9. Patala 9
9.1
शिवयोगविधानम् श्रीदेव्युवाच 'योगिहृत्पदावासाय योगिवेद्यस्वरूपिणे । ब्रह्मतत्त्प्रकाशाय शिवाय शिव ते नमः ॥॥१॥
9.2
अनादिशैवादिमतचतुष्टये विधिस्वरूपम् अनादिशैवनिष्ठस्य स्वोक्ताचारो विधि: सदा । संकल्प्योद्दिश्य च फलं शक्त्या जङ्गमपूजनम् ।। २॥
9.3
नित्यं नैमित्तिकं काम्यं यथोक्तं गुरुशास्त्रतः | आचारे त्रिविधं कर्म यथेच्छं सुखभुग् भवेत् ॥। ३॥
9.4
आदिशैवमतस्थश्च यावन्नित्यं समाचरेत् | यदि शक्त्या चरेदन्यं नित्यबुद्धत्या तथा चरेत् ॥ ४॥
9.5
अनुशैवमतस्थश्चः नित्यमेवं' समाचरेत् | यथाशक्त्या चरेनित्यंत्यक्त्वा शक्यं स्मरेच्छिवम् । सर्व लिङ्गमयं ध्यायेन्महाशैवब्रतीः जगत् ॥। ६॥
9.6
योगशैवादिमतविषयकः प्रश्नः २इत्येतदधिकारोऽपि सोपानावलिरीरिंता । एतादूशाधिकारी सन् योगशैवं ब्रजेदिति ॥ ७॥
9.7
निरूपितं महादेव भगवन् भवता प्रभो । स्वरूपं योगशैवस्य ज्ञातुमिच्छास्ति मे हृदि ॥ ८॥
9.8
यन्नाम ज्ञानशैवं चरै क्व भेदो ज्ञानयोगयोः । याभ्यां समन्वितो वीरशैवब्रतफलं लभेत् ।॥ ९॥
9.9
एतत्सर्वं सविस्तारं ब्रूहि शङ्कर तत्त्वतः | चद त्वत्त्रियशिष्याहं प्रियोऽसि त्वं गुरुर्मम ।। १०॥
9.10
समाधानारम्भः श्रुणु देवि प्रवक्ष्यामि रहस्यमिदमुत्तमम् । - “ १, शैवब्रती जगत' नास्ति-ग. घ.। २. श्लोकयोः (७-८) विपर्यस्तः पाठ:-ग. घ.। ३. तत्-ख. ग. घ. ङ.। ४. धर्म-क. ख. ग.। १६४ पारमेश्वरागम: [ दशम: नेदं पूर्व मया क्वापि कथितं त्विदमद्धुतम् | त्वयि स्नेहेन वक्ष्यामि श्रुत्वा धारय गोपय ॥ १२॥
9.11
द्विविधो योगशैवः शैवभेदस्य यद्योगपूर्वत्वं योगपाठःवत् | स चापि द्विविधो योगः साकारश्च निराकृतिः ॥ १३॥
9.12
निराकृतिर्निराकारो ध्यातृध्येयविवर्जितः । ज्ञानज्ञेयज्ञातृभेदप्रत्ययत्रयवर्जितः ॥ १४॥।
9.13
न तत्र चन्द्रमाः सूर्यो नक्षत्राणि दिशोऽनलः । विद्युद्वाताम्बुधरणीमेरुब्रह्माण्डसंज्ञकाः ॥ १५॥
9.14
यदखण्डं परं ज्ञानं यदेकं स्वच्छमव्ययम् | यदव्यक्तं मनोऽतीतं तदेकं ब्रह्म केवलम् ॥ १६॥
9.15
तद्धावनाधिकारी यो ज्ञानयोगान्वितः शिवे । १६६ पारमेश्वरागमः [ दशमः हृत्पुण्डरीके नाभ्यां वा स्वाधिष्ठानेऽपि मूलके । विशुद्धौ चापि चाज्ञायां सहस्रारेषपि वा शिवे ॥। २४॥
9.16
ब्रह्मरन्धे शिखाग्रे वा द्वादशान्ते चिदात्मनि | एतदन्यतमस्थाने ध्यायेन्मां परमेश्वरम् ॥ २५॥
9.17
दिव्यसिंहासनभावना दिव्यसिंहासनं तत्र कणिकामध्यभागतः | मण्डपं च चतुःस्तम्भं वितानावलिशोभितम् ।। २६॥।
9.18
भावयित्वा तु परितः कल्पवृक्षवनावलिम् | परितस्तस्य संभाव्यं भावयेत् क्षीरसागरम् 11 २७॥ द्वीपं मणिमयं ध्यायेत् तन्मध्ये मणिमण्डपम् । मुक्ताप्रवालशोभाढ्यं चतुर्द्वारसमन्वितम् ।। २८॥
