5. Chapter 4
Verse 4.1
: अधिमुक्तिपरिवर्तः | अथ खल्वायुष्मान् सुभूतिरायुष्मांश्च महाकात्यायनः आयुष्मांश्च महाकाश्यपः आयुष्मांश्च महामौद्गल्यायनः इममेवंरूपमश्रुतपूर्वं धर्मं श्रुत्वा भगवतो ऽन्तिकात् संमुखमायुष्मतश्च शारिपुत्रस्य व्याकरणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ आश्चर्यप्राप्ता अद्भुतप्राप्ता औद्बिल्यप्राप्ता स्तस्यां वेलायामुत्थायासनेभ्यो येन भगवांस्तेनोपसंक्रामन् | उपसंक्रम्य एकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमभिमुखमुल्लोकयमाना अवनकाया अभिनतकायाः प्रणतकायास्तस्यां वेलायां भगवन्तमेतदवोचन् - वयं हि भगवन् जीर्णा वृद्धा महल्लका अस्मिन् भिक्षुसंघे स्थविरसंमता जराजीर्णीभूता निर्वाणप्राप्ताः स्म इति भगवन् निरुद्यमा अनुत्तरायां सम्यक्संबोधावप्रतिबलाः स्मः, अप्रतिवीर्यारम्भाः स्मः | यदापि भगवान् धर्मं देशयति, चिरं निषण्णश्च भगवान् भवति, वयं च तस्यां धर्मदेशनायां प्रत्युपस्थिता भवामः, तदाप्यस्माकं भगवन् चिरं निषण्णानां भगवन्तं चिरं पर्युपासितानामङ्गप्रत्यङ्गानि दुःखन्ति, संधिविसंधयश्च दुःखन्ति | ततो वयं भगवन् भगवतो धर्मं देशयमानस्य शून्यतानिमित्ताप्रणिहितं सर्वमाविष्कुर्मः | नास्माभिरेषु बुद्धधर्मेषु बुद्धक्षेत्रव्यूहेषु वा बोधिसत्त्वविक्रीडितेषु वा तथागतविक्रीडितेषु वा स्पृहोत्पादिता | तत्कस्य हेतोः? यच्चास्माद्भगवंस्त्रैधातुकान्निर्धाविता निर्वाणसंज्ञिनः, वयं च जराजीर्णाः | ततो भगवन् अस्माभिरप्यन्ये बोधिसत्त्वा अववदिता अभूवन्ननुत्तरायां सम्यक्संबोधौ, अनुशिष्टाश्च | न च भगवंस्तत्रास्माभिरेकमपि स्पृहाचित्तमुत्पादितमभूत् | ते वयं भगवन्नेतर्हि भगवतो ऽन्तिकाच्छ्रावकाणामपि व्याकरणमनुत्तरायां सम्यक्संबोधौ भवतीति श्रुत्वा आश्चर्याद्भुतप्राप्ता महालाभप्राप्ताः स्मः | भगवन्नद्य सहसैवेममेवंरूपमश्रुतपूर्वं तथागतघोषं श्रुत्वा महारत्नप्रतिलब्धाश्च स्मः | भगवन् अप्रमेयरत्नप्रतिलब्धाश्च स्मः | भगवन् अमार्गितमपर्येष्टमचिन्तितमप्रार्थितं चास्माभिर्भगवन्निदमेवं रूपं महारत्नं प्रतिलब्धम् | प्रतिभाति नो भगवन्, प्रतिभाति नः सुगत | तद्यथापि नाम भगवन् कश्चिदेव पुरुषः पितुरन्तिकादपक्रामेत् | सो ऽपक्रम्य अन्यतरं जनपदप्रदेशं गच्छेत् | स तत्र बहूनि वर्षाणि विप्रवसेद् विंशतिं वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा | अथ स भगवन् महान् पुरुषो भवेत् | स च दरिद्रः स्यात् | स च वृत्तिं पर्येषमाण आहारचीवरहेतोर्दिशो विदिशः प्रकामन् अन्यतरं जनपदप्रदेशं गच्छेत् | तस्य च स पिता अन्यतमं जनपदं प्रक्रान्तः स्यात् | बहुधनधान्यहिरण्यकोशकोष्ठागारश्च भवेत् | बहुसुवर्णरूप्यमणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतसमन्वागतश्च भवेत् | बहुदासीदासकर्मकरपौरुषेयश्च भवेत् | बहुहस्त्यश्वरथगवेडकसमन्वागतश्च भवेत् | महापरिवारश्च भवेत् | महाजनपदेषु च धनिकः स्यात् | आयोगप्रयोगकृषिवणिज्यप्रभूतश्च भवेत् || अथे खलु भगवन् स दरिद्रपुरुष आहारचीवरपर्येष्टिहेतोर्ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु पर्यटमानो ऽनुपूर्वेण यत्रासौ पुरुषो बहुधनहिरण्यसुवर्णकोशकोष्ठागारस्तस्यैव पिता वसति, तन्नगरमनुप्राप्तो भवेत् | अथ खलु भगवन् स दरिद्रपुरुषस्य पिता बहुधनहिरण्यकोशकोष्ठागारस्तस्मिन् नगरे वसमानस्तं पञ्चाशद्वर्षनष्टं पुत्रं सततसमितमनुस्मरेत् | समनुस्मरमाणश्च न कस्यचिदाचक्षेदन्यत्रैक एवात्मनाध्यात्मं संतप्येत्, एवं च चिन्तयेत् - अहमस्मि जीर्णो वृद्धो महल्लकः | प्रभूतं मे हिरण्यसुवर्णधनधान्यकोशकोष्ठागारं संविद्यते | न च मे पुत्रः कश्चिदस्ति | मा हैव मम कालक्रिया भवेत् | सर्वमिदमपरिभुक्तं विनश्येत् | स तं पुनः पुनः पुत्रमनुस्मरेत् - अहो नामाहं निर्वृतिप्राप्तो भवेयं यदि मे स पुत्र इमं धनस्कन्धं परिभुञ्जीत || अथ खलु भगवन् स दरिद्रपुरुष आहारचीवरं पर्येषमाणो ऽनुपूर्वेण येन तस्य प्रभूतहिरण्यसुवर्णधनधान्यकोशकोष्ठागारस्य समृद्धस्य पुरुषस्य निवेशनं तेनोपसंक्रामेत् | अथ खलु भगवन् स तस्य दरिद्रपुरुषस्य पिता स्वके निवेशनद्वारे महत्या ब्राह्मणक्षत्रियविट्शूद्रपरिषदा परिवृतः पुरस्कृतो महासिंहासने सपादपीठे सुवर्णरूप्यप्रतिमण्डिते उपविष्टो हिरण्यकोटीशतसहस्रैर्व्यवहारं कुर्वन् वालव्यजनेन वीज्यमानो विततविताने पृथिवीप्रदेशे मुक्तकुसुमाभिकीर्णे रत्नदामाभिप्रलम्बिते महत्यद्धर्या उपविष्टः स्यात् | अद्राक्षीत् स भगवन् दरिद्रपुरुषस्तं स्वकं पितरं स्वके निवेशनद्वारे एवंरूपया ऋध्या उपविष्टं महता जनकायेन परिवृतं गृहपतिकृत्यं कुर्वाणम् | दृष्ट्वा च पुनर्भीतस्त्रस्तः संविग्नः संहृष्टरोमकूपजातः उद्विग्नमानसः एवमनुविचिन्तयामास - सहसैवायं मया राजा वा राजमात्रो वा आसादितः | नास्त्यस्माकमिह किंचित् कर्म | गच्छामो वयं येन दरिद्रवीथी, तत्रास्माकमाहारचीवरमल्पकृच्छ्रेणैव उत्पत्स्यते | अलं मे चिरं विलम्बितेन | मा हैवाहमिह वैष्टिको वा गृह्येय, अन्यतरं वा दोषमनुप्राप्नुयाम् || अथ खलु भगवन् स दरिद्रपुरुषो दुःखपरंपरामनसिकारभयभीतस्त्वरमाणः प्रक्रामेत् पलायेत्, न तत्र संतिष्ठेत् | अथ खलु भगवन् स आढ्यः पुरुषः स्वके निवेशनद्वारे सिंहासने उपविष्टस्तं स्वकं पुत्रं सहदर्शनेनैव प्रत्यभिजानीयात् | दृष्ट्वा च पुनस्तुष्ट उदग्र आत्तमनस्कः प्रमुदितः प्रीतिसौमनस्यजातो भवेत्, एवं च चिन्तयेत् - आश्चर्यं यावद् यत्र हि नाम अस्य महतो हिरण्यसुवर्णधनधान्यकोशकोष्ठागारस्य परिभोक्ता उपलब्धः | अहं चैतमेव पुनः पुनः समनुस्मरामि | अयं च स्वयमेवेहागतः | अहं च जीर्णो वृद्धो महल्लकः || अथ खलु भगवन् स पुरुषः पुत्रतृष्णासंपीडितस्तस्मिन् क्षणलवमुहूर्ते जवनान् पुरुषान् संप्रेषयेत् - गच्छत मार्षा एतं पुरुषं शीघ्रमानयध्वम् | अथ खलु भगवंस्ते पुरुषाः र्सव एव जवेन प्रधावितास्तं दरिद्रपुरुषमध्यालम्बेयुः | अथ खलु दरिद्रपुरुषस्तस्यां वेलायां भीतस्त्रस्तः संविग्नः संहृष्टरोमकूपजातः उद्विग्रमानसो दारुणमार्तस्वरं मुञ्चेदारवेद् विरवेत् | नाहं युष्माकं किंचिदपराध्यामीति वाचं भाषेत | अथ खलु ते पुरुषा बलात्कारेण तं (वैद्य ७३) दरिद्रपुरुषं विरवन्तमप्याकर्षेयुः | अथ खलु स दरिद्रपुरुषो भीतस्त्रस्तः संविग्न उद्विग्नमानस एवं च चिन्तयेत् - मा तावदहं वध्यो दण्डयो भवेयम् | नश्यामीति | स मूर्छितो धरण्यां प्रपतेत्, विसंज्ञश्च स्यात् | आसन्ने चास्य स पिता भवेत् | स तान् पुरुषानेवं वदेत् - मा भवन्त एतं पुरुषमानयन्त्विति | तमेनं शीतलेन वारिणा परिसिञ्चित्वा न भूय आलपेत् | तत्कस्य हेतोः? जानाति स गृहपतिस्तस्य दरिद्रपुरुषस्य हीनाधिमुक्तिकतामात्मनश्चोदारस्थामताम् | जानीते च ममैष पुत्र इति || अथ खलु भगवन् स गृहपतिरुपायकौशल्येन न कस्यचिदाचक्षेत् - ममैष पुत्र इति | अथ खलु भगवन् स गृहपतिरन्यतरं पुरुषमामन्त्रयेत् - गच्छ त्वं भोः पुरुष | एनं दरिद्रपुरुषमेवं वदस्व - गच्छ त्वं भोः पुरुष येनाकाङ्क्षसि | मुक्तो ऽसि | एवं वदति स पुरुषस्तस्मै प्रतिश्रुत्य येन स दरिद्रपुरुषस्तेनोपसंक्रामेत् | उपसंक्रम्य तं दरिद्रपुरुषमेवं वदेत् - गच्छ त्वं भोः पुरुष येनाकाङ्क्षसि | मुक्तो ऽसीति | अथ खलु स दरिद्रपुरुष इदं वचनं श्रुत्वा आश्चर्याद्भुतप्राप्तो भवेत् | स उत्थाय तस्मात् पृथिवीप्रदेशाद्येन दरिद्रवीथी तेनोपसंक्रामेदाहारचीवरपर्येष्टिहेतोः | अथ खलु स गृहपतिस्तस्य दरिद्रपुरुषस्याकर्षणहेतोरुपायकौशल्यं प्रयोजयेत् | स तत्र द्वौ पुरुषौ प्रयोजयेत् दुर्वर्णावल्पौजस्कौ - गच्छतां भवन्तौ यो ऽसौ पुरुष इहागतो ऽभूत्, तं युवां द्विगुणया दिवसमुद्रया आत्मवचनेनैव भरयित्वेह मम निवेशने कर्म कारापयेथाम् | सचेत् स एवं वदेत् - किं कर्म कर्तव्यमिति, स युवाभ्यामेवं वक्तव्यः - संकारधानं शोधयितव्यं सहावाभ्यामिति | अथ तौ पुरुषौ तं दरिद्रपुरुषं पर्येषयित्वा तया क्रियया संपादयेताम् | अथ खलु तौ द्वौ पुरुषौ स च दरिद्रपुरुषो वेतनं गृहीत्वा तस्य महाधनस्य पुरुषस्यान्तिकात्तस्मिन्नेव निवेशने संकारधानं शोधयेयुः | तस्यैव च महाधनस्य पुरुषस्य गृहपरिसरे कटपलिकुञ्चिकायां वासं कल्पयेयुः | स चाढ्यः पुरुषो गवाक्षवातायनेन तं स्वकं पुत्रं पश्येत् संकारधानं शोधयमानम् | दृष्ट्वा च पुनराश्चर्यप्राप्तो भवेत् || अथ खलु स गृहपतिः स्वकान्निवेशनादवतीर्य अपनयित्वा माल्याभरणनि, अपनयित्वा मृदुकानि वस्त्राणि, चौक्षाण्युदाराणि मलिनानि वस्त्राणि प्रावृत्य, दक्षिणेन पाणिना पिटकं परिगृह्य पांसुना स्वगात्रं दूषयित्वा दूरत एव संभाषमाणो येन स दरिद्रपुरुषस्तेनोपसंक्रामेत् | उपसंक्रम्यैवं वदेत् - वहन्तु भवन्तः पिटकानि, मा तिष्ठत, हरत पांसूनि | अनेनोपायेन तं पुत्रमालपेत् संलपेच्च | एनं वदेत् - इहैव त्वं भोः पुरुष कर्म कुरुष्व | मा भूयो ऽन्यत्र गमिष्यसि | सविशेषं ते ऽहं वेतनकं दास्यामि | येन येन च ते कार्य भवेत्, तद्विश्रब्धं मां याचेः, यदि वा कुण्डमूल्येन यदि वा कुण्डिकामूल्येन यदि वा स्थालिकामूल्येन यदि वा काष्ठमूल्येन यदि वा लवणमूल्येन यदि वा भोजनेन यदि वा प्रावरणेन | अस्ति मे भोः पुरुष जीर्णशाटी | सचेत्तया ते कार्यं स्यात्, याचेः, अहं ते ऽनुप्रदास्यामि | येन येन ते भोः पुरुष कार्यमेवंरूपेण परिष्कारेण, तं तमेवाहं ते सर्वमनुप्रदास्यामि | निर्वृतस्त्वं भोः पुरुष भव | यादृशस्ते पिता, तादृशस्ते ऽहं मन्तव्यः | तत्कस्य हेतोः? अहं (वैद्य ७४) च वृद्धः, त्वं च दहरः | मम च त्वया बहु कर्म कृतमिमं संकारधानं शोधयता | न च त्वया भोः पुरुष अत्र कर्म कुर्वता शाठयं वा वक्रता वा कौटिल्यं वा मानो वा म्रक्षो वा कृतपूर्वः, करोषि वा | सर्वथा ते भोः पुरुष न समनुपश्याम्येकमपि पापकर्म, यथैषामन्येषां पुरुषाणां कर्म कुर्वतामिमे दोषाः संविद्यन्ते | यादृशो मे पुत्र औरसः, तादृशस्त्वं मम अद्याग्रेण भवसि || अथ खलु भगवन् स गृहपतिस्तस्य दरिद्रपुरुषस्य पुत्र इति नाम कुर्यात् | स च दरिद्रपुरुषस्तस्य गृहपतेरन्तिके पितृसंज्ञामुत्पादयेत् | अनेन भगवन् पर्यायेण स गृहपतिः पुत्रकामतृषितो विंशतिवर्षाणि तं पुत्रं संकारधानं शोधापयेत् | अथ विंशतेर्वर्षाणामत्ययेन स दरिद्रपुरुषस्तस्य गृहपतेर्निवेशने विश्रब्धो भवेन्निष्क्रमणप्रवेशे, तत्रैव च कटपलिकुञ्चिकायां वासं कल्पयेत् || अथ खलु भगवंस्तस्य गृहपतेर्ग्लान्यं प्रत्युपस्थितं भवेत् | स मरणकालसमयं च आत्मनः प्रत्युपस्थितं समनुपश्येत् | स तं दरिद्रपुरुषमेवं वदेत् - आगच्छ त्वं भोः पुरुष | इदं मम प्रभूतं हिरण्यसुवर्णधनधान्यकोशकोष्ठागारमस्ति | अहं बाढग्लानः | इच्छाम्येतं यस्य दातव्यं यतश्च ग्रहीतव्यं यच्च निधातव्यं भवेत्, सर्वं संजानीयाः | तत्कस्य हेतोः? यादृश एव अहमस्य द्रव्यस्य स्वामी, तादृशस्त्वमपि | मा च मे त्वं किंचिदतो विप्रणाशयिष्यसि || अथ खलु भगवन् स दरिद्रपुरुषो ऽनेन पर्यायेण तच्च तस्य गृहपतेः प्रभूतं हिरण्यसुवर्णधनधान्यकोशकोष्ठागारं संजानीयात् | आत्मना च ततो निःस्पृहो भवेत् | न च तस्मात् किंचित् प्रार्थयेत्, अन्तशः सक्तुप्रस्थमूल्यमात्रमपि | तत्रैव च कटपलिकुञ्चिकायां वासं कल्पयेत्, तामेव दरिद्रचिन्तामनुविचिन्तयमानः || अथ खलु भगवन् स गृहपतिस्तं पुत्रं शक्तं परिपालकं परिपक्वं विदित्वा अवमर्दितचित्तमुदारसंज्ञया च पौर्विकया दरिद्रचिन्तया आर्तीयन्तं जेह्रीयमाणं जुगुप्समानं विदित्वा मरणकालसमये प्रत्युपस्थिते तं दरिद्रपुरुषमानाय्य महतो ज्ञातिसंघस्योपनामयित्वा राज्ञो वा राजमात्रस्य वा पुरतो नैगमजानपदानां च संमुखमेवं संश्रावयेत् - शृण्वन्तु भवन्तः, अयं मम पुत्र औरसो मयैव जनितः | अमुकं नाम नगरम् | तस्मादेष पञ्चाशद्वर्षो नष्टः | अमुको नामैष नाम्ना | अहमप्यमुको नाम | ततश्चाहं नगरादेतमेव मार्गमाण इहागतः | एष मम पुत्रः, अहमस्य पिता | यः कश्चिन्ममोपभोगो ऽस्ति, तं सर्वमस्मै पुरुषाय निर्यातयामि | यच्च मे किंचिदस्ति प्रत्यात्मकं धनम्, तत्सर्वमेष एव जानाति || अथ खलु भगवन् स दरिद्रपुरुषस्तस्मिन् समये इममेवंरूपं घोषं श्रुत्वा आश्चर्याद्भुतप्राप्तो भवेत् | एवं च विचिन्तयेत् - सहसैव मयेदमेव तावद् हिरण्यसुवर्णधनधान्यकोशकोष्ठागारं प्रतिलब्धमिति || एवमेव भगवन् वयं तथागतस्य पुत्रप्रतिरूपकाः | तथागतश्च अस्माकमेवं वदति - पुत्रा मम यूयमिति, यथा स गृहपतिः | वयं च भगवंस्तिसृभिर्दुःखताभिः संपीडिता अभूम | कतमाभिस्तिसृभिः? यदुत दुःखदुःखतया संस्कारदुःखतया विपरिणामदुःखतया च | संसारे च हीनाधिमुक्तिकाः | ततो वयं भगवता बहून् धर्मान् प्रत्यवरान् संकारधानसदृशाननुविचिन्तयिताः | तेषु चास्म प्रयुक्ता घटमाना व्यायच्छमानाः | निर्वाणमात्रं च वयं भगवन् दिवसमुद्रामिव पर्येषमाणा मार्गामः | तेन च वयं भगवन् निर्वाणेन प्रतिलब्धेन तुष्टा भवामः | बहु च लब्धमिति मन्यामहे तथागतस्यान्तिकात् एषु धर्मेष्वभियुक्ता घटित्वा व्यायमित्वा | प्रजानाति च तथागतो ऽस्माकं हीनाधिमुक्तिकताम्, ततश्च भगवानस्मानुपेक्षते, न संभिनत्ति, नाचष्टे - यो ऽयं तथागतस्य ज्ञानकोशः, एष एव युष्माकं भविष्यतीति | भगवांश्चास्माकमुपायकौशल्येन अस्मिंस्तथागतज्ञानकोशे दायादान् संस्थापयति | निःस्पृहाश्च वयं भगवन् | तत एवं जानीम - एतदेवास्माकं बहुकरं यद्वयं तथागतस्यान्तिकाद्दिवसमुद्रामिव निर्वाणं प्रतिलभामहे | ते वयं भगवन् बोधिसत्त्वानां महासत्त्वानां तथागतज्ञानदर्शनमारभ्य उदारां धर्मदेशनां कुर्मः | तथागतज्ञानं विवरामो दर्शयाम उपदर्शयामः | वयं भगवंस्ततो निःस्पृहाः समानाः | तत्कस्य हेतोः? उपायकौशल्येन तथागतो ऽस्माकमधिमुक्तिं प्रजानाति | तच्च वयं न जानीमो न बुध्यामहे यदिदं भगवता एतर्हि कथितम् - यथा वयं भगवतो भूताः पुत्राः, भगवांश्चास्माकं स्मारयति तथागतज्ञानदायादान् | तत्कस्य हेतोः? यथापि नाम वयं तथागतस्य भूताः पुत्राः इति, अपि तु खलु पुनर्हीनाधिमुक्ताः | सचेद् भगवानस्माकं पश्येदधिमुक्तिबलम्, बोधिसत्त्वशब्दं भगवानस्माकमुदाहरेत् | वयं पुनर्भगवता द्वे कार्ये कारापिताः - बोधिसत्त्वानां चाग्रतो हीनाधिमुक्तिका इत्युक्ताः, ते चोदारायां बुद्धबोधौ समादापिताः, अस्माकं चेदानीं भगवानधिमुक्तिबलं ज्ञात्वा इदमुदाहृतवान् | अनेन वयं भगवन् पर्यायेणैवं वदामः - सहसैवास्माभिर्निःस्पृहैराकाङ्क्षितममार्गितमपर्येषितमचिन्तितमप्रार्थितं सर्वज्ञतारत्नं प्रतिलब्धं यथापीदं तथागतस्य पुत्रैः || अथ खल्वायुष्मान् महाकाश्यपस्तस्यां वेलायामिमा गाथा अभाषत् - आश्चर्यभूताः स्म तथाद्भुताश्च औद्बिल्यप्राप्ताः स्म श्रुणित्व घोषम् । सहसैव अस्माभिरयं तथाद्य मनोज्ञघोषः श्रुतु नायकस्य ॥ ४.१ ॥
: adhimuktiparivartaḥ | atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpamaśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptā stasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman | upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukhamullokayamānā avanakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan - vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smaḥ, aprativīryārambhāḥ smaḥ | yadāpi bhagavān dharmaṃ deśayati, ciraṃ niṣaṇṇaśca bhagavān bhavati, vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmaḥ, tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti, saṃdhivisaṃdhayaśca duḥkhanti | tato vayaṃ bhagavan bhagavato dharmaṃ deśayamānasya śūnyatānimittāpraṇihitaṃ sarvamāviṣkurmaḥ | nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā | tatkasya hetoḥ? yaccāsmādbhagavaṃstraidhātukānnirdhāvitā nirvāṇasaṃjñinaḥ, vayaṃ ca jarājīrṇāḥ | tato bhagavan asmābhirapyanye bodhisattvā avavaditā abhūvannanuttarāyāṃ samyaksaṃbodhau, anuśiṣṭāśca | na ca bhagavaṃstatrāsmābhirekamapi spṛhācittamutpāditamabhūt | te vayaṃ bhagavannetarhi bhagavato 'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ | bhagavannadya sahasaivemamevaṃrūpamaśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhāśca smaḥ | bhagavan aprameyaratnapratilabdhāśca smaḥ | bhagavan amārgitamaparyeṣṭamacintitamaprārthitaṃ cāsmābhirbhagavannidamevaṃ rūpaṃ mahāratnaṃ pratilabdham | pratibhāti no bhagavan, pratibhāti naḥ sugata | tadyathāpi nāma bhagavan kaścideva puruṣaḥ piturantikādapakrāmet | so 'pakramya anyataraṃ janapadapradeśaṃ gacchet | sa tatra bahūni varṣāṇi vipravased viṃśatiṃ vā triṃśadvā catvāriṃśadvā pañcāśadvā | atha sa bhagavan mahān puruṣo bhavet | sa ca daridraḥ syāt | sa ca vṛttiṃ paryeṣamāṇa āhāracīvarahetordiśo vidiśaḥ prakāman anyataraṃ janapadapradeśaṃ gacchet | tasya ca sa pitā anyatamaṃ janapadaṃ prakrāntaḥ syāt | bahudhanadhānyahiraṇyakośakoṣṭhāgāraśca bhavet | bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataśca bhavet | bahudāsīdāsakarmakarapauruṣeyaśca bhavet | bahuhastyaśvarathagaveḍakasamanvāgataśca bhavet | mahāparivāraśca bhavet | mahājanapadeṣu ca dhanikaḥ syāt | āyogaprayogakṛṣivaṇijyaprabhūtaśca bhavet || athe khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetorgrāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgārastasyaiva pitā vasati, tannagaramanuprāpto bhavet | atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgārastasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret | samanusmaramāṇaśca na kasyacidācakṣedanyatraika evātmanādhyātmaṃ saṃtapyet, evaṃ ca cintayet - ahamasmi jīrṇo vṛddho mahallakaḥ | prabhūtaṃ me hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃvidyate | na ca me putraḥ kaścidasti | mā haiva mama kālakriyā bhavet | sarvamidamaparibhuktaṃ vinaśyet | sa taṃ punaḥ punaḥ putramanusmaret - aho nāmāhaṃ nirvṛtiprāpto bhaveyaṃ yadi me sa putra imaṃ dhanaskandhaṃ paribhuñjīta || atha khalu bhagavan sa daridrapuruṣa āhāracīvaraṃ paryeṣamāṇo 'nupūrveṇa yena tasya prabhūtahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya samṛddhasya puruṣasya niveśanaṃ tenopasaṃkrāmet | atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyaddharyā upaviṣṭaḥ syāt | adrākṣīt sa bhagavan daridrapuruṣastaṃ svakaṃ pitaraṃ svake niveśanadvāre evaṃrūpayā ṛdhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇam | dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evamanuvicintayāmāsa - sahasaivāyaṃ mayā rājā vā rājamātro vā āsāditaḥ | nāstyasmākamiha kiṃcit karma | gacchāmo vayaṃ yena daridravīthī, tatrāsmākamāhāracīvaramalpakṛcchreṇaiva utpatsyate | alaṃ me ciraṃ vilambitena | mā haivāhamiha vaiṣṭiko vā gṛhyeya, anyataraṃ vā doṣamanuprāpnuyām || atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṃparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet, na tatra saṃtiṣṭhet | atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt | dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet, evaṃ ca cintayet - āścaryaṃ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ | ahaṃ caitameva punaḥ punaḥ samanusmarāmi | ayaṃ ca svayamevehāgataḥ | ahaṃ ca jīrṇo vṛddho mahallakaḥ || atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṃpreṣayet - gacchata mārṣā etaṃ puruṣaṃ śīghramānayadhvam | atha khalu bhagavaṃste puruṣāḥ rsava eva javena pradhāvitāstaṃ daridrapuruṣamadhyālambeyuḥ | atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvigramānaso dāruṇamārtasvaraṃ muñcedāraved viravet | nāhaṃ yuṣmākaṃ kiṃcidaparādhyāmīti vācaṃ bhāṣeta | atha khalu te puruṣā balātkāreṇa taṃ (vaidya 73) daridrapuruṣaṃ viravantamapyākarṣeyuḥ | atha khalu sa daridrapuruṣo bhītastrastaḥ saṃvigna udvignamānasa evaṃ ca cintayet - mā tāvadahaṃ vadhyo daṇḍayo bhaveyam | naśyāmīti | sa mūrchito dharaṇyāṃ prapatet, visaṃjñaśca syāt | āsanne cāsya sa pitā bhavet | sa tān puruṣānevaṃ vadet - mā bhavanta etaṃ puruṣamānayantviti | tamenaṃ śītalena vāriṇā parisiñcitvā na bhūya ālapet | tatkasya hetoḥ? jānāti sa gṛhapatistasya daridrapuruṣasya hīnādhimuktikatāmātmanaścodārasthāmatām | jānīte ca mamaiṣa putra iti || atha khalu bhagavan sa gṛhapatirupāyakauśalyena na kasyacidācakṣet - mamaiṣa putra iti | atha khalu bhagavan sa gṛhapatiranyataraṃ puruṣamāmantrayet - gaccha tvaṃ bhoḥ puruṣa | enaṃ daridrapuruṣamevaṃ vadasva - gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi | mukto 'si | evaṃ vadati sa puruṣastasmai pratiśrutya yena sa daridrapuruṣastenopasaṃkrāmet | upasaṃkramya taṃ daridrapuruṣamevaṃ vadet - gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi | mukto 'sīti | atha khalu sa daridrapuruṣa idaṃ vacanaṃ śrutvā āścaryādbhutaprāpto bhavet | sa utthāya tasmāt pṛthivīpradeśādyena daridravīthī tenopasaṃkrāmedāhāracīvaraparyeṣṭihetoḥ | atha khalu sa gṛhapatistasya daridrapuruṣasyākarṣaṇahetorupāyakauśalyaṃ prayojayet | sa tatra dvau puruṣau prayojayet durvarṇāvalpaujaskau - gacchatāṃ bhavantau yo 'sau puruṣa ihāgato 'bhūt, taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām | sacet sa evaṃ vadet - kiṃ karma kartavyamiti, sa yuvābhyāmevaṃ vaktavyaḥ - saṃkāradhānaṃ śodhayitavyaṃ sahāvābhyāmiti | atha tau puruṣau taṃ daridrapuruṣaṃ paryeṣayitvā tayā kriyayā saṃpādayetām | atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyuḥ | tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṃ vāsaṃ kalpayeyuḥ | sa cāḍhyaḥ puruṣo gavākṣavātāyanena taṃ svakaṃ putraṃ paśyet saṃkāradhānaṃ śodhayamānam | dṛṣṭvā ca punarāścaryaprāpto bhavet || atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇani, apanayitvā mṛdukāni vastrāṇi, caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya, dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva saṃbhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet | upasaṃkramyaivaṃ vadet - vahantu bhavantaḥ piṭakāni, mā tiṣṭhata, harata pāṃsūni | anenopāyena taṃ putramālapet saṃlapecca | enaṃ vadet - ihaiva tvaṃ bhoḥ puruṣa karma kuruṣva | mā bhūyo 'nyatra gamiṣyasi | saviśeṣaṃ te 'haṃ vetanakaṃ dāsyāmi | yena yena ca te kārya bhavet, tadviśrabdhaṃ māṃ yāceḥ, yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena | asti me bhoḥ puruṣa jīrṇaśāṭī | sacettayā te kāryaṃ syāt, yāceḥ, ahaṃ te 'nupradāsyāmi | yena yena te bhoḥ puruṣa kāryamevaṃrūpeṇa pariṣkāreṇa, taṃ tamevāhaṃ te sarvamanupradāsyāmi | nirvṛtastvaṃ bhoḥ puruṣa bhava | yādṛśaste pitā, tādṛśaste 'haṃ mantavyaḥ | tatkasya hetoḥ? ahaṃ (vaidya 74) ca vṛddhaḥ, tvaṃ ca daharaḥ | mama ca tvayā bahu karma kṛtamimaṃ saṃkāradhānaṃ śodhayatā | na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhayaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ, karoṣi vā | sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma, yathaiṣāmanyeṣāṃ puruṣāṇāṃ karma kurvatāmime doṣāḥ saṃvidyante | yādṛśo me putra aurasaḥ, tādṛśastvaṃ mama adyāgreṇa bhavasi || atha khalu bhagavan sa gṛhapatistasya daridrapuruṣasya putra iti nāma kuryāt | sa ca daridrapuruṣastasya gṛhapaterantike pitṛsaṃjñāmutpādayet | anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṃśativarṣāṇi taṃ putraṃ saṃkāradhānaṃ śodhāpayet | atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe, tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet || atha khalu bhagavaṃstasya gṛhapaterglānyaṃ pratyupasthitaṃ bhavet | sa maraṇakālasamayaṃ ca ātmanaḥ pratyupasthitaṃ samanupaśyet | sa taṃ daridrapuruṣamevaṃ vadet - āgaccha tvaṃ bhoḥ puruṣa | idaṃ mama prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāramasti | ahaṃ bāḍhaglānaḥ | icchāmyetaṃ yasya dātavyaṃ yataśca grahītavyaṃ yacca nidhātavyaṃ bhavet, sarvaṃ saṃjānīyāḥ | tatkasya hetoḥ? yādṛśa eva ahamasya dravyasya svāmī, tādṛśastvamapi | mā ca me tvaṃ kiṃcidato vipraṇāśayiṣyasi || atha khalu bhagavan sa daridrapuruṣo 'nena paryāyeṇa tacca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃjānīyāt | ātmanā ca tato niḥspṛho bhavet | na ca tasmāt kiṃcit prārthayet, antaśaḥ saktuprasthamūlyamātramapi | tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet, tāmeva daridracintāmanuvicintayamānaḥ || atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet - śṛṇvantu bhavantaḥ, ayaṃ mama putra auraso mayaiva janitaḥ | amukaṃ nāma nagaram | tasmādeṣa pañcāśadvarṣo naṣṭaḥ | amuko nāmaiṣa nāmnā | ahamapyamuko nāma | tataścāhaṃ nagarādetameva mārgamāṇa ihāgataḥ | eṣa mama putraḥ, ahamasya pitā | yaḥ kaścinmamopabhogo 'sti, taṃ sarvamasmai puruṣāya niryātayāmi | yacca me kiṃcidasti pratyātmakaṃ dhanam, tatsarvameṣa eva jānāti || atha khalu bhagavan sa daridrapuruṣastasmin samaye imamevaṃrūpaṃ ghoṣaṃ śrutvā āścaryādbhutaprāpto bhavet | evaṃ ca vicintayet - sahasaiva mayedameva tāvad hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ pratilabdhamiti || evameva bhagavan vayaṃ tathāgatasya putrapratirūpakāḥ | tathāgataśca asmākamevaṃ vadati - putrā mama yūyamiti, yathā sa gṛhapatiḥ | vayaṃ ca bhagavaṃstisṛbhirduḥkhatābhiḥ saṃpīḍitā abhūma | katamābhistisṛbhiḥ? yaduta duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca | saṃsāre ca hīnādhimuktikāḥ | tato vayaṃ bhagavatā bahūn dharmān pratyavarān saṃkāradhānasadṛśānanuvicintayitāḥ | teṣu cāsma prayuktā ghaṭamānā vyāyacchamānāḥ | nirvāṇamātraṃ ca vayaṃ bhagavan divasamudrāmiva paryeṣamāṇā mārgāmaḥ | tena ca vayaṃ bhagavan nirvāṇena pratilabdhena tuṣṭā bhavāmaḥ | bahu ca labdhamiti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā | prajānāti ca tathāgato 'smākaṃ hīnādhimuktikatām, tataśca bhagavānasmānupekṣate, na saṃbhinatti, nācaṣṭe - yo 'yaṃ tathāgatasya jñānakośaḥ, eṣa eva yuṣmākaṃ bhaviṣyatīti | bhagavāṃścāsmākamupāyakauśalyena asmiṃstathāgatajñānakośe dāyādān saṃsthāpayati | niḥspṛhāśca vayaṃ bhagavan | tata evaṃ jānīma - etadevāsmākaṃ bahukaraṃ yadvayaṃ tathāgatasyāntikāddivasamudrāmiva nirvāṇaṃ pratilabhāmahe | te vayaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ tathāgatajñānadarśanamārabhya udārāṃ dharmadeśanāṃ kurmaḥ | tathāgatajñānaṃ vivarāmo darśayāma upadarśayāmaḥ | vayaṃ bhagavaṃstato niḥspṛhāḥ samānāḥ | tatkasya hetoḥ? upāyakauśalyena tathāgato 'smākamadhimuktiṃ prajānāti | tacca vayaṃ na jānīmo na budhyāmahe yadidaṃ bhagavatā etarhi kathitam - yathā vayaṃ bhagavato bhūtāḥ putrāḥ, bhagavāṃścāsmākaṃ smārayati tathāgatajñānadāyādān | tatkasya hetoḥ? yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ iti, api tu khalu punarhīnādhimuktāḥ | saced bhagavānasmākaṃ paśyedadhimuktibalam, bodhisattvaśabdaṃ bhagavānasmākamudāharet | vayaṃ punarbhagavatā dve kārye kārāpitāḥ - bodhisattvānāṃ cāgrato hīnādhimuktikā ityuktāḥ, te codārāyāṃ buddhabodhau samādāpitāḥ, asmākaṃ cedānīṃ bhagavānadhimuktibalaṃ jñātvā idamudāhṛtavān | anena vayaṃ bhagavan paryāyeṇaivaṃ vadāmaḥ - sahasaivāsmābhirniḥspṛhairākāṅkṣitamamārgitamaparyeṣitamacintitamaprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ || atha khalvāyuṣmān mahākāśyapastasyāṃ velāyāmimā gāthā abhāṣat - āścaryabhūtāḥ sma tathādbhutāśca audbilyaprāptāḥ sma śruṇitva ghoṣam / sahasaiva asmābhirayaṃ tathādya manojñaghoṣaḥ śrutu nāyakasya (4.1)
Verse 4.2
।। विशिष्टरत्नान महन्तराशिर्मुहूर्तमात्रेणयमद्य लब्धः । न चिन्तितो नापि कदाचि प्रार्थितस्तं श्रुत्व आश्चर्यगताः स्म सर्वे ॥ ४.२ ॥
// viśiṣṭaratnāna mahantarāśirmuhūrtamātreṇayamadya labdhaḥ / na cintito nāpi kadāci prārthitastaṃ śrutva āścaryagatāḥ sma sarve (4.2)
Verse 4.3
।। यथापि बालः पुरुषो भवेत उत्प्लावितो बालजनेन सन्तः । पितुः सकाशातु अपक्रमेत अन्यं च देशं व्रजि सो सुदूरम् ॥ ४.३ ॥
// yathāpi bālaḥ puruṣo bhaveta utplāvito bālajanena santaḥ / pituḥ sakāśātu apakrameta anyaṃ ca deśaṃ vraji so sudūram (4.3)
Verse 4.4
।। पिता च तं शोचति तस्मि काले पलायितं ज्ञात्व स्वकं हि पुत्रम् । शोचन्तु सो दिग्विदिशासु अञ्चे वर्षाणि पञ्चाशदनूनकानि ॥ ४.४ ॥
// pitā ca taṃ śocati tasmi kāle palāyitaṃ jñātva svakaṃ hi putram / śocantu so digvidiśāsu añce varṣāṇi pañcāśadanūnakāni (4.4)
Verse 4.5
।। तथा च सो पुत्र गवेषमाणो अन्यं महन्तं नगरं हि गत्वा । निवेशनं मापिय तत्र तिष्ठेत् समर्पितो कामुगणेहि पञ्चभिः ॥ ४.५ ॥
// tathā ca so putra gaveṣamāṇo anyaṃ mahantaṃ nagaraṃ hi gatvā / niveśanaṃ māpiya tatra tiṣṭhet samarpito kāmugaṇehi pañcabhiḥ (4.5)
Verse 4.6
।। बहुं हिरण्यं च सुवर्णरूप्यं धान्यं धनं शङ्खशिलाप्रवालम् । हस्ती च अश्वाश्च पदातयश्च गावः पशूश्चैव तथैडकाश्च ॥ ४.६ ॥
// bahuṃ hiraṇyaṃ ca suvarṇarūpyaṃ dhānyaṃ dhanaṃ śaṅkhaśilāpravālam / hastī ca aśvāśca padātayaśca gāvaḥ paśūścaiva tathaiḍakāśca (4.6)
Verse 4.7
।। प्रयोग आयोग तथैव क्षेत्रा दासी च दासा बहु प्रेष्यवर्गः । सुसत्कृतः प्राणिसहस्रकोटिभी राज्ञश्च सो वल्लभु नित्यकालम् ॥ ४.७ ॥
