Books / Saddharma Pundarika Sutra

12. Chapter 11

Verse 11.1

: स्तूपसंदर्शनपरिवर्तः | अथ खलु भगवतः पुरस्तात्ततः पृथिवीप्रदेशात् पर्षन्मध्यात् सप्तरत्नमयः स्तूपो ऽभ्युद्गतः पञ्चयोजनशतान्युच्चैस्त्वेन तदनुरूपेण च परिणाहेन | अभ्युद्गम्य वैहायसमन्तरीक्षे समवातिष्ठच्चित्रो दर्शनीयः पञ्चभिः पुष्पग्रहणीयवेदिकासहस्रैः स्वभ्यलंकृतो बहुतोरणसहस्रैः प्रतिमण्डितः पताकावैजयन्तीसहस्राभिः प्रलम्बितो रत्नदामसहस्राभिः प्रलम्बितः पट्टघण्टासहस्रैः प्रलम्बितः तमालपत्रचन्दनगन्धं प्रमुञ्चमानः | तेन च गन्धेन सर्वावतीयं लोकधातुः संमूर्च्छिताभूत् | छत्रावली चास्य यावच्चातुर्महाराजकायिकदेवभवनानि समुच्छ्रिताभूत् सप्तरत्नमयी, तद्यथा - सुवर्णस्य रूप्यस्य वैडूर्यस्य मुसारगल्वस्याश्मगर्भस्य लोहितमुक्तेः कर्केतनस्य | तस्मिंश्च स्तूपे त्रायस्त्रिंशत्कायिका देवपुत्रा दिव्यैर्मान्दारवमहामान्दारवैः पुष्पैस्तं रत्नस्तूपमवकिरन्ति अध्यवकिरन्ति अभिप्रकिरन्ति | तस्माच्च रत्नस्तूपादेवंरूपः शब्दो निश्चरति स्म - साधु साधु भगवन् शाक्यमुने | सुभाषितस्ते ऽयं सद्धर्मपुण्डरीको धर्मपर्यायः | एवमेतत् भगवन्, एवमेतत् सुगत || अथ खलु ताश्चतस्रः पर्षदस्तं महान्तं रत्नस्तूपं दृष्ट्वा वैहायसमन्तरीक्षे स्थितं संजातहर्षाः प्रीतिप्रामोद्यप्रसादप्राप्ताः तस्यां वेलायामुत्थाय आसनेभ्यो ऽञ्जलिं प्रगृह्यावस्थिताः || अथ खलु तस्यां वेलायां महाप्रतिभानो नाम बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरं लोकं कौतूहलप्राप्तं विदित्वा भगवन्तमेतदवोचत् - को भगवन् हेतुः, कः प्रत्ययः, अस्यैवंरूपस्य महारत्नस्तूपस्य लोके प्रादुर्भावाय? को वा भगवन् अस्मान्महारत्नस्तूपादेवंरूपं शब्दं निश्चारयति? एवमुक्ते भगवान् महाप्रतिभानं बोधिसत्त्वं महासत्त्वमेतदवोचत् - अस्मिन् महाप्रतिभान महारत्नस्तूपे तथागतस्यात्मभावस्तिष्ठति एकघनः | तस्यैष स्तूपः | स एष शब्दं निश्चारयति | अस्ति महाप्रतिभान अधस्तायां दिशि असंख्येयानि लोकधातुकोटीनयुतशतसहस्राण्यतिक्रम्य रत्नविशुद्धा नाम लोकधातुः | तस्यां प्रभूतरत्नो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभूत् | तस्यैतद्भगवतः पुर्वप्रणिधानमभूत् - अहं खलु पूर्वं बोधिसत्त्वचर्यां चरमाणो न तावन्निर्यातो ऽनुत्तरायां सम्यक्संबोधौ, यावन्मयायं सद्धर्मपुण्डरीको धर्मपर्यायो बोधिसत्त्वाववादो न श्रुतो ऽभूत् | यदा तु मया अयं सद्धर्मपुण्डरीको धर्मपर्यायः श्रुतः, तदा पश्चादहं परिनिष्पन्नो ऽभूवमनुत्तरायां सम्यक्संबोधौ | तेन खलु पुनर्महाप्रतिभान भगवता प्रभूतरत्नेन तथागतेनार्हता सम्यक्संबुद्धेन परिनिर्वाणकालसमये सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः पुरस्तादेवमारोचितम् - मम खलु भिक्षवः परिनिर्वृतस्य अस्य तथागतात्मभावविग्रहस्य एको महारत्नस्तूपः कर्तव्यः | शेषाः पुनः स्तूपा ममोद्दिश्य कर्तव्याः | तस्य खलु पुनर्महाप्रतिभान भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यैतदधिष्ठानमभूत् - अयं मम स्तूपो दशसु दिक्षु सर्वलोकधातुषु येषु बुद्धक्षेत्रेष्वयं (वैद्य १५०) सद्धर्मपुण्डरीको धर्मपर्यायः संप्रकाश्येत, तेषु तेष्वयं ममात्मभावविग्रहस्तूपः समभ्युद्गच्छेत् | तैस्तैर्बुद्धैर्भगवद्भिरस्मिन् सद्धर्मपुण्डरीके धर्मपर्याये भाष्यमाणे पर्षन्मण्डलस्योपरि वैहायसं तिष्ठेत् | तेषां च बुद्धानां भगवतामिमं सद्धर्मपुण्डरीकं धर्मपर्यायं भाषमाणानामयं ममात्मभावविग्रहस्तूपः साधुकारं दद्यात् | तदयं महाप्रतिभान तस्य भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य शरीरस्तूपः | अस्यां सहायां लोकधातौ अस्मिन् सद्धर्मपुण्डरीके धर्मपर्याये मया भाष्यमाणे ऽस्मात् पर्षन्मण्डलमध्यादभ्युद्गम्य उपर्यन्तरीक्षे वैहायसं स्थित्वा साधुकारं ददाति स्म || अथ खलु महाप्रतिभानो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - पश्याम वयं भगवन् एतं तथागतविग्रहं भगवतो ऽनुभावेन | एवमुक्ते भगवान् महाप्रतिभानं बोधिसत्त्वं महासत्त्वमेतदवोचत् - तस्य खलु पुनर्महाप्रतिभान भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रणिधानं गुरुकमभूत् | एतदस्य प्रणिधानम् - यदा खल्वन्येषु बुद्धक्षेत्रेषु बुद्धा भगवन्त इमं सद्धर्मपुण्डरीकं धर्मपर्यायं भाषेयुः, तदायं ममात्मभावविग्रहस्तूपो ऽस्य सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य श्रवणाय गच्छेत् तथागतानामन्तिकम् | यदा पुनस्ते बुद्धा भगवन्तो ममात्मभावविग्रहमुद्धाट्य दर्शयितुकामा भवेयुश्चतसृणां पर्षदाम्, अथ तैस्तथागतैर्दशसु दिक्ष्वन्योन्येषु बुद्धक्षेत्रेषु य आत्मभावनिर्मितास्तथागतविग्रहा अन्यान्यनामधेयाः, तेषु तेषु बुद्धक्षेत्रेषु सत्त्वानां धर्मं देशयन्ति, तान् सर्वान् संनिपात्य तैरात्मभावनिर्मितैस्तथागतविग्रहैः सार्धं पश्चादयं ममात्मभावविग्रहस्तूपः समुद्धाट्य उपदर्शयितव्यश्चतसृणां पर्षदाम् | तन्मयापि महाप्रतिभान बहवस्तथागतविग्रहा निर्मिताः, ये दशसु दिक्ष्वन्योन्येषु बुद्धक्षेत्रेषु लोकधातुसहस्रेषु सत्त्वानां धर्मं देशयन्ति | ते सर्वे खल्विहानयितव्या भविष्यन्ति || अथ खलु महाप्रतिभानो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - तानपि तावद् भगवंस्तथागतात्मभावांस्तथागतनिर्मितान् सर्वान् वन्दामहै || अथ खलु भगवांस्तस्यां वेलायामूर्णाकोशाद्रश्मिं प्रामुञ्चत्, यया रश्म्या समनन्तरप्रमुक्तया पूर्वस्यां दिशि पञ्चाशत्सु गङ्गानदीवालुकासमेषु लोकधातुकोटीनयुतशतसहस्रेषु ये बुद्धा भगवन्तो विहरन्ति स्म, ते सर्वे संदृश्यन्ते स्म | तानि च बुद्धक्षेत्राणि स्फटिकमयानि संदृश्यन्ते स्म, रत्नवृक्षैश्च चित्राणि संदृश्यन्ते स्म, दूष्यपट्टदामसमलंकृतानि बहुबोधिसत्त्वशतसहस्रपरिपूर्णानि वितानविततानि सप्तरत्नहेमजालप्रतिच्छन्नानि | तेषु तेषु बुद्धा भगवन्तो मधुरेण वल्गुना स्वरेण सत्त्वानां धर्मं देशयमानाः संदृश्यन्ते स्म | बोधिसत्त्वशतसहस्रैश्च परिपूर्णानि तानि बुद्धक्षेत्राणि संदृश्यन्ते स्म | एवं पूर्वदक्षिणस्यां दिशि | एवं दक्षिणस्यां दिशि | एवं दक्षिणपश्चिमायां दिशि | एवं पश्चिमायां दिशि | एवं पश्चिमोत्तरायां दिशि | एवमुत्तरायां दिशि | एवमुत्तरपूर्वस्यां दिशि | एवमधस्तायां दिशि | एवमूर्ध्वायां दिशि | एवं समन्ताद्दशसु दिक्षु एकैकस्यां दिशि बहूनि गङ्गानदीवालुकोपमानि बुद्धक्षेत्रकोटीनयुतशतसहस्राणि बहुषु गङ्गानदीवालुकोपमेषु लोकधातुकोटीनयुतशतसहस्रेषु ये बुद्धा भगवन्तस्तिष्ठन्ति, ते सर्वे संदृश्यन्ते स्म || अथ खलु ते दशसु दिक्षु तथागता अर्हन्तः सम्यक्संबुद्धाः स्वान् स्वान् बोधिसत्त्वगणानामन्त्रयन्ति स्म - गन्तव्यं खलु पुनः कुलपुत्रा भविष्यति अस्माभिः सहां लोकधातुम्, भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकम्, प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य शरीरस्तूपवन्दनाय | अथ खलु ते बुद्धा भगवन्तः स्वैः स्वैरुपस्थायकैः सार्धमात्मद्वितीया आत्मतृतीया इमां सहां लोकधातुमागच्छन्ति स्म | इति हि तस्मिन् समये इयं सर्वावती लोकधातू रत्नवृक्षप्रतिमण्डिताभूद् वैडूर्यमयी सप्तरत्नहेमजालसंछन्ना महारत्नगन्धधूपनधूपिता मान्दारवमहामान्दारवपुष्पसंस्तीर्णा किङ्किणीजालालंकृता सुवर्णसूत्राष्टापदनिबद्धा अपगतग्रामनगरनिगमजनपदराष्ट्रराजधानी अपगतकालपर्वता अपगतमुचिलिन्दमहामुचिलिन्दपर्वता अपगतचक्रवालमहाचक्रवालपर्वता अपगतसुमेरुपर्वता अपगततदन्यमहापर्वता अपगतमहासमुद्रा अपगतनदीमहानदीपरिसंस्थिताभूत्, अपगतेदवमनुष्यासुरकाया अपगतनिरयतिर्यग्योनियमलोका | इति हि तस्मिन् समये ये ऽस्यां सहायां लोकधातौ षड्गत्युपपन्नाः सत्त्वाः, ते सर्वे ऽन्येषु लोकधातुषूपनिक्षिप्ता अभूवन्, स्थापयित्वा ये तस्यां पर्षदि संनिपतिता अभूवन् | अथ खलु ते बुद्धा भगवन्त उपस्थायकद्वितीया उपस्थायकतृतीया इमां सहां लोकधातुमागच्छन्ति स्म | आगतागताश्च ते तथागता रत्नवृक्षमूले सिंहासनमुपनिश्रित्य विहरन्ति स्म | एकैकश्च रत्नवृक्षः पञ्चयोजनशतान्युच्चैस्त्वेनाभूत् अनुपूर्वशाखापत्रपलाशपरिणाहः पुष्पफलप्रतिमण्डितः | एकैकस्मिंश्च रत्नवृक्षमूले सिंहासनं प्रज्ञप्तमभूत् पञ्चयोजनशतान्युच्चैस्त्वेन महारत्नप्रतिमण्डितम् | तस्मिन्नेकैकस्तथागतः पर्यङ्कं बद्ध्वा निषण्णो ऽभूत् | अनेन पर्यायेण सर्वस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वरत्नवृक्षमूलेषु तथागताः पर्यङ्कं बद्ध्वा निषण्णा अभूवन् || तेन खलु पुनः समयेन इयं त्रिसाहस्रमहासाहस्री लोकधातुस्तथागतपरिपूर्णाभूत् | न तावद् भगवतः शाक्यमुनेस्तथागतस्यात्मभावनिर्मिता एकस्मादपि दिग्भागात् सर्व आगता अभूवन् | अथ खलु पुनर्भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तेषां तथागतविग्रहाणामागतागतानामवकाशं निर्मिमीते स्म | समन्तादष्टभ्यो दिग्भ्यो विंशतिबुद्धक्षेत्रकोटीनयुतशतसहस्राणि सर्वाणि वैडूर्यमयानि सप्तरत्नहेमजालसंछन्नानि किङ्किणीजालालंकृतानि मान्दारवमहामान्दारवपुष्पसंस्तीर्णानि दिव्यवितानविततानि दिव्यपुष्पदामाभिप्रलम्बितानि दिव्यगन्धधूपनधूपितानि | सर्वाणि च तानि विंशतिबुद्धक्षेत्रकोटीनयुतशतसहस्राण्यपगतग्रामनगरनिगमजनपदराष्ट्रराजधानीनि अपगतकालपर्वतानि अपगतमुचिलिन्दमहामुचिलिन्दपर्वतानि अपगतचक्रवालमहाचक्रवालपर्वतानि अपगतसुमेरुपर्वतानि अपगततदन्यमहापर्वतानि अपगतमहासमुद्राणि अपगतनदीमहानदीनि परिसंस्थापयति अपगतदेवमनुष्यासुरकायानि अपगतनिरयतिर्यग्योनियमलोकानि | तानि च सर्वाणि बहुबुद्धक्षेत्राणि एकमेव बुद्धक्षेत्रमेकमेव पृथिवीप्रदेशं परिसंस्थापयामास समं रमणीयं सप्तरत्नमयैश्च (वैद्य १५२) वृक्षैश्चित्रितम् | तेषां च रत्नवृक्षाणां पञ्चयोजनशतान्यारोहपरिणाहो ऽनुपूर्वशाखापत्रपुष्पफलोपेतः | सर्वस्मिंश्च रत्नवृक्षमूले पञ्चयोजनशतान्यारोहपरिणाहं दिव्यरत्नमयं विचित्रं दर्शनीयं सिंहासनं प्रज्ञप्तमभूत् | तेषु रत्नवृक्षमूलेष्वागतागतास्तथागताः सिंहासनेषु पर्यङ्कं बद्ध्वा निषीदन्ते स्म | अनेन पर्यायेण पुनरपराणि विंशतिलोकधातुकोटीनयुतशतसहस्राण्येकैकस्यां दिशि शाक्यमुनिस्तथागतः परिशोधयति स्म तेषां तथागतानामागतानामवकाशार्थम् | तान्यपि विंशतिलोकधातुकोटीनयुतशतसहस्राण्यैकैकस्यां दिशि अपगतग्रामनगरनिगमजनपदराष्ट्रराजधानीनि अपगतकालपर्वतानि अपगतमुचिलिन्दमहामुचिलिन्दपर्वतानि अपगतचक्रवालमहाचक्रवालपर्वतानि अपगतसुमेरुपर्वतानि अपगततदन्यमहापर्वतानि अपगतमहासमुद्राणि अपगतनदीमहानदीनि परिसंस्थापयति अपगतदेवमनुष्यासुरकायानि अपगतनिरयतिर्यग्योनियमलोकानि | ते च सर्वसत्त्वा अन्येषु लोकधातुषूपनिक्षिप्ताः | तान्यपि बुद्धक्षेत्राणि वैडूर्यमयानि सप्तरत्नहेमजालप्रतिच्छन्नानि किङ्किणीजालालंकृतानि मान्दारवमहामान्दारवपुष्पसंस्तीर्णानि दिव्यवितानविततानि दिव्यपुष्पदामाभिप्रलम्बितानि दिव्यगन्धधूपनधूपितानि रत्नवृक्षोपशोभितानि | सर्वे च ते रत्नवृक्षाः पञ्चयोजनशतप्रमाणाः | पञ्चयोजनप्रमाणानि च सिंहासनान्यभिनिर्मितानि | ततस्ते तथागता निषीदन्ते स्म पृथक् पृथक् सिंहासनेषु रत्नवृक्षमूलेषु पर्यङ्कं बद्ध्वा || तेन खलु पुनः समयेन भगवता शाक्यमुनिना ये निर्मितास्तथागताः पूर्वस्यां दिशि सत्त्वानां धर्मं देशयन्ति स्म गङ्गानदीवालुकोपमेषु बुद्धक्षेत्रकोटीनयुतशतसहस्रेषु, ते सर्वे समागता दशभ्यो दिग्भ्यः | ते चागता अष्टासु दिक्षु निषण्णा अभूवन् | तेन खलु पुनः समयेनैकैकस्यां दिशि त्रिंशल्लोकधातुकोटीशतसहस्राण्यष्टभ्यो दिग्भ्यः समन्तात्तैस्तथागतैराक्रान्ता अभूवन् | अथ खलु ते तथागताः स्वेषु स्वेषु सिंहासनेषूपविष्टाः स्वान् स्वानुपस्थायकान् संप्रेषयन्ति स्म भगवतः शाक्यमुनेरन्तिकम् | रत्नपुष्पपुटान् दत्वा एवं वदन्ति स्म - गच्छत यूयं गृध्रकूटं पर्वतम् | गत्वा च पुनस्तस्मिंस्तं भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं वन्दित्वा अस्मद्वचनादल्पाबाधतां मन्दग्लानतां च बलं च स्पर्शविहारतां च परिपृच्छध्वं सार्धं बोधिसत्त्वगणेन श्रावकगणेन | अनेन च रत्नराशिना अभ्यवकिरध्वम्, एवं च वदध्वम् - ददाति खलु पुनर्भगवांस्तथागतश्छन्दमस्य महारत्नस्तूपस्य समुद्धाटने | एवं ते तथागताः सर्वे स्वान् स्वानुपस्थायकान् संप्रेषयामासुः || अथ खलु भगवान् शाक्यमुनिस्तथागतस्तस्यां वेलायां स्वान्निर्मितानशेषतः समागतान् विदित्वा, पृथक्पृथक् सिंहासनेषु निषण्णांश्च विदित्वा, तांश्चोपस्थायकांस्तेषां तथागतानामर्हतां सम्यक्संबुद्धानामागतान् विदित्वा, छन्दं च तैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरारोचितं विदित्वा, तस्यां वेलायां स्वकाद्धर्मासनादुत्थाय वैहायसमन्तरीक्षे ऽतिष्ठत् | ताश्च सर्वाश्चतस्रः परिषदः उत्थायासनेभ्यो ऽञ्जलीः परिगृह्य भगवतो मुखमुल्लोकयन्त्यस्तस्थुः | अथ खलु भगवांस्तं (वैद्य १५३) महान्तं रत्नस्तूपं वैहायसं स्थितं दक्षिणया हस्ताङ्गुल्या मध्ये समुद्धाटयति स्म | समुद्धाट्य च द्वे भित्ती प्रविसारयति स्म | तद्यथापि नाम महानगरद्वारेषु महाकपाटसंपुटावर्गलविमुक्तौ प्रविसार्येते, एवमेव भगवांस्तं महान्तं रत्नस्तूपं वैहायसं स्थितं दक्षिणया हस्ताङ्गुल्या मध्ये समुद्धाट्य अपावृणोति स्म | समनन्तरविवृतस्य खलु पुनस्तस्य महारत्नस्तूपस्य, अथ खलु भगवान् प्रभूतरत्नस्तथागतो ऽर्हन् सम्यक्संबुद्धः सिंहासनोपविष्टः पर्यङ्कं बद्द्वा परिशुष्कगात्रः संघटितकायो यथा समाधिसमापन्नस्तथा संदृश्यते स्म | एवं च वाचमभाषत - साधु साधु भगवन् शाक्यमुने | सुभाषितस्ते ऽयं सद्धर्मपुण्डरीको धर्मपर्यायः | साधु खलु पुनस्त्वं भगवन् शाक्यमुने यस्त्वमिमं सद्धर्मपुण्डरीकं धर्मपर्यायं पर्षन्मध्ये भाषसे | अस्यैवाहं भगवन् सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य श्रवणायेहागतः || अथ खलु ताश्चतस्रः पर्षदस्तं भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं बहुकल्पकोटीनयुतशतसहस्रपरिनिर्वृतं तथा भाषमाणं दृष्ट्वा आश्चर्यप्राप्ता अद्भुतप्राप्ता अभूवन् | तस्यां वेलायां तं भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्ध तं च भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं दिव्यमानुष्यकै रत्नराशिभिरभ्यवकिरन्ति स्म | अथ खलु भगवान् प्रभूतरत्नस्तथागतो ऽर्हन् सम्यक्संबुद्धो भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य तस्मिन्नेव सिंहासने ऽर्धासनमदासीत्, तस्यैव महारत्नस्तूपाभ्यन्तरे, एवं च वदति - इहैव भगवान् शाक्यमुनिस्तथागतो निषीदतु | अथ खलु भगवान् शाक्यमुनिस्तथागतस्तस्मिन्नर्धासने निषसाद तेनैव तथागतेन सार्धम् | उभौ च तौ तथागतौ तस्य महारत्नस्तूपस्य मध्ये सिंहासनोपविष्टौ वैहायसमन्तरीक्षस्थौ संदृश्येते || अथ खलु तासां चतसृणां पर्षदामेतदभवत् - दूरस्था वयमाभ्यां तथागताभ्याम् | यन्नूनं वयमपि तथागतानुभावेन वैहायसमभ्युद्गच्छेम इति | अथ खलु भगवान् शाक्यमुनिस्तथागतस्तासां चतसृणां पर्षदां चेतसैव चेतःपरिवितर्कमाज्ञाय तस्यां वेलायामृद्धिबलेन ताश्चतस्रः पर्षदो वैहायसमुपर्यन्तरीक्षे प्रतिष्ठापयति स्म | अथ खलु भगवान् शाक्यमुनिस्तथागतस्तस्यां वेलायां ताश्चतस्रः पर्षद आमन्त्रयते स्म - को भिक्षवो युष्माकमुत्सहते तस्यां सहायां लोकधातौ इमं सद्धर्मपुण्डरीकं धर्मपर्यायं संप्रकाशयितुम्? अयं स कालः, अयं स समयः | संमुखीभूतस्तथागतः | परिनिर्वायितुकाभो भिक्षवस्तथागत इमं सद्धर्मपुण्डरीकं धर्मपर्यायमुपनिक्षिप्य || अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत - अयमागतो निर्वृतको महर्षी रतनामयं स्तूप प्रविश्य नायकः । श्रवणार्थ धर्मस्य इमस्य भिक्षवः को धर्महेतोर्न जनेत वीर्यम् ॥ ११.१ ॥

