10. Dīptāgama Tome I (part 10 of 13)
Chapter 17 — २.२. जङ्घादिमानम्
17.13
अक्षगुल्फद्वयोर्मध्ये विस्तारं पञ्चमाङ्गुलम्
akṣagulphadvayormadhye vistāraṃ pañcamāṅgulam
17.14
नलप्रदेशविस्तारं चतुरङ्गुलमिष्यतेः । जङ्घामध्यमविस्तारं षण्मात्रं तु प्रकीर्तितम् १°
nalapradeśavistāraṃ caturaṅgulamiṣyateḥ | jaṅghāmadhyamavistāraṃ ṣaṇmātraṃ tu prakīrtitam 1°
17.15
जानुमध्यमविस्तारं सप्ताङ्गुलमिति स्मृतम् ११ ऊरुमध्यमविस्तारं त्रिभागाङ्गुलहीनकम्
jānumadhyamavistāraṃ saptāṅgulamiti smṛtam 11 ūrumadhyamavistāraṃ tribhāgāṅgulahīnakam
17.16
ऊरुमूलस्य विस्तारं चतुर्भागाङ्गुलक्षयम् । गजहस्तं यथाकारं नलका चोरुमूलयोः २
ūrumūlasya vistāraṃ caturbhāgāṅgulakṣayam | gajahastaṃ yathākāraṃ nalakā corumūlayoḥ 2
17.17
योनिमूलस्य विस्तारं पञ्चाङ्गुलमिति स्मृतम्। अग्रैकमङ्गुलं तारमानुपूर्वक्षयं क्रमात्
yonimūlasya vistāraṃ pañcāṅgulamiti smṛtam| agraikamaṅgulaṃ tāramānupūrvakṣayaṃ kramāt
17.18
पिप्पलस्य दलाकारं तद्योन्याकृतिरुच्यतेँ । कटिप्रदेशविस्तारमष्टाविंशतिरङ्गुलम्
pippalasya dalākāraṃ tadyonyākṛtirucyatem̐ | kaṭipradeśavistāramaṣṭāviṃśatiraṅgulam
17.19
श्रोणीप्रदेशविस्तारं षड्विंशत्यङ्गुलं भवेत् । नाभिप्रदक्षिणावर्तं षड्यवं विस्तृतं भवेत्
śroṇīpradeśavistāraṃ ṣaḍviṃśatyaṅgulaṃ bhavet | nābhipradakṣiṇāvartaṃ ṣaḍyavaṃ vistṛtaṃ bhavet
17.20
निम्नं यवद्वयं विद्यान्नाभिकामानमिष्यते उदरं मध्यविस्तारमुक्तमेकादशाङ्गुलम्१°
nimnaṃ yavadvayaṃ vidyānnābhikāmānamiṣyate udaraṃ madhyavistāramuktamekādaśāṅgulam1°
17
स्तनान्तं तस्य विस्तारं चतुर्दशाङ्गुलं भवेत् । स्तनमण्डलविस्तारं नवमात्रार्धमिष्यते १
stanāntaṃ tasya vistāraṃ caturdaśāṅgulaṃ bhavet | stanamaṇḍalavistāraṃ navamātrārdhamiṣyate 1
Chapter 17 — २.३. बाह्वादिमानम्
17.23
“कक्षयोरन्तरं तिर्यगष्टादशाङ्गुलं भवेत्
“kakṣayorantaraṃ tiryagaṣṭādaśāṅgulaṃ bhavet
17.24
बाहुद्द्यान्तरं तिर्यग्वात्रिंशाङ्गुलमीरितम् । हिक्कासूत्रादधो बाहुष्षड्विंशाङ्गुलमायतम्
bāhuddyāntaraṃ tiryagvātriṃśāṅgulamīritam | hikkāsūtrādadho bāhuṣṣaḍviṃśāṅgulamāyatam
17.25
प्रकोष्ठं विंशदङ्गुल्यं मानमेतन्न संशयः ९ कराग्रान्मध्यमाङ्गुल्यायामं द्वादशमुच्यते१°
prakoṣṭhaṃ viṃśadaṅgulyaṃ mānametanna saṃśayaḥ 9 karāgrānmadhyamāṅgulyāyāmaṃ dvādaśamucyate1°
17.26
तस्यार्धं तु तलायामं शेषं मध्याङ्गुलं भवेत् । आयामं च प्रदेशिन्या भागं पञ्चयवाधिकम्
tasyārdhaṃ tu talāyāmaṃ śeṣaṃ madhyāṅgulaṃ bhavet | āyāmaṃ ca pradeśinyā bhāgaṃ pañcayavādhikam
17.27
द्विकोलं षड्प्रवाधिक्यं आयामानामिका भवेत् । भागायतं कराङ्गुष्ठं कनिष्ठं तत्समायतम्
dvikolaṃ ṣaḍpravādhikyaṃ āyāmānāmikā bhavet | bhāgāyataṃ karāṅguṣṭhaṃ kaniṣṭhaṃ tatsamāyatam
17.28
यवैर्दश च सप्तार्धमष्टसप्तार्धषड्यवम् । अङ्गुष्ठादि कनिष्ठान्तं पञ्चाङ्गुलविशालकम्
yavairdaśa ca saptārdhamaṣṭasaptārdhaṣaḍyavam | aṅguṣṭhādi kaniṣṭhāntaṃ pañcāṅgulaviśālakam
17.29
मूलादग्रं क्षयं तारमष्टभागविहीनकम्। सप्तार्धं चतुरर्धं च पञ्चार्धं चतुरर्धकम्
mūlādagraṃ kṣayaṃ tāramaṣṭabhāgavihīnakam| saptārdhaṃ caturardhaṃ ca pañcārdhaṃ caturardhakam
17.30
त्रियवाश्च नखा ज्ञेया विस्तारा आनुपूर्विका ७ । विस्तारं द्वियवाधिक्यं नखायामं च कारयेत्
triyavāśca nakhā jñeyā vistārā ānupūrvikā 7 | vistāraṃ dviyavādhikyaṃ nakhāyāmaṃ ca kārayet
17
त्रिपर्वं चतुरङ्गुल्यमङ्गुष्ठात्तु द्विपर्वकान्
triparvaṃ caturaṅgulyamaṅguṣṭhāttu dviparvakān
Chapter 17 — २.५. वक्रमानम्
17.38
हनुश्च षड्प्रवा ज्ञेया अधरोष्ठस्य निर्गमम् । अधरोष्ठस्य विस्तारमङ्गुलं स्याद्यवाधिकम्
hanuśca ṣaḍpravā jñeyā adharoṣṭhasya nirgamam | adharoṣṭhasya vistāramaṅgulaṃ syādyavādhikam
17.39
तिर्यक् च कोलका ज्ञेया रक्तभागमिति स्मृतम् । ' अधरोष्ठस्य विस्तारं मध्यमं यावकं विदुः
tiryak ca kolakā jñeyā raktabhāgamiti smṛtam | ' adharoṣṭhasya vistāraṃ madhyamaṃ yāvakaṃ viduḥ
17.40
१° शेषं हि रक्तधारं च अधरोष्ठं प्रशस्यते ' तिर्यक्त्र्यङ्गुलार्धं च आस्यतारमिति स्मृतम्
1° śeṣaṃ hi raktadhāraṃ ca adharoṣṭhaṃ praśasyate ' tiryaktryaṅgulārdhaṃ ca āsyatāramiti smṛtam
Chapter 17 — २.६. उष्णीषादिमानम्
17.53
उष्णीषात्पुरपृष्ठान्तं केशान्तं त्रिंशदङ्गुलम् । उष्णीषात्पार्श्वकेशान्तमेकैकं तु नवाङ्गुलम्
uṣṇīṣātpurapṛṣṭhāntaṃ keśāntaṃ triṃśadaṅgulam | uṣṇīṣātpārśvakeśāntamekaikaṃ tu navāṅgulam
17.54
ललाटं पञ्चाङ्गुलं तारं केशान्तस्याकृतिर्भवेत् । पृष्ठस्य कर्णयोर्मध्ये षट्कोलकमिति स्मृतम्'
lalāṭaṃ pañcāṅgulaṃ tāraṃ keśāntasyākṛtirbhavet | pṛṣṭhasya karṇayormadhye ṣaṭkolakamiti smṛtam'
Chapter 17 — ३. देववशाद्देवीप्रतिमा
17.55
देवदेहप्रमाणं तु त्रिविधं मानमिष्यते । प्रतिमोत्सेधमानेन देवीमानं प्रचक्षते
devadehapramāṇaṃ tu trividhaṃ mānamiṣyate | pratimotsedhamānena devīmānaṃ pracakṣate
17.56
नास्यन्तं चापि चास्यान्तम् हनुबाह्वन्तमेव च नास्यन्तमुत्तमं ज्ञेयमास्यान्तं मध्यमं भवेत्
nāsyantaṃ cāpi cāsyāntam hanubāhvantameva ca nāsyantamuttamaṃ jñeyamāsyāntaṃ madhyamaṃ bhavet
17.57
৺बाह्वन्तमधमं ज्ञेयं देव्यास्तुङ्गमिहोच्यते । पूर्वोक्तलक्षणोपेतमुमाद्याः कारयेद्बुधः
৺bāhvantamadhamaṃ jñeyaṃ devyāstuṅgamihocyate | pūrvoktalakṣaṇopetamumādyāḥ kārayedbudhaḥ
17.58
स्थानके स्थानकं देवी आसीने चासनं भवेत् । सुखासनस्य देवस्य देवी चासनमेव हि १०
sthānake sthānakaṃ devī āsīne cāsanaṃ bhavet | sukhāsanasya devasya devī cāsanameva hi 10
17.59
अन्यथा च न कर्तव्यं कर्ता भर्ता च नश्यते ११ शैलजे शैलजा देवी दारुजे दारुजा तथा १२
anyathā ca na kartavyaṃ kartā bhartā ca naśyate 11 śailaje śailajā devī dāruje dārujā tathā 12
17
मृण्मये मृण्मयं प्रोक्तं लोहजे लोहजं भवेत् १३
mṛṇmaye mṛṇmayaṃ proktaṃ lohaje lohajaṃ bhavet 13
Chapter 17 — १. वास्तुहोमसमयः
17.1
वास्तु संपूजयेत्पूर्वमेकाशीतिपदेषु च २
vāstu saṃpūjayetpūrvamekāśītipadeṣu ca 2
17.2
आद्यशैलेष्टकाधाने लिङ्गस्थापनकर्मणि । सकलस्थापने चैव प्रोक्षणे बालमन्दिरे
ādyaśaileṣṭakādhāne liṅgasthāpanakarmaṇi | sakalasthāpane caiva prokṣaṇe bālamandire
17.3
मण्डपे नृत्तरङ्गे च सभासत्राग्निमण्डपे वास्तुहोमः प्रकर्तव्यः सर्वशम्बरसंयुतः ५
maṇḍape nṛttaraṅge ca sabhāsatrāgnimaṇḍape vāstuhomaḥ prakartavyaḥ sarvaśambarasaṃyutaḥ 5
Chapter 17 — २. आचार्यलक्षणम्
17.4
दीक्षितश्चाग्निहोत्री च सर्वेन्द्रियविनिग्रहः। तन्त्रज्ञो विधिमान्वास्तुशास्त्रज्ञः सपरिग्रहः ७
dīkṣitaścāgnihotrī ca sarvendriyavinigrahaḥ| tantrajño vidhimānvāstuśāstrajñaḥ saparigrahaḥ 7
17
नाङ्गहीनो विशुद्धात्मा वास्तुहोममथाचरेत्“
nāṅgahīno viśuddhātmā vāstuhomamathācaret“
Chapter 17 — ३. स्थण्डिलं मण्डलं च
17.5
समरीयपदे सम्यक्स्थण्डिलं विधिना कुरु
samarīyapade samyaksthaṇḍilaṃ vidhinā kuru
17.7
