1. Śivarahasya, Part One (part 1 of 2)
śrīśivarahasye prathamāṃśe sūtamunisaṃvāde prathamo'dhyāyaḥ 1
1
ओं श्रीगणेशाय नमः श्रीशिवरहस्याख्यः महेतिहासः माहेश्वराख्यः प्रथमांशः षड्दर्शनपारंगतानां जनकपूर् ब्रह्मश्री. सहजानन्दोपाध्यायाभिधानां महानुभावानां सेवयासमासादितविद्येन मरूवूर्. गणेश शास्त्रिणा सर्वतन्त्रस्वतन्त्राणां सर्वतोमुखपर्यन्तानेकक्रतुभिराराधितपरमेश्वराणां पंचनदक्षेत्रमलंकृतवतां ब्रह्मश्री. बालकृष्णशास्त्रिणां शिष्येष्वन्यतमेन वरहूर्. सुन्दरेश्वर शास्त्रिणाच सम्यक् परिशोधितः देवकोट्टाभिधनगरवास्तव्यस्य मे. अरु. ना. रामनाथ श्रेष्ठिवर्यस्य द्रव्यसहायेन चेन्नपत्तननगरस्थेन बि. ए. पदयुतेन क. सदाशिव श्रेष्ठिवर्येण वाणीनिलय मुद्राक्षरशालायां मुद्रितो विजयतेतराम् 1913 श्रीशिवरहस्यप्रथमांशस्य विषयानुक्रमणिका पुटः पंक्तिः विषयः प्रथमोऽध्यायः 1 10 सूतमुनिसंवादः 2 5 परमेश्वराच्छिवरहस्यप्राप्तिपरम्परा 2 13 सर्वसङ्गपरित्यागिनामेव शिवरहस्यश्रवणे अधिकारः द्वितीयोऽध्यायः 3 6 इतिहासारम्भे मङ्गलाचरणम् 3 20 शिवरहस्यस्य पञ्चमवेदत्वप्रतिपादनम् 4 5 शिवरहस्यश्रोतॄणां पञ्चत्वनिवृत्तिः 5 1 रुद्रप्रसादाकाङ्क्षिणां नियमकथनम् 5 7 रुद्रं प्रति तपस्यन्तं जैगीषव्यं प्रति विष्ण्वाद्यागमनम् 5 15 जैगीषव्यं प्रति ब्रह्मणो वचनम् 6 7 जैगीषव्यं प्रति विष्णुवचनम् 6 17 जैगीषव्येन विष्णवादिनिराकरणम् 7 13 विष्ण्वादीनां प्रकृतिपरवशता तृतीयोऽध्यायः 9 3 इतः प्रभृति ईश्वरलक्षणम् 9 4 वेदानामीश्वरनिश्वासता 11 3 ब्रह्मविष्णुमहेश्वराणां कर्मदेवत्वम् 11 5 भृगुशापाद्विष्णोर्दशावतारः चतुर्थोऽध्यायः 12 11 शिवभक्तानामेव अन्यमोक्तृत्वम् 12 17 कर्मदेवानां शिवभक्तैर्निराकरणम् पृ0 2) पुटः पंक्तिः विषयः 13 2 आपत्काले कर्मदेवादीनां ईश्वरेणैव रक्षणम् 13 10 नेत्रपूजनेन विष्णोश्चक्रावाप्तिः पञ्चमोऽध्यायः 15 14 विष्ण्वादिलोकं प्राप्तानां पुण्यक्षये पतनम् 16 11 नारदकृता शिवस्तुतिः 17 22 नारदवाक्याज्जैगीषव्यं प्रति ईश्वरगमनम् 18 8 जैगीषव्यकृता शिवस्तुतिः 18 20 शिवेन जैगीषव्यस्यानुग्रहः षष्टोऽध्यायः 20 10 शिवलिङ्गस्यालयप्रतिष्ठातॄणां महिमा 20 19 लिङ्गालयप्रतिष्ठातुर्जातिव्यवस्थाराहित्यम् 20 23 लिङ्गप्रतिष्ठायाः स्थानानि 21 3 शक्त्यनुसारतः आलयनिर्मातुः महापातकादिदोषनिवृत्तिः गाणापत्यञ्च फलम् 21 15 जीर्णशिवालयोद्धर्तुः फलम् 21 21 बिल्वेन प्रदोषे लिङ्गार्चकस्य फलम् 22 1 शिवालये तैलादिभिर्दीपाद्यारोपकस्य फलम् 22 13 विविधद्रव्यैरभिषक्तुः फलम् 22 23 ग्रीष्मर्तौ धारापात्रेणाभिषेक्तुः फलम् 23 3 विविधपुष्पैरर्चने फलम् 23 13 लिङ्गार्चनतो मुक्तानामृषीणां गणना 23 17 लिङ्गार्चनतो मुक्तानादेवादीनां गणना 23 23 अन्यदेवपूजकानां फलम् 24 1 विष्णूत्कर्षधिया व्यासस्य शिवरहस्यस्य श्रवणेऽप्यनधिकारः 24 20 जैगीषव्यस्य स्कन्दमुखाच्छिवरहस्यश्रवणोक्तिः पृ0 3) पुटः पंक्तिः विषयः सप्तमोऽध्यायः 25 23 जैगीषव्यस्कन्दसमागमः अष्टमोऽध्यायः 28 24 अन्यकथातश्शिवकथायाः उत्कर्षः 29 6 शिवरहस्यस्य इतिहासत्वोक्तिः नवमोऽध्यायः 31 5 शिवरहस्यश्रवणार्थम् नारदोक्त्याविष्ण्वादिदेवागमनम् 31 20 शिवरहस्यश्रवणार्थं ईश्वरप्रेषितानां विनायकादिगणानामागमनम् 32 11 वेदस्मृतिपुराणभारतेषु आगमेषुच पशुधर्मा एवोक्ताः 32 24 स्कन्दकृता विनायकस्तुतिः दशमोऽध्यायः 34 9 स्कन्दकृता शिवस्तुतिः 36 6 स्कन्दकृता देवीस्तुतिः 38 3 पुरणानामन्योन्यनिन्दापरत्वम् 38 6 रामायणस्य काव्यत्वं तच्छ्रवणे दुःखाधिक्यञ्च एकादशोऽध्यायः 39 8 द्वादशांशानां नामकथनपूर्वककथासङ्ग्रहः ग्रन्थसङ्ख्याच 41 7 शिवरहस्येऽद्ध्यायास्सहस्रम् द्वादशोऽध्यायः 43 13 कैलासवर्णनम् त्रयोदशोऽध्यायः 48 3 अन्यैरपि लिङ्गपूजाकर्तव्येति दर्शयितुं शिवेनापि लिङ्गपूजाकृता 49 1 कैलासात्पञ्चगङ्गानामुत्पत्तिः 49 20 ईश्वरकृता पञ्चमुखलिङ्गस्तुतिः चतुर्दशोऽध्यायः 61 10 कैलासप्राकारवर्णनम् पृ0 4) पुटः पंक्तिः विषयः पञ्चदशोऽध्यायः 63 3 शैलप्राकारवर्णनम् षोडशोऽध्यायः 69 2 तत्पुरुषकृता शिवस्तुतिः 69 20 अघोरकृता शिवस्तुतिः 70 15 सद्योजातकृता शिवस्तुतिः 71 11 वामदेवकृता शिवस्तुतिः 71 24 ईशानकृता शिवस्तुतिः 72 14 त्रिमूर्तीनां न परस्परतारतम्यम् 72 18 तुरीयस्य मनोवागतीतत्वम् 72 20 निर्गुणस्यापि तुरीयस्य सगुणत्वप्रतिपादनम् सप्तदशोऽध्यायः 73 3 कैलासप्रासादवर्णनम् अष्टादशोऽध्यायः 78 8 कैलासमौलिवर्णनम् एकोनविंशोऽध्यायः 82 9 कैलासवर्णनम् विंशोऽध्यायः 88 18 प्रयागे गङ्गायमुनयोस्सङ्गमे देहत्यागान्मुक्तिः 88 25 ओङ्कारादि द्वादशज्योतिर्लिङ्गानां स्थानम् 89 18 अम्बिकार्चनार्थं विष्णोः काञ्चीनगरवासः शेषाद्रौ वर्तमानः कुमार एवेतिच 89 21 कावेरीतीर क्षेत्राणां वर्णनम् एकविंशोऽध्यायः 91 7 इतःप्रभृति देवयानपितृयानगन्तॄणां निरूपणम् द्वाविंशोऽध्यायः 97 14 देवैः कृता शिवस्तुतिः पृ0 5) पुटः पंक्तिः विषयः त्रयोविंशोऽध्यायः 102 23 स्कन्दकृता शिवस्तुतिः चतुर्विंशोऽध्यायः 105 2 गणेशकृता शिवस्तुतिः पञ्चविंशोऽध्यायः 107 14 धर्मवृषकृता शिवस्तुतिः षड्विंशोऽध्यायः 108 6 कैलासवर्णने देवीप्रस्ताववर्णनम् सप्तविंशोऽध्यायः 114 6 देवीकृता शिवस्तुतिः अष्टाविंशोऽध्यायः 115 17 कैलासप्रासादवर्णनम् एकोनत्रिंशोऽध्यायः 118 11 कैलाससौधवर्णनम् त्रिंशोऽध्यायः 124 14 गिरिकृता शिवस्तुतिः एकत्रिंशोऽध्यायः 125 3 प्राकारवर्णने रुद्रगणार्चनम् द्वात्रिंशोऽध्यायः 127 17 सभावर्णनम् त्रयस्त्रिंशोऽध्यायः 131 24 स्कन्दकृता शिवस्य हेमसभानृत्तध्यानपद्धतिः 132 22 स्कन्दकृता शिवस्य रत्नसभानृत्तध्यानपद्धतिः 133 21 स्कन्दकृता शिवस्य रजतसभानृत्तध्यानपद्धतिः 135 2 स्कन्दकृता शिवस्य चित्सभानृत्तध्यानपद्धतिः 137 18 सूतकृता शिवस्तुतिः चतुस्त्रिंशोऽध्यायः 138 6 चतुर्विधपुरुषार्थमण्टपवर्णनम् पृ0 6) पुटः पंक्तिः विषयः पञ्चत्रिंशोऽध्यायः 140 19 कैलासलिङ्गवर्णनम् षट्त्रिंशोऽध्यायः 143 14 लिङ्गशब्दनिर्वचनम् 144 16 पूजाकर्तुर्दिग्व्यवस्था सप्तत्रिंशोऽध्यायः 145 13 कैलासवासमहिमा अष्टत्रिंशोऽध्यायः 147 16 कैलासलिङ्गवर्णनम् एकोनचत्वारिंशोऽध्यायः 151 22 लिङ्गस्य निर्गुणरूपता चत्वारिंशोऽध्यायः 153 3 कैलासप्राग्द्वारस्थलिङ्गाभिधानम् एकचत्वारिंशोऽध्यायः 155 3 कैलासदक्षिणद्वारलिङ्गकथनम् द्विचत्वारिंशोऽध्यायः 157 6 कैलासपश्चिमद्वारलिङ्गकथनम् त्रिचत्वारिंशोऽध्यायः 159 15 कैलासोत्तरद्वारलिङ्गसौधकथनम् चतुश्चत्वारिंशोऽध्यायः 163 23 कैलासतपश्चर्या पञ्चचत्वारिंशोऽध्यायः 167 19 कैलासकृता शिवस्तुतिः 169 13 कैलासकृता शिवस्तुतिः षट्चत्वारिंशोऽध्यायः 171 1 भस्मरुद्राक्षादिनिन्दकानां फलम् 172 7 पञ्चायतनादिपूजकानां निन्दा 172 12 मृदा ऊर्ध्वपुण्ट्रधारिणां निन्दा 172 16 तप्तमुद्राधारिणां निन्दा पृ0 7) पुटः पंक्तिः विषयः 172 19 भस्मरुद्राक्षादिधारिणां फलम् 173 14 रावणकृता शिवस्तुतिः सप्तचत्वारिंशोऽध्यायः 176 11 ईश्वरः ब्रह्मविष्णुमहेश्वरशरीराणि प्रविष्ट्वा सृष्ट्यादि करोति 176 23 ईश्वरादेव ब्रह्मविष्णुरुद्रादीनामुत्पत्तिः 177 9 एकत्वदर्शिनो ग्रन्थिभेदनम् अष्टाचत्वारिंशोऽध्यायः 178 3 शिवगौरीसंवादः एकोनपञ्चाशोऽध्यायः 181 13 देववाक्यम् पञ्चाशोऽध्यायः 184 19 सुरोपदेशः एकपञ्चाशोऽध्यायः 187 16 श्रुतिसारनिरूपणम् द्विपञ्चाशोऽध्यायः 194 20 केनोपनिषत्कथासङ्ग्रहः त्रिपञ्चाशोऽध्यायः 196 2 देवैः कृता देवीस्तुतिः चतुःपञ्चाशोऽध्यायः 199 3 देवैः कृता उपनिषत्स्तुतिः पञ्चपञ्चाशोऽध्यायः 205 3 देवैः कृता देवीस्तुतिः 206 7 देव्युपनिषत्प्रतिपादनम् षट्पञ्चाशोऽध्यायः 211 23 हरिणा केदारपूजा कृता 212 1 ब्रह्मणा ओङ्कारपूजा कृता 212 5 रुद्रेण अविमुक्ते विश्वेश्वरपूजा कृता 212 15 कुबेरेण श्रीशैलपूजा कृता 212 23 मरुद्भिर्गोकर्णपूजा कृता पृ0 8) पुटः पंक्तिः विषयः सप्तपञ्चाशोऽध्यायः 214 6 विष्ण्वादिकृता ईश्वरस्तुतिः अष्टपञ्चाशोध्यायः 220 23 लिङ्गपदार्थनिर्वचनम् 221 1 लिङ्गलक्षणम् 222 14 जीवेषु ब्रह्मविष्णू उत्कृष्टौ एकोनषष्टितमोऽध्यायः 223 23 विग्रहपूजातो लिङ्गपूजायाः उत्कर्षः 224 1 लिङ्गपूजायास्सन्निपत्योपकारत्वं विभूतिधारणादीनां ज्ञानाङ्गत्वञ्च 224 4 शिवनैवेद्यभोक्तुश्चित्तशुद्धिः फलमिति श्रुतिप्रामाण्यनिरूपणम् 224 11 आत्मलिङ्गपूजाक्रमस्तावत् अद्वैतभावनां दर्शयति 229 5 देहे लिङ्गस्य स्थानम् 229 17 लिङ्गधाम्नः प्राप्यत्वनिराकरणम् षष्टितमोऽध्यायः 230 16 अविमुक्तादिक्षेत्रेषु वर्तमानविश्वेश्वरादिलिङ्गपूजा सर्वैः कार्या 231 4 आत्मलिङ्गपूजारतस्य लक्षणम् 231 21 आत्मलिङ्गध्यानाशक्तानां सूर्यमण्डले ध्यानप्रकारः 231 23 प्राणायामप्रकारः कालपरिमाणञ्च 232 4 प्राणायामकर्तुस्सर्वार्थसिद्धिः 232 12 नानान्मवादनिराकरणम् 232 17 देहेषु ईश्वरस्य जीवरूपेण प्रवेशः 233 1 सर्वावासस्यापीश्वरस्य लिङ्गावासे हेतुः 233 5 लिङ्गपूजातः ज्ञानप्राप्तिः 233 11 त्रिपुण्ट्रधारिभिः कदाचिदपि ऊर्ध्वपुण्ट्रं नधार्यं 237 13 देवादिकृता स्कन्दस्तुतिः 238 4 सूतकृता शिवस्तुतिः पृ0 1) श्रीगणेशायनमः श्रीगुरुभ्योनमः श्रीशिवरहस्याख्यः महेतिहासः प्रथमांशः सूतमुनि संवादः शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये
oṃ śrīgaṇeśāya namaḥ śrīśivarahasyākhyaḥ mahetihāsaḥ māheśvarākhyaḥ prathamāṃśaḥ ṣaḍdarśanapāraṃgatānāṃ janakapūr brahmaśrī. sahajānandopādhyāyābhidhānāṃ mahānubhāvānāṃ sevayāsamāsāditavidyena marūvūr. gaṇeśa śāstriṇā sarvatantrasvatantrāṇāṃ sarvatomukhaparyantānekakratubhirārādhitaparameśvarāṇāṃ paṃcanadakṣetramalaṃkṛtavatāṃ brahmaśrī. bālakṛṣṇaśāstriṇāṃ śiṣyeṣvanyatamena varahūr. sundareśvara śāstriṇāca samyak pariśodhitaḥ devakoṭṭābhidhanagaravāstavyasya me. aru. nā. rāmanātha śreṣṭhivaryasya dravyasahāyena cennapattananagarasthena bi. e. padayutena ka. sadāśiva śreṣṭhivaryeṇa vāṇīnilaya mudrākṣaraśālāyāṃ mudrito vijayatetarām 1913 śrīśivarahasyaprathamāṃśasya viṣayānukramaṇikā puṭaḥ paṃktiḥ viṣayaḥ prathamo'dhyāyaḥ 1 10 sūtamunisaṃvādaḥ 2 5 parameśvarācchivarahasyaprāptiparamparā 2 13 sarvasaṅgaparityāgināmeva śivarahasyaśravaṇe adhikāraḥ dvitīyo'dhyāyaḥ 3 6 itihāsārambhe maṅgalācaraṇam 3 20 śivarahasyasya pañcamavedatvapratipādanam 4 5 śivarahasyaśrotṝṇāṃ pañcatvanivṛttiḥ 5 1 rudraprasādākāṅkṣiṇāṃ niyamakathanam 5 7 rudraṃ prati tapasyantaṃ jaigīṣavyaṃ prati viṣṇvādyāgamanam 5 15 jaigīṣavyaṃ prati brahmaṇo vacanam 6 7 jaigīṣavyaṃ prati viṣṇuvacanam 6 17 jaigīṣavyena viṣṇavādinirākaraṇam 7 13 viṣṇvādīnāṃ prakṛtiparavaśatā tṛtīyo'dhyāyaḥ 9 3 itaḥ prabhṛti īśvaralakṣaṇam 9 4 vedānāmīśvaraniśvāsatā 11 3 brahmaviṣṇumaheśvarāṇāṃ karmadevatvam 11 5 bhṛguśāpādviṣṇordaśāvatāraḥ caturtho'dhyāyaḥ 12 11 śivabhaktānāmeva anyamoktṛtvam 12 17 karmadevānāṃ śivabhaktairnirākaraṇam pṛ0 2) puṭaḥ paṃktiḥ viṣayaḥ 13 2 āpatkāle karmadevādīnāṃ īśvareṇaiva rakṣaṇam 13 10 netrapūjanena viṣṇoścakrāvāptiḥ pañcamo'dhyāyaḥ 15 14 viṣṇvādilokaṃ prāptānāṃ puṇyakṣaye patanam 16 11 nāradakṛtā śivastutiḥ 17 22 nāradavākyājjaigīṣavyaṃ prati īśvaragamanam 18 8 jaigīṣavyakṛtā śivastutiḥ 18 20 śivena jaigīṣavyasyānugrahaḥ ṣaṣṭo'dhyāyaḥ 20 10 śivaliṅgasyālayapratiṣṭhātṝṇāṃ mahimā 20 19 liṅgālayapratiṣṭhāturjātivyavasthārāhityam 20 23 liṅgapratiṣṭhāyāḥ sthānāni 21 3 śaktyanusārataḥ ālayanirmātuḥ mahāpātakādidoṣanivṛttiḥ gāṇāpatyañca phalam 21 15 jīrṇaśivālayoddhartuḥ phalam 21 21 bilvena pradoṣe liṅgārcakasya phalam 22 1 śivālaye tailādibhirdīpādyāropakasya phalam 22 13 vividhadravyairabhiṣaktuḥ phalam 22 23 grīṣmartau dhārāpātreṇābhiṣektuḥ phalam 23 3 vividhapuṣpairarcane phalam 23 13 liṅgārcanato muktānāmṛṣīṇāṃ gaṇanā 23 17 liṅgārcanato muktānādevādīnāṃ gaṇanā 23 23 anyadevapūjakānāṃ phalam 24 1 viṣṇūtkarṣadhiyā vyāsasya śivarahasyasya śravaṇe'pyanadhikāraḥ 24 20 jaigīṣavyasya skandamukhācchivarahasyaśravaṇoktiḥ pṛ0 3) puṭaḥ paṃktiḥ viṣayaḥ saptamo'dhyāyaḥ 25 23 jaigīṣavyaskandasamāgamaḥ aṣṭamo'dhyāyaḥ 28 24 anyakathātaśśivakathāyāḥ utkarṣaḥ 29 6 śivarahasyasya itihāsatvoktiḥ navamo'dhyāyaḥ 31 5 śivarahasyaśravaṇārtham nāradoktyāviṣṇvādidevāgamanam 31 20 śivarahasyaśravaṇārthaṃ īśvarapreṣitānāṃ vināyakādigaṇānāmāgamanam 32 11 vedasmṛtipurāṇabhārateṣu āgameṣuca paśudharmā evoktāḥ 32 24 skandakṛtā vināyakastutiḥ daśamo'dhyāyaḥ 34 9 skandakṛtā śivastutiḥ 36 6 skandakṛtā devīstutiḥ 38 3 puraṇānāmanyonyanindāparatvam 38 6 rāmāyaṇasya kāvyatvaṃ tacchravaṇe duḥkhādhikyañca ekādaśo'dhyāyaḥ 39 8 dvādaśāṃśānāṃ nāmakathanapūrvakakathāsaṅgrahaḥ granthasaṅkhyāca 41 7 śivarahasye'ddhyāyāssahasram dvādaśo'dhyāyaḥ 43 13 kailāsavarṇanam trayodaśo'dhyāyaḥ 48 3 anyairapi liṅgapūjākartavyeti darśayituṃ śivenāpi liṅgapūjākṛtā 49 1 kailāsātpañcagaṅgānāmutpattiḥ 49 20 īśvarakṛtā pañcamukhaliṅgastutiḥ caturdaśo'dhyāyaḥ 61 10 kailāsaprākāravarṇanam pṛ0 4) puṭaḥ paṃktiḥ viṣayaḥ pañcadaśo'dhyāyaḥ 63 3 śailaprākāravarṇanam ṣoḍaśo'dhyāyaḥ 69 2 tatpuruṣakṛtā śivastutiḥ 69 20 aghorakṛtā śivastutiḥ 70 15 sadyojātakṛtā śivastutiḥ 71 11 vāmadevakṛtā śivastutiḥ 71 24 īśānakṛtā śivastutiḥ 72 14 trimūrtīnāṃ na parasparatāratamyam 72 18 turīyasya manovāgatītatvam 72 20 nirguṇasyāpi turīyasya saguṇatvapratipādanam saptadaśo'dhyāyaḥ 73 3 kailāsaprāsādavarṇanam aṣṭādaśo'dhyāyaḥ 78 8 kailāsamaulivarṇanam ekonaviṃśo'dhyāyaḥ 82 9 kailāsavarṇanam viṃśo'dhyāyaḥ 88 18 prayāge gaṅgāyamunayossaṅgame dehatyāgānmuktiḥ 88 25 oṅkārādi dvādaśajyotirliṅgānāṃ sthānam 89 18 ambikārcanārthaṃ viṣṇoḥ kāñcīnagaravāsaḥ śeṣādrau vartamānaḥ kumāra evetica 89 21 kāverītīra kṣetrāṇāṃ varṇanam ekaviṃśo'dhyāyaḥ 91 7 itaḥprabhṛti devayānapitṛyānagantṝṇāṃ nirūpaṇam dvāviṃśo'dhyāyaḥ 97 14 devaiḥ kṛtā śivastutiḥ pṛ0 5) puṭaḥ paṃktiḥ viṣayaḥ trayoviṃśo'dhyāyaḥ 102 23 skandakṛtā śivastutiḥ caturviṃśo'dhyāyaḥ 105 2 gaṇeśakṛtā śivastutiḥ pañcaviṃśo'dhyāyaḥ 107 14 dharmavṛṣakṛtā śivastutiḥ ṣaḍviṃśo'dhyāyaḥ 108 6 kailāsavarṇane devīprastāvavarṇanam saptaviṃśo'dhyāyaḥ 114 6 devīkṛtā śivastutiḥ aṣṭāviṃśo'dhyāyaḥ 115 17 kailāsaprāsādavarṇanam ekonatriṃśo'dhyāyaḥ 118 11 kailāsasaudhavarṇanam triṃśo'dhyāyaḥ 124 14 girikṛtā śivastutiḥ ekatriṃśo'dhyāyaḥ 125 3 prākāravarṇane rudragaṇārcanam dvātriṃśo'dhyāyaḥ 127 17 sabhāvarṇanam trayastriṃśo'dhyāyaḥ 131 24 skandakṛtā śivasya hemasabhānṛttadhyānapaddhatiḥ 132 22 skandakṛtā śivasya ratnasabhānṛttadhyānapaddhatiḥ 133 21 skandakṛtā śivasya rajatasabhānṛttadhyānapaddhatiḥ 135 2 skandakṛtā śivasya citsabhānṛttadhyānapaddhatiḥ 137 18 sūtakṛtā śivastutiḥ catustriṃśo'dhyāyaḥ 138 6 caturvidhapuruṣārthamaṇṭapavarṇanam pṛ0 6) puṭaḥ paṃktiḥ viṣayaḥ pañcatriṃśo'dhyāyaḥ 140 19 kailāsaliṅgavarṇanam ṣaṭtriṃśo'dhyāyaḥ 143 14 liṅgaśabdanirvacanam 144 16 pūjākarturdigvyavasthā saptatriṃśo'dhyāyaḥ 145 13 kailāsavāsamahimā aṣṭatriṃśo'dhyāyaḥ 147 16 kailāsaliṅgavarṇanam ekonacatvāriṃśo'dhyāyaḥ 151 22 liṅgasya nirguṇarūpatā catvāriṃśo'dhyāyaḥ 153 3 kailāsaprāgdvārasthaliṅgābhidhānam ekacatvāriṃśo'dhyāyaḥ 155 3 kailāsadakṣiṇadvāraliṅgakathanam dvicatvāriṃśo'dhyāyaḥ 157 6 kailāsapaścimadvāraliṅgakathanam tricatvāriṃśo'dhyāyaḥ 159 15 kailāsottaradvāraliṅgasaudhakathanam catuścatvāriṃśo'dhyāyaḥ 163 23 kailāsatapaścaryā pañcacatvāriṃśo'dhyāyaḥ 167 19 kailāsakṛtā śivastutiḥ 169 13 kailāsakṛtā śivastutiḥ ṣaṭcatvāriṃśo'dhyāyaḥ 171 1 bhasmarudrākṣādinindakānāṃ phalam 172 7 pañcāyatanādipūjakānāṃ nindā 172 12 mṛdā ūrdhvapuṇṭradhāriṇāṃ nindā 172 16 taptamudrādhāriṇāṃ nindā pṛ0 7) puṭaḥ paṃktiḥ viṣayaḥ 172 19 bhasmarudrākṣādidhāriṇāṃ phalam 173 14 rāvaṇakṛtā śivastutiḥ saptacatvāriṃśo'dhyāyaḥ 176 11 īśvaraḥ brahmaviṣṇumaheśvaraśarīrāṇi praviṣṭvā sṛṣṭyādi karoti 176 23 īśvarādeva brahmaviṣṇurudrādīnāmutpattiḥ 177 9 ekatvadarśino granthibhedanam aṣṭācatvāriṃśo'dhyāyaḥ 178 3 śivagaurīsaṃvādaḥ ekonapañcāśo'dhyāyaḥ 181 13 devavākyam pañcāśo'dhyāyaḥ 184 19 suropadeśaḥ ekapañcāśo'dhyāyaḥ 187 16 śrutisāranirūpaṇam dvipañcāśo'dhyāyaḥ 194 20 kenopaniṣatkathāsaṅgrahaḥ tripañcāśo'dhyāyaḥ 196 2 devaiḥ kṛtā devīstutiḥ catuḥpañcāśo'dhyāyaḥ 199 3 devaiḥ kṛtā upaniṣatstutiḥ pañcapañcāśo'dhyāyaḥ 205 3 devaiḥ kṛtā devīstutiḥ 206 7 devyupaniṣatpratipādanam ṣaṭpañcāśo'dhyāyaḥ 211 23 hariṇā kedārapūjā kṛtā 212 1 brahmaṇā oṅkārapūjā kṛtā 212 5 rudreṇa avimukte viśveśvarapūjā kṛtā 212 15 kubereṇa śrīśailapūjā kṛtā 212 23 marudbhirgokarṇapūjā kṛtā pṛ0 8) puṭaḥ paṃktiḥ viṣayaḥ saptapañcāśo'dhyāyaḥ 214 6 viṣṇvādikṛtā īśvarastutiḥ aṣṭapañcāśodhyāyaḥ 220 23 liṅgapadārthanirvacanam 221 1 liṅgalakṣaṇam 222 14 jīveṣu brahmaviṣṇū utkṛṣṭau ekonaṣaṣṭitamo'dhyāyaḥ 223 23 vigrahapūjāto liṅgapūjāyāḥ utkarṣaḥ 224 1 liṅgapūjāyāssannipatyopakāratvaṃ vibhūtidhāraṇādīnāṃ jñānāṅgatvañca 224 4 śivanaivedyabhoktuścittaśuddhiḥ phalamiti śrutiprāmāṇyanirūpaṇam 224 11 ātmaliṅgapūjākramastāvat advaitabhāvanāṃ darśayati 229 5 dehe liṅgasya sthānam 229 17 liṅgadhāmnaḥ prāpyatvanirākaraṇam ṣaṣṭitamo'dhyāyaḥ 230 16 avimuktādikṣetreṣu vartamānaviśveśvarādiliṅgapūjā sarvaiḥ kāryā 231 4 ātmaliṅgapūjāratasya lakṣaṇam 231 21 ātmaliṅgadhyānāśaktānāṃ sūryamaṇḍale dhyānaprakāraḥ 231 23 prāṇāyāmaprakāraḥ kālaparimāṇañca 232 4 prāṇāyāmakartussarvārthasiddhiḥ 232 12 nānānmavādanirākaraṇam 232 17 deheṣu īśvarasya jīvarūpeṇa praveśaḥ 233 1 sarvāvāsasyāpīśvarasya liṅgāvāse hetuḥ 233 5 liṅgapūjātaḥ jñānaprāptiḥ 233 11 tripuṇṭradhāribhiḥ kadācidapi ūrdhvapuṇṭraṃ nadhāryaṃ 237 13 devādikṛtā skandastutiḥ 238 4 sūtakṛtā śivastutiḥ pṛ0 1) śrīgaṇeśāyanamaḥ śrīgurubhyonamaḥ śrīśivarahasyākhyaḥ mahetihāsaḥ prathamāṃśaḥ sūtamuni saṃvādaḥ śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam | prasannavadanaṃ dhyāyetsarvavighnopaśāntaye
2
शिरसाशिवभक्तानां पादांबुजरजःकणान् । वन्दामहे वयन्नित्यं वासनाध्वान्तभास्करान्
śirasāśivabhaktānāṃ pādāṃbujarajaḥkaṇān | vandāmahe vayannityaṃ vāsanādhvāntabhāskarān
3
पुरा माहेश्वरे सत्रे प्रवृत्ते मुनयस्तदा । यदृच्छयाऽऽगतं सूतं पैप्पलादं हि सत्रिणः
purā māheśvare satre pravṛtte munayastadā | yadṛcchayā''gataṃ sūtaṃ paippalādaṃ hi satriṇaḥ
4
वाजश्रवस आहुस्तं समवेता महर्षयः । कृष्णाजिनोत्तरासंगा भस्मोद्धूलितविग्रहाः
vājaśravasa āhustaṃ samavetā maharṣayaḥ | kṛṣṇājinottarāsaṃgā bhasmoddhūlitavigrahāḥ
5
त्रिपुण्ड्रविलसत्फाला रुद्राक्षांगदकंकणाः । यज्ञेश्वरं महारुद्रं पूजयन्तोऽध्वरेण ते
tripuṇḍravilasatphālā rudrākṣāṃgadakaṃkaṇāḥ | yajñeśvaraṃ mahārudraṃ pūjayanto'dhvareṇa te
6
लिंगेऽग्निहोत्रे सूर्ये च रुद्रसूक्तजपादराः । पञ्चाक्षरावृत्तिपराः शिवनामपरायणाः
liṃge'gnihotre sūrye ca rudrasūktajapādarāḥ | pañcākṣarāvṛttiparāḥ śivanāmaparāyaṇāḥ
7
पञ्चकोशातिगं देवं पञ्चास्यं परमेश्वरम् । ध्यायन्तः परया भक्त्या तं पप्रच्छुरकल्मषाः
pañcakośātigaṃ devaṃ pañcāsyaṃ parameśvaram | dhyāyantaḥ parayā bhaktyā taṃ papracchurakalmaṣāḥ
8
संपूज्यार्घ्यासनैर्भोज्यैः प्रश्रयप्रश्नभाषणैः । अन्योन्यं कुशलप्रश्नैः प्रश्रयावनतास्तदा
saṃpūjyārghyāsanairbhojyaiḥ praśrayapraśnabhāṣaṇaiḥ | anyonyaṃ kuśalapraśnaiḥ praśrayāvanatāstadā
8
पृ0 2) तेषां कुलपतिर्वृद्धः प्राह तं मौनिभार्गवः । मौनिभार्गवः – पैप्पलाद सनाथास्स्मः त्वदागमनतो वयम्
pṛ0 2) teṣāṃ kulapatirvṛddhaḥ prāha taṃ maunibhārgavaḥ | maunibhārgavaḥ – paippalāda sanāthāssmaḥ tvadāgamanato vayam
10
माहेश्वरं यतस्सत्रं प्रवृत्तं पारमेश्वरम् । त्वं भक्तोऽतीव रुद्रस्य स्कन्दनन्दीशसन्निभः
māheśvaraṃ yatassatraṃ pravṛttaṃ pārameśvaram | tvaṃ bhakto'tīva rudrasya skandanandīśasannibhaḥ
11
जैगीषव्यो मुनिः पूर्वमूर्ध्वरेता पहातपाः । शंकराज्ञाप्रभावेन स्कन्दाद्यत्प्राप्तवान् शुभम्
jaigīṣavyo muniḥ pūrvamūrdhvaretā pahātapāḥ | śaṃkarājñāprabhāvena skandādyatprāptavān śubham
12
पुण्यं शिवरहस्याख्यमितिहासोत्तमोत्तमम् । त्रिणेत्रापारचरितं द्वादशांशसमन्वितम्
puṇyaṃ śivarahasyākhyamitihāsottamottamam | triṇetrāpāracaritaṃ dvādaśāṃśasamanvitam
13
उपासता त्वयापूर्वं मनोवाक्कायकर्मभिः । भक्त्या त्वनन्यया शंभोस्त्वयि यत्प्रोक्तवान्स्वयं
upāsatā tvayāpūrvaṃ manovākkāyakarmabhiḥ | bhaktyā tvananyayā śaṃbhostvayi yatproktavānsvayaṃ
14
यस्मिन्ददौ हरः प्रीत्या संस्थितेषु मुनिष्वपि । द्वादशांशयुतं साक्षाद्रहस्यं शिवसंभवम्
yasmindadau haraḥ prītyā saṃsthiteṣu muniṣvapi | dvādaśāṃśayutaṃ sākṣādrahasyaṃ śivasaṃbhavam
15
शिवरत्नमहाकोशं तद्देव्या हृदयंगमम् । स्कन्दायाचष्ट सा देवी प्रीत्या तेन प्रदर्शितम्
śivaratnamahākośaṃ taddevyā hṛdayaṃgamam | skandāyācaṣṭa sā devī prītyā tena pradarśitam
16
शंकरस्याऽऽज्ञया सूतगुरौते शांभवोत्तमे । जैगीषव्यायतत्प्रादात् स्कन्दस्स्कन्दिततारकः
śaṃkarasyā''jñayā sūtaguraute śāṃbhavottame | jaigīṣavyāyatatprādāt skandasskanditatārakaḥ
17
इति शुश्रुम वृत्तान्तं तन्नो ब्रूहि कृपाधिकात् । सुगोप्यमपि तद्ब्रूहि यतो भक्ता वयं शिवे
iti śuśruma vṛttāntaṃ tanno brūhi kṛpādhikāt | sugopyamapi tadbrūhi yato bhaktā vayaṃ śive
18
त्रिणेत्रसुचरित्राणां पात्रभूता मुनीश्वराः । माहेश्वरेण सत्रेण शुद्धगात्रा वयं सदा
triṇetrasucaritrāṇāṃ pātrabhūtā munīśvarāḥ | māheśvareṇa satreṇa śuddhagātrā vayaṃ sadā
19
सुत्राममान्ये लोकेऽपि वाञ्छा नो पातभीतितः । गात्रे कलत्रे पुत्रेवा मित्रेवास्नेहवर्जिताः
sutrāmamānye loke'pi vāñchā no pātabhītitaḥ | gātre kalatre putrevā mitrevāsnehavarjitāḥ
20
विरक्ताश्च वदास्मभ्यं रहस्यं शांभवं मुदा । त्वं भो ज्ञानप्रदस्साक्षाद्गुरुः शिवसमो मतः
viraktāśca vadāsmabhyaṃ rahasyaṃ śāṃbhavaṃ mudā | tvaṃ bho jñānapradassākṣādguruḥ śivasamo mataḥ
21
त्वं नो माता पितास्माकं वद तत्करुणाबलात् । इत्थं स पैप्पलादो हि सूतःपृष्टोमुनीश्वरैः
tvaṃ no mātā pitāsmākaṃ vada tatkaruṇābalāt | itthaṃ sa paippalādo hi sūtaḥpṛṣṭomunīśvaraiḥ
22
उवाच प्राञ्जलिर्वाक्यं तेषां भक्त्या सुतोषितः । अनन्यशंभुभक्त्याच जानन्पात्रञ्चतानपि
uvāca prāñjalirvākyaṃ teṣāṃ bhaktyā sutoṣitaḥ | ananyaśaṃbhubhaktyāca jānanpātrañcatānapi
22
सूतः – पात्रं भवन्तः कृपया महेशितुः सत्रेण दानैस्तपसोपसद्भिः । पवित्रगात्रावभृतेन दीक्षया वेदान्तसारार्थविचारनिष्ठाः
sūtaḥ – pātraṃ bhavantaḥ kṛpayā maheśituḥ satreṇa dānaistapasopasadbhiḥ | pavitragātrāvabhṛtena dīkṣayā vedāntasārārthavicāraniṣṭhāḥ
23
शृणुध्वमाद्यं प्रथमांशमेतद्यथा गुरुर्मे भगवान् प्रसादभाक् । महेश्वरस्याप्रतिमप्रभावो भावो भवोत्कृष्टहृदोझ्झिताशः
śṛṇudhvamādyaṃ prathamāṃśametadyathā gururme bhagavān prasādabhāk | maheśvarasyāpratimaprabhāvo bhāvo bhavotkṛṣṭahṛdojhjhitāśaḥ
24
जैगीषव्यमुनिस्तताप तपसा रुद्रं जपंस्तुष्टधीः कष्टानप्यसमीक्ष्य संयतमना वर्षायुतं वायुभुक् । पृ0 3) शिष्टः श्रीशिपिविष्टपादकमलध्यानो विशिष्टाऽन्तरो ब्रह्मिष्ठो हि गरिष्ठमद्भुततरं प्राप प्रसादं हरात्
jaigīṣavyamunistatāpa tapasā rudraṃ japaṃstuṣṭadhīḥ kaṣṭānapyasamīkṣya saṃyatamanā varṣāyutaṃ vāyubhuk | pṛ0 3) śiṣṭaḥ śrīśipiviṣṭapādakamaladhyāno viśiṣṭā'ntaro brahmiṣṭho hi gariṣṭhamadbhutataraṃ prāpa prasādaṃ harāt
śrīśivarahasye prathamāṃśe jaigīṣavyasurasaṃvādo nāma dvitīyo'dhyāyaḥ 2
1
जैगीषव्यसुरसंवादे द्वितीयोऽध्यायः सूतः – शतमुखशिखिवेदशाखा शतमुखनुतषण्मुखाप्तबंधुं । नभशिखसुखदं महेभवक्त्रं खगगतिपंकजजातसंस्तुतम्
jaigīṣavyasurasaṃvāde dvitīyo'dhyāyaḥ sūtaḥ – śatamukhaśikhivedaśākhā śatamukhanutaṣaṇmukhāptabaṃdhuṃ | nabhaśikhasukhadaṃ mahebhavaktraṃ khagagatipaṃkajajātasaṃstutam
2
उत्फुल्लामलनीलनीरजमहासिह्मासनाध्यासिता पारावारजगद्विबोधचतुरा वाणी मनोहारिणी । भो शंभो शिव सांब शंकर महादेवेतितानामृता- स्वादास्वादनवल्लकीमुखरितानंदोल्लसा पातु नः
utphullāmalanīlanīrajamahāsihmāsanādhyāsitā pārāvārajagadvibodhacaturā vāṇī manohāriṇī | bho śaṃbho śiva sāṃba śaṃkara mahādevetitānāmṛtā- svādāsvādanavallakīmukharitānaṃdollasā pātu naḥ
3
पापागाधमहांबुधेर्जनिजराकल्लोलपारंपरी- मज्जज्जन्तुकदंबकं करुणया पारं परं योगतः । शंभोः सत्कथया सुधासुरसया सन्नौकया केवलं संतीर्णन्तु करोति जन्तुनिवहं सत्कर्णधारो गुरुः
pāpāgādhamahāṃbudherjanijarākallolapāraṃparī- majjajjantukadaṃbakaṃ karuṇayā pāraṃ paraṃ yogataḥ | śaṃbhoḥ satkathayā sudhāsurasayā sannaukayā kevalaṃ saṃtīrṇantu karoti jantunivahaṃ satkarṇadhāro guruḥ
4
कालावच्छेदयुक्तान् विधिहरमुरभिच्छक्रसूर्येन्दुवायून् सृष्ट्वा तैः क्रीडतीशो जगदुदरदरीमध्यपद्मैकसंस्थः । नीरूपो विश्वरूपः प्रमथगणवरैर्विश्वकर्त्र्या जनन्या हेरंबस्कन्दयुक्तो गुरुरमरवरः पूर्विकः पातु नित्यम्
kālāvacchedayuktān vidhiharamurabhicchakrasūryenduvāyūn sṛṣṭvā taiḥ krīḍatīśo jagadudaradarīmadhyapadmaikasaṃsthaḥ | nīrūpo viśvarūpaḥ pramathagaṇavarairviśvakartryā jananyā heraṃbaskandayukto gururamaravaraḥ pūrvikaḥ pātu nityam
5
पञ्चास्यवक्त्रकमले मकरंदमेतत् पञ्चत्वनाशनकरं श्रुतिपञ्चकंहि । पृ0 4) पुण्यं शैवरहस्यसारमधुना पेपीयतां मुक्तये । पञ्चास्यध्यानपूता द्विजवरतिलकाः पञ्चपापैर्विहीनाः
pañcāsyavaktrakamale makaraṃdametat pañcatvanāśanakaraṃ śrutipañcakaṃhi | pṛ0 4) puṇyaṃ śaivarahasyasāramadhunā pepīyatāṃ muktaye | pañcāsyadhyānapūtā dvijavaratilakāḥ pañcapāpairvihīnāḥ
6
वेदेषु प्रथितञ्च पञ्चकतया भूतेषु पञ्चस्वपि कोशे पञ्चकतोन्तिमैकवसतेः शंभोः कृपाकारणं । श्रुत्वा जन्मजरादिदुःखनिवहैः पञ्चत्वहीनो भवेत्
vedeṣu prathitañca pañcakatayā bhūteṣu pañcasvapi kośe pañcakatontimaikavasateḥ śaṃbhoḥ kṛpākāraṇaṃ | śrutvā janmajarādiduḥkhanivahaiḥ pañcatvahīno bhavet
7
दुर्मायालसितेन पापमतिभागायात्यहो संस्मृतिम् त्यक्त्वा शंकरनामबोधितकथापीयूषपानोझ्झितः । कामक्रोधजराविपत्तिमरणैः सौरिं व्रजेद्दुःखितः स्वस्यास्यान्तरवर्त्तिपायसवरं त्यक्त्वाऽऽखुमूत्रं पिबेत्
durmāyālasitena pāpamatibhāgāyātyaho saṃsmṛtim tyaktvā śaṃkaranāmabodhitakathāpīyūṣapānojhjhitaḥ | kāmakrodhajarāvipattimaraṇaiḥ sauriṃ vrajedduḥkhitaḥ svasyāsyāntaravarttipāyasavaraṃ tyaktvā''khumūtraṃ pibet
8
मुनयः – स कथं तपसा देवं प्रसाद्य परमेश्वरम् । जैगीषव्यस्सर्वगुरुस्तपोराशिः शिवार्चकः
munayaḥ – sa kathaṃ tapasā devaṃ prasādya parameśvaram | jaigīṣavyassarvagurustaporāśiḥ śivārcakaḥ
9
कं काममलभत्सूत तं नो विस्तरतो वद । श्रोतुमिच्छास्ति महती चरित्रे शांभवे हि नः
kaṃ kāmamalabhatsūta taṃ no vistarato vada | śrotumicchāsti mahatī caritre śāṃbhave hi naḥ
10
वदाद्यकरुणामूर्ते शूलिनोऽमलसत्कथाः । स वाजश्रवसां वाक्याज्जहर्ष परमेश्वरम्
vadādyakaruṇāmūrte śūlino'malasatkathāḥ | sa vājaśravasāṃ vākyājjaharṣa parameśvaram
11
ध्यात्वा स्वहृत्पद्मकोशे जगादागाधबोधदाम् । कथांकलुषचित्तानां तमःकालुष्यमुक्तये
dhyātvā svahṛtpadmakośe jagādāgādhabodhadām | kathāṃkaluṣacittānāṃ tamaḥkāluṣyamuktaye
12
सूतः – वायुर्दोधूयते यद्युदयमुडुगणो बंभ्रमीति द्रुतं खे वह्निर्जाज्वल्यते यन्न च सलिलनिधिर्माधवीं दोधवीति । भूर्यद्वद्बोभवीति स्थिरचरधृतये तच्च तादृक्च सर्वं स्वायत्ताशेषसत्तास्थितियमनपरं शंभुलीलोत्थ मुक्तम्
sūtaḥ – vāyurdodhūyate yadyudayamuḍugaṇo baṃbhramīti drutaṃ khe vahnirjājvalyate yanna ca salilanidhirmādhavīṃ dodhavīti | bhūryadvadbobhavīti sthiracaradhṛtaye tacca tādṛkca sarvaṃ svāyattāśeṣasattāsthitiyamanaparaṃ śaṃbhulīlottha muktam
13
शृणुध्वं मुनयस्सर्वे सत्रिणः पूतमानसाः । जैगीषव्यतपश्चर्याकारणं तारणं नृणाम्
śṛṇudhvaṃ munayassarve satriṇaḥ pūtamānasāḥ | jaigīṣavyatapaścaryākāraṇaṃ tāraṇaṃ nṛṇām
14
पृ0 5) स तपोऽतपदत्युग्रं शांभवं व्रतमास्थितः । हिमवच्छिखरे पूर्वं संवत्सरशताष्टकम्
pṛ0 5) sa tapo'tapadatyugraṃ śāṃbhavaṃ vratamāsthitaḥ | himavacchikhare pūrvaṃ saṃvatsaraśatāṣṭakam
15
अग्निरित्यादिभिर्मन्त्रैर्विमृज्यांगानि भस्मना । त्रिपुण्ड्रफालस्सततं कण्ठकक्षोरुबाहुषु
agnirityādibhirmantrairvimṛjyāṃgāni bhasmanā | tripuṇḍraphālassatataṃ kaṇṭhakakṣorubāhuṣu
16
धृतरुद्राक्षकोटीरो रुद्राक्षकवचावृतः । पञ्चाक्षरपरो नित्यं रुद्रावर्तनतत्परः
dhṛtarudrākṣakoṭīro rudrākṣakavacāvṛtaḥ | pañcākṣaraparo nityaṃ rudrāvartanatatparaḥ
17
ग्रीष्मेपञ्चाग्निनिरतः केवलं सलिलाशनः । वर्षास्वाकाशनिलयो हेमंते जलमध्यगः
grīṣmepañcāgninirataḥ kevalaṃ salilāśanaḥ | varṣāsvākāśanilayo hemaṃte jalamadhyagaḥ
18
फलपर्णाशनो नित्यं वर्षं पवनपारणः । कटधूमाशनो वर्षं वर्षं लंबदधश्शिराः
phalaparṇāśano nityaṃ varṣaṃ pavanapāraṇaḥ | kaṭadhūmāśano varṣaṃ varṣaṃ laṃbadadhaśśirāḥ
19
एवं तपस्यतस्तस्य जैगीषव्यमहामुनेः । वर्षायुतमगात्तीव्रं रुद्रविन्यस्तचेतसः
evaṃ tapasyatastasya jaigīṣavyamahāmuneḥ | varṣāyutamagāttīvraṃ rudravinyastacetasaḥ
20
वरेणाच्छन्दयद्ब्रह्मा तं विष्णुः पाकशासनः । तस्य ते चित्तजिज्ञासां कर्तुंदेवाव्यवस्थिताः
vareṇācchandayadbrahmā taṃ viṣṇuḥ pākaśāsanaḥ | tasya te cittajijñāsāṃ kartuṃdevāvyavasthitāḥ
21
ताननालोकयन्विप्रो नैव किञ्चिदथोऽर्थयत् । गंभीरसागराकारमलक्ष्यं शिववल्लभम्
tānanālokayanvipro naiva kiñcidatho'rthayat | gaṃbhīrasāgarākāramalakṣyaṃ śivavallabham
22
जितेन्द्रियं जिताहारमूर्ध्वरेतसमव्ययम् । शिवलिंगार्चनव्यग्रं पञ्चाक्षरजपादरम्
jitendriyaṃ jitāhāramūrdhvaretasamavyayam | śivaliṃgārcanavyagraṃ pañcākṣarajapādaram
23
रुद्रसूक्तार्थविज्ञानप्रवणं संयतेन्द्रियम् । हंसारूढः पद्मसंस्थश्शार्ङ्गधृग्गरुडासनः
rudrasūktārthavijñānapravaṇaṃ saṃyatendriyam | haṃsārūḍhaḥ padmasaṃsthaśśārṅgadhṛggaruḍāsanaḥ
24
ऐरावतसमारूढः पाकशास्त्रमरैर्वृतः । तस्य चित्तं सुविज्ञातुमागतास्ते मुनिं तदा
