Books / Parameshvara Tantra

7. Patala 7

7.1

शैवदीक्षाप्रकरणे दीक्षानिरूपण नाम वीरशैवलक्षणाचारनिरूपणम्‌ देव्युवाच वीरशैवपदस्थवीरविषयकः प्रश्नः चिन्मयानन्दविज्ञानगगनाय महात्मने । नमस्तेः शूलहस्ताय पशूनां पतये नमः NRI कथिता मतभेदास्ते सप्तसंख्यास्त्वयाऽनघ | वीरशैवमतं तत्र विशेषेणाभिवणितम्‌ ॥ २॥

7.2

वीरत्वं नाम भगवन्‌ विज्ञेयं तु कथं मया? । प्रविश्य वीरशैवे तु किं वा कार्य हि लिङ्गिनाम्‌ ॥। ३॥।

7.3

भक्त्या मताश्रयं कृत्वा वैराग्यशिथिलेन्द्रियः । पुनरागत्य विषयान्‌ "काँ गति शिव गच्छति ।। ४॥

7.4

एतत्क्रमेण विश्वेश वद विस्तरतो मम । तारतम्येन यत्प्राप्यं प्रवृत्त्या गच्छतां हर ॥ ५॥

7.5

ईश्वर उवाच शुणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि । सरहस्यं सविस्तारं महिमानं मतस्य मे ॥ ६॥

7.6

वीरलक्षणम्‌ वीरत्वं नाम देवेशि यथा वीरो रणे भट: | तथा मते च सद्भक्त्या वीरो वैराग्यतो टूढात्‌ ॥। ७॥

7.7

ईषणत्रयनिर्मुक्ता ज्ञानविज्ञानतत्पराः । दूढवैराग्यसंपन्ना वीरास्ते शिवयोगिनः ॥८॥

7.8

अन्धा ये लिङ्गिनो देवि परस्त्रीरूपदर्शने । युवानश्चापि पटवस्ते वीराः शिवयोगिनः ॥ ९॥

7.9

ध्ये मूका लिङ्गिनो देवि परदोषानुवादने । सर्वज्ञा अपि वा बालास्ते वीराः शिवयोगिनः ।। १०।।

7.10

१२८ पारमेश्वरागमः [ अष्टमः ये षण्डाः परकान्तासु पङ्गवो येऽन्यपीडने | अजिह्वा ये रसास्वादे वीरास्ते शिवयोगिनः ।। १९।।

7.11

अमानिनोऽदम्भिनश्राहिं साक्षान्त्यार्जवान्विताः । आचार्योपासनपरा वीरास्ते शिवयोगिनः 11 १२।। शौचात्मनिग्रहस्थैर्यैरनहङ्कारशालिनः सर्वत्र समचित्ता ये वीरास्ते शिवयोगिनः 119311 विशुद्धभक्ता मयि ये ये च वैकान्तसेविनः१ । मम ध्यानरता नित्यं वीरास्ते शिवयोगिनः 11 १४॥। ब्रह्मचर्यमष्टलक्षणम्‌ 1स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम्‌ । संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तरिव च ॥ १५।।

7.12

एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्‌ ।। १६।।

7.13

तदुक्तलक्षण(ण)ब्रह्मचर्यत्रपरा हि ये। योगिनो ये महात्मानस्ते वीराः शिवयोगिनः ।। १७।।

7.14

सत्यत्रतोक्तिनिरता अस्तेयधनतत्पराः अपरिग्रहशीला ये वीरास्ते शिवयोगिनः ।। १८॥

7.15

उउद्वेष्टारोऽधिके स्वस्मात्‌ स्वसमेष्वनसूयवः अतिरस्कारिणो न्यूने वीरास्ते शिवयोगिनः ।। १९।।