हस्तमात्रं तु विस्तारमुत्सेधं स्यात्त्रयाङ्गुलम्° । जलावर्तं न्यसेदैन्द्रे शालिमध्ये विशेषतः ११ गन्धतोयेन संपूर्य हेमं तत्रैव निक्षिपेत् । दूर्वापालाशशाखांश्च तन्मध्ये तु विनिक्षिपेत्
hastamātraṃ tu vistāramutsedhaṃ syāttrayāṅgulam° | jalāvartaṃ nyasedaindre śālimadhye viśeṣataḥ 11 gandhatoyena saṃpūrya hemaṃ tatraiva nikṣipet | dūrvāpālāśaśākhāṃśca tanmadhye tu vinikṣipet
17.8
गन्धपुष्पादिना पूज्य द्वारस्थाने पदे क्रमात् । उल्लेखनं प्रकर्तव्यं शास्त्रदृष्टेन कर्मणा ँ
gandhapuṣpādinā pūjya dvārasthāne pade kramāt | ullekhanaṃ prakartavyaṃ śāstradṛṣṭena karmaṇā m̐
17.9
पूर्वाग्रतिसृरेखाभिरुत्तराग्राभिरेव च । ६ रुद्रं विवस्वतं सोमं वरुणाग्नीन्द्रमेव च
pūrvāgratisṛrekhābhiruttarāgrābhireva ca | 6 rudraṃ vivasvataṃ somaṃ varuṇāgnīndrameva ca
17.10
अघोरेण समालिख्य प्रोक्षयेत्पुरुषेण तु । मथित्वाऽग्निं विनिक्षिप्य हृदयेन तु मन्त्रतः
aghoreṇa samālikhya prokṣayetpuruṣeṇa tu | mathitvā'gniṃ vinikṣipya hṛdayena tu mantrataḥ
17.11
वास्तोष्पतेति मन्त्रेण ह्युपस्थानं समाचरेत् । ९ प्रागग्रैरुदगग्रैश्च दर्भैश्चैव परिस्तरेत्
vāstoṣpateti mantreṇa hyupasthānaṃ samācaret | 9 prāgagrairudagagraiśca darbhaiścaiva paristaret
17
अग्नेश्चैवाथ दिग्दर्भान्संपरिस्तीर्य देशिकः १०
agneścaivātha digdarbhānsaṃparistīrya deśikaḥ 10
Chapter 17 — ४. पात्रादिविधिः
17.12
तत्रैव सादयेत्पात्रानधोवक्ताद्वयं द्वयम् ११
tatraiva sādayetpātrānadhovaktādvayaṃ dvayam 11
17.13
आज्यस्थालीं स्रुवं चैव प्रणीतां प्रोक्षणीं तथा । समित्कूर्चचरुं दर्वीमुपस्पृश्य कमण्डलुम् १३
ājyasthālīṃ sruvaṃ caiva praṇītāṃ prokṣaṇīṃ tathā | samitkūrcacaruṃ darvīmupaspṛśya kamaṇḍalum 13
Chapter 19 — Text
19.14
एतानि द्वन्द्वरूपेण सादयेत्तु विशेषतः १ । प्रोक्षणीपात्रमादाय जलेनैव प्रपूरयेत्
etāni dvandvarūpeṇa sādayettu viśeṣataḥ 1 | prokṣaṇīpātramādāya jalenaiva prapūrayet
19.15
वितस्तिमात्रमायामं मध्यमे ग्रन्थिसंयुतम्। अङ्गुष्ठानामिकाग्राभ्यामुदकोत्प्लवनं कुरुषॆ
vitastimātramāyāmaṃ madhyame granthisaṃyutam| aṅguṣṭhānāmikāgrābhyāmudakotplavanaṃ kuruṣaॆ
19.16
पात्राणि प्रोक्षयेत्तेन चोत्पूर्य स्वस्तिमन्त्रतः उद्धृत्य सर्वपात्राणि समिद्वृन्धं विसर्जयेत्
pātrāṇi prokṣayettena cotpūrya svastimantrataḥ uddhṛtya sarvapātrāṇi samidvṛndhaṃ visarjayet
19.17
ब्रह्माणं दक्षिणे स्थाप्य पूजयित्वा यथाक्रमम्। प्रणीतापात्रमादाय जलेनापूर्य मन्त्रतः
brahmāṇaṃ dakṣiṇe sthāpya pūjayitvā yathākramam| praṇītāpātramādāya jalenāpūrya mantrataḥ
19.18
ऊर्ध्वतो दर्भसंयुक्तं प्रणीतां उत्तरे न्यसेत् । लोकपालान्यथास्थाने पूजयित्वा स्वनामतः
ūrdhvato darbhasaṃyuktaṃ praṇītāṃ uttare nyaset | lokapālānyathāsthāne pūjayitvā svanāmataḥ
19.19
आज्याधिश्रयणं कृत्वा पश्चिमे चोत्तरेऽपि वा । व्यपोह्याङ्गारकान्विद्वांस्तत्रैवाज्यं विनिक्षिपेत्
ājyādhiśrayaṇaṃ kṛtvā paścime cottare'pi vā | vyapohyāṅgārakānvidvāṃstatraivājyaṃ vinikṣipet
19.20
१°द्वौ दर्भाग्रावभिद्योत्य द्वौ दर्भाग्रौ विनिक्षिपेत् ११ । घृतमादाय हृदिना अभिद्योतनमारभेत् १ २
1°dvau darbhāgrāvabhidyotya dvau darbhāgrau vinikṣipet 11 | ghṛtamādāya hṛdinā abhidyotanamārabhet 1 2
19.21
ततः पवित्रमादाय पूर्ववच्छुद्धिमाचरेत् । विसृज्य ग्रन्थिं संप्रोक्ष्य चाग्निमध्ये विनिक्षिपेत्
tataḥ pavitramādāya pūrvavacchuddhimācaret | visṛjya granthiṃ saṃprokṣya cāgnimadhye vinikṣipet
19.22
तापयेत्तु स्रुवं पश्चाद्दर्भेर्मृज्य पुनः पुनः । अग्रमग्रेण संस्पृश्य मूलं मूलेन संस्पृशेत्
tāpayettu sruvaṃ paścāddarbhermṛjya punaḥ punaḥ | agramagreṇa saṃspṛśya mūlaṃ mūlena saṃspṛśet
19.23
मध्यं मध्येन संस्पृश्य दर्भानग्नौ विनिक्षिपेत् । ७ परिधिं न्यस्त्वा तत्रैव दक्षिणोत्तरपश्चिमे
madhyaṃ madhyena saṃspṛśya darbhānagnau vinikṣipet | 7 paridhiṃ nyastvā tatraiva dakṣiṇottarapaścime
19.24
आघारसमिधौ न्यस्त्वा चाग्नेयैशानकोणके' १° परिषेचनं ततः कृत्वा ह्यदितेन्वादिमन्त्रतः ११
āghārasamidhau nyastvā cāgneyaiśānakoṇake' 1° pariṣecanaṃ tataḥ kṛtvā hyaditenvādimantrataḥ 11
19.26
प्रजापतये स्वाहा (१) । इन्द्राय स्वाहा ( २ ) । १ अग्नये स्वाहा (३) । २ सोमाय स्वाहा ३ ( ४ ) । सद्यादीशानपर्यन्तं दिक्षु मध्ये च होमयेत्। अहमस्मीति मन्त्रेण चरुं हुत्वा विशेषतः
prajāpataye svāhā (1) | indrāya svāhā ( 2 ) | 1 agnaye svāhā (3) | 2 somāya svāhā 3 ( 4 ) | sadyādīśānaparyantaṃ dikṣu madhye ca homayet| ahamasmīti mantreṇa caruṃ hutvā viśeṣataḥ
19.27
वास्तोष्पतेति मन्त्रेण आज्यं विशेषतः ५ हुत्वा वास्तुदेवतानाम्ना तु होमं कुर्याद्घृतेन तु
vāstoṣpateti mantreṇa ājyaṃ viśeṣataḥ 5 hutvā vāstudevatānāmnā tu homaṃ kuryādghṛtena tu
19.28
ईशानाय स्वाहा (१) । ७ पर्जन्याय स्वाहा ( २ ) । जयन्ताय स्वाहा ( ३ ) । ' महेन्द्राय स्वाहा (४)।'आदित्याय स्वाहा (५) । सत्यकाय स्वाहा (६) । भृशाय स्वाहा १० (७)। अन्तरिक्षाय स्वाहा (८) । अग्नये स्वाहा (९) । पूषाय स्वाहा ? ? (१०)। वितथाय स्वाहा (११)। गृहक्षताय स्वाहा १२ ( १२ ) । यमाय स्वाहा (१३) । १३ गन्धर्वाय स्वाहा (१४) । भृङ्गराजाय स्वाहा (१५) । मृशाय स्वाहा १४ (१६) । पित्रे स्वाहा १५ (१७) । दौवारिकाय स्वाहा (१८)। सुग्रीवाय स्वाहा (१९) । पुष्पदन्ताय स्वाहा ( २० ) । वरुणाय स्वाहा (२१) । असुराय स्वाहा (२२) । शोषाय स्वाहा' (२३) । पापयक्ष्मणे स्वाहा (२४) । रोगाय स्वाहा (२५) । वायवे स्वाहा (२६) । नागाय स्वाहा (२७) । मुख्याय स्वाहा (२८)। भल्लाटाय स्वाहा (२९) । सोमाय स्वाहा (३०) । मृगाय स्वाहा (३१) । अदितये स्वाहा (३२)। दितये स्वाहा (३३) । आपाय स्वाहा' (३४) । आपवत्साय स्वाहा ७ (३५) । 'सवित्रे स्वाहा' ( ३६ ) । सावित्राय स्वाहा ( ३७ ) । १० इन्द्राय स्वाहा (३८) । इन्द्रजयाय स्वाहा (३९)। रुद्राय स्वाहा (४०) । रुद्रजयाय स्वाहा ( ४१ ) । समर्याय स्वाहा (४२) । विवस्वते स्वाहा (४३)। ११ मित्राय स्वाहा (४४) । पृथिवीधराय स्वाहा (४५)। ब्रह्मणे स्वाहा (४६)। चरक्यै स्वाहा १३ (४७) । विदार्यै स्वाहा १४ (४८) । पूतनायै स्वाहा (४९)। पापराक्षस्यै स्वाहा ( ५० ) । १५ स्कन्धाय स्वाहा १६ (५१) । अर्यम्णे स्वाहा (५२) । जृम्भकाय स्वाहा (५३) । बलिपिञ्छाय स्वाहा (५४) । एवं क्रमादग्नौ हत्वा वै पायसं चरुम् । जयादिरभ्याधानं च राष्ट्रभृच्च हुनेत्क्रमात्