airāvatasamārūḍhaḥ pākaśāstramarairvṛtaḥ | tasya cittaṃ suvijñātumāgatāste muniṃ tadā
25
ब्रह्मा विष्णुस्तथा शक्रस्सुरासुरमरुद्गणाः । ध्यायन्तं परमेशानं जैगीषव्यं तदा द्विजाः
brahmā viṣṇustathā śakrassurāsuramarudgaṇāḥ | dhyāyantaṃ parameśānaṃ jaigīṣavyaṃ tadā dvijāḥ
26
स्वं स्वं वाहनमारुह्य स्वस्वालंकारभूषिताः । तस्यचित्तपरीक्षार्थं ब्रह्मावाक्यमथाब्रवीत्
svaṃ svaṃ vāhanamāruhya svasvālaṃkārabhūṣitāḥ | tasyacittaparīkṣārthaṃ brahmāvākyamathābravīt
27
ब्रह्मोवाच – वत्सोत्तिष्ठ महाभाग जैगीषव्य महाव्रत । अदेयं तव नास्त्येव त्रिलोक्यां त्वत्तपस्यया
brahmovāca – vatsottiṣṭha mahābhāga jaigīṣavya mahāvrata | adeyaṃ tava nāstyeva trilokyāṃ tvattapasyayā
28
त्वत्समो न मुनिर्ब्रह्मन्नूर्ध्वरेता महातपाः । रुद्रावर्त्तनशीलश्च रुद्रविन्यस्तमानसः
tvatsamo na munirbrahmannūrdhvaretā mahātapāḥ | rudrāvarttanaśīlaśca rudravinyastamānasaḥ
29
द्युब्रह्मोपेन्द्रलोकेषु विहरस्वाजरामरः । भुङ्क्ष्वभोगान्यथाकामं देवभोग्याननुत्तमान्
dyubrahmopendralokeṣu viharasvājarāmaraḥ | bhuṅkṣvabhogānyathākāmaṃ devabhogyānanuttamān
30
शक्रस्थानेऽप्सरोभिस्त्वं नन्दने विहराजरः । पिबस्वामृतमुत्कृष्टं देवैः पेयमनुत्तमम्
śakrasthāne'psarobhistvaṃ nandane viharājaraḥ | pibasvāmṛtamutkṛṣṭaṃ devaiḥ peyamanuttamam
31
विष्णुलोके तथा भोगान्वैष्णवान्भुंक्ष्वकेवलम् । नानाविधैर्महायज्ञैः प्राप्यंशक्रसदोऽखिलैः
viṣṇuloke tathā bhogānvaiṣṇavānbhuṃkṣvakevalam | nānāvidhairmahāyajñaiḥ prāpyaṃśakrasado'khilaiḥ
32
गवां दानैस्तथान्नादिप्रदानैष्षड्रसान्वितैः । देशे काले च पात्रे च गृहवस्त्रादिदानतः
gavāṃ dānaistathānnādipradānaiṣṣaḍrasānvitaiḥ | deśe kāle ca pātre ca gṛhavastrādidānataḥ
33
पानीयशालानिवहैर्घर्मकाले मुनीश्वर । महाषोडशदानैश्च शुद्धद्रव्यार्जितेन च
pānīyaśālānivahairgharmakāle munīśvara | mahāṣoḍaśadānaiśca śuddhadravyārjitena ca
34
मण्टपाट्टालकरणैर्विप्राणां स्थापनार्चनैः । उद्यानारामकरणैश्छायावृक्षादिरोपणैः
maṇṭapāṭṭālakaraṇairviprāṇāṃ sthāpanārcanaiḥ | udyānārāmakaraṇaiśchāyāvṛkṣādiropaṇaiḥ
35
कन्यादानैश्च विविधैर्व्रतकृच्छ्रादिभिर्द्विज । प्राप्या लोकामदीयाहिधन्यैर्मानुष्यवर्त्मभिः
kanyādānaiśca vividhairvratakṛcchrādibhirdvija | prāpyā lokāmadīyāhidhanyairmānuṣyavartmabhiḥ
36
तेषूत्सवेन भोगांस्त्वंभुङ्क्ष्वविप्रयथासुखम् । अयं शक्रोऽमराधीशो वरं दातुं तवागतः
teṣūtsavena bhogāṃstvaṃbhuṅkṣvaviprayathāsukham | ayaṃ śakro'marādhīśo varaṃ dātuṃ tavāgataḥ
37
पृ0 6) करीन्द्रो यस्य वहने चतुर्दन्तस्सुपाण्डरः । यस्सर्वयज्ञे विप्रेन्द्रैराहूतस्सोमपायिभिः
pṛ0 6) karīndro yasya vahane caturdantassupāṇḍaraḥ | yassarvayajñe viprendrairāhūtassomapāyibhiḥ
38
सर्वासुरविसंहर्त्ता कुलिशं यस्य चायुधम् । अहं सर्वजगत्स्रष्टा भारतीपतिरुत्तमः
sarvāsuravisaṃharttā kuliśaṃ yasya cāyudham | ahaṃ sarvajagatsraṣṭā bhāratīpatiruttamaḥ
39
मत्पुत्रास्सृष्टिकर्तारो न कश्चिन्मत्समो द्विज । पुलस्त्यः पुलहोऽत्रिश्च कश्यपो मनुरेवच
matputrāssṛṣṭikartāro na kaścinmatsamo dvija | pulastyaḥ pulaho'triśca kaśyapo manurevaca
40
अंगिरा नारदो दक्षो वीतिहोत्रो महामुनिः । नव प्रजानांपतयो येभ्यस्सृष्टिर्विनिर्गता
aṃgirā nārado dakṣo vītihotro mahāmuniḥ | nava prajānāṃpatayo yebhyassṛṣṭirvinirgatā
41
चतुर्वक्त्रस्त्वहं साक्षाद्वरान्दातुं तवागतः । ततः प्राहांबुजाभाक्षस्तं मुनिंचातिगर्वितः
caturvaktrastvahaṃ sākṣādvarāndātuṃ tavāgataḥ | tataḥ prāhāṃbujābhākṣastaṃ muniṃcātigarvitaḥ
42
विष्णुरुवाच – अहमेवाखिलाधारश्शंखचक्रगदाधरः । ममशार्ङ्गरवं श्रुत्वा दैत्येन्द्रा मूर्छिता भृशम्
viṣṇuruvāca – ahamevākhilādhāraśśaṃkhacakragadādharaḥ | mamaśārṅgaravaṃ śrutvā daityendrā mūrchitā bhṛśam
43
सिह्मकोलाकृतिरहं भूत्वा देवानतोषयम् । हिरण्याक्षञ्च कशिपुं मुरञ्च मधुकैटभौ
sihmakolākṛtirahaṃ bhūtvā devānatoṣayam | hiraṇyākṣañca kaśipuṃ murañca madhukaiṭabhau
44
रणे मया हता दैत्या रावणाद्या महाबलाः । लक्ष्मीपति रहं साक्षात् क्षीराब्धिर्निलयो मम
raṇe mayā hatā daityā rāvaṇādyā mahābalāḥ | lakṣmīpati rahaṃ sākṣāt kṣīrābdhirnilayo mama
45
शेषोऽनन्तफणामौलिर्ममतल्पं महामुने । प्रभाभासितदिक्कुञ्जं कौस्तुभं मम वक्षगम्
śeṣo'nantaphaṇāmaulirmamatalpaṃ mahāmune | prabhābhāsitadikkuñjaṃ kaustubhaṃ mama vakṣagam
46
चक्रं शतदशारं मे दैत्यासृङ्मसृणं करे । यत्पक्षाघातपवनैरुल्लोलास्सप्तसागराः
cakraṃ śatadaśāraṃ me daityāsṛṅmasṛṇaṃ kare | yatpakṣāghātapavanairullolāssaptasāgarāḥ
47
काद्रवेयफणारत्नराजिधारो हि वाहनम् । मन्नाभिकंदसंभूतस्साक्षाल्लोकपितामहः
kādraveyaphaṇāratnarājidhāro hi vāhanam | mannābhikaṃdasaṃbhūtassākṣāllokapitāmahaḥ
48
मदीययशसा व्याप्तं जगदेतच्चराचरम् । मत्प्रसादेन सर्वेषां सिध्यन्त्यखिलसिद्धयः
madīyayaśasā vyāptaṃ jagadetaccarācaram | matprasādena sarveṣāṃ sidhyantyakhilasiddhayaḥ
49
तादृशं स्वदृशा पश्य त्वत्पुरस्थितमाशुमाम् । त्वत्कामं पूरयाम्याशु तच्छीघ्रं वरयस्वमे
tādṛśaṃ svadṛśā paśya tvatpurasthitamāśumām | tvatkāmaṃ pūrayāmyāśu tacchīghraṃ varayasvame
50
त्वदीयतपसाविद्वन् प्रसादसुमुखोऽस्म्यहम् । तदा स विष्णुवचसा जैगीषव्यो महामुनिः
tvadīyatapasāvidvan prasādasumukho'smyaham | tadā sa viṣṇuvacasā jaigīṣavyo mahāmuniḥ
51
दृष्ट्वा प्राहामरश्रेष्ठान्निष्कामान्तरसुन्दरः । कामारिध्याननिर्धूतनिष्कामहृदयो मुनिः
dṛṣṭvā prāhāmaraśreṣṭhānniṣkāmāntarasundaraḥ | kāmāridhyānanirdhūtaniṣkāmahṛdayo muniḥ
52
जैगीषव्यः – यत्प्रोक्तं तत्तथा विष्णो त्वया पद्मासनेन च । शक्रस्यास्य श्रुतं सर्वमैश्वर्यं लोकविस्मयम्
jaigīṣavyaḥ – yatproktaṃ tattathā viṣṇo tvayā padmāsanena ca | śakrasyāsya śrutaṃ sarvamaiśvaryaṃ lokavismayam
53
न विस्मापयितुंशक्यंनिष्कामस्यममान्तरं । यथोन्मूलयितुं शक्यः किं मेरुर्वायुनामुना
na vismāpayituṃśakyaṃniṣkāmasyamamāntaraṃ | yathonmūlayituṃ śakyaḥ kiṃ merurvāyunāmunā
54
विष्णो त्वद्वचसा चेतो न विचालयते मम । कैवर्तकन्याकानीनद्विजदैत्यनृपार्भकाः
viṣṇo tvadvacasā ceto na vicālayate mama | kaivartakanyākānīnadvijadaityanṛpārbhakāḥ
55
तवावतारमाहात्म्यवेत्तारो न वयं हरे । हरपादांबुजध्याननिर्धूततमसो वयम्
tavāvatāramāhātmyavettāro na vayaṃ hare | harapādāṃbujadhyānanirdhūtatamaso vayam
56
शैवेन्द्रेषु न ते धार्ष्ट्यं विद्यते हि गदाधर । प्राप्तकामावयंविष्णो नित्यानित्यविवेकिनः
śaivendreṣu na te dhārṣṭyaṃ vidyate hi gadādhara | prāptakāmāvayaṃviṣṇo nityānityavivekinaḥ
57
यः कामाननुसंदधाति मनसा प्राप्नोति लोकानमून् ब्रह्मोपेन्द्रशतक्रतुप्रभृतिनां वासस्ततोभ्रश्यति । पृ0 7) प्राग्जन्मानुभवेन योनिषु चिरं भ्रान्तस्ततो विद्यया विश्वेशस्य कृपावशाच्छततनुप्रान्ते विमुक्तो भवेत्
yaḥ kāmānanusaṃdadhāti manasā prāpnoti lokānamūn brahmopendraśatakratuprabhṛtināṃ vāsastatobhraśyati | pṛ0 7) prāgjanmānubhavena yoniṣu ciraṃ bhrāntastato vidyayā viśveśasya kṛpāvaśācchatatanuprānte vimukto bhavet
58
किं वा ब्रह्मेन्द्रविष्णुप्रभृतिसुरपदैः पुण्यलेशैकलभ्यैः किं रंभादिकयोनिभोगनिचयैस्स्रक्चन्दनाद्युत्सवैः । पातान्तावधिसुन्दरैः किमधमैः किं कामनाविप्लुतैः युष्मद्रोधनया नचाल्यति मनो निष्कामजाः श्रोत्रियाः
kiṃ vā brahmendraviṣṇuprabhṛtisurapadaiḥ puṇyaleśaikalabhyaiḥ kiṃ raṃbhādikayonibhoganicayaissrakcandanādyutsavaiḥ | pātāntāvadhisundaraiḥ kimadhamaiḥ kiṃ kāmanāviplutaiḥ yuṣmadrodhanayā nacālyati mano niṣkāmajāḥ śrotriyāḥ
59
संसारापारसारप्रचुरितमनसो नित्यनित्याश्च भोगाः काम्यन्ते कामिभिर्ये सततबहुरसाः कातराः पामरास्ते । श्रीमन् धीमन् परार्थिन् सकलसुरगणाः श्रीशशांकांशमौलेः श्रीमत्पादाब्जयुग्मप्रणिहितमनसो निर्भयाश्चामरास्ते
saṃsārāpārasārapracuritamanaso nityanityāśca bhogāḥ kāmyante kāmibhirye satatabahurasāḥ kātarāḥ pāmarāste | śrīman dhīman parārthin sakalasuragaṇāḥ śrīśaśāṃkāṃśamauleḥ śrīmatpādābjayugmapraṇihitamanaso nirbhayāścāmarāste
60
नरकमुखसुखानां व्यर्थकोलाहलानामसुखमुखमतीनां यद्यपि घ्नन्ति तत्वम् । हरपदनिरतानां विश्वभूतात्मनान्नः करणविषयभोगा नैव लूयन्ति विष्णो
narakamukhasukhānāṃ vyarthakolāhalānāmasukhamukhamatīnāṃ yadyapi ghnanti tatvam | harapadaniratānāṃ viśvabhūtātmanānnaḥ karaṇaviṣayabhogā naiva lūyanti viṣṇo
61
ब्रह्मा शक्रो भवांश्च प्रकृतिपरवशाः पश्य सर्वेश्वरस्य श्रीश श्रीशंकरस्यागतिसगतिगतिव्योमकेशस्य शंभोः । तस्यायं दासदासस्त्रिपुरपुरहरश्रीशिवस्यास्य कर्त्तुः पातुर्हर्त्तुः प्रकर्त्तुः शृणुत सुमनसो नित्यमन्यन्न जाने
brahmā śakro bhavāṃśca prakṛtiparavaśāḥ paśya sarveśvarasya śrīśa śrīśaṃkarasyāgatisagatigativyomakeśasya śaṃbhoḥ | tasyāyaṃ dāsadāsastripurapuraharaśrīśivasyāsya karttuḥ pāturharttuḥ prakarttuḥ śṛṇuta sumanaso nityamanyanna jāne
62
पशुपतिवरदानात्तत्वसंप्राप्तभूतेः पशुवरवरदानात्किं मम प्राप्तिहेतुः । पशुपति चरणाब्जध्यानसन्मानसं मे नहि खलु भवतृष्णापारदूरं हरेद्यः ।
paśupativaradānāttatvasaṃprāptabhūteḥ paśuvaravaradānātkiṃ mama prāptihetuḥ | paśupati caraṇābjadhyānasanmānasaṃ me nahi khalu bhavatṛṣṇāpāradūraṃ haredyaḥ |
63
त्र्यक्षांघ्रिप्रवणप्रसन्नमनसो लक्ष्यस्य किं मे सुरै- र्लक्षीभूतभवत्पदेषु नितरां वाञ्छा न मे जायते । किं तच्चाक्षतवीक्षणास्थिरचिरं विश्वन्तु विश्वेश्वरा- ज्जातं तत्र मुहुर्मुहुः प्रविलयं यात्येव यातं भवेत्
tryakṣāṃghripravaṇaprasannamanaso lakṣyasya kiṃ me surai- rlakṣībhūtabhavatpadeṣu nitarāṃ vāñchā na me jāyate | kiṃ taccākṣatavīkṣaṇāsthiraciraṃ viśvantu viśveśvarā- jjātaṃ tatra muhurmuhuḥ pravilayaṃ yātyeva yātaṃ bhavet
64
पृ0 8) रज्जौ कल्पितदन्तशूकसदृशं देवा नकिञ्चिज्जगत् जातञ्चापि जनिष्यमाणमपिवा भूतं हि रज्जौ भ्रमः । तद्वत्सर्पदशोपमानमिति या धीर्वै परं मुक्तये सा धीश्चापि निरन्तरं भगवतश्शंभोः कृपायाः फलम्
pṛ0 8) rajjau kalpitadantaśūkasadṛśaṃ devā nakiñcijjagat jātañcāpi janiṣyamāṇamapivā bhūtaṃ hi rajjau bhramaḥ | tadvatsarpadaśopamānamiti yā dhīrvai paraṃ muktaye sā dhīścāpi nirantaraṃ bhagavataśśaṃbhoḥ kṛpāyāḥ phalam
65
नक्वापि स्पृहयन्ति शंकरकथापीयूषपानात्परम् लिंगालिंगनपूतभस्मनिटिला रुद्राक्षमालाधराः । पुण्यास्तेशतरुद्रमध्यविलसन्नाम्नां पदार्थादराः भावा भावुकदिव्यजन्मतपसा भूमण्डले पावनाः
nakvāpi spṛhayanti śaṃkarakathāpīyūṣapānātparam liṃgāliṃganapūtabhasmaniṭilā rudrākṣamālādharāḥ | puṇyāsteśatarudramadhyavilasannāmnāṃ padārthādarāḥ bhāvā bhāvukadivyajanmatapasā bhūmaṇḍale pāvanāḥ
66
मारापारशराग्रकुण्ठनमहासारैकधारोपलाः सारासारविचारधीरहृदयाधौरेयधुर्यास्सदा । पारावारविकारसंसृतिमहादुःखांबुधेस्तारकाः विश्वाधीश्वरपूजकास्तुनियतं पापौघसंहारकाः
mārāpāraśarāgrakuṇṭhanamahāsāraikadhāropalāḥ sārāsāravicāradhīrahṛdayādhaureyadhuryāssadā | pārāvāravikārasaṃsṛtimahāduḥkhāṃbudhestārakāḥ viśvādhīśvarapūjakāstuniyataṃ pāpaughasaṃhārakāḥ
67
सूतः – जैगीषव्य मुखाब्जनिस्सृतमहोदारोत्कटं ते मधु पीत्वा चामरनायका मधुतृषास्वानंदितस्वान्तराः । ऊचुः प्राञ्जलयस्तदा द्विजवरं ब्रह्मा महेन्द्रो हरिः ज्ञात्वा तस्य विनिश्चयं शिवसमासक्तं मनश्चापि ते
sūtaḥ – jaigīṣavya mukhābjanissṛtamahodārotkaṭaṃ te madhu pītvā cāmaranāyakā madhutṛṣāsvānaṃditasvāntarāḥ | ūcuḥ prāñjalayastadā dvijavaraṃ brahmā mahendro hariḥ jñātvā tasya viniścayaṃ śivasamāsaktaṃ manaścāpi te
68
देवाः – प्राप्येशानपदांबुजोत्थसुमनामोदात्तसन्मानसः त्वं वै शांभवपुंगवस्तव हृदं ज्ञातुं प्रवृत्तास्सुराः । निष्कामोऽसि निरंकुशोऽसि भगवन् प्रोक्तं हि तत् क्षम्यताम् स्वात्मारामतया त्वयैव सकला भोगास्सदैवोझ्झिताः
devāḥ – prāpyeśānapadāṃbujotthasumanāmodāttasanmānasaḥ tvaṃ vai śāṃbhavapuṃgavastava hṛdaṃ jñātuṃ pravṛttāssurāḥ | niṣkāmo'si niraṃkuśo'si bhagavan proktaṃ hi tat kṣamyatām svātmārāmatayā tvayaiva sakalā bhogāssadaivojhjhitāḥ
69
एवं ते विबुधाः प्रशस्य च मुनिं चालिंग्य लिंगार्चकं धन्यास्स्मेति वदन्ति सुन्दरगिराप्यानन्दधारावृताः । शैवोक्तामृतवाक्यनन्दितमनस्स्वान्ता मुदा ते द्विजाः स्वं स्वं वाहनमाधिरुह्य तरसा गन्तुं मनश्चक्रिरे
evaṃ te vibudhāḥ praśasya ca muniṃ cāliṃgya liṃgārcakaṃ dhanyāssmeti vadanti sundaragirāpyānandadhārāvṛtāḥ | śaivoktāmṛtavākyananditamanassvāntā mudā te dvijāḥ svaṃ svaṃ vāhanamādhiruhya tarasā gantuṃ manaścakrire
śrīśivarahasye prathamāṃśe jaigīṣavyasurasaṃvādo nāma tṛtīyo'dhyāyaḥ 3
1
पृ0 9) जैगीषव्यसुरसंवादे तृतीयोऽध्यायः जैगीषव्यः – शृणुध्वं ब्रह्मविष्ण्वाद्या यन्मानस्यमहैतुकम् । नित्यं सर्वज्ञता तस्य देवदेवस्य शूलिनः
pṛ0 9) jaigīṣavyasurasaṃvāde tṛtīyo'dhyāyaḥ jaigīṣavyaḥ – śṛṇudhvaṃ brahmaviṣṇvādyā yanmānasyamahaitukam | nityaṃ sarvajñatā tasya devadevasya śūlinaḥ
2
यो वेदान्तैकसंवेद्यो यं ध्यायन्ति मुमुक्षवः । यस्य निश्वासपवना वेदाश्चत्वार एव हि
yo vedāntaikasaṃvedyo yaṃ dhyāyanti mumukṣavaḥ | yasya niśvāsapavanā vedāścatvāra eva hi
3
यो ब्रह्मविष्णुरुद्राणां जनकः परमेश्वरः । सूर्यस्य जनिता वह्नेश्चन्द्रचक्रानिलात्मनाम्
yo brahmaviṣṇurudrāṇāṃ janakaḥ parameśvaraḥ | sūryasya janitā vahneścandracakrānilātmanām
4
न तस्य कारणं शंभोस्स सर्वस्यापि कारणम् । यस्समाराध्यते विप्रैर्भिन्नभिन्नक्रियादिभिः
na tasya kāraṇaṃ śaṃbhossa sarvasyāpi kāraṇam | yassamārādhyate viprairbhinnabhinnakriyādibhiḥ
5
यस्त्वग्नीषोमजं सर्वं जगत्पाति सनातनः । असंगस्सर्वभूतेषु निर्विकारो विकारिषु
yastvagnīṣomajaṃ sarvaṃ jagatpāti sanātanaḥ | asaṃgassarvabhūteṣu nirvikāro vikāriṣu
6
यं सूक्ष्मबुध्या पश्यन्ति स्वहृदा वीतरागिणः । यो ध्यानेन जपैर्यज्ञैस्तपसानाशकेन च
yaṃ sūkṣmabudhyā paśyanti svahṛdā vītarāgiṇaḥ | yo dhyānena japairyajñaistapasānāśakena ca
7
स वेत्ति वेद्यानक्षाणि मनोवाचामगोचरः । यस्माद्भूतानि जायन्ते येन जीवन्ति तान्यपि
sa vetti vedyānakṣāṇi manovācāmagocaraḥ | yasmādbhūtāni jāyante yena jīvanti tānyapi
8
यत्र लीनानि कल्प्यन्ते स एकः परमेश्वरः । यस्त्वपाणिर्निरंघ्रिश्चाप्यचक्षुश्चाप्यथाश्रवाः
yatra līnāni kalpyante sa ekaḥ parameśvaraḥ | yastvapāṇirniraṃghriścāpyacakṣuścāpyathāśravāḥ
9
सोऽन्तिके स हि दूरस्थस्सबाह्याभ्यन्तरेऽपि च । ससत्यं ज्ञानमानन्दो गुणैर्हीनश्च निर्गुणः
so'ntike sa hi dūrasthassabāhyābhyantare'pi ca | sasatyaṃ jñānamānando guṇairhīnaśca nirguṇaḥ
10
स्वतन्त्रश्च सुपूर्णश्च तेन पूर्णमिदं जगत् । स नित्यश्चेतनानाञ्च पतीनां पतिरीश्वरः
svatantraśca supūrṇaśca tena pūrṇamidaṃ jagat | sa nityaścetanānāñca patīnāṃ patirīśvaraḥ
11
यस्त्वेकस्सृजतीशानश्चराचरमिदं जगत् । यथोर्णनाभिस्तन्तून्वै सृजते ग्रसतेऽपि च
yastvekassṛjatīśānaścarācaramidaṃ jagat | yathorṇanābhistantūnvai sṛjate grasate'pi ca
12
यस्य रूपापरिज्ञानाद्देहमात्मेति मन्यते । यस्य रूपापरिज्ञानान्मन आत्मेति मन्यते
yasya rūpāparijñānāddehamātmeti manyate | yasya rūpāparijñānānmana ātmeti manyate
13
यस्य रूपापरिज्ञानात्खानिचात्मेति मन्यते । यस्य रूपापरिज्ञानाद्भूतान्यात्मेति मन्यते
yasya rūpāparijñānātkhānicātmeti manyate | yasya rūpāparijñānādbhūtānyātmeti manyate
14
यस्य रूपापरिज्ञानात्सर्वमात्मेति मन्यते । यस्याकाशश्शरीरं हि चाकाशो नैव वेत्तितम्
yasya rūpāparijñānātsarvamātmeti manyate | yasyākāśaśśarīraṃ hi cākāśo naiva vettitam
15
यस्य भूमिस्स्वरूपं हि तं भूमिर्नैव वेत्ति हि । यो मनश्चक्षुरादीनां नियंता परमेश्वरः
yasya bhūmissvarūpaṃ hi taṃ bhūmirnaiva vetti hi | yo manaścakṣurādīnāṃ niyaṃtā parameśvaraḥ
16
यस्य भासा जगद्भाति सशक्रानलवायवः । भीत्याभान्ति च वान्त्येव चेतनानां सचेतनः
yasya bhāsā jagadbhāti saśakrānalavāyavaḥ | bhītyābhānti ca vāntyeva cetanānāṃ sacetanaḥ
17
यस्य मायाविलसितं जगत्स्थावरजङ्गमम् । स मायी परमेशानस्तेनावास्यमिदं जगत्
yasya māyāvilasitaṃ jagatsthāvarajaṅgamam | sa māyī parameśānastenāvāsyamidaṃ jagat
18
योऽशरीरो ह्यलिंगश्च यमिभिः परिदृश्यते । यस्य विज्ञानमात्रेण सर्वं विज्ञातमेव हि
yo'śarīro hyaliṃgaśca yamibhiḥ paridṛśyate | yasya vijñānamātreṇa sarvaṃ vijñātameva hi
19
ज्ञानमात्मा त्वहं ब्रह्म ज्ञानं शान्तिरनुत्तमा । स एकः परमात्माहि नेहनानास्ति किञ्चन
jñānamātmā tvahaṃ brahma jñānaṃ śāntiranuttamā | sa ekaḥ paramātmāhi nehanānāsti kiñcana
20
स एको ज्ञानवानीश ईशनीभिस्स ईशते । एक एव महान्रुद्रः पुरुषो विश्वतो मुखः
sa eko jñānavānīśa īśanībhissa īśate | eka eva mahānrudraḥ puruṣo viśvato mukhaḥ
21
त मेकं ज्ञानमात्मानं त्यक्त्वान्यत्तदिदं जगत् । यज्ज्ञानाद्धृदयग्रंथिछेदनं जायते नृणाम्
ta mekaṃ jñānamātmānaṃ tyaktvānyattadidaṃ jagat | yajjñānāddhṛdayagraṃthichedanaṃ jāyate nṛṇām
22
यस्यैकत्वं हि विज्ञाय शोकं तरति मानवः । स एव ज्योतिषां ज्योतिस्स एव तमसांतमः
yasyaikatvaṃ hi vijñāya śokaṃ tarati mānavaḥ | sa eva jyotiṣāṃ jyotissa eva tamasāṃtamaḥ
23
स एकस्सर्वभूतेषु बहुधा भाति मायया । यो जाग्रत्स्वप्नतुर्याभिर्गूढोत्मा न प्रकाशते
sa ekassarvabhūteṣu bahudhā bhāti māyayā | yo jāgratsvapnaturyābhirgūḍhotmā na prakāśate
24
पृ0 10) योदृश्यस्सूक्ष्मया बुध्या तत्प्रसादेन केवलम् । तपसा वेदितव्यस्स नान्यथा कर्मकोटिभिः
pṛ0 10) yodṛśyassūkṣmayā budhyā tatprasādena kevalam | tapasā veditavyassa nānyathā karmakoṭibhiḥ
25
यो वेदादौ स्वरः प्रोक्तो वेदान्तेषु प्रतिष्ठितः । य ईशानोऽधिविद्यानां पारदृश्वा सनातनः
yo vedādau svaraḥ prokto vedānteṣu pratiṣṭhitaḥ | ya īśāno'dhividyānāṃ pāradṛśvā sanātanaḥ
26
यो भूतसंघे सुप्तेऽपि जागर्तीशो महेश्वरः । यस्मात्प्राणो मनो जज्ञे सहि नात्येति किञ्चन
yo bhūtasaṃghe supte'pi jāgartīśo maheśvaraḥ | yasmātprāṇo mano jajñe sahi nātyeti kiñcana
27
योज्योतिर्ज्योतिषां देवो विश्वात्मा विश्वतो मुखः । यो भूमिमत्यतिष्ठच्च यस्माद्ब्रह्माणि जज्ञिरे
yojyotirjyotiṣāṃ devo viśvātmā viśvato mukhaḥ | yo bhūmimatyatiṣṭhacca yasmādbrahmāṇi jajñire
28
यतो ब्रह्मेशविष्ण्विन्द्रास्सह देवैश्च जज्ञिरे । यो ब्रह्म ब्रह्मविच्चापि चात्र ब्रह्म समश्नुते
yato brahmeśaviṣṇvindrāssaha devaiśca jajñire | yo brahma brahmaviccāpi cātra brahma samaśnute
29
एष ब्रह्मैष विष्णुश्च एष देवो विराजते । एष भूतपतिर्देव एष सेतुर्विधारणः
eṣa brahmaiṣa viṣṇuśca eṣa devo virājate | eṣa bhūtapatirdeva eṣa seturvidhāraṇaḥ
30
एकमेव महादेवमिन्द्रमित्रादिभिस्सुरैः । नामरूपगुणैश्चैव मायया मन्यते जनः
ekameva mahādevamindramitrādibhissuraiḥ | nāmarūpaguṇaiścaiva māyayā manyate janaḥ
31
इदं जगत्पुरा सृष्ट्वा तस्मिन्प्राविशदीश्वरः । व्याकुर्वन्नामरूपे तु व्यवहारीव भासते
idaṃ jagatpurā sṛṣṭvā tasminprāviśadīśvaraḥ | vyākurvannāmarūpe tu vyavahārīva bhāsate
32
पुरुषो यः परस्सूक्ष्मो भोक्ता भोज्यञ्च यस्सदा । योखिलोविश्वनेता च यस्मान्नान्यत्परायणम्
puruṣo yaḥ parassūkṣmo bhoktā bhojyañca yassadā | yokhiloviśvanetā ca yasmānnānyatparāyaṇam
33
अशरीरोऽव्ययात्मायश्चाशीर्णोह्यविनाशकः । यो मायया शरीरस्थस्तद्वीर्यैर्नैवलिप्यते
aśarīro'vyayātmāyaścāśīrṇohyavināśakaḥ | yo māyayā śarīrasthastadvīryairnaivalipyate
34
भोगीव भासते देवो ह्यन्नपानादिभोगभाक् । यश्च सर्वेन्द्रियातीतस्सर्वेषामपि भासकः
bhogīva bhāsate devo hyannapānādibhogabhāk | yaśca sarvendriyātītassarveṣāmapi bhāsakaḥ
35
योऽव्यक्तोव्यक्ततामेत्य जगत्पुष्णाति लीलया । योऽविद्ययासंसरति विद्ययाच प्रमुच्यते
yo'vyaktovyaktatāmetya jagatpuṣṇāti līlayā | yo'vidyayāsaṃsarati vidyayāca pramucyate
36
योऽनाधारोऽखिलाधारस्स्वेमहिम्निप्रतिष्ठितः । यं शृण्वंतोपि वेदान्तैर्मुह्यन्ति यतयस्सुराः
yo'nādhāro'khilādhārassvemahimnipratiṣṭhitaḥ | yaṃ śṛṇvaṃtopi vedāntairmuhyanti yatayassurāḥ
37
यस्त्वेनंवृणुते देवास्तस्यैवात्माप्रकाशते । य आत्मासर्वभूतस्थो जडानां विदुषामपि
yastvenaṃvṛṇute devāstasyaivātmāprakāśate | ya ātmāsarvabhūtastho jaḍānāṃ viduṣāmapi
38
यो जगज्जन्ममरणैरशीर्यो नहि शीर्यते । योह्यागतैर्दुःखसङ्घैस्सुखैर्वा स्पृश्यते नहि
yo jagajjanmamaraṇairaśīryo nahi śīryate | yohyāgatairduḥkhasaṅghaissukhairvā spṛśyate nahi
39
यस्मिन्ज्ञातेऽखिलं ज्ञातं नकिञ्चिदवशिष्यते । यमविज्ञायविश्वेशंदुःखान्तन्नाधिगच्छति
yasminjñāte'khilaṃ jñātaṃ nakiñcidavaśiṣyate | yamavijñāyaviśveśaṃduḥkhāntannādhigacchati
40
यो संगः पुरुषो नित्यस्स्थाणुवन्निश्चलो गुणः । यो न जीवश्शिवश्चापि चान्योपाधिविवर्जितः
yo saṃgaḥ puruṣo nityassthāṇuvanniścalo guṇaḥ | yo na jīvaśśivaścāpi cānyopādhivivarjitaḥ
41
पञ्चकोशातिगोह्यात्मा सदानन्दघनस्सुखम् । एकोऽद्वयस्तृतीयश्च नवैसबहुधाविभुः
pañcakośātigohyātmā sadānandaghanassukham | eko'dvayastṛtīyaśca navaisabahudhāvibhuḥ
42
योन्तिके सहिदूरस्थस्तेनावास्यमिदंसुराः । सभूमापरमानन्द आर्तमेतज्जगत्सुराः
yontike sahidūrasthastenāvāsyamidaṃsurāḥ | sabhūmāparamānanda ārtametajjagatsurāḥ
43
तज्जं तल्लंच तदनं जगदेतत्प्रकाशते । यस्तमःपारगो नित्यं मनोवाचामगोचरः
tajjaṃ tallaṃca tadanaṃ jagadetatprakāśate | yastamaḥpārago nityaṃ manovācāmagocaraḥ
44
यस्यैव शक्तिर्विविधा स्वभावाज्ज्ञानदासुराः । स एष परमानन्दस्सदसत्पक्षवर्जितः
yasyaiva śaktirvividhā svabhāvājjñānadāsurāḥ | sa eṣa paramānandassadasatpakṣavarjitaḥ
45
लिंगहीनस्सदाऽसंगो यो वेदान्तैक गोचरः । दृश्यते त्वग्र्ययाबुध्या सूक्ष्मयासूक्ष्मदर्शिभिः
liṃgahīnassadā'saṃgo yo vedāntaika gocaraḥ | dṛśyate tvagryayābudhyā sūkṣmayāsūkṣmadarśibhiḥ
46
मुक्तयेदेहिसंघानां सुलभोव्यक्ततांगतः । त्रिणेत्रो नीलकण्ठश्चचोमादेहार्धविग्रहः
muktayedehisaṃghānāṃ sulabhovyaktatāṃgataḥ | triṇetro nīlakaṇṭhaścacomādehārdhavigrahaḥ
47
क्रीडते प्रमथाधीशो हेरंबस्कन्दपुत्रवान् । सर्वावासोऽपि भगवान्कैलासाचलमास्थितः
krīḍate pramathādhīśo heraṃbaskandaputravān | sarvāvāso'pi bhagavānkailāsācalamāsthitaḥ
48
यस्य लिंगार्चनेनैव त्रैलोक्यश्रीरवाप्यते । यस्य प्रसादाद्विष्णुत्वं त्वया प्राप्तं सुदर्शनम्
yasya liṃgārcanenaiva trailokyaśrīravāpyate | yasya prasādādviṣṇutvaṃ tvayā prāptaṃ sudarśanam
49
पृ0 11) ब्रह्मणस्सृष्टिसामर्थ्यमिन्द्रस्याप्यरिनिग्रहः । देवराज्यं भोगभाग्यं सर्वमैशादनुग्रहात्
pṛ0 11) brahmaṇassṛṣṭisāmarthyamindrasyāpyarinigrahaḥ | devarājyaṃ bhogabhāgyaṃ sarvamaiśādanugrahāt
50
न तत्र सूर्यो देवेशो भाति चन्द्रो नचानलः । भीत्याभान्ति च सर्वेऽपि सोऽन्तरापुरुषो हरः
na tatra sūryo deveśo bhāti candro nacānalaḥ | bhītyābhānti ca sarve'pi so'ntarāpuruṣo haraḥ
51
हिरण्यबाहुरीशानो हिरण्यपतिरीश्वरः । कर्मदेवास्सर्व एव ब्रह्मविष्णुमहेश्वराः
hiraṇyabāhurīśāno hiraṇyapatirīśvaraḥ | karmadevāssarva eva brahmaviṣṇumaheśvarāḥ
52
यस्याज्ञावर्तिनस्सर्वे सर्वेषां कारणं शिवः । ब्रह्मणश्च शिरश्छिन्नं देवदेवेन लीलया
yasyājñāvartinassarve sarveṣāṃ kāraṇaṃ śivaḥ | brahmaṇaśca śiraśchinnaṃ devadevena līlayā
53
इन्द्रस्यास्यभुजस्तंभो येनाकारि दयालुना । यस्य भक्तस्य शापेन दशजन्मानि ते हरे
indrasyāsyabhujastaṃbho yenākāri dayālunā | yasya bhaktasya śāpena daśajanmāni te hare
54
सौकरं नारसिह्मन्तेरूपं संशिक्षितं हरात् । सर्वं जानामितेविष्णो ब्रह्मन्शक्रगतव्यथाः
saukaraṃ nārasihmanterūpaṃ saṃśikṣitaṃ harāt | sarvaṃ jānāmiteviṣṇo brahmanśakragatavyathāḥ
55
यूयं हि पशवोऽज्ञान जृंभिताः पशुपस्सहि । गच्छन्त्वद्य यथाकामं मादृक्षेनास्तिधृष्टता
yūyaṃ hi paśavo'jñāna jṛṃbhitāḥ paśupassahi | gacchantvadya yathākāmaṃ mādṛkṣenāstidhṛṣṭatā
56
भवंतो देवतास्सर्वे त्वहंशर्वपदाश्रयः । इत्युक्त्वा ध्यानमातिष्टज्जैगीषव्यो महामुनिः
bhavaṃto devatāssarve tvahaṃśarvapadāśrayaḥ | ityuktvā dhyānamātiṣṭajjaigīṣavyo mahāmuniḥ
57
ध्यानेन तेन महता चेदमाह तदा द्विजाः । जैगीषव्यः – यच्चब्रह्म जगज्जगच्च यदृते नास्तीति वद्यं पदं त्वेवं ये विदुरीश्वरेश्वरधिया ते यांति शंभोः पदम् । ते लोकान्हि नयांति यापितमहादुःखाभितप्तापदः सौख्यञ्चापि समाप्नुवंति भगवंस्त्वद्भक्तिसारादराः
dhyānena tena mahatā cedamāha tadā dvijāḥ | jaigīṣavyaḥ – yaccabrahma jagajjagacca yadṛte nāstīti vadyaṃ padaṃ tvevaṃ ye vidurīśvareśvaradhiyā te yāṃti śaṃbhoḥ padam | te lokānhi nayāṃti yāpitamahāduḥkhābhitaptāpadaḥ saukhyañcāpi samāpnuvaṃti bhagavaṃstvadbhaktisārādarāḥ
58
बाहुभ्यान्तव धन्वने च भगवन्कुर्वे नमस्स्वस्तये भीतास्त्वद्धनुषः कराग्रविशिखैर्हेत्या शरव्याय च । पाहीश प्रविमुच्य ज्यामथधनुःकोट्योश्शरान्त्संत्यजन् हेतिं पातय मां विलोकय दृशा दूरे निषंगं त्यज
bāhubhyāntava dhanvane ca bhagavankurve namassvastaye bhītāstvaddhanuṣaḥ karāgraviśikhairhetyā śaravyāya ca | pāhīśa pravimucya jyāmathadhanuḥkoṭyośśarāntsaṃtyajan hetiṃ pātaya māṃ vilokaya dṛśā dūre niṣaṃgaṃ tyaja
59
शैवेन्द्राश्शिवसंमतास्सुरवरापारव्यथाभीतितो नो बिभ्यंति न चाप्नुवंति च हरे युष्मद्वरान् किंफलान् । किंत्वीशानपदारविंदभजनान्नान्यन्मनश्चिंत्यते क्षुद्रेषु प्रभविष्णवो नहि वयं यात स्वधामन्त्सुराः
śaivendrāśśivasaṃmatāssuravarāpāravyathābhītito no bibhyaṃti na cāpnuvaṃti ca hare yuṣmadvarān kiṃphalān | kiṃtvīśānapadāraviṃdabhajanānnānyanmanaściṃtyate kṣudreṣu prabhaviṣṇavo nahi vayaṃ yāta svadhāmantsurāḥ
60
हारा एव भवंति भाग्यनिवहैश्श्रीचन्द्रचूडार्चका- स्तेषां त्वत्पदवासनापि सुतरां वाणीश शक्रालयम् । पृ0 12) किं जायेत गिरीन्द्रशेखरगतो मत्तद्विपालिं भिन- त्सिह्मः किंतृणमत्ति तद्वदिह मे त्वत्तो वराणां स्पृहा
hārā eva bhavaṃti bhāgyanivahaiśśrīcandracūḍārcakā- steṣāṃ tvatpadavāsanāpi sutarāṃ vāṇīśa śakrālayam | pṛ0 12) kiṃ jāyeta girīndraśekharagato mattadvipāliṃ bhina- tsihmaḥ kiṃtṛṇamatti tadvadiha me tvatto varāṇāṃ spṛhā
śrīśivarahasye prathamāṃśe viṣṇuvākyaṃ nāma caturtho'dhyāyaḥ 4
1
विष्णुवाक्यं नाम चतुर्थोऽध्यायः देवाऊचुः – तव भावमहो ज्ञातुमागता वयमद्य वै । स एव सर्वकामानां पूरकोऽस्ति न संशयः
viṣṇuvākyaṃ nāma caturtho'dhyāyaḥ devāūcuḥ – tava bhāvamaho jñātumāgatā vayamadya vai | sa eva sarvakāmānāṃ pūrako'sti na saṃśayaḥ
2
किं तवासुकरं विद्वंस्त्रिषु लोकेषु विद्यते । त्वन्मनो ध्यायति सदा यतश्शिवपदांबुजम्
kiṃ tavāsukaraṃ vidvaṃstriṣu lokeṣu vidyate | tvanmano dhyāyati sadā yataśśivapadāṃbujam
3
येषां मनसि विश्वेशपदांबुजयुगं भवेत् । तेषां किं भुवनैश्वर्यैर्विनश्वरतरैर्मुने
yeṣāṃ manasi viśveśapadāṃbujayugaṃ bhavet | teṣāṃ kiṃ bhuvanaiśvaryairvinaśvaratarairmune
4
यतो महेशकृपया दृढा भक्तिर्भवेच्छिवे । यया भक्त्या द्विजवरास्सुरासुरनरा अपि
yato maheśakṛpayā dṛḍhā bhaktirbhavecchive | yayā bhaktyā dvijavarāssurāsuranarā api
5
मुक्ताश्च मोचयंत्यन्याञ्छैवाः कारुणिकोत्तमाः । भक्तिरेवविरूपाक्षे सर्वेषां मुक्तिदायिनी
muktāśca mocayaṃtyanyāñchaivāḥ kāruṇikottamāḥ | bhaktirevavirūpākṣe sarveṣāṃ muktidāyinī
6
भक्त्यासंपूजितोलिंगे ह्यलिंगोऽपि महेश्वरः । बिल्वपत्रैस्तत्फलैर्वा भस्मनावा महच्छ्रियम्
bhaktyāsaṃpūjitoliṃge hyaliṃgo'pi maheśvaraḥ | bilvapatraistatphalairvā bhasmanāvā mahacchriyam
7
प्राप्नोति मुक्ति साम्राज्यमपुनर्भवदायकम् । भस्माभिषिक्ता ये भावास्त्रिपुण्ट्रांकित मस्तकाः
prāpnoti mukti sāmrājyamapunarbhavadāyakam | bhasmābhiṣiktā ye bhāvāstripuṇṭrāṃkita mastakāḥ
8
रुद्राक्षमालाकोटीरधारिणो मालिकाधराः । पञ्चाक्षरावृत्तिपरा रुद्राध्यायजपादराः
rudrākṣamālākoṭīradhāriṇo mālikādharāḥ | pañcākṣarāvṛttiparā rudrādhyāyajapādarāḥ
9
शिवलिंगार्चकाश्शैवाश्शिवक्षेत्रनिवासिनः । नैवेद्यभोजिनश्शंभोर्यात्रापुष्पफलार्पकाः
śivaliṃgārcakāśśaivāśśivakṣetranivāsinaḥ | naivedyabhojinaśśaṃbhoryātrāpuṣpaphalārpakāḥ
10
अनन्यस्वांतरा विप्रा मनोवाक्कायकर्मभिः । शिवध्यानेन संतृप्तास्सदाशिव कथादराः
ananyasvāṃtarā viprā manovākkāyakarmabhiḥ | śivadhyānena saṃtṛptāssadāśiva kathādarāḥ
11
गणयन्ति महाशैवा नास्मान्कर्मसुरान्मुने । तवेदृङ्मानसं विप्र न कस्यापि मुनेरपि
gaṇayanti mahāśaivā nāsmānkarmasurānmune | tavedṛṅmānasaṃ vipra na kasyāpi munerapi
12
त्वद्भावो भवसंसक्तो भवनाशाय केवलम् । यथा रत्ननिधिं प्राप्य स किं गृह्णाति लोष्टकम्
tvadbhāvo bhavasaṃsakto bhavanāśāya kevalam | yathā ratnanidhiṃ prāpya sa kiṃ gṛhṇāti loṣṭakam
13
यथा मत्तेभकुंभस्थस्सकिं खरमपेक्षते । यथैव कल्पकवनं संप्राप्यार्कमपेक्षते
yathā mattebhakuṃbhasthassakiṃ kharamapekṣate | yathaiva kalpakavanaṃ saṃprāpyārkamapekṣate
14
यथा मणिमयं हारं प्राप्य किंवा वराटिकाम् । तथास्मदीय भोगेषु मूढोरज्यतिकामतः
yathā maṇimayaṃ hāraṃ prāpya kiṃvā varāṭikām | tathāsmadīya bhogeṣu mūḍhorajyatikāmataḥ
15
त्वं कामारिपदध्यानान्निष्कामोऽसि महामुने । त्रिणेत्रपादकमलमित्रं त्वन्मानसं मुने
tvaṃ kāmāripadadhyānānniṣkāmo'si mahāmune | triṇetrapādakamalamitraṃ tvanmānasaṃ mune
16
त्वमेव शैवधुर्येषु मूर्धन्यो धन्य एवहि । तव संदर्शनापारसंहृताखिलपातकाः
tvameva śaivadhuryeṣu mūrdhanyo dhanya evahi | tava saṃdarśanāpārasaṃhṛtākhilapātakāḥ
17
जगज्जन्मसिसृक्षासु विश्वेशेन नियोजिताः । नलभामैव विश्रांतिं श्रांतास्संसारवर्तिनः
jagajjanmasisṛkṣāsu viśveśena niyojitāḥ | nalabhāmaiva viśrāṃtiṃ śrāṃtāssaṃsāravartinaḥ
18
सदा वैषयिका देवा वयं सर्वे महामुने । तव वाक्पंकजोद्भूतसाधुसाराश्रितांतराः
sadā vaiṣayikā devā vayaṃ sarve mahāmune | tava vākpaṃkajodbhūtasādhusārāśritāṃtarāḥ
19
पृ0 13) वयं विश्रांतिमापन्नाः प्रपन्नाः परमां गतिम् । शैवेन्द्रांग महासंग निर्मुक्ताखिल हृत्तमाः
pṛ0 13) vayaṃ viśrāṃtimāpannāḥ prapannāḥ paramāṃ gatim | śaivendrāṃga mahāsaṃga nirmuktākhila hṛttamāḥ
20
उत्तमा विधिविष्ण्विंद्रा देवेषु तव दर्शनात् । कालकूटमहाज्वाला निर्दग्धाह्नि महामुने
uttamā vidhiviṣṇviṃdrā deveṣu tava darśanāt | kālakūṭamahājvālā nirdagdhāhni mahāmune
