5. Skanda Purāṇa (part 5 of 9)
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 43
अध्याय ४३
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र विमलेश्वरमुत्तमम् ।
तत्र देवशिला रम्या स्वयं देवैर्विनिर्मिता ॥ ४३.१ ॥
तत्र स्नात्वा तु यो भक्त्या ब्राह्मणान्पूजयेन्नृप ।
स्वल्पेनापि हि दानेन तस्य चान्तो न विद्यते ॥ ४३.२ ॥
युधिष्ठिर उवाच -
कानि दानानि विप्रेन्द्र शस्तानि धरणीतले ।
यानि दत्त्वा नरो भक्त्या मुच्यते सर्वपातकैः ॥ ४३.३ ॥
श्रीमार्कण्डेय उवाच -
सुवर्णं रजतं ताम्रं मणिमौक्तिकमेव च ।
भूमिदानं च गोदानं मोचयत्पशुभान्नरम् ॥ ४३.४ ॥
तत्र तीर्थे तु यः कश्चित्कुरुते प्राणसंक्षयम् ।
रुद्रलोके वसेत्तावद्यावदा भूतसम्प्लवम् ॥ ४३.५ ॥
ततः पुष्करिणीं गच्छेत्सर्वपापक्षयंकरीम् ।
तत्र स्नात्वार्चयेद्देवं तेजोराशिं दिवाकरम् ॥ ४३.६ ॥
ऋचमेकां जपेत्साम्नः सामवेदफलं लभेत् ।
यजुर्वेदस्य जपनादृग्वेदस्य तथैव च ॥ ४३.७ ॥
अक्षरं वा जपेन्मन्त्रं ध्यायमानो दिवाकरम् ।
आदित्यहृदयं जप्त्वा मुच्यते सर्वकिल्बिषैः ॥ ४३.८ ॥
तत्र तीर्थे तु यः स्नात्वा विधिना जपेद्द्विजान् ।
तस्य कोटिगुणं पुण्यं जायते नात्र संशयः ॥ ४३.९ ॥
अनाशकेनाग्निगत्या जले वा देहपातनात् ।
तस्मिंस्तीर्थे मृतो यस्तु स याति परमां गतिम् ॥ ४३.१० ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा नृपसत्तम ।
विहितं कर्म कुर्वाणः स गच्छेत्परमां गतिम् ॥ ४३.११ ॥
युधिष्ठिर उवाच -
व्याधिं सत्त्वक्षयं मोहं ज्ञात्वा वर्णा द्विजोत्तम ।
पापेभ्यो विप्रमुच्यन्ते केन तत्साधनं वद ॥ ४३.१२ ॥
श्रीमार्कण्डेय उवाच -
तिलोदकी तिलस्नायी कामक्रोधविवर्जितः ।
ब्राह्मणोऽनशनैः प्राणांस्त्यजल्लभति सद्गतिम् ॥ ४३.१३ ॥
सङ्ग्रामे सद्गतिं तात क्षत्रियो निधने लभेत् ।
तदभावान्महाप्राज्ञ सेवमानो लभेदिति ॥ ४३.१४ ॥
व्याधिग्रहगृहीतो वा वृद्धो वा विकलेन्द्रियः ।
आत्मानं दाहयित्वाग्नौ विधिना सद्गतिं लभेत् ॥ ४३.१५ ॥
वैश्योऽपि हि त्यजन्प्राणानेवं वै शुभभाग्भवेत् ।
जले वा शुद्धभावेन त्यक्त्वा प्राणाञ्छिवो भवेत् ॥ ४३.१६ ॥
शूद्रोऽपि द्विजशुश्रूषुस्तोषयित्वा महेश्वरम् ।
विमुच्य नान्यथा पापः पतते नरके ध्रुवम् ॥ ४३.१७ ॥
अथवा प्रणवाशक्तो द्विजेभ्यो गुरवे तथा ।
पञ्चाग्नौ शोषयेद्देहमापृच्छ्य द्विजसत्तमान् ॥ ४३.१८ ॥
शान्तदान्तजितक्रोधाञ्छास्त्रयुक्तान् विचक्षणान् ।
तेषां चैवोपदेशेन करीषाग्निं प्रसाधयेत् ॥ ४३.१९ ॥
एवं वर्णा यथात्वेन मूढाहङ्कारमोहिताः ।
पतन्ति नरके घोरे यथान्धो गिरिगह्वरे ॥ ४३.२० ॥
ये शास्त्रविधिमुत्सृज्य वर्तन्ते कामचारतः ।
कृमियोनिं प्रपद्यन्ते तेषां पिण्डो न च क्रिया ॥ ४३.२१ ॥
श्रुतिस्मृत्युदितं धर्मं त्यक्त्वा यथेच्छाचारसेविनः ।
अष्टाविंशतिर्वै कोट्यो नरकाणां युधिष्ठिर ॥ ४३.२२ ॥
प्रत्येकं वा पतन्त्येते मग्ना नरकसागरे ।
दुर्लभं मानुषं जन्म बहुधर्मार्जितं नृप ॥ ४३.२३ ॥
तल्लब्ध्वा मदमात्सर्यं यो वै त्यजति मानवः ।
संनियम्य सदात्मानं ज्ञानचक्षुर्नरो हि सः ॥ ४३.२४ ॥
अज्ञानतिमिरान्धस्य ज्ञानांजनशलाकया ॥ ४३.२५ ॥
यस्य नोन्मीलितं चक्षुर्ज्ञेयो जात्यन्ध एव सः ।
एतत्ते कथितं सर्वं यत्पृष्टं नृपसत्तम ॥ ४३.२६ ॥
तथानिष्टतराणां हि रुद्रस्य वचनं यथा ।
नर्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता ॥ ४३.२७ ॥
तारयेत्सर्वभूतानि स्थावराणि चराणि च ।
सर्वदेवाधिदेवेन ईश्वरेण महात्मना ॥ ४३.२८ ॥
लोकानां च हितार्थाय महापुण्यावतारिता ।
मानसं वाचिकं पापं स्नानान्नश्यति कर्मजम् ॥ ४३.२९ ॥
रुद्रदेहाद्विनिष्क्रान्ता तेन पुण्यतमा हि सा ।
प्रातरुत्थाय यो नित्यं भूमिमाक्रम्य भक्तितः ॥ ४३.३० ॥
एतन्मन्त्रं जपेत्तात स्नानस्य लभते फलम् ।
नमः पुण्यजले देवि नमः सागरगामिनि ॥ ४३.३१ ॥
नमोऽस्तु पापनिर्मोचे नमो देवि वरानने ॥ ४३.३२ ॥
नमोऽस्तु ते ऋषिवरसङ्घसेविते नमोऽस्तु ते त्रिनयनदेहनिःसृते ।
नमोऽस्तु ते सुकृतवतां सदा वरे नमोऽस्तु ते सततपवित्रपावनि ॥ ४३.३३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विमलेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 44
श्रीमार्कण्डेय उवाच -
तीर्थानां परमं तीर्थं तच्छृणुष्व नराधिप ।
रेवाया दक्षिणे कूले निर्मितं शूलपाणिना ॥ ४४.१ ॥
मोक्षार्थं मानवेन्द्राणां निर्मितं नृपसत्तम ।
युधिष्ठिर उवाच -
श्रुता मे विविधा धर्मास्तीर्थानि विविधानि च ।
दानधर्माः समस्ताश्च त्वत्प्रसादाद्द्विजोत्तम ॥ ४४.२ ॥
अन्यच्च श्रोतुमिच्छामि संसारश्छिद्यते यथा ।
पुनरागमनं नास्ति मोक्षप्राप्तिर्भवेद्यथा ॥ ४४.३ ॥
एतदाख्याहि मे सर्वं प्रसादाद्द्विजसत्तम ॥ ४४.४ ॥
मार्कण्डेय उवाच -
शृणुष्वैकमना भूत्वा तीर्थात्तीर्थान्तरं महत् ।
श्रुते यस्य प्रभावे तु मुच्यते चाब्दिकादघात् ॥ ४४.५ ॥
वाचिकैर्मानसैर्वापि शारीरैश्च विशेषतः ।
कीर्तनात्तस्य तीर्थस्य मुच्यते सर्वपातकैः ॥ ४४.६ ॥
पञ्चक्रोशप्रमाणं तु तच्च तीर्थं महीपते ।
भुक्तिमुक्तिप्रदं दिव्यं प्राणिनां पापकर्मिणाम् ॥ ४४.७ ॥
रेवाया दक्षिणे कूले पर्वतो भृगुसंज्ञितः ।
तस्य मूर्ध्नि च तत्तीर्थं स्थापितं चैव शम्भुना ॥ ४४.८ ॥
शूलभेदेति विख्यातं त्रिषु लोकेषु भूपते ।
तत्र स्थिताश्च ये वृक्षास्तीर्थाच्चैव चतुर्दिशम् ॥ ४४.९ ॥
पतिता निलयं यान्ति रुद्रस्य नात्र संशयः ।
मृतास्तत्रैव ये केचिज्जन्तवो भुवि पक्षिणः ॥ ४४.१० ॥
ते यान्ति परमं लोकं तत्र तीर्थे न संशयः ।
पातालान्निःसृता गङ्गा भोगवतीतिसंज्ञिता ॥ ४४.११ ॥
निष्क्रान्ता शूलभेदाच्च सर्वपापक्षयंकरी ।
या सा गीर्वाणनाम्न्यन्या वहेत्पुण्या महानदी ॥ ४४.१२ ॥
पतिता कुण्डमध्ये तु यत्र भिन्नं त्रिशूलिना ।
शम्भुना च पुरा तात उत्पाद्य च सरस्वती ॥ ४४.१३ ॥
सा तत्र पतिता राजन् प्राचीनाघविमोचिनी ।
भास्वत्या त्रितयं यत्र शिला गीर्वाणसंज्ञिता ॥ ४४.१४ ॥
तत्र तीर्थे च तत्तीर्थं न भूतं न भविष्यति ।
केदारं च प्रयागं च कुरुक्षेत्रं गया तथा ॥ ४४.१५ ॥
अन्यानि च सुतीर्थानि कलां नार्हन्ति षोडशीम् ।
पञ्च स्थानानि तीर्थानि पृथग्भूतानि यानि च ॥ ४४.१६ ॥
वक्ष्यामि च समासेन एकैकं च पृथक्पृथक् ।
गया नाभ्यां यथा पुण्या चक्रतीर्थं च तत्समम् ॥ ४४.१७ ॥
धर्मारण्ये यथा कूपं शूलभेदं च तत्समम् ।
ब्रह्मयूपं यथा पुण्यं देवनद्यास्तथैव च ॥ ४४.१८ ॥
यथा गयाशिरः पुण्यं सुराणां च यथा शिला ।
यथा च पुष्करं स्थानं मार्कण्डह्रद एव च ॥ ४४.१९ ॥
दत्त्वा पिण्डोदकं तत्र पिण्डाणां च तथाक्षयम् ।
यस्तत्र कुरुते श्राद्धं तोयं पिबति नित्यशः ।
मुच्यते सर्वपापैस्तु उरगः कञ्चुकैरिव ।
अनिन्द्यान्पूजयेद्विप्रान् दम्भक्रोधविवर्जितान् ॥ ४४.२० ॥
त्रयोदशदिनं दानं त्रयोदशगुणं भवेत् ।
अभ्यर्चितं सुरं दृष्ट्वा गणनाथं गजाननम् ॥ ४४.२१ ॥
सर्वे विघ्ना विनश्यन्ति दृष्ट्वा कम्बलक्षेत्रपम् ॥ ४४.२२ ॥
पूजयेत्परया भक्त्या शूलपाणिं महेश्वरम् ॥ ४४.२३ ॥
देवस्य पूर्वभागे तु उमा पूज्या प्रयत्नतः ।
मार्कण्डेशं ततो भक्त्या पूजयेद्गुहवासिनम् ॥ ४४.२४ ॥
मुच्यन्ते पातकैः सर्वैरज्ञानज्ञानसंचितैः ।
गुहामध्ये प्रविष्टस्तु जपेत्सूक्तं तु त्र्यक्षरम् ॥ ४४.२५ ॥
नीलपर्वतजं पुण्यं षष्ठांशेन लभेत सः ।
त्रिनरास्तत्र तिष्ठन्ति सादित्यमरुतैः सह ॥ ४४.२६ ॥
सर्वदेवमयं स्थानं कोटिलिङ्गमनुत्तमम् ।
यथा नदीनदाः सर्वे सागरे यान्ति संक्षयम् ॥ ४४.२७ ॥
तथा पापानि नश्यन्ति शूलभेदस्य दर्शनात् ।
प्रत्यक्षो दृश्यतेऽद्यापि प्रत्ययो ह्यवनीपते ॥ ४४.२८ ॥
विस्फुलिङ्गा लिङ्गमध्ये स्पन्दन्ते स्नानयोगतः ।
द्वितीयः प्रत्ययस्तत्र तैलबिन्दुर्न सर्पति ॥ ४४.२९ ॥
एवं हि प्रत्ययस्तत्र शूलभेदप्रभावजः ।
यः स्मरेच्छूलभेदं तु त्रिकालं नित्यमेव च ॥ ४४.३० ॥
स पूतश्च भवेत्साक्षात्सबाह्याभ्यन्तरो नृप ।
न कस्यचिन्मया ख्यातं पृष्टोऽहं त्रिदशैरपि ॥ ४४.३१ ॥
गुह्याद्गुह्यतरं तीर्थं सदा गोप्यं कृतं मया ।
सर्वपापहरं पुण्यं सर्वदोषघ्नमुत्तमम् ॥ ४४.३२ ॥
सर्वतीर्थमयं तीर्थं शूलभेदं जनेश्वर ।
श्रुते यस्य प्रभावे तु मुच्यते सर्वपातकैः ॥ ४४.३३ ॥
शूलभेदं मया तात संक्षेपात्कथितं तव ।
यः शृणोति नरो भक्त्या मुच्यते सर्वपातकैः ॥ ४४.३४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदप्रशंसावर्णनं नाम चतुश्चत्वारिंशोऽध्यायः॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 45
अध्याय ४५
श्रीमार्कण्डेय उवाच -
एष एव पुरा प्रश्नः परिपृष्टो महेश्वरम् ।
राज्ञा चोत्तानपादेन ऋषिदेवसमागमे ॥ ४५.१ ॥
उत्तानपाद उवाच -
इदं तीर्थं महापुण्यं सर्वदेवमयं परम् ।
गुह्याद्गुह्यतरं स्थानं न दृष्टं न श्रुतं हर ॥ ४५.२ ॥
शूलभेदं कथं जातं केनैवोत्पादितं पुरा ।
माहात्म्यं तस्य तीर्थस्य विस्तराच्छंस मे प्रभो ॥ ४५.३ ॥
ईश्वर उवाच -
आसीत्पुरा महावीर्यो दानवो बलदर्पितः ।
मर्त्ये न तादृशः कश्चिद्विक्रमेण बलेन वा ॥ ४५.४ ॥
सूनुर्ब्रह्मसुतस्यायमन्धको नाम दुर्मदः ।
निजस्थाने वसन् पापः कुर्वन् राज्यमकण्टकम् ॥ ४५.५ ॥
हृष्टपुष्टो वसन्मर्त्ये स सुरैर्नाभिभूयते ।
भवनं तस्य पापस्य वह्नेरुपवनं यथा ॥ ४५.६ ॥
एतस्मिन्नन्धकः काले चिन्तयामास भारत ।
तोषयामि महादेवं येन सानुग्रहो भवेत् ॥ ४५.७ ॥
प्रार्थयामि वरं दिव्यं यो मे मनसि वर्तते ।
परं स निश्चयं कृत्वा सोऽन्धको निर्गतो गृहात् ॥ ४५.८ ॥
रेवातटं समासाद्य दानवस्तपसि स्थितः ।
उग्रं तपश्चचारासौ दारुणं लोमहर्षणम् ॥ ४५.९ ॥
दिव्यं वर्षसहस्रं स निराहारोऽभवत्ततः ।
द्वितीयं तु सहस्रं स न्यवसद्वारिभोजनः ॥ ४५.१० ॥
तृतीयं तु सहस्रं स धूमपानरतोऽभवत् ।
चतुर्थं वर्षसाहस्रं योगाभ्यासेन संस्थितः ॥ ४५.११ ॥
कोपीह नेदृश चक्रे तपः परमदारुणम् ।
अस्थिचर्मावशेषोऽसौ यावत्तिष्ठति भारत ॥ ४५.१२ ॥
तस्य मूर्ध्नि ततो राजन् धूमवार्त्तिर्विनिःसृता ।
देवलोकमतीत्यासौ कैलासं व्याप्य संस्थिता ॥ ४५.१३ ॥
तावद्देवसमीपस्था उमा वचनमब्रवीत् ।
कोऽस्त्ययं मानुषे लोके तपसोग्रेण संस्थितः ॥ ४५.१४ ॥
चतुर्वर्षसहस्राणि व्यतीयुः परमेश्वर ।
न केनापीदृशं तप्तं तपो दृष्टं श्रुतं तथा ॥ ४५.१५ ॥
अवज्ञां कुरुषे देव किमत्र नियमान्विते ।
सर्वस्य दत्से शीघ्रं त्वमल्पेन तपसा विभो ॥ ४५.१६ ॥
नाक्षक्रीडां करिष्येऽद्य त्वया सह महेश्वर ।
यावन्नोत्थाप्यते ह्येष दानवो भक्तवत्सल ॥ ४५.१७ ॥
ईश्वर उवाच -
साधु साधु महादेवि सर्वलक्षणलक्षिते ।
अहं तं न विजानामि क्लिश्यन्तं दानवेश्वरम् ॥ ४५.१८ ॥
योगाभ्यासे स्थितो भद्रे ध्यायंस्तत्परमं पदम् ।
तत्रागच्छ मया सार्द्धं यत्र तप्यत्यसौ तपः ॥ ४५.१९ ॥
उमया सहितो देवो गतस्तत्र महेश्वरः ।
अस्थिचर्मावशेषस्तु दृष्टो देवेन शम्भुना ॥ ४५.२० ॥
प्रत्युवाच प्रसन्नोऽसौ देवदेवो महेश्वरः ।
भोभोः कष्टं कृतं भीमं दारुणं लोमहर्षणम् ॥ ४५.२१ ॥
ईदृशं च तपो घोरं कस्माद्वत्स त्वया कृतम् ।
वरं दास्याम्यहं वत्स यस्ते मनसि वर्तते ॥ ४५.२२ ॥
अन्धक उवाच -
यदि तुष्टोऽसि मे देव वरदो यदि शङ्कर ।
सुरान् सर्वान् विजेष्यामि त्वत्प्रसादान्महेश्वर ॥ ४५.२३ ॥
ईश्वर उवाच -
स्वप्नेऽपि त्रिदशाः सर्वे न योद्धव्याः कदाचन ।
असंभाव्यं न वक्तव्यं मनसो यन्न रोचते ॥ ४५.२४ ॥
अन्यं किमपि याचस्व यस्ते मनसि वर्तते ।
स्वर्गे वा यदि वा मर्त्ये पातालेषु च संस्थितान् ॥ ४५.२५ ॥
मर्त्येषु विविधान् भोगान् भोक्ष्यसि त्वं यथेप्सितान् ।
कुरु निष्कण्टकं राज्यं स्वर्गे देवपतिर्यथा ॥ ४५.२६ ॥
देवस्य वचनं श्रुत्वा सोऽन्धको विमनाः स्थितः ।
वृथा क्लेशश्च मे जातो न किंचित्साधितं मया ॥ ४५.२७ ॥
निश्वासं परमं मुक्त्वा निपपात धरातले ।
मूलच्छिन्नो यथा वृक्षो निरुच्छ्वासस्तदाभवत् ॥ ४५.२८ ॥
मूर्च्छापन्नं ततो दृष्ट्वा देवी वचनमब्रवीत् ।
यं कामं कामयत्येष तमस्मै देहि शङ्कर ॥ ४५.२९ ॥
भक्तानुपेक्षमाणस्य तवाकीर्तिर्भविष्यति ॥ ४५.३० ॥
ईश्वर उवाच -
यदि दास्ये वरं देवि इच्छाभूतं कदाचन ।
ततो न मंस्यते विष्णुं न ब्रह्माणं न मामपि ॥ ४५.३१ ॥
उच्चत्वमाप्तो देवेशि अन्यानपि सुरासुरान् ॥ ४५.३२ ॥
देव्युवाच -
कमप्युपायमाश्रित्य उत्थापय महेश्वर ।
विष्णुवर्जं सुरान्सर्वाञ्जयस्वेति वरं वद ॥ ४५.३३ ॥
ईश्वर उवाच -
उपायः शोभनो देवि यो मे मनसि वर्तते ।
तमेवास्मै प्रदास्यामि यस्त्वया कथितो वरः ॥ ४५.३४ ॥
ततोऽमृतेन संसिक्तः स्वस्थोऽभूत्तत्क्षणादयम् ।
तथा पुनर्नवो जातः सर्वावयवशोभितः ॥ ४५.३५ ॥
शृणुष्वैकमना भूत्वा गृहाण वरमुत्तमम् ।
विष्णुवर्जं प्रदास्यामि यत्तवाभिमतं प्रियम् ॥ ४५.३६ ॥
सर्वं च सफलं तुभ्यं मा धर्मस्तेऽन्यथा भवेत् ।
ददामीति वरं तुभ्यं मन्यसे यदि चासुर ॥ ४५.३७ ॥
विष्णुवर्जं सुरान् सर्वाञ्जेष्यसि त्वं च मां विना ॥ ४५.३८ ॥
अन्धक उवाच -
भवत्वेवमिति प्राह बलमास्थाय केवलम् ।
विष्णुवर्जं विजेष्येऽहं स्वबलेन महेश्वर ॥ ४५.३९ ॥
कृतार्थोऽहं हि संजात इत्युक्त्वा प्रणतिं गतः ।
गच्छ देवोमयासार्द्धं कैलासशिखरं वरम् ॥ ४५.४० ॥
वृषपुंगवमारुह्य देवोऽसावुमया सह ।
वरं दत्त्वा स तस्यैवं तत्रैवान्तरधीयत ॥ ४५.४१ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अन्धकवरप्रदानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 46
अध्याय ४६
श्रीमार्कण्डेय उवाच -
स दानवो वरं लब्ध्वा जगाम स्वपुरं प्रति ।
ददर्श स्वपुरं राजञ्छोभितं चित्रचत्वरैः ॥ ४६.१ ॥
उद्यानैश्चैव विविधैः कदलीखण्डमण्डितैः ।
पनसैर्बकुलैश्चैवाम्रातैराम्रैश्च चम्पकैः ॥ ४६.२ ॥
अशोकैर्नालिकेरैश्च मातुलिङ्गैः सदाडिमैः ।
नानावृक्षैश्च शोभाढ्यं तडागैरुपशोभितम् ॥ ४६.३ ॥
देवतायतनैर्दिव्यैर्ध्वजमालासुशोभितैः ।
वेदाध्ययननिर्घोषैर्मङ्गलाद्यैर्विनादितम् ॥ ४६.४ ॥
प्राविशद्भवने दिव्ये काञ्चने रुक्ममालिनि ।
अपश्यत्स सुतान् भार्याममात्यान् दासभृत्यकान् ॥ ४६.५ ॥
ततो जयप्रदान् सर्वानितश्चेतश्च धावतः ।
हृच्छोभां च प्रकुर्वाणान् वै जयन्तीभिरुच्चकैः ॥ ४६.६ ॥
केचित्तोरणमाबध्य केचित्पुष्पाण्यवाकिरन् ।
मातुलिङ्गकराश्चान्ये धावन्ति ह्यन्धकं प्रति ॥ ४६.७ ॥
पुरे जनाश्च दृश्यन्ते भाजनैरन्नपूरितैः ।
पूर्णहस्ताः प्रदृश्यन्ते तत्रैव बहवो जनाः ॥ ४६.८ ॥
साक्षतैर्भाजनैस्तत्र शतसाहस्रयोषितः ।
मन्त्रान् पठन्ति विप्राश्च मङ्गलान्यपि योषितः ॥ ४६.९ ॥
अमात्याश्चैव भृत्याश्च गजांश्चाढौकयन्ति च ।
वर्धापयन्ति ते सर्वे ये केचित्पुरवासिनः ॥ ४६.१० ॥
हृष्टस्तुष्टोऽवसत्तत्र सचिवैः सह सोऽन्धकः ।
ददर्श स जगत्सर्वं तुरङ्गांश्च पदातिकान् ॥ ४६.११ ॥
तथैव विविधान् कोशांस्तत्र काञ्चनपूरितान् ।
महिषीर्गा वृषांश्चैवापश्यच्छत्राण्यनेकधा ॥ ४६.१२ ॥
स एवमन्धकस्तत्र कियन्तं कालमावसत् ।
हृष्टस्तुष्टो वसन्मर्त्ये स सुरैर्नाभ्यभूयत ॥ ४६.१३ ॥
वरं लब्धं तु तं ज्ञात्वा शङ्किताः स्वर्गवासिनः ।
एकीभूताश्च ते सर्वे वासवं शरणं गताः ॥ ४६.१४ ॥
शक्र उवाच -
कथमागमनं वोऽत्र सर्वेषामपि नाकिनाम् ।
कस्माद्वो भयमुत्पन्नमागताः शरणं कथम् ॥ ४६.१५ ॥
ततस्ते ह्यमराः सर्वे शक्रमेतद्वचोऽब्रुवन् ॥ ४६.१६ ॥
देवा ऊचुः ।
सुरनाथान्धको नाम दैत्यः शम्भुवरोर्जितः ।
अजेयः सर्वदेवानां किं नु कार्यमतः परम् ॥ ४६.१७ ॥
तत्त्वं चिन्तय देवेश क उपायो विधीयताम् ।
इत्थं वदन्ति ते देवाः शक्राग्रे मन्त्रणोद्यताः ॥ ४६.१८ ॥
मन्त्रयन्ति च यावद्वै तावच्चारमुखेरितम् ।
ज्ञात्वा तत्र स देवौघं दानवो निर्गतो गृहात् ॥ ४६.१९ ॥
एकाकी स्यन्दनारूढ आयुर्धैबहुभिर्वृतः ।
दुर्गमं मेरुपृष्ठं स लीलयैव गतो नृप ॥ ४६.२० ॥
स्वर्णप्राकारसंयुक्तं शोभितं विविधाश्रमैः ।
दुर्गमं शत्रुवर्गस्य तदा पार्थिवसत्तम ॥ ४६.२१ ॥
प्रविवेशासुरस्तत्र लीलया स्वगृहे यथा ।
वृत्रहा भयमापन्नः स्वकीयं चासनं ददौ ॥ ४६.२२ ॥
उपविष्टोऽन्धकस्तत्र शक्रस्यैवासने शुभे ।
आस्थानं कलयामास सर्वतस्त्रिदशावृतम् ॥ ४६.२३ ॥
शक्र उवाच -
किं तवागमनं चात्र किं कार्यं कथयस्व मे ।
यदस्मदीयं वित्तं हि तत्ते दास्यामि दानव ॥ ४६.२४ ॥
अन्धक उवाच -
नाहं वै कामये कोशं न गजांश्च सुरेश्वर ।
स्वकीयं दर्शयस्वाद्य स्वर्गशृङ्गारभूषितम् ॥ ४६.२५ ॥
ऐरावतं महानागं तं चैवोच्चैःश्रवोहयम् ।
उर्वश्यादीनि रत्नानि मम दर्शय गोपते ॥ ४६.२६ ॥
पारिजातकपुष्पाणि वृक्षजातीननेकशः ।
वादित्राणि च सर्वाणि दर्शयस्व शचीपते ॥ ४६.२७ ॥
तस्य तद्वचनं श्रुत्वा शक्रश्चिन्तितवानिदम् ।
योऽमुं निहन्ति पाप्मानं न तं पश्यामि कर्हिचित् ॥ ४६.२८ ॥
नास्ति रक्षाप्रदः कश्चित्स्वर्गलोकस्य दुःखिनः ।
भयत्रस्तो ददावन्यद्वादित्राद्यप्सरोगणैः ॥ ४६.२९ ॥
रङ्गभूमावुपाविश्य कारयामास ताण्डवम् ।
उपविष्टाः सुराः सर्वे यममारुतकिन्नराः ॥ ४६.३० ॥
उर्वश्याद्या अप्सरसो गीतवादित्रयोगतः ।
ननृतुः पुरतस्तस्य सर्वा एकैकशो नृप ॥ ४६.३१ ॥
न व्यश्राम्यत तच्चित्तं दृष्ट्वा चाप्सरसस्तदा ।
शचीं प्रति मनस्तस्य सकाममभवन्नृप ॥ ४६.३२ ॥
गृहीत्वा शक्रभार्यां स प्रस्थितः स्वपुरं प्रति ।
ततः प्रववृते युद्धमन्धकस्य सुरैः सह ॥ ४६.३३ ॥
तेन देवगणाः सर्वे ध्वस्ताः पार्थिवसत्तम ।
संग्रामे विविधैः शस्त्रैश्चक्रवज्रादिभिर्घनैः ॥ ४६.३४ ॥
संतापिताः सुराः सर्वे क्षयं नीता ह्यनेकशः ।
सर्वेऽपि मरुतस्तेन भग्नाः संग्राममूर्धनि ॥ ४६.३५ ॥
यथा सिंहोगजान् सर्वान् विचित्य विचरेद्वनम् ।
तद्वदेकेन ते देवा जिताः सर्वे पराङ्मुखाः ॥ ४६.३६ ॥
बालोऽधिपो यथा ग्रामे स्वेच्छया पीडयेज्जनान् ।
स्वैरमाक्रम्य गृह्णाति कोशवासांसि चासकृत् ॥ ४६.३७ ॥
गतं न पश्यत्यात्मानं प्रजासंतापनेन च ।
गृहीत्वा शक्रभार्यां स गतो वै दानवोत्तमः ॥ ४६.३८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये शचीहरणवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 47
अध्याय ४७
श्रीमार्कण्डेय उवाच -
गीर्वाणाश्च ततः सर्वे ब्रह्माणं शरणं गताः ।
गजैर्गिरिवराकारैर्हयैश्चैव गजोपमैः ॥ ४७.१ ॥
स्यन्दनैर्नगराकारैः सिंहशार्दूलयोजितैः ।
कच्छपैर्महिषैश्चान्यैर्मकरैश्च तथापरे ॥ ४७.२ ॥
ब्रह्मलोकमनुप्राप्ता देवाः शक्रपुरोगमाः ।
दृष्ट्वा पद्मोद्भवं देवं साष्टाङ्गं प्रणताः सुराः ॥ ४७.३ ॥
देवा ऊचुः ।
जय देव जगद्वन्द्य जय संसृतिकारक ।
पद्मयोने सुरश्रेष्ठ त्वामेव शरणं गताः ॥ ४७.४ ॥
सोद्वेगं भाषितं श्रुत्वा देवानां भावितात्मनाम् ।
मेघगम्भीरया वाचा देवराजमुवाच ह ॥ ४७.५ ॥
किमत्रागमनं देवाः सर्वेषां वै विवर्णता ।
केनापमानिताः सर्वे शीघ्रं मे कथ्यतां स्वयम् ॥ ४७.६ ॥
देवा ऊचुः ।
अन्धकाख्यो महादैत्यो बलवान् पद्मसम्भव ।
तेन देवगणाः सर्वे धनरत्नैर्वियोजिताः ॥ ४७.७ ॥
हत्वा देवगणांस्तावदसिचक्रपरद्द्विश्वधैः ।
गृहीत्वा शक्रभार्यां स दानवोऽपि गतो बलात् ॥ ४७.८ ॥
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।
चिन्तयामास राजेन्द्र वधार्थं दानवस्य ह ॥ ४७.९ ॥
अवध्यो दानवः पापः सर्वेषां वो दिवौकसाम् ।
स त्राता सर्वजगतां नान्यो विद्येत कुत्रचित् ॥ ४७.१० ॥
एवमुक्ताः सुराः सर्वे ब्रह्मणा तदनन्तरम् ।
ब्रह्माणं ते पुरस्कृत्य गता यत्र स केशवः ।
तुष्टुवुर्विविधैः स्तोत्रैर्ब्रह्माद्याश्चक्रपाणिनम् ॥ ४७.११ ॥
देवा ऊचुः ।
जय त्वं देवदेवेश लक्ष्म्या वक्षःस्थलाश्रितः ।
असुरक्षय देवेश वयं ते शरणं गताः ॥ ४७.१२ ॥
स्तूयमानः सुरैः सर्वैर्ब्रह्माद्यैश्च जनार्दनः ।
सम्प्रहृष्टमना भूत्वा सुरसङ्घमुवाच ह ॥ ४७.१३ ॥
श्रीवासुदेव उवाच -
स्वागतं देवविप्राणां सुप्रभाताद्य शर्वरी ।
किं कार्यं प्रोच्यतां क्षिप्रं कस्य रुष्टा दिवौकसः ॥ ४७.१४ ॥
किं दुःखं कश्च संतापः कुतो वा भयमागतम् ।
कथयन्तु महाभागाः कारणं यन्मनोगतम् ॥ ४७.१५ ॥
पराभवः कृतो येन सोऽद्य यातु यमालयम् ।
एवमुक्तास्तु कृष्णेन कथयामासुरस्य तत् ॥ ४७.१६ ॥
दर्शयन्तः स्वकान्देहान् लज्जमाना ह्यधोमुखाः ।
हृतराज्या ह्यन्धकेन कृता निस्तेजसः प्रभो ॥ ४७.१७ ॥
पितेव पुत्रं परिरक्ष देव जहीन्द्रशत्रुं सह पुत्रपौत्रैः ।
तथेति चोक्तः कमलासनेन सुरासुरैर्वन्दितपादपद्मः ॥ ४७.१८ ॥
शङ्खं चक्रं गदां चापं संगृह्य परमेश्वरः ।
उत्थितो भोगपर्यङ्काद्देवानां पुरतस्तदा ॥ ४७.१९ ॥
श्रीवासुदेव उवाच -
पाताले यदि वा मर्त्ये नाके वा यदि तिष्ठति ।
तं हनिष्याम्यहं पापं येन संतापिताः सुराः ॥ ४७.२० ॥
स्वं स्थानं यान्तु गीर्वाणाः संतुष्टा भावितौजसः ।
विष्णोस्तद्वचनं श्रुत्वा ब्रह्माद्यास्ते सवासवाः ॥ ४७.२१ ॥
स्वयानैस्तु हरिं नत्वा हृदि तुष्टा दिवं ययुः ॥ ४७.२२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गीर्वाणस्वर्गमनवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 48
अध्याय ४८
उत्तानपाद उवाच -
कस्मिन्स्थानेऽवसद्देव सोऽन्धको दैत्यपुंगवः ।
सर्वान्देवांश्च निर्जित्य कस्मिन्स्थाने समास्थितः ॥ ४८.१ ॥
श्रीमहेश उवाच -
प्रविष्टो दानवो यत्र कथयामि नराधिप ।
पाताललोकमाश्रित्य कन्या विध्वंसते तु सः ॥ ४८.२ ॥
तत्र स्थितं तं विज्ञाय चापमादाय केशवः ।
व्यसृजद्बाणमाग्नेयं दह्यतामिति चिन्तयन् ॥ ४८.३ ॥
दह्यमानोऽग्निना सोऽपि वारुणास्त्रं स संदधे ।
वारुणास्त्रेण महता आग्नेयं शमितं तदा ॥ ४८.४ ॥
ततोऽसौ चिन्तयामास केन बाणो विसर्जितः ।
कस्यैषा पौरुषी शक्तिः को यास्यति यमालयम् ॥ ४८.५ ॥
ततोऽन्धको मृधे क्रुद्धो बाणमार्गेण निर्गतः ।
स दृष्ट्वा बाणमार्गेण चापहस्तं जनार्दनम् ॥ ४८.६ ॥
अन्धक उवाच -
न शर्म लप्स्यसे ह्यद्य मया दृष्ट्याभिवीक्षितः ।
न शक्नोषि तथा गन्तुं नागः शार्दूलदर्शनात् ॥ ४८.७ ॥
आगच्छति यथा भक्ष्यं मार्जारस्य च मूषिकः ।
न शक्नोषि तथा यातुं संस्थितस्त्वं ममाग्रतः ॥ ४८.८ ॥
अहं त्वां प्रेषयिष्यामि यममार्गे सुदारुणे ।
अहमन्वेषयिष्यामि किल यास्यामि ते गृहम् ॥ ४८.९ ॥
उपनीतोऽसि कालेन सङ्ग्रामे मम केशव ।
ये त्वया निर्जिताः पूर्वं दानवा अप्यनेकशः ॥ ४८.१० ॥
न भवन्ति पुमांसस्ते स्त्रियस्ताश्चैव केशव ।
परं न शस्त्रसङ्ग्रामं करिष्यामि त्वया सह ॥ ४८.११ ॥
वदतो दानवेन्द्रस्य न चुकोप स केशवः ।
अयुध्यमानं तं दृष्ट्वा चिन्तयामास दानवः ॥ ४८.१२ ॥
द्वन्द्वयुद्धं करिष्यामि निश्चित्य युयुधे नृप ।
स कृष्णेन पदाक्षिप्तः पतितः पृथिवीतले ॥ ४८.१३ ॥
मुहूर्तात्स समाश्वस्य उत्थायेदं व्यचिन्तयत् ।
अशक्तो द्वन्द्वयुद्धाय ततः साम प्रयुक्तवान् ।
पाणिभ्यां सम्पुटं कृत्वा साष्टाङ्गं प्रणतः शुचिः ॥ ४८.१४ ॥
अन्धक उवाच -
जय कृष्णाय हरये विष्णवे जिष्णवे नमः ।
हृषीकेश जगद्धात्रे अच्युताय महात्मने ॥ ४८.१५ ॥
नमः पङ्कजनाभाय नमः पङ्कजमालिने ।
जनार्दनाय श्रीशाय श्रीपते पीतवाससे ॥ ४८.१६ ॥
गोविन्दाय नमो नित्यं नमो जलधिशायिने ।
नमः करालवक्त्राय नरसिंहाय नादिने ॥ ४८.१७ ॥
शार्ङ्गिणे सितवर्णाय शङ्खचक्रगदाभृते ।
नमो वामनरूपाय यज्ञरूपाय ते नमः ॥ ४८.१८ ॥
नमो वराहरूपाय क्रान्तलोकत्रयाय च ।
व्याप्ताशेषदिगन्ताय केशवाय नमोनमः ॥ ४८.१९ ॥
वासुदेव नमस्तुभ्यं नमः कैटभनाशिने ।
लक्ष्म्यालय सुरश्रेष्ठ नमस्ते सुरनायक ॥ ४८.२० ॥
विष्णोर्देवाधिदेवस्य प्रमाणं येऽपि कुर्वते ।
प्रजापतेर्जगद्धातुस्तेषामपि नमाम्यहम् ॥ ४८.२१ ॥
समस्तभूतदेवस्य वासुदेवस्य धीमतः ।
प्रणामं ये प्रकुर्वन्ति तेषामपि नमाम्यहम् ॥ ४८.२२ ॥
तस्य यज्ञवराहस्य विष्णोरमिततेजसः ।
प्रणामं ये प्रकुर्वन्ति तेषामपि नमाम्यहम् ॥ ४८.२३ ॥
गुणानां हि निधानाय नमस्तेऽस्तु पुनःपुनः ।
कारुण्याम्बुनिधे देव सर्वभक्तिप्रियाय च ॥ ४८.२४ ॥
श्रीभगवानुवाच -
तुष्टस्ते दानवेन्द्राहं वरं वृणु यथेप्सितम् ।
ददामि ते वरं नूनमपि त्रैलोक्यदुर्लभम् ॥ ४८.२५ ॥
अन्धक उवाच -
यदि तुष्टोऽसि मे देव वरं दास्यसि चेप्सितम् ।
तदा ददस्व मे देव युद्धं परमशोभनम् ।
अवद्धस्तपूतो येनाहं लोकान्गन्तास्मि शोभनान् ॥ ४८.२६ ॥
श्रीभगवानुवाच -
कथं ददामि ते युद्धं तोषितोऽहं त्वया पुनः ।
न त्वां तु प्रभवेत्कोपः कथं युध्यामि तेऽन्धक ॥ ४८.२७ ॥
यदि ते वर्तते बुद्धिर्युद्धं प्रति न संशयः ।
ततो गच्छस्व युद्धाय देवं प्रति महेश्वरम् ॥ ४८.२८ ॥
अन्धक उवाच -
न तत्र सिध्यते कार्यं देवं प्रति महेश्वरम् ॥ ४८.२९ ॥
श्रीभगवानुवाच -
पुत्र त्वं शिखरं गत्वा धूनयस्व बलेन च ॥ ४८.३० ॥
विधूते तत्र देवेशः कोपं कर्ता सुदारुणम् ।
कोपितः शङ्करो रौद्रं युद्धं दास्यति दानव ॥ ४८.३१ ॥
विष्णुवाक्यादसौ पापो गतो यत्र महेश्वरः ।
कैलासशिखरं प्राप्य धुनोति स्म मुहुर्मुहुः ॥ ४८.३२ ॥
धूनिते तत्र शिखरे कम्पितं भुवनत्रयम् ।
निपेतुः शिखराग्राणि कम्पमानान्यनेकशः ॥ ४८.३३ ॥
चत्वारः सागराः क्षिप्रमेकीभूता महीपते ।
निपेतुरुल्कापाताश्च पादपा अप्यनेकशः ॥ ४८.३४ ॥
उमया सहितो देवो विस्मयं परमं गतः ।
गाढमालिङ्ग्य गिरिजा देवं वचनमब्रवीत् ॥ ४८.३५ ॥
किमर्थं कम्पते शैलः किमर्थं कम्पते धरा ।
किमर्थं कम्पते नागो मर्त्यः पातालमेव च ।
किं वा युगक्षयो देव तन्ममाख्यातुमर्हसि ॥ ४८.३६ ॥
ईश्वर उवाच -
कस्यैषा दुर्मतिर्जाता क्षिप्तः सर्पमुखे करः ।
ललाटे च कृतं वर्म स यास्यति यमालयम् ॥ ४८.३७ ॥
कैलासमाश्रितो येन सुप्तोऽहं येन बोधितः ।
तं वधिष्ये न सन्देहः सम्मुखो वा भवेद्यदि ॥ ४८.३८ ॥
चिन्तयामास देवेशो ह्यन्धकोऽयं न संशयः ।
उपायं चिन्तयामास येनासौ वध्यते क्षणात् ॥ ४८.३९ ॥
आगताश्च सुराः सर्वे ब्रह्माद्या वसुभिः सह ।
रथं देवमयं कृत्वा सर्वलक्षणसंयुतम् ॥ ४८.४० ॥
केचिद्देवाः स्थिताश्चक्रे केचित्तुण्डाग्रपार्श्वयोः ।
केचिन्नाभ्यां स्थिता देवाः केचिद्धुर्येषु संस्थिताः ॥ ४८.४१ ॥
धुरीषु निश्चलाः केचित्केचिद्यूपेषु संस्थिताः ।
केचित्स्यन्दनसंस्तम्भाः केचित्स्यन्दनवेष्टकाः ॥ ४८.४२ ॥
आमलसारकेऽन्येऽपि अन्येऽपि कलशे स्थिताः ।
रिपोर्भयंकरं दिव्यं ध्वजमालादिशोभितम् ॥ ४८.४३ ॥
रथं देवमयं कृत्वा तमारूढो जगद्गुरुः ।
निर्ययौ दानवो यत्र कोपाविष्टो महेश्वरः ॥ ४८.४४ ॥
तिष्ठ तिष्ठेत्युवाचाथ क्व प्रयास्यसि दुर्मते ।
शरासनं करे गृह्य शरांश्चिक्षेप दानवे ॥ ४८.४५ ॥
दानवेऽधिष्ठिते युद्धे शरैश्चिछेद सायकान् ।
शरासनेण तत्रैव अन्धकश्छादितस्तदा ॥ ४८.४६ ॥
न तत्र दृश्यते सूर्यो नाकाशं न च चन्द्रमाः ।
आग्नेयमस्त्रं व्यसृजद्दानवोऽपि शिवं प्रति ॥ ४८.४७ ॥
दह्यमानाः शराङ्गारैस्तत्रसुः सर्वदेवताः ।
रक्ष रक्ष महादेव दह्यमानांस्तु दानवात् ॥ ४८.४८ ॥
ततो देवाधिदेवोऽसौ वारुणास्त्रमयोऽजयत् ।
वारुणास्त्रेण निमिषादाग्नेयं नाशितं तदा ॥ ४८.४९ ॥
दानवेन तदा मुक्तं वायव्यास्त्रं रणाजिरे ।
वारुणं च गतं तात वायव्यास्त्रविनाशितम् ॥ ४८.५० ॥
देवो व्यसर्जयत्सार्पं क्रोधाविष्टेन चेतसा ।
मारुतं नाशितं बाणैः सर्पैस्तत्र न संशयः ॥ ४८.५१ ॥
दानवेन ततो मुक्तं गरुडास्त्रं च लीलया ।
गारुडास्त्रं च तद्दृष्ट्वा सार्पं नैव व्यदृश्यत ॥ ४८.५२ ॥
ततो देवाधिदेवेन नारसिंहं विसर्जितम् ।
नारसिंहास्त्रबाणेन गारुडास्त्रं प्रशामितम् ॥ ४८.५३ ॥
अस्त्रमस्त्रेण शम्येत न बाध्येत परस्परम् ।
महद्युद्धमभूत्तातसुरासुरभयंकरम् ॥ ४८.५४ ॥
चक्रनालीकनाराचैस्तोमरैः खड्गमुद्गरैः ।
वत्सदन्तैस्तथा भल्लैः कर्णिकारैश्च शोभनैः ॥ ४८.५५ ॥
एवं न शक्यते हन्तुं दानवो विविधायुधैः ।
तदा ज्वालाकरालाश्च खड्गनाराचतोमराः ॥ ४८.५६ ॥
वृषाङ्केन विमुक्तास्तु समरे दानवं प्रति ।
न संस्पृशन्ति शस्त्राणि गात्रं गौडवधूरिव ॥ ४८.५७ ॥
आयुधानि ततस्त्यक्त्वा बाहुयुद्धमुपस्थितौ ।
करं करेण संगृह्य प्रहरन्तौ स्वमुष्टिभिः ।
रणप्रयोगैर्युध्यन्तौ युयुधाते शिवान्धकौ ॥ ४८.५८ ॥
श्रीमार्कण्डेय उवाच -
अन्धकं प्रति देवेशश्चिन्तयामास निग्रहम् ।
हनिष्यामि न सन्देहो दुष्टात्मानं न संशयः ॥ ४८.५९ ॥
स शिवेन यदा क्षिप्तः पतितः पृथिवीतले ।
ऊर्ध्वबाहुरधोवक्त्रो दानवो नृपसत्तम ॥ ४८.६० ॥
क्रोधाविष्टेन देवेशः सङ्ग्रामे देवशत्रुणा ।
कक्षयोः कुहरे क्षिप्त्वा बन्धेनाक्रम्य पीडितः ॥ ४८.६१ ॥
निस्पन्दश्चाभवद्देवो मूर्च्छायुक्तो महेश्वरः ।
मूर्च्छापन्नं तु तं ज्ञात्वा चिन्तयामास दानवः ॥ ४८.६२ ॥
हाहा कष्टं कृतं मेऽद्य दुष्कृतं पापकर्मणा ।
किं करोमि कथं कर्म कस्मिन्स्थाने तु मोचये ॥ ४८.६३ ॥
गृहीत्वा देवमुत्सङ्गे गतः कैलासपर्वतम् ।
शय्यायां शङ्करं न्यस्य निर्ययौ दैत्यराट्ततः ॥ ४८.६४ ॥
शय्यायां पतितो देवः प्रपेदे वेदनां ततः ।
तावद्ददर्श चात्मानं स्वकीयभवनस्थितम् ॥ ४८.६५ ॥
पराभवः कृतो मद्यं कथं तेन दुरात्मना ।
क्रोधवेगसमाविष्टो निर्ययौ दानवं प्रति ॥ ४८.६६ ॥
आयसीं लगुडीं गृह्य प्रभुर्भारसहस्रजाम् ।
दानवं च ततो दृष्ट्वा प्राक्षिपत्तस्य मूर्धनि ॥ ४८.६७ ॥
खड्गेन ताडयामास दानवः प्रहसन्रणे ।
देवेनाथस्मृतं चास्त्रं कौच्छेराख्यं महाहवे ॥ ४८.६८ ॥
दीप्यमानं समुत्सृज्य हृदये ताडितः क्षणात् ।
ततः स ताडितस्तेन रुधिरोद्गारमुद्वमन् ॥ ४८.६९ ॥
पतितोऽधोमुखो भूत्वा ततः शूलेन भेदितः ।
पुनश्च देवदेवेन शूलेन द्विदलीकृतः ॥ ४८.७० ॥
शूलाग्रेऽसौ स्थितः पापो भ्रान्तवांश्चक्रवत्तदा ।
ये ये भूम्यां पतन्ति स्म तत्कायाद्रक्तबिन्दवः ॥ ४८.७१ ॥
ते ते सर्वे समुत्तस्थुर्दानवाः शास्त्रपाणयः ।
व्याकुलस्तु ततो देवो दानवेन तरस्विना ॥ ४८.७२ ॥
देवेनाथ स्मृता दुर्गा चामुण्डा भीषणानना ।
आयाता भीषणाकारा नानायुधविराजिता ॥ ४८.७३ ॥
महादंष्ट्रा महाकाया पिङ्गाक्षी लम्बकर्णिका ।
आदेशो दीयतां देव को यास्यति यमालयम् ॥ ४८.७४ ॥
ईश्वर उवाच -
पिबास्य रुधिरं भद्रे यथेष्टं दानवस्य च ।
निपतद्रुधिरं भूमौ दुर्गे गृह्णीष्व माचिरम् ॥ ४८.७५ ॥
निहन्मि दानवं यावत्साहाय्यं कुरु सुन्दरि ।
एवमुक्ता तु सा दुर्गा पपौ च रुधिरं ततः ॥ ४८.७६ ॥
निहता दानवाः सर्वे देवेशेन सहस्रशः ।
अन्धकोऽपि च तान् दृष्ट्वा दानवानवनिं गतान् ।
ततो वाग्भिः प्रतुष्टाव देवदेवं महेश्वरम् ॥ ४८.७७ ॥
अन्धक उवाच -
जयस्व देवदेवेश उमार्धार्धाशरीरधृक् ।
नमस्ते देवदेवेश सर्वाय त्रिगुणात्मने ॥ ४८.७८ ॥
वृषभासनमारूढ शशाङ्ककृतशेखर ।
जय खट्वाङ्गहस्ताय गङ्गाधर नमोऽस्तु ते ॥ ४८.७९ ॥
नमो डमरुहस्ताय नमः कपालमालिने ।
स्मरदेहविनाशाय महेशाय नमोऽस्तु ते ॥ ४८.८० ॥
पूष्णो दन्तनिपाताय गणनाथाय ते नमः ।
जय स्वरूपदेहाय अरूपबहुरूपिणे ॥ ४८.८१ ॥
उत्तमाङ्गविनाशाय विरिञ्चेरपि शङ्कर ।
श्मशानवासिने नित्यं नित्यं भैरवरूपिणे ॥ ४८.८२ ॥
त्वं सर्वगोऽसि त्वं कर्ता त्वं हर्ता नान्य एव च ।
त्वं भूमिस्त्वं दिशश्चैव त्वं गुरुर्भार्गवस्तथा ॥ ४८.८३ ॥
सौरिस्त्वं देवदेवेश भूमिपुत्रस्तथैव च ।
ऋक्षग्रहादिकं सर्वं यद्दृश्यं तत्त्वमेव च ॥ ४८.८४ ॥
एवं स्तुतिं तदा कृत्वा देवं प्रति स दानवः ।
संहताभ्यां तु पाणिभ्यां प्रणनाम महेश्वरम् ॥ ४८.८५ ॥
ईश्वर उवाच -
साधु साधु महासत्त्व वरं याचस्व दानव ।
दाताहं याचकस्त्वं हि ददामीह यथेप्सितम् ॥ ४८.८६ ॥
अन्धक उवाच -
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
तदात्मसदृशोऽहं ते कर्तव्यो नापरो वरः ॥ ४८.८७ ॥
भस्मी जटी त्रिनेत्री च त्रिशूली च चतुर्भुजः ।
व्याघ्रचर्मोत्तरीयश्च नागयज्ञोपवीतकः ॥ ४८.८८ ॥
एतदिच्छाम्यहं सर्वं यदि तुष्टो महेश्वर ॥ ४८.८९ ॥
ईश्वर उवाच -
ददामि ते वरं ह्यद्य यस्त्वया याचितोऽनघ ।
गणेषु मे स्थितः पुत्र भृङ्गीशस्त्वं भविष्यसि ॥ ४८.९० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽन्धकवधतद्वरप्रदानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 49
अध्याय ४९
मार्कण्डेय उवाच -
अन्धकं तु निहत्याथ देवदेवो महेश्वरः ।
उमया सहितो रुद्रः कैलासमगमन्नगम् ॥ ४९.१ ॥
आगताश्च ततो देवा ब्रह्माद्याश्च सवासवाः ।
हृष्टास्तुष्टाश्च ते सर्वे प्रणेमुः पार्वतीपतिम् ॥ ४९.२ ॥
ईश्वर उवाच -
उपाविशन्तु ते सर्वे ये केचन समागताः ।
निहतो दानवो ह्येष गीर्वाणार्थे पितामह ॥ ४९.३ ॥
रक्तेन तस्य मे शूलं निर्मलं नैव जायते ।
शुभव्रततपोजप्यरतो ब्रह्मन्मया हतः ॥ ४९.४ ॥
कर्तुमिच्छाम्यहं सम्यक्तीर्थयानं चतुर्मुख ।
आगच्छन्तु मया सार्द्धं ये यूयमिह संगताः ॥ ४९.५ ॥
इत्युक्त्वा देवदेवेशः प्रभासं प्रतिनिर्ययौ ।
प्रभासाद्यानि तीर्थानि गङ्गासागरमध्यतः ॥ ४९.६ ॥
अवगाह्यापि सर्वाणि नैर्मल्यं नाभवन्नृप ।
नर्मदायां ततो गत्वा देवो देवैः समन्वितः ॥ ४९.७ ॥
उत्तरं दक्षिणं कूलमवागाहत्प्रियव्रतः ।
गतस्तु दक्षिणे कूले पर्वते भृगुसंज्ञितम् ॥ ४९.८ ॥
तत्र स्थित्वा महादेवो देवैः सह महीपते ।
भ्रान्त्वा भ्रान्त्वा चिरं श्रान्तो निर्विण्णो निषसाद ह ॥ ४९.९ ॥
मनोहारि यतः स्थानं सर्वेषां वै दिवौकसाम् ।
तीर्थं विशिष्टं तन्मत्वा स्थितो देवो महेश्वरः ॥ ४९.१० ॥
गिरिं विव्याध शूलेन भिन्नं तेन रसातलम् ।
निर्मलं चाभवच्छूलं न लेपो दृश्यते क्वचित् ॥ ४९.११ ॥
देवैराह्वानिता तत्र महापुण्या च भारती ।
पर्वतान्निःसृता तत्र महापुण्या सरस्वती ॥ ४९.१२ ॥
द्वितीयः सङ्गमस्तत्र यथा वेण्यां सितासितः ।
तत्र ब्रह्मा स्वयं देवो ब्रह्मेशं लिङ्गमुत्तमम् ॥ ४९.१३ ॥
संस्थापयामास पुण्यं सर्वदुःखघ्नमुत्तमम् ।
तस्य याम्ये दिशो भागे स्वयं देवो जनार्दनः ॥ ४९.१४ ॥
तिष्ठते च सदा तत्र विष्णुपादाग्रसंस्थिता ।
अम्भसो न भवेन्मार्गः कुण्डमध्यस्थितस्य च ॥ ४९.१५ ॥
शूलाग्रेण कृता रेखा ततस्तोयं वहेन्नृप ।
तत्तोयं च गतं तत्र यत्र रेवा महानदी ॥ ४९.१६ ॥
जललिङ्गं महापुण्यं चकतीर्थं नृपोत्तम ।
शूलभेदे च देवेशः स्नानं कुर्याद्यथाविधि ॥ ४९.१७ ॥
आत्मानं मन्यते शुद्धं न किंचित्कल्मषं कृतम् ।
तस्यैवोत्तरकाष्ठायां देवदेवो जगद्गुरुः ॥ ४९.१८ ॥
आत्मना देवदेवेशः शूलपाणिः प्रतिष्ठितः ।
सर्वतीर्थेषु तत्तीर्थं सर्वदेवमयं परम् ॥ ४९.१९ ॥
सर्वपापहरं पुण्यं सर्वदुःखघ्नमुत्तमम् ।
तत्र तीर्थे प्रतिष्ठाप्य देवदेवं जगद्गुरुः ॥ ४९.२० ॥
रक्षापालांस्ततो मुक्त्वा शतं साष्टविनायकान् ।
क्षेत्रपालाः शतं साष्टं तद्रक्षन्ति प्रयत्नतः ॥ ४९.२१ ॥
विघ्नास्तस्योपजायन्ते यस्तत्र स्थातुमिच्छति ।
केचित्कुटुम्बात्ततासु व्याग्राः केचित्कृषीषु च ॥ ४९.२२ ॥
केचित्सभां प्रकुर्वन्ति केचिद्द्रव्यार्जने रताः ।
परोक्षवादं कुर्वन्ति केऽपि हिंसारताः सदा ॥ ४९.२३ ॥
परदाररताः केचित्केचिद्वृत्तिविहिंसकाः ।
अन्ये केचिद्वदन्त्येवं कथं तीर्थेषु गम्यते ॥ ४९.२४ ॥
क्षुधया पीड्यते भार्या पुत्रभृत्यादयस्तदा ।
मोहजालेषु योज्यन्ते एवं देवगणैर्नराः ॥ ४९.२५ ॥
पापाचाराश्च ये मर्त्याः स्नानं तेषां न जायते ।
संरक्षन्ति च तत्तीर्थं देवभृत्यगणाः सदा ॥ ४९.२६ ॥
धन्याः पुण्याश्च ये मर्त्यास्तेषां स्नानं प्रजायते ।
सरस्वत्या भोगवत्या देवनद्या विशेषतः ॥ ४९.२७ ॥
अयं तु सङ्गमः पुण्यो यथा वेण्यां सितासितः ।
दृष्ट्वा तीर्थं तु ते सर्वे गीर्वाणा हृष्टचेतसः ॥ ४९.२८ ॥
देवस्य सन्निधौ भूत्वा वर्णयामासुरुत्तमम् ।
इदं तीर्थं तु देवेश गयातीर्थेन ते समम् ॥ ४९.२९ ॥
गुह्याद्गुह्यतमं तीर्थं न भूतं न भविष्यति ।
शूलपाणिः समभ्यर्च्य इन्द्राद्यैरप्सरोगणैः ॥ ४९.३० ॥
यक्षकिन्नरगन्धर्वैर्दिक्पालैर्लोकपैरपि ।
नृत्यगीतैस्तथा स्तोत्रैः सर्वैश्चापि सुरासुरैः ॥ ४९.३१ ॥
पूज्यमानो गणैः सर्वैः सिद्धैर्नागैर्महेश्वरः ।
देवेन भेदितं तत्र शूलाग्रेण नराधिप ॥ ४९.३२ ॥
त्रिधा यत्रेक्ष्यतेऽद्यापि ह्यावर्तः सुरपूरितः ।
कुण्डत्रयं नरव्याघ्र महत्कलकलान्वितम् ॥ ४९.३३ ॥
सर्वपापक्षयकरं सर्वदुःखघ्नमुत्तमम् ।
तत्र तीर्थे तु यः स्नाति उपवासपरायणः ॥ ४९.३४ ॥
दीक्षामन्त्रविहीनोऽपि मुच्यते चाब्दिकादघात् ।
ये पुनर्विधिवत्स्नान्ति मन्त्रैः पञ्चभिरेव च ॥ ४९.३५ ॥
वेदोक्तैः पञ्चभिर्मन्त्रैः सहिरण्यघटैः शुभैः ।
अक्षरैर्दशभिश्चैव षड्भिर्वा त्रिभिरेव वा ॥ ४९.३६ ॥
पृथग्भूतैर्द्विजातीनां तीर्थे कार्यं नराधिप ।
ब्रह्मक्षत्रविशां वापि स्त्रीशूद्राणां तथैव च ॥ ४९.३७ ॥
पुरुषाणां त्रयीं ध्यात्वा स्नानं कुर्याद्यथाविधि ।
दशाक्षरेण मन्त्रेण ये पिबन्ति जलं नराः ॥ ४९.३८ ॥
ते गच्छन्ति परं लोकं यत्र देवो महेश्वरः ।
केदारे च यथा पीतं रुद्रकुण्डे तथैव च ॥ ४९.३९ ॥
पञ्चरेफसमायुक्तं क्षकारं सुरपूजितम् ।
ओङ्कारेण समायुक्तमेतद्वेद्यं प्रकीर्तितम् ॥ ४९.४० ॥
यस्तत्र कुरुते स्नानं विधियुक्तो जितेन्द्रियः ।
तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः ॥ ४९.४१ ॥
कुलानां तारयेद्विंशं दशपूर्वान्दशापरान् ।
गयादिपञ्चस्थानेषु यः श्राद्धं कुरुते नरः ॥ ४९.४२ ॥
स तत्र फलमाप्नोति शूलभेदे न संशयः ।
यस्तत्र विधिना युक्तो दद्याद्दानानि भक्तितः ॥ ४९.४३ ॥
तुदक्षयं फलं तत्र सुकृतं दुष्कृतं तथा ।
गयाशिरो यथा पुण्यं पितृकार्येषु सर्वदा ॥ ४९.४४ ॥
शूलभेदं तथा पुण्यं स्नानदानादितर्पणैः ।
भक्त्या ददाति यस्तत्र काञ्चनं गां महीं तिलान् ॥ ४९.४५ ॥
आसनोपानहौ शय्यां वराश्वान् क्षत्रियस्तथा ।
वस्त्रयुग्मं च धान्यं च गृहं पूर्णं प्रयत्नतः ॥ ४९.४६ ॥
सयोक्त्रं लाङ्गलं दद्यात्कृष्टां चैव वसुंधराम् ।
दानान्येतानि यो दद्याद्ब्राह्मणे वेदपारगे ॥ ४९.४७ ॥
श्रोत्रिये कुलसम्पन्ने शुचिष्मति जितेन्द्रिये ।
श्रुताध्ययनसम्पन्ने दम्भहीने क्रियान्विते ।
त्रयोदशाहःस्वेकैकं त्रयोदशगुणं भवेत् ॥ ४९.४८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदोत्पत्तिमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 50
अध्याय ५०
उत्तानपाद उवाच -
द्विजाश्च कीदृशाः पूज्या अपूज्याः कीदृशाः स्मृताः ।
श्राद्धे वैवाहिके कार्ये दाने चैव विशेषतः ॥ ५०.१ ॥
यदि श्रद्धा भवेद्दैवयोगाच्छ्राद्धादिके विधौ ।
एतदाख्याहि मे देव कस्य दानं न दीयते ॥ ५०.२ ॥
ईश्वर उवाच -
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥ ५०.३ ॥
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।
यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ॥ ५०.४ ॥
यथाऽनृणे बीजमुप्त्वा वप्ता न लभते फलम् ।
तथानृचे हविर्दत्त्वा न दाता लभते फलम् ॥ ५०.५ ॥
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ।
अवकीर्णी श्यावदन्तः सर्वाशी वृषलीपतिः ॥ ५०.६ ॥
मित्रध्रुक्पिशुनः सोमविक्रयी परनिन्दकः ।
पितृमातृगुरुत्यागी नित्यं ब्राह्मणनिन्दकः ॥ ५०.७ ॥
शूद्रान्नं मन्त्रसंयुक्तं यो विप्रो भक्षयेन्नृप ।
सोऽस्पृश्यः कर्मचाण्डालः स्पृष्ट्वा स्नानं समाचरेत् ॥ ५०.८ ॥
कुनखी वृषली स्तेयी वार्द्धुष्यः कुण्डगोलकौ ।
महादानरतो यश्च यश्चात्महनने रतः ॥ ५०.९ ॥
भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ।
एते विप्राः सदा त्याज्याः परिभाव्य प्रयत्नतः ॥ ५०.१० ॥
प्रतिग्रहं गृहीत्वा तु वाणिज्यं यस्तु कारयेत् ।
तस्य दानं न दातव्यं वृथा भवति तस्य तत् ॥ ५०.११ ॥
श्रुताध्ययनसम्पन्ना ये द्विजा वृत्ततत्पराः ।
तेषां यद्दीयते दानं सर्वमक्षयतां व्रजेत् ॥ ५०.१२ ॥
दरिद्रान्भर भूपाल मा समृद्धान् कदाचन ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥ ५०.१३ ॥
उत्तानपाद उवाच -
कीदृशोऽथ विधिस्तत्र तीर्थश्राद्धस्य का क्रिया ।
दानं च दीयते यद्वत्तन्ममाख्याहि शङ्कर ॥ ५०.१४ ॥
ईश्वर उवाच -
श्राद्धं कृत्वा गृहे भक्त्या शुचिश्चापि जितेन्द्रियः ।
गुरुं प्रदक्षिणीकृत्य भोज्य सीमान्तके ततः ॥ ५०.१५ ॥
वाग्यतः प्रव्रजेत्तावद्यावत्सीमां न लङ्घयेत् ।
शूलभेदं ततो गत्वा स्नानं कुर्याद्यथाविधि ॥ ५०.१६ ॥
पञ्चस्थानेषु च श्राद्धं हव्यकव्यादिभिः क्रमात् ।
पिण्डदानं च यः कुर्यात्पायसैर्मधुसर्पिषा ॥ ५०.१७ ॥
पितरस्तस्य तृप्यन्ति द्वादशाब्दानि पञ्च च ।
अक्षतैर्बदरैर्बिल्वैर्गुदमधुसर्पिषा ॥ ५०.१८ ॥
सापि तत्फलमाप्नोति तीर्थेऽस्मिन्नात्र संशयः ।
उपानहौ च यो दद्याद्ब्राह्मणेभ्यः प्रयत्नतः ॥ ५०.१९ ॥
सोऽपि स्वर्गमवाप्नोति हयारूढो न संशयः ।
शय्यामश्वं च यो दद्याच्छत्त्रिकां वा विशेषतः ॥ ५०.२० ॥
गच्छेद्विमानमारूढः सोऽप्सरोवृन्दवेष्टितः ।
उत्तमं यो गृहं दद्यात्सप्तधान्यसमन्वितम् ॥ ५०.२१ ॥
स्वेच्छया मे वसेल्लोके काञ्चने भवने हि सः ।
तिलधेनुं च यो दद्यात्सवत्सां वस्त्रसंप्लुताम् ॥ ५०.२२ ॥
नाकपृष्ठे वसेत्तावद्यावदाभूतसम्प्लवम् ।
गृहे वा यदि वारण्ये तीर्थवर्त्मनि वा नृप ॥ ५०.२३ ॥
तोयमन्नं च यो दद्याद्यमलोकं स नेक्षते ।
सर्वदानानि दीयन्ते तेषां फलमवाप्यते ॥ ५०.२४ ॥
उदकं चात्र दानं च दद्यादभयमेव च ।
अन्नदानात्परं दानं न भूतं न भविष्यति ॥ ५०.२५ ॥
कन्यादानं तु यः कुर्याद्वृषं वा यः समुत्सृजेत् ।
तस्य वासो भवेत्तत्र यत्राहमिति नान्यथा ॥ ५०.२६ ॥
उत्तानपाद उवाच -
कन्यादानं कथं स्वामिन् कर्तव्यं धार्मिकैः सदा ।
परिग्रहो यथा पोष्यः कन्योद्वाहस्तथैव च ॥ ५०.२७ ॥
अन्यत्पृच्छामि देवेश कस्य कन्या न दीयते ।
दातव्यं कुत्र तद्देव कस्मै दत्तमथाक्षयम् ॥ ५०.२८ ॥
उत्तमं मध्यमं वापि कनीयः स्यात्कथं विभो ।
राजसं तामसं वापि निःश्रेयसमथापि वा ॥ ५०.२९ ॥
ईश्वर उवाच -
सर्वेषामेव दानानां कन्यादानं विशिष्यते ।
यो दद्यात्परया भक्त्याभिगम्य तनयां निजाम् ॥ ५०.३० ॥
कुलीनाय सुरूपाय गुणज्ञाय मनीषिणे ।
सुलग्ने सुमुहूर्ते च दद्यात्कन्यामलंकृताम् ॥ ५०.३१ ॥
अश्वान्ना गांश्च वासांसि योऽत्र दद्यात्स्वशक्तितः ।
तस्य वासो भवेत्तत्र पदं यत्र निरामयम् ॥ ५०.३२ ॥
येनात्र दुहिता दत्ता प्राणेभ्योऽपि गरीयसी ।
तेन सर्वमिदं दत्तं त्रैलोक्यं सचराचरम् ॥ ५०.३३ ॥
यः कन्यार्थं ततो लब्ध्वा भिक्षते चैव तद्धनम् ।
स भवेत्कर्मचण्डालः काष्ठकीलो भवेन्मृतः ॥ ५०.३४ ॥
गृहेऽपि तस्य योऽश्नीयाज्जिह्वालौल्यात्कथंचन ।
चान्द्रायणेन शुध्येत तप्तकृच्छ्रेण वा पुनः ॥ ५०.३५ ॥
उत्तानपाद उवाच -
वित्तं न विद्यते यस्य कन्यैवास्ति च यद्गृहे ।
कथं चोद्वाहनं तस्य न याञ्चां कुरुते यदि ॥ ५०.३६ ॥
ईश्वर उवाच -
अवितेनैव कर्तव्यं कन्योद्वहनकं नृप ।
कन्यानाम समुच्चार्य न दोषाय कदाचन ॥ ५०.३७ ॥
अभिगम्योत्तमं दानं यच्च दानमयाचितम् ।
भविष्यति युगस्यान्तस्तस्यान्तो नैव विद्यते ॥ ५०.३८ ॥
अभिगम्योत्तमं दानं स्मृतमाहूय मध्यमम् ।
याच्यमानं कनीयः स्याद्देहि देहीति चाधमम् ॥ ५०.३९ ॥
यथैवाश्माश्मनाबद्धो निक्षिप्तो वारिमध्यतः ।
द्वावेतौ निधनं यातस्तद्वदन्नमपात्रके ॥ ५०.४० ॥
असमर्थे ततो दानं न प्रदेयं कदाचन ।
दातारं नयतेऽधस्तादात्मानं च विशेषतः ॥ ५०.४१ ॥
समर्थस्तारयेद्द्वौ तु काष्ठं शुष्कं यथा जले ।
यथा नौश्च तथा विद्वान्प्रापयेदपरं तटम् ॥ ५०.४२ ॥
आहिताग्निश्च गृह्णाति यः शूद्राणां प्रतिग्रहम् ।
इह जन्मनि शूद्रोऽसौ मृतः श्वा चोपजायते ॥ ५०.४३ ॥
वृथा क्लेशश्च जायेत ब्राह्मणे ह्यग्निहोत्रिणि ।
असत्प्रतिग्रहं कुर्वन्गुप्तं नीचस्य गर्हितम् ॥ ५०.४४ ॥
अभोज्यः स भवेन्मर्त्यो दह्यते कारिषाग्निना ।
कटकारो भवेत्पश्चात्सप्त जन्म न संशयः ॥ ५०.४५ ॥
लज्जादाक्षिण्यलोभाच्च यद्दानं चोपरोधजम् ।
भृत्येभ्यश्च तु यद्दानं तद्वृथा निष्फलं भवेत् ॥ ५०.४६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये पात्रापात्रपरीक्षादानादिनियमवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 51
अध्याय ५१
उत्तानपाद उवाच -
काले तत्क्रियते कस्मिञ्छ्राद्धं दानं तथेश्वर ।
यात्रा तत्र प्रकर्तव्या तिथौ यस्यां वदाशु तत् ॥ ५१.१ ॥
ईश्वर उवाच -
पितृतीर्थं यथा पुण्यं सर्वकामिकमुत्तमम् ।
इदं तीर्थं तथा पुण्यं स्नानदानादितर्पणैः ॥ ५१.२ ॥
विशेषेण तु कुर्वीत श्राद्धं सर्वयुगादिषु ।
मन्वन्तरादयो वत्स श्रूयन्तां च चतुर्दश ॥ ५१.३ ॥
अश्वयुक्छुक्लनवमी द्वादशी कार्त्तिकस्य च ।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ ५१.४ ॥
आषाढस्यैव दशमी माघस्यैव तु सप्तमी ।
श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा ॥ ५१.५ ॥
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता ।
कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी तथा ॥ ५१.६ ॥
मन्वन्तरादयश्चैते अनन्तफलदाः स्मृताः ।
अयने चोत्तरे राजन्दक्षिणे श्राद्धमाचरेत् ॥ ५१.७ ॥
कार्त्तिकी च तथा माघी वैशाखस्य तृतीयिका ।
पौर्णमासी च चैत्रस्य ज्येष्ठस्य च विशेषतः ॥ ५१.८ ॥
अष्टकासु च संक्रान्तौ व्यतीपाते तथैव च ।
श्राद्धकाला इमे सर्वे दत्तमेष्वक्षयं स्मृतम् ॥ ५१.९ ॥
मधुमासे सिते पक्ष एकादश्यामुपोषितः ।
निशि जागरणं कुर्याद्विष्णुपादसमीपतः ॥ ५१.१० ॥
धूपदीपादिनैवेद्यैः स्रङ्मालागुरुचन्दनैः ।
अर्चां कुर्वन्ति ये विष्णोः पठेयुः प्राक्तनीं कथाम् ॥ ५१.११ ॥
ऋग्यजुःसाममन्त्रोक्तं सूक्तं जपति यो द्विजः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ५१.१२ ॥
प्रातः श्राद्धं प्रकुर्वीत द्विजान् सम्पूज्य यत्नतः ।
दानं दद्याद्यथाशक्ति गोहिरण्याम्बरादिकम् ॥ ५१.१३ ॥
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ।
श्राद्धदस्तु व्रजेत्तत्र यत्र देवो जनार्दनः ॥ ५१.१४ ॥
त्रयोदश्यां ततो गच्छेद्गुहावासिनि लिङ्गके ।
दृष्ट्वा मार्कण्डमीशानं मुच्यते सर्वपातकैः ॥ ५१.१५ ॥
उत्तानपाद उवाच -
गुहामध्ये महादेव लिङ्गं परमशोभितम् ।
येन प्रतिष्ठितं देव तन्ममाख्यातुमर्हसि ॥ ५१.१६ ॥
ईश्वर उवाच -
त्रिषु लोकेषु विख्यातो मार्कण्डेयो मुनीश्वरः ।
दिव्यं वर्षसहस्रं स तपस्तेपे सुदारुणम् ॥ ५१.१७ ॥
गुहामध्यं प्रविष्टोऽसौ योगाभ्यासमुपाश्रितः ।
लिङ्गं तु स्थापितं तेन मार्कण्डेश्वरसंज्ञितम् ॥ ५१.१८ ॥
तत्र स्नात्वा च यो भक्त्या सोपवासो जितेन्द्रियः ।
तत्र जागरणं कुर्वन् दद्याद्दीपं प्रयत्नतः ॥ ५१.१९ ॥
देवस्य स्नपनं कुर्यान्मृतैः पञ्चभिस्तथा ।
यथा शक्त्या समालभ्य पूजां कुर्याद्यथाविधि ॥ ५१.२० ॥
स्वशाखोत्पन्नमन्त्रैश्च जपं कुर्युर्द्विजातयः ।
सावित्र्यष्टसहस्रं तु शताष्टकमथापि वा ॥ ५१.२१ ॥
एतत्कृत्वा नृपश्रेष्ठ जन्मनः फलमाप्नुयात् ।
चतुर्दश्यां तु वै स्नात्वा पूजां कृत्वा यथाविधि ॥ ५१.२२ ॥
पात्रं परीक्ष्य दातव्यमात्मनः श्रेय इच्छता ।
पितरस्तस्य तृप्यन्ति द्वादशाब्दान्यसंशयम् ॥ ५१.२३ ॥
दाता स गच्छते तत्र यत्र भोगाः सनातनाः ।
गुहामध्ये प्रविष्टस्तु लोटयेच्चैव शक्तितः ॥ ५१.२४ ॥
नीले गिरौ हि यत्पुण्यं तत्समस्तं लभन्ति ते ।
शूलभेदे तु यः कुर्याच्छ्राद्धं पर्वणि पर्वणि ॥ ५१.२५ ॥
विशेषाच्चैत्रमासान्ते तस्य पुण्यफलं शृणु ।
केदारे चैव यत्पुण्यं गङ्गासागरसङ्गमे ॥ ५१.२६ ॥
सितासिते तु यत्पुण्यमन्यतीर्थे विशेषतः ।
अर्बुदे विद्यते पुण्यं पुण्यं चामरपर्वते ॥ ५१.२७ ॥
गयादिसर्वतीर्थानां फलमाप्नोति मानवः ।
विधिमन्त्रसमायुक्तस्तर्पयेत्पितृदेवताः ॥ ५१.२८ ॥
कुलानां तारयेद्विंशं दश पूर्वान् दशापरान् ।
दक्षिणस्यां ततो मूर्तौ शुचिर्भूत्वा समाहितः ॥ ५१.२९ ॥
न्यासं कृत्वा तु पूर्वोक्तं प्रदद्यादष्टपुष्पिकाम् ।
शास्त्रोक्तैरष्टभिः पुष्पैर्मानसैः शृणु तद्यथा ॥ ५१.३० ॥
वारिजं सौम्यमाग्नेयं वायव्यं पार्थिवं पुनः ।
वानस्पत्यं भवेत्षष्ठं प्राजापत्यं तु सप्तमम् ॥ ५१.३१ ॥
अष्टमं शिवपुष्पं स्यादेषां शृणु विनिर्णयम् ।
वारिजं सलिलं ज्ञेयं सौम्यं मधुघृतं पयः ॥ ५१.३२ ॥
आग्नेयं धूपदीपाद्यं वायव्यं चन्दनादिकम् ।
पार्थिवं कन्दमूलाद्यं वानस्पत्यं फलात्मकम् ॥ ५१.३३ ॥
प्राजापत्यं तु पाठाद्यं शिवपुष्पं तु वासना ।
अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ॥ ५१.३४ ॥
तृतीयं तु दया पुष्पं क्षमा पुष्पं चतुर्थकम् ।
ध्यानपुष्पं तपः पुष्पं ज्ञानपुष्पं तु सप्तमम् ॥ ५१.३५ ॥
सत्यं चैवाष्टमं पुष्पमेभिस्तुष्यन्ति देवताः ।
भक्त्या तपस्विनः पूज्या ज्ञानिनश्च नराधिप ॥ ५१.३६ ॥
छत्रमावरणं दद्यादुपानद्युगलं तथा ।
तेन पूजितमात्रेण पूजिताः पुरुषास्त्रयः ॥ ५१.३७ ॥
स्वर्गलोके वसेत्तावद्यावदाभूतसम्प्लवम् ।
शूलपाणेस्तु भक्त्या वै जाप्यं कुर्वन्ति ये नराः ॥ ५१.३८ ॥
पञ्चामृतैः पञ्चगव्यैर्यक्षकर्दमकुङ्कुमैः ।
समालभेत देवेशं श्रीखण्डागुरुचन्दनैः ॥ ५१.३९ ॥
नानाविधैश्च ये पुष्पैरर्चां कुर्वन्ति शूलिनः ।
निशि जागरणं कुर्युर्दीपदानं प्रयत्नतः ॥ ५१.४० ॥
धूपनैवेद्यकं दद्यात्पठेत्पौराणिकीं कथाम् ।
तत्र स्थाने स्थिता भक्त्या जपं कुर्वन्ति ये नराः ॥ ५१.४१ ॥
श्रीसूक्तं पौरुषं सूक्तं पावमानं वृषाकपिम् ।
वेदोक्तैश्चैव मन्त्रैश्च रौद्रीं वा बहुरूपिणीम् ॥ ५१.४२ ॥
ब्राह्मणान् पूजयेद्भक्त्या पूजयित्वा प्रणम्य च ।
नानाविधैर्महाभोगैः शिवलोके महीयते ॥ ५१.४३ ॥
अग्निमित्यादि जाप्यानि ऋग्वेदी जपते तु यः ।
रुद्रान् पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् ॥ ५१.४४ ॥
इषेत्वा दिकमन्त्रौघं ज्योतिर्ब्राह्मणमेव च ।
गायत्र्यं वै मधु चैव मण्डलब्राह्मणानि च ॥ ५१.४५ ॥
एताञ्जप्यांस्तु यो भक्त्या यजुर्वेदी जपेद्यदि ।
देवव्रतं वामदेव्यं पुरुषर्षभमेव च ॥ ५१.४६ ॥
बृहद्रथान्तरं चैव यो जपेद्भक्तितत्परः ।
स प्रयाति नरः स्थानं यत्र देवो महेश्वरः ॥ ५१.४७ ॥
पादशौचं तथाभ्यङ्गं कुरुते योऽत्र भक्तितः ।
गोदाने चैव यत्पुण्यं लभते नात्र संशयः ॥ ५१.४८ ॥
ब्राह्मणान् भोजयेत्तत्र मधुना पायसेन च ।
एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ॥ ५१.४९ ॥
सुवर्णं रजतं वस्त्रं दद्याद्भक्त्या द्विजोत्तमे ।
तर्पितास्तेन देवाः स्युर्मनुष्याः पितरस्तथा ॥ ५१.५० ॥
चन्द्रसूर्यग्रहे भक्त्या स्नानं कुर्वन्ति ये नराः ।
देवार्चनं ये च कुर्युर्जपं होमं विशेषतः ।
दद्याद्दानं यथाशक्ति ब्राह्मणे वेदपारगे ॥ ५१.५१ ॥
अश्वं रथं गजं यानं तुलापुरुषमेव च ।
शकटं यः प्रदद्याद्वा सप्तधान्यप्रपूरितम् ॥ ५१.५२ ॥
सयोक्त्रं लाङ्गलं दद्याद्युवानौ तु धुरंधरौ ।
गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् ॥ ५१.५३ ॥
अपात्रे विदुषा किंचिन्न देयं भूतिमिच्छता ।
यतोऽसौ सर्वभूतानि दधाति धरणी किल ॥ ५१.५४ ॥
ततो विप्राय सा देया सर्वसस्यौघमालिनी ।
अथान्यच्छृणु राजेन्द्र गोदानस्य तु यत्फलम् ॥ ५१.५५ ॥
यावद्वत्सस्य पादौ द्वौ मुखं योन्यां प्रदृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ ५१.५६ ॥
येन केनाप्युपायेन ब्राह्मणे तां समर्पयेत् ।
पृथ्वी दत्ता भवेत्तेन सशैलवनकानना ॥ ५१.५७ ॥
तारयेन्नियतं दत्ता कुलानामेकविंशतिम् ।
रौप्यखुरीं कांस्यदोहां सवस्त्रां च पयस्विनीम् ॥ ५१.५८ ॥
ये प्रयच्छन्ति कृतिनो ग्रस्ते सूर्ये निशाकरे ।
तेषां संख्यां न जानामि पुण्यस्याब्दशतैरपि ॥ ५१.५९ ॥
सर्वस्यापि हि दानस्य संख्यास्तीह नराधिप ।
चन्द्रसूर्योपरागे च दानसंख्या न विद्यते ॥ ५१.६० ॥
यत्र गौर्दृश्यते राजन् सर्वतीर्थानि तत्र हि ।
तत्र पर्व विजानीयान्नात्र कार्या विचारणा ॥ ५१.६१ ॥
पुनः स्मृत्वा तु तत्तीर्थं यः कुर्याद्गमनं नरः ।
अथवा म्रियते योऽत्र रुद्रस्यानुचरो भवेत् ॥ ५१.६२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदे दानधर्मप्रशंसावर्णनं नामैकपञ्चाशत्तमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 52
अध्याय ५२
ईश्वर उवाच -
अन्यदाख्यानकं वक्ष्ये पुरा वृत्तं नराधिप ।
सकुटुम्बो गतः स्वर्गं मुनिर्यत्र महातपाः ॥ ५२.१ ॥
उत्तानपाद उवाच -
कथं नाकं गतो विप्रः सकुटुम्बो महानृषिः ।
कौतुकं परमं देव कथयस्व मम प्रभो ॥ ५२.२ ॥
ईश्वर उवाच -
चित्रसेन इति ख्यातः काशीराजः पुराभवत् ।
शूरो दाता सुधर्मात्मा सर्वकामसमृद्धिमान् ॥ ५२.३ ॥
सा पुरी जनसंकीर्णा नानारत्नोपशोभिता ।
वाराणसीति विख्याता गङ्गातीरमुपाश्रिता ॥ ५२.४ ॥
शरच्चन्द्रप्रतीकाशा विद्वज्जनविभूषिता ।
इन्द्रयष्टिसमाकीर्णा गोपगोकुलसंवृता ॥ ५२.५ ॥
बहुध्वजसमाकीर्णा वेदध्वनिनिनादिता ।
वणिग्जनैर्बहुविधैः क्रयविक्रयशालिनी ॥ ५२.६ ॥
यन्त्रादानैः प्रतोलीभिरुच्चैश्चान्यैः सुशोभिता ।
देवतायतनैर्दिव्यैराश्रमैर्गहनैर्युता ॥ ५२.७ ॥
नानापुष्पफलैर्रम्या कदलीखण्डमण्डिता ।
पनसैर्बकुलैस्तालैरशोकैराम्रकैस्तथा ॥ ५२.८ ॥
राजवृक्षकपित्थैश्च दाडिमैरुपशोभिता ।
वेदाध्ययननिर्घोषैः पवित्रीकृतमङ्गला ॥ ५२.९ ॥
तस्या उत्तरदिग्भागे आश्रमोऽभूत्सुशोभनः ।
तन्मन्दारवनं नाम त्रिषु लोकेषु विश्रुतम् ॥ ५२.१० ॥
बहुमन्दारसंयुक्तं तेन मन्दारकं विदुः ।
विप्रो दीर्घतपा नाम सर्वदा तत्र तिष्ठति ॥ ५२.११ ॥
तपस्तपति सोऽत्यर्थं तेन दीर्घतपाः स्मृतः ।
स तिष्ठति सपत्नीकः ससुतः सस्नुषस्तथा ॥ ५२.१२ ॥
शुश्रूषन्ति सदा तस्य पुत्राः पञ्च प्रयत्नतः ।
तस्य पुत्रः कनीयांस्तु ऋक्षशृङ्गो महातपाः ॥ ५२.१३ ॥
वेदाध्ययनसम्पन्नो ब्रह्मचारी गुणान्वितः ।
योगाभ्यासरतो नित्यं कन्दमूलफलाशनः ॥ ५२.१४ ॥
तिष्ठते मृगरूपेण मृगयूथचरस्तदा ।
दिनान्ते च दिनान्ते च मातापित्रोः समीपगः ॥ ५२.१५ ॥
अभिवादयते नित्यं भक्तिमान्मुनिपुत्रकः ।
पुनर्गच्छति तत्रैव कानने गिरिगह्वरे ॥ ५२.१६ ॥
क्रीडन्बालमृगैः सार्द्धं प्रत्यहं स मुनेः सुतः ।
कदाचिद्दैवयोगेन ऋक्षशृङ्गो ममार सः ॥ ५२.१७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये ऋक्षशृङ्गचरित्रे दीर्घतपोमुन्याख्यानवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 53
अध्याय ५३
उत्तानपाद उवाच -
आश्रमे वसतस्तस्य स दीर्घतपसो मुनेः ।
कनीयांस्तनयो देव कथं मृत्युमुपागतः ॥ ५३.१ ॥
ईश्वर उवाच -
शृणुष्वैकमना भूत्वा कथां दिव्यां महीपते ।
श्रवणादेव यस्यास्तु मुच्यते सर्वकिल्बिषैः ॥ ५३.२ ॥
काशीराजो महावीर्यो महाबलपराक्रमः ।
चित्रसेन इति ख्यातां धरण्यां स नराधिप ॥ ५३.३ ॥
तस्य राज्ये सदा धर्मो नाधर्मो विद्यते क्वचित् ।
वेदधर्मरतो नित्यं प्रजा धर्मेण पालयन् ॥ ५३.४ ॥
स्वधर्मनिरतश्चैव युद्धातिथ्यप्रियः सदा ।
क्षत्रधर्मं समाश्रित्य भोगान्भुङ्क्ते स कामतः ॥ ५३.५ ॥
कोशस्यान्तो न विद्येत हस्त्यश्वरथपत्तिमान् ।
इतिहासपुराणज्ञैः पण्डितैः सह संकथाम् ॥ ५३.६ ॥
कथयन्राजते राजा कैलास इव शङ्करः ।
एवं स पालयन्राज्यं राजा मन्त्रिणमब्रवीत् ॥ ५३.७ ॥
मृगयायां गमिष्यामि तिष्ठध्वं राज्यपालने ।
गम्यतां सचिवैः प्रोक्ते गतोऽसौ वसुधाधिपः ॥ ५३.८ ॥
अश्वारूढाश्च धावन्तो राजानो मण्डलाधिपाः ।
छत्रैश्छत्राणि घृष्यन्तोऽनुजग्मुः काननं प्रति ॥ ५३.९ ॥
रजस्तत्रोत्थितं भौमं गजवाजिपदाहतम् ।
तेनैतच्छादितं सर्वं सदिङ्मार्तण्डमंलम् ॥ ५३.१० ॥
न तत्र दृश्यते सूर्यो न काष्ठा न च चन्द्रमाः ।
पादपाश्च न दृश्यन्ते गिरिशृङ्गाणि सर्वतः ॥ ५३.११ ॥
परस्परं न पश्यन्ति निशार्द्धे वार्षिके यथा ।
तत्रासौ सुमहद्यूथं मृगाणां समलक्ष्यत ॥ ५३.१२ ॥
अधावत्सहितः सर्वैः स राजा राजपुत्रकैः ।
वृन्दास्फोटोऽभवत्तेषां शीघ्रं जग्मुर्दिशो दश ॥ ५३.१३ ॥
एकमार्गगतो राजा चित्रसेनो महीपतिः ।
एकाकी स गतस्तत्र यत्र यत्र च ते मृगाः ॥ ५३.१४ ॥
प्रविष्टोऽसौ ततो दुर्गं काननं गिरिगह्वरम् ।
वल्लीगुल्मसमाकीर्णं स्थितो यत्र न लक्ष्यते ॥ ५३.१५ ॥
अदृश्यांस्तु मृगान्मत्वा दिशो राजा व्यलोकयत् ।
कां दिशं नु गमिष्यामि क्व मे सैन्यसमागमः ॥ ५३.१६ ॥
एवं कष्टं गतो राजा चित्रसेनो नराधिपः ।
वृक्षच्छायां समाश्रित्य विश्राममकरोन्नृपः ॥ ५३.१७ ॥
क्षुत्तृषार्तो भ्रमन्दुर्गे कानने गिरिगह्वरे ।
ततोऽपश्यत्सरो दिव्यं पद्मिनीखण्डमण्डितम् ॥ ५३.१८ ॥
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।
ततो दृष्ट्वा स राजेन्द्रः सम्प्रहृष्टतनूरुहः ॥ ५३.१९ ॥
कमलानि गृहीत्वा तु ततः स्नानं समाचरत् ।
तर्पयित्वा पितृदेवान्मनुष्यांश्च यथाविधि ॥ ५३.२० ॥
आच्छाद्य शतपत्रैश्च पूजयामास शङ्करम् ।
ययौ पानीयममलं यथावत्स समाहितः ॥ ५३.२१ ॥
उत्तीर्य सलिलात्तीरे दृष्ट्वा वृक्षं समीपगम् ।
उत्तरीयमधः कृत्वोपविष्टो धरणीतले ॥ ५३.२२ ॥
चिन्तयन्नुपविष्टोऽसौ किमद्य प्रकरोम्यहम् ।
तत्रासीनो ददर्शाथ वनोद्देशे मृगान्बहून् ॥ ५३.२३ ॥
केचित्पूर्वमुखास्तत्र चापरे दक्षिणामुखाः ।
वारुण्यमिमुखाः केचित्केचित्कौबेरदिङ्मुखाः ॥ ५३.२४ ॥
केचिन्निद्रापराः केचिदूर्ध्वकर्णाः स्थिताः परे ।
मृगमध्ये स्थितो योगी ऋक्षशृङ्गो महातपाः ॥ ५३.२५ ॥
मृगान्दृष्ट्वा ततो राजा आहारार्थमचिन्तयत् ।
हत्वैतेषु मृगं कंचिद्भक्षयामि यदृच्छया ॥ ५३.२६ ॥
स्वस्थावस्थो भविष्यामि मृगमांसस्य भक्षणात् ।
काशीं प्रति गमिष्यामि मार्गमन्विष्य यत्नतः ॥ ५३.२७ ॥
विचिन्त्यैवं ततो राजा वृक्षमूलमुपाश्रितः ।
चापं गृह्य कराग्रेण स शरं संदधे ततः ॥ ५३.२८ ॥
विचिक्षेप शरं तत्र यत्र ते बहवो मृगाः ।
तेषां मध्ये स वै विद्ध ऋक्षशृङ्गो महातपाः ॥ ५३.२९ ॥
जग्मुस्त्रस्तास्तु ते सर्वे शब्दं कृत्वा वनौकसः ।
स ऋषिः पतितस्तत्र कृष्ण कृष्णेति चाब्रवीत् ॥ ५३.३० ॥
हाहा कष्टं कृतं तेन येनाहं घातितोऽधुना ।
कस्यैषा दुर्मतिर्जाता पापबुद्धेर्ममोपरि ॥ ५३.३१ ॥
मृगमध्ये स्थितश्चाहं न कंचिदुपरोधये ।
तां वाचं मानुषीं श्रुत्वा स राजा विस्मयान्वितः ॥ ५३.३२ ॥
शीघ्रं गत्वा ततोऽपश्यद्ब्राह्मणं ब्रह्मतेजसा ।
हाहा कष्टं कृतं मेऽद्य येनासौ घातितो द्विजः ॥ ५३.३३ ॥
चित्रसेन उवाच -
अकामाद्घातितस्त्वं तु मृगभ्रान्त्या मयानघ ।
गृहीत्वा बहुदारूणि स्वतनुं दाहयाम्यहम् ॥ ५३.३४ ॥
दृष्टादृष्टं तु यत्किंचिन्न समं ब्रह्महत्यया ।
अन्यथा ब्रह्महत्यायाः शुद्धिर्मे न भविष्यति ॥ ५३.३५ ॥
ऋक्षशृङ्ग उवाच -
न ते सिद्धिर्भवेत्काचिन्मयि पञ्चत्वमागते ।
बह्व्यो हत्या भविष्यन्ति विनाशे मम साम्प्रतम् ॥ ५३.३६ ॥
जननी मे पिता वृद्धो भ्रातरश्च तपस्विनः ।
भ्रातृजाया मरिष्यन्ति मयि पञ्चत्वमागते ॥ ५३.३७ ॥
एता हत्या भविष्यन्ति कथं शुद्धिर्भवेत्तव ।
उपायं कथयिष्यामि तं कर्तुं यदि मन्यसे ॥ ५३.३८ ॥
चित्रसेन उवाच -
उपायः कथ्यतां मेऽद्य यस्ते मनसि वर्तते ।
करिष्ये तमहं सर्वं यत्नेनापि महामुने ॥ ५३.३९ ॥
ऋक्षशृङ्ग उवाच -
पृच्छामि त्वां कथं को वा कुतस्त्वमिह चागतः ।
ब्रह्मक्षत्रविशां मध्ये को भवानुत शूद्रजः ॥ ५३.४० ॥
चित्रसेन उवाच -
नाहं शूद्रोऽस्मि भोस्तात न वैश्यो ब्राह्मणो न वा ।
न चान्त्यजोऽस्मि विप्रेन्द्र क्षत्रियोऽस्मि महामुने ॥ ५३.४१ ॥
धर्मज्ञश्च कृतज्ञश्च सर्वसत्त्वहिते रतः ।
अकामात्पातकं जातं कथं शुद्धिर्भविष्यति ॥ ५३.४२ ॥
ऋक्षशृङ्ग उवाच -
मां गृहीत्वा आश्रमं गच्छ यत्र तौ पितरौ मम ।
आवेदयस्व चात्मानं पुत्रघातिनमातुरम् ॥ ५३.४३ ॥
ते दृष्ट्वा मां करिष्यन्ति कारुण्यं च तवोपरि ।
उपायं कथयिष्यन्ति येन शान्तिर्भविष्यति ॥ ५३.४४ ॥
तस्य तद्वचनं श्रुत्वा चित्रसेनो नृपोत्तम ।
स्कन्धे कृत्वा तु तं विप्रं जगामाश्रमसन्निधौ ॥ ५३.४५ ॥
न शक्नोति यदा वोढुं विश्राम्यति पुनःपुनः ।
तावत्पश्यति तं विप्रं मूर्छितं विकलेन्द्रियम् ॥ ५३.४६ ॥
मुमोच चित्रसेनस्तं छायायां वटभूरुहः ।
वस्त्रं चतुर्गुणं कृत्वा चक्रे वातं मुहुर्मुहुः ॥ ५३.४७ ॥
पश्यतस्तस्य राजेन्द्र ऋक्षशृङ्गो महातपाः ।
पञ्चत्वमगमच्छीघ्रं ध्यानयोगेन योगवित् ॥ ५३.४८ ॥
दाहयामास तं विप्रं विधिदृष्टेन कर्मणा ।
स्नानं कृत्वा स शोकार्तो विललाप मुहुर्मुहुः ॥ ५३.४९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये ऋक्षशृङ्गस्वर्गगमनवर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 54
अध्याय ५४
ईश्वर उवाच -
ततश्चानन्तरं राजा जगामोद्वेगमुत्तमम् ।
कथं यामि गृहं त्वद्य वाराणस्यामहं पुनः ॥ ५४.१ ॥
ब्रह्महत्यासमाविष्टो जुहोम्यग्नौ कलेवरम् ।
अथवा तस्य वाक्येन तं गच्छाम्याश्रमं प्रति ॥ ५४.२ ॥
कथयामि यथावृत्तं गत्वा तस्य महामुनेः ।
एवं संचिन्त्य राजासौ जगामाश्रमसन्निधौ ॥ ५४.३ ॥
ऋक्षशृङ्गस्य चास्थीनि गृहीत्वा स नृपोत्तमः ।
दृष्टिमार्गे स्थितस्तस्य महर्षेर्भावितात्मनः ॥ ५४.४ ॥
दीर्घतपा उवाच -
आगच्छ स्वागतं तेऽस्तु आसनेऽत्रोपविश्यताम् ।
अर्घं ददाम्यहं येन मधुपर्कं सविष्टरम् ॥ ५४.५ ॥
चित्रसेन उवाच -
अर्घस्यास्य न योग्योऽहं महर्षे नास्मि भाषणे ।
मृगमध्यस्थितो विप्रस्तव पुत्रो मया हतः ॥ ५४.६ ॥
पुत्रघ्नं विद्धि मां विप्र तीव्रदण्डेन दण्डय ।
मृगभ्रान्त्या हतो विप्र ऋक्षशृङ्गो महातपाः ॥ ५४.७ ॥
इति मत्वा मुनिश्रेष्ठ कुरु मे त्वं यथोचितम् ।
माता तद्वचनं श्रुत्वा गृहान्निष्क्रम्य विह्वला ॥ ५४.८ ॥
हा हतास्मीत्युवाचेदं पपात धरणीतले ।
विललाप सुदुःखार्ता पुत्रशोकेन पीडिता ॥ ५४.९ ॥
हा हता पुत्र पुत्रेति करुणं कुररी यथा ।
विललापातुरा माता क्व गतो मां विहाय वै ।
मुखं दर्शय चात्मीयं मातरं मां हि मानय ॥ ५४.१० ॥
श्रुताध्ययनसम्पन्नं जपहोमपरायणम् ।
आगतं त्वां गृहद्वारे कदा द्रक्ष्यामि पुत्रक ॥ ५४.११ ॥
लोकोक्त्या श्रूयते चैतच्चन्दनं किल शीतलम् ।
पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः ॥ ५४.१२ ॥
किं चन्दनेन पीयूपबिन्दुना किं किमिन्दुना ॥ ५४.१३ ॥
पुत्रगात्रपरिष्वङ्गपात्रं गात्रं भवेद्यदि ॥ ५४.१४ ॥
परिष्वजितुमिच्छामि त्वामहं पुत्र सुप्रिय ।
पञ्चत्वमनुयास्यामि त्वद्विहीनाद्य दुःखिता ॥ ५४.१५ ॥
एवं विलपती दीना पुत्रशोकेन पीडिता ।
मूर्छिता विह्वला दीना निपपात महीतले ॥ ५४.१६ ॥
भार्यां च पतितां दृष्ट्वा पुत्रशोकेन पीडिताम् ।
चुकोप स मुनिस्तत्र चित्रसेनाय भूभृते ॥ ५४.१७ ॥
दीर्घतपा उवाच -
याहि याहि महापाप मा मुखं दर्शयस्व मे ।
किं त्वया घातितो विप्रो ह्यकामाच्च सुतो मम ॥ ५४.१८ ॥
ब्रह्महत्या भविष्यन्ति बह्व्यस्ते वसुधाधिप ।
सकुटुम्बस्य मे त्वं हि मृत्युरेष उपस्थितः ॥ ५४.१९ ॥
एवमुक्त्वा ततो विप्रो विचिन्त्य च पुनःपुनः ।
परित्यज्य तदा क्रोधं मुनिभावाज्जगाद ह ॥ ५४.२० ॥
दीर्घतपा उवाच -
उद्वेगं त्यज भो वत्स दुरुक्तं गदितो मया ।
पुत्रशोकाभिभूतेन दुःखतप्तेन मानद ॥ ५४.२१ ॥
किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः ।
प्रागेव हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥ ५४.२२ ॥
अनेनैव विधानेन पञ्चत्वं विहितं मम ।
हत्यास्तव भविष्यन्ति पूर्वमुक्ता न संशयः ॥ ५४.२३ ॥
ब्रह्मक्षत्रविशां मध्ये शूद्रचण्डालजातिषु ।
कस्त्वं कथय सत्यं मे कस्माच्च निहतो द्विजः ॥ ५४.२४ ॥
चित्रसेन उवाच -
विज्ञापयामि विप्रर्षे क्षन्तव्यं ते ममोपरि ।
नाहं विप्रोऽस्मि वै तात न वैश्यो न च शूद्रजः ॥ ५४.२५ ॥
न व्याधश्चान्त्यजातो वा क्षत्रियोऽहं महामुने ।
काशीराजो मृगान् हन्तुमागतो वनमुत्तमम् ॥ ५४.२६ ॥
भ्रान्त्या निपातितो ह्येष मृगरूपधरो मुनिः ।
इदानीं तव पादान्ते संश्रितः पातकान्वितः ॥ ५४.२७ ॥
किं कर्तव्यं मया विप्र उपायं कथयस्व मे ॥ ५४.२८ ॥
दीर्घतपा उवाच -
ब्रह्महत्या न शक्येताप्येका निस्तरितुं प्रभो ।
दशैका च कथं शक्यास्ताः शृणुष्व नरेश्वर ॥ ५४.२९ ॥
चत्वारो मे सुता राजन् सभार्या मातृपूर्वकाः ।
मया सह न जीवन्ति ऋक्षशृङ्गस्य कारणे ॥ ५४.३० ॥
उपायं शोभनं तात कथयिष्ये शृणुष्व तम् ।
शक्रोऽपि यदि तं कर्तुं सुखोपायं नरेश्वर ॥ ५४.३१ ॥
सकुटुम्बं समस्तं मां दाहयित्वानले नृप ।
अस्थीनि नर्मदातोये शूलभेदे विनिक्षिप ॥ ५४.३२ ॥
नर्मदादक्षिणे कूले शूलभेदं हि विश्रुतम् ।
सर्वपापहरं तीर्थं सर्वदुःखघ्नमुत्तमम् ॥ ५४.३३ ॥
शुचिर्भूत्वा ममास्थीनि तत्र तीर्थे विनिक्षिप ।
मोक्ष्यसे सर्वपापैस्त्वं मम वाक्यान्न संशयः ॥ ५४.३४ ॥
राजोवाच -
आदेशो दीयतां तात करिष्यामि न संशयः ।
समस्तं मेऽस्ति यत्किंचिद्राज्यं कोशः सुहृत्सुताः ॥ ५४.३५ ॥
तवाधीनं महाविप्र प्रयच्छामि प्रसीद मे ।
परस्परं विवदतोर्विप्र राज्ञोस्तदा नृप ॥ ५४.३६ ॥
स्फुटित्वा हृदयं शीघ्रं मुनिभार्या मृता तदा ।
पुत्रशोकसमाविष्टा निर्जीवा पतिता क्षितौ ॥ ५४.३७ ॥
पुत्राश्च मातृशोकेन सर्वे पञ्चत्वमागताः ।
स्नुषाश्चैव तदा सर्वा मृताश्च सह भर्तृभिः ॥ ५४.३८ ॥
पञ्चत्वं च गताः सर्वे मुनिमुख्या नृपोत्तम ।
विप्रानाह्वापयामास ये तत्राश्रमवासिनः ॥ ५४.३९ ॥
तेभ्यो निवेदयामास यथावृत्तं नृपोत्तमः ।
स तैस्तदाभ्यनुज्ञातः काष्ठान्यादाय यत्नतः ॥ ५४.४० ॥
दाहं संचयनं चक्रे चित्रसेनो महीपतिः ।
ऋक्षशृङ्गादिसर्वेषां गृहीत्वास्थीनि यत्नतः ॥ ५४.४१ ॥
याम्याशां प्रस्थितो राजा पादचारी महीपते ।
न शक्नोति यदा गन्तुं छायामाश्रित्य तिष्ठति ॥ ५४.४२ ॥
विश्रम्य च पुनर्गच्छेद्भाराक्रान्तो महीपतिः ।
सचैलं कुरुते स्नानं मुक्त्वास्थीनि पदे पदे ॥ ५४.४३ ॥
पिबेज्जलं निराहारः स गच्छन् दक्षिणामुखः ।
अचिरेणैव कालेन संगतो नर्मदातटम् ॥ ५४.४४ ॥
आश्रमस्थान् द्विजान् दृष्ट्वा पप्रच्छ पृथिवीपतिः ॥ ५४.४५ ॥
चित्रसेन उवाच -
कथ्यतां शूलभेदस्य मार्गं मे द्विजसत्तमाः ।
येन यामि महाभागाः स्वकार्यार्थस्य सिद्धये ॥ ५४.४६ ॥
मुनय ऊचुः ।
इतः क्रोशान्तरादर्वाक्तीर्थं परमशोभनम् ।
नर्मदादक्षिणे कूले ततो द्रक्ष्यसि नान्यथा ॥ ५४.४७ ॥
ऋषिवाक्येन राजासौ शीघ्रं गत्वा नरेश्वरः ।
स ददर्श ततः शीघ्रं बहुद्विजसमाकुलम् ॥ ५४.४८ ॥
बहुद्रुमलताकीर्णं बहुपुष्पोपशोभितम् ।
ऋक्षसिंहसमाकीर्णं नानाव्रतधरैः शुभैः ॥ ५४.४९ ॥
एकपादास्थिताः केचिदपरे सूर्यदृष्टयः ।
एकाङ्गुष्ठ स्थिताः केचिदूर्ध्वबाहुस्थिताः परे ॥ ५४.५० ॥
दिनैकभोजनाः केचित्केचित्कन्दफलाशनाः ।
त्रिरात्रभोजनाः केचित्पराकव्रतिनोऽपरे ॥ ५४.५१ ॥
चान्द्रायणरताः केचित्केचित्पक्षोपवासिनः ।
मासोपवासिनः केचित्केचिदृत्वन्तपारणाः ॥ ५४.५२ ॥
योगाभ्यासरताः केचित्केचिद्ध्यायन्ति तत्पदम् ।
शीर्णपर्णाशिनः केचित्केचिच्च कटुकाशनाः ॥ ५४.५३ ॥
शैवालभोजनाः केचित्केचिन्मारुतभोजनाः ।
गार्हस्थ्ये च स्थिताः केचित्केचिच्चैवाग्निहोत्रिणः ॥ ५४.५४ ॥
एवंविधान् द्विजान् दृष्ट्वा जानुभ्यामवनिं गतः ।
प्रणम्य शिरसा राजन्राजा वचनमब्रवीत् ॥ ५४.५५ ॥
चित्रसेन उवाच -
कस्मिन्देशे च तत्तीर्थं सत्यं कथयत द्विजाः ।
येनाभिवाञ्छिता सिद्धिः सफला मे भविष्यति ॥ ५४.५६ ॥
ऋषय ऊचुः ।
धन्वन्तरशतं गच्छ भृगुतुङ्गस्य मूर्धनि ।
कुण्डं द्रक्ष्यसि तत्पूर्णं विस्तीर्णं पयसा शिवम् ॥ ५४.५७ ॥
तेषां तद्वचनं श्रुत्वा गतः कुण्डस्य सन्निधौ ।
दृष्ट्वा चैव तु तत्तीर्थं भ्रान्तिर्जाता नृपस्य वै ॥ ५४.५८ ॥
ततो विस्मयमापन्नश्चिन्तयन्वै मुहुर्मुहुः ।
आकाशस्थं ददर्शासौ सामिषं कुररं नृपः ॥ ५४.५९ ॥
भ्रममाणं गृहीताहिं वध्यमानं निरामिषैः ।
परस्परं च युयुधुः सर्वेऽप्यामिषकाङ्क्षया ॥ ५४.६० ॥
हतश्चञ्चुप्रहारेण स ततः पतितोऽंभसि ।
शूलेन शूलिना यत्र भूभागो भेदितः पुरा ॥ ५४.६१ ॥
तत्तीर्थस्य प्रभावेण स सद्यः पुरुषोऽभवत् ।
विमानस्थं ददर्शासौ पुमांसं दिव्यरूपिणम् ॥ ५४.६२ ॥
गन्धर्वाप्सरसो यक्षास्तं यान्तं तुष्टुवुर्दिवि ।
अप्सरोगीयमाने तु गते सूर्यस्य मूर्धनि ।
चित्रसेनस्ततस्तस्मिन्नाश्चर्यं परमं गतः ॥ ५४.६३ ॥
ऋषिणा कथितं यद्वत्तद्वत्तीर्थं न संशयः ।
हृष्टरोमाभवद्दृष्ट्वा प्रभावं तीर्थसम्भवम् ॥ ५४.६४ ॥
ममाद्य दिवसो धन्यो यस्मादत्र समागतः ।
अस्थीनि भूमौ निक्षिप्य स्नानं कृत्वा यथाविधि ॥ ५४.६५ ॥
तिलमिश्रेण तोयेनातर्पयत्पितृदेवताः ।
गृह्यास्थीनि ततो राजा चिक्षेपान्तर्जले तदा ॥ ५४.६६ ॥
क्षणमेकं ततो वीक्ष्य राजोर्द्ध्ववदनः स्थितः ।
तान् ददर्श पुनः सर्वान् दिव्यरूपधराञ्छुभान् ॥ ५४.६७ ॥
दिव्यवस्त्रैश्च संवीतान् दिव्याभरणभूषितान् ।
विमानैर्विविधैर्दिव्यैरप्सरोगणसेवितैः ॥ ५४.६८ ॥
पृथग्भूतांश्च तान् सर्वान् विमानेषु व्यवस्थितान् ।
उत्पत्तिवत्समालोक्य राजा संहर्षी सोऽभवत् ॥ ५४.६९ ॥
ऋषिर्विमानमारूढश्चित्रसेनमथाब्रवीत् ।
भोभोः साधो महाराज चित्रसेन महीपते ॥ ५४.७० ॥
त्वत्प्रसादान्नृपश्रेष्ठ गतिर्दिव्या ममेदृषी ।
जातेयं यत्त्वया कार्यं कृतं परमशोभनम् ॥ ५४.७१ ॥
स्वसुतोऽपि न शक्नोति पित्ःणां कर्तुमीदृशम् ।
मदीयवचनात्तात निष्पापस्त्वं भविष्यसि ॥ ५४.७२ ॥
फलं प्राप्स्यसि राजेन्द्र कामिकं मनसेप्सितम् ।
आशीर्वादांस्ततो दत्त्वा चित्रसेनाय धीमते ।
स्वर्गं जगाम ससुतस्ततो दीर्घतपा मुनिः ॥ ५४.७३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमावन्त्यखण्डे रेवाखण्डे दीर्घतपसः स्वर्गारोहणवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 55
अध्याय ५५
उत्तानपाद उवाच -
माहात्म्यं तीर्थजं दृष्ट्वा चित्रसेनो नरेश्वरः ।
किं चकार क्व वा वासं किमाहारो बभूव ह ॥ ५५.१ ॥
ईश्वर उवाच -
भृगुतुङ्गं समारुह्य ऐशानीं दिशमाश्रितः ।
तपश्चचार विपुलं कुण्डे तत्र नृपोत्तमः ॥ ५५.२ ॥
सर्वान् देवान् हृदि ध्यात्वा ब्रह्मविष्णुमहेश्वरान् ।
विचिक्षेप यदात्मानं प्रत्यक्षौ रुद्रकेशवौ ।
करे गृहीत्वा राजानं रुद्रो वचनमब्रवीत् ॥ ५५.३ ॥
ईश्वर उवाच -
प्राणत्यागं महाराज मा काले त्वं कृथा वृथा ।
अद्याप्यसि युवा त्वं वै न युक्तं मरणं तव ॥ ५५.४ ॥
स्वस्थानं गच्छ शीघ्रं त्वं भुक्त्वा भोगान्यथेप्सितान् ।
कुरु निष्कण्टकं राज्यं नाके शक्र इवापरः ॥ ५५.५ ॥
चित्रसेन उवाच -
न राज्यं कामये देव न पुत्रान्न च बान्धवान् ।
न भार्यां न च कोशं च न गजान्न तुरंगमान् ॥ ५५.६ ॥
मुञ्च मुञ्च महादेव मा विघ्नः क्रियतां मम ।
स्वर्गप्राप्तिर्ममाद्यैव त्वत्प्रसादान्महेश्वर ॥ ५५.७ ॥
ईश्वर उवाच -
यस्याग्रतो भवेद्ब्रह्मा विष्णुः शम्भुस्तथैव च ।
स्वर्गेण तस्य किं कार्यं स गतः किं करिष्यति ॥ ५५.८ ॥
तुष्टा वयं त्रयो देवा वृणीष्व वरमुत्तमम् ।
यथेप्सितं महाराज सत्यमेतदसंशयम् ॥ ५५.९ ॥
चित्रसेन उवाच -
यदि तुष्टास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।
अद्यप्रभृति युष्माभिः स्थातव्यमिह सर्वदा ॥ ५५.१० ॥
गयाशिरो यथा पुण्यं कृतं युष्माभिरेव च ।
तथैवेदं प्रकर्तव्यं शूलभेदं च पावनम् ॥ ५५.११ ॥
यत्रयत्र स्थिता यूयं तत्रतत्र वसाम्यहम् ।
गणानां चैव सर्वेषामाधिपत्यमथास्तु मे ॥ ५५.१२ ॥
ईश्वर उवाच -
अद्यप्रभृति तिष्ठामः शूलभेदे नरेश्वर ।
त्रिकालां हि त्रयो देवाः कलांशेन वसामहे ॥ ५५.१३ ॥
नन्दिसंज्ञो गणाधीशो भविष्यति भवान्ध्रुवम् ।
मत्समीपे तु भवत आदौ पूजा भविष्यति ॥ ५५.१४ ॥
प्रक्षिप्य तानि चास्थीनि यत्र दीर्घतपा ययौ ।
सकुटुम्बो विमानस्थः स्वर्गतस्त्वं तथा कुरु ॥ ५५.१५ ॥
एवं देवा वरं दत्त्वा चित्रसेनाय पार्थिव ।
कुण्डमूर्धनि याम्यायां त्रयो देवास्तदा स्थिताः ॥ ५५.१६ ॥
परस्परं वदन्त्येवं पुण्यतीर्थमिदं परम् ।
यथा हि गयाशिरः पुण्यं पूर्वमेव पठ्यते ।
तथा रेवातटे पुण्यं शूलभेदं न संशयः ॥ ५५.१७ ॥
ईश्वर उवाच -
इदं तीर्थं तथा पुण्यं यथा पुण्यं गयाशिरः ।
सकृत्पिण्डोदकेनैव नरो निर्मलतां व्रजेत् ॥ ५५.१८ ॥
एकं गयाशिरो मुक्त्वा सर्वतीर्थानि भूपते ।
शूलभेदस्य तीर्थस्य कलां नार्हन्ति षोडशीम् ॥ ५५.१९ ॥
कुण्डमुदीच्यां याम्यायां दशहस्तप्रमाणतः ।
रौद्रवारुणकाष्ठायां प्रमाणं चैकविंशति ॥ ५५.२० ॥
एतत्प्रमाणं तत्तीर्थं पिण्डदानादिकर्मसु ।
नाधर्मनिरता दातुं लभन्ते दानमत्र हि ॥ ५५.२१ ॥
विष्णुस्तु पितृरूपेण ब्रह्मरूपी पितामहः ।
प्रपितामहो रुद्रोऽभूदेवं त्रिपुरुषाः स्थिताः ॥ ५५.२२ ॥
कदा पश्यति तीर्थं वै कदा नस्तारयिष्यति ।
इति प्रतीक्षां कुर्वन्ति पुत्राणां सततं नृप ।
शूलभेदे नरः स्नात्वा दृष्ट्वा शूलधरं सकृत् ॥ ५५.२३ ॥
नापुत्रो नाधनो रोगी सप्तजन्मसु जायते ।
एकविंशतिं पितुः पक्षे मातुश्वैवेकविंशतिम् ॥ ५५.२४ ॥
भार्यापक्षे दशैवेह कुलान्येतानि तारयेत् ।
शूलभेदवने राजञ्छाकमूलफलैरपि ॥ ५५.२५ ॥
एकस्मिन्भोजिते विप्रे कोटीर्भवति भोजिता ।
पञ्चस्थानेषु यः श्राद्धं कुरुते भक्तिमान्नरः ॥ ५५.२६ ॥
कुलानि प्रेतभूतानि सर्वाण्यपि हि तारयेत् ।
द्विजदेवप्रसादेन पितॄणां च प्रसादतः ॥ ५५.२७ ॥
श्राद्धदो निवसेत्तत्र यत्र देवो महेश्वरः ।
स्युरात्मघातिनो ये च गोब्राह्मणहनाश्च ये ॥ ५५.२८ ॥
दंष्ट्रिभिर्जलपाते च विद्युत्पातेषु ये मृताः ।
न येषामग्निसंस्कारो नाशौचं नोदकक्रिया ॥ ५५.२९ ॥
तत्र तीर्थे तु यस्तेषां श्राद्धं कुर्वीत भक्तितः ।
मोक्षावाप्तिर्भवेत्तेषां युगमेकं न संशयः ॥ ५५.३० ॥
अज्ञानाद्यत्कृतं पापं बालभावाच्च यत्कृतम् ।
तत्सर्वं नाशयेत्पापं स्नानमात्रेण भूपते ॥ ५५.३१ ॥
रजकेन यथा धौतं वस्त्रं भवति निर्मलम् ।
तथा पापोऽपि तत्तीर्थे स्नातो भवति निर्मलः ॥ ५५.३२ ॥
संन्यासं कुरुते योऽत्र तीर्थे विधिसमन्वितम् ।
ध्यायन्नित्यं महादेवं स गच्छेत्परमं पदम् ॥ ५५.३३ ॥
क्रीडित्वा स यथाकामं स्वेच्छया शिवमन्दिरे ।
वेदवेदाङ्गतत्त्वज्ञो जायतेऽसौ शुभे कुले ॥ ५५.३४ ॥
रूपवान्सुभगश्चैव सर्वव्याधिविवर्जितः ।
राजा वा राजपुत्रो वाचारसमन्वितः ॥ ५५.३५ ॥
एतत्ते कथितं राजंस्तीर्थस्य फलमुत्तमम् ।
यच्छ्रुत्वा मानवो नित्यं मुच्यते सर्वकिल्बिषैः ॥ ५५.३६ ॥
य इदं श्रावयेन्नित्यमाख्यानं द्विजपुंगवान् ।
श्राद्धे देवकुले वापि पठेत्पर्वणि पर्वणि ॥ ५५.३७ ॥
गीर्वाणास्तस्य तुष्यन्ति मनुष्याः पितृभिः सह ।
पठतां शृण्वतां चैव नश्यते सर्वपातकम् ॥ ५५.३८ ॥
लिखित्वा तीर्थमाहात्म्यं ब्राह्मणेभ्यो ददाति यः ।
जातिस्मरत्वं लभते प्राप्नोत्यभिमतं फलम् ॥ ५५.३९ ॥
रुद्रलोके वसेत्तावद्यावदक्षरमन्वितम् ॥ ५५.४० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये काशीराजमोक्षगमनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 56
अध्याय ५६
उत्तानपाद उवाच -
अन्यच्च श्रोतुमिच्छामि केन गङ्गावतारिता ।
रुद्रशीर्षे स्थिता देवी पुण्या कथमिहागता ॥ ५६.१ ॥
पुण्या देवाशिला नाम तस्या माहात्म्यमुत्तमम् ।
एतदाख्याहि मे सर्वं प्रसन्नो यदि शङ्कर ॥ ५६.२ ॥
ईश्वर उवाच -
शृणुष्वैकमना भूत्वा यथा गङ्गावतारिता ।
देवैः सर्वैर्महाभागा सर्वलोकहिताय वै ॥ ५६.३ ॥
अस्ति विन्ध्यो नगो नाम याम्याशायां महीपते ।
गीर्वाणास्तु गताः सर्वे तस्य मूर्ध्नि नरेश्वर ॥ ५६.४ ॥
तत्र चाह्वानिता गङ्गा ब्रह्माद्यैरखिलैः सुरैः ।
अभ्यर्च्येशं जगन्नाथं देवदेवं जगद्गुरुम् ॥ ५६.५ ॥
जटामध्यस्थितां गङ्गां मोचयस्वेति भूतले ।
भास्वन्ती सा ततो मुक्ता रुद्रेण शिरसा भुवि ॥ ५६.६ ॥
तत्र स्थाने महापुण्या देवैरुत्पादिता स्वयम् ।
ततो देवनदी जाता सा हिताय नृणां भुवि ॥ ५६.७ ॥
वसन्ति ये तटे तस्याः स्नानं कुर्वन्ति भक्तितः ।
पिबन्ति च जलं नित्यं न ते यान्ति यमालयम् ॥ ५६.८ ॥
यत्र सा पतिता कुण्डे शूलभेदे नराधिप ।
देवनद्याः प्रतीच्यां तु तत्र प्राची सरस्वती ॥ ५६.९ ॥
याम्यायां शूलभेदस्य तत्र तीर्थमनुत्तमम् ।
तत्र देवशिला पुण्या स्वयं देवेन निर्मिता ॥ ५६.१० ॥
तत्र स्नात्वा तु यो भक्त्या तर्पयेत्पितृदेवताः ।
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥ ५६.११ ॥
तत्र स्नात्वा तु यो भक्त्या ब्राह्मणान् भोजयेन्नृप ।
स्वल्पान्नेनापि दत्तेन तस्य चान्तो न विद्यते ॥ ५६.१२ ॥
उत्तानपाद उवाच -
कानि दानानि दत्तानि शस्तानि धरणीतले ।
यानि दत्त्वा नरो भक्त्या मुच्यते सर्वपातकैः ॥ ५६.१३ ॥
देवशिलाया माहात्म्यं स्नानदानादिजं फलम् ।
व्रतोपवासनियमैर्यत्प्राप्यं तद्वदस्व मे ॥ ५६.१४ ॥
ईश्वर उवाच -
आसीत्पुरा महावीर्यश्चेदिनाथो महाबलः ।
वीरसेन इति ख्यातो मण्डलाधिपतिर्नृप ॥ ५६.१५ ॥
राष्ट्रे तस्य रिपुर्नास्ति न व्याधिर्न च तस्कराः ।
न चाधर्मोऽभवत्तत्र धर्म एव हि सर्वदा ॥ ५६.१६ ॥
सदा मुदान्वितो राजा सभार्यो बहुपुत्रकः ।
एकासीद्दुहिता तस्य सुरूपा गिरिजा यथा ॥ ५६.१७ ॥
इष्टा सा पितृमातृभ्यां बन्धुवर्गजनस्य च ।
कृतं वैवाहिकं कर्म काले प्राप्ते यथाविधि ॥ ५६.१८ ॥
अनन्तरं चेदिपतिर्द्वादशाब्दमखे स्थितः ।
ततस्तस्यास्तु यो भर्ता स मृत्युवशमागतः ॥ ५६.१९ ॥
विधवां तां सुतां दृष्ट्वा राजा शोकसमन्वितः ।
उवाच वचनं तत्र स्वभार्यां दुःखपीडिताम् ॥ ५६.२० ॥
प्रिये दुःखमिदं जातं यावज्जीवं सुदुःसहम् ।
नैषा रक्षयितुं शक्या रूपयौवनगर्विता ॥ ५६.२१ ॥
दूषयेत कुलं क्वापि कथं रक्ष्या हि बालिका ।
नोपायो विद्यते क्वापि भानुमत्याश्च रक्षणे ।
परस्परं विवदतोः श्रुत्वा तत्कन्यकाब्रवीत् ॥ ५६.२२ ॥
भानुमत्युवाच -
न लज्जामि तवाग्रेऽहं जल्पन्ती तात कर्हिचित् ।
सत्यं नोत्पद्यते दोषो मदर्थे ते नराधिप ॥ ५६.२३ ॥
अद्यप्रभृत्यहं तात धारयिष्ये न मूर्धजान् ।
स्थूलवस्त्रपटार्द्धं तु धारयिष्यामि ते गृहे ॥ ५६.२४ ॥
करिष्यामि व्रतान्याशु पुराणविहितानि च ।
आत्मानं शोषयिष्यामि तोषयिष्ये जनार्दनम् ॥ ५६.२५ ॥
ममैषा वर्तते बुद्धिर्यदि त्वं तात मन्यसे ।
भानुमत्या वचः श्रुत्वा राजा संहर्षितोऽभवत् ॥ ५६.२६ ॥
तीर्थयात्रां समुद्दिश्य कोशं दत्त्वा सुपुष्कलम् ।
विसृज्य पुरुषान्वृद्धान् कृत्वा तस्याः सुरक्षणे ॥ ५६.२७ ॥
पुरुषान् सायुधांश्चापि ब्राह्मणान्सपुरोहितान् ।
दासीदासान्पदातींश्च चास्याः संरक्षणक्षमान् ॥ ५६.२८ ॥
ततः पितुर्मतेनैव गङ्गातीरं गता सती ।
अवगाह्य तटे द्वे तु गङ्गायाः स नराधिप ॥ ५६.२९ ॥
नित्यं सम्पूज्य सद्विप्रान्गन्धमाल्यादिभूषणैः ।
द्वादशाब्दानि सा तीरे गङ्गायाः समवस्थिता ॥ ५६.३० ॥
त्यक्त्वा गङ्गां तदा राज्ञी गता काष्ठां तु दक्षिणाम् ।
प्राप्ता सा सचिवैः सार्द्धं यत्र रेवा महानदी ॥ ५६.३१ ॥
समाः पञ्च स्थिता तत्र ओङ्कारेऽमरकण्टके ।
उदग्याम्येषु तीर्थेषु तीर्थात्तीर्थं जगाम सा ॥ ५६.३२ ॥
स्नात्वा स्नात्वा पूज्य विप्रान् भक्तिपूर्वमतन्द्रिता ।
वारुणीं सा दिशं गत्वा देवनद्याश्च सङ्गमे ॥ ५६.३३ ॥
ददर्श चाश्रमं पुण्यं मुनिसङ्घैः समाकुलम् ।
दृष्ट्वा मुनिसमूहं सा प्रणिपत्येदमब्रवीत् ॥ ५६.३४ ॥
माहात्म्यमस्य तीर्थस्य नाम चैवास्य कीदृशम् ।
कथयन्तु महाभागाः प्रसादः क्रियतां मम ॥ ५६.३५ ॥
ऋषय ऊचुः ।
चक्रतीर्थं तु विख्यातं चक्रं दत्तं पुरा हरेः ।
महेश्वरेण तुष्टेन देवदेवेन शूलिना ॥ ५६.३६ ॥
अत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
अनिवर्तिका गतिस्तस्य जायते नात्र संशयः ॥ ५६.३७ ॥
द्वितीयेऽह्नि ततो गच्छेच्छूलभेदे तपस्विनि ।
पूर्वोक्तेन विधानेन स्नानं कुर्याद्यथाविधि ॥ ५६.३८ ॥
जन्मत्रयकृतैः पापैर्मुच्यते नात्र संशयः ।
जलेन तिलमात्रेण प्रदद्यादञ्जलित्रयम् ॥ ५६.३९ ॥
तृप्यन्ति पितरस्तस्य द्वादशाब्दान्यसंशयम् ।
यः श्राद्धं कुरुते भक्त्या श्रोत्रियैर्ब्राह्मणैर्नृप ॥ ५६.४० ॥
वार्द्धुष्याद्यास्तु वर्ज्यन्ते पित्ःणां दत्तमक्षयम् ।
अपरेऽह्णि ततो गच्छेत्पुण्यां देवशिलां शुभाम् ॥ ५६.४१ ॥
वीक्ष्यते जाह्नवी पुण्या देवैरुत्पादिता पुरा ।
स्नात्वा तत्र जलं दद्यात्तिलमिश्रं नराधिप ॥ ५६.४२ ॥
सकृत्पिण्डप्रदानेन मुच्यते ब्रह्महत्यया ।
एकादश्यामुपोषित्वा पक्षयोरुभयोरपि ॥ ५६.४३ ॥
क्षपाजागरणं कुर्यात्पठेत्पौराणिकीं कथाम् ।
विष्णुपूजां प्रकुर्वीत पुष्पधूपनिवेदनैः ॥ ५६.४४ ॥
प्रभाते भोजयेद्विप्रान् दानं दद्यात्सशक्तितः ।
चतुर्थेऽह्नि ततो गच्छेद्यत्र प्राची सरस्वती ॥ ५६.४५ ॥
ब्रह्मदेहाद्विनिष्क्रान्ता पावनार्थं शरीरिणाम् ।
तत्र स्नात्वा नरो भक्त्या तर्पयेत्पितृदेवताः ॥ ५६.४६ ॥
श्राद्धं कृत्वा यथान्यायमनिन्द्यान् भोजयेद्द्विजान् ।
पितरस्तस्य तृप्यन्ति द्वादशाब्दान्यसंशयम् ॥ ५६.४७ ॥
सर्वदेवमयं स्थानं सर्वतीर्थमयं तथा ।
देवकोटिसमाकीर्णं कोटिलिङ्गोत्तमोत्तमम् ॥ ५६.४८ ॥
त्रिरात्रं कुरुते योऽत्र शुचिः स्नात्वा जितेन्द्रियः ।
पक्षं मासं च षण्मासमब्दमेकं कदाचन ॥ ५६.४९ ॥
न तस्य सम्भवो मर्त्ये तस्य वासो भवेद्दिवि ।
नियमस्थो विमुच्येत त्रिजन्मजनितादघात् ॥ ५६.५० ॥
विना पुंसा तु या नारी द्वादशाब्दं शुचिव्रता ।
तिष्ठते साक्षयं कालं रुद्रलोके महीयते ॥ ५६.५१ ॥
मुनीनां वचनं श्रुत्वा मुदा परमया ययौ ।
ततोऽवगाह्य तत्तीर्थमहर्निशमतन्द्रिता ॥ ५६.५२ ॥
दृष्ट्वा तीर्थप्रभावं तु पुनर्वचनमब्रवीत् ।
श्रूयतां वचनं मेऽद्य ब्राह्मणाः सपुरोहिताः ॥ ५६.५३ ॥
न त्यजामीदृशं स्थानं यावज्जीवमहर्निशम् ।
मत्पितुश्च तथा मातुः कथयध्वमिदं वचः ॥ ५६.५४ ॥
त्वत्कन्या शूलभेदस्था नियता व्रतचारिणी ।
एवमुक्त्वा स्थिता सा तु तत्र भानुमती नृपः ॥ ५६.५५ ॥
एकान्तरोपवासस्था शनैर्मासोपवासिता ।
देवशिलास्थिता नित्यं दध्यौ सा चक्रपाणिनम् ॥ ५६.५६ ॥
अहर्निशं दहेद्धूपं चन्दनं च सदीपकम् ।
पादशौचं स्वयं कृत्वा स्वयं भोजयते द्विजान् ।
द्वादशाब्दानि सा राज्ञी सुव्रता तत्र संस्थिता ॥ ५६.५७ ॥
ईश्वर उवाच -
अन्यद्देवशिलायास्तु माहात्म्यं शृणु भूपते ।
कथयामि महाबाहो सेतिहासं पुरातनम् ॥ ५६.५८ ॥
कश्चिद्वनेचरो व्याधः शबरः सह भार्यया ।
दुर्भिक्षपीडितस्तत्र आमिषार्थं वनं गतः ॥ ५६.५९ ॥
नापश्यत्पक्षिणस्तत्र न मृगान्न फलानि च ।
सरस्ततो ददर्शाथ पद्मिनीखण्डमण्डितम् ॥ ५६.६० ॥
दृष्ट्वा सरोवरं तत्र शबरी वाक्यमब्रवीत् ।
कुमुदानि गृहाण त्वं दिव्यान्याहारसिद्धये ॥ ५६.६१ ॥
देवस्य पूजनार्थं तु शूलभेदस्य यत्नतः ।
विक्रयो भविता तत्र धर्मशीलो जनो यतः ॥ ५६.६२ ॥
भार्याया वचनं श्रुत्वा जग्राह कुमुदानि सः ।
उत्तीर्णस्तु तटे यावद्दृष्ट्वा श्रीवृक्षमग्रतः ॥ ५६.६३ ॥
श्रीफलानि गृहीत्वा तु सुपक्वानि विशेषतः ।
शूलभेदं स सम्प्राप्तो ददर्श सुबहूञ्जनान् ॥ ५६.६४ ॥
चैत्रमासे सिते पक्षे एकादश्यां नराधिप ।
तस्मिन्नहनि नाश्नीयुर्बाला वृद्धास्तथा स्त्रियः ॥ ५६.६५ ॥
मण्डपं ददृशे तत्र कृतं देवशिलोपरि ।
वस्त्रैः संवेष्टितं दिव्यं स्रङ्माल्यैरुपशोभितम् ॥ ५६.६६ ॥
ऋषयश्चागतास्तत्र ये चाश्रमनिवासिनः ।
सोपवासाः सनियमाः सर्वे साग्निपरिग्रहाः ॥ ५६.६७ ॥
देवनद्यास्तटे रम्ये मुनिसङ्घैः समाकुले ।
आगच्छद्भिर्नृपश्रेष्ठ मार्गस्तत्र न लभ्यते ॥ ५६.६८ ॥
दृष्ट्वा जनपदं तत्र तां भार्यां शबरोऽब्रवीत् ।
गच्छ पृच्छस्व किमपि किमद्य स्नानकारणम् ॥ ५६.६९ ॥
पर्वाणि यानि श्रूयन्ते किंस्वित्सूर्येन्दुसम्प्लवः ।
अयनं किं भवेदद्य किं वाक्षयतृतीयका ॥ ५६.७० ॥
ततः स्वभर्तुर्वचनाच्छबरी प्रस्थिता तदा ।
पप्रच्छ नारीं दृष्ट्वाग्रे दत्त्वाग्रे कमले शुभे ॥ ५६.७१ ॥
तिथिरद्यैव का प्रोक्ता किं पर्व कथयस्व मे ।
किमयं स्नाति लोकोऽयं किं वा स्नानस्य कारणम् ॥ ५६.७२ ॥
नार्युवाच -
अद्य चैकादशी पुण्या सर्वपापक्षयंकरी ।
उपोषिता सकृद्येन नाकप्राप्तिं करोति सा ॥ ५६.७३ ॥
तस्यास्तद्वचनं श्रुत्वा शबरी शाबराय वै ।
कथयामास चाव्यग्रा स्त्रीवाक्यं नृपसत्तम ॥ ५६.७४ ॥
अद्य त्वेकादशी पुण्या बालवृद्धैरुपोषिता ।
मदनैकादशी नाम सर्वपापक्षयंकरी ॥ ५६.७५ ॥
नियता श्रूयते तत्र राजपुत्री सुशोभना ।
व्रतस्था नियताहारा नाम्ना भानुमती सती ॥ ५६.७६ ॥
नैतया सदृशी काचित्त्रिषु लोकेषु विश्रुता ।
दृश्यते सा वरारोहा ह्यवतीर्णा महीतले ॥ ५६.७७ ॥
भार्याया वचनं श्रुत्वा शबरस्तां जगाद ह ।
कमलानि यथालाभं दत्त्वा भुङ्क्ष्व हि सत्वरम् ॥ ५६.७८ ॥
ममैषा वर्तते बुद्धिर्न भोक्तव्यं मया ध्रुवम् ।
न मयोपार्जितं भद्रे पापबुद्ध्या शुभं क्वचित् ॥ ५६.७९ ॥
शबर्युवाच -
न पूर्वं तु मया भुक्तं कस्मिंश्चैव तु वासरे ।
भुक्तशेषं मया भुक्तं यावत्कालं स्मराम्यहम् ॥ ५६.८० ॥
भार्याया निश्चयं ज्ञात्वा स्नानं कर्तुं जगाम ह ।
अर्धोत्तरीयवस्त्रेण स्नानं कृत्वा तु भक्तितः ॥ ५६.८१ ॥
सर्वान् देवान्नमस्कृत्य गतो देवशिलां प्रति ।
तस्थौ स शङ्कमानोऽपि नमस्कृत्य जनार्दनम् ॥ ५६.८२ ॥
यस्यास्तु कुमुदे दत्ते तया राज्ञ्यै निवेदितम् ।
तद्दृष्ट्वा पद्मयुगलं तां दासीं साब्रवीत्तदा ॥ ५६.८३ ॥
कुत्र पद्मद्वयं लब्धं कथ्यतामग्रतो मम ।
शीघ्रं तत्रैव गत्वा च पद्मानानय चापरान् ॥ ५६.८४ ॥
धान्येन वसुना वापि कमलानि समानय ।
भानुमत्या वचः श्रुत्वा गता सा शबरं प्रति ॥ ५६.८५ ॥
श्रीफलानि च पुष्पाणि बहून्यन्यानि देहि मे ॥ ५६.८६ ॥
शबर्युवाच -
श्रीफलानि सपुष्पाणि दास्यामि च विशेषतः ।
न लोभो न स्पृहा मेऽस्ति गत्वा राज्ञीं निवेदय ॥ ५६.८७ ॥
तया च सत्वरं गत्वा यथावृत्तं निवेदितम् ।
शबर्युक्तं पुरस्तस्याः सविस्तरपरं वचः ॥ ५६.८८ ॥
तस्यास्तु वचनं श्रुत्वा राज्ञी तत्र स्वयं गता ।
उवाच शबरीं प्रीत्या देहि पद्मानि मूल्यतः ॥ ५६.८९ ॥
शबर्युवाच -
न मूल्यं कामये देवि फलपुष्पसमुद्भवम् ।
श्रीफलानि च पुष्पाणि यथेष्टं मम गृह्यताम् ॥ ५६.९० ॥
अर्चां कुरु यथान्यायं वासुदेवे जगत्पतौ ॥ ५६.९१ ॥
राज्ञ्युवाच -
विना मूल्यं न गृह्णामि कमलानि तवाधुना ।
धान्यस्य खारिकामेकां ददामि प्रतिगृह्यताम् ॥ ५६.९२ ॥
दश विंशत्यथ त्रिंशच्चत्वारिंशदथापि वा ।
गृहाण वा खारिशतं दुर्भिक्षां बोधिमुत्तर ॥ ५६.९३ ॥
वसु रत्नं सुवर्णं च अन्यत्ते यदभीप्सितम् ।
तत्सर्वं सम्प्रदास्यामि कमलार्थे न संशयः ॥ ५६.९४ ॥
शबर्युवाच -
नाहारं चिन्तयाम्यद्य मुक्त्वा देवं वरानने ।
देवकार्यं विना भद्रे नान्या बुद्धिः प्रवर्तते ॥ ५६.९५ ॥
राज्ञ्युवाच -
न त्वयान्नं परित्याज्यं सर्वमन्ने प्रतिष्ठितम् ।
तस्मात्सर्वप्रयत्नेन ममान्नं प्रतिगृह्यताम् ॥ ५६.९६ ॥
तपस्विनो महाभागा ये चारण्यनिवासिनः ।
गृहस्थद्वारि ते सर्वे याचन्तेऽन्नमतन्द्रिताः ॥ ५६.९७ ॥
शबर्युवाच -
निषेधश्च कृतः पूर्वं सर्वं सत्ये प्रतिष्ठितम् ।
सत्येन तपते सूर्यः सत्येन ज्वलतेऽनलः ॥ ५६.९८ ॥
सत्येन तिष्ठत्युदधिर्वायुः सत्येन वाति हि ।
सत्येन पच्यते सस्यं गावः क्षीरं स्रवन्ति च ॥ ५६.९९ ॥
सत्याधारमिदं सर्वं जगत्स्थावरजङ्गमम् ।
तस्मात्सर्वप्रयत्नेन सत्यं सत्येन पालयेत् ॥ ५६.१०० ॥
देवकार्यं तु मे मुक्त्वा नान्या बुद्धिः प्रवर्तते ।
गृहाण राज्ञि पुष्पाणि कुरु पूजां गदाभृतः ॥ ५६.१०१ ॥
श्रूयते द्विजवाक्यैस्तु न दोषो विद्यते क्वचित् ।
कुशाः शाकं पयो मत्स्या गन्धाः पुष्पाक्षता दधि ।
मांसं शय्यासनं धानाः प्रत्याख्येया न वारि च ॥ ५६.१०२ ॥
राज्ञ्युवाच -
आरामोपहृतं पुष्पमारण्यं पुष्पमेव च ।
क्रीतं प्रतिग्रहे लब्धं पुष्पमेवं चतुर्विधम् ॥ ५६.१०३ ॥
उत्तमं पुष्पमारण्यं गृहीतं स्वयमेव च ।
मध्यमं फलमारामे त्वधमं क्रीतमेव च ।
प्रतिग्रहेण यल्लब्धं निष्फलं तद्विदुर्बुधाः ॥ ५६.१०४ ॥
पुरोहित उवाच -
गृहाण राज्ञि पुष्पाणि कुरु पूजां गदाभृतः ।
उपकारः प्रकर्तव्यो व्यपदेशेन कर्हिचित् ॥ ५६.१०५ ॥
ईश्वर उवाच -
श्रीफलानि सपद्मानि दत्तानि शबरेण तु ।
गृहीत्वा तानि राज्ञी सा पूजां चक्रे सुशोभनाम् ॥ ५६.१०६ ॥
क्षपाजागरणं चक्रे श्रुत्वा पौराणिकीं कथाम् ।
शबरस्तु ततो भार्यामिदं वचनमब्रवीत् ॥ ५६.१०७ ॥
दीपार्थं गृह्यतां स्नेहो यथालाभेन सुन्दरि ।
कृत्वा दीपं ततस्तौ तु कृत्वा पूजां हरेः शुभाम् ॥ ५६.१०८ ॥
चक्रतुर्जागरं रात्रौ ध्यायन्तो धरणीधरम् ।
ततः प्रभातसमये दृष्ट्वा स्नानोत्सुकं जनम् ॥ ५६.१०९ ॥
स्नाति वै शूलभेदे तु देवनद्यां तथापरे ।
सरस्वत्यां नराः केचिन्मार्कण्डस्य ह्रदेऽपरे ॥ ५६.११० ॥
चक्रतीर्थं गताश्चक्रुः स्नानं केचिद्विधानतः ।
शुचयस्ते जनाः सर्वे स्नात्वा देवाशिलोपरि ॥ ५६.१११ ॥
श्राद्धं चक्रुः प्रयत्नेन श्रद्धया पूतचेतसा ।
तान्दृष्ट्वा शबरो बिल्वैः पिण्डांश्चक्रे प्रयत्नतः ॥ ५६.११२ ॥
भानुमत्या तथा भर्तुः पिण्डनिर्वपणं कृतम् ।
अनिन्द्या भोजिता विप्रा दम्भवार्द्धुष्यवर्जिताः ॥ ५६.११३ ॥
हविष्यान्नैस्तथा दध्ना शर्करामधुसर्पिषा ।
पायसेन तु गव्येन कृतान्नेन विशेषतः ॥ ५६.११४ ॥
भोजयित्वा तथा राज्ञी ददौ दानं यथाविधि ।
पादुकोपानहौ छत्रं शय्यां गोवृषमेव च ॥ ५६.११५ ॥
विविधानि च दानानि हेमरत्नधनानि च ।
चक्रतीर्थे महाराज कपिलां यः प्रयच्छति ।
पृथ्वी तेन भवेद्दत्ता सशैलवनकानना ॥ ५६.११६ ॥
उत्तानपाद उवाच -
यानि यानि च दत्तानि शस्तानि जगतीपतेः ।
तानि सर्वाणि देवेश कथयस्व प्रसादतः ॥ ५६.११७ ॥
ईश्वर उवाच -
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ।
भूमिदः स्वर्गमाप्नोति दीर्घमायुर्हिरण्यदः ॥ ५६.११८ ॥
गृहदो रोगरहितो रूप्यदो रूपवान् भवेत् ।
वासोदश्चन्द्रसालोक्यमर्कसायुज्यमश्वदः ॥ ५६.११९ ॥
वृषदस्तु श्रियं पुष्टां गोदाता च त्रिविष्टपम् ।
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ॥ ५६.१२० ॥
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम् ।
वार्यन्नपृथिवीवासस्तिलकाञ्चनसर्पिषाम् ॥ ५६.१२१ ॥
सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ।
येन येन हि भावेन यद्यद्दानं प्रयच्छति ॥ ५६.१२२ ॥
तेन तेन स भावेन प्राप्नोति प्रतिपूजितम् ।
दृष्ट्वा दानानि सर्वाणि राज्ञी दत्तानि यानि च ॥ ५६.१२३ ॥
उवाच शबरो भार्यां यत्तच्छृणु नरेश्वर ।
पुराणं पठितं भद्रे ब्राह्मणैर्वेदपारगैः ॥ ५६.१२४ ॥
श्रुतं च तन्मया सर्वं दानधर्मफलं शुभम् ।
पूर्वजन्मार्जितं पापं स्नानदानव्रतादिभिः ॥ ५६.१२५ ॥
शरीरं दुस्त्यजं मुक्त्वा लभते गतिमुत्तमाम् ।
संसारसागराद्भीतः सत्यं भद्रे वदामि ते ॥ ५६.१२६ ॥
अनेकानि च पापानि कृतानि बहुशो मया ।
घातिता जन्तवो भद्रे निर्दग्धाः पर्वताः सदा ॥ ५६.१२७ ॥
तेन पापेन दग्धोऽहं दारिद्र्यं न निवर्तते ।
तीर्थावगाहनं पूर्वं पापेन न कृतं मया ॥ ५६.१२८ ॥
तेनाहं दुःखितो भद्रे दारिद्र्यमनिवर्तिकम् ।
मातुर्गृहं प्रयाहि त्वं त्यज स्नेहं ममोपरि ।
नगशृङ्गं समारुह्य मोक्तुमिच्छाम्यहं तनुम् ॥ ५६.१२९ ॥
शबर्युवाच -
मात्रा पित्रा न मे कार्यं नापि स्वजनबान्धवैः ।
या गतिस्तव जीवेश सा ममापि भविष्यति ॥ ५६.१३० ॥
न स्त्रीणामीदृशो धर्मो विना भर्त्रा स्वजीवितम् ।
श्रूयन्ते बहवो दोषा धर्मशास्त्रेष्वनेकधा ॥ ५६.१३१ ॥
पारणं कुरु भोजेन्द्र व्रतं येन न नश्यति ।
यत्तेऽभिवाञ्छितं किंचिद्विष्णवे कर्तुमर्हसि ॥ ५६.१३२ ॥
भार्याया वचनं श्रुत्वा मुमुदे शबरस्ततः ।
गृहीत्वा श्रीफलं शीघ्रं होमं कृत्वा यथाविधि ॥ ५६.१३३ ॥
सर्वदेवान्नमस्कृत्य भुक्तोऽपि च तया सह ।
चैत्र्यां तु विषुवं ज्ञात्वा तस्थौ तत्र दिनत्रयम् ॥ ५६.१३४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे व्याधवाक्योपदेशकथनपूर्वकदानादिफलवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 57
अध्याय ५७
ईश्वर उवाच -
भानुमती द्विजान्भोज्य बुभुजे भुक्तशेषतः ।
भुक्त्वा सुसुखमास्थाय तदन्नं परिणाम्य च ॥ ५७.१ ॥
त्रयोदश्यां ततो गत्वा मदनाख्यतिथौ तदा ।
मार्कण्डस्य ह्रदे स्नात्वानर्च्य देवं गुहाशयम् ॥ ५७.२ ॥
कृतोपवासनियमा स्नापयित्वा महेश्वरम् ।
पञ्चामृतसुगन्धेन धूपदीपनिवेदनैः ॥ ५७.३ ॥
आर्चयद्विविधैः पुष्पैर्नैवेद्यैश्च सुशोभनैः ।
क्षपाजागरणं कृत्वा श्रुत्वा पौराणिकीं कथाम् ॥ ५७.४ ॥
नृत्यगीतैस्तथा स्तोत्रैर्दध्यौ देवं महेश्वरम् ।
अन्नं विस्तारितं सर्वं देवस्याग्रे यथाविधि ॥ ५७.५ ॥
चातुर्वर्ण्यसुताः सर्वे भोजिताः सपरिच्छदाः ।
चतुर्दश्यां दिनं यावत्सम्पूज्य वृषभध्वजम् ॥ ५७.६ ॥
शङ्खवादित्रभेरीभिः पटहध्वनिनादितम् ।
क्षपाजागरणं कृत्वा प्रभूतजनसंकुलम् ॥ ५७.७ ॥
नृत्यगीतैस्तथा स्तोत्रैः प्रेरिता सा निशा तदा ।
प्रभाते भोजिता विप्राः पायसैर्मधुसर्पिषा ॥ ५७.८ ॥
दत्त्वा दानानि विप्रेभ्यः शक्त्या विप्रानुसारतः ।
अर्चयित्वा महापुष्पैः सुगन्धैर्मदनेन च ॥ ५७.९ ॥
विचित्रैः सूक्ष्मवस्त्रैश्च देवः सम्पूज्य वेष्टितः ।
स्रग्दामलम्बमानैश्च बहुदीपसमुज्ज्वलैः ॥ ५७.१० ॥
पक्वान्नैर्विविधैर्भक्ष्यैः सुवृत्तैर्मोदकादिभिः ।
ततस्ते ब्राह्मणाः सर्वे वेदाध्ययनतत्पराः ॥ ५७.११ ॥
तत्पर्व कीर्तयांश्चक्रुः पद्मकं नाम नामतः ।
आदित्यस्य दिनं त्वद्य तिथिः पञ्चदशी तथा ॥ ५७.१२ ॥
त्वाष्ट्रमेव च नक्षत्रं संक्रान्तिर्विषुवन्तथा ।
व्यतीपातस्तथा योगः करणविष्टिरेव च ॥ ५७.१३ ॥
पद्मकं नाम पर्वैतदयनादिचतुर्गुणम् ।
अत्र दत्तं हुतं जप्तं सर्वं भवति चाक्षयम् ॥ ५७.१४ ॥
ते द्विजा भानुमत्याथ शूलभेदं गताः सह ।
ददृशुः शबरं कुण्डे भार्यया सह संस्थितम् ॥ ५७.१५ ॥
ऐशानीं स दिशं गत्वा पर्वते भृगुमूर्धनि ।
पतितुं च समारूढो भार्यया सह पार्थिव ॥ ५७.१६ ॥
भानुमत्युवाच -
तिष्ठ तिष्ठ महासत्त्व शृणुष्व वचनं मम ।
किमर्थं त्यजसि प्राणानद्यापि च युवा भवान् ॥ ५७.१७ ॥
कः सन्तापः क उद्वेगः किं दुःखं व्याधिरेव च ।
शिशुः संदृश्यसेऽद्यापि कारणं कथ्यतामिदम् ॥ ५७.१८ ॥
शबर उवाच -
कारणं नास्ति मे किंचिन्न दुःखं किंचिदेव तु ।
संसारभयभीतोऽहं नान्या बुद्धिः प्रवर्तते ॥ ५७.१९ ॥
दुःखेन लभ्यते यस्मान्मानुष्यं जन्म भाग्यतः ।
मानुष्यं जन्म चासाद्य या न धर्मं समाचरेत् ॥ ५७.२० ॥
स गच्छेन्निरयं घोरमात्मदोषेण सुन्दरि ।
तस्मात्पतितुमिच्छामि तीर्थेऽस्मिन्पापनाशने ॥ ५७.२१ ॥
राज्ञ्युवाच -
अद्यापि वर्तते कालो धर्मस्योपार्जने तव ।
कृतापकृतकर्मा वै व्रतदानैर्विशुध्यति ॥ ५७.२२ ॥
अहं दास्यामि धान्यं वा वासांसि द्रविणं बहु ।
नित्यमाचर धर्मं त्वं ध्यायन्नित्यं महेश्वरम् ॥ ५७.२३ ॥
शबर उवाच -
नैवाहं कामये वित्तं न धान्यं वस्त्रमेव च ।
यो यस्यैवान्नमश्नाति स तस्याश्नाति किल्बिषम् ॥ ५७.२४ ॥
राज्ञ्युवाच -
कन्दमूलफलाहारो भ्रमित्वा भैक्ष्यमुत्तमम् ।
अवगाह्य सुतीर्थानि सर्वपापैः प्रमुच्यते ॥ ५७.२५ ॥
ततो विमुक्तपापस्तु यत्किंचित्कुरुते शुचिः ।
कर्मणा तेन पूतस्त्वं सद्गतिं प्राप्स्यसि ध्रुवम् ॥ ५७.२६ ॥
शबर उवाच -
अन्नमद्य मया त्यक्तं प्राणेभ्योऽपि महत्तरम् ।
सत्यं न लोपयेद्देवि निश्चितात्र मतिर्मम ॥ ५७.२७ ॥
प्रसादः क्रियतां देवि क्षमस्वाद्य जनैः सह ।
अर्धोत्तरीयवस्त्रेण संयम्यात्मानमुद्यतः ॥ ५७.२८ ॥
भार्यया सहितो व्याधो हरिं ध्यात्वा पपात ह ।
नगार्धात्पतितो यावद्गतजीवो नराधिप ॥ ५७.२९ ॥
चूर्णीभूतौ हि तौ दृष्ट्वा कुण्डस्योपरि भूमिप ।
त्रिमुहूर्ते गते काले शबरो भार्यया सह ॥ ५७.३० ॥
दिव्यं विमानमारूढो गतश्चानुत्तमां गतिम् ॥ ५७.३१ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे व्याधस्वर्गगमनवर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 58
अध्याय ५८
उत्तानपाद उवाच -
अथातो देवदेवेश भानुमत्यकरोच्च किम् ।
एष मे संशयो देव कथयस्व प्रसादतः ॥ ५८.१ ॥
ईश्वर उवाच -
चिन्तयित्वा मुहूर्तं सा गता कुण्डस्य सन्निधौ ।
दृष्ट्वा कुण्डस्य माहात्म्यं राज्ञी हर्षेण पूरिता ॥ ५८.२ ॥
विप्रान् बहून् समाहूय पूजयामास तत्क्षणात् ।
दत्त्वा तु विधिवद्दानं ब्राह्मणेभ्यो नृपात्मज ॥ ५८.३ ॥
निश्चयं परमं कृत्वा स्थिता शान्तेन चेतसा ।
ततः सम्पूज्य विधिवत्पितॄन्देवान्नराधिप ॥ ५८.४ ॥
क्षपयित्वा पक्षमेकं मधुमासस्य सा स्थिता ।
अमावास्यां ततो राज्ञी गता पर्वतसन्निधौ ॥ ५८.५ ॥
नगशृङ्गं समारुह्य कृत्वा मुकुलितौ करौ ।
विज्ञाप्य ब्राह्मणान् सर्वानिदं वचनमब्रवीत् ॥ ५८.६ ॥
मम माता पिता भ्राता ये चान्ये सखिबान्धवाः ।
क्षमापयित्वा सर्वांस्तान्वचनं मम कथ्यताम् ॥ ५८.७ ॥
त्वत्पुत्री शूलभेदे तु तपः कृत्वा स्वशक्तितः ।
विसृज्य चैव सात्मानं तस्मिंस्तीर्थे दिवं ययौ ॥ ५८.८ ॥
ब्राह्मणा ऊचुः ।
संदेशं कथयिष्यामस्त्वयोक्तं शोभनव्रते ।
मातापितृभ्यां सुश्रोणि मा तेऽभूदत्र संशयः ॥ ५८.९ ॥
ततो विसृज्य तांल्लोकान् स्थिता पर्वतमूर्धनि ।
अर्धोत्तरीयवस्त्रेण गाढं बद्धा पुनःपुनः ॥ ५८.१० ॥
ततश्चिक्षेप सात्मानमेकचित्ता नराधिप ।
नगार्द्धे पतिता यावत्तावद्दृष्टाः सुराङ्गनाः ॥ ५८.११ ॥
भोभो वत्से महाभागे भानुमत्यतितापसि ।
दिव्यं विमानमारुह्य कैलासं प्रति गम्यताम् ॥ ५८.१२ ॥
ततः सा पश्यतां तेषां जनानां त्रिदिवं गता ॥ ५८.१३ ॥
मार्कण्डेय उवाच -
इति ते कथितः सर्वः शूलभेदस्य विस्तरः ।
यः श्रुतः शङ्करात्पूर्वमृषिदेवसमागमे ॥ ५८.१४ ॥
य इदं पठते भक्त्या तीर्थे देवकुलेऽपि वा ।
स मुच्यते महापापादपि जन्मशतार्जितात् ॥ ५८.१५ ॥
ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः ।
गोघाती स्त्रीविघाती च देवब्रह्मस्वहारकः ॥ ५८.१६ ॥
स्वामिद्रोही मित्रघाती तथा विश्वासघातकः ।
परन्यासापहारी च परनिक्षेपलोपकः ॥ ५८.१७ ॥
रसभेदी तुलाभेदी तथा वार्द्धुषिकस्तु यः ।
यः कन्याविघ्नकर्ता च तथा विक्रयकारकः ॥ ५८.१८ ॥
परभार्या भ्रातृभार्या गौः स्नुषा कन्यका तथा ।
अभिगामी परद्वेषी तथा धर्मप्रदूषकः ॥ ५८.१९ ॥
मुच्यन्ते सर्वे एवैते शूलभेदप्रभावतः ॥ ५८.२० ॥
य इदं श्रावयेच्छ्राद्धे विप्राणां भुञ्जतां नृप ।
मुदं प्रयान्ति संहृष्टाः पितरस्तस्य सर्वशः ॥ ५८.२१ ॥
यश्चेदं शृणुयाद्भक्त्या पठ्यमानं नरो वशी ।
स मुक्तः सर्वपापेभ्यः सर्वकल्याणभाग्भवेत् ॥ ५८.२२ ॥
इदं यशस्यमायुष्यमिदं पावनमुत्तमम् ।
पठतां शृण्वतां नृणामायुःकीर्तिविवर्धनम् ॥ ५८.२३ ॥
इति कथितमिदं ते शूलभेदस्य पुण्यं महिमन हि मनुष्यैः श्रूयते यत्सपापैः ।
मदनरिपुतटिन्या याम्यकूलस्थितस्य प्रबलदुरितकन्दोच्छेदकुद्दालकल्पम् ॥ ५८.२४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदतीर्थमाहात्म्यवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः॥
शूलभेदमाहात्म्यं समाप्तम्
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 59
अध्याय ५९
श्रीमार्कण्डेय उवाच -
ततः पुष्करिणीं गच्छेत्सर्वपापप्रणाशिनीम् ।
श्रुते यस्याः प्रभावे तु सर्वपापैः प्रमुच्यते ॥ ५९.१ ॥
रेवाया उत्तरे कूले तीर्थं परमशोभनम् ।
यत्रास्ते सर्वदा देवो वेदमूर्तिर्दिवाकरः ॥ ५९.२ ॥
कुरुक्षेत्रं यथा पुण्यं सार्वकामिकमुत्तमम् ।
इदं तीर्थं तथा पुण्यं सर्वकामफलप्रदम् ॥ ५९.३ ॥
कुरुक्षेत्रे यथा वृद्धिर्दानस्य जगतीपते ।
पुष्करिण्यां तथा दानं वर्धते नात्र संशयः ॥ ५९.४ ॥
यवमेकं तु यो दद्यात्सौवर्णं मस्तके नृप ।
पुष्करिण्यां तथा स्थानं यथा स्थानं नरे स्मृतम् ॥ ५९.५ ॥
सूर्यग्रहे तु यः स्नात्वा दद्याद्दानं यथाविधि ।
हस्त्यश्वरथरत्नादि गृहं गाश्च युगंधरान् ॥ ५९.६ ॥
सुवर्णं रजतं वापि ब्राह्मणेभ्यो ददाति यः ।
त्रयोदश दिनं यावत्त्रयोदशगुणं भवेत् ॥ ५९.७ ॥
तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः ।
द्वादशाब्दे भवेत्प्रीतिस्तत्र तीर्थे महीपते ॥ ५९.८ ॥
यस्तत्र कुरुते श्राद्धं पायसैर्मधुसर्पिषा ।
श्राद्धदो लभते स्वर्गं पित्ःणां दत्तमक्षयम् ॥ ५९.९ ॥
अक्षतैर्बदरैर्बिल्वैरिङ्गुदैर्वा तिलैः सह ।
अक्षयं फलमाप्नोति तस्मिंस्तीर्थे न संशयः ॥ ५९.१० ॥
तत्र स्नात्वा तु यो देवं पूजयेच्च दिवाकरम् ।
आदित्यहृदयं जप्त्वा पुनरादित्यमर्चयेत् ।
स गच्छेत्परमं लोकं त्रिदशैरपि वन्दितम् ॥ ५९.११ ॥
ऋचमेकां जपेद्यस्तु यजुर्वा साम एव च ।
स समग्रस्य वेदस्य फलमाप्नोति वै नृप ॥ ५९.१२ ॥
यस्त्र्यक्षरं जपेन्मन्त्रं ध्यायमानो दिवाकरम् ।
आदित्यहृदयं जप्त्वा मुच्यते सर्वपातकैः ॥ ५९.१३ ॥
यस्तत्र विधिवत्प्राणांस्त्यजते नृपसत्तम ।
स गच्छेत्परमं स्थानं यत्र देवो दिवाकरः ॥ ५९.१४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुष्करिण्यामादित्यतीर्थमाहात्म्यवर्णनं नामैकोनषष्टितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 60
श्रीमार्कण्डेय उवाच -
भूयोऽप्यहं प्रवक्ष्यामि आदित्येश्वरमुत्तमम् ।
सर्वदुःखहरं पार्थ सर्वविघ्नविनाशनम् ॥ ६०.१ ॥
आयुःश्रीवर्द्धनं नित्यं पुत्रदं स्वर्गदं शिवम् ।
यस्य तीर्थस्य चान्यानि तीर्थानि कुरुनन्दन ॥ ६०.२ ॥
नालभन्त श्रियं नाके मर्त्ये पातालगोचरे ।
कुरुक्षेत्रं गया गङ्गा नैमिषं पुष्करं तथा ॥ ६०.३ ॥
वाराणसी च केदारं प्रयागं रुद्रनन्दनम् ।
महाकालं सहस्राक्षं शुक्लतीर्थं नृपोत्तम ॥ ६०.४ ॥
रवितीर्थस्य सर्वाणि कलां नार्हन्ति षोडशीम् ।
रवितीर्थे हि यद्वृत्तं तच्छृणुष्व नृपोत्तम ॥ ६०.५ ॥
स्नेहात्ते कथयिष्यामि वार्द्धकेनातिपीडितः ।
शृण्वन्तु ऋषयः सर्वे तपोनिष्ठा महौजसः ॥ ६०.६ ॥
श्रुतं मे रुद्रसांनिध्ये नन्दिस्कन्दगणैः सह ।
पार्वत्या पृष्टः शम्भुश्च रवितीर्थस्य यत्फलम् ॥ ६०.७ ॥
शम्भुना च यदाख्यातं गिरिजायाः ससम्भ्रमम् ।
तत्सर्वमेकचित्तेन रुद्रोद्गीतं श्रुतं मया ॥ ६०.८ ॥
तत्तेऽहं सम्प्रवक्ष्यामि शृणु यत्नेन पाण्डव ।
दुर्भिक्षोपहता विप्रा नर्मदां तु समाश्रिताः ॥ ६०.९ ॥
उद्दालको वशिष्ठश्च माण्डव्यो गौतमस्तथा ।
याज्ञवल्क्योऽथ गर्गश्च शाण्डिल्यो गालवस्तथा ॥ ६०.१० ॥
नाचिकेतो विभाण्डश्च वालखिल्यादयस्तथा ।
शातातपश्च शङ्खश्च जैमिनिर्गोभिलस्तथा ॥ ६०.११ ॥
जैगीषव्यः शतानीकः सर्व एव समागताः ।
तीर्थयात्रा कृता तैस्तु नर्मदायाः समन्ततः ॥ ६०.१२ ॥
आदित्येश्वरमायाताः प्रसङ्गादृषिपुंगवाः ।
वृक्षैः संछादितं शुभ्रं धवतिन्दुकपाटलैः ॥ ६०.१३ ॥
जम्बीरैरर्जुनैः कुब्जैः शमीकेसरकिंशुकैः ।
तस्मिंस्तीर्थे महापुण्ये सुगन्धिकुसुमाकुले ॥ ६०.१४ ॥
पुन्नागनालिकेरैश्च खदिरैः कल्पपादपैः ।
अनेकश्वापदाकीर्णं मृगमार्जारसंकुलम् ॥ ६०.१५ ॥
ऋक्षहस्तिसमाकीर्णं चित्रकैश्चोपशोभितम् ।
प्रविष्टा ऋषयः सर्वे वने पुष्पसमाकुले ॥ ६०.१६ ॥
वनान्ते च स्त्रियो दृष्ट्वा रक्ता रक्ताम्बरान्विताः ।
रक्तमाल्यानुशोभाढ्या रक्तचन्दनचर्चिताः ॥ ६०.१७ ॥
रक्ताभरणसंयुक्ताः पाशहस्ता भयावहाः ।
तासां समीपगा दृष्टाः कृष्णजीमूतसन्निभाः ॥ ६०.१८ ॥
महाकाया भीमवक्त्राः पाशहस्ता भयावहाः ।
अनावृष्ट्युपमा दृष्टा आतुराः पिङ्गलोचनाः ॥ ६०.१९ ॥
दीर्घजिह्वा करालास्या तीक्ष्णदंष्ट्रा दुरासदा ।
वृद्धा नारी कुरुश्रेष्ठ दृष्टान्या ऋषिपुंगवैः ॥ ६०.२० ॥
ततः समीपगा वृद्धा तस्य वृन्दस्य भारत ।
स्वाध्यायनिरता विप्रा दृष्टास्तैः पापकर्मभिः ॥ ६०.२१ ॥
ऊचुस्ते तु समूहेन ब्राह्मणांस्तपसि स्थितान् ।
अस्माकं स्वामिनः सर्वे तिष्ठन्ते तीर्थमध्यतः ।
ते प्रस्थाप्या महाभागाः सर्वथैव त्वरान्विताः ॥ ६०.२२ ॥
तच्छ्रुत्वा वचनं तेषां सर्वे चैव त्वरान्विताः ।
जग्मुस्ते नर्मदाकक्षं दृष्ट्वा रेवां द्विजोत्तमाः ॥ ६०.२३ ॥
ततः केचित्स्तुवन्त्यन्ये जय देवि नमोऽस्तु ते ॥ ६०.२४ ॥
नमोऽस्तु ते सिद्धगणैर्निषेविते नमोऽस्तु ते सर्वपवित्रमङ्गले ।
नमोऽस्तु ते विप्रसहस्रसेविते नमोऽस्तु रुद्राङ्गसमुद्भवे वरे ॥ ६०.२५ ॥
नमोऽस्तु ते सर्वपवित्रपावने नमोऽस्तु ते देवि वरप्रदे शिवे ।
नमामि ते शीतजले सुखप्रदे सरिद्वरे पापहरे विचित्रिते ॥ ६०.२६ ॥
अनेकभूतौघसुसेविताङ्गे गन्धर्वयक्षोरगपाविताङ्गे ।
महागजौघैर्महिषैर्वराहैरापीयसे तोयमहोर्मिमाले ॥ ६०.२७ ॥
नमामि ते सर्ववरे सुखप्रदे विमोचयास्मानघपाशबद्धान् ॥ ६०.२८ ॥
भ्रमन्ति तावन्नरकेषु मर्त्या यावत्तवाम्भो नहि संश्रयन्ति ।
स्पृष्टं करैश्चन्द्रमसो रवेश्चेत्तद्देवि दद्यात्परमं पदं तु ॥ ६०.२९ ॥
अनेकसंसारभयार्दितानां पापैरनेकैरभिवेष्टितानाम् ।
गतिस्त्वमम्भोजसमानवक्त्रे द्वन्द्वैरनेकैरभिसंवृतानाम् ॥ ६०.३० ॥
नद्यश्च पूता विमला भवन्ति त्वां देवि सम्प्राप्य न संशयोऽत्र ।
दुःखातुराणामभयं ददासि शिष्टैरनेकैरभिपूजितासि ॥ ६०.३१ ॥
विण्मूत्रदेहाश्च निमग्नदेहा भ्रमन्ति तावन्नरकेषु मर्त्याः ।
महाबलध्वस्ततरङ्गभङ्गं जलं न यावत्तव संस्पृशन्ति ॥ ६०.३२ ॥
म्लेच्छाः पुलिन्दास्त्वथ यातुधानाः पिबन्ति येऽंभस्तव देवि पुण्यम् ।
तेऽपि प्रमुच्यन्ति भयाच्च घोरात्किमत्र विप्रा भवपाशभीताः ॥ ६०.३३ ॥
सरांसि नद्यः क्षयमभ्युपेता घोरे युगेऽस्मिन्कलिनावसृष्टे ।
त्वं भ्राजसे देवि जलौघपूर्णा दिवीव नक्षत्रपथे च गङ्गा ॥ ६०.३४ ॥
तव प्रासादाद्वरदे विशिष्टे कालं यथेमं परिपालयित्वा ।
यास्याम मोक्षं तव सुप्रसादाद्वयं यथा त्वं कुरु नः प्रसादम् ॥ ६०.३५ ॥
त्वामाश्रिता ये शरणं गताश्च गतिस्त्वमम्बेव पितेव पुत्रान् ।
त्वत्पालिता यावदिमं सुघोरं कालं त्वनावृष्टिहतं क्षिपामः ॥ ६०.३६ ॥
एवं स्तुता तदा देवी नर्मदा सरितां वरा ।
प्रत्यक्षा सा परा मूर्तिर्ब्राह्मणानां युधिष्ठिर ॥ ६०.३७ ॥
श्रीमार्कण्डेय उवाच -
पठन्ति ये स्तोत्रमिदं नरेन्द्र शृण्वन्ति भक्त्या परया प्रशान्ताः ।
ते यान्ति रुद्रं वृषसंयुतेन यानेन दिव्याम्बरभूषिताङ्गाः ॥ ६०.३८ ॥
ये स्तोत्रमेतत्सततं जपन्ति स्नात्वा च तोयेन तु नर्मदायाः ।
तेभ्योऽन्तकाले सरिदुत्तमेयं गतिं विशुद्धामचिराद्ददाति ॥ ६०.३९ ॥
प्रातः समुत्थाय तथा शयानो यः कीर्तयेतानुदिनं स्तवेन्द्रम् ।
देहक्षयं स्वे सलिले ददाति समाश्रयं तस्य महानुभाव ॥ ६०.४० ॥
पापैर्विमुक्ता दिवि मोदमानाः सम्भोगिनश्चैव तु नान्यथा च ॥ ६०.४१ ॥
प्रसन्ना नर्मदा देवी स्तोत्रेणानेन भारत ।
जलेनाप्यायितान् विप्रान् दक्षिणापथवाहिनी ॥ ६०.४२ ॥
अमृतत्वं तु वो दद्मि योगिभिर्यन्न गम्यते ।
दुर्लभं यत्सुरैः सर्वैर्मत्प्रसादाल्लभिष्यथ ॥ ६०.४३ ॥
इति ते ब्राह्मणा राजंल्लब्धा वरमनुत्तमम् ।
गमिष्यन्तः प्रीतचित्ता ददृशुश्चित्रमद्भुतम् ॥ ६०.४४ ॥
श्रीमार्कण्डेय उवाच -
दृष्टास्तैः पुरुषाः पार्थ नर्मदातटसंस्थिताः ।
स्नानदेवार्चनासक्ताः पञ्च एव महाबलाः ॥ ६०.४५ ॥
ते दृष्टा ब्राह्मणैः सर्वैर्वेदवेदाङ्गपारगैः ।
संपृष्टास्तैर्महाराज यथा तदवधारय ॥ ६०.४६ ॥
विप्रा ऊचुः ।
वनान्ते स्त्रीयुगं दृष्ट्वा महारौद्रं भयावहम् ।
वृद्धाश्च पुरुषास्तत्र पाशहस्ता भयावहाः ॥ ६०.४७ ॥
दुर्धर्षा दुर्निरीक्ष्याश्च इतश्चेतश्च चञ्चलाः ।
व्याहरन्तः शुभां वाचं न तत्र गतिरस्ति वै ॥ ६०.४८ ॥
अपरस्परयोः सर्वे निरीक्षन्तः पुनःपुनः ।
तैस्तु यद्वचनं प्रोक्तं तत्सर्वं कथ्यतामिति ॥ ६०.४९ ॥
अस्माकं पुरुषाः पञ्च तिष्ठन्ति तत्र सत्तमाः ।
ते प्रस्थाप्या महाभागाः सर्वथैव त्वरान्विताः ॥ ६०.५० ॥
अथ ते पुरुषाः पञ्च श्रुत्वा वाक्यमिदं शुभम् ।
परस्परं निरीक्षन्तो वदन्ति च पुनःपुनः ॥ ६०.५१ ॥
क्व ते कस्य कुतो याताः किमुक्तं तैर्भयावहैः ॥ ६०.५२ ॥
पुरुषा ऊचुः ।
तीर्थावगाहनं सर्वैः पूर्वदक्षिणपश्चिमैः ।
उत्तरैश्च कृतं भक्त्या न पापं तैर्व्यपोहितम् ॥ ६०.५३ ॥
निष्पापाश्चाथ संजातास्तीर्थस्यास्य प्रभावतः ।
शृण्वन्तु ऋषयः सर्वे वह्निकालोपमा द्विजाः ॥ ६०.५४ ॥
पातकानि च घोराणि यान्यचिन्त्यानि देहिनाम् ।
पापिष्ठेन तु चैकेन गुरुदारा निषेविता ॥ ६०.५५ ॥
हृतं चान्येन मित्रस्वं सुवर्णं च धनं तथा ।
ब्रह्महत्या महारौद्रा कृता चान्येन पातकम् ॥ ६०.५६ ॥
सुरापानं तु चान्यस्य संजातं चाप्यकामतः ।
गोवध्या चाप्यकामेन कृता चैकेन पापिना ॥ ६०.५७ ॥
अकामतोऽपि सर्वेषां पातकानि नराधिप ।
ब्राह्मणानां तु ते श्रुत्वा वाक्यं तद्विस्मयान्विताः ॥ ६०.५८ ॥
सद्य एव तदा जाताः पापिष्ठा गतकल्मषाः ।
तीर्थस्यास्य प्रभावेन नर्मदायाः प्रभावतः ॥ ६०.५९ ॥
न क्वचित्पातकानां तु प्रवेशश्चात्र जायते ।
एवं संचित्य ते सर्वे पापिष्ठाश्च परस्परम् ॥ ६०.६० ॥
चित्रभानुः स्मृतस्तैस्तु विचिन्त्य हृदये हरिम् ।
स्नात्वा रेवाजले पुण्ये तर्पिताः पितृदेवताः ॥ ६०.६१ ॥
नत्वा तु भास्करं देवं हृदि ध्यात्वा जनार्दनम् ।
प्रदक्षिणं तु तं भक्त्या ज्वलन्तं जातवेदसम् ॥ ६०.६२ ॥
पतिताः पाण्डवश्रेष्ठ पापोद्विग्ना महीपते ।
सात्त्विकीं वासनां कृत्वा त्यक्त्वा रजस्तमस्तथा ॥ ६०.६३ ॥
हतं तैः पावके सर्वं रेवाया उत्तरे तटे ।
विमानस्थास्तदा दृष्टा ब्राह्मणैस्ते युधिष्ठिर ॥ ६०.६४ ॥
आश्चर्यमतुलं दृष्टमृषिभिर्नर्मदातटे ।
तदाप्रभृति ते सर्वे रागद्वेषविवर्जिताः ॥ ६०.६५ ॥
रवितीर्थं द्विजा हृष्टाः सेवन्ते मोक्षकाङ्क्षया ।
तीर्थस्यास्य च यत्पुण्यं तच्छृणुष्व नराधिप ॥ ६०.६६ ॥
पीडितो वृद्धभावेन भक्त्या प्रीतो नरेश्वर ।
उद्देशं कथयिष्यामि द्विक्रोशाभ्यन्तरे स्थितः ॥ ६०.६७ ॥
कुरुक्षेत्रं यथा पुण्यं रवितीर्थं श्रुतं मया ।
ईश्वरेण पुरा ख्यातं षण्मुखस्य नराधिप ॥ ६०.६८ ॥
श्रुतं रुद्राच्च तैः सर्वैरहं तत्र समीपगः ।
ईश्वर उवाच -
मार्तण्डग्रहणे प्राप्ते ये व्रजन्ति षडानन ।
रवितीर्थे कुरुक्षेत्रे तुल्यमेतत्फलं लभेत् ॥ ६०.६९ ॥
स्नाने दाने तथा जप्ये होमे चैव विशेषतः ।
कुरुक्षेत्रे समं पुण्यं नात्र कार्या विचारणा ॥ ६०.७० ॥
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ।
रवितीर्थे विशेषेण रेवा पुण्यफलप्रदा ॥ ६०.७१ ॥
षष्ठ्यां सूर्यदिने भक्त्या व्यतीपाते च वै धृतौ ।
संक्रान्तौ ग्रहणेऽमायां ये व्रजन्ति जितेन्द्रियाः ॥ ६०.७२ ॥
कामक्रोधैर्विमुक्ताश्च रागद्वेषैस्तथैव च ।
उपोष्य परया भक्त्या देवस्याग्रे नराधिप ॥ ६०.७३ ॥
रात्रौ जागरणं कृत्वा दीपं देवस्य बोधयेत् ।
कथां वै वैष्णवीं पार्थ वेदाभ्यसनमेव च ॥ ६०.७४ ॥
ऋग्वेदं वा यजुर्वेदं सामवेदमथर्वणम् ।
ऋचमेकां जपेद्यस्तु स वेदफलमाप्नुयात् ॥ ६०.७५ ॥
गायत्र्या च चतुर्वेदफलमाप्नोति मानवः ।
प्रभाते पूजयेद्विप्रानन्नदानहिरण्यतः ॥ ६०.७६ ॥
भूमिदानेन वस्त्रेण अन्नदानेन शक्तितः ।
छत्रोपानहशय्यादिगृहदानेन पाण्डव ॥ ६०.७७ ॥
ग्रामधूर्वहदानेन गजकन्याहयेन च ।
विद्याशकटदानेन सर्वेषामभयं भवेत् ॥ ६०.७८ ॥
शत्रुश्च मित्रतां याति विषं चैवामृतं भवेत् ।
ग्रहा भवन्ति सुप्रीताः प्रीतस्तस्य दिवाकरः ॥ ६०.७९ ॥
एतत्ते सर्वमाख्यातं रवितीर्थफलं नृप ।
ये शृण्वन्ति नरा भक्त्या रवितीर्थफलं शुभम् ॥ ६०.८० ॥
तेऽपि पापविनिर्मुक्ता रविलोके वसन्ति हि ।
गोदानेन च यत्पुण्यं यत्पुण्यं भृगुदर्शने ॥ ६०.८१ ॥
केदार उदकं पीत्वा तत्पुण्यं जायते नृणाम् ।
अब्दमश्वत्थसेवायां तिलपात्रप्रदो भवेत् ॥ ६०.८२ ॥
तत्फलं समवाप्नोति आदित्येश्वरकीर्तनात् ।
श्रुते यस्य प्रभावे न जायते यन्नृपात्मज ॥ ६०.८३ ॥
तत्सर्वं कथयिष्यामि भक्त्या तव महीपते ।
पापानि च प्रलीयन्ते भिन्नपात्रे यथा जलम् ॥ ६०.८४ ॥
तीर्थस्याभिमुखो नित्यं जायते नात्र संशयः ।
गुह्याद्गुह्यतरं तीर्थं कथितं तव पाण्डव ॥ ६०.८५ ॥
पापिष्ठानां कृतघ्नानां स्वामिमित्रावघातिनाम् ।
तीर्थाख्यानं शुभं तेषां गोपितव्यं सदा बुधैः ॥ ६०.८६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदित्येश्वरतीर्थमाहात्म्यवर्णनं नाम षष्टितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 61
अध्याय ६१
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्परं पुण्यं नर्मदादक्षिणे तटे ।
शक्रतीर्थं सुविख्यातमशेषाघविनाशनम् ॥ ६१.१ ॥
पुरा शक्रेण तत्रैव तपो वै दुरतिक्रमम् ।
प्रारब्धं परया भक्त्या देवं प्रति महेश्वरम् ॥ ६१.२ ॥
ततः संतोषितो देव उमापतिर्नराधिप ।
देवेन्द्रत्वं वरं राज्यं दानवानां वधं ददौ ॥ ६१.३ ॥
लब्धं शक्रेण नृपते नर्मदातीर्थभावतः ।
ततः पुण्यतमं तीर्थं संजातं वसुधातले ॥ ६१.४ ॥
कार्त्तिकस्य तु मासस्य कृष्णपक्षे त्रयोदशीम् ।
उपोष्य वै नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ६१.५ ॥
दुःस्वप्नसम्भवैः पापैर्दुर्निमित्तसमुद्भवैः ।
ग्रहशाकिनिसम्भूतैर्मुच्यते पाण्डुनन्दन ॥ ६१.६ ॥
शक्रेश्वरं नृपश्रेष्ठ ये प्रपश्यन्ति भक्तितः ।
तेषां जन्मकृतं पापं नश्यते नात्र संशयः ॥ ६१.७ ॥
अगम्यागमने चैव अवाह्ये चैव वाहिते ।
स्वामिमित्रविघाते यन्नश्यते नात्र संशयः ॥ ६१.८ ॥
गोप्रदानं प्रकर्तव्यं शुभं ब्राह्मणपुंगवे ।
धुर्यं वा दापयेत्तस्मिन् सर्वाङ्गरुचिरं नृप ॥ ६१.९ ॥
दातव्यं परया भक्त्या स्वर्गे वासमभीप्सता ।
एतत्ते सर्वमाख्यातं शक्रेश्वरफलं नृप ॥ ६१.१० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शक्रेश्वरतीर्थमाहात्म्यवर्णनं नामैकषष्टितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 62
अध्याय ६२
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र करोडीश्वरमुत्तमम् ।
यत्र वै निहतास्तात दानवाः सपदानुगाः ॥ ६२.१ ॥
इन्द्रादिदेवैः संहृष्टैः सततं जयबुद्धिभिः ।
तेषां ये पुत्रपौत्राश्च पूर्ववैरमनुस्मरम् ॥ ६२.२ ॥
क्रुद्धैर्देवसमूहैश्च दानवा निहता रणे ।
तेषां शिरांसि संगृह्य सर्वे देवाः सवासवाः ॥ ६२.३ ॥
निक्षिप्य नर्मदातोये बन्धुभावमनुस्मरम् ।
तत्र स्नात्वा सुराः सर्वे स्थापयित्वा उमापतिम् ॥ ६२.४ ॥
इन्द्रेण सहिताः सर्वेऽपूजयंल्लोकसिद्धये ।
हृष्टचित्ताः सुराः सर्वे जग्मुराकाशमण्डलम् ॥ ६२.५ ॥
दानवानां महाभाग सूदिता कोटिरुत्तमा ।
तदा प्रभृति तत्तीर्थं करोडीति महीतले ॥ ६२.६ ॥
विख्यातं तु तदा लोके पापघ्नं पाण्डुनन्दन ।
अष्टम्यां च चतुर्दश्यामुभौ पक्षौ च भक्तितः ।
उपोष्य शूलिनश्चाग्रे रात्रौ कुर्वीत जागरम् ॥ ६२.७ ॥
सत्कथापाठसंयुक्तो वेदाध्ययनसंयुतः ।
प्रभाते विमले प्राप्ते पूजयेत्त्रिदशेश्वरम् ॥ ६२.८ ॥
पञ्चामृतेन संस्नाप्य श्रीखण्डेन च गुण्ठयेत् ।
शस्तैः पल्लवपुष्पैश्च पूजयेत्तु प्रयत्नतः ॥ ६२.९ ॥
बहुरूपं जपन्मन्त्रं दक्षिणाशां व्यवस्थितः ।
यथोक्तेन विधानेन नाभिमात्रे जले क्षिपेत् ॥ ६२.१० ॥
तिलाञ्जलिं तु प्रेताय दक्षिणाशामुपस्थितः ।
श्राद्धं तत्रैव विप्राय कारयेद्विजितेन्द्रियः ॥ ६२.११ ॥
विषमैरग्रजातैश्च वेदाभ्यसनतत्परैः ।
गोहिरण्येन सम्पूज्य ताम्बूलैर्भोजनैस्तथा ॥ ६२.१२ ॥
भूषणैः पादुकाभिश्च ब्राह्मणान्पाण्डुनन्दन ।
भवेत्कोटिगुणं तस्य नात्र कार्या विचारणा ॥ ६२.१३ ॥
तस्मिंस्तीर्थे तु यः कश्चित्त्यजेद्देहं विधानतः ।
तस्य भवति यत्पुण्यं तच्छृणुष्व नराधिप ॥ ६२.१४ ॥
यावदस्थीनि तिष्ठन्ति मर्त्यस्य नर्मदाजले ।
तावद्वसति धर्मात्मा शिवलोके सुदुर्लभे ॥ ६२.१५ ॥
ततः कालाच्च्युतस्तस्मादिह मानुषतां गतः ।
कोटिधनपतिः श्रीमाञ्जायते राजपूजितः ॥ ६२.१६ ॥
सर्वधर्मसमायुक्तो मेधावी बीजपुत्रकः ।
विख्यातो वसुधापृष्ठे दीर्घायुर्मानवो भवेत् ॥ ६२.१७ ॥
पुनः स्मरति तत्तीर्थं तत्र गत्वा नृपोत्तम ।
करोडेश्वरमभ्यर्च्य प्राप्नोति परमां गतिम् ॥ ६२.१८ ॥
इन्द्रचन्द्रयमैर्रुद्रैरादित्यैर्वसुभिस्तथा ।
विश्वेदेवैस्तथा सर्वैः स्थापितस्त्रिदशेश्वरः ॥ ६२.१९ ॥
रेवाया उत्तरे कूले लोकानां हितकाम्यया ।
मानवो भक्तिसंयुक्तः प्रासादं कारयेत्तु यः ॥ ६२.२० ॥
तस्मिंस्तीर्थे नरश्रेष्ठ सद्गतिं समवाप्नुयात् ।
न्यायोपात्तधनेनैव दारुपाषाणकेष्टकैः ॥ ६२.२१ ॥
ब्राह्मणः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिश्च शक्तितः ।
तेऽपि यान्ति नरा लोके शांकरे सुरपूजिते ॥ ६२.२२ ॥
यः शृणोति सदा भक्त्या माहात्म्यं तीर्थजं नृप ।
तस्य पापं प्रणश्येत षण्मासाभ्यन्तरं च यत् ॥ ६२.२३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे करोडीश्वरतीर्थमाहात्म्यवर्णनं नाम द्विषष्टितमोऽध्यायः॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 63
अध्याय ६३
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र कुमारेश्वरमुत्तमम् ।
प्रसिद्धं सर्वतीर्थानामगस्त्येश्वरसन्निधौ ॥ ६३.१ ॥
षण्मुखेन पुरा तात सर्वपातकनाशनम् ।
आराध्य परया भक्त्या सिद्धिः प्राप्ता नराधिप ॥ ६३.२ ॥
देवसैन्याधिपो जातः सर्वशत्रुनिबर्हणः ।
उग्रतेजा महात्मासौ संजातस्तीर्थसेवनात् ॥ ६३.३ ॥
तदाप्रभृति तत्तीर्थं संजातंनर्मदातटे ।
तत्र तीर्थे तु यो गत्वा एकचित्तो जितेन्द्रियः ॥ ६३.४ ॥
कार्त्तिकस्य चतुर्दश्यामष्टम्यां च विशेषतः ।
स्नापयेद्गिरिजानाथं दधिदुग्धेन सर्पिषा ॥ ६३.५ ॥
गीतं तत्र प्रकर्तव्यं पिण्डदानं यथाविधि ।
ब्राह्मणैः श्रोत्रियैः पार्थ षट्कर्मनिरतैः शुभैः ॥ ६३.६ ॥
यत्किंचिद्दीयते तत्र अक्षयं पाण्डुनन्दन ।
सर्वतीर्थमयं तीर्थ निर्मितं शिखिना नृप ॥ ६३.७ ॥
एतत्ते सर्वमाख्यातं कुमारेश्वरजं फलम् ।
कुमारदर्शनात्पुण्यं प्राप्यते पाण्डुनन्दन ॥ ६३.८ ॥
मृतः स्वर्गमवाप्नोति सत्यमीश्वरभाषितम् ॥ ६३.९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुमारेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिषष्टितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 64
अध्याय ६४
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
नराणां पापनाशाय अगस्त्येश्वरमुत्तमम् ॥ ६४.१ ॥
तत्र स्नात्वा नरो राजन्मुच्यते ब्रह्महत्यया ।
कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ॥ ६४.२ ॥
घृतेन स्नापयेद्देवं समाधिस्थो जितेन्द्रियः ।
एकविंशतिकुलोपेतो च्यवेदैश्वरात्पदात् ॥ ६४.३ ॥
धनं चोपानहौ छत्रं दद्याच्च घृतकम्बलम् ।
भोजनं चैव सर्वेषां सर्वं कोटिगुणं भवेत् ॥ ६४.४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अगस्त्येश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 65
अध्याय ६५
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र आनन्देश्वरमुत्तमम् ।
तत्तीर्थं कथयिष्यामि सर्वपापक्षयंकरम् ॥ ६५.१ ॥
युधिष्ठिर उवाच -
आनन्दश्चैव संजातो रुद्रस्य द्विजसत्तम ।
कथ्यतां मे च तत्सर्वं संक्षेपात्सह बान्धवैः ॥ ६५.२ ॥
श्रीमार्कण्डेय उवाच -
कथयामि नृपश्रेष्ठ आनन्देश्वरमुत्तमम् ।
दानवानां वधं कृत्वा देवदेवो महेश्वरः ॥ ६५.३ ॥
पूजितो दैवतैः सर्वैः किन्नरैर्यक्षपन्नगैः ।
आनन्दसंयुतो देवो ननर्त वृषवाहनः ॥ ६५.४ ॥
भैरवं रूपमास्थाय गौर्या चार्द्धाङ्गसंस्थितः ।
भूतवेतालकङ्कालैर्भैरवैर्भैरवो वृतः ॥ ६५.५ ॥
ननर्त नर्मदातीरे दक्षिणे पाण्डुनन्दन ।
तुष्टैर्मरुद्गणैः सर्वैः स्थापितः कमलासनः ॥ ६५.६ ॥
तदाप्रभृति तत्तीर्थमानन्देश्वरमुच्यते ।
अष्टम्यां च चतुर्दश्यां पौर्णमास्यां नराधिप ॥ ६५.७ ॥
विधिवच्चार्चयेद्देवं सुगन्धेन विलेपयेत् ।
ब्राह्मणान्पूजयेत्तत्र यथाशक्त्या युधिष्ठिर ॥ ६५.८ ॥
गोदानं तत्र कर्तव्यं वस्त्रदानं शुभावहम् ।
वसन्तस्य त्रयोदश्यां श्राद्धं तत्रैव कारयेत् ॥ ६५.९ ॥
इङ्गुदैर्बदरैर्बिल्वैरक्षतैश्च जलेन वा ।
प्रेतानां कारयेच्छ्राद्धमानन्देश्वर उत्तमे ॥ ६५.१० ॥
आनन्दिता भवेयुस्ते यावदाभूतसम्प्लवम् ।
सन्ततेर्वै न विच्छेदः सप्तजन्मसु जायते ।
आनन्दो हि भवत्तेषां प्रतिजन्मनि भारत ॥ ६५.११ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आनन्देश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चषष्टितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 66
अध्याय ६६
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र मातृतीर्थमनुत्तमम् ।
सङ्गमस्य समीपस्थं नर्मदादक्षिणे तटे ॥ ६६.१ ॥
मातरस्तत्र राजेन्द्र संजाता नर्मदातटे ।
उमार्धनारिर्देवेशो व्यालयज्ञोपवीतधृक् ॥ ६६.२ ॥
उवाच योगिनीवृन्दं कष्टंकष्टमहो हर ।
अजेयाः सर्वदेवानां त्वत्प्रसादान्महेश्वर ॥ ६६.३ ॥
तीर्थमत्र विधानेन प्रख्यातं वसुधातले ।
एवं भवतु योगिन्य इत्युक्त्वान्तरधाच्छिवः ॥ ६६.४ ॥
श्रीमार्कण्डेय उवाच -
तत्र तीर्थे तु यो भक्त्या नवम्यां नियतः शुचिः ।
उपोष्य परया भक्त्या पूजयेन्मातृगोचरम् ॥ ६६.५ ॥
तस्य स्युर्मातरः प्रीताः प्रीतोऽयं वृषवाहनः ।
वन्ध्याया मृतवत्साया अपुत्राया युधिष्ठिर ॥ ६६.६ ॥
स्नापनं चारभेत्तत्र मन्त्रशास्त्रविदुत्तमः ।
सहिरण्येन कुम्भेन पञ्चरत्नफलान्वितः ॥ ६६.७ ॥
स्नापयेत्पुत्रकामायाः कांस्यपात्रेण देशिकः ।
पुत्रं सा लभते नारी वीर्यवन्तं गुणान्वितम् ॥ ६६.८ ॥
यो यं काममभिध्यायेत्ततः स लभते नृप ।
मातृतीर्थात्परं तीर्थं न भूतं न भविष्यति ॥ ६६.९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मातृतीर्थमाहात्म्यवर्णनं नाम षट्षष्टितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 67
अध्याय ६७
श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं तात जलमध्ये व्यवस्थितम् ।
लुङ्केश्वरमिति ख्यातं सुरासुरनमस्कृतम् ॥ ६७.१ ॥
इदं तीर्थं महापुण्यं नानाश्चर्यं महीतले ।
अस्य तीर्थस्य माहात्म्यमुत्पत्तिं शृणु भारत ॥ ६७.२ ॥
आसीत्पुरा महावीर्यो दानवो बलदर्पितः ।
कालपृष्ठ इति ख्यातः सुतो ब्रह्मसुतस्य च ॥ ६७.३ ॥
गङ्गातटं समाश्रित्य चचार विपुलं तपः ।
अधोमुखोऽपि संस्थित्वापिबद्धूममहर्निशम् ॥ ६७.४ ॥
ततश्चानन्तरं देवस्तिष्ठते ह्युमया सह ।
दृष्ट्वा तं पार्वती सा तु तपस्युग्रे व्यवस्थितम् ॥ ६७.५ ॥
पश्य पश्य महादेव धूमाशी तिष्ठते नरः ।
प्रसीद तं कुरुष्वाद्य देहि शीघ्रं वरं विभो ॥ ६७.६ ॥
ईश्वर उवाच -
यदुक्तं वचनं देवि न तन्मे रोचते प्रिये ।
स्वकार्यं च सदा चिन्त्यं परकार्यं विसर्जयेत् ॥ ६७.७ ॥
मूर्खस्त्रीबालशत्रूणां यश्छन्देनानुवर्तते ।
व्यसने पतते घोरे सत्यमेतदुदीरितम् ॥ ६७.८ ॥
देव्युवाच -
भार्ययाभ्यर्थितो भर्ता कारणं बहु भाषते ।
लघुत्वं याति सा नारी एवं शास्त्रेषु पठ्यते ॥ ६७.९ ॥
प्राणत्यागं करिष्यामि यदि मां त्वं न मन्यसे ।
पार्वत्या प्रेरितो देवो गतोऽसौ दानवं प्रति ॥ ६७.१० ॥
ईश्वर उवाच -
किमर्थं पिबसे धूमं किमर्थं तप्यसे तपः ।
किं दुःखं किं नु सन्तापो वद कार्यमभीप्सितम् ॥ ६७.११ ॥
युवा त्वं दृश्यसेऽद्यापि वर्षविंशतिरेव च ।
तदाचक्ष्व हि मे सर्वं तपसः कारणं महत् ॥ ६७.१२ ॥
दानव उवाच -
अचला दीयतां भक्तिर्मम स्थैर्यं तवोपरि ।
अपरं वर्षसाहस्रं निर्विघ्नं मे गतं विभो ॥ ६७.१३ ॥
दिवसानां सहस्रे द्वे पूर्णे त्वत्तपसा मम ॥ ६७.१४ ॥
ईश्वर उवाच -
याचयाभीप्सितं कार्यं तुष्टोऽहं तव सुव्रत ।
देवस्य वचनं श्रुत्वा चिन्तयामास दानवः ॥ ६७.१५ ॥
किं नाकं याचयाम्यद्य किमद्य सकलां महीम् ।
एवं संचिन्तयामास कामबाणेन पीडितः ॥ ६७.१६ ॥
दानव उवाच -
यदि तुष्टोऽसि मे देव वरं दास्यसि मे प्रभो ।
सङ्ग्रामैस्तु न तुष्टोऽहं बलं नास्तीति किंचन ॥ ६७.१७ ॥
यस्य मूर्धन्यहं देव पाणिना समुपस्पृशे ।
देवदानवगन्धर्वो भस्मसाद्यातु तत्क्षणात् ॥ ६७.१८ ॥
ईश्वर उवाच -
यत्त्वया चिन्तितं किंचित्तत्सर्वं सफलं तव ।
उत्तिष्ठ गच्छ शीघ्रं त्वं भवनं प्रति दानव ॥ ६७.१९ ॥
दानव उवाच -
स्थीयतां देवदेवेश यावज्ज्ञास्यामि ते वरम् ।
युष्मन्मूर्ध्नि न्यसे पाणिं प्रत्ययो मे भवेद्यथा ॥ ६७.२० ॥
ततश्चानन्तरं देवश्चिन्तयानो महेश्वरः ।
न स्कन्दो न हरिर्ब्रह्मा यः कार्येषु क्षमोऽधुना ॥ ६७.२१ ॥
ज्ञात्वा चैवापदं प्राप्तां देवः प्रार्थयते वृषम् ।
अनेन सह पापेन युध्यस्व साम्प्रतं क्षणम् ॥ ६७.२२ ॥
करं प्रासारयद्दैत्यो देवं मूर्ध्नि किल स्पृशेत् ।
लाङ्गूलेनाहतो दैत्यो विषण्णः पतितो भुवि ॥ ६७.२३ ॥
देवस्तु दक्षिणामाशां गतश्चैवोमया सह ।
भयभीतो निरीक्षेत ग्रीवां भज्य पुनःपुनः ॥ ६७.२४ ॥
गते चादर्शनं देवे युयुधे वृषभेण सः ।
द्वावेतौ बलिनां श्रेष्ठौ युयुधाते महाबलौ ॥ ६७.२५ ॥
प्रहारैर्वज्रसदृशैः कोपेन घटिकात्रयम् ।
पाणिभ्यां न स्पृशेद्यो वै वृषभस्य शिरस्तथा ॥ ६७.२६ ॥
हत्वा लाङ्गूलपातेन आगतो वृषभस्तदा ।
उत्थितश्चाप्यसौ दैत्यो व्रजते वृषपृष्ठतः ॥ ६७.२७ ॥
वायुवेगेन सम्प्राप्तो यत्र देवो महेश्वरः ।
आगतं दानवं दृष्ट्वा वृषो वचनमब्रवीत् ॥ ६७.२८ ॥
आरुह्य पृष्ठे मे देव शीघ्रमेव हि गम्यताम् ।
आरुह्य वृषभं देवो जगाम चोमया सह ॥ ६७.२९ ॥
नाकं प्राप्तस्ततो देवो गतः शक्रस्य मन्दिरम् ।
नात्यजद्देवपृष्ठं तु दानवो बलदर्पितः ॥ ६७.३० ॥
इन्द्रलोकं परित्यज्य ब्रह्मलोकं गतस्तदा ।
यत्रयत्र व्रजेद्देवो भयात्सह दिवौकसैः ॥ ६७.३१ ॥
अपश्यत्तत्र तत्रैव पृष्ठे लग्नं तु दानवम् ।
सर्वांल्लोकान् भ्रमित्वा तु देवो विस्मयमागतः ॥ ६७.३२ ॥
न स्थानं विद्यते किंचिद्यत्र विश्रम्यते क्षणम् ।
देवदानवयोस्तत्र युद्धं ज्ञात्वा सुदारुणम् ॥ ६७.३३ ॥
हर्षितात्मा मुनिस्तत्र चिरं नृत्यति नारदः ।
धन्योऽहमद्य मे जन्म जीवितं च सुजीवितम् ॥ ६७.३४ ॥
महान्तं च कलिं दृष्ट्वा संतोषः परमोऽभवत् ।
देवदानवयोस्तत्र युद्धं त्यक्त्वा च नारदः ॥ ६७.३५ ॥
आजगाम ततो विप्रो यत्र देवो महेश्वरः ।
दृष्ट्वा देवोऽथ तं विप्रं प्रतिपूज्याब्रवीदिदम् ॥ ६७.३६ ॥
भो नारद मुनिश्रेष्ठ जानीषे केशवं क्वचित् ।
गत्वा तत्र च शीघ्रं त्वं केशवाय निवेदय ॥ ६७.३७ ॥
नारद उवाच -
देवदानवसिद्धानां गन्धर्वोरगरक्षसाम् ।
सर्वेषामेव देवेशो हरते ध्रुवमापदम् ॥ ६७.३८ ॥
असंभाव्यं न वक्तव्यं मनसापि न चिन्तयेत् ।
ईदृशीं नैव बुध्यामि आपदं च विभो तव ॥ ६७.३९ ॥
ईश्वर उवाच -
गच्छ नारद शीघ्रं त्वं यत्र देवो जनार्दनः ।
विदितं च त्वया सर्वं यत्कृतं दानवेन तु ॥ ६७.४० ॥
अवध्यो दानवो ह्येष सेन्द्रैरपि मरुद्गणैः ।
गत्वा तु केशवं देवं निवेदय महामुने ॥ ६७.४१ ॥
नारद उवाच -
न तु गच्छाम्यहं देव सुप्तः क्षीरोदधौ सुखी ।
केशवः प्रेरणे ह्येषामादेशो दीयतां प्रभो ॥ ६७.४२ ॥
मात्रा स्वस्रा दुहित्रा वा राजानं च तथा प्रभुम् ।
गुरुं चैवादितः कृत्वा शयानं न प्रबोधयेत् ॥ ६७.४३ ॥
ईश्वर उवाच -
यदि क्वचिदगारेषु वह्निरुत्पद्यते महान् ।
निधनं यान्ति तत्रस्था यद्बुध्येरन्नसूरयः ॥ ६७.४४ ॥
नारद उवाच -
शीघ्रं गच्छ महादेव आत्मानं रक्ष सुप्रभो ।
गच्छाम्यहं न सन्देहो यत्र देवो जनार्दनः ॥ ६७.४५ ॥
ततो नन्दिमहाकालौ स्तम्भहस्तौ भयानकौ ।
जघ्नतुर्दानवं तत्र मुद्गरादिभिरायुधैः ॥ ६७.४६ ॥
त्रयोऽपि च महाकायाः सप्ततालप्रमाणकाः ।
न शमो जायते तेषां युध्यतां च परस्परम् ॥ ६७.४७ ॥
ततश्चानन्तरं विप्रोऽगच्छत्तं केशवं प्रति ।
सुप्तं क्षीरार्णवेऽपश्यच्छेषपर्यङ्कसंस्थितम् ॥ ६७.४८ ॥
लक्ष्म्या पादयुगं गृह्य ऊरूपरि निवेशितम् ।
अप्सरोगीयमानं तु भक्त्यानम्य च केशवम् ॥ ६७.४९ ॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।
उत्थापयस्व देवेशं लक्ष्मि त्वमविशङ्किता ॥ ६७.५० ॥
नारदस्य वचः श्रुत्वा पदाङ्गुष्ठं व्यमर्दयत् ।
नारदस्तिष्ठते द्वारि उत्तिष्ठ मधुसूदन ॥ ६७.५१ ॥
देवोऽपि नारदं दृष्ट्वा परं हर्षमुपागतः ।
स्वागतं तु मुनिश्रेष्ठ सुप्रभाताद्य शर्वरी ॥ ६७.५२ ॥
नारद उवाच -
अद्य मे सफलं देव प्रभातं तव दर्शनात् ।
कुशलं च न देवानां शीघ्रमुत्तिष्ठ गम्यताम् ॥ ६७.५३ ॥
श्रीविष्णुरुवाच -
ब्रह्मा चेन्द्रश्च रुद्रश्च ये चान्ये तु मरुद्गणाः ।
आपदः कारणं यच्च तत्समाख्यातुमर्हसि ॥ ६७.५४ ॥
नारद उवाच -
दानवेन महातीव्रं तपस्तप्तं सुदारुणम् ।
रुद्रेण च वरो दत्तो भस्मत्वं मनसेप्सितम् ॥ ६७.५५ ॥
वरदानबलेनैव स देवं हन्तुमर्हति ।
ईदृशं चेष्टितं ज्ञात्वा नीतो देवोऽमरैः सह ॥ ६७.५६ ॥
नारदस्य वचः श्रुत्वा जगाम समुनिर्हरिः ।
दृष्ट्वा देवस्तमीशानं गच्छन्तं दिशमुत्तराम् ॥ ६७.५७ ॥
दृष्ट्वा देवं च रुद्रोऽथ परिष्वज्य पुनःपुनः ।
नमस्कृत्य जगन्नाथं देवं च मधुसूदनः ॥ ६७.५८ ॥
विष्णुरुवाच -
भयस्य कारणं देव कथ्यतां च महेश्वर ।
देवदानवयक्षाणां प्रेषयेयं यमालयम् ॥ ६७.५९ ॥
ललाटे च कृतो धर्मो युष्माकं च महेश्वर ।
छित्त्वा शिरस्तथाङ्गानि इन्द्रियाणि न संशयः ॥ ६७.६० ॥
ईश्वर उवाच -
नास्ति सौख्यं च मूर्खेषु नास्ति सौख्यं च रोगिषु ।
पराधीनेन सौख्यं तु स्त्रीजिते च विशेषतः ॥ ६७.६१ ॥
स्त्रीजितेन मया विष्णो वरो दत्तस्तु दानवे ।
यस्य मूर्ध्नि न्यसेत्पाणिं स भवेद्भस्मपुंजवत् ॥ ६७.६२ ॥
अजेयश्चामरश्चैव मया ह्युक्तः स केशव ।
हन्तुमिच्छति मां पाप उपायस्तव विद्यते ॥ ६७.६३ ॥
विष्णुरुवाच -
गच्छन्तु अमराः सर्वे युष्माभिः सह शङ्कर ।
उपायं सर्जयाम्यद्य वधार्थं दानवस्य च ॥ ६७.६४ ॥
रेवायाश्च तटे तिष्ठ देव त्वममरैः सह ।
कालक्षेपो न कर्तव्यो गम्यतां त्वरितं प्रभो ॥ ६७.६५ ॥
दक्षिणा यत्र गङ्गा च रेवा चैव महानदी ।
यत्रयत्र च दृश्येत प्राची चैव सरस्वती ॥ ६७.६६ ॥
तत्समं च महातीर्थं न मर्त्ये चैव दृश्यते ।
स्नानं ये तत्र कुर्वन्ति दानं चैव तु भक्तितः ॥ ६७.६७ ॥
सप्तजन्मकृतं पापं नश्यते नात्र संशयः ।
एतत्तीर्थं महापुण्यं सर्वपातकनाशनम् ॥ ६७.६८ ॥
गम्यतां तत्र देवेश लुङ्केशं त्वं सहामरैः ।
विष्णोस्तु वचनादेव प्रविष्टो ह्रदमुत्तमम् ॥ ६७.६९ ॥
रतिं सुमहतीं चक्रे सह तत्र मरुद्गणैः ।
ततश्चानन्तरं देवो मायां कृत्वा ह्यनेकधा ॥ ६७.७० ॥
वसन्तमासं संसृज्य उद्यानवनशोभितम् ।
अशोकैर्बकुलैश्चैव ब्रह्मवृक्षैः सुशोभनैः ॥ ६७.७१ ॥
श्रीवृक्षैश्च कपित्थैश्च शिरीषैर्राजचम्पकैः ।
श्रीफलैश्च तथा तालैः कदम्बोदुम्बरैस्तथा ॥ ६७.७२ ॥
अश्वत्थादिद्रुमैश्चैव नानावृक्षैरनेकशः ।
नानापुष्पैः सुगन्धाढ्यैर्भ्रमरैश्च निनादितम् ॥ ६७.७३ ॥
तस्मिन्मध्ये महावृक्षो न्यग्रोधश्च सुशोभनः ।
बहुपक्षिसमायुक्तः कोकिलारावनादितः ॥ ६७.७४ ॥
कृष्णेन च कृतं तस्मिन्कन्यारूपं च तत्क्षणात् ।
न तस्याः सदृशी कन्या त्रैलोक्ये सचराचरे ॥ ६७.७५ ॥
अन्याश्च कन्यकाः सप्त सुरूपाः शुभलोचनाः ।
दिव्यरूपधराः सर्वा दिव्याभरणभूषिताः ॥ ६७.७६ ॥
पुमांसमभिकाङ्क्षन्त्यो यद्येकः कामयेत्स्त्रियः ।
मौक्तिकैर्रत्नमाणिक्यैर्वैडूर्यैश्च सुशोभनैः ॥ ६७.७७ ॥
कामहारैश्च वंशैश्च बद्धो हिन्दोलकः कृतः ।
आरूढाश्च महाकन्या गायन्ते सुस्वरं तदा ॥ ६७.७८ ॥
मारुतः शीतलो वाति वनं स्पृष्ट्वा सुशोभनम् ।
वातेन प्रेरितो गन्धो दानवो घ्राणपीडितः ॥ ६७.७९ ॥
ततः कुसुमगन्धेन विस्मयं परमं गतः ।
आघ्राय चेदृशं पुण्यं न दृष्टं न श्रुतं मया ॥ ६७.८० ॥
वने चिन्तयतः किंचिद्ध्वनिगीतं सुशोभनम् ।
गीतस्य च ध्वनिं श्रुत्वा मोहितो मायया हरेः ॥ ६७.८१ ॥
व्याधस्यैव महाकूटे पतन्ति च यथा मृगाः ।
कालस्पृष्टस्तथा कृष्णे पतितश्च नराधिप ॥ ६७.८२ ॥
दृष्ट्वा कन्यां च तां दैत्यो मूर्च्छया पतितो भुवि ।
पतितेन तु दृष्टैका कन्या वटतले स्थिता ॥ ६७.८३ ॥
आस्यं दृष्ट्वा तु नारीणां पुनः कामेन पीडितः ।
गृहीत्वा हेमदण्डं तु तां पातयितुमिच्छति ॥ ६७.८४ ॥
कन्योवाच -
मा मानुस्पर्शयत्वं हि कुमार्यहं कुलोत्तम ।
भो मुञ्च मुञ्च मां शीघ्रं यावद्गच्छाम्यहं गृहम् ॥ ६७.८५ ॥
दानव उवाच -
अहं विवाहमिच्छामि त्वया सह सुशोभने ।
भूपृष्ठे सकले राज्ञी भवस्येवं न संशयः ॥ ६७.८६ ॥
कन्योवाच -
पिता रक्षति कौमार्ये भर्ता रक्षति यौवने ।
पुत्रो रक्षति वृद्धत्वे न स्त्री स्वातन्त्र्यमर्हति ॥ ६७.८७ ॥
न स्वातन्त्र्यं ममैवास्ति उत्पन्नाहं महत्कुले ।
याच्यस्तु मत्पिता भ्राता मातापि हि तथैव च ॥ ६७.८८ ॥
दानव उवाच -
यदि मां नेच्छसे त्वद्य स्वातन्त्र्यं नावलम्बसे ।
ममापि च तदा हत्या सत्यं च शुभलोचने ॥ ६७.८९ ॥
कन्योवाच -
विश्वासो नैव कर्तव्यो यादृशे तादृशे नरे ।
नराः स्त्रीषु विचित्राश्च लम्पटाः काममोहिताः ॥ ६७.९० ॥
परिणीय तु मां त्वं हि भुङ्क्ष्व भोगान्मया सह ।
जन्मनाशो भवेत्पश्चान्न त्वं नान्यो भवेन्मम ॥ ६७.९१ ॥
ब्राह्मणी क्षत्रिणी वैशी शूद्री यावत्तथैव च ।
द्वितीयो न भवेद्भर्ता एकाकी चेह जन्मनि ॥ ६७.९२ ॥
दानव उवाच -
यत्त्वया गदितं वाक्यं तन्मया धारितं हृदि ।
प्रत्ययं मे कुरुष्वाद्य यत्ते मनसि रोचते ॥ ६७.९३ ॥
कन्योवाच -
जानीष्व गोपकन्यां मां क्रीडामि सखिभिः सह ।
अस्मत्कुलेषु यद्दिव्यं तत्कुरुष्व यथाविधि ॥ ६७.९४ ॥
न तद्दिव्यं कुलेऽस्माकं विषं कोशं न तत्तुला ।
गोपान्वयेषु सर्वेषु हस्तः शिरसि दीयते ॥ ६७.९५ ॥
कामान्धेनैव राजेन्द्र निक्षिप्तो मस्तके करः ।
तत्क्षणाद्भस्मसाद्भूतो दग्धस्तृणचयो यथा ॥ ६७.९६ ॥
केशवोपरि देवैस्तु पुष्पवृष्टिः शुभा कृता ।
हृष्टाः सर्वेऽगमन्देवाः स्वस्थानं विगतज्वराः ॥ ६७.९७ ॥
क्षीरोदं केशवो गच्छत्कालपृष्ठे निपातिते ।
य इदं शृणुयाद्भक्त्या चरितं दानवस्य च ॥ ६७.९८ ॥
स जयी जायते नित्यं शङ्करस्य वचो यथा ।
एतस्मात्कारणाद्राजंल्लिङ्गेश्वरमिति श्रुतम् ॥ ६७.९९ ॥
लीनं च पातकं यस्मात्स्नानमात्रेण नश्यति ।
त्वगस्थि शोणितं मांसं मेदःस्नायुस्तथैव च ॥ ६७.१०० ॥
मज्जाशुक्रगतं पापं नश्यते जन्मकोटिजम् ।
लुङ्केश्वरे महाराज तोयं पिबति भक्तितः ॥ ६७.१०१ ॥
त्रिभिः प्रसृतिमात्राभिः पापं याति सहस्रधा ।
विशेषेण चतुर्दश्यामुभौ पक्षौ तु चाष्टमी ॥ ६७.१०२ ॥
उपोष्य यो नरो भक्त्या पित्ःणां पाण्डुनन्दन ।
उद्धृतास्तेन ते सर्वे नारकीयाः पितामहाः ॥ ६७.१०३ ॥
काकिणीं चैव यो दद्याद्ब्राह्मणे वेदपारगे ।
तेन दानफलं सर्वं कुरुक्षेत्रादिकं च यत् ॥ ६७.१०४ ॥
प्राप्तं तु नान्यथा राजञ्छङ्करो वदते त्विदम् ।
स्पर्शलिङ्गमिदं राजञ्छङ्करेण तु निर्मितम् ॥ ६७.१०५ ॥
स्पर्शमात्रे मनुष्याणां रुद्रवासोऽभिजायते ।
तेन दानफलं सर्वं कुरुक्षेत्रादिकं च यत् ॥ ६७.१०६ ॥
एतस्मात्कारणाद्राजंल्लोकपालाश्च रक्षकाः ।
दुर्गा च रक्षणे सृष्टा चतुर्हस्तधरा शुभा ॥ ६७.१०७ ॥
धनदो लोकपालेशो रक्षकश्चेश्वरस्य च ।
रक्षति च सदा कालं ग्रहव्यापाररूपतः ॥ ६७.१०८ ॥
पुत्रभ्रातृसमारूपैः स्वामिसम्बन्धरूपिभिः ।
लङ्केश्वरं च राजेन्द्र देवैर्नाद्यापि मुच्यते ॥ ६७.१०९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लुङ्केश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 68
अध्याय ६८
श्रीमार्कण्डेय उवाच -
धनदस्य तु तत्तीर्थं ततो गच्छेद्युधिष्ठिर ।
नर्मदादक्षिणे कूले सर्वपापक्षयंकरम् ॥ ६८.१ ॥
सर्वतीर्थफलं तत्र प्राप्यते नात्र संशयः ।
चैत्रमासत्रयोदश्यां शुक्लपक्षे जितेन्द्रियः ॥ ६८.२ ॥
उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम् ।
पञ्चामृतेन राजेन्द्र स्नापयेद्धनदं बुधः ॥ ६८.३ ॥
दीपं घृतेन दातव्यं गीतं वाद्यं च कारयेत् ।
प्रभाते पूजयेद्विप्रानात्मनः श्रेय इच्छति ॥ ६८.४ ॥
प्रतिग्रहसमर्थांश्च विद्यासिद्धान्तवादिनः ।
श्रौतस्मार्तक्रियायुक्तान् परदारपराङ्मुखान् ॥ ६८.५ ॥
पूजयेद्गोहिरण्येन वस्त्रोपानहभोजनैः ।
छत्रशय्याप्रदानेन सर्वपापक्षयो भवेत् ॥ ६८.६ ॥
त्रिजन्मजनितं पापं वरदस्य प्रभावतः ।
स्वर्गदं दुर्विनीतानां विनीतानां च मोक्षदम् ॥ ६८.७ ॥
अन्नदं च दरिद्राणां भवेज्जन्मनिजन्मनि ।
कुलीनत्वं दुःखहानिः स्वभावाजायते नरे ॥ ६८.८ ॥
व्याधिध्वंसो भवेत्तेषां नर्मदोदकसेवनात् ।
धनदस्य तु यस्तीर्थे विद्यादानं प्रयच्छति ॥ ६८.९ ॥
स याति भास्करे लोके सर्वव्याधिविवर्जिते ।
देवद्रोणीं च तत्रैव स्वशक्त्या पाण्डुनन्दन ॥ ६८.१० ॥
ये प्रकुर्वन्ति भूयिष्ठां रेवाया दक्षिणे तटे ।
ते यान्ति शांकरे लोके सर्वदुःखविवर्जिते ॥ ६८.११ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे धनदतीर्थमाहात्म्यवर्णनं नामाष्टषष्टितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 69
अध्याय ६९
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र मङ्गलेश्वरमुत्तमम् ।
स्थापितं भूमिपुत्रेण लोकानां हितकाम्यया ॥ ६९.१ ॥
तोषितः परया भक्त्या शङ्करः शशिशेखरः ।
चतुर्दश्यां गुरुर्देवः प्रत्यक्षो मङ्गलेश्वरः ॥ ६९.२ ॥
ब्रूहि पुत्र वरं शुभ्रं तं ते दास्यामि मङ्गल ॥ ६९.३ ॥
मङ्गल उवाच -
प्रसादं कुरु मे शम्भो प्रतिजन्मनि शङ्कर ।
त्वदङ्गस्वेदसम्भूतो ग्रहमध्ये वसाम्यहम् ॥ ६९.४ ॥
त्वत्प्रसादेन ईशान पूज्योऽहं सर्वदैवतैः ।
कृतार्थो ह्यद्य संजातस्तव दर्शनभाषणात् ॥ ६९.५ ॥
स्थानेऽस्मिन् देवदेवेश मम नाम्ना महेश्वरः ।
एवं भवतु ते पुत्रेत्युक्त्वा चान्तरधीयत ॥ ६९.६ ॥
मङ्गलोऽपि महात्मा वै स्थापयित्वा महेश्वरम् ।
आत्मयोगबलेनैव शूलिनापूजयत्ततः ॥ ६९.७ ॥
सर्वदुःखहरं लिङ्गं नाम्ना वै मङ्गलेश्वरम् ।
तत्र तीर्थे तु वै राजन्ब्राह्मणान्प्रीणयेत्सुधीः ॥ ६९.८ ॥
सपत्नीकान्नृपश्रेष्ठ चतुर्थ्यङ्गारके व्रते ।
पत्नीभर्तारसंयुक्तं विद्वांसं श्रोत्रियं द्विजम् ॥ ६९.९ ॥
व्रतान्ते चैव गौर्धुर्यैः शिवमुद्दिश्य दीयते ।
प्रीयतां मे महादेवः सपत्नीको वृषध्वजः ॥ ६९.१० ॥
वस्त्रयुग्मं प्रदातव्यं लोहितं पाण्डुनन्दन ।
धूर्वहौ रक्तवर्णौ च शुभ्रं कृष्णं तथैव च ॥ ६९.११ ॥
छत्रं शय्यां शुभां चैव रक्तमाल्यानुलेपनम् ।
दातव्यं पाण्डवश्रेष्ठ विशुद्धेनान्तरात्मना ॥ ६९.१२ ॥
चतुर्थ्यां तु तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः ।
श्राद्धं तत्रैव कर्तव्यं वित्तशाठ्येन वर्जितः ॥ ६९.१३ ॥
प्रेता भवन्ति सुप्रीता युगमेकं महीपते ।
सपुत्रो जायते मर्त्यः प्रतिजन्म नृपोत्तम ॥ ६९.१४ ॥
तस्य तीर्थस्य भावेन सर्वाङ्गरुचिरो नृप ।
मङ्गलं भवते वंशो नाशुभं विद्यते क्वचित् ॥ ६९.१५ ॥
भक्त्या यः कीर्तयेन्नित्यं तस्य पापं व्यपोहति ॥ ६९.१६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनसप्ततितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 70
अध्याय ७०
श्रीमार्कण्डेय उवाच -
रेवाया उत्तरे कूले तीर्थं परमशोभनम् ।
रविणा निर्मितं पार्थ सर्वपापक्षयंकरम् ॥ ७०.१ ॥
स्वांशेन भास्करस्तत्र तिष्ठते चोत्तरे तटे ।
सर्वव्याधिहरः पुंसां नर्मदायां व्यवस्थितः ॥ ७०.२ ॥
षष्ठ्यांषष्ठ्यां नृपश्रेष्ठ ह्यष्टम्यां च चतुर्दशीम् ।
स्नानं यः कारयेन्मर्त्यः श्राद्धं प्रेतेषु भक्तितः ।
तस्य पापक्षयः पार्थ सूर्यलोके महीयते ॥ ७०.३ ॥
ततः स्वर्गाच्च्युतः सोऽपि जायते विमले कुले ।
धनाढ्यो व्याधिनिर्मुक्तो जीवेज्जन्मनिजन्मनि ॥ ७०.४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थमाहात्म्यवर्णनं नाम सप्ततितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 71
अध्याय ७१
श्रीमार्कण्डेय उवाच -
कामेश्वरं ततश्चान्यच्छृणु पाण्डवसत्तम ।
सिद्धो यत्र गणाध्यक्षो गौरीपुत्रो महाबलः ॥ ७१.१ ॥
तत्र तीर्थे तु यो भक्त्या भक्तियुक्तो जितेन्द्रियः ।
पञ्चामृतेन संस्नाप्य धूपनैवेद्यपूजनैः ॥ ७१.२ ॥
प्रसाद्य जगतामीशं सर्वपापैः प्रमुच्यते ।
अष्टम्यां मार्गशीर्षस्य तत्र स्नात्वा युधिष्ठिर ॥ ७१.३ ॥
यो येन यजते तत्र स तं काममवाप्नुयात् ॥ ७१.४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कामेश्वरतीर्थमाहात्म्यवर्णनं नामैकसप्ततितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 72
thumb|400px|श्वेत-कृष्ण अश्वाभ्यां श्येनचितेः परिक्रमणम्
thumb|400px|उच्चैश्रवा
अध्याय ७२
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र मणिनागेश्वरं शुभम् ।
उत्तरे नर्मदाकूले सर्वपापक्षयंकरम् ।
स्थापितं मणिनागेन लोकानां हितकाम्यया ॥ ७२.१ ॥
युधिष्ठिर उवाच -
आशीविषेण सर्पेण ईश्वरस्तोषितः कथम् ।
क्षुद्राः सर्वस्य लोकस्य भयदा विषशालिनः ॥ ७२.२ ॥
कथ्यतां तात मे सर्वं पातकस्योपशान्तिदम् ।
मम सन्तापजं दुःखं दुर्योधनसमुद्भवम् ॥ ७२.३ ॥
कर्णभीष्मोद्भवं रौद्रं दुःखं पाञ्चालिसम्भवम् ।
तव वक्त्राम्बुजौघेन प्लावितं निर्वृतिं गतः ॥ ७२.४ ॥
श्रुत्वा तव मुखोद्गीतां कथां वै पापनाशिनीम् ।
अयुक्तमिदमस्माकं द्विज क्लेशो न शाम्यति ॥ ७२.५ ॥
अथवा प्राप्स्यते तात विद्यादानस्य यत्फलम् ।
तत्फलं प्राप्यते नित्यं कथाश्रवणतो हरेः ॥ ७२.६ ॥
श्रीमार्कण्डेय उवाच -
यथायथा त्वं नृप भाषसे च तथातथा मे सुखमेति भारती ।
शैथिल्यता वा जरयान्वितस्य त्वत्सौहृदं नश्यति नैव तात ।
शृणुष्व तस्मात्सह बान्धवैश्च कथामिमां पापहरां प्रशस्ताम् ॥ ७२.७ ॥
कथयामि यथावृत्तमितिहासं पुरातनम् ॥ ७२.८ ॥
कथितं पूर्वतो वृत्तैः पारम्पर्येण भारत ॥ ७२.९ ॥
द्वे भार्ये कश्यपस्यास्तां सर्वलोकेष्वनुत्तमे ।
गरुत्मन्तं च विनतासूत कद्रूरहीनथ ॥ ७२.१० ॥
संतोषेण च ते तात तिष्ठतः काश्यपे गृहे ।
कद्रूश्च विनता नाम हृष्टे च वनिते सदा ॥ ७२.११ ॥
ताभ्यां सार्द्धं क्रीडते च कश्यपोऽपि प्रजापतिः ।
ततस्त्वेकदिने प्राप्ते आश्रमस्था शुभानना ॥ ७२.१२ ॥
उच्चैःश्रवं हयं दृष्ट्वा मनोवेगसमन्वितम् ।
पश्य पश्य हि तन्वङ्गी हयं सर्वत्र पाण्डुरम् ॥ ७२.१३ ॥
धावमानमविश्रान्तं जवेन मनसोपमम् ।
तं दृष्ट्वा सहसा चाश्वमीर्ष्याभावेन चाब्रवीत् ॥ ७२.१४ ॥
कद्रूरुवाच -
ब्रूहि भद्रे सहस्रांशोरश्वः किंवर्णको भवेत् ।
अहं ब्रवीमि कृष्णोऽयं त्वं किं वदसि तद्वद ॥ ७२.१५ ॥
विनतोवाच -
पश्यसे ननु नेत्रैश्च कृष्णं श्वेतं न पश्यसि ।
असत्यभाषणाद्भद्रे यमलोकं गमिष्यसि ॥ ७२.१६ ॥
सत्यानृते तु वचने पणस्तव ममैव तु ।
सहस्रं चैव वर्षाणां दास्यहं तव मन्दिरे ॥ ७२.१७ ॥
असत्या यदि मे वाणी कृष्ण उच्चैःश्रवा यदि ।
तदाहं त्वद्गृहे दासी भवामि सर्पमातृके ॥ ७२.१८ ॥
यदि उच्चैःश्रवाः श्वेतोऽहं दासी च तवैव तु ।
एवं परस्परं द्वाभ्यां संवादोऽयं व्यवर्धत ॥ ७२.१९ ॥
आश्रमेषु गता बाला रात्रौ चिन्तापरा स्थिता ।
बन्धुवर्गस्य कथितं समस्तं तद्विचेष्टितम् ॥ ७२.२० ॥
पुत्राणां कथितं पार्थ पणं चैव मया कृतम् ।
हाहाकारः कृतः सर्पैः श्रुत्वा मात्रा पणं कृतम् ॥ ७२.२१ ॥
जाता दासी न सन्देहः श्वेतो भास्करवाहनः ।
उच्चैःश्रवा हयः श्वेतो न कृष्णो विद्यते क्वचित् ॥ ७२.२२ ॥
कद्रूरुवाच -
यथाहं न भवे दासी तत्कार्यं च विचिन्त्यताम् ।
विशध्वं रोमकूपेषु ह्युच्चैःश्रवहयस्य तु ॥ ७२.२३ ॥
एकं मुहूर्तमात्रं तु यावत्कृष्णः स दृश्यते ।
क्षणमात्रेण चैकेन दासी सा भवते मम ॥ ७२.२४ ॥
दासीं कृत्वा तु तां तन्वीं विनतां सत्यगर्विताम् ।
ततः स्वस्थानगाः सर्वे भविष्यथ यथासुखम् ॥ ७२.२५ ॥
सर्पा ऊचुः ।
यथा त्वं जननी चाम्ब सर्वेषां भुवि पूजिता ।
तथा सापि विशेषेण वञ्चितव्या न मातरः ॥ ७२.२६ ॥
माता च पितृभार्या च मातृमाता पितामही ।
कर्मणा मनसा वाचा हितं तासां समाचरेत् ॥ ७२.२७ ॥
सा ततस्तेन वाक्येन क्रुद्धा कालानलोपमा ।
मम वाक्यमकुर्वाणा ये केचिद्भुवि पन्नगाः ॥ ७२.२८ ॥
हव्यवाहमुखे सर्वे ते यास्यन्त्यविचारितम् ।
मातुस्तद्वचनं श्रुत्वा सर्वे चैव भुजङ्गमाः ॥ ७२.२९ ॥
केचित्प्रविष्टा रोमेषु उच्चैःश्रवहयस्य च ।
नष्टाः केचिद्दशदिशं कद्रूशापभयात्ततः ॥ ७२.३० ॥
केचिद्गङ्गाजले नष्टाः केचिन्नष्टाः सरस्वतीम् ।
केचिन्महोदधौ लीनाः प्रविष्टा विन्ध्यकन्दरे ॥ ७२.३१ ॥
आश्रित्य नर्मदातोये मणिनागोत्तमो नृप ।
तपश्चचार विपुलमुत्तरे नर्मदातटे ॥ ७२.३२ ॥
मातृशापभयात्पार्थ ध्यायते कामनाशनम् ।
अच्छेद्यमप्रतर्क्यं च विनाशोत्पत्तिवर्जितम् ॥ ७२.३३ ॥
वायुभक्षः शतं साग्रं तदर्धं रविवीक्षकः ।
एवं ध्यानरतस्यैव प्रत्यक्षस्त्रिपुरान्तकः ॥ ७२.३४ ॥
साधु साधु महाभाग सत्त्ववांस्तु भुजंगम ।
त्वया भक्त्या गृहीतोऽहं प्रीतस्ते ह्युरगेश्वर ।
वरं याचय मे क्षिप्रं यस्ते मनसि वर्तते ॥ ७२.३५ ॥
मणिनाग उवाच -
मातृशापभयान्नाथ क्लिष्टोऽहं नर्मदातटे ।
त्वत्प्रसादेन मे नाथ मातृशापो भवेद्वृथा ॥ ७२.३६ ॥
ईश्वर उवाच -
हव्यवाहमुखं वत्स न प्राप्स्यसि ममाज्ञया ।
मम लोके निवासश्च तव पुत्र भविष्यति ॥ ७२.३७ ॥
मणिनाग उवाच -
अत्र स्थाने महादेव स्थीयतामंशभागतः ।
सहस्रांशेन भागेन स्थीयतां नर्मदाजले ।
उपकाराय लोकानां मम नाम्नैव शङ्कर ॥ ७२.३८ ॥
ईश्वर उवाच -
स्थापयस्व परं लिङ्गमाज्ञया मम पन्नग ।
इत्युक्त्वान्तर्हितो देवो जगाम ह्युमया सह ॥ ७२.३९ ॥
मार्कण्डेय उवाच -
तत्र तीर्थे तु ये गत्वा शुचिप्रयतमानसाः ।
पञ्चम्यां वा चतुर्दश्यामष्टम्यां शुक्लकृष्णयोः ॥ ७२.४० ॥
अर्चयन्ति सदा पार्थ नोपसर्पन्ति ते यमम् ।
दध्ना च मधुना चैव घृतेन क्षीरयोगतः ॥ ७२.४१ ॥
स्नापयन्ति विरूपाक्षमुमादेहार्धधारिणम् ।
कामाङ्गदहनं देवमघासुरनिषूदनम् ॥ ७२.४२ ॥
स्नाप्यमानं च ये भक्त्वा पश्यन्ति परमेश्वरम् ।
ते यान्ति च परे लोके सर्वपापविवर्जितैः ॥ ७२.४३ ॥
श्राद्धं प्रेतेषु ये पार्थ चाष्टम्यां पञ्चमीषु च ।
ब्राह्मणैश्च सदा योग्यैर्वेदपाठकचिन्तकैः ॥ ७२.४४ ॥
स्वदारनिरतैः श्लक्ष्णैः परदारविवर्जितैः ।
षट्कर्मनिरतैस्तात शूद्रप्रेषणवर्जितैः ॥ ७२.४५ ॥
खञ्जाश्च दर्दुराः षण्ढा वार्द्धुष्याश्च कृषीवलाः ।
भिन्नवृत्तिकराः पुत्र नियोज्या न कदाचन ॥ ७२.४६ ॥
वृषलीमन्दिरे यस्य महिषीं यस्तु पालयेत् ।
स विप्रो दूरतस्त्याज्यो व्रते श्राद्धे नराधिप ॥ ७२.४७ ॥
काणाष्टुंटाश्च मण्टाश्च वेदपाठविवर्जिताः ।
न ते पूज्या द्विजाः पार्थ मणिनागेश्वरे शुभे ॥ ७२.४८ ॥
यदीच्छेदूर्ध्वगमनमात्मनः पितृभिः सह ।
सर्वाङ्गरुचिरां धेनुं यो दद्यादग्रजन्मने ॥ ७२.४९ ॥
स याति परमं लोकं यावदाभूतसम्प्लवम् ।
ततः स्वर्गाच्च्युतः सोऽपि जायते विमले कुले ॥ ७२.५० ॥
ये पश्यन्ति परं भक्त्या मणिनागेश्वरं नृप ।
न तेषां जायते वंशे पन्नगानां भयं नृप ॥ ७२.५१ ॥
पन्नगः शङ्कते तेषां मणिनागप्रदर्शनात् ।
सौपर्णरूपिणस्ते वै दृश्यन्ते नागमण्डले ॥ ७२.५२ ॥
फलानि चैव दानानां शृणुष्वाथ नृपोत्तम ।
अन्नं संस्कारसंयुक्तं ये ददन्ते नरोत्तमाः ॥ ७२.५३ ॥
तोयं शय्यां तथा छत्रं कन्यां दासीं सुभाषिणीम् ।
पात्रे देयं यतो राजन् यदीच्छेच्छ्रेय आत्मनः ॥ ७२.५४ ॥
सुरभीणि च पुष्पाणि गन्धवस्त्राणि दापयेत् ।
दीपं धान्यं गृहं शुभ्रं सर्वोपस्करसंयुतम् ॥ ७२.५५ ॥
ये ददन्ते परं भक्त्या ते व्रजन्ति त्रिविष्टपम् ।
मणिनागे नृपश्रेष्ठ यच्च दानं प्रदीयते ॥ ७२.५६ ॥
तस्य दानस्य भावेन स्वर्गे वासो भवेद्ध्रुवम् ।
पातकानि प्रलीयन्ते आमपात्रे यथा जलम् ॥ ७२.५७ ॥
नर्मदातोयसंसिद्धं भोज्यं विप्रे ददाति यः ।
सोऽपि पापैर्विनिर्मुक्तः क्रीडते दैवतैः सह ॥ ७२.५८ ॥
ततः स्वर्गच्युतानां हि लक्षणं प्रवदाम्यहम् ।
दीर्घायुषो जीवपुत्रा धनवन्तः सुशोभनाः ॥ ७२.५९ ॥
सर्वव्याधिविनिर्मुक्ताः सुतभृत्यैः समन्विताः ।
त्यागिनो भोगसंयुक्ता धर्माख्यानरताः सदा ॥ ७२.६० ॥
देवद्विजगुरोर्भक्तास्तीर्थसेवापरायणाः ।
मातापितृवशा नित्यं द्रोहक्रोधविवर्जिताः ॥ ७२.६१ ॥
एभिरेव गुणैर्युक्ता ये नराः पाण्डुनन्दन ।
सत्यं ते स्वर्गादायाताः स्वर्गे वासं व्रजन्ति ते ॥ ७२.६२ ॥
सर्वतीर्थवरं तीर्थं मणिनागं नृपोत्तम ।
तीर्थाख्यानमिदं पुण्यं यः पठेच्छृणुयादपि ॥ ७२.६३ ॥
सोऽपि पापैर्विनिर्मुक्तः शिवलोके महीयते ।
न विषं क्रमते तेषां विचरन्ति यथेच्छया ॥ ७२.६४ ॥
भाद्रपद्यां च यत्षष्ठ्यां पुण्यं सूर्यस्य दर्शने ।
तत्फलं समवाप्नोति आख्यानश्रवणेन तु ॥ ७२.६५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मणिनागेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विसप्ततितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 73
अध्याय ७३
श्रीमार्कण्डेय उवाच -
काशी: गंगातटे कूले तीर्थं परमशोभनम् ।
सर्वपापहरं पार्थ गोप्रेक्षेश्वरमुत्तमम् ।
गोदेहान्निःसृतं लिङ्गं पुण्यं भूमितले नृप ॥ ७३.१ ॥
युधिष्ठिर उवाच -
गोदेहान्निःसृतं कस्माल्लिङ्गं पापक्षयंकरम् ।
काशी: गंगातटे कूले मणिनागसमीपतः ।
संक्षेपात्कथ्यतां विप्र गोप्रेक्षेश्वरसम्भवम् ॥ ७३.२ ॥
श्रीमार्कण्डेय उवाच -
कामधेनुस्तपस्तत्र पुरा पार्थ चकार ह ।
ध्यायते परया भक्त्या देवदेवं महेश्वरम् ॥ ७३.३ ॥
तुष्टस्तस्या जगन्नाथ कपिलाय महेश्वरः ।
निःसृतो देहमध्यात्तु अच्छेद्यः परमेश्वरः ॥ ७३.४ ॥
तुष्टो देवि जगन्मातः कपिले परमेश्वरि ।
आराधनं कृतं यस्मात्तद्वदाशु शुभानने ॥ ७३.५ ॥
सुरभ्युवाच -
लोकानामुपकाराय सृष्टाहं परमेष्ठिना ।
लोककार्याणि सर्वाणि सिध्यन्ति मत्प्रसादतः ॥ ७३.६ ॥
लोकाः स्वर्गं प्रयास्यन्ति मत्प्रसादेन शङ्कर ।
तीर्थे त्वं भव मे शम्भो लोकानां हितकाम्यया ॥ ७३.७ ॥
तथेति भगवानुक्त्वा तीर्थे तत्रावसन्मुदा ।
तदाप्रभृति तत्तीर्थं विख्यातं वसुधातले ।
स्नानेनैकेन राजेन्द्र पापसङ्घं व्यपोहति ॥ ७३.८ ॥
गोप्रेक्षेश्वरगोदानं यस्तु भक्त्या च कारयेत् ।
योग्ये द्विजोत्तमे देया योग्या धेनुः सकाञ्चना ॥ ७३.९ ॥
सवत्सा तरुणी शुभ्रा बहुक्षीरा सवस्त्रका ।
कृष्णपक्षे चतुर्दश्यामष्टम्यां वा प्रदापयेत् ॥ ७३.१० ॥
सर्वेषु चैव मासेषु कार्त्तिके च विशेषतः ।
दापयेत्परया भक्त्या द्विजे स्वाध्यायतत्परे ॥ ७३.११ ॥
विधिना च प्रदद्याद्यो विधिना यस्तु गृह्णते ।
तावुभौ पुण्यकर्माणौ प्रेक्षकः पुण्यभाजनम् ॥ ७३.१२ ॥
पिण्डदानं प्रकुर्याद्यः प्रेतानां भक्तिसंयुतः ।
पिण्डेनैकेन राजेन्द्र प्रेता यान्ति परां गतिम् ॥ ७३.१३ ॥
भक्त्या प्रणामं रुद्रस्य ये कुर्वन्ति दिने दिने ।
तेषां पापं प्रलीयेत भिन्नपात्रे जलं यथा ॥ ७३.१४ ॥
तत्र तीर्थे तु यो राजन्वृषभं च समुत्सृजेत् ।
पितरश्चोद्धृतास्तेन शिवलोके महीयते ॥ ७३.१५ ॥
युधिष्ठिर उवाच -
वृषोत्सर्गे कृते तात फलं यज्जायते नृणाम् ।
तत्सर्वं कथयस्वाशु प्रयत्नेन द्विजोत्तम ॥ ७३.१६ ॥
श्रीमार्कण्डेय उवाच -
सर्वलक्षणसम्पूर्णे वृषे चैव तु यत्फलम् ।
तदहं सम्प्रवक्ष्यामि शृणुष्व धर्मनन्दन ॥ ७३.१७ ॥
कार्त्तिके चैव वैशाखे पूर्णिमायां नराधिप ।
रुद्रस्य सन्निधौ भूत्वा शुचिः स्नातो जितेन्द्रियः ॥ ७३.१८ ॥
वृषस्यैव समुत्सर्गं कारयेत्प्रीयतां हरः ।
सांनिध्ये कारयेत्पुत्र चतस्रो वत्सिकाः शुभाः ॥ ७३.१९ ॥
दत्त्वा तु विप्रमुख्याय सर्वलक्षणसंयुताः ।
प्रीयतां च महादेवो ब्रह्मा विष्णुर्महेश्वरः ॥ ७३.२० ॥
वृषभे रोमसंख्या या सर्वाङ्गेषु नराधिप ।
तावद्वर्षप्रमाणं तु शिवलोके महीयते ॥ ७३.२१ ॥
शिवलोके वसित्वा तु यदा मर्त्येषु जायते ।
कुले महति सम्भूतिर्धनधान्यसमाकुले ॥ ७३.२२ ॥
नीरोगो रूपवांश्चैव विद्याढ्यः सत्यवाक्शुचिः ।
गोप्रेक्षेश्वरमाहात्म्यं मया ख्यातं युधिष्ठिर ।
गोदेहान्निःसृतं लिङ्गं काशी: गंगा तटे ॥ ७३.२३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोप्रेक्षेश्वरमाहात्म्यवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 74
अध्याय ७४
श्रीमार्कण्डेय उवाच -
रेवाया उत्तरे कूले तीर्थं परमशोभनम् ।
सर्वपापहरं मर्त्ये नाम्ना वै गौतमेश्वरम् ॥ ७४.१ ॥
स्थापितं गौतमेनैव लोकानां हितकाम्यया ।
स्वर्गसोपानरूपं तु तीर्थं पुंसां युधिष्ठिर ॥ ७४.२ ॥
तत्र गच्छ परं भक्त्या यत्र देवो जगद्गुरुः ।
पातकस्य विनाशार्थं स्वर्गवासप्रदस्तथा ॥ ७४.३ ॥
सौभाग्यवर्द्धनं तीर्थं जयदं दुःखनाशनम् ।
पिण्डदानेन चैकेन कुलानामुद्धरेत्त्रयम् ॥ ७४.४ ॥
यत्किंचिद्दीयते भक्त्या स्वल्पं वा यदि वा बहु ।
तत्सर्वं शतसाहस्रमाज्ञया गौतमस्य हि ॥ ७४.५ ॥
तीर्थानां परमं तीर्थं स्वयं रुद्रेण भाषितम् ॥ ७४.६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमावन्त्यखण्डे रेवाखण्डे गौतमेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःसप्ततितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 75
श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।
शङ्खचूडस्य नाम्ना वै प्रसिद्धं भूमिमण्डले ॥ ७५.१ ॥
शङ्खचूडः स्वयं तत्र संस्थितः पाण्डुनन्दन ।
वैनतेयभयात्पार्थ सुखदनर्मदातटे ॥ ७५.२ ॥
तत्र तीर्थे तु यो भक्त्या शुचिर्भूत्वा समाहितः ।
स्नापयेच्छङ्खचूडं तु क्षीरक्षौद्रेण सर्पिषा ॥ ७५.३ ॥
रात्रौ जागरणं कुर्याद्देवस्याग्रे नराधिप ।
दधिभक्तेन सम्पूज्य ब्राह्मणाञ्छंसितव्रतान् ।
गोप्रदाने द्विजेन्द्रोऽयं सर्वपापक्षयंकरः ॥ ७५.४ ॥
तस्मिंस्तीर्थे तु यः पार्थ सर्पदष्टं प्रतर्पयेत् ।
स याति परमं लोकं शङ्करस्य वचो यथा ॥ ७५.५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शङ्खचूडतीर्थमाहात्म्यवर्णनं नाम पञ्चसप्ततितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 76
अध्याय ७६
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र पारेश्वरमनुत्तमम् ।
पराशरो महात्मा वै नर्मदायास्तटे शुभे ॥ ७६.१ ॥
तपश्चचार विपुलं पुत्रार्थं पाण्डुनन्दन ।
हिमवद्दुहिता तेन गौरी नारायणी नृप ॥ ७६.२ ॥
तोषिता परया भक्त्या नर्मदोत्तरके तटे ।
तस्य तुष्टा महादेवी शङ्करार्धाङ्गधारिणी ॥ ७६.३ ॥
भोभो ऋषिवर श्रेष्ठ तुष्टाहं तव भक्तितः ।
वरं याचय मे विप्र पराशर महामते ॥ ७६.४ ॥
पराशर उवाच -
परितुष्टासि मे देवि यदि देयो वरो मम ।
देहि पुत्रं भगवति सत्यशौचगुणान्वितम् ॥ ७६.५ ॥
वेदाभ्यसनशीलं हि सर्वशास्त्रविशारदम् ।
तीर्थे चात्र भवेद्देवि सन्निधानवरेण तु ॥ ७६.६ ॥
लोकोपकारहेतोश्च स्थीयतां गिरिनन्दिनि ।
पराशराभिधानेन नर्मदादक्षिणे तटे ॥ ७६.७ ॥
श्रीदेव्युवाच -
एवं भवतु ते विप्र तत्रैवान्तरधीयत ।
पराशरो महात्मा वै स्थापयामास पार्वतीम् ॥ ७६.८ ॥
शङ्करं स्थापयामास सुरासुरनमस्कृतम् ।
अच्छेद्यमप्रतर्क्यं च देवानां तु दुरासदम् ॥ ७६.९ ॥
पराशरो महात्मा वै कृतार्थो ह्यभवन्नृप ॥ ७६.१० ॥
तत्र तीर्थे तु यो भक्त्या शुचिः प्रयतमानसः ।
स्त्र्यथवा पुरुषो वापि कामक्रोधविवर्जितः ॥ ७६.११ ॥
माघे चैत्रेऽथ वैशाखे श्रावणे नृपनन्दन ।
मासि मार्गशिरे चैव शुक्लपक्षे तु सर्वदा ॥ ७६.१२ ॥
तत्र गत्वा शुभे स्थाने नर्मदादक्षिणे तटे ॥ ७६.१३ ॥
उपोष्य परया भक्त्या व्रतमेतत्समाचरेत् ।
रात्रौ जागरणं कृत्वा दीपदानं स्वशक्तितः ॥ ७६.१४ ॥
गीतं नृत्यं तथा वाद्यं कामक्रोधविवर्जितः ।
प्रभाते विमले प्राप्ते द्विजाः पूज्याः स्वशक्तितः ॥ ७६.१५ ॥
सम्पूज्य ब्राह्मणान् पार्थ धनदानहिरण्यतः ।
वस्त्रेण छत्रदानेन शय्याताम्बूलभोजनैः ॥ ७६.१६ ॥
प्रीणयेन्नर्मदातीरे ब्राह्मणाञ्छंसितव्रतान् ।
श्राद्धं कार्यं नृपश्रेष्ठ आमैः पक्वैर्जलेन च ॥ ७६.१७ ॥
स्त्रीणां चैव तु शूद्राणामामश्राद्धं प्रशस्यते ।
आमं चतुर्गुणं देयं ब्राह्मणानां युधिष्ठिर ॥ ७६.१८ ॥
वेदोक्तेन विधानेन द्विजाः पूज्याः प्रयत्नतः ।
हस्तमात्रैः कुशैश्चैव तिलैश्चैवाक्षतैर्नृप ॥ ७६.१९ ॥
विप्रा उदङ्मुखाः कार्याः स्वयं वै दक्षिणामुखः ।
दर्भेषु निक्षिपेदन्नमित्युच्चार्य द्विजाग्रतः ॥ ७६.२० ॥
प्रेता यान्तु परे लोके तीर्थस्यास्य प्रभावतः ।
पापं मे प्रशमं यातु एतु वृद्धिं शुभं सदा ॥ ७६.२१ ॥
वृद्धिं यातु सदा वंशो ज्ञातिवर्गो द्विजोत्तम ।
एवमुच्चार्य विप्राय दानं देयं स्वशक्तितः ॥ ७६.२२ ॥
गोभूतिसहिरण्यादि चान्नं वस्त्रं स्वशक्तितः ।
दातव्यं पाण्डवश्रेष्ठ पारेश्वरवराश्रमे ॥ ७६.२३ ॥
ये शृण्वन्ति परं भक्त्या मुच्यन्ते सर्वपातकैः ॥ ७६.२४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पारेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्सप्ततितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 77
अध्याय ७७
श्रीमार्कण्डेय उवाच -
भीमेश्वरं ततो गच्छेत्सर्वपापक्षयंकरम् ।
सेवितं ऋषिसङ्घैश्च भीमव्रतधरैः शुभैः ॥ ७७.१ ॥
तत्र तीर्थे तु यः स्नात्वा सोपवासो जितेन्द्रियः ।
जपेदेकाक्षरं मन्त्रमूर्ध्वबाहुर्दिवाकरे ॥ ७७.२ ॥
तस्य जन्मार्जितं पापं तत्क्षणादेव नश्यति ।
सप्तजन्मार्जितं पापं गायत्र्या नश्यते ध्रुवम् ॥ ७७.३ ॥
दशभिर्जन्मभिर्जातं शतेन तु पुरा कृतम् ।
सहस्रेण त्रिजन्मोत्थं गायत्री हन्ति किल्बिषम् ॥ ७७.४ ॥
वैदिकं लौकिकं वापि जाप्यं जप्तं नरेश्वर ।
तत्क्षणाद्दहते सर्वं तृणं तु ज्वलनो यथा ॥ ७७.५ ॥
न देवबलमाश्रित्य कदाचित्पापमाचरेत् ।
अज्ञानान्नश्यते क्षिप्रं नोत्तरं तु कदाचन ॥ ७७.६ ॥
तत्र तीर्थे तु यो दानं शक्तिमाश्रित्य चाचरेत् ।
तदक्षय्यफलं सर्वं जायते पाण्डुनन्दन ॥ ७७.७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भीमेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तसप्ततितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 78
अध्याय ७८
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र नरदेश्वरमुत्तमम् ।
तीर्थानां परमं तीर्थं निर्मितं नारदेन तु ॥ ७८.१ ॥
युधिष्ठिर उवाच -
नारदेन मुनिश्रेष्ठ कस्मात्तीर्थं विनिर्मितम् ।
एतदाख्याहि मे सर्वं प्रसन्नो यदि सत्तम ॥ ७८.२ ॥
श्रीमार्कण्डेय उवाच -
परमेष्ठिसुतः पार्थ नारदो मुनिसत्तमः ।
रेवायाश्चोत्तरे कूले तपस्तेन पुरा कृतम् ॥ ७८.३ ॥
नवनाडीनिरोधेन काष्ठावत्यां गतेन च ।
तोषितः पशुभर्ता वै नारदेन युधिष्ठिर ॥ ७८.४ ॥
ईश्वर उवाच -
तुष्टोऽहं तव विप्रेन्द्र योगिनाथ अयोनिज ।
वरं प्रार्थय मे वत्स यस्ते मनसि वर्तते ॥ ७८.५ ॥
नारद उवाच -
त्वत्प्रसादेन मे शम्भो योगश्चैव प्रसिध्यतु ।
अचला ते भवेद्भक्तिः सर्वकालं ममैव तु ॥ ७८.६ ॥
स्वेच्छाचारी भवे देव वेदवेदाङ्गपारगः ।
त्रिकालज्ञो जगन्नाथ गीतज्ञोऽहं सदा भवे ॥ ७८.७ ॥
दिने दिने यथा युद्धं देवदानवमानुषैः ।
पाताले मर्त्यलोके वा स्वर्गे वापि महेश्वर ॥ ७८.८ ॥
पश्येयं त्वत्प्रसादेन भवन्तं पार्वतीं तथा ।
तीर्थं लोकेषु विख्यातं सर्वपापक्षयंकरम् ॥ ७८.९ ॥
ईश्वर उवाच -
एवं नारद सर्वं तु भविष्यति न संशयः ।
चिन्तितं मत्प्रसादेन सिध्यते नात्र संशयः ॥ ७८.१० ॥
स्वेच्छाचारो भवेर्वत्स स्वर्गे पातालगोचरे ।
मर्त्ये वा भ्रम वै योगिन्न केनापि निवार्यसे ॥ ७८.११ ॥
सप्त स्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकविंशतिः ।
ताना एकोनपञ्चाशत्प्रसादान्मे तव ध्रुवम् ॥ ७८.१२ ॥
मम प्रियंकरं दिव्यं नृत्यगीतं भविष्यति ।
कलिं च पश्यसे नित्यं देवदानवकिन्नरैः ॥ ७८.१३ ॥
त्वत्तीर्थं भूतले पुण्यं मत्प्रसादाद्भविष्यति ।
वेदवेदाङ्गतत्त्वज्ञो ह्यशेषज्ञानकोविदः ।
एकस्त्वमसि निःसङ्गो मत्प्रसादेन नारद ॥ ७८.१४ ॥
इत्युक्त्वान्तर्दधे देवो नारदस्तत्र शूलिनम् ।
स्थापयामास राजेन्द्र सर्वसत्त्वोपकारकम् ॥ ७८.१५ ॥
पृथिव्यामुत्तमं तीर्थं निर्मितं नारदेन तु ।
तत्र तीर्थे नृपश्रेष्ठ यो गच्छेद्विजितेन्द्रियः ॥ ७८.१६ ॥
मासि भाद्रपदे पार्थ कृष्णपक्षे चतुर्दशी ।
उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम् ॥ ७८.१७ ॥
छत्रं तत्र प्रदातव्यं ब्राह्मणे शुभलक्षणे ।
शस्त्रेण तु हता ये वै तेषां श्राद्धं प्रदापयेत् ।
ते यान्ति परमं लोकं पिण्डदानप्रभावतः ॥ ७८.१८ ॥
कपिला तत्र दातव्या पित्ःनुद्दिश्य भारत ।
इत्युच्चार्य द्विजे देया यान्तु ते परमां गतिम् ॥ ७८.१९ ॥
अस्य श्राद्धस्य भावेन ब्राह्मणस्य प्रसादतः ।
नर्मदातोयभावेन न्यायार्जितधनस्य च ।
तेषां चैव प्रभावेन प्रेता यान्तु परां गतिम् ॥ ७८.२० ॥
इत्युच्चार्य द्विजे देया दक्षिणा च स्वशक्तितः ।
हविष्यान्नं विशालाक्ष द्विजानां चैव दापयेत् ॥ ७८.२१ ॥
दीपं भक्त्या प्रदातव्यं नृत्यं गीतं च कारयेत् ।
अवाप्तं तेन वै सर्वं यः करोतीश्वरालये ॥ ७८.२२ ॥
स याति रुद्रसांनिध्यमिति रुद्रः स्वयं जगौ ।
विद्यादानेन चैकेन अक्षयां गतिमाप्नुयात् ॥ ७८.२३ ॥
धूर्वहास्तत्र दातव्या भूमिः सस्यवती नृप ।
चित्रभानुं शुभैर्मन्त्रैः प्रीणयेत्तत्र भक्तितः ॥ ७८.२४ ॥
आज्येन सुप्रभूतेन होमद्रव्येण भारत ।
ये यजन्ति सदा भक्त्या त्रिकालं नृत्यमेव च ॥ ७८.२५ ॥
तीर्थे नारदनामाख्ये रेवायाश्चोत्तरे तटे ।
चित्रभानुमुखा देवाः सर्वदेवमय ऋषिः ॥ ७८.२६ ॥
ऋषिणा प्रीणिताः सर्वे तस्मात्प्रीत्यो हुताशनः ।
पूजिते हव्यवाहे तु दारिद्र्यं नैव जायते ॥ ७८.२७ ॥
धनेन विपुला प्रीतिर्जायते प्रतिजन्मनि ।
कुलीनाश्च सुवेषाश्च सर्वकालं धनेन तु ॥ ७८.२८ ॥
प्लवो नदीनां पतिरङ्गनानां राजा च सद्वृत्तरतः प्रजानाम् ।
धनं नराणामृतवस्तरूणां गतं गतं यौवनमानयन्ति ॥ ७८.२९ ॥
धनदत्वं धनेशेन तस्मिंस्तीर्थे ह्युपार्जितम् ।
यमेन च यमत्वं हि इन्द्रत्वं चैव वज्रिणा ॥ ७८.३० ॥
अन्यैरपि महीपालैः पार्थिवत्वमुपार्जितम् ।
नारदेश्वरमाहात्म्याद्ध्रुवो निश्चलतां गतः ॥ ७८.३१ ॥
सर्वतीर्थवरं तीर्थं निर्मितं नारदेन तु ।
पृथिव्यां सागरान्तायां रेवायाश्चोत्तरे तटे ।
तद्वरं सर्वतीर्थानां महापातकनाशनम् ॥ ७८.३२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नारदेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टसप्ततितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 79
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थद्वयमनुत्तमम् ।
दधिस्कन्दं मधुस्कन्दं सर्वपापक्षयंकरम् ॥ ७९.१ ॥
दधिस्कन्दे नरः स्नात्वा यस्तु दद्याद्द्विजे दधि ।
उपतिष्ठेत्ततस्तस्य सप्तजन्मनि भारत ॥ ७९.२ ॥
न व्याधिर्न जरा तस्य न शोको नैव मत्सरः ।
दशचन्द्रशतं यावज्जायते विमले कुले ॥ ७९.३ ॥
मधुस्कन्देऽपि मधुना मिश्रितान्यस्तिलान्ददेत् ।
नासौ वैवस्वतं देवं पश्येद्वै जन्मसप्ततिम् ॥ ७९.४ ॥
मधुना सह सम्मिश्रं पिण्डं यस्तु प्रदापयेत् ।
तस्य पौत्रप्रपौत्रेभ्यो दारिद्र्यं नैव जायते ॥ ७९.५ ॥
दधिभिः सह संमिश्रं पिण्डं यस्तु प्रदापयेत् ।
तस्मिंस्तीर्थे नरः स्नात्वा विधिवद्दक्षिणामुखः ॥ ७९.६ ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
द्वादशाब्दानि तुष्यन्ति नात्र कार्या विचारणा ॥ ७९.७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दधिस्कन्दमधुस्कन्दतीर्थमाहात्म्यवर्णनं नामैकोनाशीतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 80
अध्याय ८०
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र नन्दिकेश्वरमुत्तमम् ।
यत्र सिद्धो महानन्दी तत्ते सर्वं वदाम्यहम् ॥ ८०.१ ॥
रेवायां पुरतः कृत्वा पुरा नन्दी गणेश्वरः ।
तपस्तपञ्जयं कुर्वंस्तीर्थात्तीर्थं जगाम ह ॥ ८०.२ ॥
दधिस्कन्दं मधुस्कन्दं यावत्त्यक्त्वा तु गच्छति ।
तावत्तुष्टो महादेवो नन्दिनाथमुवाच ह ॥ ८०.३ ॥
ईश्वर उवाच -
भोभोः प्रसन्नो नन्दीश वरं वृणु यथेप्सितम् ।
तपसा तेन तुष्टोऽहं तीर्थयात्राकृतेन ते ॥ ८०.४ ॥
नन्दीश्वर उवाच -
न चाहं कामये वित्तं न चाहं कुलसन्ततिम् ।
मुक्त्वा न कामये कामं तव पादाम्बुजात्परम् ॥ ८०.५ ॥
कृमिकीटपतङ्गेषु तिर्यग्योनिं गतस्य वा ।
जन्म जन्मान्तरेऽप्यस्तु भक्तिस्त्वयि ममाचला ॥ ८०.६ ॥
तथेत्युक्त्वा महादेवः परया कृपया नृप ।
गृहीत्वा तं करे सिद्धं जगाम निलयं हरः ॥ ८०.७ ॥
तस्मिंस्तीर्थे तु यः स्नात्वा भक्त्या त्र्यक्षं प्रपूजयेत् ।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ८०.८ ॥
तत्र तीर्थे तु यः स्नात्वा प्राणत्यागं करोति चेत् ।
शिवस्यानुचरो भूत्वा मोदते कल्पमक्षयम् ॥ ८०.९ ॥
ततः कालेन महता जायते विमले कुले ।
वेदवेदाङ्गतत्त्वज्ञो जीवेच्च शरदां शतम् ॥ ८०.१० ॥
एतत्ते कथितं तात तीर्थमाहात्म्यमुत्तमम् ।
दुर्लभं मर्त्यसंज्ञस्य सर्वपापक्षयंकरम् ॥ ८०.११ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दिकेश्वरतीर्थमाहात्म्यवर्णनं नामाशीतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 81
अध्याय ८१
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज वरुणेश्वरमुत्तमम् ।
यत्र सिद्धो महादेवो वरुणो नृपसत्तम ॥ ८१.१ ॥
पिण्याकशाकपर्णैश्च कृच्छ्रचान्द्रायणादिभिः ।
आराध्य गिरिजानाथं ततः सिद्धिं परां गतः ॥ ८१.२ ॥
तत्र तीर्थे तु यः स्नात्वा संतर्प्य पितृदेवताः ।
पूजयेच्छङ्करं भक्त्या स याति परमां गतिम् ॥ ८१.३ ॥
कुण्डिकां वर्धनीं वापि महद्वा जलभाजनम् ।
अन्नेन सहितं पार्थ तस्य पुण्यफलं शृणु ॥ ८१.४ ॥
यत्फलं लभते मर्त्यः सत्रे द्वादशवार्षिके ।
तत्फलं समवाप्नोति नात्र कार्या विचारणा ॥ ८१.५ ॥
सर्वेषामेव दानानामन्नदानं परं स्मृतम् ।
सद्यः प्रीतिकरं तोयमन्नं च नृपसत्तम ॥ ८१.६ ॥
तत्रतीर्थे मृतानां तु नराणां भावितात्मनाम् ।
वरुणस्य पुरे वासो यावदाभूतसंप्लवम् ॥ ८१.७ ॥
पश्चात्पूर्णे ततः काले मर्त्यलोके प्रजायते ।
अन्नदानप्रदो नित्यं जीवेद्वर्षशतं नरः ॥ ८१.८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वरुणेश्वरतीर्थमाहात्म्यवर्णनं नामैकाशीतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 82
अध्याय ८२
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल वह्नितीर्थमनुत्तमम् ।
यत्र सिद्धो महातेजास्तपः कृत्वा हुताशनः ॥ ८२.१ ॥
सर्वभक्ष्यः कृतो योऽसौ दण्डके मुनिना पुरा ।
नर्मदातटमाश्रित्य पूतो जातो हुताशनः ॥ ८२.२ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयित्वा महेश्वरम् ।
अग्निप्रवेशं कुरुते स गच्छेदग्निसाम्यताम् ॥ ८२.३ ॥
भक्त्या स्नात्वा तु यस्तत्र तर्पयेत्पितृदेवताः ।
अग्निष्टोमस्य यज्ञस्य फलमाप्नोत्यसंशयम् ॥ ८२.४ ॥
तस्यैवानन्तरं राजन्कौबेरं तीर्थमुत्तमम् ।
कुबेरो यत्र संसिद्धो यक्षाणामधिपः पुरा ॥ ८२.५ ॥
तत्र तीर्थे नरः स्नात्वा समभ्यर्च्य जगद्गुरुम् ।
उमया सहितं भक्त्या सर्वपापैः प्रमुच्यते ॥ ८२.६ ॥
तत्र तीर्थे तु यः स्नात्वा दद्याद्विप्राय कांचनम् ।
नाभिमात्रे जले तिष्ठन्स लभेतार्बुदं फलम् ॥ ८२.७ ॥
दधिस्कन्दे मधुस्कन्दे नन्दीशे वरुणालये ।
आग्नेये यत्फलं तात स्नात्वा तत्फलमाप्नुयात् ॥ ८२.८ ॥
ते वन्द्या मानुषे लोके धन्याः पूर्णमनोरथाः ।
यैस्तु दृष्टं महापुण्यं नर्मदातीर्थपञ्चकम् ॥ ८२.९ ॥
ते यान्ति भास्करे लोके परमे दुःखनाशने ।
भास्करादैश्वरे लोके चैश्वरादनिवर्तके ॥ ८२.१० ॥
नीयते स परे लोके यावदिन्द्राश्चतुर्दश ।
ततः स्वर्गाच्च्युतो मर्त्यो राजा भवति धार्मिकः ॥ ८२.११ ॥
सर्वरोगविनिर्मुक्तो भुनक्ति सचराचरम् ।
विष्णुश्च देवता येषां नर्मदातीर्थसेविनाम् ॥ ८२.१२ ॥
अखण्डितप्रतापास्ते जायन्ते नात्र संशयः ।
गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती ॥ ८२.१३ ॥
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ।
रेवातीरे वसेन्नित्यं रेवातोयं सदा पिबेत् ॥ ८२.१४ ॥
स स्नातः सर्वतीर्थेषु सोमपानं दिने दिने ।
गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च ।
कल्पान्ते संक्षयं यान्ति न मृता तेन नर्मदा ॥ ८२.१५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दधिस्कन्दादिपञ्चतीर्थमाहात्म्यवर्णनं नाम द्व्यशीतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 83
अध्याय ८३
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज तीर्थं परमशोभनम् ।
ब्रह्महत्याहरं प्रोक्तं रेवातटसमाश्रयम् ।
हनूमताभिधं ह्यत्र विद्यते लिङ्गमुत्तमम् ॥ ८३.१ ॥
युधिष्ठिर उवाच -
हनूमन्तेश्वरं नाम कथं जातं वदस्व मे ।
ब्रह्महत्याहरं तीर्थं रेवादक्षिणसंस्थितम् ॥ ८३.२ ॥
श्रीमार्कण्डेय उवाच -
साधु साधु महाबाहो सोमवंशविभूषण ।
गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया ॥ ८३.३ ॥
तव स्नेहात्प्रवक्ष्यामि पीडितो वार्द्धकेन तु ।
पूर्वं जातं महद्युद्धं रामरावणयोरपि ॥ ८३.४ ॥
पुलस्त्यो ब्रह्मणः पुत्रो विश्रवास्तस्य वै सुतः ।
रावणस्तेन संजातो दशास्यो ब्रह्मराक्षसः ॥ ८३.५ ॥
त्रैलोक्यविजयी भूतः प्रसादाच्छूलिनः स च ।
गीर्वाणा विजिताः सर्वे रामस्य गृहिणी हृता ॥ ८३.६ ॥
वारितः कुम्भकर्णेन सीतां मोचय मोचय ।
विभीषणेन वै पापो मन्दोदर्या पुनःपुनः ॥ ८३.७ ॥
त्वं जितः कार्तवीर्येण रैणुकेयेन सोऽपि च ।
स रामो रामभद्रेण तस्य संख्ये कथं जयः ॥ ८३.८ ॥
रावण उवाच -
वानरैश्च नरैरृक्षैर्वराहैश्च निरायुधैः ।
देवासुरसमूहैश्च न जितोऽहं कदाचन ॥ ८३.९ ॥
श्रीमार्कण्डेय उवाच -
सुग्रीवहनुमद्भ्यां च कुमुदेनाङ्गदेन च ।
एतैरन्यैः सहायैश्च रामचन्द्रेण वै जितः ॥ ८३.१० ॥
रामचन्द्रेण पौलस्त्यो हतः संख्ये महाबलः ।
वनं भग्नं हताः शूराः प्रभञ्जनसुतेन च ॥ ८३.११ ॥
रावणस्य सुतो जन्ये हतश्चाक्षकुमारकः ।
आयामो रक्षसां भीमः सम्पिष्टो वानरेण तु ॥ ८३.१२ ॥
एवं रामायणे वृत्ते सीतामोक्षे कृते सति ।
अयोध्यां तु गते रामे हनुमान्स महाकपिः ॥ ८३.१३ ॥
कैलासाख्यं गतः शैलं प्रणामाय महेशितुः ।
तिष्ठ तिष्ठेत्यसौ प्रोक्तो नन्दिना वानरोत्तमः ॥ ८३.१४ ॥
ब्रह्महत्यायुतस्त्वं हि राक्षसानां वधेन हि ।
भैरवस्य सभा नूनं न द्रष्टव्या त्वया कपे ॥ ८३.१५ ॥
हनुमानुवाच -
नन्दिनाथ हरं पृच्छ पातकस्योपशान्तिदम् ।
पापोऽहं प्लवगो यस्मात्संजातः कारणान्तरात् ॥ ८३.१६ ॥
नन्द्युवाच -
रुद्रदेहोद्भवा किं ते न श्रुता भूतले स्थिता ।
श्रवणाज्जन्मजनितं द्विगुणं कीर्तनाद्व्रजेत् ॥ ८३.१७ ॥
त्रिंशज्जन्मार्जितं पापं नश्येद्रेवावगाहनात् ।
तस्मात्त्वं नर्मदातीरं गत्वा चर तपो महत् ॥ ८३.१८ ॥
गन्धर्वाहसुतोऽप्येवं नन्दिनोक्तं निशम्य च ।
प्रयातो नर्मदातीरमौर्व्यादक्षिणसङ्गमम् ॥ ८३.१९ ॥
दध्यौ सुदक्षिणे देवं विरूपाक्षं त्रिशूलिनम् ।
जटामुकुटसंयुक्तं व्यालयज्ञोपवीतिनम् ॥ ८३.२० ॥
भस्मोपचितसर्वाङ्गं डमरुस्वरनादितम् ।
उमार्द्धाङ्गहरं शान्तं गोनाथासनसंस्थितम् ॥ ८३.२१ ॥
वत्सरान् सुबहून् यावदुपासांचक्र ईश्वरम् ।
तावत्तुष्टो महादेव आजगाम सहोमया ॥ ८३.२२ ॥
उवाच मधुरां वाणीं मेघगम्भीरनिस्वनाम् ।
साधु साध्वित्युवाचेशः कष्टं वत्स त्वया कृतम् ॥ ८३.२३ ॥
न च पूर्वं त्वया पापं कृतं रावणसंक्षये ।
स्वामिकार्यरतस्त्वं हि सिद्धोऽसि मम दर्शनात् ॥ ८३.२४ ॥
हनुमांश्च हरं दृष्ट्वा उमार्द्धाङ्गहरं स्थिरम् ।
साष्टाङ्गं प्रणतोऽवोचज्जय शम्भो नमोऽस्तु ते ।
जयान्धकविनाशाय जय गङ्गाशिरोधर ॥ ८३.२५ ॥
एवं स्तुतो महादेवो वरदो वाक्यमब्रवीत् ।
वरं प्रार्थय मे वत्स प्राणसम्भवसम्भव ॥ ८३.२६ ॥
श्रीहनुमानुवाच -
ब्रह्मरक्षोवधाज्जाता मम हत्या महेश्वर ।
न पापोऽहं भवेदेव युष्मत्सम्भाषणे क्षणात् ॥ ८३.२७ ॥
ईश्वर उवाच -
नर्मदातीर्थमाहात्म्याद्धर्मयोगप्रभावतः ।
मन्मूर्तिदर्शनात्पुत्र निष्पापोऽसि न संशयः ॥ ८३.२८ ॥
अन्यं च ते प्रयच्छामि वरं वानरपुंगव ।
उपकाराय लोकानां नामानि तव मारुते ॥ ८३.२९ ॥
हनूमानं जनिसुतो वायुपुत्रो महाबलः ।
रामेष्टः फाल्गुनो गोत्रः पिङ्गाक्षोऽमितविक्रमः ॥ ८३.३० ॥
उदधिक्रमणश्रेष्ठो दशग्रीवस्य दर्पहा ।
लक्ष्मणप्राणदाता च सीताशोकनिवर्तनः ॥ ८३.३१ ॥
इत्युक्त्वान्तर्दधे देव उमया सह शङ्करः ।
हनूमानीश्वरं तत्र स्थापयामास भक्तितः ॥ ८३.३२ ॥
आत्मयोगबलेनैव ब्रह्मचर्यप्रभावतः ।
ईश्वरस्य प्रसादेन लिङ्गं कामप्रदं हि तत् ।
अच्छेद्यमप्रतर्क्यं च विनाशोत्पत्तिवर्जितम् ॥ ८३.३३ ॥
श्रीमार्कण्डेय उवाच -
हनूमन्तेश्वरे पुत्र प्रत्यक्षप्रत्ययं शृणु ।
यद्वृत्तं द्वापरस्यादौ त्रेतान्ते पाण्डुनन्दन ॥ ८३.३४ ॥
सुपर्वा नाम भूपालो बभूव वसुधातले ।
तस्य राज्ञः सदा सौख्यं नरा दीर्घायुषः सदा ॥ ८३.३५ ॥
स पुत्रधनसंयुक्तश्चौरोपद्रववर्जितः ।
शतबाहुर्बभूवास्य पुत्रो भीमपराक्रमः ॥ ८३.३६ ॥
आसक्तोऽसौ सदा कालं पापधर्मैर्नरेश्वर ।
अटाट्यत धरां सर्वां पर्वतांश्च वनानि च ॥ ८३.३७ ॥
वधार्थं मृगयूथानामागतो विन्ध्यपर्वतम् ।
तरुजातिसमाकीर्णे हस्तियूथसमाचिते ॥ ८३.३८ ॥
सिंहचित्रकशोभाढ्ये मृगवाराहसंकुले ।
क्रीडित्वा स वने राजा नर्मदामानतः क्वचित् ॥ ८३.३९ ॥
हनूमन्तवने प्राप्तः शतक्रोशप्रमाणके ।
चिञ्चिणीवनशोभाढ्ये कदम्बतरुसंकुले ॥ ८३.४० ॥
नित्यं पालाशजम्बीरैः करंजखदिरैस्तथा ।
पाटलैर्बदरैर्युक्तैः शमीतिन्दुकशोभितम् ॥ ८३.४१ ॥
मृगयूथैः समाछन्नशिखण्डिस्वरनादितम् ।
पारावतकसङ्घानां समन्तात्स्वरशोभितम् ॥ ८३.४२ ॥
शरत्कालेऽरमद्राजा बहुले चाश्विनस्य सः ।
वनमध्यं गतोऽद्राक्षीद्भ्रमन्तं पिङ्गलद्विजम् ॥ ८३.४३ ॥
पुस्तिकाकरसंस्थं च पप्रच्छ चपलं द्विजम् ॥ ८३.४४ ॥
शतबाहुरुवाच -
एकाकी त्वं वने कस्माद्भ्रमसे पुस्तिकाकरः ।
इतस्ततोऽपि सम्पश्यन् कथयस्व द्विजोत्तम ॥ ८३.४५ ॥
ब्राह्मण उवाच -
कान्यकुब्जात्समायातः प्रेषितो राजकन्यया ।
अस्थिक्षेपाय वै राजन्हनूमन्तेश्वरे जले ॥ ८३.४६ ॥
राजोवाच -
अस्थिक्षेपो जले कस्माद्धनूमन्तेश्वरे द्विज ।
क्रियते केन कार्येण साश्चर्यं कथ्यतां मम ॥ ८३.४७ ॥
सुपर्वणः सुतो यानं त्यक्त्वा भूमौ प्रणम्य च ।
कृताञ्जलिपुटो भूत्वा ब्राह्मणाय नरेश्वर ।
समस्तं कथयामास वृत्तान्तं स्वं पुरातनम् ॥ ८३.४८ ॥
ब्राह्मण उवाच -
शिखण्डी नाम राजास्ति कन्यकुब्जे प्रतापवान् ।
अपुत्रोऽसौ महीपालः कन्या जाता मनोरथैः ॥ ८३.४९ ॥
जातिस्मरा सुचार्वङ्गी नर्मदायाः प्रभावतः ।
पित्रा च सैकदा कन्या विवाहाय प्रजल्पिता ॥ ८३.५० ॥
अनित्ये पुत्रि संसारे कन्यादानं ददाम्यहम् ।
श्वःकृत्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
न हि प्रतीक्षते मृत्युः कृतं चास्य न चाकृतम् ॥ ८३.५१ ॥
कन्योवाच -
इच्छेयं यत्र काले हि तत्र देया त्वया पितुः ।
पुत्रीवाक्यादसौ राजा विस्मितो वाक्यमब्रवीत् ॥ ८३.५२ ॥
शिखण्ड्युवाच -
कथ्यतां मे महाभागे साश्चर्यं भाषितं त्वया ।
पितुर्वाक्येन सा बालोत्तमा ह्यागतान्तिकम् ॥ ८३.५३ ॥
कथयामास यद्वृत्तं हनूमन्तेश्वरे नृप ।
कलापिनी ह्यहं तात युता भर्त्रावसं तदा ॥ ८३.५४ ॥
रेवौर्व्यासङ्गमन्तिस्था रेवाया दक्षिणे तटे ।
हनूमन्तवने पुण्ये चिक्रीडाहं यदृच्छया ॥ ८३.५५ ॥
भर्तृयुक्ता च संसुप्ता रजन्यां सरले नगे ।
आगता लुब्धकास्तत्र क्षुधार्ता वनमुत्तमम् ॥ ८३.५६ ॥
भर्तृयोगयुता पापैर्दृष्टाहं वधचिन्तकैः ।
पाशबन्धं समादाय बद्धाहं स्वामिना सह ॥ ८३.५७ ॥
ग्रीवां ते मोटयामासुः पिच्छाछोटनकं कृतम् ।
हुताशनमुखे तैस्तु सह कान्तेन लुब्धकैः ॥ ८३.५८ ॥
परिभर्ज्यावयोर्मांसं भक्षयित्वा यथेष्टतः ।
सुप्ताः स्वस्थेन्द्रिया रात्रौ सा गता शर्वरी क्षयम् ॥ ८३.५९ ॥
प्रभाते मांसशेषं च जम्बुकैर्गृध्रघातिभिः ।
मच्छरीरोद्भवं चास्थि स्नायुमांसेन चावृतम् ॥ ८३.६० ॥
गृहीतं घातिनैकेन चाकाशात्पतितं तदा ।
तं मांसभक्षणं दृष्ट्वा परे पक्षिण आगताः ॥ ८३.६१ ॥
दृष्ट्वा पक्षिसमूहं तु अस्थिखण्डं व्यसर्जयत् ।
विहगानां समस्तानां धावतां चैव पश्यताम् ॥ ८३.६२ ॥
पतितं नर्मदातोये हनूमन्तेश्वरे नृप ।
मदीयमस्थिखण्डं च पतितं नर्मदाजले ॥ ८३.६३ ॥
तस्य तीर्थस्य पुण्येन जाताहं पुत्रिका तव ।
भूपकन्या त्वहं जाता पूर्णचन्द्रनिभानना ॥ ८३.६४ ॥
जातिस्मरा नरेन्द्रस्य संजाता भवतः कुले ।
तस्माद्विवाहं नेच्छामि मम भर्ता नृपोत्तम ॥ ८३.६५ ॥
विषमे वर्ततेऽद्यापि शकुन्तमृगजातिषु ।
तस्यास्थिशेषं राजेन्द्र तस्मिंस्तीर्थे भविष्यति ॥ ८३.६६ ॥
तत्क्षेपणार्थं वै तात प्रेषयाद्य द्विजोत्तमम् ।
एतत्ते सर्वमाख्यातं कारणं नृपसत्तम ॥ ८३.६७ ॥
मद्भर्ता विषमे स्थाने शकुन्तमृगजातिषु ।
यदि प्रेषयसे तात कंचित्त्वं नर्मदातटे ॥ ८३.६८ ॥
तस्याहं कथयिष्यामि स्थानैश्चिह्नैश्च लक्षितम् ।
शिखण्डिनाप्यहं तत्र ह्याहूतो ह्यवनीपते ॥ ८३.६९ ॥
दास्यामि विंशतिग्रामान्गच्छ त्वं नर्मदातटे ।
प्रेषणं मे प्रतिज्ञातमलक्ष्म्या पीडितेन तु ॥ ८३.७० ॥
कन्योवाच -
गच्छ त्वं नर्मदां पुण्यां सर्वपापक्षयंकरीम् ।
आग्नेय्यां सोमनाथस्य हनूमन्तेश्वरः परः ॥ ८३.७१ ॥
अर्धक्रोशेन रेवाया विस्तीर्णो वटपादपः ।
करंजः कटहश्चैव सन्निधाने वटस्य च ॥ ८३.७२ ॥
न्यग्रोधमूलसांनिध्ये सूक्ष्मान्यस्थीनि द्रक्ष्यसि ।
समूह्य तानि संगृह्य गच्छ रेवां द्विजोत्तम ॥ ८३.७३ ॥
आश्विनस्यासिते पक्षे त्रिपुरारिस्तु वै तिथौ ।
स्नाप्य त्रिशूलिनं भक्त्या रात्रौ त्वं कुरु जागरम् ॥ ८३.७४ ॥
क्षिपेः प्रभाते तानि त्वं नाभिमात्रजलस्थितः ।
इत्युच्चार्य द्विजश्रेष्ठ विमुक्तिस्तस्य जायताम् ॥ ८३.७५ ॥
क्षिप्त्वास्थीनि पुनः स्नानं कर्तव्यं त्वघनाशनम् ।
एवं कृते तु राजेन्द्र गतिस्तस्य भविष्यति ॥ ८३.७६ ॥
कथितं कन्यया यच्च तत्सर्वं पुस्तिकाकृतम् ।
आगतोऽहं नृपश्रेष्ठ तीर्थेऽत्र दुरितापहे ॥ ८३.७७ ॥
सोऽभिज्ञानं ततो दृष्ट्वा नीत्वास्थीनि नरेश्वर ।
पूर्वोक्तेन विधानेन प्राक्षिपं नार्मदा मसिपुष्पवृष्टिःऽशु साधु साध्विति पाण्डव ।
विमानं च ततो दिव्यमागतं बर्हिणस्तदा ॥ ८३.७८ ॥
दिव्यरूपधरो भूत्वा गतो नाके कलापवान् ।
एवं तु प्रत्ययं दृष्ट्वा हनूमन्तेश्वरे नृप ॥ ८३.७९ ॥
चकारानशनं विप्रः शतबाहुश्च भूपतिः ।
शोषयामासतुस्तौ स्वमीश्वराराधने रतौ ॥ ८३.८० ॥
ध्यायन्तौ तस्थतुर्देवं शतबाहुद्विजोत्तमौ ।
मासार्धेन मृतो राजा शतबाहुर्महामनाः ॥ ८३.८१ ॥
किङ्कणीजालशोभाढ्यं विमानं तत्र चागतम् ।
साधु साधु नृपश्रेष्ठ विमानारोहणं कुरु ॥ ८३.८२ ॥
शतबाहुरुवाच -
नायामि स्वर्गमार्गाग्रं विप्रो यावन्न संस्थितः ।
उपदेशप्रदो मह्यं गुरुरूपी द्विजोत्तमः ॥ ८३.८३ ॥
अप्सरस ऊचुः ।
लोभावृतो ह्ययं विप्रो लोभात्पापस्य संग्रहः ।
हनूमन्तेश्वरे राजन्ये मृताः सत्त्वमास्थिताः ॥ ८३.८४ ॥
ते यान्ति शांकरे लोके सर्वपापक्षयंकरे ।
नैव पापक्षयश्चास्य ब्राह्मणस्य नरेश्वर ॥ ८३.८५ ॥
गृहं च गृहिणी चित्ते ब्राह्मणस्य प्रवर्तते ।
शतबाहुस्ततो विप्रमुवाच विनयान्वितः ॥ ८३.८६ ॥
त्यज मूलमनर्थस्य लोभमेनं द्विजोत्तम ।
इत्युक्त्वा स्वर्ययौ राजा स्वर्गकन्यासमावृतः ॥ ८३.८७ ॥
दिनैः कैश्चिद्गतो विप्रः स्वर्गं वैतालिकैर्वृतः ।
बर्ही च काशीराजस्य पुत्रस्तीर्थप्रभावतः ॥ ८३.८८ ॥
आत्मानं कन्यया दत्तं पूर्वजन्म व्यचिन्तयन् ।
सा च तं प्रौढमालोक्य पितुराज्ञामवाप्य च ।
स्वयंवरे स्वभर्तारं लेभे साध्वी नृपात्मजम् ॥ ८३.८९ ॥
श्रीमार्कण्डेय उवाच -
एतद्वृत्तान्तमभवत्तस्मिंस्तीर्थे नृपोत्तम ।
एतस्मात्कारणान्मेध्यं तीर्थमेतत्सदा नृप ॥ ८३.९० ॥
अष्टम्यां वा चतुर्दश्यां सर्वकालं नरेश्वर ।
विशेषाच्चाश्विने मासि कृष्णपक्षे चतुर्दशीम् ॥ ८३.९१ ॥
स्नापयेदीश्वरं भक्त्या क्षौद्रक्षीरेण सर्पिषा ।
दध्ना च खण्डयुक्तेन कुशतोयेन वै पुनः ॥ ८३.९२ ॥
श्रीखण्डेन सुगन्धेन गुण्ठयेच्च महेश्वरम् ।
ततः सुगन्धपुष्पैश्च बिल्वपत्रैश्च पूजयेत् ॥ ८३.९३ ॥
मुचकुन्देन कदेन जातीकाशकुशोद्भवैः ।
उन्मत्तमुनिपुष्पौघैः पुष्पैस्तत्कालसम्भवैः ॥ ८३.९४ ॥
अर्चयेत्परया भक्त्या हनूमन्तेश्वरं शिवम् ।
घृतेन दापयेद्दीपं तैलेन तदभावतः ॥ ८३.९५ ॥
श्राद्धं च कारयेत्तत्र ब्राह्मणैर्वेदपारगैः ।
सर्वलक्षणसम्पूर्णैः कुलीनैर्गृहपालकैः ॥ ८३.९६ ॥
तर्पयेद्ब्राह्मणान् भक्त्या वसनान्नहिरण्यतः ।
नरकस्था दिवं यान्तु प्रोच्येति प्रणमेद्द्विजान् ॥ ८३.९७ ॥
पतितान् वर्जयेद्विप्रान् वृषली यस्य गेहिनी ।
स्ववृषं चापरित्यज्य वृषैरन्यैर्वृषायते ॥ ८३.९८ ॥
वृषलीं तां विदुर्देवा न शूद्री वृषली भवेत् ।
ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् ॥ ८३.९९ ॥
सुवर्णहरणन्यासमित्रद्रोहोद्भवं तथा ।
नश्यते पातकं सर्वमित्येवं शङ्करोऽब्रवीत् ॥ ८३.१०० ॥
श्रीमार्कण्डेय उवाच -
वाक्प्रलापेन भो वत्स बहुनोक्तेन किं मया ।
सर्वपातकसंयुक्तो दद्याद्दानं द्विजन्मने ॥ ८३.१०१ ॥
गोदानं च प्रकर्तव्यमस्मिंस्तीर्थे विशेषतः ।
गोदानं हि यतः पार्थ सर्वदानाधिकं स्मृतम् ॥ ८३.१०२ ॥
सर्वदेवमया गावः सर्वे देवास्तदात्मकाः ।
शृङ्गाग्रेषु महीपाल शक्रो वसति नित्यशः ॥ ८३.१०३ ॥
उरः स्कन्दः शिरो ब्रह्मा ललाटे वृषभध्वजः ।
चन्द्रार्कौ लोचने देवौ जिह्वायां च सरस्वती ॥ ८३.१०४ ॥
मरुद्गणाः सदा साध्या यस्या दन्ता नरेश्वर ।
हुङ्कारे चतुरो वेदान् विद्यात्साङ्गपदक्रमान् ॥ ८३.१०५ ॥
ऋषयो रोमकूपेषु ह्यसंख्यातास्तपस्विनः ।
दण्डहस्तो महाकायः कृष्णो महिषवाहनः ॥ ८३.१०६ ॥
यमः पृष्ठस्थितो नित्यं शुभाशुभपरीक्षकः ।
चत्वारः सागराः पुण्याः क्षीरधाराः स्तनेषु च ॥ ८३.१०७ ॥
विष्णुपादोद्भवा गङ्गा दर्शनात्पापनाशनी ।
प्रस्रावे संस्थिता यस्मात्तस्माद्वन्द्या सदा बुधैः ॥ ८३.१०८ ॥
लक्ष्मीश्च गोमये नित्यं पवित्रा सर्वमङ्गला ।
गोमयालेपनं तस्मात्कर्तव्यं पाण्डुनन्दन ॥ ८३.१०९ ॥
गन्धर्वाप्सरसो नागाः खुराग्रेषु व्यवस्थिताः ।
पृथिव्यां सागरान्तायां यानि तीर्थानि भारत ।
तानि सर्वाणि जानीयाद्गौर्गव्यं तेन पावनम् ॥ ८३.११० ॥
युधिष्ठिर उवाच -
सर्वदेवमयी धेनुर्गीर्वाणाद्यैरलंकृता ।
एतत्कथय मे तात कस्माद्गोषु समाश्रिताः ॥ ८३.१११ ॥
श्रीमार्कण्डेय उवाच -
सर्वदेवमयो विष्णुर्गावो विष्णुशरीरजाः ।
देवास्तदुभयात्तस्मात्कल्पिता विविधा जनैः ॥ ८३.११२ ॥
श्वेता वा कपिला वापि क्षीरिणी पाण्डुनन्दन ।
सवत्सा च सुशीला च सितवस्त्रावगुण्ठिता ॥ ८३.११३ ॥
कांस्यदोहनिका देया स्वर्णशृङ्गी सुभूषिता ।
हनूमन्तेश्वरस्याग्रे भक्त्या विप्राय दापयेत् ॥ ८३.११४ ॥
नियमस्थेन सा देया स्वर्गमानन्त्यमिच्छता ।
असमर्थाय ये दद्युर्विष्णुलोके प्रयान्ति ते ॥ ८३.११५ ॥
असौ लोके च्युतो राजन्भूतले द्विजमन्दिरे ।
कुशलो जायते पुत्रो गुणविद्याधनर्द्धिमान् ॥ ८३.११६ ॥
सर्वपापहरं तीर्थं हनूमन्तेश्वरं नृप ।
शृण्वन्विमुच्यते पापाद्वर्णसंकरसंभवात् ॥ ८३.११७ ॥
दूरस्थश्चिन्तयन् पश्यन्मुच्यते नात्र संशयः ॥ ८३.११८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हनूमन्तेश्वरतीर्थमाहात्म्यवर्णनं नाम त्र्यशीतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 84
अध्याय ८४
श्रीमार्कण्डेय उवाच -
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
कैलासे पृच्छते भक्त्या षण्मुखाय शिवोदितम् ॥ ८४.१ ॥
ईश्वर उवाच -
पूर्वं त्रेतायुगे स्कन्द हतो रामेण रावणः ।
चतुर्दश तदा कोट्यो निहता ब्रह्मरक्षसाम् ॥ ८४.२ ॥
हतेषु तेषु वै तत्र रक्षणाय दिवौकसाम् ।
महानन्दस्तदा जातस्त्रिषु लोकेषु पुत्रक ॥ ८४.३ ॥
ततः सीतां समासाद्य समं वानरपुंगवैः ।
रामोऽप्ययोध्यामायातो भरतेन कृतोत्सवः ।
तस्मै समर्पयामास स राज्यं लक्ष्मणाग्रजः ॥ ८४.४ ॥
तस्मिन्प्रशासति ततो राज्यं निहतकण्टकम् ।
कृतकार्योऽथ हनुमान्कैलासमगात्पुरा ॥ ८४.५ ॥
ततो नन्दी प्रतीहारो रुद्रांशमपि तं कपिम् ।
न च संगमयामास रुद्रेणाघौघहारिणा ॥ ८४.६ ॥
तेन पृष्टस्तदा नन्दी किं मया पातकं कृतम् ।
येन रुद्रवपुः पुण्यं न पश्याम्यम्बिकान्वितम् ॥ ८४.७ ॥
नन्द्युवाच -
त्वयावतरणं चक्रे कपीन्द्रामरहेतुना ।
तथापि हि कृतं पापमुपभोगेन शाम्यति ॥ ८४.८ ॥
हनुमानुवाच -
किं मयाकारि तत्पापं नन्दिन्देवार्थकारिणा ।
राक्षसाश्च हता दुष्टा विप्रयज्ञाङ्गघातिनः ॥ ८४.९ ॥
ततस्तदालापकुतूहली हरो निजांशभाजं कपिमुग्रतेजसम् ।
उवाच द्वारान्तरदत्तदृष्टिः पुरःस्थितं प्रेक्ष्य कपीश्वरं पुनः ॥ ८४.१० ॥
ईश्वर उवाच -
गङ्गा गया कपे रेवा यमुना च सरस्वती ।
सर्वपापहरा नद्यस्तासु स्नानं समाचर ॥ ८४.११ ॥
नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।
सोमनाथसमीपस्थं तत्र त्वं गच्छ वानर ॥ ८४.१२ ॥
तत्र स्नात्वा महापापं गमिष्यति ममाज्ञया ।
उत्पत्य वेगाद्धनुमाञ्छ्रीरेवादक्षिणे तटे ॥ ८४.१३ ॥
जगाम सुमहानादस्तपश्चक्रे सुदुष्करम् ।
तस्य वै तप्यमानस्य रक्षोवधकृतं तमः ॥ ८४.१४ ॥
विलीनं पार्थ कालेन कियतेशप्रसादतः ।
ततो देवैः समं देवस्तत्तीर्थमगमद्धरः ॥ ८४.१५ ॥
कपिमालिङ्गयामास वरं तस्मै प्रदत्तवान् ।
अद्यप्रभृति ते तीर्थं भविष्यति न संशयः ॥ ८४.१६ ॥
कपितीर्थं ततो जातं तस्थौ तत्र स्वयं हरः ।
हनूमन्तेश्वरो नाम्ना सर्वहत्याहरस्तदा ॥ ८४.१७ ॥
तत्र तीर्थे तु यः स्नात्वा भक्त्या लिङ्गं प्रपूजयेत् ।
सर्वपापानि नश्यन्ति हरस्य वचनं यथा ॥ ८४.१८ ॥
तत्रास्थीनि विलीयन्ते पिण्डदानेऽक्षया गतिः ।
यत्किंचिद्दीयते तत्र तद्धि कोटिगुणं भवेत् ॥ ८४.१९ ॥
हनुमानप्ययोध्यायां रामं द्रष्टुमथागमत् ।
चकार कुशलप्रश्नं स्वस्वरूपं न्यवेदयत् ॥ ८४.२० ॥
श्रीराम उवाच -
कुर्वतो देवकार्यं ते मम कार्यं च कुर्वतः ।
ततोऽहमपि पापीयांस्तपस्तप्स्याम्यसंशयम् ॥ ८४.२१ ॥
तत्रैव दक्षिणे कूले रेवायाः पापहारिणि ।
चतुर्विंशतिवर्षाणि तपस्तेपेऽथ राघवः ॥ ८४.२२ ॥
ज्योतिष्मतीपुरीसंस्थः श्रीरेवास्नानमाचरन् ।
तस्य शुश्रूषणं चक्रे लक्ष्मणोऽपि तदाज्ञया ॥ ८४.२३ ॥
स्थापयामासतुर्लिङ्गे तौ तदा रामलक्ष्मणौ ।
प्रभावात्सत्यतपसो रेवातीरे महामती ।
निष्पापतां तदा वीरौ जग्मतू रामलक्ष्मणौ ॥ ८४.२४ ॥
ततस्तदा देवपुरोगमो हरो गतो हि वै पुण्यमुनीश्वरैः सह ।
आगत्य तीर्थं च वरं ददौ तदा निजां कलां तत्र विमुच्य तीर्थे ॥ ८४.२५ ॥
मुनिभिः सर्वतीर्थानां क्षिप्तं कुम्भोदकं भुवि ।
एकस्थं लिङ्गनामाथ कलाकुम्भस्तथाभवत् ॥ ८४.२६ ॥
कुम्भेश्वर इति ख्यातस्तदा देवगणार्चितः ।
रामोऽपि पूजयामास तल्लिङ्गं देवसेविवतम् ॥ ८४.२७ ॥
ततो वरं ददौ देवो रामकीर्त्यभिवृद्धये ।
चतुर्विंशतिमे वर्षे रामो निष्पापतां गतः ॥ ८४.२८ ॥
यदा कन्यागतः पङ्गुर्गुरुणा सहितो भवेत् ।
तदेव देवयात्रेयमिति देवा जगुर्मुदा ॥ ८४.२९ ॥
यथा गोदावरीतीर्थे सर्वतीर्थफलं भवेत् ।
तथात्र रेवास्नानेन लिङ्गानां दर्शनैर्नृणाम् ॥ ८४.३० ॥
करिष्यन्त्यत्र ये श्राद्धं पितॄणां नर्मदातटे ।
कुम्भेश्वरसमीपस्थास्तत्फलं शृणु षण्मुख ॥ ८४.३१ ॥
यावन्तो रोमकूपाः स्युः शरीरे सर्वदेहिनाम् ।
तावद्वर्षप्रमाणेन पितॄणामक्षया गतिः ॥ ८४.३२ ॥
पृथिव्यां देवताः सर्वाः सर्वतीर्थानि यानि तु ।
लभन्ते तत्फलं मर्त्या लिङ्गत्रयविलोकनात् ॥ ८४.३३ ॥
अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ।
सरोगो मुच्यते रोगान्नात्र कार्या विचारणा ॥ ८४.३४ ॥
सिंहराशिं गते जीवे यत्स्याद्गोदावरीफलम् ।
तद्द्वादशगुणं स्कन्द कुम्भेश्वरसमीपतः ॥ ८४.३५ ॥
ये जानन्ति न पश्यन्ति कुम्भशम्भुमुमापतिम् ।
नर्मदादक्षिणे कूले तेषां जन्म निरर्थकम् ॥ ८४.३६ ॥
यथा गोदावरीयात्रा कर्तव्या मुनिशासनात् ।
चतुर्विंशतिमे वर्षे तथेयं देवभाषितम् ॥ ८४.३७ ॥
यावच्चन्द्रश्च सूर्यश्च यावद्वै दिवि तारकः ।
तावत्तदक्षयं दानं रेवाकुम्भेश्वरान्तिके ॥ ८४.३८ ॥
महादानानि देयानि तत्र लौकैर्विचक्षणैः ।
गोदानमत्र शंसन्ति सौवर्णं राजतं तथा ॥ ८४.३९ ॥
यस्याः स्मरणमात्रेण नश्यते पापसञ्चयः ।
स्नानेन किं पुनः स्कन्द ब्रह्महत्यां व्यपोहति ॥ ८४.४० ॥
तत्र तीर्थे तु यः स्नात्वा श्राद्धं कुर्याद्युधिष्ठिर ।
एकोत्तरं कुलशतमुद्धरेच्छिवशासनात् ॥ ८४.४१ ॥
यानि कानि च तीर्थानि चासमुद्रसरांसि च ।
शिवलिङ्गार्चनस्येह कलां नार्हन्ति षोडशीम् ॥ ८४.४२ ॥
एवं देवा वरं दत्त्वा हरीश्वरपुरोगमाः ।
स्वस्थानमगमन् पूर्वं मुक्त्वा तन्नाम चोत्तमम् ॥ ८४.४३ ॥
तीर्थस्यास्य वरं दत्त्वा स रामो लक्ष्मणाग्रजः ।
अयोध्यां प्रविवेशासौ निष्पापो नर्मदाजलात् ॥ ८४.४४ ॥
सौवर्णीं च ततः कृत्वा सीतां यज्ञं चकार सः ।
अनुमन्त्र्य मुनींल्लोकान्देवताश्च निजं कुलम् ॥ ८४.४५ ॥
पुरा त्रेतायुगे जातं तत्तीर्थं स्कन्दनामकम् ।
नियमेन ततो लोकैः कर्तव्यं लिङ्गदर्शनम् ॥ ८४.४६ ॥
तावत्पापानि देहेषु महापातकजान्यपि ।
यावन्न प्रेक्षते जन्तुस्तत्तीर्थं देवसेवितम् ॥ ८४.४७ ॥
ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
ज्योतिष्मतीपुरीसंस्थं ये द्रक्ष्यन्ति हरं परम् ॥ ८४.४८ ॥
तस्मान्मोहं परित्यज्य जनैर्गन्तव्यमादरात् ।
तीर्थाशेषफलावाप्त्यै तीर्थं कुम्भेश्वराह्वयम् ॥ ८४.४९ ॥
मार्कण्डेय उवाच -
श्रुत्वेति शम्भुवचसा स षडाननोऽथ नत्वा पितुः पदयुगाम्बुजमादरेण ।
सम्प्राप्य दक्षिणतटं गिरिशस्रवन्त्याः कीशाग्र्यरामकलशाख्यशिवान् ददर्श ॥ ८४.५० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपितीर्थरामेश्वरलक्ष्मणेश्वरकुम्भेश्वरमाहात्म्यवर्णनं नाम चतुरशीतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 85
अध्याय ८५
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र नर्मदायाः पुरातनम् ।
ब्रह्महत्याहरं तीर्थं वाराणस्या समं हि तत् ॥ ८५.१ ॥
युधिष्ठिर उवाच -
आश्चर्यं कथ्यतां ब्रह्मन्यद्वृत्तं नर्मदातटे ।
वाराणस्या समं कस्मादेतत्कथय मे प्रभो ॥ ८५.२ ॥
निमग्नो दुःखसंसारे हृतराज्यो द्विजोत्तम ।
युष्मद्वाणीजलस्नातो निर्दुःखः सह बान्धवैः ॥ ८५.३ ॥
श्रीमार्कण्डेय उवाच -
साधु साधु महाबाहो सोमवंशविभूषण ।
पृष्टोऽस्मि दुर्लभं तीर्थं गुह्याद्गुह्यतरं परम् ॥ ८५.४ ॥
आदौ पितामहस्तावत्समस्तजगतः प्रभुः ।
मनसा तस्य संजाता दशैव ऋषिपुंगवाः ॥ ८५.५ ॥
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ ८५.६ ॥
जज्ञे प्राचेतसं दक्षं महातेजाः प्रजापतिः ।
दक्षस्यापि तथा जाताः पञ्चाशद्दुहिताः किल ॥ ८५.७ ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
तथैव स महाभागः सप्तविंशतिमिन्दवे ॥ ८५.८ ॥
रोहिणी नाम या तासामभीष्टा साभवद्विधोः ।
शेषासु करुणां कृत्वा शप्तो दक्षेण चन्द्रमाः ॥ ८५.९ ॥
क्षयरोग्यभवच्चन्द्रो दक्षस्यायं प्रजापतेः ।
स च शापप्रभावेण निस्तेजाः शर्वरीपतिः ॥ ८५.१० ॥
गतः पितामहं सोमो वेपमानोऽमृतांशुमान् ।
पद्मयोने नमस्तुभ्यं वेदगर्भ नमोऽस्तु ते ।
शरणं त्वां प्रसन्नोऽस्मि पाहि मां कमलासन ॥ ८५.११ ॥
ब्रह्मोवाच -
निस्तेजाः शर्वरीनाथ कलाहीनश्च दृश्यसे ।
उद्विग्नमानसस्तात संजातः केन हेतुना ॥ ८५.१२ ॥
सोम उवाच -
दक्षशापेन मे ब्रह्मन्निस्तेजस्त्वं जगत्पते ।
निर्हारश्चास्य शापस्य कथ्यतां मे पितामह ॥ ८५.१३ ॥
ब्रह्मोवाच -
सर्वत्र सुलभा रेवा त्रिषु स्थानेषु दुर्लभा ।
ओङ्कारेऽथ भृगुक्षेत्रे तथा चैवौर्वसंगमे ॥ ८५.१४ ॥
तत्र गच्छ क्षपानाथ यत्र रेवान्तरं तटम् ।
त्वरितोऽसौ गतस्तत्र यत्र रेवौर्विसंगमः ॥ ८५.१५ ॥
काष्ठावस्थः स्थितः सोमो दध्यौ त्रिपुरवैरिणम् ।
यावद्वर्षशतं पूर्णं तावत्तुष्टो महेश्वरः ॥ ८५.१६ ॥
प्रत्यक्षः सोमराजस्य वृषासन उमापतिः ।
साष्टाङ्गं प्रणिपत्योच्चैर्जय शम्भो नमोऽस्तु ते ॥ ८५.१७ ॥
जय शङ्कर पापहराय नमो जय ईश्वर ते जगदीश नमः ।
जय वासुकिभूषणधार नमो जय शूलकपालधराय नमः ॥ ८५.१८ ॥
जय अन्धकदेहविनाश नमो जय दानववृन्दवधाय नमः ।
जय निष्कलरूप सकलाय नमो जय काल कामदहाय नमः ॥ ८५.१९ ॥
जय मेचककण्ठधराय नमो जय सूक्ष्मनिरञ्जनशब्द नमः ।
जय आदिरनादिरनन्त नमो जय शङ्कर किंकरमीश भज ॥ ८५.२० ॥
एवं स्तुतो महादेवः सोमराजेन पाण्डव ।
तुष्टस्तस्य नृपश्रेष्ठ शिवया शङ्करोऽब्रवीत् ॥ ८५.२१ ॥
ईश्वर उवाच -
वरं प्रार्थय मे भद्र यत्ते मनसि वर्तते ।
साधु साधु महासत्त्व तुष्टोऽहं तपसा तव ॥ ८५.२२ ॥
सोम उवाच -
दक्षशापेन दग्धोऽहं क्षीणसत्त्वो महेश्वर ।
शापस्योपशमं देव कुरु शर्म मम प्रभो ॥ ८५.२३ ॥
ईश्वर उवाच -
तव भक्तिगृहीतोऽहमुमया सह तोषितः ।
निष्पापः सोमनाथस्त्वं संजातस्तीर्थसेवनात् ॥ ८५.२४ ॥
इत्यूचे देवदेवेशः क्षणं ध्यात्वेन्दुना ततः ।
स्थापितं परमं लिङ्गं कामदं प्राणिनां भुवि ।
सर्वदुःखहरं तत्तु ब्रह्महत्याविनाशनम् ॥ ८५.२५ ॥
युधिष्ठिर उवाच -
सोमनाथप्रभावं मे संक्षेपात्कथय प्रभो ।
दुःखार्णवनिमग्नानां त्राता प्राप्तो द्विजोत्तम ॥ ८५.२६ ॥
श्रीमार्कण्डेय उवाच -
शृणु तीर्थप्रभावं ते संक्षेपात्कथयाम्यहम् ।
यद्वृत्तमुत्तरे कूले रेवाया उरिसंगमे ॥ ८५.२७ ॥
शम्बरो नाम राजाभूत्तस्य पुत्रस्त्रिलोचनः ।
त्रिलोचनसुतः कण्वः स पापर्द्धिपरोऽभवत् ॥ ८५.२८ ॥
वने नित्यं भ्रमन्सोऽथ मृगयूथं ददर्श ह ।
मृगयूथं हतं तत्तु त्रिलोचनसुतेन च ॥ ८५.२९ ॥
मृगरूपी द्विजो मध्ये चरते निर्जने वने ।
स हतस्तेन सङ्गेन कण्वेन मुनिसत्तम ॥ ८५.३० ॥
ब्रह्महत्यान्वितः कण्वो निस्तेजा व्यचरन्महीम् ।
व्यचरंश्चैव सम्प्राप्तो नर्मदामुरिसंगमे ॥ ८५.३१ ॥
किंशुकाशोकबहले जम्बीरपनसाकुले ।
कदम्बपाटलाकीर्णे बिल्वनारङ्गशोभिते ॥ ८५.३२ ॥
चिञ्चिणीचम्पकोपेते ह्यगस्तितरुछादिते ।