īśānāya svāhā (1) | 7 parjanyāya svāhā ( 2 ) | jayantāya svāhā ( 3 ) | ' mahendrāya svāhā (4)|'ādityāya svāhā (5) | satyakāya svāhā (6) | bhṛśāya svāhā 10 (7)| antarikṣāya svāhā (8) | agnaye svāhā (9) | pūṣāya svāhā ? ? (10)| vitathāya svāhā (11)| gṛhakṣatāya svāhā 12 ( 12 ) | yamāya svāhā (13) | 13 gandharvāya svāhā (14) | bhṛṅgarājāya svāhā (15) | mṛśāya svāhā 14 (16) | pitre svāhā 15 (17) | dauvārikāya svāhā (18)| sugrīvāya svāhā (19) | puṣpadantāya svāhā ( 20 ) | varuṇāya svāhā (21) | asurāya svāhā (22) | śoṣāya svāhā' (23) | pāpayakṣmaṇe svāhā (24) | rogāya svāhā (25) | vāyave svāhā (26) | nāgāya svāhā (27) | mukhyāya svāhā (28)| bhallāṭāya svāhā (29) | somāya svāhā (30) | mṛgāya svāhā (31) | aditaye svāhā (32)| ditaye svāhā (33) | āpāya svāhā' (34) | āpavatsāya svāhā 7 (35) | 'savitre svāhā' ( 36 ) | sāvitrāya svāhā ( 37 ) | 10 indrāya svāhā (38) | indrajayāya svāhā (39)| rudrāya svāhā (40) | rudrajayāya svāhā ( 41 ) | samaryāya svāhā (42) | vivasvate svāhā (43)| 11 mitrāya svāhā (44) | pṛthivīdharāya svāhā (45)| brahmaṇe svāhā (46)| carakyai svāhā 13 (47) | vidāryai svāhā 14 (48) | pūtanāyai svāhā (49)| pāparākṣasyai svāhā ( 50 ) | 15 skandhāya svāhā 16 (51) | aryamṇe svāhā (52) | jṛmbhakāya svāhā (53) | balipiñchāya svāhā (54) | evaṃ kramādagnau hatvā vai pāyasaṃ carum | jayādirabhyādhānaṃ ca rāṣṭrabhṛcca hunetkramāt
19.29
मिन्दाहुतिं च कूष्माण्डं प्रायश्चित्तं हुनेत्क्रमात्। हुत्वा हव्यवाहं पुरः स्तुत्य स्विष्टमग्नेति होमयेत्
mindāhutiṃ ca kūṣmāṇḍaṃ prāyaścittaṃ hunetkramāt| hutvā havyavāhaṃ puraḥ stutya sviṣṭamagneti homayet
19.31
स्विष्टान्ते कारयेद्धीमान्यदस्येति विशेषतः २ परिषेचनं ततः कृत्वा प्रासावीरिति मन्त्रतः ३ परिस्तरणपरिधीनाज्याक्तं तत्र दापयेत् । ब्रह्मणे तु वरं दद्याद् गौर्वा वै होममेव च
sviṣṭānte kārayeddhīmānyadasyeti viśeṣataḥ 2 pariṣecanaṃ tataḥ kṛtvā prāsāvīriti mantrataḥ 3 paristaraṇaparidhīnājyāktaṃ tatra dāpayet | brahmaṇe tu varaṃ dadyād gaurvā vai homameva ca
19.32
प्रणीतोदकेन संप्रोक्ष्य चात्मानं पवमानकैः ६ 1 एवं समाप्य होमं तु प्रणीताप्रत्यक्षमाचरेत्
praṇītodakena saṃprokṣya cātmānaṃ pavamānakaiḥ 6 1 evaṃ samāpya homaṃ tu praṇītāpratyakṣamācaret
19
वास्तुहोममिति ख्यातं प्रतिष्ठां च ततः शृणु। ॥ इति दीप्तशास्त्रे प्रतिष्ठातन्त्रे वास्तुहोमपटलः एकोनविंशतिः९॥ [विंशतिः पटलः] [लिङ्गस्थापनविधिः] अथातः संप्रवक्ष्यामि लिङ्गस्थापनमुत्तमम्
vāstuhomamiti khyātaṃ pratiṣṭhāṃ ca tataḥ śṛṇu| || iti dīptaśāstre pratiṣṭhātantre vāstuhomapaṭalaḥ ekonaviṃśatiḥ9|| [viṃśatiḥ paṭalaḥ] [liṅgasthāpanavidhiḥ] athātaḥ saṃpravakṣyāmi liṅgasthāpanamuttamam
Chapter 19 — ५. वास्तुहोमः
19.25
आज्याक्तौ समिधौ हुत्वा ब्रह्मवृक्षसमुद्भवौ । आघारमाज्यभागं च जुहुयात्तदनन्तरे
ājyāktau samidhau hutvā brahmavṛkṣasamudbhavau | āghāramājyabhāgaṃ ca juhuyāttadanantare
Chapter 19 — १. प्रतिष्ठाकालः
19.1
अयने पक्षनक्षत्रे तिथिवारांशराशयः
ayane pakṣanakṣatre tithivārāṃśarāśayaḥ
19.2
मुहूर्तं तत्र संवीक्ष्य स्थापनं च समारभेत्। पुष्यमासादि षण्मासं देवानां तु दिवा स्मृतम्
muhūrtaṃ tatra saṃvīkṣya sthāpanaṃ ca samārabhet| puṣyamāsādi ṣaṇmāsaṃ devānāṃ tu divā smṛtam
19.3
तत्राषाढादि षण्मासं देवानां तु निशा स्मृता । दिवाकाले प्रकर्तव्यं लिङ्गस्थापनमुत्तमम्
tatrāṣāḍhādi ṣaṇmāsaṃ devānāṃ tu niśā smṛtā | divākāle prakartavyaṃ liṅgasthāpanamuttamam
19.4
सितपक्षे द्वितीया च तृतीया पञ्चमी तथा । षष्ठी च सप्तमी चैव दशमी च त्रयोदशी
sitapakṣe dvitīyā ca tṛtīyā pañcamī tathā | ṣaṣṭhī ca saptamī caiva daśamī ca trayodaśī
19.5
एकादशी च तिथयः प्रतिपत्पौर्णमास्यपि । प्राजापत्यं च सौम्यं च शैवमादित्यसौम्यके
ekādaśī ca tithayaḥ pratipatpaurṇamāsyapi | prājāpatyaṃ ca saumyaṃ ca śaivamādityasaumyake
19.6
पौष्णा बृहस्पतिश्चैव मैत्रं वैष्णवनैर्ऋते । वायव्यं चाश्वयुक् त्वाष्ट्रं पैतृकं चोत्तरत्रयम् ७
pauṣṇā bṛhaspatiścaiva maitraṃ vaiṣṇavanairṛte | vāyavyaṃ cāśvayuk tvāṣṭraṃ paitṛkaṃ cottaratrayam 7
19.7
एषु नक्षत्रयोगेषु प्रतिष्ठां च समाचरेत्' । मेषकर्कटकं तौल्यं मकरं च विवर्जयेत्
eṣu nakṣatrayogeṣu pratiṣṭhāṃ ca samācaret' | meṣakarkaṭakaṃ taulyaṃ makaraṃ ca vivarjayet
19.8
शेषेषु स्थापयेल्लिङ्गं धनूराशिं च वर्जयेत् ? । गुरुभार्गवसौम्यानां वारः सोमस्य शोभनम्
śeṣeṣu sthāpayelliṅgaṃ dhanūrāśiṃ ca varjayet ? | gurubhārgavasaumyānāṃ vāraḥ somasya śobhanam
19.9
एषां द्रेष्काणहोराश्च अंशकं दर्शनं शुभम् । एषामेवोदयं शस्तं वर्ज्यं सोमोदयं सदा
eṣāṃ dreṣkāṇahorāśca aṃśakaṃ darśanaṃ śubham | eṣāmevodayaṃ śastaṃ varjyaṃ somodayaṃ sadā
19.10
भानुमन्दारसोमाश्च त्रिषडायगताः शुभाः ६ । सर्वे ग्रहा विवर्ज्याः स्युरष्टमस्था विशेषतः
bhānumandārasomāśca triṣaḍāyagatāḥ śubhāḥ 6 | sarve grahā vivarjyāḥ syuraṣṭamasthā viśeṣataḥ
19.11
षट्सप्तदशमं हित्वा शुक्राश्चान्ये च शोभनाः ७ । “उत्तराषाढसंयुक्तसोमवारस्तु शोभनः १
ṣaṭsaptadaśamaṃ hitvā śukrāścānye ca śobhanāḥ 7 | “uttarāṣāḍhasaṃyuktasomavārastu śobhanaḥ 1
19.12
हस्तश्चाश्वयुजं वह्ने बुधवारेण वर्जयेत्१° । मृगशीर्षोत्तरा चेह अन्यवारेण वर्जयेत् १२
hastaścāśvayujaṃ vahne budhavāreṇa varjayet1° | mṛgaśīrṣottarā ceha anyavāreṇa varjayet 12
19.13
वैष्णवं चैव तिष्यं च शुक्रवारेण वर्जयेत्। बुधयुक्ता द्वितीया च षष्ठीयुक्तो बृहस्पतिः
vaiṣṇavaṃ caiva tiṣyaṃ ca śukravāreṇa varjayet| budhayuktā dvitīyā ca ṣaṣṭhīyukto bṛhaspatiḥ
Chapter 20 — Text
20.14
चन्द्र एकादशीयुक्तः प्राणहानिं च कारयेत् ? । सप्तमी पौष्णसंयुक्ता वह्निवद्दहते प्रजाम्
candra ekādaśīyuktaḥ prāṇahāniṃ ca kārayet ? | saptamī pauṣṇasaṃyuktā vahnivaddahate prajām
20.15
अन्धं षण्ढं च नक्षत्रं वर्ज्यं स्थापनकर्मणि 1 पांसुलोहितवर्षेषु मेघानां स्तनितेषु च
andhaṃ ṣaṇḍhaṃ ca nakṣatraṃ varjyaṃ sthāpanakarmaṇi 1 pāṃsulohitavarṣeṣu meghānāṃ staniteṣu ca
20.16
उल्कापाते दिशां दाहे ग्रहणे चन्द्रसूर्ययोः 1 षडशीतिमुखे चैव स्थापनं न समाचरेत्
ulkāpāte diśāṃ dāhe grahaṇe candrasūryayoḥ 1 ṣaḍaśītimukhe caiva sthāpanaṃ na samācaret
20.46
चतुरङ्गुलविस्तारं पद्मं कुण्डस्य मध्यमे
caturaṅgulavistāraṃ padmaṃ kuṇḍasya madhyame
20.47
कुर्याद्वै विष्टरं कुण्डे परितोऽष्टाङ्गुलेन तु । दर्पणोदरसंकाशं वितानोपरिशोभितम्
kuryādvai viṣṭaraṃ kuṇḍe parito'ṣṭāṅgulena tu | darpaṇodarasaṃkāśaṃ vitānopariśobhitam
20.64
चतुर्द्वारसमायुक्तं मण्डपं तोरणान्वितम्। तस्यास्तु पश्चिमे स्थाने स्नानश्वभ्रं प्रकल्पयेत्? । लिङ्गानुरूपमन्तरे दारुपीठसमन्वितम्
caturdvārasamāyuktaṃ maṇḍapaṃ toraṇānvitam| tasyāstu paścime sthāne snānaśvabhraṃ prakalpayet? | liṅgānurūpamantare dārupīṭhasamanvitam
20.65
उत्तरे जलमार्गः स्यादवटेन समन्वितम् । आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
uttare jalamārgaḥ syādavaṭena samanvitam | ācāryaṃ pūjayettatra vastrahemāṅgulīyakaiḥ
20.98
शिल्पिनं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः । मुकुलं चैकभागं स्यान्नालं सप्तांशमेव तु। मणिरेखाद्वये कार्ये पूर्वोक्तविधिना सह
śilpinaṃ pūjayettatra vastrahemāṅgulīyakaiḥ | mukulaṃ caikabhāgaṃ syānnālaṃ saptāṃśameva tu| maṇirekhādvaye kārye pūrvoktavidhinā saha
20.115
तृतीयं लक्षणं प्रोक्तं चतुर्थं लक्षणं शृणु । चन्दनागरुगन्धैश्च विलिप्य शिवमादरात् । पुष्पं दत्वा हृदा मन्त्री दद्याच्छीतारिधूपकम् ?
