Books / Dīptāgama, Tome I (Chapters 1–21) — Sanskrit Text

2. Dīptāgama Tome I (part 2 of 13)

Chapter 2 — १. उपपीठसामान्यलक्षणम्

2.1

रक्षार्थं शोभनार्थं च उत्सेधार्थं प्रकल्पयेत्

rakṣārthaṃ śobhanārthaṃ ca utsedhārthaṃ prakalpayet


2.2

अधिष्ठानस्य चाधस्तादुपपीठं प्रकल्पयेत् । अधिष्ठानस्य यद्रूपं तद्रूपं चोपपीठकम्

adhiṣṭhānasya cādhastādupapīṭhaṃ prakalpayet | adhiṣṭhānasya yadrūpaṃ tadrūpaṃ copapīṭhakam


2.3

दण्डार्धं वाथ दण्डं वा समं वा विस्तृतं भवेत्" । भद्रं वा प्रतिभद्रं वा सभद्रं च त्रिधा मतम्

daṇḍārdhaṃ vātha daṇḍaṃ vā samaṃ vā vistṛtaṃ bhavet" | bhadraṃ vā pratibhadraṃ vā sabhadraṃ ca tridhā matam


2.4

तेषामुत्सेधमुच्यते अधिष्ठानस्य मानतः १० समं त्रिपादमर्धं वा पञ्चांशं शमेव वा ११

teṣāmutsedhamucyate adhiṣṭhānasya mānataḥ 10 samaṃ tripādamardhaṃ vā pañcāṃśaṃ śameva vā 11


2.5

उपपीठस्य चोत्सेधं विभज्य दशधा पुनः १२ 1 अर्धार्धांशेन वर्धन्ते पञ्चभागान्तविस्तृतम्

upapīṭhasya cotsedhaṃ vibhajya daśadhā punaḥ 12 1 ardhārdhāṃśena vardhante pañcabhāgāntavistṛtam


2.6

होमाद्वाह्ये न कर्तव्यमावृतं चोपपीठकम् । तावदुत्सेधमर्धं वा त्रिपादं वा तदुच्छ्रयम्

homādvāhye na kartavyamāvṛtaṃ copapīṭhakam | tāvadutsedhamardhaṃ vā tripādaṃ vā taducchrayam


2.7

प्रथमं फलकां कल्प्य ततोपर्युपपीठकम् । उपपीठोत्तरे होमः स्वाधिष्ठानं तदुच्यते

prathamaṃ phalakāṃ kalpya tatoparyupapīṭhakam | upapīṭhottare homaḥ svādhiṣṭhānaṃ taducyate


2.8

अभावे ह्युपपीठस्य स्वहोमाद्यापि अलंकृतम् । उपानोपर्यधिष्ठानं स्तम्भं तत्रैव कारयेत्

abhāve hyupapīṭhasya svahomādyāpi alaṃkṛtam | upānoparyadhiṣṭhānaṃ stambhaṃ tatraiva kārayet

Chapter 2 — २.१. प्रथमं वेदिभद्रम्

2.10

तत्रोपपीठस्योत्सेधमष्टभागैर्विभाजयेत् । अर्धेनैवोर्ध्वकम्पं च अंशेनोर्ध्वाम्बुजं भवेत् ११

tatropapīṭhasyotsedhamaṣṭabhāgairvibhājayet | ardhenaivordhvakampaṃ ca aṃśenordhvāmbujaṃ bhavet 11


2

अध्यर्धं पट्टिकोत्सेधं वेदिभद्रं प्रशस्यते १२

adhyardhaṃ paṭṭikotsedhaṃ vedibhadraṃ praśasyate 12

Chapter 3 — Text

3.11

उपपीठस्य मानं तु विभजेत्षोडशांशकैः १

upapīṭhasya mānaṃ tu vibhajetṣoḍaśāṃśakaiḥ 1


3.12

२ भागेनोपानमुत्सेधं द्विभागेनाम्बुजं भवेत् । एकेनोपरिवेत्रं च एकेनोपरिकेसरम्

2 bhāgenopānamutsedhaṃ dvibhāgenāmbujaṃ bhavet | ekenoparivetraṃ ca ekenoparikesaram


3

महापट्टिद्वयांशेन द्विविधं वेदिभद्रकम् । अर्पिते नार्पिते वापि सर्वत्र परिकल्पयेत्। ॥ इति श्रीदीप्तागमे प्रतिष्ठातन्त्रे उपपीठो नाम [तृतीयः] पटलः२॥ पटलः

mahāpaṭṭidvayāṃśena dvividhaṃ vedibhadrakam | arpite nārpite vāpi sarvatra parikalpayet| || iti śrīdīptāgame pratiṣṭhātantre upapīṭho nāma [tṛtīyaḥ] paṭalaḥ2|| paṭalaḥ

Chapter 3 — २.३. प्रतिभद्रम्

3.13

उपपीठोच्छ्रयं यावत्सप्तविंशतिभाजितम्

upapīṭhocchrayaṃ yāvatsaptaviṃśatibhājitam


3.14

“द्व्यंशेनोपानमुत्सेधं पद्मं कुर्याद्द्वयांशतः ७ अंशेन पट्टिकोत्सेधं पादोच्चं द्वादशांशकम्

“dvyaṃśenopānamutsedhaṃ padmaṃ kuryāddvayāṃśataḥ 7 aṃśena paṭṭikotsedhaṃ pādoccaṃ dvādaśāṃśakam


3.15

एकांशमुत्तरोत्सेधमेकांशं तीव्रपट्टिका' । पादोच्चं तु चतुर्भागं त्रिपादे लिङ्गपट्टिका'

ekāṃśamuttarotsedhamekāṃśaṃ tīvrapaṭṭikā' | pādoccaṃ tu caturbhāgaṃ tripāde liṅgapaṭṭikā'


3.16

११ १°त्रिपादान्तरितोत्सेधं द्वयंशं प्रत्युच्छ्रयं भवेत्। अर्धेन वाजनं कुर्यात्प्रतिभद्रं सुखावहम् ११

11 1°tripādāntaritotsedhaṃ dvayaṃśaṃ pratyucchrayaṃ bhavet| ardhena vājanaṃ kuryātpratibhadraṃ sukhāvaham 11

Chapter 3 — २.४. सर्वभद्रम्

3.17

उपपीठस्य चोत्सेधं त्रयस्त्रिंशतिभाजितम् । पादुकां तु त्रिभागोच्चं जन्मोच्चं त्रिभिरंशकैः ३

upapīṭhasya cotsedhaṃ trayastriṃśatibhājitam | pādukāṃ tu tribhāgoccaṃ janmoccaṃ tribhiraṃśakaiḥ 3


