Books / Dīptāgama, Tome I (Chapters 1–21) — Sanskrit Text

3. Dīptāgama Tome I (part 3 of 13)

Chapter 6 — २. एकभूमिप्रासादविस्तारः

6.16

अधुना संप्रवक्ष्यामि एकभूमिप्रमाणकम् । त्रिहस्तं पञ्चहस्तं च सप्तहस्तं नवं तथा

adhunā saṃpravakṣyāmi ekabhūmipramāṇakam | trihastaṃ pañcahastaṃ ca saptahastaṃ navaṃ tathā


6.17

चतुर्विधेन विस्तारमेकतलस्य कीर्तितम् । ४ विस्तारद्विगुणोत्सेधं सर्वेषां तु विधीयते

caturvidhena vistāramekatalasya kīrtitam | 4 vistāradviguṇotsedhaṃ sarveṣāṃ tu vidhīyate


6.18

अग्रतो मण्डपं कुर्यात्प्रासादसमविस्तृतम्। ̈तदर्धं वा त्रिपादं वा मुखमण्डपमिष्यते

agrato maṇḍapaṃ kuryātprāsādasamavistṛtam| ̈tadardhaṃ vā tripādaṃ vā mukhamaṇḍapamiṣyate

Chapter 6 — ३. एकभूमिप्रासादोन्मानम्

6.19

सर्वाङ्गसहितं कुर्यात्प्रासादं सविशेषतः ८ उपानं जगतीं चैव कुमुदं कम्पमेव च'

sarvāṅgasahitaṃ kuryātprāsādaṃ saviśeṣataḥ 8 upānaṃ jagatīṃ caiva kumudaṃ kampameva ca'


6.20

कम्पं तु तत्समायुक्तं कम्पं च प्रतिरेव च१° । पादमूलं च वेदिः स्याद्वेदिका कण्ठसंयुतम् १२

kampaṃ tu tatsamāyuktaṃ kampaṃ ca pratireva ca1° | pādamūlaṃ ca vediḥ syādvedikā kaṇṭhasaṃyutam 12

Chapter 6 — ४. दण्डलक्षणम्

6.24

यावत्प्रासादविस्तारं चतुर्विंशतिभाजितम् । पञ्चविंशतिभागं वा षड्विंशति विभागकम्

yāvatprāsādavistāraṃ caturviṃśatibhājitam | pañcaviṃśatibhāgaṃ vā ṣaḍviṃśati vibhāgakam


6.26

तत्तद्भागैकभागं स्यात्पादविष्कम्भमत्र वै । अथवा पादमानं तु वक्ष्यते तु विशेषतः ' तु तु पादायामाष्टभागं स्यान्नवभागं दशं तु वा १० तत्तद्भागैकमेवं स्याद्दारुपादस्य विस्तृतम् ११

tattadbhāgaikabhāgaṃ syātpādaviṣkambhamatra vai | athavā pādamānaṃ tu vakṣyate tu viśeṣataḥ ' tu tu pādāyāmāṣṭabhāgaṃ syānnavabhāgaṃ daśaṃ tu vā 10 tattadbhāgaikamevaṃ syāddārupādasya vistṛtam 11


6.27

१२ तत्पादनार्धहीनं वा त्रिभागं द्वयमेव वा १३ । भित्तिपादस्य विस्तारं सर्वेषां त विधीयते

12 tatpādanārdhahīnaṃ vā tribhāgaṃ dvayameva vā 13 | bhittipādasya vistāraṃ sarveṣāṃ ta vidhīyate


6

पादविष्कम्भमानं यद् अत्र दण्डमिहोच्यते २

pādaviṣkambhamānaṃ yad atra daṇḍamihocyate 2

Chapter 6 — ५. विमानोत्सेधः

6.28

विमानोत्सेधमष्टांशं कृत्वैकेन मसूरकम्

vimānotsedhamaṣṭāṃśaṃ kṛtvaikena masūrakam


6.29

पादायतद्विभागं स्याद्भागं प्रस्तरमुच्यते । भागं ग्रीवमिति प्रोक्तं शिखरं स्याविभागकम्

pādāyatadvibhāgaṃ syādbhāgaṃ prastaramucyate | bhāgaṃ grīvamiti proktaṃ śikharaṃ syāvibhāgakam


6.30

शेषं स्तूपिरिति ख्यातं सञ्चिते चैकभूमिके । यावत्प्रासादविस्तारमेकभागं त्रिभागिकम्

śeṣaṃ stūpiriti khyātaṃ sañcite caikabhūmike | yāvatprāsādavistāramekabhāgaṃ tribhāgikam


6

चत्वारिपञ्चषड्भागमेकभूमेर्विधीयते१°

catvāripañcaṣaḍbhāgamekabhūmervidhīyate1°

Chapter 6 — ६.१. उपानादिनिर्गममानम्

6.31

मूलपादस्य विस्तरादष्टांशोनाग्रविस्तृतम् ११

mūlapādasya vistarādaṣṭāṃśonāgravistṛtam 11


6.32

उपानस्य च निर्यूहमग्रपादद्वयं भवेत् १२ । तदर्धं तीव्रमित्याहुस्तन्निर्गमं त्रयंशकम्

upānasya ca niryūhamagrapādadvayaṃ bhavet 12 | tadardhaṃ tīvramityāhustannirgamaṃ trayaṃśakam

