापं मानसं वाचिकं च यत् ॥
तस्य प्रसादनेनैव यस्योपरि विजल्पितम् ॥ ४५ ॥
प्रायश्चित्तैर्यथोक्तैश्च कर्मजं पातकं व्रजेत् ।
धर्मशास्त्रैः परिप्रोक्तं यतः सर्वैर्महामुने ॥ ४६ ॥
॥ हारीत उवाच ॥ ॥
अन्यत्र विषये तस्याः पातकं कामदेवते ॥
एतस्य तव धर्मस्य प्राधान्यं मनसः स्मृतम् ॥ ४७ ॥
तस्मादेवंविधा चेयं सदा स्थास्यति चाधम ॥
किं पुनः कुरु यत्कृत्यं नाहं वक्ष्यामि किंचन ॥ ४८ ॥
प्रथमं मनसा सर्वं चिंत्यते तदनंतरम् ॥
ततः प्रजल्पते वाचा क्रियते कर्मणा ततः ॥ ४९ ॥
प्रमाणं हि मनस्तस्मात्सर्वकृत्येषु सर्वदा ॥
एतस्मात्कारणात्पूर्णो मयाऽस्या निग्रहः कृतः ॥ ५० ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा मुनिश्रेष्ठो हारीतः स्वाश्रमं ययौ ॥
सापि पूर्णकला जाता शिलारूपा च तत्क्षणात् ॥ ५१ ॥
कामदेवोऽपि कुष्ठेन ग्रस्तो रौद्रेण च द्विजाः ॥
शीर्णनासांघ्रिपाणिश्च नेत्राणामप्रियोऽभवत्॥ ५२ ॥
अथ कामे निरुत्साहे संजाते द्विजसत्तमाः ॥
व्याधिग्रस्ते जगत्यस्मिन्सृष्टिरोधो व्यजायत ॥५३॥
केवलं क्षीयते लोको नैव वृद्धिं प्रगच्छति ॥
स्वेदजा येऽपि जीवाः स्युस्तेपि याताः परिक्षयम् ॥ ५४ ॥
एतस्मिन्नंतरे देवाः सर्वे चिंतासमाकुलाः ॥
किमिदं क्षीयते लोको जलस्थैः स्थलजैः सह ॥५५॥
न दृश्यते क्वचिद्बालः कोऽपि कश्चित्कथंचन ॥
न च गर्भवती नारी कच्चित्क्षेमं स्मरस्य च ॥ ॥५६॥
ततस्तं व्याधिना ग्रस्तं ज्ञात्वात्र क्षेत्रसंश्रयम् ॥
आजग्मुस्त्वरिताः सर्वे व्याकुलेनांतरात्मना॥५७॥
कामेश्वरपुरस्थं च तं दृष्ट्वा कुसुमायुधम्॥
अत्यंतविकृताकारं चिंतयानं महेश्वरम् ॥ ५८ ॥
ततः प्रोचुः सुदुःखार्ताः किमिदं कुसुमायुध ॥
निरुत्साहः समुत्पन्नः कुष्ठव्याधिसमाकुलः ॥५९॥
ततश्चाधोमुखो जातो लज्जया परया वृतः ॥
प्रोवाच शापजं सर्वं हारीतस्य विचेष्टितम् ॥ ६.१३४.६० ॥
ततस्ते विबुधाः प्रोचुः पातकं यद्गिरा कृतम् ॥३
तत्तस्याराधनात्सर्वं संक्षयं यात्यसंशयम् ॥ ६१ ॥
तस्मादेतां शिलारूपां त्वमाराधय चित्तज ॥
येन कुष्ठः क्षयं याति ततस्तेजोऽभिवर्धते ॥ ६२ ॥
जगति स्यान्महासृष्टिर्देवकृत्यं कृतं भवेत् ॥
न तेऽस्ति कायजं पापं यतो मुक्त्वा प्रवाचिकम् ॥ ६३ ॥
अत्र कुण्डे त्वदीयेऽन्यो यः स्नात्वा श्रद्धयान्वितः ॥
एनां पापविनिर्मुक्तां शिलां वै मानवः स्पृशेत् ॥ ६४ ॥
कुष्ठव्याधिसमोपेतः कायोत्थेनापि कर्मणा ॥
सोऽपि व्याधिविनिर्मुक्तो भविष्यति गतज्वरः ॥ ६५ ॥
एतत्सौभाग्यकूपं च लोके ख्यातं जलाशयम् ॥
भविष्यति न संदेहः सर्वरोगक्षयावहम् ॥ ६६ ॥
दद्रूणि दुर्विभूतानि तथान्याश्च विचर्चिकाः ॥
अत्र स्नातस्य यास्यंति दृष्ट्वैतां सद्य एव हि ॥ ६७ ॥
एवमुक्त्वाथ ते देवाः प्रजग्मुस्त्रिदशालयम् ॥
कामदेवोऽपि तत्रस्थस्तस्याः पूजामथ व्यधात् ॥ ६८ ॥
ततश्च समतिक्रांते मासमात्रे द्विजोत्तमाः ॥
तादृग्रूपः स संजातो यादृगासीत्पुरा स्मरः ॥ ६९ ॥
ततश्चायतनं तस्याः कृत्वा श्रद्धासमन्वितः ॥
जगाम वांछितं देशं सृष्ट्यर्थं यत्नमास्थितः ॥ ६.१३४.७० ॥
सापि नम्रमुखी तादृक्तेन शप्ता तथैव च ॥
संजाता खण्डकाकारा तेन खण्डशिला स्मृता ॥ ७१ ॥
यस्तां पूजयते भक्त्या त्रयोदश्यां तथैव च ॥
नापवादो भवेत्तस्य परदारसमुद्भवः ॥ ७२ ॥
कामिन्याश्च विशेषेण प्राहैतच्छंकरात्मजः ॥
कार्तिकेयो द्विजश्रेष्ठाः सत्यमेतन्मयोदितम् ॥ ७३ ॥
तथा कामेश्वरं देवं कामदेवप्रतिष्ठितम् ॥
त्रयोदश्यां समाराध्य सर्वान्कामानवाप्नुयात् ॥ ७४ ॥
रतिप्रीतिसमायुक्तः स्थितस्तत्र स्मरस्तथा ॥
मूर्तो ब्राह्मणशार्दूलाः श्रेष्ठं प्रासादमाश्रितः । ७५ ।
विरूपो दुर्भगो यो वा त्रयोदश्यां समाहितः ॥
यस्तं कुंकुमजैः पुष्पैः संपूजयति मानवः ॥ ७६ ॥
स सौभाग्यसमायुक्तो रूपवांश्च प्रजायते ॥
या नारी पतिना त्यक्ता सपत्नीजनसंवृता ॥ ७७ ॥
तं देवं सुकलत्राढ्यं तथैव परिपूजयेत् ॥
त्रयोदश्यां द्विजश्रेष्ठाः केसरैः कुंकुमोद्भवैः ॥ ७८ ॥
सा सौभाग्यवती विप्रा जायते च प्रजावती ॥
धनधान्यसमृद्धा च दुःखशोकविवर्जिता ॥
दोषैः सर्वैर्विनिर्मुक्ता शंसिता धरणीतले ॥ ७९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये खंडशिलासौभाग्यकूपिकोत्पत्तिमाहात्म्यवर्णनं नाम चतुस्त्रिंशदुत्तरशततमोध्यायः ॥ १३४ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 135
॥ सूत उवाच ॥ ॥
तथान्यापि च तत्रास्ति दीर्घिकाख्या सुशोभना ॥
सरसी लोकविख्याता सर्वपातकनाशनी ॥ १ ॥
यस्यां स्नातो नरः सम्यग्भास्करस्योदयं प्रति ॥
ज्येष्ठशुक्लचतुर्दश्यां मुच्यते सर्वपातकैः ॥२॥
आसीत्पूर्वं द्विजो वीरशर्मनामातिविश्रुतः ॥
वेदविद्याव्रतस्नातो वर्धमाने पुरोत्तमे ॥ ३ ॥
तस्य कन्या समुत्पन्ना कदाचिल्लक्षणाच्च्युता ॥
अतिदीर्घा प्रमाणेन जनहास्यविवर्द्धिनी ॥ ४ ॥
ततः सा यौवनं प्राप्ता तद्रूपापि कुमारिका ॥
न कश्चिद्वरयामास शास्त्रवाक्यमनुस्मरन् ॥ ५ ॥
अतिसंक्षिप्तकेशा या अतिदीर्घातिवामना ॥
उद्वाहयति यः कन्यां पुरुषः काममोहितः ॥ ६ ॥
षण्मासाभ्यंतरे मृत्युं स प्राप्नोति नरो ध्रुवम् ॥
एतस्मात्कारणात्सर्वे तां त्यजंति कुमारिकाम् ॥ ७ ॥
पुरुषा अतिदीर्घत्वयुक्तां वीक्ष्य समंततः ॥
ततो वैराग्यमापन्ना तपस्तेपेऽतिदारुणम्॥ ८ ॥
चांद्रायणानि कृच्छ्राणि तया चीर्णान्यनेकशः ॥
पाराकाणि यथोक्तानि तथा सांतपनानि च ॥ ९ ॥
व्रतं यद्विद्यते किंचिन्नियमः संयमस्तथा ॥
अन्यच्चापि शुभं कृत्यं तत्सर्वं च तया कृतम् ॥ ६.१३५.१० ॥
एवं तस्या व्रतस्थाया जरा सम्यगुपस्थिता ॥
तथापि तेजसो वृद्धिर्ववृधे तपसा कृता ॥ ११ ॥
सा च नित्यं महेन्द्रस्य सभां यात्यतिकौतुकात् ॥
देवर्षीणां मतं श्रोतुं देवतानां विशेषतः ॥ १२ ॥
यदा सा स्वासनं त्यक्त्वा प्रयाति स्वगृहोन्मुखी ॥
तदैवाभ्युक्षणं चक्रुस्तत्र शक्रस्य किंकराः ॥ १३ ॥
तथान्यदिवसे दृष्टं क्रियमाणं तया हि तत् ॥
अभ्युक्षणं स्वकीये च आसने द्विजसत्तमाः ॥ ॥ १४ ॥
ततः कोपपरीतांगी दीर्घिका सा कुमारिका ॥
त्रिशाखां भृकुटीं कृत्वा ततः प्राह पुरंदरम् ॥ १५ ॥
किं दोषं वीक्ष्य मे शक्र प्रोक्षितं चासनं त्वया ॥
परद्वा रकृतं दोषं किं मयैतत्कृतं क्वचित् ॥ १६ ॥
तस्मान्मे पातकं ब्रूहि नो चेच्छापं सुदारुणम् ॥
त्वयि दास्याम्यसंदिग्धं सत्ये नात्मानमालभे ॥ १७ ॥
॥ इन्द्र उवाच ॥ ॥
न ते दीर्घेऽस्तिदोषोत्र कश्चिदेकं विना शुभे ॥
तेनाथ क्रियते चैतदासनस्याभिषेचनम् ॥ ॥ १८ ॥
त्वं कुमार्यपि संप्राप्ता ऋतुकालं विगर्हिता ॥
तेन दोषं त्वमापन्ना नान्यदस्तीह कारणम् ॥ १९ ॥
तस्मादद्यापि त्वां कश्चिदुद्वाहयति तापसः ॥
त्वं तं वरय भर्त्तारं येन गच्छसि मेध्यताम् ॥ ६.१३५.२० ॥
ततश्च लज्जया युक्ता सा तदा दीर्घकन्यका ॥
गत्वा भूमितले तूर्णं वर्धमाने पुरोत्तमे ॥ २१ ॥
ततः फूत्कर्तुमारब्धा चत्वरेषु त्रिकेषु च ॥
उच्छ्रित्य दक्षिणं पाणिं भ्रममाणा इतस्ततः ॥ २२ ॥
यदि कश्चिद्द्विजो जात्या करोति मम सांप्रतम् ॥
पाणिग्राहं तपोऽर्द्धस्य श्रेयो यच्छामि तस्य च ॥२३॥
एवं तां प्रविजल्पन्तीं श्रुत्वा लोका दिवानिशम् ॥
उन्मत्तामिति मन्वाना हास्यं चक्रुः परस्परम् ॥ २४ ॥
ततः कतिपयाहस्य प्रकुर्वंती च दीर्घिका ॥
कुष्ठव्याधिगृहीतेन ब्राह्मणेन परिश्रुता ॥ २५ ॥
ततः प्रोवाच मन्दं स समाहूय सुदुःखिताम् ॥ २६ ॥
अहं त्वामुद्वहाम्यद्य कृत्वा पाणिग्रहं तव ॥
यदि मद्वचनं सर्वं सर्वदैवानुतिष्ठसि ॥ २७ ॥ ॥
॥ कुमारिकोवाच ॥ ॥
करिष्यामि न संदेहस्तव वाक्यं द्विजाधिप ॥
कुरु पाणिग्रहं मेऽद्य विधिदृष्टेन कर्मणा ॥ २८ ॥
॥ सूत उवाच ॥ ॥
ततस्तस्याः कुमार्याः स पाणिं जग्राह दक्षिणम् ॥
गृह्योक्तेन विधानेन देवाग्निगुरुसंनिधौ ॥ २९ ॥
अथ सा प्राह भूयोऽपि विवाहकृतमंगला ॥
आदेशं देहि मे नाथ यं करोमि तवाधुना ॥ ६.१३५.३० ॥
॥ पतिरुवाच ॥ ॥
अष्टषष्टिषु तीर्थेषु स्नातुमिच्छामि सुन्दरि ॥
साहाय्येन त्वदीयेन यदि शक्नोषि तत्कुरु ॥ ३१ ॥
बाढमित्येव सा प्रोच्य ततस्तूर्णं पतिव्रता ॥
तत्प्रमाणं दृढं कृत्वा रम्यं वंशकुटीरकम् ॥ ३२ ॥
मृदु तूलसमायुक्तं ततः प्राह निजं पतिम् ॥
कृतांजलिपुटा भूत्वा प्रहृष्टेनान्तरात्मना ॥ ३३ ॥
एतत्तव कृते रम्यं कृतं वंशकुटीरकम् ॥
मम नाथारुहाशु त्वं येन कृत्वाथ मूर्धनि ॥
नयामि सर्वतीर्थेषु क्षेत्रेषु सुशुभेषु च ॥ ३४ ॥
ततः कुष्ठी प्रहृष्टात्मा शनैरुत्थाय भूतलात् ॥
तया चोद्धृतदेहः सन्सुप्तो वंशकुटीरके ॥ ३५ ॥
ततस्तं मस्तके कृत्वा सर्वतीर्थे यथासुखम् ॥
सर्वक्षेत्रेषु बभ्राम स्नापयन्ती निजं पतिम् ॥ ३६ ॥
यथा यथा स चक्रेऽथ स्नानं तीर्थेषु कुष्ठभाक् ॥
तथातथास्य गात्रेषु तेजो वृद्धिं प्रगच्छति ॥३७॥
ततः क्रमेण सा साध्वी भ्रममाणा महीतले ॥
हाटकेश्वरजे क्षेत्रे संप्राप्ता रजनी मुखे ॥ ३८ ॥
क्लान्ता वैक्लव्यमापन्ना भाराक्रान्ता पतिव्रता ॥
निद्रान्धा निश्वसन्ती च प्रस्खलन्ती पदेपदे ॥ ३९ ॥
अथ तत्र प्रदेशे तु माण्डव्यो मुनिपुंगवः ॥
शूलारोपितगात्रस्तु संतिष्ठति सुदुःखितः ॥ ६.१३५.४० ॥
अथ सा तं समासाद्य शूलं रात्रौ पतिव्रता ॥
निजगात्रेण भारार्त्ता गच्छमाना महासती ॥ ४१ ॥
तया संचालितः सोऽथ मांडव्यो मुनिपुंगवः ॥
परां पीडां समासाद्य ततः प्राह सुदुःखितः ॥४२॥
केनेदं पाप्मना शल्यं ममांतः परिचालितम् ॥
येनाहं दुःखयुक्तोऽपि भूयो दुःखास्पदीकृतः ॥ ४३ ॥
॥ दीर्घिकोवाच ॥ ॥
न मया त्वं महाभाग निद्रोपहतया दृशा ॥
दृष्टस्तेन परिस्पृष्टो ह्यस्पृश्यः पापकृत्तमः ॥ ४४ ॥
न त्वया सदृशश्चान्यः पापात्मास्ति धरातले ॥
शिरस्युद्भूतशूलोऽपि यो मृत्युं नाधिगच्छति ॥ ॥ ४५ ॥
अहं पतिव्रता मूढ वहामि शिरसा धृतम् ॥
तीर्थयात्राकृते कांतं विकलांगं सुवल्लभम् ॥ ४६ ॥
कस्मात्तस्यास्तिरस्कारं मम यच्छसि निष्ठुरम्॥
अज्ञातां मूढबुद्धिः सन्विशेषान्मानुषोद्भवाम् ॥ ४७ ॥
॥ माण्डव्य उवाच ॥ ॥
अहं यादृक्त्वया प्रोक्तस्तादृगेव न संशयः ॥
पापात्मा मूढबुद्धिश्च अस्पृश्यः सर्वदेहिनाम् ॥ ४८ ॥
यदि प्रातस्तवायं च भर्त्ता जीवति निष्ठुरे ॥
येन मे जनिता पीडा प्राणांतकरणी दृढा ॥ ४९ ॥
तस्मादेष तवाभीष्टः स्पृष्टः सूर्यस्य रश्मिभिः ॥
मया शप्तः परित्यागं जीवितस्य करिष्यति ॥ ६.१३५.५० ॥
॥ दीर्घिकोवाच ॥ ॥
यद्येवं मरणं पत्युः प्रभाते संभविष्यति ॥
मदीयस्य ततः प्रातर्नोद्गमिष्यति भास्करः ॥ ५१ ॥
एवमुक्त्वा ततः साथ निषसाद धरातले ॥
भूमौ तद्भर्तृसंयुक्तं मुक्त्वा वंशकुटीरकम् ॥ ५२ ॥
अथ तां प्राह कुष्ठी स पिपासा संप्रवर्तते ॥
तस्मात्तोयं समानेहि पानार्थमतिशीतलम् ॥ ५३ ॥
तथैव सा समाकर्ण्य भर्तुरादेशमुत्सुका ॥
इतस्ततश्च बभ्राम जलार्थं न प्रपश्यति ॥
न च निर्याति दूरं सा त्यक्त्वारण्ये तथाविधम् ॥ ५४ ॥
भर्तारं श्वापदोत्थं च भयं हृदि वितन्वती ॥
उपविश्य ततो भूमौ स्पृष्ट्वा पादौ पतेस्तदा ॥
प्रोवाच दीर्घिका वाक्यं तारवाक्येन दुःखिता ॥ ५५ ॥
पतिव्रता त्वमाचीर्णं यदि सम्यङ्मया स्फुटम् ॥
तेन सत्येन भूपृष्ठान्निर्गच्छतु जलं शुभम् ॥ ५६ ॥
एवमुक्त्वा जघानाथ पादाघातेन मेदिनीम् ॥
कान्तभक्तिं पुरस्कृत्य तस्य जीवितवांछया ॥ ५७ ॥
एतस्मिन्नन्तरे तोयं पादाघातादनन्ततरम् ॥
निष्क्रांतं निर्मलं स्वादु माण्डव्यस्य च पश्यतः ॥ ५८ ॥
ततस्तं स्नापयामास तस्मिंस्तोये श्रमातुरम् ॥
अपाययत्ततः पश्चात्स्वयं स्नात्वा पपौ जलम् ॥ ५९ ॥
एतस्मिन्नंतरे सूर्यः पतिव्रतकृताद्भयात् ॥
नाभ्युदेति समुत्पन्नस्ततः कालात्ययो महान् ॥ ६.१३५.६० ॥
अथ रात्रिं समालोक्य दीर्घां ये कामुका जनाः ॥
ते सर्वे तुष्टिमापन्नास्तथा च कुल स्त्रियः ॥ ६१ ॥
कौशिका राक्षसाश्चापि चोरा जाराश्च ये नराः ॥
ते सर्वे प्रोचुः संहृष्टाः समालिंग्य परस्परम् ॥ ६२॥
अद्यास्माकं विधिस्तुष्टो भगवान्मन्मथस्तथा ॥
येन दीर्घा कृता रात्रिर्नाशं नीतश्च भास्करः ॥ ६३ ॥
ये पुनर्ब्राह्मणाः शांता यज्ञकर्मसमुद्यताः ॥
ते सर्वे दुःखमापन्नाः सूर्योदयविनाकृताः ॥ ६४ ॥
न कश्चिद्यजनं चक्रे याजनं न च सद्द्विजः ॥
न श्राद्धं न च संकल्पं न स्वाध्यायं कथंचन ॥ ॥ ६५ ॥
न स्नानं न च दानं च लोकयात्रां विशेषतः ॥
व्यवहारं न कृत्यं च किंचिद्धर्मसमुद्भवम् ॥ ६६ ॥
एतस्मिन्नन्तरे देवाः सर्वे शक्रपुरोगमाः ।
परं दौःस्थ्यं समापन्ना यज्ञभागविवर्जिताः ॥ ६७ ॥
ततो भास्करमासाद्य ऊचुर्दुःखसमन्विताः ॥
कस्मान्नोद्गमनं देव प्रकरोषि दिवाकर ॥ ॥ ६८ ॥
एतत्त्वया विना सर्वं जगद्व्याकुलतां गतम् ॥ ६९ ॥
तस्माल्लोकहितार्थाय त्वमुद्गच्छ यथापुरा ॥
अग्निष्टोमादिका यज्ञा वर्तंते येन भूतले ॥ ६.१३५.७० ॥
॥ सूर्य उवाच । ॥
पतिव्रतासमादेशात्त्यक्तश्चाभ्युदयो मया ॥
तस्माद्गत्वा सुराः सर्वे तां वदंतु कृते मम ॥ ७१ ॥
येन तद्वाक्यमासाद्य प्रवर्त्तामि यथासुखम् ॥
अन्यथा मां शपेत्क्रुद्धा नूनं सा हि पतिव्रता ॥ ७२ ॥
एवं सा तपसा युक्ता प्रोत्कृष्टं हि सुरोत्तमाः ॥
पतिव्रतात्वमाधत्ते तथान्यदपरं महत् ॥ ७३ ॥
कस्तस्या वचनं शक्तः कर्तुमेवमतोऽन्यथा ॥
एतस्मात्कारणाद्भीतो नोद्गच्छामि कथंचन॥ ७४ ॥
न तत्क्रतुसहस्रेण यजंतः प्राप्नुयुः फलम् ॥
पतिव्रतात्वमापन्ना यत्स्त्री विंदति केवलम् ॥ ७९ ॥
ततस्ते विबुधाः सर्वे गत्वा तत्क्षेत्रमुत्तमम् ॥
प्रोचुस्तां दीर्घिकां वाक्यैर्मृदुभिः पुरतः स्थिताः ॥ ७६ ॥
त्वया पतिव्रते सूर्यो यन्निषिद्धो न तत्कृतम् ॥
शुभं यतो हताः सर्वा भूतले शोभनाः क्रियाः ॥७७॥
तस्मादुद्गच्छतु प्राज्ञे त्वद्वाक्यात्तीक्ष्णदीधितिः ॥
यज्ञक्रिया विशेषेण येन वर्तंति भूतले ॥ ७८ ॥
॥ पतिव्रतोवाच ॥
अयं च मे पतिः सद्यः प्राणेभ्योऽपि च यः प्रियः ॥
सोऽभ्येति निधनं देवाः प्रोद्गते रविमंडले ॥ ७९ ॥
शप्तश्चानेन दुष्टेन मांडव्येन सुपाप्मना ॥
कार्यं विनापि निर्दिष्टस्तद्ब्रूयां भास्करं कथम् ॥ ६.१३५.८० ॥
उदयार्थं न मे यज्ञैः कार्यं किंचिन्न चापरैः ॥
श्राद्धदानादिकैः कृत्यैः संजातैर्दर्यितं विना ॥ ८१ ॥
॥ सूत उवाच ॥ ॥
ततस्ते विबुधाः सर्वे समालोक्य परस्परम् ॥
चिरकालं सुदुःखार्तास्तामूचुर्विनयान्विताः ॥ ८२ ॥
उद्गच्छतु रविर्भद्रे तवायं दयितः पतिः ॥
प्रयातु निधनं सद्यो भूयादेष मुनीश्वरः ॥ ८३ ॥
पुनर्जीवापयिष्यामो वयमेनमपि द्रुतम् ॥
मृत्युमार्गमनुप्राप्तं त्वत्कृते पतिवत्सले ॥ ८४ ॥
पञ्चविंशतिवर्षीयं कामदेवमिवापरम् ॥
त्वं द्रक्ष्यसि सुदीप्तांगं सर्वलक्षणलक्षितम् ॥ ८५ ॥
भूत्वा पंचदशाब्दीया पद्मपत्रायतेक्षणा ॥
मर्त्यलोके सुखं सम्यक्त्वेच्छया साधयिष्यसि ॥ ८६ ॥
एषोऽपि मुनिशार्दूलो विपाप्मा सांप्रतं शुभे ॥
शूलवेधेन निर्मुक्तः सुखभागी भवत्क्लम॥ ॥ ८७ ॥
॥ सूत उवाच ॥ ॥
बाढमित्येव च प्रोक्ते तया स द्विजसत्तमाः ॥
उद्गतो भगवान्सूर्यस्तत्क्षणादेव वेगतः ॥ ८८ ॥
ततः सूर्यांशुसंस्पृष्टः स मृतश्च सुकुष्ठभाक् ॥
विबुधानां करैः स्पृष्टः पुनरेव समुत्थितः ॥ ८९ ॥
पंचविंशतिवर्षीयः कामदेव इवापरः ॥
संस्मरन्पूर्विकां जातिं सर्वा हर्ष समन्वितः ॥ ६.१३५.९० ॥
दीर्घिकापि परिस्पृष्टा स्वयं देवेन शंभुना ।
संजाता यौवनोपेता दिव्यलक्षणलक्षिता ॥ ९१ ॥
पद्मपत्रेक्षणा रम्या चन्द्रबिम्बसमानना ॥
मध्ये क्षामा सुगौरांगी पीनोन्नतपयोधरा ॥ ९२ ॥
ततस्तं मुनिशार्दूलं शूलाग्रादवतार्य च ॥
प्रोचुश्च विबुधश्रेष्ठाः सादरं हर्षसंयुताः ॥९३॥
एतत्सत्यं कृतं वाक्यं मुने तव यथोदितम्॥
मृतोऽपि ब्राह्मणः कुष्ठी संस्पृष्टो रविरश्मिभिः॥९४॥
पुनरुत्थापितोऽस्माभिः कृतश्च तरुणः पुनः॥
अनया भार्यया सार्धं तस्मात्त्वं स्वाश्रमं व्रज ॥९५॥
नास्माकं दर्शनं व्यर्थं कथंचिदपि जायते ॥
तस्मात्प्रार्थय यच्चित्ते तव नित्यं समाश्रितम् ॥९६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पतिव्रतावरलाभोनाम पञ्चत्रिंशदुत्तरशतत मोऽध्यायः ॥ १३५ ॥ ॥ छ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 136
मांडव्य उवाच ॥ ॥
ग्रहीष्यामि सुरश्रेष्ठा वरं युष्मत्समुद्रवम् ॥
परं मे निर्णयं चैकं धर्मराजः प्रचक्षतु॥ । १ ॥
सर्वेषां प्राणिनां लोके कृतं कर्म शुभाशुभम् ॥
उपतिष्ठति नान्यत्र सत्यमेतत्सुरोत्तमाः ॥ २ ॥
मयाप्यत्र परे चापि किं कृतं पातकं च यत् ॥
ईदृशीं वेदनां प्राप्तो न च मृत्युं कथचन ॥ ३ ॥
॥ धर्मराज उवाच ॥ ॥
अन्यदेहे त्वया विप्र बालभावेन वर्तता ॥
शूलाग्रेण सुतीक्ष्णेन काये विद्धो बकः क्षितौ ॥ ४ ॥
नान्यत्कृतमपि स्वल्पं पातकं किंचिदेव हि ॥
एतस्मात्कारणादेषा व्यथा संसेविता द्विज ॥ ५ ॥ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा भृशं क्रोधसमन्वितः ॥
ततस्तं प्राह मांडव्यो धर्मराजं पुरः स्थितम् ॥ ६ ॥
अस्य स्वल्पापराधस्य यस्माद्भूयान्विनिग्रहः ॥
कृतस्त्वया सुदुर्बुद्धे तस्माच्छापं गृहाण मे ॥ ७ ॥
त्वं प्राप्य मानुषं देहं शूद्रयोनौ व्यवस्थितः ॥
जातिक्षयकृतं दुःखं प्रभूतं सेवयिष्यसि ॥ ८ ॥
तथा कृता मयैषाद्य व्यवस्था सर्वदेहिनाम् ॥
अष्टमाद्वत्सरादूर्ध्यं कर्मणा गर्हितेन च ॥
प्रग्रहीष्यति वै जंतुः पुरुषो योषिदेव वा ॥ ९ ॥
एवमुक्त्वा स मांडव्यो धर्मराजं ततः परम् ॥
प्रस्थितो रोषनिर्मुक्तो वांछिताशां प्रति द्विजाः ॥ 6.136.१० ॥
अथ तं प्रस्थितं दृष्ट्वा प्रोचुः सर्वे दिवौकसः ॥
धर्मराजकृते व्यग्राः श्रुत्वा शापं तथाविधम् ॥ ११ ॥
॥ देवा ऊचुः ॥ ॥
भगवन्पापसक्तस्य धर्मराजस्य केवलम्॥
न त्वमर्हसि शापेन शूद्रं कर्तुं कथंचन ॥ १२ ॥
प्रसादं कुरु तस्मात्त्वमस्य धर्मपतेर्द्विज ॥
अस्माकं वचनात्सद्यः प्रार्थयस्व तथा वरम् ॥ ॥ १३ ॥
॥ मांडव्य उवाच ॥ ॥
नान्यथा जायते वाणी या मयोक्ता सुरोत्तमाः ॥
अवश्यं धर्मराजोऽयं शूद्रयोनौ प्रयास्यति ॥ १४ ॥
परं नैवास्य संतानं तस्यां योनौ भविष्यति ॥
संप्राप्स्यति च भूयोऽपि धर्मराजत्वमुत्तमम् ॥ १५ ॥
आराधयतु चाव्यग्रः क्षेत्रेऽत्रैव त्रिलोचनम् ॥
प्रसादात्तस्य देवस्य शीघ्रं मृत्युमवाप्स्यति ॥ १६ ॥
तथा देयो वरो मह्यं भवद्भिर्यदि स्वर्गपाः ॥
तदेषा शूलिकाऽस्माकं स्पर्शाद्भूयात्सुधर्मदा ॥ ॥ १७ ॥
॥ देवा ऊचुः ॥ ॥
एनां यः प्रातरुत्थाय स्पर्शयिष्यति शूलिकाम् ॥
पातकात्स विमुक्तो वा इह लोके भविष्यति ॥ १८ ॥
एवमुक्त्वा मुनिं तं ते देवाः शक्रपुरोगमाः ॥
ततस्तां सादरं प्राहुः सह भर्त्रा पतिव्रताम् ॥ १९ ॥
त्वमपि प्रार्थयाभीष्टमस्मत्तो वरवर्णिनि ॥
यत्ते चित्ते स्थितं नित्यं नादेयं विद्यतेऽत्र नः ॥ 6.136.२० ॥
॥ पतिव्रतोवाच ॥ ॥
येयं मयाकृता गर्ता स्थानेऽत्र त्रिदशेश्वराः ॥
मन्नाम्ना ख्यातिमायातु दीर्घिकेति जगत्त्रये ॥ २१ ॥
॥ देवा ऊचुः ॥ ॥
अद्यप्रभृति लोकेऽत्र गर्त्तेयं तव शोभने ॥
दीर्घिकेति सुविख्याता भविष्यति जगत्त्रये ॥ २२ ॥
येऽस्यां स्नानं करिष्यंति प्रातरुत्थाय मानवाः ॥
सर्वपापविनिर्मुक्तास्ते भविष्यंति तत्क्षणात् ॥ २३ ॥
कन्याराशिगते सूर्ये संप्राप्ते पंचमीदिने ॥
येऽत्र स्नानं करिष्यंति श्रद्धया सहिता नराः ॥ २४ ॥
अपुत्रास्ते भविष्यंति सपुत्रा वंशवर्धनाः ॥
एवमुक्त्वाऽथ तां देवा जग्मुः स्वर्गं द्विजोत्तमाः॥ ॥ २५ ॥
पतिव्रतापि तेनैव सह कांतेन सुन्दरी ॥
सेवयामास कल्याणी स्मरसौख्यमनुत्तमम् ॥ २६ ॥
पर्वतेषु सुरम्येषु नदीनां पुलिनेषु च ॥
उद्यानेषु विचित्रेषु वनेषूपवनेषु च ॥ २७ ॥
ततो वयसि संप्राप्ते पश्चिमे कालपर्ययात् ।
तदेवात्मीयसत्तीर्थं सेवयामास सादरम् ॥ २८ ॥
ततो देहं परित्यक्त्वा स्वकांतं वीक्ष्य तं मृतम् ॥
तत्र तोये जगामाथ ब्रह्मलोकं पतिव्रता । २९ ॥
एतद्वः सर्वमाख्यातं दीर्घिकाख्यानमुत्तमम् ॥
यस्य संश्रवणादेव नरः पापात्प्रमुच्यते ॥ 6.136.३० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वर क्षेत्रमाहात्म्ये दीर्घिकोत्पत्तिमाहात्म्यवर्णनंनाम षट्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३६
खण्डः ६ (नागरखण्डः) — Adhyāya 137
॥ ऋषय ऊचुः ॥ ॥
केनासौ मुनिशार्दूलो मांडव्यः सुमहातपाः ॥
शूलायां स्थापितः केन कारणेन च नो वद ॥ १ ॥
॥ सूत उवाच ॥ ॥
स मांडव्यो मुनिः पूर्वं तीर्थयात्रां समाचरन् ॥
अस्मिन्क्षेत्रे समायातः श्रद्धया परया युतः ॥ २ ॥
विश्वामित्रीयमासाद्य सत्तीर्थं पावनं महत् ॥
पितॄणां तर्पणं चक्रे भास्करं प्रति स व्रती ॥ ३ ॥
जपन्विभ्राडिति श्रेष्ठं सूक्तं भास्करवल्लभम् ॥
एतस्मिन्नंतरे चौरो लोप्त्रमादाय कस्यचित् ॥ ४ ॥
कोपि तत्र समायातः पृष्ठे लग्नैर्जनैर्द्विजाः ॥
ततश्चौरोऽपि तं दृष्ट्वा मौनस्थं मुनिसत्तमम् ॥ ५ ॥
लोप्त्रं मुक्त्वा तदग्रेऽथ प्रविवेश गुहांतरे ॥
एतस्मिन्नंतरे प्राप्तास्ते जना लोप्त्रहेतवे ॥ ६ ॥
दृष्ट्वा लोप्त्रं तदग्रस्थं तमूचुर्मुनिपुंगवम् ॥
मार्गेणानेन चायातो लोप्त्रहस्तो मलिम्लुचः ॥
ब्रूहि शीघ्रं महाभाग केन मार्गेण निर्गतः ॥ ७ ॥
स च जानन्नपि प्राज्ञो गुहासंस्थं मलिम्लुचम् ॥
न किंचिदपि चोवाच मौनव्रत परायणः ॥ ८ ॥
असकृत्प्रोच्यमानोऽपि परचिंतासमन्वितः ॥
यदा प्रोवाच नो किंचित्स रक्षंश्चौरजीवितम् ॥ ९ ॥
ततस्तैर्मंत्रितं सर्वैरेष नूनं मलिम्लुचः ॥
संप्राप्तः पृष्ठतोऽस्माभिर्मुनिरूपो बभूव ह ॥ ६.१३७.१० ॥
अविचार्य ततः सर्वैराभीरैस्तैर्दुरात्मभिः॥
शूलीमारोपितः सद्यो नीत्वा किंचिद्वनांतरम् ॥ ११ ॥
एवं प्राप्ता तदा शूली मुनिना तेन दारुणा ॥
पूर्वकर्मविपाकेन दोषहीनेन धीमता ॥१२॥
इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मांडव्यशूलीप्राप्तिवृत्तान्तवर्णनंनाम सप्तत्रिंशदुत्तरशततमोक्ययायः ॥ १३७ ॥ ॥ ध ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 138
॥ ॥ ऋषय ऊचुः ॥ ॥
किं कृतं धर्मराजेन तपोध्यानादिकं च यत्॥
मांडव्यशापनाशाय तदस्माकं प्रकीर्तय ॥ १ ॥
॥ सूत उवाच ॥ ॥
मांडव्य शापमासाद्य धर्मराजः सुदुःखितः ॥
तपस्तेपे द्विजश्रेष्ठास्तस्मिन्क्षेत्रे व्यवस्थितः ॥ २ ॥
प्रासादं देवदेवस्य संविधाय कपर्दिनः ॥
अव्यग्रं पूजयामास पुष्पधूपानुलेपनैः ॥ ३ ॥
ततः कालेन महता तुष्टस्तस्य महेश्वरः ॥
प्रोवाच वरदोऽस्मीति प्रार्थयस्व यदीप्सितम् ॥ ४ ॥
॥ धर्मराज उवाच ॥ ॥
अहं देव पुरा शप्तो मांडव्येन महात्मना ॥
स्वधर्मे वर्तमानोऽपि सर्वदोषविवर्जितः ॥ ५ ॥
कुपितेन च तेनोक्तं शूद्रयोनौ भविष्यसि ॥ ६ ॥
तत्रापि च महद्दुःखं ज्ञातिनाशसमुद्रवम् ॥
मच्छापजनितं सद्यो जातिजं समवाप्स्यसि ॥ ७ ॥
तस्मात्त्राहि सुरश्रेष्ठ तस्या योनेः सकाशतः ॥
कथं चैतद्विधो भूत्वा तस्यां जन्म करोम्यहम् ॥८॥
तत्रापि च महदुःखं ज्ञातिनाशसमुद्भवम् ॥
एतदर्थे सुरश्रेष्ठ मया चाराधितो भवान् ॥९॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
न तस्य सन्मुनेर्वाक्यं शक्यते कर्तुमन्यथा ॥
तस्माच्छूद्रोऽपि भूत्वा त्वं न संतानमवाप्स्यसि ॥ ६.१३८.१० ॥
ज्ञातिक्षयं प्रदृष्ट्वापि नैव दुःखमवाप्स्यसि ॥
यतो निषिध्यमानापि न करिष्यंति ते वचः ॥ ११ ॥
एतस्मात्कारणाच्चित्ते न ते दुःखं भविष्यति ॥
ज्ञातिजं धर्मराजैतत्सत्यमेव मयोदितम् ॥ १२ ॥
स्थित्वा वर्षशतं प्राज्ञ त्वं शूद्रो धर्मवत्सलः ॥
उपदेशान्बहून्दत्त्वा ज्ञातिभ्यो हितकाम्यया ॥
अपि श्रद्धा विहीनेषु पापात्मसु सदैव हि ॥ १३ ॥
ततो वर्षशते पूर्णे ब्रह्मद्वारेण केवलम् ॥
आत्मानं सम्यगुत्सृज्य मोक्षमेव प्रयास्यसि ॥ १४ ॥
एवमुक्त्वा स भगवान्गतश्चादर्शनं ततः ॥
धर्मराजोऽपि तं शापं भेजे मांडव्यसंभवम् ॥ १५ ॥
तदा विदुररूपेण ह्यवतीर्य धरातले ॥
मांडव्यस्य वचः सत्यं स चकार महामतिः ॥ १६ ॥
जातो भगवता साक्षाद्व्यासेनामिततेजसा ॥
पाराशर्येण विप्रेण दासीगर्भसमुद्भवः ॥ १७ ॥
एतद्वः सर्वमाख्यातं धर्मराजसमुद्भवम् ॥
आख्यानं यदहं पृष्टः सर्वपातकनाशनम् ॥ १८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहरस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धर्मराजेश्वरोत्पत्तिवर्णनंनामाष्टात्रिंशदुत्तरशततमोअध्यायः ॥ १३८॥
खण्डः ६ (नागरखण्डः) — Adhyāya 139
॥ सूत उवाच ॥ ॥
धर्मराजेश्वरोत्थं च माहात्म्यं द्विजसत्तमाः ॥
यन्मया प्रश्रुतं पुण्यं सकाशात्स्वपितुः पुरा ॥ १ ॥
तदहं कीर्तयिष्यामि शृणुध्वं सुसमाहिताः ॥
त्रैलोक्येऽपि सुविख्यातं सर्व पातकनाशनम् ॥ २ ॥
तत्र क्षेत्रे पुरा विप्रः कश्यपान्वयसंभवः ॥
उपाध्याय इति ख्यातो वेदविद्यापरायणः ॥ ३ ॥
पश्चिमे वयसि प्राप्ते तस्य पुत्रो बभूव ह ॥
स्वाध्यायनियमस्थस्य प्रभूतविभवस्य च ॥४॥
पञ्चवर्षकमात्रस्तु यदा जज्ञे च तत्सुतः ॥
तदा मृत्युवशं प्राप्तः पितृमातृसुदुःखकृत् ॥५॥
ततः स ब्राह्मणः कोपं चक्रे वैवस्वतोपरि ॥
धर्मराजगृहं प्राप्तं दृष्ट्वा निजकुमारकम् ॥ ६ ॥
आदाय सलिलं हस्ते शुचिर्भूत्वासमाहितः ॥
प्रददौ दारुणं शापं धर्मराजाय दुःखितः ॥ ७ ॥
अपुत्रोऽद्य कृतो यस्मादहं तेन दुरात्मना ॥
अतः सोऽपि च दुष्टात्मा यमोऽपुत्रो भविष्यति ॥ ८ ॥
तथास्य भूतले लोको नैव पूजां विधास्यति ॥
कीर्तयिष्यति नो नाम यथान्येषां दिवौकसाम् ॥ ९ ॥
यः कश्चित्प्रातरुत्थाय नाम चास्य ग्रही ष्यति ॥
मंगल्यकरणे चाथ विघ्नं तस्य भविष्यति ॥ 6.139.१० ॥
तं श्रुत्वा तस्य विप्रस्य यमः शापं सुदारुणम् ॥
स्वधर्मे वर्तमानस्तु ततो दुःखा न्वितोऽभवत् ॥ ११ ॥
एतस्मिन्नंतरे गत्वा ब्रह्मणः सदनं प्रति ॥
कृतांजलिपुटो भूत्वा यमः प्राह पितामहम् ॥ १२ ॥
पश्य देवेश शप्तोऽहं निर्दोषोपि द्विजन्मना ॥
स्वधर्मे वर्तमानस्तु यथान्यः प्राकृतो जनः ॥ १३ ॥
तस्मादहं त्यजिष्यामि नियोगं ते पितामह ॥
ब्रह्मशापभया द्भीतः सत्यमेतन्मयोदितम् ॥ १४ ॥
पुरा मांडव्यशापेन शूद्रयोन्यवतारितः ॥
सांप्रतं पुत्ररहितः कृतोऽपूज्यश्च सत्तम ॥ १५ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा दीनं वैवस्वतस्य च ॥
तत्कालोचितमाहेदं स्वयमेव शतक्रतुः ॥ १६ ॥
युक्तमुक्तमनेनैतद्धर्मराजेन पद्मज ॥
नियोगे वर्तमानेन तावकीये सुरेश्वर ॥ १७ ॥
अवश्यमेव मर्त्ये च मनुष्याः समये स्थिताः॥
बाल्ये वा यौवने वाथ वार्धक्ये वा पितामह ॥
संहर्तव्या न संदेहो नाकाले च कथंचन ॥ १८ ॥
एतदेव कृतं नाम धर्मराजाख्यमुत्तमम् ॥
त्वया च सममित्रस्य समशस्त्रोर्महात्मनः ॥ १९ ॥
तस्मादद्य समालोक्य कश्चिदेव विचिंत्यताम् ॥
उपायो येन निर्दोषो नियोगं कुरुते तव ॥ 6.139.२० ॥
॥ ब्रह्मोवाच ॥ ॥
ब्रह्मशापं न शक्तोऽह मन्यथाकर्तुमेवच ॥
उपायं च करिष्यामि सांप्रतं त्रिदशाधिप ॥ २१ ॥
ततो ध्यानं प्रचक्रे स ब्रह्मा लोकपितामहः ॥
तदर्थं सर्वदेवानां पुरतः सुस माहितः ॥ २२ ॥
तस्यैवं ध्यानसक्तस्य प्रादुर्भूताः समंततः ॥
मूर्ता रोगाः सुरौद्रास्ते वातगुल्मकफात्मकाः ॥
अष्टोत्तरशतप्रायाः प्रोचुस्तं च कृतादराः ॥ २३ ॥
॥ रोगा ऊचुः ॥ ॥
किमर्थं देवदेवेश त्वया सृष्टा वयं विभो ॥
आदेशो दीयतां शीघ्रं प्रसादः क्रियतामिति ॥ २४ ॥ ॥
॥ व्रह्मोवाच ॥ ॥
व्रजध्वं भूतले शीघ्रं ममादेशादसंशयम् ॥
यमादेशान्मनुष्येषु गन्तव्यमविकल्पितम् ॥ २५ ॥
एवमुक्त्त्वा तु तान्रोगांस्ततः प्राह पितामहः ॥
धर्मराजं समीपस्थं भृशं दीनमधोमुखम् ॥ २६
एते ते व्याधयः सर्वे मया यम नियोजिताः ॥
साहाय्यं च करिष्यंति सर्वकृ त्येषु सर्वदा ॥२७॥
यः कश्चिदधुना मर्त्यो गतायुः संप्रपद्यते ॥
वधाय तस्य यत्नेन त्वया प्रेष्याः सदैव तु॥२८॥
एतेषां जायते तेन जननाशसमुद्भवः ॥
अपवादो धरापृष्ठे न च संजायते तव ॥२९॥
तस्माद्गत्वा निजं स्थानं स्वाधिकारपरो भव ॥
ममादेशादसंदिग्धं नैवं दोषमवाप्स्यसि॥6.139.३॥।
ततस्तान्सकलान्व्याधीन्गृहीत्वा रविनंदनः॥
यमलोकं समासाद्य ततः प्रोवाच सादरम् ॥ ३१ ॥
पृष्ट्वापृष्ट्वा च गंतव्यं चित्रगुप्तं धरातले ॥
गंतव्यं जननाशाय समये समुपस्थिते ॥ ३२ ॥
परमस्ति मया तत्र स्थापितं लिंगमुत्तमम् ।
हाटकेश्वरजेक्षेत्रे सर्वपातकनाशनम् ॥३३॥
यस्तं पश्यति सद्भक्त्या प्रातरुत्थाय मानवः ॥
स युष्माभिः सदा त्याज्यो दूरतो वचनान्मम ॥ ३४ ॥
एवमुक्त्वा स तान्व्याधींस्ततो वैवस्वतः स्वयम् ॥
तस्य विप्रस्य तं पुत्रं गृहीत्वा सत्वरं ययौ ॥
तस्यैव मंदिरे रम्ये कृत्वा रूपं द्विजन्मनः ॥ ३५ ॥
अथासौ ब्राह्मणो दृष्ट्वा स्वं पुत्रं गृहमागतम् ॥
सहितं विप्ररूपेण धर्मराजेन धीमता ॥ ३६ ॥
ततः प्रहृष्टचित्तेन सत्वरं सम्मुखो ययौ ॥
पुत्रपुत्रेति जल्पन्स निजभार्यासमन्वितः ॥ ३७ ॥
परिष्वज्य ततो भूयो वाष्पपर्याकुलेक्षणः ॥
आघ्राय च ततो मूर्ध्नि वाक्यमेतदुवाच ह ॥ ३८ ॥
॥ ब्राह्मण उवाच ॥ ॥
कथं पुत्र समायातस्त्वं तस्मा द्यममंदिरात् ॥
न कश्चित्पुनरायाति यत्र गत्वाऽपि वीर्यवान् ॥ ३९ ॥
किं वा चैतत्समुत्पन्नमिन्द्रजालं ममांतिकम् ॥
किं वा स्वप्नमिदं किं वा ममायं दृष्टिविभ्रमः ॥6.139.४॥।
कश्चायं ब्राह्मणः पार्श्वे तव संतिष्ठते सुत ॥
दिव्येन तेजसा युक्तस्तं नमाम्यहमात्मज ॥ ४१ ॥
॥ पुत्र उवाच ॥ ॥
एष ब्राह्मणरूपेण समायातो यमः स्वयम् ॥
मामादाय कृपाविष्टो ज्ञात्वा त्वां दुःखसंयुतम् ॥ ४२ ॥
तस्मात्त्वं कुरु तातास्य शापानुग्रहमद्य वै॥
गृहप्राप्तस्य सुस्नेहाद्यद्यहं तव वल्लभः ॥ ४३ ॥
ततस्तस्य प्रणामं स कृत्वा ब्राह्मणसत्तमः ॥
व्रीडयाऽधोमुखो भूत्वा ततः प्रोवाच सादरम् ॥ ४४ ॥ ॥
॥ ब्राह्मण उवाच ॥ ॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥
यत्पुत्रस्य मम प्राप्तिर्गतस्य यमसादनम् । ४५ ॥
त्वं च पुत्रकृते तात सन्तोषं परमं गतः ॥
तस्मात्पुत्रेण संयुक्तो यथायं स्यात्तथा कुरु ॥ ४६ ॥
॥ ब्राह्मण उवाच ॥ ॥
न मे स्यादनृतं वाक्यं कदा चिदपि पुत्रक ॥
अपि स्वैरेण यत्प्रोक्तं किं पुनर्दुःखितेन च ॥ ४७ ॥
तस्मात्तस्य भवेत्पुत्रो दैवयोनिसमुद्भवः ॥
न कथंचिदपि प्राज्ञ मम शापवशाद्ध्रुवम्॥ ४८ ॥
भविष्यति सुतश्चान्यो मानुषीयोनिसंभवः ॥
राजसूयाश्वमेधाभ्यां यश्चैनं तारयिष्यति ॥ ४९ ॥
कोऽर्थः पुत्रेण जातेन यो न संतारणक्षमः ॥
पितृपक्षं शुभं कर्म कृत्वा सर्वोत्तमं भुवि ॥ 6.139.५० ॥
तथा पूजाकृते योऽस्य शापो दत्तश्च वै पुरा ॥
तत्रापि शृणु मे वाक्यं तस्य पुत्रक जल्पतः ॥५१॥
वेदोक्तैर्विविधैर्मन्त्रैर्या पूजा चास्य संस्थिता ॥
न भविष्यति सा लोके कथंचिदपि पुत्रक ॥ ५२ ॥
अस्य मानुषसंभूतैर्मन्त्रैः पूजा भविष्यति ॥
विशिष्टा सर्वदेवेभ्यः सत्यमेतन्मयोदितम् ॥ ५३ ॥
॥ पुत्र उवाच ॥ ॥
अहमेनं प्रतिष्ठाप्य द्रिजश्रेष्ठ महीतले ॥
सम्यगाराधयिष्यामि किमन्यैर्विबुधैर्मम ॥ ५४ ॥
तस्मात्संकीर्तयिष्यामि मंत्रान्मानुषसंभवान् ॥
तथा पूजाविधानं च त्वत्प्रसादेन पूर्वज ॥ ५५ ॥
ततः सुगं नः पन्थेति तस्य मंत्रं विधाय सः ॥
समाचरत्प्रहृष्टात्मा धर्मराजस्य शृण्वतः ॥ ५६ ॥
तच्छ्रुत्वाथ यमः प्रोच्चैः सुप्रसन्नेन चेतसा ॥
तं ब्राह्मण मुवाचेदं हर्षगद्गदयागिरा ॥ ९७ ॥
॥ यम उवाच ॥ ॥
कथंचिदपि विप्रेद्र न मे स्याद्दर्शनं वृथा ॥
अन्येषामपि देवानां तस्मात्प्रार्थय वांछि तम् ॥ ५८ ॥
॥ ब्राह्मण उवाच ॥ ॥
तवार्चां मम पुत्रोऽयं स्थापयिष्यति यामिह ॥
तामनेनैव मंत्रेण यः कश्चित्पूजयेद्द्विजः ॥ ५९ ॥
भवेत्संवत्सरं यावत्संप्राप्ते पंचमीदिने ॥
मा तस्य पुत्रशोको हि इह लोके कथञ्चन ॥ 6.139.६० ॥
॥ सूत उवाच ॥ ॥
स तथेति प्रतिज्ञाय संप्रहृष्टमना यमः ॥
यमलोकं जगामाथ स्वाधिकारपरोऽभवत्॥ ६१ ॥
सोऽपि ब्राह्मणदायादः कृत्वा प्रासादमुत्तमम् ॥
यममाराधयामास मध्ये संस्थाप्य भक्तितः ॥
पित्रा चोक्तेन मन्त्रेण तेनैव विधिपूर्वकम्॥ ६२ ॥
ततश्च क्रमशः प्राप्य पुत्रपौत्राननेकशः ॥
कालधर्ममनुप्राप्तश्चिरं स्थित्वा महीतले ॥ ६३ ॥
एतद्वः सर्वमाख्यातं पुराणेयत्पुरा श्रुतम्॥
यश्चैतत्कीर्तयेद्भक्त्या संप्राप्ते पंचमीदिने ॥
नापमृत्युर्भवेत्तस्य न च शोकः सुतोद्भवः ॥ ६४ ॥
इति श्रीस्कांदे महपुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धर्मराजेश्वरमाहात्म्यवर्णनंनामैकोनचत्वारिंशदुत्तर शततमोऽध्यायः ॥ १३९ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 140
॥ ऋषय ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तं पुत्रो मानुषविग्रहः ॥
भविष्यति यमस्यात्र कः संभूतः स सूतज ॥ १ ॥
॥ सूत उवाच ॥ ॥
तस्य पुत्रः समुत्पन्नः पांडोः क्षेत्रे महीतले ॥
युधिष्ठिर इति ख्यातः सर्वक्षत्रियपुंगवः ॥ २ ॥
राजसूयो मखो येन इष्टः सम्पूर्णदक्षिणः ॥
सर्वान्भूमिपतीन्वीर्यात्संविधाय करप्रदान् ॥ ३ ॥
अश्वमेधाः कृताः पंच तथा सम्पूर्णदक्षिणाः ॥
भ्रामयित्वा हयं भूमौ पश्चात्प्राप स सद्गतिम् ॥ ४ ॥
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ॥
यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ५ ॥
यदनेन वृतं मत्तः पुत्रित्वं सुमहात्मना ॥
हयमेधान्महायज्ञान्कर्ता स्यादस्य वै सुतः ॥ ६ ॥
मन्येत कृतकृत्यत्वं येन पुत्रेण धर्मपः ॥
अन्यैः पुत्रशतैः किं वा वंशानुद्धारकारकैः ॥ ७ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं धर्मराजसुतोद्भवम् ॥
आख्यानं ब्राह्मणश्रेष्ठा धर्मवृद्धिकरं परम् ॥ ८ ॥ ।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये धर्मराजपुत्राख्यानवर्णनंनाम चत्वारिंशदुत्तर शततमोऽध्यायः ॥ १४० ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 141
॥ सूतउवाच ॥ ॥
तथान्योऽपि हि तत्रास्ति देवो मिष्टान्नदायकः ॥
यस्य संदर्शनादेव मिष्टान्नं लभते नरः ॥ १ ॥
आसीत्पूर्वं नृपो नाम्ना वसुसेन इति स्मृतः ॥
आनर्त्ताधिपतिः ख्यातो बृहत्कल्पे द्विजोत्तमाः ॥ २ ॥
अत्यैश्वर्यसमायुक्तो गजवाजिरथान्वितः ॥
जितारिपक्षस्तेजस्वी दाता भोगी जितेंद्रियः ॥ ३ ॥
स संक्रांतौ व्यतीपाते ग्रहणे रवि सोमयोः ॥
पर्वकालेषु चान्येषु विविधेषु सुभक्तितः ॥ ४ ॥
प्रयच्छति द्विजातिभ्यो रत्नानि विविधानि च ॥
इंद्रनीलमहानीलविद्रुमस्फटिकादि च ॥ ५ ॥
माणिक्यमौक्तिकान्येव विद्रुमाणि विशेषतः ॥
हस्त्यश्वरथयानानि वस्त्राणि विविधानि च ॥ ६ ॥
न कस्यचित्प्रदद्यात्स सस्यं ब्राह्मणसत्तमाः ॥
अतीव सुलभं मत्वा तथा तोयं विशेषतः॥ ७ ॥
ततो राज्यं चिरं कृत्वा दृष्ट्वा पुत्रोद्भवान्सुतान् ॥
कालधर्ममनुप्राप्तः कस्मिंश्चित्कालपर्यये ॥ ८ ॥
ततश्च मंत्रिभिस्तस्य सत्यसेन इति स्मृतः ॥
अभिषिक्तः सुतो राज्ये वीर्योदार्यसमन्वितः ॥ ९ ॥
वसुसेनोऽपि संप्राप्य स्वर्गं दानप्रभावतः ॥
दिव्यांबरधरो भूत्वा दिव्यरत्नैर्विभूषितः ॥ ६.१४१.१० ॥
सेव्यमानोऽप्सरोभिश्च विमानवरमाश्रितः ॥
बभ्राम सर्वलोकेषु स्वेच्छया क्षुत्समावृतः ॥ ११ ॥
पिपासाकुलचित्तश्च मुखेन परिशुष्यता ॥
न कंचिद्ददृशे तत्र भुंजानमपरं दिवि ॥ १२ ।
न च पानसमासक्तं न सस्यं सलिलं न च ॥ १३ ॥
ततो गत्वा सहस्राक्षमुवाच द्विजसत्तमाः ॥
क्षुत्तृषावृतदेहस्तु लज्जयाऽधोमुखः स्थितः ॥ १४ ॥
नैवात्र दृश्यते कश्चित्क्षुत्तृषापरिपीडितः ॥
मां मुक्त्वा विबुधश्रेष्ठ तत्किमेतद्वदस्वमे ॥ १५ ॥
एष मे स्वर्गरूपेण नरकः समुपस्थितः ॥
किमेतैर्भूषणैर्वस्त्रैर्विमानादिभिरेव च ॥ १६ ॥
क्षुधा संपीड्यमानस्य स्वर्गमेतच्छचीपते ॥
अग्नितुल्यं समुद्दिष्टं मम चित्तेऽपि वर्तते ॥ १७ ॥
तस्मात्कुरु प्रसादं मे यथा क्षुन्न प्रबाधते ॥
नोचेत्क्षिप सुरश्रेष्ठ रौरवे नरके द्रुतम् ॥१८॥ ॥
॥ इंद्रउवाच ॥ ॥
अनर्होसि महीपाल नरकस्य त्वमेव हि ॥
त्वया दानानि दत्तानि संख्याहीनानि सर्वदा॥१९॥
परं किं तु क्वचिन्नान्नं दत्तं राजन्न चोदकम्॥
न किंचिदपि संचिंत्य यतः सुलभमेव हि ॥६.१४१.२॥।
तोयं सान्नं सदा दद्यादन्नं चैव सदक्षिणम्॥
य इच्छेच्छाश्वतीं तृप्तिमिह लोके परत्र च ॥ २१ ॥
तस्मात्त्वं हि क्षुधाविष्टः स्वर्गे चैव महीपते ॥
भूषितो भूषणैः श्रेष्ठैर्विमानवरमाश्रितः ॥ २२ ॥
॥ राजोवाच ॥ ॥
अस्ति कश्चिदुपायोऽत्र देवौ वा मानुषोऽपि वा ॥
क्षुत्पिपासेऽतितीव्रे मे विनाशं येन गच्छतः ॥२३॥
॥ इन्द्र उवाच ॥ ॥
यदि कश्चित्सुतस्तुभ्यं विप्रेभ्यः सततं जलम्॥
ददाति च सदा सस्यं तत्ते तृप्तिः प्रजायते ॥ २४ ॥
नान्यथा पार्थिवश्रेष्ठ एकस्मिन्नपि वासरे ॥
अदत्तस्य तव प्राप्तिः सत्यमेतन्मयोदितम् ॥२५॥
सोऽपि भूमिपतेः पुत्रस्तव यच्छति नोदकम्॥
न च सस्यं द्विजातिभ्यस्त्वन्मार्गमनुसंचरन्॥२६॥
एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तमः॥
ब्रह्मलोकात्स्थितौ यत्र तौ भूमिपसुरेश्वरौ ॥ २७ ॥
ततः शक्रः समुत्थाय तस्मै तुष्टिसमन्वितः ॥
अर्घं दत्त्वा विधानेन सादरं चेदमब्रवीत् ।ाr २८ ॥
कुतः प्राप्तोऽसि विप्रेंद्र प्रस्थितः क्व च सांप्रतम्॥
केन कार्येण चेद्गुह्यं न तेऽस्ति वद सांप्रतम्॥ २९ ॥
नारद उवाच ॥ ॥
ब्रह्मलोकादहं प्राप्तः प्रस्थितस्तु धरातले ॥
तीर्थयात्राकृते शक्र नान्यदस्तीह कारणम् ॥ ६.१४१.३० ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा स नृपो हृष्टस्तमुवाच मुनीश्वरम् ॥
प्रसादः क्रियतां मह्यं दीनस्य मुनिपुंगव ॥ ३१ ॥
त्वया भूमितले वाच्यो मम पुत्रो महीपतिः ॥
आनर्त्ताधिपतिः ख्यातः सत्यसेन इति प्रभो ॥ ॥ ३२ ॥
तव तातो मया दृष्टः शक्रस्य सदनं प्रति ॥
क्षुत्पिपासापरीतांगो दीनात्मा देवमध्यगः ॥ ३३ ॥
तस्मात्पुत्रोऽसि चेन्मह्यं त्वं सत्यं परिरक्षसि ॥
तन्मन्नाम्ना प्रयच्छोच्चैः सस्यानि सलिलानि च ॥ ३४ ॥
स तथेति प्रतिज्ञाय नारदो मुनिसत्तमः ॥
अनुज्ञाप्य सहस्राक्षं प्रस्थितो भूतलं प्रति ॥ ३५ ॥
ततः क्रमेण तीर्थानि भ्रममाणः स सद्द्विजः ॥
आनर्त्तविषयं प्राप्य सत्यसेनमुपाद्रवत् ॥ ३६ ॥
अथ संपूजितस्तेन सम्यग्भूपतिना मुनिः ॥
पितुः संदेशमाचख्यौ विजने तस्य सादरम् ॥ ३७ ॥
तच्छ्रुत्वा शोकसंतप्तः सत्यसेनो महीपतिः ॥
तं विसृज्य मुनिश्रेष्ठं पूजयित्वा विधानतः । ३८ ॥
ततो जनकमुद्दिश्य मिष्टान्नेन सुभक्तितः ॥
सहस्रं ब्राह्मणेंद्राणां भोजयामास नित्यशः ॥ ३९ ॥
प्रपादानं तथा चक्रे ग्रीष्मकाले विशेषतः ॥
त्यक्त्वान्याः सकला याश्च क्रिया धर्मसमुद्भवाः ॥ ६.१४१.४० ।
एवं तस्य महीपस्य वर्तमानस्य च द्विजाः ॥
अनावृष्टिरभूद्रौद्रा सर्वसस्यक्षयावहा ॥ ४१ ॥
यावद्द्वादशवर्षाणि न जलं त्रिदशाधिपः ॥
मुमोच धरणीपृष्ठे सर्वे लोकाः क्षुधार्दिताः ॥ ४२ ॥
अत्राभावात्ततो भूयो न सस्यं संप्रयच्छति ॥
ब्राह्मणेभ्यः समुद्दिश्य पितरं स्वं यथा पुरा ॥ ४३ ॥
ततः स क्षुत्परीतांगः पिता तस्य महीपतेः ॥
स्वप्ने प्रोवाच तं पुत्रमतीव मलिनांबरः ॥ ४४ ॥
त्वया पुत्रेण पुत्राहं क्षुत्पिपासासमाकुलः ॥
स्वर्गस्थोऽपि हि तिष्ठामि तस्मादन्नं प्रयच्छ वै ॥
मन्नाम्ना तोयसंयुक्तं यदि त्वं मत्समुद्भवः ॥ ४५ ॥
ततः शोकसमायुक्तः स नृपः स्वप्नदर्शनात् ॥
अन्नाभावात्समं मंत्रं मंत्रिभिः स तदाकरोत् ॥ ४६ ॥
अहमाराधयिष्यामि सस्यार्थे वृषभध्वजम् ॥
राज्ये रक्षा विधातव्या भवद्भिः सादरं सदा ॥ ४७ ॥
ततोऽत्रैव समागत्य स्थापयित्वा महेश्वरम् ॥
सम्यगाराधयामास व्रतैश्च नियमैस्तथा॥४८॥
अथ तस्य गतस्तुष्टिं वर्षांते भगवाञ्छिवः॥
अब्रवीद्वरदोऽस्मीति प्रार्थयस्व यथेप्सितम्॥४९॥
राजोवाच॥
अन्नार्थं देवदेवेश मयायं विहितो विधिः॥
तस्मात्त्वं यच्छ मे शीघ्रमसंख्यं वृषवाहन॥६.१४१.५॥।
तथा संजायता वृष्टिः समस्ते धरणीतले ॥
येन सस्यानि जायंते सलिलानि च सांप्रतम् ॥ ५१ ॥
जायतां मम तातस्य स्वर्गस्थस्य महात्मनः ॥
प्रसादात्तव संतृप्तिरक्षया सुरसत्तम ॥५२॥
॥ श्रीभगवानुवाच ॥ ॥
भविता न चिराद्वृष्टिः प्रभूता धरणीतले ॥
भविष्यंति तथान्नानि यानि कानि महीतले ॥ ५३ ॥
तस्मात्त्वं गच्छ राजेंद्र स्वगृहं प्रति सांप्रतम्॥
मम वाक्यादसंदिग्धमेतदेव भविष्यति ॥५४ ॥
तच्चैतन्मामकं लिंगं यत्त्वया स्थापितं नृप ॥
प्रातरुत्थाय यः कश्चित्सम्यक्तद्वीक्षयिष्यति ॥ ५५ ॥
मिष्टान्नममृतस्वादु स हि नूनमवाप्स्यति॥
मम वाक्यान्नृपश्रेष्ठ सदा जन्मनिजन्मनि ॥ ५६ ॥
स एवं भगवानुक्त्वा ततश्चादर्शनं गतः ॥
सोऽपि राजा निजं स्थानं हर्षेण महतान्वितः ॥
आजगाम चकाराथ राज्यं निहतकंटकम् ॥५७॥
॥ सूत उवाच ॥ ॥
अद्यापि कलिकालेऽत्र संप्राप्ते दारुणे युगे ॥
यस्तं मिष्टान्नदं पश्येत्प्रातरुत्थाय भक्तितः ॥५८॥
स मिष्टान्नमवाप्नोति यदि कामयते द्विजाः ॥
निष्कामो वा समभ्येति स्थानं देवस्य शूलिनः॥ ५९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मिष्टान्नदेश्वरमाहात्म्यवर्णनंनामैकचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४१॥
खण्डः ६ (नागरखण्डः) — Adhyāya 142
॥ सूत उवाच ॥ ॥
तथान्यदपि तत्रास्ति पुण्यं गणपतित्रयम् ॥
स्वर्गदं मर्त्यदं पुण्यं तथान्यन्नरकापहम्॥१॥
हंतृ वै सर्वविघ्नानां पूजितं सुरदानवैः॥
सर्वकामप्रदं चैव विद्याकीर्तिविवर्धनम् ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
त्रिविधाः पुरुषाः सूत जायंतेत्र महीतले ॥
उत्तमा मध्यमाश्चान्ये तथा चान्येऽधमाः स्थिताः ॥ ३ ॥
उत्तमाः प्रार्थयंति स्म मोक्षमेव हि केवलम् ॥
गता यत्र निवर्तंते न कथंचिद्धरातले ॥ ४ ॥
मध्यमाः स्वर्गमार्गं च दिव्यान्भोगान्मनोरमान् ॥
अप्सरोभिः समं क्रीडां यज्ञाद्यैः कर्मभिः कृताम् ॥ ॥ ५ ॥
अधमा मर्त्यलोकेत्र रमंते विषयात्मकाः ॥
विषकीटकवत्तत्र रतिं कृत्वा गरीयसीम् ॥ ६ ।
स्वर्गमोक्षौ परित्यज्य तत्कस्मान्मर्त्य इष्यते ॥
येनासौ प्रार्थ्यते मर्त्यैर्मर्त्यदो गणनायकः ॥ ७ ॥
केन संस्थापितास्ते च तस्मिन्क्षेत्रे गजाननाः ॥
कस्मिन्काले च द्रष्टव्याः सर्वं विस्तरतो वद ॥ ८ ॥
॥ सूत उवाच ॥ ॥
पूर्वं तप्त्वा तपस्तीव्रं मर्त्यलोके द्विजोत्तमाः ॥
ततो गच्छंति संहृष्टाः स्वेच्छया त्रिदिवं प्रति ॥
मोक्षमार्गं तथैवान्ये ध्यानाविष्कृतमानसाः ॥ ९ ॥
ततः स्वर्गे समाकीर्णे कदाचिन्मनुजोत्तमैः ॥
देवेषु क्षिप्यमाणेषु समंतात्तत्प्रभावतः ॥ ६.१४२.१० ॥
गत्वा स्वयं सहस्राक्षः सर्वैर्देवगणैः सह ॥
प्रोवाच शंकरं गौर्या सार्धमेकासनस्थितम् ॥ ११ ॥
॥ इन्द्र उवाच ॥ ॥
तपःप्रभावसंसिद्धैर्मानवैः परमेश्वर ॥
अस्माकं व्याप्यते सर्वं महिमानं गृहादिकम्॥ १२ ॥
तस्मात्कृत्वा प्रसादं नः कंचिच्चिंतय सांप्रतम् ॥
उपायं येन तिष्ठामः सौख्येनात्र शिवालये ॥ १३ ॥
अथ श्रुत्वा विरूपाक्षस्तेषां तद्वचनं द्विजाः ॥
पार्वत्याः पार्श्वसंस्थाया मुखचन्द्रं समैक्षयत् ॥ १४ ॥
निजगात्रं ततो देवी सुसंमर्द्य मुहुर्मुहुः ॥
मलमाहृत्य तं कृत्स्नं चक्रे नागमुखं ततः १५॥
चतुर्हस्तं महाकायं लंबोदरसमन्वितम् ॥
सुकौतुककरं तेषां सर्वेषां च दिवौकसाम् ॥ १६ ॥
ततः स विनयादाह देवीं शिखरवासिनीम् ॥
यदर्थमंब सृष्टोऽहं तत्कार्यं वद मा चिरम् ॥ १७ ।
त्रैलोक्ये त्वत्प्रसादेन नासाध्यं विद्यते मम ॥ ॥ १८ ॥
॥ श्रीदेव्युवाच ॥ ॥
मर्त्यलोके नरा ये च स्वर्गमोक्षपराः सदा ॥
तेषां विघ्नं त्वया कार्यं शुभकृत्येषु चैव हि ॥ १९ ॥
सरितां पतयस्त्रिंशच्छंकवः सप्तसप्ततिः ॥
महासरोजषष्टिश्च निखर्वाणां च विंशतिः ॥ ६.१४२.२० ॥
अर्बुदायुतसंयुक्ताः कोट्यो नवतिपञ्च च ॥
लक्षाश्च पंचपंचाशत्सहस्राः पंचविंशतिः॥
शतानि नवषष्टिश्च गणाश्चान्येऽत्र संस्थिताः॥२१॥
येषां नदी स्मृतः पूर्वो महाकालस्तथा परः॥
ते सर्वे वशगास्तुभ्यं प्रभवंतु गणोत्तमाः॥२२॥
आधिपत्यं मया दत्तं तव वत्स कुरुष्व तत् ॥
सर्वेषां गणवृंदानामाधिपत्ये व्यवस्थितः ॥२३॥
एवमुक्त्वाथ सा देवी समानीयौषधीभृतान् ॥
हेमकुंभान्सुतीर्थांभः परिपूर्णान्महोदयान्॥ २४ ॥
तस्याभिषेचनं चक्रे स्वयमेव सुरेश्वरी ॥
गीतवाद्यविनोदेन नृत्यमंगलजैः स्वनैः ॥ २५ ॥
त्रयस्त्रिंशत्स्मृताः कोटयो देवानां याः स्थिता दिवि ॥
ताः सर्वास्तत्र चागत्य तस्य चक्रुश्च मंगलम् ॥ २६ ॥
अथ तस्य ददौ तुष्टो भगवान्वृषभध्वजः ॥
कुठारं निशितं हस्ते सदा वै श्रेष्ठमायुधम् ॥ २७ ॥
पात्रं मोदकसंपूर्णमक्षयं चैव पार्वती ॥
भोजनार्थे महाभागा मातृस्नेहपरायणा ॥ २८ ॥
मूषकं कार्तिकेयस्तु वाहनार्थं प्रहर्षितः ॥
भ्रातरं मन्यमानस्तु बन्धुस्नेहेन संयुतः ॥ २९ ॥
ज्ञानं दिव्यं ददौ ब्रह्मा तस्मै हृष्टेन चेतसा ॥
अतीतानागतं चैव वर्तमानं च यद्भवेत्॥६.१४२.३०॥
प्रज्ञां विष्णुः सहस्राक्षः सौभाग्यं चोत्तमं महत्॥
सौभाग्यं कामदेवस्तु कुबेरो विभवादिकम्॥३१॥
प्रतापं भगवान्सूर्यः कांतिमग्र्यां निशाकरः॥३२॥
तथान्ये विबुधाः सर्वे ददुरिष्टानि भूरिशः॥
आत्मीयानि प्रतुष्ट्यर्थं देव्या देवस्य च प्रभोः॥३३॥
एवं लब्धवरः सोऽथ गणनाथो द्विजोत्तमाः ॥
देवकृत्यपरो नित्यं चक्रे विघ्नानि भूतले ॥ ३४ ॥
धर्मार्थं यतमानानां मोक्षाय सुकृताय च ॥
ततो भूमितलेऽभ्येत्य गणेशस्तत्र यः स्मृतः ॥ ३५ ॥
वैमानिकैः समभ्येत्य स्थापितस्तत्र स द्विजाः ॥
येन स्वर्गार्थिनो लोकाः पूजां तस्य प्रचक्रिरे ॥
प्रथमं सर्वकृत्येषु विघ्ननाशाय तत्पराः ॥ ३६ ॥
एतस्मिन्नेव काले च चमत्कारपुरोद्भवैः ॥
ब्राह्मणैर्ब्रह्मविज्ञानतत्परैर्मोक्षहेतुभिः ॥
ईशानः स्थापितस्तत्र मोक्षदो य उदाहृतः ॥ ३७ ॥
स्वर्गं वाञ्छद्भिरेवान्यैः स्वर्गद्वारप्रदस्तथा ॥
हेरंबः स्थापितस्तत्र सत्यनामा यथोदितः ॥ ३८ ॥
तथान्यैर्मर्त्यदो नाम गणैशस्तत्र यः स्थितः॥
येन स्वर्गाच्च्युता यांति न कदा नरकादिकम्॥
तिर्यक्त्वं वा कृमित्वं वा स्थावरत्वमथापि वा ॥ ३९ ॥
एतस्मात्कारणात्तत्र क्षेत्रे पुण्ये द्विजोत्तमाः ॥
हेरम्बो मर्त्यदो जातः स्वर्गिणां मर्त्यदः सदा ॥ ६.१४२.४० ॥
एतद्वः सर्वमाख्यातं पुण्यं हेरंबसंभवम् ॥
आख्यानं सर्वविघ्नानि यन्निहन्ति श्रुतं नृणाम् ॥ ४१ ॥
एतन्माघचतुर्थां? यः शुक्लायां पूजयेन्नरः ॥
न तस्य वत्सरं यावद्विघ्नं सञ्जायते क्वचित् ॥ ४२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गणपतित्रयमाहात्म्यवर्णनंनाम द्विचत्वारिंशदुत्तरशत तमोऽध्यायः ॥ १४२ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 143
॥ सूत उवाच ॥ ॥
तथान्योऽपि च तत्रास्ति देवश्चित्रेश्वरो द्विजाः ॥
चित्रपीठस्य मध्यस्थश्चित्रसौख्यप्रदो नृणाम् ॥ १ ॥
यं दृष्ट्वा पूजयित्वा च स्नापयित्वाथवा नरः ॥
मुच्यते परदारोत्थैः पातकैश्चोपपातकैः ॥ २ ॥
धर्षयित्वा गुरोः पत्नीं कन्यां वा निजवंशजाम् ॥
नीचां वा व्रतयुक्तां वा कामासक्तेन चेतसा ॥ ३ ॥
चैत्रशुक्लचतुर्दश्यां यस्तं पूजयते नरः ॥
स तत्पापं निहत्याशु स्वर्गलोकं ततो व्रजेत् ॥ ४ ॥
तथा चित्रांगदस्तत्र जाबालिसहितो नृपः ॥
कुमार्या सहितः सार्द्धं नग्नया तत्समुत्थया ॥
सन्तिष्ठते तदग्रे तु शप्तो जाबालिना पुरा ॥ ५ ॥
त्रयाणामपि यस्तेषां तस्मिन्नहनि निर्वपेत् ॥
स इष्टां लभते नारीं सिद्धिं च मनसि स्थिताम् ॥ ६ ॥
॥ ऋषय ऊचुः ॥ ॥
कस्माज्जाबालिना शप्तः पूर्वं चित्रांगदो युवा ॥
सा च तत्तनया कस्मात्कुमारी वस्त्रवर्जिता ॥ ७ ॥
अद्यापि तिष्ठते तत्र विरुद्धं रूपमाश्रिता ॥
जनहास्य करं नित्यं तस्मात्सूत वदस्व नः ॥ ८ ॥
॥ सूत उवाच ॥ ॥
आर्सोत्पूर्वं मुनिर्नाम्ना जाबालिरिति विश्रुतः ॥
कौमारब्रह्मचर्येण येन चीर्णं तपः सदा ॥ ९ ॥
हाटकेश्वरजं क्षेत्रं समासाद्य स सद्द्विजाः ॥
बाल्येऽपि वयसि प्राप्ते समारेभे महत्तपः ॥ ६.१४३.१० ॥
कृच्छ्रचांद्रायणादीनि पाराकाणि शनैःशनैः ॥
कुर्वता तेन ते देवाः संनीता भयगोचरम् ॥ ११ ॥
ततः शक्रादयो देवाः संत्रस्ता मेरुमूर्धनि ॥
मिलित्वा चक्रिरे मंत्रं तस्य विघ्नकृते मिथः ॥१२॥
यद्यस्य तपसो वृद्धिरेवं यास्यति नित्यशः ॥
च्यावयिष्यति तन्नूनं स्वर्गराज्याच्छतक्रतुम् ॥१३॥
तस्माद्गच्छतु रंभाख्या तत्पार्श्वे ऽप्सरसां वरा ॥
ब्रह्मचर्यविघाताय तस्यर्षेर्भावितात्मनः ॥ १४ ॥
ब्रह्मचर्यं तपोमूलं यतः संकीर्तितं द्विजैः ॥
तस्याभावात्परिक्लेशः केवलं न फलं व्रते ॥ १५ ॥
एवं ते निश्चयं कृत्वा समाहूय ततः परम् ॥
रंभामूचुर्महेंद्रेण सर्वे देवास्तदादरात् ॥ १६ ॥
गच्छ शीघ्रं महाभागे जाबालिर्यत्र तिष्ठति ॥
हाटकेश्वरजे क्षेत्रे तपोविघ्नाय तस्य वै ॥ १७ ॥
ते ते भावाः प्रयोक्तव्याः कथास्तास्ता मनोहराः ॥
वर्धयंती तथा चित्ते तस्य कामं निरर्गलम् ॥ १८ ॥ ॥
॥ रंभोवाच ॥ ॥
स मुनिर्न विजानाति कामधर्मं सुरेश्वर ॥
अरसज्ञं कथं देव करिष्यामि स्मरान्वितम्॥ १९ ॥
॥ इन्द्र उवाच ॥ ॥
एष यास्यति मद्वाक्याद्वसंतस्तस्य सन्निधौ ॥
अस्य संदर्शनादेव भविष्यति स सस्मरः ॥ ६.१४३.२० ॥
तस्माद्गच्छ द्रुतं तत्र सहानेन वरानने ॥
संसिद्धिर्जायते येन देवकृत्यं भवेद्द्रुतम् ॥ २१ ॥
अथ सा तं प्रणम्योच्चैः प्रस्थिता धरणीतलम्॥
वसंतेन समायुक्ता जाबालिर्यत्र तिष्ठति ॥ २२ ॥
अथाकस्मादशोकस्य संजातः पुष्पसंचयः ॥
तिलकस्य च चूतस्य मंजर्यः समुपस्थिताः ॥ २३ ॥
शिशिरे च सरोजानि विकासं प्रापुरेव हि ॥
ववौ च सुरभिर्वायुर्दाक्षिणात्यः सुकामदः ॥ २४ ॥
एतस्मिन्नंतरे प्राप्ता रंभा तत्र वराप्सराः ॥
सलिलाशयतीरस्थो जाबालिर्यत्र तिष्ठति ॥। ॥ २५ ॥
अक्षमालाधृतकरो जपन्मंत्रमनेकधा ॥
अभीष्टं श्रद्धया युक्तो विधाय पितृतर्पणम् ॥ २६ ॥
अथ संपश्यतस्तस्य मुक्त्वा वस्त्रपरिग्रहम् ॥१
स्नानार्थं तज्जलं साऽथ प्रविवेश वराप्सराः ॥ २७ ॥
विवस्त्रां तां समालोक्य सोऽपि यौवनशालिनीम्॥
याम्यानिलेन च स्पृष्टः कामस्य वशगो ऽभवत् ॥ २८ ॥
ततस्तस्याभवत्कंपस्तत्क्षणादेव सन्मुने ॥
अक्षमाला कराग्राच्च पपात धरणीतले ॥ २९ ॥
पुलकः सर्वगात्रेषु संजज्ञेऽतीव दारुणः ॥
अश्रुपाताः पतंति स्म कोष्णाः प्लावितभूतलाः ॥ ३० ॥
अथ तं क्षुभितं ज्ञात्वा चित्तज्ञा सा वराप्सराः ॥
निर्गत्य सलिलात्तस्माच्चक्रे वस्त्रपरिग्रहम्॥ ॥ ३१ ॥
ततस्तस्यांतिके गत्वा प्रणिपत्य कृतादरा ॥
प्रोवाच मधुरं वाक्यं वर्द्धंती तस्य तन्मतम् ॥ ३२ ॥
आश्रमे सकलं ब्रह्मन्कच्चित्ते कुशलं मुने ॥
स्वाध्याये तपसि प्राज्ञ शिष्येषु मृगपक्षिषु ॥ ३_३ ॥
॥ मुनिरुवाच॥ ॥ ९॥
कुशलं मे वरारोहे सर्वत्रैवाधुना स्थितम्॥
विशेषेणात्र संप्राप्ता सर्वलक्षणलक्षिता॥३४॥
का त्वं वद महाभागे मम मन्मथवर्धनी॥
किं देवी वासुरी वा किं पन्नगी किं तु मानुषी॥३५॥
निवेदय शरीरे मे किं न पश्यसि वेपथुम्॥
निरर्गलश्च रोमांचो बाष्पपूरश्च नेत्रजः॥३६॥
रंभोवाच॥
किं ते गात्रस्वभावोऽयम् किं वान्यो व्याधिसंभवः ॥
कच्चिदेव न ते स्वास्थ्यं प्रपश्यामि शरीरजम् ॥ ३७ ॥
॥ मुनिरुवाच ॥ ॥
न मे गात्रस्वभावो न व्याधिभिश्च सुलोचने ॥
शृणुष्व कारणं कृत्स्नं येनेदृक्संस्थितं वपुः ॥ ३८ ॥
यावती वर्तते वेला तव दर्शनसंभवा ॥
तावत्कालमिदं रूपं मम गात्रसमुद्भवम् ॥ ३०. ॥
तदहं मन्मथाविष्टो दर्शनात्तव शोभने ॥
ब्रह्मचर्यपरोपीत्थं महाव्रतधरोऽपि च ॥ ६.१४३.४० ॥
॥ रंभोवाच । ॥
यद्येवं ब्राह्मणश्रेष्ठ मां भजस्व यथासुखम् ॥
नात्र कश्चिद्भवेद्दोषः पण्यनारी यतोऽस्म्यहम् ॥ ४१ ॥
साधारणा वयं विप्र यतः सृष्टाः स्वयंभुवा ॥
सर्वेषामेव लोकानां विशेषेण द्विजन्मनाम् ॥ ४२ ॥
अहं चापि समालोक्य त्वां मुने मन्मथोपमम् ।
