8. Dīptāgama Tome I (part 8 of 13)
Chapter 16 — १.७.३. तालमानम्
16.35
प्रतिमायाममानं तु तालगण्येन भाजितम् ? । लब्धोत्सेधस्य मानं तु चतुर्विंशच्छतं कुरु
pratimāyāmamānaṃ tu tālagaṇyena bhājitam ? | labdhotsedhasya mānaṃ tu caturviṃśacchataṃ kuru
16.36
तत्तद्भागैकमानं यत्तदङ्गुलमिति स्मृतम् । अङ्गुलं तु भवेन्मात्रं मात्रादष्टविभाजितम्
tattadbhāgaikamānaṃ yattadaṅgulamiti smṛtam | aṅgulaṃ tu bhavenmātraṃ mātrādaṣṭavibhājitam
16.37
एकभागं यवं विद्याद्यवाष्टगुणिताङ्गुलम् । द्व्यङ्गुलं कोलकं विद्यात्त्र्यङ्गुलेन कुला भवेत्
ekabhāgaṃ yavaṃ vidyādyavāṣṭaguṇitāṅgulam | dvyaṅgulaṃ kolakaṃ vidyāttryaṅgulena kulā bhavet
16.38
भागं स्याच्छतुरङ्गुल्यं भागद्विगुणयावकम् । भागयावकसंयुक्तं मुखमेवं प्रकीर्तितम्
bhāgaṃ syācchaturaṅgulyaṃ bhāgadviguṇayāvakam | bhāgayāvakasaṃyuktaṃ mukhamevaṃ prakīrtitam
16
मुखं तालसमं चैव द्वादशाङ्गुलसंज्ञकम्१°
mukhaṃ tālasamaṃ caiva dvādaśāṅgulasaṃjñakam1°
Chapter 16 — १.८. पञ्चमानम्
16.39
मानं प्रमाणमुन्मानं लम्बमानोपमानकम्
mānaṃ pramāṇamunmānaṃ lambamānopamānakam
16.40
पञ्चमानसमायुक्तां प्रतिमां कारयेदुधः । यथावत्प्रतिमोत्सेधं तस्य मानमिहोच्यते ११
pañcamānasamāyuktāṃ pratimāṃ kārayedudhaḥ | yathāvatpratimotsedhaṃ tasya mānamihocyate 11
16.41
तत्तिर्यग्गतमानं यत्तत्सर्वं तु प्रमाणकम् । तु तस्यावृतं तु यन्मानं तन्मानोन्मानमुच्यते
tattiryaggatamānaṃ yattatsarvaṃ tu pramāṇakam | tu tasyāvṛtaṃ tu yanmānaṃ tanmānonmānamucyate
16.42
सर्वेषां सूत्रदेहे तु लम्बयेल्लम्बमानकम् । निम्नोन्नतक्षयं चैव उपमानमिति स्मृतम्
sarveṣāṃ sūtradehe tu lambayellambamānakam | nimnonnatakṣayaṃ caiva upamānamiti smṛtam
16.43
मानं स्यात्कायमित्युक्तमनुकायं प्रमाणकम् । नाहमुन्मानमेवं तु लम्बमानं तु सूत्रकम्
mānaṃ syātkāyamityuktamanukāyaṃ pramāṇakam | nāhamunmānamevaṃ tu lambamānaṃ tu sūtrakam
16
क्षयवृद्धिविधानं यद् उपमानमिति स्मृतम्'
kṣayavṛddhividhānaṃ yad upamānamiti smṛtam'
Chapter 16 — १.९. मानदोषाः
16.44
मानहीने महाव्याधिरधिके शत्रुवर्धनम्
mānahīne mahāvyādhiradhike śatruvardhanam
16.45
नाहहीने विनाशः स्याद् वृद्धिः स्यात्क्षयदं भवेत् । १० प्रमाणहीने दारिद्र्यमधिके दारनाशनम्
nāhahīne vināśaḥ syād vṛddhiḥ syātkṣayadaṃ bhavet | 10 pramāṇahīne dāridryamadhike dāranāśanam
16.46
लम्बमानविहीने तु राजराष्ट्रस्य दोषकृत् ११ उपमानाधिके हीने शिल्पिनं हन्ति देशिकम् १२
lambamānavihīne tu rājarāṣṭrasya doṣakṛt 11 upamānādhike hīne śilpinaṃ hanti deśikam 12
Chapter 16 — २.१. कायमानम्
16.47
कायमध्यममेद्रं तु मेढ्रमूलमिति स्मृतम्
kāyamadhyamamedraṃ tu meḍhramūlamiti smṛtam
16.48
ऊर्ध्वकायमधःकायं समं तु शुभलक्षणम् । किञ्चिन्यूनाधिकं वर्ज्यं कारयेच्छुभमादरात्
ūrdhvakāyamadhaḥkāyaṃ samaṃ tu śubhalakṣaṇam | kiñcinyūnādhikaṃ varjyaṃ kārayecchubhamādarāt
16.49
मूर्धपादान्तयोर्मध्ये एतन्मानमुदाहृतम् । उत्तमं दशतालं स्यान्मानं तस्य विधीयते
mūrdhapādāntayormadhye etanmānamudāhṛtam | uttamaṃ daśatālaṃ syānmānaṃ tasya vidhīyate
