Books / Saddharma Pundarika Sutra

4. Chapter 3

Verse 3.1

: औपम्यपरिवर्तः | अथ खल्वायुष्मान् शारिपुत्रस्तस्यां वेलायां तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो येन भगवांस्तेनाञ्जलिं प्रणम्य भगवतो ऽभिमुखो भगवन्तमेव व्यवलोकयमानो भगवन्तमेतदवोचत् - आश्चर्याद्भुतप्राप्तो ऽस्मि भगवन् औद्बिल्यप्राप्तः इदमेवंरूपं भगवतो ऽन्तिकाद् घोषं श्रुत्वा | तत्कस्य हेतोः? अश्रुत्वैव तावदहं भगवन् इदमेवंरूपं भगवतो ऽन्तिकाद् धर्मं तदन्यान् बोधिसत्त्वान् दृष्ट्वा बोधिसत्त्वानां च अनागते ऽध्वनि बुद्धनाम श्रुत्वा अतीव शोचामि अतीव संतप्ये, भ्रष्टो ऽस्म्येवंरूपात् तथागतज्ञानगोचराद् ज्ञानदर्शनात् | यदा चाहं भगवन् अभीक्ष्णं गच्छामि पर्वतगिरिकन्दराणि वनषण्डान्यारामनदीवृक्षमूलान्येकान्तानि दिवाविहाराय, तदाप्यहं भगवन् यद्भूयस्त्वेन अनेनैव विहारेण विहरामि | तुल्ये नाम धर्मधातुप्रवेशे वयं भगवता हीनेन यानेन निर्यातिताः | एवं च मे भगवंस्तस्मिन् समये भवति - अस्माकमेवैषो ऽपराधः, नैव भगवतो ऽपराधः | तत्कस्य हेतोः? सचेद्भगवानस्माभिः प्रतीक्षितः स्यात् सामुत्कर्षिकीं धर्मदेशनां कथयमानः, यदिदमनुत्तरां सम्यक्संबोधिमारभ्य, तेष्वेव वयं भगवन् धर्मेषु निर्याताः स्याम | यत्पुनर्भगवन् अस्माभिरनुपस्थितेषु बोधिसत्त्वेषु संधाभाष्यं भगवतो ऽजानमानैस्त्वरमाणैः प्रथमभाषितैव तथागतस्य धर्मदेशना श्रुत्वोद्गृहीता धारिता भाविता चिन्तिता मनसिकृता | सो ऽहं भगवन् आत्मपरिभाषणयैव भूयिष्ठेन रात्रिंदिवान्यतिनामयामि | अद्यास्मि भगवन् निर्वाणप्राप्तः | अद्यास्मि भगवन् परिनिर्वृतः | अद्य मे भगवन् अर्हत्त्वं प्राप्तम् | अद्याहं भगवन् भगवतः पुत्रो ज्येष्ठ औरसो मुखतो जातो धर्मजो धर्मनिर्मितो धर्मदायादो धर्मनिर्वृत्तः | अपगतपरिदाहो ऽस्म्यद्य भगवन् इममेवंरूपमद्भुतधर्ममश्रुतपूर्वं भगवतो ऽन्तिकाद् घोषं श्रुत्वा || अथ खल्वायुष्मान् शारिपुत्रस्तस्यां वेलायां भगवन्तमाभिर्गाथाभिरध्यभाषत - आश्चर्यप्राप्तो ऽस्मि महाविनायक औद्बिल्यजातो इमु घोष श्रुत्वा । कथंकथा मह्य न भूय काचित् परिपाचितो ऽहं इह अग्रयाने ॥ ३.१ ॥

: aupamyaparivartaḥ | atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato 'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat - āścaryādbhutaprāpto 'smi bhagavan audbilyaprāptaḥ idamevaṃrūpaṃ bhagavato 'ntikād ghoṣaṃ śrutvā | tatkasya hetoḥ? aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye, bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarād jñānadarśanāt | yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya, tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi | tulye nāma dharmadhātupraveśe vayaṃ bhagavatā hīnena yānena niryātitāḥ | evaṃ ca me bhagavaṃstasmin samaye bhavati - asmākamevaiṣo 'parādhaḥ, naiva bhagavato 'parādhaḥ | tatkasya hetoḥ? sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamānaḥ, yadidamanuttarāṃ samyaksaṃbodhimārabhya, teṣveva vayaṃ bhagavan dharmeṣu niryātāḥ syāma | yatpunarbhagavan asmābhiranupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānaistvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā | so 'haṃ bhagavan ātmaparibhāṣaṇayaiva bhūyiṣṭhena rātriṃdivānyatināmayāmi | adyāsmi bhagavan nirvāṇaprāptaḥ | adyāsmi bhagavan parinirvṛtaḥ | adya me bhagavan arhattvaṃ prāptam | adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ | apagataparidāho 'smyadya bhagavan imamevaṃrūpamadbhutadharmamaśrutapūrvaṃ bhagavato 'ntikād ghoṣaṃ śrutvā || atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ bhagavantamābhirgāthābhiradhyabhāṣata - āścaryaprāpto 'smi mahāvināyaka audbilyajāto imu ghoṣa śrutvā / kathaṃkathā mahya na bhūya kācit paripācito 'haṃ iha agrayāne (3.1)

Verse 3.2

।। आश्चर्यभूतः सुगतान घोषः काङ्क्षां च शोकं च जहाति प्राणिनाम् । क्षीणास्रवस्यो मम यश्च शोको विगतो ऽस्ति सर्वं श्रुणियान घोषम् ॥ ३.२ ॥

// āścaryabhūtaḥ sugatāna ghoṣaḥ kāṅkṣāṃ ca śokaṃ ca jahāti prāṇinām / kṣīṇāsravasyo mama yaśca śoko vigato 'sti sarvaṃ śruṇiyāna ghoṣam (3.2)

Verse 3.3

।। दिवाविहारमनुचंक्रमन्तो वनषण्ड आरामथ वृक्षमूलम् । गिरिकन्दरांश्चाउप्युपसेवमानो अनुचिन्तयामी इममेव चिन्ताम् ॥ ३.३ ॥

// divāvihāramanucaṃkramanto vanaṣaṇḍa ārāmatha vṛkṣamūlam / girikandarāṃścāupyupasevamāno anucintayāmī imameva cintām (3.3)

Verse 3.4

।। अहो ऽस्मि परिवञ्चितु पापचित्तैस्तुल्येषु धर्मेषु अनास्रवेषु । यन्नाम त्रैधातुकि अग्रधर्मं न देशयिष्यामि अनागते ऽध्वे ॥ ३.४ ॥

// aho 'smi parivañcitu pāpacittaistulyeṣu dharmeṣu anāsraveṣu / yannāma traidhātuki agradharmaṃ na deśayiṣyāmi anāgate 'dhve (3.4)

Verse 3.5

।। द्वात्रिंशती लक्षण मह्य भ्रष्टा सुवर्णवर्णच्छविता च भ्रष्टा । बला विमोक्षाश्चिमि सर्वि रिञ्चिता तुल्येषु धर्मेषु अहो ऽस्मि मूढः ॥ ३.५ ॥

// dvātriṃśatī lakṣaṇa mahya bhraṣṭā suvarṇavarṇacchavitā ca bhraṣṭā / balā vimokṣāścimi sarvi riñcitā tulyeṣu dharmeṣu aho 'smi mūḍhaḥ (3.5)

Verse 3.6

।। अनुव्यञ्जना ये च महामुनीनामशीति पूर्णाः प्रवरा विशिष्टाः । अष्टादशावेणिक ये च धर्मास्ते चापि भ्रष्टा अहु वञ्चितो ऽस्मि ॥ ३.६ ॥

// anuvyañjanā ye ca mahāmunīnāmaśīti pūrṇāḥ pravarā viśiṣṭāḥ / aṣṭādaśāveṇika ye ca dharmāste cāpi bhraṣṭā ahu vañcito 'smi (3.6)

Verse 3.7

।। दृष्ट्वा च त्वां लोकहितानुकम्पी दिवाविहारं परिगम्य चैकः । हा वञ्चितो ऽस्मीति विचिन्तयामि असङ्गज्ञानातु अचिन्तियातः ॥ ३.७ ॥

// dṛṣṭvā ca tvāṃ lokahitānukampī divāvihāraṃ parigamya caikaḥ / hā vañcito 'smīti vicintayāmi asaṅgajñānātu acintiyātaḥ (3.7)

Verse 3.8

।। रात्रिंदिवानि क्षपयामि नाथ भूयिष्ठ सो एव विचिन्तयन्तः । पृच्छामि तावद् भगवन्तमेव भ्रष्टो ऽहमस्मीत्यथ वा न वेति ॥ ३.८ ॥

// rātriṃdivāni kṣapayāmi nātha bhūyiṣṭha so eva vicintayantaḥ / pṛcchāmi tāvad bhagavantameva bhraṣṭo 'hamasmītyatha vā na veti (3.8)

Verse 3.9

।। एवं च मे चिन्तयतो जिनेन्द्र गच्छन्ति रात्रिंदिव नित्यकालम् । दृष्ट्वा च अन्यान् बहुबोधिसत्त्वान् संवर्णितांल्लोकविनायकेन ॥ ३.९ ॥

// evaṃ ca me cintayato jinendra gacchanti rātriṃdiva nityakālam / dṛṣṭvā ca anyān bahubodhisattvān saṃvarṇitāṃllokavināyakena (3.9)

Verse 3.10

।। श्रुत्वा च सो ऽहं इमु बुद्धधर्मं संघाय एतत्किल भाषितं ति । अतर्किकं सूक्ष्ममनास्रवं च ज्ञानं प्रणेती जिन बोधिमण्डे ॥ ३.१० ॥

// śrutvā ca so 'haṃ imu buddhadharmaṃ saṃghāya etatkila bhāṣitaṃ ti / atarkikaṃ sūkṣmamanāsravaṃ ca jñānaṃ praṇetī jina bodhimaṇḍe (3.10)

Verse 3.11

।। दृष्टीविलग्नो ह्यहमासि पूर्वं परिव्राजकस्तीर्थिकसंमतश्च । ततो ममा आशयु ज्ञात्व नाथो दृष्टीविमोक्षाय ब्रवीति निर्वृतिम् ॥ ३.११ ॥

// dṛṣṭīvilagno hyahamāsi pūrvaṃ parivrājakastīrthikasaṃmataśca / tato mamā āśayu jñātva nātho dṛṣṭīvimokṣāya bravīti nirvṛtim (3.11)

Verse 3.12

।। विमुच्य ता दृष्टिकृतानि सर्वशः शून्यांश्च धर्मानहु स्पर्शयित्वा । ततो विजानाम्यहु निर्वृतो ऽस्मि न चापि निर्वाणमिदं प्रवुच्यति ॥ ३.१२ ॥

// vimucya tā dṛṣṭikṛtāni sarvaśaḥ śūnyāṃśca dharmānahu sparśayitvā / tato vijānāmyahu nirvṛto 'smi na cāpi nirvāṇamidaṃ pravucyati (3.12)

Verse 3.13

।। यदा तु बुद्धो भवते ऽग्रसत्त्वः पुरस्कृतो नरमरुयक्षराक्षसैः । द्वात्रिंशतीलक्षणरूपधारी अशेषतो निर्वृतु भोति तत्र ॥ ३.१३ ॥

// yadā tu buddho bhavate 'grasattvaḥ puraskṛto naramaruyakṣarākṣasaiḥ / dvātriṃśatīlakṣaṇarūpadhārī aśeṣato nirvṛtu bhoti tatra (3.13)

Verse 3.14

।। व्यपनीत सर्वाणि मि मन्यितानि श्रुत्वा च घोषं अहमद्य निर्वृतः । यदापि व्याकुर्वसि अग्रबोधौ पुरतो हि लोकस्य सदेवकस्य ॥ ३.१४ ॥

// vyapanīta sarvāṇi mi manyitāni śrutvā ca ghoṣaṃ ahamadya nirvṛtaḥ / yadāpi vyākurvasi agrabodhau purato hi lokasya sadevakasya (3.14)

Verse 3.15

।। बलवच्च आसीन्मम छम्भितत्वं प्रथमं गिरं श्रुत्व विनायकस्य । मा हैव मारो स भवेद्विहेठको अभिनिर्मिणित्वा भुवि बुद्धवेषम् ॥ ३.१५ ॥

// balavacca āsīnmama chambhitatvaṃ prathamaṃ giraṃ śrutva vināyakasya / mā haiva māro sa bhavedviheṭhako abhinirmiṇitvā bhuvi buddhaveṣam (3.15)

Verse 3.16

।। यदा तु हेतूहि च कारणैश्च दृष्टान्तकोटीनयुतैश्च दर्शिता । सुपरिस्थिता सा वरबुद्धबोधिस्ततो ऽस्मि निष्काङ्क्षु श्रुणित्व धर्मम् ॥ ३.१६ ॥

// yadā tu hetūhi ca kāraṇaiśca dṛṣṭāntakoṭīnayutaiśca darśitā / suparisthitā sā varabuddhabodhistato 'smi niṣkāṅkṣu śruṇitva dharmam (3.16)

Verse 3.17

।। यदा च मे बुद्धसहस्रकोट्यः कीर्तेष्यती तान् परिनिर्वृतान् जिनान् । यथा च तैर्देशितु एष धर्म उपायकौशल्य प्रतिष्ठिहित्वा ॥ ३.१७ ॥

// yadā ca me buddhasahasrakoṭyaḥ kīrteṣyatī tān parinirvṛtān jinān / yathā ca tairdeśitu eṣa dharma upāyakauśalya pratiṣṭhihitvā (3.17)

Verse 3.18

।। अनागताश्चो बहु बुद्ध लोके तिष्ठन्ति ये चो परमार्थदर्शिनः । उपायकौशल्यशतैश्च धर्मं निदर्शयिष्यन्त्यथ देशयन्ति च ॥ ३.१८ ॥

// anāgatāśco bahu buddha loke tiṣṭhanti ye co paramārthadarśinaḥ / upāyakauśalyaśataiśca dharmaṃ nidarśayiṣyantyatha deśayanti ca (3.18)

Verse 3.19

।। तथा च ते आत्मन यादृशी चरी अभिनिष्क्रमित्वा प्रभृतीय संस्तुता । बुद्धं च ते यादृशु धर्मचक्रं तथा च ते ऽवस्थित धर्मदेशना ॥ ३.१९ ॥

// tathā ca te ātmana yādṛśī carī abhiniṣkramitvā prabhṛtīya saṃstutā / buddhaṃ ca te yādṛśu dharmacakraṃ tathā ca te 'vasthita dharmadeśanā (3.19)

Verse 3.20

।। ततश्च जानामि न एष मारो भूतां चरिं दर्शयि लोकनाथः । न ह्यत्र माराण गती हि विद्यते ममैव चित्तं विचिकित्सप्राप्तम् ॥ ३.२० ॥

// tataśca jānāmi na eṣa māro bhūtāṃ cariṃ darśayi lokanāthaḥ / na hyatra mārāṇa gatī hi vidyate mamaiva cittaṃ vicikitsaprāptam (3.20)

Verse 3.21

।। यदा तु मधुरेण गभीरवल्गुना संहर्षितो बुद्धस्वरेण चाहम् । तदा मि विध्वंसित सर्वसंशया विचिकित्स नष्टा च स्थितो ऽस्मि ज्ञाने ॥ ३.२१ ॥

// yadā tu madhureṇa gabhīravalgunā saṃharṣito buddhasvareṇa cāham / tadā mi vidhvaṃsita sarvasaṃśayā vicikitsa naṣṭā ca sthito 'smi jñāne (3.21)

Verse 3.22

।। निःसंशयं भेष्यि तथागतो ऽहं पुरस्कृतो लोकि सदेवके ऽस्मिन् । संघाय वक्ष्ये इमु बुद्धबोधिं समादपेन्तो बहुबोधिसत्त्वान् ॥ ३.२२ ॥