// prayoga āyoga tathaiva kṣetrā dāsī ca dāsā bahu preṣyavargaḥ / susatkṛtaḥ prāṇisahasrakoṭibhī rājñaśca so vallabhu nityakālam (4.7)
Verse 4.8
।। कृताञ्जली तस्य भवन्ति नागरा ग्रामेषु ये चापि वसन्ति ग्रामिणः । बहुवाणिजास्तस्य व्रजन्ति अन्तिके बहूहि कार्येहि कृताधिकाराः ॥ ४.८ ॥
// kṛtāñjalī tasya bhavanti nāgarā grāmeṣu ye cāpi vasanti grāmiṇaḥ / bahuvāṇijāstasya vrajanti antike bahūhi kāryehi kṛtādhikārāḥ (4.8)
Verse 4.9
।। एतादृशो ऋद्धिमतो नरः स्याज्जीर्णश्च वृद्धश्च महल्लकश्च । स पुत्रशोकं अनुचिन्तयन्तः क्षपेय रात्रिंदिव नित्यकालम् ॥ ४.९ ॥
// etādṛśo ṛddhimato naraḥ syājjīrṇaśca vṛddhaśca mahallakaśca / sa putraśokaṃ anucintayantaḥ kṣapeya rātriṃdiva nityakālam (4.9)
Verse 4.10
।। स तादृशो दुर्मति मह्य पुत्रः पञ्चाश वर्षाणि तदा पलानकः । अयं च कोशो विपुलो ममास्ति कालक्रिया चो मम प्रत्युपस्थिता ॥ ४.१० ॥
// sa tādṛśo durmati mahya putraḥ pañcāśa varṣāṇi tadā palānakaḥ / ayaṃ ca kośo vipulo mamāsti kālakriyā co mama pratyupasthitā (4.10)
Verse 4.11
।। सो चापि बालो तद तस्य पुत्रो दरिद्रकः कृपणकु नित्यकालम् । ग्रामेण ग्रामं अनुचंक्रमन्तः पर्येषते भक्त अथापि चोलम् ॥ ४.११ ॥
// so cāpi bālo tada tasya putro daridrakaḥ kṛpaṇaku nityakālam / grāmeṇa grāmaṃ anucaṃkramantaḥ paryeṣate bhakta athāpi colam (4.11)
Verse 4.12
।। पर्येषमाणो ऽपि कदाचि किंचिल्लभेत किंचित् पुन नैव किंचित् । स शुष्यते परशरणेषु बालो दद्रूय कण्डूय च दिग्धगात्रः ॥ ४.१२ ॥
// paryeṣamāṇo 'pi kadāci kiṃcillabheta kiṃcit puna naiva kiṃcit / sa śuṣyate paraśaraṇeṣu bālo dadrūya kaṇḍūya ca digdhagātraḥ (4.12)
Verse 4.13
।। सो च व्रजेत्तं नगरं यहिं पिता अनुपूर्वशो तत्र गतो भवेत । भक्तं च चोलं च गवेषमाणो निवेशनं यत्र पितुः स्वकस्य ॥ ४.१३ ॥
// so ca vrajettaṃ nagaraṃ yahiṃ pitā anupūrvaśo tatra gato bhaveta / bhaktaṃ ca colaṃ ca gaveṣamāṇo niveśanaṃ yatra pituḥ svakasya (4.13)
Verse 4.14
।। सो चापि आढ्यः पुरुषो महाधनो द्वारस्मि सिंहासनि संनिषण्णः । परिवारितः प्राणिशतैरनेकैर्वितान तस्या विततो ऽन्तरीक्षे ॥ ४.१४ ॥
// so cāpi āḍhyaḥ puruṣo mahādhano dvārasmi siṃhāsani saṃniṣaṇṇaḥ / parivāritaḥ prāṇiśatairanekairvitāna tasyā vitato 'ntarīkṣe (4.14)
Verse 4.15
।। आप्तो जनश्चास्य समन्ततः स्थितो धनं हिरण्यं च गणेन्ति केचित् । केचित्तु लेखानपि लेखयन्ति केचित् प्रयोगं च प्रयोजयन्ति ॥ ४.१५ ॥
// āpto janaścāsya samantataḥ sthito dhanaṃ hiraṇyaṃ ca gaṇenti kecit / kecittu lekhānapi lekhayanti kecit prayogaṃ ca prayojayanti (4.15)
Verse 4.16
।। सो चा दरिद्रो तहि एतु दृष्ट्वा विभूषितं गृहपतिनो निवेशनम् । कहिं नु अद्य अहमत्र आगतो राजा अयं भेष्यति राजमात्रः ॥ ४.१६ ॥
// so cā daridro tahi etu dṛṣṭvā vibhūṣitaṃ gṛhapatino niveśanam / kahiṃ nu adya ahamatra āgato rājā ayaṃ bheṣyati rājamātraḥ (4.16)
Verse 4.17
।। मा दानि दोषं पि लभेयमत्र गृह्णित्व वेष्टिं पि च कारयेयम् । अनुचिन्तयन्तः स पलायते नरो दरिद्रवीथीं परिपृच्छमानः ॥ ४.१७ ॥
// mā dāni doṣaṃ pi labheyamatra gṛhṇitva veṣṭiṃ pi ca kārayeyam / anucintayantaḥ sa palāyate naro daridravīthīṃ paripṛcchamānaḥ (4.17)
Verse 4.18
।। सो चा धनी तं स्वकु पुत्र दृष्ट्वा सिंहासनस्थश्च भवेत् प्रहृष्टः । स दूतकान् प्रेषयि तस्य अन्तिके आनेथ एतं पुरुषं दरिद्रम् ॥ ४.१८ ॥
// so cā dhanī taṃ svaku putra dṛṣṭvā siṃhāsanasthaśca bhavet prahṛṣṭaḥ / sa dūtakān preṣayi tasya antike ānetha etaṃ puruṣaṃ daridram (4.18)
Verse 4.19
।। समनन्तरं तेहि गृहीतु सो नरो गृहीतमात्रो ऽथ च मूर्च्छ गच्छेत् । ध्रूवं खु मह्यं वधका उपस्थिताः किं मह्य चोलेनथ भोजनेन वा ॥ ४.१९ ॥
// samanantaraṃ tehi gṛhītu so naro gṛhītamātro 'tha ca mūrccha gacchet / dhrūvaṃ khu mahyaṃ vadhakā upasthitāḥ kiṃ mahya colenatha bhojanena vā (4.19)
Verse 4.20
।। दृष्ट्वा च सो पण्डितु तं महाधनी हीनाधिमुक्तो अयु बाल दुर्मतिः । न श्रद्दधी मह्यमिमां विभूषितां पिता ममायं ति न चापि श्रद्दधीत् ॥ ४.२० ॥
// dṛṣṭvā ca so paṇḍitu taṃ mahādhanī hīnādhimukto ayu bāla durmatiḥ / na śraddadhī mahyamimāṃ vibhūṣitāṃ pitā mamāyaṃ ti na cāpi śraddadhīt (4.20)
Verse 4.21
।। पुरुषांश्च सो तत्र प्रयोजयेत वङ्काश्च ये काणक कुण्ठकाश्च । कुचेलकाः कृष्णक हीनसत्त्वाः पर्येषथा तं नरु कर्मकारकम् ॥ ४.२१ ॥
// puruṣāṃśca so tatra prayojayeta vaṅkāśca ye kāṇaka kuṇṭhakāśca / kucelakāḥ kṛṣṇaka hīnasattvāḥ paryeṣathā taṃ naru karmakārakam (4.21)
Verse 4.22
।। संकारधानं इमु मह्य पूतिकमुच्चारप्रस्रावविनाशितं च । तं शोधनार्थाय करोहि कर्म द्विगुणं च ते वेतनकं प्रदास्ये ॥ ४.२२ ॥
// saṃkāradhānaṃ imu mahya pūtikamuccāraprasrāvavināśitaṃ ca / taṃ śodhanārthāya karohi karma dviguṇaṃ ca te vetanakaṃ pradāsye (4.22)
Verse 4.23
।। एतादृशं घोष श्रुणित्व सो नरो आगत्य संशोधयि तं प्रदेशम् । तत्रैव सो आवसथं च कुर्यान्निवेशनस्योपलिकुञ्चिके ऽस्मिन् ॥ ४.२३ ॥
// etādṛśaṃ ghoṣa śruṇitva so naro āgatya saṃśodhayi taṃ pradeśam / tatraiva so āvasathaṃ ca kuryānniveśanasyopalikuñcike 'smin (4.23)
Verse 4.24
।। सो चा धनी तं पुरुषं निरीक्षेद् गवाक्षओलोकनके ऽपि नित्यम् । हीनाधिमुक्तो अयु मह्य पुत्रः संकारधानं शुचिकं करोति ॥ ४.२४ ॥
// so cā dhanī taṃ puruṣaṃ nirīkṣed gavākṣaolokanake 'pi nityam / hīnādhimukto ayu mahya putraḥ saṃkāradhānaṃ śucikaṃ karoti (4.24)
Verse 4.25
।। स ओतरित्वा पिटकं गृहीत्वा मलिनानि वस्त्राणि च प्रावरित्वा । उपसंक्रमेत्तस्य नरस्य अन्तिके अवभर्त्सयन्तो न करोथ कर्म ॥ ४.२५ ॥
// sa otaritvā piṭakaṃ gṛhītvā malināni vastrāṇi ca prāvaritvā / upasaṃkramettasya narasya antike avabhartsayanto na karotha karma (4.25)
