19. Chapter 19
Verse 19.1
।। प्रत्युत्पन्नो ऽनागतश् च यद्य् अतीतम् अपेक्ष्य हि । प्रत्युत्पन्नो ऽनागतश् च काले ऽतीते भविष्यतः ॥ १९.१ ॥
// pratyutpanno 'nāgataś ca yady atītam apekṣya hi / pratyutpanno 'nāgataś ca kāle 'tīte bhaviṣyataḥ (19.1)
Verse 19.2
।। प्रत्युत्पन्नो ऽनागतश् च न स्तस् तत्र पुनर् यदि । प्रत्युत्पन्नो ऽनागतश् च स्यातां कथम् अपेक्ष्य तम् ॥ १९.२ ॥
// pratyutpanno 'nāgataś ca na stas tatra punar yadi / pratyutpanno 'nāgataś ca syātāṃ katham apekṣya tam (19.2)
Verse 19.3
।। अनपेक्ष्य पुनः सिद्धिर् नातीतं विद्यते तयोः । प्रत्युत्पन्नो ऽनागतश् च तस्मात् कालो न विद्यते ॥ १९.३ ॥
// anapekṣya punaḥ siddhir nātītaṃ vidyate tayoḥ / pratyutpanno 'nāgataś ca tasmāt kālo na vidyate (19.3)
Verse 19.4
।। एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ । उत्तमाधममध्यादीन् एकत्वादींश् च लक्षयेत् ॥ १९.४ ॥
// etenaivāvaśiṣṭau dvau krameṇa parivartakau / uttamādhamamadhyādīn ekatvādīṃś ca lakṣayet (19.4)
Verse 19.5
।। नास्थितो गृह्यते कालः स्थितः कालो न विद्यते । यो गृह्येतागृहीतश् च कालः प्रज्ञप्यते कथम् ॥ १९.५ ॥
// nāsthito gṛhyate kālaḥ sthitaḥ kālo na vidyate / yo gṛhyetāgṛhītaś ca kālaḥ prajñapyate katham (19.5)
Verse 19.6
।। भावं प्रतीत्य कालश् चेत् कालो भावाद् ऋते कुतः । न च कश् चन भावो ऽस्ति कुतः कालो भविष्यति ॥ १९.६ ॥
// bhāvaṃ pratītya kālaś cet kālo bhāvād ṛte kutaḥ / na ca kaś cana bhāvo 'sti kutaḥ kālo bhaviṣyati (19.6)