Books / Parameshvara Tantra

11. Patala 11

11.1

i पञ्चाक्षरीजपानुव्ठानस्वरूपनिरूपर्ण नाम 1ज्ञानयोगस्वरूपनिरूपणम्‌ शश्रीदेव्युवाच देवदेव महादेव महेश मूड शङ्कर । ज्ञानयोगस्य माहात्म्यं वद मे करुणाकर ॥१॥

11.2

ईश्वर उवाच ज्ञानयोगयोः परस्परापेक्षा चर्याचर्या च सततमहिंसा ज्ञानसंग्रहः | सत्यमस्तेयमास्तिक्यं श्रद्धा चेन्द्रियनिग्रहः ॥२॥

11.3

अध्यापनं चाध्ययनं यजनं याजनं तथा । ज्ञा(दा)नमीश्वरभावश्च यजनं याजनं शिवे ॥३॥

11.4

अन्तर्यागो . बहिर्यागः सततं ज्ञानशीलता । य एवं वर्तते योगी ज्ञानयोगस्य सिद्धये ॥ ४॥

11.5

अचिरादेव विज्ञानं लब्ध्वा योगं च विन्दति । २दग्धं देहमिमं ज्ञानी क्षणाज्झानाग्निना व्ययेत्‌ ॥ ५॥।

11.6

देवी का.प्रशन 1. “ज्ञानयोगादिकमुक्तं शैवे वायवीयसंहितायामुत्तरभागे एकादशाध्याये'' इति ख. टिप्पणी (पृ. १८८)। मम प्रसादाद्‌ योगज्ञः कर्मबन्धं प्रहास्यति | पुण्यापुण्यात्मक कर्म मुक्तेस्तत्प्रतिबन्धकम्‌ ॥ ६॥

11.7

तस्माद्योगं *ततो योगी पुण्यापुण्ये विवर्जयेत्‌ | फलकामनया कर्म करणं प्रतिपद्यते ॥ ७॥

11.8

न कर्ममात्रकरणं तस्मात्‌ कर्मफलं त्यजेत्‌ | प्रथमं कर्मयोगेन बहिः सम्पूज्य शङ्करम्‌ ॥ ८॥

11.9

ज्ञानयज्ञरतो रेदेवि “तस्माद्योगं समभ्यसेत्‌ | विदिते शिवसात्म्यैककर्मणा* ज्ञानयोगिनः ॥ ९॥

11.10

न यजन्ति शिवं युक्ताः समलोष्टाश्मकाञ्जनाः । नित्यमुक्तो महादेवि भक्तिमान्‌ यः समाहितः 11 १०॥ ज्ञानयोगरतो योगी मम सायुज्यमाप्नुयात्‌ | 9अथ नीरक्तचित्ता ये वर्णिन: शिवमाश्रिताः ॥ ११॥

11.11

. २. ण्यकृत॑-ख.। क ३. योगी-ग. घ.। ४. मम सायुज्यमाप्नुयात्‌-ग. घ.। ज्ञानचर्याक्रिया एव तस्मिन्‌ कुर्युस्तदर्हता । | त्रिधा पञ्चधा च यजनम्‌ बाह्यमाभ्यन्तरं चैव बाह्याभ्यन्तरमेव च ॥ १२॥

11.12

'बाङ्मनःकायभेदेन त्रिधा तद्धजनं विदुः । तप: कर्म जपो ध्यानं ज्ञानं चेत्यनुपूर्वशः ।। १३॥

11.13

पञ्चधा कथितं रुद्रे तदेव कथितं पुनः । अन्यात्मविदितं बाह्यं बाहयमभ्यर्चनादिकम्‌ ॥ १४॥

11.14

तदेव तु 'स्वसंवेद्य॑ न मनोमात्रमुच्यते । लिङ्गैस्तच्छासनोह्विष्टैस्त्रिपुण्ड्रादिभिरङ्कितः | शिवोपचारनिरतः कायः कायो न चेतरः ॥ १६॥

11.15

समर्चा कर्म विज्ञेयं बाह्या यागादि नोच्यते । शिवार्थे' देहसंशोषस्तपः कृच्छादि रेनो मतम्‌ ॥ १७॥

11.16

जपः पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च । रूद्राध्यायादिकाभ्यासो न चान्याध्ययनादिकम्‌ ॥ १८॥

11.17

२०२ पारमेश्वरागमः [ द्वादशः ध्यानं च शिवचिन्ता स्यादात्माद्यर्थ समाधयः । शिवागमार्थविज्ञानं ज्ञानं १नान्यार्थवेदनम्‌ ॥ १९॥

11.18

बाह्ये चाभ्यन्तरे वाऽत्र यदि स्यान्मनसो रतिः । प्राग्बासनावशादेव शिवे निष्ठां समाचरेत्‌ ॥ २०॥

11.19

बाह्यादाभ्यन्तर श्रेष्ठम्‌ बाह्यादाभ्यन्तरं श्रेष्ठं भवेच्छतगुणाधिकम्‌ | असङ्कटत्वाद्‌ दुष्टानां दोषाणामप्यसम्भवात्‌ ॥ २१॥

11.20

शौचमाभ्यन्तरं कुर्यान्न बाह्यं शौचमुच्यते । ततः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः ॥ २२॥

11.21

बाह्ममाभ्यन्तरं चैव भजनं भावपूर्वकम्‌ | न भावरहितं ग्राह्यं विप्रलम्भैककारणम्‌ 112311 कृतकृत्यस्य तृप्तस्य शिवस्य परमेष्ठिनः । न कैः किं क्रियते कर्म भावमात्रं हि गृह्यते ॥ २४॥

11.22

शिवधर्माधिकारिणां लक्षणानि अष्टधा लक्षणं प्राहुः शिवधर्माधिकारिणाम्‌। येन ज्ञेया ननरैरन्यैर्ना विश्वरविचक्षणाः ॥ २५॥

11.23

शिवभक्तेषु वात्सल्यं पूजायां चानुमोदनम्‌ । स्वयमभ्यर्चनं चैव तदर्थ चाङ्गचेष्टनम्‌॥ २६॥

11.24

तत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया । शिवानुस्मरणं नित्यं सर्वथा तदकैतवम्‌॥। २७॥

11.25

एतदष्टगुणं fag यस्मिन्‌ म्लेच्छेऽपि दृश्यते। रेस शिवेनद्रो यतिः श्रीमान्‌स शुचिः स च पण्डितः ॥ २८॥

11.26

भक्तिलक्षणं तस्या भेदा महिमा च , सा पुनर्भिद्यते* त्रेधा मनोवाक्कायभेद्तः ॥ २९॥

11.27

परां भक्ति समभ्येत्य शिवधर्मरतो नरः। ! परया च तया भक्त्या प्रसादं लभते नरः ॥ ३०॥

11.28

२०४ 'पारमेश्वरागम: [ द्वादश: देवो वा मानवो वाऽपि पशुर्वा विहगोऽपि वा । कीटो वाऽपि क्रिमिर्वाऽपि मुच्यते 'मत्प्रसादतः ॥। ३१॥।

11.29

गर्भस्थो जायमानो वा बालो वा तरुणोऽपि वा । ब॒द्धो वा म्रियमाणो वा स्वर्गस्थो वाऽपि नारकी 11 ३२॥। पत्तितोऽपतितो वाऽपि पण्डितो मूढ एव च । प्रसन्ने मयि देवेशि मुच्यते भवबन्धनात्‌ ॥ ३३॥

11.30

अथ ये मानवा लोके स्वेच्छया धृतविग्रहाः । भावातिशयसम्पन्नाः पूर्वसंस्कारसंयुताः ॥ ३४॥

11.31

विरक्ता वाऽनुरक्ता वा स्त्रियादिविषयेष्वपि । पापैर्न ते बिलिप्यन्ते पद्मपत्रमिवाम्भसा ।। ३५ ॥

11.32

तेषां शिवात्मविज्ञानं विशुद्धानां शिवात्मनाम्‌ । तत्प्रसादविमुक्तानां दुःखमाश्रयरलक्षणम्‌ ॥ ३६॥

11.33

शिवयोगिनां चर्या महिमा च नास्ति कृत्यमकृत्यं च समाधिर्वा परायणम्‌ । यथैव परिपूर्णस्य साध्यं मम न. विद्यते । तथैव कृतकृत्यानां तेषामपि न संशयः ॥ ३८॥

11.34

शिवभक्तहितार्थं ये? मानुषं भावमाश्रिताः । रुद्रलोकात्‌ परिभ्रष्टास्ते रुद्रा नात्र संशयः ॥ ३९॥

11.35

९शिवानुशासनं यद्वद्‌ ब्रह्मादीनां प्रवर्तकम्‌ । रैतथेतरेषां सर्वेषां तन्नियोगः प्रवर्तक: ॥ ४०॥

11.36

यथा वह्विसमावेशादयो भवति केवलम्‌ | तथैव शिवसान्निध्यान्न ते केवलमानुघाः 1 xe ४तपस्तपादिसाधर्म्य रुद्रधर्मवपुर्धरान्‌ । प्राकूतानिव मन्वानो नाबजानीत पण्डितः ॥ ४२॥

11.37

अवज्ञानं कृतं तेषां नरैर्वा मूढमानसैः | आयुः श्रियं कुलं शीलं इत्वा निरयमावहेत्‌ ॥ ४३॥

11.38

जब्रह्मविष्णुमहेन्द्राणामपि तूलायते पदम्‌। . शिवादन्यदपेक्षाणामुत्तमानां महात्मनाम्‌ ॥ ४४॥ - दिसाधर्म्याद्‌ रुद्रान्‌ म्त्यवपुर्धरान्‌-ख.। ५. अलोकयो: (४४-४५) विपर्यस्त: पाठ:-ग. घ.। २०६ पारमेश्वरागमः [ द्वादशः शिवज्ञानवतां पुंसां मोक्षस्तस्य 'कराम्बुजे | सा हानिस्तन्महच्छिद्रं स मोहः सोऽध्मोऽपि च ॥ ४५॥

11.39

ततो दयाऽन्यत्र कार्या मोक्षमार्गनहिष्कृते । चतुष्पथः शिवधर्म: lord क्रिया च चर्या च योगश्चेति १धरात्मजे ॥ ४६॥