हता कामशरैस्तीक्ष्णैर्न च गंतुं समुत्सहे ॥ ॥ ४३ ॥
मया दृष्टाः सुराः पूर्वं यक्षा विद्याधरास्तथा ॥
सिद्धाश्च किंनरा नागा गुह्यकाः किमु मानुषाः ॥ ४४ ॥
नेदृग्रूपं वपुस्तेषामेकस्यापि विलोकितम् ॥
मध्ये ब्राह्मणशार्दूल तस्माद्भक्तां भजस्व माम् ॥ ४५ ॥
यो नारीं कामसंतप्तां स्वयं प्राप्तां परित्यजेत् ॥
स मूर्खः पच्यते घोरे नरके शाश्वतीः समाः ॥ ४६ ॥
एवमुक्त्वा तया सोऽथ परिष्वक्तो महामुनिः ॥
अनिच्छन्नपि वाक्येन हृदयेन च सस्पृहः ॥ ४७ ॥
ततो लतानि कुंजे तं समानीय मुनीश्वरम् ।
कामशास्त्रोदितैर्भावै रराम कृत्रिमैर्मुनिम् ॥ ४८ ॥
एवं तया समं तत्र स्थितो यावद्दिनक्षयम् ॥
कामधर्मसमासक्तः संत्यक्ताशेषकर्मकः ॥ ४९ ॥
ततो निष्कामतां प्राप्तो लज्जया परिवारितः ॥
विससर्ज च तां रंभां शौचं चक्रे ततः परम् ॥ ६.१४३.५० ॥
सापि तेन विनिर्मुक्ता कृतकृत्या विलासिनी ।
प्रहृष्टा प्रययौ तत्र यत्र देवाः सवासवाः ॥ ५१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जाबालिक्षोभणोनाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४३ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 144
॥ सूत उवाच ॥ ॥
सा गत्वा त्रिदिवं पश्चात्सहस्राक्षं सुरैर्युतम् ॥
प्रोवाच भगवन्दिष्ट्या क्षोभितोऽसौ महामुनिः ॥ १ ॥
तपस्तस्य हतं कृत्स्नं यत्कृच्छ्रेण समाचितम् ॥
तथा निस्तेजसत्वं च नीतस्त्वं सुखभाग्भव ॥ २ ॥
एवमुक्त्वाऽथ सा रंभा शंसिता निखिलैः सुरैः ॥
अमोघरेतसस्तस्य दध्रे गर्भं निजोदरे । ३ ।
जाबालिरपि कृत्वा च पश्चात्तापमनेकधा ॥
भूयस्तु तपसि स्थित्वा स्थितस्तत्रैव चाश्रमे ॥ ४ ॥
ततस्तु दशमे मासि संप्राप्ते सुषुवे शुभाम् ॥
कन्यां सरोजपत्राक्षीं दिव्यलक्षणलक्षिताम् ॥ ५ ॥
अथ तां मानुषोद्भूतां मत्वा तस्यैव चाश्रमम् ॥
गत्वा मुमोच प्रत्यक्षं तस्यर्षेश्चेदमब्रवीत् ॥ ६ ॥
तव वीर्यसमुद्भूतामेनां मज्जठरोषिताम् ॥
कन्यकां मुनिशार्दूल तस्मात्पालय सांप्रतम् ॥ ७ ॥
न स्वर्गे विद्यते वासो मानुषाणां कथंचन ॥
एतस्मात्कारणात्तुभ्यं मया ब्रह्मन्समर्पिता ॥ ८ ॥
एवमुक्त्वा ययौ रंभा सत्वरं त्रिदशालयम् ॥
जाबालिरपि तां दृष्ट्वा कन्यकां स्नेहमाविशत् ॥ ९ ॥
ततस्तां कन्यकां कृत्वा सुष्ठु गुप्ते लतागृहे ॥
रसैर्मिष्टफलोद्भूतैः पुपोष च दिवानिशम् ॥ ६.१४४.१० ॥
सापि कन्या परां वृद्धिं शनैर्याति दिनेदिने ।
शुक्लपक्षं समासाद्य यथा चन्द्रकला दिवि ॥ ११ ॥
यथायथाथ सा याति वृद्धिं कमललोचना ॥
तथातथास्य सुस्नेहो जाबालेरप्यवर्धत । १२ ।
सा शिशुत्वे मृगैः सार्द्धं पक्षिभिश्च सुशोभना ॥
क्रीडां चक्रे सुविश्रब्धैर्वर्धयंती मुनेर्मुदम् ॥ १३ ॥
ततो बाल्यं परित्यक्त्वा वल्कलावृतगात्रिका ॥
तस्यर्षेः सर्वकृत्येषु साहाय्यं प्रकरोति च ॥ १४ ॥
समित्कुशादि यत्किंचित्फलपुष्पसमन्वितम् ॥
वनात्तदानयामास तस्य प्रीतिमवर्धयत् ॥ ॥ १५ ॥
ततः कतिपयाहस्य फलार्थं सा मृगेक्षणा ॥
निदाघसमये दूरं स्वाश्रमात्प्रजगाम ह ॥ १६ ॥
एतस्मिन्नंतरे तत्र विमानवरमाश्रितः ॥
प्राप्तश्चित्रांगदोनाम गन्धर्वस्त्रिदिवौकसाम् ॥ १७ ॥
तेन सा विजने बाला पूर्णचन्द्रनिभानना ॥
दृष्टा चांद्रमसी लेखा पतितेव धरातले ॥ १८ ॥
ततः कामपरीतांगः सोवतीर्य धरातलम्॥
विमानान्मधुरैर्वाक्यैस्तामुवाच कृतांजलिः ॥ १९ ॥
का त्वं कमलगर्भाभा निर्जनेऽथ महावने ॥
भ्रमस्येकाकिनी बाले वनमध्ये सुलोचने ॥ ६.१४४.२० ॥
॥ कन्योवाच ॥ ॥
अहं फलवतीनाम जाबालेर्दुहिता मुने ॥
फलपुष्पार्थमायाता तदर्थमिह कानने ॥ २१ ॥
॥ चित्रांगद उवाच ॥ ॥
कुमारब्रह्मचारी स श्रूयते मुनिसत्तमः ॥
तत्कथं तस्य वामोरु त्वं जाता भार्यया विना ॥ २२ ॥
॥ कन्योवाच ॥ ॥
सत्यमेतन्महाभाग नास्ति दारपरिग्रहः ॥
तस्यर्षेः किं तु संजाता यथा तन्मेऽवधारय ॥ २३ ॥
रंभा नामाप्सरास्तेन पुरा दृष्टा सुरांगना ॥
ततः कामपरीतेन सेविता च यथासुखम्॥२४ ॥
ततस्तदुदराज्जाता देवलोके महत्तरे ॥
तयापि चेह तस्यर्षेर्भूय एव नियोजिता ॥ २५ ॥
एवं स मे पिता जातो जाबालिर्मुनिसत्तमः ॥
पोषिताऽहं ततस्तेन नानाफलसमुद्रवैः ॥ २६ ॥
ततः फलवती नाम कृतं तेन महात्मना ॥
ममानुरूपमेतद्धि यन्मां त्वं परिपृच्छसि ॥ २७ ॥
॥ चित्रांगद उवाच ॥ ॥
तव रूपं समालोक्य कामस्याहं वशं गतः ॥
तस्माद्भजस्व मां भीरु नो चेद्यास्यामि संक्षयम् ॥ २८ ॥
अहं चित्रांगदोनाम गन्धर्वस्त्रिदिवौकसाम् ॥
तीर्थयात्राकृते प्राप्तः क्षेत्रेऽस्मिञ्छ्रद्धयाऽन्वितः ॥ २९ ॥
॥ कन्योवाच ॥ ॥
कुमारधर्मिणी चाहमद्यापि वशगा पितुः ॥
कामधर्मं न जानामि चित्रांगद कथंचन ॥ ॥ ६.१४४.३० ॥
तस्मात्प्रार्थय मे तातं स मां तुभ्यं प्रदास्यति ॥
अनुरूपाय योग्याय तरुणाय मनस्विनीम् ॥३१ ॥
ममापि रुचितं चित्ते तव वाक्यमिदं शुभम् ॥
धन्याहं यदि ते कण्ठमालिंगामि यथेच्छया ॥ ३२ ॥
॥ चित्रांगद उवाच ॥ ॥
न शक्नोमि महाभागे तावत्कालं प्रतीक्षितुम् ॥
मां दहत्येष गात्रोत्थः सुमहान्कामपावकः ॥ ३३ ॥
तस्मात्कुरु प्रसादं मे रतिदानेन शोभने ॥
को जानाति हि तच्चित्तं कीदृग्रूपं भविष्यति ॥ ३४ ॥ ॥
॥ कन्योवाच ॥ ॥
एवं ते वर्तमानस्य मम तातः प्रकोपतः ॥
दहिष्यति न संदेहः शापं दत्त्वा सुदारुणम्॥ ३५ ॥
॥ चित्रांगद उवाच ॥ ॥
तव तातः स कालेन मां दहिष्यति मानदे ॥
कामानलः पुनः सद्य एष भस्म करिष्यति ॥३६॥
एवमुक्त्वाऽथ तां बालां वेपमानां त्रपावतीम् ॥
गृहीत्वा दक्षिणे पाणौ प्रविवेश सुरालयम् ॥ ३७ ॥
तत्र तां रमयामास तदा कामप्रपीडितः ॥
तत्कालजातरागांधां निर्लज्जत्वमुपागताम् ॥ ॥ ३८ ॥
एवं तस्याः समं तेन स्थिताया दिवसो गतः ॥
निमेषवन्मुनिश्रेष्ठास्ततश्चास्तं गतो रविः ॥ ३९ ॥
एतस्मिन्नंतरे विप्रो जाबालिर्दुःख संयुतः ॥
अनायातां सुतां ज्ञात्वा परिबभ्राम सर्वतः ॥ ६.१४४.४० ॥
अहो सा दुहिता मह्यं किमु व्यालैः प्रभक्षिता ॥
वृक्षं कंचित्समारूढा पतिता धरणी तले ॥ ४१ ॥
किं वा जलाशयं कंचित्प्राप्य गाधमजानती ॥
निमग्ना तत्र सा बाला संप्रविष्टा जलार्थिनी ॥ ४२ ॥
एवं स प्रलपन्विप्रो बभ्राम गहने वने ॥
कुशकण्टकविद्धांगः क्षुत्पिपासासमाकुलः ॥ ४३ ॥
यंयं शृणोति शब्दं स मृगपक्षिसमुद्भवम् ॥
रजन्यां तत्र निर्याति मत्वा फलवतीं च ताम् ॥ ४४ ॥
अथ क्रमात्समायातो हरहर्म्यं स सन्मुनिः ॥
यत्र चित्रांगदोपेता सा संतिष्ठति कन्यका ॥ ४५ ॥
निःशंका जल्पमाना च रागवाक्यान्यनेकशः ॥
अनर्हाणि कुमारीणां ब्रह्मजानां विशेषतः ॥ ४६ ॥
ततः स सुचिरं श्रुत्वा दूरस्थो विस्मयान्वितः ॥
कुमार्याश्चेष्टितं दृष्ट्वा कोपसंरक्तलोचनः ॥ ४७ ॥
अथ दुद्राव वेगेन गृह्य काष्ठसमुच्चयम् ॥
द्वाभ्यामेव विनाशाय भर्त्समानो मुहुर्मुहुः ॥ ४८ ॥
धिग्धिक्पापसमाचारे कौमार्यं दूषितं त्वया ॥
लांछनं च समानीतं मम लोकत्रयेऽपि च ॥ ४९ ॥
नितरां पतिमासाद्य कर्मणानेन चाधमे ॥
तस्मादनेन पापेन युक्तां त्वां नाशयाम्यहम् ॥ ६.१४४.५० ॥
एवमुक्त्वा प्रहारं स यावत्क्षिपति सन्मुनिः ॥
तावच्चित्रांगदो नष्टो व्योममार्गेण सत्वरम् ॥ ५१ ॥
विवस्त्रा सापि तत्रैव खिन्नांगी कामसेवया ॥
न शशाक क्वचिद्गंतुं समुत्थाय ततः क्षितौ ॥ ५२ ॥
ततः काष्ठप्रहारोघैर्हत्वा तां पतितां क्षितौ॥
मृतामिति परिज्ञाय स क्रोधपरिवारितः ॥ ५३ ॥
ततश्चित्रांगदस्यापि ददौ शापं सुदारुणम् ॥
स दृष्ट्वाऽऽकाशमार्गेण गच्छमानं भयातुरम् ॥ ५४ ॥
य एष कन्यकां मह्यं धर्षयित्वा समुत्पतेत् ॥
स पतत्वचिरात्पापश्छिन्नपक्ष इवांडजः ॥ ५५ ॥
कुष्ठव्याधिसमायुक्तश्चलितुं नैव च क्षमः ॥
एतस्मिन्नन्तरे भूमौ स पपात नभस्तलात् ॥ ५६ ॥
कुष्ठव्याधिसमायुक्तः स च चित्रांगदो युवा ॥
ततस्तं स मुनिः प्राह काष्ठोद्यतकरः क्रुधा ॥ ५७ ॥
कस्त्वं पापसमाचार येन मे धर्षिता बलात् ॥
कुमारी तन्नयाम्येष त्वामद्य यम शासनम् ॥ ५८ ॥
॥ चित्रांगद उवाच ॥ ॥
अहं चित्रांगदोनाम गन्धर्वस्त्रिदिवौकसाम् ॥
तीर्थयात्राप्रसंगेन क्षेत्रेऽस्मिन्समुपागतः ॥ ५९ ॥
ततस्तु कन्यकां दृष्ट्वा कामदेववशं गतः ॥ ६.१४४.६० ॥
ततः सेवितवानत्र लताहर्म्ये जनच्युते ॥
तस्मात्कुरु क्षमां मह्यं दीनस्य प्रणतस्य च ॥ ६१ ॥
यथा व्याधेर्भवेन्नाशो यथा स्याद्गगने गतिः ॥
भूयोऽपि त्वत्प्रसादेन स्वल्पः कोपो हि साधुषु ॥ ६२ ॥
॥ जाबालिरुवाच ॥ ॥
ईदृग्रूपधरस्त्वं हि मम वाक्याद्भविष्यसि ॥
एषापि मत्सुता पापा वस्त्रहीना सदेदृशी ॥ ६३ ॥
भविष्यति न संदेहो जीवयिष्यति चेत्क्वचित् ॥
यद्येषा धास्यति क्वापि वस्त्रं गात्रे निजे क्वचित् ॥ ६४ ॥
तन्नूनं च शिरोऽप्यस्याः फलिष्यति न संशयः ॥
एवमुक्त्वा विकोपश्च स जगाम निजाश्रमम् ॥ ६५ ॥
चित्रांगदोऽपि तत्रैव तया सार्धं तथा स्थितः ॥
कस्यचित्त्वथ कालस्य तत्र क्षेत्रे समाययौ ॥ ६६ ॥
चैत्रशुक्लचतुर्दश्यां भगवाञ्छशिशेखरः ॥
गन्तुं चित्रेश्वरे पीठे गणै रौद्रैः समावृतः ॥
योगिनीभिः प्रचण्डाभिः सार्धं प्राप्ते निशामुखे ॥ ६७ ॥
अथ प्राप्ते निशार्धे तु योगिन्यस्ताः सुदारुणाः ॥
महामांसं महामांसमित्यूचुर्भक्षणाय वै ॥६८॥
नृत्यमानाः पुरस्तस्य देवदेवस्य शूलिनः ॥
सस्पर्धा गणमुख्यैस्तैर्नर्तमानैः समंततः ॥६९ ॥
यस्तत्र समये तासां महामांसं प्रयच्छति ॥
मंत्रपूतं स संसिद्धिं समवाप्नोति वांछिताम् ॥ ६.१४४.७० ॥
मद्यं मांसं तथा चान्यन्नैवेद्यं वा फलादिकम् ॥
तस्य सिद्धिः समादिष्टा यथा स्वहृदये स्थिता ॥ ७१ ॥
एतस्मिन्नंतरे कन्या सा जाबालिसमुद्भवा ॥
स च चित्रांगदस्तत्र गत्वा प्रोवाच सादरम् ॥ ७२॥
अस्मदीयमिदं मांसं योगिन्यो हर्षसंयुताः ॥
भक्षयन्तु यथासौख्यं स्वयमेव प्रकल्पितम् ॥ ७३ ॥
अथ तं पुरुषं दृष्ट्वा कुष्ठव्याधिसमावृतम् ॥
विवस्त्रां कन्यकां तां च सर्वास्ता विस्मयान्विताः ॥ ७४ ॥
ते च सर्वे गणा रौद्राः स च देवस्त्रिलोचनः ॥
पप्रच्छ कौतुकाविष्टस्तत्र चित्रांगदं प्रभुः ॥ ७५ ॥
कस्त्वं धैर्यसमायुक्तो महत्सत्त्वे व्यवस्थितः ॥
यः प्रयच्छसि जीवं त्वं कीटस्यापि सुवल्लभम् ॥ ७६ ॥
केयं च वसनैंर्हीना त्वया सार्धं गतव्यथा ॥
प्रयच्छति निजं देहं यद्देयं नैव कस्यचित् ॥ ७७ ॥
॥ सूत उवाच ॥ ॥
ततः स कथयामास सर्वमात्मविचेष्टितम् ॥
यथा कन्यासमं संगः कृतः शापश्च सन्मुनेः ॥ ७८ ॥
ततश्चित्रांगदं दृष्ट्वा स गन्धर्वं दिवौकसाम् ॥
तथारूपं कृपाविष्टस्ततः प्रोवाच शंकरः ॥ ७९ ॥
मम संदर्शनं प्राप्य न मृत्युर्जायते क्वचित् ॥
न वृथा दर्शनं चैतत्तस्मात्प्रार्थय सादरम् ॥ ६.१४४.८० ॥
॥ चित्रांगद उवाच ॥. ॥
व्याधिनाऽहं सुनिर्विण्णस्तेन देवात्र चागतः ॥
येन व्याधिक्षयो भावी देहनाशेन शंकर ॥ ८१ ॥
तस्मात्कुरु क्षयं व्याधेर्यदि यच्छसि मे वरम् ॥
खेचरत्वं पुनर्देहि येन स्वर्गं व्रजाम्यहम् ॥ ८२ ॥
॥ श्रीशंकर उवाच ॥ ॥
त्वं स्थापयात्र मल्लिंगं पीठे गन्धर्वसत्तम ॥
ततश्चाराधय प्रीत्या यावद्वर्षमुपस्थितम् ॥ ८३ ॥
यथायथा सुपूजां त्वं मल्लिंगस्य करिष्यसि ॥
दिनेदिने तथा व्याधेस्तव नाशो भविष्यति ॥ ८४ ॥
ततस्तु खे गतिं प्राप्य पुनः स्वर्गं प्रयास्यसि ॥
मत्प्रसादान्न सन्देहः सत्यमेतन्मयोदितम् ॥ ८५ ॥
एषापि कन्यका यस्मात्प्रविष्टा पीठमध्यतः ॥
तस्मात्फलवतीनाम योगिनी सम्भविष्यति ॥ ८६ ॥
अनेनैव तु रूपेण नग्नत्वेन व्यवस्थिता ॥
मुख्यामवाप्स्यते पूजां वांछितं च प्रदास्यति ॥
पूजकानां स्थितं चित्ते शतसंख्यगुणं तदा ॥ ८७ ॥
एतां संपूजयेन्मर्त्यः पीठमेतत्ततः परम्॥
पूजयिष्यति तस्येष्टा सिद्धिरेवं भविष्यति ॥ ८८ ॥
एवमुक्त्वा ततः साऽथ हर्षेण महताऽन्विता ॥
योगिनीवृंदमध्यस्था नृत्यं चक्रे ततः परम् ॥ ८९
एवं बभूव सा तत्र योगिनी च वरांगना ॥
तथा चक्रे परं नृत्यं यथा तुष्टो महेश्वरः ॥ ६.१४४.९० ॥
ततः प्रोवाच तां हृष्टः सर्वयोगिनिसंनिधौ ॥
अनेन तव नृत्येन गीतेन च विशेषतः ॥ ९१ ॥
परितुष्टोस्मि ते वत्से तस्माच्छृणु वचो मम ॥
निशीथेऽद्य दिने प्राप्ते यस्ते पूजां करिष्यति ॥ ९२ ॥
सुरा मांसान्नसत्कारैर्मंत्रैरागमसंभवैः ॥
स भविष्यति तत्कालं शापानुग्रहशक्तिमान् ॥ ९३ ॥
बंधनं मोहनं चापि शत्रोरुच्चाटनं तथा ॥
करिष्यति न सन्देहो वशीकरणमेव च ॥ ९४ ॥
त्रिकोणं कुण्डमास्थाय दिशां पालान्प्रपूजयेत् ।
क्षेत्रपालं च सर्वास्ता देवता गमनोद्भवाः ॥ ९५ ॥
तथा चत्वरपूजां च प्रकृत्वा विधिपूर्वकम् ॥
पश्चात्त्वां पूजयित्वा च होमं यश्च करिष्यति ॥ ९६ ॥
शत्रुवामपदोत्थेन स्पृष्टेन रजसाऽथवा ॥
गुग्गुलेन सहस्रांतं स्तंभनं च करिष्यति ॥ ९७ ॥
यश्च शत्रुं हृदि स्थाप्य शत्रूद्वर्तनसंभवम् ॥
मलं धात्रीफलैः सार्धं मोहनं स करिष्यति ॥ ९८ ॥
यः शत्रोः स्नानजं तोयं गृहीत्वा चाथ कर्दमम् ॥
शिवनिर्माल्यसंयुक्तं जुह्वयिष्यति पावके ॥ ९९ ॥
तवाग्रे स नरो नूनं शत्रुमुच्चाटयिष्यति ॥
एषोपि तव संगेन तव चित्रांगदः प्रियः ॥
संप्राप्स्यति च सत्पूजामनुषंगात्त्वदुद्भवात् ॥ ६.१४४.१०० ॥
॥ फलवत्युवाच ॥ ॥
यदि देव प्रसन्नो मे तथान्यमपि सद्वरम्॥१०१॥
हृदिस्थं देहि मे सौख्यं येन संजायतेऽखिलम् ॥
पिता ममैष जाबालिर्निर्मुक्तो वसनैः सदा ॥ १०२ ॥
अहं यथा तथात्रैव संतिष्ठतु दिवानिशम् ।
येन संतापमायाति पश्यन्मम विरोधिनीम् ॥ १०३ ॥
क्रीडां ब्राह्मणवंशस्य मद्यमांससमुद्भवाम् ॥
मद्यगन्धं समाघ्राति मांसं पश्यति संस्कृतम् ॥
मां स्वच्छंदरतां नित्यं दुःखं याति दिनेदिने ॥ १०४ ॥
॥ श्रीभगवानुवाच ॥ ॥
एवं भविष्यति प्रोक्तं संजातं चाधुना शुभे ॥
अहं यास्यामि कैलासं त्वं तिष्ठात्र यथोदिता ॥ १०५ ॥
॥ सूत उवाच ॥ ॥
एवं स भगवान्प्रोक्त्वा गतश्चादर्शनं हरः ॥
योगिन्यश्चैव ताः सर्वाः स्वेस्वे स्थाने व्यवस्थिताः ॥ १०६ ॥
चित्रांगदोपि तत्रैव कृत्वा प्रासादमुत्तमम् ॥
लिंगं संस्थापयामास देवदेवस्य शूलिनः ॥ १०७ ॥
ततश्चाराधयामास दिवारात्रमतंद्रितः ॥ १०८ ॥
ततः संवत्सरस्यांते व्याधिमुक्तः सुरूपधृक् ॥
विमानवरमारूढो जगाम त्रिदशालयम् ॥
सोऽपि जाबालिनामाथ विवस्त्र समपद्यत ॥ १०९ ॥
जनहास्यकरो लोके स्थितस्तत्रैव सर्वदा ॥
पश्यमानो विकारांस्तान्दुःखितः स्वसुतोद्भवान् ॥ ६.१४४.११० ॥
ततश्च गर्हयामास स्त्रीणां जन्म महामुनिः ॥
तस्मिन्पीठे समासाद्य दुःखेन महताऽन्वितः ॥ १११ ॥
अहो पापात्मनां पुंसां संभविष्यंति योषितः ॥
यासामीदृक्समाचारो द्विजवंशोद्भवास्वपि ॥ ११२ ॥
सकृदेव मया संगः कृतो नार्या समन्वितः ॥
आजन्ममरणं यावत्पापं प्राप्तं यथेदृशम् ॥ ११३ ॥
ये पुनस्तासु संसक्ताः सदैव पुरुषाधमाः ॥
का तेषां जायते लोके गतिर्वेद्मि न चिंतयन् ॥ ११४ ॥
एवं तस्य ब्रुवाणस्य योगिन्यस्ताः क्रुधान्विताः ॥
तमूचुर्ब्राह्मणं तत्र घृणया परिवारितम्॥ ११५ ॥
॥ योगिन्य ऊचुः ॥
मा निंदां कुरु मूढात्मंस्त्वं स्त्रीणां योगमाश्रितः ॥
एतच्चराचरं विश्वं स्त्रीभिः संधार्यते यतः ॥ ११६ ॥
याभिः संजनितः शेषः कूर्मश्च तदनंतरम् ॥
याभ्यां संधार्यते पृथ्वी यस्यां विश्वं प्रतिष्ठितम् ॥ ११७ ॥
धन्येयं ते सुता मूढ या प्राप्ता योगमुत्तमम् ॥
प्राप्ता च परमं स्थानं स्तोकैरेवात्र वासरैः ॥ ११८॥।
त्वं पुनर्मूर्खतां प्राप्तश्छांदसं मार्गमास्थितः ॥
अविद्यया समायुक्तः संसारेऽत्र भ्रमिष्यसि ॥ ११९ ॥
॥ मुनिरुवाच ॥
स्त्रियो निंद्यतमाः सर्वाः सर्वावस्थासु दुःखदाः ॥
इहलोके परे चैव ताभ्यः सौख्यं न लभ्यते ॥ ६.१४४.१२० ॥
यदर्थं निहतः शुम्भो निशुम्भश्च महासुरः ॥
रावणो दण्डभूपश्च तथान्येऽपि सहस्रशः ॥ १२१ ॥
प्राप्य तादृग्द्विजं कांतं गौतमं स्त्रीस्वभावतः ॥
अहिल्या शक्रमासाद्य चकमे शीलवर्जिता ॥ १२२ ॥ ॥
॥ कन्योवाच ॥ ॥
यच्च निंदसि मूढात्मन्संति निंद्याश्च योषितः ॥
तद्वदस्व मया सार्धं येन त्वां बोधयाम्यहम् ॥ १२३ ॥
न तेऽस्ति हृदये बुद्धिर्न लज्जा न दया मुने ॥
किमंत्यजोऽपि तत्कर्म कुरुते यत्त्वया कृतम् ॥ १२४ ॥
अहं तावत्प्रहारेण त्वया व्यापादिताऽधम ॥
स्त्रीहत्योद्भवपापस्य न चिन्ता विधृता हृदि ॥ १२५ ॥
विशेषेण सुतायाश्च कोपाविष्टेन चेतसा ॥
गच्छंति पातकान्यत्र प्रायश्चित्तैः पृथग्विधैः ॥ ॥ १२६ ॥
स्त्रीवधोत्थं पुनर्याति यदि तत्त्वं प्रकीर्तय ॥
एतन्मे न च दुःखं स्याद्यद्धतास्मि द्विजाधम ॥ १२७ ॥
यच्छप्ता नग्नसद्भावं नीता तत्पातकं च ते ॥
कल्पांतेऽपि सुदुर्बुद्धे न संयास्यति कुत्रचित् ॥ १२८ ॥
तस्माद्भुंक्ष्व सुदुःखार्तः स्थितोऽत्रैव मया सह ॥
न भूयो निंदसि प्रायो न च व्यापादयिष्यसि ॥ १२९ ॥
अनिंद्या योषितः सर्वा नैता दुष्यंति कर्हिचित् ॥
मासिमासि रजो ह्यासां दुष्कृतान्यपकर्षति ॥ ६.१४४.१३० ॥
॥ मुनि रुवाच ॥ ॥
स्त्रियः पापसमाचारा नैताः शुध्यंति कर्हिचित् ॥
परकांते रतिर्यासामंत्यजत्वं प्रयच्छति ॥ १३१ ॥
॥ कन्योवाच ॥ ॥
मा मैवं वद मूढात्मन्नमेध्या इति योषितः ॥
अत्र श्लोकः पुरा गीतो मनुना तं निबोध मे ॥ १३२ ॥
ब्राह्मणाः पादतो मेध्या गावो मेध्यास्तु पृष्ठतः ॥
अजाश्वा मुखतो मेध्या स्त्रियो मेध्याश्च सर्वतः ॥ १३३ ॥
॥ मुनिरुवाच ॥ ॥
ब्राह्मणाः सर्वतो मेध्या गावो मेध्याश्च सर्वतः ॥
अजाश्वा मुखतो मेध्या न मेध्याश्च स्त्रियः क्वचित् ॥ १३४ ॥
॥ कन्योवाच ॥ ॥
तस्य चिंतामणिर्हस्ते तस्य कल्पद्रुमो गृहे ॥
कुबेरः किंकरस्तस्य यस्य स्यात्कामिनी गृहे ॥ १३५ ॥
॥ मुनिरुवाच ॥ ॥
तस्यापदोऽखिला दुःखं दुःखं तस्याखिलं गृहे ॥
नरकः सर्वतस्तस्य यस्य स्यात्कामिनीगृहे ॥ १३६ ॥
॥ कन्योवाच ॥ ॥
यानि कान्यत्र सौख्यानि भोगस्थानानि यानि च ॥
धर्मार्थकामजातानि तानि स्त्रीभ्यो भवंति हि ॥ १३७ ॥
॥ मुनिरुवाच ॥ ॥
यानि कानि सुदुःखानि क्लेशानि यानि देहिनाम् ॥
यानि कष्टान्यनिष्टानि स्त्रीभ्यस्तानि भवंति च ॥ १३८ ॥
॥ कन्योवाच ॥ ॥
धर्मार्थकाममोक्षान्स्त्री चतुरोऽपि चतसृभिः ॥
वह्निप्रदक्षिणाभिस्तान्विवाहेऽपि प्रदर्शयेत् ॥ १३९ ॥
॥ मुनिरुवाच ॥ ॥
संसारभ्रमणं नारी प्रथमेऽपि समागमे ॥
वह्निप्रदक्षिणान्यायव्याजेनैव प्रदर्शयेत् ॥ ६.१४४.१४० ॥ ॥
॥ कन्योवाच ॥ ॥
के नाम न विरज्यंति ज्ञानाढ्या अपि मानवाः ॥
कर्णांतलग्ननेत्रांतां दृष्ट्वा पीन पयोधराम् ॥ १४१ ॥
॥ मुनिरुवाच ॥ ॥
के नाम न विनश्यंति मूढज्ञाना नितंबिनीम् ॥
रम्यबुद्ध्योपसर्पंति ये ज्वालाः शलभा इव ॥ १४२ ॥
॥ कन्योवाच ॥ ॥
निर्मुखौ च कठोरौ च प्रोद्धतौ च मनोरमौ ॥
स्त्रीस्तनौ सेवते धन्यो मधुमांसे विशेषतः ॥१४३॥
॥ मुनिरुवाच ॥ ॥
आभोगिनौ मंडलिनौ तत्क्षणान्मुक्तकंचुकौ॥
वरमाशीविषौ स्पृष्टौ न तु पत्न्याः पयोधरौ ॥ १४४ ॥
॥ कन्योवाच ॥ ॥
न चासां रचनामात्रं केवलं रम्यमंगिभिः ।
परिष्वंगोऽपि रामाणां सौख्याय पुलकाय च ॥ १४५ ॥
॥ मुनिरुवाच ॥ ॥
न चासां रचनामात्रं रम्यं स्यात्पापदं दृशः ॥
वपुः स्पृष्टं विनाशाय स्त्रीणां प्रेत्य नरकाय च ॥ १४६ ॥
॥ कन्योवाच ॥ ॥
को नाम न सुखी लोके को नाम सुकृती न च ॥
स्पृहणीयतमः को न स्त्रीजनो यस्य रज्यते ॥ १४७ ॥ ॥
॥ मुनिरुवाच ॥ ॥
को न मुक्तिं व्रजेत्तत्र को न शस्यतरो भवेत् ॥
को न स्यात्क्षेमसंयुक्तः स्त्रीजने यो न रज्यते ॥ १४८ ॥
॥ कन्योवाच ॥ ॥
संसारांतः प्रसुप्तस्य कीटस्यापि प्ररोचते ॥
स्त्रीशरीरं नरस्यात्र किं पुनर्न विवेकिनः ॥ १४९ ॥
॥ मुनिरुवाच ॥ ॥
अमेध्यजा तस्य यथा तथा तद्रोचनं कृमेः ॥
तथा संसारसूतस्य स्त्रीशरीरं च कामिनः ॥ ६.१४४.१५० ॥
॥ कन्योवाच ॥ ॥
सौख्यस्थानं नृणां किंचिद्वेधसा ऽन्यदपश्यता ॥
शाश्वतं चिंतयित्वाथ स्त्रीरत्नमिदमाहृतम् ॥ १५१ ॥
॥ मुनिरुवाच ॥ ॥
बंधनं जगतः किंचिद्वेधसाऽन्यदपश्यता ॥
स्त्रीरूपेण ततः कोपि पाशोऽयं स्त्रीमयः कृतः ॥ १५२ ।
॥ सूत उवाच ॥ ॥
एवं स मुनिशार्दूलस्तयातीव समागमे ॥
निरुत्तरीकृतो यावत्ततः प्राह निजां सुताम् ॥ १५३ ॥
॥ मुनिरुवाच ॥ ॥
त्वया सह न संवादो मया कार्योऽधुना क्वचित् ॥
या त्वं बालापि मामेवं निषेधयसि सर्वतः॥१५४॥
तस्माद्धन्यतरं मन्ये अहमात्मानमद्य वै ॥
यस्य मे त्वं सुता ईदृगीदृक्छास्त्रविचक्षणा ॥ १५५ ॥
तस्मान्न मे महाभागे कोपः स्वल्पोऽपि विद्यते ॥
तस्माद्यथेच्छया क्रीडां कुरु योगिनिमध्यगा ॥ १५६ ॥
ततः सा लज्जिता दृष्ट्वा पितरं स्नेहवत्सलम् ।
प्रणिपत्य पुनःप्राह योगिनीमध्यसंस्थिता ॥ १५७ ॥
अज्ञानाद्यदि वा ज्ञानात्त्वं निषिद्धो मया प्रभो ॥
क्षंतव्यं सकलं मेऽद्य वालिकाया विशेषतः ॥ १५८॥
अत्र पीठे समागत्य प्रथमं ते द्विजोत्तमाः ॥
पूजां सर्वे करिष्यंति मानवा भक्तितत्पराः ॥
पश्चाच्च सर्वपीठस्य यास्यंति च परां गतिम्॥ १५९ ॥
एवं सा तत्र संजाता जाबालिमुनिसंभवा ॥
जाबालिश्च मुनिश्रेष्ठस्तथा चित्रांगदेश्वरः ॥ ६.१४४.१६० ॥
त्रयाणामपि यस्तेषां पूजां मर्त्यः समाचरेत्॥
दिवसेदिवसे तत्र स सिद्धिं समवाप्नुयात् ॥ १६१ ॥
नासाध्यं विद्यते किंचित्तावदत्र धरातले ॥
पूज्यते भूमिपालाद्यैर्भोगान्दिव्यांस्तथा लभेत् ॥ १६२ ॥
तस्मात्सर्वप्रयत्नेन स मुनिः सा च कन्यका ॥
पूजनीया विशेषेण स देवोऽथ महेश्वरः ॥ १६३ ॥
एतद्वः सर्वमाख्यातमाख्यानं सर्वकामदम् ॥
पठतां शृण्वतां चैव इहलोके परत्र च ॥ १६४
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चित्रांगदेश्वरफलवतीजाबाल्याख्यानवर्णनंनाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ १४४ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 145
॥ ऋषय ऊचुः ॥ ॥
यत्त्वया कथितं सूत न मृता सा कुमारिका ॥
हता रौद्रप्रहारैश्च कौतुकं तन्महत्तरम् ॥ १ ॥
यतो भूयः प्रसंजाता योगिनी हरतुष्टिदा ॥
यत्त्वार्थं सर्वमाचक्ष्व कारणं च तदद्भुतम् ॥ २ ॥
॥ सूत उवाच ॥ ॥
सा प्रविष्टा समं तेन सुपुण्यममरेश्वरम् ॥
माघकृष्णचतुर्दश्यां न मृत्युर्यत्र विद्यते ॥ ३ ॥'
अपि चैवायुषः शेषे किमुताकालतो द्विजाः॥
तेन नो निधनं प्राप्ता हतापि सुदृढं तदा ॥ ४॥
॥ ऋषय ऊचुः ॥
अमरेश्वर इत्युक्तो यो देवो ह्यमरत्वदः ॥
केन संस्थापितो ह्यत्र किंप्रभावश्च कीर्तय ॥ ५ ॥
॥सूत उवाच ॥ ॥
अदितिश्च दितिश्चैव प्रजापतिसुते शुभे॥
कृते पुरातिरूपाढ्ये कश्यपेन महात्मना॥६॥
अदित्यां विबुधा जाता दितेश्चैव तु दैत्यपाः॥।
तेषां सापत्न्यभावेन महद्वैरमुपस्थितम्॥
अथ दैत्यैः सुरा ध्वस्ताः कृताश्चान्ये पराङ्मुखाः ॥
अन्ये तु भयसंत्रस्ता दिशो जग्मुः क्षतांगकाः ॥८॥
ततो दुःखसमायुक्ता देवमातात्र संस्थिता ॥
तपश्चक्रे दिवानक्तं शिवध्यानपरायणा ॥ ९ ॥
एवं तस्यास्तपःस्थाया गते युगचतुष्टये ॥
निर्भिद्य धरणीपृष्ठं शिवलिंगं समुत्थितम् ॥ ६.१४५.१० ॥
ततस्तस्मै कृतानन्दा स्तुत्वा स्तोत्रैः पृथग्विधैः ॥
अष्टांगप्रणिपातेन नमश्चक्रे समाहिता ॥ ११ ॥
एतस्मिन्नंतरे वाणी संजाता गगनांगणे ॥
शरीररहिता दिव्या मेघगम्भीरनिःस्वना ॥ १२ ॥
वरं प्रार्थय कल्याणि यस्ते हृदि व्यवस्थितः ॥
प्रसन्नोऽहं प्रदास्यामि तवाद्य शशिशेखरः ॥ १३ ॥
॥ अदितिरुवाच ॥ ॥
मम पुत्राः सुरश्रेष्ठ हन्यन्ते युधि दानवैः॥
तत्कुरुष्व गतायासानवध्यान्रणमूर्धनि ॥ १४ ॥
॥ श्रीभगवानुवाच ॥ ॥
एतल्लिंगं मदीयं ये स्पृष्ट्वा यास्यंति संयुगे ॥
अवध्यास्ते भविष्यन्ति यावत्संवत्सरं शुभे ॥ १५ ॥
अन्योऽपि मानवो योऽत्र चतुर्दश्यां समाहितः ॥
माघमासस्य कृष्णायां प्रकरिष्यति जागरम् ॥ ॥१६॥
सोऽपि संवत्सरं यावद्भविष्यति निरामयः ॥
अपि मृत्युदिने प्राप्ते योऽस्मिन्नायतने शुभे ॥ १७ ॥
आगमिष्यति तं मृत्युर्दूरात्परिहरिष्यति ॥
एवमुक्त्वाथ सा वाणी विरराम ततः परम् ॥ १८ ॥
अदितिश्चापि सन्तुष्टा हतशेषान्सुतांस्ततः ॥
समानीयाथ तल्लिंगं तेषामेव न्यदर्शयत् ॥
कथयामास तत्सर्वं माहात्म्यं यद्वरोदितम् ॥ १९ ॥
ततस्ते विबुधाः सर्वे तल्लिंगं प्रणिपत्य च ॥
प्रतिजग्मुस्तुष्टियुक्ताः शस्त्राण्यादाय तान्प्रति॥ ६.१४५.२० ॥
यत्र ते दानवा हृष्टाः स्थिताः शक्रपदे शुभे ॥
स्वर्गभोगसमायुक्ता नन्दनांतर्व्यवस्थिताः ॥ २१ ॥
अथ ते दानवा दृष्ट्वा संप्राप्तांस्त्रिदिवौकसः ॥
सहसा संगरार्थाय नानाशस्त्रधरान्बहून् ॥ २२ ॥
रथवर्यान्समारुह्य धृतशस्त्रास्त्रवर्मणः ॥
युद्धार्थं सम्मुखा जग्मुर्गर्जमाना घना इव ॥ २३ ॥
ततः समभवद्युद्धं देवानां दानवैः सह ॥
रोषप्रेरितचित्तानां मृत्युं कृत्वा निवर्तनम् ॥ २४ ॥
ततस्ते विबुधाः सर्वे हरलब्धवरास्तदा ॥
जघ्नुर्दैत्यानसंख्याताच्छितैः शस्त्रैरनेकधा ॥ २५ ॥
हतशेषाश्च ये तेषां ते त्यक्त्वा त्रिदशालयम् ॥
पलायनकृतोत्साहाः प्रविष्टा मकरालयम् ॥ २६ ॥
ततः शक्रः समापेदे स्वराज्यं दानवैर्हृतम् ॥
यदासीत्पूर्वकाले तत्समग्रं हतकण्टकम् ॥ २७ ॥
ततस्ते दानवाः शेषा ज्ञात्वा तल्लिंगसंभवम् ॥
माहात्म्यं वृषनाथस्य क्षेत्रस्यास्योद्भवस्य च ॥ २८ ॥
शुक्रेण कथितं सर्वं माघकृष्णे निशागमे ॥
चतुर्दश्यां शुचिर्भूत्वा यस्तल्लिंगं प्रपूजयेत् ॥
कालाघ्रातोऽपि न प्राणैः स पुमांस्त्यज्यते क्वचित् ॥२९॥
तस्माद्यूयं समासाद्य तल्लिंगं तद्दिने निशि ॥
पूजयध्वं महाभागा येन स्युर्मृत्युवर्जिताः ॥ ६.१४५.३० ॥
यावत्संवत्सरस्यातं सत्यमेतन्मयोदितम् ॥
यथा ते देवसंघाश्च तत्प्रभावादसंशयम् ॥ ३१ ॥
अथ तं दानवेन्द्राणां मंत्रं ज्ञात्वा सुरेश्वरः ॥
नारदाद्ब्राह्मणः पुत्राद्भयत्रस्तमनास्ततः ॥ ३२ ॥
मंत्रं चक्रे समं देवैस्तत्र देवस्य रक्षणे ॥
यथा स्यादुद्यमः सम्यक्तस्मिन्नहनि सर्वदा ॥ ३३ ॥
कोटयस्तु त्रयस्त्रिंशद्देवानां सायुधास्ततः ॥
रक्षार्थं तस्य लिंगस्य तस्मिन्क्षेत्रे व्यवस्थिताः ॥
माघकृष्णचतुर्दश्यां सुसंनद्धाः प्रहारिणः ॥ ३४ ॥
अथ ते दानवा दृष्ट्वा तान्देवांस्तत्र संस्थितान् ॥
भयसंत्रस्तमनसो दुद्रुवुः सर्वतो दिशम् ॥ ३५ ॥
अथ प्रभाते विमले प्रोद्गते रविमण्डले ॥
भूय एव सुराः सर्वे मंत्रं चक्रुः परस्परम् ॥ ३६ ॥
यद्येतत्क्षेत्रमुत्सृज्य गमिष्यामः सुरालयम् ॥
लिंगमेतत्समभ्येत्य पूजयिष्यंति दानवाः ॥ ३७ ॥
ततोऽवध्या भविष्यंति तेऽपि सर्वे यथा वयम् ॥
तस्मादत्रैव तिष्ठामस्त्रयस्त्रिंशत्प्रनायकाः ॥ ३८ ॥
कोटीनामेव सर्वेषां शेषा गच्छन्तु तत्र च ॥
सहस्राक्षेण संयुक्ताः स्वर्गे स्वपररक्षकाः ॥ ३९ ॥
ततोऽष्टौ वसवस्तत्र द्वादशार्कास्तथैव च ॥
एकादशापरे रुद्रा नासत्यौ द्वौ च सुन्दरौ ॥६.१४५.४॥।
एते तल्लिंगरक्षार्थं तस्मिन्क्षेत्रे व्यवस्थिताः॥
शेषाः शक्रसमायुक्ताः प्रजग्मुस्त्रिदशालयम् ॥ ४१ ॥
॥ सूत उवाच ॥ ॥
एवं प्रभावं लिंगं तु देवदेवस्य शूलिनः ॥
भवद्भिः परिपृष्टं यददित्या स्थापितं पुरा ॥ ४२ ॥
यस्मान्न विद्यते मृत्युस्तेन दृष्टेन देहिनाम् ॥
अमराख्यं ततो लिंगं विख्यातं भुवनत्रये ॥ ४३ ॥
यस्मिन्देशेऽपि सा कन्या हता तेन द्विजन्मना ॥
जाबालिना सुक्रुद्धेन तस्य देवस्य मंदिरे ॥ ॥ ४४ ॥
आसीत्तत्र दिने कृष्णा माघमास चतुर्दशी ॥
तेन नो निधनं प्राप्ता सुहताऽपि तपस्विनी ॥ ४५ ॥
एतद्वः सर्वमाख्यातं तस्य लिंगस्य सम्भवम् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥ ४६ ॥
यश्चैतत्पठते भक्त्या तस्य लिंगस्य संनिधौ ॥
अपमृत्युभयं तस्य कथंचिन्नैव जायते ॥ ४७ ॥
तस्याग्रेऽस्ति शुभं कुण्डं पूरितं स्वच्छवारिणा ।
अदित्या निर्मितं देव्या स्नानार्थं चात्मनः कृते ॥ ४८ ॥
स्नानं कृत्वा नरस्तस्मिन्यस्तल्लिंगं प्रपश्यति ॥
करोति जागरं रात्रौ तस्मिन्नेव दिनेदिने ॥
सोऽद्यापि वत्सरं यावन्नापमृत्युमवाप्नुयात् ॥ ४९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽमरकेश्वरक्षेत्रमाहात्म्यवर्णनंनाम पंचचत्वारिंशदधिकशततमो ऽध्यायः ॥ १४५ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 146
॥ ऋषय ऊचुः ॥ ॥
आदित्यानां च सर्वेषां वसुरुद्रादिकाश्विनाम् ॥
प्रत्येकशः समाचक्ष्व नामानि त्वं महामते ॥ १ ॥
॥ सूत उवाच ॥ ॥
वृषध्वजश्च शर्वश्च मृगव्याधस्तृतीयकः ॥
अजैकपादहिर्बुध्न्यः पिनाकी षष्ठ एव हि ॥ २ ॥
दहनश्चेश्वरश्चैव कपाली नवमस्तथा ॥
वृषाकपिस्तु दशमो रुद्रस्त्र्यंबक एव च ॥ ३ ॥
धुरो ध्रुवश्च सोमश्च मखश्चैवानिलोऽनलः ॥
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ ४ ॥
वरुणश्च तथा सूर्यो भानुः ख्यातश्च तापनः ॥
इंद्रश्चैवार्यमा चैव धाता चैव भगस्तथा ॥ ५ ॥
गभस्तिर्धर्मराजश्च स्वर्णरेता दिवाकरः ॥
मित्रश्च वासुदेवश्च द्वादशैते च भास्कराः ॥ ६ ॥
नासत्यश्चैव दस्रश्च ख्यातावेतौ तथाश्विनौ ॥
देववैद्यौ महाभागौ त्वाष्ट्रीगर्भसमुद्भवौ ॥ ७ ॥
त्रयस्त्रिंशत्समाख्याता एते ये सुरनायकाः ॥
क्षेत्रेऽत्रैवास्थिता नित्यं दानवानां वधाय च ॥८॥
यस्तान्संपूजयेद्भक्त्या पुरुषः संयतेंद्रियः॥
यथोक्तदिवसे प्राप्ते नापमृत्युः प्रजायते ॥ ९ ॥
अष्टम्यां च चतुर्दश्यां रुद्राः पूज्या विचक्षणैः ॥
तस्मिन्क्षेत्रे विशेषेण वांछद्भिः परमं पदम् ॥६.१४६.१०॥।
दशम्यां वसवः पूज्यास्तथाष्टम्यां विशेषतः ॥
स्वर्गं समीहमानैश्च विलासैर्विविधैस्तथा ॥ ११ ॥
सप्तम्यामथ षष्ठ्यां च पूजनीया दिवाकराः ॥
ये वांछन्ति नराः सत्त्वं परिपंथिविवर्जितम् ॥ १२ ॥
देववैद्यौ तथा पूज्यौ द्वादश्यां व्याधिसंक्षयम् ॥
ये वांछन्ति सदा मर्त्या नीरुजा सम्भवंति ते ॥ १३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽमरेश्वरकुण्डमाहात्म्यवर्णनं नाम षट्चत्वारिंशदधिकशततमोऽध्यायः ॥ १४६ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 147
॥ सूत उवाच ॥ ॥
तथान्योऽपि च तत्रास्ति देवः पुत्रप्रदो नृणाम् ॥
वटिकेश्वर नामा च सर्वपापहरो हरः ॥ १ ॥
यस्मिन्वटिकया पूर्वं तपस्तप्तं द्विजोत्तमाः ॥
प्राप्ता पुत्रं शुके याते वनं व्यासात्कपिंजलम् ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
कस्यासौ वटिका तत्र कथं तप्तवती तपः ॥
कस्माद्गृहं परित्यक्त्वा शुकोऽपि वनमाश्रितः ॥ ३ ॥
कथं कपिजलं पुत्रं व्यासाल्लेभे शुचिस्मिता ॥ ४ ॥
।। सूत उवाच ॥ ॥
आसीद्व्यासस्य विप्रेंद्राः कलत्रार्थं मतिः क्वचित् ।
निष्कामस्य प्रशांतस्य सर्वज्ञस्य महात्मनः ॥ ५ ॥
ततः क्षयमनुप्राप्ते वंशे कुरुसमुद्भवे ॥
विचित्रवीर्यमासाद्य पार्थिवं द्विजसत्तमाः ॥ ६ ॥
सत्यवत्याः समादेशात्तस्य क्षेत्रे ततः परम् ॥
स पुत्राञ्जनयामास त्रीञ्छूरान्पांडुपूर्वकान् ॥ ७ ॥
वानप्रस्थव्रते तिष्ठन्सकृन्मैथुनतत्परः ॥
क्षेत्रजैस्तनयैर्वंशे कुरोस्तस्मादुपस्थिते ॥ ८ ॥
ततः स चिंतयामास भार्यामद्य करोम्यहम् ॥
गार्हस्थ्येनाथ धर्मेण साधयामि शुभां गतिम् ॥ ९ ॥
ततः स प्रार्थयामास जाबालिं तु सुतां शुभाम् ॥
वटिकाख्यां शुभां कन्यां स ददौ तस्य सत्वरम् ॥ ६.१४७.१० ॥
ततस्तया समेतः स वनवासं समाश्रितः ॥
वानप्रस्थाश्रमे तिष्ठन्कृतमैथुनतत्परः ॥ ११ ॥
ततो गर्भवती जज्ञे पिंजला तस्य पार्श्वतः ॥
ऋतौ मोहनमासाद्य व्यासात्सत्यवतीसुतात् ॥ १२ ॥
अथ याति परां वृद्धिं स गर्भस्तत्र संस्थितः ॥
उदरे व्यासभार्यायाः शुक्लपक्षे यथा शशी ॥ १३ ॥
एवं संगच्छतस्तस्य वृद्धिं गर्भस्य नित्यशः ॥
द्वादशाब्दा अतिक्रांता न जन्म समवाप्नुयात् ॥ १४ ॥
यत्किंचिच्छृणुते तत्र गर्भस्थोऽहि वचः क्वचित् ॥
तत्सर्वं हृदिसंस्थं च चक्रे प्रज्ञासमन्वितः ॥ १५ ॥
वेदाः सांगाः समाधीता गर्भवासेऽपि तेन च ॥
स्मृतयश्च पुराणानि मोक्षशास्त्राणि कृत्स्नशः ॥ १६ ॥
तत्रस्थोऽपि दिवा नक्तं स्वाध्यायं प्रकरोति सः ॥
न च जन्मोत्थजां बुद्धिं कथंचिदपि चिंतयेत् ॥ १७ ॥
सापि माता परा पीडां नित्यं याति तथाकुला ॥
यथायथा स संयाति वृद्धिं जठरमाश्रितः ॥ १८ ॥
ततश्च विस्मयाविष्टो व्यासो वचनमब्रवीत् ॥
कस्त्वं मद्गृहिणीकुक्षौ प्रविष्टो गर्भरूपधृक् ॥ १९ ॥
न निष्क्रामसि कस्मात्त्वं किमेतां सूदयिष्यसि ॥ ॥
॥ गर्भ उवाच ॥ ॥
राक्षसोऽहं पिशाचोहं देवोऽहं मानुषस्तथा ॥६.१४७.२॥।
गजोऽहं तुरगश्चापि कुक्कुटश्छाग एव च ॥
योनीनां चतुराशीतिसहस्राणि च संख्यया ॥ २१ ॥
भ्रांतोऽहं तेषु सर्वेषु तत्कोऽहं प्रब्रवीमि किम् ॥
सांप्रतं मानुषो भूत्वा जठरं समुपाश्रितः ॥ २२ ॥
मानुषं न करिष्यामि निष्कामं च कथंचन ॥
निर्विष्टो भ्रममाणोऽत्र संसारे दारुणे ततः ॥२३ ॥
अत्रस्थो भवनिर्मुक्तो योगाभ्यासरतः सदा ॥
मोक्षमार्गं प्रयास्यामि स्थानान्मोक्षमसंशयम्॥ २४ ॥
तावज्ज्ञानं च वैराग्यं पूर्वजातिस्मृतिर्यथा ॥
यावद्गर्भस्थितो जन्तुः सर्वोऽपि द्विजसत्तम ॥ २५ ॥
यदा गर्भाद्विनिष्क्रांतः स्पृश्यते विष्णुमायया ॥
तदा नाशं व्रजत्याशु सत्यमेतदसंशयम् ॥ २६ ॥
तस्मान्नाहं द्विजश्रेष्ठ निष्क्रमिष्ये कथंचन ॥
गर्भादस्मात्प्रयास्यामि स्थानान्मोक्षमसंशयम् ॥ २७ ॥
॥ व्यास उवाच ॥ ॥
न भविष्यति ते माया वैष्णवी सा कथंचन ॥
सुघोरान्नरकादस्मान्निष्क्रमस्व विगर्हितात् ॥ २८ ॥
गर्भवासात्ततो योगं समाश्रित्य शिवं व्रज ॥
तस्माद्दर्शय मे वक्त्रं स्वकीयं येन मे भवेत् ॥
आनृण्यं पितृलोकस्य तव वक्त्रस्य दर्शनात् ॥ २९ ॥
॥ गर्भ उवाच ॥ ॥
वासुदेवं प्रतिभुवं यदि मे त्वं प्रयच्छसि ॥
इदानीं यत्स्वयं तन्मे जन्म स्यान्नान्यथा द्विज ॥ ६.१४७.३० ॥
॥ सूत उवाच ॥ ॥
ततो व्यासो द्रुतं गत्वा द्वारकां प्रति दुःखितः ॥
कथयामास वृत्तांतं विस्तराच्चक्रपाणिने ॥ ३१ ॥
तेनैव सहितः पश्चात्स्वगृहं पुनरागतः ॥
व्यासः प्रतिभुवं तस्मै दातुं विष्णुं निरंजनम् ॥ ३२ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
प्रतिभूरस्मि नाशाय मायायास्तव निर्गमे ॥
मद्वाक्यान्निष्क्रमं कृत्वा गच्छ मोक्षमनुत्तमम् ॥ ३३ ॥
ततो द्रुतं विनिष्क्रांतो विष्णुवाक्येन स द्विजाः ॥
द्वादशाब्दप्रमाणस्तु यौवनस्य समीपगः ॥ ३४ ॥
ततः प्रणम्य दैत्यारिं व्यासं च जननीं तथा ॥
प्रस्थितो वनवासाय तत्क्षणाद्व्यासनंदनः ॥ ३५ ॥
अथ तं स मुनिः प्राह तिष्ठ पुत्रात्ममंदिरे ॥
संस्काराञ्जातकाद्यांश्च येन ते प्रकरोम्यहम् ॥ ३६ ॥
॥ शिशुरुवाच ॥ ॥
संस्काराः शतशो जाता मम जन्मनिजन्मनि ॥
भवार्णवे परिक्षिप्तो यैरहं बन्धनात्मकैः ॥ ३७ ॥
॥ श्रीभगवानुवाच ॥ ॥
शुकवज्जल्पते यस्मात्तवायं पुत्रको मुने ॥
तस्माच्छुकोऽयं नाम्नास्तु योगविद्याविचक्षणः ॥ ३८ ॥
नायं स्थास्यति हर्म्ये स्वे मोहमायाविवर्जितः ॥
तस्माद्गच्छतु मा स्नेहं त्वं कुरुष्वास्य संभवम् ॥ ३९ ॥
अहं गृहं प्रयास्यामि त्वं मुक्तः पैतृकादृणात्॥
दर्शनादेव पुत्रस्य सत्यमेतन्मयोदितम् ॥ ६.१४७.४० ॥
एवमुक्त्वा हृषीकेशो व्यासमामंत्र्य सत्वरम्॥
विहगाधिपमारूढः प्रययौ द्वारकां प्रति ॥ ४१ ॥
ततो गते हृषीकेशे व्यासः पुत्रमुवाच ह ॥
प्रस्थितं वनवासाय निःस्पृहं स्वगृहं प्रति ॥ ४२ ॥
॥ व्यास उवाच॥ ॥
गृहस्थधर्मरिक्तानां पितृवाक्यं प्रणश्यति ॥
पितृवाक्यं तु यो मोहान्नैव सम्यक्समाचरेत्॥
स याति नरकं तस्मान्मद्वाक्यात्पुत्र मा व्रज ॥ ४३ ॥
॥ शुक उवाच ॥ ॥
यथाद्याहं त्वया जातो मया त्वं चान्यजन्मनि ॥
संजातोऽसि मुनिश्रेष्ठ तथाहमपि ते पिता ॥ ४४ ॥
तस्माद्वाक्यं त्वया कार्यं यद्येषा धर्मसंस्थितिः ॥
नाहं निषेधनीयस्तु व्रजमानस्तपोवनम् ॥ ४५ ॥
॥ व्यास उवाच ॥ ॥
ब्राह्मणस्य गृहे जन्म पुण्यैः संप्राप्यते नृभिः ॥
संस्कारान्यत्र संप्राप्य वेदोक्तान्मुनिराप्यते ॥ ४६ ॥
॥ शुक उवाच ॥ ॥
संस्कारैराप्यते मुक्तिर्यदि कर्म शुभं विना ॥
पाखंडिनोऽपि यास्यंति तन्मुक्तिं व्रतधारिणः ॥ ४७ ॥
॥ व्यास उवाच ॥ ॥
ब्रह्मचारी भवेत्पूर्वं गृहस्थश्च ततः परम् ॥
वानप्रस्थो यतिश्चैव ततो मोक्षमवाप्नुयात् ॥ ४८ ॥
॥ शुक उवाच ॥ ॥
ब्रह्मचर्येण चेन्मोक्षस्तत्षण्ढानां सदा भवेत् ॥
गृहस्थाश्रमिणां चेत्स्यात्तत्सर्वं मुच्यते जगत् ॥ ४९ ॥
अथवा वनरक्तानां तन्मृगाणां प्रजायते ॥ ६.१४७.५० ॥
अथवा यतिधर्माणां यदि मोक्षो भवेन्नृणाम् ॥
दरिद्राणां च सर्वेषां तन्मुक्तिः प्रथमा भवेत् ॥ ५१ ॥
॥ व्यास उवाच ॥ ॥
गृहस्थधर्मरक्तानां नृणां सन्मार्गगामिनाम् ॥
इह लोकः परश्चैव मनुना संप्रकीर्तितः ॥ ५२ ॥
॥ श्रीशुक उवाच ॥ ॥
गृहगुप्तौ सुगुप्तानां बंधानां बंधुबंधनैः ॥
मोहरागसमावेशात्सन्मार्ग गमनं कुतः ॥ ५३ ॥
॥ व्यास उवाच ॥ ।
कष्टं वने निवसतोऽत्र सदा नरस्य नो केवलं निजतनुप्रभवं भवेच्च ।
दैवं च पित्र्यमखिलं न विभाति कृत्यं तस्माद्गृहे निवसतात्महितं प्रचिन्त्यम् ॥ ५४ ॥
॥ श्रीशुकदेव उवाच ॥ ॥
भावेन भावितमहातपसां मुनीनां तिष्ठन्ति तावदखिलानि तपःफलानि ॥
यत्ते निकाशशरणाः पुरुषा न जातु पश्यंत्यसज्जनमुखानि सुखं तदेव ॥ ५५ ॥
॥ व्यास उवाच ॥ ॥
गृहं परिग्रहः पुंसां गृहस्थाश्रमधर्मिणाम् ॥
इहलोके परे चैव सुखं यच्छति शाश्वतम् ॥ ५६ ॥
॥ श्रीशुक उवाच ॥ ॥
शीतं हुताशादपि दैवयोगात्सञ्जायते चन्द्रमसोऽपि तापः ॥
परिग्रहात्सौख्यसमुद्भवोऽत्र भूतोऽभवद्भावि न मर्त्यलोके ॥ ५७ ॥
॥ व्यास उवाच ॥ ॥
सुपुण्यैर्लभ्यते कृच्छ्रान्मानुष्यं भुवि दुर्लभम् ॥
तस्मिँल्लब्धे न किं लब्धं यदि स्याद्गृहधर्मवित् ॥ ५८ ॥
॥ श्रीशुकदेव उवाच ॥ ॥
यदि स्याज्ज्ञानसंयुक्तो जन्मकालेत्र मानवः ॥
निजावस्थां समालोक्य तज्ज्ञानं हि विलीयते ॥ ५९ ॥
॥ व्यास उवाच ॥ ॥
मुदितस्यापि पुत्रस्य गर्दभस्यार्भकस्य च ॥
भस्मलोलस्य लोकस्य शब्दोऽपि रटतो मुदे ॥ ६.१४७.६० ॥
॥ श्रीशुक उवाच ॥ ॥
रसता सर्पता धूलि लोके त्वशुचिना चिरम् ॥
मुनेऽत्र शिशुना लोकस्तुष्टिं याति स बालिशः ॥ ६१ ॥
॥ व्यास उवाच ॥ ॥
पुंनामास्ति महारौद्रो नरको यममन्दिरे ॥
पुत्रहीनो व्रजेत्तत्र तेन पुत्रः प्रशस्यते ॥ ६२ ॥
॥ श्रीशुक उवाच ॥ ॥
यदि स्यात्पुत्रतः स्वर्गः सर्वेषां स्यान्महामुने ॥
शूकराणां शुनां चैव शलभानां विशेषतः ॥ ॥ ६३ ॥
॥ व्यास उवाच ॥ ॥
पितॄणामनृणो मर्त्यो जायते पुत्रदर्शनात् ॥
पौत्रस्यापि च देवानां प्रपौत्रस्य दिवाश्रयः ॥ ६४ ॥ ॥
शुक उवाच ॥ ॥
चिरायुर्ज्जायते गृध्रः संततिं पश्यते निजाम् ॥
क्रमेण संततं किं न स मोक्षं प्रतिपद्यते ॥ ६५ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा परित्यज्य पितरं स वनं गतः ॥
मातरं च सुदुःखार्तां प्रलपन्तीमनेकधा ॥ ६६ ॥
तं दृष्ट्वा दुःखितो व्यासो निराशः पुत्रदर्शने ॥
पुत्रशोकाभिसंतप्तो भार्यया सहितोऽभवत् ॥ ६७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये व्यासशुकसंवादवर्णनंनाम सप्तचत्वारिंशदुत्तरशततमोध्यायः ॥ १४७ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 148
॥ सूत उवाच ॥ ॥
एवं तं निःस्पृहं ज्ञात्वा गृहं प्रति निजात्मजम् ॥
पिंगला दुःखसंयुक्ता व्यासमेतदुवाच ह ॥ १ ॥
अहं तपश्चरिष्यामि पुत्रार्थं द्विजसत्तम ॥
अनुज्ञां देहि मे येन तोषयामि महेश्वरम् ॥
पुत्रो येन भवेन्मह्यं वंशवृद्धिकरः परः ॥ २ ॥
एवं सा निश्चयं कृत्वा लब्ध्वानुज्ञां मुनेस्ततः ॥
क्षेत्रमेतत्समासाद्य तपस्तेपे पतिव्रता ॥ ३ ॥
संस्थाप्य शंकरं देवं तदग्रे निर्मलोदकम् ॥
कृत्वा वापीं सुविस्तीर्णां स्नानात्पातकनाशनीम् ॥ ४ ॥
ततस्तस्या गतस्तुष्टिं भगवांस्त्रिपुरांतकः ॥
वरदोऽस्मीति तां प्राह प्रहृष्टेनांतरात्मना ॥ ५ ॥
॥ श्रीमहादेव उवाच ॥ ॥
परितुष्टोऽस्मि ते भद्रे वरं वरय सुव्रते ॥
यः स्थितो हृदये नित्यं नादेयं विद्यते मम ॥ ६ ॥
॥ वटिकोवाच ॥ ॥
सुतं देहि सुरश्रेष्ठ मम वंशविवर्धनम् ॥
चित्ताह्लादकरं नित्यं सुशीलं विनयान्वितम् ॥ ७ ॥ ॥
॥ श्रीमहादेव उवाच ॥ ॥
भविष्यति न संदेहस्तव पुत्रः सुशोभने ॥
यादृक्त्वया महाभागे प्रार्थितस्तद्विशेषतः ॥ ८ ॥
अन्यापि मानुषी याऽत्र वाप्यां स्नात्वा समाहिता ॥
पञ्चम्यां वत्सरं यावच्छुक्लपक्षे ह्युपस्थिते ॥
पूजयिष्यति मल्लिंगं यच्चाद्य स्थापितं त्वया ॥ ९ ॥
साथ लप्स्यति सत्पुत्रं दत्त्वा फलमनुत्तमम् ॥
या च दौर्भाग्यसंयुक्ता तृतीयादिवसेऽत्र वै ॥ ६.१४८.१० ॥
स्नात्वाऽत्र सलिले पश्चान्मल्लिंगं पूजयिष्यति ॥
सा सौभाग्य समोपेता वर्षांते च भविष्यति ॥ ११ ॥
यः पुनः पुरुषश्चात्र स्नात्वा मां पूजयिष्यति ॥
सकामो लप्स्यते कामान्विकामो मोक्षमेव च ॥ १२ ॥
एवमुक्त्वा महादेवस्ततश्चादर्शनं गतः ॥
साऽपि लेभे सुतं व्यासात्कपिंजलमिति श्रुतम् ॥ १३ ॥
यादृक्तेन पुरा प्रोक्तो देवदेवेन शूलिना ॥
येनैव स्थापिता चात्र देवी केलीवरी पुरा ॥
सर्वसिद्धिप्रदा लोके तत्र याऽऽराधिता पुरा ॥ १४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वटिकेश्वरमाहात्म्यवर्णनं नामाष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ १४८ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 149
॥ ऋषय ऊचुः ॥ ॥
केलीश्वरी च या देवी श्रूयते सूतनंदन ॥
माहात्म्यं वद नस्तस्या उत्पत्तिं च सुविस्तरात् ॥ १ ॥
कस्मिन्काले समुत्पन्ना किमर्थं च सुरेश्वरी ॥।
किं तस्या जायते श्रेयः पूजया नमनेन च ॥ २ ॥
त्वया कात्यायनी प्रोक्ता चामुण्डा च सुरेश्वरी ॥
श्रीमाता च समुत्पन्ना किमर्थं च सुरेश्वरी ॥ ॥ ३ ॥
श्रीमाता च तथा तारा देवी शत्रुविनाशिनी ॥
केलीश्वरी न संप्रोक्ता तस्मात्तां वद सांप्रतम् ॥ ४ ॥
कौतुकं नः समुत्पन्नमत्रार्थे सूतनंदन ॥ ५ ॥
॥ सूत उवाच ॥ ॥
आद्यैका देवता लोके बहुरूपा व्यवस्थिता ॥
देवतानां हितार्थाय दैत्यपक्षक्षयाय च ॥ ६ ॥
यदायदात्र देवानां व्यसनं जायते क्वचित् ॥
तदातदा परा शक्तिर्या सा व्याप्य व्यवस्थिता ॥ ७ ॥
सर्वमेतज्जगद्धात्री जन्म चक्रे धरातले ॥
महिषासुरनाशाय सा च कात्यायनी भुवि ॥ ८ ॥
अवतीर्णा परा मूर्तिर्गतास्मिन्भुवनत्रये ॥
यदा शुंभनिक्षंभौ च दानवौ बलदर्पितौ ॥ ९ ॥
अवतीर्णा तदा सैव चामुंडा रूपमाश्रिता ॥
प्रोद्गते कालयवने सर्वदेवभयावहे ॥ ६.१४९.१० ॥
श्रीमातारूपिणी देवी सैव जाता महीतले ॥
अंधासुरवधार्थाय शंभुनाऽऽक्रांतचेतसा ॥
सृष्टा केलीवरी देवी यया व्याप्तमिदं जगत् ॥ ११ ॥
ततस्तस्याः प्रभावेन हत्वा दैत्यानशेषतः ॥
अन्धको निहतः पश्चात्त्रैलोक्यव्यसनप्रदः ॥ ॥ १२ ॥
॥ ऋषय ऊचुः ॥ ॥
अन्धकः कस्य पुत्रोऽयं किंप्रभावः कथं हतः ॥
कस्माद्धतस्तु संग्रामे सर्वं विस्तरतो वद ॥ ॥ १३ ॥
॥ सूत उवाच ॥ ॥
दक्षस्य दुहिता नाम्ना दितिः सर्वगुणालया ॥
हिरण्यकशिपुर्नाम तस्याः पुत्रो बभूव ह ॥ १४ ॥
येन शक्रादयो देवा जिताः सर्वे रणाजिरे ॥
स्वर्गे राज्यं कृतं भूरि स्वयमेव महात्मना ॥ १५ ॥ यद्भयात्सकलैर्देवैर्नानाशस्त्राण्यनेकशः ॥
निर्मितान्यतिमुख्यानि वर्मचर्मयुतानि च ॥ १६ ॥
स्वयं विदारितो यश्च विष्णुना प्रभविष्णुना ॥
करजैर्जानुनि पृष्ठे विनिधाय प्रकोपतः ॥ १०७ ॥
तस्य पुत्रद्वयं जज्ञ वीर्यौदार्यगुणान्वितम् ॥
ज्येष्ठः प्रह्लाद इत्युक्तो द्वितीयश्चांधकस्तथा ॥ १८ ॥
हिरण्यकशिपौ प्राप्ते मृत्युलोकं सुहृद्गणैः ॥
अमात्यैश्च ततः प्रोक्तः प्रह्लादो विनयान्वितैः ॥ १९ ॥
पितृपैतामहं राज्यमेतदाचर सांप्रतम् ॥
धुरं वहस्व राज्योत्थां देवान्युद्धे निपातय ॥६.१४९.२॥।
॥ प्रह्राद उवाच ॥ ॥
नाहं राज्यं करिष्यामि कथंचिदपि भूतले ॥
यतस्ततो निबोधध्वं वचनं मम सांप्रतम् ॥२१॥
दैत्यराज्यं न वांछंति देवाः शक्रपुरोगमाः ॥
तेषां रक्षाकरो नित्यं विष्णुः स भगवान्स्वयम् ॥२२॥
अप्यहं सन्त्यजे प्राणान्सर्वस्वं वा न संशयः ॥
हरिणा सह संग्रामं नाहं कर्तुमहो क्षमः॥ २३ ॥
यो मयाऽभ्यर्चितो नित्यं प्रणतश्च सुरेश्वरः ॥
न तेन सहितो युद्धं करिष्यामि कथञ्चन ॥ २४ ॥ ॥
॥ सूत उवाच ॥ ॥
प्रह्लादेन च संत्यक्ते राज्ये पितृसमुद्भवे ॥
अन्धकः स्थापितस्तत्र संमंत्र्य सचिवैर्मिथः ॥ २५ ॥
हिरण्यकशिपोः पुत्रो देवदानवदर्पहा ॥
सोऽपि राज्यममात्येभ्यो निधाय तदनन्तरम् ॥ २६ ॥
तपश्चक्रे चिरं कालं ध्यायमानः पितामहम् ॥
त्यक्त्वा कामं तथा क्रोधं दंभं मत्सरमेव च ॥ २७ ॥
जितेंद्रियः सुशांतात्मा समः सर्वेषु जन्तुषु ॥
वृक्षमूलाश्रयः शांतः संतुष्टेनांतरात्मना ॥ २८ ॥
यावद्वर्षसहस्रांतं फलाहारो बभूव ह ॥
शीर्णपर्णाशनाहारो यावद्वर्षसहस्रकम् ॥ २९ ॥
ध्यायमानो दिवानक्तं देवदेवं पितामहम् ॥
वायुभक्षस्ततो जज्ञे तावत्कालं द्विजोत्तमाः ॥ ६.१४९.३० ॥
ततो वर्षसहस्रांते चतुर्थे समुपस्थिते ॥
तमुवाच स्वयं ब्रह्मा स्वयमभ्येत्य हर्षितः ॥ ३१ ॥
॥ ब्रह्मोवाच ॥ ॥
परितुष्टोऽस्मि ते वत्स वरं वरय सुव्रत ॥
तुष्टोऽहं ते प्रदास्यामि यद्यपि स्यात्सुदुर्लभम् ॥
॥ अन्धक उवाच ॥ ॥
यदि यच्छसि मे ब्रह्मन्वरं मनसि वांछितम् ॥
जरामरणनाशाय दीयतां सुरसत्तम ॥ ३३ ॥
॥ श्रीब्रह्मोवाच ॥ ॥
न कश्चिच्च जराहीनो विद्यतेऽत्र धरातले ॥
मरणेन विना नैव यस्य जन्म भवेत्क्षितौ ॥ ३४ ॥
तथापि तव दास्यामि बहुधर्मरतस्य च ॥
तस्मात्कुरु महाभाग राज्यं गत्वा निजं गृहम् ॥ ३५ ॥
भवेद्बहुफलं राज्यं श्मशानं भवनं यथा ॥
बहुकण्टकसंकीर्णं क्रूरकर्मभिरावृतम् ॥ ३६ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा चतुर्वक्त्रस्ततश्चादर्शनं गतः ॥
कस्यचित्त्वथ कालस्य प्रेरितः कालधर्मणा ॥
प्रोवाच सचिवान्सोऽथ पितुर्वैरमनुस्मरन् ॥ ३७ ॥
॥ अन्धक उवाच ॥ ॥
पितास्माकं हतो देवैः पितृव्यश्च महाबलः ॥
कपटेन न शौर्येण तस्मात्तान्सूदयाम्यहम् ॥ ३८ ॥
कोऽर्थः पुत्रेण जातेन यो न कृत्यैः सुशंसितैः ॥
प्राकट्यं याति सर्वत्र वंशस्याग्रे ध्वजो यथा॥ ३९॥
॥ मंत्रिण ऊचुः ॥ ॥
युक्तमेतन्महाभाग यत्त्वया व्याहृतं वचः ॥
वध्याःस्युर्विबुधाः सर्वे येऽस्माकं परिपंथिनः ॥ ॥६.१४९.४॥।
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥
यज्ञभागान्हरिष्यामो हत्वा शक्रमुखान्सुरान् ॥४१॥
एवं ते समयं कृत्वा सैन्येन महतान्विताः ॥
प्रजग्मुस्त्वरितास्तत्र यत्र शक्रो व्यवस्थितः ॥४२॥
शक्रोऽपि दानवानीकं दृष्ट्वा तान्सहसागतान्॥
आरुह्यैरावणं नागं युद्धार्थं निर्ययौ तदा ॥ ४३ ॥
सह देवगणैः सर्वैर्वसुरुद्रार्कपूर्वकैः ॥
एतस्मिन्नंतरे शक्रो वज्रं रौद्रतमं च यत् ॥ ४४ ॥
समुद्दिश्यांधकं तस्मै मुमोच परवीरहा॥
स हतस्तेन वज्रेण विहस्य दनुजोत्तमः ॥ ४५ ॥
शक्रं प्रोवाच संहृष्टस्तारनादेन संयुगे ॥
दृष्टं बाहुबलं शक्र तवाद्य सुचिरान्मया ॥ ४६ ॥
अधुना पश्य चास्माकं त्वमेव बलसूदन ॥ ४७ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वाथ चाविध्य गदां गुर्वीं मुमोच ह ॥
शतघंटामहारावां निर्मितां विश्वकर्मणा ॥ ॥ ४८ ॥
सर्वायसमयीं गुर्वीं यमजिह्वाभिवापराम् ॥
शतहस्तां प्रमाणेन प्राणिनां भयवर्द्धिनीम् ॥ ४९ ॥
तया विनिहतः शक्रो मूर्छाव्याकुलितेंद्रियः ॥
ध्वजयष्टिं समाश्रित्य निविष्टो गजमूर्द्धनि ॥ ६.१४९.५० ॥
अथ संमूर्छितं दृष्ट्वा शक्रं स्कन्दः प्रकोपितः ॥
मुमोचाथ निजां शक्तिममोघां वज्रसंनिभाम्॥ ५१ ॥
तामायांतीं समालोक्य दानवो निशितैः शरैः ॥
प्रतिलोमां ततश्चक्रे लीलयैव महाबलः ॥ ५२ ॥
ततः स्कन्दोऽपि संगृह्य चापं तं प्रति सायकान्॥
मुमोचाशीविषाकाराल्लँघ्वस्त्रं तस्य दर्शयन् ॥ ५३ ॥
एतस्मिन्नन्तरे देवाः सर्वे शस्त्रप्रवृष्टिभिः ॥
समंताच्छादयामासुर्दानवानामनीकिनीम्॥ ५४ ॥
ततस्तु दानवाः सर्वे देवतानामनीकिनीम्॥
प्रहारैः पीडयामासुर्दुद्रुवुस्ते दिवौकसः ॥ ५५ ॥
ततो भग्नान्सुरान्दृष्ट्वा सगणो वृषवाहनः ॥
दर्शयामास चात्मानं देवानाश्वासयन्निव ॥ ५९॥
मा भैष्ट देवताः सर्वाः पश्यध्वं मद्विचेष्टितम् ॥
इत्युक्त्वा भगवाञ्छम्भुर्मंत्रैराथर्वणैस्तदा ॥ ५७ ॥
आह्वयामास विश्वेशां परां शक्तिमनुत्तमाम्॥
आहूता परमा शक्तिर्जगाम हरसंनिधिम् ॥ ५८ ॥
दृष्ट्वा तामग्रतः प्राप्तां सर्वैदेवैः समन्वितः ॥
अस्तावीत्प्रणतो भूत्वा स्तोत्रेणानेन भक्तितः ॥ ५९ ॥
॥ श्रीभगवानुवाच ॥ ॥
नमस्ते देवदेवेशि नमस्ते भक्तिवल्लभे ॥
सर्वगे सर्वदे देवि नमस्ते विश्वधारिणि ॥ ६.१४९.६० ॥
नमस्ते शक्तिरूपेण सृष्टिप्रलयकारिणि ॥
नमस्ते प्रभया युक्ते विद्युज्ज्वलितकुण्डले ॥ ६१ ॥
त्वं स्वाहा त्वं स्वधा देवि त्वं सृष्टिस्त्वं शुचिर्धृतिः ॥
अरुंधती तथेंद्राणी त्वं लक्ष्मीस्त्वं च पार्वती ॥ ६२ ॥
यत्किंचित्स्त्रीस्वरूपं च समस्तं भुवनत्रये॥
तत्सर्वं त्वत्स्वरूपं स्यादिति शास्त्रेषु निश्चयः ॥ ६३ ॥
॥ श्रीदेव्युवाच ॥ ॥
किमर्थं च समाहूता त्वयाहं वृषवाहन ॥
मंत्रैराथर्वणै रौद्रैस्तत्सर्वं मे प्रकीर्तय ॥ ६४ ॥
येन ते कृत्स्नशः कृत्यं प्रकरोमि यथोदितम् ॥ ६५ ॥
॥ श्रीभगवानुवाच ॥ ॥
एते शक्रादयो देवाः सर्वे स्वर्गाद्विवासिताः ॥
अंधकेन महाभागे दैत्यानामधिपेन च ॥ ६६ ॥
तस्मात्तस्य वधार्थाय गच्छमानस्य मे शृणु ॥
साहाय्यं कुरु मे चाशु सूदयामि रणाजिरे ॥ ॥ ६७ ॥
एते मातृगणाः सर्वे मया दत्तास्तवाधुना ॥
क्षुत्क्षामाः सूदयिष्यंति दानवान्ये पुरः स्थिताः ॥ ६८ ॥
यस्मात्केलीमयं रूपं विधाय त्वं सहस्रधा ॥
अनेकैर्विकृतै रूपैः समाहूताग्निमध्यतः ॥ ६९ ॥
तस्मात्केलीश्वरीनाम त्रैलोक्ये त्वं भविष्यसि ॥
अनेनैव तु रूपेण यस्त्वां भक्त्याऽर्चयिष्यति ॥ ६.१४९.७० ॥
अष्टम्यां च चतुर्दश्यां तस्याभीष्टं भविष्यति ॥
युद्धकालेऽथ संप्राप्ते स्तोत्रेणानेन ते स्तुतिम् ॥ ॥ ७१ ॥
यः करिष्यति भूपालो जयस्तस्य भविष्यति ॥
अपि स्वल्पस्वसैन्यस्य स्वल्पाश्वस्य च संगरे ॥ ७२ ॥
भविष्यति जयो नूनं त्वत्प्रसादादसंशयम् ॥
एवं सा देवदेवेन प्रोक्ता केलीश्वरी तदा ॥ ७३ ॥
प्रस्थिता पुरतस्तस्य भवसैन्यस्य हर्षिता ॥
सर्वैर्मातृगणैः सार्धं रौद्रारावैःसुभीषणैः ॥ ७४ ॥
युद्धोत्साहपरै रौद्रैर्नानाशस्त्रप्रहारिभिः॥
अथ ते दानवा दृष्ट्वा स्त्रीसैन्यं तत्समागतम् ॥७५॥
विकृतं विकृताकारं विकृताकाररावणम् ॥
शस्त्रोद्यतकरं सर्वयुद्धवांछापरायणम् ॥ ७६ ॥
जहसुः सुस्वरं केचित्केचिन्निर्भर्त्सयंति च ॥
अन्ये स्त्रीति परिज्ञाय प्रहरंति न दानवाः ॥ ७७ ॥
वध्यमानापि लज्जंतः पौरुषे स्वे व्यवस्थिताः ॥
एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तमः ॥ ७८ ॥
अन्धकाय स वृत्तांतं कथयामास कृत्स्नशः ॥
नैताः स्त्रियो दनुश्रेष्ठ युद्धार्थं समुपस्थिताः ॥ ७९ ॥
एषा कृत्या वधार्थाय तव रुद्रेण निर्मिता ॥
यैषा सिंहसमारूढा चक्रांकितकरा स्थिता ॥ ६.१४९.८० ॥
एषा केलीश्वरीनाम वह्निकुण्डाद्विनिर्गता ॥
एताभिः सह रौद्राभिः स्त्रीभिर्मंत्रबलाश्रयात् ॥ ८१ ॥
स्वरक्तेन कृते होमे देवदेवेन शम्भुना ॥
स एष भगवान्क्रुद्धः स्वयमभ्येति तेंऽतिकम् ॥ ८२ ॥
युद्धाय निजहर्म्ये तान्स्थापयित्वा सुरोत्तमान् ॥॥
प्रतिज्ञाय वधं तुभ्यं पुरतः परमेष्ठिनः ॥ ८३ ॥
एतज्ज्ञात्वा महाभाग यद्युक्तं तत्समाचर ॥ ८४ ॥
॥ अन्धक उवाच ॥ ॥
नाहं बिभेमि रुद्रस्य तथान्यस्यापि कस्यचित् ॥
न स्त्रीणां प्रहरिष्यामि पालयन्पुरुषव्रतम् ॥ ८५ ॥
॥ सूत उवाच ॥ ॥
एवं प्रवदतस्तस्य दानवस्य महात्मनः ॥
आक्रंदः सुमहाञ्जज्ञे तस्मिन्देशे समंततः ॥ ८६ ॥
भक्ष्यन्ते दानवाः केचिद्वध्यन्ते त्वथ चापरे ॥
अर्धभक्षित गात्राश्च प्रणश्यंति तथा परे ॥ ८७ ॥
युध्यमानास्तथैवान्ये शक्तिमंतोऽपि दानवाः ॥
भक्ष्यंते मातृभिस्तत्र सायुधाश्च सवाहनाः ॥ ८८ ॥
तच्छ्रुत्वा स महाक्रंदमंधकः क्रोधमूर्छितः॥
आदाय खड्गमुत्तस्थौ किमिदं किमिदं ब्रुवन् ॥ ८९ ॥
अथ पश्यति विध्वस्तान्दानवान्बलदर्पितान् ॥
