20. Chapter 20
Verse 20.1
।। हेतोश् च प्रत्ययानां च सामग्र्या जायते यदि । फलमस्ति च सामग्र्यां सामग्र्या जायते कथम् ॥ २०.१ ॥
// hetoś ca pratyayānāṃ ca sāmagryā jāyate yadi / phalamasti ca sāmagryāṃ sāmagryā jāyate katham (20.1)
Verse 20.2
।। हेतोश् च प्रत्ययानां च सामग्र्या जायते यदि । फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम् ॥ २०.२ ॥
// hetoś ca pratyayānāṃ ca sāmagryā jāyate yadi / phalaṃ nāsti ca sāmagryāṃ sāmagryā jāyate katham (20.2)
Verse 20.3
।। हेतोश् च प्रत्ययानां च सामग्र्याम् अस्ति चेत् फलम् । गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते ॥ २०.३ ॥
// hetoś ca pratyayānāṃ ca sāmagryām asti cet phalam / gṛhyeta nanu sāmagryāṃ sāmagryāṃ ca na gṛhyate (20.3)
Verse 20.4
।। हेतोश् च प्रत्ययानां च सामग्र्यां नास्ति चेत् फलम् । हेतवः प्रत्ययाश् च स्युर् अहेतुप्रत्ययैः समाः ॥ २०.४ ॥
// hetoś ca pratyayānāṃ ca sāmagryāṃ nāsti cet phalam / hetavaḥ pratyayāś ca syur ahetupratyayaiḥ samāḥ (20.4)
Verse 20.5
।। हेतुं फलस्य दत्त्वा च यदि हेतुर् निरुध्यते । यद् दत्तं यन् निरुधं च हेतोर् आत्मद्वयं भवेत् ॥ २०.५ ॥
// hetuṃ phalasya dattvā ca yadi hetur nirudhyate / yad dattaṃ yan nirudhaṃ ca hetor ātmadvayaṃ bhavet (20.5)
Verse 20.6
।। हेतुं फलस्यादत्त्वा च यदि हेतुर् निरुध्यते । हेतौ निरुद्धे जातं तत् फलम् आहेतुकं भवेत् ॥ २०.६ ॥
// hetuṃ phalasyādattvā ca yadi hetur nirudhyate / hetau niruddhe jātaṃ tat phalam āhetukaṃ bhavet (20.6)
Verse 20.7
।। फलं सहैव सामग्र्या यदि प्रादुर्भवेत् पुनः । एककालौ प्रसज्येते जनको यश् च जन्यते ॥ २०.७ ॥
// phalaṃ sahaiva sāmagryā yadi prādurbhavet punaḥ / ekakālau prasajyete janako yaś ca janyate (20.7)
Verse 20.8
।। पूर्वम् एव च सामग्र्याः फलं प्रादुर्भवेद् यदि । हेतुप्रत्ययनिर्मुक्तं फलम् आहेतुकं भवेत् ॥ २०.८ ॥
// pūrvam eva ca sāmagryāḥ phalaṃ prādurbhaved yadi / hetupratyayanirmuktaṃ phalam āhetukaṃ bhavet (20.8)
Verse 20.9
।। निरुद्धे चेत् फलं हेतौ हेतोः संक्रमणं भवेत् । पूर्वजातस्य हेतोश् च पुनर्जन्म प्रसज्यते ॥ २०.९ ॥
// niruddhe cet phalaṃ hetau hetoḥ saṃkramaṇaṃ bhavet / pūrvajātasya hetoś ca punarjanma prasajyate (20.9)
Verse 20.10
।। जनयेत् फलम् उत्पन्नं निरुद्धो ऽस्तंगतः कथम् । हेतुस् तिष्ठन्न् अपि कथं फलेन जनयेद् वृतः ॥ २०.१० ॥
// janayet phalam utpannaṃ niruddho 'staṃgataḥ katham / hetus tiṣṭhann api kathaṃ phalena janayed vṛtaḥ (20.10)
Verse 20.11
।। अथावृतः फलेनासौ कतमज् जनयेत् फलम् । न ह्य् अदृष्ट्वा न दृष्ट्वापि हेतुर् जनयते फलम् ॥ २०.११ ॥
// athāvṛtaḥ phalenāsau katamaj janayet phalam / na hy adṛṣṭvā na dṛṣṭvāpi hetur janayate phalam (20.11)
Verse 20.12
।। नातीतस्य ह्य् अतीतेन फलस्य सह हेतुना । नाजातेन न जातेन संगतिर् जातु विद्यते ॥ २०.१२ ॥
// nātītasya hy atītena phalasya saha hetunā / nājātena na jātena saṃgatir jātu vidyate (20.12)