tṛtīyaṃ lakṣaṇaṃ proktaṃ caturthaṃ lakṣaṇaṃ śṛṇu | candanāgarugandhaiśca vilipya śivamādarāt | puṣpaṃ datvā hṛdā mantrī dadyācchītāridhūpakam ?
20.116
प्रच्छाद्य वस्त्रयुग्मेन हृदयेन तु मन्त्रतः। पिण्डिकां स्नापयेदेवमावेष्ट्याहतवस्त्रकैः ३
pracchādya vastrayugmena hṛdayena tu mantrataḥ| piṇḍikāṃ snāpayedevamāveṣṭyāhatavastrakaiḥ 3
20.133
ताम्बूलं दापयेद्विद्वान्पुरुषेण तु मन्त्रतः १
tāmbūlaṃ dāpayedvidvānpuruṣeṇa tu mantrataḥ 1
20.150
दिव्याम्बरधरं देवं दिव्याभरणभूषितम् २
divyāmbaradharaṃ devaṃ divyābharaṇabhūṣitam 2
20.151
शुद्धस्फटिकसंकाशं कुन्देन्दुधवलप्रभम्। कुण्डलैः कर्णगैर्हारैर्यज्ञसूत्रविभूषितम्
śuddhasphaṭikasaṃkāśaṃ kundendudhavalaprabham| kuṇḍalaiḥ karṇagairhārairyajñasūtravibhūṣitam
20.152
शूलं परशुवज्रं च खड्गाभयं च दक्षिणे । पाशाङ्कुशं च वह्निं च खेटकं वरदं परे
śūlaṃ paraśuvajraṃ ca khaḍgābhayaṃ ca dakṣiṇe | pāśāṅkuśaṃ ca vahniṃ ca kheṭakaṃ varadaṃ pare
20.153
कुम्भे ध्यात्वा विशेषेण पद्ममुद्रां प्रदर्शयेत्। आवाहनादिकं सर्वं पूर्वोक्तविधिना कुरु
kumbhe dhyātvā viśeṣeṇa padmamudrāṃ pradarśayet| āvāhanādikaṃ sarvaṃ pūrvoktavidhinā kuru
20.203
शिवमन्त्रं समुच्चार्य गंन्धपुष्पादिनार्चयेत्। शिवमन्त्रं समुच्चार्य शिवाग्नौ जुहुयाच्छतम्
śivamantraṃ samuccārya gaṃndhapuṣpādinārcayet| śivamantraṃ samuccārya śivāgnau juhuyācchatam
20.204
अन्येषां देवतानां च तत्तन्मन्त्रैर्दशाहुतिः ब्रह्माङ्गैश्च ततो हुत्वा प्रत्येकं तु शताहुति:३
anyeṣāṃ devatānāṃ ca tattanmantrairdaśāhutiḥ brahmāṅgaiśca tato hutvā pratyekaṃ tu śatāhuti:3
20.205
त्रियम्बकेन मन्त्रेण समिधाहुतिमाचरेत्। सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा
triyambakena mantreṇa samidhāhutimācaret| sahasraṃ vā tadardhaṃ vā tadardhārdhamathāpi vā
20.209
शतमष्टोत्तरं वापि प्रत्येकं जुहुयात्क्रमात्। हुत्वा यो रुद्रस्तदनन्तरम् । माषं हुत्वा तु घोरेण एष ते रुद्र मन्त्रतः कवचेन यवं हुत्वा त्र्यम्बकेनैव मन्त्रतः 1
śatamaṣṭottaraṃ vāpi pratyekaṃ juhuyātkramāt| hutvā yo rudrastadanantaram | māṣaṃ hutvā tu ghoreṇa eṣa te rudra mantrataḥ kavacena yavaṃ hutvā tryambakenaiva mantrataḥ 1
20.210
नीवारं पुरुषेणैव आप्यायस्वेति मन्त्रतः
nīvāraṃ puruṣeṇaiva āpyāyasveti mantrataḥ
20.212
अस्त्रेण जुहुयात्पत्रमप्सु मे सोम इत्यपि 1 तिलान्हुत्वैशमन्त्रेण यतयत्तेति मन्त्रतः द्रव्यान्ते व्याहृतिं हत्वा स्पृशेल्लिङ्गस्य मस्तकम् । तदन्ते होमयेद्धीमान्गौरीं ब्रह्माङ्गविद्यया
astreṇa juhuyātpatramapsu me soma ityapi 1 tilānhutvaiśamantreṇa yatayatteti mantrataḥ dravyānte vyāhṛtiṃ hatvā spṛśelliṅgasya mastakam | tadante homayeddhīmāngaurīṃ brahmāṅgavidyayā
20.213
गौरीगायत्रीमन्त्रेण गौरीमिमायेति मन्त्रतः ५ 1 हुत्वा हुत्वा स्पृशेत्पीठं पञ्चविंशतिसंख्यया
gaurīgāyatrīmantreṇa gaurīmimāyeti mantrataḥ 5 1 hutvā hutvā spṛśetpīṭhaṃ pañcaviṃśatisaṃkhyayā
20.214
ब्रह्मजज्ञानमन्त्रेण हुत्वा ब्रह्मशिलां स्पृशेत्। गर्भगेहस्य तन्मध्ये वास्तुहोमं समाचरेत्
brahmajajñānamantreṇa hutvā brahmaśilāṃ spṛśet| garbhagehasya tanmadhye vāstuhomaṃ samācaret
20.215
पुण्याहं वाचयित्वा तु दद्यादर्घ्यं विशेषतः। एकरात्रं द्विरात्रं वा त्रिरात्रं वाधिवासयेत्
puṇyāhaṃ vācayitvā tu dadyādarghyaṃ viśeṣataḥ| ekarātraṃ dvirātraṃ vā trirātraṃ vādhivāsayet
20.220
एवं जागरणं रात्रौ नृत्तगेयसमन्वितम्। द्विगुणं वास्तुहोमस्य अर्धमध्ययनस्य तु' । दैवज्ञस्य तथैव स्याद्भक्तानामस्त्रजापिनाम्
evaṃ jāgaraṇaṃ rātrau nṛttageyasamanvitam| dviguṇaṃ vāstuhomasya ardhamadhyayanasya tu' | daivajñasya tathaiva syādbhaktānāmastrajāpinām
20.250
भक्तानां परिचाराणां यथाश्रद्धा त दक्षिणा । लोहं पूर्वादितः प्रोक्तमाग्नेयाद्यौषधं न्यसेत् ? । उशीरविष्णुक्रान्तं च सहलक्ष्मीं च विन्यसेत्
bhaktānāṃ paricārāṇāṃ yathāśraddhā ta dakṣiṇā | lohaṃ pūrvāditaḥ proktamāgneyādyauṣadhaṃ nyaset ? | uśīraviṣṇukrāntaṃ ca sahalakṣmīṃ ca vinyaset
20.251
रत्नानामप्यलाभे तु वज्रं सर्वत्र विन्यसेत् । धातूनामप्यलाभे तु हरितालं तु विन्यसेत्
ratnānāmapyalābhe tu vajraṃ sarvatra vinyaset | dhātūnāmapyalābhe tu haritālaṃ tu vinyaset
20.252
बीजानामप्यलाभे तु यवं सर्वत्र विन्यसेत् । तु गन्धानामप्यलाभे च चन्दनं तत्र विन्यसेत्
bījānāmapyalābhe tu yavaṃ sarvatra vinyaset | tu gandhānāmapyalābhe ca candanaṃ tatra vinyaset
20.253
औषधीनामलाभे तु सहदेवीं तु विन्यसेत्। पृथिवीमेरुपद्मं च वृषभं हैमकामयम्
auṣadhīnāmalābhe tu sahadevīṃ tu vinyaset| pṛthivīmerupadmaṃ ca vṛṣabhaṃ haimakāmayam
20.254
यथा पीठक्रमान्न्यस्त्वा मध्ये ब्रह्मशिलावटे । ब्रह्मबीजेन वृषभं न्यस्त्वा पूर्वादिदिङ्मुखः
yathā pīṭhakramānnyastvā madhye brahmaśilāvaṭe | brahmabījena vṛṣabhaṃ nyastvā pūrvādidiṅmukhaḥ
20.255
गुल्मायां दापयित्वा तु पायसेन समन्वितम्। द्रव्याणां निश्चलार्थं तु रत्नाधारे च निक्षिपेत्
gulmāyāṃ dāpayitvā tu pāyasena samanvitam| dravyāṇāṃ niścalārthaṃ tu ratnādhāre ca nikṣipet
20.256
मुकुलीं पद्ममुद्रां च लिङ्गमुद्रां च दर्शयेत्। पूजयित्वा तु रत्नादि गन्धपुष्पादिभिर्हृदा'
mukulīṃ padmamudrāṃ ca liṅgamudrāṃ ca darśayet| pūjayitvā tu ratnādi gandhapuṣpādibhirhṛdā'
20.284
अनुगच्छन्ति ये मर्त्या लिङ्गं वै सार्वकामिकम् । पदे पदेऽश्वमेधस्य फलं प्राप्नोति मानवाः शुद्धस्फटिकसंकाशं तरुणादित्यसंनिभम्। त्र्यक्षं दशभुजं शान्तं पञ्चवक्त्रं स्मिताननम्
anugacchanti ye martyā liṅgaṃ vai sārvakāmikam | pade pade'śvamedhasya phalaṃ prāpnoti mānavāḥ śuddhasphaṭikasaṃkāśaṃ taruṇādityasaṃnibham| tryakṣaṃ daśabhujaṃ śāntaṃ pañcavaktraṃ smitānanam
20.285
दिव्याम्बरधरं देवं दिव्यगन्धानुलेपनम् । पिण्डिकां सुपशां वर्णं पञ्चमूर्धानसंयुतम्