Verse 4.26
।। द्विगुणं च ते वेतनकं ददामि द्विगुणां च भूयस्तथ पादम्रक्षणम् । सलोणभक्तं च ददामि तुभ्य शाकं च शाटिं च पुनर्ददामि ॥ ४.२६ ॥
// dviguṇaṃ ca te vetanakaṃ dadāmi dviguṇāṃ ca bhūyastatha pādamrakṣaṇam / saloṇabhaktaṃ ca dadāmi tubhya śākaṃ ca śāṭiṃ ca punardadāmi (4.26)
Verse 4.27
।। एवं च तं भर्त्सिय तस्मि काले संश्लेषयेत्तं पुनरेव पण्डितः । सुष्ठुं खलू कर्म करोषि अत्र पुत्रो ऽसि व्यक्तं मम नात्र संशयः ॥ ४.२७ ॥
// evaṃ ca taṃ bhartsiya tasmi kāle saṃśleṣayettaṃ punareva paṇḍitaḥ / suṣṭhuṃ khalū karma karoṣi atra putro 'si vyaktaṃ mama nātra saṃśayaḥ (4.27)
Verse 4.28
।। स स्तोकस्तोकं च गृहं प्रवेशयेत् कर्मं च कारापयि तं मनुष्यम् । विंशच्च वर्षाणि सुपूरितानि क्रमेण विश्रम्भयि तं नरं सः ॥ ४.२८ ॥
// sa stokastokaṃ ca gṛhaṃ praveśayet karmaṃ ca kārāpayi taṃ manuṣyam / viṃśacca varṣāṇi supūritāni krameṇa viśrambhayi taṃ naraṃ saḥ (4.28)
Verse 4.29
।। हिरण्यु सो मौक्तिकु स्फाटिकं च प्रतिसामयेत्तत्र निवेशनस्मिन् । सर्वं च सो संगणनां करोति अर्थं च सर्वं अनुचिन्तयेत ॥ ४.२९ ॥
// hiraṇyu so mauktiku sphāṭikaṃ ca pratisāmayettatra niveśanasmin / sarvaṃ ca so saṃgaṇanāṃ karoti arthaṃ ca sarvaṃ anucintayeta (4.29)
Verse 4.30
।। बहिर्धा सो तस्य निवेशनस्य कुटिकाय एको वसमानु बालः । दरिद्रचिन्तामनुचिन्तयेत न मे ऽस्ति एतादृश भोग केचित् ॥ ४.३० ॥
// bahirdhā so tasya niveśanasya kuṭikāya eko vasamānu bālaḥ / daridracintāmanucintayeta na me 'sti etādṛśa bhoga kecit (4.30)
Verse 4.31
।। ज्ञात्वा च सो तस्य इमेवरूपमुदारसंज्ञाभिगतो मि पुत्रः । स आनयित्वा सुहृज्ञातिसंघं निर्यातयिष्याम्यहु सर्वमर्थम् ॥ ४.३१ ॥
// jñātvā ca so tasya imevarūpamudārasaṃjñābhigato mi putraḥ / sa ānayitvā suhṛjñātisaṃghaṃ niryātayiṣyāmyahu sarvamartham (4.31)
Verse 4.32
।। राजान सो नैगमनागरांश्च समानयित्वा बहुवाणिजांश्च । उवाच एवं परिषाय मध्ये पुत्रो ममायं चिर विप्रनष्टकः ॥ ४.३२ ॥
// rājāna so naigamanāgarāṃśca samānayitvā bahuvāṇijāṃśca / uvāca evaṃ pariṣāya madhye putro mamāyaṃ cira vipranaṣṭakaḥ (4.32)
Verse 4.33
।। पञ्चाश वर्षाणि सुपूर्णकानि अन्ये च ऽतो विंशतिये मि दृष्टः । अमुकातु नगरातु ममैष नष्टो अहं च मार्गन्त इहैवमागतः ॥ ४.३३ ॥
// pañcāśa varṣāṇi supūrṇakāni anye ca 'to viṃśatiye mi dṛṣṭaḥ / amukātu nagarātu mamaiṣa naṣṭo ahaṃ ca mārganta ihaivamāgataḥ (4.33)
Verse 4.34
।। सर्वस्य द्रव्यस्य अयं प्रभुर्मे एतस्य निर्यातयि सर्वशेषतः । करोतु कार्यं च पितुर्धनेन सर्वं कुटुम्बं च ददामि एतत् ॥ ४.३४ ॥
// sarvasya dravyasya ayaṃ prabhurme etasya niryātayi sarvaśeṣataḥ / karotu kāryaṃ ca piturdhanena sarvaṃ kuṭumbaṃ ca dadāmi etat (4.34)
Verse 4.35
।। आश्चर्यप्राप्तश्च भवेन्नरो ऽसौ दरिद्रभावं पुरिमं स्मरित्वा । हीनाधिमुक्तिं च पितुश्च तान् गुणांल्लब्ध्वा कुटुम्बं सुखितो ऽस्मि अद्य ॥ ४.३५ ॥
// āścaryaprāptaśca bhavennaro 'sau daridrabhāvaṃ purimaṃ smaritvā / hīnādhimuktiṃ ca pituśca tān guṇāṃllabdhvā kuṭumbaṃ sukhito 'smi adya (4.35)
Verse 4.36
।। तथैव चास्माक विनायकेन हीनाधिमुक्तित्व विजानियान । न श्रावितं बुद्ध भविष्यथेति यूयं किल श्रावक मह्य पुत्राः ॥ ४.३६ ॥
// tathaiva cāsmāka vināyakena hīnādhimuktitva vijāniyāna / na śrāvitaṃ buddha bhaviṣyatheti yūyaṃ kila śrāvaka mahya putrāḥ (4.36)
Verse 4.37
।। अस्मांश्च अध्येषति लोकनाथो ये प्रस्थिता उत्तममग्रबोधिम् । तेषां वदे काश्यप मार्ग नुत्तरं यं मार्ग भावित्व भवेयु बुद्धाः ॥ ४.३७ ॥
// asmāṃśca adhyeṣati lokanātho ye prasthitā uttamamagrabodhim / teṣāṃ vade kāśyapa mārga nuttaraṃ yaṃ mārga bhāvitva bhaveyu buddhāḥ (4.37)
Verse 4.38
।। वयं च तेषां सुगतेन प्रेषिता बहुबोधिसत्त्वान महाबलानाम् । अनुत्तरं मार्ग प्रदर्शयाम दृष्टान्तहेतूनयुतान कोटिभिः ॥ ४.३८ ॥
// vayaṃ ca teṣāṃ sugatena preṣitā bahubodhisattvāna mahābalānām / anuttaraṃ mārga pradarśayāma dṛṣṭāntahetūnayutāna koṭibhiḥ (4.38)
Verse 4.39
।। श्रुत्वा च अस्माकु जिनस्य पुत्रा बोधाय भावेन्ति सुमार्गमग्र्यम् । ते व्याक्रियन्ते च क्षणस्मि तस्मिन् भविष्यथा बुद्ध इमस्मि लोके ॥ ४.३९ ॥
// śrutvā ca asmāku jinasya putrā bodhāya bhāventi sumārgamagryam / te vyākriyante ca kṣaṇasmi tasmin bhaviṣyathā buddha imasmi loke (4.39)
Verse 4.40
।। एतादृशं कर्म करोम तायिनः संरक्षमाणा इम धर्मकोशम् । प्रकाशयन्तश्च जिनात्मजानां वैश्वासिकस्तस्य यथा नरः सः ॥ ४.४० ॥
// etādṛśaṃ karma karoma tāyinaḥ saṃrakṣamāṇā ima dharmakośam / prakāśayantaśca jinātmajānāṃ vaiśvāsikastasya yathā naraḥ saḥ (4.40)
Verse 4.41
।। दरिद्रचिन्ताश्च विचिन्तयाम विश्राणयन्तो इमु बुद्धकोशम् । न चैव प्रार्थेम जिनस्य ज्ञानं जिनस्य ज्ञानं च प्रकाशयामः ॥ ४.४१ ॥
// daridracintāśca vicintayāma viśrāṇayanto imu buddhakośam / na caiva prārthema jinasya jñānaṃ jinasya jñānaṃ ca prakāśayāmaḥ (4.41)
Verse 4.42
।। प्रत्यात्मिकीं निर्वृति कल्पयाम एतावता ज्ञानमिदं न भूयः । नास्माक हर्षो ऽपि कदाचिअ भोति क्षेत्रेषु बुद्धान श्रुणित्व व्यूहान् ॥ ४.४२ ॥
// pratyātmikīṃ nirvṛti kalpayāma etāvatā jñānamidaṃ na bhūyaḥ / nāsmāka harṣo 'pi kadācia bhoti kṣetreṣu buddhāna śruṇitva vyūhān (4.42)
Verse 4.43
।। शान्ताः किला सर्विमि धर्मनास्रवा निरोधौत्पादविवर्जिताश्च । न चात्र कश्चिद्भवतीह धर्मो एवं तु चिन्तेत्व न भोति श्रद्धा ॥ ४.४३ ॥
// śāntāḥ kilā sarvimi dharmanāsravā nirodhautpādavivarjitāśca / na cātra kaścidbhavatīha dharmo evaṃ tu cintetva na bhoti śraddhā (4.43)
Verse 4.44
।। सुनिःस्पृहा स्मा वय दीर्घरात्रं बौद्धस्य ज्ञानस्य अनुत्तरस्य । प्रणिधानमस्माक न जातु तत्र इयं परा निष्ठ जिनेन उक्ता ॥ ४.४४ ॥