7.16

स्पर्धासूयातिरस्कारवर्जिताः शान्तचेतसः मम ध्यानपरा नित्यं वीरास्ते शिवयोगिनः 11 २०।। धृत्वा काषायवसनं भिक्षाटनपराः सदा । शिवध्यानरताः* शुद्धा वीरशैवा हि ते शिवे 11 २१॥। वीरशैवब्रतनिर्देशः वीरशैवब्रतस्थस्य नान्यत्‌ कार्य हि विद्यते । 1. “अकृत्वेष्याँ विशिष्टेषु हीनाननवमत्य च। अगत्वा सदुशै: स्पर्धा cel लोके श्रेष्ठतां गत: 11" इति मातृचेटश्लोकेन तुलनीयम्‌। १२० पारमेश्वरागमः [ अष्टमः यदोत्तिष्ठति स्वापेन? स्मरन्नेव गुरुं शिवम्‌ । उत्थाय चिन्तयेदूदेवि गुरु मां लिङ्गरूपिणम्‌ ।। २३।।

7.17

विसृष्टपूर्वबसनः शुद्धवस्त्रधरः शुचिः | प्रक्षाल्य पादौ हस्तौ च धृतरुद्राक्षभूतिकः ।। २४॥

7.18

भस्मधारणम्‌ भस्म शुद्धं समादाय मृदु वा यदपेक्षितम्‌ | पात्रमध्ये विनिक्षिप्याच्छादयेत्‌ पुनरन्यतः ।। २५।।

7.19

वामहस्ते विनिक्षिप्याच्छाद्य दक्षिणपाणिना | शैवं पञ्चाक्षरं मन्त्रमष्टोत्तरशतं जपेत्‌ ।। २६।।

7.20

ततः शुद्धजलं हस्तेनाऽच्छाद्य प्रजपन्‌ मनुम्‌ | सह तारेण मूलेन स्नापयेद्‌ भस्मनाम्भसा 11 २७॥ नमो भवाय रुद्राय शर्वायोग्राय शम्भवे | नमो विभूतिरूपाय सिद्धरूपाय ते नमः ।। २८॥

7.21

१इति मन्त्रेण संमर्च्ध सकृद्‌ यावदपेक्षितम्‌ । प्रत्यङ्गमेतैर्मनुभिर्धारयेदाशिरः पदम्‌ ॥। २९॥

7.22

मूर्धनि प्रणवेनादौ भाले पञ्चाक्षरेण वै । सद्योजातेनाक्षियुगे वामदेवेन कर्णयोः i ३०॥। कण्ठेऽघोरेण मन्त्रेणांसयोस्तत्पुरुषेण तु? । वक्षसीशानमनुना सवेर्नाभावथोदरे ।। ३९।।

7.23

नमः शिवाय रुद्राय भवायोरुद्वये शिवे | नम उग्राय कालाय न्यसेज्जङ्काद्वये तथा ।। ३२।।

7.24

नमः शिवाय शान्ताय पादयोरुपरि न्यसेत्‌ | पादाङ्गलीषु दशसु मन्तैरेतैविलेपयेत्‌ ।। ३३॥

7.25

वामपादकनिष्ठादिक्रमाद्‌ भस्म विलेपयेत्‌ । दक्षपादकनिष्ठान्तं प्रादक्षिण्येन सुन्दरि ।। ३४॥।

7.26

नमस्ते ऊर्ध्वलिङ्गाय ऊर्ध्वलिङ्गाय ते नमः | नमो हिरण्यलिङ्गाय हिरण्यलिङ्गाय ते नमः ॥ ३५॥

7.27

१३२ पारमेश्वरागमः [ अष्टमः नमः सुवर्णलिङ्गाय सुवर्णलिङ्गाय ते नमः | नमस्ते दिव्यलिङ्गाय "नमो दिव्याय ते नमः ॥। ३६।।

7.28

नमो भवाय लिङ्गाय भवलिड्राय ते नमः | नमः शिवाय लिङ्गाय शिवलिङ्गाय ते नमः ॥। ३७।।

7.29

1अग्निमन्त्रद्वयेनाथ गुल्फयोविन्यसेत्‌ क्रमात्‌ | विन्यसेद्‌ दक्षिणे बाहौ भुजे चापि च कूर्परे ॥। ३८।।

7.30

मणिबन्धे तथा वामबाहौ च भुजकूर्परे । मणिबन्धक्रमेणैतैर्मनतरैर्भस्म तु? धारयेत्‌ ।। ३९।।