divyāmbaradharaṃ devaṃ divyagandhānulepanam | piṇḍikāṃ supaśāṃ varṇaṃ pañcamūrdhānasaṃyutam
20.286
जटामकुटसंयुक्तं जटाचन्द्रार्धशेखरम् । विद्याविद्येश्वरैरष्टगुणैर्लोकेश्वरैर्युतम्
jaṭāmakuṭasaṃyuktaṃ jaṭācandrārdhaśekharam | vidyāvidyeśvarairaṣṭaguṇairlokeśvarairyutam
20.287
ध्यात्वा सदाशिवं देवं सर्वज्ञं कारणेश्वरम् । संस्थाप्य वामदेवेन अघोरेण निरोधयेत्
dhyātvā sadāśivaṃ devaṃ sarvajñaṃ kāraṇeśvaram | saṃsthāpya vāmadevena aghoreṇa nirodhayet
20.301
पुरुषेणैव सांनिध्यमीशानेन प्रणम्य च। 'शीतारिधूपनैवेद्यं हृदयेन तु दापयेत्
puruṣeṇaiva sāṃnidhyamīśānena praṇamya ca| 'śītāridhūpanaivedyaṃ hṛdayena tu dāpayet
Chapter 20 — २. अङ्कुरार्पणम्
20.17
प्रतिष्ठादिवसात्पूर्वे नवमे सप्तमेऽपि वा । अङ्कराण्यर्पयेद्धीमान् शास्त्रदृष्टेन कर्मणा
pratiṣṭhādivasātpūrve navame saptame'pi vā | aṅkarāṇyarpayeddhīmān śāstradṛṣṭena karmaṇā
20.18
पालिका घटिका चैव शरावं च त्रिधा भवेत् “ । प्रत्येकं द्वादशं गृह्य ततः स्थापनमारभेत्
pālikā ghaṭikā caiva śarāvaṃ ca tridhā bhavet “ | pratyekaṃ dvādaśaṃ gṛhya tataḥ sthāpanamārabhet
20
मण्डपे प्रासादाग्रे तु स्थण्डिलं कुरु देशिक'
maṇḍape prāsādāgre tu sthaṇḍilaṃ kuru deśika'
Chapter 20 — २.१. मण्डलम्
20.19
प्रागग्रं दशसूत्राणि उदगग्रं तथैव च
prāgagraṃ daśasūtrāṇi udagagraṃ tathaiva ca
20.20
मध्ये चैकपदं त्यक्त्वा लोपयेदभितोऽष्टकम् । चतुर्दिक्षु चतुर्द्वारं पदमेकं परित्यजेत्
madhye caikapadaṃ tyaktvā lopayedabhito'ṣṭakam | caturdikṣu caturdvāraṃ padamekaṃ parityajet
20.21
द्वारस्थापनपार्श्वे तु पदमेकं परित्यजेत् । मध्यमे तु पदे कुर्यात्स्थण्डिलं पद्मसंनिभम्
dvārasthāpanapārśve tu padamekaṃ parityajet | madhyame tu pade kuryātsthaṇḍilaṃ padmasaṃnibham
20.23
१°आग्नेयादिषु कोणेषु त्रिषु त्रिषु पदेष्वथ ११ । १ स्थण्डिलं कारयेद्धीमान्प्रत्येकं प्रस्थशालिना । आग्नेयादिषु कोणेषु पञ्चपञ्चपदेष्वथ
1°āgneyādiṣu koṇeṣu triṣu triṣu padeṣvatha 11 | 1 sthaṇḍilaṃ kārayeddhīmānpratyekaṃ prasthaśālinā | āgneyādiṣu koṇeṣu pañcapañcapadeṣvatha
20.24
स्थण्डिलं कारयेत्तत्र द्वारस्थपदमध्यमे २ । तण्डुलैः शोभितं कृत्वा तिलदर्भैः परिस्तरेत्
sthaṇḍilaṃ kārayettatra dvārasthapadamadhyame 2 | taṇḍulaiḥ śobhitaṃ kṛtvā tiladarbhaiḥ paristaret
20.25
गन्धादिना समभ्यर्च्य ततः स्थापनमारभेत्। कर्णिकायां न्यसेत्कुम्भं वारुणोदकपूरितम्
gandhādinā samabhyarcya tataḥ sthāpanamārabhet| karṇikāyāṃ nyasetkumbhaṃ vāruṇodakapūritam
20.26
सकूर्चं सापिधानं च सवस्त्रं हेमसंयुतम्। पूजयित्वा यथान्यायं वारुणं मन्त्रमुच्चरन्
sakūrcaṃ sāpidhānaṃ ca savastraṃ hemasaṃyutam| pūjayitvā yathānyāyaṃ vāruṇaṃ mantramuccaran
20
पायसान्नं ददेद्धीमान् ताम्बूलं च निवेदयेत्
pāyasānnaṃ dadeddhīmān tāmbūlaṃ ca nivedayet
Chapter 20 — २.२. घटिकादिन्यासः
20.27
आग्नेयादिपदे न्यस्त्वा द्वादशघटिकान्तिके
āgneyādipade nyastvā dvādaśaghaṭikāntike
20.28
आदित्ये भ्रंशवितथे याम्यायां भृङ्गराजके । सुग्रीवे वरुणे शोषे मुख्ये सोमपदेषु च
āditye bhraṃśavitathe yāmyāyāṃ bhṛṅgarājake | sugrīve varuṇe śoṣe mukhye somapadeṣu ca
20.29
अदितौ जयन्ते स्थाप्य पालिका च विशेषतः ९ शेषस्थाने शरावाणि न्यसेद्वै देशिकोत्तमः १०
aditau jayante sthāpya pālikā ca viśeṣataḥ 9 śeṣasthāne śarāvāṇi nyasedvai deśikottamaḥ 10
20
ब्रह्माविष्ण्विन्द्रदैवत्यान्पात्रान्मृत्कार्षपूरितान्
brahmāviṣṇvindradaivatyānpātrānmṛtkārṣapūritān
Chapter 20 — २.३. बीजवापनम्
20.30
बीजानि वापयेत्पश्चात्पवमानमुदीरयन्
bījāni vāpayetpaścātpavamānamudīrayan
20.31
तिलसर्षपमुद्गानि माषशिम्बाढकानि च। कुलुत्थं सप्तबीजानि वापयेद्धृदयेन तुबे
tilasarṣapamudgāni māṣaśimbāḍhakāni ca| kulutthaṃ saptabījāni vāpayeddhṛdayena tube
20.32
पूजयित्वा यथान्यायं कुम्भतोयेन सेचयेत् । पिधाय सर्वपात्राणि स्वनुगुप्ते निधापयेच्च
pūjayitvā yathānyāyaṃ kumbhatoyena secayet | pidhāya sarvapātrāṇi svanugupte nidhāpayecca
Chapter 20 — ३.१. यागमण्डपलक्षणम्
20.33
यागार्थमण्डपं कुर्यात्प्रासादस्याग्रतोऽन्तिके। सूत्रेण सुमितं कृत्वा भूमिशल्यं विवर्जयेत्
yāgārthamaṇḍapaṃ kuryātprāsādasyāgrato'ntike| sūtreṇa sumitaṃ kṛtvā bhūmiśalyaṃ vivarjayet
20.34
द्वात्रिंशद्धस्तविस्तारं मण्डपं चोत्तमं स्मृतं । चतुष्षष्टिस्तम्भयुक्तं द्वादशं तालमुच्छ्रयम्
dvātriṃśaddhastavistāraṃ maṇḍapaṃ cottamaṃ smṛtaṃ | catuṣṣaṣṭistambhayuktaṃ dvādaśaṃ tālamucchrayam
20.35
‘मण्डपस्य तु तन्मध्ये चतुर्गात्राणि संत्यजेत् । विंशद्धस्तप्रविस्तारं मण्डपं मध्यमं भवेत्
‘maṇḍapasya tu tanmadhye caturgātrāṇi saṃtyajet | viṃśaddhastapravistāraṃ maṇḍapaṃ madhyamaṃ bhavet
20.36
षट्त्रिंशद्गात्रसंयुक्तं दशतालसमुच्छ्रयम्। चत्वारि मध्यस्तम्भानि त्यजेद्वै देशिकोत्तमः १०
ṣaṭtriṃśadgātrasaṃyuktaṃ daśatālasamucchrayam| catvāri madhyastambhāni tyajedvai deśikottamaḥ 10
20.37
हस्तैर्द्वादशभिर्युक्तं मण्डपं चाधमं भवेत्। अधमत्रयलिङ्गस्य मण्डपं चाधमं भवेत् १२
hastairdvādaśabhiryuktaṃ maṇḍapaṃ cādhamaṃ bhavet| adhamatrayaliṅgasya maṇḍapaṃ cādhamaṃ bhavet 12
Chapter 20 — ३.२. वेदिकादिलक्षणम्
20.38
मण्डपस्य त्रिभागैकं मध्यमे वेदिका भवेत् । अरत्निमात्रमुत्सेधं दर्पणोदरसंनिभम्
maṇḍapasya tribhāgaikaṃ madhyame vedikā bhavet | aratnimātramutsedhaṃ darpaṇodarasaṃnibham
20.39
वेद्यधश्चोपवेदीं च कल्पयेत्तु समन्ततः विस्तारमष्टमाङ्गुल्यमुत्सेधं स्यात्तदर्धकम्
vedyadhaścopavedīṃ ca kalpayettu samantataḥ vistāramaṣṭamāṅgulyamutsedhaṃ syāttadardhakam
20.40
द्व्यङ्गुलद्व्यङ्गुलं हीनं मध्यमस्याधमस्य तु । कुण्डवेदिकयोर्मध्ये त्यक्त्वा हस्तद्वयं पुनः
dvyaṅguladvyaṅgulaṃ hīnaṃ madhyamasyādhamasya tu | kuṇḍavedikayormadhye tyaktvā hastadvayaṃ punaḥ
20.41
चतुरश्रं धनुर्वृत्तं पद्मं पूर्वादिदिक्षु च । योनित्रिकोणपञ्चाश्रमष्टाश्रं स्याद्विदिक्षु वै
