Books / Parameshvara Tantra

6. Patala 6

6.1

प्रकरणे षट्स्थलनिरूपर्ण नाम ९१७ ०१0 ०१० ०१० ९, १७० ०९० ९५१ ९१ ९१ सप्तविधशैवमतनिरूपणम्‌ श्रीदेव्युवाच निस्तरङ्गसुखाम्भोधौ नौकाक्रीडन शङ्कर | नमस्ते निर्विकाराय निर्विशेषाय शम्भवे ॥१॥

6.2

कथितानि त्वयाऽन्यानि यानि सप्तविधानि मे । वीरशैवादिभेदेन शैवं सप्तविधं त्विति ॥२॥

6.3

उपक्रमेणानाद्यादिमतानां लक्षणादिकम्‌ । यज्ञात्वा मनुजः सद्यो वीरशैवे प्रवर्तते ॥ ३॥

6.4

ईश्वर उवाच शुणुष्वैकमना देवि माहात्म्यं तु मतस्य मे । अनादिशैवभेदस्य लक्षणाचारमादितः ॥ ४॥

6.5

कूतपुण्यानुसारेण प्रवेशो लभ्यते मते । ततो यदि भवेद्धीमान्‌ जागरूको भवेद्‌ दृढ: ॥ ६॥

6.6

यथोक्तं गुरुणा शास्त्रं तत्तथा वर्तयेत्‌ सदा । तदुक्तमनुतिष्ठेत न त्यजेत्‌ कृच्छुगोषपि वा ॥ ७॥

6.7

त्रिकालमर्चयेन्नित्यं मम लिङ्गमतन्द्रितः | जङ्गमानर्चयेद्भक्त्या स्वशक्त्याऽनोदकादिभिः ॥ ८॥

6.8

हृष्टो भवति संतुष्टे? नष्टे? शोचति लोकवत्‌ । न बनधं वेत्ति नो मोक्ष सोऽनादिमतमाश्रयेत्‌ ॥ ९॥

6.9

प्रमादे कुरुते प्रायश्चित्तं साकल्यसिद्धये | शुभं चरेच्छुभप्राप्तावशुभेऽशुभमाचरेत्‌ ॥। १०॥

6.10

तदनादिमतं शैवं नादिसोपानकं यदा । ततो यदि विशेषज्ञ स्त्वादिशैवमतं श्रयेत्‌ ॥ १९॥

6.11

११० पारमेश्वरागमः [ सप्तम: २. आदिशैवलक्षणम्‌ शक्त्या समर्चयेदननैर्जङ्गमान्‌ गृहमागतान्‌ | त्रिकालमर्चयेल्लिङ्गमादिशैवमते शिवे ॥ १२॥।

6.12

यथाशक्त्याचरेच्छास्त्रमशक्तो' वर्जयेत्‌ क्वचित्‌ । नाश्रयेन्नापि वर्तेत सोऽनादिरधिकः शिवे ॥ १३॥

6.13

३. अनुशैवलक्षणम्‌ अर्चयेदेककालं वा लिङ्गं मे जङ्गमानपि | मम ध्यानपरो नित्यमनुशैबमतो भवेत्‌ ॥ १४॥

6.14

ज्ञानेनाधिकता यस्य शात्त्याद्यभ्यासपाटवात्‌र । न तस्य कर्मबाहुल्यं ज्ञानमेवाधिक परम्‌ ॥ १५॥।

6.15

तद्विशेघाधिकारी यो मतभेदेषु धीबलात्‌ | कामादिरहिंतः शान्त उत्तरोत्तरमाश्रयेत्‌ ॥ १६॥

6.16

नाधिकारं विना मूढो मतमुत्तममाश्रयेत्‌ | सोऽवश्यं निपतेद्‌ घोरे वृक्षाग्रच्युतपादवत्‌ ॥ १७॥