3.18

पद्ममंशमथांशेन कण्ठमानं प्रकीर्तितम् । महापट्टिद्वयांशेन अर्धांशेनोर्ध्वपट्टिका

padmamaṃśamathāṃśena kaṇṭhamānaṃ prakīrtitam | mahāpaṭṭidvayāṃśena ardhāṃśenordhvapaṭṭikā


3.19

६ उत्सेधं तु द्विरष्टांशमुत्तरार्धकमेव च । एकेन पद्मपट्टी च कपोतोच्चद्वयांशतः

6 utsedhaṃ tu dviraṣṭāṃśamuttarārdhakameva ca | ekena padmapaṭṭī ca kapotoccadvayāṃśataḥ


3

“त्रिभागेनोर्ध्वपट्टी च सर्वभद्रं प्रकीर्तितम्'

“tribhāgenordhvapaṭṭī ca sarvabhadraṃ prakīrtitam'

Chapter 3 — ३. पुनः सामान्यलक्षणम्

3.20

गलं पादसमायुक्तं युग्मपादैर्विचित्रितम् १°

galaṃ pādasamāyuktaṃ yugmapādairvicitritam 1°


3.21

पादयोरन्तरं विद्याच्चतुरष्टाङ्गलान्तकम् १२ । सिंहव्यालमृगैर्भूतैर्नानारूपविचित्रितम्

pādayorantaraṃ vidyāccaturaṣṭāṅgalāntakam 12 | siṃhavyālamṛgairbhūtairnānārūpavicitritam

Chapter 3 — १. गर्भप्रशस्तिः

3.1

[चतुर्थः पटलः] गर्भविन्यासविधिः | अथातः संप्रवक्ष्यामि गर्भविन्यासलक्षणम्। आलये विन्यसेद्धीमान्गर्भमन्त्रेण मन्त्रितम्

[caturthaḥ paṭalaḥ] garbhavinyāsavidhiḥ | athātaḥ saṃpravakṣyāmi garbhavinyāsalakṣaṇam| ālaye vinyaseddhīmāngarbhamantreṇa mantritam


3.2

यद्वास्तु गर्भसंयुक्तं कुरुते सर्वसंपदम् । सर्ववास्तुक्रियाकाले तद्गर्भं जीवमुच्यते

yadvāstu garbhasaṃyuktaṃ kurute sarvasaṃpadam | sarvavāstukriyākāle tadgarbhaṃ jīvamucyate


3

तस्मादादौ न्यसेद्गर्भं सर्वगर्भशमित्रयम्

tasmādādau nyasedgarbhaṃ sarvagarbhaśamitrayam

Chapter 3 — २. प्रासादादिगर्भस्थानम्

3.3

६ प्रासादस्य तु मूले तु न्यस्तव्याः प्रथमेष्टकाः ७

6 prāsādasya tu mūle tu nyastavyāḥ prathameṣṭakāḥ 7


3.4

पादबन्धविमाने तु तद्धोमोपरि विन्यसेत्। “प्रतिबन्धे तु यद्धर्म्ये वृतेरुपरि विन्यसेत्

pādabandhavimāne tu taddhomopari vinyaset| “pratibandhe tu yaddharmye vṛterupari vinyaset


3.5

१°सर्वेषां भुगतं कार्यं सर्वसिद्धिकरं परम् ११ प्रासादे मण्डपे चैव प्राकारे गोपुरेऽथवा

1°sarveṣāṃ bhugataṃ kāryaṃ sarvasiddhikaraṃ param 11 prāsāde maṇḍape caiva prākāre gopure'thavā


3.6

पाकशालापुष्पशालास्वापस्थानेषु विन्यसेत् । प्रासादस्य तु यद्गर्भं तत्स्थानं वक्ष्यतेऽधुना

pākaśālāpuṣpaśālāsvāpasthāneṣu vinyaset | prāsādasya tu yadgarbhaṃ tatsthānaṃ vakṣyate'dhunā


3

द्वारदक्षिणपार्श्वस्थस्तम्भमूले तु विन्यसेत् ? । कवाटार्गलयोगे वा विन्यसेत्तु विशेषतः ३

dvāradakṣiṇapārśvasthastambhamūle tu vinyaset ? | kavāṭārgalayoge vā vinyasettu viśeṣataḥ 3

Chapter 3 — ३.१. फेलाद्रव्यम्

3.8

सौवर्णे राजते वापि ताम्रे वा कांस्यके ऽपि अथवा संभवद्द्रव्यैः कारयेद्गर्भभाजनम्

sauvarṇe rājate vāpi tāmre vā kāṃsyake 'pi athavā saṃbhavaddravyaiḥ kārayedgarbhabhājanam

Chapter 3 — ३.२. फेलामानम्

3.9

भाजनस्य तु विस्तारं पञ्चधा परिकीर्तितम्। हस्तं वापि वितस्तिं वा दश वाष्टाङ्गुलं तु वा

bhājanasya tu vistāraṃ pañcadhā parikīrtitam| hastaṃ vāpi vitastiṃ vā daśa vāṣṭāṅgulaṃ tu vā


3

स्तम्भविस्तारमानं वा उत्सेधं तावदेव तु

stambhavistāramānaṃ vā utsedhaṃ tāvadeva tu

Chapter 3 — ३.३. फेलाकृतिः

3.10

वृत्तं वा चतुरश्रं वा गर्भफेलां तु कारयेत्

vṛttaṃ vā caturaśraṃ vā garbhaphelāṃ tu kārayet


3.11

१°फेलोत्सेधं त्रिधा कृत्वा द्विभागं भाजनं भवेत्। भागं पिधानमेवं स्याद्यवमानं त्रिविस्तृतम् ११

1°phelotsedhaṃ tridhā kṛtvā dvibhāgaṃ bhājanaṃ bhavet| bhāgaṃ pidhānamevaṃ syādyavamānaṃ trivistṛtam 11


3

पञ्चविंशतिकोष्ठानि फेलामध्ये प्रकल्पयेत्

pañcaviṃśatikoṣṭhāni phelāmadhye prakalpayet

Chapter 4 — ४.१. अक्षरादिन्यासः

4.12

मध्यकोष्ठे न्यसेत्कूटं बिन्दुनादसमायुतम्

madhyakoṣṭhe nyasetkūṭaṃ bindunādasamāyutam


4.13

पूर्वाद्यष्टसु कोष्ठेषु यकाराद्यष्टकं न्यसेत् ? । प्रागादिषोडशकोष्ठेषु स्वरान्षोडश विन्यसेत्

pūrvādyaṣṭasu koṣṭheṣu yakārādyaṣṭakaṃ nyaset ? | prāgādiṣoḍaśakoṣṭheṣu svarānṣoḍaśa vinyaset


4.14

रत्नलोहायुधान् धातून्फेलामध्ये तु विन्यसेत् । *मृत्कन्दबीजसर्वांश्च गर्भगर्ते तु विन्यसेत्

*ratnalohāyudhān dhātūnphelāmadhye tu vinyaset | mṛtkandabījasarvāṃśca garbhagarte tu vinyaset