9.19
सर्वतो दीपिकारेखातोरणाद्यैरलङ्कूतम् | सर्वशुङ्गारसम्पूर्ण मनसैवं\ विभावयेत् ॥ २९॥
9.20
परलः ] शिवयोगविधानम् १६७ १६८ पारमेश्वरागमः [ दशमः मन्दस्मितं त्रिनयनमीशानं कृत्तिवाससम् | प्रसन्नवदनाम्भोजं सर्वालङ्कारशोभितम् ॥ ३६॥
9.21
आवरणदेवत्ताभावनम् एवं ध्यायेच्चिरं योग्यावरणानि ततो यजेत्र । सर्वत्र मूलमन्त्रेण सहतारेण मन्त्रवित् ॥ ३७॥
9.22
पुरतो नन्दिनं ध्यायेद् दक्षिणे गणनायकम् । तत्पश्चिमे महावीरभद्रमुत्तरतो गुहम् ॥ ३८॥
9.23
चतुर्दिक्षु त्रिकोणस्य प्रादक्षिण्येन शाङ्करि । यजेदारभ्य च स्वाग्रं नन्द्यादीनां चतुष्टयम् ।॥ ३९॥।
9.24
अथ षद्कोणकोणेषु प्रादक्षिण्येन भावयेत् । षडामोदादिकान् षट्सु वाहनायुधसंयुतान् ॥ ४०॥।
9.25
आमोदं च प्रमोदं च सुमुखं दुर्मुखं तथा । अविघ्नं विघ्नकर्तारं कोणाग्रेष्वङ्गघद्ककम्? 11 ४१॥ भवं पशुपतिं रुद्रं शिवं शर्व त्रियम्बकम् | त्रिनेत्रं पञ्जवदनं पत्रेष्वष्टसु पूजयेत् ॥। ४२॥
9.26
वृषध्वजं वृषारूढं जटिलं चन्द्रशेखरम् | कपर्दिनं कालकण्ठं पिनाकिनमुमापतिम् ।। ४३॥
9.27
भूतेशं शङ्करं स्थाणुं भाललोचनमीश्वरम् | प्रमथं प्रमथाधीशं परमेश्चरमीश्वरि ॥ ४४॥
9.28
भावयेत् केसरेष्वेतान् घोडशेष्वपि षोडश । अथ घोडशपत्रेषु शक्तीः षोडश भावयेत् ॥। ४५॥।
9.29
ईशानी शाङ्करी रौद्री कालकण्ठी कपालिनी । गान्धारी हस्तिजिह्वा च पिङ्गलेडा सुषुम्निका ॥ ४६॥।
9.30
राका कुहूः सिनीवाली भूतधात्री गिरीन्द्रजा । असिताङ्गं "गुरु चण्डं क्रोधमुन्मत्तभैरवम् | कपालिनं भीषणाख्यं संहाराभिधभैरवम् ।। ४८॥।
9.31
यजेत् प्रथमरेखायां भावयेदथ ' मध्यमे । ब्राह्मीं माहेश्वरीं रौद्रीं हल्लेखां गगनाभिधाम् ॥। ४९॥
9.32
१७० पारमेश्वरागमः [ दशमः करालिनीं महोच्छुष्मां यजेज्ज्चालामुखीमपि | उमा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ॥ ५०॥
9.33
शशवेश्वरी च कौमारी गौरी चेति क्रमाद्यजेत् । एतास्तृतीयरेखायां मन्त्रस्योभयपार्श्चयोः ॥ ५१॥
9.34
शङ्खपदानिधिट्वन्दवमिन्द्रादीन् परितो च्यजेत् चतुरस्रान्त्यरेखायां वाहनायुधसंयुतान् ॥ ५२॥
9.35
ध्यानफलम् उपवेशनमारभ्य यावत् पूजाविसर्जनम् । तावद् ध्यायीत मनसा सर्व संसाधयेद्धदि ॥ ५३॥
9.36
एवमभ्यासनिरतः सर्वसङ्गविवजितः | ध्यात्वा मामीशमीशानि देहान्ते प्रविशेन्मयि ॥। ५४॥।
9.37
योगाष्टाङ्गानि- भक्तिर्वैराग्यमभ्यासो* ध्यानमेकान्तसेवनम् । भिक्षाटनं लिङ्गपूजा स्मरणं सततं मम AAN एतानि योगाष्टाङ्गानि योगशैवस्य लिङ्गिनः । एतदङ्गसमोपेतो योगशैव उदाहृतः ॥५६॥
9.38
ध्यानशैवलक्षणम् इत्थं संसिद्धयोगः सन् वर्तेतात्मपरायण: । सर्व मदात्मकं ध्यायेद् यदि चित्तं बहिर्गतम् ।। ५७॥