11.40

चतुष्पथः समाख्यातः शिवधर्मः सनातनः । पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते ॥ ४७॥

11.41

षडध्वशुद्धिर्विधिना गुर्वादीनां क्रियोच्यते | वीरशैवप्रयुक्तस्य शिवेन विहितस्य च ॥ ४८॥

11.42

लिङ्गाचादिः स्वधर्मस्य चर्या चर्यति कथ्यते । तदुक्तेनैव मार्गेण शिवसुस्थितचेतसः ॥ ४९॥

11.43

वृत्त्यन्तरनिरोधोऽयं स योग इति कथ्यते । अशवमेधशताच्छ्रेष्ठं देवि चित्तप्रसादतः ।। ५०॥।. मुक्तिदं च तदाप्येतदशक्तं विषयैषिभिः । | विजितेन्द्रियवर्गस्य यमेन नियमेन च ॥। ५९॥

11.44

सर्वपापहरो योगो विरक्तस्यैव? कथ्यते । वैराग्याज्जायते ज्ञानं ज्ञानाद्‌ योगः प्रवर्तते ॥ ५२॥

11.45

योगज्ञः पतितो वाऽपि मुच्यते नात्र संशयः | शिवज्ञानं समासाद्य परं शिवमथाभ्नुते ।। ५३॥

11.46

शिवधर्मचरणमोवश्यकम्‌ यश्चातीव शिवे भक्तो विषयोपरतोऽपि सन्‌ । शिवधर्मान्न कुर्याद्‌ यः स दोषेणैव लिप्यते ॥ ५४॥

11.47

अर्चयेदम्बिकानाथं सर्वगं सर्वहेतुना । मम धर्मरतो देवि! श्रेयसे? रैचेत्क्रृतोद्यमः ।। ५५॥।

11.48

पञ्चाक्षरमनुमाहात्म्यम्‌ पञ्चाक्षरमनुं नित्यं भावयेच्छिववाचकम्‌ | भुक्तिमुक्तिप्रदं दिव्यं प्रणवं च परं शिवम्‌ ॥ ५६॥

11.49

पञ्चाक्षरमयीं विद्यां जपन्नेकाग्रमानसः | प्रणवं जापयामास शङ्करं सम्यगर्चयेत्‌॥५७॥

11.50

२०८ पारमेश्वरागम: [ द्वादश: सोऽश्रमेधसहस्रस्य साधिकस्य महेश्वरि । लभते सुमहत्पुण्यं ज्ञानं शाङ्करमच्युतम्‌'॥ ५८ ॥

11.51

यो: यस्मिन्‌ रुद्रसरसि स्नात्वा पञ्चाक्षरं जपेत्‌ । सोऽपि पुण्यं महल्लब्ध्वा भ्रष्टा MY लिङ्गवान्‌॥ ५९॥

11.52

शिवभावं समाश्रित्य शिवयोगमथाचरेत्‌। पति-पशु-पाशनिरूपणम्‌ ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य शूलिनः 1 ६०॥ पशवः परिकीर्त्यन्ते संसारपरिवर्तिनः | तेषां पतित्वाद्‌ देवेशि ह्यहं पशुपतिः स्मृतः ।। ६१।।

11.53

मलमायादिभिः पाशैर्बध्नाति स पशून्‌ पति: | स एव मोचकस्तेषां भक्त्या सम्यगुपासितः WEI चतुर्विशतितत्त्वानि माया कर्म गुणा अपि। विषया इति कथ्यन्ते पाशा जीवनिबन्धनात्‌।। ६३॥

11.54

ब्रह्मादिस्तम्बपर्यन्तान्‌ पशून्‌ बद्ध्वा महेश्वरि । पाशैरेतैः पतिश्चाहं(यं) कार्य कारयति स्वकम्‌ ॥ ६४॥

11.55

इन्द्रियाण्यपि तस्यैव मदाज्ञावशगानि तु । कारयन्ति नरं कार्य वशं च स्वेच्छया पशून्‌ I ६५॥ पाशच्छेदार्थ वीरशैवदीक्षा ग्राह्या तस्मात्‌ पशुपतिं मां तुज्ञात्वा लिङ्गार्चकः शिवे | छित्वा पाशानविद्योत्थान्‌ परं निर्वाणमुच्छति ॥ ६६॥

11.56

भुक्तिमुक्तिप्रदो देवि पशुत्वविनिवर्तकः । पूजनीयः सदा चाहं यथाश्रद्धं यथाविधि 11 ६७॥। यः कुर्यादान्तिकीं दीक्षामादेहान्तमनाकुलः | वीरशैवं प्रकुर्वीत स वै नैष्ठिक उप्ते ॥ ६८॥

11.57

1सोउत्याश्रमी च विज्ञेयो महामाहेश्वरः शिवः । स एव भ्तपतां श्रेष्ठः स एव हि महाव्रती ॥ ६९॥

11.58

न तेन सदूशः कश्चित्‌ कृतकृत्यो मुमुकषुषु । आदेहान्तमियं दीक्षा महापातकनाशनी ॥। ७०॥

11.59

२१० पारमेश्वरागमः [ द्वादशः कृतकृत्यश्च निष्कामो यश्चरेद्‌ बीरशैवगः | शिवार्पितात्मा सततं न तेन सदूशः क्वचित्‌ ॥ ७१॥

11.60

यः पश्येद्‌ वीरशैवस्थं ब्रह्महत्यादिसम्भवैः | पापैर्विमुच्यते सद्यो मुच्यते च भवार्णवात्‌ ॥ ७२॥

11.61

शिवाग्नेर्यत्परं वीर्य तद्वीर्यं वीरशैविनः । तस्मात्‌ सर्वेषु कालेषु वीर्यवान्‌ शिवमर्चयेत्‌ ॥ ७३॥

11.62

वेद एव द्विजातीनां स्त्रीणां च स्वपतिर्यथा | संन्यासिनां ज्ञानमेव शैवानां वीरशैवकम्‌ ।। ७४॥

11.63

शिवात्‌ परतरो नास्ति यथा सर्वेषु देवेषु ह्यधिको मेघवाहनः | तस्यासीदधिको ब्रह्मा स तस्मादधिको हरिः ॥ ७५॥

11.64

विष्ण्वादीनां च सर्वेषामधिकोऽहं परः शिवे । मत्तः परतरो नास्ति मन्मतं तु तथैव हि ॥ ७६॥

11.65

जीवेषु श्रेष्ठतातारतम्यम्‌ क्रिमिकोटपतङ्गेभ्यः पशवः प्रज्ञयाधिकाः । पशुभ्योऽपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजातयः ।। ७७॥

11.66

द्विजातिष्वधिकार विप्रा विप्रेषु ` कृतबुद्धयः | स्कृतबुद्धिषु कर्तारस्तेभ्यः संन्यासिनोऽधिकाः ।। ७८ ॥

11.67

तेषु विज्ञानिनः श्रेष्ठास्तेषु शङ्करपूजकाः | तेषु श्रेष्ठा महादेवि मम लिङ्गाङ्गसङ्गिनः ॥ ७९॥

11.68

लिङ्गाङ्गसङ्गिष्वधिका मम योगरता नरा: | तेषु श्रेष्ठा महावीरशैवदीक्षापरा नराः ॥ ८०॥

11.69

तेघामप्यधिको नास्ति त्रिषु लोकेषु शैलजे । मत्तः परतरं नास्ति मन्मतं तु तथैव हि ce अहमेव हि देवेशि वीरमाहेश्वरो नरः। नामस्मरणमहिमा शिवो महेश्वरः शम्भुः पिनाकी च पितामहः ॥ ८२॥

11.70

संसारवैद्यः सर्वज्ञः परमात्पेत्यमुं मनुम्‌। जपेन्नियमवान्‌ नित्यं यो नरः संयतेन्द्रियः ॥ ८३॥

11.71

२१२ पारमेश्वरागमः [ द्वादशः स॒ एवाहं महादेवि मन्नामस्मरणात्‌ सदा।

11.72

इति व्याहरतो नित्यं दिनान्यायान्तु यान्तु मे।

11.73

इमं मनुं वदेद्‌ देवि मम लिङ्गाङ्गसङ्गिनः॥ ८५॥

11.74

श्रद्धयैव भक्तिः प्रजायते शृणु देवि प्रवक्ष्यामि तव स्नेहाद्‌ वरानने। न कर्मणा न तपसा न जपैर्न समाधिभिः ॥ ८६॥।

11.75

न दानेन न चान्येन वश्योऽहं श्रद्धया विना। यस्य श्रद्धास्ति देवेशि येन केनापि हेतुना।। ८७॥

11.76

तस्य वश्यो ह्यहं देवि योगिनां वीरशैविनाम्‌। वन्द्यः स्पृश्यश्च दृश्यश्च पूज्यः सम्भाव्य एव च ॥ ८८॥

11.77

साध्या तस्मात्‌ सदा श्रद्धा तस्य वश्यो भवाम्यहम्‌ । तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित्‌ । आम्नायसिद्धो निखिलो धर्म आश्रमिणामिह ॥ ९०॥

11.78

ब्रह्मणा कल्पितः Ya तन्ममाज्ञापुरःसरः | स तु पैतामहो धर्मो बहुभिश्च क्रियान्वितः ॥ ९१॥

11.79

कर्मणा महता श्रद्धां प्राप्य शैवीं सुदुर्लभाम्‌ । माहेश्वराः रेप्रपद्यन्ते देवि मां भक्तिसंयुताः ॥ ९२॥

11.80

भक्तिमतामेवात्राधिकारः तेषां सुखेन मार्गण धर्मकामार्थमुक्तये । मयि भक्तिमतामेव लिङ्गिनां वीरशैविनाम्‌ 119311 अधिकारो न चान्येषामित्याज्ञा मामकी दृढा । हृदये सततं शम्भुं सर्वकारणकारणम्‌ ॥ ९४॥

11.81

ध्यात्वा भावविधानेन पूजयेन्मां महेश्वरि । भक्ति सुनिश्चयां कृत्वा मयि चानन्यभावतः ॥ ९५॥