Chapter 4 — ४.२. रत्नन्यासः

4.15

फेलाशुद्धिं ततः कृत्वा रत्नं मन्त्रैर्विनिक्षिपेत्' । माणिक्यं विन्यसेत्कूटे तन्मन्त्रेणैव देशिकः ९

phelāśuddhiṃ tataḥ kṛtvā ratnaṃ mantrairvinikṣipet' | māṇikyaṃ vinyasetkūṭe tanmantreṇaiva deśikaḥ 9


4.16

आकारे तु न्यसेदृज्रमीकारे मौक्तिकं न्यसेत्° । महेन्द्रनीलं ह्यूकारे ऋकारे स्फटिकं न्यसेत्

ākāre tu nyasedṛjramīkāre mauktikaṃ nyaset° | mahendranīlaṃ hyūkāre ṛkāre sphaṭikaṃ nyaset


4.17

ऌकारे विन्यसेन्नीलमैकारे पुष्यरागकम् । औकारे तु प्रवालं स्याद् अःकारे तु विडूर्यकम्

ḷkāre vinyasennīlamaikāre puṣyarāgakam | aukāre tu pravālaṃ syād aḥkāre tu viḍūryakam

Chapter 4 — ४.३. गजादिन्यासः

4.18

सौवर्णेन गजं कृत्वा आकारे विन्यसेद्बुधः ३ । राजतेन कपालं स्याद् ईकारे विन्यसेद्बुधः

sauvarṇena gajaṃ kṛtvā ākāre vinyasedbudhaḥ 3 | rājatena kapālaṃ syād īkāre vinyasedbudhaḥ


4

ताम्रेण कारयेत्कूर्मम् ऊकारे योज्य मन्त्रतः

tāmreṇa kārayetkūrmam ūkāre yojya mantrataḥ

Chapter 4 — ४.४. आयुधन्यासः

4.19

आरकूटेन खट्वाङ्गम् ऋकारे विन्यसेद्बुधः

ārakūṭena khaṭvāṅgam ṛkāre vinyasedbudhaḥ


4.20

भ्रमकेन पिनाकं स्याद्विन्यसेत्तु ऌकारके' । वैकृन्तकेन परशुं कृत्वैकारे तु विन्यसेत्१°

bhramakena pinākaṃ syādvinyasettu ḷkārake' | vaikṛntakena paraśuṃ kṛtvaikāre tu vinyaset1°


4

११ औकारे योज्य हरिणं कांसीयकमयं १२

11 aukāre yojya hariṇaṃ kāṃsīyakamayaṃ 12

Chapter 4 — Text

4.21

आयसेन कृतं शूलम् अः कारे स्थाप्य देशिकः

āyasena kṛtaṃ śūlam aḥ kāre sthāpya deśikaḥ


4.22

कृत्वा जाम्बूनदेनोक्षं कूटे निक्षिप्य मन्त्रतः २ एवं विन्यस्य बहुधा धातवो विन्यसेद्बुधः े

kṛtvā jāmbūnadenokṣaṃ kūṭe nikṣipya mantrataḥ 2 evaṃ vinyasya bahudhā dhātavo vinyasedbudhaḥ े


4

तद्गर्भगर्तमापूर्य तस्योर्ध्वे कन्दकान्यसेत् । शिवाङ्गैर्जुहुयाद्धीमान् ईशानेनाक्षतं हुनेत्' । वेदादिश्च ततो हत्वा त्र्यम्बकेनैव होमयेत्॥ अनु॰ ॥ जयादिरभ्याधानं च होमं स्विष्टान्तमाचरेत् ? ॥ अनु॰ ॥ [ ॥ अनुबन्धः समाप्तः ॥ ] [पञ्चमः पटलः] [पादवर्गलक्षणम् अतः परं प्रवक्ष्यामि स्तम्भानां लक्षणं परम्

tadgarbhagartamāpūrya tasyordhve kandakānyaset | śivāṅgairjuhuyāddhīmān īśānenākṣataṃ hunet' | vedādiśca tato hatvā tryambakenaiva homayet|| anu॰ || jayādirabhyādhānaṃ ca homaṃ sviṣṭāntamācaret ? || anu॰ || [ || anubandhaḥ samāptaḥ || ] [pañcamaḥ paṭalaḥ] [pādavargalakṣaṇam ataḥ paraṃ pravakṣyāmi stambhānāṃ lakṣaṇaṃ param

Chapter 4 — ४.५. धातुन्यासः

4.23

आकारे विन्यसेत्श्यामम् ईकारे तु मनश्शिलाम् । ऊकारे सीसकं न्यस्य ऋकारे गां च विन्यसेत्

ākāre vinyasetśyāmam īkāre tu manaśśilām | ūkāre sīsakaṃ nyasya ṛkāre gāṃ ca vinyaset


4.24

सौराष्ट्रं चैव ऌकारे ऐकारे वाजिनं न्यसेत्' । औकारे रोचना प्रोक्ता अः कारे हरितालकम्

saurāṣṭraṃ caiva ḷkāre aikāre vājinaṃ nyaset' | aukāre rocanā proktā aḥ kāre haritālakam

Chapter 4 — ५. फेलाधिवासः

4.25

१°प्रासादस्योत्तरे पार्श्वे प्रपां कृत्वा विशेषतः । तन्मध्ये स्थण्डिलं कृत्वा शालिभिश्चतुरश्रकम् ११

1°prāsādasyottare pārśve prapāṃ kṛtvā viśeṣataḥ | tanmadhye sthaṇḍilaṃ kṛtvā śālibhiścaturaśrakam 11


4.26

गन्धपुष्पादिना पूज्य गर्भफेलां तु विन्यसेत्। कौतुकं बन्धयेत्तस्मिन्नववस्त्रेण वेष्टयेत्

gandhapuṣpādinā pūjya garbhaphelāṃ tu vinyaset| kautukaṃ bandhayettasminnavavastreṇa veṣṭayet


4.27

परितः प्रक्षिपेद्वीजान्तण्डुलेन समन्वितान् । ३ महाव्याहृतिमन्त्रेण होमं कुर्याद्विशेषतः

paritaḥ prakṣipedvījāntaṇḍulena samanvitān | 3 mahāvyāhṛtimantreṇa homaṃ kuryādviśeṣataḥ


4.28

प्रभाते सुमुहूर्ते च लग्ने निक्षिप्य मन्त्रतः निधीन्निक्षिप्य मन्त्रेण परितोऽपि द्वीपान्क्षिपेत्

prabhāte sumuhūrte ca lagne nikṣipya mantrataḥ nidhīnnikṣipya mantreṇa parito'pi dvīpānkṣipet

Chapter 4 — ६. दक्षिणा

4.29

आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः। शिल्पिनं पूजयेत्पश्चाद्धेमकुण्डलसंयुतम्

