Books / Parameshvara Tantra

8. Patala 8

8.1

दीक्षाप्रकरणे १लिङ्गधारणस्वरूयनिरूपण नास्ति-क. ख. ङ.। वीरशैवमतमाहात्म्यनिरूपणम्‌ श्रीदेव्युवाच नमश्चैतन्यरूपाय नमः पञ्चमुखाय ते । ae विस्तरतो देव वीरशैवस्य विक्रमम्‌ ॥। १॥।

8.2

कथिता मतभेदास्ते लक्षणादि निरूपितम्‌ । वीरशैवमतस्यात्ररै महिमा वर्णितस्त्वया 12 उक्ताधिकारी ज्ञानेन वीरशैवमतं गत: । यथोक्तफलमाप्नोति शुश्रावेदं मयाऽखिलम्‌ 11311 सहवासबलेनान्यो वासनावासितो$पि वा | स्वस्थः परवशो वाऽपि क्रमेण ह्युत्क्रमेण वा ।। ४॥।

8.3

न शास्त्राचार्यशिक्षाऽस्ते न ज्ञानं न विवेकता । हठाद्वा बुद्धितो वाऽपि कार्यार्थी वा भयातुरः ।। ५॥

8.4

अलब्धसम्यरज्ञानश्च न स्थैर्य नापि चापलम्‌ । वीरशैवमतं प्राप्य कां गतिं शिव गच्छति! ॥ ६॥ अभावादधिकारस्य वीरशैवमतं ब्रजेत्‌ | न १कच्चिदुभयभ्रष्टः प्राप्तत्यागेन शङ्कर ।॥ ७॥

8.5

ईश्वर उवाच यथोक्तस्य यथोक्तं स्यात्‌ फलं चापि गतिर्गते: । किन्त्वन्येषां प्रवक्ष्यामि महिमानं गति त्वयि uct काश्यां मरणान्मुक्तिः यथान्धो a र्वा मूको वा बधिरोऽपि वा । पुण्यवानपि पापी वा साधुर्वा दुर्जनोऽपि वा । यदि शुद्धोऽप्यशुद्धो वा काशीं प्राप्य भवेज्जनः ।। १०॥।

8.6

१४६ पारमेश्वरागमः [ नवमः प्रवेशमात्रेण शिवे पञ्जक्रोशात्मके मयि । अहमेव हि ते सर्वे वीरशैवमते तथा Vi वीरशैवमतप्रवेशमात्रान्मुक्तिः प्रबेशमात्रेण -शिवे मम शैवमते नरः | सोऽहमेव न सन्देहः किमु वीरशिवो यदि ॥। १२॥।

8.7

क्लुधितस्यापि तृप्तस्य शकरा मधुरा यथा | ज्ञानिनोऽज्ञानिनश्रापि वीरशैवं सुखप्रदम्‌ ।। १३।।

8.8

भयं नास्तीति विषये ह्यनुरक्तो भवेद्यदि । संत्यक्त'स्बोचिताचारः स पतेद्‌ रौरवे चिरम्‌ ।। ९४॥।

8.9

निगृहीतेन्द्रियग्रामो नियुक्तध्यानतत्परः । अनपेक्षः स्वतः प्राप्तेऽप्यात्मध्यानपरायणः 11 १५।। एकान्तभक्तिरीशाने यत्सर्वत्र तदीक्षणम्‌ | अहन्ताभावनाखण्डशान्तिः प्राणिदयापरः ॥। १६।।

8.10

'पटल: ] वीरशैवमतमाहात्म्यनिरूपणम्‌ १४७ इत्यादिशासनोपेतः सत्क्रमात्‌ कालमन्वहम्‌ | स्थितस्य दैवयोगेन यद्यबाधं जनुष्मताम्‌ ।। ९७।।

8.11

क्वचिदेव भवेच्चित्तं निशामय? महेश्वरि । यदि पीडापरो मूढः स पतेन्नात्र संशयः NLN यथा कथञ्चिद्‌ यो वीरशैवः संचितपुण्यतः । यदा कदा वा भवति तदा सोऽहं न संशयः ।। १९॥