6.17

वृद्धसाधनसंपन्नः स गच्छेदुत्तरोत्तरम्‌ | संतरेदखिलं दुःखं स्त्रोतसीव दूढो हुमः ॥ १८॥

6.18

४. महाशैवलक्षणम्‌ अथ वक्ष्ये महाशैवं न विना जङ्गमार्चनम्‌ । तत्प्रसादं विनाऽश्नाति महाशैवमते स्थितः ॥ ९९॥

6.19

स स्वपेच्छयनादीनि पूजायै शङ्करेऽर्पयेत्‌ | सर्वेन्द्रियनिवृत्तोऽपि शिवमेवार्चयेच्छिवे ॥ २०॥

6.20

५. योगशैवलक्षणम्‌ चराचरात्मकं सर्व जगदेतच्छिवात्मकम्‌ | भावयन्नात्मतादात्व्यं योगशैवमते वसेत्‌ ॥ २९॥

6.21

न बाह्यपूजा नाचारो नैव जङ्गमपूजनम्‌ | न प्रत्युत्थानमन्यस्य योगशैवमते मम ॥ २२॥

6.22

११२ पारमेश्वरागमः [ सप्तमः विविक्तं देशमाश्रित्य परित्यज्य धनादिकम्‌ । निर्ममो निरहङ्कारो ध्यायीतात्मानमीश्वरम्‌ ॥ २३॥

6.23

जगल्लिङ्गमयं पश्येल्लिङ्गं मद्रूपमीक्षयेत्‌ | ममात्मानं परं ध्यायेद्‌ योगशैवमते स्थितः ॥ Wil ६. ज्ञानशैवलक्षणम्‌ तदेतज्ज्ञानशैवाख्यं ज्ञानस्य ज्ञानमुत्तमम्‌ | जगत्‌ तदात्मकं ज्ञानं महाज्ञानमितीश्वरि ॥ २५॥।

6.24

न ध्यानं नापि वाऽयासो नार्चा जङ्गमलिङ्गिनाम्‌ । न योगधारणं ज्ञानशैवस्थस्य मम प्रिये ॥ २६॥।

6.25

यो ज्ञानशैवमतगो य उक्तक्रमनिष्ठितः | स जीवन्नेव विश्वेशि शिवोऽहं नात्र संशयः ॥ २७॥

6.26

सोपानक्रमेण मताश्रयणम्‌ एवं क्रमेण सोपानं मतभेदं समाश्रयेत्‌ | यदि व्युत्क्रमतो गच्छेत्‌ स पतेन्नात्र संशयः WI यदाश्रित्योत्तरं भेदमशक्त्या तदनुष्ठितौ! । पूर्वभेदानुसरणात्‌ स पतेन्नात्र संशय: ॥ ₹९॥। ज्ञानकर्मसमुच्चय: कर्म चोदितम्‌ । साननिष्ठाबलेनैव त्यजेत्‌ कर्माणि नान्यथा 11 ३०॥ विना ज्ञानाधिकारेण शक्त्या कर्माणि यस्त्यजेत्‌ । न याति पारं दुःखस्य विषयेष्ववसीदति RI मतेषु साम्यवैषम्ये दीक्षाहोमादिकं सर्व सर्वत्र सममेव हि । आचारश्चापि भक्तिश्च समा सर्वमतेःसपि ॥ ३२॥

6.27

लिङ्गस्य पूजनं नित्यं जङ्गमानां च पूजनम्‌ । कर्तव्यं नियता भक्तिः सर्वभेदेष्वपि प्रिये ॥ ३३॥

6.28

अनादिशैवनिष्ठस्य कर्मैव परमा गतिः | आदिशैवमतस्थस्य स्मरणं सततं विधिः ॥ ३४॥

6.29

११४ पारमेश्वरागमः [ सप्तमः अनुशैबमतस्थस्य मननं मुख्यसाधनम्‌ । महाशैवमतस्थस्य निश्चयः परमा गतिः ॥। ३५॥