16.50
उष्णीषं द्वियवं मात्रं केशमानं कला भवेत् । केशान्तादक्षिसूत्रान्तं भागं तु द्वियवाधिकम्
uṣṇīṣaṃ dviyavaṃ mātraṃ keśamānaṃ kalā bhavet | keśāntādakṣisūtrāntaṃ bhāgaṃ tu dviyavādhikam
16.51
१० अक्षिसूत्रात्तु नासाग्रं तत्समं चैव कारयेत् ११ । नासाग्राद्धनुपर्यन्तं द्विकोलकं यवाधिकम् १३
10 akṣisūtrāttu nāsāgraṃ tatsamaṃ caiva kārayet 11 | nāsāgrāddhanuparyantaṃ dvikolakaṃ yavādhikam 13
16.52
गलवृद्ध्यर्धाङ्गुलं विद्धि ग्रीवामानं द्विकोलकम् । ग्रीवामूलात्स्तनान्तं स्यात्रयोदशार्धाङ्गुलेन तु
galavṛddhyardhāṅgulaṃ viddhi grīvāmānaṃ dvikolakam | grīvāmūlātstanāntaṃ syātrayodaśārdhāṅgulena tu
16.53
स्तनाभ्यां मेढ्रमूलान्तं सप्तविंशाङ्गुलं भवेत् । मेढ्रमूलात्तु जानु स्यात्सप्तविंशाङ्गुलायतम्
stanābhyāṃ meḍhramūlāntaṃ saptaviṃśāṅgulaṃ bhavet | meḍhramūlāttu jānu syātsaptaviṃśāṅgulāyatam
16.54
जानुमण्डलं द्विकोलं जङ्घायां चोरुतत्समम् । चरणं चतुरङ्गुल्यं मानमेतत्प्रशस्यते
jānumaṇḍalaṃ dvikolaṃ jaṅghāyāṃ corutatsamam | caraṇaṃ caturaṅgulyaṃ mānametatpraśasyate
Chapter 16 — २.२. शीर्षमानम्
16.55
वादशाङ्गुलविस्तारं मुखं पूर्वक्रिया भवेत्“ । उष्णीषात्पृष्ठकेशान्तं षट्कोलकमिति स्मृतम्
vādaśāṅgulavistāraṃ mukhaṃ pūrvakriyā bhavet“ | uṣṇīṣātpṛṣṭhakeśāntaṃ ṣaṭkolakamiti smṛtam
16.56
उष्णीषात्पूर्वकेशान्तं नवमात्रं विधीयते । उष्णीषात्पार्श्वकेशान्तं एकैकं तु नवाङ्गुलम्
uṣṇīṣātpūrvakeśāntaṃ navamātraṃ vidhīyate | uṣṇīṣātpārśvakeśāntaṃ ekaikaṃ tu navāṅgulam
Chapter 16 — २.२.१. कर्णमानम्
16.57
कर्णयोरन्तरं पूर्वं दशकोलमिति स्मृतम्
karṇayorantaraṃ pūrvaṃ daśakolamiti smṛtam
16.58
नासाग्ग्रात्कर्णपाल्यन्तं कलाचतुरनिर्गमम् । पृष्ठस्य कर्णयोर्मध्ये त्रिभागार्धाङ्गुलं भवेत्
nāsāggrātkarṇapālyantaṃ kalācaturanirgamam | pṛṣṭhasya karṇayormadhye tribhāgārdhāṅgulaṃ bhavet
16.59
कोलकं कर्णविस्तारं द्विगुणं चायतं भवेत् । कर्णश्रोत्रायतं तारं मात्रमर्धाङ्गुलं विदुः
kolakaṃ karṇavistāraṃ dviguṇaṃ cāyataṃ bhavet | karṇaśrotrāyataṃ tāraṃ mātramardhāṅgulaṃ viduḥ
16.60
यवद्वयं कर्णपाल्यं तत्समं कर्णपट्टिका" । मात्रार्धं कर्णदीपाल्यं तदंशं कर्णनालकम्
yavadvayaṃ karṇapālyaṃ tatsamaṃ karṇapaṭṭikā" | mātrārdhaṃ karṇadīpālyaṃ tadaṃśaṃ karṇanālakam
16.61
लकारवक्त्रयोर्मध्ये पिञ्चषी कर्णचूलिका' । अधस्तान्नालमायामं चतुष्कयवविस्तरम् १°
lakāravaktrayormadhye piñcaṣī karṇacūlikā' | adhastānnālamāyāmaṃ catuṣkayavavistaram 1°
16
अपाङ्गात्कर्णमूलान्तं ऋषिमात्रं विधीयते ११
apāṅgātkarṇamūlāntaṃ ṛṣimātraṃ vidhīyate 11
Chapter 16 — २.२.२. नेत्रमानम्
16.62
नेत्रायामं द्विमात्रं स्याद्यवाधिक्यमिति स्मृतम्
netrāyāmaṃ dvimātraṃ syādyavādhikyamiti smṛtam
16.63
षड्यवं नेत्रविस्तारं करवीरो यवो भवेत् । मध्यमं च यवं तारं तज्ज्योतिर्यवमात्रकम्
ṣaḍyavaṃ netravistāraṃ karavīro yavo bhavet | madhyamaṃ ca yavaṃ tāraṃ tajjyotiryavamātrakam
16.64
दृष्टिर्यूकप्रमाणेन त्रिविधाकारमण्डलम् । श्वेतं रक्तं तथा कृष्णं त्रिविधं लोचनान्वितम्