: stūpasaṃdarśanaparivartaḥ | atha khalu bhagavataḥ purastāttataḥ pṛthivīpradeśāt parṣanmadhyāt saptaratnamayaḥ stūpo 'bhyudgataḥ pañcayojanaśatānyuccaistvena tadanurūpeṇa ca pariṇāhena | abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ | tena ca gandhena sarvāvatīyaṃ lokadhātuḥ saṃmūrcchitābhūt | chatrāvalī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritābhūt saptaratnamayī, tadyathā - suvarṇasya rūpyasya vaiḍūryasya musāragalvasyāśmagarbhasya lohitamukteḥ karketanasya | tasmiṃśca stūpe trāyastriṃśatkāyikā devaputrā divyairmāndāravamahāmāndāravaiḥ puṣpaistaṃ ratnastūpamavakiranti adhyavakiranti abhiprakiranti | tasmācca ratnastūpādevaṃrūpaḥ śabdo niścarati sma - sādhu sādhu bhagavan śākyamune | subhāṣitaste 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ | evametat bhagavan, evametat sugata || atha khalu tāścatasraḥ parṣadastaṃ mahāntaṃ ratnastūpaṃ dṛṣṭvā vaihāyasamantarīkṣe sthitaṃ saṃjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṃ velāyāmutthāya āsanebhyo 'ñjaliṃ pragṛhyāvasthitāḥ || atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat - ko bhagavan hetuḥ, kaḥ pratyayaḥ, asyaivaṃrūpasya mahāratnastūpasya loke prādurbhāvāya? ko vā bhagavan asmānmahāratnastūpādevaṃrūpaṃ śabdaṃ niścārayati? evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat - asmin mahāpratibhāna mahāratnastūpe tathāgatasyātmabhāvastiṣṭhati ekaghanaḥ | tasyaiṣa stūpaḥ | sa eṣa śabdaṃ niścārayati | asti mahāpratibhāna adhastāyāṃ diśi asaṃkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya ratnaviśuddhā nāma lokadhātuḥ | tasyāṃ prabhūtaratno nāma tathāgato 'rhan samyaksaṃbuddho 'bhūt | tasyaitadbhagavataḥ purvapraṇidhānamabhūt - ahaṃ khalu pūrvaṃ bodhisattvacaryāṃ caramāṇo na tāvanniryāto 'nuttarāyāṃ samyaksaṃbodhau, yāvanmayāyaṃ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto 'bhūt | yadā tu mayā ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ śrutaḥ, tadā paścādahaṃ pariniṣpanno 'bhūvamanuttarāyāṃ samyaksaṃbodhau | tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam - mama khalu bhikṣavaḥ parinirvṛtasya asya tathāgatātmabhāvavigrahasya eko mahāratnastūpaḥ kartavyaḥ | śeṣāḥ punaḥ stūpā mamoddiśya kartavyāḥ | tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasyaitadadhiṣṭhānamabhūt - ayaṃ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṃ (vaidya 150) saddharmapuṇḍarīko dharmaparyāyaḥ saṃprakāśyeta, teṣu teṣvayaṃ mamātmabhāvavigrahastūpaḥ samabhyudgacchet | taistairbuddhairbhagavadbhirasmin saddharmapuṇḍarīke dharmaparyāye bhāṣyamāṇe parṣanmaṇḍalasyopari vaihāyasaṃ tiṣṭhet | teṣāṃ ca buddhānāṃ bhagavatāmimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇānāmayaṃ mamātmabhāvavigrahastūpaḥ sādhukāraṃ dadyāt | tadayaṃ mahāpratibhāna tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpaḥ | asyāṃ sahāyāṃ lokadhātau asmin saddharmapuṇḍarīke dharmaparyāye mayā bhāṣyamāṇe 'smāt parṣanmaṇḍalamadhyādabhyudgamya uparyantarīkṣe vaihāyasaṃ sthitvā sādhukāraṃ dadāti sma || atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat - paśyāma vayaṃ bhagavan etaṃ tathāgatavigrahaṃ bhagavato 'nubhāvena | evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat - tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya praṇidhānaṃ gurukamabhūt | etadasya praṇidhānam - yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyuḥ, tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam | yadā punaste buddhā bhagavanto mamātmabhāvavigrahamuddhāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām, atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyāḥ, teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti, tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samuddhāṭya upadarśayitavyaścatasṛṇāṃ parṣadām | tanmayāpi mahāpratibhāna bahavastathāgatavigrahā nirmitāḥ, ye daśasu dikṣvanyonyeṣu buddhakṣetreṣu lokadhātusahasreṣu sattvānāṃ dharmaṃ deśayanti | te sarve khalvihānayitavyā bhaviṣyanti || atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat - tānapi tāvad bhagavaṃstathāgatātmabhāvāṃstathāgatanirmitān sarvān vandāmahai || atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcat, yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma, te sarve saṃdṛśyante sma | tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante sma, ratnavṛkṣaiśca citrāṇi saṃdṛśyante sma, dūṣyapaṭṭadāmasamalaṃkṛtāni bahubodhisattvaśatasahasraparipūrṇāni vitānavitatāni saptaratnahemajālapraticchannāni | teṣu teṣu buddhā bhagavanto madhureṇa valgunā svareṇa sattvānāṃ dharmaṃ deśayamānāḥ saṃdṛśyante sma | bodhisattvaśatasahasraiśca paripūrṇāni tāni buddhakṣetrāṇi saṃdṛśyante sma | evaṃ pūrvadakṣiṇasyāṃ diśi | evaṃ dakṣiṇasyāṃ diśi | evaṃ dakṣiṇapaścimāyāṃ diśi | evaṃ paścimāyāṃ diśi | evaṃ paścimottarāyāṃ diśi | evamuttarāyāṃ diśi | evamuttarapūrvasyāṃ diśi | evamadhastāyāṃ diśi | evamūrdhvāyāṃ diśi | evaṃ samantāddaśasu dikṣu ekaikasyāṃ diśi bahūni gaṅgānadīvālukopamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi bahuṣu gaṅgānadīvālukopameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavantastiṣṭhanti, te sarve saṃdṛśyante sma || atha khalu te daśasu dikṣu tathāgatā arhantaḥ samyaksaṃbuddhāḥ svān svān bodhisattvagaṇānāmantrayanti sma - gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātum, bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikam, prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya | atha khalu te buddhā bhagavantaḥ svaiḥ svairupasthāyakaiḥ sārdhamātmadvitīyā ātmatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma | iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūt, apagatedavamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā | iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvāḥ, te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan, sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan | atha khalu te buddhā bhagavanta upasthāyakadvitīyā upasthāyakatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma | āgatāgatāśca te tathāgatā ratnavṛkṣamūle siṃhāsanamupaniśritya viharanti sma | ekaikaśca ratnavṛkṣaḥ pañcayojanaśatānyuccaistvenābhūt anupūrvaśākhāpatrapalāśapariṇāhaḥ puṣpaphalapratimaṇḍitaḥ | ekaikasmiṃśca ratnavṛkṣamūle siṃhāsanaṃ prajñaptamabhūt pañcayojanaśatānyuccaistvena mahāratnapratimaṇḍitam | tasminnekaikastathāgataḥ paryaṅkaṃ baddhvā niṣaṇṇo 'bhūt | anena paryāyeṇa sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṃ baddhvā niṣaṇṇā abhūvan || tena khalu punaḥ samayena iyaṃ trisāhasramahāsāhasrī lokadhātustathāgataparipūrṇābhūt | na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan | atha khalu punarbhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhasteṣāṃ tathāgatavigrahāṇāmāgatāgatānāmavakāśaṃ nirmimīte sma | samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni | sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇyapagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni | tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṃ parisaṃsthāpayāmāsa samaṃ ramaṇīyaṃ saptaratnamayaiśca (vaidya 152) vṛkṣaiścitritam | teṣāṃ ca ratnavṛkṣāṇāṃ pañcayojanaśatānyārohapariṇāho 'nupūrvaśākhāpatrapuṣpaphalopetaḥ | sarvasmiṃśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṃ divyaratnamayaṃ vicitraṃ darśanīyaṃ siṃhāsanaṃ prajñaptamabhūt | teṣu ratnavṛkṣamūleṣvāgatāgatāstathāgatāḥ siṃhāsaneṣu paryaṅkaṃ baddhvā niṣīdante sma | anena paryāyeṇa punaraparāṇi viṃśatilokadhātukoṭīnayutaśatasahasrāṇyekaikasyāṃ diśi śākyamunistathāgataḥ pariśodhayati sma teṣāṃ tathāgatānāmāgatānāmavakāśārtham | tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇyaikaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni | te ca sarvasattvā anyeṣu lokadhātuṣūpanikṣiptāḥ | tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni | sarve ca te ratnavṛkṣāḥ pañcayojanaśatapramāṇāḥ | pañcayojanapramāṇāni ca siṃhāsanānyabhinirmitāni | tataste tathāgatā niṣīdante sma pṛthak pṛthak siṃhāsaneṣu ratnavṛkṣamūleṣu paryaṅkaṃ baddhvā || tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu, te sarve samāgatā daśabhyo digbhyaḥ | te cāgatā aṣṭāsu dikṣu niṣaṇṇā abhūvan | tena khalu punaḥ samayenaikaikasyāṃ diśi triṃśallokadhātukoṭīśatasahasrāṇyaṣṭabhyo digbhyaḥ samantāttaistathāgatairākrāntā abhūvan | atha khalu te tathāgatāḥ sveṣu sveṣu siṃhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṃpreṣayanti sma bhagavataḥ śākyamunerantikam | ratnapuṣpapuṭān datvā evaṃ vadanti sma - gacchata yūyaṃ gṛdhrakūṭaṃ parvatam | gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanādalpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena | anena ca ratnarāśinā abhyavakiradhvam, evaṃ ca vadadhvam - dadāti khalu punarbhagavāṃstathāgataśchandamasya mahāratnastūpasya samuddhāṭane | evaṃ te tathāgatāḥ sarve svān svānupasthāyakān saṃpreṣayāmāsuḥ || atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā, pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā, tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā, chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā, tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat | tāśca sarvāścatasraḥ pariṣadaḥ utthāyāsanebhyo 'ñjalīḥ parigṛhya bhagavato mukhamullokayantyastasthuḥ | atha khalu bhagavāṃstaṃ (vaidya 153) mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samuddhāṭayati sma | samuddhāṭya ca dve bhittī pravisārayati sma | tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete, evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samuddhāṭya apāvṛṇoti sma | samanantaravivṛtasya khalu punastasya mahāratnastūpasya, atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma | evaṃ ca vācamabhāṣata - sādhu sādhu bhagavan śākyamune | subhāṣitaste 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ | sādhu khalu punastvaṃ bhagavan śākyamune yastvamimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ parṣanmadhye bhāṣase | asyaivāhaṃ bhagavan saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāyehāgataḥ || atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan | tasyāṃ velāyāṃ taṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddha taṃ ca bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ divyamānuṣyakai ratnarāśibhirabhyavakiranti sma | atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt, tasyaiva mahāratnastūpābhyantare, evaṃ ca vadati - ihaiva bhagavān śākyamunistathāgato niṣīdatu | atha khalu bhagavān śākyamunistathāgatastasminnardhāsane niṣasāda tenaiva tathāgatena sārdham | ubhau ca tau tathāgatau tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭau vaihāyasamantarīkṣasthau saṃdṛśyete || atha khalu tāsāṃ catasṛṇāṃ parṣadāmetadabhavat - dūrasthā vayamābhyāṃ tathāgatābhyām | yannūnaṃ vayamapi tathāgatānubhāvena vaihāyasamabhyudgacchema iti | atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma | atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ tāścatasraḥ parṣada āmantrayate sma - ko bhikṣavo yuṣmākamutsahate tasyāṃ sahāyāṃ lokadhātau imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ saṃprakāśayitum? ayaṃ sa kālaḥ, ayaṃ sa samayaḥ | saṃmukhībhūtastathāgataḥ | parinirvāyitukābho bhikṣavastathāgata imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamupanikṣipya || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - ayamāgato nirvṛtako maharṣī ratanāmayaṃ stūpa praviśya nāyakaḥ / śravaṇārtha dharmasya imasya bhikṣavaḥ ko dharmahetorna janeta vīryam (11.1)

