17. Chapter 17
Verse 17.1
।। आत्मसंयमकं चेतः परानुग्राहकं च यत् । मैत्रं स धरमस् तद् बीजं फलस्य प्रेत्य चेह च ॥ १७.१ ॥
// ātmasaṃyamakaṃ cetaḥ parānugrāhakaṃ ca yat / maitraṃ sa dharamas tad bījaṃ phalasya pretya ceha ca (17.1)
Verse 17.2
।। चेतना चेतयित्वा च कर्मोक्तं परमर्षिणा । तस्यानेकविधो भेदः कर्मणः परिकीर्तितः ॥ १७.२ ॥
// cetanā cetayitvā ca karmoktaṃ paramarṣiṇā / tasyānekavidho bhedaḥ karmaṇaḥ parikīrtitaḥ (17.2)
Verse 17.3
।। तत्र यच् चेतनेत्य् उक्तं कर्म तन् मानसं स्मृतम् । चेतयित्वा च यत् तूक्तं तत् तु कायिकवाचिकम् ॥ १७.३ ॥
// tatra yac cetanety uktaṃ karma tan mānasaṃ smṛtam / cetayitvā ca yat tūktaṃ tat tu kāyikavācikam (17.3)
Verse 17.4
।। वाग्विष्पन्दो ऽविरतयो याश् चाविज्ञप्तिसंज्ञिताः । अविज्ञप्तय एवान्याः स्मृता विरतयस् तथा ॥ १७.४ ॥
// vāgviṣpando 'viratayo yāś cāvijñaptisaṃjñitāḥ / avijñaptaya evānyāḥ smṛtā viratayas tathā (17.4)
Verse 17.5
।। परिभोगान्वयं पुण्यम् अपुण्यं च तथाविधम् । चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः ॥ १७.५ ॥
// paribhogānvayaṃ puṇyam apuṇyaṃ ca tathāvidham / cetanā ceti saptaite dharmāḥ karmāñjanāḥ smṛtāḥ (17.5)
Verse 17.6
।। तिष्ठत्य् आ पाककालाच् चेत् कर्म तन् नित्यताम् इयात् । निरुद्धं चेन् निरुद्धं सत् किं फलं जनयिष्यति ॥ १७.६ ॥
// tiṣṭhaty ā pākakālāc cet karma tan nityatām iyāt / niruddhaṃ cen niruddhaṃ sat kiṃ phalaṃ janayiṣyati (17.6)
Verse 17.7
।। यो ऽङ्कुरप्रभृतिर् बीजात् संतानो ऽभिप्रवर्तते । ततः फलम् ऋते बीजात् स च नाभिप्रवर्तते ॥ १७.७ ॥
// yo 'ṅkuraprabhṛtir bījāt saṃtāno 'bhipravartate / tataḥ phalam ṛte bījāt sa ca nābhipravartate (17.7)
Verse 17.8
।। बीजाच् च यस्मात् संतानः संतानाच् च फलोद्भवः । बीजपूर्वं फलं तस्मान् नोच्छिन्नं नापि शाश्वतम् ॥ १७.८ ॥
// bījāc ca yasmāt saṃtānaḥ saṃtānāc ca phalodbhavaḥ / bījapūrvaṃ phalaṃ tasmān nocchinnaṃ nāpi śāśvatam (17.8)
Verse 17.9
।। यस् तस्माच् चित्तसंतानश् चेतसो ऽभिप्रवर्तते । ततः फलम् ऋते चित्तात् स च नाभिप्रवर्तते ॥ १७.९ ॥
// yas tasmāc cittasaṃtānaś cetaso 'bhipravartate / tataḥ phalam ṛte cittāt sa ca nābhipravartate (17.9)
Verse 17.10
।। चित्ताच् च यस्मात् संतानः संतानाच् च फलोद्भवः । कर्मपूर्वं फलं तस्मान् नोच्छिन्नं नापि शाश्वतम् ॥ १७.१० ॥
// cittāc ca yasmāt saṃtānaḥ saṃtānāc ca phalodbhavaḥ / karmapūrvaṃ phalaṃ tasmān nocchinnaṃ nāpi śāśvatam (17.10)
Verse 17.11
।। धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश । फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च ॥ १७.११ ॥
// dharmasya sādhanopāyāḥ śuklāḥ karmapathā daśa / phalaṃ kāmaguṇāḥ pañca dharmasya pretya ceha ca (17.11)