dṛṣṭiryūkapramāṇena trividhākāramaṇḍalam | śvetaṃ raktaṃ tathā kṛṣṇaṃ trividhaṃ locanānvitam
16.65
नवतीपक्ष्मरोमं च भ्रमराञ्जनसंनिभम् । ‘मत्स्याभं धनुराकारं चोत्पलाकारमेव च
navatīpakṣmaromaṃ ca bhramarāñjanasaṃnibham | ‘matsyābhaṃ dhanurākāraṃ cotpalākārameva ca
16.66
भ्रूरेखा चक्षुरेखा च कोलकं यवमुच्यते१° । भ्रूरेखादूर्ध्वकेशान्तं तत्समं तत्र कारयेत् ११
bhrūrekhā cakṣurekhā ca kolakaṃ yavamucyate1° | bhrūrekhādūrdhvakeśāntaṃ tatsamaṃ tatra kārayet 11
16
ऊर्ध्ववर्मविशालं स्याद्यवं पञ्चैव कारयेत्
ūrdhvavarmaviśālaṃ syādyavaṃ pañcaiva kārayet
Chapter 16 — २.२.३. नासामानम्
16.69
गोजेश्च नासिकोत्सेधं कोलकं परिकीर्तितम्
gojeśca nāsikotsedhaṃ kolakaṃ parikīrtitam
16.70
पुटयोः पुष्करं तिर्यक्कीलकं तु यवाधिकम् । वंशमङ्गुलविस्तारं पुटं पञ्चयवोच्छ्रयम्
puṭayoḥ puṣkaraṃ tiryakkīlakaṃ tu yavādhikam | vaṃśamaṅgulavistāraṃ puṭaṃ pañcayavocchrayam
16.71
पुष्करं तु यवोत्सेधं पुरस्तात्षड्यवं तथा' । पुटद्वारोन्नतं तारं यवं सप्तार्धमङ्गुलम्१°
puṣkaraṃ tu yavotsedhaṃ purastātṣaḍyavaṃ tathā' | puṭadvāronnataṃ tāraṃ yavaṃ saptārdhamaṅgulam1°
16.72
द्वयंशं वामेन वपुषा पुष्करस्य प्रमाणतः ११ तिलपुष्पसमाकारं नासाग्रपुटयोर्भवेत्
dvayaṃśaṃ vāmena vapuṣā puṣkarasya pramāṇataḥ 11 tilapuṣpasamākāraṃ nāsāgrapuṭayorbhavet
Chapter 16 — २.२.४. आस्यमानम्
16.73
पुटसूत्राधरोष्ठान्तं कोलकं यवमुच्यते । दशनादृश्यदृश्यं तु द्वात्रिंशच्च विधीयते
puṭasūtrādharoṣṭhāntaṃ kolakaṃ yavamucyate | daśanādṛśyadṛśyaṃ tu dvātriṃśacca vidhīyate
16.74
यवत्रयं तु विस्तारमुत्सेधं तत्समं भवेत् । दंष्ट्रायामं यवाधिक्यं स दंशी मुकुलाकृतिः ६
yavatrayaṃ tu vistāramutsedhaṃ tatsamaṃ bhavet | daṃṣṭrāyāmaṃ yavādhikyaṃ sa daṃśī mukulākṛtiḥ 6
16.75
ऊर्ध्वे षोडशदन्तं स्यादधस्तात्तावदेव तु । “अधो दशनविस्तारं द्वियवं तावदुच्छ्रयम्
ūrdhve ṣoḍaśadantaṃ syādadhastāttāvadeva tu | “adho daśanavistāraṃ dviyavaṃ tāvaducchrayam
16.76
जिह्वायामं षडङ्गुल्यं कोलका यवविस्तृतम्° । अधरोष्ठस्य विस्तारमङ्गुलं तु यवाधिकम्
jihvāyāmaṃ ṣaḍaṅgulyaṃ kolakā yavavistṛtam° | adharoṣṭhasya vistāramaṅgulaṃ tu yavādhikam
16
सप्तयवा रक्ततारमायामं च द्विमात्रकम् १२ 1
saptayavā raktatāramāyāmaṃ ca dvimātrakam 12 1
Chapter 16 — २.२.५. हनुमानम्
16.80
हनुः स्याद्व्यङ्गुलायामं तदूर्ध्वे तु यवाङ्गुलम् । सप्तयवोच्चमधरात्त्रिमात्रं हनुवर्धनम्
hanuḥ syādvyaṅgulāyāmaṃ tadūrdhve tu yavāṅgulam | saptayavoccamadharāttrimātraṃ hanuvardhanam
16.81
त्रियवं चोन्नतं विद्यान्मात्रार्धं चिबुनिर्गमम् । पूर्णचन्द्राकृतिर्वक्त्रं सर्वलक्षणसंयुतम्
triyavaṃ connataṃ vidyānmātrārdhaṃ cibunirgamam | pūrṇacandrākṛtirvaktraṃ sarvalakṣaṇasaṃyutam
Chapter 16 — २.३. पृष्ठमानं ग्रीवामानं च
16
गण्डिकात्पृष्ठग्रीवं च भागायतमिहोच्यते
gaṇḍikātpṛṣṭhagrīvaṃ ca bhāgāyatamihocyate
Chapter 16 — २.३.१. पृष्ठमानम्
16.82
अधस्तात्कोलकायामं शूर्पं तस्याकृतिर्भवेत् ?
adhastātkolakāyāmaṃ śūrpaṃ tasyākṛtirbhavet ?