9.39
दुष्टं श्रुतं च संस्पृष्टमाघ्रातं स्वादितं कूतम् | सर्व शिवात्मकं ध्यायेद् ध्यानशैवः स उच्यते ॥ ५८॥
9.40
वीरशैवलक्षणम् योगध्यानद्वयेः भवत्या योऽतीतः सर्वनिस्पृहः । शिबोऽहंभावनाधीरो वीरशैव उदाहृतः ॥ ५९॥
9.41
बीरशैवमतं प्राप्य जगदेतच्चराचरम् । सर्व शिवमयं ध्यायेच्छिवोऽहमिति भावयेत् l ६०॥ १, द्वयो-क. ख. WI १७२ पारमेश्वरागमः [ दशमः सत्यपुष्पं क्षमापुष्पं 'सत्यमिन्द्रियनिग्रहः | सर्वभूतदयापुष्पं भावनापुष्पमुत्तमम् ।। ६१॥।
9.42
अनन्यपीडनं पुष्पं परोपकृतिमुत्तमाम् ॥ ६२ |। 1सुहृम्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु दुर्जनेषु जनेष्वपि । ६३।।
9.43
स्वमते विमते मूढे परारावुपकर्तरि | सर्वत्र भावयेदेकं वीरशैवमते शिवे ॥ ६४॥
9.44
यः पूजयेन्मामीशानि पुष्पैरेतैरतन्द्रितः । सर्वदा सर्वदा शम्भुं वीरशैवः स उच्यते ।। ६५॥
9.45
रागद्वेषविमुक्तानां? लिङ्गिनां वीरशैविनाम् । अभितः शिवकैवल्यं करस्थं विदितात्मनाम् ॥ ६६।।
9.46
वीरशैवयोगिन; पर्यायनामानि अवधूतश्व संन्यासी योगी पाशुपत: शिव: । लिङ्गी वीरो वीरशैवो महामाहेश्वरो यतिः ।। ६७॥
9.47
पर्यायनामान्येतानि वीरशैवस्य योगिनः? । नान्यदस्ति ततस्तस्य विना तादात्म्यभावनाम् 11 ६८॥ वीरशैवस्य नियमाः यदि(दी)च्छेन्मम सायुज्यं वीरशैवो महेश्वरि eeu न वीरशैवादधिकफलदं मतमस्ति हि । यदस्तीह तदा कश्चिदधिको मत्परः शिवे 1190 1 यः कुर्याद् वीरशैवस्थः पीडनं प्राणिनां भुवि | स जीवन्नेव चाण्डालो मृतो नरकमश्नुते 1119811 वीरशैवस्य षडङ्गानि शमो दमस्तितिक्षोपरतिश्रद्धासमाधयः । षडङ्गानि महादेवि वीरशैवस्य लिङ्गिनः ॥ ७२॥
9.48
१७४ पारमेश्वरागमः [ दशमः यद्येकेनापि चैतेषां विहीनो हीन एव सः | अङ्गलोपे भवेद् व्यङ्गी तेनाधो निपतद् TTT ॥ ७३॥
9.49
यथा मनुष्यः सर्वाङ्गसंयुक्तोऽङ्गीति कथ्यते | यद्यन्यथा भवेद् व्यङ्गी तथैवायं न संशयः ॥ ७४॥
9.50
दयामाहात्म्यम् न पुष्पाहरणायासो न “तद्द्वारान्यपीडनम् | भावेनैव परं कर्म दयैका वीरशैविनः ॥७५॥ ` दया भूतेषु तस्यैकं साधनं प्राप्तये मम | तदेकं नरकप्राप्तेरलिङ्गिनः परपीडनम् ।॥ ७६॥
9.51
जगत्सर्वमहं देवि यच्च किञ्चिच्चराचरम् | मच्छरीरमिदं विद्धि नामरूपक्रियात्मकम् ॥ ७७॥ , तद्धूत्वा मम यो भक्तः* कुर्याद् द्वेघमपि क्वचित् । मम द्वेषी न सन्देहस्तन्मां सर्वत्र भावयेत् 11 ७८॥। स्वशरीरे यथा देवि सपादतलमस्तके । तथैवैकत्वमध्यासः सर्वत्रैवं विभावयेत् ॥ ७९॥
9.52
वीरशैबमतस्थस्य यावती भेदभावना । भूतेषु भावनाऽस्तीव मत्प्राप्तिस्तस्य सुन्दरि ॥ ८०॥
9.53