Chapter 6 — ६.२. अधिष्ठानम्

6.34

अधिष्ठानोत्सेधमानं त्रयोविंशतिमानकम् । जगत्यष्टांशकोपेतं सप्तांशं त्वथ वप्रकम्

adhiṣṭhānotsedhamānaṃ trayoviṃśatimānakam | jagatyaṣṭāṃśakopetaṃ saptāṃśaṃ tvatha vaprakam


6.35

कुमुदमष्टाश्रकं विद्यादेकांशं कुरु पट्टिकाम्' । कण्ठं त्रियंशमित्युक्तमेकांशेनोर्ध्वपट्टिका १°

kumudamaṣṭāśrakaṃ vidyādekāṃśaṃ kuru paṭṭikām' | kaṇṭhaṃ triyaṃśamityuktamekāṃśenordhvapaṭṭikā 1°


6

महापट्टी त्रियंशेन पादबन्धमिहोच्यते ११ । 1

mahāpaṭṭī triyaṃśena pādabandhamihocyate 11 | 1

Chapter 6 — ६.३. वेदिकामानम्

6.36

तस्योर्ध्वे तु द्विदण्डेन पादमूले तु वेदिका १२

tasyordhve tu dvidaṇḍena pādamūle tu vedikā 12


6.37

वेदिकोत्सेधमानं तु नवभागैर्विभाजयेत्। पट्टिकोपरि कम्पांशं कण्ठं चतुर्थभागिकम्

vedikotsedhamānaṃ tu navabhāgairvibhājayet| paṭṭikopari kampāṃśaṃ kaṇṭhaṃ caturthabhāgikam


6.38

एकांशाधारपट्टं तु द्वियंशं वेदिका भवेत् । ऊर्ध्वे पट्टं तथैकांशं पादालङ्कारमुच्यते

ekāṃśādhārapaṭṭaṃ tu dviyaṃśaṃ vedikā bhavet | ūrdhve paṭṭaṃ tathaikāṃśaṃ pādālaṅkāramucyate

Chapter 6 — ६.४.१. कुम्भम्

6.39

तत्पादकुम्भधृक्कण्ठं द्वयार्धं दण्डमुच्यते । तस्योत्सेधं नवांशं तु एकभागेन धृग्भवेत्

tatpādakumbhadhṛkkaṇṭhaṃ dvayārdhaṃ daṇḍamucyate | tasyotsedhaṃ navāṃśaṃ tu ekabhāgena dhṛgbhavet


6.40

चतुर्भागं कुम्भं स्यात्कण्ठमेकेन कारयेत् । “आस्यमेकांशमित्याहुरेकांशं पद्ममुच्यतेः

caturbhāgaṃ kumbhaṃ syātkaṇṭhamekena kārayet | “āsyamekāṃśamityāhurekāṃśaṃ padmamucyateḥ


6.41

१°शेषैकांशद्व्यंशकः स्याद्वृत्तमेकेन कारयेत् ?? । एकांशेनाथ हीनौ तु हीनौ द्वौ मूलपादवत् १२

1°śeṣaikāṃśadvyaṃśakaḥ syādvṛttamekena kārayet ?? | ekāṃśenātha hīnau tu hīnau dvau mūlapādavat 12


6.42

आस्यविस्तारमत्रैव अध्यर्थं दण्डमुच्यते १४ । द्विदण्डं कुम्भविस्तारं धृक्कण्ठौ पादविस्तृतौ १५

āsyavistāramatraiva adhyarthaṃ daṇḍamucyate 14 | dvidaṇḍaṃ kumbhavistāraṃ dhṛkkaṇṭhau pādavistṛtau 15

Chapter 6 — ६.४.२. मण्डिका

6.43

त्रिपादं मण्डिनीव्रं स्याद्विस्तारं स्याच्चतुर्गुणम् । त्रिगुणं वापि कर्तव्यं पादविस्तारमानतः

tripādaṃ maṇḍinīvraṃ syādvistāraṃ syāccaturguṇam | triguṇaṃ vāpi kartavyaṃ pādavistāramānataḥ


6.44

मण्ड्युत्सेधं त्रिधा कृत्वा भागेनोत्सन्धिरुच्यते। भागेन मण्डिकां विद्यादेकांशं पालिका भवेत्

maṇḍyutsedhaṃ tridhā kṛtvā bhāgenotsandhirucyate| bhāgena maṇḍikāṃ vidyādekāṃśaṃ pālikā bhavet

Chapter 6 — ६.४.३. वीरकाण्डम्

6

पादविस्तारमानेन वीरकाण्डं तदुच्यते । उत्सेधं पादहीनं स्यात् ;

pādavistāramānena vīrakāṇḍaṃ taducyate | utsedhaṃ pādahīnaṃ syāt ;

Chapter 6 — ६.४.४. पोतिका

6.45

पोतिकायाममुच्यते

potikāyāmamucyate


6.46

उत्तमं पोतिकायामं पञ्चदण्डमिहोच्यते । मध्यमं तु चतुर्दण्डमधमं स्यात्रिदण्डकम्

uttamaṃ potikāyāmaṃ pañcadaṇḍamihocyate | madhyamaṃ tu caturdaṇḍamadhamaṃ syātridaṇḍakam