16.83
ककुदा कटिसन्धिश्च दशकलाङ्गुलार्धकम् । तत्समं कक्षयोर्मध्ये प्रमाणं परिकीर्तितम्
kakudā kaṭisandhiśca daśakalāṅgulārdhakam | tatsamaṃ kakṣayormadhye pramāṇaṃ parikīrtitam
16.84
पृष्ठान्तं कटिसन्धिश्च त्रयोदशार्धाङ्गुलायतम् । ब्रह्ममात्रार्धविस्तारं पृष्ठमण्डलमेव च
pṛṣṭhāntaṃ kaṭisandhiśca trayodaśārdhāṅgulāyatam | brahmamātrārdhavistāraṃ pṛṣṭhamaṇḍalameva ca
16
तत्समाततविस्तारं तदर्धं चोन्नतं भवेत्
tatsamātatavistāraṃ tadardhaṃ connataṃ bhavet
Chapter 16 — २.३.२. गलमानम्
16.85
ग्रीवाग्रास्य तु विस्तारं वसुमात्रार्धमङ्गुलम्
grīvāgrāsya tu vistāraṃ vasumātrārdhamaṅgulam
16.86
ग्रीवमूलस्य विस्तारं नवमात्रार्धमिष्यते' । सुवृत्तं ग्रीवमेवोक्तं द्विरेखापरिवेष्टितम्
grīvamūlasya vistāraṃ navamātrārdhamiṣyate' | suvṛttaṃ grīvamevoktaṃ dvirekhāpariveṣṭitam
Chapter 16 — २.४.१. बाहमानम्
16
हिक्कासूत्रे तथा ज्ञेया बाहुभ्यां सप्तविंशतिः १० 1
hikkāsūtre tathā jñeyā bāhubhyāṃ saptaviṃśatiḥ 10 1
Chapter 16 — २.४.२. हस्तमानम्
16.94
त्रिकोलं मध्यमायामं शेषं च तलमायतम्। षडङ्गुलं करतलं तिर्यक्स्यात्परिकीर्तितम्
trikolaṃ madhyamāyāmaṃ śeṣaṃ ca talamāyatam| ṣaḍaṅgulaṃ karatalaṃ tiryaksyātparikīrtitam
16.95
कराङ्गुष्ठोन्नतं ज्ञेयं चतुर्मात्रयवाधिकम् । ७ कनिष्ठं तत्समं ज्ञेयं पूर्वोक्तविधिना सह '
karāṅguṣṭhonnataṃ jñeyaṃ caturmātrayavādhikam | 7 kaniṣṭhaṃ tatsamaṃ jñeyaṃ pūrvoktavidhinā saha '
16.96
अनामिका षडङ्गुला प्रदेशिन्यायामतत्समम् । यावं दशार्धं सप्तार्धमष्टार्धाष्टममुच्यते१°
anāmikā ṣaḍaṅgulā pradeśinyāyāmatatsamam | yāvaṃ daśārdhaṃ saptārdhamaṣṭārdhāṣṭamamucyate1°
16.97
षड्प्रवार्धं कनिष्ठं च अङ्गष्ठादीनि विस्तरम् । सप्तार्धं चतुरर्धं च पञ्चार्धं चतुरर्धकम्
ṣaḍpravārdhaṃ kaniṣṭhaṃ ca aṅgaṣṭhādīni vistaram | saptārdhaṃ caturardhaṃ ca pañcārdhaṃ caturardhakam
Chapter 16 — २.५.१. हृदयमानम्
16.101
कक्षयोरन्तरं प्रोक्तं त्र्यङ्गुलं दशकोलकम् । हिक्काचूचुकयोर्मध्ये त्रयोदशार्धाङ्गुलं भवेत्
kakṣayorantaraṃ proktaṃ tryaṅgulaṃ daśakolakam | hikkācūcukayormadhye trayodaśārdhāṅgulaṃ bhavet
16.102
स्तनयोरन्तरं तत्स्यात्तत्समं तत्र कारयेत् ? । तदृत् चूचुकं तिलकाकारं तद्यवं विस्तरं भवेत्
stanayorantaraṃ tatsyāttatsamaṃ tatra kārayet ? | tadṛt cūcukaṃ tilakākāraṃ tadyavaṃ vistaraṃ bhavet
16.103
स्तनचूचुकयोरुत्सेधं त्र्यङ्गुलं स्तनमण्डलम् । हृदयस्य च विस्तारमष्टादशाङ्गुलार्धकम्
stanacūcukayorutsedhaṃ tryaṅgulaṃ stanamaṇḍalam | hṛdayasya ca vistāramaṣṭādaśāṅgulārdhakam
16.104
उदरस्य तु विस्तारं पञ्चदशाङ्गुलार्धकम्। नाभिप्रदक्षिणावर्तं षड्यवं तत्र कारयेत्
udarasya tu vistāraṃ pañcadaśāṅgulārdhakam| nābhipradakṣiṇāvartaṃ ṣaḍyavaṃ tatra kārayet
16.105
निम्नं तु तद्यवार्धं च तत्पूर्वोक्तविधिक्रमम् । तु श्रोणीप्रदेशविस्तारं सप्तदशाङ्गुलार्धकम्
nimnaṃ tu tadyavārdhaṃ ca tatpūrvoktavidhikramam | tu śroṇīpradeśavistāraṃ saptadaśāṅgulārdhakam
16.106
नागेन्द्रस्य फणाकारमुच्छ्रायं बाणमङ्गलम् । कटिप्रदेशविस्तारं नवमार्धदशाङ्गुलम्
nāgendrasya phaṇākāramucchrāyaṃ bāṇamaṅgalam | kaṭipradeśavistāraṃ navamārdhadaśāṅgulam
16
शरीरं गोमुखाकारं कटेरूर्ध्वं प्रशस्यते
śarīraṃ gomukhākāraṃ kaṭerūrdhvaṃ praśasyate
Chapter 16 — २.५.२. मेढ्रमानम्
16.108
बाणमात्रं यवाधिक्यं तन्मेद्रान्तमिहोच्यते । मुष्कायाश्चतुरङ्गुल्यं विस्तारायामतत्समम्