Verse 11.2

।। बहुकल्पकोटीपरिनिर्वृतो ऽपि सो नाम अद्यापि शृणोति धर्मम् । तहिं तहिं गच्छति धर्महेतोः सुदुर्लभो धर्म यमेवरूपः ॥ ११.२ ॥

// bahukalpakoṭīparinirvṛto 'pi so nāma adyāpi śṛṇoti dharmam / tahiṃ tahiṃ gacchati dharmahetoḥ sudurlabho dharma yamevarūpaḥ (11.2)

Verse 11.3

।। प्रणिधानमेतस्य विनायकस्य निषेवितं पूर्वभवे यदासीत् । परिनिर्वृतो ऽपी इमु सर्वलोकं पर्येषती सर्वदशद्दिशासु ॥ ११.३ ॥

// praṇidhānametasya vināyakasya niṣevitaṃ pūrvabhave yadāsīt / parinirvṛto 'pī imu sarvalokaṃ paryeṣatī sarvadaśaddiśāsu (11.3)

Verse 11.4

।। इमे च सर्वे मम आत्मभावाः सहस्रकोट्यो यथ गङ्गवालिकाः । ते धर्मकृत्यस्य कृतेन आगताः परिनिर्वृतं च इमु द्रष्टु नाथम् ॥ ११.४ ॥

// ime ca sarve mama ātmabhāvāḥ sahasrakoṭyo yatha gaṅgavālikāḥ / te dharmakṛtyasya kṛtena āgatāḥ parinirvṛtaṃ ca imu draṣṭu nātham (11.4)

Verse 11.5

।। छोरित्व क्षेत्राणि स्वकस्वकानि तथ श्रावकान्तर मरुतश्च सर्वान् । सद्धर्मसंरक्षणहेतु सर्वे कथं चिरं तिष्ठिय धर्मनेत्री ॥ ११.५ ॥

// choritva kṣetrāṇi svakasvakāni tatha śrāvakāntara marutaśca sarvān / saddharmasaṃrakṣaṇahetu sarve kathaṃ ciraṃ tiṣṭhiya dharmanetrī (11.5)

Verse 11.6

।। एतेषु बुद्धान निषीदनार्थं बहुलोकधातून सहस्रकोट्यः । संक्रामिता मे तथ सर्वसत्त्वा ऋद्धीबलेन परिशोधिताश्च ॥ ११.६ ॥

// eteṣu buddhāna niṣīdanārthaṃ bahulokadhātūna sahasrakoṭyaḥ / saṃkrāmitā me tatha sarvasattvā ṛddhībalena pariśodhitāśca (11.6)

Verse 11.7

।। एतादृशी उत्सुकता इयं मे कथं प्रकाशेदिय धर्मनेत्री । इमे च बुद्धा स्थित अप्रमेया द्रुमाण मूले यथ पद्मराशिः ॥ ११.७ ॥

// etādṛśī utsukatā iyaṃ me kathaṃ prakāśediya dharmanetrī / ime ca buddhā sthita aprameyā drumāṇa mūle yatha padmarāśiḥ (11.7)

Verse 11.8

।। द्रुममूलकोटीय अनल्पकायो सिंहासनस्थेहि विनायकेहि । शोभन्ति तिष्ठन्ति च नित्यकालं हुताशनेनेव यथान्धकारम् ॥ ११.८ ॥

// drumamūlakoṭīya analpakāyo siṃhāsanasthehi vināyakehi / śobhanti tiṣṭhanti ca nityakālaṃ hutāśaneneva yathāndhakāram (11.8)

Verse 11.9

।। गन्धो मनोज्ञो दशसू दिशासु प्रवायते लोकविनायकानाम् । येना इमे मूर्च्छित सर्वसत्त्वा वाते प्रवाते इह नित्यकालम् ॥ ११.९ ॥

// gandho manojño daśasū diśāsu pravāyate lokavināyakānām / yenā ime mūrcchita sarvasattvā vāte pravāte iha nityakālam (11.9)

Verse 11.10

।। मयि निर्वृते यो एतं धर्मपर्यायु धारयेत् । क्षिप्रं व्याहरतां वाचं लोकनाथान संमुखम् ॥ ११.१० ॥