प्रभूतभूतसंयुक्तं वनं सर्वत्र शोभितम् ॥ ८५.३३ ॥
चित्रकैर्मृगमार्जारैर्हिंस्रैः शम्बरशूकरैः ।
शशैर्गवयसंयुक्तैः शिखण्डिखरमण्डितम् ॥ ८५.३४ ॥
प्रविष्टस्तु वने कण्वस्तृषार्तः श्रमपीडितः ।
स्नातो रेवाजले पुण्ये सङ्गमे पापनाशने ॥ ८५.३५ ॥
अर्चितः परया भक्त्या सोमनाथो युधिष्ठिर ।
पपौ सुविमलं तोयं सर्वपापक्षयंकरम् ॥ ८५.३६ ॥
फलानि च विचित्राणि चखाद सह किंकरैः ।
सुप्तः पादपच्छायायां श्रान्तो मृगवधेन च ॥ ८५.३७ ॥
तावत्तीर्थवरं विप्रः स्नानार्थं सङ्गमं गतः ।
मार्गगो ब्राह्मणो हर्षोद्युक्तस्तद्गतमानसः ॥ ८५.३८ ॥
अबला तमुवाचेदं तिष्ठ तिष्ठ द्विजोत्तम ।
त्रस्तो निरीक्षते यावद्दिशः सर्वा नरेश्वर ॥ ८५.३९ ॥
तावद्वृक्षसमारूढां स्त्रियं रक्ताम्बरावृताम् ।
रक्तमाल्यां तदा बालां रक्तचन्दनचर्चिताम् ।
रक्ताभरणशोभाढ्यां पाशहस्तां ददर्श ह ॥ ८५.४० ॥
स्त्र्युवाच -
संदेशं श्रूयतां विप्र यदि गच्छसि सङ्गमे ।
मद्भर्ता तिष्ठते तत्र शीघ्रमेव विसर्जय ॥ ८५.४१ ॥
एकाकिनी च ते भार्या तिष्ठते वनमध्यगा ।
इत्याकर्ण्य गतो विप्रः सङ्गमं सुरदुर्लभे ॥ ८५.४२ ॥
वृक्षच्छायान्वितः कण्वो ब्राह्मणेनावलोकितः ।
उवाच तं प्रति तदा वचनं ब्राह्मणोत्तमः ॥ ८५.४३ ॥
ब्राह्मण उवाच -
वनान्तरे मया दृष्टा बाला कमललोचना ।
रक्ताम्बरधरा तन्वी रक्तचन्दनचर्चिता ॥ ८५.४४ ॥
रक्तमाल्या सुशोभाढ्या पाशहस्ता मृगेक्षणा ।
वृक्षारूढावदद्वाक्यं मद्भर्ता प्रेष्यतामिति ॥ ८५.४५ ॥
कण्व उवाच -
कस्मिन्स्थाने तु विप्रेन्द्र विद्यते मृगलोचना ।
कस्य सा केन कार्येण सर्वमेतद्वदाशु मे ॥ ८५.४६ ॥
ब्राह्मण उवाच -
सङ्गमादर्धक्रोशे सा उद्यानान्ते हि विद्यते ।
वचनाद्ब्रह्मणस्यैषा न ज्ञाता पार्थिवेन तु ॥ ८५.४७ ॥
तदा स कण्वभूपालः स्वकं दूतं समादिशत् ।
कण्व उवाच -
गच्छ त्वं पृच्छतां तां क्वागता क्वच गमिष्यसि ।
प्रेषितस्त्वरितो दूतो गतो नारीसमीपतः ॥ ८५.४८ ॥
वृक्षस्थां ददृशो बालामुवाच नृपसत्तम ।
मन्नाथः पृच्छति त्वां तु कासि त्वं क्व गमिष्यसि ॥ ८५.४९ ॥
कन्योवाच -
गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।
इह प्रच्छन्न पापानां शास्ता वैवस्वतो यमः ॥ ८५.५० ॥
ब्रह्महत्या च संजाता मृगरूपधरद्विजात् ।
मया युक्तोऽपि ते राजा मुक्तस्तीर्थप्रभावतः ॥ ८५.५१ ॥
अर्धक्रोशान्तरान्मध्ये ब्रह्महत्या न संविशेत् ।
सोमनाथप्रभावोऽयं वाराणस्याः समः स्मृतः ॥ ८५.५२ ॥
गच्छ त्वं प्रेष्यतां राजा शीघ्रमत्र न संशयः ।
गतो भृत्यस्ततः शीघ्रं वेपमानः सुविह्वलः ॥ ८५.५३ ॥
समस्तं कथयामास यद्वृत्तं हि पुरातनम् ।
तस्य वाक्यादसौ राजा पतितो धरणीतले ॥ ८५.५४ ॥
भृत्य उवाच -
कस्मात्त्वं शोचसे नाथ पूर्वोपात्तं शुभाशुभम् ।
इत्याकर्ण्य वचस्तस्य राजा वचनमब्रवीत् ॥ ८५.५५ ॥
प्राणत्यागं करिष्यामि सोमनाथसमीपतः ।
शीघ्रमानीयतां वह्निरिन्धनानि बहूनि च ॥ ८५.५६ ॥
आनीतं तत्क्षणात्सर्वं भृत्यैस्तद्वशवर्तिभिः ।
स्नानं कृत्वा शुभे तोये सङ्गमे पापनाशने ॥ ८५.५७ ॥
अर्चितः परया भक्त्या सोमनाथो महीभृता ।
त्रिःप्रदक्षिणतः कृत्वा ज्वलन्तं जातवेदसम् ॥ ८५.५८ ॥
प्रविष्टः कण्वराजासौ हृदि ध्यात्वा जनार्दनम् ।
पीताम्बरधरं देवं जटामुकुटधारिणम् ॥ ८५.५९ ॥
श्रिया युक्तं सुपर्णस्थं शङ्खचक्रगदाधरम् ।
सुरारिसूदनं दध्यौ सुगतिर्मे भवत्विति ॥ ८५.६० ॥
पपात पुष्पवृष्टिस्तु साधु साधु नृपात्मज ।
आश्चर्यमतुलं दृष्ट्वा निरीक्ष्य च परस्परम् ॥ ८५.६१ ॥
मृतं तैः पावके भृत्यैर्हृदि ध्यात्वा गदाधरम् ।
विमानस्थास्ततः सर्वे संजाताः पाण्डुनन्दन ॥ ८५.६२ ॥
निष्पापास्ते दिवं याताः सोमनाथप्रभावतः ।
ब्राह्मणे सङ्गमे तत्र ध्यायमाने वृषध्वजम् ॥ ८५.६३ ॥
श्रीमार्कण्डेय उवाच -
सोमनाथप्रभावोऽयं शृणुष्वैकमना विधिम् ।
अष्टम्यां वा चतुर्दश्यां सर्वकालं रवेर्दिने ॥ ८५.६४ ॥
विशेषाच्छुक्लपक्षे चेत्सूर्यवारेण सप्तमी ।
उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम् ॥ ८५.६५ ॥
पञ्चामृतेन गव्येन स्नापयेत्परमेश्वरम् ।
श्रीखण्डेन ततो गुण्ठ्य पुष्पधूपादिकं ददेत् ॥ ८५.६६ ॥
घृतेन बोधयेद्दीपं नृत्यं गीतं च कारयेत् ।
सोमवारे तथाष्टम्यां प्रभाते पूजयेद्द्विजान् ॥ ८५.६७ ॥
जितक्रोधानात्मवतः परनिन्दाविवर्जितान् ।
सर्वाङ्गरुचिराञ्छस्तान् स्वदारपरिपालकान् ॥ ८५.६८ ॥
गायत्रीपाठमात्रांश्च विकर्मविरतान् सदा ।
पुनर्भूवृषलीशूद्री चरेयुर्यस्य मन्दिरे ॥ ८५.६९ ॥
दूरतोऽसौ द्विजस्त्याज्य आत्मनः श्रेय इच्छता ।
हीनाङ्गानतिरिक्ताङ्गान् येषां पूर्वापरं न हि ॥ ८५.७० ॥
व्रते श्राद्धे तथा दाने दूरतस्तान् विवर्जयेत् ।
आयसी तरुणी तुल्या द्विजाः स्वाध्यायवर्जिताः ॥ ८५.७१ ॥
आत्मानं सह याज्येन पातयन्ति न संशयः ।
शाल्मलीनावतुल्याः स्युः षट्कर्मनिरता द्विजाः ॥ ८५.७२ ॥
दातारं च तथात्मानं तारयन्ति तरन्ति च ।
श्राद्धं सोमेश्वरे पार्थ यः कुर्याद्गतमत्सरः ॥ ८५.७३ ॥
प्रेतास्तस्य हि सुप्रीता यावदाभूतसम्प्लवम् ।
अन्नं वस्त्रं हिरण्यं च यो दद्यादग्रजन्मने ॥ ८५.७४ ॥
स याति शाङ्करे लोक इति मे सत्यभाषितम् ।
हयं यो यच्छते तत्र सम्पूर्णं तरुणं सितम् ॥ ८५.७५ ॥
रक्तं वा पीतवर्णं वा सर्वलक्षणसंयुतम् ।
कुङ्कुमेन विलिप्ताङ्गावग्रजन्महयावपि ॥ ८५.७६ ॥
स्रग्दामभूषितौ कार्यौ सितवस्त्रावगुण्ठितौ ।
अङ्घ्रिः प्रदीयतां स्कन्धे मदीये हयमारुह ॥ ८५.७७ ॥
आरूढे ब्राह्मणे ब्रूयाद्भास्करः प्रीयतामिति ।
स याति शांकरं लोकं सर्वपापविवर्जितः ॥ ८५.७८ ॥
उपरागे तु सोमस्य तीर्थं गत्वा जितेन्द्रियः ।
सत्यलोकाच्च्युतश्चापि राजा भवति धार्मिकः ॥ ८५.७९ ॥
तस्य वासः सदा राजन्न नश्यति कदाचन ।
दीर्घायुर्जायते पुत्रो भार्या च वशवर्तिनी ॥ ८५.८० ॥
जीवेद्वर्षशतं साग्रं सर्वदुःखविवर्जितः ।
सोपवासो जितक्रोधो धेनुं दद्याद्द्विजन्मने ॥ ८५.८१ ॥
सवत्सां क्षीरसंयुक्तां श्वेतवस्त्रावलोकिताम् ।
शबलां पीतवर्णां च धूम्रां वा नीलकर्बुराम् ॥ ८५.८२ ॥
कपिलां वा सवत्सां च घण्टाभरणभूषिताम् ।
रूप्यखुरां कांस्यदोहां स्वर्णशृङ्गीं नरेश्वर ॥ ८५.८३ ॥
श्वेतया वर्धते वंशो रक्ता सौभाग्यवर्धिनी ।
शबला पीतवर्णा च दुःखघ्न्यौ संप्रकीर्तिते ॥ ८५.८४ ॥
कपिला नाशयेत्पापं सप्तजन्मसमुद्भवम् ।
सत्यलोकमवाप्नोति गोप्रदायी नरेश्वर ॥ ८५.८५ ॥
पक्षान्तेऽथ व्यतीपाते वै धृतौ रविसंक्रमे ।
दिनक्षये गजच्छायां ग्रहणे भास्करस्य च ॥ ८५.८६ ॥
ये व्रजन्ति महात्मानः सङ्गमे सुरदुर्लभे ।
मृदावगुण्ठयित्वा तु चात्मानं सङ्गमे विशेत् ॥ ८५.८७ ॥
हृदयान्तर्जले जाप्या प्राणायामोऽथवा नृप ।
गायत्री वैष्णवी चैव सौरी शैवी यदृच्छया ।
तेऽपि पापैः प्रमुच्यन्त इत्येवं शङ्करोऽब्रवीत् ॥ ८५.८८ ॥
जगतीं सोमनाथस्य यस्तु कुर्यात्प्रदक्षिणाम् ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ॥ ८५.८९ ॥
ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् ।
भ्रूणहा स्वर्णहर्ता च मुच्यन्ते नात्र संशयः ॥ ८५.९० ॥
तीर्थाख्यानमिदं पुण्यं यः शृणोति जितेन्द्रियः ।
व्याधितो मुच्यते रोगी चारोगी सुखमाप्नुयात् ॥ ८५.९१ ॥
यत्ते संदह्यते चेतः शृणु तन्मे युधिष्ठिर ।
नैकापि नृप लोकेऽस्मिन् भ्रूणहत्या सुदुस्त्यजा ॥ ८५.९२ ॥
किमु षड्विंशतिं पार्थ प्राप याः क्षणदाकरः ।
सोऽपि तीर्थमिदं प्राप्य तपस्तप्त्वा सुदुश्चरम् ॥ ८५.९३ ॥
विमुक्तः सर्वपापेभ्यः शीतरश्मिरभूत्सुखी ।
श्रूयते नृप पौराणी गाथा गीता महर्षिभिः ॥ ८५.९४ ॥
लिङ्गं प्रतिष्ठितं ह्येकं दशभ्रूणहनं भवेत् ।
अतो लिङ्गत्रयं सोमः स्थापयामास भारत ॥ ८५.९५ ॥
रेवौरिसंगमे ह्याद्यं द्वितीयं भृगुकच्छके ।
ततः सिद्धिं परां प्राप्य प्रभासे तु तृतीयकम् ॥ ८५.९६ ॥
इति ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् ।
धर्म्यं यशस्यमायुष्यं स्वर्ग्यं संशुद्धिकृन्नृणाम् ॥ ८५.९७ ॥
पुत्रार्थी लभते पुत्रान्निष्कामः स्वर्गमाप्नुयात् ।
मुच्यते सर्वपापेभ्यस्तीर्थं कृत्वा परं नृप ॥ ८५.९८ ॥
एतत्ते सर्वमाख्यातं सोमनाथस्य यत्फलम् ।
श्रुत्वा पुत्रमवाप्नोति स्नात्वा चाष्टौ न संशयः ॥ ८५.९९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमनाथतीर्थमाहात्म्यवर्णनं नाम पञ्चाशीतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 86
अध्याय ८६
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज पिङ्गलावर्तमुत्तमम् ।
सङ्गमस्य समीपस्थं रेवाया उत्तरे तटे ।
हव्यवाहेन राजेन्द्र स्थापितः पिङ्गलेश्वरः ॥ ८६.१ ॥
युधिष्ठिर उवाच -
हव्यवाहेन भगवन्नीश्वरः स्थापितः कथम् ।
एतदाख्याहि मे सर्वं प्रसादाद्वक्तुमर्हसि ॥ ८६.२ ॥
मार्कण्डेय उवाच -
शम्भुना रेतसा राजंस्तर्पितो हव्यवाहनः ।
प्राप्तसौख्येन रौद्रेण गौर्याक्रीडनचेतसा ॥ ८६.३ ॥
हव्यवाहमुखे क्षिप्तं रुद्रेणामिततेजसा ।
रुद्रस्य रेतसा दग्धस्तीर्थयात्राकृतादरः ॥ ८६.४ ॥
सागरांश्च नदीर्गत्वा क्रमाद्रेवां समागतः ।
चचार परया भक्त्या ध्यानमुग्रं हुताशनः ॥ ८६.५ ॥
वायुभक्षः शतं साग्रं यावत्तेपे हुताशनः ।
तावत्तुष्टो महादेवो वरदो जातवेदसः ।
संनिधौ समुपेत्याथ वचनं चेदमब्रवीत् ॥ ८६.६ ॥
ईश्वर उवाच -
वरं वृणीष्व हव्याश यस्ते मनसि वर्तते ॥ ८६.७ ॥
वह्निरुवाच -
नमस्ते सर्वलोकेश उग्रमूर्ते नमोऽस्तु ते ।
रेतसा तव संदग्धः कुष्ठी जातो महेश्वर ।
कृपां कुरु महादेव मम रोगं विनाशय ॥ ८६.८ ॥
ईश्वर उवाच -
हव्यवाह भवारोगो मत्प्रसादाच्च सत्वरम् ।
अत्र तीर्थे कृतस्नानः स्वरूपं प्रतिपत्स्यसे ॥ ८६.९ ॥
इत्युक्त्वा च महादेवस्तत्रैवान्तरधीयत ।
अनन्तरं हव्यवाहः सस्नौ रेवाजले त्वरन् ॥ ८६.१० ॥
तदैव रोगनिर्मुक्तोऽभवद्दिव्यस्वरूपवान् ।
स्थापयामास देवेशं स वह्निः पिङ्गलेश्वरम् ॥ ८६.११ ॥
नाम्ना संपूजयामास तुष्टाव स्तुतिभिर्मुदा ।
ततो जगाम देशं स्वं देवानां हव्यवाहनः ॥ ८६.१२ ॥
हव्यवाहेन भूपैवं स्थापितः पिङ्गलेश्वरः ।
जितक्रोधो हि यस्तत्र उपवासं समाचरेत् ॥ ८६.१३ ॥
अतिरान्त्रफलं तस्य अन्ते रुद्रत्वमाप्नुयात् ।
गुणान्विताय विप्राय कपिलां तत्र भारत ॥ ८६.१४ ॥
अलंकृत्य सवत्सां च शक्त्यालङ्कारभूषिताम् ।
यः प्रयच्छति राजेन्द्र स गच्छेत्परमां गतिम् ॥ ८६.१५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पिङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम षडशीतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 87
अध्याय ८७
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल तीर्थं परमशोभनम् ।
स्थापितं मुनिसङ्घैर्यद्ब्रह्मवंशसमुद्भवैः ॥ ८७.१ ॥
ऋणमोचनमित्याख्यं रेवातटसमाश्रितम् ।
षण्मासं मनुजो भक्त्या तर्पयन् पितृदेवताः ॥ ८७.२ ॥
देवैः पितृमनुष्यैश्च ऋणमात्मकृतं च यत् ।
मुच्यते तत्क्षणान्मर्त्यः स्नातो वै नर्मदाजले ॥ ८७.३ ॥
प्रत्यक्षं दुरितं तत्र दृश्यते फलरूपतः ।
तत्र तीर्थे तु यो राजन्नेकचित्तो जितेन्द्रियः ॥ ८७.४ ॥
स्नात्वा दानं च वै दद्यादर्चयेद्गिरिजापतिम् ।
ऋणत्रयविनिर्मुक्तो नाके दीप्यति देववत् ॥ ८७.५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऋणत्रयमोचनतीर्थमाहात्म्यवर्णनं नाम सप्ताशीतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 88
अध्याय ८८
श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं पार्थ कापिलं तीर्थमाश्रयेत् ।
स्थापितं कपिलेनैव सर्वपातकनाशनम् ॥ ८८.१ ॥
अष्टम्यां च सिते पक्षे चतुर्दश्यां नरेश्वर ।
स्नापयेत्परया भक्त्या कपिलाक्षीरसर्पिषा ॥ ८८.२ ॥
श्रीखण्डेन सुगन्धेन गुण्ठयेत महेश्वरम् ।
ततः सुगन्धपुष्पैश्च श्वेतैश्च नृपसत्तम ॥ ८८.३ ॥
येऽर्चयन्ति जितक्रोधा न ते यान्ति यमालयम् ।
असिपत्त्रवनं घोरं यमचुल्ही सुदारुणा ॥ ८८.४ ॥
दृश्यते नैव विद्वद्भिः कपिलेश्वरपूजनात् ।
स्नात्वा रेवाजले पुण्ये भोजयेद्ब्राह्मणाञ्छुभान् ॥ ८८.५ ॥
गोप्रदानेन वस्त्रेण तिलदानेन भारत ।
छत्रशय्याप्रदानेन राजा भवति धार्मिकः ॥ ८८.६ ॥
तीव्रतेजा विघोरश्च जीवत्पुत्रः प्रियंवदः ।
शत्रुवर्गो न तस्य स्यात्कदाचित्पाण्डुनन्दन ॥ ८८.७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपिलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाशीतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 89
अध्याय ८९
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र पूतिकेश्वरमुत्तमम् ।
नर्मदादक्षिणे कूले सर्वपापक्षयंकरम् ॥ ८९.१ ॥
स्थापितं जाम्बुवन्तेन लोकानां तु हितार्थिना ।
राजा प्रसेनजिन्नाम तस्यां वक्षस्थलान्मणौ ॥ ८९.२ ॥
समुत्क्षिप्ते तु तेनैव सपूतिरभवद्व्रणः ।
तत्र तीर्थे तपस्तप्त्वा निर्व्रणः समजायत ॥ ८९.३ ॥
तेन तत्स्थापितं लिङ्गं पूतिकेश्वरमुत्तमम् ।
यस्तत्र मनुजो भक्त्या स्नायाद्भरतसत्तम ॥ ८९.४ ॥
सर्वान्कामानवाप्नोति सम्पूज्य परमेश्वरम् ।
कृष्णाष्टम्यां चतुर्दश्यां सर्वकालं नराधिप ।
येऽर्चयन्ति सदा देवं ते न यान्ति यमालयम् ॥ ८९.५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पूतिकेश्वरतीर्थमाहात्म्यवर्णनं नामैकोननवतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 90
अध्याय ९०
श्रीमार्कण्डेय उवाच -
रेवाया उत्तरे कूले वैष्णवं तीर्थमुत्तमम् ।
जलशायीति वै नाम विख्यातं वसुधातले ॥ ९०.१ ॥
दानवानां वधं कृत्वा सुप्तस्तत्र जनार्दनः ।
चक्रं प्रक्षालितं तत्र देवदेवेन चक्रिणा ।
सुदर्शनं च निष्पापं रेवाजलसमाश्रयात् ॥ ९०.२ ॥
युधिष्ठिर उवाच -
चक्रतीर्थं समाचक्ष्व मुनिसंघैश्च वन्दितम् ।
विष्णोः प्रभावमतुलं रेवायाश्चैव यत्फलम् ॥ ९०.३ ॥
श्रीमार्कण्डेय उवाच -
साधु साधु महाप्राज्ञ विरक्तस्त्वं युधिष्ठिर ।
गुह्याद्गुह्यतरं तीर्थं निर्मितं चक्रिणा स्वयम् ॥ ९०.४ ॥
तत्तेऽहं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।
आसीत्पुरा महादैत्यस्तालमेघ इति श्रुतः ॥ ९०.५ ॥
तेन देवा जिताः सर्वे हृतराज्या नराधिप ।
यज्ञभागान् स्वयं भुङ्क्ते अहं विष्णुर्न संशयः ॥ ९०.६ ॥
धनदस्य हृतं चित्तं हृतः शक्रस्य वारणः ।
इन्द्राणीं वाञ्छते पापो हयरत्नं रवेरपि ॥ ९०.७ ॥
तालमेघभयात्पार्थ रविरुद्राः सवासवाः ।
यमः स्कन्दो जलेशोऽग्निर्वायुर्देवो धनेश्वरः ॥ ९०.८ ॥
सवाक्पतिमहेशाश्च नष्टचित्ताः पितामहम् ।
गता देवा ब्रह्मलोकं तत्र दृष्ट्वा पितामहम् ॥ ९०.९ ॥
तुष्टुवुर्विविधैः स्तोत्रैर्वागीशप्रमुखाः सुराः ।
गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ ९०.१० ॥
दृष्ट्वा देवान्निरुत्साहान् विवर्णानवनीपते ।
प्रसादाभिमुखो देवः प्रत्युवाच दिवौकसः ॥ ९०.११ ॥
ब्रह्मोवाच -
स्वागतं सुरसङ्घस्य कान्तिर्नष्टा पुरातनी ।
हिमक्लिष्टप्रभावेण ज्योतींषीव मुखानि वः ॥ ९०.१२ ॥
प्रशमादर्चिषामेतदनुद्गीर्णं सुरायुधम् ।
वृत्रस्य हन्तुः कुलिशं कुण्ठितश्रीव लक्ष्यते ॥ ९०.१३ ॥
किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः ।
मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥ ९०.१४ ॥
कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।
अपविद्धगतो वायुर्भग्नशाख इव द्रुमः ॥ ९०.१५ ॥
यमोऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा ।
कुरुतेऽस्मिन्नमोघोऽपि निर्वाणालातलाघवम् ॥ ९०.१६ ॥
अमी च कथमादित्याः प्रतापक्षतिशीतलाः ।
चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥ ९०.१७ ॥
तद्ब्रूत वत्साः किमितः प्रार्थयध्वं समागताः ।
किमागमनकृत्यं वो ब्रूत निःसंशयं सुराः ॥ ९०.१८ ॥
मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ।
ततो मन्दानिलोद्भूतकमलाकरशोभिना ॥ ९०.१९ ॥
गुरुं नेत्रसहस्रेण प्रेरयामास वृत्रहा ।
स द्विनेत्रं हरेश्चक्षुः सहस्रनयनाधिकम् ॥ ९०.२० ॥
वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ।
युष्मद्वंशोद्भवस्तात तालमेघो महाबलः ॥ ९०.२१ ॥
उपतापयते देवान्धूमकेतुरिवोच्छ्रितः ।
तेन देवगणाः सर्वे दुःखिता दानवेन च ॥ ९०.२२ ॥
तालमेघो दैत्यपतिः सर्वान्नो बाधते बली ।
तस्मात्त्वां शरणं प्राप्ताः शरणं नो विधे भव ॥ ९०.२३ ॥
ततः प्रसन्नो भगवान् वेधास्तानब्रवीद्वचः ॥ ९०.२४ ॥
ब्रह्मोवाच -
तालमेघेन वो मध्ये बली तेन समः सुराः ।
विना माधवदेवेन साध्यो मे नैव दानवः ॥ ९०.२५ ॥
ततः सुरगणाः सर्वे विरिञ्चिप्रमुखा नृप ।
क्षीरोदं प्रस्थिताः सर्वे दुःखितास्तेन वैरिणा ॥ ९०.२६ ॥
त्वरिताः प्रस्थिता देवाः केशवं द्रष्टुकाम्यया ।
क्षीरोदं सागरं गत्वास्तुवंस्ते जलशायिनम् ॥ ९०.२७ ॥
देवा ऊचुः ।
जगदादिरनादिस्त्वं जगदन्तोऽप्यनन्तकः ।
जगन्मूर्तिरमूर्तिस्त्वं जय गीर्वाणपूजित ॥ ९०.२८ ॥
जय क्षीरोदशयन जय लक्ष्म्या सदा वृत ।
जय दानवनाशाय जय देवकिनन्दन ॥ ९०.२९ ॥
जय शङ्खगदापाणे जय चक्रधर प्रभो ।
इति देवस्तुतिं श्रुत्वा प्रबुद्धो जलशाय्यथ ॥ ९०.३० ॥
उवाच मधुरां वाणीं मेघगम्भीरनिस्वनाम् ।
किमर्थं बोधितो ब्रह्मन् समर्थैर्वः सुरासुरैः ॥ ९०.३१ ॥
ब्रह्मोवाच -
तालमेघभयात्कृष्ण सम्प्राप्तास्तव मन्दिरम् ।
न वध्यः कस्यचित्पापस्तालमेघो जनार्दन ॥ ९०.३२ ॥
त्वमेव जहि तं दुष्टं मृत्युं यास्यति नान्यथा ॥ ९०.३३ ॥
श्रीकृष्ण उवाच -
स्वस्थानं गम्यतां देवाः स्वकीयां लभत प्रजाम् ।
दुष्टात्मानं हनिष्यामि तालमेघं महाबलम् ॥ ९०.३४ ॥
स्थानं ब्रुवन्तु मे देवा वसेद्यत्र स दानवः ॥ ९०.३५ ॥
देवा ऊचुः ।
हिमाचलगुहायां स वसते दानवेश्वरः ।
चतुर्विंशतिसाहस्रैः कन्याभिः परिवारितः ॥ ९०.३६ ॥
तुरङ्गैः स्यन्दनैः कृष्ण संख्या तस्य न विद्यते ।
नटा नानाविधास्तत्र असंख्यातगुणा हरे ॥ ९०.३७ ॥
द्विरदाः पर्वताकारा हयाश्च द्विरदोपमाः ।
महाबलो वसेत्तत्र गीर्वाणभयदायकः ॥ ९०.३८ ॥
श्रुत्वा देवो वचस्तेषां देवानामातुरात्मनाम् ।
अचिन्तयद्गरुत्मन्तं शत्रुसङ्घविनाशनम् ॥ ९०.३९ ॥
चक्रं करेण संगृह्य गदाचक्रधरः प्रभुः ।
शार्ङ्गं च मुशलं सीरं करैर्गृह्य जनार्दनः ॥ ९०.४० ॥
आरूढः पक्षिराजेन्द्रं वधार्थं दानवस्य च ।
दानवस्य पुरे पेतुरुत्पाता घोररूपिणः ॥ ९०.४१ ॥
गोमायुर्गृध्रमध्ये तु कपोतैः सममाविशत् ।
विना वातेन तस्यैव ध्वजदण्डः पपात ह ॥ ९०.४२ ॥
सर्पसूषकयोर्युद्धं तथा केसरिनागयोः ।
उन्मार्गाः सरितस्तत्रावहन्रक्तविमिश्रिताः ।
अकालतरुपुष्पाणि दृश्यन्ते स्म समन्ततः ॥ ९०.४३ ॥
ततः प्राप्तो जगन्नाथो हिमवन्तं नगेश्वरम् ।
पाञ्चजन्यश्वसहसा पूरितः पुरसन्निधौ ॥ ९०.४४ ॥
तेन शब्देन महता ह्यारूढो दानवेश्वरः ।
उवाच च तदा वाक्यं तालमेघो महाबलः ॥ ९०.४५ ॥
तालमेघ उवाच -
कोऽयं मृत्युवशं प्राप्तो ह्यज्ञात्वा मम विक्रमम् ।
धुन्धुमाराज्ञया ह्याशु स्वसैन्यपरिवारितः ॥ ९०.४६ ॥
बलादानय तं बद्ध्वा ममाग्रे बहुशालिनम् ॥ ९०.४७ ॥
धुन्धुमार उवाच -
आनयामि न सन्देहः सुरो यक्षोऽथ किन्नरः ।
स्यन्दनौघैः समायुक्तो गजवाजिभटैः सह ॥ ९०.४८ ॥
हृष्टस्ततो जगद्योनिः सुपर्णस्थो महाबलः ।
गृह्यतां गृह्यतामेष इत्युक्तास्तेन किंकराः ॥ ९०.४९ ॥
चतुर्दिक्षु प्रधावन्त इतश्चेतश्च सर्वतः ।
सुपर्णेनाग्निरूपेण दग्धास्ते शलभा यथा ॥ ९०.५० ॥
धुन्धुमारोऽपि कृष्णेन शरघातेन ताडितः ।
हतो वक्षःस्थले पापो मृतावस्थो रथोपरि ॥ ९०.५१ ॥
हाहाकारं ततः सर्वे दानवाश्चक्रुरातुराः ।
तालमेघस्ततः क्रुद्धो रथारूढो विनिर्गतः ।
ददृशे केशवं पार्थ शङ्खचक्रगदाधरम् ॥ ९०.५२ ॥
तालमेघ उवाच -
अन्ये ते दानवाः कृष्ण ये हताः समरे त्वया ।
हिरण्यकशिपुप्रख्यानपुमांसो हि तेऽच्युत ॥ ९०.५३ ॥
इत्युक्त्वा दानवः पार्थ वर्षयामास सायकैः ।
दानवस्य शरान्मुक्तान् छेदयामास केशवः ॥ ९०.५४ ॥
गरुत्मानवधीत्सैन्यमवध्यं यत्सुरासुरैः ।
कृष्णेन द्विगुणास्तस्य प्रेषिताः स्वशिलीमुखाः ॥ ९०.५५ ॥
द्विगुणं द्विगुणीकृत्य प्रेषयामास दानवः ।
तानप्यष्टगुणैः कृष्णश्छादयामास सायकैः ॥ ९०.५६ ॥
ततः क्रुद्धेन दैत्येन ह्याग्नेयं बाणमुत्तमम् ॥ ९०.५७ ॥
वारुणं प्रेषयामास त्वाग्नेयं शमितं ततः ।
वारुणेनैव वायव्यं तालमेघो व्यसर्जयत् ॥ ९०.५८ ॥
सार्पं चैव हृषीकेशो वायव्यस्य प्रशान्तये ।
नारसिंहं नृसिंहोऽपि प्रेषयामास पाण्डव ॥ ९०.५९ ॥
नारसिंहं ततो दृष्ट्वा तालमेघो महाबलः ।
उत्तीर्य स्यन्दनाच्छीघ्रं गृहीत्वा खड्गचर्मणी ॥ ९०.६० ॥
कृष्ण त्वां प्रेषयिष्यामि यममार्गं सुदारुणम् ।
इत्युक्त्वा दानवः पार्थ आगतः केशवं प्रति ॥ ९०.६१ ॥
खड्गेनाताडयद्दैत्यो गदापाणिं जनार्दनम् ।
मण्डलाग्रं ततो गृह्य केशवो हृष्टमानसः ॥ ९०.६२ ॥
जघनोरःस्थले पार्थ तालमेघं महाहवे ।
जनार्दनस्तदा दैत्यं दैत्यो हरिमहन्मृधे ॥ ९०.६३ ॥
जनार्दनस्ततः क्रुद्धस्तालमेघाय भारत ।
अमोघं चक्रमादाय मुक्तं तस्य च मूर्धनि ॥ ९०.६४ ॥
निपपात शिरस्तस्य पर्वताश्च चकम्पिरे ।
समुद्राः क्षुभिताः पार्थ नद्य उन्मार्गगामिनीः ॥ ९०.६५ ॥
पुष्पवृष्टिं ततो देवा मुमुचुः केशवोपरि ।
अवध्यः सुरसङ्घानां सूदितः केशव त्वया ॥ ९०.६६ ॥
स्वस्थाश्चैव ततो देवास्तालमेघे निपातिते ।
जनार्दनोऽपि कौन्तेय नर्मदातटमाश्रितः ॥ ९०.६७ ॥
क्षीरोदां नर्मदां मत्वा अनन्तभुजगोपरि ।
लक्ष्म्या समन्वितः कृष्णो निलीनश्चोत्तरे तटे ॥ ९०.६८ ॥
चक्रं विभीषणं मर्त्ये ज्वालामालासमन्वितम् ।
पतितं नर्मदातोये जलशायिसमीपतः ॥ ९०.६९ ॥
निर्धूतकल्मषं जातं नर्मदातोययोगतः ।
तालमेघवधोत्पन्नं यत्पापं नृपनन्दन ॥ ९०.७० ॥
तत्स्रवं क्षालितं सद्यो नर्मदांभसि भारत ।
तदाप्रभृति लोकेऽस्मिञ्जलशायी महीपते ॥ ९०.७१ ॥
चक्रतीर्थं वदन्त्यन्ये केचित्कालाघनाशनम् ।
विख्यातं भारते वर्षे नर्मदायां महीपते ॥ ९०.७२ ॥
तत्तीर्थस्य प्रभावोऽयं श्रूयतामवनीपते ।
यथाऽनन्तो हि नागानां देवानां च जनार्दनः ॥ ९०.७३ ॥
मासानां मार्गशीर्षोऽस्ति नदीनां नर्मदा यथा ।
मासि मार्गशिरे पार्थ ह्येकादश्यां सितेऽहनि ॥ ९०.७४ ॥
गत्वा यो मनुजो भक्त्या कामक्रोधविवर्जितः ।
वैष्णवीं भावनां कृत्वा जलेशं तु व्रजेत वै ॥ ९०.७५ ॥
एकभुक्तं च नक्तं च तथैवायाचितं नृप ।
उपवासं तथा दानं ब्राह्मणानां च भोजनम् ॥ ९०.७६ ॥
करोति च कुरुश्रेष्ठ न स याति यमालयम् ।
यमलोकभयाद्भीता ये लोकाः पाण्डुनन्दन ॥ ९०.७७ ॥
ते पश्यन्तु श्रियः कान्तं नागपर्यङ्कशायिनम् ।
गोपीजनसमावृत्तं योगनिद्रां समाश्रितम् ।
विश्वरूपं जगन्नाथं संसारभयनाशनम् ॥ ९०.७८ ॥
स्नापयेत्परया भक्त्या क्षौद्रक्षीरेण सर्पिषा ।
खण्डेन तोयमिश्रेण जगद्योनिं जनार्दनम् ॥ ९०.७९ ॥
स्नाप्यमानं च पश्यन्ति ये लोका गतमत्सराः ।
ते यान्ति परमं लोकं सुरासुरनमस्कृतम् ॥ ९०.८० ॥
घृतेन बोधयेद्दीपमथवा तैलपूरितम् ।
रात्रौ जागरणं कृत्वा दैवस्याग्रे विमत्सराः ॥ ९०.८१ ॥
ये कथां वैष्णवीं भक्त्या शृण्वन्ति च नृपोत्तम ।
ब्रह्महत्यादिपापानि नश्यन्ते नात्र संशयः ॥ ९०.८२ ॥
प्रदक्षिणन्ति ये मर्त्या जलशायिजगद्गुरुम् ।
प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वसुंधरा ॥ ९०.८३ ॥
ततः प्रभाते विमले पित्ःन् संतर्पयेज्जलैः ।
श्राद्धं च ब्राह्मणैस्तत्र योग्यैः पाण्डव मानवाः ॥ ९०.८४ ॥
स्वदारनिरतैः शान्तैः परदारविवर्जकैः ।
वेदाभ्यसनशीलैश्च स्वकर्मनिरतैः शुभैः ॥ ९०.८५ ॥
नित्यं यजनशीलैश्च त्रिसन्ध्यापरिपालकैः ।
श्रद्धया कारयेच्छ्राद्धं यदीच्छेच्छ्रेय आत्मनः ॥ ९०.८६ ॥
ते धन्या मानुषे लोके वन्द्या हि भुवि मानवाः ।
ये वसन्ति सदाकालं पादपद्माश्रया हरेः ॥ ९०.८७ ॥
जलशायं प्रपश्यन्ति प्रत्यक्षं सुरनायकम् ।
पक्षोपवासं पाराकं व्रतं चान्द्रायणं शुभम् ॥ ९०.८८ ॥
मासोपवासमुग्रं च षष्ठान्नं पञ्चमं व्रतम् ।
तत्र तीर्थे तु यः कुर्यात्सोऽक्षयां गतिमाप्नुयात् ॥ ९०.८९ ॥
श्रीमार्कण्डेय उवाच -
अतः परं प्रवक्ष्यामि तिलधेनोश्च यत्फलम् ।
यथा यस्मिन्यदा देया दाने तस्याः शुभं फलम् ॥ ९०.९० ॥
एतत्कथान्तरं पुण्यमृषेर्द्वैपायनात्पुरा ।
श्रुतं हि नैमिषे पुण्ये नारदाद्यैरनेकधा ॥ ९०.९१ ॥
इदं परममायुष्यं मङ्गल्यं कीर्तिवर्धनम् ।
विप्राणां श्रावयन्विद्वान्फलानन्त्यंसमश्नुते ॥ ९०.९२ ॥
बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः ।
विभक्तदक्षिणा ह्येता दातारं नाप्नुवन्ति च ॥ ९०.९३ ॥
एकमेतत्प्रदातव्यं न बहूनां युधिष्ठिर ।
सा च विक्रयमापन्ना दहत्यासप्तमं कुलम् ॥ ९०.९४ ॥
यथालाभा तु सर्वेषां चतुर्द्रोणा तु गौः स्मृता ।
द्रोणस्य वत्सकः कार्यो बहूनां वापि कामतः ॥ ९०.९५ ॥
यस्मिन्देशे तु यन्मानं विषये वा विचारितम् ।
तेन मानेन तां कुर्वन्नक्षयं फलमश्नुते ॥ ९०.९६ ॥
सुखपूर्वं शुचौ भूमौ पुष्पधूपाक्षतैस्तथा ।
कर्णाभ्यां रत्ने दातव्ये दीपौ नेत्रद्वये तथा ॥ ९०.९७ ॥
श्रीखण्डमुरसि स्थाप्यं ताभ्यां चैव तु काञ्चनम् ।
ऊर्ध्वे मधु घृतं देयं कुर्यात्सर्षपरोमकम् ॥ ९०.९८ ॥
कम्बले कम्बलं दद्याच्छ्रोण्यां मधु घृतं तथा ।
यवसं पायसं दद्याद्घृतं क्षौद्रसमन्वितम् ॥ ९०.९९ ॥
स्वर्णशृङ्गी रूप्यशिफारुक्मलाङ्गूलसंयुता ।
रत्नपृष्ठी तु दातव्या कांस्यपात्रावदोहिनी ॥ ९०.१०० ॥
यत्स्याद्बाल्यकृतं पापं यद्वा कृतमजानता ।
वाचा कृतं कर्मकृतं मनसा यद्विचिन्तितम् ॥ ९०.१०१ ॥
जले निष्ठीवितं चैव मुशलं वापि लङ्घितम् ।
वृषलीगमनं चैव गुरुदारनिषेवणम् ॥ ९०.१०२ ॥
कन्याया गमनं चैव सुवर्णस्तेयमेव च ।
सुरापानं तथा चान्यत्तिलधेनुः पुनाति हि ॥ ९०.१०३ ॥
अहोरात्रोपवासेन विधिवत्तां विसर्जयेत् ।
या सा यमपुरे घोरे नदी वैतरणी स्मृता ॥ ९०.१०४ ॥
वालुकायोऽश्मस्थला च पच्यते यत्र दुष्कृती ।
अवीचिर्नरको यत्र यत्र यामलपर्वतौ ॥ ९०.१०५ ॥
यत्र लोहमुखाः काका यत्र श्वानो भयंकराः ।
असिपत्त्रवनं चैव यत्र सा कूटशाल्मली ॥ ९०.१०६ ॥
तान्सुखेन व्यतिक्रम्य धर्मराजालयं व्रजेत् ।
धर्मराजस्तु तं दृष्ट्वा सूनृतं वक्ति भारत ॥ ९०.१०७ ॥
विमानमुत्तमं योग्यं मणिरत्नविभूषितम् ।
अत्रारुह्य नरश्रेष्ठ प्रयाहि परमां गतिम् ॥ ९०.१०८ ॥
मा च चाटु भटे देहि मैव देहि पुरोहिते ।
मा च काणे विरूपे च न्यूनाङ्गे न च देवले ॥ ९०.१०९ ॥
अवेदविदुषे नैव ब्राह्मणे सर्वविक्रये ।
मित्रघ्ने च कृतघ्ने च मन्त्रहीने तथैव च ॥ ९०.११० ॥
वेदान्तगाय दातव्या श्रोत्रियाय कुटुम्बिने ।
वेदान्तगसुते देया श्रोत्रिये गृहपालके ॥ ९०.१११ ॥
सर्वाङ्गरुचिरे विप्रे सद्वृत्ते च प्रियंवदे ।
पूर्णिमायां तु माघस्य कार्त्तिक्यामथ भारत ॥ ९०.११२ ॥
वैशाख्यां मार्गशीर्ष्यां वाषाढ्यां चैत्र्यामथापि वा ।
अयने विषुवे चैव व्यतीपाते च सर्वदा ॥ ९०.११३ ॥
षडशीतिमुखे पुण्ये छायायां कुंजरस्य वा ।
एष ते कथितः कल्पस्तिलधेनोर्मयानघ ॥ ९०.११४ ॥
व्रजन्ति वैष्णवं लोकं दत्त्वा पादं यमोपरि ।
प्राणत्यागात्परं लोकं वैष्णवं नात्र संशयः ।
भित्त्वाशु भास्करं यान्ति नात्र कार्या विचारणा ॥ ९०.११५ ॥
एतत्ते सर्वमाख्यातं चक्रतीर्थफलं नृप ।
यच्छ्रुत्वा मानवो भक्त्या सर्वपापैः प्रमुच्यते ॥ ९०.११६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे जलशायितीर्थमाहात्म्यवर्णनं नाम नवतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 91
अध्याय ९१
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल तीर्थपरमपावनम् ।
चण्डादित्यं नृपश्रेष्ठ स्थापितं चण्डमुण्डयोः ॥ ९१.१ ॥
आस्तां पुरा महादैत्यौ चण्डमुण्डौ सुदारुणौ ।
नर्मदातीरमाश्रित्य चेरतुर्विपुलं तपः ॥ ९१.२ ॥
ध्यायन्तौ भास्करं देवं तमोनाशं जगत्त्रये ।
तुष्टस्तत्तपसा देवः सहस्रांशुरुवाच ह ॥ ९१.३ ॥
साधु साध्विति तौ पार्थ नर्मदायाः शुभे तटे ।
वरं प्रार्थयतं वीरौ यथेष्टं चेतसेच्छितम् ॥ ९१.४ ॥
चण्डमुण्डावूचतुः ।
अजेयौ सर्वदेवानां भूयास्वावां समाहितौ ।
सर्वरोगैः परित्यक्तौ सर्वकालं दिवाकर ॥ ९१.५ ॥
एवमस्त्विति तौ प्राह भास्करो वारितस्करः ।
इत्युक्त्वान्तर्दधे भानुर्दैत्याभ्यां तत्र भास्करः ॥ ९१.६ ॥
स्थापितः परया भक्त्या तं गच्छेदात्मसिद्धये ।
गीर्वाणांश्च मनुष्यांश्च पित्ःंस्तत्रापि तर्पयेत् ॥ ९१.७ ॥
स वसेद्भास्करे लोके विरिञ्चिदिवसं नृप ।
घृतेन बोधयेद्दीपं षष्ठ्यां स च नरेश्वर ।
मुच्यते सर्वपापैस्तु प्रतियाति पुरं रवेः ॥ ९१.८ ॥
उत्पत्तिं चण्डभानोर्यः शृणोति भरतर्षभ ।
विजयी स सदा नूनमाधिव्याधिविवर्जितः ॥ ९१.९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चण्डादित्यतीर्थमाहात्म्यवर्णनं नामैकनवतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 92
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र यमहास्यमनुत्तमम् ।
सर्वपापहरं तीर्थं नर्मदातटमाश्रितम् ॥ ९२.१ ॥
युधिष्ठिर उवाच -
यमहास्यं कथं जातं पृथिव्यां द्विजपुंगव ।
एतत्सर्वं ममाख्याहि परं कौतूहलं हि मे ॥ ९२.२ ॥
श्रीमार्कण्डेय उवाच -
साधु साधु महाप्राज्ञ पृष्टोऽहं नृपनन्दन ।
स्नानार्थं नर्मदां पुण्यामागतस्ते पिता पुरा ॥ ९२.३ ॥
रजकेन यथा धौतं वस्त्रं भवति निर्मलम् ।
तथासौ निर्मलो जातो धर्मराजो युधिष्ठिर ॥ ९२.४ ॥
स पश्यन्निर्मलं देहं हसन्प्रोवाच विस्मितः ॥ ९२.५ ॥
यम उवाच -
मत्पुरं कथमायान्ति मनुजाः पापबृंहिताः ।
स्नानेनैकेन रेवायाः प्राप्यते वैष्णवं पदम् ॥ ९२.६ ॥
समर्था ये न पश्यन्ति रेवां पुण्यजलां शुभाम् ।
जात्यन्धैस्ते समा ज्ञेया मृतैः पङ्गुभिरेव वा ॥ ९२.७ ॥
समर्था ये न पश्यन्ति रेवां पुण्यजलां नदीम् ।
एतस्मात्कारणाद्राजन्हसितो लोकशासनः ॥ ९२.८ ॥
स्थापयित्वा यमस्तत्र देवं स्वर्गं जगाम ह ।
यमहासेश्वरे राजञ्जितक्रोधो जितेन्द्रियः ॥ ९२.९ ॥
विशेषाच्चाश्विने मासि कृष्णपक्षे चतुर्दशीम् ।
उपोष्य परया भक्त्या सर्वपापैः प्रमुच्यते ॥ ९२.१० ॥
रात्रौ जागरणं कुर्याद्दीपं देवस्य बोधयेत् ।
घृतेन चैव राजेन्द्र शृणु तत्रास्ति यत्फलम् ॥ ९२.११ ॥
मुच्यते पातकैः सर्वैरगम्यागमनोद्भवैः ।
अभक्ष्यभक्षणोद्भूतैरपेयापेयजैरपि ॥ ९२.१२ ॥
अवाह्यवाहिते यत्स्याददोह्यादोहने यथा ।
स्नानमात्रेण तस्यैवं यान्ति पापान्यनेकधा ॥ ९२.१३ ॥
यमलोकं न वीक्षेत मनुजः स कदाचन ।
पित्ःणां परमं गुह्यमिदं भूमौ नरेश्वर ॥ ९२.१४ ॥
ददतामक्षयं सर्वं यमहास्ये न संशयः ।
अमावास्यां जितक्रोधो यस्तु पूजयते द्विजान् ॥ ९२.१५ ॥
हिरण्यभूमिदानेन तिलदानेन भूयसा ।
कृष्णाजिनप्रदानेन तिलधेनुप्रदानतः ॥ ९२.१६ ॥
विधानोक्तद्विजाग्र्याय ये प्रदास्यन्ति भक्तितः ।
हयं वा कुंजरं वाथ धूर्वहौ सीरसंयुतौ ॥ ९२.१७ ॥
कन्यां वसुमतीं गां च महिषीं वा पयस्विनीम् ।
ददते ये नृपश्रेष्ठ नोपसर्पन्ति ते यमम् ॥ ९२.१८ ॥
यमोऽपि भवति प्रीतः प्रतिजन्म युधिष्ठिर ।
यमस्य वाहो महिषो महिष्यस्तस्य मातरः ॥ ९२.१९ ॥
तासां दानप्रभावेण यमः प्रीतो भवेद्ध्रुवम् ।
नासौ यममवाप्नोति यदि पापैः समावृतः ॥ ९२.२० ॥
एतस्मात्कारणादत्र महिषीदानमुत्तमम् ।
तस्याः शृङ्गे जलं कार्यं धूम्रवस्त्रानुवेष्टिता ॥ ९२.२१ ॥
आयसस्य खुराः कार्यास्ताम्रपृष्ठाः सुभूषिताः ।
लवणाचलं पूर्वस्यामाग्नेय्यां गुडपर्वतम् ॥ ९२.२२ ॥
कार्पासं याम्यभागं तु नवनीतं तु नैरृते ।
पश्चिमे सप्तधान्यानि वायव्ये तंदुलाः स्मृताः ॥ ९२.२३ ॥
सौम्ये तु काञ्चनं दद्यादीशाने घृतमेव च ।
प्रदद्याद्यमराजो मे प्रीयतामित्युदीरयन् ॥ ९२.२४ ॥
इत्युच्चार्य द्विजस्याग्रे यमलोकं महाभयम् ।
असिपत्त्रवनं घोरं यमचुल्ली सुदारुणा ॥ ९२.२५ ॥
रौद्रा वैतरणी चैव कुम्भीपाको भयावहः ।
कालसूत्रो महाभीमस्तथा यमलपर्वतौ ॥ ९२.२६ ॥
क्रकचं तैलयन्त्रं च श्वानो गृध्राः सुदारुणाः ।
निरुच्छ्वासा महानादा भैरवो रौरवस्तथा ॥ ९२.२७ ॥
एते घोरा याम्यलोके श्रूयन्ते द्विजसत्तम ।
त्वत्प्रसादेन ते सोम्यास्तीर्थस्यास्य प्रभावतः ॥ ९२.२८ ॥
दानस्यास्य प्रभावेण यमराजप्रसादतः ।
नरकेऽहं न यास्यामि द्विज जन्मनि जन्मनि ॥ ९२.२९ ॥
यमहास्यस्य चाख्यानमिदं शृण्वन्ति ये नराः ।
तेऽपि पापविनिर्मुक्ता न पश्यन्ति यमालयम् ॥ ९२.३० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे यमहास्यतीर्थमाहात्म्यवर्णनं नाम द्विनवतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 93
अध्याय ९३
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र कल्होडीतीर्थमुत्तमम् ।
विख्यातं भारते लोके गङ्गायाः पापनाशनम् ॥ ९३.१ ॥
दुर्लभं मनुजैः पार्थ रेवातटसमाश्रितम् ।
प्राणिनां पापनाशाय ऊषरं पुष्करं तथा ॥ ९३.२ ॥
तत्तु तीर्थमिदं पुण्यमित्येवं शूलिनो वचः ।
जाह्नवी पशुरूपेण तत्र स्नानार्थमागता ॥ ९३.३ ॥
अतस्तद्विश्रुतं लोके कल्होडीतीर्थमुत्तमम् ।
त्रिरात्रं कारयेत्तत्र पूर्णिमायां युधिष्ठिर ॥ ९३.४ ॥
रजस्तमस्तथा क्रोधं दम्भं मात्सर्यमेव च ।
एतांस्त्यजति यः पार्थ तेनाप्तं मोक्षजं फलम् ॥ ९३.५ ॥
पयसा स्नापयेद्देवं त्रिसन्ध्यं च त्र्यहं तथा ।
पयो गोसम्भवं सद्यः सवत्सा जीवपुत्रिणी ॥ ९३.६ ॥
कृत्वा तत्ताम्रजे पात्रे क्षौद्रेण चैव योजिते ।
ओं नमः श्रीशिवायेति स्नानं देवस्य कारयेत् ॥ ९३.७ ॥
स याति त्रिदशस्थानं नाकस्त्रीभिः समावृतः ।
यस्तत्र विधिवत्स्नात्वा दानं प्रेतेषु यच्छति ॥ ९३.८ ॥
शुक्लां गां दापयेत्तत्र प्रीयतां मे पितामहाः ।
ब्राह्मणे शौचसम्पन्ने स्वदारनिरते सदा ॥ ९३.९ ॥
सवत्सां वस्त्रसंयुक्तां हिरण्योपरि संस्थिताम् ।
सत्त्वयुक्तो ददद्राजञ्छाम्भवं लोकमाप्नुयात् ॥ ९३.१० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कल्होडीतीर्थमाहात्म्यवर्णनं नाम त्रिनवतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 94
अध्याय ९४
श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं राजन्नन्दितीर्थं व्रजेच्छुभम् ।
सर्वपापहरं पुंसां नन्दिना निर्मितं पुरा ॥ ९४.१ ॥
पापौघहतजन्तूनां मोक्षदं नर्मदातटे ।
अहोरात्रोषितो भूत्वा नन्दिनाथे युधिष्ठिर ॥ ९४.२ ॥
पञ्चोपचारपूजायामर्चयेन्नन्दिकेश्वरम् ।
रत्नानि चैव विप्रेभ्यो यो दद्याद्धर्मनन्दन ॥ ९४.३ ॥
स याति परमं स्थानं यत्र वासः पिनाकिनः ।
सर्वसौख्यसमायुक्तोऽप्सरोभिः सह मोदते ॥ ९४.४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दिकेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्नवतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 95
अध्याय ९५
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र बदर्याश्रममुत्तमम् ।
सर्वतीर्थवरं पुण्यं कथितं शंभुना पुरा ॥ ९५.१ ॥
यश्चैष भारतस्यार्थे तत्र सिद्धः किरीटभृत् ।
भ्राता ते फाल्गुनो नाम विद्ध्येनं नरदैवतम् ॥ ९५.२ ॥
नरनारायणौ द्वौ तावागतौ नर्मदातटे ।
ज्ञानं तस्यैव यो राजन्भक्तिमान्वै जनार्दने ॥ ९५.३ ॥
समं पश्यति सर्वेषु स्थावरेषु चरेषु च ।
ब्राह्मणं श्वपचं चैव तत्र प्रीतो जनार्दनः ॥ ९५.४ ॥
ऐकात्म्यं पश्य कौन्तेय मयि चात्मनि नान्तरम् ।
नरनारायणाभ्यां हि कृतं बदरिकाश्रमम् ॥ ९५.५ ॥
स्थापितः शङ्करस्तत्र लोकानुग्रहकारणात् ।
त्रिमूर्तिस्थापितं लिङ्गं स्वर्गमार्गानुमुक्तिदम् ॥ ९५.६ ॥
तत्र गत्वा शुचिर्भूत्वा ह्येकरात्रोपवासकृत् ।
रजस्तमस्तथा त्यक्त्वा सात्त्विकं भावमाश्रयेत् ॥ ९५.७ ॥
रात्रौ जागरणं कृत्वा मधुमासाष्टमीदिने ।
अथवा च चतुर्दश्यामुभौ पक्षौ च कारयेत् ॥ ९५.८ ॥
आश्विनस्य विशेषेण कथितं तव पाण्डव ।
स्नापयेत्परया भक्त्या क्षीरेण मधुना सह ॥ ९५.९ ॥
दध्ना शर्करया युक्तं घृतेन समलंकृतम् ।
पञ्चामृतमिदं पुण्यं स्नापयेद्वृषभध्वजम् ॥ ९५.१० ॥
स्नाप्यमानं शिवं भक्त्या वीक्षते यो विमत्सरः ।
तस्य वासः शिवोपान्ते शक्रलोके न संशयः ॥ ९५.११ ॥
शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणिने ।
संसारमूलबद्धानामुद्वेष्टनकरो हि यः ॥ ९५.१२ ॥
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येनौं नमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः ॥ ९५.१३ ॥
यः पुनः स्नापयेद्भक्त्या एकभक्तो जितेन्द्रियः ।
तस्यापि यत्फलं पार्थ वक्ष्ये तल्लेशतस्तव ॥ ९५.१४ ॥
पीडितो वृद्धभावेन तव भक्त्या वदाम्यहम् ।
ते यान्ति परमं स्थानं भित्त्वा भास्करमण्डलम् ॥ ९५.१५ ॥
संसारे सर्वसौख्यानां निलयास्ते भवन्ति च ।
आश्चर्यं ज्ञातिवर्गाणां धर्माणां निलयास्तु ते ॥ ९५.१६ ॥
सम्पन्नाः सर्वकामैस्ते पृथिव्यां पृथिवीपते ।
श्राद्धं तत्रैव यः कुर्यान्नर्मदोदकमिश्रितम् ॥ ९५.१७ ॥
योग्यैश्च ब्राह्मणैर्राजन्कुलीनैर्वेदपारगैः ।
सुरूपैश्च सुशीलैश्च स्वदारनिरतैः शुभैः ॥ ९५.१८ ॥
आर्यदेशप्रसूतैश्च श्लक्ष्णैश्चैव सुरूपिभिः ।
कारयेत्पिण्डदानं वै भास्करे कुतपस्थिते ॥ ९५.१९ ॥
पित्ःणां परमं लोकं यदीच्छेद्धर्मनन्दन ।
वर्जयेत्तान्प्रयत्नेन काणान्दुष्टांश्च दाम्भिकान् ॥ ९५.२० ॥
तस्मात्सर्वप्रयत्नेन योग्यं विप्रं समाश्रयेत् ।
नरकान्मोचयेत्प्रेतान्कुम्भीपाकपुरोगमान् ॥ ९५.२१ ॥
मोक्षो भवति सर्वेषां पित्ःणां नृपनन्दन ।
विप्रेभ्यः काञ्चनं दद्यात्प्रीयतां मे पितामहः ॥ ९५.२२ ॥
अन्नं च दापयेत्तत्र भक्त्या वस्त्रं च भारत ।
गां वृषं मेदिनीं दद्याच्छत्रं शस्तं नृपोत्तम ॥ ९५.२३ ॥
स पुमान्स्वर्गमाप्नोति इत्येवं शङ्करोऽब्रवीत् ।
प्राणत्यागं तु यः कुर्याच्छिखिना सलिलेन वा ॥ ९५.२४ ॥
अनाशकेन वा भूयः स गच्छेच्छिवमन्दिरम् ।
नरनारायणीतीरे देवद्रोण्यां च यो नृप ॥ ९५.२५ ॥
स वसेदीश्वरस्याग्रे यावदिन्द्राश्चतुर्दश ।
पुनः स्वर्गाच्च्युतः सोऽपि राजा भवति वीर्यवान् ॥ ९५.२६ ॥
सर्वैश्वर्यगुणैर्युक्तः प्रजापालनतत्परः ।
ततः स्मरति तत्तीर्थं पुनरेवागमिष्यति ॥ ९५.२७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नारायणीतीर्थमाहात्म्यवर्णनं नाम पञ्चनवतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 96
अध्याय ९६
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थं कोटीश्वरं परम् ।
ऋषिकोटिः समायाता यत्र वै कुरुनन्दन ॥ ९६.१ ॥
कृष्णद्वैपायनस्यैव क्षेमार्थं मुनिपुंगवाः ।
मन्त्रयित्वा द्विजैः सर्वैर्वेदमङ्गलपाठकैः ॥ ९६.२ ॥
स्थापितः शङ्करस्तत्र कारणं बन्धनाशनम् ।
संसारच्छेदकरणं प्राणिनामार्तिनाशनम् ॥ ९६.३ ॥
कोटीश्वरमिति प्रोक्तं पृथिव्यां नृपनन्दन ।
स्नापयेत्तं तु यो भक्त्या पूर्णिमायां नृपोत्तम ॥ ९६.४ ॥
पित्ःणां तर्पणं कृत्वा पिण्डदानं यथाविधि ।
श्रावणस्य विशेषेण पूर्णिमायां युधिष्ठिर ॥ ९६.५ ॥
पित्ःणामक्षया तृप्तिर्यावदाभूतसम्प्लवम् ।
पित्ःणां परमं गुह्यं रेवातटसमाश्रितम् ।
मोक्षदं सर्वजन्तूनां निर्मितं मुनिसत्तमैः ॥ ९६.६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटीश्वरतीर्थमाहात्म्यवर्णनं नाम षण्णवतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 97
अध्याय ९७
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल व्यासतीर्थमनुत्तमम् ।
दुर्लभं मनुजैः पुण्यमन्तरिक्षे व्यवस्थितम् ॥ ९७.१ ॥
युधिष्ठिर उवाच -
कस्माद्वै व्यासतीर्थं तदन्तरिक्षे व्यवस्थितम् ।
एतदाख्याहि संक्षेपात्त्यज ग्रन्थस्य विस्तरम् ॥ ९७.२ ॥
श्रीमार्कण्डेय उवाच -
साधु साधु महाबाहो धर्मवान्साधुवत्सल ।
स्वकर्मनिरतः पार्थ तीर्थयात्राकृतादरः ॥ ९७.३ ॥
दुर्लभं सर्वजन्तूनां व्यासतीर्थं नरेश्वर ।
पीडितो वृद्धभावेन अकल्पोऽहं नृपात्मज ॥ ९७.४ ॥
विसंज्ञो गतवित्तस्तु संजातः स्मृतिवर्जितः ।
गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया ॥ ९७.५ ॥
कलिस्तत्रैव राजेन्द्र न विशेद्व्याससंश्रयात् ।
अन्तरिक्षे तु संजातं रेवायाश्चेष्टितेन तु ॥ ९७.६ ॥
विरिञ्चिर्नैव शक्नोति रेवाया गुणकीर्तनम् ।
कथं ज्ञास्याम्यहं तात रेवामाहात्म्यमुत्तमम् ॥ ९७.७ ॥
व्यासतीर्थं विशेषेण लवमात्रं ब्रवीम्यतः ।
प्रत्यक्षः प्रत्ययो यत्र दृश्यतेऽद्य कलौ युगे ॥ ९७.८ ॥
विहङ्गो गच्छते नैव भित्त्वा शूलं सुदारुणम् ।
तस्योत्पत्तिं समासेन कथयामि नृपात्मज ॥ ९७.९ ॥
आसीत्पूर्वं महीपाल मुनिर्मान्यः पराशरः ।
तेनात्युग्रं तपश्चीर्णं गङ्गाम्भसि महाफलम् ॥ ९७.१० ॥
प्राणायामेन संतस्थौ प्रविष्टो जाह्नवीजले ।
पूर्णे द्वादशमे वर्षे निष्क्रान्तो जलमध्यतः ॥ ९७.११ ॥
भिक्षार्थी संचरेद्ग्रामं नावा यत्रैव तिष्ठति ।
तत्र तेन परा दृष्टा बाला चैव मनोहरा ॥ ९७.१२ ॥
तां दृष्ट्वा स च कामार्त उवाच मधुरं तदा ।
मां नयस्व परं पारं कासि त्वं मृगलोचने ॥ ९७.१३ ॥
नावारूढे नदीतीरे मम चित्तप्रमाथिनि ।
एवमुक्ता तु सा तेन प्रणम्य ऋषिपुंगवम् ॥ ९७.१४ ॥
कथयामास चात्मानं दृष्ट्वा तं काममोहितम् ।
कैवर्तानां गृहे दासी कन्याहं द्विजसत्तम ॥ ९७.१५ ॥
नावासंरक्षणार्थाय आदिष्टा स्वामिना विभो ।
मया विज्ञापितं वृत्तमशेषं ज्ञातुमर्हसि ॥ ९७.१६ ॥
एवमुक्तस्तया सोऽथ क्षणं ध्यात्वाब्रवीदिदम् ॥ ९७.१७ ॥
पराशर उवाच -
अहं ज्ञानबलाद्भद्रे तव जानामि सम्भवम् ।
कैवर्तपुत्रिका न त्वं राजकन्यासि सुन्दरि ॥ ९७.१८ ॥
कन्योवाच -
कः पिता कथ्यतां ब्रह्मन्कस्या वा ह्युदरोद्भवा ।
कस्मिन्वंशे प्रसूताहं कैवर्ततनया कथम् ॥ ९७.१९ ॥
पराशर उवाच -
कथयामि समस्तं यत्त्वया पृष्टमशेषतः ।
वसुर्नामेति भूपालः सोमवंशविभूषणः ॥ ९७.२० ॥
जम्बूद्वीपाधिपो भद्रे शत्रूणां भयवर्धनः ।
शतानि सप्त भार्याणां पुत्राणां च दशैव तु ॥ ९७.२१ ॥
धर्मेण पालयेल्लोकानीशवत्पूज्यते सदा ।
म्लेच्छास्तस्याविधेयाश्च क्षीरद्वीपनिवासिनः ॥ ९७.२२ ॥
तेषामुत्सादनार्थाय ययावुल्लङ्घ्य सागरम् ।
संयुक्तः पुत्रभृत्यैश्च पौरुषे महति स्थितैः ॥ ९७.२३ ॥
समरं तैः समारब्धं म्लेच्छैश्च वसुना सह ।
जिता म्लेच्छाः समस्तास्ते वसुना मृगलोचने ॥ ९७.२४ ॥
करदास्ते कृतास्तेन सपुत्रबलवाहनाः ।
प्रधाना तस्य सा राज्ञी तव माता मृगेक्षणे ॥ ९७.२५ ॥
प्रवासस्थे महीपाले संजाता सा रजस्वला ।
नारीणां तु सदाकालं मन्मथो ह्यधिको भवेत् ॥ ९७.२६ ॥
विशेषेण ऋतोः काले भिद्यन्ते कामसायकैः ।
मन्मथेन तु संतप्ताचिन्तयत्सा शुभेक्षणा ॥ ९७.२७ ॥
दूतं वै प्रेषयाम्यद्य वसुराज्ञः समीपतः ।
आहूतः सत्वरं दूत गच्छ त्वं नृपसन्निधौ ॥ ९७.२८ ॥
दूत उवाच -
परतीरं गतो देवि वसुराजारिशासनः ।
तत्र गन्तुमशक्येत जलयानैर्विना शुभे ॥ ९७.२९ ॥
तानि यानानि सर्वाणि गृहीतानि परे तटे ।
दूतवाक्येन सा राज्ञी विषण्णा कामपीडिता ॥ ९७.३० ॥
तत्सखी तामुवाचाथ कस्मात्त्वं परितप्यसे ।
स्वलेखः प्रेष्यतां देवि शुकहस्ते यथार्थतः ॥ ९७.३१ ॥
समुद्रं लङ्घयित्वा तु शकुन्ता यान्ति सुन्दरि ।
सखिवाक्येन सा राज्ञी स्वस्था जाता नराधिप ॥ ९७.३२ ॥
व्याहृतो लेखकस्तत्र लिख लेखं ममाज्ञया ।
त्वद्धीना सत्यभामाद्य वसो राजन्न जीवति ॥ ९७.३३ ॥
ऋतुकालोऽद्य संजातो लिख लेखं तु लेखकं ।
लिखिते भूर्जपत्रे तु लेखे वै लेखकेन तु ॥ ९७.३४ ॥
शुकः पञ्जरमध्यस्थ आनीतोद्धैव सन्निधौ ॥ ९७.३५ ॥
सत्यभामोवाच -
नीत्वा लेखं गच्छ शीघ्रं वसुराज्ञः समीपतः ।
शकुनिः प्रणतो भूत्वा गृहीत्वा लेखमुत्तमम् ॥ ९७.३६ ॥
उत्पत्य सहसा राजञ्जगामाकाशमण्डलम् ।
ततः पक्षी गतः शीघ्रं वसुराजसमीपतः ॥ ९७.३७ ॥
क्षिप्ते लेखे शुकेनैव सत्यभामाविसर्जिते ।
वसुराज्ञा ततो लेखो गृह्य हस्तेऽवधारितः ॥ ९७.३८ ॥
लेखार्थं चिन्तयित्वा तु गृह्य वीर्यं नरेश्वरः ।
अमोघं पुटिकां कृत्वा प्रतिलेखेन मिश्रितम् ॥ ९७.३९ ॥
शुकस्य सोऽपयामास गच्छ राज्ञीसमीपतः ।
प्रणम्य वसुराजानं बीजं गृह्योत्पपात ह ॥ ९७.४० ॥
समुद्रोपरि सम्प्राप्तः शुकः श्येनेन वीक्षितः ।
सामिषं तं शुकं ज्ञात्वा श्येनस्तमभ्यधावत ॥ ९७.४१ ॥
हतश्चञ्चुप्रहारेण शुकः श्येनेन भारत ।
मूर्च्छया तस्य तद्बीजं पतितं सागराम्भसि ॥ ९७.४२ ॥
मत्स्येन गिलितं तच्च बीजं वसुमहीपतेः ।
कन्या मत्स्योदरे जाता तेन बीजेन सुन्दरि ॥ ९७.४३ ॥
प्राप्तोऽसौ लुब्धकैर्मत्स्य आनीतः स्वगृहं ततः ।
यावद्विदारितो मत्स्यस्तावद्दृष्टा त्वमुत्तमे ॥ ९७.४४ ॥
शशिमण्डलसङ्काशा सूर्यतेजःसमप्रभा ।
दृष्ट्वा त्वां हर्षिताः सर्वे कैवर्ता जाह्नवीतटे ॥ ९७.४५ ॥
हर्षितास्ते गताः सर्वे प्रधानस्य च मन्दिरम् ।
स्त्रीरत्नं कथयामासुर्गृहाण त्वं महाप्रभम् ॥ ९७.४६ ॥
गृहीता तेन तन्वङ्गी ह्यपुत्रेण मृगेक्षणा ।
भार्यां स्वामाह तन्वङ्गि पालयस्व मृगेक्षणे ॥ ९७.४७ ॥
ततः सा चिन्तयामास पराशरवचस्तदा ।
एवमुक्त्वा तु सा तेन दत्तात्मानं नरेश्वर ॥ ९७.४८ ॥
उवाच साधु मे ब्रह्मन्मत्स्यगन्धोऽनु वर्तते ।
ततस्तेन तु सा बाला दिव्यगन्धाधिवासिता ॥ ९७.४९ ॥
कृता योगबलेनैव ज्वालयित्वा विभावसुम् ।
कृत्वा प्रदक्षिणं वह्निमूढा तेन रसात्तदा ॥ ९७.५० ॥
जलयानस्य मध्ये तु कामस्थानान्यसंस्पृशत् ।
ज्ञात्वा कामोत्सुकं विप्रं भीता सा धर्मनन्दन ॥ ९७.५१ ॥
हसन्ती तमुवाचाथ देव त्वं लोकसन्निधौ ।
न लज्जसे कथं धीमन्कुर्वाणः पामरोचितम् ॥ ९७.५२ ॥
ततस्तेन क्षणं ध्यात्वा संस्मृता हृदि तामसी ।
आगता तामसी माया यया व्याप्तं चराचरम् ॥ ९७.५३ ॥
ततः सा विस्मिता तेन कर्मणैव तु रञ्जिता ।
ब्रह्मचर्याभितप्तेन स्त्रीसौख्यं क्रीडितं तदा ॥ ९७.५४ ॥
ततः सा तत्क्षणादेव गर्भभारेण पीडिता ।
प्रसूता बालकं तत्र जटिलं दण्डधारिणम् ॥ ९७.५५ ॥
कमण्डलुधरं शान्तं मेखलाकटिभूषितम् ।
उत्तरीयकृतस्कन्धं विष्णुमायाविवर्जितम् ॥ ९७.५६ ॥
ततोऽपि शङ्किता पार्थ दृष्ट्वा तं कलबालकम् ।
वेपमाना ततो बाला जगाम शरणं मुनेः ॥ ९७.५७ ॥
रक्ष रक्ष मुनिश्रेष्ठ पराशर महामते ।
जातं मेऽत्यद्भुतं पुत्रं कौपीनवरमेखलम् ।
दण्डहस्तं जटायुक्तमुत्तरीयविभूषितम् ॥ ९७.५८ ॥
पराशर उवाच -
मा भैषीः स्वसुते जाते कुमारी त्वं भविष्यसि ।
नाम्ना योजनगन्धेति द्वितीयं सत्यवत्यपि ॥ ९७.५९ ॥
शंतनुर्नाम राजा यः स ते भर्ता भविष्यति ।
प्रथमा महिषी तस्य सोमवंशविभूषणा ॥ ९७.६० ॥
गच्छ त्वं स्वाश्रयं शुभ्रे पूर्वरूपेण संस्थिता ।
मा विषादं कुरुष्वात्र दृष्टं ज्ञानस्य मे बलम् ॥ ९७.६१ ॥
इत्युक्त्वा प्रययौ विप्रः सा बाला पुत्रमाश्रिता ।
नत्वोचे मातरं भक्त्या साष्टाङ्गं विनयानतः ॥ ९७.६२ ॥
क्षम्यतां मातरुक्तं मे प्रसादः क्रियतामपि ।
ईश्वराराधने यत्नं करिष्याम्यहमम्बिके ॥ ९७.६३ ॥
ततः सा पुत्रवाक्येन विषण्णा वाक्यमब्रवीत् ॥ ९७.६४ ॥
योजनगन्धोवाच -
मा त्यक्त्वा गच्छ वत्साद्य मातरं मामनागसम् ।
त्वद्वियोगेन मे पुत्र पञ्चत्वं भाव्यसंशयम् ॥ ९७.६५ ॥
नास्ति पुत्रसमः स्नेहो नास्ति भ्रातृसमं कुलम् ।
नास्ति सत्यपरो धर्मो नानृतात्पातकं परम् ॥ ९७.६६ ॥
बालभावे मया जात आधारः किल जायसे ।
न मे भर्ता न मे पुत्रः पश्य कर्मविडम्बनम् ॥ ९७.६७ ॥
व्यास उवाच -
मा विषादं कुरुष्वान्तः सत्यमेतन्मयोरितम् ।
आपत्कालेऽस्मि ते देवि स्मर्तव्यः कार्यसिद्धये ॥ ९७.६८ ॥
आपदस्तारयिष्यामि क्षम्यतां मे दुरुत्तरम् ।
इत्युक्त्वा प्रययौ व्यासः कन्या सापि गता गृहम् ॥ ९७.६९ ॥
पराशरसुतस्तत्र विषष्णो वनमध्यतः ।
त्रेतायुगावसाने तु द्वापरादौ नरेश्वर ॥ ९७.७० ॥
व्यासार्थं चिन्तयामासुर्देवाः शक्रपुरोगमाः ।
आख्यातो नारदेनैव पुत्रः पराशरस्य सः ॥ ९७.७१ ॥
कैवर्तपुत्रिकाजातो ज्ञानी जह्नुसुतातटे ।
ततो नारदवाक्येन आगताः सुरसत्तमाः ॥ ९७.७२ ॥
रामः पितामहः शक्रो मुनिसङ्घैः समावृताः ।
आस्यादिकं पृथग्दत्त्वा साधु साध्वित्युदीरयन् ॥ ९७.७३ ॥
पितामहेन वै बालो गर्भाधानादिसंस्कृतः ।
द्वीपायनो द्वीपजन्मा पाराशर्यः पराशरात् ॥ ९७.७४ ॥
कृष्णांशात्कृष्णनामायं व्यासो वेदान्व्यसिष्यति ।
विरञ्चिनाभिषिक्तोऽसौ मुनिसङ्घैः पुनःपुनः ॥ ९७.७५ ॥
व्यासस्त्वं सर्वलोकेषु इत्युक्त्वा प्रययुः सुराः ।
तीर्थयात्रा समारब्धा कृष्णद्वैपायनेन तु ॥ ९७.७६ ॥
गङ्गावगाहिता तेन केदारश्च सपुष्करः ।
गया च नैमिषं तीर्थं कुरुक्षेत्रं सरस्वती ॥ ९७.७७ ॥
उज्जयिन्यां महाकालं सोमनाथं प्रभासके ।
पृथिव्यां सागरान्तायां स्नात्वा यातो महामुनिः ॥ ९७.७८ ॥
अमृतां नर्मदां प्राप्तो रुद्रदेहोद्भवां शुभाम् ।
साह्लादो नर्मदां दृष्ट्वा चित्तविश्रान्तिमाप च ॥ ९७.७९ ॥
तपश्चचार विपुलं नर्मदातटमाश्रितः ।
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ॥ ९७.८० ॥
सार्द्रवासाश्च हेमन्ते तिष्ठन्दध्यौ महेश्वरम् ।
स्वान्तर्हृत्कमले स्थाप्य ध्यायते परमेश्वरम् ॥ ९७.८१ ॥
सृष्टिसंहारकर्तारमछेद्यं वरदं शुभम् ।
नित्यं सिद्धेश्वरं लिङ्गं पूजयेद्ध्यानतत्परः ॥ ९७.८२ ॥
अर्चनात्सिद्धलिङ्गस्य ध्यानयोगप्रभावतः ।
प्रत्यक्षः शङ्करो जातः कृष्णद्वैपायनस्य सः ॥ ९७.८३ ॥
ईश्वर उवाच -
तोषितोऽहं त्वया वत्स वरं वरय शोभनम् ॥ ९७.८४ ॥
व्यास उवाच -
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ।
प्रत्यक्षो नर्मदातीरे स्वयमेव भविष्यसि ।
अतीतानागतज्ञोऽहं त्वत्प्रसादादुमापते ॥ ९७.८५ ॥
ईश्वर उवाच -
एवं भवतु ते पुत्र मत्प्रसादादसंशयम् ।
त्वयि भक्तिगृहीतोऽहं प्रत्यक्षो नर्मदातटे ॥ ९७.८६ ॥
सहस्रांशार्धभावेन प्रत्यक्षोऽहं त्वदाश्रमे ।
इत्युक्त्वा प्रययौ देवः कैलासं नगमुत्तमम् ॥ ९७.८७ ॥
पत्नीसंग्रहणं जातं कृष्णद्वैपायनस्य तु ।
शास्त्रोक्तेन विधानेन पत्नी पालयतस्तथा ॥ ९७.८८ ॥
पुत्रो जातो ह्यपुत्रस्य पराशरसुतस्य च ।
देवैर्वर्धापितः सर्वैरिञ्चेन्द्रपुरोगमैः ॥ ९७.८९ ॥
पुत्रजन्मन्यथाजग्मुर्वशिष्ठाद्या मुनीश्वराः ।
तीर्थयात्राप्रसङ्गेन पराशरपुरोगमाः ॥ ९७.९० ॥
मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः ।
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥ ९७.९१ ॥
एवमादिसहस्राणि लक्षकोटिशतानि च ।
सशिष्याश्च महाभागा नर्मदातटमाश्रिताः ॥ ९७.९२ ॥
व्यासाश्रमे शुभे रम्ये संतुष्टा आययुर्नृप ।
दृष्ट्वा तान्सोऽपि विप्रेन्द्रानभ्युत्थानकृतोद्यमः ॥ ९७.९३ ॥
पितुः पूर्वं प्रणम्यादौ सर्वेषां च यथाविधि ।
आसनानि ददौ भक्त्या पाद्यमर्घं न्यवेदयत् ॥ ९७.९४ ॥
कृताञ्जलिपुटो भूत्वा वाक्यमेतदुवाच ह ।
उद्धृतोऽहं न सन्देहो युष्मत्सम्भाषणार्चनात् ॥ ९७.९५ ॥
आरण्यानि च शाकानि फलान्यारण्यजानि च ।
तानि दास्यामि युष्माकं सर्वेषां प्रीतिपूर्वकम् ॥ ९७.९६ ॥
न्यमन्त्रयत तान्सर्वान्प्रत्येकं प्रणिपत्य च ।
ततस्ते प्रणतं दृष्ट्वा कृष्णद्वैपायनं मुनिम् ॥ ९७.९७ ॥
वर्धयित्वा जयाशीर्भिरवलोक्य परस्परम् ।
पराशरः समस्तैश्च वीक्षितो मुनिपुंगवैः ॥ ९७.९८ ॥
उत्तरं दीयतां तात कृष्णद्वैपायनस्य च ।
एवमुक्तस्तु तैः सर्वैर्भगवान्स पराशरः ।
प्रोवाच स्वात्मजं व्यासमृषीणां यच्चिकीर्षितम् ॥ ९७.९९ ॥
श्रीपराशर उवाच -
नेच्छन्ति दक्षिणे कूले व्रतभङ्गभयादथ ।
भोजनं भोक्तुकामास्ते श्राद्धे चैव विशेषतः ॥ ९७.१०० ॥
व्यास उवाच -
करोमि भवतामुक्तमत्रैव स्थीयतां क्षणम् ।
यावत्प्रसाद्य सरितं करोमि विधिमुत्तमम् ॥ ९७.१०१ ॥
एवमुक्त्वा शुचिर्भूत्वा नर्मदातटमास्थितः ।
स्तोत्रं जगाद सहसा तन्निबोध नरेश्वर ॥ ९७.१०२ ॥
जय भगवति देवि नमो वरदे जय पापविनाशिनी बहुफलदे ।
जय शुम्भनिशुम्भकपालधरे प्रणमामि तु देवनरार्तिहरे ॥ ९७.१०३ ॥
जय चन्द्रदिवाकरनेत्रधरे जय पावकभूषितवक्त्रवरे ।
जय भैरवदेहनिलीनपरे जय अन्धकरक्तविशोषकरे ॥ ९७.१०४ ॥
जय महिषविमर्दिनि शूलकरे जय लोकसमस्तकपापहरे ।
जय देवि पितामहरामनते जय भास्करशक्रशिरोऽवनते ॥ ९७.१०५ ॥
जय षण्मुखसायुध ईशनुते जय सागरगामिनि शम्भुनुते ।
जय दुःखदरिद्रविनाशकरे जय पुत्रकलत्रविवृद्धिकरे ॥ ९७.१०६ ॥
जय देवि समस्तशरीरधरे जय नाकविदर्शिनि दुःखहरे ।
जय व्याधिविनाशिनि मोक्षकरे जय वाञ्छितदायिनि सिद्धवरे ॥ ९७.१०७ ॥
एतद्व्यासकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।
गृहे वा शुद्धभावेन कामक्रोधविवर्जितः ॥ ९७.१०८ ॥
तस्य व्यासो भवेत्प्रीतः प्रीतश्च वृषवाहनः ।
प्रीता स्यान्नर्मदा देवी सर्वपापक्षयंकरी ॥ ९७.१०९ ॥
न ते यान्ति यमालोकं यैः स्तुता भुवि नर्मदा ।
पितामहोऽपि मुह्येत देवि त्वद्गुणकीर्तनात् ॥ ९७.११० ॥
वाक्पतिर्नैव ते वक्तुं स्वरूपं वेद नर्मदे ।
कथं गुणानहं देवि त्वदीयाञ्ज्ञातुमुत्सहे ॥ ९७.१११ ॥
इति ज्ञात्वा शुचिं भावं वाङ्मनःकायकर्मभिः ।
प्रसन्ना नर्मदादेवी ततो वचनमब्रवीत् ॥ ९७.११२ ॥
सत्यवादेन तुष्टाहं भोभो व्यास महामुने ।
यदीच्छसि वरं किंचित्तं ते सर्वं ददाम्यहम् ॥ ९७.११३ ॥
व्यास उवाच -
यदि तुष्टासि मे देवि यदि देयो वरो मम ।
आतिथ्यमुत्तरे कूले ऋषीणां दातुमर्हसि ॥ ९७.११४ ॥
नर्मदोवाच -
अयुक्तं याचितं व्यास विमार्गे यत्प्रवर्तनम् ।
इन्द्रचन्द्रयमैः शक्यमुन्मार्गे न प्रवर्तितुम् ॥ ९७.११५ ॥
याचस्वान्यं वरं पुत्र यत्किंचिद्भुवि दुर्लभम् ।
एतच्छ्रुत्वा वचो देव्या व्यासो मूर्च्छां यतस्तदा ॥ ९७.११६ ॥
वृथा क्लेशोऽद्य मे जात इति मत्वा पपात ह ।
धरणी चलिता सर्वा सशैलवनकानना ॥ ९७.११७ ॥
मूर्च्छापन्नं ततो व्यासं दृष्ट्वा देवाः सवासवाः ।
हाहाकारमुखाः सर्वे तत्राजग्मुः सहस्रशः ॥ ९७.११८ ॥
व्यासमुत्थापयामासुर्वेदव्यसनतत्परम् ।
ब्राह्मणार्थे च संक्लिष्टो नात्महेतोः सरिद्वरे ॥ ९७.११९ ॥
गवार्थे ब्राह्मणार्थे च सद्यः प्राणान्परित्यजेत् ।
एवं सा नर्मदा प्रोक्ता ब्रह्माद्यैः सुरसत्तमैः ॥ ९७.१२० ॥
सुशीतलैस्तं बहुभिश्च वातैर्रेवाभ्यषिञ्चत्स्वजलेन भीता ।
सचेतनः सत्यवतीसुतोऽपि प्रणम्य देवान्सरितं जगाद ॥ ९७.१२१ ॥
व्यास उवाच -
तीर्थैः समस्तैः किल सेवनाय फलं प्रदिष्टं मम मन्दभाग्यात् ।
यद्देवि पुण्या विफला ममाशा आरण्यपुष्पाणि यथा जनानाम् ॥ ९७.१२२ ॥
नर्मदोवाच -
यतो यतो मां हि महानुभाव निनीषते चित्तमिलातलेऽत्र ।
विन्ध्येन सार्द्धं तव मार्गमद्य यास्याम्यहं दण्डधरस्य पृष्ठे ॥ ९७.१२३ ॥
एवमुक्तो महातेजा व्यासः सत्यवतीसुतः ।
दक्षिणे चालयामास स्वाश्रमस्य सरिद्वराम् ॥ ९७.१२४ ॥
दण्डहस्तो महातेजा हुङ्कारमकरोन्मुनिः ।
व्यासहुङ्कारभीता सा चलिता रुद्रनन्दिनी ॥ ९७.१२५ ॥
दण्डेन दर्शयन्मार्गं देवी तत्र प्रवर्तिता ।
व्यासमार्गं गता देवी दृष्टा शक्रपुरोगमैः ॥ ९७.१२६ ॥
पुष्पवृष्टिं ततो देवा व्यमुञ्चन् सह किंकरैः ।
किं कुर्मो ब्रूहि मे पुत्र कर्मणा ते स्म रञ्जिताः ॥ ९७.१२७ ॥
व्यास उवाच -
तपश्च विपुलं कृत्वा दानं दत्त्वा महाफलम् ।
एतदेव नरैः कार्यं साधूनां यत्सुखावहम् ॥ ९७.१२८ ॥
यदि तुष्टा महाभागा अनुग्राह्यो ह्यहं यदि ।
तस्मान्ममाश्रमे सर्वैः स्थीयतां नात्र संशयः ॥ ९७.१२९ ॥
आतिथ्यं शाकपर्णेन रेवामृतविमिश्रितम् ।
प्रतिपन्नं समस्तैर्वः पराशरमुखैर्मम ।
स्थातव्यं स्वाश्रमे सर्वैर्रेवाया उत्तरे तटे ॥ ९७.१३० ॥
मार्कण्डेय उवाच -
स्नानतर्पणनित्यानि कृतानि द्विजसत्तमैः ।
व्यासकुण्डे ततो गत्वा होमः सर्वैः प्रकल्पितः ॥ ९७.१३१ ॥
श्रीफलैर्बिल्वपत्रैश्च जुहुवुर्जातवेदसम् ।
गौतमो भृगुर्माण्डव्यो नारदो लोमशस्तथा ॥ ९७.१३२ ॥
पराशरस्तथा शङ्खः कौशिकश्च्यवनो मुनिः ।
पिप्पलादो वसिष्ठश्च नाचिकेतो महातपाः ॥ ९७.१३३ ॥
विश्वामित्रोऽप्यगस्त्यश्च उद्दालकयमौ तथा ।
शाण्डिल्यो जैमिनिः कण्वो याज्ञवल्क्योशनोऽङ्गिराः ॥ ९७.१३४ ॥
शातातपो दधीचिश्च कपिलो गालवस्तथा ।
जैगीषव्यस्तथा दक्षो भरतो मुद्गलस्तथा ॥ ९७.१३५ ॥
वात्स्यायनो महातेजाः संवर्तः शक्तिरेव च ।
जातूकर्ण्यो भरद्वाजो वालखिल्यारुणिस्तथा ॥ ९७.१३६ ॥
एवमादिसहस्राणि जुह्वते जातवेदसम् ।
अक्षमालाकरोत्कीर्णा ध्यानयोगपरायणाः ॥ ९७.१३७ ॥
एकचित्ता द्विजाः सर्वे चक्रुर्होमक्रियां तदा ।
ततः समुत्थितं लिङ्गं मोक्षदं व्याधिनाशनम् ॥ ९७.१३८ ॥
अच्छेद्यं परमं देवं दृष्ट्वा व्यासस्तुतोष च ।
पुष्पवृष्टिं ददुर्देवा आशीर्वादान्द्विजोत्तमाः ॥ ९७.१३९ ॥
साष्टाङ्गं प्रणतो व्यासो देवं दृष्ट्वा त्रिलोचनम् ।
ब्राह्मणान्पूजयामास शाकमूलफलेन च ॥ ९७.१४० ॥
पितृपूर्वं द्विजाः सर्वे भोजिताः पाण्डुनन्दन ।
आशीर्वादांस्ततः पुण्यान् दत्त्वा विप्रा ययुः पुनः ॥ ९७.१४१ ॥
तदा प्रभृति तत्तीर्थं व्यासाख्यं प्रोच्यते बुधैः ॥ ९७.१४२ ॥
युधिष्ठिर उवाच -
व्यासतीर्थस्य यत्पुण्यं तत्सर्वं कथयस्व मे ।
स्नानदानविधानं च यस्मिन्काले महाफलम् ॥ ९७.१४३ ॥
श्रीमार्कण्डेय उवाच -
कथयामि समस्तं ते भ्रातृभिः सह पाण्डव ।
कार्त्तिकस्य सिते पक्षे चतुर्दश्यां जितेन्द्रियः ॥ ९७.१४४ ॥
उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम् ।
स्नापयेदीश्वरं भक्त्या क्षौद्रक्षीरेण सर्पिषा ॥ ९७.१४५ ॥
दध्ना च खण्डयुक्तेन कुशतोयेन वै पुनः ।
श्रीखण्डेन सुगन्धेन गुण्ठयेत्परमेश्वरम् ॥ ९७.१४६ ॥
ततः सुगन्धकुसुमैर्बिल्वपत्रैश्च पूजयेत् ।
मुचुकुन्देन कुन्देन कुशजातीप्रसूनकैः ॥ ९७.१४७ ॥
उन्मत्तमुनिपुष्पैश्च तथान्यैः कालसम्भवैः ।
अर्चयेत्परया भक्त्या द्वीपेश्वरमनुत्तमम् ॥ ९७.१४८ ॥
इक्षुगडुकदानेन तुष्यते परमेश्वरः ।
गडुकाष्टकदानेन पातकं यात्यहोर्जितम् ॥ ९७.१४९ ॥
मासर्जितं च नश्येत गडुकाष्टशतेन च ।
षाण्मासिकं सहस्रेण द्विगुणैरब्दिकं तथा ॥ ९७.१५० ॥
आजन्मजनितं पापमयुतेन प्रणश्यति ।
द्विगुणैर्नश्यते व्याधिस्त्रिगुणैः स्याद्धनागमः ॥ ९७.१५१ ॥
षड्गुणैर्जायते वाग्मी सिद्धस्तद्द्विगुणैस्तथा ।
रुद्रत्वं दशलक्षैश्च जायते नात्र संशयः ॥ ९७.१५२ ॥
पौर्णमास्यां नृपश्रेष्ठ स्नानं कुर्वीत भक्तितः ।
मन्त्रोक्तेन विधानेन सर्वपापक्षयंकरम् ॥ ९७.१५३ ॥
वारुणं च तथाग्नेयं ब्राह्मयं चैवाक्षयंकरम् ।
देवान्पित्ःन्मनुष्यांश्च विधिवत्तर्पयेद्बुधः ॥ ९७.१५४ ॥
ऋचा ऋग्वेदजं पुण्यं साम्ना सामफलं लभेत् ।
यजुर्वेदस्य यजुषा गायत्र्या सर्वमाप्नुयात् ॥ ९७.१५५ ॥
अक्षरं च जपेन्मन्त्रं सौरं वा शिवदैवतम् ।
अथवा वैष्णवं मन्त्रं द्वादशाक्षरसंज्ञितम् ॥ ९७.१५६ ॥
पूजयेद्ब्राह्मणान्भक्त्या सर्वलक्षणलक्षितान् ।
स्वदारनिरतान्विप्रान्दम्भलोभविवर्जितान् ॥ ९७.१५७ ॥
भिन्नवृत्तिकरान् पापान् पतिताञ्छूद्रसेवनान् ।
शूद्रीग्रहणसंयुक्तान्वृषली यस्य मन्दिरे ॥ ९७.१५८ ॥
परोक्षवादिनो दुष्टान्गुरुनिन्दापरायणान् ।
वेदद्वेषणशीलांश्च हैतुकान् बकवृत्तिकान् ॥ ९७.१५९ ॥
ईदृशान्वर्जयेच्छ्राद्धे दाने सर्वव्रतेषु च ।
गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः ॥ ९७.१६० ॥
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ।
ईदृशान्पूजयेद्विप्रानन्नदानहिरण्यतः ॥ ९७.१६१ ॥
उपानहौ च वस्त्राणि शय्यां छत्रमथासनम् ।
यो दद्याद्ब्राह्मणे भक्त्या सोऽपि स्वर्गे महीयते ॥ ९७.१६२ ॥
प्रत्यक्षा सुरभी तत्र जलधेनुस्तथाघृता ।
तिलधेनुः प्रदातव्या महिष्यश्च तथैव च ॥ ९७.१६३ ॥
कृष्णाजिनप्रदाता यो दाता यस्तिलसर्पिषोः ।
कन्यापुस्तकयोर्दाता सोऽक्षयं लोकमाप्नुयात् ॥ ९७.१६४ ॥
धूर्वाहौ खुरसंयुक्तौ धान्योपस्करसंयुतौ ।
दापयेत्स्वर्गकामस्तु इति मे सत्यभाषितम् ॥ ९७.१६५ ॥
सूत्रेण वेष्टयेद्द्वीपमथवा जगतीं शुभम् ।
मन्दिरं परया भक्त्या परमेशमथापि वा ॥ ९७.१६६ ॥
प्रदक्षिणां विधानेन यः करोत्यत्र मानवः ।
जम्बूप्लाक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो नृप ॥ ९७.१६७ ॥
कुशः क्रौञ्चस्तथा काशः पुष्करश्चैव सप्तमः ।
सप्तसागरपर्यन्ता वेष्टिता तेन भारत ॥ ९७.१६८ ॥
द्वीपेश्वरे महाराज वृषोत्सर्गं च कारयेत् ।
वृषेणारुणवर्णेन माहेशं लोकमाप्नुयात् ॥ ९७.१६९ ॥
यस्तु वै पाण्डुरो वक्त्रे ललाटे पादयोस्तथा ।
लाङ्गूले यस्तु वै शुभ्रः स वै नाकस्य दर्शकः ॥ ९७.१७० ॥
नीलोऽयमीदृशः प्रोक्तो यस्तु द्वीपेश्वरे त्यजेत् ।
स समाः रोमसंख्याता नाके वसति भारत ॥ ९७.१७१ ॥
सौरं च शांकरं लोकं वैरञ्चं वैष्णवं क्रमात् ।
भुनक्ति स्वेच्छया राजन्व्यासतीर्थप्रभावतः ॥ ९७.१७२ ॥
सपत्नीकं ततो विप्रं पूजयेत्तत्र भक्तितः ।
सितरक्तानि वस्त्राणि यो दद्यादग्रजन्मने ॥ ९७.१७३ ॥
कृत्वा प्रदक्षिणं युग्मं प्रीयतां मे जगद्गुरुः ।
नास्ति विप्रसमो बन्धुरिह लोके परत्र च ॥ ९७.१७४ ॥
यमलोके महाघोरे पतन्तं योऽभिरक्षति ।
इतिहासपुराणज्ञं विष्णुभक्तं जितेन्द्रियम् ॥ ९७.१७५ ॥
पूजयेत्परया भक्त्या सामगं वा विशेषतः ।
द्वीपेश्वरं च ये भक्त्या संस्मरन्ति गृहे स्थिताः ॥ ९७.१७६ ॥
न तेषां जायते शोको न हानिर्न च दुष्कृतम् ।
प्रथमं पूजयेत्तत्र लिङ्गं सिद्धेश्वरं ततः ॥ ९७.१७७ ॥
यत्र सिद्धो महाभागो व्यासः सत्यवतीसुतः ।
अस्यैव पूजनात्सिद्धो धारासर्पो महामतिः ॥ ९७.१७८ ॥
तत्र तीर्थे तु यो राजन्प्राणत्यागं करोति च ।
सूर्यलोकमसौ भित्त्वा प्रयाति शिवसन्निधौ ॥ ९७.१७९ ॥
समाः सहस्राणि च सप्त वै जले दशैकमग्नौ पतने च षोडश ।
महाहवे षष्टिरशीति गोग्रहे ह्यनाशके भारत चाक्षया गतिः ॥ ९७.१८० ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
वायुभूतं निरीक्षन्ते ह्यागच्छन्तं स्वगोत्रजम् ॥ ९७.१८१ ॥
अस्मद्गोत्रेऽस्ति कः पुत्रो यो नो दद्यात्तिलोदकम् ।
कार्त्तिक्यां च विशेषेण वेशाख्यां वा तथैव च ॥ ९७.१८२ ॥
स्वर्गतिं च प्रयास्यामस्तत्र तीर्थोपसेवनात् ।
एतत्ते कथितं सर्वं द्वीपेश्वरमनुत्तमम् ॥ ९७.१८३ ॥
यः पठेत्परया भक्त्या शृणुयात्तद्गतो नृप ।
सोऽपि पापविनिर्मुक्तो मोदते शिवमन्दिरे ॥ ९७.१८४ ॥
ऊषरं सर्वतीर्थानां निर्मितं मुनिपुंगवैः ।
कामप्रदं नृपश्रेष्ठ व्यासतीर्थं न संशयः ॥ ९७.१८५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे व्यासतीर्थमाहात्म्यवर्णनं नाम सप्तनवतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 98
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र प्रभासेश्वरमुत्तमम् ।
विख्यातं त्रिषु लोकेषु स्वर्गसोपानमुत्तमम् ॥ ९८.१ ॥
युधिष्ठिर उवाच -
प्रभासं तात मे ब्रूहि कथं जातं महाफलम् ।
स्वर्गसोपानदं दृश्यं संक्षेपात्कथयस्व मे ॥ ९८.२ ॥
श्रीमार्कण्डेय उवाच -
दुर्भगा रविपत्नी च प्रभानामेति विश्रुता ।
तया चाराधितः शम्भुरुग्रेण तपसा पुरा ॥ ९८.३ ॥
वायुभक्षा स्थिता वर्षं वर्षं ध्यानपरायणा ।
ततस्तुष्टो महादेवः प्रभायाः पाण्डुनन्दन ॥ ९८.४ ॥
ईश्वर उवाच -
कस्मात्संक्लिश्यसे बाले कथ्यतां यद्विवक्षितम् ।
अहं हि भास्करोऽप्येको नानात्वं नैव विद्यते ॥ ९८.५ ॥
प्रभोवाच -
नान्यो देवः स्त्रियः शम्भो विना भर्त्रा क्वचित्प्रभो ।
सगुणो निर्गुणो वापि धनाढ्यो वाप्यकिंचनः ॥ ९८.६ ॥
प्रियो वा यदि वा द्वेष्यः स्त्रीणां भर्तैव दैवतम् ।
दुर्भगत्वेन दग्धाहं सखीमध्ये सुरेश्वर ।
भर्त्तर्यल्लब्धसौख्यास्मि तेन क्लिश्याम्यहं भृशम् ॥ ९८.७ ॥
ईश्वर उवाच -
वल्लभा भास्करस्यैव मत्प्रसादाद्भविष्यसि ॥ ९८.८ ॥
पार्वत्युवाच -
अप्रमाणं भवद्वाक्यं भास्करोऽपि करिष्यति ।
वृथा क्लेशो भवेदस्याः प्रभायाः परमेश्वर ॥ ९८.९ ॥
उमावाक्यान्महेशानध्यातस्तिमिरनाशनः ।
आगतो गगनाद्भानुर्नर्मदोत्तररोधसि ॥ ९८.१० ॥
भानुरुवाच -
आहूतोऽस्मि कथं देव ह्यघासुरनिषूदन ॥ ९८.११ ॥
ईश्वर उवाच -
प्रभां पालय भो भानो संतोषेण परेण हि ॥ ९८.१२ ॥
उमोवाच -
प्रभाया मन्दिरे नित्यं स्थीयतां हिमनाशन ।
अग्रपत्नी समस्तानां भार्याणां क्रियतां रवे ॥ ९८.१३ ॥
भानुरुवाच -
एवं देवि करिष्यामि तव वाक्यं वरानने ।
एतच्छ्रुत्वा प्रभाहूता प्रत्युवाच महेश्वरम् ॥ ९८.१४ ॥
प्रभोवाच -
स्वांशेन स्थीयतां देव मन्मथारे उमापते ।
एकांशः स्थाप्यतामत्र तीर्थस्योन्मीलनाय च ॥ ९८.१५ ॥
श्रीमार्कण्डेय उवाच -
सर्वदेवमयं लिङ्गं स्थापितं तत्र पाण्डव ।
प्रभासेश इति ख्यातं सर्वलोकेषु दुर्लभम् ॥ ९८.१६ ॥
अन्यानि यानि तीर्थानि काले तानि फलन्ति वै ।
प्रभासेशस्तु राजेन्द्र सद्यः कामफलप्रदः ॥ ९८.१७ ॥
माघमासे सिते पक्षे सप्तम्यां च विशेषतः ।
अश्वं यः स्पर्शयेत्तत्र यथोक्तब्राह्मणे नृप ॥ ९८.१८ ॥
इन्द्रत्वं प्राप्यते तेन भास्करस्याथवा पदम् ।
स्नात्वा परमया भक्त्या दानं दद्याद्द्विजातये ॥ ९८.१९ ॥
गोप्रदाता लभेत्स्वर्गं सत्यलोकं वरेश्वर ।
सर्वाङ्गसुन्दरीं शुभ्रां क्षीरिणीं तरुणीं शुभाम् ॥ ९८.२० ॥
सवत्सां घण्टासंयुक्तां कांस्यपात्रावदोहिनीम् ।
ददते ये नृपश्रेष्ठ न ते यान्ति यमालयम् ॥ ९८.२१ ॥
अथ यः परया भक्त्या स्नानं देवस्य कारयेत् ।
स प्राप्नोति परं लोकं यावदाभूतसम्प्लवम् ॥ ९८.२२ ॥
दौर्भाग्यं नाशमायाति स्नानमात्रेण पाण्डव ।
तत्र तीर्थे तु यो भक्त्या कन्यादानं प्रयच्छति ॥ ९८.२३ ॥
ब्राह्मणाय विवाहेन दापयेत्पाण्डुनन्दन ।
समानवयसे देया कुलशीलधनैस्तथा ॥ ९८.२४ ॥
ये ददन्ते महाराज ह्यपि पातकसंयुताः ।
तेषां पापानि लीयन्ते ह्युदके लवणं यथा ॥ ९८.२५ ॥
स्वामिद्रोहकृतं पापं निक्षेपस्यापहारिणि ।
मित्रघ्ने च कृतघ्ने च कूटसाक्ष्यसमुद्भवम् ॥ ९८.२६ ॥
तद्ग्रामोद्यानभेदोत्थं परदारनिषेवणम् ।
वार्द्धुषिकस्य यत्पापं यत्पापं स्तेयसम्भवम् ॥ ९८.२७ ॥
कूपभेदोद्भवं यच्च बैडालव्रतधारिणः ।
दाम्भिकं वृक्षच्छेदोत्थं विवाहस्य निषेधजम् ॥ ९८.२८ ॥
आरामस्थतरुच्छेदमगम्यागमनोद्भवम् ।
स्वभार्यात्यजने यच्च परभार्यासमीहनात् ॥ ९८.२९ ॥
ब्रह्मस्वहरणे यच्च गरदे गोविघातिनि ।
विद्याविक्रयणोत्थं च संसर्गाद्यच्च पातकम् ॥ ९८.३० ॥
श्वबिडालवधाद्घोरं सर्पशूद्रोद्भवं तथा ।
भूमिहर्तुश्च यत्पापं भूमिहारिणि चैव हि ॥ ९८.३१ ॥
मा ददस्वेति यत्पापं गोवह्निब्राह्मणेषु च ।
तत्पापं याति विलयं कन्यादानेन पाण्डव ॥ ९८.३२ ॥
स गत्वा भास्करं लोकं रुद्रलोके शुभे व्रजेत् ।
क्रीडते रुद्रलोकस्थो यावदिन्द्राश्चतुर्दश ॥ ९८.३३ ॥
सर्वपापक्षये जाते शिवे भवति भावना ।
एतद्व्रजति यस्तीर्थं प्रभासं पाण्डुनन्दन ॥ ९८.३४ ॥
सर्वतीर्थफलं प्राप्य सोऽश्वमेधफलं लभेत् ।
गोप्रदानं महापुण्यं सर्वपापक्षयं परम् ।
प्रशस्तं सर्वकालं हि चतुर्दश्यां विशेषतः ॥ ९८.३५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे प्रभासतीर्थमाहात्म्यवर्णनं नामाष्टनवतितमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 99
अध्याय ९९
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल नर्मदादक्षिणे तटे ।
स्थापितं वासुकीशं तु समस्ताघौघनाशनम् ॥ ९९.१ ॥
युधिष्ठिर उवाच -
कस्माच्च कारणात्तात रेवाया दक्षिणे तटे ।
वासुकीशस्थापितो वै विस्तराद्वद मे गुरो ॥ ९९.२ ॥
श्रीमार्कण्डेय उवाच -
एतत्सर्वं समास्थाय नृत्यं शम्भुश्चकार वै ॥ ९९.३ ॥
श्रमादजायत स्वेदो गङ्गातोयविमिश्रितम् ।
पतन्तमुरगोऽश्नाति हरमौलिविनिर्गतम् ॥ ९९.४ ॥
मन्दाकिनी ततः क्रुद्धा व्यालस्योपरि भारत ।
प्राप्नुह्यजगरत्त्वं हि भुजङ्ग क्षुद्रजन्तुक ॥ ९९.५ ॥
वासुकिरुवाच -
अनुग्राह्योऽस्मि ते पापो दुर्नयोऽहं हरादृते ।
त्रैलोक्यपावनी पुण्या सरित्त्वं शुभलक्षणा ॥ ९९.६ ॥
संसारच्छेदनकरी ह्यार्तानामार्तिनाशनी ।
स्वर्गद्वारे स्थिता त्वं हि दयां कुरु मयीश्वरि ॥ ९९.७ ॥
गङ्गोवाच -
कुरुष्व विपुलं विन्ध्यं तपस्त्वं शङ्करं प्रति ।
ततः प्राप्स्यसि स्वं स्थानं पन्नगत्वं ममाज्ञया ॥ ९९.८ ॥
श्रीमार्कण्डेय उवाच -
ततोऽसौ त्वरितो विन्ध्यं नागो गत्वा नगं शुभम् ।
तपस्तप्तुं समारेभे शङ्कराराधनोद्यतः ॥ ९९.९ ॥
नित्यं दध्यौ महादेवं त्र्यक्षं डमरुकोद्यतम् ।
ततो वर्षशते पूर्ण उपरुद्धो जगद्गुरुः ।
आगतस्तत्समीपं तु श्लक्ष्णां वाणीमुदाहरत् ॥ ९९.१० ॥
वरं वरय मे वत्स पन्नग त्वं कृतादर ॥ ९९.११ ॥
वासुकिरुवाच -
यदि तुष्टोऽसि मे देव वरं दास्यसि शङ्कर ।
प्रसादात्तव देवेश भूयान्निष्पापता मम ।
तीर्थं किंचित्समाख्याहि सर्वपापप्रणाशनम् ॥ ९९.१२ ॥
ईश्वर उवाच -
पन्नग त्वं महाबाहो रेवां गच्छ शुभंकरीम् ।
याम्ये तस्यास्तटे पुण्ये स्नानं कुरु यथाविधि ॥ ९९.१३ ॥
इत्युक्त्वान्तर्दधे देवो वासुकिस्त्वरयान्वितः ।
रूपेणाजगरेणैव प्रविष्टो नर्मदाजलम् ॥ ९९.१४ ॥
मार्गेण तस्य संजातं जाह्नव्याः स्रोत उत्तमम् ।
निर्धूतकल्मषः सर्पः संजातो नर्मदाजले ॥ ९९.१५ ॥
स्थापितः शङ्करस्तत्र नर्मदायां युधिष्ठिर ।
ततो नागेश्वरं लिङ्गं प्रसिद्धं पापनाशनम् ॥ ९९.१६ ॥
अष्टम्यां वा चतुर्दश्यां स्नापयेन्मधुना शिवम् ।
विमुक्तकल्मषः सद्यो जायते नात्र संशयः ॥ ९९.१७ ॥
अपुत्रा ये नराः पार्थ स्नानं कुर्वन्ति सङ्गमे ।
ते लभन्ते सुताञ्छ्रेष्ठान् कार्त्तवीर्योपमाञ्छुभान् ॥ ९९.१८ ॥
श्राद्धं तत्रैव यः कुर्यादुपवासपरायणः ।
कुर्वन्प्रमोचयेत्प्रेतान्नरकान्नृपनन्दन ॥ ९९.१९ ॥
सर्पाणां च भयं वंशे ज्ञातिवर्गे न जायते ।
निर्दोषं नन्दते तस्य कुलं नागप्रसादतः ॥ ९९.२० ॥
एतत्ते सर्वमाख्यातं तव स्नेहान्नृपोत्तम ॥ ९९.२१ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 100
अध्याय १००
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल तीर्थं परमरोचनम् ।
मार्कण्डेशमिति ख्यातं नर्मदादक्षिणे तटे ॥ १००.१ ॥
उत्तमं सर्वतीर्थानां गीर्वाणैर्वन्दितं शिवम् ।
गुह्याद्गुह्यतरं पुत्र नाख्यातं कस्यचिन्मया ॥ १००.२ ॥
स्थापितं तु मया पूर्वं स्वर्गसोपानसंनिभम् ।
ज्ञानं तत्रैव मे जातं प्रसादाच्छङ्करस्य च ॥ १००.३ ॥
अन्यस्तत्रैव यो गत्वा द्रुपदामन्तर्जले जपेत् ।
स पातकैरशेषश्च मुच्यते पाण्डुनन्दन ॥ १००.४ ॥
वाचिकैर्मानसैश्च वा कर्मजैरपि पातकैः ।
पिण्डिकां चाप्यवष्टभ्य याम्यामाशां च संस्थितः ॥ १००.५ ॥
योजयेच्छूलिनं भक्त्या द्वात्रिंशद्बहुरूपिणम् ।
देहपाते शिवं गच्छेदिति मे निश्चयो नृप ॥ १००.६ ॥
आज्येन बोधयेद्दीपमष्टम्यां निशि भारत ।
स्वर्गलोकमवाप्नोति इत्येवं शङ्करोऽब्रवीत् ॥ १००.७ ॥
श्राद्धं तत्रैव यो भक्त्या कुर्वीत नृपनन्दन ।
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥ १००.८ ॥
इङ्गुदैर्बदरैर्बिल्वैरक्षतेन जलेन वा ।
तर्पयेत्तत्र यो वंश्यानाप्नुयाज्जन्मनः फलम् ॥ १००.९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनं नाम शततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 101
अध्याय १०१
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
उत्तरे नर्मदाकूले यज्ञवाटस्य मध्यतः ॥ १०१.१ ॥
संकर्षणमिति ख्यातं पृथिव्यां पापनाशनम् ।
तपश्चीर्णं पुरा राजन्बलभद्रेण तत्र वै ॥ १०१.२ ॥
गीर्वाणा अपि तत्रैव संनिधौ नृपनन्दन ।
उमया सहितः शम्भुः स्थितस्तत्रैव केशवः ॥ १०१.३ ॥
बलभद्रेण राजेन्द्र प्राणिनामुपकारतः ।
स्थापितः परया भक्त्या शङ्करः पापनाशनः ॥ १०१.४ ॥
यस्तत्र स्नाति वै भक्त्या जितक्रोधो जितेन्द्रियः ।
एकादश्यां सिते पक्षे मधुना स्नापयेच्छिवम् ॥ १०१.५ ॥
श्राद्धं तत्रैव यो भक्त्या पित्ःणामथ दापयेत् ।
स याति परमं स्थानं बलभद्रवचो यथा ॥ १०१.६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे संकर्षणतीर्थमाहात्म्यवर्णनं नामैकाधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 102
अध्याय १०२
मार्कण्डेय उवाच -
मन्मथेशं ततो गच्छेत्सर्वदेवनमस्कृतम् ।
स्नानमात्रान्नरो राजन्यमलोकं न पश्यति ॥ १०२.१ ॥
अनपत्या या च नारी स्नायाद्वै पाण्डुनन्दन ।
पुत्रं सा लभते पार्थ सत्यसङ्घं दृढव्रतम् ॥ १०२.२ ॥
तत्र स्नात्वा नरो राजञ्छुचिः प्रयतमानसः ।
उपोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ १०२.३ ॥
कामिकं तीर्थराजं तु तादृशं न भविष्यति ।
त्रिरात्रं कुरुते राजन्स गोलक्षफलं लभेत् ॥ १०२.४ ॥
तत्र नृत्यं प्रकर्तव्यं तुष्यते परमेश्वरः ।
गीतवादित्रनिर्घोषै रात्रौ जागरणेन च ॥ १०२.५ ॥
एरण्ड्यां च महादेवो दृष्टो मे मन्मथेश्वरः ।
किं समर्थो यमो रुष्टो भद्रो भद्राणि पश्यति ॥ १०२.६ ॥
कामेन स्थापितः शम्भुरेतस्मात्कामदो नृप ।
सोपानः स्वर्गमार्गस्य पृथिव्यां मन्मथेश्वरः ॥ १०२.७ ॥
विशेषश्चात्र सन्ध्यायां श्राद्धदाने च भारत ।
अन्नदानेन राजेन्द्र कीर्तितं फलमुत्तमम् ॥ १०२.८ ॥
एतत्ते सर्वमाख्यातं तव भक्त्या तु भारत ।
पृथिव्यां सागरान्तायां प्रख्यातो मन्मथेश्वरः ॥ १०२.९ ॥
गोदानं पाण्डवश्रेष्ठ त्रयोदश्यां प्रकारयेत् ।
चैत्रे मासि सिते पक्षे तत्र गत्वा जितेन्द्रियः ॥ १०२.१० ॥
रात्रौ जागरणं कृत्वा देवस्याग्रे नृपोत्तम ।
दीपं भक्त्या घृतेनैव देवस्याग्रे निवेदयेत् ॥ १०२.११ ॥
स्त्र्यथ वा पुरुषो वापि सममेतत्फलं स्मृतम् ॥ १०२.१२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मन्मथेश्वरतीर्थमाहात्म्यवर्णनं नाम द्व्यधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 103
अध्याय १०३
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल एरण्डीसङ्गमं परम् ।
यच्छ्रुतं वै मया राजञ्छिवस्य वदतः पुरा ॥ १०३.१ ॥
एतदेव पुरा प्रश्नं गौर्या पृष्टस्तु शङ्करः ।
प्रोवाच नृपशार्दूल गुह्याद्गुह्यतरं शुभम् ॥ १०३.२ ॥
ईश्वर उवाच -
शृणु देवि परं गुह्यं नाख्यातं कस्यचिन्मया ।
रेवायाश्चोत्तरे कूले तीर्थं परमशोभनम् ।
भ्रूणहत्याहरं देवि कामदं पुत्रवर्धनम् ॥ १०३.३ ॥
पार्वत्युवाच -
कथयस्व महादेव तीर्थं परमशोभनम् ।
भ्रूणहत्याहरं कस्मात्कामदं स्वर्गदर्शनम् ॥ १०३.४ ॥
ईश्वर उवाच -
अत्रिर्नाम महादेवि मानसो ब्रह्मणः सुतः ।
अग्निहोत्ररतो नित्यं देवतातिथिपूजकः ॥ १०३.५ ॥
सोमसंस्थाश्च सप्तैव कृता विप्रेण पार्वति ।
अनसूयेति विख्याता भार्या तस्य गुणान्विता ॥ १०३.६ ॥
पतिव्रता पतिप्राणा पत्युः कार्यहिते रता ।
एवं याति ततः काले न पुत्रा न च पुत्रिका ॥ १०३.७ ॥
अपराह्णे महादेवि सुखासीनौ तु सुन्दरि ।
वदन्तौ सुखदुःखानि पूर्ववृत्तानि यानि च ॥ १०३.८ ॥
अत्रिरुवाच -
सौम्ये शुभे प्रिये कान्ते चारुसर्वाङ्गसुन्दरि ।
विद्याविनयसम्पन्ने पद्मपत्रनिभेक्षणे ॥ १०३.९ ॥
पूर्णचन्द्रनिभाकारे पृथुश्रोणिभरालसे ।
न त्वया सदृशी नारी त्रैलोक्ये सचराचरे ॥ १०३.१० ॥
रतिपुत्रफला नारी पठ्यते वेदवादिभिः ।
पुत्रहीनस्य यत्सौख्यं तत्सौख्यं मम सुन्दरि ॥ १०३.११ ॥
यथाहं न तथा पुत्रः समर्थः सर्वकर्मसु ।
पुन्नामनरकाद्भद्रे जातमात्रेण सुन्दरि ॥ १०३.१२ ॥
पतन्तं रक्षयेद्देवि महापातकिनं यदि ।
महाघोरे गता वापि दुष्टकर्मपितामहाः ॥ १०३.१३ ॥
तद्धरन्ति सुपुत्राश्च वैतरण्यां गतानपि ।
पुत्रेण लोकाञ्जयति पौत्रेण परमा गतिः ॥ १०३.१४ ॥
अथ पुत्रस्य पौत्रेण प्रगच्छेद्ब्रह्म शाश्वतम् ।
नास्ति पुत्रसमो बन्धुरिह लोके परत्र च ॥ १०३.१५ ॥
अहश्च मध्यरात्रे च चिन्तयानस्य सर्वदा ।
शुष्यन्ति मम गात्राणि ग्रीष्मे नद्युदकं यथा ॥ १०३.१६ ॥
अनसूयोवाच -
यत्त्वया शोचितं विप्र तत्सर्वं शोचयाम्यहम् ।
तवोद्वेगकरं यच्च तन्मे दहति चेतसि ॥ १०३.१७ ॥
येन पुत्रा भविष्यन्ति आयुष्मन्तो गुणान्विताः ।
तत्कार्यं च समीक्षस्व येन तुष्येत्प्रजापतिः ॥ १०३.१८ ॥
अत्रिरुवाच -
तपस्तप्तं मया भद्रे जातमात्रेण दुष्करम् ।
व्रतोपवासनियमैः शाकाहारेण सुन्दरि ॥ १०३.१९ ॥
क्षीणदेहस्तु तिष्ठामि ह्यशक्तोऽहं महाव्रते ।
तेन शोचामि चात्मानं रहस्यं कथितं मया ॥ १०३.२० ॥
अनसूयोवाच -
भर्तुः पतिव्रता नारी रतिपुत्रविवर्धिनी ।
त्रिवर्गसाधना सा च श्लाघ्या च विदुषां जने ॥ १०३.२१ ॥
जपस्तपस्तीर्थयात्रा मृडेज्यामन्त्रसाधनम् ।
देवताराधनं चैव स्त्रीशूद्रपतनानि षट् ॥ १०३.२२ ॥
ईदृशं तु महादोषं स्त्रीणां तु व्रतसाधने ।
वदन्ति मुनयः सर्वे यथोक्तं वेदभाषितम् ॥ १०३.२३ ॥
अनुज्ञाता त्वया ब्रह्मंस्तपस्तप्स्यामि दुष्करम् ।
पुत्रार्थित्वं समुद्दिश्य तोषयामि सुरोत्तमान् ॥ १०३.२४ ॥
अत्रिरुवाच -
साधु साधु महाप्राज्ञे मम संतोषकारिणि ।
आज्ञाता त्वं मया भद्रे पुत्रार्थं तप आश्रय ॥ १०३.२५ ॥
देवतानां मनुष्याणां पित्ःणामनृणो भवे ।
न भार्यासदृशो बन्धुस्त्रिषु लोकेषु विद्यते ॥ १०३.२६ ॥
तेन देवाः प्रशंसन्ति न भार्यासदृशं सुखम् ।
सन्मुखे मन्मुखाः पुत्राः विलोमे तु पराङ्मुखाः ॥ १०३.२७ ॥
तेन भार्यां प्रशंसन्ति सदेवासुरमानुषाः ।
महाव्रते महाप्राज्ञे सत्त्ववति शुभेक्षणे ॥ १०३.२८ ॥
तपस्तपस्व शीघ्रं त्वं पुत्रार्थं तु ममाज्ञया ।
एतद्वाक्यावसाने तु साष्टाङ्गं प्रणताब्रवीत् ॥ १०३.२९ ॥
त्वत्प्रसादेन विप्रेन्द्र सर्वान्कामानवाप्नुयाम् ।
हंसलीलागतिः सा च मृगाक्षी वरवर्णिनी ॥ १०३.३० ॥
नियमस्था ततो भूत्वा सम्प्राप्ता नर्मदां नदीम् ।
शिवस्वेदोद्भवां देवीं सर्वपापप्रणाशनीम् ॥ १०३.३१ ॥
यस्या दर्शनमात्रेण नश्यते पापसञ्चयः ।
स्नानमात्रेण वै यस्या अश्वमेधफलं लभेत् ॥ १०३.३२ ॥
ये पिबन्ति महादेवि श्रद्दधानाः पयः शुभम् ।
सोमपानेन तत्तुल्यं नात्र कार्या विचारणा ॥ १०३.३३ ॥
ये स्मरन्ति दिवा रात्रौ योजनानां शतैरपि ।
मुच्यन्ते सर्वपापेभ्यो रुद्रलोकं प्रयान्ति ते ॥ १०३.३४ ॥
नर्मदायाः समीपे तु तावुभौ योजनद्वये ।
न पश्यन्ति यमं तत्र ये मृता वरवर्णिनि ॥ १०३.३५ ॥
ततस्तदुत्तरे कूले एरण्ड्याः सङ्गमे शुभे ।
नियमस्था विशालाक्षी शाकाहारेण सुन्दरि ॥ १०३.३६ ॥
तोषयन्ती त्रींश्च देवाञ्छुभैः स्तोत्रैर्व्रतैस्तथा ।
ग्रीष्मेषु च महादेवि पञ्चाग्निं साधयेत्ततः ॥ १०३.३७ ॥
वर्षाकाले चार्द्रवासाश्चरेच्चान्द्रायणानि च ।
हेमन्ते तु ततः प्राप्ते तोयमध्ये वसेत्सदा ॥ १०३.३८ ॥
प्रातःस्नानं ततः सन्ध्यां कुर्याद्देवर्षितर्पणम् ।
देवानामर्चनं कृत्वा होमं कुर्याद्यथाविधि ॥ १०३.३९ ॥
यजते वैष्णवांल्लोकान् स्नानजाप्यहुतेन च ।
एवं वर्षशते प्राप्ते रुद्रविष्णुपितामहाः ॥ १०३.४० ॥
सम्प्राप्ता द्विजरूपैस्तु एरण्ड्याः सङ्गमे प्रिये ।
पुरतः संस्थितास्तस्या वेदमभ्युद्धरन्ति च ॥ १०३.४१ ॥
अनसूया जपं त्यक्त्वा निरीक्ष्य तान्मुहुर्मुहुः ।
उत्थिता सा विशालाक्षी अर्घं दत्त्वा यथाविधि ॥ १०३.४२ ॥
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
दर्शनेन तु विप्राणां सर्वपापैः प्रमुच्यते ॥ १०३.४३ ॥
प्रदक्षिणं ततः कृत्वा साष्टाङ्गं प्रणताब्रवीत् ।
कन्दमूलफलं शाकं नीवारानपि पावनान् ।
प्रयच्छाम्यहमद्यैव मुनीनां भावितात्मनाम् ॥ १०३.४४ ॥
विप्रा ऊचुः ।
तपसा तु विचित्रेण तपःसत्येन सुव्रते ।
तृप्ताः स्म सर्वकामैस्तु सुव्रते तव दर्शनात् ॥ १०३.४५ ॥
अस्माकं कौतुकं जातं तापसेन व्रतेन यत् ।
स्वर्गमोक्षसुतस्यार्थे तपस्तपसि दुष्करम् ॥ १०३.४६ ॥
अनसूयोवाच -
तपसा सिध्यते स्वर्गस्तपसा परमा गतिः ।
तपसा चार्थकामौ च तपसा गुणवान्सुतः ।
तप एव च मे विप्राः सर्वकामफलप्रदम् ॥ १०३.४७ ॥
विप्रा ऊचुः ।
तन्वी श्यामा विशालाक्षी स्निग्धाङ्गी रूपसंयुता ।
हंसलीलागतिगमा त्वं च सर्वाङ्गसुन्दरी ॥ १०३.४८ ॥
किं च ते तपसा कार्यमात्मानं शोच्यसे कथम् ॥ १०३.४९ ॥
अनसूयोवाच -
यदि रुद्रश्च विष्णुश्च स्वयं साक्षात्पितामहः ।
गूढरूपधराः सर्वे तच्चिह्नमुपलक्षये ॥ १०३.५० ॥
तस्या वाक्यावसाने तु स्वरूपं दर्शयन्ति ते ।
स्वस्वरूपैः स्थिता देवाः सूर्यकोटिसमप्रभाः ॥ १०३.५१ ॥
चतुर्भुजो महादेवि शङ्खचक्रगदाधरः ।
अतसीपुष्पवर्णस्तु पीतवासा जनार्दनः ॥ १०३.५२ ॥
गरुत्मान्वाहनं यस्य श्रिया च सहितो हरिः ।
प्रसन्नवदनः श्रीमान्स्वयंरूपो व्यवस्थितः ॥ १०३.५३ ॥
पीतवासा महादेवि चतुर्वदनपङ्कजः ।
हंसोपरि समारूढो ह्यक्षमालाकरोद्यतः ॥ १०३.५४ ॥
आगतो नर्मदातीरे ब्रह्मा लोकपितामहः ।
योऽसौ सर्वजगद्व्यापी स्वयं साक्षान्महेश्वरः ॥ १०३.५५ ॥
वृषभं तु समारूढो दशबाहुसमन्वितः ।
भस्माङ्गरागशोभाढ्यः पञ्चवक्त्रस्त्रिलोचनः ॥ १०३.५६ ॥
जटामुकुटसंयुक्तः कृतचन्द्रार्द्धशेखरः ।
एवंरूपधरो देवः सर्वव्यापी महेश्वरः ॥ १०३.५७ ॥
अनसूया निरीक्ष्यैतद्देवानां दर्शनं परम् ।
वेपमाना ततः साध्वी सुरान्दृष्ट्वा मुहुर्मुहुः ॥ १०३.५८ ॥
अनसूयोवाच -
किं व्यापारस्वरूपास्तु विष्णुरुद्रपितामहाः ।
एतद्वै श्रोतुमिच्छामि ह्यशेषं कथयन्तु मे ॥ १०३.५९ ॥
ब्रह्मोवाच -
प्रावृट्कालो ह्यहं ब्रह्मा आपश्चैव प्रकीर्तिताः ।
मेघरूपो ह्यहं प्रोक्तो वर्षयामि च भूतले ॥ १०३.६० ॥
अहं सर्वाणि बीजानि प्राक्सन्ध्यासूदिते रवौ ।
एतद्वै कारणं सर्वं रहस्यं कथितं परम् ॥ १०३.६१ ॥
विष्णुरुवाच -
हेमन्तश्च भवेद्विष्णुर्विश्वरूपं चराचरम् ।
पालनाय जगत्सर्वं विष्णोर्माहात्म्यमुत्तमम् ॥ १०३.६२ ॥
रुद्र उवाच -
ग्रीष्मकालो ह्यहं प्रोक्तः सर्वभूतक्षयंकरः ।
कर्षयामि जगत्सर्वं रुद्ररूपस्तपस्विनि ॥ १०३.६३ ॥
एवं ब्रह्मा च विष्णुश्च रुद्रश्चैव महाव्रते ।
त्रयो देवास्त्रयः सन्ध्यास्त्रयः कालास्त्रयोऽग्नयः ॥ १०३.६४ ॥
तथा ब्रह्मा च विष्णुश्च रुद्रश्चैकात्मतां गतः ।
वरं दद्युश्च ते भद्रे यस्त्वया मनसीप्सितम् ॥ १०३.६५ ॥
अनसूयोवाच -
धन्या पुण्या ह्यहं लोके श्लाघ्या वन्द्या च सर्वदा ।
ब्रह्मा विष्णुश्च रुद्रश्च प्रसन्नवदनाः शुभाः ॥ १०३.६६ ॥
यदि तुष्टास्त्रयो देवा दयां कृत्वा ममोपरि ।
अस्मिंस्तीर्थे तु सांनिध्याद्वरदाः सन्तु मे सदा ॥ १०३.६७ ॥
रुद्र उवाच -
एवं भवतु ते वाक्यं यत्त्वया प्रार्थितं शुभे ।
प्रत्यक्षा वैष्णवी माया एरण्डीनाम नामतः ॥ १०३.६८ ॥
यस्या दर्शनमात्रेण नश्यते पापसञ्चयः ।
चैत्रमासे तु सम्प्राप्ते अहोरात्रोषितो भवेत् ॥ १०३.६९ ॥
एरण्ड्याः सङ्गमे स्नात्वा ब्रह्महत्यां व्यपोहति ।
रात्रौ जागरणं कुर्यात्प्रभाते भोजयेद्द्विजान् ॥ १०३.७० ॥
यथोक्तेन विधानेन पिण्डं दद्याद्यथाविधि ।
प्रदक्षिणां ततो दद्याद्धिरण्यं वस्त्रमेव च ॥ १०३.७१ ॥
रजतं च तथा गावो भूमिदानमथापि वा ।
सर्वं कोटिगुणं प्रोक्तमिति स्वायम्भुवोऽब्रवीत् ॥ १०३.७२ ॥
ये म्रियन्ति नरा देवि एरण्ड्याः सङ्गमे शुभे ।
यावद्युगसहस्रं तु रुद्रलोके वसन्ति ते ॥ १०३.७३ ॥
अहोरात्रोषितो भूत्वा जपेद्रुद्रांश्च वैदिकान् ।
एकादशैकसंज्ञांश्च स याति परमां गतिम् ॥ १०३.७४ ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रांल्लभेत्कामान् यथेप्सितान् ॥ १०३.७५ ॥
एरण्ड्याः सङ्गमे स्नात्वा रेवाया विमले जले ।
महापातकिनो वापि ते यान्ति परमां गतिम् ॥ १०३.७६ ॥
अनसूयोवाच -
यदि तुष्टास्त्रयो देवा मम भक्तिप्रचोदिताः ।
मम पुत्रा भवन्त्वेव हरिरुद्रपितामहाः ॥ १०३.७७ ॥
विष्णुरुवाच -
पूज्या यत्पुत्रतां यान्ति न कदाचिच्छ्रुतं मया ।
शुभे ददामि पुत्रांस्ते देवतुल्यपराक्रमान् ।
रूपवन्तो गुणोपेतान्यज्विनश्च बहुश्रुतान् ॥ १०३.७८ ॥
अनसूयोवाच -
ईप्सितं तच्च दातव्यं यन्मया प्रार्थितं हरे ।
नान्यथा चैव कर्तव्या मम पुत्रैषणा तु या ॥ १०३.७९ ॥
विष्णुरुवाच -
पूर्वं तु भृगुसंवादे गर्भवास उपार्जितः ।
तस्याहं चैव पारं तु नैव पश्यामि शोभने ॥ १०३.८० ॥
स्मरमाणः पुरावृत्तं चिन्तयामि पुनःपुनः ।
एवं संचिन्त्य ते देवाः पितामहमहेश्वराः ॥ १०३.८१ ॥
अयोनिजा भविष्यामस्तव पुत्रा वरानने ।
योनिवासे महाप्राज्ञि देवा नैव व्रजन्ति च ॥ १०३.८२ ॥
सांनिध्यात्सङ्गमे देवि लोकानां तु वरप्रदाः ।
एरण्डी वैष्णवी माया प्रत्यक्षा त्वं भविष्यसि ॥ १०३.८३ ॥
त्रयो देवाः स्थिताः पाथ रेवाया उत्तरे तटे ।
वरप्राप्ता तु सा देवी गता माहेन्द्रपर्वतम् ॥ १०३.८४ ॥
क्षीणाङ्गी शुक्लदेहा च रूक्षकेशी सुदारुणा ।
कृतयज्ञोपवीता सा तपोनिष्ठा शुभेक्षणा ॥ १०३.८५ ॥
शिलातलनिविष्टोऽसौ दृष्टः कान्तो महायशाः ।
हृष्टचित्तोऽभवद्देवि उत्तिष्ठोत्तिष्ठ साब्रवीत् ॥ १०३.८६ ॥
अत्रिरुवाच -
साधु साधु महाप्राज्ञे ह्यनसूये महाव्रते ।
अचिन्त्यं गालवादीनां वरं प्राप्तासि दुर्लभम् ॥ १०३.८७ ॥
अनसूयोवाच -
त्वत्प्रसादेन देवर्षे वरं प्राप्तास्मि दुर्लभम् ।
तेन देवाः प्रशंसन्ति सिद्धाश्च ऋषयोऽमलाः ॥ १०३.८८ ॥
एवमुक्ता तु सा देवी हर्षेण महता युता ।
आलोकयेत्ततः कान्तं तेनापि शुभदर्शना ॥ १०३.८९ ॥
ईक्षणाच्चैव संजातं ललाटे मण्डलं शुभम् ।
नवयोजनसाहस्रं मण्डलं रश्मिभिर्वृतम् ॥ १०३.९० ॥
कदम्बगोलकाकारं त्रिगुणं परिमण्डलम् ।
तस्य मध्ये तु देवेशि पुरुषो दिव्यरूपधृक् ॥ १०३.९१ ॥
हेमवर्णोऽमृतमयः सूर्यकोटिसमप्रभः ।
आद्यः पुत्रोऽनसूयायाः स्वयं साक्षात्पितामहः ॥ १०३.९२ ॥
चन्द्रमा इति विख्यातः सोमरूपो नृपात्मज ।
इष्टापूर्ते च संपाति कलाषोडशकेन तु ॥ १०३.९३ ॥
प्रतिपच्च द्वितीया च तृतीया च महेश्वरि ।
चतुर्थी पञ्चमी चैव अव्यया षोडशी कला ॥ १०३.९४ ॥
चतुर्विधस्य लोकस्य सूक्ष्मो भूत्वा वरानने ।
आप्रीणाति जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ १०३.९५ ॥
सर्वे ते ह्युपजीवन्ति हुतं दत्तं शशिस्थितम् ।
वनस्पतिगते सोमे धनवांश्च वरानने ॥ १०३.९६ ॥
भुञ्जन् परगृहे मूढो ददेदब्दकृतं शुभम् ।
वनस्पतिगते सोमे यस्तु छिन्द्याद्वनस्पतीन् ।
तेन पापेन देवेशि नरा यान्ति यमालयम् ॥ १०३.९७ ॥
वनस्पतिगते सोमे मैथुनं यो निषेवते ।
ब्रह्महत्यासमं पापं लभते नात्र संशयः ॥ १०३.९८ ॥
वनस्पतिगते सोमे मन्थानं योऽधिवाहयेत् ।
गावस्तस्य प्रणश्यन्ति याश्च वै पूर्वसंचिताः ॥ १०३.९९ ॥
वनस्पतिगते सोमे ह्यध्वानं योऽधिगच्छति ।
भवन्ति पितरस्तस्य तं मासं रेणुभोजनाः ॥ १०३.१०० ॥
अमावस्यां महादेवि यस्तु श्राद्धप्रदो भवेत् ।
अब्दमेकं विशालाक्षि तृप्तास्तत्पितरो ध्रुवम् ॥ १०३.१०१ ॥
हिरण्यं रजतं वस्त्रं यो ददाति द्विजातिषु ।
सर्वं लक्षगुणं देवि लभते नात्र संशयः ॥ १०३.१०२ ॥
एवं गुणविशिष्टोऽसौ सोमरूपः प्रजापतिः ।
संजातः प्रथमः पुत्रो ह्यनसूयासुनन्दनः ॥ १०३.१०३ ॥
द्वितीयस्तु महादेवि दुर्वासा नाम नामतः ।
सृष्टिसंहारकर्ता च स्वयं साक्षान्महेश्वरः ॥ १०३.१०४ ॥
ऋषिमध्यगतो देवि तपस्तपति दुष्करम् ।
सोऽपि रुद्रत्वमायाति सम्प्राप्ते भूतविप्लवे ॥ १०३.१०५ ॥
इन्द्रोऽपि शप्तस्तेनैव दुर्वाससा वरानने ।
द्वितीयस्य तु पुत्रस्य सम्भवः कथितो मया ॥ १०३.१०६ ॥
दत्तात्रेयस्वरूपेण भगवान्मधुसूदनः ।
जगद्व्यापी जगन्नाथः स्वयं साक्षाज्जनार्दनः ॥ १०३.१०७ ॥
एते देवास्त्रयः पुत्रा अनसूयाया महेश्वरि ।
वरदानेन ते देवा ह्यवतीर्णा महीतले ॥ १०३.१०८ ॥
पुत्रप्राप्तिकरं तीर्थं रेवायाश्चोत्तरे तटे ।
अनसूयाकृतं पार्थ सर्वपापक्षयं परम् ॥ १०३.१०९ ॥
श्रीमार्कण्डेय उवाच -
आश्चर्यभूतं लोकेऽस्मिन्नर्मदायां पुरातनम् ।
भ्रूणहत्या गता तत्र ब्राह्मणस्य नराधिप ॥ १०३.११० ॥
युधिष्ठिर उवाच -
इतिहासं द्विजश्रेष्ठ कथयस्व ममानघ ।
सर्वपापहरं लोके दुःखार्तस्य च कथ्यताम् ॥ १०३.१११ ॥
श्रीमार्कण्डेय उवाच -
सुवर्णशिलके ग्रामे गौतमान्वयसम्भवः ।
कृषीवलो महादेवि भार्यापुत्रसमन्वितः ॥ १०३.११२ ॥
वसते तत्र गोविन्दः संजातो विपुले कुले ।
पुत्रदारसमोपेतो गृहक्षेत्ररतः सदा ॥ १०३.११३ ॥
शकटं पूरयित्वा तु काष्ठानामगमद्गुहम् ।
प्रक्षिप्तानि च काष्ठानि ह्येकाकी क्षुधयान्वितः ॥ १०३.११४ ॥
रिङ्गमाणस्तदा पुत्रः पितुः शब्दात्समागतः ।
न दृष्टस्तेन वै पुत्रः काष्ठैः संछादितोऽवशः ॥ १०३.११५ ॥
आगतस्त्वरितो गेहे पिपासार्तो नराधिप ।
शकटं मोच्य तद्द्वारि सवृषं रज्जुसंयुतम् ॥ १०३.११६ ॥
भार्या तस्यैव या दृष्टा चित्तज्ञा वशवर्तिनी ।
दृष्ट्वा निपातितं पुत्रं काष्ठैर्निर्भिन्नमस्तकम् ॥ १०३.११७ ॥
अजल्पमानाकरुणं निक्षिप्तं ज्ञोलिकां शिशुम् ।
शुश्रूषणे रता साध्वी प्रियस्य च नराधिप ॥ १०३.११८ ॥
ततः स्नानादिकं कृत्वा भोजनाच्छयनं शुभम् ।
पुत्रं पुत्रवतां श्रेष्ठा ह्युत्थापयति शासनैः ॥ १०३.११९ ॥
यदा च नोत्थितः सुप्तः पुत्रः पञ्चत्वमागतः ।
तदा सा दीनवदना रुरोद च मुमोह च ॥ १०३.१२० ॥
तच्छ्रुत्वा रुदितं शब्दं गोविन्दस्त्रस्तमानसः ।
किमेतदिति चोक्त्वा तु पतितो धरणीतले ॥ १०३.१२१ ॥
द्वावेतौ मुक्तकेशौ तु भूमौ निपतितौ नृप ।
विलेपाते च राजेन्द्र निःश्वासोच्छ्वासितेन च ॥ १०३.१२२ ॥
कं पश्ये प्राङ्गणे पुत्रं दृष्ट्वा क्रीडन्तमातुरम् ।
संधारयिष्ये हृदयं स्फुटितं तव कारणे ॥ १०३.१२३ ॥
त्वज्जन्मान्तं यशो नित्यमक्षयां कुलसन्ततिम् ।
दृष्ट्वा किमनृणीभूतो यास्यामि परमां गतिम् ॥ १०३.१२४ ॥
मम वृद्धस्य दीनस्य गतिस्त्वं किल पुत्रक ।
एते मनोरथाः सर्वे चिन्तिता विफला गताः ॥ १०३.१२५ ॥
इमां तु विकलां दीनां विहीनां सुतबान्धवैः ।
रुदन्तीं पतितां पाहि मातरं धरणीतले ॥ १०३.१२६ ॥
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।
तेन पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ १०३.१२७ ॥
अपुत्रस्य गृहं शून्यं दिशः शून्या ह्यबान्धवाः ।
मूर्खस्य हृदयं शून्यं सर्वशून्यं दरिद्रता ॥ १०३.१२८ ॥
मृषायं वदते लोकश्चन्दनं किल शीतलम् ।
पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः ॥ १०३.१२९ ॥
श्मश्रुग्रहणक्रीडन्तं धूलिधूसरिताननम् ।
पुण्यहीना न पश्यन्ति निजोत्सङ्गसमास्थितम् ॥ १०३.१३० ॥
दिगम्बरं गतव्रीडं जटिलं धूलिधूसरम् ।
पुण्यहीना न पश्यन्ति गङ्गाधरमिवात्मजम् ॥ १०३.१३१ ॥
वीणावाद्यस्वरो लोके सुस्वरः श्रूयते किल ।
रुदितं बालकस्यैव तस्मादाह्लादकारकम् ॥ १०३.१३२ ॥
मृगपक्षिषु काकेषु पशूनां स्वरयोनिषु ।
पुत्रं तेषु समस्तेषु वल्लभं ब्रुवते बुधाः ॥ १०३.१३३ ॥
मत्स्याश्वप्रकराश्चैव कूर्मग्राहादयोऽपि वा ।
पुत्रोत्पत्तौ च हृष्यन्ति विपत्तौ यान्ति दुःखिताम् ॥ १०३.१३४ ॥
देवगन्धर्वयक्षाश्च हृष्यन्ते पुत्रजन्मनि ।
पञ्चत्वे तेऽपि शोचन्ति मन्दभाग्योऽस्मि पुत्रक ॥ १०३.१३५ ॥
ऋषिमेलापकं चक्रे पुत्रार्थे राघवो नृप ।
इन्द्रस्थाने स्थितस्तस्य प्रोक्षते ह्यासनं यतः ॥ १०३.१३६ ॥
स्वर्गवासं सुताद्बाह्यं विद्यते न तु पाण्डव ।
चक्रे दशरथस्तस्मात्पुत्रार्थं यज्ञमुत्तमम् ॥ १०३.१३७ ॥
रामो लक्ष्मणशत्रुघ्नौ भरतस्तत्र सम्भवात् ।
कार्तवीर्यो जितो येन रामेणामिततेजसा ॥ १०३.१३८ ॥
स रामो रामचन्द्रेण अष्टवर्षेण निर्जितः ।
एकाकिना हतो वाली प्लवगः शत्रुदुर्जयः ॥ १०३.१३९ ॥
रावणो ब्रह्मपुत्रो यस्त्रैलोक्यं यस्य शङ्कते ।
हतः स रामचन्द्रेण सपुत्रः सहबान्धवः ॥ १०३.१४० ॥
एवं पुत्रं विना सौख्यं मर्त्यलोके न विद्यते ।
वंशार्थे मैथुनं यस्य स्वर्गार्थे यस्य भारती ॥ १०३.१४१ ॥
मृष्टान्नं ब्राह्मणस्यार्थे स्वर्गे वासं तु यान्ति ते ।
ब्रह्महत्याश्वमेधाभ्यां न परं पापपुण्ययोः ॥ १०३.१४२ ॥
पुत्रोत्पत्तिविपत्तिभ्यां न परं सुखदुःखयोः ।
किं ब्रवीमीति भो वत्स न तु सौख्यं सुतं विना ॥ १०३.१४३ ॥
एवं बहुविधं दुःखं प्रलपित्वा पुनःपुनः ।
जनैश्चाश्वासितो विप्रो बालं गृह्य बहिर्गतः ॥ १०३.१४४ ॥
ततः संस्कृत्य तं बालं विधिदृष्टेन कर्मणा ।
समवेतौ तु दुःखार्तावागतौ स्वगृहं पुनः ॥ १०३.१४५ ॥
एवं गृहागते विप्रे रात्रिर्जाता युधिष्ठिर ।
भूमौ प्रसुप्तो गोविन्दः पुत्रशोकेन पीडितः ॥ १०३.१४६ ॥
यावन्निरीक्षते भार्या भर्तारं दुःखपीडितम् ।
कृमिराशिगतं सर्वं गोविन्दं समपश्यत ॥ १०३.१४७ ॥
दुःखाद्दुःखतरे मग्ना दृष्ट्वा तं पातकान्वितम् ।
एवं दुःखनिमग्नायाः शर्वरी विगता तदा ॥ १०३.१४८ ॥
पशुपालस्तु महिषीमुक्त्वारण्येऽगमद्गृहात् ।
अरण्ये महिषीः सर्वा रक्षयित्वा गृहागतः ॥ १०३.१४९ ॥
विज्ञप्तः पशुपालेन गोविन्दो ब्राह्मणोत्तमः ।
यावद्भोक्ष्याम्यहं स्वामिन्महिषीस्त्वं च रक्षसे ॥ १०३.१५० ॥
ततः स त्वरितो विप्रो जगाम महिषीः प्रति ।
न तत्र महिषीः पश्येत्पश्चात्क्षेत्राभिसम्मुखम् ॥ १०३.१५१ ॥
धावमानश्च विप्रस्तु एरण्डीसङ्गमे गतः ।
ततः प्रविष्टस्तु जले रेवैरण्ड्योस्तु सङ्गमे ॥ १०३.१५२ ॥
तज्जलं पीतमात्रं तु त्वरया चातितर्षितः ।
अकामात्सलिलं पीत्वा प्रक्षाल्य नयने शुभे ॥ १०३.१५३ ॥
आजगाम ततः पश्चाद्भवनं दिवसक्षये ।
भुक्त्वा दुःखान्वितो रात्रौ गोविन्दः शयनं ययौ ॥ १०३.१५४ ॥
निद्राभिभूतः शोकेन श्रमेणैव तु खेदितः ।
पुनस्तच्चार्धरात्रे तु तस्य भार्या युधिष्ठिर ॥ १०३.१५५ ॥
कृमिभिर्वेष्टितं गान्त्रं क्वचित्पश्यत्यवेष्टितम् ।
पुनः सा विस्मयाविष्टा तस्य भार्या गुणान्विता ।
उवाच दुष्कृतं तस्य साध्वसाविष्टचेतसा ॥ १०३.१५६ ॥
भार्योवाच -
अतीते पञ्चमे चाह्नि त्विन्धनं क्षिपतस्तु ते ।
गृहपश्चाद्गतो बालो ह्यज्ञानाद्घातितस्त्वया ॥ १०३.१५७ ॥
मया तत्पातकं घोरं रहस्यं न प्रकाशितम् ।
तेन प्रच्छन्नपापेन दह्यमाना दिवानिशम् ॥ १०३.१५८ ॥
न सुखं तव गात्रस्य पश्यामि न हि चात्मनः ।
निद्रा मम शमं याता रतिश्चैव त्वया सह ॥ १०३.१५९ ॥
श्रूयते मानवे शास्त्रे श्लोको गीतो महर्षिभिः ।
स्मृत्वा स्मृत्वा तु तं चित्ते परितापो न शाम्यति ॥ १०३.१६० ॥
कीर्तनान्नश्यते धर्मो वर्धतेऽसौ निगूहनात् ।
इह लोके परे चैव पापस्याप्येवमेव च ॥ १०३.१६१ ॥
एवं संचित्यमानाहं स्थिता रात्रौ भयातुरा ।
कृमिराशिगतं त्वां हि कस्याहं कथयामि किम् ॥ १०३.१६२ ॥
पुनस्त्वं चाद्य मे दृष्टो भ्रूणहत्याकृमिश्रितः ।
क्वचिद्भिन्दन्ति ते गात्रं क्वचिन्नष्टाः समन्ततः ॥ १०३.१६३ ॥
एतत्संस्मृत्य संस्मृत्य विमृशामि पुनःपुनः ।
न जाने कारणं किंचित्पृच्छन्त्याः कथयस्व मे ॥ १०३.१६४ ॥
तडागं वा सरिद्वापि तीर्थं वा देवतार्चनम् ।
यं गतोऽसि प्रभावोऽयं तस्य नान्यस्य मे स्थितम् ॥ १०३.१६५ ॥
एवमुक्तस्तु विप्रोऽसौ कथयामास भारत ।
भार्याया यद्दिवा वृत्तं शङ्कमानो नृपोत्तम ॥ १०३.१६६ ॥
अद्याहं महिषीसार्थं एरण्डीसङ्गमं गतः ।
नाभिमात्रे जले गत्वा पीतवान्सलिलं बहु ॥ १०३.१६७ ॥
नान्यत्तीर्थं विजानामि सरितं सर एव वा ।
सत्यं सत्यं पुनः सत्यं कथितं तव भामिनि ॥ १०३.१६८ ॥
एवं ज्ञात्वा तु सा सर्वमुपवासकृतक्षणा ।
सपत्नीको गतस्तत्र सङ्गमे वरवर्णिनि ॥ १०३.१६९ ॥
स्नात्वा तत्र जले रम्ये नत्वा देवं तु भास्करम् ।
स्नापयामास देवेशं शङ्करं चोमया सह ॥ १०३.१७० ॥
पञ्चगव्यघृतक्षीरैर्दधिक्षौद्रघृतैर्जलैः ।
गन्धमाल्यादिधूपैश्च नैवेद्यैश्च सुशोभनैः ॥ १०३.१७१ ॥
पूज्य त्रयीमयं लिङ्गं देवीं कात्यायनीं शुभाम् ।
रात्रौ जागरणं कृत्वा पत्यासि पतिव्रता ॥ १०३.१७२ ॥
ततः प्रभाते विमले द्विजान्सम्पूज्य यत्नतः ।
गोदानेन हिरण्येन वस्त्रेणान्नेन भारत ॥ १०३.१७३ ॥
गोविन्दः पूजयामास स्वशक्त्या ब्राह्मणाञ्छुभान् ।
मुक्तपापो गृहायातः स्वभार्यासहितो नृप ॥ १०३.१७४ ॥
एवं यः शृणुते भक्त्या गोविन्दाख्यानमुत्तमम् ।
पठते परया भक्त्या भ्रूणहत्या प्रणश्यति ॥ १०३.१७५ ॥
क्रीडते शांकरे लोके यावदाभूतसम्प्लवम् ।
यश्चैवाश्वयुजे मासि चैत्रे वा नृपसत्तम ॥ १०३.१७६ ॥
सप्तम्यां च सिते पक्षे सोपवासो जितेन्द्रियः ।
सात्त्विकीं वासनां कृत्वा यो वसेच्छिवमन्दिरे ॥ १०३.१७७ ॥
ध्यायमानो विरूपाक्षं त्रिशूलकरसंस्थितम् ।
कंसासुरनिहन्तारं शङ्खचक्रगदाधरम् ॥ १०३.१७८ ॥
पक्षिराजसमारूढं त्रैलोक्यवरदायकम् ।
पितामहं ततो ध्यायेद्धंसस्थं चतुराननम् ॥ १०३.१७९ ॥
सर्गप्रदं समस्तस्य कमलाकरशोभितम् ।
यो ह्येवं वसते तत्र त्रियमे स्थान उत्तमे ॥ १०३.१८० ॥
ततः प्रभाते विमले ह्यष्टम्यां च नराधिप ।
ब्राह्मणान् पूजयेद्भक्त्या सर्वदोषविवर्जितान् ॥ १०३.१८१ ॥
सर्वावयवसम्पूर्णान्सर्वशास्त्रविशारदान् ।
वेदाभ्यासरतान्नित्यं स्वदारनिरतान्सदा ॥ १०३.१८२ ॥
श्राद्धे दाने व्रते योग्यान् ब्राह्मणान् पाण्डुनन्दन ।
प्रेतानां पूजनं तत्र देवपूर्वं समारभेत् ॥ १०३.१८३ ॥
प्रेतत्वान्मुच्यते शीघ्रमेरण्ड्यां पिण्डतर्पणैः ।
दानानि तत्र देयानि ह्यन्नमुख्यानि सर्वदा ॥ १०३.१८४ ॥
हिरण्यभूमिकन्याश्च धूर्वाहौ शुभलक्षणौ ।
सीरेण सहितौ पार्थ धान्यं द्रोणकसंख्यया ॥ १०३.१८५ ॥
अलंकृतां सवत्सां च क्षीरिणीं तरुणीं सिताम् ।