ācāryaṃ pūjayettatra vastrahemāṅgulīyakaiḥ| śilpinaṃ pūjayetpaścāddhemakuṇḍalasaṃyutam

Chapter 4 — ७. गर्भविन्यासः

4.30

६ अष्टधा विभजेद्भित्तिं बाह्यांशाच्चतुरं त्यजेत् । त्रीणि चाभ्यन्तरे त्यज्य मध्येकांशे निधापयेत्

6 aṣṭadhā vibhajedbhittiṃ bāhyāṃśāccaturaṃ tyajet | trīṇi cābhyantare tyajya madhyekāṃśe nidhāpayet

Chapter 4 — ७.१. मृन्न्यासः

4.31

मृन्नदीसस्यवल्मीककुलीरावटसंस्थिता' । १°नागदन्तं वृषशृङ्गमद्रिसागरमृच्छुभम्

mṛnnadīsasyavalmīkakulīrāvaṭasaṃsthitā' | 1°nāgadantaṃ vṛṣaśṛṅgamadrisāgaramṛcchubham

Chapter 4 — ७.२. कन्दन्यासः

4.32

मध्यमेऽम्बुजकन्दं स्यात्पूर्वे कुमुदकन्दकम्

madhyame'mbujakandaṃ syātpūrve kumudakandakam


4.33

दक्षिणे चोत्पलकन्दं सौगन्धीं पश्चिमे न्यसेत् । ईशे कन्दं न्यसेत्सौम्ये बीजान्युपरि विन्यसेत्

dakṣiṇe cotpalakandaṃ saugandhīṃ paścime nyaset | īśe kandaṃ nyasetsaumye bījānyupari vinyaset

Chapter 4 — ७.३. बीजन्यासः

4.34

पूर्वे तु विन्यसेच्छालीन्दक्षिणे व्रीहिकान्यसेत्। पश्चिमे कोद्रवं न्यस्य उत्तरे माषबीजकम्

pūrve tu vinyasecchālīndakṣiṇe vrīhikānyaset| paścime kodravaṃ nyasya uttare māṣabījakam


4.35

पावके विन्यसेन्मुद्गं नैर्ऋत्यां ककुबीजकम् । प्रियङ्गं वायुदिग्भागे ऐशान्यां तु कुलुत्थकान् १°

pāvake vinyasenmudgaṃ nairṛtyāṃ kakubījakam | priyaṅgaṃ vāyudigbhāge aiśānyāṃ tu kulutthakān 1°

Chapter 4 — ७.४. फेलान्यासः

4.36

एवं न्यस्त्वा विधानेन विन्यसेद्गर्भमुत्तमम् ११ । सर्वातोद्यसमायुक्तं सर्वघोषसमायुतम्

evaṃ nyastvā vidhānena vinyasedgarbhamuttamam 11 | sarvātodyasamāyuktaṃ sarvaghoṣasamāyutam


4.37

१२ ततो मुहूर्तमन्वीक्ष्य गर्भं सम्यनिधापयेत्

12 tato muhūrtamanvīkṣya garbhaṃ samyanidhāpayet


4

इति श्रीदीप्तागमे प्रतिष्ठातन्त्रे गर्भविन्यासपटलः [चतुर्थः] [ फेलाधिवासः ] प्रासादस्योत्तरे पार्श्वे प्रासादाग्रेऽथवा पुनः । प्रपां कृत्वा विशेषेण सप्तपञ्चकरेण च ॥ अनु°१ ॥ दर्भमालासमायुक्तं चतुस्तोरणभूषितम् । वितानध्वजसम्युक्तं मुक्तादामैरलङ्कृतम् ३ ॥ अनु°२ ॥ तन्मध्ये स्थण्डिलं कृत्वा शालिभिश्चतुरङ्गुलम्। तिलतण्डुलसंयुक्तं लाजदर्भसमन्वितम्॥ अनु॰ ॥ गन्धपुष्पादिना पूज्य दिग्देवान्स्वस्वमन्त्रतः ५ 1 गर्भफेलां न्यसेद्धीमान्स्थण्डिलोपरि सुस्थिताम्॥ अनु°४ ॥ कौतुकं बन्धयेत्तस्मिन्नववस्त्रेण वेष्टयेत्। परितः परितो बीजान्सप्तद्वीपाकृतिं स्मृतम् ७ ॥ अनु°५ ॥ यवनीवारवरकं प्रियङ्गस्तिलसर्षपम्। मुद्गानि सप्त बीजानि द्वीपाकाराणि कल्पयेत् ॥ अनु°६ ॥ “बीजान्तरे न्यसेद्धीमान्तण्डुलान्शालिसम्भवान्। सप्तार्णवमिति ज्ञेयं तिलदर्भैः परिस्तरेत्॥ अनु°७ ॥ गन्धादिभि(स) समभ्यर्च्य सप्तम + वा + क्रमात् । होमं कुर्याच्चतुर्दिक्षु कुण्डे वा स्थण्डिलेऽपि वा ॥ अनु°८ ॥ समिदाज्यचरून्लाजान्तिलसर्षपसाक्षतान् १° । होमयेच्च तदर्धार्धं तस्यार्धं वा विशेषत: ११ ॥ अनु॰

iti śrīdīptāgame pratiṣṭhātantre garbhavinyāsapaṭalaḥ [caturthaḥ] [ phelādhivāsaḥ ] prāsādasyottare pārśve prāsādāgre'thavā punaḥ | prapāṃ kṛtvā viśeṣeṇa saptapañcakareṇa ca || anu°1 || darbhamālāsamāyuktaṃ catustoraṇabhūṣitam | vitānadhvajasamyuktaṃ muktādāmairalaṅkṛtam 3 || anu°2 || tanmadhye sthaṇḍilaṃ kṛtvā śālibhiścaturaṅgulam| tilataṇḍulasaṃyuktaṃ lājadarbhasamanvitam|| anu॰ || gandhapuṣpādinā pūjya digdevānsvasvamantrataḥ 5 1 garbhaphelāṃ nyaseddhīmānsthaṇḍilopari susthitām|| anu°4 || kautukaṃ bandhayettasminnavavastreṇa veṣṭayet| paritaḥ parito bījānsaptadvīpākṛtiṃ smṛtam 7 || anu°5 || yavanīvāravarakaṃ priyaṅgastilasarṣapam| mudgāni sapta bījāni dvīpākārāṇi kalpayet || anu°6 || “bījāntare nyaseddhīmāntaṇḍulānśālisambhavān| saptārṇavamiti jñeyaṃ tiladarbhaiḥ paristaret|| anu°7 || gandhādibhi(sa) samabhyarcya saptama + vā + kramāt | homaṃ kuryāccaturdikṣu kuṇḍe vā sthaṇḍile'pi vā || anu°8 || samidājyacarūnlājāntilasarṣapasākṣatān 1° | homayecca tadardhārdhaṃ tasyārdhaṃ vā viśeṣata: 11 || anu॰