// mayi nirvṛte yo etaṃ dharmaparyāyu dhārayet / kṣipraṃ vyāharatāṃ vācaṃ lokanāthāna saṃmukham (11.10)

Verse 11.11

।। परिनिर्वृतो हि संबुद्धः प्रभूतरतनो मुनिः । सिंहनादं श्रुणे तस्य व्यवसायं करोति यः ॥ ११.११ ॥

// parinirvṛto hi saṃbuddhaḥ prabhūtaratano muniḥ / siṃhanādaṃ śruṇe tasya vyavasāyaṃ karoti yaḥ (11.11)

Verse 11.12

।। अहं द्वितीयो बहवो इमे च ये कोटियो आगत नायकानाम् । व्यवसाय श्रोष्यामि जिनस्य पुत्रात् यो उत्सहेद्धर्ममिमं प्रकाशितुम् ॥ ११.१२ ॥

// ahaṃ dvitīyo bahavo ime ca ye koṭiyo āgata nāyakānām / vyavasāya śroṣyāmi jinasya putrāt yo utsaheddharmamimaṃ prakāśitum (11.12)

Verse 11.13

।। अहं च तेन भवि पूजितः सदा प्रभूतरत्नश्च जिनः स्वयंभूः । यो गच्छते दिशविदिशासु नित्यं श्रवणाय धर्मं इममेवरूपम् ॥ ११.१३ ॥

// ahaṃ ca tena bhavi pūjitaḥ sadā prabhūtaratnaśca jinaḥ svayaṃbhūḥ / yo gacchate diśavidiśāsu nityaṃ śravaṇāya dharmaṃ imamevarūpam (11.13)

Verse 11.14

।। इमे च ये आगत लोकनाथा विचित्रिता यैरिय शोभिता भूः । तेषां पि पूजा विपुल अनल्पका कृता भवेत्सूत्रप्रकाशनेन ॥ ११.१४ ॥

// ime ca ye āgata lokanāthā vicitritā yairiya śobhitā bhūḥ / teṣāṃ pi pūjā vipula analpakā kṛtā bhavetsūtraprakāśanena (11.14)

Verse 11.15

।। अहं च दृष्टो इह आसनस्मिन् भगवांश्च यो ऽयं स्थितु स्तूपमध्ये । इमे च अन्ये बहुलोकनाथा ये आगताः क्षेत्रशतैरनेकैः ॥ ११.१५ ॥

// ahaṃ ca dṛṣṭo iha āsanasmin bhagavāṃśca yo 'yaṃ sthitu stūpamadhye / ime ca anye bahulokanāthā ye āgatāḥ kṣetraśatairanekaiḥ (11.15)

Verse 11.16

।। चिन्तेथ कुलपुत्राहो सर्वसत्वानुकम्पया । सुदुष्करमिदं स्थानमुत्सहन्ति विनायकाः ॥ ११.१६ ॥

// cintetha kulaputrāho sarvasatvānukampayā / suduṣkaramidaṃ sthānamutsahanti vināyakāḥ (11.16)

Verse 11.17

।। बहुसूत्रसहस्राणि यथा गङ्गाय वालिकाः । तानि कश्चित्प्रकाशेत न तद्भवति दुष्करम् ॥ ११.१७ ॥

// bahusūtrasahasrāṇi yathā gaṅgāya vālikāḥ / tāni kaścitprakāśeta na tadbhavati duṣkaram (11.17)

Verse 11.18

।। सुमेरुं यश्च हस्तेन अध्यालम्बित्व मुष्टिना । क्षिपेत क्षेत्रकोटीयो न तद्भवति दुष्करम् ॥ ११.१८ ॥

// sumeruṃ yaśca hastena adhyālambitva muṣṭinā / kṣipeta kṣetrakoṭīyo na tadbhavati duṣkaram (11.18)

Verse 11.19

।। यश्च इमां त्रिसाहस्रीं पादाङ्गुष्ठेन कम्पयेत् । क्षिपेत क्षेत्रकोटीयो न तद्भवति दुष्करम् ॥ ११.१९ ॥

// yaśca imāṃ trisāhasrīṃ pādāṅguṣṭhena kampayet / kṣipeta kṣetrakoṭīyo na tadbhavati duṣkaram (11.19)

Verse 11.20

।। भवाग्रे यश्च तिष्ठित्वा धर्मं भाषेन्नरो इह । अन्यसूत्रसहस्राणि न तद्भवति दुष्करम् ॥ ११.२० ॥

// bhavāgre yaśca tiṣṭhitvā dharmaṃ bhāṣennaro iha / anyasūtrasahasrāṇi na tadbhavati duṣkaram (11.20)

Verse 11.21

।। निर्वृतस्मिंस्तु लोकेन्द्रे पश्चात्काले सुदारुणे । य इदं धारयेत् सूत्रं भाषेद्वा तत्सुदुष्करम् ॥ ११.२१ ॥

// nirvṛtasmiṃstu lokendre paścātkāle sudāruṇe / ya idaṃ dhārayet sūtraṃ bhāṣedvā tatsuduṣkaram (11.21)

Verse 11.22

।। आकाशधातुं यः सर्वामेकमुष्टिं तु निक्षिपेत् । प्रक्षिपित्वा च गच्छेत न तद्भवति दुष्करम् ॥ ११.२२ ॥

// ākāśadhātuṃ yaḥ sarvāmekamuṣṭiṃ tu nikṣipet / prakṣipitvā ca gaccheta na tadbhavati duṣkaram (11.22)

Verse 11.23

।। यस्तु ईदृशकं सूत्रं निर्वृतस्मिंस्तदा मयि । पश्चात्काले लिखेच्चापि इदं भवति दुष्करम् ॥ ११.२३ ॥

// yastu īdṛśakaṃ sūtraṃ nirvṛtasmiṃstadā mayi / paścātkāle likheccāpi idaṃ bhavati duṣkaram (11.23)

Verse 11.24

।। पृथिवीधातुं च यः सर्वं नखाग्रे संप्रवेशयेत् । प्रक्षिपित्वा च गच्छेत ब्रह्मलोकं पि आरुहेत् ॥ ११.२४ ॥

// pṛthivīdhātuṃ ca yaḥ sarvaṃ nakhāgre saṃpraveśayet / prakṣipitvā ca gaccheta brahmalokaṃ pi āruhet (11.24)

Verse 11.25

।। न दुष्करं हि सो कुर्यान्न च वीर्यस्य तत्तकम् । तं दुष्करं करित्वान सर्वलोकस्यिहाग्रतः ॥ ११.२५ ॥

// na duṣkaraṃ hi so kuryānna ca vīryasya tattakam / taṃ duṣkaraṃ karitvāna sarvalokasyihāgrataḥ (11.25)

Verse 11.26

।। अतो ऽपि दुष्करतरं निर्वृतस्य तदा मम । पश्चात्काले इदं सूत्रं वदेया यो मुहूर्तकम् ॥ ११.२६ ॥

// ato 'pi duṣkarataraṃ nirvṛtasya tadā mama / paścātkāle idaṃ sūtraṃ vadeyā yo muhūrtakam (11.26)

Verse 11.27

।। न दुष्करमिदं लोके कल्पदाहस्मि यो नरः । मध्ये गच्छेददह्यन्तस्तृणभारं वहेत च ॥ ११.२७ ॥

// na duṣkaramidaṃ loke kalpadāhasmi yo naraḥ / madhye gacchedadahyantastṛṇabhāraṃ vaheta ca (11.27)

Verse 11.28

।। अतो ऽपि दुष्करतरं निर्वृतस्य तदा मम । धारयित्वा इदं सूत्रमेकसत्त्वं पि श्रावयेत् ॥ ११.२८ ॥

// ato 'pi duṣkarataraṃ nirvṛtasya tadā mama / dhārayitvā idaṃ sūtramekasattvaṃ pi śrāvayet (11.28)

Verse 11.29

।। धर्मस्कन्धसहस्राणि चतुरशीति धारयेत् । सोपदेशान् यथाप्रोक्तान् देशयेत् प्राणिकोटिनाम् ॥ ११.२९ ॥

// dharmaskandhasahasrāṇi caturaśīti dhārayet / sopadeśān yathāproktān deśayet prāṇikoṭinām (11.29)

Verse 11.30

।। न ह्येतं दुष्करं भोति तस्मिन् कालस्मि भिक्षुणाम् । विनयेच्छ्रावकान् मह्यं पञ्चाभिज्ञासु स्थापयेत् ॥ ११.३० ॥

// na hyetaṃ duṣkaraṃ bhoti tasmin kālasmi bhikṣuṇām / vinayecchrāvakān mahyaṃ pañcābhijñāsu sthāpayet (11.30)

Verse 11.31

।। तस्येदं दुष्करतरं इदं सूत्रं च धारयेत् । श्रद्दधेदधिमुच्येद्वा भाषेद्वापि पुनः पुनः ॥ ११.३१ ॥

// tasyedaṃ duṣkarataraṃ idaṃ sūtraṃ ca dhārayet / śraddadhedadhimucyedvā bhāṣedvāpi punaḥ punaḥ (11.31)

Verse 11.32

।। कोटीसहस्रान् बहवः अर्हत्त्वे यो ऽपि स्थापयेत् । षडभिज्ञान् महाभागान् यथा गङ्गाय वालिकाः ॥ ११.३२ ॥

// koṭīsahasrān bahavaḥ arhattve yo 'pi sthāpayet / ṣaḍabhijñān mahābhāgān yathā gaṅgāya vālikāḥ (11.32)

Verse 11.33

।। अतो बहुतरं कर्म करोति स नरोत्तमः । निर्वृतस्य हि यो मह्यं सूत्रं धारयते वरम् ॥ ११.३३ ॥

// ato bahutaraṃ karma karoti sa narottamaḥ / nirvṛtasya hi yo mahyaṃ sūtraṃ dhārayate varam (11.33)

Verse 11.34

।। लोकधातुसहस्रेषु बहु मे धर्म भाषिताः । अद्यापि चाहं भाषामि बुद्धज्ञानस्य कारणात् ॥ ११.३४ ॥