6.30

सयोगशैवमतस्थस्य योगस्याष्टाङ्गलक्षणम्‌ । ज्ञानशैवमतस्थस्य' ज्ञानानां भावनाऽखिला ॥ २६

6.31

वीरशैवमतनिरूपणम्‌ वीरशैवमतस्थस्य ज्ञानयोगो हि साधनम्‌ । रविना ज्ञानं न योगः स्यान्न ज्ञानं योगतो विना ॥ ३७॥

6.32

न विना ज्ञानयोगाभ्यां वीरशैवमताश्रयः | संतारणाय भवति च्यवते नात्र संशयः ॥ ३८॥

6.33

यथां वीरो रणे शूरो वीरशैवमते तथा । भक्त्या वीरो न वैरेण न बलेन च कार्यतः ॥ ३९॥

6.34

मांसादिभक्षणनिषेधः नमांसं भक्षयेल्लिङ्गी नाप्यपेयं पिबेत्‌ क्वचित्‌ | नात्मार्थं पाचयेदन्नं? नाद्यान्नातिथ्यनर्पितम्‌ । शक्त्या संपूजयेल्लोकेरै जङ्गमं गृहमागतम्‌ ॥ ४१॥

6.35

नाद्यादलिङ्गिनक्वान्ने दृष्टं चान्नमलिङ्गिना । याचयेद्‌ गृहमागत्य दद्यादन्नमलिङ्गिने ॥ ४२॥

6.36

नोदासीनं न च द्वेषं न हिंसां नापि वञ्चनम्‌ । कुर्वीत लिङ्गी यलेन विमतेष्वप्यलिङ्गिषु ॥ ४३॥

6.37

पूज्यपूजकभावादौ भोजनादिषु कर्मसु । विमतत्वादयोग्यत्वादेवमेवाखिलं जगत्‌ ॥ ४४॥

6.38

अतिथिसत्कारः गृहमायान्तमालोक्य गुरुं वाऽगुरुमेब चरे | यो गृही भवते नम्रः स गुरुर्नेतरः क्वचित्‌ ॥ ४५॥

6.39

तदागतं गृहे वीक्ष्य प्रत्युत्थायाभिवादयेत्‌ । ११६ पारमेश्वरागमः [ सप्तमः प्रणम्य स्वागतं ब्रूयात्‌ पादप्रक्षालनं चरेत्‌ । प्रथमं पूजयेद्‌ गन्धपुष्पैः संक्षालयेत्‌ ततः ॥। ४७॥

6.40

अङ्गुष्ठे भावयेद्‌ रुद्र तर्जन्यां शङ्करं स्मरेत्‌ | मध्यमायां महादेवमनामिक्यां त्रियम्बकम्‌ ॥। ४८॥

6.41

'कनिष्ठिकायामीशानं पादोपरि कपर्दिनम्‌ | पादाधः पञ्चवदनं गुल्फयोरुग्रभर्गकौ ॥ ४९॥

6.42

सर्व लिङ्गमयं ध्यात्वा पादं जङ्गमलिङ्गिनः | पिबेत्‌ संक्षालितं तोयं पीत्वा शिरसि धारयेत्‌ ॥ ५०॥।

6.43

न पातयेदधोबिन्दुं पादप्रक्षलनाम्भसाम्‌ | पुनः संपूजयेद्‌ गन्धपुष्पधूपादिभिः क्रमात्‌ ॥ ५१॥

6.44

स्त्रियो वा पुरुषा वापि सर्वत्रातिथिपूजने? । पुंभिः पुंसां स्त्रियां स्त्रीभिर्देयं गन्धादिकं करे ॥ ५२॥

6.45

१. इतः परम्‌-“स्वयमेवार्चयेद्‌ भक्त्या दद्यात्‌ पाणौ न तस्य तत्‌। न स्त्रीणामर्चनं पुंभिः स्त्रीभिः ` पुंसां समर्चनम्‌।।' इत्यधिकः शलोकः-ख.। नजातिभेदस्तत्रास्ति लिङ्गिनां शिवयोगिनाम्‌ । न दृष्टिस्पृष्टिदोषो वा सर्व एव शिवाः शिवे ॥ ५३॥