7.31

ज्चालाय रेज्चाललिङ्गाय नम आत्माय ते नम: । आत्मलिङ्गाय च नमो नमस्ते परमाय च ॥। ४०॥

7.32

नमः परमलिङ्गाय शिवाय 'त्वरकन्धरे । नमस्त्रिशूलिने\ पृष्ठे महादेवाय पार्श्वयोः ।। ४१।।

7.33

नमस्ते शम्भवे तुभ्यमलिकाक्षाय कक्षयोः । सभस्मकरक्षालननिषेधः न क्षालयेत्‌ करौ धृत्वा शरीरे भस्म सुन्दरि । निपतेत्‌ तत्पयोबिन्दुरेनं पातयति ध्रुवम्‌ ।। ४३।।

7.34

पञ्चक्षरमन्त्रजपः ततो गुरूक्तमार्गेण मम पञ्चाक्षरं जपेत्‌ | सहस्रं त्रिशतं वापि शतमष्टोत्तरं तु वा ।। ४४।।

7.35

जप्त्वा तदनु देवेशि स्तुबीतानेन नित्यशः | भावयन्‌ शिवलिङ्गात्मा(त्म)गुरूणामेकरूपताम्‌ ।। ४८।।

7.36

शिवस्तुतिः नमः शिवाय गुरवे गुरवे शिवरूपिणे | शिवलिङ्गाय गुरवे शिवाय गुरवे नमः ।। ४६॥

7.37

सद्योजाताय सत्याय सत्यारामाय ते नमः , नमो भवोद्भवायाथ शिवाय गुरवे नमः ॥ ४७।।

7.38

१३४ पारमेश्वरागमः [ अष्टमः नमोऽष्टमूर्तये तुभ्यमष्टात्रिंशत्कलात्मने | नमस्ते वामदेवाय शिवाय गुरवे नमः ॥। ४८॥

7.39

नमो ज्येष्ठाय *श्रेष्ठाय कालाय कलिवैरिंणे । नमो बलाय देवाय शिवाय गुरवे नमः ॥। ४९॥।

7.40

नमो बलप्रमथिने मनोन्मनाय ते नमः | नमस्तेऽघोररूपाय शिवाय गुरवे नमः ।। ५०॥।

7.41

सर्वेभ्यः शर्व शर्वेभ्यो घोरघोरतराय च । नमस्ते रुद्ररूपेभ्यः शिवाय गुरवे नमः ॥। ५१॥

7.42

नमस्तत्पुरुषायाथ महादेवाय ते नमः । नमस्ते वीरशैवाय शिवाय गुरवे नमः ॥। ५२।।

7.43

वीरशैवमतेशाय महावीराय शाम्भवे । नमस्ते वीरशैवाय शिवाय गुरवे नमः ।। ५३॥

7.44

ईशानाय नमस्तुभ्यमीश्वराय नमोऽस्तु ते। मीढुष्टमाय महते शिवाय गुरवे नमः ।। ५४।।

7.45

१३६ पारमेश्वरागमः [ अष्टमः यावल्लब्धेन देवेशि पत्रपुष्पाक्षतादिभिः । संपाद्य पूर्वदिवसे सर्वदोषसि पूजयेत्‌ ।। ६२।।

7.46

नित्यं पूजोषसि शिवे मध्याह्ले सायमेव च । सायं प्रातरशक्तौ तु पूजयेत्‌ सर्वदोषसि ।। ६३॥।

7.47

सन्ध्यायामर्चयेन्नित्यं यथारुचि तथा भवेत्‌ ।। ६४।।

7.48

नित्यं त्रिकालतो नित्यं मध्याह्नेऽर्चनमैच्छिकम्‌ । नित्यं प्रातश्च सायं च पूजा नित्यैकदा शिवे ।। ६५॥।

7.49

अशक्तश्चासहायश्च यथेच्छं पूजयेत्‌ सदा | शक्तोऽपि यो न कुरुते रौरवे नरके वसेत्‌ ।। ६६॥।