// suniḥspṛhā smā vaya dīrgharātraṃ bauddhasya jñānasya anuttarasya / praṇidhānamasmāka na jātu tatra iyaṃ parā niṣṭha jinena uktā (4.44)
Verse 4.45
।। निर्वाणपर्यन्ति समुच्छ्रये ऽस्मिन् परिभाविता शून्यत दीर्घरात्रम् । परिमुक्त त्रैधातुकदुःखपीडिताः कृतं च अस्माभि जिनस्य शासनम् ॥ ४.४५ ॥
// nirvāṇaparyanti samucchraye 'smin paribhāvitā śūnyata dīrgharātram / parimukta traidhātukaduḥkhapīḍitāḥ kṛtaṃ ca asmābhi jinasya śāsanam (4.45)
Verse 4.46
।। यं हि प्रकाशेम जिनात्मजानां ये प्रस्थिता भोन्ति इहाग्रबोधौ । तेषां च यत्किंचि वदाम धर्मं स्पृह तत्र अस्माक न जातु भोति ॥ ४.४६ ॥
// yaṃ hi prakāśema jinātmajānāṃ ye prasthitā bhonti ihāgrabodhau / teṣāṃ ca yatkiṃci vadāma dharmaṃ spṛha tatra asmāka na jātu bhoti (4.46)
Verse 4.47
।। तं चास्म लोकाचरियः स्वयंभूरुपेक्षते कालमवेक्षमाणः । न भाषते भूतपदार्थसंधिं अधिमुक्तिमस्माकु गवेषमाणः ॥ ४.४७ ॥
// taṃ cāsma lokācariyaḥ svayaṃbhūrupekṣate kālamavekṣamāṇaḥ / na bhāṣate bhūtapadārthasaṃdhiṃ adhimuktimasmāku gaveṣamāṇaḥ (4.47)
Verse 4.48
।। उपायकौशल्य यथैव तस्य महाधनस्य पुरुषस्य काले । हीनाधिमुक्तं सततं दमेति दमियान चास्मै प्रददाति वित्तम् ॥ ४.४८ ॥
// upāyakauśalya yathaiva tasya mahādhanasya puruṣasya kāle / hīnādhimuktaṃ satataṃ dameti damiyāna cāsmai pradadāti vittam (4.48)
Verse 4.49
।। सुदुष्करं कुर्वति लोकनाथो उपायकौशल्य प्रकाशयन्तः । हीनाधिमुक्तान् दमयन्तु पुत्रान् दमेत्व च ज्ञानमिदं ददाति ॥ ४.४९ ॥
// suduṣkaraṃ kurvati lokanātho upāyakauśalya prakāśayantaḥ / hīnādhimuktān damayantu putrān dametva ca jñānamidaṃ dadāti (4.49)
Verse 4.50
।। आश्चर्यप्राप्ताः सहसा स्म अद्य यथा दरिद्रो लभियान वित्तम् । फलं च प्राप्तं इह बुद्धाशासने प्रथमं विशिष्टं च अनास्रवं च ॥ ४.५० ॥
// āścaryaprāptāḥ sahasā sma adya yathā daridro labhiyāna vittam / phalaṃ ca prāptaṃ iha buddhāśāsane prathamaṃ viśiṣṭaṃ ca anāsravaṃ ca (4.50)
Verse 4.51
।। यच्छीलमस्माभि च दीर्घरात्रं संरक्षितं लोकविदुस्य शासने । अस्माभि लब्धं फलमद्य तस्य शीलस्य पूर्वं चरितस्य नाथ ॥ ४.५१ ॥
// yacchīlamasmābhi ca dīrgharātraṃ saṃrakṣitaṃ lokavidusya śāsane / asmābhi labdhaṃ phalamadya tasya śīlasya pūrvaṃ caritasya nātha (4.51)
Verse 4.52
।। यद् ब्रह्मचर्यं परमं विशुद्धं निषेवितं शासनि नायकस्य । तस्यो विशिष्टं फलमद्य लब्धं शान्तं उदारं च अनास्रवं च ॥ ४.५२ ॥
// yad brahmacaryaṃ paramaṃ viśuddhaṃ niṣevitaṃ śāsani nāyakasya / tasyo viśiṣṭaṃ phalamadya labdhaṃ śāntaṃ udāraṃ ca anāsravaṃ ca (4.52)
Verse 4.53
।। अद्यो वयं श्रावकभूत नाथ संश्रावयिष्यामथ चाग्रबोधिम् । बोधीय शब्दं च प्रकाशयामस्तेनो वयं श्रावक भीष्मकल्पाः ॥ ४.५३ ॥
// adyo vayaṃ śrāvakabhūta nātha saṃśrāvayiṣyāmatha cāgrabodhim / bodhīya śabdaṃ ca prakāśayāmasteno vayaṃ śrāvaka bhīṣmakalpāḥ (4.53)
Verse 4.54
।। अर्हन्तभूता वयमद्य नाथ अर्हामहे पूज सदेवकातः । लोकात्समारातु सब्रह्मकातः सर्वेष सत्त्वान च अन्तिकातः ॥ ४.५४ ॥
// arhantabhūtā vayamadya nātha arhāmahe pūja sadevakātaḥ / lokātsamārātu sabrahmakātaḥ sarveṣa sattvāna ca antikātaḥ (4.54)
Verse 4.55
।। को नाम शक्तः प्रतिकर्तु तुभ्यमुद्युक्तरूपो बहुकल्पकोट्यः । सुदुष्कराणीदृशका करोषि सुदुष्करान् यानिह मर्त्यलोके ॥ ४.५५ ॥
// ko nāma śaktaḥ pratikartu tubhyamudyuktarūpo bahukalpakoṭyaḥ / suduṣkarāṇīdṛśakā karoṣi suduṣkarān yāniha martyaloke (4.55)
Verse 4.56
।। हस्तेहि पादेहि शिरेण चापि प्रतिप्रियं दुष्करकं हि कर्तुम् । शिरेण अंसेन च यो धरेत परिपूर्णकल्पान् यथ गङ्गवालिकाः ॥ ४.५६ ॥
// hastehi pādehi śireṇa cāpi pratipriyaṃ duṣkarakaṃ hi kartum / śireṇa aṃsena ca yo dhareta paripūrṇakalpān yatha gaṅgavālikāḥ (4.56)
Verse 4.57
।। खाद्यं ददेद्भोजनवस्त्रपानं शयनासनं चो विमलोत्तरच्छदम् । विहार कारापयि चन्दनामयान् संस्तीर्य चो दूष्ययुगेहि दद्यात् ॥ ४.५७ ॥
// khādyaṃ dadedbhojanavastrapānaṃ śayanāsanaṃ co vimalottaracchadam / vihāra kārāpayi candanāmayān saṃstīrya co dūṣyayugehi dadyāt (4.57)
Verse 4.58
।। गिलानभैषज्य बहुप्रकारं पूजार्थ दद्यात् सुगतस्य नित्यम् । ददेय कल्पान् यथ गङ्गवालिका नैवं कदाचित् प्रतिकर्तु शक्यम् ॥ ४.५८ ॥
// gilānabhaiṣajya bahuprakāraṃ pūjārtha dadyāt sugatasya nityam / dadeya kalpān yatha gaṅgavālikā naivaṃ kadācit pratikartu śakyam (4.58)
Verse 4.59
।। महात्मधर्मा अतुलानुभावा महर्द्धिकाः क्षान्तिबले प्रतिष्ठिताः । बुद्धा महाराज अनास्रवा जिना सहन्ति बालान इमीदृशानि ॥ ४.५९ ॥
// mahātmadharmā atulānubhāvā maharddhikāḥ kṣāntibale pratiṣṭhitāḥ / buddhā mahārāja anāsravā jinā sahanti bālāna imīdṛśāni (4.59)
Verse 4.60
।। अनुवर्तमानस्तथ नित्यकालं निमित्तचारीण ब्रवीति धर्मम् । धर्मेश्वरो ईश्वरु सर्वलोके महेश्वरो लोकविनायकेन्द्रः ॥ ४.६० ॥
// anuvartamānastatha nityakālaṃ nimittacārīṇa bravīti dharmam / dharmeśvaro īśvaru sarvaloke maheśvaro lokavināyakendraḥ (4.60)
Verse 4.61
।। प्रतिपत्ति दर्शेति बहुप्रकारं सत्त्वान स्थानानि प्रजानमानः । नानाधिमुक्तिं च विदित्व तेषां हेतूसहस्रेहि ब्रवीति धर्मम् ॥ ४.६१ ॥
// pratipatti darśeti bahuprakāraṃ sattvāna sthānāni prajānamānaḥ / nānādhimuktiṃ ca viditva teṣāṃ hetūsahasrehi bravīti dharmam (4.61)
Verse 4.62
।। तथागतश्चर्य प्रजानमानः सर्वेष सत्त्वानथ पुद्गलानाम् । बहुप्रकारं हि ब्रवीति धर्मं निदर्शयन्तो इममग्रबोधिम् ॥ ४.६२ ॥
// tathāgataścarya prajānamānaḥ sarveṣa sattvānatha pudgalānām / bahuprakāraṃ hi bravīti dharmaṃ nidarśayanto imamagrabodhim (4.62)