रक्तां वा कृष्णवर्णां वा पाटलां कपिलां तथा ॥ १०३.१८६ ॥
कांस्यदोहनसंयुक्तां रुक्मखुरविभूषणाम् ।
स्वर्णशृङ्गीं सवत्सां च ब्राह्मणायोपपादयेत् ॥ १०३.१८७ ॥
प्रीयतां मे जगन्नाथा हरकृष्णपितामहाः ।
संसाररक्षणी देवी सुरभी मां समुद्धरेत् ॥ १०३.१८८ ॥
पुत्रार्थं याः स्त्रियः पार्थ ह्येरण्डीसङ्गमे नृप ।
स्नाप्यन्ते रुद्रसूक्तैश्च चतुर्वेदोद्भवैस्तथा ॥ १०३.१८९ ॥
चतुर्भिर्ब्राह्मणैः शस्तं द्वाभ्यां योग्यैश्च कारयेत् ।
एकेन सार्द्रकुम्भेन दाम्पत्यमभिषेचयेत् ॥ १०३.१९० ॥
दैवज्ञेनैव चैकेन अथवा सामगेन वा ।
पञ्चरत्नसमायुक्तं कुम्भे तत्रैव कारयेत् ॥ १०३.१९१ ॥
गन्धतोयसमायुक्तं सर्वौषधिविमिश्रितम् ।
आम्रपल्लवसंयुक्तमश्वत्थमधुकं तथा ॥ १०३.१९२ ॥
गुण्ठितं सितवस्त्रेण सितचन्दनचर्चितम् ।
सितपुष्पैस्तु संछन्नं सिद्धार्थकृतमध्यमम् ॥ १०३.१९३ ॥
कांस्यपात्रे तु संस्थाप्य पुत्रार्थी देशिकोत्तमः ।
अङ्गलग्नं तु यद्वस्त्रं कटकाभरणं तथा ॥ १०३.१९४ ॥
तत्सर्वं मण्डले त्याज्यं सिद्ध्यर्थं चात्मनस्तदा ।
प्रणम्य भास्करं पश्चादाचार्यं रुद्ररूपिणम् ॥ १०३.१९५ ॥
मधुरं च ततोऽश्नीयाद्देव्या भुवन उत्तमे ।
फलदानं च विप्राय छत्रं ताम्बूलमेव च ॥ १०३.१९६ ॥
उपानहौ च यानं च स भवेद्दुःखवर्जितः ।
भास्करे क्रीडते लोके यावदाभूतसम्प्लवम् ॥ १०३.१९७ ॥
दानं कोटिगुणं सर्वं शुभं वा यदि वाशुभम् ।
यथा नदीनदाः सर्वे सागरे यान्ति संक्षयम् ॥ १०३.१९८ ॥
एवं पापानि नश्यन्ति ह्येरण्डीसङ्गमे नृणाम् ।
समन्ताच्छस्त्रपातेन ह्येरण्डीसङ्गमे नृप ॥ १०३.१९९ ॥
भ्रूणहत्यासमं पापं नश्यते शङ्करोऽब्रवीत् ।
प्राणत्यागं च यो भक्त्या जातवेदसि कारयेत् ॥ १०३.२०० ॥
अनाशकं नृपश्रेष्ठ जले वा तदनन्तरम् ।
पञ्चसाहस्रिकं मानं वर्षाणां जातवेदसि ॥ १०३.२०१ ॥
जले त्रीणि सहस्राण्यनाशके षष्टिं भुञ्जते ।
काका बकाः कपोताश्च ह्युलूकाः पशवस्तथा ॥ १०३.२०२ ॥
संगमोदकसंस्पृष्टास्ते यान्ति परमां गतिम् ।
वृक्षाश्च तत्पदं ज्ञात्वा यां गतिं यान्ति योगिनः ॥ १०३.२०३ ॥
एरण्डिका मया देवी दृष्टो मे मन्मथेश्वरः ।
किं समर्थो यमो रुष्टो भद्रो भद्राणि पश्यति ॥ १०३.२०४ ॥
मृत्तिकां सङ्गमोद्भूतां ये च गुण्ठन्ति नित्यशः ।
भ्रूणहत्यादिपापानि नश्यन्ते नात्र संशयः ॥ १०३.२०५ ॥
एरण्डीसङ्गमे मर्त्यो लुण्ठ्यमानो नराधिप ।
सर्वपापैर्विनिर्मुक्तः पदं गच्छत्यनामयम् ॥ १०३.२०६ ॥
एरण्ड्याः सङ्गमं मर्त्याः कीर्तयन्त्याश्रमस्थिताः ।
विमुक्तपापा जायन्ते सत्यं शङ्करभाषितम् ॥ १०३.२०७ ॥
एरण्डीपादपाग्रैस्तु दृष्टैः पापं व्यपोहति ॥ १०३.२०८ ॥
तीर्थाख्यानमिदं पुण्यं ये पठिष्यन्ति मानवाः ।
शृण्वन्ति चापरे भक्त्या मुक्तपापा भवन्ति ते ॥ १०३.२०९ ॥
एतत्ते सर्वमाख्यातमेरण्डीसङ्गमं नृप ।
भूयश्चान्यत्प्रवक्ष्यामि सर्वपापक्षयंकरम् ॥ १०३.२१० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीसङ्गमतीर्थफलमाहात्म्यवर्णनं नाम त्र्यधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 104
अध्याय १०४
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपालं सौवर्णशिलमुत्तमम् ।
प्रख्यातमुत्तरे कूले सर्वपापक्षयंकरम् ॥ १०४.१ ॥
समन्ताच्छतपातेन मुनिसङ्घैः पुरा कृतम् ।
रेवायां दुर्लभं स्थानं सङ्गमस्य समीपतः ॥ १०४.२ ॥
विभक्तं हस्तमात्रं च पुण्यक्षेत्रं नराधिप ।
सुवर्णशिलके स्नात्वा पूजयित्वा महेश्वरम् ॥ १०४.३ ॥
नत्वा तु भास्करं देवं होतव्यं च हुताशने ।
बिल्वेनाज्यविमिश्रेण बिल्वपत्रैरथापि वा ॥ १०४.४ ॥
प्रीयतां मे जगन्नाथो व्याधिर्नश्यतु मे ध्रुवम् ।
द्विजाय काञ्चने दत्ते यत्फलं तच्छृणुष्व मे ॥ १०४.५ ॥
बहुस्वर्णस्य यत्प्रोक्तं यागस्य फलमुत्तमम् ।
तथासौ लभते सर्वं काञ्चनं यः प्रयच्छति ॥ १०४.६ ॥
तेन दानेन पूतात्मा मृतः स्वर्गमवाप्नुयात् ।
रुद्रस्यानुचरस्तावद्यावदिन्द्राश्चतुर्दश ॥ १०४.७ ॥
ततः स्वर्गावतीर्णस्तु जायते विशदे कुले ।
धनधान्यसमोपेतः पुनः स्मरति तज्जलम् ॥ १०४.८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सुवर्णशिलातीर्थमाहात्म्यवर्णनं नाम चतुरधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 105
अध्याय १०५
श्रीमार्कण्डेय उवाच -
करञ्जाख्यं ततो गच्छेत्सोपवासो जितेन्द्रियः ।
तत्र स्नात्वा तु राजेन्द्र सर्वपापैः प्रमुच्यते ॥ १०५.१ ॥
अर्चयित्वा महादेवं दत्त्वा दानं तु भक्तितः ।
सुवर्णं रजतं वापि मणिमौक्तिकविद्रुमान् ॥ १०५.२ ॥
पादुकोपानहौ छत्रं शय्यां प्रावरणानि च ।
कोटिकोटिगुणं सर्वं जायते नात्र संशयः ॥ १०५.३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे करञ्जतीर्थमाहात्म्यवर्णनं नाम पञ्चाधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 106
अध्याय १०६
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल तीर्थं परमशोभनम् ।
सौभाग्यकरणं दिव्यं नरनारीमनोरमम् ॥ १०६.१ ॥
तत्र या दुर्भगा नारी नरो वा नृपसत्तम ।
स्नात्वार्चयेदुमारुद्रौ सौभाग्यं तस्य जायते ॥ १०६.२ ॥
तृतीयायामहोरात्रं सोपवासो जितेन्द्रियः ।
निमन्त्रयेद्द्विजं भक्त्या सपत्नीकं सुरूपिणम् ॥ १०६.३ ॥
गन्धमाल्यैरलंकृत्य वस्त्रधूपादिवासितम् ।
भोजयेत्पायसान्नेन कृसरेणाथ भक्तितः ॥ १०६.४ ॥
भोजयित्वा यथान्यायं प्रदक्षिणमुदाहरेत् ।
प्रीयतां मे महादेवः सपत्नीको वृषध्वजः ॥ १०६.५ ॥
यथा ते देवदेवेश न वियोगः कदाचन ।
ममापि करुणां कृत्वा तथास्त्विति विचिन्तयेत् ॥ १०६.६ ॥
एवं कृते ततस्तस्य यत्पुण्यं समुदाहृतम् ।
तत्ते सर्वं प्रवक्ष्यामि यथा देवेन भाषितम् ॥ १०६.७ ॥
दौर्भाग्यं दुर्गतिश्चैव दारिद्र्यं शोकबन्धनम् ।
वन्ध्यत्वं सप्तजन्मानि जायते न युधिष्ठिर ॥ १०६.८ ॥
ज्येष्ठमासे सिते पक्षे तृतीयायां विशेषतः ।
तत्र गत्वा तु यो भक्त्या पञ्चाग्निं साधयेत्ततः ॥ १०६.९ ॥
सोऽपि पापैरशेषैस्तु मुच्यते नात्र संशयः ।
गुग्गुलं दहते यस्तु द्विधा चित्तविवर्जितः ॥ १०६.१० ॥
शरीरं भेदयेद्यस्तु गौर्याश्चैव समीपतः ।
तस्मिन्कर्मप्रविष्टस्य उत्क्रान्तिर्जायते यदि ॥ १०६.११ ॥
देहपाते व्रजेत्स्वर्गमित्येवं शङ्करोऽब्रवीत् ।
सितरक्तैस्तथा पीतैर्वस्त्रैश्च विविधैः शुभैः ॥ १०६.१२ ॥
ब्राह्मणीं ब्राह्मणं चैव पूजयित्वा यथाविधि ।
पुष्पैर्नानाविधैश्चैव गन्धधूपैः सुशोभनैः ॥ १०६.१३ ॥
कण्ठसूत्रकसिन्दूरैः कुङ्कुमेन विलेपयेत् ।
कल्पयेत स्त्रियं गौरीं ब्राह्मणं शिवरूपिणम् ॥ १०६.१४ ॥
तेषां तद्रूपकं कृत्वा दानमुत्सृज्यते ततः ।
कङ्कणं कर्णवेष्टं च कण्ठिकां मुद्रिकां तथा ॥ १०६.१५ ॥
सप्तधान्यं तथा चैव भोजनं नृपसत्तम ।
अन्यान्यपि च दानानि तस्मिंस्तीर्थे ददाति यः ॥ १०६.१६ ॥
सर्वदानैश्च यत्पुण्यं प्राप्नुयान्नात्र संशयः ।
सहस्रगुणितं सर्वं नात्र कार्या विचारणा ॥ १०६.१७ ॥
शङ्करेण समं तस्माद्भोगं भुङ्क्ते ह्यनुत्तमम् ।
सौभाग्यं तस्य विपुलं जायते नात्र संशयः ॥ १०६.१८ ॥
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ।
राजेन्द्र कामदं तीर्थं नर्मदायां व्यवस्थितम् ॥ १०६.१९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कामदतीर्थमाहात्म्यवर्णनं नाम षडुत्तरशततमोऽध्यायः॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 107
अध्याय १०७
श्रीमार्कण्डेय उवाच -
ततो गच्छेत राजेन्द्र भण्डारीतीर्थमुत्तमम् ।
दरिद्रच्छेदकरणं युगान्येकोनविंशतिः ॥ १०७.१ ॥
धनदेन तपस्तप्त्वा प्रसन्ने पद्मसम्भवे ।
तत्रैव स्वल्पदानेन प्राप्तं वित्तस्य रक्षणम् ॥ १०७.२ ॥
तत्र गत्वा तु यो भक्त्या स्नात्वा वित्तं प्रयच्छति ।
तस्य वित्तपरिच्छेदो न कदाचिद्भविष्यति ॥ १०७.३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भण्डारीतीर्थमाहात्म्यवर्णनं नाम सप्तोत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 108
अध्याय १०८
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल रोहिणीतीर्थमुत्तमम् ।
विख्यातं त्रिषु लोकेषु सर्वपापहरं परम् ॥ १०८.१ ॥
युधिष्ठिर उवाच -
रोहिणीतीर्थमाहात्म्यं सर्वपापप्रणाशनम् ।
श्रोतुमिच्छामि तत्त्वेन तन्मे त्वं वक्तुमर्हसि ॥ १०८.२ ॥
श्रीमार्कण्डेय उवाच -
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
उदधौ च शयानस्य देवदेवस्य चक्रिणः ॥ १०८.३ ॥
नाभौ समुत्थितं पद्मं रविमण्डलसन्निभम् ।
कर्णिकाकेसरोपेतं पत्रैश्च समलंकृतम् ॥ १०८.४ ॥
तत्र ब्रह्मा समुत्पन्नश्चतुर्वदनपङ्कजः ।
किं करोमीति देवेश आज्ञा मे दीयतां प्रभो ॥ १०८.५ ॥
एवमुक्तस्तु देवेशः शङ्खचक्रगदाधरः ।
उवाच मधुरां वाणीं तदा देवं पितामहम् ॥ १०८.६ ॥
सरस्वत्यां महाबाहो लोकं कुरु ममाज्ञया ।
भूतग्राममशेषस्य उत्पादनविधिक्षयम् ॥ १०८.७ ॥
एतच्छ्रुतं तु वचनं पद्मनाभस्य भारत ।
चिन्तयामास भगवान्सप्तर्षीन्हितकाम्यया ॥ १०८.८ ॥
क्रमात्ते चिन्तिताः प्राज्ञाः पुलस्त्यः पुलहः क्रतुः ।
प्राचेतसो वसिष्ठश्च भृगुर्नारद एव च ॥ १०८.९ ॥
यज्ञे प्राचेतसो दक्षो महातेजाः प्रजापतिः ।
दक्षस्यापि तथा जाताः पञ्चाशद्दुहितरोऽनघ ॥ १०८.१० ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
तथैव स महाभागः सप्तविंशतिमिन्दवे ॥ १०८.११ ॥
रोहिणीनाम या तासां मध्ये तस्य नराधिप ।
अनिष्टा सर्वनारीणां भर्तुश्चैव विशेषतः ॥ १०८.१२ ॥
ततः सा परमं कृत्वा वैराग्यं नृपसत्तम ।
आगत्य नर्मदातीरे चचार विपुलं तपः ॥ १०८.१३ ॥
एकरात्रैस्त्रिरात्रैश्च षड्द्वादशभिरेव च ।
पक्षमासोपवासैश्च कर्शयन्ति कलेवरम् ॥ १०८.१४ ॥
आराधयन्ती सततं महिषासुरनाशिनीं ।
देवीं भगवतीं तात सर्वार्तिविनिवारणीम् ॥ १०८.१५ ॥
स्नात्वा स्नात्वा जले नित्यं नर्मदायाः शुचिस्मिता ।
ततस्तुष्टा महाभागा देवी नारायणी नृप ॥ १०८.१६ ॥
प्रसन्ना ते महाभागे व्रतेन नियमेन च ।
एतच्छ्रुत्वा तु वचनं रोहिणी शशिनः प्रिया ॥ १०८.१७ ॥
यथा भवामि न चिरात्तथा भवतु मानदे ।
एवमस्त्विति सा चोक्त्वा भवानी भक्तवत्सला ॥ १०८.१८ ॥
स्तूयमाना मुनिगणैस्तत्रैवान्तरधीयत ।
तदाप्रभृति तत्तीर्थं रोहिणी शशिनः प्रिया ॥ १०८.१९ ॥
संजाता सर्वकालं तु वल्लभा नृपसत्तम ।
तत्र तीर्थे तु या नारी नरो वा स्नानि भक्तितः ॥ १०८.२० ॥
वल्लभा जायते सा तु भर्तुर्वै रोहिणी यथा ।
तत्र तीर्थे तु यः कश्चित्प्राणत्यागं करोति वै ॥ १०८.२१ ॥
सप्तजन्मानि दाम्पत्यवियोगो न भवेत्क्वचित् ॥ १०८.२२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रोहिणीसोमनाथतीर्थमाहात्म्यवर्णनं नामाष्टोत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 109
अध्याय १०९
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल चक्रतीर्थमनुत्तमम् ।
सेनापुरमितिख्यातं सर्वपापक्षयंकरम् ॥ १०९.१ ॥
सैनापत्याभिषेकाय देवदेवेन चक्रिणा ।
आनीतश्च महासेनो देवैः सेन्द्रपुरोगमैः ॥ १०९.२ ॥
दानवानां वधार्थाय जयाय च दिवौकसाम् ।
भूमिदानेन विप्रेन्द्रांस्तर्पयित्वा यथाविधि ॥ १०९.३ ॥
शङ्खभेरीनिनादैश्च पटहानां च निस्वनैः ।
वीणावेणुमृदङ्गैश्च झल्लरीस्वरमङ्गलैः ॥ १०९.४ ॥
ततः कृत्वा स्वनं घोरं दानवो बलदर्पितः ।
रुरुर्नाम विघातार्थमभिषेकस्य चागतः ॥ १०९.५ ॥
हस्त्यश्वरथपत्त्योघैः पूरयन्वै दिशो दश ।
तत्र तेन महद्युद्धं प्रवृत्तं किल भारत ॥ १०९.६ ॥
शक्त्यृष्टिपाशमुशलैः खड्गैस्तोमरटङ्कनैः ।
भल्लैः कर्णिकनाराचैः कबन्धपटसंकुलैः ॥ १०९.७ ॥
ततस्तु तां शत्रुबलस्य सेनां क्षणेन चापन्च्युतबाणघातैः ।
विध्वस्तहस्त्यश्वरथान्महात्मा जग्राह चक्रं रिपुसङ्घनाशनः ॥ १०९.८ ॥
ज्वलच्च चक्रं निशितं भयंकरं सुरासुराणां च सुदर्शनं रणे ।
चकर्त दैत्यस्य शिरस्तदानीं करात्प्रमुक्तं मधुघातिनश्च तत् ॥ १०९.९ ॥
तं दृष्ट्वा सहसा विघ्नमभिषेके षडाननः ।
त्यक्त्वा तु तत्र संस्थानं चचार विपुलं तपः ॥ १०९.१० ॥
मुक्तं चक्रं विनाशाय हरिणा लोकधारिणा ।
द्विदलं दानवं कृत्वा पपात विमले जले ॥ १०९.११ ॥
तदा प्रभृति तत्तीर्थं चक्रतीर्थमिति श्रुतम् ।
सर्वपापविनाशाय निर्मितं विश्वमूर्तिना ॥ १०९.१२ ॥
चक्रतीर्थे तु यः स्नात्वा पूजयेद्देवमच्युतम् ।
पुण्डरीकस्य यज्ञस्य फलमाप्नोति मानवः ॥ १०९.१३ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेद्ब्राह्मणाञ्छुभान् ।
शान्तदान्तजितक्रोधान्स लभेत्कोटिजं फलम् ॥ १०९.१४ ॥
तत्र तीर्थे तु यो भक्त्या त्यजते देहमात्मनः ।
विष्णुलोकं मृतो याति जयशब्दादिमङ्गलैः ॥ १०९.१५ ॥
क्रीडयित्वा यथाकामं देवगन्धर्वपूजितः ।
इहागत्य च भूयोऽपि जायते विपुले कुले ॥ १०९.१६ ॥
एतत्पुण्यं पापहरं धन्यं दुःखप्रणाशनम् ।
कथितं ते महाभाग भूयश्चान्यच्छृणुष्व मे ॥ १०९.१७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सेनापुरे चक्रतीर्थमाहात्म्यवर्णनं नाम नवोत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 110
अध्याय ११०
श्रीमार्कण्डेय उवाच -
धौतपापं ततो गच्छेन्महापातकनाशनम् ।
समीपे चक्रतीर्थस्य विष्णुना निर्मितं पुरा ॥ ११०.१ ॥
निहतैर्दानवैर्घोरैर्देवदेवो जनार्दनः ।
तत्पापस्य विनाशार्थं दानवान्तोद्भवस्य च ॥ ११०.२ ॥
तत्र तीर्थे जितक्रोधश्चचार विपुलं तपः ।
दुश्चरं मौनमास्थाय ह्यशक्यं देवदानवैः ॥ ११०.३ ॥
स्नात्वा दत्त्वा द्विजातिभ्यो दानानि विविधानि च ।
तत्क्षणात्सुपापस्तु गतस्तद्वैष्णवं पदम् ॥ ११०.४ ॥
एवं युक्तस्तु यस्तत्र पापं कृत्वा सुदारुणम् ।
स्नात्वा जप्त्वा विधानेन मुच्यते सर्वपातकैः ॥ ११०.५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे धौतपापतीर्थमाहात्म्यवर्णनं नाम दशोत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 111
अध्याय १११
श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।
स्कन्देन निर्मितं पूर्वं तपः कृत्वा सुदारुणम् ॥ १११.१ ॥
युधिष्ठिर उवाच -
स्कन्दस्य चरितं सर्वमाजन्म द्विजसत्तम ।
तीर्थस्य च विधिं पुण्यं कथयस्व यथार्थतः ॥ १११.२ ॥
श्रीमार्कण्डेय उवाच -
देवदेवेन वै तप्तं तपः पूर्वं युधिष्ठिर ।
विज्ञप्तेन सुरैः सर्वैरुमादेवी विवाहिता ॥ १११.३ ॥
नास्ति सेनापतिः कश्चिद्देवानां सुरसत्तम ।
नीयन्ते दानवैर्घोरैः सर्वे देवाः सवासवाः ॥ १११.४ ॥
यथा निशा विना चन्द्रं दिवसो भास्करं विना ।
न शोभते मुहूर्तं वै तथा सेना विनायका ॥ १११.५ ॥
एवं ज्ञात्वा महादेव परया दयया विभो ।
सेनानीर्दीयतां कश्चित्त्रिषु लोकेषु विश्रुतः ॥ १११.६ ॥
एतच्छ्रुत्वा शुभं वाक्यं देवानां परमेश्वरः ।
कामयान उमां देवीं सस्मार मनसा स्मरम् ॥ १११.७ ॥
तेन मूर्छितसर्वाङ्गः कामरूपो जगद्गुरुः ।
कामयामास रुद्राणीं दिव्यं वर्षशतं किल ॥ १११.८ ॥
देवराजस्ततो ज्ञात्वा महामैथुनगं हरम् ।
संमन्त्र्य दैवतैः सार्द्धं प्रैषयज्जातवेदसम् ॥ १११.९ ॥
तेन गत्वा महादेवः परमानन्दसंस्थितः ।
सहसा तेन दृष्टोऽसौ हाहेत्युक्त्वा समुत्थितः ॥ १११.१० ॥
ततः क्रुद्धा महादेवी शापवाचमुवाच ह ।
वेपमाना महाराज शृणु यत्ते वदाम्यहम् ॥ १११.११ ॥
अहं यस्मात्सुरैः सर्वैर्याचिता पुत्रजन्मनि ।
कृता रतिश्च विफला संप्रेष्य जातवेदसम् ॥ १११.१२ ॥
तस्मात्सर्वे पुत्रहीना भविष्यन्ति न संशयः ।
हरेणोक्तस्ततो वह्निरस्माकं बीजमावह ॥ १११.१३ ॥
यथा भवति लोकेषु तथा त्वं कर्तुमर्हसि ।
मम तेजस्त्वया शक्यं गृहीतुं सुरसत्तम ।
देवकार्यार्थसिद्ध्यर्थं नान्यः शक्तो जगत्त्रये ॥ १११.१४ ॥
अग्निरुवाच -
तेजसस्तव मे देव का शक्तिर्धारणे विभो ।
करोति भस्मसात्सर्वं त्रैलोक्यं सचराचरम् ॥ १११.१५ ॥
ईश्वर उवाच -
उदरस्थेन बीजेन यदि ते जायते रुजा ।
तदा क्षिपस्व तत्तेजो गङ्गातोये हुताशन ॥ १११.१६ ॥
एवमुक्त्वा महादेवोऽमोघं बीजमुत्तमम् ।
हव्यवाहमुखे सर्वं प्रक्षिप्यान्तरधीयत ॥ १११.१७ ॥
गते चादर्शनं देवे दह्यमानो हुताशनः ।
गङ्गातोये विनिक्षिप्य जगाम स्वंनिवेशनम् ॥ १११.१८ ॥
असहन्ती तु तत्तेजो गङ्गापि सरितां वरा ।
शरस्तम्बे विनिक्षिप्य जगामाशु यथागतम् ॥ १११.१९ ॥
तत्र जातं तु तद्दृष्ट्वा सर्वे देवाः सवासवाः ।
कृत्तिकां प्रेषयामासुः स्तन्यं पाययितुं तदा ॥ १११.२० ॥
दृष्ट्वा ता आगताः सर्वा गङ्गागर्भे महामतेः ।
षण्मुखैः षण्मुखो भूत्वा पिपासुरपिबत्स्तनम् ॥ १११.२१ ॥
जातकर्मादिसंस्कारान्वेदोक्तान्पद्मसम्भवः ।
चकार सर्वान्दाजेन्द्र विधिदृष्टेन कर्मणा ॥ १११.२२ ॥
षण्मुखात्षण्मुखो नाम कार्त्तिकेयस्तु कृत्तिकात् ।
कुमारश्च कुमारत्वाद्गङ्गागर्भोऽग्निजोऽपरः ॥ १११.२३ ॥
एवं कुमारः सम्भूतो ह्यनधीत्य स वेदवित् ।
शास्त्राण्यनेकानि वेद चचार विपुलं तपः ॥ १११.२४ ॥
देवारण्येषु सर्वेषु नदीषु च नदेषु च ।
पृथिव्यां यानि तीर्थानि समुद्राद्यानि भारत ॥ १११.२५ ॥
ततः पर्याययोगेन नर्मदातटमाश्रितः ।
नर्मदादक्षिणे कूले चचार विपुलं तपः ॥ १११.२६ ॥
ऋग्यजुःसामविहितं जपञ्जाप्यमहर्निशम् ।
ध्यायमानो महादेवं शुचिर्धमनिसंततः ॥ १११.२७ ॥
ततो वर्षसहस्रान्ते पूर्णे देवो महेश्वरः ।
उमया सहितः काले तदा वचनमब्रवीत् ॥ १११.२८ ॥
ईश्वर उवाच -
अहं ते वरदस्तात गौरी माता पिता ह्यहम् ।
वरं वृणीष्व यच्चेष्टं त्रिषु लोकेषु दुर्लभम् ॥ १११.२९ ॥
षण्मुख उवाच -
यदि तुष्टो महादेव उमया सह शङ्कर ।
वृणोमि मातापितरौ नान्या गतिर्मतिर्मम ॥ १११.३० ॥
एतच्छ्रुत्वा शुभं वाक्यं पुत्रस्य वदनाच्च्युतम् ।
तथेत्युक्त्वा तु स्नेहेन प्रेम्णा तं परिषस्वजे ॥ १११.३१ ॥
ततस्तं मूर्ध्न्युपाघ्राय ह्युमयोवाच शङ्करः ॥ १११.३२ ॥
ईश्वर उवाच -
अक्षयश्चाव्ययश्चैव सेनानीस्त्वं भविष्यसि ॥ १११.३३ ॥
शिखी च ते वाहनं दिव्यरूपो दत्तो मया शक्तिधरस्य संख्ये ।
सुरासुरादींश्च जयेति चोक्त्वा जगाम कैलासवरं महात्मा ॥ १११.३४ ॥
गते चादर्शनं देवे तदा स शिखिवाहनः ।
स्थापयित्वा महादेवं जगाम सुरसन्निधौ ॥ १११.३५ ॥
तदाप्रभृति तत्तीर्थं स्कन्दतीर्थमिति श्रुतम् ।
सर्वपापहरं पुण्यं मर्त्यानां भुवि दुर्लभम् ॥ १११.३६ ॥
तत्र तीर्थे तु यो राजन्भक्त्या स्नात्वार्चयेच्छिवम् ।
गन्धमाल्याभिषेकैश्च याज्ञिकं स लभेत्फलम् ॥ १११.३७ ॥
स्कन्दतीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ।
तिलमिश्रेण तोयेन तस्य पुण्यफलं शृणु ॥ १११.३८ ॥
पिण्डदानेन चैकेन विधियुक्तेन भारत ।
द्वादशाब्दानि तुष्यन्ति पितरो नात्र संशयः ॥ १११.३९ ॥
तत्र तीर्थे तु राजेन्द्र शुभं वा यादि वाशुभम् ।
इह लोके परे चैव तत्सर्वं जायतेऽक्षयम् ॥ १११.४० ॥
तत्र तीर्थे तु यः कश्चित्प्राणत्यागं करिष्यति ।
शास्त्रयुक्तेन विधिना स गच्छेच्छिवमन्दिरम् ॥ १११.४१ ॥
कल्पमेकं वसित्वा तु देवगन्धर्वपूजितः ।
अत्र भारतवर्षे तु जायते विमले कुले ॥ १११.४२ ॥
वेदवेदाङ्गतत्त्वज्ञः सर्वव्याधिविवर्जितः ।
जीवेद्वर्षशतं साग्रं पुत्रपौत्रसमन्वितः ॥ १११.४३ ॥
इदं ते कथितं राजन्स्कन्दतीर्थस्य सम्भवम् ।
धन्यं यशस्यमायुष्यं सर्वदुःखघ्नमुत्तमम् ।
सर्वपापहरं पुण्यं देवदेवेन भाषितम् ॥ १११.४४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे स्कन्दतीर्थमाहात्म्यवर्णनं नामैकादशोत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 112
अध्याय ११२
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थमाङ्गिरसस्य तु ।
उत्तरे नर्मदाकूले सर्वपापविनाशनम् ॥ ११२.१ ॥
पुरासीदङ्गिरानाम ब्राह्मणो वेदपारगः ।
पुत्रहेतोर्युगस्यादौ चचार विपुलं तपः ॥ ११२.२ ॥
नित्यं त्रिषवणस्नायी जपन्देवं सनातनम् ।
पूजयंश्च महादेवं कृच्छ्रचान्द्रायणादिभिः ॥ ११२.३ ॥
द्वादशाब्दे ततः पूर्णे तुतोष परमेश्वरः ।
वरेण छन्दयामास द्विजमाङ्गिरसं वरम् ॥ ११२.४ ॥
वव्रे स तु महादेवं पुत्रं पुत्रवतां वरम् ।
वेदविद्याव्रतस्नातं सर्वशास्त्रविशारदम् ॥ ११२.५ ॥
देवानां मन्त्रिणं राजन् सर्वलोकेषु पूजितम् ।
ब्रह्मलक्ष्म्याः सदावासमक्षयं चाव्ययं सुतम् ॥ ११२.६ ॥
तथाभिलषितः पुत्रः सर्वविद्याविशारदः ।
भविष्यति न सन्देहश्चैवमुक्त्वा ययौ हरः ॥ ११२.७ ॥
वरैरङ्गिरसश्चापि बृहस्पतिरजायत ।
यथाभिलषितः पुत्रो वेदवेदाङ्गपारगः ॥ ११२.८ ॥
जाते पुत्रेऽङ्गिरास्तत्र स्थापयामास शङ्करम् ।
हृष्टतुष्टमना भूत्वा जगामोत्तरपर्वतम् ॥ ११२.९ ॥
तत्र चाङ्गिरसे तीर्थे यः स्नात्वा पूजयेच्छिवम् ।
सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति ॥ ११२.१० ॥
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ।
इच्छते यश्च यं कामं स तं लभति मानवः ॥ ११२.११ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽग्निरसतीर्थमाहात्म्यवर्णनं नाम द्वादशाधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 113
अध्याय ११३
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र कोटितीर्थमनुत्तमम् ।
ऋषिकोटिर्गता तत्र परां सिद्धिमुपागता ॥ ११३.१ ॥
तत्र तीर्थे तु यः स्नात्वा भोजयेद्ब्राह्मणाञ्छुचिः ।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥ ११३.२ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ।
पूजिते तु महादेवे वाजपेयफलं लभेत् ॥ ११३.३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नाम त्रयोदशाधिकशाततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 114
अध्याय ११४
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
अयोनिजं महापुण्यं सर्वपापप्रणाशनम् ॥ ११४.१ ॥
अयोनिजे नरः स्नात्वा पूजयेत्परमेश्वरम् ।
पितृदेवार्चनं कृत्वा मुच्यते सर्वकिल्बिषैः ॥ ११४.२ ॥
तत्र तीर्थे तु विधिना प्राणत्यागं करोति यः ।
स कदाचिन्महाराज योनिद्वारं न पश्यति ॥ ११४.३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अयोनिसम्भवतीर्थमाहात्म्यवर्णनं नाम चतुर्दशाधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 115
अध्याय ११५
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज तीर्थमङ्गारकं परम् ।
रूपदं सर्वलोकानां विश्रुतं नर्मदातटे ॥ ११५.१ ॥
अङ्गारकेण राजेन्द्र पुरा तप्तं तपः किल ।
अर्बुदं च निखर्वं च प्रयुतं वर्षसंख्यया ॥ ११५.२ ॥
ततस्तुष्टो महादेवः परया कृपया नृप ।
प्रत्यक्षदर्शी भगवानुवाच क्षितिनन्दनम् ॥ ११५.३ ॥
वरदोऽस्मि महाभाग दुर्लभं त्रिदशैरपि ।
वरं दास्याम्यहं वत्स ब्रूहि यत्ते विवक्षितम् ॥ ११५.४ ॥
अङ्गारक उवाच -
तव प्रसादाद्देवेश सर्वलोकमहेश्वर ।
ग्रहमध्यगतो नित्यं विचरामि नभस्तले ॥ ११५.५ ॥
यावद्धराधरो लोके यावच्चन्द्रदिवाकरौ ।
नद्यो नदाः समुद्राश्च वरो मे चाक्षयो भवेत् ॥ ११५.६ ॥
एवमस्त्विति देवेशो दत्त्वा वरमनुत्तमम् ।
जगामाकाशमाविश्य वन्द्यमानः सुरासुरैः ॥ ११५.७ ॥
भूमिपुत्रस्ततस्तस्मिन्स्थापयामास शङ्करम् ।
गतः सुरालये लोके ग्रहभावे निवेशितः ॥ ११५.८ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
हुतहोमो जितक्रोधः सोऽश्वमेधफलं लभेत् ॥ ११५.९ ॥
चतुर्थ्यङ्गारके यस्तु स्नात्वा चाभ्यर्चयेद्ग्रहम् ।
अङ्गारकं विधानेन सप्तजन्मानि भारत ॥ ११५.१० ॥
दशयोजनविस्तीर्णे मण्डले रूपवान् भवेत् ।
तत्रैव ता मृतो जन्तुः कामतोऽकामतोऽपि वा ।
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ ११५.११ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अङ्गारकतीर्थमाहात्म्यवर्णनं नाम पञ्चदशोत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 116
अध्याय ११६
मार्कण्डेय उवाच -
पाण्डुतीर्थं ततो गच्छेत्सर्वपापविनाशनम् ।
तत्र स्नात्वा नरो राजन्मुच्यते सर्वकिल्बिषैः ॥ ११६.१ ॥
तत्र तीर्थे तु यः स्नात्वा दापयेत्काञ्चनं शुचिः ।
भ्रूणहत्यादिपापानि नश्यन्ते नात्र संशयः ॥ ११६.२ ॥
पिण्डोदकप्रदानेन वाजपेयफलं लभेत् ।
पितरः पितामहाश्च नृत्यन्ते च प्रहर्षिताः ॥ ११६.३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पाण्डुतीर्थमाहात्म्यवर्णनं नाम षोडशाधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 117
अध्याय ११७
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र पुण्यं तीर्थं त्रिलोचनम् ।
तत्र तिष्ठति देवेशः सर्वलोकनमस्कृतः ॥ ११७.१ ॥
तत्र तीर्थे तु यः स्नात्वा भक्त्यार्चयति शङ्करम् ।
रुद्रस्य भवनं याति मृतो नास्त्यत्र संशयः ॥ ११७.२ ॥
कल्पक्षये ततः पूर्णे क्रीडित्वा च इहागतः ।
आवियोगेन तिष्ठेत पूज्यमानः शतं समाः ॥ ११७.३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे त्रिलोचनतीर्थमाहात्म्यवर्णनं नाम सप्तदशोत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 118
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
इन्द्रतीर्थेतिविख्यातं नर्मदादक्षिणे तटे ॥ ११८.१ ॥
युधिष्ठिर उवाच -
नर्मदादक्षिणे कूले इन्द्रतीर्थं कथं भवेत् ।
श्रोतुमिच्छामि विप्रेन्द्र ह्यादिमध्यान्तविस्तरैः ॥ ११८.२ ॥
एतच्छ्रुत्वा तु वचनं धर्मपुत्रस्य धीमतः ।
कथयामास तद्वत्तमितिहासं पुरातनम् ॥ ११८.३ ॥
श्रीमार्कण्डेय उवाच -
विश्वासयित्वा सुचिरं धर्मशत्रुं महाबलम् ।
वृत्रं जित्वाथ हत्वा तु गच्छमानं शचीपतिम् ॥ ११८.४ ॥
निष्क्राममाणं मार्गेण ब्रह्महत्या दुरासदा ।
अहोरात्रमविश्रान्ता जगाम भुवनत्रयम् ॥ ११८.५ ॥
यतोयतो ब्रह्महणं याति यानेन शोभनम् ।
दिशो भागं सुरैः सार्द्धं ततो हत्या न मुञ्चति ॥ ११८.६ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वगनागमः ।
पातकानां गतिर्दृष्टा न तु विश्वासघातिनाम् ॥ ११८.७ ॥
पापकर्ममुखं दृष्ट्वा स्नानदानैर्विशुध्यति ।
नारी वा पुरुषो वापि नैव विश्वासघातिनः ॥ ११८.८ ॥
एवमादीनि चान्यानि श्रुत्वा वाक्यानि देवराट् ।
वचनं तद्विधैरुक्तं विषादमगमत्परम् ॥ ११८.९ ॥
त्यक्त्वा राज्यं सुरैः सार्धं जगाम तप उत्तमम् ।
पुत्रदारगृहं राज्यं वसूनि विविधानि च ॥ ११८.१० ॥
फलान्येतानि धर्मस्य शोभयन्ति जनेश्वरम् ।
फलं धर्मस्य भुञ्जेति सुहृत्स्वजनबान्धवाः ॥ ११८.११ ॥
पश्यतां सर्वमेतेषां पापमेकेन भुज्यते ।
परं हि सुखमुत्सृज्य कर्शयन्वै कलेवरम् ॥ ११८.१२ ॥
देवराजो जगामासौ तीर्थान्यायतनानि च ।
गङ्गातीर्थेषु सर्वेषु यामुनेषु तथैव च ॥ ११८.१३ ॥
सारस्वतेषु सर्वेषु सामुद्रेषु पृथक्पृथक् ।
नदीषु देवखातेषु तडागेषु सरःसु च ॥ ११८.१४ ॥
पापं न मुञ्चते सर्वे पश्चाद्देवसमागमे ।
रेवाप्रभवतीर्थेषु कूलयोरुभयोरपि ॥ ११८.१५ ॥
पूजयन्वै महादेवं स्कन्दतीर्थं समासदत् ।
तव स्थित्वोपवासैश्च कृच्छ्रचान्द्रायणादिभिः ॥ ११८.१६ ॥
कर्शयन्वै स्वकं देहं न लेभे शर्म वै क्वचित् ।
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ॥ ११८.१७ ॥
आर्द्रवासास्तु हेमन्ते चचार विपुलं तपः ।
एवं तु तपतस्तस्य इन्द्रस्य विदितात्मनः ॥ ११८.१८ ॥
वत्सराणां सहस्राणि गतानि दश भारत ।
ततस्त्वेकादशे प्राप्ते वर्षे तु नृपसत्तम ॥ ११८.१९ ॥
सहसा भगवान्देवस्तु तुतोष परमेश्वरः ।
तथा ब्रह्मर्षयः सिद्धा ब्रह्मविष्णुपुरोगमाः ॥ ११८.२० ॥
तत्राजग्मुः सुराः सर्वे यत्र देवः शतक्रतुः ।
दृष्ट्वा समागतान् देवानृषींश्चैव महामतिः ॥ ११८.२१ ॥
उवाच प्रणतो भूत्वा सर्वदेवपुरोहितः ।
विदितं सर्वमेतेषां यथा वृत्रवधः कृतः ॥ ११८.२२ ॥
युष्माकं चाज्ञया पूर्वं ब्रह्मविष्णुमहेश्वराः ।
तथाप्येवं ब्रह्महणं मत्वा पापस्य कारिणम् ॥ ११८.२३ ॥
भ्रमन्तं सर्वतीर्थेषु ब्रह्महत्या न मुञ्चति ।
न नन्दति जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ ११८.२४ ॥
यथा विहीनचन्द्रार्कं तथा राज्यमनायकम् ।
तस्मात्सर्वे सुरश्रेष्ठा विज्ञाप्यं मम सम्प्रति ॥ ११८.२५ ॥
कुर्वन्तु शक्रं निर्दोषं तथा सर्वे महर्षयः ।
बृहस्पतिमुखोद्गीर्णं श्रुत्वा तद्वचनं शुभम् ॥ ११८.२६ ॥
ततः प्रोवाच भगवान्ब्रह्मा लोकपितामहः ।
एतत्पापं महाघोरं ब्रह्महत्यासमुद्भवम् ॥ ११८.२७ ॥
दैवतेभ्योऽथ भूतेभ्यश्चतुर्भागं क्षिपाम्यहम् ।
एवं मुक्त्वा क्षिपच्चैनो जलोपरि महामतिः ॥ ११८.२८ ॥
अवगाह्य ततः पेया आपो वै नान्यथा बुधैः ।
धरायामक्षिपद्भागं द्वितीयं पद्मसंभवः ॥ ११८.२९ ॥
अभक्ष्या तेन संजाता सदाकालं वसुंधरा ।
तदार्धमर्द्धं नारीणां द्वितीयेऽह्नि युधिष्ठिर ॥ ११८.३० ॥
निक्षिप्य भगवान्देवः पुनरन्यज्जगाद ह ।
असंग्राह्या त्वसंग्राह्या तेन जाता रजस्वला ॥ ११८.३१ ॥
चतुर्दिनानि सा प्राज्ञैः पापस्य महतो महात् ।
चतुर्थं तु ततो भागं विभज्य परमेश्वरः ॥ ११८.३२ ॥
कृषिगोरक्ष्यवाणिज्यैः शूद्रसेवाकरे द्विजे ।
ततोऽभिनन्दयामासुः सर्वे देवा महर्षयः ॥ ११८.३३ ॥
देवेन्द्रं वाग्भिरिष्टाभिर्नर्मदाजलसंस्थितम् ।
वरेण छन्दयामास ततस्तुष्टो महेश्वरः ॥ ११८.३४ ॥
वरं दास्यामि देवेश वरं वृणु यथेप्सितम् ॥ ११८.३५ ॥
इन्द्र उवाच -
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
अत्र संस्थापयिष्यामि सदा संनिहितो भव ॥ ११८.३६ ॥
एवमस्त्विति चोक्त्वा तं ब्रह्मविष्णुमहेश्वराः ।
जग्मुराकाशमाविश्य स्तूयमाना महर्षिभिः ॥ ११८.३७ ॥
गतेषु देवदेवेषु देवराजः शतक्रतुः ।
स्थापयित्वा महादेवं जगाम त्रिदशालयम् ॥ ११८.३८ ॥
इन्द्रतीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
महापातकयुक्तोऽपि मुच्यते सर्वपातकैः ॥ ११८.३९ ॥
इन्द्रतीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
सोऽश्वमेधस्य यज्ञस्य पुष्कलं फलमश्नुते ॥ ११८.४० ॥
एतत्ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् ।
श्रुतमात्रेण येनैव मुच्यन्ते पातकैर्नराः ॥ ११८.४१ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे इन्द्रतीर्थमाहात्म्यवर्णनं नामाष्टादशोत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 119
अध्याय ११९
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र कह्लोडीतीर्थमुत्तमम् ।
रेवायाश्चोत्तरे कूले सर्वपापविनाशनम् ॥ ११९.१ ॥
हितार्थं सर्वभूतानामृषिभिः स्थापितं पुरा ।
तपसा तु समुद्धृत्य नर्मदायां महाम्भसि ॥ ११९.२ ॥
स्नात्वा तु कपिलातीर्थे कपिलां यः प्रयच्छति ।
श्रुत्वा चाख्यानकं दिव्यं ब्राह्मणाञ्छृणु यत्फलम् ॥ ११९.३ ॥
सर्वेषामेव दानानां कपिलादानमुत्तमम् ।
ब्राह्मणान्वेषितं पूर्वमृषिदेवसमागमे ॥ ११९.४ ॥
सद्यः प्रसूतां कपिलां शोभनां यः प्रयच्छति ।
सोपवासो जितक्रोधस्तस्य पुण्यफलं शृणु ॥ ११९.५ ॥
ससमुद्रगुहा तेन सशैलवनकानना ।
दत्ता चैव महाबाहो पृथिवी नात्र संशयः ॥ ११९.६ ॥
वाचिकं मानसं पापं कर्मणा यत्पुरा कृतम् ।
नश्यते कपिलां दत्त्वा सप्तजन्मार्जितं नृप ॥ ११९.७ ॥
भूमिदानं धनं धान्यं हस्त्यश्वकनकादिकम् ।
कपिलादानस्यैकस्य कलां नार्हन्ति षोडशीम् ॥ ११९.८ ॥
तत्र तीर्थे नरः स्नात्वा कपिलां यः प्रयच्छति ।
मृतो विष्णुपुरं याति गीयमानोऽप्सरोगणैः ॥ ११९.९ ॥
यावन्ति तस्या रोमाणि सवत्सायास्तु भारत ।
तावद्वर्षसहस्राणि स स्वर्गे क्रीडते चिरम् ॥ ११९.१० ॥
ततोऽवकीर्णकालेन त्विह मानुष्यतां गतः ।
धनधान्यसमोपेतो जायते विपुले कुले ॥ ११९.११ ॥
वेदविद्या व्रतस्नातः सर्वशास्त्रविशारदः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ ११९.१२ ॥
एतत्ते सर्वमाख्यातं कल्होडीतीर्थमुत्तमम् ।
यत्कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ११९.१३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कह्लोडीतीर्थमाहात्म्यवर्णनं नामैकोनविंशत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 120
अध्याय १२०
श्रीमार्कण्डेय उवाच -
अतः परं प्रवक्ष्यामि कम्बुकेश्वरमुत्तमम् ।
हिरण्यकशिपुर्दैत्यो दानवो बलदर्पितः ॥ १२०.१ ॥
अवध्यः सर्वलोकानां त्रिषु लोकेषु विश्रुतः ।
तस्य पुत्रो महातेजाः प्रह्लादो नाम नामतः ॥ १२०.२ ॥
विष्णुप्रसादाद्भक्त्या च तस्य राज्ये प्रतिष्ठितः ।
विरोचनस्तस्य सुतस्तस्यापि बलिरेव च ॥ १२०.३ ॥
बलिपुत्रोऽभवद्बाणस्तस्मादपि च शम्बरः ।
शम्बरस्यान्वये जातः कम्बुर्नाम महासुरः ॥ १२०.४ ॥
ज्ञात्वा विष्णुमयं घोरं महद्भयमुपस्थितम् ।
दानवानां विनाशाय नान्यो हेतुः कदाचन ॥ १२०.५ ॥
स त्यक्त्वा पुत्रदारांश्च सुहृद्बन्धुपरिग्रहान् ।
चचार मौनमास्थाय तपः कम्बुर्महामतिः ॥ १२०.६ ॥
अक्षसूत्रकरो भूत्वा दण्डी मुण्डी च मेखली ।
शाकयावकभक्षश्च वल्कलाजिनसंवृतः ॥ १२०.७ ॥
स्नात्वा नित्यं धृतिपरो नर्मदाजलमाश्रितः ।
पूजयंस्तु महादेवमर्बुदं वर्षसंख्यया ॥ १२०.८ ॥
ततस्तुतोष भगवान्देवदेवो महेश्वरः ।
उवाच दानवं काले मेघगम्भीरया गिरा ॥ १२०.९ ॥
भोभोः कम्बो महाभाग तुष्टोऽहं तव सुव्रत ।
इष्टं व्रतानां परमं मौनं सर्वार्थसाधनम् ॥ १२०.१० ॥
चरितं च त्वया लोके देवदानवदुश्चरम् ।
वरं वृणीष्व भद्रं ते यत्ते मनसि रोचते ॥ १२०.११ ॥
कम्बुरुवाच -
यदि प्रसन्नो देवेश यदि देयो वरो मम ।
अक्षय्यश्चाव्ययश्चैव स्वेच्छया विचराम्यहम् ॥ १२०.१२ ॥
दैत्यदानवसङ्घानां संयुगेष्वपलायिता ।
भयं चान्यन्न विद्येत मुक्त्वा देवं गदाधरम् ॥ १२०.१३ ॥
तस्याहं संयुगे साध्यो येनोपायेन शङ्कर ।
भवामि न सदा कालं तं वदस्व वरं मम ॥ १२०.१४ ॥
ईश्वर उवाच -
मम संनिहितो यत्र त्वं भविष्यसि दानव ।
तत्र विष्णुभयं नास्ति वसात्र विगतज्वरः ॥ १२०.१५ ॥
तस्य देवाधिदेवस्य वेदगर्भस्य संयुगे ।
शङ्खचक्रधरस्येशा नाहं सर्वे सुरासुराः ॥ १२०.१६ ॥
किं पुनर्यो द्विषत्येनं लोकालोकप्रभुं हरिम् ।
स सुखी वर्तते कालं न निमेषं मतं मम ॥ १२०.१७ ॥
तस्मात्त्वं परया भक्त्या सर्वभूतहिते रतः ।
वसिष्यसि चिरं कालमित्युक्त्वादर्शनं गतः ॥ १२०.१८ ॥
गते चादर्शनं देवे तत्र तीर्थे महामतिः ।
स्थापयामास देवेशं शिवं शान्तमनामयम् ॥ १२०.१९ ॥
तस्मिंस्तीर्थे महादेवं स्थापयित्वा दिवं गतः ।
तदाप्रभृति तत्पार्थ कम्बुतीर्थमिति श्रुतम् ।
विख्यातं सर्वलोकेषु महापातकनाशनम् ॥ १२०.२० ॥
कम्बुतीर्थे नरः स्नात्वा विधिनाभ्यर्च्य भास्करम् ।
ऋग्यजुःसाममन्त्रैश्च स्तूयमानो नृपोत्तम ॥ १२०.२१ ॥
तस्य पुण्यं समुद्दिष्टं ब्राह्मणैर्वेदपारगैः ।
तत्सर्वं तु शृणुष्वाद्य ममैव गदतो नृप ॥ १२०.२२ ॥
ऋग्यजुःसामगीतेषु साङ्गोपाङ्गेषु यत्फलम् ।
तत्फलं समवाप्नोति गायत्रीमात्रमन्त्रवित् ॥ १२०.२३ ॥
तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
पूजयेद्देवमीशानं सोऽग्निष्टोमफलं लभेत् ॥ १२०.२४ ॥
अकामो वा सकामो वा तत्र तीर्थे कलेवरम् ।
यस्त्यजेन्नात्र सन्देहो रुद्रलोकं स गच्छति ॥ १२०.२५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कम्बुकेश्वरतीर्थमाहात्म्यवर्णनं नाम विंशत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 121
अध्याय १२१
मार्कण्डेय उवाच -
ततो गच्छेन्महीपाल चन्द्रहासमतः परम् ।
यत्र सिद्धिं परां प्राप्तः सोमराजः सुरोत्तमः ॥ १२१.१ ॥
युधिष्ठिर उवाच -
कथं सिद्धिं परां प्राप्तः सोमनाथो जगत्पतिः ।
तत्सर्वं श्रोतुमिच्छामि कथयस्व ममानघ ॥ १२१.२ ॥
श्रीमार्कण्डेय उवाच -
पुरा शप्तो मुनीन्द्रेण दक्षेण किल भारत ।
असेवनाद्धि दाराणां क्षयरोगी भविष्यसि ॥ १२१.३ ॥
उद्वाहितानां पत्नीनां ये न कुर्वन्ति सेवनम् ।
या निष्ठा जायते नृणां तां शृणुष्व नराधिप ॥ १२१.४ ॥
ऋतावृतौ हि नारीणां सेवनाज्जायते सुतः ।
सुतात्स्वर्गश्च मोक्षश्च इत्येवं श्रुतिभाषितम् ॥ १२१.५ ॥
तत्कालोचितधर्मेण वेष्टितो रौरवे पतेत् ।
तस्यास्तद्रुधिरं पापः पिबते कालमीप्सितम् ॥ १२१.६ ॥
ततोऽवतीर्णः कालेन यां यां योनिं प्रयास्यति ।
तस्यां तस्यां स दुष्टात्मा दुर्भगो जायते सदा ॥ १२१.७ ॥
नारीणां तु सदा कामोऽभ्यधिकाः परिवर्तते ।
विशेषेण ऋतौ काले पीड्यते कामसायकैः ॥ १२१.८ ॥
परिभूता हिता भर्त्रा ध्यायन्तेऽन्यं पतिं स्त्रियः ।
ततः पुत्रः समुत्पन्नो ह्यटते कुलमुत्तमम् ॥ १२१.९ ॥
स्वर्गस्थास्तेन पितरः पूर्वजास्ते पितामहाः ।
पतन्ति जातमात्रेण कुलटस्तेन चोच्यते ॥ १२१.१० ॥
तेन कर्मविपाकेन क्षयरोग्यभवच्छशी ।
त्यक्त्वा लोकं सुरेन्द्राणां मर्त्यलोकमुपागतः ॥ १२१.११ ॥
ततस्तीर्थान्यनेकानि पुण्यान्यायतनानि च ।
भ्रमन्वै नर्मदां प्राप्तः सर्वपापप्रणाशनीम् ॥ १२१.१२ ॥
उपवासं च दानानि व्रतानि नियमांस्तथा ।
चचार द्वादशाब्दानि ततो मुक्तः स किल्बिषैः ॥ १२१.१३ ॥
स्नापयित्वा महादेवं सर्वपातकनाशनम् ।
जगाम प्रभया पूर्णः स च लोकमनुत्तमम् ॥ १२१.१४ ॥
येनैव स्थापितो देवः पूज्यते वर्षसंख्यया ।
तावद्वर्षसहस्राणि रुद्रलोके स पूज्यते ॥ १२१.१५ ॥
तेन देवान्विधानोक्तान्स्थापयन्ति नरा भुवि ।
अक्षयं चाव्ययं यस्मात्कालं भुञ्जन्ति मानवाः ॥ १२१.१६ ॥
सोमतीर्थे नरः स्नात्वा पूजयेद्देवमीश्वरम् ।
स भ्राजते नरो लोके सोमवत्प्रियदर्शनः ॥ १२१.१७ ॥
चन्द्रहासे तु यो गत्वा ग्रहणे चन्द्रसूर्ययोः ।
स्नानं समाचरेद्भक्त्या मुच्यते सर्वकिल्बिषैः ॥ १२१.१८ ॥
तत्र स्नानं च दानं च चन्द्रहासे शुभाशुभम् ।
कृतं नृपवरश्रेष्ठ सर्वं भवति चाक्षयम् ॥ १२१.१९ ॥
ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
चन्द्रहासे तु ये स्नात्वा पश्यन्ति ग्रहणं नराः ॥ १२१.२० ॥
वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् ।
स्नानमात्रेण राजेन्द्र तत्र तीर्थे प्रणश्यति ॥ १२१.२१ ॥
बहवस्तं न जानन्ति महामोहसमन्विताः ।
देहस्थमिव सर्वेषां परमानन्दरूपिणम् ॥ १२१.२२ ॥
पश्चिमे सागरे गत्वा सोमतीर्थे तु यत्फलम् ।
तत्समग्रमवाप्नोति चन्द्रहासे न संशयः ॥ १२१.२३ ॥
संक्रान्तौ च व्यतीपाते अयने विषुवे तथा ।
चन्द्रहासे नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥ १२१.२४ ॥
ते मूढास्ते दुराचारास्तेषां जन्म निरर्थकम् ।
चन्द्रहासं न जानन्ति ये रेवायां व्यवस्थितम् ॥ १२१.२५ ॥
चन्द्रहासे तु यः कश्चित्संन्यासं कुरुते द्विजः ।
अनिवर्तिका गतिस्तस्य सोमलोकान्न संशयः ॥ १२१.२६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमतीर्थमाहात्म्यवर्णनं नामैकविंशत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 122
अध्याय १२२
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल कोहनस्वेति विश्रुतम् ।
सर्वपापहरं पुण्यं तीर्थं मृत्युविनाशनम् ॥ १२२.१ ॥
पुरा तत्र द्विजः कश्चिद्वेदवेदाङ्गपारगः ।
पत्नीपुत्रसुहृद्वर्गैः स्वकर्मनिरतोऽवसत् ॥ १२२.२ ॥
युधिष्ठिर उवाच -
ब्राह्मणस्य तु यत्कर्म उत्पत्तिः क्षत्रियस्य तु ।
वैश्यस्यापि च शूद्रस्य तत्सर्वं कथयस्व मे ॥ १२२.३ ॥
धर्मस्यार्हस्य कामस्य मोक्षस्य च परं विधिम् ।
निखिलं ज्ञातुमिच्छामि नान्यो वेत्ता मतिर्मम ॥ १२२.४ ॥
मार्कण्डेय उवाच -
उत्पत्तिकारणं ब्रह्मा देवदेवः प्रकीर्तितः ।
प्रथमं सर्वभूतानां चराचरजगद्गुरुः ॥ १२२.५ ॥
द्विजातयो मुखाज्जाताः क्षत्रिया बाहुयन्त्रतः ।
ऊरुप्रदेशाद्वैश्यास्तु शूद्राः पादेष्वथाभवन् ॥ १२२.६ ॥
ततस्त्वन्ये पृथग्वर्णाः पृथग्धर्मान् समाचरन् ।
पर्यायेण समुत्पन्ना ह्यनुलोमविलोमतः ॥ १२२.७ ॥
तेषां धर्मं प्रवक्ष्यामि श्रुतिस्मृत्यर्थचोदितम् ।
येन सम्यक्कृतेनैव सर्वे यान्ति परां गतिम् ॥ १२२.८ ॥
गतिर्ध्यानं विना भक्तैर्ब्राह्मणैः प्राप्यते नृप ।
अध्यापयन्यतो वेदान्वेदं वापि यथाविधि ॥ १२२.९ ॥
कुलजां रूपसम्पन्नां सर्वलक्षणलक्षिताम् ।
उद्वाहयेत्ततः पत्नीं गुरुणानुमते तदा ॥ १२२.१० ॥
ततः स्मार्तं विवाहाग्निं श्रौतं वा पूजयेत्क्रमात् ।
प्रतिग्रहधनो भूत्वा दम्भलोभविवर्जितः ॥ १२२.११ ॥
पञ्चयज्ञविधानानि कारयेद्वै यथाविधि ।
वनं गच्छेत्ततः पश्चाद्द्वितीयाश्रमसेवनात् ॥ १२२.१२ ॥
पुत्रेषु भार्यां निक्षिप्य सर्वसङ्गविवर्जितः ।
इष्टांल्लोकानवाप्नोति न चेह जायते पुनः ॥ १२२.१३ ॥
क्षत्रियस्तु स्थितो राज्ये पालयित्वा वसुंधराम् ।
शश्वद्धर्ममनाश्चैव प्राप्नोति परमां गतिम् ॥ १२२.१४ ॥
वैश्यधर्मो न सन्देहः कृषिगोरक्षणे रतः ।
सत्यशौचसमोपेतो गच्छते स्वर्गमुत्तमम् ॥ १२२.१५ ॥
न शूद्रस्य पृथग्धर्मो विहितः परमेष्ठिना ।
न मन्त्रो न च संस्कारो न विद्यापरिसेवनम् ॥ १२२.१६ ॥
न शब्दविद्यासमयो देवताभ्यर्चनानि च ।
यथा जातेन सततं वर्तितव्यमहर्निशम् ॥ १२२.१७ ॥
स धर्मः सर्ववर्णानां पुरा सृष्टः स्वयम्भुवा ।
मन्त्रसंस्कारसम्पन्नास्त्रयो वर्णा द्विजातयः ॥ १२२.१८ ॥
तेषां मतमनादृत्य यदि वर्तेत कामतः ।
स मृतो जायते श्वा वै गतिरूर्ध्वा न विद्यते ॥ १२२.१९ ॥
न तेषां प्रेषणं नित्यं तेषां मतमनुस्मरन् ।
यशोभागी स्वधर्मस्थः स्वर्गभागी स जायते ॥ १२२.२० ॥
एवं गुणगणाकीर्णोऽवसद्विप्रः स भारत ।
हनस्वेति हनस्वेति शृणोति वाक्यमीदृशम् ॥ १२२.२१ ॥
ततो निरीक्षते चोर्ध्वमधश्चैव दिशो दश ।
वेपमानः स भीतश्च प्रस्खलंश्च पदे पदे ॥ १२२.२२ ॥
शृङ्खलायुधहस्तैश्च पाशैश्चैव सुदारुणैः ।
वेष्टितं महिषारूढं नरं पश्यति मन्मुखम् ॥ १२२.२३ ॥
कृष्णांजनचयप्रख्यं कृष्णाम्बरविभूषितम् ।
रक्ताक्षमायतभुजं सर्वलक्षणलक्षितम् ॥ १२२.२४ ॥
दृष्ट्वा तं तु समायान्तं निरीक्ष्यात्मानमात्मना ।
जपञ्जाप्यं च परमं शतरुद्रीयसंस्तवम् ॥ १२२.२५ ॥
ततः प्रोवाच भगवान्यमः संयमनो महान् ।
शृणु वाक्यमतो ब्रह्मन्यमोऽहं सर्वजन्तुषु ॥ १२२.२६ ॥
संहरस्व महाभाग रुद्रजाप्यं सुदुर्भिदम् ।
येनाहं कालपाशैस्त्वां संयमामि गतव्यथः ॥ १२२.२७ ॥
तच्छ्रुत्वा निष्ठुरं वाक्यं यमस्य मुखनिर्गतम् ।
महाभयसमोपेतो ब्राह्मणः प्रपलायितः ॥ १२२.२८ ॥
तस्य मार्गे गताः सर्वे यमेन सह किंकराः ।
तिष्ठ तिष्ठेति तं विप्रमूचुस्ते सोऽप्यधावत ॥ १२२.२९ ॥
त्वरमाणः परिश्रान्तो हा हतोऽहं दुरात्मभिः ।
रक्ष रक्ष महादेव शरणागतवत्सल ॥ १२२.३० ॥
एवमुक्त्वापतद्भूमौ लिङ्गमालिङ्ग्य भारत ।
गतसत्त्वः स विप्रेन्द्रः समाश्रित्य सुरेश्वरम् ॥ १२२.३१ ॥
तं दृष्ट्वा पतितं भूमौ देवदेवो महेश्वरः ।
को हनिष्यति माभैस्त्वं हुङ्कारमकरोत्तदा ॥ १२२.३२ ॥
तेन ते किंकराः सर्वे यमेन सह भारत ।
हुङ्कारेण गताः सर्वे मेघा वातहता यथा ॥ १२२.३३ ॥
तदाप्रभृति तत्तीर्थं कोहनस्वेति विश्रुतम् ।
सर्वपापहरं पुण्यं सर्वतीर्थेष्वनुत्तमम् ॥ १२२.३४ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
अग्निष्टोमस्य यज्ञस्य फलमाप्नोत्यनुत्तमम् ॥ १२२.३५ ॥
तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः ।
न पश्यति यमं देवमित्येवं शङ्करोऽब्रवीत् ॥ १२२.३६ ॥
अग्निप्रवेशं यः कुर्याज्जले वा नृपसत्तम ।
अग्निलोके वसेत्तावद्यावत्कल्पशतत्रयम् ॥ १२२.३७ ॥
एवं वरुणलोकेऽपि वसित्वा कालमीप्सितम् ।
इह लोकमनुप्राप्तो महाधनपतिर्भवेत् ॥ १२२.३८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोहनतीर्थमाहात्म्यवर्णनं नाम द्वाविंशत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 123
अध्याय १२३
मार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र कर्मदीतीर्थमुत्तमम् ।
यत्र तिष्ठति विघ्नेशो गणनाथो महाबलः ॥ १२३.१ ॥
तत्र तीर्थे नरः स्नात्वा चतुर्थ्यां वा ह्युपोषितः ।
विघ्नं न विद्यते तस्य सप्तजन्मनि भारत ॥ १२३.२ ॥
तत्र तीर्थे हि यत्किंचिद्दीयते नृपसत्तम ।
तदक्षयफलं सर्वं जायते नात्र संशयः ॥ १२३.३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कर्मदेश्वरतीर्थमाहत्म्यवर्णनं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 124
अध्याय १२४
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल नर्मदेश्वरमुत्तमम् ।
तत्र तीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥ १२४.१ ॥
अग्निप्रवेशश्च जलेऽथवा मृत्युरनाशके ।
अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् ॥ १२४.२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 125
अध्याय १२५
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल रवितीर्थमनुत्तमम् ।
यत्र देवः सहस्रांशुस्तपस्तप्त्वा दिवं गतः ॥ १२५.१ ॥
युधिष्ठिर उवाच -
कथं देवो जगद्धाता सर्वदेवनमस्कृतः ।
तपस्तपति देवेशस्तापसो भास्करो रविः ॥ १२५.२ ॥
आराध्यः सर्वभूतानां सर्वदेवैश्च पूजितः ।
प्रत्यक्षो दृश्यते लोके सृष्टिसंहारकारकः ॥ १२५.३ ॥
आदित्यत्वं कथं प्राप्तः कथं भास्कर उच्यते ।
सर्वमेतत्समासेन कथयस्व ममानघ ॥ १२५.४ ॥
मार्कण्डेय उवाच -
महाप्रश्नो महाराज यस्त्वया परिपृच्छितः ।
तत्सर्वं सम्प्रवक्ष्यामि नमस्कृत्य स्वयम्भुवम् ॥ १२५.५ ॥
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ १२५.६ ॥
ततस्तेजश्च दिव्यं च तप्तपिण्डमनुत्तमम् ।
आकाशात्तु यथैवोल्का सृष्टिहेतोरधोमुखी ॥ १२५.७ ॥
तत्तेजसोऽन्तः पुरुषः संजातः सर्वभूषितः ।
स शिवोऽपाणिपादश्च येन सर्वमिदं ततम् ॥ १२५.८ ॥
तस्योत्पन्नस्य भूतस्य तेजो रूपस्य भारत ।
पश्चात्प्रजापतिर्भूयः कालः कालान्तरेण वै ॥ १२५.९ ॥
अग्निर्जातः स भूतानां मनुष्यासुररक्षसाम् ।
सर्वदेवाधिदेवश्च आदित्यस्तेन चोच्यते ॥ १२५.१० ॥
आदौ तस्य नमस्कारोऽन्येषां च तदनन्तरम् ।
क्रियते दैवतैः सर्वैस्तेन सर्वैर्महर्षिभिः ॥ १२५.११ ॥
तिस्रः सन्ध्यास्त्रयो देवाः सांनिध्याः सूर्यमण्डले ।
नमस्कृतेन सूर्येण सर्वे देवा नमस्कृताः ॥ १२५.१२ ॥
न दिवा न भवेद्रात्रिः षण्मासा दक्षिणायनम् ।
अयनं चोत्तरं चापि भास्करेण विना नृप ॥ १२५.१३ ॥
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।
न वर्तते विना सूर्यं तेन पूज्यतमो रविः ॥ १२५.१४ ॥
शब्दगाः श्रुतिमुख्याश्च ब्रह्मविष्णुमहेश्वराः ।
प्रत्यक्षो भगवान्देवो दृश्यते लोकपावनः ॥ १२५.१५ ॥
उत्पत्तिः प्रलयस्थानं निधानं बीजमव्ययम् ।
हेतुरेको जगन्नाथो नान्यो विद्येत भास्करात् ॥ १२५.१६ ॥
एवमात्मभवं कृत्वा जगत्स्थावरजङ्गमम् ।
लोकानां तु हितार्थाय स्थापयेद्धर्मपद्धतिम् ॥ १२५.१७ ॥
नर्मदातटमाश्रित्य स्थापयित्वात्मनस्तनुम् ।
सहस्रांशुं निधिं धाम्नां जगामाकाशमव्ययम् ॥ १२५.१८ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
सहस्रकिरणं देवं नाममन्त्रविधानतः ॥ १२५.१९ ॥
तेन तप्तं हुतं तेन तेन सर्वमनुष्ठितम् ।
तेन सम्यग्विधानेन सम्प्राप्तं परमं पदम् ॥ १२५.२० ॥
ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
स्नात्वा ये नर्मदातोये देवं पश्यन्ति भास्करम् ॥ १२५.२१ ॥
तथा देवस्य राजेन्द्र ये कुर्वन्ति प्रदक्षिणम् ।
अनन्यभक्त्या सततं त्रिरक्षरसमन्विताः ॥ १२५.२२ ॥
तेन पूतशरीरास्ते मन्त्रेण गतपातकाः ।
यत्पुण्यं च भवेत्तेषां तदिहैकमनाः शृणु ॥ १२५.२३ ॥
ससमुद्रगुहा तेन सशैलवनकानना ।
प्रदक्षिणीकृता सर्वा पृथिवी नात्र संशयः ॥ १२५.२४ ॥
मन्त्रमूलमिदं सर्वं त्रैलोक्यं सचराचरम् ।
तेन मन्त्रविहीनं तु कार्यं लोके न सिध्यति ॥ १२५.२५ ॥
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
कार्यार्थं नैव सिध्येत तथा कर्म ह्यमन्त्रकम् ॥ १२५.२६ ॥
भस्महुतं पार्थ यथा तोयविवर्जितम् ।
निष्फलं जायते दानं तथा मन्त्रविवर्जितम् ॥ १२५.२७ ॥
काष्ठपाषाणलोष्टेषु मृन्मयेषु विशेषतः ।
मन्त्रेण लोके पूजां तु कुर्वन्ति न ह्यमन्त्रतः ॥ १२५.२८ ॥
द्वादशाब्दान्नमस्काराद्भक्त्या यल्लभते फलम् ।
मन्त्रयुक्तनमस्कारात्सकृत्तल्लभते फलम् ॥ १२५.२९ ॥
संक्रान्तौ च व्यतीपाते अयने विषुवे तथा ।
नर्मदाया जले स्नात्वा यस्तु पूजयते रविम् ॥ १२५.३० ॥
द्वादशाब्देन यत्पापमज्ञानज्ञानसंचितम् ।
तत्क्षणान्नश्यते सर्वं वह्निना तु तुषं यथा ॥ १२५.३१ ॥
चन्द्रसूर्यग्रहे स्नात्वा सोपवासो जितेन्द्रियः ।
तत्रादित्यमुखं दृष्ट्वा मुच्यते सर्वकिल्बिषैः ॥ १२५.३२ ॥
माघमासे तु सम्प्राप्ते सप्तम्यां नृपसत्तम ।
सोपवासो जितक्रोध उषित्वा सूर्यमन्दिरे ॥ १२५.३३ ॥
प्रातः स्नात्वा विधानेन ददात्यर्घं दिवाकरे ।
विधिना मन्त्रयुक्तेन स लभेत्पुण्यमुत्तमम् ॥ १२५.३४ ॥
पितृदेवमनुष्याणां कृत्वा ह्युदकतर्पणम् ।
मन्दिरे देवदेवस्य ततः पूजां समाचरेत् ॥ १२५.३५ ॥
गन्धैः पुष्पैस्तथा धूपैर्दीपनैवेद्यशोभनैः ।
पूजयित्वा जगन्नाथं ततो मन्त्रमुदीरयेत् ॥ १२५.३६ ॥
विष्णुः शक्रो यमो धाता मित्रोऽथ वरुणस्तथा ।
विवस्वान्सविता पूषा चण्डांशुर्भर्ग एव च ॥ १२५.३७ ॥
इति द्वादशनामानि जपन्कृत्वा प्रदक्षिणाम् ।
यत्फलं लभते पार्थ तदिहैकमनाः शृणु ॥ १२५.३८ ॥
दरिद्रो व्याधितो मूको बधिरो जड एव च ।
न भवेत्सप्त जन्मानि इत्येवं शङ्करोऽब्रवीत् ॥ १२५.३९ ॥
एवं ज्ञात्वा विधानेन जपन्मन्त्रं विचक्षणः ।
आराधयेद्रविं भक्त्या य इच्छेत्पुण्यमुत्तमम् ॥ १२५.४० ॥
मन्त्रहीनां तु यः कुर्याद्भक्तिं देवस्य भारत ।
स विडम्बति चात्मानं पशुकीटपतङ्गवत् ॥ १२५.४१ ॥
तत्र तीर्थे तु यः कश्चित्त्यजते देहमुत्तमम् ।
स गतस्तत्र देवैस्तु पूज्यमानो महर्षिभिः ॥ १२५.४२ ॥
स्वेच्छया सुचिरं कालमिह लोके नृपो भवेत् ॥ १२५.४३ ॥
पुत्रपौत्रसमायुक्तो हस्त्यश्वरथसङ्कुलः ।
दासीदासशतोपेतो जायते विपुले कुले ॥ १२५.४४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थमाहात्म्यवर्णनं नाम पञ्चविंशत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 126
अध्याय १२६
मार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र परं तीर्थमयोनिजम् ।
स्नातमात्रो नरस्तत्र न पश्येद्योनिसङ्कटम् ॥ १२६.१ ॥
तत्र तीर्थे नरः स्नात्वा पूजयेद्देवमीश्वरम् ।
अयोनिजो महादेव यथा त्वं परमेश्वर ॥ १२६.२ ॥
तथा मोचय मां देव सम्भवाद्योनिसङ्कटात् ।
गन्धपुष्पादिधूपैश्च स मुच्येत्सर्वपातकैः ॥ १२६.३ ॥
तस्य देवस्य यो भक्त्या कुरुते लिङ्गपूरणम् ।
स वसेद्देवदेवस्य यावत्सिक्थस्य संख्यया ॥ १२६.४ ॥
अयोनिजे महादेवं स्नापयेद्गन्धवारिणा ।
मधुक्षीरेण दध्ना वा स लभेद्विपुलां श्रियम् ॥ १२६.५ ॥
अष्टभ्यां च सिते पक्षे असितां वा चतुर्दशीम् ।
पूजयित्वा महादेवं प्रीणयेद्गीतवाद्यकैः ॥ १२६.६ ॥
वसेत्स च शिवे लोके ये कुर्वन्ति मनोहरम् ।
ते वसन्ति शिवे लोके यावदाभूतसम्प्लवम् ॥ १२६.७ ॥
तस्य देवस्य भक्त्या तु यः करोति प्रदक्षिणाम् ।
विज्ञापयंश्च सततं मन्त्रेणानेन भारत ॥ १२६.८ ॥
तस्य यत्फलमुद्दिष्टं पारम्पर्येण मानवैः ।
सकाशाद्देवदेवस्य तच्छृणुष्व समाधिना ॥ १२६.९ ॥
अयोनिजो महादेव यथा त्वं परमेश्वर ।
तथा मोचय मां शर्व सम्भवाद्योनिसङ्कटात् ॥ १२६.१० ॥
किं तस्य बहुभिर्मन्त्रैः कंठशोषणतत्परैः ।
येनौंनमः शिवायेति प्रोक्तं देवस्य संनिधौ ॥ १२६.११ ॥
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येनौंनमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः ॥ १२६.१२ ॥
न तत्फलमवाप्नोति सर्वदेवेषु वै द्विजः ।
यत्फलं समवाप्नोति षडक्षर उदीरणात् ॥ १२६.१३ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेच्छिवयोगिनम् ।
द्विजानामयुतं साग्रं स लभेत्फलमुत्तमम् ॥ १२६.१४ ॥
अथवा भक्तियुक्तस्तु तेषां दान्ते जितेन्द्रिये ।
संस्कृत्य ददते भिक्षां फलं तस्य ततोऽधिकम् ॥ १२६.१५ ॥
यतिहस्ते जलं दद्याद्भिक्षां दत्त्वा पुनर्जलम् ।
सा भिक्षा मेरुणा तुल्या तज्जलं सागरोपमम् ॥ १२६.१६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अयोनिप्रभवतीर्थमाहात्म्यवर्णनं नाम षड्विंशत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 127
अध्याय १२७
मार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र अग्नितीर्थमनुत्तमम् ।
तत्र स्नात्वा तु पक्षादौ मुच्यते सर्वकिल्बिषैः ॥ १२७.१ ॥
तत्र तीर्थे तु यः कन्यां दद्यात्स्वयमलंकृताम् ।
तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नरोत्तम ॥ १२७.२ ॥
अग्निष्टोमातिरात्राभ्यां शतं शतगुणीकृतम् ।
प्राप्नोति पुरुषो दत्त्वा यथाशक्त्या ह्यलंकृताम् ॥ १२७.३ ॥
तस्याः पुत्रप्रपौत्राणां या भवेद्रोमसंगतिः ।
स याति तेन मानेन शिवलोके परां गतिम् ॥ १२७.४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अग्नितीर्थमाहात्म्यवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 128
अध्याय १२८
मार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र भृकुटेश्वरमुत्तमम् ।
यत्र सिद्धो महाभागो भृगुः परमकोपनः ॥ १२८.१ ॥
तेन वर्षशतं साग्रं तपश्चीर्णं पुरानघ ।
पुत्रार्थं वरयामास पुत्रं पुत्रवतां वरः ॥ १२८.२ ॥
वरो दत्तो महाभाग देवेनान्धकघातिना ।
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ॥ १२८.३ ॥
अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत् ।
भृकुटेशं तु यः कश्चिद्घृतेन मधुना सह ॥ १२८.४ ॥
पुत्रार्थी स्नापयेद्भक्त्या स लभेत्पुत्रमीप्सितम् ।
तत्र तीर्थे तु यः स्नात्वा दद्याद्विप्राय काञ्चनम् ॥ १२८.५ ॥
गोदानं वा महीं वापि तस्य पुण्यफलं शृणु ॥ १२८.६ ॥
ससमुद्रगुहा तेन सशैलवनकानना ।
दत्ता पृथ्वी न सन्देहस्तेन सर्वा नृपोत्तम ॥ १२८.७ ॥
तेन दानेन स स्वर्गे क्रीडयित्वा यथासुखम् ।
मर्त्ये भवति राजेन्द्रो ब्राह्मणो वा सुपूजितः ॥ १२८.८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृकुटेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 129
अध्याय १२९
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल ब्रह्मतीर्थमनुत्तमम् ।
अन्येषां चैव तीर्थानां परात्परतरं महत् ॥ १२९.१ ॥
तत्र तीर्थे सुरश्रेष्ठो ब्रह्मा लोकपितामहः ।
चतुर्णामपि वर्णानां नर्मदातटमाश्रितः ॥ १२९.२ ॥
वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् ।
तत्क्षालयति देवेशो दर्शनादेव पातकम् ॥ १२९.३ ॥
श्रुतिस्मृत्युदितान्येव तत्र स्नात्वा द्विजर्षभाः ।
प्रायश्चित्तानि कुर्वन्ति तेषां वासस्त्रिविष्टपे ॥ १२९.४ ॥
ये पुनः शास्त्रमुत्सृज्य कामलोभप्रपीडिताः ।
प्रायश्चित्तं वदिष्यन्ति ते वै निरयगामिनः ॥ १२९.५ ॥
स्नात्वादौ पातकी ब्रह्मन्नत्वा तु कीर्तयेदघम् ।
तस्य तन्नश्यते क्षिप्रं तमः सूर्योदये यथा ॥ १२९.६ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ।
अग्निष्टोमस्य यज्ञस्य स लभेत्फलमुत्तमम् ॥ १२९.७ ॥
तत्र तीर्थे तु यद्दानं ब्रह्मोद्दिश्य प्रयच्छति ।
तदक्षयफलं सर्वमित्येवं शङ्करोऽब्रवीत् ॥ १२९.८ ॥
गायत्रीसारमात्रोऽपि तत्र यः क्रियते जपः ।
ऋग्यजुःसामसहितः स भवेन्नात्र संशयः ॥ १२९.९ ॥
तत्र तीर्थे तु यो भक्त्या त्यजेद्देहं सुदुस्त्यजम् ।
अनिवर्तिका गतिस्तस्य ब्रह्मलोकान्न संशयः ॥ १२९.१० ॥
यावदस्थीनि तिष्ठन्ति ब्रह्मतीर्थे च देहिनाम् ।
तावद्वर्षसहस्राणि देवलोके महीयते ॥ १२९.११ ॥
अवतीर्णस्ततो लोके ब्रह्मज्ञो जायते कुले ।
उत्तमः सर्ववर्णानां देवानामिव देवता ॥ १२९.१२ ॥
विद्यास्थानानि सर्वाणि वेत्ति वेदाङ्गपारगः ।
जायते पूजितो लोके राजभिः स न संशयः ॥ १२९.१३ ॥
पुत्रपौत्रसमोपेतः सर्वव्याधिविवर्जितः ।
जीवेद्वर्षशतं साग्रं ब्रह्मतीर्थप्रभावतः ॥ १२९.१४ ॥
एतत्पुण्यं पापहरं तीर्थं ज्ञानवतां वरम् ।
ये पश्यन्ति महात्मानो ह्यमृतत्वं प्रयान्ति ते ॥ १२९.१५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ब्रह्मतीर्थमाहात्म्यवर्णनं नामैकोनत्रिंशदधिकशततमोऽध्यायः॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 130
अध्याय १३०
श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले देवतीर्थमनुत्तमम् ।
तत्र देवैः समागत्य तोषितः परमेश्वरः ॥ १३०.१ ॥
तत्र तीर्थे तु यः स्नात्वा कामक्रोधविवर्जितः ।
स लभेन्नात्र सन्देहो गोसहस्रफलं ध्रुवम् ॥ १३०.२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नाम त्रिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 131
अध्याय १३१
श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले नागतीर्थमनुत्तमम् ।
यत्र सिद्धा महानागा भये जाते ततो नृप ॥ १३१.१ ॥
युधिष्ठिर उवाच -
महाभयानां लोकस्य नागानां द्विजसत्तम ।
कथं जातं भयं तीव्रं येन ते तपसि स्थिताः ॥ १३१.२ ॥
भूतं भव्यं भविष्यच्च यत्सुरासुरमानवे ।
तात ते विदितं सर्वं तेन मे कौतुकं महत् ॥ १३१.३ ॥
मम संतापजं दुःखं दुर्योधनसमुद्भवम् ।
तव वक्त्राम्बुजौघेन प्लावितं निर्वृतिं गतम् ॥ १३१.४ ॥
श्रुत्वा तव मुखोद्गीतां कथां पापप्रणाशनीम् ।
भूयो भूयः स्मृतिर्जाता श्रवणे मम सुव्रत ॥ १३१.५ ॥
न क्लेशत्वं द्विजे युक्तं न चान्यो जानते फलम् ।
विद्यादानस्य महतः श्रावितस्य सुतस्य च ॥ १३१.६ ॥
एवं ज्ञात्वा यथान्यायं यः प्रश्नः पृच्छितो मया ।
कथा तु कथ्यतां विप्र दयां कृत्वा ममोपरि ॥ १३१.७ ॥
मार्कण्डेय उवाच -
यथा यथा त्वं नृप भाषसे च तथा तथा मे सुखमेति भारती ।
शैथिल्यभावाज्जरयान्वितस्य त्वत्सौहृदं नश्यति नैव तात ॥ १३१.८ ॥
कथयामि यथावृत्तमितिहासं पुरातनम् ।
कथितं पूर्वतो वृद्धैः पारम्पर्येण भारत ॥ १३१.९ ॥
द्वे भार्ये कश्यपस्यास्तां सर्वलोकेष्वनुत्तमे ।
गरुत्मतो वै विनता सर्पाणां कद्रुरेव च ॥ १३१.१० ॥
अश्वसंदर्शनात्ताभ्यां कलिरूपं व्यवस्थितम् ।
प्रभातकाले राजेन्द्र भास्कराकारवर्चसम् ॥ १३१.११ ॥
तं दृष्ट्वा विनता रूपमश्वं सर्वत्र पाण्डुरम् ।
अथ तां कद्रूमवोचत्सा पश्य पश्य वरानने ॥ १३१.१२ ॥
उच्चैःश्रवसः सादृश्यं पश्य सर्वत्र पाण्डुरम् ।
धावमानमविश्रान्तं जवेन पवनोपमम् ॥ १३१.१३ ॥
तं दृष्ट्वा सहसा यान्तमीर्ष्याभावेन मोहिता ।
कृष्णं मत्वा तथाजल्पत्तया सह नृपोत्तम ॥ १३१.१४ ॥
विनते त्वं मृषा लोके नृशंसे कुलपांसनि ।
कृष्णं चैनं वद श्वेतं नरकं यास्यसे परम् ॥ १३१.१५ ॥
विनतोवाच -
सत्यानृते तु वचने पणोऽयं ते ममैव तु ।
सहस्रं वत्सरान्दासी भवेयं तव वेश्मनि ॥ १३१.१६ ॥
तथेति ते प्रतिज्ञाय रात्रौ गत्वा स्वकं गृहम् ।
परित्यज्य उभे ते तु क्रोधमूर्छितमूर्छिते ॥ १३१.१७ ॥
बन्धुगर्वस्य गत्वा तु कथयामास तं पणम् ।
कद्रूर्विनतया सार्द्धं यद्वृत्तं प्रमदालये ॥ १३१.१८ ॥
तच्छ्रुत्वा बान्धवाः सर्वे कद्रूपुत्रास्तथैव च ।
न मन्यन्ते हितं कार्यं कृतं मात्रा विगर्हितम् ॥ १३१.१९ ॥
अकृष्णः कृष्णतामम्ब कथं गच्छेद्धयोत्तमः ।
दासत्वं प्राप्स्यसे त्वं हि पणेनानेन सुव्रते ॥ १३१.२० ॥
कद्रूरुवाच -
भवेयं न यथादासी तत्कुरुध्वं हि सत्वरम् ।
विशध्वं रोमकूपेषु तस्याश्वस्य मतिर्मम ॥ १३१.२१ ॥
क्षणमात्रं कृते कार्ये सा दासी च भवेन्मम ।
ततः स्वस्थोरगाः सर्वे भविष्यथ यथासुखम् ॥ १३१.२२ ॥
सर्पा ऊचुः ।
यथा त्वं जननी देवि पन्नगानां मता भुवि ।
तथापि सा विशेषेण वञ्चितव्या न कर्हिचित् ॥ १३१.२३ ॥
कद्रूरुवाच -
मम वाक्यमकुर्वाणा ये केचिद्भुवि पन्नगाः ।
हव्यवाहमुखं सर्वे ते यास्यन्त्यविचारिताः ॥ १३१.२४ ॥
एतच्छ्रुत्वा तु वचनं घोरं मातृमुखोद्भवम् ।
केचित्प्रविष्टा रोमाणि तथान्ये गिरिसंस्थिताः ॥ १३१.२५ ॥
केचित्प्रविष्टा जाह्नव्यामन्ये च तपसि स्थिताः ॥ १३१.२६ ॥
ततो वर्षसहस्रान्ते तुतोष परमेश्वरः ।
महादेवो जगद्धाता ह्युवाच परया गिरा ॥ १३१.२७ ॥
भो भोः सर्पा निवर्तध्वं तपसोऽस्य महत्फलम् ।
यमिच्छथ ददाम्यद्य नात्र कार्या विचारणा ॥ १३१.२८ ॥
सर्पा ऊचुः ।
कद्रूशापभयाद्भीता देवदेव महेश्वर ।
तव पार्श्वे वसिष्यामो यावदाभूतसम्प्लवम् ॥ १३१.२९ ॥
देवदेव उवाच -
एकश्चायं महाबाहुर्वासुकिर्भुजगोत्तमः ।
मम पार्श्वे वसेन्नित्यं सर्वेषां भयरक्षकः ॥ १३१.३० ॥
अन्येषां चैव सर्पाणां भयं नास्ति ममाज्ञया ।
आप्लुत्य नर्मदातोये भुजगास्ते च रक्षिताः ॥ १३१.३१ ॥
नास्ति मृत्युभयं तेषां वसध्वं यत्र चेप्सितम् ।
कद्रूशापभयं नास्ति ह्येष मे विस्तरः परः ॥ १३१.३२ ॥
एवं दत्त्वा वरं तेषां देवदेवो महेश्वरः ।
जगामाकाशमाविश्य कैलासं धरणीधरम् ॥ १३१.३३ ॥
गते चादर्शनं देवे वासुकिप्रमुखा नृप ।
स्थापयित्वा तथा जग्मुर्देवदेवं महेश्वरम् ॥ १३१.३४ ॥
तत्र तीर्थे तु यः कश्चित्पञ्चम्यामर्चयेच्छिवम् ।
तस्य नागकुलान्यष्टौ न हिंसन्ति कदाचन ॥ १३१.३५ ॥
मृतः कालेन महता तत्र तीर्थे नरेश्वर ।
शिवस्यानुचरो भूत्वा वसते कालमीप्सितम् ॥ १३१.३६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागेश्वरतीर्थमाहात्म्यवर्णनं नामैकत्रिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 132
अध्याय १३२
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र उत्तरे नर्मदातटे ।
सर्वपापहरं तीर्थं वाराहं नाम नामतः ॥ १३२.१ ॥
तत्र देवो जगद्धाता वाराहं रूपमास्थितः ।
स्थितो लोकहितार्थाय संसारार्णवतारकः ॥ १३२.२ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेद्धरणीधरम् ।
गन्धमाल्यविशेषैश्च जयशब्दादिमङ्गलैः ॥ १३२.३ ॥
उपवासपरो भूत्वा द्वादश्यां नृपसत्तम ।
वृषलाः पापकर्माणस्तथैवान्धपिशाचिनः ॥ १३२.४ ॥
आलापाद्गात्रसंपर्कान्निःश्वासात्सहभोजनात् ।
पापं संक्रमते यस्मात्तस्मात्तान् परिवर्जयेत् ॥ १३२.५ ॥
ब्राह्मणान् पूजयेद्भक्त्या यथाशक्त्या यथाविधि ।
रात्रौ जागरणं कार्यं कथायां तत्र भारत ॥ १३२.६ ॥
प्रभाते विमले स्नात्वा तत्र तीर्थे जगद्गुरुम् ।
ये पश्यन्ति जितक्रोधास्ते मुक्ताः सर्वपातकैः ॥ १३२.७ ॥
यथा तु दृष्ट्वा भुजगाः सुपर्णं नश्यन्ति मुक्त्वा विषमुग्रतेजः ।
नश्यन्ति पापानि तथैव शीघ्रं दृष्ट्वा मुखं शूकररूपिणस्तु ॥ १३२.८ ॥
नभोगतं नश्यति चान्धकारं दृष्ट्वा रविं देववरं तथैव ।
नश्यन्ति पापानि सुदुस्तराणि दृष्ट्वा मुखं पार्थ धराधरस्य ॥ १३२.९ ॥
किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ १३२.१० ॥
एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ १३२.११ ॥
ध्यायमाना महात्मानो रूपं नारायणं हरेः ।
ये त्यजन्ति स्वकं देहं तत्र तीर्थे जितेन्द्रियाः ॥ १३२.१२ ॥
ते गच्छन्त्यमलं स्थानं यत्सुरैरपि दुर्लभम् ।
क्षराक्षरविनिर्मुक्तं तद्विष्णोः परमं पदम् ॥ १३२.१३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदिवाराहतीर्थमाहात्म्यवर्णनं नाम द्वात्रिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 133
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल परं तीर्थचतुष्टयम् ।
येषां दर्शनमात्रेण सर्वपापक्षयो भवेत् ॥ १ ॥
कौबेरं वारुणं याम्यं वायव्यं तु ततः परम् ।
यत्र सिद्धा महाप्राज्ञा लोकपाला महाबलाः ॥ २ ॥
युधिष्ठिर उवाच -
किमर्थं लोकपालैश्च तपश्चीर्णं पुरानघ ।
नर्मदातटमाश्रित्य ह्येतन्मे वक्तुमर्हसि ॥ ३ ॥
श्रीमार्कण्डेय उवाच -
अधिष्ठानं समिच्छन्ति ह्यचलं निर्बले सति ।
संसारे सर्वभूतानां तृणबिन्दुवदस्थिरे ॥ ४ ॥
कदलीसारनिःसारे मृगतृष्णेव चञ्चले ।
स्थावरे जङ्गमे सर्वे भूतग्रामे चतुर्विधे ॥ ५ ॥
धर्मो माता पिता धर्मो धर्मो बन्धुः सुहृत्तथा ।
आधारः सर्वभूतानां त्रैलोक्ये सचराचरे ॥ ६ ॥
एवं ज्ञात्वा तु ते सर्वे लोकपालाः कृतक्षणाः ।
तपस्ते चक्रुरतुलं मारुताहारतत्पराः ॥ ७ ॥
ततस्तुष्टो महादेवः कृतस्यार्द्धे गते तदा ।
अनुरूपेण राजेन्द्र युगस्य परमेश्वरः ॥ ८ ॥
वरेण छन्दयामास लोकपालान्महाबलान् ।
यो यमिच्छति कामं वै तं तं तस्य ददाम्यहम् ॥ ९ ॥
एतच्छ्रुत्वा वचस्तस्य लोकपाला जगद्धिताः ।
वरदं प्रार्थयामासुर्देवं वरमनुत्तमम् ॥ १० ॥
कुबेर उवाच -
यदि तुष्टो महादेव यदि देयो वरो मम ।
यक्षाणामीश्वरश्चाहं भवामि धनदस्त्विति ॥ ११ ॥
ततः प्रोवाच देवेशं यमः संयमने रतः ।
तत्र प्रधानो भगवान् भवेयं सर्वजन्तुषु ॥ १२ ॥
वरुणोऽनन्तरं प्राह प्रणम्य तु महेश्वरम् ।
क्रीडेयं वारुणे लोके यादोगणसमन्वितः ॥ १३ ॥
जगादाशु ततो वायुः प्रणम्य तु महेश्वरम् ।
व्यापकत्वं त्रिलोकेषु प्रार्थयामास भारत ॥ १४ ॥
तेषां यदीप्सितं काममुमया सह शङ्करः ।
सर्वेषां लोकपालानः दत्त्वा चादर्शनं गतः ॥ १५ ॥
गते महेश्वरे देवे यथास्थानं तु ते स्थिताः ।
स्थापना च कृता सर्वैः स्वनाम्नैव पृथक्पृथक् ॥ १६ ॥
कुबेरश्च कुबेरेशं यमश्चैव यमेश्वरम् ।
वरुणो वरुणेशं तु वातो वातेश्वरं नृप ॥ १७ ॥
तर्पणं विदधुः सर्वे मन्त्रैश्च विविधैः शुभैः ।
सर्वे सर्वेश्वरं देव पूजयित्वा यथाविधि ॥ १८ ॥
आह्वयामासुस्तान् विप्रान्सर्वे सर्वेश्वरा इव ।
क्षान्तदान्तजितक्रोधान्सर्वभूताभयप्रदान् ॥ १९ ॥
वेदविद्याव्रतस्नातान् सर्वशास्त्रविशारदान् ।
ऋग्यजुःसामसंयुक्तांस्तथाथर्वविभूषितान् ॥ २० ॥
चातुर्विध्यं तु सर्वेषां दानं दास्याम गृह्णत ।
एवमुक्त्वा तु सर्वेषां विप्राणां दानमुत्तमम् ॥ २१ ॥
तत्र स्थाने ददुस्तेषां भूमिदानमनुत्तमम् ।
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ २२ ॥
तावद्दानं तु युष्माकं परिपन्थी न कश्चन ।
राजा वा राजतुल्यो वा लोकपालैरनुत्तमम् ॥ २३ ॥
दत्तं लोपयते मूढः श्रूयतां तस्य यो विधिः ।
शोषयेद्धनदो वित्तं तस्य पापस्य भारत ॥ २४ ॥
शरीरं वरुणो देवः संततीं श्वसनस्तथा ।
आयुर्नयति तस्याशु यमः संयमनो महान् ॥ २५ ॥
निःशेषं भस्मसात्कृत्वा हुतभुग्याति भारत ।
तस्मात्सर्वप्रयत्नेन ब्राह्मणेभ्यो युधिष्ठिर ।
भक्तिः कार्या नृपैः सर्वैरिच्छद्भिः श्रेय आत्मनः ॥ २६ ॥
राजा वृक्षो ब्राह्मणास्तस्य मूलं भृत्याः पर्णा मन्त्रिणस्तस्य शाखाः ।
तस्मान्मूलं यत्नतो रक्षणीयं मूले गुप्ते नास्ति वृक्षस्य नाशः ॥ २७ ॥
षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः ।
आच्छेत्ता चावमन्ता च तान्येव नरके वसेत् ॥ २८ ॥
स्वदत्ता परदत्ता वा पालनीया वसुंधरा ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ २९ ॥
देवताज्ञामनुस्मृत्य राजानो येऽपि तां नृप ।
पालयिष्यन्ति सततं तेषां वासस्त्रिविष्टपे ॥ ३० ॥
स्वदत्ता परदत्ता वा यत्नाद्रक्ष्या युधिष्ठिर ।
मही महीक्षिता नित्यं दानाच्छ्रेयोऽनुपालनम् ॥ ३१ ॥
आयुर्यशो बलं वित्तं संततिश्चाक्षया नृप ।
तेषां भविष्यते नूनं ये प्रजापालने रताः ॥ ३२ ॥
एवमुक्त्वा तु तान् सर्वांल्लोकपालान् द्विजोत्तमान् ।
पूजयित्वा विधानेन प्रणिपत्य व्यसर्जयन् ॥ ३३ ॥
गतेषु विप्रमुख्येषु स्नात्वा हुतहुताशनाः ।
लोकपालाः क्षुधाविष्टाः पर्यटन्भैक्षमात्मनः ॥ ३४ ॥
अस्थिचर्मावशेषाङ्गाः कपालोद्धृतपाणयः ।
अलब्धग्रासमर्द्धार्धं निर्ययुर्नगराद्बहिः ॥ ३५ ॥
शापं दत्त्वा तदा क्रोधाद्ब्राह्मणाय युधिष्ठिर ।
दरिद्राः सततं मूर्खा भवेयुश्च ययुर्गृहान् ॥ ३६ ॥
तदाप्रभृति ते सर्वे ब्राह्मणा धनवर्जिताः ।
शापदोषेण कौबेर्यां संजाता दुःखभाजनाः ॥ ३७ ॥
न धनं पैतृकं पुत्रैर्न पिता पुत्रपौत्रिकम् ।
भुञ्जते सकलं कालमित्येवं शङ्करोऽब्रवीत् ॥ ३८ ॥
कुबेरेशे नरः स्नात्वा यस्तु पूजयते शिवम् ।
गन्धधूपनमस्कारैः सोऽश्वमेधफलं लभेत् ॥ ३९ ॥
यमतीर्थे तु यः स्नात्वा सम्पश्यति यमेश्वरम् ।
सर्वपापैः प्रमुच्येत सप्तजन्मान्तरार्जितैः ॥ ४० ॥
पूर्णमास्याममावास्यां स्नात्वा तु पितृतर्पणम् ।
यः करोति तिलैः स्नानं तस्य पुण्यफलं शृणु ॥ ४१ ॥
सुतृप्तास्तेन तोयेन पितरश्च पितामहाः ।
स्वर्गस्था द्वादशाब्दानि क्रीडन्ति प्रपितामहाः ॥ ४२ ॥
वरुणेशे नरः स्नात्वा ह्यर्चयित्वा महेश्वरम् ।
वाजपेयस्य यज्ञस्य फलं प्राप्नोति पुष्कलम् ॥ ४३ ॥
मृतां कालेन महता लोके यत्र जलेश्वरः ।
स गच्छेत्तत्र यानेन गीयमानोऽप्सरोगणैः ॥ ४४ ॥
वातेश्वरे नरः स्नात्वा सम्पूज्य च महेश्वरम् ।
जायते कृतकृत्योऽसौ लोकपालानवेक्षयन् ॥ ४५ ॥
किं तस्य बहुभिर्यज्ञैर्दानैर्वा बहुदक्षिणैः ।
स्नात्वा चतुष्टये लोके अवाप्तं जन्मनः फलम् ॥ ४६ ॥
ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
नित्यं वसन्ति कौरिल्यां लोकपालान्निमन्त्र्य ये ॥ ४७ ॥
एतत्पुण्यं पापहरं धन्यमायुर्विवर्धनम् ।
पठतां शृण्वतां चैव सर्वपापक्षयो भवेत् ॥ ४८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुबेरादितीर्थचतुष्टयमाहात्म्यवर्णनं नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 134
अध्याय १३४
श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले रामेश्वरमनुत्तमम् ।
तीर्थं पापहरं पुण्यं सर्वदुःखघ्नमुत्तमम् ॥ १३४.१ ॥
तत्र तीर्थे तु ये स्नात्वा पूजयन्ति महेश्वरम् ।
महादेवं महात्मानं मुच्यन्ते सर्वकिल्बिषैः ॥ १३४.२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रामेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुस्त्रिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 135
अध्याय १३५
श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं चान्यत्सिद्धेश्वरमनुत्तमम् ।
तीर्थं सर्वगुणोपेतं सर्वलोकेषु पूजितम् ॥ १३५.१ ॥
तत्र तीर्थे तु यः स्नात्वा ह्युमारुद्रं प्रपूजयेत् ।
वाजपेयस्य यज्ञस्य स लभेत्फलमुत्तमम् ॥ १३५.२ ॥
तेन पुण्येन महता मृतः स्वर्गमवाप्नुयात् ।
अप्सरोगणसंवीतो जयशब्दादिमङ्गलैः ॥ १३५.३ ॥
सहस्रवत्सरांस्तत्र क्रीडयित्वा यथासुखम् ।
धनधान्यसमोपेते कुले महति जायते ॥ १३५.४ ॥
पूज्यमानो नरश्रेष्ठ वेदवेदाङ्गपारगः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ १३५.५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरमाहात्म्यवर्णनं नाम पञ्चत्रिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 136
अध्याय १३६
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल चाहल्येश्वरमुत्तमम् ।
यत्र सिद्धा महाभागा त्वहल्या तापसी पुरा ॥ १३६.१ ॥
गौतमो ब्राह्मणस्त्वासीत्साक्षाद्ब्रह्मेव चापरः ।
सत्यधर्मसमायुक्तो वानप्रस्थाश्रमे रतः ॥ १३६.२ ॥
तस्य पत्नी महाभागा ह्यहल्या नाम विश्रुता ।
रूपयौवनसम्पन्ना त्रिषु लोकेषु विश्रुता ॥ १३६.३ ॥
अस्या अप्यतिरूपेण देवराजः शतक्रतुः ।
मोहितो लोभयामास ह्यहल्यां बलसूदनः ॥ १३६.४ ॥
मां भजस्व वरारोहे देवराजमनिन्दिते ।
क्रीडयस्व मया सार्द्धं त्रिषु लोकेषु पूजिता ॥ १३६.५ ॥
किं करिष्यसि विप्रेण शौचाचारकृशेन तु ।
तपःस्वाध्यायशीलेन क्लिश्यन्तीव सुलोचने ॥ १३६.६ ॥
एवमुक्ता वरारोहा स्त्रीस्वभावात्सुचञ्चला ।
मनसाध्याय शक्रं सा कामेन कलुषीकृता ॥ १३६.७ ॥
तस्या विदित्वा तं भावं स देवः पाकशासनः ।
गौतमं वञ्चयामास दुष्टभावेन भावितः ॥ १३६.८ ॥
विदित्वा चान्तरं तस्य गृहीत्वा वेषमुत्तमम् ।
अहल्यां रमयामास विश्वस्तां मन्दिरान्तिके ॥ १३६.९ ॥
क्षणमात्रान्तरे तत्र देवराजस्य भारत ।
आजगाम मुनिश्रेष्ठो मन्दिरं त्वरयान्वितः ॥ १३६.१० ॥
आगतं गौतमं दृष्ट्वा भीतभीतः पुरंदरः ।
निर्गतः स ततो दृष्ट्वा शक्रोऽयमिति चिन्तयन् ॥ १३६.११ ॥
ततः शशाप देवेन्द्रं गौतमः क्रोधमूर्छितः ।
अजितेन्द्रियोऽसि यस्मात्त्वं तस्माद्बहुभगो भव ॥ १३६.१२ ॥
एवमुक्तस्तु देवेन्द्रस्तत्क्षणादेव भारत ।
भगानां तु सहस्रेण तत्क्षणादेव वेष्टितः ॥ १३६.१३ ॥
त्यक्त्वा राज्यं सुरैः सार्द्धं गतश्रीको जगाम ह ।
तपश्चचार विपुलं गौतमेन महीतले ॥ १३६.१४ ॥
अहल्यापि ततः शप्ता यस्मात्त्वं दुष्टचारिणी ।
प्रेक्ष्य मां रमसे शक्रं तस्मादश्ममयी भव ॥ १३६.१५ ॥
गते वर्षसहस्रान्ते रामं दृष्ट्वा यशस्विनम् ।
तीर्थयात्राप्रसङ्गेन धौतपापा भविष्यसि ॥ १३६.१६ ॥
एवं गते ततः काले दृष्टा रामेण धीमता ।
विश्वामित्रसहायेन त्यक्त्वा साश्ममयीं तनुम् ॥ १३६.१७ ॥
पूजयित्वा यथान्यायं गतपापा विमत्सरा ।
आगता नर्मदातीरे तीर्थे स्नात्वा यथाविधि ॥ १३६.१८ ॥
कृतं चान्द्रायणं मासं कृच्छ्रं चान्यं ततः परम् ।
ततस्तुष्टो महादेवो दत्त्वा वरमनुत्तमम् ॥ १३६.१९ ॥
जगामादर्शनं भूयो रेमे चोमापतिश्चिरम् ।
अहल्या तु गते देवे स्थापयित्वा जगद्गुरुम् ॥ १३६.२० ॥
अहल्येश्वरनामानं स्वगृहे चागमत्पुनः ।
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ॥ १३६.२१ ॥
स मृतः स्वर्गमाप्नोति यत्र देवो महेश्वरः ।
क्रीडयित्वा यथाकामं तत्र लोके महातपाः ॥ १३६.२२ ॥
गते वर्षसहस्रान्ते मानुष्यं लभते पुनः ।
धनधान्यचयोपेतः पुत्रपौत्रसमन्वितः ॥ १३६.२३ ॥
वेदविद्याश्रयो धीमाञ्जायते विमले कुले ।
रूपसौभाग्यसम्पन्नः सर्वव्याधिविवर्जितः ।
जीवेद्वर्षशतं साग्रमहल्यातीर्थसेवनात् ॥ १३६.२४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अहल्यातीर्थमाहात्म्यवर्णनं नाम षट्त्रिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 137
अध्याय १३७
मार्कण्डेय उवाच -
धर्मपुत्र ततो गच्छेत्कर्कटेश्वरमुत्तमम् ।
उत्तरे नर्मदाकूले सर्वपापक्षयंकरम् ॥ १३७.१ ॥
तत्र स्नात्वा विधानेन यस्तु पूजयते शिवम् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ १३७.२ ॥
तस्य तीर्थस्य माहात्म्यं पुराणे यच्छ्रुतं मया ।
न तद्वर्णयितुं शक्यं संक्षेपेण वदाम्यतः ॥ १३७.३ ॥
तत्र तीर्थे तु यः कुर्यात्किंचित्कर्म शुभाशुभम् ।
हर्षान्मदान्महाराज तत्सर्वं जायतेऽक्षयम् ॥ १३७.४ ॥
तत्र तीर्थे तपस्तप्त्वा वालखिल्या मरीचयः ।
रमन्तेऽद्यापि लोकेषु स्वेच्छया कुरुनन्दन ॥ १३७.५ ॥
तत्रस्थास्तन्न जानन्ति नराज्ञानबहिष्कृताः ।
शरीरस्थमिवात्मानमक्षयं ज्योतिरव्ययम् ॥ १३७.६ ॥
तत्र तीर्थे नृपश्रेष्ठ देवी नारायणी पुरा ।
अद्यापि तपते घोरं तपो यावत्किलार्बुदम् ॥ १३७.७ ॥
तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
तस्य ते द्वादशाब्दानि तृप्तिं यान्ति पितामहाः ॥ १३७.८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कर्कटेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तत्रिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 138
अध्याय १३८
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्पाण्डुपुत्र शक्रतीर्थमनुत्तमम् ।
यत्र सिद्धो महाभागो देवराजः शतक्रतुः ॥ १३८.१ ॥
गौतमेन पुरा शप्तं ज्ञात्वा देवाः सुरेश्वरम् ।
ब्रह्माद्या देवताः सर्व ऋषयश्च तपोधनाः ॥ १३८.२ ॥
गौतमं प्रार्थयामासुर्वाक्यैः सानुनयैः शुभैः ।
गतराज्यं गतश्रीकं शक्रं प्रति मुनीश्वर ॥ १३८.३ ॥
इन्द्रेन रहितं राज्यं न कश्चित्कामयेद्द्विज ।
देवो वा मानवो वापि एतत्ते विदितं प्रभो ॥ १३८.४ ॥
तस्य त्वं भगयुक्तस्य दयां कुरु द्विजोत्तम ।
गतश्चादर्शनं शक्रो दूषितः स्वेन पाप्मना ॥ १३८.५ ॥
देवानां वचनं श्रुत्वा गौतमो वेदवित्तमः ।
तथेति कृत्वा शक्रस्य वरं दातुं प्रचक्रमे ॥ १३८.६ ॥
एतद्भगसहस्रं तु पुरा जातं शतक्रतो ।
तल्लोचनसहस्रं तु मत्प्रसादाद्भविष्यति ॥ १३८.७ ॥
एवमुक्तः सहस्राक्षः प्रणम्य मुनिसत्तमम् ।
ब्राह्मणांस्तान्महाभागान्नर्मदां प्रत्यगात्ततः ॥ १३८.८ ॥
स्नात्वा स विमले तोये संस्थाप्य त्रिपुरान्तकम् ।
जगाम त्रिदशावासं पूज्यमानोऽप्सरोगणैः ॥ १३८.९ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
परदाराभिगमनान्मुच्यते पातकान्नरः ॥ १३८.१० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शक्रतीर्थमाहात्म्यवर्णनं नामाष्टत्रिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 139
अध्याय १३९
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज सोमतीर्थमनुत्तमम् ।
यत्र सोमस्तपस्तप्त्वा नक्षत्रपथमास्थितः ॥ १३९.१ ॥
तत्र तीर्थे तु यः स्नायादाचम्य विधिपूर्वकम् ।
कृतजाप्यो रविं ध्यायेत्तस्य पुण्यफलं शृणु ॥ १३९.२ ॥
ऋग्वेदयजुर्वेदाभ्यां सामवेदेन भारत ।
जपतो यत्फलं प्रोक्तं गायत्र्या चात्र तत्फलम् ॥ १३९.३ ॥
तत्र तीर्थे तु यो भक्त्या ब्राह्मणान् भोजयेच्छुचिः ।
तेन सम्यग्विधानेन कोटिर्भवति भोजिता ॥ १३९.४ ॥
पादुकोपानहौ छत्रं वस्त्रकम्बलवाजिनः ।
यो दत्ते विप्रमुख्याय तस्य तत्कोटिसंमितम् ॥ १३९.५ ॥
सहस्रं तु सहस्राणामनृचां यस्तु भोजयेत् ।
एकस्य मन्त्रयुक्तस्य कलां नार्हति षोडशीम् ॥ १३९.६ ॥
एवं तु भोजयेत्तत्र बह्वृचं वेदपारगम् ।
शाखान्तर्गमथाध्वर्युं छन्दोगं वा समाप्तिगम् ॥ १३९.७ ॥
अग्निहोत्रसहस्रस्य यत्फलं प्राप्यते बुधैः ।
समं तद्वेदविदुषा तीर्थे सोमस्य तत्फलम् ॥ १३९.८ ॥
भोजयेद्यः शतं तेषां सहस्रं लभते नरः ।
एकस्य योगयुक्तस्य तत्फलं कवयो विदुः ॥ १३९.९ ॥
संनिरुध्येन्द्रियग्रामं यत्रयत्र वसेन्मुनिः ।
तत्रतत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥ १३९.१० ॥
तस्मात्सर्वप्रयत्नेन ग्रहणे चन्द्रसूर्ययोः ।
संक्रान्तौ च व्यतीपाते योगी भोज्यो विशेषतः ॥ १३९.११ ॥
संन्यासं कुरुते यस्तु तत्र तीर्थे युधिष्ठिर ।
विमानेन महाभागाः स याति त्रिदिवं नरः ॥ १३९.१२ ॥
सोमस्यानुचरो भूत्वा तेनैव सह मोदते ॥ १३९.१३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमतीर्थमाहात्म्यवर्णनं नामैकोनचत्वारिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 140
अध्याय १४०
मार्कण्डेय उवाच -
ततो गच्छेन्महाराज नन्दाह्रदमनुत्तमम् ।
यत्र सिद्धा महाभागा नन्दा देवी वरप्रदा ॥ १४०.१ ॥
महिषासुरे महाकाये पुरा देवभयंकरे ।
शूलिन्या शूलभिन्नाङ्गे कृते दानवसत्तमे ॥ १४०.२ ॥
येनैकादशरुद्राश्च ह्यादित्याः समरुद्गणाः ।
वसवो वायुना सार्द्धं चन्द्रादित्यौ सुरेश्वर ॥ १४०.३ ॥
बलिना निर्जिता येन ब्रह्मविष्णुमहेश्वराः ।
सङ्ग्रामे सुमहाघोरे कृते देवभयंकरे ॥ १४०.४ ॥
कृत्वा तत्कदनं घोरं नन्दा देवी सुरेश्वरी ।
यस्मात्स्नाता विशालाक्षी तेन नन्दाह्रदः स्मृतः ॥ १४०.५ ॥
तत्र तीर्थे तु यः स्नात्वा नन्दामुद्दिश्य भारत ।
ददाति दानं विप्रेभ्यः सोऽश्वमेधफलं लभेत् ॥ १४०.६ ॥
भैरवं चैव केदारं तथा रुद्रं महालयम् ।
नन्दाह्रदश्चतुर्थः स्यात्पञ्चमं भुवि दुर्लभम् ॥ १४०.७ ॥
बहवस्तं न जानन्ति कामरागसमन्विताः ।
नर्मदाया ह्रदं पुण्यं सर्वपातकनाशनम् ॥ १४०.८ ॥
तत्र तीर्थे तु यः स्नात्वा नन्दां देवीं प्रपूजयेत् ।
किं तस्य हिमवन्मध्यगमनेन प्रयोजनम् ॥ १४०.९ ॥
परमार्थमविज्ञाय पर्यटन्ति तमोवृताः ।
तेषां समागमे पार्थ श्रम एव हि केवलम् ॥ १४०.१० ॥
पृथिव्यां सागरान्तायां स्नानदानेन यत्फलम् ।
तत्फलं समवाप्नोति स्नात्वा नन्दाह्रदे नृप ॥ १४०.११ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दाह्रदतीर्थमाहात्म्यवर्णनं नाम चत्वारिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 141
अध्याय १४१
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल तापेश्वरमनुत्तमम् ।
यत्र सा हरिणी सिद्धा व्याधभीता नरेश्वर ॥ १४१.१ ॥
जले प्रक्षिप्य गात्राणि ह्यन्तरिक्षं गता तु सा ।
व्याधो विस्मितचित्तस्तु तां मृगीमवलोक्य च ॥ १४१.२ ॥
विमुच्य सशरं चापं प्रारेभे तप उत्तमम् ।
दिव्यं वर्षसहस्रं तु व्याधेनाचरितं तपः ॥ १४१.३ ॥
अतीते तु ततः काले परितुष्टो महेश्वरः ।
वरं ब्रूहि महाव्याध यत्ते मनसि रोचते ॥ १४१.४ ॥
व्याध उवाच -
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
तव पार्श्वे महादेव वासो मे प्रतिदीयताम् ॥ १४१.५ ॥
ईश्वर उवाच -
एवं भवतु ते व्याध यस्त्वया काङ्क्षितो वरः ।
दैवदेवो महादेव इत्युक्त्वान्तरधीयत ।
गते चादर्शनं देवे स्थापयित्वा महेश्वरम् ॥ १४१.६ ॥
पूजयित्वा विधानेन गतो व्याधस्ततो दिवम् ।
तदाप्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ १४१.७ ॥
व्याधानुतापसंजातं तापेश्वरमिति श्रुतम् ।
तत्र तीर्थे तु यः स्नात्वा सम्पूजयति शङ्करम् ॥ १४१.८ ॥
शिवलोकमवाप्नोति मामुवाच महेश्वरः ।
ये स्नाता नर्मदातोये तीर्थे तापेश्वरे नराः ॥ १४१.९ ॥
तापत्रयविमुक्तास्ते नात्र कार्या विचारणा ।
अष्टम्यां च चतुर्दश्यां तृतीयायां विशेषतः ॥ १४१.१० ॥
स्नानं समाचरेन्नित्यं सर्वपातकशान्तये ॥ १४१.११ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तापेश्वरतीर्थमाहात्म्यवर्णनं नामैकचत्वारिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 142
अध्याय १४२
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज रुक्मिणीतीर्थमुत्तमम् ।
यत्रैव स्नानमात्रेण रूपवान्सुभगो भवेत् ॥ १४२.१ ॥
अष्टम्यां च चतुर्दश्यां तृतीयायां विशेषतः ।
स्नानं समाचरेत्तत्र न चेह जायते पुनः ॥ १४२.२ ॥
यः स्नात्वा रुक्मिणीतीर्थे दानं दद्यात्तु कांचनम् ।
तत्तीर्थस्य प्रभावेन शोकं नाप्नोति मानवः ॥ १४२.३ ॥
युधिष्ठिर उवाच -
तीर्थस्यास्य कथं जातो महिमेदृङ्मुनीश्वर ।
रूपसौभाग्यदं येन तीर्थमेतद्ब्रवीहि मे ॥ १४२.४ ॥
मार्कण्डेय उवाच -
कथयामि यथावृत्तमितिहासं पुरातनम् ।
कथितं पूर्वतो वृद्धैः पारम्पर्येण भारत ॥ १४२.५ ॥
तं तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकाग्रमानसः ।
नगरं कुण्डिनं नाम भीष्मकः परिपाति हि ॥ १४२.६ ॥
हस्त्यश्वरथसम्पन्नो धनाढ्योऽति प्रतापवान् ।
स्त्रीसहस्रस्य मध्यस्थः कुरुते राज्यमुत्तमम् ॥ १४२.७ ॥
तस्य भार्या महादेवी प्राणेभ्योऽपि गरीयसी ।
तस्यामुत्पादयामास पुत्रमेकं च रुक्मकम् ॥ १४२.८ ॥
द्वितीया तनया जज्ञे रुक्मिणी नाम नामतः ।
तदाशरीरिणी वाचा राजानं तमुवाच ह ॥ १४२.९ ॥
चतुर्भुजाय दातव्या कन्येयं भुवि भीष्मक ।
एवं तद्वचनं श्रुत्वा जहर्ष प्रियया सह ॥ १४२.१० ॥
ब्राह्मणैः सह विद्वद्भिः प्रविष्टः सूतिकागृहम् ।
स्वस्तिकं वाचयित्वास्याश्चक्रे नामेति रुक्मिणी ॥ १४२.११ ॥
यतः सुवर्णतिलको जन्मना सह भारत ।
ततः सा रुक्मिणीनाम ब्राह्मणैः कीर्तिता तदा ॥ १४२.१२ ॥
ततः सा कालपर्यायादष्टवर्षा व्यजायत ।
पूर्वोक्तं चैव तद्वाक्यमशरीरिण्युदीरितम् ॥ १४२.१३ ॥
स्मृत्वा स्मृत्वाथ नृपतिश्चिन्तयामास भूपतिः ।
कस्मै देया मया बाला भविता कश्चतुर्भुजः ॥ १४२.१४ ॥
एतस्मिन्नन्तरे तावद्रैवतात्पर्वतोत्तमात् ।
मुख्यश्चेदिपतिस्तत्र दमघोषः समागतः ॥ १४२.१५ ॥
प्रविष्टो राजसदनं यत्र राजा स भीष्मकः ।
तं दृष्ट्वा चागतं गेहे पूजयामास भूपतिः ॥ १४२.१६ ॥
आसनं विपुलं दत्त्वा सभां गत्वा निवेशितः ।
कुशलं तव राजेन्द्र दमघोष श्रियायुत ॥ १४२.१७ ॥
पुण्याहमद्य संजातमहं त्वद्दर्शनोत्सुकः ।
कन्या मदीया राजेन्द्र ह्यष्टवर्षा व्यजायत ॥ १४२.१८ ॥
चतुर्भुजाय दातव्या वागुवाचाशरीरिणी ।
भीष्मकस्य वचः श्रुत्वा दमघोषोऽब्रवीदिदम् ॥ १४२.१९ ॥
चतुर्भुजो मम सुतस्त्रिषु लोकेषु विश्रुतः ।
तस्येयं दीयतां कन्या शिशुपालस्य भीष्मक ॥ १४२.२० ॥
तस्य तद्वचनं श्रुत्वा दमघोषस्य भूमिप ।
भीष्मकेन ततो दत्ता शिशुपालाय रुक्मिणी ॥ १४२.२१ ॥
प्रारब्धं मङ्गलं तत्र भीष्मकेण युधिष्ठिर ।
दिक्षु देशान्तरेष्वेव ये वसन्ति स्वगोत्रजाः ॥ १४२.२२ ॥
निमन्त्रितास्तु ते सर्वे समाजग्मुर्यथाक्रमम् ।
ततो यादववंशस्य तिलकौ बलकेशवौ ॥ १४२.२३ ॥
निमन्त्रितौ समायातौ कुण्डिनं भीष्मकस्य तु ।
भीष्मकेण यथान्यायं पूजितौ तौ यदूत्तमौ ॥ १४२.२४ ॥
ततः प्रदोषसमये रुक्मिणी काममोहिनी ।
सखीभिः सहिता याता पूर्बहिश्चाम्बिकार्चने ॥ १४२.२५ ॥
सापश्यत्तत्र देवेशं गोपवेषधरं हरिम् ।
तं दृष्ट्वा मोहमापन्ना कामेन कलुषीकृता ॥ १४२.२६ ॥
केशवोऽपि च तां दृष्ट्वा संकर्षणमुवाच ह ।
स्त्रीरत्नप्रवरं तात हर्तव्यमिति मे मतिः ॥ १४२.२७ ॥
केशवस्य वचः श्रुत्वा संकर्षण उवाच ह ।
गच्छ कृष्ण महाबाहो स्त्रीरत्नं चाशु गृह्यताम् ॥ १४२.२८ ॥
अहं च तव मार्गेण ह्यागमिष्यामि पृष्ठतः ।
दानवानां च सर्वेषां कुर्वंश्च कदनं महत् ॥ १४२.२९ ॥
संकर्षणमतं प्राप्य केशवः केशिसूदनः ।
ययौ कन्यां गृहीत्वा तु रथमारोप्य सत्वरम् ॥ १४२.३० ॥
निर्गतः सहसा राजन्वेगेनैवानिलो यथा ।
हाहाकारस्तदा जातो भीष्मकस्य पुरे महान् ॥ १४२.३१ ॥
निर्गता दानवाः क्रुद्धा वेला इव महोदधेः ।
गर्जन्तः सायुधाः सर्वे धावन्तो रथवर्त्मनि ॥ १४२.३२ ॥
बलदेवं ततः प्राप्ता रथमार्गानुगामिनम् ।
तेषां युद्धं बलस्यासीत्सर्वलोकक्षयंकरम् ॥ १४२.३३ ॥
यथा तारामये पूर्वं सङ्ग्रामे लोकविश्रुते ।
गदाहस्तो महाबाहुस्त्रैलोक्येऽप्रतिमो बलः ॥ १४२.३४ ॥
हलेनाकृष्य सहसा गदापातैरपातयत् ।
अशक्यो दानवैर्हन्तुं बलभद्रो महाबलः ॥ १४२.३५ ॥
बभञ्ज दानवान्सर्वांस्तस्थौ गिरिरिवाचलः ।
तं दृष्ट्वा च बलं क्रुद्धं दुर्धर्षं त्रिदशैरपि ॥ १४२.३६ ॥
भीष्मपुत्रो महातेजा रुक्मीनां महयशाः ।
नराणामतिशूराणामक्षौहिण्या समन्वितः ॥ १४२.३७ ॥
बलभद्रमतिक्रम्य ततो युद्धे निराकरोत् ।
तद्युद्धं वञ्चयित्वा तु रथमार्गेण सत्वरम् ॥ १४२.३८ ॥
केशवोऽपि तदा देवो रुक्मिण्या सहितो ययौ ।
विन्ध्यं तु लङ्घयित्वाग्रे त्रैलोक्यगुरुरव्ययः ॥ १४२.३९ ॥
नर्मदातटमापेदे यत्र सिद्धः पुरा पुनः ।
अजेयो येन संजातस्तीर्थस्यास्य प्रभावतः ॥ १४२.४० ॥
एतस्मात्कारणात्तात योधनीपुरमुच्यते ।
रुक्मोऽपि दानवेन्द्रोऽसौ प्राप्तः ॥ १४२.४१ ॥
प्रत्युवाचाच्युतं क्रुद्धस्तिष्ठ तिष्ठेति मा व्रज ।
अद्य त्वां निशितैर्बाणैर्नेष्यामि यमसादनम् ॥ १४२.४२ ॥
एवं परस्परं वीरौ जगर्जतुरुभावपि ।
तयोर्युद्धमभूद्घोरं तारकाग्निजसन्निभम् ॥ १४२.४३ ॥
चिक्षेप शरजालानि केशवं प्रति दानवः ।
नानुचिन्त्य शरांस्तस्य केशवः केशिसूदनः ॥ १४२.४४ ॥
ततो विष्णुः स्वयं क्रुद्धश्चक्रं गृह्य सुदर्शनम् ।
सम्प्रहरत्यमुं यावद्रुक्मिण्यात्र निवारितः ॥ १४२.४५ ॥
त्वां न जानाति देवेशं चतुर्बाहुं जनार्दनम् ।
दर्शयस्व स्वकं रूपं दयां कृत्वा ममोपरि ॥ १४२.४६ ॥
एवमुक्तस्तु रुक्मिण्या दर्शयामास भारत ।
देवा दृष्ट्वापि तद्रूपं स्तुवन्त्याकाशसंस्थिताः ।
दिव्यं चक्षुस्तदा देवो ददौ रुक्मस्य भारत ॥ १४२.४७ ॥
रुक्म उवाच -
यन्मया पापनिष्ठेन मन्दभाग्येन केशव ।
सायकैराहतं वक्षस्तत्सर्वं क्षन्तुमर्हसि ॥ १४२.४८ ॥
पूर्वं दत्ता स्वयं देव जानकी जनकेन वै ।
मया प्रदत्ता देवेश रुक्मिणी तव केशव ॥ १४२.४९ ॥
उद्वाहय यथान्यायं विधिदृष्टेन कर्मणा ।
रुक्मस्य वचनं श्रुत्वा ततस्तुष्टो जगद्गुरुः ॥ १४२.५० ॥
बभाषे देवदेवेशो रुक्मिणं भीष्मकात्मजम् ।
गच्छ स्वकं पुरं मा भैः कुरु राज्यमकण्टकम् ॥ १४२.५१ ॥
केशवस्य वचः श्रुत्वा रुक्मो दानवपुंगवः ।
तं प्रणम्य जगन्नाथं जगाम भवनं पितुः ॥ १४२.५२ ॥
गते रुक्मे तदा कृष्णः समामन्त्र्य द्विजोत्तमान् ।
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ॥ १४२.५३ ॥
वसिष्ठं च महाभागमित्येते सप्त मानसाः ।
इत्येते ब्राह्मणाः सप्त पुराणे निश्चयं गताः ॥ १४२.५४ ॥
क्षमावन्तः प्रजावन्तो महर्षिभिरलंकृताः ।
इत्येवं ब्रह्मपुत्राश्च सत्यवन्तो महामते ॥ १४२.५५ ॥
नर्मदातटमाश्रित्य निवसन्ति जितेन्द्रियाः ।
तपःस्वाध्यायनिरता जपहोमपरायणाः ॥ १४२.५६ ॥
निमन्त्रितास्तु राजेन्द्र केशवेन महात्मना ।
श्राद्धं कृत्वा यथान्यायं ब्रह्मोक्तविधिना ततः ॥ १४२.५७ ॥
हरिस्तान्पूजयामास सप्तब्रह्मर्षिपुंगवान् ।
प्रददौ द्वादश ग्रामांस्तेभ्यस्तत्र जनार्दनः ॥ १४२.५८ ॥
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।
तावद्दानं मया दत्तं परिपन्थी न कश्चन ॥ १४२.५९ ॥
मद्दत्तं पालयिष्यन्ते ये नृपा गतकल्मषाः ।
तेभ्यः स्वस्ति करिष्यामि दास्यामि परमां गतिम् ॥ १४२.६० ॥
यावद्धि यान्ति लोकेषु महाभूतानि पञ्च च ।
तावत्ते दिवि मोदन्ते मद्दत्तपरिपालकाः ॥ १४२.६१ ॥
यस्तु लोपयते मूढो दत्तं वः पृथिवीतले ।
नरके तस्य वासः स्याद्यावदाभूतसम्प्लवम् ॥ १४२.६२ ॥
स्वदत्ता परदत्ता वा पालनीया वसुंधरा ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ १४२.६३ ॥
स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् ।
स विष्ठायां कृमिर्भूत्वा पितृभिः सह मज्जति ॥ १४२.६४ ॥
अन्यायेन हृता भूमिरन्यायेन च हारिता ।
हर्ता हारयिता चैव विष्ठायां जायते कृमिः ॥ १४२.६५ ॥
षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः ।
आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ १४२.६६ ॥
यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि ।
निर्माल्यरूपप्रतिमानि तानि को नाम साधुः पुनराददाति ॥ १४२.६७ ॥
एवं तान्पूजयित्वा तु सम्यङ्न्यायेन पाण्डव ।
रुक्मिण्या विधिवत्पाणिं जग्राह मधुसूदनः ॥ १४२.६८ ॥
मुशली च ततः सर्वाञ्जित्वा दानवपुंगवान् ।
स्वस्थानमगमत्तत्र कृत्वा कार्यं सुशोभनम् ॥ १४२.६९ ॥
प्रयातौ द्वारवत्यां तौ कृष्णसंकर्षणावुभौ ।
गच्छमानं तु तं दृष्ट्वा केशवं क्लेशनाशनम् ॥ १४२.७० ॥
ब्राह्मणाः सत्यवन्तश्च निर्गताः शंसितव्रताः ।
आगच्छमानांस्तौ वीक्ष्य रथमार्गेण ब्राह्मणान् ॥ १४२.७१ ॥
मुहूर्तं तत्र विश्रम्य केशवो वाक्यमब्रवीत् ।
किमागमनकार्यं वो ब्रूत सर्वं द्विजोत्तमाः ॥ १४२.७२ ॥
कुर्वाणाः स्वीयकर्माणि मम कृत्यं तु तिष्ठते ।
देवस्य वचनं श्रुत्वा मुनयो वाक्यमब्रुवन् ॥ १४२.७३ ॥
कल्पकोटिसहस्रेण सत्यभावात्तु वन्दितः ।
दुष्प्राप्योऽसि मनुष्याणां प्राप्तः किं त्यजसे हि नः ॥ १४२.७४ ॥
ब्राह्मणानां वचः श्रुत्वा भगवानिदमब्रवीत् ।
मथुरायां द्वारवत्यां योधनीपुर एव च ॥ १४२.७५ ॥
त्रिकालमागमिष्यामि सत्यं सत्यं पुनः पुनः ।
एवं ते ब्राह्मणाः श्रुत्वा योधनीपुरमागताः ॥ १४२.७६ ॥
अवतीर्णस्त्रिभागेन प्रादुर्भावे तु माथुरे ।
एतत्ते कथितं सर्वं तीर्थस्योत्पत्तिकारणम् ॥ १४२.७७ ॥
भूतं भव्यं भविष्यच्च वर्तमानं तथापरम् ।
यं श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १४२.७८ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेद्बलकेशवौ ।
तेन देवो जगद्धाता पूजितस्त्रिगुणात्मवान् ॥ १४२.७९ ॥
उपवासी नरो भूत्वा यस्तु कुर्यात्प्रदक्षिणम् ।
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ १४२.८० ॥
तत्र तीर्थे तु ये वृक्षास्तान्पश्यन्त्यपि ये नराः ।
तेऽपि पापैः प्रमुच्यन्ते भ्रूणहत्यासमैरपि ॥ १४२.८१ ॥
प्रातरुत्थाय ये केचित्पश्यन्ति बलकेशवौ ।
तेन ते सदृशाः स्युर्वै देवदेवेन चक्रिणा ॥ १४२.८२ ॥
ते पूज्यास्ते नमस्कार्यास्तेषां जन्म सुजीवितम् ।
ये नमन्ति जगन्नाथं देवं नारायणं हरिम् ॥ १४२.८३ ॥
तत्र तीर्थे तु यद्दानं स्नानं देवार्चनं नृप ।
तत्सर्वमक्षयं तस्य इत्येवं शङ्करोऽब्रवीत् ॥ १४२.८४ ॥
प्रविश्याग्नौ मृतानां च यत्फलं समुदाहृतम् ।
तच्छृणुष्व नृपश्रेष्ठ प्रोच्यमानमशेषतः ॥ १४२.८५ ॥
विमानेनार्कवर्णेन किंकिणीजालमालिना ।
आग्नेये भवते तत्र मोदते कालमीप्सितम् ॥ १४२.८६ ॥
जले चैवा मृतानां तु योधनीपुरमध्यतः ।
वसन्ति वारुणे लोके यावदाभूतसम्प्लवम् ॥ १४२.८७ ॥
अनाशके मृतानां तु तत्र तीर्थे नराधिप ।
अनिवर्तिका गतिर्नृणां नात्र कार्या विचारणा ॥ १४२.८८ ॥
तत्र तीर्थे तु यो दद्यात्कपिलादानमुत्तमम् ।
विधानेन तु संयुक्तं शृणु तस्यापि यत्फलम् ॥ १४२.८९ ॥
यावन्ति तस्या रोमाणि तत्प्रसूतेश्च भारत ।
तावन्ति दिवि मोदन्ते सर्वकामैः सुपूजिताः ॥ १४२.९० ॥
यावन्ति रोमाणि भवन्ति धेन्वास्तावन्ति वर्षाणि महीयते सः ।
स्वर्गाच्च्युतश्चापि ततस्त्रिलोक्यां कुले समुत्पत्स्यति गोमतां सः ॥ १४२.९१ ॥
तत्र तीर्थे तु यो दद्याद्रूप्यं काञ्चनमेव वा ।
काञ्चनेन विमानेन विष्णुलोके महीयते ॥ १४२.९२ ॥
तस्मिंस्तीर्थे तु यो दद्यात्पादुके वस्त्रमेव च ।
दानस्यास्य प्रभावेन लभते स्वर्गमीप्सितम् ॥ १४२.९३ ॥
ऋग्यजुःसामवेदानां पठनाद्यत्फलं भवेत् ।
तत्र तीर्थे तु राजेन्द्र गायत्र्या तत्फलं लभेत् ॥ १४२.९४ ॥
प्रयागे यद्भवेत्पुण्यं गयायां च त्रिपुष्करे ।
कुरुक्षेत्रे तु राजेन्द्र राहुग्रस्ते दिवाकरे ॥ १४२.९५ ॥
सोमेश्वरे च यत्पुण्यं सोमस्य ग्रहणे तथा ।
तत्फलं लभते तत्र स्नानमात्रान्न संशयः ॥ १४२.९६ ॥
द्वादश्यां तु नरः स्नात्वा नमस्कृत्य जनार्दनम् ।
उद्धृताः पितरस्तेन अवाप्तं जन्मनः फलम् ॥ १४२.९७ ॥
संक्रान्तौ च व्यतीपाते द्वादश्यां च विशेषतः ।
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता ॥ १४२.९८ ॥
पृथिव्यां यानि तीर्थानि ह्यासमुद्राणि पाण्डव ।
तानि सर्वाणि तत्रैव द्वादश्यां पाण्डुनन्दन ॥ १४२.९९ ॥
क्षयं यान्ति च दानानि यज्ञहोमबलिक्रियाः ।
न क्षीयते महाराज तत्र तीर्थे तु यत्कृतम् ॥ १४२.१०० ॥
यद्भूतं यद्भविष्यच्च तीर्थमाहात्म्यमुत्तमम् ।
कथितं ते मया सर्वं पृथग्भावेन भारत ॥ १४२.१०१ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रुक्मिणीतीर्थमाहात्म्यवर्णनं नाम द्विचत्वारिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 143
अध्याय १४३
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज योजनेश्वरमुत्तमम् ।
यत्र सिद्धौ पुरा कल्पे नरनारायणावृषी ॥ १४३.१ ॥
तत्र तीर्थे तपस्तप्त्वा सङ्ग्रामे देवदानवैः ।
जयं प्राप्तौ महात्मानौ नरनारायणावुभौ ॥ १४३.२ ॥
पुनस्त्रेतायुगे प्राप्ते तौ देवौ रामलक्ष्मणौ ।
तत्र तीर्थे पुनः स्नात्वा रावणो दुर्जयो हतः ॥ १४३.३ ॥
पुनः पार्थ कलौ प्राप्ते तौ देवौ बलकेशवौ ।
वसुदेवकुले जातौ दुष्करं कर्म चक्रतुः ॥ १४३.४ ॥
नरकं कालनेमिं च कंसं चाणूरमुष्टिकौ ।
शिशुपालं जरासंधं जघ्नतुर्बलकेशवौ ॥ १४३.५ ॥
ततस्तत्र रिपून्संख्ये भीष्मद्रोणपुरःसरान् ।
कर्णदुर्योधनादींश्च निहनिष्यति स प्रभुः ॥ १४३.६ ॥
धर्मक्षेत्रे कुरुक्षेत्रे तत्र युध्यन्ति ते क्षणम् ।
भीमार्जुननिमित्तेन शिष्यौ कृत्वा परस्परम् ॥ १४३.७ ॥
तत्र तीर्थे पुनर्गत्वा तपः कृत्वा सुदुष्करम् ।
पूजयित्वा द्विजान्भक्त्या यास्येते द्वारकां पुनः ॥ १४३.८ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेद्बलकेशवौ ।
तेन देवो जगद्धाता पूजितस्त्रिगुणात्मवान् ॥ १४३.९ ॥
उपवासी नरो भूत्वा यस्तु कुर्यात्प्रजागरम् ।
मुच्यते सर्वपापेभ्यो गायंस्तस्य शुभां कथाम् ॥ १४३.१० ॥
यावतस्तत्र तीर्थे तु वृक्षान् पश्यन्ति मानवाः ।
ब्रह्महत्यादिकं पापं तावदेषां प्रणश्यति ॥ १४३.११ ॥
प्रातरुत्थाय ये केचित्पश्यन्ति बलकेशवौ ।
तेनैव सदृशाः सर्वे देवदेवेन चक्रिणा ॥ १४३.१२ ॥
ते पूज्यास्ते नमस्कार्यास्तेषां जन्म सुजीवितम् ।
ये नमन्ति जगत्पूज्यं देवं नारायणं हरिम् ॥ १४३.१३ ॥
तत्र तीर्थे तु यद्दानं स्नानं देवार्चनं नृप ।
क्रियते तत्फलं सर्वमक्षयायोपकल्पते ॥ १४३.१४ ॥
अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः ।
लोकास्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गां च भुवं च दद्यात् ॥ १४३.१५ ॥
एतत्ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् ।
अतीतं च भविष्यच्च वर्तमानं महाबलम् ॥ १४३.१६ ॥
श्रुत्वा वापि पठित्वेदं श्रावयिपत्वाथ धार्मिकान् ।
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ १४३.१७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे योजनेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 144
अध्याय १४४
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज द्वादशीतीर्थमुत्तमम् ।
क्षरन्ति सर्वदानानि जपहोमबलिक्रियाः ॥ १४४.१ ॥
न क्षीयते तु राजेन्द्र चक्रतीर्थे तु यत्कृतम् ।
यद्भूतं यद्भविष्यच्च तीर्थमाहात्म्यमुत्तमम् ॥ १४४.२ ॥
कथितं तन्मया सर्वं पृथग्भावेन भारत ॥ १४४.३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे द्वादशीतीर्थमहात्म्यवर्णनं नाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 145
अध्याय १४५
मार्कण्डेय उवाच -
ततो गच्छेद्धरापाल शीवतीर्थमनुत्तमम् ।
दर्शनाद्यस्य देवस्य मुच्यते सर्वकिल्बिषैः ॥ १४५.१ ॥
शिवतीर्थे तु यः स्नात्वा जितक्रोधो जितेन्द्रियः ।