Verse 17.12
।। बहवश् च महान्तश् च दोषाः स्युर् यदि कल्पना । स्याद् एषा तेन नैवैषा कल्पनात्रोपपद्यते ॥ १७.१२ ॥
// bahavaś ca mahāntaś ca doṣāḥ syur yadi kalpanā / syād eṣā tena naivaiṣā kalpanātropapadyate (17.12)
Verse 17.13
।। इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते । बुद्धैः प्रत्येकबुद्धैश् च श्रावकैश् चानुवर्णिताम् ॥ १७.१३ ॥
// imāṃ punaḥ pravakṣyāmi kalpanāṃ yātra yojyate / buddhaiḥ pratyekabuddhaiś ca śrāvakaiś cānuvarṇitām (17.13)
Verse 17.14
।। पत्त्रं यथा ऽविप्रणाशस्तथर्णम् इव कर्म च । चतुर्विधो धातुतः स प्रकृत्याव्याकृतश् च सः ॥ १७.१४ ॥
// pattraṃ yathā 'vipraṇāśastatharṇam iva karma ca / caturvidho dhātutaḥ sa prakṛtyāvyākṛtaś ca saḥ (17.14)
Verse 17.15
।। प्रहाणतो न प्रहेयो भावनाहेय एव वा । तस्माद् अविप्रणाशेन जायते कर्मणां फलम् ॥ १७.१५ ॥
// prahāṇato na praheyo bhāvanāheya eva vā / tasmād avipraṇāśena jāyate karmaṇāṃ phalam (17.15)
Verse 17.16
।। प्रहाणतः प्रहेयः स्यात् कर्मणः संक्रमेण वा । यदि दोषाः प्रसज्येरंस् तत्र कर्मवधादयः ॥ १७.१६ ॥
// prahāṇataḥ praheyaḥ syāt karmaṇaḥ saṃkrameṇa vā / yadi doṣāḥ prasajyeraṃs tatra karmavadhādayaḥ (17.16)
Verse 17.17
।। सर्वेषां विसभागानां सभागानां च कर्मणाम् । प्रतिसंधौ सधातूनाम् एक उत्पद्यते तु सः ॥ १७.१७ ॥
// sarveṣāṃ visabhāgānāṃ sabhāgānāṃ ca karmaṇām / pratisaṃdhau sadhātūnām eka utpadyate tu saḥ (17.17)
Verse 17.18
।। कर्मणः कर्मणो दृष्टे धर्म उत्पद्यते तु सः । द्विप्रकारस्य सर्वस्य विपक्वे ऽपि च तिष्ठति ॥ १७.१८ ॥
// karmaṇaḥ karmaṇo dṛṣṭe dharma utpadyate tu saḥ / dviprakārasya sarvasya vipakve 'pi ca tiṣṭhati (17.18)
Verse 17.19
।। फलव्यतिक्रमाद् वा स मरणाद् वा निरुध्यते । अनास्रवं सास्रवं च विभागं तत्र लक्षयेत् ॥ १७.१९ ॥
// phalavyatikramād vā sa maraṇād vā nirudhyate / anāsravaṃ sāsravaṃ ca vibhāgaṃ tatra lakṣayet (17.19)
Verse 17.20
।। शून्यता च न चोच्छेदः संसारश् च न शाश्वतम् । कर्मणो ऽविप्रणाशश् च धर्मो बुद्धेन देशितः ॥ १७.२० ॥
// śūnyatā ca na cocchedaḥ saṃsāraś ca na śāśvatam / karmaṇo 'vipraṇāśaś ca dharmo buddhena deśitaḥ (17.20)
Verse 17.21
।। कर्म नोत्पद्यते कस्मान् निःस्वभावं यतस् ततः । यस्माच् च तद् अनुत्पन्नं न तस्माद् विप्रणश्यति ॥ १७.२१ ॥
// karma notpadyate kasmān niḥsvabhāvaṃ yatas tataḥ / yasmāc ca tad anutpannaṃ na tasmād vipraṇaśyati (17.21)
Verse 17.22
।। कर्म स्वभावतश् चेत् स्याच् छाश्वतं स्याद् असंशयम् । अकृतं च भवेत् कर्म क्रियते न हि शाश्वतम् ॥ १७.२२ ॥
// karma svabhāvataś cet syāc chāśvataṃ syād asaṃśayam / akṛtaṃ ca bhavet karma kriyate na hi śāśvatam (17.22)
Verse 17.23