भक्ष्यमाणास्तथैवान्यान्पलायनपरायणान् ॥ ६.१४९.९० ॥
अन्येषां निहतानां च रुदंत्यो निकटस्थिताः ॥
स पश्यति प्रिया भार्याः प्रलपंत्योऽतिदुःखिताः ॥९१॥।
अथ तत्कदनं दृष्ट्वा अंधकः क्रोधमूर्छितः ॥
भर्त्सयामास ताः सर्वा योगिनीः समरोद्यताः ॥ ९२ ॥
न च तास्तस्य दैत्यस्य भयं चक्रुः कथंचन ॥।
केवलं सूदयंति स्म भक्षयंति च दानवान् ॥९३॥
ततः स दानवस्तासां दृष्ट्वा तच्चेष्टितं रुषा ॥
स्वस्य गात्रस्य रक्षां स चकार भयसंकुलः ॥ ९४ ॥॥
तमोऽस्त्रं मुमुचे रौद्रं कृत्वा रावं स तत्क्षणात् ॥
एतस्मिन्नंतरे कृत्स्नं त्रैलोक्यं तमसा वृतम् ॥ ९५ ॥
न किंचिज्ज्ञायते तत्र समं विषममेव च ॥
केवलं दानवेन्द्रश्च सर्वं पश्यति नेतरः ॥ ९६ ॥
ततः स सूदयामास योगिनीस्ताः शितैः शरैः ॥
यथायथा परा नार्यस्तादृग्रूपा भवन्ति च ॥९७॥
अथ दृष्ट्वा परां वृद्धिं योगिनीनां स दानवः ॥
संहारं तस्य चास्त्रस्य चकार भयसंकुलः ॥ ९८ ॥
ततः शुक्रं समासाद्य दीनः प्राह कृतांजलिः ॥
पश्य मे भार्गवश्रेष्ठ स्त्रीभिर्यत्कदनं कृतम् ॥९९॥
अवध्याभिर्ममास्त्राणां मंत्रशक्त्या सुरद्विषः ॥
उत्पन्नाभिः प्रभूताभिर्हतं मे सर्वतो बलम्॥६.१४९.१॥॥
तस्मात्त्वमपि तां विद्यां प्रसाधय महामते ॥
यदि मे वांछसि श्रेयो नान्यथास्ति जयो रणे ॥ १०१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽन्धकासुरवधवृत्तान्ते शंकरकृतकेलीश्वरीप्रादुर्भाववर्णनंनामैकोनपंचाशदुत्तरशततमोऽध्यायः ॥ १४९ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 150
॥ सूत उवाच ॥ ॥
शुक्रस्तस्य वचः श्रुत्वा चित्ते कृत्वा दयां ततः ॥
हाटकेश्वरजं क्षेत्रं गत्वा सिद्धिप्रदायकम् ॥ ॥ १ ॥
चकार विधिवद्धोमं स्वमांसेन हुताशने ॥
मंत्रैराथर्वणै रौद्रैः कुण्डं कृत्वा त्रिकोणकम् ॥ २ ॥
एवं संजुह्वतस्तस्य तेन वै विधिना तदा ॥
यथा रुद्रेण संतुष्टा देवी केलीश्वरी तदा ॥ ३ ॥
तं प्रोवाच समेत्याशु शुक्रं दैत्यपुरोहितम् ॥
मा त्वं भार्गवशार्दूल कुरु मांसपरिक्षयम् ॥ ४ ॥
भाविताऽहं त्रिनेत्रेण तत्किं ब्रूहि करोमि ते ॥ ५ ॥
॥ शुक्र उवाच ॥ ॥
यथा रुद्रस्य साहाय्यं त्वयात्र विहितं शुभे ॥
अंधकस्याऽपि कर्तव्यं तथैवैष वरो मम ॥ ६ ॥
ये केचिद्दानवा युद्धे भक्षिताश्च विनाशिताः ॥
अस्य सैन्यस्य ते सर्वे पुनर्जीवंतु सत्वरम् ॥ ७ ॥
॥ देव्युवाच ॥ ॥
जीवयिष्यामि तान्सर्वान्दानवान्निहतान्रणे ॥
नवसंभक्षितान्विप्र प्रविष्टान्योगिनीमुखे ॥ ८ ॥
एवमुक्त्वा ददौ तस्मै सा देवी हर्षितानना ॥
नाम्नाऽमृतवतीं विद्यां यया जीवंति ते मृताः ॥ ९ ॥
ततः शुक्रः प्रहृष्टात्मा गत्वांधकमुवाच ह ॥
सिद्धा केलीश्वरी देवी यथा शम्भोस्तथा मम ॥ ६.१५०.१० ॥
तया दत्ता शुभा विद्या मम दैत्या मृताश्च ये ॥
तान्सर्वांस्तत्प्रभावेन योजयिष्यामि जीविते ॥ ११ ॥
त्वयाऽस्याः सततं भक्तिः कार्या दानव सत्तम ॥
अष्टम्यां च विशेषेण चतुर्दश्यां च सर्वदा ॥ १२ ॥
एषा सा परमा शक्तिर्यया व्याप्तमिदं जगत्॥
केवलं भक्तिसाध्या सा न दण्डेन कथंचन ॥ १३ ॥
एवमुक्तस्तु शुक्रेण स तदा दानवाधिपः ॥
तां देवीं पूजयामास भावभक्तिसमन्वितः ॥ १४ ॥
स्तुत्वा च विविधैः स्तोत्रैस्ततः प्रोवाच सादरम् ॥
तथान्या मातरः सर्वा यथाज्येष्ठं यथाक्रमम् ॥ १५ ॥
अज्ञानाद्यन्मया देवि कृतः कोपस्तवोपरि ॥
मर्षणीयस्तथा सोऽद्य दीनस्य प्रणतस्य च ॥ १६ ॥
॥ श्रीदेव्युवाच ॥ ॥
परितुष्टाऽस्मि ते वत्स प्रभावाद्भार्गवस्य च ॥
वरं वरय तस्मात्त्वं न वृथा दर्शनं मम ॥ १७ ॥
॥ अन्धक उवाच ॥ ॥
अनेनैव तु रूपेण ये त्वां ध्यायंति देहिनः ॥
पूजयंति च सद्भक्त्या संस्थाप्य प्रतिमां तव ॥
तेषां सिद्धिः प्रदातव्या त्वया हृदयवांछिता ॥ १८ ॥
देव्युवाच ॥ ॥
यो मामनेन रूपेण स्थापयिष्यति मानवः ॥
तस्य मोक्षं प्रदास्यामि पापस्यापि न संशयः ॥ १९ ॥
योऽष्टम्यां च चतुर्दश्यां मम पूजां करिष्यति ॥
तस्मै स्वर्गं प्रदास्यामि पापस्यापि दनूत्तम ॥ ६.१५०.२० ॥
केवलं दर्शनं यश्च ध्यानं वा मे करिष्यति ॥
तस्य राज्यं प्रदास्यामि भोगान्मानुषसंभवान् । २१ ॥
एवमुक्त्वाऽथ सा देवी ततश्चादर्शनं गता ॥
तैश्च मातृगणैः सार्धं पश्यतस्तस्य तत्क्षणात् । २२ ॥
शक्रोऽपि दानवान्सर्वांस्तया संसिद्धया ततः ॥
मृतान्संजीवयामास दैतेयान्नवभक्षितान् ॥ २३ ॥
तैः समेत्य स दैत्येन्द्रः प्रहृष्टेनांतरात्मना ॥
तां पुरीं प्राप्य शक्रस्य राज्यं चक्रे दिवानिशम् ॥ २४ ॥
तां देवीं ध्यायमानस्तु पूजयानो दिवानिशम् ॥
अष्टम्यां च चतुर्दश्यां विशेषेण महाबलः ॥ २५
अथ तस्याः प्रभावं तं ज्ञात्वा व्याससमुद्भवः ॥
स्थानेऽत्र स्थापयामास संसिद्धिं प परां गतः ॥ २६ ॥
॥ सूत उवाच । ॥
एवं केलीश्वर देवी संजाता परमेश्वरी ॥
तस्मात्स्थाप्या च पूज्या च ध्येया चैव विशेषतः ॥ २७ ॥
एवं देव्या नरो यश्च पठते वा शृणोति वा ॥
वाच्यमानं स मुच्येत व्यसनेन गरीयसा ॥ २८ ॥
भ्रष्टराज्योऽथवा राजा यः शृणोत्यष्टमीदिने ॥
स राज्यं लभते भूयो निखिलं हतकंटकम् ॥ २९ ॥
युद्धकाले च संप्राप्ते यश्चैतच्छृणुयान्नरः ॥
स हत्वा शत्रुसंघातं विजयं च समाप्नुयात् ॥ ६.१५०.३० ॥ इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये केलीश्वरीमाहात्म्यवर्णनंनाम पञ्चाशदुत्तरशततमोऽध्यायः ॥ १५० । ॥ ।
खण्डः ६ (नागरखण्डः) — Adhyāya 151
॥ ॥ सूत उवाच ॥ ॥
अन्धकोऽपि परां विद्यां ज्ञात्वा शुक्रार्जितां तदा ॥
केलीश्वर्याः प्रसादं च भक्तिजं बलवृद्धिदम्॥ १ ॥
अवध्यतामात्मनश्च पितामहवरोद्भवम् ॥
महेश्वरं समुद्दिश्य कोपं चक्रे ततः परम् ॥ २ ॥
दूतं च प्रेषयामास कैलासं पर्वतं प्रति ॥
गच्छ दूत हरं ब्रूहि मम वाक्येन सांप्रतम् ॥ ३ ॥
शक्रमेनं परित्यज्य सुखं तिष्ठात्र पर्वते ॥
नो चेद्द्रुतं समागत्य सकैलासं सभार्यकम्॥ ४ ॥
सगणं च रणे हत्वा सुखी स्थास्यामि नंदने ॥
त्वामहं नाशयिष्यामि सत्येनात्मानमालभे ॥ ५ ॥
एवमुक्तः स दैत्येन दूतो गत्वा द्रुतं ततः ॥
प्रोवाच शंकरं वाक्यैः परुषैः स विशेषतः ॥ ६ ॥
ततः कोपपरीतात्मा भगवान्वृषभध्वजः ॥
गणान्संप्रेषयामास वधार्थं तस्य दुर्मतेः ॥ ७ ॥
वीरभद्रं महाकालं नंदिं हस्तिमुखं तथा ॥
अघोरं घोरनादं च घोरघंटं महाबलम् ॥ ८ ॥
एतेषामनुगाश्चान्ये कोटिरेका पृथक्पृथक्॥
सर्वान्संप्रेषयामास वधार्थं तस्य दुर्मतेः ॥ ९ ॥
अथ संप्रेषितास्तेन गणास्ते विकृताननाः ॥
हर्षेण महताविष्टा गर्जमाना यथा घनाः ॥ ६.१५१.१० ॥
धृतायुधा गताः सर्वे युद्धार्थं यत्र सा पुरी ॥
शक्रस्यासादिता तेन दानवेन बलीयसा ॥ ११ ॥
अथ प्राप्तान्गणान्दृष्ट्वा दानवास्ते धृतायुधाः ॥
निश्चक्रमुर्वै सहसा युद्धार्थमतिगर्विताः ॥ १२ ॥
ततः समभवद्युद्धं गणानां दानवैः सह ॥
परस्परं महारौद्रं मृत्युं कृत्वा निवर्तनम् ॥ १३ ॥
ततो हरगणाः सर्वे दानवैस्तै रणाजिरे ॥
जिता जग्मुर्दिशो भीता हरवीक्षणतत्पराः ॥ १४ ॥
हरोऽपि तान्गणान्भग्नान्दृष्ट्वा कोपाद्विनिर्ययौ ॥
हरं दृष्ट्वा ततो दैत्या दुद्द्रुवुस्ते दिशो दश ॥ १५ ।
अन्धकोऽपि हरं दृष्ट्वा युद्धार्थं संमुखो ययौ ।
ततो युद्धं समभवदंधकस्य हरेण तु ॥
वृत्रवासवयोः पूर्वं यथा युद्धमभून्महत् ॥ १६ ॥
चक्रनालीकनाराचैस्तोमरैः खड्गमुद्गरैः॥
एवं न शक्यते हंतुं दानवो विविधायुधैः ॥ १७ ॥
अस्त्रयुद्धं परित्यज्य बाहु युद्धमुपागतौ ॥
करं करेण संगृह्य मुष्टिप्रहरणौ तदा॥१८।
दानवेनाथ देवेशो बंधेनाक्रम्य पीडितः ।
निष्पंदभावमापन्नस्ततो मूर्च्छामुपागतः ॥१९॥
मूर्छागतं तु तज्ज्ञात्वा ह्यन्धको निर्ययौ गृहात् ॥
तावत्स्थाणुः क्षणाल्लब्ध्वा चेतनामात्तकार्मुकः ॥ ६.१५१.२० ॥
आयसीं लकुटीं गृह्य प्रभुर्भारसहसि काम् ॥
दानवेन्द्रं ततः प्राप्य ताडयामास मूर्धनि ॥ २१ ॥
सोऽपि खड्गेन देवेशं ताडयामास वेगतः ॥
अथ देवोऽपि सस्मार कौबेरास्त्रं महाहवे ॥ ॥ २२॥
अस्त्रेण तेन हृदये ताडयामास दानवम् ॥
ततः स ताडितस्तेन रुधिरोद्गारमुद्वमन् ॥ २३ ॥
पतितोऽधोमुखो भूत्वा ततः शूलेन भेदितः॥
शूलाग्रसंस्थितः पापश्चक्रवद्भ्रमते ततः ॥ २४ ॥
अन्धकोऽपि तदात्मानं तथावस्थमवेक्ष्य च ॥
ततो वाग्भिः सुपुष्टाभिरस्तौद्देवं महेश्वरम् ॥ २५ ॥
॥ ॥ अन्धक उवाच ॥ ॥
नमस्ते जगतां धात्रे शर्वाय त्रिगुणात्मने ॥
वृषभासनसंस्थाय शशांककृतभूषण ॥ २६ ॥
नमः खट्वांगहस्ताय नमः शूलधराय च ॥
नमो डमरुकोदण्डकपालानलधारिणे ॥ २७ ॥
स्मरदेहविनाशाय मूर्त्यष्टकमयात्मने ॥
नमः स्वरूपदेहाय ह्यरूपबहुरू पिणे ॥ २८ ॥
उत्तमांगविनाशाय विरिंचेः सृष्टिकारिणे ॥
स्मशानवासिने नित्यं नमो भैरवरूपिणे ॥ २९ ॥
सर्वगः सर्वकर्ता च त्वं हर्ता नान्य एव हि ॥
त्वं भूमिस्त्वं रजश्चैव त्वं ज्योतिस्त्वं तमस्तथा ॥ ६.१५१.३० ॥
त्वं वपुः सर्वभूतानां जीवभूतो महेश्वर ॥
अस्तौदेवं दानवेन्द्रो देवशूलाग्र संस्थितः ॥ ३१ ॥
॥ सूत उवाच ॥ ॥
एवं तस्य स्तुतिं श्रुत्वा परितुष्टो महेश्वरः ॥
ततः प्रोवाच तं हर्षाच्छूलाग्रस्थं दनूत्तमम् ॥ ३२ ॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
नेदं वीरव्रतं दैत्य यच्छत्रुकरपीडनात् ॥
प्रोच्यन्ते सामवाक्यानि विशेषाद्दैत्यजन्मना ॥ ३३ ॥
॥ अन्धक उवाच ॥ ॥
निर्विण्णोऽस्मि सुरश्रेष्ठ त्रिशूलाऽग्रं समाश्रितः ॥
तस्मात्सूदय मां येन द्रुतं स्यान्मे व्यथाक्षयः ॥ ३४ ॥
॥ श्रीभगवानुवाच ॥ ॥
न तेऽस्ति मरणं दैत्य कथंचिच्चिंतितं मया ॥
तेनेत्थं विधृतं व्योम्नि भित्त्वा शूलेन वक्षसि ॥ ३५ ॥
तस्मात्त्वं गणतां गच्छ सांप्रतं पापवर्जितः ॥
त्यक्त्वा दानवजं भावं श्रद्धया परया युतः ॥ ३६ ॥
॥ अन्धक उवाच ॥ ॥
गतो मे दानवो भावः सांप्रतं तव किंकरः ॥
भविष्यामि न सन्देहः सत्येनात्मानमालभे ॥ ३७ ॥
॥ शंकर उवाच ॥ ॥
परितुष्टोऽस्मि ते वत्स ब्रूहि यत्तेऽभिवांछितम् ॥
प्रार्थयस्व प्रयच्छामि यद्यपि स्यात्सुदुर्लभम् ॥ ३८ ॥
॥ अन्धक उवाच ॥ ॥
अनेनैव तु रूपेण शृलाग्रस्थितमत्तनुम् ॥
यो मर्त्योर्च्चां प्रकृत्वा ते स्थापयिष्यति भूतले ॥ ॥ ३९ ॥
तस्य मोक्षस्त्वया देयो मद्वाक्यात्सुरसत्तम ॥
तथेत्युक्त्वा महेशस्तं शूलाग्रात्प्रमुमोच ह ॥
अस्थिशेषं कृशांगं च चामुण्डासदृशं द्विजाः ॥ ६.१५१.४० ॥
ततः स गणतां प्राप्तो गीतं चक्रे मनोहरम् ॥
पुरतो देवदेवस्य पार्वत्याश्च विशेषतः ॥ ४१ ॥
भृंगवद्रटनं यस्मात्तस्य श्रोत्रसुखा वहम् ॥
भृंगीरिटि इति प्रोक्तस्ततः स त्रिपुरारिणा ॥ ४२ ॥
एवं स गणतां प्राप्तो देवदेवस्य शूलिनः ॥
विश्वास्यः सर्वकृत्येषु तत्परं समपद्यत ॥ ॥ ४३ ॥
ततःप्रभृति लोकेऽत्र देवदेवो महेश्वरः ॥
तादृशेनैव रूपेण स्थाप्यते भूतले जनैः ॥ ४४ ॥
प्राप्यतेऽत्र परा सिद्धिस्तत्प्रसादादलौ किकी ॥
कस्यचित्त्वथ कालस्य राज्याद्भ्रष्टो महीपतिः ॥ ४५ ॥
सुरथाख्यः प्रसिद्धोऽत्र सूर्यवंशसमुद्भवः ॥
ततो वसिष्ठमासाद्य स चात्मीयं पुरो हितम् ॥
प्रोवाच प्रणतो भूत्वा बाष्पव्याकुललोचनः ॥ ४६ ॥
त्वया नाथेन मे ब्रह्मन्संस्थितेनाऽपि शत्रुभिः ॥
बलाच्च यद्धृतं राज्यं मन्द भाग्यस्य सांप्रतम् ॥ ४७ ॥
तस्मात्कुरु प्रसादं मे येन मे राज्यसंस्थितिः ॥
भूयोऽपि त्वत्प्रसादेन नान्या मे विद्यते गतिः ॥ ४८ ॥
॥ वसिष्ठ उवाच ॥ ॥
यद्येवं ते महाराज मद्वाक्यात्सत्वरं व्रज ॥
हाटकेश्वरजं क्षेत्रं सर्वसिद्धिप्रदायकम् ॥ ४९ ॥
तत्र भैरवरूपेण स्थापयित्वा महेश्वरम् ॥
भुजोद्यतोग्रशूलाग्रविद्धान्धककलेवरम् ॥ ६.१५१.५० ॥
नारसिंहेन मंत्रेण ततः पूजय तं नृप ॥
रक्तपुष्पैस्तथा धूपै रक्तैश्चैवानुलेपनैः ॥ ५१ ॥
ततः सद्वीर्य मासाद्य तेजोवीर्यसमन्वितः ॥
हनिष्यस्यखिलाञ्छत्रूंस्तत्प्रसादादसंशयम् ॥ ५२ ॥
परं शौचसमेतेन संपूज्यो भगवांस्त्वया ॥
अन्यथा प्राप्स्यसे विघ्नान्सत्यमेतन्मयोदितम् ॥ ५३ ॥
अथ तस्य वचः श्रुत्वा स राजा सत्वरं ययौ ॥
तत्र क्षेत्रे ततो देवं स्थापयामास भैरवम् ॥ ५४ ॥
ततः संपूजयामास नारसिंहेन भक्तितः ॥
मन्त्रेण प्रयतो भूत्वा ब्रह्मचर्यपरायणः ॥५५॥
ततो दशसहस्रांते तस्य मंत्रस्य संख्यया ॥
भैरवस्तुष्टिमापन्नः प्रोवा च तदनन्तरम् ॥ ५६ ॥
॥ श्रीभैरव उवाच ॥ ॥
परितुष्टोऽस्मि ते राजन्मंत्रेणानेन पूजितः ॥
तस्मात्प्रार्थय यच्चेष्टं येन सर्वं ददाम्यहम् ॥ ५७ ॥ ॥
॥ सुरथ उवाच ॥ ॥
शत्रुभिर्मे हृतं राज्यं त्वत्प्रसादात्सुरेश्वर ॥
तन्मे भवतु भूयोऽपि शत्रुभिः परिवर्ज्जितम् ॥ ५८ ॥
अन्योऽपि यः पुमानित्थं त्वामिहागत्य पूजयेत् ॥
अनेनैव तु मंत्रेण तस्य सिद्धिस्त्वया विभो ॥५९॥
देया देव सहस्रांते यथा मम सुरेश्वर ॥
तथेति तं प्रतिज्ञाय गतश्चादर्शनं हरः ॥ ६.१५१.६० ॥
सुरथोऽपि निजं राज्यं प्राप हत्वा रणे रिपून्॥६१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटके श्वरक्षेत्रमाहात्म्ये भैरवक्षेत्रमाहात्म्यवर्णनंनामैकपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५१ ॥छ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 152
॥ ऋषय ऊचुः ॥ ॥
असंख्यातानि तीर्थानि त्वयोक्ता न्यत्र सूतज ॥
देवमानुषजातानि देवतायतनानि च ॥
तथा वानरजातानि राक्षसस्थापितानि च ॥१॥
सूतपुत्र वदास्माकं यैर्दृष्टैः स्पर्शितैरपि ॥
सर्वेषां लभ्यते पूर्णं फलं चेप्सितमत्र च ॥ २ ॥
॥ सूत उवाच ॥ ॥
सत्यमेतन्महाभागास्तत्र संख्या न विद्यते ॥
तीर्थानां चैव लिंगानामाश्र माणां तथैव च ॥ ३ ॥
तत्र यः कुरुते स्नानं शंखतीर्थे समाहितः ॥
एकादश्यां विशेषेण सर्वेषां लभते फलम् ॥ ४ ॥
यः पश्यति नरो भक्त्या तत्रैकादशरुद्रकम् ॥
सिद्धेश्वरसमं तेन दृष्टाः सर्वे महेश्वराः ॥ ५ ॥
यः पश्यति वटादित्यं षष्ठ्यां चैत्रे विशेषतः ॥
भास्कराकृत्स्नशो दृष्टास्तेन तत्रहि संस्थिताः ॥ ६ ॥
माहित्थां पश्यति तथा ये देवीं श्रद्धयाविताः ॥
तेन दुर्गाः समस्तास्ता वीक्षिता नात्र संशयः ॥ ७ ॥
यः पश्यति गणेशं च स्वर्गद्वारप्रदं नृणाम् ॥
सर्वे विनायकास्तेन दृष्टाः स्युर्नात्र संशयः ॥ ८ ॥
शर्मिष्ठास्थापितां गौरीं यो ज्येष्ठां तत्र पश्यति ॥
तेन गौर्यः समस्तास्ता वीक्षिता द्विजसत्तमाः ॥ ९ ॥
चक्रपाणिं च यः पश्येत्प्रातरुत्थाय मानवः ॥
वासुदेवा समस्ताश्च तेन तत्र निरीक्षिताः ॥ ६.१५२.१० ॥ ॥
॥ ऋषय ऊचुः ॥ ॥
त्वयासूत तथाऽस्माकं चक्रपाणिश्च यः स्थितः ॥
नाख्यातः स कथं तत्र विस्मृतः किं वदस्व नः ॥
कस्मिन्काले विशेषेण स द्रष्टव्यो मनीषिभिः ॥ ११ ॥
॥ सूत उवाच ॥ ॥
अर्जुनेनैष विप्रेन्द्राः क्षेत्रेऽत्रैव प्रतिष्ठितः ॥
शयने बोधने चैव प्रातरुत्थाय मानवः ॥ १२ ॥
स्नानं कृत्वा सुभक्त्या च यः पश्येच्चक्रपाणिनम् ॥
ब्रह्महत्यादिपापानि तस्य नश्यंति तत्क्षणात् ॥ १३ ॥
भूभारोत्तारणार्थाय धर्मसंस्थापनाय च ॥
ब्रह्मणावतारितौ विप्रा नरनारायणावुभौ ॥ १४ ॥
कृष्णार्जुनौ तदा मर्त्ये द्वापरांते द्विजोत्तमाः ॥
अवतीर्णो धरापृष्ठे मिथः स्नेहानुगौ तदा ॥
नरनारायणावेतौ स्वयमेव व्यवस्थितौ ॥ १५ ॥
यथा रक्षोविनाशाय रामो दशरथात्मजः ॥
अवतीर्णो धरापृष्ठे तद्वत्कृष्णोऽपि चापरः ॥ १६ ॥
यदा पार्थः समायातस्तीर्थयात्रां प्रति द्विजाः ॥
युधिष्ठिरसमादेशाच्छक्रप्रस्थात्पुरोत्तमात् ॥ १७
द्रौपद्या सहितं दृष्ट्वा रहसि भ्रातरं द्विजम् ॥
प्रोवाच प्रणतो भूत्वा विनयावनतोऽर्जुनः ॥ १९ ॥
॥ अर्जुन उवाच ॥ ॥
आयुधार्थमहं प्राप्तः सांप्रतं पार्थिवोत्तम ॥
द्विजधेनुविमोक्षाय ममाज्ञां देहि पार्थिव ॥ १९ ॥
॥ युधिष्ठिर उवाच ॥ ॥
गच्छार्जुन द्रुतं तत्र नीयन्ते यत्र तस्करैः ॥
धेनवो द्विजवर्यस्य ता मोक्षय धनंजय ॥ ६.१५२.२० ॥
तीर्थयात्रां ततो गच्छ यावद्द्वादशवत्सरान् ॥
ततः पापविनिर्मुक्तः समेष्यसि ममांतिकम्॥ २१ ॥
यः सदारं नरं पश्येदेकांतस्थं तु बुद्धिमान् ॥
अपि चात्यंतपापः स्यात्किं पुनर्निजबांधवम् ॥ २२ ॥
तस्मान्न वीक्षयेत्कञ्चिदेकांतस्थं सभार्यकम् ॥
बांधवं च विशेषेण य इच्छेच्छुभमात्मनः ॥ २३ ॥
स तथेति प्रतिज्ञाय रथमारुह्य सत्वरम् ॥
धनुरादाय बाणांश्च जगाम तदनन्तरम् ॥ २४ ॥
येन मार्गेण ता गावो नीयन्ते तस्करैर्बलात् ॥
तिरस्कृत्य द्विजान्सर्वाञ्छितशस्त्रधरैर्द्विजाः ॥ २५ ॥
अथ हत्वा क्षणाच्चौरान्गाः सर्वाः स्वयमाहृताः ॥
स्वाः स्वा निवेदयामास ब्राह्मणानां महात्मनाम् ॥ २६ ॥
ततस्तीर्थान्यनेकानि स दृष्ट्वायतनानि च ॥
क्षेत्रेऽत्रैव समायातः स्नानार्थं पांडुनन्दनः ॥ २७ ॥
तेन पूर्वमपि प्रायस्तत्क्षेत्रमवलोकितम् ॥
दुर्योधनसमायुक्तो यदा तत्र समागतः ॥ २८ ॥
अथ संपूजयामास यल्लिंगं स्थापितं पुरा ॥
अर्जुनेश्वर संज्ञं तु पुष्पधूपानुलेपनैः ॥ २९ ॥
अन्येषां कौरवेन्द्राणां पांडवानां विशेषतः ॥ ६.१५२.३० ॥
अथ संचिंतयामास मनसा पांडुनंदनः ॥
अहं नरः स्वयं साक्षात्कृष्णो नारायणः स्वयम्॥ ३१ ॥
तस्मादत्र करिष्यामि चक्रपाणिं सुरेश्वरम् ॥
प्रासादो मानवश्चैव यादृङ्नास्ति धरातले ॥ ३२ ॥
कल्पांतेऽपि न नाशः स्यादस्य क्षेत्रस्य कर्हिचित् ॥
प्रासादोऽपि तथाप्येवमत्र क्षेत्रे भविष्यति ३३ ॥
एवं स निश्चयं कृत्वा स्वचित्ते पांडवानुजः ॥
प्रासादं निर्ममे पश्चाद्वैष्णवं द्विजसत्तमाः ॥ ३४ ॥
ततो विप्रान्समाहूय चमत्कारपुरोद्भवान्॥
प्रतिष्ठां कारयामास मतं तेषां समाश्रितः ॥ ३५ ॥
दत्त्वा दानान्यनेकानि शासनानि बहूनि च ॥
अन्यच्च प्रददौ पश्चात्स तेषां तुष्टिदायकम् ॥ ३६ ॥
ततः प्रोवाच तान्सर्वान्कृतांजलिपुटः स्थितः॥
नरोऽहं ब्राह्मणाज्जातः पाण्डोर्भूमिं प्रपेदिवान् ॥३७ ॥
मानुषेणैव रूपेण त्यक्त्वा तां बदरीं शुभाम् ॥
प्रसिद्ध्यर्थं मया चात्र प्रासादोऽयं विनि र्मितः ॥
मन्नाम्ना नरसंज्ञश्च श्रद्धापूतेन चेतसा ॥ ३८ ॥
तस्मादेष भवद्भिश्च चक्रपाणिरिति द्विजाः ॥
कीर्तनीयः सदा येन मम नाम प्रकाश्य ताम्॥ ३९ ॥
विष्णुलोके ध्वनिर्याति यावच्चंद्रदिवाकरौ ॥ ६.१५२.४० ॥
तथा महोत्सवः कार्यः शयने बोधने हरेः ॥
चैत्रमासे विशेषेण संप्राप्ते विष्णुवासरे ॥ ४१ ॥
एतेषु त्रिषु लोकेषु त्यक्त्वेमां बदरीमहम् ॥
पूजामस्य करिष्यामि स्वयं विष्णोर्द्विजोत्तमाः ॥४२॥
यस्तत्र दिवसे मर्त्यः पूजामस्य विधा स्यति ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स यास्यति॥४३॥
तथा ये वासुदेवस्य क्षेत्रे केचिद्व्यवस्थिताः ॥
तेषां प्रदर्शनं श्रेयो नित्यं दृष्ट्वा च लप्स्यते ॥४४॥
सूत उवाच॥
बाढमित्येव तैरुक्तो दाशार्हः पांडुनंदनः॥
तेषां तद्भारमावेश्य प्रशांतेनांतरात्मना॥
ययौ तीर्थानि चान्यानि कृतकृत्यस्ततः परम्॥४५॥
एवं तत्र स्थितो देवश्चक्रपाणिवपुर्द्धरः॥
स्वयमेव हृषीकेशो जंतूनां पापनाशनः॥४६॥
अद्याऽपि च कला विष्णोः प्राप्ते चैकादशीत्रये ॥
पूर्वोक्तेन विधानेन तस्माच्छ्रद्धासमन्वितैः ॥
सदैव पूजनीयश्च वन्दनीयो विशेषतः ॥ ४७ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चक्रपाणिमाहात्म्यवर्णनंनाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५२ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 153
॥ सूत उवाच ॥ ॥
तथान्यदपि तत्रास्ति रूपतीर्थमनुत्तमम् ॥
यत्र स्नातो नरः सम्यग्विरूपो रूपवान्भवेत् ॥ १ ॥
पूर्वं भगवता तेन ब्रह्मणा लोक कर्तृणा ॥
सृष्टिं कृत्वा च विस्तीर्णां यथोक्तं च चतुर्विधाम्॥२॥
ततः स चिन्तयामास रूपसंचयसंयुताम् ।]
एकामप्सरसं दिव्यां देवमायां सृजाम्यहम् ॥ । ॥३॥
ततश्च सर्वदेवानां समादाय तिलंतिलम्॥
रूपं च निर्ममे पश्चादत्याश्चर्यमयीं च ताम् ॥४॥
यां दृष्ट्वा क्षोभमापन्नः स्वयमेव पितामहः ॥५॥
ततस्तां प्रेषयामास कैलासं प्रति पद्मजः ॥
गच्छ देवि महादेवं प्रणमस्व शुचिस्मिते ॥ ६ ॥
ततः सा सत्वरं गत्वा कैलासं पर्वतोत्तमम् ॥
अपश्यच्छंकरं तत्र निर्विष्टं पार्वतीसमम् ॥ ७ ॥
शंकरोऽपि च तां दृष्ट्वा विस्मयं परमं गतः ॥
सुदृष्टां नाकरोद्भीत्या पार्श्वस्थां वीक्ष्य पार्वतीम्॥ ॥
ततः प्रदक्षिणां चक्रे सा प्रणम्य महेश्वरम् ।
श्रद्धया परया युक्ता कृतांजलिपुटा स्थिता ॥९॥
यावद्दक्षिणपार्श्वस्था तावद्वक्त्रं स दक्षिणम्॥
प्रचकार महादेवस्तदुपाकृष्टलोचनः ॥ ६.१५३.१० ॥
पश्चिमायां यदा साऽभूत्प्रदक्षिणवशाच्छुभा ॥
पश्चिमं वदनं तेन तदर्थं च कृतं ततः ॥११॥
एवमुत्तरसंस्थायां तस्यां देवेन शंभुना ॥
उत्तरं वदनं क्लृप्तं गौरीभीतेन चेतसा ॥
न ग्रीवां चालयामास कथंचिदपि स द्विजाः ॥१२॥
एतस्मिन्नंतरे तत्र नारदो मुनिपुंगवः॥
अब्रवीत्पार्वतीं पश्चात्प्रणिपत्य महेश्वरम् ॥ १३ ॥
॥ नारद उवाच ॥ ॥
पश्य पार्वति ते पत्युश्चेष्टितं गर्हितं यथा ॥
दृष्ट्वा रूपवतीं नारीं कृतं। मुखचतुष्टयम् ॥ १४ ॥
अहमेतद्विजानामि न त्वया सदृशी क्वचित् ॥
अस्ति नारी तथाऽन्योपि विजानाति सुरेश्वरि ॥ १९ ॥
हास्यस्य पदवीमद्य त्वं गमिष्यसि पार्वति ॥
सर्वासां देवपत्नीनां ज्ञात्वान्यासक्तमीश्वरम् ॥ १६ ॥
एतद्देवि विजानासि यादृक्चित्तं शिवोद्भवम् ॥
अस्या उपरि वेश्याया निंदिताया विचक्षणैः ॥ १७ ॥
समादाय निजे हर्म्य एतां संस्थापयिष्यति ॥
परं लज्जासमोपेतो न ब्रवीति वचः शुभे ॥ १८ । ॥
॥ सूत उवाच ॥ ॥
नारदस्य वचः श्रुत्वा दृष्ट्वा कांतं चतुर्मुखम् ॥
क्रोधेन महताविष्टा विकृतं वीक्ष्य तं हरम् ॥ १९ ॥
ततो निरोधया मास द्रुतं सा पर्वतात्मजा ॥
सर्वनेत्राणि देवस्य महिषीधर्ममाश्रिता ॥ ६.१५३.२० ॥
एतस्मिन्नंतरे शैला विशीर्यंति समंततः ॥
मर्यादां संत्यजंति स्म सर्वे च मकरालयाः ॥ २१ ॥
प्रलयस्य समुत्थानं संजातं द्विजसत्तमाः ॥
तावद्ब्रह्मदिनं प्राप्तं परमं सृष्टिलक्षणम् ॥ २२ ॥
निमेषेण पुनस्तस्य प्रलयस्य प्रजापतेः ॥
ब्रह्मणः सा निशा प्रोक्ता सर्वं तोयमयं भवेत् ॥ २३ ॥
अथ तत्र गणाः सर्वे भृगिनंदिपुरःसराः ॥
सोऽपि देवमुनिर्भीतस्तामुवाच सुरेश्वरीम् ॥ २४ ॥
मुंचमुंच सुरज्येष्ठे देवनेत्राणि संप्रति ॥
नोचेन्नाशः समस्तस्य लोकस्यास्य भविष्यति ॥ २५ ॥
एवं प्रोक्ताऽपि सा देवी यावच्च न मुमोच तम् ॥
तावद्देवेन लालाटं विसृष्टं लोचनं परम्॥ २६ ॥
कृपाविष्टेन लोकानां येन रक्षा प्रजायते ॥
न शक्तो वारितुं देवीं प्राणेभ्योऽपि गरीयसीम् ॥ २७ ॥
अंबिकां विबुधाः प्राहुस्त्र्यंबकाणि यतो द्विजाः ॥
तस्मात्संकीर्त्यते लोके त्र्यंबकश्च सुरेश्वरः ॥ २८ ॥
ततः संत्यज्य तं देवं देवी पर्वतपुत्रिका ॥
प्रोवाच कोपरक्ताक्षी पुरःस्थां तां तिलोत्तमाम् ॥ २९ ॥
यस्मान्मे दयितः पापे त्वया रूपाद्विडंबितः ॥
चतुर्वक्त्रः कृतस्तस्मात्त्वं विरूपा भव द्रुतम् ॥ ६.१५३.३० ॥
ततः सा सहसा भूत्वा तत्क्षणाद्भग्ननासिका ॥
शीर्णकेशा बृहद्दंता चिपिटाक्षी महोदरा ॥ ३१ ॥
अथ वीक्ष्य निजं देहं तथाभूतं वराप्सराः ॥
प्रोवाच वेपमाना सा कृतांजलिपुटा स्थिता ॥ ३२ ॥
अहं संप्रेषिता देवि प्रणामार्थं त्रिशूलिनः ॥
ब्रह्मणा तेन चायाता युष्माकं च विशेषतः ॥ ३३ ॥
निर्दोषाया विरागायास्तस्माद्युक्तं न ते भवेत् ॥
शापं दातुं प्रसादं मे तस्मात्त्वं कर्तुमर्हसि ॥ ३४ ॥
तस्यास्तद्वचनं श्रुत्वा दीनं सत्यं च पार्वती ॥
पश्चात्तापसमोपेता ततः प्रोवाच सुप्रियम् ॥ ३५ ॥
स्त्रीस्वभावात्समायातः कोपोऽयं त्वां प्रति द्रुतम् ॥
तस्मादागच्छ गच्छावो मया सार्धं धरातले ॥ ३६ ॥
तत्रास्ति रूपदं तीर्थं मया चोत्पादितं स्वयम् ॥
माघशुक्लतृतीयायां स्नानार्थं विमलोदकम् ॥ ३७ ॥
या नारी प्रातरुत्थाय तत्र स्नानं समाचरेत् ॥
सा स्याद्रूपवती नूनमदृष्टे रविमंडले ॥ ३८ ॥
सदा माघे तृतीयायां तत्र स्नानं करोम्यहम् ॥
अद्य सा तत्र यास्यामि स्नानाय कृतनिश्चया ॥ ३९ ॥ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा समादाय सा देवी तां तिलोत्तमाम् ॥
हाटकेश्वरजे क्षेत्रे रूपतीर्थं जगाम च ॥ ६.१५३.४० ॥
तत्र स्नानं स्वयं चक्रे विधिपूर्वं सुरेश्वरी ॥
तस्या ह्यनन्तरं सापि भक्तियुक्ता तिलोत्तमा ॥ ४१ ॥
ततः कांतिमती जाता तत्क्षणादेव भामिनी ॥
पूर्वमासीयद्थारूपा तथासाऽभूद्विशेषतः ॥ ४२ ॥
अथ तुष्टिसमायुक्ता तां प्रणम्य सुरेश्वरीम् ॥
प्रोवाच विस्मयाविष्टा हर्षगद्गदया गिरा॥ ४३ ॥
प्राप्तं रूपं महादेवि त्वत्प्रसादाच्चिरन्तनम्॥
ब्रह्मलोकं गमिष्यामि मामनुज्ञातुमर्हसि ॥ ४४ ॥
॥ गौर्युवाच ॥ ॥
वरं यच्छामि ते पुत्रि यत्किंचिद्धृदि संस्थितम्॥
तस्मात्प्रार्थय विश्रब्धा न वृथा मम दर्शनम् ॥ ४५ ॥
॥ तिलोत्तमोवाच ॥ ॥
अहमत्र करिष्यामि क्षेत्रे तीर्थं निजं शुभे ॥
त्वत्प्रसादेन तद्देवि यातु ख्यातिं धरातले ॥ ४६ ॥
त्वया तत्रापि कर्तव्यं वर्षांते स्नानमेव हि ॥
हितार्थं सर्वनारीणां रूपसौभाग्यदायकम् ॥ ४७ ॥ ॥
॥ गौर्युवाच ॥ ॥
चैत्रशुक्लतृतीयायां सदाहं त्वत्कृते शुभे ॥
स्नानं तत्र करिष्यामि मध्याह्ने समुपस्थिते ॥ ४८ ॥
हितार्थं सर्वनारीणां तव वाक्यादसंशयम् ॥
या तत्र दिवसे नारी तस्मिंस्तीर्थे करिष्यति ॥ ४९ ॥
स्नानं सा सौख्यसंयुक्ता भविष्यति सुखान्विता ॥
स्पृहणीया च नारीणां सर्वासां धरणीतले ॥ ६.१५३.५० ॥
पुरुषोऽपि सुभक्त्या यस्तत्र स्नानं करिष्यति ॥
सप्तजन्मानि रूपाढ्यः ससौभाग्यो भविष्यति ॥ ५१ ॥
सूत उवाच ॥ ॥
एवमुक्ता तदा देव्या साप्सरा द्विजसत्तमाः ॥
चक्रे कुण्डं सुविस्तीर्णं विमलोदप्रपूरितम्॥ ५२ ॥
उपकंठे ततस्तस्य स्थापयामास पार्वतीम् ॥
ततो जगाम संहृष्टा ब्रह्मलोकं तिलोत्तमा ॥ ५३ ॥
ततः प्रभृति संजातं कुण्डमप्सरसा कृतम् ॥
स्नानमात्रैर्नरैर्यत्र सौभाग्यं लभ्यते द्विजाः ॥ ५४ ॥
नारीभिश्च विशेषेण पुत्रप्राप्तिरनुत्तमा ॥
तथान्यदपि यत्किंचिद्वांछितं हृदये स्थितम् ॥ ५५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्येऽप्सरःकुण्डोत्पत्तिमाहात्म्यवर्णनंनाम त्रिपंचाशदुत्तरशततमोऽध्यायः ॥ १५३ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 154
॥ सूत उवाच ॥ ॥
या नारी तत्र सत्कुण्डे स्नात्वा तां पार्वतीं पुनः ॥
दृष्ट्वा स्नाति ततस्तीर्थे तस्मिन्रूपमये शुभे ॥१॥
पुनश्च पार्वतीं पश्येच्छ्रद्धया परया युता ॥
सद्यः सा मुच्यते कृत्स्नैराजन्ममरणांतिकैः ॥ २ ॥
तत्रैवास्ति जयानाम पार्वत्याः किंकरी द्विजाः ॥
तया तत्र कृतं कुण्डं गौरीकुण्डसमीपतः ॥ ३ ॥
या तत्र कुरुते स्नानं तृतीयादिवसेऽबला ॥
सुतसौभाग्यसंपन्ना सा भवेत्पतिवल्लभा ॥ ४ ॥
तथान्यदपि तत्रास्ति विजयाकुण्डमुत्तमम् ॥
तत्र स्नाताऽपि वंध्या स्त्री जायते पुत्रसंयुता ॥ ५ ॥
न च पश्यति पुत्राणां कदाचिद्व्यसनं द्विजाः ॥
न वियोगं न दुःखं च स्वप्नांते च कदाचन ॥६॥
काकवंध्याऽपि या नारी तत्र स्नानं समाचरेत्॥
सा पुत्रान्विविधाँल्लब्ध्वा स्वर्गलोके महीयते ॥७॥ ॥
॥ ऋषय ऊचुः ॥ ॥
एतेषां सूत तीर्थानां तीर्थमस्ति सुसिद्धिदम्॥
क्वचित्किंञ्चिद्भवेत्सिद्धिर्यत्र स्नानाच्छरीरजा ॥ ८॥
॥ सूत उवाच ॥ ॥
सप्तविंशतिलिंगानि यानि संति द्विजोत्तमाः ॥
तेषां मध्येऽभवत्सिद्धिरेकस्मिन्निखिला द्विजाः ॥९॥
एकस्य सत्त्वयुक्तस्य वीरव्रतयुतस्य च ॥
आश्विनस्य चतुर्दश्यां कृष्णायां द्विजसत्तमाः॥६.१५४.१०॥
अर्धरात्रे विधानेन तेषां पूजां करोति यः ॥
प्रागुक्तं जपनं भक्त्या स क्रमात्साधकोत्तमः॥११॥
अंगन्यासं विधायोच्चैः क्षुरिकासूक्तमुच्चरत् ॥
तेषामग्रे पुनः सम्यक्पूजयित्वा च शंकरम् ॥ १२ ॥
पृथगेकैकशो भक्त्या पूजयेद्दिक्पतींश्च वै ॥ १३ ॥
अथाऽऽगत्य गणेशो वै विकरालो भयानकः ॥
लंबोदरो वै नग्नश्च कृष्णदन्तसमुद्भवः ॥ १४ ॥
खड्गहस्तोऽब्रवीद्युद्धं प्रकुरुष्व मया समम् ॥
मुक्त्वैतत्कपटं भूमौ यदि वीरोऽसि सात्त्विकः ॥ १५ ॥
ततस्तत्कर्षणाच्चापि यस्तेनाशु प्रताड्यते ॥
स तेनैव शरीरेण नीयते तेन तत्पदम् ॥ १६ ॥
यत्र स्थाने जरामृत्युर्न शोकश्च कदाचन ॥
तथा चित्रेश्वरीपीठे सिद्धिरेकस्य कीर्तिता ॥ १७ ॥
माघकृष्णचतुर्दश्यां यः पीठं तत्र पूजयेत् ॥
आगमोक्तविधानेन सम्यक्छ्रद्धासमन्वितः ॥ १९ ॥
पश्चात्कपालमादाय महामांसप्रपूरितम् ॥
अहमस्य करोम्यद्य महामांसस्य विक्रयम् ॥ १९ ॥
सिद्धिमूल्ये न गृह्णातु कश्चिच्चेदस्ति सात्त्विकः ॥
ततश्च याचते यश्च प्रगृह्णाति च सद्द्विजाः ॥ ६.१५४.२० ॥
स तमादाय निर्याति यत्र देवो महेश्वरः ॥
हाटकेश्वरजं लिंगं चित्रशर्मप्रतिष्ठितम् ॥ २१ ॥
तस्य स्थानस्य मध्यस्थो यस्तं पूजयते नरः ॥
शिवरात्रौ निशीथे च पुष्पलक्षणभक्तितः ॥
सुसिद्धिमाप्नुयात्तूर्णं स शरीरेण तत्क्षणात् ॥ २२ ॥
सिद्धिस्थानानि सर्वाणि तस्मिन्क्षेत्रे स्थितानि वै॥
वीरव्रतप्रयुक्तानां मानवानां द्विजोत्तमाः ॥ २३ ॥ ॥
॥ ऋषय ऊचुः ॥ ॥
तामसो यस्त्वया प्रोक्तः सिद्धिमार्गो महामते ॥
अनर्हो ब्राह्मणेन्द्राणां श्रोत्रियाणां विशेषतः ॥ २४ ॥
शुद्धान्तः करणैः सूत भूतहिंसाविवर्जितैः ॥
यथा संप्राप्यते मोक्षो ब्राह्मणैः सुचिरादपि ॥ २५ ॥
तत्त्वं ब्रूहि महाभाग मोक्षोपायं द्विजन्मनाम् ॥ २६ ॥ ॥
॥ सूत उवाच ॥ ॥
रुद्रैर्दशभिः संयुक्तमानंदेश्वरकं तथा ॥
स्नात्वा तदग्रतः कुण्डे शास्त्रदृष्टेन कर्मणा ॥ २७ ॥
संसिद्धिमाप्नुयान्मर्त्यो दुर्लभां त्रिदशैरपि ॥
माघमासे नरः स्नात्वा विश्वामित्रह्रदे नरः ॥ २८ ॥
प्रत्यूषे तिलपात्रं च ब्राह्मणाय निवेदयेत् ॥
सर्वपापविनिर्मुक्तो ब्रह्म लोके महीयते ॥ २९ ॥
यद्यपि स्याद्दुराचारः सर्वाशी सर्वविक्रयी ॥
सुपर्णाख्यस्य देवस्य पुरतः श्रद्धयाऽन्वितः ॥ ६.१५४.३० ॥
प्रायोपवेशनं कृत्वा ह्युपवासपरो नरः ॥
यस्त्यजेन्मानवः प्राणान्न स भूयोऽभिजायते ॥ ३१ ॥
एवं सिद्धित्रयं प्रोक्तं ब्राह्मणानां हितावहम् ॥
सात्त्विकं ब्राह्मणश्रेष्ठाः शंसितं त्रिदशैरपि ॥ ३२ ॥
अन्यानि तत्र तीर्थानि देवतायतनानि च ॥
तानि स्वर्गप्रदान्याहुर्मुनयः शंसितव्रताः ॥ ३३ ॥
एतद्वः सर्वमाख्यातं क्षेत्रमाहात्म्यमुत्तमम् ॥
हाटकेश्वरदेवस्य सर्वपातकनाशनम् ॥ ३४ ॥
योऽत्र सर्वेषु तीर्थेषु स्नात्वा पश्यति भक्तितः ॥
सर्वाण्यायतनान्येव स पापोऽपि विमुच्यते ॥ ३५ ॥
एतत्खंडं पुराणस्य प्रथमं परिकीर्तितम् ॥
कार्तिकेयप्रणीतस्य सर्वपापहरं शुभम् ॥ ३६ ॥
यश्चैतत्कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः ॥
इह भुक्त्वा सुविपुलान्भोगान्याति त्रिविष्टपम् ॥ ३७ ॥
सर्वतीर्थेषु यत्पुण्यं सर्वदानैश्च यत्फलम् ॥
तत्फलं समवाप्नोति शृण्वञ्छ्रद्धासमन्वितः ॥ ३८ ॥
श्रुत्वा पुराणमेतद्धि जन्मकोटिसमुद्भवात् ॥
पातकाद्विप्रमुच्येत कुलानामुद्धरेच्छतम् ॥ ३९ ॥
ततो व्यासः पूजनीयो वस्त्रदानादिभूषणैः ॥
गोभूहिरण्यनिर्वापैर्दानैश्च विविधैरपि ॥६.१५४.४०॥
तेन संपूजितो व्यासः कृष्णद्वैपायनः मनुः ॥
साक्षात्सत्यवतीपुत्रो येन व्यासः सुपूजितः॥४१॥
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत्॥
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा ह्यनृणी भवेत् ॥४२॥
एतत्पवित्रमायुष्यं धन्यं स्व स्त्ययनं महत्॥
यच्छ्रुत्वा सर्वदुःखेभ्यो मुच्यते नात्र संशयः॥४३।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये चित्रेश्वरीपीठक्षेत्रमाहात्म्यवर्णनंनाम चतुःपंचाशदुत्तरशततमोऽध्यायः॥१५४॥
खण्डः ६ (नागरखण्डः) — Adhyāya 155
॥ सूत उवाच ॥ ॥
तथाऽन्ये तत्र तिष्ठंति वसवोऽष्टौ द्विजोत्तमाः॥
स्थानमेकं समाश्रित्य सर्वदैव प्रपूजिताः॥१॥
एकादश तथा रुद्रा आदित्या द्वादशैव तु ॥
देववैद्यौ तथा चान्यावश्विनौ तत्र संस्थितौ ॥२॥
देवतास्तत्र तिष्ठंति कोटिकोटिप्रनायकाः॥
एकैका ब्राह्मणश्रेष्ठाः कलिकालभयाकुलाः॥३॥
हाटकेश्वरजे क्षेत्रे यज्ञभागाप्तये सदा ॥
अष्टम्यां शुक्लपक्षे तु मधुमासे व्यवस्थिते ॥ ४ ॥
यस्तान्वसूञ्छुचिर्भूत्वा स्नात्वा धौतांबरो नरः ॥
तर्पयित्वा द्विजश्रेष्ठान्पश्चात्संपूजयेन्नरः ॥ ५ ॥
वसवस्त्वा कृण्वन्निति मन्त्रेणानेन भक्तितः ॥
नैवेद्यं च ततो दद्याद्वसवश्छंदसाविति ॥ ६ ॥
ततो धूपं सुगन्धं च यो यच्छति समाहितः ॥
वसवस्त्वां जेतु तथा मन्त्रमेतमुदीरयेत् ॥ ७ ॥
आरार्तिकं ततो भूयो यः करोति द्विजोत्तमाः ॥
वसवस्त्वां जेतु तथा श्रूयतां यत्फलं हि तत् ॥ ८ ॥
कन्याभिः कोटिभिर्यच्च पूजिताभिर्भवेत्फलम्॥
वसूनां चैव तत्सर्वमष्टभिस्तैः प्रपूजितैः ॥ ९॥
तथा ये द्वादशादित्यास्तस्मिन्क्षेत्रे व्यवस्थिताः ॥
तान्स्थाप्य पूजयित्वा च सप्तम्यामर्कवासरे ॥
सम्यक्छ्रद्धासमोपेतः पुष्पगन्धानुलेपनैः ॥ ६.१५५.१० ॥
पश्चात्तत्पुरतस्तेषां समस्तान्येकविंशतिः ॥
आदित्यव्रत संज्ञानि तस्य पुण्यफलं शृणु ॥११॥
कोटिद्वादशकं यस्तु सूर्याणां पूजयेन्नरः ॥
तत्फलं प्राप्नुयात्कृत्स्नं पूजयन्नात्र संशयः ॥ १२ ॥
तथैकादशरुद्रा ये तत्र क्षेत्रे द्विजोत्तमाः ॥
एकस्थाने स्थितास्तेषां पूजया श्रूयतां फलम् ॥ १३ ॥
यस्तान्पूजयते भक्त्या स्थापयित्वा सुरेश्वरान्॥
चैत्रशुक्लचतुर्दश्यां जपेच्च शतरुद्रियम् ॥ १४ ॥
एकादशप्रमाणेन कोटयस्तेन पूजिताः ॥
भवंति नात्र संदेहः सत्यमेतन्मयोदितम् ॥ १५ ॥
यथा तावश्विनौ तत्र देववैद्यौ व्यवस्थितौ ॥
आश्विने मासि चाश्विन्यां पूर्णिमायां तथा तिथौ ॥ १६ ॥
यस्तौ संपूजयित्वा तु ह्यश्विनीसूक्तमुच्चरेत् ।
द्विकोटि गुणितं पुण्यं सम्यक्तेन समाप्यते । १७ ।
एतद्वः सर्वमाख्यातं माहात्म्यं वसुसंभवम् ॥
आदित्यानां च रुद्राणामश्विनोर्द्विजसत्तमाः ॥ १९८ ॥ ॥
॥ सूत उवाच ॥ ॥
तथाऽन्योऽपि च तत्रास्ति याज्ञवल्क्यप्रतिष्ठितः ॥
पुष्पादित्य इति ख्यातः सर्वकामप्रदो नृणाम् ॥ १९ ॥
यो यं काममभिध्याय तं पूजयति मानवः ॥
स तं कृत्स्नमवाप्नोति यद्यपि स्यात्सुदुर्लभम्॥६.१५५.२०॥।
अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात् ॥
बहुवैरोऽरिनाशं च विद्यार्थी शास्त्रविद्भवेत्॥ २१ ॥
सप्तम्यामर्कवारेण यस्तं पश्यति मानवः ॥
मुच्येद्दिनोद्भवात्पापान्महतोऽपिद्विजोत्तमाः ॥ २२ ॥
पूजया हि प्रणश्येत पापं वर्षसमुद्भवम्॥
नाशं याति न संदेहस्तमः सूर्योदये यथा ॥ २३ ॥
अष्टोत्तरशतं चैव यः करोति प्रदक्षिणाम् ॥
फलहस्तः स मुच्येत ह्याजन्ममरणादघात् ॥ २४ ॥
प्रदक्षिणां प्रकुवाणो यो यं काममभीप्सति ॥
स तमाप्नोत्यसंदिग्धं निष्कामो मोक्षमाप्नुयात् ॥ २५ ॥
संक्रांतौ सूर्यवारेण यः कुर्यात्स्नापनक्रियाम्॥
अभीष्टं सिध्यते तस्य मेषे वा यदि वा तुले ॥ २६ ॥
तस्मिन्सर्वप्रयत्नेन वांछद्भिरीप्सितं फलम् ॥
स देवो वीक्षणीयश्च पूजनीयो विशेषतः ॥ २७ ॥
यद्देवैः सकलैर्दृष्टैश्चमत्कारपुरोद्भवैः ॥
फलमाप्नोति तद्दृष्टौ तेन तत्फलमाप्नुयात् ॥ २८ ॥
। ऋषय ऊचुः ॥ ॥
याज्ञवल्क्येन देवोऽसौ यदि तावत्प्रतिष्ठितः ॥
पुष्पादित्यः कथं प्रोक्त एतन्नो वक्तुमर्हसि ॥ २९ ॥
॥ सूत उवाच ॥ ॥
अत्र वः कीर्तयिष्यामि चेतिहासं पुरातनम् ॥
पुष्पादित्यो यथा जातो याज्ञवल्क्यप्रतिष्ठितः॥६.१५५.३॥।
अस्त्यत्र मेदिनीपृष्ठे सुपुरं वैदिशं महत् ॥
नानासौध समाकीर्णं वरप्राकारशोभितम्॥ ३१ ॥
उद्यानशतसंकीर्णं तडागैरुपशोभितम् ॥
तत्रासीत्पार्थिवश्रेष्ठश्चित्रवर्मेति विश्रुतः ॥ ३२ ॥
न दुर्भिक्षं न च व्याधिर्न च चौरकृतं भयम् ॥
तस्मिञ्छासति धर्मज्ञे सततं धर्मवत्सले ॥ ३३ ॥
तत्पुरे क्षत्रियो जात्या मणिभद्र इति स्मृतः ॥
स वै धनेन संयुक्तः पितृपैतामहेन च ॥ ३४ ॥
तत्पुरं सकलं चैव स राजा मंत्रिभिः सह ॥
कुसीदाहृतवित्तेन वर्तते कार्य उत्थिते ॥ ३५ ॥
स च कायेन कुब्जः स्याज्जराव्याप्तस्तथैव च ॥
वलीपलितगात्रश्च ह्यत्यंतं च विरूपधृक् ॥३६॥
तथा चैव कुकीनाशः प्रभूतेऽपि धने सति ॥
न ददाति स पापात्मा कस्यचित्किञ्चिदेव हि ॥
न भक्षयति तृष्णार्तः स्वयमेव कथंचन ॥ ३७ ॥
एवंविधोऽपि सोऽतीवविरूपोऽपि सुदुर्मतिः ॥
प्रार्थयामास वै कन्यां स्वजात्यां वीक्ष्य सुंदरीम्॥ ३८ ॥
बिंबोष्ठीं चारुदेहां च मुष्टिग्राह्यकृशोदरीम्॥
पद्मपत्रविशालाक्षीं गूढगुल्फां सुकेशिकाम् ॥ ३९ ॥
रक्तां सप्तसु गात्रेषु त्रिगंभीरां तथा पुनः ॥
सर्वलक्षणसंपूर्णां जातीयां सुमनोरमाम् ॥ ६.१५५.४० ॥
क्षत्रियाद्द्विजशार्दूला दरिद्रेण च पीडितात् ॥
तेन तत्सकलं वृत्तं भार्यायै संनिवेदितम् ॥ ४१ ॥
तच्छ्रुत्वा सा च दुःखेन मूर्च्छिता संबभूव ह ॥
संबोधिता ततस्तेन वाक्यैर्दृष्टांतसंभवैः ॥ ४२ ॥
॥ क्षत्रिय उवाच ॥ ॥
न सा विद्या न तच्छिल्पं न तत्कार्यं न सा कला ॥
अर्थार्थिभिर्न तज्ज्ञानं धनिनां यन्न दीयते ॥ ४३ ॥
इह लोके च धनिनां परोऽपि स्वजनायते ॥
स्वजनोऽपि दरिद्राणां कार्यार्थे दुर्जनायते ॥ ४४ ॥
अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस्ततस्ततः ॥
प्रवर्तंते क्रियाः सर्वाः पर्वतेभ्यो यथापगाः ॥ ४५ ॥
पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते ॥
वंद्यते यदवन्द्योऽपि ह्यनुबंधो धनस्य सः ॥ ४६ ॥
अशनादिंद्रिया णीव स्युः कार्याण्यखिलानिह ॥
सर्वस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥ ४७ ॥
अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते ॥
जनितारमपि त्यक्त्वा निःस्वः संयाति दूरतः ॥ ४८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्पादि त्यमाहालये मणिभद्रवृत्तांते मणिभद्राय कन्याप्रदानार्थं क्षत्रियकृतनिजभार्यासंबोधनवर्णनंनाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ॥१५५॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 156
॥ सूत उवाच ॥ ॥
एवं सम्बोधिता तेन सा भार्या विजने गता ॥
कन्याप्रदानस्य रुचिः संजाता तदनन्तरम् ॥ १ ॥
ततः स पादौ प्रक्षाल्य मणिभद्रस्य सत्वरम्॥
उदकं साक्षतं हस्ते कन्यादानकृते ददौ ॥ २ ॥
सोऽपि हस्तकृते तोये तं क्षत्रियमुवाच ह ॥
अद्यैव कुरु मे शीघ्रं विवाहं कन्यया सह ॥ ३ ॥
यस्मादिच्छामि संस्थातुं तेन ते गृहमागतः ॥
॥ क्षत्रिय उवाच ॥ ॥
नात्र नक्षत्रमर्हं तु न किंचिद्भगदैवतम् ॥ ॥ ४ ॥
विवाहस्य न वारस्तु प्रसुप्ते मधुसूदने ॥
अस्मिन्काले तु संप्राप्ते या कन्या परिणीयते ॥५॥
सा च संवत्सरान्मध्ये ध्रुवं वैधव्यमाप्नुयात्॥
एवं दैवज्ञमुख्यानां श्रुतं प्रवदतां मया ॥ ६ ॥
तस्माच्छुभे तु संप्राप्ते नक्षत्रे भगदैवते ॥
त्वं विवाहय मे कन्यां प्रोत्थिते मधुसूदने ॥
येन क्षेमंकरी ते स्यात्तथा पुत्रप्रपौत्रिणी ॥ ७ ॥
॥ मणिभद्र उवाच ॥ ॥
नक्षत्रं वह्निदैवत्यं प्रसुप्तो मधुसूदनः ॥ ८ ॥
सांप्रतं वत्सरांतोऽयं विवाहे विहिते सति ॥
कामाग्निरुत्थितः काये सांप्रतं मां प्रबाधते ॥ ९ ॥
तस्मात्कुरु प्रसादं मे कन्याविवहितेन तु ॥
तव वित्तं प्रदास्यामि सुखी येन भविष्यसि ॥ ६.१५६.१० ॥
॥ सूत उवाच ॥ ॥
तस्माच्च वित्तलोभेन क्षत्रियो द्विजसत्तमाः ॥
विवाहं कारयामास तत्क्षणादेव स द्विजाः ॥ ११ ॥
ददौ कन्यां सुदुःखार्तामश्रुपूर्णेक्षणां स्थिताम् ॥
सन्निधौ वह्निविप्राणां तदा तेन विवाहिता ॥ १२ ॥
नीत्वा निजगृहं पश्चात्कामधर्मे नियोजिता ॥
अनिच्छंतीमपि सतीं तामतीव निरर्गलः ॥ १३ ॥
सोऽपि निष्कामतां प्राप्य निर्भर्त्स्य च मुहुर्मुहुः ॥
भाषिकाभिरनेकाभिस्तापयित्वा च भामिनीम्॥ १४ ॥
शांतिं नीता ततस्तेन प्रत्यूषे समुपस्थिते ॥
भृत्यवर्गः समस्तोऽपि ततो निःसारितो गृहात् ॥ १५ ॥
इर्ष्याधर्मं समास्थाय परमं द्विजसत्तमाः ॥
एक एव कृतस्तेन द्वारपालो नपुंसकः ॥ १६ ॥
प्रोक्तं न च त्वया देयः प्रवेशोऽत्र गृहे मम ॥
भृत्यस्य भिक्षुकस्यैव वृद्धस्य व्रतिनस्तथा ॥१७॥
एवं कृत्वा विधानं तु ततश्चक्रे जनैः समम् ॥
व्यवहारक्रियाः सर्वा द्रव्यलक्षैः सहस्रशः॥ १८ ॥
श्वशुरस्यापि नो दत्तं किंचित्तेन दुरात्मना ॥
भार्यायाः श्वेतवस्त्राणि मुक्त्वाऽन्यन्नैव किंचन ॥ १९ ॥
यामद्वयेऽपि संप्राप्ते दिनस्य गृहमागतः ॥
मितमन्नं तत स्तस्या भोजनार्थं प्रयच्छति ॥ ६.१५६.२० ॥
यावन्मात्रं च सा भुंक्त एकविप्रान्वितः स्वयम् ॥
भुक्त्वा चैव ततो याति व्यवहारकृते बहिः ॥ २१ ॥ ८।
आगच्छति पुनर्हर्म्यं संध्याकाल उपस्थिते ॥
साऽपि तिष्ठति हर्म्यस्था पत्नी तस्य दुरात्मनः ॥ २२ ॥
वैराग्यं परमं प्राप्ता दुःखशोकसमन्विता ॥ ।
मत्सीव पतिता तोयादन्यस्मिंस्तु स्थलांतिके ॥ २३ ॥
चक्रवाकी विमुक्तेव संप्राप्ते दिवसक्षये ॥
हंसी हंसवियुक्तेव मृगीव मृगवर्जिता ॥ २४ ॥ ।
सोऽपि नित्यं ददौ भोज्यं विप्रस्यैकस्य च द्विजाः ॥
प्रोच्य तं ब्राह्मणं पूर्वं सामपूर्वमिदं वचः ॥ २५ ॥
अधोवक्त्रेण भोक्तव्यं सदा विप्र गृहे मम ॥ ।
यदि पश्यसि मे भार्यां संप्राप्स्यसि विडंबनाम् ॥२६॥
एवं विडंबितास्तेन ह्यूर्ध्ववक्त्रावलोकिनः ॥
ये चान्ये भयसंत्रस्ता न यांति च तदालयम् ॥ । ॥ २७ ॥
कस्यचित्त्वथ कालस्य पुष्पोनाम द्विजोत्तमः ॥
तीर्थयात्राप्रसंगेन संप्राप्तस्तत्पुरं प्रति ॥२८॥
पूर्वे वयसि संस्थश्च दर्शनीयतमाकृतिः ॥ ॥
क्षुत्क्षामः सुपरिश्रांतो मध्याह्ने समुपस्थिते ॥ २९ ॥
परिभ्रमति वै नृणां स गृहाणि समंततः ॥
मणिभद्रः समादिष्टस्तस्य केनापि भोज्यदः ॥६.१५६.३॥। ॥
ततस्तं प्रार्थयामास गत्वा भोज्यं च स द्विजाः ॥
तेनापि स द्विजः प्रोक्तस्तदासौ द्विजसत्तमाः ॥ ३१ ॥
अधोवक्त्रेण भोक्तव्यं त्वया वीक्ष्या न मे प्रिया ॥
नो चेद्विडंबनां विप्र संप्राप्स्यसि न संशयः ॥ ३२ ॥
एवं ज्ञात्वा महाभाग यत्क्षेमं तत्समाचर ॥ ३३ ॥
॥ पुष्प उवाच ॥ ॥
क्षुत्क्षामस्य न मे कार्यं परदारविलोकनैः ॥
वेदाध्ययनयुक्तस्य तीर्थयात्रारतस्य च ॥ ३४ ॥
॥ मणिभद्र उवाच ॥ ॥
तदागच्छ मया सार्धं सांप्रतं मम मंदिरम् ॥
विशेषात्तव दास्यामि भोजनं दक्षिणान्वितम् ॥ ३५ ॥
एवं तौ संविदं कृत्वा ययतुर्ब्राह्मणोत्तमाः ॥
हट्टमार्गे गतौ तत्र यत्र षंढो व्यव स्थितः ॥ ३६ ॥
तत्पार्श्वे ब्राह्मणं धृत्वा प्रविष्टो गृहमध्यतः ॥
भार्यया श्रपयामास धान्यं मानमितं तदा ॥ ३७ ॥
ततो देवार्चनं कृत्वा वैश्वदेवांत आगतम् ॥
पुष्पमाहूय तत्पादौ प्रक्षाल्य च निवेश्य च ॥ ३८ ॥
कृत्वार्चनविधिं तस्य दत्त्वान्नं च सुसंस्कृतम् ॥
उपविश्य ततः पश्चाद्भोजनार्थं ततो द्विजाः।
पुष्पोऽपि वीक्षते तस्याः पादौ पंकजसंनिभौ॥३९॥
यथायथा स कौतुक्याद्वीक्षते यौवनाश्रितः॥
कौतुक्यात्तेन च ततस्तस्या वक्त्रं निरीक्षितम् ॥६.१५६.४०॥
ततश्चाकारयामास मणिभद्रः प्रकोपतः॥
तं षण्ढमुक्तवाञ्जारं त्वमेनं च विडंबय॥४१॥
ततस्तेन द्विजश्रेष्ठाः स पुष्पो मूर्ध्नि ताडितः ॥ ४२ ॥
अधो निपतितं भूमौ रुधिरेण परिप्लुतम् ॥
चरणाभ्यां समाकृष्य दूतो मार्गं समाश्रितः ॥ ४३ ॥
यावच्चतुष्पथं नीतो यत्र संचरते जनः ॥
हाहाकारो महानासीत्तस्मिन्पुरवरे तदा ॥ ४४ ॥
सर्वेषामेव पौराणां तदवस्थं विलोक्य तम् ॥
ततोऽन्यैः शीततोयेन सोभिषिक्तो दयान्वितैः ॥ ४५ ॥
कृत्वा वायुप्रदानं च गमितश्चेतनां प्रति ॥
स प्राप्य चेतनां कृच्छ्रात्तत्तोयात्तानथाब्रवीत् ॥ ४६ ॥
न मया विहितं चौर्यं परदारा न सेविताः ॥
पश्यध्वं मणिभद्रेण यथाहं क्लेशितो जनाः ॥ ४७ ॥
तीर्थयात्रापरो विप्रो ब्रह्मचर्यपरायणः ॥
भोजनार्थं समामन्त्र्य नीतोऽवस्थामिमां ततः ॥ ४८ ॥
किं नास्ति वात्र भूपालो येनैतदसमंजसम् ॥
ब्राह्मणस्य विशेषेण निर्दोषस्य महाजनाः ॥ ४९ ॥
॥ जना ऊचुः ॥ ॥
बहवस्तेन पापेन विप्राः पूर्वं विडंबिताः ॥
राजप्रसादयुक्तेन चेर्ष्यां प्राप्य शरीरिणा ॥ ६.१५६.५० ॥
कोऽपि राजप्रसादान्न किंचिद्ब्रूतेऽस्य सम्मुखम् ॥
तस्मादुत्तिष्ठ गच्छामो दास्यामस्तेऽशनं वयम् ॥ ५१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्पादित्यमाहात्म्ये मणिभद्रकृतपुष्पब्राह्मणविडंबनवर्णनंनाम षट्पञ्चाशदुत्तरशततमोऽध्यायः ॥ १५६ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 157
॥ सूत उवाच ॥ ॥
एवं संबोधितस्तैस्तु लोकैः पुष्पस्तदा द्विजाः ॥
तानब्रवीत्ततः कुद्धो न करिष्यामि भोजनम् ॥ १ ॥
यावन्न चास्य पापस्य करिष्यामि प्रतिक्रियाम् ॥
तद्वदध्वं महाभागा देवो वा देवताऽथवा ॥ २ ॥
तथान्ये सिद्धमन्त्रा वा सद्यः प्रत्ययकारकाः ॥
आराधिता यथा सद्यो मानुषाणां वरप्रदाः ॥ ३ ॥
॥ जना ऊचुः ॥ ॥
एको देवः स्थितश्चात्र सद्यःप्रत्ययकारकः ॥
तथैका देवता चात्र श्रूयते जगती तले ॥ ४ ॥
॥ पुष्प उवाच ॥ ॥
कोऽसौ देवः कियद्दूरे कस्मिन्स्थाने व्यवस्थितः ॥
तथा च देवता ब्रूत दयां कृत्वा ममोपरि ॥ ५ ॥ ॥
॥ जना ऊचुः ॥ ॥
चमत्कारपुरे सूर्यो याज्ञवल्क्यप्रतिष्ठितः ॥
अस्ति विप्र श्रुतोऽस्माभिः सद्यः प्रत्ययकारकः ॥ ६ ॥
सूर्यवारेण सप्तम्यां फलहस्तः प्रदक्षिणाम् ॥
यः करोति नरस्तस्य ह्यष्टोत्तरशतं द्विज ॥ ७ ॥
तस्य सिद्धिप्रदः सम्यङ्मनसा वांछितं ददेत् ॥
तथान्या शारदा नाम देवी काश्मीरसंस्थिता ॥ ८ ॥
उपवासकृतेरेव सापि सिद्धिप्रदायिनी ॥
तच्छ्रुत्वा वचनं तेषां जनानां स द्विजोत्तमाः ॥ ९ ॥
समुद्दिश्य चमत्कारं तस्मात्स्थानात्ततः परम् ॥
चमत्कारपुरं प्राप्य सप्तम्यां सूर्यवासरे ॥ ६.१५७.१० ॥
तत्रागत्य ततः स्नात्वा शुचिर्भूत्वा समाहितः ॥
गतः संति ष्ठते यत्र याज्ञवल्क्यकृतो रविः ॥ ११ ॥
ततः प्रदक्षिणाः कृत्वा अष्टोत्तरशतं मिताः ॥
नालिकेराणि चादाय श्रद्धया परयाः युतः ॥ १२ ॥
ततः क्षुत्क्षामकंठः स परिश्रांतस्तदग्रतः ॥
उपविष्टो जपं कुर्वन्सूर्येष्टैः स्तवनैस्तदा ॥ १३ ॥
मंडलब्राह्मणाद्यैश्च तारं स्वरमुपाश्रितः ॥
सप्तयुंजर वाद्यैश्च अग्निरेवेति भक्तितः ॥ १४ ॥
आदित्यव्रतसंज्ञाद्यैः सामभिर्दृढभक्तिभाक् ॥
क्षुरिकामंत्रपूर्वैश्च तथैवाथर्वणोद्भवैः ॥ १५ ॥
यावदन्योर्कवारस्तु नैव तुष्टो दिवाकरः ॥
पौर्णमासीदिने प्राप्ते वैराग्यं परमं गतः ॥ १६ ॥
ततः पुष्पो विधायाथ स्नानं धौतांबरः शुचिः ॥
भूनाम्ना साध्य भूमिं च स्थंडिलार्थं द्विजोत्तमाः ॥ १७ ॥
स्थंडिलं हस्तमात्रं च स्थंडिले प्रत्यकल्पयत् ॥
अग्निमीळेतिमंत्रेण ततोऽग्निं स निधाय च ॥ १८ ॥
तृणैः परिस्तृणामीतिकृत्वोपस्तरणं ततः ॥
आब्रह्मन्निति मन्त्रेण दत्त्वा ब्रह्मासनं ततः ॥ १९ ॥
सुत्रामाणमिति प्रोच्य समिधःस्थापनं च यत् ॥
प्रोक्षणीपात्रमासाद्य प्रोक्षणं कृतवांस्ततः ॥ ६.१५७.२० ॥
पात्राणामथ सर्वेषां स्रुवादीनां यथाक्रमम् ॥
ततः प्रकल्पयामास हविःस्थाने निजां तनुम् ॥ ॥ २१ ॥
न्यायं तु देवतास्थाने स आचार्यविधानतः ॥
ग्रहणं प्रोक्षणं चैव सूर्याय त्वेति चोत्तरम् ॥ २२ ॥
अयं त इध्म आत्मेति जप्त्वाथ समिधं ततः ॥
अग्निसोमेति मन्त्राभ्यां हुत्वा चाज्याहुती ततः ॥ २३ ॥
कृत्वा व्याहृतिहोमं तु भूर्भुवः स्वेति भो द्विजाः ॥
ये ते शतेति मन्त्राद्यैर्हुत्वात्रैव च दारुणम् ॥ २४ ॥
आह्वयामास वह्निं च प्रत्यक्षो भव देव मे ॥
एवं मन्त्रेण कृत्वा तं संमुखं ज्वलनं ततः ॥ २५ ॥
कालीकरालिकाद्याश्च सप्तजिह्वाश्च याः स्मृताः ॥
तासामाह्वानकं कृत्वा ततो दीप्ते हविर्भुजि ॥ २६ ॥
जुहाव च स मांसानि स्वानि चोत्कृत्त्य शस्त्रतः ॥
लोमभ्यः स्वाहेति विदिशो दिग्भ्यो दत्त्वा ततः परम् ॥ २७ ॥
अग्नये स्विष्टकृतइति यावदात्मानमाक्षिपेत् ॥
तावद्धृतः स सूर्येण स्वहस्तेन समंततः ॥ २८ ॥
धृतश्च सादरं तेन मा विप्र कुरु साहसम् ॥
नेदृग्घोमः कृतः क्वापि कदाचित्केनचिद्द्विज ॥ ॥ २९ ॥
तुष्टोऽहं च महाभाग ब्रूहि किं करवाणि ते ॥
अदेयमपि दास्यामि यत्ते मनसिवर्तते ॥ ६.१५७.३० ॥
॥ पुष्प उवाच ॥ ॥
यदि तुष्टोसि देवेश यदि देयो वरो मम ॥
तद्देयं गुटिकायुग्मं यदर्थं प्रार्थयाम्यहम् ॥ ३१ ॥
वैदिशे नगरे चास्ति मणिभद्रो महाधनी ॥
कुब्जांगः क्षत्रियो देव जरावलिसमन्वितः ॥ ३२ ॥
अब्रह्मण्यो महानीचः कीनाशो जनदूषितः ॥
द्वयोरेकां यदा वक्त्रे सदा चैव करोम्यहम् ॥ ३३ ॥
तदा मे तादृशं रूपमविकल्पं भवत्विति ॥
यदा पुनर्गृहीत्वा तां द्वितीयां प्रक्षिपाम्यहम् ॥ ३४ ॥
ततश्च सहजं रूपं मम भूयात्सुरेश्वर ॥
वैदिशे नगरे चास्ति मणिभद्रः सुरेश्वर ॥ ३५ ॥
अपरं तस्य यत्किंचिद्धनधान्यादिकं गृहे ॥
तत्सर्वं विदितं मे स्यात्तथा देव प्रजायताम्॥ ३६ ॥
किं वानेन बहूक्तेन तस्य मित्राणि बांधवाः ॥
व्यवहारास्तथा सर्वे प्रकटाः स्युः सदैव हि ॥ ३७ ॥
न कश्चिज्जायते तत्र विकल्पः कस्यचित्क्वचित् ॥
मम तस्याधम स्यापि सर्वकृत्येषु सर्वदा ॥ ३८ ॥
॥ भास्कर उवाच ॥ ॥
गृहाण त्वं महाभाग गुटिकाद्वितयं शुभम् ॥
शुक्लं कृष्णं च वक्त्रस्थं विभेद जननं महत् ॥ ३९ ॥
शुक्लया तस्य रूपं च तव नूनं भविष्यति ॥
कृष्णयापि पुनः स्वं च संप्राप्स्यसि महाद्विज ॥ ६.१५७.४० ॥
॥ पुष्प उवाच ॥ ॥
अपरं वद मे देव संदेहं हृदये स्थितम् ॥
यत्त्वां पृच्छामि देवेश तव कीर्तिविवर्धनम् ॥४१॥
मया श्रुतं सुरश्रेष्ठ सप्तम्यां सूर्यवासरे ॥
यस्ते प्रदक्षिणानां च कुर्यादष्टोत्तरं शतम् ॥
तस्य त्वं तत्क्षणादेव फलहस्तस्य सिद्धिदः ॥ ४२ ॥
मूर्खस्यापि च पापस्य सर्वदोषान्वितस्य च ॥
चतुर्वेदस्य मे कस्मात्तीर्थयात्रापरस्य च ॥ ४३ ॥
सप्तरात्रे गते तुष्टो होम एवंविधे कृते ॥ ४४ ॥
॥ श्रीसूर्य उवाच॥ ॥
तामसेन तु भावेन त्ववा सर्वमिदं कृतम्॥
तेन सर्वं वृथा जातं त्वया सर्वं च यत्कृतम् ॥ ४९ ॥
यत्किंचित्क्रियते विप्र तामसं भावमाश्रितैः ॥
तत्सर्वं जायते व्यर्थं किं न वेत्ति भवा निदम् ॥ ४६ ॥
एवमुक्त्वा ततः सूर्यस्तस्य गात्राण्युपास्पृशत् ॥
खंडितानि स्वहस्तेन निर्व्रणानि कृतानि च ॥ ४७ ॥
अब्रवीच्च पुनः पुष्पं प्रसन्न वदनः स्थितः ॥
अनेनैव विधानेन यः करोति कुशंडिकाम् ॥ ४८ ॥
सोम्यभावं समाश्रित्य समिद्भिश्चार्कसंभवैः ॥
तिलाक्षतैर्विशेषेण होमं यस्तु समाचरेत् ॥ ४९ ॥
छन्दऋषिसमोपेतमेकं यावत्सहस्रकम् ॥
तस्य दास्याम्यहं हृत्स्थमधिकेभ्योऽधिकं फलम् ॥६.१५७.५॥।
एवमुक्त्वा सहस्रांशुस्तत्रैवां तरधीयत ॥
दीपवल्लक्षितो नैव केन मार्गेण निर्गतः ॥ ५१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सूर्यसकाशात्पुष्पब्राह्मणस्य वरलब्धिवर्णनंनाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५७ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 158
॥ सूत उवाच ॥ ॥
पुष्पोऽपि गुटिके लब्ध्वा भास्कराद्वारितस्करात् ॥
चिराद्भोजनमासाद्य प्रस्थितो वैदिशं प्रति ॥ १ ॥
ततो वैदिशमासाद्य स पुष्पो हृष्टमानसः ॥
शुक्ला तां गुटिकां वक्त्रे चकारद्विजसत्तमाः ॥ २ ॥
मणिभद्रसमो जातस्तत्क्षणादेव स द्विजः ॥
हट्टमार्गं गते सोऽथ तस्मिन्गत्वाऽथ मंदिरे ॥
प्रविष्टः सहसा मध्ये प्रहृष्टेनांतरात्मना ॥ ३ ॥
ततश्चाकारयामास तं षंढं द्वारमाश्रितम् ॥
तस्य दत्त्वाथ वस्त्राणि पश्चात्षंढमुवाच सः ॥ ४ ॥
षंढकश्चित्पुमानत्र सम्यग्वेषकरो हि सः ॥
मम वेषं समाधाय भ्रमते सकले पुरे ॥ ५ ॥
सांप्रतं मद्गृहे सोऽथ लोभनायागमिष्यति ॥
स च कृत्रिम वेषेण निषेद्धव्यस्त्वया हि सः ॥
स तथेति प्रतिज्ञाय द्वारदेशं समाश्रितः ॥ ६ ॥
पुष्पोऽपि चाब्रवीद्भार्यां माहिकाख्यां ततः परम् ॥
माहिकेद्य मया दृष्टः स्वतातः स्वपुरः स्थितः ॥ ७ ॥
वीरभद्रः सुदुःखार्तो मलिनांबरसंवृतः ॥
अब्रवीच्च ततः कोपान्मामेवं परुषाक्षरम् ॥ ८ ॥
धिग्धिक्पाप त्वया कन्यातीव रूपवती सदा ॥
वंचयित्वा जनेतारमुदूढा सा सुमध्यमा ॥ ९ ॥