7.50

सत्यामपि च सामग्ग्रां शक्तावपि ममार्चने । न पूजयेद्‌ यः शाठचेन कामुको विषयातुरः 11 ६७।। कर्मज्ञानोभयभ्रष्टो निमग्नो दुःखसागरे | रौरवे नरके घोरे वसेदा चन्द्रतारकम्‌ ।। ६८।।

7.51

प्राणिषु श्रेष्ठत्वक्रम: भूतानां प्राणिन: श्रेष्ठा बुद्धिमन्तस्ततोऽधिकाः । ततस्ततोऽपि च बृहद्‌ बृहदाकृतयो जनाः? ।। ६९॥।

7.52

सर्वोत्तमा हि मनुजास्तत्र विप्रा महोत्तमाः । रैवेदिनः कर्मकर्तारस्तदर्थज्ञा विशेषतः 119011 ततो वेदान्तसारज्ञास्ततः संन्यासिनः पराः । ततः पाशुपताः श्रेष्ठा लिङ्गिनस्तु ततोऽधिकाः ॥। ७१।॥। ततोऽधिका महाश्रेष्ठा वीरमाहेश्वराः शिवे । न तेभ्यो ह्यधिकः कश्चिद्‌ वीरशैवाश्रयात्‌ परः ‡ ।। ७२।।

7.53

तावन्महिमसंपन्नो वीरशैवः परः शिवः । साक्षान्मद्रूपत्तामेत्य वीरशैवमती^भवेत्‌ ।। ७३॥।

7.54

क्रमः-ग. घ.। ४. शैवमतं भवेत्‌-घ, ड.। ५. मतं-ख, ग. घ.। १२८ पारमेश्वरागमः [ अष्टमः स॒ यद्यदूढवैराग्यः सरागी विषयातुरः | स भूयो जायत इति न दुःखाय सुखाय हि ॥। ७५।।

7.55

न यावद्‌ टूढवैराग्यं न यावद्‌ विषयास्पृहा | न तावल्लभते मुक्ति विधूतविषयो यतः ॥। ७६॥।

7.56

यदा विनाशः प्रारब्धकर्मणः फलभोगतः । सञ्चितस्य स्वविज्ञानमसंश्लेघात्‌ तदैष्यतः ।। ७७।।

7.57

सवासनं महादेवि भक्तस्य शिवलिङ्गिनः | वीरशैवमतस्थस्य मुक्तिः करतले स्थिता ॥। ७८।।

7.58

द्वैविध्यं व्यवहारस्य यदा नाशः सवासनम्‌ | यदेवाखण्डविज्ञानं वीरशैवस्तदा भवेत्‌ ।। ७९।।

7.59

अनालक्षितलोको यः सर्वदा*न्नमिताशनः | अजागरूकश्चास्वप्नो वीरशैवः स उच्यते toll यदि गच्छेत्‌ क्रमेणैव सोऽनायासेन मुच्यते । आरुह्य यः पतेद्‌ भूयो व्यवधानेन मुच्यते 112211 "नहि कल्याणकृत्‌ कश्चिद दुर्गति देवि गच्छति । धृत्वा लिङ्गं मम शिवे कथं यास्यति रौरवम्‌ ॥ ८२॥

7.60

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । गृहेषु लिङ्गिनामेव व्रतभ्रष्टोऽभिजायते ॥। ८३॥

7.61

एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्‌ । तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्‌ ॥ ८४॥

7.62

यतते च ततो भूयः संसिद्धौ गिरिनन्दिनि । क्रमेण कुरुते वीरशैवे वीरसमाश्रयम्‌\ ।। ८५॥

7.63

मतस्य मम जिज्ञासोश्चरमं जन्म तस्य तत्‌ । स्वरूपं यत्नतः प्राप्य याति किं नो पदं मम ॥ ८६॥।

7.64

१४० चारमेश्वरागमः [ अष्टम; अनेकजन्मसंसिद्धस्ततो याति शिवं पदम्‌।। ८७॥।

7.65

तपस्विभ्योऽधिको लिङ्गी ज्ञानिभ्योऽपि मतोऽधिकः । १कर्मिभ्यश्षाधिको योगी? शिवलिङ्गी विशिष्यते 11 ८८॥ पूजाकालः उषःसूर्योदयात्‌ पूर्व मुहुर्तावध्यनेहसि। पूजाकालः स विज्ञेयः शिवत्वप्राप्तिकारकः।। ८९।