11.82

२१४ पारमेश्वरागम: [ द्वादश: सर्वावस्थोऽपि मुच्येत यद्यपि ब्रहाभावनात्‌ | सदाचारोपदेशः सामान्यमपि वक्ष्यामि सदाचारं तु शैविनाम्‌ ॥ ९६॥।

11.83

येन सर्वे प्रपद्यन्ते भक्तिमव्यभिचारिणीम्‌ । त्रिकालं भस्मना स्नानं लिङ्गार्चनमनुत्तमम्‌ ॥ ९७॥

11.84

१जपमीश्वरचिन्ता च दया सर्वत्र सर्वदा | सत्यं सन्तोघमास्तिक्यमहिंसा सर्वजन्तुषु ॥ ९८॥

11.85

हो: श्रद्धाऽध्ययनं योगः सदा पञ्जाक्षरीजपः | व्याख्यानं शिवशास्त्रस्य श्रवणं च तपः क्षमा ।। ९९।।

11.86

निषिद्धं वर्जनीयं च भस्मरुद्राक्षधारणम्‌ । ' सोमवारारेर्चनं देवि प्रदोषे च विशेषतः ॥ १००॥

11.87

असंत्यागः क्रियाणां च श्राद्धान्नस्य विवर्जनम्‌ । तथा पर्युषितान्नं च !गणिकान्नरै विशेषतः 11208 11 मद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम्‌ । सामान्य: सर्ववर्णानां विशेषो वीरशैविनाम्‌ ॥ १०२॥

11.88

वीरशैविनां विशेष: सदाचारः क्षमा शान्तिश्च सन्तोषः सत्यमस्तेयमेव च । ब्रह्मचर्य मम ज्ञानं वैराग्यं भस्मसेवनम्‌ 1120311 सर्वसङ्गनिवृत्तिश्च दशैतानि विशेषतः । सर्व लिङ्गमयं ध्यायेज्जगदेतच्चराचरम्‌ ॥ ९०४॥

11.89

कथितं तु मया देवि वीरमाहेश्वरागमम्‌ | पञ्चाक्षरस्य माहात्म्यं सविधानं सविस्तरम्‌ 11 १०५।॥। कर्मयोगं ज्ञानचर्या ज्ञानयोगं? मम प्रिये | चर्याचर्यारै मया प्रोक्ता किं भूयः श्रोतुमिच्छसि 11 १०६॥ ०९५१९९०१ ee १-२. योगो-ख.। ३. चर्यं मया प्रोक्त-ग. ड.। ४. “समाप्तः' नास्तिक. ख.। करपङ्कजपूजाविधानम्‌ देव्युवाच 'करुणामृतकल्लोलकटाक्ष गणनायक | कैवल्यकलनाधार नमस्ते गिरिधन्विने? nei कथितं च रहस्यं तद्‌ वीरशैवाभिधं मतम्‌ | श्रुतं चाधिगतं देवर मतभेदं सविस्तरम्‌ ॥ २॥

11.90

तत्तद्वलानुसारेण मतभेदा निरूपिताः | सर्वदा सर्वयलेन नित्यं लिङ्गार्चनं त्विति ॥ ३॥

11.91

तस्य लिङ्गस्य भगवन्‌ पूजादिषु निरन्तरम्‌ | स्थानभेदान्ममाचक्ष्व करपीठादिलक्षणान्‌ ॥ ४॥

11.92

तारतम्येन वा किं नु फलं तत्तत्स्थलादिषु | यदि afe समं किं वा विशेषस्तत्र कथ्यताम्‌ ॥। ५॥

11.93

ईश्वर उवाच शृणु नान्यमना देवि रहस्यार्थमनाकुलम्‌ । गोपनीयं प्रयत्नेन यत्स्नेहेनेर्यंते त्वयि ॥६॥

11.94

विविधेषु पीठेषु पाणिपीठस्य वैशिष्ट्यम्‌ बहूनि सन्ति पीठानि लिङ्गस्याराधने मम । तारतम्येन सर्वाणि फलदानि न संशयः ॥ ७॥ ` भक्तस्य सकलं पीठं मज्ज्स्य' मम योगिनः । पाणिपीठं महल्लिङ्गं जगदेतच्चराचरम्‌ ॥ ८॥

11.95

आरूढस्यैतदुचितं वीरशैवस्य लिङ्गिनः | अथारुरुक्षोरीशानि हृदयं पीठमुच्यते ॥ ९॥

11.96

अथोच्यते बहिःपीठ॑ ततो न्यूनाधिकारिणः । लिङ्गस्य नित्यपूजायां करपङ्कजमादितः ॥ १०॥

11.97

२१८ पारमेश्वरागमः [ त्रयोदशः स्ववामहस्तं देवेशि विभाव्य कमलाकूतिम्‌ | लिङ्ग तत्कर्णिकामध्ये प्रतिष्ठाप्यार्चयेत्‌ सदा ॥ १९॥

11.98

तदेतत्‌ करपीठाख्यं चतुर्वर्गफलप्रदम्‌ । ततोऽन्यद्‌ दारुजं शैलं लोहं मार्तिकमेव वा ॥ १२॥

11.99

अजिनं कम्बलं वासः पर्ण भूमितृणादिकम्‌ | यत्र संस्थाप्यते लिङ्गं तत्पीठं तत्र भावयेत्‌ ।। १३॥

11.100

-दारुपीठं दरिद्राय शैलं पुत्रधनाप्तये । लौहं सर्वार्थसंसिद्धचै मार्तिकं ज्ञाननाशनम्‌ ।। १४॥

11.101

अजिनं व्याधिपीडायै कम्बलो दुःखसिद्धये । वासः सर्वफलप्राप्त्यै पर्णं स्वर्णफलाप्तये ।। १५॥।

11.102

भूमिः सर्वार्थनाशाय तृणं १विप्लवकारणम्‌ | तत्र सर्वोत्तमं देवि पीठार्थ करपङ्कजम्‌ ॥ १६॥

11.103

पाणिपीठस्वरूपनिरूपणम्‌ तत्स्वरूपं विशेषेण ह्याकर्णय वदामि ते । स्ववामहस्तं कमलं ध्यात्वा पञ्चदलं शुभम्‌ ॥ १७॥

11.104

पटलः ) करपङ्कजपूजाविधानम्‌ २९९ पञ्चाङ्गलीः पञ्चदलं कर्णी करतलं तथा । रेखा हस्तगताः सर्वा ध्यायेत्‌ कमलकेसरान्‌ ॥ १८॥

11.105

पञ्चाङ्गलीषु पञ्जब्रह्मपञ्चाग्निभावनम्‌ पञ्चाङ्खलीघु देवेशि पञ्चब्रह्मानुवाककैः | पञ्चब्रह्मात्मनो ध्यायेत्‌ कर्णिकायां गिरीन्द्रजाम्‌ ॥ ९९॥

11.106

अङ्गुष्ठादिकनिष्ठान्तं प्रादक्षिण्येन सुन्दरि | गार्हपत्यं दक्षिणारिंने मध्यमाहवनीयकम्‌ ॥ २०॥

11.107

सभ्याऽवसथ्यौ क्रमशः पञ्चाग्नीन्‌भावयेत्‌ सुधी: । शिवस्य पञ्जवक्त्राणि ध्यायेत्‌ पञ्जङ्गुलीः शिवे ॥ २९॥

11.108

दिक्षु विदिक्षु च देवतादिभावनम्‌ आरभ्य पूर्वमिन्द्रादीन्‌ ध्यायेदष्टसु दिक्ष्वपि । दुर्गा महेश्वरी चण्डीं भद्रकालीमिति क्रमात्‌ ॥ २२॥

11.109

प्राणा(गा)दिषु चतुर्दिक्षु प्रादक्षिण्येन भावयेत्‌ । गणेशं बटुकं वीरभद्रं चण्डं तथार्चयेत्‌ ॥ २३॥

11.110

२२० पारमेश्वरागमः [ त्रयोदशः नन्दीशं रिटिनं भृङ्गि तुण्डि प्रमथनायकम्‌ | अग्नीशासुरवातेषु विदिक्षु च विभावयेत्‌ ॥ २४॥

11.111

श्रीशैलमुख्यांश्च गिरीन्‌ क्षेत्रं काश्यादिकं तथा ॥ २५॥

11.112

गड्ढाद्या: सरितः सर्वाः कल्पवृक्षादिकांस्तरून्‌ | चिन्तामणिं कामधेनुं नक्षत्राणि दिशो दश ॥ २६॥

11.113

ऋग्यजुःसामवेदांश्चाथर्वणं च पुराणकम्‌ | सेतिहासं चिन्तयेद्‌ यद्‌ वेदं पञ्चममुत्तमम्‌ 11291! मीमांसाद्वितयं तर्क सांख्ययोगौ विशेषकम्‌ । धर्मशास्त्राणि सञ्चिन्त्य तन्मध्ये लिङ्गमर्चयेत्‌ ॥ २८॥

11.114

आरभ्य कूर्परं यावन्मणिबन्धं कुलेश्वरि । नालं तत्पाणिपदास्य पञ्चवक्त्रस्य भावयेत्‌ ।। २९।।

11.115

करपङ्कजपूजामहिमा सर्ववेदात्फकं पद्यं सर्वक्षेत्रमयं शुभम्‌ । सर्वसौभाग्यजनकं यत्पीठं करपङ्कजम्‌ ।। ३०॥

11.116

यन्न्यूनमतिरिक्त वा पूजाया(यां) मम योगिन: । करपङ्कजपूजायां तत्सर्व साङ्गमेव हि ॥३१॥

11.117

करपङ्कजपूजाक्रमः उद्धृत्य सज्जिकाद्वारात्‌ करपङ्कजमध्यगम्‌ | लिङ्ग कृत्वाऽर्चयेल्लिङ्गी दक्षिणेन च पाणिना ॥ ३२॥

11.118

आदौ विभाव्य कमलं पाणिपञ्जदलं शिवे । पूर्वोक्तलक्षणं योगी मध्ये मूलं जपेच्छतम्‌ 133 11 सहस्रं वा यथाशक्ति तत्र सिंहासनं स्मरेत्‌ । तत्र मां हि सुखासीनमभिध्यायेत्‌ त्वया सह ।। ३४।।