21
अशीतयन्महादेवः पीत्वाहालाहलंविषम् । देवानरक्षद्भगवान्हत्वा त्रिपुरमुल्वणम्
aśītayanmahādevaḥ pītvāhālāhalaṃviṣam | devānarakṣadbhagavānhatvā tripuramulvaṇam
22
कृत्वा मां बाणमत्युग्रं धृत्वामेरुं शरासनम् । मौर्वीञ्चकाराहिपतिं सारथिं विधिमातनोत्
kṛtvā māṃ bāṇamatyugraṃ dhṛtvāmeruṃ śarāsanam | maurvīñcakārāhipatiṃ sārathiṃ vidhimātanot
23
वेदाह्नयांस्तथाचक्रे चक्रे सूर्यञ्च चन्द्रकम् । धरामण्डलमेतद्वै ससरित्सवनाब्धिकम्
vedāhnayāṃstathācakre cakre sūryañca candrakam | dharāmaṇḍalametadvai sasaritsavanābdhikam
24
सुरासुरान्भटांश्चक्रे कर्षणे वायुमण्डलम् । किं स विश्वाधिको देवो विश्वभूतेषु गण्यते
surāsurānbhaṭāṃścakre karṣaṇe vāyumaṇḍalam | kiṃ sa viśvādhiko devo viśvabhūteṣu gaṇyate
25
अस्मासु पशुभूतेषु देवः पशुपतिश्शिवः । पशूनस्मान्निबध्नाति मायापाशेन शंकरः
asmāsu paśubhūteṣu devaḥ paśupatiśśivaḥ | paśūnasmānnibadhnāti māyāpāśena śaṃkaraḥ
26
स एव कृपया जन्तून्मोचयत्येव सर्वदा । यस्य लिंगं सदाकालं पूजयन्ति मरुद्गणाः
sa eva kṛpayā jantūnmocayatyeva sarvadā | yasya liṃgaṃ sadākālaṃ pūjayanti marudgaṇāḥ
27
मत्पूज्योहि महादेवस्सर्वे वयमतंद्रिताः । जन्ममृत्युजरादुःखैरभिभूता महामुने
matpūjyohi mahādevassarve vayamataṃdritāḥ | janmamṛtyujarāduḥkhairabhibhūtā mahāmune
28
पुरा मन्नेत्रपद्मेन संपूज्याप्तंसुदर्शनम् । दैत्येन्द्रद्रावकं साक्षाद्विश्वेशस्य कृपाबलात्
purā mannetrapadmena saṃpūjyāptaṃsudarśanam | daityendradrāvakaṃ sākṣādviśveśasya kṛpābalāt
29
मृकंडुतनयं कालमृत्योर्यो मोचयच्छिवः । श्वेतञ्च तं नृपसुतमरक्षत्कालपाशतः
mṛkaṃḍutanayaṃ kālamṛtyoryo mocayacchivaḥ | śvetañca taṃ nṛpasutamarakṣatkālapāśataḥ
30
यस्य लिंगस्य सन्मौलिं मूलं ब्रह्माहमप्यधः । अदृष्ट्वा परमां शांतिं प्राप्तवंतौ पुरा मुने
yasya liṃgasya sanmauliṃ mūlaṃ brahmāhamapyadhaḥ | adṛṣṭvā paramāṃ śāṃtiṃ prāptavaṃtau purā mune
31
उपमन्युं मुनिसुतं गाणापत्येन योजयत् । शिलादतनयेसाक्षात्स्वसारूप्यं ददौ हरः
upamanyuṃ munisutaṃ gāṇāpatyena yojayat | śilādatanayesākṣātsvasārūpyaṃ dadau haraḥ
32
भृंगीशं च मुनिश्रेष्ठं कोपनं भक्तिमत्तरम् । निजभक्तगणश्रेष्ठं चण्डीशञ्चाप्यकल्पयत्
bhṛṃgīśaṃ ca muniśreṣṭhaṃ kopanaṃ bhaktimattaram | nijabhaktagaṇaśreṣṭhaṃ caṇḍīśañcāpyakalpayat
33
दैत्येन्द्रपुत्रं बाणञ्च सहस्रभुजमातनोत् । वीरभद्रेण निंदंतं विधिं शिक्षयदीश्वरः
daityendraputraṃ bāṇañca sahasrabhujamātanot | vīrabhadreṇa niṃdaṃtaṃ vidhiṃ śikṣayadīśvaraḥ
34
ममावताररूपाणि मत्स्यकूर्मकिटीह्नरिः । नरसिह्मादिरूपाणि हंतात्युद्वेजकानि मे
mamāvatārarūpāṇi matsyakūrmakiṭīhnariḥ | narasihmādirūpāṇi haṃtātyudvejakāni me
35
शारभं रूपमास्थाय पुरा घोरतरं शिवः । शिवभक्तास्तथान्येऽपि सुरासुरमुनीश्वराः
śārabhaṃ rūpamāsthāya purā ghorataraṃ śivaḥ | śivabhaktāstathānye'pi surāsuramunīśvarāḥ
36
प्रसादाभिमुखेनैव प्रसादेन नियोजिताः । स्मरांधकगजाद्याश्च शिक्षिताश्च पिनाकिना
prasādābhimukhenaiva prasādena niyojitāḥ | smarāṃdhakagajādyāśca śikṣitāśca pinākinā
37
इन्द्रस्यास्य प्रसादेन सवज्रस्तंभितो भुजः । न तेन सदृशो देवो यो वेदांतैकगोचरः
indrasyāsya prasādena savajrastaṃbhito bhujaḥ | na tena sadṛśo devo yo vedāṃtaikagocaraḥ
38
अनन्तमहिमाधारस्त्वपरिच्छिन्नवैभवः । योगीयते सदेशानो वेदे वेदान्तमौलिषु
anantamahimādhārastvaparicchinnavaibhavaḥ | yogīyate sadeśāno vede vedāntamauliṣu
39
यं यजन्ति महासत्रे यो ध्येयो योगिभिस्सदा । यं दानैस्तपसा भक्त्या पूजयानशनेन च
yaṃ yajanti mahāsatre yo dhyeyo yogibhissadā | yaṃ dānaistapasā bhaktyā pūjayānaśanena ca
40
ऋषयो देवसंघाश्च स्वस्वकामार्थसिद्धये । विश्वोविश्वातिगस्साक्षाद्विश्वेशो विश्वभावनः
ṛṣayo devasaṃghāśca svasvakāmārthasiddhaye | viśvoviśvātigassākṣādviśveśo viśvabhāvanaḥ
41
न तस्य कार्यं करणं न क्रिया वा महेशितुः । परास्य शक्तिश्चित्रैव सर्वाकारेण भासते
na tasya kāryaṃ karaṇaṃ na kriyā vā maheśituḥ | parāsya śaktiścitraiva sarvākāreṇa bhāsate
42
तन्मायामोहिता एव वयं सर्वे सुरासुराः । जन्ममृत्युजरादुःखैरभिभूतास्स्म सर्वशः
tanmāyāmohitā eva vayaṃ sarve surāsurāḥ | janmamṛtyujarāduḥkhairabhibhūtāssma sarvaśaḥ
43
तस्यैवाज्ञावशादेतज्जगच्चक्रं प्रवर्तते । वह्निर्वहति कव्यानि हव्यानि च सुरेष्वपि
tasyaivājñāvaśādetajjagaccakraṃ pravartate | vahnirvahati kavyāni havyāni ca sureṣvapi
44
पृ0 14) उदेति सविता नित्यं किमस्तं याति शासनात् । सोमोऽमृतमयस्साक्षादुदेत्योषधिनायकः
pṛ0 14) udeti savitā nityaṃ kimastaṃ yāti śāsanāt | somo'mṛtamayassākṣādudetyoṣadhināyakaḥ
45
नक्षत्राणि भ्रमन्त्येव ग्रहाधारा भ्रमन्ति हि । प्रवाति पवनो मंदं मेघा वर्षन्ति शासनात्
nakṣatrāṇi bhramantyeva grahādhārā bhramanti hi | pravāti pavano maṃdaṃ meghā varṣanti śāsanāt
46
भूमिर्वहति विश्वंवै लोकास्सर्वे चतुर्दश । शेषोऽपिधत्ते शिरसि भुवं भवपदाश्रयः
bhūmirvahati viśvaṃvai lokāssarve caturdaśa | śeṣo'pidhatte śirasi bhuvaṃ bhavapadāśrayaḥ
47
पर्वतास्सरितो वाप्यस्समुद्रास्तस्य शासनात् । नोद्वेलतां प्रयान्त्येव स्मरशासनशासनात्
parvatāssarito vāpyassamudrāstasya śāsanāt | nodvelatāṃ prayāntyeva smaraśāsanaśāsanāt
48
पालयामि शिवादेशाज्जगत्सासुरमानुषम् । विधिस्सृजति भूतानि रुद्रोऽन्ते संहरिष्यति
pālayāmi śivādeśājjagatsāsuramānuṣam | vidhissṛjati bhūtāni rudro'nte saṃhariṣyati
49
इन्द्रः पालयते देवान्त्सोसुरान्त्संहरत्यपि । यमोऽपि पापिनां शास्ता यमशासनशासनात्
indraḥ pālayate devāntsosurāntsaṃharatyapi | yamo'pi pāpināṃ śāstā yamaśāsanaśāsanāt
50
कुबेरो धनपो नित्यं वरुणो यादमांपतिः । ईशानो रुद्रसंघानां यक्षाणां निऋतिस्तथा
kubero dhanapo nityaṃ varuṇo yādamāṃpatiḥ | īśāno rudrasaṃghānāṃ yakṣāṇāṃ niṛtistathā
51
सर्वं सासुरमानुषं जगदिदं तस्येशसच्छासना- दास्तेऽत्यंतधियाभियासुरनरव्रातास्तुवन्ते ऋचा । साम्ना रुद्रशतैर्महोपनिषदां सारार्थवाक्यैश्शिवः कस्तादृक्षवरिष्ठ एवहि मुने देवाधिदेवश्शिवः
sarvaṃ sāsuramānuṣaṃ jagadidaṃ tasyeśasacchāsanā- dāste'tyaṃtadhiyābhiyāsuranaravrātāstuvante ṛcā | sāmnā rudraśatairmahopaniṣadāṃ sārārthavākyaiśśivaḥ kastādṛkṣavariṣṭha evahi mune devādhidevaśśivaḥ
52
सर्वे स्वीयविमानवाहनगणैश्श्रेणीभिरेणीदृशा- मन्योन्यं पुनरीशपादमनसस्संवर्णितन्निश्चयम् । इत्युक्त्वा प्रययुर्मुदा विधिहरी शक्रस्तथान्ये सुरा नत्वा तं मुनिपुंगवं सुरगणा यातास्स्वगेहं तदा
sarve svīyavimānavāhanagaṇaiśśreṇībhireṇīdṛśā- manyonyaṃ punarīśapādamanasassaṃvarṇitanniścayam | ityuktvā prayayurmudā vidhiharī śakrastathānye surā natvā taṃ munipuṃgavaṃ suragaṇā yātāssvagehaṃ tadā
śrīśivarahasye prathamāṃśe jaigīṣavyaprasādakaraṇaṃ nāma pañcamo'dhyāyaḥ 5
1
जैगीषव्यप्रसादकरणं नाम पञ्चमोऽध्यायः सूत उवाच– एवं तपस्यतस्तस्य कालोभूयानवर्तत । वल्मीकावृतगात्रस्य तृणवल्लीयुतस्य च
jaigīṣavyaprasādakaraṇaṃ nāma pañcamo'dhyāyaḥ sūta uvāca– evaṃ tapasyatastasya kālobhūyānavartata | valmīkāvṛtagātrasya tṛṇavallīyutasya ca
2
तस्यैव तपसा लोकास्सन्तप्ताश्च सुरासुराः । विस्मयंतो मुनिं दृष्ट्वा मुनयस्संशितव्रताः
tasyaiva tapasā lokāssantaptāśca surāsurāḥ | vismayaṃto muniṃ dṛṣṭvā munayassaṃśitavratāḥ
3
नारदो वीणया लोकान्नाम्नागायन्महेशितुः । श्रावयन्त्सततं लोकान्धूतपापानथाकरोत्
nārado vīṇayā lokānnāmnāgāyanmaheśituḥ | śrāvayantsatataṃ lokāndhūtapāpānathākarot
4
हिमवच्छिखरं दृष्ट्वा जैगीषव्यमदृश्यत । वल्मीकस्यान्तरदृशा पश्यन्वै नारदो मुनिः
himavacchikharaṃ dṛṣṭvā jaigīṣavyamadṛśyata | valmīkasyāntaradṛśā paśyanvai nārado muniḥ
5
तपसातापयल्लोकान्ध्यायन्रुद्रमनन्यधीः । रुद्राध्यायार्थविज्ञानप्रवीणमनसं सदा
tapasātāpayallokāndhyāyanrudramananyadhīḥ | rudrādhyāyārthavijñānapravīṇamanasaṃ sadā
6
पृ0 15) दृष्ट्वासविस्मयोपेतो नारदस्तमभाषत । जैगीषव्य महाभाग तपसा संशितव्रत
pṛ0 15) dṛṣṭvāsavismayopeto nāradastamabhāṣata | jaigīṣavya mahābhāga tapasā saṃśitavrata
7
नारदः– त्वत्तपस्या महातीव्रा तया लोकाश्च तापिताः । किमद्य प्रार्थ्यमस्तीह तव कामस्य सत्तम
nāradaḥ– tvattapasyā mahātīvrā tayā lokāśca tāpitāḥ | kimadya prārthyamastīha tava kāmasya sattama
8
त्वादृशा नो मुनिश्रोष्ठा दृष्टावापि श्रुता मया । आकौमारब्रह्मचर्ये तवैव निरतं मनः
tvādṛśā no muniśroṣṭhā dṛṣṭāvāpi śrutā mayā | ākaumārabrahmacarye tavaiva nirataṃ manaḥ
9
ऊर्ध्वरेतास्त्वमेवासि मुनिसङ्घेषु सुव्रत । तवाद्यदर्शनाद्विप्र धन्योऽस्मि नितरां मुने
ūrdhvaretāstvamevāsi munisaṅgheṣu suvrata | tavādyadarśanādvipra dhanyo'smi nitarāṃ mune
10
तवेन्द्रब्रह्मलोकेषु वैष्णवे प्रथितं यशः । लोकपालामरास्सर्वे मुनयोतीव सुव्रताः
tavendrabrahmalokeṣu vaiṣṇave prathitaṃ yaśaḥ | lokapālāmarāssarve munayotīva suvratāḥ
11
दृष्ट्वा निष्ठान्तवात्युग्रां तथेदृक्तपसः क्रियाः । रुद्रावर्त्तनशीलस्य चोग्रविन्यस्तचेतसः
dṛṣṭvā niṣṭhāntavātyugrāṃ tathedṛktapasaḥ kriyāḥ | rudrāvarttanaśīlasya cogravinyastacetasaḥ
12
स नारदस्य वचसा जैगीषव्यो महामुनिः । स्वागतेनाभिनंद्यैनं निषीदेत्यब्रवीन्मुनिम्
sa nāradasya vacasā jaigīṣavyo mahāmuniḥ | svāgatenābhinaṃdyainaṃ niṣīdetyabravīnmunim
13
उपविष्टे नारदे तु जैगीषव्योऽमितप्रभः । उवाच तं देवमुनिं वीणासक्तकरं तदा
upaviṣṭe nārade tu jaigīṣavyo'mitaprabhaḥ | uvāca taṃ devamuniṃ vīṇāsaktakaraṃ tadā
14
जैगीषव्यः – लोकांस्त्वया सञ्चरता किं दृष्टञ्चित्रमद्भुतम् । तन्मे वद महाभाग कुशलस्सर्वसंसदि
jaigīṣavyaḥ – lokāṃstvayā sañcaratā kiṃ dṛṣṭañcitramadbhutam | tanme vada mahābhāga kuśalassarvasaṃsadi
15
त्वया नाविदितं किञ्चित्त्रिषु लोकेषु विद्यते । स जैगीषव्यवचसा प्राह तन्नारदो मुनिः
tvayā nāviditaṃ kiñcittriṣu lokeṣu vidyate | sa jaigīṣavyavacasā prāha tannārado muniḥ
16
नारदः – विष्णुलोके प्रह्मणश्च शक्रसंसदि चाप्यहम् । गच्छन्पश्यामि पुण्यानां भोक्तारो मुनयो नृपाः
nāradaḥ – viṣṇuloke prahmaṇaśca śakrasaṃsadi cāpyaham | gacchanpaśyāmi puṇyānāṃ bhoktāro munayo nṛpāḥ
17
पुण्यान्ते पतमानांश्च नानायोनिषु सत्तम । भ्रमन्तः कर्मणानेन तेजोमात्रशरीरिणः
puṇyānte patamānāṃśca nānāyoniṣu sattama | bhramantaḥ karmaṇānena tejomātraśarīriṇaḥ
18
तिरस्कृतास्त्वया देवा ब्रह्मविष्णुहरीश्वराः । येषां प्रसादतस्सर्वे स्वर्गानन्त श्रिये मुने
tiraskṛtāstvayā devā brahmaviṣṇuharīśvarāḥ | yeṣāṃ prasādatassarve svargānanta śriye mune
19
तेऽपि देवास्त्वया धूता निष्कामेनेदमद्भुतम् । कामांगनाशपादाब्जध्याननिष्कामितं मनः
te'pi devāstvayā dhūtā niṣkāmenedamadbhutam | kāmāṃganāśapādābjadhyānaniṣkāmitaṃ manaḥ
20
तवेदं मानसं दृष्ट्वा देवाश्चाश्चर्यमागताः । ब्रह्मा विष्णुस्तथा शक्रस्सर्वे च मुनयो वयम्
tavedaṃ mānasaṃ dṛṣṭvā devāścāścaryamāgatāḥ | brahmā viṣṇustathā śakrassarve ca munayo vayam
21
एष गच्छामि कैलासं नानागणनिषेवितम् । विज्ञप्तुं ते तपश्चर्यां देवदेवाय शंभवे
eṣa gacchāmi kailāsaṃ nānāgaṇaniṣevitam | vijñaptuṃ te tapaścaryāṃ devadevāya śaṃbhave
22
इत्युक्त्वोत्थित एवासौ नारदो दिव्यदर्शनः । जगामलोकानखिलान्कैलासञ्च महामुनिः
ityuktvotthita evāsau nārado divyadarśanaḥ | jagāmalokānakhilānkailāsañca mahāmuniḥ
23
नानारुद्रगणोपेतं सुरकिन्नरशोभितम् । नन्दिभृङ्गिमहाकालगणनायककोटिभिः
nānārudragaṇopetaṃ surakinnaraśobhitam | nandibhṛṅgimahākālagaṇanāyakakoṭibhiḥ
24
रुद्रैश्च रुद्रकन्याभिरप्सरोभिस्समावृतम् । हेरंबस्कन्दनन्दीश बाणचण्डीश्वरादिभिः
rudraiśca rudrakanyābhirapsarobhissamāvṛtam | heraṃbaskandanandīśa bāṇacaṇḍīśvarādibhiḥ
25
समावृतं तरुवरैर्नानापुष्पफलोपगैः । प्रफुल्लपङ्कजोत्फुल्लनीलोत्पलसरोवरैः
samāvṛtaṃ taruvarairnānāpuṣpaphalopagaiḥ | praphullapaṅkajotphullanīlotpalasarovaraiḥ
26
पृ0 16) कैलासशिखरापारसौधपंक्तीश्वरालयैः । कनत्कनकरत्नौघमौलिकुंभपताककैः
pṛ0 16) kailāsaśikharāpārasaudhapaṃktīśvarālayaiḥ | kanatkanakaratnaughamaulikuṃbhapatākakaiḥ
27
दोधूयमानैर्नितरां राजद्वृषगणैस्तदा । शुकबर्हिणनादैश्च कोकिलालापसुन्दरैः
dodhūyamānairnitarāṃ rājadvṛṣagaṇaistadā | śukabarhiṇanādaiśca kokilālāpasundaraiḥ
28
मुरजानकशङ्खादिमड्डुमद्दलवादनैः । दुन्दुभ्याघातजारावविनादितगुहामुखैः
murajānakaśaṅkhādimaḍḍumaddalavādanaiḥ | dundubhyāghātajārāvavināditaguhāmukhaiḥ
29
वीणाक्वणनशब्दैश्च गन्धर्वकृतगायनैः । मुरलीसरलीलीलाविलासाप्सरसाङ्गणैः
vīṇākvaṇanaśabdaiśca gandharvakṛtagāyanaiḥ | muralīsaralīlīlāvilāsāpsarasāṅgaṇaiḥ
30
प्रनृत्यत्किन्नरानीकशिञ्जन्मञ्जीर निस्वनैः । कैलासशिखरापारमद्राक्षीन्नारदो मुनिः
pranṛtyatkinnarānīkaśiñjanmañjīra nisvanaiḥ | kailāsaśikharāpāramadrākṣīnnārado muniḥ
31
द्वारिस्थितन्नन्दिकेशमपश्यद्वेत्रपाणिनम् । जटामकुटशोभाढ्यं त्रिपुण्ट्राङ्कितमस्तकम्
dvāristhitannandikeśamapaśyadvetrapāṇinam | jaṭāmakuṭaśobhāḍhyaṃ tripuṇṭrāṅkitamastakam
32
भस्माभ्यक्तं रुद्रगणैस्समन्तात्परिवेष्टितम् । ददर्श नयनाब्जाभ्यां तेजोराशिमिवस्थितम्
bhasmābhyaktaṃ rudragaṇaissamantātpariveṣṭitam | dadarśa nayanābjābhyāṃ tejorāśimivasthitam
33
तेनाभिप्रश्नकथनैर्नन्दितो नारदो मुनिः । उवाच द्वारि देवस्यगायन्मधुरवीणया
tenābhipraśnakathanairnandito nārado muniḥ | uvāca dvāri devasyagāyanmadhuravīṇayā
34
नामानि देवदेवस्य पावनानि महामुनिः । नंदिकेशाग्रतस्स्वैरं जगौ रुद्रानुमोदितः
nāmāni devadevasya pāvanāni mahāmuniḥ | naṃdikeśāgratassvairaṃ jagau rudrānumoditaḥ
35
नारदः – शिव शिव भव हर देवशासन नगशर पाहि दयाकटाक्षसारैः । भव भवजनितां रुजं हराशु प्रमथाधीश्वर वीर धीर पाहि
nāradaḥ – śiva śiva bhava hara devaśāsana nagaśara pāhi dayākaṭākṣasāraiḥ | bhava bhavajanitāṃ rujaṃ harāśu pramathādhīśvara vīra dhīra pāhi
36
शिव शिव दहनाब्जमित्रसोमप्रकटविलोचन कृत्तिवास शंभो । तव शिव कृपया स्मरांधकारे भव भवशमनाद्भयं नचैव
śiva śiva dahanābjamitrasomaprakaṭavilocana kṛttivāsa śaṃbho | tava śiva kṛpayā smarāṃdhakāre bhava bhavaśamanādbhayaṃ nacaiva
37
हरगिरिसुतया सदोपकण्ठ प्रबलगराशन नीलनीलकण्ठ । हृदिभवयमिनां किलोपकण्ठ प्रथितमहोरगभोगशोभिकण्ठ
haragirisutayā sadopakaṇṭha prabalagarāśana nīlanīlakaṇṭha | hṛdibhavayamināṃ kilopakaṇṭha prathitamahoragabhogaśobhikaṇṭha
38
हर हर शमनैकभीतिजातं हर हर भवजातघोरदुःखम् । हर हर पापमपाकुरुष्व शंभो हर हर मुरजित्सुपूजितांघ्रे
hara hara śamanaikabhītijātaṃ hara hara bhavajātaghoraduḥkham | hara hara pāpamapākuruṣva śaṃbho hara hara murajitsupūjitāṃghre
39
शंभो शङ्कर चन्द्रशेखर दयासारामराधीश्वर पापापारजलाब्धिशोषणमहाबाडव्यवह्ने शिव । कान्तार्धाकृतिशोभितांग कमलाकान्ताक्षिपूज्यांघ्रिक विश्वेशानविधिप्रचण्डशिरसालग्नप्रयाणे हर
śaṃbho śaṅkara candraśekhara dayāsārāmarādhīśvara pāpāpārajalābdhiśoṣaṇamahābāḍavyavahne śiva | kāntārdhākṛtiśobhitāṃga kamalākāntākṣipūjyāṃghrika viśveśānavidhipracaṇḍaśirasālagnaprayāṇe hara
40
शूलप्रोत्थितदक्षवक्षहरण त्र्यक्षामराधीश्वर पाहीमञ्जनमर्भकं तव विभो भावैकलभ्य प्रभो । पृ0 17) गानंते शृणु नारदस्य हि मुखाद्वीणाक्वणन्मञ्जुलम् भो भो देववर प्रसीद भगवन्दृष्टिं कृपायाः कुरु
śūlaprotthitadakṣavakṣaharaṇa tryakṣāmarādhīśvara pāhīmañjanamarbhakaṃ tava vibho bhāvaikalabhya prabho | pṛ0 17) gānaṃte śṛṇu nāradasya hi mukhādvīṇākvaṇanmañjulam bho bho devavara prasīda bhagavandṛṣṭiṃ kṛpāyāḥ kuru
41
गानान्ते नारदमुखाद्वीणाक्वणनमञ्जुलम् । श्रुत्वैवं नन्दिकेशाद्या गणाश्शंभोर्महात्मनः
gānānte nāradamukhādvīṇākvaṇanamañjulam | śrutvaivaṃ nandikeśādyā gaṇāśśaṃbhormahātmanaḥ
42
व्यजिज्ञिपंस्ते देवाय शङ्कराय महात्मने । प्रणम्य नन्दिकेशोऽपि पिधायास्यं करेण वै
vyajijñipaṃste devāya śaṅkarāya mahātmane | praṇamya nandikeśo'pi pidhāyāsyaṃ kareṇa vai
43
उवाच देवं वरदं प्रसन्नास्यं त्रिलोचनम्
uvāca devaṃ varadaṃ prasannāsyaṃ trilocanam
43
नंदिकेश्वरः– शंभो शङ्कर धूर्जटे त्रिणयनापारव्यथां संहर पारावारमहाप्रभाव जगतां व्यापारसारादर । त्वन्नामामृतधारया जगदिदं प्राप्तस्तवेशांतिकम् संभाव्य प्रमथाधिनाथ पदवीं द्रष्टुं पदाब्जं तव
naṃdikeśvaraḥ– śaṃbho śaṅkara dhūrjaṭe triṇayanāpāravyathāṃ saṃhara pārāvāramahāprabhāva jagatāṃ vyāpārasārādara | tvannāmāmṛtadhārayā jagadidaṃ prāptastaveśāṃtikam saṃbhāvya pramathādhinātha padavīṃ draṣṭuṃ padābjaṃ tava
44
द्वारे तिष्ठति वारितस्सहि मया किञ्चाज्ञयाशुप्रभो देवाज्ञावसरेण तं गमयितुं दिव्यं मुनिं नारदम् । त्वत्पादांबुजलोलमिष्टमनसं सर्वैर्विशिष्टान्तरम् भक्तिज्ञानविरक्तिशालिसुखितः पादौ दिदृक्षुः प्रभो
dvāre tiṣṭhati vāritassahi mayā kiñcājñayāśuprabho devājñāvasareṇa taṃ gamayituṃ divyaṃ muniṃ nāradam | tvatpādāṃbujalolamiṣṭamanasaṃ sarvairviśiṣṭāntaram bhaktijñānaviraktiśālisukhitaḥ pādau didṛkṣuḥ prabho
46
नंदिकेशवचश्श्रुत्वा कटाक्षाग्रेण शङ्करः । संज्ञां चक्रेऽखिलेशानो नारदागमनं प्रति
naṃdikeśavacaśśrutvā kaṭākṣāgreṇa śaṅkaraḥ | saṃjñāṃ cakre'khileśāno nāradāgamanaṃ prati
47
नारदोऽपि च देवेशं नत्वा तुष्टाव हर्षितः । शिपिविष्टं महादेवमष्टाकृतिमनोहरः
nārado'pi ca deveśaṃ natvā tuṣṭāva harṣitaḥ | śipiviṣṭaṃ mahādevamaṣṭākṛtimanoharaḥ
47
नारदः– जय जय देव महेश धूर्जटे जयजय विश्वविधान दक्षशिक्ष । जय जय विश्रुतवेदगीतकीर्ते जय जय भक्तजनार्पितैक भुक्ते
nāradaḥ– jaya jaya deva maheśa dhūrjaṭe jayajaya viśvavidhāna dakṣaśikṣa | jaya jaya viśrutavedagītakīrte jaya jaya bhaktajanārpitaika bhukte
48
जय जय भगवंस्तपःक्रियाणां फलदानोन्मुख पञ्चवक्त्र शंभो । तव शिव भगवन्पदाब्जयुग्ममभिपूज्य स्वहृदा तपैकराशिः
jaya jaya bhagavaṃstapaḥkriyāṇāṃ phaladānonmukha pañcavaktra śaṃbho | tava śiva bhagavanpadābjayugmamabhipūjya svahṛdā tapaikarāśiḥ
49
मुनिरास्ते हिमवन्नगोर्ध्वमौलौ तव दिव्यामृतदेहलोकनैकतर्षः । इत्थं नारदवाक्येन जातहर्षो महेश्वरः । जैगीषव्यं ययौ द्रष्टुं नानागणवरैर्वृतः
munirāste himavannagordhvamaulau tava divyāmṛtadehalokanaikatarṣaḥ | itthaṃ nāradavākyena jātaharṣo maheśvaraḥ | jaigīṣavyaṃ yayau draṣṭuṃ nānāgaṇavarairvṛtaḥ
51
आरुह्य शाक्वरं दिव्यं नानालङ्कारभूषितम् । नानागणमुखोद्गीतवाद्यवृन्दकृतारवम्
āruhya śākvaraṃ divyaṃ nānālaṅkārabhūṣitam | nānāgaṇamukhodgītavādyavṛndakṛtāravam
51
पृ0 18) छत्रचामरहस्तैश्च पताकाविधृतैर्गणैः । उमया स्कन्दहेरम्बनन्दिभृङ्गिगणावृतः
pṛ0 18) chatracāmarahastaiśca patākāvidhṛtairgaṇaiḥ | umayā skandaherambanandibhṛṅgigaṇāvṛtaḥ
53
क्षणेन हिमवन्मौलिमाजगाम महेश्वरः । मुनिभिर्गणमुख्यैश्च मन्दस्मितमनोहरः
kṣaṇena himavanmaulimājagāma maheśvaraḥ | munibhirgaṇamukhyaiśca mandasmitamanoharaḥ
54
उद्यच्छशाङ्कधवलधावल्याङ्कसमप्रभः । गङ्गातुङ्गतरङ्गौघ मौलिद्युति विराजितः
udyacchaśāṅkadhavaladhāvalyāṅkasamaprabhaḥ | gaṅgātuṅgataraṅgaugha maulidyuti virājitaḥ
54
दृष्ट्वा तं मुनिमेकाग्रमानसं स महेश्वरः । दयाकटाक्षामृतसिन्धुवर्षैर्वल्मीकभूतम्मुनिमाववर्ष । स चोत्थितो देववरं प्रणम्य तुष्टाव चाष्टाकृतिमप्रमेयम्
dṛṣṭvā taṃ munimekāgramānasaṃ sa maheśvaraḥ | dayākaṭākṣāmṛtasindhuvarṣairvalmīkabhūtammunimāvavarṣa | sa cotthito devavaraṃ praṇamya tuṣṭāva cāṣṭākṛtimaprameyam
56
जैगीषव्यः– महेश्वर महोद्धत प्रबलपापतापापह प्रपन्नजनरक्षण क्षणविशिष्टशिष्टेष्टद । विनीतजनवत्सल त्रिपुरमारसंशोषक प्रसीद दययाधुना भवदवाग्निसंशोषक
jaigīṣavyaḥ– maheśvara mahoddhata prabalapāpatāpāpaha prapannajanarakṣaṇa kṣaṇaviśiṣṭaśiṣṭeṣṭada | vinītajanavatsala tripuramārasaṃśoṣaka prasīda dayayādhunā bhavadavāgnisaṃśoṣaka
56
क्षपापतिकलाधर क्षपितपापतापापह प्रचण्डगरलाशन त्रिदशमौलिवन्द्याङ्घ्रिक । महोक्षवरवाहनाध्वरसुदक्षदक्षापह भगाक्षिहर शङ्कर प्रसभमाशु पश्य प्रभो
kṣapāpatikalādhara kṣapitapāpatāpāpaha pracaṇḍagaralāśana tridaśamaulivandyāṅghrika | mahokṣavaravāhanādhvarasudakṣadakṣāpaha bhagākṣihara śaṅkara prasabhamāśu paśya prabho
58
हरामरवरोत्तम प्रबलसौरिगर्वापह मृकण्डुतनयार्चित प्रबलशूलदग्धान्धक । फणीन्द्रमणिकङ्कणोज्वलित सूर्यसोमानलत्रिलोचन दयारसैः प्रथय वेदगीताशय
harāmaravarottama prabalasaurigarvāpaha mṛkaṇḍutanayārcita prabalaśūladagdhāndhaka | phaṇīndramaṇikaṅkaṇojvalita sūryasomānalatrilocana dayārasaiḥ prathaya vedagītāśaya
59
त्रियम्बक सदाशिव त्रिदशनायकाशावस यमीन्द्रहृदयाब्जगोच्चलितमड्डुनादप्रिय । सुकृत्तिवसनामलोच्छवसितभोगिभोगप्रिय प्रसीद मयि देव भोर्मुरहराब्जनेत्राङ्घ्रिक
triyambaka sadāśiva tridaśanāyakāśāvasa yamīndrahṛdayābjagoccalitamaḍḍunādapriya | sukṛttivasanāmalocchavasitabhogibhogapriya prasīda mayi deva bhormuraharābjanetrāṅghrika
60
रमारमणसायक प्रबलमेरुसद्धन्वक महीवररथाङ्गकविधृतसोमपूषात्मक । तुरङ्गनिगमाव्यय विधिसुयन्तरीक्षस्व मां दयारसदृशानया मदनकायनाशादर
ramāramaṇasāyaka prabalamerusaddhanvaka mahīvararathāṅgakavidhṛtasomapūṣātmaka | turaṅganigamāvyaya vidhisuyantarīkṣasva māṃ dayārasadṛśānayā madanakāyanāśādara
61
जैगीषव्यस्तुतिं श्रुत्वा सन्तुष्टःप्राह शङ्करः । प्राञ्जलिं विनयोपेतं मुनिं वीक्ष्य स्मरार्दनः
jaigīṣavyastutiṃ śrutvā santuṣṭaḥprāha śaṅkaraḥ | prāñjaliṃ vinayopetaṃ muniṃ vīkṣya smarārdanaḥ
60
ईश्वरः– त्वंधूर्जटिप्रेमरसो मुमुक्षुर्मोक्षैकतानश्श्रुतिशेखरान्तः । त्वमूर्ध्वरेता मम सुप्रसादभाक्त्वं सारभूतोऽसि मुनीश्वराणाम्
īśvaraḥ– tvaṃdhūrjaṭipremaraso mumukṣurmokṣaikatānaśśrutiśekharāntaḥ | tvamūrdhvaretā mama suprasādabhāktvaṃ sārabhūto'si munīśvarāṇām
61
विगलितमदमानलोभमोहः प्रशमितवृत्तिरुमेशतर्षचेताः । धृतभसितवरो वराक्षमालश्श्रुतिमूर्धन्यमनोर्विचार शूरः
vigalitamadamānalobhamohaḥ praśamitavṛttirumeśatarṣacetāḥ | dhṛtabhasitavaro varākṣamālaśśrutimūrdhanyamanorvicāra śūraḥ
śrīśivarahasye prathamāṃśe jaigīṣavyāgamanannāma ṣaṣṭho'dhyāyaḥ 6
1
पृ0 19) जैगीषव्यः– त्वमेव देवदेवेश पिता माता सखा प्रभुः । त्वमेव सर्वं देवेश विश्वेश्वर महेश्वर
pṛ0 19) jaigīṣavyaḥ– tvameva devadeveśa pitā mātā sakhā prabhuḥ | tvameva sarvaṃ deveśa viśveśvara maheśvara
2
नजाने गिरिजाजाने त्वत्तोह्यन्यं सुरेश्वर । तस्मात्प्रसीद भगवन् करुणासागराधुना
najāne girijājāne tvattohyanyaṃ sureśvara | tasmātprasīda bhagavan karuṇāsāgarādhunā
3
प्रपन्नोऽस्मि पदद्वन्द्वं निर्द्वन्द्वं ते महेश्वर । भ्रातरौ स्कन्दहेरम्बौ सखायो गणपा मम
prapanno'smi padadvandvaṃ nirdvandvaṃ te maheśvara | bhrātarau skandaherambau sakhāyo gaṇapā mama
4
जगतां जननी गौरी जनित्री मम शङ्करी । जगत्पिता त्वमेवेश पिता मम महेश्वर
jagatāṃ jananī gaurī janitrī mama śaṅkarī | jagatpitā tvameveśa pitā mama maheśvara
5
नान्यं वरं वृणे देव त्वत्पादाम्बुजभक्तितः । सैव धर्मार्थकामादिमोक्षहेतुर्मममाधुना
nānyaṃ varaṃ vṛṇe deva tvatpādāmbujabhaktitaḥ | saiva dharmārthakāmādimokṣaheturmamamādhunā
6
यया भक्त्या महादेव मुक्तास्सर्वे सुरासुराः । त्वद्भक्त एव जगतिमुक्तोऽन्यान्मोचयत्यपि
yayā bhaktyā mahādeva muktāssarve surāsurāḥ | tvadbhakta eva jagatimukto'nyānmocayatyapi
7
त्वद्भक्त्यैव विधिर्विश्वं सृजत्येव महेश्वर । त्वत्तो वेदानधिगतस्सत्यलोकाधिपोऽभवत्
tvadbhaktyaiva vidhirviśvaṃ sṛjatyeva maheśvara | tvatto vedānadhigatassatyalokādhipo'bhavat
8
विष्णुस्तव पदद्वन्द्वं नेत्राब्जेन समर्चयन् । दैत्यबृन्दैकसंहत्यै चक्रं प्राप सुदर्शनम्
viṣṇustava padadvandvaṃ netrābjena samarcayan | daityabṛndaikasaṃhatyai cakraṃ prāpa sudarśanam
9
त्वद्भक्त्यैव विरूपाक्ष वैकुण्ठस्याधिपोऽभवत् । पद्मसद्मापतिश्चापि जातो रुद्रस्त्वदाश्रयात्
tvadbhaktyaiva virūpākṣa vaikuṇṭhasyādhipo'bhavat | padmasadmāpatiścāpi jāto rudrastvadāśrayāt
10
दत्वा शूलवरं तस्मै रुद्रायामिततेजसे । रुद्राणामाधिपत्ये च त्वया सोऽप्यभिषेचितः
datvā śūlavaraṃ tasmai rudrāyāmitatejase | rudrāṇāmādhipatye ca tvayā so'pyabhiṣecitaḥ
11
यस्य शूलानलज्वालादग्धमन्ते चराचरम् । शक्रोऽमरेन्द्रतां प्राप्तस्त्वद्भक्त्यैव हराधुना
yasya śūlānalajvālādagdhamante carācaram | śakro'marendratāṃ prāptastvadbhaktyaiva harādhunā
12
शचीपतित्वं संप्राप नानास्वर्गैकभोगभाक् । धनाधिपत्वन्धनदस्त्वद्भक्त्यैव महेश्वर
śacīpatitvaṃ saṃprāpa nānāsvargaikabhogabhāk | dhanādhipatvandhanadastvadbhaktyaiva maheśvara
13
यमोऽपि त्वत्पदार्चातो लोकपालोऽभवच्छिव । वरुणोयादसान्नाथस्सूर्यचन्द्रानिलानलाः
yamo'pi tvatpadārcāto lokapālo'bhavacchiva | varuṇoyādasānnāthassūryacandrānilānalāḥ
14
त्वद्भक्त्यैव विरूपाक्ष लेभिरे दिक्पतित्वताम् । समर्चयन्ति त्वल्लिङ्गंभक्त्या सर्वे सुरासुराः
tvadbhaktyaiva virūpākṣa lebhire dikpatitvatām | samarcayanti tvalliṅgaṃbhaktyā sarve surāsurāḥ
15
सहस्रभुजतां प्राप्तो बाणो भक्त्या तवेश्वर । पौलस्त्यतनयश्शम्भो रावणो लोकरावणः
sahasrabhujatāṃ prāpto bāṇo bhaktyā taveśvara | paulastyatanayaśśambho rāvaṇo lokarāvaṇaḥ
16
जिग्ये सुरान्नृपवरांस्त्वद्भक्त्यैव महेश्वर । घटोद्भवेन त्वद्भक्त्या समुद्राश्चुलुकीकृताः
jigye surānnṛpavarāṃstvadbhaktyaiva maheśvara | ghaṭodbhavena tvadbhaktyā samudrāśculukīkṛtāḥ
17
दधीचिनापित्वद्भक्त्याविष्णवे रूपमद्भुतम् । दर्शितं मायिने शम्भो भृगुणाशापितोहरिः
dadhīcināpitvadbhaktyāviṣṇave rūpamadbhutam | darśitaṃ māyine śambho bhṛguṇāśāpitohariḥ
18
उपमन्युनाचबालेनलब्धःक्षीरैकवारिधिः । त्वद्भक्त्याकालपाशैश्च पाशितोऽपि मृकण्डुजः
upamanyunācabālenalabdhaḥkṣīraikavāridhiḥ | tvadbhaktyākālapāśaiśca pāśito'pi mṛkaṇḍujaḥ
19
जिगाय मृत्युं तरसा श्वेतोऽपि नृपनन्दनः । शिलाशनेन त्वद्भक्त्या पुत्रः प्राप्तोह्ययोनिजः
jigāya mṛtyuṃ tarasā śveto'pi nṛpanandanaḥ | śilāśanena tvadbhaktyā putraḥ prāptohyayonijaḥ
20
त्वद्भक्त्यानन्दिकेशोऽपि गाणापत्यमवाप्तवान् । चण्डीश्वरोऽपि पितरंहतवांस्तव भक्तितः
tvadbhaktyānandikeśo'pi gāṇāpatyamavāptavān | caṇḍīśvaro'pi pitaraṃhatavāṃstava bhaktitaḥ
21
मङ्कणोऽपि पुरासिद्धस्सिद्धिं प्रापत्वदर्चनात् । सोमोऽपि मुक्तवान्राजयक्ष्मतस्त्वत्प्रसादतः
maṅkaṇo'pi purāsiddhassiddhiṃ prāpatvadarcanāt | somo'pi muktavānrājayakṣmatastvatprasādataḥ
22
दक्षोऽपि दीक्षितो यज्ञे शिक्षितोऽनुग्रहीकृतः । शतर्चनादयोऽपीशव्याघ्रपादादयस्तथा
dakṣo'pi dīkṣito yajñe śikṣito'nugrahīkṛtaḥ | śatarcanādayo'pīśavyāghrapādādayastathā
23
पृ0 20) दूर्वासाद्या महाभागा दत्तात्रेयादयस्तथा । रामोऽपि भार्गवश्शम्भो नृपाणां कुलघातकः
pṛ0 20) dūrvāsādyā mahābhāgā dattātreyādayastathā | rāmo'pi bhārgavaśśambho nṛpāṇāṃ kulaghātakaḥ
24
तथैवान्ये नृपतयस्सोमसूर्यान्वयोद्भवाः । आदितेयाश्च दितिजा गणा रुद्रा मुनीश्वराः
tathaivānye nṛpatayassomasūryānvayodbhavāḥ | āditeyāśca ditijā gaṇā rudrā munīśvarāḥ
25
भूता भव्या वर्तमाना भक्तास्त्वद्भक्तिभाविताः । तव भक्त्यैव सर्वेषां स्वर्गमोक्षौ हि शङ्कर
bhūtā bhavyā vartamānā bhaktāstvadbhaktibhāvitāḥ | tava bhaktyaiva sarveṣāṃ svargamokṣau hi śaṅkara
26
त्वद्भक्तिमेव याचेऽहं त्वनन्यगतिरीश्वर । हिमाद्रौ स्थापिते लिङ्गे जैगीषव्येश्वराभिधे
tvadbhaktimeva yāce'haṃ tvananyagatirīśvara | himādrau sthāpite liṅge jaigīṣavyeśvarābhidhe
27
केदारात्पश्चिमे भागे तस्मिन्नित्यं त्वमावस
kedārātpaścime bhāge tasminnityaṃ tvamāvasa
28
सूतः– इत्युक्तो मुनिना तेन महादेवो गिरीन्द्रजाम् । सुराणाञ्च मुनीनाञ्च शृण्वतां प्राहशङ्करः
sūtaḥ– ityukto muninā tena mahādevo girīndrajām | surāṇāñca munīnāñca śṛṇvatāṃ prāhaśaṅkaraḥ
29
ईश्वरः– कथामाकर्णयापर्णे कर्णाभ्यर्णविलोचने । तूर्णं पूर्णपदप्राप्त्यै भवार्णवनिवासिनाम्
īśvaraḥ– kathāmākarṇayāparṇe karṇābhyarṇavilocane | tūrṇaṃ pūrṇapadaprāptyai bhavārṇavanivāsinām
30
कृतलिङ्गमहासद्म पद्मसद्मापि सद्मगा । तेषां नित्यं भवेदेव यैर्वाकारि शिवालयः
kṛtaliṅgamahāsadma padmasadmāpi sadmagā | teṣāṃ nityaṃ bhavedeva yairvākāri śivālayaḥ
31
तपांसि तेन तप्तानि जीर्णपर्णाशनान्मुने । तेनेष्टास्सकला यागास्तेनाधीतं श्रुतं शिवे
tapāṃsi tena taptāni jīrṇaparṇāśanānmune | teneṣṭāssakalā yāgāstenādhītaṃ śrutaṃ śive
32
केदाराख्यं त्वत्पितुर्मौलिसंस्थं लिङ्गञ्चैतत्सर्वदा मुक्तिबीजम् । केदारेऽस्मिंस्त्वत्पितुश्चारुमौलौ भूमानन्दञ्चाङ्कुरं तच्चमुक्त्याः
kedārākhyaṃ tvatpiturmaulisaṃsthaṃ liṅgañcaitatsarvadā muktibījam | kedāre'smiṃstvatpituścārumaulau bhūmānandañcāṅkuraṃ taccamuktyāḥ
33
एतल्लिङ्गात्पश्चिमे चामुना मे नाम्ना स्वेनाप्यर्चितं पश्य लिङ्गम् । प्रतिष्ठिते येन केनापि लिङ्गे तिष्ठामीशे सर्वथैवातितुष्टः
etalliṅgātpaścime cāmunā me nāmnā svenāpyarcitaṃ paśya liṅgam | pratiṣṭhite yena kenāpi liṅge tiṣṭhāmīśe sarvathaivātituṣṭaḥ
34
तस्मिंत्सदैवावहितो भवामि भवानि नित्यं सुखदोऽतिहर्षदः । भवानि मुक्त्यै प्रथिते प्रदोषे प्रकाशने पूजनभावनेऽपि
tasmiṃtsadaivāvahito bhavāmi bhavāni nityaṃ sukhado'tiharṣadaḥ | bhavāni muktyai prathite pradoṣe prakāśane pūjanabhāvane'pi
35
समानचित्तोऽर्चनकृद्विभाति नरो वरो मे स वरोचितस्स्यात् । यः कश्चिद्भुवनेश्वरि त्रिभुवने चोत्तुङ्गलिङ्गालयं रम्यं द्वारकवाटतोरणमहाप्राकारसद्गोपुरम् । विद्युत्पुञ्जसमप्रभामलमहाहेमैककुम्भोल्लस- त्कृत्वा जन्मशतार्जिताखिलमहापापैर्नरो मुच्यते
samānacitto'rcanakṛdvibhāti naro varo me sa varocitassyāt | yaḥ kaścidbhuvaneśvari tribhuvane cottuṅgaliṅgālayaṃ ramyaṃ dvārakavāṭatoraṇamahāprākārasadgopuram | vidyutpuñjasamaprabhāmalamahāhemaikakumbhollasa- tkṛtvā janmaśatārjitākhilamahāpāpairnaro mucyate
36
रम्ये शैलवरे सरित्तटवरे ग्रामे पुरे पर्वते तीर्थे वापि वने गिरीन्द्रवरजे गङ्गातटे नार्मदे । तीरे वापि वने गिरीन्द्रवरजे गङ्गातटे नार्मदे । पृ0 21) तीरे वापि महेश्चरेश्चरि महाक्षेत्रेषु लिङ्गं दध- त्सर्वत्रापि शुचौ शुचिस्समहिमा तस्यातिपारो दिवि