// niḥsaṃśayaṃ bheṣyi tathāgato 'haṃ puraskṛto loki sadevake 'smin / saṃghāya vakṣye imu buddhabodhiṃ samādapento bahubodhisattvān (3.22)

Verse 3.23

।। एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - आरोचयामि ते शारिपुत्र, प्रतिवेदयामि ते अस्य सदेवकस्य लोकस्य पुरतः समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः पुरतः | मया त्वं शारिपुत्र विंशतीनां बुद्धकोटीनयुतशतसहस्राणामन्तिके परिपाचितो ऽनुत्तरायां सम्यक्संबोधौ | मम च त्वं शारिपुत्र दीर्घरात्रमनुशिक्षितो ऽभूत् | स त्वं शारिपुत्र बोधिसत्त्वसंमन्त्रितेन बोधिसत्त्वरहस्येन इह मम प्रवचने उपपन्नः | स त्वं शारिपुत्र बोधिसत्त्वाधिष्ठानेन तत्पौर्वकं चर्याप्रणिधानं बोधिसत्त्वसंमन्त्रितं बोधिसत्त्वरहस्यं न समनुस्मरसि | निर्वृतो ऽस्मीति मन्यसे | सो ऽहं त्वां शारिपुत्र पूर्वचर्याप्रणिधानज्ञानानुबोधमनुस्मारयितुकाम इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं श्रावकाणां संप्रकाशयामि || अपि खलु पुनः शारिपुत्र, भविष्यसि त्वमनागते ऽध्वनि अप्रमेयैः कल्पैरचिन्त्यैरप्रमाणैर्बहूनां तथागतकोटीनयुतशतसहस्राणां सद्धर्मं धारयित्वा विविधां च पूजां कृत्वा इमामेव बोधिसत्त्वचर्यां परिपूर्य पद्मप्रभो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यसि (वैद्य ४८) विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् || तेन खलु पुनः शारिपुत्र समयेन तस्य भगवतः पद्मप्रभस्य तथागतस्य विरजं नाम बुद्धक्षेत्रं भविष्यति समं रमणीयं प्रासादिकं परमसुदर्शनीयं परिशुद्धं च स्फीतं च ऋद्धं च क्षेमं च सुभिक्षं च बहुजननारीगणाकीर्णं च मरुप्रकीर्णं च वैडूर्यमयं सुवर्णसूत्राष्टापदनिबद्धम् | तेषु च अष्टापदेषु रत्नवृक्षा भविष्यन्ति सप्तानां रत्नानां पुष्पफलैः सततसमितं समर्पिताः || सो ऽपि शारिपुत्र पद्मप्रभस्तथागतो ऽर्हन् सम्यक्संबुद्धस्त्रीण्येव यानान्यारभ्य धर्मं देशयिष्यति | किंचापि शारिपुत्र स तथागतो न कल्पकषाय उत्पत्स्यते, अपि तु प्रणिधानवशेन धर्मं देशयिष्यति | महारत्नप्रतिमण्डितश्च नाम शारिपुत्र स कल्पो भविष्यति | तत्किं मन्यसे शारिपुत्र केन कारणेन स कल्पो महारत्नप्रतिमण्डित इत्युच्यते? रत्नानि शारिपुत्र बुद्धक्षेत्रे बोधिसत्त्वा उच्यन्ते | ते तस्मिन् काले तस्यां विरजायां लोकधातौ बहवो बोधिसत्त्वा भविष्यन्त्यप्रमेया असंख्येया अचिन्त्या अतुल्या अमाप्या गणनां समतिक्रान्ता अन्यत्र तथागतगणनया | तेन कारणेन स कल्पो महारत्नप्रतिमण्डित इत्युच्यते || तेन खलु पुनः शारिपुत्र समयेन बोधिसत्त्वास्तस्मिन् बुद्धक्षेत्रे यद्भूयसा रत्नपद्मविक्रामिणो भविष्यन्ति | अनादिकर्मिकाश्च ते बोधिसत्त्वा भविष्यन्ति | चिरचरितकुशलमूला बहुबुद्धशतसहस्रचीर्णब्रह्मचर्याः, तथागतपरिसंस्तुता बुद्धज्ञानाभियुक्ता महाभिज्ञापरिकर्मनिर्जाताः सर्वधर्मनयकुशला मार्दवाः स्मृतिमन्तः | भूयिष्ठेन शारिपुत्र एवंरूपाणां बोधिसत्त्वानां परिपूर्णं तद्बुद्धक्षेत्रं भविष्यति || तस्य खलु पुनः शारिपुत्र पद्मप्रभस्य तथागतस्य द्वादशान्तरकल्पा आयुष्प्रमाणं भविष्यति स्थापयित्वा कुमारभूतत्वम् | तेषां च सत्त्वानामष्टान्तरकल्पा आयुष्प्रमाणं भविष्यति | स च शारिपुत्र पद्मप्रभस्तथागतो द्वादशानामन्तरकल्पानामत्ययेन धृतिपरिपूर्णं नाम बोधिसत्त्वं महासत्त्वं व्याकृत्य अनुत्तरायां सम्यक्संबोधौ परिनिर्वास्यति | अयं भिक्षवो धृतिपरिपूर्णो बोधिसत्त्वो महासत्त्वो ममानन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते | पद्मवृषभविक्रामी नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् | तस्यापि शारिपुत्र पद्मवृषभविक्रामिणस्तथागतस्य एवंरूपमेव बुद्धक्षेत्रं भविष्यति || तस्य खलु पुनः शारिपुत्र पद्मप्रभस्य तथागतस्य परिनिर्वृतस्य द्वात्रिंशदन्तरकल्पान् सद्धर्मः स्थास्यति | ततस्तस्य तस्मिन् सद्धर्मे क्षीणे द्वात्रिंशदन्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति || अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत - भविष्यसे शारिसुता तुहं पि अनागते ऽध्वानि जिनस्तथागतः । पद्मप्रभो नाम समन्तचक्षुर्विनेष्यसे प्राणिसहस्रकोट्यः ॥ ३.२३ ॥

// evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - ārocayāmi te śāriputra, prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ | mayā tvaṃ śāriputra viṃśatīnāṃ buddhakoṭīnayutaśatasahasrāṇāmantike paripācito 'nuttarāyāṃ samyaksaṃbodhau | mama ca tvaṃ śāriputra dīrgharātramanuśikṣito 'bhūt | sa tvaṃ śāriputra bodhisattvasaṃmantritena bodhisattvarahasyena iha mama pravacane upapannaḥ | sa tvaṃ śāriputra bodhisattvādhiṣṭhānena tatpaurvakaṃ caryāpraṇidhānaṃ bodhisattvasaṃmantritaṃ bodhisattvarahasyaṃ na samanusmarasi | nirvṛto 'smīti manyase | so 'haṃ tvāṃ śāriputra pūrvacaryāpraṇidhānajñānānubodhamanusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ śrāvakāṇāṃ saṃprakāśayāmi || api khalu punaḥ śāriputra, bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpairacintyairapramāṇairbahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi (vaidya 48) vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān || tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham | teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ || so 'pi śāriputra padmaprabhastathāgato 'rhan samyaksaṃbuddhastrīṇyeva yānānyārabhya dharmaṃ deśayiṣyati | kiṃcāpi śāriputra sa tathāgato na kalpakaṣāya utpatsyate, api tu praṇidhānavaśena dharmaṃ deśayiṣyati | mahāratnapratimaṇḍitaśca nāma śāriputra sa kalpo bhaviṣyati | tatkiṃ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate? ratnāni śāriputra buddhakṣetre bodhisattvā ucyante | te tasmin kāle tasyāṃ virajāyāṃ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṃkhyeyā acintyā atulyā amāpyā gaṇanāṃ samatikrāntā anyatra tathāgatagaṇanayā | tena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate || tena khalu punaḥ śāriputra samayena bodhisattvāstasmin buddhakṣetre yadbhūyasā ratnapadmavikrāmiṇo bhaviṣyanti | anādikarmikāśca te bodhisattvā bhaviṣyanti | ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryāḥ, tathāgataparisaṃstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ | bhūyiṣṭhena śāriputra evaṃrūpāṇāṃ bodhisattvānāṃ paripūrṇaṃ tadbuddhakṣetraṃ bhaviṣyati || tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam | teṣāṃ ca sattvānāmaṣṭāntarakalpā āyuṣpramāṇaṃ bhaviṣyati | sa ca śāriputra padmaprabhastathāgato dvādaśānāmantarakalpānāmatyayena dhṛtiparipūrṇaṃ nāma bodhisattvaṃ mahāsattvaṃ vyākṛtya anuttarāyāṃ samyaksaṃbodhau parinirvāsyati | ayaṃ bhikṣavo dhṛtiparipūrṇo bodhisattvo mahāsattvo mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate | padmavṛṣabhavikrāmī nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | tasyāpi śāriputra padmavṛṣabhavikrāmiṇastathāgatasya evaṃrūpameva buddhakṣetraṃ bhaviṣyati || tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya dvātriṃśadantarakalpān saddharmaḥ sthāsyati | tatastasya tasmin saddharme kṣīṇe dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - bhaviṣyase śārisutā tuhaṃ pi anāgate 'dhvāni jinastathāgataḥ / padmaprabho nāma samantacakṣurvineṣyase prāṇisahasrakoṭyaḥ (3.23)

Verse 3.24

।। बहुबुद्धकोटीषु करित्व सत्क्रियां चर्याबलं तत्र उपार्जयित्वा । उत्पादयित्वा च दशो बलानि स्पृशिष्यसे उत्तममग्रबोधिम् ॥ ३.२४ ॥

// bahubuddhakoṭīṣu karitva satkriyāṃ caryābalaṃ tatra upārjayitvā / utpādayitvā ca daśo balāni spṛśiṣyase uttamamagrabodhim (3.24)

Verse 3.25

।। अचिन्तिये अपरिमितस्मि कल्पे प्रभूतरत्नस्तद कल्पु भेष्यति । विरजा च नाम्ना तद लोकधातुः क्षेत्रं विशुद्धं द्विपदोत्तमस्य ॥ ३.२५ ॥

// acintiye aparimitasmi kalpe prabhūtaratnastada kalpu bheṣyati / virajā ca nāmnā tada lokadhātuḥ kṣetraṃ viśuddhaṃ dvipadottamasya (3.25)

Verse 3.26

।। वैदूर्यसंस्तीर्ण तथैव भूमिः सुवर्णसूत्रप्रतिमण्डिता च । रत्नामयैर्वृक्षशतैरुपेता सुदर्शनीयैः फलपुष्पमण्डितैः ॥ ३.२६ ॥

// vaidūryasaṃstīrṇa tathaiva bhūmiḥ suvarṇasūtrapratimaṇḍitā ca / ratnāmayairvṛkṣaśatairupetā sudarśanīyaiḥ phalapuṣpamaṇḍitaiḥ (3.26)

Verse 3.27

।। स्मृतिमन्त तस्मिन् बहुबोधिसत्त्वाः चर्याभिनिर्हारसुकोविदाश्च । ये शिक्षिता बुद्धशतेषु चर्यां ते तत्र क्षेत्रे उपपद्य सन्ति ॥ ३.२७ ॥

// smṛtimanta tasmin bahubodhisattvāḥ caryābhinirhārasukovidāśca / ye śikṣitā buddhaśateṣu caryāṃ te tatra kṣetre upapadya santi (3.27)

Verse 3.28

।। सो चेज्जिनः पश्चिमके समुच्छ्रये कुमारभूमीमतिनामयित्वा । जहित्व कामानभिनिष्कमित्वा स्पृशिष्यते उत्तममग्रबोधिम् ॥ ३.२८ ॥

// so cejjinaḥ paścimake samucchraye kumārabhūmīmatināmayitvā / jahitva kāmānabhiniṣkamitvā spṛśiṣyate uttamamagrabodhim (3.28)

Verse 3.29

।। सम द्वादशा अन्तरकल्प तस्य भविष्यते आयु तदा जिनस्य । मनुजानपी अन्तरकल्प अष्ट आयुष्प्रमाणं तहि तेष भेष्यति ॥ ३.२९ ॥

// sama dvādaśā antarakalpa tasya bhaviṣyate āyu tadā jinasya / manujānapī antarakalpa aṣṭa āyuṣpramāṇaṃ tahi teṣa bheṣyati (3.29)

Verse 3.30

।। परिनिर्वृतस्यापि जिनस्य तस्य द्वात्रिंशतिं अन्तरकल्प पूर्णाम् । सद्धर्म संस्थास्यति तस्मि काले हिताय लोकस्य सदेवकस्य ॥ ३.३० ॥

// parinirvṛtasyāpi jinasya tasya dvātriṃśatiṃ antarakalpa pūrṇām / saddharma saṃsthāsyati tasmi kāle hitāya lokasya sadevakasya (3.30)

Verse 3.31

।। सद्धर्मि क्षीणे प्रतिरूपको ऽस्य द्वात्रिंशती अन्तरकल्प स्थास्यति । शरीरवैस्तारिक तस्य तायिनः सुसत्कृतो नरमरुतैश्च नित्यम् ॥ ३.३१ ॥

// saddharmi kṣīṇe pratirūpako 'sya dvātriṃśatī antarakalpa sthāsyati / śarīravaistārika tasya tāyinaḥ susatkṛto naramarutaiśca nityam (3.31)

Verse 3.32

।। एतादृशः सो भगवान् भविष्यति प्रहृष्ट त्वं शारिसुता भवस्व । त्वमेव सो तादृशको भविष्यसि अनाभिभूतो द्विपदानमुत्तमः ॥ ३.३२ ॥

// etādṛśaḥ so bhagavān bhaviṣyati prahṛṣṭa tvaṃ śārisutā bhavasva / tvameva so tādṛśako bhaviṣyasi anābhibhūto dvipadānamuttamaḥ (3.32)

Verse 3.33

।। अथ खलु ताश्चतस्रः पर्षदो भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्या आयुष्मतः शारिपुत्रस्येदं व्याकरणमनुत्तरायां सम्यक्संबोधौ भगवतो ऽन्तिकात् संमुखं श्रुत्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाताः स्वकस्वकैश्चीवरैर्भगवन्तमभिच्छादयामासुः | शक्रश्च देवानामिन्द्रो ब्रह्मा च सहांपतिरन्याश्च देवपुत्रशतसहस्रकोट्यो भगवन्तं दिव्यैर्वस्त्रैरभिच्छादयामासुः | दिव्यैश्च मान्दारवैर्महामान्दरवैश्च पुष्पैरभ्यवकिरन्ति स्म | दिव्यानि च वस्त्राण्युपर्यन्तरीक्षे भ्रामयन्ति स्म | दिव्यानि च तूर्यशतसहस्राणि दुन्दुभयश्चोपर्यन्तरीक्षे पराहनन्ति स्म | महान्तं च पुष्पवर्षमभिप्रवर्षयित्वा एवं च वाचं भाषन्ते स्म - पूर्वं भगवता वाराणस्यामृषिपतने मृगदावे धर्मचक्रं प्रवर्तितम् | इदं पुनर्भगवता अद्य अनुत्तरं द्वितीयं धर्मचक्रं प्रवर्तितम् | ते च देवपुत्रास्तस्यां वेलायामिमा गाथा अभाषन्त - धर्मचक्रं प्रवर्तेसि लोके अप्रतिपुद्गल । वाराणस्यां महावीर स्कन्धानामुदयं व्ययम् ॥ ३.३३ ॥

// atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantamabhicchādayāmāsuḥ | śakraśca devānāmindro brahmā ca sahāṃpatiranyāśca devaputraśatasahasrakoṭyo bhagavantaṃ divyairvastrairabhicchādayāmāsuḥ | divyaiśca māndāravairmahāmāndaravaiśca puṣpairabhyavakiranti sma | divyāni ca vastrāṇyuparyantarīkṣe bhrāmayanti sma | divyāni ca tūryaśatasahasrāṇi dundubhayaścoparyantarīkṣe parāhananti sma | mahāntaṃ ca puṣpavarṣamabhipravarṣayitvā evaṃ ca vācaṃ bhāṣante sma - pūrvaṃ bhagavatā vārāṇasyāmṛṣipatane mṛgadāve dharmacakraṃ pravartitam | idaṃ punarbhagavatā adya anuttaraṃ dvitīyaṃ dharmacakraṃ pravartitam | te ca devaputrāstasyāṃ velāyāmimā gāthā abhāṣanta - dharmacakraṃ pravartesi loke apratipudgala / vārāṇasyāṃ mahāvīra skandhānāmudayaṃ vyayam (3.33)

Verse 3.34

।। प्रथमं प्रवर्तितं तत्र द्वितीयमिह नायक । दुःश्रद्दधेय यस्तेषां देशितो ऽद्य विनायक ॥ ३.३४ ॥

// prathamaṃ pravartitaṃ tatra dvitīyamiha nāyaka / duḥśraddadheya yasteṣāṃ deśito 'dya vināyaka (3.34)

Verse 3.35

।। बहु धर्मः श्रुतो ऽस्माभिअर्लोकनाथस्य संमुखम् । न चायमीदृशो धर्मः श्रुतपूर्वः कदाचन ॥ ३.३५ ॥

// bahu dharmaḥ śruto 'smābhiarlokanāthasya saṃmukham / na cāyamīdṛśo dharmaḥ śrutapūrvaḥ kadācana (3.35)

Verse 3.36

।। अनुमोदाम महावीर संधाभाष्यं महर्षिणः । यथार्थो व्याकृतो ह्येष शारिपुत्रो विशारदः ॥ ३.३६ ॥

// anumodāma mahāvīra saṃdhābhāṣyaṃ maharṣiṇaḥ / yathārtho vyākṛto hyeṣa śāriputro viśāradaḥ (3.36)

Verse 3.37

।। वयमप्येदृशाः स्यामो बुद्धा लोके अनुत्तराः । संधाभाष्येण देशेन्तो बुद्धबोधिमनुत्तराम् ॥ ३.३७ ॥

// vayamapyedṛśāḥ syāmo buddhā loke anuttarāḥ / saṃdhābhāṣyeṇa deśento buddhabodhimanuttarām (3.37)

Verse 3.38

।। यच्छ्रुतं कृतमस्माभिरस्मिंल्लोके परत्र वा । आरागितश्च यद्बुद्धः प्रार्थना भोतु बोधये ॥ ३.३८ ॥

// yacchrutaṃ kṛtamasmābhirasmiṃlloke paratra vā / ārāgitaśca yadbuddhaḥ prārthanā bhotu bodhaye (3.38)

Verse 3.39

।। अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - निष्काङ्क्षो ऽस्मि भगवन् विगतकथंकथो भगवतो ऽन्तिकात् संमुखमिदमात्मनो व्याकरणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ | यानि च इमानि भगवन् द्वादश वशीभूतशतानि भगवता पूर्वं शैक्षभूमौ स्थापितानि एवमववदितानि एवमनुशिष्टान्यभूवन् एतत्पर्यवसानो मे भिक्षवो धर्मविनयो यदिदं जातिजराव्याधिमरणशोकसमतिक्रमो निर्वाणसमवसरणः | इमे च भगवन् द्वे भिक्षुसहस्रे शैक्षाशैक्षाणां भगवतः श्रावकाणां सर्वेषामात्मदृष्टिभवदृष्टिविभवदृष्टिसर्वदृष्टिविवर्जितानां निर्वाणभूमिस्थिताः स्मः इत्यात्मनः संजानताम्, ते भगवतो ऽन्तिकादिममेवंरूपमश्रुतपूर्वं धर्म श्रुत्वा कथंकथामापन्नाः | तत्साधु भगवान् भाषतामेषां भिक्षूणां कौकृत्यविनोदनार्थ यथा भगवन्नेताश्चतस्रः पर्षदो निष्काङ्क्षा निर्विचिकित्सा भवेयुः || एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - ननु ते मया शारिपुत्र पूर्वमेवाख्यातं यथा नानाभिनिर्हारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा तथागतो ऽर्हन् सम्यक्संबुद्धो धर्मं देशयति | इमामेवानुत्तरां सम्यक्संबोधिमारभ्य सर्वधर्मदेशनाभिर्बोधिसत्त्वयानमेव समादापयति | अपि तु खलु पुनः शारिपुत्र औपम्यं ते करिष्यामि अस्यैवार्थस्य भूयस्या मात्रया संदर्शनार्थम् | तत्कस्य हेतोः? उपमया इह एकत्या विज्ञपुरुषा भाषितस्यार्थमाजानन्ति || तद्यथापि नाम शारिपुत्र इह स्यात् कस्मिंश्चिदेव ग्रामे वा नगरे वा निगमे वा जनपदे वा जनपदप्रदेशे वा राष्ट्रे वा राजधान्यां वा गृहपतिर्जीर्णो वृद्धो महल्लको ऽभ्यतीतवयो ऽनुप्राप्त आढ्यो महाधनो महाभोगः | महच्चास्य निवेशनं भवेदुच्छ्रितं च विस्तीर्णं च चिरकृतं च जीर्णं च द्वयोर्वा त्रयाणां वा चतुर्णां वा पञ्चानां वा प्राणिशतानामावासः | एकद्वारं च तन्निवेशनं भवेत् | तृणसंछन्नं च भवेत् | विगलितप्रासादं च भवेत् | पूतिस्तम्भमूलं च भवेत् | संशीर्णकुड्यकटलेपनं च भवेत् | तच्च सहसैव महाताग्निस्कन्धेन सर्वपार्श्वेषु सर्वावन्तं निवेशनं प्रदीप्तं भवेत् | तस्य च पुरुषस्य बहवः कुमारकाः स्युः पञ्च वा दश वा विंशतिर्वा | स च पुरुषस्तस्मान्निवेशनाद् बहिर्निर्गतः स्यात् || अथ खलु शारिपुत्र स पुरुषस्तं स्वकं निवेशनं महाताग्निस्कन्धेन समन्तात् संप्रज्वलितं दृष्ट्वा भीतस्त्रस्त उद्विग्नचित्तो भवेत्, एवं चानुविचिन्तयेत् - प्रतिबलो ऽहमनेन महताग्निस्कन्धेनासंस्पृष्टो ऽपरिदग्धः क्षिप्रमेव स्वस्तिना अस्माद् गृहादादीप्ताद् द्वारेण निर्गन्तुं निर्धावितुम् | अपि तु य इमे ममैव पुत्रा बालकाः कुमारका अस्मिन्नेव निवेशने आदीप्ते तैस्तैः क्रीडनकैः क्रीडन्ति रमन्ति परिचारयन्ति, इमं चागारमादीप्तं न जानन्ति न बुध्यन्ते न विदन्ति न चेतयन्ति नोद्वेगमापद्यन्ते, संतप्यमाना अप्यनेन महताग्निस्कन्धेन महता च दुःखस्कन्धेन स्पृष्टाः समाना न दुःखं मनसि कुर्वन्ति, नापि निर्गमनमनसिकारमुत्पादयन्ति || स च शारिपुत्र पुरुषो बलवान् भवेद् बाहुबलिकः | स एवमनुविचिन्तयेत् - अहमस्मि बलवान् बाहुबलिकश्च | यन्न्वहं सर्वानिमान् कुमारकानेकपिण्डयित्वा उत्सङ्गेनादाय अस्माद् गृहान्निर्गमयेयम् | स पुनरेवमनुविचिन्तयेत् - इदं खलु निवेशनमेकप्रवेशं संवृतद्वारमेव | कुमारकाश्चपलाश्चञ्चला बालजातीयाश्च | मा हैव परिभ्रमेयुः | ते ऽनेन महताग्निस्कन्धेनानयव्यसनमापद्येरन् | यन्नूनमहमेतान् संचोदययम् | इति प्रतिसंख्याय तान् कुमारकानामन्त्रयते स्म - आगच्छत भवन्तः कुमारकाः, निर्गच्छत | आदीप्तमिदं गृहं महता अग्निस्कन्धेन | मा हैवात्रैव सर्वे ऽनेन महताग्निस्कन्धेन धक्ष्यथ, अनयव्यसनमापत्स्यथ | अथ खलु ते कुमारका एवं तस्य हितकामस्य पुरुषस्य तद्भाषितं नावबुध्यन्ते नोद्विजन्ति नोत्रसन्ति न संत्रसन्ति न संत्रासमापद्यन्ते, न विचिन्तयन्ति न निर्धावन्ति, नापि जानन्ति न विजानन्ति किमेतदादीप्तं नामेति | अन्यत्र तेन तेनैव धावन्ति विधावन्ति, पुनः पुनश्च तं पितरमवलोकयन्ति | तत्कस्य हेतोः? यथापीदं बालभावत्वात् || अथ खलु स पुरुष एवमनुविचिन्तयेत् - आदीप्तमिदं निवेशनं महताग्निस्कन्धेन संप्रदीप्तम् | मा हैवाहं चेमे च कुमारका इहैवानेन महाताग्निस्कन्धेन अनयव्यसनमापत्स्यामहे | यन्न्वहमुपायकौशल्येनेमान् कुमारकान् अस्माद् गृहात् निष्क्रामयेयम् | स च पुरुषस्तेषां कुमारकाणामाशयज्ञो भवेत्, अधिमुक्तिं च विजानीयात् | तेषां च कुमारकाणामनेकविधान्यनेकानि क्रीडनकानि भवेयुर्विविधानि च रमणीयकानीष्टानि कान्तानि प्रियाणि मनआपानि, तानि च दुर्लभानि भवेयुः || अथ खलु स पुरुषस्तेषां कुमारकाणामाशयं जानंस्तान् कुमारकानेतदवोचत् - यानि तानि कुमारका युष्माकं क्रीडनकानि रमणीयकान्याश्चर्याद्भुतानि, येषामलाभात् संतप्यथ, नानावर्णानि बहुप्रकाराणि | तद्यथा गोरथकान्यजरथकानि मृगरथकानि | यानि भवतामिष्टानि कान्तानि प्रियाणि मनआपानि | तानि च मया सर्वाणि बहिनिर्वेशनद्वारे स्थापितानि युष्माकं क्रीडनहेतोः | आगच्छन्तु भवन्तो निर्धावन्त्वस्मान्निवेशनात् | अहं वो यस्य यस्य येनार्थो येन प्रयोजनं भविष्यति, तस्मै तस्मै तत्प्रदास्यामि | आगच्छत शीघ्रं तेषां कारणम्, निर्धावत | अथ खलु ते कुमारकास्तेषां क्रीडनकानां रमणीयकानामर्थाय यथेप्सितानां यथासंकल्पितानामिष्टानां कान्तानां प्रियाणां मनआपानां नामधेयानि श्रुत्वा तस्मादादीप्तादगारात् क्षिप्रमेवारब्धवीर्या बलवता जवेन अन्योन्यमप्रतीक्षमाणाः कः प्रथमं कः प्रथमतरमित्यन्योन्यं संघट्टितकायास्तस्मादादीप्तादगारात् क्षिप्रमेव निर्धाविताः || अथ स पुरुषः क्षेमस्वस्तिना तान् कुमारकान् निर्गतान् दृष्ट्वा अभयप्राप्तानिति विदित्वा आकाशे ग्रामचत्वरे उपविष्टः प्रीतिप्रामोद्यजातो निरुपादानो विगतनीवरणो ऽभयप्राप्तो भवेत् | अथ खलु ते कुमारका येन स पिता तेनोपसंक्रामन्, उपसंक्रम्यैवं वदेयुः - देहि नस्तात तानि विविधानि क्रीडनकानि रमणीयानि | तद्यथा - गोरथकान्यजरथकानि मृगरथकानि | अथ खलु शारिपुत्र स पुरुषस्तेषां स्वकानां पुत्राणां वातजवसंपन्नान् (वैद्य ५३) गोरथकानेवानुप्रयच्छेत् सप्तरत्नमयान् सवेदिकान् सकिङ्किणीजालाभिप्रलम्बितानुच्चान् प्रगृहीतानाश्चर्याद्भुतरत्नालंकृतान् रत्नदामकृतशोभान् पुष्पमाल्यालंकृतांस्तूलिकागोणिकास्तरणान् दूष्यपटप्रत्यास्तीर्णानुभयतो लोहितोपधानान् श्वेतैः प्रपाण्डरैः शीघ्रजवैर्गोणैर्योजितान् बहुपुरुषपरिगृहीतान् | सवैजयन्तान् गोरथकानेव वातबलजवसंपन्नानेकवर्णानेकविधानेकैकस्य दारकस्य दद्यात् | तत्कस्य हेतोः? तथा हि शारिपुत्र स पुरुष आढ्यश्च भवेन्महाधनश्च प्रभूतकोष्ठागारश्च | स एवं मन्येत - अलं म एषां कुमारकाणामन्यैर्यानैर्दत्तैरिति | तत्कस्य हेतोः? सर्व एवैते कुमारका ममैव पुत्राः, सर्वे च मे प्रिया मनआपाः | संविद्यन्ते च मे इमान्येवंरूपाणि महायानानि | समं च मयैते कुमारकाः सर्वे चिन्तयितव्या न विषमम् | अहमपि बहुकोषकोष्ठागारः | सर्वसत्त्वानामप्यहमिमान्येवंरूपाणि महायानानि दद्याम्, किमङ्ग पुनः स्वकानां पुत्राणाम् | ते च दारकास्तस्मिन् समये तेषु महायानेष्वभिरुह्य आश्चर्याद्भुतप्राप्ता भवेयुः | तत्किं मन्यसे शारिपुत्र मा हैव तस्य पुरुषस्य मृषावादः स्यात्, येन तेषां दारकाणां पूर्वं त्रीणि यानान्युपदर्शयित्वा पश्चात्सर्वेषां महायानान्येव दत्तानि, उदारयानान्येव दत्तानि? शारिपुत्र आह - न ह्येतद् भगवन्, न ह्येतत् सुगत | अनेनैव तावद् भगवन् कारणेन स पुरुषो न मृषावादी भवेद् यत्तेन पुरुषेणोपायकौशल्येन ते दारकास्तस्मादादीप्ताद् गृहान्निष्कासिताः, जीवितेन च अभिच्छादिताः | तत्कस्य हेतोः? आत्मभावप्रतिलम्भेनैव भगवन् सर्वक्रीडनकानि लब्धानि भवन्ति | यद्यपि तावद् भगवन् स पुरुषस्तेषां कुमारकाणामेकरथमपि न दद्यात्, तथापि तावद् भगवन् स पुरुषो न मृषावादी भवेत् | तत्कस्य हेतोः? तथा हि भगवंस्तेन पुरुषेण पूर्वमेव एवमनुविचिन्तितम् - उपायकौशल्येन अहमिमान् कुमारकांस्तस्मान्महतो दुःखस्कन्धात् परिमोचयिष्यामीति | अनेनापि भगवन् पर्यायेण तस्य पुरुषस्य न मृषावादो भवेत् | कः पुनर्वादो यत्तेन पुरुषेण प्रभूतकोशकोष्ठागारमस्तीति कृत्वा पुत्रप्रियतामेव मन्यमानेन श्लाघमानेनैकवर्णान्येकयानानि दत्तानि, यदुत महायानानि | नास्ति भगवंस्तस्य पुरुषस्य मृषावादः || एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - साधु साधु शारिपुत्र | एवमेतच्छारिपुत्र, एवमेतद् यथा वदसि | एवमेव शारिपुत्र तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वभयविनिवृत्तः सर्वोपद्रवोपायासोपसर्गदुःखदौर्मनस्याविद्यान्धकारतमस्तिमिरपटलपर्यवनाहेभ्यः सर्वेण सर्वं सर्वथा विप्रमुक्तः | तथागतो ज्ञानबलवैशारद्यावेणिकबुद्धधर्मसमन्वागतः ऋद्धिबलेनातिबलवांल्लोकपिताः, महोपायकौशल्यज्ञानपरमपारमिताप्राप्तो महाकारुणिको ऽपरिखिन्नमानसो हितैषी अनुकम्पकः | स त्रैधातुके महता दुःखदौर्मनस्यस्कन्धेन आदीप्तजीर्णपटलशरणनिवेशनसदृश उत्पद्यते सत्त्वानां जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासाविद्यान्धकारतमस्तिमिरपटलपर्यवनाहप्रतिष्ठानां रागद्वेषमोहपरिमोचनहेतोरनुत्तरायां (वैद्य ५४) सम्यक्संबोधौ समादापनहेतोः | स उत्पन्नः समानः पश्यति सत्त्वान् दह्यतः पच्यमानांस्तप्यमानान् परितप्यमानान् जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः, परिभोगनिमित्तं च कामहेतुनिदानं च अनेकाविधानि दुःखानि प्रत्यनुभवन्ति | दृष्टधार्मिकं च पर्येष्टिनिदानं परिग्रहनिदानं सांपरायिकं नरकतिर्यग्योनियमलोकेष्वनेकविधानि दुःखानि प्रत्यनुभविष्यन्ति | देवमनुष्यदारिद्र्यमनिष्टसंयोगमिष्टविनाभाविकानि च दुःखानि प्रत्यनुभवन्ति | तत्रैव च दुःखस्कन्धे परिवर्तमानाः क्रीडन्ति रमन्ते परिचारयन्ति नोत्रसन्ति न संत्रसन्ति न संत्रासमापद्यन्ते न बुध्यन्ते न चेतयन्ति नोद्विजन्ति न निःसरणं पर्येषन्ते | तत्रैव च आदीप्तागारसदृशे त्रैधातुके ऽभिरमन्ति, तेन तेनैव विधावन्ति | तेन च महता दुःखस्कन्धेन अभ्याहता न दुःखमनसिकारसंज्ञामुत्पादयन्ति || तत्र शारिपुत्र तथागत एवं पश्यति - अहं खल्वेषां सत्त्वानां पिता | मया ह्येते सत्त्वा अस्मादेवंरूपान्महतो दुःखस्कन्धात् परिमोचयितव्याः, मया चैषां सत्त्वानामप्रमेयमचिन्त्यं बुद्धज्ञानसुखं दातव्यम्, येनैते सत्त्वाः क्रीडिष्यन्ति रमिष्यन्ति परिचारयिष्यन्ति, विक्रीडितानि च करिष्यन्ति || तत्र शारिपुत्र तथागत एवं पश्यति - सचेदहं ज्ञानबलो ऽस्मीति कृत्वा ऋद्धिबलो ऽस्मीति कृत्वा अनुपायेनैषां सत्त्वानां तथागतज्ञानबलवैशारद्यानि संश्रावयेयम्, नैते सत्त्वा एभिर्धर्भैर्निर्यायेयुः | तत्कस्य हेतोः? अध्यवसिता ह्यमी सत्त्वाः पञ्चसु कामगुणेषु त्रैधातुकरत्याम् | अपरिमुक्ता जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः | दह्यन्ते पच्यन्ते तप्यन्ते परितप्यन्ते | अनिर्धावितास्त्रैधातुकादादीप्तजीर्णपटलशरणनिवेशनसदृशात् कथमेते बुद्धज्ञानं परिभोत्स्यन्ते? तत्र शारिपुत्र तथागतो यद्यथापि नाम स पुरुषो बाहुबलिकः स्थापयित्वा बाहुबलम्, उपायकौशल्येन तान् कुमारकांस्तस्मादादीप्तादगारान्निष्कासयेत्, निष्कासयित्वा स तेषां पश्चादुदाराणि महायानानि दद्यात्, एवमेव शारिपुत्र तथागतो ऽप्यर्हन् सम्यक्संबुद्धस्तथागतज्ञानबलवैशारद्यसमन्वागतः स्थापयित्वा तथागतज्ञानबलवैशारद्यम्, उपायकौशल्यज्ञानेनादीप्तजीर्णपटलशरणनिवेशनसदृशात् त्रैधातुकात् सत्त्वानां निष्कासनहेतोस्त्रीणि यानान्युपदर्शयति यदुत् श्रावकयानं प्रत्येकबुद्धयानं बोधिसत्त्वयानमिति | त्रिभिश्च यानैः सत्त्वांल्लोभयति, एवं चैषां वदति - मा भवन्तो ऽस्मिन्नादीप्तागारसदृशे त्रैधातुके ऽभिरमध्वं हीनेषु रूपशब्दगन्धरसस्पर्शेषु | अत्र हि यूयं त्रैधातुके ऽभिरताः पञ्चकामगुणसहगतया तृष्णया दह्यथ तप्यथ परितप्यथ | निर्धावध्वमस्मात् त्रैधातुकात् | त्रीणि यानान्यनुप्राप्स्यथ यदिदं श्रावकयानं प्रत्येकबुद्धयानं बोधिसत्त्वयानमिति | अहं वो ऽत्र स्थाने प्रतिभूः | अहं वो दास्याम्येतानि त्रीणि यानानि | अभियुज्यध्वे त्रैधातुकान्नि ऽसरणहेतोः | एवं चैतांल्लोभयामि - एतानि भोः सत्त्वा यानि आर्याणि च आर्यप्रशस्तानि च महारमणीयकसमन्वागतानि च | अकृपणमेतैर्भवन्तः क्रीडिष्यथ रमिष्यथ परिचारयिष्यथ | इन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्तिभिश्च महतीं रतिं प्रत्यनुभविष्यथ | महता च सुखसौमनस्येन समन्वागता भविष्यथ || तत्र शारिपुत्र ये सत्त्वाः पण्डितजातीया भवन्ति, ते तथागतस्य लोकपितुरभिश्रद्दधन्ति | अभिश्रद्दधित्वा च तथागतशासने ऽभियुज्यन्ते उद्योगमापद्यन्ते | तत्र केचित् सत्त्वा परघोषश्रवानुगमनमाकाङ्क्षमाणा आत्मपरिनिर्वाणहेतोश्चतुरार्यसत्यानुबोधाय तथागतशासने ऽभियुज्यन्ते | ते उच्यन्ते श्रावकयानमाकाङ्क्षमाणाः त्रैधातुकान्निर्धावन्ति | तद्यथापि नाम तस्मादादीप्तादगारादन्यतरे दारका मृगरथमाकाङ्क्षमाणा निर्धाविताः | अन्ये सत्त्वा अनाचार्यकं ज्ञानं दमशमथमाकाङ्क्षमाणा आत्मपरिनिर्वाणहेतोर्हेतुप्रत्ययानुबोधाय तथागतशासने ऽभियुज्यन्ते, ते उच्यन्ते प्रत्येकबुद्धयानमाकाङ्क्षमाणास्त्रैधातुकान्निर्धावन्ति | तद्यथापि नाम तस्मादादीप्तादगारादन्यतरे दारका अजरथमाङ्क्षमाणा निर्धाविताः | अपरे पुनः सत्त्वाः सर्वज्ञज्ञानं बुद्धज्ञानं स्वयंभूज्ञानमनाचार्यकं ज्ञानमाकाङ्क्षमाणा बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च सर्वसत्त्वपरिनिर्वाणहेतोस्तथागतज्ञानबलवैशारद्यानुबोधाय तथागतशासने ऽभियुज्यन्ते | ते उच्यन्ते महायानमाकाङ्क्षमाणास्त्रैधातुकान्निर्धावन्ति | तेन कारणेनोच्यन्ते बोधिसत्त्वा महासत्त्वा इति | तद्यथापि नाम तस्मादादीप्तादगारादन्यतरे दारका गोरथमाकाङ्क्षमाणानिर्धाविताः | तद्यथापि नाम शारिपुत्र स पुरुषस्तान् कुमारकांस्तस्मादादीप्तादगारान्निर्धावितान् दृष्ट्वा क्षेमस्वस्तिभ्यां परिमुक्तानभयप्राप्तानिति विदित्वा आत्मानं च महाधनं विदित्वा तेषां दारकाणामेकमेव यानमुदारमनुप्रयच्छेत्, एवमेव शारिपुत्र तथागतो ऽप्यर्हन् सम्यक्संबुद्धो यदा पश्यति - अनेकाः सत्त्वकोटीस्त्रैधातुकात् परिमुक्ता दुःखभयभैरवोपद्रवपरिमुक्तास्तथागतशासनद्वारेण निर्धाविताः परिमुक्ताः सर्वभयोपद्रवकान्तारेभ्यः | निर्वृतिसुखप्राप्ताः निर्वृतिसुखाप्राप्ताः | तानेतान् शारिपुत्र तस्मिन् समये तथागतो ऽर्हन् सम्यक्संबुद्धः प्रभूतो महाज्ञानबलवैशारद्यकोश इति विदित्वा सर्वे चैते ममैव पुत्रा इति ज्ञात्वा बुद्धयानेनैव तान् सत्त्वान् परिनिर्वापयति | न च कस्यचित् सत्त्वस्य प्रत्यात्मिकं परिनिर्वाणं वदति | सर्वांश्च तान् सत्त्वांस्तथागतपरिनिर्वाणेन महापरिनिर्वाणेन परिनिर्वापयति | ये चापि ते शारिपुत्र सत्त्वास्त्रैधातुकात् परिमुक्ता भवन्ति, तेषां तथागतो ध्यानविमोक्षसमाधिसमापत्तीरार्याणि परमसुखानि क्रीडनकानि रमणीयकानि ददाति, सर्वाण्येतान्येकवर्णानि | तद्यथापि नाम शारिपुत्र तस्य पुरुषस्य न मृषावादो भवेत्, येन त्रीणि यानान्युपदर्शयित्वा तेषां कुमारकाणामेकमेव महायानं सर्वेषां दत्तं सप्तरत्नमयं सर्वालंकारविभूषितमेकवर्णमेव उदारयानमेव सर्वेषामग्रयानमेव दत्तं भवेत् | एवमेव शारिपुत्र तथागतो ऽप्यर्हन् सम्यक्संबुद्धो न मृषावादी भवति, येन पूर्वमुपायकौशल्येन त्रीणि यानान्युपदर्शयित्वा पश्चान्महायानेनैव सत्त्वान् परिनिर्वापयति | तत्कस्य हेतोः? तथागतो हि शारिपुत्र प्रभूतज्ञानबलवैशारद्यकोशकोष्ठागारसमन्वागतः प्रतिबलः सर्वसत्त्वानां सर्वज्ञज्ञानसहगतं (वैद्य ५६) धर्ममुपदर्शयितुम् | अनेनापि शारिपुत्र पर्यायेणैवं वेदितव्यम्, यथा उपायकौशल्यज्ञानाभिनिर्हारैस्तथागत एकमेव महायानं देशयति || अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत - यथा हि पुरुषस्य भवेदगारं जीर्णं महन्तं च सुदुर्बलं च । विशीर्ण प्रासादु तथा भवेत स्तम्भाश्च मूलेषु भवेयु पूतिकाः ॥ ३.३९ ॥