11.119

ध्यानावाहनमारभ्य यावल्लिङ्गविसर्जनम्‌ | तावत्‌ करस्थितं कुर्यात्‌ करपद्यार्चने विधिः 1134 अभिषेके च पूजायां यावद्भक्ति यथाबलम्‌ । यावद्विसर्जनं लिङ्गं निवसेत्‌ करपङ्कजे ।। ३६।॥। प्रदक्षिणनमस्कारौ मनस्येवाचरेत्‌ सुधीः । २२२ पारमेश्वरागमः [ त्रयोदशः निक्षिप्य सज्जिकामध्ये बद्ध्वा साररमर्गलम्‌ | विधाय वसनग्रन्थि जप्त्वा मूलशतं पुनः ॥ ३८॥

11.120

करपङ्कजपूजानियमाः न भवेद्‌. यावदेतावन्नोत्तिष्ठेत्‌ तावदीश्वरि । श्रीगुरावागते वापि दह्यमानेऽपि वा गुहे ॥ ३९॥

11.121

यदुत्तिष्ठेच्छिवे मध्ये धृत्वा लिङ्गं करे मम | स द्रोही मम विज्ञेयो गुरुद्रोही न संशयः ॥ ४०॥

11.122

तस्माद्‌ विजनमाश्रित्य निराकुलमनाः सदा । यथा सम्भावितः भक्त्या ह्यचेल्लिङ्गं कराम्बुजे ।। ४१।।

11.123

विभावयेदधः कूर्ममष्टदिक्ष्वष्टदिग्गजान्‌ | मध्ये शेषं महाहीन्द्रं सहस्रफणिमण्डलम्‌ ।। ४२॥

11.124

लिङ्गं विश्वात्मकं ध्यायेदादिमध्यान्तवर्जितम्‌ भक्तीच्छावशतो भक्तपाणिपङ्कजसाँस्थितम्‌ ।। ४३।।

11.125

अभिषेकक्रम: सहस्रघटतोयेन त्वष्टोत्तरशतेन वा । चतुष्षष्टिघटेनापि यदि द्वात्रिंशता घटे: ॥ ४४॥

11.126

चतुर्विशतिभिर्वापि द्वच्चष्टद्वादशभिस्तु वा । अष्टभिः पञ्चभिद्वाभ्यामेकेनापि घटेन वा ॥ ४५॥

11.127

सहस्रघटतोयेन शतमष्टघटैः परम्‌ । ` चुलुकोदकमात्रं वा लिङ्गस्योपरि निक्षिपेत्‌ ॥ ४६॥

11.128

यावच्छक्ति यथाभक्ति गन्धवच्छुद्धतोयतः । शोधितेनातिशीतेन लिङ्गं 'समभिषेचयेत्‌ ॥ ४७॥

11.129

अभिषेकपात्राणि शङ्खेन खड्गपात्रेण स्वर्णशुक्तिकयापि वा । अपि लौहेन पात्रेण पर्णेनान्येन केनचित्‌ ॥ ४८॥

11.130

सर्वाभावे महादेवि दक्षिणेनैव पाणिना । अभिषिञ्चेद्‌ यथाशक्ति स्वेष्टपात्रं विभावयन्‌ ॥ ४९॥

11.131

सहस्रप्रसृतिर्देवि सहस्रघटसंमिता | मम लिङ्काभिषेकार्थ पुनर्भावनयाऽब्धयः ।। ५०।।

11.132

२२४ पारमेश्वरागम: [ त्रयोदश: यावतीः पयसां भक्तः स्वर्पयेत्‌ प्रसृतीर्मम । तावदब्थिसहस्रौघैरभिषिक्तो$स्म्यहं शिवे ।। ५१॥

11.133

अभिषेकार्ह जलम्‌ सर्वदेवात्मकं तोयं सर्वतीर्थमयं शुभम्‌ । शीतलं लघु सद्गन्थं शतधा वस्त्रशोधितम्‌ । भूमिष्ठमुद्धतात्‌ पुण्यं ततः प्रसत्रबणोदकम्‌ । ततस्तु सारसं तीर्थं महानद्यास्ततोऽधिकम्‌ ।। ५४।।

11.134

ततो गङ्गाजलं पुण्यं गङ्गासागरसङ्गजम्‌। तत्र लब्धेन पयसाऽभिषिञ्चेन्मां प्रयलतः ।। ५५॥

11.135

अभिषेकानन्तरपूजाक्रमः ध्यानं च द्रोणविल्वं च विशेषः करपङ्कजम्‌ । घण्टानादं च शङ्कं च प्रतिक्षिप्याम्यहं सदा ।। ५६।।

11.136

दशाङ्गधूपं कर्पूरं दीपं यलेन चार्पयेत्‌ । जपस्तोत्रप्रणामादि पाणिलिङ्गः१ समाचरेत्‌ ॥ ५७॥

11.137

नियमपालनमावश्यकम्‌ एवं हि नियमो? देवि यदिच्छा पाणिपङ्कजे । पूजां कर्तु न चोत्तिष्ठेद्‌ यावल्लिङ्गविसर्जनम्‌ ॥ ५८॥

11.138

रैतत्रानुपाधेर्निश्चित्य पूजयेत्‌ पाणिपङ्कजे । यद्यन्यत्र समुत्तिष्ठेद्‌ यथा विघ्नस्तथा 5 शिवे ॥ ५९॥

11.139

निरन्तरायमासाद्य शेषं तत्र समापयेत्‌ | अन्यथा व्रतभङ्ग: स्याद्‌ रौरवं नरकं ब्रजेत्‌ ॥। oll आरभ्य पूजां लिङ्गस्यासमाप्तेरुपवेशने । अशक्त उत्थितो मध्ये रौरवं नरकं ब्रजेत्‌ ॥ ६१॥

11.140

सर्वसामग्ग्रभावेऽपि विनिक्षिप्य करे मम । लिङ्गं वामे दक्षिणेनाभिषिञ्चेद्‌ भक्तितोऽभसा 11 ६२॥ २२६ पारमेश्वरागमः [त्रयोदशः शक्तस्तु नियमं कृत्वा वर्षमेक त्रिकालतः । नित्यमुक्तप्रकारेणाभिषिज्ञेत्‌ पाणिनाम्भसा ॥ ६३॥

11.141

विभाव्य घटसाहस्रै सहसप्रसृतीरपि । १अधःशायी ब्रह्मचारी य: स्वप्नेमां विलोकयेत्‌ । ६४॥

11.142

करपीठार्चनस्यानन्तगुणितँ फलम्‌ सज्जिकाया: शतगुणमपनीत'कपाटकम्‌ । तत्सहस्रगुणं भूमौ वस्त्रपीठादिषु क्रमात्‌ ।। ६५॥

11.143

ततः शतगुणं प्रोक्तं पट्ठवस्त्रेडर्चयेन्मम | तत्सहस्रगुणं स्वर्णपीठे मणिमये तथा ॥ ६६।।

11.144

अनन्तगुणितं पाणिपङ्कजे मम पूजनम्‌ । ज्ञात्वा गुरुमुखात्‌ सम्यक्‌ पाणिपदो समर्चयेत्‌ ।॥। ६७॥

11.145

यद्यन्यथा प्रमादः स्यादायुष्यस्य क्षयो भवेत्‌ | नाङ्गीकरोति तत्पूजां सर्वकृत्‌ परमेश्वरः ।। ६८।।

11.146

पूजाक्रमो गुरुमुखाज्ज्ञातव्य: प्रवृत्तिमपि ist निवृत्तिमितरस्य च । ज्ञात्वा गुरुमुखात्‌ सम्यग्‌ यथाशास्त्रमथाचरेत्‌ ।॥। ६९॥

11.147

यथा योग्यमुमे लिङ्गं यथा पञ्चाक्षरीमनुः । यश्चैव श्रीगुरोर्नाम तथैव करपङ्कजम्‌ ॥ ७०॥

11.148

स्वरूपं करपदास्य ज्ञात्वा गुरुमुखात्‌ सुधीः । यदा जन्मशतान्ते तु जानाति करपङ्कजम्‌ | तदेव चरमं विद्धि यथा मन्त्रस्तथा करः ॥| ७२॥ करपीठं सर्वदेवमयं सर्वक्षेत्रमयं च सन्निधावप्रयलेन स्वदेहे वर्तते करः । सर्वदेवमयं पीठं सर्वक्षेत्रमयं परम्‌ ॥ ७३॥

11.149

'करपङ्कजपीठस्य मध्ये काशी सदान्विता । अङ्गष्ठमूलेऽयोध्याख्याऽवन्तिका तर्जनीमुखे 1 ७४॥ २२८ पारमेश्वरागमः [ त्रयोदशः यथा क्रियासु सर्वासु मम पूजा गरीयसी । यथालापनसङ्घेषु श्रीगुरोर्नाम मङ्गलम्‌ ॥ ८२॥

11.150

यथा देवेषु सर्वेषु भक्तिर्मयि परा शिवे । तथा मत्पूजने श्रेष्ठं पीठेघु करपङ्कजम्‌ ॥ ८३॥

11.151

यथा पुष्पेषु द्रोणं च पत्रजातेषु विल्वजम्‌ | तिलाक्षता द्रव्यजाते यथा दूर्वास्तूणात्मसु ।॥ ८४॥

11.152

पूजोपकरणे देवि शक्ताशक्तसमं सुखम्‌ | सर्वसामग्ग्रभावेपि सर्वदं करपङ्कजम्‌ ॥ ८५।।

11.153

'कोटिकोटिघटैस्तोयैः पात्रस्थमभिषेचयेत्‌ | करस्थं बिन्दुमात्रेण सममेव फलं द्वयो: ॥ ८६॥

11.154

सम्पन्नः `स्वर्णकुम्भेनाभिषिञ्चेच्छतसंख्यया | अन्यश्चुलुकतोयेन सममेव फलं द्वयोः ॥ ८७॥

11.155

यन्न्यूनमतिरेकं यज्ज्ञानतोऽज्ञानतोऽपि वा | ३साङ्गमेब हि तत्सर्वं पूजनात्‌ कंरपङ्कजे ॥ ८८॥