ramye śailavare sarittaṭavare grāme pure parvate tīrthe vāpi vane girīndravaraje gaṅgātaṭe nārmade | tīre vāpi vane girīndravaraje gaṅgātaṭe nārmade | pṛ0 21) tīre vāpi maheścareścari mahākṣetreṣu liṅgaṃ dadha- tsarvatrāpi śucau śucissamahimā tasyātipāro divi
37
अढ्योवापि दरिद्रशेखरनरोभक्तिः परं कारण- ङ्कृत्वा चापि शिवालयं सुखयुतो भूमौ विमुक्तस्ततः । मृद्दारुप्रभवं शिलेष्टककृतं रम्यं सुधाच्छादितं दिव्यं सन्मणिकल्पितं भवहरं सद्यो विजायेत मे
aḍhyovāpi daridraśekharanarobhaktiḥ paraṃ kāraṇa- ṅkṛtvā cāpi śivālayaṃ sukhayuto bhūmau vimuktastataḥ | mṛddāruprabhavaṃ śileṣṭakakṛtaṃ ramyaṃ sudhācchāditaṃ divyaṃ sanmaṇikalpitaṃ bhavaharaṃ sadyo vijāyeta me
38
कॢप्तं चारुशिवालयोत्तमलसत्तुङ्गं हि लिङ्गम्मम प्रातिष्ठाप्य सुवस्त्रचन्दनघनासारैश्च बिल्वार्चकः । किं मत्तेभसुहेमभूमितुरगैर्गोभिश्च रत्नोद्भवै- र्दानैर्यागवरैश्चिरार्जितमहाधर्मैश्च किं वा शिवे
kḷptaṃ cāruśivālayottamalasattuṅgaṃ hi liṅgammama prātiṣṭhāpya suvastracandanaghanāsāraiśca bilvārcakaḥ | kiṃ mattebhasuhemabhūmituragairgobhiśca ratnodbhavai- rdānairyāgavaraiścirārjitamahādharmaiśca kiṃ vā śive
39
योगैर्वा नियमैर्व्रतेन तपसा तीर्थाटनेनापि किं कन्यान्नादिकदानतोऽपि हि वरं लिङ्गालयं यैः कृतम् । पातान्तावधिसुन्दरं कृतमहाधर्मैकजालं शिवे मल्लिङ्गालयकल्पकस्य सुतरां पाताद्भयन्नास्ति वै
yogairvā niyamairvratena tapasā tīrthāṭanenāpi kiṃ kanyānnādikadānato'pi hi varaṃ liṅgālayaṃ yaiḥ kṛtam | pātāntāvadhisundaraṃ kṛtamahādharmaikajālaṃ śive malliṅgālayakalpakasya sutarāṃ pātādbhayannāsti vai
40
यावच्चन्द्रसुतारकागणमुमे यावत्सरिच्छैलका- स्तावन्मे गणपोत्तमो हि स भवेत्कैलासमौलौ मम । खण्डं वा स्फुटितं तथा परकृतं जीर्णं विशीर्णं तथा तस्योद्धारमुमे करोति सुकृतैर्यश्श्रद्धया केवलम्
yāvaccandrasutārakāgaṇamume yāvatsaricchailakā- stāvanme gaṇapottamo hi sa bhavetkailāsamaulau mama | khaṇḍaṃ vā sphuṭitaṃ tathā parakṛtaṃ jīrṇaṃ viśīrṇaṃ tathā tasyoddhāramume karoti sukṛtairyaśśraddhayā kevalam
41
किं वक्ष्यामि सदैव तस्य हृदये नित्यं निवासो मम तस्यान्ते वितरामि मुक्तिमतुलां वक्ष्ये रहस्यन्तव । को वा लिङ्गवरं प्रदोषसमये येनार्चि बिल्वैश्शुभै- रेवञ्चापि चराचरं त्रिभुवनाभ्यध्यक्षतामावहेत्
kiṃ vakṣyāmi sadaiva tasya hṛdaye nityaṃ nivāso mama tasyānte vitarāmi muktimatulāṃ vakṣye rahasyantava | ko vā liṅgavaraṃ pradoṣasamaye yenārci bilvaiśśubhai- revañcāpi carācaraṃ tribhuvanābhyadhyakṣatāmāvahet
42
भूमौ पुत्रकलत्रमित्रसहितो धान्यैर्धनैस्संयुत- श्चान्ते चापि विमुक्तिमेति नितरां लिङ्गार्चनादेव मे । पृ0 22) तैलैर्वा विविधैर्घृतैः पशुभवैर्गव्येन वा केवलं चोद्बोध्योज्वलदीपजालमगजे कृत्वैव दीपावलिम्
bhūmau putrakalatramitrasahito dhānyairdhanaissaṃyuta- ścānte cāpi vimuktimeti nitarāṃ liṅgārcanādeva me | pṛ0 22) tailairvā vividhairghṛtaiḥ paśubhavairgavyena vā kevalaṃ codbodhyojvaladīpajālamagaje kṛtvaiva dīpāvalim
43
पद्मे भोत्तमहंसतारकगणाकारावलिं मद्गृहे रम्यामुज्वलवर्तिकामघकुलं ज्वालीकृतं तेन वै । धूपैर्वा त्वगरूद्भवैरपि महासाम्राणिसद्गुग्गुलू- बिल्वत्वत्कृतयुक्तगन्धसुभगामोदैश्शिवे केवलम्
padme bhottamahaṃsatārakagaṇākārāvaliṃ madgṛhe ramyāmujvalavartikāmaghakulaṃ jvālīkṛtaṃ tena vai | dhūpairvā tvagarūdbhavairapi mahāsāmrāṇisadguggulū- bilvatvatkṛtayuktagandhasubhagāmodaiśśive kevalam
44
दग्ध्वा याति पदं मम त्वघकुलं सर्वं कृतार्थो भवे- ज्ज्ञानञ्चापि समाप्नुयात्सुनिशितं वेदान्तवाक्योद्भवम् । कर्पूरोद्भवखण्डषण्डजमहाज्वालालसद्दीपकै- रुज्वाल्य प्रमथाधिनाथजमालिङ्गेतमोलिं भिनत्
dagdhvā yāti padaṃ mama tvaghakulaṃ sarvaṃ kṛtārtho bhave- jjñānañcāpi samāpnuyātsuniśitaṃ vedāntavākyodbhavam | karpūrodbhavakhaṇḍaṣaṇḍajamahājvālālasaddīpakai- rujvālya pramathādhināthajamāliṅgetamoliṃ bhinat
45
पापाद्रेः कुलिशं भवत्यथ शिवे तद्दीपदाने मयि प्राप्नोत्येव कुलोन्नतिं वरसुतान्प्राप्नोति शम्भोः पदम् । गव्यैः कापिलजैस्तथेतरगवां सारैः पयोभिर्घृतै- र्दध्ना चाप्यधिकं फलेन शतशः क्षौद्रेण चाक्षुद्रताम्
pāpādreḥ kuliśaṃ bhavatyatha śive taddīpadāne mayi prāpnotyeva kulonnatiṃ varasutānprāpnoti śambhoḥ padam | gavyaiḥ kāpilajaistathetaragavāṃ sāraiḥ payobhirghṛtai- rdadhnā cāpyadhikaṃ phalena śataśaḥ kṣaudreṇa cākṣudratām
46
प्राप्नोतीक्षुरसेन गन्धसलिलैः पुष्पोत्थरत्नोदकै- स्स्वर्णोत्थैरभिषिच्य लिङ्गममलं प्राप्नोति मुक्तिं शिवे । पुण्ट्रेक्षुप्रभवैश्च सद्रसवरैर्मोचाफलानां गणै- र्नारेलांबुरसालसारजरसैर्जंबीरनीरैरपि
prāpnotīkṣurasena gandhasalilaiḥ puṣpottharatnodakai- ssvarṇotthairabhiṣicya liṅgamamalaṃ prāpnoti muktiṃ śive | puṇṭrekṣuprabhavaiśca sadrasavarairmocāphalānāṃ gaṇai- rnārelāṃburasālasārajarasairjaṃbīranīrairapi
47
उत्कोचैः पनसोद्भवैर्मम महालिङ्गेऽभिषिच्यादरा- त्प्रातस्सङ्गवकालतोऽप्यतितरां सायं विमुक्तो भवेत् । भक्तेषु प्रवरो ममैव सदने सद्गोत्रजोऽसौनरो भुक्त्वा सर्वसुखं भुवि प्रियतमो यात्येव देवि प्रिये
utkocaiḥ panasodbhavairmama mahāliṅge'bhiṣicyādarā- tprātassaṅgavakālato'pyatitarāṃ sāyaṃ vimukto bhavet | bhakteṣu pravaro mamaiva sadane sadgotrajo'saunaro bhuktvā sarvasukhaṃ bhuvi priyatamo yātyeva devi priye
48
ग्रीष्मर्तौ मम लिंगसङ्गतमहामौलौ गलन्ती झरी- धारासारसुपाटलागरुरसैः पुष्पांबुभिः पूरितैः । पृ0 23) धाराकल्पनजेन यत्फलमुमे तत्केन वा शक्यते वक्तुं जन्मशतायुतार्जितमहापापैर्विमुक्तो भवेत्
grīṣmartau mama liṃgasaṅgatamahāmaulau galantī jharī- dhārāsārasupāṭalāgarurasaiḥ puṣpāṃbubhiḥ pūritaiḥ | pṛ0 23) dhārākalpanajena yatphalamume tatkena vā śakyate vaktuṃ janmaśatāyutārjitamahāpāpairvimukto bhavet
49
उत्फुल्लैः कमलैस्सितासितवरैस्सन्मल्लिकमालती- जाजीकुन्दसुपाटलैर्बकमहाधुर्तूरद्रोणार्ककैः । कल्हारैः कुमुदैर्जपादमनकैरुत्फुल्लदाडिम्बकैः पुन्नागार्जुनचम्पकैर्बकुलकैर्मन्दारवाल्हातकैः
utphullaiḥ kamalaissitāsitavaraissanmallikamālatī- jājīkundasupāṭalairbakamahādhurtūradroṇārkakaiḥ | kalhāraiḥ kumudairjapādamanakairutphulladāḍimbakaiḥ punnāgārjunacampakairbakulakairmandāravālhātakaiḥ
50
नीलोद्यद्विकचोत्पलैः कुरवकैस्सत्कर्णिकारैश्शिवं नन्द्यावर्तशिरीषबिल्वकुसुमैरक्ताश्वसारैश्शिवैः । जंब्वाम्रैश्च पलाशकैश्शमिसुमैर्दूर्वापमार्गादिभि- र्विष्णुक्रान्तकुशैश्च काशजनितैरभ्यर्च्य मुक्तोऽम्बिंके
nīlodyadvikacotpalaiḥ kuravakaissatkarṇikāraiśśivaṃ nandyāvartaśirīṣabilvakusumairaktāśvasāraiśśivaiḥ | jaṃbvāmraiśca palāśakaiśśamisumairdūrvāpamārgādibhi- rviṣṇukrāntakuśaiśca kāśajanitairabhyarcya mukto'mbiṃke
51
प्राप्नोतीष्टमहेतुकं भगवतश्शम्भोः कटाक्षाङ्कुरै- र्लिङ्गे पुण्यतमे प्रदोषसमये पुण्येषु कालेष्वपि । मौद्गल्योऽथ शतर्चनात्रिभृगवो धौम्याग्रजो गौतमो मार्कण्डेयदधीचिगर्ग उशना मुञ्जो करिश्शौनकः
prāpnotīṣṭamahetukaṃ bhagavataśśambhoḥ kaṭākṣāṅkurai- rliṅge puṇyatame pradoṣasamaye puṇyeṣu kāleṣvapi | maudgalyo'tha śatarcanātribhṛgavo dhaumyāgrajo gautamo mārkaṇḍeyadadhīcigarga uśanā muñjo kariśśaunakaḥ
52
दूर्वासा जमदग्निजोङ्गिरवरा दत्तात्रिजो व्याघ्रपा- ज्जाबालिश्च दधीचिमित्रजनितः कुंभोद्भवश्शैलजे । देवेषु प्रथितो विधिश्च मुरभिच्छक्रोऽर्यमाग्निर्मरु- त्पाशी यक्षपतिर्यमोऽथ निऋतिश्चेशानमुख्या गणाः
dūrvāsā jamadagnijoṅgiravarā dattātrijo vyāghrapā- jjābāliśca dadhīcimitrajanitaḥ kuṃbhodbhavaśśailaje | deveṣu prathito vidhiśca murabhicchakro'ryamāgnirmaru- tpāśī yakṣapatiryamo'tha niṛtiśceśānamukhyā gaṇāḥ
53
स्कन्दश्चेभजवक्त्रको गणवरो नन्दीशभृङ्गीश्वरा- स्तण्डुश्चण्डिरिटी सुभद्रकवरो वीरो महाभैरवः । शैवेन्द्रा भसितत्रिपुण्ट्रनिटिला रुद्राक्षमालाङ्गदा रुद्रावर्तनलोलशीलमनसो लिङ्गार्चका मे शिवे
skandaścebhajavaktrako gaṇavaro nandīśabhṛṅgīśvarā- staṇḍuścaṇḍiriṭī subhadrakavaro vīro mahābhairavaḥ | śaivendrā bhasitatripuṇṭraniṭilā rudrākṣamālāṅgadā rudrāvartanalolaśīlamanaso liṅgārcakā me śive
54
अन्येऽमी मुनयो ग्रहाश्रमरताश्श्रान्ताः परं संसृते- र्नानादैवतपूजनेन कुधियो जानन्ति नो मां शिवे । पृ0 24) कानीनस्त्वयमप्युमे विधिवशात्संप्राप्य मे काशिकां मत्सान्निध्यगतोर्ध्वबाहुरसकृद्व्याचष्ट दैवं हरिम्
anye'mī munayo grahāśramaratāśśrāntāḥ paraṃ saṃsṛte- rnānādaivatapūjanena kudhiyo jānanti no māṃ śive | pṛ0 24) kānīnastvayamapyume vidhivaśātsaṃprāpya me kāśikāṃ matsānnidhyagatordhvabāhurasakṛdvyācaṣṭa daivaṃ harim
55
तस्मान्नार्हति वक्तुमप्यतितरां श्रोतुं मदीयं रहः पुण्यंमुक्तिरहस्यमेतदनघं शिष्येषु पात्रेष्वहो । त्वं सम्यक्प्रतिपादयाशु भसितोद्धूलेषु मत्प्रेमजा- पारावारमहांबुमग्नमनसां पुण्येषु शैवेषु च
tasmānnārhati vaktumapyatitarāṃ śrotuṃ madīyaṃ rahaḥ puṇyaṃmuktirahasyametadanaghaṃ śiṣyeṣu pātreṣvaho | tvaṃ samyakpratipādayāśu bhasitoddhūleṣu matpremajā- pārāvāramahāṃbumagnamanasāṃ puṇyeṣu śaiveṣu ca
56
जैगीषव्यमुनीन्द्र दापय परं शैवं रहस्यं मम नाख्येयं शिवभक्तिवर्जितमुनौ पुण्यन्त्विदं मुक्तिदम् । दत्वा भक्तिविहीनमानववरे पापं महत्प्राप्नुया- त्किञ्चाप्नोति वृधाश्रमं सुनिशितं पात्रे यथा मे जलम्
jaigīṣavyamunīndra dāpaya paraṃ śaivaṃ rahasyaṃ mama nākhyeyaṃ śivabhaktivarjitamunau puṇyantvidaṃ muktidam | datvā bhaktivihīnamānavavare pāpaṃ mahatprāpnuyā- tkiñcāpnoti vṛdhāśramaṃ suniśitaṃ pātre yathā me jalam
57
प्राज्ञा ज्ञानकलाप्तये सुमनसो वेदान्तशिक्षारता- श्शान्ताश्शान्ततरेन्द्रियाश्च जनतापारभ्रमासंभ्रमाः । ये ये भक्तवरा ममेश्वरि वरैः पाल्यास्सदा ते त्वया
prājñā jñānakalāptaye sumanaso vedāntaśikṣāratā- śśāntāśśāntatarendriyāśca janatāpārabhramāsaṃbhramāḥ | ye ye bhaktavarā mameśvari varaiḥ pālyāssadā te tvayā
58
सूतः– देव्या दृष्ट्वा मुखाब्जं त्रिणयननयनानन्दसन्दोहबीज- ञ्चोत्फुल्लामलकैरवोपममुखश्श्रीपार्वतीनायकः । दृष्ट्वाचापि मुनिं विशिष्टमनसं शिष्टातिशिष्टन्तदा चाष्टांगाखिलयोगजालनिकरैः पूतैकसन्मानसः
sūtaḥ– devyā dṛṣṭvā mukhābjaṃ triṇayananayanānandasandohabīja- ñcotphullāmalakairavopamamukhaśśrīpārvatīnāyakaḥ | dṛṣṭvācāpi muniṃ viśiṣṭamanasaṃ śiṣṭātiśiṣṭantadā cāṣṭāṃgākhilayogajālanikaraiḥ pūtaikasanmānasaḥ
59
ईश्वरः– पूतोऽयं भुवनेश्वरि त्रिजगतामीशो मुनिश्शाङ्करः पुत्रस्ते निखिलागमैकरसिको भूयात्त्वयाऽऽलोकितः । संप्रत्येष तवाननाब्जविकसत्सूर्यस्य षड्वक्त्रतः प्राप्नोतु प्रसभं मदीयमहसां सारं जगत्पावनम्
īśvaraḥ– pūto'yaṃ bhuvaneśvari trijagatāmīśo muniśśāṅkaraḥ putraste nikhilāgamaikarasiko bhūyāttvayā''lokitaḥ | saṃpratyeṣa tavānanābjavikasatsūryasya ṣaḍvaktrataḥ prāpnotu prasabhaṃ madīyamahasāṃ sāraṃ jagatpāvanam
60
पृ0 25) स्कन्दस्स्कन्दिततारकस्तव शिवे पर्यङ्कभूताङ्कक- श्शुश्रावाखिलमंगलं त्वयि मया संप्रोक्तमेतच्छ्रुभम् । षड्भिस्स्वैर्वदनच्युतामृतरसैः पुष्णातु चैनं मुनिं शैवैरद्य रहस्यसम्भवकथाधारासुधाशीकरैः
pṛ0 25) skandasskanditatārakastava śive paryaṅkabhūtāṅkaka- śśuśrāvākhilamaṃgalaṃ tvayi mayā saṃproktametacchrubham | ṣaḍbhissvairvadanacyutāmṛtarasaiḥ puṣṇātu cainaṃ muniṃ śaivairadya rahasyasambhavakathādhārāsudhāśīkaraiḥ
61
जैगीषव्यमुखाब्जतो मुनिवराश्शृण्वन्तु शैवं रह- श्शैवा एव भवन्ति तच्छतमहानन्दैकबोधास्सदा । नान्येषाम्मतिरस्ति शङ्करकथापीयूषपानोत्सवे भक्त्युत्थामृतपानपीनमनसो देवि स्फुटं केचन
jaigīṣavyamukhābjato munivarāśśṛṇvantu śaivaṃ raha- śśaivā eva bhavanti tacchatamahānandaikabodhāssadā | nānyeṣāmmatirasti śaṅkarakathāpīyūṣapānotsave bhaktyutthāmṛtapānapīnamanaso devi sphuṭaṃ kecana
62
वेदान्तार्थविचारसारसुगमं शैवं रहस्यं मया देव्यै दत्तमतस्तया बलवता स्नेहेन दत्तं मुने । स्कन्दायासुरशिक्षकाय दद तां गच्छाधुना तं प्रती- त्युक्तोऽसौ गिरिजामनोहरवचश्श्रुत्वा मुनिर्निर्ययौ
vedāntārthavicārasārasugamaṃ śaivaṃ rahasyaṃ mayā devyai dattamatastayā balavatā snehena dattaṃ mune | skandāyāsuraśikṣakāya dada tāṃ gacchādhunā taṃ pratī- tyukto'sau girijāmanoharavacaśśrutvā munirniryayau
63
नत्वा शंभुपदं जगाम रभसा युक्तो मुनीन्द्रैरपि देवश्चापि मुदा ययौ पशुपतिर्देव्या सुराद्यैर्वृतः । कैलासं गणपोत्थवाद्यनिकरैर्देवैस्स्तवैस्संस्तुतो भक्तानां पुरुषार्थसाधनपरस्स्वानन्दकैस्संयुतः
natvā śaṃbhupadaṃ jagāma rabhasā yukto munīndrairapi devaścāpi mudā yayau paśupatirdevyā surādyairvṛtaḥ | kailāsaṃ gaṇapotthavādyanikarairdevaisstavaissaṃstuto bhaktānāṃ puruṣārthasādhanaparassvānandakaissaṃyutaḥ
64
इलामिलन्मौलिरथो महात्मा जैगीषविप्रोऽध्वरराजमीशं संपूज्य नत्वाभिजगामशंभुं स्कन्दाय च स्कन्दमुदार्थवेदने
ilāmilanmauliratho mahātmā jaigīṣavipro'dhvararājamīśaṃ saṃpūjya natvābhijagāmaśaṃbhuṃ skandāya ca skandamudārthavedane
śrīśivarahasye prathamāṃśe jaigīṣavya skandasamāgamonāma saptamo'dhyāyaḥ 7
1
जैगीषव्यस्कन्दसमागमो नाम सप्तमोऽध्यायः सूत उवाच– इत्युक्त्वा प्रययौ देवः कैलासं शङ्करालयम् । नन्दिभृंगिगणौघेन सुरासुरवरार्चितः
jaigīṣavyaskandasamāgamo nāma saptamo'dhyāyaḥ sūta uvāca– ityuktvā prayayau devaḥ kailāsaṃ śaṅkarālayam | nandibhṛṃgigaṇaughena surāsuravarārcitaḥ
2
जगज्जनित्र्या देव्या च महावृषभवाहनः । जैगीषव्यो मुनिर्नत्वा महादेवपदांबुजम्
jagajjanitryā devyā ca mahāvṛṣabhavāhanaḥ | jaigīṣavyo munirnatvā mahādevapadāṃbujam
3
पृ0 26) ध्यायन्नभिजगामैव स्कन्दं क्रौञ्चविदारणम् । उपाययौ मुनिवरैश्शैवेन्द्रैर्भक्तितत्परैः
pṛ0 26) dhyāyannabhijagāmaiva skandaṃ krauñcavidāraṇam | upāyayau munivaraiśśaivendrairbhaktitatparaiḥ
4
मार्कण्डेयोऽथमौद्गल्यो जमदग्निर्भृगुस्तथा । दूर्वासाश्च्य वनोगर्गो वीतहव्योऽनलाशनः
mārkaṇḍeyo'thamaudgalyo jamadagnirbhṛgustathā | dūrvāsāścya vanogargo vītahavyo'nalāśanaḥ
5
गौतमोऽत्रिर्भरद्वाजो दाल्भ्योहयशिरामनुः । उचथ्योऽग्निध्वजश्चैव दधीचिर्मौनिभार्गवः
gautamo'trirbharadvājo dālbhyohayaśirāmanuḥ | ucathyo'gnidhvajaścaiva dadhīcirmaunibhārgavaḥ
6
व्यासः पराशरोऽकुण्डः कविरंगिरसो मधुः । उपमन्युर्विशाखश्च तुहण्डः कवषोध्रुवः
vyāsaḥ parāśaro'kuṇḍaḥ kaviraṃgiraso madhuḥ | upamanyurviśākhaśca tuhaṇḍaḥ kavaṣodhruvaḥ
7
जाबालिकाश्यपौ मित्रो नारदस्तुंबुरुस्तथा । पर्वतोऽथाणिमाण्डव्यो दण्डोव्याघ्रपदोहनुः
jābālikāśyapau mitro nāradastuṃburustathā | parvato'thāṇimāṇḍavyo daṇḍovyāghrapadohanuḥ
8
वेदगर्भो वीतिहोत्रः कण्वो मेधातिथिर्धनुः । शौनकस्ताण्डकश्चैव मित्रविन्दोऽनमित्रकः
vedagarbho vītihotraḥ kaṇvo medhātithirdhanuḥ | śaunakastāṇḍakaścaiva mitravindo'namitrakaḥ
9
हयग्रीवः पिप्पलादो दत्तात्रेयोविकत्थनः । अगस्त्यश्चानिलाशश्च शतर्चा आश्वलायनः
hayagrīvaḥ pippalādo dattātreyovikatthanaḥ | agastyaścānilāśaśca śatarcā āśvalāyanaḥ
10
सनन्दस्सनकश्चैव कुमारश्च सनातनः । एवमाद्याश्च मुनयश्शैवेन्द्राश्शिवसम्मताः
sanandassanakaścaiva kumāraśca sanātanaḥ | evamādyāśca munayaśśaivendrāśśivasammatāḥ
11
अग्निरित्यादिभिर्मन्त्रैर्भस्मोद्धूलनतत्पराः । त्रियायुषैस्त्रिपुण्ट्राङ्का रुद्राक्षांगदकङ्कणाः
agnirityādibhirmantrairbhasmoddhūlanatatparāḥ | triyāyuṣaistripuṇṭrāṅkā rudrākṣāṃgadakaṅkaṇāḥ
12
पञ्चाक्षरजपासक्ताः पञ्चास्यद्ध्यानतत्पराः । अथर्वशिरसा देवं पूजयन्ति स्तुवन्ति च
pañcākṣarajapāsaktāḥ pañcāsyaddhyānatatparāḥ | atharvaśirasā devaṃ pūjayanti stuvanti ca
13
केचिच्छिखाजपासक्ताः केचित्कैवल्यजापकाः । प्रणवाभ्यासनिरताः केचिज्जाबालजापकाः
kecicchikhājapāsaktāḥ kecitkaivalyajāpakāḥ | praṇavābhyāsaniratāḥ kecijjābālajāpakāḥ
14
बृहद्रथन्तरं वामदेवसामादिजापकाः । संहिताभिस्तथा साम्नामृचाञ्च यजुषान्तथा
bṛhadrathantaraṃ vāmadevasāmādijāpakāḥ | saṃhitābhistathā sāmnāmṛcāñca yajuṣāntathā
15
रुद्राध्यायजपासक्ताः पञ्चब्रह्मपरायणाः । सर्वे लिंगार्चनपरास्त्रिकालम्मुनिसत्तमाः
rudrādhyāyajapāsaktāḥ pañcabrahmaparāyaṇāḥ | sarve liṃgārcanaparāstrikālammunisattamāḥ
16
पञ्चरुद्रजपासक्ताः पञ्चास्यद्ध्यानतत्पराः । शिव नैवेद्य भोक्तारो नियमाद्बिल्वपूजकाः
pañcarudrajapāsaktāḥ pañcāsyaddhyānatatparāḥ | śiva naivedya bhoktāro niyamādbilvapūjakāḥ
17
वैराग्यभाग्यनिरता नित्यानित्यार्थकोविदाः । वेदवेदार्थतत्वज्ञा दृढप्रज्ञामनीषिणः
vairāgyabhāgyaniratā nityānityārthakovidāḥ | vedavedārthatatvajñā dṛḍhaprajñāmanīṣiṇaḥ
18
तपसां राशयस्सर्वे सदाराश्शिवतत्पराः । शिवनामजपासक्तास्सर्वदा शिवचिन्तकाः
tapasāṃ rāśayassarve sadārāśśivatatparāḥ | śivanāmajapāsaktāssarvadā śivacintakāḥ
19
अग्निहोत्रपरास्सर्वे यज्ञाद्यैर्दग्धकिल्विषाः । शिष्यप्रशिष्यसहिता आगतास्ते नभोध्वना
agnihotraparāssarve yajñādyairdagdhakilviṣāḥ | śiṣyapraśiṣyasahitā āgatāste nabhodhvanā
20
स्कन्दाश्रमं सरस्वत्यास्तीरे पावनपावनम् । नानास्कन्दगणोपेतं देवगन्धर्वशोभितम्
skandāśramaṃ sarasvatyāstīre pāvanapāvanam | nānāskandagaṇopetaṃ devagandharvaśobhitam
21
नीलाद्रिशिखरे पुण्ये नानातरुवराश्रितम् । बर्हिनृत्तारवैश्चैव पुंस्कोकिलविनादितम्
nīlādriśikhare puṇye nānātaruvarāśritam | barhinṛttāravaiścaiva puṃskokilavināditam
22
शुकशारिकसङ्घुष्टं कपोतकृतहुङ्कृतैः । मृदंगमुरजोद्घोषैर्वीणाताललयानुगैः
śukaśārikasaṅghuṣṭaṃ kapotakṛtahuṅkṛtaiḥ | mṛdaṃgamurajodghoṣairvīṇātālalayānugaiḥ
23
प्रनृत्यत्किन्नरानीकमुत्फुल्लकमलाकरम् । स्कन्दालयमपश्यंस्ते नानारत्नविराजितम्
pranṛtyatkinnarānīkamutphullakamalākaram | skandālayamapaśyaṃste nānāratnavirājitam
24
गोपुराट्टालवलभीवप्रप्राकारशोभितम् । सुवर्णखचितानेकनवरत्नविराजितम्
gopurāṭṭālavalabhīvapraprākāraśobhitam | suvarṇakhacitānekanavaratnavirājitam
25
पर्यंकास्तरणैर्दिव्यैस्सिह्मनादवरैर्युतम् । गन्धर्वनीतबकुलैरुपेतं गीतवादनैः
paryaṃkāstaraṇairdivyaissihmanādavarairyutam | gandharvanītabakulairupetaṃ gītavādanaiḥ
26
सिह्मासनस्थं वरदं षड्वक्त्रं मुकुटोज्वलम् । हेमपीतांवरधरं चलच्चामरवीजितम्
sihmāsanasthaṃ varadaṃ ṣaḍvaktraṃ mukuṭojvalam | hemapītāṃvaradharaṃ calaccāmaravījitam
27
पृ0 27) कनत्कनकरत्नैश्च चित्रकुण्डलशोभितम् । महार्हरत्नमालादिमुक्ताहारसुकन्धरम्
pṛ0 27) kanatkanakaratnaiśca citrakuṇḍalaśobhitam | mahārharatnamālādimuktāhārasukandharam
28
शक्तिहस्तं महाशक्तेस्तनूजमतिसुन्दरम् । ददर्शुर्मुनयस्सर्वे स्कन्दं क्रौञ्चविदारणम्
śaktihastaṃ mahāśaktestanūjamatisundaram | dadarśurmunayassarve skandaṃ krauñcavidāraṇam
29
प्रणम्य जैगीषव्याद्या मुनयस्स्कन्दमव्ययम् । तेन निर्दिष्टविष्टब्धविष्टरा मुनयस्सुखम्
praṇamya jaigīṣavyādyā munayasskandamavyayam | tena nirdiṣṭaviṣṭabdhaviṣṭarā munayassukham
30
नभस्स्पृगायाति समीरगत्या भस्मावधूताखिलपापसङ्घः । शरन्नभाभः परिपूर्णचन्द्रभास्समालुलोकेऽद्रितनूभवाभम्
nabhasspṛgāyāti samīragatyā bhasmāvadhūtākhilapāpasaṅghaḥ | śarannabhābhaḥ paripūrṇacandrabhāssamāluloke'dritanūbhavābham
31
जैगीषव्यमुखाब्जलोकनमहानन्दांबुधेर्मध्यग- स्स्वस्यैवान्तिकमागतं पुरभिदा संप्रेषितं ज्ञातवान् । पात्रं वीक्ष्य महेशमित्रहृदयग्रन्थार्थसंबोधने हृष्टः पुष्टतनुः प्रकृष्टवचसामुद्बोधबोधे मुनिम्
jaigīṣavyamukhābjalokanamahānandāṃbudhermadhyaga- ssvasyaivāntikamāgataṃ purabhidā saṃpreṣitaṃ jñātavān | pātraṃ vīkṣya maheśamitrahṛdayagranthārthasaṃbodhane hṛṣṭaḥ puṣṭatanuḥ prakṛṣṭavacasāmudbodhabodhe munim
32
जैगीषव्यांगसंगस्फुटपुलकततिश्शैववर्यंषडास्यो नेत्रैर्व्यालोक्य तुष्टो भसितधवलितस्वान्तगात्रो मुनीन्द्रम् । मेनेमेनातनूजात्मजवरवरणे धारणे वीतरागम्
jaigīṣavyāṃgasaṃgasphuṭapulakatatiśśaivavaryaṃṣaḍāsyo netrairvyālokya tuṣṭo bhasitadhavalitasvāntagātro munīndram | menemenātanūjātmajavaravaraṇe dhāraṇe vītarāgam
33
स्कन्दः– त्वदागमनसंभ्रमाद्भ्रमततिः प्रणष्टा मम शिवेन कथितं पुरा शिवरहस्यधर्माभिधम् । समुद्रमिव सिन्धुभिश्शिवकथासुधावारिधौ समुल्लसति मन्मनस्तदपि बोधहेतुस्त्वयि
skandaḥ– tvadāgamanasaṃbhramādbhramatatiḥ praṇaṣṭā mama śivena kathitaṃ purā śivarahasyadharmābhidham | samudramiva sindhubhiśśivakathāsudhāvāridhau samullasati manmanastadapi bodhahetustvayi
34
पचेलिमतपःफलैरमितपुण्यसङ्घ्रार्जितैर्भवानपि समागतस्त्रिपुरवैरिसंप्रेषितः । मुनिष्वपि विशेषतस्त्वयिदया महेशस्य या नकोऽपि भुवनेषु वा प्रमथनाथलिंगार्चकः
pacelimatapaḥphalairamitapuṇyasaṅghrārjitairbhavānapi samāgatastripuravairisaṃpreṣitaḥ | muniṣvapi viśeṣatastvayidayā maheśasya yā nako'pi bhuvaneṣu vā pramathanāthaliṃgārcakaḥ
śrīśivarahasye prathamāṃśe skandadarśanannāma aṣṭamo'dhyāyaḥ 8
1
स्कन्ददर्शनन्नाम अष्टमोऽध्यायः सूत उवाच– उपोपविविशुर्हृष्टाष्षडाननविलोकनात् । हृष्टास्ततस्ते शैवेन्द्रा अष्टमूर्तिकृपास्पदाः
skandadarśanannāma aṣṭamo'dhyāyaḥ sūta uvāca– upopaviviśurhṛṣṭāṣṣaḍānanavilokanāt | hṛṣṭāstataste śaivendrā aṣṭamūrtikṛpāspadāḥ
2
ऊचुः प्राञ्जलयस्सर्वे जैगीषव्य पुरोगमाः । पृ0 28) मुनय ऊचुः– स्कन्द त्रिपुरसंहर्तृतनूभव सुखास्पद
ūcuḥ prāñjalayassarve jaigīṣavya purogamāḥ | pṛ0 28) munaya ūcuḥ– skanda tripurasaṃhartṛtanūbhava sukhāspada
3
क्रौञ्चोन्माथ गिरिश्रेष्ठ शूरादीनां विदारण । शिवज्ञानसुधांबोधे सशक्तेचाखिलार्थद
krauñconmātha giriśreṣṭha śūrādīnāṃ vidāraṇa | śivajñānasudhāṃbodhe saśaktecākhilārthada
4
कुमार मारसङ्काश प्रपन्नजनवत्सल । शिवाङ्कभूतपर्यङ्क सर्वभूतहृदन्तर
kumāra mārasaṅkāśa prapannajanavatsala | śivāṅkabhūtaparyaṅka sarvabhūtahṛdantara
5
वीरबाहुमुखानेकगणोत्तमनिषेवित । शिखिवाहामरेन्द्रादिसेनापालन हे प्रभो
vīrabāhumukhānekagaṇottamaniṣevita | śikhivāhāmarendrādisenāpālana he prabho
6
प्रणवादिमहावाक्यसारासारविचारक । भक्तहृत्पद्मसन्देहतमस्स्तोमनिवारक
praṇavādimahāvākyasārāsāravicāraka | bhaktahṛtpadmasandehatamasstomanivāraka
7
ज्ञानोदयोद्यन्मार्ताण्ड प्रचण्डतरविक्रम । तव पादांबुजद्वन्द्वविलोकनहताशुभाः
jñānodayodyanmārtāṇḍa pracaṇḍataravikrama | tava pādāṃbujadvandvavilokanahatāśubhāḥ
8
जैगीषव्यस्य तपसा दृष्टोऽस्माभिर्महेश्वरः । तेनाज्ञप्ता वयं सर्वे जैगीषव्यपुरस्सराः
jaigīṣavyasya tapasā dṛṣṭo'smābhirmaheśvaraḥ | tenājñaptā vayaṃ sarve jaigīṣavyapurassarāḥ
9
त्वद्वाक्पङ्कजनिष्यन्दमकरन्दमधुव्रताः । पातुं शिवरहस्याख्यममृतं भवनाशकम्
tvadvākpaṅkajaniṣyandamakarandamadhuvratāḥ | pātuṃ śivarahasyākhyamamṛtaṃ bhavanāśakam
10
प्रयाताः पुण्यभारेण तव सन्निधिमुत्कटाः । सन्तप्तान्भवदावाग्निमध्यस्थानधुनामुनीन्
prayātāḥ puṇyabhāreṇa tava sannidhimutkaṭāḥ | santaptānbhavadāvāgnimadhyasthānadhunāmunīn
11
सुधाशीकरयादृष्ट्याशीतयाशुप्रसीद नः । इत्थम्मुनीनां वचनं श्रुत्वा स्कन्दो हरात्मजः
sudhāśīkarayādṛṣṭyāśītayāśuprasīda naḥ | itthammunīnāṃ vacanaṃ śrutvā skando harātmajaḥ
12
प्रसन्नचेतास्तानाह शांभवान्हरनन्दनः
prasannacetāstānāha śāṃbhavānharanandanaḥ
13
स्कन्द उवाच– जैगीषव्यमुखा यूयं मुनयो भावसत्तमाः । भवभावैकसंपन्ना भक्तास्सर्वे महेश्वरे
skanda uvāca– jaigīṣavyamukhā yūyaṃ munayo bhāvasattamāḥ | bhavabhāvaikasaṃpannā bhaktāssarve maheśvare
14
भवतां दर्शनेनैव भावनानन्दितं मम । मनसः पद्ममुत्फुल्लं मुनेश्श्रुत्वा तपःक्रियाम्
bhavatāṃ darśanenaiva bhāvanānanditaṃ mama | manasaḥ padmamutphullaṃ muneśśrutvā tapaḥkriyām
15
प्रसादोऽपि महादेवाज्जैगीषव्यस्य सत्तम । शिवाज्ञया समायातो जैगीषव्यो महामुनिः
prasādo'pi mahādevājjaigīṣavyasya sattama | śivājñayā samāyāto jaigīṣavyo mahāmuniḥ
16
भवद्भिश्शांभवैस्सार्धं मया ज्ञातं हृदैव हि । पात्रभूता भवन्तो हि त्रिणेत्रपदपूजकाः
bhavadbhiśśāṃbhavaissārdhaṃ mayā jñātaṃ hṛdaiva hi | pātrabhūtā bhavanto hi triṇetrapadapūjakāḥ
16
यद्गोप्यमपि तद्वक्ष्ये रहस्यं शिवहृद्गतम् । शिवाङ्कसंस्थेन मया श्रुतमेतत्पुरातनम्
yadgopyamapi tadvakṣye rahasyaṃ śivahṛdgatam | śivāṅkasaṃsthena mayā śrutametatpurātanam
17
द्वादशांशसमायुक्तं देव्यै देवेन दर्शितम् । पुण्यं पापहरञ्चै तत्सर्वश्रुतिशिरोगतम्
dvādaśāṃśasamāyuktaṃ devyai devena darśitam | puṇyaṃ pāpaharañcai tatsarvaśrutiśirogatam
18
भवान्यै च भवेनैव कथितं भवनाशनम् । कथानकं श्रुतिशिरः प्रणवार्थं महाघभित्
bhavānyai ca bhavenaiva kathitaṃ bhavanāśanam | kathānakaṃ śrutiśiraḥ praṇavārthaṃ mahāghabhit
19
जैगीषव्याग्रगा यूयं शृण्वन्तु परमार्थतः । धर्मकामार्थमोक्षाणां सारभूतमिदं शुभम्
jaigīṣavyāgragā yūyaṃ śṛṇvantu paramārthataḥ | dharmakāmārthamokṣāṇāṃ sārabhūtamidaṃ śubham
20
श्रुत्वेदं हि कथारत्नं शङ्करस्य परात्मनः । श्रोतुमन्यन्नरोचेत यथान्याः प्राकृताः कथाः
śrutvedaṃ hi kathāratnaṃ śaṅkarasya parātmanaḥ | śrotumanyannaroceta yathānyāḥ prākṛtāḥ kathāḥ
21
सृष्टिस्थित्यन्तकथनैर्नृपाणाञ्चरिताश्रयैः । वर्णाश्रमैककथनश्रमभारैः कथानकैः
sṛṣṭisthityantakathanairnṛpāṇāñcaritāśrayaiḥ | varṇāśramaikakathanaśramabhāraiḥ kathānakaiḥ
22
धर्माभासकथाभिः किं यथा शंभोः कथारसम् । किमन्धकूपमध्यस्थस्तमसा परिवेष्टितः
dharmābhāsakathābhiḥ kiṃ yathā śaṃbhoḥ kathārasam | kimandhakūpamadhyasthastamasā pariveṣṭitaḥ
23
अन्यानन्धान्पूरयेत तथैवान्यकथा मुने । पुराणेषु प्रकथितैः किन्तु चर्वितचर्वणैः
anyānandhānpūrayeta tathaivānyakathā mune | purāṇeṣu prakathitaiḥ kintu carvitacarvaṇaiḥ
25
पृ0 29) जन्ममृत्युयुतानाञ्च सुराणां मुनिपुंगवाः । कथाः कथन्तारयन्ति जन्ममृत्युजरायुतान्
pṛ0 29) janmamṛtyuyutānāñca surāṇāṃ munipuṃgavāḥ | kathāḥ kathantārayanti janmamṛtyujarāyutān
26
श्रीमन्मृत्युञ्जयस्यैव कथा मृत्युविवर्जितान् । करोति जगतां विप्राश्शैवाश्शिवरहस्यगाः
śrīmanmṛtyuñjayasyaiva kathā mṛtyuvivarjitān | karoti jagatāṃ viprāśśaivāśśivarahasyagāḥ
27
सुधासागरमध्यस्थः किं नु कूपोदकं पिबेत् । क्वणद्वीणादिनिनदं श्रुत्वा काकरवं यथा
sudhāsāgaramadhyasthaḥ kiṃ nu kūpodakaṃ pibet | kvaṇadvīṇādininadaṃ śrutvā kākaravaṃ yathā
27
यथा रत्नाकरं प्राप्य काचखण्डमपेक्षते । यथा मत्तेभसदृशः किंमलाशनकृत्किटिः
yathā ratnākaraṃ prāpya kācakhaṇḍamapekṣate | yathā mattebhasadṛśaḥ kiṃmalāśanakṛtkiṭiḥ
29
यथा मृगेन्द्रसदृशोवानरः किं द्विजोत्तमाः । तथा चान्य कथासक्तास्त्यक्त्वा शिव कथारसम्
yathā mṛgendrasadṛśovānaraḥ kiṃ dvijottamāḥ | tathā cānya kathāsaktāstyaktvā śiva kathārasam
29
यथा शिवो महादेवस्सर्ववेदान्तसंस्तुतः । तथा शिवरहस्याख्यमितिहासवरम्मुने
yathā śivo mahādevassarvavedāntasaṃstutaḥ | tathā śivarahasyākhyamitihāsavarammune
30
शिवकण्ठमणिश्चायं पापमोचकमोचकः । पुरा कैलासशिखरे देव्यै देवेन कीर्तितम्
śivakaṇṭhamaṇiścāyaṃ pāpamocakamocakaḥ | purā kailāsaśikhare devyai devena kīrtitam
31
प्राह देवं विरूपाक्षमम्बिका परमेश्वरी
prāha devaṃ virūpākṣamambikā parameśvarī
33
श्री देव्युवाच– शंभो विश्वेश भर्ग त्रिणयन पुरहन्कालकालान्धकारे पापारे फालनेत्र स्मरहर गरप त्राहि देवान्द्विजांश्च । कथय तव रहस्यं येन मुक्ता त्रिलोकी निगमशिरसि निष्ठा का गरिष्ठा वदाद्य
śrī devyuvāca– śaṃbho viśveśa bharga triṇayana purahankālakālāndhakāre pāpāre phālanetra smarahara garapa trāhi devāndvijāṃśca | kathaya tava rahasyaṃ yena muktā trilokī nigamaśirasi niṣṭhā kā gariṣṭhā vadādya
33
यदि तव करुणाब्धे शीकरासारपात्रं मम श्रुतिवरपात्रं त्वं कृतार्थी कुरुष्व । तव चरितमशेषं लोकदुःखापनुत्यै पुरहर कुरु कर्णे मामकीने दयस्व
yadi tava karuṇābdhe śīkarāsārapātraṃ mama śrutivarapātraṃ tvaṃ kṛtārthī kuruṣva | tava caritamaśeṣaṃ lokaduḥkhāpanutyai purahara kuru karṇe māmakīne dayasva
34
सुगोप्यमपि शङ्कर प्रमथनाथ विश्वाधिक निधेहि मयि तत्स्थिरं चिरमपि प्ररूढं त्वयि । त्वदीयदयया परं प्रकटितान्तरंगं मम त्वदीयचरणांबुजे सकलभक्तिभावैर्युता
sugopyamapi śaṅkara pramathanātha viśvādhika nidhehi mayi tatsthiraṃ ciramapi prarūḍhaṃ tvayi | tvadīyadayayā paraṃ prakaṭitāntaraṃgaṃ mama tvadīyacaraṇāṃbuje sakalabhaktibhāvairyutā
36
इति देव्या वचश्श्रुत्वा प्राहकामप्रभञ्जनः । स्वाङ्कसंस्थाम्महादेवीं तदङ्कस्थेन यत्पुरा
iti devyā vacaśśrutvā prāhakāmaprabhañjanaḥ | svāṅkasaṃsthāmmahādevīṃ tadaṅkasthena yatpurā
37
मयाश्रावि कथासिन्धुरहस्यं तद्ब्रुवेऽधुना । भवानां भवनाशाय भवभक्तिविवर्धनम्
mayāśrāvi kathāsindhurahasyaṃ tadbruve'dhunā | bhavānāṃ bhavanāśāya bhavabhaktivivardhanam
37
ईश्वर उवाच– नादेयन्तव विद्यते त्रिभुवने शैलेन्द्रजे केवल- न्देहार्धेऽधिकृतासि विश्वजननी निरूपरूपस्त्वया । पृ0 30) विश्वं पासि तथात्सि शक्तिरखिला देवि त्वया शक्तिमा- नुक्तोऽहं श्रुतिभिर्निरिन्द्रिय इति त्वत्तोऽस्मि देहं गतः
īśvara uvāca– nādeyantava vidyate tribhuvane śailendraje kevala- ndehārdhe'dhikṛtāsi viśvajananī nirūparūpastvayā | pṛ0 30) viśvaṃ pāsi tathātsi śaktirakhilā devi tvayā śaktimā- nukto'haṃ śrutibhirnirindriya iti tvatto'smi dehaṃ gataḥ
38
अपाणिपादोऽहमलुप्तशक्तिः पश्याम्यचक्षुः प्रशृणोम्यकर्णः । अहं विजानामि समस्तमेतत्सहैव सन्तं न विजानन्ति देवाः
apāṇipādo'hamaluptaśaktiḥ paśyāmyacakṣuḥ praśṛṇomyakarṇaḥ | ahaṃ vijānāmi samastametatsahaiva santaṃ na vijānanti devāḥ
39
शीर्णेष्वशीर्णोऽहमजः पुरातनश्शरीरहीनोऽस्मि सदाह्यसंगः । वेदाश्च वेदान्तवचो यतो मे निवृत्तभावा मनसा सदांबिके
śīrṇeṣvaśīrṇo'hamajaḥ purātanaśśarīrahīno'smi sadāhyasaṃgaḥ | vedāśca vedāntavaco yato me nivṛttabhāvā manasā sadāṃbike
40
कथं पामरा वानराकारचेष्टास्सदाकामलोभादिमात्सर्ययुक्ताः । वराकाश्शरावादिहस्ता रटन्ति सुराश्चासुराश्चासुरा भूसुराः किम्
kathaṃ pāmarā vānarākāraceṣṭāssadākāmalobhādimātsaryayuktāḥ | varākāśśarāvādihastā raṭanti surāścāsurāścāsurā bhūsurāḥ kim