// lokadhātusahasreṣu bahu me dharma bhāṣitāḥ / adyāpi cāhaṃ bhāṣāmi buddhajñānasya kāraṇāt (11.34)

Verse 11.35

।। इदं तु सर्वसूत्रेषु सूत्रमग्रं प्रवुच्यते । धारेति यो इदं सूत्रं स धारे जिनविग्रहम् ॥ ११.३५ ॥

// idaṃ tu sarvasūtreṣu sūtramagraṃ pravucyate / dhāreti yo idaṃ sūtraṃ sa dhāre jinavigraham (11.35)

Verse 11.36

।। भाषध्वं कुलपुत्राहो संमुखं वस्तथागतः । य उत्सहति वः कश्चित् पश्चात्कालस्मि धारणम् ॥ ११.३६ ॥

// bhāṣadhvaṃ kulaputrāho saṃmukhaṃ vastathāgataḥ / ya utsahati vaḥ kaścit paścātkālasmi dhāraṇam (11.36)

Verse 11.37

।। महत्प्रियं कृतं भोति लोकनाथान सर्वशः । दुराधारमिदं सुत्रं धारयेद्यो मुहूर्तकम् ॥ ११.३७ ॥

// mahatpriyaṃ kṛtaṃ bhoti lokanāthāna sarvaśaḥ / durādhāramidaṃ sutraṃ dhārayedyo muhūrtakam (11.37)

Verse 11.38

।। संवर्णितश्च सो भोति लोकनाथेहि सर्वदा । शूरः शौटीर्यवांश्चापि क्षिप्राभिज्ञश्च बोधये ॥ ११.३८ ॥

// saṃvarṇitaśca so bhoti lokanāthehi sarvadā / śūraḥ śauṭīryavāṃścāpi kṣiprābhijñaśca bodhaye (11.38)

Verse 11.39

।। धुरावाहश्च सो भोति लोकनाथान औरसः । दान्तभूमिमनुप्राप्तः सूत्रं धारेति यो इदम् ॥ ११.३९ ॥

// dhurāvāhaśca so bhoti lokanāthāna aurasaḥ / dāntabhūmimanuprāptaḥ sūtraṃ dhāreti yo idam (11.39)

Verse 11.40

।। चक्षुभूतश्च सो भोति लोके सामरमानुषे । इदं सुत्रं प्रकाशित्वा निर्वृते नरनायके ॥ ११.४० ॥

// cakṣubhūtaśca so bhoti loke sāmaramānuṣe / idaṃ sutraṃ prakāśitvā nirvṛte naranāyake (11.40)

Verse 11.41

।। वन्दनीयश्च सो भोति सर्वसत्त्वान पण्डितः । पश्चिमे कालि यो भाषेत् सूत्रमेकं मुहूर्तकम् ॥ ११.४१ ॥

// vandanīyaśca so bhoti sarvasattvāna paṇḍitaḥ / paścime kāli yo bhāṣet sūtramekaṃ muhūrtakam (11.41)

Verse 11.42

।। अथ खलु भगवान् कृत्स्नं बोधिसत्त्वगणं ससुरासुरं च लोकमामन्त्रय एतदवोचत् - भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अहमप्रमेयासंख्येयान् कल्पान् सद्धर्मपुण्डरीकं सूत्रं पर्येषितवानखिन्नो ऽविश्रान्तः | पूर्वं च अहमनेकान् कल्पाननेकानि कल्पशतसहस्राणि राजाभूवमनुत्तरायां सम्यक्संबोधौ कृतप्रणिधानः | न च मे चित्तव्यावृत्तिरभूत् | षण्णां च पारमितानां परिपूर्या उद्युक्तो ऽभूवमप्रमेयदानप्रदः सुवर्णमणिमुक्तावैदूर्यशङ्खशिलाप्रवालजातरूपरजताश्मगर्भम् उसारगल्वलोहितमुक्ताग्रामनगरनिगमजनपदराष्ट्रराजधानीभार्यापुत्रदुहितृदासीदासकर्मकरपौरुषेयहस्त्यश्वरथं यावदात्मशरीरपरित्यागी करचरणशिरोत्तमाङ्गप्रत्यङ्गजीवितदाता | न च मे कदाचिदाग्रहचित्तमुत्पन्नम् | तेन च समयेन अयं लोको दीर्घायुरभत् | अनेकवर्षशतसहस्रजीवितेन च अहं कालेन धर्मार्थं राज्यं कारितवान्, न विषयार्थम् | सो ऽहं ज्येष्ठं कुमारं राज्ये ऽभिषिच्य चतुर्दिशं ज्येष्ठधर्मगवेषणाय उद्युक्तो ऽभूवम् | एवं घण्टया घोषापयितवान् - यो मे ज्येष्ठं धर्ममनुप्रदास्यति, अर्थं चाख्यास्यति, तस्याहं दासो भूयासम् | तेन च कालेन ऋषिरभूत् | स मामेतदवोचत् - अस्ति महाराज सद्धर्मपुण्डरीकं नाम सुत्रं ज्येष्ठधर्मनिर्देशकम् | तद्यदि दास्यमभ्युपगच्छसि, ततस्ते ऽहं तं धर्मं श्रावयिष्यामि | सो ऽहं श्रुत्वा तस्यर्षेर्वचनं हृष्टस्तुष्ट उदग्र आत्तमनाः प्रीतिसौमनस्यजातो येन स ऋषिस्तेनोपेयिवान् | उपेत्यावोचत् - यत्ते दासेन कर्म करणीयं तत्करोमि | सो ऽहं तस्यर्षेर्दासभावमभ्युपेत्य तृणकाष्ठपानीयकन्दमूलफलादीनि प्रेष्यकर्माणि कृतवान्, यावद् द्वाराध्यक्षो ऽप्यहमासम् | दिवसं चैवंविधं कर्म कृत्वा रात्रौ शयानस्य मञ्चके पादान् धारयामि | न च मे कायक्लमो न चेतसि क्लमो ऽभूत् | एवं च मे कुर्वतः परिपूर्णं वर्षासहस्रं गतम् || अथ खलु भगवांस्तस्यां वेलायामेतमेवार्थं परिद्योतयन्निमा गाथा अभाषत - कल्पानतीतान् समनुस्मरामि यदाहमासं धार्मिको धर्मराजा । राज्यं चमे धर्महेतोः कृतं तन्न च कामहेतोर्ज्येष्ठधर्महेतोः ॥ ११.४२ ॥

// atha khalu bhagavān kṛtsnaṃ bodhisattvagaṇaṃ sasurāsuraṃ ca lokamāmantraya etadavocat - bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ahamaprameyāsaṃkhyeyān kalpān saddharmapuṇḍarīkaṃ sūtraṃ paryeṣitavānakhinno 'viśrāntaḥ | pūrvaṃ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānaḥ | na ca me cittavyāvṛttirabhūt | ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbham usāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā | na ca me kadācidāgrahacittamutpannam | tena ca samayena ayaṃ loko dīrghāyurabhat | anekavarṣaśatasahasrajīvitena ca ahaṃ kālena dharmārthaṃ rājyaṃ kāritavān, na viṣayārtham | so 'haṃ jyeṣṭhaṃ kumāraṃ rājye 'bhiṣicya caturdiśaṃ jyeṣṭhadharmagaveṣaṇāya udyukto 'bhūvam | evaṃ ghaṇṭayā ghoṣāpayitavān - yo me jyeṣṭhaṃ dharmamanupradāsyati, arthaṃ cākhyāsyati, tasyāhaṃ dāso bhūyāsam | tena ca kālena ṛṣirabhūt | sa māmetadavocat - asti mahārāja saddharmapuṇḍarīkaṃ nāma sutraṃ jyeṣṭhadharmanirdeśakam | tadyadi dāsyamabhyupagacchasi, tataste 'haṃ taṃ dharmaṃ śrāvayiṣyāmi | so 'haṃ śrutvā tasyarṣervacanaṃ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān | upetyāvocat - yatte dāsena karma karaṇīyaṃ tatkaromi | so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān, yāvad dvārādhyakṣo 'pyahamāsam | divasaṃ caivaṃvidhaṃ karma kṛtvā rātrau śayānasya mañcake pādān dhārayāmi | na ca me kāyaklamo na cetasi klamo 'bhūt | evaṃ ca me kurvataḥ paripūrṇaṃ varṣāsahasraṃ gatam || atha khalu bhagavāṃstasyāṃ velāyāmetamevārthaṃ paridyotayannimā gāthā abhāṣata - kalpānatītān samanusmarāmi yadāhamāsaṃ dhārmiko dharmarājā / rājyaṃ came dharmahetoḥ kṛtaṃ tanna ca kāmahetorjyeṣṭhadharmahetoḥ (11.42)

Verse 11.43

।। चतुर्दिशं मे कृत घोषणो ऽयं धर्मं वदेद्यस्तस्य दास्यं व्रजेयम् । आसीदृषिस्तेन कालेन धीमान् सूत्रस्य सद्धर्मनाम्नः प्रवक्ताः ॥ ११.४३ ॥

// caturdiśaṃ me kṛta ghoṣaṇo 'yaṃ dharmaṃ vadedyastasya dāsyaṃ vrajeyam / āsīdṛṣistena kālena dhīmān sūtrasya saddharmanāmnaḥ pravaktāḥ (11.43)

Verse 11.44

।। स मामवोचद्यदि ते धर्मकाङ्क्षा उपेहि दास्यं धर्ममतः प्रवक्ष्ये । तुष्टश्चाहं वचनं तं निशाम्य कर्माकरोद्दासयोग्यं तदा यम् ॥ ११.४४ ॥

// sa māmavocadyadi te dharmakāṅkṣā upehi dāsyaṃ dharmamataḥ pravakṣye / tuṣṭaścāhaṃ vacanaṃ taṃ niśāmya karmākaroddāsayogyaṃ tadā yam (11.44)

Verse 11.45

।। न कायचित्तक्लमथो स्पृशेन्मां सद्धर्महेतोर्दासमागतस्य । प्रणिधिस्तदा मे भवि सत्त्वहेतोर्नात्मानमुद्दिश्य न कामहेतोः ॥ ११.४५ ॥