न दत्तं तत्पितुः किंचिन्न तस्या अथ पुत्रक ॥
विधवां यादृशीं तां च श्वेतांबरधरां सदा ॥ ६.१५८.१० ॥
संधारयसि पापात्मन्नेष्टं भोज्यं प्रयच्छसि ॥
तस्मात्तस्याः पितुर्देहि त्वं सुवर्णायुतं ध्रुवम् ॥ ११ ॥
भूषणं वांछितं तस्या यत्तद्वै रुचिपूर्वकम् ॥
येन संधारयेद्भार्या साऽऽनंदं परमं गता ॥ १२ ॥
निरानंदा यतो नारी न गर्भं धारयेत्स्फुटम् ॥
निःसंतानो यतो वंशः स्वर्गादपि क्षितिं व्रजेत् ॥ १३ ॥
स पतिष्यत्यसंदिग्धं कुलांगारेण च त्वया ॥
सा त्वमानय वस्त्राणि गृहमध्याच्छुभानि च ॥ १४ ॥
यानि दत्तानि भूपेन व्यवहारैस्तदा मम ॥
पञ्चांगश्च प्रसादो यो मया प्राप्तश्च तैः सह ॥ १५ ॥
त्वं संधारय गात्रैः स्वैः शीघ्रं रसवतीं कुरु ॥
भोजनायैव शीघ्रं तु त्वया सार्धं करोम्यहम् ॥ १६ ॥
एकस्मिन्नपि पात्रे च तदादेशादसंशयम् ॥
सापि सर्वं तथा चक्रे यदुक्तं तेन हर्षिता ॥ १७ ॥
भोजनाच्छादनं चैव निर्विकल्पेन चेतसा ॥
ततः कामातुरः पुष्पो मैथुनायोपचक्रमे ॥ १८ ॥
एतस्मिन्नंतरे प्राप्तो मणिभद्रः समुत्सुकः ॥
क्षुत्क्षामः स पिपासार्तो व्यवहारोत्थलिप्सया ॥ १९ ॥
प्रवेशं कुरुते यावद्गृहमध्ये समुत्सुकः ॥
निषिद्धस्तेन षण्ढेन भर्त्सयित्वा मुहुर्मुहुः ॥ ६.१५८.२० ॥
हठाद्यावत्प्रवेशं स चकार निजमंदिरे ॥
तावच्च दण्डकाष्ठेन मस्तके तेन ताडितः ॥ २१ ॥
अथ संपतितो भूमौ मूर्छया संपरिप्लुतः ॥
कर्तव्यं नैव जानाति तत्प्रहारप्रपीडितः ॥ २२ ॥
ततः कोलाहलो जातस्तस्य द्वारे गृहस्य च ॥
जनस्य संप्रयातस्य हाहाकारपरस्य च ॥ २३ ॥
पप्रच्छुस्तं जनाः केचि द्धिक्पाप किमिदं कृतम् ॥
वृत्तिभंगः कृतोऽनेन अथ त्वं व्यंतरार्दितः ॥ २४ ॥
इमामवस्थां यन्नीतः संप्राप्तोऽसि नृपाद्वधम् ॥ २५ ॥
॥ षंढ उवाच ॥ ॥
न वृत्तिर्गर्हिता तेन नाहं व्यंतरपीडितः ॥
मणिभद्रो न चैष स्यादेष वेषकरः पुमान् ॥ २६ ॥
माणिभद्रं वपुः कृत्वा संप्राप्तो याचितुं धनम् ॥
हठात्प्रविश्यमानस्तु स मया मूर्ध्नि ताडितः ॥ २७ ॥
मणिभद्रो गृहस्यांतर्भुक्त्वा शयनमाश्रितः ॥
संतिष्ठते न जानाति वृत्तांतमिदमा स्थितम् ॥ २८ ॥
ततः पुष्पोऽपि तच्छ्रुत्वा तं च कोलाहलं बहिः ॥
मणिभद्रस्य रूपेण द्वारदेशं समागतः ॥ २९ ॥
अब्रवीन्नित्यमभ्येति मम रूपेण चाधमः ॥
एष वेषधरः कश्चिद्याचितुं धनमेव हि ॥ ६.१५८.३० ॥
एतेनापि च षंढेन न च भद्रमनुष्ठितम् ॥
यत्कुब्जोऽयं हतो मूर्ध्नि याचितुं समु पस्थितः ॥ ३१ ॥
एतस्मिन्नन्तरे सोऽपि चेतनां प्राप्य कृत्स्नशः ॥
वीक्षते पुरतो यावत्तावदात्मसमः पुमान् ॥ ३२ ॥
सर्वतः स तमालोक्य ततो वचनमब्रवीत् ॥ ३३ ॥
क्व चोरः संप्रविष्टो मे मम रूपेण मंदिरे ॥
भेदयित्वा तु षण्डाख्यमेवं दत्त्वा च वाससी ॥ ३४ ॥
यावद्भूपगृहं गत्वा त्वां षंढेन समन्वितम् ॥
वधाय योजयाम्येव तावद्द्रुततरं व्रज ॥ ३५ ॥
॥ पुष्प उवाच ॥ ॥
मम रूपं समाधाय त्वमायातो गृहे मम ॥
शून्यं मत्वा ततो ज्ञातस्त्वयाऽहं गृहसंस्थितः ॥३६॥
ततो नृपाय दास्यामि वधार्थं च न संशयः ॥
नो चेद्गच्छ द्रुतं पाप यदि जीवितुमिच्छसि ॥३७॥ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्त्वा ततस्तौ च बाहुयुद्धेन वै मिथः ॥
युध्यमानौ नरैरन्यैः कृच्छ्रेण तु निवारितौ ॥३८॥
ततस्ते स्वजना ये तु मणिभ द्रस्य चागताः ॥
परिजानंति नो द्वाभ्यां विशेषं माणिभद्रकम् ॥ ३९ ॥
वालिसुग्रीवयोर्युद्धं तारार्थे युध्यमानयोः ॥
एवं विवदमानौ तु क्रोधताम्रा यतेक्षणौ ॥ ६.१५८.४० ॥
राजद्वारं समासाद्य स्थितौ स्वजनसंवृतौ ॥
द्वाःस्थेन सूचितौ राज्ञे सभातलमुपस्थितौ ॥ ४१ ॥
चौरचौरेति जल्पन्तौ पर स्परवधैषिणौ ॥
भूभुजा वीक्षितौ तौ च द्विजौ तु द्विजसत्तमाः ॥४२ ॥
न विशेषोऽस्ति विश्लेषस्तयोरेकोपिकायतः ॥
ततश्च व्यवहारेषु समती तेषु वै तदा ॥ ४३ ॥
पृष्टौ गुह्येषु सर्वेषु प्रत्यक्षेषु विशेषतः॥
वदतस्तौ यथावृत्तं पृथक्पृथग्व्यवस्थितम् ॥ ४४ ॥
ततस्तु स्वजनैः सर्वैरेको नीत्व थ चान्यतः ॥
पृष्टो गोत्रान्वयं सर्वं द्वितीयस्तु ततः परम् ॥ ४५ ॥
तेषामपि तथा सर्वं यथासम्यङ्निवेदितम् ॥
अथ राजा बृहत्सेनः सर्वांस्तानि दमब्रवीत् ॥ ४६ ॥
पत्नी चानीयतां तस्य मणिभद्रस्य वै गृहात् ॥
निजकान्तस्य विज्ञाने सा प्रमाणं भविष्यति ॥ ४७ ॥
ततो गत्वा च सा प्रोक्ता पुरुषैर्नृपसंभवैः ॥
आगच्छ कांतं जानीहि त्वं प्रमाणं भविष्यसि ॥ ४८ ॥
ततः सा व्रीडया युक्ता प्रच्छादितशिरास्ततः ॥
नृपाग्रे संस्थिता प्रोचे विद्धिसम्यङ्निजं प्रियम् ॥ ४९ ॥
न वयं निश्चयं विद्मो न चैते स्वजनास्तव ॥ ६.१५८.५० ॥
ततः सा चिन्तयामास निजचित्ते वरांगना ॥
मणिभद्रेण दग्धाहमीर्ष्यावह्निगताऽनिशम् ॥ ५१ ॥
वंचयित्वा तु पितरं गृहीतास्मि ततः परम् ॥
न किंचित्पाप्मना दत्तं जल्पयित्वा धनं बहु ॥ ॥ ५२ ॥
द्वितीयेन तु मे पुंसा मर्त्यलोके सुखं कृतम् ॥
दत्त्वा वस्त्राणि चित्राणि तथैवाभरणानि च ॥ ५३ ॥
प्रदास्यति च तातस्य सुवर्णं कथितं च यत् ॥
यद्गृह्णामि स्वहस्तेन मणिभद्रं द्वितीयकम् ॥ ५४ ॥
एवं निश्चित्य मनसा दृष्ट्वा रक्तपरिप्लुतम् ॥
प्रथमं मणिभद्रं सा जगृहेऽथ द्वितीयकम्॥ ५५ ॥
अब्रवीच्च ततो वाक्यं सर्वलोकस्य शृण्वतः ॥
अहं तातेन दत्तास्य विवाहे अग्निसंनिधौ ॥५६॥
द्वितीयोऽयं दुराचारो वेषकर्ता समा गतः ॥
मां च प्रार्थयते गुप्तां नानाचारैः पृथग्विधैः ॥ ५७ ॥
ततस्तु पार्थिवः क्रुद्धस्तस्य शाखावलंबनम् ॥
आदिदेश द्विजश्रेष्ठा मणिभद्रस्य दुर्मतेः ॥ ५८ ॥
एतस्मिन्नंतरे सोऽथ वधकानां समर्पितः ॥
तं वृक्षं नीयमानस्तु श्लोकानेतांस्तदापठत् ॥ ५९ ॥
निर्दयत्वं तथा द्रोहं कुटिलत्वं विशेषतः ॥
अशौचं निर्घृणत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ ६.१५८.६० ॥
अन्तर्विषमया ह्येता बहिर्भागे मनोरमाः ॥
गुञ्जाफलसमाकारा योषितः सर्व दैवहि ॥ ६१ ॥
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ॥
मन्वादयस्तथान्येऽपि स्त्रीबुद्धेस्तत्र किंच न ॥ ६२ ॥
पीयूषमधरे वासं हृदि हालाहलं विषम् ॥
आस्वाद्यतेऽधरस्तेन हृदयं च प्रपीड्यते ॥ ६३ ॥
अलक्तको यथा रक्तो नरः कामी तथैव च ॥
हृतसारस्तथा सोऽपि पादमूले निपा त्यते ॥ ६४ ॥
संसारविषवृक्षस्य कुकर्मकुसुमस्य च ॥
नरकार्तिफलस्योक्ता मूलमेषा नितंबिनी ॥ ६५ ॥
कस्य नो जायते त्रासो दृष्ट्वा दूरा दपि स्त्रियम्॥ ६६ ॥
संसारभ्रमणं नारी प्रथमेऽपि समागमे ॥
वह्निप्रदक्षिणन्यायव्याजेनैव प्रदर्शयेत् ॥ ६७ ॥
एतास्तु निर्घृणत्वेन निर्दय त्वेन नित्यशः ॥
विशेषाज्जाड्यकृत्येन दूषयंति कुलत्रयम् ॥ ६८ ॥
कुलत्रयगृहं कीर्त्या निजया धवलीकृतम् ॥
कृष्णं करोत्यकृ त्येन नारी दीपशिखेव तु ॥ ६९ ॥
धर्मवृक्षस्य वाताली चित्तपद्मशशिप्रभा ॥
सृष्टा कामार्णवग्राही केन मोक्षदृढार्गला ॥ ६.१५८.७० ॥
कारा संतानकूटस्य संसारवनवागुरा ॥
स्वर्गमार्गमहागर्ता पुंसां स्त्री वेधसा कृता ॥ ७१ ॥
वेधसा बंधनं किंचिन्नृणामन्यदपश्यता ॥
स्त्रीरूपेण ततः कोऽपि पाशोऽयं सुदृढः कृतः ॥७२॥
इत्येवं बहुधा सोऽपि विललाप सुदुःखितः ॥
स्त्रीचिन्तां बहुधा कृत्वा आत्मानं चाप्यगर्हयत् ॥ ७३ ॥
अहो कुबुद्धिना नैव लब्धं संसारजं फलम्॥
न कदाचिन्मया दत्तं तृष्णाव्याकुलचेतसा ॥ ७४ ॥
ऐश्वर्येऽपि स्थिते भूरि न मया सुकृतं कृतम् ॥
कदाचिन्नैव जप्तं च न हुतं च हुताशने ॥ ७५ ॥
अथवा सत्यमेवोक्तं केनापि च महात्मना ॥
कृपणेन समो दाता न भूतो न भविष्यति ॥
अस्पृष्ट्वापि च वित्तं स्वं यः परेभ्यः प्रयच्छति ॥ ७६ ॥
शरणं किं प्रपन्नानां विषवन्मारयंति किम् ॥
न दीयते न भुज्यंते कृपणेन धनानि च ॥ ७७ ॥
दानं भोगो नाशस्तिस्रो गतयो भवंति वित्तस्य ॥
यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति ॥ ७८ ॥
धनिनोप्यदानविभवा गण्यंते धुरि दरिद्राणाम्॥
नहि हंति यत्पिपासामतः समुद्रोऽपि मरुरेव ॥ ७९ ॥
अत्युपयुक्ताः सद्भिर्गतागतैरहरहः सुनिर्विण्णाः ॥
कृपणजनसंनिकाशं संप्राप्यार्थाः स्वपंतीह ॥ ६.१५८.८० ॥
प्राप्तान्न लभंते ते भोगान्भोक्तुं स्वकर्मणा कृपणाः ॥
मुखपाकः किल भवति द्राक्षापाके बलिभुजानाम् ॥ ८१ ॥
दातव्यं भोक्तव्यं सति विभवे संचयो न कर्तव्यः ॥
पश्येह मधुकरीणां संचितमर्थं हरंत्यन्ये ॥ ८२ ॥
याचितं द्विजवरे न दीयते संचितं क्रतुवरे न योज्यते ॥
तत्कदर्यपरिरक्षितं धनं चौरपार्थिवगृहेषु भुज्यते ॥ ८३ ॥
त्यागो गुणो वित्तवतां वित्तं त्यागवतां गुणः ॥
परस्परवियुक्तौ तु वित्त त्यागौ विडम्बनम् ॥ ८४ ॥
किं तया क्रियते लक्ष्म्या या वधूरिव केवला ॥
या न वेश्येव सामान्या पथिकैरपि भुज्यते ॥ ८५ ॥
अर्थोष्मणा भवेत्प्राणो भवेद्भक्ष्यैर्विना नृणाम् ॥
यतः संधार्यते भूमिः कृपणस्योष्मणा हि सा ॥ ८६ ॥
कृपणानां प्रसादेन शेषो धारयते महीम् ॥
यतस्ते भूगतं वित्तं कुर्वते तस्य चोष्मणा ॥ ८७ ॥
एवं बहुविधा वाचः प्रलपन्मणिभद्रकः ॥
नीत्वा तैः पार्थिवोद्दिष्टैः पुरुषैः परुषाक्षरम् ॥
बहुधा प्रलपं श्चैव कृतः शाखावलंबनः ॥ ८८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मणिभद्रोपाख्याने मणिभद्रनिधनवर्णनंनामाष्टपंचाशदुत्तरशततमोऽध्यायः ॥ १५८ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 159
॥ सूत उवाच ॥ ॥
पुष्पोऽपि तां समादाय माहिकाख्यां वरांगनाम् ॥
स तदा प्रययौ हृष्टो मणिभद्रस्य मंदिरम् ॥ १ ॥
शंखतूर्यनिनादेन सर्वैस्तैः स्वजनैर्वृतः ॥
न कस्य तत्र संभूतो विकल्पस्तत्समुद्भवः ॥ २ ॥
भास्करस्य प्रसादेन तथैवान्यस्य कर्हिचित् ॥
सोऽपि मंदिरमासाद्य यथात्मपितृसंभवम् ॥ ३ ॥
उपविश्य ततो मध्ये बन्धून्सर्वान्समाह्वयत् ॥
अद्य तावद्दिने मह्यं तुलाग्रं कमला श्रिता ॥ ४ ॥
चलितापि पुनश्चास्याः सुपत्न्या वाक्यतः स्थिता ॥
कियंतं चैव कालं मे कार्पण्यं महदास्थितम् ॥ ५ ॥
ज्ञातमद्य चला लक्ष्मीस्तेन त्यक्तं सुदूरतः ॥
तस्माद्बंधुजनैः सार्धं देवैर्विप्रैश्च कृत्स्नशः ॥
संविभक्तां करिष्यामि सत्येनात्मानमालभे ॥ ६ ॥
एवमुक्त्वा ततः सर्वान्समाहूय पृथक्पृथक् ॥
स नामभिर्ददौ वस्त्रं भूषणानि यथार्हतः ॥ ७ ॥
ततो वेदविदो विप्रान्समाहूय स नामभिः ॥
एकैकस्य ददौ वित्तं सवस्त्रं श्रद्धयान्वितः ॥ ८ ॥
ततस्तु नर्तकेभ्यश्च दीनांधेभ्यो विशेषतः ॥
ददौ भोज्यं समि ष्टान्नं सवस्त्रं च द्विजोत्तमाः ॥ ९ ॥
ततस्तु स्वयमेवान्नं बुभुजे भार्यया सह ॥
विसृज्य तान्समायातान्स्वजनान्ब्राह्मणैः सह ॥ ६.१५९.१० ॥
एवं तेन तदा प्राप्तं वित्तं च परसंभवम् ॥
बुभुजे स्वेच्छया नित्यं तदा भार्यासमन्वितः ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्पविभवप्राप्तिवर्णनंनामैकोनषष्ट्युत्तरशततमोऽध्यायः ॥ १५९ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 160
॥ सूत उवाच ॥ ॥
अन्यस्मिन्नहनि प्राप्ते रहस्युक्तः स भार्यया ॥
रात्रौ प्रसुप्तः पार्श्वे च पादौ संस्पृश्य तत्क्षणात् ॥ १ ॥
त्वं तावन्मम भर्त्तासि यावज्जीवमसंशयम् ॥
तद्वदस्व विभोऽस्माकं त्वदर्थं स मयोज्झितः ॥ २ ॥
इन्द्रजालमिदं किं ते किं वा मंत्रप्रसाधनम् ॥
देवानां वा प्रसादोऽयं यत्त्वं चैतादृशः स्थितः ॥ ३ ॥
मया त्वं हि तदा ज्ञातः प्रथमेऽपि दिने स्थिते ॥
यदा संभूषिता वस्त्रैस्तथा वस्तुविभूषणैः ॥ ४ ॥
यद्यहं तव वार्तां च सर्वां कपटसंभवाम् ॥
कथयामि द्वितीयस्य तत्ते पादौ स्पृशाम्यहम् ॥ ५ ॥
॥ सूत उवाच ॥ ॥
एवमुक्तो विहस्योच्चैः स तदा ब्राह्मणोत्तमाः ॥
तामालिंग्य ततः प्राह वचनं मधुराक्षरम् ॥ ६ ॥
साधु प्रिये त्वया ज्ञातं सर्वं मम विचेष्टितम् ॥
अहं स विप्रः सुभगे मणिभद्रेण यः पुरा ॥ ७ ॥
विडंबितो मुखं पश्यंस्त्वदीयं चंद्रसन्निभम् ॥
चमत्कारपुरं गत्वा मया चाराधितो रविः ॥
तेन तुष्टेन मे दत्तं तद्रूपं ज्ञानमेव च ॥८॥ ॥
॥ माहिकोवाच ॥ ॥
त्वदीयदर्शनेनाहं कामदेववशं गता ॥ ९ ॥
तस्मादाराधयिष्यामि तं गत्वा दिननायकम् ॥
येन ते तादृशं भूयः प्रतुष्टो विदधाति सः ॥ ६.१६०.१० ॥
किं मे चैतेन रूपेण तारुण्येनापि च प्रभो ॥
यत्ते तथाविधं रूपं संभजामि दिवानिशम् ॥ ११ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा गुटिकां पुष्प समादाय मुखान्ततः ॥
दधार तादृशं रूपं यादृग्दृष्टं पुरा तया ॥ १२ ॥
ततः सा हर्षिता माही पुलकेन समन्विता ॥
तमालिंग्याभजद्गाढं वाक्यमेतदुवाच ह ॥ १३ ॥
अद्य मे सफलं जन्म यौवनं रूपमेव च ॥
यत्त्वं हृद्वांछितः कांतः प्रलब्धो मदनोपमः ॥ १४ ॥
एतावंति दिनान्येव न मया कामजं सुखम् ॥
अपि स्वल्पतरं लब्धं कथंचिद्वृद्धसेवया ॥ १५ ॥
भजस्व स्वेच्छया विप्र दासी तेऽहं व्यवस्थिता ॥ १६ ॥
॥ पुष्प उवाच ॥ ॥
प्रविशामि किमंगेषु भवन्तीं किं मिलाम्यहम् ॥
प्रिये चिरेण लब्धासि न जाने कर वाणि किम् ॥ १७ ॥
एवमुक्त्वा ततस्तौ च मैथुनाय कृतक्षणौ ॥
प्रवृत्तौ ब्राह्मणश्रेष्ठाः कामदेववशंगतौ ॥ १९८ ॥
अथ रात्र्यां व्यतीतायामुदिते सूर्यमण्डले ॥
वक्त्रे तां गुटिकां कृत्वा स पुष्पस्तादृशोऽभवत् ॥ १९ ॥
एवं तस्य स्थितस्यात्र महान्कालो व्यजायत ॥
पुत्राः पौत्रास्तथा जाताः कन्यकाश्च तथैव च ॥ ६.१६०.२० ॥
स वृद्धत्वं यदा प्राप्तो जराविप्लवतां गतः ॥
तदा स चिन्तयामास मया पापं महत्कृतम् ॥ २१ ॥
मणिभद्रो वराकोऽसौ मिथ्याचारेण घातितः ॥
तस्य भार्या हृता चैव प्रसूतिं च नियोजिता ॥ २२ ॥
हाटकेश्वरजं क्षेत्रं तस्माद्गत्वा करोम्य हम् ॥
पुरश्चरणसंज्ञं च येन शुद्धिः प्रजायते ॥ २३ ॥
एवं स निश्चयं कृत्वा पुष्पश्चित्ते निजे तदा ॥
असंख्यं वित्तमादाय चमत्कारपुरंगतः ॥ ॥ २४ ॥
पुत्रेभ्योऽपि यथासंख्यं दत्त्वा चैव पृथक्पृथक् ॥
प्रासादं कारयामास तस्य सूर्यस्य शोभनम् ॥ २५ ॥
यस्मिन्सिद्धिं गतः सोऽत्र याज्ञवल्क्यप्रतिष्ठिते ॥
ततो मध्यममाहूय प्रणिपत्याभिवाद्य च ॥
सोऽब्रवीद्ब्राह्मणानां मे चातुश्चरणमानय ॥ २६ ॥
येनाहमग्रतो भूत्वा प्रायश्चित्तं विशुद्धये ॥
पुरश्चरणसंज्ञं तु प्रार्थयामि यथाविधि ॥ २७ ॥
इति स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाट केश्वरक्षेत्रमाहात्म्ये पुष्पस्य पापक्षालनार्थं हाटकेश्वरक्षेत्रगमनपुरश्चरणार्थब्राह्मणामन्त्रणवर्णनंनाम षष्ट्यधिकशततमोऽध्यायः ॥ १६० ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 161
॥ सूत उवाच ॥ ॥
अथ तेन द्विजाः सर्वे ब्रह्मस्थाने निवेशिताः ॥
चातुश्चरणसंज्ञाश्च ततस्तस्य निवेशिताः ॥ १ ॥
सोऽपि केशान्परित्यज्य सर्वगात्रसमुद्भवान् ॥
निजपत्न्या समोपेतः प्रणम्य च द्विजोत्तमान् ॥ २ ॥
कृतांजलिपुटो भूत्वा वाक्यमेतदुवाच ह ॥
भास्करस्यास्य विहितः प्रासादोयं मया द्विजाः ॥ ३ ॥
पुष्पादित्य इति ख्यातिं प्रयातु भुवनत्रये ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
न वयं याज्ञवल्क्यस्य कीर्तिं नेष्यामहे क्षयम् ॥ ४ ॥
प्रायश्चित्तं प्रदास्यामश्चित्तस्य हृदयंगमम् ॥
अन्ये च ब्राह्मणाः प्रोचुः केचिन्मध्यस्थवृत्तयः ॥ ५ ॥
वृत्त्यर्थमस्य देवस्य लक्षं होमेऽत्र कल्प्यताम् ॥
लक्षं तु सर्वविप्राणां प्रायश्चित्तविशुद्धये ॥ ६ ॥
॥ पुष्प उवाच ॥ ॥
तस्मात्सर्वे द्विजश्रेष्ठा मन्नाम्ना कीर्तयंत्विमम् ॥
पुष्पादित्यमिति ख्यातिं कीर्तयंतु तथानिशम् ॥ ७ ॥
अनया भार्यया मह्यं मान्या या स्थापिता पुरा ॥
दुर्गाऽस्याश्चात्र नाम्ना वै भूयात्ख्याताऽत्र सत्पुरे ॥ ८ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
दुःशीलेन पुराऽकारि प्रासादो हरसंभवः ॥
दुर्वासःस्थापितस्यापि भवद्भिस्तुष्ट मानसैः ॥ ९ ॥
तथाप्यस्य तु दीनस्य प्रासादः क्रियतां द्विजाः ॥ ६.१६१.१० ॥
नाममात्रेण देवस्य दुःशीलेन यया पुरा ॥
अनेनाराधितः पूर्वं स्वमांसैरेष भास्करः ॥ ११ ॥
तस्मान्न क्षतिरस्याथ दत्ते नाम्नि यथा पुरा ॥
नाम्ना माहिकया नाम माहीत्येव च सा भवेत् ॥१२॥
॥ सूत उवाच ॥
पुष्पेण दाने दत्तेऽथ संमतेनाग्रजन्मनाम् ॥
मध्यमेन कृतं नाम पुष्पादित्य इति श्रुतम् ॥ १३ ॥
तत्पत्न्या चापि या तत्र दुर्गा देवी द्विजोत्तमाः ॥
नाम्ना माहिकया नाम माहीत्येव च साऽभवत् ॥ १४ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोस्मि द्विजोत्तमाः ॥
पुष्पा दित्यो यथा जातो याज्ञवल्क्यप्रतिष्ठितः ॥ १५ ॥
अद्यापि कलिकाले स दृष्टो भक्त्या सुरेश्वरः ॥
नाशयेद्दिनजं पापं नराणां नात्र संशयः ॥ ॥ १६ ॥
तथा च सप्तमीयुक्ते रवेर्वारे द्विजोत्तमाः ॥
अष्टोत्तरशतंयावत्फलहस्तः करोति यः ॥
प्रदक्षिणां च सद्भक्त्या स लभेद्वांछितं फलम् ॥१७॥
माहीकामपि यो दुर्गां नित्यमेव प्रपश्यति ॥
न स पश्यति कष्टानि तस्मिन्नहनि कर्हिचित् ॥ १८ ॥
चैत्रशुक्लचतुर्दश्यां यस्तां पूजयते नरः ।
तस्य संवत्सरंयावन्नापत्संजायते क्वचित् ॥ १९. ॥
इति श्रीस्कांदेमहापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्पादित्यमाहात्म्यवर्णनंनामैकषष्ट्युत्तरशततमोऽध्यायः ॥ १६१ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 162
॥ सूत उवाच ॥ ॥
एवं नाम्नि कृते तस्य भास्करस्यांशुमालिनः ॥
द्विजानां पुरतः पुष्पः कथयामास चेष्टितम् ॥ १ ॥
आत्मीयं कुत्सितं तेषां मणिभद्रवधो यथा ॥
विहितो विहिता पत्नी तस्य व्याजेन कृत्स्नशः ॥ २ ॥
ततस्ते ब्राह्मणाः प्रोचुस्तच्छ्रुत्वा कोपसंयुताः ॥
सीत्कारान्प्रचुरान्कृत्वा धिक्त्वां पाप प्रगम्यताम् ॥ ३ ॥
आत्मीयं हेम चादाय न ते शुद्धिर्भविष्यति ॥ ४ ॥
ब्रह्मघ्नस्त्वं यतः प्रोक्तास्त्रयो वर्णा द्विजोत्तमाः ॥
ब्राह्मणः क्षत्रियो वैश्यः स्मृतिशास्त्रप्रपाठकैः ॥ ५ ॥ ॥
॥ सूत उवाच ॥ ॥
ततस्तु दुःखितः पुष्पो बाष्पसंपूरितेक्षणः ॥
ब्रह्मस्थानाद्विनिर्गत्य प्ररुरोद सुदुःखितः ॥ ६ ॥
रोरूयमाणमालोक्य ततस्ते नागरा द्विजाः ॥
दयां च महतीं कृत्वा ततः प्रोचुः परस्परम् ॥ ७ ॥
नानाविधानि शास्त्राणि स्मृतयश्च पृथग्विधाः ॥
पुराणानि समस्तानि वीक्षध्वं सुसमाहिताः ॥ ८ ॥
कुत्रचित्क्वचिदेवास्य कथंचिच्छुद्धिरस्ति चेत् ॥
न तच्च विद्यते शास्त्रमस्मिन्स्थाने न चास्ति यत्॥९॥ न स्मृतिर्न पुराणं च वेदांतं वा द्विजोत्तमाः ॥ न चास्ति ब्राह्मणः सोऽत्र सर्वज्ञप्रतिमो न यः ॥ ६.१६२.१० ॥ तस्माच्चिन्तयत क्षिप्रमस्य शुद्धिप्रदं हि यत् ॥
तच्च प्रमाणतां नीत्वा शुद्धिरस्य प्रदीयते ॥ ११ ॥
अथैको ब्राह्मणः प्राह चंडशर्मेति विश्रुतः ॥
मया स्कांदपुराणेऽस्मिन्पुरश्चरणसंश्रिता ॥१२॥
पठिता सप्तमी या च पुरश्चरणसंज्ञिता ॥
पुरश्चरणतः पापं विहितं तु यथा व्रजेत् ॥ १३ ॥
सम्यक्तथापि विप्रेंद्रास्ततो याति न संशयः ॥
तस्मात्करोतु तामेष पुरश्चरणसप्तमीम् ॥ १४ ॥
अपरं भूभुजादेशान्मणिभद्रो निपातितः ॥
वधकैस्तस्य तत्पापं यदि पापं प्रजायते ॥ १५ ॥
राजा भूत्वा न यः सम्यग्विचारयति वादिनम् ॥
तस्य तत्पातकं घोरं राज्ञश्चैव प्रजायते ॥ १६ ॥
तथास्य पत्न्यास्तत्पापं जानंत्या यत्तयोदितम् ॥
मत्पित्रा ब्राह्मणैर्दत्तोऽयं पुरा वह्निसंनिधौ ॥ १७ ॥
विडंबितेन चानेन कृतप्रतिकृतं कृतम् ॥
तस्मान्न चास्य दोषः स्याद्यतः प्रोक्तं मुनीश्वरैः ॥ ॥ १८ ॥
कृते प्रतिकृतं कुर्याद्धिंसने प्रतिहिंसनम् ॥
न तत्र जायते दोषो यो दुष्टे दुष्टमाचरेत्॥ १९ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यद्येवं वद विप्रास्य पुरश्चरणसंज्ञिताम् ॥
सप्तमीमद्य विप्रेंद्र वराकस्य विशुद्धये ॥ ६.१६२.२० ॥
॥ सूत उवाच ॥ ॥
अथास्य कथयामास सप्तमीं तां द्विजोत्तमाः ॥
चंडशर्माभिधानस्तु कृत्वा तस्योपरि कृपाम् ॥ २१ ॥
तेनापि विहिता सम्यग्यथा तस्य मुखाच्छ्रुता ॥
ततः संवत्सरस्यांते विपाप्मा समपद्यत ॥ २२ ॥
॥ ॥ ऋषय ऊचुः ॥ ॥
पुरश्चरणसंज्ञां तु सप्तमीं वद सूतज ॥
विधिना केन कर्तव्या कस्मिन्काल उपस्थिते ॥ २३ ॥
॥ सूत उवाच ॥ ॥
अहं वः कीर्तयिष्यामि रोहिताश्वस्य भूपतेः ॥
मार्कंडेन पुरा प्रोक्ता पृच्छयमानेन भक्तितः ॥ २४ ॥
सप्तकल्पस्मरो विप्रा मार्कंडाख्यो महामुनिः ॥
रोहिताश्वेन पृष्टः स हरिश्चंद्रात्मजेन च ॥ २५ ॥
॥ रोहिताश्व उवाच ॥ ॥
अज्ञानाज्ज्ञानतो वापि यत्पापं कुरुते नरः ॥
उपायं तस्य नाशाय किंचिन्मे वद सन्मुने ॥ २६ ॥
॥ मार्कंडेय उवाच ॥ ॥
मानसं वाचिकं चैव कायिकं च तृतीयकम् ॥
त्रिविधं पातकं लोके नराणामिह जायते ॥ २७ ॥
तत्रोपाया विनाशाय तस्य संपरिकीर्तिताः ॥
तानहं ते प्रवक्ष्यामि शृणुष्व नृपसत्तम ॥ २८ ॥
मानसं चैव यत्पापं नराणामिह जायते ॥
पश्चात्तापे कृते तस्य तत्क्षणादेव नश्यति ॥ २९ ॥
वाचिकं चैव यत्पापं नाभुक्त्वा तत्प्रणश्यति ॥
पुरश्चरणबाह्यं तु सत्यमेतन्मयोदितम् ॥ ॥ ६.१६२.३० ॥
निवेद्य ब्राह्मणेंद्राणां तदुक्तं च समाचरेत् ॥
प्रायश्चित्तं यथोक्तं तु ततः शुद्धिमवाप्नुयात् ॥ ३१ ॥
अथवा पार्थिवो ज्ञात्वा कुरुते तस्य निग्र हम् ॥
तेन शुद्धिमवाप्रोति यद्यपि स्यात्स किल्विषी ॥ ३२ ॥
लज्जया ब्राह्मणेंद्राणां यो न ब्रूते कथंचन ॥
न च राजा विजानाति शरीरस्थेन यो म्रियेत् ॥
तस्य निग्रहकर्ता च स्वयं वैवस्वतो यमः ॥ ३३ ॥
तस्मात्सर्वप्रयत्नेन कृत्वा पापं विजानता ॥
प्रायश्चित्तं तु कर्तव्यं यथोक्तं ब्राह्मणो दितम् ॥ ३४ ॥
॥ रोहिताश्व उवाच ॥ ॥
सर्वेषामेव पापानां विहितानां मुनीश्वर ॥
किंचिद्व्रतं समाचक्ष्व दानं वा होममेव वा ॥
विपाप्मा जायते येन पुरश्चरणवर्जितम् ॥ ३५ ॥
नित्यं पापानि कुरुते नरः सूक्ष्माणि सर्वतः ॥
प्रायश्चित्तानि सर्वेषां कर्तुं शक्तिः कथं भवेत् ॥ ३६ ॥ ॥
॥ मार्कंडेय उवाच ॥ ॥
अस्ति राजन्व्रतं पुण्यं पुरश्चरणसंज्ञितम् ॥
पुरश्चरणसंज्ञा तु सप्तमी सूर्यवल्लभा ॥ ३७ ॥
यया संचीर्णया राज न्कायस्थो यमसंभवः ॥
विचित्रो मार्जयेत्पापं कृतं जन्मनि संचितम् ॥ ३८॥
तस्मात्कुरु महाराज तथाशु वचनं मम ॥
येन वा मुच्यते पापा त्सर्वस्मात्कायसंभवात् ॥ ३९ ॥
॥ रोहिताश्व उवाच ॥ ॥
पुरश्चरणसंज्ञा तु सप्तमी मुनिसत्तम ॥
विधिना केन कर्तव्या कस्मिन्काले वद स्व मे ॥ ६.१६२.४० ॥
॥ मार्कंडेय उवाच ॥ ॥
माघमासे सिते पक्षे मकरस्थे दिवाकरे ॥
सूर्यवारेण सप्तम्यां व्रतमेतत्समाचरेत् ॥ ४१ ॥
पाखंडैः पतितैः सार्धं तस्मिन्नहनि नालपेत् ॥
भक्षयित्वा नृपश्रेष्ठ प्रभाते दन्तधावनम् ॥
मंत्रेणानेन पश्चाच्च कर्तव्यो नियमो नृप ॥ ४२ ॥
पुरश्चरणकृत्यायां सप्तम्यां दिवसाधिप ॥
उपवासं करिष्यामि अद्य त्वं शरणं मम ॥४३॥
ततोऽपराह्णसमये स्नात्वा धौतांबरः शुचिः ॥
प्रतिमां पूजयेद्भक्त्या दिनाधिपसमुद्भवाम् ॥४४॥
रक्तैः पुष्पैर्महावीर पादाद्यं पूजयेत्ततः ॥
पतंगाय नमः पादौ मार्तंडायेति जानुनी ॥ ४५ ॥
गुह्यं दिवसनाथाय नाभिं द्वादश मूर्तये ॥
बाहू च पद्महस्ताय हृदयं तीक्ष्णदीधिते ॥ ४६ ॥
कंठं पद्मदलाभाय शिरस्तेजोमयाय च ॥
एवं संपूज्य विधिवद्धूपं कर्पूरमाददेत् ॥ ॥ ४७ ॥
गुडौदनं च नैवेद्यं रक्तवस्त्राभिवेष्टितम् ॥
रक्तसूत्रेण दीपं च तथैवारार्तिकं नृप ॥ ४८ ॥
शंखे तोयं समादाय रक्तचन्दनमिश्रितम् ॥
सफलं च ततः कृत्वा अर्घ्यं दद्यात्ततः परम् ॥ ४९ ॥
कुकृतं यत्कृतं किंचिदज्ञानाज्ज्ञानतोऽपि वा ॥
प्रायश्चित्तं कृतं देव ममार्घ्यश्च प्रगृह्यताम् ॥ ६.१६२.५० ॥
ततः संपूजयद्विप्रं गन्धपुष्पानुलेपनैः ॥
दत्त्वा तु भोजनं तस्मै दक्षिणां च स्वशक्तितः ॥
प्राशनं कायशुद्ध्यर्थं पञ्चगव्यस्य चाचरेत् । ५१ ॥
कृतांजलिपुटो भूत्वा समुद्वीक्ष्य दिवाकरम्॥
दिवाकरं गतश्चैव मन्त्रमेतं समुच्चरेत् ॥ ५२ ॥
इदं व्रतं मया देव गृहीतं पुरतस्तव ॥
अविघ्नं सिद्धिमायातु प्रसादात्तव भास्कर ॥ ५३ ॥
ततश्च फाल्गुने मासि संप्राप्ते मुनिसत्तम ॥
कुन्देन पूजयेद्देवं तेनैव विधिना ततः ॥ ५४ ॥
धूपं च गुग्गुलुं दद्यान्नैवेद्यं भक्तमेव च ॥
प्राशनं गोमयं प्रोक्तं सर्वपापविशुद्धये ॥ ५५ ॥
चैत्रे मासि तु संप्राप्ते सुरभ्या पूज्येद्धरिम् ॥
नैवेद्यं गुणिकाः प्रोक्ता धूपं सर्जरसोद्भवम् ॥ ५६ ॥
कुशोदकं च संप्राश्य कायशुद्धिमवाप्नुयात् ॥
वैशाखे किंशुकैः पूजां यथावच्च घृताशनैः ॥ ५७ ॥
नैवेद्यं च सुरामांसं धूपं च विनिवेदयेत् ॥
दधिप्राशनमेवात्र कर्तव्यं कायशुद्धये ॥ ५८ ॥
पुष्पपाटलया पूजा विधातव्या रवेर्नृप ॥
नैवेद्ये सक्तवः प्रोक्ताः प्राशनं च घृतं स्मृतम् ॥ ५९ ॥
कपिलाया महावीर सर्वपापविशुद्धये ॥
आषाढे मुनिपुष्पैश्च पूजयेद्भास्करं नृप ॥ ६.१६२.६० ॥
नैवेद्ये घारिका प्रोक्ता प्राशनं मधुसर्पिषोः ॥
धूपं चैवागरुं दद्यात्परया श्रद्धया युतः ॥ ६१ ॥
श्रावणे तु कदंबेन पूजनं तीक्ष्णदीधितेः ॥
नैवेद्ये मोदकाश्चैव तगरं धूप माददेत् ॥ ६२ ॥
गोशृंगोदकमादाय सद्यः पापात्प्रमुच्यते ॥
जात्या भाद्रपदे पूजा क्षीरनैवेद्यमाददेत् ॥ ६३ ।।
धूपं नखसमुद्भूतं प्राशनं क्षीरमेव च ॥
आश्विने कमलैः पूजा नैवेद्ये घृतपूरिका ॥ ६४ ॥
धूपं कुंकुमजं प्रोक्तं कर्पूरप्राशनं स्मृतम् ॥ ६५ ॥
तुलस्या कार्तिके पूजा भास्करस्य प्रकीर्तिता ॥
नैवेद्ये चैव खंडाख्यं धूपं कौसुंभिकं नृप ॥ ६६ ॥
प्राशनं च लवंगाख्यं सर्वपापविशोधनम् ॥
भृंगराजेन पूजा च सौम्ये मासि समाचरेत् ॥ ६७ ॥
नैवेद्ये फेणिका देया धूपं गुडसमुद्भवम् ॥
कंकोलप्राशनं चैव भास्करस्य प्रतुष्टये ॥ ६८ ॥
शतपत्रिकया पूजा पौषे मासि रवेः स्मृता ॥
सहजं धूपमादिष्टं नैवेद्ये शुष्कली तथा ॥ ६९ ॥
प्राशने पूर्वमुक्तानि सर्वाण्येव समाचरेत् ॥
समाप्तौ च ततो दद्यात्षड्भागं गृहसंभवम् ॥ ६.१६२.७० ॥
ब्राह्मणाय नृपश्रेष्ठ सर्वपापविशुद्धये ॥
इष्टभोज्यं ततः कार्यं स्वशक्त्या पार्थिवोत्तम ॥ ७१ ॥
एवं तु कुरुते योऽत्र सप्तमीं भास्करोद्भवाम् ॥
सर्वपापविनिर्मुक्तो निर्मलत्वं स गच्छति ॥ ७२ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
एवं पुरा वै कथिता रोहिताश्वाय धीमते ॥
मार्कंडेन महाभाग तस्मात्त्वमपि तां कुरु ॥ ७३ ॥
येन संजायते सम्यक्पुरश्चरणमेव ते ॥ ७४ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा पुष्पोऽपि द्विजसत्तमाः ॥
तां चक्रे सप्तमीं हृष्टो यथा तेन निवेदिता ॥ ७५ ॥
षड्भागं प्रददौ तस्मै ब्राह्मणाय महात्मने ॥
स्ववित्तस्य गृहस्थस्य कुप्याकुप्यस्य कृत्स्नशः ॥ ७६ ॥
सोऽपि जग्राह तद्वित्तं प्रहृष्टेनांतरात्मना ॥
सुवर्णमणि रत्नानि संख्यया परिवर्जितम् ॥ ७७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुरश्चरणसप्तमीव्रतविधानवर्णनंनाम द्विषष्ट्युत्तरशततमोऽध्यायः ॥ १६२ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 163
॥ सूत उवाच ॥ ॥
अथ ते नागराः सर्वे दृष्ट्वा तद्वित्तभाजनम् ॥
न केनापि ग्रहीतव्यं सर्वान्कामान्निरस्य च ॥ १ ॥
ततस्ते समयं कृत्वा समानीय च मध्यगम् ॥
तस्यास्येन ततः प्रोचुर्ब्रह्मस्थाने व्यवस्थि ताः ॥ २ ॥
अनेन लोभयुक्तेन तिरस्कृत्य द्विजोत्तमान् ॥
पुष्पवित्तमुपादाय प्रायश्चित्तं प्रकीर्तितम् ॥ ३ ॥
तथा चैव तु षड्भागो गृहीतो विभवस्य च ॥
तस्मादेष समस्तानां बाह्यभूतो भविष्यति ॥ ४ ॥
नागराणां द्विजेद्राणां यथान्यः प्राकृतस्तथा ॥ ५ ॥
अद्यप्रभृति चानेन यः संबंधं करिष्यति ॥
सोऽपि बाह्यस्तु सर्वेषां नागराणां भविष्यति ॥ ६ ॥
भोजनं वाथ पानीयं योऽस्य सद्मनि कर्हिचित् ॥
करिष्यति स चाऽप्येवं पतितः संभविष्यति ॥ ७ ॥
एवमुक्त्वा ततस्तेन दत्तं तालत्रयं द्विजाः ॥
ब्रह्मस्थाने द्विजश्रेष्ठाः कृत्वा पुष्पसमं च तम् ॥ ८ ॥
अथ ते ब्राह्मणाः सर्वे जग्मुः स्वंस्वं निवेशनम् ॥
चंडशर्मा स चोद्विग्नः पुष्पपार्श्वं तदा गतः ॥ ९ ॥
एतेषामेव सर्वेषां संमतेन मया तव ॥
प्रायश्चित्तं तदा दत्तं तथा पि पतितः कृतः ॥ ६.१६३.१० ॥
तस्मादहं पतिष्यामि सुसमिद्धे हुताशने ॥
नैव जीवितुमिच्छामि स्वजनैः परिवर्जितः॥ ११ ॥
॥ पुष्प उवाच ॥ ॥
न विषादस्त्वया कार्यः कार्येऽस्मिद्विजसत्तम ॥
वित्तार्थं दूषितस्त्वंहि यतो ब्राह्मणसत्तमैः ॥ १२ ॥
नागरांस्तोषयिष्यामि तानहं विविधैर्धनैः ॥
याचयिष्यंति यन्मात्रं तव गात्रविशुद्धये ॥ १३ ॥
तावन्मात्रं प्रदास्यामि तेभ्यो हि तव कारणात् ॥
एवमुक्त्वा समागत्य ब्रह्मस्थानं त्वरान्वितः ॥ ॥ १४ ॥
चातुश्चरणमानीय मध्यगास्येन सोऽब्रवीत् ॥
चंडशर्मा द्विजो यश्च मदर्थे पतितः कृतः ॥_ १५ ॥
युष्माभिर्वित्तलोभेन तद्वित्तं वो ददाम्यहम्॥
समस्तं मद्गृहे यच्च क्रियतां वचनं द्विजैः ॥ १६ ॥
अथ ते कुपिताः प्रोचुः सर्व एव द्विजोत्तमाः ॥
सीत्कारान्विविधान्कृत्वा क्रोध संरक्तलोचनाः ॥ १७ ॥
धिग्धिक्पापसमाचार जिह्वा ते शतधा ततः ॥
किं न याति यदेवं त्वं प्रजल्पसि विगर्हितम् ॥ १८ ॥
पतितोऽयं कृतो ऽस्माभिर्नैव वित्तस्य कारणात् ॥
प्रायश्चित्तं यतो दत्तमेकेनापि दुरात्मना ॥ १९
स्मृतयो दूषितास्तेन पुराणानि विशेषतः ॥
स्थानं चैवास्म दीयं च कर्म चैतत्प्रकुर्वता ॥ ६.१६३.२० ॥
प्रायश्चित्तं प्रदातव्यं चतुर्भिरपरैः सह ॥
संमन्त्र्य मनुना प्रोक्तमेतदेव द्विजोत्तमाः ॥ २१ ॥
त्वदीयं पातकं चास्य शरीरेऽद्य व्यवस्थितम् ॥
एकाकिना यतो दत्तं तेनायं पतितः स्थितः ॥ २२ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा द्विजाः सर्वे जग्मुः स्वंस्वं निकेतनम्॥
पुष्पोपि च समुद्विग्नो वैलक्ष्यं परमं गतः ॥ २३ ॥
जगामाथ निजावासं निःश्वसन्नुरगो यथा ॥ २४ ॥
ततः स चिन्तयामास यावन्नो साहसं कृतम् ॥
तावत्सिद्धिर्मनुष्याणां न कथंचित्प्रजायते ॥ २५ ॥
तस्मादहं करिष्यामि चण्डशर्मकृते महत् ॥
कृतघ्नता यथा न स्यात्प्रोक्तं चैव यतो बुधैः ॥ २६ ॥
ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ॥
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ २७ ॥
एवं निश्चित्य मनसा सूर्यवारेण सप्तमी ॥
यदाऽऽयाता द्विजश्रेष्ठास्तदा चाष्टोत्तरं शतम् ॥ २८ ॥
प्रदक्षिणाः कृतास्तेन पुष्पादित्यस्य धीमता ॥
तीक्ष्णं शस्त्रं समादाय पूर्वोक्तविधिना ततः ॥
छित्त्वाछित्त्वा निजांगानि जुहुयाज्जातवेदसि ॥ २९ ॥
ततः पूर्णाहुतिं यावत्कायशेषेण यच्छति ॥
तावत्प्रत्यक्षतां गत्वा स प्रोक्तो भास्वता स्वयम्॥ ६.१६३.३० ॥
पुष्प मा साहसं कार्षीः परितुष्टोऽस्मि तेऽनघ ॥
भूय एव महाभाग ब्रूहि किं ते ददाम्यहम् ॥ ३१ ॥
॥ पुष्प उवाच ॥ ॥
चण्डशर्मा द्विजेन्द्रोऽयं मदर्थे पतितः कृतः ॥
समस्तैर्नागरैर्देव तं तैर्नय समानताम् ॥ ३२ ॥
शास्त्रं दृष्ट्वा प्रदत्तं मे प्रायश्चित्तं महात्मना ॥
तथापि दूषितः क्षुद्रैः समस्तैरसहिष्णुभिः ॥ ३३ ॥
॥ भगवानुवाच ॥ ॥
एकस्यापि वचो नैव शक्यते कर्तुमन्यथा ॥
नागरस्य द्विजश्रेष्ठ समस्तानां च किं पुनः ॥ ३४ ॥
परमेष द्विजः पूतश्चंडशर्मा भविष्यति ॥
ब्राह्मोऽयं नागरः ख्यातः समस्ते धरणीतले ॥ ३५ ॥
एतस्य ये सुताश्चैव भविष्यंति धरातले ॥
विख्यातिं तेऽपि यास्यंति मान्याः पूज्या महीभृताम् ॥ ३६ ॥
ये चापि बांधवा श्चास्य सुहृदश्च समागमम्॥
करिष्यंति समं तेऽपि भविष्यंति सुशोभनाः ॥ ३७ ॥
त्वं चापि मत्प्रसादेन संपूर्णांगो भविष्यसि ॥ ३८ ॥
एवमुक्त्वा सहस्रांशुस्ततश्चादर्शनं गतः ॥
पुष्पोऽपि चाक्षतांगत्वं तत्क्षणात्समपद्यत ॥ ३९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागररखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्राह्मनागरोत्पत्तिवृत्तांतवर्णनंनाम त्रिषष्ट्युत्तरशततमोऽध्यायः ॥ १६३ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 165
॥ ॥ सूत उवाच ॥ ॥
ततःप्रभृतिपुण्ये च सरस्वत्यास्तटेशुभे ॥
बाह्यानां नागराणां च स्थानं जातं महत्तरम् ॥ १ ॥
पुत्रपौत्रप्रवृद्धानां दौहित्राणां द्विजोत्तमाः ॥
चमत्कारपुरस्याग्रे यज्ज्ञातं विद्यया धनैः ॥ २ ॥
कस्यचित्त्वथ कालस्य विश्वामित्रेण धीमता ॥
शप्ता सरस्वती कोपात्कृता रुधिरवाहिनी ॥ ३ ॥
ततः संसेव्यते हृष्टै राक्षसैः सा दिवानिशम्॥
गीतनृत्यपरैश्चान्यैर्भूतैः प्रेतैः पिशाचकैः ॥ ४ ॥
ततस्ते नागरा बाह्यास्तां त्यक्त्वा दूरतः स्थिताः ॥
कांदिशीकास्ततो याता भक्ष्यमाणास्तु राक्षसैः ॥
नर्मदायास्तटे पुण्ये मार्कण्डाश्रमसंनिधौ ॥ ५ ॥ ॥
॥ ऋषय ऊचुः ॥ ॥
कस्मात्सरस्वती शप्ता विश्वामित्रेण धीमता॥
महानद्या कोऽपराधस्तया तस्य विनिर्मितः ॥ ६ ॥
॥ सूत उवाच ॥ ॥
आसीत्पुरा महद्वैरं विश्वामित्रवसिष्ठयोः ॥
ब्राह्मण्यस्य कृते विप्राः प्राणान्तकरणं महत् ॥
स सर्वैर्ब्राह्मणैः प्रोक्तो विश्वामित्रो महामुनिः ॥ ७ ॥
क्षत्रियोऽपि पुरस्कृत्य देवदेवं पितामहम् ॥
न चैकेन वसिष्ठेन तेनैतद्वैरमाहितम् ॥ ८ ॥
॥ ऋषय ऊचुः ॥ ॥
क्षत्रियोऽपि कथं विप्रो विश्वा मित्रो महामते ॥
वसिष्ठेन कथं नोक्तो यः प्रोक्तो ब्रह्मणा स्वयम् ॥ ९ ॥
एतन्नः सर्वमाचक्ष्व परं कौतूहलं स्थितम्॥६.१६५.१०॥।
॥ सूत उवाच ॥ ॥
आसीत्पुरा ऋचीकाख्यो भृगुपुत्रो महामुनिः ॥
व्रताध्ययनसंपन्नः सुतपस्वी महायशाः ॥ ११ ॥
तीर्थयात्राप्रसंगेन स कदाचिन्मुनीश्वरः ॥
स्थानं भोजकटं नाम प्राप्तो गाधिमहीपतेः ॥
यत्र सा कौशिकीनाम नदी त्रैलोक्यविश्रुता ॥ १२ ॥
तस्यां स्नात्वा द्विजश्रेष्ठो यावत्तिष्ठति तीरगः ॥
समाधिस्थो जपं कुर्वन्संतर्प्य पितृदेवताः ॥ १३ ॥
तावत्तत्र समायाता राजकन्या सुशोभना ॥
सर्वलक्षणसम्पूर्णा सर्वैरेव गुणैर्युता ॥ ॥ १४ ॥
स तां संवीक्षते यावत्सर्वावयवशोभनाम् ॥
तावत्कामशरैर्व्याप्तः कर्तव्यं नाभ्यविंदत ॥ १५ ॥
ततः पप्रच्छ लोकान्स लब्ध्वा कृच्छ्रेण चेतनाम् ॥
कस्येयं कन्यका साध्वी किमर्थमिह चागता ॥ १६ ॥
क्व यास्यति वरारोहा सर्वं मे कथ्यतां जनाः ॥ १७ ॥
॥ जना ऊचुः ॥ ॥
एषा गाधिसुतानाम ख्याता त्रैलोक्यसुन्दरी ॥
अन्तःपुरात्समायाता गौरीपूजनलालसा ॥ १८ ॥
वांछमाना सुभर्त्तारं सर्वैः समुदितंगुणैः ॥
प्रासादोऽयं स्थितो योऽत्र नदीतीरे बृहत्तरः॥ १९ ॥
उमा संतिष्ठते चात्र सर्वैः संपूजिता सुरैः ॥
एतां च स्नापयित्वेयं पूजयित्वा यथा क्रमम् ॥ ६.१६५.२० ॥
नैवेद्यं विविधं दत्त्वा करिष्यति ततः परम् ॥
वीणाविनोदमात्रं च श्रुतिमार्गसुखावहम् ॥ २१ ॥
ततो यास्यति हर्म्यं स्वं मन्दीभूते च भास्करे ॥
ऋचीकस्तु तदाकर्ण्य लोकानां वचनं च यत् ॥ २२ ॥
ययौ गाधिगृहं शीघ्रं कामबाणप्रपीडितः ॥
तं दृष्ट्वा सहसा प्राप्तमृचीकं भृगु सत्तमम् ॥
संमुखः प्रययौ तूर्णं गाधिः पार्थिवसत्तमः ॥ २३ ॥
गृह्योक्तेन विधानेन कृत्वा चैवार्हणं ततः ॥
कृतांजलिपुटो भूत्वा वाक्यमेतदुवाच ह ॥ २४ ॥
निःस्पृहस्यापि ते विप्र किमागमनकारणम् ॥
तत्सर्वं मे समाचक्ष्व येन यच्छामि तेऽखिलम् ॥ २५ ॥
॥ ऋचीक उवाच ॥ ॥
तव कन्याऽस्ति विप्रेंद्र वरार्हा वरवर्णिनी ॥
ब्राह्मोक्तेन विवाहेन तां मे देहि महीपते ॥ २६ ॥
एतदर्थमहं प्राप्तो गृहे तव स्मरार्दितः ॥
सा मया वीक्षिता राजन्गौरीपूजार्थमागता ॥ २७ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा भयसंत्रस्तो गाधिः पार्थिवसत्तमः ॥
असवर्णं च तं मत्वा दरिद्रं वृद्धमेवच ॥
अदाने शापभीतस्तु ततो व्याजमुवाच सः ॥ २८ ॥
अस्माकं कन्यकादाने शुल्कमस्ति द्विजोत्तम ॥
तच्चेद्यच्छसि कन्यां तां तुभ्यं दास्याम्यसंशयम् ॥ २९ ॥
॥ ऋचीक उवाच ॥ ॥
ब्रूहि पार्थिवशार्दूल कन्याशुल्कं मम द्रुतम् ॥
येन यच्छामि ते सर्वं यद्यपि स्यात्सुदुर्लभम्॥ ॥ ६.१६५.३० ॥
॥ गाधिरुवाच ॥ ॥
एकतः श्यामकर्णानामश्वानां वातरंहसाम् ॥
शतानि सप्त विप्रेंद्र श्वेतानां चैव सर्वतः ॥ ३१ ॥
य आनीय प्रदद्यान्मे तस्मै कन्यां ददाम्यहम् ॥ ३२ ॥
॥ सूत उवाच ॥ ॥
स तथेति प्रतिज्ञाय ऋचीको मुनिसत्तमः ॥
कान्यकुब्जं समासाद्य गंगातीरे विवेश ह ॥ ॥ ३३ ॥
अश्वो वोढेति यत्सूक्तं चतुःषष्टिसमुद्भवम् ॥
छंदऋषिदेवतायुक्तं जपं चक्रे ततः परम् ॥ ३४ ॥
विनियोगं वाजिकृतं गाधिना यत्प्रकीर्तितम् ॥
ततस्ते वाजिनस्तस्मान्निष्क्रांताः सलिलाद्द्विजाः ॥ ३५ ॥
सर्वश्वेताः सुवेगाश्च श्यामैकश्रवणास्तथा ॥
शतानि सप्तसंख्यानि तावत्संख्यै र्नरैयुताः ॥ ३६ ॥
ततः प्रभृति विख्यातमश्वतीर्थं धरातले ॥
गंगातीरे शुभे पुण्ये कान्यकुब्जसमीपगम् ॥
यस्मिन्स्नाने कृते मर्त्यो वाजिमेधफलं लभेत् ॥ ३७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽश्वतीर्थोत्पत्तिवर्णनंनाम पंचषष्ट्यधिकशततमोऽध्यायः ॥ १६५ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 166
॥ सूत उवाच ॥ ॥
ऋचीकोऽपि समादाय पुरुषैराप्तकारिभिः ॥
तानश्वान्प्रजगामाथ यत्र गाधिर्व्यवस्थितः ॥ १ ॥
तस्मै निवेदयामास कन्यार्थं तान्हयोत्तमान् ॥
गाधिस्तु तान्प्रगृह्याथ योग्यान्वाजिमखस्य च ॥ २ ॥
एकैकं परमं तेषां स जगामाथ पार्थिवः ॥
ततस्तां प्रददौ तस्मै कन्यां त्रैलोक्यसुन्दरीम् ॥ ३ ॥
विप्राग्निसाक्षिसंभूतां गृह्योक्तविधिना न्वितः ॥
ततो विवाहे निर्वृत्त ऋचीको मुनिसत्तमः ॥ ४ ॥
तस्याः संवेशने चैव निष्कामः समपद्यत ॥
अथाब्रवीन्निजां भार्यां निष्कामः संस्थितो मुनिः ॥ ५ ॥
अहं यास्यामि सुश्रोणि काननं तपसः कृते ॥
त्वं प्रार्थय वरं कंचिद्येनाभीष्टं ददामि ते ॥ ६ ॥
सा श्रुत्वा तस्य तद्वाक्यं निष्कामस्य प्रजल्पितम् ॥
वाष्पपूर्णेक्षणा दीना जगाम जननीं प्रति ॥ ७ ॥
प्रोवाच वचनं तस्य सा निष्कामपते स्तदा ॥
वरदानं तथा तेन यथोक्तं द्विजसत्तमाः ॥ ८ ॥
अथ श्रुत्वैव सा माता यथा तज्जल्पितं तया ॥
सुतया ब्राह्मणश्रेष्ठास्ततो वचनमब्रवीत् ॥ ९ ॥
यद्ययं पुत्रि ते भर्ता वरं यच्छति वांछितम् ॥
तत्प्रार्थय सुतं तस्माद्ब्राह्मण्येन समन्वितम् ॥ ६.१६६.१० ॥
मदर्थं चैकपुत्रं च निःशेषक्षात्त्रतेजसा ॥
संयुक्तं याचय शुभे विपुत्राऽहं यतः स्थिता ॥ ११ ॥
सा श्रुत्वा जननीवाक्यमृचीकं प्राप्य सुव्रता ॥
अब्रवीज्जननी वाक्यं सर्वं विस्तरतो द्विजाः ॥ १२ ॥
स तस्याश्च वचः श्रुत्वा चकाराथ चरुद्वयम् ॥
पुत्रेष्टिं विधिवत्कृत्वा नमस्कृत्य स्वयंभुवम् ॥ १३ ॥
एकस्मिन्योजयामास ब्राह्म्यं तेजोऽखिलं च सः ॥
क्षात्रं तेजस्तथान्यस्मिन्सकलं द्विजसत्तमाः ॥ १४ ॥
भार्यायै प्रददौ पूर्वं ब्राह्म्यं च चरुमुत्त मम्॥
अब्रवीत्प्राशयित्वैनमश्वत्थालिंगनं कुरु ॥ १५ ॥
ततः प्राप्स्यसि सत्पुत्रं ब्राह्म्यतेजःसमन्वितम् ॥
द्वितीयश्चरुको यश्च तं त्वं मात्रे निवे दय ॥ १६ ॥
अब्रवीच्च ततस्तां तु ऋचीको मुनिसत्तमः ॥
त्वमेनं चरुकं प्राश्य न्यग्रोधालिंगनं कुरु ॥ १७ ॥
ततः प्राप्स्यसि सत्पुत्रं संयुक्तं क्षात्रतेजसा ॥
निःशेषेण महाभागे न मे स्याद्वचनं वृथा ॥ १८ ॥
एवमुक्त्वा ऋचीकस्तु स विसृज्य च तेजसी ॥
सुहृष्टो ब्राह्मणश्रेष्ठः स्वयं च महितोऽभवत् ॥१९॥
ते चैव तु गृहे गत्वा प्रहृष्टेनांतरात्मना ॥
ऊचतुश्च मिथस्ते च सत्यमेतद्भविष्यति ॥ ६.१६६.२० ॥
ततो माता सुतां प्राह आत्मार्थे सकलो जनः ॥
विशेषं कुरुते कृत्ये सामान्ये च व्यवस्थिते ॥ २१ ॥
तत्तवार्थं कृतोऽनेन यश्चरुश्चारुलोचने ॥
यस्तस्मिन्विहितोऽनेन मन्त्रग्रामो भविष्यति ॥
विशेषेण महाभागे सत्यमेतन्मयोदितम् ॥ २२ ॥
तस्माच्च चरुकं मह्यं त्वं गृहाण शुचिस्मिते ॥
आत्मीयं मम यच्छस्व वृक्षाभ्यां च विपर्ययः ॥
क्रियतां च महाभागे येन मे स्यात्सुतोत्तमः ॥ २३ ॥
राज्यकर्मणि दक्षश्च शूरः परबलार्दनः ॥
त्वदीयो द्विजमात्रोऽपि तव तुष्टिं करिष्यति ॥ २४ ॥
अथ सा विजने प्रोक्ता तया मात्रा यशस्विनी ॥
अकरोद्व्यत्ययं वृक्षे चरौ च द्विजसत्तमाः ॥ २५ ॥
ततः पुंस वने स्नाते ते शुभे चारुलोचने ॥
दधाते गर्भमेवाथ भर्तुः संयोगतः क्षणात् ॥ २६ ॥
ततस्तु गर्भमासाद्य सा च त्रैलोक्यसुन्दरी ॥
क्षात्त्रेण तेजसा युक्ता तत्क्षणात्समपद्यत ॥
मनो राज्ये ततश्चक्रे हस्त्यश्वारोहणोद्भवे ॥ २७ ॥
युद्धवार्त्तास्तथा चक्रे देवासुरगणोद्भवाः ॥
शृणोति च तथा नित्यं विलासेषु मनो दधे ॥
अनुष्ठानं ततश्चक्रे मनोराज्यसमुद्भवम् ॥ २८ ॥
पितुर्गृहात्समानीय जात्यानश्वांस्तथा गजान् ॥
रक्तानि चैव वस्त्राणि काश्मीराद्यं विलेपनम् ॥ २९ ।१
तद्दृष्ट्वा चेष्टितं तस्या राज्यार्हं बहुभोगधृक् ॥
ब्राह्मणार्हैः परित्यक्तं समाचारैश्च कृत्स्नशः । ६.१६६.३० ॥
अब्रवीच्च ततः क्रुद्धो धिक्पापे किमिदं कृतम् ॥
व्यत्ययो विहितो नूनं चरुकस्य नगस्य च ॥ ३१ ॥
त्वया पापे प्रपश्यामि येनेदृक्तव चेष्टितम् ।१
क्षत्रियार्हं द्विजाचारैः सकलैः परिवर्जितम् ॥ ३२ ॥
चीरवल्कलसंत्यक्तं स्नानजाप्यविवर्जितम् ॥
संयुक्तं विविधैर्गन्धैर्मृगनाभिपुरःसरैः । ३३ ॥
तव माता शमस्था सा जपहोमपरायणा ॥
तीर्थयात्रापरा चैव वेदश्रवणलालसा ॥ ३४ ॥
तस्मात्ते क्षत्रियः पुत्रो भविष्यति न संशयः ॥ ३५ ॥
मातुश्च ब्राह्मणश्रेष्ठो ब्रह्मचर्यकथापरः ॥
भविष्यति सुतश्चिह्नैर्गर्भलक्षणसंभवैः ॥ ३६ ॥
यस्मादुदीरितः पूर्वं श्लोकोऽयं शास्त्रचिन्तकैः ॥
यादृशा दोहदाः सन्ति सगर्भाणां च योषिताम् ॥ ३७ ॥
तादृगेव स्वभावेन तासां पुत्रोऽत्र जायते ॥
सैवमुक्ता भयत्रस्ता वेपमाना कृतांजलिः ॥ ॥ ३८ ॥
बाष्पपूर्णेक्षणा दीना वाक्यमेतदुवाच ह ॥
सत्यमेतत्प्रभो वाक्यं यत्त्वया समुदाहृतम् ॥ ३९ ॥
अतीतानागतं वेत्ति विना लिंगैर्भवानिह ॥
तस्मात्कुरु प्रसादं मे यथा स्याद्ब्राह्मणः सुतः ॥
क्षत्रियस्य तु पुत्रस्य भवान्नार्हः कथंचन ॥ ६.१६६.४० ॥
॥ ऋचीक उवाच ॥ ॥
यत्किंचिद्ब्रह्मतेजः स्यात्तन्न्यस्तं ते चरौ मया ॥
क्षात्त्रं तेजश्च ते मातुर्व्यत्ययं च कथंचन ।।
करोमि वाधमो लोके शास्त्र स्य च व्यतिक्रमम् ॥ ४१ ॥
॥ पत्न्युवाच ॥ ॥
यद्येवं भृगुशार्दूल मम पौत्रोऽत्र यो भवेत् ॥
क्षात्त्रं तेजोऽखिलं तस्य गात्रे भूया त्त्वयाऽऽहृतम् ॥ ४२ ॥
पुत्रस्तु ब्राह्मणश्रेष्ठो भूयादभ्यधिकस्तव ॥ ४३ ॥
॥ ऋचीक उवाच ॥ ॥
एवं भवतु मद्वाक्यात्पुत्रस्ते ब्राह्मणः शुभे ॥
पौत्रः सुदुर्द्धरः संख्ये संयुक्तः क्षात्त्रतेजसा ॥ ४४ ॥
ततः सत्यं वरं लब्ध्वा प्रसन्नवदना सती ॥
मातुर्निवेदयामास तत्सर्वं कांत जल्पितम् ॥ ४५ ॥
ततः सा दशमे मासि संप्राप्ते गुरुदैवते ॥
नक्षत्रे जनयामास पुत्रं बालार्कसन्निभम् ॥ ४६ ॥
ब्राह्म्या लक्ष्म्या समोपेतं निधानं तपसां शुचि ॥
जमदग्निरिति ख्यातो योऽसौ त्रैलोक्यविश्रुतः ॥
तस्य पुत्रोभवत्ख्यातो रामोनाम महायशाः ॥ ४७ ॥
एकविंशतिदा येन धरा निःक्षत्रिया कृता ॥
क्षात्त्रतेजःप्रभावेन पितामहप्रसादतः ॥ ४८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये परशुरामोत्पत्तिवर्णनंनाम षट्षष्ट्युत्तरशततमोऽध्यायः ॥ १६६ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 167
॥ सूत उवाच ॥ ॥
गाधेस्तु याऽथ पत्नी च प्राशनाच्चरु कस्य वै ॥
सापि गर्भं दधे तत्र वासरे मन्त्रतः शुभा ॥ १ ॥
सा च गर्भसमोपेता यदा जाता द्विजोत्तमाः ॥
तीर्थयात्रापरा साध्वी जाता व्रतपरायणा ॥ २ ॥
वेदध्वनिर्भवेद्यत्र तत्र हर्षसमन्विता ॥
पुलकांचितसर्वांगी सा शुश्राव च सर्वदा ॥
त्यक्त्वा राज्योचितान्सर्वानलंकारान्सुखानि च ॥ ॥ ३ ॥
अथ सापि द्विजश्रेष्ठा दशमे मासि संस्थिते ॥
सुषुवे सुप्रभं पुत्रं ब्राह्म्या लक्ष्म्या समावृतम् ॥ ४ ॥
विश्वामित्रस्तथा ख्यातस्त्रैलोक्ये सचरा चरे ॥
ववृधे स महाभागो नित्यमेवाधिकं नृणाम् ॥ ५ ॥
शुक्लपक्षं समासाद्य तारापतिरिवांबरे ॥
यदासौ यौवनोपेतः संजातो द्विजसत्तमाः ॥ ६ ॥
राज्यक्षमस्तदा राज्ये गाधिना स नियोजितः ॥
अनिच्छमानः स्वं राज्यं पितृपैतामहं महत् ॥ ७ ॥
वेदाध्ययनसंपन्नो नित्यं च पठते हि सः ॥
ब्राह्मणोचितमार्गेण गच्छमानो दिवानिशम् ॥ ८ ॥
संस्थाप्याथ सुतं राज्ये बभूव वनगोचरः ॥
सकलत्रो महाभागो वानप्रस्थाश्रमे रतः ॥ ९ ॥
विश्वामित्रोऽपि राज्यस्थो द्विजसंपूजने रतः ॥
द्विजैः सर्वैश्चचाराथ स्नानजाप्यपरायणः ॥ ६.१६७.१० ॥
कस्यचित्त्वथ कालस्य पापर्द्धिं समुपागतः ॥
प्रविवेश वनं रौद्रं नानामृगसमाकुलम् ॥ ११ ॥
जघान स वने तत्र वराहान्संबरान्गजान् ॥
तरक्षांश्च रुरून्खड्गानारण्यान्महिषांस्तथा ॥ १२ ॥
सिंहान्व्याघ्रान्महासर्पाञ्छरभांश्च द्विजोत्तमाः ॥
मृगयासक्तचित्तः स भ्रममाणो महावने ॥ १३ ॥
मध्याह्नसमये प्राप्ते वृषस्थे च दिवाकरे ॥
क्षुत्पिपासापरिश्रांतो विश्वामित्रो द्विजोत्तमाः ॥ १४ ॥
आससादाश्रमं पुण्यं वसिष्ठस्य महात्मनः ॥
वसिष्ठोऽपि समालोक्य विश्वामित्रं नृपो त्तमम् ॥ १५ ॥
निजाश्रमे तु संप्राप्तं सानन्दं सम्मुखो ययौ ॥
दत्त्वा तस्मै तदार्घ्यं च मधुपर्कं च भूभुजे ॥ १६ ॥
अब्रवीच्च ततो वाक्यं स्वागतं ते महीपते ॥
वद कृत्यं करोम्येव गृहायातस्य यच्च ते ॥ १७ ॥
॥ विश्वामित्र उवाच ॥ ॥
मृगयायां परिश्रांतः पिपासाव्याकुलेन्द्रियः ॥
पानार्थमिह संप्राप्त आश्रमे ते मुनीश्वर ॥ १८ ॥
तत्पीतं शीतलं तोयं वितृष्णोऽहं व्यवस्थितः ॥
अनुज्ञां देहि मे ब्रह्मन्येन गच्छामि मंदिरम् ॥ ॥ १९ ॥
॥ वसिष्ठ उवाच ॥ ॥
मध्याह्न समयो रौद्रः सूर्योऽतीव सुतापदः ॥
तत्कृत्वा भोजनं राजन्नपराह्णे व्यवस्थिते ॥
गन्तासि निजमावासं भुक्त्वान्नं मम चाश्रमे ॥ ६.१६७.२० ॥
॥ राजोवाच ॥ ॥
चतुरंगेण सैन्येन मृगयामहमागतः ॥ २१ ॥
तवाश्रमस्य द्वारस्थं मम सैन्यं व्यवस्थितम्॥
बुभुक्षितेषु भृत्येषु यः स्वामी कुरुतेऽशनम् ॥२२॥
स याति नरकं घोरं त्यज्यते च गुणैर्द्रुतम् ॥
तस्मादाज्ञापय क्षिप्रं मां मुने स्वगृहाय भोः ॥२३॥ ॥
॥ वसिष्ठ उवाच ॥ ॥
यदि ते सेवकाः संति द्वारदेशे बुभुक्षिताः ॥
सर्वानिहानय क्षिप्रं तृप्तिं नेष्याम्यहं परम् ॥ २४ ॥
अस्ति मे नन्दिनीनाम कामधेनुः सुशोभना ॥
वांछितं यच्छते सर्वं तपसा पार्थिवोत्तम ॥ २५ ॥
तृप्तिं नेष्यति ते सर्वं सैन्यं पार्थिवसत्तम ॥
तस्मादानीयतां क्षिप्रं पश्य मे धेनुजं फलम् ॥ २६ ॥
तच्छ्रुत्वा चानयामास सर्वं सैन्यं महीपतिः ॥
स्नातश्च कृतजप्यश्च सन्तर्प्य पितृदेवताः ॥२७॥
ब्राह्मणान्वाचयित्वा च सिंहासनसमाश्रितः ॥
एतस्मिन्नंतरे धेनुः समाहूता च नंदिनी ॥ २८ ॥
वसिष्ठेन समाहूता विश्वामित्रपुरःस्थिता ॥
अब्रवीच्च तता वाक्यं वसिष्ठमृषि सत्तमम् ॥ २९ ॥
आदेशो दीयतां मह्यं किं करोमि प्रशाधि माम् ॥ ६.१६७.३० ॥
॥ वसिष्ठ उवाच ॥ ॥
पादप्रक्षालनाद्यं तु कुरुष्व वचनान्मम ॥
विश्वामित्रस्य राजर्षेर्यावद्भोजनसंस्थितिम् ॥ ३१ ॥
खाद्यैः सर्वैस्तथा लेह्यैश्चोष्यैः पेयैः पृथविधैः ॥
कुरुष्व तृप्तिपर्यन्तं ससैन्यस्य महीपतेः ॥
अश्वानां च गजानां च घासादिभिर्यथाक्रमम् ॥ ३२ ॥
॥ सूत उवाच ॥ ॥
बाढमित्येव साप्युक्त्वा ततस्तत्ससृजे क्षणात्॥
यत्प्रोक्तं तेन मुनिना भृत्यानां चायुतं तथा ॥ ३३ ॥
ततस्ते सर्वमादाय भृत्या भोज्यं ददुस्तथा ॥
एकैकस्य पृथक्त्वेन प्रतिपत्तिपुरःसरम् ॥ ३४ ॥
एवं तया क्षणेनैव तृप्तिं नीतो महीपतिः ॥
ससैन्यः सपरीवारो गजोष्ट्राश्वैर्वृषैः सह ॥ ३५ ॥
ततस्तु कौतुकं दृष्ट्वा विश्वामित्रो महीपतिः ॥
सामात्यो विस्म याविष्टो मन्त्रयामास च द्विजाः ॥ ३६ ॥
अहो चित्रमहो चित्रं ययाऽकस्माद्वरूथिनी ॥
तृप्तिं नीतेयमस्माकं क्षुत्पिपासासमाकुला ॥ ३७ ॥
तस्मात्संनीयतामेषा स्वगृहं धेनुरुत्तमा ॥
किं करिष्यति विप्रोऽयं निर्भृत्यो वनसंस्थितः ॥३८॥
ततो वसिष्ठमाहूय वाक्यमेतदुवाच सः ॥
नंदिनी दीयतां मह्यं किं करिष्यसि चानया ॥ ३९ ॥
त्वमेको वनसंस्थस्तु निर्द्वन्द्वो निष्परिग्रहः ॥
अथवा तव दास्यामि व्ययार्थे मुनिसत्तम ॥
वरान्ग्रामांश्च हस्त्यश्वानन्यांश्चापि यथेप्सितान् ॥ ६.१६७.४० ॥
॥ वसिष्ठ उवाच ॥ ॥
होमधेनुरियं राजन्नस्माकं कामदोहिनी ॥
अदेया गौर्महाराज सामान्यापि द्विजन्मनाम्॥ ४१ ॥
किं पुनर्नंदिनी यैषा सर्वकामप्रदायिनी ॥
अपरं शृणु राजेंद्र स्मृतिवाक्यमनुत्तमम् ॥ ४२ ॥
गवां हि विक्रयार्थे च यदुक्तं मनुना स्वयम् ॥
गवां विक्रयजं वित्तं यो गृह्णाति द्विजोत्तमः ॥ ४३ ॥
अन्त्यजः स परिज्ञेयो मातृविक्रयकारकः ॥
तस्मान्नाहं प्रदास्यामि नन्दिनीं तां महीपते ॥ ४४ ॥
न साम्ना नैव भेदेन न दानेन कथंचन ॥
न दण्डेन महाराज तस्माद्गच्छ निजालयम् ॥ ४५ ॥ ॥
॥ विश्वामित्र उवाच ॥ ॥
यत्किंचिद्विद्यते रत्नं पार्थिवस्य क्षितौ द्विज ॥
तत्सर्वं राजकीयं स्यादिति वित्तविदो विदुः ॥ ४६ ॥
रत्नभूता ततो धेनुर्ममेयं नंदिनी स्थिता ॥
दण्डेनापि ग्रहीष्यामि साम्ना यच्छसि नो यदि ॥ ४७ ॥
एवमुक्त्वा वसिष्ठं स विश्वामित्रो महीपतिः ॥
आदिदेश ततो भृत्यान्नदिनीयं प्रगृह्यताम् ॥ ४८ ॥
अथ सा भृत्यवर्गेण नीयमाना च नंदिनी ॥
हन्यमाना प्रहारैश्च पाषाणैर्लकुटैरपि ॥ ४९ ॥
अश्रुपूर्णेक्षणा दीना प्रहारैर्जर्जरीकृता ॥
कृच्छ्रादुपेत्य तं प्राह वसिष्ठं मुनिसत्तमम् ॥ ६.१६७.५० ॥
किं दत्तास्मि मुनिश्रेष्ठ त्वयाहं चास्य भूपतेः ॥
येन मां कालयंत्यस्य पुरुषाः स्वामिनो यथा ॥ ५१ ॥
॥ वसिष्ठ उवाच ॥ ॥
न त्वां यच्छाम्यहं धेनो प्राणत्यागेऽपि संस्थिते ॥
तद्रक्षस्व स्वयं धेनो आत्मानं मत्प्रभावतः ॥ ५२ ॥
एवमुक्ता तदा धेनुर्वसिष्ठेन महात्मना ॥
कोपाविष्टा ततश्चक्रे हुंकारान्दारुणांस्तथा ॥ ५३ ॥
तस्या हुंकारशब्दैश्च निष्क्रांताः सायुधा नराः ॥
शबराश्च पुलिंदाश्च म्लेच्छाः संख्याविवर्जिताः ॥ ५४ ॥
तैश्च भृत्या हताः सर्वे विश्वामित्रस्यभूपतेः ॥
ततः कोपाभिभूतोऽसौ विश्वामित्रो महीपतिः॥ ५५ ॥
सज्जं कृत्वा स्वसैन्यं तु चतुरंगं प्रकोपतः॥
युद्धं चक्रे च तैः सार्धं मरणे कृतनिश्चयः ॥ ५६ ॥
अथ ते सैनिका स्तस्य ते गजास्ते च वाजिनः॥
पश्यतो निहताः सर्वे पुरुषैर्धेनुसंभवैः॥५७॥
विश्वामित्रं परित्यज्य शेषं सर्वं निपातितम् ॥
तं दृष्ट्वा वेष्टितं म्लेच्छैर्यु ध्यमानं महीपतिम् ॥ ५८ ॥
कृपां कृत्वा वसिष्ठस्तु नन्दिनीमिदमब्रवीत् ॥
रक्ष नंदिनि भूपालं म्लेच्छैरेतैः समावृतम् ॥ ५९ ॥
राजा हि यत्नतो रक्ष्यो यत्प्रसादादिदं जगत् ॥
सन्मार्गे वर्तते सर्वं न चामार्गे प्रवर्तते ॥ ६.१६७.६० ॥
ततस्तु नंदिनीं यावन्निषेधयितुमागताम् ॥
विश्वामित्रोऽसिमुद्यम्य प्रहर्तुमुपचक्रमे ॥ ६१ ॥
वसिष्ठोऽपि समालोक्य वध्यमानां च तां तदा ॥
बाहुं संस्तंभयामास खड्गं तस्य च भूपतेः ॥ ६२ ॥
अथ वैलक्ष्यमापन्नो विश्वामित्रो महीपतिः ॥
प्रोवाच व्रीडया युक्तो वसिष्ठं मुनिसत्तमम्॥ ६३ ॥
रक्ष मां त्वं मुनिश्रेष्ठ वध्यमानं सुदारुणैः ॥
म्लेच्छैः कुरुष्व मे बाहुं स्तम्भेन तु विवर्जितम् ॥ ६४ ॥
ममापराधात्संनष्टं सर्वं सैन्यमनन्तकम्॥
तस्माद्यास्याम्यहं हर्म्यं न युद्धेन प्रयोजनम् ॥ ६५ ॥
दुर्विनीतः श्रियं प्राप्य विद्यामैश्वर्यमेव च ॥
न तिष्ठति चिरं युद्धे यथाहं मदगर्वितः ॥ ६६ ॥
॥ सूत उवाच ॥ ॥
एवमुक्तो वसिष्ठस्तु विश्वामित्रेण भूभुजा ॥
चकार तं भुजं तस्य स्तंभदोषविवर्जितम् ॥ ६७ ॥
अब्रवीत्प्रहसन्वाक्यं विधाय स शुभं करम्॥
गच्छ राजन्विमुक्तोऽसि स्तंभदोषेण वै मया ॥ ६८ ॥
माकार्शीर्ब्राह्मणैः सार्धं विरोधं भूय एव हि ॥
अनुज्ञातः स तेनाथ विश्वामित्रो महीपतिः ॥ ६९ ॥
सव्रीडं प्रययौ हर्म्यं पद्भ्यामेव द्विजोत्तमाः॥
स्वपुरद्वारमासाद्य सुगुप्ते रजनीमुखे ॥६.१६७.७॥।
प्रलापमकरोत्तत्र बाष्पपर्याकुलेक्षणः ॥.