6

दण्डत्रिपादमर्धं वा पोतिकोत्सेधमुच्यते

daṇḍatripādamardhaṃ vā potikotsedhamucyate

Chapter 6 — ६.५. प्रस्तरवर्गः

6.47

दण्डोच्चमुत्तरं कुर्यात्तस्त्रिभागैकवाजनम्'

daṇḍoccamuttaraṃ kuryāttastribhāgaikavājanam'


6.48

भूतमाला च दण्डोच्चमूर्ध्वपट्टी च पूर्ववत्' । १°कपोतोत्सेधं दण्डं स्याल्लम्बमानार्धदण्डकम् ११

bhūtamālā ca daṇḍoccamūrdhvapaṭṭī ca pūrvavat' | 1°kapototsedhaṃ daṇḍaṃ syāllambamānārdhadaṇḍakam 11


6.49

द्विदण्डनिष्क्रमान्तं स्यादुपानसमनिर्गमम् । शेषं प्रस्तारमानं तु पञ्चभागैर्विभाजयेत्

dvidaṇḍaniṣkramāntaṃ syādupānasamanirgamam | śeṣaṃ prastāramānaṃ tu pañcabhāgairvibhājayet


6.50

तु ३ अंशेनालिङ्गमेवं स्यादंशेनान्तरितं भवेत् । द्व्यंशे प्रतिमुखं कुर्यादंशेन प्रतिवाजनम्

tu 3 aṃśenāliṅgamevaṃ syādaṃśenāntaritaṃ bhavet | dvyaṃśe pratimukhaṃ kuryādaṃśena prativājanam

Chapter 6 — ६.६. ग्रीववेदिका

6.51

त्रिदण्डवेशना वेदी लक्षणेन समन्विता त्रिदण्डं वेदिकोत्सेधं तदुत्सेधं रसांशकम्

tridaṇḍaveśanā vedī lakṣaṇena samanvitā tridaṇḍaṃ vedikotsedhaṃ tadutsedhaṃ rasāṃśakam


6.52

द्वियंशं कण्ठमित्युक्तमेकेनाधारपट्टिका' । १°भागेन वेदिकां कुर्याद्भागैकं कम्पमुच्यते

dviyaṃśaṃ kaṇṭhamityuktamekenādhārapaṭṭikā' | 1°bhāgena vedikāṃ kuryādbhāgaikaṃ kampamucyate


6

वेदिविस्तारपञ्चांशं चतुर्भागं ग्रीवविस्तरम् १२

vedivistārapañcāṃśaṃ caturbhāgaṃ grīvavistaram 12

Chapter 6 — ६.७. पुनः प्रस्तरवर्गः

6.53

दण्डार्धमुत्तरं वापि तत्त्रिभागैकवाजनम्

daṇḍārdhamuttaraṃ vāpi tattribhāgaikavājanam


6

हंसमाला वा दण्डार्धे तदर्धे हंसपट्टिका

haṃsamālā vā daṇḍārdhe tadardhe haṃsapaṭṭikā

Chapter 6 — ६.८. वेद्यादिशिखरान्तविस्तारः

6.54

तत्प्रस्तराष्टभागैकविहीनं वेदिविस्तरम् १३

tatprastarāṣṭabhāgaikavihīnaṃ vedivistaram 13

Chapter 6 — ६.९. स्तूपिकालक्षणम्

6.56

शिखरात्पञ्चभागं च त्रिभागं पालिविस्तरम्

śikharātpañcabhāgaṃ ca tribhāgaṃ pālivistaram


6.57

पालिविस्तरपञ्चांशत्रिभागं पद्मविस्तृतम् । “पद्मतारं त्रिभागैकं कुम्भतारमिति स्मृतम्

pālivistarapañcāṃśatribhāgaṃ padmavistṛtam | “padmatāraṃ tribhāgaikaṃ kumbhatāramiti smṛtam


6.58

१° कुम्भतारत्रिभागैकं लग्नकण्ठं तथैव च । लग्नकण्ठं त्रिभागं स्यात्पाल्याकारस्य विस्तृतम् १२

1° kumbhatāratribhāgaikaṃ lagnakaṇṭhaṃ tathaiva ca | lagnakaṇṭhaṃ tribhāgaṃ syātpālyākārasya vistṛtam 12


6.59

पाल्याकारस्य विस्तारं त्रिभागं मुकुलोच्छ्रयम् १३ । १४ स्तूपिकोत्सेधमानं तु द्वात्रिंशतिविभाजितम् १५

pālyākārasya vistāraṃ tribhāgaṃ mukulocchrayam 13 | 14 stūpikotsedhamānaṃ tu dvātriṃśativibhājitam 15


6.60

सप्तांशं पद्मकोत्सेधमध्यर्धस्कन्धमुच्यते । १ अध्यर्धाधरपद्मं तु सप्तांशं तद्घटोच्छ्रयः २

saptāṃśaṃ padmakotsedhamadhyardhaskandhamucyate | 1 adhyardhādharapadmaṃ tu saptāṃśaṃ tadghaṭocchrayaḥ 2