6.46

अष्टावरणनिर्देशः गुरुलिङ्गं जङ्गमश्च पादतीर्थ प्रसादकम्‌ । देहे विभूतिरुद्राक्षौ मम पञ्चाक्षरी मनुः ॥ ५४॥

6.47

अष्टावरणसंयुक्ता वीरमाहेश्वरा नराः | मम रूपधरा देवि विचरन्ति महीतले ॥ ५५॥

6.48

लिङ्गिनां पालनीया नियमाः न त्यजेल्लिङ्गिना भुक्तं शिष्टमुच्छिष्टधीहतः | न क्षालयेच्च तत्पात्रं न भेदं तत्र कारयेत्‌ ॥ ५६॥

6.49

येन केनापि भुक्ते तु लिङ्गिनोच्छिष्टपात्रके | पात्राभावैककालादौ सर्केऽप्यश्नन्ति लिङ्गिनः ॥ ५७॥

6.50

न ब्रह्मवृत्त्या न क्षत्रवृत्त्या नो वैश्यवृत्तितः । न शूद्ववृत्त्या जीवेत यदि लिङ्गीहते सुखम्‌ ॥ ५८॥

6.51

११८ पारमेश्वरागमः [ सप्तमः न वै प्रतिग्रहेद्‌ दानं न ऋणां नातिसंग्रहम्‌ । यद्यस्ति भुक्तिः ससुखं नो चेद्‌ भिक्षाटनं चरेत्‌ ।॥। ५९॥

6.52

पक्वं च लिङ्गिनामेव नान्नादिकमलिङ्गिनाम्‌ । गृह्णीयाद्‌ देवि यलेन ह्यपक्वं सर्वजातिषु ॥ ६०॥

6.53

नाश्नीत १दद्यात्यकवं च स्वस्यान्यस्य यथारुचि । अपक्वं न पिबेत्‌ तोयमलिङ्भिस्पृष्टमीश्चरि ॥ ६९॥

6.54

चाण्डालेनापि देवेशि संस्पृष्टं धृतलिङ्गिना । योग्यं स्यादन्नपानादिर्न श्रेष्ठेनाप्यलिङ्गिनि ॥ ६२॥

6.55

यत्नेन याचयेदन्नं यदि स्युरलिङ्गधारिणः । अभावे याचयेदन्नमपक्वं चाप्यलिङ्गिनः ॥ ६३॥

6.56

न दध्याज्यपयस्तक्रं पक्वमप्यशुचिः प्रिये । जातिभेदो न कर्तव्यः पाकभेदो न गोरसे ॥ ६४॥

6.57

` पटल: ] सप्तविधशैवमतनिरूपणम्‌ ११९ न सूर्यकिरणस्पृष्टमुदक॑ शिवपूजने | योग्यं तदानयेद्‌ रात्रौ चोदयात्‌ पूर्वतो रवेः ॥ ६५॥

6.58

यथाकाशः प्रतिफलेन्न घटान्तःस्थिताम्भसि । तथाऽऽछाद्य दूढं भाण्डमुखं सूदकमानयेत्‌ ॥ ६६॥

6.59

न भूमौ प्रक्षिपेत्‌ क्वापि विना पूजास्थलं शिवे । यद्यन्यत्र क्षिपेत्‌ क्ुम्भमशुच्यम्भः परित्यजेत्‌ 1 ६७॥ पत्रपुष्पादिपूजार्थ यद्यलिंड्रिसमाहतम्‌ | तेनार्चयित्वा गिरिजे रौरवे नरके वसेत्‌ ॥ ६८॥