पूजयेत महादेवं सोऽग्निष्टोमफलं लभेत् ॥ १४५.२ ॥
तत्र तीर्थे तु यो भक्त्या सोपवासोऽर्चयेच्छिवम् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ १४५.३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शिवतीर्थमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 146
अध्याय १४६
मार्कण्डेय उवाच -
अस्माहकं ततो गच्छेत्पितृतीर्थमनुत्तमम् ।
प्रेतत्वाद्यत्र मुच्यन्ते पिण्डेनैकेन पूर्वजाः ॥ १४६.१ ॥
युधिष्ठिर उवाच -
अस्माहकस्य माहात्म्यं कथयस्व ममानघ ।
स्नानदानेन यत्पुण्यं तथा पिण्डोदकेन च ॥ १४६.२ ॥
श्रीमार्कण्डेय उवाच -
पुरा कल्पे नृपश्रेष्ठ ऋषिदेवसमागमे ।
प्रश्नः पृष्टो मया तात यथा त्वमनुपृच्छसि ॥ १४६.३ ॥
एकत्र सागराः सप्त सप्रयागाः सपुष्कराः ।
नास्य साम्यं लभन्ते ते नात्र कार्या विचारणा ॥ १४६.४ ॥
सोमनाथं तु विख्यातं यत्सोमेन प्रतिष्ठितम् ।
तत्र सोमग्रहे पुण्यं तत्पुण्यं लभते नरः ॥ १४६.५ ॥
मासान्ते पितरो नृणां वीक्षन्ते सन्ततिं स्वकाम् ।
कश्चिदस्मत्कुलेऽस्माकं पिण्डमत्र प्रदास्यति ॥ १४६.६ ॥
प्रपितामहास्तथादित्याः श्रुतिरेषा सनातनी ।
एवं ब्रुवन्ति देवाश्च ऋषयः सतपोधनाः ॥ १४६.७ ॥
सकृत्पिण्डोदकेनैव शृणु पार्थिव यत्फलम् ।
द्वादशाब्दानि राजेन्द्र योगं भुक्त्वा सुशोभनम् ॥ १४६.८ ॥
युगे युगे महाराज अस्माहके पितामहाः ।
सर्वदा ह्यवलोकन्त आगच्छन्तं स्वगोत्रजम् ॥ १४६.९ ॥
भविष्यति किमस्माकममावास्याप्यमाहके ।
स्नानं दानं च ये कुर्युः पितॄणां तिलतर्पणम् ॥ १४६.१० ॥
ते सर्वपापनिर्मुक्ताः सर्वान्कामांल्लभति वै ।
जलमध्येऽत्र भूपाल अग्नितीर्थं च तिष्ठति ॥ १४६.११ ॥
दर्शनात्तस्य तीर्थस्य पापराशिर्विलीयते ।
स्नानमात्रेण राजेन्द्र ब्रह्महत्यां व्यपोहति ॥ १४६.१२ ॥
शुक्लाम्बरधरो नित्यं नियतः स जितेन्द्रियः ।
एककालं तु भुञ्जानो मासं तीर्थस्य सन्निधौ ॥ १४६.१३ ॥
सुवर्णालंकृतानां तु कन्यानां शतदानजम् ।
फलमाप्नोति सम्पूर्णं पितृलोके महीयते ॥ १४६.१४ ॥
पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत् ।
धनधान्यसमायुक्तो दाता भवति धार्मिकः ॥ १४६.१५ ॥
उपवासी शुचिर्भूत्वा ब्रह्मलोकमवाप्नुयात् ।
अस्माहकं समासाद्य यस्तु प्राणान् परित्यजेत् ॥ १४६.१६ ॥
कोटिवर्षसहस्राणि रुद्रलोके महीयते ।
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ १४६.१७ ॥
सुवर्णमणिमुक्ताढ्ये कुले जायेत रूपवान् ।
कृत्वाभिषेकविधिना हयमेधफलं लभेत् ॥ १४६.१८ ॥
धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः ।
चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम् ॥ १४६.१९ ॥
तत्फलं लभते नूनं तत्र तीर्थेऽभिषेचनात् ।
तीर्थानां परमं तीर्थं निर्मितं शम्भुना पुरा ॥ १४६.२० ॥
हृदयेशः स्वयं विष्णुर्जपेद्देवं महेश्वरम् ।
गन्धर्वाप्सरसश्चैव मरुतो मारुतास्तथा ॥ १४६.२१ ॥
विश्वेदेवाश्च पितरः सचन्द्राः सदिवाकराः ।
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥ १४६.२२ ॥
प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव च ।
च्यवनो गालवश्चैव वामदेवो महामुनिः ॥ १४६.२३ ॥
वालखिल्याश्च गन्धारास्तृणबिन्दुश्च जाजलिः ।
उद्दालकश्चर्ष्यशृङ्गो वसिष्ठश्च सनन्दनः ॥ १४६.२४ ॥
शुक्रश्चैव भरद्वाजो वात्स्यो वात्स्यायनस्तथा ।
अगस्तिर्मित्रावरुणौ विश्वामित्रो मुनीश्वरः ॥ १४६.२५ ॥
गौतमश्च पुलस्त्यश्च पौलस्त्यः पुलहः क्रतुः ।
सनातनस्तु कपिलो वाह्निः पञ्चशिखस्तथा ॥ १४६.२६ ॥
अन्येऽपि बहवस्तत्र मुनयः शंसितव्रताः ।
क्रीडन्ति देवताः सर्व ऋषयः सतपोधनाः ॥ १४६.२७ ॥
मनुष्याश्चैव योगीन्द्राः पितरः सपितामहाः ।
अस्माहकेऽत्र तिष्ठन्ति सर्व एव न संशयः ॥ १४६.२८ ॥
पितरः पितामहाश्चैव तथैव प्रपितामहाः ।
येषां दत्तमुपस्थायि सुकृतं वापि दुष्कृतम् ॥ १४६.२९ ॥
अक्षयं तत्र तत्सर्वं यत्कृतं योधनीपुरे ।
मातरं पितरं त्यक्त्वा सर्वबन्धुसुहृज्जनान् ॥ १४६.३० ॥
धनं धान्यं प्रियान्पुत्रांस्तथा देहं नृपोत्तम ।
गच्छते वायुभूतस्तु शुभाशुभसमन्वितः ॥ १४६.३१ ॥
अदृश्यः सर्वभूतानां परमात्मा महत्तरः ।
शुभाशुभगतिं प्राप्तः कर्मणा स्वेन पार्थिव ॥ १४६.३२ ॥
युधिष्ठिर उवाच -
शुभाशुभं न बन्धूनां जायते केन हेतुना ।
एकः प्रसूयते जन्तुरेक एव प्रलीयते ॥ १४६.३३ ॥
एको हि भुङ्क्ते सुकृतमेक एव हि दुष्कृतम् ॥ १४६.३४ ॥
मार्कण्डेय उवाच -
एष त्वयोक्तो नृपते महाप्रश्नः स्मृतो मया ॥ १४६.३५ ॥
पितामहमुखोद्गीतं श्रुतं ते कथयाम्यहम् ।
यन्मे पितामहात्पूर्वं विज्ञातमृषिसंसदि ॥ १४६.३६ ॥
न माता न पिता बन्धुः कस्यचिन्न सुहृत्क्वचित् ।
कस्य न ज्ञायते रूपं वायुभूतस्य देहिनः ॥ १४६.३७ ॥
यद्येवं न भवेत्तात लोकस्य तु नरेश्वर ।
अमर्यादं भवेन्नूनं विनश्यति चराचरम् ॥ १४६.३८ ॥
एवं ज्ञात्वा पूरा राजन्समस्तैर्लोककर्तृभिः ।
मर्यादा स्थापिता लोके यथा धर्मो न नश्यति ॥ १४६.३९ ॥
धर्मे नष्टे मनुष्याणामधर्मोऽभिभवेत्पुनः ।
ततः स्वधर्मचलनान्नरके गमनं ध्रुवम् ॥ १४६.४० ॥
लोको निरङ्कुशः सर्वो मर्यादालङ्घने रतः ।
मर्यादा स्थापिता तेन शास्त्रं वीक्ष्य महर्षिभिः ॥ १४६.४१ ॥
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।
पिण्डोदकप्रदानं च तथैवातिथिपूजनम् ॥ १४६.४२ ॥
पितरः पितामहाश्चैव तथैव प्रपितामहाः ।
त्रयो देवाः स्मृतास्तात ब्रह्मविष्णुमहेश्वराः ॥ १४६.४३ ॥
पूजितैः पूजिताः सर्वे तथा मातामहास्त्रयः ।
तस्मात्सर्वप्रयत्नेन श्रुतिस्मृत्यर्थनोदितान् ॥ १४६.४४ ॥
धर्मं समाचरन्नित्यं पापांशेन न लिप्यते ।
श्रुतिस्मृत्युदितं धर्मं मनसापि न लङ्घयेत् ॥ १४६.४५ ॥
इह लोके परे चैव यदीच्छेच्छ्रेय आत्मनः ।
पितापुत्रौ सदाप्येकौ बिम्बाद्बिम्बमिवोद्धृतौ ॥ १४६.४६ ॥
विभक्तौ वाविभक्तौ वा श्रुतिस्मृत्यर्थतस्तथा ।
उद्धरेदात्मनात्मानमात्मानमवसादयेत् ॥ १४६.४७ ॥
पिण्डोदकप्रदानाभ्यामृते पार्थ न संशयः ।
एवं ज्ञात्वा प्रयत्नेन पिण्डोदकप्रदो भवेत् ॥ १४६.४८ ॥
आयुर्धर्मो यशस्तेजः सन्ततिश्चैव वर्धते ।
पृथिव्यां सागरान्तायां पितृक्षेत्राणि यानि च ॥ १४६.४९ ॥
तानि ते सम्प्रवक्ष्यामि येषु दत्तं महाफलम् ।
गयायां पुष्करे ज्येष्ठे प्रयागे नैमिषे तथा ॥ १४६.५० ॥
संनिहत्यां कुरुक्षेत्रे प्रभासे कुरुनन्दन ।
पिण्डोदकप्रदानेन यत्फलं कथितं बुधैः ॥ १४६.५१ ॥
अस्माहके तदाप्नोति नर्मदायां न संशयः ।
तत्र ब्रह्मा मुरारिश्च रुद्रश्च उमया सह ॥ १४६.५२ ॥
इन्द्राद्या देवताः सर्वे पितरो मुनयस्तथा ।
सागराः सरितश्चैव पर्वताश्च बलाहकाः ॥ १४६.५३ ॥
तिष्ठन्ति पितरः सर्वे सर्वतीर्थाधिकं ततः ।
स्थिता ब्रह्मशिला तत्र गजकुम्भनिभा नृप ॥ १४६.५४ ॥
कलौ न दृश्या भवति प्रधानं यद्गयाशिरः ।
वैशाखे मासि सम्प्राप्तेऽमावास्यां नृपोत्तम ॥ १४६.५५ ॥
व्याप्य सा तिष्ठते तीर्थं गजकुम्भनिभा शिला ।
तच्च गव्यूतिमात्रं हि तीर्थं ततः प्रवक्षते ॥ १४६.५६ ॥
तस्मिन्दिने तत्र गत्वा यस्तु श्राद्धप्रदो भवेत् ।
पितॄणामक्षया तृप्तिर्जायते शतवार्षिकी ॥ १४६.५७ ॥
अन्यस्यामप्यमावास्यां यः स्नात्वा विजितेन्द्रियः ।
करोति मनुजः श्राद्धं विधिवन्मन्त्रसंयुतम् ॥ १४६.५८ ॥
तस्य पुण्यफलं यत्स्यात्तच्छृणुष्व नराधिप ।
अग्निष्टोमाश्वमेधाभ्यां वाजपेयस्य यत्फलम् ॥ १४६.५९ ॥
तत्फलं समवाप्नोति यथा मे शङ्करोऽब्रवीत् ।
रौरवादिषु सर्वेषु नरकेषु व्यवस्थिताः ॥ १४६.६० ॥
पिता पितामहाद्याश्च पितृके मातृके तथा ।
पिण्डोदकेन चैकेन तर्पणेन विशेषतः ॥ १४६.६१ ॥
क्रीडन्ति पितृलोकस्था यावदाभूतसम्प्लवम् ।
ये कर्मस्था विकर्मस्था ये जाताः प्रेतकल्मषाः ॥ १४६.६२ ॥
पिण्डेनैकेन मुच्यन्ते तेऽपि तत्र न संशयः ।
अस्माहके शिला दिव्या तिष्ठते गजसन्निभा ॥ १४६.६३ ॥
ब्रह्मणा निर्मिता पूर्वं सर्वपापक्षयंकरी ।
उपर्यस्या यथान्यायं पितॄनुद्दिश्य भारत ॥ १४६.६४ ॥
दक्षिणाग्रेषु दर्भेषु दद्यात्पिण्डान्विचक्षणः ।
भूमौ चान्नेन सिद्धेन श्राद्धं कृत्वा यथाविधि ॥ १४६.६५ ॥
श्राद्धिभ्यो वस्त्रयुग्मानि छत्रोपानत्कमण्डलु ।
दक्षिणा विविधा देया पितॄनुद्दिश्य भारत ॥ १४६.६६ ॥
यो ददाति द्विजश्रेष्ठ तस्य पुण्यफलं शृणु ।
तस्य ते द्वादशाब्दानि तृप्तिं यान्ति न संशयः ॥ १४६.६७ ॥
अस्माहके महाराज पितरश्च पितामहाः ।
वायुभूता निरीक्षन्ते आगच्छन्तं स्वगोत्रजम् ॥ १४६.६८ ॥
अत्र तीर्थे सुतोऽभ्येत्य स्नात्वा तोयं प्रदास्यति ।
श्राद्धं वा पिण्डदानं वा तेन यास्याम सद्गतिम् ॥ १४६.६९ ॥
स्नाने कृते तु ये केचिज्जायन्ते वस्त्रविप्लुषः ।
प्रीणयेन्नरकस्थांस्तु तैः पितॄन्नात्र संशयः ॥ १४६.७० ॥
केशोदबिन्दवस्तस्य ये चान्ये लेपभाजिनः ।
तृप्यन्त्यनग्निनसंस्कारा यं मृताः स्युः स्वगोत्रजाः ॥ १४६.७१ ॥
तत्र तीर्थे तु ये केचिच्छ्राद्धं कृत्वा विधानतः ।
नरकादुद्धरन्त्याशु जपन्तः पितृसंहिताम् ॥ १४६.७२ ॥
वनस्पतिगते सोमे यदा सोमदिनं भवेत् ।
अक्षयाल्लभते लोकान्पिण्डेनैकेन मानवः ॥ १४६.७३ ॥
अक्षयं तत्र वै सर्वं जायते नात्र संशयः ।
नरकादुद्धरन्त्याशु जपन्ते पितृसंहिताम् ॥ १४६.७४ ॥
तस्मिंस्तीर्थे त्वमावास्यां पितॄनुद्दिश्य भारत ।
नीलं सर्वाङ्गसम्पूर्णं योऽभिषिच्य समुत्सृजेत् ॥ १४६.७५ ॥
तस्य पुण्यफलं वक्तुं न तु वाचस्पतिः क्षमः ।
अस्माहके वृषोत्सर्गाद्यत्पुण्यं समवाप्यते ॥ १४६.७६ ॥
तव शुश्रूषणात्सर्वं तत्प्रवक्ष्यामि भारत ।
रौरवादिषु ये किंचित्पच्यन्ते तस्य पूर्वजाः ॥ १४६.७७ ॥
वृषोत्सर्गेण तान्सर्वांस्तारयेदेकविंशतिम् ।
लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः ॥ १४६.७८ ॥
पिङ्गः खुरविषाणाभ्यां स नीलो वृष उच्यते ।
यस्तु सर्वाङ्गपिङ्गश्च श्वेतः पुच्छखुरेषु च ॥ १४६.७९ ॥
स पिङ्गो वृष इत्याहुः पितॄणां प्रीतिवर्धनः ।
पारावतसवर्णश्च ललाटे तिलको भवेत् ॥ १४६.८० ॥
तं वृषं बभ्रुमित्याहुः पूर्णं सर्वाङ्गशोभनम् ।
सर्वाङ्गेष्वेकवर्णो यः पिङ्गः पुच्छखुरेषु च ॥ १४६.८१ ॥
खुरपिङ्गं तमित्याहुः पितॄणां सद्गतिप्रदम् ।
नीलं सर्वशरीरेण स्वारक्तनयनं दृढम् ॥ १४६.८२ ॥
तमेव नीलमित्याहुर्नीलः पञ्चविधः स्मृतः ।
यस्तु वैश्यगृहे जातः स वै नीलो विशिष्यते ॥ १४६.८३ ॥
न वाहयेद्गृहे जातं वत्सकं तु कदाचन ।
तेनैव च वृषोत्सर्गे पितॄणामनृणो भवेत् ॥ १४६.८४ ॥
जातं तु स्वगृहे वत्सं द्विजन्मा यस्तु वाहयेत् ।
पतन्ति पितरस्तस्य ब्रह्मकोकगता अपि ॥ १४६.८५ ॥
यथायथा हि पिबति पीत्वा धूनाति मस्तकम् ।
पिबन्पितॄन् प्रीणयति नरकादुद्धरेद्धुनन् ॥ १४६.८६ ॥
यथा पुच्छाभिघातेन स्कन्धं गच्छन्ति बिन्दवः ।
नरकादुद्धरन्त्याशु पतितान् गोत्रिणस्तथा ॥ १४६.८७ ॥
गर्जन्प्रावृषि काले तु विषाणाभ्यां भुवं लिखन् ।
खुरेभ्यो या मृदुद्भूता तया संप्रीणयेदृषीन् ॥ १४६.८८ ॥
पिबन्पितॄन् प्रीणयते खादनोल्लेखने सुरान् ।
गर्जन्नृषिमनुष्यांश्च धर्मरूपो हि धर्मज ॥ १४६.८९ ॥
भूतैर्वापि पिशाचैर्वा चातुर्थिकज्वरेण वा ।
गृहीतोऽस्माहकं गच्छेत्सर्वेषामाधिनाशनम् ॥ १४६.९० ॥
स्नात्वा तु विमले तोये दर्भग्रन्थिं निबन्धयेत् ।
मस्तके बाहुमूले वा नाभ्यां वा गलकेऽपि वा ॥ १४६.९१ ॥
गत्वा देवसमीपं च प्रादक्षिण्येन केशवम् ।
ततः समुच्चरन्मन्त्रं गायत्र्या वाथ वैष्णवम् ॥ १४६.९२ ॥
नारायणं शरण्येशं सर्वदेवनमस्कृतम् ।
नमो यज्ञाङ्गसम्भूत सर्वव्यापिन्नमोऽस्तु ते ॥ १४६.९३ ॥
नमो नमस्ते देवेश पद्मगर्भ सनातन ।
दामोदर जयानन्त रक्ष मां शरणागतम् ॥ १४६.९४ ॥
त्वं कर्ता त्वं च हर्ता च जगत्यस्मिंश्चराचरे ।
त्वं पालयसि भूतानि भुवनं त्वं बिभर्षि च ॥ १४६.९५ ॥
प्रसीद देवदेवेश सुप्तमङ्गं प्रबोधय ।
त्वद्ध्याननिरतो नित्यं त्वद्भक्तिपरमो हरे ॥ १४६.९६ ॥
इति स्तुतो मया देव प्रसादं कुरु मेऽच्युत ।
मां रक्ष रक्ष पापेभ्यस्त्रायस्व शरणागतम् ॥ १४६.९७ ॥
एवं स्तुत्वा च देवेशं दानवान्तकरं हरिम् ।
पुनरुक्तेन वै स्नात्वा ततो विप्रांस्तु भोजयेत् ॥ १४६.९८ ॥
वेदोक्तेन विधानेन स्नानं कृत्वा यथाविधि ।
पिण्डनिर्वपणं कृत्वा वाचयेत्स्वस्तिकं ततः ॥ १४६.९९ ॥
एवं स्तुत्वा च देवेशं दानवान्तकरं हरिम् ।
पुनरुक्तेन वै स्नात्वा ततो विप्रांस्तु भोजयेत् ॥ १४६.१०० ॥
वेदोक्तेन विधानेन स्नानं कृत्वा यथाविधि ।
एवं तान्वाचयित्वा तु ततो विप्रान्विसर्जयेत् ॥ १४६.१०१ ॥
यत्तत्रोच्चरितं किंचित्तद्विप्रेभ्यो निवेदयेत् ।
तत्र तीर्थे नरः स्नात्वा नारी वा भक्तितत्परा ।
शक्तितो दक्षिणां दद्यात्कृत्वा श्राद्धं यथाविधि ॥ १४६.१०२ ॥
तत्र तीर्थे नरो यावत्स्नापयेद्विधिपूर्वकम् ।
क्षीरेण मधुना वापि दध्ना वा शीतवारिणा ॥ १४६.१०३ ॥
तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम् ।
अयने विषुवे चैव युगादौ सूर्यसंक्रमे ॥ १४६.१०४ ॥
पुष्पैः सम्पूज्य देवेशं नैवेद्यं यः प्रदापयेत् ।
सोऽश्वमेधस्य यज्ञस्य फलं प्राप्नोति पुष्कलम् ॥ १४६.१०५ ॥
तत्र तीर्थे तु यो राजन् सूर्यग्रहणमाचरेत् ।
सूर्यतेजोनिभैर्यानैर्विष्णुलोके महीयते ॥ १४६.१०६ ॥
तत्र तीर्थे तु यः श्राद्धं पितृभ्यः सम्प्रयच्छति ।
सत्पुत्रेण च तेनैव सम्प्राप्तं जन्मनः फलम् ॥ १४६.१०७ ॥
इति श्रुत्वा ततो देवाः सर्वे शक्रपुरोगमाः ।
ब्रह्मविष्णुमहेशाश्च स्थापयांचक्रुरीश्वरम् ॥ १४६.१०८ ॥
सर्वरोगोपशमनं सर्वपातकनाशनम् ।
यस्तु संवत्सरं पूर्णममावास्यां तु भावितः ॥ १४६.१०९ ॥
पितृभ्यः पिण्डदानं च कुर्यादस्माहके नृप ।
त्रिपुष्करे गयायां च प्रभासे नैमिषे तथा ॥ १४६.११० ॥
यत्पुण्यं श्राद्धकर्तॄणां तदिहैव भवेद्ध्रुवम् ।
तिलोदकं कुशैर्मिश्रं यो दद्याद्दक्षिणामुखः ॥ १४६.१११ ॥
मन्वादौ च युगादौ च व्यतीपाते दिनक्षये ।
यो दद्यात्पितृमातृभ्यः सोऽश्वमेधफलं लभेत् ॥ १४६.११२ ॥
अस्माहके नरो यस्तु स्नात्वा सम्पूजयेद्धरिम् ।
ब्रह्माणं शङ्करं भक्त्या कुर्याज्जागरणक्रियाम् ॥ १४६.११३ ॥
सर्वपापविनिर्मुक्तः शक्रातिथ्यमवाप्नुयात् ।
तत्र तीर्थे नरः स्नात्वा यः पश्यति जनार्दनम् ॥ १४६.११४ ॥
विशेषविधिनाभ्यर्च्य प्रणम्य च पुनःपुनः ।
सपुत्रेण च तेनैव पितॄणां विहिता गतिः ॥ १४६.११५ ॥
एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।
सत्कार्यकारणोपेताः सुसूक्ष्माः सुमहाफलाः ॥ १४६.११६ ॥
एतत्ते कथितं राजन्महापातकनाशनम् ।
अस्माहकस्य माहात्म्यं किमन्यत्परिपृच्छसि ॥ १४६.११७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अस्माहकतीर्थमाहात्म्यवर्णनं नाम षट्चत्वारिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 147
अध्याय १४७
मार्कण्डेय उवाच -
ततो गच्छेन्महीपाल सिद्धेश्वरमनुत्तमम् ।
नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ॥ १४७.१ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेद्वृषभध्वजम् ।
सर्वपापविनिर्मुक्तो गतिं यात्यश्वमेधिनाम् ॥ १४७.२ ॥
तत्र तीर्थे तु यः स्नात्वा श्राद्धं कुर्यात्प्रयत्नतः ।
पितॄणां प्रीणनार्थाय सर्वं तेन कृतं भवेत् ॥ १४७.३ ॥
तत्र तीर्थे मृतानां तु जन्तूनां नृपसत्तम ।
गर्भवासे मतिस्तेषां न जायेत कदाचन ॥ १४७.४ ॥
गर्भवासो हि दुःखाय न सुखाय कदाचन ।
तत्तीर्थवारिणा स्नातुर्न पुनर्भवसम्भवः ॥ १४७.५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 148
अध्याय १४८
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल तीर्थमङ्गारकं शिवम् ।
उत्तरे नर्मदाकूले सर्वपापक्षयंकरम् ॥ १४८.१ ॥
चतुर्थ्यङ्गारकदिने संकल्प्य कृतनिश्चयः ।
स्नायादस्तं गते सूर्ये सन्ध्योपासनतत्परः ॥ १४८.२ ॥
पूजयेल्लोहितं भक्त्या गन्धमाल्यविभूषणैः ।
संस्थाप्यस्थण्डिले देवं रक्तचन्दनचर्चितम् ॥ १४८.३ ॥
अङ्गारकायेति नमः कर्णिकायां प्रपूजयेत् ।
कुजाय भूमिपुत्राय रक्ताङ्गाय सुवाससे ॥ १४८.४ ॥
हरकोपोद्भवायेति स्वेदजायातिबाहवे ।
सर्वकामप्रदायेति पूर्वादिषु दलेषु च ॥ १४८.५ ॥
एवं सम्पूज्य विधिवद्दद्यादर्घ्यं विधानतः ।
भूमिपुत्र महावीर्य स्वेदोद्भव पिनाकिनः ॥ १४८.६ ॥
अङ्गारक महातेजा लोहिताङ्ग नमोऽस्तु ते ।
करकं वारिसंयुक्तं शालितंदुलपूरितम् ॥ १४८.७ ॥
सहिरण्यं सवस्त्रं च मोदकोपरि संस्थितम् ।
ब्राह्मणाय निवेद्यं तत्कुजो मे प्रीयतामिति ॥ १४८.८ ॥
अर्घं दत्त्वा विधानेन रक्तचन्दनवारिणा ।
रक्तपुष्पसमाकीर्णं तिलतंदुलमिश्रितम् ॥ १४८.९ ॥
कृत्वा ताम्रमये पात्रे मण्डले वर्तुले शुभे ।
कृत्वा शिरसि तत्पात्रं जानुभ्यां धरणीं गतः ॥ १४८.१० ॥
मन्त्रपूतं महाभाग दद्यादर्घ्यं विचक्षणः ।
ततो भुञ्जीत मौनेन क्षारतिलाम्लवर्जितम् ॥ १४८.११ ॥
स्निग्धं मृदुसमधुरमात्मनः श्रेय इच्छता ।
एवं चतुर्थे सम्प्राप्ते चतुर्थ्यङ्गारके नृप ॥ १४८.१२ ॥
सौवर्णं कारयेद्देवं यथाशक्ति सुरूपिणम् ।
स्थापयेत्ताम्रके पात्रे गुडपीठसमन्विते ॥ १४८.१३ ॥
गन्धपुष्पादिभिर्देवं पूजयेद्गुडसंस्थितम् ।
ईशान्यां स्थापयेद्देवं गुडतोयसमन्वितम् ॥ १४८.१४ ॥
कासारेण तथाग्नेय्यां स्थापयेत्करकं परम् ।
रक्ततन्दुलसंमिश्रं नैरृत्यां वायुगोचरे ॥ १४८.१५ ॥
स्थापयेन्मोदकैः सार्धं चतुर्थं करकं बुधः ।
सूत्रेण वेष्टितग्रीवं गन्धमाल्यैरलंकृतम् ॥ १४८.१६ ॥
शङ्खतूर्यनिनादेन जयशब्दादिमङ्गलैः ।
रक्ताम्बरधरं विप्रं रक्तमाल्यानुलेपनम् ॥ १४८.१७ ॥
वेदिमध्यगतं वापि महदासनसंस्थितम् ।
सुरूपं सुभगं शान्तं सर्वभूतहिते रतम् ॥ १४८.१८ ॥
वेदविद्याव्रतस्नातं सर्वशास्त्रविशारदम् ।
पूजयित्वा यथान्यायं वाचयेत्पाण्डुनन्दन ॥ १४८.१९ ॥
रक्तां गां च ततो दद्याद्रक्तेनानडुहा सह ।
प्रीयतां भूमिजो देवः सर्वदैवतपूजितः ॥ १४८.२० ॥
विप्रं प्रदक्षिणीकृत्य पत्नीपुत्रसमन्वितः ।
पितृमातृसुहृत्सार्द्धं क्षमाप्य च विसर्जयेत् ॥ १४८.२१ ॥
एवं कृतस्य तस्याथ तस्मिंस्तीर्थे विशेषतः ।
यत्पुण्यं फलमुद्दिष्टं तत्ते सर्वं वदाम्यहम् ॥ १४८.२२ ॥
सप्त जन्मानि राजेन्द्र सुरूपः सुभगो भवेत् ।
तीर्थस्यास्य प्रभावेन नात्र कार्या विचारणा ॥ १४८.२३ ॥
अकामो वा सकामो वा तत्र तीर्थे मृतो नरः ।
अङ्गारकपुरं याति देवगन्धर्वपूजितः ॥ १४८.२४ ॥
उपभुज्य यथान्यायं दिव्यान्भोगाननुत्तमान् ।
इह मानुष्यलोके वै राजा भवति धार्मिकः ॥ १४८.२५ ॥
सुरूपः सुभगश्चैव सर्वव्याधिविवर्जितः ।
जीवेद्वर्षशतं साग्रं सर्वलोकनमस्कृतः ॥ १४८.२६ ॥
॥ इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाचत्वारिंशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 149
अध्याय १४९
श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं तीर्थं लिङ्गेश्वरमिति श्रुतम् ।
दर्शनाद्देवदेवस्य यत्र पापं प्रणश्यति ॥ १४९.१ ॥
कृत्वा तु कदनं घोरं दानवानां युधिष्ठिर ।
वाराहं रूपमास्थाय नर्मदायां व्यवस्थितः ॥ १४९.२ ॥
तत्र तीर्थे तु यः स्नानं कृत्वा देवं नमस्यति ।
स मुच्यते नृपश्रेष्ठ महापापैः पुराकृतैः ॥ १४९.३ ॥
द्वादश्यां कृष्णपक्षस्य शुक्ले च समुपोषितः ।
गन्धमाल्यैर्जगन्नाथं पूजयेत्पाण्डुनन्दन ॥ १४९.४ ॥
ब्राह्मणांश्च महाभाग दानसंमानभोजनैः ।
पूजयेत्परया भक्त्या तस्य पुण्यफलं शृणु ॥ १४९.५ ॥
सत्रयाजिफलं जन्तुर्लभते द्वादशाब्दकैः ।
ब्राह्मणान्भोजयंस्तत्र तदेव लभते फलम् ॥ १४९.६ ॥
तर्पयित्वा पितॄन् देवान् स्नात्वा तद्गतमानसः ।
जपेद्द्वादशनामानि देवस्य पुरतः स्थितः ॥ १४९.७ ॥
मासि मासि निराहारो द्वादश्यां कुरुनन्दन ।
केशवं पूजयेन्नित्यं मासि मार्गशिरे बुधः ॥ १४९.८ ॥
पौषे नारायणं देवं माघमासे तु माधवम् ।
गोविन्दं फाल्गुने मासि विष्णुं चैत्रे समर्चयेत् ॥ १४९.९ ॥
वैशाखे मधुहन्तारं ज्येष्ठे देवं त्रिविक्रमम् ।
वामनं तु तथाषाढे श्रावणे श्रीधरं स्मरेत् ॥ १४९.१० ॥
हृषीकेशं भाद्रपदे पद्मनाभं तथाश्विने ।
दामोदरं कार्त्तिके तु कीर्तयन्नावसीदति ॥ १४९.११ ॥
वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् ।
तन्नश्यति न सन्देहो मासनामानुकीर्तनात् ॥ १४९.१२ ॥
स्वयं विनुद्धः सततमुन्मिषन्निमिषंस्तथा ।
शीघ्रं प्रपश्य भुञ्जानो मन्त्रहीनं समुद्गिरेत् ॥ १४९.१३ ॥
परमापद्गतस्यापि जन्तोरेषा प्रतिक्रिया ।
यन्मासाधिपतेर्विष्णोर्मासनामानुकीर्तनम् ॥ १४९.१४ ॥
ता निशास्ते च दिवसास्ते मासास्ते च वत्सराः ।
नराणां सफला येषु चिन्तितो भगवान्हरिः ॥ १४९.१५ ॥
परमापद्गतस्यापि यस्य देवो जनार्दनः ।
नावसर्पति हृत्पद्मात्स योगी नात्र संशयः ॥ १४९.१६ ॥
ते भाग्यहीना मनुजाः सुशोच्यास्ते भूमिभाराय कृतावताराः ।
अचेतनास्ते पशुभिः समाना ये भक्तिहीना भगवत्यनन्ते ॥ १४९.१७ ॥
ते पूर्णकार्याः पुरुषाः पृथिव्यां ते स्वाङ्गपाताद्भुवनं पुनन्ति ।
विचक्षणा विश्वविभूषणास्ते ये भक्तियुक्ता भगवत्यनन्ते ॥ १४९.१८ ॥
स एव सुकृती तेन लब्धं जन्मतरोः फलम् ।
चित्ते वचसि काये च यस्य देवो जनार्दनः ॥ १४९.१९ ॥
एतत्तीर्थवरं पुण्यं लिङ्गो यत्र जनार्दनः ।
वञ्चयित्वा रिपून्संख्ये क्रोधो भूत्वा सनातनः ॥ १४९.२० ॥
उपप्लवे चन्द्रमसो रवेश्च यो ह्यष्टकानामयनद्वये च ।
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ॥ १४९.२१ ॥
घोणोन्मीलितमेरुरन्ध्रनिवहो दुःखाब्धिमज्जत्प्लवः प्रादुर्भूतरसातलोदरबृहत्पङ्कार्धमग्नक्षुरः ।
फूत्कारोत्करनुन्नवातविदलद्दिग्दन्तिनादश्रुतिन्यस्तस्तब्धवपुः श्रुतिर्भवतु वः क्रोडो हरिः शान्तये ॥ १४९.२२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लिङ्गवाराहतीर्थमाहात्म्यवर्णनं नामैकोनपञ्चाशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 150
अध्याय १५०
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज कुसुमेश्वरमुत्तमम् ।
दक्षिणे नर्मदाकूले उपपातकनाशनम् ॥ १५०.१ ॥
कामेन स्थापितो देवः कुसुमेश्वरसंज्ञितः ।
ख्यातः सर्वेषु लोकेषु देवदेवः सनातनः ॥ १५०.२ ॥
कामो मनोभवो विश्वः कुसुमायुधचापभृत् ।
स कामान् ददाति सर्वान् पूजितो मीनकेतनः ॥ १५०.३ ॥
तेन निर्दग्धकायेन चाराध्य परमेश्वरम् ।
अनङ्गेन तथा प्राप्तमङ्गित्वं नर्मदातटे ॥ १५०.४ ॥
युधिष्ठिर उवाच -
अङ्गिभृतस्य नाशत्वमनङ्गस्य तु मे वद ।
न श्रुतं न च मे दृष्टं भूतपूर्वं कदाचन ॥ १५०.५ ॥
एतत्सर्वं यथा वृत्तमाचक्ष्व द्विजसत्तम ।
श्रोतुमिच्छामि विप्रेन्द्र भीमार्जुनयमैः सह ॥ १५०.६ ॥
श्रीमार्कण्डेय उवाच -
आदौ कृतयुगे तात देवदेवो महेश्वरः ।
तपश्चचार विपुलं गङ्गासागरसंस्थितः ॥ १५०.७ ॥
तेन सम्पादिता लोकास्तपसा ससुरासुराः ।
जग्मुस्ते शरणं सर्वे देवदेवं शचीपतिम् ॥ १५०.८ ॥
व्यापकः सर्वभूतानां देवदेवो महेश्वरः ।
संतापयति लोकांस्त्रींस्तन्निवारय गोपते ॥ १५०.९ ॥
श्रुत्वा तद्वचनं तेषां देवानां बलवृत्रहा ।
चिन्तयामास मनसा तपोविघ्नायचादिशत् ॥ १५०.१० ॥
अप्सरां मेनकां रम्भां घृताचीं च तिलोत्तमाम् ।
वसन्तं कोकिलं कामं दक्षिणानिलमुत्तमम् ॥ १५०.११ ॥
गत्वा तत्र महादेवं तपश्चरणतत्परम् ।
क्षोभयध्वं यथान्यायं गङ्गासागरवासिनम् ॥ १५०.१२ ॥
एवमुक्तास्तु ते सर्वे देवराजेन भारत ।
देवाप्सरःसमोपेता जग्मुस्ते हरसन्निधौ ॥ १५०.१३ ॥
वसन्तमासे कुसुमाकराकुले मयूरदात्यूहसुकोकिलाकुले ।
प्रनृत्य देवाप्सरगीतसंकुले प्रवाति वाते यमनैरृताकुले ॥ १५०.१४ ॥
तेन संमूर्छिताः सर्वे संसर्गाच्च खगोत्तमाः ।
मधुमाधवगन्धेन सकिन्नरमहोरगाः ॥ १५०.१५ ॥
यावदालोकते तावत्तद्वनं व्याकुलीकृतम् ।
वीक्षते मदनाविष्टं दशावस्थागतं जनम् ॥ १५०.१६ ॥
देवदेवोऽपि देवानामवस्थात्रितयं गतः ।
सात्त्विकीं राजसीं राजंस्तामसीं तां शृणुष्व मे ॥ १५०.१७ ॥
एकं योगसमाधिना मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या जघनस्थलस्तनतटे शृङ्गारभारालसम् ।
अन्यद्दूरनिरस्तचापमदनक्रोधानलोद्दीपितं शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥ १५०.१८ ॥
एवं दृष्टः स देवेन सशरः सशरासनः ।
भस्मीभूतो गतः कामो विनाशः सर्वदेहिनाम् ॥ १५०.१९ ॥
कामं दृष्ट्वा क्षयं यातं तत्र देवाप्सरोगणाः ।
भीता यथागतं सर्वे जग्मुश्चैव दिशो दश ॥ १५०.२० ॥
कामेन रहिता लोकाः ससुरासुरमानवाः ।
ब्रह्माणं शरणं जग्मुर्देवा इन्द्रपुरोगमाः ॥ १५०.२१ ॥
सीदमानं जगद्दृष्ट्वा तमूचुः परमेष्ठिनम् ।
जानासि त्वं जगच्छेषं प्रभो मैथुनसम्भवात् ॥ १५०.२२ ॥
प्रजाः सर्वा विशुष्यन्ति कामेन रहिता विभो ॥ १५०.२३ ॥
एतच्छ्रुत्वा वचस्तेषां देवानां प्रपितामहः ।
जगाम सहितस्तत्र यत्र देवो महेश्वरः ॥ १५०.२४ ॥
अतोषयज्जगन्नाथं सर्वभूतमहेश्वरम् ।
स्तुतिभिस्तण्डकैः स्तोत्रैर्वेदवेदाङ्गसम्भवैः ॥ १५०.२५ ॥
ततस्तुष्टो महादेवो देवानां परमेश्वरः ।
उवाच मधुरां वाणीं देवान्ब्रह्मपुरोगमान् ॥ १५०.२६ ॥
किं कार्यं कश्च सन्तापः किं वागमनकारणम् ।
देवतानामृषीणां च कथ्यतां मम माचिरम् ॥ १५०.२७ ॥
देवा ऊचुः ।
कामनाशाज्जगन्नाशो भवितायं चराचरे ।
त्रैलोक्यं त्वं पुनः शम्भो उत्पादयितुमर्हसि ॥ १५०.२८ ॥
एतच्छ्रुत्वा वचस्तेषां विमृश्य परमेश्वरः ।
चिन्तयामास कामस्य विग्रहं भुवि दुर्लभम् ॥ १५०.२९ ॥
आजगाम ततः शीघ्रमनङ्गो ह्यङ्गतां गतः ।
प्राणदः सर्वभूतानां पश्यतां नृपसत्तम ॥ १५०.३० ॥
ततः शङ्खनिनादेन भेरीणां निःस्वनेन च ।
अभ्यनन्दंस्ततो देवं सुरासुरमहोरगाः ॥ १५०.३१ ॥
नमस्ते देवदेवेश कृतार्थाः सुरसत्तमाः ।
विसर्जिताः पुनर्जग्मुर्यथागतमरिन्दम ॥ १५०.३२ ॥
गतेषु सर्वदेवेषु कामदेवोऽपि भारत ।
तपश्चचार विपुलं नर्मदातटमाश्रितः ॥ १५०.३३ ॥
तपोजपकृशीभूतो दिव्यं वर्षशतं किल ।
महाभूतैर्विघ्नकरैः पीड्यमानः समन्ततः ॥ १५०.३४ ॥
आत्मविघ्नविनाशार्थं संस्मृतः कुण्डलेश्वरः ।
चकार रक्षां सर्वत्र शरपाते नृपोत्तम ॥ १५०.३५ ॥
ततस्तुष्टो महादेवो दृढभक्त्या वरप्रदः ।
वरेण छन्दयामास कामं कामविनाशनः ॥ १५०.३६ ॥
ज्ञात्वा तुष्टं महादेवमुवाच झषकेतनः ।
प्रणतः प्राञ्जलिर्भूत्वा देवदेवं त्रिलोचनम् ॥ १५०.३७ ॥
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
अत्र तीर्थे जगन्नाथ सदा संनिहितो भव ॥ १५०.३८ ॥
तथेति चोक्त्वा वचनं देवदेवो महेश्वरः ।
जगामाकाशमाविश्य स्तूयमानोऽप्सरोगणैः ॥ १५०.३९ ॥
गते चादर्शनं देवे कामदेवो जगद्गुरुम् ।
स्थापयामास राजेन्द्र कुसुमेश्वरसंज्ञितम् ॥ १५०.४० ॥
तत्र तीर्थे तु यः स्नात्वा ह्युपवासपरायणः ।
चैत्रमासे चतुर्दश्यां मदनस्य दिनेऽथवा ॥ १५०.४१ ॥
प्रभाते विमले प्राप्ते स्नात्वा पूज्य दिवाकरम् ।
तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः ॥ १५०.४२ ॥
कृत्वा स्नानं विधानेन पूजयित्वा च तं नृप ।
पिण्डनिर्वपणं कुर्यात्तस्य पुण्यफलं शृणु ॥ १५०.४३ ॥
सत्त्रयाजिफलं यच्च लभते द्वादशाब्दिकम् ।
पिण्डदानात्फलं तच्च लभते नात्र संशयः ॥ १५०.४४ ॥
अङ्कुल्लमूले यः पिण्डं पित्ःनुद्दिश्य दापयेत् ।
तस्य ते द्वादशाब्दानि तृप्तिं यान्ति पितामहाः ॥ १५०.४५ ॥
कृमिकीटपतङ्गा ये तत्र तीर्थे युधिष्ठिर ।
प्राप्नुवन्ति मृताः स्वर्गं किं पुनर्ये नरा मृताः ॥ १५०.४६ ॥
संन्यासं कुरुते योऽत्र जितक्रोधो जितेन्द्रियः ।
कुसुमेशे नरो भक्त्या स गच्छेच्छिवमन्दिरम् ॥ १५०.४७ ॥
तत्र दिव्याप्सरोभिश्च देवगन्धर्वगायनैः ।
क्रीडते सेव्यमानस्तु कल्पकोटिशतं नृप ॥ १५०.४८ ॥
पूर्णे चैव ततः काल इह मानुष्यतां गतः ।
जायते राजराजेन्द्रैः पूज्यमानो नृपो महान् ॥ १५०.४९ ॥
सुरूपः सुभगो वाग्मी विक्रान्तो मतिमाञ्छुचिः ।
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ॥ १५०.५० ॥
एतत्पुण्यं पापहरं तीर्थकोटिशताधिकम् ।
कुसुमेशेति विख्यातं सर्वदेवनमस्कृतम् ॥ १५०.५१ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुसुमेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चाशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 151
श्रीमार्कण्डेय उवाच -
उत्तरे नर्मदाकूले तीर्थं परमशोभनम् ।
जयवाराहमाहात्म्यं सर्वपापप्रणाशनम् ॥ १५१.१ ॥
उद्धृता जगती येन सर्वदेवनमस्कृता ।
लोकानुग्रहबुद्ध्या च संस्थितो नर्मदातटे ॥ १५१.२ ॥
तत्र तीर्थे तु यः स्नात्वा वीक्षते मधुसूदनम् ।
मुच्यते सर्वपापेभ्यो दशजन्मानुकीर्तनात् ॥ १५१.३ ॥
मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ।
रामो रामश्च कृष्णश्च बुद्धः कल्किश्च ते दश ॥ १५१.४ ॥
युधिष्ठिर उवाच -
मत्स्येन किं कृतं तात कूर्मेण मुनिसत्तम ।
वराहेण च किं कर्म नरसिंहेन किं कृतम् ॥ १५१.५ ॥
वामनेन च रामेण राघवेण च किं कृतम् ।
बुद्धरूपेण किं वापि कल्किना किं कृतं वद ॥ १५१.६ ॥
एवमुक्तस्तु विप्रेन्द्रो धर्मपुत्रेण धीमता ।
उवाच मधुरां वाणीं तदा धर्मसुतं प्रति ॥ १५१.७ ॥
श्रीमार्कण्डेय उवाच -
मीनो भूत्वा पुरा कल्पे प्रीत्यर्थं ब्रह्मणो विभुः ।
समर्पयत्समुद्धृत्य वन्दान्मग्नान्महार्णवे ॥ १५१.८ ॥
अमृतोत्पादने राजन्कूर्मो भूत्वा जगद्गुरुः ।
मन्दरं धारयामास तथा देवीं वसुंधराम् ॥ १५१.९ ॥
उज्जहार धरां मग्नां पातालतलवासिनीम् ।
वाराहं रूपमास्थाय देवदेवो जनार्दनः ॥ १५१.१० ॥
नरस्यार्द्धतनुं कृत्वा सिंहस्यार्द्धतनुं तथा ।
हिरण्यकशिपोर्वक्षो विददार नखाङ्कुशैः ॥ १५१.११ ॥
जटी वामनरूपेण स्तूयमानो द्विजोत्तमैः ।
तद्दिव्यं रूपमास्थाय क्रमित्वा मेदिनीं क्रमैः ॥ १५१.१२ ॥
कृतवांश्च बलिं पश्चात्पातालतलवासिनम् ।
स्थापयित्वा सुरान् सर्वान् गतो विष्णुः स्वकं पुरम् ॥ १५१.१३ ॥
जमदग्निसुतो रामो भूत्वा शस्त्रभृतां वरः ।
क्षत्रियान् पृथिवीपालानवधीद्धैहयादिकान् ॥ १५१.१४ ॥
कश्यपाय महीं दत्त्वा सपर्वतवनाकराम् ।
तपस्तपति देवेशो महेन्द्रेऽद्यापि भारत ॥ १५१.१५ ॥
ततो दाशरथी रामो रावणं देवकण्टकम् ।
सगणं समरे हत्वा राज्यं दत्त्वा विभीषणे ॥ १५१.१६ ॥
पालयित्वा नयाद्भूमिं मखैः संतर्प्य देवताः ।
स्वर्गं गतो महातेजा रामो राजीवलोचनः ॥ १५१.१७ ॥
वसुदेवगृहे भूयः संकर्षणसहायवान् ।
अवतीर्णो जगन्नाथो वासुदेवो युधिष्ठिर ॥ १५१.१८ ॥
सोऽवधीत्तव सामर्थ्याद्वधार्थं दुष्टभूभृताम् ।
चाणूरकंसकेशीनां जरासंधस्य भारत ॥ १५१.१९ ॥
तेन त्वं सुसहायेन हत्वा शत्रून्नरेश्वर ।
भोक्ष्यसे पृथिवीं सर्वां भ्रातृभिः सह संभृताम् ॥ १५१.२० ॥
तथा बुद्धत्वमपरं नवमं प्राप्स्यतेऽच्युतः ।
शान्तिमान्देवदेवेशो मधुहन्ता मधुप्रियः ॥ १५१.२१ ॥
तेन बुद्धस्वरूपेण देवेन परमेष्ठिना ।
भविष्यति जगत्सर्वं मोहितं सचराचरम् ॥ १५१.२२ ॥
न श्रोष्यन्ति पितुः पुत्रास्तदाप्रभृति भारत ।
न गुरोर्बान्धवाः शिष्या भविष्यत्यधरोत्तरम् ॥ १५१.२३ ॥
जितो धर्मो ह्यधर्मेण चासत्येन ऋतं जितम् ।
जिताश्चौरैश्च राजानः स्त्रीभिश्च पुरुषा जिताः ॥ १५१.२४ ॥
सीदन्ति चाग्निहोत्राणि गुरौ पूजा प्रणश्यति ।
सीदन्ति मानवा धर्माः कलौ प्राप्ते युधिष्ठिर ॥ १५१.२५ ॥
द्वादशे दशमे वर्षे नारी गर्भवती भवेत् ।
कन्यास्तत्र प्रसूयन्ते ब्राह्मणो हरिपिङ्गलः ॥ १५१.२६ ॥
भविष्यति ततः कल्किर्दशमे जन्मनि प्रभुः ॥ १५१.२७ ॥
एतत्ते कथितं राजन्देवस्य परमेष्ठिनः ।
कारणं दश जन्मनां सर्वपापक्षयंकरम् ॥ १५१.२८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्वेतवाराहतीर्थमाहात्म्यवर्णनं नामैकपञ्चाशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 152
अध्याय १५२
श्रीमार्कण्डेय उवाच -
ततो गच्छेद्धरापाल भार्गलेश्वरमुत्तमम् ।
शङ्करं जगतः प्राणं स्मृतमात्राघनाशनम् ॥ १५२.१ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १५२.२ ॥
तत्र तीर्थे तु यः कश्चित्प्राणत्यागं करिष्यति ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ १५२.३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भार्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विपञ्चाशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 153
अध्याय १५३
मार्कण्डेय उवाच -
तस्यैवानन्तरं चान्यद्रवितीर्थमनुत्तमम् ।
यस्य संदर्शनादेव मुच्यन्ते पातकैर्नराः ॥ १५३.१ ॥
रवितीर्थे तु यः स्नात्वा नरः पश्यति भास्करम् ।
तस्य यत्फलमुद्दिष्टं स्वयं देवेन तच्छृणु ॥ १५३.२ ॥
नान्धो न मूको बधिरः कुले भवति कश्चन ।
कुरूपः कुनखी वापि तस्य जन्मानि षोडश ॥ १५३.३ ॥
दद्रुचित्रककुष्ठानि मण्डलानि विचर्चिका ।
नश्यन्ति देवभक्तस्य षण्मासान्नात्र संशयः ॥ १५३.४ ॥
चरितं तस्य देवस्य पुराणे यच्छ्रुतं मया ।
न तत्कथयितुं शक्यं संक्षेपेण नृपोत्तम ॥ १५३.५ ॥
तत्र तीर्थे तु यद्दानं रविमुद्दिश्य दीयते ।
विधिना पात्रविप्राय तस्यान्तो नास्ति कर्हिचित् ॥ १५३.६ ॥
अयने विषुवे चैव चन्द्रसूर्यग्रहे तथा ।
रवितीर्थे प्रदत्तानां दानानां फलमुत्तमम् ॥ १५३.७ ॥
संक्रान्तौ यानि दानानि हव्यकव्यानि भारत ।
अपामिव समुद्रस्य तेषामन्तो न लभ्यते ॥ १५३.८ ॥
येन येन यदा दत्तं येन येन यदा हुतम् ।
तस्य तस्य तदा काले सविता प्रतिदायकः ॥ १५३.९ ॥
सप्त जन्मानि तान्येव ददात्यर्कः पुनः पुनः ।
शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये ॥ १५३.१० ॥
संक्रान्तौ शतसाहस्रं व्यतीपाते त्वनन्तकम् ॥ १५३.११ ॥
युधिष्ठिर उवाच -
रवितीर्थं कथं तात पुण्यात्पुण्यतरं स्मृतम् ।
विस्तरेण ममाख्याहि श्रवणौ मम लम्पटौ ॥ १५३.१२ ॥
श्रीमार्कण्डेय उवाच -
शृणुष्वावहितो भूत्वा ह्यादित्येश्वरमुत्तमम् ।
उत्तरे नर्मदाकूले सर्वव्याधिविनाशनम् ॥ १५३.१३ ॥
पुरा कृतयुगस्यादौ जाबालिर्ब्राह्मणोऽभवत् ।
वसिष्ठान्वयसम्भूतो वेदशास्त्रार्थपारगः ॥ १५३.१४ ॥
पतिव्रता साधुशीला तस्य भार्या मनस्विनी ।
ऋतुकाले तु सा गत्वा भर्तारमिदमब्रवीत् ॥ १५३.१५ ॥
वर्तते ऋतुकालो मे भर्तारं त्वामुपस्थिता ।
भज मां प्रीतिसंयुक्तः पुत्रकामां तु कामिनीम् ॥ १५३.१६ ॥
एवमुक्तो द्विजः प्राह प्रियेऽद्याहं व्रतान्वितः ।
गच्छेदानीं वरारोहे दास्य ऋत्वन्तरे पुनः ॥ १५३.१७ ॥
पुनर्द्वितीये सम्प्राप्ते ऋतुकालेऽप्युपस्थिता ।
पुनः सा छन्दिता तेन व्रतस्थोऽद्येति भारत ॥ १५३.१८ ॥
इत्थं वा बहुशस्तेन छन्दिता च पुनः पुनः ।
निराशा चाभवत्तत्र भर्तारं प्रति भामिनी ॥ १५३.१९ ॥
दुःखेन महताविष्टा विधायानशनं मृता ।
तेन भ्रूणहतेनैव पापेन सहसा द्विजः ॥ १५३.२० ॥
शीर्णघ्राणाङ्घ्रिरभवत्तपः सर्वं ननाश च ।
दृष्ट्वात्मानं स कुष्ठेन व्याप्तं ब्राह्मणसत्तमः ॥ १५३.२१ ॥
विषादं परमं गत्वा नर्मदातटमाश्रितः ।
अपृच्छद्भास्करं तीर्थं द्विजेभ्यो द्विजसत्तमः ॥ १५३.२२ ॥
आरोग्यं भास्करादिच्छेदिति संचिन्त्य चेतसि ।
कुतस्तद्भास्करं तीर्थं भो द्विजाः कथ्यतां मम ॥ १५३.२३ ॥
तपस्तप्याम्यहं गत्वा तस्मिंस्तीर्थे सुभावितः ॥ १५३.२४ ॥
द्विजा ऊचुः ।
रेवाया उत्तरे कूले आदित्येश्वरनामतः ।
विद्यते भास्करं तीर्थं सर्वव्याधिविनाशनम् ॥ १५३.२५ ॥
तत्र याह्यविचारेण गन्तुं चेच्छक्यते त्वया ।
एवमुक्तो द्विजैर्विप्रो गन्तुं तत्र प्रचक्रमे ॥ १५३.२६ ॥
व्याधिना परिभूतस्तु घोरेण प्राणहारिणा ।
यदा गन्तुं न शक्नोति तदा तेन विचिन्तितम् ॥ १५३.२७ ॥
सामर्थ्यं ब्राह्मणानां हि विद्यते भुवनत्रये ।
लिङ्गपातः कृतो विप्रैर्देवदेवस्य शूलिनः ॥ १५३.२८ ॥
समुद्रः शोषितो विप्रैर्विन्ध्यश्चापि निवारितः ।
अहमप्यत्र संस्थस्तु ह्यानयिष्यामि भास्करम् ॥ १५३.२९ ॥
तपोबलेन महता ह्यादित्येश्वरसंज्ञितम् ।
इति निश्चित्य मनसा ह्युग्रे तपसि संस्थितः ॥ १५३.३० ॥
वायुभक्षो निराहारो ग्रीष्मे पञ्चाग्निमध्यगः ।
शिशिरे तोयमध्यस्थो वर्षास्वप्रावृताकृतिः ॥ १५३.३१ ॥
साग्रे वर्षशते पूर्णे रविस्तुष्टोऽब्रवीदिदम् ॥ १५३.३२ ॥
सूर्य उवाच -
वरं वरय भद्रं ते किं ते मनसि वाञ्छितम् ।
अदेयमपि दास्यामि ब्रूहि मां त्वं चिरं कृथाः ॥ १५३.३३ ॥
किमसाध्यं हि ते विप्र इदानीं तपसि स्थितः ॥ १५३.३४ ॥
जाबालिरुवाच -
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
मम प्रतिज्ञा देवेश ह्यादित्येश्वरदर्शने ॥ १५३.३५ ॥
कृता तां पारितुं देव न शक्तो व्याधिना वृतः ।
शुक्लतीर्थेऽत्र तिष्ठ त्वमादित्येश्वरमूर्तिधृक् ॥ १५३.३६ ॥
एवमुक्ते तु देवेशो बहुरूपो दिवाकरः ।
उत्तरे नर्मदाकूले क्षणादेव व्यदृश्यत ॥ १५३.३७ ॥
तदाप्रभृति भूपाल तद्धि तीर्थं प्रचक्षते ।
सर्वपापहरं प्रोक्तं सर्वदुःखविनाशनम् ॥ १५३.३८ ॥
यस्तु संवत्सरं पूर्णं नित्यमादित्यवासरे ।
स्नात्वा प्रदक्षिणाः सप्त दत्त्वा पश्यति भास्करम् ॥ १५३.३९ ॥
यत्फलं लभते तेन तच्छृणुष्व मयोदितम् ।
प्रसुप्तं मण्डलानीह दद्रुकुष्ठविचर्चिकाः ॥ १५३.४० ॥
नश्यन्ति सत्वरं राजंस्तूलराशिरिवानले ।
धनपुत्रकलत्राणां पूरयेद्वत्सरत्रयात् ॥ १५३.४१ ॥
यस्तु श्राद्धप्रदस्तत्र पित्ःनुद्दिश्य संक्रमे ।
तृप्यन्ति पितरस्तस्य पितृदेवो हि भास्करः ॥ १५३.४२ ॥
इति ते कथितं सर्वमादित्येश्वरमुत्तमम् ।
सर्वपापहरं दिव्यं सर्वरोगविनाशनम् ॥ १५३.४३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदित्येश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिपञ्चाशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 154
अध्याय १५४
श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले तीर्थं कलकलेश्वरम् ।
विख्यातं सर्वलोकेषु स्वयं देवेन निर्मितम् ॥ १५४.१ ॥
अन्धकं समरे हत्वा देवदेवो महेश्वरः ।
सहितो देवगन्धर्वैः किन्नरैश्च महोरगैः ॥ १५४.२ ॥
शङ्खतूर्यनिनादैश्च मृदङ्गपणवादिभिः ।
वीणावेणुरवैश्चान्यैः स्तुतिभिः पुष्कलादिभिः ॥ १५४.३ ॥
गायन्ति सामानि यजूंषि चान्ये छन्दांसि चान्ये ऋचमुद्गिरन्ति ।
स्तोत्रैरनेकैरपरे गृणन्ति महेश्वरं तत्र महानुभावाः ॥ १५४.४ ॥
प्रमथानां निनादेन कल्कलेन च बन्दिनाम् ।
यस्मात्प्रतिष्ठितं लिङ्गं तस्माज्जातं तदाख्यया ॥ १५४.५ ॥
तत्र तीर्थे तु यः स्नात्वा वीक्षेत्कलकलेश्वरम् ।
वाजपेयात्परं पुण्यं स लभेन्मानवो भुवि ॥ १५४.६ ॥
तेन पुण्येन पूतात्मा प्राणत्यागाद्दिवं व्रजेत् ।
आरूढः परमं यानं गीयमानोऽप्सरोगणैः ॥ १५४.७ ॥
उपभुज्य महाभोगान्कालेन महता ततः ।
मर्त्यलोके महात्मासौ जायते विमले कुले ॥ १५४.८ ॥
ब्राह्मणः सुभगो लोके वेदवेदाङ्गपारगः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ १५४.९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कलकलेश्वरतीर्थफलमाहात्म्यवर्णनं नाम चतुःपञ्चाशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 155
श्रीमार्कण्डेय उवाच -
अतः परं प्रवक्ष्यामि सर्वतीर्थादनुत्तमम् ।
उत्तरे नर्मदाकूले शुक्लतीर्थं युधिष्ठिर ॥ १५५.१ ॥
तस्य तीर्थस्य चान्यानि पुण्यत्वाच्छुभदर्शनात् ।
पृथिव्यां सर्वतीर्थानि कलां नार्हन्ति षोडशीम् ॥ १५५.२ ॥
युधिष्ठिर उवाच -
तस्य तीर्थस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ।
भ्रातृभिः सहितः सर्वैस्तथान्यैर्द्विजसत्तमैः ॥ १५५.३ ॥
श्रीमार्कण्डेय उवाच -
शुक्लतीर्थस्य चोत्पत्तिमाकर्णय नरेश्वर ।
यस्य संदर्शनादेव ब्रह्महत्या प्रलीयते ॥ १५५.४ ॥
नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।
यच्च बाल्यं कृतं पापं दर्शनादेव नश्यति ॥ १५५.५ ॥
मोक्षदानि न सर्वत्र शुक्लतीर्थमृते नृप ।
शुक्लतीर्थस्य माहात्म्यं पुराणे यच्छ्रुतं मया ॥ १५५.६ ॥
समागमे मुनीनां तु देवानां हि तथैव च ।
कथितं देवदेवेन शितिकण्ठेन भारत ।
कैलासे पर्वतश्रेष्ठे तत्ते संकथयाम्यहम् ॥ १५५.७ ॥
पुरा कृतयुगस्यादौ तोषितुं गिरिजापतिम् ।
तपश्चचार विपुलं विष्णुर्वर्षसहस्रकम् ।
वायुभक्षो निराहारः शुक्लतीर्थे व्यवस्थितः ॥ १५५.८ ॥
ततः प्रत्यक्षतामागाद्देवदेवो महेश्वरः ।
प्रादुर्भूतस्तु सहसा तत्र तीर्थे नराधिप ॥ १५५.९ ॥
क्रोशद्वयमिदं चक्रे भुक्तिमुक्तिप्रदायकम् ।
तस्मिंस्तीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥ १५५.१० ॥
गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती ।
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥ १५५.११ ॥
सर्वौषधीनामशनं प्रधानं सर्वेषु पेयेषु जलं प्रधानम् ।
निद्रा सुखानां प्रमदा रतीनां सर्वेषु गात्रेषु शिरः प्रधानम् ॥ १५५.१२ ॥
स्नातस्यापि यथा पुण्यं ललाटं नृपसत्तम ।
शुक्लतीर्थं तथा पुण्यं नर्मदायां युधिष्ठिर ॥ १५५.१३ ॥
सरितां च यथा गङ्गा देवतानां जनार्दनः ।
शुक्लतीर्थं तथा पुण्यं नर्मदायां व्यवस्थितम् ॥ १५५.१४ ॥
चतुष्पदानां सुरभिर्वर्णानां ब्राह्मणो यथा ।
प्रधानं सर्वतीर्थानां शुक्लतीर्थं तथा नृप ॥ १५५.१५ ॥
ग्रहाणां तु यथादित्यो नक्षत्राणां यथा शशी ।
शिरो वा सर्वगात्राणां धर्माणां सत्यमिष्यते ॥ १५५.१६ ॥
तथैव पार्थ तीर्थानां शुक्लतीर्थमनुत्तमम् ।
दुर्विज्ञेयो यथा लोके परमात्मा सनातनः ॥ १५५.१७ ॥
सुसूक्ष्मत्वादनिर्देश्यः शुक्लतीर्थं तथा नृप ।
मन्दप्रज्ञत्वमापन्ने महामोहसमन्वितः ॥ १५५.१८ ॥
शुक्लतीर्थं ना जानाति नर्मदातटसंस्थितम् ।
बहुनात्र किमुक्तेन धर्मपुत्र पुनः पुनः ॥ १५५.१९ ॥
शुक्लतीर्थं महापुण्यं सम्प्राप्तं कल्मषक्षयात् ।
योऽत्र दत्ते शुचिर्भूत्वा एकं रेवाजलाञ्जलिम् ॥ १५५.२० ॥
कल्पकोटिसहस्राणि पितरस्तेन तर्पिताः ॥ १५५.२१ ॥
एकः पुत्रो धरापृष्ठे पित्ःणामार्तिनाशनः ।
चाणक्यो नाम राजाभूच्छुक्लतीर्थं च वेद सः ॥ १५५.२२ ॥
युधिष्ठिर उवाच -
कोऽसौ द्विजवरश्रेष्ठ चाणक्यो नाम नामतः ।
शुक्लतीर्थस्य यो वेत्ता नान्यो वेत्ता हि कश्चन ॥ १५५.२३ ॥
केनोपायेन तत्तीर्थं तेन ज्ञातं धरातले ।
तदहं श्रोतुमिच्छामि परं कौतूहलं हि मे ॥ १५५.२४ ॥
श्रीमार्कण्डेय उवाच -
इक्ष्वाकुप्रभवो राजा नप्ता शुद्धोदनस्य च ।
चाणक्यो नाम राजर्षिर्बुभुजे पृथिवीमिमाम् ॥ १५५.२५ ॥
विक्रान्तो मतिमाञ्छूरः सर्वलोकैरवञ्चितः ।
वञ्चितः सहसा धूर्तवायसाभ्यां नृपोत्तमः ॥ १५५.२६ ॥
युधिष्ठिर उवाच -
कथं स वञ्चितो राजा वायसाभ्यां कुतोऽथवा ।
पुरा येन प्रतिज्ञातं धीगर्भेण महात्मना ॥ १५५.२७ ॥
न जीवे वञ्चितोऽन्येन प्राणांस्त्यक्ष्ये न संशयः ।
एतन्मे वद विप्रेन्द्र परं कौतूहलं मम ॥ १५५.२८ ॥
श्रीमार्कण्डेय उवाच -
आत्मानं वञ्चितं ज्ञात्वा तदा संगृह्य वायसौ ।
प्रेषयामास तीव्रेण दण्डेन यमसादनम् ॥ १५५.२९ ॥
वायसावूचतुः ।
सुन्दोपसुन्दयोः पुत्रावावां काकत्वमागतौ ।
मा वधीस्त्वं महाभाग कस्मिंश्चित्कारणान्तरे ॥ १५५.३० ॥
तावावां कृतसंकल्पौ त्वया कोपेन मानद ।
निरस्तावनिरस्तौ वा यास्यावः परमां गतिम् ॥ १५५.३१ ॥
तदादेशय राजेन्द्र कृत्वा तव महत्प्रियम् ।
मुक्तशापौ भविष्यावो ब्रह्मणो वचनं तथा ॥ १५५.३२ ॥
तच्छ्रुत्वा काकवचनं चाणक्यो नृपसत्तमः ।
नाहं जीवे विदित्वैवं वञ्चितः केन कर्हिचित् ॥ १५५.३३ ॥
तस्मात्तीर्थं विजानीतं यमस्य सदने द्विजौ ।
प्रेषयामि यथान्यायं श्रुत्वा तत्कथयिष्यथः ॥ १५५.३४ ॥
तेनैव मुक्तौ तौ काकौ स्रक्चन्दनविभूषितौ ।
शीघ्रगौ प्रेषयामास यमस्य सदनं प्रति ॥ १५५.३५ ॥
राजोवाच -
तत्र धर्मपुरं गत्वा विचरन्तावितस्ततः ।
यदि पृच्छति धर्मात्मा यमः संयमनो महान् ॥ १५५.३६ ॥
कुतो वामागतं ब्रूतं केन वा भूषितावुभौ ।
मदीया भारती तस्य कथनीया ह्यशङ्कितम् ॥ १५५.३७ ॥
इक्ष्वाकुसंभवो राजा चाणक्यो नाम धार्मिकः ।
द्वादशाहे मृतस्यास्य तर्पितावशनादिना ॥ १५५.३८ ॥
तच्छ्रुत्वा वचनं राज्ञो गतौ तौ यमसादनम् ।
क्रीडितौ प्राङ्गणे तस्य स्रक्चन्दनविभूषितौ ।
धर्मराजेन तौ दृष्टौ पृष्टौ धृष्टौ च वायसौ ॥ १५५.३९ ॥
यम उवाच -
कुतः स्थानात्समायातौ केन वा भूषितावुभौ ।
वृत्तं वै कथ्यतामेतद्वायसावविशङ्कया ॥ १५५.४० ॥
काकावूचतुः ।
इक्ष्वाकुसम्भवो राजा चाणक्यो नाम धार्मिकः ।
द्वादशाहे मृतस्यास्य तर्पितावशनादिभिः ॥ १५५.४१ ॥
तयोस्तद्वचनं श्रुत्वा सदा वैवस्वतो यमः ।
चित्रगुप्तं कलिं कालं वीक्ष्यतामिदमब्रवीत् ॥ १५५.४२ ॥
अण्डजस्वेदजातीनां भूतानां सचराचरे ।
विहितं लोककर्त्ःणां सान्निध्यं ब्रह्मणा मम ॥ १५५.४३ ॥
गतः कुत्र दुराचारश्चाणक्यो नामतस्त्विह ।
अन्विष्यतां पुराणेषु त्वितिहासेषु या गतिः ॥ १५५.४४ ॥
ततस्तैर्धर्मपालैस्तु धर्मराजप्रचोदितैः ।
निरीक्षिता पुराणोक्ता कर्मजा गतिरागतिः ॥ १५५.४५ ॥
ततः प्रोवाच वचनं धर्मो धर्मभृतां वरः ।
शृण्वतां धर्मपालानां मेघगम्भीरया गिरा ॥ १५५.४६ ॥
शुक्लतीर्थे मृतानां तु नर्मदाविमले जले ।
अण्डजस्वेदजातीनां न गतिर्मम सन्निधौ ॥ १५५.४७ ॥
तत्तीर्थं धार्मिकं लोके ब्रह्मविष्णुमहेश्वरैः ।
निर्मितं परया भक्त्या लोकानां हितकाम्यया ॥ १५५.४८ ॥
पापोपपातकैर्युक्ता ये नरा नर्मदाजले ।
शुक्लतीर्थे मृताः शुद्धा न ते मद्विषयाः क्वचित् ॥ १५५.४९ ॥
एतच्छ्रुत्वा तु वचनं तौ काकौ यमभाषितम् ।
आगतौ शीघ्रगौ पार्थ दृष्ट्वा यमपुरं महत् ॥ १५५.५० ॥
पृष्टौ तौ प्रणतौ राज्ञा यथावृत्तं यथाश्रुतम् ।
कथयामासतुः पार्थ दानवौ काकतां गतौ ॥ १५५.५१ ॥
अस्मात्स्थानाद्गतावावां यमस्य पुरमुत्तमम् ।
पृथिव्या दक्षिणे भागे ह्यतीत्य बहुयोनिजम् ॥ १५५.५२ ॥
तत्पुरं कामगं दिव्यं स्वर्णप्राकारतोरणम् ।
अनेकगृहसम्बाधं मणिकाञ्चनभूषितम् ॥ १५५.५३ ॥
चतुष्पथैश्चत्वरैश्च घण्टामार्गोपशोभितम् ।
उद्यानवनसंछन्नं पद्मिनीखण्डमन्दितम् ॥ १५५.५४ ॥
हंससारससंघुष्टं कोकिलाकुलसंकुलम् ।
सिंहव्याघ्रगजाकीर्णमृक्षवानरसेवितम् ॥ १५५.५५ ॥
नरनारीसमाकीर्णं नित्योत्सवविभूषितम् ।
शंखदुन्दुभिर्निर्घोषैर्वीणावेणुनिनादितम् ॥ १५५.५६ ॥
यममार्गेऽपि विहितं स्वर्गलोकमिवापरम् ।
गतौ तत्र पुनश्चान्यैर्यमदूतैर्यमाज्ञया ॥ १५५.५७ ॥
विदितौ प्रेषितौ तत्र यत्र देवो जगत्प्रभुः ।
प्राणस्य भीत्या दृष्टोऽसौ सिंहासनगतः प्रभुः ॥ १५५.५८ ॥
महाकायो महाजङ्घो महास्कन्धो महोदरः ।
महावक्षा महाबाहुर्महावक्त्रेक्षणो महान् ॥ १५५.५९ ॥
महामहिषमारूढो महामुकुटभूषितः ।
तत्रान्यश्च कलिः कालश्चित्रगुप्तो महामतिः ॥ १५५.६० ॥
समागतौ तदा दृष्टौ मध्ये ज्वलितपावकौ ।
पुण्यपापानि जन्तूनां श्रुतिस्मृत्यर्थपारगौ ॥ १५५.६१ ॥
विचारयन्तौ सततं तिष्ठाते तौ दिवानिशम् ।
ततो ह्यावां प्रणामान्ते यमेन यममूर्तिना ॥ १५५.६२ ॥
पृष्टावागमने हेतुं तमब्रूव शृणुष्व तत् ।
उज्जयिन्यां महीपालश्चाणक्योऽभूत्प्रतापवान् ॥ १५५.६३ ॥
द्वादशाहे मृतस्यास्य भुक्त्वा प्राप्तौ यमालयम् ।
ततोऽस्माकं वचः श्रुत्वा कम्पयित्वा शिरो यमः ॥ १५५.६४ ॥
उवाच वचनं सत्यं सभामध्ये हसन्निव ।
अस्ति तत्कारणं येन चाणक्यः पापपूरुषः ॥ १५५.६५ ॥
नायातो मम लोके तु सर्वपापभयंकरे ।
शुक्लतीर्थे मृतानां तु नर्मदायां परं पदम् ॥ १५५.६६ ॥
जायते सर्वजन्तूनां नात्र काचिद्विचारणा ।
अवशः स्ववशो वापि जन्तुस्तत्क्षेत्रमण्डले ॥ १५५.६७ ॥
मृतः स वै न सन्देहो रुद्रस्यानुचरो भवेत् ।
तद्धर्मवचनं श्रुत्वा निर्गत्य नगराद्बहिः ॥ १५५.६८ ॥
पश्यन्तौ विविधां घोरां नरके लोकयातनाम् ।
त्रिंशत्कोट्यो हि घोराणां नरकाणां नृपोत्तम ॥ १५५.६९ ॥
दृष्टा भीतौ परामार्तिगतौ तत्र महापथि ।
नरको रौरवस्तत्र महारौरव एव च ॥ १५५.७० ॥
पेषणः शोषणश्चैव कालसूत्रोऽस्थिभञ्जनः ।
तामिस्रश्चान्धतामिस्रः कृमिपूतिवहस्तथा ॥ १५५.७१ ॥
दृष्टश्चान्यो महाज्वालस्तत्रैव विषभोजनः ।
नरकौ दंशमशकौ तथा यमलपर्वतौ ॥ १५५.७२ ॥
नदी वैतरणी दृष्टा सर्वपापप्रणाशिनी ।
शीतलं सलिलं यत्र पिबन्ति ह्यमृतोपमम् ॥ १५५.७३ ॥
तदेव नीरं पापानां शोणितं परिवर्तते ।
असिपत्रवनं चान्यद्दृष्टान्या महती शिला ॥ १५५.७४ ॥
अग्निपुंजनिभाकारा विशाला शाल्मली परा ।
इत्यादयस्तथैवान्ये शतसाहस्रसंज्ञिताः ॥ १५५.७५ ॥
घोरघोरतरा दृष्टाः क्लिश्यन्ते यत्र मानवाः ।
वाचिकैर्मानसैः पापैः कर्मजैश्च पृथग्विधैः ॥ १५५.७६ ॥
अहंकारकृतैर्दोषैर्मायावचनपूर्वकैः ।
पिता माता गुरुर्भ्राता अनाथा विकलेन्द्रियाः ॥ १५५.७७ ॥
भ्रमन्ति नोद्धृता येषां गतिस्तेषां हि रौरवे ।
तत्र ते द्वादशाब्दानि क्षपित्वा रौरवेऽधमाः ॥ १५५.७८ ॥
इह मानुष्यके लोके दीनान्धाश्च भवन्ति ते ।
देवब्रह्मस्वहर्त्ःणां नराणां पापकर्मणाम् ॥ १५५.७९ ॥
महारौरवमाश्रित्य ध्रुवं वासो यमालये ।
ततः कालेन महता पापाः पापेन वेष्टिताः ॥ १५५.८० ॥
जायन्ते कण्टकैर्भिन्नाः कोशे वा कोशकारकाः ।
मृगपक्षिविहङ्गानां घातका मांसभक्षकाः ॥ १५५.८१ ॥
पेषणं नरकं यान्ति शोषणं जीवबन्धनात् ।
तत्रत्यां यातनां घोरां सहित्वा शास्त्रचोदिताम् ॥ १५५.८२ ॥
इह मानुष्यतां प्राप्य पङ्ग्वन्धबधिरा नराः ।
गवार्थे ब्राह्मणार्थे च ह्यनृतं वदतामिह ॥ १५५.८३ ॥
पतनं जायते पुंसां नरके कालसूत्रके ।
तत्रत्या यातना घोरा विहिता शास्त्रकर्तृभिः ॥ १५५.८४ ॥
भुक्त्वा समागता ह्यत्र ते यास्यन्त्यन्त्यजां गतिम् ।
बन्धयन्ति च ये जीवांस्त्यक्त्वात्मकुलसन्ततिम् ॥ १५५.८५ ॥
पतन्ति नात्र सन्देहो नरके तेऽस्थिभञ्जने ।
तत्र वर्षशतस्यान्त इह मानुष्यतां गताः ॥ १५५.८६ ॥
कुब्जा वामनकाः पापा जायन्ते दुःखभागिनः ।
ये त्यजन्ति स्वकां भार्यां मूढाः पण्डितमानिनः ॥ १५५.८७ ॥
ते यान्ति नरकं घोरं तामिस्रं नात्र संशयः ।
तत्र वर्षशतस्यान्ते इह मानुष्यतां गताः ॥ १५५.८८ ॥
दुश्चर्माणो दुर्भगाश्च जायन्ते मानवा हि ते ।
मानकूटं तुलाकूटं कूटकं तु वदन्ति ये ॥ १५५.८९ ॥
नरके तेऽन्धतामिस्रे प्रपच्यन्ते नराधमाः ।
शतसाहस्रिकं कालमुषित्वा तत्र ते नराः ॥ १५५.९० ॥
इह शत्रुगृहे त्वन्धा भ्रमन्ते दीनमूर्तयः ।
पितृदेवद्विजेभ्योऽन्नमदत्त्वा येऽत्र भुञ्जते ॥ १५५.९१ ॥
नरके कृमिभक्ष्ये ते पतन्ति स्वात्मपोषकाः ।
ततः प्रसूतिकाले हि कृमिभुक्तश्च सव्रणः ॥ १५५.९२ ॥
जायतेऽशुचिगन्धोऽत्र परभाग्योपजीवकः ।
स्वकर्मविच्युताः पापा वर्णाश्रमविवर्जिताः ॥ १५५.९३ ॥
नरके पूयसम्पूर्णे क्लिश्यन्ते ह्ययुतं समाः ।
पूर्णे तत्र ततः काले प्राप्य मानुष्यकं भवम् ॥ १५५.९४ ॥
उद्वेजनीया भूतानां जायन्ते व्याधिभिर्वृताः ।
अग्निदो गरदश्चैव लोभमोहान्वितो नरः ॥ १५५.९५ ॥
नरके विषसम्पूर्णे निमज्जति दुरात्मवान् ।
तत्र वर्षशतात्कालादुन्मज्जनमवस्थितः ॥ १५५.९६ ॥
भुवि मानुषतां प्राप्य कृपणो जायते पुनः ।
पादुकोपानहौ छत्रं शय्यां प्रावरणानि च ॥ १५५.९७ ॥
अदत्त्वा दंशमशकैर्भक्ष्यन्ते जन्यसप्ततिम् ।
पितुर्द्रव्यापहर्तारस्ताडनक्रोशने रताः ॥ १५५.९८ ॥
पीडनं क्रियते तेषां यत्र तौ युग्मपर्वतौ ।
या सा वैतरणी घोरा नदी रक्तप्रवाहिनी ॥ १५५.९९ ॥
पिबन्ति रुधिरं तत्र येऽभियान्ति रजस्वलाम् ।
असिपत्रवने घोरे पीड्यन्ते पापकारिणः ॥ १५५.१०० ॥
परपीडाकरा नित्यं ये नरोऽन्त्यजगामिनः ।
गुरुदाररतानां तु महापातकिनामपि ॥ १५५.१०१ ॥
शिलावगूहनं तेषां जायते जन्मसप्ततिम् ।
ज्वलन्तीमायसीं घोरां बहुकण्टकसंवृताम् ॥ १५५.१०२ ॥
शाल्मलीं तेऽवगूहन्ति परदाररता हि ये ।
परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ॥ १५५.१०३ ॥
अरण्ये निर्जले देशे स भवेत्क्रूरराक्षसः ।
देवस्वं ब्राह्मणस्वं च लोभेनैवाहरेच्च यः ॥ १५५.१०४ ॥
स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ।
एवमादीनि पापानि भुञ्जन्ते यमशासनात् ॥ १५५.१०५ ॥
येषां तु दर्शनादेव श्रवणाज्जायते भयम् ।
तथा दानफलं चान्ये भुञ्जाना यममन्दिरे ॥ १५५.१०६ ॥
दृष्टाः श्रुतं कथयतां दूतानां च यमाज्ञया ।
रथैरन्ये गजैरन्ये केचिद्वाजिभिरावृताः ॥ १५५.१०७ ॥
दृष्टास्तत्र महाभाग तपःसंचयसंस्थिताः ।
गोदाता स्वर्णदाता च भूमिरत्नप्रदा नराः ॥ १५५.१०८ ॥
शय्याशनगृहादीनां स लोकः कामदो नृणाम् ।
अन्नं पानीयसहितं ददते येऽत्र मानवाः ॥ १५५.१०९ ॥
तत्र तृप्ताः सुसंतुष्टाः क्रीडन्ते यमसादने ।
अत्र यद्दीयते दानमपि वालाग्रमात्रकम् ॥ १५५.११० ॥
तदक्षयफलं सर्वं शुक्लतीर्थे नृपोत्तम ।
एतत्ते कथितं सर्वं यद्दृष्टं यच्च वै श्रुतम् ॥ १५५.१११ ॥
कुरुष्व यदभिप्रेतं यदि शक्नोषि मुच्यताम् ।
तयोस्तद्वचनं श्रुत्वा चाणक्यो हृष्टमानसः ॥ १५५.११२ ॥
विसर्जयामास खगावभिनन्द्य पुनःपुनः ।
ताभ्यां गताभ्यां सर्वस्वं दत्त्वा विप्रेषु भारत ॥ १५५.११३ ॥
कामक्रोधौ परित्यज्य जगामामरपर्वतम् ।
तत्र बद्ध्वोडुपं गाढं कृष्णरज्ज्वावलम्बितम् ॥ १५५.११४ ॥
प्लवमानो जगामाऽशु ध्यायन्देवं जनार्दनम् ।
आरोग्यं भास्करादिच्छेद्धनं वै जातवेदसः ॥ १५५.११५ ॥
प्राप्नोति ज्ञानमीशानान्मोक्षं प्राप्नोति केशवात् ।
नीलं रक्तं तदभवन्मेचकं यद्धि सूत्रकम् ॥ १५५.११६ ॥
शुद्धस्फटिकसङ्काशं दृष्ट्वा रज्जुं महामतिः ।
आप्लुत्य विमले तोये गतोऽसौ वैष्णवं पदम् ॥ १५५.११७ ॥
गायन्ति यद्वेदविदः पुराणं नारायणं शाश्वतमच्युताह्वयम् ।
प्राप्तः स तं राजसुतो महात्मा निक्षिप्य देहं शुभशुक्लतीर्थे ॥ १५५.११८ ॥
एषा ते कथिता राजन्सिद्धिश्चाणक्यभूभृतः ।
तथान्यत्तव वक्ष्यामि शृणुष्वैकाग्रमानसः ॥ १५५.११९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चाणक्यसिद्धिप्राप्तिवर्णनं नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 156
अध्याय १५६
श्रीमार्कण्डेय उवाच -
नास्ति लोकेषु तत्तीर्थं पृथिव्यां यन्नरेश्वर ।
शुक्लतीर्थेन सदृशमुपमानेन गीयते ॥ १५६.१ ॥
शुक्लतीर्थं महातीर्थं नर्मदायां व्यवस्थितम् ।
प्रागुदक्प्रवणे देशे मुनिसङ्घनिषेवितम् ॥ १५६.२ ॥
वैशाखे च तथा मासि कृष्णपक्षे चतुर्दशी ।
कैलासादुमया सार्द्धं स्वयमायाति शङ्करः ॥ १५६.३ ॥
मध्याह्नसमये स्नात्वा पश्यत्यात्मानमात्मना ।
ब्रह्मविष्ण्विन्द्रसहितः शुक्लतीर्थे समाहितः ॥ १५६.४ ॥
कार्त्तिक्यां तु विशेषेण वैशाख्यां च नरोत्तम ।
ब्रह्मविष्णुमहादेवान् स्नात्वा पश्यति तद्दिने ॥ १५६.५ ॥
देवराजः सुरैः सार्द्धं वायुमार्गव्यवस्थितः ।
कृष्णपक्षे चतुर्दश्यां स्नात्वा पश्यति शङ्करम् ॥ १५६.६ ॥
गन्धर्वाप्सरसो यक्षाः सिद्धविद्याधरोरगाः ।
तद्दिने तेऽपि देवेशं दृष्ट्वा मुञ्चन्ति किल्बिषम् ॥ १५६.७ ॥
अर्धयोजनविस्तारं तदर्द्धेनैव चायतम् ।
शुक्लतीर्थं महापुण्यं महापातकनाशनम् ॥ १५६.८ ॥
यत्र स्थितैः प्रदृश्यन्ते वृक्षाग्राणि नरोत्तमैः ।
तत्र स्थिता महापापैर्मुच्यन्ते पूर्वसंचितैः ॥ १५६.९ ॥
पापोपपातकैर्युक्तो नरः स्नात्वा प्रमुच्यते ।
उपार्जिता विनश्येत भ्रूणहत्यापि दुस्त्यजा ॥ १५६.१० ॥
यस्मात्तत्रैव देवेश उमया सह तिष्ठति ।
वैशाख्यां च विशेषेण कैलासादेति शङ्करः ॥ १५६.११ ॥
तेन तीर्थं महापुण्यं सर्वपातकनाशनम् ।
कथितं ब्रह्मणा पूर्वं मया तव तथा नृप ॥ १५६.१२ ॥
रजकेन यथा धौतं वस्त्रं भवति निर्मलम् ।
तथा तत्र वपुःस्नानं पुरुषस्य भवेच्छुचि ॥ १५६.१३ ॥
पूर्वे वयसि पापानि कृत्वा पुष्टानि मानवः ।
अहोरात्रोषितो भूत्वा शुक्लतीर्थे व्यपोहति ॥ १५६.१४ ॥
शुक्लतीर्थे महाराज राकां रेवाजलाञ्जलिम् ।
कल्पकोटिसहस्राणि दत्त्वा स्युः पितरः शिवाः ॥ १५६.१५ ॥
न माता न पिता बन्धुः पतनं नरकार्णवे ।
उद्धरन्ति यथा पुण्यं शुक्लतीर्थे नरेश्वर ॥ १५६.१६ ॥
तपसा ब्रह्मचर्येण न तां गच्छन्ति सद्गतिम् ।
शुक्लतीर्थे मृतो जन्तुर्देहत्यागेन यां लभेत् ॥ १५६.१७ ॥
कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशीम् ।
घृतेन स्नापयेद्देवमुपोष्य प्रयतो नरः ॥ १५६.१८ ॥
स्नात्वा प्रभाते रेवायां दद्यात्सघृतकम्बलम् ।
सहिरण्यं यथाशक्ति देवमुद्दिश्य शङ्करं ॥ १५६.१९ ॥
देवस्य पूरणं कुर्याद्घृतेन घृतकम्बलम् ।
स गच्छति महातेजाः शिवलोकं मृतो नरः ॥ १५६.२० ॥
एकविंशकुलोपेतो यावदाभूतसम्प्लवम् ।
शुक्लतीर्थे नरः स्नात्वा ह्युमां रुद्रं च योऽर्चयेत् ॥ १५६.२१ ॥
गन्धपुष्पादिधूपैश्च सोऽश्वमेधफलं लभेत् ।
मासोपवासं यः कुर्यात्तत्र तीर्थे नरेश्वर ॥ १५६.२२ ॥
मुच्यते स महत्पापैः सप्तजन्मसुसंचितैः ।
उष्ट्रीक्षीरमविक्षीरं नवश्राद्धे च भोजनम् ॥ १५६.२३ ॥
वृषलीगमनं चैव तथाभक्ष्यस्य भक्षणम् ।
अविक्रयेऽनृते पापं माहिषेऽयाज्ययाजके ॥ १५६.२४ ॥
वार्द्धुष्ये पङ्क्तिगरदे देवब्राह्मणदूषके ।
एवमादीनि पापानि तथान्यान्यपि भारत ॥ १५६.२५ ॥
चान्द्रायणेन नश्यन्ति शुक्लतीर्थे न संशयः ।
शुक्लतीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ॥ १५६.२६ ॥
तस्य ते द्वादशाब्दानि तृप्तिं यान्ति सुतर्पिताः ।
पादुकोपानहौ छत्रं शय्यामासनमेव च ॥ १५६.२७ ॥
सुवर्णं धनधान्यं च श्राद्धं युक्तहलं तथा ।
अन्नं पानीयसंहितं तस्मिंस्तीर्थे ददन्ति ये ॥ १५६.२८ ॥
हृष्टाः पुष्टा मृता यान्ति शिवलोकं न संशयः ।
तत्र तीर्थे तु यो भक्त्या शिवमुद्दिश्य भारत ॥ १५६.२९ ॥
भिक्षामात्रं तथान्नं ये तेऽपि स्वर्यान्ति वै नराः ।
यज्विनां व्रतिनां चैव तत्र तीर्थनिवासिनाम् ॥ १५६.३० ॥
अपि वालाग्रमात्रं हि दत्तं भवति चाक्षयम् ।
अग्निप्रवेशं यः कुर्याच्छुक्लतीर्थे समाहितः ॥ १५६.३१ ॥
रागद्वेषविनिर्मुक्तो हृदि ध्यात्वा जनार्दनम् ।
सर्वकामसुसम्पूर्णः स गच्छेद्वारुणं पुरम् ॥ १५६.३२ ॥
न रोगो न जरा तत्र यत्र देवोऽंभसां पतिः ।
अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे युधिष्ठिर ॥ १५६.३३ ॥
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ।
अवशः स्ववशो वापि जन्तुस्तत्क्षेत्रमण्डले ॥ १५६.३४ ॥
मृतः स तु न सन्देहो रुद्रस्यानुचरो भवेत् ।
शुक्लतीर्थे तु यः कन्यां शक्त्या दद्यादलंकृताम् ॥ १५६.३५ ॥
विधिना यो नृपश्रेष्ठ कुरुते वृषमोक्षणम् ।
तस्य यत्फलमुद्दिष्टं पुराणे रुद्रभाषितम् ॥ १५६.३६ ॥
तदहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ।
यावन्तो रोमकूपाः स्युः सर्वाङ्गेषु पृथक्पृथक् ॥ १५६.३७ ॥
तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
शुक्लतीर्थे तु यद्दत्तं ग्रहणे चन्द्रसूर्ययोः ॥ १५६.३८ ॥
वर्धते तद्गुणं तावद्दिनानि दश पञ्च च ।
शुक्लतीर्थे शुचिर्भूत्वा यः करोति प्रदक्षिणम् ॥ १५६.३९ ॥
पृथ्वी प्रदक्षिणा तेन कृता यत्तस्य तत्फलम् ।
शोभनं मिथुनं यस्तु रुद्रमुद्दिश्य पूजयेत् ॥ १५६.४० ॥
सप्त जन्मानि तस्यैव वियोगो न च वै क्वचित् ।
एतत्ते कथितं राजन् संक्षेपेण फलं महत् ॥ १५६.४१ ॥
शुक्लतीर्थस्य यत्पुण्यं यथा देवाच्छ्रुतं मया ।
य इदं शृणुयाद्भक्त्या पुराणे विहितं फलम् ॥ १५६.४२ ॥
स लभेन्नात्र सन्देहः सत्यं सत्यं पुनः पुनः ।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥ १५६.४३ ॥
मोक्षार्थी लभते मोक्षं स्नानदानफलं महत् ॥ १५६.४४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शुक्लतीर्थमाहात्म्यवर्णनं नाम षट्पञ्चाशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 157
अध्याय १५७
श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं राजञ्छुक्लतीर्थसमीपतः ।
वासुदेवस्य तीर्थं तु सर्वलोकेषु पूजितम् ॥ १५७.१ ॥
तद्धि पुण्यं सुविख्यातं नर्मदायां पुरातनम् ।
यत्र हुङ्कारमात्रेण रेवा क्रोशं जगाम सा ॥ १५७.२ ॥
यदा प्रभृति राजेन्द्र हुङ्कारेण गता सरित् ।
तदाप्रभृति स स्वामी हुङ्कारः शब्दितो बुधैः ॥ १५७.३ ॥
हुङ्कारतीर्थे यः स्नात्वा पश्यत्यव्ययमच्युतम् ।
स मुच्यते नरः पापैः सप्तजन्म कृतैरपि ॥ १५७.४ ॥
संसारार्णवमग्नानां नराणां पापकर्मिणाम् ।
नैवोद्धर्ता जगन्नाथं विना नारायणं परः ॥ १५७.५ ॥
सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम् ।
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥ १५७.६ ॥
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान्मङ्गलायतनो हरिः ॥ १५७.७ ॥
यदन्यद्देवतार्चायाः फलं प्राप्नोति मानवः ।
साष्टाङ्गप्रणिपातेन तत्फलं लभते हरेः ॥ १५७.८ ॥
रेणुगुण्ठितगात्रस्य यावन्तोऽस्य रजःकणाः ।
तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥ १५७.९ ॥
सम्मार्जनाभ्युक्षणलेपनेन तदालये नश्यति सर्वपापम् ।
नारी नराणां परया तु भक्त्या दृष्ट्वा तु रेवां नरसत्तमस्य ॥ १५७.१० ॥
येनार्चितो भगवान्वासुदेवो जन्मार्जितं नश्यति तस्य पापम् ।
स याति लोकं गरुडध्वजस्य विधूतपापः सुरसङ्घपूज्यताम् ॥ १५७.११ ॥
शाठ्येनापि नमस्कारं प्रयुञ्जंश्चक्रपाणिनः ।
सप्तजन्मार्जितं पापं गच्छत्याशु न संशयः ॥ १५७.१२ ॥
पूजायां प्रीयते रुद्रो जपहोमैर्दिवाकरः ।
शङ्खचक्रगदापाणिः प्रणिपातेन तुष्यति ॥ १५७.१३ ॥
भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् ।
विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥ १५७.१४ ॥
हुङ्कारतीर्थे राजेन्द्र शुभं वा यदि वाशुभम् ।
यत्कृतं पुरुषव्याघ्र तन्नश्यति न कर्हिचित् ॥ १५७.१५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हुङ्कारस्वामितीर्थमाहात्म्यवर्णनं नाम सप्तपञ्चाशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 158
अध्याय १५८
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्परं तीर्थं सङ्गमेश्वरमुत्तमम् ।
नर्मदादक्षिणे कूले सर्वपापभयापहम् ॥ १५८.१ ॥
धनदस्तत्र विश्रान्तो मुहूर्तं नृपसत्तम ।
पितृलोकात्समायातः कैलासं धरणीधरम् ॥ १५८.२ ॥
प्रत्ययार्थं नृपश्रेष्ठ ह्यद्यापि धरणीतले ।
कृष्णवर्णा हि पाषाणा दृश्यन्ते स्फटिकोज्ज्वलाः ॥ १५८.३ ॥
विन्ध्यनिर्झरनिष्क्रान्ता पुण्यतोया सरिद्वरा ।
प्रविष्टा नर्मदातोये सर्वपापप्रणाशने ॥ १५८.४ ॥
सङ्गमे तत्र यः स्नात्वा पूजयेत्सङ्गमेश्वरम् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥ १५८.५ ॥
घण्टापताकावितनं यो ददेत्सङ्गमेश्वरे ।
हंसयुक्तविमानस्थो दिव्यस्त्रीशतसंवृतः ॥ १५८.६ ॥
स रुद्रपदमाप्नोति रुद्रस्यानुचरो भवेत् ।
दधि भक्ते न देवस्य यः कुर्याल्लिङ्गपूरणम् ॥ १५८.७ ॥
सिक्थसंख्यं शिवे लोके स वसेत्कालमीप्सितम् ।
श्रीफलैः पूरयेल्लिङ्गं निःस्वो भूत्वा भवस्य तु ॥ १५८.८ ॥
सोऽपि तत्फलमाप्नोति गतः स्वर्गे नरेश्वर ।
अक्षया सन्ततिस्तस्य जायते सप्तजन्मसु ॥ १५८.९ ॥
स्नपनं देवदेवस्य दध्ना मधुघृतेन वा ।
यः करोति विधानेन तस्य पुण्यफलं शृणु ॥ १५८.१० ॥
धृतक्षीरवहा नद्यो यत्र वृक्षा मधुस्रवाः ।
तत्र ते मानवा यान्ति सुप्रसन्ने महेश्वरे ॥ १५८.११ ॥
पत्रं पुष्पं फलं तोयं यस्तु दद्यान्महेश्वरे ।
तत्सर्वं सप्तजन्मानि ह्यक्षयं फलमश्नुते ॥ १५८.१२ ॥
सर्वेषामेव पात्राणां महापात्रं महेश्वरः ।
तस्मात्सर्वप्रयत्नेन पूजनीयो महेश्वरः ॥ १५८.१३ ॥
ब्रह्मचर्यस्थितो नित्यं यस्तु पूजयते शिवम् ।
इह जीवन्स देवेशो मृतो गच्छेदनामयम् ॥ १५८.१४ ॥
शिवे तु पूजिते पार्थ यत्फलं प्राप्यते बुधैः ।
योगीन्द्रे चैव तत्पार्थ पूजिते लभते फलम् ॥ १५८.१५ ॥
ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
येषां गृहेषु भुञ्जन्ति शिवभक्तिरता नराः ॥ १५८.१६ ॥
संनिरुध्येन्द्रियग्रामं यत्रयत्र वसेन्मुनिः ।
तत्र तत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥ १५८.१७ ॥
यत्फलं वेदविदुषि भोजिते शतसंख्यया ।
तत्फलं जायते पार्थ ह्येकेन शिवयोगिना ॥ १५८.१८ ॥
यत्र भुञ्जति भस्माङ्गी मूर्खो वा यदि पण्डितः ।
तत्र भुञ्जति देवेशः सपत्नीको वृषध्वजः ॥ १५८.१९ ॥
विप्राणां वेदविदुषां कोटिं संभोज्य यत्फलम् ।
भिक्षामात्रप्रदानेन तत्फलं शिवयोगिनाम् ॥ १५८.२० ॥
सङ्गमेश्वरमासाद्य प्राणत्यागं करोति यः ।
न तस्य पुनरावृत्तिः शिवलोकात्कदाचन ॥ १५८.२१ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सङ्गमेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टपञ्चाशदधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 159
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज तीर्थं परमपावनम् ।
नर्मदायां सुदुष्प्रापं सिद्धं ह्यनरकेश्वरम् ॥ १५९.१ ॥
तस्मिंस्तीर्थे नरः स्नात्वा पापकर्मापि भारत ।
न पश्यति महाघोरं नरकद्वारसंज्ञिकम् ॥ १५९.२ ॥
युधिष्ठिर उवाच -
शुभाशुभफलैस्तात भुक्तभोगा नरास्त्विह ।
जायन्ते लक्षणैर्यैस्तु तानि मे वद सत्तम ॥ १५९.३ ॥
यथा निर्गच्छते जीवस्त्यक्त्वा देहं न पश्यति ।
तथा गच्छन्पुनर्देहं पञ्चभूतसमन्वितः ॥ १५९.४ ॥
त्वगस्थिमांसमेदोऽसृक्केशस्नायुशतैः सह ।
विण्मूत्ररेतःसङ्घाते का संज्ञा जायते नृणाम् ॥ १५९.५ ॥
एवमुक्तः स मार्कण्डः कथयामास योगवित् ।
ध्यात्वा सनातनं सर्वं देवदेवं महेश्वरम् ॥ १५९.६ ॥
मार्कण्डेय उवाच -
शृणु पार्थ महाप्रश्नं कथयामि यथाश्रुतम् ।
सकाशाद्ब्रह्मणः पूर्वमृषिदेवसमागमे ॥ १५९.७ ॥
गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।
इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ १५९.८ ॥
अचीर्णप्रायश्चित्तानां यमलोके ह्यनेकधा ।
यातनाभिर्वियुक्तानामनेकां जीवसन्ततिम् ॥ १५९.९ ॥
गत्वा मनुष्यभावे तु पापचिह्ना भवन्ति ते ।
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ॥ १५९.१० ॥
सहित्वा यातनां सर्वां गत्वा वैवस्वतक्षयम् ।
विस्तीर्णयातना ये तु लोकमायान्ति चिह्निताः ॥ १५९.११ ॥
गद्गदोऽनृतवादी स्यान्मूकश्चैव गवानृते ।
ब्रह्महा जायते कुष्ठी श्यावदन्तस्तु मद्यपः ॥ १५९.१२ ॥
कुनखी स्वर्णहरणाद्दुःश्चर्मा गुरुतल्पगः ।
संयोगी हीनयोनिः स्याद्दरिद्रोऽदत्तदानतः ॥ १५९.१३ ॥
ग्रामशूकरतां याति ह्ययाज्ययाजको नृप ।
खरो वै बहुयाजी स्याच्छ्वानिमन्त्रितभोजनात् ॥ १५९.१४ ॥
अपरीक्षितभोजी स्याद्वानरो विजने वने ।
वितर्जकोऽथ मार्जारः खद्योतः कक्षदाहतः ॥ १५९.१५ ॥
अविद्यां यः प्रयच्छेत बलीवर्दो भवेद्धि सः ।
अन्नं पर्युषितं विप्रे ददानः क्लीबतां व्रजेत् ॥ १५९.१६ ॥
मात्सर्यादथ जात्यन्धो जन्मान्धः पुस्तकं हरन् ।
फलान्याहरतोऽपत्यं म्रियते नात्र संशयः ॥ १५९.१७ ॥
मृतो वानरतां याति तन्मुक्तोऽथ गलाडवान् ।
अदत्त्वा भक्षयंस्तानि ह्यनपत्यो भवेन्नरः ॥ १५९.१८ ॥
हरन्वस्त्रं भवेद्गोधा गरदः पवनाशनः ।
प्रव्राजी गमनाद्राजन् भवेन्मरुपिशाचकः ॥ १५९.१९ ॥
वातको जलहर्ता च धान्यहर्ता च मूषकः ।
अप्राप्तयौवनां गच्छन् भवेत्सर्प इति श्रुतिः ॥ १५९.२० ॥
गुरुदाराभिलाषी च कृकलासो भवेच्चिरम् ।
जलप्रस्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः ॥ १५९.२१ ॥
अविक्रेयान् विक्रयन् वै विकटाक्षो भवेन्नरः ।
अयोनिगो वृको हि स्यादुलूकः क्रयवञ्चनात् ॥ १५९.२२ ॥
मृतस्यैकादशाहे तु भुञ्जानः श्वोपजायते ।
प्रतिश्रुत्य द्विजायार्थमददन्मधुको भवेत् ॥ १५९.२३ ॥
राज्ञीगमाद्भवेद्दुष्टतस्करो विड्वराहकः ।
परिवादी द्विजातीनां लभते काच्छपीं तनुम् ॥ १५९.२४ ॥
व्रजेद्देवलको राजन्योनिं चाण्डालसंज्ञिताम् ।
दुर्भगः फलविक्रेता वृश्चिको वृषलीपतिः ॥ १५९.२५ ॥
मार्जारोऽग्निं पदा स्पृष्ट्वा रोगवान्परमांसभुक् ।
सोदर्यागमनात्षण्ढो दुर्गन्धश्च सुगन्धहृत् ॥ १५९.२६ ॥
ग्रामभट्टो दिवाकीर्तिर्दैवज्ञो गर्दभो भवेत् ।
कुपण्डितः स्यान्मार्जारो भषणो व्यास एव च ॥ १५९.२७ ॥
स एव दृश्यते राजन्प्रकाशात्परमर्मणाम् ।
यद्वा तद्वापि पारक्यं स्वल्पं वा यदि वा बहु ॥ १५९.२८ ॥
कृत्वा वै योनिमाप्नोति तैरश्चीं नात्र संशयः ।
एवमादीनि चान्यानि चिह्नानि नृपसत्तम ॥ १५९.२९ ॥
स्वकर्मविहितान्येव दृश्यन्ते यैस्तु मानवाः ।
ततो जन्म ततो मृत्युः सर्वजन्तुषु भारत ॥ १५९.३० ॥
जायते नात्र सन्देहः समीभूते शुभाशुभे ।
स्त्रीपुंसोः सम्प्रयोगेण विषुद्धे शुक्रशोणिते ॥ १५९.३१ ॥
पञ्चभूतसमोपेतः सषष्ठः परमेश्वरः ।
इन्द्रियाणि मनः प्राणा ज्ञानमायुः सुखं धृतिः ॥ १५९.३२ ॥
धारणं प्रेरणं दुःखमिच्छाहङ्कार एव च ।
प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ ॥ १५९.३३ ॥
तस्येदमात्मनः सर्वमनादेरादिमिच्छतः ।
प्रथमे मासि स क्लेदभूतो धातुविमूर्छितः ॥ १५९.३४ ॥
मास्यर्बुदं द्वितीये तु तृतीये चेन्द्रियैर्युतः ।
आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रबलादिकम् ।
वायोस्तु स्पर्शनं चेष्टां दहनं रौक्ष्यमेव च ॥ १५९.३५ ॥
पित्तात्तु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशनम् ।
सलिलाद्रसनां शैत्यं स्नेहं क्लेदं समार्दवम् ॥ १५९.३६ ॥
भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च ।
आत्मा गृह्णात्यजः पूर्वं तृतीये स्पन्दते च सः ॥ १५९.३७ ॥
दौर्हृदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः ॥ १५९.३८ ॥
स्थैर्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः ।
षष्ठे बलं च वर्णश्च नखरोम्णां च सम्भवः ॥ १५९.३९ ॥
मनसा चेतनायुक्तो नखरोमशतावृतः ।
सप्तमे चाष्टमे चैव त्वचावान् स्मृतिवानपि ॥ १५९.४० ॥
पुनर्गर्भं पुनर्धात्रीमेनस्तस्य प्रधावति ।
अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते ॥ १५९.४१ ॥
नवमे दशमे वापि प्रबलैः सूतिमारुतैः ।
निर्गच्छते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥ १५९.४२ ॥
शरीरावयवैर्युक्तो ह्यङ्गप्रत्यङ्गसंयुतः ।
अष्टोत्तरं मर्मशतं तत्रास्था तु शतत्रयम् ॥ १५९.४३ ॥
सप्त शिरःकपालानि विहितानि स्वयम्भुवा ।
तिस्रः कोट्योऽर्धकोटी च रोम्णामङ्गेषु भारत ॥ १५९.४४ ॥
द्वासप्ततिसहस्राणि हृदयादभिनिसृताः ।
हितानाम हि ता नाड्यस्तासां मध्ये शशिप्रभा ॥ १५९.४५ ॥
एवं प्रवर्तते चक्रं भूतग्रामे चतुर्विधे ।
उत्पत्तिश्च विनाशश्च भवतः सर्वदेहिनाम् ॥ १५९.४६ ॥
गतिरूर्ध्वा च धर्मेण ह्यधर्मेण त्वधोगतिः ।
जायते सर्ववर्णानां स्वधर्मचलनान्नृप ॥ १५९.४७ ॥
देवत्वे मानवत्वे च दानभोगादिकाः क्रियाः ।
दृश्यन्ते या महाराज तत्सर्वं कर्मजं फलम् ॥ १५९.४८ ॥
स्वकर्म विहिते घोरे कामक्सोधार्जिते शुभे ।
निमज्जेन्नरके घोरे यस्योत्तारो न विद्यते ॥ १५९.४९ ॥
उत्तारणाय जन्तूनां नर्मदातटसंस्थितम् ।
एवमेतन्महातीर्थं नरकेश्वरमुत्तमम् ॥ १५९.५० ॥
नरकापहं महापुण्यं महापातकनाशनम् ।
तत्तीर्थं सर्वतीर्थानामुत्तमं भुवि दुर्लभम् ॥ १५९.५१ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत महेश्वरम् ।
महापातकयुक्तोऽपि नरकं नैव पश्यति ॥ १५९.५२ ॥
तत्र तीर्थे तु यो दद्याद्धेनुं वैतरणीं शुभाम् ।
स मुच्यते सुखेनैव वैतरण्यां न संशयः ॥ १५९.५३ ॥
युधिष्ठिर उवाच -
यमद्वारे महाघोरे या सा वैतरणी नदी ।
किंरूपा किंप्रमाणा सा कथं सा वहति द्विज ॥ १५९.५४ ॥
कथं तस्याः प्रमुच्यन्ते केषां वासस्तु संततम् ।
केषां तु सानुकूला सा ह्येतद्विस्तरतो वद ॥ १५९.५५ ॥
श्रीमार्कण्डेय उवाच -
धर्मपुत्र महाबाहो शृणु सर्वं मयोदितम् ।
या सा वैतरणी नाम यमद्वारे महासरित् ॥ १५९.५६ ॥
अगाधा पाररहिता दृष्टमात्रा भयावहा ।
पूयशोणिततोया सा मांसकर्दमनिर्मिता ॥ १५९.५७ ॥
तत्तोयं भ्रमते तूर्णं तापीमध्ये घृतं यथा ।
कृमिभिः सङ्कुलं पूयं वज्रतुण्डैरयोमुखैः ॥ १५९.५८ ॥
शिशुमारैश्च मकरैर्वज्रकर्तरिसंयुतैः ।
अन्यैश्च जलजीवैः सा सुहिंस्रैर्मर्मभेदिभिः ॥ १५९.५९ ॥
तपन्ति द्वादशादित्याः प्रलयान्त इवोल्बणाः ।
पतन्ति तत्र वै मर्त्याः क्रन्दन्तो भृशदारुणम् ॥ १५९.६० ॥
हा भ्रातः पुत्र हा मातः प्रलपन्ति मुहुर्मुहुः ।
असिपत्त्रवने घोरे पतन्तं योऽभिरक्षति ॥ १५९.६१ ॥
प्रतरन्ति निमज्जन्ति ग्लानिं गच्छन्ति जन्तवः ।
चतुर्विधैः प्राणिगणैर्द्रष्टव्या सा महानदी ॥ १५९.६२ ॥
तरन्ति तस्यां सद्दानैरन्यथा तु पतन्ति ते ।
मातरं ये न मन्यन्ते ह्याचार्यं गुरुमेव च ॥ १५९.६३ ॥
अवजानन्ति मूढा ये तेषां वासस्तु संततम् ।
पतिव्रतां साधुशीलामूढां धर्मेषु निश्चलाम् ॥ १५९.६४ ॥
परित्यजन्ति ये पापाः संततं तु वसन्ति ते ।
विश्वासप्रतिपन्नानां स्वामिमित्रतपस्विनाम् ॥ १५९.६५ ॥
स्त्रीबालवृद्धदीनानां छिद्रमन्वेषयन्ति ये ।
पच्यन्ते तत्र मध्ये वै क्रन्दमानाः सुपापिनः ॥ १५९.६६ ॥
श्रान्तं बुभुक्षितं विप्रं यो विघ्नयति दुर्मतिः ।
कृमिभिर्भक्ष्यते तत्र यावत्कल्पशतत्रयम् ॥ १५९.६७ ॥
ब्राह्मणाय प्रतिश्रुत्य यो दानं न प्रयच्छति ।
आहूय नास्ति यो ब्रूते तस्य वासस्तु संततम् ॥ १५९.६८ ॥
अग्निदो गरदश्चैव राजगामी च पैशुनी ।
कथाभङ्गकरश्चैव कूटसाक्षी च मद्यपः ॥ १५९.६९ ॥
वज्रविध्वंसकश्चैव स्वयंदत्तापहारकः ।
सुक्षेत्रसेतुभेदी च परदारप्रधर्षकः ॥ १५९.७० ॥
ब्राह्मणो रसविक्रेता वृषलीपतिरेव च ।
गोकुलस्य तृषार्तस्य पालीभेदं करोति यः ॥ १५९.७१ ॥
कन्याभिदूषकश्चैव दानं दत्त्वा तु तापकः ।
शूद्रस्तु कपिलापानी ब्राह्मणो मांसभोजनी ॥ १५९.७२ ॥
एते वसन्ति सततं मा विचारं कृथा नृप ।
सानुकूला भवेद्येन तच्छृणुष्व नराधिप ॥ १५९.७३ ॥
अयने विषुवे चैव व्यतीपाते दिनक्षये ।
अन्येषु पुण्यकालेषु दीयते दानमुत्तमम् ॥ १५९.७४ ॥
कृष्णां वा पाटलां वापि कुर्याद्वैतरणीं शुभाम् ।
स्वर्णशृङ्गीं रूप्यखुरां कांस्यपात्रस्य दोहिनीम् ॥ १५९.७५ ॥
कृष्णवस्त्रयुगाच्छन्नां सप्तधान्यसमन्विताम् ।
कुर्यात्सद्रोणशिखर आसीनां ताम्रभाजने ॥ १५९.७६ ॥
यमं हैमं प्रकुर्वीत लोहदण्डसमन्वितम् ।
इक्षुदण्डमयं बद्ध्वा ह्युडुपं पट्टबन्धनैः ॥ १५९.७७ ॥
उडुपोपरि तां धेनुं सूर्यदेहसमुद्भवाम् ।
कृत्वा प्रकल्पयेद्विद्वाञ्छत्त्रोपानद्युगान्विताम् ॥ १५९.७८ ॥
अङ्गुलीयकवासांसि ब्राह्मणाय निवेदयेत् ।
इममुच्चारयेन्मन्त्रं संगृह्यास्याश्च पुच्छकम् ॥ १५९.७९ ॥
ओं यमद्वारे महाघोरे या सा वैतरणी नदी ।
तर्तुकामो ददाम्येनां तुभ्यं वैतरणि नमः ।
इत्यधिवासनमन्त्रः ॥ १५९.८० ॥
गावो मे चाग्रतः सन्तु गावो मे सन्तु पृष्ठतः ।
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ १५९.८१ ॥
ओं विष्णुरूप द्विजश्रेष्ठ भूदेव पङ्क्तिपावन ।
सदक्षिणा मया दत्ता तुभ्यं वैतरणि नमः ।
इति दानमन्त्रः ॥ १५९.८२ ॥
ब्राह्मणं धर्मराजं च धेनुं वैतरणीं शिवाम् ।
सर्वं प्रदक्षिणीकृत्य ब्राह्मणाय निवेदयेत् ॥ १५९.८३ ॥
पुच्छं संगृह्य सुरभेरग्रे कृत्वा द्विजं ततः ॥ १५९.८४ ॥
धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये ।
उत्तितीर्षुरहं धेनो वैतरण्यै नमोऽस्तु ते ।
इत्यनुव्रजमन्त्रः ॥ १५९.८५ ॥
अनुव्रजेत गच्छन्तं सर्वं तस्य गृहं नयेत् ।
एवं कृते महीपाल सरित्स्यात्सुखवाहिनी ॥ १५९.८६ ॥
तारयते तया धेन्वा सा सरिज्जलवाहिनी ।
सर्वान्कामानवाप्नोति ये दिव्या ये च मानुषाः ॥ १५९.८७ ॥
रोगी रोगाद्विमुक्तः स्याच्छाम्यन्ति परमापदः ।
स्वस्थे सहस्रगुणितमातुरे शतसंमितम् ॥ १५९.८८ ॥
मृतस्यैव तु यद्दानं परोक्षे तत्समं स्मृतम् ।
स्वहस्तेन ततो देयं मृते कः कस्य दास्यति ।
इति मत्वा महाराज स्वदत्तं स्यान्महाफलम् ॥ १५९.८९ ॥
इत्येवमुक्तं तव धर्मसूनो दानं मया वैतरणीसमुत्थम् ।
शृणोति भक्त्या पठतीह सम्यक्स याति विष्णोः पदमप्रमेयम् ॥ १५९.९० ॥
श्रीमार्कण्डेय उवाच -
प्राप्ते चाश्वयुजे मासि तस्मिन्कृष्णा चतुर्दशी ।
स्नात्वा कृत्वा ततः श्राद्धं सम्पूज्य च महेश्वरम् ॥ १५९.९१ ॥
पितृभ्यो दीयते दानं भक्तिश्रद्धासमन्वितैः ।
पश्चाज्जागरणं कुर्यात्सत्कथाश्रवणादिभिः ॥ १५९.९२ ॥
ततः प्रभातसमये स्नात्वा वै नर्मदाजले ।
तर्पणं विधिवत्कृत्वा पित्ःणां देवपूर्वकम् ॥ १५९.९३ ॥
सौवर्णे घृतसंयुक्तं दीपं दद्याद्द्विजातये ।
पश्चात्संभोजयेद्विप्रान् स्वयं चैव विमत्सरः ॥ १५९.९४ ॥
एवं कृते नरश्रेष्ठ न जन्तुर्नरकं व्रजेत् ।
अवश्यमेव मनुजैर्द्रष्टव्या नारकी स्थितिः ॥ १५९.९५ ॥
अनेन विधिना कृत्वा न पश्येन्नरकान्नरः ।
तत्र तीर्थे मृतानां तु नराणां विधिना नृप ॥ १५९.९६ ॥
मन्वन्तरं शिवे लोके वासो भवति दुर्लभे ।
विमानेनार्कवर्णेन किंकिणीशतशोभिना ॥ १५९.९७ ॥
स गच्छति महाभाग सेव्यमानोऽप्सरोगणैः ।
भुनक्ति विविधान्भोगानुक्तकालं न संशयः ॥ १५९.९८ ॥
पूर्णे चैव ततः काल इह मानुष्यतां गतः ।
सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ १५९.९९ ॥
प्राप्य चाश्वयुजे मासि कृष्णपक्षे चतुर्दशीम् ।
अहोरात्रोषितो भूत्वा पूजयित्वा महेश्वरम् ।
महापातकयुक्तोऽपि मुच्यते नात्र संशयः ॥ १५९.१०० ॥
अष्टाविंशतिकोट्यो वै नरकाणां युधिष्ठिर ।
विमुक्ता नरकैर्दुःखैः शिवलोकं व्रजन्ति ते ॥ १५९.१०१ ॥
तत्र भुक्त्वा महाभोगान्दिव्यैश्वर्यसमन्वितान् ।
लभन्ते मानुषं जन्म दुर्लभं भुवि मानवाः ॥ १५९.१०२ ॥
॥ इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽनरकेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनषष्ट्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 160
अध्याय १६०
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्पाण्डुपुत्र मोक्षतीर्थमनुत्तमम् ।
सेवितं देवगन्धर्वैर्मुनिभिश्च तपोधनैः ॥ १६०.१ ॥
बहवस्तन्न जानन्ति विष्णुमायाविमोहिताः ।
यत्र सिद्धा महाभागा ऋषयः सतपोधनाः ॥ १६०.२ ॥
पुलस्त्यः पुलहो विद्वान्क्रतुश्चैव महामतिः ।
प्राचेतसो वसिष्ठश्च दक्षो नारद एव च ॥ १६०.३ ॥
एते चान्ये महाभागाः सप्तसाहस्रसंज्ञिताः ।
मोक्षं गताः सह सुतैस्तत्तीर्थं तेन मोक्षदम् ॥ १६०.४ ॥
तत्र प्रवाहमध्ये तु पतिता तमहा नदी ।
तत्र तत्सङ्गमं तीर्थं सर्वपापक्षयंकरम् ॥ १६०.५ ॥
ऋग्यजुःसामसंज्ञानामभ्यस्तानां तु यत्फलम् ।
सम्यग्जप्त्वा तु विधिना गायत्रीं तत्र तल्लभेत् ॥ १६०.६ ॥
तत्र दत्तं हुतं जप्तं तीर्थसेवार्जितं फलम् ।
सर्वमक्षयतां याति मोक्षसाधनमुत्तमम् ॥ १६०.७ ॥
तत्र तीर्थे मृतानां तु संन्यासेन द्विजन्मनाम् ।
अनिवर्तिका गतिस्तेषां मोक्षतीर्थप्रभावतः ॥ १६०.८ ॥
एष ते विधिरुद्दिष्टः संक्षेपेण मयानघ ।
व्युष्टिस्तीर्थस्य महती पुराणे याभिधीयते ॥ १६०.९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मोक्षतीर्थमाहात्म्यवर्णनं नाम षष्ट्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 161
अध्याय १६१
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज सर्पतीर्थमनुत्तमम् ।
यत्र सिद्धा महासर्पास्तपस्तप्त्वा युधिष्ठिर ॥ १६१.१ ॥
वासुकिस्तक्षको घोरः सार्प ऐरावतस्तथा ।
कालियश्च महाभागः कर्कोटकधनंजयौ ॥ १६१.२ ॥
शङ्खचूडो महातेजा धृतराष्ट्रो वृकोदरः ।
कुलिको वामनश्चैव तेषां ये पुत्रपौत्रिणः ॥ १६१.३ ॥
तत्र तीर्थे महापुण्ये तपस्तप्त्वा सुदुष्करम् ।
भुञ्जन्ति विविधान्भोगान्क्रीडन्ति च यथासुखम् ॥ १६१.४ ॥
तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
वाजपेयफलं तस्य पुरा प्रोवाच शङ्करः ॥ १६१.५ ॥
स्नातानां सर्पतीर्थे तु नराणां भुवि भारत ।
सर्पवृश्चिकजातिभ्यो न भयं विद्यते क्वचित् ॥ १६१.६ ॥
मृतो भोगवतीं गत्वा पूज्यमानो महोरगैः ।
नागकन्यापरिवृतो महाभोगपतिर्भवेत् ॥ १६१.७ ॥
मार्गशीर्षस्य मासस्य कृष्णपक्षे च याष्टमी ।
सोपवासः शुचिर्भूत्वा लिङ्गं सम्पूरयेत्तिलैः ।
यथाविभवसारेण गन्धपुष्पैः समर्चयेत् ॥ १६१.८ ॥
एवं विधाय विधिवत्प्रणिपत्य क्षमापयेत् ।
तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नरेश्वर ॥ १६१.९ ॥
तिलास्तत्र च यत्संख्याः पत्रपुष्पफलानि च ।
तावत्स्वर्गपुरे राजन्मोदते कालमीप्सितम् ॥ १६१.१० ॥
ततः स्वर्गात्परिभ्रष्टो जायते विमले कुले ।
सुरूपः सुभगश्चैव धनकोटिपतिर्भवेत् ॥ १६१.११ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सर्पतीर्थमाहात्म्यवर्णनं नामैकषष्ट्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 162
अध्याय १६२
श्रीमार्कण्डेय उवाच -
गोपेश्वरं ततो गच्छेत्सर्पक्षेत्रादनन्तरम् ।
यत्र स्नानेन चैकेन मुच्यन्ते पातकैर्नराः ॥ १६२.१ ॥
तत्र तीर्थे तु यः स्नात्वा कुरुते प्राणसंक्षयम् ।
स गच्छेद्यदि युक्तोऽपि पापेन शिवमन्दिरम् ॥ १६२.२ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेद्देवमीश्वरम् ।
मुच्यते सर्वपापैश्च रुद्रलोकं स गच्छति ॥ १६२.३ ॥
क्रीडित्वा च यथाकामं रुद्रलोके महातपाः ।
इह मानुष्यतां प्राप्य राजा भवति धार्मिकः ॥ १६२.४ ॥
हस्त्यश्वरथसम्पन्नो दासीदाससमन्वितः ।
पूज्यमानो नरेन्द्रैश्च जीवेद्वर्षशतं सुखी ॥ १६२.५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोपेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विषष्ट्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 163
अध्याय १६३
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज नागतीर्थमनुत्तमम् ।
आश्विनस्य सिते पक्षे पञ्चम्यां नियतः शुचिः ॥ १६३.१ ॥
रात्रौ जागरणं कृत्वा गन्धधूपनिवेदनैः ।
प्रभाते विमले स्नात्वा श्राद्धं कृत्वा यथाविधि ॥ १६३.२ ॥
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ।
तत्र तीर्थे तु यो राजन्प्राणत्यागं करिष्यति ॥ १६३.३ ॥
अनिवर्तिका गतिस्तस्य प्रोवाचेति शिवः स्वयम् ॥ १६३.४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागतीर्थमाहात्म्यवर्णनं नाम त्रिषष्ट्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 164
अध्याय १६४
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज सांवौरं तीर्थमुत्तमम् ।
यत्र संनिहितो भानुः पूज्यमानः सुरासुरैः ॥ १६४.१ ॥
तत्र ये पङ्गुतां प्राप्ताः शीर्णघ्राणनखा नराः ।
दद्रुमण्डलभिन्नाङ्गा मक्षिकाकृमिसंकुलाः ॥ १६४.२ ॥
मातापितृभ्यां रहिता भ्रातृभार्याविवर्जिताः ।
अनाथा विकला व्यङ्गा मग्ना ये दुःखसागरे ॥ १६४.३ ॥
तेषां नाथो जगद्योनिर्नर्मदातटमाश्रितः ।
सांवौरनाथो लोकानामार्तिहा दुःखनाशनः ॥ १६४.४ ॥
तत्र तीर्थे तु यः स्नात्वा मासमेकं निरन्तरम् ।
पूजयेद्भास्करं देवं तस्य पुण्यफलं शृणु ॥ १६४.५ ॥
यत्फलं चोत्तरे पार्थ तथा वै पूर्वसागरे ।
दक्षिणे पश्चिमे स्नात्वा तत्र तीर्थे तु तत्फलम् ॥ १६४.६ ॥
कौमारे यौवने पापं वार्द्धके यच्च संचितम् ।
तत्प्रणश्यति सांवौरे स्नानमात्रान्न संशयः ॥ १६४.७ ॥
न व्याधिर्नैव दारिद्र्यं न चैवेष्टवियोजनम् ।
सप्तजन्मानि राजेन्द्र सांवौरपरिसेवनात् ॥ १६४.८ ॥
सप्तम्यामुपवासेन तद्दिने चाप्युपोषिते ।
स तत्फलमवाप्नोति तत्र स्नात्वा न संशयः ॥ १६४.९ ॥
रक्तचन्दनमिश्रेण यदर्घ्येण फलं स्मृतम् ।
तत्र तीर्थे नृपश्रेष्ठ स्नात्वा तत्फलमाप्नुयात् ॥ १६४.१० ॥
नर्मदासलिलं रम्यं सर्वपातकनाशनम् ।
निरीक्षितं विशेषेण सांवौरेण महात्मना ॥ १६४.११ ॥
ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
स्नात्वा पश्यन्ति देवेशं सांवौरेश्वरमुत्तमम् ॥ १६४.१२ ॥
सूर्यलोके वसेत्तावद्यावदाभूतसम्प्लवम् ॥ १६४.१३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सांवौरेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःषष्ट्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 165
अध्याय १६५
श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले सिद्धेश्वरमिति श्रुतम् ।
तीर्थं परं महाराज सिद्धैः कृतमिति प्रभो ॥ १६५.१ ॥
तत्र तीर्थं महापुण्यं सर्वतीर्थेषु पावनम् ।
नर्मदाया महाराज दक्षिणं कूलमाश्रितम् ॥ १६५.२ ॥
तत्र तीर्थे नरः स्नात्वा तर्पयेत्पितृदेवताः ।
श्राद्धं तत्रैव यो दद्यात्पित्ःनुद्दिश्य भारत ॥ १६५.३ ॥
तृप्यन्ति पितरस्तस्य द्वादशाब्दान्न संशयः ।
तत्र तीर्थे तु यो भक्त्या स्नात्वा पूजयते शिवम् ॥ १६५.४ ॥
रात्रौ जागरणं कृत्वा पठेत्पौराणिकीं कथाम् ।
ततः प्रभाते विमले स्नानं कुर्याद्यथाविधि ॥ १६५.५ ॥
वीक्षते गिरिजाकान्तं स गच्छेत्परमां गतिम् ।
पुरा सिद्धा महाभागाः कपिलाद्या महर्षयः ॥ १६५.६ ॥
जपन्तश्च परं ब्रह्म योगसिद्धा महाव्रताः ।
सिद्धिं ते परमां प्राप्ता नर्मदायाः प्रभावतः ॥ १६५.७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चषष्ट्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 166
अध्याय १६६
मार्कण्डेय उवाच -
ततः सिद्धेश्वरी देवी वैष्णवी पापनाशिनी ।
आनन्दं परमं प्राप्ता दृष्ट्वा स्थानं सुशोभनम् ॥ १६६.१ ॥
तत्र तीर्थे नरः स्नात्वा पूजयेत्पितृदेवताः ।
देवीं पश्यति यो भक्त्या मुच्यते सर्वपातकैः ॥ १६६.२ ॥
मृतवत्सा तु या नारी वन्ध्या स्त्रीजननी तथा ।
पुत्रं सा लभते नारी शीलवन्तं गुणान्वितम् ॥ १६६.३ ॥
तत्र तीर्थे तु यः स्नात्वा पश्येद्देवीं सुभक्तितः ।
अष्टम्यां वा चतुर्दश्यां सर्वकालेऽथवा नृप ॥ १६६.४ ॥
सङ्गमे तु ततः स्नाता नारी वा पुरुषोऽपि वा ।
पुत्रं धनं तथा देवी ददाति परितोषिता ॥ १६६.५ ॥
गोत्ररक्षां प्रकुरुते दृष्टा देवी सुपूजिता ।
प्रजां च पाति सततं पूज्यमाना न संशयः ॥ १६६.६ ॥
नवम्यां च महाराज स्नात्वा देवीमुपोषितः ।
पूजयेत्परया भक्त्या श्रद्धापूतेन चेतसा ॥ १६६.७ ॥
स गच्छेत्परमं लोकं यः सुरैरपि दुर्लभः ॥ १६६.८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्षष्ट्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 167
अध्याय १६७
युधिष्ठिर उवाच -
नर्मदादक्षिणे कूले त्वच्चिह्नेनोपलक्षितम् ।
तीर्थमेतन्ममाख्याहि सम्भवं च महामुने ॥ १६७.१ ॥
मार्कण्डेय उवाच -
पुरा कृतयुगस्यादौ दक्षिणे गिरिमुत्तमम् ।
विन्ध्यं सर्वगुणोपेतं नियतो नियताशनः ॥ १६७.२ ॥
ऋषिसङ्घैः कृतातिथ्यो दण्डके न्यवसं चिरम् ।
उषित्वा सुचिरं कालं वर्षाणामयुतं सुखी ॥ १६७.३ ॥
तानृषीन् समनुज्ञाप्य शिष्यैरनुगतस्ततः ।
निवृत्तः सुमहाभाग नर्मदाकूलमागतः ॥ १६७.४ ॥
पुण्यं च रमणीयं च सर्वपापविनाशनम् ।
कृत्वाहमास्पदं तत्र द्विजसंघसमायुतः ॥ १६७.५ ॥
ब्रह्मचारिभिराकीर्णं गार्हस्थ्ये सुप्रतिष्ठितैः ।
वानप्रस्थैश्च यतिभिर्यताहारैर्यतात्मभिः ॥ १६७.६ ॥
तपस्विभिर्महाभागैः कामक्रोधविवर्जितैः ।
तत्राहं वर्षमयुतं तपः कृत्वा सुदारुणम् ॥ १६७.७ ॥
आराधयं वासुदेवं प्रभुं कर्तारमीश्वरम् ।
जपंस्तपोभिर्नियमैर्नर्मदाकूलमाश्रितः ॥ १६७.८ ॥
ततस्तौ वरदौ देवौ समायातौ युधिष्ठिर ।
प्रत्यक्षौ भास्करौ राजन्नुमाश्रीभ्यां विभूषितौ ॥ १६७.९ ॥
प्रणम्याहं ततो देवौ भक्तियुक्तो वचोऽब्रुवम् ।
भवन्तौ प्रार्थयामि स्म वरार्हौ वरदौ शिवौ ॥ १६७.१० ॥
धर्मस्थितिं महाभागौ भक्तिं वानुत्तमां युवाम् ।
अजरो व्याधिरहितः पञ्चविंशतिवर्षवत् ।
अस्मिन्स्थाने सदा स्थेयं सह देवैरसंशयम् ॥ १६७.११ ॥
एवमुक्तौ मया पार्थ तौ देवौ कृष्णशङ्करौ ।
मामूचतुः प्रहृष्टौ तौ निवासार्थं युधिष्ठिर ॥ १६७.१२ ॥
देवावूचतुः ।
अस्मिन्स्थाने स्थितौ विद्धि सह देवैः सवासवैः ।
एवमुक्त्वा ततो देवौ तत्रैवान्तरधीयताम् ॥ १६७.१३ ॥
अहं च स्थापयित्वा तौ शङ्करं कृष्णमव्ययम् ।
कृतकृत्यस्ततो जातः सम्पूज्य सुसमाहितः ॥ १६७.१४ ॥
तस्मिंस्तीर्थे नरः स्नात्वा पूजयेत्परमेश्वरम् ।
मार्कण्डेश्वरनाम्ना वै विष्णुं त्रिभुवनेश्वरम् ॥ १६७.१५ ॥
स गच्छेत्परमं स्थानं वैष्णवं शैवमेव च ।
घृतेन पयसा वाथ दध्ना च मधुना तथा ॥ १६७.१६ ॥
नार्मदेनोदकेनाथ गन्धधूपैः सुशोभनैः ।
पुष्पोपहारैश्च तथा नैवेद्यैर्नियतात्मवान् ॥ १६७.१७ ॥
एवं विष्णोः प्रकुर्वीत जागरं भक्तितत्परः ।
स्नानादीनि तथा राजन्प्रयतः शुचिमानसः ॥ १६७.१८ ॥
ज्येष्ठे मासि सिते पक्षे चतुर्दश्यामुपोषितः ।
द्वादश्यां कारयेद्देवपूजनं वैष्णवो नरः ॥ १६७.१९ ॥
एवं कृत्वा चतुर्दश्यामेकादश्यां नरोत्तम ।
वैष्णवं लोकमाप्नोति विष्णुतुल्यो भवेन्नरः ॥ १६७.२० ॥
माहेश्वरे च राजेन्द्र गणवन्मोदते पुरे ।
श्राद्धं च कुरुते तत्र पितॄनुद्दिश्य सुस्थिरः ॥ १६७.२१ ॥
तस्य ते ह्यक्षयां तृप्तिं प्राप्नुवन्ति न संशयः ।
नर्मदायां द्विजः स्नात्वा मौनी नियतमानसः ॥ १६७.२२ ॥
उपास्य सन्ध्यां तत्रस्थो जपं कृत्वा सुशोभनम् ।
तर्पयित्वा पितॄन्देवान्मनुष्यांश्च यथाविधि ॥ १६७.२३ ॥
कृष्णस्य पुरतः स्थित्वा मार्कण्डेशस्य वा पुनः ।
ऋग्यजुःसाममन्त्रांश्च जपेदत्र प्रयत्नतः ॥ १६७.२४ ॥
ऋचमेकां जपेद्यस्तु ऋग्वेदस्य फलं लभेत् ।
यजुर्वेदस्य यजुषा साम्ना सामफलं लभेत् ॥ १६७.२५ ॥
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ।
मृतप्रजा तु या नारी वन्ध्या स्त्रीजननी तथा ॥ १६७.२६ ॥
रुद्रांस्तु विधिवज्जप्त्वा ब्राह्मणो वेदतत्त्ववित् ।
लिङ्गस्य दक्षिणे पार्श्वे स्थापयेत्कलशं शिवम् ॥ १६७.२७ ॥
रुद्रैकादशभिर्मन्त्रैः स्नापयेत्कलशाम्भसा ।
पुत्रमाप्नोति राजेन्द्र दीर्घायुषमकल्मषम् ॥ १६७.२८ ॥
मार्कण्डेश्वरवृक्षान्यो दूरस्थानपि पश्यति ।
ब्रह्महत्यादिपापेभ्यो मुच्यते शङ्करोऽब्रवीत् ॥ १६७.२९ ॥
य इदं शृणुयाद्भक्त्या पठेद्वा नृपसत्तम ।
सर्वपापविशुद्धात्मा जायते नात्र संशयः ॥ १६७.३० ॥
इदं यशस्यमायुष्यं धन्यं दुःखप्रणाशनम् ।
पठतां शृण्वतां वापि सर्वपापप्रमोचनम् ॥ १६७.३१ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तषष्ट्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 168
अध्याय १६८
श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे रोधस्यङ्कूरेश्वरमुत्तमम् ।
तीर्थं सर्वगुणोपेतं त्रिषु लोकेषु विश्रुतम् ॥ १६८.१ ॥
यत्र सिद्धं महारक्ष आराध्य तु महेश्वरम् ।
शङ्करं जगतः प्राणं स्मृतिमात्रावहारिणम् ॥ १६८.२ ॥
युधिष्ठिर उवाच -
किं तद्रक्षो द्विजश्रेष्ठ किंनाम कस्य वान्वये ।
एतद्विस्तरतः सर्वं कथयस्व ममानघ ॥ १६८.३ ॥
अज्ञानतिमिरान्धा ये पुमांसः पापकारिणः ।
युष्मद्विधैर्दीपभूतैः पश्यन्ति सचराचरम् ॥ १६८.४ ॥
धर्मपुत्रवचः श्रुत्वा मार्कण्डेयो मुनीश्वरः ।
स्मितं कृत्वा बभाषे तां कथां पापप्रणाशनीम् ॥ १६८.५ ॥
मार्कण्डेय उवाच -
मानसो ब्रह्मणः पुत्रः पुलस्त्यो नाम पार्थिव ।
वेदशास्त्रप्रवक्ता च साक्षाद्वेधा इवापरः ॥ १६८.६ ॥
तृणबिन्दुसुता तस्य भार्यासीत्परमेष्ठिनः ।
तस्य धर्मप्रसङ्गेन पुत्रो जातो महामनाः ॥ १६८.७ ॥
यस्माद्वेदेतिहासैश्च सषडङ्गपदक्रमाः ।
विश्रान्ता ब्रह्मणा दत्ता नाम विश्रवसेति च ॥ १६८.८ ॥
कस्मिंश्चिदथ काले च भरद्वाजो महामुनिः ।
स्वसुतां प्रददौ राजन्मुदा विश्रवसे नृप ॥ १६८.९ ॥
स तया रमते सार्धं पौलोम्या मघवा इव ।
मुदा परमया राजन्ब्राह्मणो वेदवित्तमः ॥ १६८.१० ॥
केनचित्त्वथ कालेन पुत्रः पुत्रगुणैर्युतः ।
जज्ञे विश्रवसो राजन्नाम्ना वैश्रवणः श्रुतः ॥ १६८.११ ॥
सोऽपि मौनव्रतं कृत्वा बालभावाद्युधिष्ठिर ।
सर्वभूताभयं दत्त्वा चचार परमं व्रतम् ॥ १६८.१२ ॥
तस्य तुष्टो महादेवो ब्रह्मा ब्रह्मर्षिभिः सह ।
सखित्वं चेश्वरो दत्त्वा धनदत्वं जगाम ह ॥ १६८.१३ ॥
यमेन्द्रवरुणानां च चतुर्थस्त्वं भविष्यसि ।
ब्रह्माप्युक्त्वा जगामाशु लोकपालत्वमीप्सितम् ॥ १६८.१४ ॥
ततस्त्वनन्तरे काले कैकसी नाम राक्षसी ।
पातालं भूतलं त्यक्त्वा विश्रवं चकमे पतिम् ॥ १६८.१५ ॥
पुत्रोऽथ रावणो जातस्तस्या भरतसत्तम ।
कुम्भकर्णो महारक्षो धर्मात्मा च विभीषणः ॥ १६८.१६ ॥
कुम्भश्चैव विकुम्भश्च कुम्भकर्णसुतावुभौ ।
महाबलौ महावीर्यौ महान्तौ पुरुषोत्तम ॥ १६८.१७ ॥
अङ्कूरो राक्षसश्रेष्ठः कुम्भस्य तनयो महान् ।
विभीषणं च गुणवद्दृष्ट्वैवं राक्षसोत्तमः ॥ १६८.१८ ॥
ततः स यौवनं प्राप्य ज्ञात्वा रक्षः पितामहम् ।
परं निर्वेदमापन्नश्चचार सुमहत्तपः ॥ १६८.१९ ॥
दक्षिणं पश्चिमं गत्वा सागरं पूर्वमुत्तरम् ।
नर्मदायां प्रसङ्गेन ह्यङ्कूरो राक्षसेश्वरः ॥ १६८.२० ॥
तपश्चचार सुमहद्दिव्यं वर्षशतं किल ।
ततस्तुष्टो महादेवः साक्षात्परपुरंजयः ॥ १६८.२१ ॥
वरेण छन्दयामास राक्षसं वृषकेतनः ।
वरं वृणीष्व भद्रं ते तव दास्यामि सुव्रत ॥ १६८.२२ ॥
प्रोवाच राक्षसो वाक्यं देवदेवं महेश्वरम् ।
वरदं सोऽग्रतो दृष्ट्वा प्रणम्य च पुनःपुनः ॥ १६८.२३ ॥
यदि तुष्टो महादेव वरदोऽसि सुरेश्वर ।
दुर्लभं सर्वभूतानाममरत्वं प्रयच्छ मे ॥ १६८.२४ ॥
मम नाम्ना स्थितोऽनेन वरेण त्रिपुरान्तक ।
सदा संनिहितोऽप्यत्र तीर्थे भवितुमर्हसि ॥ १६८.२५ ॥
ईश्वर उवाच -
यावद्विभीषणमतं यावद्धर्मनिषेवणम् ।
करिष्यसि दृढात्मा त्वं तावदेतद्भविष्यति ॥ १६८.२६ ॥
एवमुक्त्वा ययौ देवः सर्वदैवतपूजितः ।
विमानेनार्कवर्णेन कैलासं धरणीधरम् ॥ १६८.२७ ॥
गते चादर्शनं देवे स्नात्वाचम्य विधानतः ।
स्थापयामास राजेन्द्र ह्यङ्कूरेश्वरमुत्तमम् ॥ १६८.२८ ॥
गन्धपुष्पैस्तथा धूपैर्वस्त्रालङ्कारभूषणैः ।
पताकैश्चामरैश्छत्रैर्जयशब्दादिमंगलैः ॥ १६८.२९ ॥
पूजयित्वा सुरेशानं स्तोत्रैर्हृद्यैः सुपुष्कलैः ।
जगाम भवनं रक्षो यत्र राजा विभीषणः ॥ १६८.३० ॥
पूजितः स यथान्यायं दानसन्मानगौरवैः ।
सौदर्ये स्थापितो भावे सोऽवात्सीत्परयामुदा ॥ १६८.३१ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
अङ्कूरेश्वरनामानं सोऽश्वमेधफलं लभेत् ॥ १६८.३२ ॥
माण्डव्यखातमारभ्य सङ्गमं वापि यच्छुभम् ।
रेवाया आमलक्याश्च देवक्षेत्रं महेश्वरम् ॥ १६८.३३ ॥
माण्डव्यखातात्पश्चिमतस्तीर्थं तदङ्कूरेश्वरम् ।
तत्र तीर्थे नरः स्नात्वा शुचिः प्रयतमानसः ॥ १६८.३४ ॥
सन्ध्यामाचम्य यत्नेन जपं कृत्वाथ भारत ।
तर्पयित्वा पितॄन्देवान्मनुष्यान् भरतर्षभ ॥ १६८.३५ ॥
सचैलः क्लिन्नवसनो मौनमास्थाय संयतः ।
अष्टम्यां वा चतुर्दश्यामुपोष्य विधिवन्नरः ॥ १६८.३६ ॥
पूजां यः कुरुते राजंस्तस्य पुण्यफलं शृणु ।
साग्रं तु योजनशतं तीर्थान्यायतनानि च ॥ १६८.३७ ॥
भवन्ति तानि दृष्टानि ततः पापैः प्रमुच्यते ।
तत्र तीर्थे तु यद्दानं देवमुद्दिश्य दीयते ॥ १६८.३८ ॥
स्नात्वा तु विधिवत्पात्रे तदक्षयमुदाहृतम् ।
होमाद्दशगुणं प्रोक्तं फलं जाप्ये ततोऽधिकम् ॥ १६८.३९ ॥
त्रिगुणं चोपवासेन स्नानेन च चतुर्गुणम् ।
संन्यासं कुरुते यस्तु प्राणत्यागं करोति वा ॥ १६८.४० ॥
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ।
कृमिकीटपतङ्गानां तत्र तीर्थे युधिष्ठिर ।
अङ्कूरेश्वरनामाख्ये मृतानां सुगतिर्भवेत् ॥ १६८.४१ ॥
एतत्ते कथितं राजन्नङ्कूरेश्वरसम्भवम् ।
तीर्थं सर्वगुणोपेतं परमं पापनाशनम् ॥ १६८.४२ ॥
येऽपि शृण्वन्ति भक्त्येदं कीर्त्यमानं महाफलम् ।
लभन्ते नात्र सन्देहः शिवस्य भुवनं हि ते ॥ १६८.४३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अङ्कूरेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टषष्ट्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 169
अध्याय १६९
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्परं तीर्थं पुण्यं पापप्रणाशनम् ।
माण्डव्यो यत्र संसिद्ध ऋषिर्नारायणस्तथा ॥ १६९.१ ॥
नारायणेन शुश्रूषा शूलस्थेन कृता पुरा ।
तत्र स्नात्वा महाराज मुच्यते पापकञ्चुकात् ॥ १६९.२ ॥
युधिष्ठिर उवाच -
आश्चर्यमेतल्लोकेषु यत्त्वया कथितं मुने ।
न दृष्टं न श्रुतं तात शूलस्थेन तपः कृतम् ॥ १६९.३ ॥
एतत्सर्वं कथय मे ऋषिभिः सहितस्य वै ।
अस्य तीर्थस्य माहात्म्यं माण्डव्यस्य कुतूहलात् ॥ १६९.४ ॥
श्रीमार्कण्डेय उवाच -
शृणु राजन्यथावृत्तपुरा त्रेतायुगे क्षितौ ।
लोकपालोपमो राजा देवपन्नो महामतिः ॥ १६९.५ ॥
धर्मज्ञश्च कृतज्ञश्च यज्वा दानरतः सदा ।
प्रजा ररक्ष यत्नेन पिता पुत्रानिवौरसान् ॥ १६९.६ ॥
दात्यायनी प्रिया भार्या तस्य राज्ञो वशानुगा ।
हारनूपुरघोषेण झङ्काररवनादिता ॥ १६९.७ ॥
परस्परं तयोः प्रीतिर्वर्धतेऽनुदिनं नृप ।
वंशस्तम्बे स्थितो राजा संशास्ति पृथिवीमिमाम् ॥ १६९.८ ॥
हस्त्यश्वरथसम्पूर्णां धनवाहनसंयुताम् ।
अलंकृतो गुणैः सर्वैरनपत्यो महीपतिः ॥ १६९.९ ॥
दुःखेन महताविष्टः संतप्तः सन्ततिं विना ।
स्नानहोमरतो नित्यं द्वादशाब्दानि भारत ॥ १६९.१० ॥
व्रतोपवासनियमैः पत्नीभिः सह तस्थिवान् ।
