Books / Parameshvara Tantra

10. Patala 10

10.1

प्रकरणे शिवयोगविधाननिरूपर्णं नाम एकादश: पटल: पञ्चाक्षरीजपानुष्ठाननिरूपणम्‌ श्रीदेव्युवाच परमेश्वर सर्वज्ञ शुद्धज्ञानमहोदधे। पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि शङ्कर॥ १॥।

10.2

पञ्जाक्षरविधानं च जपध्यानादिषु प्रभो। कथयस्वाभिधेयं च तेन मन्त्रेण कृत्स्नशः ॥ २॥

10.3

ईश्वर उवाच तत्समाधानम्‌ पञ्चाक्षरस्य माहात्यं वर्षकोटिशतेरपि। न शक्यं विस्तराद्‌ वक्तुं तस्मात्‌ संक्षेपतः शृणु।॥ ३।।

10.4

षडक्षरः पञ्चाक्षरश्च मन्त्रः वेदे च वेदशीर्ष चाप्युभयत्र षडक्षरः। मन्त्रः स्थितः सदा मुख्यो लोके पञ्चाक्षरः स्मृतः ।। ४॥

10.5

१८० 'पारमेश्वरागम: [ एकादश: gel नमः शिवायेति मन्त्रेणानेन सिद्धयः | हंसो लभ्यः सदा सर्वैः परमेशप्रभावतः ॥ ५॥

10.6

सर्वमन्त्राधिकश्रायमोङ्काराद्ः षडक्षरः | सर्वेषां शिवभक्तानामशेषार्थप्रदायकः* ॥। ६॥

10.7

तदल्पं वेदसाराख्यं भुक्तिदं च विमुक्तिदम्‌ । आज्ञासिद्धमसंदिग्धं वाक्यमेतच्छिवात्मकम्‌ ॥ ७॥

10.8

नानासिद्धियुतं दिव्यं लोकचित्तेषु रञ्जनम्‌ । सुनिश्चितार्थगम्भीरं वाक्यं तत्पारमेश्वरम्‌ ॥ ८॥

10.9

मन्त्रः सुखमुखोच्चार्यश्चाशेषार्थप्रसाधकः | तदल्पं वेदसाराख्यं भुक्तिदं च विमुक्तिदम्‌ ।। ९॥।

10.10

प्रणवमाहात्म्यम्‌ तद्‌ बीजं सर्वविद्यानां मन्त्रमाद्यं षडक्षरम्‌ । अतिसूक्ष्मं महार्थ च ज्ञेयं तद्वटबीजवत्‌ I १०॥ १. प्रसाधकः-करि, ड.। अहं गुणत्रयातीतः सर्वञ्चः सर्वकृत्‌ प्रभुः | ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतोऽस्म्यहम्‌ 11 १९।। प्रणवोऽप्यधिकस्तस्य शिवस्य परमात्मनः | ग्राहिका भक्तिरुहिष्टा प्रणवाभ्याससंभवा 11 १२।। शिवरुद्रादिशब्दानां प्रणवादिपरः स्मृतः | शम्भोः प्रणववाच्यस्य भावनात्‌ तज्जपादपि ।। १३।।

10.11

तस्मादेकाक्षरं देवमाहुरागमवादिनः ।। ९४॥

10.12

वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः | ज्ञायते योगिभिर्ध्यानेः बोधानन्दाव्ययाद्वयः ।। १५।।

10.13

षडक्षरमन्त्रमाहात्म्यम्‌ ईशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु । समन्रे नमः शिवायेति संस्थितानि यथाक्रमम्‌ ।। १६॥

10.14

१८२ पारमेश्वरागमः [ एकादश: मन्त्रस्त्वक्षरतः सूक्ष्मः पञ्चब्रह्मतनुः शिवः | वाच्यवाचकभावेन स्थितः साक्षात्‌ स्वभावतः 11 १७।। वाच्यः शिवः प्रमेयत्वान्मन्त्रस्तद्वाचकः स्मृतः । वाच्यवाचकभावोऽयमनादिः संस्थितस्तयोः^ ।। १८॥।

10.15

तत्राधिषेन मन्त्राणां सर्वज्ञेन मया शिवे । प्रणीतममलं वाक्यं न तेन सदूशं भवेत्‌ ।। १९।।

10.16

साङ्गानि वेदशास्त्राणि संस्थितानि षडक्षरे । न तेन सदूशं तस्मान्मन्त्रमस्त्यपरं क्वचित्‌ 11 २०।। सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकशः मन्त्रः षडक्षरोऽभिन्नं सूत्रं वृत्त्यात्मनो यथा ॥। २१॥।