8.12

विना ममानुग्रहेण प्रवेशो लभ्यते नभिः । न शैवमात्रे देवेशि वीरशैवमते किमु ।। २०॥।

8.13

तत्सर्वकर्मविलयः सर्वपुण्यफलोदयः | वीरशैवब्रतं तेन लभ्यते देवि नान्यथा ।। २९॥।

8.14

अनाद्यादिषु भेदेषु यत्र यत्र स्खलेद्‌ ब्रते | कूपया मम कल्याणि वीरशैवेन शुद्धधति ॥। २२॥

8.15

१४८ पारमेश्वरागमः [ नवमः वीरशैवेन वर्ज्या विषयाः °वीरशैवमतं प्राप्य यो बुद्ध्या विषयातुरः | श्वानयोनिशतं गत्वा चाण्डालो भुवि जायते 11 २३।। वीरशैवमतं प्राप्य यः कुर्यात्‌ प्राणिहिंसनम्‌ | कर्मणा मनसा वाचा स वसेदू रौरवे चिरम्‌ ॥ WU वीरशैवत्रतं प्राप्य यः कुर्यात्‌ परपीडनम्‌ | भोगार्थ संग्रहं मद्यं मांसं स्त्रीं च कलञ्जनम्‌ ॥ २५।।

8.16

स्वर्णस्तेयं दिवानिद्रां सर्वदैकान्नभोजनम्‌ | प्राकृतैः सह सङ्गं च सङ्गत्यागं च लिङ्गिनाम्‌ ।। २६।।

8.17

स कोटिजन्मसु ara चाण्डालो भुवि जायते । वाहनं जनसङ्गं च स्त्रीकथालौल्यरेमेब च ॥ २७॥।

8.18

अनादरं तथाऽलस्यं वीरशैवो न कारयेत्‌ | वीरशैवलक्षणम्‌ यः पश्यत्यन्धवद्रूपं शब्दविद्‌ बधिरोपमः ।। २८।।

8.19

ख. ग. घ. ड.। ३. लोक्य-क.। १५० पारमेश्वरागमः [ नवमः ५. काहं-ख। ग्रस्तयोरस्तगतयो राहुणा शशिसूर्ययोः। शक्तो भैक्षमहोरात्रमलिङ्गी वर्जयेद्‌ यत्िः।। xen अमृत्तिकादिनियममस्पृष्ट्वा त्ववगाहनम्‌। अपूर्वापरकर्माङ्गमलिङ्गी वर्जयेद्‌ यतिः॥ ४२॥

8.20

उपानहमनड्वाहं स्वयंपाक सुगन्धिकम्‌। अकरक्षालनं भुक्त्वा चालिङ्गी वर्जयेद्‌ यतिः ।। ४३॥।

8.21

*पुष्पिण्या वापि गर्भिण्या सूतक्याऽनमशुद्धया। भक्त्याऽपि दत्तं कृच्छेपि ह्यलिङ्गी वर्जयेद्‌ यतिः ।। ४४॥।

8.22

अलिङ्किनो यतेर्देवि बहु क्लेशं भवेत्‌ सदा। *निवृत्तिर्वीरशैवस्य लिङ्गिनो लिङ्गतः सुखम्‌॥। ४५॥।

8.23

१५२ पारमेश्वरागमः [ नवमः वीरशैवमतवैशिष्टथम्‌ न कायक्लेशसहनं न ब्रतादावुपोषणम्‌ | न gei भद्रे वीरशैवस्य लिङ्गिनः ।। ४६।।

8.24

बद्धातुरस्य तु सदा नास्त्येव मम रूपता | सर्वसाधारणमिदमनायासो विशिष्यते ॥। ४७॥

8.25

अस्नातो? वापि शुद्धो वा खट्वायामुपविश्य वा । पूजायां मम लिङ्गस्य मामेवैति न संशयः ।। ४८॥।