धिग्बलं क्षत्रियाणां च धिग्वीर्यं धिक्प्रजीवितम् ॥ ॥ ७१ ॥
श्लाघ्यं ब्रह्मबलं चैकं ब्राह्म्यं तेजश्च केवलम् ॥७२ ॥
एतत्कर्म मया कार्यं यथा स्याद्ब्रह्मजं बलम् ॥
त्यक्त्वा चैव निजं राज्यं चरिष्यामि महत्तपः।
एवं स निश्चयं कृत्वा राज्ये संस्थाप्य वै सुतम्॥
नाम्ना विश्वसहं ख्यातं प्रजगाम तपोवनम्॥७४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रराज्यपरित्यागवर्णनं नाम सप्तषष्ट्युत्तरशततमोऽध्यायः॥१६७॥
खण्डः ६ (नागरखण्डः) — Adhyāya 168
॥ ॥ सूत उवाच ॥ ॥
एवं राज्यं परित्यज्य विश्वामित्रो द्विजोत्तमाः ॥
हिमवन्तं नगं प्राप्य तपश्चक्रे सुदारुणम् ॥ १ ।।
वर्षास्वाकाशशायी च हेमंते सलिलाशयः ॥
पञ्चाग्निसाधको ग्रीष्मे स्थितो वर्षशतत्रयम् ॥ २ ॥
फलमूलकृताहारस्ततो वर्षशतत्रयम् ॥
ध्यायमानः परं ब्रह्म स्थितो ब्राह्मणसत्तमाः ॥
शीर्णपर्णाशनः पश्चात्तावत्कालं व्यवस्थितः ॥ ३ ॥
ततश्चैव जलाहारस्तावन्मात्रं व्यवस्थितः ॥
कालं स वायुभक्षश्च ततश्चैवायुतं समाः॥ सूत उवाच॥
अथ दृष्ट्वा तपःशक्तिं तस्य तां त्रिदशाधिपः।
पातायष्यति मां नूनमेष स्थानान्नृपोत्तमः॥। ॥ ५ ॥
ततः प्रोवाच संगत्य साम्ना परमवल्गुना ॥
विश्वामित्रं नृपश्रेष्ठं भयेन महताऽन्वितः ॥ ६ ॥
॥ इंद्र उवाच ॥ ॥
विश्वामित्र प्रतुष्टोऽस्मि तपसानेन पार्थिव ॥
वरं वरय भद्रं ते यदभीष्टं हृदिस्थितम्॥ ७ ॥
॥ विश्वामित्र उवाच ॥ ॥
ब्राह्मण्यं देहि मे शक्र यदि तुष्टोऽसि सांप्रतम् ॥
तदर्थं तपसश्चर्यां जानीहि त्वं पुरंदर ॥९॥
॥ इंद्र उवाच ॥ ॥
अनेनैव शरीरेण क्षत्रियः स्यात्कथं द्विजः ॥
चतुर्विंशतिसंस्कारैर्द्विगुणैर्यःप्रजायते ॥
तदन्यत्प्रार्थय क्षिप्रं यत्तेऽभीष्टतरं स्थितम् ॥ ९ ॥
॥ विश्वामित्र उवाच ॥ ॥
न ब्राह्मण्यात्परं किंचित्प्रार्थयामि सुरेश्वर॥ ६.१६८.१० ॥
अपि त्रैलोक्यराज्यं ते वस्तुष्वन्येषु का कथा ॥
तस्माद्गच्छ सुरश्रेष्ठ स्वराज्यं परिपालय ॥ ११ ॥
परित्यक्ष्याम्यहं देहं यास्ये वाऽहं द्विजन्मताम् ॥
तच्छ्रुत्वा वचनं तस्य देवराजो दिवं गतः ॥ १२ ॥
तस्य तं निश्चयं ज्ञात्वा सर्वदेवसमावृतः॥
विश्वामित्रोऽपि तद्रूपं चकार दुश्चरं तपः॥ १३ ॥
अथ वर्षसहस्रे तु व्यतिक्रान्ते द्विजोत्तमाः ॥
अन्यस्मिन्वायुभक्षस्य विश्वामित्रस्य भूपतेः ॥ १४ ॥
आजगाम स्वयं ब्रह्मा पुण्यैर्देवर्षिभिः सह ॥
अब्रवीत्तं महीपालं तपसा दग्धकिल्बिषम् ॥ १५ ॥
॥ श्रीब्रह्मोवाच ॥ ॥
विश्वामित्र प्रतुष्टोऽस्मि तपसानेन सत्तम ॥
वरं वरय भद्रं ते प्रदास्याम्यपि दुर्लभम् ॥ १६ ॥
॥ विश्वामित्र उवाच ॥ ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
ब्राह्मण्यं देहि मे देव नान्यदिष्टतमं महत् ॥ १७ ॥ ॥
॥ ब्रह्मोवाच ॥ ॥
क्षत्रियेण प्रजातस्य द्विजत्वं जायते कथम् ॥
श्रुतिस्मृतिविरुद्धं हि किमेवं वदसीप्सितम् ॥ १८९ ॥
यन्न जातं धरापृष्ठे न भविष्यति कर्हिचित् ॥ १९ ॥
॥ विश्वामित्र उवाच ॥ ॥
गच्छ त्वं देवदेवेश ब्रह्मलोकमनुत्तमम्॥
अहं त्यक्ष्यामि वा प्राणान्संप्राप्स्ये वा द्विजन्मताम् ॥ ६.१६८.२० ॥
अथ देवर्षिमध्यस्थ ऋचीको वाक्यमब्रवीत् ॥
अस्य जन्मकृते देव ब्राह्म्यैर्मंत्रैर्मया चरुः ॥ २१ ॥
अभितो ब्रह्मसर्वस्वं तत्र सयोजितं मया ।
तेनैव क्षत्रजन्माऽयं ब्राह्मणश्चतुरानन॥२२॥
ब्रह्मर्षिकीर्तयस्वैनं तस्मात्त्वं प्रपितामह॥
राज्यस्थोऽपि द्विजार्हाणि सत्कृत्यान्य करोदसौ ॥ २३ ॥
ब्राह्ममन्त्रप्रभावेन तस्माद्ब्रह्मर्षिमाह्वय ॥
येन कीर्तामहे सर्वे विश्वामित्रं द्विजोत्तमम्॥ २४ ।
अथ ब्रह्मा चिरं ध्यात्वा ब्राह्म्यै र्मंत्रैश्च तेजसा ॥
समुत्पन्नं ततः प्राह ब्राह्मणस्त्वं मया कृतः ॥ २५ ॥
त्यजेदं दुष्करं घोरं तपो मद्वचनाद्द्रुतम् ॥
स यदा ब्रह्मणा प्रोक्तो ब्रह्मर्षि स्त्वमसंशयम्॥ २६ ॥
ऋचीकाद्यैस्ततः सर्वैः प्रोक्तो देवर्षिभिस्तथा ॥ २७ ॥
अथ तेषां मध्यगतो वसिष्ठो मुनिसत्तमः ॥
सोऽब्रवीत्कोपसंयुक्तो नाहं वक्ष्यामि कर्हिचित्॥ २८ ॥
ब्राह्मणं क्षत्रियाज्जातं जानन्नपि पितामह ॥
ऋचीकस्य च दाक्षिण्यात्तथा त्वं वदसि प्रभो ॥ २९ ॥
प्रोच्यमानो ऽपि बहुधा वसिष्ठो मुनिसत्तमः ॥
पितामहेन मुनिभिर्नारदाद्यैरनेकधा ॥
जगामाथ परित्यज्य तान्सर्वान्द्विजसत्तमान् ॥ ६.१६८.३० ॥
स चागत्य मुनि श्रेष्ठो देशं चानर्तसंज्ञितम् ॥
हाटकेश्वरजे क्षेत्रे शंखतीर्थसमीपतः ॥ ३१ ॥
यत्र ब्रह्मशिला पुण्या श्वेतद्वीपसमन्विता ॥
सरस्वती स्थिता यत्र नदी पापहरा शुभा ॥ ३२ ॥
तत्राश्रमपदं कृत्वा चकार विपुलं तपः ॥
विश्वामित्रोऽपि सामर्षस्तद्वधार्थं समागतः ॥ ३३ ॥
तस्याश्रमस्य दूरे स याम्यां दिशि समाश्रितः ॥
कृत्वाश्रमपदं तत्र तस्य च्छिद्राणि चिन्तयन् ॥ ३४ ॥
संस्थितः सुचिरं कालं न च पश्यति किंचन ॥
अथाभिचारिकं तेन प्रारब्धं तस्य चोपरि॥३५॥
यदुक्तं सामविधिना सामवेदे वधात्मकम्॥
तस्य तैर्दारुणैर्मंत्रैर्जुह्वतो जातवेदसम्॥३६॥
निष्क्रांता दारुणा शक्तिर्मुक्तकेशी भयानका॥
वानरस्कंधमारूढा कुर्वाणा किल्किलाध्वनिम्॥३७॥
नानायुधसमोपेता यमजिह्वा यथा परा॥
साब्रवीद्वद विप्रेंद्र किं ते कृत्यं करोम्यहम्॥३८॥
त्रैलोक्यमपि कृत्स्नं च संहरामि तवाज्ञया॥३९॥
विश्वामित्र उवाच॥
मम शत्रुर्मान्यो त्र वसिष्ठः कुमुनिः स्थितः।
तं त्वं जहि द्रुतं गत्वा तदर्थं च मया कृता॥६.१६८.४०॥
एवमुक्ता तु सा तेन विश्वामित्रेण धीमता।
वसिष्ठाश्रममुद्दिश्य प्रस्थिता चोत्तरामुखी॥४१॥
एतस्मिन्नेव काले तु वसिष्ठस्याश्रमे द्विजाः।
दुर्निमित्तानि जातानि प्रभूतानि महांति च॥४२॥
पपात महती चोल्का निहत्य रविमण्डलम्॥
तथा रुधिरवृष्टिश्च अस्थिमिश्रा व्यजायत॥४३॥
दीप्तां दिशं समासाद्य रुरोद च तथा शिवा।
तां दृष्ट्वा सुमहोत्पातान्वसिष्ठो मुनिपुंगवः॥४४॥
यावदालोकते रूपं ज्वालामालासमाकुलम्॥
ततः सम्यक्परिज्ञाय सर्वं दिव्येन चक्षुषा॥४५॥
विश्वामित्रप्रयुक्तेयं शक्तिर्मम वधाय च॥
कृत्या रूपा सुमंत्रैश्च सामवेदसमुद्भवैः॥४६॥
तिष्ठतिष्ठेति तेनोक्ता ततः सा निश्चलाभवत्॥
निजमंत्रैश्च सा तेन स्तंभिताथर्वणोद्भवैः॥४७॥
ततः स्त्रीरूपमादाय प्रोवाच मुनिपुंगवम्॥
सामवेदस्तु वेदानां प्राधान्येन व्यवस्थितः॥४८।.
विधिना तेन संसृष्टा विश्वामित्रेण धीमता॥
मा कुरुत्वप्रमाणंतु प्रहारं सह मे मुने ॥
रक्षयिष्यामि ते
प्राणान्स्वल्पस्पर्शेन ते मुने ॥ ४९ ॥
॥ वसिष्ठ उवाच ॥ ॥
यद्येवं कुरु मे स्पर्शं न मर्म स्पर्शनं शुभे ॥
मया चाथर्वणा मंत्राः संहृताः कृपया तव ॥ ६.१६८.५० ॥
ततः सा दारुणा शक्तिर्विश्वामित्रप्रयोजिता ॥
तस्यांगदेशं स्पृष्ट्वाथ निपपात धरातले ॥ ५१ ॥
ततस्तुष्टो वसिष्ठस्तु तामाह मधुरं वचः ॥
अद्यप्रभृति ते पूजां करिष्यंति समाहिताः ॥
जनाः सर्वे महाभागे भक्त्या परमया युताः ॥ ५२ ॥
चैत्रमासे सिते पक्षे अष्टमीदिवसे स्थिते ॥
ये ते पूजां करिष्यंति श्रद्धया परया युताः ॥ ५३ ॥
ते सर्वे वत्सरंयावद्भवि ष्यंति निरामयाः ॥
तस्मादत्रैव स्थातव्यं सदैव मम वाक्यतः ॥ ५४ ॥
॥ सूत उवाच ॥ ॥
एवमुक्ता च सा तेन वसिष्ठेन महात्मना ॥
स्थिता तत्रैव सा देवी तस्य वाक्येन तत्क्षणात् ॥ ५५ ॥
प्राप्नोति परमां पूजां विशेषान्नागरैः कृताम् ॥
धारानामेति विख्याता भक्तलोकसुख प्रदा ॥ ५६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धारोत्पत्तिमाहात्म्यवर्णनंनामाष्ट षष्ट्युत्तरशततमोऽध्यायः ॥ १६८ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 169
॥ ऋषय ऊचुः ॥ ॥
कस्मात्सा तुष्टिदा प्रोक्ता नागराणां विशेषतः ॥
धारानामेति विख्याता कस्मात्सा धरणीतले ॥ १ ॥
॥ सूत उवाच ॥ ॥
चमत्कारपुरे पूर्वं धारानामेति विश्रुता ॥
आसीत्तपस्विनी साध्वी नागरी ब्राह्मणोत्तमा ॥
तस्याः सख्यमरुन्धत्या आसीत्पूर्वं सुमेधया ॥ २ ॥
अरुन्धती यदा प्राप्ता चमत्कारपुरे शुभे ॥
स्नानार्थं शंखतीर्थं तु वसिष्ठेन समागता ॥ ३ ॥
तया दृष्टाथ सा तत्र अंगुष्ठाग्रेण संस्थिता ॥
वायुभक्षा निराहारा दिव्येन वपुषान्विता ॥ ४ ॥
तया पृष्टा च सा साध्वी का त्वं कस्य सुता शुभे ॥
किमर्थं तु स्थिता चोग्रे तपसि ब्रूहि मे शुभे ॥ ५ ॥
॥ धारोवाच ॥ ॥
देवशर्माख्यविप्रस्य सुताहं नागरस्य च ॥
बालत्वे वर्तमानाया वैधव्यं मे व्यवस्थितम् ॥ ६ ॥
शंखतीर्थस्य माहात्म्यं श्रुत्वा शंखेश्वरस्य च ॥
ततोऽहं संस्थिता ह्यत्र तस्यैवाराधने स्थिता ॥ ७ ॥ ॥
॥ अरुन्धत्युवाच ॥ ॥
तवोपरि महान्स्नेहो दर्शनात्ते व्यवस्थितः ॥
तस्मादागच्छ गच्छावो ममाश्रमपदं शुभम् ॥ ८ ॥
सरस्वत्या स्तटे शुभ्रे सर्वपातकनाशने ॥
शास्त्रगोष्ठीरता नित्यं तत्र तिष्ठ मया सह ॥ ९ ॥
ततः संप्रस्थिता सा तु तया सार्धं तपस्विनी ॥
अनुज्ञाता स्वपित्रा तु जनन्या बांधवैस्तथा ॥ ६.१६९.१० ॥
तस्याः सख्यं चिरं कालं तया सह बभूव ह ॥
कस्यचित्त्वथ कालस्य सा शक्तिस्तत्र चागता ॥ ॥ ११ ॥
विश्वामित्रेण संसृष्टा वसिष्ठस्य वधाय च ॥
सा स्तंभिता वसिष्ठेन कृता देवीस्वरूपिणी ॥
संपूज्या देवमर्त्यानां सर्वरक्षाप्रदा शुभा ॥ १२ ॥
ततस्तु धारया तस्याः कैलासशिखरोपमः ॥
प्रासादो निर्मितो विप्रा नानारत्नविचित्रितः ॥ १३ ॥
चकाराथ ततः स्तोत्रं तस्याः सा च तपस्विनी ॥ १४ ॥
नमस्ते परमे ब्राह्मि धारयोगे नमोनमः ॥
अर्धमात्रे परे शून्ये तस्यार्धार्धे नमोस्तु ते ॥- ॥ १५ ॥
नमस्ते जगदाधारे नमस्ते भूतधारिणि ॥
नमस्ते पद्मपत्राक्षि नमस्ते कांचनद्युते ॥ १६ ॥
नमस्ते सिंहयानाढ्ये नमस्तेऽस्तुमहाभुजे ॥
नमस्ते देवताभीष्टे नमस्ते दैत्यसूदिनि ॥ १७ ॥
नमस्ते महिषाक्रांतशरीरच्छिन्नमस्तके ॥
नमस्ते विंध्यनिरते सुरामांसबलिप्रिये ॥ १८ ॥
त्वं लक्ष्मीस्त्वं शची गौरी त्वं सिद्धिस्त्वं विभावरी ॥
त्वं स्वाहा त्वं स्वधा तुष्टिस्त्वं पुष्टिस्त्वं सुरेश्वरी ॥ १९ ॥
शक्तिरूपासि देवि त्वं सृष्टिसंहारका रिणी ॥
त्वयि दृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ ६.१६९.२० ॥
यथा तिलेस्थितं तैलं दधिसंस्थं यथा घृतम् ॥
हविर्भुजश्च काष्ठस्थः सुगुप्तं लभ्यते न हि ॥ २१ ॥
तथा त्वमपि देवेशि सर्वगापि न लक्ष्यसे ॥ २२ ॥
॥ सूत उवाच ॥ ॥
एतेन स्तोत्रमुख्येन स्मृता सा परमेश्वरी ॥
बहूनि वर्ष पूगानि पूजयंत्या दिनेदिने ॥ २३ ॥
कस्यचित्त्वथ कालस्य चैत्रशुक्लाष्टमी सिता ॥
तस्मिन्नहनि देवी सा नद्यां संस्नाप्य पूजिता ॥ २४ ॥
बलि पूजां ततो दत्त्वा स्तोत्रेणानेन च स्तुता ॥
ततः प्रत्यक्षतां गत्वा तामुवाच तपस्विनीम् ॥२५॥
पुत्रि तुष्टास्मि भद्रं ते स्तोत्रेणानेन चानघे ॥
वरं वरय भद्रं ते तव दास्यामि वांछितम् ॥ २६ ॥
॥ धारोवाच ॥ ॥
यदि तुष्टासि मे देवि यदि देयो वरो मम ॥
तन्मे नाम तवाप्यस्तु प्रासादेऽत्र हि केवलम्॥ २७ ॥
अपरं नागरो योऽत्र त्वस्मिन्नहनि संस्थिते ॥
प्रदक्षिणात्रयं कृत्वा तव दत्त्वा फलत्रयम् ॥ २८ ॥
स्तोत्रेणानेन भवतीं स्तुत्वा च कुरुते नतिम्॥
तस्य संवत्सरं यावद्रोगो रक्ष्यस्त्वयाऽखिलः ॥२९।।
या च वंध्या भवेन्नारी सा भूयात्पुत्रसंयुता ॥
दुर्भगा च ससौभाग्या कुरूपा रूपसंभवा ॥
रोगिणी रोगनिर्मुक्ता सर्वसौख्यसमन्विता ॥ ६.१६९.३० ॥
॥ देव्युवाच ॥ ॥
अहं धारेति विख्याता प्रासादेऽत्र त्वया कृते॥
भविष्यामि न सन्देहस्तव कीर्तिकृते सदा ॥ ३१ ॥
अत्र यो नागरो भक्त्या समागत्य तपस्विनि ॥
प्रदक्षिणात्रयं कुर्याद्दत्त्वा मम फलत्रयम् ॥ ३२ ॥
सोऽपि संवत्सरं यावद्भविता रोगवर्जितः ॥
एवमुक्ता तु सा देवीततश्चादर्शनं गता ॥ ३३ ॥
धारापि संस्थिता तत्र अरुन्धत्या समन्विता ॥
अद्यापि दृश्यते व्योम्नि तस्याश्चापि समीपगा ॥ ३४ ॥
एतद्धारोद्भवं योऽत्र वृत्तांतं कीर्तयिष्यति ॥
शृणुयाद्वा द्विजश्रेष्ठा मुच्येत्पापाद्दिनोद्भवात् ॥ ३५ ॥
तस्मात्सर्वप्रयत्नेन पठनीयं विशेषतः ॥
श्रोतव्यं च प्रभक्त्येदं नागरैश्च विशेषतः ॥ ३६ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धारानामोत्पत्तिवृत्तांत धारादेवीमाहात्म्यवर्णनं नामैकोनसप्तत्युत्तरशततमोऽध्यायः ॥१६९॥
खण्डः ६ (नागरखण्डः) — Adhyāya 170
॥ सूत उवाच ॥ ॥
तथान्यदपि संजातमाश्चर्यं यदभूद्द्विजाः ॥
विश्वामित्रेण सा शक्तिर्वसिष्ठाय विसर्जिता ॥ १ ॥
वधार्थं तस्य विप्रर्षेर्वसिष्ठेन च धीमता ॥
स्तंभिताऽथर्वणैर्मन्त्रैः प्रस्वेदः समजायत॥२॥
स्वेदात्समभवत्तोयं शीतलं तदजायत॥
पादाभ्यां निर्गतं तोयमत्र दृश्यमजायत ॥३॥
विदार्य भूमिं संजाता जलधारा सुशीतला ॥
निर्मलं पावनं स्वच्छं गंगांभ इव निःसृतम् ॥ ४ ॥ गं
गा प्रत्यक्षतां याता तीर्थैः सर्वैः समन्विता॥
पूरितं वारिणा कुण्डं निर्मलं शीतलं शिवम् ॥ ५ ॥
तस्यां या कुरुते स्नानं नारी वंध्या द्विजोत्तमाः ॥
सद्यः पुत्रवती सा स्याद्रौद्रे कलियुगे द्विजाः ॥ ६ ॥
अन्योऽपि कुरुते स्नानं सर्वतीर्थफलं लभेत् ॥७॥
स्नात्वा तत्र तु यो देवीं पश्येच्च विधिना नरः ॥
धनं धान्यं तथा पुत्रान्राज्योत्थं च सुखं लभेत् ॥ ॥८॥
या नारी दुर्भगा वन्ध्या साऽपि पुत्रवती भवेत् ॥
चैत्रे मासि सिताष्टम्यां भक्तियोगसमन्विता ॥
महानिशायां तत्रैव नैवेद्यबलिपिंडिकाम्॥९॥
प्रसन्नया कुमार्या तु स्वयं चाऽथ करोति या ॥
गृह्णाति या च वै नारी पिंडिकां बलिसंयुताम् ॥ ६.१७०.१० ॥
शतवर्षा तु या नारी पिंडिकां भक्षयेद्द्विजाः ॥
साऽपि पुत्रवती च स्याद्यदि वृद्धतमा भवेत् ॥ ११ ॥
किं पुनर्यौवनोपेता सौभाग्येन समन्विता ॥
पुत्रसौख्यवती नारी देव्या वै दर्शनेन च ॥ ॥ १२ ॥
सर्वेषां नागराणां तु भावजा देवता स्मृता ॥
सा सार्धाष्टद्विपंचाशद्गोत्राणां कुलदेवता ॥ १३ ॥
एतस्मात्कारणाद्यात्रा नागरैः सुकृता भवेत् ॥
न विना नागरैर्यात्रां तुष्टिं याति सुरेश्वरी ॥ १४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटके श्वरक्षेत्रमाहात्म्ये धारातीर्थोत्पत्तिमाहात्म्यवर्णनंनाम सप्तत्युत्तरशततमोऽध्यायः १७० ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 171
॥ सूत उवाच ॥ ॥
एतस्मिन्नेव काले तु विश्वामित्रो महामुनिः ॥
तां शक्तिं व्यर्थतां प्राप्तां ज्ञात्वा कोपसमन्वितः ॥ १ ॥
मुमोच तद्वधार्थाय ब्रह्मास्त्रं सोऽभिमंत्रितम् ॥
तस्य संहितमात्रस्य प्रस्वनः समजायत ॥ २ ॥
ततश्चोल्काः प्रभूताश्च प्रयांति च नभस्तलात् ॥
ततः कुन्ताः शक्तयश्च तोमराः परिघास्तथा ॥ ३ ॥
भिंडिपाला गदाश्चैव खड्गाश्चैव परश्वधाः ॥
बाणाः प्रासाः शतघ्न्यश्च शतशोऽथ सहस्रशः ॥४॥
वसिष्ठोऽपि परिज्ञाय प्रेषितं गाधिसूनुना ॥
ब्रह्मास्त्रं मृत्यवे तेन शुचिर्भूत्वा ततः परम् ॥ ५ ॥
इषीकां च समादाय ब्रह्मास्त्रं तत्र योजयन् ॥
अब्रवीद्गाधिपुत्राय स्वस्त्यस्तु तव पार्श्वतः ॥ ६ ॥
हन्यतामस्त्रमेतद्धिमम वाक्यादसंशयम्॥
ततस्तेन हतं तच्च ब्रह्मास्त्रं तत्समुद्भवम् ॥ ७ ॥
वज्रास्त्रं च ततो मुक्तं वज्रास्त्रेण विनाशितम् ॥
यद्यदस्त्रं क्षिपत्येष विश्वामित्रः प्रकोपितः ॥ ८ ॥
तत्तद्धंति वसिष्ठस्तु मंत्रस्य च प्रभावतः ॥
एतस्मिन्नेव काले तु क्षुभितो मकरालयः ॥ ९ ॥
शीर्यंते गिरिशृंगाणि रक्तवृष्टिः परा स्थिता ॥
प्रलयस्येव चिह्नानि संजातानि धरातले ॥
किमकाले महानेष प्रलयः संभविष्यति ॥ ६.१७१.१० ॥
ततः पितामहं जग्मुः सर्वे देवाः सवासवाः ॥
प्रोचुः प्रलयचिह्नानि यानि संति धरातले ॥ ११ ॥
ततो ब्रह्मा चिरं ध्यात्वा तानुवाच दिवौकसः ॥
विश्वामित्र वसिष्ठाभ्यां युद्धमेतद्व्यवस्थितम् ॥ १२ ॥
दिव्यास्त्रसंभवं देवास्तेनैतद्व्याकुलं जगत् ॥ १३ ॥
तस्माद्गच्छामहे तत्र यावन्नो जायते क्षयः ॥
सर्वेषामेव भूतानां दिव्यास्त्राणां प्रभावतः ॥ १४ ॥
ततोऽभिगम्य ते देशं यत्र तौ मुनिसत्तमौ ॥
विचामित्रवसिष्ठौ तौ युध्यमानौ परस्परम् ॥१५॥
ततः प्रोवाच तौ ब्रह्मा साम्ना परमवल्गुना ॥
निवर्त्यतामिदं युद्धमेतद्दिव्यास्त्रसंभवम् ॥
यावन्न प्रलयो भावि समस्ते धरणीतले ॥ १६ ॥ ॥
॥ वसिष्ठ उवाच ॥ ॥
नाहमस्त्रं प्रयुंजामि विश्वामित्रवधेच्छया ॥
आत्मरक्षाकृते देव अस्त्रमस्त्रेण शामयन् ॥ १७ ॥
अयं मम विनाशाय केवलं चास्त्रमोक्षणम्॥
कुरुते निर्दयो ब्रह्मंस्तं निवारय सांप्रतम् ॥ १८ ॥
॥ ब्रह्मोवाच ॥ ॥
विश्वामित्र मुनिश्रेष्ठ वसिष्ठं ब्राह्मणोत्तमम् ॥
त्वं रक्ष मम वाक्येन तथा सर्वमिदं जगत् ॥ १९ ॥
अस्त्रमोक्षविरामं त्वं ब्रह्मर्षे कुरु सत्वरम् ॥ ६.१७१.२० ॥
॥ विश्वामित्र उवाच ॥ ॥
न मामेष द्विजं ब्रूते कथंचित्प्रपितामह ॥
तस्मादेष प्रकोपो मे संजातोऽस्य वधोपरि ॥ २१ ॥
तस्माद्वदतु देवेश मामेष ब्राह्मणं द्रुतम् ॥
निवारयामि येनास्त्रं यदस्योपरि संधितम् ॥२२॥
॥ ब्रह्मोवाच ॥ ॥
त्वं वसिष्ठाधुना ब्रूहि विश्वामित्रं ममाज्ञया ॥
ब्राह्मणो जायते तेन तव जीवस्य रक्षणम् ॥ २३ ॥ ॥
॥ वसिष्ठ उवाच ॥ ॥
नाहं क्षत्रियसंजातं ब्राह्मणं वच्मि पद्मज ॥
न वधे मम शक्तोऽयं कथंचित्क्षत्रियोद्भवः ॥ २४ ॥
ब्राह्म्यं तेजो न क्षा त्त्रेण तेजसा संप्रणश्यति ।
एवं ज्ञात्वा चतुर्वक्त्र यद्युक्तं तत्समाचर ॥ २५ ॥
॥ ब्रह्मोवाच ॥ ॥
विश्वामित्र द्विजश्रेष्ठ त्यक्त्वा दिव्यास्त्रसंभवम् ॥
कुरु युद्धं वसिष्ठेन नो चेच्छप्स्यामहं च ते ॥ २६ ॥
॥ विश्वामित्र उवाच ॥ ॥
दिव्यास्त्राणि च संत्यज्य मया वध्यः सुदुर्मतिः ॥
किंचिच्छिद्रं समासाद्य त्वं गच्छ निजसंश्रयम् ॥ ॥ २७ ।
॥ सूत उवाच ॥ ॥
बाढमित्येवमुक्ता च ब्रह्मलोकं गतो विधिः ॥
विश्वामित्रवसिष्ठौ च सरस्वत्यास्तटे स्थितौ ॥ २८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वसिष्ठविश्वामित्र युद्धे दिव्यास्त्रनिवर्तनवर्णनंनामैकसप्तत्युत्तरशततमोऽध्यायः ॥ १७१ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 172
सूत उवाच ॥ ॥
ततःप्रभृति च्छिद्राणि विश्वामित्रो निरीक्षयन् ॥
वसिष्ठस्य वधार्थाय संस्थितो द्विजसत्तमाः ॥ १ ॥
आत्मशक्तिप्रभावेन मशकस्य यथा गजः ॥
अन्यस्मिन्नहनि प्राप्ते विश्वामित्रेण सा नदी ॥ २ ॥
समाहूता समायाता द्रुतं सा स्त्रीस्वरूपिणी ॥
अब्रवीत्प्रांजलिर्भूत्वा आदेशो दीयतां मम ॥
ब्रह्मर्षे येन कार्येण समाहूतास्मि सांप्रतम् ॥ ३ ॥
॥ विश्वामित्र उवाच ॥ ॥
यदा निमज्जनं कुर्यात्तव तोये महानदि ॥
परमं वेगमास्थाय तदाऽऽनय ममांतिकम् ॥ ४ ॥
पूर्णश्रोत्रं जले नैव व्याकुलांगं व्यवस्थितम् ॥
निहन्मि येन शीघ्रं च नान्यच्छिद्रं प्रलक्षये ॥ ५ ॥
एवमुक्ता तदा तेन विश्वामित्रेण सा नदी ॥
वित्रस्ता भयसंयुक्ता शापाद्वाक्यमुवाच सा ॥ ६ ॥
नाहं द्रोहं करिष्यामि वसिष्ठस्य महात्मनः ॥
ब्रह्मर्षे न च ते युक्तं कर्तुं वै ब्रह्मणो वधम् ॥ ७ ॥
यदि त्वं ब्रह्मणा प्रोक्तो ब्रह्मर्षिः स्वयमेव तु ॥
कामान्नायं वसिष्ठस्तु तस्मात्कोपं परित्यज ॥ ८ ॥
मनसापि वधं यस्तु ब्राह्मणस्य विचिंतयेत् ॥
तप्तकृच्छ्रेण मुच्येत मनुः स्वायंभुवोऽब्रवीत् ॥ ९ ॥
वाचया प्रवदेद्यस्तु ब्राह्मणस्य वधं नरः ॥
चांद्रायणेन शुद्धिः स्यात्तस्य देवोऽब्रवीदिदम् ॥ ६.१७२.१० ॥
तस्मान्नाहं करिष्यामि तव वाक्यं कथंचन ॥
वसिष्ठार्थं तु यत्प्रोक्तं कुरु यत्तव रोचते ॥ ११ ॥
तच्छ्रुत्वा कुपितस्तस्या विश्वामित्रो द्विजोत्तमाः ॥
शशाप तां नदीं श्रेष्ठां यत्तद्वक्ष्यामि श्रूयताम् ॥ १२ ॥
यस्मात्पापे वचो मह्यं न कृतं कुनदि त्वया ॥
तस्माद्रक्तप्रवाहस्ते जलजोऽयं भविष्यति ॥ १३ ॥
एवमुक्त्वा करात्तोयं सप्तवाराभिमंत्रितम् ॥
चिक्षेपाथ जले तस्याः क्रोधसंरक्तलोचनः ॥ १४ ॥
ततश्च तत्क्षणाज्जातं तत्तोयं रुधिरं द्विजाः ॥
सारस्वतं सुपुण्यं च यदासीच्छंखसंनिभम् ॥ १५ ॥
एतस्मिन्नंतरे प्राप्ता भूतप्रेतनिशाचराः ॥
पीत्वापीत्वा प्रनृत्यंति गायंति च हसंति च ॥ १६ ॥
ये तत्र तापसाः केचित्तटे तस्या व्यवस्थिताः ॥
ते सर्वेऽपि च तां त्यक्ता दूरदेशं समाश्रिताः ॥ १७ ॥
बहिर्वासाश्च ये तत्र नागराः समवस्थिताः ॥
चण्डशर्म प्रभृतयस्तेऽपि याताः सुदूरतः ॥ १८ ॥
वसिष्ठोऽपि मुनिश्रेष्ठो जगामार्बुदपर्वतम् ॥
विश्वामित्रस्तु विप्रर्षिश्चमत्कारपुरं गतः ॥ १९ ॥
हाटकेश्वरजे क्षेत्रे यत्स्थितं विप्रसंकुलम् ॥
तत्राश्रमपदं कृत्वा तपस्तेपे सुदारुणम् ॥६.१७२.२०॥।
येन सृष्टिक्षमो जातः स्पर्धते ब्रह्मणा सह ॥
एतद्वः सर्वमाख्यातं यथा सारस्वतं जलम् ॥ २१ ॥
रुधिरत्वमनुप्राप्तं विश्वामित्रस्य शापतः ॥
चंडशर्मादयो विप्रा यथा देशांतरं गताः ॥२२॥
इति श्रीस्कांदे महापुराण काशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सरस्वतीशापवृत्तांतवर्णनंनाम द्विसप्तत्युत्तरशततमोऽध्यायः ॥१७२॥ छ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 173
॥ ऋषय ऊचुः ॥ ॥
अहो बत महाश्चर्यं विश्वामित्रस्य सन्मुनेः ॥
मंत्रप्रभावतो येन तत्तोयं रुधिरीकृतम् ॥ १ ॥
ततःप्रभृति संप्राप्तं कथं तोयं प्रकीर्तय ॥
सरस्वत्या महाभाग सर्वं विस्तरतो वद ॥ २ ॥
॥ सूत उवाच ॥ ॥
बहुकालं प्रवाहः स सरस्वत्या द्विजोत्तमाः ॥
महान्रक्तमयो जातो भूतराक्षससेवितः ॥ ३ ॥
कस्यचित्त्वथ कालस्य वसिष्ठो मुनिसत्तमः ॥
अर्बुदस्थस्तया प्रोक्तो दीनया दुःखयुक्तया ॥ ४ ॥
तवार्थाय मुने शप्ता विश्वामित्रेण कोपतः ॥
रुधिरौघवहाजाता तपस्विजनवर्जिता ॥५॥
तस्मात्कुरु प्रसादं मे यथा स्यात्सलिलं पुनः ॥
प्रवाहे मम विप्रेन्द्र प्रयाति रुधिरं क्षयम् ॥६॥
त्रैलोक्यकरणे विप्र संक्षये वा स्थितौ हि वा ॥
नाशक्तिर्विद्यते काचित्तव सर्वमुनीश्वर ॥ ७ ॥
॥ वसिष्ठ उवाच ॥ ॥
तथा भद्रे करिष्यामि यथा स्यात्सलिलं पुनः ॥
प्रवाहे तव निर्याति सर्वं रक्तं परिक्षयम् ॥ ८ ॥
एवमुक्त्वा स विप्रर्षिरवतीर्य धरातले ॥
गतः प्लक्षतरुं यस्मा दवतीर्णा सरस्वती ॥ ९ ॥
समाधिं तत्र संधाय निविष्टो धरणीतले ॥
संभ्रमं परमं गत्वा विश्वामित्रस्य चोपरि ॥ ६.१७३.१० ॥
वारुणेन तु मन्त्रेण वीक्ष यन्वसुधातलम् ॥
ततो निर्भिद्य वसुधां भूरितोयं विनिर्गतम् ११ ॥
रन्ध्रद्वयेन विप्रेन्द्रा लोचनाभ्यां निरीक्षणात् ॥
एकस्य सलिलं क्षिप्रं यत्र जाता सरस्वती ॥ १२ ॥
प्लक्षमूले ततस्तस्य वेगेनापहृतं बलात् ॥
तद्रक्तं तेन संपूर्णं ततस्तेन महानदी ॥ १३ ॥
द्वितीयस्तु प्रवाहो यः संभ्रमा त्तस्य निर्गतः ॥
सा च साभ्रमती नाम नदी जाता धरातले ॥ १४ ॥
एवं प्रकृतिमापन्ना भूय एव सरस्वती ॥
यत्पृष्टोऽस्मि महाभागाः सरस्वत्याः कृते द्विजाः ॥ १५ ॥
एतत्सारस्वतं नाम व्याख्यानमतिबुद्धिदम् ॥
यः पठेच्छ्रणुयाद्वापि मतिस्तस्य विवर्द्धते ॥
सरस्वत्याः प्रसादेन सत्यमेतन्म योदितम् ॥ १६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सरस्वत्युपाख्याने सरस्वती शापमोचनसाभ्रमत्युत्पत्तिवृत्तान्तवर्णनंनाम त्रिसप्तत्युत्तरशततमोऽध्यायः ॥ १७३ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 174
॥ सूत उवाच ॥ ॥
तथान्यदपि वो वच्मि लिंगं यत्तत्र संस्थितम् ॥
स्थापितं पिप्पलादेन कंसारेश्वरमित्यहो ॥ १ ॥
यस्मिन्दृष्टे तु लोकानां पापं याति दिनोद्भवम् ॥
नते षाण्मासिकं चैव पूजिते वर्षसंभवम्॥ ॥
॥ ऋषय ऊचुः ॥ ॥
पिप्पलादेन यल्लिंगं स्थापितं सूतनन्दन ॥
कंसारेश्वरमित्युक्तं कस्मात्तच्च ब्रवीहि नः ॥ ३ ॥
क एष पिप्पलादस्तु कस्य पुत्रो वदस्व नः ॥
किमर्थं स्थापितं लिंगं क्षेत्रे तत्र महात्मना ॥ ४ ॥
॥ सूत उवाच ॥ ॥
प्रश्नभारो महानेष भवद्भिः समुदाहृतः ॥
तथापि कथयिष्यामि नमस्कृत्वा स्वयंभुवम् ॥ ५ ॥
याज्ञवल्क्यस्यभगिनी कंसारीति च विश्रुता ॥
कुमारब्रह्मचर्येण तप स्तेपे सुदारुणम्॥ ६ ॥
याज्ञवल्क्याश्रमे पुण्ये बांधवेन समन्विता ॥
कस्यचित्त्वथ कालस्य याज्ञवल्क्यस्य भो द्विजाः ॥७॥
चस्कन्द रेतः स्वप्नांते दृष्ट्वा कांचिद्वराप्सराम्॥
तारुण्यभावसंस्थस्य तपोयुक्तस्य सद्द्विजाः ॥ ८ ॥
रेतसा तस्य महता परिधानं परिप्लुतम् ॥
तच्च तेन परित्यक्तं प्रभाते समुपस्थिते ॥ ९ ॥
कंसारिकाऽथ जग्राह स्नानार्थं वसनं च तत् ॥
अमोघरेतसा क्लिन्नमजानन्ती द्विजोत्तमाः ॥ ६.१७४.१० ॥
कुर्वन्त्या यजनं तस्या जलं वीर्यसमन्वितम् ॥
प्रविष्टं भगमध्ये तु ऋतुकाल उपस्थिते ॥ ११ ॥
ततो गर्भः समभवत्तस्यास्तूदरमध्यगः ॥
वृद्धिं चाप्यगमन्नित्यं शुक्लपक्षे यथोडुराट् ॥ १२ ॥
साऽपि तं गर्भमादाय स्वोदरस्थं तपस्विनी ॥
दुःखेन महता युक्ता लज्जयाऽथ तदाऽऽवृता ॥ १३ ॥
चिन्तयामास सुचिरं विस्मयेन समन्विता ॥
गोपायन्ती तदाऽऽत्मानं दर्शनं याति नो नृणाम् ॥ १४ ॥
व्रतचर्यामिषं कृत्वा सदा रहसि संस्थिता ॥
संप्राप्ते दशमे मासि निशीथे समुपस्थिते ॥
तस्याः कुमारको जातो वालार्कसदृशद्युतिः ॥ १५ ॥
अथ सा तं समा दाय सूक्ष्मवस्त्रेण वेष्टितम् ॥
कृत्वा जगाम चारण्यं मनुष्यपरिवर्जितम् ॥
अश्रुपूर्णेक्षणा दीना रुदन्ती गुप्तमेव च ॥ १६ ॥
ततो गत्वा च साऽश्वत्थं विजने सुमहत्तरम् ॥
तस्याधस्ताद्विमुच्याथ वाक्यमेतदुवाच ह ॥ १७ ॥
अश्वत्थ विष्णुरूपोऽसि त्वं देवेषु प्रतिष्ठितः ॥
तस्माद्रक्षस्व मे पुत्रं सर्वतस्त्वं वनस्पते ॥ १८ ॥
एष ते शरणं प्राप्तो मम पुत्रस्तु बालकः ॥
पापाया निर्दयायाश्च तस्माद्रक्षां समाचर ॥ १९ ॥
एवमुक्त्वा रुदित्वा च सुचिरं सा तपस्विनी ॥
जगाम स्वाश्रमं पश्चाद्वाष्पव्याकुललोचना ॥ ६.१७४.२० ॥
यावद्रोदिति सा माता तस्याधस्ताद्वनस्पतेः ॥
तावदाकाशजा वाणी संजाता मेघनिःस्वना ॥ २१ ॥
मा त्वं शोकं कुरुष्वास्य बालकस्य कृते शुभे ॥
एष शापादुतथ्यस्य ज्येष्ठभ्रातुर्बृहस्पतिः ॥
अवतीर्णो धरापृष्ठे योग्यतां समवाप्स्यति ॥ २२ ॥
एष चाथर्वणं वेदं शतकल्पं सुविस्तरम् ॥
शतभेदं च नवधा पंचकल्पं करिष्यति ॥ २३ ॥
पिप्पलस्य तरोरेष रसं संभक्षयिष्यति ॥
पिप्पलाद इति ख्यातस्ततो लोके भविष्यति ॥ २४ ॥
या त्वं विस्मयमापन्ना पुरुषेण विना शिशुः॥
संजातोऽयं मम प्रांशुस्ततस्तत्कारणं शृणु ॥ २५ ॥
स्नानवस्त्रं च ते भ्रातू रेतसा यत्परिप्लुतम् ॥
तत्त्वया ऋतुकाले तु परिधानं कृतं शुभे ॥ २६ ॥
स्नानकाले तु तोयानि रेतोदकमथास्पृशन् ॥
अमोघरेतसा तेन पुत्रोऽयं तव संस्थितः ॥ २७ ॥
एवं ज्ञात्वा महाभागे यद्युक्तं तत्समाचर ॥ २८ ॥ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा देवलोकस्यवज्रपातोपमं वचः ॥
हाहाकारपरा भूत्वा निपपात धरातले ॥ २९ ॥
छिन्नवृक्षलता यद्वत्पतिता सा तपस्विनी ॥ ६.१७४.३० ॥
चिरायन्त्यां तु तस्यां स याज्ञवल्क्यो महामुनिः ॥
शून्यं तमाश्रमं दृष्ट्वा पप्रच्छान्यान्मुनीश्वरान् ॥ ३१ ॥
क्व च मे भगिनी याता कंसारी सुतपस्विनी ॥
तया विनाऽद्य मे सर्वं शून्यमाश्रममंडलम् ॥ ३२ ॥
आचख्यौ तापसः कश्चिद्भगिनी ते यवीयसी ॥
निश्चेष्टा पतिता भूमावश्वत्थस्य समीपतः ॥ ३३ ॥
मया दृष्टा मुनिश्रेष्ठ तां त्वं भावय मा चिरम् ॥
अथासौ त्वरया युक्तः संभ्रांतस्तु प्रधावितः ॥ ॥ ३४ ॥
यत्र सा कथिता तेन तापसेन तपस्विनी ॥
वीक्षते यावत्तत्रस्था श्वसमाना व्यवस्थिता ॥३५॥
अथ तोयेन शीतेन सेचयित्वा मुहुर्मुहुः॥
दत्त्वा भूयोऽपि वातं च यावच्चक्रे सचेतनाम् ॥
तावत्कात्यायनी प्राप्ता मैत्रेयी च ससंभ्रमम् ॥ ३६ ॥
किमिदं किमिदं जातं ननांदर्वद मा चिरम् ॥ ३७ ॥
किं वा सर्पेण दष्टासि सन्निपातेन दूषिता ।१
किं वा भूतगृहीताऽसि माहेंद्रेण ज्वरेण वा ॥ ३८ ॥
अथ सा चेतनां लब्ध्वा याज्ञ वल्क्यं पुरः स्थितम् ॥
भार्यया सहितं दृष्ट्वा व्रीडयाऽसून्मुमोच ह ॥ ३९ ॥
अथ तां च मृतां दृष्ट्वा रुदित्वा च चिरं द्विजाः ॥
याज्ञवल्क्यः सभार्यस्तु दत्त्वा वह्निं च शोकधृक् [।
जगाम स्वाश्रमं पश्चाद्दत्त्वा च सलिलाञ्जलिम् ॥ ६.१७४.४० ॥
सोऽपि बालोऽथ ववृधे पिप्पलास्वादपुष्टिधृक् ॥
अश्वत्थस्य तले तस्य वृद्धिं याति शनैःशनैः ॥ ४१ ॥
कस्यचित्त्वथ कालस्य नारदो मुनिसत्तमः ॥
तीर्थयात्राप्रसंगेन तेन मार्गेण चागतः ॥ ४२ ॥
स दृष्ट्वा बालकं तत्र द्वादशार्कसमप्रभम् ॥
एकाकिनं वने शून्ये पिप्पलास्वादतत्परम् ॥
पप्रच्छ विस्मयाविष्ट एकाकी को भवानिह ॥ ४३ ॥
वने शून्ये महारौद्रे सिंहव्याघ्रसमाकुले ॥
क्व ते माता पिता चैव किमर्थं चेह तिष्ठसि ॥ ४४ ॥
निवससि कथं चैव सर्वं मे विस्तराद्वद ॥ ४५ ॥
॥ पिप्पलाद उवाच ॥ ॥ ॥
नाहं जानामि पितरं मातरं न च बांधवम् ॥
नापि त्वां कोऽत्र चा यातो मम पार्श्वे तु सांप्रतम् ॥ ४६ ॥
॥ सूत उवाच ॥ [।
तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा मुनीश्वरः ॥
ततस्तं प्रहसन्प्राह ज्ञात्वा दिव्येन चक्षुषा ॥ ४७ ॥
।। नारद उवाच ॥ ।।
मया ज्ञातोऽसि वत्स त्वं याज्ञवल्क्यस्य रेतसा ॥
दैवयोगात्समुत्पन्नो भगिन्या उदरे ह्यृतौ ॥ ४८ ॥
उतथ्यशापदोषेण देवाचार्यो बृहस्पतिः ॥
देवकार्यस्य सिद्ध्यर्थं तस्मात्तच्छृणु कारणम् ॥ ४९ ॥
अथर्ववेदो यश्चैष शतशाखो विनिर्मितः ॥
शत कल्पश्च गूढार्थो भूपानां कार्यसिद्धये ॥६.१७४.५॥।
नवशाखः पंचकल्पस्त्वया कार्यः सुखावहः ॥५१॥
तव मात्रा महाभाग रेतसा च परिप्लुतम् ॥
यद्वस्त्रं याज्ञवल्क्यस्य परिधानं कृतं च यत् ॥५२॥
भगिन्या सुतपस्विन्या स्नानार्थं न च काम्यया ॥
तद्रेतो जलमिश्रं तु भगमध्ये विनिर्गतम् ॥५३॥
अमोघं तेन संभूतस्त्वमत्र जगतीतले ॥
माता वै मृत्युमापन्ना ज्ञात्वैवं लज्जया तया ॥ ५४ ॥
चमत्कारपुरे तुभ्यं मातुलो जनकस्तथा ॥
संतिष्ठते महाभाग तत्पार्श्वे त्वमितो वज ॥ ५५ ॥
सांप्रतं व्रतकालस्ते वर्षं चैवाष्टमं स्थितम् ॥
तच्छ्रुत्वा वचनं तस्य लज्जयाऽधोमुखः स्थितः ॥ ५६ ॥
ततश्चिरेण दीनं स वाक्यमेतदुवाच तम् ॥
किं मया पापमाख्याहि पूर्वदेहांतरे कृतम् ॥ ५७
येनेदं गर्हितं जन्म वियोगो मातृसंभवः॥
परित्यक्ष्यामि जीवं स्वं दुःखेनानेन सन्मुने ॥५८॥
॥ नारद उवाच ॥ ॥
न त्वया दुष्कृतं किंचित्पूर्वदेहांतरे कृतम् ॥
परं येन सुसंजातं तवेदं व्यसनं शृणु ॥ ५९ ॥
जन्मस्थेन भवाञ्जातः शनिना नाऽत्र संशयः ॥
तेनावस्थामिमां प्राप्तो नान्यदस्ति हि कारणम् ॥ ६.१७४.६० ॥
तच्छ्रुत्वा वचनं तस्य कोपसंरक्तलोचनः ॥
ऊर्ध्वमालोकयामास समुद्दिश्य शनैश्चरम् ॥ ६१ ॥
तस्य दृष्टिनिपातेन न्यपतत्स तु तत्क्षणात् ॥
विमानात्स्वाद्रवेः पुत्रो ययातिरिव नाहुषः ॥६२ ।१
अधोवक्त्रो द्विजश्रेष्ठाः पितुरादेशमाश्रितः ॥
बालभावेऽपि तेनैव दग्धौ पादौ तदा रवेः ॥६३॥
अथ तं नारदः प्राह पतमानमधोमुखम् ॥
बाल्यभावादनेन त्वं पातितोऽसि शनैश्चर ॥ ६४ ॥
तस्मान्मा वीक्षयस्वैनं भविष्यति प्रकोपभाक् ॥
मा पतस्व तथा भूमौ बलान्मद्वाक्यसंभवात् ॥ ६५ ॥
स्तंभयित्वा तथाप्येवं गगनस्थं शनैश्चरम् ॥
ततः प्रोवाच तं बालं पिप्पलादं मुनीश्वरः ॥ ॥६६॥
मा कोपं कुरु बाल त्वमेष सूर्यसुतो ग्रहः।
देवानामपि पीडां च कुरुतेऽष्टमराशिगः ॥ ६७ ॥
जन्मस्थस्तु विशेषेण द्वितीयस्तु तथापरः ॥
यद्येष कुपितस्त्वां तु वीक्षयिष्यति कर्हिचित् ॥ ६८ ॥
करिष्यति न संदेहो भस्मराशिं ममाग्रतः ॥
अनेन वीक्षितौ पादौ जातमात्रेण सूर्यकौ ॥ ॥ ६९ ॥
आयातस्य तु तुष्टस्य पुत्रदर्शनवाञ्छया ॥
अन्तर्धानीकृते वस्त्रे ज्ञात्वा तं रौद्रचक्षुषम् ॥ ६.१७४.७० ॥
ततो दग्धावुभौ चापि तिष्ठतश्चर्म वेष्टितौ ॥
दृश्येतेऽद्यापि मूर्त्तौ तौ घटितायां धरातले ॥ ७१ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा वचनं तस्य नारदस्य स बालकः ॥
भयेन महता युक्तस्ततः पप्रच्छ तं मुनिम् ॥ ७२ ॥
कथं यास्यति मे तुष्टिं वदैष मम सन्मुने ॥
अज्ञानात्पातितो व्योम्नः शक्तिं चास्याविजानता ॥ ७३ ॥ ॥
॥ नारद उवाच ॥ ॥
ग्रहा गावो नरेंद्राश्च ब्राह्मणाश्च विशेषतः ॥
पूजिताः प्रतिपूज्यंते निर्दहंत्यपमानिताः ॥ ७४ ॥
तस्मात्कुरु स्तुतिं चास्य स्वशक्त्या भास्करेः प्रभो॥
प्रसादं गच्छते येन कोपं त्यजति पातजम् ॥ ७५ ॥
ततः कृतांजलिर्भूत्वा स्तुतिं चक्रे स बालकः ॥
भयेन महता युक्तस्ततः संपृच्छ्य तं मुनिम् ॥ ७६ ॥
पिप्पलादो द्विजश्रेष्ठाः प्रणिपत्य मुहुर्मुहुः ॥
नमस्ते क्रोधसंस्थाय पिंगलाय नमोऽस्तु ते ॥ ७७ ॥
नमस्ते वसुरूपाय कृष्णाय च नमोऽस्तु ते ॥
नमस्ते रौद्रदेहाय नमस्ते चांतकाय च ॥ ७८ ॥
नमस्ते यमसंज्ञाय नमस्ते सौरये विभो ॥
नमस्ते मन्दसंज्ञाय शनैश्चर नमोऽsस्तु ते ॥ ७९ ॥
प्रसादं कुरु देवेश दीनस्य प्रणतस्य च ॥६.१७४.८॥।
॥ शनैश्चर उवाच ॥ ॥
परितुष्टोऽस्मि ते वत्स स्तोत्रेणानेन सांप्रतम्॥
वरं वरय भद्रं ते येन यच्छामि सांप्रतम् ॥ ८१ ॥
पिप्पलाद उवाच ॥ ॥
अद्यप्रभृति नो पीडा बालानां सूर्यनन्दन ॥
त्वया कार्या महाभाग स्वकीया च कथंचन ॥ ८२ ॥
यावद्वर्षाष्टमं जातं मम वाक्येन सूर्यज ॥
स्तोत्रेणानेन योऽत्र त्वां स्तूयात्प्रातः समुत्थितः ॥ ॥ ८३ ॥
तस्य पीडा न कर्तव्या त्वया भास्करनन्दन ॥
तव वारे च संजाते तैलाभ्यंगं करोति यः ॥ ८४ ॥
दिनाष्टकं न कर्तव्या तस्य पीडा कथंचन ॥
यस्त्वां लोहमयं कृत्वा तैलमध्ये ह्यधोमुखम्॥ ८५ ॥
धारयेत्तेन तैलेन ततः स्नानं समाचरेत् ॥
तस्य पीडा न कर्तव्या देयो लाभो महीभुजः ॥९६ ॥
अध्यर्द्धाष्टमिकायोगे तावके संस्थिते नरः ॥
तववारे तु संप्राप्ते यस्तिलाँल्लोहसंयुतान् ॥ ९७ ॥
स्वशक्त्या राति नो तस्य पीडा कार्या त्वया विभो ॥
कृष्णां गां यस्तु विप्राय तवोद्देशेन यच्छति ॥ ८८ ॥
अध्यर्द्धाष्टमजा पीडा नाऽस्य कार्या त्वया विभो ॥
शमी समिद्भिर्यो होमं तवोद्देशेन यच्छति ॥ ९९ ॥
तथा कृष्णतिलैश्चैव कृष्णपुष्पानुलेपनैः ॥
पूजां करोति यस्तुभ्यं धूपं वै गुग्गुलं दहेत् ॥
कृष्णवस्त्रेण संवेष्ट्य त्याज्या तस्य व्यथा त्वया ॥ ६.१७४.९० ॥
॥ सूत उवाच ॥ ॥
एवमुक्तः शनिस्तेन बाढमित्येव जल्प्य च ॥
नारदं समनुज्ञाप्य जगाम निजसं श्रयम्॥ ९१ ॥
नारदोऽपि तमादाय वालकं कृपयान्वितः ॥
चमत्कारपुरं गत्वा याज्ञवल्क्याय चार्पयत् ॥ ९२ ॥
कथयामास वृत्तांतं तस्य संभूति संभवम्॥
यद्दृष्टं ज्ञानदीपेन तस्मै सर्वं न्यवेदयत्॥९३॥
एष ते वीर्यसंभूतो बालको भगिनीसुतः ॥
मयाऽश्वत्थतले लब्धः काननेऽश्वत्थसंनिधौ ॥ ९४ ॥
व्रतबंध कुरुष्वास्य सांप्रतं चाष्टवार्षिकः ॥
नात्र दोषोस्ति विप्रेंद्र न भगिन्यास्तथा तव ॥
तस्माद्गृहाण पुत्रं स्वं भागिनेयं विशेषतः ॥ ॥ ९५ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा स देवर्षिस्ततश्चादर्शनं गतः ॥
याज्ञवल्क्योऽपि तच्छ्रुत्वा विषादं परमं गतः ॥ ९६ ॥
पापं तच्चिंतयन्नेव न शांतिमधिगच्छति ॥
आत्मानं गर्हयन्नित्यं दिवानक्तं च शोचति ॥ ९७ ॥
तं च पुत्रं परिज्ञाय तैस्तैश्चिह्नैर्निजैः स्थितैः ॥
ततस्तु पोषयित्वा तं व्रतेन समयोजयत् ॥ ९९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्या संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये पिप्पलादोत्पत्तिव र्णनंनाम चतुःसप्तत्युत्तरशततमोऽध्यायः ॥ १७४ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 175
॥ सूत उवाच ॥ ॥
एवं संशोचते यावदात्मानं परिगर्हयन्॥
ततस्तु ब्रह्मणा प्रोक्तः स्वयमभ्येत्य भो द्विजाः॥१॥
त्वया शंका न कर्तव्या सुतस्यास्य कृते द्विज॥
अज्ञानादेव ते जातो दैवयोगेन बालकः॥२॥
॥याज्ञवल्क्य उवाच॥ ॥
तथापि देव मे शुद्धिर्हृदयस्य न जायते ॥
तस्माद्वद सुरश्रेष्ठ प्रायश्चित्तं विशुद्धये॥३॥
॥ ब्रह्मोवाच॥ ॥
यदि ते चित्तशुद्धिस्तु न कथंचित्प्रवर्तते॥
तत्स्थापय महाभाग लिंगं देवस्य शूलिनः ॥ ४ ॥
अज्ञानाज्ज्ञानतोवापि यत्पापं कुरुते नरः ॥
ब्रह्महत्यादिकं चापि स्त्रीवधाद्वापि यद्भवेत्॥५ ॥
पंचेष्टिकामयं वापि यः कुर्याद्धरमन्दिरम्॥
तस्य तन्नाशमायाति तमः सूर्योदये यथा ॥ ६ ॥
विशेषेण महाभाग हाटकेश्वरसंभवे ॥
क्षेत्रे तत्र सुमेध्ये तु सर्वपातकनाशने ॥ ७ ॥
कलिकाले च संप्राप्ते यत्र पापं न विद्यते ॥
अहमप्यत्र वांछामि यज्ञं कर्तुं द्विजोत्तम ॥ ८ ॥
आनयिष्यामि तत्तीर्थं पुष्करं चात्मनः प्रियम् ॥
कलिकालभयाच्चैतद्यावन्नो व्यर्थतां व्रजेत् ॥ ९ ॥
कलिकाले तु संप्राप्ते तीर्थानि सकलानि च ॥
यास्यंति व्यर्थतां विप्र मुक्त्वेदं क्षेत्रमुत्तमम् ॥ ६.१७५.१० ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा चतुर्वक्त्रस्ततश्चादर्शनं गतः ॥
याज्ञवल्क्योऽपि तच्छ्रुत्वा पितामहवचोऽ खिलम् ॥ ११ ॥
लिंगं संस्थापयामास ज्ञात्वा क्षेत्रमनुत्तमम्॥
अब्रवीच्च ततो वाक्यं मेघगंभीरया गिरा ॥ १२ ॥
अष्टम्यां च चतुर्दश्यां यो लिंगं मामकं त्विदम् ॥
स्नापयिष्यति सद्भक्त्या तस्य पापं प्रयास्यति ॥ १३ ॥
परदारकृतं यच्च मात्रापि च समं कृतम्॥
क्षालयिष्यति तत्पापं स्नापितं पूजितं परैः ॥ १४ ॥
अस्मिन्नहनि संप्राप्ते तस्य पक्षसमुद्भवम् ॥
प्रयास्यति कृतं पापं यदज्ञानाद्विनिर्मितम् ॥ १५ ॥
ततःप्रभृति विख्यातो याज्ञव ल्क्येश्वरः शुभः ॥
तस्मिन्क्षेत्रे द्विजश्रेष्ठा हाटकेश्वरसंज्ञके ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये याज्ञवल्क्येश्वरोत्पत्तिमाहात्म्यवर्णनंनाम पंचसप्तत्युत्तरशततमोऽध्यायः ॥ १७५ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 176
॥ सूत उवाच ॥ ॥
दृष्ट्वा प्रतिष्ठितं लिंगं याज्ञवल्क्येन धीमता ॥
स्वमातुः शुद्धिहेतोः स तन्नाम्ना लिंगमुत्तमम् ॥ १ ॥
स्थापयामास विप्रेंद्राः श्रद्धया परया युतः ॥
ततश्चानीय विप्रेंद्रं मध्यगं नागरोद्भवम् ॥ ॥
गर्तातीर्थसमुद्भूतमाहिताग्निं प्रयाजिनम् ॥
यथैतन्नगरस्थानं तथा त्वमपि दीक्षितः ॥ ३ ॥
अष्टषष्टिषु गोत्राणां नायकत्वे व्यवस्थितः ॥
तव वाक्येन सर्वाणि गोत्राणि द्विजसत्तम ॥ ४ ॥
वर्तयिष्यंति कृत्येषु यावच्चन्द्रार्कतारकाः ॥
गोवर्धन त्वया चिंता कार्या चास्य समुद्भवा ॥ ५ ॥
लिंगस्य पूजनार्थाय प्रेरणीयाश्च नागराः॥
पूजया तस्य लिंगस्य वृद्धिं यास्यति तेऽन्वयः ॥ ६ ॥
अपूजया विनाशं च यास्यत्यत्र न संशयः ॥
तव वंशोद्भवा ये च पूजयित्वा प्रभक्तितः ॥ ७ ॥
एतल्लिंगं करिष्यंति कृत्यानि विविधानिच ॥
तानि सिद्धिं प्रयास्यंति प्रसादादस्य दीक्षित ॥ ८ ॥
॥ गोवर्धन उवाच ॥ ॥
अहमर्चां करिष्यामि लिंगस्यास्य सदा द्विज ॥
भक्तिं च प्रकरिष्यामि हेतोरस्य हेतोरस्य कृते द्विज ॥
पूजार्थं चैव ये चान्ये मम वंशसमुद्रवाः ॥ ९ ॥
॥ पिप्पलाद उवाच ॥ ॥
गोवर्धन द्रुतं विप्रांस्तत्र चानय नागरान्॥
तेषां मतेन देवस्य नाममात्रं करोम्यहम् ॥ ६.१७६.१० ॥
ततश्चानाययामास विप्रांश्चैव विचक्षणान् ॥
श्रुताध्ययनसंपन्नान्यज्ञकर्मपरायणान् ॥ ११ ॥
तानब्रवीत्प्रणम्योच्चैः पिप्पलादो महामुनिः ॥
मम माता मृता पूर्वं कंसारीति च नामतः ॥ १२ ॥
तस्या उद्देशतो लिंगं मयैतत्संप्रतिष्ठितम् ॥
युष्मद्वाक्यात्प्रसिद्धिं च प्रयातु द्विजसत्तमाः ॥ १३ ॥
अष्टम्यां च चतुर्दश्यां यश्चैतत्स्नापयिष्यति ॥
याज्ञवल्क्येश्वरोत्थं च स वै श्रेयो ह्यवाप्स्यति ॥ १४ ॥
॥ सूत उवाच ॥ ॥
अथ तैर्ब्राह्मणैः सर्वैस्तस्य नाम प्रतिष्ठितम् ॥
कंसारीश्वर इत्येवं गौरवात्तस्य सन्मु नेः ॥ १५ ॥
एतद्वः सर्वमाख्यातं यत्पृष्ठोऽस्मि द्विजोत्तमाः ॥
कंसारीश्वरसंज्ञस्तु यथा जातस्तु पापहा ॥
स्थापितः पिप्पलादेन स्वयं चैव महात्मना ॥ १६ ॥
यश्चैतत्पुण्यमाख्यानं तस्य देवस्य संनिधौ ॥
संपठेच्छृणुयाद्वापि सम्यक्छक्तिसमन्वितः ॥ १७ ॥
मनसा चिंतितं पापं परदारकृतं च यत् ॥
तस्य तन्नाशमायाति पिप्पलाद वचो यथा ॥ १८ ॥
यस्तस्य पुरतो भक्त्या नीलरुद्रा न्सदा जपेत् ॥
प्राणरुद्रान्विशेषेण भवरुद्रसमन्वितान् ॥ १९ ॥
ब्रह्महत्योद्भवं चैव अपि तस्य प्रणश्यति ॥
परचक्रभये जाते ह्यना वृष्टिभये तथा ॥ ६.१७६.२० ॥
अथर्ववेदे साद्यंते पठिते तस्य चाग्रतः ॥
शत्रुर्विलयमभ्येति वृष्टिः सञ्जायते द्रुतम् ॥ २१ ॥
राजदौःस्थ्ये समुत्पन्ने राजा भवति धार्मिकः ॥
सर्वरोगविनिर्मुक्तः प्रजापालनतत्परः ॥ २२ ॥
उपसर्गभये जाते तस्य दोषः प्रशाम्यति ॥
शनैः शनैरसंदिग्धं पिप्पलादवचो यथा ॥ २३ ॥
किं वा ते बहुनोक्तेन यत्किंचिद्व्यसनं महत् ॥
तत्तस्य व्यसनं किंचिदथर्वणः प्रकी र्तनात् ॥ २४ ॥
अस्य देवस्य पुरतो याति नाशं च वै द्रुतम् ॥ २५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कंसारेश्वरोत्पत्तिमाहात्म्यवर्णनंनाम षट्सप्तत्युत्तरशततमोऽध्यायः ॥ १७६ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 177
॥ सूत उवाच ॥ ॥
तथान्यापि च तत्रास्ति गौरी वै पञ्चपिंडिका ॥
लक्ष्म्या संस्थापिता चैव मानुषत्वंव्यवस्थया ॥ १ ॥
तस्या दर्शनमात्रेण नारी सौभाग्यमामुयात् ॥
ज्येष्ठे मासि सिते पक्षे वृषस्थे च दिवाकरे ॥ २ ॥
तस्या उपरि नारी या जलयन्त्रं दधाति वै ॥
स्राव्यमाणं दिवानक्तं सौभाग्यं परमं लभेत् ॥ ३ ॥
यत्फलं लभते नारी समस्तैर्विहितैर्व्रतैः ॥
गौरीसमुद्भवैश्चैव दानैर्दत्तैस्तदिष्टजैः ॥
तत्फलं लभते सर्वं जलयन्त्रस्य कारणात् ॥ ४ ॥
तस्मात्सर्वप्रयत्नेन स्त्रीभिः सौभाग्यकारणात् ॥
जलयन्त्रं विधातव्यं ज्येष्ठे गौर्याः प्रयत्नतः ॥ ५ ॥
किं व्रतैर्नियमैर्वापि स्त्रीणां ब्राह्मणसत्तमाः ॥
जपैर्होमैः कृतैरन्यैर्बहुक्लेशकरैश्च तैः ॥ ६ ॥
स्त्रीणां ब्राह्मणशार्दूला जलेयन्त्रे धृते सति ॥
गौर्या उपरि सद्भक्त्या वृषस्थे तीक्ष्णदीधितौ ॥ ७ ॥
नैवं संजायते वंध्या काकवन्ध्या न जायते ॥
न दौर्भाग्यसमोपेता सप्तजन्मांतराणि सा ॥ ८ ॥
॥ ऋषय ऊचुः ॥ ॥
गौरी चतुर्भुजा प्रोक्ता दृश्यते परमेश्वरी ॥
पञ्चपिंडा कथं जाता ह्येतं नः संशयं वद ॥ ९ ।1
॥ सूत उवाच ॥ ॥
यदा च प्रलयो भावि तदा त्मानं करोत्यसौ ॥
पश्चपिंडीमयं विप्राः कुरुते रूपमुत्तमम् ॥ 6.177.१० ॥
एषा सा परमा शक्तिः सर्वं व्याप्य सुरेश्वरी ॥
तया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ ११ ॥
पृथिव्यापश्च तेजश्च वायुराकाशमेव च ॥
सृष्ट्यर्थं रक्षयेदेषा ततः स्यात्पंचपिंडिका ॥ १२ ॥
यदस्यां पूजितायां तु प्रत्यक्षायां प्रजायते ॥
सहस्रत्रिगुणं तच्च यत्र स्यात्पञ्चपिण्डिका ॥ १३ ॥
ज्येष्ठे मासि विशेषेण जलयंत्रार्चनेन च ॥
अत्र वः कीर्तयिष्यामि त्विति हासं पुरातनम् ॥ १४ ॥
यद्वृत्तं काशिराजस्य भार्याया द्विजसत्तमाः ॥
यच्च प्रोक्तं पुरा लक्ष्म्या विष्णवे परिपृष्टया ॥ १५ ॥
॥ लक्ष्मी रुवाच ॥ ॥
काशिराजः पुरा ह्यासीज्जयसेन इति श्रुतः ॥
तस्य भार्यासहस्रं तु ह्यासीद्रूपसमन्वितम् ॥ १६ ॥
अथ चान्या प्रिया तेन लब्धा भार्या सुशोभना ॥
मनुष्यत्वव्यवस्थाया मम चांशकला हि या ॥
सुता मद्राधिराजस्य विष्वक्सेनस्य धीमतः ॥ १७ ॥
सा गत्वा प्रातरुत्थाय शुभे गंगातटे तदा ॥
पञ्चपिंडात्मिकां गौरीं कृत्वा कर्द्दमसंभवाम् ॥ १८ ॥
ततः संपूजयामास मन्त्रैः पंचभिरेव च ॥
ततो गन्धैः परैर्माल्यैर्धूपै र्वस्त्रैः सुशोभनैः ॥ १९ ॥
नैवेद्यैः परमान्नैश्च गीतैर्नृत्यैः प्रवादितैः ॥
ततो विसृज्य तां देवीं तदुद्देशेन वै ततः ॥ 6.177.२० ॥
दत्त्वा दानानि भूरीणि गौरिणीनां द्विजन्मनाम् ॥
ततश्च गृहमभ्येति भूरिवादित्रनिःस्वनैः ॥ २१ ॥
यथायथा च तां पूजां तस्या गौर्या करोति सा ॥
तथातथा तु सौभाग्यं तस्याश्चाप्यधिकं भवेत् ॥ २२ ॥
सर्वासां च सपत्नीनां सौभाग्यं वाधिकं भवेत् ॥ २३ ॥
अथ तस्याः सपत्न्यो याः सर्वा दुःखसमन्विताः॥
दृष्ट्वा सौभाग्यवृद्धिं तां तस्या एव दिनेदिने ॥ २४ ॥
एकाः प्रोचुः कर्म चैतद्यदेषा कुरुते सदा ॥
मृन्मयांश्च समादाय पूजयेत्पंचपिंडकान् ॥ २५ ॥
अन्यास्तां मंत्रसंसिद्धां प्रवदंति महर्षयः ॥
अन्या वदन्ति पुण्यानि ह्यस्याः पूर्वकृतानि च ॥ २६ ॥
एवं तासां सुदुःखानां महान्कालो जगाम ह ॥
कस्यचित्त्वथ कालस्य सर्वाः संमंत्र्य ता मिथः ॥ २७ ॥
तस्याः संनिधिमाजग्मुस्तस्मिन्नेव जलाशये ॥
यत्र सा पूजयेद्गौरीं कृत्वा तां पञ्च पिंडिकाम् ॥ २८ ॥
ततः सर्वाः समालोक्य त्यक्त्वा गौरीप्रपूजनम् ॥
संमुखी प्रययौ तूर्णं कृतांजलिपुटा स्थिता ॥ २९ ॥
स्वागतं वो महा भागा भूयः सुस्वागतं च वः ॥
कृत्यं निवेद्यतां शीघ्रं येनाशु प्रकरोम्यहम् ॥ 6.177.३० ॥
॥ सपत्न्य ऊचुः ॥ ॥
वयं सर्वाः समायाताः कौतुके तवांतिकम् ॥
दौर्भाग्यवह्निनिर्दग्धास्तव सौभाग्यजेनच ॥ ३१ ॥
तस्माद्वद महाभागे मृन्मयां पंचपिंडिकाम् ॥
नित्यमर्चयसि त्वं किं सौभा ग्यस्य विवर्धनम् ॥ ३२ ॥
किं ते कारणमेतद्धि किं वा मन्त्रसमुद्भवः ॥
प्रभावोऽयं महाभागेगुह्यं चेन्नो वदस्व नः ॥ ३३ ॥
॥ पद्मावत्युवाच ॥ ॥ ॥
रहस्यं परमं गुह्यं यत्पृष्टास्मि शुभाननाः ॥
अवक्तव्यं वदिष्यामि भवतीनां तथापि च ॥ ३४ ॥
गौरीपूजनकाले तु यस्माच्चैव समागताः॥
सर्वा मम भगिन्यः स्थ ईर्ष्याधर्मो न मेऽस्ति च ॥ ३५ ॥
अहमासं पुरा कन्या पुरे कुसुमसंज्ञिते ॥
वीरसेनस्य शूद्रस्य वणिक्पुत्रस्य धीमतः ॥
तेन दत्ताऽस्मि धर्मेण विवाहार्थं महात्मना ॥ ३६ ॥
ततो विवाहसमये मम दत्तानि वृद्धये ॥
पंचाक्षराणि श्रेष्ठानि योषिता दीक्षया सह ॥
गौरी पूजाकृते चैव प्रोक्ता चाहं ततः परम् ॥ ३७ ॥
यावत्पुत्रि त्वमात्मानमेतैः पूजयसेऽक्षरैः ॥
जलपानं न कर्तव्यं तावच्चैव कथञ्चन ॥ ३८ ॥
येन संप्राप्स्यसेऽभीष्टं तत्प्रभावाद्यदीप्सितम् ॥
तथेति च मया प्रोक्तं तस्याश्चैव वरानने ॥ ३९ ॥
