14. Chapter 14
Verse 14.1
।। द्रष्टव्यं दर्शनं द्रष्टा त्रीण्य् एतानि द्विशो द्विशः । सर्वशश् च न संसर्गम् अन्योन्येन व्रजन्त्य् उत ॥ १४.१ ॥
// draṣṭavyaṃ darśanaṃ draṣṭā trīṇy etāni dviśo dviśaḥ / sarvaśaś ca na saṃsargam anyonyena vrajanty uta (14.1)
Verse 14.2
।। एवं रागश् च रक्तश् च रञ्जनीयं च दृश्यताम् । त्रैधेन शेषाः क्लेशाश् च शेषाण्य् आयतनानि च ॥ १४.२ ॥
// evaṃ rāgaś ca raktaś ca rañjanīyaṃ ca dṛśyatām / traidhena śeṣāḥ kleśāś ca śeṣāṇy āyatanāni ca (14.2)
Verse 14.3
।। अन्येनान्यस्य संसर्गस् तच् चान्यत्वं न विद्यते । द्रष्टव्यप्रभृतीनां यन् न संसर्गं व्रजन्त्य् अतः ॥ १४.३ ॥
// anyenānyasya saṃsargas tac cānyatvaṃ na vidyate / draṣṭavyaprabhṛtīnāṃ yan na saṃsargaṃ vrajanty ataḥ (14.3)
Verse 14.4
।। न च केवलम् अन्यत्वं द्रष्टव्यादेर् न विद्यते । कस्यचित् केनचित् सार्धं नान्यत्वम् उपपद्यते ॥ १४.४ ॥
// na ca kevalam anyatvaṃ draṣṭavyāder na vidyate / kasyacit kenacit sārdhaṃ nānyatvam upapadyate (14.4)
Verse 14.5
।। अन्यद् अन्यत् प्रतीत्यान्यन् नान्यद् अन्यद् ऋते ऽन्यतः । यत् प्रतीत्य च यत् तस्मात् तद् अन्यन् नोपपद्यते ॥ १४.५ ॥
// anyad anyat pratītyānyan nānyad anyad ṛte 'nyataḥ / yat pratītya ca yat tasmāt tad anyan nopapadyate (14.5)
Verse 14.6
।। यद्य् अन्यद् अन्यद् अन्यस्माद् अन्यस्माद् अप्य् ऋते भवेत् । तद् अन्यद् अन्यद् अन्यस्माद् ऋते नास्ति च नास्त्य् अतः ॥ १४.६ ॥
// yady anyad anyad anyasmād anyasmād apy ṛte bhavet / tad anyad anyad anyasmād ṛte nāsti ca nāsty ataḥ (14.6)
Verse 14.7
।। नान्यस्मिन् विद्यते ऽन्यत्वम् अनन्यस्मिन् न विद्यते । अविद्यमाने चान्यत्वे नास्त्य् अन्यद् वा तद् एव वा ॥ १४.७ ॥
// nānyasmin vidyate 'nyatvam ananyasmin na vidyate / avidyamāne cānyatve nāsty anyad vā tad eva vā (14.7)
Verse 14.8
।। न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते । संसृज्यमानं संसृष्टं संस्रष्टा च न विद्यते ॥ १४.८ ॥
// na tena tasya saṃsargo nānyenānyasya yujyate / saṃsṛjyamānaṃ saṃsṛṣṭaṃ saṃsraṣṭā ca na vidyate (14.8)