Chapter 4 — १.१. अधिष्ठानवशान्मानम्

4.1

अधिष्ठानोपरि स्तम्भं ह्युत्सेधं तु प्रवक्ष्यते

adhiṣṭhānopari stambhaṃ hyutsedhaṃ tu pravakṣyate


4.2

अधिष्ठानोत्सेधमानं द्विगुणं पाददैर्घ्यकम् । यस्य पादस्य चोत्सेधं सप्ताष्टनवभाजितम्

adhiṣṭhānotsedhamānaṃ dviguṇaṃ pādadairghyakam | yasya pādasya cotsedhaṃ saptāṣṭanavabhājitam


4.3

एकभागं भवेत्तत्र तस्य भागं तु विस्तृतम् । तच्चतुर्भागहीनं वा त्रिभागं द्वयमेव वा ७

ekabhāgaṃ bhavettatra tasya bhāgaṃ tu vistṛtam | taccaturbhāgahīnaṃ vā tribhāgaṃ dvayameva vā 7


4

भित्तिपादस्य विस्तारं प्रासादस्य वशानुगम्"

bhittipādasya vistāraṃ prāsādasya vaśānugam"

Chapter 4 — १.२. हस्तसङ्ख्यामानम्

4.4

महतो हस्तमात्रेण वक्ष्यते विधिनाधुना

mahato hastamātreṇa vakṣyate vidhinādhunā


4.5

सवितस्त्यष्टहस्तेन स्तम्भायामं प्रकल्पयेत्१° । एवं द्वादशभूमौ तु आदौ स्तम्भान्प्रकल्पयेत् १२

savitastyaṣṭahastena stambhāyāmaṃ prakalpayet1° | evaṃ dvādaśabhūmau tu ādau stambhānprakalpayet 12


4.6

द्वादशात्तु षडंशान्तं हीनं स्यात्तु तलं प्रति १ 1 अथ पादे नवाष्टांशभागैर्दशकमेव वारे

dvādaśāttu ṣaḍaṃśāntaṃ hīnaṃ syāttu talaṃ prati 1 1 atha pāde navāṣṭāṃśabhāgairdaśakameva vāre


4.7

भूमौ तु चतुरंशं स्यात्पादानां प्रस्तरोन्नतम् । अष्टाविंशत्यङ्गुल्यमादिपादस्य विस्तृतम्

bhūmau tu caturaṃśaṃ syātpādānāṃ prastaronnatam | aṣṭāviṃśatyaṅgulyamādipādasya vistṛtam


4.8

द्व्यङ्गुलं द्व्यङ्गुलं हीनमाद्वादशतलान्तकम् । त्रिहस्तभवने पादं वैपुल्यं तु त्रयङ्गुलम्

dvyaṅgulaṃ dvyaṅgulaṃ hīnamādvādaśatalāntakam | trihastabhavane pādaṃ vaipulyaṃ tu trayaṅgulam


4.9

त्रयोदशान्तभूमौ तु चाष्टमात्रं विधीयते । चतुर्भागैकभागं वा तस्त्रिभागैकमेव वा

trayodaśāntabhūmau tu cāṣṭamātraṃ vidhīyate | caturbhāgaikabhāgaṃ vā tastribhāgaikameva vā


4

स्तम्भानां निर्गमं प्रोक्तं नामानि शृणु चानल 1

stambhānāṃ nirgamaṃ proktaṃ nāmāni śṛṇu cānala 1

Chapter 4 — २.१. ब्रह्मकान्तः, विष्णुकान्तः, रुद्रकान्तश्च

4

स्तम्भायामं समस्तं तु चतुरश्रं सलक्षणम्

stambhāyāmaṃ samastaṃ tu caturaśraṃ salakṣaṇam

Chapter 5 — Text

5.11

सर्वावयवसंयुक्तं ब्रह्मकान्तमिति स्मृतम्। मूले तत्कर्णमानेन चतुरश्रं तदूर्ध्वतः

sarvāvayavasaṃyuktaṃ brahmakāntamiti smṛtam| mūle tatkarṇamānena caturaśraṃ tadūrdhvataḥ


5.12

अष्टाश्रं कुम्भमण्डीभ्यां द्वाभ्यां वै विष्णुकान्तकम् । अग्रादूर्ध्वे तु वृत्तं स्यात्कुम्भमण्डीसमन्वितम्

aṣṭāśraṃ kumbhamaṇḍībhyāṃ dvābhyāṃ vai viṣṇukāntakam | agrādūrdhve tu vṛttaṃ syātkumbhamaṇḍīsamanvitam


5.24

रुद्रकान्तमिति ज्ञेयं तत्पद्ममेकभागेन वृत्तहीने तथांशकम्

rudrakāntamiti jñeyaṃ tatpadmamekabhāgena vṛttahīne tathāṃśakam


5.25

धृक्कण्ठौ पादविस्तारौ हीनेऽधः पादमूलवत् । द्विगुणं कुम्भविस्तारमास्यमंशेन वृत्तकम्

dhṛkkaṇṭhau pādavistārau hīne'dhaḥ pādamūlavat | dviguṇaṃ kumbhavistāramāsyamaṃśena vṛttakam


5.35

विस्तारस्य चतुर्भागे तरङ्गस्थानमिष्यते

vistārasya caturbhāge taraṅgasthānamiṣyate


5.36

गृहीतोच्चत्रिभागैकं भागोच्चं त्वग्रपट्टकम् । एवमुक्तं तु पादानां प्रस्तरं चाधुनोच्यते

gṛhītoccatribhāgaikaṃ bhāgoccaṃ tvagrapaṭṭakam | evamuktaṃ tu pādānāṃ prastaraṃ cādhunocyate

Chapter 5 — २.२. सौम्यः, वासन्तिकः, शुण्डुपादश्च

5.13

मूले दण्डप्रमाणतः। चतुरश्रं तु वृत्तास्यं पादात्पादं विनिर्गतम्

mūle daṇḍapramāṇataḥ| caturaśraṃ tu vṛttāsyaṃ pādātpādaṃ vinirgatam


5.14

तदुपर्यग्रसीमान्तं षोडशाश्रसमन्वितम्। ६ कुम्भमण्डीसमायुक्तं सौम्यमेतत्प्रशस्यते

taduparyagrasīmāntaṃ ṣoḍaśāśrasamanvitam| 6 kumbhamaṇḍīsamāyuktaṃ saumyametatpraśasyate


5.15

मूलप्रभृति चाष्टाश्रं केवलं कुम्भसंयुतम् । वासन्तिकमिति ज्ञेयमग्ग्राकारं सुवृत्तकम्

mūlaprabhṛti cāṣṭāśraṃ kevalaṃ kumbhasaṃyutam | vāsantikamiti jñeyamaggrākāraṃ suvṛttakam