10.17

शिवज्ञानानि यावन्ति विद्यास्थानानि यानि च । षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः ।॥। २२।।

10.18

शास्त्राण्यायुर्वेदधनुर्वेदगान्थर्वार्थशास्त्राश्वत्वार क्रगवेदाद्युपवेदाशचेत्यष्टादश विद्यास्थानानि” (वेदान्तसूत्र- श्रीकण्ठभाप्य, १.१.३)। इनका विशेष विवरण वहीं (पृ. २१६-२१७ जंगमवाड़ी संस्करण) देखिये। सस्यों नमः शिवायेति मन्त्रोऽयं हृदि संस्थितः 11 २३।। *तेनाथीतं श्रुतं देवि तेनाचारः सुनिष्ठितः । येनों नमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः 11 २४॥। नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम्‌ | जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम्‌ ॥। २५॥।

10.19

अन्त्यजो वाञ्चमो वापि मूर्खा वा पण्डितोऽपि वा । पञ्चाक्षरजपे निष्ठो मुच्यते पाशबन्धनात्‌ ।। २६।।

10.20

तस्मात्‌ षडक्षरो मन्त्रः सर्वसिद्धिप्रदायकः | षडक्षरमयं देवं मां तु यो जपते भुवि ॥ २७॥

10.21

तस्य मुक्तिः करस्था स्याद्‌ वीरशैवरतस्य च । पञ्चक्षरमन्त्रोद्धारः शैवाश्रमवतां पुंसां लिङ्गिनां वीरशैविनाम्‌ ।। २८॥।

10.22

मम पञ्चाक्षरो मन्त्रः कल्पवृक्षो धरात्मजे | अस्याः परमविद्यायाः स्वरूपमतिशोभनम्‌ 11 २९।। १, ततो-ग. घ. ड.। १८४ 'पारमेश्वरागम: [ एकादश: शृणुष्व कथयिष्यामि गुह्यं तत्पापनाशनम्‌ | पञ्चाक्षरी विद्या आदौ नमः प्रयोक्तव्यः शिवायेति ततः परम्‌ ।। ३०।।

10.23

एषा पञ्चाक्षरी विद्या प्रणवाद्या घडक्षरी | स(यः) शब्दस्तस्य सर्वस्य बीजभूताः समासतः ।। ३१।।

10.24

सर्वज्ञस्याज्ञया सिद्धा तत्स्वरूपार्थवाचकी | तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ।॥। ३२।।

10.25

चतुर्भुजा त्रिनयना बालेन्दुकूतशेखरा | पद्योत्यलधरा सौम्या वरदाभयपाणिका 11 3311 सर्वलक्षणसंपूर्णा सर्वाभरणभूषिता । सितपद्मासनासीना नीलकुन्तलमूर्धजा ।। ३४॥।

10.26

पञ्चक्षरीविद्याया वर्णबीजनिरूपणम्‌ अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमण्डलाः । त्वत्स्वरूपं हि देवेशि मत्स्वरूपं नमः स्वयम्‌ ।। B41 पीतः कुष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च । पृथक्‌ प्रयोज्या यद्येते बिन्दुनादसमन्विताः 1 ३६॥ अर्धचन्द्राकुतिर्बिन्दुर्नादो दीपशिखाकृति: । बीजं द्वितीयं बीजेषु मन्त्रस्यास्य वरानने ।। ३७॥।

10.27

दीर्घपूर्व तुरीयं स्यात्‌ पञ्जमं शक्तिमादिशेत्‌ । ऋषि-छन्दो-देवतानिरूपणम्‌ वामदेवो नाम ऋषिः पङ्क्तिश्छन्द उदाहृतम्‌ 11 ३८॥ देवता शिव एवास्य मनोर्गिरिसुतेऽस्म्यहम्‌ | गौतमोऽत्रिर्महादेवि विश्वामित्रस्तथाङ्गिराः ॥। ३९॥।

10.28

भारद्वाजश्च वर्णानां ऋषयः क्रमशः स्मृताः । गायत्र्युष्णिगनुष्टुप्‌ च छन्दांसि बृहती विराट्‌ ।। ४०॥।

10.29

वर्णानामधीशाः स्थानानि च शिवो रुद्रो महादेव ईश्वरः परमेश्वरः | तेषामधीशा वर्णानां क्रमेणैते शिवादयः ।। ४९॥