आराधयद्भगवतीं चामुण्डां मुण्डमर्दिनीम् ॥ १६९.११ ॥
स्तोत्रैरनेकैर्भक्त्या च पूजाविधिसमाधिना ।
जय वाराहि चामुण्डे जय देवि त्रिलोचने ॥ १६९.१२ ॥
ब्राह्मि रौद्रि च कौमारि कात्यायनि नमोऽस्तु ते ।
प्रचण्डे भैरवे रौद्रि योगिन्याकाशगामिनि ॥ १६९.१३ ॥
नास्ति किंचित्त्वया हीनं त्रैलोक्ये सचराचरे ।
राज्ञा स्तुता च संतुष्टा देवी वचनमब्रवीत् ॥ १६९.१४ ॥
वरयस्व यथाकामं यस्ते मनसि वर्तते ।
आराधिता त्वया भक्त्या तुष्टा दास्यामि ते वरम् ॥ १६९.१५ ॥
देवपन्न उवाच -
यदि तुष्टासि देवेशि वरार्हो यदि वाप्यहम् ।
पुत्रसन्तानरहितं संतप्तं मां समुद्धर ॥ १६९.१६ ॥
सन्तानं नय मे वृद्धिं गोत्ररक्षां कुरुष्व मे ।
अपुत्रिणां गृहाणीह श्मशानसदृशानि हि ॥ १६९.१७ ॥
पितरस्तस्य नाश्नन्ति देवता ऋषिभिः सह ।
क्रियमाणेऽप्यहरहः श्राद्धे मत्पितरः सदा ॥ १६९.१८ ॥
दर्शयन्ति सदात्मानं स्वप्ने क्षुत्पीडितं मम ।
इति राज्ञो वचः श्रुत्वा देवी ध्यानमुपागता ॥ १६९.१९ ॥
दिव्येन चक्षुषा दृष्टं त्रैलोक्यं सचराचरम् ।
प्रसन्नवदना देवी राजानमिदमब्रवीत् ॥ १६९.२० ॥
सन्तानं नास्ति ते राजंस्त्रैलोक्ये सचराचरे ।
यजस्व यज्ञपुरुषमपत्यं नास्ति तेऽन्यथा ॥ १६९.२१ ॥
मया दृष्टं महीपाल त्रैलोक्यं दिव्यचक्षुषा ।
एवमुक्त्वा गता देवी राजा स्वगृहमागमत् ॥ १६९.२२ ॥
इयाज यज्ञपुरुषं संजाता कन्यका ततः ।
तेजस्विनी रूपवती सर्वलोकमनोहरा ॥ १६९.२३ ॥
देवगन्धर्वलोकेऽपि तादृशी नास्ति कामिनी ।
तस्या नाम कृतं पित्रा हर्षात्कामप्रमोदिनी ॥ १६९.२४ ॥
ततः कालेन ववृधे रूपेणास्तम्भयज्जगत् ।
हंसलीलागतिः सुभ्रूः स्तनभारावनामिता ॥ १६९.२५ ॥
रक्तमाल्याम्बरधरा कुण्डलाभरणोज्ज्वला ।
दिव्यानुलेपनवती सखीभिः सा सुरक्षिता ॥ १६९.२६ ॥
कुचमध्यगतो हारो विद्युन्मालेव राजते ।
भ्रमराञ्चितकेशी सा बिम्बोष्ठी चारुहासिनी ॥ १६९.२७ ॥
कर्णान्तप्राप्तनेत्राभ्यां पिबन्तीवाथ कामिनः ।
चन्द्रताम्बूलसौरभ्यैराकर्षन्तीव मन्मथम् ॥ १६९.२८ ॥
कम्बुग्रीवा चारुमध्या ताम्रपादाङ्गुलीनखा ।
निम्ननाभिः सुजघना रम्भोरू सुदती शुभा ॥ १६९.२९ ॥
मातापितृसुहृद्वर्गे क्रीडानन्दविवर्धिनी ।
एकस्मिन्दिवसे बाला सखीवृन्दसमन्विता ॥ १६९.३० ॥
चन्दनागरुतांबूलधूपसौमनसाञ्चिता ।
गृहीत्वा पुष्पधूपादि गता देवीप्रपूजने ॥ १६९.३१ ॥
तडागतट उत्सृज्य भूषणान्यङ्गवेष्टकान् ।
चक्रुः सरसिताः क्रीडां जलमध्यगतास्तदा ॥ १६९.३२ ॥
क्रीडन्तीं तामवेक्ष्याथ ससखीं विमले जले ।
राक्षसः शम्बरो नाम श्येनरूपेण चागमत् ॥ १६९.३३ ॥
गृहीता जलमध्यस्था तेन सा काममोदिनी ।
खमुत्पपात दुष्टात्मा गृहीत्वाभरणान्यपि ॥ १६९.३४ ॥
वायुमार्गं गतः सोऽथ कामिन्या सह भारत ।
अपतन्कुण्डलादीनि यत्र तोये महामुनिः ॥ १६९.३५ ॥
माण्डव्यो नर्मदातीरे काष्ठवत्संजितेन्द्रियः ।
लीनो माहेश्वरे स्थाने नारायणपदे परे ॥ १६९.३६ ॥
तस्य चानुचरो भ्राता भ्रातुः शुश्रूषणे रतः ।
तपोजपकृशीभूतो दध्यौ देवं जनार्दनम् ॥ १६९.३७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे काममोदिनीहरणवर्णनं नामैकोनसप्तत्यधिशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 170
अध्याय १७०
श्रीमार्कण्डेय उवाच -
कामप्रमोदिनीसख्यो नीयमानां च तेन तु ।
दृष्ट्वा ताश्चुक्रुशुः सर्वा निःसृत्य जलमध्यतः ॥ १७०.१ ॥
गता राजगृहे सर्वाः कथयन्ति सुदुःखिताः ।
कामप्रमोदिनी राजन्हृता श्येनेन पक्षिणा ॥ १७०.२ ॥
क्रीडन्ती च जलस्थाने तडागे देवसन्निधौ ।
अन्वेष्या च त्वया राजंस्तस्य मार्गं विजानता ॥ १७०.३ ॥
तासां तद्वचनं श्रुत्वा देवपन्नः सुदुःखितः ।
हाहेत्युक्त्वा समुत्थाय रुदमानो वरासनात् ॥ १७०.४ ॥
मन्त्रिभिः सहितस्तस्मिंस्तडागे जलसन्निधौ ।
न चिह्नं न च पन्थानं दृष्ट्वा दुःखान्मुमोह च ॥ १७०.५ ॥
तस्य राज्ञस्तु दुःखेन दुःखितो नागरो जनः ।
क्षणेनाश्वासितो राजा मन्त्रिभिः सपुरोहितैः ॥ १७०.६ ॥
किं कुर्म इत्युवाचेदमस्मिन्काले विधीयताम् ।
सर्वैस्तत्संविदं कृत्वा वाहिनीं चतुरङ्गिणीम् ॥ १७०.७ ॥
प्रेषयामि दिशः सर्वा हस्त्यश्वरथसंकुला ।
वादित्राणि च वाद्यन्ते व्याकुलीभूतसंकुले ॥ १७०.८ ॥
नाराचैस्तोमरैर्भल्लैः खड्गैः परश्वधादिभिः ।
राजा संनाहबद्धोऽभूद्गनं ग्रसते किल ॥ १७०.९ ॥
न देवो न च गन्धर्वो न दैत्यो न च राक्षसः ।
किं करिष्यति राजाद्य न जाने रोषनिष्कृतिम् ॥ १७०.१० ॥
नागरोऽपि जनस्तत्र दृष्ट्वा चकितमानसः ।
चतुर्दशसहस्राणि दन्तिनां सृणिधारिणाम् ॥ १७०.११ ॥
अश्वारोहसहस्राणि ह्यशीतिः शस्त्रपाणिनाम् ।
रथानां त्रिसहस्राणि विंशतिर्भरतर्षभ ॥ १७०.१२ ॥
सङ्ग्रामभेरीनिनदैः खुररेणुर्नभोगता ।
एतस्मिन्नन्तरे तात रक्षको नगरस्य हि ॥ १७०.१३ ॥
गृहीत्वाभरणं तस्यास्त्वङ्गप्रत्यङ्गिकं तथा ।
कुण्डलाङ्गदकेयूरहारनूपुरझल्लरीः ॥ १७०.१४ ॥
निवेद्याकथयद्राज्ञे मया दृष्टं त्ववेक्षणात् ।
तापसानामाश्रमे तु माण्डव्यो यत्र तिष्ठति ॥ १७०.१५ ॥
तापसैर्वेष्टितो यत्र ददृशे तत्र सन्निधौ ।
दण्डवासिवचः श्रुत्वा प्रत्यक्षाङ्गविभूषणम् ॥ १७०.१६ ॥
स क्रोधरक्तनयनो मन्त्रिणो वीक्ष्य नैगमान् ।
ईदृग्भूतसमाचारो ब्राह्मणो नगरे मम ॥ १७०.१७ ॥
चौरचर्यां व्रतच्छन्नः परद्रव्यापहरकः ।
तेन कन्या हृता मेऽद्य तपस्विपापकर्मिणा ॥ १७०.१८ ॥
शाकुन्तं रूपमास्थाय जलस्थो गगनं ययौ ।
पाखण्डिनो विकर्मस्थान् बिडालव्रतिकाञ्छठान् ॥ १७०.१९ ॥
चाटुतस्करदुर्वृत्तान् हन्यान्नस्त्यस्य पातकम् ।
न द्रष्टव्यो मया पापः स्तेयी कन्यापहारकः ॥ १७०.२० ॥
शूलमारोप्यतां क्षिप्रं न विचारस्तु तस्य वै ।
स च वध्यो मया दुष्टो रक्षोरूपी तपोधनः ॥ १७०.२१ ॥
एवं ब्रुवंश्चलन्क्रोधादादिश्य दण्डवासिनम् ।
कार्याकार्यं न विज्ञाय शूलमारोपयद्द्विजम् ॥ १७०.२२ ॥
पौरा जानपदाः सर्वे अश्रुपूर्णमुखास्तदा ।
हाहेत्युक्त्वा रुदन्त्यन्ये वदन्ति च पृथक्पृथक् ॥ १७०.२३ ॥
कुत्सितं च कृतं कर्म राज्ञा चण्डालचारिणा ।
ब्राह्मणो नैव वध्यो हि विशेषेण तपोवृतः ॥ १७०.२४ ॥
यदि रोषसमाचारो निर्वास्यो नगराद्बहिः ।
न जातु ब्राह्मणं हन्यात्सर्वपापेऽप्यवस्थितम् ॥ १७०.२५ ॥
राष्ट्रादेनं बहिष्कुर्यात्समग्रधनमक्षतम् ।
नाश्नाति च गृहे राजन्नाग्निर्नगरवासिनाम् ।
सर्वेऽप्युद्विग्नमनसो गृहव्याप्तिविवर्जिताः ॥ १७०.२६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे माण्डव्यशूलारोपणवर्णनं नाम सप्तत्यधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 171
अध्याय १७१
श्रीमार्कण्डेय उवाच -
कथितं ब्राह्मणं द्रष्टुं शूले क्षिप्तं तपोधनैः ।
नारायणसमीपे तु गताः सर्वे महर्षयः ॥ १७१.१ ॥
नारदो देवलो रैभ्यो यमः शातातपोऽङ्गिराः ।
वसिष्ठो जमदग्निश्च याज्ञवल्क्यो बृहस्पतिः ॥ १७१.२ ॥
कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽरुणिर्मुनिः ।
वालखिल्यादयोऽन्ये च सर्वेऽप्यृषिगणान्वयाः ॥ १७१.३ ॥
ददृशुः शूलमारूढं माण्डव्यमृषिपुंगवाः ।
प्रोचुर्नारायणं विप्रं किं कुर्मस्तव चेप्सितम् ॥ १७१.४ ॥
सर्वे ते तत्र सांनिध्यान्माण्डव्यस्य महात्मनः ।
संभ्रान्ता आगता ऊचुः किं मृतः किं नु जीवति ॥ १७१.५ ॥
अवस्थां तस्य ते दृष्ट्वा विषादमगमन्परम् ।
असहित्वा तु तद्दुःखं सर्वे ते मनसा द्विजाः ॥ १७१.६ ॥
पृच्छयतां यदि मन्येत राजानं भस्मसात्कुरु ।
तेषां तद्वचनं श्रुत्वा वाक्यं नारायणोऽब्रवीत् ॥ १७१.७ ॥
मयि जीवति मद्भ्राता ह्यवस्थामीदृशीं गतः ।
धिग्जीवितं च मे किंतु तपसो विद्यते फलम् ॥ १७१.८ ॥
दृष्ट्वा शूलस्थितं ज्येष्ठं मन्मनो नु विदीर्यते ।
परं किं तु करिष्यामि येन राष्ट्रं सराजकम् ॥ १७१.९ ॥
भस्मसाच्च करोम्यद्य भवद्भिः क्षम्यतामिह ।
एवमुक्त्वा गृहीत्वासौ करस्थमभिमन्त्रयेत् ॥ १७१.१० ॥
क्रोधेन पश्यते यावत्तावद्धुंकारकोऽभवत् ।
तेन हुङ्कारशब्देन ऋषयो विस्मितास्तदा ॥ १७१.११ ॥
माण्डव्यस्य समीपे तु ह्यपृच्छंस्ते द्विजोत्तमाः ।
निवारयसि किं विप्र शापं नृपजिघांसनम् ॥ १७१.१२ ॥
अपापस्य तु येनेह कृतमस्य जिघांसनम् ।
ऋषीणां वचनं श्रुत्वा कृच्छ्रान्माण्डव्यकोऽब्रवीत् ॥ १७१.१३ ॥
अभिवन्दामि वो मूर्ध्ना स्वागतं ऋषयः सदा ।
अर्घ्यसन्मानपूजार्हाः सर्वेऽत्रोपविशन्तु ते ॥ १७१.१४ ॥
निविष्टैकाग्रमनसा सर्वान्माण्डव्यकोऽब्रवीत् ॥ १७१.१५ ॥
प्राप्तं दुःखं मया घोरं पूर्वजन्मार्जितं फलम् ।
मा विषादं कुरुध्वं भोः कृतं पापं तु भुज्यते ॥ १७१.१६ ॥
ऋषय ऊचुः ।
केन कर्मविपाकेन इह जात्यन्तरं व्रजेत् ।
दानधर्मफलेनैव केन स्वर्गं च गच्छति ॥ १७१.१७ ॥
माण्डव्य उवाच -
अदत्तदाना जायन्ते परभाग्योपजीविनः ।
न स्नानं न जपो होमो नातिथ्यं न सुरार्चनम् ॥ १७१.१८ ॥
न पर्वणि पितृश्राद्धं न दानं द्विजसत्तमाः ।
व्रजन्ति नरके घोरे यान्ति ते त्वन्त्यजां गतिम् ॥ १७१.१९ ॥
पुनर्दरिद्राः पुनरेव पापाः पापप्रभावान्नरके वसन्ति ।
तेनैव संसरिणि मर्त्यलोके जीवादिभूते कृमयः पतङ्गाः ॥ १७१.२० ॥
ये स्नानशीला द्विजदेवभक्ता जितेन्द्रिया जीवदयानुशीलाः ।
ते देवलोकेषु वसन्ति हृष्टा ये धर्मशीला जितमानरोषाः ॥ १७१.२१ ॥
विद्याविनीता न परोपतापिनः स्वदारतुष्टाः परदारवर्जिताः ।
तेषां न लोके भयमस्ति किंचित्स्वभावशुद्धा गतकल्मषा हि ते ॥ १७१.२२ ॥
ऋषय ऊचुः ।
पूर्वजन्मनि विप्रेन्द्र किं त्वया दुष्कृतं कृतम् ।
येन कष्टमिदं प्राप्तं सन्धानं शूलगर्हितम् ॥ १७१.२३ ॥
शूलस्थं त्वां समालक्ष्य ह्यागताः सर्व एव हि ।
जीवन्तं त्वां प्रपश्याम त्वन्तरन्नवतारयन् ।
रुजासंतापजं दुःखं सोढ्वापि त्वमवेदनः ॥ १७१.२४ ॥
माण्डव्य उवाच -
स्वयमेव कृतं कर्म स्वयमेवोपभुज्यते ।
सुकृतं दुष्कृतं पूर्वे नान्ये भुञ्जन्ति कर्हिचित् ॥ १७१.२५ ॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारमुपगच्छति ॥ १७१.२६ ॥
न माता न पिता भ्राता न भार्या न सुताः सुहृत् ।
न कस्य कर्मणां लेपः स्वयमेवोपभुज्यते ॥ १७१.२७ ॥
श्रूयतां मम वाक्यं च भवद्भिः पृच्छितो ह्यहम् ।
पूर्वे वयसि भो विप्रा मलस्नानकृतक्षणः ॥ १७१.२८ ॥
अज्ञानाद्बालभावेन यूका कण्टेऽधिरोपिता ।
तैलाभ्यक्तशिरोगात्रे मया यूका घृता न हि ॥ १७१.२९ ॥
कङ्कतीं रोप्य केशेषु सासा कण्टेऽधिरोपिता ।
तेषु पापं कृतं सद्यः फलमेतन्ममाभवत् ॥ १७१.३० ॥
किंचित्कालं क्षपित्वाहं प्राप्स्ये मोक्षं निरामयम् ।
भवन्तस्त्विह सन्तापं मां कुरुध्वं महर्षयः ॥ १७१.३१ ॥
इमामवस्थां भुक्त्वाहं कंचिच्छपे न चोच्चरे ।
अहनि कतिचिच्छूले क्षपयिष्यामि किल्बिषम् ॥ १७१.३२ ॥
प्राक्तनं कर्म भुञ्जामि यन्मया संचितं द्विजाः ।
क्षन्तव्यमस्य राज्ञोऽथ कोपश्चैव विसर्ज्यताम् ॥ १७१.३३ ॥
श्रुत्वा तु तस्य तद्वाक्यं माण्डव्यस्य महर्षयः ।
प्रहर्षमतुलं लब्ध्वा साधु साध्वित्यपूजयन् ॥ १७१.३४ ॥
नारायण उवाच -
इदं जलं मन्त्रपूतं कस्मिन्स्थाने क्षिपाम्यहम् ।
येन राजा भवेद्भस्म सराष्ट्रः सपुरोहितः ॥ १७१.३५ ॥
माण्डव्य उवाच -
इदं जलं च रक्षस्व कालकूटविषोपमम् ।
समुद्रे क्षिपयिष्यामि देवकार्यं समुत्थितम् ॥ १७१.३६ ॥
अथ ते मुनयः सर्वे माण्डव्यं प्रणिपत्य च ।
आमन्त्रयित्वा हर्षाच्च कश्यपाद्या गृहान्ययुः ॥ १७१.३७ ॥
गच्छमानास्तु ते चोक्ताः पञ्चमेऽहनि तापसाः ।
आगन्तव्यं भवद्भिश्च मत्सकाशं प्रतिज्ञया ॥ १७१.३८ ॥
तथेति ते प्रतिज्ञाय नारदाद्या अदर्शनम् ।
गतेषु विप्रमुख्येषु शाण्डिली च तपोधना ॥ १७१.३९ ॥
द्वितीयेऽह्नि समायाता न तु बुद्ध्वाथ तं ऋषिम् ।
भर्तारं शिरसा धार्य रात्रौ पर्यटते स्म सा ॥ १७१.४० ॥
न दृष्टः शूलके विप्रो भराक्रान्त्या युधिष्ठिर ।
स्खलिता तस्य जानुभ्यां शूलस्थस्य पतिव्रता ॥ १७१.४१ ॥
सर्वाङ्गेषु व्यथा जाता तस्याः प्रस्खलनान्मुनेः ।
ईदृशीं वर्तमानां च ह्यवस्थां पूर्वदैविकीम् ॥ १७१.४२ ॥
पुनः पापफलं किंचिद्धा कष्टं मम वर्तते ।
व्यथितोऽहं त्वया पापे किमर्थं सूनकर्मणि ॥ १७१.४३ ॥
स्वैरिणीं त्वां प्रपश्यामि राक्षसी तस्करी नु किम् ।
एवमुक्त्वा क्षणं मोहात्क्रन्दमानो मुहुर्मुहुः ॥ १७१.४४ ॥
तपस्विनोऽथ ऋषयः सर्वे संत्रस्तमानसाः ।
पश्यमाना मुनेः कष्टं पृच्छन्ते ते युधिष्ठिर ॥ १७१.४५ ॥
पर्यटसे किमर्थं त्वं निशीये वहनं नु किम् ।
क्षिप्तं तु झोलिकाभारं किंवागमनकारणम् ।
व्यथामुत्पाद्य ऋषये दुःखाद्दुःखविलासिनि ॥ १७१.४६ ॥
शाण्डिल्युवाच -
नासुरीं न च गन्धर्वीं न पिशाचीं न राक्षसीम् ।
पतिव्रतां तु मां सर्वे जानन्तु तपसि स्थिताम् ॥ १७१.४७ ॥
न मे कामो न मे क्रोधो न वैरं न च मत्सरः ।
अज्ञानाद्दृष्टिमान्द्याच्च स्खलनं क्षन्तुमर्हथ ॥ १७१.४८ ॥
वहनं भर्तृसौख्याय दिवा सम्पीड्यते रुजा ।
अयं भर्ता विजानीथ झोलिकासंस्थितः सदा ॥ १७१.४९ ॥
भरणं पानं वस्त्रं च ददाम्येतस्य रोगिणः ।
ऋषिः शौनकमुख्योऽसौ शाण्डिलीं मां विजानत ॥ १७१.५० ॥
स्वभर्तृधर्मिणीं कोपं मा कुरुष्वातिथिं कुरु ।
सतां समीपं सम्प्राप्तां सर्वं मे क्षन्तुमर्हथ ॥ १७१.५१ ॥
ऋषय ऊचुः ।
परव्यथां न जानीषे व्यचरन्ती यदृच्छया ।
प्रभातेऽभ्युदिते सूर्ये तव भर्ता मरिष्यति ॥ १७१.५२ ॥
आत्मदुःखात्परं दुःखं न जानासि कुलाधमे ।
तेन वाक्येन घोरेण शाण्डिली विमनाभवत् ॥ १७१.५३ ॥
परं विषादमापन्ना क्षणं ध्यात्वाब्रवीद्वचः ।
कोपात्संरक्तनयना निरीक्षन्ती मुनींस्तदा ॥ १७१.५४ ॥
सतां गेहे किल प्राप्ता भवतां चापकारिणी ।
सामेनातिथिपूजायां शिष्टे च गृहमागते ॥ १७१.५५ ॥
भवद्भिरीदृगातिथ्यं कृतं चैव ममैव तु ।
स्वर्गापवर्गधर्मश्च भवद्भिर्न निरीक्षितम् ॥ १७१.५६ ॥
प्राजापत्यामिमां दृष्ट्वा मां यथा प्राकृताः स्त्रियः ।
भवन्तः स्त्रीबलं मेऽद्य पश्यन्तु दिवि देवताः ॥ १७१.५७ ॥
मरिष्यति न मे भर्ता ह्यादित्यो नोदयिष्यति ।
अन्धकारं जगत्सर्वं क्षीयते नाद्य शर्वरी ॥ १७१.५८ ॥
एवमुक्ते तया वाक्ये स्तम्भितेऽर्के तमोमयम् ।
न च प्रजायते सर्वं निर्वषट्कारसत्क्रियम् ॥ १७१.५९ ॥
स्वाहाकारः स्वधाकारः पञ्चयज्ञविधिर्नहि ।
स्नानं दानं जपो नास्ति सन्ध्यालोपव्यतिक्रमः ।
षण्मासं च तदा पार्थ लुप्तपिण्डोदकक्रियम् ॥ १७१.६० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शाण्डिलीऋषिसंवादवर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 172
अध्याय १७२
श्रीमार्कण्डेय उवाच -
अथ ते ऋषयः सर्वे देवाश्चेन्द्रपुरोगमाः ।
माण्डव्यस्याश्रमे पुण्ये समीयुर्नर्मदातटे ॥ १७२.१ ॥
शङ्खदुन्दुभिनादेन दीपिकाज्वलनेन च ।
अप्सरोगीतनादेन नृत्यन्त्यो वारयोषितः ॥ १७२.२ ॥
कथानकैः स्तुवत्यन्ये तस्य शूलाग्रधारिणः ।
अष्टाशीतिसहस्राणि स्नातकानां तपस्विनाम् ॥ १७२.३ ॥
समाजे त्रिदशैः सार्द्धं तत्र ते च दिदृक्षया ।
ब्रह्मविष्णुमहेशानास्तत्र हर्षात्समागताः ॥ १७२.४ ॥
मातरो मल्लिकाद्याश्च क्षेत्रपाला विनायकाः ।
दिक्पाला लोकपालाश्च गङ्गाद्याश्च सरिद्वराः ॥ १७२.५ ॥
ऋषिदेवसमाजे तु नित्यं हर्षप्रमोदने ।
तत्र राजा समायातः पौरजानपदैः सह ॥ १७२.६ ॥
दृष्ट्वा कौतूहलं तत्र व्याकुलीकृतमानसम् ।
वित्रस्तमनसो भूत्वा भयात्सर्वे समास्थिताः ॥ १७२.७ ॥
तस्मिन्समागमे दिव्ये ब्रह्मविष्ण्वीशमब्रुवन् ।
भो माण्डव्य महासत्त्व वरदास्तेऽमरैः सह ॥ १७२.८ ॥
अनेककष्टतपसा तव सिद्धिर्भविष्यति ।
प्रार्थयस्व यथाकामं यस्ते मनसि रोचते ॥ १७२.९ ॥
अनादित्यमयं लोकं निर्वषट्कारमाकुलम् ।
नष्टधर्मं विजानीहि प्रकृतिस्थं कुरुष्व च ।
अनुग्रहं तु शाण्डिल्याः प्रार्थयाम द्विजोत्तम ॥ १७२.१० ॥
एष ते कष्टदो राजा समायातस्तवाग्रतः ।
संभूषयस्व विप्रर्षे जनं देवासुरं गणम् ॥ १७२.११ ॥
माण्डव्य उवाच -
यदि प्रसन्ना मे देवाः समायाताः सुरैः सह ।
त्रिकालमत्र तीर्थे च स्थातव्यमृषिभिः सह ॥ १७२.१२ ॥
भवतां तु प्रसादेन रुजा मे शाम्यतां सदा ।
एवमस्त्विति देवेशा यावज्जल्पन्ति पाण्डव ॥ १७२.१३ ॥
तावद्रक्षो गृहीत्वाऽग्रे कन्यां कामप्रमोदिनीम् ।
उवाच भगवञ्छापं पुरा दत्त्वोर्वशी मम ॥ १७२.१४ ॥
यदा कन्यां हरे रक्षःशापान्तस्ते भविष्यति ।
तेन मे गर्हितं कर्म शापेनाकृतबुद्धिना ॥ १७२.१५ ॥
क्षन्तव्यमिति चोक्त्वा च गतश्चादर्शनं पुनः ।
गते चैव तु सा कन्या दृष्ट्वा पद्मदलेक्षणा ॥ १७२.१६ ॥
मन्त्रयित्वा सुरैः सर्वैर्दत्ता माण्डव्यधीमते ।
तां वज्रशूलिकां प्लाव्य पवित्रैर्नर्मदोदकैः ॥ १७२.१७ ॥
माण्डव्यमृषिमुत्तार्य जयशब्दादिमङ्गलैः ।
विवाहयित्वा तां कन्यां माण्डव्यर्षिपुंगवः ॥ १७२.१८ ॥
अभिवाद्य च तान् सर्वान् दानसन्मानगौरवैः ।
अथ राजा समीपस्थो रत्नैश्च विविधैरपि ॥ १७२.१९ ॥
धिग्वादैर्निन्दितः सर्वैस्तैर्जनैर्भूषितः पुनः ।
राज्ञा च ब्राह्मणाः सर्वे भूषणाच्छादनाशनैः ॥ १७२.२० ॥
सुवर्णकोटिदानेन तुष्टान्कृत्वा क्षमापिताः ।
वृत्ते विवाह आहूय शाण्डिलीं तामथाब्रवीत् ॥ १७२.२१ ॥
मानयस्व इमान् विप्रान्मोचयस्व दिवाकरम् ।
अपहृत्य तमो येन कृपा सद्यः प्रवर्तते ॥ १७२.२२ ॥
ऋषीणां वचनं श्रुत्वा शाण्डिली दुःखिताब्रवीत् ।
उदितेऽर्के तु मे भर्ता मृत्युं यास्यति भो द्विजाः ॥ १७२.२३ ॥
तं कथं मोचयामीह ह्यात्मनोऽनिष्टसिद्धये ।
क्रियाप्रवर्तनाच्चाद्य किं कार्यं मे महर्षयः ॥ १७२.२४ ॥
निःपुंसी स्त्री ह्यनाथाहं भवामि भवतो मतम् ।
तिष्ठ त्वमन्धकारे तु नेच्छामि रविणोदयम् ॥ १७२.२५ ॥
तेन वाक्येन ते सर्वे देवासुरमहर्षयः ।
शिरःसंचालनाः सर्वे साधु साध्विति चाब्रुवन् ॥ १७२.२६ ॥
पतिव्रते महाभागे शृणु वाक्यं तपोधने ।
मन्यसे यदि नः सर्वान्कुरुष्व वचनं च यत् ॥ १७२.२७ ॥
शाण्डिल्युवाच -
येन मे न मरेद्भर्ता येन सत्यं मुनेर्वचः ।
तत्कुरुध्वं विचार्याशु येन संवर्धते सुखम् ॥ १७२.२८ ॥
तस्यास्तद्वचनं श्रुत्वा स्वप्नावस्थाकृतो हृषिः ।
अन्तर्हितो मुहूर्तं च शाण्डिल्याश्च प्रपश्य ताम् ॥ १७२.२९ ॥
पुनरादाय ते सर्वे कृत्वा निर्व्रणसत्तनुं स्नापितो नर्मदातोये शाण्डिल्यायै समर्पितः ॥ १७२.३० ॥
ततः सा हृष्टमनसा पतिं दृष्ट्वा तु तैजसम् ।
प्रणम्य तानृषीन् देवान् विमलार्कं जगत्कृतम् ॥ १७२.३१ ॥
क्रियाप्रवर्तिताः सर्वे देवगन्धर्वमानुषाः ।
हृष्टतुष्टा गताः सर्वे स्वमाश्रमपदं महत् ॥ १७२.३२ ॥
पतिव्रता स्वभर्त्रा सा मासमेवाश्रमे स्थिता ।
माण्डव्येनाप्यनुज्ञाता ययौ नत्वा स्वमाश्रमम् ॥ १७२.३३ ॥
गतेषु तेषु सर्वेषु स्थापयामास चाच्युतम् ।
माण्डव्येश्वरनामानं नारायण इति स्मृतम् ॥ १७२.३४ ॥
दिव्यं वर्षसहस्रं तु पूजयामास भारत ।
गतोऽसावृषिसङ्घैश्च सहितोऽमरपर्वतम् ॥ १७२.३५ ॥
तपस्तपन्तौ तौ तत्र ह्यद्यापि किल भारत ।
भ्रातरौ संयतात्मानौ ध्यायतः परमं पदम् ॥ १७२.३६ ॥
तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
पितरस्तस्य तृप्यन्ति पिण्डदानाद्दशाब्दिकम् ॥ १७२.३७ ॥
देवगृहे तु पक्षादौ यः करोति विलेपनम् ।
गोदानशतसाहस्रे दत्ते भवति यत्फलम् ॥ १७२.३८ ॥
उपलेपनेन द्विगुणमर्चने तु चतुर्गुणम् ।
दीपप्रज्वलने पुण्यमष्टधा परिकीर्तितम् ॥ १७२.३९ ॥
दिव्यनेत्रधरो भूत्वा त्रैलोक्ये सचराचरे ।
दध्ना मधुघृतैर्देवं पयसा नर्मदोदकैः ॥ १७२.४० ॥
स्नपनं ये प्रकुर्वन्ति पुष्पमालाविलेपनैः ।
येऽर्चयन्ति विरूपाक्षं देवं नारायणं हरिम् ॥ १७२.४१ ॥
तेऽपि दिव्यविमानेन क्रीडन्ते कल्पसंख्यया ।
दीपाष्टकं तु यः कुर्यादष्टमीं च चतुर्दशीम् ॥ १७२.४२ ॥
एकादश्यां तु कृष्णस्य न पश्यन्ति यमं तु ते ।
फलैर्नानाविधैः शुभ्रैर्यः कुर्याल्लिङ्गपूरणम् ॥ १७२.४३ ॥
तेऽपि यान्ति विमानेन सिद्धचारणसेविताः ।
घण्टा चैव पताका च विमाने पुष्पमालिका ॥ १७२.४४ ॥
वादित्राणि यथार्हाणि प्रान्ते च गच्छते शिवम् ।
देवालयं तु यः कुर्याद्वैष्णवं माण्डवेश्वरम् ॥ १७२.४५ ॥
स्वर्गे वसति धर्मात्मा यावदाभूतसम्प्लवम् ।
माण्डव्यनारायणाख्ये विप्रान् भोजयतेऽग्रतः ॥ १७२.४६ ॥
एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ।
आश्विने मासि सम्प्राप्ते शुक्लपक्षे चतुर्दशीम् ॥ १७२.४७ ॥
कृतोपवासनियमो रात्रौ जागरणेन च ।
दीपमालां चतुर्दिक्षु पूजां कृत्वा तु शक्तितः ॥ १७२.४८ ॥
नारी वा पुरुषो वापि नृत्यगीतप्रवादनैः ।
प्रभाते विमले सूर्ये स्नानादिकविधिं नृप ॥ १७२.४९ ॥
अभिनिर्वर्त्य मौनेन पश्यते देवमीदृशम् ।
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ॥ १७२.५० ॥
अथवा मार्गशीर्षे च चैत्रवैशाखयोरपि ।
श्रावणे वा महाराज सर्वकालेऽथवापि च ॥ १७२.५१ ॥
शिवरात्रिसमं पुण्यमित्येवं शिवभाषितम् ।
वाजपेयाश्वमेधाभ्यां फलं भवति नान्यथा ॥ १७२.५२ ॥
दुर्भगा दुःखिता वन्ध्या दरिद्रा च मृतप्रजा ।
स्नाति रुद्रघटैर्या स्त्री सर्वान्कामानवाप्नुयात् ॥ १७२.५३ ॥
कृमिकीटपतङ्गाश्च तस्मिंस्तीर्थे तु ये मृताः ।
स्वर्गं प्रयान्ति ते सर्वे दिव्यरूपधरा नृप ॥ १७२.५४ ॥
अनाशके जलेऽग्नौ तु ये मृता व्याधिपीडिताः ।
अनिवर्तिका गतिस्तेषां रुद्रलोके ह्यसंशयम् ॥ १७२.५५ ॥
नित्यं नमति यो राज शिवनारायणावुभौ ।
गोदानफलमाप्नोति तस्य तीर्थप्रभावतः ॥ १७२.५६ ॥
देवालये तु राजेन्द्र यश्च कुर्यात्प्रदक्षिणाम् ।
प्रदक्षिणीकृता तेन ससागरधरा धरा ॥ १७२.५७ ॥
सार्द्धं शतं च तीर्थानि मल्लिकाभवनाद्बहिः ।
तस्य तीर्थप्रमाणं तु विस्तरं राजसत्तम ॥ १७२.५८ ॥
सूत्रेण वेष्टयेत्क्षेत्रमथवा शिवमन्दिरम् ।
अथवा शिवलिङ्गं च तस्य पुण्यफलं शृणु ॥ १७२.५९ ॥
जम्बूद्वीपश्च कृतस्नश्च शाल्मली कुशक्रौञ्चकौ ।
शाकपुष्करगोमेदैः सप्तद्वीपा वसुंधरा ॥ १७२.६० ॥
भूषिता तेन राजेन्द्र सशैलवनकानना ।
रेवायां दक्षिणे भागे शिवक्षेत्रात्समीपतः ॥ १७२.६१ ॥
देवखातं महापुण्यं निर्मितं त्रिदशैरपि ।
तस्मिन् यः कुरुते स्नानं मुच्यते सर्वपातकैः ॥ १७२.६२ ॥
पूर्णिमायाममावस्यां व्यतीपातेऽर्कसंक्रमे ।
श्राद्धं च संग्रहे कुर्यात्स गच्छेत्परमां गतिम् ॥ १७२.६३ ॥
देवखाते त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।
तिष्ठन्ति ऋषिभिः सार्द्धं पितृदेवगणैः सह ॥ १७२.६४ ॥
तत्र तीर्थेऽश्विने मासि चतुर्दश्यां विशेषतः ।
वायुमार्गे स्थितः शक्रस्तिष्ठते दैवतैः सह ॥ १७२.६५ ॥
पृथिव्यां यानि तीर्थानि सरितः सागरास्तथा ।
विंशति तानि सर्वाणि देवखाते दिनद्वयम् ॥ १७२.६६ ॥
गयाशिरे च यत्पुण्यं प्रयागे मकरकण्टके ।
प्रयागे सोमतीर्थे च तत्पुण्यं माण्डवेश्वरे ॥ १७२.६७ ॥
पट्टबन्धेन यत्पुण्यं मात्रायां लकुलेश्वरे ।
आश्विन्यामश्विनीयोगे तत्पुण्यं माण्डवेश्वरे ॥ १७२.६८ ॥
उज्जयिन्यां महाकाले वाराणस्यां त्रिपुष्करे ।
संनिहत्यां रविग्रस्ते माण्डव्याख्ये सनातनम् ॥ १७२.६९ ॥
इति ज्ञात्वा महाराज सर्वतीर्थेषु चोत्तमम् ।
पित्ःन्देवान् समभ्यर्च्य स्नानदानादिपूजनैः ॥ १७२.७० ॥
चतुर्दश्यां निराहारः स्थितो भूत्वा शुचिव्रतः ।
पूजयेत्परया भक्त्या रात्रौ जागरणे शिवम् ॥ १७२.७१ ॥
स्नानैश्च विविधैर्देवं पुष्पागरुविलेपनैः ।
प्रभाते पौर्णमास्यां तु स्नानादिविधितर्पणैः ॥ १७२.७२ ॥
श्राद्धेन हव्यकव्येन शिवपूजार्चनेन च ।
अग्निष्टोमादियज्ञैश्च विधिवच्चाप्तदक्षिणैः ॥ १७२.७३ ॥
धौतपापो विशुद्धात्मा फलते फलमुत्तमम् ।
गोसहस्रप्रदानेन दत्तं भवति भारत ॥ १७२.७४ ॥
स्नानाद्यैर्विधिवत्तत्र तद्दिने शिवसन्निधौ ।
हिरण्यं वृषभं धेनुं भूमिं गोमिथुनं हयम् ॥ १७२.७५ ॥
शिवमुद्दिश्य वै वस्त्रयुग्मे दद्यात्सुरूपिणे ।
पादुकोपानहौ छत्रं भाजनं रक्तवाससी ॥ १७२.७६ ॥
होमं जाप्यं तथा दानमक्षयं सर्वमेव तत् ।
ऋचमेकां तु ऋग्वेदे यजुर्वेदे यजुस्तथा ॥ १७२.७७ ॥
सामैकं सामवेदे तु जपेद्देवाग्रसंस्थितः ।
सम्यग्वेदफलं तस्य भवेद्वै नात्र संशयः ॥ १७२.७८ ॥
गायत्रीजाप्यमात्रस्तु वेदत्रयफलं लभेत् ।
कुलकोटिशतं साग्रं लभते तु शिवार्चनात् ॥ १७२.७९ ॥
स्नाने दाने तथा श्राद्धे जागरे गीतवादिते ।
अनिवर्तिका गतिस्तस्य शिवलोकात्कदाचन ॥ १७२.८० ॥
कालेन महताविष्टो मर्त्यलोके समाविशेत् ।
राजा भवति मेधावी सर्वव्याधिविवर्जितः ॥ १७२.८१ ॥
जीवेद्वर्षशतं साग्रं पुत्रपौत्रधनान्वितः ।
तच्च तीर्थं पुनः स्मृत्वा लीयमानो महेश्वरे ॥ १७२.८२ ॥
उपास्ते यस्तु वै सन्ध्यां तस्मिंस्तीर्थे च पर्वणि ।
साङ्गोपाङ्गैश्चतुर्वेदैर्लभते फलमुत्तमम् ॥ १७२.८३ ॥
तत्र सर्वं शिवक्षेत्राच्छरपातं समन्ततः ।
न संचरेद्भयोद्विग्ना ब्रह्महत्या नराधिप ॥ १७२.८४ ॥
यत्र तत्र स्थितो वृक्षान् पश्यते तीर्थतत्परः ।
विविधैः पातकैर्मुक्तो मुच्यते नात्र संशयः ॥ १७२.८५ ॥
श्वभ्री तत्र महाराज जलमध्ये प्रदृश्यते ।
कथानिका पुराणोक्ता वानरी तीर्थसेवनात् ॥ १७२.८६ ॥
तत्र कूपो महाराज तिष्ठते देवनिर्मितः ।
शिवस्य पश्चिमे भागे शिवक्षेत्रमनुत्तमम् ॥ १७२.८७ ॥
वृषोत्सर्गं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
क्रीडन्ति पितरस्तस्य स्वर्गलोके यदृच्छया ॥ १७२.८८ ॥
अगम्यागमने पापमयाज्ययाजने कृते ।
स्तेयाच्च ब्रह्मगोहत्यागुरुघाताच्च पातकम् ।
तत्सर्वं नश्यते पापं वृषोत्सर्गे कृते तु वै ॥ १७२.८९ ॥
माण्डव्यतीर्थमाहात्म्यं यः शृणोति समाधिना ।
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ १७२.९० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये माण्डव्यतीर्थमाहात्म्यवर्णनं नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 173
अध्याय १७३
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
नर्मदादक्षिणे कूले सर्वपापप्रणाशनम् ॥ १७३.१ ॥
सिद्धेश्वरमिति ख्यातं महापातकनाशनम् ।
यत्र शुद्धिं परां प्राप्तो देवदेवो महेश्वरः ।
पुरा हत्यायुतः पार्थ देवदेवस्त्रिशूलधृक् ॥ १७३.२ ॥
पुरा पञ्चशिरा आसीद्ब्रह्मा लोकपितामहः ।
तेनानृतं वचश्चोक्तं कस्मिंश्चित्कारणान्तरे ॥ १७३.३ ॥
तच्छ्रुत्वा सहसा तस्मै चुकोप परमेश्वरः ।
छेदयामास भगवान्मूर्धानं करजैस्तदा ॥ १७३.४ ॥
तस्य तत्करसंलग्नं च्यवते न कदाचन ।
ततो हि देवदेवेशः पर्यटन् पृथिवीमिमाम् ॥ १७३.५ ॥
ततो वाराणसीं प्राप्तस्तस्यां तदपतच्छिरः ।
पतिते तु कपाले च ब्रह्महत्या न मुञ्चति ॥ १७३.६ ॥
ततस्तु सागरे गत्वा पूर्वे च दक्षिणे तथा ।
पश्चिमे चोत्तरे पार्थ देवदेवो महेश्वरः ॥ १७३.७ ॥
पर्यटन्सर्वतीर्थेषु ब्रह्महत्या न मुञ्चति ।
नर्मदादक्षिणे कूले सुतीर्थं प्राप्तवान् प्रभुः ॥ १७३.८ ॥
कुलकोटिं समासाद्य प्रार्थयामास चात्मवान् ।
प्रायश्चित्तं ततः कृत्वा बभूव गतकल्मषः ॥ १७३.९ ॥
ततो निष्कल्मषो जातो देवदेवो महेश्वरः ।
हत्वा सुरेभ्यस्तत्स्थानं ततश्चान्तर्दधे प्रभुः ॥ १७३.१० ॥
तदाप्रभृति तत्तीर्थं शुद्धरुद्रेति कीर्तितम् ।
विख्यातं त्रिषु लोके ब्रह्महत्याहरं परम् ॥ १७३.११ ॥
मासे मासे सिते पक्षेऽमावास्यायां युधिष्ठिर ।
स्नात्वा तत्र विधानेन तर्पयेत्पितृदेवताः ॥ १७३.१२ ॥
दद्यात्पिण्डं पित्ःणां तु भावितेनान्तरात्मना ।
तस्य ते द्वादशाब्दानि सुतृप्ताः पितरो नृप ॥ १७३.१३ ॥
गन्धधूपप्रदीपाद्यैरभ्यर्च्य परमेश्वरम् ।
शुद्धेश्वराभिधानं तु शिवलोके महीयते ॥ १७३.१४ ॥
एतत्ते कथितं राजञ्छुद्धरुद्रमनुत्तमम् ।
मया श्रुतं यथा देवसकाशाच्छूलपाणिनः ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ १७३.१५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शुद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिसप्तत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 174
अध्याय १७४
श्रीमार्कण्डेय उवाच -
गोपेश्वरं ततो गच्छेदुत्तरे नर्मदातटे ।
यत्र स्नानेन चैकेन मुच्यन्ते पातकैर्नराः ॥ १७४.१ ॥
तत्र तीर्थे तु यः स्नात्वा कुरुते प्राणसंक्षयम् ।
बर्हियुक्तेन यानेन स गच्छेच्छिवमन्दिरे ॥ १७४.२ ॥
क्रीडित्वा सुचिरं कालं शिवलोके नराधिप ।
इह मानुष्यतां प्राप्य राजा भवति वीर्यवान् ॥ १७४.३ ॥
हस्त्यश्वरथसम्पन्नो दासीदाससमन्वितः ।
पूज्यमानो नरेन्द्रैश्च जीवेद्वर्षशतं नरः ॥ १७४.४ ॥
सम्प्राप्ते कार्त्तिके मासि नवम्यां शुक्लपक्षतः ।
सोपवासः शुचिर्भूत्वा दीपकांस्तत्र दापयेत् ॥ १७४.५ ॥
गन्धपुष्पैः समभ्यर्च्य रात्रौ कुर्वीत जागरम् ।
तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नराधिप ॥ १७४.६ ॥
यावत्पुण्यं फलं संख्या दीपकानां तथैव च ।
तावद्युगसहस्राणि शिवलोके महीयते ॥ १७४.७ ॥
तस्मिंस्तीर्थे तु राजेन्द्र लिङ्गपूरणकं विधिम् ।
तथैव पद्मकैश्चैव दधिभक्तैस्तथैव च ॥ १७४.८ ॥
यस्तु कुर्यान्नरश्रेष्ठ तस्य पुण्यफलं शृणु ।
यावन्ति तिलसंख्यानि दधिभक्तं तथैव च ॥ १७४.९ ॥
पद्मसंख्या शिवे लोके मोदते कालमीप्सितम् ।
तस्मिंस्तीर्थे तु राजेन्द्र यत्किंचिद्दीयते नृप ॥ १७४.१० ॥
सर्वं कोटिगुणं तस्य संख्यातुं वा न शक्यते ।
एवं ते कथितं सर्वं सर्वतीर्थमनुत्तमम् ॥ १७४.११ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोपेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःसप्तत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 175
अध्याय १७५
श्रीमार्कण्डेय उवाच -
उत्तरे नर्मदाकूले भृगुक्षेत्रस्य मध्यतः ।
कपिलेश्वरं तु विख्यातं विशेषात्पापनाशनम् ॥ १७५.१ ॥
योऽसौ सनातनो देवः पुराणे परिपठ्यते ।
वासुदेवो जगन्नाथः कपिलत्वमुपागतः ॥ १७५.२ ॥
पातालं सुतलं नाम तस्यैव नितलं ह्यधः ।
गभस्तिगं च तस्याधो ह्यन्धतामिस्रमेव च ॥ १७५.३ ॥
पातालं सप्तमं यच्च ह्यधस्तात्संस्थितं महत् ।
वसते तत्र वै देवः पुराणः परमेश्वरः ॥ १७५.४ ॥
स ब्रह्मा स महादेवः स देवो गरुडध्वजः ।
पूज्यमानः सुरैः सिद्धैस्तिष्ठते ब्रह्मवादिभिः ॥ १७५.५ ॥
वसतस्तस्य राजेन्द्र कपिलस्य जगद्गुरोः ।
विनाशं चाग्रतः प्राप्ताः क्षणेन सगरात्मजाः ॥ १७५.६ ॥
भस्मीभूतांस्तु तान्दृष्ट्वा कपिलो मुनिसत्तमः ।
जगाम परमं शोकं चिन्त्यमानोऽथ किल्बिषम् ॥ १७५.७ ॥
सर्वसङ्गपरित्यागे चित्ते निर्विषयीकृते ।
अयुक्तं षष्टिसहस्राणां कर्तं मम विनाशनम् ॥ १७५.८ ॥
कृतस्य करणं नास्ति तस्मात्पापविनाशनम् ।
गत्वा तु कापिलं तीर्थं मोचयाम्यघमात्मनः ॥ १७५.९ ॥
पातालं तु ततो मुक्त्वा कपिलो मुनिसत्तमः ।
तपश्चचार सुमहन्नर्मदातटमास्थितः ॥ १७५.१० ॥
व्रतोपवासैर्विविधैः स्नानदानजपादिकैः ।
परं निर्वाणमापन्नः पूजयन्रुद्रमव्ययम् ॥ १७५.११ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
गोसहस्रफलं तस्य लभते नात्र संशयः ॥ १७५.१२ ॥
ज्येष्ठमासे तु सम्प्राप्ते शुक्लपक्षे चतुर्दशी ।
तत्र स्नात्वा विधानेन भक्त्या दानं प्रयच्छति ॥ १७५.१३ ॥
पात्रभूताय विप्राय स्वल्पं वा यदि वा बहु ।
अक्षयं तत्फलं प्रोक्तं शिवेन परमेष्ठिना ॥ १७५.१४ ॥
अङ्गारकदिने प्राप्ते चतुर्थ्यां नवमीषु च ।
स्नानं करोति पुरुषो भक्त्योपोष्य वराङ्गना ॥ १७५.१५ ॥
रूपमैश्वर्यमतुलं सौभाग्यं संततिं पराम् ।
लभते सप्तजन्मानि नित्यं नित्यं पुनः पुनः ॥ १७५.१६ ॥
पौर्णमास्याममावास्यां स्नात्वा पिण्डं प्रयच्छति ।
तस्य ते द्वादशाब्दानि तृप्ता यान्ति सुरालयम् ॥ १७५.१७ ॥
तत्र तीर्थे तु यो भक्त्या दद्याद्दीपं सुशोभनम् ।
जायते तस्य राजेन्द्र महादीप्तिः शारीरजा ॥ १७५.१८ ॥
तत्र तीर्थे मृतानां तु जन्तूनां सर्वदा किल ।
अनिवर्तिका भवेत्तेषां गतिस्तु शिवमन्दिरात् ॥ १७५.१९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपिलेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चसप्ताधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 176
अध्यायः १७६
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल पिङ्गलावर्तमुत्तमम् ।
तीर्थं सर्वगुणोपेतं कामिकं भुवि दुर्लभम् ॥ १७६.१ ॥
वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् ।
पिङ्गलेश्वरमासाद्य तत्सर्वं विलयं व्रजेत् ॥ १७६.२ ॥
तत्र स्नानं च दानं च देवखाते कृतं नृप ।
अक्षयं तद्भवेत्सर्वमित्येवं शङ्करोऽब्रवीत् ॥ १७६.३ ॥
पृथिव्यां सर्वतीर्थेषु समुद्धृत्य शुभोदकम् ।
मुक्तं तत्र सुरैः खात्वा देवखातं ततोऽभवत् ॥ १७६.४ ॥
युधिष्ठिर उवाच -
कथं तु देवखातं तत्संजातं द्विजसत्तम ।
सुराः सर्वे कथं तत्र मुमुचुर्वारि तीर्थजम् ।
सर्वं कथय मे विप्र श्रवणे लम्पटं मनः ॥ १७६.५ ॥
श्रीमार्कण्डेय उवाच -
यदा तु शूलशुद्ध्यर्थं रुद्रो देवगणैः सह ।
बभ्राम पृथिवीं सर्वां कमण्डलुधरः शुभाम् ॥ १७६.६ ॥
प्रभासाद्येषु तीर्थेषु स्नानं चक्रुः सुरास्तदा ।
सर्वतीर्थोत्थितं तोयं पात्रे वै निहितं तु तैः ॥ १७६.७ ॥
शूलभेदमनुप्राप्य शूलं शुद्धं तु शूलिनः ।
तत्रोत्थमुदकं गृह्य आगता भृगुकच्छके ॥ १७६.८ ॥
तत्रापश्यंस्ततो ह्यग्निं च पिङ्गलाक्षं च रोगिणम् ।
तपस्युग्रे व्यवसितं ध्यायमानं महेश्वरम् ॥ १७६.९ ॥
हविर्भागैस्तु विप्राणां राज्ञां चैवामयाविनाम् ।
दृष्ट्वा तु बहुरोगार्तमग्निं देवमुखं सुराः ।
प्राहुस्ते सहिता देवं शङ्करं लोकशङ्करम् ॥ १७६.१० ॥
देवा ऊचुः ।
प्रसादः क्रियतां शम्भो पिङ्गलस्यामयाविनः ।
यथा हि नीरुजः कायो हविषां ग्रहणक्षमः ।
पुनर्भवति पिङ्गस्तु तथा कुरु महेश्वर ॥ १७६.११ ॥
ईश्वर उवाच -
भोभोः सुरा हि तपसा तुष्टोऽहं वो विशेषतः ।
वचनाच्च विशेषेण ददाम्यभिमतं वरम् ॥ १७६.१२ ॥
पिङ्गल उवाच -
यदि तुष्टोऽसि देवेश दीयते देव चेप्सितम् ।
चन्द्रादित्यौ च नयने कृत्वात्र कलया स्थितः ॥ १७६.१३ ॥
तथा पुनर्नवः कायो भवेद्वै मम शङ्कर ।
तथा कुरु विरूपाक्ष नमस्तुभ्यं पुनः पुनः ॥ १७६.१४ ॥
मार्कण्डेय उवाच -
ततः स भगवाञ्छम्भुर्मूर्तिमादित्यरूपिणीम् ।
कृत्वा तु तस्य तद्रोगमपानुदत शङ्करः ॥ १७६.१५ ॥
ततः पुनर्नवीभूतः पुनः प्रोवाच शङ्करम् ।
अत्रैव स्थीयतां शम्भो तथैव भास्करः स्वयम् ॥ १७६.१६ ॥
प्राणिनामुपकाराय रोगाणामुपशान्तये ।
पापानां ध्वंसनार्थाय श्रेयसां चैव वृद्धये ॥ १७६.१७ ॥
एवमुक्तस्तु भगवान्पिङ्गलेन महात्मना ।
अवतारं च कृतवान् गीर्वाणानिदमब्रवीत् ॥ १७६.१८ ॥
ईश्वर उवाच -
मुञ्चध्वमुदकं देवास्तीर्थेभ्यो यत्समाहृतम् ।
मम चोत्तरतः कृत्वा खातं देवमयं शुभम् ॥ १७६.१९ ॥
तत्र निक्षिप्यतां वारि सर्वरोगविनाशनम् ।
सर्वपापहरं दिव्यं सर्वैरपि सुरादिभिः ॥ १७६.२० ॥
एवमुक्ताः सुराः सर्वे खातं कृत्वा तथोत्तरे ।
वयस्त्रिंशत्कोटिगणैर्मुक्तं तत्तीर्थजं जलम् ॥ १७६.२१ ॥
प्रोचुस्ते सहिताः सर्वे विरूपाक्षपुरोगमाः ।
यः कश्चिद्देवखातेऽस्मिन्मृदालम्भनपूर्वकम् ॥ १७६.२२ ॥
स्नानं कृत्वा रविदिने संस्नाय नर्मदाजले ।
श्राद्धं कृत्वा पितृभ्यो वै दानं दत्त्वा स्वशक्तितः ॥ १७६.२३ ॥
पूजयिष्यति पिङ्गेशं तस्य वासस्त्रिविष्टपे ।
भविष्यति सुरैरुक्तं शृणोति सकलं जगत् ॥ १७६.२४ ॥
आमया भुवि मर्त्यानां क्षयरोगविचर्चिकाः ।
व्याधयो विकृताकाराः कासश्वासज्वरोद्भवाः ॥ १७६.२५ ॥
एकद्वित्रिचतुर्थाहा ये ज्वरा भूतसम्भवाः ।
ये चान्ये विकृता दोषा दद्रुश्च कामलं तथा ॥ १७६.२६ ॥
दिनैस्ते सप्तभिर्यान्ति नाशं स्नानैर्रवेर्दिने ।
शतभेदप्रभिन्ना ये कुष्ठा बहुविधास्तथा ॥ १७६.२७ ॥
शतमादित्यवाराणां स्नायादष्टोत्तरं तु यः ।
सम्पूज्य शङ्करं दद्यात्तिलपात्रं द्विजातये ॥ १७६.२८ ॥
नश्यन्ति तस्य कुष्ठानि गरुडेनेव पन्नगाः ।
एवमुक्त्वा गताः सर्वे त्रिदशास्त्रिदशालयम् ॥ १७६.२९ ॥
मार्कण्डेय उवाच -
नदीषु देवखातेषु तडागेषु सरित्सु च ।
स्नानं समाचरेन्नित्यं नरः पापैः प्रमुच्यते ॥ १७६.३० ॥
षष्टितीर्थसहस्रेषु षष्टितीर्थशतेषु च ।
यत्फलं स्नानदानेषु देवखाते ततोऽधिकम् ॥ १७६.३१ ॥
देवखातेषु यः स्नात्वा तर्पयित्वा पितॄन्नृप ।
पूजयेद्देवदेवेशं पिङ्गलेश्वरमुत्तमम् ॥ १७६.३२ ॥
सोऽश्वमेधस्य यज्ञस्य वाजपेयस्य भारत ।
द्वयोः पुण्यमवाप्नोति नात्र कार्या विचारणा ॥ १७६.३३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पिङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्सप्तत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 177
अध्याय १७७
श्रीमार्कण्डेय उवाच -
भूतीश्वरं ततो गच्छेत्सर्वतीर्थेष्वनुत्तमम् ।
दर्शनादेव राजेन्द्र यस्य पापं प्रणश्यति ॥ १७७.१ ॥
तत्र स्थाने पुरा पार्थ देवदेवेन शूलिना ।
उद्धूलनं कृतं गात्रे तेन भूतीश्वरं तु तत् ॥ १७७.२ ॥
पुष्ये वा जन्मनक्षत्रे अमावास्यां विशेषतः ।
भूतीश्वरे नरः स्नात्वा कुलकोटिं समुद्धरेत् ॥ १७७.३ ॥
तत्र स्थाने तु यो भक्त्या कुरुते ह्यङ्गगुण्ठनम् ।
तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नराधिप ॥ १७७.४ ॥
यावन्तो भूतिकणिका गात्रे लग्नाः शिवालये ।
तावद्वर्षसहस्राणि शिवलोके महीयते ॥ १७७.५ ॥
सर्वेषामेव स्नानानां भस्मस्नानं परं स्मृतम् ।
पुराणैरृषिभिः प्रोक्तं सर्वशास्त्रेष्वनुत्तमम् ॥ १७७.६ ॥
एककालं द्विकालं वा त्रिकालं चापि यः सदा ।
स्नानं करोति चाग्नेयं पापं तस्य प्रणश्यति ॥ १७७.७ ॥
दिव्यस्नानाद्वरं स्नानं वायव्यं भरतर्षभ ।
वायव्यादुत्तमं ब्राह्म्यं वरं ब्राह्म्यात्तु वारुणम् ॥ १७७.८ ॥
आग्नेयं वारुणाच्छ्रेष्ठं यस्मादुक्तं स्वयम्भुवा ।
तस्मात्सर्वप्रयत्नेन ह्याग्नेयं स्नानमाचरेत् ॥ १७७.९ ॥
युधिष्ठिर उवाच -
आग्नेयं वारुणं ब्राह्म्यं वायव्यं दिव्यमेव च ।
किमुक्तं श्रोतुमिच्छामि परं कौतूहलं हि मे ॥ १७७.१० ॥
मार्कण्डेय उवाच -
आग्नेयं भस्मना स्नानमवगाह्य च वारुणम् ।
आपोहिष्ठेति च ब्राह्म्यं वायव्यं गोरजः स्मृतम् ॥ १७७.११ ॥
सूर्ये दृष्टे तु यत्स्नानं गङ्गातोयेन तत्समम् ।
तत्स्नानं पञ्चमं प्रोक्तं दिव्यं पाण्डवसत्तम ॥ १७७.१२ ॥
तस्मात्सर्वप्रयत्नेन स्नात्वा भूतीश्वरे तु यः ।
पूजयेद्देवमीशानं स बाह्याभ्यन्तरः शुचिः ॥ १७७.१३ ॥
तत्र स्थाने तु ये नित्यं ध्यायन्ति परमं पदम् ।
सूक्ष्मं चातीन्द्रियं नित्यं ते धन्या नात्र संशयः ॥ १७७.१४ ॥
मुक्तितीर्थं तु तत्तीर्थं सर्वतीर्थेष्वनुत्तमम् ।
दर्शनादेव यस्यैव पापं याति महत्क्षयम् ॥ १७७.१५ ॥
जायते पूजया राज्यं तत्र स्तुत्वा महेश्वरम् ।
जपेन पापसंशुद्धिर्ध्यानेनानन्त्यमश्नुते ॥ १७७.१६ ॥
ओं ज्योतिः स्वरूपमनादिमध्यमनुत्पाद्यमानमनुचार्यमाणाक्षरम् ।
सर्वभूतस्थितं शिवं सर्वयोगेश्वरं सर्वलोकेश्वरं मोहशोकहीनं महाज्ञानगम्यम् ॥ १७७.१७ ॥
तत्र तीर्थे तु यो गत्वा स्नानं कुर्यान्नरेश्वर ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।
एवम्भूतं न जानन्ति मोक्षापेक्षणिका नराः ॥ १७७.१८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भूतीश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तसप्तत्यधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 178
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र गङ्गावाहकमुत्तमम् ।
नर्मदायां महापुण्यं भृगुतीर्थसमीपतः ॥ १७८.१ ॥
तत्र गङ्गा महापुण्या चचार विपुलं तपः ।
पुरा वर्षशतं साग्रं परमं व्रतमास्थिता ॥ १७८.२ ॥
ध्यात्वा देवं जगद्योनिं नारायणमकल्मषम् ।
आत्मानं परमं धाम सरित्सा जगतीपते ॥ १७८.३ ॥
ततो जनार्दनो देव आगत्येदमुवाच ह ॥ १७८.४ ॥
विष्णुरुवाच -
तपसा तव तुष्टोऽहं मत्पादाम्बुजसम्भवे ।
मत्तः किमिच्छसे देवि ब्रूहि किं करवाणि ते ॥ १७८.५ ॥
गङ्गोवाच -
त्वत्पादकमलाद्भ्रष्टा गङ्गा सहचरा विभो ।
यदृच्छया त्रिलोकेश वन्द्यमाना दिवौकसैः ॥ १७८.६ ॥
नृपो भगीरथस्तस्मात्तपः कृत्वा सुदुष्करम् ।
समाराध्य जगन्नाथं शङ्करं लोकशङ्करम् ॥ १७८.७ ॥
अवतारयामास हि मां पृथिव्यां धरणीधर ।
मया वै युवयोर्वाक्यादवतारः कृतो भुवि ॥ १७८.८ ॥
वैष्णवीमिति मां मत्वा जनः सर्वाप्लुतो मयि ।
ये वै ब्रह्मणो लोके ये च वै गुरुतल्पगाः ॥ १७८.९ ॥
त्यागिनः पितृमातृभ्यां ये च स्वर्णहरा नराः ।
गोघ्ना ये मनुजा लोके तथा ये प्राणिहिंसकाः ॥ १७८.१० ॥
अगम्यागामिनो ये च ह्यभक्ष्यस्य च भक्षकाः ।
ये चानृतप्रवक्तारो ये च विश्वासघातकाः ॥ १७८.११ ॥
देवब्राह्मणवित्तानां हर्तारो ये नराधमाः ।
देवब्रह्मगुरुस्त्रीणां ये च निन्दाकरा नराः ॥ १७८.१२ ॥
ब्रह्मशापप्रदग्धा ये ये चैवात्महनो द्विजाः ।
भ्रष्टानशनसंन्यासनियतव्रतचारिणः ॥ १७८.१३ ॥
तथैवापेयपेयाश्च ये च स्वगुरुनिन्दकाः ।
निषेधका ये दानानां पात्रदानपराङ्मुखाः ॥ १७८.१४ ॥
ऋतुघ्ना ये स्वपत्नीनां पित्रोः सेहपरा न हि ।
बान्धवेषु च दीनेषु करुणा यस्य नास्ति वै ॥ १७८.१५ ॥
क्षेत्रसेतुविभेदी च पूर्वमार्गप्रलोपकः ।
नास्तिकः शास्त्रहीनस्तु विप्रः सन्ध्याविवर्जितः ॥ १७८.१६ ॥
अहुताशी ह्यसंतुष्टः सर्वाशी सर्वविक्रयी ।
कदर्या नास्तिकाः क्रूराः कृतघ्ना ये द्विजायः ॥ १७८.१७ ॥
पैशुन्या रसविक्रेयाः सर्वकालविनाकृताः ।
स्वगोत्रां परगोत्रां वा ये भुञ्जन्ति द्विजाधमाः ॥ १७८.१८ ॥
ते मां प्राप्य विमुच्यन्ते पापसङ्घैः सुसंचितैः ।
तत्पापक्षारतप्ताया न शर्म मम विद्यते ॥ १७८.१९ ॥
तथा कुरु जगन्नाथ यथाहं शर्म चाप्नुयाम् ।
एवमुक्तस्तु देवेशस्तुष्टः प्रोवाच जाह्नवीम् ॥ १७८.२० ॥
विष्णुरुवाच -
अहमत्र वसिष्यामि गङ्गाधरसहायवान् ।
प्रविशस्व सदा रेवां त्वमत्रैव च मूर्तिना ॥ १७८.२१ ॥
मम पादतलं प्राप्य वह त्रिपथगामिनि ।
यदा बहूदककाले नर्मदाजलसंभृता ॥ १७८.२२ ॥
प्रावृट्कालं समासाद्य भविष्यति जलाकुला ।
प्लाव्योभयतटं देवी प्राप्य मामुत्तरस्थितम् ॥ १७८.२३ ॥
प्लावयिष्यति तोयेन यदा शङ्खं करे स्थितम् ।
तदा पर्वशतोद्युक्तं वैष्णवं पर्वसंज्ञितम् ॥ १७८.२४ ॥
न तेन सदृशं किंचिद्व्यतीपातादिसंक्रमम् ।
अयने द्वे च न तथा पुण्यात्पुण्यतरं यथा ॥ १७८.२५ ॥
तस्मिन्पर्वणि देवेशि शङ्खं संस्पृश्य मानवः ।
स्नानमाचरते तोये मिश्रे गाङ्गेयनार्मदे ॥ १७८.२६ ॥
पुण्यं त्वशेषपुण्यानां मङ्गलानां च मङ्गलम् ।
विष्णुना विधृतो येन तस्माच्छान्तिः प्रचक्रमे ॥ १७८.२७ ॥
तत्रान्तं पापसङ्घस्य ध्रुवमाप्नोति मानवः ।
शङ्खोद्धारे नरः स्नात्वा तर्पयेत्पितृदेवताः ॥ १७८.२८ ॥
तृप्तास्ते द्वादशाब्दानि सिद्धिं च सार्वकामिकीम् ।
गङ्गावहे तु यः श्राद्धं शङ्खोद्धारे प्रदास्यति ॥ १७८.२९ ॥
तेन पिण्डप्रदानेन नृत्यन्ति पितरस्तथा ।
शङ्खोद्धारे नरः स्नात्वा पूजयेद्बलकेशवौ ॥ १७८.३० ॥
रात्रौ जागरणं कृत्वा शुद्धो भवति जाह्नवि ।
यत्त्वं लोककृतं कर्म मन्यसे भुवि दुःसहम् ॥ १७८.३१ ॥
तस्मिन्पर्वणि तत्सर्वं तत्र स्नात्वा व्यपोहय ।
एवमुक्त्वा नरश्रेष्ठ विष्णुश्चान्तरधीयत ॥ १७८.३२ ॥
तदाप्रभृति तत्तीर्थं गङ्गावाहकमुत्तमम् ।
ब्रह्माद्यैरृषिभिस्तात पारम्पर्यक्रमागतैः ॥ १७८.३३ ॥
तत्र तीर्थे तु यः स्नात्वा भक्तिभावेन भारत ।
गङ्गातीर्थे तु स स्नातः समस्तेषु न संशयः ॥ १७८.३४ ॥
तत्र तीर्थे मृतानां तु नराणां भावितात्मनाम् ।
अनिवर्तिका गतिस्तेषां विष्णुलोकात्कदाचन ॥ १७८.३५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गङ्गावहकतीर्थमाहात्म्यवर्णनं नामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 179
अध्याय १७९
मार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र गौतमेश्वरमुत्तमम् ।
सर्वपापहरं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ १७९.१ ॥
गौतमेन तपस्तप्तं तत्र तीर्थे युधिष्ठिर ।
दिव्यं वर्षसहस्रं तु ततस्तुष्टो महेश्वरः ॥ १७९.२ ॥
प्रणम्य शिरसा तत्र स्थापितः परमेश्वरः ।
स्थापितो गौतमेनेशो गौतमेश्वर उच्यते ॥ १७९.३ ॥
तत्र देवैश्च गन्धर्वैरृषिभिः पितृदैवतैः ।
सम्प्राप्ता ह्युत्तमा सिद्धिराराध्य परमेश्वरम् ॥ १७९.४ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ।
पूजयेत्परमीशानं सर्वपापैः प्रमुच्यते ॥ १७९.५ ॥
बहवस्तन्न जानन्ति विष्णुमायाविमोहिताः ।
तत्र संनिहितं देवं शूलपाणिं महेश्वरम् ॥ १७९.६ ॥
ब्रह्मचारी तु यो भूत्वा तत्र तीर्थे नरेश्वर ।
स्नात्वार्चयेन्महादेवं सोऽश्वमेधफलं लभेत् ॥ १७९.७ ॥
ब्रह्मचारी तु यो भूत्वा तर्पयेत्पितृदेवताः ।
पूजयेत्परमीशानं सर्वपापैः प्रमुच्यते ॥ १७९.८ ॥
तत्र तीर्थे तु यो दानं भक्त्या दद्याद्द्विजातये ।
तदक्षयफलं सर्वं नात्र कार्या विचारणा ॥ १७९.९ ॥
मासे चाश्वयुजे राजन् कृष्णपक्षे चतुर्दशीम् ।
स्नात्वा तत्र विधानेन दीपकानां शतं ददेत् ॥ १७९.१० ॥
पूजयित्वा महादेवं गन्धपुष्पादिभिर्नरः ।
मुच्यते सर्वपापेभ्यो मृतः शिवपुरं व्रजेत् ॥ १७९.११ ॥
अष्टम्यां च चतुर्दश्यां कार्त्तिक्यां तु विशेषतः ।
उपोष्य प्रयतो भूत्वा घृतेन स्नापयेच्छिवम् ॥ १७९.१२ ॥
पञ्चगव्येन मधुना दध्ना वा शीतवारिणा ।
स च सर्वस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १७९.१३ ॥
भक्त्या तु पूजयेत्पश्चात्स लभेत्फलमुत्तमम् ।
बिल्वपत्रैरखण्डैश्च पुष्पैरुन्मत्तकोद्भवैः ॥ १७९.१४ ॥
कुशापामार्गसहितैः कदम्बद्रोणजैरपि ।
मल्लिकाकरवीरैश्च रक्तपीतैः सितासितैः ॥ १७९.१५ ॥
पुष्पैरन्यैर्यथालाभं यो नरः पूजयेच्छिवम् ।
नैरन्तर्येण षण्मासं योऽर्चयेद्गौतमेश्वरम् ।
सर्वान्कामानवाप्नोति मृतः शिवपुरं व्रजेत् ॥ १७९.१६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गौतमेश्वरतीर्थमाहात्म्यवर्णनं नाम एकोनाशीत्यधिकशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 180
अध्याय १८०
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल दशाश्वमेधिकं परम् ।
तीर्थं सर्वगुणोपेतं महापातकनाशनम् ॥ १८०.१ ॥
यत्र गत्वा महाराज स्नात्वा सम्पूज्य चेश्वरम् ।
दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥ १८०.२ ॥
युधिष्ठिर उवाच -
अश्वमेधो महायज्ञो बहुसम्भारदक्षिणः ।
अशक्यः प्राकृतैः कर्तुं कथं तेषां फलं लभेत् ॥ १८०.३ ॥
अत्याश्चर्यमिदं तत्त्वं त्वयोक्तं वदता सता ।
यथा मे जायते श्रद्धा दीर्घायुस्त्वं तथा वद ॥ १८०.४ ॥
मार्कण्डेय उवाच -
इदमाश्चर्यभूतं हि गौर्या पृष्टस्त्रियम्बकः ।
तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते निपुणाय वै ॥ १८०.५ ॥
पुरा वृषस्थो देवेश ह्युमया सह शङ्करः ।
कदाचित्पर्यटन्पृथिवीं नर्मदातटमाश्रितः ॥ १८०.६ ॥
दशाश्वमेधिकं तीर्थं दृष्ट्वा देवो महेश्वरः ।
तीर्थं प्रत्यञ्जलिं बद्ध्वा नमश्चक्रे त्रिलोचनः ॥ १८०.७ ॥
कृताञ्जलिपुटं देवं दृष्ट्वा देवीदमब्रवीत् ॥ १८०.८ ॥
देव्युवाच -
किमेतद्देवदेवेश चराचरनमस्कृत ।
प्रह्वनम्राञ्जलिं बद्ध्वा भक्त्या परमया युतः ॥ १८०.९ ॥
एतदाश्चर्यमतुलं सर्वं कथय मे प्रभो ॥ १८०.१० ॥
ईश्वर उवाच -
प्रत्यक्षं पश्य तीर्थस्य फलं मा विस्मिता भव ।
वियत्स्था मे भुविस्थस्य क्षणं देवि स्थिरा भव ॥ १८०.११ ॥
एवमुक्त्वा तु देवेशो गौरवर्णो द्विजोऽभवत् ।
क्षुत्क्षामकण्ठो जटिलः शुष्को धमनिसंततः ॥ १८०.१२ ॥
उपविश्य भुवः पृष्ठे सुस्वरं मन्त्रमुच्चरन् ।
क्रमप्रियो महादेवो माधुर्येण प्रमोदयन् ॥ १८०.१३ ॥
श्रुत्वा तां मधुरां वाणीं स्वयं देवेन निर्मिताम् ।
संभ्रान्ता ब्राह्मणाः सर्वे स्नातुं ये तत्र चागताः ॥ १८०.१४ ॥
नित्यक्रिया च सर्वेषां विस्मृता श्रुतिविभ्रमात् ।
तं दृष्ट्वा पठमानं तु क्षुत्पिपासाभिपीडितम् ॥ १८०.१५ ॥
द्विजोऽन्यमन्त्रयत्कश्चिद्भक्त्या तं भोजनाय वै ।
प्रसादः क्रियतां ब्रह्मन्भोजनाय गृहे मम ॥ १८०.१६ ॥
अद्य मे सफलं जन्म ह्यद्य मे सफलाः क्रियाः ।
सर्वान्कामान्प्रदास्यन्ति प्रीता मेऽद्य पितामहाः ॥ १८०.१७ ॥
त्वयि भुक्ते द्विजश्रेष्ठ प्रसीद त्वं ध्रुवं मम ।
एवमुक्तो महादेवो द्विजरूपधरस्तदा ॥ १८०.१८ ॥
प्रहस्य प्रत्युवाचेदं ब्राह्मणं श्लक्ष्णया गिरा ।
मया वर्षसहस्रं तु निराहारं तपः कृतम् ॥ १८०.१९ ॥
इदानीं तु गृहे तस्य करिष्ये द्विजसत्तम ।
दशभिर्वाजिमेधैश्च येनेष्टं पारणं तथा ॥ १८०.२० ॥
इत्युक्तो देवदेवेन ब्राह्मणो विस्मयान्वितः ।
उत्तमाङ्गं विधुन्वन्वै जगाम स्वगृहं प्रति ॥ १८०.२१ ॥
एवं ते बहवो विप्राः प्रत्याख्याते निमन्त्रणे ।
पुराणार्थमजानन्तो नास्तिका बहवो गताः ॥ १८०.२२ ॥
अथ कश्चिद्द्विजो विद्वान्पुराणार्थस्य तत्त्ववित् ।
देवं निमन्त्रयामास द्विजरूपधरं शिवम् ॥ १८०.२३ ॥
तथैव सोऽपि देवेन प्रोक्तः स प्राह तं पुनः ।
मनसा चिन्तयित्वा तु पुराणोक्तं द्विजोत्तमः ॥ १८०.२४ ॥
स्मृतिवेदपुराणेषु यदुक्तं तत्तथा भवेत् ।
इति निश्चित्य तं विप्रमुवाच प्रहसन्निव ॥ १८०.२५ ॥
भोभो विप्र प्रतीक्षस्व यावदागमनं पुनः ।
इत्युक्त्वा तु द्विजो गत्वा दशाश्वमेधिकं परम् ॥ १८०.२६ ॥
स्नानं महालम्भनादि कृतं तेन द्विजन्मना ।
जपं श्राद्धं तथा दानं कृत्वा धर्मानुसारतः ॥ १८०.२७ ॥
संकल्प्य कपिलां तत्र पुराणोक्तविधानतः ।
समायात्त्वरितं तत्र यत्रासौ तिष्ठते द्विजः ॥ १८०.२८ ॥
अथागत्य द्विजं प्राह वाजिमेधः कृतो मया ।
उत्तिष्ठ मे गृहं रम्यं भोजनार्थं हि गम्यताम् ॥ १८०.२९ ॥
इत्युक्तः शङ्करस्तेन ब्राह्मणेनातिविस्मितः ।
उवाच ब्राह्मणं देव इदानीं त्वमितो गतः ॥ १८०.३० ॥
द्विजवर्य कथं चेष्टा दश यज्ञा महाधनाः ॥ १८०.३१ ॥
द्विज उवाच -
न विचारस्त्वया कार्यः कृता यज्ञा न संशयः ।
यदि वेदाः प्रमाणं तं भुवि देवा द्विजास्तथा ॥ १८०.३२ ॥
दशाश्वमेधिकं तीर्थं तथा सत्यं द्विजोत्तम ।
यदि वेदपुराणोक्तं वाक्यं निःसंशयं भवेत् ॥ १८०.३३ ॥
तदा प्राप्तं मया सर्वं नात्र कार्या विचारणा ।
एवमुक्तस्तु देवेश आस्तिक्यं तस्य चेतसः ॥ १८०.३४ ॥
विमृश्य बहुभिः किंचिदुत्तरं न प्रपद्यत ।
जगाम तद्गृहं रम्यं पठन्ब्रह्म सनातनम् ॥ १८०.३५ ॥
सम्प्राप्तं तं द्विजं भक्त्या पाद्यार्घ्येण तमर्चयत् ।
षड्रसं भोजनं तेन दत्तं पश्चाद्यथाविधि ॥ १८०.३६ ॥
ततो भुक्ते महादेवे सर्वदेवमये शिवे ।
पुष्पवृष्टिः पपाताशु गगनात्तस्य मूर्धनि ।
तस्यास्तिक्यं तु संलक्ष्य तुष्टः प्रोवाच शङ्करः ॥ १८०.३७ ॥
ईश्वर उवाच -
किं तेऽद्य क्रियतां ब्रूहि वरदोऽहं द्विजोत्तम ।
अदेयमपि दास्यामि एकचित्तस्य ते ध्रुवम् ॥ १८०.३८ ॥
ब्राह्मण उवाच -
यदि प्रीतोऽसि मे देव यदि देयो वरो मम ।
अस्मिंस्तीर्थे महादेव स्थातव्यं सर्वदैव हि ॥ १८०.३९ ॥
उपकाराय देवेश एष मे वर उत्तमः ।
एवमुक्तस्तु देवेन आरुरोह द्विजोत्तमः ॥ १८०.४० ॥
गन्धर्वाप्सरःसम्बाधं विमानं सार्वकामिकम् ।
पूज्यमानो गतस्तत्र यत्र लोका निरामयाः ॥ १८०.४१ ॥
मार्कण्डेय उवाच -
एतदाश्चर्यमतुलं दृष्ट्वा देवी सुविस्मिता ।
विस्मयोत्फुल्लनयना पुनः पप्रच्छ शङ्करम् ॥ १८०.४२ ॥
पार्वत्युवाच -
कथमेतद्भवेत्सत्यं यत्रेदमसमञ्जसम् ।
स्नानं कुर्वन्ति बहवो लोका ह्यत्र महेश्वर ॥ १८०.४३ ॥
तेषां तु स्वर्गगमनं यथैष स्वर्गतिं गतः ।
कथमेतत्समाचक्ष्व विस्मयः परमो मम ॥ १८०.४४ ॥
एतच्छ्रुत्वा तु देवेशः प्रहसन्प्रत्युवाच ताम् ।
वेदवाक्ये पुराणार्थे स्मृत्यर्थे द्विजभाषिते ॥ १८०.४५ ॥
विस्मयो हि न कर्तव्यो ह्यनुमानं हि तत्तथा ।
असंभाव्यं हि लोकानां पुराणे यत्प्रगीयते ॥ १८०.४६ ॥
यदि पक्षं पुरस्कृत्य लोकाः कुर्वन्ति पार्वति ।
तस्मान्न सिद्धिरेतेषां भवत्येको न विस्मयः ॥ १८०.४७ ॥
नास्तिका भिन्नमर्यादा ये निश्चयबहिष्कृताः ।
तेषां सिद्धिर्न विद्येत आस्तिक्याद्भवते ध्रुवम् ॥ १८०.४८ ॥
श्रुत्वाख्यानमिदं देवी ववन्दे तीर्थमुत्तमम् ।
सर्वपापहरं पुण्यं नर्मदायां व्यवस्थितम् ॥ १८०.४९ ॥
मार्कण्डेय उवाच -
दशाश्वमेधं राजेन्द्र सर्वतीर्थोत्तमोत्तमम् ।
तीर्थं सर्वगुणोपेतं महापातकनाशनम् ॥ १८०.५० ॥
तत्रागता महाभागा स्नातुकामा सरस्वती ।
पुण्यानां परमा पुण्या नदीनामुत्तमा नदी ॥ १८०.५१ ॥
नाममात्रेण यस्यास्तु सर्वपापैः प्रमुच्यते ।
स्नातास्तत्र दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ १८०.५२ ॥
दशाश्वमेधे सा राजन्नियता ब्रह्मचारिणी ।
आराधयित्वा देवेशं परं निर्वाणमागतीः ॥ १८०.५३ ॥
कालुष्यं ब्रह्मसम्भूता संवत्सरसमुद्भवम् ।
प्रक्षालयितुमायाति दशम्यामाश्विनस्य च ॥ १८०.५४ ॥
उपोष्य रजनीं तां तु सम्पूज्य त्रिपुरान्तकम् ।
राजन्निष्कल्मषा यान्ति श्वोभूते शाश्वतं पदम् ॥ १८०.५५ ॥
युधिष्ठिर उवाच -
सरस्वती महापुण्या नदीनामुत्तमा नदी ।
श्रीमार्कण्डेय उवाच -
राजन्नाश्वयुजे मासि दशम्यां तद्विशिष्यते ।
पार्थिवेषु च तीर्थे तु सर्वेष्वेव न संशयः ॥ १८०.५६ ॥
दशाश्वमेधिके राजन्नित्यं हि दशमी शुभा ।
विशेषादाश्विने शुक्ला महापातकनाशिनी ॥ १८०.५७ ॥
तस्या स्नात्वार्चयेद्देवानुपवासपरायणः ।
श्राद्धं कृत्वा विधानेन पश्चात्सम्पूजयेच्छिवम् ॥ १८०.५८ ॥
तत्रस्थां पूजयेद्देवीं स्नातुकामां सरस्वतीम् ।
नमो नमस्ते देवेशि ब्रह्मदेहसमुद्भवे ॥ १८०.५९ ॥
कुरु पापक्षयं देवि संसारान्मां समुद्धर ।
गन्धधूपैश्च सम्पूज्य ह्यर्चयित्वा पुनःपुनः ॥ १८०.६० ॥
दश प्रदक्षिणा दत्त्वा सूत्रेण परिवेष्टयेत् ।
कपिलां तु ततो विप्रे दद्याद्विगतमत्सरः ॥ १८०.६१ ॥
सर्वलक्षणसम्पन्नां सर्वोपस्करसंयुताम् ।
दत्त्वा विप्राय कपिलां न शोचति कृताकृते ॥ १८०.६२ ॥
पश्चाज्जागरणं कुर्याद्घृतेनाज्वाल्य दीपकम् ।
पुराणपठनेनैव नृत्यगीतविवादनैः ॥ १८०.६३ ॥
वेदोक्तैश्चैव पूजयेच्छशिशेखरम् ।
प्रभाते विमले पश्चात्स्नात्वा वै नर्मदाजले ॥ १८०.६४ ॥
ब्राह्मणान् भोजयेद्भक्त्या शिवभक्तांश्च योगिनः ।
एवं कृते ततो राजन् सम्यक्तीर्थफलं लभेत् ॥ १८०.६५ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेच्छङ्करं नरः ।
दशाश्वमेधावभृथं लभते पुण्यमुत्तमम् ॥ १८०.६६ ॥
पूतात्मा तेन पुण्येन रुद्रलोकं स गच्छति ।
आरूढः परमं यानं कामगं च सुशोभनम् ॥ १८०.६७ ॥
तत्र दिव्याप्सरोभिस्तु वीज्यमानोऽथ चामरैः ।
क्रीडते सुचिरं कालं जयशब्दादिमङ्गलैः ॥ १८०.६८ ॥
ततोऽवतीर्णः कालेन इह राजा भवेद्ध्रुवम् ।
हस्त्यश्वरथसम्पन्नो महाभोगी परंतपः ॥ १८०.६९ ॥
दशाश्वमेधे यद्दानं दीयते शिवयोगिनाम् ।
दशाश्वमेधसदृशं भवेत्तन्नात्र संशयः ॥ १८०.७० ॥
सर्वेषामेव यज्ञानामश्वमेधो विशिष्यते ।
दुर्लभः स्वल्पवित्तानां भूरिशः पापकर्मणाम् ॥ १८०.७१ ॥
तत्र तीर्थे तु राजेन्द्र दुर्लभोऽपि सुरासुरैः ।
प्राप्यते स्नानदानेन इत्येवं शङ्करोऽब्रवीत् ॥ १८०.७२ ॥
अकामो वा सकामो वा मृतस्तत्र नरेश्वर ।
देवत्वं प्राप्नुयात्सोऽपि नात्र कार्या विचारणा ॥ १८०.७३ ॥
अग्निप्रवेशं यः कुर्यात्तत्र तीर्थे नरोत्तम ।
अग्निलोके वसेत्तावद्यावदाभूतसम्प्लवम् ॥ १८०.७४ ॥
जलप्रवेशं यः कुर्यात्तत्र तीर्थे नराधिप ।
ध्यायमानो महादेवं वारुणं लोकमाप्नुयात् ॥ १८०.७५ ॥
दशाश्वमेधे यः कश्चिच्छूरवृत्त्या तनुं त्यजेत् ।
अक्षया नु गतिस्तस्य इत्येवं श्रुतिनोदना ॥ १८०.७६ ॥
न तां गतिं यान्ति भृगुप्रपातिनो न दण्डिनो नैव च सांख्ययोगिनः ।
ध्वजाकुले दुन्दुभिशङ्खनादिते क्षणेन यां यान्ति महाहवे मृताः ॥ १८०.७७ ॥
यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः ।
अक्षयांल्लभते लोकान्यदि क्लीबं न भाषते ॥ १८०.७८ ॥
दशाश्वमेधे संन्यासं यः करोति विधानतः ।
अनिवर्तिका गतिस्तस्य रुद्रलोकात्कदाचन ॥ १८०.७९ ॥
दशाश्वमेधे यत्पुण्यं संक्षेपेण युधिष्ठिर ।
कथितं परया भक्त्या सर्वपापप्रणाशनम् ॥ १८०.८० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दशाश्वमेधतीर्थमाहात्म्यवर्णनं नामाशीत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 181
श्रीमार्कण्डेय उवाच -
अतः परं प्रवक्ष्यामि भृगुतीर्थस्य विस्तरम् ।
यं श्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः ॥ १८१.१ ॥
तत्र तीर्थे तु विख्यातं वृषखातमिति श्रुतम् ।
भृगुणा तत्र राजेन्द्र तपस्तप्तं पुरा किल ॥ १८१.२ ॥
युधिष्ठिर उवाच -
भृगुकच्छे स विप्रेन्द्रो निवसन् केन हेतुना ।
तपस्तप्त्वा सुविपुलं परां सिद्धिमुपागतः ॥ १८१.३ ॥
को वा वृष इति प्रोक्तस्तत्खातं येन खानितम् ।
एतत्सर्वं यथान्यायं कथयस्व ममानघ ॥ १८१.४ ॥
श्रीमार्कण्डेय उवाच -
एष प्रश्नो महाराज यस्त्वया परिपृच्छितः ।
तत्सर्वं कथयिष्यामि शृणुष्वैकमना नृप ॥ १८१.५ ॥
षष्ठस्तु ब्रह्मणः पुत्रो मानसो भृगुसत्तमः ।
तपश्चचार विपुलं श्रीवृते क्षेत्र उत्तमे ॥ १८१.६ ॥
दिव्यं वर्षसहस्रं तु संशुष्को मुनिसत्तमः ।
निराहारो निरानन्दः काष्ठपाषाणवत्स्थितः ॥ १८१.७ ॥
ततः कदाचिद्देवेशो विमानवरमास्थितः ।
उमया सहितः श्रीमांस्तेन मार्गेण चागतः ॥ १८१.८ ॥
दृष्ट्वा तत्र महाभागं भृगुं वल्मीकवत्स्थितम् ।
उवाच देवी देवेशं किमिदं दृश्यते प्रभो ॥ १८१.९ ॥
ईश्वर उवाच -
भृगुर्नाम महादेवि तपस्तप्त्वा सुदारुणम् ।
दिव्यं वर्षसहस्रं तु मम ध्यानपरायणः ॥ १८१.१० ॥
जलबिन्दु कुशाग्रेण मासे मासे पिबेच्च सः ।
संवत्सरशतं साग्रं तिष्ठते च वरानने ॥ १८१.११ ॥
तच्छ्रुत्वा वचनं गौरी क्रोधसंवर्तितेक्षणा ।
उवाच देवी देवेशं शूलपाणिं महेश्वरम् ॥ १८१.१२ ॥
सत्यमुग्रोऽसि लोके त्वं ख्यापितो वृषभध्वज ।
निष्कारुण्यो दुराराध्यः सर्वभूतभयंकरः ॥ १८१.१३ ॥
दिव्यं वर्षसहस्रं तु ध्यायमानस्य शङ्करम् ।
ब्राह्मणस्य वरं कस्मान्न प्रयच्छसि शंस मे ॥ १८१.१४ ॥
एवमुक्तोऽथ देवेशः प्रहस्य गिरिनन्दिनीम् ।
उवाच नरशार्दूल मेघगम्भीरया गिरा ॥ १८१.१५ ॥
स्त्री विनश्यति गर्वेण तपः क्रोधेन नश्यति ।
गावो दूरप्रचारेण शूद्रान्नेन द्विजोत्तमाः ॥ १८१.१६ ॥
क्रोधान्वितो द्विजो गौरी तेन सिद्धिर्न विद्यते ।
वर्षायुतैस्तथा लक्षैर्न किंचित्कारणं प्रिये ॥ १८१.१७ ॥
एवम्भूतस्य तस्यापि क्रोधस्य चरितं महत् ।
एवमुक्त्वा ततः शम्भुर्वृषं दध्यौ च तत्क्षणे ॥ १८१.१८ ॥
वृषो हि भगवन्ब्रह्मा वृषरूपी महेश्वरः ।
ध्यानप्राप्तः क्षणादेव गर्जयन् वै मुहुर्मुहुः ॥ १८१.१९ ॥
किं करोमि सुरश्रेष्ठ ध्यातः केनैव हेतुना ।
करोमि कस्य निधनमकाले परमेश्वर ॥ १८१.२० ॥
ईश्वर उवाच -
कोपयस्व द्विजश्रेष्ठं गत्वा त्वं भृगुसत्तमम् ।
येन मे श्रद्दधत्येषा गौरी लोकैकसुन्दरी ॥ १८१.२१ ॥
एतच्छ्रुत्वा वृषो गत्वा धर्षणार्थं द्विजोत्तमम् ।
नर्मदायास्तटे रम्ये समीपे चाश्रमे भृगुः ॥ १८१.२२ ॥
ततः शृङ्गैर्गृहीत्वा तु प्रक्षिप्तो नर्मदाजले ।
ततः क्रुद्धो भृगुस्तत्र दण्डहस्तो महामुनिः ॥ १८१.२३ ॥
पशुवत्ते वधिष्यामि दण्डघातेन मस्तके ।
शिखायज्ञोपवीते च परिधानं वरासने ॥ १८१.२४ ॥
सुसंवृतं कृतं तेन धावन्वै पृष्ठतो ब्रवीत् ॥ १८१.२५ ॥
भृगुरुवाच -
पापकर्मन्दुराचार कथं यास्यसि मे वृष ।
अवमानं समुत्पाद्य कृत्वा गर्तं खुरैस्तथा ॥ १८१.२६ ॥
गर्जयित्वा महानादं ततो विप्रमपातयत् ।
आत्मानं पातितं ज्ञात्वा वृषेण परमेष्ठिना ॥ १८१.२७ ॥
भृगुः क्रोधेन जज्वाल हुताहुतिरिवानलः ।
करे गृह्य महादण्डं ब्रह्मदण्डमिवापरम् ॥ १८१.२८ ॥
हन्तुकामो वृषं विप्रोऽभ्यधावत युधिष्ठिर ।
धावमानं ततो दृष्ट्वा स वृषः पूर्वसागरे ॥ १८१.२९ ॥
जम्बूद्वीपं कुशां क्रौञ्चं शाल्मलिं शाकमेव च ।
गोमेदं पुष्करं प्राप्तः पूर्वतो दक्षिणापथम् ॥ १८१.३० ॥
उत्तरं पश्चिमं चैव द्वीपाद्द्वीपं नरेश्वर ।
पातालं सुतलं पश्चाद्वितलं च तलातलम् ॥ १८१.३१ ॥
तामिस्रमन्धतामिस्रं पातालं सप्तमं ययौ ।
ततो जगाम भूर्लोकं प्राणार्थी स वृषोत्तमः ॥ १८१.३२ ॥
भुवः स्वश्चैव च महस्तपः सत्यं जनस्तथा ।
अनुगम्यमानो विप्रेण न शर्म लभते क्वचित् ॥ १८१.३३ ॥
पापं कृत्वैव पुरुषः कामक्रोधबलार्दितः ।
ततो जगाम शरणं ब्रह्माणं विष्णुमेव च ॥ १८१.३४ ॥
इन्द्रं चन्द्रं तथादित्यैर्याम्यवारुणमारुतैः ।
यदा सर्वैः परित्यक्तो लोकालोकैः सुरेश्वरैः ॥ १८१.३५ ॥
तदा देवं नमस्कृत्वा रक्ष रक्षस्व चाब्रवीत् ।
वध्यमानं महादेवो भृगुणा परमेष्ठिना ॥ १८१.३६ ॥
सर्वलोकैः परित्यक्तमनाथमिव तं प्रभो ।
दृष्ट्वा श्रान्तं वृषं देवः पतितं चरणाग्रतः ॥ १८१.३७ ॥
ततः प्रोवाच भगवान् स्मितपूर्वमिदं वचः ॥ १८१.३८ ॥
ईश्वर उवाच -
पश्य देवि महाभागे शमं विप्रस्य सुन्दरि ॥ १८१.३९ ॥
पार्वत्युवाच -
यावद्विप्रो न चास्माकं कुप्यते परमेश्वर ।
तावद्वरं प्रयच्छाशु यदि चेच्छसि मत्प्रियम् ॥ १८१.४० ॥
ततो भस्मी जटी शूली चन्द्रार्धकृतशेखरः ।
उमार्द्धदेहो भगवान्भूत्वा विप्रमुवाच ह ॥ १८१.४१ ॥
भोभो द्विजवरश्रेष्ठ क्रोधस्ते न शमं गतः ।
यस्मात्तस्मादिदं तात क्रोधस्थानं भविष्यति ॥ १८१.४२ ॥
ततो दृष्ट्वा च तं शम्भुं भृगुः श्रेष्ठं त्रिलोचनम् ।
जानुभ्यामवनिं गत्वा इदं स्तोत्रमुदैरयत् ॥ १८१.४३ ॥
भृगुरुवाच -
प्रणिपत्य भूतनाथं भवोद्भवं भूतिदं भयातीतम् ।
भवभीतो भुवनपते विज्ञप्तुं किंचिदिच्छामि ॥ १८१.४४ ॥
त्वद्गुणनिकरान्वक्तुं का शक्तिर्मानुषस्यास्य ।
वासुकिरपि न तावद्वक्तुं वदनसहस्रं भवेद्यस्य ॥ १८१.४५ ॥
भक्त्या तथापि शङ्कर शशिधर करजालधवलिताशेष ।
स्तुतिमुखरस्य महेश्वर प्रसीद तव चरणनिरतस्य ॥ १८१.४६ ॥
सत्त्वं रजस्तमस्त्वं स्थित्युत्पत्तिविनाशनं देव ।
भवभीतो भुवनपते भुवनेश शरणनिरतस्य ॥ १८१.४७ ॥
यमनियमयज्ञदानं वेदाभ्यासश्च धारणायोगः ।
त्वद्भक्तेः सर्वमिदं नार्हन्ति वै कलासहस्रांशम् ॥ १८१.४८ ॥
उत्कृष्टरसरसायनखड्गां जनविवरपादुकासिद्धिः ।
चिह्नं हि तव नतानां दृश्यत इह जन्मनि प्रकटम् ॥ १८१.४९ ॥
शाठ्येन यदि प्रणमति वितरसि तस्यापि भूतिमिच्छया देव ।
भवति भवच्छेदकरी भक्तिर्मोक्षाय निर्मिता नाथ ॥ १८१.५० ॥
परदारपरस्वरतं परपरिभवदुःखशोकसंतप्तम् ।
परवदनवीक्षणपरं परमेश्वर मां परित्राहि ॥ १८१.५१ ॥
अधिकाभिमानमुदितं क्षणभङ्गुरविभवविलसन्तम् ।
क्रूरं कुपथाभिमुखं शङ्कर शरणागतं परित्राहि ॥ १८१.५२ ॥
दीनं द्विजं वरार्थे बन्धुजने नैव पूरिता ह्याशा ।
छिन्द्धि महेश्वर तृष्णां किं मूढं मां विडम्बयसि ॥ १८१.५३ ॥
तृष्णां हरस्व शीघ्रं लक्ष्मीं दद हृदयवासिनीं नित्यम् ।
छिन्द्धि मदमोहपाशं मामुत्तारय भवाच्च देवेश ॥ १८१.५४ ॥
करुणाभ्युदयं नाम स्तोत्रमिदं सर्वसिद्धिदं दिव्यम् ।
यः पठति भृगुं स्मरति च शिवलोकमसौ प्रयाति देहान्ते ॥ १८१.५५ ॥
एतच्छ्रुत्वा महादेवः स्तोत्रं च भृगुभाषितम् ।
उवाच वरदोऽस्मीति देव्या सह वरोत्तमम् ॥ १८१.५६ ॥
भृगुरुवाच -
प्रसन्नो देवदेवेश यदि देयो वरो मम ।
सिद्धिक्षेत्रमिदं सर्वं भविता मम नामतः ॥ १८१.५७ ॥
भवद्भिः सन्निधानेन स्थातव्यं हि सहोमया ।
देवक्षेत्रमिदं पुण्यं येन सर्वं भविष्यति ॥ १८१.५८ ॥
अत्र स्थाने महास्थानं करोमि जगदीश्वर ।
तव प्रसादाद्देवेश पूर्यन्तां मे मनोरथाः ॥ १८१.५९ ॥
ईश्वर उवाच -
श्रिया कृतमिदं पूर्वं किं न ज्ञातं त्वया द्विज ।
अनुमान्य श्रियं देवीं यदीयं मन्यते भवान् ॥ १८१.६० ॥
कुरुष्व यदभिप्रेतं त्वत्कृतं नः तदन्यथा ।
एवमुक्त्वा गते देवे स्नात्वा गत्वा भृगुः श्रियम् ॥ १८१.६१ ॥
कृत्वा च पारणं तत्र वसन्विप्रस्तया सह ।
श्रिया च सहितः काल इदं वचनमब्रवीत् ॥ १८१.६२ ॥
भृगुरुवाच -
यदि ते रोचते भद्रे दुःखासीनं च ते यदि ।
त्वया वृते महाक्षेत्रे स्वीयं स्थानं करोम्यहम् ॥ १८१.६३ ॥
श्रीरुवाच -
मम नाम्ना तु विप्रर्षे तव नाम्ना तु शोभनम् ।
स्थानं कुरुष्वाभिप्रेतमविरोधेन मे मतिः ॥ १८१.६४ ॥
भृगुरुवाच -
कच्छपाधिष्ठितं ह्येतत्तस्य पृष्ठिगतं रमे ।
संमन्त्र्य सहितं तेन शोभनं भवती कुरु ॥ १८१.६५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृगुकच्छोत्पत्तिवर्णनं नामैकाशीत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 182
अध्याय १८२
श्रीमार्कण्डेय उवाच -
ततो भृगुः श्रिया चैव समेतः कच्छपं गतः ।
अभिनन्द्य यथान्यायमुवाच वचनं शुभम् ॥ १८२.१ ॥
त्वया धृता धरा सर्वा तथा लोकाश्चराचराः ।
तथैव पुण्यभावत्वात्स्थितस्तत्र महामते ॥ १८२.२ ॥
चातुर्विद्यस्य संस्थानं करोमि रमया सह ।
यदि त्वं मन्यसे देव तदादेशय मां विभो ॥ १८२.३ ॥
कूर्म उवाच -
एवमेव द्विजश्रेष्ठ मम नामाङ्कितं पुरम् ।
भविष्यति महत्कालं ममोपरि सुसंस्थितम् ॥ १८२.४ ॥
अचलं सुस्थिरं तात न भीः कार्या सुलोचने ।
एतच्छ्रुत्वा शुभं वाक्यं कच्छपस्य मुखाच्च्युतम् ॥ १८२.५ ॥
हृष्टस्तुष्टः श्रिया सार्द्धं पद्मयोनिसुतो भृगुः ।
अभीचि उदये प्राप्ते कृतकौतुकमङ्गलः ॥ १८२.६ ॥
नन्दने वत्सरे माघे पञ्चम्यां भरतर्षभ ।
शस्ते तु ह्युत्तरायोगे कुम्भस्थे शशिमण्डले ॥ १८२.७ ॥
रेवाया उत्तरे तीरे गम्भीरे चाभिवारुणि ।
प्रागुदक्प्रवणे देशे कोटितीर्थसमन्वितम् ॥ १८२.८ ॥
क्रोशप्रमाणं तत्क्षेत्रं प्रासादशतसंकुलम् ।
अचिरेणैव कालेन तपोबलसमन्वितः ।
विचिन्त्य विश्वकर्माणं चकार भृगुसत्तमः ॥ १८२.९ ॥
ब्राह्मणा वेदविद्वांसः क्षत्रिया राज्यपालकाः ।
वैश्या वृत्तिरतास्तत्र शूद्राः शुश्रूषकास्त्रिषु ॥ १८२.१० ॥
एवं श्रिया वृतं क्षेत्रं परमानन्दनन्दितम् ।
निर्मितं भृगुणा तात सर्वपातकनाशनम् ।
इति भृगुकच्छोत्पत्तिः ॥ १८२.११ ॥
मार्कण्डेय उवाच -
ततः कालेन महता कस्मिंश्चित्कारणान्तरे ।
देवलोकं जगामाशु लक्ष्मीरृषिसमागमे ॥ १८२.१२ ॥
समर्प्य कुञ्चिकाट्टालं भृगवे ब्रह्मवादिने ।
पालयस्व यथार्थं वै स्थानकं मम सुव्रत ॥ १८२.१३ ॥
देवकार्याण्यशेषाणि कृत्वा श्रीः पुनरागता ।
आजगाम रमा देवी भृगुकच्छं त्वरान्विता ॥ १८२.१४ ॥
प्रार्थितं कुञ्चिकाट्टालं स्वगृहं सपरिग्रहम् ।
भृगुर्यदा तदा पार्थ मिथ्या नास्ति तदा वदत ॥ १८२.१५ ॥
एव विवादः सुमहान्संजातश्च नरेश्वर ।
ममेति मम चैवेति परस्परसमागमे ॥ १८२.१६ ॥
ततः कालेन महता भृगुणा परमर्षिणा ।
चातुर्विद्यप्रमाणार्थं चकार महतीं स्थितिम् ॥ १८२.१७ ॥
अस्मदीयं यथा सर्वं नगरं मृगलोचने ।
चातुर्विद्या द्विजाः सर्वे तथा जानन्ति सुन्दरि ॥ १८२.१८ ॥
श्रीरुवाच -
प्रमाणं मम विप्रेन्द्र चातुर्वण्या न संशयः ।
मदीयं वा त्वदीयं वा कथयन्तु द्विजोत्तमाः ॥ १८२.१९ ॥
ततः समस्तैर्विबुधैः सम्प्रधार्य परस्परम् ।
द्विधा तैर्वाक्स्थलं दृष्ट्वा ब्राह्मणा नृपसंहितम् ॥ १८२.२० ॥
अष्टादशसहस्राणि नोचुर्वै किंचिदुत्तरम् ।
अष्टादशसहस्रेषु भृगुकोपभयान्नृप ।
उक्तं च तालकं हस्ते यस्य तस्येदमुत्तरम् ॥ १८२.२१ ॥
एतच्छ्रुत्वा तु सा देवी निगमं नैगमैः कृतम् ।
क्रोधेन महताविष्टा शशाप द्विजपुंगवान् ॥ १८२.२२ ॥
श्रीदेव्युवाच -
यस्मात्सत्यं समुत्सृज्य लोभोपहतमानसैः ।
मदीयं लोपितं स्थानं तस्माच्छृण्वन्तु मे गिरम् ॥ १८२.२३ ॥
त्रिपौरुषा भवेद्विद्या त्रिपुरुषं न भवेद्धनम् ।
न द्वितीयस्तु वो वेदः पठितो भवति द्विजाः ॥ १८२.२४ ॥
गृहाणि न द्विभौमानि न च भूतिः स्थिरा द्विजाः ।
पक्षपातेन वो धर्मो न च निःश्रेयभावतः ॥ १८२.२५ ॥
इष्टो गोत्रजनः कश्चिल्लोभेनावृतमानसः ।
न च द्वैधं परित्यज्य ह्येकं सत्यं भविष्यति ॥ १८२.२६ ॥
अद्यप्रभृति सर्वेषामहङ्कारो द्विजन्मनाम् ।
न पिता पुत्रवाक्येन न पुत्रः पितृकर्मणि ॥ १८२.२७ ॥
अहङ्कारकृताः सर्वे भविष्यन्ति न संशयः ।
इति शप्त्वा रमादेवी तदैव च दिवं ययौ ॥ १८२.२८ ॥
ततो गतायां वै लक्ष्म्यां देवा ब्रह्मर्षयोऽमलाः ।
क्रोधलोभमिदं स्थानं तेऽपि चोक्त्वा दिवं ययुः ॥ १८२.२९ ॥
गतां दृष्ट्वा ततो देवीमृषींश्चैव तपोधनान् ।
भृगुश्च परमेष्ठी स विषादमगमत्परम् ।
प्रसादयामास पुनः शङ्करं त्रिपुरान्तकम् ॥ १८२.३० ॥
तपसा महता पार्थ ततस्तुष्टो महेश्वरः ।
उवाच वचनं काले हर्षयन् भृगुसत्तमम् ॥ १८२.३१ ॥
किं विषण्णोऽसि विप्रेन्द्र किं वा सन्तापकारणम् ।
मयि प्रसन्नेऽपि तव ह्येतत्कथय मेऽनघ ॥ १८२.३२ ॥
भृगुरुवाच -
शापयित्वा द्विजान्सर्वान्पुरा लक्ष्मीर्विनिर्गता ।
अपवित्रमिदं चोक्त्वा ततो देवा विनिर्गताः ॥ १८२.३३ ॥
ईश्वर उवाच -
पुरा मया यथा प्रोक्तं तत्तथा न तदन्यथा ।
क्रोधस्थानमसंदेहं तथान्यदपि तच्छृणु ॥ १८२.३४ ॥
तत्र स्थानसमुद्भूता महद्भयविवर्जिताः ।
ब्राह्मणा मत्प्रसादेन भविष्यन्ति न संशयः ॥ १८२.३५ ॥
वेदविद्याव्रतस्नाताः सर्वशास्त्रविशारदाः ।
येऽपि ते शतसाहस्रास्त्वरिता ह्यागतास्त्विह ॥ १८२.३६ ॥
अपठस्यापि मूर्खस्य सर्वावस्थां गतस्य च ।
उत्तरादुत्तरं शक्रो दातुं न तु भृगूत्तम ॥ १८२.३७ ॥
कोटितीर्थमिदं स्थानं सर्वपापप्रणाशनम् ।
अद्यप्रभृति विप्रेन्द्र भविष्यति न संशयः ॥ १८२.३८ ॥
मत्प्रसादाद्देवगणैः सेवितं च भविष्यति ।
भृगुक्षेत्रे मृता ये तु कृमिकीटपतंगकाः ॥ १८२.३९ ॥
वासस्तेषां शिवे लोके मत्प्रसादाद्भविष्यति ।
वृषखाते नरः स्नात्वा पूजयित्वा महेश्वरम् ॥ १८२.४० ॥
सर्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ।
भृगुतीर्थे नरः स्नात्वा तर्पयेत्पितृदेवताः ॥ १८२.४१ ॥
तस्य ते द्वादशाब्दानि शान्तिं गच्छन्ति तर्पिताः ।
दधिक्षीरेण तोयेन घृतेन मधुना सह ॥ १८२.४२ ॥
ये स्नपन्ति विरूपाक्षं तेषां वासस्त्रिविष्टपे ।
मत्प्रसादाद्द्विजश्रेष्ठ सर्वदेवानुसेवितम् ॥ १८२.४३ ॥
भविष्यति भृगुक्षेत्रं कुरुक्षेत्रादिभिः समम् ।
मार्तण्डग्रहणे प्राप्ते यवं कृत्वा हिरण्मयम् ॥ १८२.४४ ॥
दत्त्वा शिरसि यः स्नाति भृगुक्षेत्रे द्विजोत्तम ।
अविचारेण तं विद्धि संस्नातं कुरुजाङ्गले ॥ १८२.४५ ॥
अहं चैव वसिष्यामि अम्बिका च मम प्रिया ।
सर्वदुःखापहा देवी नाम्ना सौभाग्यसुन्दरी ॥ १८२.४६ ॥
वसिष्यामि तया देव्या सहितो भृगुकच्छके ।
एवमुक्त्वा स्थितो देवो भृगुकच्छेऽम्बिका तथा ॥ १८२.४७ ॥
भृगुस्तु स्वपुरं प्रायाद्ब्रह्मघोषनिनादितम् ।
ऋग्यजुःसामघोषेण ह्यथर्वणनिनादितम् ॥ १८२.४८ ॥
तत्र तीर्थे तु यः स्नात्वा वृषमुत्सृजते नरः ।
स याति शिवसायुज्यमित्येवं शङ्करोऽब्रवीत् ॥ १८२.४९ ॥
तत्र तीर्थे तु यः स्नात्वा चैत्रे मासि समाचरेत् ।
दद्याच्च लवणं विप्रे पूज्य सौभाग्यसुन्दरीम् ॥ १८२.५० ॥
गोभूहिरण्यं विप्रेभ्यः प्रीयेतां ललिताशिवौ ।
न दुःखं दुर्भगत्वं च वियोगं पतिना सह ॥ १८२.५१ ॥
प्राप्नोति नारी राजेन्द्र भृगुतीर्थाप्लवेन च ।
यस्तु नित्यं भृगुं देवं पश्येद्वै पाण्डुनन्दन ॥ १८२.५२ ॥
आ ब्रह्मसदनं यावत्तत्रस्थैर्दैवतैः सह ।
यत्फलं समवाप्नोति तच्छृणुष्व नृपोत्तम ॥ १८२.५३ ॥
सुवर्णशृङ्गीं कपिलां पयस्विनीं साध्वीं सुशीलां तरुणीं सवत्साम् ।
दत्त्वा द्विजे सर्वव्रतोपपन्ने फलं च यत्स्यात्तदिहैव नूनम् ॥ १८२.५४ ॥
समाः सहस्राणि तु सप्त वै जले म्रियेल्लभेद्द्वादशवह्निमध्ये ।
त्यजंस्तनुं शूरवृत्त्या नरेन्द्र शक्रातिथ्यं याति वै मर्त्यधर्मा ॥ १८२.५५ ॥
आख्यानमेतच्च सदा यशस्यं स्वर्ग्यं धन्यं पुत्र्यमायुष्यकारि ।
शृण्वंल्लभेत्सर्वमेतद्धि भक्त्या पर्वणि पर्वण्याजमीढस्सदैव ॥ १८२.५६ ॥
संन्यासं कुरुते यस्तु भृगुतीर्थे विधानतः ।
स मृतः परमं स्थानं गच्छेद्वै यच्च दुर्लभम् ॥ १८२.५७ ॥
एतच्छ्रुत्वा भृगुश्रेष्ठो देवदेवेन भाषितम् ।
प्रहृष्टवदनो भूत्वा तत्रैव संस्थितो द्विजः ॥ १८२.५८ ॥
तिरोभावं गते देवे भृगुः श्रेष्ठो द्विजोत्तमः ।
स्वमूर्ति तत्र मुक्त्वा तु ब्रह्मलोकं जगाम ह ॥ १८२.५९ ॥
भृगुकच्छस्य चोत्पत्तिः कथिता तव पाण्डव ।
संक्षेपेण महाराज सर्वपामप्रणाशनी ॥ १८२.६० ॥
एतत्पुण्यं पापहरं क्षेत्रं देवेन कीर्तितम् ।
चतुर्युगसहस्रेण पितामहदिनं स्मृतम् ॥ १८२.६१ ॥
प्राप्ते ब्रह्मदिने विप्रा जायते युगसम्भवः ।
न पश्यामि त्विदं क्षेत्रमिति रुद्रः स्वयं जगौ ॥ १८२.६२ ॥
यः शृणोति त्विदं भक्त्या नारी वा पुरुषोऽपि वा ।
स याति परमं लोकमिति रुद्रः स्वयं जगौ ॥ १८२.६३ ॥
देवखाते नरः स्नात्वा पिण्डदानादिसत्क्रियाम् ।
यां करोति नृपश्रेष्ठ तामक्षयफलां विदुः ॥ १८२.६४ ॥
य इमं शृणुयाद्भक्त्या भृगुकच्छस्य विस्तरम् ।
कोटितीर्थफलं तस्य भवेद्वै नात्र संशयः ॥ १८२.६५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृगुकच्छतीर्थमाहात्म्यवर्णनं नाम द्व्यशीत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 183
अध्याय १८३
श्रीमार्कण्डेय उवाच -
अतः परं महाराज गच्छेत्केदारसंज्ञकम् ।
यत्र गत्वा महाराज श्राद्धं कृत्वा पिबेज्जलम् ।
सम्पूज्य देवदेवेशं केदारोत्थं फलं लभेत् ॥ १८३.१ ॥
युधिष्ठिर उवाच -
कथमत्र सुरश्रेष्ठ केदाराख्यः स्थितः स्वयम् ।
उत्तरे नर्मदाकूले एतद्विस्तरतो वद ॥ १८३.२ ॥
श्रीमार्कण्डेय उवाच -
पुरा कृतयुगस्यादौ शङ्करस्तु महेश्वरः ।
भृगुणाराधितः शप्तः श्रिया च भृगुकच्छके ॥ १८३.३ ॥
अपवित्रमिदं क्षेत्रं सर्ववेदविवर्जितम् ।
भविष्यति नृपश्रेष्ठ गतेत्युक्त्वा हरिप्रिया ॥ १८३.४ ॥
तपश्चचार विपुलं भृगुर्वर्षसहस्रकम् ।
वायुभक्षो निराहारश्चिरं धमनिसंततः ॥ १८३.५ ॥
ततः प्रत्यक्षतामागाल्लिङ्गीभूतो महेश्वरः ।
प्रादुर्भूतस्तु सहसा भित्त्वा पातालसप्तकम् ॥ १८३.६ ॥
ददर्शाथ भृगुर्देवमौत्पलीं केलिकामिव ।
स्तुतिं चक्रे स देवाय स्थाणवे त्र्यम्बकेति च ॥ १८३.७ ॥
एवं स्तुतः स भगवान् प्रोवाच प्रहसन्निव ।
पुनः पुनर्भृगुं मत्तः किंतु प्रार्थयसे मुने ॥ १८३.८ ॥
भृगुरुवाच -
पञ्चक्रोशमिदं क्षेत्रं पद्मया शापितं विभो ।
उपवित्रमिदं क्षेत्रं सर्ववेदविवर्जितम् ।
भविष्यतीति च प्रोच्य गता देवी विदं प्रति ॥ १८३.९ ॥
पुनः पवित्रतां याति यथेदं क्षेत्रमुत्तमम् ।
तथा कुरु महेशान प्रसन्नो यदि शङ्कर ॥ १८३.१० ॥
ईश्वर उवाच -
केदाराख्यमिदं ब्रह्मंल्लिङ्गमाद्यं भविष्यति ।
कृत्वेदमादिलिङ्गानि भविष्यन्ति दशैव हि ॥ १८३.११ ॥
एकादशमदृश्यं हि क्षेत्रमध्ये भविष्यति ।
पावयिष्यति तत्क्षेत्रमेकादशः स्वयं विभुः ॥ १८३.१२ ॥
तथा वै द्वादशादित्या मत्प्रसादात्तु मूर्तितः ।
वसिष्यन्ति भृगुक्षेत्रे रोगदुःखनिबर्हणाः ॥ १८३.१३ ॥
दुर्गाः ह्यष्टादश तथा क्षेत्रपालास्तु षोडश ।
भृगुक्षेत्रे भविष्यन्ति वीरभद्राश्च मातरः ॥ १८३.१४ ॥
पवित्रीकृतमेतद्धि नित्यं क्षेत्रं भविष्यति ।
नाघमासे ह्युषःकाले स्नात्वा मासं जितेन्द्रियः ॥ १८३.१५ ॥
यः पूजयति केदारं स गच्छेच्छिवमन्दिरम् ।
तस्मिंस्तीर्थे नरः स्नात्वा पित्ःनुद्दिश्य भारत ।
श्राद्धं ददाति विधिवत्तस्य प्रीताः पितामहाः ॥ १८३.१६ ॥
इति ते कथितं सम्यक्केदाराख्यं सविस्तरम् ।
सर्वपापहरं पुण्यं सर्वदुःखप्रणाशनम् ॥ १८३.१७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे केदारेश्वरतीर्थमाहात्म्यवर्णनं नाम त्र्यशीत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 184
अस्य पृष्ठस्य सामग्री हेतु निम्नलिखित स्रोतस्य पाठस्य उपयोगः कृतं भवति --
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 184
अध्याय १८४
श्रीमार्कण्डेय उवाच -
धौतपापं ततो गच्छेद्भृगुतीर्थसमीपतः ।
वृषेण तु भृगुस्तत्र भूयोभूयो धुतस्ततः ॥ १८४.१ ॥
धौतपापं तु तत्तेन नाम्ना लोकेषु विश्रुतम् ।
तत्र स्थितो महादेवस्तुष्ट्यर्थं भृगुसत्तमे ॥ १८४.२ ॥
तत्र तीर्थे तु यः स्नात्वा शाठ्येनापि नरेश्वर ।
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ १८४.३ ॥
यस्तु सम्यग्विधानेन तत्र स्नात्वार्चयेच्छिवम् ।
देवान्पितॄन्समभ्यर्च्य मुच्यते सर्वपातकैः ॥ १८४.४ ॥
ब्रह्महत्या गवां वध्या तत्र तीर्थे युधिष्ठिर ।
प्रविशेन्न सदा भीता प्रविष्टापि क्षयं व्रजेत् ॥ १८४.५ ॥
युधिष्ठिर उवाच -
आश्चर्यभूतं लोकेऽस्मिन्कथयस्व द्विजोत्तम ।
प्रविशेन्न ब्रह्महत्या यथा वै धौतपाप्मनि ॥ १८४.६ ॥
ब्रह्महत्यासमं पापं भविता नेह किंचन ।
कथं वा धौतपापे तु प्रविष्टं नश्यते द्विज ।
एतद्विस्तरतः सर्वं पृच्छामि वद कौतुकात् ॥ १८४.७ ॥
मार्कण्डेय उवाच -
आदिसर्गे पुरा शम्भुर्ब्रह्मणः परमेष्ठिनः ।
विकारं पञ्चमं दृष्ट्वा शिरोऽश्वमुखसन्निभम् ॥ १८४.८ ॥
अङ्गुष्ठाङ्गुलियोगेन तच्छिरस्तेन कृन्तितम् ।
कृत्तमात्रे तु शिरसि ब्रह्महत्याऽभवत्तदा ॥ १८४.९ ॥
ब्रह्महत्यायुतश्चासीदुत्तरे नर्मदातटे ।
धुनितं तु यतो राजन्वृषेण धर्ममूर्तिना ॥ १८४.१० ॥
तत्र धौतेश्वरीं देवीं स्थापितां वृषभेण तु ।
ददर्श भगवाञ्छम्भुः सर्वदैवतपूजिताम् ॥ १८४.११ ॥
दृष्ट्वा धौतेश्वरीं दुर्गां ब्रह्महत्याविनाशिनीम् ।
तत्र विश्रममाणश्च शङ्करस्त्रिपुरान्तकः ॥ १८४.१२ ॥
स शङ्करो ब्रह्महत्याविहीनं मेने त्मानं तस्य तीर्थस्य भावात् ।
सुविस्मितो देवदेवो वरेण्यो दृष्ट्वा दूरे ब्रह्महत्यां च तीर्थात् ॥ १८४.१३ ॥
विधौतपापं महितं धर्मशक्त्या विशेन्न हत्या देवीभयात्प्रभीता ।
रक्ताम्बरा रक्तमाल्योपयुक्ता कृष्णा नारी रक्तदामप्रसक्ता ॥ १८४.१४ ॥
मां वाञ्छन्ती स्कन्धदेशं रहस्ये दूरे स्थिता तीर्थवर्यप्रभावात् ।
संचिन्त्य देवो मनसा स्मरारिर्वासाय बुद्धिं तत्र तीर्थे चकार ॥ १८४.१५ ॥
विमृश्य देवो बहुशः स्थितः स्वयं विधौतपापः प्रथितः पृथिव्याम् ।
बभूव तत्रैव निवासकारी विधूतपापनिकटप्रदेशे ॥ १८४.१६ ॥
तदाप्रभृति राजेन्द्र ब्रह्महत्याविनाशनम् ।
विधौतपापं तत्तीर्थं नर्मदायां व्यवस्थितम् ॥ १८४.१७ ॥
आश्वयुक्शुक्लनवमी तत्र तीर्थे विशिष्यते ।
दिनत्रयं तु राजेन्द्र सप्तम्यादिविशेषतः ॥ १८४.१८ ॥
समुपोष्याष्टमीं भक्त्या साङ्गं वेदं पठेत्तु यः ।
अहोरात्रेण चैकेन ऋग्यजुःसामसंज्ञकम् ॥ १८४.१९ ॥
अभ्यसन्ब्रह्महत्याया मुच्यते नात्र संशयः ।
वृषलीगमनं चैव यश्च गुर्वङ्गनागमः ॥ १८४.२० ॥
स्नात्वा ब्रह्मरसोत्कृष्टे कुम्भेनैव प्रमुच्यते ।
वन्ध्या स्त्रीजननी या तु काकवन्ध्या मृतप्रजा ॥ १८४.२१ ॥
सापि कुम्भोदकैः स्नाता जीवत्पुत्रा प्रजावती ।
अपठस्तु नरोपोष्य ऋग्यजुःसामसम्भवाम् ॥ १८४.२२ ॥
ऋचमेकां जपन्विप्रस्तथा पर्वणि यो नृप ।
अनृचोपोष्य गायत्रीं जपेद्वै वेदमातरम् ॥ १८४.२३ ॥
जपन्नवम्यां विप्रेन्द्रो मुच्यते पापसञ्चयात् ।
एवं तु कथितं तात पुराणोक्तं महर्षिभिः ॥ १८४.२४ ॥
धौतपापं महापुण्यं शिवेन कथितं मम ।
प्राणत्यागं तु यः कुर्याज्जले वाग्नौ स्थलेऽपि वा ॥ १८४.२५ ॥
स गच्छति विमानेन ज्वलनार्कसमप्रभः ।
हंसबर्हिप्रयुक्तेन सेव्यमानोऽप्सरोगणैः ॥ १८४.२६ ॥
शिवस्य परमं स्थानं यत्सुरैरपि दुर्लभम् ।
क्रीडते स्वेच्छया तत्र यावच्चन्द्रार्कतारकम् ॥ १८४.२७ ॥
धौतपापे तु या नारी कुरुते प्राणसंक्षयम् ।
तत्क्षणादेव सा पार्थ पुरुषत्वमवाप्नुयात् ॥ १८४.२८ ॥
अथ किं बहुनोक्तेन शुभं वा यदि वाशुभम् ।
तदक्षयफलं सर्वं धौतपापे कृतं नृप ॥ १८४.२९ ॥
संन्यसेन्नियमेनान्नं संन्यसेद्विषयादिकम् ।
फलमूलादिकं चैव जलमेकं न संत्यजेत् ॥ १८४.३० ॥
एवं यः कुरुते पार्थ रुद्रलोकं स गच्छति ।
तत्र भुक्त्वाखिलान्भोगाञ्जायते भुवि भूपतिः ॥ १८४.३१ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे धौतपापतीर्थमाहात्म्यवर्णनं नाम चतुरशीत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 185
अध्याय १८५
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल एरण्डीतीर्थमुत्तमम् ।
स्नानमात्रेण तत्रैव ब्रह्महत्या प्रणश्यति ॥ १८५.१ ॥
मासि चाश्वयुजे तत्र शुक्लपक्षे चतुर्दशीम् ।
उपोष्य प्रयतः स्नातस्तर्पयेत्पितृदेवताः ॥ १८५.२ ॥
पुत्रर्द्धिरूपसम्पन्नो जीवेच्च शरदां शतम् ।
शिवलोकं मृतो याति नात्र कार्या विचारणा ॥ १८५.३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीतीर्थमाहात्म्यवर्णनं नाम पञ्चाशीत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 186
अध्याय १८६
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल तीर्थं कनखलोत्तमम् ।
गरुडेन तपस्तप्तं पूजयित्वा महेश्वरम् ॥ १८६.१ ॥
दिव्यं वर्षशतं यावज्जातमात्रेण भारत ।
तपोजपैः कृशीभूतो दृष्टो देवेन शम्भुना ॥ १८६.२ ॥
ततस्तुष्टो महादेवो वैनतेयं मनोजवम् ।
उवाच परमं वाक्यं विनतानन्दवर्धनम् ॥ १८६.३ ॥
प्रसन्नस्ते महाभाग वरं वरय सुव्रत ।
दुर्लभं त्रिषु लोकेषु ददामि तव खेचर ॥ १८६.४ ॥
गरुड उवाच -
इच्छामि वाहनं विष्णोर्द्विजेन्द्रत्वं सुरेश्वर ।
प्रसन्ने त्वयि मे सर्वं भवत्विति मतिर्मम ॥ १८६.५ ॥
श्रीमहेश उवाच -
दुर्लभः प्राणिनां तात यो वरः प्रार्थितोऽनघ ।
देवदेवस्य वाहनं द्विजेन्द्रत्वं सुदुर्लभम् ॥ १८६.६ ॥
नारायणोदरे सर्वं त्रैलोक्यं सचराचरम् ।
त्वया स कथमूह्येत देवदेवो जगद्गुरुः ॥ १८६.७ ॥
तेनैव स्थापितश्चेन्द्रस्त्रैलोक्ये सचराचरे ।
कथमन्यस्य चेन्द्रत्वं भवतीति सुदुर्लभम् ॥ १८६.८ ॥
तथापि मम वाक्येन वाहनं त्वं भविष्यसि ।
शङ्खचक्रगदापाणेर्वहतोऽपि जगत्त्रयम् ॥ १८६.९ ॥
इन्द्रस्त्वं पक्षिणां मध्ये भविष्यसि न संशयः ।
इति दत्त्वा वरं तस्मा अन्तर्धानं गतो हरः ॥ १८६.१० ॥
ततो गते महादेवे ह्युरुणस्यानुजो नृप ।
आराधयामास तदा चामुण्डां मुण्डमण्डिताम् ॥ १८६.११ ॥
श्मशानवासिनीं देवीं बहुभूतसमन्विताम् ।
योगिनीं योगसंसिद्धां वसामांसासवप्रियाम् ॥ १८६.१२ ॥
ध्यातमात्रा तु तेनैव प्रत्यक्षा ह्यभवत्तदा ।
जालंधरे च या सिद्धिः कौलीने उड्डिशे परे ॥ १८६.१३ ॥
समग्रा सा भृगुक्षेत्रे सिद्धक्षेत्रे तु संस्थिता ।
चामुण्डा तत्र सा देवी सिद्धक्षेत्रे व्यवस्थिता ॥ १८६.१४ ॥
संस्तुता ऋषिभिर्देवैर्योगक्षेमार्थसिद्धये ।
विनतानन्दजननस्तत्र तां योगिनीं नृप ।
भक्त्या प्रसादयामास स्तोत्रैर्वैदिकलौकिकैः ॥ १८६.१५ ॥
गरुड उवाच -
ओं या सा क्षुत्क्षामकण्ठा नवरुधिरमुखा प्रेतपद्मासनस्था भूतानां वृन्दवृन्दैः पितृवननिलया क्रीडते शूलहस्ता ।
शस्त्रध्वस्तप्रवीरव्रजरुधिरगलन्मुण्डमालोत्तरीया देवी श्रीवीरमाता विमलशशिनिभा पातु वश्चर्ममुण्डा ॥ १८६.१६ ॥
या सा क्षुत्क्षामकण्ठा विकृतभयकरी त्रासिनी दुष्कृतानां मुञ्चज्ज्वालाकलापैर्दशनकसमसैः खादति प्रेतमांसम् ।
या सा दोर्दण्डचण्डैर्डमरुरणरणाटोपटंकारघण्टैः कल्पान्तोत्पातवाताहतपटुपटहैर्वल्गते भूतमाता ।
क्षुत्क्षामा शुष्ककुक्षिः खवरतरनरवरैः क्षोदति प्रेतमांसं मुञ्चन्ती चाट्टहासं घुरघुरितरवा पातु वश्चर्ममुण्डा ॥ १८६.१७ ॥
या सा निम्नोदराभा विकृतभवभयत्रासिनी शूलहस्ता चामुण्डा मुण्डघाता रणरणितरणझल्लरीनादरम्या ।
त्रैलोक्यं त्रासयन्ति ककहकहकहैर्घोररावैरनेकैर्नृत्यन्ती मातृमध्ये पितृवननिलया पातु वश्चर्ममुण्डा ॥ १८६.१८ ॥
या धत्ते विश्वमखिलं निजांशेन महोज्ज्वला ।
कनकप्रसवे लीना पातु मां कनकेश्वरी ॥ १८६.१९ ॥
हिमाद्रिसम्भवा देवी दयादर्शितविग्रहा ।
शिवप्रिया शिवे सक्ता पातु मां कनकेश्वरी ॥ १८६.२० ॥
अनादिजगदादिर्या रत्नगर्भा वसुप्रिया ।
रथाङ्गपाणिना पद्मा पातु मां कनकेश्वरी ॥ १८६.२१ ॥
सावित्री या च गायत्री मृडानी वागथेन्दिरा ।
स्मर्त्ःणां या सुखं दत्ते पातु मां कनकेश्वरी ॥ १८६.२२ ॥
सौम्यासौम्यैः सदा रूपैः सृजत्यवति या जगत् ।
परा शक्तिः परा बुद्धिः पातु मां कनकेश्वरी ॥ १८६.२३ ॥
ब्रह्मणः सर्गसमये सृज्यशक्तिः परा तु या ।
जगन्माया जगद्धात्री पातु मां कनकेश्वरी ॥ १८६.२४ ॥
विश्वस्य पालने विष्णोर्या शक्तिः परिपालिका ।
मदनोन्मादिनी मुख्या पातु मां कनकेश्वरी ॥ १८६.२५ ॥
विश्वसंलयने मुख्या या रुद्रेण समाश्रिता ।
रौद्री शक्तिः शिवानन्ता पातु मां कनकेश्वरी ॥ १८६.२६ ॥
कैलाससानुसंरूढ कनकप्रसवेशया ।
भस्मकाभिहृता पूर्वं पातु मां कनकेश्वरी ॥ १८६.२७ ॥
पतिप्रभावमिच्छन्ती त्रस्यन्ती या विना पतिम् ।
अबला त्वेकभावा च पातु मां कनकेश्वरी ॥ १८६.२८ ॥
विश्वसंरक्षणे सक्ता रक्षिता कनकेन या ।
आ ब्रह्मस्तम्बजननी पातु मां कनकेश्वरी ॥ १८६.२९ ॥
ब्रह्मविष्ण्वीश्वराः शक्त्या शरीरग्रहणं यया ।
प्रापिताः प्रथमा शक्तिः पातु मां कनकेश्वरी ॥ १८६.३० ॥
श्रुत्वा तु गरुडेनोक्तं देवीवृत्तचतुष्टयम् ।
प्रसन्ना संमुखी भूत्वा वाक्यमेतदुवाच ह ॥ १८६.३१ ॥
श्रीचामुण्डोवाच -
प्रसन्ना ते महासत्त्व वरं वरय वाञ्छितम् ।
ददामि ते द्विजश्रेष्ठ यत्ते मनसि रोचते ॥ १८६.३२ ॥
गरुड उवाच -
अजरश्चामरश्चैव अधृष्यश्च सुरासुरैः ।
तव प्रसादाच्चैवान्यैरजेयश्च भवाम्यहम् ॥ १८६.३३ ॥
त्वया चात्र सदा देवि स्थातव्यं तीर्थसन्निधौ ।
मार्कण्डेय उवाच -
एवं भविष्यतीत्युक्त्वा देवी देवैरभिष्टुता ॥ १८६.३४ ॥
जगामाकाशमाविश्य भूतसङ्घसमन्विता ।
यदा लक्ष्म्या नृपश्रेष्ठ स्थापितं पुरमुत्तमम् ॥ १८६.३५ ॥
अनुमान्य तदा देवीं कृतं तस्यां समर्पितम् ।
लक्ष्मीरुवाच -
रक्षणाय मया देवि योगक्षेमार्थसिद्धये ॥ १८६.३६ ॥
मातृवत्प्रतिपाल्यं ते सदा देवि पुरं मम ।
गरुडोऽपि ततः स्नात्वा सम्पूज्य कनकेश्वरीम् ॥ १८६.३७ ॥
तीर्थं तत्रैव संस्थाप्य जगामाकाशमुत्तमम् ।
तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ॥ १८६.३८ ॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।
गन्धपुष्पादिभिर्यस्तु पूजयेत्कनकेश्वरम् ॥ १८६.३९ ॥
तस्य योगैश्वर्यसिद्धिर्योगपीठेषु जायते ।
मृतो योगेश्वरं लोकं जयशब्दादिमङ्गलैः ।
स गच्छेन्नात्र सन्देहो योगिनीगणसंयुतः ॥ १८६.४० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कनखलेश्वरतीर्थमाहात्म्यवर्णनं नाम षडशीत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 187
अध्याय १८७
श्रीमार्कण्डेय उवाच -
जालेश्वरं ततो गच्छेल्लिङ्गमाद्यं स्वयम्भुवः ।
कालाग्निरुद्रं विख्यातं भृगुकच्छे व्यवस्थितम् ॥ १८७.१ ॥
सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ।
क्षेत्रपापविनाशाय कृपया च समुत्थितम् ॥ १८७.२ ॥
पुरा कल्पेऽसुरगणैराक्रान्ते भुवनत्रये ।
वेदोक्तकर्मनाशे च धर्मे च विलयं गते ॥ १८७.३ ॥
देवर्षिमुनिसिद्धेषु विश्वासपरमेषु च ।
कालाग्निरुद्रादुत्पन्नो धूमः कालोद्भवोद्भवः ॥ १८७.४ ॥
धूमात्समुत्थितं लिङ्गं भित्त्वा पातालसप्तकम् ।
अवटं दक्षिणे कृत्वा लिङ्गं तत्रैव तिष्ठति ॥ १८७.५ ॥
तत्र तीर्थे नृपश्रेष्ठ कुण्डं ज्वालासमुद्भवम् ।
यत्र सा पतिता ज्वाला शिवस्य दहतः पुरम् ॥ १८७.६ ॥
तत्रावटं समुद्भूतं धूमावर्तस्ततोऽभवत् ।
तस्मिन्कुण्डे तु यः स्नानं कृत्वा वै नर्मदाजले ॥ १८७.७ ॥
कुर्याच्छ्राद्धं पितृभ्यो वै पूजयेच्च त्रिलोचनम् ।
कालाग्निरुद्रनामानि स गच्छेत्परमां गतिम् ॥ १८७.८ ॥
यत्किंचित्कामिकं कर्म ह्याभिचारिकमेव वा ।
रिपुसंक्षयकृद्वापि सांतानिकमथापि वा ।
अत्र तीर्थे कृतं सर्वमचिरात्सिध्यते नृप ॥ १८७.९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कालाग्निरुद्रतीर्थमाहात्म्यवर्णनं नाम सप्ताशीत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 188
अध्याय १८८
श्रीमार्कण्डेय उवाच -
ततः परं महाराज चत्वारिंशत्क्रमान्तरे ।
शालग्रामं ततो गच्छेत्सर्वदैवतपूजितम् ॥ १८८.१ ॥
यत्रादिदेवो भगवान्वासुदेवस्त्रिविक्रमः ।
स्वयं तिष्ठति लोकात्मा सर्वेषां हितकाम्यया ॥ १८८.२ ॥
नारदेन तपस्तप्त्वा कृता शाला द्विजन्मनाम् ।
सिद्धिक्षेत्रं भृगुक्षेत्रं ज्ञात्वा रेवातटे स्वयम् ॥ १८८.३ ॥
शालग्रामाभिधो देवो विप्राणां त्वधिवासितः ।
साधूनां चोपकाराय वासुदेवः प्रतिष्ठितः ॥ १८८.४ ॥
योगिनामुपकाराय योगिध्येयो जनार्दनः ।
शालग्रामेति तेनैव नर्मदातटमाश्रितः ॥ १८८.५ ॥
मासि मार्गशिरे शुक्ला भवत्येकादशी यदा ।
स्नात्वा रेवाजले पुण्ये तद्दिनं समुपोषयेत् ॥ १८८.६ ॥
रात्रौ जागरणं कुर्यात्सम्पूज्य च जनार्दनम् ।
पुनः प्रभातसमये द्वादश्यां नर्मदाजले ॥ १८८.७ ॥
स्नात्वा संतर्प्य देवांश्च पितॄन्मातॄंस्तथैव च ।
श्राद्धं कृत्वा ततः पश्चात्पितृभ्यो विधिपूर्वकम् ॥ १८८.८ ॥
शक्तितो ब्राह्मणान्पूज्य स्वर्णवस्त्रान्नदानतः ।
क्षमापयित्वा तान्विप्रांस्तथा देवं खगध्वजम् ॥ १८८.९ ॥
एवं कृते महाराज यत्पुण्यं च भवेन्नॄणाम् ।
शृणुष्वावहितो भूत्वा तत्पुण्यं नृपसत्तम ॥ १८८.१० ॥
न शोकदुःखे प्रतिपत्स्यतीह जीवन्मृतो याति मुरारिसाम्यम् ।
महान्ति पापानि विसृज्य दुग्धं पुनर्न मातुः पिबते स्तनोद्यत् ॥ १८८.११ ॥
शालग्रामं पश्यते यो हि नित्यं स्नात्वा जले नार्मदेऽघौघहारे ।
स मुच्यते ब्रह्महत्यादिपापैर्नारायणानुस्मरणेन तेन ॥ १८८.१२ ॥
वसन्ति ये संन्यसित्वा च तत्र निगृह्य दुःखानि विमुक्तसङ्घाः ।
ध्यायन्तो वै सांख्यवृत्त्या तुरीयं पदं मुरारेस्तेऽपि तत्रैव यान्ति ॥ १८८.१३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शालग्रामतीर्थमहात्म्यवर्णनं नामाष्टाशीत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 189
अध्याय १८९
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
उदीर्णो यत्र वाराहो ह्यभवद्धरणीधरः ॥ १८९.१ ॥
धन्वदंष्ट्रां करालाग्रां बिभ्रच्च पृथिवीमिमाम् ।
स एव पञ्चमः प्रोक्तो वाराहो मुक्तिदायकः ॥ १८९.२ ॥
युधिष्ठिर उवाच -
कथमुदीर्णरूपोऽभूद्वाराहो धरणीधरः ।
वाराहत्वं गतः केन पञ्चमः केन संज्ञितः ॥ १८९.३ ॥
मार्कण्डेय उवाच -
आदिकल्पे पुरा राजन्क्षीरोदे भगवान् हरिः ।
शेते स भोगिशयने योगनिद्राविमोहितः ॥ १८९.४ ॥
बभूव नृपतिश्रेष्ठ गत्वा वै देवसंनिधौ ।
अवोचद्भारखिन्नाहं गमिष्यामि रसातलम् ॥ १८९.५ ॥
दृष्ट्वा देवाः समुद्विग्ना गता यत्र जनार्दनः ।
तुष्टुवुर्वाग्भिरिष्टाभिः केशवं जगत्पतिम् ॥ १८९.६ ॥
देवा ऊचुः ।
नमो नमस्ते देवेश सुरार्तिहर सर्वग ।
विश्वमूर्ते नमस्तुभ्यं त्राहि सर्वान्महद्भयात् ॥ १८९.७ ॥
इत्युक्तो दैवतैर्देवो ह्युवाच किमुपस्थितम् ।
कार्यं वदध्वं मे देवा यत्कृत्यं मा चिरं कृथाः ॥ १८९.८ ॥
देवा ऊचुः ।
धरा धरित्री भूतानां भारोद्विग्ना निमज्जति ।
तामुद्धर हृषीकेश लोकान्संस्थापय स्थितौ ॥ १८९.९ ॥
एवमुक्तः सुरैः सर्वैः केशवः परमेश्वरः ।
वाराहं रूपमास्थाय सर्वयज्ञमयं विभुः ॥ १८९.१० ॥
दंष्ट्राकरालं पिङ्गाक्षं समाकुञ्चितमूर्धजम् ।
कृत्वाऽनन्तं पादपीठं दंष्ट्राग्रेणोद्धरन्भुवम् ॥ १८९.११ ॥
सपर्वतवनामुर्वीं समुद्रपरिमेखलाम् ।
उद्धृत्य भगवान् विष्णुरुदीर्णः समजायत ॥ १८९.१२ ॥
दर्शयन्पञ्चधात्मानमुत्तरे नर्मदातटे ।
तथाद्यं कोरलायां तु द्वितीयं योधनीपुरे ॥ १८९.१३ ॥
जयक्षेत्राभिधाने तु जयेति परिकीर्तितम् ।
असुरान्मोहयल्लिङ्गस्तृतीयः परिकीर्तितः ॥ १८९.१४ ॥
पावनाय जगद्धेतोः स्थितो यस्माच्छशिप्रभः ।
अतस्तु नृपशार्दूल श्वेत इत्याभिधीयते ॥ १८९.१५ ॥
उद्धृत्य जगतां देवीमुदीर्णो भृगुकच्छके ।
ततः पञ्चम उदीर्णो वराह इति संज्ञितः ॥ १८९.१६ ॥
इति पञ्चवराहास्ते कथितः पाण्डुनन्दन ।
युगपद्दर्शनं चैषां ब्रह्महत्यां व्यपोहति ॥ १८९.१७ ॥
ज्येष्ठे मासि सिते पक्ष एकादश्यां विशेषतः ।
गत्वा ह्यादिवराहं तु सम्प्राप्ते दशमीदिने ॥ १८९.१८ ॥
हविष्यमन्नं भुञ्जीयाल्लघुसायं गते रवौ ।
रात्रौ जागरणं कुर्याद्वाराहे ह्यादिसंज्ञके ॥ १८९.१९ ॥
ततः प्रभाते ह्युषसि संस्नात्वा नर्मदाजले ।
संतर्प्य पितृदेवांश्च तिलैर्यवविमिश्रितैः ॥ १८९.२० ॥
धेनुं दद्याद्द्विजे योग्ये सर्वाभरणभूषिताम् ।
निर्ममो निरहङ्कारो दानं दद्याद्द्विजातये ॥ १८९.२१ ॥
गत्वा सम्पूजयेद्देवं वाराहं ह्यादिसंज्ञितम् ।
अनेन विधिना पूज्य पश्चाद्गच्छेज्जयं त्वरन् ॥ १८९.२२ ॥
त्वरितं तु जयं गत्वा पूर्वकं विधिमाचरेत् ।
अश्वं दद्याद्द्विजाग्र्याय जयपूर्वाभिनिर्गतम् ॥ १८९.२३ ॥
लिङ्गे चैव तिला देयाः श्वेते हिरण्यमेव च ।
उदीर्णे च भुवं दद्यात्पूर्वकं विधिमाचरेत् ॥ १८९.२४ ॥
अनस्तमित आदित्ये वराहान्पञ्च पश्यतः ।
यत्फलं लभते पार्थ तदिहैकमनाः शृणु ॥ १८९.२५ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
एभिस्तु सह संयोगो विश्वस्तानां च वञ्चनम् ॥ १८९.२६ ॥
स्वसृदुहितृभगिनीकुलदारोपबृंहणम् ।
आ जन्ममरणाद्यावत्पापं भरतसत्तम ॥ १८९.२७ ॥
तीर्थपञ्चकपूतस्य वैष्णवस्य विशेषतः ।
युगपच्चविनश्येत तूलराशिरिवानलात् ॥ १८९.२८ ॥
नारायणानुस्मरणाज्जपध्यानाद्विशेषतः ।
विप्रणश्यन्ति पापानि गिरिकूटसमान्यपि ॥ १८९.२९ ॥
दृष्ट्वा पञ्च वराहान्वै पौरुषे महति स्थितः ।
आप्लवन्नर्मदातोये श्राद्धं कृत्वा यथाविधि ॥ १८९.३० ॥
उदयास्तमनादर्वाग्यः पश्येल्लोटणेश्वरम् ।
कलेवरविमुक्तः स इत्येवं शङ्करोऽब्रवीत् ॥ १८९.३१ ॥
मुक्तिं प्रयाति सहसा दुष्प्रापां परमेश्वरीम् ।
पौरुषे क्रियमाणेऽपि न सिद्धिर्जायते यदि ॥ १८९.३२ ॥
ब्रुवन्ति स्वर्गगमनमपि पापान्वितस्य च ।
यत्र तत्र गतस्यैव भवेत्पञ्चवराहकी ॥ १८९.३३ ॥
ज्येष्ठस्यैकादशीतिथौ ध्रुवं तत्र वसेन्नरः ।
आदिं जयं तथा श्वेतं लिङ्गमुदीर्णमेव च ॥ १८९.३४ ॥
आश्रित्य तस्या द्रष्टव्या वराहास्तु यतस्ततः ।
ज्येष्ठस्यैकादशीतिथौ विष्णुना प्रभुविष्णुना ॥ १८९.३५ ॥
वाराहं रूपमास्थाय उद्धृता धरणी विभो ।
पुण्यात्पुण्यतमा तेन ह्यशेषाघौघनाशिनी ॥ १८९.३६ ॥
दृष्ट्वा पञ्चवराहान्वै क्रोडमुदीर्णरूपिणम् ।
पूजयित्वा विधानेन पश्चाज्जागरणं चरेत् ॥ १८९.३७ ॥
सपञ्चवर्तिकान् दीपान् घृतेनोज्ज्वाल्य भक्तितः ।
पुराणश्रवणैर्नृत्यैर्गीतवाद्यैः सुमङ्गलैः ॥ १८९.३८ ॥
वेदजाप्यैः पवित्रैश्च क्षपयित्वा च शर्वरीम् ।
यत्पुण्यं लभते मर्त्यो ह्याजमीढ शृणुष्व तत् ॥ १८९.३९ ॥
रेवाजलं पुण्यतमं पृथिव्यां तथा च देवो जगतां पतिर्हरिः ।
एकादशी पापहरा नरेन्द्र बह्वायासैर्लभ्यते मानवानाम् ॥ १८९.४० ॥
एकैकशो ब्रह्महत्यादिकानि शक्तानि हन्तुं पापसङ्घानि राजन् ।
नैते सर्वे युगपद्वै समेता हन्तुं शक्ताः किं न तद्ब्रूहि राजन् ॥ १८९.४१ ॥
यथेदमुक्तं तव धर्मसूनो श्रुतं च यच्छङ्कराच्चन्द्रमौलेः ।
श्रुत्वेदमिच्छन्मुच्यते सर्वपापैः पठन्पदं याति हि वृत्रशत्रोः ॥ १८९.४२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये उदीर्णवराहतीर्थमाहात्म्यवर्णनं नामैकोननवत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 190
अध्याय १९०
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल सोमतीर्थमनुत्तमम् ।
चन्द्रहासेति विख्यातं सर्वदैवतपूजितम् ॥ १९०.१ ॥
यत्र सिद्धिं परां प्राप्तः सोमो राजा सुरोत्तमः ॥ १९०.२ ॥
युधिष्ठिर उवाच -
कथं सिद्धिमनुप्राप्तः सोमो राजा जगत्पतिः ।
तत्सर्वं श्रोतुमिच्छामि कथयस्व ममानघ ॥ १९०.३ ॥
मार्कण्डेय उवाच -
पुरा शप्तो मुनीन्द्रेण दक्षेण किल भारत ।
असेवनाद्धि दाराणां क्षयरोगी भविष्यसि ॥ १९०.४ ॥
उद्वाहितानां पत्नीनां ये न कुर्वन्ति सेवनम् ।
या निष्ठा जायते तेषां तां शृणुष्व नरोत्तम ॥ १९०.५ ॥
ऋतुकाले तु नारीणां सेवनाज्जायते सुतः ।
सुतात्स्वर्गश्च मोक्षश्च हीत्येवं श्रुतिनोदना ॥ १९०.६ ॥
तत्कालोचितधर्मेण ये न सेवन्ति तां नराः ।
तेषां ब्रह्मघ्नजं पापं जायते नात्र संशयः ॥ १९०.७ ॥
तेन पापेन घोरेण वेष्टतो रौरवे पतेत् ।
तस्य तद्रुधिरं पापाः पिबन्ते कालमीप्सितम् ॥ १९०.८ ॥
ततोऽवतीर्णकालेन यां यां योनिं प्रयास्यति ।
तस्यां तस्यां स दुष्टात्मा दुर्भगो जायते सदा ॥ १९०.९ ॥
नारीणां तु सदा कामो ह्यधिकः परिवर्तते ।
विशेषेण ऋतोः काले भिद्यते कामसायकैः ॥ १९०.१० ॥
परिभूता हि सा भर्त्रा ध्यायतेऽन्यं पतिं ततः ।
तस्याः पुत्रः समुत्पन्नो ह्यटते कुलमुत्तमम् ॥ १९०.११ ॥
स्वर्गस्थास्तेन पितरः पूर्वं जाता महीपते ।
पतन्ति जातमात्रेण कुलटस्तेन चोच्यते ॥ १९०.१२ ॥
तेन कर्मविपाकेन क्षयरोगी शशी ह्यभूत् ।
त्यक्त्वा लोकं सुरेन्द्राणां मर्त्यलोकमुपागतः ॥ १९०.१३ ॥
तत्र तीर्थान्यनेकानि पुण्यान्यायतनानि च ।
भ्रमित्वा नर्मदां प्राप्तः सर्वपापप्रणाशिनीम् ॥ १९०.१४ ॥
उपवासस्तु दानानि व्रतानि नियमाश्च ये ।
चचार द्वादशाब्दानि ततो मुक्तः स किल्बिषैः ॥ १९०.१५ ॥
स्थापयित्वा महादेवं सर्वपातकनाशनम् ।
जगाम प्रभया पूर्णः सोमलोकमनुत्तमम् ॥ १९०.१६ ॥
येनैव स्थापितो देवः पूज्यते वर्षसंख्यया ।
तावद्युगसहस्राणि तस्य लोकं समश्नुते ॥ १९०.१७ ॥