// atha khalvāyuṣmān śāriputro bhagavantametadavocat - niṣkāṅkṣo 'smi bhagavan vigatakathaṃkatho bhagavato 'ntikāt saṃmukhamidamātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau | yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ | ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣāmātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām, te bhagavato 'ntikādimamevaṃrūpamaśrutapūrvaṃ dharma śrutvā kathaṃkathāmāpannāḥ | tatsādhu bhagavān bhāṣatāmeṣāṃ bhikṣūṇāṃ kaukṛtyavinodanārtha yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ || evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati | imāmevānuttarāṃ samyaksaṃbodhimārabhya sarvadharmadeśanābhirbodhisattvayānameva samādāpayati | api tu khalu punaḥ śāriputra aupamyaṃ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṃdarśanārtham | tatkasya hetoḥ? upamayā iha ekatyā vijñapuruṣā bhāṣitasyārthamājānanti || tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo 'nuprāpta āḍhyo mahādhano mahābhogaḥ | mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ | ekadvāraṃ ca tanniveśanaṃ bhavet | tṛṇasaṃchannaṃ ca bhavet | vigalitaprāsādaṃ ca bhavet | pūtistambhamūlaṃ ca bhavet | saṃśīrṇakuḍyakaṭalepanaṃ ca bhavet | tacca sahasaiva mahātāgniskandhena sarvapārśveṣu sarvāvantaṃ niveśanaṃ pradīptaṃ bhavet | tasya ca puruṣasya bahavaḥ kumārakāḥ syuḥ pañca vā daśa vā viṃśatirvā | sa ca puruṣastasmānniveśanād bahirnirgataḥ syāt || atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahātāgniskandhena samantāt saṃprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhavet, evaṃ cānuvicintayet - pratibalo 'hamanena mahatāgniskandhenāsaṃspṛṣṭo 'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum | api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayanti, imaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante, saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti, nāpi nirgamanamanasikāramutpādayanti || sa ca śāriputra puruṣo balavān bhaved bāhubalikaḥ | sa evamanuvicintayet - ahamasmi balavān bāhubalikaśca | yannvahaṃ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam | sa punarevamanuvicintayet - idaṃ khalu niveśanamekapraveśaṃ saṃvṛtadvārameva | kumārakāścapalāścañcalā bālajātīyāśca | mā haiva paribhrameyuḥ | te 'nena mahatāgniskandhenānayavyasanamāpadyeran | yannūnamahametān saṃcodayayam | iti pratisaṃkhyāya tān kumārakānāmantrayate sma - āgacchata bhavantaḥ kumārakāḥ, nirgacchata | ādīptamidaṃ gṛhaṃ mahatā agniskandhena | mā haivātraiva sarve 'nena mahatāgniskandhena dhakṣyatha, anayavyasanamāpatsyatha | atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti notrasanti na saṃtrasanti na saṃtrāsamāpadyante, na vicintayanti na nirdhāvanti, nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti | anyatra tena tenaiva dhāvanti vidhāvanti, punaḥ punaśca taṃ pitaramavalokayanti | tatkasya hetoḥ? yathāpīdaṃ bālabhāvatvāt || atha khalu sa puruṣa evamanuvicintayet - ādīptamidaṃ niveśanaṃ mahatāgniskandhena saṃpradīptam | mā haivāhaṃ ceme ca kumārakā ihaivānena mahātāgniskandhena anayavyasanamāpatsyāmahe | yannvahamupāyakauśalyenemān kumārakān asmād gṛhāt niṣkrāmayeyam | sa ca puruṣasteṣāṃ kumārakāṇāmāśayajño bhavet, adhimuktiṃ ca vijānīyāt | teṣāṃ ca kumārakāṇāmanekavidhānyanekāni krīḍanakāni bhaveyurvividhāni ca ramaṇīyakānīṣṭāni kāntāni priyāṇi manaāpāni, tāni ca durlabhāni bhaveyuḥ || atha khalu sa puruṣasteṣāṃ kumārakāṇāmāśayaṃ jānaṃstān kumārakānetadavocat - yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni, yeṣāmalābhāt saṃtapyatha, nānāvarṇāni bahuprakārāṇi | tadyathā gorathakānyajarathakāni mṛgarathakāni | yāni bhavatāmiṣṭāni kāntāni priyāṇi manaāpāni | tāni ca mayā sarvāṇi bahinirveśanadvāre sthāpitāni yuṣmākaṃ krīḍanahetoḥ | āgacchantu bhavanto nirdhāvantvasmānniveśanāt | ahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṣyati, tasmai tasmai tatpradāsyāmi | āgacchata śīghraṃ teṣāṃ kāraṇam, nirdhāvata | atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyamapratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyāstasmādādīptādagārāt kṣiprameva nirdhāvitāḥ || atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo 'bhayaprāpto bhavet | atha khalu te kumārakā yena sa pitā tenopasaṃkrāman, upasaṃkramyaivaṃ vadeyuḥ - dehi nastāta tāni vividhāni krīḍanakāni ramaṇīyāni | tadyathā - gorathakānyajarathakāni mṛgarathakāni | atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasaṃpannān (vaidya 53) gorathakānevānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇānubhayato lohitopadhānān śvetaiḥ prapāṇḍaraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān | savaijayantān gorathakāneva vātabalajavasaṃpannānekavarṇānekavidhānekaikasya dārakasya dadyāt | tatkasya hetoḥ? tathā hi śāriputra sa puruṣa āḍhyaśca bhavenmahādhanaśca prabhūtakoṣṭhāgāraśca | sa evaṃ manyeta - alaṃ ma eṣāṃ kumārakāṇāmanyairyānairdattairiti | tatkasya hetoḥ? sarva evaite kumārakā mamaiva putrāḥ, sarve ca me priyā manaāpāḥ | saṃvidyante ca me imānyevaṃrūpāṇi mahāyānāni | samaṃ ca mayaite kumārakāḥ sarve cintayitavyā na viṣamam | ahamapi bahukoṣakoṣṭhāgāraḥ | sarvasattvānāmapyahamimānyevaṃrūpāṇi mahāyānāni dadyām, kimaṅga punaḥ svakānāṃ putrāṇām | te ca dārakāstasmin samaye teṣu mahāyāneṣvabhiruhya āścaryādbhutaprāptā bhaveyuḥ | tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syāt, yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāni, udārayānānyeva dattāni? śāriputra āha - na hyetad bhagavan, na hyetat sugata | anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitāḥ, jīvitena ca abhicchāditāḥ | tatkasya hetoḥ? ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti | yadyapi tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇāmekarathamapi na dadyāt, tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet | tatkasya hetoḥ? tathā hi bhagavaṃstena puruṣeṇa pūrvameva evamanuvicintitam - upāyakauśalyena ahamimān kumārakāṃstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti | anenāpi bhagavan paryāyeṇa tasya puruṣasya na mṛṣāvādo bhavet | kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni, yaduta mahāyānāni | nāsti bhagavaṃstasya puruṣasya mṛṣāvādaḥ || evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat - sādhu sādhu śāriputra | evametacchāriputra, evametad yathā vadasi | evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ | tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitāḥ, mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko 'parikhinnamānaso hitaiṣī anukampakaḥ | sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṃ rāgadveṣamohaparimocanahetoranuttarāyāṃ (vaidya 54) samyaksaṃbodhau samādāpanahetoḥ | sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ, paribhoganimittaṃ ca kāmahetunidānaṃ ca anekāvidhāni duḥkhāni pratyanubhavanti | dṛṣṭadhārmikaṃ ca paryeṣṭinidānaṃ parigrahanidānaṃ sāṃparāyikaṃ narakatiryagyoniyamalokeṣvanekavidhāni duḥkhāni pratyanubhaviṣyanti | devamanuṣyadāridryamaniṣṭasaṃyogamiṣṭavinābhāvikāni ca duḥkhāni pratyanubhavanti | tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti notrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante | tatraiva ca ādīptāgārasadṛśe traidhātuke 'bhiramanti, tena tenaiva vidhāvanti | tena ca mahatā duḥkhaskandhena abhyāhatā na duḥkhamanasikārasaṃjñāmutpādayanti || tatra śāriputra tathāgata evaṃ paśyati - ahaṃ khalveṣāṃ sattvānāṃ pitā | mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyāḥ, mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyam, yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti, vikrīḍitāni ca kariṣyanti || tatra śāriputra tathāgata evaṃ paśyati - sacedahaṃ jñānabalo 'smīti kṛtvā ṛddhibalo 'smīti kṛtvā anupāyenaiṣāṃ sattvānāṃ tathāgatajñānabalavaiśāradyāni saṃśrāvayeyam, naite sattvā ebhirdharbhairniryāyeyuḥ | tatkasya hetoḥ? adhyavasitā hyamī sattvāḥ pañcasu kāmaguṇeṣu traidhātukaratyām | aparimuktā jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ | dahyante pacyante tapyante paritapyante | anirdhāvitāstraidhātukādādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt kathamete buddhajñānaṃ paribhotsyante? tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam, upāyakauśalyena tān kumārakāṃstasmādādīptādagārānniṣkāsayet, niṣkāsayitvā sa teṣāṃ paścādudārāṇi mahāyānāni dadyāt, evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhastathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam, upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yadut śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti | tribhiśca yānaiḥ sattvāṃllobhayati, evaṃ caiṣāṃ vadati - mā bhavanto 'sminnādīptāgārasadṛśe traidhātuke 'bhiramadhvaṃ hīneṣu rūpaśabdagandharasasparśeṣu | atra hi yūyaṃ traidhātuke 'bhiratāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha | nirdhāvadhvamasmāt traidhātukāt | trīṇi yānānyanuprāpsyatha yadidaṃ śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti | ahaṃ vo 'tra sthāne pratibhūḥ | ahaṃ vo dāsyāmyetāni trīṇi yānāni | abhiyujyadhve traidhātukānni 'saraṇahetoḥ | evaṃ caitāṃllobhayāmi - etāni bhoḥ sattvā yāni āryāṇi ca āryapraśastāni ca mahāramaṇīyakasamanvāgatāni ca | akṛpaṇametairbhavantaḥ krīḍiṣyatha ramiṣyatha paricārayiṣyatha | indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattibhiśca mahatīṃ ratiṃ pratyanubhaviṣyatha | mahatā ca sukhasaumanasyena samanvāgatā bhaviṣyatha || tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti, te tathāgatasya lokapiturabhiśraddadhanti | abhiśraddadhitvā ca tathāgataśāsane 'bhiyujyante udyogamāpadyante | tatra kecit sattvā paraghoṣaśravānugamanamākāṅkṣamāṇā ātmaparinirvāṇahetoścaturāryasatyānubodhāya tathāgataśāsane 'bhiyujyante | te ucyante śrāvakayānamākāṅkṣamāṇāḥ traidhātukānnirdhāvanti | tadyathāpi nāma tasmādādīptādagārādanyatare dārakā mṛgarathamākāṅkṣamāṇā nirdhāvitāḥ | anye sattvā anācāryakaṃ jñānaṃ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane 'bhiyujyante, te ucyante pratyekabuddhayānamākāṅkṣamāṇāstraidhātukānnirdhāvanti | tadyathāpi nāma tasmādādīptādagārādanyatare dārakā ajarathamāṅkṣamāṇā nirdhāvitāḥ | apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānamanācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetostathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante | te ucyante mahāyānamākāṅkṣamāṇāstraidhātukānnirdhāvanti | tena kāraṇenocyante bodhisattvā mahāsattvā iti | tadyathāpi nāma tasmādādīptādagārādanyatare dārakā gorathamākāṅkṣamāṇānirdhāvitāḥ | tadyathāpi nāma śāriputra sa puruṣastān kumārakāṃstasmādādīptādagārānnirdhāvitān dṛṣṭvā kṣemasvastibhyāṃ parimuktānabhayaprāptāniti viditvā ātmānaṃ ca mahādhanaṃ viditvā teṣāṃ dārakāṇāmekameva yānamudāramanuprayacchet, evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho yadā paśyati - anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktāstathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyaḥ | nirvṛtisukhaprāptāḥ nirvṛtisukhāprāptāḥ | tānetān śāriputra tasmin samaye tathāgato 'rhan samyaksaṃbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati | na ca kasyacit sattvasya pratyātmikaṃ parinirvāṇaṃ vadati | sarvāṃśca tān sattvāṃstathāgataparinirvāṇena mahāparinirvāṇena parinirvāpayati | ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti, teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīrāryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti, sarvāṇyetānyekavarṇāni | tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhavet, yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitamekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet | evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati, yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati | tatkasya hetoḥ? tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṃ sarvajñajñānasahagataṃ (vaidya 56) dharmamupadarśayitum | anenāpi śāriputra paryāyeṇaivaṃ veditavyam, yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata - yathā hi puruṣasya bhavedagāraṃ jīrṇaṃ mahantaṃ ca sudurbalaṃ ca / viśīrṇa prāsādu tathā bhaveta stambhāśca mūleṣu bhaveyu pūtikāḥ (3.39)