10.30

१८६ पारमेश्वरागमः [ एकादशः शिवस्य पञ्चवक्त्राणि तेषां स्थानान्यनुक्रमात्‌। पूर्वादि चोर्ध्वपर्यन्तं नकारादि यथाक्रमम्‌ ।। ४२॥

10.31

उदात्तः प्रथमो वर्णो द्वितीयश्च चतुर्थकः । पञ्जमः स्वरितश्चैव मध्यमो निगदः शिवे।। ४३।।

10.32

मनोः पर्यायनामानि loc विद्या शिवः शैवं सूत्रं पञ्जाक्षरं तथा | षडक्षरं च तस्याहुर्नामानि मुनयो मनोः ।। ४४॥।

10.33

षडङ्गानि हृदयं मूलविद्येयं नकारः शङ्करः शिरः। शिखा मकारः कवचं शिकारो "वापि दूकत्रयम्‌ ।। ४५।।

10.34

यकारोसस्त्रं नमः स्वाहा रेवषड्‌ वौषट्‌ फडित्यपि । षड्भिर्व्णैः षडङ्गानि कुर्यान्मन्त्रस्य पार्वति ।। ४६॥

10.35

  1. पल्लवोद्धरणं तूत ग्रन्थान्तरे सष्टुविशतिक बीजं पञ्चविशतिक तत: | द्वयक्षरं सविसर्गं च हृन्मन्त्र पल्लवं स्मृतम्‌।। 'नम:' इति। प्राणस्य सप्तमं ह्यापो द्वितीयस्वरयुक्‌ क्रमात्‌। खे द्वितीयस्वरं तद्वच्छिरो- मन्त्रस्य पल्लवम्‌।। स्वाहा' इति। चाक्षरं तत: । दशान्तव्यञ्जनं तद्वच्छिखा- मन्त्रस्य पल्लवम्‌।। 'वषट्‌' इति। चतुर्थान्तं स्वरं बिन्दुनादौ च गगनाक्षरे। युञ्जीयात्‌ कवचं मन्त्रं पल्लवं परिको ्तितम्‌।। हु इति। बीजद्वये शिखायाश्च पल्लवे पूर्वमक्षरम्‌। चतुर्दशस्वरोपेत नेत्रमन्त्रस्य पल्ल- बम्‌।। वौषट्इति। एकविशतिवर्णानतं दशानतव्यञ्जनं तथा। एतदायुधमन्त्रस्य पल्लवं चेति कीर्तितम्‌।। "फट्‌ इति। नमोऽन्तं हृदयं विद्यत स्वाहान्तं शिरसो भवेत्‌। वषडन्तं शिखा ज्ञेयं हुकारं कवचस्य तु।। वौषडू नेत्रत्रयान्तं स्यात्‌ फट्कार चास्त्रमन्त्रतः।। इति शुद्धाख्यतन्त्रे। लैङ्गेपि षडशीतितमाध्याये। मन्त्रवर्णन्यासप्रकारः मन्त्रवर्णादिकान्‌ न्यस्येत्‌ पञ्चजमूतीर्यथा क्रमम्‌ । तर्जनीमध्ययोरन्त्यानामिकाङ्गुष्ठके पुनः ॥। ४७॥

10.36

ताः स्युस्तत्पुरुषाघोरसद्योवामेशसंज्ञकाः । वक्त्रहृत्पादगुह्योषु निजमूर्धनि ताः पुनः ।। ४८॥।

10.37

प्राग्याम्यवरुणोदीच्यमध्यचक्रेछु पञ्चसु । मन्त्राग्राणि न्यसेत्‌पश्चाज्जातियुक्तानि षट्‌ क्रमात्‌ ॥। ४९॥।

10.38

कुर्वीत गोलकन्यासं! रक्षायै तदनन्तरम्‌ । हृदि वक्त्रांसयोरूर्वाः कण्ठे नाभौ द्विपार्श्वयोः ।। ५०।॥। पृष्ठे हृदि ततो मूर्ध्नि वदने नेत्रयोर्न्यसेत्‌ । दोषोः संधिषु साग्रेषु विन्यसेत्‌ तदनन्तरम्‌ ।। ५९।।

10.39

१८८ 'पारमेश्वरागम: [ एकादश: शिरोवदनहत्कुक्षिसोरुपादद्वये शिबे । १हृदि वक्त्राम्बुजे कण्ठे? मृगाभयवरेष्टदा: रे ।। ५२।।