ततो विवाहे निर्वृत्ते गताऽहं पतिना सह ॥
श्वशुर स्तिष्ठते यत्र श्वश्रूश्चैव सुदारुणा ॥ 6,177.४० ॥
गौरीपूजाकृते मां च निवारयति सर्वदा ॥
ततोऽहं भयसन्त्रस्ता गौरीभक्तिपरायणा ॥
जलार्थं यत्र गच्छामि तस्मिंश्चैव जलाश्रये ॥ ४१ ॥
ततः कर्द्दममादाय मन्त्रैः पंचभिरेवच ॥
तैरेव पूजयाम्येव गौरीं भक्तिपरायणा ॥ ४२ ॥
प्रक्षिपामि तत स्तोये ततो गच्छामि मन्दिरम् ॥
कस्यचित्त्वथ कालस्य भर्ता मे प्रस्थितः शुभः ॥
देशांतरं वणिग्वृत्त्या सोऽपि मार्गं तमाश्रितः ॥ ४३ ॥
स गच्छन्मरुमार्गेण मां समादाय स्नेहतः ॥
संप्राप्तो निर्जलं देशं सुरौद्रं मरुमंडलम् ॥ ४४ ॥
तथा रौद्रतरे काले वृषस्थे दिवसाधिपे।
ततः सार्थः समस्तश्च विश्रांतः स्थलमध्यगः ॥ ४५ ॥
कूपमेकं समाश्रित्य गम्भीरं जलदोपमम् ॥
एतस्मिन्नेव काले तु मया दृष्टः समीपगः ॥
तोयाकारो मरु द्देशस्तश्चित्ते विचिन्तितम् ॥ ४६ ॥
यत्तच्च दृश्यते तोयं समीपस्थं तथा बहु ॥
अत्र स्नात्वा शुचिर्भूत्वा गौरीमभ्यर्च्य भक्तितः ॥
पिबामि सलिलं पश्चात्सुस्वादु सरसीभवम् ॥ ४७ ॥
ततः संप्रस्थिता यावत्प्रगच्छामि पदात्पदम् ॥
यावद्दूरतरं यामि तावत्सा मृगतृष्णिका ॥ ४८ ॥
एतस्मिन्न न्तरे प्राप्तो नभोमध्यं दिवाकरः ॥
वृषस्थो येन दह्यामि ह्युपरिष्टाच्छुभानना ॥ ४९ ॥
अधोभागे सुतप्ताभिर्वालुकाभिः समंततः ॥
तृष्णार्ताऽहं ततस्तस्मिन्मरुदेशे समाकुला ॥ 6.177.५० ॥
ततश्च पतिता भूमौ विस्फोटकसमावृता ॥
ततो मया स्मृता चित्ते कथा भारतसंभवा ॥ ५१ ॥
नृगेण तु यथा यज्ञो वालुकाभिर्विनिर्मितः ॥
कूपान्तः क्षिप्यमाणेन तृणलोष्टांबुवर्जितम् ॥ ५२ ॥
भक्तिग्राह्यास्ततो देवास्तुष्टास्तस्य महात्मनः॥
तदहं वालुकाभिश्च पूजयामि हरप्रियाम्॥ ५३ ॥
तेन तुष्टा तु सा देवी मम राज्यं प्रयच्छति ॥
अद्य देहान्तरे प्राप्ते मनोभीष्टमनंतकम् ।। ५४
ततस्तु पंचभिर्मन्त्रैस्तैरेव स्मृतिमागतैः ॥
पंचभिर्मुष्टिभिर्देवी वालुकोत्थैः प्रपूजिता ॥ ५५ ॥
ततः पञ्चत्वमापन्ना तत्कालेऽहं वरांगनाः ॥
दशार्णाधिपतेर्जाता सदने लोकविश्रुते ॥ ५६ ॥
जातिस्मरणसंयुक्ता तस्या देव्याः प्रसादतः ॥
भवतीनां कनिष्ठास्मि ज्येष्ठा सौभाग्यतः स्थिता ।।५७ ॥
एत स्मात्कारणाद्गौरीं मुक्त्वैतान्पञ्चपिण्डकान्॥
कर्द्दमेन विधायाथ पूजयामि दिनेदिने ॥ ५८ ॥
एतद्गुह्यं मया ख्यातं भवतीनामसंशयम् ॥
सत्येनानेन मे गौरी मनोभीष्टं प्रयच्छतु ॥ ५९ ॥
॥ लक्ष्मीरुवाच ॥ ॥
ततः सर्वाः सपत्न्यस्ताः कृतांजलिपुटाः स्थिताः ॥
मामूचुर्विनयाद्वाचा प्रणिपत्य मुहुर्मुहुः ॥6.177.६॥।
प्रसादं कुरु चास्माकं दीयतां मन्त्रपंचकम्॥
तदेव येन ते देवी तुष्टा सा परमेश्वरी ॥ ६१ ॥
मया प्रोक्ताश्च ता सर्वाः प्रार्थयध्वं यथेच्छया ॥
अहं सर्वं प्रदास्यामि तत्सत्यं वचनं मम ॥ ६२ ॥
ततो देव मया प्रोक्तं तासां तन्मंत्रपंचकम् ॥
शिष्यत्वं गमितानां च वाङ्मनःकायकर्मभिः ॥ ६३ ॥
॥ विष्णुरुवाच ॥ ॥
ममापि वद देवेशि कीदृक्तन्मन्त्रपञ्चकम् ॥
यत्त्वयाऽनुष्ठितं पूर्वं तया तासां निवेदि तम्॥ ६४ ॥
॥ लक्ष्मीरुवाच ॥ ॥
नमः पृथिव्यै क्षांतीशि नम आपोमये शुभे ॥
तेजस्विनि नमस्तुभ्यं नमस्ते वायुरूपिणि ॥ ६५ ॥
आकाशरूपसंपन्ने पंचरूपे नमोनमः ॥ ६६ ॥
एभिर्मन्त्रैर्मया पूर्वं पूजिता परमेश्वरी ॥
तेन राज्यं मया प्राप्तं सर्वस्त्रीणां सुदुर्लभम् ॥ ६७ ॥
ततश्च स्थापिता देवी कृत्वा रत्नमयी शुभा ॥
हाटकेश्वरजे क्षेत्रे मया तत्र सुरेश्वर ॥ ६८ ॥
तां या पूजयते नारी सद्योऽपि पतिवल्लभा ॥
जायते नात्र सन्देहः सर्वपापविवर्जिता ॥ ६९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पञ्चपिंडिकोत्पत्ति माहात्म्य वर्णनं नाम सप्तसप्तत्युत्तरशततमोऽध्यायः ॥ १७७ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 178
॥ लक्ष्मीरुवाच ॥ ॥
एवं राज्यं मया प्राप्तं गौरीपूजा कृते विभो ॥
सौभाग्यं परमं चैव दुर्लभं सर्वयोषिताम्॥ १ ॥
न चापत्यं मया लब्धं तथापि परमेश्वर ॥
तादृशेऽपि च सौभाग्ये तारुण्ये तादृशे स्थिते ॥ २ ॥
दह्यामि तेन दुःखेन दिवानक्तं सुखं न मे ॥
कस्यचित्त्वथ कालस्य दुर्वासा मुनिसत्तमः ॥ ३ ॥
आनर्ताधिपतेर्हर्म्यं संप्राप्तो गौरवाय सः॥।
चातुर्मास्यकृते चैव मृत्तिकाग्रहणाय च ॥। ४॥
ततः संपूजितो राज्ञा आनर्तेन यथाक्रमम्॥
दत्त्वार्घ्यं मधुपर्कं च ततः प्रोक्तं प्रणम्य च॥५॥
स्वागतं ते मुनिश्रेष्ठ भूयः सुस्वागतं च ते॥
नान्यो धन्यतमो लोके भूयोऽस्ति सदृशो मया॥६॥
यौ ते पादौ रजोध्वस्तौ केशैर्मे निर्मलीकृतौ॥
तद्ब्रूहि किंकरोम्यद्य गृहायातस्य ते मुने ॥ ७ ॥
अपि राज्यं प्रयच्छामि का वार्तान्येषु वस्तुषु ॥ ८ ॥
॥ दुर्वासा उवाच ॥ ॥
चातुर्मासीविधानं ते करिष्ये नृप मंदिरे ॥
मृत्तिकाग्रहणं तावच्छुश्रूषा क्रियतां मम ॥
स तथेति प्रतिज्ञाय मामूचे पार्थिवोत्तमः ॥ ९ ॥
शुश्रूषा चास्य कर्तव्या सर्व दैव वरानने ॥
चातुर्मासीव्रतं यावद्देवतार्चनपूर्वकम् ॥ 6.178.१० ॥
बाढमित्येवमुक्त्वाथ मया सर्वमनुष्ठितम् ॥
शुश्रूषार्हं च यत्कर्म दुहितेव पितुर्यथा ॥। ॥ ११ ॥
चातुर्मास्यां व्यतीतायां यदा संप्रस्थितो मुनिः ॥
तदा प्रोवाच मां तुष्टः पुत्रि किं करवाणि ते ॥ १२ ॥
ततः स भगवान्प्रोक्तः प्रणिपत्य मया मुहुः ॥
अपत्यं नास्ति मे ब्रह्मंस्तेन दह्याम्यहर्निशम् ॥ १३ ॥
ईदृशे सति राज्ञोऽपि यौवने च महत्तरे ॥
तत्त्वं वद मुनिश्रेष्ठ येन स्यान्मम संततिः ॥ १४ ॥
व्रतेन नियमेनाथ दानेन च हुतेन च ॥
ततः स सुचिरं ध्यात्वा मामुवाच स्मयन्निव ॥ १५ ॥
अन्यदेहांतरे पुत्रि त्वया गौरी प्रपूजिता ॥
तप्ताभिर्वालुकाभिः सा मृत्युकाल उपस्थिते ॥ १६ ॥
तद्भक्त्या लब्धराज्यापि दाहेन परियुज्यसे ॥
गौरी यत्तापसंयुक्ता बालुकाभिः कृता त्वया ॥ १७ ॥
न देवो विद्यते काष्ठे पाषाणे मृत्तिकासु च ॥
भावेषु विद्यते देवो मन्त्रसंयोगसंयुतः ॥ १८ ॥
भावभक्तिसमा युक्ता मंत्रसंयोजनेन च ॥
देवी मन्त्रसमायाता त्वया वालुकयाऽर्चिता ॥ १९ ॥
त्वत्काये तेन संतापः सर्वदाऽयं व्यवस्थितः॥
तस्माद्रत्नमयीं गौरीं कृत्वा त्वं पंचपिंडिकाम् ॥
हाटकेश्वरजे क्षेत्रे संस्थापय शुभानने ॥6.178.२0॥
वृषस्थे भास्करे पश्चात्तस्या उपरि स्रावि यत् ॥
जलयन्त्रं दिवारात्रं धारयस्व प्रयत्नतः ॥ २१ ॥
ततो यथायथा तस्याः शीतभावो भविष्यति ॥
तथातथा च ते दाहः शांतिं यास्यत्यहर्निशम् ॥ २२ ॥
दाहांते भविता गर्भस्ततः पुत्रमवाप्स्यसि ॥
राज्यभारक्षमं शूरं त्रिषु लोकेषु विश्रुतम् ॥ २३ ॥
अन्यापि कामिनी यात्र एवं तां पूजयिष्यति ॥
ज्येष्ठे मासे तथा सापि यथा त्वं प्रभविष्यति ॥ २४ ॥
॥ लक्ष्मीरुवाच ॥ ॥
ततो मया पुनः प्रोक्तो भगवान्स मुनीश्वरः ॥
मानुषत्वे न मे रागो विरक्तिर्महती स्थिता ॥ २५ ॥
नदीवेगोपमं दृष्ट्वा जीवितंसर्वदेहिनाम् ॥
तन्मे वद महाभाग यत्किंचिद् व्रतमुत्तमम् ॥ २६ ॥
मानुषत्वं न येन स्यात्सम्यक्चीर्णेन सद्द्विज ॥
ततः स सुचिरं ध्यात्वा मामाह परमेश्वर ॥ २७ ॥
अस्ति पुत्रि व्रतं पुण्यं गौरी तुष्टिकरं परम् ॥
येन चीर्णेन वै सम्यग्योषिद्देवत्वमाप्नुयात् ॥ २८ ॥
गोमयाख्या महादेवी कृता वै गोमयेन सा ॥
ततो गोलोकमापन्नाः सर्वास्ता वरवर्णिनि ॥ २९ ॥
तां त्वं कुरुष्व कल्याणि येन देवत्वमाप्स्यसि ॥
ततो मया पुनः प्रोक्तः स मुनिः सुरसत्तम ॥ 6.178.३० ॥
कस्मिन्काले प्रकर्तव्या विधिना केन सन्मुने ॥
सर्वं विस्तरतो ब्रूहि येन तां प्रकरोम्यहम् ॥ ३१ ॥
॥ दुर्वासा उवाच ॥ ॥
नभस्ये चासिते पक्षे तृतीयादिवसे स्थिते॥
प्रातरुत्थाय पश्चाच्च भक्षयेद्दंतधावनम्॥३२॥
ततश्च नियमं कृत्वा उपवाससमुद्भवम्॥
गौरीनामसमुच्चार्य श्रद्धापूतेन चेतसा ॥ ३३ ॥
ततो निशागमे प्राप्ते कृत्वा गौरीचतुष्टयम् ॥
मृन्मयं यादृशं चैव तदिहैकमनाः शृणु ॥ ३४ ॥
एका गौरी प्रकर्तव्या पंचपिंडा यथोदिता ॥
प्रहरेप्रहरे प्राप्ते तासु पूजां समाचरेत् ॥
यैर्मंत्रैस्तान्निबोध त्वमेकैकस्याः पृथक्पृथक् ॥ ३५ ॥
हिमाचलगृहे जाता देवि त्वं शंकरप्रिये ॥
मेनागर्भसमुद्भूता पूजां गृह्ण नमोस्तु ते ॥ ३६ ॥
धूपं दद्यात्ततश्चैव कर्पूरं श्रद्धया सह ॥
रक्तसूत्रेण दीपं च घृतेन परिकल्पयेत् ॥ ३७ ॥
जातिपुष्पैः समभ्यर्च्य नैवेद्ये मोदकान्न्यसेत् ॥
रक्तवस्त्रेण संछाद्य अर्घ्यं दत्त्वा ततः परम् ॥ ३८ ॥
यस्य वृक्षस्य पुष्पं च तस्य स्याद्दन्तधावनम् ॥
मातुलिंगेन तस्यास्तु मन्त्रेणानेन भक्तितः ॥ ३९ ॥
अर्घ्यं दद्यात्प्रयत्नेन गन्धपुष्पाक्षतान्वितम् ॥
शंकरस्य प्रिये देवि हिमाचलसुते शुभे ॥
अर्घ्यमेनं मया दत्तं प्रतिगृह्ण नमोऽस्तु ते ॥ 6.178.४० ॥
तदेव प्राशनं कुर्यात्ततः कायविशुद्धये ॥
प्रहरांते च संपूज्य अर्धनारीश्वरं ततः ॥ ४१ ॥
सुरभ्या पूजयेद्भक्त्या मन्त्रेणानेन पार्वति ॥
वाममर्धं शरीरस्य या हरस्य व्यवस्थिता ॥
सा मे पूजां प्रगृह्णातु तस्यै देव्यै नमोऽस्तु ते ॥ ४२ ॥
अगरुं च ततो भक्त्या धूपं दद्यात्तथा शुभे ॥
नैवेद्ये गुणकांश्चैव नालिकेरेण चार्घकम् ॥ ४३ ॥
मन्त्रेणानेन दातव्यं तदेव प्राशनं स्मृतम् ॥
अर्धनारीश्वरौ यौ च संस्थितौ परमेश्वरौ ॥ ४४ ॥
अर्घ्यो मे गृह्यतां देवौ स्यातं सर्वसुखप्रदौ ॥
तृतीये प्रहरे प्राप्ते शतपत्र्या प्रपूजयेत् ॥ ४५ ॥
उमामहेश्वरौ देवौ मंत्रेणानेन पूजयेत् ॥ ॥ ४६ ॥
उमामहेश्वरौ देवौ यौ तौ सृष्टिलयान्वितौ ॥
तौ गृह्णीतामिमां पूजां मया दत्तां प्रभक्तितः ॥ ४७ ॥
गुग्गुलोत्थं ततो धूपं नैवेद्यं घारिकात्मकम् ॥
जातीफलेन चार्घ्यं च तदेव प्राशनं स्मृतम् ॥ ४८ ॥
ततश्चार्घ्यः प्रदातव्यो मंत्रेणानेन भक्तितः ॥
ग्रंथिचूर्णेन धूपं च अर्घ्यं मदनजं फलम् ॥ ४९ ॥
तदेव प्राशनं कार्यं ततः कायविशुद्धये ॥ 6.178.५० ॥
उमामहेश्वरौ देवौ सर्वकामसुखप्रदौ ॥
गृह्णीतामर्घ्यमेतं मे दयां कृत्वा महत्तमाम्॥ ९१ ॥
चतुर्थे प्रहरे प्राप्ते तां गौरीं पंचपिंडिकाम् ॥
भृंगराजेन संपूज्य मंत्रेणानेन भक्तितः ॥ ५२ ॥
पृथिव्यादीनि भूतानि यानि प्रोक्तानि पंच च ॥
पंचरूपाणि देवेशि पूजां गृह्ण नमोऽस्तु ते ॥ ५३ ॥
नैवेद्ये घृतपूपांश्च दद्याद्देव्याः प्रभक्तितः ॥
ग्रंथिचूर्णेन धूपं च ह्यर्घ्यं मदनजं फलम् ॥
तदेव प्राशनं कार्यमर्घ्यमंत्रमिदं स्मृतम् ॥ ५४ ॥
पंचभूतमयी देवी पंचधा या व्यवस्थिता ॥
अर्घ्यमेनं मया दत्तं सा गृह्णातु सुरे श्वरी ॥ ५५ ॥
एवं सर्वा निशा सा च गीतवाद्यादिनिःस्वनैः॥
तासां चैवाग्रतो नेया नैव निद्रां समाचरेत् । ५६ ॥
ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥
स्नात्वा संपूजयेद्विप्रं सह पत्न्या प्रभक्तितः ॥ ५७ ॥
वस्त्रैराभरणैश्चैव स्वशक्त्या नृपनंदिनि ॥
गौर्यै भक्ष्यं च दातव्यं मिष्टान्नेन शुचिस्मिते ॥ ५८ ॥
ततः करेणुमानीय वडवां वा सुमध्यमे ॥
गौरीचतुष्टयं तच्च समारोप्य तथोपरि ॥ ५९ ॥
गीतवादित्रशब्देन वेदध्वनियुतेन च ॥
नद्यां वाऽथ तडागे वा वाप्यां वाथ परिक्षिपेत् ॥ 6.178.६० ॥
मंत्रेणानेन सद्भक्त्या तवेदं वच्मि सुन्दरि ॥ ६१ ॥
आहूतासि मया देवि पूजितासि मया शुभे ॥
मम सौभाग्यदानाय यथेष्टं गम्यतामिति ॥ ६२ ॥
॥ लक्ष्मीरुवाच ॥ ॥
एवं मया कृता देव सा तृतीया यथोदिता ॥
नभस्ये मासि संप्राप्ते भक्त्या परमया विभो ॥ ६३ ॥
द्वितीये च तथा प्राप्ते तृतीये च विशेषतः ॥
यावत्पश्यामि प्रत्यूषे तावद्गौरीचतुष्टयम् ॥
जातं रत्नमयं तच्च मया यत्परिपूजितम् ॥ ६४ ॥
प्रस्थितां मां नदीतीरमुद्दिश्य च विसर्जनम् ॥
करिष्यामीति सा प्राह व्यक्तीभूता सुरेश्वरी ॥ ॥ ६५ ॥
मा पुत्रि जलमध्येऽत्र मम मूर्तिचतुष्टयम् ॥
परिभावय मद्वाक्यं श्रुत्वा चैव विधीयताम् ॥ ६६ ॥
हाटकेश्वरजे क्षेत्रे स्थापय त्वं च मा क्षिप ॥
अक्षयं जायते येन सर्वस्त्रीणां हिताय च ॥ ६७ ॥
त्वं प्रार्थय वरं सर्वं ददाम्यहमिहार्चिता ॥
अभ्यर्चिता गिरिसुता मया प्रोक्ता सुरेश्वरी ॥ ॥ ६८ ॥
यदि यच्छसि मे देवि वरं तुष्टा सुरेश्वरि ॥
तदहं मानुषे गर्भे मा भूयासं कथंचन ॥ ६९ ॥
भर्त्ता भवतु मे विष्णुः शाश्वताभीष्टदः सदा ॥
नान्यत्किंचिदभीष्टं मे राज्यं त्रिदिवशोभनम् [। 6.178.७० ॥
अन्यापि कुरुते या च व्रतमेतत्समाहिता ॥
सर्वैर्त्रतैर्यथातुष्टिस्तथा देवि प्रजायते ॥७१ ॥
तथा तस्याः प्रकर्तव्यमकेनानेन पार्वति ॥
तथेति गौरी मामुक्त्वा ततश्चादर्शनं गता ॥ ७२ ॥
सा देवी च मया तत्र तच्च गौरीचतुष्टयम् ॥
हाटकेश्वरजे क्षेत्रे शुभे संस्थापितं विभो ॥ ७३ ॥
तत्प्रभावान्मया लब्धो भर्त्ता त्वं परमेश्वर ॥
शाश्वतश्चाक्षयश्चैव मुखप्रेक्षश्च सर्वदा ॥ ७४ ॥
एतत्त सर्वमाख्यातं यत्पृष्टास्मि सुरेश्वर ॥
सत्येनानेन देवेश तव पादौ स्पृशाम्यहम् ॥ ७५ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा वचनं तस्याः शंखचक्रगदाधरः ॥
विहस्याथ महालक्ष्मीं तामुवाच प्रहर्षितः ॥
मुहुर्मुहुः समालिंग्य वक्षसश्चोपरि स्थिताम् ॥ ७६ ॥
साधुमाधु महाभागे सत्यमेतत्त्वयोदितम् ॥
जानतापि मया पृष्टा भवतीं वरवर्णिनि ॥ ७७ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥
चतुर्भुजा यथा गौरी संजाता पंचपिंडिका ॥ ७८॥
यश्चैतत्पठते भक्त्या प्रातरुत्थाय मानवः ॥
न स लक्ष्म्या विमुच्येत न च दौर्भाग्यमाप्नुयात् ॥ ७९ ॥
तस्मात्सर्वप्रयत्नेन पठनीयमिदं शुभम् ॥
आख्यानं गौरिकं विप्रा यन्मया परिकीर्तितम् ॥ 6.178.८० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पंचपिंडिकागौर्युत्पत्तिमाहात्म्य वर्णनंनामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥ १७८ ॥ ॥९॥
खण्डः ६ (नागरखण्डः) — Adhyāya 179
॥ सूत उवाच ॥ ॥
तथान्यदपि तत्रास्ति पुष्करत्रितयं शुभम् ॥
हाटकेश्वरजे क्षेत्रे सर्वपातकनाशनम् ॥ १ ॥
यस्मिन्दृष्टेऽथवा स्पृष्टे कीर्तिते वा द्विजोत्तमाः ॥
पातकं नाशमायाति भास्करेण तमो यथा ॥ २ ।।
पुनंति सर्वतीर्थानि स्नानाद्दानादसंशयम् ॥
पुष्करालोकनादेव सर्वपापैः प्रमुच्यते ॥ ३ ॥
॥ ऋषय ऊचुः ॥ ॥
श्रूयते पुष्करंनाम तीर्थं त्रैलोक्यविश्रुतम् ॥
ब्रह्मणा निर्मितं तत्र यच्च योजनमात्रकम् ॥ ४ ॥
उत्तरे चन्द्रभागाया नद्या यावत्सरस्वती ॥
दक्षिणे करतोयायाः सीमेयं पुष्करत्रये ॥ ५ ॥
अस्माकं तु पुरा सूत त्वयोक्तं वियति स्थितम् ॥
एतन्नः कौतुकं सूत तत्कथं हाटकेश्वरे ॥
तत्र क्षेत्रे समायातं तस्मात्त्वं वक्तुमर्हसि ॥ ६ ॥
॥ सूत उवाच ॥ ॥
सत्यमेतन्महाभागा यद्भवद्भिरुदाहृतम् ॥
तस्मिन्क्षेत्रे द्विजश्रेष्ठास्तच्छृणुध्वं समाहिताः ॥ ७ ॥
सर्वतो विस्तराद्वच्मि नमस्कृत्य स्वयं भुवम् ॥ ८ ॥
ब्रह्मलोके निवसतो ब्रह्मणोऽव्यक्तजन्मनः ॥
देवर्षिर्नारदः प्राप्तो भ्रांत्वा लोकत्रयं मुनिः ॥ ९ ॥
स नत्वा शिरसा पादावुपविष्टस्त दग्रतः ॥ ६.१७९.१० ॥
॥ ब्रह्मोवाच ॥ ॥
कस्माद्वत्स चिराद्दृष्टः कुतः प्राप्तोऽधुना भवान्॥
क्व भ्रांतस्त्वं समाचक्ष्व ब्रूहि वत्सात्र कारणम् ॥ ११ ॥ ॥
॥ नारद उवाच ॥ ॥
मर्त्यलोकाद्विभो प्राप्तः सांप्रतं च त्वरान्वितः ॥
तव पादप्रपूजार्थं सत्येनात्मानमालभे ॥ १२ ॥
॥ ब्रह्मोवाच ॥ ॥
किंवदन्तीं ममाचक्ष्व मर्त्यलोकसमुद्भवाम् ॥
कीदृशाः पार्थिवास्तत्र कीदृशा द्विजसत्तमाः ॥
कीदृशा व्यवहाराश्च वर्तन्ते तत्र सांप्रतम् ॥ १३ ॥ ॥
॥ नारद उवाच ॥ ॥
मर्त्यलोके कलिर्जातः सांप्रतं सुरसत्तम ॥ १४ ॥
राजानः सत्पथं त्यक्त्वा तथा लोभपरायणाः ॥
पीडयंति च लोकांश्च अर्थहेतोः सुनिर्घृणाः ॥ १५ ॥
शौर्यभावपरित्यक्ताः परदारविमर्दकाः ॥
पूजयन्ति न ते विप्रान्न देवान्न गुरूनपि ॥ १६ ॥
वेदविक्रय कर्तारो ब्राह्मणाः शौचवर्जिताः ॥
पापप्रतिग्रहासक्ताः सन्ध्याहीनाः सुनिर्घृणाः ॥ १७ ॥
कृषिकर्मरता नित्यं वैश्यवत्पशुपालकाः ॥
वैश्याः सर्वे समुच्छेदं प्रयाता धरणीतले ॥ १८ ॥
शूद्रा नित्यं धर्मकामाः शूद्राश्चैव तपस्विनः ॥
लोकयात्राक्रियाः सर्वे प्रहसंति व्यपत्रपाः ॥ १९ ॥
यस्य चास्ति गृहे वित्तं तरुण्यश्च तथा स्त्रियः ॥
तेनतेन समं सख्यं प्रकुर्वन्ति नरा भुवि ॥ ६.१७९.२० ॥
विधवानां व्रतस्थानां सर्वेषां लिंगिनां तथा ॥
हृदि स्थितो महान्कामो व्रतचर्याबहिःस्थिताः ॥२१॥
तीर्थानि विप्लवं यांतिपापलोकश्रितानि च॥
कलेभींतानि सर्वाणि प्रद्रवन्ति दिशो दश ॥२२॥
अहं तत्र स्थितो यस्मात्कलिकाले पितामह ॥ २३ ॥
कलिकाले विशेषेण स्वैरिण्यो ललितस्पृहाः ॥
भर्त्रा विवदमानाश्च स्त्रियः कार्मणतत्पराः॥
वृथा व्रतानि कुर्वंति त्यक्त्वा ताः स्वपतेः कथाम् ॥ २४ ॥
कलिर्बलिष्ठः सुतरां वरदानेन ते कृतः ॥
यदा मर्त्ये भवेद्युद्धं कंडूतिर्जायते हृदि ॥ २९ ॥
स्वर्गे वा मस्तके चैव पाताले चाथ पादयोः ॥
सांप्रतं मर्त्यलोके च मया दृष्टमनेकशः ॥ २६ ॥
श्वश्रूणां च वधूनां च तथा जनकपुत्रयोः ॥
बांधवानां विशेषेण तथा च स्वामिभृत्ययोः ॥ २७ ॥
चौराणां पार्थिवानां च दम्पत्योश्च विशेषतः ॥
स्वल्पोदकास्तथा मेघाः स्वल्पसस्या च मेदिनी ॥ २८ ॥
स्वल्पक्षीरास्तथा गावः क्षीरे सर्पिर्न विद्यते ॥
एवं युद्धानि तेषां च वीक्षमाणो दिवानिशम् ॥ २९ ॥
अहं मर्त्ये परिभ्रांतश्चिरात्तेन समागतः ॥
भूयो यास्यामि तत्रैव कण्डूतिर्महतीस्थिता ॥ ६.१७९.३० ॥
तच्छ्रुत्वा वचनं तस्य नारदस्य पितामहः ॥
पुष्करस्य कृते जातश्चिन्ताव्याकु लतेंद्रियः ॥ ३१ ॥
मर्त्ये च मामकं तीर्थं पुष्करंनाम विश्रुतम् ॥
नाशं यास्यति तन्नूनं कलिकालपरिप्लुतम् ॥ ३२ ॥
तस्मादन्यत्र नेष्यामि कलिर्यत्र न विद्यते ॥
येन तत्र विमुंचामि निजं तीर्थं च पुष्करम् ॥ ३३ ॥
कलिकाले च संप्राप्ते सर्वप्राणिभयंकरे ॥
तत्र प्रयांतु तीर्थानि सर्वा ण्येव विशेषतः ॥ ३४ ॥
गते कलौ प्रयास्यंति निजस्थानमसंशयम् ॥ ३५ ॥
एवं निश्चित्य मनसा हस्तस्थं कमलं ततः ॥
प्रोवाच सादरं तच्च स्वयं ध्यात्वा पितामहः ॥ ३६ ॥
पत त्वं पद्म भूपृष्ठे कलिर्यत्र न विद्यते ॥
येनानयामि तत्रैव पुष्करं तीर्थमात्मनः ॥ ३७ ॥
ततस्तत्प्रेषितं तेन पद्मं भ्रांत्वा महीतले ॥
समस्ते पतितं क्षेत्रे हाटकेश्वरसंभवे ॥३८॥
दृष्ट्वा वेदविदो विप्रान्स्वाध्यायनिरताञ्छुचीन् ॥
तेषां यज्ञक्रियाभिश्च यज्ञोपांतैः समंततः ॥ ३९ ॥
यूपाद्यैः सर्वतो व्याप्ते सदिशे गगनांगणे ॥
ऋग्यजुःसामघोषेण तथा चाथर्वजेन च ॥ ६.१७९.४० ॥
दिग्मण्डले तथा व्याप्ते नान्यः संश्रूयते ध्वनिः ॥
तथा च तार्किकाणां च विवादेषु महत्सु च ॥ ४१ ॥
वेदांतानां समस्तानां व्याख्याने बहुधा कृते ॥
दृश्यन्ते मुनयो यत्र संस्थिता नियमेषु च ॥ ४२ ॥
एकाहारा निराहारा एकांतरकृताशनाः ॥
त्रिरात्रोपोषिताश्चान्ये कृच्छ्रचांद्रायणे रताः ॥ ४३ ॥
महापाराकिणश्चान्ये तथा मासोपवासिनः ॥
अश्मकुट्टाशिनश्चान्ये दन्तोलूखलिकास्तथा ॥ ४४ ॥
शीर्णपर्णाशिनश्चैके फलाहारा महर्षयः ॥
तद्दृष्ट्वा तादृशं क्षेत्रं संयुक्तं विविधैर्गुणैः ॥ ४५ ॥
ततस्तत्पतितं तत्र पुण्यं ज्ञात्वा महीतले ॥
यत्र स्थानेऽपतत्पूर्वं तस्मादुच्चलितं पुनः ॥ ४६ ।
अन्यस्मिंश्च ततः स्थाने द्वितीये द्विजसत्तमाः ॥
तस्मादपि तृतीये तु तृतीयं पंकजं हितम् ॥ ४७ ॥
ततो गर्तात्रयं जातं तेषु स्थानेषु च त्रिषु ॥
गर्तासु च जल जातं स्वच्छं स्फटिकसंनिभम् ॥ ४८ ॥
एतस्मिन्नंतरे प्राप्तः स्वयमेव पितामहः ॥
तत्र स्थाने द्विजश्रेष्ठा यज्ञकर्मप्रसिद्धये ॥ ॥। ४९ ॥
दृष्ट्वा समंततः क्षेत्रं हाटकेश्वरसंज्ञितम् ॥
नानाविप्रैः समाकीर्णं वेदवेदांगपारगैः ॥
तपस्विभिस्तथानेकैर्व्रतचर्यापरायणैः ॥ ६.१७९.५० ॥
अहो क्षेत्रमहो क्षेत्रं पुण्यं रम्यं द्विजप्रियम् ॥
तस्मायज्ञं करिष्यामि क्षेत्रेऽस्मिंश्च द्विजाश्रये ॥ ५१ ॥
आनयिष्यामि तच्चापि पुष्करत्रितयं शुभम् ॥
गर्तास्वेतासु पुण्यासु ज्येष्ठं मध्यं कनीयकम् ॥ ५२ ॥
कलिकाले च संप्राप्ते येन लोपं न गच्छति ॥
स्वयं निश्चित्य मनसा चोपविश्य धरातले ॥ ५३ ॥
ध्यात्वा च सुचिरं कालमानयामास तत्र च ॥
पुष्करत्रितयं श्रेष्ठं ज्येष्ठमध्यकनीयकम् ॥ ५४ ॥
ततोऽब्रवीत्स हृष्टात्मा ह्येतद्धि पुष्कर त्रयम् ॥
मया सम्यक्समानीतं कलिकालभयेन च ॥ ५५ ॥
येऽत्र स्नानं करिष्यंति श्रद्धया परया युताः ॥
ते यास्यंति परां सिद्धिमक्षयां मत्प्रसादतः ॥ ५६ ॥
ये च श्राद्धं करिष्यंति कार्तिक्यां सुसमाहिताः ॥
करिष्यंति गयाशीर्षे तेषां पुण्यं महत्तमम् ॥ ५७ ॥
तत्राद्यात्पुष्करात्पुण्यं लभिष्यंति शताधिकम् ॥
मया यज्ञः कृतस्तत्र कार्तिक्यां पूर्वपुष्करे ॥ ५८ ॥
वैशाख्यां च करिष्यामि अत्राहं च द्वितीयके ॥ ॥ ५९ ॥
एवमुक्त्वा ततो ब्रह्मा ह्यादिदेश सदागतिम् ॥
ममादेशाद्द्रुतं वायो समानय पुरंदरम् ॥ ६.१७९.६० ॥
आदित्यैर्वसुभिः सार्धं रुद्रैश्चैव मरुद्गणैः ॥
गंधर्वैर्लोकपालैश्च सिद्धैर्विद्याधरैस्तथा ॥ ६१ ॥
येन मे स्यात्सहायत्वं समस्ते यज्ञकर्मणि ॥
तच्छ्रुत्वा सकलं वायुर्गत्वा शक्रनिवेशनम् ॥
कथयामास तत्सर्वं यदुक्तं परमेष्ठिना ॥ ६२ ॥
सत्वरं प्रययौ तत्र सर्वैर्देवगणैः सह ॥
प्रणिपत्य ततस्तं स ब्रह्माणं वाक्यमब्रवीत् ॥ ६३ ॥
आदेशो दीयतां देव ह्यहमाकारितस्त्वया ॥
यदर्थं तत्करिष्यामि तस्माच्छीघ्रं निवेदय ॥ ६४ ॥
ब्रह्मोवाच ॥ ॥
मया शक्रात्र चानीतं सुपुण्यं पुष्करत्रयम् ॥
कलिकालभयाच्चैव करिष्ये तदहं स्थिरम्॥ ६५ ॥
अग्निष्टोमत्रयं कृत्वा वैशाख्यां च यथार्चितम् ॥
संभारमाहरस्वाशु तदर्थं सर्वमेव हि ॥ ६६ ॥
ब्राह्मणांश्च तदर्हांश्च वेदवेदांगपारगान् ॥
तच्छ्रुत्वा विनयाच्छक्रस्तथेत्युक्त्वा त्वरान्वितः ॥'
संभारानानयामास तदर्हांश्च द्विजोत्तमान् ॥ ६७ ॥
ततश्चकार विधिवद्यज्ञं स प्रपितामहः ॥
यथोक्तविधिना सर्वं तथा संपूर्णदक्षिणम् ॥ ६८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्करत्रयोत्पत्तिपूर्वकं यज्ञसमारंभार्थमुपकरणानयनब्राह्मणामन्त्रणादि प्रकारकथनंनामैकोनाशीत्युत्तरशततमोऽध्यायः॥१७९॥
खण्डः ६ (नागरखण्डः) — Adhyāya 180
ऋषय ऊचुः॥
अत्यद्भुतमिदं सूत यत्त्वया समुदाहृतम्॥
ब्रह्मणा यत्कृतो यज्ञस्तत्र क्षेत्रे महात्मना ॥ १ ॥
अग्निष्टोमादयो यज्ञा ये वर्तन्ते धरातले ॥
यष्टव्यस्तेषु यज्ञेषु स एव हि सुरेश्वरः ॥ २ ॥
तेनैव यजता तत्र को हीष्टः प्रब्रवीहि नः ॥
ऋत्विजः के स्थितास्तत्र यैस्तत्कर्म मखोद्भवम् ॥
तत्प्रत्यक्षे कृतं सर्वमेतन्नः कौतुकं परम् ॥ ३ ॥
का चैव दक्षिणा दत्ता तेन तेषां द्विजन्मनाम् ॥
कोऽध्वर्युर्विहितस्तत्र येन तद्यजनं कृतम् ॥४॥
को होता कश्च वाऽग्नीध्रः को ब्रह्मा तत्र संस्थितः ॥
उद्गाता कः स्थितस्तत्र ह्याचार्यो यज्ञकर्मणि ॥ ५ ॥
॥ सूत उवाच ॥ ॥
अहं वः कीर्तयिष्यामि सर्वं यज्ञस्य संभवम् ॥
वृत्तांतं यच्च तत्रस्थ माश्चर्यं द्विजपुंगवाः ॥ ६ ॥
ये सदस्याः स्थितास्तत्र ऋत्विजश्च द्विजोत्तमाः ॥
दक्षिणा याः प्रदत्ताश्च तेभ्यस्तेन महात्मना ॥ ७ ॥
यजता देवदेवेन ब्रह्मणाऽमिततेजसा ॥
यज्ञकामं चतुर्वक्त्रं ज्ञात्वा देवः शतक्रतुः ॥ ८ ॥
सर्वैः सुरगणैः सार्धं साहाय्यार्थमुपागतः ॥
तथा च भगवाञ्छंभुः सर्वदेवगणैः सह ॥ ९ ॥
तान्दृष्ट्वाऽभ्यागतान्ब्रह्मा मर्त्यधर्मसमाश्रितान् ॥
प्रोवाच विनयोपेतः कृतांजलिपुटः स्थितः ॥ ६.१८०.१० ॥
स्वागतं वः सुरश्रेष्ठाः प्रसादः क्रियतां मम ॥
निविश्यतां यथान्यायं स्थानेषु रुचिरेषु च ॥ ११ ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यद्यूयं स्वयमागताः ॥
मंत्राहूता यथा कृच्छ्रात्सर्वसत्रेषु गच्छथ ॥ १२ ॥
॥ देवा ऊचुः ॥ ॥
येन यच्चात्र कर्तव्यं तच्छीघ्रं वद पद्मज ॥
यज्ञे तव महाभाग तस्य तत्त्वं समादिश ॥ ॥ १३ ॥
॥ ब्रह्मोवाच ॥ ॥
विश्वकर्मन्द्रुतं गच्छ यज्ञमण्डपसिद्धये ॥
पत्नीशालां ततश्चैव यज्ञवेदीस्तथैव च ॥ १४ ॥
कुण्डानि चैव सर्वाणि यथास्थानेषु कारय ॥
यज्ञपात्राणि सर्वाणि ग्रहाश्च चमसास्तथा ॥ १५ ॥
यूपाश्च यत्प्रमाणेन कर्तव्याः सचषालकाः ॥
पचनार्थं तथा गर्ताः कर्तव्या यत्प्रमाणतः ॥ १६ ॥
इष्टिकानां सहस्राणि दश चाष्टशतानि च ॥
कर्तव्यानि त्वया शीघ्रं चयनानीति सत्वरम् ॥ १७ ॥
तथा हिरण्मयश्चापि पुरुषः कार्य एव हि ॥
तथेत्युक्ता ततस्त्वष्टा शीघ्राच्छीघ्रतरं ययौ ॥ १८ ॥
ततस्तु पद्मजः प्राह देवाचार्यं बृह स्पतिम् ॥
बृहस्पते त्वमानीहि यज्ञार्हानृत्विजोऽखिलान् ॥ १९ ॥
यावत्षोडशसंख्याश्च नान्यस्यैतद्धि युज्यते ॥
त्वया शक्र सदा कार्या शुश्रूषा च द्विजन्मनाम् ॥ ६.१८०.२० ॥
हस्तपादावमर्द्दश्च श्रांतानां पृष्ठमर्द्दनम् ॥
धनाध्यक्ष त्वया देया दक्षिणा कालसंभवा ॥ २१ ॥
सुवस्त्राणि हिरण्यं च तथान्यद्वापि वांछितम् ॥
त्वया विष्णो सदा कार्यं कृत्याकृत्यपरीक्षणम् ॥ २२ ॥
युक्तं कृतमथो नैव सावधानेन सर्वदा ॥
लोकपालाश्च ये सर्वे रक्षंतु सकला दिशः ॥
भूतप्रेतपिशाचानां प्रवेशं राक्षसोद्भवम् ॥ २३ ॥
यो यं कामयते कामं किंचिद्वस्त्रं धनं च वा ॥
विचार्य तस्य तद्देयं सर्वयज्ञाधिपेन तु ॥ २४ ॥
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ॥
भवंतु परिवेष्टारो भोक्तुकामजनस्य च ॥ २५ ॥
एतस्मिन्नंतरे प्राप्तो विश्वकर्मा त्वरान्वितः ॥
अब्रवीत्पंकजभवं संसिद्धो यज्ञमण्डपः ॥ २६ ॥
सर्वमन्यत्समादिष्टं यत्त्वयोक्तं चतुर्मुख ॥ २७ ॥
ततो बृहस्पतिः प्राह समभ्येत्य पितामहम्॥
समानीता मया देव ब्राह्मणा यज्ञकर्मणि ॥ २८ ॥
विप्राः षोडशसंख्याश्च ऋत्विक्कर्मणि योजय ॥
स्वयं परीक्ष्य देवेश यज्ञकर्मप्रसिद्धये ॥ २९ ॥
ततो ब्रह्मा स्वयं दृष्ट्वा तान्परीक्ष्य प्रयत्नतः ॥
ऋत्विक्त्वे च नियोज्याथ ततश्चक्रे तदर्हणम् ॥ ६.१८०.३० ॥
॥ ऋषय ऊचुः ॥ ॥
ऋत्विजां चैव सर्वेषां सूत नामानि कीर्तय ॥
येन यो विहितस्तत्र पदार्थः सूत तं वद ॥ ३१ ॥
॥ सूत उवाच ॥ ॥
भृगुर्हौत्रे ततस्तेन वृतो ब्राह्मणसत्तमाः ॥
मैत्रावरुणसंज्ञस्तु तथैव च्यवनो मुनिः ॥ ३२ ॥
अच्छावाको मरीचिश्च ग्रावस्तुद्गालवो मुनिः ॥
पुलस्त्यश्च तथा ऽध्वर्युः प्रस्थातात्रिश्च संस्थितः ॥ ३३ ॥
तत्र रैभ्यो मुनिर्नेष्टा तत्रोन्नेता सनातनः ॥
ब्रह्मा च नारदो गर्गो ब्राह्मणाच्छंसिरेव च ॥३४॥
आग्नीध्रश्च भरद्वाजो होता पाराशरस्तथा ॥
तथैव तत्र क्षेत्रे च उद्गाता गोभिलो मुनिः ॥ ३५ ॥
तथैव कौथुमो जज्ञे प्रस्तौता यज्ञकर्मणि ॥
शांडिल्यः प्रतिहर्त्ता च सुब्रह्मण्यस्तथांगिराः ॥ ३६ ॥
तस्य यज्ञस्य सिद्ध्यर्थमित्येते षोडशर्त्विजः ॥
वस्त्राभरणशोभाढ्या विनयेन कृताश्च ते ॥३७॥
ततः कृत्वा स्वयं ब्रह्मा सर्वेषामर्हणक्रियाम् ॥
गृह्योक्तेन विधानेन ततः प्रोवाच सादरम् ॥ ३८ ॥
एषोऽह शरणं प्राप्तो युष्माकं द्विजसत्तमाः ॥
अनुगृह्णीत मां सर्वे दीक्षायै यज्ञकर्मणः ॥ ३९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे ब्रह्मयज्ञोपाख्याने यज्ञमण्ड पप्राप्तब्राह्मणसत्कारपूर्वकर्त्विगादिस्थानयोजनापूर्वकाध्वरकर्मारंभोनामाशीत्युत्तरशततमोऽध्यायः ॥ १८० ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 181
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे सर्वेर्नागरैर्ब्राह्मणोत्तमैः ॥
प्रेषितो मध्यगस्तत्र गर्तातीर्थसमुद्भवः ॥ १ ॥
रेरे मध्यग गत्वा त्वं ब्रूहि तं कुपितामहम् ॥
विप्रवृत्ति प्रहंतारं नीतिमार्गविवर्जितम् ॥ २ ॥
एतत्क्षेत्रं प्रदत्तं नः पूर्वेषां च द्विजन्मनाम् ॥
महेश्वरेण तुष्टेन पूरिते सर्पजे बिले ॥ ३ ॥
तस्य दत्तस्य चाद्यैव पितामहशतं गतम् ॥
पंचोत्तरमसन्दिग्धं यावत्त्वं कुपितामह ॥ ४ ॥
न केनापि कृतोऽस्माकं तिरस्कारो यथाऽधुना ॥
त्वां मुक्त्वा पापकर्माणं न्यायमार्गविवर्जितम् ॥ ५ ॥
नागरैर्ब्राह्मणैर्बाह्यं योऽत्र यज्ञं समाचरेत् ॥
श्राद्धं वा स हि वध्यः स्यात्सर्वेषां च द्विजन्मनाम् ॥ ६ ॥
न तस्य जायते श्रेयस्तत्समुत्थं कथंचन ॥
एतत्प्रोक्तं तदा तेन यदा स्थानं ददौ हि नः ॥ ७ ॥
तस्माद्यत्कुरुषे यज्ञं ब्राह्मणैर्नागरैः कुरु ॥
नान्यथा लप्स्यसे कर्तुं जीवद्भिर्नागरैर्द्विजैः ॥ ८ ॥
एवमुक्तस्ततो गत्वा मध्यगो यत्र पद्मजः ॥
यज्ञमण्डपदूरस्थो ब्राह्मणैः परिवारितः ॥ ९ ॥
यत्प्रोक्तं नागरैः सर्वैः सविशेषं तदा हि सः ॥
तच्छ्रुत्वा पद्मजः प्राह सांत्वपूर्वमिदं वचः ॥ ६.१८१.१० ॥
मानुषं भावमापन्न ऋत्विग्भिः परिवारितः ॥
त्वया सत्यमिदं प्रोक्तं सर्वं मध्यगसत्तम ॥ ११ ॥
किं करोमि वृताः सर्वे मया ते यज्ञकर्मणि ॥
ऋत्विजोऽध्वर्यु पूर्वा ये प्रमादेन न काम्यया ॥ १२ ॥
तस्मादानय तान्सर्वानत्र स्थाने द्विजोत्तमान् ॥
अनुज्ञातस्तु तैर्येन गच्छामि मखमण्डपे ॥ १३ ॥ ॥
॥ मध्यग उवाच ॥ ॥
त्वं देवत्वं परित्यज्य मानुषं भावमाश्रितः ॥
तत्कथं ते द्विजश्रेष्ठाः समागच्छंति तेंऽतिकम् ॥ १४ ॥
श्रेष्ठा गावः पशूनां च यथा पद्मसमुद्भव ॥
विप्राणामिह सर्वेषां तथा श्रेष्ठा हि नागराः ॥ १५ ॥
तत्माच्चेद्वांछसि प्राप्तिं त्वमेतां यज्ञसंभवाम् ॥
तद्भक्त्यानागरान्सर्वान्प्रसादय पितामह ॥ १६ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा पद्मजो भीत ऋत्विग्भिः परिवारितः ॥
जगाम तत्र यत्रस्था नागराः कुपिता द्विजाः ॥१७॥
प्रणिपत्य ततः सर्वान्विनयेन समन्वितः ॥
प्रोवाच वचनं श्रुत्वा कृतांजलिपुटः स्थितः॥१८॥
जानाम्यहं द्विजश्रेष्ठाः क्षेत्रेऽस्मिन्हाट केश्वरे ॥
युष्मद्बाह्यं वृथा श्राद्धं यज्ञकर्म तथैव च ॥ १९ ॥
कलिभीत्या मयाऽऽनीतं स्थानेऽस्मिन्पुष्करं निजम् ॥
तीर्थं च युष्मदीयं च निक्षेपोऽ यंसमर्पितः ॥ ६.१८१.२० ॥
ऋत्विजोऽमी समानीता गुरुणा यज्ञसिद्धये ॥
अजानता द्विजश्रेष्ठा आधिक्यं नागरात्मकम् ॥ २१ ॥
तस्माच्च क्षम्यतां मह्यं यतश्च वरणं कृतम् ॥
एतेषामेव विप्राणामग्निष्टोमकृते मया ॥ २२ ॥
एतच्च मामकं तीर्थं युष्माकं पापनाशनम् ॥
भविष्यति न सन्देहः कलिकालेऽपि संस्थिते ॥ २३ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यदि त्वं नागरैर्बाह्यं यज्ञं चात्र करिष्यसि ॥
तदन्येऽपि सुराः सर्वे तव मार्गानुयायि नः ॥
भविष्यन्ति तथा भूपास्तत्कार्यो न मखस्त्वया ॥ २४ ॥
यद्येवमपि देवेश यज्ञकर्म करिष्यसि ॥
अवमन्य द्विजान्सर्वाक्षिप्रं गच्छास्मदंतिकात् ॥ २५ ॥
॥ ब्रह्मोवाच ॥ ॥
अद्यप्रभृति यः कश्चिद्यज्ञमत्र करिष्यति ॥
श्राद्धं वा नागरैर्बाह्यं वृथा तत्संभविष्यति ॥२६॥
नागरोऽपि च यो न्यत्र कश्चिद्यज्ञं करिष्यति ॥
एतत्क्षेत्रं परित्यज्य वृथा तत्संभविष्यति ॥ २७ ॥
मर्यादेयं कृता विप्रा नागराणां मयाऽधुना ॥
कृत्वा प्रसादमस्माकं यज्ञार्थं दातुमर्हथ ॥
अनुज्ञां विधिवद्विप्रा येन यज्ञं करोम्यहम् ॥ २८ ॥
॥ सूत उवाच ॥ ॥
ततस्तैर्ब्राह्मणैस्तुष्टैरनुज्ञातः पितामहः ॥
चकार विधिवद्यज्ञं ये वृता ब्राह्मणाश्च तैः ॥ २९ ॥
विश्वकर्मा समागत्य ततो मस्तकमण्डनम् ॥
चकार ब्राह्मणश्रेष्ठा नागराणां मते स्थितः ॥ ६.१८१.३० ॥
ब्रह्मापि परमं तोषं गत्वा नारदमब्रवीत् ॥
सावित्रीमानय क्षिप्रं येन गच्छामि मण्डपे ॥ ३१ ॥
वाद्यमानेषु वाद्येषु सिद्धकिन्नरगुह्यकैः ॥
गन्धर्वैर्गीतसंसक्तैर्वेदोच्चारपरैर्द्विजैः ॥
अरणिं समुपादाय पुलस्त्यो वाक्यमब्रवीत् ॥ ३२ ॥
पत्नी ३ पत्नीति विप्रेन्द्राः प्रोच्चैस्तत्र व्यवस्थिताः ॥ ३३ ॥
एतस्मिन्नंतरे ब्रह्मा नारदं मुनिसत्तमम्॥
संज्ञया प्रेषयामास पत्नी चानीयतामिति ॥ ३४ ॥
सोऽपि मंदं समागत्य सावित्रीं प्राह लीलया ॥
युद्धप्रियोंऽतरं वांछन्सावित्र्या सह वेधसः [। ३५ ॥
अहं संप्रेषितः पित्रा तव पार्श्वे सुरेश्वरि ॥
आगच्छ प्रस्थितः स्नातः सांप्रतं यज्ञमण्डपे ॥ ३६ ॥
परमेकाकिनी तत्र गच्छमाना सुरेश्वरि ॥
कीदृग्रूपा सदसि वै दृश्यसे त्वमनाथवत् ॥ ३७ ॥
तस्मादानीयतां सर्वा याः काश्चिद्देवयोषितः ॥
याभिः परिवृता देवि यास्यसि त्वं महामखे ॥ ३८ ॥
एवमुक्त्वा मुनिश्रेष्ठो नारदो मुनिसत्तमः ॥
अब्रवीत्पितरं गत्वा तातांबाऽऽकारिता मया ॥ ३९ ॥
परं तस्याः स्थिरो भावः किंचित्संलक्षितो मया ॥
तस्य तद्वचनं श्रुत्वा ततो मन्युसमन्वितः॥६.१८१.४॥।
पुलस्त्यं प्रेषयामास सावित्र्या सन्निधौ ततः ॥
गच्छ वत्स त्वमानीहि स्थानं सा शिथिलात्मिका ॥
सोमभारपरिश्रांतं पश्य मामूर्ध्वसंस्थितम्॥४१॥
एष कालात्ययो भावि यज्ञकर्मणि सांप्रतम्॥
यज्ञयानमुहूर्तोऽयं सावशेषो व्यवस्थितः ॥४२॥
तस्य तद्वचनं श्रुत्वा पुलस्त्यः सत्वरं ययौ ॥
सावित्री तिष्ठते यत्र गीतनृत्यसमाकुला ॥ ४३ ॥
ततः प्रोवाच किं देवि त्वं तिष्ठसि निराकुला ॥
यज्ञयानोचितः कालः सोऽयं शेषस्तु तिष्ठति ॥४४॥
तस्मादागच्छ गच्छामस्तातः कृच्छ्रेण तिष्ठति॥
सोमभारार्द्दितश्चोर्ध्वं सर्वैर्देवैः समावृतः ॥४५॥
॥ सावित्र्युवाच ॥ ॥
सर्वदेववृतस्तात तव तातो व्यवस्थितः ॥
एकाकिनी कथं तत्र गच्छाम्यहमनाथवत् ॥४६॥
तद्ब्रूहि पितरं गत्वा मुहूर्तं परिपाल्यताम् ॥४७॥
यावदभ्येति शक्राणी गौरी लक्ष्मीस्तथा पराः॥
देवकन्याः समाजेऽत्र ताभिरेष्याम्यह८द्रुतम् ॥ ४८ ॥
सर्वासां प्रेषितो वायुर्निमत्रणकृते मया ॥
आगमिष्यन्ति ताः शीघ्रमेवं वाच्यः पिता त्वया ॥४९॥
॥ सूत उवाच ॥ ॥
सोऽपि गत्वा द्रुतं प्राह सोमभारार्दितं विधिम्॥
नैषाभ्येति जगन्नाथ प्रसक्ता गृहकर्मणि ॥ ६.१८१.५० ॥
सा मां प्राह च देवानां पत्नीभिः सहिता मखे ॥
अहं यास्यामि तासां च नैकाद्यापि प्रदृश्यते ॥ ५१ ॥
एवं ज्ञात्वा सुरश्रेष्ठ कुरु यत्ते सुरोचते ॥
अतिक्रामति कालोऽयं यज्ञयानसमुद्रवः ॥
तिष्ठते च गृहव्यग्रा सापि स्त्री शिथिलात्मिका ॥ ५२ ॥
तच्छ्रुत्वा वचनं तस्य पुलस्त्यस्य पितामहः ॥
समीपस्थं तदा शक्रं प्रोवाच वचनं द्विजाः ॥ ५३ ॥
॥ ब्रह्मोवाच ॥ ॥
शक्र नायाति सावित्री सापि स्त्री शिथिलात्मिका ॥
अनया भार्यया यज्ञो मया कार्योऽयमेव तु ॥ ५४ ॥
गच्छ शक्र समानीहि कन्यां कांचित्त्वरान्वितः ॥
यावन्न क्रमते कालो यज्ञयानसमुद्भवः ॥ ५५ ॥
पितामहवचः श्रुत्वा तदर्थं कन्यका द्विजाः ॥
शक्रेणासादिता शीघ्रं भ्रममाणा समीपतः ॥ ५६ ॥
अथ तक्रघटव्यग्रमस्तका तेन वीक्षिता ॥
कन्यका गोपजा तन्वी चंद्रास्या पद्मलोचना ॥ ५७ ॥
सर्वलक्षणसंपूर्णा यौवनारंभमाश्रिता ॥
सा शक्रेणाथ संपृष्टा का त्वं कमललोचने ॥ ५८ ॥
कुमारी वा सनाथा वा सुता कस्य ब्रवीहि नः ॥ ५९ ॥
॥ कन्यो वाच ॥ ॥
गोपकन्यास्मि भद्रं ते तक्रं विक्रेतुमागता ॥
यदि गृह्णासि मे मूल्यं तच्छीघ्रं देहि मा चिरम् ॥ ६.१८१.६० ॥
तच्छ्रुत्वा त्रिदिवेन्द्रोऽपि मत्वा तां गोपकन्यकाम् ॥
जगृहे त्वरया युक्तस्तक्रं चोत्सृज्य भूतले ॥ ६१ ॥
अथ तां रुदतीं शक्रः समादाय त्वरान्वितः ॥
गोवक्त्रेण प्रवेश्याथ गुह्येनाकर्षयत्ततः ॥ ६२ ॥
एवं मेध्यतमां कृत्वा संस्नाप्य सलिलैः शुभैः ॥
ज्येष्ठकुण्डस्य विप्रेन्द्राः परिधाय्य सुवाससी ॥ ६३ ॥
ततश्च हर्षसंयुक्तः प्रोवाच चतुराननम् ॥
द्रुतं गत्वा पुरो धृत्वा सर्वदेवसमागमे ॥ ६४ ॥
कन्यकेयं सुरश्रेष्ठ समानीता मयाऽधुना ॥
तवार्थाय सुरूपांगी सर्वलक्षणलक्षिता ॥ ६५ ॥
गोपकन्या विदित्वेमां गोवक्त्रेण प्रवेश्य च ॥
आकर्षिता च गुह्येन पावनार्थं चतुर्मुख ॥ ६६ ॥
॥ श्रीवासुदेव उवाच ॥ ॥
गवां च ब्राह्मणानां च कुलमेकं द्विधा कृतम् ॥
एकत्र मंत्रास्तिष्ठंति हविरन्यत्र तिष्ठति ॥ ६७ ॥
धेनूदराद्विनिष्क्रांता तज्जातेयं द्विजन्मनाम् ॥
अस्याः पाणिग्रहं देव त्वं कुरुष्व मखाप्तये ॥ ६८
यावन्न चलते कालो यज्ञयानसमुद्भवः ॥ ६९ ॥
॥ रुद्र उवाच ॥ ॥
प्रविष्टा गोमुखे यस्मादपानेन विनिर्गता ॥
गायत्रीनाम ते पत्नी तस्मादेषा भविष्यति ॥ ६.१८१.७० ॥
॥ ब्रह्मोवाच ॥ ॥
वदन्तु ब्राह्मणाः सर्वे गोपकन्याप्यसौ यदि ॥
संभूय ब्राह्मणीश्रेष्ठा यथा पत्नी भवेन्मम ॥ ७१ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
एषा स्याद्ब्राह्मणश्रेष्ठा गोपजातिविवर्जिता ॥
अस्मद्वाक्याच्चतुर्वक्त्र कुरु पाणिग्रहं द्रुतम् ॥ ७२ ॥
॥ सूत उवाच ॥ ॥
ततः पाणिग्रहं चक्रे तस्या देवः पितामहः ॥
कृत्वा सोमं ततो मूर्ध्नि गृह्योक्तविधिना द्विजाः ॥ ७३ ॥
संतिष्ठति च तत्रस्था महादेवी सुपावनी ॥
अद्यापि लोके विख्याता धनसौभाग्यदायिनी ॥ ॥ ७४ ॥
यस्तस्यां कुरुते मर्त्यः कन्यादानं समाहितः ॥
समस्तं फलमाप्नोति राजसूयाश्वमेधयोः ॥ ७९ ॥
कन्या हस्तग्रहं तत्र याऽऽप्नोति पतिना सह ॥
सा स्यात्पुत्रवती साध्वी सुखसौभाग्यसंयुता ॥ ७६ ॥
पिंडदानं नरस्तस्यां यः करोति द्विजोत्तमाः ॥
पितरस्तस्य संतुष्टास्तर्पिताः पितृतीर्थवत् ॥ ७७ ॥
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गायत्रीविवाहे गायत्रीतीर्थमाहात्म्यवर्णनंनामैकाशीत्युत्तरशततमोअध्यायः ॥ १८१ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 182
॥ सूत उवाच ॥ ॥
एवं पत्नीं समासाद्य गायत्रीं चतुराननः ॥
संप्रहृष्टमना भूत्वा प्रस्थितो यज्ञमण्डपम् ॥ १ ॥
गायत्र्यपि समादाय मूर्ध्नि तामरणिं मुदा ॥
प्रतस्थे संपरित्यज्य गोपभावं विगर्हितम् ॥ २ ॥
वाद्यमानेषु वाद्येषु ब्रह्मघोषे दिवंगते ॥
कलं प्रगायमानेषु गन्धर्वेषु समंततः ॥ ३ ॥
सर्वदेवद्विजोपेतः संप्राप्तो यज्ञमण्डपे ॥
गायत्र्या सहितो ब्रह्मा मानुषं भावमाश्रितः ॥ ४ ॥
एतस्मिन्नंतरे चक्रे केशनिर्वपणं विधेः ॥
विश्वकर्मा नखानां च गायत्र्यास्तदनंतरम् ॥ ५ ॥
औदुम्बरं ततो दण्डं पुलस्त्योऽस्मै समाददे ॥
एणशृंगान्वितं चर्म मन्त्रवद्विजसत्तमाः ॥ ६ ॥
पत्नीशालां गृहीत्वा च गायत्रीं मौनधारिणीम् ॥
मेखलां निदधे चान्यां कट्यां मौंजीमयीं शुभाम् ॥ ७ ॥
ततश्चक्रे परं कर्म यदुक्तं यज्ञमंडपे ॥
ऋत्विग्भिः सहितो वेधा वेदवाक्यसमादृतः ॥ ८ ॥
प्रवर्ग्ये जायमाने च तत्राश्चर्यमभून्महत् ॥
जाल्मरूपधरः कश्चिद्दिग्वासा विकृताननः ॥ ९ ॥
कपालपाणिरायातो भोजनं दीयतामिति ॥
निषेध्यमानोऽपि च तैः प्रविष्टो याज्ञिकं सदः ॥
स कृत्वाऽटनमन्याय्यं तर्ज्यमानोऽपि तापसैः ॥ ६.१८२.१० ॥
॥ सदस्या ऊचुः ॥ ॥
कस्मात्पापसमेतस्त्वं प्रविष्टो यज्ञमण्डपे ॥
कपाली नग्नरूपो यो यज्ञकर्मविवर्जितः ॥ ११ ॥
तस्माद्गच्छ द्रुतं मूढ यावद्ब्रह्मा न कुप्यति ॥
तथाऽन्ये ब्राह्मणश्रेष्ठास्तथा देवाः सवासवाः ॥ १२ ॥
॥ जाल्म उवाच ॥ ॥
ब्रह्मयज्ञमिमं श्रुत्वा दूरादत्र समागतः ॥
बुभुक्षितो द्विजश्रेष्ठास्तत्किमर्थं विगर्हथ ॥ १३ ॥
दीनांधैः कृपणैः सवैर्स्तर्पितैः क्रतुरुच्यते ॥
अन्यथाऽसौ विनाशाय यदुक्तं ब्राह्मणैर्वचः ॥१४॥
अन्नहीनो दहेद्राष्टं मन्त्रहीनस्तु ऋत्विजः ॥
याज्ञिकं दक्षिणा हीनो नास्ति यज्ञसमो रिपुः ॥ १५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यदि त्वं भोक्तुकामस्तु समायातो व्रज द्रुतम् ॥
एतस्यां सत्रशालायां भुञ्जते यत्र तापसाः ॥
दीनान्धाः कृपणाश्चैव ततः क्षुत्क्षामकंठिताः ॥ १६ ॥
अथवा धनकामस्त्वं वस्त्रकामोऽथ तापस ॥
व्रज वित्तपतिर्यत्र दानशालां समाश्रितः ॥ १७ ॥
अनिंद्योऽयं महामूर्ख यज्ञः पैतामहो यतः ॥
अर्चितः सर्वतः पुण्यं तत्किं निन्दसि दुर्मते ॥ १८ ॥
॥ सूत उवाच ॥ ॥
एवमुक्तः कपालं स परिक्षिप्य धरातले ॥
जगामादर्शनं सद्यो दीपवद्द्विजसत्तमाः ॥ १९ ॥
॥ ऋत्विज ऊचुः ॥ ॥
कथं यज्ञक्रिया कार्या कपाले सदसि स्थिते ॥
परिक्षिपथ तस्मात्तु एवमूचुर्द्विजोत्तमाः ॥ ६.१८२.२० ॥
अथैको बहुधा प्रोक्तः सदस्यैश्च द्विजोत्तमैः ॥
दण्डकाष्ठं समुद्यम्य प्रचिक्षेप बहिस्तथा ॥ २१ ॥
अथान्यत्तत्र संजातं कपालं तादृशं पुनः ॥
तस्मिन्नपि तथा क्षिप्ते भूयोऽन्यत्समपद्यत ॥ २२ ॥
एवं शतसहस्राणि ह्ययुतान्यर्बुदानि च ॥
तत्र जातानि तैर्व्याप्तो यज्ञवाटः समंततः ॥ २३ ॥
हाहाकारस्ततौ जज्ञे समस्ते यज्ञमण्डपे ॥
दृष्ट्वा कपालसंघांस्तान्यज्ञ कर्मप्रदूषकान्॥ २४ ॥
अथ संचिंतयामास ध्यानं कृत्वा पितामहः ॥
हरारिष्टं समाज्ञाय तत्सर्वं हृष्टरूपधृक् ॥ २५ ॥
कृतांजलिपुटो भूत्वा ततः प्रोवाच सादरम्॥
महेश्वरं समासाद्य यज्ञवाटसमाश्रितम्॥ २६ ॥
किमिदं युज्यते देव यज्ञेऽस्मिन्कर्मणः क्षतिः ॥
तस्मात्संहर सर्वाणि कपालानि सुरेश्वर ॥ २७ ॥
यज्ञकर्मविलोपोऽयं मा भूत्त्वयि समागते ॥ २८ ॥
ततः प्रोवाच संक्रुद्धो भगवाञ्छशिशेखरः ॥
तन्ममेष्टतमं पात्रं भोजनाय सदा स्थितम्॥ २९ ॥
एते द्विजाधमाः कस्माद्विद्विषंतिपितामह ॥
तथा न मां समुद्दिश्य जुहुवुर्जातवेदसि ॥ ६.१८२.३० ॥
यथान्यादेवता स्तद्वन्मन्त्रपूतं हविर्विधे ॥
तस्माद्यदि विधे कार्या समाप्तिर्यज्ञकर्मणि ॥ ३१ ॥
तत्कपालाश्रितं हव्यं कर्तव्यं सकलं त्विदम् ॥
तथा च मां समु द्दिश्य विशषाज्जातवेदसि ॥ ३२ ॥
होतव्यं हविरेवात्र समाप्तिं यास्यति क्रतुः ॥
नान्यथा सत्यमेवोक्तं तवाग्रे चतुरानन ॥ ३३ ॥
॥ पितामह उवाच ॥ ॥
रूपाणि तव देवेश पृथग्भूतान्यनेकशः ॥
संख्यया परिहीनानि ध्येयानि सकलानि च ॥ ३४ ॥
एतन्महाव्रतं रूपमाख्यातं ते त्रिलोचन ॥
नैवं च मखकर्म स्यात्तत्रैव च न युज्यते ॥ ३५ ॥
अद्यैतत्कर्म कर्तुं च श्रुतिबाह्यं कथंचन ॥
तव वाक्यमपि त्र्यक्ष नान्यथा कर्तुमुत्सहे ॥ ३६ ॥
मृन्मयेषु कपालेषु हविः श्राप्यं सुरेश्वर ॥
अद्यप्रभृति यज्ञेषु पुरोडाशात्मिकं द्विजैः ॥
तवोद्देशेन देवेश होतव्यं शतरुद्रियम् ॥ ३७ ॥
विशेषात्सर्वयज्ञेषु जप्यं चैव विशेषतः ॥
कपालानां तु द्वारेण त्वया रूपं निजं कृतम् ॥ ३८ ॥
प्रकटं च सुरश्रेष्ठ कपालेश्वरसंज्ञितः ॥
तस्मात्त्वं भविता रुद्र क्षेत्रेऽस्मिन्द्वादशोऽपरः ॥ ३९ ॥
अत्र यज्ञं समारभ्य यस्त्वां प्राक्पूजयिष्यति ॥
अविघ्नेन मखस्तस्य समाप्तिं प्रव्रजिष्यति ॥ ६.१८२.४० ॥
एवमुक्ते ततस्तेन कपालानि द्विजोत्तमाः ॥
तानि सर्वाणि नष्टानि संख्यया रहितानि च ॥ ४१ ॥
ततो हृष्टश्चतुर्वक्त्रः स्थापयामास तत्क्षणात् ॥
लिगं माहेश्वरं तत्र कपालेश्वरसंज्ञितम् ॥ ४२ ॥
अब्रवीच्च ततो वाक्यं यश्चैतत्पूजयिष्यति ॥
मम कुण्डत्रये स्नात्वा स यास्यति परां गतिम्॥ ४३ ॥
शुक्लपक्षे चतुर्दश्यां कार्तिके जागरं तु यः ॥
करिष्यति पुनश्चास्य लिंगस्य सुसमाहितः ॥
आजन्मप्रभवात्पापात्स विमुक्तिमवाप्स्यति ॥ ४४ ॥
एवमुक्तेऽथ विधिना प्रहृष्टस्त्रिपुरांतकः ॥
यज्ञमण्डपमासाद्य प्रस्थितो वेदिसंनिधौ ॥ ४५ ॥
ब्राह्मणैश्च ततः कर्म प्रारब्धं यज्ञसम्भवम् ॥
विस्मयोत्फुल्लनयनैर्नमस्कृत्य महेश्वरम् ॥ ४६ ॥
॥ सूत उवाच ॥ ॥
एवं च यज तस्तस्य चतुर्वक्त्रस्य तत्र च ॥
ऋषीणां कोटिरायाता दक्षिणापथवासिनाम् ॥ ४७ ॥
श्रुत्वा पैतामहं यज्ञं कौतुकेन समन्विताः ॥
कीदृशो भविता यज्ञो दीक्षितो यत्र पद्मजः ॥ ४८८ ॥
कीदृक्क्षेत्रं च तत्पुण्यं हाटकेश्वरसंज्ञितम् ॥
कीदृशास्ते च विप्रेन्द्रा ऋत्विजस्तत्र ये स्थिताः ॥ ४९ ॥
अथ ते सुपरिश्रांता मध्यंदिनगते रवौ ॥
रविवारेण संप्राप्ते नक्षत्रे चाश्विसंस्थिते ॥ ६.१८२.५० ॥
वैवस्वत्यां तिथौ चैव प्राप्ता घर्मपीडिताः ॥
कंचिज्जलाशयं प्राप्य प्रविष्टाः सलिलं शुभम् ॥ ५१ ॥
शंकुकर्णा महाकर्णा वकनासास्तथापरे ॥
महोदरा बृहद्दन्ता दीर्घोष्ठाः स्थूलमस्तकाः॥५२॥
चिपिटाक्षास्तथा चान्ये दीर्घग्रीवास्तथा परे॥
कृष्णांगाः स्फुटितैः पादैर्नखैर्दीर्घैः समुत्थितैः॥५३॥
ततो यावद्विनिष्क्रांताः प्रपश्यन्ति परस्परम्॥
तावद्वैरूपस्यनिर्मुक्ताः संजाताः कामसन्निभाः॥५४॥
ततो विस्मयमापन्ना मिथः प्रोचुः प्रहर्षिताः॥
रूपव्यत्ययमालोक्य ज्ञात्वा तीर्थं तदुत्तमम्॥
अत्र स्नानादिदं रूपमस्माभिः प्राप्तमुत्तमम्॥५५॥
यस्मात्तस्मादिदं तीर्थं रूपतीर्थं भविष्यति॥
त्रैलोक्ये सकले ख्यातं सर्वपातकनाशनम्॥५६॥
येऽत्र स्नानं करिष्यन्ति श्रद्धया परया युताः॥
सुरूपास्ते भविष्यंति सदा जन्मनि जन्मनि॥५७॥
पितॄंश्च तर्पयिष्यन्ति य त्र श्रद्धासमन्विताः॥
जलेनापि गयाश्राद्धात्ते लप्स्यन्ते धिकं फलम्॥५८॥
येऽत्र रत्नप्रदानं च प्रकरिष्यन्ति मानवाः॥
भविष्यंति न संदेहो राजानस्ते भवेभवे॥५९॥
स्थास्यामो वयमत्रैव सांप्रतं कृतनिश्चयाः॥
न यास्यामो वयं तीर्थं यद्यपि स्यात्सुशोभनम्॥६.१८२.६०॥
एवमुक्त्वाऽथ व्यभजंस्तत्सर्वं मुनयश्च ते॥
यज्ञोपवीतमात्राणि स्वानि तीर्थानि चक्रिरे॥६१॥
सूत उवाच॥
अद्यापि च द्विजश्रेष्ठास्तत्र तीर्थे जगद्गुरुः॥
प्रथमं स्पृशते तोयं नित्यं स्याद्दयितं शुभम्॥६२॥
निष्कामस्तु पुनर्मर्त्यो यः स्नानं तत्र श्रद्धया।.
कुरुते स परं श्रेयः प्राप्नुयात्सिद्धिलक्षणम्॥६३॥
एवं ते मुनयः सर्वे विभज्य तन्महत्सरः॥
सायंतनं च तत्रैव कृत्वा कर्म सुविस्तरम्॥६४.॥
ततो निशामुखे प्राप्ता यत्र देवः पितामहः॥
दीक्षितस्त्वथ मौनी च यज्ञमण्डपसंश्रितः॥६५॥
तं प्रणम्य ततः सर्वे गता यत्रर्त्विजः स्थिताः॥
उपविष्टाः परिश्रान्ता दिवा यज्ञियकर्मणा॥६६॥
इन्द्रादिकैः सुरैर्भक्त्या मृद्यमानाङ्घ्रयः स्थिताः॥
अभिवाद्याथ तान्सर्वानुपविष्टास्ततो ग्रतः॥६७॥
चक्रुश्चाथ कथाश्चित्रा यज्ञकर्मसमुद्भवाः॥
सोमपानस्य संबन्धो व्यत्ययं च समुद्भवम्॥६८॥
उद्गातुः प्रभवं चैव तथाध्वर्योः परस्परम्॥
प्रोचुस्ते तत्त्वमाश्रित्य तथान्ये दूषयन्ति तत्॥६९॥
अन्ये मीमांसकास्तत्र कोपसंरक्तलोचनाः।.