bāṇamātraṃ yavādhikyaṃ tanmedrāntamihocyate | muṣkāyāścaturaṅgulyaṃ vistārāyāmatatsamam
16.109
एकैकं द्व्यङ्गुलं ज्ञेयं मुष्कविस्तारमेव चँ । कोलकं च यवाधिक्यं मेद्रविस्तारमुच्यते
ekaikaṃ dvyaṅgulaṃ jñeyaṃ muṣkavistārameva cam̐ | kolakaṃ ca yavādhikyaṃ medravistāramucyate
Chapter 16 — २.६.१. ऊरुमानम्
16.110
ऊरुमूलस्य विस्तारं त्रयोदशार्धाङ्गुलं विदुः“ । मूलाच्च द्व्यङ्गुलाधस्तात्तारं त्रयोदशाङ्गुलम्१°
ūrumūlasya vistāraṃ trayodaśārdhāṅgulaṃ viduḥ“ | mūlācca dvyaṅgulādhastāttāraṃ trayodaśāṅgulam1°
16
ऊरुमध्यमविस्तारं द्वादशाङ्गुलमेव च
ūrumadhyamavistāraṃ dvādaśāṅgulameva ca
Chapter 16 — २.६.२. जानुमानम्
16.111
जानुमध्यमविस्तारं नवमात्रार्धमिष्यते
jānumadhyamavistāraṃ navamātrārdhamiṣyate
Chapter 16 — २.६.३. जङ्घामानम्
16.112
जङ्घामध्यमविस्तारं सप्तार्धमङ्गुलं भवेत् । नालप्रदेशविस्तारं चतुर्मात्रायवाधिकम्
jaṅghāmadhyamavistāraṃ saptārdhamaṅgulaṃ bhavet | nālapradeśavistāraṃ caturmātrāyavādhikam
Chapter 16 — २.६.४. पादमानम्
16.113
तलप्रदेशविस्तारं पञ्चाङ्गुलयवाधिकम्। पादाङ्गुष्ठा यथा ज्ञेया द्विकोलं तच्च कारयेत्
talapradeśavistāraṃ pañcāṅgulayavādhikam| pādāṅguṣṭhā yathā jñeyā dvikolaṃ tacca kārayet
16.114
चतुर्मात्रा यवाधिक्यं देशिन्यायाममिष्यते । मध्यायामं त्रिमात्रं वानामिका त्र्यङ्गुलं भवेत्
caturmātrā yavādhikyaṃ deśinyāyāmamiṣyate | madhyāyāmaṃ trimātraṃ vānāmikā tryaṅgulaṃ bhavet
16.115
कनिष्ठा द्व्यङ्गुलार्धं च मानमेतद्विधीयते। त्रयोदशनवाष्टं च सप्तार्धं षड्वाधिकम्
kaniṣṭhā dvyaṅgulārdhaṃ ca mānametadvidhīyate| trayodaśanavāṣṭaṃ ca saptārdhaṃ ṣaḍvādhikam
16
अङ्गुष्ठादिषु विस्तारं यथावदनुपूर्वशः
aṅguṣṭhādiṣu vistāraṃ yathāvadanupūrvaśaḥ
Chapter 16 — ३. षोडशमूर्तयः
16.119
षोडशप्रतिमाकारं वक्ष्यते विधिनाधुना । प्रथमं सुखासनं प्रोक्तं वैवाह्यं च द्वितीयकम्
ṣoḍaśapratimākāraṃ vakṣyate vidhinādhunā | prathamaṃ sukhāsanaṃ proktaṃ vaivāhyaṃ ca dvitīyakam
16.120
तृतीयमुमया युक्तं वृषारूढं चतुर्थकम्। पञ्चमं त्रिपुरघ्नं च नृत्तरूपं च षष्ठकम्
tṛtīyamumayā yuktaṃ vṛṣārūḍhaṃ caturthakam| pañcamaṃ tripuraghnaṃ ca nṛttarūpaṃ ca ṣaṣṭhakam
16.121
चन्द्रशेखरमेवोक्तं सप्तमं तु विधीयते । अष्टमं चार्धनारी च नवमं हरिरर्धकम्
candraśekharamevoktaṃ saptamaṃ tu vidhīyate | aṣṭamaṃ cārdhanārī ca navamaṃ harirardhakam
16.122
चण्डेश्वरप्रसादं तु दशमं परिकीर्तितम् । कामार्येकादशं प्रोक्तं द्वादशं कालनाशनम्
caṇḍeśvaraprasādaṃ tu daśamaṃ parikīrtitam | kāmāryekādaśaṃ proktaṃ dvādaśaṃ kālanāśanam
16.123
त्रयोदशं दक्षिणामूर्तिं भिक्षाटनमतः परम् । सदाशिवं पञ्चदशं लिङ्गोद्भवं च षोडशः
trayodaśaṃ dakṣiṇāmūrtiṃ bhikṣāṭanamataḥ param | sadāśivaṃ pañcadaśaṃ liṅgodbhavaṃ ca ṣoḍaśaḥ
Chapter 16 — ३.१. सुखासनलक्षणम्
16.124
आसने तु सुखासीनं वरदाभयहस्तकम् । अभयं दक्षिणं हस्तं वरदं वामहस्तकम्
āsane tu sukhāsīnaṃ varadābhayahastakam | abhayaṃ dakṣiṇaṃ hastaṃ varadaṃ vāmahastakam
16.125
वामदक्षिणहस्ताभ्यां कृष्णापरशुधारिणम्। शयनं दक्षिणं पादं वामपादं तु लम्बितम्
vāmadakṣiṇahastābhyāṃ kṛṣṇāparaśudhāriṇam| śayanaṃ dakṣiṇaṃ pādaṃ vāmapādaṃ tu lambitam
Chapter 16 — ३.२. कल्याणमूर्तिलक्षणम्
16.126
कल्याणमधुनोच्यते। किञ्चित्रिभङ्गिकं कार्यं वामपादं तु कुञ्चितम्