6.61

अध्यर्धमूर्ध्वपद्मं तु षडंशं ग्रीवमुच्यते । अर्धांशं पालिवृत्तं च विलग्नं चैकभागिकम्

adhyardhamūrdhvapadmaṃ tu ṣaḍaṃśaṃ grīvamucyate | ardhāṃśaṃ pālivṛttaṃ ca vilagnaṃ caikabhāgikam


6

मुकुलोच्छ्रयं षडंशं स्तूपिमानमुदाहृतम्

mukulocchrayaṃ ṣaḍaṃśaṃ stūpimānamudāhṛtam

Chapter 6 — ७.१. श्रीकरम्

6.62

अधिष्ठानस्तम्भयुक्तं प्रस्तरग्रीवसंयुतम्

adhiṣṭhānastambhayuktaṃ prastaragrīvasaṃyutam


6.63

शिखरस्तूपिकायुक्तं महानासिचतुष्टयम् । द्विदण्डं च द्विदण्डार्धं कपोतनासिविस्तरम्'

śikharastūpikāyuktaṃ mahānāsicatuṣṭayam | dvidaṇḍaṃ ca dvidaṇḍārdhaṃ kapotanāsivistaram'


6

९ कपोतनासिकाष्टौ च मण्डपे पादनासिका अनिष्क्रमं शिरोवृत्तमाकारं चतुरश्रकम्(?) ११ १२ एभिस्तु लक्षणैर्युक्तं श्रीकरं तत्प्रशस्यते 1

9 kapotanāsikāṣṭau ca maṇḍape pādanāsikā aniṣkramaṃ śirovṛttamākāraṃ caturaśrakam(?) 11 12 ebhistu lakṣaṇairyuktaṃ śrīkaraṃ tatpraśasyate 1

Chapter 6 — ७.२. श्रीविशालम्

6.65

तलालङ्कारकं प्रोक्तं कर्णकूटं चतुस्त्रिकम्

talālaṅkārakaṃ proktaṃ karṇakūṭaṃ catustrikam


6

२ विस्तारस्य त्रिभागैकं मध्यमे निर्गमं भवेत् । श्रीविशालमिदं प्रोक्तं प्रासादानां विशेषतः ३

2 vistārasya tribhāgaikaṃ madhyame nirgamaṃ bhavet | śrīviśālamidaṃ proktaṃ prāsādānāṃ viśeṣataḥ 3

Chapter 6 — ७.३. श्रीभोगम्

6.67

तदलङ्कारमत्र स्याद्वेदिकाष्टाश्रसंयुतम् । अष्टपञ्जरसंयुक्तं श्रीभोगं नामनामतः

tadalaṅkāramatra syādvedikāṣṭāśrasaṃyutam | aṣṭapañjarasaṃyuktaṃ śrībhogaṃ nāmanāmataḥ

Chapter 6 — ७.४. स्वस्तिबन्धनम्

6.68

तदलङ्कारमत्र स्यात्सायतं चतुरश्रकम् । पञ्जराभिर्विहीनं स्यात्स्तूपित्रयसमायुतम्

tadalaṅkāramatra syātsāyataṃ caturaśrakam | pañjarābhirvihīnaṃ syātstūpitrayasamāyutam


6

एतत्प्रासादनामा हि स्वस्तिबन्धनमुत्तमम्

etatprāsādanāmā hi svastibandhanamuttamam

Chapter 6 — ७.५. पर्वतम्

6.69

तदलङ्कारकं प्रोक्तं शिखरं चतुरश्रकम्

tadalaṅkārakaṃ proktaṃ śikharaṃ caturaśrakam


6.70

वेदिकावृत्तमेवं स्यान्महानासिकोष्ठसंयुतम् । ९ पर्वतं नाम एवं स्यादथ तेन विहीनकम्

vedikāvṛttamevaṃ syānmahānāsikoṣṭhasaṃyutam | 9 parvataṃ nāma evaṃ syādatha tena vihīnakam

Chapter 6 — ७.६. सर्वतोमुखम् (?)

6.71

तदलङ्कारमेवोक्तं वेदिका चतुरश्रका १° । ग्रीवं शिखरमष्टाश्रं महानास्यष्टमेव च ११

tadalaṅkāramevoktaṃ vedikā caturaśrakā 1° | grīvaṃ śikharamaṣṭāśraṃ mahānāsyaṣṭameva ca 11


6

एभिस्तु लक्षणैर्युक्तं सर्वतोमुखमुच्यते

ebhistu lakṣaṇairyuktaṃ sarvatomukhamucyate

Chapter 6 — ७.७. आयतादिप्रासादाः

6.72

तदलङ्कारमेवोक्तमायतं वृत्तमेव च

tadalaṅkāramevoktamāyataṃ vṛttameva ca


6

कर्णकूटविहीनं स्याद्गीवं वृत्तायतं भवेत्

karṇakūṭavihīnaṃ syādgīvaṃ vṛttāyataṃ bhavet

Chapter 6 — ७.८. हस्तिपृष्ठम्

6.73

द्व्यश्रवृत्तं ततः कुर्यात्प्राङ्मुखो नासिका भवेत्

dvyaśravṛttaṃ tataḥ kuryātprāṅmukho nāsikā bhavet


6.74

पूर्वे ललाटसंयुक्तं गोपुरास्याकृतिर्भवेत् । पार्श्वे पृष्ठे च संयुक्तं शिखराकृतिरेव च

pūrve lalāṭasaṃyuktaṃ gopurāsyākṛtirbhavet | pārśve pṛṣṭhe ca saṃyuktaṃ śikharākṛtireva ca