5

केवलं कलशोपेतं शुण्डुपादमिति स्मृतम्°

kevalaṃ kalaśopetaṃ śuṇḍupādamiti smṛtam°

Chapter 5 — २.३. पूर्वाग्रः, अष्टाश्रः, सुन्दरः, सिंहपादश्च

5.16

मूलं यद्वा सकर्णेन चतुरश्रमतः परम् ११

mūlaṃ yadvā sakarṇena caturaśramataḥ param 11


5.17

कलशेन सुवृत्तं यत्पूर्वाग्रस्तम्भमिष्यते । अश्श्राकारास्यकं मध्ये स्तम्भद्विगुणविस्तरम्

kalaśena suvṛttaṃ yatpūrvāgrastambhamiṣyate | aśśrākārāsyakaṃ madhye stambhadviguṇavistaram


5.18

अष्टाश्रसंयुतं पादमष्टाश्रमिति कीर्तितम् २ । मूले द्विदण्डमात्रेण पद्मासनसमन्वितम्

aṣṭāśrasaṃyutaṃ pādamaṣṭāśramiti kīrtitam 2 | mūle dvidaṇḍamātreṇa padmāsanasamanvitam


5.19

शेषं हि कलशोपेतं वृत्तं वा चतुरश्रकम्। अन्वितं कुम्भमण्डीभ्यां सुन्दरं नामसंयुतम्

śeṣaṃ hi kalaśopetaṃ vṛttaṃ vā caturaśrakam| anvitaṃ kumbhamaṇḍībhyāṃ sundaraṃ nāmasaṃyutam


5.20

अष्टाश्रे वाथ वृत्ते वा पादायामं त्रिभागकम् । केसरीरूपसंयुक्तं सिंहपादमिति स्मृतम्

aṣṭāśre vātha vṛtte vā pādāyāmaṃ tribhāgakam | kesarīrūpasaṃyuktaṃ siṃhapādamiti smṛtam

Chapter 5 — ३.१. कुम्भलक्षणम्

5.21

सर्वं पोतिकया युक्तं कुम्भालङ्कार उच्यते । अध्यर्धमग्रपादेन पादहीनद्वयं तथा

sarvaṃ potikayā yuktaṃ kumbhālaṅkāra ucyate | adhyardhamagrapādena pādahīnadvayaṃ tathā


5.22

द्विगुणं दण्डमानेन कुम्भोत्सेधं विशेषतः। श्रीकरं चन्द्रकान्तं च सौमुख्यं प्रियदर्शनम्

dviguṇaṃ daṇḍamānena kumbhotsedhaṃ viśeṣataḥ| śrīkaraṃ candrakāntaṃ ca saumukhyaṃ priyadarśanam


5

१°यथाक्रमेण वक्ष्यामि कुम्भोत्सेधं नवांशकम्। तद्वै धृगैकभागः स्याच्चत्वारि कलशोन्नतम् कण्ठमेकांशमित्याहुरास्यमेकांशमेव वा

1°yathākrameṇa vakṣyāmi kumbhotsedhaṃ navāṃśakam| tadvai dhṛgaikabhāgaḥ syāccatvāri kalaśonnatam kaṇṭhamekāṃśamityāhurāsyamekāṃśameva vā

Chapter 5 — ३.२. मण्ड्यादिलक्षणम्

5.26

मण्ड्यायामं चतुर्दण्डं त्रिदण्डं वापि कारयेत् । ६ तदुत्सेधं त्रिपादं स्यात्तस्त्रियंशेन भाजयेत्

maṇḍyāyāmaṃ caturdaṇḍaṃ tridaṇḍaṃ vāpi kārayet | 6 tadutsedhaṃ tripādaṃ syāttastriyaṃśena bhājayet


5.27

“अंशेनोत्सन्धिकं कुर्याद्वैत्रमंशेन वृत्तकम् । अंशेन मण्डिकां कुर्यात्पाल्याकारं तु पत्रवत् १°

“aṃśenotsandhikaṃ kuryādvaitramaṃśena vṛttakam | aṃśena maṇḍikāṃ kuryātpālyākāraṃ tu patravat 1°


5.29

त्रिधा नागदंशाभं वा वीरकाण्डं तदूर्ध्वतः ११ पादोच्चं तु तदर्धेन सर्वेषां चतुरश्रकम् -१३ हीनेऽधस्तात्तदर्धेन स्कन्धोच्चं चोर्ध्वमम्बुजम् १४ । मालास्थानं तथाधस्ताद्दण्डं चायतविस्तृतम्

tridhā nāgadaṃśābhaṃ vā vīrakāṇḍaṃ tadūrdhvataḥ 11 pādoccaṃ tu tadardhena sarveṣāṃ caturaśrakam -13 hīne'dhastāttadardhena skandhoccaṃ cordhvamambujam 14 | mālāsthānaṃ tathādhastāddaṇḍaṃ cāyatavistṛtam

Chapter 5 — ३.३. कुम्भभेदाः

5.30

श्रीकरं वृत्तपादानां सर्वेषामपि संमतम्। अष्टाश्रं षोडशाश्रं च चन्द्रकान्तं प्रशस्यते

śrīkaraṃ vṛttapādānāṃ sarveṣāmapi saṃmatam| aṣṭāśraṃ ṣoḍaśāśraṃ ca candrakāntaṃ praśasyate


5.31

सौमुख्यं चतुरश्राणामष्टाश्राणां विशेषतः ४ अतिभारेषु स्तम्भेषु प्रियदर्शनमिष्यते

saumukhyaṃ caturaśrāṇāmaṣṭāśrāṇāṃ viśeṣataḥ 4 atibhāreṣu stambheṣu priyadarśanamiṣyate

Chapter 5 — ३.४. पोतिकालक्षणम्

5.32

दण्डोच्चसमविस्तारं पञ्चदण्डायतं भवेत् । पोतिकानामिदं श्रेष्ठं सर्वाङ्गस्तम्भसंयुतम्

daṇḍoccasamavistāraṃ pañcadaṇḍāyataṃ bhavet | potikānāmidaṃ śreṣṭhaṃ sarvāṅgastambhasaṃyutam


5.33

चतुर्दण्डायतं चैवमुत्सेधं तस्त्रिपादकम् । मध्यमा इति विज्ञेया कुम्भस्तम्भेषु योजिता

caturdaṇḍāyataṃ caivamutsedhaṃ tastripādakam | madhyamā iti vijñeyā kumbhastambheṣu yojitā


5.34

त्रिदण्डायतविस्तीर्णं दण्डोच्चार्धं तु कन्यसम्। कुम्भमण्डीविहीने तु योजयेत्तु विचक्षणः १०

tridaṇḍāyatavistīrṇaṃ daṇḍoccārdhaṃ tu kanyasam| kumbhamaṇḍīvihīne tu yojayettu vicakṣaṇaḥ 10