10.40

` चक्त्रांसहत्सु पादोरुजठरेषु क्रमान्न्यसेत्‌ | मूलमन्रेषु* मन््रार्णान्‌^ यथावद्‌ देवि विन्यसेत्‌ ।। ५३॥।

10.41

मूर्धनि फालोदरांसेषु हृदये तान्‌ पुनर्न्यसेत्‌ । पश्चादनेन मन्त्रेण कुर्वीत व्यापकं सुधीः ।। ५४।।

10.42

नमोऽस्तु स्थाणुभूताय ज्योतिलिङ्गामृतात्मने । चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शम्भवे ।। ५५॥

10.43

एवं न्यस्तशरीरोऽसौ चिन्तयेन्मां महेश्वरि | अथ ध्यानम्‌ ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रलाकल्पोज्ज्चलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम्‌ । पद्मासीनं समन्तात्‌ स्तुतममरगणैर्व्याघ्रकृत्ति वसानं विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्‌ ।। ५६॥

10.44

एवं ध्यायेन्महादेवि प्रसन्नविमलाशय: | देव्याश्च मूलमन्त्रोऽयं किञ्चिद्भेदः१ समन्वयात्‌ । ५७॥।

10.45

तत्रास्य पञ्चमो वर्णो द्वादशस्वरभूषितः । पूजाजपहोमादिविधानम्‌ तस्मादनेन मन्त्रेण मनोवाक्कायभेदतः ।। ५८॥।

10.46

आवयोरर्चनं कार्यं जपहोमादिकं प्रिये । यथाश्रद्धं यथाप्रज्ञं यथाकालं यथास्मृति ॥। ५९।।

10.47

यथाशक्ति तु संपाद्य यथायोग्यं यथारति | यदा कदाऽपि वा भक्त्या यत्र कुत्रापि वा कृता ।। ६०॥ ` स्येन केनापि वा देवि पूजा मुक्तिं हि नेष्यति । सदा सक्तेन मनसा यत्कृतं परमेष्ठिनः ।। ६१॥

10.48

१९० पारमेश्वरागमः [ एकादशः यत्प्रियं च शिवस्यैव क्रमेण व्युत्क्रमेण वा | तथापि शिवभक्ता ये नात्यन्तविवशा नराः ॥ ६२।।

10.49

तेषामर्थो(र्थे) मया देवि नियमः परिकल्पितः | तन्त्रसंग्रहणम्‌ तत्रादौ संप्रवक्ष्यामि तन्त्रसंग्रहणं शुभम्‌ ॥ ६३॥

10.50

यद्विना निष्फलं जाप्यं येन वा सफलं भवेत्‌ । आज्ञाहीनं क्रियाहीनं श्रद्धाभक्तिविवर्जितम्‌ ।। ६४।।

10.51

आजतप्तं दक्षिणाहीनं सदाजप्तं च निष्फलम्‌ | आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं क्रियात्मकम्‌ 11 g तथैव दक्षिणासिद्धं जपसिद्धं महत्फलम्‌ । मन्त्रग्रहणार्थं गुरुसेवनम्‌ तस्माद्‌ गुरुमुपागम्य तोषयेत्‌ तं प्रयत्नतः 1 ६६।। वाचा च मनसा चैव कायेन द्रविणेन च । आचार्य पूजयेच्छिष्यः सर्वदा देवि यत्तः ॥ ६७।।

10.52

पञ्चाक्षरीजपानुष्ठाननिरूपणम्‌ हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च । वासांसि धनधान्यानि रलानि विविधानि च 1162 11 सर्वास्तद्गुरवे दद्याद्‌ भक्त्या च विभवे सति । वित्तशाठय न कुर्वीत यदीच्छेत्‌ सिद्धिमात्मनः ।। ६९॥।

10.53

तस्मान्निवेदयेद्‌ देवि स्वात्मानं सपरिच्छदम्‌ | एवं संपूज्य विधिवद्‌ यथाशक्ति त्ववञ्चयन्‌ ॥ ७०॥। ` षडध्वशुद्धिः श्साधयेत गुरोर्मन्त्रं ज्ञानं देवि क्रमेण तु । षडध्वशुद्धमार्गः सन्‌ कुर्यादात्मजिगीषया ॥। ७१॥।

10.54

ज्ञात्वा गुरुमुखात्‌ सम्यगज्ञानार्णवमुत्तरेत्‌ | कला तत्त्वाध्वभुवनं वर्ण पदमतः परम्‌ ।। ७२।।