6

महानासीत्रिभिर्युक्तं हस्तिपृष्ठमिहोच्यते“

mahānāsītribhiryuktaṃ hastipṛṣṭhamihocyate“

Chapter 6 — ८. नागरादिप्रासादजातयः

6.75

जातित्रयं विधातव्यं प्रासादानां विशेषतः

jātitrayaṃ vidhātavyaṃ prāsādānāṃ viśeṣataḥ


6.76

नागरं द्राविडं चैव वेसरं च त्रिधा मतम् उपानात्स्तूपिपर्यन्तं युगाश्रं नागरं भवेत् ११

nāgaraṃ drāviḍaṃ caiva vesaraṃ ca tridhā matam upānātstūpiparyantaṃ yugāśraṃ nāgaraṃ bhavet 11

Chapter 6 — ९. तोरणानि

6.79

प्रासादपार्श्वे पृष्ठे च तोरणानि प्रकल्पयेत् । पादायामाष्टपञ्चांशं स्तम्भदैर्घ्यं प्रकीर्तितम्

prāsādapārśve pṛṣṭhe ca toraṇāni prakalpayet | pādāyāmāṣṭapañcāṃśaṃ stambhadairghyaṃ prakīrtitam

Chapter 6 — १०. लिङ्गात्प्रासादविस्तारः

6.80

‘त्रिभागं च त्रिधा कृत्वा एकांशं लिङ्गविस्तरम्' । लिङ्गविष्कम्भमानेन त्रिगुणं पीठविस्तरम्

‘tribhāgaṃ ca tridhā kṛtvā ekāṃśaṃ liṅgavistaram' | liṅgaviṣkambhamānena triguṇaṃ pīṭhavistaram


6.81

पीठस्य त्रिगुणं गर्भं बाह्ये भित्त्येकभागिकम् ११ । पीठाच्चतुर्गुणं वापि गर्भगेहं विधीयते

pīṭhasya triguṇaṃ garbhaṃ bāhye bhittyekabhāgikam 11 | pīṭhāccaturguṇaṃ vāpi garbhagehaṃ vidhīyate


6.82

गर्भगेहार्धकं वापि पीठतारसमोऽपि तत् । तत्पीठतारद्विगुणं भित्तिविष्कम्भमुच्यते

garbhagehārdhakaṃ vāpi pīṭhatārasamo'pi tat | tatpīṭhatāradviguṇaṃ bhittiviṣkambhamucyate


6

अष्टादशं त्रिभागैकं सर्वलक्षणसंयुतम्। सप्तभागं चतुर्भागं गर्भगेहस्तु विस्तृतम्॥ परितो भित्तिमानं स्यात्शेषभागैर्विशेषतः । + हारारं ( ? ) त्रिधा भज्य भागैकं पीठविस्तरम्॥ पीथतारान्तं त्रिधा भज्य लिङ्गतारं तथांशकम्

aṣṭādaśaṃ tribhāgaikaṃ sarvalakṣaṇasaṃyutam| saptabhāgaṃ caturbhāgaṃ garbhagehastu vistṛtam|| parito bhittimānaṃ syātśeṣabhāgairviśeṣataḥ | + hārāraṃ ( ? ) tridhā bhajya bhāgaikaṃ pīṭhavistaram|| pīthatārāntaṃ tridhā bhajya liṅgatāraṃ tathāṃśakam

Chapter 6 — ११. गर्भस्थानम्

6.83

'गर्भस्थान +++++++ स्तम्भमुच्यते । कवाटार्गलयोगे वा स्तम्भमूले विधीयते

'garbhasthāna +++++++ stambhamucyate | kavāṭārgalayoge vā stambhamūle vidhīyate

Chapter 6 — १२. नाललक्षणम्

6.84

उपानं जगतीं चैव कुमुदं कण्ठपट्टिका । तत्तलास्थ्याविधिं (?) ह्येते ऊर्ध्वाधच्छिद्रमिष्यते

upānaṃ jagatīṃ caiva kumudaṃ kaṇṭhapaṭṭikā | tattalāsthyāvidhiṃ (?) hyete ūrdhvādhacchidramiṣyate


6.85

सोमस्थाने जलस्राव +++++ नालकम् । उपानौ जगत्यां वापि कण्ठे नालं न कारयेत्

somasthāne jalasrāva +++++ nālakam | upānau jagatyāṃ vāpi kaṇṭhe nālaṃ na kārayet


6.86

केवलं जलमार्गं स्याद्वृतौ नालं प्रकल्पयेत् । हस्तायतत्रिपादो वा वितस्तिर्वा विशेषतः ८

kevalaṃ jalamārgaṃ syādvṛtau nālaṃ prakalpayet | hastāyatatripādo vā vitastirvā viśeṣataḥ 8


6.87

नालायाममिदं प्रोक्तं विस्तारं द्वादशाङ्गुलम्। दशाङ्गुलाष्टाङ्गुलं वा नालविस्तारमुच्यते

nālāyāmamidaṃ proktaṃ vistāraṃ dvādaśāṅgulam| daśāṅgulāṣṭāṅgulaṃ vā nālavistāramucyate