8.26

तिर्यगादिषु योषित्सु भूत्वा मृत्वा सहस्रशः | अनुष्ठायार्हतादीनि यत्र सञ्चितपुण्यतः 1 ४९।। भवेन्मत्कूपया देवि एकस्मिन्‌ जन्मनि द्विजः । अधीत्य वेदान्‌ वेदान्तं लब्ध्वा तत्त्वं गुरोर्मुखात्‌ ।। ५०॥।

8.27

संत्यक्तविषयस्नेहः सर्वभूतदयापरः । संन्यस्य संश्रयेद्योगं येन मामेव याति सः ।। ५१॥

8.28

निष्पन्नयोगश्चरमे 1भवेल्लिङ्गिजनेष्वथ । तत्पक्वफलसारांशवीरशैवमतं श्रयेत्‌ ॥ ५२॥

8.29

तावदुन्नतमागत्य पदं शैवमतं मम । तत्र सर्वोन्नतं वीरशैवत्रतमनुत्तमम्‌ ॥ ५३॥

8.30

वीरशैवब्रतवतो व्यवधानं ममापि च । एतावदेव देहान्ते चैका यवनिका यदा ॥ ५४॥

8.31

2शक्नोतीहैव यः सोढुंप्राक्‌ शरीरविमोक्षणात्‌ । कामक्रोधोद्भवं *वेगं स याति लघु मां शिवे ।। ५५॥

8.32

यश्चाशक्तः शिवे सोढुं वीरशैवमतं गतः । निग्रही करणानां तु स कूच्छरेणोपशाम्यति ।। ५६।।

8.33

दैबोपलब्धसुखभुकू शिवपूजापरायणः । वीरशैवपदं प्राप्य सुखेनोपैति निर्वृतिम्‌ । ५७॥।

8.34

१५४ पारमेश्वरागमः [ नवमः वीरशैवजङ्गमलक्षणम्‌ त्रिकालं भस्मना स्नानं शक्तितो लिङ्गपूजनम्‌ | ded च शिवभक्तेषु वीरशैवस्य लक्षणम्‌ ।। ५८।।

8.35

स्मरणां पूजनं ध्यानं तत्कथा स्तोत्रमन्वहम्‌ । शाङ्करस्य ममेशस्य वीरशैवस्य लक्षणम्‌ ॥ ५९॥

8.36

पात्रमेकं तु भिक्षायाः कन्थैका कृष्णकम्बलः | दण्डो ध्वनिः शिवे भक्तिवीरशैवस्य लक्षणम्‌ ।। ६०॥।

8.37

चूलिका पात्रदण्डौ च सकन्थः कूष्णकम्बलः | मुट्रैषा वीरशैबस्य वीरशैवस्य लक्षणम्‌ ।। ६१॥।

8.38

मौनमेकान्तवासश्च मच्छास्त्रस्यावलोकनम्‌ । विरक्तिर्विषयग्रामे वीरशैवस्य लक्षणम्‌ ।। ६२॥

8.39

शात्तिर्निष्ठा भूतदया चित्तवृत्तिनिरोधनम्‌ | सर्वत्रेश्वरतादात्म्यं वीरशैवस्य लक्षणम्‌ ।। ६३।।

8.40

निष्ठामहिमा नैव रक्षन्ति विषया न भोगा न च बान्धवाः । नैव संपत्तिदारिद्र्चे निष्ठैका सति शङ्करे ।। ६४॥।

8.41

गुरुशुश्रूषणं शास्त्रचिन्तनं तदनुष्ठिभि(तिः) । शान्तिरेकान्तवासश्च भक्तिर्देवि शिवे मयि ॥ ६५॥

8.42

पूजनं सर्वदा लिङ्गे वीरशैवोपसर्पणम्‌ । मत्पदप्राप्तये चैतत्‌ सोपानपथमुच्यते ।। ६६।।

8.43

अरण्ये सन्ति पत्राणि नद्यां स्वादूदकानि च । सन्ति हस्तौ च पादौ च मल्लिङ्ग निरुपद्रवम्‌ ।। ६७॥।