41
लभन्ते त्वमेकाकिनी स्कन्दनन्दीशमुख्या मदीयप्रकृष्टप्रभावैकतर्षाः । यतो भावलभ्यैकमूर्तिं महेशं सदावेदवेदान्तवाचां दुरापम्
labhante tvamekākinī skandanandīśamukhyā madīyaprakṛṣṭaprabhāvaikatarṣāḥ | yato bhāvalabhyaikamūrtiṃ maheśaṃ sadāvedavedāntavācāṃ durāpam
42
विजानासि देवि त्वमाद्यं ममाद्यं सदा शुद्धबुद्धं चिदानन्दरूपम् । त्रिणेत्रं गराधीशकण्ठं सहांबं प्रपश्यन्ति योगीन्द्रमुख्या हराजाः
vijānāsi devi tvamādyaṃ mamādyaṃ sadā śuddhabuddhaṃ cidānandarūpam | triṇetraṃ garādhīśakaṇṭhaṃ sahāṃbaṃ prapaśyanti yogīndramukhyā harājāḥ
43
अहं लोकमुक्त्यर्थमीशानि देहं सृजाम्यद्य कामं निगृह्णामि चान्ते । शिवे व्यक्तरूपं सुराद्यैर्दुरापं नजानीयुरेतत्कथां पामरा माम्
ahaṃ lokamuktyarthamīśāni dehaṃ sṛjāmyadya kāmaṃ nigṛhṇāmi cānte | śive vyaktarūpaṃ surādyairdurāpaṃ najānīyuretatkathāṃ pāmarā mām
44
शृणु श्रवणभूषणं निगमपारसारं स्फुटं सुगोप्यमपि वर्तते हृदि सुगोप्यमेतत्त्वया । अशांभववशेऽर्पितो न भवति प्ररूढस्तरुर्यथैव मरुभूमिगश्शिवरहस्यमेतत्तथा
śṛṇu śravaṇabhūṣaṇaṃ nigamapārasāraṃ sphuṭaṃ sugopyamapi vartate hṛdi sugopyametattvayā | aśāṃbhavavaśe'rpito na bhavati prarūḍhastaruryathaiva marubhūmigaśśivarahasyametattathā
45
सुशांभवसरोवरप्रथितरक्तफुल्लाब्जिनीविकासनदिवाकरश्शिवजनैकतोषप्रदः । हृदन्तरतमोगणोन्मथितपापमेघानिलो विशोषयतु दुष्पथप्रभवकामपंकं सदा
suśāṃbhavasarovaraprathitaraktaphullābjinīvikāsanadivākaraśśivajanaikatoṣapradaḥ | hṛdantaratamogaṇonmathitapāpameghānilo viśoṣayatu duṣpathaprabhavakāmapaṃkaṃ sadā
46
भजन्तु सुधियस्सदा श्रवणराशिसन्मंगलं न हीनजनमानसाश्श्रवणमेतदेव स्फुटम् । ध्रुवं भवति शैलजे निगमसारभूतं मधु शिवार्चकजनप्रियं मधुलिहस्त एव प्रिये
bhajantu sudhiyassadā śravaṇarāśisanmaṃgalaṃ na hīnajanamānasāśśravaṇametadeva sphuṭam | dhruvaṃ bhavati śailaje nigamasārabhūtaṃ madhu śivārcakajanapriyaṃ madhulihasta eva priye
48
प्रकृष्टरसभावुका भवभवाब्धिसंशोषकाः
prakṛṣṭarasabhāvukā bhavabhavābdhisaṃśoṣakāḥ
Śivarahasya
1
जैगीषव्यस्कन्दसंवादे दशमोऽध्यायः स्कन्द उवाच– शिवपादारविन्दश्रीर्य्याश्रियं श्रीपतिं विधिम् । इन्द्रं चन्द्रं सुरानन्यानुत्पादयति सा शिवा
jaigīṣavyaskandasaṃvāde daśamo'dhyāyaḥ skanda uvāca– śivapādāravindaśrīryyāśriyaṃ śrīpatiṃ vidhim | indraṃ candraṃ surānanyānutpādayati sā śivā
2
डुण्डिञ्च नन्दिकेशञ्च तथा भृङ्गिरिटिं मुनिम् । मार्कण्डेयं दधीचिञ्च दूर्वासंजामदग्निकम्
ḍuṇḍiñca nandikeśañca tathā bhṛṅgiriṭiṃ munim | mārkaṇḍeyaṃ dadhīciñca dūrvāsaṃjāmadagnikam
3
जय जय मंगलतरसुन्दरतममंगलापते जय जय विश्वविधानसंस्थितिनिधनशिक्षणचण बन्धुतर सुन्दर वरकृत्तिवसन मुनिबृन्दविनुत निन्दितमखसंहृते सुरनन्दितगण पुरमारक भवशोषण गरलाशन शमनभयकंपितमुनिपोतकशरण अरुणाधिप करुणाकर जनतारण तरणिस्थित सुरकारण मारशोषण त्रिगुणनिगमगणपोषणचरण शरणं भव शरणं भव शरणं भव दयया
jaya jaya maṃgalatarasundaratamamaṃgalāpate jaya jaya viśvavidhānasaṃsthitinidhanaśikṣaṇacaṇa bandhutara sundara varakṛttivasana munibṛndavinuta ninditamakhasaṃhṛte surananditagaṇa puramāraka bhavaśoṣaṇa garalāśana śamanabhayakaṃpitamunipotakaśaraṇa aruṇādhipa karuṇākara janatāraṇa taraṇisthita surakāraṇa māraśoṣaṇa triguṇanigamagaṇapoṣaṇacaraṇa śaraṇaṃ bhava śaraṇaṃ bhava śaraṇaṃ bhava dayayā
4
निगमागमवचनातिग यमिमानसगगनान्तर वयुनस्थितिसुरकारण मारशोषणभवनाशन वरहारक दहनामलनयन मननातिग वृषवाहनगमन भवनाशन वसिताशक सुरभूसुरनिकरावन पितृकाननविहृते दहराकृतिकुहरातिग वरभूधरशयन खरशीतजकरसंस्थित मुरभेदनशरधारण पुरनाशन निगमव्रजतुरगोत्तम उरगाधिपकृतशिञ्जनिवरकार्मुक मृगधृक् कुलिशायुधमुखदैवतभटरक्षणचतुर शरणं भव शरणं भव शरणं भव दयया
nigamāgamavacanātiga yamimānasagaganāntara vayunasthitisurakāraṇa māraśoṣaṇabhavanāśana varahāraka dahanāmalanayana mananātiga vṛṣavāhanagamana bhavanāśana vasitāśaka surabhūsuranikarāvana pitṛkānanavihṛte daharākṛtikuharātiga varabhūdharaśayana kharaśītajakarasaṃsthita murabhedanaśaradhāraṇa puranāśana nigamavrajaturagottama uragādhipakṛtaśiñjanivarakārmuka mṛgadhṛk kuliśāyudhamukhadaivatabhaṭarakṣaṇacatura śaraṇaṃ bhava śaraṇaṃ bhava śaraṇaṃ bhava dayayā
5
दहनानिलतपनामरवरभूसुरजलनायकशमनाकृतविनते कलिताखिलचरजङ्गमजगतामवन जननादिक ललितोत्तमचरित भरितानतवरतात जनतापहृते विनतात्मजवाहनार्चनजनितातुलदयया विकचांबुजनिभलोचनरथसंवहनप्रद विधिमौलिजफलकामलशयभूषित भगवन् पवनानलवलमारणबलशोषण तृणचालनमपि कृते कृणुते न हि निखिलागमशिरसंस्तुतचरित शरणं भव शरणं भव शरणं भव दयया
dahanānilatapanāmaravarabhūsurajalanāyakaśamanākṛtavinate kalitākhilacarajaṅgamajagatāmavana jananādika lalitottamacarita bharitānatavaratāta janatāpahṛte vinatātmajavāhanārcanajanitātuladayayā vikacāṃbujanibhalocanarathasaṃvahanaprada vidhimaulijaphalakāmalaśayabhūṣita bhagavan pavanānalavalamāraṇabalaśoṣaṇa tṛṇacālanamapi kṛte kṛṇute na hi nikhilāgamaśirasaṃstutacarita śaraṇaṃ bhava śaraṇaṃ bhava śaraṇaṃ bhava dayayā
6
पृ0 35) वरुणालयमथनोद्भवगरलोत्थितमहसा सुरकिन्नरहरवलान हरिस्रायक रभसा कबलीकृतगरसम्भवनलिनामलशुभकन्धर जलदोपम भगवन् मधुमारणनयनामलनलिनार्चितपदपंकज लुलितांबुधिचुलुकीकृतघटसम्भवनुतितोषित यतिमानसवरभूषण फणिकंकण भगवन् दुरितापह चलितामलललितेन्दुकलालवविमलीकृतजगते शरणं भव शरणं भव शरणं भव दयया
pṛ0 35) varuṇālayamathanodbhavagaralotthitamahasā surakinnaraharavalāna harisrāyaka rabhasā kabalīkṛtagarasambhavanalināmalaśubhakandhara jaladopama bhagavan madhumāraṇanayanāmalanalinārcitapadapaṃkaja lulitāṃbudhiculukīkṛtaghaṭasambhavanutitoṣita yatimānasavarabhūṣaṇa phaṇikaṃkaṇa bhagavan duritāpaha calitāmalalalitendukalālavavimalīkṛtajagate śaraṇaṃ bhava śaraṇaṃ bhava śaraṇaṃ bhava dayayā
7
मखसन्मुखहवनाशनमुखतर्पितहविभक्षणविबुधव्रजनलिनोत्थितमहिमातिग परिपूजनरहितातुलमन्युकृते मननोत्थितगणगर्जन परितर्जन सुरभर्जन विधिनन्दन कृतशिक्षण परिपूरितदुरितान्तक गजमारणकरण अगजाधिप भुजगाधिपशयनार्पितविधिमौलिजकलितस्रज वलभिन्मतभगदैवतनयनांबुजनाशकृते शरणं भव शरणं भव शरणं भव दयया
makhasanmukhahavanāśanamukhatarpitahavibhakṣaṇavibudhavrajanalinotthitamahimātiga paripūjanarahitātulamanyukṛte mananotthitagaṇagarjana paritarjana surabharjana vidhinandana kṛtaśikṣaṇa paripūritaduritāntaka gajamāraṇakaraṇa agajādhipa bhujagādhipaśayanārpitavidhimaulijakalitasraja valabhinmatabhagadaivatanayanāṃbujanāśakṛte śaraṇaṃ bhava śaraṇaṃ bhava śaraṇaṃ bhava dayayā
8
जटिलालक मृगनायकमदपाटनजनितांबरकटिशोभित वटसंस्थित निगमागमभटगोषक सुरनायकत्रुटिताखिलजगदुद्भवघटकर्परहरिशरकर्ष पुरदाहन भगवन् पटुताकृतिनिखिलस्थितिकटुकीभवजलधे भवदागमजगदुद्गमजलदालयवहन त्रिपुरान्तक शमितान्तक शमितान्धक शमिताखिलदुःख विभो शरणं भव शरणं भव शरणं भव दयया
jaṭilālaka mṛganāyakamadapāṭanajanitāṃbarakaṭiśobhita vaṭasaṃsthita nigamāgamabhaṭagoṣaka suranāyakatruṭitākhilajagadudbhavaghaṭakarparahariśarakarṣa puradāhana bhagavan paṭutākṛtinikhilasthitikaṭukībhavajaladhe bhavadāgamajagadudgamajaladālayavahana tripurāntaka śamitāntaka śamitāndhaka śamitākhiladuḥkha vibho śaraṇaṃ bhava śaraṇaṃ bhava śaraṇaṃ bhava dayayā
9
पवनाशनमणिकंकण गरलाशनमधुसूदनवलनाशनयमुनानुजभवनाशन सिकताशनतनयामलगणसत्तमगुणबन्धुरहृदयानन मुनिसत्तमविनुत गणगर्जितवदनायितशशिधामककृतनेत्रक उडुनायकशिखरामरवरनायककुमुदाकरसमुदायजततलोचन द्विरदाननसुतहर्षद तरुणेन्दुललाममसृणारुणनखजोत्पलकलिकायितसुरजालकमकुटीतटघटितांबुजपाद शरणं भव शरणं भव शरणं भव दयया
pavanāśanamaṇikaṃkaṇa garalāśanamadhusūdanavalanāśanayamunānujabhavanāśana sikatāśanatanayāmalagaṇasattamaguṇabandhurahṛdayānana munisattamavinuta gaṇagarjitavadanāyitaśaśidhāmakakṛtanetraka uḍunāyakaśikharāmaravaranāyakakumudākarasamudāyajatatalocana dviradānanasutaharṣada taruṇendulalāmamasṛṇāruṇanakhajotpalakalikāyitasurajālakamakuṭītaṭaghaṭitāṃbujapāda śaraṇaṃ bhava śaraṇaṃ bhava śaraṇaṃ bhava dayayā
10
अखिलाण्डग शुकतुण्डजघटनोत्थितमधुरायितसुखतन्द्रिजरससारसपदनाम जमुनिगीतविनोद कनकांबुजजनिताखिलगजखण्डन यमखण्डन शशिखण्डनकलितामलशिरसे मृदुमण्डित उरगेश्वरकृतकुण्डल विधिखण्डन शिखण्डवरलोचन बडवानलकृतजिह्वक शिखिवाहनकृतबोधन श्रुतिमण्डलशिरसे पुरदण्डन नगकोदण्डजहरिशरकर्षणाखण्डलकरभञ्जन मुनिमण्डलकृतरक्षण खण्डपरशो तण्डुनन्दिगणभृंगि- पृ0 36) चण्डिकृततालमद्दलजघुङ्घुमध्वनिजमड्डुघर्घरितरंगनाट्यपर जह्नुजाविततनीरतीरविलसच्छिवलिंग शरणं भव शरणं भव शरणं भव दयया
akhilāṇḍaga śukatuṇḍajaghaṭanotthitamadhurāyitasukhatandrijarasasārasapadanāma jamunigītavinoda kanakāṃbujajanitākhilagajakhaṇḍana yamakhaṇḍana śaśikhaṇḍanakalitāmalaśirase mṛdumaṇḍita urageśvarakṛtakuṇḍala vidhikhaṇḍana śikhaṇḍavaralocana baḍavānalakṛtajihvaka śikhivāhanakṛtabodhana śrutimaṇḍalaśirase puradaṇḍana nagakodaṇḍajahariśarakarṣaṇākhaṇḍalakarabhañjana munimaṇḍalakṛtarakṣaṇa khaṇḍaparaśo taṇḍunandigaṇabhṛṃgi- pṛ0 36) caṇḍikṛtatālamaddalajaghuṅghumadhvanijamaḍḍughargharitaraṃganāṭyapara jahnujāvitatanīratīravilasacchivaliṃga śaraṇaṃ bhava śaraṇaṃ bhava śaraṇaṃ bhava dayayā
11
इत्यष्टपद्यैस्स्वान्तस्थं तुष्टावाष्टाकृतिं हरम् । स्कन्दो नत्वाथ जगतां मातरंस्तोतुमारभत्
ityaṣṭapadyaissvāntasthaṃ tuṣṭāvāṣṭākṛtiṃ haram | skando natvātha jagatāṃ mātaraṃstotumārabhat
12
उदारतरगंभीरपद्यैर्हृद्यैर्महेश्वरीम् । देववामांकभागस्थां तारकारिस्स्वमातरम्
udārataragaṃbhīrapadyairhṛdyairmaheśvarīm | devavāmāṃkabhāgasthāṃ tārakārissvamātaram
13
स्कन्द उवाच– नौमि स्तौमि जगत्प्रसादघटनासंस्थानसंपादितां लोकालोकनतत्परां भगवतीं मायां महेशाश्रयाम् । विष्णुब्रह्ममरुद्गणेश्वरमहासाम्राज्यदानक्षमा- मीशांकाधिकृतां प्रसादमुखरां कायेन वाचा सदा
skanda uvāca– naumi staumi jagatprasādaghaṭanāsaṃsthānasaṃpāditāṃ lokālokanatatparāṃ bhagavatīṃ māyāṃ maheśāśrayām | viṣṇubrahmamarudgaṇeśvaramahāsāmrājyadānakṣamā- mīśāṃkādhikṛtāṃ prasādamukharāṃ kāyena vācā sadā
14
इन्दुकुन्दकरिमत्तजबिंबस्फारधारविजिताखिलबृन्दाम् । नीलमेघनलिनामलकान्तिं केसरीन्द्रवरभूधरकूर्माम्
indukundakarimattajabiṃbasphāradhāravijitākhilabṛndām | nīlameghanalināmalakāntiṃ kesarīndravarabhūdharakūrmām
15
वक्त्रदन्तगमनाधरकेशैर्लोचनेन जघनेन कुचाभ्याम् । पादपंकजरजःपरिभूता नागयक्षसुरमानवकन्याः
vaktradantagamanādharakeśairlocanena jaghanena kucābhyām | pādapaṃkajarajaḥparibhūtā nāgayakṣasuramānavakanyāḥ
16
अम्बामम्भोरुहाक्षीं सकलसुरकदम्बैकशालिप्रपूर्णां काशीशेशान्नपूर्णां विधिहरिहरसत्संस्तुतां भर्गकान्ताम् ।
ambāmambhoruhākṣīṃ sakalasurakadambaikaśāliprapūrṇāṃ kāśīśeśānnapūrṇāṃ vidhihariharasatsaṃstutāṃ bhargakāntām |
śrīśivarahasye prathamāṃśe jaigīṣavyaskandasaṃvāde daśamo'dhyāyaḥ 10
16
कान्तान्देवस्य देवीमगवरवरजान्नौमि चिन्नित्यसंस्थाम्
kāntāndevasya devīmagavaravarajānnaumi cinnityasaṃsthām
2
नलिनजवनितापद्मसंस्थाकरस्थैः । विधिवहगरुदाभैश्चामरैर्वीज्यमानां शशिमुखनिजभर्तुर्भार्यया छत्रवत्या । सितनभसटसिह्मस्कन्धसिह्मासनस्थां गजमुखशिखिवाहप्रेमजानन्ददृष्टिम्
nalinajavanitāpadmasaṃsthākarasthaiḥ | vidhivahagarudābhaiścāmarairvījyamānāṃ śaśimukhanijabharturbhāryayā chatravatyā | sitanabhasaṭasihmaskandhasihmāsanasthāṃ gajamukhaśikhivāhapremajānandadṛṣṭim
18
रक्तबीजतुरगारिधूम्रजाचामरारिवरशुंभनिशुंभान् । चण्डमुण्डवरभण्डजमुण्डैराजिभूमिकमलैरिवदेवी
raktabījaturagāridhūmrajācāmarārivaraśuṃbhaniśuṃbhān | caṇḍamuṇḍavarabhaṇḍajamuṇḍairājibhūmikamalairivadevī
19
कोदण्डाकृष्टदण्डोच्चलितवरशरासारधारादिभिर्या तस्तारामरवीरसंस्तुतपदा सा पातु नश्श्रेयसे
kodaṇḍākṛṣṭadaṇḍoccalitavaraśarāsāradhārādibhiryā tastārāmaravīrasaṃstutapadā sā pātu naśśreyase
5
पृ0 37) सूत उवाच– एवं संस्तुवतस्तस्य स्कन्दस्यामलचेतसः । प्रादुरासीद्वृषारूढो भगवाञ्छ्रीवृषध्वजः
pṛ0 37) sūta uvāca– evaṃ saṃstuvatastasya skandasyāmalacetasaḥ | prādurāsīdvṛṣārūḍho bhagavāñchrīvṛṣadhvajaḥ
6
नीलकण्ठस्त्रिणेत्रश्च भोगीभोगविभूषणः । कोटिप्रभाकरोद्भासिमयूखावलिभासितः
nīlakaṇṭhastriṇetraśca bhogībhogavibhūṣaṇaḥ | koṭiprabhākarodbhāsimayūkhāvalibhāsitaḥ
7
दिशामुखतमस्स्तोममौलिसोमनिवारितः । चलच्चामरवालोत्थवातप्रोच्चलितांबरः
diśāmukhatamasstomamaulisomanivāritaḥ | calaccāmaravālotthavātaproccalitāṃbaraḥ
8
छत्रछायावारितोद्यद्भानुभानमरीचिमान् । सोमस्सहोमयाभ्यागाद्गणसङ्घसमावृतः
chatrachāyāvāritodyadbhānubhānamarīcimān | somassahomayābhyāgādgaṇasaṅghasamāvṛtaḥ
24
सुरासुरकरोन्मुक्तसुमवर्षौघसन्ततिः । तद्गन्धबन्धसंबन्धमरुदामोदमोदितः
surāsurakaronmuktasumavarṣaughasantatiḥ | tadgandhabandhasaṃbandhamarudāmodamoditaḥ
10
विकचत्कमलामोदमालया शोभिविग्रहः । विलसन्मणिमुक्तादिमालावलितकन्धरः
vikacatkamalāmodamālayā śobhivigrahaḥ | vilasanmaṇimuktādimālāvalitakandharaḥ
11
फणामणिकृतानेकमाणिक्यवरकङ्कणः । जङ्गमाद्रिप्रतीकाशवृषारूढोऽभ्यगाच्छिवः
phaṇāmaṇikṛtānekamāṇikyavarakaṅkaṇaḥ | jaṅgamādripratīkāśavṛṣārūḍho'bhyagācchivaḥ
12
मुनिकिन्नरगन्धर्वगानधारास्तुतस्तुतिः । दृष्ट्वादेवन्तदोत्तस्थौ स्कन्दस्सिह्मासनात्तदा
munikinnaragandharvagānadhārāstutastutiḥ | dṛṣṭvādevantadottasthau skandassihmāsanāttadā
28
मुनीन्द्रैश्च गणेन्द्रैश्च सुरेन्द्रैर्गणपेन च । जैगीषव्येन मुनिना प्रणनाम महेश्वरम्
munīndraiśca gaṇendraiśca surendrairgaṇapena ca | jaigīṣavyena muninā praṇanāma maheśvaram
14
दृष्ट्वा नमन्तन्तं स्कन्दं सगणं समुनिंसुरान् । द्विरदास्यम्मुनीन्द्रञ्च जैगीषव्यं कृपांबुधिः
dṛṣṭvā namantantaṃ skandaṃ sagaṇaṃ samuniṃsurān | dviradāsyammunīndrañca jaigīṣavyaṃ kṛpāṃbudhiḥ
15
करुणापरया दृष्ट्या चालुलोके सहांबया । पुत्रौ गाढं परिष्वज्य मूर्ध्निचाघ्राय शंकरः
karuṇāparayā dṛṣṭyā cāluloke sahāṃbayā | putrau gāḍhaṃ pariṣvajya mūrdhnicāghrāya śaṃkaraḥ
16
उवाच सर्वदेवानां सन्निधौ स्कन्दमीश्वरः
uvāca sarvadevānāṃ sannidhau skandamīśvaraḥ
17
ईश्वरः– वत्सानयातवस्तुत्यासन्तुष्टोऽस्मि सहांबया । धन्ययामान्ययास्कन्दत्वम्ममातीववल्लभः
īśvaraḥ– vatsānayātavastutyāsantuṣṭo'smi sahāṃbayā | dhanyayāmānyayāskandatvammamātīvavallabhaḥ
18
त्वयामद्वदनां भोजाद्यच्छ्रुतं सारमैश्वरम् । शैवं शिवरहस्याख्यं वरमोक्षकथाश्रयम्
tvayāmadvadanāṃ bhojādyacchrutaṃ sāramaiśvaram | śaivaṃ śivarahasyākhyaṃ varamokṣakathāśrayam
19
गणानाञ्च सुराणाञ्च मुनीनां भावितात्मनाम् । जैगीषव्यं पुरस्कृत्य मम भक्तं जितेन्द्रियम्
gaṇānāñca surāṇāñca munīnāṃ bhāvitātmanām | jaigīṣavyaṃ puraskṛtya mama bhaktaṃ jitendriyam
34
मारिष्टं माच ते विघ्नं मम भूयात्कथारसे । यतो विघ्नहरस्तेऽद्य सन्निधौ वर्ततेऽग्रजः
māriṣṭaṃ māca te vighnaṃ mama bhūyātkathārase | yato vighnaharaste'dya sannidhau vartate'grajaḥ
35
इत्युक्त्वा च महादेवीमालोक्य च हसन्हरः
ityuktvā ca mahādevīmālokya ca hasanharaḥ
36
नानास्थावरजङ्गमादिजनिभिर्भ्रान्तस्य मानुष्यता मानुष्ये सति विप्रता श्रुतिगता चाचारता तत्परम् । इष्टापूर्तिवशक्रियादिशतशो वृत्या परं शांभवो लिंगालिंगनचेतसा स हि भवेन्मुक्तस्त्वलिंगस्सुखी
nānāsthāvarajaṅgamādijanibhirbhrāntasya mānuṣyatā mānuṣye sati vipratā śrutigatā cācāratā tatparam | iṣṭāpūrtivaśakriyādiśataśo vṛtyā paraṃ śāṃbhavo liṃgāliṃganacetasā sa hi bhavenmuktastvaliṃgassukhī
37
श्रुतिशतविधिजालकर्ममूलास्त्रिगुणगतागतिसौख्यदुःखशीलाः । मनसिजसुखमानसंगलीलामननविचारविवर्जनेन बालाः
śrutiśatavidhijālakarmamūlāstriguṇagatāgatisaukhyaduḥkhaśīlāḥ | manasijasukhamānasaṃgalīlāmananavicāravivarjanena bālāḥ
38
पृ0 38) नरकमुखमवाप्य चेन्द्रलोकं भवभुवनं समवाप्य मर्त्यलोकम् । पुनरपि जननेन कर्मशेषैर्मतिमपि घोरतरां समाप्नुवन्ति
pṛ0 38) narakamukhamavāpya cendralokaṃ bhavabhuvanaṃ samavāpya martyalokam | punarapi jananena karmaśeṣairmatimapi ghoratarāṃ samāpnuvanti
39
किं वेदैरखिलैः पुराणनिचयैरन्योन्यनिन्दापरैः किं वा भारतयुद्धकीर्तनमुमे किं क्षुद्रधर्मादिभिः । यत्रेशानकथाप्रचारविधुरानिस्सारभूता कथा काव्येनापि किमत्र रामकथया दुःखोत्कटायाः फलम्
kiṃ vedairakhilaiḥ purāṇanicayairanyonyanindāparaiḥ kiṃ vā bhāratayuddhakīrtanamume kiṃ kṣudradharmādibhiḥ | yatreśānakathāpracāravidhurānissārabhūtā kathā kāvyenāpi kimatra rāmakathayā duḥkhotkaṭāyāḥ phalam
26
सूतः– कृताञ्जलिपुटा देवी प्राहशंभुं सनातनम् । महेशं जगदाधारमनाधारं महेश्वरम्
sūtaḥ– kṛtāñjalipuṭā devī prāhaśaṃbhuṃ sanātanam | maheśaṃ jagadādhāramanādhāraṃ maheśvaram
41
देव्युवाच– त्वत्कृपापात्रभूतानां नाशुभं विद्यते हर । मत्तश्शुश्राव वेदार्थसारं शैवरहस्यकम्
devyuvāca– tvatkṛpāpātrabhūtānāṃ nāśubhaṃ vidyate hara | mattaśśuśrāva vedārthasāraṃ śaivarahasyakam
28
स्कन्दोऽयं स्कन्दितारातिर्विनीतो वीतमत्सरः । रहस्यं यत्त्वया प्रोक्तं मुनीञ्छ्रावयतु प्रभो
skando'yaṃ skanditārātirvinīto vītamatsaraḥ | rahasyaṃ yattvayā proktaṃ munīñchrāvayatu prabho
43
सुरभूसुरसङ्घेषु गणेन्द्रेषु महेश्वर । प्रसादः क्रियतामद्य श्रवणाय मुनिर्धृतः
surabhūsurasaṅgheṣu gaṇendreṣu maheśvara | prasādaḥ kriyatāmadya śravaṇāya munirdhṛtaḥ
30
जैगीषव्योऽपि मतिमांस्तव भक्तस्त्वनन्यधीः । तदा देव्या वचश्श्रुत्वाकरपंकजमुत्तमम्
jaigīṣavyo'pi matimāṃstava bhaktastvananyadhīḥ | tadā devyā vacaśśrutvākarapaṃkajamuttamam
31
निदधौ स्कन्दशिरसि जैगीषव्यस्य शंकरः । शंकरश्रीकरस्पर्शाज्जैगीषव्यकुमारकौ
nidadhau skandaśirasi jaigīṣavyasya śaṃkaraḥ | śaṃkaraśrīkarasparśājjaigīṣavyakumārakau
32
नेमतुश्शिवपादाब्जं प्रोत्फुल्लहृदयाननौ । स्कन्दश्शिवपदाब्जन्तत्कराभ्यां संस्पृशञ्जगौ
nematuśśivapādābjaṃ protphullahṛdayānanau | skandaśśivapadābjantatkarābhyāṃ saṃspṛśañjagau
33
अयम्मेहस्तमन्त्रेण स्वनेत्रकमलस्रवैः । अभ्यषिञ्चन्मुदा भक्त्यानान्यत्किञ्चिदमन्यत
ayammehastamantreṇa svanetrakamalasravaiḥ | abhyaṣiñcanmudā bhaktyānānyatkiñcidamanyata
34
स्कन्दं प्राह महादेवो जैगीषव्ये क्षणस्तदा
skandaṃ prāha mahādevo jaigīṣavye kṣaṇastadā
48
ईश्वर उवाच– शिवे किलैषतोषकृन्मुनीश्वरेषु यत्प्रियो विशेषतः कृपाझरीभरीकुलेन लोकितः । कलाकुलेन तर्पितो यथैणबाललाञ्छन- स्स्तथैष जैगिषव्यकः कटाक्षतो भवेन्मम
īśvara uvāca– śive kilaiṣatoṣakṛnmunīśvareṣu yatpriyo viśeṣataḥ kṛpājharībharīkulena lokitaḥ | kalākulena tarpito yathaiṇabālalāñchana- sstathaiṣa jaigiṣavyakaḥ kaṭākṣato bhavenmama
49
प्रसाद्य सर्वानमरान्मुनीन्द्रान्गणेश्वरान्स्कन्दमुनीन्महेश्वरः । जगाम गौर्या जगतां विधाता संस्तूयमानो मुनिदेवसङ्घैः
prasādya sarvānamarānmunīndrāngaṇeśvarānskandamunīnmaheśvaraḥ | jagāma gauryā jagatāṃ vidhātā saṃstūyamāno munidevasaṅghaiḥ
śrīśivarahasye prathamāṃśe skandajaigīṣavyasaṃvāde dvādaśāṃśasaṃkhyākathanaṃ nāma ekādaśo'dhyāyaḥ 11
1
पृ0 39) स्कन्द जैगीषव्यसंवादे द्वादशांशसंख्याकथनं नाम एकादशोऽध्यायः सूत उवाच– शिवदर्शनजानन्दसन्दोहानन्दनिर्भरः । प्राहशूरारिरित्थन्तं मुनिमालोक्य शांकरम्
pṛ0 39) skanda jaigīṣavyasaṃvāde dvādaśāṃśasaṃkhyākathanaṃ nāma ekādaśo'dhyāyaḥ sūta uvāca– śivadarśanajānandasandohānandanirbharaḥ | prāhaśūrāriritthantaṃ munimālokya śāṃkaram
2
स्कन्द उवाच– जैगीषव्यशृणुष्वाद्य रहस्याख्यानमुत्तमम् । शैवे रहस्ये देवेन देव्यै कथिकथानकम्
skanda uvāca– jaigīṣavyaśṛṇuṣvādya rahasyākhyānamuttamam | śaive rahasye devena devyai kathikathānakam
3
तद्वक्ष्यामि समासेन शृणुत्वं मुनिभिस्सह । गणेश्वरैस्सुरेशैश्च तत्रादौ कथयाम्यहम्
tadvakṣyāmi samāsena śṛṇutvaṃ munibhissaha | gaṇeśvaraissureśaiśca tatrādau kathayāmyaham
4
नमस्कृत्वाप्रमेयाय महादेवाय शम्भवे । देवीं गजाननं देवं शैवाचार्यानकल्मषान्
namaskṛtvāprameyāya mahādevāya śambhave | devīṃ gajānanaṃ devaṃ śaivācāryānakalmaṣān
5
माहेशांशः प्रथमतो नाम्नासौ मुनिसत्तम । जैगीषव्य प्रसादन्ते महेशस्य समागमः
māheśāṃśaḥ prathamato nāmnāsau munisattama | jaigīṣavya prasādante maheśasya samāgamaḥ
6
गणानान्देवसंङ्घानां मुनीनाञ्च समागमः । मया प्रसादितो देवस्स्तोत्रवर्येण सत्तम
gaṇānāndevasaṃṅghānāṃ munīnāñca samāgamaḥ | mayā prasādito devasstotravaryeṇa sattama
7
कैलासवर्णनञ्चैव विचित्रं श्रीमहेशितुः । देव्या महेशसंवादः कौतुकेन नगोत्तमे
kailāsavarṇanañcaiva vicitraṃ śrīmaheśituḥ | devyā maheśasaṃvādaḥ kautukena nagottame
8
चरित्रं शिवयोस्तत्र विचित्रं भूधरोत्तमे । कैलासेश्वरपूजा च महेशेन प्रकल्पनम्
caritraṃ śivayostatra vicitraṃ bhūdharottame | kailāseśvarapūjā ca maheśena prakalpanam
9
द्वारप्राकाररचना गणानां स्थानकल्पनम् । मम देव्याश्च विप्रेन्द्र गणेशस्य महात्मनः
dvāraprākāraracanā gaṇānāṃ sthānakalpanam | mama devyāśca viprendra gaṇeśasya mahātmanaḥ
10
सहस्रलिंगाध्यायञ्च कैलासस्य तपः क्रिया । तत्प्रसादनमीशेन तन्मौलौवसतिस्तथा
sahasraliṃgādhyāyañca kailāsasya tapaḥ kriyā | tatprasādanamīśena tanmaulauvasatistathā
11
कैलासस्याभिषेकश्च शंभुना कल्पितोनगैः । जिज्ञासा चैवदेवानां देव्याः प्रादुर्भवात्सुराः
kailāsasyābhiṣekaśca śaṃbhunā kalpitonagaiḥ | jijñāsā caivadevānāṃ devyāḥ prādurbhavātsurāḥ
12
ज्ञानार्थकथनञ्चैव चात्मलिंगस्य पूजनम् । माहेशेऽस्मिन्महेशेन कथाःप्रोक्ताश्शिवेन हि
jñānārthakathanañcaiva cātmaliṃgasya pūjanam | māheśe'sminmaheśena kathāḥproktāśśivena hi
13
दिक्संख्यया मुनिश्रेष्ठ कथितोऽयं सहस्रतः । द्वितीयोंशो भवो नाम्ना तस्मिन्प्रोक्तं हरेण हि
diksaṃkhyayā muniśreṣṭha kathito'yaṃ sahasrataḥ | dvitīyoṃśo bhavo nāmnā tasminproktaṃ hareṇa hi
14
देव्याश्चैव तपश्चर्या मणिद्वीपागमस्तथा । कल्पवाटीरम्यनीपवनद्वीपोपवर्णनम्
devyāścaiva tapaścaryā maṇidvīpāgamastathā | kalpavāṭīramyanīpavanadvīpopavarṇanam
15
चिन्तामणिमहासौधवर्णनं श्रीपुरस्य च । तस्मात्कैलासगमनं कामेशस्य वपुर्धरः
cintāmaṇimahāsaudhavarṇanaṃ śrīpurasya ca | tasmātkailāsagamanaṃ kāmeśasya vapurdharaḥ
16
कामेशया च देव्याच तत्र नित्यमवस्थितिः । हिमाचलागमश्चैव देव्यास्तत्र गतिर्मुने
kāmeśayā ca devyāca tatra nityamavasthitiḥ | himācalāgamaścaiva devyāstatra gatirmune
17
दूर्वाससो महिम्नश्च कथनं तत्तपःक्रिया । द्वितीये भवसंज्ञेऽत्र कथितं शंकरेण हि
dūrvāsaso mahimnaśca kathanaṃ tattapaḥkriyā | dvitīye bhavasaṃjñe'tra kathitaṃ śaṃkareṇa hi
18
सहस्रत्रितयेनैव श्लोकसार्धेन शंकरः । हरस्त्रितीयो देवेन कथितोंशो मुनीश्वराः
sahasratritayenaiva ślokasārdhena śaṃkaraḥ | harastritīyo devena kathitoṃśo munīśvarāḥ
19
तस्मिन्मुनिप्रार्थनया व्यासेन परिकीर्तनम् । गायत्र्याश्च तपश्चर्या देव्यागमनमुत्तमम्
tasminmuniprārthanayā vyāsena parikīrtanam | gāyatryāśca tapaścaryā devyāgamanamuttamam
20
गणानां प्रेषणञ्चैव तीर्थेशमहिमा तथा । श्रीशैलमहिमा चापि मानसार्चनकल्पनम्
gaṇānāṃ preṣaṇañcaiva tīrtheśamahimā tathā | śrīśailamahimā cāpi mānasārcanakalpanam
21
जनकस्य च संवादो याज्ञवल्क्येन शंकर । पद्मावत्या रत्ननिधेस्संवादः परमाद्भुतः
janakasya ca saṃvādo yājñavalkyena śaṃkara | padmāvatyā ratnanidhessaṃvādaḥ paramādbhutaḥ
22
पृ0 40) तस्योत्तरार्धे चांशस्य पूजारत्ननिधेस्तथा । शिवस्य देवदेवस्य महादेवस्य शूलिनः
pṛ0 40) tasyottarārdhe cāṃśasya pūjāratnanidhestathā | śivasya devadevasya mahādevasya śūlinaḥ
23
यमलोकस्य वृत्तान्तो दर्शनं शिवयोस्तथा । संवादो भस्मरुद्राक्षधारणे महिमापि च
yamalokasya vṛttānto darśanaṃ śivayostathā | saṃvādo bhasmarudrākṣadhāraṇe mahimāpi ca
24
गंगाया नर्मदायाश्च वरप्राप्त्युपवर्णनम् । माहेश्वरव्रतञ्चैव वर्णनं श्रीमहेशितुः
gaṃgāyā narmadāyāśca varaprāptyupavarṇanam | māheśvaravratañcaiva varṇanaṃ śrīmaheśituḥ
25
शैवार्चनादिकथनं शिवडुण्डिचरित्रकम् । त्रयस्त्रिंशत्सहस्रेण सङ्ख्यया प्रोक्त एव हि
śaivārcanādikathanaṃ śivaḍuṇḍicaritrakam | trayastriṃśatsahasreṇa saṅkhyayā prokta eva hi
26
चतुर्थश्शिवसंज्ञोहि चांशस्साक्षाच्छिवोदितः । बृहज्जाबालधर्मादिकथनं दशकस्य हि
caturthaśśivasaṃjñohi cāṃśassākṣācchivoditaḥ | bṛhajjābāladharmādikathanaṃ daśakasya hi
27
भस्मरुद्राक्षमहिमा शिवलिंगार्चनस्य च । महिमा शिवभक्तानां शैवानां भोजनेऽपि च
bhasmarudrākṣamahimā śivaliṃgārcanasya ca | mahimā śivabhaktānāṃ śaivānāṃ bhojane'pi ca
28
शिवक्षेत्रनिवासस्य कथनं बिल्वपूजनात् । पूजाप्रभावकथनं तस्मिन्नंशे प्रकीर्तितम्
śivakṣetranivāsasya kathanaṃ bilvapūjanāt | pūjāprabhāvakathanaṃ tasminnaṃśe prakīrtitam
29
चतुस्सहस्रतस्सङ्ख्या देवदेवोदिता शुभा । भर्गोनाम्ना पञ्चमांशः कथितोऽत्रशिवेनहि
catussahasratassaṅkhyā devadevoditā śubhā | bhargonāmnā pañcamāṃśaḥ kathito'traśivenahi
30
ज्योतिर्लिंगद्वादशानां महिमा तत्र कीर्तितः । वामदेवोपदेशश्च श्रुतिसिद्धान्त कीर्तनम्
jyotirliṃgadvādaśānāṃ mahimā tatra kīrtitaḥ | vāmadevopadeśaśca śrutisiddhānta kīrtanam
31
गंगासागरमाहात्म्यं प्रभासे पुष्करस्य च । हरिद्वारप्रभावश्च बिल्वमूलार्चनस्य च
gaṃgāsāgaramāhātmyaṃ prabhāse puṣkarasya ca | haridvāraprabhāvaśca bilvamūlārcanasya ca
32
सहस्रनामकथनन्देवदेवस्य शूलिनः । महिमा देवदेवेन कथितोऽस्ति विशेषतः
sahasranāmakathanandevadevasya śūlinaḥ | mahimā devadevena kathito'sti viśeṣataḥ
33
शिवायै षट्सहस्रोऽत्र कथितो मुनिसत्तम । शंकरांशस्ततष्षष्ठो दिक्सङ्ख्या क्रमसङ्ख्यया
śivāyai ṣaṭsahasro'tra kathito munisattama | śaṃkarāṃśastataṣṣaṣṭho diksaṅkhyā kramasaṅkhyayā
34
कथितश्श्रीमहेशेन तस्मिन्रुद्रोपवर्णनम् । शिवलिंगार्चनस्यापि भस्मरुद्राक्षधारिणाम्
kathitaśśrīmaheśena tasminrudropavarṇanam | śivaliṃgārcanasyāpi bhasmarudrākṣadhāriṇām
35
महिमा शांभवानाञ्च कथितो विस्तरेणहि । निदाघृभुसंवादष्षष्ठांशो ज्ञानविस्तरः
mahimā śāṃbhavānāñca kathito vistareṇahi | nidāghṛbhusaṃvādaṣṣaṣṭhāṃśo jñānavistaraḥ
36
उग्रो नाम्ना सप्तमोऽत्र कथितश्शंकरेण हि । देवस्य देव्या संवादो नामसाहस्रकीर्तनम्
ugro nāmnā saptamo'tra kathitaśśaṃkareṇa hi | devasya devyā saṃvādo nāmasāhasrakīrtanam
37
अविमुक्तप्रशंसा च शतर्चनतपःक्रिया । नाम्नामष्टोत्तराख्यानं महिम्नमथवै हरेः
avimuktapraśaṃsā ca śatarcanatapaḥkriyā | nāmnāmaṣṭottarākhyānaṃ mahimnamathavai hareḥ
38
पुष्पदन्तमहिम्नाख्यकथनं तत्र सत्तम । काटकोटरजाख्यानं क्षेत्राणां महिमा तथा
puṣpadantamahimnākhyakathanaṃ tatra sattama | kāṭakoṭarajākhyānaṃ kṣetrāṇāṃ mahimā tathā
39
श्रीशैलस्यारुणाद्रेश्च तथा वृद्धाचलस्य च । श्रीमद्दक्षिणकैलासमाहात्म्यमपि विस्तरात्
śrīśailasyāruṇādreśca tathā vṛddhācalasya ca | śrīmaddakṣiṇakailāsamāhātmyamapi vistarāt
40
पुण्डरीकपुरस्यापि काञ्च्याश्श्रीमहिमाद्भुतः । कुंभघोण प्रशंसा च तथा मध्यार्जुनस्य च
puṇḍarīkapurasyāpi kāñcyāśśrīmahimādbhutaḥ | kuṃbhaghoṇa praśaṃsā ca tathā madhyārjunasya ca
41
चतुर्दशसहस्रेण कथितोऽत्रशिवेनहि । भीमोऽष्टमो महांशोऽत्रकथितो विस्तरेण हि
caturdaśasahasreṇa kathito'traśivenahi | bhīmo'ṣṭamo mahāṃśo'trakathito vistareṇa hi
42
दिङ्नागसङ्ख्यया चैव सहस्रेण मुनीश्वर । पाताललोकलिंगानां महिमाकथनं मुने
diṅnāgasaṅkhyayā caiva sahasreṇa munīśvara | pātālalokaliṃgānāṃ mahimākathanaṃ mune
43
श्रीहाटकेशमहिमा शेषस्यात्रतपःक्रिया । प्रसादश्च महेशेन तस्य भूभारधारणे
śrīhāṭakeśamahimā śeṣasyātratapaḥkriyā | prasādaśca maheśena tasya bhūbhāradhāraṇe
44
सदाशिवोंशो नवमस्तस्मिञ्छंभोः कथानकम् । शिवेनोक्तं महादेव्यै नामसाहस्रमुत्तमम्
sadāśivoṃśo navamastasmiñchaṃbhoḥ kathānakam | śivenoktaṃ mahādevyai nāmasāhasramuttamam
45
कलौ शैवसमाचारप्रमाणेन विमुक्तिदम् । महाशांभवधर्माणां कीर्तनं परिकीर्तितम्
kalau śaivasamācārapramāṇena vimuktidam | mahāśāṃbhavadharmāṇāṃ kīrtanaṃ parikīrtitam
46
षड्वक्त्रसङ्ख्यया मेऽद्य सहस्रेणैव कीर्तनम् । ईश्वरांशोऽत्र दशमो दशधर्मानुकीर्तनम्
ṣaḍvaktrasaṅkhyayā me'dya sahasreṇaiva kīrtanam | īśvarāṃśo'tra daśamo daśadharmānukīrtanam
47
पृ0 41) बिल्वार्चनं रुद्रजपः पञ्चाक्षरमहोदयः । शिवलिंगार्चनस्यापि भस्मरुद्राक्षकीर्तनम्
pṛ0 41) bilvārcanaṃ rudrajapaḥ pañcākṣaramahodayaḥ | śivaliṃgārcanasyāpi bhasmarudrākṣakīrtanam
48
शांभवानां शिवक्षेत्रे शैवभक्तार्चनन्तथा । शिवनाम्नस्स्मृतेश्चापि दशमे महिमातु यः
śāṃbhavānāṃ śivakṣetre śaivabhaktārcanantathā | śivanāmnassmṛteścāpi daśame mahimātu yaḥ
49
तस्मिन्प्रकीर्तितो विप्र शङ्करस्याख्यसङ्ख्यया । एकादशो महादेवः प्रोक्तोंशश्शंभुना तदा
tasminprakīrtito vipra śaṅkarasyākhyasaṅkhyayā | ekādaśo mahādevaḥ proktoṃśaśśaṃbhunā tadā
50
मन्नेत्रक्रमसङ्ख्यातश्शिवपूजाक्रमात्मकः । अभिषेचनिकानाञ्च फलं पुष्पेषु कीर्तनम्
mannetrakramasaṅkhyātaśśivapūjākramātmakaḥ | abhiṣecanikānāñca phalaṃ puṣpeṣu kīrtanam
51
भक्तीनां दशकानाञ्च कीर्तनं पूजने तथा । मुनिसङ्ख्या ग्रन्थतश्च ईशो नाम्नात्र द्वादशः
bhaktīnāṃ daśakānāñca kīrtanaṃ pūjane tathā | munisaṅkhyā granthataśca īśo nāmnātra dvādaśaḥ
52
शिवनाम्नां सहस्रस्य कीर्तनं तत्र कीर्तितम् । प्रसादश्शंकरस्यापि ममैवानुग्रहात्मकः
śivanāmnāṃ sahasrasya kīrtanaṃ tatra kīrtitam | prasādaśśaṃkarasyāpi mamaivānugrahātmakaḥ
53
शिवरत्नाकरकथामाहात्म्यं मुनितोषणम् । एतदध्यायसाहस्रैः कीर्तितं श्रीशिवेन हि
śivaratnākarakathāmāhātmyaṃ munitoṣaṇam | etadadhyāyasāhasraiḥ kīrtitaṃ śrīśivena hi
54
देव्यै देवेन कथितं रहस्यं शिवसम्मतम् । सदाशिवसमो देवो नास्ति लोकत्रयेष्वपि
devyai devena kathitaṃ rahasyaṃ śivasammatam | sadāśivasamo devo nāsti lokatrayeṣvapi
55
तथा शिवरहस्येन तुल्यमन्यन्न विद्यते । शैवसारमहारत्नकोशोऽयं मुनिसत्तम