kalyāṇamadhunocyate| kiñcitribhaṅgikaṃ kāryaṃ vāmapādaṃ tu kuñcitam
16.127
देवस्य दक्षिणं हस्तं देवीहस्तेन संयुतम् । वरदं वामहस्तं च कृष्णापरशुसंयुतम्
devasya dakṣiṇaṃ hastaṃ devīhastena saṃyutam | varadaṃ vāmahastaṃ ca kṛṣṇāparaśusaṃyutam
16.128
“दुकूलवसनां देवीं कुर्यादेवं विशेषतः लक्ष्मीं कनकरूपां तु द्विभुजां च सुलोचनाम्
“dukūlavasanāṃ devīṃ kuryādevaṃ viśeṣataḥ lakṣmīṃ kanakarūpāṃ tu dvibhujāṃ ca sulocanām
16
सर्वाभरणसंयुक्तं क्षौमाम्बरधरं हरम् । देवस्य बाहुमात्रेण देवीं कुर्याद्द्विबाहुकम्॥ द्विनेत्रं चारुवदनं मकरकुण्डलमण्डितम्। कुर्यात्करण्डमकुटं मुक्तहारसमन्वितम्
sarvābharaṇasaṃyuktaṃ kṣaumāmbaradharaṃ haram | devasya bāhumātreṇa devīṃ kuryāddvibāhukam|| dvinetraṃ cāruvadanaṃ makarakuṇḍalamaṇḍitam| kuryātkaraṇḍamakuṭaṃ muktahārasamanvitam
Chapter 16 — ३.३. उमासहितः सोमास्कन्दश्च
16.129
उमासहितमुच्यते
umāsahitamucyate
16.130
देवस्य वामपार्श्वे तु देवीं कुर्याद्द्विबाहुकाम् । उमाशङ्करसुखासीनौ स्कन्दो मध्ये तु संस्थितः ६
devasya vāmapārśve tu devīṃ kuryāddvibāhukām | umāśaṅkarasukhāsīnau skando madhye tu saṃsthitaḥ 6
Chapter 16 — ३.४. वृषारूढः
16.131
महेश्वरौ स्थितौ सम्यग्वृषभः पृष्ठतः स्थितः ७ । वृषस्य मस्तके देशे न्यसेद्वै वामकोर्परम्
maheśvarau sthitau samyagvṛṣabhaḥ pṛṣṭhataḥ sthitaḥ 7 | vṛṣasya mastake deśe nyasedvai vāmakorparam
16
लम्बितं दक्षिणं हस्तं कृष्णापरशुधारिणम् । वृषारुढमिति प्रोक्तं ;
lambitaṃ dakṣiṇaṃ hastaṃ kṛṣṇāparaśudhāriṇam | vṛṣāruḍhamiti proktaṃ ;
Chapter 16 — ३.५. त्रिपुरान्तकः
16.132
त्रिपुरारिरिहोच्यते१°
tripurāririhocyate1°
16.133
सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् ११ । धनुर्बाणसमायुक्तं कृष्णापरशुधारिणम्
susthitaṃ dakṣiṇaṃ pādaṃ vāmapādaṃ tu kuñcitam 11 | dhanurbāṇasamāyuktaṃ kṛṣṇāparaśudhāriṇam
16
उमया सहितं देवं कुर्याद्वै त्रिपुरान्तकम्
umayā sahitaṃ devaṃ kuryādvai tripurāntakam
Chapter 16 — ३.६. नृत्तमूर्तिभेदाः
16.134
डमरुं दक्षिणे हस्ते वामहस्ते धृतानलम्
ḍamaruṃ dakṣiṇe haste vāmahaste dhṛtānalam
16.135
त्रिशूलं परशुं खङ्गं वज्रबाणं तु दक्षिणे । खेटकं नागपाशं च दण्डघण्टा शरासनम्
triśūlaṃ paraśuṃ khaṅgaṃ vajrabāṇaṃ tu dakṣiṇe | kheṭakaṃ nāgapāśaṃ ca daṇḍaghaṇṭā śarāsanam
16.136
भुजङ्गललितं ह्येतद्भुजङ्गाञ्चितमुच्यते“ । तदेवं वामदक्षिण्यं हस्तदण्डपताकया'
bhujaṅgalalitaṃ hyetadbhujaṅgāñcitamucyate“ | tadevaṃ vāmadakṣiṇyaṃ hastadaṇḍapatākayā'
16.137
१°उद्धृतं वामपादं तु जान्वन्तं स्याद्विशेषतः। कुञ्चितं दक्षिणं पादम् एवमेवं प्रकल्पयेत् ११
1°uddhṛtaṃ vāmapādaṃ tu jānvantaṃ syādviśeṣataḥ| kuñcitaṃ dakṣiṇaṃ pādam evamevaṃ prakalpayet 11
16.138
गजहस्तोपमं बाहूरास्तीरं गतम् +++ अभयं दक्षिणं हस्तं डमरुकानलसंयुतम् १४
gajahastopamaṃ bāhūrāstīraṃ gatam +++ abhayaṃ dakṣiṇaṃ hastaṃ ḍamarukānalasaṃyutam 14
Chapter 16 — ३.७. चन्द्रशेखरः
16.139
ऋज्वागतस्थितं देवं वरदाभयहस्तकम्
ṛjvāgatasthitaṃ devaṃ varadābhayahastakam
16
कृष्णापरशुसंयुक्तं कुर्याद्वै चन्द्रशेखरम्
kṛṣṇāparaśusaṃyuktaṃ kuryādvai candraśekharam
Chapter 16 — ३.८. अर्धनारीश्वरः
16.140
दक्षिणांशे हरं कुर्यात्तद्वामे पार्वती भवेत्
dakṣiṇāṃśe haraṃ kuryāttadvāme pārvatī bhavet
16.141
जटामकुटसंयुक्तं नयनार्धं ललाटके। परशुधारिणं सव्ये सव्यपादं तु सुस्थितम्