8.44

नोद्यमो ९नापि सेवा वा नायासो नार्थसंक्षयः । आराध्य सुखमीशं मां धीमानेति शिवं पदम्‌ ।। ६८॥।

8.45

वीरशैवमतमहिमा लब्ध्वाऽपि मूढः पुण्येन वीरशैवमतं मम | न साधयेत्‌ सुखं यस्तु कोऽन्यस्तस्मादचेतनः 11 ६९।। १०६ पारमेश्वरागमः [ नवमः वीरशैवमतं प्राप्य योऽन्यथा सुखमिच्छति | स सन्त्यज्य गुडं मूढो लेलिहेत्‌ पर्णमीश्वरि ।। ७०॥।

8.46

वीरशैवमतस्थो य आकाङ्घेत्‌ क्षणिकं सुखम्‌ | आरुह्य पडटभद्रेमं प्रविशेज्जलनिर्गमम्‌ ॥ ७९॥

8.47

प्राप्तवीरमतं त्यक्त्वा यथेच्छेद्‌ यः पदं मम । स गृहीत्वा शुनः पुच्छं तर्तुमिच्छति सागरम्‌ 11 ७२।। पुण्यैकलभ्यमाश्रि्य वीरशैवमतं मम | यो बन्ध्यं दिवसं कुर्यात्‌ कोऽन्यस्तस्मादचेतनः ।। ७३।।

8.48

करस्थिते ज्चलहीपे वीरशैवाभिधे सति । कुमार्गेणर व्रजेद्‌ यस्तु सोऽन्धो निर्गतलोचनः ।। ७४॥

8.49

वीरशैवव्रत'स्वच्छवज्रनावमधिष्ठितः सुखं तरेद्‌ भवाम्भोधिं भक्तिनाविकचोदितः ॥। ७५।।

8.50

वीरशैवव्रतस्थेन सावधानेन भाव्यम्‌ प्राप्यापि तादूशीं नावमालस्येनैव वायुना । प्रतिकूलेन दुःखाब्धौ पात्यते निहतः स हि ।। ७६॥।

8.51

१अभक्तेनाविवेकेनादूढवैराग्यगौरवात्‌ । अधैर्यस्तम्भिता नौका पातयेद्‌ भग्नसाधना 11 ७७॥ 'कामलोभादिसहिताश्वोरा हि विषया यतः | ज्ञानरत्नापहाराय यतन्ते सततं शिवे ec अशक्तो\ऽसहनो मूढो Ga दुःखस्य लक्षणम्‌ । चिरं विसहते क्लेशं मधुमग्नेव मक्षिका ।। ७९॥

8.52

अवर्जनीयोऽप्राप्यापि भोव्तु प्राप्यापि दुःखदः । एषश्रोभयथा शत्रुर्विषयः सुखनाशकः Lol ४एतज्जात्वा मल॑स्पुष्ट्वा विषयं क्षालयेत्‌ सुधीः । जलेन वीरशैवेन ada शुचिर्भवेत्‌ ।। ८१।।

8.53

१५८ पारमेश्वरागमः [ नवमः 1 यथैधांसि समिद्धोऽग्नर्भस्मसात्‌ कुरुते शिवे । तथैव निर्दहेद्‌ बन्धं वीरशैवब्रतानलः ।। ८२॥।

8.54

वीरशैबब्रतमहावञ्रपञ्जरमध्यगः । तिष्ठेदनामये नित्यं सुखं हंस इवाद्रिजे ॥ ८३॥

8.55

शैवमतेषु सोपानक्रमः तिष्ठेदनादिभेदेषु यदीच्छा विषयेष्वथ | भुञ्जन्‌ समुचितान्‌ भोगान्‌ पूजयेल्लिड्रमुक्तवत्‌ ।। ८४॥।