तेन देवान् विधानोक्तान् स्थापयन्ति नरा भुवि ।
अक्षयं चाव्ययं यस्मात्फलं भवति नान्यथा ॥ १९०.१८ ॥
सोमतीर्थे तु यः स्नात्वा पूजयेद्देवमीश्वरम् ।
जायते स नरो भूत्वा सोमवित्प्रियदर्शनः ॥ १९०.१९ ॥
चन्द्रप्रभासे यो गत्वा स्नानं विधिवदाचरेत् ।
व्याधिना नाभिभूतः स्यात्क्षयरोगेण वा युतः ॥ १९०.२० ॥
चन्द्रहास्ये नरः स्नात्वा द्वादश्यां तु नरेश्वर ।
चतुर्दश्यामुपोष्यैव क्षीरस्य जुहुयाच्चरुम् ॥ १९०.२१ ॥
मन्त्रैः पञ्चभिरीशानं पुरुषस्त्र्यम्बकं यजेत् ।
हविःशेषं स्वयं प्राश्य चन्द्रहास्येशमीक्षयेत् ॥ १९०.२२ ॥
अनेन विधिना राजंस्तुष्टो देवो महेश्वरः ।
विधिना तीर्थयोगेन क्षयरोगाद्विमुच्यते ॥ १९०.२३ ॥
सप्तभिः सोमवारैर्यः स्नानं तत्र समाचरेत् ।
स वै कर्णकृताद्रोगान्मुच्यते पूजयञ्छिवम् ॥ १९०.२४ ॥
अक्षिरोगस्तथा राजंश्चन्द्रहास्ये विनश्यति ।
चन्द्रहास्ये तु यो गत्वा ग्रहणे चन्द्रसूर्ययोः ।
स्नानं समाचरेद्भक्त्या मुच्यते सर्वपातकैः ॥ १९०.२५ ॥
तत्र स्नानं च दानं च चन्द्रहास्ये शुभशुभम् ।
कृतं नृपवरश्रेष्ठ सर्वं भवति चाक्षयम् ॥ १९०.२६ ॥
ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
चन्द्रहास्ये तु ये स्नात्वा पश्यन्ति ग्रहणं नराः ॥ १९०.२७ ॥
वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् ।
स्नानमात्रात्तु राजेन्द्र तत्र तीर्थे प्रणश्यति ॥ १९०.२८ ॥
बहवस्तन्न जानन्ति महामोहसमन्विताः ।
देहस्थ इव सर्वेषां परमात्मेव संस्थितम् ॥ १९०.२९ ॥
पश्चिमे सागरे गत्वा सोमतीर्थे तु यत्फलम् ।
तत्समग्रमवाप्नोति चन्द्रहास्ये न संशयः ॥ १९०.३० ॥
संक्रान्तौ च व्यतीपाते विषुवे चायने तथा ।
चन्द्रहास्ये नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥ १९०.३१ ॥
ते मूढास्ते दुराचारास्तेषां जन्म निरर्थकम् ।
चन्द्रहास्यं न जानन्ति नर्मदायां व्यवस्थितम् ॥ १९०.३२ ॥
चन्द्रहास्ये तु यः कश्चित्संन्यासं कुरुते नृप ।
अनिवर्तिका गतिस्तस्य सोमलोकात्कदाचन ॥ १९०.३३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चन्द्रहास्यतीर्थमहात्म्यवर्णनं नाम नवत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 191
अध्याय १९१
श्रीमार्कण्डेय उवाच -
सिद्धेश्वरं ततो गच्छेत्तस्यैव तु समीपतः ।
अमृतस्रावि तल्लिङ्गमाद्यं स्वायम्भुवं तथा ॥ १९१.१ ॥
दृष्टमात्रेण येनेह ह्यनृणो जायते नरः ।
पुरा वर्षशतं साग्रमाराध्य परमेश्वरम् ॥ १९१.२ ॥
प्राप्नुयुः परमां सिद्धिमादित्या द्वादशैव तु ।
अतः सिद्धेश्वरः प्रोक्तः सिद्धिदः सिद्धिकाङ्क्षिणाम् ॥ १९१.३ ॥
युधिष्ठिर उवाच -
कथं सिद्धेश्वरे प्राप्ताः सिद्धिं देवा द्विजोत्तम ।
आदित्या इति यच्चोक्तं तन्मे विस्मापनं कृतम् ॥ १९१.४ ॥
तपस्युग्रे व्यवसिता आदित्याः केन हेतुना ।
सम्प्राप्तास्तु द्विजश्रेष्ठ सिद्धिं चैवाभिलाषिकीम् ॥ १९१.५ ॥
संक्षिप्य तु मया पृष्टं विस्तराद्द्विज शंस मे ॥ १९१.६ ॥
मार्कण्डेय उवाच -
अदितेर्द्वादशादित्या जाताः शक्रपुरोगमाः ।
इन्द्रो धाता भगस्त्वष्टा मित्रोऽथ वरुणोऽर्यमा ॥ १९१.७ ॥
विवस्वान्सविता पूषा ह्यंशुमान्विष्णुरेव च ।
त इमे द्वादशादित्या इच्छन्तो भास्करं पदम् ॥ १९१.८ ॥
नर्मदातटमाश्रित्य तपस्युग्रे व्यवस्थिताः ।
सिद्धेश्वरे महाराज काश्यपेयैर्महात्मभिः ॥ १९१.९ ॥
परा सिद्धिरनुप्राप्ता द्वादशादित्यसंज्ञितैः ।
स्थापितश्च जगद्धाता तस्मिंस्तीर्थे दिवाकरः ॥ १९१.१० ॥
स्वकीयांशविभागेन द्वादशादित्यसंज्ञितैः ।
तदाप्रभृति तत्तीर्थं राजन्ख्यातिं गतं भुवि ॥ १९१.११ ॥
प्रलये समनुप्राप्ते ह्यादित्या द्वादशैव ते ।
द्वादशादित्यतो राजन् सम्भवन्ति युगक्षये ॥ १९१.१२ ॥
इन्द्रस्तपति पूर्वेण धाता चैवाग्निगोचरे ।
गभस्तिपतिर्वै याम्ये त्वष्टा नैरृतदिङ्मुखः ॥ १९१.१३ ॥
वरुणः पश्चिमे भागे मित्रस्तु वायवे तथा ।
विष्णुश्च सौम्यदिग्भागे विवस्वानीशगोचरे ॥ १९१.१४ ॥
ऊर्ध्वतश्चैव सविता ह्यधः पूषा विशोषयन् ।
अंशुमांस्तु तथा विष्णुर्मुखतो निर्गतं जगत् ॥ १९१.१५ ॥
प्रदहन्वै नरश्रेष्ठ बभ्रमुश्च इतस्ततः ।
यथैव ते महाराज दहन्ति सकलं जगत् ॥ १९१.१६ ॥
तथैव द्वादशादित्या भक्तानां भावसाधनाः ।
प्रातरुत्थाय यः स्नात्वा द्वादशादित्यसंज्ञितम् ॥ १९१.१७ ॥
पश्यते देवदेवेशं शृणु तस्यैव यत्फलम् ।
वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् ॥ १९१.१८ ॥
नश्यते तत्क्षणादेव द्वादशादित्यदर्शनात् ।
प्रदक्षिणं तु यः कुर्यात्तस्य देवस्य भारत ॥ १९१.१९ ॥
प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः ।
तत्र तीर्थे तु सप्तम्यामुपवासेन यत्फलम् ॥ १९१.२० ॥
अन्यत्र सप्तसप्तम्यां लभन्ति न लभन्ति च ।
षष्ठ्यां वारे दैनकरे द्वादशादित्यदर्शनात् ॥ १९१.२१ ॥
प्रदक्षिणं तु यः कुर्यात्तस्य पापं तु नश्यति ।
अरोगी सप्तजन्मानि भवेद्वै नात्र संशयः ॥ १९१.२२ ॥
यस्तु प्रदक्षिणशतं दद्याद्भक्त्या दिने दिने ।
दद्रूपिटककुष्ठानि मण्डलानि विचर्चिकाः ॥ १९१.२३ ॥
नश्यन्ति व्याधयः सर्वे गरुडेनेव पन्नगाः ।
पुत्रप्राप्तिर्भवेत्तस्य षष्ट्या वासरसेवनात् ॥ १९१.२४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे द्वादशादित्यतीर्थमाहात्म्यवर्णनं नामैकनवत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 192
अध्याय १९२
मार्कण्डेय उवाच -
तस्यैवानन्तरं तात देवतीर्थमनुत्तमम् ।
दृष्ट्वा तु श्रीपतिं पापैर्मुच्यते मानवो भुवि ॥ १९२.१ ॥
महर्षेस्तस्य जामाता भृगोर्देवो जनार्दनः ॥ १९२.२ ॥
युधिष्ठिर उवाच -
कोऽयं श्रियः पतिर्देवो देवानामधिपो विभुः ।
कथं जन्माभवत्तस्य देवेषु त्रिषु वा मुने ॥ १९२.३ ॥
सम्बन्धी च कथं जातो भृगुणा सह केशवः ।
एतद्विस्तरतो ब्रह्मन् वक्तुमर्हसि भार्गव ॥ १९२.४ ॥
मार्कण्डेय उवाच -
संक्षेपात्कथयिष्यामि साध्यस्य चरितं महत् ।
न हि विस्तरतो वक्तुं शक्ताः सर्वे महर्षयः ॥ १९२.५ ॥
नारायणस्य नाभ्यब्जाज्जातो देवश्चतुर्मुखः ।
तस्य दक्षोऽङ्गजो राजन् दक्षिणाङ्गुष्ठसम्भवः ॥ १९२.६ ॥
धर्मः स्तनान्तात्संजातस्तस्य पुत्रोऽभवत्किल ।
नारायणसहायोऽसावजोऽपि भरतर्षभ ॥ १९२.७ ॥
मरुत्वती वसुर्ज्ञाना लम्बा भानुमती सती ।
संकल्पा च मुहूर्ता च साध्या विश्वावती ककुप् ॥ १९२.८ ॥
धर्मपत्न्यो दशैवैता दाक्षायण्यो महाप्रभाः ।
तासां साध्या महाभागा पुत्रानजनयन्नृप ॥ १९२.९ ॥
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।
विष्णोरंशांशका ह्येते चत्वारो धर्मसूनवः ॥ १९२.१० ॥
तथा नारायणनरौ गन्धमादनपर्वते ।
आत्मन्यात्मानमाधाय तेपतुः परमं तपः ॥ १९२.११ ॥
ध्यायमानावनौपम्यं स्वं कारणमकारणम् ।
वासुदेवमनिर्देश्यमप्रतर्क्यमनन्तरम् ॥ १९२.१२ ॥
योगयुक्तौ महात्मानावास्थितावुरुतापसौ ।
तयोस्तपःप्रभावेण न तताप दिवाकरः ॥ १९२.१३ ॥
ववाह शङ्कितो वायुः सुखस्पर्शो ह्यशङ्कितः ।
शिशिरोऽभवदत्यर्थं ज्वलन्नपि विभावसुः ॥ १९२.१४ ॥
सिंहव्याघ्रादयः सौम्याश्चेरुः सह मृगैर्गिरौ ।
तयोर्गौरिव भारार्ता पृथिवी पृथिवीपते ॥ १९२.१५ ॥
चेरुश्च भूधराश्चैव चुक्षुभे च महोदधिः ।
देवाश्च स्वेषु धिष्ण्येषु निष्प्रभेषु हतप्रभाः ।
बभूवुरवनीपाल परमं क्षोभमागताः ॥ १९२.१६ ॥
देवराजस्तथा शक्रः संतप्तस्तपसा तयोः ।
युयोजाप्सरसस्तत्र तयोर्विघ्नचिकीर्षया ॥ १९२.१७ ॥
इन्द्र उवाच -
रम्भे तिलोत्तमे कुब्जे घृताचि ललिते शुभे ।
प्रम्लोचे सुभ्रु सुम्लोचे सौरभेयि महोद्धते ॥ १९२.१८ ॥
अलम्बुषे मिश्रकेशि पुण्डरीके वरूथिनि ।
विलोकनीयं बिभ्राणा वपुर्मन्मथबोधनम् ॥ १९२.१९ ॥
गन्धमादनमासाद्य कुरुध्वं वचनं मम ।
नरनारायणौ तत्र तपोदीक्षान्वितौ द्विजौ ॥ १९२.२० ॥
तेपाते धर्मतनयौ तपः परमदुश्चरम् ।
तावस्माकं वरारोहाः कुर्वाणौ परमं तपः ॥ १९२.२१ ॥
कर्मातिशयदुःखार्तिप्रदावायतिनाशनौ ।
तद्गच्छत न भीः कार्या भवतीभिरिदं वचः ॥ १९२.२२ ॥
स्मरः सहायो भविता वसन्तश्च वराङ्गनाः ।
रूपं वयः समालोक्य मदनोद्दीपनं परम् ।
कन्दर्पवशमभ्येति विवशः को न मानवः ॥ १९२.२३ ॥
मार्कण्डेय उवाच -
इत्युक्त्वा देवराजेन मदनेन समं तदा ।
जग्मुरप्सरसः सर्वा वसन्तश्च महीपते ॥ १९२.२४ ॥
गन्धमादनमासाद्य पुंस्कोकिलकुलाकुलम् ।
चचार माधवो रम्यं प्रोत्फुल्लवनपादपम् ॥ १९२.२५ ॥
प्रववौ दक्षिणाशायां मलयानुगतोऽनिलः ।
भृङ्गमालारुतरवै रमणीयमभूद्वनम् ॥ १९२.२६ ॥
गन्धश्च सुरभिः सद्यो वनराजिसमुद्भवः ।
किन्नरोरगयक्षाणां बभूव घ्राणतर्पणः ॥ १९२.२७ ॥
वराङ्गनाश्च ताः सर्वा नरनारायणावृषी ।
विलोभयितुमारब्धा वागङ्गललितस्मितैः ॥ १९२.२८ ॥
जगौ मनोहरं काचिन्ननर्त तत्र चाप्सराः ।
अवादयत्तथैवान्या मनोहरतरं नृप ॥ १९२.२९ ॥
हावैर्भावैः सृतैर्हास्यैस्तथान्या वल्गुभाषितैः ।
तयोः क्षोभाय तन्वङ्ग्यश्चक्रुरुद्यममङ्गनाः ॥ १९२.३० ॥
तथापि न तयोः कश्चिन्मनसः पृथिवीपते ।
विकारोऽभवदध्यात्मपारसम्प्राप्तचेतसोः ॥ १९२.३१ ॥
निवातस्थौ यथा दीपावकम्पौ नृप तिष्ठतः ।
वासुदेवार्पणस्वस्थे तथैव मनसी तयोः ॥ १९२.३२ ॥
पूर्यमाणोऽपि चाम्भोभिर्भुवमन्यां महोदधिः ।
यथा न याति संक्षोभं तथा तन्मानसं क्वचित् ॥ १९२.३३ ॥
सर्वभूतहितं ब्रह्म वासुदेवमयं परम् ।
मन्यमानौ न रागस्य द्वेषस्य च वशंगतौ ॥ १९२.३४ ॥
स्मरोऽपि न शशाकाथ प्रवेष्टुं हृदयं तयोः ।
विद्यामयं दीपयुतमन्धकार इवालयम् ॥ १९२.३५ ॥
पुष्पोज्ज्वलांस्तरुवरान् वसन्तं दक्षिणानिलम् ।
ताश्चैवाप्सरसः सर्वाः कन्दर्पं च महामुनी ॥ १९२.३६ ॥
यच्चारब्धं तपस्ताभ्यामात्मानं गन्धमादनम् ।
ददर्शातेऽखिलं रूपं ब्रह्मणः पुरुषर्षभ ॥ १९२.३७ ॥
दाहाय नामलो वह्नेर्नापः क्लेदाय चाम्भसः ।
तद्द्रव्यमेव तद्द्रव्यविकाराय न वै यतः ॥ १९२.३८ ॥
ततो विज्ञाय विज्ञाय परं ब्रह्म स्वरूपतः ।
मधुकन्दर्पयोषित्सु विकारो नाभवत्तयोः ॥ १९२.३९ ॥
ततो गुरुतरं यत्नं वसन्तमदनौ नृप ।
चक्राते ताश्च तन्वङ्ग्यस्तत्क्षोभाय पुनःपुनः ॥ १९२.४० ॥
अथ नारायणो धैर्यं संधायोदीर्णमानसः ।
ऊरोरुत्पादयामास वराङ्गीमबलां तदा ॥ १९२.४१ ॥
त्रैलोक्यसुन्दरीरत्नमशेषमवनीपते ।
गुणैर्लाघवमभ्येति यस्याः संदर्शनादनु ॥ १९२.४२ ॥
तां विलोक्य महीपाल चकम्पे मनसानिलः ।
वसन्तो विस्मयं यातः स्मरः सस्मार किंचन ॥ १९२.४३ ॥
रम्भातिलोत्तमाद्याश्च वैलक्ष्यं देवयोषितः ।
न रेजुरवनीपाल तल्लक्ष्यहृदयेक्षणाः ॥ १९२.४४ ॥
ततः कामो वसन्तश्च पार्थिवाप्सरसश्च ताः ।
प्रणम्य भगवन्तौ तौ तुष्टुवुर्मुनिसत्तमौ ॥ १९२.४५ ॥
वसन्तकामाप्सरस ऊचुः ।
प्रसीदतु जगद्धाता यस्य देवस्य मायया ।
मोहिताः स्म विजानीमो नान्तरं विद्यते द्वयोः ॥ १९२.४६ ॥
प्रसीदतु स वां देवो यस्य रूपमिदं द्विधा ।
धामभूतस्य लोकानामनादेरप्रतिष्ठतः ॥ १९२.४७ ॥
नरनारायणौ देवौ शङ्खचक्रायुधावुभौ ।
आस्तां प्रसादसुमुखावस्माकमपराधिनाम् ॥ १९२.४८ ॥
निधानं सर्वविद्यानां सर्वपापवनानलः ।
नारायणोऽतो भगवान् सर्वपापं व्यपोहतु ॥ १९२.४९ ॥
शार्ङ्गचिह्नायुधः श्रीमानात्मज्ञानमयोऽनघः ।
नरः समस्तपापानि हतात्मा सर्वदेहिनाम् ॥ १९२.५० ॥
जटाकलापबद्धोऽयमनयोर्नः क्षमावतोः ।
सौम्यास्यदृष्टिः पापानि हन्तुं जन्मार्जितानि वै ॥ १९२.५१ ॥
तथात्मविद्यादोषेण योऽपराधः कृतो महान् ।
त्रैलोक्यवन्द्यौ यौ नाथौ विलोभयितुमागताः ॥ १९२.५२ ॥
प्रसीद देव विज्ञानधन मूढदृशामिव ।
भवन्ति सन्तः सततं स्वधर्मपरिपालकाः ॥ १९२.५३ ॥
दृष्ट्वैतन्नः समुत्पन्नं यथा स्त्रीरत्नमुत्तमम् ।
त्वयि नारायणोत्पन्ना श्रेष्ठा पारवती मतिः ॥ १९२.५४ ॥
तेन सत्येन सत्यात्मन्परमात्मन्सनातन ।
नारायण प्रसीदेश सर्वलोकपरायण ॥ १९२.५५ ॥
प्रसन्नबुद्धे शान्तात्मन्प्रसन्नवदनेक्षण ।
प्रसीद योगिनामीश नर सर्वगताच्युत ॥ १९२.५६ ॥
नमस्यामो नरं देवं तथा नारायणं हरिम् ।
नमो नराय नम्याय नमो नारायणाय च ॥ १९२.५७ ॥
प्रसन्नानामनाथानां तथा नाथवतां प्रभो ।
शं करोतु नरोऽस्माकं शं नारायण देहि नः ॥ १९२.५८ ॥
मार्कण्डेय उवाच -
एवमभ्यर्चितः स्तुत्या रागद्वेषादिवर्जितः ।
प्राहेशः सर्वभूतानां मध्ये नारायणो नृप ॥ १९२.५९ ॥
नारायण उवाच -
स्वागतं माधवे कामे भवत्वप्सरसामपि ।
यत्कार्यमागतानां च इहास्माभिस्तदुच्यताम् ॥ १९२.६० ॥
यूयं संसिद्धये नूनमस्माकं बलशत्रुणा ।
संप्रेषितास्ततोऽस्माकं नृत्ययोगादिदर्शनम् ॥ १९२.६१ ॥
न वयं गीतनृत्येन नाङ्गचेष्टादिभाषितैः ।
लुब्धा वै विषयैर्मन्ये विषया दारुणात्मकाः ॥ १९२.६२ ॥
शब्दादिसङ्गदुष्टानि यदा नाक्षाणि नः शुभाः ।
तदा नृत्यादयो भावाः कथं लोभप्रदायिनः ॥ १९२.६३ ॥
ते सिद्धाः स्म न वै साध्या भवतीनां स्मरस्य च ।
माधवस्य च शाक्रोऽपि स्वास्थ्यं यात्वविशङ्किताः ॥ १९२.६४ ॥
योऽसौ परश्च परमः पुरुषः परमेश्वरः ।
परमात्मा समस्तस्य स्थावरस्य चरस्य च ॥ १९२.६५ ॥
उत्पत्तिहेतुरेते च यस्मिन्सर्वं प्रलीयते ।
सर्वावासीति देवत्वाद्वासुदेवेत्युदाहृतः ॥ १९२.६६ ॥
वयमंशांशकास्तस्य चतुर्व्यूहस्य मानिनः ।
तदादेशितवार्त्मानौ जगद्बोधाय देहिनाम् ॥ १९२.६७ ॥
तत्सर्वभूतं सर्वेशं सर्वत्र समदर्शिनम् ।
कुतः पश्यन्तौ रागादीन्करिष्यामो विभेदिनः ॥ १९२.६८ ॥
वसन्ते मयि चेन्द्रे च भवतीषु तथा स्मरे ।
यदा स एव भूतात्मा तदा द्वेषादयः कथम् ॥ १९२.६९ ॥
तन्मयान्यविभक्तानि यदा सर्वेषु जन्तुषु ।
सर्वेश्वरेश्वरो विष्णुः कुतो रागादयस्ततः ॥ १९२.७० ॥
ब्रह्माणमिन्द्रमीशानमादित्यमरुतोऽखिलान् ।
विश्वेदेवानृषीन् साध्यान्वसून्पितृगणांस्तथा ॥ १९२.७१ ॥
यक्षराक्षसभूतादीन्नागान्सर्पान्सरीसृपान् ।
मनुष्यपक्षिगोरूपगजसिंहजलेचरान् ॥ १९२.७२ ॥
मक्षिकामशकान्दंशाञ्छलभाञ्जलजान् कृमीन् ।
गुल्मवृक्षलतावल्लीत्वक्सारतृणजातिषु ॥ १९२.७३ ॥
यच्च किंचिददृश्यं वा दृश्यं वा त्रिदशाङ्गनाः ।
मन्यध्वं जातमेकस्य तत्सर्वं परमात्मनः ॥ १९२.७४ ॥
जायमानः कथं विष्णुमात्मानं परमं च यत् ।
रागद्वेषौ तथा लोभं कः कुर्यादमराङ्गनाः ॥ १९२.७५ ॥
सर्वभूतमये विष्णौ सर्वगे सर्वधातरि ।
निपात्य तं पृथग्भूते कुतो रागादिको गुणः ॥ १९२.७६ ॥
एवमस्मासु युष्मासु सर्वभूतेषु चाबलाः ।
तन्मथैकत्वभूतेषु रागाद्यवसरः कुतः ॥ १९२.७७ ॥
सम्यग्दृष्टिरियं प्रोक्ता समस्तैक्यावलोकिनी ।
पृथग्विज्ञानमात्रैव लोकसंव्यवहारवत् ॥ १९२.७८ ॥
भूतेन्द्रियान्तः करणप्रधानपुरुषात्मकम् ।
जगद्वै ह्येतदखिलं तदा भेदः किमात्मकः ॥ १९२.७९ ॥
भवन्ति लयमायान्ति समुद्रसलिलोर्मयः ।
न वारिभेदतो भिन्नास्तथैवैक्यादिदं जगत् ॥ १९२.८० ॥
यथाग्नेरर्चिषः पीताः पिङ्गलारुणधूसराः ।
तथापि नाग्नितो भिन्नास्तथैतद्ब्रह्मणो जगत् ॥ १९२.८१ ॥
भवतीभिश्च यत्क्षोभमस्माकं स पुरंदरः ।
कारयत्यसदेतच्च विवेकाचारचेतसाम् ॥ १९२.८२ ॥
भवन्त्यः स च देवेन्द्रो लोकाश्च ससुरासुराः ।
समुद्राद्रिवनोपेता मद्देहान्तरगोचराः ॥ १९२.८३ ॥
यथेयं चारुसर्वाङ्गी भवतीनां मयाग्रतः ।
दर्शिता दर्शयिष्यामि तथा चैवाखिलं जगत् ॥ १९२.८४ ॥
प्रयातु शक्रो मा गर्वमिन्द्रत्वं कस्य सुस्थिरम् ।
यूयं च मा स्मयं यात सन्ति रूपान्विताः स्त्रियः ॥ १९२.८५ ॥
किं सुरूपं कुरूपं वा यदा भेदो न दृश्यते ।
तारतम्यं सुरूपत्वे सततं भिन्नदर्शनात् ॥ १९२.८६ ॥
भवतीनां स्मयं मत्वा रूपौदार्यगुणोद्भवम् ।
मयेयं दर्शिता तन्वी ततस्तु शममेष्यथ ॥ १९२.८७ ॥
यस्मान्मदूरोर्निष्पन्ना त्वियमिन्दीवरेक्षणा ।
उर्वशी नाम कल्याणी भविष्यति वराप्सराः ॥ १९२.८८ ॥
तदियं देवराजस्य नीयतां वरवर्णिनी ।
भवत्यस्तेन चास्माकं प्रेषिताः प्रीतिमिच्छता ॥ १९२.८९ ॥
वक्तव्यश्च सहस्राक्षो नास्माकं भोगकारणात् ।
तपश्चर्या न वाप्राप्यफलं प्राप्तुमभीप्सता ॥ १९२.९० ॥
सन्मार्गमस्य जगतो दर्शयिष्ये करोम्यहम् ।
तथा नरेण सहितो जगतः पालनोद्यतः ॥ १९२.९१ ॥
यदि कश्चित्तवाबाधां करोति त्रिदशेश्वर ।
तमहं वारयिष्यामि निवृत्तो भव वासव ॥ १९२.९२ ॥
कर्तासि चेत्त्वमाबाधां न दुष्टस्येह कस्यचित् ।
तं चापि शास्ता तदहं प्रवर्तिष्याम्यसंशयम् ॥ १९२.९३ ॥
एतज्ज्ञात्वा न सन्तापस्त्वया कार्यो हि मां प्रति ।
उपकाराय जगतामवतीर्णोऽस्मि वासव ॥ १९२.९४ ॥
या चेयमुर्वशी मत्तः समुद्भूता पुरंदर त्रेताग्निहेतुभूतेयं एवं प्राप्य भविष्यति ॥ १९२.९५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये श्रीपत्युत्पत्तिवर्णनं नाम द्विनवत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 193
अध्याय १९३
श्रीमार्कण्डेय उवाच -
इत्युक्तेऽप्सरसः सर्वाः प्रणिपत्य पुनः पुनः ।
ऊचुर्नारायणं देवं तद्दर्शनसमीहया ॥ १९३.१ ॥
वसन्तकामाप्सरस ऊचुः ।
भगवन्भवता योऽयमुपदेशो हितार्थिना ।
प्रोक्तः स सर्वो विज्ञातो माहात्म्यं विदितं च ते ॥ १९३.२ ॥
यत्त्वेतद्भवता प्रोक्तं प्रसन्नेनान्तरात्मना ।
दर्शितेयं विशालाक्षी दर्शयिष्यामि वो जगत् ॥ १९३.३ ॥
तत्रार्थे सर्वभावेन प्रपन्नानां जगत्पते ।
दर्शयात्मानमखिलं दर्शितेयं यथोर्वशी ॥ १९३.४ ॥
यदि देवापराधेऽपि नास्मासु कुपितं तव ।
नमस्ते जगतामीश दर्शयात्मानमात्मना ॥ १९३.५ ॥
नारायण उवाच -
पश्यतेहाखिलांल्लोकान्मम देहे सुराङ्गनाः ।
मधुं मदनमात्मानं यच्चान्यद्द्रष्टुमिच्छथ ॥ १९३.६ ॥
श्रीमार्कण्डेय उवाच -
इत्युक्त्वा भगवान्देवस्तदा नारायणो नृप ।
उच्चैर्जहास स्वनवत्तत्राभूदखिलं जगत् ॥ १९३.७ ॥
ब्रह्मा प्रजापतिः शक्रः सह रुद्रैः पिनाकधृक् ।
आदित्या वसवः साध्या विश्वेदेवा महर्षयः ॥ १९३.८ ॥
नासत्यदस्रावनिलः सर्वशश्च तथाग्नयः ।
यक्षगन्धर्वसिद्धाश्च पिशाचोरगकिन्नराः ॥ १९३.९ ॥
समस्ताप्सरसो विद्याः साङ्गा वेदास्तदुक्तयः ।
मनुष्याः पशवः कीटाः पक्षिणः पादपास्तथा ॥ १९३.१० ॥
सरीसृपाश्चाथ सूक्ष्मा यच्चान्यज्जीवसंज्ञितम् ।
समुद्राः सकलाः शैलाः सरितः काननानि च ॥ १९३.११ ॥
द्वीपान्यशेषाणि तथा तथा सर्वसरांसि च ।
नगरग्रामपूर्णा च मेदिनी मेदिनीपते ।
देवाङ्गनाभिर्देवस्य देहे दृष्टं महात्मनः ॥ १९३.१२ ॥
नक्षत्रग्रहताराभिः सुसम्पूर्णं नभस्तलम् ।
ददृशुस्ताः सुचार्वङ्ग्यस्तस्यान्तर्विश्वं रूपिणः ॥ १९३.१३ ॥
ऊर्ध्वं न तिर्यङ्नाधस्ताद्यदान्तस्तस्य दृश्यते ।
तमनन्तमनादिं च ततस्तास्तुष्टुवुः प्रभुम् ॥ १९३.१४ ॥
मदनेन समं सर्वा मधुना च वराङ्गनाः ।
ससाध्वसा भक्तिपराः परं विस्मयमागताः ॥ १९३.१५ ॥
वसन्तकामाप्सरस ऊचुः ।
पश्याम नादिं तव देव नान्तं न मध्यमव्याकृतरूपपारम् ।
परायणं त्वां जगतामनन्तं नताः स्म नारायणमात्मभूतम् ॥ १९३.१६ ॥
महीनभोवायुजलाग्नयस्त्वं शब्दादिरूपस्तु परापरात्मन् ।
त्वत्तो भवत्यच्युते सर्वमेतद्भेदादिरूपोऽसि विभो त्वमात्मन् ॥ १९३.१७ ॥
द्रष्टासि रूपस्य परस्य वेत्ता श्रोता च शब्दस्य हरे त्वमेकः ।
स्रष्टा भवान् सर्वगतोऽखिलस्य घ्राता च गन्धस्य पृथक्शरीरी ॥ १९३.१८ ॥
सुरेषु सर्वेषु न सोऽस्ति कश्चिन्मनुष्यलोकेषु न सोऽस्ति कश्चित् ।
पश्वादिवर्गेषु न सोऽस्ति कश्चिद्यो नांशभूतस्तव देवदेव ॥ १९३.१९ ॥
ब्रह्माम्बुधीन्दुप्रमुखानि सौम्य शक्रादिरूपाणि तवोत्तमानि ।
समुद्ररूपं तव धैर्यवत्सु तेजः स्वरूपेषु रविस्तथाग्निः ॥ १९३.२० ॥
क्षमाधनेषु क्षितिरूपमग्र्यं शीघ्रो बलवत्सु वायुः ।
मनुष्यरूपं तव राजवेषो मूढेषु सर्वेश्वर पादपोऽसि ॥ १९३.२१ ॥
सर्वानयेष्वच्युत दानवस्त्वं सनत्सजातश्च विवेकवत्सु ।
रसस्वरूपेण जलस्थितोऽसि गन्धस्वरूपं भवतो धरित्र्याम् ॥ १९३.२२ ॥
दृश्यस्वरूपश्च हुताशनस्त्वं स्पर्शस्वरूपं भवतः समीरे ।
शब्दादिकं ते नभसि स्वरूपं मन्तव्यरूपो मनसि प्रभो त्वम् ॥ १९३.२३ ॥
बोधस्वरूपश्च मतौ त्वमेकः सर्वत्र सर्वेश्वर सर्वभूत ।
पश्यामि ते नाभिसरोजमध्ये ब्रह्माणमीशं च हरं भृकुट्याम् ॥ १९३.२४ ॥
तवाश्विनौ कर्णगतौ समस्तास्तवास्थिता बाहुषु लोकपालाः ।
घ्राणोऽनिलो नेत्रगतौ रवीन्दु जिह्वा च ते नाथ सरस्वतीयम् ॥ १९३.२५ ॥
पादौ धरित्री जठरं समस्तांल्लोकान् हृषीकेश विलोकयामः ।
जङ्घे वयं पादतलाङ्गुलीषु पिशाचयक्षोरगसिद्धसङ्घाः ॥ १९३.२६ ॥
पुंस्त्वे प्रजानां पतिरोष्ठयुग्मे प्रतिष्ठितास्ते क्रतवः समस्ताः ।
सर्वे वयं ते दशनेषु देव दंष्ट्रासु देवा ह्यभवंश्च दन्ताः ॥ १९३.२७ ॥
रोमाण्यशेषास्तव देवसङ्घा विद्याधरा नाथ तवाङ्घ्रिरेखाः ।
साङ्गाः समस्तास्तव देव वेदाः समास्थिताः सन्धिषु बाहुभूताः ॥ १९३.२८ ॥
वराहभूतं धरणीधरस्ते नृसिंहरूपं च सदा करालम् ।
पश्याम ते वाजिशिरस्तथोच्चैस्त्रिविक्रमे यच्च तदाप्रमेयम् ॥ १९३.२९ ॥
अमी समुद्रास्तव देव देहे मौर्वालयः शैलधरास्तथामी ।
इमाश्च गङ्गाप्रमुखाः स्रवन्त्यो द्वीपाण्यशेषाणि वनादिदेशाः ॥ १९३.३० ॥
स्तुवन्ति चेमे मुनयस्तवेश देहे स्थितास्त्वन्महिमानमग्र्यम् ।
त्वामीशितारं जगतामनन्तं यजन्ति यज्ञैः किल यज्ञिनोऽमी ॥ १९३.३१ ॥
त्वत्तोहि सौम्यं जगतीह किंचित्त्वत्तो न रौद्रं च समस्तमूर्ते ।
त्वत्तो न शीतं च न केशवोष्णं सर्वस्वरूपातिशयी त्वमेव ॥ १९३.३२ ॥
प्रसीद सर्वेश्वर सर्वभूत सनातनात्मपरमेश्वरेश ।
त्वन्मायया मोहितमानसाभिर्यत्तेऽपराद्धं तदिदं क्षमस्व ॥ १९३.३३ ॥
किं वापराद्धं तव देवदेव यन्मायया नो हृदयं तवापि ।
मायाभिशङ्किप्रणतार्तिहन्तर्मनो हि नो विह्वलतामुपैति ॥ १९३.३४ ॥
न तेऽपराद्धं यदि तेऽपराद्धमस्माभिरुन्मार्गविवर्तिनीभिः ।
तत्क्षम्यतां सृष्टिकृतस्तवैव देवापराधः सृजतो विवेकम् ॥ १९३.३५ ॥
नमो नमस्ते गोविन्द नारायण जनार्दन ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ १९३.३६ ॥
नमोऽनन्त नमस्तुभ्यं विश्वात्मन्विश्वभावन ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ १९३.३७ ॥
वरेण्य यज्ञपुरुष प्रजापालन वामन ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ १९३.३८ ॥
नमोऽस्तु तेऽब्जनाभाय प्रजापतिकृते हर ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ १९३.३९ ॥
संसारार्णवपोताय नमस्तुभ्यमधोक्षज ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ १९३.४० ॥
नमः परस्मै श्रीशाय वासुदेवाय वेधसे ।
स्वेच्छया गुणयुक्ताय सर्गस्थित्यन्तकारिणे ॥ १९३.४१ ॥
उपसंहर विश्वात्मन्रूपमेतत्सनातनम् ।
वर्धमानं न नो द्रष्टुं समर्थं चक्षुरीश्वर ॥ १९३.४२ ॥
प्रलयाग्निसहस्रस्य समा दीप्तिस्तवाच्युत ।
प्रमाणेन दिशो भूमिर्गगनं च समावृतम् ॥ १९३.४३ ॥
न विद्मः कुत्र वर्तामो भवान्नाथोपलक्ष्यते ।
सर्वं जगदिऐकस्थं पिण्डितं लक्षयामहे ॥ १९३.४४ ॥
किं वर्णयामो रूपं ते किं प्रमाणमिदं हरे ।
माहात्म्यं किं नु ते देव यज्जिह्वाया न गोचरे ॥ १९३.४५ ॥
वक्तारो वायुतेनापि बुद्धीनामयुतायुतैः ।
गुणनिर्वर्णनं नाथ कर्तुं तव न शक्यते ॥ १९३.४६ ॥
तदेतद्दर्शितं रूपं प्रसादः परमः कृतः ।
छन्दतो जगतामीश तदेतदुपसंहर ॥ १९३.४७ ॥
मार्कण्डेय उवाच -
इत्येवं संस्तुतस्ताभिरप्सरोभिर्जनार्दनः ।
दिव्यज्ञानोपपन्नानां तासां प्रत्यक्षमीश्वरः ॥ १९३.४८ ॥
विवेश सर्वभूतानि स्वैरंशैर्भूतभावनः ।
तं दृष्ट्वा सर्वभूतेषु लीयमानमधोक्षजम् ॥ १९३.४९ ॥
विस्मयं परमं चक्रुः समस्ता देवयोषितः ।
स च सर्वेश्वरः शैलान्पादपान्सागरान्भुवम् ॥ १९३.५० ॥
जलमग्निं तथा वायुमाकाशं च विवेश ह ।
काले दिक्ष्वथ सर्वात्म ह्यात्मनश्चान्यथापि च ॥ १९३.५१ ॥
आत्मरूपस्थितं स्वेन महिम्ना भावयञ्जगत् ।
देवदानवरक्षांसि यक्षीविद्याधरोरगाः ॥ १९३.५२ ॥
मनुष्यपशुकीटादिमृगपश्वन्तरिक्षगाः ।
येऽन्तरिक्षे तथा भूमौ दिवि ये च जलाश्रयाः ॥ १९३.५३ ॥
तान्विवेश स विश्वात्मा पुनस्तद्रूपमास्थितः ।
नरेण सार्धं यत्ताभिर्दृष्टपूर्वमरिन्दम ॥ १९३.५४ ॥
ताः परं विस्मयं जग्मुः सर्वास्त्रिदशयोषितः ।
प्रणेमुः साध्वसात्पाण्डुवदना नृपसत्तम ॥ १९३.५५ ॥
नारायणोऽपि भगवानाह तास्त्रिदशाङ्गनाः ॥ १९३.५६ ॥
नारायण उवाच -
नीयतामुर्वशी भद्रा यत्रासौ त्रिदशेश्वरः ।
भवतीनां हितार्थाय सर्वभूतेष्वसाविति ॥ १९३.५७ ॥
ज्ञानमुत्पादितं भूयो लयं भूतेषु कुर्वता ।
तद्गच्छध्वं समस्तोऽयं भूतग्रामो मदंशकः ॥ १९३.५८ ॥
अहमद्यात्मभूतस्य वासुदेवस्य योगिनः ।
अस्मात्परतरं नास्ति योऽनन्तः परिपथ्यते ॥ १९३.५९ ॥
तमजं सर्वभूतेशं जानीत परमं पदम् ।
अहं भवत्यो देवाश्च मनुष्याः पशवश्च ये ।
एतत्सर्वमनन्तस्य वासुदेवस्य वै कृतम् ॥ १९३.६० ॥
एवं ज्ञात्वा समं सर्वं सदेवासुरमानुषम् ।
सपश्वादिगुणं चैव द्रष्टव्यं त्रिदशाङ्गनाः ॥ १९३.६१ ॥
मार्कण्डेय उवाच -
इत्युक्तास्तेन देवेन समस्तास्ताः सुरस्त्रियः ।
प्रणम्य तौ समदनाः सवसन्ताश्च पार्थिव ॥ १९३.६२ ॥
आदाय चोर्वशीं भूयो देवराजमुपागताः ।
आचख्युश्च यथावृत्तं देवराजाय तत्तथा ॥ १९३.६३ ॥
मार्कण्डेय उवाच -
तथा त्वमपि राजेन्द्र सर्वभूतेषु केशवम् ।
चिन्तयन्समतां गच्छ समतैव हि मुक्तये ॥ १९३.६४ ॥
राजन्नेवं विशेषेण भूतेषु परमेश्वरम् ।
वासुदेव कथं दोषांल्लोभादीन्न प्रहास्यसि ॥ १९३.६५ ॥
सर्वभूतानि गोविन्दाद्यदा नान्यानि भूपते ।
तदा वैरादयो भावाः क्रियतां न तु पुत्रक ॥ १९३.६६ ॥
इति पश्य जगत्सर्वं वासुदेवात्मकं नृप ।
एतदेव हि कृष्णेन रूपमाविष्कृतं नृप ॥ १९३.६७ ॥
परमेश्वरेति यद्रूपं तदेतत्कथितं तव ।
जन्मादिभावरहितं तद्विष्णोः परमं पदम् ॥ १९३.६८ ॥
संक्षेपेणाथ भूपाल श्रूयतां यद्वदामि ते ।
यन्मतं पुरुषः कृत्वा परं निर्वाणमृच्छति ॥ १९३.६९ ॥
सर्वो विष्णुसमासो हि भावाभावौ च तन्मयौ ।
सदसत्सर्वमीशोऽसौ महादेवः परं पदम् ॥ १९३.७० ॥
भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् ।
विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥ १९३.७१ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिमाहात्म्यवर्णनं नाम त्रिनवत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 194
अध्याय १९४
श्रीमार्कण्डेय उवाच -
तच्छ्रुत्वानान्तदेवेन विश्वरूपमुदाहृतम् ।
देवराजस्तथा देवाः परं विस्मयमागताः ॥ १९४.१ ॥
दृष्ट्वा चाप्सरसं पुण्यामुर्वशीं कमलाननाम् ।
संत्रस्तो विस्मितश्चाभूदिन्द्रो राजश्रिया वृतः ॥ १९४.२ ॥
न किंचिदुत्तरं वाक्यमुक्तवाञ्जोषमास्थितः ।
इति वृत्तान्तभूतं हि नारायणविचेष्टितम् ॥ १९४.३ ॥
भृगोः खात्यां(?) समुत्पन्ना लक्ष्मीः श्रुत्वा तु वै नृप ।
वैश्वरूपं परं रूपं विस्मिताचिन्तयत्तदा ॥ १९४.४ ॥
केनोपायेन स स्यान्मे भर्ता नारायणः प्रभुः ।
व्रतेन तपसा वापि दानेन नियमेन च ॥ १९४.५ ॥
वृद्धानां सेवनेनाथ देवताराधनेन वा ।
इति चिन्तापरां कन्यां सती ज्ञात्वा युधिष्ठिर ॥ १९४.६ ॥
प्राह प्राप्तो मया भर्ता शङ्करस्तपसा किल ।
प्रजापतिश्च गायत्र्या ह्यन्याभिरभिवाञ्छिताः ॥ १९४.७ ॥
तपसैव हि ते प्राप्यस्तस्मात्तच्चर सुव्रते ।
तपस्त्वं हि महच्चोग्रं सर्ववाञ्छितदायकम् ॥ १९४.८ ॥
मार्कण्डेय उवाच -
सागरान्तं समासाद्य लक्ष्मीः परपुरंजय ।
चचार विपुलं कालं तपः परमदुश्चरम् ॥ १९४.९ ॥
स्थाणुवत्संस्थिता साभूद्दिव्यं वर्षसहस्रकम् ।
तत इन्द्रादयो देवाः शङ्खचक्रगदाधराः ॥ १९४.१० ॥
भूत्वा जग्मुस्तदर्थं ते सा तु पृष्टवती सुरान् ।
विश्वरूपं वैष्णवं यत्तद्दर्शयत माचिरम् ॥ १९४.११ ॥
विलक्षा व्रीडिता देवा गत्वा नारायणं तदा ।
अब्रुवन् वैश्वरूपं नो शक्ता दर्शयितुं वयम् ॥ १९४.१२ ॥
ततो यथेष्टं ते जग्मुः स च विष्णुरचिन्तयत् ।
उग्ररूपा स्थिता देवी देहं दहति भार्गवी ॥ १९४.१३ ॥
तां तस्मात्तत्र गत्वाहं वरं दत्त्वा तु वाञ्छितम् ।
पुनस्तपः करिष्यामि दर्शयिष्यामि वा पुनः ।
वैष्णवं विश्वरूपं यद्दुर्दश्यं देवदानवैः ॥ १९४.१४ ॥
मार्कण्डेय उवाच -
ततो गत्वा हृषीकेशः सागरान्तस्थितां श्रियम् ।
प्राह तुष्टोऽस्मि ते देवि वरं वृणु यथेप्सितम् ॥ १९४.१५ ॥
श्रीरुवाच -
यदि तुष्टोऽसि मे देव प्रपन्नाया जनार्दन ।
तदा दर्शय यद्दृष्टमप्सरोभिस्तवानघ ॥ १९४.१६ ॥
विश्वरूपमनन्तं च भूतभावन केशव ।
गन्धमादनमासाद्य कृतं यच्च तपस्त्वया ॥ १९४.१७ ॥
तद्वदस्व विभो विष्णो न मिथ्या यदि केशव ।
श्रद्दधामि न चैवाहं रूपस्यास्य कथंचन ॥ १९४.१८ ॥
बहुभिर्यक्षरक्षोभिर्मायाचारिप्रचारिभिः ।
छन्दिता मम जानद्भिर्भावमन्तर्गतं हरौ ॥ १९४.१९ ॥
भूत्वा विष्णुस्वरूपास्ते चक्रिणश्च चतुर्भुजाः ।
सुव्रीडिता गताः सर्वे विश्वरूपो सहायतः ॥ १९४.२० ॥
मार्कण्डेय उवाच -
नारायणोऽथ भगवाञ्छङ्खचक्रगदाभृतम् ।
तया तथोक्तस्तद्रूपं मुक्त्वा वै सुरपूजितम् ॥ १९४.२१ ॥
रूपं परं यथोक्तं वै विश्वरूपमदर्शयत् ।
दर्शयित्वा वचः प्राह पञ्चरात्रविधानतः ॥ १९४.२२ ॥
योऽर्चयिष्यति मां नित्यं स पूज्यः स च पूजितः ।
धनधान्यसमायुक्तः सर्वभोगसमन्वितः ॥ १९४.२३ ॥
मूलं हि सर्वधर्माणां ब्रह्मचर्यं परं तपः ।
तेनाहं तत्र स्थास्यामि मूलश्रीपतिसंज्ञितः ॥ १९४.२४ ॥
मूलश्रीः प्रोच्यते ब्राह्मी ब्रह्मचर्यस्वरूपिणी ।
सर्वयोगमयी पुण्या सर्वपापहरी शुभा ॥ १९४.२५ ॥
पतिस्तस्याः प्रभुरहं वरदः प्राणिनां प्रिये ।
रेवाजले नरः स्नात्वा योऽर्चयेन्मां यतव्रतः ॥ १९४.२६ ॥
मूलश्रीपतिनामानं वाञ्छिते प्राप्नुयात्फलम् ।
दानानि तत्र यो दद्यान्महादानानि च प्रिये ॥ १९४.२७ ॥
सहस्रगुणितं पुण्यमन्यस्थानादवाप्यते ।
दृष्टं त्वया तत्र देशे सम्यक्चैवावधारितम् ।
तदर्चित्वा परान् कामानाप्स्यसि त्वं न संशयः ॥ १९४.२८ ॥
वरं वृणीष्व देवेशि वाञ्छितं दुर्लभं सुरैः ।
दुर्गसंसारकान्तारपतितैः परमेश्वरि ॥ १९४.२९ ॥
श्रीरुवाच -
नारायण जगद्धातर्नारायण जगत्पते ।
नारायण परब्रह्म नारायणपरायण ॥ १९४.३० ॥
प्रसीद पाहि मां भक्त्या सम्यक्सर्गे नियोजय ।
प्रियो ह्यसि प्रियाहं ते यथा स्यां तत्तथा कुरु ॥ १९४.३१ ॥
गृहं धर्मार्थकामानां कारणं देव संमतम् ।
तदास्थायाश्रमं पुण्यं मां श्रेयसि नियोजय ॥ १९४.३२ ॥
नारायण उवाच -
नारायणगिरा देवि विज्ञप्तोऽस्मि यतस्त्वया ।
नारायणगिरिर्नाम तेन मेऽत्र भविष्यति ॥ १९४.३३ ॥
नारायणस्मृतौ याति दुरितं जन्मकोटिजम् ।
यस्माद्गिरति तस्माच्च गिरिरित्येव शब्दितम् ॥ १९४.३४ ॥
तस्मात्सर्वाश्रयो देवि गिरिः पर्वतराङ्भवेत् ।
सुरासुरमनुष्याणां यथाहमपि चाश्रयः ॥ १९४.३५ ॥
य एतत्पूजयिष्यन्ति मण्डलस्थं परं मम ।
नारायणगिरिर्नाम देवरूपं शुभेक्षणे ॥ १९४.३६ ॥
ते दिव्यज्ञानसम्पन्ना दिव्यदेहविचेष्टिताः ।
दिव्यं लोकमवाप्स्यन्ति दिव्यभोगसमन्विताः ॥ १९४.३७ ॥
मार्कण्डेय उवाच -
तयोरेवं संवदतोर्देवा इन्द्रपुरोगमाः ।
समागता वनोद्देशं सागरान्ते महर्षयः ॥ १९४.३८ ॥
ततो भृगुं देवराजो नारायणविचिन्तितम् ।
वव्रे ज्ञात्वा तु तत्कन्यां धर्मात्मा स ददौ च ताम् ॥ १९४.३९ ॥
धर्मोऽपि विधिवद्वत्स विवाहं समकारयत् ।
देवदेवस्य राजर्षे देवतार्थे समाहितः ॥ १९४.४० ॥
युधिष्ठिर उवाच -
धर्मो विवाहमकरोद्विधिवद्यत्त्वयोदितम् ।
को विधिस्तत्र का दत्ता दक्षिणा भृगुणापि च ॥ १९४.४१ ॥
विवाहयज्ञे समभूत्स्रुक्स्रुवग्रहणे च कः ।
ऋत्विजः के सदस्याश्च तस्यासन् द्विजसत्तम ॥ १९४.४२ ॥
किं तस्यावभृथं त्वासीत्तत्सर्वं वद विस्तरात् ।
त्वद्वाक्यामृतपानेन तृप्तिर्मम न विद्यते ॥ १९४.४३ ॥
मार्कण्डेय उवाच -
नारायणविवाहस्य यज्ञस्य च युधिष्ठिर ।
तपसस्तस्य देवस्य सम्यगाचरणस्य च ॥ १९४.४४ ॥
वक्तुं समर्थो न गुणान्ब्रह्मापि परमेश्वरः ।
तथाप्युद्देशतो वच्मि शृणु भूत्वा समाहितः ॥ १९४.४५ ॥
ब्रह्मा सप्तर्षयस्तत्र स्रुक्स्रुवग्रहणे रताः ।
अग्नीञ्जुहुविरे राजन्वेदिर्धात्री ससागरा ॥ १९४.४६ ॥
ददुः समुद्रा रत्नानि ब्रह्मर्षिभ्यो नृपोत्तम ।
धनदोऽपि ददौ वित्तं सर्वब्राह्मणवाञ्छितम् ॥ १९४.४७ ॥
विश्वकर्माऽपि देवानां ब्रह्मर्षीणां परंतप ।
वेश्मानि सुविचित्राणि सर्वरत्नमयानि च ॥ १९४.४८ ॥
कृत्वा प्रदर्शयामास देवेन्द्राय यशस्विने ।
शतक्रतुस्ततो विप्रान्कापिष्ठलपुरोगमान् ॥ १९४.४९ ॥
शौनकादींश्च पप्रच्छ बष्कलाञ्छागलानपि ।
आत्रेयानपि राजेन्द्र वृणुध्वमभिवाञ्छितम् ॥ १९४.५० ॥
दृष्ट्वा ते चित्ररत्नानि प्राहुः सर्वेश्वरेश्वरम् ।
देवानां च ऋषीणां च सङ्गमोऽयं सुपुण्यकृत् ॥ १९४.५१ ॥
अस्मिन्पुण्ये सुरेशान वस्तुं वाञ्छामहे सदा ।
शतक्रतुः प्राह पुनर्वासो वात्र भविष्यति ।
सत्यधर्मरता यूयं यावत्कालं भविष्यथ ॥ १९४.५२ ॥
मार्कण्डेय उवाच -
पृष्टं यद्राजशार्दूल के मखे होत्रिणोऽभवन् ।
तत्प्रोच्यमानमधुना शृणु भूत्वा समाहितः ॥ १९४.५३ ॥
सनत्कुमारप्रमुखाः सदस्यास्तस्य चाभवन् ।
औद्गात्रमत्र्यङ्गिरसौ मरीचिश्च चकार ह ॥ १९४.५४ ॥
हौत्रं धर्मवसिष्ठौ च ब्रह्मत्वं सनको मुनिः ।
षट्त्रिंशद्ग्रामसाहस्रं प्रादात्तेभ्यः शतक्रतुः ॥ १९४.५५ ॥
लक्ष्मीर्भर्त्रा च संयुक्ताभवत्तत्कृतवान्प्रभुः ।
ब्रह्मणो जुह्वतो वह्निं यावद्देशस्थितैः सुरैः ॥ १९४.५६ ॥
दृष्टं ललाटं देशोऽसौ ललाट इति संज्ञितः ।
स देशः श्रीपतेः क्षेत्रपुण्यं देवर्षिसेवितम् ॥ १९४.५७ ॥
सर्वाश्चर्यमयं दिव्यं दिव्यसिद्धिसमन्वितम् ।
ब्राह्मणानां ततः पङ्क्तिं निवेशयितुमुद्यता ॥ १९४.५८ ॥
लक्ष्मीः श्रीपतिनामानमाह देवं वचस्तदा ।
श्रीरुवाच -
य एते ब्राह्मणाः शिष्या भृग्वादीनां यतव्रताः ॥ १९४.५९ ॥
तान्निवेशयितुमिच्छामि त्वत्प्रसादादधोक्षज ।
मरीच्यादयः सुरेन्द्रेण स्थापिता गरुडध्वज ॥ १९४.६० ॥
नैष्ठिकव्रतिनो विप्रा बहवोऽत्र यतव्रताः ।
प्राजापत्ये व्रते ब्राह्मे केचिदत्र व्यवस्थिताः ।
तानहं स्थापयिष्यामि त्वत्प्रसादादधोक्षज ॥ १९४.६१ ॥
मार्कण्डेय उवाच -
ततः कौतूहलधरो भगवान्वृषभध्वजः ।
पप्रच्छ व्रतिनः सर्वान्वृत्तिभेदे व्यवस्थितान् ॥ १९४.६२ ॥
नारदोऽपि महादेवमुपेत्य च सतीपतिम् ।
प्राह कृष्णाजिनधरो नैष्ठिका ब्राह्मणा ह्यमी ॥ १९४.६३ ॥
अमी कार्याः सुवस्त्रेण छन्नगुह्या द्विजोत्तमाः ।
प्राजापत्याश्चतुर्विंशसहस्राणि नरेश्वर ॥ १९४.६४ ॥
ब्रह्मचर्यव्रतस्थानां व्रतब्रह्मविचारिणाम् ।
द्वादशैषां सहस्राणि सन्ति वै वृषभध्वज ॥ १९४.६५ ॥
नारदस्य वचः श्रुत्वा देवा देवर्षयोऽपि च ।
साधु साध्वित्यमन्यन्त नोचुः केचन किंचन ॥ १९४.६६ ॥
समाह्वयत्ततो लक्ष्मीस्तान् विप्रान् भक्तिसंयुता ।
उवाच चरणान्गृह्य प्रसादः क्रियतां मयि ॥ १९४.६७ ॥
षट्त्रिंशच्च सहस्राणि वेश्मनामत्र संस्थितिः ।
विश्वकर्मकृतानां तु तेषु तिष्ठन्तु वोऽखिलाः ॥ १९४.६८ ॥
ते तथेति प्रतिज्ञाय स्थिताः संप्रीतमानसाः ।
धनधान्यसमृद्धाश्च वाञ्छितप्राप्तिलक्षणाः ।
सर्वकामसमृद्धाश्च ह्यनारम्भेषु कर्मणाम् ॥ १९४.६९ ॥
इति संस्थाप्य तान् विप्रान् सा स्थिता पर्यपालयत् ।
चतुर्धा तु स्थितो विष्णुः श्रिया देव्याः प्रिये रतः ॥ १९४.७० ॥
एवं वैवाहिकमखे निवृत्ते ऋषयस्तु तम् ।
ऊचुश्चावभृथस्नानं कुत्र कुर्मो जनार्दन ॥ १९४.७१ ॥
इति श्रुत्वा तु वचनं श्रीपतिः पादपङ्कजात् ।
मुमोच जाह्नवीतोयं रेवामध्यगमं शुचि ॥ १९४.७२ ॥
हरेः पादोदकं दृष्ट्वा निःसृतं मुनयस्तु ते ।
विस्मिताः समपद्यन्त जानन्तस्तस्य गौरवम् ॥ १९४.७३ ॥
रुद्रेण सहिताः सर्वे देवता ऋषयस्तथा ।
संकथा विस्मिताश्चक्रुर्विधुन्वन्तः शिरांसि च ॥ १९४.७४ ॥
ऋषय ऊचुः ।
ब्रूहि शम्भो किमत्रायं अकस्माद्वारिसम्भवः ।
विष्णोः पादाम्बुजोत्थश्च सम्मोहकरणः परः ॥ १९४.७५ ॥
ईश्वर उवाच -
पादोदकमिदं विष्णोरहं जानामि वै सुराः ।
दशाश्वमेधावभृथैः स्नानमत्रातिरिच्यते ॥ १९४.७६ ॥
युष्माभिः श्रीपतिः पूज्यः स्नानं चावभृथं कुतः ।
भविष्यतीति तेनाशु इदं वोऽर्थे विनिर्मितम् ॥ १९४.७७ ॥
स्नात्वात्र त्रिदशेशाना यत्फलं सम्प्रपद्यते ।
वक्तुं न केनचिद्याति ततः किमुत्तरं वचः ॥ १९४.७८ ॥
मार्कण्डेय उवाच -
एवमुक्त्वा तु ते सर्वे स्नानं कृत्वा यथागतम् ।
जग्मुर्देवा महेशानपुरोगा भरतर्षभ ॥ १९४.७९ ॥
ब्राह्मणाश्च ततः सर्वे स्ववेश्मान्येव भेजिरे ।
देवतीर्थे महाराज सर्वपापप्रणाशने ॥ १९४.८० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिविवाहवर्णनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 195
अध्याय १९५
युधिष्ठिर उवाच -
देवतीर्थे तु किं नाम माहात्म्यं समुदाहृतम् ।
फलं किं स्नानदानादिकारिणां जायते मुने ॥ १९५.१ ॥
मार्कण्डेय उवाच -
पृथिव्यां यानि तीर्थानि देवैर्मुनिगणैरपि ।
सेवितानि महाबाहो तानि ध्यातानि विष्णुना ॥ १९५.२ ॥
समागतान्येकतां वै तत्र तीर्थे युधिष्ठिर ।
तत्तीर्थं वैष्णवं पुण्यं देवतीर्थमिति श्रुतम् ॥ १९५.३ ॥
कुरुक्षेत्रं भुवि परमन्तरिक्षे त्रिपुष्करम् ।
पुरुषोत्तमं दिवि परं देवतीर्थं परात्परम् ॥ १९५.४ ॥
देवतीर्थसमं नास्ति तीर्थमत्र परत्र च ।
यत्प्राप्य मनुजस्तप्येन्न कदाचिद्युधिष्ठिर ॥ १९५.५ ॥
देवैरुक्तानि तीर्थानि योऽत्र स्नानं समाचरेत् ।
देवतीर्थे स सर्वत्र स्नातो भवति मानवः ॥ १९५.६ ॥
एवमस्त्विति तैरुक्ता देवा ऋषिगणा अपि ।
संतुष्टाः श्रीशमभ्यर्च्य स्वं स्वं स्थानं तु भेजिरे ॥ १९५.७ ॥
सूर्यग्रहेऽत्र वै क्षेत्रे स्नात्वा यत्फलमश्नुते ।
स्नात्वा श्रीशं समभ्यर्च्य समुपोष्य यथाविधि ॥ १९५.८ ॥
यद्ददाति हिरण्यानि दानानि विधिवन्नृप ।
तदनन्तफलं सर्वं सूर्यस्य ग्रहणे यथा ॥ १९५.९ ॥
भूमिदानं धेनुदानं स्वर्णदानमनन्तकम् ।
वज्रदानमनन्तं च फलं प्राह शतक्रतुः ॥ १९५.१० ॥
सोमो वै वस्त्रदानेन मौक्तिकानां च भार्गवः ।
सुवर्णस्य रविर्दानं धर्मराजो ह्यनन्तकम् ॥ १९५.११ ॥
देवतीर्थे तु यद्दानं श्रद्धायुक्तेन दीयते ।
तदनन्तफलं प्राह बृहस्पतिरुदारधीः ॥ १९५.१२ ॥
देवतीर्थे भृगुक्षेत्रे सर्वतीर्थाधिक नृप ।
देवतीर्थे नरः स्नात्वा श्रीपतिं योऽनुपश्यति ॥ १९५.१३ ॥
सोमग्रहे कुलशतं स समुद्धृत्य नाकभाक् ।
दानानि द्विजमुख्येभ्यो देवतीर्थे नराधिप ॥ १९५.१४ ॥
यैर्दत्तानि नरैर्भोगभागिनः प्रेत्य चेह ते ।
देवतीर्थे विप्रभोज्यं हरिमुद्दिश्य यश्चरेत् ॥ १९५.१५ ॥
स सर्वाह्लादमाप्नोति स्वर्गलोके युधिष्ठिर ।
देवतीर्थे नरो नारी स्नात्वा नियतमानसौ ॥ १९५.१६ ॥
उपोष्यैकादशीं भक्त्या पूजयेद्यः श्रियः पतिम् ।
रात्रौ जागरणं कृत्वा घृतेनोद्बोध्य दीपकम् ॥ १९५.१७ ॥
द्वादश्यां प्रातरुत्थाय तथा वै नर्मदाजले ।
विप्रदाम्पत्यमभ्यर्च्य विधिवत्कुरुनन्दन ॥ १९५.१८ ॥
वस्त्राभरणताम्बूलपुष्पधूपविलेपनैः ।
अक्षये विष्णुलोकेऽसौ मोदते चरितव्रतः ॥ १९५.१९ ॥
यः सदैकादशीतिथौ स्नात्वोपोष्यार्चयेद्धरिम् ।
रात्रौ जागरणं कुर्याद्वेदशास्त्रविधानतः ॥ १९५.२० ॥
धर्मराजकृतां पापां न स पश्यति यातनाम् ।
पञ्चरात्रविधानेन श्रीपतिं योऽर्चयिष्यति ॥ १९५.२१ ॥
दीक्षामवाप्य विधिवद्वैष्णवीं पापनाशिनीम् ।
स्वर्गमोक्षप्रदां पुण्यां भोगदां वित्तदामथ ॥ १९५.२२ ॥
राज्यदां वा महाभाग पुत्रदां भाग्यदामथ ।
सुकलत्रप्रदां वापि विष्णोर्भक्तिप्रदामिति ॥ १९५.२३ ॥
तरिष्यति भवाम्भोधिं स नरः कुरुनन्दन ।
योऽर्चयिष्यति तत्रैव देवतीर्थे श्रियः पतिम् ॥ १९५.२४ ॥
विश्वरूपमथो सम्यङ्मूलश्रीपतिमेव वा ।
नारायणगिरिं वापि गृहे वैकादशीतिथौ ॥ १९५.२५ ॥
भक्तिमाञ्छ्रद्धया युक्तः क्षीरैस्तीर्थोदकैरपि ।
सुसूक्ष्मैरहतैर्वस्त्रैर्महाकौशेयकैर्नृप ॥ १९५.२६ ॥
विचित्रैर्नेत्रजैर्वापि धूपैरगुरुचन्दनैः ।
गुग्गुलैर्घृतमिश्रैश्च नैवेद्यैर्विविधैरपि ॥ १९५.२७ ॥
पायसाद्यैर्मनुष्येन्द्र पयसा वा युधिष्ठिर ।
पिष्टदीपैः सुविमलैर्वर्धमानैर्मनोहरैः ॥ १९५.२८ ॥
पूजयित्वा नरो याति यथा तच्छृणु भारत ।
शङ्खी चक्री गदी पद्मी भूत्वासौ गरुडध्वजः ॥ १९५.२९ ॥
देवलोकानतिक्रम्य विष्णुलोकं प्रपद्यते ।
यस्तु वै परया भक्त्या श्रीपतेः पादपङ्कजम् ॥ १९५.३० ॥
चतुर्धाधिष्ठितं पश्येच्छ्रियं त्रैलोक्यमातरम् ।
नृत्यगीतविनोदेन मुच्यते पातकर्ध्रुवम् ॥ १९५.३१ ॥
नीराजने तु देवस्य प्रातर्मध्ये दिने तथा ।
सायं च नियतो नित्यं यः पश्येत्पूजयेद्धरिम् ॥ १९५.३२ ॥
स तीर्त्वा ह्यापदं दुर्गां नैवार्तिं समवाप्नुयात् ।
आयुःश्रीवर्धनं पुंसां चक्षुषामपि पूरकम् ॥ १९५.३३ ॥
उपपापहरं चैव सदा नीराजनं हरेः ।
तदा नीराजनाकाले यो हरेः पठति स्तवम् ॥ १९५.३४ ॥
स धन्यो देवदेवस्य प्रसन्नेनान्तरात्मना ।
हरेर्नीराजनाशेषं पाणिभ्यां यः प्रयच्छति ॥ १९५.३५ ॥
संगृह्य चक्षुषी तेन योजयेन्मार्जयन्मुखम् ।
तिमिरादीनक्षिरोगान्नाशयेद्दीप्तिमन्मुखम् ॥ १९५.३६ ॥
भवत्यशेषदुष्टानां नाशायालं नरोत्तम ।
दीपप्रज्वलनं यस्य नित्यमग्रे श्रियः पतेः ॥ १९५.३७ ॥
स्नात्वा रेवाजले पुण्ये प्रदद्यादधिकं व्रती ।
सप्तद्वीपवती तेन ससागरवनापगा ॥ १९५.३८ ॥
प्रदक्षिणीकृता स्याद्वै धरणी शङ्करोऽब्रवीत् ।
इदं यः पठ्यमानं तु शृणुयात्पठतेऽपि वा ॥ १९५.३९ ॥
स्मरणं सोऽतसमये विपाप्मा प्राप्नुयाद्धरेः ।
इदं यशस्यमायुष्यं स्वर्ग्यं पितृगुणप्रियम् ॥ १९५.४० ॥
माहात्म्यं श्रावयेद्विप्राञ्छ्रीपतेः श्राद्धकर्मणि ।
घृतेन मधुना तेन तर्पिताः स्युः पितामहाः ॥ १९५.४१ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिमाहात्म्यवर्णनं नाम पञ्चनवत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 196
अध्याय १९६
श्रीमार्कण्डेय उवाच -
ततो गच्छेद्धराधीश हंसतीर्थमनुत्तमम् ।
यत्र हंसस्तपस्तप्त्वा ब्रह्मवाहनतां गतः ॥ १९६.१ ॥
हंसतीर्थे नरः स्नात्वा दानं दत्त्वा च काञ्चनम् ।
सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥ १९६.२ ॥
हंसयुक्तेन यानेन तरुणादित्यवर्चसा ।
सर्वकामसमृद्धेन सेव्यमानोऽप्सरोगणैः ॥ १९६.३ ॥
तत्र भुक्त्वा यथाकामं सर्वान् भोगान् यथेप्सितान् ।
जातिस्मरो हि जायेत पुनर्मानुष्यमागतः ॥ १९६.४ ॥
संन्यासेन त्यजेद्देहं मोक्षमाप्नोति भारत ॥ १९६.५ ॥
एतत्ते कथितं पार्थ हंसतीर्थस्य यत्फलम् ।
सर्वपापहरं पुण्यं सर्वदुःखविनाशनम् ॥ १९६.६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हंसतीर्थमाहात्म्यवर्णनं नाम षण्णवत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 197
अध्याय १९७
श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं गच्छेत्सूर्यतीर्थमनुत्तमम् ।
मूलस्थानमिति ख्यातं पद्मजस्थापितं शुभम् ॥ १९७.१ ॥
मूलश्रीपतिना देवी प्रोक्ता स्थापय भास्करम् ।
श्रुत्वा देवोदितं देवी स्थापयामास भास्करम् ॥ १९७.२ ॥
प्रोच्यते नर्मदातीरे मूलस्थानाख्यभास्करः ॥ १९७.३ ॥
तत्र तीर्थे नरो यस्तु स्नात्वा नियतमानसः ।
संतर्प्य पितृदेवांश्च पिण्डेन सलिलेन च ॥ १९७.४ ॥
मूलस्थानं ततः पश्येत्स गच्छेत्परमां गतिम् ।
गुह्याद्गुह्यतरस्तत्र विशेषस्तु श्रुतो मया ॥ १९७.५ ॥
समागमे मुनीनां तु शङ्कराच्छशिशेखरात् ।
सदा वै शुक्लसप्तम्यां मूलमादित्यवासरः ॥ १९७.६ ॥
तदा रेवाजलं गत्वा स्नात्वा संतर्प्य देवताः ।
पित्ःंश्च भरतश्रेष्ठ दत्त्वा दानं स्वशक्तितः ॥ १९७.७ ॥
करवीरैस्ततो गत्वा रक्तचन्दनवारिणा ।
संस्थाप्य भास्करं भक्त्या सम्पूज्य च यथाविधि ॥ १९७.८ ॥
ततः सागुरुकैर्धूपैः कुन्दरैश्च विशेषतः ।
धूपयेद्देवदेवेशं दीपान् बोध्य दिशो दश ॥ १९७.९ ॥
उपोष्य जागरं कुर्याद्गीतवाद्यं विशेषतः ।
एवं कृते महीपाल न भवेदुग्रदुःखभाक् ॥ १९७.१० ॥
सूर्यलोके वसेत्तावद्यावत्कल्पशतत्रयम् ।
गन्धर्वैरप्सरोभिश्च सेव्यमानो नृपोत्तम ॥ १९७.११ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मूलस्थानतीर्थमाहात्म्यवर्णनं नाम सप्तनवत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 198
अध्याय १९८
मार्कण्डेय उवाच -
ततो गच्छेन्महीपाल भद्रकालीतिसङ्गमम् ।
शूलतीर्थमिति ख्यातं स्वयं देवेन निर्मितम् ॥ १९८.१ ॥
पञ्चायतनमध्ये तु तिष्ठते परमेश्वरः ।
शूलपाणिर्महादेवः सर्वदेवतपूजितः ॥ १९८.२ ॥
स सङ्गमो नृपश्रेष्ठ नित्यं देवैर्निषेवितः ।
दर्शनात्तस्य तीर्थस्य स्नानदानाद्विशेषतः ॥ १९८.३ ॥
दौर्भाग्यं दुर्निमित्तं च ह्यभिशापो नृपग्रहः ।
यदन्यद्दुष्कृतं कर्म नश्यते शङ्करोऽब्रवीत् ॥ १९८.४ ॥
युधिष्ठिर उवाच -
कथं शूलेश्वरी देवी कथं शूलेश्वरो हरः ।
प्रथितो नर्मदातीरे एतद्विस्तरतो वद ॥ १९८.५ ॥
मार्कण्डेय उवाच -
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः ।
वृत्तिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥ १९८.६ ॥
अशोकाश्रममध्यस्थो वृक्षमूले महातपाः ।
ऊर्ध्वबाहुर्महातेजास्तस्थौ मौनव्रतान्वितः ॥ १९८.७ ॥
तस्य कालेन महता तीव्रे तपसि वर्ततः ।
तमाश्रममनुप्राप्ता दस्यवो लोप्त्रहारिणः ॥ १९८.८ ॥
अनुसर्प्यमाणा बहुभिः पुरुषैर्भरतर्षभ ।
ते तस्यावसथे लोप्त्रं न्यदधुः कुरुनन्दन ॥ १९८.९ ॥
निधाय च तदा लीनास्तत्रैवाश्रममण्डले ।
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् ॥ १९८.१० ॥
आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ।
तमपृच्छंस्तदा वृत्तं रक्षिणस्तं तपोधनम् ॥ १९८.११ ॥
वद केन पथा याता दस्यवो द्विजसत्तम ।
तेन गच्छामहे ब्रह्मन् यथा शीघ्रतरं वयम् ॥ १९८.१२ ॥
तथा तु वचनं तेषां ब्रुवतां स तपोधनः ।
न किंचिद्वचनं राजन्नवदत्साध्वसाधु वा ॥ १९८.१३ ॥
ततस्ते राजपुरुषा विचिन्वन्तस्तमाश्रमम् ।
संयम्यैनं ततो राज्ञे सर्वान् दस्यून्न्यवेदयन् ॥ १९८.१४ ॥
तं राजा सहितैश्चोरैरन्वशाद्वध्यतामिति ।
सम्बध्य तं च तैर्राजञ्छूले प्रोतो महातपाः ॥ १९८.१५ ॥
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा ।
प्रतिजग्मुर्महीपाल धनान्यादाय तान्यथ ॥ १९८.१६ ॥
शूलस्थः स तु धर्मात्मा कालेन महता तदा ।
ध्यायन्देवं त्रिलोकेशं शङ्करं तमुमापतिम् ॥ १९८.१७ ॥
बहुकालं महेशानं मनसाध्याय संस्थितः ।
निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत ॥ १९८.१८ ॥
धारयामास विप्राणामृषभः स हृदा हरिम् ।
शूलाग्रे तप्यमानेन तपस्तेन कृतं तदा ॥ १९८.१९ ॥
सन्तापं परमं जग्मुः श्रुत्वैतन्मुनयोऽखिलाः ।
ते रात्रौ शकुना भूत्वा संन्यवर्तन्त भारत ॥ १९८.२० ॥
दर्शयन्तो मुनेः शक्तिं तमपृच्छन् द्विजोत्तमम् ।
श्रोतुमिच्छाम ते ब्रह्मन् किं पापं कृतवानसि ॥ १९८.२१ ॥
श्रीमार्कण्डेय उवाच -
ततः स मुनिशार्दूलस्तानुवाच तपोधनान् ।
दोषतः किं गमिष्यामि न हि मेऽन्यो पराध्यति ॥ १९८.२२ ॥
एवमुक्त्वा ततः सर्वानाचचक्षे ततो मुनिः ।
मुनयश्च ततो राज्ञे द्वितीयेऽह्नि न्यवेदयन् ॥ १९८.२३ ॥
राजा तु तमृषिं श्रुत्वा निष्क्रान्तः सह बन्धुभिः ।
प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥ १९८.२४ ॥
राजोवाच -
यन्मयाऽपकृतं तात तवाज्ञानवशाद्बहु ।
प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥ १९८.२५ ॥
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः ।
कृतप्रसादं राजा तं ततः समवतारयत् ॥ १९८.२६ ॥
अवतीर्यमाणस्तु मुनिः शूले मांसत्वमागते ।
अतिसंपीडितो विप्रः शङ्करं मनसागमत् ॥ १९८.२७ ॥
संध्यातः शङ्करस्तेन बहुकालोपवासतः ।
प्रादुर्भूतो महादेवः शूलं तस्य तथाछिनत् ॥ १९८.२८ ॥
शूलमूलस्थितः शम्भुस्तुष्टः प्राह पुनःपुनः ।
ब्रूहि किं क्रियतां विप्र सत्त्वस्थानपरायण ॥ १९८.२९ ॥
अदेयमपि दास्यामि तुष्टोऽस्म्यद्योमया सह ।
किं तु सत्यवतां लोके सिद्धिर्न स्याच्च भूयसी ॥ १९८.३० ॥
स्वकर्मणोऽनुरूपं हि फलं भुञ्जन्ति जन्तवः ।
शुभेन कर्मणा भूतिर्दुःखं स्यात्पातकेन तु ॥ १९८.३१ ॥
बहुभेदप्रभिन्नं तु मनुष्येषु विपच्यते ।
केषां दरिद्रभावेन केषां धनविपत्तिजम् ॥ १९८.३२ ॥
सन्तत्यभावजं केषां केषांचित्तद्विपर्ययः ।
तथा दुर्वृत्तितस्तेषां फलमाविर्भवेन्नृणाम् ॥ १९८.३३ ॥
केषांचित्पुत्रमरणे वियोगात्प्रियमित्रयोः ।
राजचौराग्नितः केषां दुःखं स्याद्दैवनिर्मितम् ॥ १९८.३४ ॥
तच्छरीरे तु केषांचित्कर्मणा सम्प्रदृश्यते ।
जराश्च विविधाः केषां दृश्यन्ते व्याधयस्तथा ॥ १९८.३५ ॥
दृश्यन्ते चाभिशापाश्च पूर्वकर्मानुसंचिताः ।
कष्टाः कष्टतरावस्था गताः केचिदनागसः ॥ १९८.३६ ॥
पूर्वकर्मविपाकेन धर्मेण तपसि स्थिताः ।
दान्ताः स्वदारनिरता भूरिदाः परिपूजकाः ॥ १९८.३७ ॥
ह्रीमन्तो नयसंयुक्ता अन्ये बहुगुणैर्युताः ।
दुर्गमामापदं प्राप्य निजकर्मसमुद्भवाम् ॥ १९८.३८ ॥
न संज्वरन्ति ये मर्त्या धर्मनिन्दां न कुर्वते ।
इदमेव तपो मत्वा क्षिपन्ति सुविचेतसः ॥ १९८.३९ ॥
हा भ्रातर्मातः पुत्रेति कष्टेषु न वदन्ति ये ।
स्मरन्ति मां महेशानमथवा पुष्करेक्षणम् ॥ १९८.४० ॥
दुष्कृतं पूर्वजं भोक्तुं ध्रुवं तदुपशाम्यति ॥ १९८.४१ ॥
दिनानि यावन्ति वसेत्स कष्टे यथाकृतं चिन्तयद्देवमीशम् ।
तावन्ति सौम्यानि कृतानि तेन भवन्ति विप्र श्रुतिनोदनैषा ॥ १९८.४२ ॥
यस्मात्त्वया कष्टगतेन नित्यं स्मृतश्चाहं मनसा पूजितश्च ।
गौरीसहायस्तेन इहागतोऽस्मि ब्रूह्यद्य कृत्यं क्रियतां किं नु विप्र ॥ १९८.४३ ॥
माण्डव्य उवाच -
तुष्टो यद्युमया सार्धं वरदो यदि शङ्कर ।
तदा मे शूलसंस्थस्य संशयं परमं वद ॥ १९८.४४ ॥
न रुजा मम कापि स्याच्छूलसंप्रोतितेऽगके ।
अमृतस्रावि तच्छूलं प्रभावात्कस्य शंस मे ॥ १९८.४५ ॥
श्रीशूलपाणिरुवाच -
शूलस्थेन त्वया विप्र मनसा चिन्तितोऽस्मि यत् ।
अनयानां निहन्ताहं दुःखानां विनिबर्हणः ॥ १९८.४६ ॥
ध्यातमात्रो ह्यहं विप्र पाताले वापि संस्थितः ।
शूलमूले त्वहं शम्भुरग्रे देवी स्वयं स्थिता ।
जगन्माताम्बिका देवी त्वामृतेनान्वपूरयत् ॥ १९८.४७ ॥
माण्डव्य उवाच -
पूर्वमेव स्थितो यस्माच्छूलं व्याप्योमया सह ।
प्रसादप्रवणो मह्यमिदानीं चानया सह ॥ १९८.४८ ॥
यस्याः संस्मरणादेव दौर्भाग्यं प्रलयं व्रजेत् ।
न दौर्भाग्यात्परं लोके दुःखाद्दुःखतरं किल ॥ १९८.४९ ॥
किलैवं श्रूयते गाथा पुराणेषु सुरोत्तम ।
त्रैलोक्यं दहतस्तुभ्यं सौभाग्यमेकतां गतम् ॥ १९८.५० ॥
विष्णोर्वक्षःस्थलं प्राप्य तत्स्थितं चेति नः श्रुतम् ।
पीतं तद्वक्षसस्त्रस्तदक्षेण परमेष्ठिना ॥ १९८.५१ ॥
तस्मात्सतीति संजज्ञ इयमिन्दीवरेक्षणा ।
यजतस्तस्य देवेश तव मानावखण्डनात् ॥ १९८.५२ ॥
जुहावाग्नौ तु सा देवी ह्यात्मानं प्राणसंज्ञिकम् ।
आत्मानं भस्मसात्कृत्वा प्रालेयाद्रेस्ततः सुता ॥ १९८.५३ ॥
मेनकायां प्रभो जाता साम्प्रतं या ह्युमाभिधा ।
अनादिनिधना देवी ह्यप्रतर्क्या सुरेश्वर ॥ १९८.५४ ॥
यदि तुष्टोऽसि देवेश ह्युमा मे वरदा यदि ।
उभावप्यत्र वै स्थाने स्थितौ शूलाग्रमूलयोः ॥ १९८.५५ ॥
अवतारो यत्र तत्र संस्थितिं वै ततः कुरु ॥ १९८.५६ ॥
श्रीमार्कण्डेय उवाच -
तेनैवमुक्ते सहसा कृत्वा भूमण्डलं द्विधा ।
निःसृतौ शूलमूलाग्राल्लिङ्गार्चाप्रतिरूपिणौ ॥ १९८.५७ ॥
प्रद्योतयद्दिशः सर्वा लिङ्गं मूले प्रदृश्यते ।
वामतः प्रतिमा देवी तदा शूलेश्वरी स्थिता ॥ १९८.५८ ॥
विलोभयन्ती च जगद्भाति पूरयती दिशः ।
दृष्ट्वा कृताञ्जलिपुटः स्तुतिं चक्रे द्विजोत्तमः ॥ १९८.५९ ॥
माण्डव्य उवाच -
त्वमस्य जगतो माता जगत्सौभाग्यदेवता ।
न त्वया रहितं किंचिद्ब्रह्माण्डेऽस्ति वरानने ॥ १९८.६० ॥
प्रसादं कुरु धर्मज्ञे मम त्वाज्ञप्तुमर्हसि ।
ईदृशेनैव रूपेण केषु स्थानेषु तिष्ठसि ।
प्रसादप्रवणा भूत्वा वद तानि महेश्वरि ॥ १९८.६१ ॥
श्रीदेव्युवाच -
सर्वगा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि ।
सर्वलोकेषु यत्किंचिद्विहितं न मया विना ॥ १९८.६२ ॥
तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः ।
स्मर्तव्या भूतिकामेन तानि वक्ष्यामि तत्त्वतः ॥ १९८.६३ ॥
वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ।
प्रयागे ललिता देवी कामुका गन्धमादने ॥ १९८.६४ ॥
मानसे कुमुदा नाम विश्वकाया तथाऽपरे ।
गोमन्ते गोमती नाम मन्दरे कामचारिणी ॥ १९८.६५ ॥
मदोत्कटा चैत्ररथे हयन्ती हास्तिने पुरे ।
कान्यकुब्जे स्थिता गौरी रम्भा ह्यमलपर्वते ॥ १९८.६६ ॥
एकाम्रके कीर्तिमती विश्वां विश्वेश्वरे विदुः ।
पुष्करे पुरुहूता च केदारे मार्गदायिनी ॥ १९८.६७ ॥
नन्दा हिमवतः प्रस्थे गोकर्णे भद्रकर्णिका ।
स्थानेश्वरे भवानी तु बिल्वके बिल्वपत्त्रिका ॥ १९८.६८ ॥
श्रीशैले माधवी नाम भद्रे भद्रेश्वरीति च ।
जया वराहशैले तु कमला कमलालये ॥ १९८.६९ ॥
रुद्रकोट्यां तु कल्याणी काली कालञ्जरे तथा ।
महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी ॥ १९८.७० ॥
शालिग्रामे महादेवी शिवलिङ्गे जलप्रिया ।
मायापुर्यां कुमारी तु संताने ललिता तथा ॥ १९८.७१ ॥
उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला ।
गयायां विमला नाम मङ्गला पुरुषोत्तमे ॥ १९८.७२ ॥
विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने ।
नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुन्दरी ॥ १९८.७३ ॥
विपुले विपुला नाम कल्याणी मलयाचले ।
कोटवी कोटितीर्थेषु सुगन्धा गन्धमादने ॥ १९८.७४ ॥
गोदाश्रमे त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ।
शिवचण्डे सभानन्दा नन्दिनी देविकातटे ॥ १९८.७५ ॥
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।
देवकी मथुरायां तु पाताले परमेश्वरी ॥ १९८.७६ ॥
चित्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी ।
सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चण्डिका ॥ १९८.७७ ॥
रमणा रामतीर्थे तु यमुनायां मृगावती ।
करवीरे महालक्ष्मी रूपादेवी विनायके ॥ १९८.७८ ॥
आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ।
अभयेत्युष्णतीर्थे तु मृगी वा विन्ध्यकन्दरे ॥ १९८.७९ ॥
माण्डव्ये माण्डुकी नाम स्वाहा माहेश्वरे पुरे ।
छागलिङ्गे प्रचण्डा तु चण्डिकामरकण्टके ॥ १९८.८० ॥
सोमेश्वरे वरारोहा प्रभासे पुष्करावती ।
वेदमाता सरस्वत्यां पारा पारातटे मुने ॥ १९८.८१ ॥
महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ।
सिंहिका कृतशौचे तु कर्तिके चैव शांकरी ॥ १९८.८२ ॥
उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ।
मता सिद्धवटे लक्ष्मीस्तरंगा भारताश्रमे ॥ १९८.८३ ॥
जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ।
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ॥ १९८.८४ ॥
भीमादेवी हिमाद्रौ तु पुष्टिर्वस्त्रेश्वरे तथा ।
कपालमोचने शुद्धिर्माता कायावरोहणे ॥ १९८.८५ ॥
शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा ।
काला तु चन्द्रभागायामच्छोदे शक्तिधारिणी ॥ १९८.८६ ॥
वेणायाममृता नाम बदर्यामुर्वशी तथा ।
ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका ॥ १९८.८७ ॥
मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी ।
अश्वत्थे वन्दिनीका तु निधिर्वैश्रवणालये ॥ १९८.८८ ॥
गायत्री वेदवदने पार्वती शिवसन्निधौ ।
देवलोके तथेन्द्राणी ब्रह्मास्ये तु सरस्वती ॥ १९८.८९ ॥
सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता ।
अरुन्धती सतीनां तु रामासु च तिलोत्तमा ॥ १९८.९० ॥
चित्रे ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ।
शूलेश्वरी भृगुक्षेत्रे भृगौ सौभाग्यसुन्दरी ॥ १९८.९१ ॥
एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् ।
अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम् ॥ १९८.९२ ॥
इदमेव परं विप्र सर्वेषां तु भविष्यति ।
पठत्यष्टोत्तरशतं नाम्नां यः शिवसन्निधौ ॥ १९८.९३ ॥
स मुच्यते नरः पापैः प्राप्नोति स्त्रियमीप्सिताम् ।
स्नात्वा नारी तृतीयायां मां समभ्यर्च्य भक्तितः ॥ १९८.९४ ॥
न सा स्याद्दुःखिनी जातु मत्प्रभावान्नरोत्तम ।
नित्यं मद्दर्शने नारी नियताया भविष्यति ॥ १९८.९५ ॥
पतिपुत्रकृतं दुःखं न सा प्राप्स्यति कर्हिचित् ।
मदालये तु या नारी तुलापुरुषसंज्ञितम् ॥ १९८.९६ ॥
सम्पूज्य मण्डयेद्देवांल्लोकपालांश्च साग्निकान् ।
सपत्नीकान्द्विजान्पूज्य वासोभिर्भूषणैस्तथा ॥ १९८.९७ ॥
भूतेभ्यस्तु बलिं दद्यादृत्विग्भिः सह देशिकः ।
ततः प्रदक्षिणीकृत्य तुलामित्यभिमन्त्रयेत् ॥ १९८.९८ ॥
शुचिरक्ताम्बरो वा स्याद्गृहीत्वा कुसुमाञ्जलिम् ।
नमस्ते सर्वदेवानां शक्तिस्त्वं परमा स्थिता ॥ १९८.९९ ॥
साक्षिभूता जगद्धात्री निर्मिता विश्वयोनिना ।
त्वं तुले सर्वभूतानां प्रमाणमिह कीर्तिता ॥ १९८.१०० ॥
कराभ्यां बद्धमुष्टिभ्यामास्ते पश्यन्नुमामुखम् ।
ततोऽपरे तुलाभागेन्यसेयुर्द्विजपुंगवाः ॥ १९८.१०१ ॥
द्रव्यमष्टविधं तत्र ह्यात्मवित्तानुसारतः ।
मन्दशभूते विप्रेन्द्र पृथिव्यां यदधिष्ठितम् ॥ १९८.१०२ ॥
सुवर्णं चैव निष्पावांस्तथा राजिकुसुम्भकम् ।
तृणराजेन्दुलवणं कुङ्कुमं तु तथाष्टमम् ॥ १९८.१०३ ॥
एषामेकतमं कुर्याद्यथा वित्तानुसारतः ।
साम्यादभ्यधिकं यावत्काञ्चनादि भवेद्द्विज ॥ १९८.१०४ ॥
तावत्तिष्ठेन्नरो नारी पश्चादिदमुदीरयेत् ।
नमो नमस्ते ललिते तुलापुरुषसंज्ञिते ॥ १९८.१०५ ॥
त्वमुमे तारयस्वास्मानस्मात्संसारकर्दमात् ।
ततोऽवतीर्य मुरवे पूर्वमर्द्धं निवेदयेत् ॥ १९८.१०६ ॥
ऋत्विग्भ्योऽपरमर्द्धं च दद्यादुदकपूर्वकम् ।
तेभ्यो लब्धा ततोऽनुज्ञां दद्यादन्येषु चार्थिषु ॥ १९८.१०७ ॥
सपत्नीकं गुरुं रक्तवाससी परिधापयेत् ।
अन्यांश्च ऋत्विजः शक्त्या गुरुं केयूरकङ्कणैः ॥ १९८.१०८ ॥
शुक्लां गां क्षीरिणीं दद्याल्ललिता प्रीयतामिति ।
अनेन विधिना या तु कुर्यान्नारी ममालये ॥ १९८.१०९ ॥
मत्तुल्या सा भवेद्राज्ञां तेजसा श्रीरिवामला ।
सावित्रीव च सौन्दर्ये जन्मानि दश पञ्च च ॥ १९८.११० ॥
श्रीमार्कण्डेय उवाच -
एवं निशम्य वचनं गौर्या द्विजवरोत्तमः ।
नमस्कृत्य जगामाशु धर्मराज निवेशनम् ॥ १९८.१११ ॥
तदा प्रभृति तत्तीर्थं ख्यातं शूलेश्वरीति च ।
तस्मिंस्तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ॥ १९८.११२ ॥
ब्राह्मणानन्नवासोभिः पिण्डैः पितृपितामहान् ।
भक्तोपहारैर्देवेशमुमया सह शङ्करं ॥ १९८.११३ ॥
धूपगुग्गुलदानैश्च दीपदानैः सुबोधितैः ।
सर्वपापविनिर्मुक्तः स गच्छेच्छिवसन्निधिम् ॥ १९८.११४ ॥
तस्मिंस्तीर्थे तु यः कश्चिदभियुक्तो नरेश्वर ।
अम्भिशापि तथा स्नातस्त्रिदिनं मुच्यते नरः ॥ १९८.११५ ॥
कृष्णपक्षे चतुर्दश्यां रात्रौ जागर्ति यो नरः ।
उपवासपरः शुद्धः शिवं सम्पूजयेन्नरः ।
प्रमुच्य पापसंमोहं रुद्रलोकं स गच्छति ॥ १९८.११६ ॥
त्रिनेत्रश्च चतुर्बाहुः साक्षाद्रुद्रोऽपरः ।
क्रीडते देवकन्याभिर्यावच्चन्द्रार्कतारकम् ॥ १९८.११७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टनवत्युत्तरशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 199
अध्याय १९९
श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं राजन्नाश्विनं तीर्थमुत्तमम् ।
कामिकं सर्वतीर्थानां प्राणिनां सिद्धिदायकम् ॥ १९९.१ ॥
तत्र तीर्थेऽश्विनौ देवौ सुरूपौ भिषजां वरौ ।
तपः कृत्वा सुविपुलं संजातौ यज्ञभागिनौ ॥ १९९.२ ॥
संमतौ सर्वदेवानामादित्यतनयावुभौ ।
नासत्यौ सत्त्वसंपन्नौ सर्वदुःखघ्नसत्तमौ ॥ १९९.३ ॥
युधिष्ठिर उवाच -
आदित्यस्य सुतौ तात नासत्यौ येन हेतुना ।
संजातौ श्रोतुमिच्छामि निर्णयं परमं द्विज ॥ १९९.४ ॥
मार्कण्डेय उवाच -
पुराणे भास्करे तात एतद्विस्तरतो मया ।
संश्रुतं देवदेवस्य मार्तण्डस्य महात्मनः ॥ १९९.५ ॥
तत्ते संक्षेपतः सर्वं भक्तियुक्तस्य भारत ।
कथयामि न सन्देहो वृद्धभावेन कर्शितः ॥ १९९.६ ॥
अतितेजोरवेर्दृष्ट्वा राज्ञी देवी नरोत्तम ।
चचार मेरुकान्तारे वडवा तप उल्बणम् ॥ १९९.७ ॥
ततः कतिपयाहस्य कालस्य भगवान्रविः ।
दृष्ट्वा तु रूपमुत्सृज्य परमं तेज उज्ज्वलम् ॥ १९९.८ ॥
मनोभववशीभूतो हयो भूत्वा लघुक्रमः ।
विस्फुरन्ती यथाप्राणं धावमाना इतस्ततः ॥ १९९.९ ॥
हेषमाणः स्वरेणासौ मैथुनायोपचक्रमे ।
सम्मुखी तु ततो देवी निवृत्ता लघुविक्रमा ॥ १९९.१० ॥
यथा तथा नासिकायां प्रविष्टं बीजमुत्तमम् ।
ततो नासागते बीजे संजातो गर्भ उत्तमः ॥ १९९.११ ॥
जातौ यतः सुतौ पार्थ नासत्यौ विश्रुतौ ततः ।
सुसमौ सुविभक्ताङ्गौ बिम्बाद्बिम्बमिवोद्यतौ ॥ १९९.१२ ॥
अधिकौ सर्वदेवानां रूपैश्चर्यसमन्वितौ ।
नर्मदातटमाश्रित्य भृगुकच्छे गतावुभौ ।
परां सिद्धिमनुप्राप्तौ तपः कृत्वा सुदुश्चरम् ॥ १९९.१३ ॥
तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
सुरूपः सुभगः पार्थ जायते यत्र तत्र च ॥ १९९.१४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आश्विनतीर्थमाहात्म्यवर्णनं नामैकोनद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 200
अध्याय २००
श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं पार्थ सावित्रीतीर्थमुत्तमम् ।
यत्र सिद्धा महाभागा सावित्री वेदमातृका ॥ २००.१ ॥
युधिष्ठिर उवाच -
सावित्री का द्विजश्रेष्ठ कथं वाराध्यते बुधैः ।
प्रसन्ना वा वरं कं च ददाति कथयस्व मे ॥ २००.२ ॥
श्रीमार्कण्डेय उवाच -
पद्मा पद्मासनस्थेनाधिष्ठिता पद्मयोगिनी ।
सावित्रतेजःसदृशी सावित्री तेन चोच्यते ॥ २००.३ ॥
पद्मानना पद्मवर्णा पद्मपत्रनिभेक्षणा ।
ध्यातव्या ब्राह्मणैर्नित्यं क्षत्रवैश्यैर्यथाविधि ॥ २००.४ ॥
ब्रह्महत्याभयात्सा हि न तु शूद्रैः कदाचन ।
उच्चारणाद्धारणाद्वा नरके पतति ध्रुवम् ॥ २००.५ ॥
वेदोच्चारणमात्रेण क्षत्रियैर्धर्मपालकैः ।
जिह्वाछेदोऽस्य कर्तव्यः शूद्रस्येति विनिश्चयः ॥ २००.६ ॥
बाला बालेन्दुसदृशी रक्तवस्त्रानुलेपना ।
उषःकाले तु ध्यातव्या सन्ध्या सन्धान उत्तमे ॥ २००.७ ॥
उत्तुङ्गपीवरकुचा सुमुखी शुभदर्शना ।
सर्वाभरणसम्पन्ना श्वेतमाल्यानुलेपना ॥ २००.८ ॥
श्वेतवस्त्रपरिच्छन्ना श्वेतयज्ञोपवीतिनी ।
मध्याह्नसन्ध्या ध्यातव्या तरुणा भुक्तिमुक्तिदा ॥ २००.९ ॥
प्रदोषे तु पुनः पार्थ श्वेता पाण्डुरमूर्धजा ।
सुमृता तु दुर्गकान्तारे मातृवत्परिरक्षति ॥ २००.१० ॥
विशेषेण तु राजेन्द्र सावित्रीतीर्थमुत्तमम् ।
स्नात्वाचम्य विधानेन मनोवाक्कायकर्मभिः ॥ २००.११ ॥
प्राणायामैर्दहेद्दोषान् सप्तजन्मार्जितान्बहून् ।
आपोहिष्ठेति मन्त्रेण प्रोक्षयेदात्मनस्तनुम् ॥ २००.१२ ॥
नवषट्च तथा तिस्रस्तत्र तीर्थे नृपोत्तम ।
आपोहिष्ठेति त्रिरावृत्य प्रतिग्राहैर्न लिप्यते ॥ २००.१३ ॥
अघमर्षणं त्र्यृचं तोयं यथावेदमथापि वा ।
उपपापैर्न लिप्येत पद्मपत्रमिवाम्भसा ॥ २००.१४ ॥
त्र्यापं हि कुरुते विप्र उल्लेखत्रयमाचरेत् ।
चतुर्थं कारयेद्यस्तु ब्रह्महत्यां व्यपोहति ॥ २००.१५ ॥
द्रुपदाख्यश्च यो मन्त्रो वेदे वाजसनेयके ।
अन्तर्जले सकृज्जप्तः सर्वपापक्षयंकरः ॥ २००.१६ ॥
उदुत्यमिति मन्त्रेण पूजयित्वा दिवाकरम् ।
गायत्रीं च जपेद्देवीं पवित्रां वेदमातरम् ॥ २००.१७ ॥
गायत्रीं तु जपेद्देवीं यः सन्ध्यानन्तरं द्विजः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥ २००.१८ ॥
दशभिर्जन्मभिर्लब्धं शतेन तु पुराकृतम् ।
त्रियुगं तु सहस्रेण गायत्री हन्ति किल्बिषम् ॥ २००.१९ ॥
गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः ।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥ २००.२० ॥
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदन्यत्कुरुते किंचिन्न तस्य फलभाग्भवेत् ॥ २००.२१ ॥
सन्ध्यां नोपासते यस्तु ब्राह्मणो मन्दबुद्धिमान् ।
स जीवन्नेव शूद्रः स्यान्मृतः श्वा सम्प्रजायते ॥ २००.२२ ॥
सावित्रीतीर्थमासाद्य सावित्रीं यो जपेद्द्विजः ।
त्रैविद्यं तु फलं तस्य जायते नात्र संशयः ॥ २००.२३ ॥
पित्ःनुद्दिश्य यः स्नात्वा पिण्डनिर्वपणं नृप ।
कुरुते द्वादशाब्दानि तृप्यन्ति तत्पितामहाः ॥ २००.२४ ॥
सावित्रीतीर्थमासाद्य यः कुर्यात्प्राणसंक्षयम् ।
ब्रह्मलोकं वसेत्तावद्यावदाभूतसम्प्लवम् ॥ २००.२५ ॥
पूर्णे चैव ततः काल इह मानुष्यतां गतः ।
चतुर्वेदो द्विजो राजञ्जायते विमले कुले ॥ २००.२६ ॥
धनधान्यचयोपेतः पुत्रपौत्रसमन्वितः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ २००.२७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सावित्रीतीर्थमाहात्म्यवर्णनं नाम द्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 201
अध्याय २०१
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल देवतीर्थमनुत्तमम् ।
यत्र सिद्धा महाभागा देवाः सेन्द्रा युधिष्ठिर ॥ २०१.१ ॥
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।
तत्र तीर्थप्रभावेन कृतमानन्त्यमश्नुते ॥ २०१.२ ॥
विशेषाद्भाद्रपदे तु कृष्णपक्षे त्रयोदशीम् ।
प्रधानं सर्वतीर्थानां देवैरध्यासितं पुरा ॥ २०१.३ ॥
स्नात्वा त्रयोदशीदिने श्राद्धं कृत्वा विधानतः ।
देवैः संस्थापितं देवं सम्पूज्य वृषभध्वजम् ।
सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् ॥ २०१.४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नामैकोत्तरद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 202
अध्यायः २०२
मार्कण्डेय उवाच -
तस्यैवानन्तरं चान्यच्छिखितीर्थमनुत्तमम् ।
प्रधानं सर्वतीर्थानां पञ्चायतनमुत्तमम् ॥ २०२.१ ॥
तत्र तीर्थे तपस्तप्त्वा शिखार्थं हव्यवाहनः ।
शिखां प्राप्य शिखी भूत्वा शिखाख्यं स्थापयञ्छिवम् ॥ २०२.२ ॥
प्रतिपच्छुक्लपक्षे या भवेदाश्वयुजे नृप ।
तदा तीर्थवरे गत्वा स्नात्वा वै नर्मदाजले ॥ २०२.३ ॥
देवानृषीन् पित्ःंश्चान्यांस्तर्पयेत्तिलवारिणा ।
हिरण्यं ब्राह्मणे दद्यात्संतर्प्य च हुताशनम् ॥ २०२.४ ॥
गन्धमाल्यैस्तथा धूपैस्ततः सम्पूजयेच्छिवम् ।
अनेन विधिनाभ्यर्च्य शिखितीर्थे महेश्वरम् ॥ २०२.५ ॥
विमानेनार्कवर्णेन ह्यप्सरोगणसंवृतः ।
गीयमानस्तु गन्धर्वैर्रुद्रलोकं स गच्छति ॥ २०२.६ ॥
शत्रुक्षयमवाप्नोति तेजस्वी जायते भुवि ॥ २०२.७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शिखितीर्थमाहात्म्यवर्णनं नाम द्व्यधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 203
अध्यायः २०३
श्रीमार्कण्डेय उवाच -
ततो गच्छेद्धराधीश कोटितीर्थमनुत्तमम् ।
यत्र सिद्धा महाभागाः कोटिसंख्या महर्षयः ॥ २०३.१ ॥
तपः कृत्वा सुविपुलमृषिभिः स्थापितः शिवः ।
तथा कोटीश्वरी देवी चामुण्डा महिषार्दिनी ॥ २०३.२ ॥
कृष्णपक्षे चतुर्दश्यां मासि भाद्रपदे नृप ।
तीर्थकोटीः समाहूय मुनिभिः स्थापितः शिवः ॥ २०३.३ ॥
तस्यां तिथौ च हस्तर्क्षं सर्वपापप्रणाशनम् ।
तत्र तीर्थे तदा गत्वा स्नानं कृत्वा समाहितः ॥ २०३.४ ॥
नरकादुद्धरत्याशु पुरुषानेकविंशतिम् ।
तिलोदकप्रदानेन किमुत श्राद्धदो नरः ॥ २०३.५ ॥
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।
तस्य तीर्थस्य योगेन सर्वं कोटिगुणं भवेत् ॥ २०३.६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नाम त्र्युत्तरद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 204
अध्यायः २०४
श्रीमार्कण्डेय उवाच -
भृगुतीर्थं ततो गच्छेत्तीर्थराजमनुत्तमम् ।
पैतामहं महापुण्यं सर्वपातकनाशनम् ॥ २०४.१ ॥
ब्रह्मणा तत्र तीर्थे तु पुरा वर्षशतत्रयम् ।
आराधनं कृतं शम्भोः कस्मिंश्चित्कारणान्तरे ॥ २०४.२ ॥
युधिष्ठिर उवाच -
किमर्थं मुनिशार्दूल ब्रह्मा लोकपितामहः ।
आराधयद्देवदेवं महाभक्त्या महेश्वरम् ॥ २०४.३ ॥
आराध्यः सर्वभूतानां जगद्भर्ता जगद्गुरुः ।
श्रोतव्यं श्रोतुमिच्छामि महदाश्चर्यमुत्तमम् ॥ २०४.४ ॥
धर्मपुत्रवचः श्रुत्वा मार्कण्डेयो मुनीश्वरः ।
कथयामास तद्वृत्तमितिहासं पुरातनम् ॥ २०४.५ ॥
मार्कण्डेय उवाच -
स्वपुत्रिकामभिगन्तुमिच्छन्पूर्वं पितामहः ।
शप्तस्तु देवदेवेन कोपाविष्टेन सत्तम ॥ २०४.६ ॥
वेदास्तव विनश्यन्ति ज्ञानं च कमलासन ।
अपूज्यः सर्वलोकानां भविष्यसि न संशयः ॥ २०४.७ ॥
एवं दत्ते ततः शापे ब्रह्मा खेदावृतस्तदा ।
रेवाया उत्तरे कूले स्नात्वा वर्षशतत्रयम् ।
तोषयामास देवेशं तुष्टः प्रोवाच शङ्करः ॥ २०४.८ ॥
पूज्यस्त्वं भविता लोके प्राप्ते पर्वणि पर्वणि ।
अहमत्र च वत्स्यामि देवैश्च पितृभिः सह ॥ २०४.९ ॥
श्रीमार्कण्डेय उवाच -
तदाप्रभृति तत्तीर्थं ख्यातिं प्राप्तं पितामहात् ।
सर्वपापहरं पुण्यं सर्वतीर्थेष्वनुत्तमम् ॥ २०४.१० ॥
तत्र भाद्रपदे मासि कृष्णपक्षे विशेषतः ।
अमावास्यां तु यः स्नात्वा तर्पयेत्पितृदेवताः ॥ २०४.११ ॥
पिण्डदानेन चैकेन तिलतोयेन वा नृप ।
तृप्यन्ति द्वादशाब्दानि पितरो नात्र संशयः ॥ २०४.१२ ॥
कन्यागते तु यस्तत्र नित्यं श्राद्धप्रदो भवेत् ।
अवाप्य तृप्तिं तत्पूर्वे वल्गन्ति च हसन्ति च ॥ २०४.१३ ॥
सर्वेषु पितृतीर्थेषु श्राद्धं कृत्वास्ति यत्फलम् ।
तत्फलं समवाप्नोति दर्शे तत्र न संशयः ॥ २०४.१४ ॥
पैतामहे नरः स्नात्वा पूजयन्पार्वतीपतिम् ।
मुच्यते नात्र सन्देहः पातकैश्चोपपातकैः ॥ २०४.१५ ॥
तत्र तीर्थे मृतानां तु नराणां भावितात्मनाम् ।
अनिवर्तिका गती राजन्रुद्रलोकादसंशयम् ॥ २०४.१६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पैतामहतीर्थमाहात्म्यवर्णनं नाम चतुरधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 205
अध्यायः २०५
श्रीमार्कण्डेय उवाच -
गच्छेत्ततः क्षोणिनाथ तीर्थं परमशोभनम् ।
कुर्कुरीनाम विख्यातं सर्वपापप्रणाशनम् ॥ २०५.१ ॥
यं यं प्रार्थयते कामं पशुपुत्रधनादिकम् ।
तं तं ददाति देवेशी कुर्कुरी तीर्थदेवता ॥ २०५.२ ॥
क्षेत्रपालो वसेत्तत्र ढौण्ढेशो नाम नामतः ।
तस्य चाराधनं कृत्वा नारी वा पुरुषोऽपि वा ॥ २०५.३ ॥
वन्दनादपि राजेन्द्र दौर्भाग्यं नाशमाप्नुयात् ।
अपुत्रो लभते पुत्रमधनो धनमुत्तमम् ॥ २०५.४ ॥
नारी नरस्तथाप्येवं लभते काममुत्तमम् ।
स्पर्शनाद्दर्शनात्तस्य तीर्थस्य विधिपूर्वकम् ॥ २०५.५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुर्कुरीतीर्थमाहात्म्यवर्णनं नाम पञ्चाधिकद्विशततमोऽध्यायः॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 206
अध्यायः २०६
श्रीमार्कण्डेय उवाच -
गच्छेत्ततः क्षोणिनाथ तीर्थं परमशोभनम् ।
सर्वपापहरं पुण्यं दशकन्येति विश्रुतम् ।
महादेवकृतं पुण्यं सर्वकामफलप्रदम् ॥ २०६.१ ॥
तत्र तीर्थे महादेवो दशकन्या गुणान्विताः ।
ब्रह्मणो वरयामास ह्युद्वाहेन युयोज ह ॥ २०६.२ ॥
तदाप्रभृति तत्तीर्थं दशकन्येति विश्रुतम् ।
सर्वपापहरं पुण्यमक्षयं कीर्तितं फलम् ॥ २०६.३ ॥
तत्र तीर्थे तु यः कन्यां ददाति समलंकृताम् ।
प्राप्नोति पुरुषो दत्त्वा यथाशक्त्या स्वलंकृताम् ॥ २०६.४ ॥
तेन दानोत्थपुण्येन पूतात्मानो नराधिप ।
वसन्ति रोमसंख्यानि वर्षाणि शिवसन्निधौ ॥ २०६.५ ॥
ततः कालेन महता त्विह लोके नरेश्वर ।
मानुष्यं प्राप्य दुष्प्राप्यं धनकोटीपतिर्भवेत् ॥ २०६.६ ॥
तत्र तीर्थे तु यो भक्त्या स्नात्वा विप्राय काञ्चनम् ।
सम्प्रयच्छति शान्ताय सोऽत्यन्तं सुखमश्नुते ॥ २०६.७ ॥
वाचिकं मानसं वापि कर्मजं यत्पुरा कृतम् ।
तत्सर्वं विलयं याति स्वर्णदानेन भारत ॥ २०६.८ ॥
नरो दत्त्वा सुवर्णं चापि वालाग्रमात्रकम् ।
तत्र तीर्थे दिवं याति मृतो नास्त्यत्र संशयः ॥ २०६.९ ॥
तत्र विद्याधरैः सिद्धैर्विमानवरमास्थितः ।
पूज्यमानो वसेत्तावद्यावदाभूतसम्प्लवम् ॥ २०६.१० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दशकन्यातीर्थमाहात्म्यवर्णनं नाम षडुत्तरद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 207
अध्यायः २०७
श्रीमार्कण्डेय उवाच -
तस्याग्रे पावनं तीर्थं स्वर्णबिन्द्विति विश्रुतम् ।
यत्र स्नात्वा दिवं यान्ति मृताश्च न पुनर्भवम् ॥ २०७.१ ॥
तत्र तीर्थे तु यः स्नात्वा दत्ते विप्राय काञ्चनम् ।
तेन यत्तु फलं प्रोक्तं तच्छृणुष्व महीपते ॥ २०७.२ ॥
सर्वेषामेव रत्नानां काञ्चनं रत्नमुत्तमम् ।
अग्नितेजःसमुद्भूतं तेन तत्परमं भुवि ॥ २०७.३ ॥
तेनैव दत्ता पृथिवी सशैलवनकानना ।
सपत्तनपुरा सर्वा काञ्चनं यः प्रयच्छति ॥ २०७.४ ॥
मानसं वाचिकं पापं कर्मणा यत्पुरा कृतम् ।
तत्सर्वं नश्यति क्षिप्रं स्वर्णदानेन भारत ॥ २०७.५ ॥
स्वर्णदानं तु यो दत्त्वा ह्यपि वालाग्रमात्रकम् ।
तत्र तीर्थे मृतो याति दिवं नास्त्यत्र संशयः ॥ २०७.६ ॥
तत्र विद्याधरैः सिद्धैर्विमानवरमास्थितः ।
पूज्यमानो वसेत्तावद्यावदाभूतसम्प्लवम् ॥ २०७.७ ॥
पूर्णे तत्र ततः काले प्राप्य मानुष्यमुत्तमम् ।
सुवर्णकोटिसहिते गृहे वै जायते द्विजः ॥ २०७.८ ॥
सर्वव्याधिविनिर्मुक्तः सर्वलोकेषु पूजितः ।
जीवेद्वर्षशतं साग्रं राजसं सत्सु विश्रुतः ॥ २०७.९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सुवर्णबिन्दुतीर्थमाहात्म्यवर्णनं नाम सप्ताधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 208
अध्यायः २०८
श्रीमार्कण्डेय उवाच -
भूमिपाल ततो गच्छेत्तीर्थं परमशोभनम् ।
विख्यातं त्रिषु लोकेषु पित्ःणामृणमोचनम् ॥ २०८.१ ॥
तत्र स्नात्वा विधानेन संतर्प्य पितृदेवताः ।
मनुष्यश्च नृपश्रेष्ठ दानं दत्त्वानृणो भवेत् ॥ २०८.२ ॥
इच्छन्ति पितरः सर्वे स्वार्थहेतोः सुतं यतः ।
पुन्नाम्नो नरकात्पुत्रोऽस्मानयं मोचयिष्यति ॥ २०८.३ ॥
पिण्डदानं जलं तात ऋणमुत्तममुच्यते ।
पित्ःणां तद्धि वै प्रोक्तमृणं दैवमतः परम् ॥ २०८.४ ॥
अग्निहोत्रं तथा यज्ञाः पशुबन्धास्तथेष्टयः ।
इति देवर्णं प्रोक्तं शृणु मानुष्यकं ततः ॥ २०८.५ ॥
ब्राह्मणेषु च तीर्थेषु देवायतनकर्मसु ।
प्रतिश्रुत्य ददेत्तत्तद्व्यवहारः कृतो यथा ॥ २०८.६ ॥
ऋणत्रयमिदं प्रोक्तं पुत्राणां धर्मनन्दन ।
सत्पुत्रास्ते तु राजेन्द्र स्नाता य ऋणमोचने ॥ २०८.७ ॥
ऋणत्रयाद्विमुच्यन्ते ह्यपुत्राः पुत्रिणस्तथा ।
तस्मात्तीर्थवरं प्राप्य पुत्रेण नियतात्मना ।
पितृभ्यस्तर्पणं कार्यं पिण्डदानं विशेषतः ॥ २०८.८ ॥
तत्र तीर्थे हुतं दत्तं गुरवस्तोषिता यदि ।
मृतानां सप्त जन्मानि फलमक्षयमश्नुते ॥ २०८.९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऋणमोचनतीर्थमाहात्म्यवर्णनं नामाष्टोत्तरद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 209
श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं पार्थ पुष्कलीतीर्थमुत्तमम् ।
तत्र तीर्थे नरः स्नात्वा ह्यश्वमेधफलं लभेत् ॥ २०९.१ ॥
क्षमानाथं ततो गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ।
दानवगन्धर्वैरप्सरोभिश्च सेवितम् ॥ २०९.२ ॥
तत्र तिष्ठति देवेशः साक्षाद्रुद्रो महेश्वरः ।
भारेण महता जातो भारभूतिरिति स्मृतः ॥ २०९.३ ॥
युधिष्ठिर उवाच -
भारभूतीति विख्यातं तीर्थं सर्वगुणान्वितम् ।
श्रोतुमिच्छामि विप्रेन्द्र परं कौतूहलं हि मे ॥ २०९.४ ॥
श्रीमार्कण्डेय उवाच -
भारभूतिसमुत्पत्तिं शृणु पाण्डवसत्तम ।
विस्तरेण यथा प्रोक्ता पुरा देवेन शम्भुना ॥ २०९.५ ॥
आसीत्कृतयुगे विप्रो वेदवेदाङ्गपारगः ।
विष्णुशर्मेति विख्यातः सर्वशास्त्रार्थपारगः ॥ २०९.६ ॥
क्षमा दमो दया दानं सत्यं शौचं धृतिस्तथा ।
विद्या विज्ञानमास्तिक्यं सर्वं तस्मिन्प्रतिष्ठितम् ॥ २०९.७ ॥
ईदृग्गुणा हि ये विप्रा भवन्ति नृपसत्तम ।
पतितान्नरके घोरे तारयन्ति पित्ःंस्तु ते ॥ २०९.८ ॥
इन्द्रियं लोलुपा विप्रा ये भवन्ति नृपोत्तम ।
पतन्ति नरके घोरे रौरवे पापमोहिताः ॥ २०९.९ ॥
ये क्षान्तदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधान्निवृत्ताः ।
प्रतिग्रहे संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ २०९.१० ॥
एवं गुणगणाकीर्णो ब्राह्मणो नर्मदातटे ।
वसते ब्राह्मणैः सार्धं शिलोञ्छवृत्तिजीवनः ॥ २०९.११ ॥
तादृशं ब्राह्मणं ज्ञात्वा देवदेवो महेश्वरः ।
द्विजरूपधरो भूत्वा तस्याश्रममगात्स्वयम् ॥ २०९.१२ ॥
दृष्ट्वा तं ब्राह्मणैः सार्धमुच्चरन्तं पदक्रमम् ।
अभिवादयते विप्रं स्वागतेन च पूजितः ॥ २०९.१३ ॥
प्रोवाच तं मुहूर्तेन ब्राह्मणो विस्मयान्वितः ।
किमथ तद्बटो ब्रूहि किं करोमि तवेप्सितम् ॥ २०९.१४ ॥
बटुरुवाच -
विद्यार्थिनमनुप्राप्तं विद्धि मां द्विजसत्तम ।
ददासि यदि मे विद्यां ततः स्थास्यामि ते गृहे ॥ २०९.१५ ॥
ब्राह्मण उवाच -
सर्वेषामेव विप्राणां बटो त्वं गोत्र उत्तमे ।
दानानां परमं दानं कथं विद्या च दीयते ॥ २०९.१६ ॥
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।
अथवा विद्यया विद्या भवतीह फलप्रदा ॥ २०९.१७ ॥
बटुरुवाच -
यथान्ये बालकाः स्नाताः शुश्रूषन्ति ह्यहर्निशम् ।
तथाहं बटुभिः सार्धं शुश्रूषामि न संशयः ॥ २०९.१८ ॥
तथेति चोक्त्वा विप्रेन्द्रः पाठयंस्तं दिने दिने ।
वर्तते सह शिष्यैः स शिलोञ्छानुपहारयन् ॥ २०९.१९ ॥
ततः कतिपयाहोभिः प्रोक्तो बटुभिरीश्वरः ।
पचनाद्यं बटो कर्म कुरु क्रमत आगतम् ॥ २०९.२० ॥
तथेति चोक्तो देवेशो भारग्राममुपागतः ।
ध्यात्वा वनस्पतीः सर्वा इदं वचनमब्रवीत् ॥ २०९.२१ ॥
यावदागच्छते विप्रो बटुभिः सह मन्दिरम् ।
अदर्शनाभिः कर्तव्यं तावदन्नं सुसंस्कृतम् ॥ २०९.२२ ॥
एवमुक्त्वा तु ताः सर्वा विश्वरूपो महेश्वरः ।
क्रीडनार्थं गतस्तत्र बटुवेषधरः पृथक् ॥ २०९.२३ ॥
दृष्ट्वा समागतं तत्र बटुवेषधरं पृथक् ।
धिक्त्वां च परुषं वाक्यमूचुस्ते गिरिसन्निधौ ॥ २०९.२४ ॥
क्षुत्क्षामकंठाः सर्वे च गत्वा तु किल मन्दिरम् ।
त्वया सिद्धेन चान्नेन तृप्तिं यास्यामहे वयम् ॥ २०९.२५ ॥
तद्वृथा चिन्तितं सव त्वयागत्य कृतं द्विज ।
मिथ्याप्रतिज्ञेन सता दुरनुष्ठितमद्य ते ॥ २०९.२६ ॥
बटुरुवाच -
सन्तापमनुतापं वा भोजनार्थं द्विजर्षभाः ।
मा कुरुध्वं यथान्यायं सिद्धेऽग्रे गृहमेष्यथा ॥ २०९.२७ ॥
बटुरुवाच -
दिनशेषेण चास्माकं पञ्चतां च दिने दिने ।
निष्पत्तिं याति वा नेति तदसिद्धमशेषतः ॥ २०९.२८ ॥
असिद्धं सिद्धमस्माकं यत्त्वया समुदाहृतम् ।
दृष्ट्वानृतं गतास्तत्र त्वां बद्धाम्भसि निक्षिपे ॥ २०९.२९ ॥
बटुरुवाच -
भोभोः शृणुध्व सर्वेऽत्र सोपाध्याया द्विजोत्तमाः ।
प्रतिज्ञां मम दुर्धर्षां यां श्रुत्वा विस्मयो भवेत् ॥ २०९.३० ॥
यदि सिद्धमिदं सर्वमन्नं स्यादाश्रमे गुरोः ।
यूयं बद्ध्वा मया सर्वे क्षेप्तव्या नर्मदाम्भसि ॥ २०९.३१ ॥
अथवान्नं न सिद्धं स्याद्भवद्भिर्दृढबन्धनैः ।
गुरोस्तु पश्यतो बद्ध्वा क्षेप्तव्योऽहं नर्मदाह्रदे ॥ २०९.३२ ॥
तथेति कृत्वा ते सर्वे समयं गुरुसन्निधौ ।
स्नात्वा जाप्यविधानेन भूतग्रामं ततो ययुः ॥ २०९.३३ ॥
दृष्ट्वा ते विस्मयं जग्मुर्विस्तृते भक्ष्यभोजने ।
षड्रसेन नृपश्रेष्ठ भुक्त्वा हुत्वा पृथक्पृथक् ॥ २०९.३४ ॥
ततः प्रोवाच वचनं हृष्टपुष्टो द्विजोत्तमः ।
वरदोऽस्मि वरं वत्स वृणु यत्तव रोचते ॥ २०९.३५ ॥
साङ्गोपाङ्गास्तु ते वेदाः शास्त्राणि विविधानि च ।
प्रतिभास्यन्ति ते विप्र मदीयोऽस्तु वरस्त्वयम् ॥ २०९.३६ ॥
प्रणम्य बटुभिः सार्धं स चिक्रीड यथासुखम् ।
द्वितीये तु ततः प्राप्ते दिवसे नर्मदाजले ॥ २०९.३७ ॥
क्रीडनार्थं गताः सर्वे सोपाध्याया युधिष्ठिर ।
ततः स्मृत्वा पणं सर्वे भाषयित्वा विधानतः ॥ २०९.३८ ॥
उपाध्यायमथोवाच नत्वा देवः कृताञ्जलिः ।
जले प्रक्षेपयाम्यद्य निष्प्रतिज्ञान् बटून् प्रभो ॥ २०९.३९ ॥
तद्देवस्य वचः श्रुत्वा नष्टास्ते बटवो नृप ।
गुरोस्तु पश्यतो राजन्धावमाना दिशो दश ॥ २०९.४० ॥
वायुवेगेन देवेन लुञ्जितास्ते समन्ततः ।
भारं बद्ध्वा तु सर्वेषां बटूनां च नरेश्वर ॥ २०९.४१ ॥
शापानुग्रहको देवोऽक्षिपत्तोये यथा गृहे ।
ततो विषादमगमद्दृष्ट्वा तान्नर्मदाजले ॥ २०९.४२ ॥
गुरुणा बटुरुक्तोऽथ किमेतत्साहसं कृतम् ।
एतेषां मातृपितरो बालकानां गृहेऽङ्गनाः ॥ २०९.४३ ॥
यदि पृच्छन्ति ते बालान् क्व गतान् कथयाम्यहम् ।
एवं स्थिते महाभाग यदि कश्चिन्मरिष्यति ॥ २०९.४४ ॥
तदा स्वकीयजीवेन त्वं योजयितुमर्हसि ।
मृतेषु तेषु विप्रेषु न जीवे निश्चयो मृतः ॥ २०९.४५ ॥
ब्रह्महत्याश्च ते बह्व्यो भविष्यन्ति मृते मयि ।
द्विजबन्धनमात्रेण नरको भवति ध्रुवम् ॥ २०९.४६ ॥
मरणाद्यां गतिं यासि न तां वेद्मि द्विजाधम ।
एवमुक्तः स्मितं कृत्वा देवदेवो महेश्वरः ॥ २०९.४७ ॥
भारभूतेश्वरे तीर्थ उज्जहार जलाद्द्विजान् ।
मुक्त्वा भारं तु देवेन छादयित्वा तु तान्द्विजान् ॥ २०९.४८ ॥
लिङ्गं प्रतिष्ठितं तत्र भारभूतेति विश्रुतम् ।
मृतांस्तान् वै द्विजान् दृष्ट्वा ब्रह्महत्या निराकृता ॥ २०९.४९ ॥
गतानि पञ्च वै दृष्ट्वा ब्रह्महत्याशतानि वै ।
ततः स विस्मयाविष्टो दृष्ट्वा तान्बालकान् गुरुः ॥ २०९.५० ॥
नान्यस्य कस्यचिच्छक्तिरेवं स्यादीश्वरं विना ।
ज्ञात्वा तं देवदेवेशं प्रणाममकरोद्द्विजः ॥ २०९.५१ ॥
अज्ञानेन मया सव यदुक्तं परमेश्वर ।
अप्रियं यत्कृतं सर्वं क्षन्तव्यं तन्मम प्रभो ॥ २०९.५२ ॥
देव उवाच -
भगवन्गुरुर्भवान्देवो भवान्मम पितामहः ।
वेदगर्भ नमस्तेऽस्तु नास्ति कश्चिद्व्यतिक्रमः ॥ २०९.५३ ॥
जनिता चोपनेता च यस्तु विद्यां प्रयच्छति ।
अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥ २०९.५४ ॥
एवमुक्त्वा जगन्नाथो विष्णुशर्माणमानतः ।
तत्र तीर्थे जगामाशु कैलासं धरणीधरम् ॥ २०९.५५ ॥
तदाप्रभृति तत्तीर्थं भारभूतीति विश्रुतम् ।
विख्यातं सर्वलोकेषु महापातकनाशनम् ॥ २०९.५६ ॥
तत्र तीर्थे पुनर्वृत्तमितिहासं ब्रवीमि ते ।
सर्वपापहरं दिव्यमेकाग्रस्त्वं शृणुष्व तत् ॥ २०९.५७ ॥
पुरा कृतयुगस्यादौ वैश्यः कश्चिन्महामनाः ।
सुकेश इति विख्यातस्तस्य पुत्रोऽतिधार्मिकः ॥ २०९.५८ ॥
सोमशर्मेति विख्यातो मृतः पृथुललोचनः ।
स सखायं वणिक्पुत्रं कंचिच्चक्रे दरिद्रिणम् ॥ २०९.५९ ॥
सुदेवमिति ख्यातं सर्वकर्मसु कोविदम् ।
एकदा तु समं तेन व्यवहारमचिन्तयत् ॥ २०९.६० ॥
सखे समुद्रयानेन गच्छावोत्तरणैः शुभैः ।
भाण्डं बहु समादाय मदीये द्रव्यसाधने ॥ २०९.६१ ॥
परं तीरं गमिष्याव उत्कर्षस्त्वावयोः समः ।
इति तौ मन्त्रयित्वा तु मन्त्रवत्समभीप्सितम् ॥ २०९.६२ ॥
सर्वं प्रयाणकं गृह्य ह्यारूढौ लवणोदधिम् ।
तौ गत्वा तु परं भाण्डं विक्रीय पुरतस्तदा ॥ २०९.६३ ॥
प्राप्तौ बहु सुवर्णं च रत्नानि विविधानि च ।
नावं तां संगतां कृत्वा पश्चात्तावारुरोहतुः ॥ २०९.६४ ॥
नावमन्तर्जले दृष्ट्वा निशीथे स्वर्णसंभृताम् ।
दृष्ट्वा तु सोमशर्माणमुत्सङ्गे कृतमस्तकम् ॥ २०९.६५ ॥
शयानमतिविश्वस्तं सहदेवो व्यचिन्तयत् ।
एष निद्रावशं यातो मयि प्राणान्निधाय वै ॥ २०९.६६ ॥
अस्याधीनमिदं सर्वं द्रव्यरत्नमशेषतः ।
उत्कर्षार्द्धं तु मे दद्यात्तत्र गत्वेति वा न वा ॥ २०९.६७ ॥
इति निश्चित्य मनसा पापस्तं लवणोदधौ ।
चिक्षेप सोमशर्माणं पापध्यातेन चेतसा ॥ २०९.६८ ॥
उत्तीर्य तरणात्तस्माद्गत्वा संगृह्य तद्धनम् ।
ततः कतिपयाहोभिः संयुक्तः कालधर्मणा ॥ २०९.६९ ॥
गतो यमपुरं घोरं गृहीतो यमकिंकरैः ।
स नीतस्तेन मार्गेण यत्र संतपते रविः ॥ २०९.७० ॥
कृत्वा द्वादशधात्मानं सम्प्राप्ते प्रलये यथा ।
सुतीक्ष्णाः कण्टका यत्र यत्र श्वानः सुदारुणाः ॥ २०९.७१ ॥
तीक्ष्णदंष्ट्रा महाव्याला व्याघ्रा यत्र महावृकाः ।
सुतप्ता वालुका यत्र क्षुधा तृष्णा तमो महत् ॥ २०९.७२ ॥
पानीयस्य कथा नास्ति न छाया नाश्रमः क्वचित् ।
अन्नं पानीयसहितं यावत्तद्दीयते विषम् ॥ २०९.७३ ॥
छायां संप्रार्थमानानां भृशं ज्वलति पावकः ।
तैर्दह्यमाना बहुशो विलपन्ति मुहुर्मुहुः ॥ २०९.७४ ॥
हा भ्रातर्मातः पुत्रेति पतन्ति पथि मूर्छिताः ।
इत्थंभूतेन मार्गेण स गीतो यमकिंकरैः ॥ २०९.७५ ॥
यत्र तिष्ठति देवेशः प्रजासंयमनो यमः ।
ते द्वारदेशे तं मुक्त्वाचक्षुर्यमकिंकराः ॥ २०९.७६ ॥
बद्ध्वा तं गलपाशेन ह्यासीनं मित्रघातिनम् ।
अवधारय देवेश बुध्यस्व यदनन्तरम् ॥ २०९.७७ ॥
यम उवाच -
न तु पूर्वं मुखं दृष्टं मया विश्वासघातिनाम् ।
ये मित्रद्रोहिणः पापास्तेषां किं शासनं भवेत् ॥ २०९.७८ ॥
ऋषयोऽत्र विचारार्थं नियुक्ता निपुणाः स्थिताः ।
ते यत्र ब्रुवते तत्र क्षिपध्वं मा विचार्यताम् ॥ २०९.७९ ॥
इत्युक्तास्ते तमादाय किंकराः शीघ्रगामिनः ।
मुनीशांस्तत्र तानूचुस्तं निवेद्य यमाज्ञया ॥ २०९.८० ॥
द्विजा अनेन मित्रं स्वं प्रसुप्तं निशि घातितम् ।
विश्वस्तं धनलोभेन को दण्डोऽस्य भविष्यति ॥ २०९.८१ ॥
मुनय ऊचुः ।
अदृष्टपूर्वमस्माभिर्वदनं मित्रघातिनाम् ।
कृत्वा पटान्तरे ह्येनं शृण्वन्तु गतिमस्य ताम् ॥ २०९.८२ ॥
ते शास्त्राणि विचार्याथ ऋषयश्च परस्परम् ।
आहूय यमदूतांस्तानूचुर्ब्राह्मणपुंगवाः ॥ २०९.८३ ॥
आलोकितानि शास्त्राणि वेदाः साङ्गाः स्मृतीरपि ।
पुराणानि च मीमांसा दृष्टमस्माभिरत्र च ॥ २०९.८४ ॥
ब्रह्मघ्ने च सुरापे च स्तेये गुर्वङ्गनागमे ।
निष्कृतिर्विहिता शास्त्रे कृतघ्ने नास्ति निष्कृतिः ॥ २०९.८५ ॥
ये स्त्रीघ्नाश्च गुरुघ्नाश्च ये बालब्रह्मघातिनः ।
विहिता निष्कृतिः शास्त्रे कृतघ्ने नास्ति निष्कृतिः ॥ २०९.८६ ॥
वापीकूपतडागानां भेत्तारो ये च पापिनः ।
उद्यानवाटिकानां च छेत्तारो ये च दुर्जनाः ॥ २०९.८७ ॥
दावाग्निदाहका ये च सततं येऽसुहिंसकाः ।
न्यासापहारिणो ये च गरदाः स्वामिवञ्चकाः ॥ २०९.८८ ॥
मातापितृगुरूणां च त्यागिनो दोषदायिनः ।
स्वभर्तृवञ्चनपरा या स्त्री गर्भप्रघातिनी ॥ २०९.८९ ॥
विवेकरहिता या स्त्री यास्नाता भोजने रता ।
द्विकालभोजनरतास्तथा वैष्णववासरे ॥ २०९.९० ॥
तासां स्त्रीणां गतिर्दृष्टा न तु विश्वासघातिनाम् ।
विश्वासघातिनां पुंसां मित्रद्रोहकृतां तथा ॥ २०९.९१ ॥
तेषां गतिर्न वेदेषु पुराणेषु च का कथा ।
इति स्थितेषु पापेषु गतिरेषां न विद्यते ॥ २०९.९२ ॥
नान्या गतिर्मित्रहनने विश्वस्तघ्ने च नः श्रुतम् ।
इतो नीत्वा यमदूता एनं विश्वस्तघातिनम् ॥ २०९.९३ ॥
कल्पकोटिशतं साग्रं पर्यायेण पृथक्पृथक् ।
नरकेषु च सर्वेषु त्रिंशत्कोटिषु संख्यया ॥ २०९.९४ ॥
क्षिप्यतामेष मित्रघ्नो विचारो मा विधीयताम् ।
इति ते वचनं श्रुत्वा किंकरास्तं निगृह्य च ॥ २०९.९५ ॥
यत्र ते नरका घोरास्तत्र क्षेप्तुं गतास्ततः ।
ते तमादाय हि नरके घोरे रौरवसंज्ञिते ॥ २०९.९६ ॥
चिक्षिपुस्तत्र पापिष्ठं क्षिप्ते रावोऽभवन्महान् ।
नरकस्थितभूतेषु मोक्तव्यो नैष पापकृत् ॥ २०९.९७ ॥
अस्य संस्पर्शनादेव पीडा शतगुणा भवेत् ।
यथा व्यथासिकाष्ठैश्च समिद्धैर्दहनात्मकैः ॥ २०९.९८ ॥
भवति स्पर्शनात्तस्य किमेतेन कृतामलम् ।
यथा दुर्जनसंसर्गात्सुजनो याति लाघवम् ॥ २०९.९९ ॥
सन्निधानात्तथास्याशु क्षते क्षारावसेचनम् ।
प्रसादः क्रियतामाशु नीयतां नरकेऽन्यतः ॥ २०९.१०० ॥
एवमुक्तास्ततस्तैस्तु गतास्ते त्वशुचिं प्रति ।
तत्र ते नारकाः सन्ति पूर्ववत्तेऽपि चुक्रुशुः ॥ २०९.१०१ ॥
एवं ते किंकराः सर्वे पर्यटन्नरकमण्डले ।
नरकेऽपि स्थितिस्तस्य नास्ति पापस्य दुर्मतेः ॥ २०९.१०२ ॥
यदा तदा तु ते सर्वे तं गृह्य यमसन्निधौ ।
गत्वा निवेद्य तत्सर्वं यदुक्तं नारकैर्नरैः ।
नरके न स्थितिर्यस्य तस्य किं क्रियतां वद ॥ २०९.१०३ ॥
यम उवाच -
पापिष्ठ एष वै यातु योनिं तिर्यङ्निषेविताम् ।
कालं मुनिभिरुद्दिष्टः तिर्यग्योनिं प्रवेश्यताम् ॥ २०९.१०४ ॥
एवमुक्ते तु वचने प्रजासंयमनेन च ।
स गतः कृमितां पापो विष्ठासु च पृथक्पृथक् ॥ २०९.१०५ ॥
ततोऽसौ दंशमशकान् पिपीलिकसमुद्भवान् ।
यूकामत्कुणकाढ्यांश्च गत्वा पक्षित्वमागतः ॥ २०९.१०६ ॥
स्थावरत्वं गतः पश्चात्पाषाणत्वं ततः परम् ।
सरीसृपानजगरवराहमृगहस्तिनः ॥ २०९.१०७ ॥
वृकश्वानखरोष्ट्रांश्च सूकरीं ग्रामजातिकाम् ।
योनिमाश्वतरीं प्राप्य तथा महिषसम्भवाम् ॥ २०९.१०८ ॥
एताश्चान्याश्च बह्वीर्वै प्राप योनीः क्रमेण वै ।
स ता योनीरनुप्राप्य धुर्योऽभूद्भारवाहकः ॥ २०९.१०९ ॥
स गृहे पार्थिवेशस्य धार्मिकस्य यशस्विनः ।
स दृष्ट्वा कार्त्तिकीं प्राप्तामेकदा नृपसत्तमः ॥ २०९.११० ॥
पुरोहितं समाहूय ब्राह्मणांश्च तथा बहून् ।
न गृहे कार्त्तिकीं कुर्यादेतन्मे बहुशः श्रुतम् ॥ २०९.१११ ॥
समेताः कुत्र यास्याम इति ब्रूत द्विजोत्तमाः ।
यो गृहे कार्त्तिकीं कुर्यात्स्नानदानादिवर्जितः ॥ २०९.११२ ॥
संवत्सरकृतात्पुण्यात्स बहिर्भवति श्रुतिः ।
तस्मात्सर्वप्रयत्नेन तीर्थं सर्वगुणान्वितम् ॥ २०९.११३ ॥
सहितास्तत्र गच्छामः स्नातुं दातुं च शक्तितः ।
एवमुक्ते तु वचने पार्थिवेन द्विजोत्तमाः ॥ २०९.११४ ॥
ऊचुः श्रेष्ठं नृपथेष्ठ रेवाया उत्तरे तटे ।
भारेश्वरेति विख्यातं मुक्तितीर्थं नृपोत्तम ॥ २०९.११५ ॥
तत्र यामो वयं सर्वे सर्वपापक्षयावहम् ।
एवमुक्तः स नृपतिर्गृहीत्वा प्रचुरं वसु ॥ २०९.११६ ॥
शकटं संभृतं कृत्वा तत्र युक्तः स धूर्वहः ।
यः कृत्वा मित्रहननं गोयोनिं समुपागतः ॥ २०९.११७ ॥
इत्थं स नर्मदातीरे सम्प्राप्तस्तीर्थमुत्तमम् ।
गत्वा चतुर्दशीदिने ह्युपवासकृतक्षणः ॥ २०९.११८ ॥
गत्वा स नर्मदातीरे नाम रुद्रेत्यनुस्मरन् ।
शुचिप्रदेशाच्च मृदं मन्त्रेणानेन गृह्यताम् ॥ २०९.११९ ॥
उद्धृतासि वराहेण रुद्रेण शतबाहुना ।
अहमप्युद्धरिष्यामि प्रजया बन्धनेन च ॥ २०९.१२० ॥
स एवं तां मृदं नीत्वा मुक्त्वा तीरे तथोत्तरे ।
ददर्श भास्करं पश्चान्मन्त्रेणानेन चालभेत् ॥ २०९.१२१ ॥
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे ।
मृत्तिके हर मे पापं जन्मकोटिशतार्जितम् ॥ २०९.१२२ ॥
तत एवं विगाह्यापो मन्त्रमेतमुदीरयेत् ।
त्वं नर्मदे पुण्यजले तवाम्भः शङ्करोद्भवम् ॥ २०९.१२३ ॥
स्नानं प्रकुर्वतो मेऽद्य पापं हरतु चार्जितम् ।
स स्नात्वानेन विधिना संतर्प्य पितृदेवताः ॥ २०९.१२४ ॥
ययौ देवालयं पश्चादुपहारैः समन्वितः ।
भक्त्या संचिन्त्य सान्निध्ये शङ्करं लोकशङ्करम् ॥ २०९.१२५ ॥
पुराणोक्तविधानेन पूजां समुपचक्रमे ।
पूजाचतुष्टयं देवि शिवरात्र्यां निगद्यते ॥ २०९.१२६ ॥
संस्नाप्य प्रथमे यामे पञ्चगव्येन शङ्करम् ।
घृतेन पूरणं पश्चात्कृतं नृपवरेण तु ॥ २०९.१२७ ॥
धूपदीपनैवेद्याद्यं संकल्प्य च यथाविधि ।
अर्घेणानेन देवेशं मन्त्रेणानेन शङ्करम् ॥ २०९.१२८ ॥
नमस्ते देवदेवेश शम्भो परमकारण ।
गृहाणार्घमिमं देव संसाराघमपाकुरु ॥ २०९.१२९ ॥
वित्तानुरूपतो दत्तं सुवर्णं मन्त्रकल्पितम् ।
अग्निर्हि देवाः सर्वे सुवर्णं च हुताशनात् ॥ २०९.१३० ॥
अतः सुवर्णदानेन प्रीताः स्युः सर्वदेवताः ।
तदर्घं सर्वदा दातुः प्रीतो भवतु शङ्करः ॥ २०९.१३१ ॥
अनेन विधिना तेन पूजितः प्रथमे शिवः ।
यामे द्वितीये तु पुनः पूर्वोक्तविधिना चरेत् ॥ २०९.१३२ ॥
स्नापयामास दुग्धेन गव्येन त्रिपुरान्तकम् ।
तंदुलैः पूरणं पश्चात्कृतं लिङ्गस्य शूलिनः ॥ २०९.१३३ ॥
कृत्वा विधानं पूर्वोक्तं दत्तं वस्त्रयुगं सितम् ।
श्वेतवस्त्रयुगं यस्माच्छङ्करस्यातिवल्लभम् ॥ २०९.१३४ ॥
प्रीतो भवति वै शम्भुर्दत्तेन श्वेतवाससा ।
यामं तृतीयं सम्प्राप्तं दृष्ट्वा नृपतिसत्तमः ॥ २०९.१३५ ॥
देवं संस्नाप्य मधुना पूरणं चक्रिवांस्तिलैः ।
तिलद्रोणप्रदानं च कुर्यान्मन्त्रमुदीरयन् ॥ २०९.१३६ ॥
तिलाः श्वेतास्तिलाः कृष्णाः सर्वपापहरास्तिलाः ।
तिलद्रोणप्रदानेनु संसारश्छिद्यतां मम ॥ २०९.१३७ ॥
अनेन विधिना राजा यामिनीयामपूजनम् ।
अतिवाह्य विनोदेन ब्रह्मघोषेण जागरम् ॥ २०९.१३८ ॥
चकार पूजनं शम्भोर्बहुपुण्यप्रसाधकम् ।
ये जागरे त्रिनेत्रस्य शिवरात्र्यां शिवस्थिताः ॥ २०९.१३९ ॥
ते यां गतिं गताः पार्थ न तां गच्छन्ति यज्विनः ।
पापानि यानि कानि स्युः कोटिजन्मार्जितान्यपि ॥ २०९.१४० ॥
हरकेशवयोः स्नान्ति जागरे यान्ति संक्षयम् ।
यावन्तो निमिषा नृणां भवन्ति निशि जाग्रताम् ॥ २०९.१४१ ॥
निमिषे निमिषे राजन्नश्वमेधफलं ध्रुवम् ।
उपवासपराणां च देवायतनवासिनाम् ॥ २०९.१४२ ॥
शृण्वतां धर्ममाख्यानं ध्यायतां हरकेशवौ ।
न तां बहुसुवर्णेन क्रतुना गतिमाप्नुयुः ॥ २०९.१४३ ॥
शिवरात्रिस्तिथिः पुण्या कार्त्तिकी च विशेषतः ।
रेवाया उत्तरं कूलं तीरं भारेश्वरेति च ॥ २०९.१४४ ॥
जागृतश्चातिदुःखेन कथं पापं न हास्यति ।
इत्थंस जागरं कृत्वा शिवरात्र्यां नरेश्वरः ॥ २०९.१४५ ॥
प्रभाते विमले गत्वा नर्मदातीरमुत्तमम् ।
स्नापितास्तेन ते सर्वे वाहनानि गजादयः ॥ २०९.१४६ ॥
यैस्तु वाहैर्गतस्तीर्थं स्नातोऽहं स्नापयामि तान् ।
तत्र मध्यस्थितः स्नातस्तिर्यक्त्वान्निर्गतो वणिक् ॥ २०९.१४७ ॥
दानं ददौ तानुद्दिश्य किंचिच्छक्त्यनुरूपतः ।
तेन वाहकृताद्दोषान्मुक्तो भवति मानवः ॥ २०९.१४८ ॥
अन्यथासौ कृतो लाभः कृतो व्रजति तान् प्रति ।
संस्नाप्य तं ततो राजा स्वयं स्नात्वा विधानतः ॥ २०९.१४९ ॥
संतर्प्य पितृदेवांश्च कृत्वा श्राद्धं यथाविधि ।
कृत्वा पिण्डान्पितृभ्यश्च वृषमुत्सृज्य लक्षणम् ॥ २०९.१५० ॥
गत्वा देवालयं पश्चाद्देवं तीर्थोदकेन च ।
संस्नाप्य पञ्चगव्येन ततः पञ्चामृतेन च ॥ २०९.१५१ ॥
सर्वौषधिजलेनैव ततः शुद्धोदकेन च ।
चन्दनेन सुगन्धेन समालभ्य च शङ्करम् ॥ २०९.१५२ ॥
कुङ्कुमैश्च सकर्पूरैर्गन्धैश्च विविधैस्तथा ।
पुष्पौघैश्च सुगन्धाढ्यैश्चतुर्थं लिङ्गपूरणम् ॥ २०९.१५३ ॥
कृतं नृपवरेणात्र कुर्वता पूर्वकं विधिम् ।
गोदानं च कृतं पश्चाद्विधिदृष्टेन कर्मणा ॥ २०९.१५४ ॥
धेनुके रुद्ररूपासि रुद्रेण परिनिर्मिता ।
अस्मिन्नगाधे संसारे पतन्तं मां समुद्धर ॥ २०९.१५५ ॥
धेनुं स्वलंकृतां दद्यादनेन विधिना ततः ।
क्षमाप्य देवदेवेशं ब्राह्मणान् भोजयेद्बहून् ॥ २०९.१५६ ॥
षड्विधैर्भोजनैर्भक्ष्यैर्वासोभिस्तान् समर्चयेत् ।
दक्षिणाभिर्विचित्राभिः पूजयित्वा क्षमापयेत् ॥ २०९.१५७ ॥
स स्वयं बुभुजे पश्चात्परिवारसमन्वितः ।
तामेव रजनीं तत्र न्यवसज्जगतीपतिः ॥ २०९.१५८ ॥
तस्य तत्रोषितस्यैवं निशीथेऽथ नरेश्वर ।
आकाशे सोऽति शुश्राव दिव्यवाणीसमीरितम् ॥ २०९.१५९ ॥
वागुवाच -
राजन्समं ततो लोके फलं भवति साम्प्रतम् ।
संसारसागरे ह्यत्र पतितानां दुरात्मनाम् ॥ २०९.१६० ॥
यदि संनिधिमात्रेण फलं तत्रोच्यते कथम् ।
यदि शंतनुवंशस्य तत्रोन्मादकरं भवेत् ॥ २०९.१६१ ॥
य एष त्वद्गृहे वोढा ह्यतिभारधुरंधरः ।
अनेन मित्रहननं पापं विश्वासघातनम् ॥ २०९.१६२ ॥
कृतं जन्मसहस्राणामतीते परिजन्मनि ।
गतेन पाप्मनात्मानं नरकेषु च संस्थितिः ॥ २०९.१६३ ॥
ततो योनिसहस्रेषु गतिस्तिर्यक्षु चैव हि ।
गोयोनिं समनुप्राप्तस्त्वद्गृहे स सुदुर्मतिः ॥ २०९.१६४ ॥
स्नापितश्च त्वया तीर्थे ह्यस्मिन् पर्वसमागमे ।
दृष्ट्वा पूजां त्वया कॢप्तां कृता जागरणक्रिया ॥ २०९.१६५ ॥
तेन निष्कल्मषो जातो मुक्त्वा देहं तवाग्रतः ।
स्वर्गं प्रति विमानस्थः सोऽद्य राजन्गमिष्यति ॥ २०९.१६६ ॥
श्रीमार्कण्डेय उवाच -
एवमुक्ते निपतितो धुर्यः प्राणैर्व्ययुज्यत ।
विमानवरमारूढस्तत्क्षणात्समदृश्यत ॥ २०९.१६७ ॥
स तं प्रणम्य राजेन्द्रमुवाच प्रहसन्निव ॥ २०९.१६८ ॥
वृष उवाच -
भोभो नृपवरश्रेष्ठ तीर्थमाहात्म्यमुत्तमम् ।
यत्र चास्मद्विधस्तीर्थे मुच्यते पातकैर्नरः ।
मया ज्ञातमशेषेण मत्समो नास्ति पातकी ॥ २०९.१६९ ॥
अतः परं किं तु कुर्यां परं तीर्थानुकीर्तनम् ।
भवान्माता भवन्भ्राता भवांश्चैव पितामहः ॥ २०९.१७० ॥
क्षन्तव्यं प्रणतोऽस्म्यद्य यस्मिंस्तीर्थे हि मादृशाः ।
गतिमीदृग्विधां यान्ति न जाने तव का गतिः ॥ २०९.१७१ ॥
समाराध्य महेशानं सम्पूज्य च यथाविधि ।
का गतिस्तव संभाष्या देह्यनुज्ञां मम प्रभो ॥ २०९.१७२ ॥
त्वरयन्ति च मां ह्येते दिविस्थाः प्रणयाद्गणाः ।
स्वस्त्यस्तु ते गमिष्यामीत्युक्त्वा सोऽन्तर्दधे क्षणात् ॥ २०९.१७३ ॥
श्रीमार्कण्डेय उवाच -
गते चादर्शनं तत्र स राजा विस्मयान्वितः ।
तीर्थमाहात्म्यमतुलं वर्णयन्स्वपुरं गतः ॥ २०९.१७४ ॥
इत्थंभूतं हि तत्तीर्थं नर्मदायां व्यवस्थितम् ।
सर्वपापक्षयकरं सर्वदुःखघ्नमुत्तमम् ॥ २०९.१७५ ॥
उपपापानि नश्यन्ति स्नानमात्रेण भारत ।
कार्त्तिकस्य चतुर्दश्यामुपवासपरायणः ॥ २०९.१७६ ॥
चतुर्धा पूरयेल्लिङ्गं तस्य पुण्यफलं शृणु ।
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥ २०९.१७७ ॥
महापापानि चत्वारि चतुर्भिर्यान्ति संक्षयम् ।