jaṭāmakuṭasaṃyuktaṃ nayanārdhaṃ lalāṭake| paraśudhāriṇaṃ savye savyapādaṃ tu susthitam
16.142
उमांशे तु स्तनं कुर्याद्द्विभुजं तिलकान्वितम् । अलकामण्डितं चोर्ध्वे किञ्चित्कुञ्चितपादयुक्
umāṃśe tu stanaṃ kuryāddvibhujaṃ tilakānvitam | alakāmaṇḍitaṃ cordhve kiñcitkuñcitapādayuk
16
दर्पणं चोत्पलं हस्ते तच्छ्रोत्रे दत्तपत्रकम्
darpaṇaṃ cotpalaṃ haste tacchrotre dattapatrakam
Chapter 16 — ३.९. हर्यर्धम्
16.143
वामभागे हरिं कुर्याद्द्विभुजं चक्रधारिणम्
vāmabhāge hariṃ kuryāddvibhujaṃ cakradhāriṇam
16.144
किरीटमकुटोपेतं पीताम्बरधरं हरिम् । ईशानं द्विभुजं कुर्यादभयं परशुं क्रमात्
kirīṭamakuṭopetaṃ pītāmbaradharaṃ harim | īśānaṃ dvibhujaṃ kuryādabhayaṃ paraśuṃ kramāt
16
हरिरर्धमिति प्रोक्तं सर्वलक्षणसंयुतम्
harirardhamiti proktaṃ sarvalakṣaṇasaṃyutam
Chapter 16 — ३.१०. चण्डेश्वरप्रसादः
16.145
चण्डेश्वरप्रसादं तु वक्ष्यते विधिनाऽधुना
caṇḍeśvaraprasādaṃ tu vakṣyate vidhinā'dhunā
16.146
तु चण्डप्रचण्डविक्रान्तं चण्डेश्वरं चतुर्विधम् । चण्डं कृतयुगे प्रोक्तं चाष्टभिर्दोर्भिरन्वितम्
tu caṇḍapracaṇḍavikrāntaṃ caṇḍeśvaraṃ caturvidham | caṇḍaṃ kṛtayuge proktaṃ cāṣṭabhirdorbhiranvitam
16.147
त्रिनेत्रं श्वेतवर्णं तु पद्मपीठोपरि स्थितम् । परशुं वज्रशूलं च दक्षिणे तु करे दधत्
trinetraṃ śvetavarṇaṃ tu padmapīṭhopari sthitam | paraśuṃ vajraśūlaṃ ca dakṣiṇe tu kare dadhat
16.148
हरिणं शक्तिघण्टां च वामहस्ते तु धारयन् । हृदयेऽञ्जलिसंयुक्तं चण्डं कुर्याद्विशेषतः १०
hariṇaṃ śaktighaṇṭāṃ ca vāmahaste tu dhārayan | hṛdaye'ñjalisaṃyuktaṃ caṇḍaṃ kuryādviśeṣataḥ 10
16.149
प्रचण्डं षड्भुजैर्युक्तं त्रेतायां परिकल्पयेत् । शूलघण्टा च हीनं स्याच्छेषं पूर्ववदेव तु १२
pracaṇḍaṃ ṣaḍbhujairyuktaṃ tretāyāṃ parikalpayet | śūlaghaṇṭā ca hīnaṃ syāccheṣaṃ pūrvavadeva tu 12
Chapter 16 — ३.११. कामहारिः
16.152
देवस्याभिमुखं कुर्यात्कामरूपं प्रपादितम्
devasyābhimukhaṃ kuryātkāmarūpaṃ prapāditam
16
उग्ररूपं विशालाक्षं चासीनं चासने हरम्' । कामहारिर्भवेदेवं ;
ugrarūpaṃ viśālākṣaṃ cāsīnaṃ cāsane haram' | kāmahārirbhavedevaṃ ;
Chapter 16 — ३.१२. कालनाशः
16.153
कालनाशमथोच्यते
kālanāśamathocyate
16.154
उद्धृतं दक्षिणं पादं वामपादं तु कुञ्चितम्° । दक्षिणे तु करे शूलं परशुं वामबाहुके
uddhṛtaṃ dakṣiṇaṃ pādaṃ vāmapādaṃ tu kuñcitam° | dakṣiṇe tu kare śūlaṃ paraśuṃ vāmabāhuke
16.155
दक्षिणे नागपाशं तु वामहस्ते तु सूचिकम् ? । खङ्गं वै दक्षिणे हस्ते वामहस्ते तु खेटकम्
dakṣiṇe nāgapāśaṃ tu vāmahaste tu sūcikam ? | khaṅgaṃ vai dakṣiṇe haste vāmahaste tu kheṭakam
Chapter 16 — ३.१३. दक्षिणामूर्तिः
16.156
टङ्कं तु दक्षिणे हस्ते वामहस्ते तु पुस्तकम् । दक्षिणे चाक्षमाला स्याद्वामहस्ते तु चानलम्
ṭaṅkaṃ tu dakṣiṇe haste vāmahaste tu pustakam | dakṣiṇe cākṣamālā syādvāmahaste tu cānalam
16.157
श्वेतरूपं त्रिनेत्रं स्याद् द्विपचर्मोत्तरीयकम् । आर्द्रतालङ्कृतं भङ्गि चन्द्रार्ककुसुमान्वितम्
śvetarūpaṃ trinetraṃ syād dvipacarmottarīyakam | ārdratālaṅkṛtaṃ bhaṅgi candrārkakusumānvitam
16.158
शयनं दक्षिणं पादं वामपादं तु कुञ्चितम् १° । ऋषिभिश्च समायुक्तं दक्षिणेशं प्रकल्पयेत् ११
śayanaṃ dakṣiṇaṃ pādaṃ vāmapādaṃ tu kuñcitam 1° | ṛṣibhiśca samāyuktaṃ dakṣiṇeśaṃ prakalpayet 11
Chapter 16 — ३.१४. भिक्षाटनमूर्तिः
16.159
