18. Chapter 18
Verse 18.1
।। आत्मा स्कन्धा यदि भवेद् उदयव्ययभाग् भवेत् । स्कन्धेभ्यो ऽन्यो यदि भवेद् भवेद् अस्कन्धलक्षणः ॥ १८.१ ॥
// ātmā skandhā yadi bhaved udayavyayabhāg bhavet / skandhebhyo 'nyo yadi bhaved bhaved askandhalakṣaṇaḥ (18.1)
Verse 18.2
।। आत्मन्य् असति चात्मीयं कुत एव भविष्यति । निर्ममो निरहंकारः शमाद् आत्मात्मनीनयोः ॥ १८.२ ॥
// ātmany asati cātmīyaṃ kuta eva bhaviṣyati / nirmamo nirahaṃkāraḥ śamād ātmātmanīnayoḥ (18.2)
Verse 18.3
।। निर्ममो निरहंकारो यश् च सो ऽपि न विद्यते । निर्ममं निरहंकारं यः पश्यति न पश्यति ॥ १८.३ ॥
// nirmamo nirahaṃkāro yaś ca so 'pi na vidyate / nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati (18.3)
Verse 18.4
।। ममेत्य् अहम् इति क्षीणे बहिर्धाध्यात्मम् एव च । निरुध्यत उपादानं तत्क्षयाज् जन्मनः क्षयः ॥ १८.४ ॥
// mamety aham iti kṣīṇe bahirdhādhyātmam eva ca / nirudhyata upādānaṃ tatkṣayāj janmanaḥ kṣayaḥ (18.4)
Verse 18.5
।। कर्मक्लेशक्षयान् मोक्षः कर्मक्लेशा विकल्पतः । ते प्रपञ्चात् प्रपञ्चस् तु शून्यतायां निरुध्यते ॥ १८.५ ॥
// karmakleśakṣayān mokṣaḥ karmakleśā vikalpataḥ / te prapañcāt prapañcas tu śūnyatāyāṃ nirudhyate (18.5)
Verse 18.6
।। आत्मेत्य् अपि प्रज्ञपितम् अनात्मेत्य् अपि देशितम् । बुद्धैर् नात्मा न चानात्मा कश्चिद् इत्य् अपि देशितम् ॥ १८.६ ॥
// ātmety api prajñapitam anātmety api deśitam / buddhair nātmā na cānātmā kaścid ity api deśitam (18.6)
Verse 18.7
।। निवृत्तम् अभिधातव्यं निवृत्तश् चित्तगोचरः । अनुत्पन्नानिरुद्धा हि निर्वाणम् इव धर्मता ॥ १८.७ ॥
// nivṛttam abhidhātavyaṃ nivṛttaś cittagocaraḥ / anutpannāniruddhā hi nirvāṇam iva dharmatā (18.7)
Verse 18.8
।। सर्वं तथ्यं न वा तथ्यं तथ्यं चातथ्यम् एव च । नैवातथ्यं नैव तथ्यम् एतद् बुद्धानुशासनम् ॥ १८.८ ॥
// sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ cātathyam eva ca / naivātathyaṃ naiva tathyam etad buddhānuśāsanam (18.8)
Verse 18.9
।। अपरप्रत्ययं शान्तं प्रपञ्चैर् अप्रपञ्चितम् । निर्विकल्पम् अनानार्थम् एतत् तत्त्वस्य लक्षणम् ॥ १८.९ ॥
// aparapratyayaṃ śāntaṃ prapañcair aprapañcitam / nirvikalpam anānārtham etat tattvasya lakṣaṇam (18.9)
Verse 18.10
।। प्रतीत्य यद् यद् भवति न हि तावत् तद् एव तत् । न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ १८.१० ॥
// pratītya yad yad bhavati na hi tāvat tad eva tat / na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam (18.10)
Verse 18.11
।। अनेकार्थम् अनानार्थम् अनुच्छेदम् अशाश्वतम् । एतत् तल् लोकनाथानां बुद्धानां शासनामृतम् ॥ १८.११ ॥
// anekārtham anānārtham anucchedam aśāśvatam / etat tal lokanāthānāṃ buddhānāṃ śāsanāmṛtam (18.11)
Verse 18.12
।। संबुद्धानाम् अनुत्पादे श्रावकाणां पुनः क्षये । ज्ञानं प्रत्येकबुद्धानाम् असंसर्गात् प्रवर्तते ॥ १८.१२ ॥
// saṃbuddhānām anutpāde śrāvakāṇāṃ punaḥ kṣaye / jñānaṃ pratyekabuddhānām asaṃsargāt pravartate (18.12)