6.60

यदानीतं त्वशुचिना लिङ्भिनाप्यर्चनाय मे । संपूजयित्वा मां देवि रौरवे नरके वसेत्‌ WEI तदुत्थाय शुचिर्भूत्वा धृतरुद्राक्षभूतिकः | जपन्‌ पञ्जाक्षरं मन्त्रं *स्मरन्‌ वा नाम मे शिवे ॥ ७०॥

6.61

पुष्पसंग्रहप्रकार मौनी निरस्तचेष्टः सन्‌ न दिशोऽन्या विलोकयेत्‌ । ध्यायन्‌ पुष्पेषु मां देवि त्वया सह लुनेच्छनैः ॥ ७१॥

6.62

१२० पारमेश्वरागमः [ सप्तमः १अकीटक्रिमिदष्टानि अविच्छिन्नरैदलानि च | ३अनूतनान्यपूर्वाणि पक्वान्येव लुनेच्छिवे ॥ ७२॥

6.63

न दारुमृन्मये पात्रे न हस्ते न च वाससि | पर्णादौ चूलिकादौ वा पुष्पपत्रादिक क्षिपेत्‌ 1193 11 न भूमौ निक्षिपेत्‌ पुष्पं नाशुद्धे न शरीरके । . स्थापयेदम्बिके शुद्धं देवतायतनं विना ॥ ७४॥

6.64

पूजाप्रकारः नाटस्तिलाक्षतैर्देवि पूजयेम्मिश्रवज्जलैः । नीरसैः क्षालितैः शुद्धैरखण्डैरर्चयेच्छुभैः ॥ ७५॥

6.65

सिकतारुणनैल्यादिरहितैश्र तिलैरपि । त्रिकालमर्चयेन्नित्यं* समभागैस्तिलाक्षतैः 11 ७६॥। करबीरैद्रोण दूर्वाविल्वपत्रैस्तिलाक्षतैः अर्चयेन्नित्यमीशानि पञ्चपुष्पैरतन्द्रितः ।। ७७॥

6.66

यत्नतो नित्यपूजायै पञ्चैतानि सुसाधयेत्‌ | धत्तूरैरर्कपालाशैः कमलोत्पलपाटलैः | नीपचम्पकपुन्नागैर्मधूकबकुलादिभिः ॥ ७९॥

6.67

नागकेसरशेवन्तीनीलीकुरुबकैरपि । मल्लिकाजातिकह्रारैग्राम्यवन्यैरनेकशः ॥॥८०॥।

6.68

पुष्पाणि सन्ति पत्राणि सुलभानि धरातले । अनायासेन संपाद्य पूजयेन्मां यथासुखम्‌ ॥ ८९॥

6.69

शम्यपामार्गतुलसीबृहत्यस्मान्तमर्जुनम्‌ । विष्णुक्रान्ता चामलकदेवदार्वादिकानि च ॥ ८२॥

6.70

यत्साध्यमत्यायासेन यत्प्रयत्लेन दुर्लभम्‌ । यदमूल्यं विशेषेण तत्संपाद्यार्चयेच्छिवम्‌ ॥ ८३॥

6.71

सुशुद्धं शीतलं रम्यं मधुरं लघु पावनम्‌ । यलेन जलमानीयाभिषिञ्जेन्मां यथाबलम्‌ ।। ८४॥

6.72

लिङ्गसेवायां कालयापनम्‌ प्रत्यहं यावदुत्थानं यावत्‌ स्वापः पुनर्निशि । तावच्च लिङ्गसेवार्थ कालं व्यपनयेत्‌ सुधी: ॥ ८५॥

6.73

१२२ पारमेश्वरागमः [ सप्तमः न विना मम १दास्येन न विना लिङ्गपूजनम्‌ | तद्भवेत्‌ सुखलाभाय यद्ठस्त्वन्यत्प्रयोजनम्‌ ॥ ८६॥

6.74

मम सेवा तपो देवि मम सेवा व्रतं शिवे । _ ममाश्रयो हि कैवल्यं धीमतां सुखमिच्छताम्‌ 11691 वीरशैवमतस्य श्रेष्ठता यथाऽन्धस्याक्षिलाभेन निधिलाभाद्‌ दरिद्रिणः । क्षुधितस्यान्नलाभेन कामिनः कामलाभतः ॥ ८८॥