11.156

२३० पारमेश्वरागमः [ त्रयोदशः न तत्र न्यूनता काचिन्न प्रायश्चित्तकल्पना | अनुत्थानं महादेवि पूजामध्ये तु लिङ्गिनः | यावल्लिङ्ग समुद्वासेत्‌ करपीठविधिस्त्वयम्‌ ॥ ९०॥

11.157

साङ्ग सर्वार्चनाशक्तावभिषेकादिकं क्वचित्‌ । यथाशक्त्यर्चने चापि ह्यार्चयेत्‌ करपङ्कजे ।। ९२॥

11.158

सर्वसाधारणं चैतत्‌ पूजनं करपङ्कजे । न कश्चित्तत्र दोषोऽस्ति लिङ्गसंस्थापनेऽर्चने ।। ९२।।

11.159

न पाणिपीठसटूशो? मेरुः कैलास एव वा । शिवलिङ्गस्य पूजायां कृच्छ्रादपि भवेच्छिवे 1193 11 तस्मात्‌ सर्वप्रयलेन लिङ्गसंस्थापनेऽर्चने । सर्वदेवमयं पाणिपदां सर्वोत्तमोत्तमम्‌ ॥। ९४।।

11.160

सहस्रनामभिः पूजां शतमष्टोत्तरं तु वा | पटल: J करपङ्कजपूजाविधानम्‌ २३१ आस्तीर्य विमलं वस्त्रं मृदुपाणितले शुभे । ताभ्यामेव हि पाणिभ्यां धत्ते शूलं कपालकम्‌ । यत्र कण्ठे धृतं लिङ्गं तत्र स्यादतिकालिमा ॥ ९७॥

11.161

तादूङ्महिमसम्पन्नमुदितं करपङ्कजम्‌ । रहस्यमपि देवेशि किं भूयः ओतुमिच्छसि ॥ ९८॥

11.162

इति श्रीपारमेश्वरतनरे शिवाद्वैतसिद्धान्ते करपङ्कजविधानं

11.163

नाम त्रयोदश: पटल: समाप्तः ।।९३।।

11.164

अष्टबन्धलिङ्गलक्षणं गुरूपासाक्रमश्च श्रीदेव्युवाच नमोऽस्तु गुरवे तुभ्यं शम्भवे शशिमौलये ॥१॥

11.165

सरहस्यं च पूजादौ कथितं. करपङ्कजम्‌ | इदानीं श्रोतुमिच्छामि लिङ्गलक्षणमीश्वर ॥ २॥

11.166

सखण्डे शिथिले मध्ये किं वा कार्य हि लिङ्गिना ॥ ३॥

11.167

एतत्सर्व *ममाचक्ष्व सविस्तरमुमापते | यच्छुत्वा जायते तस्य मतिस्त्वयि महेश्वरे ।। ४॥

11.168

ईश्वर उवाच शुणु देवि प्रवक्ष्यामि यन्मां त्वरं परिपृच्छसि । रहस्यमपि गोप्यं वा वक्ष्ये स्नेहवशेन ते ।। ५॥

11.169

लिङ्गस्य सखण्डाखण्डादयो भेदा: लिङ्गं तद्‌ द्विविधं प्रोक्तमखण्डं च सखण्डकम्‌ | weve द्विविधं ज्ञेयः सखण्डाखण्डभेदतः ॥ ६॥

11.170

अखण्डमाद्यं यल्लिङ्गमखण्डाकारमण्डलम्‌। आद्यन्तरहितं शून्यं निराकारमनामयम्‌ ॥ ७॥

11.171

आरूढस्य हि तल्लिङ्गं चिदानन्दघनं महत्‌। पखण्डमारुरुक्षोस्तु यदीशो हृदि दैवतम्‌ ॥ ८॥

11.172

सखण्डं बाह्यलिङ्ग स्याच्छिलादि द्विविधं मतम्‌ । पूर्वाक्तलक्षणं लिङ्गं सखण्डाखण्डभेदतः ॥ ९॥

11.173

पाणिपीठं च लिङ्गं च? यदेकं तदखण्डकम्‌। पाणिपीठाच्चर लिङ्गाच्च यद्भिन्नं तत्सखण्डकम्‌ 11 १०॥ सर्वाण्येतानि लिङ्गानि तारतम्यार्थदानि हि। अधिकारानुसारेण भक्तिरेका विशिष्यते ॥ ११॥

11.174

२३४ पारमेश्वरागमः [ चतुर्दश: इष्टलिङ्गप्रमाणधारणादिकम्‌ यावान्‌ हि पाणिपीठस्य भागश्चोर्ध्वमधश्च सः | आयामश्चापि विस्तार औननत्यं तावदेव हि ॥ १२॥

11.175

श्याबानुपरि विस्तार आयामश्चापि तादूशः । तावत्प्रमाणेन सोमसूत्रं स्यात्‌ तावदेव हि 119311 यावत्पीठोर्ध्वभागं तद्विस्तारायाममानतः । लिङ्गं च तावदेव स्याद्विस्तारायाममानतः ॥ १४॥

11.176

यावदन्तर्गतं त्यक्त्वा पीठादुपरि तद्भवेत्‌ | अर्धार्धमन्तरे स्थाप्य अष्टबन्धार्थमीश्चरि ।। १५॥

11.177

आदौ विधायाष्टबन्धं संस्कृत्यैवाथ दीक्षयेत्‌ । लौकिकस्यैव लिङ्गस्य पाणिपीठस्य चोभयोः ॥ १६॥

11.178

तादूशे विगते लिङ्गे दैवाद्वा मानुघादपि । प्रमादाद्वा विपत्त्या वा पुनरन्यच्च धारयेत्‌ ।। १७॥

11.179

दीक्षामुखेन गुरुणा बद्धलिङ्गः कुलेश्वरि । यदि क्षणमलिङ्गः स्याद्‌ रौरवे नरके वसेत्‌ ॥ १८ ॥

11.180

लिङ्गद्वयं नैव धार्य न पूज्यं लिङ्गयुग्मकम्‌ । दिनैकं बहु भनैवार्च्यमेकलिङ्गमहं यतः ॥ १९॥

11.181

fog? च पाणिपीठे च द्वयोरप्येकभावनम्‌ | एकलिङ्गमयीं कुर्यादेकोऽहं शङ्करो यतः ॥ २०॥

11.182

षद्सूत्रमानकेरे पीठे त्रिसूत्रपरिसंमितम्‌ । सन्धाय लिङ्गदाढर्चाय हाष्टबन्थं समाचरेत्‌ ॥ २१॥

11.183

पञ्जबन्धं त्रिबन्धं वा दृढयेद्‌ येन केन वा । द्रव्येण स्नेहयुक्तेन शैथिल्ये पुनराचरेत्‌ ॥ २२॥

11.184

लिङ्गादिनाशे प्रायश्चित्तम्‌ लिङ्गनाशे भवेदन्यत्‌ पीठनाशे तथैव हि । शैथिल्ये चाष्टबन्धस्य यथापूर्व समाचरेत्‌ ॥ २३॥

11.185

लिङ्गनाशे भवेद्‌ दीक्षा चैकरात्र*विधानतः । पीठनाशे तु लिङ्गस्य सद्यो दीक्षा विधीयते ॥ २४॥

11.186

२३६ पारमेश्वरागम: [ चतुर्दश: शैथिल्ये त्वष्टबन्धस्य होमदीक्षामथाहिकम्‌ | शतमष्टोत्तरं शक्त्या भोजयेच्छिवयोगिनः 1 २५॥ जपेद्‌ द्वादशसाहस्रं मम पञ्चाक्षरं मनुम्‌ । अन्यथा विपदं याति रौरवं *चाधिगच्छति 11 २६॥ लिङ्गनाशे भवेल्लिङ्गं पीठं पीठस्य नाशने । अष्टबन्धेऽष्टबन्धः स्याद्‌ यन्नष्टं तत्पुनश्चरेत्‌ ॥ २७॥

11.187

'िङ्गाष्टबन्धपीठानामेका दीक्षा विधीयते | २सज्जीवस्त्रगुणानां तु सद्यस्तत्पुनराचरेत्‌ ॥ २८॥

11.188

होमश्च दक्षिणादानं भोजनं शिवयोगिनाम्‌ | जपश्च सममेव स्यादष्टबन्धादिकत्रये ॥ २९॥

11.189

जपो दानं यथाशक्ति भोजनं शिवयोगिनाम्‌ । सममेव महादेवि सज्जादित्रयनाशने ।। ३०॥

11.190

शुणु तत्र विशेषं ते प्रवक्ष्यामि महेश्वरि | ज्त्वाऽर्चेन्मन्मनुं लिङ्गमशक्तः सर्वकर्मणि 11 ३९॥ यद्यकालेषष्टबन्धस्य दैवाच्छैथिल्यमागतम्‌ | सद्यः सम्बन्धयेल्लिङ्गं येन केनापि वस्तुना ॥ ३२॥

11.191

शनैः सम्पादयेदष्टबन्धनाय दूढाय तु। नोपेक्षां तत्र कुर्वीत विमुखोऽहं मतस्ततः 13311 अप्रमत्तः सदा तिष्ठेल्लिङ्गसंरक्षणे सुधीः । यथा प्राणे यथा देहे नष्टेऽन्यत्‌ पुनराचरेत्‌ ॥ ३४॥

11.192

एकदेशविभिन्ने तु यदि प्रथमलिङ्गकम्‌ । यावच्छिष्टं हि तत्तावद्यावत्तावच्चरेच्छिवे 1134 11 द्वितीयादिषु लिङ्गेषु वैकल्याच्चान्यदाचरेत्‌ । लिङ्गिनां शिवभक्तानां सद्योदीक्षां च भोजनम्‌ 1 ३६॥ पात्रलक्षणम्‌ पात्रनाशे भवेत्पात्रं यन्नष्टं तत्पुनश्चरेत्‌ | २३८ पारमेश्वरागमः [ चतुर्दशः सौवर्ण राजतं कांस्यं ताम्रं पैत्तलक तु वा | दारुजं मृन्मयं शैलं पर्णजं नारिकेलजम्‌ ॥ ३८॥