Verse 3.40

।। गवाक्षहर्म्या गलितैकदेशा विशीर्ण कुडयं कटलेपनं च । जीर्णु प्रवृद्धोद्धृतवेदिकं च तृणच्छदं सर्वत ओपतन्तम् ॥ ३.४० ॥

// gavākṣaharmyā galitaikadeśā viśīrṇa kuḍayaṃ kaṭalepanaṃ ca / jīrṇu pravṛddhoddhṛtavedikaṃ ca tṛṇacchadaṃ sarvata opatantam (3.40)

Verse 3.41

।। शतान पञ्चान अनूनकानां आवासु सो तत्र भवेत प्राणिनाम् । बहूनि चा निष्कुटसंकटानि उच्चारपूर्णानि जुगुप्सितानि ॥ ३.४१ ॥

// śatāna pañcāna anūnakānāṃ āvāsu so tatra bhaveta prāṇinām / bahūni cā niṣkuṭasaṃkaṭāni uccārapūrṇāni jugupsitāni (3.41)

Verse 3.42

।। गोपानसी विगलित तत्र सर्वा कुडयाश्च भित्तीश्च तथैव स्रस्ताः । गृध्राण कोट्यो निवसन्ति तत्र पारावतोलूक तथान्यपक्षिणः ॥ ३.४२ ॥

// gopānasī vigalita tatra sarvā kuḍayāśca bhittīśca tathaiva srastāḥ / gṛdhrāṇa koṭyo nivasanti tatra pārāvatolūka tathānyapakṣiṇaḥ (3.42)

Verse 3.43

।। आशीविषा दारुण तत्र सन्ति देशप्रदेशेषु महाविषोग्राः । विचित्रिका वृश्चिकमूषिकाश्च एतान आवासु सुदुष्टप्राणिनाम् ॥ ३.४३ ॥

// āśīviṣā dāruṇa tatra santi deśapradeśeṣu mahāviṣogrāḥ / vicitrikā vṛścikamūṣikāśca etāna āvāsu suduṣṭaprāṇinām (3.43)

Verse 3.44

।। देशे च देशे अमनुष्य भूयो उच्चारप्रस्रावविनाशितं च । कृमिकीटखद्योतकपूरितं च श्वभिः शृगालैश्च निनादितं च ॥ ३.४४ ॥

// deśe ca deśe amanuṣya bhūyo uccāraprasrāvavināśitaṃ ca / kṛmikīṭakhadyotakapūritaṃ ca śvabhiḥ śṛgālaiśca nināditaṃ ca (3.44)

Verse 3.45

।। भेरुण्डका दारुणा तत्र सन्ति मनुष्यकुणपानि च भक्षयन्तः । तेषां च निर्याणु प्रतीक्षमाणाः श्वानाः शृगालाश्च वसन्त्यनेके ॥ ३.४५ ॥

// bheruṇḍakā dāruṇā tatra santi manuṣyakuṇapāni ca bhakṣayantaḥ / teṣāṃ ca niryāṇu pratīkṣamāṇāḥ śvānāḥ śṛgālāśca vasantyaneke (3.45)

Verse 3.46

।। ते दुर्बला नित्य क्षुधाभिभूता देशेषु देशेषु विखादमानाः । कलहं करोन्ताश्च निनादयन्ति सुभैरवं तद्गृहमेवरूपम् ॥ ३.४६ ॥

// te durbalā nitya kṣudhābhibhūtā deśeṣu deśeṣu vikhādamānāḥ / kalahaṃ karontāśca ninādayanti subhairavaṃ tadgṛhamevarūpam (3.46)

Verse 3.47

।। सुरौद्रचित्ता पि वसन्ति यक्षा मनुष्यकुणपानि विकड्ढमानाः । देशेषु देशेषु वसन्ति तत्र शतापदी गोनसकाश्च व्यालाः ॥ ३.४७ ॥

// suraudracittā pi vasanti yakṣā manuṣyakuṇapāni vikaḍḍhamānāḥ / deśeṣu deśeṣu vasanti tatra śatāpadī gonasakāśca vyālāḥ (3.47)

Verse 3.48

।। देशेषु देशेषु च निक्षिपन्ति ते पोतकान्यालयनानि कृत्वा । न्यस्तानि न्यस्तानि च तानि तेषां ते यक्ष भूयो परिभक्षयन्ति ॥ ३.४८ ॥

// deśeṣu deśeṣu ca nikṣipanti te potakānyālayanāni kṛtvā / nyastāni nyastāni ca tāni teṣāṃ te yakṣa bhūyo paribhakṣayanti (3.48)

Verse 3.49

।। यदा च ते यक्ष भवन्ति तृप्ताः परसत्त्व खादित्व सुरौद्रचित्ताः । परसत्त्वमांसैः परितृप्तगात्राः कलहं तदा तत्र करोन्ति तीव्रम् ॥ ३.४९ ॥

// yadā ca te yakṣa bhavanti tṛptāḥ parasattva khāditva suraudracittāḥ / parasattvamāṃsaiḥ paritṛptagātrāḥ kalahaṃ tadā tatra karonti tīvram (3.49)

Verse 3.50

।। विध्वस्तलेनेषु वसन्ति तत्र कुम्भाण्डका दारूणरौद्रचित्ताः । वितस्तिमात्रास्तथ हस्तमात्रा द्विहस्तमात्राश्चनुचंक्रमन्ति ॥ ३.५० ॥

// vidhvastaleneṣu vasanti tatra kumbhāṇḍakā dārūṇaraudracittāḥ / vitastimātrāstatha hastamātrā dvihastamātrāścanucaṃkramanti (3.50)

Verse 3.51

।। ते चापि श्वानान् परिगृह्य पादैरुत्तानकान् कृत्व तथैव भूमौ । ग्रीवासु चोत्पीड्य विभर्त्सयन्तो व्याबाधयन्तश्च रमन्ति तत्र ॥ ३.५१ ॥

// te cāpi śvānān parigṛhya pādairuttānakān kṛtva tathaiva bhūmau / grīvāsu cotpīḍya vibhartsayanto vyābādhayantaśca ramanti tatra (3.51)

Verse 3.52

।। नानाश्च कृष्णाश्च तथैव दुर्बला उच्चा महन्ताश्च वसन्ति प्रेताः । जिघत्सिता भोजन मार्गमाणा आर्तस्वरं क्रन्दिषु तत्र तत्र ॥ ३.५२ ॥

// nānāśca kṛṣṇāśca tathaiva durbalā uccā mahantāśca vasanti pretāḥ / jighatsitā bhojana mārgamāṇā ārtasvaraṃ krandiṣu tatra tatra (3.52)

Verse 3.53

।। सूचीमुखा गोणमुखाश्च केचित् मनुष्यमात्रास्तथ श्वानमात्राः । प्रकीर्णकेशाश्च करोन्ति शब्दमाहारतृष्णापरिदह्यमानाः ॥ ३.५३ ॥

// sūcīmukhā goṇamukhāśca kecit manuṣyamātrāstatha śvānamātrāḥ / prakīrṇakeśāśca karonti śabdamāhāratṛṣṇāparidahyamānāḥ (3.53)

Verse 3.54

।। चतुर्दिशं चात्र विलोकयन्ति गवाक्ष-उल्लोकनकेहि नित्यम् । ते यक्ष प्रेताश्च पिशाचकाश्च गृध्राश्च आहार गवेषमाणाः ॥ ३.५४ ॥

// caturdiśaṃ cātra vilokayanti gavākṣa-ullokanakehi nityam / te yakṣa pretāśca piśācakāśca gṛdhrāśca āhāra gaveṣamāṇāḥ (3.54)

Verse 3.55

।। एतादृशं भैरवु तद् गृहं भवेत् महन्तमुच्चं च सुदुर्बलं च । विजर्जरं दुर्बलमित्वरं च पुरुषस्य एकस्य परिग्रहं भवेत् ॥ ३.५५ ॥