सोऽश्वमेधस्य यज्ञस्य लभते फलमुत्तमम् ॥ २०९.१७८ ॥
कार्त्तिके शुक्लपक्षस्य चतुर्दश्यामुपोषितः ।
स्वर्णदानाच्च तत्तीर्थे यज्ञस्य लभते फलम् ॥ २०९.१७९ ॥
अष्टम्यां वा चतुर्दश्यां वैशाखे मासि पूर्ववत् ।
दीपं पिष्टमयं कृत्वा पितॄन् सर्वान् विमोक्षयेत् ॥ २०९.१८० ॥
तत्र यद्दीयते दानमपि वालाग्रमात्रकम् ।
तदक्षयफलं सर्वमेवमाह महेश्वरः ॥ २०९.१८१ ॥
भारभूत्यां मृतानां तु नराणां भावितात्मनाम् ।
अनिवर्तिका गती राजञ्छिवलोकान्निरन्तरम् ॥ २०९.१८२ ॥
अथवा लोकवृत्त्यर्थं मर्त्यलोकं जिगीषति ।
साङ्गवेदज्ञविप्राणां जायते विमले कुले ॥ २०९.१८३ ॥
धनधान्यसमायुक्तो वेदविद्यासमन्वितः ।
सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ २०९.१८४ ॥
पुनस्तत्तीर्थमासाद्य ह्यक्षयं पदमाप्नुयात् ॥ २०९.१८५ ॥
एतत्पुण्यं पापहरं कथितं ते नृपोत्तम ।
भारतेदं महाख्यानं शृणु चैव ततः परम् ॥ २०९.१८६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भारभूतितीर्थमाहात्म्यवर्णनं नाम नवाधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 210
अध्यायः २१०
श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं तात पुङ्खिलं तीर्थमुत्तमम् ।
तत्र तीर्थे पुरा पुङ्खः पार्थ सिद्धिमुपागतः ॥ २१०.१ ॥
जामदग्न्यो महातेजाः क्षत्रियान्तकरः प्रभुः ।
तपः कृत्वा सुविपुलं नर्मदोत्तरतीरभाक् ॥ २१०.२ ॥
ततः प्रभृति विख्यातं पुङ्खतीर्थं नरेश्वर ।
तत्र तीर्थे तु यः स्नात्वा ह्याराध्य परमेश्वरम् ॥ २१०.३ ॥
इहलोके बलैर्युक्तः परे मोक्षमवाप्नुयात् ।
देवान्पित्ःन् समभ्यर्च्य पित्ःणामनृणी भवेत् ॥ २१०.४ ॥
तत्र तीर्थे नरो यस्तु प्राणत्यागं करोति वै ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ २१०.५ ॥
तत्र तीर्थे नरः स्नात्वा हयमेधफलं लभेत् ॥ २१०.६ ॥
तत्र तीर्थे नरो यस्तु ब्राह्मणान् भोजयेन्नृप ।
एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ॥ २१०.७ ॥
तत्र तीर्थे तु यः कश्चित्पूजयेद्वृषभध्वजम् ।
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥ २१०.८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुङ्खिलतीर्थमाहात्म्यवर्णनं नाम दशोत्तरद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 211
अध्यायः २११
श्रीमार्कण्डेय उवाच -
आश्चर्यभूतं लोकस्य देवदेवेन यत्कृतम् ।
तत्ते सर्वं प्रवक्ष्यामि नर्मदातटवासिनाम् ॥ २११.१ ॥
द्विजान् सुकृत्पणान् देवः कुष्ठी भूत्वा ययाच ह ।
श्राद्धकाले तु सम्प्राप्ते रक्तगन्धानुलेपनः ॥ २११.२ ॥
स्रवद्बुद्बुदगात्रस्तु मक्षिकाकृमिसंवृतः ।
दुश्चर्मा दुर्मुखो गन्धी प्रस्खलंश्च पदे पदे ॥ २११.३ ॥
ब्राह्मणावसथं गत्वा स्खलन्द्वारेऽब्रवीदिदम् ।
भोभो गृहपते त्वद्य ब्राह्मणैः सह भोजनम् ॥ २११.४ ॥
त्वद्गृहे कर्तुमिच्छामि ह्येभिः सह सुसंस्कृतम् ।
ततस्तं ब्रह्माणं दृष्ट्वा यजमानसमन्विताः ॥ २११.५ ॥
स्रवन्तं सर्वगात्रेषु धिग्धिगित्येवमब्रुवन् ।
निर्गच्छस्वाशु दुर्गन्ध गृहाच्छीघ्रं द्विजाधम ॥ २११.६ ॥
अभोज्यमेतत्सर्वेषां दर्शनात्तव सत्कृतम् ।
एवमेव तथेत्युक्त्वा देवदेवो महेश्वरः ॥ २११.७ ॥
जगामाकाशममलं दृश्यमानो द्विजोत्तमैः ।
गते चादर्शनं देवे स्नात्वाभ्युक्ष्य समन्ततः ॥ २११.८ ॥
भुञ्जतेऽस्म द्विजा राजन्यावत्पात्रे पृथक्पृथक् ।
यत्रयत्र च पश्यन्ति तत्रतत्र कृमिर्बहुः ॥ २११.९ ॥
दृष्ट्वा विस्मयमापन्नाः सर्वे किमिति चाब्रुवन् ।
ततः कश्चिदुवाचेदं ब्राह्मणो गुणवानजः ॥ २११.१० ॥
योगीन्द्रः शङ्कया तत्र बहुविप्रसमागमे ।
योऽत्र पूर्वं समायातः स योगी परमेश्वरः ॥ २११.११ ॥
तस्येदं क्रीडितं मन्ये भर्त्सितस्य विपाकजम् ।
फलं भवति नान्यस्य ह्यतिथेः शास्त्रनिश्चयात् ॥ २११.१२ ॥
सम्पूज्य परमात्मा वै ह्यतिथिश्च विशेषतः ।
श्राद्धकाले तु सम्प्राप्तमतिथिं यो न पूजयेत् ॥ २११.१३ ॥
पिशाचा राक्षसास्तस्य तद्विलुम्पन्त्यसंशयम् ।
रूपान्वितं विरूपं वा मलिनं मलिनाम्बरम् ॥ २११.१४ ॥
योगीन्द्रं श्वपचं वापि अतिथिं न विचारयेत् ।
तच्छ्रुत्वा वचनं तस्य यजमानपुरोगमाः ॥ २११.१५ ॥
ब्राह्मणा द्विजमन्वेष्टुं धाविताः सर्वतोदिशम् ।
तावत्कथंचित्केनापि गहनं वनमाश्रितः ॥ २११.१६ ॥
दृष्टो दृष्ट इति प्रोक्तं तेन ते सर्व आगताः ।
ततः पश्यन्ति तं विप्रं स्थाणुवन्निश्चलं स्थितम् ॥ २११.१७ ॥
क्रन्दते न चलति स्पन्दते न च पश्यति ।
जल्पन्ति करुणं केचित्स्तुवन्ति च तथापरे ॥ २११.१८ ॥
वाग्भिः सततमिष्टाभिः स्तूयमानस्त्रिलोचनः ।
क्षुधार्दितानां देवेश ब्राह्मणानां विशेषतः ।
विनष्टमन्नं सर्वेषां पुनः संकर्तुमर्हसि ॥ २११.१९ ॥
श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिर ।
परया कृपया देवः प्रसन्नस्तानुवाच ह ॥ २११.२० ॥
मया प्रसन्नेन महानुभावास्तदेव वोऽन्नं विहितं सुधेव ।
भुञ्जन्तु विप्राः सह बन्धुभृत्यैरर्चन्तु नित्यं मम मण्डलं च ॥ २११.२१ ॥
ततश्चायतनं पार्थ देवदेवस्य शूलिनः ।
मुण्डिनामेति विख्यातं सर्वपापहरं शुभम् ।
कार्त्तिक्यां तु विशेषेण गयातीर्थेन तत्समम् ॥ २११.२२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मुण्डितीर्थमाहात्म्यवर्णनं नामैकादशोत्तरद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 212
श्रीमार्कण्डेय उवाच -
अथान्यत्सम्प्रवक्ष्यामि देवस्य चरितं महत् ।
श्रुतमात्रेण येनाशु सर्वपापैः प्रमुच्यते ॥ २१२.१ ॥
भिक्षुरूपं परं कृत्वा देवदेवो महेश्वरः ।
एकशालां गतो ग्रामं भिक्षार्थी क्षुत्पिपासितः ॥ २१२.२ ॥
अक्षसूत्रोद्यतकरो भस्मगुण्ठितविग्रहः ।
स्फुरत्त्रिशूलो विश्वेशो जटाकुण्डलभूषितः ॥ २१२.३ ॥
कृत्तिवासा महाकायो महाहिकृतभूषणः ।
वादयन्वै डमरुकं डिण्डिमप्रतिमं शुभम् ॥ २१२.४ ॥
कपालपाणिर्भगवान्बालकैर्बहुभिर्वृतः ।
क्वचिद्गायन्हसंश्चैव नृत्यन्वदन् क्वचित्क्वचित् ॥ २१२.५ ॥
यत्र यत्र गृहे देवो लीलया डिण्डमं न्यसेत् ।
भाराक्रान्तं गृहं पार्थ तत्रतत्र विनश्यति ॥ २१२.६ ॥
एवं सम्प्रचरन् देवो वेष्टितो बहुभिर्जनैः ।
दृश्यादृश्येन रूपेण निर्जगाम बहिः प्रभुः ॥ २१२.७ ॥
इतश्चेतश्च धावन्तं न पश्यन्ति यदा जनाः ।
विस्मितास्ते स्थिताः शम्भुर्भविष्यति ततोऽस्तुवन् ॥ २१२.८ ॥
तेषां तु स्तुवतां भक्त्या शङ्करं जगतां पतिम् ।
डिण्डिरूपो हि भगवांस्तदासौ प्रत्यदृश्यत ॥ २१२.९ ॥
तदाप्रभृति देवेशो डिण्डिमेश्वर उच्यते ।
दर्शनात्स्पर्शनाद्राजन् सर्वपापैः प्रमुच्यते ॥ २१२.१० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एकशालडिण्डिमेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वादशोत्तरद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 213
श्रीमार्कण्डेय उवाच -
पुनरन्यत्प्रवक्ष्यामि देवस्य चरितं महत् ।
श्रुतमात्रेण येनैव सर्वपापैः प्रमुच्यते ॥ २१३.१ ॥
अबालो बालरूपेण ग्रामण्यैर्बालकैः सह ।
आमलैः क्रीडते शम्भुस्तत्ते वक्ष्यामि भारत ॥ २१३.२ ॥
सर्वैस्तैरामलाः क्षिप्ता ये ते देवेन पाण्डव ।
आनीतास्तत्क्षणादेव ततः पश्चात्क्षिपेद्धरः ॥ २१३.३ ॥
यावद्गत्वा दिशो दिग्भ्य आगच्छन्ति पृथक्पृथक् ।
तावत्तमामलं भूतं पश्यन्ति परमेश्वरम् ॥ २१३.४ ॥
तृतीये चैव यत्कर्म देवदेवस्य धीमतः ।
स्थानानां परमं स्थानमामलेश्वरमुत्तमम् ॥ २१३.५ ॥
तेन पूजितमात्रेण प्राप्यते परमं पदम् ॥ २१३.६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आमलेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 214
श्रीमार्कण्डेय उवाच -
चतुर्थं सम्प्रवक्ष्यामि देवस्य चरितं महत् ।
श्रुतमात्रेण येनैव सर्वपापैः प्रमुच्यते ॥ २१४.१ ॥
कपाली कान्थिको भूत्वा यथा स व्यचरन्महीम् ।
पिशाचैर्राक्षसैर्भूतैर्डाकिनीयोगिनीवृतः ॥ २१४.२ ॥
भैरवं रूपमास्थाय प्रेतासनपरिग्रहः ।
त्रैलोक्यस्याभयं दत्त्वा चचार विपुलं तपः ॥ २१४.३ ॥
आषाढी तु कृता तत्र ह्याषाढीनाम विश्रुतम् ।
कन्था मुक्ता ततोऽन्यत्र देवेन परमेष्ठिना ॥ २१४.४ ॥
तदाप्रभृति राजेन्द्र स कन्थेश्वर उच्यते ।
तस्य दर्शनमात्रेण ह्यश्वमेधफलं लभेत् ॥ २१४.५ ॥
देवो मार्गे पुनस्तत्र भ्रमते च यदृच्छया ।
विक्रीणाति बलाकारो दृष्ट्वा चोक्तो हरेण तु ॥ २१४.६ ॥
यदि भद्र न चेत्कोपं करोषि मयि साम्प्रतम् ।
बलाभिर्भर मे लिङ्गं ददामि बहु ते धनम् ॥ २१४.७ ॥
एवमुक्तोऽथ देवेन स वणिग्लोभमोहितः ।
योजयामास बलका लिङ्गे चोत्तममध्यमान् ॥ २१४.८ ॥
तावद्यावत्क्षयं सर्वे गताः काले सुसंचिताः ।
स्थितं समुन्नतं लिङ्गं दृष्ट्वा शोकमुपागमत् ॥ २१४.९ ॥
कृत्वा तु खण्डखण्डानि स देवः परमेश्वरः ।
उवाच प्रहसन्वाक्यं तं दृष्ट्वा गतसाध्वसम् ॥ २१४.१० ॥
न च मे पूरितं लिङ्गं यास्यामि यदि मन्यसे ।
ददामि तत्र वित्तं ते यदि लिङ्गं प्रपूरितम् ॥ २१४.११ ॥
वणिगुवाच -
अधन्यः कृतपुण्योऽहं निग्राह्यः परमेश्वर ।
तव प्रियमकुर्वाणः शोचिष्ये शाश्वतीः समाः ॥ २१४.१२ ॥
एतच्छ्रुत्वा वचस्तस्य वणिक्पुत्रस्य भारत ।
असंक्षयं धनं दत्त्वा स्थितस्तत्र महेश्वरः ॥ २१४.१३ ॥
तदा प्रभृति राजेन्द्र बलाकैरिव भूषितम् ।
प्रत्ययार्थं स्थितं लिङ्गं लोकानुग्रहकाम्यया ॥ २१४.१४ ॥
देवेन रचितं पार्थ क्रीडया सुप्रतिष्ठितम् ।
देवमार्गमिति ख्यातं त्रिषु लोकेषु विश्रुतम् ।
पश्यन् प्रपूजयन् वापि सर्वपापैः प्रमुच्यते ॥ २१४.१५ ॥
देवमार्गे तु यो गत्वा पूजयेद्बलाकेश्वरम् ।
पञ्चायतनमासाद्य रुद्रलोकं स गच्छति ॥ २१४.१६ ॥
देवमार्गे मृतानां तु नराणां भावितात्मनाम् ।
न भवेत्पुनरावृत्ती रुद्रलोकात्कदाचन ॥ २१४.१७ ॥
देवमार्गस्य माहात्म्यं भक्त्या श्रुत्वा नरोत्तम ।
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ २१४.१८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीकपालतीर्थमाहात्म्यवर्णनं नाम चतुर्दशोत्तरद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 215
श्रीमार्कण्डेय उवाच -
शृङ्गितीर्थं ततो गच्छेन्मोक्षदं सर्वदेहिनाम् ।
मृतानां तत्र राजेन्द्र मोक्षप्राप्तिर्न संशयः ॥ २१५.१ ॥
तत्रैव पिण्डदानेन पितॄणामनृणो भवेत् ।
तेन पुण्येन पूतात्मा लभेद्गाणेश्वरीं गतिम् ॥ २१५.२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शृङ्गितीर्थमाहात्म्यवर्णनं नाम पञ्चदशोत्तरद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 216
श्रीमार्कण्डेय उवाच -
अषाढीतीर्थमागच्छेत्ततो भूपालनन्दन ।
कामिकं रूपमास्थाय स्थितो यत्र महेश्वरः ॥ २१६.१ ॥
चातुर्युगमिदं तीर्थं सर्वतीर्थेष्वनुत्तमम् ।
तत्र स्नात्वा नरो राजन् रुद्रस्यानुचरो भवेत् ॥ २१६.२ ॥
तत्र तीर्थे तु यः कश्चित्कुरुते प्राणमोक्षणम् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ २१६.३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अषाढीतीर्थमाहात्म्यवर्णनं नाम षोडशोत्तरद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 217
श्रीमार्कण्डेय उवाच -
एरण्डीसङ्गमं गच्छेत्सुरासुरनमस्कृतम् ।
तत्तु तीर्थं महापुण्यं महापातकनाशनम् ॥ २१७.१ ॥
उपवासपरो भूत्वा नियतेन्द्रियमानसः ।
तत्र स्नात्वा विधानेन मुच्यते ब्रह्महत्यया ॥ २१७.२ ॥
तत्र तीर्थे तु यो भक्त्या प्राणत्यागपरो भवेत् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ २१७.३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीतीर्थमाहात्म्यवर्णनं नाम सप्तदशोत्तरद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 218
श्रीमार्कण्डेय उवाच -
ततो गच्छेद्धराधीश तीर्थं परमशोभनम् ।
जमदग्निरिति ख्यातं यत्र सिद्धो जनार्दनः ॥ २१८.१ ॥
युधिष्ठिर उवाच -
कथं सिद्धो द्विजश्रेष्ठ वासुदेवो जगद्गुरुः ।
मानुषं रूपमास्थाय लोकानां हितकाम्यया ॥ २१८.२ ॥
एतत्सर्वं यथान्यायं देवदेवस्य चक्रिणः ।
चरितं श्रोतुमिच्छामि कथ्यमानं त्वयानघ ॥ २१८.३ ॥
श्रीमार्कण्डेय उवाच -
आसीत्पूर्वं महाराज हैहयाधिपतिर्महान् ।
कार्तवीर्य इति ख्यातो राजा बाहुसहस्रवान् ॥ २१८.४ ॥
हस्त्यश्वरथसम्पन्नः सर्वशस्त्रभृतां वरः ।
वेदविद्याव्रतस्नातः सर्वभूताभयप्रदः ॥ २१८.५ ॥
माहिष्मत्याः पतिः श्रीमान्राजा ह्यक्षौहिणीपतिः ।
स कदाचिन्मृगान्हन्तुं निर्जगाम महाबलः ॥ २१८.६ ॥
बहुभिर्दिवसैः प्राप्तो भृगुकच्छमनुत्तमम् ।
जमदग्निर्महातेजा यत्र तिष्ठति तापसः ॥ २१८.७ ॥
रेणुकासहितः श्रीमान्सर्वभूताभयप्रदः ।
तस्य पुत्रोऽभवद्रामः साक्षान्नारायणः प्रभुः ॥ २१८.८ ॥
सर्वक्षत्रगुणैर्युक्तो ब्रह्मविद्ब्राह्मणोत्तमः ।
तोषयन्परया भक्त्या पितरौ परमार्थवत् ॥ २१८.९ ॥
तं तदा चार्जुनं दृष्ट्वा जमदग्निः प्रतापवान् ।
चरन्तं मृगयां गत्वा ह्यातिथ्येन न्यमन्त्रयत् ॥ २१८.१० ॥
तथेति चोक्त्वा स नृपः सभृत्यबलवाहनः ।
जगाम चाश्रमं पुण्यमृषेस्तस्य महात्मनः ॥ २१८.११ ॥
तत्क्षणादेव सम्पन्नं श्रिया परमया वृतम् ।
विस्मयं परमं तत्र दृष्ट्वा राजा जगाम ह ॥ २१८.१२ ॥
गतमात्रस्तु सिद्धेन परमान्नेन भोजितः ।
सभृत्यबलवान्राजा ब्राह्मणेन यदृच्छया ।
किमेतदिति पप्रच्छ कारणं शक्तिमेव च ॥ २१८.१३ ॥
कामधेनोः प्रभावं तं ज्ञात्वा प्राह ततो द्विजम् ।
दक्षिणां देहि मे विप्र कल्मषां धेनुमुत्तमाम् ॥ २१८.१४ ॥
शतं शतसहस्राणामयुतं नियुतं परम् ।
भूषितानां च धेनूनां ददामि तव चार्बुदम् ॥ २१८.१५ ॥
जमदग्निरुवाच -
अयुतैः प्रयुतैर्नाहं शतकोटिभिरुत्तमाम् ।
कामधेनुमिमां तात न दद्मि प्रतिगम्यताम् ॥ २१८.१६ ॥
एवमुक्तः स राजेन्द्रस्तेन विप्रेण भारत ।
क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥ २१८.१७ ॥
यस्येदृशः कामचारो मय्यपि द्विजपांसन ।
अहं ते पश्यतस्तस्मान्नयामि सुरभिं गृहात् ॥ २१८.१८ ॥
द्विज उवाच -
कः क्रीडति सरोषेण निर्भयो हि महाहिना ।
मृत्युदृष्टोतरेणापि मम धेनुं नयेत यः ॥ २१८.१९ ॥
एवमुक्त्वा महादण्डं ब्रह्मदण्डमिवापरम् ।
गृहीत्वा परमक्रुद्धो जमदग्निरुवाच ह ॥ २१८.२० ॥
यस्यास्ति शक्तिस्तेजो वा क्षत्रियस्य कुलाधमः ।
धेनुं नयतु मे सद्यः क्षीणायुः सपरिच्छदः ॥ २१८.२१ ॥
एतच्छ्रुत्वा वचः क्रूरं हैहयः शतशो वृतः ।
धावमानः क्षितितले ब्रह्मदण्डहतोऽपतत् ॥ २१८.२२ ॥
हुंकृतेन ततो धेन्वाः खड्गपाशासिपाणयः ।
निर्गच्छन्तः प्रदृश्यन्ते कल्मषायाः सहस्रशः ॥ २१८.२३ ॥
नासापुटाग्राद्रोमाग्रात्किराता मागधा गुदात् ।
रन्ध्रान्तरेषु चोत्पन्नाः शतशोऽथ सहस्रशः ॥ २१८.२४ ॥
एवमन्योऽन्यमाहत्य हैहयष्टङ्कणान्दहन् ।
विनाशं सह विप्रेण गता ह्यर्जुनतेजसा ॥ २१८.२५ ॥
कार्तवीर्यो जयं लब्ध्वा संख्ये हत्वा द्विजोत्तमम् ।
जगाम स्वां पुरीं हृष्टः कृतान्तवशमोहितः ॥ २१८.२६ ॥
ततस्त्वरान्वितः प्राप्तः पश्चाद्रामो गते रिपौ ।
आक्रन्दमानां जननीं ददर्श पितुरन्तिके ॥ २१८.२७ ॥
राम उवाच -
केनेदमात्मनाशाय ह्यज्ञानात्साहसं कृतम् ।
मम तातं जिघांसुर्यो द्रष्टुं मृत्युमिहेच्छति ॥ २१८.२८ ॥
ततः सा रामवाक्येन गतसत्त्वेव विह्वला ।
उदरं करयुग्मेन ताडयन्ती ह्युवाच तम् ॥ २१८.२९ ॥
अर्जुनेन नृशंसेन क्षत्रियैरपरैः सह ।
इहागत्य पिता तेन निहतो बाहुशालिना ॥ २१८.३० ॥
तं पश्य निहतं तातं गतासुं गतचेतसम् ।
संस्कृत्य विधिवत्पुत्र तर्पयस्व यथातथम् ॥ २१८.३१ ॥
एतच्छ्रुत्वा स वचनं जननीमभिवाद्य ताम् ।
प्रतिज्ञामकरोद्यां तां शृणुष्व च नराधिप ॥ २१८.३२ ॥
त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रियकुलान्वयाम् ।
स्नात्वा च तेषामसृजा तर्पयिष्यामि ते पतिम् ॥ २१८.३३ ॥
तस्यापि परशुना बाहून् कार्तवीर्यस्य दुर्मतेः ।
छित्त्वा पास्यामि रुधिरमिति सत्यं शृणुष्व मे ॥ २१८.३४ ॥
एवं प्रतिज्ञां कृत्वासौ जामदग्न्यः प्रतापवान् ।
क्रोधेन महताविष्टः संस्कृत्य पितरं ततः ॥ २१८.३५ ॥
माहिष्मतीं पुरीं रामो जगाम क्रोधमूर्छितः ।
छित्त्वा बाहुवनं तस्य हत्वा तं क्षत्रियाधमम् ॥ २१८.३६ ॥
जगाम क्षत्रियान्ताय पृथिवीमवलोकयन् ।
सप्तद्वीपार्णवयुतां सशैलवनकाननाम् ॥ २१८.३७ ॥
पूर्वतः पश्चिमामाशां दक्षिणोत्तरतः कुरून् ।
समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥ २१८.३८ ॥
स तेषु रुधिराम्भस्तु ह्रदेषु क्रोधमूर्छितः ।
पितॄन् संतर्पयामास रुधिरेणेति नः श्रुतम् ॥ २१८.३९ ॥
अथर्चीकादय उपेत्य पितरो ब्राह्मणर्षभम् ।
तं क्षमस्वेति जगदुस्ततः स विरराम ह ॥ २१८.४० ॥
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् ।
समं तपं चक्रमिति पुण्यं तत्परिकीर्तितम् ॥ २१८.४१ ॥
निवर्त्य कर्मणस्तस्मात्पित्ःन् प्रोवाच पाण्डव ।
रामः परमधर्मात्मा यदिदं रुधिरं मया ॥ २१८.४२ ॥
क्षिप्तं पञ्चसु तीर्थेषु तद्भूयात्तीर्थमुत्तमम् ।
तथेत्युक्त्वा तु ते सर्वे पितरोऽदृश्यतां गताः ॥ २१८.४३ ॥
एवं रामस्य संसर्गो देवमार्गे युधिष्ठिर ।
सर्वपापक्षयकरो दर्शनात्स्पर्शनान्नृणाम् ॥ २१८.४४ ॥
रेणुकाप्रत्ययार्थाय अद्यापि पितृदेवताः ।
दृश्यन्ते देवमार्गस्थाः सर्वपापक्षयंकराः ॥ २१८.४५ ॥
तत्र तीर्थे तु राजेन्द्र नर्मदोदधिसङ्गमे ।
स्थानं कृत्वा विधानेन मुच्यन्ते पातकैर्नराः ॥ २१८.४६ ॥
कुशाग्रेणापि कौन्तेय न स्पृष्टव्यो महोदधिः ।
अनेन तत्र मन्त्रेण स्नातव्यं नृपसत्तम ॥ २१८.४७ ॥
नमस्ते विष्णुरूपाय नमस्तुभ्यमपां पते ।
सान्निध्यं कुरु देवेश सागरे लवणाम्भसि ।
इति स्पर्शनमन्त्रः ॥ २१८.४८ ॥
अग्निश्च तेजो मृडया च देहे रेतोऽथ विष्णुरमृतस्य नाभिः ।
एतद्ब्रुवन् पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् ॥ २१८.४९ ॥
पञ्चरत्नसमायुक्तं फलपुष्पाक्षतैर्युतम् ।
मन्त्रेणानेन राजेन्द्र दद्यादर्घं महोदधेः ॥ २१८.५० ॥
सर्वरत्ननिधानस्त्वं सर्वरत्नाकराकरः ।
सर्वामरप्रधानेश गृहाणार्घं नमोऽस्तु ते ।
इत्यर्घमन्त्रः ॥ २१८.५१ ॥
आ जन्मजनितात्पापान्मामुद्धर महोदधे ।
याह्यर्चितो रत्ननिधे पर्वतान् पार्वणोत्तम ।
इति विसर्जनमन्त्रः ॥ २१८.५२ ॥
कोऽपरः सागराद्देवात्स्वर्गद्वारविपाटन ।
तत्र सागरपर्यन्तं महातीर्थमनुत्तमम् ॥ २१८.५३ ॥
जामदग्न्येन रामेण तत्र देवः प्रतिष्ठितः ।
यत्र देवाः सगन्धर्वा मुनयः सिद्धचारणाः ॥ २१८.५४ ॥
उपासते विरूपाक्षं जमदग्निमनुत्तमम् ।
रेणुकां चैव ये देवीं पश्यन्ति भुवि मानवाः ॥ २१८.५५ ॥
प्रियवासे शिवे लोके वसन्ति कालमीप्सितम् ।
तत्र स्नात्वा नरो राजंस्तर्पयन्पितृदेवताः ॥ २१८.५६ ॥
तारयेन्नरकाद्घोरात्कुलानां शतमुत्तरम् ।
स्नात्वा दत्त्वात्र सहिताः श्रुत्वा वै भक्तिपूर्वकम् ॥ २१८.५७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे जामदग्न्यतीर्थमाहात्म्यवर्णनं नामाष्टादशाधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 219
श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले तीर्थं कोटीश्वरं परम् ।
यत्र स्नानं च दानं च सर्वं कोटिगुणं भवेत् ॥ २१९.१ ॥
तत्र देवाः सगन्धर्वा ऋषयो ये तथामलाः ।
कोटितीर्थे परां सिद्धिं सम्प्राप्ता भुवि दुर्लभाम् ॥ २१९.२ ॥
स्थापितश्च महादेवस्तत्र कोटीश्वरो नृप ।
तं दृष्ट्वा देवदेवेशं सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ २१९.३ ॥
तत्र तीर्थे तु यत्किंचिच्छुभं वा यदि वाशुभम् ।
क्रियते तन्नृपश्रेष्ठ सर्वं कोटिगुणं भवेत् ॥ २१९.४ ॥
तत्र दक्षिणमार्गस्था ये केचिन्मुनिसत्तमाः ।
सिद्धा मृताः पदं यान्ति पितृलोकं ध्रुवं हि ते ॥ २१९.५ ॥
उत्तरं नर्मदाकूलं ये श्रेष्ठा मुनिपुंगवाः ।
देवलोकं गताः पूर्वमिति शास्त्रस्य निश्चयः ॥ २१९.६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नामैकोनविंशदधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 220
श्रीमार्कण्डेय उवाच -
ततो गच्छेद्धराधीश लोटणेश्वरमुत्तमम् ।
उत्तरे नर्मदाकूले सर्वपातकनाशनम् ॥ २२०.१ ॥
तत्क्षणादेव तत्सर्वं सप्तजन्मार्जितं त्वघम् ।
नश्यते देवदेवस्य दर्शनादेव तन्नृप ॥ २२०.२ ॥
बाल्यात्प्रभृति यत्पापं यौवने चापि यत्कृतम् ।
तत्सर्वं विलयं याति देवदेवस्य दर्शनात् ॥ २२०.३ ॥
युधिष्ठिर उवाच -
आश्चर्यभूतं लोकेषु नर्मदाचरितं महत् ।
त्वया वै कथितं विप्र सकलं पापनाशनम् ॥ २२०.४ ॥
यदेकं परमं तीर्थं सर्वतीर्थफलप्रदम् ।
श्रोतुमिच्छामि तत्सर्वं दयां कृत्वा वदाशु मे ॥ २२०.५ ॥
ये केचिद्दुर्लभाः प्रश्नास्त्रिषु लोकेषु सत्तम ।
त्वत्प्रसादेन ते सर्वे श्रुता मे सह बान्धवैः ॥ २२०.६ ॥
एतमेकं परं प्रश्नं सर्वप्रश्नविदां वर ।
श्रुत्वाहं त्वत्प्रसादेन यत्र यामि सबान्धवः ॥ २२०.७ ॥
श्रीमार्कण्डेय उवाच -
साधुसाधु महाप्राज्ञ यस्य ते मतिरीदृशी ।
दुर्लभं त्रिषु लोकेषु तस्य ते नास्ति किंचन ॥ २२०.८ ॥
धर्ममर्थं च कामं च मोक्षं च भरतर्षभ ।
काले काले च यो वेत्ति कर्तव्यस्तेन धीमता ॥ २२०.९ ॥
तस्मात्ते सम्प्रवक्ष्यामि प्रश्नस्यास्योत्तरं शुभम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यन्ते भुवि मानवाः ॥ २२०.१० ॥
नर्मदा सरितां श्रेष्ठा सर्वतीर्थमयी शुभा ।
विशेषः कथितस्तस्या रेवासागरसङ्गमे ॥ २२०.११ ॥
आगच्छन्तीं नृपश्रेष्ठ दृष्ट्वा रेवां महोदधिः ।
प्रणम्य च पुनर्देवीं सङ्गमे रेवया सह ॥ २२०.१२ ॥
संचिन्त्य मनसा केयमिति मां वै सरिद्वरा ।
ज्ञात्वा संचिन्त्य मनसा रेवां लिङ्गोद्भवां पराम् ॥ २२०.१३ ॥
लुठन्वै सम्मुखस्तात गतो रेवां महोदधिः ।
समुद्रे नर्मदा यत्र प्रविष्टास्ति महानदी ॥ २२०.१४ ॥
तत्र देवाधिदेवस्य समुद्रे लिङ्गमुत्थितम् ।
लिङ्गोद्भूता महाभागा नर्मदा सरितां वरा ॥ २२०.१५ ॥
लयं गता तत्र लिङ्गे तेन पुण्यतमा हि सा ।
नर्मदायां वसन्नित्यं नर्मदाम्बु पिबन्सदा ।
दीक्षितः सर्वयज्ञेषु सोमपानं दिने दिने ॥ २२०.१६ ॥
सङ्गमे तत्र यः स्नात्वा लोटणेश्वरमर्चयेत् ।
सोऽश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ २२०.१७ ॥
वाचिकं मानसं पापं कर्मणा यत्कृतं नृप ।
लोटणेश्वरमासाद्य सर्वं विलयतां व्रजेत् ॥ २२०.१८ ॥
कार्त्तिक्यां तु विशेषेण कथितं शङ्करेण तु ।
तच्छृणुष्व नृपश्रेष्ठ सर्वपापापनोदनम् ॥ २२०.१९ ॥
सम्प्राप्तां कार्त्तिकीं दृष्ट्वा गत्वा तत्र नृपोत्तम ।
चतुर्दश्यामुपोष्यैव स्नात्वा वै नर्मदाजले ॥ २२०.२० ॥
संतर्प्य पितृदेवांश्च श्राद्धं कृत्वा यथाविधि ।
रात्रौ जागरणं कुर्यात्सम्पूज्य लोटणेश्वरम् ॥ २२०.२१ ॥
सफलं जीवितं तस्य सफलं तस्य चेष्टितम् ।
पङ्गवस्ते न सन्देहो जन्म तेषां निरर्थकम् ॥ २२०.२२ ॥
एकाग्रमनसा यैस्तु न दृष्टो लोटणेश्वरः ।
पिशाचत्वं वियोनित्वं न भवेत्तस्य वै कुले ॥ २२०.२३ ॥
सङ्गमे तत्र यो गत्वा स्नानं कृत्वा यथाविधि ।
पुण्यैश्चैव तथा कुर्याद्गीतैर्नृत्यैः प्रबोधनम् ॥ २२०.२४ ॥
ततः प्रभातां रजनीं दृष्ट्वा नत्वा महोदधिम् ।
आमन्त्र्य स्नानविधिना स्नानं तत्र तु कारयेत् ॥ २२०.२५ ॥
ओं नमो विष्णुरूपाय तीर्थनाथाय ते नमः ।
सान्निध्यं कुरु मे देव समुद्र लवणाम्भसि ।
इत्यामन्त्रणमन्त्रः ॥ २२०.२६ ॥
अग्निश्च तेजो मृडया च देहो रेतोऽधा विष्णुरमृतस्य नाभिः ।
एवं ब्रुवन् पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् ।
इति स्नानमन्त्रः ॥ २२०.२७ ॥
आजन्मशतसाहस्रं यत्पापं कृतवान्नरः ।
सकृत्स्नानाद्व्यपोहेत पापौघं लवणाम्भसि ॥ २२०.२८ ॥
अन्यथा हि कुरुश्रेष्ठ देवयोनिरसौ विभुः ।
कुशाग्रेणापि विबुधैर्न स्प्रष्टव्यो महार्णवः ॥ २२०.२९ ॥
सर्वरत्नप्रधानस्त्वं सर्वरत्नाकराकर ।
सर्वामरप्रधानेश गृहाणार्घं नमोऽस्तु ते ।
इति अर्वमन्त्र ॥ २२०.३० ॥
पितृदेवमनुष्यांश्च संतर्प्य तदनन्तरम् ।
उत्तीर्य तीरे तस्यैव पञ्चभिर्द्विजपुंगवैः ॥ २२०.३१ ॥
श्राद्धं समाचरेत्पश्चाल्लोकपालानुरूपिभिः ।
कृत्वाग्रे लोकपालांस्तु प्रतिष्ठाप्य यथाविधि ॥ २२०.३२ ॥
सम्पूज्य च यथान्यायं तानेव ब्राह्मणैः सह ।
सुकृतं दुष्कृतं पश्चात्तेभ्यः सर्वं निवेदयेत् ॥ २२०.३३ ॥
बाल्यात्प्रभृति यत्पापं कृतं वार्धकयौवने ।
प्रख्यापयित्वा तेभ्योऽग्रे लोकपालान्निमन्त्रयेत् ॥ २२०.३४ ॥
बाल्यात्प्रभृति यत्किंचित्कृतमा जन्मतोऽशुभम् ।
विप्रेभ्यः कथितं सर्वं तत्सांनिध्यं स्थितेषु मे ॥ २२०.३५ ॥
इत्युक्त्वा स लुठेत्पश्चात्तेभ्योऽग्रेण च सम्मुखम् ।
अनुमान्य च तान्पञ्च पश्चात्स्नानं समाचरेत् ॥ २२०.३६ ॥
श्राद्धं च कार्यं विधिवत्पितृभ्यो नृपसत्तम ।
एवं कृते नृपश्रेष्ठ सर्वपापक्षयो भवेत् ॥ २२०.३७ ॥
जिज्ञासार्थं तु यः कश्चिदात्मानं ज्ञातुमिच्छति ।
शुभाशुभं च यत्कर्म तस्य निष्ठामिमां शृणु ॥ २२०.३८ ॥
स्नात्वा तत्र महातीर्थे लुठमानो व्रजेन्नरः ।
पापकर्मान्यतो याति धर्मकर्मा व्रजेन्नदीम् ॥ २२०.३९ ॥
पापकर्मा ततो ज्ञात्वा पापं मे पूर्वसंचितम् ।
स्नात्वा तीर्थवरे तस्मिन्दानं दद्याद्यथाविधि ॥ २२०.४० ॥
लोटणेश्वरमभ्यर्च्य सर्वपापैः प्रमुच्यते ।
अवक्रगमनं गत्वा मुच्यते सर्वपातकैः ॥ २२०.४१ ॥
तस्मात्सर्वप्रयत्नेन ज्ञात्वैवं नृपसत्तम ।
स्नातव्यं मानवैस्तत्र यत्र संनिहितो हरः ॥ २२०.४२ ॥
एवं स्नात्वा विधानेन ब्राह्मणान् वेदपारगान् ।
पूजयेत्पृथिवीपाल सर्वपापोपशान्तये ॥ २२०.४३ ॥
एवं गुणविशिष्टं हि तत्तीर्थं नृपसत्तम ।
तस्य तीर्थस्य माहात्म्यं शृणुष्वैकमना नृप ॥ २२०.४४ ॥
तत्र तीर्थे नरः स्नात्वा संतर्प्य पितृदेवताः ।
श्राद्धं यः कुरुते तत्र पित्ःणां भक्तिभावितः ॥ २२०.४५ ॥
दानं ददाति विप्रेभ्यो गोभूतिलहिरण्यकम् ।
षष्टिवर्षसहस्राणि कोटिर्वर्षशतानि च ॥ २२०.४६ ॥
विमानवरमारूढः स्वर्गलोके महीयते ।
नर्मदासर्वतीर्थेभ्यः स्नाने दाने च यत्फलम् ॥ २२०.४७ ॥
तत्फलं समवाप्नोति रेवासागरसङ्गमे ।
सुवर्णं रजतं ताम्रं मणिमौक्तिकभूषणम् ॥ २२०.४८ ॥
गोवृषं च महीं धान्यं तत्र दत्त्वाक्षयं फलम् ।
शुभस्याप्यशुभस्यापि तत्र तीर्थे न संशयः ॥ २२०.४९ ॥
तत्र तीर्थे नरः कश्चित्प्राणत्यागं युधिष्ठिर ।
करोति भक्त्या विधिवत्तस्य पुण्यफलं शृणु ॥ २२०.५० ॥
कोटिवर्षं तु वर्षाणां क्रीडित्वा शिवमन्दिरे ।
वेदवेदाङ्गविद्विप्रो जायते विमले कुले ॥ २२०.५१ ॥
पुत्रपौत्रसमृद्धोऽसौ धनधान्यसमन्वितः ।
सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदांशतम् ॥ २२०.५२ ॥
अपि द्वादशयात्रासु सोमनाथे यदर्चिते ।
कार्त्तिक्यां कृत्तिकायोगे तत्पुण्यं लोटणेश्वरे ॥ २२०.५३ ॥
गया गङ्गा कुरुक्षेत्रे नैमिषे पुष्करे तथा ।
तत्पुण्यं लभते पार्थ लोटणेश्वरदर्शनात् ॥ २२०.५४ ॥
यः शृणोति नरो भक्त्या पठ्यमानमिदं शुभम् ।
सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति ॥ २२०.५५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लोटणेश्वरतीर्थमाहात्म्यवर्णनं नाम विंशत्युत्तरद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 221
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र रेवाया दक्षिणे तटे ।
क्रोशद्वयान्तरे तीर्थं मतृतीर्थादनुत्तमम् ॥ २२१.१ ॥
नाम्ना हंसेश्वरं पुण्यं वैमनस्यविनाशनम् ।
कश्यपस्य कुले जातो हंसो दाक्षायणीसुतः ॥ २२१.२ ॥
ब्रह्मणो वाहनं जातः पुरा तप्त्वा तपो महत् ।
सैकदा विधिनिर्देशं विना वैयग्र्यमास्थितः ॥ २२१.३ ॥
अभिभूतः शिवगणैः प्रणनाश युधिष्ठिर ।
दक्षयज्ञप्रमथने कांदिशीको विधिं विना ॥ २२१.४ ॥
ब्रह्मणा संसृतोऽप्याशु नायाति स यदा खगः ।
तदा तं शप्तवान्ब्रह्मा पातयामास वै पदात् ॥ २२१.५ ॥
ततः स शप्तमात्मानं मत्वा हंसस्त्वरान्वितः ।
पितामहमुपागम्य प्रणिपत्येदमब्रवीत् ॥ २२१.६ ॥
हंस उवाच -
तिर्यग्योनिसमुत्पन्नं भवाञ्छप्तुं न चार्हति ।
स्वभाव एव तिर्यक्षु विवेकविकलं मनः ॥ २२१.७ ॥
तथापि देव पापोऽस्मि यदहं स्वामिनं त्यजे ।
किं तु धावद्भिरत्युग्रैर्गणैः शार्वैः पितामह ।
सहसाहं भयाक्रान्तस्त्रस्तस्त्यक्त्वा पलायितः ॥ २२१.८ ॥
अद्यापि भयमेवाहं पश्यन्नस्मि विभो पुरः ।
तेन स्मृतोऽपि भवता नाव्रजं भवदन्तिके ॥ २२१.९ ॥
श्रीमार्कण्डेय उवाच -
इति ब्रुवन्नेव हि धातुरग्रे हंसः श्वसत्यक्षिपूज्यः सुदीनः ।
तिर्यञ्चं मां पापिनं मूढबुद्धिं प्रभो पुरः पतितं पाहि पाहि ॥ २२१.१० ॥
एको देवस्त्वं हि सर्गस्य कर्ता नानाविधं सृष्टमेतत्त्वयैव ।
अहं सृष्टस्त्वीदृशो यत्त्वया वै सोऽयं दोषो धातरद्धा तवैव ॥ २२१.११ ॥
शापस्य वानुग्रहस्यापि शक्तस्त्वत्तो नान्यः शरणं कं व्रजामि ।
सेवाधर्माद्विच्युतं दासभूतं चपेटैर्हन्तव्यं वै तात मां त्राहि भक्तम् ॥ २२१.१२ ॥
विद्याविद्ये त्वत्त एवाविरास्तां धर्माधर्मौ सदसद्द्युर्निशे च ।
नानाभावाञ्जगतस्त्वं विधत्सेस्तं त्वामेकं शरणं वै प्रपद्ये ॥ २२१.१३ ॥
एकोऽसि बहुरूपोऽसि नानाचित्रैककर्मतः ।
निष्कर्माखिलकर्मासि त्वामतः शरणं व्रजे ॥ २२१.१४ ॥
नमोनमो वरेण्याय वरदाय नमोनमः ।
नमो धात्रे विधात्रे च शरण्याय नमोनमः ॥ २२१.१५ ॥
शिक्षाक्षरवियुक्तेयं वाणी मे स्तौति किं विभो ।
का शक्तिः किं परिज्ञानमिदमुक्तं क्षमस्व मे ॥ २२१.१६ ॥
श्रीमार्कण्डेय उवाच -
एवं वदति हंसे वै ब्रह्मा प्राह प्रसन्नधीः ।
शिक्षा दत्ता तवैवेयं मा विषादं कृथाः खग ॥ २२१.१७ ॥
तपसा शोधयात्मानं यथा शापान्तमाप्नुयाः ।
रेवासेवां कुरु स्नात्वा स्थापयित्वा महेश्वरम् ।
अचिरेणैव कालेन ततः संस्थानमाप्स्यसि ॥ २२१.१८ ॥
यच्चेष्ट्वा बहुभिर्यज्ञैः समाप्तवरदक्षिणैः ।
गोस्वर्णकोटिदानैश्च तत्फलं स्थापिते शिवे ॥ २२१.१९ ॥
ब्रह्मघ्नो वा सुरापो वा स्वर्णहृद्गुरुतल्पगः ।
रेवातीरे शिवं स्थाप्य मुच्यते सर्वपातकैः ॥ २२१.२० ॥
तस्माद्भर्गसरित्तीरे स्थापयित्वा त्रियम्बकम् ।
वियुक्तः सर्वदोषैस्त्वं यास्यसे पदमुत्तमम् ॥ २२१.२१ ॥
एवमुक्तः स विधिना हृष्टतुष्टः खगोत्तमः ।
तथेत्युक्त्वा जगामाशु नर्मदातीरमुत्तमम् ॥ २२१.२२ ॥
तपस्तप्त्वा कियत्कालं स्थापयामास शङ्करम् ॥ २२१.२३ ॥
स्वनाम्ना भरतश्रेष्ठ हंसेश्वरमनुत्तमम् ।
पूजयित्वा परं स्थानं प्राप्तवान्खगसत्तमः ॥ २२१.२४ ॥
तत्र हंसेश्वरे तीर्थे गत्वा स्नात्वा युधिष्ठिर ।
पूजयेत्परमेशानं स पापैः परिमुच्यते ॥ २२१.२५ ॥
स्तुवन्नेकमना देवं न दैन्यं प्राप्नुयात्क्वचित् ।
श्राद्धं दीपप्रदानं च ब्राह्मणानां च भोजनम् ।
दत्त्वा शक्त्या नृपश्रेष्ठ स्वर्गलोके महीयते ॥ २२१.२६ ॥
त्रिकालमेककालं वा यो भक्त्या पूजयेच्छिवम् ।
नवप्रसूतां धेनुं च दत्त्वा पार्थ द्विजोत्तमे ।
षष्टिवर्षसहस्राणि शिवलोके महीयते ॥ २२१.२७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हंसेश्वरतीर्थमाहात्म्यवर्णनं नामैकविंशदधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 222
श्रीमार्कण्डेय उवाच -
ततः क्रोशान्तरे गच्छेत्तिलादं तीर्थमुत्तमम् ।
तिलप्राशनकृद्यत्र जाबालिः शुद्धिमाप्तवान् ॥ २२२.१ ॥
पितृमातृपरित्यागी भ्रातुर्भार्याभिलाषकृत् ।
पुत्रविक्रयकृत्पापश्छलकृद्गुरुणा सह ॥ २२२.२ ॥
एवं दोषसमाविष्टो यत्र यत्रापि गच्छति ।
तत्र तत्रापि धिक्कारं लभते सत्सु भारत ।
न कोऽपि संगतिं धत्ते तेन सार्द्धं सभास्वपि ॥ २२२.३ ॥
इति लज्जान्वितो विप्रः काले न महता नृप ।
चिन्तामवाप महतीमगतिज्ञो हि पावने ॥ २२२.४ ॥
चकार सर्वतीर्थानि रेवां चाप्यवगाहयत् ॥ २२२.५ ॥
अणिवापान्तमासाद्य दक्षिणे नर्मदातटे ।
तस्थौ यत्र व्रती पार्थ जाबालिः प्राशयंस्तिलान् ॥ २२२.६ ॥
तिलैरेकाशनं कुर्वंस्तथैवैकान्तराशनम् ।
त्र्यहषड्द्वादशाहाशी पक्षमासाशनस्तथा ॥ २२२.७ ॥
कृच्छ्रचान्द्रायणादीनि व्रतानि च तिलैरपि ।
तिलादत्वमनुप्राप्तो ह्यब्दद्वासप्ततिं क्रमात् ॥ २२२.८ ॥
कालेन गच्छता तस्य प्रसन्नोऽभवदीश्वरः ।
प्रादादिहामुत्रिकीं तु शुद्धिं सालोक्यमात्मकम् ॥ २२२.९ ॥
तेन स स्थापितो देवः स्वनाम्ना भरतर्षभ ।
तिलादेश्वरसंज्ञां च प्राप लोकादपि प्रभुः ॥ २२२.१० ॥
तदा प्रभृति विख्यातं तीर्थं पापप्रणाशनम् ।
तत्र तीर्थे नरः स्नात्वा चतुर्दश्यष्टमीषु च ॥ २२२.११ ॥
उपवासपरः पार्थ तथैव हरिवासरे ।
तिलहोमी तिलोद्वर्ती तिलस्नायी तिलोदकी ॥ २२२.१२ ॥
तिलदाता च भोक्ता च नानापापैः प्रमुच्यते ।
तिलैरापूरयेल्लिङ्गं तिलतैलेन दीपदः ।
रुद्रलोकमवाप्नोति पुनात्या सप्तमं कुलम् ॥ २२२.१३ ॥
तिलपिण्डप्रदानेन श्राद्धे नृपतिसत्तम ।
विकर्मस्थाश्च गच्छन्ति गतिमिष्टां हि पूर्वजाः ॥ २२२.१४ ॥
स्वर्गलोकस्थिताः श्राद्धैर्ब्राह्मणानां च भोजनैः ।
अक्षयां तृप्तिमासाद्य मोदन्ते शाश्वतीः समाः ॥ २२२.१५ ॥
पितुः कुलं मातृकुलं तथा भार्याकुलं नृप ।
कुलत्रयं समुद्धृत्य स्वर्गं नयति वै नरः ॥ २२२.१६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तिलादेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वाविंशदधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 223
मार्कण्डेय उवाच -
ततः क्रोशान्तरे पार्थ वासवं तीर्थमुत्तमम् ।
वसुभिः स्थापितं तत्र स्थित्वा वै द्वादशाब्दकम् ॥ २२३.१ ॥
धरो ध्रुवश्च सोमश्च आपश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविमे पुरा ॥ २२३.२ ॥
पितृशापपरिक्लिष्टा गर्भवासाय भारत ।
नार्मदं तीर्थमासाद्य तपश्चक्रुर्यतेन्द्रियाः ॥ २२३.३ ॥
आराधयन्तः परमं भवानीपतिमव्यम् ।
द्वादशाब्दानि राजेन्द्र ततस्तुष्टो महेश्वरः ॥ २२३.४ ॥
प्रत्यक्षः प्रददौ तेभ्यस्त्वभीष्टं वरमुत्तमम् ।
ततः स्वनाम्ना संस्थाप्य वसवस्तं महेश्वरम् ।
जग्मुराकाशमाविश्य प्रसन्ने सति शङ्करे ॥ २२३.५ ॥
ततः प्रभृति विख्यातं तीर्थं तद्वासवाह्वयम् ।
तस्मिंस्तीर्थे महाराज यो भक्त्या पूजयेच्छिवम् ।
यथालब्धोपहारैश्च दीपं दद्यात्प्रयत्नतः ॥ २२३.६ ॥
शुक्लपक्षे तदाष्टम्यां प्रत्यहं वापि शक्तितः ।
अष्टौ वर्षसहस्राणि स वसेच्छिवसंनिधौ ॥ २२३.७ ॥
ततः शिवालयं याति गर्भवासं न पश्यति ।
पुष्पैर्वा पल्लवैर्वापि फलैर्धान्यैस्तथापि वा ॥ २२३.८ ॥
पूजयेद्देवमीशानं स दैन्यं नाप्नुयात्क्वचित् ।
सर्वशोकविनिर्मुक्तः स्वर्गलोके महीयते ॥ २२३.९ ॥
एकाहमपि कौन्तेय यो वसेद्वासवेश्वरे ।
पापराशिं विनिर्धूय भानुवद्दिवि मोदते ॥ २२३.१० ॥
विप्रांश्च भोजयेद्भक्त्या दद्याद्वासांसि दक्षिणाम् ॥ २२३.११ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वासवेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 224
मार्कण्डेय उवाच -
ततः क्रोशान्तरे पार्थ तीर्थं कोटीश्वरं परम् ।
यत्र स्नानं च दानं च जपहोमार्चनादिकम् ।
भक्त्या कृतं नरैस्तत्र सर्वं कोटिगुणं भवेत् ॥ २२४.१ ॥
तत्र देवाः सगन्धर्वा ऋषयः सिद्धचारणाः ।
जलधिं प्रतिगच्छन्ति नर्मदां वीक्षितुं किल ॥ २२४.२ ॥
मिलिताः कोटिशो राजन्रेवासागरसङ्गमे ।
विनोदमतुलं दृष्ट्वा रेवार्णवसमागमे ॥ २२४.३ ॥
स्नात्वा शिवं च संस्थाप्य पूजयित्वा महेश्वरम् ।
कोटीश्वराभिधानं तु स्वस्वभक्त्या विधानतः ॥ २२४.४ ॥
कोटीतीर्थे परां सिद्धिं सम्प्राप्ताः सर्वतोषणात् ।
तेन तत्पुण्यमतुलं सर्वतीर्थेषु चोत्तमम् ॥ २२४.५ ॥
तत्र तीर्थे तु यत्किंचिच्छुभं वा यदि वाशुभम् ।
क्रियते नृपशार्दूल सर्वं कोटिगुणं भवेत् ॥ २२४.६ ॥
तत्र तीर्थे तु मार्गस्था ये केचिदृषिसत्तमाः ।
सिद्धामृतपदं यान्ति पितृलोकं तथोत्तमम् ॥ २२४.७ ॥
उत्तरे नर्मदातीरे दक्षिणे चाश्रिताश्च ये ।
देवलोकं गतास्तत्र इति मे निश्चिता मतिः ॥ २२४.८ ॥
बिल्वार्कपुष्पैर्धत्तूरकुशकाशप्रसूनकैः ।
ऋतूद्भवैस्तथान्यैश्च पूजयित्वा महेश्वरम् ॥ २२४.९ ॥
नानोपचारैर्विधिवन्मन्त्रपूर्वं युधिष्ठिर ।
धूपदीपार्धनैवेद्यैस्तोषयित्वा च धूर्जटिम् ॥ २२४.१० ॥
शिवलोकमवाप्नोति यावदिन्द्राश्चतुर्दश ।
पौषकृष्णाष्टमीयोगे विशेषः पूजने स्मृतः ॥ २२४.११ ॥
नित्यं च नृपतिश्रेष्ठ चतुर्दश्यष्टमीषु च ।
शिवमभ्यर्च्य विप्रांश्च भोजयेद्भक्तितो वरान् ॥ २२४.१२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटीश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 225
श्रीमार्कण्डेय उवाच -
ततः क्रोशान्तरे गच्छेदलिकातीर्थमुत्तमम् ।
अलिका नाम गान्धर्वी कुशीला कुटिलाशया ॥ २२५.१ ॥
चित्रसेनस्य दौहित्री विद्यानन्दमृषिं गता ।
वव्रे ते स्वीकृता तेन दशवर्षाणि तं श्रिता ॥ २२५.२ ॥
पतिं जघान तं सुप्तं कस्मिंश्चित्कारणान्तरे ।
गत्वा निवेदयामास पितरं रत्नवल्लभम् ॥ २२५.३ ॥
पित्रा मात्रा च संत्यक्ता बहुभिर्भर्त्सिता नृप ।
गर्भघ्नी त्वं पतिघ्नी त्वमिति दर्शय मा मुखम् ॥ २२५.४ ॥
ब्रह्मघ्नी याहि पापिष्ठे परित्यक्ता गृहाद्व्रज ॥ २२५.५ ॥
मार्कण्डेय उवाच -
इति दुःखान्विता मूढा ताभ्यां निर्भर्त्सिता सती ।
तनुं त्यक्तुं मनश्चक्रे प्राप्य तीर्थान्तरं क्वचित् ॥ २२५.६ ॥
संपृच्छ्यमाना तीर्थानि ब्राह्मणेभ्यो युधिष्ठिर ।
श्रुत्वा पापहरं तीर्थं रेवासागरसङ्गमे ॥ २२५.७ ॥
तत्र पार्थ तपश्चक्रे निराहारा जितव्रता ।
कृच्छ्रातिकृच्छ्रपाराकमहासांतपनादिभिः ॥ २२५.८ ॥
चान्द्रायणैर्ब्रह्मकूर्चैः कर्शयामास वै तनुम् ।
एवं वर्षशतं सार्द्धं व्यतीतं तपसा नृप ॥ २२५.९ ॥
तस्या विशुद्धिमिच्छन्त्याः शिवध्यानार्चनादिभिः ।
ततः कतिपयाहोभिस्तस्या ज्ञात्वा हठं परम् ।
परितुष्टः शिवः प्राह पार्वत्या परिचोदितः ॥ २२५.१० ॥
ईश्वर उवाच -
पुत्रि मा साहसं कार्षीः शुद्धदेहासि साम्प्रतम् ।
तुष्टोऽहं तपसा तेऽद्य वरं वरय वाञ्छितम् ॥ २२५.११ ॥
अलिकोवाच -
यदि तुष्टोऽसि देवेश वरार्हा यद्यहं मता ।
नानापापाग्नितप्ताया देहि शुद्धिं परां मम ॥ २२५.१२ ॥
त्वं मे नाथो ह्यनाथायास्त्वमेव जगतां गुरुः ।
दीनानाथसमुद्धर्ता शरण्यः सर्वदेहिनाम् ॥ २२५.१३ ॥
ईश्वर उवाच -
त्वं भद्रे शुद्धदेहासि मा किंचिदनुशोचिथाः ।
स्वनाम्ना स्थापयित्वेह मां ततः स्वर्गमेष्यसि ॥ २२५.१४ ॥
इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत ।
अलिकापि ततो भक्त्या स्नात्वा संस्थाप्य शङ्करम् ॥ २२५.१५ ॥
दत्त्वा दानं च विप्रेभ्यो लोकमाप महोत्कटम् ।
पितरं च समासाद्य मातरं च युधिष्ठिर ॥ २२५.१६ ॥
तैश्च संमानिता प्रीत्या बन्धुभिः सालिका ततः ।
विमानवरमारूढा दिव्यमालान्विता नृप ॥ २२५.१७ ॥
गौरीलोकमनुप्राप्तसखित्वेऽद्यापि मोदते ।
ततः प्रभृति तत्पार्थ विख्यातमलिकेश्वरम् ॥ २२५.१८ ॥
तत्र तीर्थे तु या नारी पुरुषो वा युधिष्ठिर ।
स्नात्वा सम्पूजयेद्भक्त्या महादेवमुमायुतम् ॥ २२५.१९ ॥
स पापैर्विविधैर्मुक्तो लोकमाप्नोति शांकरम् ।
मानसं वाचिकं पापं कायिकं यत्पुरा कृतम् ॥ २२५.२० ॥
सर्वं तद्विलयं याति भोजयित्वा द्विजान्सदा ।
दीपं दत्त्वा च देवाग्रे न रोगैः परिभूयते ॥ २२५.२१ ॥
धूपपात्रं विमानं च घण्टां कलशमेव च ।
दत्त्वा देवाय राजेन्द्र शाक्रं लोकमवाप्नुयात् ॥ २२५.२२ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवासागरसङ्गमेऽलिकेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 226
मार्कण्डेय उवाच -
ततः क्रोशान्तरे पुण्यं तीर्थं तद्विमलेश्वरम् ।
यत्र स्नानेन दानेन जपहोमार्चनादिभिः ॥ २२६.१ ॥
विमलेश्वरमाराध्य यो यदिच्छेत्स तल्लभेत् ।
स्वर्गलाभादिकं वापि पार्थिवं वा यथेप्सितम् ॥ २२६.२ ॥
पुरा त्रिशिरसं हत्वा त्वष्टुः पुत्रं शतक्रतुः ।
यस्य तीर्थस्य माहात्म्याद्वैमल्यं परमं गतः ॥ २२६.३ ॥
यत्र वेदनिधिर्विप्रो महत्तप्त्वा तपः पुरा ।
नानाकर्ममलैः क्षीणैर्विमलोऽभवदर्कवत् ॥ २२६.४ ॥
महादेवप्रसादेन सोमवत्प्रियदर्शनः ।
पुरा भानुमतीं भानुः सुतां स्मरशरार्दितः ॥ २२६.५ ॥
चकमे तेन दोषेण कुष्ठरोगार्दितोऽभवत् ।
स चाप्यत्र तपस्तप्त्वा विमलत्वमुपागतः ॥ २२६.६ ॥
महादेवेन तुष्टेन स्वस्थानं मुदितोऽभजत् ।
तथैव च पुरा पार्थ विभाण्डकसुतो मुनिः ॥ २२६.७ ॥
योगिसङ्गं वने प्राप्य पुरे च नृपतेस्तथा ।
राजसंसर्गदोषाद्वै मालिन्यं परमात्मनः ॥ २२६.८ ॥
विचारयन्नभ्युपेत्य रेवासागरसङ्गमम् ।
शान्तया भार्यया सार्द्धं तप्त्वा द्वादशवत्सरान् ॥ २२६.९ ॥
कृच्छ्रचान्द्रायणैर्देवं तोषयंस्त्र्यम्बकं मुनिः ।
महादेवेन तुष्टेन सोऽपि वैमल्यमाप्तवान् ॥ २२६.१० ॥
शर्वाण्या प्रेरितः शर्वः पुरा दारुवने नृप ।
मोहनान्मुनिपत्नीनां स्वं दीक्ष्य विमलं किल ॥ २२६.११ ॥
विचार्य परमस्थानं नर्मदोदधिसङ्गमम् ।
तत्र स्थित्वा महाराज तपस्तप्त्वा सहोमया ॥ २२६.१२ ॥
विमलोऽसौ यतो जातस्तेनासौ विमलेश्वरः ।
तेन नाम्ना स्वयं तस्थौ लोकानां हितकाम्यया ॥ २२६.१३ ॥
ततस्तिलोत्तमां सृष्ट्वा ब्रह्मा लोकपितामहः ।
प्रजानाथोऽपि तां सृष्ट्वा दृष्ट्वाग्रे सुमनोहराम् ॥ २२६.१४ ॥
भावियोगबलाक्रान्तः स तस्यामभिकोऽभवत् ।
तेन वीक्ष्य सदोषत्वं रेवातीरद्वयं श्रितः ॥ २२६.१५ ॥
तीर्थान्यनुसरन्मौनी त्रिस्नायी संस्मरञ्छिवम् ।
रेवार्णवसमायोगे स्नात्वा सम्पूज्य शङ्करम् ।
कालेनाल्पेन राजर्षे ब्रह्माप्यमलतां गतः ॥ २२६.१६ ॥
एवमन्येऽपि बहुशो देवर्षिनृपसत्तमाः ।
त्यक्त्वा दोषमलं तत्र विमला बहवोऽभवन् ॥ २२६.१७ ॥
तथा त्वमपि राजेन्द्र तत्र स्नात्वा शिवार्चनात् ।
अमलोऽपि विशेषेण वैमल्यं प्राप्स्यसे परम् ॥ २२६.१८ ॥
तत्र स्नात्वा नरो नारी पूजयित्वा महेश्वरम् ।
पापदोषविनिर्मुक्तो ब्रह्मलोके महीयते ॥ २२६.१९ ॥
तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् ।
अष्टम्यां च चतुर्दश्यां सर्वपर्वसु पार्थिव ॥ २२६.२० ॥
सप्तजन्मकृतं पापं हित्वा याति शिवालयम् ।
श्राद्धं कृत्वा विधानेन पित्ःणामनृणी भवेत् ।
ब्राह्मणान् भोजयेच्छक्त्या तेभ्यो दद्याच्च दक्षिणाम् ॥ २२६.२१ ॥
यद्यदिष्टतमं लोके यच्चैवात्महितं गृहे ।
तत्तद्गुणवते देयं तत्रैवाक्षयमिच्छता ।
स्वर्णधान्यानि वासांसि छत्रोपानत्कमण्डलुम् ॥ २२६.२२ ॥
गृहं देवस्य वै शक्त्या कृत्वा स्याद्भुवि भूपतिः ।
गीतनृत्यकथाभिश्च तोषयेत्परमेश्वरम् ॥ २२६.२३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विमलेश्वरतीर्थमाहात्म्यवर्णनं नाम षड्विंशत्यधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 227
मार्कण्डेय उवाच -
एतानि तव संक्षेपात्प्राधान्यात्कथितानि च ।
न शक्तो विस्तराद्वक्तुं संख्यां तीर्थेषु पाण्डव ॥ २२७.१ ॥
एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता ।
नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा ॥ २२७.२ ॥
मनसा संस्मरेद्यस्तु नर्मदां सततं नृप ।
चान्द्रायणशतस्याशु लभते फलमुत्तमम् ॥ २२७.३ ॥
अश्रद्दधानाः पुरुषा नास्तिकाश्चात्र ये स्थिताः ।
पतन्ति नरके घोरे प्राहैवं परमेश्वरः ॥ २२७.४ ॥
नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः ।
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥ २२७.५ ॥
इयं माहेश्वरी गङ्गा महेश्वरतनूद्भवा ।
प्रोक्ता दक्षिणगङ्गेति भारतस्य युधिष्ठिर ॥ २२७.६ ॥
जाह्नवी वैष्णवी गङ्गा ब्राह्मी गङ्गा सरस्वती ।
इयं माहेश्वरी गङ्गा रेवा नास्त्यत्र संशयः ॥ २२७.७ ॥
यथा हि पुरुषे देवस्त्रैमूर्तत्वमुपाश्रितः ।
ब्रह्मविष्णुमहेशाख्यं न भेदस्तत्र वै यथा ।
तथा सरित्त्रये पार्थ भेदं मनसि मा कृथाः ॥ २२७.८ ॥
कोटिशो ह्यत्र तीर्थानि लक्षशश्चापि भारत ।
तथा सहस्रशो रेवातीरद्वयगतानि तु ॥ २२७.९ ॥
वृक्षान्तरिक्षसंस्थानि जलस्थलगतानि च ।
कः शक्तस्तानि निर्णेतुं वागीशो वा महेश्वरः ॥ २२७.१० ॥
स्मरणाज्जन्मजनितं दर्शनाच्च त्रिजन्मजम् ।
सप्तजन्मकृतं नश्येत्पापं रेवावगाहनात् ॥ २२७.११ ॥
देवकार्यं कृतं तेन अग्नयो विधिवद्धुताः ।
वेदा अधीताश्चत्वारो येन रेवावगाहिता ॥ २२७.१२ ॥
प्राधान्याच्चापि संक्षेपात्तीर्थान्युक्तानि ते मया ।
न शक्यो विस्तरः पार्थ श्रोतुं वक्तुं च वै मया ॥ २२७.१३ ॥
युधिष्ठिर उवाच -
विधानं च यमांश्चैव नियमांश्च वदस्व मे ।
प्रायश्चित्तार्थगमने को विधिस्तं वदस्व मे ॥ २२७.१४ ॥
श्रीमार्कण्डेय उवाच -
साधु पृष्टं महाराज यच्छ्रेयः पारलौकिकम् ।
शृणुष्वावहितो भूत्वा यथाज्ञानं वदामि ते ॥ २२७.१५ ॥
अध्रुवेण शरीरेण ध्रुवं कर्म समाचरेत् ।
अवश्यमेव यास्यन्ति प्राणाः प्राघूर्णिका इव ॥ २२७.१६ ॥
दानं वित्तादृतं वाचः कीर्तिधर्मौ तथा ख्युषः ।
परोपकरणं कायादसारात्सारमुद्धरेत् ॥ २२७.१७ ॥
अस्मिन्महामोहमये कटाहे सूर्याग्निना रात्रिदिवेन्धनेन ।
मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ॥ २२७.१८ ॥
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ २२७.१९ ॥
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।
यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥ २२७.२० ॥
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २२७.२१ ॥
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ २२७.२२ ॥
सन्तीह विविधोपाया नृणां देहविशोधनाः ।
तीर्थसेवासमं नास्ति स्वशरीरस्य शोधनम् ॥ २२७.२३ ॥
कृच्छ्रचान्द्रायणाद्यैर्वा द्वितीयं तीर्थसेवया ।
यदा तीर्थं समुद्दिश्य प्रयाति पुरुषो नृप ।
तदा देवाश्च पितरस्तं व्रजन्त्यनु खेचराः ॥ २२७.२४ ॥
परमा मोदपूर्णास्ते प्रयान्त्यस्यानुयायिनः ।
कृत्वाभ्युदयिकं श्राद्धं समापृच्छय तु देवताम् ॥ २२७.२५ ॥
इष्टबन्धूंश्च विष्णुं च शङ्करं सगणेश्वरम् ।
व्रजेद्द्विजाभ्यनुज्ञातो गृहीत्वा नियमानपि ॥ २२७.२६ ॥
एकाशनं ब्रह्मचर्यं भूशय्यां सत्यवादिताम् ।
वर्जनं च परान्नस्य प्रतिग्रहविवर्जनम् ॥ २२७.२७ ॥
वर्जयित्वा तथा द्रोहवञ्चनादि नृपोत्तम ।
साधुवेषं समास्थाय विनयेन विभूषितः ॥ २२७.२८ ॥
दम्भाहङ्कारमुक्तो यः स तीर्थफलमश्नुते ।
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥ २२७.२९ ॥
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ॥ २२७.३० ॥
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ।
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ॥ २२७.३१ ॥
वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ।
स्नानं सुरार्चनं चैव श्राद्धे वै पिण्डपातनम् ॥ २२७.३२ ॥
विप्राणां भोजनं शक्त्या सर्वतीर्थेष्वयं विधिः ।
प्रायश्चित्तनिमित्तं च यो व्रजेद्यतमानसः ॥ २२७.३३ ॥
तस्यापि च विधिं वक्ष्ये शृणु पार्थ समाहितः ।
एकाशनं ब्रह्मचर्यमक्षारलवणाशनम् ॥ २२७.३४ ॥
स्नात्वा तीर्थाभिगमनं हविष्यैकान्नभोजनम् ।
वर्जयेत्पतितालापं बहुभाषणमेव च ॥ २२७.३५ ॥
परीवादं परान्नं च नीचसङ्गं विवर्जयेत् ।
व्रजेच्च निरुपानत्को वसानो वाससी शुचिः ॥ २२७.३६ ॥
संकल्पं मनसा कृत्वा ब्राह्मणानुज्ञया व्रजेत् ।
तीर्थे गत्वा तथा स्नात्वा कृत्वा चैव सुरार्चनम् ॥ २२७.३७ ॥
दुष्कर्मतो विमुक्तः स्यादनुतापी भवेद्यदि ।
वेदे तीर्थे च देवे च दैवज्ञे चौषधे गुरौ ॥ २२७.३८ ॥
यादृशी भावना यस्य सिद्धिर्भवति तादृशी ।
उक्ततीर्थफलानां च पुराणेषु स्मृतिष्वपि ॥ २२७.३९ ॥
अर्थवादभवां शङ्कां विहाय भरतर्षभ ।
कृत्वा विचारं शास्त्रोक्तं परिकल्प्य यथोचितम् ॥ २२७.४० ॥
कायेन कृच्छ्रचरणे ह्यशक्तानां विशुद्धये ।
ज्ञात्वा तीर्थाविशेषं हि प्रायश्चित्तं समाचरेत् ॥ २२७.४१ ॥
तच्छृणुष्व महाराज नर्मदायां यथोचितम् ।
चतुर्विंशतिसंख्येभ्यो योजनेभ्यो व्रजेन्नरः ॥ २२७.४२ ॥
चतुर्विंशतिकृच्छ्राणां फलमाप्नोति शोभनम् ।
अत ऊर्ध्वं योजनेषु पादकृच्छ्रमुदाहृतः ॥ २२७.४३ ॥
तन्मध्ये च महाराज यो व्रजेच्छुद्धिकाङ्क्षया ।
योजने योजने तस्य प्रायश्चित्तं विदुर्बुधाः ॥ २२७.४४ ॥
प्रणवाख्ये महाराज तथा रेवोरिसंगमे ।
भृगुक्षेत्रे तथा गत्वा फलं तद्द्विगुणं स्मृतम् ॥ २२७.४५ ॥
सङ्गमे देवनद्याश्च शूलभेदे नृपोत्तम ।
द्विगुणं पादहीनं स्यात्करजासंगमे तथा ॥ २२७.४६ ॥
एरण्डीसङ्गमे तद्वत्कपिलायाश्च संगमे ।
केचित्त्रिगुणितं प्राहुः कुब्जारेवोत्थसङ्गमे ॥ २२७.४७ ॥
ओंकारे च महाराज तदपि स्यात्समञ्जसम् ।
सङ्गमेषु तथान्यासां नदीनां रेवया सह ॥ २२७.४८ ॥
प्राहुस्ते सार्धकृच्छ्रं वै फलं पूर्वं युधिष्ठिर ।
त्रिगुणं कृच्छ्रमाप्नोति रेवासागरसङ्गमे ॥ २२७.४९ ॥
कृच्छ्रं चतुर्गुणं प्रोक्तं शुक्लतीर्थे युधिष्ठिर ।
योजने योजने गत्वा चतुर्विंशतियोजनम् ।
तत्र तत्र वसेद्यस्तु सुचिरं नृवरोत्तम ॥ २२७.५० ॥
रेवासेवासमाचारः संयुक्तः शुद्धबुद्धिमान् ।
दम्भाहङ्काररहितः शुद्ध्यर्थं स विमुच्यते ॥ २२७.५१ ॥
इति ते कथितं पार्थ प्रायश्चित्तार्थलक्षणम् ।
रेवायात्राविधानं च गुह्यमेतद्युधिष्ठिर ॥ २२७.५२ ॥
युधिष्ठिर उवाच -
योजनस्य प्रमाणं मे वद त्वं मुनिसत्तम ।
यज्ज्ञात्वा निश्चितं मे स्यान्मनःशुद्धेस्तु कारणम् ॥ २२७.५३ ॥
मार्कण्डेय उवाच -
शृणु पाण्डव वक्ष्यामि प्रमाणं योजनस्य यत् ।
तथा यात्राविशेषेण विशेषं कृच्छ्रसम्भवम् ॥ २२७.५४ ॥
तिर्यग्यवोदराण्यष्टावूर्ध्वा वा व्रीहयस्त्रयः ।
प्रमाणमङ्गुलस्याहुर्वितस्तिर्द्वादशांगुला ॥ २२७.५५ ॥
वितस्तिद्वितयं हस्तश्चतुर्हस्तं धनुः स्मृतम् ।
स एव दण्डो गदितो विशेषज्ञैर्युधिष्ठिर ॥ २२७.५६ ॥
धनुःसहस्रे द्वे क्रोशश्चतुःक्रोशं च योजनम् ।
एतद्योजनमानं ते कथितं भरतर्षभ ॥ २२७.५७ ॥
येन यात्रां व्रजन् वेत्ति फलमानं निजार्जितम् ।
उक्तं कृच्छ्रफलं तीर्थे जलरूपे नृपोत्तम ॥ २२७.५८ ॥
यथाविशेषं ते वच्मि पूर्वोक्ते तत्र तत्र च ।
तन्मे शृणु महीपाल श्रद्दधानाय कथ्यते ॥ २२७.५९ ॥
यस्मिंस्तीर्थे हि यत्प्रोक्तं फलं कृच्छ्रादिकं नृप ।
तत्राप्युपोषणात्कृच्छ्रफलं प्राप्नोत्यथाधिकम् ॥ २२७.६० ॥
दिनजाप्याच्च लभते फलं कृच्छ्रस्य शक्तितः ।
तत्र विख्यातदेवेशं स्नात्वा दृष्ट्वाभिपूज्य च ॥ २२७.६१ ॥
प्रणम्य लभते पार्थ फलं कृच्छ्रभवं सुधीः ।
तीर्थे मुख्यफलं स्नानाद्द्वितीयं चाप्युपोषणात् ॥ २२७.६२ ॥
तृतीयं ख्यातदेवस्य दर्शनाभ्यर्चनादिभिः ।
चतुर्थं जाप्ययोगेन देहशक्त्या त्वहर्निशम् ॥ २२७.६३ ॥
पञ्चमं सर्वतीर्थेषु कल्पनीयं हि दूरतः ।
तीरस्थो योजनादर्वाग्दशांशं लभते फलम् ॥ २२७.६४ ॥
उक्ततीर्थफलात्पार्थ नात्र कार्या विचारणा ॥ २२७.६५ ॥
उपवासेन सहितं महानद्यां हि मज्जनम् ।
अप्यर्वाग्योजनात्पार्थ दद्यात्कृच्छ्रफलं नृणाम् ॥ २२७.६६ ॥
षड्योजनवहा कुल्य नद्योऽल्पा द्वादशैव च ।
चतुर्विंशतिगा नद्यो महानद्यस्ततोऽधिकाः ॥ २२७.६७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थयात्रादिविधानविशेषकथनं नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 228
युधिष्ठिर उवाच -
परार्थं तीर्थयात्रायां गच्छतः कस्य किं फलम् ।
कियन्मात्रं मुनिश्रेष्ठ तन्मे ब्रूहि कृपानिधे ॥ २२८.१ ॥
मार्कण्डेय उवाच -
परार्थं गच्छतस्तन्मे वदतः शृणु पार्थिव ।
यथा यावत्फलं तस्य यात्रादिविहितं भवेत् ॥ २२८.२ ॥
उत्तमेनेह वर्णेन द्रव्यलोभादिना नृप ।
नाधमस्य क्वचित्कार्यं तीर्थयात्रादिसेवनम् ॥ २२८.३ ॥
धर्मकर्म महाराज स्वयं विद्वान्समाचरेत् ।
शरीरस्याथवा शक्त्या अन्यद्वा कार्ययोगतः ॥ २२८.४ ॥
धर्मकर्म सदा प्रायः सवर्णेनैव कारयेत् ।
पुत्रपौत्रादिकैर्वापि ज्ञातिभिर्गोत्रसम्भवैः ॥ २२८.५ ॥
श्रेष्ठं हि विहितं प्राहुर्धर्मकर्म युधिष्ठिर ।
तैरेव कारयेत्तस्मान्नोत्तमैर्नाधमैरपि ॥ २२८.६ ॥
अधमेन कृतं सम्यङ्न भवेदिति मे मतिः ।
उत्तमश्चाधमार्थे वै कुर्वन्दुर्गतिमाप्नुयात् ॥ २२८.७ ॥
न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् ।
न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ॥ २२८.८ ॥
जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् ।
देवताराधनं दीक्षा स्त्रीशूद्रपतनानि षट् ॥ २२८.९ ॥
पतिवत्नी पतत्येव विधवा सर्वमाचरेत् ।
सभर्तृकाशके पत्यौ सर्वं कुर्यादनुज्ञया ॥ २२८.१० ॥
गत्वा परार्थं तीर्थादौ षोडशांशफलं लभेत् ।
गच्छतश्च प्रसङ्गेन तीर्थमर्द्धफलं स्मृतम् ॥ २२८.११ ॥
अनुसङ्गेन तीर्थस्य स्नाने स्नानफलं विदुः ।
नैव यात्राफलं तज्ज्ञाः शास्त्रोक्तं कल्मषापहम् ॥ २२८.१२ ॥
पित्रर्थं च पितृव्यस्य मातुर्मातामहस्य च ।
मातुलस्य तथा भ्रातुः श्वशुरस्य सुतस्य च ॥ २२८.१३ ॥
पोषकार्थादयोश्चापि मातामह्या गुरोस्तथा ।
स्वसुर्मातृष्वसुः पैत्र्या आचार्याध्यापकस्य च ॥ २२८.१४ ॥
इत्याद्यर्थे नरः स्नात्वा स्वयमष्टांशमाप्नुयात् ।
साक्षात्पित्रोः प्रकुर्वाणश्चतुर्थांशमवाप्नुयात् ॥ २२८.१५ ॥
पतिपत्न्योर्मिथश्चार्द्धं फलं प्राहुर्मनीषिणः ।
भागिनेयस्य शिष्यस्य भ्रातृव्यस्य सुतस्य च ।
षट्त्रिपञ्चचतुर्भागान्फलमाप्नोति वै नरः ॥ २२८.१६ ॥
इति ते कथितं पार्थ पारम्पर्यक्रमागतम् ।
कर्तव्यं ज्ञातिवर्गस्य परार्थे धर्मसाधनम् ॥ २२८.१७ ॥
वर्षाऋतुसमायोगे सर्वा नद्यो रजस्वलाः ।
मुक्त्वा सरस्वतीं गङ्गां नर्मदां यमुनानदीम् ॥ २२८.१८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे परार्थतीर्थयात्राफलकथनं नामाष्टविंशत्यधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 229
श्रीमार्कण्डेय उवाच -
एवं ते कथितं राजन्पुराणं धर्मसंहितम् ।
शिवप्रीत्या यथा प्रोक्तं वायुना देवसंसदि ॥ २२९.१ ॥
षष्टितीर्थसहस्राणि षष्टिकोटिस्तथैव च ।
आदिमध्यावसानेषु नर्मदायां पदे पदे ॥ २२९.२ ॥
मया द्वादशसाहस्री संहिता या श्रुता पुरा ।
देवदेवस्य गदतः साम्प्रतं कथिता तव ॥ २२९.३ ॥
पृष्टस्त्वयाहं भूपाल पर्वतेऽमरकण्टके ।
स्थितः संक्षेपतः सर्वं मया तत्कथितं तव ॥ २२९.४ ॥
नर्मदाचरितं पुण्यं शृणु तस्यास्ति यत्फलम् ।
यत्फलं सर्ववेदैः स्यात्सषडङ्गपदक्रमैः ॥ २२९.५ ॥
पठितैश्च श्रुतैर्वापि तस्माद्बहुतरं भवेत् ।
सत्रयाजी फलं यत्र लभते द्वादशाब्दिकम् ॥ २२९.६ ॥
चरिते तु श्रुते देव्या लभते तादृशं फलम् ।
सर्वतीर्थेषु यत्पुण्यं स्नात्वा सागरमादितः ॥ २२९.७ ॥
सकृत्स्नात्वा तथा श्रुत्वा नर्मदायां फलं हि तत् ।
आदिमध्यावसानेन नर्मदाचरितं शुभम् ॥ २२९.८ ॥
यः शृणोति नरो भक्त्या तस्य पुण्यफलं शृणु ।
स प्राप्य शिवसंस्थानं रुद्रकन्यासमावृतः ॥ २२९.९ ॥
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ।
एतद्धर्ममुपाख्यानं सर्वशास्त्रेषु सत्तमम् ॥ २२९.१० ॥
देशे वा मण्डले वापि वा ग्रामे नगरेऽपि वा ।
गृहे वा तिष्ठते यस्य चातुर्वर्ण्यस्य भारत ॥ २२९.११ ॥
स ब्रह्मा स शिवः साक्षात्स च देवो जनार्दनः ।
त्रिविधं कारणं लोके धर्मपन्थानमुत्तमम् ॥ २२९.१२ ॥
देवतानां गुरुं शास्त्रं परमं सिद्धिकारणम् ।
श्रुत्वेश्वरमुखात्पार्थ मयापि तव कीर्तितम् ॥ २२९.१३ ॥
दक्षिणे चोत्तरे कूले यानि तीर्थानि कानिचित् ।
प्रधानतः सुपुण्यानि कथितानि विशेषतः ॥ २२९.१४ ॥
स्पर्शनाद्दर्शनात्तेषां कीर्तनाच्छ्रवणात्तथा ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ २२९.१५ ॥
इदं यः शृणुयान्नित्यं पुराणं शिवभाषितम् ।
ब्राह्मणो वेदविद्यावान् क्षत्रियो विजयी भवेत् ॥ २२९.१६ ॥
धनभागी भवेद्वैश्यः शूद्रो वै धर्मभाग्भवेत् ।
सौभाग्यं सन्ततिं स्वर्गं नारी श्रुत्वाप्नुयाद्धनम् ॥ २२९.१७ ॥
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।
माहात्म्यं नर्मदायास्तु श्रुत्वा पापबहिष्कृताः ॥ २२९.१८ ॥
पापभेदी कृतघ्नश्च स्वामिविश्वासघातकः ।
गोघ्नश्च गरदश्चैव कन्याविक्रयकारकः ॥ २२९.१९ ॥
एते श्रुत्वैव पापेभ्यो मुच्यन्ते नात्र संशयः ।
ये पुनर्भावितात्मानः शृण्वन्ति सततं नृप ॥ २२९.२० ॥
पूजयन्त इदं देवाः पूजिता गुरवश्च तैः ।
नर्मदा पूजिता तेन भगवांश्च महेश्वरः ॥ २२९.२१ ॥
तस्मात्सर्वप्रयत्नेन गन्धपुष्पविभूषणैः ।
पूजितं परया भक्त्या शास्त्रमेतत्फलप्रदम् ॥ २२९.२२ ॥
लेखापयित्वा सकलं नर्मदाचरितं शुभम् ।
उत्तमं सर्वशास्त्रेभ्यो यो ददाति द्विजन्मने ॥ २२९.२३ ॥
नर्मदासर्वतीर्थेषु स्नाने दाने च यत्फलम् ।
तत्फलं समवाप्नोति स नरो नात्र संशयः ॥ २२९.२४ ॥
एतत्पुराणं रुद्रोक्तं महापुण्यफलप्रदम् ।
स्वर्गदं पुत्रदं धन्यं यशस्यं कीर्तिवर्धनम् ॥ २२९.२५ ॥
सर्वपापहरं पार्थ दुःखदुःस्वप्ननाशनम् ।
पठतां शृण्वतां राजन् सर्वकामार्थसिद्धिदम् ॥ २२९.२६ ॥
शान्तिरस्तु शिवं चास्तु लोकाः सन्तु निरामयाः ।
गोब्राह्मणेभ्यः स्वस्त्यस्तु धर्मं धर्मात्मजाश्रयः ॥ २२९.२७ ॥
नरकान्तकरी रेवा सतीर्था विश्वपावनी ।
नर्मदा धर्मदा चास्तु शर्मदा पार्थ ते सदा ॥ २२९.२८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेययुधिष्ठिरसंवादे रेवाखण्डपठनश्रवणदानादिफलश्रुतिवर्णनं नामैकोनत्रिंशदधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 230
सूत उवाच -
इत्युक्त्वोपररामथ पाण्डोः पुत्राय वै मुनिः ।
मृकण्डतनयो धीमान्सप्तकल्पस्मरः पुरः ॥ २३०.१ ॥
मार्कण्डमुनिना प्रोक्तं यथा पार्थाय सत्तमाः ।
तथा वः कथितं सर्वं रेवामाहात्म्यमुत्तमम् ॥ २३०.२ ॥
इयं पुण्या सरिच्छ्रेष्ठा रेवा विश्वैकपावनी ।
रुद्रदेहसमुद्भूता सर्वभूताभयप्रदा ॥ २३०.३ ॥
ओङ्कारजलधिं यावदुवाच भृगुनन्दनः ।
तीर्थसङ्गमभेदान्वै धर्मपुत्राय पृच्छते ॥ २३०.४ ॥
समासेनैव मुनयस्तथाहं कथयामि वः ।
सप्तषष्टिसहस्राणि षष्टिकोट्यस्तथैव च ॥ २३०.५ ॥
कथं केनात्र शक्यन्ते वक्तुं वर्षशतैरपि ।
तथाप्यत्र मुनिश्रेष्ठाः प्रोक्तं पार्थाय वै यथा ॥ २३०.६ ॥
तीर्थमोंकारमारभ्य वक्ष्ये तीर्थावलिं शुभाम् ।
प्रोच्यमानां समासेन तां शृणुध्वं महर्षयः ॥ २३०.७ ॥
नत्वा सोमं महेशानं नत्वा ब्रह्माच्युतावुभौ ।
सरस्वतीं गणेशानं देव्यासाङ्घ्रिपञ्कजम् ॥ २३०.८ ॥
पूर्वाचार्यांस्तथा सर्वान्दृष्ट्वादृष्टार्थवेदिनः ।
प्रणम्य नर्मदां देवीं वक्ष्ये तीर्थावलिं त्विमाम् ॥ २३०.९ ॥
ओं नमो विश्वरूपाय ओङ्कारायाखिलात्मने ।
यमारभ्ये प्रवक्ष्यामि रेवातीर्थावलिं द्विजाः ॥ २३०.१० ॥
अस्मिन्मार्कण्डगदिते रेवातीर्थक्रमे शुभे ।
पुराणसंहिताध्याया मार्कण्डाश्रमवर्णनम् ॥ २३०.११ ॥
ततः प्रश्नाधिकारश्च प्रशंसा नर्मदोद्भवा ।
तथा पञ्चदशानां च प्रवाहानां प्रकीर्तनम् ॥ २३०.१२ ॥
नामनिर्वचनं तद्वत्तथा कल्पसमुद्भवाः ।
एकविंशतिकल्पानां तद्वन्नामानुकीर्तनम् ॥ २३०.१३ ॥
मार्कण्डेयानुभूतानां सप्तानां लक्षणानि च ।
माहात्म्यं चैव रेवायाः शिवविष्ण्वोस्तथैव च ॥ २३०.१४ ॥
संहारलक्षणं तद्वदोङ्कारस्य च सम्भवः ।
तथैवौंकारमाहात्म्यममरकण्टकीर्तनम् ॥ २३०.१५ ॥
अमरेश्वरतीर्थं च तथा दारुवनं महत् ।
दारुकेश्वरतीर्थं च तीर्थं वै चरुकेश्वरम् ॥ २३०.१६ ॥
चरुकासङ्गमस्तद्व्यद्वतीपातेश्वरं तथा ।
पातालेश्वरतीर्थं च कोटियज्ञाह्वयं तथा ॥ २३०.१७ ॥
वरुणेश्वरतीर्थं च लिङ्गान्यष्टोत्तरं शतम् ।
सिद्धेश्वरं यमेशं च ब्रह्मेश्वरमतः परम् ॥ २३०.१८ ॥
सारस्वतं चाष्टरुद्रं सावित्रं सोमसंज्ञितम् ।
शिवखातं महातीर्थं रुद्रावर्तं द्विजोत्तमाः ॥ २३०.१९ ॥
ब्रह्मावर्तं परं तीर्थं सूर्यावर्तमतः परम् ।
पिप्पलावर्ततीर्थं च पिप्पल्याश्चैव सङ्गमः ॥ २३०.२० ॥
अमरकण्टमाहात्म्यं कपिलासङ्गमस्तथा ।
विशल्यासम्भवश्चापि भृगुतुङ्गाद्रिकीर्तनम् ॥ २३०.२१ ॥
विशल्यासङ्गमः पुण्यः करमर्दासमागमः ।
करमर्देश्वरं तीर्थं चक्रतीर्थमनुत्तमम् ॥ २३०.२२ ॥
सङ्गमो नीलगङ्गायाः विध्वंसस्त्रिपुरस्य च ।
कीर्तनं तीर्थदानानां मधुकतृतीयाव्रतम् ॥ २३०.२३ ॥
अप्सरेश्वरतीर्थं च देहक्षेपे विधिस्ततः ।
तीर्थं ज्वालेश्वरं नाम ज्वालायाः सङ्गमस्तथा ॥ २३०.२४ ॥
शक्रतीर्थं कुशावर्तं हंसतीर्थं तथैव च ।
अम्बरीषस्य तीर्थं च महाकालेश्वरं तथा ॥ २३०.२५ ॥
मातृकेश्वरतीर्थं च भृगुतुङ्गानुवर्णनम् ।
तत्र भैरवमाहात्म्यं चपलेश्वरकीर्तनम् ॥ २३०.२६ ॥
चण्डपाणेश्च माहात्म्यं कावेरीसङ्गमस्तथा ।
कुबेरेश्वरतीर्थं च वाराहीसङ्गमस्तथा ॥ २३०.२७ ॥
सङ्गमश्चण्डवेगायास्तीर्थं चण्डेश्वरं तथा ।
एरण्डीसङ्गमः पुण्य एरण्डेश्वरमुत्तमम् ॥ २३०.२८ ॥
पितृतीर्थं च तत्रैव ओङ्कारस्य च सम्भवम् ।
माहात्म्यं पञ्चलिङ्गानामोङ्कारस्य मुनीश्वराः ॥ २३०.२९ ॥
कोटितीर्थस्य माहात्म्यं तीर्थं काकह्रदं तथा ।
जम्बुकेश्वरतीर्थं च सारस्वतमतः परम् ॥ २३०.३० ॥
कपिलासङ्गमस्तद्वत्तीर्थं च कपिलेश्वरम् ।
दैत्यसूदनतीर्थं च चक्रतीर्थं च वामनम् ॥ २३०.३१ ॥
तीर्थलक्षं विदुः पूर्वे कपिलायास्तु सङ्गमे ।
स्वर्गस्य नरकस्यापि लक्षणं मुनिभाषितम् ॥ २३०.३२ ॥
व्यवस्थानं शरीरस्य गोप्रदानानुवर्णनम् ।
अशोकवनिकातीर्थं मतङ्गाश्रमवर्णनम् ॥ २३०.३३ ॥
अशोकेश्वरतीर्थं च मतङ्गेश्वरमुत्तमम् ।
तथा मृगवनं पुण्यं तत्र तीर्थं मनोरथम् ॥ २३०.३४ ॥
सङ्गमोऽङ्गारगर्ताया अङ्गारेश्वरमुत्तमम् ।
तथा मेघवनं तीर्थं देव्या नामानुकीर्तनम् ॥ २३०.३५ ॥
सङ्गमश्चापि कुब्जायास्तीर्थं कुब्जेश्वरं तथा ।
बिल्वाम्रकं तथा तीर्थं पूर्णद्वीपमतः परम् ॥ २३०.३६ ॥
तथा हिरण्यगर्भायाः सङ्गमः पुण्यकीर्तनः ।
द्वीपेश्वरं नाम तीर्थं पुण्यं यज्ञेश्वरं तथा ॥ २३०.३७ ॥
माण्डव्याश्रमतीर्थं च विशोकासङ्गमस्तथा ।
वागीश्वरं नाम तीर्थं पुण्यो वै वागुसङ्गमः ॥ २३०.३८ ॥
सहस्रावर्तकं तत्र तीर्थं सौगन्धिकं तथा ।
सङ्गमश्च सरस्वत्या ईशानं तीर्थमुत्तमम् ॥ २३०.३९ ॥
देवतात्रयतीर्थं च शूलखातं ततः परम् ।
ब्रह्मोदं शाङ्करं सौम्यं सारस्वतमतः परम् ॥ २३०.४० ॥
सहस्रयज्ञतीर्थं च कपालमोचनं तथा ।
आग्नेयमदितीशं च वाराहं तीर्थमुत्तमम् ॥ २३०.४१ ॥
तथा देवपथं तीर्थं तीर्थं यज्ञसहस्रकम् ।
शुक्लतीर्थं दीप्तिकेशं विष्णुतीर्थं च योधनम् ॥ २३०.४२ ॥
नर्मदेश्वरतीर्थं च वरुणेशं च मारुतम् ।
योगेशं रोहिणीतीर्थं दारुतीर्थं च सत्तमाः ॥ २३०.४३ ॥
ब्रह्मावर्तं च पत्त्रेशं वाह्नं सौरं च कीर्त्यते ।
मेघनादं दारुतीर्थं देवतीर्थं गुहाश्रयम् ॥ २३०.४४ ॥
नर्मदेश्वरसंज्ञं तत्कपिलातीर्थमुत्तमम् ।
करञ्जेशं कुण्डलेशं पिप्पलादमतः परम् ॥ २३०.४५ ॥
विमलेश्वरतीर्थं च पुष्करिण्याश्च सङ्गमः ।
प्रशंसा शूलभेदस्य तत्रैवान्धकविक्रमः ॥ २३०.४६ ॥
देवाश्वासनदानं च तथैवान्धकनिग्रहः ।
शूलभेदस्य चोत्पत्तिस्तथा पात्रपरीक्षणम् ॥ २३०.४७ ॥
प्रशंसा दानधर्मस्य ऋषिशृङ्गानुभावनम् ।
स्वर्गतिं दीर्घतपसो भानुमत्यास्तथेङ्गितम् ॥ २३०.४८ ॥
शबरस्वर्गगमनं माहात्म्यं शूलभेदजम् ।
कपिलेश्वरतीर्थं च मोक्षतीर्थमतः परम् ॥ २३०.४९ ॥
सङ्गमो मोक्षनद्याश्च तीर्थं च विमलेश्वरम् ।
तथैवोलूकतीर्थं च पुष्करिण्याश्च सङ्गमः ॥ २३०.५० ॥
आदित्येश्वरतीर्थं च तीर्थं वै सङ्गमेश्वरम् ।
सङ्गमो भीमकुल्यायास्तीर्थं भीमेश्वरं शुभम् ॥ २३०.५१ ॥
मार्कण्डेश्वरतीर्थं च तथा वै पिप्पलेश्वरम् ।
करोटीश्वरतीर्थं च तीर्थमिन्द्रेश्वरं शुभम् ॥ २३०.५२ ॥
अगस्त्येशं कुमारेशं व्यासेश्वरमनुत्तमम् ।
वैद्यनाथं च केदारमानन्देश्वरसंज्ञितम् ॥ २३०.५३ ॥
मातृतीर्थं च मुण्डेशं चौरं कामेश्वरं तथा ।
सङ्गमश्चानुदुह्या वै तीर्थे भीमार्जुनाह्वये ।
तीर्थं धर्मेश्वरं नाम लुङ्केश्वरमतः परम् ॥ २३०.५४ ॥
ततो धनदतीर्थं च जटेशं मङ्गलेश्वरम् ।
कपिलेश्वरतीर्थं च गोपारेश्वरमुत्तमम् ॥ २३०.५५ ॥
मणिनागेश्वरं नाम मणिनद्याश्च सङ्गमः ।
तिलकेश्वरतीर्थं च गौतमेशमतः परम् ॥ २३०.५६ ॥
तत्रैव मातृतीर्थं च मुनिनोक्तं मुनीश्वराः ।
शङ्खचूडं च केदारं पाराशरमतः परम् ॥ २३०.५७ ॥
भीमेश्वरं च चन्द्रेशमश्ववत्याश्च सङ्गमः ।
बह्वीश्वरं नारदेशं वैद्यनाथं कपीश्वरम् ॥ २३०.५८ ॥
कुम्भेश्वरं च मार्कण्डं रामेशं लक्ष्मणेश्वरम् ।
मेघेश्वरं मत्स्यकेशमप्सराह्रदसंज्ञकम् ॥ २३०.५९ ॥
दधिस्कन्दं मधुस्कन्दं नन्दिकेशं च वारुणम् ।
पावकेश्वरतीर्थं च तथैव कपिलेश्वरम् ॥ २३०.६० ॥
नारायणाह्वयं तीर्थं चक्रतीर्थमनुत्तमम् ।
चण्डादित्यं परं तीर्थं चण्डिकातीर्थमुत्तमम् ॥ २३०.६१ ॥
यमहासाह्वयं तीर्थं तथा गङ्गेश्वरं शुभम् ।
नन्दिकेश्वरसंज्ञं च नरनारायणाह्वयम् ॥ २३०.६२ ॥
नलेश्वरं च मार्कण्डं शुक्लतीर्थमतः परम् ।
व्यासेश्वरं परं तीर्थं तत्र सिद्धेश्वरं तथा ॥ २३०.६३ ॥
कोटितीर्थं प्रभातीर्थं वासुकीश्वरमुत्तमम् ।
सङ्गमश्च करञ्जाया मार्कण्डेश्वरमुत्तमम् ॥ २३०.६४ ॥
तीर्थं कोटीश्वरं नाम तथा संकर्षणाह्वयम् ।
कनकेशं मन्मथेशं तीर्थं चैवानसूयकम् ॥ २३०.६५ ॥
एरण्डीसङ्गमः पुण्यो मातृतीर्थं च शोभनम् ।
तीर्थं स्वर्णशलाकाख्यं तथा चैवाम्बिकेश्वरम् ॥ २३०.६६ ॥
करञ्जेशं भारतेशं नागेशं मुकुटेश्वरम् ।
सौभाग्यसुन्दरी तीर्थं धनदेश्वरमुत्तमम् ॥ २३०.६७ ॥
रोहिण्यं चक्रतीर्थं च उत्तरेश्वरसंज्ञितम् ।
भोगेश्वरं च केदारं निष्कलङ्कमतः परम् ॥ २३०.६८ ॥
मार्कण्डं धौतपापं च तीर्थमाङ्गिरसेश्वरम् ।
कोटवीसङ्गमः पुण्यं कोटितीर्थं च तत्र वै ॥ २३०.६९ ॥
अयोनिजं परं तीर्थमङ्गारेश्वरमुत्तमम् ।
स्कान्दं च नार्मदं ब्राह्मं वाल्मीकेश्वरसंज्ञितम् ॥ २३०.७० ॥
कोटितीर्थं कपालेशं पाण्डुतीर्थं त्रिलोचनम् ।
कपिलेशं कम्बुकेशं प्रभासं कोहनेश्वरम् ॥ २३०.७१ ॥
इन्द्रेशं वालुकेशं च देवेशं शक्रमेव च ।
नागेश्वरं गौतमेशमहल्यातीर्थमुत्तमम् ॥ २३०.७२ ॥
रामेश्वरं मोक्षतीर्थं तथा कुशलवेश्वरौ ।
नर्मदेशं कपर्दीशं सागरेशमतः परम् ॥ २३०.७३ ॥
धौरादित्यं परं तीर्थं तीर्थं चापरयोनिजम् ।
पिङ्गलेश्वरतीर्थ च भृग्वीश्वरमनुत्तमम् ॥ २३०.७४ ॥
दशाश्वमेधिकं तीर्थं कोटितीर्थं च सत्तमाः ।
मार्कण्डं ब्रह्मतीर्थं च आदिवाराहमुत्तमम् ॥ २३०.७५ ॥
आशापूराभिधं तीर्थं कौबेरं मारुतं तथा ।
वरुणेशं यमेशं च रामेशं कर्कटेश्वरम् ॥ २३०.७६ ॥
शक्रेशं सोमतीर्थं च नन्दाह्रदमनुत्तमम् ।
वैष्णवं चक्रतीर्थं च रामकेशवसंज्ञितम् ॥ २३०.७७ ॥
तथैव रुक्मिणीतीर्थं शिवतीर्थमनुत्तमम् ।
जयवाराहर्तीर्थं च तीर्थमस्माहकाह्वयम् ॥ २३०.७८ ॥
अङ्गारेशं च सिद्धेशं तपेश्वरमतः परम् ।
पुनः सिद्धेश्वरं नामतीर्थं च वरुणेश्वरम् ॥ २३०.७९ ॥
पराशरेश्वरं पुण्यं कुसुमेशमनुत्तमम् ।
कुण्डलेश्वरतीर्थं च तथा कलकलेश्वरम् ॥ २३०.८० ॥
न्यङ्कुवाराहसंज्ञं च अङ्कोलं तीर्थमुत्तमम् ।
श्वेतवाराहतीर्थं च भार्गलं सौरमुत्तमम् ॥ २३०.८१ ॥
हुङ्कारस्वामितीर्थं च शुक्लतीर्थं च शोभनम् ।
सङ्गमो मधुमत्याश्च तीर्थं वै सङ्गमेश्वरम् ॥ २३०.८२ ॥
नर्मदेश्वरसंज्ञं च नदीत्रितयसङ्गमः ।
अनेकेश्वरतीर्थं च शर्भेशं मोक्षसंज्ञितम् ॥ २३०.८३ ॥
कावेरीसङ्गमः पुण्यस्तीर्थं गोपेश्वराह्वयम् ।
मार्कण्डेशं च नागेशमुदम्बर्याश्च सङ्गमः ॥ २३०.८४ ॥
साम्बादित्याह्वयं तीर्थमुदम्बर्याश्च सङ्गमः ।
सिद्धेश्वरं च मार्कण्डं तथा सिद्धेश्वरीकृतम् ॥ २३०.८५ ॥
गोपेशं कपिलेशं च वैद्यनाथमनुत्तमम् ।
पिङ्गलेश्वरतीर्थं च सैन्धवायतनं महत् ॥ २३०.८६ ॥
भूतीश्वराह्वयं तीर्थं गङ्गावाहमतः परम् ।
गौतमेश्वरतीर्थं च दशाश्वमेधिकं तथा ॥ २३०.८७ ॥
भृगुतीर्थं तथा पुण्यं ख्याता सौभाग्यसुन्दरी ।
वृषखातं च तत्रैव केदारं धूतपातकम् ॥ २३०.८८ ॥
तीर्थं धूतेश्वरीसङ्गमेरण्डीसंज्ञकं तथा ।
तीर्थं च कनकेश्वर्या ज्वालेश्वरं ततः परम् ॥ २३०.८९ ॥
शालग्रामाह्वयं तीर्थं सोमनाथमनुत्तमम् ।
तथैवोदीर्णवाराहं तीर्थं चन्द्रप्रभासकम् ॥ २३०.९० ॥
द्वादशादित्यतीर्थं च तथा सिद्धेश्वराभिधम् ।
कपिलेश्वरतीर्थं च तथा त्रैविक्रमं शुभम् ॥ २३०.९१ ॥
विश्वरूपाह्वयं तीर्थं नारायणकृतं तथा ।
मूलश्रीपतितीर्थं च चौलश्रीपतिसंज्ञकम् ॥ २३०.९२ ॥
देवतीर्थं हंसतीर्थ प्रभासं तीर्थमुत्तमम् ।
मूलस्थानं च कण्ठेशमट्टहासमतः परम् ॥ २३०.९३ ॥
भूर्भुवेश्वरतीर्थं च ख्याता शूलेश्वरी तथा ।
सारस्वतं दारुकेशमश्विनोस्तीर्थमुत्तमम् ॥ २३०.९४ ॥
सावित्रीतीर्थमतुलं वालखिल्येश्वरं तथा ।
नर्मदेशं मातृतीर्थं देवतीर्थमनुत्तमम् ॥ २३०.९५ ॥
मच्छकेश्वरतीर्थं च शिखितीर्थं च शोभनम् ।
कोटितीर्थं मुनिश्रेष्ठास्तत्र कोटीश्वरी मृडा ॥ २३०.९६ ॥
तीर्थं पैतामहं नाम माण्डव्ये श्वरसंज्ञितम् ।
तत्र नारायणेशं च अक्रूरेशमतः परम् ॥ २३०.९७ ॥
देवखातं सिद्धरुद्रं वैद्यनाथमनुत्तमम् ।
तथैव मातृतीर्थं च उत्तरेशमतः परम् ॥ २३०.९८ ॥
तथैव नर्मदेशां च मातृतीर्थं तथा पुनः ।
तथा च कुररीतीर्थं ढौण्ढेशं दशकन्यकम् ॥ २३०.९९ ॥
सुवर्णबिन्दुतीर्थं च ऋणपापप्रमोचनम् ।
भारभूतेश्वरं तीर्थं तथा मुण्डीश्वरं विदुः ॥ २३०.१०० ॥
एकशालं डिण्डिपाणिं तीर्थं चाप्सरसं परम् ।
मुन्यालयं च मार्कण्डं गणितादेवताह्वयम् ॥ २३०.१०१ ॥
आमलेश्वरतीर्थं च तीर्थं कन्थेश्वरं तथा ।
आषाढीतीर्थमित्याहुः शृङ्गीतीर्थं तथैव च ॥ २३०.१०२ ॥
बकेश्वरतीर्थं च कपालेशं तथैव च ।
मार्कण्डं कपिलेशं च एरण्डीसङ्गमस्तथा ॥ २३०.१०३ ॥
एरण्डीदेवतातीर्थं रामतीर्थमतःपरम् ।
जमदग्नेः परं तीर्थं रेवासागरसङ्गमः ॥ २३०.१०४ ॥
लोटनेश्वरतीर्थ तल्लुङ्केशनामकं तथा ।
वृषरखातं तत्र कुण्डं तथैव ऋषिसत्तमाः ॥ २३०.१०५ ॥
तथा हंसेश्वरंनाम तिलादं वासवेश्वरम् ।
तथा कोटीश्वरं तीर्थमलिकातीर्थमुत्तमम् ।
विमलेश्वरतीर्थं च रेवासागरसङ्गमे ॥ २३०.१०६ ॥
एवं तीर्थावलिः पुण्या मया प्रोक्ता महर्षयः ।
तीर्थसुक्तावलिः पुण्या ग्रथिता तटरज्जुना ॥ २३०.१०७ ॥
नर्मदानीरनिर्णिक्ता मार्कण्डेयविनिर्मिता ।
मण्डनायेह साधूनां सर्वलोकहिताय च ॥ २३०.१०८ ॥
दरितध्वान्तशमनीधार्या धर्मार्थिभिः सदा ।
अहोरात्रकृतं पापं सकृज्जप्त्वाशु नाशयेत् ॥ २३०.१०९ ॥
त्रिकालं जप्त्वा मासोत्थं शिवाग्रे च त्रिमासिकम् ।
मासं जप्त्वाथ वर्षोत्थं वर्षं जप्त्वा शताब्दिकम् ॥ २३०.११० ॥
श्राद्धकाले च विप्राणां भुञ्जतां पुरतः स्थितः ।
पठंस्तीर्थावलिं पुण्यां गयाश्राद्धप्रदो भवेत् ॥ २३०.१११ ॥
पूजाकाले च देवानां श्रद्धया पुरतः पठन् ।
प्रीणयेत्सर्वदेवांश्च पुनाति सकलं कुलम् ॥ २३०.११२ ॥
एवं तीर्थावलिः पुण्या रेवातीरद्वयाश्रिता ।
मया प्रोक्ता मुनिश्रेष्ठास्तथैवशृणुतानघाः ॥ २३०.११३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थावलिकथनं त्रिंशदधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 231
अध्याय २३१
श्रीसूत उवाच -
तथैव तीर्थस्तबकान् वक्ष्येऽहमृषिसत्तमाः ।
यैस्तु तीर्थावलीगुम्फः पूर्वोक्तैरेकतः कृतः ॥ २३१.१ ॥
विभक्तो भक्तलोकानामानन्दप्रथनः शुभः ।
मृकण्डतनयः पूर्वं प्राह पार्थाय पृच्छते ॥ २३१.२ ॥
यथा तथाहं वक्ष्यामि तीर्थानां स्तबकानिह ।
शिवाम्बुपानजा पुण्या रेवा कल्पलता किल ॥ २३१.३ ॥
तीरद्वयोद्भूततीर्थप्रसूनैः पुष्पिता शुभा ।
यत्पुण्यगन्धलक्ष्म्या वै त्रैलोक्यं सुरभीकृतम् ॥ २३१.४ ॥
तत्पुष्पमकरन्दस्य रसास्वादविदुत्तमः ।
भ्रमरः खलु मार्कण्डो मुनिर्मतिमतां वरः ॥ २३१.५ ॥
तत्पुष्पमालां हृदये तीर्थस्तबकचित्रिताम् ।
दधाति सततं पुण्यां मुनिर्भृगुकुलोद्वहः ।
तस्याः स्तबकसंस्थानं वक्ष्येऽहमृषिसत्तमाः ॥ २३१.६ ॥
ओङ्कारतीर्थमारभ्य यावत्पश्चिमसागरम् ।
संगमाः पञ्चत्रिंशद्वै नदीनां पापनाशनाः ॥ २३१.७ ॥
दशैकमुत्तरे तीरे सत्रिविंशति दक्षिणे ।
पञ्चत्रिंशत्तमः श्रेष्ठो रेवासागरसङ्गमः ॥ २३१.८ ॥
सङ्गमः सहितान्येवं रेवातीरद्वयेऽपि च ।
चतुःशतानि तीर्थानि प्रसिद्धानि द्विजोत्तमाः ॥ २३१.९ ॥
त्रिशतं शिवतीर्थानि त्रयीस्त्रिंशत्समन्वितम् ।
तत्रापि व्यक्तितो वक्ष्ये शृणुध्वं तानि सत्तमाः ॥ २३१.१० ॥
मार्कण्डेश्वरतीर्थानि दश तेषु मुनीश्वराः ।
दशादित्यभवान्यत्र नवैव कपिलेश्वराः ॥ २३१.११ ॥
सोमसंस्थापितान्यष्टौ तावन्तो नर्मदेश्वराः ।
कोटितीर्थान्यथाष्टौ च सप्त सिद्धेश्वरास्तथा ॥ २३१.१२ ॥
नागेश्वराश्च सप्तैव रेवातीरद्वयेऽपि तु ।
सप्तैव वह्निविहितान्यथाप्यावर्तसप्तकम् ॥ २३१.१३ ॥
केदारेश्वरतीर्थानि पञ्च पञ्चेन्द्रजानि च ।
वरुणेशाश्च पञ्चैव पञ्चैव धनदेश्वराः ॥ २३१.१४ ॥
देवतीर्थानि पञ्चैव चत्वारो वै यमेश्वराः ।
वैद्यनाथाश्च चत्वारश्चत्वारो वानरेश्वराः ॥ २३१.१५ ॥
अङ्गारेश्वरतीर्थानि तावन्त्येव मुनीश्वराः ।
सारस्वतानि चत्वारि चत्वारो दारुकेश्वराः ॥ २३१.१६ ॥
गौतमेश्वरतीर्थानि त्रीणि रामेश्वरास्त्रयः ।
कपालेश्वरतीर्थानि त्रीणि हंसकृतानि च ॥ २३१.१७ ॥
त्रीण्येव मोक्षतीर्थानि त्रयो वै विमलेश्वराः ।
सहस्रयज्ञतीर्थानि त्रीण्येव मुनिरब्रवीत् ॥ २३१.१८ ॥
भीमेश्वरास्त्रयः ख्याताः स्वर्णतीर्थानि त्रीणि च ।
धौतपापद्वयं प्रोक्तं करञ्जेशद्वयं तथा ॥ २३१.१९ ॥
ऋणमोचनतीर्थे द्वे तथा स्कन्देश्वरद्वयम् ।
दशाश्वमेधतीर्थे द्वे नन्दीतीर्थद्वयं द्विजाः ॥ २३१.२० ॥
मन्मथेशद्वयं चैव भृगुतीर्थद्वयं तथा ।
पराशरेश्वरौ द्वौ च अयोनीसंभवद्वयम् ॥ २३१.२१ ॥
व्यासेश्वरद्वयं प्रोक्तं पितृतीर्थद्वयं तथा ।
नन्दिकेश्वरतीर्थे द्वे द्वौ च गोपेश्वरौ स्मृतौ ॥ २३१.२२ ॥
मारुतेशद्वयं तद्वद्द्वौ च ज्वालेश्वरौ स्मृतौ ।
शुक्लतीर्थद्वयं पुण्यमप्सरेशद्वयं तथा ॥ २३१.२३ ॥
पिप्पलेश्वरतीर्थे द्वे माण्डव्येश्वरसंज्ञिते ।
द्वीपेश्वरद्वयं चैव प्राह तद्वद्भृगूद्वहः ।
उत्तरेश्वरतीर्थे द्वे अशोकेशद्वयी तथा ॥ २३१.२४ ॥
द्वे योधनपुरे चैव रोहिणीतीर्थकद्वयम् ।
लुङ्केश्वरद्वयं ख्यातमाख्यानं मुनिना तथा ॥ २३१.२५ ॥
सैकोनविंशतिशतं तीर्थान्येकैकशो द्विजाः ।
स्तबकेषु कृतं तीर्थं द्विशतं सचतुर्दशम् ॥ २३१.२६ ॥
शैवान्येतानि तीर्थानि वैष्णवानि च सत्तमाः ।
शृणुध्वं प्रोच्यमानानि ब्राह्मशाक्तानि च क्रमात् ॥ २३१.२७ ॥
अष्टविंशतितीर्थानि वैष्णवान्यब्रवीन्मुनिः ।
तेषु वाराहतीर्थानि षडेव मुनिसत्तमाः ॥ २३१.२८ ॥
चत्वारि चक्रतीर्थानि शेषाण्यष्टादशैव हि ।
विष्णुनाधिष्ठितान्येव प्राह पूर्वं मृकण्डजः ॥ २३१.२९ ॥
तथैव ब्रह्मणा सिद्ध्यै सप्ततीर्थान्यवीवदत् ।
त्रिषु च ब्रह्मणः पूजा ब्रह्मेशाश्चतुरोऽपरे ।
अष्टाविंशन्मया ख्याता यथासङ्ख्यं यथाक्रमम् ॥ २३१.३० ॥
एतत्पवित्रमतुलं ह्येतत्पापहरं परम् ।
नर्मदाचरितं पुण्यं माहात्म्यं मुनिभाषितम् ॥ २३१.३१ ॥
सूत उवाच -
एवमुद्देशतः प्रोक्तो रेवातीर्थक्रमो मया ।
यथा पार्थाय संक्षेपान्मार्कण्डो मुनिरब्रवीत् ॥ २३१.३२ ॥
अवान्तराणि तीर्थानि तेषु गुप्तान्यनेकशः ।
यत्र यावत्प्रमाणानि तान्याकर्णयतानघाः ॥ २३१.३३ ॥
ओङ्कारतीर्थपरितः पर्वतादमरकण्टात् ।
क्रोशद्वये सर्वदिक्षु सार्धकोटीत्रयी मता ॥ २३१.३४ ॥
तीर्थानां संख्यया गुप्तप्रकटानां द्विजोत्तमाः ।
कोटिरेका तु तीर्थानां कपिलासङ्गमे पृथक् ॥ २३१.३५ ॥
अशोकवनिकायाश्च तीर्थं लक्षं प्रतिष्ठितम् ।
शतमं गारगर्तायाः सङ्गमे मुनिसत्तमाः ॥ २३१.३६ ॥
तीर्थानामयुतं तद्वत्कुब्जायाः सङ्गमे स्थितम् ।
शतं हिरण्यगर्भायाः सङ्गमे समवस्थितम् ॥ २३१.३७ ॥
तीर्थानामष्टषष्टिश्च विशोकासङ्गमे स्थिता ।
तथा सहस्रं तीर्थानां संस्थितं वागुसङ्गमे ॥ २३१.३८ ॥
शतं सरस्वतीसङ्गे शुक्लतीर्थे शतद्वयम् ।
सहस्रं विष्णुतीर्थेषु महिष्मत्यामथायुतम् ॥ २३१.३९ ॥
शूलभेदे च तीर्थानां साग्रं लक्षं स्थितं द्विजाः ।
देवग्रामे सहस्रं च तीर्थानां मुनिरब्रवीत् ॥ २३१.४० ॥
लुङ्केश्वरे च तीर्थानां साग्रा सप्तशती स्थिता ।
तीर्थान्यष्टोत्तरशतं मणिनद्याश्च सङ्गमे ।
वैद्यनाथे च तीर्थानां शतमष्टाधिकं विदुः ॥ २३१.४१ ॥
एवं तावत्प्रमाणानि तीर्थे कुम्भेश्वरे द्विजाः ।
साग्रं लक्षं च तीर्थानां स्थितं रेवोरसङ्गमे ॥ २३१.४२ ॥
ततश्चाप्यधिकानि स्युरिति मार्कण्डभाषितम् ।
अष्टाशीतिसहस्राणि व्यासद्वीपाश्रितानि च ॥ २३१.४३ ॥
सङ्गमे च करञ्जायाः स्थितमष्टोत्तरायुतम् ।
एरण्डीसङ्गमे तद्वत्तीर्थान्यष्टाधिकं शतम् ॥ २३१.४४ ॥
धूतपापे च तीर्थानां षष्टिरष्टाधिका स्थिता ।
स्कन्दतीर्थे शतं पुण्यं तीर्थानां मुनिरुक्तवान् ॥ २३१.४५ ॥
कोहनेश च तीर्थानां षष्टिरष्टाधिका स्थिता ।
सार्धकोटी च तीर्थानां स्थिता वै कोरिलापुरे ॥ २३१.४६ ॥
रामकेशवतीर्थे च सहस्रं साग्रमुक्तवान् ।
अस्माहके सहस्रं च तीर्थानि निवसन्ति हि ॥ २३१.४७ ॥
लक्षाष्टकं सहस्रे द्वे शुक्लतीर्थे द्विजोत्तमाः ।
तीर्थानि कथयामास पुरा पार्थाय भार्गवः ॥ २३१.४८ ॥
शतमष्टाधिकं प्राह प्रत्येकं सङ्गमेषु च ।
नदीनामवशिष्टानां कावेरीसङ्गमं विना ॥ २३१.४९ ॥
कावेर्याः सङ्गमे विप्राः स्थिता पञ्चशती तथा ।
तीर्थानां पर्वसु तथा विशेषो मुनिनोदितः ॥ २३१.५० ॥
मोक्षतीर्थं हि सत्प्राहुः पुराणपुरुषाश्रितम् ।
भृगोः क्षेत्रे च तीर्थानां कोटिरेका समाश्रिता ॥ २३१.५१ ॥
साधिकानामृषिश्रेष्ठा वक्तुं शक्तो हि को भवेत् ।
सर्वामराश्रयं प्रोक्तं सर्वतीर्थाश्रयं तथा ॥ २३१.५२ ॥
त्रिषु लोकेषु विख्यातं पूजितं सिद्धिसाधनम् ।
भारभूत्यां च तीर्थानां स्थितमष्टोत्तरं शतम् ॥ २३१.५३ ॥
अक्रूरेश्वरतीर्थे च सार्धं तीर्थशतं स्थितम् ।
विमलेश्वरतीर्थे तु रेवासागरसङ्गमे ।
दशायुतानि तीर्थानां साधिकान्यब्रवीन्मुनिः ॥ २३१.५४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थसंख्यापरिगणनवर्णनं नामैकत्रिंशदधिकद्विशततमोऽध्यायः ॥
खण्डः ५ (अवन्तीखण्डः) · रेवा खण्डम् — Adhyāya 232
सूत उवाच -
इति वः कथितं विप्रा रेवामाहात्म्यमुत्तमम् ।
यथोपदिष्टं पार्थाय मार्कण्डेयेन वै पुरा ॥ २३२.१ ॥
तथा तीर्थकदम्बाश्च तेषु तीर्थविशेषतः ।
प्राधान्येन मया ख्याता यथासङ्ख्यं यथाक्रमम् ॥ २३२.२ ॥
एतत्पवित्रमतुलं ह्येतत्पापहरं परम् ।
नर्मदाचरितं पुण्यं माहात्म्यं मुनिभाषितम् ॥ २३२.३ ॥
सप्तकल्पानुगो विप्रो नर्मदायां मुनीश्वराः ।
मृकण्डतनयो धीमान्परमार्थविदुत्तमः ॥ २३२.४ ॥
संसेव्य सर्वतीर्थानि नदीः सर्वाश्च वै पुरा ।
बहुकल्पस्मरां रेवामालक्ष्य शिवदेहजाम् ॥ २३२.५ ॥
मे कलेति च शर्वोक्तां शरणं शर्वजां ययौ ।
अजराममरां देवीं दैत्यध्वंसकरीं पराम् ॥ २३२.६ ॥
महाविभवसंयुक्तां भवघ्नीं भवजाह्नवीम् ।
तस्यामाबध्य सत्प्रेम जातः सोऽप्यजरामरः ॥ २३२.७ ॥
षष्टितीर्थसहस्राणि षष्टिकोट्यश्च सत्तमाः ।
व्यवस्थितानि रेवायास्तीरयुग्मे पदे पदे ॥ २३२.८ ॥
सारितः परितः सन्ति सतीर्थास्तु सहस्रशः ।
न तुलां यान्ति रेवायास्ताश्च मन्ये मुनीश्वराः ॥ २३२.९ ॥
एतद्वः कथितं सर्वं यत्पृष्टमखिलं द्विजाः ।
यन्महेशमुखाच्छ्रुत्वा वायुराह ऋषीन्प्रति ॥ २३२.१० ॥
तद्वन्मृकण्डतनयोऽप्यनुभूयाखिलां नदीम् ।
सतीर्थां पदशः प्राह पाण्डुपुत्राय पावनीम् ॥ २३२.११ ॥
एतच्च कथितं सर्वं संक्षेपेण द्विजोत्तमाः ।
नर्मदाचरितं पुण्यं त्रिषु लोकेषु दुर्लभम् ॥ २३२.१२ ॥
किमन्यैः सरितां तोयैः सेवितैस्तु सहस्रशः ।
यदि संसेव्यते तोयं रेवायाः पापनाशनम् ॥ २३२.१३ ॥
मेकलाजलसंसेवी मुक्तिमाप्नोति शाश्वतीम् ॥ २३२.१४ ॥
यथा यथा भजेन्मर्त्यो यद्यदिच्छति तीर्थगः ।
तत्तदाप्नोति नियतं श्रद्धयाश्रद्धयापि च ॥ २३२.१५ ॥
इदं ब्रह्मा हरिरिदमिदं साक्षात्परो हरः ।
इदं ब्रह्म निराकारं कैवल्यं नर्मदाजलम् ॥ २३२.१६ ॥
तावद्गर्जन्ति तीर्थानि नद्यो हृदयफलप्रदाः ।
यावन्न स्मर्यते रेवा सेवाहेवा कलौ नरैः ॥ २३२.१७ ॥
ध्रुवं लोके हितार्थाय शिवेन स्वशरीरतः ।
शक्तिः कापि सरिद्रूपा रेवेयमवतारिता ॥ २३२.१८ ॥
तावद्गर्जन्ति यज्ञाश्च वनक्षेत्रादयो भृशम् ।
यावन्न नर्मदानामकीर्तनं क्रियते कलौ ॥ २३२.१९ ॥
गरिमा गाण्यते तावत्तपोदानव्रतादिषु ।
नरैर्वा प्राप्यते यावद्भुवि भर्गभवा धुनी ॥ २३२.२० ॥
ये वसन्त्युत्तरे कूले रुद्रस्यानुचरा हि ते ।
वसन्ति याम्यतीरे ये लोकं ते यान्ति वैष्णवम् ॥ २३२.२१ ॥
धन्यास्ते देशवर्यास्ते येषु देशेषु नर्मदा ।
नरकान्तकरी शश्वत्संश्रिता शर्वनिर्मिता ॥ २३२.२२ ॥
कृतपुण्याश्च ते लोकाः शोकाय न भवन्ति ते ।
ये पिबन्ति जलं पुण्यं पार्वतीपतिसिन्धुजम् ॥ २३२.२३ ॥
इदं पवित्रमतुलं रेवायाश्चरितं द्विजाः ।
शृणोति यः कीर्तयते मुच्यते सर्वपातकः ॥ २३२.२४ ॥
यत्फलं सर्ववेदैश्च सषडङ्गपदक्रमैः ।
श्रुतैश्च पठितैस्तस्मात्फलमष्टगुणं भवेत् ॥ २३२.२५ ॥
सत्रयाजी फलं यच्च लभते द्वादशाब्दिकम् ।
श्रुत्वा सकृच्च रेवायाश्चरितं तत्फलं लभेत् ॥ २३२.२६ ॥
सर्वतीर्थावगाहाच्च यत्फलं सागरादिषु ।
सकृच्छ्रुत्वा च माहात्म्यं रेवायास्तत्फलं लभेत् ॥ २३२.२७ ॥
एतद्धर्म्यमुपाख्यानं सर्वशास्त्रेष्वनुत्तमम् ।
देशे वा मण्डले वापि नगरे ग्राममध्यतः ॥ २३२.२८ ॥
गृहे वा तिष्ठते यस्य लिखितं सार्ववार्णिकम् ।
स ब्रह्मा स शिवः साक्षात्स च देवो जनार्दनः ॥ २३२.२९ ॥
धर्मार्थकाममोक्षाणां मार्गेऽयं देवसेवितः ।
गुरूणां च गुरुः शास्त्रं परमं सिद्धिकारणम् ॥ २३२.३० ॥
यश्चेदं शृणुयान्नित्यं पुराणं देवभाषितम् ।
ब्राह्मणो वेदवान्भूयात्क्षत्रियो विजयी भवेत् ॥ २३२.३१ ॥
धनाढ्यो जायते वैश्यः शूद्रो वै धर्मभाग्भवेत् ॥ २३२.३२ ॥
सौभाग्यसन्ततिं नारी श्रुत्वैतत्समवाप्नुयात् ।
श्रियं सौख्यं स्वर्गवासं जन्म चैवोत्तमे कुले ॥ २३२.३३ ॥
रसभेदी कृतघ्नश्च स्वामिध्रुङ्मित्रवञ्चकः ।
गोघ्नश्च गरदश्चैव कन्याविक्रयकारकः ॥ २३२.३४ ॥
ब्रह्मघ्नश्च सुरापी च स्तेयी च गुरुतल्पगः ।
नर्मदाचरितं शृण्वंस्तामब्दं योऽभिषेवते ॥ २३२.३५ ॥
सर्वपापविनिर्मुक्तो जायते नात्र संशयः ।
पाकभेदी वृथापाकी देवब्राह्मणनिन्दकः ॥ २३२.३६ ॥
परीवादी गुरोः पित्रोः साधूनां नृपतेस्तथा ।
तेऽपि श्रुत्वा च पापेभ्यो मुच्यन्ते नात्र संशयः ॥ २३२.३७ ॥
ये पुनर्भावितात्मानः शस्त्रं शृण्वन्ति नित्यशः ।
पूजयन्ति च तच्छास्त्रं नार्मदं वस्त्रभूषणैः ॥ २३२.३८ ॥
पुष्पैः फलैश्चन्दनाद्यैर्भोजनैर्विविधैरपि ।
शास्त्रेऽस्मिन्पूजिते देवाः पूजिता गुरवस्तथा ॥ २३२.३९ ॥
इह लोके परे चैव नात्र कार्या विचारणा ।
तस्मात्सर्वप्रयत्नेन गन्धवस्त्रादिभूषणैः ॥ २३२.४० ॥
पूजयेत्परया भक्त्या वाचकं शास्त्रमेव च ।
वेदपाठैश्च यत्पुण्यमग्निहोत्रैश्च पालितैः ॥ २३२.४१ ॥
तत्फलं समवाप्नोति नर्मदाचरिते शुभे ।
कुरुक्षेत्रे च यत्पुण्यं प्रभासे पुष्करे तथा ॥ २३२.४२ ॥
रुद्रावर्ते गयायां च वाराणस्यां विशेषतः ।
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥ २३२.४३ ॥
एवमादिषु तीर्थेषु यत्पुण्यं जायते नृणाम् ।
नर्मदाचरितं श्रुत्वा तत्पुण्यं सकलं लभेत् ॥ २३२.४४ ॥
आदिमध्यावसानेषु नर्मदाचरितं शुभम् ।
यः शृणोति नरो भक्त्या शृणुध्वं तत्फलं महत् ॥ २३२.४५ ॥
समाप्य शिवसंस्थानं देवकन्यासमावृतः ।
रुद्रस्यानुचरो भूत्वा शिवेन सह मोदते ॥ २३२.४६ ॥
धर्माख्यानमिदं पुण्यं सर्वाख्यानेष्वनुत्तमम् ।
गृहेऽपि पठ्यते यस्य चतुर्वर्णस्य सत्तमाः ॥ २३२.४७ ॥
धन्यं तस्य गृहं मन्ये गृहस्थं चापि तत्कुलम् ।
पुस्तकं पूजयेद्यस्तु नर्मदाचरितस्य तु ॥ २३२.४८ ॥
नर्मदा पूजिता तेन भगवांश्च महेश्वरः ।
वाचके पूजिते तद्वद्देवाश्च ऋषयोऽर्चिताः ॥ २३२.४९ ॥
लेखयित्वा च सकलं रेवाचरितमुत्तमम् ।
भूषणं सर्वशास्त्राणां यो ददाति द्विजन्मने ॥ २३२.५० ॥
नर्मदासर्वतीर्थेषु स्नानदानेन यत्फलम् ।
तत्फलं समवाप्नोति स नरो नात्र संशयः ॥ २३२.५१ ॥
एतत्पुराणं रुद्रोक्तं महापुण्यफलप्रदम् ।
स्वर्गदं पुत्रदं धन्यं यशस्यं कीर्त्तिवर्धनम् ॥ २३२.५२ ॥
धर्म्यमायुष्यमतुलं दुःखदुःस्वप्ननाशनम् ।
पठतां शृण्वतां चापि सर्वकामार्थसिद्धिदम् ॥ २३२.५३ ॥
यत्प्रदत्तमिदं पुण्यं पुराणं वाच्यते द्विजैः ।
शिवलोके स्थितिस्तस्य पुराणाक्षरवत्सरी ॥ २३२.५४ ॥
इति निगदितमेतन्नर्मदायाश्चरित्रं पवनगदितमग्र्यं शर्ववक्त्रादवाप्य ।
त्रिभुवनजनवन्द्यं त्वेतदादौ मुनीनां कुलपतिपुरतस्तत्सूतमुख्येन साधु ॥ २३२.५५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवाखण्डसमाप्तिरेवाखण्डपुस्तकदानादिमाहात्म्यवर्णनं नाम द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥
खण्डः ६ (नागरखण्डः) — Adhyāya 1
ॐनमः पुरुषोत्तमाय॥
॥अथ स्कान्दे महापुराणे षष्ठनागरखण्डप्रारम्भः॥
॥व्यास उवाच॥
स धूर्जटि जटाजूटो जायतां विजयाय वः।
यत्रैकपलितभ्रांतिं करोत्यद्यापि जाह्नवी॥६.१.१॥
ऋषय ऊचुः।
हरस्य पूज्यते लिंगं कस्मादतन्महामते
विशेषात्संपरित्यज्य शेषांगानि सुरासुरैः॥६.१.२॥
तस्मादेतन्महाबाहो यथावद्वक्तुमर्हसि।
सांप्रतं सूत कार्त्स्न्येन परं कौतूहलं हि नः॥६.१.३॥
सूत उवाच।
प्रश्नभारो महानेष यो भवद्भिरुदाहृतः।
कीर्तयिष्ये तथाप्येनं नमस्कृत्य स्वयंभुवे॥६.१.४॥
आनर्तविषये चास्ति वनं मुनिजनाश्रयम्।
मनोज्ञं सर्वसत्त्वानां सर्वर्तुफलितद्रुमम्॥६.१.५॥
तत्राश्रमपदं रम्यं सौम्यसत्त्वनिषेवितम्॥
अस्ति तापससंकीर्णं वेदध्वनिविराजितम्॥६.१.६॥
अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशिभिस्तथा।
दन्तोलूखलिभिर्विप्रैः सेवितं चाश्मकुट्टकैः॥६.१.७॥
स्नानहोमपरैश्चैव जपस्वाध्यायतत्परैः।
वानप्रस्थैस्त्रिदण्डैश्च हंसैश्चापि कुटीचरैः॥६.१.८॥
स्नातकैर्यतिभिर्दान्तैस्तथा पंचाग्निसाधकैः।
कस्यचित्त्वथ कालस्य भगवांस्त्रिपुरांतकः॥६.१.९॥
सतीवियोगसंतप्तो भ्रममाण इतस्ततः।
तस्मिन्वने समायातः सौम्यसत्त्वनिषेविते॥६.१.१०॥
क्रीडंति नकुला यत्र सार्धं सर्पैःप्रहर्षिताः।
पञ्चाननाश्च मातंगैर्वृषदंशास्तथाखुभिः।
काकाः कौशिकसंघैश्च वैरभावविवर्जिताः॥६.१.११॥
ततश्च भगवान्रुद्रो दृष्ट्वाश्रमपदं तदा।
नग्नः कपालमादाय भिक्षार्थं प्रविवेश सः॥६.१.१२॥
अथ तस्य समालोक्य रूपं गात्रसमुद्भवम्।
अदृष्टपूर्वं तापस्यः सर्वाः कामवशं गताः॥६.१.१३॥
गृहकर्म परित्यज्य गुरुशुश्रूषणानि च।
मिथः संभाषणं चक्रुः स्थानेस्थाने च ताः स्थिताः॥६.१.१४॥
एका सा कापि धन्या या चक्रे तस्यावगूहनम्।
विश्रब्धा सर्वगात्रेषु तापसस्य महात्मनः॥६.१.१५॥
तथान्याः कौतुकाविष्टा धावंत्यः सर्वतोदिशम्।
दृश्यंते तं समुद्दिश्य विस्तारितविलोचनाः॥६.१.१६॥
काश्चिदर्द्धानुलिप्तांग्यः काश्चिदेकांजितेक्षणाः।
अर्धसंयमितैः कैशैस्तथान्यास्त्यक्तबालकाः॥६.१.१७॥
एवमालोक्यमानः स कामिनीभिर्महेश्वरः।
बभ्राम राजमार्गेण भिक्षां देहीति कीर्तयन्॥६.१.१८॥
अथ ते मुनयो दृष्ट्वा तं तथा विगतांबरम्।
कामोद्भवकरंस्त्रीणां प्रोचुः कोपारुणेक्षणाः॥६.१.१९॥
यस्मात्पाप त्वयास्माकमाश्रमोऽयं विडंबितः।
तस्माल्लिंगं पतत्वाशु तवैव वसुधातले॥६.१.२०॥
एतस्मिन्नंतरे भूमौ लिंगं तस्य पपात तत्।
भित्त्वाथ धरणीपृष्ठं पातालं प्रविवेश ह॥६.१.२१॥
सोऽपि लिंगपरित्यक्तो लज्जायुक्तो महेश्वरः।
गर्तां गुर्वीं समाश्रित्य भ्रूणरूपः समाविशत्॥६.१.२२॥
अथ लिंगस्य पातेन त्रैलोक्यभयशंसिनः।
उत्पाता दारुणास्तस्थुः सर्वत्र द्विजसत्तमाः॥६.१.२३॥
शीर्यते गिरिशृङ्गाणि पतंत्युल्का दिवापि च।
त्यजंति सागराः सर्वे मर्यादां च शनैः शनैः॥६.१.२४॥
अथ देवगणाः सर्वे भयसंत्रस्तमानसाः।
शक्रविष्णुमुखा जग्मुर्यत्र देवः पितामहः॥६.१.२५॥
प्रोचुश्च प्रणताः स्तुत्वा स्तोत्रैः सुश्रुतिसंभवैः।
त्रैलोक्ये सृष्टिरूपं यत्कमलासनसंस्थितम्॥६.१.२६॥
किमिदं किमिदं देव वर्तते ह्यधरोत्तरम्।
त्रैलोक्यं सकलं येन व्याकुलत्वमुपागतम्॥६.१.२७॥
प्रलयस्येव चिह्नानि दृश्यंते पद्मसंभव।
किं सांप्रतमकालेऽपि भविष्यति परिक्षयः॥६.१.२८॥
सर्वेषां सुरमर्त्यानां दैत्यानां मन्त्रकोविदः।
गतिर्भयार्तदेहानां सर्वलोकपितामहः॥६.१.२९॥
तेषां तद्वचनं श्रुत्वा देवानां चतुराननः।
उवाच सुचिरं ध्यात्वा ज्ञात्वा दिव्येन चक्षुषा॥६.१.३०॥
प्रलयस्य न कालोऽयं सांप्रतं सुरसत्तमाः।
शृणुध्वं यन्निमित्तोत्था महोत्पाता भवन्त्यमी॥६.१.३१॥
ऋषिभिः पातितं लिंगं देवदेवस्य शूलिनः।
शापेनानर्तके देशे कलत्रार्थे महात्मभिः॥६.१.३२॥
तेनैतद्व्याकुलीभूतं त्रैलोक्यं सचराचरम्।
तस्माद्गच्छामहे तत्र यत्र देवो महेश्वरः॥६.१.३३॥
येनास्मद्वचनाच्छीघ्रं तल्लिंगं निदधाति सः।
नो चेद्भविष्यति व्यक्तमकाले चापि संक्षयः।
त्रैलोक्यस्यापि कृत्स्नस्य सत्यमेतन्मयोदितम्॥६.१.३४॥
अथ देवगणाः सर्वे ब्रह्मविष्णुपुरःसराः।
आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ॥६.१.३५॥
प्रजग्मुस्त्वरितास्तत्र यत्र देवो महेश्वरः।
गर्तामध्यगतः सुप्तो लज्जया परया वृतः॥६.१.३६॥
देवा ऊचुः।
नमस्ते देवदेवेश भक्तानामभयप्रद।
नमस्ते जगदाधार शशिराजितशेखर॥६.१.३७॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमापस्त्वं मही विभो।
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्॥६.१.३८॥
त्वं पासि च सुरश्रेष्ठ तथा नाशं नयिष्यसि।
त्वं विष्णुस्त्वं चतुर्वक्त्रस्त्वं चंद्रस्त्वं दिवाकरः॥६.१.३९॥
त्वया विना महादेव न किंचिदिह विद्यते।
अपि कृत्वा महत्पापं नरो देव धरातले॥६.१.४०॥
तव नामापि संकीर्त्य प्रयाति त्रिदिवालयम्।
महादेव महादेव महादेवेति कीर्तनात्॥६.१.४१॥
कोटयो ब्रह्महत्यानामगम्यागमकोटयः।
सद्यः प्रलयमायांति महादेवेति कीर्तनात्॥६.१.४२॥
विप्रो यथा मनुष्याणां नदीनां वा महार्णवः।
तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः॥६.१.४३॥
नक्षत्राणां यथा चंद्रः प्रदीप्तानां दिवाकरः।
तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः॥६.१.४४॥
धातूनां कांचनं यद्वद्गंधर्वाणां च नारदः।
तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः॥६.१.४५॥
ओषधीनां यथा सस्यं नगानां हेमपर्वतः।
तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः॥६.१.४६॥
तस्मात्कुरु प्रसादं नः सर्वेषां च नृणां विभो।
संधारय पुनर्लिंगं स्वकीयं सुरसत्तम॥६.१.४७॥
नोचेज्जगत्त्रयं देव नूनं नाशममुपेष्यति।
यद्येतद्भूतले लिङ्गं पतति स्थास्यति प्रभो॥६.१.४८॥
सूत उवाच।
तेषां तद्वचनं श्रुत्वा भगवान्बृषभध्वजः।
प्रोवाच प्रणतान्सर्वांस्तान्देवान्व्रीडयान्वितः॥६.१.४९॥
मया सतीवियोगार्तियुक्तेन सुरसत्तम।
लिंगमेतत्परित्यक्तं शापव्याजाद्द्विजन्मनाम्॥६.१.५०॥
कोऽलं पातयितुं लिंगं ममैतद्भुवनत्रये।
देवो वा ब्राह्मणो वापि वेत्थ यूयमपि स्फुटम्॥६.१.५१॥
तस्मान्नैव धरिष्यामि लिंगमेतद्धरातलात्।
किमनेन करिष्यामि भार्यया परिवर्जितः॥६.१.५२॥
देवा ऊचुः।
तव कांता सती नाम या मृता प्राक्सुरोत्तम।
सा जाता मेनकागर्भे गौरी नाम हिमाचलात्॥६.१.५३॥
भविष्यति पुनर्भार्या तवैव त्रिपुरांतक।
तस्माल्लिंगं समादाय कुरु क्षेमं दिवौकसाम्॥६.१.५४॥
देवदेव उवाच।
अद्यप्रभृति मे लिंगं यदि देवा द्विजातयः।
पूजयंति प्रयत्नेन तर्हीदं धारयाम्यहम्॥६.१.५५॥
ब्रह्मोवाच।
अहं तव स्वयं लिंगं पूजयिष्यामि शंकर।
तथान्ये विबुधाः सर्वे किं पुनर्भुवि मानवाः॥६.१.५६॥
ततः प्रविश्य पातालं देवैः सार्धं पितामहः।
स्वयमेवाकरोत्पूजां तस्य लिंगस्य भक्तितः॥६.१.५७॥
तस्मादनंतरं विष्णुः श्रद्धापूतेन चेतसा।
तथान्ये विबुधाः सर्वे शक्राद्याः श्रद्धयान्विताः॥६.१.५८॥
ततस्तुष्टो महादेवः पितामहमिदं वचः।
प्रोवाच वासुदेवं च विनयावनतं स्थितम्॥६.१.५९॥
भवद्भ्यां परितुष्टोऽस्मि तस्मान्मत्तः प्रगृह्यताम्।
वरमिष्टं महाभागौ यद्यपि स्यात्सुदुर्लभम्॥६.१.६०॥
तावूचतुः।
यदि तुष्टोसि देवेश त्रिभागेन समाश्रयम्।
आवाभ्यां देहि लिंगेन येनैकत्राश्रयो भवेत्॥६.१.६१॥
सूत उवाच।
स तथेति प्रतिज्ञाय लिंगमादाय च प्रभुः।
स्थाने नियोजयामास सर्वदेवाधिपूजितम्॥६.१.६२॥
ततो हाटकमादाय तदाकारं पितामहः।
कृत्वा लिंगं स्वयं तत्र स्थापयामास हर्षितः॥६.१.६३॥
प्रोवाच चाथ भो विप्राः साधुनादेन नादयन्।
लोकत्रयं समस्तानां शृण्वतां त्रिदिवौकसाम्॥६.१.६४॥
मया ह्याद्यं त्विदं लिंगं हाटकेन विनिर्मितम्।
ख्यातिं यास्यति सर्वत्र पाताले हाटकेश्वरम्॥६.१.६५॥
तथान्ये मनुजा ये च हाटकादीनि भक्तितः।
मणिमुक्तासुरत्नैश्च कृत्वा लिंगानि कृत्स्नशः॥६.१.६६॥
त्रिकालं पूजयिष्यंति ते यास्यंति परां गतिम्।
मृन्मयं संपरित्यज्य नीचधातुमयं तथा॥६.१.६७॥
एवमुक्त्वा चतुर्वक्त्रः सह सर्वैर्दिवालयैः।
जगाम त्रिदिवं सोऽपि कैलासं शशिशेखरः॥६.१.६८॥
एतस्मात्कारणाल्लिंगं पूज्यतेऽत्र सुरासुरैः।
हरस्य चोत्तमांगानि परित्यज्य विशेषतः॥६.१.६९॥
ततः प्रभृति तल्लिंगं स्वयं ब्रह्मा व्यवस्थितः।
भगवान्वासुदेवश्च तेन पूज्यं शिवं हि तत्॥६.१.७०॥
यस्तु पूजयते नित्यं श्रद्धायुक्तेन चेतसा।
त्र्यंबकाच्युतब्रह्माद्यास्तेन स्युः पूजितास्त्रयः॥६.१.७१॥
तस्मात्सर्वप्रयत्नेन शिवलिंगं प्रपूजयेत्।
स्पर्शयेदीक्षयेन्नित्यं कीर्तयेच्च द्विजोत्तमाः॥६.१.७२॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये लिंगोत्पत्तिवर्णनं नाम प्रथमोऽध्यायः॥१॥
खण्डः ६ (नागरखण्डः) — Adhyāya 2
सूत उवाच।
तस्मिन्नुत्पाटिते लिंगे भूतलाद्द्विजसत्तमाः।
पातालाज्जाह्नवीतोयं तेन मार्गेण निःसृतम्।
सर्वपापहरं नॄणां सर्वकामप्रदायकम्॥६.२.१॥
तत्र स्वयमभूत्पूर्वं यत्तद्द्विजवरोत्तमाः।
शृणुध्वं वदतो मेऽद्य लोकविस्मयकारकम्॥६.२.२॥
त्रिशंकुर्नाम राजेंद्रश्चंडालत्वं समागतः।
तत्र स्नातः पुनर्लेभे शरीरं पार्थिवोचितम्॥६.२.३॥
ऋषयः ऊचुः।
चंडालत्वं कथं प्राप्तस्त्रिशंकुर्नृपसत्तमः।
एतत्त्वं सर्वमाचक्ष्व विस्तरात्सूतनन्दन॥६.२.४॥
सूत उवाच।
अहं वः कीर्तयिष्यामि कथामेतां पुरातनीम्।
सर्वपापहरां मेध्यां त्रिशंकुनृपसंभवाम्॥६.२.५॥
सूर्यवंशोद्भवः पूर्वं त्रिशंकुरिति विश्रुतः।
आसीत्पार्थिवशार्दूलः शार्दूलसमविक्रमः॥६.२.६॥
वसिष्ठस्य मुनेः शिष्यो यज्वा दानपतिः प्रभुः।
तेनेष्टं च मखैः सर्वैरग्निष्टोमादिभिः सदा॥६.२.७॥
संपूर्णदक्षिणैरेव वत्सरं वत्सरं प्रति।
तथा दानानि सर्वाणि प्रदत्तानि महात्मना॥६.२.८॥
ब्राह्मणेभ्यो विशिष्टेभ्यो दीनेभ्यश्च विशेषतः।
व्रतानि च प्रचीर्णानि रक्षिताः शरणागताः॥६.२.९॥
पुत्रवल्लालिता लोकाः शत्रवश्च निषूदिताः।
भ्रांतानि भूतले यानि तीर्थान्यायतनानि च।
तपस्विभ्यो यथाकामं यच्छता वांछितं धनम्॥६.२.१०॥
कस्यचित्त्वथ कालस्य वसिष्ठो भगवान्मुनिः।
तेन प्रोक्तः सभामध्ये संस्थितो नतिपूर्वकम्॥६.२.११॥
त्रिशंकुरुवाच।
भगवन्यष्टुमिच्छामि तेन यज्ञेन सांप्रतम्।
गम्यते त्रिदिवं येन सशरीरेण सत्वरम्॥६.२.१२॥
तस्मात्कुरु प्रसादं मे संभारानाहर द्रुतम्।
तस्य यज्ञस्य सिद्ध्यर्थं यथार्हान्ब्राह्मणांस्तथा॥६.२.१३॥
वसिष्ठ उवाच।
न स कश्चित्क्रतुर्येन गम्यते त्रिदिवं नृप।
अनेनैव शरीरेण सत्यमेतद्ब्रवीम्यहम्॥६.२.१४॥
अग्निष्टोमादयो यज्ञा ये प्रोक्ताः प्राक्स्वयंभुवा।
अन्यदेहांतरे स्वर्गः प्राप्यते तैः कृतैर्नृप॥६.२.१५॥
यदि वा पृथिवीपाल त्वया यज्ञप्रभावतः।
पार्थिवो वा द्विजो वाथ वैश्यो वान्यतरोऽपि वा॥६.२.१६॥
स्वयं दृष्टः श्रुतो वापि संजातोऽत्र धरातले।
स्वर्गं गतः शरीरेण सहितस्तत्प्रकीर्तय॥६.२.१७॥
त्रिशंकुरुवाच।
नासाध्यं विद्यते ब्रह्मंस्तवाहं वेद्मि तत्त्वतः।
तस्मात्कुरु प्रसादं मे यथा स्यान्मनसेप्सितम्॥६.२.१८॥
वसिष्ठ उवाच।
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि हि जिह्वया।
तस्मान्नास्ति मखः कश्चित्सत्यं त्वं यष्टुमिच्छसि॥६.२.१९॥
त्रिशंकुरुवाच।
यदि मां विप्रशार्दूल न त्वं याजयितुं क्षमः।
स्वर्गप्रदेन यज्ञेन वपुषानेन वै विभो॥६.२.२०॥
तत्किं ते तपसः शक्त्या ब्राह्मणस्य विचक्षण।
अपरं शृणु मे वाक्यं यद्ब्रवीमि परिस्फुटम्।
शृण्वतां मुनिवृन्दानां तथान्येषां द्विजोत्तम॥६.२.२१॥
यदि मे न करोषि त्वं वचनं वदतोऽसकृत्।
तेन यज्ञेन यक्ष्येऽहं तत्कृत्वान्यं द्विजं गुरुम्॥६.२.२२॥
सूत उवाच।
तस्य तद्वचनं श्रुत्वा वसिष्ठो भगवांस्ततः।
तमुवाच विहस्योच्चैः कुरुष्वैवं महीपते॥६.२.२३॥
इति श्रीस्कान्दे महापुराण ेकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये त्रिशंकूपाख्याने त्रिशंकुवसिष्ठसंवादवर्णनं नाम द्वितीयोऽध्यायः॥२॥