किमत्र बहुना तत्र शुणु चोर्ध्वं विनिश्चितम् । वक्तव्यं ग्रन्थविस्तारैः सर्वसिद्धान्तमीश्वरि 112211 पञ्चाक्षरजपमाहात्म्यम् हृदि यस्य तनौ लिङ्गं मनो मयि मनुर्मम । शैवः पञ्चाक्षरः पुण्यः स जिह्वाग्रे महेश्वरि ॥ ८२॥
9.54
तत्र वक्ष्ये गिरिसुते सारात्सारतरं तव । गोपनीयं प्रयलेन वद भक्ताय योगिने ॥ ८३॥
9.55
१७६ पारमेश्वरागमः [ दशमः जपेत् पञ्चाक्षरं शैवं भुक्तिमुक्तिफलप्रदम् | सर्वधर्मान् परित्यज्य शैवं पञ्चाक्षरं जपेत् । ८४॥।
9.56
तिष्ठन् भुञजन्स्वपन्गच्छन्जाग्रननपि हसन्नपि । उपविशन् प्रबुद्धयन् वा शैवं पञ्चाक्षरं जपेत् ॥ ८५॥
9.57
स्वस्थः परवशो वापि १क्षुतप्रस्खलनादिषु | व्याजेनाखिलभेदेन शैवं पञ्चाक्षरं जपेत् ।॥ ८६॥।
9.58
शान्तो वा कुपितो वाऽपि शुद्धो वाऽशुद्ध एव वा । २विधिनापि विना वाऽपि शैवं पञ्चाक्षरं जपेत् 11 ८७॥। सर्ववेदेषु सर्वत्र ` सर्वकालेषु सर्वशः । न कैलासाद् बरो लोको न दैवं शङ्करात् परम् । न वीरशैवाच्च मतं नास्ति मुक्तिपरं सुखम् ues १. शुत... वापि इत्यस्य स्थाने--“शान्तो वा कुपितो वापि क्षुभितप्रस्खलादिषु। व्याजेनाखिलभेदेत शैवं पञ्चाक्षरं जपेत्।।” इत्येवं विपरिणतः पाठ: ८८ तमभ्लोकानन्तरं स्थापितः-ग. घ.। qe: ] शिवयोगविधानम् १७७ नास्ति ज्ञानात् परं मित्रं न भक्तेः साधनं परम् । न शैवादधिको मर्त्यो "मन्त्र: पञ्चाक्षरः परः ।। ९०॥
9.59
स्मरेत् स्मरणरूपेण स्तोत्ररूपेण संस्तुबेत् | प्रजपेन्मन्त्रूपेण शैवं पञ्चाक्षरं मनुम् ॥ ९१॥
9.60
` यदि(दी)च्छेन्सम सायुज्यमनायासेन सुन्दरि । न विस्मरेत् सदा मन्त्रं मम पञ्चाक्षरं परम् ॥ ९२॥
9.61
आलस्येनापि शाठ्येन परिहासेन मायया । स्मरेत वा स्वभावेन शैवं पञ्चाक्षरं परम् ।। ९३॥
9.62
स्वप्नेऽपि वा स्मृते मन्त्रे सुखे दुःखे रतादिषु । सकृत् पञ्चाक्षरे वापि सोऽहमेव न संशयः ॥ ९४॥
9.63
किं पुनर्भक्तितो यस्तु जपेन्मन्त्रोत्तमोत्तमम् । शैबं पञ्चाक्षरं दिव्यं भुक्तिमुक्तिफलप्रदम् ॥ ९५॥
9.64
१७८ पारमेश्वरागमः [ दशमः स्मरणात् कीर्तनाद् ध्यानाज्जपादभिनुतेरपि । मननात् पूजनाद भावाद् भोगस्वर्गापवर्गदम् 11 ९६।। शशवं पञ्चाक्षरं जप्त्वा लिङ्गपूजां करोति यः । सोऽपि मानुषदेहस्थः शिव एव न संशयः ।। ९७॥
9.65
यस्तु लिङ्गार्चनं कृत्वा जपेत् पञ्चाक्षरं मनुम् । दिने दिने सहस्रं तु सोऽहमेव धरात्मजे । ९८॥
9.66
पञ्चाक्षरस्य माहात्म्यं मया वक्तुं न शक्यते । ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।। ९९॥
9.67
प्रोक्तं मया महादेवि शिवयोगस्य लक्षणम् । तद्धचानं तद्विधानं च किं भूयः श्रोतुमिच्छसि 11 १००॥
9.68
इति श्रीपारमेश्वरतन्त्रे शिवाद्वैतसिद्धान्ते दीक्षा-
9.69
दशमः पटलः समाप्तः ।।१०।।