// etādṛśaṃ bhairavu tad gṛhaṃ bhavet mahantamuccaṃ ca sudurbalaṃ ca / vijarjaraṃ durbalamitvaraṃ ca puruṣasya ekasya parigrahaṃ bhavet (3.55)

Verse 3.56

।। स च बाह्यतः स्यात्पुरुषो गृहस्य निवेशनं तच्च भवेत्प्रदीप्तम् । सहसा समन्तेन चतुर्दिशं च ज्वालासहस्रैः परिदीप्यमानम् ॥ ३.५६ ॥

// sa ca bāhyataḥ syātpuruṣo gṛhasya niveśanaṃ tacca bhavetpradīptam / sahasā samantena caturdiśaṃ ca jvālāsahasraiḥ paridīpyamānam (3.56)

Verse 3.57

।। वंशाश्च दारूणि च अग्नितापिताः करोन्ति शब्दं गुरुकं सुभैरवम् । प्रदीप्त स्तम्भाश्च तथैव भित्तयो यक्षाश्च प्रेताश्च मुचन्ति नादम् ॥ ३.५७ ॥

// vaṃśāśca dārūṇi ca agnitāpitāḥ karonti śabdaṃ gurukaṃ subhairavam / pradīpta stambhāśca tathaiva bhittayo yakṣāśca pretāśca mucanti nādam (3.57)

Verse 3.58

।। ज्वालूषिता गृध्रशताश्च भूयः कुम्भाण्डकाः प्लोष्टमुखा भ्रमन्ति । समन्ततो व्यालशताश्च तत्र नदन्ति क्रोशन्ति च दह्यमानाः ॥ ३.५८ ॥

// jvālūṣitā gṛdhraśatāśca bhūyaḥ kumbhāṇḍakāḥ ploṣṭamukhā bhramanti / samantato vyālaśatāśca tatra nadanti krośanti ca dahyamānāḥ (3.58)

Verse 3.59

।। पिशाचकास्तत्र बहू भ्रमन्ति संतापिता अग्निन मन्दपुण्याः । दन्तेहि पाटित्व ति अन्यमन्यं रुधिरेण सिञ्चन्ति च दह्यमानाः ॥ ३.५९ ॥

// piśācakāstatra bahū bhramanti saṃtāpitā agnina mandapuṇyāḥ / dantehi pāṭitva ti anyamanyaṃ rudhireṇa siñcanti ca dahyamānāḥ (3.59)

Verse 3.60

।। भेरूण्डकाः कालगताश्च तत्र खादन्ति सत्त्वाश्च ति अन्यमन्यम् । उच्चार दह्यत्यमनोज्ञगन्धः प्रवायते लोकि चतुर्दिशासु ॥ ३.६० ॥

// bherūṇḍakāḥ kālagatāśca tatra khādanti sattvāśca ti anyamanyam / uccāra dahyatyamanojñagandhaḥ pravāyate loki caturdiśāsu (3.60)

Verse 3.61

।। शतापदीयो प्रपलायमानाः कुम्भाण्डकास्ताः परिभक्षयन्ति । प्रदीप्तकेशाश्च भ्रमन्ति प्रेताः क्षुधाय दाहेन च दह्यमानाः ॥ ३.६१ ॥

// śatāpadīyo prapalāyamānāḥ kumbhāṇḍakāstāḥ paribhakṣayanti / pradīptakeśāśca bhramanti pretāḥ kṣudhāya dāhena ca dahyamānāḥ (3.61)

Verse 3.62

।। एतादृशं भैरव तन्निवेशनं ज्वालासहस्रैर्हि विनिश्चरद्भिः । पुरुषश्च सो तस्य गृहस्य स्वामी द्वारस्मि अस्थासि विपश्यमानः ॥ ३.६२ ॥

// etādṛśaṃ bhairava tanniveśanaṃ jvālāsahasrairhi viniścaradbhiḥ / puruṣaśca so tasya gṛhasya svāmī dvārasmi asthāsi vipaśyamānaḥ (3.62)

Verse 3.63

।। शृणोति चासौ स्वके अत्र पुत्रान् क्रीडापनैः क्रीडनसक्तबुद्धीन् । रमन्ति ते क्रीडनकप्रमत्ता यथापि बाला अविजानमानाः ॥ ३.६३ ॥

// śṛṇoti cāsau svake atra putrān krīḍāpanaiḥ krīḍanasaktabuddhīn / ramanti te krīḍanakapramattā yathāpi bālā avijānamānāḥ (3.63)

Verse 3.64

।। श्रुत्वा च सो तत्र प्रविष्टु क्षिप्रं प्रमोचनार्थाय तदात्मजानाम् । मा मह्य बाला इमि सर्व दारका दह्येयु नश्येयु च क्षिप्रमेव ॥ ३.६४ ॥

// śrutvā ca so tatra praviṣṭu kṣipraṃ pramocanārthāya tadātmajānām / mā mahya bālā imi sarva dārakā dahyeyu naśyeyu ca kṣiprameva (3.64)

Verse 3.65

।। स भाषते तेषमगारदोषान् दुःखं इदं भोः कुलपुत्र दारुणम् । विविधाश्च सत्त्वेह अयं च अग्नि महन्तिका दुःखपरंपरा तु ॥ ३.६५ ॥

// sa bhāṣate teṣamagāradoṣān duḥkhaṃ idaṃ bhoḥ kulaputra dāruṇam / vividhāśca sattveha ayaṃ ca agni mahantikā duḥkhaparaṃparā tu (3.65)

Verse 3.66

।। आशीविषा यक्ष सुरौद्रचित्ताः कुम्भाण्ड प्रेता बहवो वसन्ति । भेरुण्डकाः श्वानशृगालसंघा गृध्राश्च आहार गवेषमाणाः ॥ ३.६६ ॥

// āśīviṣā yakṣa suraudracittāḥ kumbhāṇḍa pretā bahavo vasanti / bheruṇḍakāḥ śvānaśṛgālasaṃghā gṛdhrāśca āhāra gaveṣamāṇāḥ (3.66)

Verse 3.67

।। एतादृशास्मिन् बहवो वसन्ति विनापि चाग्नेः परमं सुभैरवम् । दुःखं इदं केवलमेवरूपं समन्ततश्चाग्निरयं प्रदीप्तः ॥ ३.६७ ॥

// etādṛśāsmin bahavo vasanti vināpi cāgneḥ paramaṃ subhairavam / duḥkhaṃ idaṃ kevalamevarūpaṃ samantataścāgnirayaṃ pradīptaḥ (3.67)

Verse 3.68

।। ते चोद्यमानास्तथ बालबुद्धयः कुमारकाः क्रीडनके प्रमत्ताः । न चिन्तयन्ते पितरं भणन्तं न चापि तेषां मनसीकरोन्ति ॥ ३.६८ ॥

// te codyamānāstatha bālabuddhayaḥ kumārakāḥ krīḍanake pramattāḥ / na cintayante pitaraṃ bhaṇantaṃ na cāpi teṣāṃ manasīkaronti (3.68)

Verse 3.69

।। पुरुषश्च सो तत्र तदा विचिन्तयेत् सुदुःखितो ऽस्मी इह पुत्रचिन्तया । किं मह्य पुत्रेहि अपुत्रकस्य मा नाम दह्येयुरिहाग्निना इमे ॥ ३.६९ ॥

// puruṣaśca so tatra tadā vicintayet suduḥkhito 'smī iha putracintayā / kiṃ mahya putrehi aputrakasya mā nāma dahyeyurihāgninā ime (3.69)

Verse 3.70

।। उपायु सो चिन्तयि तस्मि काले लुब्धा इमे क्रीडनकेषु बालाः । न चात्र क्रीडा च रती च काचिद् बालान हो यादृशु मूढभावः ॥ ३.७० ॥

// upāyu so cintayi tasmi kāle lubdhā ime krīḍanakeṣu bālāḥ / na cātra krīḍā ca ratī ca kācid bālāna ho yādṛśu mūḍhabhāvaḥ (3.70)

Verse 3.71

।। स तानवोचछृणुथा कुमारका नानाविधा यानक या ममास्ति । मृगैरजैर्गोणवरैश्च युक्ता उच्चा महन्ता समलंकृता च ॥ ३.७१ ॥

// sa tānavocachṛṇuthā kumārakā nānāvidhā yānaka yā mamāsti / mṛgairajairgoṇavaraiśca yuktā uccā mahantā samalaṃkṛtā ca (3.71)

Verse 3.72

।। ता बाह्यतो अस्य निवेशनस्य निर्धावथा तेहि करोथ कार्यम् । युष्माकमर्थे मय कारितानि निर्याथ तैस्तुष्टमनाः समेत्य ॥ ३.७२ ॥

// tā bāhyato asya niveśanasya nirdhāvathā tehi karotha kāryam / yuṣmākamarthe maya kāritāni niryātha taistuṣṭamanāḥ sametya (3.72)

Verse 3.73

।। ते यान एतादृशका निशाम्य आरब्धवीर्यास्त्वरिता हि भूत्वा । निर्धावितास्तत्क्षणमेव सर्वे आकाशि तिष्ठन्ति दुखेन मुक्ताः ॥ ३.७३ ॥

// te yāna etādṛśakā niśāmya ārabdhavīryāstvaritā hi bhūtvā / nirdhāvitāstatkṣaṇameva sarve ākāśi tiṣṭhanti dukhena muktāḥ (3.73)

Verse 3.74

।। पुरुषश्च सो निर्गत दृष्ट्व दारकान् ग्रामस्य मध्ये स्थितु चत्वरस्मिन् । उपविश्य सिंहासनि तानुवाच अहो अहं निर्वृतु अद्य मार्षाः ॥ ३.७४ ॥

// puruṣaśca so nirgata dṛṣṭva dārakān grāmasya madhye sthitu catvarasmin / upaviśya siṃhāsani tānuvāca aho ahaṃ nirvṛtu adya mārṣāḥ (3.74)

Verse 3.75

।। ये दुःखलब्धा मम ते तपस्विनः पुत्रा प्रिया ओरस विंश बालाः । ते दारूणे दुर्गगृहे अभूवन् बहूजन्तूपूर्णे च सुभैरवे च ॥ ३.७५ ॥

// ye duḥkhalabdhā mama te tapasvinaḥ putrā priyā orasa viṃśa bālāḥ / te dārūṇe durgagṛhe abhūvan bahūjantūpūrṇe ca subhairave ca (3.75)

Verse 3.76

।। आदीप्तके ज्वालसहस्रपूर्णे रता च ते क्रीडरतीषु आसन् । मया च ते मोचित अद्य सर्वे येनाहु निर्वाणु समागतो ऽद्य ॥ ३.७६ ॥

// ādīptake jvālasahasrapūrṇe ratā ca te krīḍaratīṣu āsan / mayā ca te mocita adya sarve yenāhu nirvāṇu samāgato 'dya (3.76)

Verse 3.77

।। सुखस्थितं तं पितरं विदित्वा उपगम्य ते दारक एवमाहुः । ददाहि नस्तात यथाभिभाषितं त्रिविधानि यानानि मनोरमाणि ॥ ३.७७ ॥

// sukhasthitaṃ taṃ pitaraṃ viditvā upagamya te dāraka evamāhuḥ / dadāhi nastāta yathābhibhāṣitaṃ trividhāni yānāni manoramāṇi (3.77)

Verse 3.78

।। सचेत्तव सत्यक तात सर्वं यद्भाषितं तत्र निवेशने ते । त्रिविधानि यानानि ह संप्रदास्ये ददस्व कालो ऽयमिहाद्य तेषाम् ॥ ३.७८ ॥

// sacettava satyaka tāta sarvaṃ yadbhāṣitaṃ tatra niveśane te / trividhāni yānāni ha saṃpradāsye dadasva kālo 'yamihādya teṣām (3.78)

Verse 3.79

।। पुरुषश्च सो कोशबली भवेत सुवर्णरूप्यामणिमुक्तकस्य । हिरण्य दासाश्च अनल्पकाः स्युरुपस्थपे एकविधा स याना ॥ ३.७९ ॥

// puruṣaśca so kośabalī bhaveta suvarṇarūpyāmaṇimuktakasya / hiraṇya dāsāśca analpakāḥ syurupasthape ekavidhā sa yānā (3.79)

Verse 3.80

।। रत्नामया गोणरथा विशिष्टा सवेदिकाः किङ्किणिजालनद्धाः । छत्रध्वजेभिः समलंकृताश्च मुक्तामणीजालिकछादिताश्च ॥ ३.८० ॥

// ratnāmayā goṇarathā viśiṣṭā savedikāḥ kiṅkiṇijālanaddhāḥ / chatradhvajebhiḥ samalaṃkṛtāśca muktāmaṇījālikachāditāśca (3.80)

Verse 3.81

।। सुवर्णपुष्पाण कृतैश्च दामैर्देशेषु देशेषु प्रलम्बमानैः । बस्त्रैरुदारैः परिसंवृताश्च प्रत्यास्तृता दूष्यवरैश्च शुक्लैः ॥ ३.८१ ॥

// suvarṇapuṣpāṇa kṛtaiśca dāmairdeśeṣu deśeṣu pralambamānaiḥ / bastrairudāraiḥ parisaṃvṛtāśca pratyāstṛtā dūṣyavaraiśca śuklaiḥ (3.81)

Verse 3.82

।। मृदुकान् पट्टान तथैव तत्र वरतूलिकासंस्तृत ये ऽपि ते रथाः । प्रत्यास्तृताः कोटिसहस्रमूल्यैर्वरैश्च कोच्कैर्बकहंसलक्षणैः ॥ ३.८२ ॥

// mṛdukān paṭṭāna tathaiva tatra varatūlikāsaṃstṛta ye 'pi te rathāḥ / pratyāstṛtāḥ koṭisahasramūlyairvaraiśca kockairbakahaṃsalakṣaṇaiḥ (3.82)

Verse 3.83

।। श्वेताः सुपुष्टा बलवन्त गोणा महाप्रमाणा अभिदर्शनीयाः । ये योजिता रत्नरथेषु तेषु परिगृहीताः पुरुषैरनेकैः ॥ ३.८३ ॥

// śvetāḥ supuṣṭā balavanta goṇā mahāpramāṇā abhidarśanīyāḥ / ye yojitā ratnaratheṣu teṣu parigṛhītāḥ puruṣairanekaiḥ (3.83)

Verse 3.84

।। एतादृशान् सो पुरुषो ददाति पुत्राण सर्वाण वरान् विशिष्टान् । ते चापि तुष्टात्तमनाश्च तेहि दिशाश्च विदिशाश्च व्रजन्ति क्रीडकाः ॥ ३.८४ ॥

// etādṛśān so puruṣo dadāti putrāṇa sarvāṇa varān viśiṣṭān / te cāpi tuṣṭāttamanāśca tehi diśāśca vidiśāśca vrajanti krīḍakāḥ (3.84)

Verse 3.85

।। एमेव हं शारिसुता महर्षी सत्त्वान त्राणं च पिता च भोमि । पुत्राश्च ते प्राणिन सर्वि मह्यं त्रैधातुके कामविलग्न बालाः ॥ ३.८५ ॥

// emeva haṃ śārisutā maharṣī sattvāna trāṇaṃ ca pitā ca bhomi / putrāśca te prāṇina sarvi mahyaṃ traidhātuke kāmavilagna bālāḥ (3.85)

Verse 3.86

।। त्रैधातुकं चो यथ तन्निवेशनं सुभैरवं दुःखशताभिकीर्णम् । अशेषतः प्रज्वलितं समन्ताज्जातीजराव्याधिशतैरनेकैः ॥ ३.८६ ॥

// traidhātukaṃ co yatha tanniveśanaṃ subhairavaṃ duḥkhaśatābhikīrṇam / aśeṣataḥ prajvalitaṃ samantājjātījarāvyādhiśatairanekaiḥ (3.86)