6.88

१० विस्तारस्य त्रिभागैकं नालाग्रे तु विहीनकम् ११ । चतुस्त्रिद्व्यङ्गुलं वापि ऊर्ध्वे खातं प्रकल्पयेत्

10 vistārasya tribhāgaikaṃ nālāgre tu vihīnakam 11 | catustridvyaṅgulaṃ vāpi ūrdhve khātaṃ prakalpayet


6

शिल्पिनं पूजयेद्वस्त्रैः हेमाङ्गुलिसमायुतैः । नालं प्रकल्पयेच्छिल्पं सुमुहूर्ते सुलग्नके॥ वारुणं सूक्तमुच्चार्य वामस्थो मन्त्रविग्रहः

śilpinaṃ pūjayedvastraiḥ hemāṅgulisamāyutaiḥ | nālaṃ prakalpayecchilpaṃ sumuhūrte sulagnake|| vāruṇaṃ sūktamuccārya vāmastho mantravigrahaḥ

Chapter 6 — १३. दिशामूर्तयः

6.89

प्रासादपार्श्वे पृष्ठे च दिशामूर्तिं तु विन्यसेत् । सेनापतिर्भवेत्पूर्वे दक्षिणामूर्तिर्दक्षिणे

prāsādapārśve pṛṣṭhe ca diśāmūrtiṃ tu vinyaset | senāpatirbhavetpūrve dakṣiṇāmūrtirdakṣiṇe


6.90

पश्चिमे नारसिंहस्तु उत्तरे च पितामहः । ेतन्मण्डपस्य पार्श्वे तु विघ्नमूर्तिं प्रकल्पयेत्

paścime nārasiṃhastu uttare ca pitāmahaḥ | ेtanmaṇḍapasya pārśve tu vighnamūrtiṃ prakalpayet


6

सौम्ये कात्यायनीं कुर्यान्महिषस्य शिरः स्थिताम्

saumye kātyāyanīṃ kuryānmahiṣasya śiraḥ sthitām

Chapter 6 — १४. द्वारलक्षणम्

6.91

वृतेरुत्तरसीमान्तं द्वारोत्सेधमिति स्मृतम्

vṛteruttarasīmāntaṃ dvārotsedhamiti smṛtam


6.92

तदर्धं चैव बहुलं सर्वप्रासादयोग्यकम् । द्वारे उत्तरबन्धं च द्वारबन्धमिति स्मृतम्

tadardhaṃ caiva bahulaṃ sarvaprāsādayogyakam | dvāre uttarabandhaṃ ca dvārabandhamiti smṛtam


6.93

द्वारबन्धस्य तत्पूर्वे लिङ्गस्थापनमारभेत्” । स्थाप्य द्वारोत्तरं पश्चात् सर्वसंपत्कराय च

dvārabandhasya tatpūrve liṅgasthāpanamārabhet” | sthāpya dvārottaraṃ paścāt sarvasaṃpatkarāya ca


6.94

आभिचारेण कुर्यात्तु राजराष्ट्रविनाशनम्' १० एकभूमिरिदं प्रोक्तं द्वितलं च ततः शृणु

ābhicāreṇa kuryāttu rājarāṣṭravināśanam' 10 ekabhūmiridaṃ proktaṃ dvitalaṃ ca tataḥ śṛṇu


6

इति दीप्तशास्त्रे प्रतिष्ठातन्त्रे एकतलप्रासादपटलः [षष्ठः] समाप्तः षष्ठमपटलः। [सप्तमः पटलः] [द्वितलप्रासादविधिः ] २ अथातः संप्रवक्ष्यामि द्वितलं पञ्चमानकम्

iti dīptaśāstre pratiṣṭhātantre ekatalaprāsādapaṭalaḥ [ṣaṣṭhaḥ] samāptaḥ ṣaṣṭhamapaṭalaḥ| [saptamaḥ paṭalaḥ] [dvitalaprāsādavidhiḥ ] 2 athātaḥ saṃpravakṣyāmi dvitalaṃ pañcamānakam

Chapter 6 — १. द्वितलप्रासादहस्तमानम्

6.1

पञ्चसप्तनवरुद्रत्रयोदशकरैरपि

pañcasaptanavarudratrayodaśakarairapi


6.2

हस्तसंख्या भवेत्तत्र द्वितलस्य विशेषतः ५ विस्तारद्विगुणोत्सेधं सर्वेषां तु विधीयते

hastasaṃkhyā bhavettatra dvitalasya viśeṣataḥ 5 vistāradviguṇotsedhaṃ sarveṣāṃ tu vidhīyate

Chapter 6 — २.१. मानम्

6.3

पञ्चहस्तप्रविस्तारं षड्भागेन विभाजयेत्। एकांशं कूटविस्तारं शालायामं द्विधं भवेत्

pañcahastapravistāraṃ ṣaḍbhāgena vibhājayet| ekāṃśaṃ kūṭavistāraṃ śālāyāmaṃ dvidhaṃ bhavet