tathā śivarahasyena tulyamanyanna vidyate | śaivasāramahāratnakośo'yaṃ munisattama
56
पुण्योऽयं पावनश्चायं भक्तिसारकथाश्रयः । संसारायासधर्माणां कथनेन विवर्जितम्
puṇyo'yaṃ pāvanaścāyaṃ bhaktisārakathāśrayaḥ | saṃsārāyāsadharmāṇāṃ kathanena vivarjitam
57
वर्णाश्रमविचारादिकथाश्रमविवर्जितः । अत्याश्रमोक्तधर्माणामाकरोऽयं महामुने
varṇāśramavicārādikathāśramavivarjitaḥ | atyāśramoktadharmāṇāmākaro'yaṃ mahāmune
58
नानाकथासुधाश्शैवाः परमानन्दनिर्भराः । देव्यै देवेन कथिताश्शतसाहस्रतोऽधिकाः
nānākathāsudhāśśaivāḥ paramānandanirbharāḥ | devyai devena kathitāśśatasāhasrato'dhikāḥ
59
भक्तैश्श्राव्योऽयमतुलश्चेतिहासवरोत्तमः । शैवसारकथारत्नं सर्वस्वोऽयं मुनीश्वराः
bhaktaiśśrāvyo'yamatulaścetihāsavarottamaḥ | śaivasārakathāratnaṃ sarvasvo'yaṃ munīśvarāḥ
60
स्कन्दे गजानने गौर्यां यथाप्रीतिर्महेशितुः । तथा शिवरहस्येऽपि गोप्यं गोप्यमिदं शुभम्
skande gajānane gauryāṃ yathāprītirmaheśituḥ | tathā śivarahasye'pi gopyaṃ gopyamidaṃ śubham
61
नदेयं नैव वक्तव्यमादौ तेभ्यस्त्वया मुने । शप मत्पदयोर्विप्र नचेन्मूर्धाद्य ते पतेत्
nadeyaṃ naiva vaktavyamādau tebhyastvayā mune | śapa matpadayorvipra nacenmūrdhādya te patet
62
वेदान्तसारसर्वस्वं शिवभक्तिप्रकाशकम् । देयं भक्ताय विप्राय पुत्रायात्यन्तरागिणे
vedāntasārasarvasvaṃ śivabhaktiprakāśakam | deyaṃ bhaktāya viprāya putrāyātyantarāgiṇe
63
वक्तव्यमनहंकारचित्तायात्मगुणाय च । शैवाय शंभोरुत्कर्षभक्तियुक्ताय ते मुने
vaktavyamanahaṃkāracittāyātmaguṇāya ca | śaivāya śaṃbhorutkarṣabhaktiyuktāya te mune
64
संवत्सरोषितायत्वं भक्तायान्ते निवासिने । त्रिणेत्रचिन्तापात्राय नान्यस्मै सत्यमुच्यते
saṃvatsaroṣitāyatvaṃ bhaktāyānte nivāsine | triṇetracintāpātrāya nānyasmai satyamucyate
65
स्कन्दः– जगाद जगतां गुरुस्त्रिजगतां जनित्रीं मुदा जगत्त्रितयजन्तुहृत्त्रिविधतापदुःखापहम् । जडाजडगतस्थितिप्रलयभावभावं भवं विशोषयदिदम्मुहुश्शिवरहस्यरत्नांशुमान्
skandaḥ– jagāda jagatāṃ gurustrijagatāṃ janitrīṃ mudā jagattritayajantuhṛttrividhatāpaduḥkhāpaham | jaḍājaḍagatasthitipralayabhāvabhāvaṃ bhavaṃ viśoṣayadidammuhuśśivarahasyaratnāṃśumān
66
पृ0 42) तदेव भवतां वदे भवदवाग्निसंशोषकं विधुन्तुदमुखोत्थितप्रकटसोमधामप्रभम् । विकासितदिशामुखप्रथितपाण्डिमानोपमं सुधामपि बुधाः परं हवनवक्त्रहव्याशनाः
pṛ0 42) tadeva bhavatāṃ vade bhavadavāgnisaṃśoṣakaṃ vidhuntudamukhotthitaprakaṭasomadhāmaprabham | vikāsitadiśāmukhaprathitapāṇḍimānopamaṃ sudhāmapi budhāḥ paraṃ havanavaktrahavyāśanāḥ
67
विधूय सुरलोकगाः परिपठन्ति शंभोः कथा- मनाथजननाथ ते प्रमथनाथ नाथोऽस्म्यहम् । गिरीन्द्रवरकन्यकाहृदयनाथ पादांबुजं मनोरथपथातिगं प्रथय भक्तिभावं त्वयि
vidhūya suralokagāḥ paripaṭhanti śaṃbhoḥ kathā- manāthajananātha te pramathanātha nātho'smyaham | girīndravarakanyakāhṛdayanātha pādāṃbujaṃ manorathapathātigaṃ prathaya bhaktibhāvaṃ tvayi
68
क्षमारथरथांगकस्स्फुटसुपाणिबाणासनो हिरण्यनगकार्मुकस्सकलविश्वनाथाधुना । स एव सुखसंपदान्निधिरपारपुण्यास्पद- स्स एव सुकृती सदा यजति वेदमध्येति च
kṣamāratharathāṃgakassphuṭasupāṇibāṇāsano hiraṇyanagakārmukassakalaviśvanāthādhunā | sa eva sukhasaṃpadānnidhirapārapuṇyāspada- ssa eva sukṛtī sadā yajati vedamadhyeti ca
69
स दाननिचयार्जितप्रभवधर्मसाराधिक- स्स उत्तमससागरावसन उर्वरादानकृत् । क्षणार्द्धमधिकादरश्शिवरहस्यधर्मश्रवा- स्स एव गणनायकश्शिवपदाब्जयुग्मार्चकः
sa dānanicayārjitaprabhavadharmasārādhika- ssa uttamasasāgarāvasana urvarādānakṛt | kṣaṇārddhamadhikādaraśśivarahasyadharmaśravā- ssa eva gaṇanāyakaśśivapadābjayugmārcakaḥ
70
सुरासुरचराचरप्रभवनाशरक्षाक्रमै- र्नवायुतरणांकणप्रभवयुद्धदुःखोद्भवैः । श्रमैकरसधूर्गतैर्विविधवर्णधर्माश्रमैः कथाभिरिह नश्वरं न भवति श्रुतीशेखरम्
surāsuracarācaraprabhavanāśarakṣākramai- rnavāyutaraṇāṃkaṇaprabhavayuddhaduḥkhodbhavaiḥ | śramaikarasadhūrgatairvividhavarṇadharmāśramaiḥ kathābhiriha naśvaraṃ na bhavati śrutīśekharam
71
तुषाद्रिरभिखण्डनैः किमिह लभ्यते तण्डुल- स्तथा शिवकथां विना न हि शमाय जन्तोर्मनः । शैवानन्दरहस्यसागरमहाद्वीपोपमा द्वादशा- स्ते चांशाः खलु शंकरेण विहिता नामानि तेषां वदे
tuṣādrirabhikhaṇḍanaiḥ kimiha labhyate taṇḍula- stathā śivakathāṃ vinā na hi śamāya jantormanaḥ | śaivānandarahasyasāgaramahādvīpopamā dvādaśā- ste cāṃśāḥ khalu śaṃkareṇa vihitā nāmāni teṣāṃ vade
72
पृ0 43) माहेशः प्रथमस्ततोऽपि हि भवो हारश्चतुर्थश्शिवोभर्ग- श्शंकर उग्रो भीमसदाशिवेश्वरमहादेवेशसंज्ञा क्रमात् । ग्रन्थैः पद्यमहाघमौलिभिदुरैर्वेदान्तसारातिगै- श्शब्दैस्सुन्दरवाग्विलासमधुरैरध्यायबृन्दैश्शिवः
pṛ0 43) māheśaḥ prathamastato'pi hi bhavo hāraścaturthaśśivobharga- śśaṃkara ugro bhīmasadāśiveśvaramahādeveśasaṃjñā kramāt | granthaiḥ padyamahāghamaulibhidurairvedāntasārātigai- śśabdaissundaravāgvilāsamadhurairadhyāyabṛndaiśśivaḥ
73
साहस्रैश्च शतैस्सहस्रकिरणाकारैस्तथा शंकरो दिग्लोकामरब्रह्मवेदृतुभिर्दिङ्नागतस्सङ्ख्यया । मद्वक्त्रामलनीलनीरजसमं नेत्रक्रमं शंकर- स्यास्याक्षिक्रमशोमुनिक्रममयो देव्यै शिवेनाकथि
sāhasraiśca śataissahasrakiraṇākāraistathā śaṃkaro diglokāmarabrahmavedṛtubhirdiṅnāgatassaṅkhyayā | madvaktrāmalanīlanīrajasamaṃ netrakramaṃ śaṃkara- syāsyākṣikramaśomunikramamayo devyai śivenākathi
śrīśivarahasye prathamāṃśe kailāsavarṇanannāma dvādaśo'dhyāyaḥ 12
1
कैलासवर्णनन्नाम द्वादशोऽध्यायः सूत उवाच– जैगीषव्याय यत्प्रोक्तं स्कन्देनामिततेजसा । कैलासापारसौधानां गोपुराणां नगस्य च
kailāsavarṇanannāma dvādaśo'dhyāyaḥ sūta uvāca– jaigīṣavyāya yatproktaṃ skandenāmitatejasā | kailāsāpārasaudhānāṃ gopurāṇāṃ nagasya ca
2
प्रमाणं लिंगसङ्घानामालयानाञ्च निर्मितिः । शिवेन निर्मितं साक्षान्मनसैवातुलप्रभम्
pramāṇaṃ liṃgasaṅghānāmālayānāñca nirmitiḥ | śivena nirmitaṃ sākṣānmanasaivātulaprabham
3
स्कन्द उवाच– जैगीषव्य शृणुष्वाद्य कैलासस्थानमुत्तमम् । शृणुष्व शैलं शिखरैश्शंभोरावासमुत्तमम्
skanda uvāca– jaigīṣavya śṛṇuṣvādya kailāsasthānamuttamam | śṛṇuṣva śailaṃ śikharaiśśaṃbhorāvāsamuttamam
4
सर्वगस्यापि देवस्य महादेवस्य शूलिनः । महाकैलासमित्युक्तं शिवतत्वार्थवेदिभिः
sarvagasyāpi devasya mahādevasya śūlinaḥ | mahākailāsamityuktaṃ śivatatvārthavedibhiḥ
5
ईशानगणमुख्यस्य कैलासं दक्षिणाश्रमम् । अयं मुनेऽमरेन्द्राणां निवासो मेरुरुन्नतः
īśānagaṇamukhyasya kailāsaṃ dakṣiṇāśramam | ayaṃ mune'marendrāṇāṃ nivāso merurunnataḥ
6
प्रविष्टष्षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विश्रुतः । वृषस्स्तम्भमयो भाति महाकैलाससन्निधौ
praviṣṭaṣṣoḍaśādhastāddvātriṃśanmūrdhni viśrutaḥ | vṛṣasstambhamayo bhāti mahākailāsasannidhau
7
कैलासादपि पूर्वस्यां पञ्चाशच्च सहस्रकैः । योजनैः प्राक्स्थितो मेरुर्नानासुरगणाश्रयः
kailāsādapi pūrvasyāṃ pañcāśacca sahasrakaiḥ | yojanaiḥ prāksthito merurnānāsuragaṇāśrayaḥ
8
ज्वलज्ज्वलनसंकाशः कनकोत्तमपर्वतः । सहस्रयोजनोत्सेधं विद्धि मेरुं सुरालयम्
jvalajjvalanasaṃkāśaḥ kanakottamaparvataḥ | sahasrayojanotsedhaṃ viddhi meruṃ surālayam
9
षट्षष्टिः कथितो योगिन्नूर्ध्वायामैकमूलतः । लक्षयोजनमानेन कैलासो धरणीधरः
ṣaṭṣaṣṭiḥ kathito yoginnūrdhvāyāmaikamūlataḥ | lakṣayojanamānena kailāso dharaṇīdharaḥ
10
कुलाचलास्सप्तशतं प्राकारपरिघास्तथा । प्राकारस्यान्तरालस्य सप्तद्वीपास्ससागराः
kulācalāssaptaśataṃ prākāraparighāstathā | prākārasyāntarālasya saptadvīpāssasāgarāḥ
11
पृ0 44) सप्ताब्धयस्सुधांभोधिकल्लोलामलवीजितः । कोटियोजनमानेन कैलासो भूधरो महान्
pṛ0 44) saptābdhayassudhāṃbhodhikallolāmalavījitaḥ | koṭiyojanamānena kailāso bhūdharo mahān
12
राजतो राजतेऽत्यन्तं पञ्चाशल्लक्षमानतः । सप्तपातालमूलान्तस्सप्तलोकान्त उच्छ्रयः
rājato rājate'tyantaṃ pañcāśallakṣamānataḥ | saptapātālamūlāntassaptalokānta ucchrayaḥ
13
महाराजतभूभागश्चन्द्रकोटिसमप्रभः । नाग्निर्नविधुर्नोसूर्यस्तत्तेजस्सदृशो भुवि
mahārājatabhūbhāgaścandrakoṭisamaprabhaḥ | nāgnirnavidhurnosūryastattejassadṛśo bhuvi
14
चतुर्दश महालोकानुच्छ्रायश्शिखरैस्स्वयम् । मध्ये सुधासागरस्य फेनमण्डोपमस्स्थितः
caturdaśa mahālokānucchrāyaśśikharaissvayam | madhye sudhāsāgarasya phenamaṇḍopamassthitaḥ
15
न हरो न हरिर्धाता महेन्द्राद्याश्च देवताः । न सुपर्णोरगा यक्षा न गन्धर्वा दितेस्सुताः
na haro na harirdhātā mahendrādyāśca devatāḥ | na suparṇoragā yakṣā na gandharvā ditessutāḥ
16
न वीक्षितुं शक्नुवन्ति किं पुनर्गन्तुमञ्जसा । तत्प्रभाभिहतालोका हराजहरिणो द्विज
na vīkṣituṃ śaknuvanti kiṃ punargantumañjasā | tatprabhābhihatālokā harājahariṇo dvija
17
तत्तेजसा प्रतिहतास्सूर्येन्दुपवनानलाः । सुधासागरकल्लोलैः कैलासस्पर्शवायवः
tattejasā pratihatāssūryendupavanānalāḥ | sudhāsāgarakallolaiḥ kailāsasparśavāyavaḥ
18
पुनन्ति लोकानखिलान्विष्णुब्रह्महरामरान् । सुरासुराणां गमनं न तत्र मनसापि हि
punanti lokānakhilānviṣṇubrahmaharāmarān | surāsurāṇāṃ gamanaṃ na tatra manasāpi hi
19
न वेदवचनैश्शक्यो महाकैलासपर्वतः । तल्लेशलेशमहिमां कश्शक्तो वक्तुमप्यणु
na vedavacanaiśśakyo mahākailāsaparvataḥ | talleśaleśamahimāṃ kaśśakto vaktumapyaṇu
20
सहस्रवदनश्शेषस्सहस्राक्षोऽपि नेक्षते । किं पुनर्मानवाः क्षुद्रा वराकास्ते सुरासुराः
sahasravadanaśśeṣassahasrākṣo'pi nekṣate | kiṃ punarmānavāḥ kṣudrā varākāste surāsurāḥ
21
शतं कुलाचलामुख्याः प्राकाराइवसंस्थिताः । महद्भिरुच्छ्रितैश्शृङ्गैः केचिद्गोपुरवत्स्थिताः
śataṃ kulācalāmukhyāḥ prākārāivasaṃsthitāḥ | mahadbhirucchritaiśśṛṅgaiḥ kecidgopuravatsthitāḥ
22
तदन्तरान्तरालेषु परिघाकृतयोऽब्धयः । ततोऽपि सप्तप्राकारं शंभोरन्तर्गृहं परम्
tadantarāntarāleṣu parighākṛtayo'bdhayaḥ | tato'pi saptaprākāraṃ śaṃbhorantargṛhaṃ param
23
प्राकारभूतास्ते शैलास्ताञ्छृणुष्व द्विजोत्तम । कुमुदः पारियात्रश्च मैनाकः पूर्वदिग्गताः
prākārabhūtāste śailāstāñchṛṇuṣva dvijottama | kumudaḥ pāriyātraśca mainākaḥ pūrvadiggatāḥ
24
दर्दरो मलयो विन्ध्यः पश्चिमे योगिपुंगव । उदयास्ताचलौ मुञ्ज उत्तरस्यां दिशिस्थिताः
dardaro malayo vindhyaḥ paścime yogipuṃgava | udayāstācalau muñja uttarasyāṃ diśisthitāḥ
25
नीलो दक्षिणकैलासो हिमवान्दक्षिणे स्थितः । विगाह्यावहितास्सर्वे चाब्धिभिस्सर्वतो दिशम्
nīlo dakṣiṇakailāso himavāndakṣiṇe sthitaḥ | vigāhyāvahitāssarve cābdhibhissarvato diśam
26
द्वीपाब्धयस्ते परिघास्सप्तसप्तैव पर्वताः । तदन्तरान्तरालेषु विहरन्ति दिवौकसः
dvīpābdhayaste parighāssaptasaptaiva parvatāḥ | tadantarāntarāleṣu viharanti divaukasaḥ
27
गन्धर्वाप्सरसस्सिद्धानागयक्षास्सुपर्णकाः । किन्नराः पुरुषाः पुण्या विद्याधर स चारणाः
gandharvāpsarasassiddhānāgayakṣāssuparṇakāḥ | kinnarāḥ puruṣāḥ puṇyā vidyādhara sa cāraṇāḥ
28
मुनयो गणसङ्घाश्च नानाभूमैकभूमयः । ततोऽपि विष्णुब्रह्माद्या ईशाना रुद्रमूर्तयः
munayo gaṇasaṅghāśca nānābhūmaikabhūmayaḥ | tato'pi viṣṇubrahmādyā īśānā rudramūrtayaḥ
29
विहरन्ति पयोंभोधिप्राकारवरमाश्रिताः । स्वादूदकाब्धितीरे च ततोऽपि प्रमथाधिपाः
viharanti payoṃbhodhiprākāravaramāśritāḥ | svādūdakābdhitīre ca tato'pi pramathādhipāḥ
30
ततोऽपि रत्नप्राकारो दशसाहस्रयोजनः । तद्रत्नकान्तिधाराभिर्मण्डितं भुवनत्रयम्
tato'pi ratnaprākāro daśasāhasrayojanaḥ | tadratnakāntidhārābhirmaṇḍitaṃ bhuvanatrayam
31
मत्तकोकिलनेत्राभस्तत्रास्ते रत्नपर्वतः । शतयोजनकोच्छ्रायः पद्मरागनगोत्तमः
mattakokilanetrābhastatrāste ratnaparvataḥ | śatayojanakocchrāyaḥ padmarāganagottamaḥ
32
मयूखमालावितततन्मयूखतिरस्कृतः । चन्द्रकान्तमणिप्रोद्यत्प्राकारोऽस्ति तदन्तरा
mayūkhamālāvitatatanmayūkhatiraskṛtaḥ | candrakāntamaṇiprodyatprākāro'sti tadantarā
33
पञ्चाशतं सहस्रञ्च योजनायामतो द्विज । सोमाच्छशतपीयूषनिर्यद्धारासमन्वितः
pañcāśataṃ sahasrañca yojanāyāmato dvija | somācchaśatapīyūṣaniryaddhārāsamanvitaḥ
34
तत्कान्तिसारधाराभी रञ्जितास्तत्र भूमयः । हिमसारमहातार धाराव्यापिनगोत्तमः
tatkāntisāradhārābhī rañjitāstatra bhūmayaḥ | himasāramahātāra dhārāvyāpinagottamaḥ
35
दशसाहस्रमानेन तत्रास्ते हीरको ह्यगः । इन्द्रनीलामलमणिप्राकारोऽस्ति तदन्तरे
daśasāhasramānena tatrāste hīrako hyagaḥ | indranīlāmalamaṇiprākāro'sti tadantare
36
पृ0 45) पञ्चाशत्सोऽपि मानेन नीलनीलोत्पलद्युतिः । तन्नैल्यगर्भसौन्दर्यधाराधीरैकभूमयः
pṛ0 45) pañcāśatso'pi mānena nīlanīlotpaladyutiḥ | tannailyagarbhasaundaryadhārādhīraikabhūmayaḥ
37
तत्रास्ति पर्वतवरश्चेन्द्रनीलशिलोच्चयः । नीलनीरदसंश्लिष्टविद्युल्लेखान्वितछविः
tatrāsti parvatavaraścendranīlaśiloccayaḥ | nīlanīradasaṃśliṣṭavidyullekhānvitachaviḥ
38
दशसाहस्रविस्तारः परिणाहेऽपि तादृशः । हरिन्मणीन्द्रप्रवरप्राकारोऽस्ति तदन्तरा
daśasāhasravistāraḥ pariṇāhe'pi tādṛśaḥ | harinmaṇīndrapravaraprākāro'sti tadantarā
39
तन्मणीन्द्रप्रभाभासिहरिता एव भूमयः । प्रवालपर्वतस्तत्र विंशत्साहस्रमुन्नतः
tanmaṇīndraprabhābhāsiharitā eva bhūmayaḥ | pravālaparvatastatra viṃśatsāhasramunnataḥ
40
बिंबामललसत्कान्तिकान्तो भूधरनायकः । तदन्तरेऽपि प्राकारो गोमेदमणिकल्पितः
biṃbāmalalasatkāntikānto bhūdharanāyakaḥ | tadantare'pi prākāro gomedamaṇikalpitaḥ
41
त्रिंशत्साहस्रमानेन मधुपिंगलसुन्दरः । तत्रोच्चः पर्वतो विप्र कुरुविंदमणिप्रभः
triṃśatsāhasramānena madhupiṃgalasundaraḥ | tatroccaḥ parvato vipra kuruviṃdamaṇiprabhaḥ
42
पक्षसंख्यासहस्रेण शिखरैश्चापि तादृशः । तस्यान्तरेऽपि प्राकारः पुष्परागशिलाञ्चितः
pakṣasaṃkhyāsahasreṇa śikharaiścāpi tādṛśaḥ | tasyāntare'pi prākāraḥ puṣparāgaśilāñcitaḥ
43
चत्वारिंशत्सहस्राणां योजनोन्नतमानतः । तस्यामलछविगणैस्सदृशास्तत्र भूमयः
catvāriṃśatsahasrāṇāṃ yojanonnatamānataḥ | tasyāmalachavigaṇaissadṛśāstatra bhūmayaḥ
44
तत्रापि भूधरश्रेष्ठो मुक्तामणिशतैश्चितः । उन्मत्ताखुभुजोत्तुंगलोचनामलसछविः
tatrāpi bhūdharaśreṣṭho muktāmaṇiśataiścitaḥ | unmattākhubhujottuṃgalocanāmalasachaviḥ
45
तदन्तरा त्विषाकारविंशत्साहस्रमानतः । तत्विषा चाभितस्सर्वपीतीभूतदिगन्तरः
tadantarā tviṣākāraviṃśatsāhasramānataḥ | tatviṣā cābhitassarvapītībhūtadigantaraḥ
46
वैडूर्यानेकसूत्राच्छधारारसविजृंभिताः । भूमयस्तत्र शोभन्ते विस्मयानां स्मयप्रदः
vaiḍūryānekasūtrācchadhārārasavijṛṃbhitāḥ | bhūmayastatra śobhante vismayānāṃ smayapradaḥ
47
तत्रास्ति पर्वतवरो नवरत्नयुतछविः । क्वचिन्मरकतस्वच्छलहरीहरिताकृतिः
tatrāsti parvatavaro navaratnayutachaviḥ | kvacinmarakatasvacchalaharīharitākṛtiḥ
48
क्वचिद्विद्रुमसंकाशस्सन्ध्याघननिभः क्वचित् । क्वचिद्धीरकजात्यच्छफलमूलसमच्छविः
kvacidvidrumasaṃkāśassandhyāghananibhaḥ kvacit | kvaciddhīrakajātyacchaphalamūlasamacchaviḥ
49
क्वचिद्वैडूर्यसूत्रोत्थभाभासितदिगन्तरः । उन्मत्तकोकिलाक्षाभकुरुविंदनिभः क्वचित्
kvacidvaiḍūryasūtrotthabhābhāsitadigantaraḥ | unmattakokilākṣābhakuruviṃdanibhaḥ kvacit
50
पुष्परागसरागोद्यद्रागरक्तोऽरुणः क्वचित् । तृणग्राहिमहानीलनीलिम्ना च नभोपमः
puṣparāgasarāgodyadrāgarakto'ruṇaḥ kvacit | tṛṇagrāhimahānīlanīlimnā ca nabhopamaḥ
51
क्वचिद्गोमेदकापारमधुधारासमछविः । मुक्ताकान्तितिरस्कारिश्लक्ष्णनैर्मल्यभायुतः
kvacidgomedakāpāramadhudhārāsamachaviḥ | muktākāntitiraskāriślakṣṇanairmalyabhāyutaḥ
52
स्वच्छाच्छस्फटिकोपांत बिंविताखिलदिक्तटः । नानारागमयूखौघश्चेन्द्रचापनिभः क्वचित्
svacchācchasphaṭikopāṃta biṃvitākhiladiktaṭaḥ | nānārāgamayūkhaughaścendracāpanibhaḥ kvacit
53
तत्रास्ति मण्टपवरं नानाचित्रविचित्रितम् । पद्मरागमणिस्तम्भस्तम्भपीठमनोहरम्
tatrāsti maṇṭapavaraṃ nānācitravicitritam | padmarāgamaṇistambhastambhapīṭhamanoharam
54
सिह्मशार्दूलशरभगजहंसशुकाकृतिः । व्यालिशुण्डानलिन्यादिचित्रचित्रित विस्मयम्
sihmaśārdūlaśarabhagajahaṃsaśukākṛtiḥ | vyāliśuṇḍānalinyādicitracitrita vismayam
55
एकैकरत्नसंकॢप्तनीलोछ्रायैकभासुरम् । पंक्तिशस्स्तम्भसाहस्रैर्नवरत्नपरिष्कृतैः
ekaikaratnasaṃkḷptanīlochrāyaikabhāsuram | paṃktiśasstambhasāhasrairnavaratnapariṣkṛtaiḥ
56
आपादपीठजश्लक्ष्णगोपानसिसुभित्तिकम् । स्वच्छादर्शतलप्रायभूमिभागैकरञ्जितम्
āpādapīṭhajaślakṣṇagopānasisubhittikam | svacchādarśatalaprāyabhūmibhāgaikarañjitam
57
तत्र स्तम्भप्रभाज्योत्स्नाप्रभाकरशतप्रभम् । न सूर्यचन्द्रौ भासेते वह्निनक्षत्रविद्युतः
tatra stambhaprabhājyotsnāprabhākaraśataprabham | na sūryacandrau bhāsete vahninakṣatravidyutaḥ
58
तिरस्कृताः प्रभास्तत्र न रात्रिर्न दिवाक्वचित् । एवं लक्षस्तम्भयुक्तामण्टपास्तत्रकल्पिताः
tiraskṛtāḥ prabhāstatra na rātrirna divākvacit | evaṃ lakṣastambhayuktāmaṇṭapāstatrakalpitāḥ
59
पर्यन्तगोपुरोत्तुंगरत्नसौधायुतैर्वृतः । सहस्रलक्षफलकैस्स्तम्भकुंभैर्युतो मुने
paryantagopurottuṃgaratnasaudhāyutairvṛtaḥ | sahasralakṣaphalakaisstambhakuṃbhairyuto mune
60
गोपुराणां प्रमाणन्तु मनसापि न शक्यते । नानारुद्रावतारादिमणिकल्पितविग्रहः
gopurāṇāṃ pramāṇantu manasāpi na śakyate | nānārudrāvatārādimaṇikalpitavigrahaḥ
61
पृ0 46) मूर्तयो देवदेवस्य देव्या वाहनसंयुताः । स्कन्दहेरंबनन्दीनां सप्तलोकान्तमुच्छ्रिताः
pṛ0 46) mūrtayo devadevasya devyā vāhanasaṃyutāḥ | skandaheraṃbanandīnāṃ saptalokāntamucchritāḥ
62
गोपुराणांतलैर्दिव्यैर्विस्तारायामलक्षकम् । लिंगोद्भवस्ततः पार्श्वेवृषवाहस्ततः परम्
gopurāṇāṃtalairdivyairvistārāyāmalakṣakam | liṃgodbhavastataḥ pārśvevṛṣavāhastataḥ param
63
सिन्धुरत्वक्परीवीतः क्वचित्सांबस्सपुत्रकः । स्कन्दहेरंबसहितः क्वचिद्गणगणैर्वृतः
sindhuratvakparīvītaḥ kvacitsāṃbassaputrakaḥ | skandaheraṃbasahitaḥ kvacidgaṇagaṇairvṛtaḥ
64
उमार्धविग्रहश्चापि नृत्ताटोपयुतः क्वचित् । वामांगदक्षिणांगोद्यज्जनार्दनविधिः क्वचित्
umārdhavigrahaścāpi nṛttāṭopayutaḥ kvacit | vāmāṃgadakṣiṇāṃgodyajjanārdanavidhiḥ kvacit
65
देवीपरिणयाकारः क्वचिद्भिक्षाटनाकृतिः । शूलासक्तकरश्चापि मृगपाणिः पुरादिहा
devīpariṇayākāraḥ kvacidbhikṣāṭanākṛtiḥ | śūlāsaktakaraścāpi mṛgapāṇiḥ purādihā
66
अन्धकासुरसंहारो दक्षिणामूर्तिरूपधृक् । मुनीनां ज्ञानदस्सिद्धिचिन्मुद्रापरिचिह्नितः
andhakāsurasaṃhāro dakṣiṇāmūrtirūpadhṛk | munīnāṃ jñānadassiddhicinmudrāparicihnitaḥ
67
तत्पूरुषवामदेवाद्या ईशानाघोरसंज्ञकाः । बालेन्दुमुकुटास्सर्वे कपर्दवरशोभिताः
tatpūruṣavāmadevādyā īśānāghorasaṃjñakāḥ | bālendumukuṭāssarve kapardavaraśobhitāḥ
68
रत्नाभरणभूषाढ्या मूर्तयश्शंकरस्य हि । दिक्पालपालिकाभिश्च तत्तद्रागमणिप्रभाः
ratnābharaṇabhūṣāḍhyā mūrtayaśśaṃkarasya hi | dikpālapālikābhiśca tattadrāgamaṇiprabhāḥ
69
कल्पिताः परमेशेन शिवलीलाविचित्रिताः । पर्यन्तस्फटिकाभाश्च वृषा नीलविलोचनाः
kalpitāḥ parameśena śivalīlāvicitritāḥ | paryantasphaṭikābhāśca vṛṣā nīlavilocanāḥ
70
महाशृंगैकमकुटघण्टामणिविभूषणाः । गोपुरोर्ध्वगतास्सर्वे महाहीरकशृंगकाः
mahāśṛṃgaikamakuṭaghaṇṭāmaṇivibhūṣaṇāḥ | gopurordhvagatāssarve mahāhīrakaśṛṃgakāḥ
71
प्राकारराजद्वृषभा महार्हमणिकल्पिताः । तलानां कोटिभिश्चापि गोपुराणां प्रकल्पनैः
prākārarājadvṛṣabhā mahārhamaṇikalpitāḥ | talānāṃ koṭibhiścāpi gopurāṇāṃ prakalpanaiḥ
72
गोपुराग्रमहारत्नकलशैस्त्यक्ततारकैः । दोधूयमानोच्चलितसमीरणपताककाः
gopurāgramahāratnakalaśaistyaktatārakaiḥ | dodhūyamānoccalitasamīraṇapatākakāḥ
73
तत्र गर्भगृहं शंभोर्नवरत्नान्वितोज्वलम् । तत्रास्ति मणिपीठोद्यच्चन्द्रस्फटिकसम्भवम्
tatra garbhagṛhaṃ śaṃbhornavaratnānvitojvalam | tatrāsti maṇipīṭhodyaccandrasphaṭikasambhavam
74
महालिंगंमहाकारं रत्ननागफणान्वितम् । महारत्नवने जातफुल्लमालाविभूषितम्
mahāliṃgaṃmahākāraṃ ratnanāgaphaṇānvitam | mahāratnavane jātaphullamālāvibhūṣitam
75
सुवर्णखचितानेकबिल्वचम्पकपूजितम् । शम्भुना च महादेव्या लोकानुग्रहकाम्यया
suvarṇakhacitānekabilvacampakapūjitam | śambhunā ca mahādevyā lokānugrahakāmyayā
76
समर्चितं त्रिकालेषु प्रदोषेषु विशेषतः । तत्रस्थरत्ननिर्यातकान्तिभिर्दीपितन्तदा
samarcitaṃ trikāleṣu pradoṣeṣu viśeṣataḥ | tatrastharatnaniryātakāntibhirdīpitantadā
77
तत्रातोद्यानि कुर्वन्ति गणाश्शम्भोर्महात्मनः । काहलीमुरजापारमड्डुडिण्डिमजर्झराः
tatrātodyāni kurvanti gaṇāśśambhormahātmanaḥ | kāhalīmurajāpāramaḍḍuḍiṇḍimajarjharāḥ
78
शंखमद्दलभेर्यश्च निस्साणाः पटहानकाः । गोमुखास्स्वस्तिपातालावेणुवीणाविनादिताः
śaṃkhamaddalabheryaśca nissāṇāḥ paṭahānakāḥ | gomukhāssvastipātālāveṇuvīṇāvināditāḥ
79
रुद्रकन्यासहस्राणि नाट्यं कुर्वन्ति तत्र हि । हावभावमनोज्ञानि पेशलालापवन्ति च
rudrakanyāsahasrāṇi nāṭyaṃ kurvanti tatra hi | hāvabhāvamanojñāni peśalālāpavanti ca
80
यौवनोन्मदधाराणि रणिताङ्घ्रिजनूपुरैः । क्वणद्रत्नजटाटंककपोलामलसच्छवि
yauvanonmadadhārāṇi raṇitāṅghrijanūpuraiḥ | kvaṇadratnajaṭāṭaṃkakapolāmalasacchavi
81
धूपामोदैकबहलगन्धगन्धायिता दिशः । नन्दिप्रोत्सारितगणास्तत्रास्ते शंकरोंऽबया
dhūpāmodaikabahalagandhagandhāyitā diśaḥ | nandiprotsāritagaṇāstatrāste śaṃkaroṃ'bayā
82
पूजितन्तं महालिंगं पश्यन्रत्नैस्सुपूजितम् । रुद्रकन्याकराब्जोत्थनखक्वणनघट्टितम्
pūjitantaṃ mahāliṃgaṃ paśyanratnaissupūjitam | rudrakanyākarābjotthanakhakvaṇanaghaṭṭitam
83
तन्त्रीमुखोत्थगन्धर्वगानं शृण्वन्त्सदांबया
tantrīmukhotthagandharvagānaṃ śṛṇvantsadāṃbayā
83
शिव शिव शिव शंभो चन्द्रमौलेऽमलात्मन् हर हर गुरुभारं शांभवान् मोदयस्व । वितर परममुक्तिं संसृतिर्मा कदाचिद्भवतु भवभवाब्धेस्तारकं त्वां प्रपन्नः
śiva śiva śiva śaṃbho candramaule'malātman hara hara gurubhāraṃ śāṃbhavān modayasva | vitara paramamuktiṃ saṃsṛtirmā kadācidbhavatu bhavabhavābdhestārakaṃ tvāṃ prapannaḥ
84
पृ0 47) एवं शंकरनामसारसुधया प्लाव्यन् गणाञ्छंकरः पश्येशि प्रसभं शिवावदनजांभोजभ्रमत्षट्पदाः
pṛ0 47) evaṃ śaṃkaranāmasārasudhayā plāvyan gaṇāñchaṃkaraḥ paśyeśi prasabhaṃ śivāvadanajāṃbhojabhramatṣaṭpadāḥ
85
ईश्वरः– कैलासेश्वरलिंगमेतदमलं दृष्टं सकृत्पूजितं मामप्याशु सुधार्द्रसारहृदयं कर्तुं प्रवृत्तं शिवे । इत्यंबावदनन्निरीक्ष्य भगवान्प्रोवाच साक्षाच्छिव- स्तल्लिंगालयदर्शनञ्च सुकरं पुण्यैरगण्यैरपि
īśvaraḥ– kailāseśvaraliṃgametadamalaṃ dṛṣṭaṃ sakṛtpūjitaṃ māmapyāśu sudhārdrasārahṛdayaṃ kartuṃ pravṛttaṃ śive | ityaṃbāvadanannirīkṣya bhagavānprovāca sākṣācchiva- stalliṃgālayadarśanañca sukaraṃ puṇyairagaṇyairapi
86
नो पश्यन्ति सुरासुराः प्रमथपा विष्णुर्विधिर्नेश्वरः पश्यत्येव महेश्वरो गिरिजया स्वंलिंगमत्यादरात् । भोगीभोगफणामणिप्रविलसल्लिंगैकमौलीलस- च्चन्द्रासारकरप्रचारजनितानंगप्रभावोज्झितम्
no paśyanti surāsurāḥ pramathapā viṣṇurvidhirneśvaraḥ paśyatyeva maheśvaro girijayā svaṃliṃgamatyādarāt | bhogībhogaphaṇāmaṇipravilasalliṃgaikamaulīlasa- ccandrāsārakarapracārajanitānaṃgaprabhāvojjhitam
śrīśivarahasye prathamāṃśe kailāseśvarapradoṣapūjāvarṇanannāma trayodaśo'dhyāyaḥ 13
1
कैलासेश्वरप्रदोषपूजावर्णनन्नाम त्रयोदशोऽध्यायः श्री सूत उवाच– कैलासेश्वरलिंगस्य महादेवस्सनातनः । वरिवस्यां स्वयं चक्रे सर्वपूज्योऽपि शाङ्करः
kailāseśvarapradoṣapūjāvarṇanannāma trayodaśo'dhyāyaḥ śrī sūta uvāca– kailāseśvaraliṃgasya mahādevassanātanaḥ | varivasyāṃ svayaṃ cakre sarvapūjyo'pi śāṅkaraḥ
2
ऋषयः– स कथं सर्वपूज्योऽपि भगवानगजापतिः । कैलासेश्वरलिंगस्य पूजनं कृतवान्वद
ṛṣayaḥ– sa kathaṃ sarvapūjyo'pi bhagavānagajāpatiḥ | kailāseśvaraliṃgasya pūjanaṃ kṛtavānvada
3
सूत उवाच– एवमेव पुरा पृष्टो जैगीषव्येन शंकरः । तमाह विनयानम्रं देवसेनापतिः पुरा
sūta uvāca– evameva purā pṛṣṭo jaigīṣavyena śaṃkaraḥ | tamāha vinayānamraṃ devasenāpatiḥ purā
4
स्कन्दः– साधु पृष्टन्त्वया विप्र तत्ते वक्ष्यामि सांप्रतम् । देवदेवस्य चरितं शृण्वतामघनाशनम्
skandaḥ– sādhu pṛṣṭantvayā vipra tatte vakṣyāmi sāṃpratam | devadevasya caritaṃ śṛṇvatāmaghanāśanam
5
स सर्वगोप्यो धर्मात्मा सर्वाकारतया स्थितः । लिंगार्चनं हि सर्वेषां विमुक्तिदमिति द्विजाः
sa sarvagopyo dharmātmā sarvākāratayā sthitaḥ | liṃgārcanaṃ hi sarveṣāṃ vimuktidamiti dvijāḥ
6
पृ0 48) स्वयं करोति भगवानंबिकापतिरीश्वरः । भुक्तिदं मुक्तिदञ्चेति सर्वेषां बोधनाय हि
pṛ0 48) svayaṃ karoti bhagavānaṃbikāpatirīśvaraḥ | bhuktidaṃ muktidañceti sarveṣāṃ bodhanāya hi
7
संसारसागरेमग्नान्त्समुद्धर्तुं महेश्वरः । कार्यं सुरासुरैश्चैवं विष्णुब्रह्ममरुद्गणैः
saṃsārasāgaremagnāntsamuddhartuṃ maheśvaraḥ | kāryaṃ surāsuraiścaivaṃ viṣṇubrahmamarudgaṇaiḥ
8
देवैर्मुनीन्द्रैर्गणपैर्द्विजैश्चैवाथ शांकरैः । पूजैव परमं श्रेय इति दर्शयितुं शिवः
devairmunīndrairgaṇapairdvijaiścaivātha śāṃkaraiḥ | pūjaiva paramaṃ śreya iti darśayituṃ śivaḥ
9
स्वयं देव्या महादेवः पूजां लिंगे करोति हि । तल्लिंगपूजनं देव्या शिवेनाकारि तच्छृणु
svayaṃ devyā mahādevaḥ pūjāṃ liṃge karoti hi | talliṃgapūjanaṃ devyā śivenākāri tacchṛṇu
10
प्रातस्संगवमध्याह्नप्रदोषेषु मुनीश्वराः । नन्दिकेशादिगणपै रुद्राणीभिस्सदाशिवः
prātassaṃgavamadhyāhnapradoṣeṣu munīśvarāḥ | nandikeśādigaṇapai rudrāṇībhissadāśivaḥ
11
पूजाप्रकल्पनं शंभोश्शंभुना वरिवस्यया । कैलासेश्वरलिंगस्य पूजनन्तच्छृणुष्व मे
pūjāprakalpanaṃ śaṃbhośśaṃbhunā varivasyayā | kailāseśvaraliṃgasya pūjanantacchṛṇuṣva me
12
सप्तसागरपात्रोत्थरसधारादिभिश्शिवः । गणानीतैश्च संभारैर्मनसा कल्पनक्षमैः
saptasāgarapātrottharasadhārādibhiśśivaḥ | gaṇānītaiśca saṃbhārairmanasā kalpanakṣamaiḥ
13
पूजया भोगमोक्षौ च सर्वेषाञ्च प्रदर्शितुम् । करोत्यपचितिं शंभुः कैलासेश्वरपूजनम्
pūjayā bhogamokṣau ca sarveṣāñca pradarśitum | karotyapacitiṃ śaṃbhuḥ kailāseśvarapūjanam
14
जैगीषव्यः– तत्पूजन प्रकारं मे कथय श्रवणोद्धतः । एभिर्मुनिवरैर्देवैर्गणेन्द्रैश्च विशेषतः
jaigīṣavyaḥ– tatpūjana prakāraṃ me kathaya śravaṇoddhataḥ | ebhirmunivarairdevairgaṇendraiśca viśeṣataḥ
15
स्कन्द उवाच– शृणु त्वं देवदेवेन कैलासेश्वरपूजनम् । यथाकृतं महेशेन शृणुत्वं मुक्तिदायकम्
skanda uvāca– śṛṇu tvaṃ devadevena kailāseśvarapūjanam | yathākṛtaṃ maheśena śṛṇutvaṃ muktidāyakam
16
श्रवणेनापि भक्तानां सर्वेषां मुक्तिदायकम् । शृणुष्वैकमना विप्र त्वमेभिर्भूसुरैस्सुरैः
śravaṇenāpi bhaktānāṃ sarveṣāṃ muktidāyakam | śṛṇuṣvaikamanā vipra tvamebhirbhūsuraissuraiḥ
17
गणौघैर्नन्दिकेशाद्यैरंबिकापतिपूजनम् । देव्यै देवेन कथितं पृच्छंत्यै शंकरस्स्वयम्
gaṇaughairnandikeśādyairaṃbikāpatipūjanam | devyai devena kathitaṃ pṛcchaṃtyai śaṃkarassvayam
18
तद्वक्ष्यामि समासेन शृणु त्वं पापनाशनम्
tadvakṣyāmi samāsena śṛṇu tvaṃ pāpanāśanam
18
स्नात्वा कैलासगंगातटमणिकलिते मण्टपे शंभुरीशो देव्या नन्दीशमुख्यैर्गणवरसहितो भस्मनोद्धूल्य गात्रम् । स्थित्वा लिंगालये स्वे मणिगणखचिते स्वासने सन्निविष्ट- श्शिष्टस्सर्वेष्टदाता समसमसमदो ह्यर्चति प्राज्ञवर्यः
snātvā kailāsagaṃgātaṭamaṇikalite maṇṭape śaṃbhurīśo devyā nandīśamukhyairgaṇavarasahito bhasmanoddhūlya gātram | sthitvā liṃgālaye sve maṇigaṇakhacite svāsane sanniviṣṭa- śśiṣṭassarveṣṭadātā samasamasamado hyarcati prājñavaryaḥ
19
कृत्वा फालतले त्रिपुण्ट्ररचनां बालेन्दुमौलिस्स्वयं रुद्राक्षामलहारकण्ठवलयः पञ्चास्यपञ्चाक्षरः । किञ्चित्किञ्चिदुदञ्चदञ्चलदृगम्भोजावलीमालिकां वारंवारमिहार्पयत्यगजया जीवज्जयार्थी शिवः
kṛtvā phālatale tripuṇṭraracanāṃ bālendumaulissvayaṃ rudrākṣāmalahārakaṇṭhavalayaḥ pañcāsyapañcākṣaraḥ | kiñcitkiñcidudañcadañcaladṛgambhojāvalīmālikāṃ vāraṃvāramihārpayatyagajayā jīvajjayārthī śivaḥ
20
तत्रेशानवरस्य पञ्चवरदास्यास्यास्यपञ्चानने- शानस्येश्वरलिंगमद्भुततमं तत्पञ्चवक्त्रेश्वरम् । पृ0 49) तद्वक्त्रामलतो झरीभररसैः पञ्चापगा निस्सृताः कैलासाचलनिम्नगातटमहालिंगैकसौधालयाः
tatreśānavarasya pañcavaradāsyāsyāsyapañcānane- śānasyeśvaraliṃgamadbhutatamaṃ tatpañcavaktreśvaram | pṛ0 49) tadvaktrāmalato jharībhararasaiḥ pañcāpagā nissṛtāḥ kailāsācalanimnagātaṭamahāliṃgaikasaudhālayāḥ
21
प्राच्यां रत्नाच्छगंगा शिवतरगभवा देवगंगाकिलास्ते पश्चात्कैलासगंगा तदपरभुविगा रत्नसोपानयुक्ता । तत्रावाच्यां च शुद्धा कमलगणगणैस्संयुतात्युग्रगंगा तन्मध्ये ब्रह्मगंगा स्फटिकनिभजला पञ्चताः पञ्चतान्ताः
prācyāṃ ratnācchagaṃgā śivataragabhavā devagaṃgākilāste paścātkailāsagaṃgā tadaparabhuvigā ratnasopānayuktā | tatrāvācyāṃ ca śuddhā kamalagaṇagaṇaissaṃyutātyugragaṃgā tanmadhye brahmagaṃgā sphaṭikanibhajalā pañcatāḥ pañcatāntāḥ
22
एता या मणिलिंगपञ्चमुखतस्सन्निस्सृता मण्टपा- त्पुण्याः पुण्यतरंगशीतलजलाः कूलंकषाख्याः पराः । दिव्यापारशिवालयस्थितमहालिंगैकसङ्घाकुला- स्तीरेषु प्रथितोरुमण्टपमणीकॢप्तैस्सुधाब्धिंगमाः
etā yā maṇiliṃgapañcamukhatassannissṛtā maṇṭapā- tpuṇyāḥ puṇyataraṃgaśītalajalāḥ kūlaṃkaṣākhyāḥ parāḥ | divyāpāraśivālayasthitamahāliṃgaikasaṅghākulā- stīreṣu prathitorumaṇṭapamaṇīkḷptaissudhābdhiṃgamāḥ
23
नानाबिल्ववनैरपारतरुजैः फुल्लप्रसूनाकुलैः पक्षीणां च रवैश्च तीरवकुलै रक्ताच्छदेहल्लकैः । कोकानाञ्च कुलैस्सुकच्छपमहामीनैर्बकानां कुलै- स्स्तोकैः पोतकचक्रवाककुररैः पुण्यैश्च सत्सारसैः
nānābilvavanairapāratarujaiḥ phullaprasūnākulaiḥ pakṣīṇāṃ ca ravaiśca tīravakulai raktācchadehallakaiḥ | kokānāñca kulaissukacchapamahāmīnairbakānāṃ kulai- sstokaiḥ potakacakravākakuraraiḥ puṇyaiśca satsārasaiḥ
24
तत्तीरामलमण्टपे मणिमहाकॢप्ते सुसिह्मासने देव्या नन्दिगणेश्वरैर्हरवरः पश्यन्त्सरिन्निर्झरीः । लिङ्गं पञ्चमुखेश्वरं मधुरिमानेत्राञ्चलैश्शङ्कर- स्तद्वक्त्रामलपङ्कजोद्भवनदीः पुण्यास्तदाहेश्वरः