हन्युस्तेषां मतं वादमाश्रिता वाग्विचक्षणाः॥ ६.१८२.७०॥
परिशिष्टविदश्चान्ये मध्यस्था द्विजसत्तमाः॥
प्रोचुर्वादं परित्यज्य साभिप्रायं यथोदितम्॥७१॥
महावीरपुरोडाशचयनप्रमुखांस्तथा॥
विवादांश्चक्रिरे चान्ये स्वंस्वं पक्षं समाश्रिताः॥७२॥
एवं सा रजनी तेषामतिक्रान्ता द्विजन्मनाम्।७३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रूपतीर्थोत्पत्तिपूर्वकप्रथमयज्ञदिवसवृत्तान्तवर्णनंनाम द्व्यशीत्युत्तरशततमोऽध्यायः॥१८२॥
खण्डः ६ (नागरखण्डः) — Adhyāya 183
सूत उवाच॥
द्वितीये दिवसे प्राप्ते यज्ञकर्मसमुद्भवे॥
द्वादश्यामभवत्तत्र शृणुध्वं तद्द्विजोत्तमाः॥
वृत्तान्तं सर्वदेवानां महाविस्मयकारकम् ॥ १ ॥
मखकर्मणि प्रारब्ध ऋत्विग्भिर्वेदपारगैः ॥
जलसर्पं समादाय बटुः कश्चित्सुनर्मकृत् ॥ २ ॥
प्रविश्याथ सदस्तत्र तं सर्पं ब्राह्मणान्तिके ॥
चिक्षेप प्रहसंश्चैव सर्वदुःखभयंकरम् ॥ ३ ॥
ततस्तु डुण्डुभस्तूर्णं भ्रममाण इतस्ततः ॥
विप्राणां सदसिस्थानां सक्तानां यज्ञकर्मणि ॥ ४ ॥
अहो होतुः स्थिते प्रैषे दीर्घसत्रसमुद्भवे ॥
स सर्पो वेष्टयामास तस्य गात्रं समंततः ॥ ५ ॥
न चचाल निजस्थानात्प्रायश्चित्तविभीषया ॥
नोवाच वचनं सोऽत्र चयनन्यस्तलोचनः ॥ ६ ॥
हाहाकारो महाञ्जज्ञे एतस्मिन्नंतरे द्विजाः ॥
तस्मिन्सदसि विप्राणां विषा ढ्याहिप्रशंकया ॥ ७ ॥
हाहाकारो महानासीत्तं दृष्ट्वा सर्पवेष्टितम् ॥
तस्य पुत्रो विनीतात्मा मैत्रावरुणकर्मणि ॥ ९ ॥
संस्थितस्तेन संदृष्टः पिता सर्पाभिवेष्टितः ॥
ज्ञात्वा तु चेष्टितं तस्य भये सर्पसमुद्भवे ॥
शशाप क्रोधसंयुक्तस्ततस्तं स बटुं मुनिः ॥ ९ ॥
यस्मात्पाप त्वया सर्पः क्षिप्तः सदसि दुर्मते ॥
तस्माद्भव द्रुतं सर्पो मम वाक्यादसंशयम् ॥ ६.१८३.१० ॥
॥ बटुरुवाच ॥ ॥
हास्येन जलसर्पोऽयं मया मुक्तोऽत्र लीलया ॥
न ते तातं समुद्दिश्य तत्किं मां शपसि द्विज ॥ ११ ॥
एतस्मिन्नंतरे मुक्त्वा तस्य गात्रं स पन्नगः ॥
जगामान्यत्र तस्यापि सर्पत्वं समपद्यत ॥ १२ ॥
सोऽपि सर्पत्वमापन्नः सनातनसुतो बटुः ॥
दुःखशोकसमापन्नो ब्राह्मणैः परिवेष्टितः ॥ १३ ॥
अथ गत्वा भृगुं सोऽपि बाष्पव्याकुललोचनः ॥
प्रोवाच गद्गदं वाक्यं प्रणिपत्य पुरःसरः ॥ १४ ॥
सनातनसुतश्चास्मि पौत्रस्तु परमेष्ठिनः ॥
शप्तस्तव सुतेनास्मि च्यवनेन महात्मना ॥ १५ ॥
निर्दोषो ब्राह्मणश्रेष्ठ तस्माच्छापात्प्ररक्ष माम् ॥
तच्छ्रुत्वा च्यवनं प्राह कृपाविष्टो भृगुः स्वयम् ॥१६॥
अयुक्तं विहितं तात यच्छप्तोऽयं बटुस्त्वया॥
न मां धर्षयितुं शक्तो विषाढ्योऽपि भुजंगमः ॥१७॥
किं पुनर्जलसर्पोऽयं निर्विषो रज्जुसंनिभः ॥
न मामुद्दिश्य निर्मुक्तः सर्पोऽनेन द्विजन्मना ॥
शापमोक्षं कुरुष्वास्य तस्माच्छीघ्रं द्विजन्मनः ॥ १९ ॥
॥ च्यवन उवाच ॥ ॥
यदि त्यजति मर्यादामब्धिः शैत्यं व्रजेद्रविः ॥
उष्णत्वं च क्षपानाथस्तन्मे स्यादनृतं वचः ॥ १९ ॥
तच्छ्रुत्वा वचनं तस्य स्वयमेव पितामहः ॥
तत्रायातः स्थितो यत्र स पौत्रः सर्परूपधृक् ॥ ६.१८३.२० ॥
प्रोवाच न विषादस्ते पुत्र कार्यः कथंचन ॥
यत्सर्पत्वमनुप्राप्तः शृणुष्वात्र वचो मम ॥ २१ ॥
पुरा संस्रष्टुकामोऽहं नागानां नवमं कुलम् ॥
तद्भविष्यति त्वत्पार्श्वात्समर्यादं धरातले ॥ २२ ॥
मन्त्रौषधियुजां पुंसां न पीडामाचरिष्यति ॥
संप्राप्स्यति परां पूजां समस्ते जगतीतले ॥ २३ ॥
अत्राऽस्ति सुशुभं तोयं हाटकेश्वरसंज्ञिते ॥
क्षेत्रे तत्र समावासः पुत्र कार्यस्त्वया सदा ॥ २४ ॥
तत्रस्थस्य तपस्थस्य नागः कर्कोटको निजम् ॥
तव दास्यति सत्कन्यां ततः सृष्टिर्भविष्यति ॥ २५ ॥
नवमस्य कुलस्यात्र समर्यादस्य भूतले ॥
श्रावणे कृष्णपक्षे तु संप्राप्ते पंचमीदिने ॥ २६ ॥
संप्राप्स्यति परां पूजां पृथिव्यां नवमं कुलम् ॥
अद्यप्रभृति तत्तोयं नागतीर्थमिति स्मृतम् ॥२७॥
ख्यातिं यास्यति भूपृष्ठे सर्वपातकनाशनम्॥
येऽत्र स्नानं करिष्यंति संप्राप्ते पंचमीदिने ॥२८॥
न तेषां वत्सरंयावद्भविष्यत्यहिजं भयम् ॥
विषार्द्दितस्तु यो मर्त्यस्तत्र स्नानं करिष्यति ॥२९॥
तत्क्षणान्निर्विषो भूत्वा संप्राप्स्यति परं सुखम् ॥
पुत्रकामा तु या नारी पंचम्यां भास्करोदये ॥६.१८३.३॥।
करिष्यति तथा स्नानं फलहस्ता प्रभक्तितः ॥
भविष्यति च सा शीघ्रं वंध्याऽपि च सुपुत्रिणी ॥३१॥
॥ सूत उवाच ॥ ॥
एवं प्रवदतस्तस्य ब्रह्मणोऽव्यक्तजन्मनः॥
अन्ये नागाः समायातास्तत्र यज्ञे निमंत्रिताः ॥ ३२ ॥
वासुकिस्तक्षकश्चैव पुण्डरीकः कृशोदरः ॥
कम्बलाश्वतरौ नागौ शेषः कालिय एव च ॥ ३३ ॥
ते प्रणम्य वचः प्रोचुः प्रोच्चैर्देवं पितामहम् ॥
तवादेशाद्वयं प्राप्ता यज्ञेऽत्र प्रपितामह॥३४॥
साहाय्यार्थं तदादेशो दीयतां प्रपितामह॥
येन कुर्मो वयं शीघ्रं नागराज्ये ह्यधिष्ठिताः ॥३५॥
ब्रह्मोवाच ॥ साहाय्यमेतदस्माकं भवदीयं महोरगाः ॥
गत्वानेन समं शीघ्रं नागराजेन तिष्ठत॥३६॥
नागतीर्थे ततः स्थेयं सर्वैस्तत्र समास्थितैः ॥३७॥
यः कश्चिन्मम यज्ञेऽत्र दुष्टभावं समाश्रितः ॥
समागच्छति विघ्नाय रक्षणीयः स सत्वरम् ॥३८॥
राक्षसो वा पिशाचो वा भूतो वा मानुषोऽपि वा ॥
एतत्कृत्यतमं नागा मम यज्ञस्य रक्षणम् ॥ ३९ ॥
तथा यूयमपि प्राप्ते मासि भाद्रपदे तथा ॥
पंचम्यां कृष्णपक्षस्य तत्र पूजामवाप्स्यथ ॥ ६.१८३.४० ॥
॥ सूत उवाच ॥ ॥
बाढमित्येव ते प्रोच्य प्रणिपत्य पितामहम् ॥
सनातनसुतोपेता नागतीर्थं समाश्रिताः ॥ ४१
ततःप्रभृति तत्तीर्थं नागतीर्थ मिति स्मृतम् ॥
कामप्रदं च भक्तानां नराणां स्नानकारिणाम् ॥ ४२ ॥
यस्तत्र कुरुते स्नानं सकृद्भक्त्या समन्वितः ॥
नान्वयेऽपि भयं तस्य जाय ते सर्पसंभवम् ॥ ४३ ॥
तत्र यच्छति मिष्टान्नं द्विजानां सज्जनैः सह ॥
पूजयित्वा तु नागेंद्रान्सनातनपुरःसरान् ॥ ४४ ॥
सप्तजन्मांतरं यावन्न स दौःस्थ्यमवाप्नुयात् ॥
भूतप्रेतपिशाचानां शाकिनीनां विशेषतः ॥
न च्छिद्रं न च रोगाश्च नाधयो न रिपोर्भयम् ॥ ४५ ॥
यश्चैतच्छृणुयाद्भक्त्या वाच्यमानं द्विजोत्तमाः ॥
सोऽपि संवत्सरं यावत्पन्नगैर्न च पीड्यते ॥ ४६ ॥
सर्पदष्टस्य यस्यैतत्पुरतः पठ्यते भृशम् ॥
नागतीर्थस्य माहात्म्यं काल दष्टोऽपि जीवति ॥ ४७ ॥
पुस्तके लिखितं चैतन्नागतीर्थसमुद्भवम् ॥
माहात्म्यं तिष्ठते यत्र न सर्पस्तत्र तिष्ठति ॥ ४८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागतीर्थोत्पत्तिमाहात्म्यवर्णनंनाम त्र्यशीत्युत्तरशततमोऽध्यायः ॥ १८३ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 184
॥ ॥ सूत उवाच ॥ ॥
तृतीये च दिने प्राप्ते त्रयोदश्यां द्विजोत्तमाः ॥
प्रातःसवनमादाय ऋत्विजः सर्व एव ते ॥
स्वेस्वे कर्मणि संलग्ना यज्ञकृत्यसमुद्भवे ॥ १ ॥
ततः प्रवर्तते यज्ञस्तदा पैतामहो महान् ॥
सर्वकामसमृद्धस्तु सर्वैः समुदितो गुणैः ॥ २ ॥
दीयतां दीयतां तत्र भुज्यतां भुज्यतामिति ॥
एकः संश्रूयते शब्दो द्वितीयो द्विजसंभवः ॥ ३ ॥
नान्यस्तत्र तृतीयस्तु यज्ञे पैतामहे शुभे ॥
यो यं कामयते कामं हेमरत्नसमुद्भवम् ॥ ४ ॥
स तत्प्राप्नोत्यसंदिग्धं वांछिताच्च चतुर्गुणम् ॥
पक्वान्नस्य कृतास्तत्र दृश्यंते पर्वताः शुभाः ॥ ५ ॥
घृतक्षीर महानद्यो दानार्थं वित्तराशयः ॥
एतस्मिन्नंतरे प्राप्तः कश्चिज्ज्ञानी द्विजोत्तमाः ॥ ६ ॥
अतीतानागतान्वेत्ति वर्तमानं च यः सदा ॥
स ब्रह्माणं नमस्कृत्य निविष्टश्च तदग्रतः ॥ ७ ॥
कर्मांतरेषु विप्राणां स सर्वेषां द्विजोत्तमाः ॥
कथयामास यद्वृत्तं बाल्यात्प्रभृति कृत्स्नशः ॥ ८ ॥
ततस्त ऋत्विजः सर्वे कौतुकाविष्टचेतसः ॥
पप्रच्छुर्ज्ञानिनं तं च विस्मयोत्फुल्ललोचनाः ॥ ९ ॥
विस्मृतानि स्मरंतस्ते निजकृत्यानि वै ततः ॥
प्रोक्तानि गर्हणीयानि ह्यसंख्यातानि सर्वशः ॥ ६.१८४.१० ॥
ततस्ते पुनरेवाथ पप्रच्छुर्ज्ञानिनं च तम् ॥
लोकोत्तरमिदं ज्ञानं कथं ते संस्थितं द्विज॥ ११ ॥
को गुरुस्ते समाचक्ष्व परं कौतूहलं हि नः ॥
अहोज्ञानमहो ज्ञानं नैतद्दृष्टं श्रुतं च न ॥ १२ ॥
यादृशं ते द्विजश्रेष्ठ दृश्यते पार्थसंस्थितम् ॥
किं ब्रह्मणा स्वयं विप्र त्वमेवं प्रतिबोधितः ॥ १३ ॥
किं वा हरेण तुष्टेन किं वा देवेन चक्रिणा ॥
नान्यप्रबोधितस्यैवं ज्ञानं संजायते स्फुटम् ॥ १४ ॥ ॥
॥ अतिथिरुवाच ॥ ॥
पिंगला कुररः सर्पः सारंगश्चैव यो वने ॥
इषुकारः कुमारी च षडेते गुरवो मम ॥ १५ ॥
एतेषां चेष्टितं दृष्ट्वा ज्ञानं मे समुपस्थितम्॥ १६ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
कथयस्व महाभाग कथं ते गुरवः स्थिताः ॥
कीदृशं च त्वया दृष्टं तेषां चैव विचेष्टितम् ॥ ॥ १७ ॥
कस्मिन्देशे त्वमुत्पन्नः कस्मिन्स्थाने वदस्व नः ॥
किंनामा किं नु गोत्रश्च सर्वं विस्तरतो वद ॥ १८ ॥
॥ अतिथिरुवाच ॥ ॥
आसन्नव पुरे विप्राश्चत्वारो ये विवासिताः ॥
शुनःशेपोऽथ शाक्रेयो बौद्धो दांतश्चतुर्थकः ॥ १९ ॥
तेषां मध्ये तु यो बौद्धः शांतो दांत इति स्मृतः ॥
छन्दोगगोत्रविख्यातो वेदवेदांगपारगः ॥ ६.१८४.२० ॥
नागरेषु समुत्पन्नः पश्चिमेवयसि स्थितः ॥
तस्याहं प्रथमः पुत्रः प्राणेभ्योऽपि सुहृत्प्रियः ॥ २१ ॥
ततोऽहं यौवनं प्राप्तो यदा द्विजवरोत्तम। ॥
तदा मे दयितस्तातः पंचत्वं समुपागतः ॥ २२ ॥
एतस्मिन्नंतरे राजा ह्यानर्ताधिपतिर्द्विजाः ॥
सुतपास्तेन निर्दिष्टोऽहं तु कंचुकिकर्मणि ॥ २३ ॥
शांतं दांतं समालोक्य विश्वस्तेन महात्मना ॥
तस्य चांतःपुरे ह्यासीत्पिंगलानाम नायिका ॥ २४ ॥
दौर्भाग्येण समोपेता रूपेणापि समन्विता ॥
अथान्याः शतशस्तस्य भार्याश्चांतःपुरे स्थिताः ॥ २५ ॥
ताः सर्वा रजनीवक्त्रे व्याकुलत्वं प्रयांति च ॥
आहरंति परान्गन्धान्धूपांश्च कुसुमानि च ॥ २६ ॥
विलेपनानि मुख्यानि सुरभीणि तथा पुरः ॥ ।
पुष्पाणि च विचित्राणि ह्यन्याः सूक्ष्मांबराणि च ॥२७॥
तावद्यावत्स्थितः कालः शयनीयसमुद्भवः ॥
मन्मथोत्साहसं युक्ताः पुलकेन समन्विताः ॥२८॥
एका जानाति मां सुप्तां नूनमाकारयिष्यति ॥
अन्या जानाति मां चैव परस्परममर्षतः ॥२९॥
स्पर्धयन्ति प्रयुध्यन्ति विरूपाणि वदन्ति च ॥
तासां मध्यात्ततश्चैका प्रयाति नृपसंनिधौ ॥ ६.१८४.३० ॥
शेषा वै लक्ष्यमासाद्य निःश्वस्य प्रस्वपन्ति च ॥
दुःखार्ता न लभन्ति स्म ताश्च निद्रां पराभवात् ॥ ३१ ॥
कामेन पीडितांगाश्च बाष्पपूर्णेक्षणाः स्थिताः ॥ ३२ ॥
आशा हि परमं दुःखं निराशा परमं सुखम् ॥
आशानिराशां कृत्वा च सुखं स्वपिति पिंगला ॥ ३३ ॥।
न करोति च शृंगारं न स्पर्धां च कदाचन॥
न व्याकुलत्वमापेदे सुखं स्वपिति पिंगला॥३४॥
ततो मयापि तद्दृष्ट्वा तस्याश्चेष्टितमुत्तमम्॥
आशाः सर्वाः परित्यक्ताः स्वपिमीह ततः सुखी॥३५॥
ये स्वपंति सुखं रात्रौ तेषां कायाग्निरिध्यते।
आहारं प्रतिगृह्णाति ततः पुष्टिकरं परम्॥३६॥
तदेत्कारणं जातं मम तेजो भिवृद्धये॥
गुरुत्वे पिंगला जाता तेन सा मे द्विजोत्तमाः॥३७॥
आशापाशैः परीतांगा ये भवन्ति नरो र्दिताः॥
ते रात्रौ शेरते नैव तदप्राप्तिविचिन्तया॥३८॥
नैवाग्निर्दीप्यते तेषां जाठरश्च ततः परम्॥
आहारं वांछते नैव तन्न तेजोभिवर्धनम्॥३९॥
सर्वस्य विद्यते प्रांतो न वांछायाः कथंचन॥६.१८४.४०॥
यथायथा भवेल्लाभो वांचितस्य नृणामिह॥
हविषा कृष्णवर्त्मेव वृद्धिं याति तथातथा॥४१॥
यथा शृंगं रुरोः काये वर्धमानस्य वर्धते॥
एवं तृष्णापि यत्नेन वर्धमानेन वर्धते॥४२॥
एवं ज्ञात्वा महाभागः पुरुषेण विजानता॥
दिवा तत्कर्म कर्तव्यं येन रात्रौ सुखं स्वपेत्॥४३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मयज्ञे तृतीयदिवसे पिंगलोपाख्यानवर्णनंनाम चतुरशीत्युत्तरशततमोऽध्यायः॥१८४॥
खण्डः ६ (नागरखण्डः) — Adhyāya 185
अतिथिरुवाच॥
एतद्वः सर्वमाख्यातं यथा मे पिंगला गुरुः॥
संजाता कुररो जातो यथा तत्प्रवदान्यहम्॥१॥
ममासीद्द्रविणं भूरि पितृपैतामहं महत्॥२॥
येऽथ पुत्राश्च दायादा बांधवा अपि॥
ते मां सर्वे प्रबाधन्ते द्रव्यसस्यकृते सदा॥३॥
यस्याहं न प्रयच्छामि स मां चैव प्रबाधते॥
सीदमानस्तु सुभृशं दर्शयन्प्राणसंक्षयम्॥४॥
एक साम्ना प्रयाचंते वित्तं भेदेन चापरे ॥
भयदानेन चान्येऽपि केचिद्दंडेन च द्विजाः ॥ ५ ॥
एवं नाहं क्वचित्सौख्यं तेषां पार्श्वाल्लभामि भोः ॥
चिन्तयानो दिवानक्तं क्लेशस्य परि संक्षयम् ॥
उपायं न च पश्यामि येन शांतिः प्रजायते ॥ ६ ॥
अन्यस्मिन्दिवसे दृष्टः कृतमांसपरिग्रहः ॥
कुररश्चंचुना व्योम्नि गच्छमानस्त्वरान्वितः ॥ ७ ॥
हन्यमानः समंताच्च मांसार्थे विविधैः खगैः ॥
अथ तेन परिक्षिप्तं तन्मांसं पक्षिजाद्भयात् ॥ ८ ॥
यावत्तावत्सुखी जातस्तेऽपिसर्वे समुज्झिताः ॥
मयापि क्लिश्यमानेन तद्वच्च निजबांधवैः ॥ ९ ॥
सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः ॥
आमिषस्य परित्यागात्कुररः सुखमेधते ॥ ६.१८५.१० ॥
एवं निश्चित्य मनसा सर्वानानीय बांधवान् ॥
पुत्रान्पौत्रांस्ततः सर्वान्पुरस्तेषां निवेदितम् ॥ ११ ॥
त्रिःसत्यं शपथं कृत्वा नान्यदस्तीति मे गृहे ॥
विभज्यार्थं यथान्यायं यूयं गृह्णीत बान्धवाः ॥ १२ ॥
ततःप्रभृति तैर्मुक्तः सुखं तिष्ठाम्यहं द्विजाः ॥
एतस्मात्कारणाज्जातो ममासौ कुररो गुरुः॥ १३ ॥
अर्थसंपद्विमोहाय विमोहो नरकाय च ॥
तस्मादर्थमनर्थं तं मोक्षार्थी दूरतस्त्यजेत् ॥ १४ ॥
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि॥
आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान्॥१५॥
दोषहीनोऽपि धनवान्भूपाद्यैः परिताप्यते॥
दरिद्रः कृतदोषोऽपि सर्वत्र निरुपद्रवः॥१६॥
आलंबिताः परैर्यांति प्रस्खलंति पदेपदे ॥
गद्गदानि च जल्पंते धनिनो मद्यपा इव॥१७॥
भक्ते द्वेषो बहिः प्रीती रुचितं गुरुलघ्वपि ॥
मुखे च कटुता नित्यं धनिनां ज्वरिणामिव ॥१८॥
अर्थानामर्जने दुःखमर्जितानां च रक्षणे ॥
नाशे दुःखं व्यये दुःखं धिगर्थो दुःखभाजनम्॥१९॥
अर्थार्थी जीव लोकोऽयं स्मशानमपि सेवते ॥
जनितारमपि त्यक्त्वा निःस्वं यांति सुता अपि ॥ ६.१८५.२० ॥
सुतस्य वल्लभस्तावत्पिता पुत्रोऽपि वै पितुः ॥
यावन्नार्थस्य संबन्धस्ताभ्यां भावी परस्परम् ॥
संबन्धे वित्तजे जाते वैरं संजायते मिथः ॥ २१ ॥
एतस्मात्कारणाद्वित्तं मया त्यक्तं तपोधनाः ॥
तेन सौख्येन तिष्ठामि कुररस्योपदेशतः ॥ २२ ॥
शृणुध्वं च महाभागा यथा मेऽहिर्गुरुः स्थितः ॥ २३ ॥
यथा मया गृहं त्यक्तं दृष्ट्वा सर्पविचेष्टितम् ॥
गृहारंभः सुदुःखाय सुखाय न कदाचन ॥ २४ ॥
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥
उषित्वा तत्र सौख्येन भूयोऽन्यत्तादृशं व्रजेत् ॥ २५ ॥
मम त्वं कुरुते नैव ममेदं गृहमित्यसौ ॥
न गृहं जायते तस्य न स्वयं हि कृतं यतः ॥ २६ ॥
यः पुनः कुरुते हर्म्यं स्वयं क्लेशैः पृथग्विधैः ॥
न तस्य याति तत्पश्चान्मृत्युकालेऽपि संस्थिते ॥ २७ ॥
गृहात्संजायते भार्या ततः पुत्रश्च कन्यका ॥
तेषामर्थे करोति स्म कृत्याकृत्यं ततः परम् ॥२८॥
कोशकारमिवात्मानं वेष्टयन्नावबुध्यते ॥१२९ ॥
पुत्रदारगृहक्षेत्रसक्ताः सीदंति जंतवः ॥
लोभपंकार्णवे मग्ना जीर्णा वनगजा इव ॥ ६.१८५.३० ॥
एकः पापानि कुरुते फलं भुंक्ते महाजनः ॥
भोक्तारो विप्रमुच्यंते कर्ता दोषेण लिप्यते ३१ ॥
एतस्मात्कारणाद्धर्म्यं मया त्यक्तं द्विजोत्तमाः।
मोक्षमार्गार्गला भूतं दृष्ट्वा सर्पविचेष्टितम् ॥ ३२ ॥
एकरात्रं वसेद्ग्रामे त्रिरात्रं पत्तने वसेत् ॥
यो याति स यतिः प्रोक्तो योऽन्यो योगविडंबकः ॥ ३३ ॥
विधूमे च प्रशांताग्नौ यस्तु माधुकरीं चरेत् ॥
गृहे च विप्रमुख्यानां यतिः स नेतरः स्मृतः ॥ ३४ ॥
दण्डी भिक्षां च वा कुर्यात्तदेव व्यसनं विना ॥
यस्तिष्ठति न वैराग्यं याति नैव यतिर्हि सः ॥ ३५ ॥
दिवा स्वप्नं वृथान्नं च स्त्रीकथाऽऽलोक्यमेव च ॥
श्वेतवस्त्रं हिरण्यं च यतीनां पतनानि षट्॥ ३६॥
समः शत्रौ च मित्रे च समलोष्टाश्मकांचनः ॥
सुहृत्पुत्र उदासीनः स यतिर्नेतरः स्मृतः ॥ ३७ ॥
समौ मानापमानौ च स्वदेशे परिकेपि वा ॥
यो न हृष्यति न द्वेष्टि स यतिर्नेतरः स्मृतः ॥ ३८ ॥
यस्मिन्गृहे विशेषेण लभेद्भिक्षा च वाशनम् ॥
तत्र नो याति यो भूयः स यतिर्नेतरः स्मृतः। ॥ ३९ ॥
एवं ज्ञात्वा मया विप्र दृष्ट्वा सर्पविचेष्टितम् ॥
सर्वसंगपरित्यागो मोक्षार्थं परिकल्पितः ॥ ६.१८५.४० ॥
एवं ममाहिः संजातो गुरुर्ब्राह्मणसत्तमाः।
तत्प्रभावान्महत्तेजः संजातं विग्रहे मम ॥ ४१ ॥
यथा मे भ्रमरो जातो गुरुस्तद्वद्वदामि च ॥
कस्मिन्वृक्षे मया दृष्टो भ्रमरः कोऽपि संगतः ॥४२॥
शाखाय तु समाश्रित्य कृतपूर्वनिबंधनम् ॥
वसंतसमये प्राप्ते पुष्पवंतश्च ये द्रुमाः ॥ ४३ ॥
सुगन्धफलपुष्पाश्च सुगन्धदलसंयुताः ॥
तेषामणुं समादाय श्रेष्ठश्रेष्ठतमं रसम् ॥ ४४ ।
नियोजयति शाखाग्रे तरोरस्य सदैव हि ॥
अनिर्विण्णतया हृष्टस्तदा सम्यङ्निरीक्षितः ॥ ४५ ॥
मधुजालं ततो जातं कालेन महता महत् ॥
येनान्ये मधुना तृप्तिं प्राप्ताः शतसहस्रशः ॥ ४६ ॥
तच्चेष्टितं मया वीक्ष्य शास्त्राण्यन्यानि भूरिशः ॥
ततस्तेषां समादाय सारभूतं पृथक्पृथक् ॥
कृतानि भूरिशास्त्राणि वेदांतानि च कृत्स्नशः ॥ ४७ ॥
उपजीवंति यान्यन्ये यथा भृङ्गास्तथा द्विजाः ॥ ४८ ॥
एवं मे मधुपो जातो गुरुत्वे च द्विजोत्तमाः ॥
तेनाहं तेजसा युक्तो नान्यदस्तीह कारणम्॥ ४९ ॥
वेदांतवादिनो येऽत्र प्रभवंति व्रतान्विताः ॥
निर्लोभा गततृष्णाश्च ते भवंति सुतेजसः ॥ ६.१८५.५० ॥
एकेनापि विहीना ये प्रभवंति कुबुद्धयः ॥
लोभमोहान्विताः पापा जायंते ते विचेतसः ॥५१॥
वेदांतानि सुभूरीणि मया दृष्ट्वा विचार्य च ॥
समरूपाः कृता ग्रन्था मर्त्यलोकहितार्थिना ॥ ५२ ॥
एवं मे गुरुतां प्राप्तो मधुपो द्विजसत्तमाः ॥
इषुकारो यथा जातस्तथा चैव ब्रवीमि वः॥५३॥
आत्मावलोकनार्थाय मया दृष्टाः सहस्रशः॥
योगिनो ज्ञानसंपन्नास्तैः प्रोक्तं च स्वशक्तितः॥५४॥
आत्मावलोकनं भावि सुशिष्याय यथा तथा॥
स समाधिजद्वारेण चतुराशीतिकेन च॥५५॥
आसनैस्तत्प्रमाणैश्च पद्मासनप्रपूर्वकैः॥
असंख्यैः कारणैश्चैव ह्यध्यात्मपठनैस्तथा॥
ततोपि लक्षितो नैव मयाऽत्मा च कथंचन॥५६॥
ततो वैराग्यमापन्नः प्रभ्रमामि धरातले॥
गुर्वर्थे न च लेभेऽहं गुरुमात्मावलोकने ॥ ५७ ॥
अन्यस्मिन्नहनि प्राप्ते राजमार्गेण गच्छता ॥
मया दृष्टो महीपालः सैन्येन महता वृतः ॥ ५८ ॥
ततोऽहं मार्गमुत्सृज्य संमुखस्य महीपतेः ॥
उटजद्वारमाश्रित्य किंचिदूर्ध्वोपि संस्थितः ॥ ५९ ॥
तत्रापि च स्थितः कश्चित्पुरुषः कांडकारकः ॥
ऋजुकर्मणि संयुक्तः शराणां नतपर्वणाम्॥ ६.१८५.६० ॥
तस्मिन्दूरगते भूपे तथान्यः सेवकोऽभ्यगात् ॥ ६१ ॥
तं पप्रच्छ त्वरायुक्तः शृण्वतोऽपि मम द्विजाः ॥
कांडकर्मणि संसक्तमृजुत्वेन स्थितं तदा ॥६२॥
कियती वर्तते वेला गतस्य पृथिवीपतेः ॥
मार्गेणानेन मे ब्रूहि येन गच्छामि पृष्ठतः॥६३॥
सोऽब्रवीत्तं तदा विप्रा अधोवक्त्रः स्थितो नरः ॥
अनेन राजमार्गेण गच्छमानो महीपतिः ॥ ६४ ॥
न मया वीक्षितः कश्चिदिदानीं राजसेवक ॥
तदन्यं पृच्छ चेत्कार्यं तवानेन ब्रवीतु सः ॥ ६५ ॥
शरकर्मणि संसक्तस्त्वहमत्र व्यवस्थितः ॥
तच्छ्रुत्वा वचनं तस्य स्वचित्ते चिन्तितं मया॥६६॥
एकचित्ततया योगो ब्रह्मज्ञानसमुद्भवः ॥
नान्यथा भविता मे स ततश्चित्तनिरोधनम् ॥
करोमि ब्रह्मसंसिद्ध्यै ततो मेऽसौ भविष्यति ॥ ६७ ॥
ततःप्रभृति चित्ते स्वे धारयामि सदैव तु ॥
विश्वरूपं तथा सूर्यं हृत्पंकजनिवासिनम् ॥ ६८ ॥
ततो दिक्षु दिगन्तेषु गगने धरणीतले ॥
तमेकं चैव पश्यामि नान्यत्किंचिद्द्विजोत्तमाः ॥ ६९ ॥
अहं च तेजसा युक्तस्तत्प्रभावेण संस्थितः ॥ ६.१८५.७० ॥
एवं मे स गुरुर्जातः शरकारो द्विजोत्तमाः ॥
शृणुध्वं कन्यका जाता गुरुत्वे मे यथा पुरा ॥ ७१ ॥
सर्वसंगपरित्यागी यदाहं निर्गतो गृहात् ॥
ममानुपृष्ठतश्चैव ततो भार्या विनिर्गता ॥ ७२ ॥
शिशुं पुत्रं समादाय कन्यामेकां च शोभनाम्॥
ततोऽहं भार्यया प्रोक्तो वानप्रस्थाश्रमे स्थितः॥७३॥
कुरु मे वचनं मुक्तिरत्रैव हि भविष्यति॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः॥
यदि स्यात्संयतात्मा स नूनं मुक्तिमवाप्नुयात्॥७४॥
अथवा मां परित्यज्य यदि यास्यसि चान्यतः॥
तदहं च मरिष्यामि सत्यमेतदसंशयम्॥७५॥
मृतायां मयि ते बालावेतावनुमरिष्यतः॥
कुमारी च कुमारश्च तस्मान्नाथ दयां कुरु॥७६॥
मा व्रजस्व परं तीर्थं परिजानन्नपि स्वयम्॥
हाटकेश्वरजं क्षेत्रमेतत्पुण्यतरं स्मृतम्॥७७॥
सर्वेषामेव तीर्थानां श्रुतमेतन्मया विभो॥
वदतां ब्राह्मणेन्द्राणां तथान्येषां तपस्विनाम्॥७८॥
श्लोकोऽयं बहुधा नाथ कीर्त्यमानो मया विभो॥
विश्वामित्रस्य वक्त्रेण सन्मुनेः सत्यवादिनः॥७९॥
पुनंति सर्वतीर्थानि स्नानदानादसंशयम्॥
हाटकेश्वरजं क्षेत्रं स्मरणादपि पावयेत्॥६.१८५.८॥।
ततः कृच्छ्रात्प्रतिज्ञातं मयाश्रमनिषेवणम्॥
वानप्रस्थोद्भवं वा स्यात्ततोऽहं तत्र संस्थितः॥८१॥
तत्रस्थस्य हि मे कन्या क्रीडते परतः स्थिता॥
वलयापूरिताभ्यां च प्रकोष्ठाभ्यां ततस्ततः ॥ ८२ ॥
यथायथा सा कुरुते कन्दमूलफलाशनम् ॥
तनुत्वं याति कायेन तथा चैव दिनेदिने ॥ ८३ ॥
ततो मे जायते दुःखं तेषां पतन संभवम् ॥
कस्यचित्त्वथ कालस्य संजातं वलयत्रयम् ॥
तस्या हस्ते ततस्ताभ्यां शब्दः संजायते मिथः ॥ ८४ ॥
ततः कालेन महता ताभ्यामेकं व्यवस्थितम् ॥
न संघर्षो न शब्दश्च तत्रस्थस्य च जायते ॥ ८५ ॥
तद्विचिन्त्य मया सोऽपि ह्याश्रमः परिवर्जितः ॥
चिन्तितं च मया चित्ते कृत्वा चैवं सुनिश्चयम् ॥ ८६ ॥
बहुभिः कलहो नित्यं द्वाभ्यां संघर्षणं तथा ॥
एकाकी विचरिष्यामि कुमारीवलयं यथा ॥ ८७ ॥
ततः सुप्तां परित्यज्य तां भार्यां शिशुसंयुताम् ॥
गतोऽहं दूरमध्वानं यत्र नो वेत्ति सा च माम् ॥ ८८ ॥
यत्राऽस्तमितशायी च यलब्धकृतभोजनः ॥
भ्रमामि मेदिनीपृष्ठे त्यक्त्वा संसारबन्धनम् ॥ ८९ ॥
ततो मे ज्ञानमापन्नमेवं विप्राः शनैःशनैः ॥
अतीतानागतं चैव वर्तमानं विशेषतः ॥ ६.१८५.९० ॥
एवं मे कन्यका जाता गुरुत्वे द्विजसत्तमाः ॥ ९१ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि गुरोः कृते ॥
न युष्माकं पुरो मिथ्या कीर्तयामि कथंचन॥ ॥ ९२ ॥
एवं मे ज्ञानमुत्पन्नं प्रकारैः षड्भिरेव च ॥
एभिर्लोकोत्तरं ज्ञानं युष्मत्प्रत्ययकारकम् ॥ ९३ ॥
॥ सूत उवाच ॥ ॥
ततस्ते ब्राह्मणाः सर्वे पप्रच्छुस्तं द्विजोत्तमाः ॥
वानप्रस्थाश्रमं त्यक्त्वा भार्यां शिशुसमन्विताम् ॥
क्व गतस्त्वं तदाचक्ष्व कियत्कालं च संस्थितः ॥ ९४ ॥
॥ अतिथिरुवाच ॥ ॥
अहं भीतः सहस्राणि ग्रामाणां च शतानि च ॥
यत्रास्तमितशायी सन्ननेकानि द्विजोत्तमाः ॥
संख्यया रहितान्येव वर्षाणां च शतानि च ॥ ९५ ॥
दृष्टानि मुख्यतीर्थानि तथैवायतनानि च ॥
दृष्टाश्च पर्वताः श्रेष्ठा नद्यश्च विमलोदकाः ॥ ९६ ॥
स्वयमेव मया ज्ञातो वाराणस्यां स्थितेन च ॥
यज्ञः पैतामहो भावी स्थानेऽस्मिन्मामके यतः ॥९७॥
ततोऽहं सत्वरं प्राप्तः कौतुकेन द्विजोत्तमाः ॥
कीदृशः स मखो भावी यत्र यज्वा पितामहः ॥ ९८ ॥
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे प्राप्ताः सर्वे देवाः सवासवाः ॥
वासुदेवं पुरस्कृत्य तथा चैव महेश्वरम्॥९९॥
कमान्तरं समासाद्य पुलस्त्याद्यास्तथर्त्विजः ॥
ब्रह्मापि स्वयमायातो मृगचर्मधरस्तथा॥६.१८५.१००॥
ततस्ते तुष्टिमापन्नास्तस्य ज्ञानेन तेन च ॥
प्रोचुश्च वरदास्तुभ्यं सर्व एव दिवौकसः ॥ १०१ ॥
तस्माद्वरय भद्रं ते प्रार्थयस्व यथेप्सितम् ॥
अवश्यं तव दास्यामो यद्यपि स्यात्सुदुर्लभम् ॥ १०२ ॥ ॥
॥ अतिथिरुवाच ॥ ॥
यदि तुष्टाः सुरा मह्यं प्रयच्छंति वरं मम ॥
अनेनैव शरीरेण देवत्वं प्रार्थयाम्यहम् ॥ १०३ ॥
यज्ञभागसमोपेतं तथान्येषां दिवौकसाम्॥
विशेषेण सुरश्रेष्ठाः स्थानं चोपरि संस्थितम् ॥ १०९ ॥
॥ देवा ऊचुः ॥ ॥
नूनं त्वं विबुधो भूत्वा देवलोके निवत्स्यसि ॥
अनेनेव शरीरेण यज्ञभागविवर्जितः ॥ १०५ ॥
यच्छामो यदि ते विप्र यज्ञांशं मानुषस्य भोः ॥
अप्रामाण्यं श्रुतेर्भावि तव दत्तेन तेन च ॥ १०६ ॥
॥अतिथिरुवाच ॥ ॥
देवत्वेन न मे कार्यं यज्ञांशरहितेन च ॥
तदहं साधयिष्यामि यथा मुक्तिर्भविष्यति ॥ १०७ ॥
तच्छ्रुत्वा पद्मजः प्राह सर्वान्देवान्कृतांजलिः ॥
शृण्वंतु देवताः सर्वा यद्ब्रवीमि हितं वचः ॥ १०९ ॥
ममायं ब्राह्मणो यज्ञे दूरादेव समागतः ॥
नागरस्तु विशेषेण पात्रं ज्ञानसमुद्भवम् ॥ १०९ ॥
प्रतिज्ञातस्तथा सर्वैर्वरोऽस्य विबुधैर्यतः ॥
तस्मात्प्रदीयतामस्मै यदभीष्टं सुरोत्तमाः ॥ ६.१८५.११० ॥ ॥
॥ महेश्वर उवाच ॥ ॥
यथाऽस्य जायते तृप्तिर्यज्ञभागाधिका सदा ॥
तथाहं कथयिष्यामि शृण्वंतु विबुधोत्तमाः ॥ १११ ॥
य एष क्रियते यज्ञस्तस्य नाथो हरिः स्मृतः॥
एतस्मात्कारणात्प्रोक्तः स देवो यज्ञपूरुषः ॥ ११२ ॥
अद्यप्रभृति यत्किंचिच्छ्राद्धं मर्त्ये भविष्यति ॥
दैवं वा पैतृकं वाऽपि तस्य चांते व्यवस्थितः ॥ ११३ ॥
एतस्य नाम संकीर्त्य पश्चाच्च यज्ञपूरुषम् ॥
संकीर्त्य भोजनं देयं ब्राह्मणस्य द्विजोत्तमाः ॥ ११४ ॥
तेनास्य भविता तृप्तिर्यज्ञांताऽभ्यधिका सदा ॥
अदत्त्वास्य कृतं श्राद्धं यत्किंचित्प्रभविष्यति ॥११५॥
तद्यास्यत्यखिलं व्यर्थं तथा भस्महुतं यथा ॥
वैश्वदेवांतमासाद्य यश्चैनं पूजयिष्यति ॥ ११६ ॥
विष्णुनामसमोपेतं भविष्यति तदक्षयम् ॥
दत्तं स्वल्पमपि प्रायः श्रद्धापूतेन चेतसा ॥ ११७ ॥
श्राद्धे वा वैश्वदेवे वा यश्चैनं नार्चयिष्यति ॥
संप्राप्तं व्यर्थतां तस्य तच्च सर्वं भविष्यति ॥११८॥
अस्मिंस्तुष्टिं गते सर्वे सुरा यास्यंति संमुदम् ॥
पितरश्च तमायांति विमुखे संमुखे तथा ॥ ११९ ॥
तच्छ्रुत्वा विबुधाः सर्वे महेश्वरवचस्तदा ॥
तथेति मुदिताः प्रोचुर्ब्रह्मविष्णुपुरस्सराः ॥ ६.१८५.१२० ॥
ततःप्रभृति संजाता पूजा चातिथिसंभवा ॥
तस्मात्सर्वप्रयत्नेन पूजा कार्याऽतिथेः सदा ॥
यज्ञे पूरुषयज्ञस्य न चैकस्य कथंचन ॥ १२१ ॥ ॥
॥ अतिथिरुवाच ॥ ॥
अत्रास्ति मामकं तीर्थं मया यत्र तपः कृतम् ॥
हाटकेश्वरजे क्षेत्रे पुरुकाले द्विजोत्तमाः ॥१२२॥
अंगारकेण संयुक्ता चतुर्थी स्याद्यदा तिथिः ॥
सांनिध्यं तत्र कार्यं च सर्वैर्देवैश्च तद्दिने ॥ १२३ ॥
कुर्यात्तत्रैव यः स्नानं तस्मिन्नहनि संस्थिते ॥
सर्वतीर्थफलं तस्य जायतां वः प्रसादतः ॥ १२४ ॥
तथास्त्विति ततः सर्वेऽतिथिं प्रोचुः सुरोत्तमाः ॥
एतस्मिन्नंतरे प्राह पुलस्त्यर्षिः पितामहम् ॥१२५॥ ॥
पुलस्त्य उवाच ॥ ॥
ऋत्विजः सकला देवाः संस्थिताः कौतुकान्विताः ॥
उत्तिष्ठंतु च ते शीघ्रं यज्ञकर्मप्रसिद्धये ॥ १२६ ॥
एतस्मिन्नंतरे सर्वे तस्य वाक्यप्रणोदिताः ॥
उत्थिता ऋत्विजो ये च स्वानि स्थानानि भेजिरे ॥
ततः प्रववृते यज्ञः सपुनर्द्विजसत्तमाः ॥
कुर्वता यज्ञकर्माणि होमपूर्वाणि यानि च ॥ १२७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये तीर्थोत्पत्तिमाहात्म्यवर्णनं ना
म पञ्चाशीत्युत्तरशत तमोऽध्यायः ॥ १८५ ॥ ॥ छ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 186
ऋषय ऊचुः ॥ ॥
भूय एव महाभाग वद माहात्म्यमुत्तमम् ॥
अतिथेः कृत्यमस्माकं विस्तरेण च सूतज ॥ १ ॥
॥ सूत उवाच ॥ ॥
शृण्वन्तु मुनयः सर्वे माहात्म्यमिदमुत्तमम् ॥
येन संश्रुतमात्रेण नश्येत्पापं दिनोद्भवम् ॥ २ ॥
यन्मया च श्रुतं पूर्वं सकाशात्स्वपितुः शुभम् ॥ ३ ॥
गृहस्थानां परो धर्मो नान्योऽस्त्यतिथिपूजनात् ॥
अतिथेर्न च दोषोस्ति तस्यातिक्रमणेन च ॥ ४ ॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ ५ ॥
सत्यं शौचं तपोऽधीतं दत्तमिष्टं शतं समाः ॥
तस्य सर्वमिदं नष्टमतिथिं यो न पूजयेत् ॥ ६ ॥
दूरादतिथयो यस्य गृहमायांति निर्वृताः ॥
स गृहस्थ इति प्रोक्तः शेषाश्च गृहरक्षिणः ॥ ७ ॥
न पुराकृतपुण्यानां नराणामिह भूतले ॥
त्रीनेतान्प्रतिहन्यंते श्राद्धं दानं शुभा गिरः ॥ ८ ॥
तुष्टेऽतिथौ गृहस्थस्य तुष्टाः स्युः सर्वदेवताः ॥
विमुखे विमुखाः सर्वा भवंति च न संशयः ९ ॥
तस्मात्तोषयितव्यश्च गृहस्थेन सदाऽतिथिः ॥
अप्यात्मनः प्रदानेन यदीच्छेत्पुण्यमात्मनः ॥ ॥ ६.१८६.१० ॥
त्रिविधस्त्वतिथिः प्रोक्तो गृहस्थानां द्विजोत्तमाः ॥
तस्याहं वच्मि वः कालं शृणुध्वं सुसमाहिताः ॥ ११ ॥
श्राद्धीयो वैश्वदेवीयः सूर्योढश्च तृतीयकः ॥
ये चान्ये भोजनार्थीयास्ते सामान्याः प्रकीर्तिता ॥ १२ ॥
सांकल्पे विहिते श्राद्धे पितॄणां भोजनोद्भवे ॥
समागच्छति यः काले तस्मिञ्छ्राद्धीय एव सः ॥ १३ ॥
दूराध्वानं पथि श्रांतं वैश्वदेवांत आगतम् ॥
अतिथिं तं विजानीयान्नातिथिः पूर्वमागतः ॥ १४ ॥
प्रियो वा यदि वा द्वेष्यो मूर्खः पंडित एव वा ॥
वैश्वदेवे तु संप्राप्तः सोऽतिथिः स्वर्गसंक्रमः ॥ १५ ॥
न पृच्छेद्गोत्रचरणं न स्थानं वेदमेव च ॥
दृष्ट्वा यज्ञोपवीतं च भोजयेत्तं प्रभक्तितः ॥ १६ ॥
श्राद्धे वा वैश्वदेवे वा यद्यागच्छति नातिथिः ॥
घृताहुतिं ततो दद्यात्तन्नाम्ना च हविर्भुजि ॥ १७ ॥
अशक्त्या भोज्यदानस्य देयं भक्त्या ततः परम् ॥
तस्यान्नमपि तु स्तोकं येन तुष्टिं प्रगच्छति ॥ १८ ॥
तथान्यश्च तृतीयस्तु सूर्योढोऽतिथिरुच्यते ॥
कृते तु भोजने यस्तु रात्रौ वा चाधिगच्छति॥
तस्य शक्त्या प्रदातव्यं सस्यं च गृहमेधिना॥१९॥
सूर्योढो यस्य संप्राप्तो गृहात्पूजां विना व्रजेत्॥
निराशः पातकं तस्य निजं दत्त्वा प्रयाति सः॥६.१८६.२॥।
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता॥
एतान्यपि सतां गेहे नोच्छिद्यंते कदाचन॥२१॥
स्वागतेनाग्नयस्तृप्तिं गृहस्थस्य प्रयांति च ॥
आसनेन व्रजेत्तुष्टिं स्वयंभूः प्रपितामहः ॥ २२॥
अर्घेण शंभुः पाद्येन सर्वे देवाः सवासवाः ॥
भोज्यदानेन विष्णुः स्यात्सर्वदेवमयोऽतिथिः ॥ २३ ॥
तस्मात्पूज्यः सदा विप्रा भोजनीयो विशेषतः ॥
नामाप्युच्चार्य भोज्योऽन्यो ब्राह्मणो गृहमेधिना ॥ २४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाट केश्वरक्षेत्रमाहात्म्येऽतिथिमाहात्म्यवर्णनंनाम षडशीत्युत्तरशततमोऽध्यायः ॥ १८६ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 187
॥ सूत उवाच ॥ ॥
चतुर्थे दिवसे प्राप्ते ततो यज्ञसमुद्भवे ॥
ऋत्विग्भिर्याज्ञिकं कर्म प्रारब्धं तदनंतरम् ॥ १ ॥
सोमपानादिकं सर्वं पशोर्हिंसादिकं तथा ॥
पशोर्गुदं समादाय प्रस्थाता च व्यधारयत् ॥ २ ॥
एकांते सदसो मध्ये होमार्थं द्विजसत्तमाः ॥
तस्मिन्व्याकुलतां याते ब्राह्मणः कश्चिदागतः ॥ ३ ॥
युवा तत्र प्रविष्टस्तु मांस भक्षणलालसः ॥
ततो गुदं पशोर्दृष्ट्वा भक्षयामास चोत्सुकं ॥ ४ ॥
एतस्मिन्नंतरे प्राप्तः प्रस्थाता तस्य संनिधौ ॥
भक्षमाणं समालोक्य तं शशाप ततः परम् ॥ ५ ॥
धिग्धिक्पापसमाचार होमार्थं यद्गुदं धृतम् ॥
तत्त्वया दूषितं लौल्याद्यज्ञविघ्नकरं कृतम् ॥ ६ ॥
उच्छिष्टेन मया होमः कर्तव्यो नैव सांप्रतम् ॥
राक्षसानामिदं कर्म यत्त्वया समनुष्ठितम् ॥ ७ ॥
तस्मात्त्वं मम वाक्येन राक्षसो भव मा चिरम् ॥ ८ ॥
एतस्मिन्नेव काले तु ह्यूर्ध्वकेशोऽभवद्धि सः ॥
रक्ताक्षः शंकुकर्णश्च कृष्णदन्तोऽतिभैरवः ॥ ९ ॥
लम्बोष्ठो विकरालास्यो मांसमेदोविवर्जितः ॥
त्वगस्थिस्नायुशेषश्च। चामुण्डाकृतिरेव च ॥ ६.१८७.१० ॥
स च विश्वावसुर्नाम पुलस्त्यस्य सुतो मुनिः ॥
मंत्रपूतस्य मांसस्य भक्षणार्थं समागतः ॥ ११ ॥
वेदवेदांगतत्त्वजः पौत्रस्तु परमेष्ठिनः ॥
तं दृष्ट्वा राक्षसाकारं वित्रेसुः सर्वतो द्विजाः ॥ १२ ॥
राक्षोघ्नानि च सूक्तानि जजपुश्चापरे तथा ॥
केचिच्छरणमापन्ना विष्णो रुद्रस्य चापरे ॥ १३ ॥
पितामहस्य चान्ये तु गायत्र्याः शरणं गताः ॥
रक्षरक्षेति जल्पन्तो भयसंत्रस्तमानसाः ॥ १४ ॥
सोऽपि दृष्ट्वा तदात्मानं गतं राक्षसतां द्विजाः ॥
बाष्पपूर्णेक्षणो दीनः पितामहमुपाद्रवत् ॥ १५ ॥
स प्रणम्य ततो वाक्यं कृतांजलिरुवाच तम् ॥ १६ ॥ ।
पौत्रोऽहं तव देवेश पुलस्त्यस्य सुतो द्विजः ॥
नीतो राक्षसतामद्य प्रस्थात्रा कोपतो विभो ॥ १७ ॥
जिह्वालौल्येन देवेश पशोर्गुदमजानता ॥
भक्षितं तन्मया देव होमार्थं यत्प्रकल्पितम् ॥ १८ ॥
तस्मान्मानुषताप्राप्त्यै मम देहे दयां कुरु ॥
राक्षसत्वं यथा याति तथा नीतिर्विधीयताम् ॥ १९॥ '
तच्छ्रुत्वा जल्पितं तस्य दयां कृत्वा पितामहः ॥
प्रतिप्रस्थातरं सामवाक्यमेतदुवाच ह ॥ ६.१८७.२० ॥
बालोऽयं मम पौत्रस्तु कृत्याकृत्यं न वेत्ति च ॥
तस्मात्त्वं राक्षसं भावं हरस्वास्य द्विजोत्तम ॥ २१ ॥
तच्छ्रुत्वा स मुनिः प्राह प्रायश्चित्तं मखे तव ॥
अनेन जनितं देव गुदं दूषयता विभो ॥ २२ ॥
तस्मादेष मया शप्तो यज्ञविघ्नकरो मम ॥
नाहमस्य हरिष्यामि राक्षसत्वं कथंचन ॥ २३ ॥
नर्मणापि मया प्रोक्तं कदाचिन्नानृतं वचः ॥ २४ ॥ ॥
॥ ब्रह्मोवाच ॥ ॥
प्रायश्चित्तं करिष्येऽहं यज्ञस्यास्य प्रसिद्धये ॥
दक्षिणा गौर्यथोक्ता च कृत्वा होमं विधानतः ॥
त्वमस्य राक्षसं भावं 'हरस्व मम वाक्यतः ॥ २५ ॥
सोऽब्रवीच्छीतलो वह्निर्यदि स्यादुष्णगुः शशी ॥
तन्मे स्यादन्यथा वाक्यं व्याहृतं प्रपितामह ॥ २६ ॥
तस्य तद्वचनं श्रुत्वा ज्ञात्वा चैव तु निश्चितम्॥
विश्वावसुं विधिः प्राह ततो राक्षसरूपिणम् ॥ २७ ॥
त्वं वत्सानेन रूपेण तिष्ठ तावद्वचो मम ॥
कुरुष्व ते प्रयच्छामि येन स्थानमनुत्तमम् ॥ २८ ॥
चमत्कारपुरस्यास्य पश्चिमस्थानमाश्रिताः ॥
सन्त्यन्ये राक्षसास्तत्र मर्यादायां व्यवस्थिताः ॥ २९ ॥
लंकायां राक्षसाश्चैव प्रार्थयन्तोऽत्र सद्गतिम् ॥
ते चागत्य तमुद्देशं तपः कुर्वंति सुव्रताः ॥६.१८७.३॥।
तत्र प्रभुत्वमातिष्ठ नागराणां हिते स्थितः ॥
राक्षसा बहवः संति कूष्मांडाश्च पिशाचकाः ॥ ३१ ॥
ये चान्ये राक्षसाः केचिद्दुष्टभावसमाश्रिताः ॥
तत्र गच्छंति ये सर्वे निगृह्णंति च तत्क्षणात् ॥ ३२ ॥
भूताः प्रेताः पिशाचाश्च कूष्मांडाश्च विशेषतः॥
नागरं तु पुरो दृष्ट्वा तद्भयाद्यांति दूरतः ॥ ३३ ॥
तद्गच्छ पुत्र तत्र त्वं सर्वेषामधिपो भव ॥
राक्षसानां मया दत्तं तव राज्यं च सांप्रतम् ॥ ३४ ॥
॥ राक्षस उवाच ॥ ॥
आधिपत्ये स्थितस्यैवं राक्षसानां पितामह ॥
किं मया तत्र भोक्तव्यं तेभ्यो देयं च किं वद ॥ ३५ ॥
राज्ञा चैव यतो देयं भृत्यानां भोजनं विभो ॥
तन्ममाचक्ष्व देवेश दयां कृत्वा ममोपरि ॥ ३६ ॥
न करोति च यो राजा। भृत्यवर्गस्य पोषणम्॥
रौरवं नरकं याति स एवं हि श्रुतं मया ॥ ३७ ॥
॥ ब्रह्मोवाच ॥ ॥
यच्छ्राद्धं दक्षिणाहीनं तिलैर्दर्भैर्विवर्जितम् ॥
तत्सर्वं ते मया दत्तं यद्यपि स्यात्सुतीर्थगम्॥ ३८ ॥
यच्छ्राद्धं सूकरः पश्येन्नारी वाथ रजस्वला ॥
कौलेयकोऽथ वालेयस्तत्सर्वं ते भविष्यति ॥ ३९ ॥
विधिहीनं तु यच्छ्राद्धं दर्भेर्वा मूलवर्जितैः ॥
वितस्तेरधिकैर्वापि तत्सर्वं ते भविष्यति ॥ ६.१८७.४० ॥
तिलं वा तैलपक्वं वा शूकधान्यमथापि वा ॥
न यत्र दीयते श्राद्धे तत्ते श्राद्धं भविष्यति ॥ ४१ ॥
अस्नातैर्यत्कृतं श्राद्धं यच्चाधौतांबरैः कृतम् ॥
तैलाभ्यंगयुतैश्चैव तत्ते सर्वं भविष्यति ॥ ४२ ॥
यद्वा माहिषिको भुंक्ते श्वित्री वा कुनखोऽपि वा ॥
कुष्ठी वाथ द्विजो भुंक्ते तत्ते श्राद्धं भविष्यति ॥ ४३ ॥
हीनांगो वाऽथ यद्भुंक्तेऽधिकांगो वाथ निंदितः ॥
महाव्याधिगृहीतो वा चौरो वार्द्धुषिकोऽपि वा ॥
यत्र भुंक्तेऽथवा श्राद्धे तत्ते श्राद्धं भविष्यति ॥ ४४ ॥
श्यावदन्तस्तु यद्भुंक्ते यद्भुंक्ते वृषलीपतिः ॥
विनग्नो वाथ यद्भुंक्ते तत्ते श्राद्धं भविष्यति ॥ ४५ ॥
यो यज्ञो दक्षिणाहीनो यश्चाशौचयुतैः कृतः ॥
ब्रह्मचर्यविहीनस्तु तत्फलं ते भविष्यति ॥ ४६ ॥
यस्मिन्नैवातिथिः पूज्यः श्राद्धे वा यज्ञकर्मणि ॥
संप्राप्ते वैश्वदेवांते तत्ते सर्वं भविष्यति ॥ ४७ ॥१
आवाहनात्परं यत्र मौनं न श्राद्धदश्चरेत्॥
ब्राह्मणो वाऽथ भोक्ता च तत्ते श्राद्धं भविष्यति॥४८॥
मृन्मयेषु च पात्रेषु यः श्राद्धं कुरुते नरः ॥
भिन्नपात्रेषु वा यच्च तत्ते सर्वं भविष्यति ॥ ४९ ॥
प्रत्यक्षलवणं यत्र तक्रं वा विकृतं भवेत् ॥
जातीपुष्पप्रदानं च तत्ते सर्वं भविष्यति ॥ ६.१८७.५० ॥
यजमानो द्विजो वाथ ब्रह्मचर्यविवर्जितः ॥
तच्छ्राद्धं ते मया दत्तं त्रिपात्रेण विवर्जितम् ॥ ५१ ॥
आयसेन तु पात्रेण यत्रान्नं च प्रदीयते ॥
तच्छ्राद्धं ते मया दत्तं तथान्यदपि हीयते ॥ ५२ ॥
मंत्रक्रियाभ्यां यत्किचिद्रात्रौ दत्तं हुतं तथा ॥
सक्रांतिसोमपर्वभ्यां व्यति रिक्तं तु कुत्सितम् ॥ ५३ ॥
इत्युक्त्वा विररामाशु ब्रह्मा लोकपितामहः ॥
राक्षसः सोऽपि तत्रापि लेभे स्थानं तु राक्षसम् ॥ ५४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठ नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये राक्षसप्राप्यश्राद्धवर्णनंनाम सप्ताशीत्युत्तरशततमोऽध्यायः ॥ ॥ १८७ ॥ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 188
॥ सूत उवाच ॥ ॥
ततस्तु पंचमे चाह्नि संजाते ते द्विजोत्तमाः ॥
श्वेतधौतांबराः सर्वे सुस्नाताः शुचयः स्थिताः ॥ ॥ १ ॥
चक्रुः सर्वाणि कर्माणि पुलस्त्येन प्रबोधिताः ॥
सदोमध्ये गताश्चैव ऋत्विग्वरणपूर्वकाः ॥ २ ॥
अध्वर्युणा समादिष्टान्प्रैषान्प्रोचुर्यथा क्रमम् ॥
होमार्थं दीप्तवह्नौ च ऋत्विग्भिः सुसमाहितैः ॥ ३ ॥
एतस्मिन्नेव काले तु ह्युद्गात्रा कर्म योजितम् ॥
शंकुभिः क्रियते यच्च साम गीतिप्रसूचितम्॥ ४ ॥
सप्तावर्तं द्विजश्रेष्ठाः सदोमध्यगतेन च ॥
यत्राऽऽगच्छंति ते सर्वे देवा यज्ञांशलालसाः ॥ ५ ॥
सोमपानकृते चैव विशेषेण मुदान्विताः ॥
प्रारब्धे सोमभक्ष्येऽथ गीते चोद्गातृनिर्मिते ॥ ६ ॥
आगता कन्यका चैका सामगीतिसमुत्सुका ॥
शंकुकर्णनजं चित्रं वांछमाना विचक्षणा ॥ ७ ॥
छन्दोगस्य सुता श्रेष्ठा देवशर्माभिधस्य च ॥
औदुम्बरीति नाम्ना सा सामश्रवणलालसा ॥ ८ ॥
उद्गातारं च सदसि वचनं व्याजहार सा ॥
यथायथा प्रवर्तंते शंकवः सामसूचिताः ॥ ९ ॥
दक्षिणाग्नौ द्रुतं गत्वा कुरु होमं यथोदितम् ॥
येन त्वं मुच्यसे पापान्न चेद्व्यर्थो भविष्यति ॥ ६.१८८.१० ॥
तस्यास्तद्वचनं श्रुत्वा साभिप्रायं द्विजोत्तमाः ॥
ततः स चिन्तयामास यावत्तद्व्याहृतं वचः ॥ ११ ॥
ततः पप्रच्छ तां कन्यामुद्गाता विस्मयान्वितः ॥
कुतस्त्वमसि चाऽऽयाता सुता कस्य वदस्व मे ॥ १२ ॥
॥ औदुम्बर्युवाच ॥ ॥
पर्वतस्य सुता चास्मि विख्याता देवशर्मणः ॥
जातिस्मरा महाभाग प्राप्ता गन्धर्वलोकतः ॥ १३ ॥
॥ उद्गातोवाच ॥ ॥
गन्धर्वस्य सुता कस्य केन शप्तासि पुत्रिके ॥
कदा ते भविता मोक्षो मानुषत्वस्य कीर्त्तय ॥ १४ ॥
॥ औदुम्बर्युवाच ॥ ॥
नारदः पर्वतश्चैव गन्धर्वौ विदितौ जनैः ॥
पर्वतस्य सुता चास्मि शप्ताहं नारदेन हि ॥ १५ ॥
विपंचीं वादयन्स्वैरं दृष्टः स मुनिसत्तमः ॥
अजानंत्या च तानानां विशेषं मूर्च्छनोद्भवम् ॥
मया स हसितोऽतीव तानभंगतया गतः ।। १६ ॥
ततः स कुपितो मह्यं ददौ शापं द्विजोत्तमः ॥
मिथ्यापहसितो यस्मादहं शापमतोऽर्हसि ॥ १७ ॥
मानुषाणामयं धर्मस्तस्मात्त्वं मानुषी भव ॥
मया प्रसादितः सोऽथ पित्रा सार्धं मुनीश्वरः ॥ १८ ॥
शापांतं कुरु मे नाथ बालिशाया विशेषतः ॥
मानुषत्वं च मे भूयात्सुस्थाने सुकुले विभो ॥ १९ ॥
सुस्थाने चांतकालश्च ब्राह्मणस्य निवेशने ॥
ततोऽहं तेन संप्रोक्ता चमत्कारपुरें शुभे । ६.१८८.२० ॥
देवशर्मा तु विप्रेंद्रः कुलीनः सर्वशास्त्रवित् ॥
तस्य तु ब्राह्मणी नाम्ना सत्यभामेति विश्रुता ॥ २१ ॥
तस्या गर्भं समासाद्य मानुषत्वं समाचर ॥
यदा पैतामहो यज्ञस्तस्मिन्क्षेत्रे भविष्यति ॥ २२ ॥
उद्गातुः समये तस्य शंकोश्चैव विपर्यये ॥
तदा तु स त्वया वाच्यो ह्यस्थाने शंकुराहितः ॥
सर्वदेवसभा मध्ये तदा मोक्षो भविष्यति ॥ २३ ॥
इमां मे दैविकीं कांतां तनुं पश्य द्विजोत्तम ॥
विमानं पश्य चायातं पित्रा संप्रेषितं मम ॥ २४ ॥ ॥
॥ उद्गातोवाच ॥ ॥
तुष्टोऽहं ते विशालाक्षि यज्ञस्याऽविघ्नकारके ॥
न वृथा दर्शनं मे स्याद्विशेषाद्देवसंभवे ॥
वरं वरय मत्तस्त्वं तस्मादौदुम्बरीप्सितम् ॥ २५ ॥
औदुम्बर्युवाच ॥ ॥
यदि मे यच्छसि वरं सन्तुष्टो ब्राह्मणोत्तम ॥
सर्वेषामेव देवानां पुरतश्च ददस्व तम् ॥ २६ ॥
अद्यप्रभृति यः कश्चिद्यज्ञं भूमौ समाचरेत् ॥
तस्मिन्सदसि मध्यस्था मूर्तिः कार्या यथा मम ॥ ॥ २७ ॥
ततो मत्पुरतश्चैव कार्यं शंकुप्रचारणम् ॥
स्वर्गस्थाया भवेत्तुष्टिर्मम तेन कृतेन च ॥ २८ ॥
॥ सूत उवाच ॥ ॥
तस्यास्तद्वचनं श्रुत्वा उद्गाता तामथाब्रवीत् ॥
अद्यप्रभृति यः कश्चिद्यज्ञमत्र करिष्यति ॥ २९ ॥
सदोमध्ये तु तां स्थाप्य पूजयित्वा विलेपनैः ॥
वस्त्रैराभरणैश्चैव गन्धपुष्पानुलेपनैः ॥ ६.१८८.३० ॥
ततः शंकुप्रचारं तु करिष्यति तदग्रतः ॥
एतद्वाक्यं मया प्रोक्तं सर्वदेवसमा गमे ॥ ३१ ॥
नान्यथा भावि भद्रं ते त्वं संतोषं परं व्रज ॥
त्वया विरहितं भद्रे सदःकर्म करिष्यति ॥ ३२ ॥
वृथा भावि च तत्सर्वं यथा भस्महुतं तथा ॥
या नारी सदसो मध्ये फलैस्त्वां पूजयिष्यति ॥ ३३ ॥
फलेफले कोटिगुणं तस्याः श्रेयो भविष्यति ॥
सफलाश्च दिशः सर्वा भविष्यंति न संशयः ॥ ३४ ॥
वस्त्रमाभरणं या च पुष्पधूपादिकं तथा ॥
तुभ्यं दास्यति तत्सर्वं तस्याः कोटिगुणं फलम् ॥ ३५ ॥
परं तावत्प्रतीक्षस्व मा विमानं समारुह ॥
देवि केनापि कार्येण तव पूजां समाचरे ॥ ३६ ॥
॥ देवा ऊचुः ॥ ॥
युक्तं त्वया द्विजश्रेष्ठ वचनं समुदाहृतम् ॥
अस्माकमपि वाक्येन सत्यमेतद्भविष्यति ॥ ३७ ॥
॥ सूत उवाच ॥ ॥
उद्गात्रा सैतमुक्ता च तिष्ठतिष्ठेत्यथोदिता ॥
देवी वरविमानेन गृहीता सांऽबरे स्थिता ॥ ३८ ॥
एतस्मिन्नेव काले तु देवशर्मसुताऽभवत् ॥
देवी नगरमध्यस्थां सर्वा नार्यो द्विजोत्तमाः ॥ ३९ ॥
कुतूहलात्समायातास्तस्या दर्शनलालसाः ॥
काचित्फलानि चादाय काचिद्वस्त्राणि भक्तितः ॥
यथार्हं पूजिता ताभिः सर्वाभिश्च द्विजोत्तमाः ॥ ६.१८८.४० ॥
श्रुत्वा स्वदुहितुः सोऽपि देवशर्मा समाययौ ॥
सपत्नीकः प्रहृष्टात्मा विस्मयोत्फुल्ललोचनः ॥ ४१ ॥
सोऽपि यावत्प्रणामं च तस्याश्चक्रे द्विजोत्तमाः ॥
सपत्नीकस्तदा प्रोक्त्वा निषिद्धस्तु तथा तया ॥ ४२ ॥
ताततात नमस्कारं मा मे कुरु सहांबया ॥
प्राप्ता स्वर्गगतिर्नाम मम नाशं प्रयास्यति ॥ ४३ ॥
तिष्ठात्रैव सपत्नीको यावदद्य दिनं विभो ॥
त्वामादाय सपत्नीकं यास्यामि त्रिदिवालयम् ॥
अनेनैव शरीरेण याचयित्वा सुरोत्तमान् ॥ ४४ ॥
ततस्तौ हर्षितौ तत्र पितरौ हि व्यवस्थितौ ॥
प्रेक्षमाणौ सुतायास्तां पूजां जनविनिर्मिताम् ॥
मन्यमानौ तदात्मानमधिकं सर्व देहिनाम् ॥ ४५ ॥
तस्य ये स्वजनाः केचित्सर्वे तेऽपि द्विजोत्तमाः ॥
शंसमाना सुतां तां तु तत्समीपं व्यवस्थिताः ॥ ४६ ॥
एतस्मिन्नंतरे प्राप्तो भृगुर्यत्र पितामहः ॥
निष्क्रम्य सदसस्तस्मात्कृताञ्जलिरुवाच तम् ॥ ४७ ॥
उद्गात्रा देव चात्मीयो मार्गः श्रुतिविवर्जितः ॥
विहितः कन्यकां धृत्वा सदोमध्ये सुरेश्वर ॥ ४८ ॥
देवत्वं जल्पितं तस्या नागर्याः सुरसंनिधौ ॥
सोमपानं तथा कुर्मो वयं तत्र तया सह ॥ ४९ ॥
ततो विधिस्तमानीय पप्रच्छ द्विजसत्तमाः॥
काऽसौ कन्या किमर्थं च सदोमध्ये धृता त्वया॥६.१८८.५॥।
सोऽब्रवीच्छापभ्रष्टेयं गन्धर्वी ब्राह्मणालये ॥
अवतीर्णा विधेर्यज्ञे मुक्तिरस्याः प्रकीर्तिता ॥५१॥
नारदेन पुरा देव कोपेन च तथा मुदा ॥
तस्या देव वरो दत्तो मया तुष्टेन सांप्रतम् ॥ ५२ ॥
शंकुप्रचारं नो बाह्यं तव संपत्स्यते क्वचित् ॥
देवैः सर्वैः समानीता प्रतिष्ठां प्रपितामह ॥ ५३ ॥
एतस्मिन्नंतरे प्राप्ताः कैलासाच्च द्विजोत्तमाः ॥
श्रुत्वा चौदुंबरीजातं माहात्म्यं धरणीतले ॥ ५४ ॥
यज्ञे पैतामहे चैव हाटकेश्वरसंभवे ॥
क्षेत्रे पुण्यतमे तत्र पूजार्थं द्विजसत्तमाः ॥५५॥
हृष्टा मातृगणा ये च अष्टषष्टिप्रमाणतः ॥
पूज्यंते ये च गन्धर्वैः सिद्धैः साध्यैर्मरुद्गणैः ॥ ५६ ॥
पृथक्पृथग्विधै रूपैर्लोकविस्मयकारकैः ॥
नृत्यंत्यश्च हसंत्यश्च गायंत्यश्च तथापराः ॥ ॥ ५७ ॥
तासां कोलाहलं श्रुत्वा ब्रह्मविष्णुपुरःसराः ॥
विस्मयं परमं प्राप्ताः सर्वे देवाः सवासवाः ॥ ५८ ॥
किमेतदिति जल्पंतः प्रोत्थिता यज्ञमंडपात् ॥
एतस्मिन्नंतरे प्राप्ताः सर्वास्ता यत्र पद्मजः ॥ ५९ ॥
प्रणम्य शिरसा हृष्टास्ततः प्रोचुस्तु सादरम् ॥
वयमेवं समायाताः श्रुत्वा ते यज्ञमुत्तमम् ॥ ६.१८८.६० ॥
आमंत्रिताश्च देवेश वायुना जगदायुना ॥
यज्ञभागा न चास्माकं विद्यंते यज्ञकर्मणि ॥ ६१ ॥
एतान्येव दिनानीह नायातास्तेन पद्मज ॥
औदुंबरीं वयं श्रुत्वा ह्यपूर्वां तेन संगताः ॥ ६२ ॥
सा दृष्ट्वा पूजिताऽस्माभिः प्रणिपातपुरःसरम्॥।
पर्वतस्य सुता यस्माद्गन्धर्वस्य महात्मनः ॥ ६३ ॥
सर्वकामप्रदा स्त्रीणां सर्वदेवैः प्रतिष्ठिता ॥
स्थानं दर्शय चास्माकं त्वं देव प्रपितामह ॥ ६४ ॥
अष्टषष्टिप्रमाणश्च गणोऽस्माकं व्यवस्थितः ॥
तच्छ्रुत्वा पद्मजो ज्ञात्वा संकीर्णं यतमंडपम् ॥
व्याप्तं देवगणैः सर्वैस्त्रयस्त्रिंशत्प्रमाणकैः ॥ ६५ ॥
ततो मध्यगमाहूय स तदा नगरोद्भवम् ॥
श्रुताध्ययनसंपन्नं वृहस्पतिमिवापरम् ॥
अब्रवीच्छ्लक्ष्णया वाचा त्यक्ता मौनं पितामहः ॥ ६६ ॥
त्वं गत्वा मम वाक्येन विप्रान्नागरसंभवान् ॥
प्रब्रूहि गोत्रमुख्यांश्च ह्यष्टषष्टिप्रमाणतः ॥ ६७ ॥
एते मातृगणाः प्राप्ता अष्टषष्टिप्रमाणकाः ॥
एकैक गोत्रमुख्याश्च एकैकस्य प्रमाणतः ॥ ६८ ॥
स्वेस्वे भूमिविभागे च स्थानं यच्छतु सांप्रतम् ॥
एतत्साहाय्यकं कार्यं भवद्भिर्मम नागराः ॥
प्रसादं प्रचुरं कृत्वा येन तुष्टिं प्रयांति च ॥ ६९ ॥
ततः स सत्वरं गत्वा तान्समाहूय नागरान्॥
प्रोवाच विनयोपेतः प्रणिपत्य ततः परम् ॥ ६.१८८.७० ॥
तच्छ्रुत्वा नागराः सर्वे संतोषं परमं गताः॥
एकैकस्य गणस्यैव ददुः स्थानं निजं तदा॥७१॥
ततस्ताः मातरः सर्वाः प्रणिपत्य पितामहम्॥
तदनन्तरमेवाथ गायत्रीं भक्तिपूर्वकम्॥७२॥
विप्रसंसूचिते स्थाने सर्वाश्चैव व्यवस्थिताः॥
पूजितास्तर्पिताश्चैव बलिभिर्विविधैरपि॥७३॥
ततो गायन्ति ता हृष्टा नृत्यंति च हसंति च॥
तर्पिता ब्राह्मणेन्द्रैश्च प्रोचुश्च तदनन्तरम्॥७४॥
न यास्यामो परं स्थानं स्थास्यामोत्रैव सर्वदा॥
ईदृशा यत्र विप्रेन्द्राः सर्वे भक्तिसमन्विताः॥७५॥
ईदृशं च महाक्षेत्रं हाटकेश्वरसंभवम्॥
एतस्मिन्नेव काले तु सावित्री तत्र संस्थिता॥७६॥
प्रणिपत्य द्विजैः सर्वैर्गच्छमाना निवारिता॥
मा देवयजनं गच्छ सावित्रि पतिवल्लभे॥७७॥
ब्रह्मणा परिणीतास्ति गायत्रीति वरांगना॥७८॥
तच्छ्रुत्वा वचनं तेषां सावित्री भ्रांतलोचना॥
दुःखशोकसमोपेता बाष्पव्याकुललोचना॥७९॥
दृष्ट्वा ता नृत्यमानाश्च गायमानास्तथैव च॥
उत्कूर्दतीर्धरापृष्ठे संतोषं परमं गताः॥६.१८८.८०॥
शशापाथ च सावित्री बाष्पगद्गदया गिरा।
सपत्न्या मम यत्पूजां कृत्वा वै सुसमागताः॥८१॥
न प्रणामः कृतोऽस्माकं मम दुःखेन दुःखिताः ॥
तस्मान्नैवापरं स्थानं गमिष्यथ कथंचन ॥ ८२ ॥
नागराणां च नो पूजा कदाचित्प्रभविष्यति ॥
न प्रासादोऽथ युष्माकं कदाचित्संभविष्यति ॥ ८३ ॥
शीतकाले तु शीतेन ह्युष्णकाले च रश्मिभिः ॥
वर्षाकाले तु तोयेन क्लेशं यास्य थ भूरिशः ॥८४॥
एवमुक्त्वा ततो देवी सा तत्रैव व्यवस्थिता ॥
नागराणां वरस्त्रीभिः सर्वाभिः परिवारिता ॥ ८५ ॥
संबोध्यमाना सततं सुस्त्रीणां चेष्टितेन च ॥
एतस्मिन्नेव काले तु भगवांस्तीक्ष्णदीधितिः ॥ ८६ ॥
अस्तं गतो महाञ्छब्दः प्रस्थितो यज्ञमंडपे ॥
याज्ञिकानां तु विप्राणां सुमहाञ्छास्त्रसंभवः ॥ ८७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मातृगणगमनसावित्रीदत्त मातृगणशापवर्णनंनामाष्टाशीत्युत्तरशततमोऽध्यायः ॥१८८॥
खण्डः ६ (नागरखण्डः) — Adhyāya 189
॥ सूत उवाच ॥ ॥
अथ यावच्च ताः शप्ता मातरो द्विजसत्तमाः ॥
सावित्र्या तास्तु गंधर्व्यः प्राप्ताः सा यत्र तिष्ठति ॥ १ ॥
ततः प्रणम्य ता ऊचुः सर्वा दीनतरं वचः ॥
वयं समागता देवि सर्वास्तव मखे यतः॥ २ ॥
यज्ञभागं लभिष्याम औदुंबर्याः प्रसादतः ॥
न चास्माभिः परिज्ञाता सावित्री चात्र तिष्ठति ॥ ३ ॥
दौर्भाग्यदोषसंपन्ना नागरीभिः समावृता ॥
अस्माकं सुखमार्गोऽयं नृत्यगीतसमुद्भवः ॥ ४ ॥
तत्कुर्वाणास्ततो रात्रौ शप्ता गांधर्वसत्तमे ॥
स्त्रीणां दुःखेन दुःखार्ता जायंते सर्वयोषितः ॥५॥
यूयमानंदिताः सर्वाः सपत्न्या मम चोत्सवे ॥
तां प्रणम्य प्रपूज्याद्य नाहं संभाषितापि च ॥ ६ ॥
विशेषान्नृत्यगीतं च प्रारब्धं मम चाग्रतः॥
तस्माद्व्योमगति र्नैव भवतीनां भविष्यति ॥ ७ ॥
अस्मिन्स्थाने सदा दीनास्तथाऽऽश्रयविवर्जिताः ॥
संतिष्ठध्वं न वः पूजां करिष्यंति च मानवाः ॥ ८ ॥
दीनानामसमर्थानां यात्राकृत्येषु सर्वदा ॥
तस्यास्तद्वचनं देवि नान्यथा संभविष्यति ॥ ९ ॥
औदुम्बर्याः पूजनाय गत्वा तस्यै निवेद्यताम् ॥
सा हि व्यपनयेद्दुःखं ध्रुवं सा हि प्रकामदा ॥ ६.१८९.१० ॥
तेनाऽत्र सहसा प्राप्ता यावन्नष्टमनोरथाः ॥ ११ ॥
तस्मात्कुरुष्व कल्याणि यथास्माकं गतिर्भवेत् ॥
माहात्म्यं तव वर्द्धेत त्रैलोक्येऽपि चराचरे ॥ १२ ॥
॥ औदुम्बर्युवाच ॥ ॥
का शक्तिर्विद्यतेऽस्माकं कृतं सावित्रिसंभवम् ॥
अन्यथा कर्तुमेवाद्य सर्वैरपि सुरासुरैः ॥ १३ ॥
तथापि शक्तितो देव्यो यतिष्यामि हिताय वः ॥
अष्टषष्टिषु गोत्रेषु भवत्यः संनियोजिताः ॥ १४ ॥
पितामहेन तुष्टेन तत्र पूजामवाप्स्यथ ॥
यूयं रात्रौ च संज्ञाभिर्हास्यपूर्वाभिरेव च ॥१५॥
अद्यप्रभृति यस्यात्र नागरस्य तु मंदिरे ॥
वृद्धिः संपत्स्यते काचिद्वि शेषान्मंडपोद्भवा ॥ १६ ॥
तथा या योषितः काश्चित्पुरद्वारं समेत्य च ॥
अदृष्टहास्यमाध्याय क्षपिष्यंति बलिं ततः ॥ १७ ॥
तेन वो भविता तृप्तिर्देवानां च यथा मखैः ॥
याः पुनर्न करिष्यंति पूजामेतां मयोदिताम् ॥ १८ ॥
युष्माकं नगरे तासां सुपुत्रो नाशमाप्स्यति ॥
युष्माकमपमाने न सदा रोगी भविष्यति ॥ १९ ॥
तस्मात्तिष्ठध्वमत्रैव रक्षार्थं नगरस्य च ॥
शापव्याजेन युष्माकं वरोऽयं समुपस्थितः ॥ ६.१८९.२० ॥
एतस्मिन्नंतरे प्राप्तो देवशर्मा द्विजोत्तमाः ॥
गंधर्वः पर्वतो जातः स्वपत्न्या सहितस्तदा ॥ २१ ॥
यदा चौदुम्बरी शप्ता नारदेन सुरर्षिणा ॥
मानुषी भव क्रुद्धेन तदा संप्रार्थितस्तया॥२२॥
मदर्थं मानुषो भूत्वा तता त्वं चानया सह॥
सृज मां मानुषीं चेव येन गच्छामि नो भुवि॥२३॥
विण्मूत्रसंयुते गर्भे सर्वदोषसमन्विते॥
ततः सा कृपया तस्याः सत्पत्न्या देवशर्मणः॥२४॥
अवतीर्णा धरापृष्ठे वानप्रस्थाश्रमे ततः॥
एवं सा पञ्चमी रात्रिस्तस्य यज्ञस्य सत्तमाः॥२५॥
उत्सवेन मनोज्ञेन चौदुम्बर्या व्यतिक्रमात्॥
प्रत्यूषे च ततो जाते यदा तेन विसर्जिता॥२६॥
औदुम्बरी तदा प्राह पर्वतं जनकं निजम्॥
कल्येऽत्रावभृथो भावी विधियज्ञसमुद्भवः॥२७॥
सर्वतीर्थमयस्तस्मिन्स्नानं न स्यात्ततः परम्॥
यास्यामः स्वगृहान्भूयः सर्वैर्देवैः समन्विताः॥२८॥
अनेनैव विमानेन त्रयो वापि यथासुखम्॥
ममापि च वरो जातो यः शापान्नारदोद्भवात्॥
यज्ञभागो मया प्राप्तो देवानामपि दुर्लभः॥
पौर्णमासीदिने प्राप्ते विशेषात्स्त्रीजनैः कृतः॥६.१८९.३०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य औदुंबर्युत्पत्तिपूर्वकतत्प्राग्जन्मवृत्तांतवर्णनंनामैकोननवत्युत्तरशततमोऽध्यायः॥१८९॥
खण्डः ६ (नागरखण्डः) — Adhyāya 190
सूत उवाच॥
एवं क्रतुः स संजातः पञ्चरात्रं द्विजोत्तमाः॥
हाटकेश्वरजे क्षेत्रे सर्वकाम समृद्धिमान्॥१॥
विप्रांश्च भिक्षुकांश्चैव दीनांधांश्च विशेषतः॥
समाप्तौ तस्य यज्ञस्य संतर्प्य सकलांस्ततः॥
ऋत्विजो दक्षिणाभिस्तान्यथोक्तान्द्विजसत्तमान्॥२॥
ततः स चानयामास नागरान्ब्राह्मणोत्तमान्॥
चातुश्चरणसंपन्नाञ्छ्रुतिस्मृति समन्वितान्॥३॥
कृतांजलिपुटो भूत्वा ततस्तान्प्राह सादरम्॥
यद्भूमौ तु मया तीर्थं पुष्करं संनिवेशितम्॥४॥
कलिकालस्य भीतेन द्वितीयं ब्राह्मणोत्तमाः॥
येन नो नाशमभ्येति म्लेच्छैरपि समाश्रितम्॥५॥
हाटकेश्वरदेवस्य प्रभावेन महात्मनः॥
कलिकाले च सम्प्राप्ते तीर्थान्यायतनानि च॥६॥
म्लेच्छैः स्पृष्टान्यसंदिग्धं प्रयागादीनि कृत्स्नशः॥
यज्ञस्तु विहितस्तेन भयायं तत्कृतेन च॥७॥
तस्माद्वदथ किं दानं युष्मद्भूमेश्च निष्क्रये॥।
प्रयच्छामि च यज्ञस्य येन मे स्यात्फलं द्विजाः॥८॥
ब्राह्मणा ऊचुः॥
यदि यच्छसि चास्माकं दक्षिणां यज्ञसंभवाम्॥
तदस्माकं स्ववासेन स्थानं नय पवित्रताम्॥९॥
यदेतद्भवता चात्र पुष्करं तीर्थमुत्तमम्॥
स्थापितं तस्य नो ब्रूहि माहात्म्यं सुरसत्तम॥
येन स्नानादिकाः सर्वाः क्रियाः कुर्मः पितामह॥६.१९०.१०॥
ब्रह्मोवाच॥
एतत्तीर्थं मया सृष्टमंतरिक्षस्थितं सदा॥
किं न श्रुतं पुराणेषु भवद्भिर्द्विजसत्तमाः॥११॥
पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम्॥
त्रैलोक्ये तु कुरुक्षेत्रं विशेषेण व्यवस्थितम्॥१२॥
तद्युष्माकं हितार्थाय पंचरात्रं धरातले॥
आगमिष्यत्यसंदिग्धं मम वाक्यप्रणोदितम्॥१३॥
कार्तिक्यां शुक्लपक्षे तु ह्येकादश्यां दिने स्थिते॥
यावत्पंचदशी तावत्तिथिः पापप्रणाशिनी॥१४॥
पंचरात्रस्य मध्ये तु यः स्नानं च करिष्यति ॥
श्राद्धं वा श्रद्धया युक्तस्तस्य स्यादक्षयं हि तत् ॥ १५ ॥
अह तु पंचरात्रं तद्ब्रह्मलोकादुपेत्य च ॥
संश्रयं तु करिष्यामि तीर्थेऽत्रैव द्विजोत्तमाः ॥ १६ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
तव मूर्तिं करिष्यामः स्थानेऽत्र प्रपितामह ॥
तस्यां संक्रमणं नित्यं तस्मात्कार्यं त्वयाविभो ॥ १७ ॥
तीर्थं चैव सदाप्यऽत्र समागच्छतु चांबरात् ॥
लोकानां पापनाशाय तथा त्वं कर्तुमर्हसि ॥ १८ ॥
एषा नो दक्षिणा देव यज्ञस्यैव समुद्भवा॥ १९ ॥
एवं कृते सुरश्रेष्ठ सफलः स्यात्क्रतुस्तव ॥
प्रतिज्ञा च तथा सत्या तस्माद्दानाय निर्मिता ॥ ६.१९०.२० ॥ ॥
॥ श्रीब्रह्मोवाच ॥ ॥
मन्त्राहूतं ततः श्रेष्ठं नभोमार्गाद्द्विजोत्तमाः ॥
हाटकेश्वरजे क्षेत्रे पुष्करं चागमिष्यति ॥ २१ ॥
अघमर्षं जपंश्चैव यः करिष्यति तोयगः॥
मम मूर्तेः पुरः स्थित्वा पैलमन्त्रपुरःसरम् ॥२२॥
जपिष्यति द्विजश्रेष्ठाः सवनानां चतुष्टयम् ॥
ब्रह्मलोकात्समागत्य प्रश्रोष्या मि च तद्द्विजाः ॥ २३ ॥
॥ सूत उवाच ॥ ॥
अथ ते नागराः सर्वे पुष्पदानप्रपूर्वकम्॥
अनुज्ञां प्रददुस्तुष्टा यज्ञफलसमाप्तये ॥ २४ ॥
एतस्मिन्नंतरे प्राप्तः पुलस्त्योऽध्वर्युसत्तमः ॥
यत्र स्थाने स्थितो ब्रह्मा नागरैः परिवारितः ॥ २५ ॥
अब्रवीच्च समाप्तस्ते यतः संपूर्णदक्षिणः ॥
प्रायश्चित्तैर्विरहितो यथा नान्यस्य कस्यचित् ॥ २६ ॥
अतः परं कर्मशेषं किंचिदस्ति पितामह ॥
वारुणेष्टिर्जपश्चैव तत्करिष्यामि सांप्रतम्॥ २७ ॥
तथा चाऽवभृथस्नानं प्रकर्तव्यं त्वया सह ॥
तस्मादुत्तिष्ठ गच्छामो यत्र तोयव्यवस्थितम् ॥ २८ ॥
येनेष्टिवारुणीं तत्र कुर्मो विप्रैर्यथोचितैः ॥
चतुर्भिर्ब्रह्मपूर्वैश्च मया चाग्नीध्रहोतृभिः ॥ २९ ॥
यथावह्नौ तथा तोये मन्त्रवत्तद्भवंशुभम् ॥
हूयते संविधानेनयज्ञपात्रैः सम न्वितम्॥ ६.१९०.३० ॥