7.66

अथवानन्तरं भानोरुदयादर्चयेच्छिवम्‌। मध्याह्वेपि तथा सायं कृत्वा नक्षत्रदर्शनम्‌।। ९०।।

7.67

जङ्गमभैक्ष्यनियमाः निर्वत्यौषसिकीं पूजां जपस्तोत्रादिकं प्रियेरै । ४निर्गमेदटितुं भैक्ष्यं प्रणम्य गुरुमादितः॥। ९१।।

7.68

१. “कर्मिभ्यश्चाधिको योगी शिवत्तप्राप्तिकारकः। अथवा...पूजाकालः स विज्ञेयः शिवलिङ्गी विशिष्यते। उषः ...... मध्याहे'' इत्ययं पङ्क्तीनां क्रमः-ग. घ.। २. योगिभ्यः-क,, श्चापि योगी यः-घ.। यदि भिक्षाटनेच्छाऽऽस्ते तदा भिक्षाटनं चरेत्‌ । न कर्तव्यस्त्वनियमो साधनं ज्ञानमेव हि ॥ ९२॥

7.69

पर्यटेल्लिङ्गिनामेव भक्तानां शिवयोगिनाम्‌ । यावदिच्छन्‌ गृहद्वारं पक्वं वाऽपक्वमेव वा 119311 निबद्धपादघण्टो वा घण्टो वा जयघण्टिक: । Vga शुद्धिनादो वा दण्डघण्टोऽपि पर्यटन्‌ ॥ ९४॥।

7.70

रुद्राक्षाणां च मालाभि: कन्थाकम्बलभूषितः । विज्ञापयित्वा गृहिणः कयाचिच्छब्दसंज्ञया ।। ९५।।

7.71

गृहिणा जङ्गमसत्कारो विधेयः भिक्षेत्याज्ञापयेल्लिङ्गी गुरुधर्ममनुस्मरन्‌ | गृही वा गृहिणी वापि मत्वा जङ्गममानयेत्‌ ॥ ९६।।

7.72

शिवबुद्धत्याऽर्चयित्वा तं संतृप्त प्रेषयेत्‌ पुनः । यद्यपक्बं समानीतं पक्वं कृत्वाऽर्पयेन्मम ।। ९७॥।

7.73

१४२ 'पारमेश्वरागम: [ अष्टमः यदि स्यात्‌ पक्वमानीतमश्नीयादर्पितं मम । न चैकभुक्तिनियमो नोपवासादि नो व्रतम्‌ ॥। ९८।।

7.74

त्रिकालमर्चयेल्लिङ्गं विहरेत यथासुखम्‌ | विषयेन्द्रियसंरोधं नैरन्तर्येण यावता ॥। ९९।।

7.75

यत्नेन यतते लिङ्गी तावल्लघु सुखं ब्रजेत्‌ । यथैव गच्छन्‌ मार्गेषु शीतवातातपादिकम्‌ ।। Yoo i विषह्य लघु देवेशि स्वपदं चाधिगच्छति | न स्त्रीषु नैवानर्हेषु नाधर्मेष्वपि जन्मसु ।। १०१।।

7.76

न तिर्यगादिनीचेछु जायते वीरशैवगः | वीरशैवमतस्थं यः पूजयेच्छिवरूपिणम्‌ ।। 20211 निस्तारयति दातारं दशपूर्वान्‌ दशापरान्‌ । यस्तिरस्कुरुते मूढः शिवलिङ्गिनमीश्वरि 1190311 स कोटिकुलसंयुक्तो रौरवे नरके वसेत्‌ | तदेतत्‌ कथितं देवि वीरशैवस्य लक्षणम्‌ ।

7.77

इति श्रीपारमेश्वरतन्त्रे शिवाद्वैतसिद्धान्ते anata-

7.78

नामाष्टमः पटलः समाप्तः रे ॥ ८ 11