caturaśraṃ dhanurvṛttaṃ padmaṃ pūrvādidikṣu ca | yonitrikoṇapañcāśramaṣṭāśraṃ syādvidikṣu vai
20.42
उत्तमत्रयलिङ्गस्य द्वात्रिंशत्कुण्डमारभेत्। मध्यमत्रयलिङ्गस्य चतुर्विंशत्कुण्डमुच्यते
uttamatrayaliṅgasya dvātriṃśatkuṇḍamārabhet| madhyamatrayaliṅgasya caturviṃśatkuṇḍamucyate
20.43
अधमत्रयलिङ्गस्य कुण्डान्यष्टौ प्रकल्पयेत् । देवेन्द्रेशानयोर्मध्ये कुण्डं प्राधानिकं कुरु
adhamatrayaliṅgasya kuṇḍānyaṣṭau prakalpayet | devendreśānayormadhye kuṇḍaṃ prādhānikaṃ kuru
20.44
हस्तमात्रप्रविस्तारम् एवं मात्राङ्गुलेन तु । १°मेखलात्रयसंयुक्तमेकैकं तु त्रयाङ्गुलम् ११
hastamātrapravistāram evaṃ mātrāṅgulena tu | 1°mekhalātrayasaṃyuktamekaikaṃ tu trayāṅgulam 11
20.45
नाभियोनिसमायुक्तं निम्नोन्नतविवर्जितम्। अश्वत्थपत्रवद्योनिः नाभिः पद्माकृतिर्भवेत्
nābhiyonisamāyuktaṃ nimnonnatavivarjitam| aśvatthapatravadyoniḥ nābhiḥ padmākṛtirbhavet
20
त्र्यङ्गुलं योनिविस्तारं त्रिगुणं दैर्घ्यमुच्यते
tryaṅgulaṃ yonivistāraṃ triguṇaṃ dairghyamucyate
Chapter 20 — ३.३. तोरणलक्षणम्
20.48
पञ्चहस्तसमुत्सेधं विस्तारं स्यात्तदर्धकम्
pañcahastasamutsedhaṃ vistāraṃ syāttadardhakam
20.49
शूलं हस्तप्रमाणं स्यान्नाहं तस्य षडङ्गुलम् । अधमाधममेतद्धि वक्ष्यते तत्परं क्रमात्
śūlaṃ hastapramāṇaṃ syānnāhaṃ tasya ṣaḍaṅgulam | adhamādhamametaddhi vakṣyate tatparaṃ kramāt
20.50
पञ्चहस्तं समारभ्य यावत्स्यान्नवहस्तकम्। तावत्तालाधिकं कुर्यात्तत्तदर्धं तु विस्तृतम्
pañcahastaṃ samārabhya yāvatsyānnavahastakam| tāvattālādhikaṃ kuryāttattadardhaṃ tu vistṛtam
20.51
तस्मात्तद्व्यङ्गुलाधिक्यं नाहं प्रत्येकमाचरेत् । नवधा तोरणं प्रोक्तं नवलिङ्गे यथाक्रमम्
tasmāttadvyaṅgulādhikyaṃ nāhaṃ pratyekamācaret | navadhā toraṇaṃ proktaṃ navaliṅge yathākramam
Chapter 20 — ३.४. ध्वजलक्षणम्
20.52
अष्टदिक्षु ध्वजानष्टौ लम्बयेत्तु प्रदक्षिणम्। नीलवर्णं तु पूर्वस्यां आग्नेय्यां रक्तवर्णकम्
aṣṭadikṣu dhvajānaṣṭau lambayettu pradakṣiṇam| nīlavarṇaṃ tu pūrvasyāṃ āgneyyāṃ raktavarṇakam
20.53
कृष्णवर्णं तु याम्यायां धूम्रवर्णं तु नैर्ऋते । शङ्खाकृतिनिभाकारं वारुण्यां दिशि लम्बयेत्
kṛṣṇavarṇaṃ tu yāmyāyāṃ dhūmravarṇaṃ tu nairṛte | śaṅkhākṛtinibhākāraṃ vāruṇyāṃ diśi lambayet
20.54
वायव्यां शाबलं ज्ञेयं शातकुम्भाभमुत्तरे १° । ऐशान्यां पीतवर्णं तु तेषां लक्षणमुच्यते
vāyavyāṃ śābalaṃ jñeyaṃ śātakumbhābhamuttare 1° | aiśānyāṃ pītavarṇaṃ tu teṣāṃ lakṣaṇamucyate
20.55
विंशत्यङ्गुलविस्तारं त्रिदशाङ्गुलमायतम् ११ । विस्तारेण समं पुच्छं तदर्थं शिखरं भवेत्
viṃśatyaṅgulavistāraṃ tridaśāṅgulamāyatam 11 | vistāreṇa samaṃ pucchaṃ tadarthaṃ śikharaṃ bhavet
20.56
ध्वजमध्ये लिखेद्धीमान्दिग्गजांश्च विशेषतः । ऐरावतं पुण्डरीकं पुष्पदन्तं तु कौमुदम्
dhvajamadhye likheddhīmāndiggajāṃśca viśeṣataḥ | airāvataṃ puṇḍarīkaṃ puṣpadantaṃ tu kaumudam
20.57
अञ्जनं वामनं चैव सुप्रदीपं च सर्वकम् । दर्भमालाभिरावृत्य समन्तान्मण्डपं ततः
añjanaṃ vāmanaṃ caiva supradīpaṃ ca sarvakam | darbhamālābhirāvṛtya samantānmaṇḍapaṃ tataḥ
20.58
पञ्चदर्भैस्तु संयोज्यं हस्तमात्रं प्रलम्बकम् । पर्वे पर्वे तु संयोज्य रज्जुं कुर्यान्मनोरमम्
pañcadarbhaistu saṃyojyaṃ hastamātraṃ pralambakam | parve parve tu saṃyojya rajjuṃ kuryānmanoramam
Chapter 20 — ३.५. उपवेदीलक्षणम्
20.59
मङ्गलाष्टकरूपाणि उपवेद्युपरि न्यसेत्। द्वादशाङ्गुलमायामं विस्तारं स्यात्तदर्धकम्
maṅgalāṣṭakarūpāṇi upavedyupari nyaset| dvādaśāṅgulamāyāmaṃ vistāraṃ syāttadardhakam
20.60
अधस्तात्पद्मपीठं स्याच्चतुरङ्गुलमानतः। तन्मध्यमे लिखेद्धीमान्दर्पणं पूर्णकुम्भकम्
adhastātpadmapīṭhaṃ syāccaturaṅgulamānataḥ| tanmadhyame likheddhīmāndarpaṇaṃ pūrṇakumbhakam
20.61
वृषभं भेरीमत्स्यं च श्रीवत्सं वज्रदीपकम् । सुवस्त्रपट्टदेवाङ्गैर्मुक्तादामैर्विभूषयेत्
vṛṣabhaṃ bherīmatsyaṃ ca śrīvatsaṃ vajradīpakam | suvastrapaṭṭadevāṅgairmuktādāmairvibhūṣayet
Chapter 20 — ४.१. लक्षणोद्धारमण्डपम्
20.62
मण्डपस्योत्तरे पार्श्वे लक्षणोद्धारणाय च । मण्डपं कारयेद्धीमान्पूर्वोक्तार्थमनुस्मरन्
maṇḍapasyottare pārśve lakṣaṇoddhāraṇāya ca | maṇḍapaṃ kārayeddhīmānpūrvoktārthamanusmaran
20.63
१°तन्मध्ये वेदिकां कुर्याल्लिङ्गायामप्रमाणतः। तालमात्रं समुत्सेधं दर्पणोदरसंनिभम् ११
1°tanmadhye vedikāṃ kuryālliṅgāyāmapramāṇataḥ| tālamātraṃ samutsedhaṃ darpaṇodarasaṃnibham 11
Chapter 20 — ४.२. लिङ्गशुद्धिरधिवासश्च
20.66
संयतः शिल्पिभिः सार्धं गच्छेत्कर्मकुटीं बुधः ५
saṃyataḥ śilpibhiḥ sārdhaṃ gacchetkarmakuṭīṃ budhaḥ 5
20.67
लिङ्गं प्रक्षालयेद्धीमानष्टमृत्सलिलेन तु । पञ्चगव्यैः कषायैश्च स्नापयेद्गन्धतोयकैः
liṅgaṃ prakṣālayeddhīmānaṣṭamṛtsalilena tu | pañcagavyaiḥ kaṣāyaiśca snāpayedgandhatoyakaiḥ
20.68
रक्तवस्त्रेण संवेष्ट्य दर्भैः पुष्पैर्विचक्षणः । पिण्डिकां स्थापयेत्तत्र ह्युमाबीजमनुस्मरन्
raktavastreṇa saṃveṣṭya darbhaiḥ puṣpairvicakṣaṇaḥ | piṇḍikāṃ sthāpayettatra hyumābījamanusmaran
20.69
रथं संपूज्य गन्धाद्यैरलंकृत्य विशेषतः ७ तस्मिन्नारोपयेल्लिङ्गं सर्वातोद्यसमन्वितम्
rathaṃ saṃpūjya gandhādyairalaṃkṛtya viśeṣataḥ 7 tasminnāropayelliṅgaṃ sarvātodyasamanvitam
20.70
लक्षणोद्धारणार्थाय नयेदुत्तरमण्डपे । स्थण्डिलं कारयेद्विद्वान्शालिभिस्तण्डुलैः सह
lakṣaṇoddhāraṇārthāya nayeduttaramaṇḍape | sthaṇḍilaṃ kārayedvidvānśālibhistaṇḍulaiḥ saha
20.71
तिलदर्भैः परिस्तीर्य लिङ्गं तत्रैव शाययेत् । प्राक्शिरस्कं शयित्वा तु परितोऽष्टघटान्यसेत्
tiladarbhaiḥ paristīrya liṅgaṃ tatraiva śāyayet | prākśiraskaṃ śayitvā tu parito'ṣṭaghaṭānyaset
20.72
सकूर्चान्सापिधानांश्च सवस्त्रान्वारिपूरितान्१° । लोकपालाधिदैवत्यान्पूजयेत्स्वस्वनामतः
sakūrcānsāpidhānāṃśca savastrānvāripūritān1° | lokapālādhidaivatyānpūjayetsvasvanāmataḥ