8.56

अर्चयेदतिथीन्‌ भक्त्या साधयेत्‌ कर्म चोदितम्‌ । यद्यादिः स्वार्चयेल्लिङ्गं मनुस्थः श्रवणीभवेत्‌ ।। ८५॥

8.57

योगयुक्ताधिकारी सन्‌ योगशैवमतं 'ब्रजेत्‌ 1128 11 ईषणत्रयनिर्भुक्तस्त्यक्तरागो जितेन्द्रियः । योगशैवमतं प्राप्य सोऽधिकार्ययमीश्वरि ॥। ८७॥

8.58

'पटल: ] वीरशैवमतमाहात्म्यनिरूपणम्‌ १५९ प्रब्रजेद्‌ गृहमुत्सुज्य शिखी मुण्डअपि वा जटी 112211 योगशैवमते? वीरं भक्त्या नत्वा समाश्रयेत्‌। ततोऽधिकारं संप्राप्य ad पाशुपतं श्रयेत्‌॥ ८९॥

8.59

अवधूताख्यो वीरशैव: तदैव ज्ञानशैवाख्यं ततो वीरब्रतं चरेत्‌। कथितो योऽवधूताख्यो वीरशैव: स ईश्वरिं ।॥। ९०॥

8.60

नातोऽधिकं मतं किञ्चिन्नास्ति मत्तः परं सुखम्‌। वीरशैवब्रतं नाम नावधूतव्रतात्‌ परम्‌।। ९९।।

8.61

शक्यते साधितुं प्राप्य तत एवं व्रतं चरेत्‌। नैव शुद्धिर्न चाशुद्धिनैव १वन्द्रैकवन्द्यता ।। ९२।।

8.62

न पूज्यपूजकविधिर्न शिष्यो न गुरुः शिवे । न माता न पिता भार्या न चाण्डालो न भूसुरः ।। ९३॥।

8.63

१६० पारमेश्वरागमः [ नवमः न गौर्न शुनको हस्ती गर्दभो वापि भेदतः । नोत्तमं मध्यमं नीचं न न्यूनमधिकं समम्‌ ।। ९४।।

8.64

बीरशैवावधूतस्य . सममेवाखिलं शिवे । | अखण्डसच्चिदानन्दं देहदृष्टान्तवर्जितम्‌ ॥ ९५॥

8.65

भनिर्लेपमखिलाधारमसङ्ग सर्वकारणम्‌ | अप्रतक्यमनिर्देश्यमव्ययं द्रैतवर्जितम्‌ ॥ सर्वदूक्‌ सर्वभुक्‌ सर्वमसर्वं सर्वतोमुखम्‌ ।। ९६।।

8.66

तदेकमच्युतं प्रज्ञमप्रज्ञ॑ प्रज्ञयोदितम्‌ । ज्ञातृ ज्ञानं ज्ञानगम्यं ब्रह्म शैवपदं मम ॥। ९७॥।

8.67

तन्मयं भावयेत्‌ सर्व जगदेतच्चराचरम्‌ | अनन्तसागरारूढसुखनौगर्भगं सुखम्‌ ॥। ९८॥

8.68

पुनरावृत्तिरहितम्‌ अनामयमविक्रियम्‌ | शैवं मम पदं प्राप्य शिवः सोऽहमहं शिवे ।। ९९॥

8.69

न क्रमो न विधिर्दोघनिषेधौ भावितात्मनः । वीरशैवावधूतस्य सोऽहमेव शिवः स्वयम्‌ 11 १००।। न पुण्यं च न वै पापं नाधमा गतिरुत्तमा? । स्वयमेवाखिलं देवि वीरशैव: शिवो ह्यहम्‌ ॥ १०१॥

8.70

इति ते कथितं देवि संक्षेपेण मया क्वचित्‌ ।

8.71

माहात्म्यं वीरशैवस्य किं भूयः श्रोतुमिच्छसि 11 १०२।।

8.72

इति श्रीपारमेश्वरतन्त्रे शिवाद्वैतसिद्धान्ते

8.73

नवमः पटलः समाप्तः" IRLI