भिक्षाटनं च कर्तव्यं नग्नरूपं त्रिलोचनम् १२ । चतुर्भुजसमायुक्तं कपालपिञ्छधारिणम् १३
bhikṣāṭanaṃ ca kartavyaṃ nagnarūpaṃ trilocanam 12 | caturbhujasamāyuktaṃ kapālapiñchadhāriṇam 13
Chapter 16 — ३.१५. सदाशिवः
16.161
३ सदाशिवस्य रूपं त प्रवक्ष्यामि विशेषतः ४ त्र्यक्षं दशभुजं शान्तं जटामकुटमण्डितम्
3 sadāśivasya rūpaṃ ta pravakṣyāmi viśeṣataḥ 4 tryakṣaṃ daśabhujaṃ śāntaṃ jaṭāmakuṭamaṇḍitam
16.162
*पञ्चवक्त्रयुतं देवं पञ्चमूर्धभिरन्वितम् । ७ शूलं परशुवज्रं च खड्गाभयं च दक्षिणे
*pañcavaktrayutaṃ devaṃ pañcamūrdhabhiranvitam | 7 śūlaṃ paraśuvajraṃ ca khaḍgābhayaṃ ca dakṣiṇe
16.163
पाशाङ्कुशं च नागं च घण्टावह्निं च वामके“ । नेत्रैः पञ्चदशैर्युक्तं सर्वलक्षणसंयुतम्
pāśāṅkuśaṃ ca nāgaṃ ca ghaṇṭāvahniṃ ca vāmake“ | netraiḥ pañcadaśairyuktaṃ sarvalakṣaṇasaṃyutam
16.164
[३.१६. लिङ्गोद्भवमूर्तिः] लिङ्गोर्ध्वे पक्षसंयुक्तं ब्रह्माणं परिकल्पयेत्१° । अधोभागगतो विष्णुः सूकरानन एव च
[3.16. liṅgodbhavamūrtiḥ] liṅgordhve pakṣasaṃyuktaṃ brahmāṇaṃ parikalpayet1° | adhobhāgagato viṣṇuḥ sūkarānana eva ca
16.165
हृदयेऽञ्जलिसंयुक्तं स्वस्वरूपसमन्वितम् । लिङ्गमध्ये स्थितो देवो पूर्ववच्चन्द्रशेखरः ३
hṛdaye'ñjalisaṃyuktaṃ svasvarūpasamanvitam | liṅgamadhye sthito devo pūrvavaccandraśekharaḥ 3
16
एवं षोडशमूर्तीनां भेदः प्रोक्तो विशेषतः ४
evaṃ ṣoḍaśamūrtīnāṃ bhedaḥ prokto viśeṣataḥ 4
Chapter 16 — ३.१७. उमादेवी
16.166
सुखासनस्य कामारेरर्धनार्यो विशेषतः ५ भिक्षाटने च हर्यर्धे दक्षिणामूर्तिविग्रहे
sukhāsanasya kāmārerardhanāryo viśeṣataḥ 5 bhikṣāṭane ca haryardhe dakṣiṇāmūrtivigrahe
16.167
७ उमादेवी न कर्तव्या कृतं चेद्वंशनाशनम्
7 umādevī na kartavyā kṛtaṃ cedvaṃśanāśanam
16
शेषाणां प्रतिमानां तु देवीं कुर्याद्विशेषतः । ॥ इति दीप्तशास्त्रे प्रतिष्ठातन्त्रे प्रतिमालक्षणपटलः षोडशः १० [लम्बमानम्]
śeṣāṇāṃ pratimānāṃ tu devīṃ kuryādviśeṣataḥ | || iti dīptaśāstre pratiṣṭhātantre pratimālakṣaṇapaṭalaḥ ṣoḍaśaḥ 10 [lambamānam]
Chapter 16 — ४.१. ब्रह्मा
16
अधुना संप्रवक्ष्यामि ब्रह्मरूपं महानल। चतुर्वक्त्रं चतुर्बाहुं कमण्डल्वक्षधारिणम्॥ अनु॰२.१ ॥ रक्तवर्णजटायुक्तं यज्ञसूत्रोत्तरीयकम् । रक्तक्षौमधरं देवं वरदाभयहस्तकम् ॥ अनु°२.२ ॥ अक्षमालाधारं सव्ये वामहस्ते कमण्डलुम्। आसीनं वा स्थितं वाथ कुर्यात्पद्मासनास्थितम्॥ अनु॰२.३ ॥ सावित्री वाक्पती चैव उभयोः पार्श्वयोः स्थिताः
adhunā saṃpravakṣyāmi brahmarūpaṃ mahānala| caturvaktraṃ caturbāhuṃ kamaṇḍalvakṣadhāriṇam|| anu॰2.1 || raktavarṇajaṭāyuktaṃ yajñasūtrottarīyakam | raktakṣaumadharaṃ devaṃ varadābhayahastakam || anu°2.2 || akṣamālādhāraṃ savye vāmahaste kamaṇḍalum| āsīnaṃ vā sthitaṃ vātha kuryātpadmāsanāsthitam|| anu॰2.3 || sāvitrī vākpatī caiva ubhayoḥ pārśvayoḥ sthitāḥ
Chapter 16 — ४. २. विष्णुः
16
विष्णुं किरीटकेयूरं कटिसूत्रोपशोभितम् ॥ अनु°२.४ ॥ अतसीपुष्पसङ्काशं शश्वद्बालस्वरूपिणम्। शङ्खचक्रगदाहस्तं अभयं च द्विलोचनं ॥ अनु.२.५ ॥ पीतांबरधरं देवं श्रीभूमिसहितं हरिम्। श्यामाभं वा विभक्ताङ्गं कुर्याद्विष्णुं विशेषतः ५
viṣṇuṃ kirīṭakeyūraṃ kaṭisūtropaśobhitam || anu°2.4 || atasīpuṣpasaṅkāśaṃ śaśvadbālasvarūpiṇam| śaṅkhacakragadāhastaṃ abhayaṃ ca dvilocanaṃ || anu.2.5 || pītāṃbaradharaṃ devaṃ śrībhūmisahitaṃ harim| śyāmābhaṃ vā vibhaktāṅgaṃ kuryādviṣṇuṃ viśeṣataḥ 5