11.193

अभिन्नं विपुलं श्लक्ष्णं वर्तुलं नवमुज्ज्वलम्‌ । निर्मलं पङ्करहितं सुगन्धि लघु शोभितम्‌ ॥। ३९॥

11.194

एतादूशानि पात्राणि नव सप्तापि पञ्च वा । अथवा त्रीणि कुर्वीत नैकं न समसंख्यया 1 ४०॥ दरिद्रोऽपि न कुर्वीत न सीसं नायसं त्रपु । अपात्रबहुपात्राणि वर्जयेच्छिवपूजने ॥। ४१॥

11.195

श्शङ्खपात्रं सुरम्यं च `खड्गपात्रं विशेषतः । समृत्तिकानारिकेलादिपात्रं स्याच्छिवपूजने ॥ ४२॥

11.196

सङ्कल्प्य साधिक पात्रं न निमित्तं विना तथा । चालयेत्‌ पूजने काले न स्कन्नं कारयेज्जलम्‌ 11 ४३॥ सम्भवे सति सौवर्ण पात्रं स्याहुत्तमोत्तमम्‌ | अभावे राजतं ताम्रं मृत्पर्णादि तु शक्तितः ॥ ४४॥

11.197

सर्वसाधारणं देवि नारिकेलं शिवार्चने । आयुर्यशोबलकरम्‌ अपपृत्युनिवारकम्‌ ॥ ४५॥

11.198

शिवपात्रलक्षणम्‌ सम्यक्‌ संक्षा लयेन्नित्यं नान्यत्‌ कर्मणि योजयेत्‌ । विनैव पूजां लिङ्गस्य शिवपात्रं तदुच्यते ॥ ४६॥

11.199

पत्रेषु तीर्थावाहनम्‌ पात्रेषु सागरान्‌ सप्त गङ्गां गोदावरीं नदीम्‌ । कृष्णां वेणीं तुङ्गभद्रा कावेरीं च पिनाकिनीम्‌ ॥ ४७॥

11.200

ताम्रपर्णी तथा रेवां यच्च पुष्करिणीत्रयम्‌ । मणिकर्णिकां धनुष्कोटिं भावयेत्‌ पात्रमध्यगाम्‌ ॥ ४८॥

11.201

न भूमौ प्रक्षिपेत्‌ पात्रं न च रिक्तं कदाचन | नान्योन्यं ताडयित्वा तु जनयेद्‌ ध्वनिमरीश्वरि ॥ ४९॥

11.202

पात्राधारवर्णनम्‌ संसाधयेत्‌ प्रयलेन पात्राधारमथो! भुवि । आधाराणि सुयोग्यानि पात्रनिक्षेपणाय हि ।। ५०॥

11.203

२४० पारमेश्वरागमः [ चतुर्दशः अभिषेकाय लिङ्गस्य यदि स्यादुद्धृतो दकम्‌ | तदोदकुम्भमवनौ नाधारं निक्षिपेद्‌ विना ।। ५९॥

11.204

पाणिलिङ्गपूजानियमा यद्यन्तरा भवेच्छङ्का पाणिलिङ्गस्य लिङ्गिनः । पूजायां देहधर्मस्य शिष्यपाणितले क्षिपेत्‌ ॥ ५२॥

11.205

'शिष्याद्यभावे देवेशि सज्जिकायां पुनः क्षिपेत्‌ । निर्वर्तयित्वा निर्वर्त्यं सचैलं स्नानमाचरेत्‌ ॥ ५३॥

11.206

पुनः कुर्याद्यथापूर्वं पूजाशेषं मम प्रिये । अन्यथा पतितो याति दारुणं नरकार्णवम्‌ ॥। ५४॥

11.207

नाशुचिः पूजयेल्लिङ्गं नाकाले नान्यविन्मनाः । नानादरेण हस्ताब्जे पूजायां विधिरुच्यते ।। ५५॥।

11.208

धृतरुद्राक्षभस्माङ्ग: शिवनामपरायणः | गुरूक्तेन विधानेन प्रयतो लिङ्गमर्चयेत्‌ ।। ५६॥

11.209

नान्यकार्यपरः क्वापि न प्रलापपरोऽपि वा । न व्यग्रो वा न त्वरया पूजयेल्लिङ्गमीश्चरि ॥ ५७॥

11.210

सन्तुष्टमानसः शान्तः शुचिर्माल्याम्बरावृतः | सुवासितमुखो भूत्वा पूजयेल्लिङ्गमीश्वरि ॥५८॥

11.211

| इष्टलिङ्गपूजने दिडनिर्देश: सदा पूर्वमुखः पूजां कुर्याल्लिङ्गस्य शाङ्करि । आयुः श्रियं यशो वर्चः प्रजां पुष्टि यदीच्छति ।। ५९॥

11.212

दक्षिणाभिमुखः कुर्यान्मारणादिषु सुन्दरिर । कामार्थी पञ्चिममुखो ज्ञानाथी स्यादुदङ्मुखः ।। ६०॥

11.213

प्रातर्मध्याह्यो: पूर्वमुखः पूजां समाचरेत्‌ । रात्रावुदङ्मुखः कुर्याद्‌ विधिरेष समर्चने ॥ ६१॥

11.214

व्यत्यस्तं? नैव कुर्वीत विनैहिकफलं शिवे । यदि स्याज्ज्ञानमोक्षार्थी पूजयेदुत्तराननः ॥६२॥

11.215

निस्पृहः सर्वकामेघु मुमुक्षुर्विजितेन्द्रियः | उक्तलक्षणवान्‌ ज्ञानी सर्वस्य सर्वदा भवेत्‌ ॥ ६३॥

11.216

२४२ न पारमेश्वरागम: [ चतुर्दशः तेजस्काम्यग्निवदनः प्रजाकामी मरुन्मुखः | शत्रुक्षयार्थी हीशाने प्रजार्थी प्रत्यगुत्तरः ॥ ६४॥

11.217

सन्ध्यासु पूर्ववदनो ह्यमभिचारककर्मणि | अर्चन्निऋतिदिग्वकत्रः सर्वार्थी सर्वतोमुखः ॥ ६५॥

11.218

गुरुदैवतयोरैक्यभावनम्‌ इत्यादिनियमोपेतो ह्यास्तिको भक्तिमान्‌ मयि । 1गुरुदैवतयोरेकरूपं प्रत्ययवान्‌ भवेत्‌ ॥ ६६॥

11.219

सद्गुरुस्मरणम्‌ प्रायश्षित्तेऽपि वैकल्ये निषेधेऽपि विधावपि | कार्येऽप्यकार्ये सर्वत्र Teta हि कारणम्‌ ॥ ६७॥

11.220

सन्निधावपि दूरे वा व्यवधाने समक्षके | गुरूक्त एव नियमो यतः सर्वात्मको गुरुः ॥ ६८॥

11.221

सूर्यचन्द्राग्निमरुतो गुरुरेव न संशयः ॥ ६९॥

11.222

  1. “गुरुशिवयोरभेदः शिष्यस्य गुर्वनुवर्तनक्रमश्च सम्यगुदितः शैवे वायवीयसंहितायामुत्तरभागे त्रयो- दशाध्याये,लै्गेऽप पूर्वभागे पडशीतितमाध्याये" इति ख. टिप्पणी (पु. २०५)। उत्थाने शयने क्वापि प्रस्थाने चोपवेशने । निद्रादौ च तदन्ते च स्मरेत्‌ सर्वत्र सद्गुरुम्‌ ॥ ७०॥

11.223

वचनारम्भसमये क्षतप्रस्खलनादिषु | विकत्थने च कलहे स्मरेत्‌ सर्वत्र सद्गुरुम्‌ ॥ ७१॥

11.224

सर्वपापविनाशाय सर्वसौख्यविवृद्धये | सर्वाभीष्टार्थसिद्ध'र्थ संस्मरे च्छीगुरुं सदा ॥ ७२॥

11.225

ब्रह्महत्यासहस्राणि गोहत्याकोटिकोटिशः । साधितान्यपि धीपूर्वं श्रीगुरोः स्मरणं दहेत्‌ ॥ ७३॥

11.226

दुःस्वप्नेऽपि दुरालापे दुक्चित्ते दुर्भयेऽपि च । दुर्निमित्तेऽपि? कृच्छ्रे च संस्मरेच्छ्ीगुरुं सदा ॥ ७४॥

11.227

पवित्रं पावनं पुण्यं शुद्धं परममङ्गलम्‌ | वेदवेदाङ्गरेसारार्थं श्रीगुरोर्नाम संस्मरेत्‌ ।। ७५॥

11.228

अशास्त्रे वाऽपि शास्त्रे वानाचाराचारयोरपि । सर्वदोषविनाशाय श्रीगुरोः स्मरणं परम्‌ ॥ ७६॥

11.229

२४४ 'पारमेश्वरागम: [ चतुर्दश: विद्याज्ञानविवेकाय सुखभोगार्थसिद्धये । जीवन्मुक्त्यर्थलाभाय कुर्यात्‌ संस्मरणं गुरोः ।। ७७॥

11.230

कृतानां सर्वपापानां मनोवाक्कायकर्मभिः । सद्य एव विनाशाय संस्मरेद्‌ गुरुमादरात्‌ ।। ७८॥

11.231

न विनश्यन्ति पापानि जाग्रदादिकृतान्यपि । अनल्पान्यपि चाल्पानि श्रीगुरु *स्मरणं विना ॥ ७९॥

11.232

यद्यस्ति मयि सद्भक्तिः साधकस्य च लिङ्गिनः । मद्रूपिणमुमे नित्यं संस्मरेच्छ्रीगुरुं सुधीः coll उषसि ब्रह्मसद्रूपं चिद्रूपं परमामृतम्‌ । चिदानन्दधनं देवं सर्वदा श्रीगुरुं स्मरेत्‌ cen सर्वेषामपि कार्याणामारम्भे यतमानसः । अप्रमत्तः स्मरेन्नित्यं श्रीगुरोर्नाम मङ्गलम्‌ ॥ ८२॥