6.4

एकांशहारसंयुक्तं हारपञ्जरशोभितम् । अग्रतो मण्डपं कुर्यात्प्रासादसमविस्तरम्

ekāṃśahārasaṃyuktaṃ hārapañjaraśobhitam | agrato maṇḍapaṃ kuryātprāsādasamavistaram


6

१° प्रासादद्विगुणं वाथ अर्धत्रिपादमेव वा

1° prāsādadviguṇaṃ vātha ardhatripādameva vā

Chapter 6 — २.२. विमानोत्सेधः

6.5

विमानोत्सेधं विभजेदष्टाविंशतिसंख्यया ११

vimānotsedhaṃ vibhajedaṣṭāviṃśatisaṃkhyayā 11


6.6

त्रिभागाभिरधिष्ठानं षड्वागं पाददैर्घ्यकम् १३ । त्रिभागैः प्रस्तरं कुर्यादादिभूमौ विशेषतः

tribhāgābhiradhiṣṭhānaṃ ṣaḍvāgaṃ pādadairghyakam 13 | tribhāgaiḥ prastaraṃ kuryādādibhūmau viśeṣataḥ


6.7

पञ्चभागोर्ध्वपादं स्याद् द्विभागं प्रस्तरं भवेत् ? । वेदिकाभागमेवं स्याद्द्विभागं ग्रीवमुच्यते

pañcabhāgordhvapādaṃ syād dvibhāgaṃ prastaraṃ bhavet ? | vedikābhāgamevaṃ syāddvibhāgaṃ grīvamucyate


6.8

चतुर्भागोर्ध्वमुत्सेधं शिखरं कारयेद्बुधः ३ । शेषं स्थूपिरिति ख्यातमेवं द्वितलमानकम्

caturbhāgordhvamutsedhaṃ śikharaṃ kārayedbudhaḥ 3 | śeṣaṃ sthūpiriti khyātamevaṃ dvitalamānakam

Chapter 6 — २.३. विविधलक्षणम्

6.9

चतुरश्रमधिष्ठानं चतुरश्रं शिखरं भवेत् । श्चतुष्कूटसमायुक्तं चतुश्शालासमायुतम्

caturaśramadhiṣṭhānaṃ caturaśraṃ śikharaṃ bhavet | ścatuṣkūṭasamāyuktaṃ catuśśālāsamāyutam


6.10

पञ्जरैरष्टभिर्युक्तं महानासीचतुर्युतम् । प्रस्तरं नासिकायुक्तं षड्विंशतिकसङ्ख्यकम्

pañjarairaṣṭabhiryuktaṃ mahānāsīcaturyutam | prastaraṃ nāsikāyuktaṃ ṣaḍviṃśatikasaṅkhyakam


6.11

१°मण्डपाग्रे विशेषेण अनुनासीं प्रकल्पयेत् । ऊर्ध्वे भूमिं चतुर्भित्तिं सर्वालङ्कारसंयुतम् १२

1°maṇḍapāgre viśeṣeṇa anunāsīṃ prakalpayet | ūrdhve bhūmiṃ caturbhittiṃ sarvālaṅkārasaṃyutam 12


6

पूर्वोक्तैः पादविस्तारैः पादालङ्कारमुच्यते १३

pūrvoktaiḥ pādavistāraiḥ pādālaṅkāramucyate 13

Chapter 7 — Text

7.12

एतद्वै स्वस्तिकं नाम सर्वदेवेषु योग्यकम्

etadvai svastikaṃ nāma sarvadeveṣu yogyakam


7.27

महानास्याश्च विस्तारं त्रिदण्डं तावदुच्छ्रयम् । प्रस्तरं नासिकायुक्तं चत्वारिंशत्सलक्षणम्

mahānāsyāśca vistāraṃ tridaṇḍaṃ tāvaducchrayam | prastaraṃ nāsikāyuktaṃ catvāriṃśatsalakṣaṇam


7.46

मण्डपं तु त्रिधा भज्य मध्ये तोरणसंयुतम् । मण्डपस्य तु यत्पादं तत्पादोपरि नासिका

maṇḍapaṃ tu tridhā bhajya madhye toraṇasaṃyutam | maṇḍapasya tu yatpādaṃ tatpādopari nāsikā


7.47

शालामध्ये महानासी भद्रमेवं प्रकीर्तितम् । एकयोन्या कृतं पादमष्टाश्रं पादविस्तृतम्

śālāmadhye mahānāsī bhadramevaṃ prakīrtitam | ekayonyā kṛtaṃ pādamaṣṭāśraṃ pādavistṛtam


7.48

तोरणस्तम्भवेदाश्रं सर्वालंकारसंयुतम् । एभिश्च लक्षणैर्युक्तं भद्रकोष्ठमिति स्मृतम्

toraṇastambhavedāśraṃ sarvālaṃkārasaṃyutam | ebhiśca lakṣaṇairyuktaṃ bhadrakoṣṭhamiti smṛtam

Chapter 7 — ३.१. विस्तारः

7.13

सप्तहस्तं तु विस्तारं षड्भिर्भागैर्विभाजयेत् ? । भागैकं कटविस्तारं शालायामं द्विभागिकम्

saptahastaṃ tu vistāraṃ ṣaḍbhirbhāgairvibhājayet ? | bhāgaikaṃ kaṭavistāraṃ śālāyāmaṃ dvibhāgikam