10.55

मन्त्रं चेति समासेन घडध्वानः प्रकीर्तिताः । गुरुणा मन्त्रोपदेशः कर्तव्यः देवि तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम्‌ । अभिषिच्य स्वलङ्कुत्य दद्यान्मन्नं शिवात्मकम्‌ ।। ७३॥ | १९२ पारमेश्वरागमः [ एकादशः यो मन्त्रमेनमधिगम्य गुरोर्मुखान्जात्‌ कृत्वा घडध्वपरिशोधनपूर्वचर्यः | ध्वात्वा जपत्यनुदिनं विषयेष्वसक्त- स्तस्याचिरेण परितुष्यति चन्द्रमौलिः ।। ७४॥।

10.56

मन्त्रपुरश्चर्या सोऽभिषेक गुरोर्लब्ध्वा मन्त्रदीक्षां च गौरवीम्‌ । संकल्प्य प्रजपेद्‌ देवि पुरश्चरणपूर्वकम्‌ ।। ७५॥

10.57

एकाग्रेण शिवं ध्यात्वा चेतसा विजितेन्द्रियः । याबज्जीबं जपेन्मन्त्रमष्टोत्तरसहस्रकम्‌ 119611 अनशनन्‌ तत्परो *भूत्वा स याति परमां गतिम्‌ । जपेदक्षरलक्षं वै चतुर्गुणितमादरात्‌ ॥ ७७॥

10.58

नक्ताशीः संयतमनाः पौरश्ररणिको मतः | तत्पुरश्चरणं कृत्वा नित्यजापी भवेन्नरः ।। ७८॥

10.59

तस्य नास्तिसमो लोके स सिद्ध: सिद्धिदो भवेत्‌ । जपविधिप्रकारोपदेश: स्नानं कृत्वा शुचौ देशे लब्ध्वा रुचिरमासनम्‌ ।। ७९।।

10.60

शिवभक्त्या शिवं ध्यात्वा स्वगुरोः सन्निधौ हृदि । उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः ।। oll विशोद्धच पञ्जतत्त्वानि ¦दहनाप्लावनादिभिः । मन्त्रन्यासादिकं कुत्वा 'सकलीकृतविग्रहः ।। ८१॥

10.61

आवयोरविंग्रहं ध्यायेत्‌ प्राणापानौ नियम्य च । विद्यास्थानं परं रूपमुषिश्छन्दस्तु दैवतम्‌ ceil बीजं शक्ति तथा वाच्यं स्मृत्वा पञ्चाक्षरं जपेत्‌ । त्रिविधो जपः 2उत्तमं मानसं जप्यमुपाशुं मध्यमं विदुः ॥॥ ८३॥।

10.62

१९४ पारमेश्वरागम: [ एकादश: अधमं वाचिकं प्राहुरागमार्थविशारदाः । उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम्‌ ।। ८४।।

10.63

अधमं ब्रहमदैवत्यं देव्याहुरनुपूर्वशः | यहुच्चनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः ।। ८५।।

10.64

मन्त्रमुच्चारयेद्‌ वाचा वाचिकोऽयं जपः स्मृतः । जिह्वामात्रपरिस्पन्दमीषदुच्चरितं शिवे cai अपरैरश्रुतं किञ्जिच्छुतंः चोपांशुरुच्यते | धिया यदक्षरश्रेणिं वर्णाद्वर्णं पदात्पदम्‌ ।। ८७॥

10.65

शब्दार्थचिन्तनं देवि कथ्यते मानसो जपः । वाचिकं चैवमेक स्यादुपांशुः शतमुच्यते ।। ८८॥।

10.66

साहस्रो मानसः प्रोक्तः सगर्भस्तच्छताधिकः । सगर्भो जपः कुम्भकेन समायुक्तः सगर्भा जप उच्यते ।। ८९॥।

10.67

आद्यान्तयोरगर्भाऽपि प्राणायामः प्रशस्यते । चत्वारिंशत्समावृत्तिः प्राणानायम्य संस्मरेत्‌ 11 ९०।। मन्त्रे मनतरार्थविद्धीमान्‌शक्तः शक्तिमतो जपेत्‌ । सध्यानो जपः सगर्भादपि साहस्रः सध्यानो जप उच्यते | एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः ।। ९२॥।