6.75

कामिन्याः सद्वरप्राप्ते पुत्रलाभे त्वपुत्रिणः । पङ्गोः शरीरदाढर्थेन जीवनेन पुनर्मते ।८९।॥। तथा विद्धि मतं देवि मम शैवं महत्तरम्‌ । तन्मन्थनोत्थितं सारं वीरशैवं परं शिवे ॥ ९०॥

6.76

निष्ठाभेदेन मर्त्यानां भेदावान्तरभेदतः । 'कल्पिता हि मया भेदा ज्ञानमेकं हि कारणम्‌ ॥ ९१॥

6.77

अन्धेन नीयमानोऽन्धो निपतेत्‌ सह तेन स: | यथा तथाऽनभिज्ञस्य वीरशैवं मतं मम ॥ ९२॥

6.78

कूपाणघारागमनं व्याघ्रःकर्णावलम्बनम्‌ | वीरशैवमतं देवि सत्यं त्वविदुषां मम isi शिवपूजा सावहितं विधेया अनायासतपश्चर्यशैवलब्धेन तोषणम्‌ । शिवपूजा सदा देवि कैवल्यं शिवलिङ्गिनाम्‌ ॥ ९४॥

6.79

तत्र मुह्येत यो मूढस्त्यक्त्वा स्वाचार मुक्तवत्‌ । भ्रश्येत पश्यन्‌ गिरिजे सदा विषयलम्पटः ।।९५।।

6.80

मुक्तिमार्गोऽयमीशानि शक्ताशक्तसमो मम । धीमानेति सुखं तेन न धीमान्निपतेद्‌ ध्रुवम्‌ ॥ ९६॥

6.81

विषयाग्निशिखादीर्घ तपश्चर्या रेनलोद्धुतम्‌ | १२४ पारमेश्वरागमः [ सप्तमः वीरशैवलक्षणम्‌ अहेरिव गुणाद्‌ भीतः सन्मानस्मरणादिव | कुणपादिव यः स्त्रीभ्यो वीरशैवः स उच्यते ॥ ९८॥

6.82

दैबलब्धेन संतुष्टः सर्वद्वद्रविवर्जितः | शिवध्यानरतो नित्यं दूढचित्तो जितेन्द्रियः RIN त्रिकालमर्चयेन्नित्यं शिवपञ्चाक्षरी? जपन्‌ । कीर्तयन्‌ शिवनामानि शिवोऽहमिति भावयन्‌ 11 १००।। जगज्जीवमयं सर्व चैतन्यमयविग्रहम्‌ । पञ्चाक्षरमयं लिङ्गं लिङ्गं पञ्चाक्षरं महत्‌? ॥ wi जगदात्मनि संपश्यन्नात्मानं जगतीक्षयन्‌ । जगदात्मानमीशानि पश्येरन्मयि चिदात्मकम्‌ ॥ १०२।।

6.83

सप्तविधशैवमतनिरूपणम्‌ तथाऽधिकारसंपन्नो वीरशैवमतं' श्रयेत्‌ । दृढवैराग्यसंपन्नो गुरुत्वेन विधानत: ॥ 903 11 'यः शास्त्रविधिमृत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम्‌ ।१०४।।

6.84

तस्माच्छास्त्रं प्रमाणं हि कार्याकार्यव्यवस्थितौ । सात्वा शास्त्रविधानोक्तं तत्त्वं कुर्याद्‌ गुरोर्मुखात्‌ 11 १०५॥।

6.85

इति ते कथितं देवि मतभेदमनुत्तमम्‌ ।

6.86

इति श्रीपारमेश्वरतन्त्रे 'शिवाद्वैतसिद्धान्ते वीर-

6.87

सप्तमः पटलः समाप्तः? 111911