tattīrāmalamaṇṭape maṇimahākḷpte susihmāsane devyā nandigaṇeśvarairharavaraḥ paśyantsarinnirjharīḥ | liṅgaṃ pañcamukheśvaraṃ madhurimānetrāñcalaiśśaṅkara- stadvaktrāmalapaṅkajodbhavanadīḥ puṇyāstadāheśvaraḥ
25
ईश्वरः– प्रालेयाचलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं भस्माभ्यंगमनंगदेहदहनज्वालावलीलोचनम् । विष्णुब्रह्ममरुद्गणार्चितपदं ऋग्वेदनादोदयं वन्देऽहं सकलं कलंकरहितं स्थाणोर्मुखं पश्चिमम्
īśvaraḥ– prāleyācalamindukundadhavalaṃ gokṣīraphenaprabhaṃ bhasmābhyaṃgamanaṃgadehadahanajvālāvalīlocanam | viṣṇubrahmamarudgaṇārcitapadaṃ ṛgvedanādodayaṃ vande'haṃ sakalaṃ kalaṃkarahitaṃ sthāṇormukhaṃ paścimam
26
गौरं कुंकुमपंकिलं सुतिलकं व्यापाण्डुगण्डस्थलं भ्रूविक्षेपकटाक्षवीक्षणलसत्संस्रस्तकर्णोत्पलम् । पृ0 50) स्निग्धं बिंबफलाधरं प्रहसितं नीलालकालंकृतं वन्दे याजुषवेदनादजनकं वक्त्रं हरस्योत्तरम्
gauraṃ kuṃkumapaṃkilaṃ sutilakaṃ vyāpāṇḍugaṇḍasthalaṃ bhrūvikṣepakaṭākṣavīkṣaṇalasatsaṃsrastakarṇotpalam | pṛ0 50) snigdhaṃ biṃbaphalādharaṃ prahasitaṃ nīlālakālaṃkṛtaṃ vande yājuṣavedanādajanakaṃ vaktraṃ harasyottaram
27
बालार्काग्नितटित्प्रदीप्तकनकप्रस्पर्धितेजोरुणं गम्भीरध्वनिसामवेदजनकं ताम्राधरं सुन्दरम् । अर्धेन्दुद्युतिलोलपिङ्गलजटाभारप्रबद्धोरगं वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः
bālārkāgnitaṭitpradīptakanakapraspardhitejoruṇaṃ gambhīradhvanisāmavedajanakaṃ tāmrādharaṃ sundaram | ardhendudyutilolapiṅgalajaṭābhāraprabaddhoragaṃ vande siddhasurāsurendranamitaṃ pūrvaṃ mukhaṃ śūlinaḥ
28
कालाभ्रभ्रमराञ्जनद्युतिनिभं व्यावृत्तपिङ्गेक्षणं कर्णोद्भासितभोगिमस्तकमणिप्रोद्भिन्नदंष्ट्राङ्कुरम् । सर्पप्रोतकपालशुक्तिशकलं व्याकीर्णमाशेखरं वन्दे दक्षिणमीश्वरस्य वदनं चाधर्वनादोदयम्
kālābhrabhramarāñjanadyutinibhaṃ vyāvṛttapiṅgekṣaṇaṃ karṇodbhāsitabhogimastakamaṇiprodbhinnadaṃṣṭrāṅkuram | sarpaprotakapālaśuktiśakalaṃ vyākīrṇamāśekharaṃ vande dakṣiṇamīśvarasya vadanaṃ cādharvanādodayam
29
व्यक्ताव्यक्तनिरूपितञ्च परमं शुद्धांशसत्वाधिकं तस्मादुत्तरतत्वमक्षरमिदं ध्येयं सदा योगिभिः । ओङ्कारादिसमस्तमन्त्रजनकं सूक्ष्मातिसूक्ष्मं परं ध्यायेत्पञ्चममीश्वरस्य वदनं खव्यापि तेजोमयम्
vyaktāvyaktanirūpitañca paramaṃ śuddhāṃśasatvādhikaṃ tasmāduttaratatvamakṣaramidaṃ dhyeyaṃ sadā yogibhiḥ | oṅkārādisamastamantrajanakaṃ sūkṣmātisūkṣmaṃ paraṃ dhyāyetpañcamamīśvarasya vadanaṃ khavyāpi tejomayam
30
एतानि पञ्चवदनानि महेश्वरस्य ये कीर्तयन्ति मनुजास्सततं प्रभाते । गच्छन्ति ते शिवपदं रुचिरैर्विमानैः क्रीडन्ति शंकरगणैस्सततं शिवाग्रे
etāni pañcavadanāni maheśvarasya ye kīrtayanti manujāssatataṃ prabhāte | gacchanti te śivapadaṃ rucirairvimānaiḥ krīḍanti śaṃkaragaṇaissatataṃ śivāgre
31
इत्युक्त्वा निरगात्ततो सुरसरित्तीरात्तदान्दोलितै- र्हारैस्तैर्भुजगेश्वरप्रकलितै रत्नाच्छसत्पादुकः । कैलासेश्वरधाम सुन्दरमहानन्दैकसारास्पदं दृष्ट्वा लिङ्गवरं प्रदोषसमये संपूज्य पूजाभरैः
ityuktvā niragāttato surasarittīrāttadāndolitai- rhāraistairbhujageśvaraprakalitai ratnācchasatpādukaḥ | kailāseśvaradhāma sundaramahānandaikasārāspadaṃ dṛṣṭvā liṅgavaraṃ pradoṣasamaye saṃpūjya pūjābharaiḥ
32
श्रीविश्वेश्वर उग्र उग्रतनुजारातिप्रियश्शंकर- श्श्रीकण्ठः कलुषाद्रिपक्षदलनस्वाराडसंगश्शिवः । प्राहोत्फुल्लसुरक्तपंकजलसद्वक्त्रो भवानीं हरः पश्येति प्रसभं मदीयमहिमारम्भैकपूजाभरम्
śrīviśveśvara ugra ugratanujārātipriyaśśaṃkara- śśrīkaṇṭhaḥ kaluṣādripakṣadalanasvārāḍasaṃgaśśivaḥ | prāhotphullasuraktapaṃkajalasadvaktro bhavānīṃ haraḥ paśyeti prasabhaṃ madīyamahimārambhaikapūjābharam
33
पृ0 51) ईश्वरः– कुंभैरंभोधराच्छच्छविजितधवलैः पूरितैः क्षीरवार्द्धौ पर्वोद्यच्छशिसन्निभैस्स्फटिकजैः कोट्यावधीसङ्ख्यया । तत्क्षीरोत्तममण्डसारसुभगैस्सिञ्चामि लिङ्गे मम कैलासेश्वरनामके जनिजरारोगापहे शङ्करि
pṛ0 51) īśvaraḥ– kuṃbhairaṃbhodharācchacchavijitadhavalaiḥ pūritaiḥ kṣīravārddhau parvodyacchaśisannibhaissphaṭikajaiḥ koṭyāvadhīsaṅkhyayā | tatkṣīrottamamaṇḍasārasubhagaissiñcāmi liṅge mama kailāseśvaranāmake janijarārogāpahe śaṅkari
34
आनीतं मम तत्पयोंबुधिभवं वीरैर्गणेन्द्रेश्शिवे सद्वृत्तामलधारया जनिमुमे तुष्टः प्रदोषेष्वहम् । कष्टानि प्रसभं हारामि सुकृतां राशिन्दिशामि क्षणा- त्सिञ्चन्लिङ्गसुपूजकाय गिरिजे तस्मादहं पूजये
ānītaṃ mama tatpayoṃbudhibhavaṃ vīrairgaṇendreśśive sadvṛttāmaladhārayā janimume tuṣṭaḥ pradoṣeṣvaham | kaṣṭāni prasabhaṃ hārāmi sukṛtāṃ rāśindiśāmi kṣaṇā- tsiñcanliṅgasupūjakāya girije tasmādahaṃ pūjaye
35
दद्ध्यम्भोनिधिसम्भवैर्निबिडितं तत्खण्डमण्डं दधि प्रोद्यड्डिण्डिममण्डलाभमगजे दत्वा स्वलिङ्गोत्तमे । गोदोहप्रथिते प्रदोषसमये सन्दारिताघौघके कार्यं पूजनमेतदेव समये सर्वैस्सुरैरप्यहम्
daddhyambhonidhisambhavairnibiḍitaṃ tatkhaṇḍamaṇḍaṃ dadhi prodyaḍḍiṇḍimamaṇḍalābhamagaje datvā svaliṅgottame | godohaprathite pradoṣasamaye sandāritāghaughake kāryaṃ pūjanametadeva samaye sarvaissurairapyaham
36
तल्लिङ्गं परिपूजयामि वसुधाधृग्धुर्यमौलौ निश- ञ्चोत्तुङ्गामलरत्नकुम्भविलसत्प्राज्याज्यधारादिभिः । स्वाज्याम्भोधिसमाहृतैर्मम गणैस्सङ्ख्यातिगं तद्धृतं- तत्राज्यामलगन्धसारसुभगा गन्धीकृतास्तादिशः
talliṅgaṃ paripūjayāmi vasudhādhṛgdhuryamaulau niśa- ñcottuṅgāmalaratnakumbhavilasatprājyājyadhārādibhiḥ | svājyāmbhodhisamāhṛtairmama gaṇaissaṅkhyātigaṃ taddhṛtaṃ- tatrājyāmalagandhasārasubhagā gandhīkṛtāstādiśaḥ
37
सिञ्चामि प्रभसं सुगोघृतघनैः कैलासलिङ्गं मम मध्वंभोधिसमाहृतैर्मणिघटैर्माध्वीकसारं मधु । गर्भोद्यन्मणिसारकान्तिसुभगैर्गोमेदकाच्छप्रभै- स्सिञ्चाम्यद्रिवरात्मजे सुमधुराधारेयगर्भं मधु
siñcāmi prabhasaṃ sugoghṛtaghanaiḥ kailāsaliṅgaṃ mama madhvaṃbhodhisamāhṛtairmaṇighaṭairmādhvīkasāraṃ madhu | garbhodyanmaṇisārakāntisubhagairgomedakācchaprabhai- ssiñcāmyadrivarātmaje sumadhurādhāreyagarbhaṃ madhu
38
धाराकारमदीयलिङ्गशिरसि हर्षेण पश्यांबिके शैलोद्दामशिखानिभाश्शिखरितादुत्तुङ्गसारोपमाः । प्रालेयाचलमौलिसारसुभगाश्चापाण्डुराश्शर्करा दत्वा तन्मम लिङ्गमौलिविलसच्चन्द्रांशुधारा समम्
dhārākāramadīyaliṅgaśirasi harṣeṇa paśyāṃbike śailoddāmaśikhānibhāśśikharitāduttuṅgasāropamāḥ | prāleyācalamaulisārasubhagāścāpāṇḍurāśśarkarā datvā tanmama liṅgamaulivilasaccandrāṃśudhārā samam
39
पृ0 52) हर्षाप्लाविहृदन्तरः प्रतिदिनं हृष्यामि पश्याद्रिजे कुल्यास्तत्र मनोरमाद्रितनये नारेलनीलोद्भवाः । ताभिस्संभृतसद्घटादिविततैर्लक्षैः प्रवाहाकुला तल्लिंगासेकनीरैः प्रवहति मधुजा देवगंगेति नाम्ना
pṛ0 52) harṣāplāvihṛdantaraḥ pratidinaṃ hṛṣyāmi paśyādrije kulyāstatra manoramādritanaye nārelanīlodbhavāḥ | tābhissaṃbhṛtasadghaṭādivitatairlakṣaiḥ pravāhākulā talliṃgāsekanīraiḥ pravahati madhujā devagaṃgeti nāmnā
40
सर्वे विष्णुपितामहेन्द्रवरुणाश्चानन्दभक्त्या वृता- स्तीर्थं तीर्थपरंपरैकफलदं ज्ञात्वानुभूयापि ते । सेवन्ते सततं नितान्तमगजे जेतुं पुनस्संसृतिं- तुंगाघौघतरंगभंगसुभगास्तस्यान्तरास्ते सुराः
sarve viṣṇupitāmahendravaruṇāścānandabhaktyā vṛtā- stīrthaṃ tīrthaparaṃparaikaphaladaṃ jñātvānubhūyāpi te | sevante satataṃ nitāntamagaje jetuṃ punassaṃsṛtiṃ- tuṃgāghaughataraṃgabhaṃgasubhagāstasyāntarāste surāḥ
41
सप्तछदाच्छफलशैलवरोऽद्रिकन्ये कॢप्तो मया सुगुरुपीततरश्च मेरोः । तज्जैस्त्वगाररहितैश्शशिखण्डमौलिलिंगार्चनस्य फलमेव जनुर्भवानि
saptachadācchaphalaśailavaro'drikanye kḷpto mayā sugurupītataraśca meroḥ | tajjaistvagārarahitaiśśaśikhaṇḍamauliliṃgārcanasya phalameva janurbhavāni
42
उत्तुंगसालसुरसालरसालसारैर्निष्टप्तहेमझरिसोदरगर्भजातैः । तल्लिंगसेचनमुमे सुघटैः करोमि पुंसामपि प्रमथनाथपदं ददाति
uttuṃgasālasurasālarasālasārairniṣṭaptahemajharisodaragarbhajātaiḥ | talliṃgasecanamume sughaṭaiḥ karomi puṃsāmapi pramathanāthapadaṃ dadāti
43
देवि स्त्रीकुचसन्निकाशलिकुचापारप्रभागन्धज- स्फारासारमहारसादिकलशैस्संसेचयाम्यंबिके । कैलासाचललिङ्गमौलिविलसल्लिंगैकसद्भूषणं लिंगन्त्वेतदपारगन्धलुलितैर्नीरैश्च गन्धोदकैः
devi strīkucasannikāśalikucāpāraprabhāgandhaja- sphārāsāramahārasādikalaśaissaṃsecayāmyaṃbike | kailāsācalaliṅgamaulivilasalliṃgaikasadbhūṣaṇaṃ liṃgantvetadapāragandhalulitairnīraiśca gandhodakaiḥ
44
इक्षुसागरमहोर्मिभिरीशे लिंगमौलिरियमेव विशिष्टा । सिक्तये घटसहस्रसुधारा कारिता गिरिसुते कमनीया
ikṣusāgaramahormibhirīśe liṃgamauliriyameva viśiṣṭā | siktaye ghaṭasahasrasudhārā kāritā girisute kamanīyā
45
कोशैः काननसंभवैर्मधुझरीसारातिसारस्स्फुटं निर्यत्पीततरातिकान्तिनिवहैर्गन्धीकृताशामुखैः । तत्कोशामलराशिभिर्गिरिसुते सञ्छन्नमैशं शिरः पश्यामि प्रथितेक्षणः प्रकटिते पुण्ये प्रदोषे मम
kośaiḥ kānanasaṃbhavairmadhujharīsārātisārassphuṭaṃ niryatpītatarātikāntinivahairgandhīkṛtāśāmukhaiḥ | tatkośāmalarāśibhirgirisute sañchannamaiśaṃ śiraḥ paśyāmi prathitekṣaṇaḥ prakaṭite puṇye pradoṣe mama
46
कस्तूरीघनसारकुङ्कुममहापाटीरसारैर्घटै- श्चन्द्रासारविलोलितांबुघटितैस्सत्पाटलामोदितैः । पृ0 53) श्रान्ता मे गणपुंगवाश्च नितरां पुण्ये प्रदोषे मम स्वादूदामलनीलधारितघटोद्वाहे परं शैलजे
kastūrīghanasārakuṅkumamahāpāṭīrasārairghaṭai- ścandrāsāravilolitāṃbughaṭitaissatpāṭalāmoditaiḥ | pṛ0 53) śrāntā me gaṇapuṃgavāśca nitarāṃ puṇye pradoṣe mama svādūdāmalanīladhāritaghaṭodvāhe paraṃ śailaje
47
शङ्खानाञ्च सहस्रकैर्मणिचितैर्गोशृंगधारादिभिः क्षीराज्यादिमधुप्रवाहजलधिप्लुष्टैश्च तैलैरपि । तद्गन्धोत्तमपिष्टलेपनगतश्रीचिक्कणाघर्षणै- श्श्रीपत्रैर्मृदुसारसूक्ष्मतृणकैरुत्पञ्चगव्यैरपि
śaṅkhānāñca sahasrakairmaṇicitairgośṛṃgadhārādibhiḥ kṣīrājyādimadhupravāhajaladhipluṣṭaiśca tailairapi | tadgandhottamapiṣṭalepanagataśrīcikkaṇāgharṣaṇai- śśrīpatrairmṛdusārasūkṣmatṛṇakairutpañcagavyairapi
48
सौवर्णोत्तमकुम्भसम्भवमहाधारासहस्रैश्शतै- रर्घ्यै रत्नसुवर्णकल्पितकुशाग्रांबूद्भवैस्तज्जलैः । अष्टाङ्गार्घ्यककल्पितैस्सुमधुरैर्गर्भांबुकुम्भैश्शिवे संसिच्याखिलमिन्दुकुन्दजमहापाटीरसत्पाटलाः
sauvarṇottamakumbhasambhavamahādhārāsahasraiśśatai- rarghyai ratnasuvarṇakalpitakuśāgrāṃbūdbhavaistajjalaiḥ | aṣṭāṅgārghyakakalpitaissumadhurairgarbhāṃbukumbhaiśśive saṃsicyākhilamindukundajamahāpāṭīrasatpāṭalāḥ
49
मोदोत्थांबुदसन्निभैश्च कलशैस्तौर्यत्रिकोद्भावनै- र्धूपैश्चापि महामधूत्थमधुपर्कासारपारैरपि । प्रदोषसमये मया शरदुदीचराकाशशि प्रकाशचयसौह्रदैर्विरलकुड्मलैरन्धसाम्
modotthāṃbudasannibhaiśca kalaśaistauryatrikodbhāvanai- rdhūpaiścāpi mahāmadhūtthamadhuparkāsārapārairapi | pradoṣasamaye mayā śaradudīcarākāśaśi prakāśacayasauhradairviralakuḍmalairandhasām
50
मदीयरजताचलप्रकटशङ्किभाराशिभि- स्सुधाकरकलालसल्ललितलिङ्गमौल्यर्पितैः । वेदाश्चत्वार एते प्रथिततमयशस्स्तोमधारानुरागा- स्स्वादूदामलनीरसेचनविधौ शाखाशिखाभिः क्रमात्
madīyarajatācalaprakaṭaśaṅkibhārāśibhi- ssudhākarakalālasallalitaliṅgamaulyarpitaiḥ | vedāścatvāra ete prathitatamayaśasstomadhārānurāgā- ssvādūdāmalanīrasecanavidhau śākhāśikhābhiḥ kramāt
51
रुद्राणां स्तवनेन मामपि शिवे सन्तोषयन्तस्स्थिता मूर्तास्ते विहिताग्रपङ्कजकरा विश्वासभूता मम
rudrāṇāṃ stavanena māmapi śive santoṣayantassthitā mūrtāste vihitāgrapaṅkajakarā viśvāsabhūtā mama
52
घनरसमृगनाभिसारधारामृगमदपटलीपटीरचन्द्रगन्धैः । परिवीतं भुजगेशसन्निवीतं प्रभया कोटिशशाङ्कसूर्यतुल्यम्
ghanarasamṛganābhisāradhārāmṛgamadapaṭalīpaṭīracandragandhaiḥ | parivītaṃ bhujageśasannivītaṃ prabhayā koṭiśaśāṅkasūryatulyam
53
गोत्राधिराजतनये विनयेन पश्य संपश्यदात्मगतिसौख्यदमेकभास्वत् । घुमुघुमितसुगन्धगन्धिताशामुखमुखरैः परिलिप्य लिङ्गमेतत्
gotrādhirājatanaye vinayena paśya saṃpaśyadātmagatisaukhyadamekabhāsvat | ghumughumitasugandhagandhitāśāmukhamukharaiḥ parilipya liṅgametat
54
परिहृष्टो नितरां भवामि गौरि त्रिदशालभ्यसुगन्धयक्षकर्दमैः । पृ0 54) मणिजालाततरत्नकूलचित्रैः परिधायामलस्वर्णसद्दुकूलैः
parihṛṣṭo nitarāṃ bhavāmi gauri tridaśālabhyasugandhayakṣakardamaiḥ | pṛ0 54) maṇijālātataratnakūlacitraiḥ paridhāyāmalasvarṇasaddukūlaiḥ
55
शिवलिङ्गं मम शैलराजकन्ये परिपश्यामि सुगन्धिगन्धवस्त्रैः । ब्रह्माण्डगोलकमुमे प्रभया न तुल्यं मल्लिङ्गगोलकवरोत्तमरत्नधारा
śivaliṅgaṃ mama śailarājakanye paripaśyāmi sugandhigandhavastraiḥ | brahmāṇḍagolakamume prabhayā na tulyaṃ malliṅgagolakavarottamaratnadhārā
57
सावधूतशशिमौलिकलाललामन्तद्रत्नमौल्यकलने न विधिर्न विष्णुः । यक्षाधिपोऽप्यगसुतेऽद्य विकुण्ठिताक्षः केऽन्ये क्षमा वद समानहृदा निरीक्ष्य
sāvadhūtaśaśimaulikalālalāmantadratnamaulyakalane na vidhirna viṣṇuḥ | yakṣādhipo'pyagasute'dya vikuṇṭhitākṣaḥ ke'nye kṣamā vada samānahṛdā nirīkṣya
57
यद्दर्शनेन समदुःखविरामणं स्याद्यद्रत्नवर्यनिचयैर्मुकुटातिशोभम् । पूरिताखिलजनाजनिकामं वामदेवमिह पश्य सुकामम्
yaddarśanena samaduḥkhavirāmaṇaṃ syādyadratnavaryanicayairmukuṭātiśobham | pūritākhilajanājanikāmaṃ vāmadevamiha paśya sukāmam
58
फणामणि सहस्रकैर्विधृतवक्त्रमुक्ताफलैः प्रभाततसभावली मणिगणात्तकान्त्या युतम् । त्रिपुण्ट्रनिटिलोल्लसत्तिलकिताच्छसद्धीरकं प्रपश्य गिरिकन्यके विमलमौलिलिङ्गं मम
phaṇāmaṇi sahasrakairvidhṛtavaktramuktāphalaiḥ prabhātatasabhāvalī maṇigaṇāttakāntyā yutam | tripuṇṭraniṭilollasattilakitācchasaddhīrakaṃ prapaśya girikanyake vimalamauliliṅgaṃ mama
59
सहस्रमुखसत्फणिप्रवरमौलिमाणिक्यस- द्द्युतीविजितकान्तितो मम स्वभोगसंवेष्टितैः । फणाछविकृतांबरछविजिताद्यसच्छत्रकं शिवे शिरसि मे सदा दधति लिंगमौलौ मम
sahasramukhasatphaṇipravaramaulimāṇikyasa- ddyutīvijitakāntito mama svabhogasaṃveṣṭitaiḥ | phaṇāchavikṛtāṃbarachavijitādyasacchatrakaṃ śive śirasi me sadā dadhati liṃgamaulau mama
60
विश्वेश्वराख्यवरलिंगसमानमानमानन्दसौख्यदमिदं मम सुप्रियेयत् । हन्तुं समग्रजनपातकराशिमेव सर्वार्थराशिदमिदं परिपूजयामि
viśveśvarākhyavaraliṃgasamānamānamānandasaukhyadamidaṃ mama supriyeyat | hantuṃ samagrajanapātakarāśimeva sarvārtharāśidamidaṃ paripūjayāmi
62
नानामणिद्युतिसरावलिभूषितन्तन्मल्लिंगमेव कमलाच्छदृशा प्रपश्य । पुण्ये प्रदोषसमये मुदितस्त्वयाऽहं तल्लिंगमध्यभवने महिमास्थितोऽहम्
nānāmaṇidyutisarāvalibhūṣitantanmalliṃgameva kamalācchadṛśā prapaśya | puṇye pradoṣasamaye muditastvayā'haṃ talliṃgamadhyabhavane mahimāsthito'ham
62
विकसितसितपद्मरत्नकंजमालानवनीलोत्पलजैस्सहस्रमालिकाभिः । मधुबन्धुरगन्धदिव्यगन्धैस्सितमन्दारजरक्तमालिकाभिः
vikasitasitapadmaratnakaṃjamālānavanīlotpalajaissahasramālikābhiḥ | madhubandhuragandhadivyagandhaissitamandārajaraktamālikābhiḥ
63
दिनान्तसमयोल्लसन्मधुरगन्धजातीसरै- र्वसन्तकलिकास्फुरन्मधुरगन्धमल्लीसरैः । विकुण्ठितमिदं मम प्रकटसोमधामप्रभा- समुत्थमगकन्यके विमलद्रोणमालायुतम्
dināntasamayollasanmadhuragandhajātīsarai- rvasantakalikāsphuranmadhuragandhamallīsaraiḥ | vikuṇṭhitamidaṃ mama prakaṭasomadhāmaprabhā- samutthamagakanyake vimaladroṇamālāyutam
64
पृ0 55) कदंबवननीपजस्फुरदपारमालाभरै- र्विलोलवरपीठगं प्रकटमौलिलिंगं शिवे । प्रपश्य नयनांचलैर्विकचमञ्जरीकप्रभैः प्रदोषसमयेऽम्बिके नयनजन्मनस्तत्फलम्
pṛ0 55) kadaṃbavananīpajasphuradapāramālābharai- rvilolavarapīṭhagaṃ prakaṭamauliliṃgaṃ śive | prapaśya nayanāṃcalairvikacamañjarīkaprabhaiḥ pradoṣasamaye'mbike nayanajanmanastatphalam
65
तद्बिल्वरत्नकमलैरमलैर्भवानि पुन्नागनागनवचंपकदूर्वयापि । नीलोत्पलैर्दमनकैः करवीरजातिद्रोणार्ककाशजवकैः कनकैस्समर्च्य
tadbilvaratnakamalairamalairbhavāni punnāganāganavacaṃpakadūrvayāpi | nīlotpalairdamanakaiḥ karavīrajātidroṇārkakāśajavakaiḥ kanakaissamarcya
66
सत्पुण्डरीकवकुलैर्धवकर्णिकारमालूरकुन्दकुसुमैरतिहर्षतोऽहम् । राजीवामलमल्लिकासुमसरस्फारोत्थगन्धान्धकै- र्लोलंबैर्विकसत्सुमोत्थमधुपैः पश्यांबिके पूजितम् । एतल्लिंगवरं प्रदोषसमये बिल्वीदलोत्तंसकं धुत्तूरेण हि शोभतेऽद्य नितरां मौलिस्थचन्द्राधिकम्
satpuṇḍarīkavakulairdhavakarṇikāramālūrakundakusumairatiharṣato'ham | rājīvāmalamallikāsumasarasphārotthagandhāndhakai- rlolaṃbairvikasatsumotthamadhupaiḥ paśyāṃbike pūjitam | etalliṃgavaraṃ pradoṣasamaye bilvīdalottaṃsakaṃ dhuttūreṇa hi śobhate'dya nitarāṃ maulisthacandrādhikam
67
अगरुतरुजातधूपधूमैर्बहुलामोदविकासिदिक्समूहैः । मरुदाकुललंबितोरुधाराविकसत्स्वर्गपथाः प्रचारजालैः
agarutarujātadhūpadhūmairbahulāmodavikāsidiksamūhaiḥ | marudākulalaṃbitorudhārāvikasatsvargapathāḥ pracārajālaiḥ
68
सुवर्णमणिभाजने शिशुनभोद्यदम्भोजिनी- प्रियांशुचयसंक्रमिप्रकटदाक्ष्यरत्नांशुभिः । मनोरथपथातिगैर्मम सुलिंगमालायितै- स्सुपाण्डरशशिप्रभैर्हिमतुषारकुन्दप्रभैः
suvarṇamaṇibhājane śiśunabhodyadambhojinī- priyāṃśucayasaṃkramiprakaṭadākṣyaratnāṃśubhiḥ | manorathapathātigairmama suliṃgamālāyitai- ssupāṇḍaraśaśiprabhairhimatuṣārakundaprabhaiḥ
69
सुचन्द्रवरखण्डकैर्विरचितोरुदीपावली- सुगोघृतसुवर्तिकोज्वलसुदीपजालैरपि । गृहाङ्कणतमस्ततिप्रविददारदृत्यादरै- रखण्डतरमण्डनैः प्रथितपद्महंसोपमैः
sucandravarakhaṇḍakairviracitorudīpāvalī- sugoghṛtasuvartikojvalasudīpajālairapi | gṛhāṅkaṇatamastatipravidadāradṛtyādarai- rakhaṇḍataramaṇḍanaiḥ prathitapadmahaṃsopamaiḥ
70
सुतारकगणावलीललितमुक्तजालप्रभै- र्विलोकय गिरीन्द्रजे मम सुमौलिभासंकरैः । नानाभक्ष्यमहाद्रिगन्धसुरसाश्चामोदितास्तादिश- स्सुस्वाद्वन्नजराशिभिश्च घृतजैस्सूपप्रवाहैश्शिवे
sutārakagaṇāvalīlalitamuktajālaprabhai- rvilokaya girīndraje mama sumaulibhāsaṃkaraiḥ | nānābhakṣyamahādrigandhasurasāścāmoditāstādiśa- ssusvādvannajarāśibhiśca ghṛtajaissūpapravāhaiśśive
71
पृ0 56) शाकैश्शैलनिभैर्मधुप्रमथितैः क्षीरादिदध्योदनैः प्रालेयाचलसन्निभैस्सुगुडकैर्नैवेदितैश्शङ्करि । नारिकेललिकुचैस्सुकपित्थैर्मातुलिंगकदलीसुरसालैः
pṛ0 56) śākaiśśailanibhairmadhupramathitaiḥ kṣīrādidadhyodanaiḥ prāleyācalasannibhaissuguḍakairnaiveditaiśśaṅkari | nārikelalikucaissukapitthairmātuliṃgakadalīsurasālaiḥ
72
खर्जूरैर्बदरीसुगन्धजरसैर्दाडिंबनारंगकैः कंकोलामलकैस्सुरादनफलै राजादनैर्जातिकैः । नैवेद्येक्षुजकाण्डकैर्गिरिवराज्जाते मुदे मे भवे- त्तांबूलैः खदिरैर्लवंगमुखरैर्जातीफलैलायुतैः
kharjūrairbadarīsugandhajarasairdāḍiṃbanāraṃgakaiḥ kaṃkolāmalakaissurādanaphalai rājādanairjātikaiḥ | naivedyekṣujakāṇḍakairgirivarājjāte mude me bhave- ttāṃbūlaiḥ khadirairlavaṃgamukharairjātīphalailāyutaiḥ
73
मुक्ताचूर्णसुपूर्णपूगमधुरैः कर्पूरसंवासितै- रुत्फुल्लामलनागवल्लिजदलैः प्रोद्यद्गिरीन्द्रप्रभैः । नैवेद्यं परिकल्पयामि गिरिजे तस्मिन्प्रदोषे ह्यहं वीणानिक्वणमंजुमंजुलसुधाधारासमैर्गायनैः
muktācūrṇasupūrṇapūgamadhuraiḥ karpūrasaṃvāsitai- rutphullāmalanāgavallijadalaiḥ prodyadgirīndraprabhaiḥ | naivedyaṃ parikalpayāmi girije tasminpradoṣe hyahaṃ vīṇānikvaṇamaṃjumaṃjulasudhādhārāsamairgāyanaiḥ
74
मन्नामामृतमीश्वरेश्वरि मुदा रुद्राणिभिः कल्पितं शम्भो शंकर धूर्जटे त्रिणयन कालान्धकारे हर । पाहीश प्रमथाधिनाथ महिमन्लिंगाकृते पाहिनो रत्नैः कल्पितमद्दलध्वनियुतैश्शंखोत्थनादैश्शिवे
mannāmāmṛtamīśvareśvari mudā rudrāṇibhiḥ kalpitaṃ śambho śaṃkara dhūrjaṭe triṇayana kālāndhakāre hara | pāhīśa pramathādhinātha mahimanliṃgākṛte pāhino ratnaiḥ kalpitamaddaladhvaniyutaiśśaṃkhotthanādaiśśive
75
प्रोद्यत्काहलनिस्वनैर्मधुरितं तन्मड्डुडिण्डीरवैः
prodyatkāhalanisvanairmadhuritaṃ tanmaḍḍuḍiṇḍīravaiḥ
76
दुन्दुभ्याघातनादैर्मम गणवरगास्योरुनिश्वासरागै- र्वेणूरन्ध्रनिषेवणाङ्गुलिभवैस्तालैश्च सज्झल्लरैः । तुष्टोऽहं प्रथिते प्रदोषसमये तल्लिंगसेकादरो नान्यत्किञ्चिदवेदिषं त्रिजगतां व्यापारमप्यद्रिजे
dundubhyāghātanādairmama gaṇavaragāsyoruniśvāsarāgai- rveṇūrandhraniṣevaṇāṅgulibhavaistālaiśca sajjhallaraiḥ | tuṣṭo'haṃ prathite pradoṣasamaye talliṃgasekādaro nānyatkiñcidavediṣaṃ trijagatāṃ vyāpāramapyadrije
77
रंगे तुंगतरंगभंगचपलैर्नृत्यैर्महामद्दलै- र्वीणावेणुनिनादसाम्यलयतो नृत्यन्ति लिंगाग्रतः । रुद्राणीगणकोटयोऽत्र सुभगे मञ्जीरशिञ्जस्वनै- श्शम्भो शंकर सांब पाहि शिव नस्तूर्णं प्रसादङ्कुरु
raṃge tuṃgataraṃgabhaṃgacapalairnṛtyairmahāmaddalai- rvīṇāveṇuninādasāmyalayato nṛtyanti liṃgāgrataḥ | rudrāṇīgaṇakoṭayo'tra subhage mañjīraśiñjasvanai- śśambho śaṃkara sāṃba pāhi śiva nastūrṇaṃ prasādaṅkuru
78
पृ0 57) इत्येवं सुभगा विलासमधुरा हावैश्च भावैरपि चोत्क्रान्तावृतरत्नकान्तिविलसत्पूर्णेन्दुसाम्यानना । कुम्भोद्यत्करिकुम्भसन्निभकुचाः काञ्चीझणन्निस्वना- स्तालोत्थाहतिपादपद्मजरवैः कुर्वन्ति विद्युद्ध्वनिम्
pṛ0 57) ityevaṃ subhagā vilāsamadhurā hāvaiśca bhāvairapi cotkrāntāvṛtaratnakāntivilasatpūrṇendusāmyānanā | kumbhodyatkarikumbhasannibhakucāḥ kāñcījhaṇannisvanā- stālotthāhatipādapadmajaravaiḥ kurvanti vidyuddhvanim
79
गणेशकरभास्वता विविधलोकसाम्राज्यधु- ग्विविक्तकृतलाञ्छनैश्शशिसुवृत्तमुक्ताततैः । महोडुगणमौक्तिकप्रकटतारपंक्तीततै- र्गिरीन्द्रतनये धृतान्यमितछत्रकोट्यो गणैः
gaṇeśakarabhāsvatā vividhalokasāmrājyadhu- gviviktakṛtalāñchanaiśśaśisuvṛttamuktātataiḥ | mahoḍugaṇamauktikaprakaṭatārapaṃktītatai- rgirīndratanaye dhṛtānyamitachatrakoṭyo gaṇaiḥ
80
परटारमणोत्थकामिताङ्गोत्थितपक्षाहननाभचामरौघैः । गणबृन्दैरखिलैश्च सेव्यमानं मम लिङ्गालयधूननैश्शिवेऽद्य
paraṭāramaṇotthakāmitāṅgotthitapakṣāhananābhacāmaraughaiḥ | gaṇabṛndairakhilaiśca sevyamānaṃ mama liṅgālayadhūnanaiśśive'dya
81
प्रवालमयदण्डिना मलयशैलभूमारुत- सुपोततरवायुना नगवरारिपाणीजुषा । जयेन चमरीमृगप्रचलवालगुच्छात्मना सुखी जितमुमे तदा मम सुलिंगमत्यादरात्
pravālamayadaṇḍinā malayaśailabhūmāruta- supotataravāyunā nagavarāripāṇījuṣā | jayena camarīmṛgapracalavālagucchātmanā sukhī jitamume tadā mama suliṃgamatyādarāt
82
धृतैः प्रमदपाणिभिर्वनकलापिपुच्छोच्चयैः कृतैर्व्यजनकोटिभिर्हरितचन्द्रकोट्यंशुभिः । मदीयमणिमण्टपं हरिमणीभिराकल्पित- मिवाद्य गिरिजे तदा प्रथितभाभिरादीपितम्
dhṛtaiḥ pramadapāṇibhirvanakalāpipucchoccayaiḥ kṛtairvyajanakoṭibhirharitacandrakoṭyaṃśubhiḥ | madīyamaṇimaṇṭapaṃ harimaṇībhirākalpita- mivādya girije tadā prathitabhābhirādīpitam
83
प्रमथप्रकरोर्ध्वहस्तसंस्थैर्मणिवर्यैर्विविधैस्सराग्रलम्बैः । विलसन्नवरत्नगुच्छसच्छैर्धुवदीशानवराग्रगाः पताकाः
pramathaprakarordhvahastasaṃsthairmaṇivaryairvividhaissarāgralambaiḥ | vilasannavaratnagucchasacchairdhuvadīśānavarāgragāḥ patākāḥ
84
लिंगप्रक्रमणैरहं स इति तल्लिंगप्रणामादर- स्स्वात्मानं परिचिन्तयामि गिरिजेऽप्यानन्दधारावृतः । प्रत्युत्थाखिललोकजालमखिलं मत्तो न भिन्नं क्वचि- त्किञ्चिच्चापि शिवे ममैव मनसस्सङ्कल्पजालं जगत्
liṃgaprakramaṇairahaṃ sa iti talliṃgapraṇāmādara- ssvātmānaṃ paricintayāmi girije'pyānandadhārāvṛtaḥ | pratyutthākhilalokajālamakhilaṃ matto na bhinnaṃ kvaci- tkiñciccāpi śive mamaiva manasassaṅkalpajālaṃ jagat
85
पृ0 58) मय्येवागसुते लयं प्रयाति निखिलञ्चैकोऽद्वयोऽहं सदा नानेति प्रसभं वदन्ति निगमा वाचां मनोदूरगम् । अन्यानन्द समम्मदीयममलं जानन्ति यो योगिनो नो वेदा यतयस्सुरासुरगणा विष्पादयोऽप्यब्जजाः
pṛ0 58) mayyevāgasute layaṃ prayāti nikhilañcaiko'dvayo'haṃ sadā nāneti prasabhaṃ vadanti nigamā vācāṃ manodūragam | anyānanda samammadīyamamalaṃ jānanti yo yogino no vedā yatayassurāsuragaṇā viṣpādayo'pyabjajāḥ
86
ज्ञानं ज्ञेयमिदं जगद्गतमुमे ज्ञाता न किञ्चित्स्थिति- र्भूमाहं सुखधामको हि महतां ह्रस्वो न चाणुस्स्थिरः । स्वात्मानन्दमुमे ममाल्पकमिदं लिंगेऽप्यलिंगोऽस्म्यहं चाकाशादिविदूरगस्थितिलयोत्पत्तिष्वसंगोऽस्म्यहम्
jñānaṃ jñeyamidaṃ jagadgatamume jñātā na kiñcitsthiti- rbhūmāhaṃ sukhadhāmako hi mahatāṃ hrasvo na cāṇussthiraḥ | svātmānandamume mamālpakamidaṃ liṃge'pyaliṃgo'smyahaṃ cākāśādividūragasthitilayotpattiṣvasaṃgo'smyaham
87
इत्येवं परमार्थतस्त्रिभुवने तिष्ठामि विश्वातिगो गोप्यम्मद्धृदयं गिरीन्द्रतनये तुभ्यम्मया दर्शितम् । इत्युक्त्वा परमेश्वरस्त्रिजगतां नाथोऽपि विश्वाकृति- र्दृष्ट्वा लिंगमपारबिल्वकुसुमैस्संपूजितं मस्तके
ityevaṃ paramārthatastribhuvane tiṣṭhāmi viśvātigo gopyammaddhṛdayaṃ girīndratanaye tubhyammayā darśitam | ityuktvā parameśvarastrijagatāṃ nātho'pi viśvākṛti- rdṛṣṭvā liṃgamapārabilvakusumaissaṃpūjitaṃ mastake
88
दृष्ट्वा तामगजां ननर्तपरमानन्दप्रसादैकभूः कैलासाचलमौलिमण्टपवरे तल्लिंगसान्निध्यके । अण्डखण्डनमहाघनघोषश्चण्डताण्डवललद्विधिमुण्डः । कुण्डलीशकृतकुण्डलगण्डस्तण्डुमड्डुनिनदोत्थलयांघ्रिः
dṛṣṭvā tāmagajāṃ nanartaparamānandaprasādaikabhūḥ kailāsācalamaulimaṇṭapavare talliṃgasānnidhyake | aṇḍakhaṇḍanamahāghanaghoṣaścaṇḍatāṇḍavalaladvidhimuṇḍaḥ | kuṇḍalīśakṛtakuṇḍalagaṇḍastaṇḍumaḍḍuninadotthalayāṃghriḥ
89
नन्दिभृंगिकृतडिण्डिमनादैर्मण्डितो हि शिवया स हि रंगः । डुण्डिराजकृतशङ्खनिनादैस्तुण्डषट्ककृततूर्यनिनादैः
nandibhṛṃgikṛtaḍiṇḍimanādairmaṇḍito hi śivayā sa hi raṃgaḥ | ḍuṇḍirājakṛtaśaṅkhaninādaistuṇḍaṣaṭkakṛtatūryaninādaiḥ
90
जटाच्छटविघर्षिताः परिपतन्ति तारागणा वमन्ति रुधिरम्मुखैर्भुवननागनागा नगाः । जगन्नटनसंभ्रमाद्भवति हेलयान्दोलितं हरीन्द्रविधयस्सुरा मुनिजनास्सकम्पांगकाः
jaṭācchaṭavigharṣitāḥ paripatanti tārāgaṇā vamanti rudhirammukhairbhuvananāganāgā nagāḥ | jagannaṭanasaṃbhramādbhavati helayāndolitaṃ harīndravidhayassurā munijanāssakampāṃgakāḥ
91
अष्टावक्त्रसुगीतसाममुरजोच्चण्डप्रचण्डोल्लस- ड्डिण्डीमध्वनिमड्डुमद्दलमहासामाष्टदंष्ट्रारवैः । पृ0 59) भ्राजत्पद्मजमुण्डषण्डजमहामालालसद्वक्षसं लीलाचालितहस्तकंकणमहानागोर्ध्वमौलीलसत्
aṣṭāvaktrasugītasāmamurajoccaṇḍapracaṇḍollasa- ḍḍiṇḍīmadhvanimaḍḍumaddalamahāsāmāṣṭadaṃṣṭrāravaiḥ | pṛ0 59) bhrājatpadmajamuṇḍaṣaṇḍajamahāmālālasadvakṣasaṃ līlācālitahastakaṃkaṇamahānāgordhvamaulīlasat
92
रत्नाप्लावितकान्तिरंजितदृशं नृत्यन्तमैक्षच्छिवा चोद्यद्भानुमरीचिसन्निभजटासाम्राज्यपट्टायिता । लोलन्नीलसुरत्नपंकजलसद्गंगातरंगोत्थिता पारावारसुधाघनोत्थनटनाटोपा फणीमंजुलम्
ratnāplāvitakāntiraṃjitadṛśaṃ nṛtyantamaikṣacchivā codyadbhānumarīcisannibhajaṭāsāmrājyapaṭṭāyitā | lolannīlasuratnapaṃkajalasadgaṃgātaraṃgotthitā pārāvārasudhāghanotthanaṭanāṭopā phaṇīmaṃjulam
93
आनम्राखिललोकजालमुमया सद्रत्नरंगान्तरे नृत्यन्तं ददृशुस्सरुद्रगणपाः कैलासमौलिस्थितम् । झलंझलितकंकणं पदवलत्क्वणन्नूपुरं किणीकिणितसध्वनिं स्फटिकरत्नसन्मेखलम्
ānamrākhilalokajālamumayā sadratnaraṃgāntare nṛtyantaṃ dadṛśussarudragaṇapāḥ kailāsamaulisthitam | jhalaṃjhalitakaṃkaṇaṃ padavalatkvaṇannūpuraṃ kiṇīkiṇitasadhvaniṃ sphaṭikaratnasanmekhalam
94
घुणंघुणकृतारवं पदगरत्नमञ्जीरकं चटच्चटरवोत्थितप्रपदपद्मघोषं शिवम्
ghuṇaṃghuṇakṛtāravaṃ padagaratnamañjīrakaṃ caṭaccaṭaravotthitaprapadapadmaghoṣaṃ śivam
95
तौर्यत्रिकोत्थितमहारवजातघोषलोकत्रयोद्गतसुरासुरकिन्नरेड्यम् । मन्दस्मिताखिलविमोहनवेषभूषं राजच्छशांकमहसा धवलीकृताशम्
tauryatrikotthitamahāravajātaghoṣalokatrayodgatasurāsurakinnareḍyam | mandasmitākhilavimohanaveṣabhūṣaṃ rājacchaśāṃkamahasā dhavalīkṛtāśam
96
तं नीललोहितमुमा जगदादिहेतुं नृत्यन्तमिष्टदमुपैति च तुष्टचक्रम् । अष्टाकृतिं निखिलकष्टहरं प्रदोषेऽपश्यच्छिवा सकरुणारससारदृष्ट्या
taṃ nīlalohitamumā jagadādihetuṃ nṛtyantamiṣṭadamupaiti ca tuṣṭacakram | aṣṭākṛtiṃ nikhilakaṣṭaharaṃ pradoṣe'paśyacchivā sakaruṇārasasāradṛṣṭyā
97
तां वीक्ष्यागसुतां स्मयन्निव महादेवस्सकैलासभू- कैलासेश्वरपूजया सरसया कष्टानि सञ्जह्रिवान् । लोकानां गणपात्मनामथ उमां प्राह प्रसन्नाननः पश्याम्बेति वदन्त्सदाशिवतरोर्मुग्धेन्दुचूडश्शिवः
tāṃ vīkṣyāgasutāṃ smayanniva mahādevassakailāsabhū- kailāseśvarapūjayā sarasayā kaṣṭāni sañjahrivān | lokānāṃ gaṇapātmanāmatha umāṃ prāha prasannānanaḥ paśyāmbeti vadantsadāśivatarormugdhenducūḍaśśivaḥ
98
ईश्वर उवाच– कैलासेश्वरलिंगमेतदमलं मुक्तिप्रदं शाश्वत- ञ्चापातालनिमग्नमूलमसकृत्सम्पूजितं तन्मया । पृ0 60) तस्योर्ध्वामलमौलिरप्यगसुते जानन्ति नैवागमा देवाद्यैर्मुनिभिस्त्वयापि च मया को वास्ति तत्पूजकः
īśvara uvāca– kailāseśvaraliṃgametadamalaṃ muktipradaṃ śāśvata- ñcāpātālanimagnamūlamasakṛtsampūjitaṃ tanmayā | pṛ0 60) tasyordhvāmalamaulirapyagasute jānanti naivāgamā devādyairmunibhistvayāpi ca mayā ko vāsti tatpūjakaḥ
99
पूजापूजकपूज्यशब्दरहितं तत्केवलोऽहं शिव- स्तल्लिंगं वरदं सदाशिवमयं मच्छैलराजे शिवे । तद्दर्शनार्थं मुनयस्सुरासुरास्तप्यन्ति चाद्यापि जगत्यविप्लवाः
pūjāpūjakapūjyaśabdarahitaṃ tatkevalo'haṃ śiva- stalliṃgaṃ varadaṃ sadāśivamayaṃ macchailarāje śive | taddarśanārthaṃ munayassurāsurāstapyanti cādyāpi jagatyaviplavāḥ
100
देव्युवाच– त्वयापि न ज्ञायत इत्यहो मे साश्चर्यमुक्तं हि त्वया सदाशिव । तवापि तत्किं कृतलिंगपूजया रहस्यमेतन्मम तद्वद प्रभो
devyuvāca– tvayāpi na jñāyata ityaho me sāścaryamuktaṃ hi tvayā sadāśiva | tavāpi tatkiṃ kṛtaliṃgapūjayā rahasyametanmama tadvada prabho
101
इत्युक्तं गिरिजामनोहरवचश्श्रुत्वा प्रहस्याम्बिकां लोकं स्रष्टुमथात्ति पाति सुतरान्तत्पालकश्शङ्करः । वाचा चन्दनशीतया सुखकरश्शीतांशुधारी शिवः प्राहोत्फुल्लमनोहराब्जवदनो देवीं तदा भूतपः
ityuktaṃ girijāmanoharavacaśśrutvā prahasyāmbikāṃ lokaṃ sraṣṭumathātti pāti sutarāntatpālakaśśaṅkaraḥ | vācā candanaśītayā sukhakaraśśītāṃśudhārī śivaḥ prāhotphullamanoharābjavadano devīṃ tadā bhūtapaḥ
102