वरुणस्य प्रतुष्ट्यर्थं स्नानं कार्यं त्वयैव च ॥
ऋत्विग्भिः सहितेनैव सर्वारिष्टप्रशांतये ॥ ३१ ॥
यस्तत्र समये स्नानं करिष्यति त्वया सह ॥
अन्योऽपि मानवः कश्चिद्विपाप्मा स भविष्यति ॥ ३२ ॥
यानीह संति तीर्थानि त्रैलोक्ये सचराचरे ॥
वारुणीमिष्टिमासाद्य तानि यांति च संनिधौ ॥ ३३ ॥
तस्मात्सर्वप्रयत्नेन दीक्षितेन समन्वितम् ॥
तत्र स्नानं प्रकर्तव्यं जलमध्ये तु सार्थिभिः ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः सर्वैरव भृथोत्सवे ॥ ३४ ॥
तस्माद्विसर्जयाद्यैतान्ब्राह्मणांस्तावदेव च ॥
एतेऽपि च करिष्यंति स्नानं तत्र त्वया सह ॥ ३५ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा प्रस्थितो ब्रह्मा ज्येष्ठकुण्डतटं शुभम् ॥
गायत्र्या सहितो हृष्टः कृतकृत्यत्वमागतः ॥ ३६ ॥
अथ तद्वचनं श्रुत्वा सुराः सर्वे तथा द्विजाः ॥
पुलस्त्यश्च शुभार्थाय स्नानार्थं प्रस्थितास्तदा॥
ब्रह्मणा सहिता हृष्टाः पुत्रदारसमन्विताः ॥ ३७ ॥
अथ संकीर्णता जाता समंताज्ज्येष्ठपुष्करे ॥
स्नानार्थमागतैर्लोकैरूर्ध्वबाहुभिरेव च ॥ ३८ ॥
न तत्र लक्ष्यते ब्रह्मा न तत्कर्म च वारुणम् ॥
क्रियमाणैर्द्विजैस्तत्र व्याप्ते भूमि तलेऽखिले ॥ ३९ ॥
अथांते कर्मणस्तस्य ब्रह्मा प्राह शतक्रतुम् ॥
हितार्थं सर्वलोकस्य विनयावनतं स्थितम् ॥ ६.१९०.४० ॥
न मां ज्ञास्यति दूरस्था जनाः स्नानार्थमागताः ॥
मज्जमानं जले पुण्ये सम्मर्देऽस्मिञ्जलोद्भवे ॥ ४१ ॥
तस्मान्नागं समारुह्य निजं वृत्रनिषूदन ॥
एणस्य कृष्णसारस्य वंशांते चर्म न्यस्य च ॥ ४२ ॥
ततस्तत्स्नानवेलायां क्षेप्तव्यं सलिले त्वया ॥
येन लोकः समस्तोऽयं वेत्ति कालं तु स्नानजम् ॥ ४३ ॥
स्नानं च कुरुते श्रेयः संप्राप्नोति यथोदितम् ॥
दूरस्थोऽपि सुवृद्धोऽपि बालोऽपि च समागतः ॥
स्नानजं लभते श्रेयः संदृष्टेऽपि यथोदितम् ॥ ४४ ॥ ॥
॥ सूत उवाच ॥ ॥
बाढमित्येव संप्रोच्य सत्वरं प्रययौ हरिः ॥ ४५ ॥
ततो नागं समारुह्य धृत्वा वंशं करे निजे ॥
मृगचर्माग्रसंयुक्तं तोयमध्ये व्यवस्थितः ॥ ४६ ॥
एतत्कर्मावसाने स स्नातुकामे पितामहे ॥
तच्चर्म प्राक्षिपत्तोये स्वयमेव शतक्रतुः ॥ ४७ ॥
एतस्मिन्नन्तरे देवाः सर्वे गन्धर्वगुह्यकाः ॥
मानुषाश्च विशेषेण स्नातास्तत्र समाहिताः ॥ ४८ ॥
एतस्मिन्नन्तरे ब्रह्मा शक्रं प्रोवाच सादरम् ॥
कृतस्नानं सुरैः सार्धं विनयावनतं स्थितम् ॥ ४९ ॥
सहस्राक्षं त्वया कष्टं मन्मखे विपुलं कृतम् ॥
आनीता च तथा पत्नी गायत्री च सुमध्यमा ॥ ६.१९०.५० ॥
तस्माद्वरय भद्रं ते यं वरं मनसि स्थितम् ॥
सर्वं तेऽहं प्रदास्यामि यद्यपि स्यात्सुदुर्लभम् ॥ ५१ ॥
॥ इन्द्र उवाच ॥ ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
यदि त्वां प्रार्थयाम्यद्य भूयात्तु तादृशं विभो ॥ ५२ ॥
वर्षेवर्षे तु यः कुर्यात्संप्राप्तेऽस्मिन्दिने शुभे ॥
मृगचर्म समादाय वंशाग्रे यो महीपतिः ॥ ५३ ॥
नागप्रवरमारुह्य स्वयमेव पितामह ॥
यथाऽहं प्रक्षिपेत्तोये स स्यात्पापविवर्जितः ॥ ५४ ॥
अजेयः सर्वशत्रूणां सर्वव्यसनवर्जितः ॥
ये करिष्यंति च स्नानमनेन मृगचर्मणा ॥ ५५ ॥
सार्धमन्येऽपि ये लोका अपि पापसमन्विताः ॥
तेषां वर्षकृतं पापं त्वत्प्रसादात्प्रणश्यतु ॥ ५६ ॥
॥ ब्रह्मोवाच ॥ ॥
एतत्सर्वं सहस्राक्ष तव वाक्यमसंशयम् ॥
भविष्यति न संदेहः सर्वमेतन्मयोदितम् ॥ ५७ ॥
यो राजा श्रद्धया युक्तो देशस्यास्य समुद्भवः ॥
आनर्तस्य गजारूढो मृगचर्म क्षिपिष्यति ॥ ५८ ॥
अत्र कुण्डे मदीये तु मां संपूज्य तटस्थितम् ॥।
सर्वलोकहितार्थाय संप्राप्ते प्रतिपद्दिने ॥ ५९ ॥
समाप्ते कुतपे काले विजयी स भविष्यति ॥
कार्तिक्यां च व्यतीतायां द्वितीयेऽह्नि व्यवस्थिते ॥ ॥ ६.१९०.६० ॥
तथा तत्कालमासाद्य ये करिष्यंति मानवाः ॥
स्नानं तच्च दिनेऽत्रैव वर्षपापविवर्जिताः ॥
आधिव्याधिविमुक्ताश्च ते भविष्यंत्यसंशयम् ॥ ६१ ॥
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे प्राप्तो यक्ष्माख्यो दारुणो गदः ॥
अचिकित्स्योऽपि देवानां तथा धन्वंतरेरपि ॥ ६२ ॥
नीलांबरधरः क्षामो दीनो दण्डसमाश्रितः ॥
क्षुत्कुर्वञ्छ्लेष्मणा तावत्कृच्छ्रात्संधारयन्पदम् ॥ ६३ ॥
ततश्च प्रणतो भूत्वा वाक्यमेतदुवाच सः ॥ ६४ ॥ ॥
॥ यक्ष्मोवाच ॥ ॥
तव यज्ञमहं श्रुत्वा दूरादेव पितामह ॥
क्षुत्क्षामकंठश्चायातः समाप्तावद्य कृच्छ्रतः ॥ ६५ ॥
दक्षेणाहं पुरा सृष्टश्चंद्रार्थं कुपितेन च ॥
रोहिणीं सेवमानस्य संत्यक्तान्यासुतस्य च ॥६६॥
ततो माहेश्वरादेशात्तेन तुष्टेन तस्य च ॥
पक्षमेकं कृतं मह्यं तस्यास्वादनकर्मणि ॥ ६७ ॥
अन्यपक्षे न किंचिच्च येन तृप्तिः प्रजायते ॥
यज्ञस्यैव तु सर्वस्य तर्पयित्वा द्विजोत्तमम् ॥ ६८ ॥
ततस्तद्वचनं ग्राह्यं तर्पितोऽहमसंशयम् ॥
पौर्णमास्यां ततो देव यस्य यज्ञस्य कृत्स्नशः ॥ ६९ ॥
यस्य नो ब्राह्मणो ब्रूते यज्ञस्यांते प्रतर्पितः ॥
तर्पितोऽस्मीति तत्तस्य वृथा स्याद्यज्ञजं फलम् ॥
यदि कोटिगुणं दत्तमपि श्रद्धासमन्वितम् ॥ ६.१९०.७० ॥
एतच्छ्रुत्वा त्वया देव पठ्यमानं श्रुताविह ॥
तस्मात्सम्यक्स्थिते यज्ञे ब्राह्मणं तर्पयेत वै ॥ ७१ ॥
प्रत्यक्षं मे यथा तृप्तिरन्नेनैव प्रजायते ॥
त्वत्प्रसादात्सुरश्रेष्ठ तथा नीतिर्विधीयताम् ॥ ७२ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा पद्मजस्तस्य पथ्यंपथ्यं वचोऽखिलम् ॥
श्रुतिं प्रमाणतां नीत्वा ततो वचनमब्रवीत् ॥ ७३ ॥
अद्यप्रभृति वै विप्राः साग्नयः स्युर्धरातले ॥
तैः सर्वैर्वैश्वदेवांते बलिर्देयस्तथाखिलः ॥ ७४ ॥
दत्त्वाऽन्येभ्योथ देवेभ्यस्तव तृप्तिर्भविष्यति ॥
तव पक्षे द्वितीये तु सत्यमेतन्मयोदितम् ॥ ७५ ॥
ये विप्रास्तु बलिं दद्युर्वैश्वदेवांत आगते ॥
न तेषामन्वये चापि त्वया सेव्योऽत्र कश्चन ॥ ७६ ॥
॥ यक्ष्मोवाच ॥ ॥
तीर्थेऽस्मिंस्तावके देव सदाहं तपसि स्थितः ॥
तिष्ठामि यदि वादेशस्तावको जायते मम ॥ ७७ ॥
॥ ब्रह्मोवाच ॥ ॥
यद्येवं कुरु चान्यत्र त्वमाश्रमपदं निजम् ॥
संप्राप्य भूमिदेशे च कञ्चिद्यदभिरोचते ॥
अर्थयित्वा द्विजानेतान्यथा यज्ञकृते मया ॥ ७८ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा प्रार्थयामास चमत्कारपुरोद्भवान् ॥
तेभ्यः प्राप्य ततो भूमिं चकाराथाश्रमं निजम् ॥ ७९ ॥
तत्र यः कुरुते स्नानं प्रतिपद्दिवसे स्थिते ॥
सूर्यवारेण मुच्येत यक्ष्मणा सेवितोऽपि वा ॥ ६.१९०.८० ॥
अद्यापि दृश्यते चात्र प्रत्ययस्तस्य संभवे ॥
सर्वेषामाहिताग्नीनां नागराणां विशेषतः ॥
कलि कालेऽपि संप्राप्ते न यक्ष्मा संप्रजायते ॥ ८१ ॥
तथा चतुष्पदानां च तेषां गृहनिवासिनाम् ॥
न तस्य भेषजानि स्युर्न मंत्रा न चिकित्सकाः ॥ ८२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मयज्ञावभृथयक्ष्म तीर्थोत्पत्तिमाहात्म्यवर्णनंनाम नवत्युत्तरशततमोऽध्यायः ॥ १९० ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 191
॥ ऋषय ऊचुः ॥ ॥
सूतपुत्र त्वया प्रोक्तं सावित्री नागता च यत् ॥
कौटिल्येन समायुक्तैराहूता वचनैस्तथा ॥
पुलस्त्येन पुनश्चैव प्रसक्ता गृहकर्मणि ॥ १ ॥
ततस्तु ब्रह्मणा कोपाद्गायत्री च समाहृता ॥
देवैर्विप्रेश्चे साऽतीव शंसिता भार्यतां गता ॥ २ ॥
सावित्री च कथं जाता तां ज्ञात्वा यज्ञमण्डपे ॥
पत्नीशालां प्रविष्टां च सर्वं नो विस्तराद्वद ॥ ३ ॥
॥ सूत उवाच ॥ ॥
सावित्री वशगं कांतं ज्ञात्वा विश्वासमागता ॥
स्थिरा भूत्वा तदा सर्वा देवपत्नीः समानयत् ॥ ४ ॥
गौरी लक्ष्मीः शची मेधा तथा चैवाप्यरुन्धती ॥
स्वधा स्वाहा तथा कीतिर्बुद्धिः पुष्टिः क्षमा धृतिः ॥
तथा चान्याश्च बहवो ह्यप्सरोभिः समन्विताः ॥ ५ ॥
घृताची मेनका रंभा उर्वशी च तिलोत्तमा ॥
अप्सराणां गणाः सर्वे समाजग्मुर्द्विजोत्तमाः ॥ ६ ॥
सा ताभिः सहिता देवीपूर्णहस्ताभिरेव च ॥
संप्रहृष्टमनोभिश्च प्रस्थिता मण्डपं प्रति ॥ ७ ॥
वाद्यमानेषु वाद्येषु गीतध्वनियुतेषु च ॥
गन्धर्वाणां प्रमुख्यानां किन्नराणां विशेषतः ॥ ८ ॥
प्रस्थिता सा महाभागा यावत्तद्यज्ञमण्डपम् ॥
तावत्तस्यास्तदा चक्षुः प्रास्फुरद्दक्षिणं मुहुः ॥ ९ ॥
अपसव्यं मृगाश्चक्रुस्तथान्येऽपि खगादयः ॥
विपर्यस्तेन संयाति शब्दान्कुर्वंति चासकृत् ॥ ६.१९१.१० ॥
दक्षिणानि तथाऽङ्गानि स्फुरमाणानि वै मुहुः॥
तस्या मनसि संक्षोभं जनयति निरर्गलम् ॥ ११ ॥
ताश्च देवस्त्रियः सर्वा नृत्यंति च हसंति च ॥
गायंति च यथोत्साहं तस्याः पार्श्वे व्यवस्थिताः ॥ १२ ॥
न जानंति च संक्षोभं तथा शकुनजं हृदि ॥
अन्योन्यस्पर्द्धया सर्वा गीतनृत्यपरायणाः ॥ १३ ॥
अहंपूर्वमहंपूर्वं प्रविशामि महामखे ॥
इत्यौत्सुक्यसमोपेतास्ता गच्छंति तदा पथि ॥ १४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सावित्र्या यज्ञागमनकालिकोत्पाताद्यपशकुनोद्भववर्णनंनामैकनवत्युत्तरशततमोऽध्यायः ॥१९१॥
खण्डः ६ (नागरखण्डः) — Adhyāya 192
॥ सूत उवाच ॥ ॥
अथ श्रुत्वा महानादं वाद्यानां समुपस्थितम् ॥
नारदः सम्मुखः प्रायाज्ज्ञात्वा च जननीं निजाम् ॥ १ ॥
प्रणिपत्य स दीनात्मा भूत्वा चाश्रुपरिप्लुतः ॥
प्राह गद्गदया वाचा कण्ठे बाष्पसमावृतः ॥ २ ॥
आत्मनः शापरक्षार्थं तस्याः कोपविवृद्धये ॥
कलिप्रियस्तदा विप्रो देवस्त्रीणां पुरः स्थितः ॥ ३ ॥
मेघगम्भीरया वाचा प्रस्खलंत्या पदेपदे ॥
मया त्वं देवि चाहूता पुलस्त्येन ततः परम् ॥ ४ ॥
स्त्रीस्वभावं समाश्रित्य दीक्षाकालेऽपि नागता ॥ ५ ॥
ततो विधेः समादेशाच्छक्रेणान्या समाहृता ॥
काचिद्गोपसमुद्भूता कुमारी देव रूपिणी ॥ ६ ॥
गोवक्त्रेण प्रवेश्याथ गुह्यमार्गेण तत्क्षणात् ॥
आकर्षिता महाभागे समानीताथ तत्क्षणात् ॥ ७ ॥
सा विष्णुना विवाहार्थं ततश्चैवानुमोदिता ॥
ईश्वरेण कृतं नाम गायत्री च तवानुगम् ॥ ८ ॥
ब्राह्मणैः सकलैः प्रोक्तं ब्राह्मणीति भवत्वियम् ॥
अस्माकं वचनाद्ब्रह्मन्कुरु हस्तग्रहं विभो ॥ ९ ॥
देवैः सर्वैः स सम्प्रोक्तस्ततस्तां च वराननाम् ॥
ततः पत्न्युत्थधर्मेण योजयामास सत्वरम् ॥६.१९२. १० ॥
किं वा ते बहुनोक्तेन पत्नीशालां समागता ॥
रशना योजिता तस्या गोप्याः कट्यां सुरेश्वरि ॥ ११ ॥
तद्दृष्ट्वा गर्हितं कर्म निष्क्रांतो यज्ञमण्डपात् ॥
अमर्ष वशमापन्नो न शक्तो वीक्षितुं च ताम् ॥ १२ ॥
एतज्ज्ञात्वा महाभागे यत्क्षमं तत्समाचर ॥
गच्छ वा तिष्ठ वा तत्र मण्डपे धर्मवर्जिते ॥ १३ ॥
तच्छ्रुत्वा सा तदा देवी सावित्री द्विजसत्तमाः ॥
प्रम्लानवदना जाता पद्मिनीव हिमागमे ॥ १४ ॥
लतेव च्छिन्नमूला सा चक्रीव प्रियविच्युता ॥
शुचिशुक्लागमे काले सरसीव गतोदका ॥ १५ ॥
प्रक्षीणचन्द्रलेखेव मृगीव मृगवर्जिता ॥
सेनेव हतभूपाला सतीव गतभर्तृका ॥ १६ ॥
संशुष्का पुष्पमालेव मृतवत्सैव सौरभी ॥
वैमनस्यं परं गत्वा निश्चलत्वमुपस्थिताम् ॥
तां दृष्ट्वा देवपत्न्यस्ता जगदुर्नारदं तदा ॥ १७ ॥
धिग्धिक्कलिप्रिय त्वां च रागे वैराग्यकारकम् ॥
त्वया कृतं सर्वमेतद्विधेस्तस्य तथान्तरम् ॥ १८ ॥
॥ गौर्युवाच ॥ ॥
अयं कलिप्रियो देवि ब्रूते सत्यानृतं वचः ॥
अनेन कर्मणा प्राणान्बिभर्त्येष सदा मुनिः ॥ १९ ॥
अहं त्र्यक्षेण सावित्रि पुरा प्रोक्ता मुहुर्मुहुः ॥
नारदस्य मुनेर्वाक्यं न श्रद्धेयं त्वया प्रिये ॥
यदि वांछसि सौख्यानि मम जातानि पार्वति ॥ ६.१९२.२० ॥
ततःप्रभृति नैवाहं श्रद्दधेऽस्य वचः क्वचित् ॥
तस्माद्गच्छामहे तत्र यत्र तिष्ठति ते पतिः ॥ २१ ॥
स्वयं दृष्ट्वैव वृत्तांतं कर्तव्यं यत्क्षमं ततः ॥
नात्रास्य वचनादद्य स्थातव्यं तत्र गम्यताम् ॥ २२ ॥
॥ सूत उवाच ॥ ॥
गौर्या स्तद्वचनं श्रुत्वा सावित्री हर्षवर्जिता ॥
मखमण्डपमुद्दिश्य प्रस्खलन्ती पदेपदे ॥ २३ ॥
प्रजगाम द्विजश्रेष्ठाः शून्येन मनसा तदा ॥
प्रतिभाति तदा गीतं तस्या मधुरमप्यहो ॥ २४ ॥
कर्णशूलं यथाऽऽयातमसकृद्द्विजसत्तमाः ॥
वन्ध्यवाद्यं यथा वाद्यं मृदंगानकपूर्वकम् ॥ २५ ॥
प्रेतसंदर्शनं यद्वन्मर्त्यं तत्सा महासती ॥
वीक्षितुं न च शक्रोति गच्छमाना तदा मखे ॥ २६ ॥
शृंगारं च तथांगारं मन्यते सा तनुस्थितम् ॥
वाष्पपूर्णेक्षणा दीना प्रजगाम महासती ॥ २७ ॥
ततः कृच्छ्रात्समासाद्य सैवं तं यज्ञमंडपम् ॥
कृच्छ्रात्कारागृहं तद्वद्दुष्प्रेक्ष्यं दृक्पथं गतम् ॥ २८ ॥
अथ दृष्ट्वा तु संप्राप्तां सावित्रीं यज्ञमण्डपम् ॥
तत्क्षणाच्च चतुर्वक्त्रः संस्थितोऽधोमुखो ह्रिया। ॥ २९ ॥
तथा शम्भुश्च शक्रश्च वासुदेवस्तथैव च ॥
ये चान्ये विबुधास्तत्र संस्थिता यज्ञमंडपे ॥ ६.१९२.३० ॥
ते च ब्राह्मणशार्दूलास्त्यक्त्वा वेदध्वनिं ततः ॥
मूकीभावं गताः सर्वे भयसंत्रस्तमानसाः ॥३१॥
अथ संवीक्ष्य सावित्री सपत्न्या सहितं पतिम् ॥
कोपसंरक्तनयना परुषं वाक्यमब्रवीत् ॥ ३२ ॥
॥ सावित्र्युवाच ॥ ॥
किमेतद्युज्यते कर्तुं तव वृद्ध तमाकृते ॥
ऊढवानसि यत्पत्नीमेतां गोपसमुद्भवाम् ॥ ३३ ॥
उभयोः पक्षयोर्यस्याः स्त्रीणां कांता यथेप्सिताः ॥
शौचाचारपरित्यक्ता धर्मकृत्यपराङ्मुखाः ॥ ३४ ॥
यदन्वये जनाः सर्वे पशुधर्मरतोत्सवाः ॥
सोदर्यां भगिनीं त्यक्त्वा जननीं च तथा पराम् ॥ ३५ ॥।
तस्याः कुले प्रसेवंते सर्वां नारीं जनाः पराम् ॥
यथा हि पशवोऽश्नंति तृणानि जलपानगाः ॥ ३६ ॥
विण्मूत्रं केवलं चक्रुर्भारोद्वहनमेव च ॥९
तद्वदस्याः कुलं सर्वं तक्रमश्राति केवलम् ॥ ३७ ॥
कृत्वा मूत्रपुरीषं च जन्मभोगविवर्जितम् ॥
नान्यज्जानाति कर्तव्यं धर्मं स्वोदरसं श्रयात् ॥ ३८ ॥
अन्त्यजा अपि नो कर्म यत्कुर्वन्ति विगर्हितम् ॥
आभीरास्तच्च कुर्वंति तत्किमेतत्त्वया कृतम् ॥ ३९ ॥
अवश्यं यदि ते कार्यं भार्यया परया मखे ॥
त्वया वा ब्राह्मणी कापि प्रख्याता भुवनत्रये ॥ ६.१९२.४० ॥
नोढा विधे वृथा मुण्ड नूनं धूर्तोऽसि मे मतः ॥
यत्त्वया शौचसंत्यक्ता कन्याभावप्रदूषिता॥४१॥
प्रभुक्ता बहुभिः पूर्वं तथा गोपकुमारिका॥
एषा प्राप्ता सुपापाढ्या वेश्याजनशताधिका॥४२॥
अन्त्यजाता तथा कन्या क्षतयोनिः प्रजायते॥
तथा गोपकुमारी च काचित्तादृक्प्रजायते॥४३॥
मातृकं पैतृकं वंशं श्वाशुरं च प्रपातयेत्।
तस्मादेतेन कृत्येन गर्हितेन धरातले॥४४॥
न त्वं प्राप्स्यसि तां पूजां तथा न्ये विबुधोत्तमाः॥
अनेन कर्मणा चैव यदि मे स्ति ऋतं क्वचित्॥४४॥
पूजां ये च करिष्यंति भविष्यंति च निर्धनाः॥
कथं न लज्जितोसि त्वमेतत्कुर्वन्विगर्हितम्॥४६॥
पुत्राणामथ पौत्राणामन्येषां च दिवौकसाम्॥
अयोग्यं चैव विप्राणां यदेतत्कृतवानसि॥४७॥
अथ वा नैष दोषस्ते न कामवशगा नराः॥
लज्जंति च विजानंति कृत्याकृत्यं शुभाशुभम्॥४८॥
अकृत्यं मन्यते कृत्यं मित्रं शत्रुं च मन्यते॥
शत्रुं च मन्यते मित्रं जनः कामवशं गतः॥४९॥
द्यूतकारे यथा सत्यं यथा चौरं च सौहृदम्॥
यथा नृपस्य नो मित्रं तथा लज्जा न कामिनाम्॥६.१९२.५०॥
अपि स्याच्छीतलो वह्निश्चंद्रमा दहनात्मकः।
क्षाराब्दिरपि मिष्टः स्यान्न कामी लज्जते ध्रुवम्॥५१॥
न मे स्याद्दुखमेतद्धि यत्सापत्न्यमुपस्थितम्॥
सहस्रमपि नारीणां पुरुषाणां यथा भवेत्॥ ५२॥
कुलीनानां च शुद्धानां स्वजात्यानां विशेषतः॥
त्वं कुरुष्व पराणां च यदि कामवशं गतः॥५३॥
एतत्पुनर्महद्दुःखं यदाभीरी विगर्हिता॥
वेश्येव नष्टचारित्रा त्वयोढा बहुभर्तृका ॥ ५४ ॥
तस्मादहं प्रयास्यामि यत्र नाम न ते विधे ॥
श्रूयते कामलुब्धस्य ह्रिया परिहृतस्य च ॥ ५५ ॥
अहं विडंबिता यस्मादत्रानीय त्वया विधे ॥
पुरतो देवपत्नीनां देवानां च द्विजन्मनाम् ॥
तस्मात्पूजां न ते कश्चित्सांप्रतं प्रकरिष्यति ॥ ५६ ॥
अद्य प्रभृति यः पूजां मंत्रपूजां करिष्यति ॥
तव मर्त्यो धरापृष्ठे यथान्येषां दिवौकसाम् ॥ ५७ ॥
भविष्यति च तद्वंशो दरिद्रो दुःखसंयुतः ॥
ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोपि चालये ॥ ५८ ॥
एषाऽभीरसुता यस्मान्मम स्थाने विगर्हिता ॥
भविष्यति न संतानस्तस्माद्वाक्यान्ममैव हि ॥ ५९ ॥
न पूजां लप्स्यते लोके यथान्या देवयोषितः ॥ ६.१९२.६० ॥
करिष्यति च या नारी पूजा यस्या अपि क्वचित् ॥
सा भविष्यति दुःखाढ्या वंध्या दौर्भाग्यसंयुता ॥ ६१ ॥
पापिष्ठा नष्टचारित्रा यथैषा पंचभर्तृका ॥
विख्यातिं यास्यते लोके यथा चासौ तथैव सा ॥ ६२ ॥
एतस्या अन्वयः पापो भविष्यति निशाचर ॥
सत्यशौचपरित्यक्ताः शिष्टसंगविवर्जिताः ॥ ६३ ॥
अनिकेता भविष्यंति वंशेऽस्या गोप्रजीविनः ॥
एवं शप्त्वा विधिं साध्वी गायत्रीं च ततः परम् ॥ ६४ ॥
ततो देवगणान्सर्वाञ्छशाप च तदा सती ॥
भोभोः शक्र त्वयानीता यदेषा पंचभर्तृका ॥ ६५ ॥
तदाप्नुहि फलं सम्यक्छुभं कृत्वा गुरोरिदम् ॥
त्वं शत्रुभिर्जितो युद्धे बंधनं समवाप्स्यसि ॥ ६६ ॥
कारागारे चिरं कालं संगमिष्यत्यसंशयम् ॥
वासुदेव त्वया यस्मादेषा वै पंचभर्तृका ॥ ६७ ॥
अनुमोदिता विधेः पूर्वं तस्माच्छप्स्याम्यसंशयम् ॥
त्वं चापि परभृत्यत्वं संप्राप्स्यसि सुदुर्मते ॥ ६८ ॥
समीपस्थोऽपि रुद्र त्वं कर्मैतद्यदुपेक्षसे ॥
निषेधयसि नो मूढ तस्माच्शृणु वचो मम ॥ ६९ ॥
जीवमानस्य कांतस्य मया तद्विरहोद्भवम् ॥
संसेवितं मृतायां ते दयितायां भविष्यति ॥ ६.१९२.७० ॥
यत्र यज्ञे प्रविष्टेयं गर्हिता पंचभर्तृका ॥
भवानपि हविर्वह्ने यत्त्वं गृह्णासि लौल्यतः ॥ ७१ ॥
तथान्येषु च यज्ञेषु सम्यक्छंकाविवर्जितः ॥
तस्माद्दुष्टसमाचार सर्वभक्षो भविष्यसि ॥ ७२ ॥
स्वधया स्वाहया सार्धं सदा दुःखसमन्वितः ॥
नैवाप्स्यसि परं सौख्यं सर्वकालं यथा पुरा ॥ ७३ ॥
एते च ब्राह्मणाः सर्वे लोभोपहतचेतसः ॥
होमं प्रकुर्वते ये च मखे चापि विगर्हिते। ७४ ॥
वित्तलोभेन यत्रैषा निविष्टा पञ्चभर्तृका ॥
तथा च वचनं प्रोक्तं ब्राह्मणीयं भविष्यति ॥ ७५ ॥
दरिद्रोपहतास्तस्माद्वृषलीपतयस्तथा ॥
वेदविक्रयकर्तारो भविष्यथ न संशयः ॥ ७६ ॥
भोभो वित्तपते वित्तं ददासि मखविप्लवे ॥
तस्माद्यत्तेऽखिलं वित्तमभोग्यं संभविष्यति ॥ ७७ ॥
तथा देवगणाः सर्वे साहाय्यं ये समाश्रिताः ॥
अत्र कुर्वंति दोषाढ्ये यज्ञे वै पांचभर्तृके ॥ ७८ ॥
संतानेन परित्यक्तास्ते भविष्यंति सांप्रतम्॥
दानवैश्च पराभूता दुःखं प्राप्स्यति केवलम् ॥ ७९ ॥
एतस्याः पार्श्वतश्चान्याश्चतस्रो या व्यवस्थिताः ॥
आभीरीति सप त्नीति प्रोक्ता ध्यानप्रहर्षिताः ॥ ६.१९२.८० ॥
मम द्वेषपरा नित्यं शिवदूतीपुरस्सराः ॥
तासां परस्परं संगः कदाचिच्च भविष्यति ॥ ८१ ॥
नान्येनात्र नरेणापि दृष्टिमात्रमपि क्षितौ ॥
पर्वताग्रेषु दुर्गेषु चागम्येषु च देहिनाम् ॥
वासः संपत्स्यते नित्यं सर्वभोगविवर्जितः ॥ ८२ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वाऽथ सावित्रीकोपोपहतचेतसा ॥
विसृज्य देवपत्नीस्ताः सर्वा याः पार्श्वतः स्थिताः ॥ ८३ ॥
उदङ्मुखी प्रतस्थे च वार्यमाणापि सर्वतः ॥
सर्वाभिर्देवपत्नीभिर्लक्ष्मीपूर्वाभिरेवच ॥८४॥
तत्र यास्यामि नो यत्र नामापि किल वै यतः ॥
श्रूयते कामुकस्यास्य तत्र यास्याम्यहं द्रुतम् ॥८५॥
एकश्चरणयोर्न्यस्तो वामः पर्वतरोधसि ॥
द्वितीयेन समारूढा तस्यागस्य तथोपरि ॥८६॥
अद्यापि तत्पदं वामं तस्यास्तत्र प्रदृश्यते ॥
सर्वपापहरं पुण्यं स्थितं पर्वतरोधसि ॥ ८७ ॥
अपि पापसमाचारो यस्तं पूजयते नरः ॥
सर्वपातकनिर्मुक्तः स याति परमं पदम् ॥ ८८ ॥
यो यं काममभि ध्याय तमर्चयति मानवः ॥
अवश्यं समवाप्नोति यद्यपि स्यात्सुदुर्लभम्॥ ८९ ॥
॥ सूत उवाच ॥ ॥
एवं तत्र स्थिता देवी सावित्री पर्वता श्रया ॥
अपमानं महत्प्राप्य सकाशात्स्वपतेस्तदा ॥ ६.१९२.९० ॥
यस्तामर्चयते सम्यक्पौर्णमास्यां विशेषतः ॥
सर्वान्कामानवाप्नोति स मनोवांछितां स्तदा ॥ ९१ ॥
या नारी कुरुते भक्त्या दीपदानं तदग्रतः ॥
रक्ततंतुभिराज्येन श्रूयतां तस्य यत्फलम् ॥ ९२ ॥
यावन्तस्तंतवस्तस्य दह्यंते दीप संभवाः ॥
मुहूर्तानि च यावंति घृतदीपश्च तिष्ठति ॥
तावज्जन्मसहस्राणि सा स्यात्सौभाग्यभांगिनी ॥ ९३ ॥
पुत्रपौत्रसमोपेता धनिनी शील मंडना। ॥
न दुर्भगा न वन्ध्या च न च काणा विरूपिका ॥ ९४ ॥
या नृत्यं कुरुते नारी विधवापि तदग्रतः ॥
गीतं वा कुरुते तत्र तस्याः शृणुत यत्फलम् ॥ ९५ ॥
यथायथा नृत्यमाना स्वगात्रं विधुनोति च ॥
तथातथा धुनोत्येव यत्पापं प्रकृतं पुरा ॥ ९६ ॥
यावन्तो जन्तवो गीतं तस्याः शृण्वंति तत्र च ॥
तावंति दिवि वर्षाणि सहस्राणि वसेच्च सा ॥ ९७ ॥
सावित्रीं या समुद्दिश्य फलदानं करोति सा ॥
फलसंख्याप्रमाणानि युगानि दिवि मोदते ॥ ९८ ॥
मिष्टान्नं यच्छते यश्च नारीणां च विशेषतः ॥
तस्या दक्षिणमूर्तौ च भर्त्राढ्यानां द्विजोत्तमाः ॥
स च सिक्थप्रमाणानि युगा नि दिवि मोदते ॥९९॥
यः श्राद्धं कुरुते तत्र सम्यक्छ्रद्धासमन्वितः ॥
रसेनैकेन सस्येन तथैकेन द्विजोत्तमाः ॥
तस्यापि जायते पुण्यं गयाश्राद्धेन यद्भवेत् ॥ ६.१९२.१०० ॥
यः करोति द्विजस्तस्या दक्षिणां दिशमाश्रितः ॥
सन्ध्योपासनमेकं तु स्वपत्न्या क्षिपितैर्जलैः ॥ १०१ ॥
सायंतने च संप्राप्ते काले ब्राह्मणसत्तमाः॥
तेन स्याद्वंदिता संध्या सम्यग्द्वादशवार्षिकी ॥ १०२ ॥
यो जपेद्ब्राह्मणस्तस्याः सावित्रीं पुरतः स्थितः ॥
तस्य यत्स्यात्फलं विप्राः श्रूयतां तद्वदामि वः ॥ १०३ ॥
दशभिर्ज्जन्मजनितं शतेन च पुरा कृतम् ॥
त्रियुगे तु सहस्रेण तस्य नश्यति पातकम् ॥ १०४ ॥
तस्मात्सर्वप्रयत्नेन चमत्कारपुरं प्रति ॥
गत्वा तां पूजयेद्देवीं स्तोतव्या च विशेषतः ॥ १०५ ॥
सावित्र्या इदमाख्यानं यः पठेच्छृणुयाच्च वा ॥
सर्वपापविनिर्मुक्तः सुखभागत्र जायते ॥ १०६ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽहं द्विजोत्तमाः ॥
सावित्र्याः कृत्स्नं माहात्म्यं किं भूयः प्रवदाम्यहम् ॥ १०७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सावित्रीमाहात्म्यवर्णनंनाम द्विनवत्युत्तरशततमोऽध्यायः ॥ १९२ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 193
॥ ऋषय ऊचुः ॥ ॥
एवं गतायां सावित्र्यां सकोपायां च सूतज ॥
किं कृतं तत्र गायत्र्या ब्रह्माद्यैश्चापि किं सुरैः ॥ १ ॥
एतत्सर्वं समाचक्ष्व परं कौतूहलं हि नः ॥
कथं शापान्विता देवाः संस्थितास्तत्र मण्डपे ॥ २ ॥
॥ सूत उवाच ॥ ॥
गतायामथ सावित्र्यां शापं दत्त्वा द्विजोत्तमाः ॥
गायत्री सहसोत्थाय वाक्यमेतदुदैरयत् ॥ ३ ॥
सावित्र्या यद्वचः प्रोक्तं तन्न शक्यं कथंचन ॥
अन्यथा कर्तुमेवाथ सर्वैरपि सुरासुरैः ॥ ४ ॥
महासती महाभागा सावित्री सा पतिव्रता ॥
पूज्या च सर्वदेवानां ज्येष्ठा श्रेष्ठा च सद्गणैः ॥ ५ ॥
परं स्त्रीणां स्वभावोऽयं सर्वासां सुरसत्तमाः॥
अपि सह्यो वज्रपातः सपत्न्या न पुनः कथा ॥६॥
मत्कृते येऽत्र शपिता सावित्र्या ब्राह्मणाः सुराः ॥
तेषामहं करिष्यामि शक्त्या साधारणां स्वयम् ॥ ७ ॥
अपूज्योऽयं विधिः प्रोक्तस्तया मंत्रपुरःसरः ॥
सर्वेषामेव वर्णानां विप्रादीनां सुरो त्तमाः ॥ ८ ॥
ब्रह्मस्थानेषु सर्वेषु समये धरणीतले ॥
न ब्रह्मणा विना किंचित्कृत्यं सिद्धिमुपैष्यति ॥ ९ ॥
कृष्णार्चने च यत्पुण्यं यत्पुण्यं लिंग पूजने ॥
तत्फलं कोटिगुणितं सदा वै ब्रह्मदर्शनात् ॥
भविष्यति न सन्देहो विशेषात्सर्वपर्वसु ॥ ६.१९३.१० ॥
त्वं च विष्णो तया प्रोक्तो मर्त्यजन्म यदाऽप्स्यसि ॥
तत्रापि परभृत्यत्वं परेषां ते भविष्यति ॥११॥
तत्कृत्वा रूपद्वितयं तत्र जन्म त्वमाप्स्यसि ॥
यत्तया कथितो वंशो ममायं गोपसंज्ञितः ॥
तत्र त्वं पावनार्थाय चिरं वृद्धिमवाप्स्यसि ॥ १२ ॥
एकः कृष्णाभिधानस्तु द्वितीयोऽर्जुनसंज्ञितः ॥
तस्यात्मनोऽर्जुनाख्यस्य सारथ्यं त्वं करिष्यसि ॥ १३ ॥
तेनाकृत्येऽपि रक्तास्ते गोपा यास्यंति श्लाघ्यताम् ॥
सर्वेषामेव लोकानां देवानां च विशेषतः ॥ १४ ॥
यत्रयत्र च वत्स्यंति मद्वं शप्रभवानराः ॥
तत्रतत्र श्रियो वासो वनेऽपि प्रभविष्यति ॥ १५ ॥
भोभोः शक्र भवानुक्तो यत्तया कोपयुक्तया ॥
पराजयं रिपोः प्राप्य कारा गारे पतिष्यति ॥ १६ ॥
तन्मुक्तिं ते स्वयं ब्रह्मा मद्वाक्येन करिष्यति ॥ १७ ॥
ततः प्रविष्टः संग्रामे न पराजयमाप्स्यसि ॥
त्वं वह्ने सर्वभक्षश्च यत्प्रोक्तो रुष्टया तया ॥ १८ ॥
तदमेध्यमपि प्रायः स्पृष्टं तेऽर्च्चिर्भिरग्रतः ॥
मेध्यतां यास्यति क्षिप्रं ततः पूजामवाप्त्यसि ॥ १९ ॥
स्वाहा नाम च भार्या या देवान्सन्तर्पयिष्यति ॥
स्वधा चाऽपि पितॄन्सर्वान्मम वाक्यादसंशयम् ॥६.१९३.२॥।
यद्रुद्र प्रियया सार्धं वियोगः कथितस्तया ॥
तस्याः श्रेष्ठ तरा चान्या तव भार्या भविष्यति ॥
गौरीनामेति विख्याता हिमाचलसुता शुभा ॥ २१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गायत्रीवरप्रदानोनाम त्रिनवत्युत्तरशततमोऽध्यायः ॥ १९३ ॥ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 194
॥ सूत उवाच ॥ ॥
एवं सा तान्वरान्दत्त्वा सर्वेषां शापभागिनाम् ॥
मौनव्रतपरा भूत्वा निविष्टाऽथ धरातले ॥ १ ॥
ततो देवगणाः सर्वे तापसाश्च महर्षयः ॥
साधुसाध्विति तां प्रोच्य ततः प्रोचुरिदं वचः ॥ २ ॥
एतां देवीप्रसादेन ब्राह्मणानां विशेषतः ॥
पूजयिष्यंति मर्त्येऽत्र सर्वे लोकाः समाहिताः ॥ ३ ॥
ब्रह्माणं पूजयित्वा तु पश्चादेनां सुरेश्वरीम् ॥
पूजयिष्यंति ये मर्त्यास्ते तु यांति परां गतिम् ॥ ४ ॥
या कन्या पतिसंयोगं संप्राप्यात्र समाहिता ॥
ततः पादप्रणामं च गायत्र्याश्च करिष्यति ॥
पतिं प्रजापतिं प्राप्य सा भविष्यत्यसंशयम् ॥ ५ ॥
सर्वकामसुखोपेता धनधान्यसमन्विता ॥
या नारी दुर्भगा वंध्या भविष्यति च शोभना ॥ ६ ॥
॥ ऋषय ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तं गते पंचोत्तरे शते ॥
पद्मजानां हरः प्रादादेतत्कथमनुत्त मम् ॥ ७ ॥
ब्राह्मणेभ्यः स संतुष्टः किंवाऽन्योऽस्ति महेश्वरः ॥
एतं नः संशयं भूयो यथावद्वक्तुमर्हसि ॥ ८ ॥
आयुष्यं शंकरस्यापि यत्प्रमाणं तथा हरेः ॥
ब्रह्मणोऽपि समाचक्ष्व परं कौतूहलं हि नः ॥ ९ ॥
॥ सूत उवाच ॥ ॥
अहं वः कीर्तयिष्यामि विस्तरेण द्विजोत्तमाः ॥
त्रयाणामपि चायुष्यं यत्प्रमाणं व्यवस्थितम् ॥ ६.१९४.१० ॥
निमेषस्य चतुर्भागस्त्रुटिः स्यात्तद्द्वयं लवः ॥
लवद्वयं कला प्रोक्ता काष्ठा तु दशपंचभिः ॥ ११ ॥
त्रिंशत्काष्ठां कलामाहुः क्षणस्त्रिंशत्कलो मतः ॥
मुहूर्तमानं मौहूर्ता वदंति द्वादशक्षणम् ॥ १२ ॥
त्रिंशन्मुहूर्तमुद्दिष्टमहोरात्रं मनीषिभिः ॥
मासस्त्रिंशदहोरात्रैर्द्वौ मासावृतुसंज्ञितः ॥ १३ ॥
ऋतुत्रयं चायनं च अयने द्वे तु वत्सरम् ॥
दैविकं च भवेत्तच्च ह्यहोरात्रं द्विजोत्तमाः ॥ १४ ॥
उत्तरं चायनं तत्र दिनं रात्रिस्तथाऽपरम्॥
लक्षैः सप्तदशाख्यैस्तु मनुष्याणां च वत्सरैः ॥ १५ ॥
अष्टाविंशतिभिश्चैव सहस्रैस्तु तथा परैः ॥
आद्यं कृतयुगं चैव तद्भ विष्यति सद्द्विजाः ॥ १६ ॥
ततो द्वादशभिर्लक्षैः षोडशानां सहस्रकैः ॥
त्रेतायुगं समादिष्टं द्वितीयं द्विजसत्तमाः ॥ १७ ॥
द्वापरं चाष्टभिर्लक्षैस्तृ तीयं परिकीर्तितम् ॥
चतुःषष्टिसहस्रैस्तु यथावत्परिसंख्यया ॥ १८ ॥
चतुर्लक्षं समादिष्टं युगं कलिसमुद्भवम् ॥
द्वात्रिंशता सहस्रैस्तु चतुर्थं तद्विदुर्बुधाः ॥ १९॥
चतुर्युगसहस्रेण दिनं पैतामहं भवेत् ॥
तेषां त्रिंशद्दिनैर्मासो मासैर्द्वादशभिर्वत्सरो भवेत् ॥६.१९४.२॥।
ब्रह्मा तेषां शतं यावत्स जीवति पितामहः ॥
सांप्रतं चाष्टवर्षीयः षण्मासश्चैव संस्थितः ॥२१॥
प्रतिपद्दिवसस्यास्य प्रथमस्य तथा गतम् ॥
यामद्वयं शुक्रवारे वर्तमाने महात्मनः ॥ ॥२२॥
ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते ॥२३॥
सोपि वर्षशतंयावदात्ममानेन जीवति ॥
पंचपचाशदादिष्टास्तस्य जातस्य वत्सराः ॥ २४ ॥
तिथयः पंच यामार्द्धं सोमवारेण संगतम् ॥
वैष्णवेन तु वर्षेण दिनं माहेश्वरं भवेत् ॥ २५ ॥
शिवो वर्षशतं यावत्तेन रूपेण च स्थितः ॥
यावदुच्छ्वसितं वक्त्रं सदाशिवसमुद्भवम् ॥ २६ ॥
पश्चाच्छक्तिं समभ्येति यावन्निश्वसितं भवेत् ॥
निश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम् ॥ २७ ॥
ब्रह्मविष्णुशिवानां च गन्धर्वोरगरक्षसाम् ॥
एकविंशत्सहस्राणि शतैः षड्भिः शतानि च ॥ २८ ॥
अहोरात्रेण चोक्तानि प्रमाणे द्विज सत्तमाः ॥
षड्भिरुच्छ्वासनिश्वासैः पलमेकं प्रवर्तते ॥ २९ ॥
नाडी षष्टिपला प्रोक्ता तासां षष्ट्या दिनं निशा ॥
निश्वासोच्छ्वसितानां च परिसंख्या न विद्यते ॥
सदाशिवसमुत्थानामेतस्मात्सोऽक्षयः स्मृतः ॥ ६.१९४.३० ॥
अन्येऽपि ये प्रगच्छंति ब्रह्मज्ञानसमन्विताः ॥
अक्षयास्तेऽपि जायंते सत्यमेतन्मयोदितम् ॥ ३१ ॥
॥ ऋषय ऊचुः ॥ ॥
यद्येवं सूतपुत्रात्र ब्रह्मविष्णुमहेश्वराः ॥
आत्मवर्षशते पूर्णे यांति नाशमसंशयम् ॥ ॥ ३२ ॥
तत्कथं मानुषाणां च मर्त्यलोकेल्पजीविनाम् ॥
कथयंति च ये मुक्तिं विद्वांसश्चैव सूतज ॥ ३३ ॥
नूनं तेषां मृषा वादो मोक्षमार्गसमु द्भवः ॥ ३४ ॥
॥ सूत उवाच ॥ ॥
अनादिनिधनः कालः संख्यया परिवर्जितः ॥
असंख्याता गता मोक्षं ब्रह्मविष्णुमहेश्वराः ॥ ३५ ॥
निजे वर्षशते पूर्णे वालुकारेणवो यथा ॥
निजमानेन या श्रद्धा ब्रह्मज्ञानसमुद्भवा ॥
तेषां चेन्मानुषाणां च तन्मुक्तिः स्यादसंशयम् ॥ ३६॥
यथैते दंशमशका मानुषाणां च कीटकाः ॥
जायंते च म्रियंते च गण्यंते नैव कुत्रचित् ॥
इन्द्रादीनां तथा मर्त्याः संभाव्या जगतीतले ॥ ३७ ॥
देवानां च यथा मर्त्याः कीटस्थाने च संस्थिताः ॥
तथा देवा अपि ज्ञेया ब्रह्मणोऽव्यक्तजन्मनः ॥ ३८ ॥
ब्रह्मणस्तु यथा देवाः कीटस्थाने व्यवस्थिताः ॥
तथा ब्रह्मापि विष्णोश्च कीटस्थाने व्यवस्थितः ॥ ३९ ॥
पितामहो यथा विष्णोः कीटस्थाने व्यवस्थितः ॥
तथा स शिवशक्तिभ्यां परिज्ञेयो द्विजोत्तमाः ॥ ६.१९४.४० ॥
यथा विष्णुः कृमिर्ज्ञेयस्ताभ्यामेव द्विजोत्तमाः ॥
सदाशिवस्य विज्ञेयौ तथा तौ कृमिरूपकौ ॥ ४१ ॥
एवं च विविधैर्यज्ञैः श्रद्धा पूतेन चेतसा ॥
ब्रह्मज्ञानात्परं यांति सदाशिवसमुद्भवम् ॥ ४२ ॥
अग्निष्टोमादिभिर्यज्ञैः कृतैः संपूर्णदक्षिणैः ।।
तदर्थं ते दिवं यांति भुक्त्वा भोगान्पृथग्विधान् ॥ ४३ ॥
क्षये च पुनरायांति सुकृतस्य महीतले ॥
ब्रह्मज्ञानात्परं प्राप्य पुनर्जन्म न विद्यते ॥ ४४ ॥
तस्मात्सर्वप्रयत्नेन तत्राभ्यासं समा चरेत् ॥
जन्मभिर्बहुभिः पश्चाच्छनैर्मुक्तिमवाप्नुयात् ॥ ४५ ॥
एकजन्मनि संप्राप्तो लेशो ज्ञानस्य तस्य च ॥
द्वितीये द्विगुणस्तस्य तृतीये त्रिगु णो भवेत् ॥ ४६ ॥
एकोत्तरो भवेदेवं सदा जन्मनिजन्मनि ॥ ४७ ॥
॥ ऋषय ऊचुः ॥ ॥
ब्रह्मज्ञानस्य संप्राप्तिर्मर्त्यानां जायते कथम् ॥
एतन्नः सर्वमाचक्ष्व यदि त्वं वेत्सि सूतज ॥ ४८ ॥
।। सूत उवाच ॥ ॥
का शक्तिर्मम वक्तव्ये ज्ञाने मर्त्यसमुद्भवे ॥
स्वयमेव न यो वेत्ति स परस्य वदेत्कथम् ॥ ४९ ॥
उपदेशः परं यो मे पित्रा दत्तो द्विजोत्तमाः ॥
तमहं वः प्रवक्ष्यामि ब्रह्मज्ञानसमुद्भवम् ॥ ६.१९४.५० ॥
हाटकेश्वरजे क्षेत्रे ह्यस्ति तीर्थद्वयं शुभम् ॥
कुमारिकाभ्यां विहितं ब्रह्मज्ञानप्रदं नृणाम् ॥ ५१ ॥
ब्राह्मण्या चैव शूद्र्या च कुमारीभ्यां विनिर्मितम् ॥
अष्टम्यां च चतुर्दश्यां यस्ताभ्यां स्नानमाचरेत् ॥ ५२ ॥
पश्चात्पूजयते भक्त्त्या प्रसिद्धे सिद्धिपादुके ॥
सुगुप्ते गर्तमध्यस्थे कुमार्या परिपूजिते ॥ ५३ ॥
तस्य संवत्सरस्यान्ते ब्रह्मज्ञानं प्रजायते ॥
शक्त्या विनिहिते ते च स्वदर्शनविवृद्धये ॥ ५४ ॥
लोकानां मुक्तिकामानां ब्रह्मज्ञानसुखावहे ॥
मम तातो गतस्तत्र ततश्च ज्ञानवान्स्थितः ॥ ५५ ॥
तस्यादेशादहं तत्र गतः संवत्सरं स्थितः ॥
पादुके पूजयामास ततो ज्ञानं च संस्थितम् ॥ ५६ ॥
यत्किञ्चिद्वा श्रुतं लोके पुराणाग्र्यं व्यवस्थितम् ॥
वर्तमानं भविष्यच्च तदहं वेद्मि भो द्विजाः ॥ ५७ ॥
तत्प्रसादादसंदिग्धं प्रमाणं चात्र संस्थितम् ॥
मुक्त्वैकं वेदपठनं सूतत्वं च यतो मयि ॥ ५८ ॥
तस्यापि वेद्मि सर्वार्थं भर्तृयज्ञो यथा मुनिः ॥
अस्मादत्रैव गच्छध्वं यदि मुक्तेः प्रयोजनम् ॥ ॥ ५९ ॥
किमेतैः स्वर्गदैः सत्रैः पुनरावृत्तिकारकैः ॥
आराधयध्वं ते गत्वा पादुके सिद्धिदे नृणाम् ॥
येन संवत्सरस्यान्ते ब्रह्मज्ञानं प्रजायते ॥ ॥ ६.१९४.६० ॥
॥ ऋषय ऊचुः ॥ ॥
साधुसाधु महाभाग ह्युपदेशः कृतो महान् ॥
तेन संतारिताः सर्वे वयं संसारसागरात् ॥ ६१ ॥
यास्यामोऽपि वयं तत्र सत्रे द्वादशवार्षिके ॥
समाप्तेऽस्मिन्न संदेहः सर्वे च कृतनिश्चयाः ॥ ६२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मज्ञानप्राप्त्यर्थं कुमारिकातीर्थद्वयगर्तक्षेत्रस्थपादुकामाहात्म्यवर्णनंनाम चतुर्णवत्युत्तरशततमोऽध्यायः ॥ ॥ १९४ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 195
॥ ऋषय ऊचुः ॥ ॥
शूद्री च ब्राह्मणी चापि ये त्वया परिकीर्तिते ॥
हाटकेश्वरजे क्षेत्रे तीर्थद्वयमनुत्तमम् ॥ १ ॥
तत्कथं तत्र संजातं केन वा तद्विनिर्मितम् ॥
एतच्च सर्वमाचक्ष्व विस्तरेण महामते ॥ २ ॥
पादुकाभ्यां समुत्पत्तिः श्रुताऽस्माभिः पुरा तव ॥
वद तच्चापि माहात्म्यं ताभ्यां चैव समुद्भवम् ॥ ३ ॥
॥ सूत उवाच ॥ ॥
पुरासीन्नागरो विप्रश्छांदोग्य इति विश्रुतः ॥
यस्याऽन्वयेऽपि विप्रेन्द्राश्छान्दोग्या इति विश्रुताः ॥ ४ ॥
सामवेदविदस्तस्य गृहस्थाश्रमधर्मिणः ॥
पश्चिमे वयसि प्राप्ते कन्या जाता सुशोभना ॥ ५ ॥
सर्वैरपि गुणैर्युक्ता सर्वलक्षण लक्षिता ॥
सप्तरक्ता त्रिगंभीरा पञ्चसूक्ष्माऽबृहत्कटिः ॥ ६ ॥
पद्मपत्रविशालाक्षी लंबकेशी सुशोभना ॥
बिंबोष्ठी ह्रस्वलोमा च पूर्णचन्द्रसमप्रभा ॥ ॥ ७ ॥
तस्या नाम पिता चक्रे ब्राह्मणीति द्विजोत्तमाः ॥
यस्मात्सा ब्राह्मणैर्दत्ता मण्डपान्ते सुपूजितैः ॥ ८ ॥
पश्चिमे वयसि प्राप्ते अपत्यरहितस्य च ॥
ववृधे सा च तन्वङ्गी चन्द्रलेखा यथा तथा ॥ ९ ॥
शुक्लपक्षे तु संप्राप्ते जनलोचनतुष्टिदा ॥
यस्मिन्नहनि संजाता छान्दोग्यस्य महात्मनः ॥
आनर्ताधिपतेस्तस्मिंस्तादृग्रूपा सुताऽभवत् ॥ ६.१९५.१० ॥
यस्याः कायप्रभौघेण सर्वं तत्सूतिकागृहम् ॥
निशागमेऽपि संजातं रत्नौघैरिव सुप्रभम् ॥
ततस्तस्याः पिता नाम चक्रे रत्नवतीति च ॥ ११ ॥
अथ सख्यं समापन्ना ब्राह्मण्या सह सा शुभा ॥
नैरन्तर्येण ताभ्यां च वियोगो नैव जायते ॥ ॥ १२ ॥
एकाशनं तथा शय्या एकान्नेन च भोजनम् ॥
अष्टमेऽब्दे च संजाते पिता तस्या द्विजोत्तमाः ॥ १३ ॥
विवाहं चिन्तयामास प्रदानाय वरे तथा ॥
सा ज्ञात्वा चेष्टितं तस्य पितुर्दुःखसमन्विता ॥ १४ ॥
सख्या वियोगभीता च प्रोचे रत्नवती तदा ॥
अश्रुपूर्णेक्षणा दीना बाष्पगद्गदया गिरा ॥ १५ ॥
सखि तातो विवाहं मे प्रकरिष्यति सांप्रतम् ॥
विवाहितायाश्च सख्यं न भविष्यति कर्हिचित् ॥ १६ ॥
वज्रपातोपमं वाक्यं तस्याः श्रुत्वा सखी च सा ॥
रुरोद कण्ठमाश्लिष्य स्नेहव्याकुलितेन्द्रिया ॥ १७ ॥
अथ तद्रुदितं श्रुत्वा माता तस्या मृगावती ॥
ससंभ्रमा समागत्य वाक्यमेतदुवाच ह ॥ १८ ॥
किमर्थं रुद्यते पुत्रि केन ते विप्रियं कृतम् ॥
करोमि निग्रहं येन तस्याद्यैव दुरात्मनः ॥ १९ ॥
॥ रत्नवत्युवाच ॥ ॥
शृणु मे सुप्रियातीव ब्राह्मणी प्राणसंमता ॥
विवाहं प्राप्य कल्याणी प्रयास्यति पतेर्गृहम् ॥६.१९५.२॥।
अनया रहिताहं च न जीवामि कथंचन ॥
एतस्मात्कारणाद्देवि प्ररोदिमि सुदुःखिता ॥ २१ ॥
॥ मृगावत्युवाच ॥ ॥
यद्येवं पुत्रि यत्र त्वं प्रयास्यसि पतेर्गृहे ॥
तस्य राज्ञस्तु यो विप्रः पौरोहित्ये व्यवस्थितः ॥ २२ ॥
तस्य पुत्राय दास्यामि सखीमेनां तव प्रियाम् ॥
तत्रापि येन ते संगो भविष्यत्यनया सह ॥ २३ ॥
एवमुक्त्वा ततो राज्ञी छादोग्यं द्विजसत्तमम् ॥
समानीयाब्रवीदेनं विनयावनता स्थिता ॥२४॥
इयं तव सुता ब्रह्मन्सुताया मम सुप्रिया ॥
न वियोगं सहत्यस्या मुहूर्तमपि भामिनी ॥ २५८ ॥
तथा तव सुतायाश्च सुतेयं मम सुप्रिया ॥
तस्मात्कुरु वचो मह्यं यच्च वक्ष्यामि सुव्रत ॥२६॥
यस्य मे दीयते कन्या कदाचिन्नृपतेरियम् ॥
पुरोधास्तस्य यो विप्रस्तस्मै देया निजा सुता ॥२७॥
येन न स्यान्मिथो भेदस्ताभ्यां द्विजवरोत्तम ॥
एकस्थाने स्थिताभ्यां च प्रसा दात्तव सत्तम ॥ २८ ॥
॥ छांदोग्य उवाच ॥ ॥
नागरो नागरं मुक्त्वा योऽन्यस्मै संप्रयच्छति ॥
कन्यकां यः प्रगृह्णाति विवाहार्थं कथंचन ॥। ॥२९॥
स पंक्तिदूषकः पापान्नागरो न भवेदिह ॥
तस्मान्नाहं प्रदास्यामि कथंचिन्निजकन्यकाम् ॥
अन्यस्मै नागरं मुक्त्वा निश्चयोऽयं मया कृतः ॥ ॥ ६.१९५.३० ॥
॥ ब्राह्मण्युवाच ॥ ॥
नाहं पतिं प्रयास्यामि कुमारी ब्रह्मचारिणी ॥
देया प्रिया सखी यत्र तावद्यास्यामि तत्र च ॥ ३१ ॥
यदि तात बलान्मह्यं विवाहं त्वं करिष्यसि ॥
विषं वा भक्षयिष्यामि साधयिष्यामि पावकम् ॥ ३२ ॥
शस्त्रेण वा हनिष्यामि स्वदेहं तात निश्चयम् ॥।
एवं ज्ञात्वा तु तात त्वं यत्क्षमं तत्समाचर ॥ ३३ ॥
॥ सूत उवाच ॥ ॥
तस्यास्तं निश्चयं ज्ञात्वा स विप्रो दुःखसंयुतः ॥
स्त्रीहत्यापाप भीतस्तु तां त्यक्त्वा स्वगृहं ययौ ॥ ३४ ॥
सापि रेमे तया सार्धं रत्नवत्या द्विजोत्तमाः ॥
संहृष्टहृदया नित्यं संत्यक्तपितृसौहृदा ॥ ३५ ॥
यौवनं सा तु संप्राप्ता रूपेणाप्रतिमा भुवि ॥ ३६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये छान्दोग्यब्राह्मणकन्यावृत्तान्तवर्णनंनाम पञ्चनवत्युत्तरशततमोऽध्यायः ॥ १९५ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 196
॥ सूत उवाच ॥ ॥
अथ तां यौवनोपेतां स्वसुतां प्रेक्ष्य पार्थिवः ॥
अनौपम्येन रूपेण संयुक्तां वरवर्णिनीम् ॥
आनर्तश्चिन्तयामास कन्यकां प्रददाम्यहम् ॥ १ ॥
अनर्हाय च यो दद्या द्वराय निजकन्यकाम् ॥
कार्यकारणलोभेन नरकं स प्रगच्छति ॥ २ ॥
एवं चिंतयतस्तस्य महान्कालो व्यवस्थितः ॥
न पश्यति च तद्योग्यं कंचिद्वरमनुत्तमम् ॥ ३ ॥
अथ संप्रेषयामास सर्वभूताश्रयेषु ये ॥
चित्रकर्मणि विख्यातान्नरांश्चित्रकरांस्तदा ॥ ४ ॥
गच्छध्वं मम वाक्येन सर्वा न्भूमितले नृपान् ॥
लिखित्वा पट्टमध्ये तु दर्शयध्वं ततः परम् ॥ ५ ॥
सुताया मम येनाऽसौ दृष्ट्वाऽभीष्टं नराधिपम् ॥
पत्यर्थं वरयेत्साध्वी मम दोषो भवेन्न हि ॥ ६ ॥
तस्य तद्वचनं श्रुत्वा सर्वे चित्रकरास्तदा ॥
प्रस्थिता धरणीपृष्ठे पार्थिवानां गृहेषु च ॥ ७ ॥
ते लिखित्वा महीपाला न्यौवनस्थान्वयोऽन्वितान् ॥
रूपौदार्यगुणोपेतान्दर्शयामासुरग्रतः ॥
रत्नवत्याः क्रमेणैव तस्य भूपस्य शासनात् ॥ ८ ॥
अथ तेषां तु सर्वेषां मध्ये राजा वृहद्बलः ॥
दशार्णाधिपतिर्भव्यः पत्यर्थं च वृतस्तया ॥ ९ ॥
तदाऽऽनर्ताधिपो हृष्टः प्रेषयामास तं प्रति ॥
विवाहार्थं सुविज्ञाय वाक्य मेतदुवाच ह ॥ ६.१९६.१० ॥
गच्छध्वं मम वाक्येन दशार्णाधिपतिं प्रति ॥
वाच्यः स विनयाद्गत्वा विवाहार्थं ममांतिकम् ॥ ११ ॥
समागच्छ निजां कन्यां येन यच्छाम्यहं तव ॥
नाम्ना रत्नवतीं ख्यातां त्रैलोक्यस्यापि सुन्दरीम् ॥ १२ ॥
गत्वा स सत्वरं तत्र यत्र राजा बृहद्बलः ॥
प्रोवाच सकलं वाक्यमानर्ताधिपतेः स्फुटम् ॥ १३ ॥
सोऽपि तत्सहसा श्रुत्वा तेषां वाक्यमनुत्तमम् ॥
परमां तुष्टिमासाद्य प्रस्थितस्तत्पुरं प्रति ॥
सैन्येन महता युक्तश्चतुरंगेण पार्थिवः ॥ १४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दशार्णाधिपतेर्बृहद्बलस्यानर्तेशपुरं प्रत्यागमनवर्णनंनाम षण्णवत्युत्तरशततमोऽध्यायः ॥ १९६ ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 197
॥ सूत उवाच ॥ ॥
एतस्मिन्नेव काले तु नागरो द्विजसत्तमाः ॥
विश्वावसुरिति ख्यातो वेदवेदांगपारगः ॥ १ ॥
पश्चिमे वयसि प्राप्ते तस्य पुत्रो बभूव ह ॥
परावसुरिति ख्यातस्तस्य प्राणसमः सदा ॥ २ ॥
स वेदाध्ययनं चक्रे यौवने समुपस्थिते ॥
वयस्यैः संमतैः सार्धं सदा हास्य परायणैः ॥ ३ ॥
कस्यचित्त्वथ कालस्य माघमास उपस्थिते ॥
रात्रौ सोऽध्ययनं चक्र उपाध्यायगृहं गतः ॥ ४ ॥
निशीथे स समुत्थाय सर्वैर्मि त्रैश्च रक्षितः ॥
वेश्यागृहं समासाद्य प्रसुप्तो वेश्यया सह ॥ ५ ॥
जलपूर्णं समाधाय जलपात्रं समीपगम् ॥
निजाचमनयोग्यं च जलपानार्थमेव च ॥ ६ ॥
निशाशेषे तु संप्राप्ते स पिपासासमाकुलः ॥
निद्रालस्यसमोपेतः शय्यां त्यक्त्वा समुत्थितः ॥ ७ ॥
वेश्याया मद्यपात्रं तु ह्यधस्तात्सं व्यवस्थितम् ॥
तदादाय पपौ मद्यं जलभ्रांत्या यदैव सः ॥ ८ ॥
तदा मद्यं परिज्ञाय पात्रं त्यक्त्वा सुदुःखितः ॥
वैराग्यं परमं गत्वा प्रलापानकरो द्बहून् ॥ ९ ॥
अहो निद्रान्वितेनाद्य किं मया विकृतं कृतम् ॥
यदद्य मद्यमापीतं जलभ्रांत्या विगर्हितम्॥ ६.१९७.१० ॥
किं करोमि क्व गच्छामि कथं शुद्धिर्भवेन्मम ॥
प्रायश्चित्तं करिष्यामि यद्यपि स्यात्सुदुष्करम् ॥ ११ ॥
एवं निश्चित्य मनसा प्रभाते समुपस्थिते ॥
शंखतीर्थं समासाद्य कृत्वा स्नानं तथा परम् ॥ १२ ॥
सशिखं वपनं पश्चात्कारयित्वा त्वरावितः ॥
गतश्च तिष्ठते यत्र ब्रह्मघोषपरायणः ॥ १३ ॥
उपाध्यायः सशिष्यश्च ब्रह्मस्थानं समाश्रितः ॥
स गत्वा दूरतः स्थित्वा संनिविष्टो यथान्त्यजः ॥१४॥
श्मश्रुमूर्धजहीनस्तु यदा मित्रैर्विलोकितः ॥
तदा हास्याद्धतो मूर्ध्नि हस्ताग्रैश्च मुहुर्मुहुः ॥ १५ ॥
उपाध्यायस्तु तं दृष्ट्वा दीनं बाष्पपरिप्लुतम् ॥
श्मश्रुमूर्धजसंत्यक्तं ततः प्रोवाच सादरम् ॥१६॥
किमद्य वत्स दूरे त्वमुपविष्टस्तु दैन्यधृक् ॥
एहि मे संनिधौ ब्रूहि पराभूतोऽसि केन वा ॥ १७ ॥
॥ परावसुरुवाच ॥ ॥
अयोग्योऽहं गुरो जातः सेवायास्तव सांप्रतम् ॥
वेश्याया मंदिरस्थेन ज्ञात्वा निजकमंडलुम् ॥ १८ ॥
वेश्याया मद्यपात्रं तु मद्यपूर्णं प्रगृह्य च ॥
तस्माद्देहि विभो मह्यं प्रायश्चित्तं विशुद्धये ॥ १९ ॥
धर्मद्रोणेषु यत्प्रोक्तं तत्करिष्याम्यसंशयम् ॥ ६.१९७.२० ॥
अथ तं बटवः प्रोचुर्वयस्यास्तस्य ये स्थिताः ॥
हास्यं कृत्वा प्रकामाश्च वेश्या या गुरुसंनिधौ ॥२१ ॥
या एषा नृपतेः कन्या ख्याता रत्नावती जने ॥
अस्याः स्तनौ गृहीत्वा त्वमधरं पिबसि द्रुतम् ॥
ततस्ते स्याद्विशुद्धिश्च नान्यथा प्रभविष्यति ॥ २२ ॥
॥ परावसुरुवाच ॥ ॥
न वयस्या नर्मकालो विषमे मम संस्थिते ॥
ममोपरि यदि स्नेहो वालमित्रत्वसंभवः ॥
तदानीय द्विजानन्यान्वदध्वं निष्कृतिं मम ॥ २३ ॥
अथ ते नर्ममुत्सृज्य तद्दुःखेन च दुःखिताः ॥
विश्वावसुं समासाद्य तद्वृत्तांतमथाब्रुवन् ॥२४॥
सोऽपि तेषां समाकर्ण्य तत्कर्णकटुकं वचः ॥
सभार्यः प्रययौ तत्र यत्र पुत्रो व्यवस्थितः ॥ २५ ॥
दुःखेन महता युक्तः स्खलमानः पदेपदे ॥
वृद्धभावात्तथा शोकात्पुत्राकृत्यसमुद्भवात् ॥ २६ ॥
ततस्तौ प्रोचतुः पुत्रं बाष्पगद्गदया गिरा ॥
दंपती बहुशोकार्तौ हा पुत्र किमिदं कृतम् ॥
सोऽपि सर्वं समाचख्यौ ताभ्यां वृतांतमात्मनः ॥ २७ ॥
प्रायश्चित्तं करिष्यामि तस्मादात्मविशुद्धये ॥
ततो विश्वावसुर्विप्रान्स्मार्ताञ्छ्रुतिसमन्वितान् ॥
तदर्थमानयामास वेदविद्याविचक्षणान् ॥ २८ ॥
ततः परावसुस्तेषां पुरः स्थित्वा कृतांजलिः ॥
प्रोवाच स्वादितं मद्यं मया रात्रावजानता ॥
वेश्या भांडं समादाय ज्ञात्वा निजकमंडलुम् ॥ २९ ॥
एवं ज्ञात्वा यदर्हं च प्रायश्चित्तं प्रदीयताम् ॥
येन मे जायते शुद्धिः प्रसादाद्वो द्विजोत्तमाः ॥६.१९७.३॥।
एवमुक्तास्ततस्तेन विप्रास्ते स्मृतिवादिनः ॥
धर्मशास्त्रं समालोक्य ततः प्रोचुश्च तं द्विजाः ॥ ३१ ॥
अतिमानादतिक्रोधात्स्नेहाद्वा यदि वा भयात् ॥
प्रायश्चित्तमनर्हं तु ददत्तत्पापमश्नुते ॥ ३२ ॥
प्रायश्चित्तं प्रदास्यामस्तस्माद्युक्तं वयं तव ॥
यदि शक्नोषि तत्कर्तुं तत्कुरुष्व समाहितः ॥ ३३ ॥ ॥
॥ परावसुरुवाच ॥ ॥
करोमि वो न चेद्वाक्यं तत्पृच्छामि कुतो द्विजाः ॥
नाहं केनापि संदृष्टो मद्यपानं समाचरन् ॥ ३४ ॥
तस्माद्ब्रूत यथार्हं मे प्रायश्चित्तं विशुद्धये ॥
अपि प्राणहरं रौद्रं नो चेत्पापमवाप्स्यथ ॥ ३५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
बुध्यमानो द्विजो यस्तु मद्यपानं समाचरेत् ॥
तावन्मात्रं हिरण्यं च तप्तं पीत्वा विशुध्यति ॥ ३६ ॥
अज्ञानतो यदा पीतं मद्यं विप्रेण कर्हिचित् ॥
अग्नितुल्यं घृतं पीत्वा तावन्मात्रं विशुध्यति ॥ ॥ ३७ ॥
एवं ते सर्वमाख्यातं प्रायश्चित्तं विशुद्धये ॥
यदि शक्तोषि चेत्कर्तुं कुरुष्व त्वं द्विजोत्तम ॥ ३८ ॥
॥ परावसुरुवाच ॥ ॥
गंडूषमेकं मद्यस्य मया पीतं द्विजोत्तमाः ॥
तावन्मात्रं पिबाम्येव घृतं वह्निसमं कृतम् ॥ ३९ ॥
युष्मदादेशतोऽद्यैव स्वशरीरविशुद्धये ॥
विश्वावसुश्च तच्छ्रुत्वा वज्रपातोपमं वचः ॥ ६.१९७.४० ॥
विप्राणां चाथ पुत्रस्य तदोवाच सुदुःखितः ॥
कृत्वाश्रुमोक्षणं भूरि बाष्पगद्गदया गिरा ॥ ४१ ॥
सर्वस्वमपि दास्यामि पुत्रस्यास्य विशुद्धये ॥
प्रायश्चित्तं समाचर्तुं न दास्यामि कथंचन ॥ ४२ ॥
अश्राद्धेयो विपांक्तेयः सपुत्रो वा भवाम्यहम्॥
स्थानं वा संत्यजाम्येतत्पुत्र मैवं समाचर ॥ ४३ ॥
तच्छ्रुत्वा वचनं तस्य पितुर्विघ्नकरं परम् ॥
प्रायश्चित्तस्य सस्नेहं पुत्रो वचनमब्रवीत् ॥ ४४ ॥
त्यज तात मम स्नेहं मा विघ्नं मे समाचर ॥
प्रायश्चित्तं करिष्यामि निश्चयोऽयं मया कृतः ॥ ४५ ॥
॥मातोवाच ॥ ॥
यदि पुत्र त्वया कार्यं प्रायश्चित्तं विशुद्धये ॥
तदहं पतिना सार्धं प्रवेक्ष्यामि पुरोऽनलम् ॥ ४६ ॥
त्वां द्रष्टुं नैव शक्रोमि पिबंतमग्निवद्घृतम् ॥
पश्चात्प्राणपरित्यक्तं सत्येना त्मानमालभे ॥ ४७ ॥
॥ पितोवाच ॥ ॥
युक्तं पुत्रानया प्रोक्तं मात्रा तव हितं तथा ॥
ममापि संमतं ह्येतत्करिष्यामि न संशयः ॥ ४८ ॥ ॥
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे सर्वे सुहृदस्तस्य ये स्थिताः १।
तच्छ्रुत्वा तं समायाता वृत्तांतं दुःखसंयुताः ॥ ४९ ॥
प्रोचुश्च विविधैर्वाक्यैः सपत्नीकं विभावसुम् ॥
पुत्रशोकेन संतप्तं मरणे कृतनिश्चयम् ॥६.१९७.५॥।
पुत्रं प्रबोधयामासुः प्रायश्चित्तनिवृत्तये ॥
तदा न शक्नुवंति स्म निवर्तयितुमं जसा ॥ ५१ ॥
तावुभौ च पितापुत्रौ प्राणत्यागकृतादरौ ॥ ५२ ॥
ततो वास्तुपदं जग्मुः सर्वज्ञो यत्र तिष्ठति ॥
भर्तृयज्ञो महाभागः सर्वसंदेह वारकः ॥ ५३ ॥
तस्य सर्वं समाचख्युः परावसुसमुद्भवम् ॥
वृत्तांतं मद्यपानोत्थं यन्मित्रैस्तस्य कीर्तितम् ॥ ५४ ॥
प्रायश्चित्तं तु हास्येन यच्च स्मार्तैः प्रकीर्तितम् ॥
विश्वावसोश्च संकल्पं वह्निसाधनसंभवम् ॥ ५५ ॥
सपत्नीकस्य मित्राणां यच्च दुःखमुपस्थितम् ॥
निवेद्य तत्तथा प्रोचुर्भू योऽपिविनयान्वितम् ॥ ५६ ॥
अतीतं वर्तमानं च भविष्यद्वापि यद्भवेत् ॥
न तेऽस्त्यविदितं किंचित्सर्वं जानीमहे वयम् ॥ ५७ ॥
एतच्च नगरं सर्वं विश्वावसुकृतेऽधुना ॥
संशयं परमं प्राप्तं तेन प्राप्तास्तवांतिकम् ॥ ५८ ॥
तस्माद्ब्रूहि महाभाग यद्यस्त्यपरमेव हि ॥
प्रायश्चित्तं द्विजस्यास्य मद्यपानविशुद्धये ॥ ५९ ॥
न ते ह्यविदितं किंचित्तव वेदसमुद्भवम् ॥
भर्तृयज्ञो विहस्योच्चैस्ततो वचनमब्रवीत् ॥ ६.१९७.६० ॥
ब्राह्मणस्यास्य शुद्ध्यर्थमप्ययुपायः सुखावहः ॥
विद्यमानोऽपि नास्त्येव मतिरेषा स्थिता मम ॥ ६१ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥ पूर्वापरविरोधे नवाक्यमेतन्महामते ॥
कथमस्ति कथं नास्ति तस्मात्त्वं वक्तुमर्हसि ॥
विस्मयोऽयं महाञ्जातः सर्वेषां च द्विजन्मनाम् ॥ ६२ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
जपच्छिद्रं तपश्छिद्रं यच्छिद्रं यज्ञकर्मणि ॥
सर्वं भवति निश्छिद्रं यस्य चेच्छंति ब्राह्मणाः ॥ ६३ ॥
अच्छिद्रमिति यद्वाक्यं वदंति क्षितिदेवताः ॥
विशेषान्नागरोद्भूतास्तत्तथैव न चान्यथा ॥६४॥
तथा च ब्रह्मशालायां संस्थितैर्यदुदाहृतम् ॥
नान्यथा तत्परिज्ञेयं हास्येनापि स्मृतिं विना ॥ ६५ ।।
स एष हास्यभावेन प्रोक्तो मित्रैः परावसुः ॥ ६६ ॥
रत्नवत्याः स्तनौ गृह्य यद्यास्वादयतेऽधरम्॥
तद्भविष्यति मे शुद्धिर्मद्यपान समुद्भवा ॥ ६७ ॥
तदुपायो मया प्रोक्तो विप्रस्यास्य सुखावहः ॥
पराशरमतेनैव करोति यदि शुध्यति ॥ ६८ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यद्येतच्छुणुते राजा वाक्यमीर्ष्यापरायणः ॥
तत्सर्वेषां वधं कुर्याद्विप्राणामन्यथा भवेत् ॥ ६९ ॥
तस्मात्करोतु चाभीष्टमेष विप्रः परावसुः ॥
मातापितृसमोपेतो वयं यास्यामहे गृहम् ॥ ६.१९७.७० ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
स राजा नीतिमान्विज्ञः सर्वधर्मपरायणः ॥
भक्तो देवद्विजानां च सर्वशास्त्र विचक्षणः ॥ ७१ ॥
तस्मान्मया समं सर्वे नागरायांतु तद्ग्रहे ॥ ७२ ॥
मध्यगं पुरतः कृत्वा तद्वक्त्रेण च तत्पुरः ॥
कथयंतु च वृत्तांतं मद्यपान समुद्भवम्॥ ७३ ॥
परावसोश्च यत्प्रोक्तं वयस्यैर्हास्यमाश्रितैः ॥
पराशरसमुत्थं च यद्वाक्यं तत्स्मृतेः परम् ॥ ७४ ॥
तच्छ्रुत्वा यदि भूपाल ईर्ष्या लोभसमन्वितः ॥
भविष्यति ततोऽहं तं धारयिष्यामि सत्पथे ॥ ७५ ॥
॥ सूतउवाच ॥ ॥
ततस्ते नागराः सर्वे सन्तोषं परमं गताः ॥
साधुवादैः समभ्यर्च्य भर्तृयज्ञं पृथग्विधैः ॥ ७६ ॥
तेनैव सहितं तूर्णं मध्ये कृत्वा च मध्यगम् ॥
गर्त्तातीर्थसमुद्भूतं वेदवेदांगपारगम् ॥ ७७ ॥
स्मृतिज्ञं लक्षणज्ञं तमाहिताग्निं यशस्विनम् ॥
यष्टारं बहुयज्ञानां भर्तृयज्ञमते स्थितम् ॥ ७८ ॥
आनर्तेनापि भूपेन स्वर्गभ्रष्टेन वै पुरा ॥
कर्णोत्पलाजनित्रेण यश्च पूर्वं चिरन्तनः ॥ ७९ ॥
चमत्कारपुरे न्यस्तः स्थानेऽस्मिन्विप्रगौरवात् ॥
येन सिध्यंति कार्याणि सर्वेषां च द्विजन्मनाम् ॥ ६.१९७.८० ॥
तथा चैव तु चान्यानि चमत्कारपुरस्य च ॥
हरिभद्राभिधानं तं भर्तृयज्ञसमन्वितम् ॥ ८१ ॥
कृत्वा ते नागराः सर्वे राजद्वारमुपागताः ॥
परावसुं समादाय मातापितृसमन्वितम् ॥ ८२ ॥
अथ द्वाःस्थो द्रुतं गत्वा भूपतेस्तान्न्यवेदयत् ॥
ब्राह्मणान्भर्तृयज्ञेन हरिभद्रेण संयुतान् ॥ ८३ ॥
आनर्तोऽपि च ताञ्छ्रुत्वा राजद्वारसमागतान् ॥
पुरोधसा समायुक्तः संमुखं प्रययौ तदा ॥ ८४ ॥
दत्त्वार्घं मधुपर्कं च विष्टरं गां तथा नृपः ॥
प्रथमं भर्तृयज्ञाय हरिभद्राय वै ततः ॥ ८५ ॥
चतुर्णां मुद्गहस्तानां तथान्येषां द्विजन्मनाम् ॥
आद्यऋग्यजुःसाम्नां च प्रगृह्याशीर्वचः परम् ॥ ८६ ॥
सभामंडपमासाद्य सर्वान्समुपवेशयत् ॥
वरासनेषु हैमेषु यथावदनुपूर्वशः ॥ ९७ ॥
तथा तेषूपविष्टेषु सर्वेषु पृथिवीपतिः ॥
उपविश्य धरापृष्ठे कृतांजलिर भाषत ॥ ८८ ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मे गृहमुपागतः ॥
सर्वोऽयं नागरो लोको भर्तृयज्ञसमन्वितः ॥ ८९ ॥
तदादिशतु मां लोको यत्कृत्यं प्रकरोमि वः॥
अदेयमपि यच्छामि गृहायातस्य सांप्रतम् ॥ ६.१९७.९० ॥
अगम्यमपि यास्यामि करिष्येऽकृत्यमेव च ॥
तच्छ्रुत्वा हरिभद्रः स समुत्थाय त्वरान्वितः ॥ ९१ ॥
पप्रच्छाद्यांस्तदर्थं च बह्वृचांस्तदनंतरम् ॥
अध्वर्यूंश्चैव छांदोग्याननुज्ञातश्च तैस्तदा ॥ ९२ ॥
प्राणरुद्रान्वदंत्वाद्या जीवसूक्तं च बह्वृचाः ॥
एषां चैव पृथिव्यादिसवनं यत्पुरा कृतम् ॥ ९३ ॥
पठन्त्वध्वर्यवः सर्वे छांदोग्याश्च पृथक्पृथक् ॥
मधुच्युतेन संयुक्तं प्रपठन्तु च सिद्धये ॥ ९४ ॥
भर्तृयज्ञमतेनैवं तेन प्रोक्ता द्विजोत्तमाः ॥
पप्रच्छुश्चैव तत्सर्वं यत्प्रोक्तं तेन धीमता ॥ ॥ ९५ ॥
ततः पाठावसाने तु मध्यगः प्राह सादरम् ॥
परावसुसमुद्भूतं वृत्तांतं तस्य भूपतेः ॥ ९६ ॥
यथा तेनाऽऽसवः पीतो यथा मित्रैः प्रजल्पितम् ॥
प्रायश्चित्तं समादिष्टं यथा स्मार्तैर्घृतोद्भवम् ॥ ९७ ॥
भर्तृयज्ञेन चानीता यथा सर्वे द्विजातयः ॥
तच्छ्रुत्वा पार्थिवो हृष्टः कृतांजलिपुटोऽब्रवीत् ॥ ९८ ॥
धन्योहं कृतपुण्योऽस्मि यस्य मे नागरैर्द्विजैः ॥
विप्रत्रयप्ररक्षार्थं प्रसादोऽयं महान्कृतः ॥ ९९ ॥
धन्या मे कन्यका चेयं रक्षयिष्यति च स्वयम् ॥
ब्राह्मणत्रितयं ह्येतन्मरणे कृतनिश्चयम् ॥ ६.१९७.१०० ॥
अथाऽसावानयामास तां कन्यां तत्क्षणाद्द्विजाः ॥
उपविष्टं सभामध्ये ब्राह्मणेभ्यो न्यवेदयत् ॥ १०१ ॥
एषा कन्या मयानीता युष्मद्वाक्याद्द्विजोत्तमाः ॥
भर्तृयज्ञेन यत्प्रोक्तं तत्करोतु च स द्विजः ॥ १०२ ॥
ततस्तत्र समानीय ब्राह्मण तं परावसुम् ॥
भर्तृयज्ञ इदं वाक्यं कन्यायाः पुरतोऽब्रवीत् ॥ १०३ ॥
इमां त्वं कन्यकां चित्ते जननीं यदि मन्यसे ॥
अधरास्वादनं कुर्वंस्ततः सिद्धिमवाप्स्यसि ॥ १०४ ॥
अनुरागपरो भूत्वा यद्यास्वादनतत्परः ॥
भविष्यति ततो रक्तं तव वक्त्रे परावसो ॥ १०५ ॥
शुद्धस्य त्वथ दुग्धं च भविष्यति न संशयः ॥ १०६ ॥
स्तनाभ्यां तव हस्ताभ्यां स्पर्शात्क्षीरं भवेद्यदि ॥
तत्ते शुद्धिः परिज्ञेया रक्तं वा न भविष्यति ॥ १०७ ॥
एवमुक्त्वाथ तं कन्यां ततः प्रोवाच स द्विजः ॥
एनं त्वं पुत्रवत्पश्य पुत्रि ब्राह्मणसत्तमम् ॥ १०८ ॥
येन शुद्धिमवाप्नोति त्वदोष्ठास्वादने कृते ॥
स्पर्शिताभ्यां स्तनाभ्यां च प्रायश्चित्तं यतः स्मृतम् ॥ १०९ ॥
एतदस्य द्विजेंद्रस्य वयस्यैर्हास्यसंयुतैः ॥
येन शुद्धिमवाप्नोति नो चेन्मृत्युमवाप्स्यति ॥ ६.१९७.११० ॥
॥ सूत उवाच ॥ ॥
सा तथेति प्रतिज्ञाय सव्रीडं तमुवाच ह ॥
एहि वत्स कुरुष्व त्वं प्रायश्चित्तं विशुद्धये ॥ १११ ॥
मातृभावं समाधाय मया त्वं कल्पितः सुतः ॥
सोऽपि तां मातृवन्मत्वा तस्याः सांनिध्यमागतः ॥ ११२ ॥
स्पृष्टवांश्च स्तनौ तस्याः सर्वलोकस्य पश्यतः ॥
स्पृष्टाभ्यां च स्तनाभ्यां च तत्क्षणाद्द्विजसत्तमाः ॥ ११३ ॥
क्षीरधारे विनिष्क्रांते कुन्देंदुहिमसंनिभे ॥ [। ११४ ॥
अथौष्ठास्वादनं यावत्तस्याः स कुरुते द्विजः ।।
तावत्क्षीरं विनिष्क्रांतं तादृग्रूपं तदाननात् ॥ ११५ ॥
एतस्मिन्नंतरे सर्वैस्ताला दत्ता द्विजातिभिः ॥
राज्ञाऽयं ब्राह्मणः शुद्धो वदमानैर्मुहुर्मुहुः ॥ ११६ ॥
सोऽपि प्रदक्षिणीकृत्य तां च कन्यां मुहुर्मुहुः [।
नमस्कृत्य क्षमस्वेति त्वं मातः पुत्रवत्सले ॥ ११७ ॥
तद्दृष्ट्वा महदाश्चर्यमानर्तो विस्मयान्वितः ॥
शशंस भतृयज्ञं तं प्रायश्चित्तप्रदायकम् ॥ ११८ ॥
अहोऽतीव सुभा ग्योऽहं यस्य मे गृहमागताः ॥
ईदृशा ब्राह्मणाः सर्वे चमत्कारपुरोद्भवाः ॥ ११९ ॥
तथा चैतादृशी कन्या ह्यसामान्यप्रवर्तिनी ॥
रत्नावती महाभागा सत्यशौचसमन्विता ॥ ६.१९७.१२० ॥
तथाऽयं नैव सामान्यो ब्राह्मणश्च परावसुः ॥
यश्चेदृशीं समासाद्य कन्यां नो विकृतः स्थितः ॥ ॥ १२१ ॥
एवमुक्त्वा विसृज्याथ तान्विप्रान्पार्थिवोत्तमाः ॥
तां च कन्यां समादाय ततश्चांतःपुरं ययौ ॥ १२२ ॥
अथ ते नागराः सर्वे मर्यादां चक्रिरे ततः ॥
अद्यप्रभृति या वेश्या स्थानेऽस्मिन्वासमेष्यति ॥ १२३ ॥
तया नैव गृहे धार्यं सुरामांसं कथंचन ॥
दूषयंति सदा दुष्टा नागराणां सुतानिह ॥ १२४ ॥
अथ व्यवस्थामुत्क्रम्य या हि तद्धारयिष्यति ॥
सा दण्ड्यास्माच्च निर्वास्या प्रेत्य स्यात्पापभागिनी ॥ १२५ ॥
औदुम्बर्या मध्यगेन दत्तं तालत्रयं तदा ॥ १२६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये परावसुप्रायश्चित्तविधानवृत्तांतवर्णनंनाम सप्तनवत्युत्तरशततमोऽध्यायः ॥ १९७ ॥