20.73
लिङ्गमूले न्यसेत्पीठं पीतवस्त्रेण वेष्टयेत् ११ । वेदिकायास्तु पूर्वस्यां स्थण्डिले होममाचरेत् १२
liṅgamūle nyasetpīṭhaṃ pītavastreṇa veṣṭayet 11 | vedikāyāstu pūrvasyāṃ sthaṇḍile homamācaret 12
20.74
आपो राजेति मन्त्रेण इदं विष्विति मन्त्रतः १ ब्रह्मजज्ञानमन्त्रेण घृतेनाष्टशतं हुनेत्
āpo rājeti mantreṇa idaṃ viṣviti mantrataḥ 1 brahmajajñānamantreṇa ghṛtenāṣṭaśataṃ hunet
20.75
पृथगष्टशतं हुत्वा स्विष्टान्तं हि समाचरेत् । अधिवसेदेव रात्रौ लिङ्गे कौतुकमाचरेत्
pṛthagaṣṭaśataṃ hutvā sviṣṭāntaṃ hi samācaret | adhivasedeva rātrau liṅge kautukamācaret
20
पूजाभागे हृदा बध्वा कौतुकं शिल्पिने ददेत्
pūjābhāge hṛdā badhvā kautukaṃ śilpine dadet
Chapter 20 — ४.३. सूत्रवर्तनम्
20.76
प्रभाते सुमुहूर्ते तु लक्षणोद्धारणं कुरु
prabhāte sumuhūrte tu lakṣaṇoddhāraṇaṃ kuru
20.77
पायसं घृतसंयुक्तं शिरःस्थाने बलिं ददेत्। मुद्गान्नं घृतसंयुक्तं दध्यन्नं गुलसंयुतम्
pāyasaṃ ghṛtasaṃyuktaṃ śiraḥsthāne baliṃ dadet| mudgānnaṃ ghṛtasaṃyuktaṃ dadhyannaṃ gulasaṃyutam
Chapter 20 — ४.३.१. रेखामानम्
20.78
लिङ्गमानप्रमाणेन रेखाविस्तारमुच्यते' । पूजाभागोच्छ्रयं सर्वं भज्य षण्णवतिक्रमात्
liṅgamānapramāṇena rekhāvistāramucyate' | pūjābhāgocchrayaṃ sarvaṃ bhajya ṣaṇṇavatikramāt
20.79
एकभागं यवं विद्यात्तन्मानं सूत्रविस्तृतम् १° । अस्मादन्यप्रकारेण वक्ष्यते विधिनाऽधुना ११
ekabhāgaṃ yavaṃ vidyāttanmānaṃ sūtravistṛtam 1° | asmādanyaprakāreṇa vakṣyate vidhinā'dhunā 11
20.80
उत्तमोत्तमलिङ्गस्य सूत्रं च यवकं भवेत् १ २ । शेषाणां चैव लिङ्गानां यवार्धं प्रतिवर्धयेत् १३
uttamottamaliṅgasya sūtraṃ ca yavakaṃ bhavet 1 2 | śeṣāṇāṃ caiva liṅgānāṃ yavārdhaṃ prativardhayet 13
20
सूत्रविस्तारमेवं स्यात्खातं तन्मानमेव च
sūtravistāramevaṃ syātkhātaṃ tanmānameva ca
Chapter 20 — ४.३.२. रेखालेखनम्
20.81
कन्यावर्तितसूत्रेण घटिकापूजितेन तु
kanyāvartitasūtreṇa ghaṭikāpūjitena tu
20.82
विष्कम्भं मध्यमं कृत्वा तत्र सूचीं विनिक्षिपेत् । भ्रामयेत्तु शिरस्सूत्रं मस्तकान्तं विचक्षणः
viṣkambhaṃ madhyamaṃ kṛtvā tatra sūcīṃ vinikṣipet | bhrāmayettu śirassūtraṃ mastakāntaṃ vicakṣaṇaḥ
20.84
नागोष्ठेन नलोष्टेन नवाङ्गारेण वञ्चना । ब्रह्मभागं चतुर्दिक्षु मध्यं ज्ञात्वा विशेषत: ५ अष्टाश्रं मध्यमं कृत्वा गैरिकाक्तेन पातयेत् । ब्रह्मभागं समारभ्य यावल्लिङ्गस्य मस्तकम्
nāgoṣṭhena naloṣṭena navāṅgāreṇa vañcanā | brahmabhāgaṃ caturdikṣu madhyaṃ jñātvā viśeṣata: 5 aṣṭāśraṃ madhyamaṃ kṛtvā gairikāktena pātayet | brahmabhāgaṃ samārabhya yāvalliṅgasya mastakam
20.85
ततश्चास्फोटयेन्मध्ये रेखा सा मध्यमा स्मृता । रेखा लेखान्तरं लक्ष्य ततः सूत्रं समालिखेत्
tataścāsphoṭayenmadhye rekhā sā madhyamā smṛtā | rekhā lekhāntaraṃ lakṣya tataḥ sūtraṃ samālikhet
20.86
++++++++उभयोः पार्श्वयोरपि १० सूत्रमास्फालयेद्विद्वानष्टादशयवान्तरम्
++++++++ubhayoḥ pārśvayorapi 10 sūtramāsphālayedvidvānaṣṭādaśayavāntaram
20.87
तयोरन्तरमानेन चतुर्दिक्षु च लेखयेत्। अष्टाश्रं हि समारभ्य रन्ध्रभागे तु लक्षयेत्
tayorantaramānena caturdikṣu ca lekhayet| aṣṭāśraṃ hi samārabhya randhrabhāge tu lakṣayet
20.88
मुखभागस्य तन्मध्ये नालं कुर्यात्सलक्षणम् १२ 1 यवत्रयान्तरं नालं सूत्रं स्यादुभयोरपि
mukhabhāgasya tanmadhye nālaṃ kuryātsalakṣaṇam 12 1 yavatrayāntaraṃ nālaṃ sūtraṃ syādubhayorapi
20.89
दृढसूत्राविति ज्ञेयौ सीमायाश्च बहिः स्थितौ १४ । विस्तारं यवमात्रं स्यात्खातं वै तत्प्रमाणतः
dṛḍhasūtrāviti jñeyau sīmāyāśca bahiḥ sthitau 14 | vistāraṃ yavamātraṃ syātkhātaṃ vai tatpramāṇataḥ
Chapter 20 — ४.३.३. प्रथमलक्षणम्
20.90
पूजाभागं त्रिधा कृत्वा द्विभागे लक्षणं भवेत् । द्विभागं दशधा कृत्वा मुकुलं चैकभागिकम्
pūjābhāgaṃ tridhā kṛtvā dvibhāge lakṣaṇaṃ bhavet | dvibhāgaṃ daśadhā kṛtvā mukulaṃ caikabhāgikam
20.91
विस्तारं तत्प्रमाणं स्यादधिकं स्याद्यवद्वयम् । क्रमेण कृशतां कृत्वा मुकुलाग्रं तु सन्धयेत्
vistāraṃ tatpramāṇaṃ syādadhikaṃ syādyavadvayam | krameṇa kṛśatāṃ kṛtvā mukulāgraṃ tu sandhayet
20.92
तयोरेव दृढं सूत्रमष्टांशं नालदैर्घ्यकम् । मुकुलमूलादारभ्य यावद्विन्दुविलक्षितम्
tayoreva dṛḍhaṃ sūtramaṣṭāṃśaṃ nāladairghyakam | mukulamūlādārabhya yāvadvinduvilakṣitam
20.93
तयोः संगमनं कुर्यादुभयोः पार्श्वयोरपि । बिन्दोरेतद्गतं सूत्रं यावत्पृष्ठान्तगोचरम् ७
tayoḥ saṃgamanaṃ kuryādubhayoḥ pārśvayorapi | bindoretadgataṃ sūtraṃ yāvatpṛṣṭhāntagocaram 7
20.94
दृढसूत्राविमौ ज्ञेयौ मणिरेखाविति स्मृतौ“ । प्रथमं लक्षणं प्रोक्तं द्वितीयं लक्षणं शृणु
dṛḍhasūtrāvimau jñeyau maṇirekhāviti smṛtau“ | prathamaṃ lakṣaṇaṃ proktaṃ dvitīyaṃ lakṣaṇaṃ śṛṇu
Chapter 20 — ४.३.४. द्वितीयलक्षणम्
20.95
पूजाभागसमस्तं तु भज्य षोडशधा पुनः अधोभागद्वयं त्यक्त्वा चोर्ध्वे चत्वारि संत्यजेत्
pūjābhāgasamastaṃ tu bhajya ṣoḍaśadhā punaḥ adhobhāgadvayaṃ tyaktvā cordhve catvāri saṃtyajet
20.96
मुकुलं चैकभागं स्यान्नवकं नालमेव च। सव्यापसव्यसूत्रौ तु पूर्ववल्लेखयेद्बुधः ११
mukulaṃ caikabhāgaṃ syānnavakaṃ nālameva ca| savyāpasavyasūtrau tu pūrvavallekhayedbudhaḥ 11
Chapter 20 — ४.३.५. तृतीयलक्षणम्
20.97
पूजाभागसमस्तं तु भज्य द्वादशधा पुनः ऊर्ध्वे भागत्रयं त्यक्त्वा भागमेकमधस्त्यजेत्
pūjābhāgasamastaṃ tu bhajya dvādaśadhā punaḥ ūrdhve bhāgatrayaṃ tyaktvā bhāgamekamadhastyajet
Chapter 20 — ४.३.६. तुरीयलक्षणम्
20.99
पूजाभागं त्रिधा कृत्वा एकैकं तु त्रिधा भवेत्
pūjābhāgaṃ tridhā kṛtvā ekaikaṃ tu tridhā bhavet
20.100
ऊर्ध्वभागद्वयं कृत्वा भागमेकमधस्त्यजेत् ? । शेषं तु पूर्ववत्कार्यं सर्वशास्त्रविशारदैः
ūrdhvabhāgadvayaṃ kṛtvā bhāgamekamadhastyajet ? | śeṣaṃ tu pūrvavatkāryaṃ sarvaśāstraviśāradaiḥ
Chapter 20 — ४.३.७. मुकुलाकारः (?)