5

सार्धत्रिपाददण्डं वा कन्दानां कर्तनिर्गमम् ११

sārdhatripādadaṇḍaṃ vā kandānāṃ kartanirgamam 11

Chapter 5 — ४. प्रस्तरवर्गः

5.37

पोतिकोर्ध्वे न्यसेद्धीमानुत्तरं त्रिविधं ३ पुनः 1 पादव्यासोदयं यावदुत्सेधं चोत्तरोत्तमम्

potikordhve nyaseddhīmānuttaraṃ trividhaṃ 3 punaḥ 1 pādavyāsodayaṃ yāvadutsedhaṃ cottarottamam


5.38

पत्रोत्तरमिति ज्ञेयं तारं दण्डप्रमाणतः ६ त्रिपादोच्चं पत्रबन्धं मध्यमं चार्धमुन्नतम्

patrottaramiti jñeyaṃ tāraṃ daṇḍapramāṇataḥ 6 tripādoccaṃ patrabandhaṃ madhyamaṃ cārdhamunnatam


5.39

विस्तारं प्रागिवैवोक्तं कन्यसोत्तरमेव हि । अर्धपादं त्रिपादं वा कर्णनिर्गतिरुच्यते

vistāraṃ prāgivaivoktaṃ kanyasottarameva hi | ardhapādaṃ tripādaṃ vā karṇanirgatirucyate


5.40

स्तम्भं त्रिभागभागैकं चतुर्भागैकमेव वा। तदेव चतुरश्रं स्यादुत्तरोपरिवाजनम्॰

stambhaṃ tribhāgabhāgaikaṃ caturbhāgaikameva vā| tadeva caturaśraṃ syāduttaroparivājanam॰


5.41

वाजनोर्ध्वे विशेषेण दण्डोच्चं भूतभागिकम् । निर्गमं तत्समं चोर्ध्वे पट्टिका पूर्ववद्भवेत्

vājanordhve viśeṣeṇa daṇḍoccaṃ bhūtabhāgikam | nirgamaṃ tatsamaṃ cordhve paṭṭikā pūrvavadbhavet


5.42

कपोतं द्विदण्डोत्सेधं त्रिदण्डं वापि कारयेत् ? । निर्गमं तत्समं प्रोक्तं लम्बमानार्धदण्डकम्

kapotaṃ dvidaṇḍotsedhaṃ tridaṇḍaṃ vāpi kārayet ? | nirgamaṃ tatsamaṃ proktaṃ lambamānārdhadaṇḍakam


5.44

शेषांशं पञ्चभागेन योजयेत्त विशेषतः ३ । अंशेनालिङ्गमेवं स्यात्पादाद्बहिः स निर्गतिः ४ तत्समान्तरितोत्सेधमालिङ्गं समवेशनम् । प्रस्तरं मकरोपेतमुत्सेधं तु त्रियंशकम्

śeṣāṃśaṃ pañcabhāgena yojayetta viśeṣataḥ 3 | aṃśenāliṅgamevaṃ syātpādādbahiḥ sa nirgatiḥ 4 tatsamāntaritotsedhamāliṅgaṃ samaveśanam | prastaraṃ makaropetamutsedhaṃ tu triyaṃśakam


5.45

पार्श्वे प्रतिशिखोपेतं अग्रे पृष्ठे प्रतिद्वयम् । आलिङ्गस्य समोत्सेधं निर्गमं प्रतिवाजनम्

pārśve pratiśikhopetaṃ agre pṛṣṭhe pratidvayam | āliṅgasya samotsedhaṃ nirgamaṃ prativājanam


5.46

नासिका स्तम्भविस्तारमध्यर्धं द्विगुणोऽपि वा। एवं समासतः प्रोक्तं पादविस्तारनिर्गमम्

nāsikā stambhavistāramadhyardhaṃ dviguṇo'pi vā| evaṃ samāsataḥ proktaṃ pādavistāranirgamam


5.1

इति श्रीदीप्तशास्त्रे प्रतिष्ठातन्त्रे पादवर्गपटलः [पञ्चमः]१° ॥ साम्प्रतम्। [षष्ठः पटलः ] [एकतलप्रासादविधिः ] १ अथातः संप्रवक्ष्यामि प्रासादानां तु लक्षणम् । महान्त्यल्पद्व्यन्तराणि त्रिविधेनोच्यते मया

iti śrīdīptaśāstre pratiṣṭhātantre pādavargapaṭalaḥ [pañcamaḥ]1° || sāmpratam| [ṣaṣṭhaḥ paṭalaḥ ] [ekatalaprāsādavidhiḥ ] 1 athātaḥ saṃpravakṣyāmi prāsādānāṃ tu lakṣaṇam | mahāntyalpadvyantarāṇi trividhenocyate mayā


5.2

तेषां नामानि मानानि हस्तसङ्ख्या च वक्ष्यते । तस्माद्धस्तविधिं चैव अङ्गुलानां प्रमाणकम्

teṣāṃ nāmāni mānāni hastasaṅkhyā ca vakṣyate | tasmāddhastavidhiṃ caiva aṅgulānāṃ pramāṇakam

Chapter 5 — १. अङ्गुलादिमानम्

5.3

त्रिविधमङ्गुलं चैव पूर्वं मानाङ्गुलं विदुः । मात्राङ्गुलं द्वितीयं तु देहलब्धं तृतीयकम्

trividhamaṅgulaṃ caiva pūrvaṃ mānāṅgulaṃ viduḥ | mātrāṅgulaṃ dvitīyaṃ tu dehalabdhaṃ tṛtīyakam

Chapter 5 — १.१. मानाङ्गुलम्

5.4

बालोदयगते रश्मौ जालान्तरगतं यतः ९ दृश्यादृश्यं तु यत्प्रोक्तं परमाणुरितीष्यते १°

bālodayagate raśmau jālāntaragataṃ yataḥ 9 dṛśyādṛśyaṃ tu yatproktaṃ paramāṇuritīṣyate 1°


5.5

परमाण्वष्टगुणितं रेणू रेण्वष्ट रोमकम् १२ । रोमाष्टगुणितं लीक्षा तदष्टौ यूकमेव च १४

paramāṇvaṣṭaguṇitaṃ reṇū reṇvaṣṭa romakam 12 | romāṣṭaguṇitaṃ līkṣā tadaṣṭau yūkameva ca 14


5.6

१ अष्टौ युकं यवः प्रोक्तो यवोदरं चाष्टमङ्गलम् । ेतद्द्वादशाङ्गुलं युग्मं प्रोक्तं तद्द्वयं हस्तके

1 aṣṭau yukaṃ yavaḥ prokto yavodaraṃ cāṣṭamaṅgalam | ेtaddvādaśāṅgulaṃ yugmaṃ proktaṃ taddvayaṃ hastake