// na kāyacittaklamatho spṛśenmāṃ saddharmahetordāsamāgatasya / praṇidhistadā me bhavi sattvahetornātmānamuddiśya na kāmahetoḥ (11.45)

Verse 11.46

।। स राज आसीत्तदा अब्धवीर्यो अनन्यकर्माणि दशद्दिशासु । परिपूर्ण कल्पान सहस्रखिन्नो यावत्सूत्रं लब्धवान् धर्मनामम् ॥ ११.४६ ॥

// sa rāja āsīttadā abdhavīryo ananyakarmāṇi daśaddiśāsu / paripūrṇa kalpāna sahasrakhinno yāvatsūtraṃ labdhavān dharmanāmam (11.46)

Verse 11.47

।। तत्किं मन्यध्वे भिक्षवः अन्यः स तेन कालेन तेन समयेन राजाभूत्? न खलु पुनरेवं द्रष्टव्यम् | तत्कस्य हेतोः? अहं स तेन कालेन तेन समयेन राजाभूवम् | स्यात्खलु पुनर्भिक्षवो ऽन्यः स तेन कालेन तेन समयेनर्षिरभूत्? न खलु पुनरेवं द्रष्टव्यम् | अयमेव स तेन कालेन तेन समयेन देवदत्तो भिक्षुरृषिरभुत् | देवदत्तो हि भिक्षवो मम कल्याणमित्रम् | देवदत्तमेव चागम्य मया षटू पारमिताः परिपूरिताः, महामैत्री महाकरुणा महामुदिता महोपेक्षा | द्वात्रिंशन्महापुरुषलक्षणानि अशीत्यनुव्यञ्जनानि सुवर्णवर्णच्छविता दश बलानि चत्वारि वैशारद्यानि चत्वारि संग्रहवस्तूनि अष्टादशावेणिकबुद्धधर्मा महर्द्धिबलता दशदिक्सत्त्वनिस्तारणता, सर्वमेतद्देवदत्तमागस्य | आरोचयामि वो भिक्षवः, प्रतिवेदयामि - एष देवदत्तो भिक्षुरनागते ऽध्वनि अप्रमेयैः कल्पैरसंख्येयैर्देवराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो (वैद्य १५९) भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च भगवान् देवसोपानायां लोकधातौ | देवराजस्य खलु पुनर्भिक्षवस्तथागतस्य विंशत्यन्तरकल्पानायुष्प्रमाणं भविष्यति | विस्तरेण च धर्मं देशयिष्यति | गङ्गानदीवालुकासमाश्च सत्त्वाः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यन्ति | अनेके च सत्त्वाः प्रत्येकबोधौ चित्तमुत्पादयिष्यन्ति | गङ्गानदीवालुकासमाश्च सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयिष्यन्ति, अवैवर्तिकक्षान्तिप्रतिलब्धाश्च भविष्यन्ति | देवराजस्य खलु पुनर्भिक्षवस्तथागतस्य परिनिर्वृतस्य विंशत्यन्तरकल्पान् सद्धर्मः स्थास्यति | न च शरीरं धातुभेदेन भेत्स्यते | एकघनं चास्य शरीरं भविष्यति सप्तरत्नस्तूपं प्रविष्टम् | स च स्तूपः षष्टियोजनशतान्युच्चैस्त्वेन भविष्यति, चत्वारिंशद्योजनान्यायामेन | सर्वे च तत्र देवमनुष्याः पूजां करिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्गाथाभिः | तेन चाभिष्टोष्यन्ति | ये च तं स्तूपं प्रदक्षिणं करिष्यन्ति प्रणामं वा, तेषां केचिदग्रफलमर्हत्त्वं साक्षात्करिष्यन्ति केचित् प्रत्येकबोधिमनुप्राप्स्यन्ते अचिन्त्याचाश्चाप्रमेया देवमनुष्या अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य अविनिवर्तनीया भविष्यन्ति || अथ खलु भगवान् पुनरेव भिक्षुसंघमामन्त्रयते स्म - यः कश्चित् भिक्षवो ऽनागते ऽध्वनि कुलपुत्रो वा कुलदुहिता वा इमं सद्धर्मपुण्डरीकं सूत्रपरिवर्तं श्रोष्यति, श्रुत्वा च न काङ्क्षिष्यति न विचिकित्सिष्यति, विशुद्धचित्तश्चाधिमोक्ष्यते, तेन तिसृणां दुर्गतीनां द्वारं पिथितं भविष्यति ः नरकतिर्यग्योनियमलोकोपपत्तिषु न पतिष्यति | दशदिग्बुद्धक्षेत्रोपपन्नश्चेदमेव सूत्रं जन्मनि जन्मनि श्रोष्यति | देवमनुष्यलोकोपपन्नस्य चास्य विशिष्टस्थानप्राप्तिर्भविष्यति | यस्मिंश्च बुद्धक्षेत्र उपपत्स्यते, तस्मिन्नौपपादुके सप्तरत्नमये पद्मे उपपत्स्यते तथागतस्य संमुखम् || अथ खलु तस्यां वेलायामधस्ताद्दिशः प्रभूतरत्नस्य तथागतस्य बुद्धक्षेत्रादागतः प्रज्ञाकूटो नाम बोधिसत्त्वः | स तं प्रभूतरत्नं तथागतमेतदवोचत् - गच्छामो भगवन् स्वकं बुद्धक्षेत्रम् | अथ खलु भगवान् शाक्यमुनिस्तथागतः प्रज्ञाकूटं बोधिसत्त्वमेतदवोचत् - मुहूर्तं तावत् कुलपुत्र आगमयस्व यावन्मदीयेन बोधिसत्त्वेन मञ्जुश्रिया कुमारभूतेन सार्धं कंचिदेव धर्मविनिश्चयं कृत्वा पश्चात् स्वकं बुद्धक्षेत्रं गमिष्यसि | अथ खलु तस्यां वेलायां मञ्जुश्रीः कुमारभूतः सहस्रपत्रे पद्मे शकटचक्रप्रमाणमात्रे निषण्णो ऽनेकबोधिसत्त्वपरिवृतः पुरस्कृतः समुद्रमध्यात् सागरनागराजभवनादभ्युद्गम्य उपरि वैहायसं खगपथेन गृध्रकूटे पर्वते भगवतो ऽन्तिकमुपसंक्रान्तः | अथ मञ्जुश्रीः कुमारभूतः पद्मादवतीर्य भगवतः शाक्यमुनेः प्रभूतरत्नस्य च तथागतस्य पादौ शिरसाभिवन्दित्वा येन प्रज्ञाकूटो बोधिसत्त्वस्तेनोपसंक्रान्तः | उपसंक्रम्य प्रज्ञाकूटेन बोधिसत्त्वेन सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथामुपसंगृह्य एकान्ते न्यषीदत् | अथ खलु प्रज्ञाकूटो बोधिसत्त्वो मञ्जुश्रियं कुमारभूतमेतदवोचत् - समुद्रमध्यगतेन त्वया मञ्जुश्रीः कियान् सत्त्वधातुर्विनीतः? मञ्जुश्रीराह - अनेकान्यप्रमेयाण्यसंख्येयानि सत्त्वानि विनीतानि | तावदप्रमेयाण्यसंख्येयानि यावद्वाचा न शक्यं विज्ञापयितुं चित्तेन वा चिन्तयितुम् (वैद्य १६०) | मुहूर्तं तावत् कुलपुत्र आगमयस्व यावत् पूर्वनिमित्तं द्रक्ष्यसि | समनन्तरभाषिता चेयं मञ्जुश्रिया कुमारभूतेन वाक्, तस्यां वेलायामनेकानि पद्मसहस्राणि समुद्रमध्यादभ्युद्गतानि उपरि वैहायसम् | तेषु च पद्मेष्वनेकानि बोधिसत्त्वसहस्राणि संनिषण्णानि | अथ ते बोधिसत्त्वास्तेनैव खगपथेन येन गृध्रकूटः पर्वतस्तेनोपसंक्रान्ताः | उपसंक्रम्य ततश्चोपरि वैहायसं स्थिताः संदृश्यन्ते स्म | सर्वे च ते मञ्जुश्रिया कुमारभूतेन विनीता अनुत्तरायां सम्यक्संबोधौ | तत्र ये बोधिसत्त्वा महायानसंप्रस्थिताः पूर्वमभूवन्, ते महायानगुणान् षट् पारमिताः संवर्णयन्ति | ये श्रावकपूर्वा बोधिसत्त्वास्ते श्रावकयानमेव संवर्णयन्ति | सर्वे च ते सर्वधर्मान् शून्यानिति संजानन्ति स्म, महायानगूणांश्च | अथ खलु मञ्जुश्रीः कुमारभूतः प्रज्ञाकूटं बोधिसत्त्वमेतदवोचत् - सर्वो ऽयं कुलपुत्र मया समुद्रमध्यगतेन सत्त्वविनयः कृतः | स चायं संदृश्यते | अथ खलु प्रज्ञाकूटो बोधिसत्त्वो मञ्जुश्रियं कुमारभूतं गाथाभिगीतेन परिपृच्छति - महाभद्र प्रज्ञया सूरनामन् असंख्येया ये विनीतास्त्वयाद्य । सत्त्वा अमी कस्य चायं प्रभावस्तद्बूहि पृष्टो नरदेव त्वमेतत् ॥ ११.४७ ॥