7.14

भागैकं हारसंयुक्तं हारपञ्जरशोभितम् । चतुरश्रमधिष्ठानं शालानिर्गममेव च

bhāgaikaṃ hārasaṃyuktaṃ hārapañjaraśobhitam | caturaśramadhiṣṭhānaṃ śālānirgamameva ca


7

दण्डं वाथ द्विदण्डं वा त्रिदण्डं कोष्ठनिर्गमम्

daṇḍaṃ vātha dvidaṇḍaṃ vā tridaṇḍaṃ koṣṭhanirgamam

Chapter 7 — ३.२. मण्डपमन्तरालं च

7.15

मण्डपं समसूत्रं स्यादन्तरालं तु निम्नकम्

maṇḍapaṃ samasūtraṃ syādantarālaṃ tu nimnakam


7.16

'अग्रतो मण्डपं कुर्यात्प्रासादसमविस्तरम् । १° तदर्थं वा त्रिपादं वा मण्डपस्य तु विस्तरम्

'agrato maṇḍapaṃ kuryātprāsādasamavistaram | 1° tadarthaṃ vā tripādaṃ vā maṇḍapasya tu vistaram


7.17

द्विदण्डं वा त्रिदण्डं वा अन्तरालस्य निर्गमम् ११ । एकहस्तं द्विहस्तं वा प्रासादं भागमेव वा

dvidaṇḍaṃ vā tridaṇḍaṃ vā antarālasya nirgamam 11 | ekahastaṃ dvihastaṃ vā prāsādaṃ bhāgameva vā


7

अन्तरालस्य विस्तारं मध्ये कुम्भलतायुतम् १२

antarālasya vistāraṃ madhye kumbhalatāyutam 12

Chapter 7 — ३.३. तोरणं कूटादि च

7.18

शालामध्ये तु कर्तव्यं तोरणं लक्षणान्वितम् १३

śālāmadhye tu kartavyaṃ toraṇaṃ lakṣaṇānvitam 13


7.19

'वृतेरुत्तरसीमान्तं तोरणस्योच्छ्रयं भवेत् । त्रिदण्डं वा त्रिदण्डार्धं चतुर्दण्डं सविस्तरम्

'vṛteruttarasīmāntaṃ toraṇasyocchrayaṃ bhavet | tridaṇḍaṃ vā tridaṇḍārdhaṃ caturdaṇḍaṃ savistaram


7.20

पादायामं नवांशं स्यात्षङ्गागं पाददैर्घ्यकम् । त्रिभागं मकरांशं स्यात्पत्त्रपातं विशेषतः ६

pādāyāmaṃ navāṃśaṃ syātṣaṅgāgaṃ pādadairghyakam | tribhāgaṃ makarāṃśaṃ syātpattrapātaṃ viśeṣataḥ 6


7.21

कर्णे कर्णे तु कूटं स्यान्मध्ये मध्ये तु कोष्ठकम्। हारान्तराणां तन्मध्ये पञ्जरोपरि कल्पितः ८

karṇe karṇe tu kūṭaṃ syānmadhye madhye tu koṣṭhakam| hārāntarāṇāṃ tanmadhye pañjaropari kalpitaḥ 8


7.22

चतस्रश्शाला नास्यश्च कूटं चत्वारि एव च ' [ ३.४. विमानोत्सेधः | विमानोत्सेधं विभजेच्चतुस्त्रिंशतिभागभाक्

catasraśśālā nāsyaśca kūṭaṃ catvāri eva ca ' [ 3.4. vimānotsedhaḥ | vimānotsedhaṃ vibhajeccatustriṃśatibhāgabhāk


7.23

त्र्यंशमर्धमधिष्ठानं सप्तांशं स्तम्भदैर्घ्यकम् १° । त्रिभागैः प्रस्तरं कुर्यादूर्ध्वपादं षडंशकैः

tryaṃśamardhamadhiṣṭhānaṃ saptāṃśaṃ stambhadairghyakam 1° | tribhāgaiḥ prastaraṃ kuryādūrdhvapādaṃ ṣaḍaṃśakaiḥ


7.24

प्रागिव प्रस्तरं कुर्याद्वेदिका भागमेव च ग्रीवोत्सेधं द्विभागार्थं शिखरं पञ्चभागिकम्

prāgiva prastaraṃ kuryādvedikā bhāgameva ca grīvotsedhaṃ dvibhāgārthaṃ śikharaṃ pañcabhāgikam


7

शेषं स्थूपिरिति ख्यातमेतद्द्वितलमानकम्

śeṣaṃ sthūpiriti khyātametaddvitalamānakam

Chapter 7 — ३.५. विविधलक्षणम्

7.25

ऊर्ध्वभूमिं चतुर्भित्तिमध्ये दण्डविनिर्गतम्

ūrdhvabhūmiṃ caturbhittimadhye daṇḍavinirgatam


7.26

वेदिकाष्टाश्रसंयुक्ता शिखरोऽष्टाश्रमिष्यते । ग्रीवमष्टाश्रसंयुक्तं महानास्यष्ट एव च

vedikāṣṭāśrasaṃyuktā śikharo'ṣṭāśramiṣyate | grīvamaṣṭāśrasaṃyuktaṃ mahānāsyaṣṭa eva ca