5.7

तच्चतुर्विधमुक्तं च हस्तमानं विशेषतः ५ चतुर्विंशाङ्गलं ज्ञेयं किष्कुरित्युच्यते बुधैः ६

taccaturvidhamuktaṃ ca hastamānaṃ viśeṣataḥ 5 caturviṃśāṅgalaṃ jñeyaṃ kiṣkurityucyate budhaiḥ 6


5.8

पञ्चविंशतिभिश्चैव प्राजापत्यमुदाहृतम् । षड्विंशतिर्धनुर्मुष्टिः सप्तविंशद्धनुर्ग्रहः

pañcaviṃśatibhiścaiva prājāpatyamudāhṛtam | ṣaḍviṃśatirdhanurmuṣṭiḥ saptaviṃśaddhanurgrahaḥ


5.9

शयनासनादिकान्कुर्यात्किष्कुमानवशाद्बुधः 1 प्राजापत्यं विमानानां सभाशालां तथैव च

śayanāsanādikānkuryātkiṣkumānavaśādbudhaḥ 1 prājāpatyaṃ vimānānāṃ sabhāśālāṃ tathaiva ca


5

१३ ग्रामादीनां च दुर्गाणां धनुर्मुष्टिर्विधीयते

13 grāmādīnāṃ ca durgāṇāṃ dhanurmuṣṭirvidhīyate

Chapter 6 — Text

6.10

धनुर्ग्रहेण कुर्यात्तु नद्यध्वानं विशेषतः

dhanurgraheṇa kuryāttu nadyadhvānaṃ viśeṣataḥ


6.21

हस्तानां लक्षणं प्रोक्तं मानाङ्गुलविधानतः २ । पादं सर्वाङ्गसंयुक्तमुत्तरोपरि हंसकम् । कपोतं तत्प्रतिं चैव वेदिका गलमेव च

hastānāṃ lakṣaṇaṃ proktaṃ mānāṅgulavidhānataḥ 2 | pādaṃ sarvāṅgasaṃyuktamuttaropari haṃsakam | kapotaṃ tatpratiṃ caiva vedikā galameva ca


6.22

शिखरं च घटं चैव महानास्यल्पनासिका । पञ्जरं च इमे सर्वे विंशत्यंशमुदाहृतम्

śikharaṃ ca ghaṭaṃ caiva mahānāsyalpanāsikā | pañjaraṃ ca ime sarve viṃśatyaṃśamudāhṛtam


6.23

उक्षं कुर्याच्चतुष्कोणे प्रस्तरोपरि संस्थितम् । षड्वर्गसहितं प्रोक्तं तलमेकं विशेषतः

ukṣaṃ kuryāccatuṣkoṇe prastaropari saṃsthitam | ṣaḍvargasahitaṃ proktaṃ talamekaṃ viśeṣataḥ


6.33

द्व्यंशं चाभ्यन्तरे ग्राह्यमेकांशं तु बहिःस्थितम्' । तत्स्थाने जगतीं कुर्यात्सर्वमेवोच्यते क्रमात्

dvyaṃśaṃ cābhyantare grāhyamekāṃśaṃ tu bahiḥsthitam' | tatsthāne jagatīṃ kuryātsarvamevocyate kramāt


6.55

वेदितारं त्रिभागं च द्विभागं गलविस्तरम् । वेदिविस्तारतुल्यं च शिखरविस्तारमत्र वै ३

veditāraṃ tribhāgaṃ ca dvibhāgaṃ galavistaram | vedivistāratulyaṃ ca śikharavistāramatra vai 3


6.77

शिखरतारं त्रिभागैकं महानासीति विस्तृतम् । चतुरश्रायतं चैव अष्टाश्रं वा विशेषतः २ प्रासादं द्राविडं विद्याद्वेसरं चाथ वक्ष्यते

śikharatāraṃ tribhāgaikaṃ mahānāsīti vistṛtam | caturaśrāyataṃ caiva aṣṭāśraṃ vā viśeṣataḥ 2 prāsādaṃ drāviḍaṃ vidyādvesaraṃ cātha vakṣyate


6.78

वृत्तं वृत्तायतं चैव द्व्यश्रवृत्तं तथैव च । ४ प्रासादं वेसरं विद्यास्त्रिविधं तत्प्रशस्यते

vṛttaṃ vṛttāyataṃ caiva dvyaśravṛttaṃ tathaiva ca | 4 prāsādaṃ vesaraṃ vidyāstrividhaṃ tatpraśasyate

Chapter 6 — १.२. मात्राङ्गुलम्

6.11

यागोपकरणं सर्वं कुर्यान्मात्राङ्गुलेन तुबे

yāgopakaraṇaṃ sarvaṃ kuryānmātrāṅgulena tube


6.12

षण्णवत्यङ्गुलं मेयं स्वाङ्गुलेनोत्तमं स्मृतम् । ৺अङ्गुलैर्नवतिभिश्च मध्यमं च विदुर्बुधाः ६

ṣaṇṇavatyaṅgulaṃ meyaṃ svāṅgulenottamaṃ smṛtam | ৺aṅgulairnavatibhiśca madhyamaṃ ca vidurbudhāḥ 6


6.13

पञ्चाशीत्यङ्गुलैर्मेयं पुरुषाधममुच्यते । ‘मध्यमध्यं पुरुषस्य यत्पर्वं दक्षिणे करे

pañcāśītyaṅgulairmeyaṃ puruṣādhamamucyate | ‘madhyamadhyaṃ puruṣasya yatparvaṃ dakṣiṇe kare


6

१°मध्यमाङ्गुलमध्यं तु देवमात्राङ्गुलिं विदुः ११

1°madhyamāṅgulamadhyaṃ tu devamātrāṅguliṃ viduḥ 11

Chapter 6 — १.३. देहलब्धाङ्गुलम्

6.14

यत्कृत्स्नं प्रतिमायामं तालगण्येन भाजयेत् १२

yatkṛtsnaṃ pratimāyāmaṃ tālagaṇyena bhājayet 12


6.15

अङ्गुलैर्नवतिर्मेयं मध्यमं च विभाजितं । पञ्चाशत्यङ्गुले मेयम् अधमः पुरुषोच्यते॥ मध्यमः पुरुषोओत्सेधं यत्पूर्वं दक्षिणे करे ॥ तल्लब्धोत्सेधमानं तु चतुर्विंशच्छतं कुरु । तेष्वेकभागमङ्गुल्यं देहलब्धमिति स्मृतम्

aṅgulairnavatirmeyaṃ madhyamaṃ ca vibhājitaṃ | pañcāśatyaṅgule meyam adhamaḥ puruṣocyate|| madhyamaḥ puruṣootsedhaṃ yatpūrvaṃ dakṣiṇe kare || tallabdhotsedhamānaṃ tu caturviṃśacchataṃ kuru | teṣvekabhāgamaṅgulyaṃ dehalabdhamiti smṛtam