11.233

सद्गुरुमाहात्म्यम्‌ गुरुभक्तिविहीनस्य समस्ता निष्फलाः क्रियाः | बहुना किमनेनाझर्ये सर्वसारमिदं शृणु । सर्ववैकल्यसाकल्यपूर्तये परमं वचः ॥ ८४॥

11.234

स्वस्थः परवशो वापि ger वा दुःखितोऽपि वा । सर्वावस्थासु सर्वत्र गतिः सद्गुरुसेबनम्‌ ॥ ८५॥

11.235

अशक्तः पूजने भक्त उक्तलक्षणकर्मणि । सर्वसंकल्प' सिद्ध्यर्थं ध्यायेद्‌ गुरुपदाम्बुजम्‌ ॥ ८६॥

11.236

मन्त्रमूलं गुरोर्वाक्यं पूजामूलं गुरोः पदम्‌ । ध्यानमूलं गुरोर्मृतिर्मोक्षमूलं गुरोः कृपा ॥ ८७॥

11.237

यस्त्वशक्तो मम ध्याने स ध्यायेद्‌ गुरुमीश्वरम्‌ । जपे मन्त्रस्य मे देवि श्रीगुरोर्नाम संस्मरेत्‌ ॥ ८८॥

11.238

सर्वमन्त्रमयं दिव्यं सर्वशास्त्रमयं शुभम्‌ । सर्ववेदात्मकं पुण्यं श्रीगुरोर्नाम मङ्गलम्‌ ॥ ८९॥

11.239

पारमेश्वरागमः यदा साक्षाद्‌ गुरो रूपं भकतः पश्यति पुण्यवान्‌ । तदेव मम देवेशि साक्षाद्‌ दर्शनमुत्तमम्‌ ॥ ९०॥

11.240

तस्मात्‌ स्वर्गापवर्गेच्छुरिह भोगेच्छुरास्तिकः | सर्वदा सर्वयलेन गुरुदेवं समाश्रयेत्‌ ॥ ९१॥।

11.241

सर्वे वेदाश्च शास्त्राणि पुराणानि च संहिताः । स्मृतयो धर्मशास्त्राणि श्रीगुरोर्वचनं परम्‌ ॥ ९२॥

11.242

गुकारोऽन्धन्तमः प्रोक्तं रुकारो भास्करोदयः । मोहान्धकारहरणाद्‌ गुरुरित्यभिधीयते ।। ९३॥

11.243

सप्तकोटिमहामन्त्राश्चित्तविभ्रमकारकाः । द्वावेव मन्त्रौ देवेशि सर्वेषामपि मुक्तये । सर्वक्लेशविनाशाय “तौ गुर्विति शिवेति च ।। ९५॥

11.244

भावयेत्‌ सततं धीमान्‌ जगदेतच्चराचरम्‌ । इन्द्रियोपगतं यद्यत्‌ श्रीगुरो रूपमैश्वरम्‌ ॥ ९६॥

11.245

[ चतुर्दश: वीरशैवभेदनिरूपणम्‌ शश्रीदेव्युवाच सृष्ट्वा तमेकमात्मानमनेकं कुरुते पुनः । एकीकृत्य ग्रसति यस्तस्मै रुद्र नमोऽस्तु ते ॥ १॥।

11.246

सर्वदूक्‌ सर्वकृत्‌ स्वामिन्‌ सर्वात्मन्‌ सर्वपालक । शर्व सर्वज्ञ विश्वेश शरण्याय नमो नमः ॥ २॥

11.247

कूपया मयि वात्सल्यवशेन कथितं प्रभो । वीरशैवस्य विस्तारं वैभवं तु सविस्तरम्‌ ॥ ३॥

11.248

इतः परं 'ममापेक्ष्यमल्पं वा नास्ति रेत्वन्मते । तथापि मम चित्तस्य पर्याप्तिनैव जायते ।॥ ४॥

11.249

अस्ति चेदुपदेशं मे रहस्यं वा प्रकाशकम्‌ | गूढं वा प्रकटं वापि दयां मयि निदर्शय ।। ५॥

11.250

यदि दास्यस्यनुज्ञा मे पूच्छाम्यात्मगतस्पृहाम्‌ । २५० पारमेश्वरागमः [ पञ्चदशः वीरशैवमहाशूलखातेन पतिता अमी । देवि त्वत्प्रश्ननिश्रेण्या* प्रोद्धृताः सुखमद्यते ॥ १९॥

11.251

वीरशैवमतरहस्यमजानाना: पतन्ति यदा जालगतः पक्षी निर्गन्तुं जालसूत्रतः । बहिद्वारमजानानो प्रियते'ऽयं यथा शिवे ॥२०॥

11.252

वीरभेदानविज्ञेया(ज्ञाय) हठाद्‌ वीरमहाह्ृदे | निपत्य दुःखं क्लिश्यन्ति शून्यकूपगता इव ॥ २९॥

11.253

न साधु बहु सेवन्ते गुरुं मद्रूपिणं शिवे । न जानन्ति ततः साधु पृष्ट्वा मतरहस्यकम्‌ 1 २२॥ नाल्पज्ञः रेपारमन्वेति नाल्यज्ञः सुखमेधते । न लज्जेद्‌ गुरुसेवायां नाल्पञ्ञश्चाप्यपृच्छतः ॥ VU प्राणार्थमानवसुभिर्गुरुशुश्रूषणोत्सुकः साधयेदात्मनोऽभीष्टं गुरोरेव मदात्मनः“ ॥ २४॥

11.254

१, श्रेणि-क.। २. ते यो-क., ते च-ग. घ. ड.। ३. पर-ख.। ४. त्मक:-क. ख.। २५२ पारमेश्वरागमः [ पञ्चदशः सामान्यं बीरशैवं च विशेषं च ततः परम्‌ । निराभारं वीरशैवं न ततोऽधिकमीश्वरि ॥ ३२॥

11.255

मते फलं विशेषो वा भेदो वा वीरशैवके । अत्रोच्यत्ते मया योऽर्थः परमार्थः स वै शिवे ।। ३३॥

11.256

सामान्यवीरशैवलक्षणम्‌ सामान्यं वीरशैवं च तत्र देवि पुरोदितम्‌ | सत्यं भूतदयाऽहिंसा शमो दम उदारता? । विविक्तापेक्षया भक्तिरद्दन्द्रं मम पूजनम्‌ ॥ ३५॥

11.257

स्मरणं कीर्तनं ध्यानं मद्भावपरिशीलनम्‌ । मद्भक्तेषु परा भवक्तिर्मदैकात्यममायया ।। 3a 11 रेगुरोः शुश्रूषणं भक्त्या मतभेदेन सर्वदा | त्रिकालमर्चा लिङ्गस्याऽहिंसया भक्ष्यजीवनम्‌ ॥ ३७॥

11.258

इत्यादीनि पुरोक्तानि रेपराण्यङ्गानि तस्य तत्‌ । सामान्यवीरशैवस्य* लिङ्गिनो वीरयोगिनः ॥ ३८॥

11.259

२५४ पारमेश्वरागमः [ पञ्चदशः भिक्षाटनं चैकगुहे भिक्षां वा भक्तितो यदि । ददाति प्रार्थयन्‌ भक्तो भुञ्जीयात्‌ तदनुग्रहात्‌ 1138 N ग्रामे वा यदि वारण्ये मनो यत्र प्रसीदति । तत्रैव च सुखं ध्यायेन्मद्रूपमपि वा गुरुम्‌ ॥ ४०॥

11.260

लिङ्गादिनाशे दैवाद्वा धारयेद्‌ विधिवत्‌ पुनः | यथा न ब्रतलोपः स्यात्तथा साध्यं मतं मम ॥ ४१॥

11.261

सामान्यवीरशैवस्य मतोऽस्यागत ईश्वरि । विशेषवीरशैवलक्षणम्‌ अथ वक्ष्येऽधिकाराय वीरशैवमतं परम्‌ ॥। ४२॥

11.262

वीरशैबमतस्थस्य ग्रामाद्‌ बहिरवस्थितिः | भैक्षार्थ प्रविशेत्‌ ग्रामे ग्रामे निद्रां न चाचरेत्‌ ।। ४३।।

11.263

न सेवेत स्त्रियं क्वापि न स्त्रीसङ्गिषु सङ्गमम्‌ | न ग्रामवार्ता शृण्वीत न सङ्गं प्राकूतं चरेत्‌ ॥ ४४॥

11.264

प्रवेशनेऽपि नात्मानं भिक्षार्थं समये गृहे । प्रकाशयेत्स्वयं मौनी शङ्खघण्टादिभिः स्वयम्‌ ।। ४५॥

11.265

सटर] वीरशैवभेदनिरूपणम्‌ २५५ भिक्षार्थ गृहमाविश्य यदि भिक्षार न लभ्यते । न निर्विशेद्‌ विनिर्गत्य द्विवारं तदगृहे पुनः ॥ ४६॥

11.266

मौनी नियतचेष्ट: स्यादतिरोधं जनुष्मताम्‌ । नात्मनः क्लेशजननमाचरेद्‌ व्यर्थविश्रमात्‌ ॥ ४७॥

11.267

पूजा ध्यानं मत्स्मरणमनीहा कामलोभिषुर । व्रतानि वीरशैवस्य सत्यं प्राणिदया शिवे ॥ ४८॥

11.268

लिङ्घादिनाशाद्ैवेन रेधारयेद्‌ विधितः पुनः । यद्यशक्तोऽधिकारस्य तदूर्ध्वं गतधर्मिण: ॥ ४९॥

11.269

भक्तस्य नष्टलिङ्गस्य वीरवीरव्रतात्मनः | विभावयेत्‌ स्वक देहं लिङ्गरूपं मदात्मकम्‌ ।। ५०॥

11.270

भैक्ष्येण वर्तयेन्नित्यं संग्रहं नहि लिङ्गिनः । मौनी ध्यानपरस्तिष्ठेदेकान्ते निर्जनेऽम्बिके 1142 11 विशेषवीरशैवस्थः समाधाय मनो मुनिः । प्राप्याधिकारान्निविशेद्‌ वरवीरमते मम ॥५२॥।