Verse 20.13
।। न जातस्य ह्य् अजातेन फलस्य सह हेतुना । नातीतेन न जातेन संगतिर् जातु विद्यते ॥ २०.१३ ॥
// na jātasya hy ajātena phalasya saha hetunā / nātītena na jātena saṃgatir jātu vidyate (20.13)
Verse 20.14
।। नाजातस्य हि जातेन फलस्य सह हेतुना । नाजातेन न नष्टेन संगतिर् जातु विद्यते ॥ २०.१४ ॥
// nājātasya hi jātena phalasya saha hetunā / nājātena na naṣṭena saṃgatir jātu vidyate (20.14)
Verse 20.15
।। असत्यां संगतौ हेतुः कथं जनयते फलम् । सत्यां वा संगतौ हेतुः कथं जनयते फलम् ॥ २०.१५ ॥
// asatyāṃ saṃgatau hetuḥ kathaṃ janayate phalam / satyāṃ vā saṃgatau hetuḥ kathaṃ janayate phalam (20.15)
Verse 20.16
।। हेतुः फलेन शून्यश् चेत् कथं जनयते फलम् । हेतुः फलेनाशून्यश् चेत् कथं जनयते फलम् ॥ २०.१६ ॥
// hetuḥ phalena śūnyaś cet kathaṃ janayate phalam / hetuḥ phalenāśūnyaś cet kathaṃ janayate phalam (20.16)
Verse 20.17
।। फलं नोत्पत्स्यते ऽशून्यम् अशून्यं न निरोत्स्यते । अनिरुद्धम् अनुत्पन्नम् अशून्यं तद् भविष्यति ॥ २०.१७ ॥
// phalaṃ notpatsyate 'śūnyam aśūnyaṃ na nirotsyate / aniruddham anutpannam aśūnyaṃ tad bhaviṣyati (20.17)
Verse 20.18
।। कथम् उत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते । शून्यम् अप्य् अनिरुद्धं तद् अनुत्पन्नं प्रसज्यते ॥ २०.१८ ॥
// katham utpatsyate śūnyaṃ kathaṃ śūnyaṃ nirotsyate / śūnyam apy aniruddhaṃ tad anutpannaṃ prasajyate (20.18)
Verse 20.19
।। हेतोः फलस्य चैकत्वं न हि जातूपपद्यते । हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते ॥ २०.१९ ॥
// hetoḥ phalasya caikatvaṃ na hi jātūpapadyate / hetoḥ phalasya cānyatvaṃ na hi jātūpapadyate (20.19)
Verse 20.20
।। एकत्वे फलहेत्वोः स्याद् ऐक्यं जनकजन्ययोः । पृथक्त्वे फलहेत्वोः स्यात् तुल्यो हेतुर् अहेतुना ॥ २०.२० ॥
// ekatve phalahetvoḥ syād aikyaṃ janakajanyayoḥ / pṛthaktve phalahetvoḥ syāt tulyo hetur ahetunā (20.20)
Verse 20.21
।। फलं स्वभावसद्भूतं किं हेतुर् जनयिष्यति । फलं स्वभावासद्भूतं किं हेतुर् जनयिष्यति ॥ २०.२१ ॥
// phalaṃ svabhāvasadbhūtaṃ kiṃ hetur janayiṣyati / phalaṃ svabhāvāsadbhūtaṃ kiṃ hetur janayiṣyati (20.21)
Verse 20.22
।। न चाजनयमानस्य हेतुत्वम् उपपद्यते । हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति ॥ २०.२२ ॥
// na cājanayamānasya hetutvam upapadyate / hetutvānupapattau ca phalaṃ kasya bhaviṣyati (20.22)
Verse 20.23
।। न च प्रत्ययहेतूनाम् इयम् आत्मानम् आत्मना । या सामग्री जनयते सा कथं जनयेत् फलम् ॥ २०.२३ ॥
// na ca pratyayahetūnām iyam ātmānam ātmanā / yā sāmagrī janayate sā kathaṃ janayet phalam (20.23)
Verse 20.24
।। न सामग्रीकृतं फलं नासामग्रीकृतं फलम् । अस्ति प्रत्ययसामग्री कुत एव फलं विना ॥ २०.२४ ॥
// na sāmagrīkṛtaṃ phalaṃ nāsāmagrīkṛtaṃ phalam / asti pratyayasāmagrī kuta eva phalaṃ vinā (20.24)