।। अकृताभ्यागमभयं स्यात् कर्माकृतकं यदि । अब्रह्मचर्यवासश् च दोषस्तत्र प्रसज्यते ॥ १७.२३ ॥
// akṛtābhyāgamabhayaṃ syāt karmākṛtakaṃ yadi / abrahmacaryavāsaś ca doṣastatra prasajyate (17.23)
Verse 17.24
।। व्यवहारा विरुध्यन्ते सर्व एव न संशयः । पुण्यपापकृतोर् नैव प्रविभागश् च युज्यते ॥ १७.२४ ॥
// vyavahārā virudhyante sarva eva na saṃśayaḥ / puṇyapāpakṛtor naiva pravibhāgaś ca yujyate (17.24)
Verse 17.25
।। तद् विपक्वविपाकं च पुनर् एव विपक्ष्यति । कर्म व्यवस्थितं यस्मात् तस्मात् स्वाभाविकं यदि ॥ १७.२५ ॥
// tad vipakvavipākaṃ ca punar eva vipakṣyati / karma vyavasthitaṃ yasmāt tasmāt svābhāvikaṃ yadi (17.25)
Verse 17.26
।। कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः । न चेत् ते तत्त्वतः क्लेशाः कर्म स्यात् तत्त्वतः कथम् ॥ १७.२६ ॥
// karma kleśātmakaṃ cedaṃ te ca kleśā na tattvataḥ / na cet te tattvataḥ kleśāḥ karma syāt tattvataḥ katham (17.26)
Verse 17.27
।। कर्म क्लेशाश् च देहानां प्रत्ययाः समुदाहृताः । कर्म क्लेशाश् च ते शून्या यदि देहेषु का कथा ॥ १७.२७ ॥
// karma kleśāś ca dehānāṃ pratyayāḥ samudāhṛtāḥ / karma kleśāś ca te śūnyā yadi deheṣu kā kathā (17.27)
Verse 17.28
।। अविद्यानिवृतो जन्तुस् तृष्णासंयोजनश् च सः । स भोक्ता स च न कर्तुर् अन्यो न च स एव सः ॥ १७.२८ ॥
// avidyānivṛto jantus tṛṣṇāsaṃyojanaś ca saḥ / sa bhoktā sa ca na kartur anyo na ca sa eva saḥ (17.28)
Verse 17.29
।। न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् । अस्ति यस्माद् इदं कर्म तस्मात् कर्तापि नास्त्य् अतः ॥ १७.२९ ॥
// na pratyayasamutpannaṃ nāpratyayasamutthitam / asti yasmād idaṃ karma tasmāt kartāpi nāsty ataḥ (17.29)
Verse 17.30
।। कर्म चेन् नास्ति कर्ता च कुतः स्यात् कर्मजं फलम् । असत्य् अथ फले भोक्ता कुत एव भविष्यति ॥ १७.३० ॥
// karma cen nāsti kartā ca kutaḥ syāt karmajaṃ phalam / asaty atha phale bhoktā kuta eva bhaviṣyati (17.30)
Verse 17.31
।। यथा निर्मितकं शास्ता निर्मिमीत र्द्धिसंपदा । निर्मितो निर्मिमीतान्यं स च निर्मितकः पुनः ॥ १७.३१ ॥
// yathā nirmitakaṃ śāstā nirmimīta rddhisaṃpadā / nirmito nirmimītānyaṃ sa ca nirmitakaḥ punaḥ (17.31)
Verse 17.32
।। तथा निर्मितकाकारः कर्ता यत् कर्म तत् कृतम् । तद्यथा निर्मितेनान्यो निर्मितो निर्मितस् तथा ॥ १७.३२ ॥
// tathā nirmitakākāraḥ kartā yat karma tat kṛtam / tadyathā nirmitenānyo nirmito nirmitas tathā (17.32)
Verse 17.33
।। क्लेशाः कर्माणि देहाश् च कर्तारश् च फलानि च । गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः ॥ १७.३३ ॥
// kleśāḥ karmāṇi dehāś ca kartāraś ca phalāni ca / gandharvanagarākārā marīcisvapnasaṃnibhāḥ (17.33)