20.101
पद्माभं मुकुलाभं वा खड्गाकारं त्रिकोणकम् । करिनेत्रोपमं कार्यं करपुटाकृतिं तु वा
padmābhaṃ mukulābhaṃ vā khaḍgākāraṃ trikoṇakam | karinetropamaṃ kāryaṃ karapuṭākṛtiṃ tu vā
20.102
छत्राकारं त्रिशलाभं लिङ्गाकारमथापि वा । दृढसूत्रं समालिख्य धनुसूत्रं प्रमार्जयेत्
chatrākāraṃ triśalābhaṃ liṅgākāramathāpi vā | dṛḍhasūtraṃ samālikhya dhanusūtraṃ pramārjayet
Chapter 20 — ४.३.८. सूत्रलेखनम्
20.103
नालं वै रुद्रदैवत्यं वामरेखा त वैष्णवी ६ दक्षिणे ब्रह्मरेखा स्यात्त्रिसूत्रस्याधिदेवताः ७
nālaṃ vai rudradaivatyaṃ vāmarekhā ta vaiṣṇavī 6 dakṣiṇe brahmarekhā syāttrisūtrasyādhidevatāḥ 7
20.104
हेमसूच्या लिखेद्विद्वान्तत्तन्मन्त्रमुदाहरन्“ । आपो राजेति मन्त्रेण नालसूत्रद्वयं लिखेत्
hemasūcyā likhedvidvāntattanmantramudāharan“ | āpo rājeti mantreṇa nālasūtradvayaṃ likhet
20.105
इदं विष्ण्विति मन्त्रेण विष्णुरेखां समालिखेत्। ब्रह्मजज्ञानमन्त्रेण ब्रह्मरेखां समालिखेत्
idaṃ viṣṇviti mantreṇa viṣṇurekhāṃ samālikhet| brahmajajñānamantreṇa brahmarekhāṃ samālikhet
20.106
न कृशा न च विस्तीर्णा न वक्रा न च खण्डिता । न निम्ना न समा ऋज्वी सहजा इव संस्थिता१°
na kṛśā na ca vistīrṇā na vakrā na ca khaṇḍitā | na nimnā na samā ṛjvī sahajā iva saṃsthitā1°
Chapter 20 — ४.३.९. तर्पणम्
20.107
मधुना तर्पयेद्धीमान्मधुवातेति मन्त्रतः घृतं मिमिक्षेति मन्त्रेण तर्पयेद्वै घृतेन तु
madhunā tarpayeddhīmānmadhuvāteti mantrataḥ ghṛtaṃ mimikṣeti mantreṇa tarpayedvai ghṛtena tu
20.108
ततः शय्यां शलाकां च हेमसूचीमथान्यकम् । तत्सर्वं शिल्पिने दत्त्वा ततः स्नानं समारभेत्
tataḥ śayyāṃ śalākāṃ ca hemasūcīmathānyakam | tatsarvaṃ śilpine dattvā tataḥ snānaṃ samārabhet
Chapter 20 — ५.१. लिङ्गस्नानम्
20.109
स्नानश्वभ्रे न्यसेत्पीठं यथाविभवशक्तितः ५ हेमं वा रजतं ताम्रं कौशेयं दारुजं तथा
snānaśvabhre nyasetpīṭhaṃ yathāvibhavaśaktitaḥ 5 hemaṃ vā rajataṃ tāmraṃ kauśeyaṃ dārujaṃ tathā
20.110
तस्मिल्लिङ्गं समारोप्य आचार्यो मूर्तिपैः सह । नृत्तगेयसमायुक्तं सर्वातोद्यसमन्वितम्
tasmilliṅgaṃ samāropya ācāryo mūrtipaiḥ saha | nṛttageyasamāyuktaṃ sarvātodyasamanvitam
20.111
अर्घ्यं दत्वा तु शिरसि स्नाप्य गन्धोदकेन तु । सकलीकृत्य मतिमान्पञ्चगव्यकुशोदकैः ८
arghyaṃ datvā tu śirasi snāpya gandhodakena tu | sakalīkṛtya matimānpañcagavyakuśodakaiḥ 8
20.113
पञ्चब्रह्म समुच्चार्य स्नाप्य लिङ्गं कषायकैः ९ । भस्मना चाष्टमृद्भिश्च उदकैः शकृता पुनः एतान्विन्द्रेति मन्त्रेण शुद्धतोयेन सेचयेत् । यवगोधूमचूर्णैश्च हरिद्रातिलचूर्णकैः
pañcabrahma samuccārya snāpya liṅgaṃ kaṣāyakaiḥ 9 | bhasmanā cāṣṭamṛdbhiśca udakaiḥ śakṛtā punaḥ etānvindreti mantreṇa śuddhatoyena secayet | yavagodhūmacūrṇaiśca haridrātilacūrṇakaiḥ
20.112
पत्रतोयेन संस्नाप्य पवमानमुदीरयन्
patratoyena saṃsnāpya pavamānamudīrayan
20.114
पाद्यमाचमनं चार्घ्यं वक्तमन्त्रेण दापयेत्
pādyamācamanaṃ cārghyaṃ vaktamantreṇa dāpayet
Chapter 20 — ५.२. जलाधिवासः
20.117
आरोप्य मूर्तिपैः सार्धं रथे लिङ्गं तु देशिकः। पिण्डिकां तु समारोप्य प्रवेश्याथ जलाशयम्
āropya mūrtipaiḥ sārdhaṃ rathe liṅgaṃ tu deśikaḥ| piṇḍikāṃ tu samāropya praveśyātha jalāśayam
20.118
जलमध्ये प्रपां कृत्वा वितानध्वजभूषितम्। दर्भमालासमायुक्तं पुष्पदामप्रलम्बितम्
jalamadhye prapāṃ kṛtvā vitānadhvajabhūṣitam| darbhamālāsamāyuktaṃ puṣpadāmapralambitam
20.119
चतुर्गात्रस्य मध्ये तु प्राक्शिरस्कं तु शाययेत्। नृत्तगेयसुवाद्यं च सदा कालं समाचरेत्
caturgātrasya madhye tu prākśiraskaṃ tu śāyayet| nṛttageyasuvādyaṃ ca sadā kālaṃ samācaret
20
एकरात्रं द्विरात्रं वा त्रिरात्रं वा जलोषितम्
ekarātraṃ dvirātraṃ vā trirātraṃ vā jaloṣitam
Chapter 20 — ५.३. स्नानं वेष्टनं च
20.120
आरोप्य सुदिने पश्चात्स्नानवेद्युपरि न्यसेत्
āropya sudine paścātsnānavedyupari nyaset
20.121
कृत्वा तु पूर्ववच्छुद्धिं पिण्डिकासहितं बुधः । रक्तवस्त्रेण संवेष्ट्य लिङ्गमामस्तकान्तकम्
kṛtvā tu pūrvavacchuddhiṃ piṇḍikāsahitaṃ budhaḥ | raktavastreṇa saṃveṣṭya liṅgamāmastakāntakam
20
पीठं च वेष्टयित्वा त स्यन्दने स्थाप्य देशिकः
pīṭhaṃ ca veṣṭayitvā ta syandane sthāpya deśikaḥ
Chapter 20 — ६. यागमण्डपेऽधिवासः
20.122
आलयं त परिभ्राम्य नयेन्मण्डपमध्यतः
ālayaṃ ta paribhrāmya nayenmaṇḍapamadhyataḥ
Chapter 20 — ६.१. स्थण्डिलविन्यासः
20.123
पर्यग्निकरणं कृत्वा पुण्याहं तत्र कारयेत्' । । स्थण्डिलं कारयेद्वेद्यामष्टद्रोणैश्च शालिभिः १०
paryagnikaraṇaṃ kṛtvā puṇyāhaṃ tatra kārayet' | | sthaṇḍilaṃ kārayedvedyāmaṣṭadroṇaiśca śālibhiḥ 10
20.124
तदर्धेस्तण्डुलैर्भूष्य तदर्धैश्च तिलैरपि । मध्यमे पद्ममालिख्य दलाष्टकसमन्वितम्
tadardhestaṇḍulairbhūṣya tadardhaiśca tilairapi | madhyame padmamālikhya dalāṣṭakasamanvitam
20
नवशक्तिं तु तत्रैव पूज्य गन्धादिना पुनः २
navaśaktiṃ tu tatraiva pūjya gandhādinā punaḥ 2
Chapter 20 — ६.२. शयनविन्यासः
20.125
दर्भैश्च संपरिस्तीर्य तिललाजसमन्वितम्
darbhaiśca saṃparistīrya tilalājasamanvitam
20.126
पूर्वाग्रमुत्तराग्रं च स्थण्डिलोपरि विन्यसेत् । चर्मजं रोमजं चैव मुण्डजं चाण्डजं क्रमात्
pūrvāgramuttarāgraṃ ca sthaṇḍilopari vinyaset | carmajaṃ romajaṃ caiva muṇḍajaṃ cāṇḍajaṃ kramāt
20.127
उपर्युपरि विन्यस्य यथा च परिपूरणम् । उमागायत्रिमन्त्रेण शयनं पूजयेद्बुधः
uparyupari vinyasya yathā ca paripūraṇam | umāgāyatrimantreṇa śayanaṃ pūjayedbudhaḥ
20.128
लिङ्गं तु प्राङ्मुखं कृत्वा ब्रह्माङ्गानि कला न्यसेत्। त्रितत्त्वं विन्यसेत्पश्चात्त्रितत्त्वं हृदयैरपि
liṅgaṃ tu prāṅmukhaṃ kṛtvā brahmāṅgāni kalā nyaset| tritattvaṃ vinyasetpaścāttritattvaṃ hṛdayairapi
20.129
मूर्तिवक्त्राणि नेत्राणि विद्याङ्गानि च विन्यसेत् । प्राक्शिरस्कमधःसूत्रं शयने शाययेच्छिवम्
mūrtivaktrāṇi netrāṇi vidyāṅgāni ca vinyaset | prākśiraskamadhaḥsūtraṃ śayane śāyayecchivam
20.130
सद्योमन्त्रेण चावाह्य स्थापयेद्वाममन्त्रतः । ९ स्वागतं वामदेवेन पाद्यार्घ्यं हृदयेन तु
sadyomantreṇa cāvāhya sthāpayedvāmamantrataḥ | 9 svāgataṃ vāmadevena pādyārghyaṃ hṛdayena tu
20
अघोरेण तु सांनिध्यं संमुखं पुरुषेण तु१°
aghoreṇa tu sāṃnidhyaṃ saṃmukhaṃ puruṣeṇa tu1°