Verse 3.87

।। अहं च त्रैधातुकमुक्त शान्तो एकान्तस्थायी पवने वसामि । त्रैधातुकं चो ममिदं परिग्रहो ये ह्यत्र दह्यन्ति ममैति पुत्राः ॥ ३.८७ ॥

// ahaṃ ca traidhātukamukta śānto ekāntasthāyī pavane vasāmi / traidhātukaṃ co mamidaṃ parigraho ye hyatra dahyanti mamaiti putrāḥ (3.87)

Verse 3.88

।। अहं च आदीनव तत्र दर्शयी विदित्व त्राणं अहमेव चैषाम् । न चैव मे ते श्रुणि सर्वि बाला यथापि कामेषु विलग्नबुद्धयः ॥ ३.८८ ॥

// ahaṃ ca ādīnava tatra darśayī viditva trāṇaṃ ahameva caiṣām / na caiva me te śruṇi sarvi bālā yathāpi kāmeṣu vilagnabuddhayaḥ (3.88)

Verse 3.89

।। उपायकौशल्यमहं प्रयोजयी यानानि त्रीणि प्रवदामि चैषाम् । ज्ञात्वा च त्रैधातुकि नेकदोषान् निर्धावनार्थाय वदाम्युपायम् ॥ ३.८९ ॥

// upāyakauśalyamahaṃ prayojayī yānāni trīṇi pravadāmi caiṣām / jñātvā ca traidhātuki nekadoṣān nirdhāvanārthāya vadāmyupāyam (3.89)

Verse 3.90

।। मां चैव ये निश्रित भोन्ति पुत्राः षडभिज्ञ त्रैविद्य महानुभावाः । प्रत्येकबुद्धाश्च भवन्ति ये ऽत्र अविवर्तिका ये चिह बोधिसत्त्वाः ॥ ३.९० ॥

// māṃ caiva ye niśrita bhonti putrāḥ ṣaḍabhijña traividya mahānubhāvāḥ / pratyekabuddhāśca bhavanti ye 'tra avivartikā ye ciha bodhisattvāḥ (3.90)

Verse 3.91

।। समान पुत्राण हु तेष तत्क्षणमिमेन दृष्टान्तवरेण पण्डित । वदामि एकं इमु बुद्धयानं परिगृह्णथा सर्वि जिना भविष्यथ ॥ ३.९१ ॥

// samāna putrāṇa hu teṣa tatkṣaṇamimena dṛṣṭāntavareṇa paṇḍita / vadāmi ekaṃ imu buddhayānaṃ parigṛhṇathā sarvi jinā bhaviṣyatha (3.91)

Verse 3.92

।। तच्चा वरिष्ठं सुमनोरमं च विशिष्टरूपं चिह सर्वलोके । बुद्धान ज्ञानं द्विपदोत्तमानामुदाररूपं तथ वन्दनीयम् ॥ ३.९२ ॥

// taccā variṣṭhaṃ sumanoramaṃ ca viśiṣṭarūpaṃ ciha sarvaloke / buddhāna jñānaṃ dvipadottamānāmudārarūpaṃ tatha vandanīyam (3.92)

Verse 3.93

।। बलानि ध्यानानि तथा विमोक्षाः समाधिनां कोटिशता च नेका । अयं रथो ईदृशको वरिष्ठो रमन्ति येनो सद बुद्धपुत्राः ॥ ३.९३ ॥

// balāni dhyānāni tathā vimokṣāḥ samādhināṃ koṭiśatā ca nekā / ayaṃ ratho īdṛśako variṣṭho ramanti yeno sada buddhaputrāḥ (3.93)

Verse 3.94

।। क्रीडन्त एतेन क्षपेन्ति रात्रयो दिवसांश्च पक्षानृतवो ऽथ मासान् । संवत्सरानन्तरकल्पमेव च क्षपेन्ति कल्पान सहस्रकोट्यः ॥ ३.९४ ॥

// krīḍanta etena kṣapenti rātrayo divasāṃśca pakṣānṛtavo 'tha māsān / saṃvatsarānantarakalpameva ca kṣapenti kalpāna sahasrakoṭyaḥ (3.94)

Verse 3.95

।। रत्नामयं यानमिदं वरिष्ठं गच्छन्ति येनो इह बोधिमण्डे । विक्रीडमाना बहुबोधिसत्त्वा ये चो शृणोन्ति सुगतस्य श्रावकाः ॥ ३.९५ ॥

// ratnāmayaṃ yānamidaṃ variṣṭhaṃ gacchanti yeno iha bodhimaṇḍe / vikrīḍamānā bahubodhisattvā ye co śṛṇonti sugatasya śrāvakāḥ (3.95)

Verse 3.96

।। एवं प्रजानाहि त्वमद्य तिष्य नास्तीह यानं द्वितियं कहिंचित् । दिशो दशा सर्व गवेषयित्वा स्थापेत्वुपायं पुरुषोत्तमानाम् ॥ ३.९६ ॥

// evaṃ prajānāhi tvamadya tiṣya nāstīha yānaṃ dvitiyaṃ kahiṃcit / diśo daśā sarva gaveṣayitvā sthāpetvupāyaṃ puruṣottamānām (3.96)

Verse 3.97

।। पुत्रा ममा यूयमहं पिता वो मया च निष्कासित यूय दुःखात् । परिदह्यमाना बहुकल्पकोटयस्त्रैधातुकातो भयभैरवातः ॥ ३.९७ ॥

// putrā mamā yūyamahaṃ pitā vo mayā ca niṣkāsita yūya duḥkhāt / paridahyamānā bahukalpakoṭayastraidhātukāto bhayabhairavātaḥ (3.97)

Verse 3.98

।। एवं च हं तत्र वदामि निर्वृतिमनिर्वृता यूय तथैव चाद्य । संसारदुःखादिह यूय मुक्ता बौद्धं तु यानं व गवेषितव्यम् ॥ ३.९८ ॥

// evaṃ ca haṃ tatra vadāmi nirvṛtimanirvṛtā yūya tathaiva cādya / saṃsāraduḥkhādiha yūya muktā bauddhaṃ tu yānaṃ va gaveṣitavyam (3.98)

Verse 3.99

।। ये बोधिसत्त्वाश्च इहास्ति केचिच्छृण्वन्ति सर्वे मम बुद्धनेत्रीम् । उपायकौशल्यमिदं जिनस्य येनो विनेती बहुबोधिसत्त्वान् ॥ ३.९९ ॥

// ye bodhisattvāśca ihāsti kecicchṛṇvanti sarve mama buddhanetrīm / upāyakauśalyamidaṃ jinasya yeno vinetī bahubodhisattvān (3.99)

Verse 3.100

।। हीनेषु कामेषु जुगुप्सितेषु रता यदा भोन्तिमि अत्र सत्त्वाः । दुःखं तदा भाषति लोकनायको अनन्यथावादिरिहार्यसत्यम् ॥ ३.१०० ॥

// hīneṣu kāmeṣu jugupsiteṣu ratā yadā bhontimi atra sattvāḥ / duḥkhaṃ tadā bhāṣati lokanāyako ananyathāvādirihāryasatyam (3.100)

Verse 3.101

।। ये चापि दुःखस्य अजानमाना मूलं न पश्यन्तिह बालबुद्धयः । मार्गं हि तेषामनुदर्शयामि समुदागमस्तृष्ण दुखस्य संभवः ॥ ३.१०१ ॥

// ye cāpi duḥkhasya ajānamānā mūlaṃ na paśyantiha bālabuddhayaḥ / mārgaṃ hi teṣāmanudarśayāmi samudāgamastṛṣṇa dukhasya saṃbhavaḥ (3.101)

Verse 3.102

।। तृष्णानिरोधो ऽथ सदा अनिश्रिता निरोधसत्यं तृतियं इदं मे । अनन्यथा येन च मुच्यते नरो मार्गं हि भावित्व विमुक्त भोति ॥ ३.१०२ ॥

// tṛṣṇānirodho 'tha sadā aniśritā nirodhasatyaṃ tṛtiyaṃ idaṃ me / ananyathā yena ca mucyate naro mārgaṃ hi bhāvitva vimukta bhoti (3.102)

Verse 3.103

।। कुतश्च ते शारिसुता विमुक्ता असन्तग्राहातु विमुक्त भोन्ति । न च ताव ते सर्वत मुक्त भोन्ति अनिर्वृतांस्तान् वदतीह नायकः ॥ ३.१०३ ॥

// kutaśca te śārisutā vimuktā asantagrāhātu vimukta bhonti / na ca tāva te sarvata mukta bhonti anirvṛtāṃstān vadatīha nāyakaḥ (3.103)

Verse 3.104

।। किकारणं नास्य वदामि मोक्षमप्राप्यिमामुत्तममग्रबोधिम् । ममैष छन्दो अहु धर्मराजा सुखापनार्थायिह लोकि जातः ॥ ३.१०४ ॥

// kikāraṇaṃ nāsya vadāmi mokṣamaprāpyimāmuttamamagrabodhim / mamaiṣa chando ahu dharmarājā sukhāpanārthāyiha loki jātaḥ (3.104)

Verse 3.105

।। इय शारिपुत्रा मम धर्ममुद्रा या पश्चिमे कालि मयाद्य भाषिता । हिताय लोकस्य सदेवकस्य दिशासु विदिशासु च देशयस्व ॥ ३.१०५ ॥

// iya śāriputrā mama dharmamudrā yā paścime kāli mayādya bhāṣitā / hitāya lokasya sadevakasya diśāsu vidiśāsu ca deśayasva (3.105)

Verse 3.106

।। यश्चापि ते भाषति कश्चि सत्त्वो अनुमोदयामीति वदेत वाचम् । मूर्ध्नेन चेदं प्रतिगृह्य सूत्रं अविवर्तिकं तं नरु धारयेस्त्वम् ॥ ३.१०६ ॥

// yaścāpi te bhāṣati kaści sattvo anumodayāmīti vadeta vācam / mūrdhnena cedaṃ pratigṛhya sūtraṃ avivartikaṃ taṃ naru dhārayestvam (3.106)

Verse 3.107

।। दृष्टाश्च तेनो पुरिमास्तथागताः सत्कारु तेषां च कृतो अभूषि । श्रुतश्च धर्मो अयमेवरूपो य एत सूत्रं अभिश्रद्दधेत ॥ ३.१०७ ॥

// dṛṣṭāśca teno purimāstathāgatāḥ satkāru teṣāṃ ca kṛto abhūṣi / śrutaśca dharmo ayamevarūpo ya eta sūtraṃ abhiśraddadheta (3.107)

Verse 3.108

।। अहं च त्वं चैव भवेत दृष्टो अयं च सर्वो मम भिक्षुसंघः । दृष्टाश्च सर्वे इमि बोधिसत्त्वा ये श्रद्दधे भाषितमेत मह्यम् ॥ ३.१०८ ॥

// ahaṃ ca tvaṃ caiva bhaveta dṛṣṭo ayaṃ ca sarvo mama bhikṣusaṃghaḥ / dṛṣṭāśca sarve imi bodhisattvā ye śraddadhe bhāṣitameta mahyam (3.108)

Verse 3.109

।। सूत्रं इमं बालजनप्रमोहनमभिज्ञज्ञानान मि एतु भाषितम् । विषयो हि नैवास्तिह श्रावकाणां प्रत्येकबुद्धान गतिर्न चात्र ॥ ३.१०९ ॥

// sūtraṃ imaṃ bālajanapramohanamabhijñajñānāna mi etu bhāṣitam / viṣayo hi naivāstiha śrāvakāṇāṃ pratyekabuddhāna gatirna cātra (3.109)

Verse 3.110

।। अधिमुक्तिसारस्तुव शारिपुत्र किं वा पुनर्मह्य इमे ऽन्यश्रावकाः । एते ऽपि श्रद्धाय ममैव यान्ति प्रत्यात्मिकं ज्ञानु न चैव विद्यते ॥ ३.११० ॥

// adhimuktisārastuva śāriputra kiṃ vā punarmahya ime 'nyaśrāvakāḥ / ete 'pi śraddhāya mamaiva yānti pratyātmikaṃ jñānu na caiva vidyate (3.110)

Verse 3.111

।। मा चैव त्वं स्तम्भिषु मा च मानिषु मायुक्तयोगीन वदेसि एतत् । बाला हि कामेषु सदा प्रमत्ता अजानका धर्मु क्षिपेयु भाषितम् ॥ ३.१११ ॥

// mā caiva tvaṃ stambhiṣu mā ca māniṣu māyuktayogīna vadesi etat / bālā hi kāmeṣu sadā pramattā ajānakā dharmu kṣipeyu bhāṣitam (3.111)

Verse 3.112

।। उपायकौशल्य क्षिपित्व मह्यं या बुद्धनेत्री सद लोकि संस्थिता । भृकुटिं करित्वान क्षिपित्व यानं विपाकु तस्येह शृणोहि तीव्रम् ॥ ३.११२ ॥

// upāyakauśalya kṣipitva mahyaṃ yā buddhanetrī sada loki saṃsthitā / bhṛkuṭiṃ karitvāna kṣipitva yānaṃ vipāku tasyeha śṛṇohi tīvram (3.112)

Verse 3.113

।। क्षिपित्व सूत्रं इदमेवरूपं मयि तिष्ठमाने परिनिर्वृते वा । भिक्षूषु वा तेषु खिलानि कृत्वा तेषां विपाकं ममिहं शृणोहि ॥ ३.११३ ॥

// kṣipitva sūtraṃ idamevarūpaṃ mayi tiṣṭhamāne parinirvṛte vā / bhikṣūṣu vā teṣu khilāni kṛtvā teṣāṃ vipākaṃ mamihaṃ śṛṇohi (3.113)

Verse 3.114

।। च्युत्वा मनुष्येषु अवीचि तेषां प्रतिष्ठ भोती परिपूर्णकल्पात् । ततश्च भूयो ऽन्तरकल्प नेकांश्च्युताश्च्युतास्तत्र पतन्ति बालाः ॥ ३.११४ ॥

// cyutvā manuṣyeṣu avīci teṣāṃ pratiṣṭha bhotī paripūrṇakalpāt / tataśca bhūyo 'ntarakalpa nekāṃścyutāścyutāstatra patanti bālāḥ (3.114)

Verse 3.115

।। यदा च नरकेषु च्युता भवन्ति ततश्च तिर्यक्षु व्रजन्ति भूयः । सुदुर्बलाः श्वानशृगालभूताः परेष क्रीडापनका भवन्ति ॥ ३.११५ ॥

// yadā ca narakeṣu cyutā bhavanti tataśca tiryakṣu vrajanti bhūyaḥ / sudurbalāḥ śvānaśṛgālabhūtāḥ pareṣa krīḍāpanakā bhavanti (3.115)

Verse 3.116

।। वर्णेन ते कालक तत्र भोन्ति कल्माषका व्राणिक कण्डुलाश्च । निर्लोमका दुर्बल भोन्ति भूयो विद्वेषमाणा मम अग्रबोधिम् ॥ ३.११६ ॥

// varṇena te kālaka tatra bhonti kalmāṣakā vrāṇika kaṇḍulāśca / nirlomakā durbala bhonti bhūyo vidveṣamāṇā mama agrabodhim (3.116)

Verse 3.117

।। जुगुप्सिता प्राणिषु नित्य भोन्ति लोष्टप्रहाराभिहता रुदन्तः । दण्डेन संत्रासित तत्र तत्र क्षुधापिपासाहत शुष्कगात्राः ॥ ३.११७ ॥

// jugupsitā prāṇiṣu nitya bhonti loṣṭaprahārābhihatā rudantaḥ / daṇḍena saṃtrāsita tatra tatra kṣudhāpipāsāhata śuṣkagātrāḥ (3.117)

Verse 3.118

।। उष्ट्राथ वा गर्दभ भोन्ति भूयो भारं वहन्तः कशदण्डताडिताः । आहारचिन्तामनुचिन्तयन्तो ये बुद्धनेत्री क्षिपि बालबुद्धयः ॥ ३.११८ ॥