10.68

जपमाला अङ्गुल्या जपसंख्यानामेकमेकमुदाहृतम्‌ | रेखयाऽष्टगुणं विन्द्यात्‌ पुत्रजीवैर्दशाधिकम्‌ 113311 शतं स्याच्छङ्कमणिभिः प्रवालैस्तु सहस्रकम्‌ | स्फाटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ।। ९४।॥। पदाक्षैर्दशलक्षे तु सौवर्णैः कोटिरुच्यते | कुशग्रन्थ्या च रुद्राक्षैरनन्तगुणितं भवेत्‌ ॥। ९५॥

10.69

१९६ पारमेश्वरागमः [ एकादशः त्रिंशदक्षैःकृता माला धनदा जपकर्मणि । सप्तविंशतिसंख्याकैरक्षैः पुष्टिप्रदा . शिवे ।। ९६।।

10.70

पञ्जविंशतिसंख्याकैः कृता मुक्तिं प्रयच्छति । अक्षैस्तु पञ्जदशभिरभिचारफलप्रदा ।। ९७॥

10.71

जपेऽङ्गुलीनां विनियोगः अङ्गुष्ठं मोक्षदं विन्द्यात्‌ तर्जनी शत्रुनाशनी । मध्यमा धनदा शान्ति कुरुतेऽनामिकाजपात्‌ ।। ९८।।

10.72

कनिष्ठा रक्षिणी प्रोक्ता पुत्रदा च विशेषतः । अङ्गुष्ठेन जपं जप्य॑' सहान्याङ्गलिभिः सदा ॥। ९९॥।

10.73

अङ्गुष्ठरहितं जप्यं कृतं तदफलं भवेत्‌ | गोष्ठादिजपे फलवैशिष्ट्यम्‌ २जप्याद्‌ गृहे समफलं गोष्ठे शतगुणं विदुः 11 gool पुण्यारण्ये तथाऽरामे सहस्रगुणमुच्यते | अयुतं पर्वते देवि नद्यां लक्षमुदाहृतम्‌ 11 १०१॥। कोटिं देवालये देवि अनन्तं शिवसंनिधौ । सूर्यस्याननेर्गुरोरिन्दोर्दीपस्य च जलस्य च ।। १०२॥

10.74

लिङ्गस्य च गवां चैव संनिधौ शस्यते जपः । पञ्चाक्षरीजपमाहात्म्यम्‌ पुमान्‌ सदाचाररतो जपेत्‌ पञ्चाक्षरीमिमाम्‌ 11 203 11 अस्मिन्‌ सिद्धे महामन्त्रे सर्वे सिद्धा गिरीन्द्रे । यो जनः कीर्तयेद्‌ भक्त्या शृणुयाद्वा समाहितः ।। १०४।।

10.75

सर्वपापविनिर्मुक्तः स याति मम सन्निधिम्‌ । संख्याभेदेन फलभेदः द्विसहस्रं जपेद्‌ रोगान्मुच्यते नात्र संशयः 11 १०५।। त्रिसहस्रं जपेन्मन्त्रीः दीर्घमायुरवाप्नुयात्‌ । रसहस्रवृद्धद्या प्रजपेत्‌ सर्वान्‌ कामानवाण्नुयात्‌ ।। १०६।।

10.76

आज्यान्वितैस्तिलैः शुद्धैर्जुहुयाल्लक्षमादरात्‌। | उत्पातजनितान्‌ क्लेशान्‌ नाशयेत्‌ पर्वतात्मजे ।। १०७।।

10.77

१९८ पारमेश्वरागमः [ एकादश: शतलक्षं जपेत्‌ साक्षाच्छिवो भवति मानवः । किमत्र बहुनोक्तेन मम रूपं स पार्वति ।। १०८।।

10.78

पञ्चाक्षरीजपेन शिवपुरप्राप्तिः पञ्चाक्षरीं नियमवानपि यो जपेत तस्मिन्‌ समाहितमनाः शुचिरात्मवश्यः । क्षेत्रे शिवस्य परमे भुवि पर्वते वा गच्छेत्‌ स शङ्करपुरं शिवसंनिकाशः 11 १०९॥।

10.79

इति ते कथितं देवि मनोर्माहात्म्यमुत्तमम्‌ |

10.80

मम पञ्चाक्षरस्यैवं किं भूयः श्रोतुमिच्छसि ।। ११०॥।

10.81

इति श्रीपारमेश्वरतन्त्रे 'शिवाद्वैतसिद्धान्ते दीक्षाप्रकरणे

10.82

एकादशः पटलः समाप्तः? ।॥।९१।। `