// tatkiṃ manyadhve bhikṣavaḥ anyaḥ sa tena kālena tena samayena rājābhūt? na khalu punarevaṃ draṣṭavyam | tatkasya hetoḥ? ahaṃ sa tena kālena tena samayena rājābhūvam | syātkhalu punarbhikṣavo 'nyaḥ sa tena kālena tena samayenarṣirabhūt? na khalu punarevaṃ draṣṭavyam | ayameva sa tena kālena tena samayena devadatto bhikṣurṛṣirabhut | devadatto hi bhikṣavo mama kalyāṇamitram | devadattameva cāgamya mayā ṣaṭū pāramitāḥ paripūritāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā | dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā, sarvametaddevadattamāgasya | ārocayāmi vo bhikṣavaḥ, prativedayāmi - eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho (vaidya 159) bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau | devarājasya khalu punarbhikṣavastathāgatasya viṃśatyantarakalpānāyuṣpramāṇaṃ bhaviṣyati | vistareṇa ca dharmaṃ deśayiṣyati | gaṅgānadīvālukāsamāśca sattvāḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyanti | aneke ca sattvāḥ pratyekabodhau cittamutpādayiṣyanti | gaṅgānadīvālukāsamāśca sattvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayiṣyanti, avaivartikakṣāntipratilabdhāśca bhaviṣyanti | devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya viṃśatyantarakalpān saddharmaḥ sthāsyati | na ca śarīraṃ dhātubhedena bhetsyate | ekaghanaṃ cāsya śarīraṃ bhaviṣyati saptaratnastūpaṃ praviṣṭam | sa ca stūpaḥ ṣaṣṭiyojanaśatānyuccaistvena bhaviṣyati, catvāriṃśadyojanānyāyāmena | sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhirgāthābhiḥ | tena cābhiṣṭoṣyanti | ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā, teṣāṃ kecidagraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyācāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti || atha khalu bhagavān punareva bhikṣusaṃghamāmantrayate sma - yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati, śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati, viśuddhacittaścādhimokṣyate, tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati ḥ narakatiryagyoniyamalokopapattiṣu na patiṣyati | daśadigbuddhakṣetropapannaścedameva sūtraṃ janmani janmani śroṣyati | devamanuṣyalokopapannasya cāsya viśiṣṭasthānaprāptirbhaviṣyati | yasmiṃśca buddhakṣetra upapatsyate, tasminnaupapāduke saptaratnamaye padme upapatsyate tathāgatasya saṃmukham || atha khalu tasyāṃ velāyāmadhastāddiśaḥ prabhūtaratnasya tathāgatasya buddhakṣetrādāgataḥ prajñākūṭo nāma bodhisattvaḥ | sa taṃ prabhūtaratnaṃ tathāgatametadavocat - gacchāmo bhagavan svakaṃ buddhakṣetram | atha khalu bhagavān śākyamunistathāgataḥ prajñākūṭaṃ bodhisattvametadavocat - muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi | atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ | atha mañjuśrīḥ kumārabhūtaḥ padmādavatīrya bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṃkrāntaḥ | upasaṃkramya prajñākūṭena bodhisattvena sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāmupasaṃgṛhya ekānte nyaṣīdat | atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtametadavocat - samudramadhyagatena tvayā mañjuśrīḥ kiyān sattvadhāturvinītaḥ? mañjuśrīrāha - anekānyaprameyāṇyasaṃkhyeyāni sattvāni vinītāni | tāvadaprameyāṇyasaṃkhyeyāni yāvadvācā na śakyaṃ vijñāpayituṃ cittena vā cintayitum (vaidya 160) | muhūrtaṃ tāvat kulaputra āgamayasva yāvat pūrvanimittaṃ drakṣyasi | samanantarabhāṣitā ceyaṃ mañjuśriyā kumārabhūtena vāk, tasyāṃ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatāni upari vaihāyasam | teṣu ca padmeṣvanekāni bodhisattvasahasrāṇi saṃniṣaṇṇāni | atha te bodhisattvāstenaiva khagapathena yena gṛdhrakūṭaḥ parvatastenopasaṃkrāntāḥ | upasaṃkramya tataścopari vaihāyasaṃ sthitāḥ saṃdṛśyante sma | sarve ca te mañjuśriyā kumārabhūtena vinītā anuttarāyāṃ samyaksaṃbodhau | tatra ye bodhisattvā mahāyānasaṃprasthitāḥ pūrvamabhūvan, te mahāyānaguṇān ṣaṭ pāramitāḥ saṃvarṇayanti | ye śrāvakapūrvā bodhisattvāste śrāvakayānameva saṃvarṇayanti | sarve ca te sarvadharmān śūnyāniti saṃjānanti sma, mahāyānagūṇāṃśca | atha khalu mañjuśrīḥ kumārabhūtaḥ prajñākūṭaṃ bodhisattvametadavocat - sarvo 'yaṃ kulaputra mayā samudramadhyagatena sattvavinayaḥ kṛtaḥ | sa cāyaṃ saṃdṛśyate | atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtaṃ gāthābhigītena paripṛcchati - mahābhadra prajñayā sūranāman asaṃkhyeyā ye vinītāstvayādya / sattvā amī kasya cāyaṃ prabhāvastadbūhi pṛṣṭo naradeva tvametat (11.47)

Verse 11.48

।। कं वा धर्मं देशितवानसि त्वं किं वा सूत्रं बोधिमार्गोपदेशम् । यच्छ्रुत्वामी बोधये जातचित्ताः सर्वज्ञत्वे निश्चितं लब्धगाधाः ॥ ११.४८ ॥

// kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam / yacchrutvāmī bodhaye jātacittāḥ sarvajñatve niścitaṃ labdhagādhāḥ (11.48)

Verse 11.49

।। मञ्जुश्रीराह - समुद्रमध्ये सद्धर्मपुण्डरीकं सूत्रं भाषितवान्, न चान्यत् | प्रज्ञाकूट आह - इदं सूत्रं गम्भीरं सूक्ष्मं दुर्दृशम्, न चानेन सुत्रेण किंचिदन्यत् सूत्रं सममस्ति | अस्ति कश्चित् सत्त्वो य इदं सूत्ररत्नं सत्कुर्यादवबोद्धुमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्? मञ्जुश्रीराह - अस्ति कुलपुत्र सागरस्य नागराज्ञो दुहिता अष्टवर्षा जात्या महाप्रज्ञा तीक्ष्णेन्द्रिया ज्ञानपूर्वंगमेन कायवाङ्मनस्कर्मणा समन्वागता सर्वतथागतभाषितव्यञ्जनार्थोद्ग्रहणे धारणीप्रतिलब्धा सर्वधर्मसत्त्वसमाधानसमाधिसहस्रैकक्षणप्रतिलाभिनी | बोधिचित्ताविनिवर्तिनी विस्तीर्णप्रणिधाना सर्वसत्त्वेष्वात्मप्रेमानुगता गुणोत्पादने च समर्था | न च तेभ्यः परिहीयते | स्मितमुखी परमया शुभवर्णपुष्कलतया समन्वागता मैत्रचित्ता करुणां च वाचं भाषते | सा सम्यक्संबोधिमभिसंबोद्धुं समर्थां | प्रज्ञाकूटो बोधिसत्त्व आह - दृष्टो मया भगवान् शाक्यमुनिस्तथागतो बोधाय घटमानो बोधिसत्त्वभूतो ऽनेकानि पुण्यानि कृतवान् | अनेकानि च कल्पसहस्राणि न कदाचिद् वीर्यं स्रंसितवान् | त्रिसाहस्रमहासाहस्रायां लोकधातौ नास्ति कश्चिदन्तशः सर्षपमात्रो ऽपि पृथिवीप्रदेशः यत्रानेन शरीरं न निक्षिप्तं सत्त्वहितहेतोः | पश्चाद् बोधिमभिसंबुद्ध | क एवं श्रद्दध्यात्, यदनया शक्यं मुहूर्तेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्?(वैद्य १६१) अथ खलु तस्यां वेलायां सागरनागराजदुहिता अग्रतः स्थिता संदृश्यते स्म | सा भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽस्थात् | तस्यां वेलायामिमा गाथा अभाषत - पुण्यं पुण्यं गभीरं च दिशः स्फुरति सर्वशः । सूक्ष्मं शरीरं द्वात्रिंशल्लक्षणैः समलंकृतम् ॥ ११.४९ ॥

// mañjuśrīrāha - samudramadhye saddharmapuṇḍarīkaṃ sūtraṃ bhāṣitavān, na cānyat | prajñākūṭa āha - idaṃ sūtraṃ gambhīraṃ sūkṣmaṃ durdṛśam, na cānena sutreṇa kiṃcidanyat sūtraṃ samamasti | asti kaścit sattvo ya idaṃ sūtraratnaṃ satkuryādavaboddhumanuttarāṃ samyaksaṃbodhimabhisaṃboddhum? mañjuśrīrāha - asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī | bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā | na ca tebhyaḥ parihīyate | smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṃ ca vācaṃ bhāṣate | sā samyaksaṃbodhimabhisaṃboddhuṃ samarthāṃ | prajñākūṭo bodhisattva āha - dṛṣṭo mayā bhagavān śākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto 'nekāni puṇyāni kṛtavān | anekāni ca kalpasahasrāṇi na kadācid vīryaṃ sraṃsitavān | trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ | paścād bodhimabhisaṃbuddha | ka evaṃ śraddadhyāt, yadanayā śakyaṃ muhūrtena anuttarāṃ samyaksaṃbodhimabhisaṃboddhum?(vaidya 161) atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitā agrataḥ sthitā saṃdṛśyate sma | sā bhagavataḥ pādau śirasābhivandya ekānte 'sthāt | tasyāṃ velāyāmimā gāthā abhāṣata - puṇyaṃ puṇyaṃ gabhīraṃ ca diśaḥ sphurati sarvaśaḥ / sūkṣmaṃ śarīraṃ dvātriṃśallakṣaṇaiḥ samalaṃkṛtam (11.49)

Verse 11.50

।। अनुव्यजनयुक्तं च सर्वसत्त्वनमस्कृतम् । सर्वसत्त्वाभिगम्यं च अन्तरापणवद्यथा ॥ ११.५० ॥

// anuvyajanayuktaṃ ca sarvasattvanamaskṛtam / sarvasattvābhigamyaṃ ca antarāpaṇavadyathā (11.50)

Verse 11.51

।। यथेच्छया मे संबोधिः साक्षी मे ऽत्र तथागतः । विस्तीर्णं देशयिष्यामि धर्मं दुःखप्रमोचनम् ॥ ११.५१ ॥

// yathecchayā me saṃbodhiḥ sākṣī me 'tra tathāgataḥ / vistīrṇaṃ deśayiṣyāmi dharmaṃ duḥkhapramocanam (11.51)