// uṣṭrātha vā gardabha bhonti bhūyo bhāraṃ vahantaḥ kaśadaṇḍatāḍitāḥ / āhāracintāmanucintayanto ye buddhanetrī kṣipi bālabuddhayaḥ (3.118)

Verse 3.119

।। पुनश्च ते क्रोष्टुक भोन्ति तत्र बीभत्सकाः काणक कुण्ठकाश्च । उत्पीडिता ग्रामकुमारकेहि लोष्टप्रहाराभिहताश्च बालाः ॥ ३.११९ ॥

// punaśca te kroṣṭuka bhonti tatra bībhatsakāḥ kāṇaka kuṇṭhakāśca / utpīḍitā grāmakumārakehi loṣṭaprahārābhihatāśca bālāḥ (3.119)

Verse 3.120

।। ततश्च्यवित्वान च भूयु बालाः पञ्चाशतीनां सम योजनानाम् । दीर्घात्मभावा हि भवन्ति प्राणिनो जडाश्च मूढाः परिवर्तमानाः ॥ ३.१२० ॥

// tataścyavitvāna ca bhūyu bālāḥ pañcāśatīnāṃ sama yojanānām / dīrghātmabhāvā hi bhavanti prāṇino jaḍāśca mūḍhāḥ parivartamānāḥ (3.120)

Verse 3.121

।। अपादका भोन्ति च क्रोडसक्किनो विखाद्यमाना बहुप्राणिकोटिभिः । सुदारुणां ते अनुभोन्ति वेदनां क्षिपित्व सूत्रं इदमेवरूपम् ॥ ३.१२१ ॥

// apādakā bhonti ca kroḍasakkino vikhādyamānā bahuprāṇikoṭibhiḥ / sudāruṇāṃ te anubhonti vedanāṃ kṣipitva sūtraṃ idamevarūpam (3.121)

Verse 3.122

।। पुरुषात्मभावं च यद लभन्ते ते कुण्ठका लङ्गक भोन्ति तत्र । कुब्जाथ काणा च जडा जघन्या अश्रद्दधन्ता इम सूत्र मह्यम् ॥ ३.१२२ ॥

// puruṣātmabhāvaṃ ca yada labhante te kuṇṭhakā laṅgaka bhonti tatra / kubjātha kāṇā ca jaḍā jaghanyā aśraddadhantā ima sūtra mahyam (3.122)

Verse 3.123

।। अप्रत्यनीयाश्च भवन्ति लोके पूती मुखात्तेष प्रवाति गन्धः । यक्षग्रहो उक्रमि तेष काये अश्रद्दधन्तानिम बुद्धबोधिम् ॥ ३.१२३ ॥

// apratyanīyāśca bhavanti loke pūtī mukhātteṣa pravāti gandhaḥ / yakṣagraho ukrami teṣa kāye aśraddadhantānima buddhabodhim (3.123)

Verse 3.124

।। दरिद्रका पेषणकारकाश्च उपस्थायका नित्य परस्य दुर्बलाः । आबाध तेषां बहुकाश्च भोन्ति अनाथभूता विहरन्ति लोके ॥ ३.१२४ ॥

// daridrakā peṣaṇakārakāśca upasthāyakā nitya parasya durbalāḥ / ābādha teṣāṃ bahukāśca bhonti anāthabhūtā viharanti loke (3.124)

Verse 3.125

।। यस्यैव ते तत्र करोन्ति सेवनामदातुकामो भवती स तेषाम् । दत्तं पि चो नश्यति क्षिप्रमेव फलं हि पापस्य इमेवरूपम् ॥ ३.१२५ ॥

// yasyaiva te tatra karonti sevanāmadātukāmo bhavatī sa teṣām / dattaṃ pi co naśyati kṣiprameva phalaṃ hi pāpasya imevarūpam (3.125)

Verse 3.126

।। यच्चापि ते तत्र लभन्ति औषधं सुयुक्तरूपं कुशलेहि दत्तम् । तेनापि तेषां रुज भूयु वर्धते सो व्याधिरन्तं न कदाचि गच्छति ॥ ३.१२६ ॥

// yaccāpi te tatra labhanti auṣadhaṃ suyuktarūpaṃ kuśalehi dattam / tenāpi teṣāṃ ruja bhūyu vardhate so vyādhirantaṃ na kadāci gacchati (3.126)

Verse 3.127

।। अन्येहि चौर्याणि कृतानि भोन्ति डमराथ डिम्बास्तथ विग्रहाश्च । द्रव्यापहाराश्च कृतास्तथान्यैर्निपतन्ति तस्योपरि पापकर्मणः ॥ ३.१२७ ॥

// anyehi cauryāṇi kṛtāni bhonti ḍamarātha ḍimbāstatha vigrahāśca / dravyāpahārāśca kṛtāstathānyairnipatanti tasyopari pāpakarmaṇaḥ (3.127)

Verse 3.128

।। न जातु सो पश्यति लोकनाथं नरेन्द्रराजं महि शासमानम् । तस्याक्षणेष्वेव हि वासु भोति इमां क्षिपित्वा मम बुद्धनेत्रीम् ॥ ३.१२८ ॥

// na jātu so paśyati lokanāthaṃ narendrarājaṃ mahi śāsamānam / tasyākṣaṇeṣveva hi vāsu bhoti imāṃ kṣipitvā mama buddhanetrīm (3.128)

Verse 3.129

।। न चापि सो धर्म शृणोति बालो बधिरश्च सो भोति अचेतनश्च । क्षिपित्व बोधीमिममेवरूपामुपशान्ति तस्यो न कदाचि भोति ॥ ३.१२९ ॥

// na cāpi so dharma śṛṇoti bālo badhiraśca so bhoti acetanaśca / kṣipitva bodhīmimamevarūpāmupaśānti tasyo na kadāci bhoti (3.129)

Verse 3.130

।। सहस्र नेका नयुतांश्च भूयः कल्पान कोट्यो यथ गङ्गवालिकाः । जडात्मभावो विकलश्च भोति क्षिपित्व सूत्रं इमु पापकं फलम् ॥ ३.१३० ॥

// sahasra nekā nayutāṃśca bhūyaḥ kalpāna koṭyo yatha gaṅgavālikāḥ / jaḍātmabhāvo vikalaśca bhoti kṣipitva sūtraṃ imu pāpakaṃ phalam (3.130)

Verse 3.131

।। उद्यानभूमी नरको ऽस्य भोति निवेशनं तस्य अपायभूमिः । खरसूकरा क्रोष्टुक भूमिसूचकाः प्रतिष्ठितस्येह भवन्ति नित्यम् ॥ ३.१३१ ॥

// udyānabhūmī narako 'sya bhoti niveśanaṃ tasya apāyabhūmiḥ / kharasūkarā kroṣṭuka bhūmisūcakāḥ pratiṣṭhitasyeha bhavanti nityam (3.131)

Verse 3.132

।। मनुष्यभावत्वमुपेत्य चापि अन्धत्व बधिरत्व जडत्वमेति । परप्रेष्य सो भोति दरिद्र नित्यं तत्कालि तस्याभरणानिमानि ॥ ३.१३२ ॥

// manuṣyabhāvatvamupetya cāpi andhatva badhiratva jaḍatvameti / parapreṣya so bhoti daridra nityaṃ tatkāli tasyābharaṇānimāni (3.132)

Verse 3.133

।। वस्त्राणि चो व्याधयु भोन्ति तस्य व्रणान कोटीनयुताश्च काये । विचर्चिका कण्डु तथैव पामा कुष्ठं किलासं तथ आमगन्धः ॥ ३.१३३ ॥

// vastrāṇi co vyādhayu bhonti tasya vraṇāna koṭīnayutāśca kāye / vicarcikā kaṇḍu tathaiva pāmā kuṣṭhaṃ kilāsaṃ tatha āmagandhaḥ (3.133)

Verse 3.134

।। सत्कायदृष्टिश्च घनास्य भोति उदीर्यते क्रोधबलं च तस्य । संरागु तस्यातिभृशं च भोति तिर्याण योनीषु च सो सदा रमी ॥ ३.१३४ ॥

// satkāyadṛṣṭiśca ghanāsya bhoti udīryate krodhabalaṃ ca tasya / saṃrāgu tasyātibhṛśaṃ ca bhoti tiryāṇa yonīṣu ca so sadā ramī (3.134)

Verse 3.135

।। सचेदहं शारिसुताद्य तस्य परिपूर्णकल्पं प्रवदेय दोषान् । यो ही ममा एतु क्षिपेत सूत्रं पर्यन्तु दोषाण न शक्य गन्तुम् ॥ ३.१३५ ॥

// sacedahaṃ śārisutādya tasya paripūrṇakalpaṃ pravadeya doṣān / yo hī mamā etu kṣipeta sūtraṃ paryantu doṣāṇa na śakya gantum (3.135)

Verse 3.136

।। संपश्यमानो इदमेव चार्थं त्वां संदिशामी अहु शारिपुत्र । मा हैव त्वं बालजनस्य अग्रतो भाषिष्यसे सूत्रमिमेवरूपम् ॥ ३.१३६ ॥

// saṃpaśyamāno idameva cārthaṃ tvāṃ saṃdiśāmī ahu śāriputra / mā haiva tvaṃ bālajanasya agrato bhāṣiṣyase sūtramimevarūpam (3.136)

Verse 3.137

।। ये तू इह व्यक्त बहुश्रुताश्च स्मृतिमन्त ये पण्डित ज्ञानवन्तः । ये प्रस्थिता उत्तममग्रबोधिं तान् श्रावयेस्त्वं परमार्थमेतत् ॥ ३.१३७ ॥

// ye tū iha vyakta bahuśrutāśca smṛtimanta ye paṇḍita jñānavantaḥ / ye prasthitā uttamamagrabodhiṃ tān śrāvayestvaṃ paramārthametat (3.137)

Verse 3.138

।। दृष्टाश्च येही बहुबुद्धकोट्यः कुशलं च यै रोपितमप्रमेयम् । अध्याशयाश्चा दृढ येष चो स्यात्तान् श्रावयेस्त्वं परमार्थमेतत् ॥ ३.१३८ ॥

// dṛṣṭāśca yehī bahubuddhakoṭyaḥ kuśalaṃ ca yai ropitamaprameyam / adhyāśayāścā dṛḍha yeṣa co syāttān śrāvayestvaṃ paramārthametat (3.138)

Verse 3.139

।। ये वीर्यवन्तः सद मैत्रचित्ता भावेन्ति मैत्रीमिह दीर्घरात्रम् । उत्सृष्टकाया तथ जीविते च तेषामिदं सूत्र भणेः समक्षम् ॥ ३.१३९ ॥

// ye vīryavantaḥ sada maitracittā bhāventi maitrīmiha dīrgharātram / utsṛṣṭakāyā tatha jīvite ca teṣāmidaṃ sūtra bhaṇeḥ samakṣam (3.139)

Verse 3.140

।। अन्योन्यसंकल्प सगौरवाश्च तेषां च बालेहि न संस्तवो ऽस्ति । ये चापि तुष्टा गिरिकन्दरेषु तान् श्रावयेस्त्वं इद सूत्र भद्रकम् ॥ ३.१४० ॥

// anyonyasaṃkalpa sagauravāśca teṣāṃ ca bālehi na saṃstavo 'sti / ye cāpi tuṣṭā girikandareṣu tān śrāvayestvaṃ ida sūtra bhadrakam (3.140)

Verse 3.141

।। कल्याणमित्रांश्च निषेवमाणाः पापांश्च मित्रान् परिवर्जयन्तः । यानीदृशान् पश्यसि बुद्धपुत्रांस्तेषामिदं सूत्र प्रकाशयेसि ॥ ३.१४१ ॥

// kalyāṇamitrāṃśca niṣevamāṇāḥ pāpāṃśca mitrān parivarjayantaḥ / yānīdṛśān paśyasi buddhaputrāṃsteṣāmidaṃ sūtra prakāśayesi (3.141)

Verse 3.142

।। अच्छिद्रशीला मणिरत्नसादृशा वैपुल्यसूत्राण परिग्रहे स्थिताः । पश्येसि यानीदृश बुद्धपुत्रांस्तेषाग्रतः सूत्रमिदं वदेसि ॥ ३.१४२ ॥

// acchidraśīlā maṇiratnasādṛśā vaipulyasūtrāṇa parigrahe sthitāḥ / paśyesi yānīdṛśa buddhaputrāṃsteṣāgrataḥ sūtramidaṃ vadesi (3.142)

Verse 3.143

।। अक्रोधना ये सद आर्जवाश्च कृपासमन्वागत सर्वप्राणिषु । सगौरवा ये सुगतस्य अन्तिके तेषाग्रतः सूत्रमिदं वदेसि ॥ ३.१४३ ॥

// akrodhanā ye sada ārjavāśca kṛpāsamanvāgata sarvaprāṇiṣu / sagauravā ye sugatasya antike teṣāgrataḥ sūtramidaṃ vadesi (3.143)

Verse 3.144

।। यो धर्मु भाषे परिषाय मध्ये असङ्गप्राप्तो वदि युक्तमानसः । दृष्टान्तकोटीनयुतैरनेकैस्तस्येद सूत्रं उपदर्शयेसि ॥ ३.१४४ ॥

// yo dharmu bhāṣe pariṣāya madhye asaṅgaprāpto vadi yuktamānasaḥ / dṛṣṭāntakoṭīnayutairanekaistasyeda sūtraṃ upadarśayesi (3.144)

Verse 3.145

।। मूर्ध्नाञ्जलिं यश्च करोति बद्ध्वा सर्वज्ञभावं परिमार्गमाणः । दशो दिशो यो ऽपि च चंक्रमेत सुभाषितं भिक्षु गवेषमाणः ॥ ३.१४५ ॥

// mūrdhnāñjaliṃ yaśca karoti baddhvā sarvajñabhāvaṃ parimārgamāṇaḥ / daśo diśo yo 'pi ca caṃkrameta subhāṣitaṃ bhikṣu gaveṣamāṇaḥ (3.145)

Verse 3.146

।। वैपुल्यसूत्राणि च धारयेत न चास्य रुच्यन्ति कदाचिदन्ये । एकां पि गाथां न च धारये ऽन्यतस्तं श्रावयेस्त्वं वरसूत्रमेतत् ॥ ३.१४६ ॥

// vaipulyasūtrāṇi ca dhārayeta na cāsya rucyanti kadācidanye / ekāṃ pi gāthāṃ na ca dhāraye 'nyatastaṃ śrāvayestvaṃ varasūtrametat (3.146)

Verse 3.147

।। तथागतस्यो यथ धातु धारयेत्तथैव यो मार्गति कोचि तं नरः । एमेव यो मार्गति सूत्रमीदृशं लभित्व यो मूर्धनि धारयेत ॥ ३.१४७ ॥

// tathāgatasyo yatha dhātu dhārayettathaiva yo mārgati koci taṃ naraḥ / emeva yo mārgati sūtramīdṛśaṃ labhitva yo mūrdhani dhārayeta (3.147)

Verse 3.148

।। अन्येषु सूत्रेषु न काचि चिन्ता लोकायतैरन्यतरैश्च शास्त्रैः । बालान एतादृश भोन्ति गोचरास्तांस्त्वं विवर्जित्व प्रकाशयेरिदम् ॥ ३.१४८ ॥

// anyeṣu sūtreṣu na kāci cintā lokāyatairanyataraiśca śāstraiḥ / bālāna etādṛśa bhonti gocarāstāṃstvaṃ vivarjitva prakāśayeridam (3.148)

Verse 3.149

।। पूर्णं पि कल्पं अहु शारिपुत्र वदेयमाकार सहस्रकोट्यः । ये प्रस्थिता उत्तममग्रबोधिं तेषाग्रतः सूत्रमिदं वदेसि ॥ ३.१४९ ॥

// pūrṇaṃ pi kalpaṃ ahu śāriputra vadeyamākāra sahasrakoṭyaḥ / ye prasthitā uttamamagrabodhiṃ teṣāgrataḥ sūtramidaṃ vadesi (3.149)