11.271

१, भैक्ष्य-ख. ग. घ. ड.। २. लोभता-ख. ग. घ. ङ.। ३. ध्यायेच्च विधितः शिवे-क.। २५६ पारमेश्वरागमः [ पञ्चदशः अन्यथा भ्रंशते देवि दुष्करात्मा\ मदात्मनः । वीरवीरमतस्यास्य भक्तस्य मम शाङ्करि ॥५३॥

11.272

निराभारिवीरशैवलक्षणम्‌ अथाधिकारी गच्छेत मतं मम महत्तरम्‌ । तुर्यवीरमहाशैवमप्रमत्तो विशेत्‌ तदा ॥ ५४॥

11.273

वन एव तवसेन्नित्यमजनग्रामसङ्गतिः | न विशेन्नगरं ग्रामं गृहं वा गृहमेधिनाम्‌ । ५५॥

11.274

यदि भक्तः समानीय दद्याद्‌ भैक्ष्यं महेश्वरि । न रुचिं नापि वा सौख्यं चिन्तयेन्न हिताहिते ॥ ५६॥

11.275

न पूजामवमानं वा न निन्दामपि संस्तुतिम्‌ | निवसेद्‌ ध्याननिरतश्चिन्तयेद्‌ बालको यथा ॥। ५७॥

11.276

न स्त्रीणां वीक्षयेदास्यं न नर्म-शृणुयाद्वचः ।.. न . समाजं? जनैरन्यैर्नेच्छासञ्जारमौश्वरि ॥ ५८॥

11.277

न तरेदापगां पूर्णा जलेनास्पृष्टभूतलाम्‌ । न चर्मपात्रमारोहेत्‌ सहैवालिङ्गिभिस्त्वपि\ ॥ ५९॥

11.278

गच्छन्नपि पदा नद्यां न तिष्ठेत्‌ स्तनमण्डलम्‌र । जले नाश्नीत पाथेयं न कुर्यात्‌ संग्रहं क्वचित्‌ ।। ६० l शयीत भूतले खट्वां वर्जयेच्छयने शिवे । वसीत वासः शिथिलं विवर्णं यद्यदीप्स्यति ॥ ६१॥

11.279

मुण्डी जटी शिखी वापि कीर्णकेशोऽपि वा भवेत्‌ । यदि मुण्डी शिखी वा स्यादभ्यङ्कं स्वेच्छया यदि ॥ ६२॥

11.280

जटी यदि न कुर्वीत तैलाभ्यड्रमपि क्वचित्‌ । यदि पूर्वं जटाधारी न पुनः क्षौरमाचरेत्‌ । ६३॥।

11.281

शिखी यदि शिवे लिङ्गी कुर्यादभ्यङ्गमैच्छिकम्‌ । न चर्मपात्रसंस्पृष्टं तैलं स्पूश्येन्मदात्मकः? ॥ ६४॥

11.282

नाङ्घस्योद्वर्तन॑ कुर्यान्न च ग्रामं विशेदपि । न नर्तनादिकं चित्रमीक्षेदेकान्ततो वसेत्‌ ॥ ६५॥

11.283

२५८ पारमेश्वरागमः [ पञ्चदशः तुर्यबीरमताविष्टो निवसेदेवमीश्वरि । अन्यथा भ्रंशते भूयोऽप्यन्धः कूपे न संशयः ॥ ६६॥

11.284

न तुर्यवीरशैवस्थः कपटानृतवञ्चनम्‌ | दम्भं क्रोधं प्राणिपीडां कुर्यानैच्छिककामनाम्‌ 11 ६७॥ न संग्रही न भोगेच्छुर्न देहे ममतामपि । पूजां जनोद्वेजनं च मनसाउपी 'प्सयेत्‌ क्वचित्‌ 1 ६८॥ तस्यैवं वर्तमानस्य तुर्यवीरमतार्थिनः । यदि दैवेन नश्येत लिङ्गं तस्य विधि शुणु ॥ ६९॥

11.285

इष्टलिङ्गनाशे निराभारिवर्तनम्‌ मृगयित्वा पुनः प्राप्तं यदि यलेन सर्वशः । तदेव हिं पुनर्धार्य तत्रायं क्रम उच्यते Moll सहस्रं तुर्यवीरस्यः लिङ्गिनो योगिनो मम । तथैव हि निराभारवीरशैवान्‌र ममाम्बिके ॥ ७२॥

11.286

षड्रसैरन्नपानाच्यै्भोजयेत्‌ प्रीतये मम । उपोष्य त्रिदिनं भक्त्या होमं पूर्वोक्तमाचरेत्‌ ॥ ७२॥

11.287

गुरवे दक्षिणां दत्त्वा तत एनं चरेद्‌ विधिम्‌ । मूगयित्वापि तल्लिङ्गं लभ्यते न यदीश्वरि ॥ ७३॥

11.288

तदालाभं विनिश्चित्य त्यजेद्‌ देहमतन्द्रितः | खड्गेनानशनेनापि करीषेण भूगौ गिरेः ॥ ७४॥

11.289

प्रायोपवेशनिश्चासरोधनाम्बुनिपातनैः न तदूर्ध्व क्षणं जीवेद्‌ यदि स्याच्च हालिङ्गकः ॥ ७५॥

11.290

न खादेन्न पिबेदीक्षेन्निःश्वासमपि धीमतः | न सम्भाषेन्न वा क्लिश्येद्‌ देहमोहेन मूढधीः ।। ७६।।

11.291

ध्यायन्‌ हदि पदाम्भोजे मद्रूपं स्याद्‌ गुरोः शिवे । कारयन्ति तथान्ये ये साहाय्येनापि लिङ्गिनः ॥ ७७॥

11.292

२६० पारमेश्वरागमः [ पञ्चदशः तेऽपि यान्ति सुखाधारं पदं सर्वोत्तमोत्तमम्‌ | तथा त्यक्त्वा तनुं तुर्यवीरशैवस्थयोगिनः ।। ७८॥

11.293

मदूरूपा एव जायन्ते यतः शम्भुरहं शिवः | त्यक्तव्रतो भ्रश्यति तादूशं पदमारुह्य "तुर्यं वीरब्रतात्मकम्‌ ॥ ७९॥

11.294

स्यद्यन्यथाचरेल्लिङ्गी भ्रष्टो भवति सूकरः । नेक्षयेत्‌ तं दुराचारं त्यक्तलिङ्गमतब्रतम्‌ ॥ ८०॥

11.295

विनिहन्युर्बलादन्ये ते समीयुः पदं मम । न तस्य पुनरावृत्तिर्भ्रष्टस्य शिवयोगिनः ॥ ८९॥

11.296

रौरवान्नरकाद्‌ घोराद्‌ यावदाभूतसंप्लवः । ब्रतपालको मोदते तद्विधानेन सन्त्यज्य शरीरं तुर्यबीरकम्‌ ॥ ८२॥

11.297

मत्स्वरूपमथो प्राप्य मोदते सत्तमः सदा | अतो विचार्य यत्नेन तुर्यवीरमतस्थितिम्‌ ।। ८३॥।

11.298

१, वीरशैव-क.। २. यद्‌-ग. घ.। शक्तो यो वासयेद्‌ देवि न शक्तोऽन्यत्रः संवसेत्‌ | इदं रहस्यमज्ञात्वा. वीरवीरादिषु स्थितिम्रै ॥ ८४॥

11.299

मोहेन सन्त्यजेद्‌ देहं दुर्मतेः फलमश्नुते । अविषह्यानि दुःखानि दुर्लभं मत्परं पदम्‌॥ ८५॥

11.300

न शक्यते जनैर्यातुं देहमोहाभिमानिभिः। यावद्‌ दुःखमथोरै भुङ्क्ते तावत्स सुखमाण्नुयात्‌* 11 ८६॥ मत्सेवाश्रमपुण्येन शाश्वतं मत्परं सुखम्‌। देहं विनश्वरं नित्यं मृत्युवक्त्रगतं बुधः ॥ ८७॥

11.301

विज्ञाय तत्स्पृहां त्यक्त्वा" विधिमेवमुपाचरेत्‌। निराभारिणा पालनीया नियमाः घ्राणसन्तर्पणं गन्धमुपाजिघ्रनन कञ्चन।॥। ८८॥

11.302

भस्मानुलेपनं भस्मशायी स्याद्विजितेन्द्रियः | तैलपुष्पान्नपानादि oc तैलपुष्पालपानादि पक्वापक्त यदिच्छात 00 ७ यदिच्छति ।। 281 २६२ पारमेश्वरागमः [ पञ्चदशः स्पृशेदलिङ्गिसंस्मृष्टं न पक्वं सुतरां प्रिये । चित्ते बहिर्गते लिङ्गपूजायां कालमुत्क्रमेत्‌ ॥ ९०॥

11.303

अन्यथान्तर्गतो ध्यानतत्परः स्यान्ममान्वहम्‌ । इतोऽधिको महेशानि विशेषो भेद एव वा ॥ ९१॥।

11.304

वीरशैवमते किञ्चिन्नास्ति नास्ति न संशयः । भ्रश्येदस्मादवैराग्यस्तुर्यवीरमतात्‌ खलः ॥ ९२॥

11.305

न पूजयेत्‌ पुनः क्वापि "प्रायश्चित्तशतैरपि । शास्त्रदृष्टि गुरोर्वाक्यमात्मनो निश्चयं त्वपि ॥ ९३॥

11.306

एकीकृत्य विनिश्चित्य तुर्यवीरमते विशेत्‌ । तत्र सिद्धस्य मद्भक्त्या सा मुक्तिरखिलात्मिका ॥ ९४॥

11.307

ततश्च्युतस्य मूढस्य नरकोऽपि स एव हि | देहाभिमानमन्यस्य पीडनं देहिनः प्रियम्‌ ॥। ९५।।

11.308

आत्मनोऽपि परित्यज्य मद्भक्त्या मामुपाव्रजेत्‌ ।

11.309

इति ते! कथितं देवि सर्वसारमनुत्तमम्‌ ॥

11.310

तुर्यवीरमतं सम्यक्‌ किं भूयः श्रोतुमिच्छसि ॥ ९६॥

11.311

इति श्रीपारमेश्वरतन्ब्रे वीरशौवभेदनिरूपणं

11.312

नाम पञ्जदशः पटलः ।।१५।।