ईश्वर उवाच– नकर्मणा नैव समाधिभिर्जपैस्तपस्यया वा विविधैश्च यज्ञैः । व्रतैश्च दानैर्नियमैर्ममेश्वरि प्राप्नोति किम्मत्पदपूजनं विना
īśvara uvāca– nakarmaṇā naiva samādhibhirjapaistapasyayā vā vividhaiśca yajñaiḥ | vrataiśca dānairniyamairmameśvari prāpnoti kimmatpadapūjanaṃ vinā
103
तस्मादहं लिंगवरं सदा मुदा सम्पूजयामीष्टदमेव लोकान् । संशिक्षितुं कार्यमिदं विमुक्त्यै सर्वार्थदञ्चेति मतम्मुदे मम
tasmādahaṃ liṃgavaraṃ sadā mudā sampūjayāmīṣṭadameva lokān | saṃśikṣituṃ kāryamidaṃ vimuktyai sarvārthadañceti matammude mama
104
ध्यायामि तद्वेदशिरोऽधिगम्यमोङ्कारगम्यं परमार्थतत्वम् । सत्यं शिवं ज्ञानसुखं सुबोधन्निर्द्वन्द्वमद्वैतमनन्तरूपम्
dhyāyāmi tadvedaśiro'dhigamyamoṅkāragamyaṃ paramārthatatvam | satyaṃ śivaṃ jñānasukhaṃ subodhannirdvandvamadvaitamanantarūpam
105
एकं स्थिरं शाश्वतमव्ययं तत्प्राक्सृष्टितो विश्वमिदन्न यत्र । संवीक्षितं तत्पुनरुद्बभूव तदेव जाये हृदि भावयामि
ekaṃ sthiraṃ śāśvatamavyayaṃ tatprāksṛṣṭito viśvamidanna yatra | saṃvīkṣitaṃ tatpunarudbabhūva tadeva jāye hṛdi bhāvayāmi
106
यस्मात्परन्नापरमस्ति किञ्चिद्यस्माद्गरीयो न हि किञ्चिदस्ति । पृ0 61) येनैव पूर्णं परिदृश्यमानं विश्वन्तदेवाद्य विभावयामि
yasmātparannāparamasti kiñcidyasmādgarīyo na hi kiñcidasti | pṛ0 61) yenaiva pūrṇaṃ paridṛśyamānaṃ viśvantadevādya vibhāvayāmi
107
इत्युक्त्वा गिरिजां महाशिवतरो द्ध्यायन्भवस्स्थाणुव- न्निर्व्यापारतरंगसागर इवाप्यक्षुब्धगात्रश्शिवः । देवी चापि मुमोद हर्षभरितानन्दांगकास्ते गणा- श्चेत्थं तस्य सुपूजनं मुनिवरास्सत्यं वदामि स्फुटम्
ityuktvā girijāṃ mahāśivataro ddhyāyanbhavassthāṇuva- nnirvyāpārataraṃgasāgara ivāpyakṣubdhagātraśśivaḥ | devī cāpi mumoda harṣabharitānandāṃgakāste gaṇā- ścetthaṃ tasya supūjanaṃ munivarāssatyaṃ vadāmi sphuṭam
śrīśivarahasye prathamāṃśe kailāsaprākāravarṇanannāma caturdaśo'dhyāyaḥ 14
1
कैलासप्राकारवर्णनन्नाम चतुर्दशोऽध्यायः मुनिदेवगणा ऊचुः– कुमारमारसङ्काश मारमारांगसम्भव । उमारमणपादाब्जध्यानमारित पातक
kailāsaprākāravarṇanannāma caturdaśo'dhyāyaḥ munidevagaṇā ūcuḥ– kumāramārasaṅkāśa māramārāṃgasambhava | umāramaṇapādābjadhyānamārita pātaka
2
अमरारिमहाशूर तारकासुरसंहृते । त्वत्तश्श्रुतमशेषेण कैलासेश्वरपूजनम्
amarārimahāśūra tārakāsurasaṃhṛte | tvattaśśrutamaśeṣeṇa kailāseśvarapūjanam
3
भवद्वक्त्रोत्थितशिवकथानन्दितमानसाः । निर्धूतपातका जाता धन्याः पावनपावनाः
bhavadvaktrotthitaśivakathānanditamānasāḥ | nirdhūtapātakā jātā dhanyāḥ pāvanapāvanāḥ
4
पुनश्शिवकथासिन्धुतरंगोद्यतमानसान् । कुरुष्व त्रिपुरारातिवरपुत्रातुलप्रभ
punaśśivakathāsindhutaraṃgodyatamānasān | kuruṣva tripurārātivaraputrātulaprabha
5
सूत उवाच– इत्थं देवैश्च मुनिभिर्गणेन्द्रैः प्रार्थितस्तदा । कुमारः प्राह तान्धन्याञ्जैगीषव्यं पुरस्स्थितम्
sūta uvāca– itthaṃ devaiśca munibhirgaṇendraiḥ prārthitastadā | kumāraḥ prāha tāndhanyāñjaigīṣavyaṃ purassthitam
6
परिणतहिमधामकान्तवक्त्रो विकचसुतामरलोचनो नगारिः । नवचंपककुड्मलाभनासः कुरुविन्दाभरदो बभाण विप्रम्
pariṇatahimadhāmakāntavaktro vikacasutāmaralocano nagāriḥ | navacaṃpakakuḍmalābhanāsaḥ kuruvindābharado babhāṇa vipram
7
स्कन्द उवाच– पर्णादा मुनयस्सर्वे चापर्णापतिवैभवम् । तूर्णमभ्यर्णगास्सर्वे समाकर्णयताधुना
skanda uvāca– parṇādā munayassarve cāparṇāpativaibhavam | tūrṇamabhyarṇagāssarve samākarṇayatādhunā
8
सुपर्णवाहनाद्याश्च यूयं कर्णरसायनम् । अर्णवान्तर्निवसतेश्चरितं वर्णयाम्यहम्
suparṇavāhanādyāśca yūyaṃ karṇarasāyanam | arṇavāntarnivasateścaritaṃ varṇayāmyaham
9
महाकैलासभूभागे पंचकोटिप्रमाणके । शैलप्राकारमद्ध्ये तु गणानां वसतिः कृता
mahākailāsabhūbhāge paṃcakoṭipramāṇake | śailaprākāramaddhye tu gaṇānāṃ vasatiḥ kṛtā
10
नवलक्षप्रमाणेन पूर्वद्वारादिगोपुरम् । नीलशैलजसारेण नानारुद्रगणान्वितम्
navalakṣapramāṇena pūrvadvārādigopuram | nīlaśailajasāreṇa nānārudragaṇānvitam
11
पट्टिकापिण्डिकाद्यैश्च देवकोट्या सुशोभितम् । महद्भिरुच्छ्रितैश्शृंगैरुल्लिखन्तमिवाम्बरम्
paṭṭikāpiṇḍikādyaiśca devakoṭyā suśobhitam | mahadbhirucchritaiśśṛṃgairullikhantamivāmbaram
12
पृ0 62) दशसाहस्रफलकैर्गवाक्षितमिवस्थितम् । वृषभैश्च शिलाराजद्भद्ररूपैः परीवृतम्
pṛ0 62) daśasāhasraphalakairgavākṣitamivasthitam | vṛṣabhaiśca śilārājadbhadrarūpaiḥ parīvṛtam
13
नन्दीश्वरालयं तत्र हेमरौप्यविराजितम् । नानासौधतलोपेत वनवाटीविराजितम्
nandīśvarālayaṃ tatra hemaraupyavirājitam | nānāsaudhatalopeta vanavāṭīvirājitam
14
सहस्रस्तम्भसंयुक्तं पताकोज्वलकुम्भकम् । कक्ष्यागवाक्षविततं सिंहासनवरान्वितम्
sahasrastambhasaṃyuktaṃ patākojvalakumbhakam | kakṣyāgavākṣavitataṃ siṃhāsanavarānvitam
15
तत्रस्थनन्दिकेशानं स्वर्णवेत्रलसत्करम् । नवरत्नप्रभाभास्वत्किरीटकसुशोभितम्
tatrasthanandikeśānaṃ svarṇavetralasatkaram | navaratnaprabhābhāsvatkirīṭakasuśobhitam
16
सोमधामसमानास्यं राजद्बालेन्दुशेखरम् । चतुर्भुजमुदारांगं त्रिपुण्ट्रोज्वलफालकम्
somadhāmasamānāsyaṃ rājadbālenduśekharam | caturbhujamudārāṃgaṃ tripuṇṭrojvalaphālakam
17
भस्माभ्यक्तंजटाशोभिमस्तकंरक्तकुण्डलम् । मुक्तान्तरितरुद्राक्षमालाशतविराजितम्
bhasmābhyaktaṃjaṭāśobhimastakaṃraktakuṇḍalam | muktāntaritarudrākṣamālāśatavirājitam
18
सुयशापतिमाशास्य ध्यानपूतहृदन्तरम् । गणेन्द्रैश्च मुनीन्द्रैश्च सुरेन्द्रैर्न्नारदादिभिः
suyaśāpatimāśāsya dhyānapūtahṛdantaram | gaṇendraiśca munīndraiśca surendrairnnāradādibhiḥ
19
गन्धर्वाप्सरसां सङ्घै रुद्रैर्न्नागैश्च सिद्धकैः । उपासितं महात्मानमिन्द्रेण मरुतो यथा
gandharvāpsarasāṃ saṅghai rudrairnnāgaiśca siddhakaiḥ | upāsitaṃ mahātmānamindreṇa maruto yathā
20
सेवितं नन्दिकेशानं प्रमथैः परिवारितम् । तत्रालयं महेशस्य नवरत्नविचित्रितम्
sevitaṃ nandikeśānaṃ pramathaiḥ parivāritam | tatrālayaṃ maheśasya navaratnavicitritam
21
हेमप्राकारसम्पन्नं नानावृषभशोभितम् । गर्भागारं तत्र शम्भोस्स्फटिकोपलनिर्मितम्
hemaprākārasampannaṃ nānāvṛṣabhaśobhitam | garbhāgāraṃ tatra śambhossphaṭikopalanirmitam
22
नन्दीश्वराभिधं लिंगं तत्रास्त्येकं मनोहरम् । दर्शनात्स्पर्शनाच्चापि पापसङ्घनिवर्हणम्
nandīśvarābhidhaṃ liṃgaṃ tatrāstyekaṃ manoharam | darśanātsparśanāccāpi pāpasaṅghanivarhaṇam
23
धूपैर्दीपोपहाराद्यैर्भक्ष्यैर्भोज्यैश्च नित्यशः । कमलामलमालाभिर्नीलोत्पलसहस्रकैः
dhūpairdīpopahārādyairbhakṣyairbhojyaiśca nityaśaḥ | kamalāmalamālābhirnīlotpalasahasrakaiḥ
24
बिल्वचम्पकपुन्नागबकधुर्तूरपाटलैः । सहस्रबिल्वपत्रैश्च पञ्चामृतनिषेचनैः
bilvacampakapunnāgabakadhurtūrapāṭalaiḥ | sahasrabilvapatraiśca pañcāmṛtaniṣecanaiḥ
25
साम्राण्यगरुधूपैश्च दीपैः कर्पूरखण्डजैः । पूजयन्तं महेशानं नन्दिकेशं शिलादजम्
sāmrāṇyagarudhūpaiśca dīpaiḥ karpūrakhaṇḍajaiḥ | pūjayantaṃ maheśānaṃ nandikeśaṃ śilādajam
26
स्तोत्रैस्स्तुवन्तमीशानं त्रिकालं सावधानतः । तत्स्तुतिं कथयाम्यद्य तन्मुने शृणु सादरम्
stotraisstuvantamīśānaṃ trikālaṃ sāvadhānataḥ | tatstutiṃ kathayāmyadya tanmune śṛṇu sādaram
27
नन्दिकेश्वर उवाच– इन्दुखण्डललितामलमौले कुन्दकान्तिसदृशोत्तमदेह । इन्दिरारमणलोचनपूज्य मन्मनोगहनपंकजवास
nandikeśvara uvāca– indukhaṇḍalalitāmalamaule kundakāntisadṛśottamadeha | indirāramaṇalocanapūjya manmanogahanapaṃkajavāsa
28
स्कन्द उवाच– इत्थं स्तुवन्तन्तल्लिङ्गं प्राक्प्राकारस्य सौधगः । संस्थितस्सुयशानाथो गणकोटिपरीवृतः
skanda uvāca– itthaṃ stuvantantalliṅgaṃ prākprākārasya saudhagaḥ | saṃsthitassuyaśānātho gaṇakoṭiparīvṛtaḥ
29
निषधो हेमकूटश्च प्राक्प्राकारस्य पर्वताः । पञ्चलक्षप्रमाणेन तत्रैवाग्नेयगोपुरम्
niṣadho hemakūṭaśca prākprākārasya parvatāḥ | pañcalakṣapramāṇena tatraivāgneyagopuram
30
रुद्रावतारचरितैर्वृषभैश्शिखरैर्वृतम् । तत्रालयं महेशस्य गणेन्द्रस्य महात्मनः
rudrāvatāracaritairvṛṣabhaiśśikharairvṛtam | tatrālayaṃ maheśasya gaṇendrasya mahātmanaḥ
31
लिंगाकारं तत्र शम्भुस्सुकेशेश्वरसंज्ञकः । पूजितो गणपेन्द्रेण गणलक्षपरीवृतः
liṃgākāraṃ tatra śambhussukeśeśvarasaṃjñakaḥ | pūjito gaṇapendreṇa gaṇalakṣaparīvṛtaḥ
32
सुकेशेन स्तुतं लिंगं सुकेशेश्वरसंज्ञितम् । पूजितञ्च त्रिलोकेषु बिल्वपत्रैस्सुभैस्तथा
sukeśena stutaṃ liṃgaṃ sukeśeśvarasaṃjñitam | pūjitañca trilokeṣu bilvapatraissubhaistathā
33
पृ0 63) सुकेशः– पञ्चकोशगगनातिग शम्भो व्योमकेश गुणसारसहंस । काशिकापुरनिवास मेहेश पाहि शंकर सुकेशमहेश
pṛ0 63) sukeśaḥ– pañcakośagaganātiga śambho vyomakeśa guṇasārasahaṃsa | kāśikāpuranivāsa meheśa pāhi śaṃkara sukeśamaheśa
34
नीलश्च मन्दरश्चैव प्राकारे दक्षिणे नगाः । तत्रापि गोपुरं शम्भोर्नानारुद्रगणावृतम्
nīlaśca mandaraścaiva prākāre dakṣiṇe nagāḥ | tatrāpi gopuraṃ śambhornānārudragaṇāvṛtam
35
दशलक्षप्रमाणेन चोच्छ्रितं गगनातिगम् । उल्लिखन्तं देवमार्गं सहस्रतलसंयुतम्
daśalakṣapramāṇena cocchritaṃ gaganātigam | ullikhantaṃ devamārgaṃ sahasratalasaṃyutam
36
रुद्रावतारक्रीडाभिर्वृषस्तंभैश्च शोभितम् । चण्डीश्वरालयं तत्र तप्तहेमविभूषितम्
rudrāvatārakrīḍābhirvṛṣastaṃbhaiśca śobhitam | caṇḍīśvarālayaṃ tatra taptahemavibhūṣitam
37
सहस्रस्तंभसंयुक्तं मुक्तावितततोरणम् । नीलसन्मणिकॢप्तञ्च कक्ष्याशतविराजितम्
sahasrastaṃbhasaṃyuktaṃ muktāvitatatoraṇam | nīlasanmaṇikḷptañca kakṣyāśatavirājitam
38
सोपानै रत्नसञ्छन्नैरुपेतं वनभूषितम् । तत्र सिह्मासनासीनं विद्युत्पिंगजटाधरम्
sopānai ratnasañchannairupetaṃ vanabhūṣitam | tatra sihmāsanāsīnaṃ vidyutpiṃgajaṭādharam
39
पर्वशर्वरिनाथार्धधरं भस्मविभूषितम् । त्रिपुण्ट्रविलसत्फालं रुद्राक्षाभरणान्वितम्
parvaśarvarināthārdhadharaṃ bhasmavibhūṣitam | tripuṇṭravilasatphālaṃ rudrākṣābharaṇānvitam
40
महार्हवसनोपेतं नानारत्नपरिष्कृतम् । निमीलिताक्षं ध्यायन्तं दिव्यं शम्भोः पदांबुजम्
mahārhavasanopetaṃ nānāratnapariṣkṛtam | nimīlitākṣaṃ dhyāyantaṃ divyaṃ śambhoḥ padāṃbujam
41
किं पूरुषैस्सिद्धसाध्यैर्मुनिबृन्दैर्यमेन च । गणेन्द्रैस्सेवितपदं रुद्रसङ्घैर्निषेवितम्
kiṃ pūruṣaissiddhasādhyairmunibṛndairyamena ca | gaṇendraissevitapadaṃ rudrasaṅghairniṣevitam
42
तत्रेश्वरस्य सदनं मदनान्तकरस्य च । प्राकारगोपुरोपेतं नवरत्नप्रकल्पितम्
tatreśvarasya sadanaṃ madanāntakarasya ca | prākāragopuropetaṃ navaratnaprakalpitam
43
चण्डिकेशेश्वरं लिंगंचण्डपापप्रणाशनम् । तल्लिंगज्योतिषा सर्वे द्योदितास्सूर्यसोमकाः
caṇḍikeśeśvaraṃ liṃgaṃcaṇḍapāpapraṇāśanam | talliṃgajyotiṣā sarve dyoditāssūryasomakāḥ
44
तल्लिंगं पूजयत्येष चण्डिकेशस्त्रिकालतः । बिल्वैर्मन्दारकुसुमैर्मल्लिकाकरवीरकैः
talliṃgaṃ pūjayatyeṣa caṇḍikeśastrikālataḥ | bilvairmandārakusumairmallikākaravīrakaiḥ
45
कर्णिकारैरपामार्गैर्मालतीभिश्च शङ्करम् । धूपदीपोपहाराद्यैर्नर्तनैः करतालकैः
karṇikārairapāmārgairmālatībhiśca śaṅkaram | dhūpadīpopahārādyairnartanaiḥ karatālakaiḥ
46
स्तोत्रैस्स्तौति महादेवं प्राञ्जलिश्चण्डिकेश्वरः
stotraisstauti mahādevaṃ prāñjaliścaṇḍikeśvaraḥ
47
चण्डिकेश्वरः– चण्डीश खण्डपरशो शशिखण्डचूड ब्रह्माण्डमौलिग धराधरकार्मुकेश । विध्युत्थमुण्डवरमालक कुण्डलीश चोच्चण्डताण्डव महेश्वर शूलदण्ड
caṇḍikeśvaraḥ– caṇḍīśa khaṇḍaparaśo śaśikhaṇḍacūḍa brahmāṇḍamauliga dharādharakārmukeśa | vidhyutthamuṇḍavaramālaka kuṇḍalīśa coccaṇḍatāṇḍava maheśvara śūladaṇḍa
48
श्री स्कन्द उवाच– इत्थं विधाय स्तुतिमादरेण चण्डीश्वरस्त्रिजगतां पतिमिन्दुमौलिम् । नत्वा महेश्वरपदाम्बुरुहं सदैव ध्यायन्त्सदैव हृदयाब्जसुखं विधत्ते
śrī skanda uvāca– itthaṃ vidhāya stutimādareṇa caṇḍīśvarastrijagatāṃ patimindumaulim | natvā maheśvarapadāmburuhaṃ sadaiva dhyāyantsadaiva hṛdayābjasukhaṃ vidhatte
śrīśivarahasye prathamāṃśe śailaprākāravarṇanannāma pañcadaśo'dhyāyaḥ 15
1
पृ0 64) शैलप्राकारवर्णनन्नाम पञ्चदशोऽध्यायः स्कन्द उवाच– नैऋते गोपुरं शम्भोः पञ्चलक्षप्रमाणकम् । रुद्राणाञ्चरितैश्चैव शोभितं शिखरैरपि
pṛ0 64) śailaprākāravarṇanannāma pañcadaśo'dhyāyaḥ skanda uvāca– naiṛte gopuraṃ śambhoḥ pañcalakṣapramāṇakam | rudrāṇāñcaritaiścaiva śobhitaṃ śikharairapi
2
बाणस्तत्र महादेवमुपास्ते गणलक्षकैः । नवरत्नसरोभूषो महाप्रासादमध्यगः
bāṇastatra mahādevamupāste gaṇalakṣakaiḥ | navaratnasarobhūṣo mahāprāsādamadhyagaḥ
3
तदालयं रत्नकॢप्तं सहस्रस्तम्भमण्डितम् । तत्र बाणेश्वरागारं तेन लिंगं समर्त्तितम्
tadālayaṃ ratnakḷptaṃ sahasrastambhamaṇḍitam | tatra bāṇeśvarāgāraṃ tena liṃgaṃ samarttitam
4
मण्टपैर्गोपुरैर्युक्तं त्रिकालं विल्वपल्लवैः
maṇṭapairgopurairyuktaṃ trikālaṃ vilvapallavaiḥ
4
बाण उवाच– वाणेश शम्भो हरिबाणपाणे त्वं पाहि गंगाधर चन्द्रचूड । विश्वेश भर्ग मदनान्तक कालकाल मामद्य शंकर विभो गणनाथपूज्या
bāṇa uvāca– vāṇeśa śambho haribāṇapāṇe tvaṃ pāhi gaṃgādhara candracūḍa | viśveśa bharga madanāntaka kālakāla māmadya śaṃkara vibho gaṇanāthapūjyā
5
भद्राणि मे संविधत्स्वाद्य शम्भो दीक्षादिदक्षाध्वरध्वंसकाव । महेशान पञ्चाननेन्दुप्रकृष्टैकधाम प्रभो संप्रसीद प्रसीद प्रसीद
bhadrāṇi me saṃvidhatsvādya śambho dīkṣādidakṣādhvaradhvaṃsakāva | maheśāna pañcānanenduprakṛṣṭaikadhāma prabho saṃprasīda prasīda prasīda
7
स्कन्द उवाच– इत्थं स्तौति गणेन्द्रोऽसौ बाणो बाणेश्वरं शिवम् । नैऋते गोपुरे तत्र प्रासादवरमध्यगः
skanda uvāca– itthaṃ stauti gaṇendro'sau bāṇo bāṇeśvaraṃ śivam | naiṛte gopure tatra prāsādavaramadhyagaḥ
8
अस्ताद्रिः पारियात्रश्च पश्चात्प्राकारसन्नगाः । तत्रैव गोपुरं शम्भोर्दशलक्षैकयोजनम्
astādriḥ pāriyātraśca paścātprākārasannagāḥ | tatraiva gopuraṃ śambhordaśalakṣaikayojanam
9
पट्टिकादेवगोष्ठैश्च स्तम्भैः कुम्भैश्च कोणजैः । रुद्रावताराक्रीडाभी रचितं वृषभैर्वृतम्
paṭṭikādevagoṣṭhaiśca stambhaiḥ kumbhaiśca koṇajaiḥ | rudrāvatārākrīḍābhī racitaṃ vṛṣabhairvṛtam
9
तलानाञ्च सहस्रेण निर्मितञ्चित्रवेदिकम् । सुवर्णरत्नकलशैः कैलासादतिसुन्दरम्
talānāñca sahasreṇa nirmitañcitravedikam | suvarṇaratnakalaśaiḥ kailāsādatisundaram
11
तत्रास्ति सौधप्रवरं सहस्रस्तम्भमण्डितम् । मणिमाणिक्यखचितं दिव्यसिह्मासनैर्वृतम्
tatrāsti saudhapravaraṃ sahasrastambhamaṇḍitam | maṇimāṇikyakhacitaṃ divyasihmāsanairvṛtam
12
धूपदीपादिबहुलं भक्ष्यभोज्यसमन्वितम् । तत्र भृंगी महातेजा भस्मोद्धूलितविग्रहः
dhūpadīpādibahulaṃ bhakṣyabhojyasamanvitam | tatra bhṛṃgī mahātejā bhasmoddhūlitavigrahaḥ
13
त्रिपुण्ट्रविलसत्फालो मणिमाणिक्यकंकणः । चन्द्रार्धशेखराबद्धराजत्पिंगजटाधर।
tripuṇṭravilasatphālo maṇimāṇikyakaṃkaṇaḥ | candrārdhaśekharābaddharājatpiṃgajaṭādhara|
13
सिह्मासनस्थो वरदो गन्धर्वैर्गणपैर्वृतः । वरुणादिसुदिक्पालैर्गरुडैरप्सरोगणैः
sihmāsanastho varado gandharvairgaṇapairvṛtaḥ | varuṇādisudikpālairgaruḍairapsarogaṇaiḥ
15
सेवितो रत्नसौधस्थो दशलक्षगणैर्वृतः । वासुकिश्शङ्खपालश्च कम्बलाश्वतरौ तथा
sevito ratnasaudhastho daśalakṣagaṇairvṛtaḥ | vāsukiśśaṅkhapālaśca kambalāśvatarau tathā
16
शेषश्च तक्षकश्चैव दैत्यनाथा नृपास्तथा । उपासते भृंगिरिटिश्शिवध्यानहताशुभः
śeṣaśca takṣakaścaiva daityanāthā nṛpāstathā | upāsate bhṛṃgiriṭiśśivadhyānahatāśubhaḥ
17
तत्रास्ति गर्भभवनं प्राकारवरगोपुरम् । भृंगीश्वराख्यं तल्लिंगं संपूज्य स्तौति भक्तितः
tatrāsti garbhabhavanaṃ prākāravaragopuram | bhṛṃgīśvarākhyaṃ talliṃgaṃ saṃpūjya stauti bhaktitaḥ
18
पञ्चामृतैः फलरसैः पञ्चगव्योदकैरपि । चन्दनैः पुष्पमालाभिर्बिल्वमन्दारचम्पकैः
pañcāmṛtaiḥ phalarasaiḥ pañcagavyodakairapi | candanaiḥ puṣpamālābhirbilvamandāracampakaiḥ
18
धूपैर्दीपैस्तथापुष्पैर्नैवेद्यैर्मुखवासजैः
dhūpairdīpaistathāpuṣpairnaivedyairmukhavāsajaiḥ
20
पृ0 65) भृंगी उवाच– भृंगीश मे मनसिजस्तवपादपद्मभृंगो भवत्वनुदिनं सरसानुमोदः । प्राप्नोतु भक्तिमखिलां तव पादपद्मे माया तु यातु दुरितं चरितन्तवेश
pṛ0 65) bhṛṃgī uvāca– bhṛṃgīśa me manasijastavapādapadmabhṛṃgo bhavatvanudinaṃ sarasānumodaḥ | prāpnotu bhaktimakhilāṃ tava pādapadme māyā tu yātu duritaṃ caritantaveśa
20
श्रीशंकरामयहरेश्वर विश्वमूर्ते विश्वाधिकेश करसंगिकुरंगवाल । मन्दारकुन्दनवचम्पकबिल्वमालादिव्योत्तमांगदभुजंग सुरेश पाहि
śrīśaṃkarāmayahareśvara viśvamūrte viśvādhikeśa karasaṃgikuraṃgavāla | mandārakundanavacampakabilvamālādivyottamāṃgadabhujaṃga sureśa pāhi
22
स्कन्द उवाच– इत्थं स्तौति सदाकालं शंकरं लोकशंकरम् । गणानां शतलक्षैश्च स्वसमानैः परीवृतः
skanda uvāca– itthaṃ stauti sadākālaṃ śaṃkaraṃ lokaśaṃkaram | gaṇānāṃ śatalakṣaiśca svasamānaiḥ parīvṛtaḥ
23
वायव्ये गोपुरं शम्भोः पञ्चलक्षप्रमाणतः । रुद्रावतारक्रीडाभिरन्वितम्मणिवेदिकैः
vāyavye gopuraṃ śambhoḥ pañcalakṣapramāṇataḥ | rudrāvatārakrīḍābhiranvitammaṇivedikaiḥ
23
रत्नकुम्भशताकीर्णं वायुधूतपताकम् । वृषभालंकृतं दिव्यं तत्र सौधं महात्मनः
ratnakumbhaśatākīrṇaṃ vāyudhūtapatākam | vṛṣabhālaṃkṛtaṃ divyaṃ tatra saudhaṃ mahātmanaḥ
25
सहस्रस्तम्भसंयुक्तं हेमासनसमाश्रितम् । रिटिरास्ते शिवध्यानविधूताखिलहृत्तमः
sahasrastambhasaṃyuktaṃ hemāsanasamāśritam | riṭirāste śivadhyānavidhūtākhilahṛttamaḥ
26
भस्माभ्यक्तस्त्रिपुण्ट्रांको रत्नाकल्पविभूषितः । सोमार्धशेखरोद्भासिमुकुटो वायुसेवितः
bhasmābhyaktastripuṇṭrāṃko ratnākalpavibhūṣitaḥ | somārdhaśekharodbhāsimukuṭo vāyusevitaḥ
26
द्विलक्षगणपैश्चैव रुद्रबृन्दैर्निषेवितः । तत्र गर्भगृहं शम्भो रिटीशाख्यमहेशितुः
dvilakṣagaṇapaiścaiva rudrabṛndairniṣevitaḥ | tatra garbhagṛhaṃ śambho riṭīśākhyamaheśituḥ
27
प्राकारगोपुरोपेतं धूपैर्दीपैर्मनोहरैः । जातीमल्लिकमन्दारबिल्वैरभ्यर्च्य शंकरम्
prākāragopuropetaṃ dhūpairdīpairmanoharaiḥ | jātīmallikamandārabilvairabhyarcya śaṃkaram
29
कृताञ्जलिपुटस्स्तौतिरिटीशंभक्तिभावितः । समुद्यत्पुलको देवं त्रिकालं लिंगसंस्थितम्
kṛtāñjalipuṭasstautiriṭīśaṃbhaktibhāvitaḥ | samudyatpulako devaṃ trikālaṃ liṃgasaṃsthitam
29
रिटिरुवाच– विश्वेश विश्व मदनान्तक विश्वमूर्ते गौरीवरामरभुजंगफणाभिराम । गंगाधरान्तकरिपो प्रमथाधिनाथ पाहीश मामकधियाद्य ललामसोम
riṭiruvāca– viśveśa viśva madanāntaka viśvamūrte gaurīvarāmarabhujaṃgaphaṇābhirāma | gaṃgādharāntakaripo pramathādhinātha pāhīśa māmakadhiyādya lalāmasoma
31
स्कन्द उवाच– इत्थंस्तौतिरिटिर्भक्त्यारिटीशंमुदितान्तरः । ततोत्तरे च प्राकारे संस्थिताश्च कुलाचलाः
skanda uvāca– itthaṃstautiriṭirbhaktyāriṭīśaṃmuditāntaraḥ | tatottare ca prākāre saṃsthitāśca kulācalāḥ
32
दुन्दुभिर्मन्दरो नाम्ना पर्वतो रैवतस्ततः । तत्रापि गोपुरं शम्भोर्दशलक्षोर्ध्वगं स्थितम्
dundubhirmandaro nāmnā parvato raivatastataḥ | tatrāpi gopuraṃ śambhordaśalakṣordhvagaṃ sthitam
32
सहस्रतलसंयुक्तं पट्टिकावेदिकान्वितम् । रत्नशृंगाग्रविलसद्धूयमानपताककम्
sahasratalasaṃyuktaṃ paṭṭikāvedikānvitam | ratnaśṛṃgāgravilasaddhūyamānapatākakam
34
रुद्रावतारक्रीडाभिरन्वितं वृषभैरपि । तत्रास्ति सौधप्रवरं माणिक्यतलकुट्टिमम्
rudrāvatārakrīḍābhiranvitaṃ vṛṣabhairapi | tatrāsti saudhapravaraṃ māṇikyatalakuṭṭimam
35
सहस्रकनकस्तम्भैर्निर्मितं वनराजितम् । हेमसिह्मासनैर्युक्तं धूपगन्धानुमोदितम्
sahasrakanakastambhairnirmitaṃ vanarājitam | hemasihmāsanairyuktaṃ dhūpagandhānumoditam
36
मणिप्रभाभासितञ्च तिरस्कृतनभोङ्कणम् । कालाग्निरुद्रस्तत्रास्ते यक्षेशैश्च निषेवितः
maṇiprabhābhāsitañca tiraskṛtanabhoṅkaṇam | kālāgnirudrastatrāste yakṣeśaiśca niṣevitaḥ
37
पृ0 66) भस्मरुद्राक्षवीताङ्गो मुक्तामाणिक्यभूषणः । मुकुटोद्यत्सुधाधामखण्डोज्वलितवक्त्रकः
pṛ0 66) bhasmarudrākṣavītāṅgo muktāmāṇikyabhūṣaṇaḥ | mukuṭodyatsudhādhāmakhaṇḍojvalitavaktrakaḥ
38
त्रिपुण्ट्ररेखाविततफालभागमनोहरः । त्रिशूलपाणिर्वरदो हेमसिंहासनस्थितः
tripuṇṭrarekhāvitataphālabhāgamanoharaḥ | triśūlapāṇirvarado hemasiṃhāsanasthitaḥ
38
कुबेरेण च देवैश्च पञ्चलक्षगणैरपि । हेतिपाशमहाशूलधरैस्तैरहिमन्युभिः
kubereṇa ca devaiśca pañcalakṣagaṇairapi | hetipāśamahāśūladharaistairahimanyubhiḥ
39
तत्रागारं महेशस्य कालरुद्रेश्वरस्य च । प्राकारगोपुरयुतं धूपदीपशतावृतम्
tatrāgāraṃ maheśasya kālarudreśvarasya ca | prākāragopurayutaṃ dhūpadīpaśatāvṛtam
41
नैवेद्यैश्चन्दनैश्चैव बिल्वमन्दारपङ्कजैः । सम्पूज्य परया भक्त्या स्तौति देवं पिनाकिनम्
naivedyaiścandanaiścaiva bilvamandārapaṅkajaiḥ | sampūjya parayā bhaktyā stauti devaṃ pinākinam
41
कालाग्निरुद्र उवाच– त्रियम्बक सदाशिव त्रिपुरमारकालान्तक त्रिशूलवरपाशसंयुतकराद्रिवाणासन । प्रसादजनितानन प्रकटचण्डधामागम सुधांशुकशिखण्डक सुरसनाथ मां पालय
kālāgnirudra uvāca– triyambaka sadāśiva tripuramārakālāntaka triśūlavarapāśasaṃyutakarādrivāṇāsana | prasādajanitānana prakaṭacaṇḍadhāmāgama sudhāṃśukaśikhaṇḍaka surasanātha māṃ pālaya
43
इति स्तौति प्रहृष्टात्मा कालरुद्रो महेश्वरम् । तस्य प्राकार कोणे चाप्यैशान्यां दिशि संस्थितः
iti stauti prahṛṣṭātmā kālarudro maheśvaram | tasya prākāra koṇe cāpyaiśānyāṃ diśi saṃsthitaḥ
44
वीरभद्रस्सदैवास्ते गणलक्षैः परीवृतः । तदुत्तरं हि कैलासं तत्र गोपुरमुत्तमम्
vīrabhadrassadaivāste gaṇalakṣaiḥ parīvṛtaḥ | taduttaraṃ hi kailāsaṃ tatra gopuramuttamam
45
पञ्चलक्षप्रमाणेन वेदिकापट्टिकान्वितम् । सुवर्णरत्नखचितं कलशैश्शोभितं मुने
pañcalakṣapramāṇena vedikāpaṭṭikānvitam | suvarṇaratnakhacitaṃ kalaśaiśśobhitaṃ mune
44
रुद्रावतारवृषभैश्शोभितं तन्मनोहरम् । तत्र सौधवरे कॢप्ते सहस्रस्तम्भमण्टपे
rudrāvatāravṛṣabhaiśśobhitaṃ tanmanoharam | tatra saudhavare kḷpte sahasrastambhamaṇṭape
47
हेमरत्नचिते दिव्यहेमसिंहासनस्थितः । ईशानेन च रुद्रैश्च गणलक्षसमन्वितः
hemaratnacite divyahemasiṃhāsanasthitaḥ | īśānena ca rudraiśca gaṇalakṣasamanvitaḥ
48
भस्मोद्धूलितसर्वांगस्त्रिपुण्ट्रपरिचिह्नितः । राजद्रत्नाङ्गदैर्युक्तो मणिरुद्राक्षहारकः
bhasmoddhūlitasarvāṃgastripuṇṭraparicihnitaḥ | rājadratnāṅgadairyukto maṇirudrākṣahārakaḥ
49
मुकुटोद्यत्सुधाधामखण्डार्धजटिलालकः । सदाशिवार्चकवरश्शूलहस्तोहि भैरवः
mukuṭodyatsudhādhāmakhaṇḍārdhajaṭilālakaḥ | sadāśivārcakavaraśśūlahastohi bhairavaḥ
48
तत्रैकं भवनं शम्भोर्वीरभद्रेश्वरस्य च । नवरत्नांकितं दिव्यं प्राकारवरगोपुरम्
tatraikaṃ bhavanaṃ śambhorvīrabhadreśvarasya ca | navaratnāṃkitaṃ divyaṃ prākāravaragopuram
51
धूपामोदितदिक्चक्रं मणिद्युतिविराजितम् । तल्लिंगं पूजयत्येव बिल्वमन्दारचम्पकैः
dhūpāmoditadikcakraṃ maṇidyutivirājitam | talliṃgaṃ pūjayatyeva bilvamandāracampakaiḥ
52
दीपोपहारधूपैश्च चन्दनेनाक्षतादिभिः । स्तौति हृष्टस्त्रिकालं स तल्लिंगं पारमेश्वरम्
dīpopahāradhūpaiśca candanenākṣatādibhiḥ | stauti hṛṣṭastrikālaṃ sa talliṃgaṃ pārameśvaram
51
वीरभद्र उवाच– क्षयद्वीर दक्षाध्वरध्वंसकाशावसेशान चाशाविहीनेति तुष्टः । त्वमेवासि भद्रं त्वमेवास्य भद्रं सताञ्चासतामाशु मां मोक्षयाद्य
vīrabhadra uvāca– kṣayadvīra dakṣādhvaradhvaṃsakāśāvaseśāna cāśāvihīneti tuṣṭaḥ | tvamevāsi bhadraṃ tvamevāsya bhadraṃ satāñcāsatāmāśu māṃ mokṣayādya
54
इत्थं स्तौति सदाशम्भुं वीरभद्रो गणाग्रणीः । शैलावरणमेतद्वै शम्भोश्शिवगणाश्रयम्
itthaṃ stauti sadāśambhuṃ vīrabhadro gaṇāgraṇīḥ | śailāvaraṇametadvai śambhośśivagaṇāśrayam
55
पृ0 67) दशलक्षप्रमाणेन परिघाकृतिविस्तरम् । गोपुरार्बुदकोपेतं रम्यमण्टपमण्डितम्
pṛ0 67) daśalakṣapramāṇena parighākṛtivistaram | gopurārbudakopetaṃ ramyamaṇṭapamaṇḍitam
56
सहस्रनियुतस्तम्भैः कुम्भैश्चापि समन्वितम् । रम्यलिङ्गालयोत्तुङ्गराजद्वृषभशेखरैः
sahasraniyutastambhaiḥ kumbhaiścāpi samanvitam | ramyaliṅgālayottuṅgarājadvṛṣabhaśekharaiḥ
57
धगद्धगितदिक्चक्रं शैलावरणमीशितुः । व्यायामायतदीर्घञ्चाप्येतद्वोऽभिहितं मया
dhagaddhagitadikcakraṃ śailāvaraṇamīśituḥ | vyāyāmāyatadīrghañcāpyetadvo'bhihitaṃ mayā
58
एवमाभ्यन्तराः कॢप्ताः प्राकारवरगोपुराः । सहस्रप्रमथाधीशैस्सप्तसागरमध्यगैः
evamābhyantarāḥ kḷptāḥ prākāravaragopurāḥ | sahasrapramathādhīśaissaptasāgaramadhyagaiḥ
59
शैलद्वीपसरिद्भिश्च निर्मितं विपिनैरपि । ध्यात्वा ध्येयमिदं विप्रगणो भवति शांकरः
śailadvīpasaridbhiśca nirmitaṃ vipinairapi | dhyātvā dhyeyamidaṃ vipragaṇo bhavati śāṃkaraḥ
58
स्कन्द उवाच– नैव प्राकारमध्ये हरविधिहरयो नो गणा नापि वातो नो चन्द्रो न च सूर्यरश्मिनिचयोनाग्नित्रयं नो सुराः । एकस्तत्र महेश्वरो विहरति स्वैरं सहाम्बो मुदा तद्वेदैरपि वक्तुमेव न भवेत्कावा कथान्यस्य हि
skanda uvāca– naiva prākāramadhye haravidhiharayo no gaṇā nāpi vāto no candro na ca sūryaraśminicayonāgnitrayaṃ no surāḥ | ekastatra maheśvaro viharati svairaṃ sahāmbo mudā tadvedairapi vaktumeva na bhavetkāvā kathānyasya hi
61
शरशरधिरथांगं यन्तृयानं वहा वै धनुवरमथ तज्या वैरिवर्गं रथीच । हरिविधिश्रुतयः क्ष्मा पुष्पवन्तौ तथाब्धिर्नगवर उरगेन्द्रस्त्रैपुरं श्रीमहेशः
śaraśaradhirathāṃgaṃ yantṛyānaṃ vahā vai dhanuvaramatha tajyā vairivargaṃ rathīca | harividhiśrutayaḥ kṣmā puṣpavantau tathābdhirnagavara uragendrastraipuraṃ śrīmaheśaḥ
60
निश्वासश्रुतिरेक एव भगवानास्ते सहाम्बो भव- स्तस्यापारविचित्रसर्गबहुलास्स्वाभाविकाश्शक्तयः । तस्यानन्दघनस्य भक्तिपरमा भावा गणास्ते द्विजा ब्रह्मेन्द्रादिमरुत्पदेषु विहितास्सक्ता महेशार्चने
niśvāsaśrutireka eva bhagavānāste sahāmbo bhava- stasyāpāravicitrasargabahulāssvābhāvikāśśaktayaḥ | tasyānandaghanasya bhaktiparamā bhāvā gaṇāste dvijā brahmendrādimarutpadeṣu vihitāssaktā maheśārcane
śrīśivarahasye prathamāṃśe pañcabrahmaprākāravarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ 16
1
पञ्चब्रह्मप्राकारवर्णनं नाम षोडशोऽध्यायः जैगीषव्य उवाच– शिखिवाह नमस्तेऽस्तु नगपौत्र महाप्रभो । सुन्दराननसन्दोह द्वादशोत्पललोचन
pañcabrahmaprākāravarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ jaigīṣavya uvāca– śikhivāha namaste'stu nagapautra mahāprabho | sundarānanasandoha dvādaśotpalalocana
2
नाकनायक मैनाकमातुलानलसम्भव । शोकमूकसुदैत्याजिगतप्राणापहारक
nākanāyaka mainākamātulānalasambhava | śokamūkasudaityājigataprāṇāpahāraka
3
तारकक्रौञ्चमथन पुनर्विस्तरतो वद । नहि तृप्यामि ते वक्त्रकथारसझरीभरैः
tārakakrauñcamathana punarvistarato vada | nahi tṛpyāmi te vaktrakathārasajharībharaiḥ
4
पृ0 68) पुनः कियन्तः प्राकारा गोपुराट्टालसुन्दराः । कैलासस्य महेशस्यावसतेरतुलस्य च
pṛ0 68) punaḥ kiyantaḥ prākārā gopurāṭṭālasundarāḥ | kailāsasya maheśasyāvasateratulasya ca
5
सूत उवाच– इत्थं नन्दितमन्दारो जैगीषव्येन चोदितः । सुरान् गणान्मुनींश्चैव प्रोत्फुल्लाननपङ्कजः
sūta uvāca– itthaṃ nanditamandāro jaigīṣavyena coditaḥ | surān gaṇānmunīṃścaiva protphullānanapaṅkajaḥ
6
उवाच प्रमथेशानन्नत्वा देवीं स्वमातरम्
uvāca pramatheśānannatvā devīṃ svamātaram
7
स्कन्द उवाच– शृणुध्वं ब्रह्मविच्छ्रेष्ठा मुनयश्च गणोत्तमाः । जैगीषव्य महाप्राज्ञ शृणुध्वममलाः कथाः
skanda uvāca– śṛṇudhvaṃ brahmavicchreṣṭhā munayaśca gaṇottamāḥ | jaigīṣavya mahāprājña śṛṇudhvamamalāḥ kathāḥ
8
शम्भोर्विचित्रविभवाश्श्रोत्रपात्रामलाः कथाः । क्षीरोदधिमहाखातप्राकारोऽस्तितदन्तरः
śambhorvicitravibhavāśśrotrapātrāmalāḥ kathāḥ | kṣīrodadhimahākhātaprākāro'stitadantaraḥ
9
उद्भूतचन्द्रकिरणैस्तरंगैश्चैव भासुरः । रजतोच्छ्रायशृंगाग्रो महावृषभलाञ्छितः
udbhūtacandrakiraṇaistaraṃgaiścaiva bhāsuraḥ | rajatocchrāyaśṛṃgāgro mahāvṛṣabhalāñchitaḥ
10
नानागोपुररत्नौघप्रभाभासितदिङ्मुखः । स्फटिकैः कृतदेवेशवरसुन्दरविग्रहैः
nānāgopuraratnaughaprabhābhāsitadiṅmukhaḥ | sphaṭikaiḥ kṛtadeveśavarasundaravigrahaiḥ
11
शोभितो गोपुराणांच समूहैः परिशोभितः । तत्पूर्वदेशे देवस्य तत्पूर्वस्य मनोहरम्
śobhito gopurāṇāṃca samūhaiḥ pariśobhitaḥ | tatpūrvadeśe devasya tatpūrvasya manoharam
12
गोपुरं सौधसुभगं स्तम्भविद्रुमपुत्रिकम् । मणिकॢप्ताच्छवलभीनिर्यत्पारावतीगणम्
gopuraṃ saudhasubhagaṃ stambhavidrumaputrikam | maṇikḷptācchavalabhīniryatpārāvatīgaṇam
13
तत्र सिंहासनवरं नवरत्नविचित्रितम् । तत्र स्थितं गणैर्देवैश्शूलतेजोलसत्करैः
tatra siṃhāsanavaraṃ navaratnavicitritam | tatra sthitaṃ gaṇairdevaiśśūlatejolasatkaraiḥ
14
कपर्दधृतचन्द्रार्कैर्भसितामललोचनैः । त्रिपुण्ट्रविलसत्फालैर्विलसत्फाललोचनैः
kapardadhṛtacandrārkairbhasitāmalalocanaiḥ | tripuṇṭravilasatphālairvilasatphālalocanaiḥ
15
रत्नान्तरितरुद्राक्षमालाललितकन्धरैः । नीरदोद्यत्प्रभाभास्वन्नीरजोपमकन्धरैः
ratnāntaritarudrākṣamālālalitakandharaiḥ | nīradodyatprabhābhāsvannīrajopamakandharaiḥ
16
वाताशनकृतोच्छ्वासचलद्धारमनोहरैः । महाडमरुनादेन भीषिताखिलदिक्तटैः
vātāśanakṛtocchvāsacaladdhāramanoharaiḥ | mahāḍamarunādena bhīṣitākhiladiktaṭaiḥ
17
फणामणिकृतापारनूपुरांगदकंकणैः । रणन्मञ्जीरवलयैस्सिंहसंहनैर्गणैः
phaṇāmaṇikṛtāpāranūpurāṃgadakaṃkaṇaiḥ | raṇanmañjīravalayaissiṃhasaṃhanairgaṇaiḥ
18
पुण्डरीकाजिनभवत्कृष्णरेखाकटीतटैः । महेभचर्मवसनैर्बालातपसमप्रभैः
puṇḍarīkājinabhavatkṛṣṇarekhākaṭītaṭaiḥ | mahebhacarmavasanairbālātapasamaprabhaiḥ
19
गणेन्द्रैर्वारणेन्द्राभैः करिशुण्डोरुबाहुभिः । अहिमन्युभिरुत्कृष्टैः कोटिभिर्गणपैर्वृतः
gaṇendrairvāraṇendrābhaiḥ kariśuṇḍorubāhubhiḥ | ahimanyubhirutkṛṣṭaiḥ koṭibhirgaṇapairvṛtaḥ
20
पृषत्ककरनिस्तृंशबाणासनधरैर्वरैः । पूर्वतो भातितत्पूर्षश्चेन्दुकुन्दसमप्रभः
pṛṣatkakaranistṛṃśabāṇāsanadharairvaraiḥ | pūrvato bhātitatpūrṣaścendukundasamaprabhaḥ
21
जटामुकुटसंशोभिराजराजकलाधरः । भस्माभ्यक्तस्त्रिपुण्ट्रांकश्चतुर्बाहुरुदारधीः
jaṭāmukuṭasaṃśobhirājarājakalādharaḥ | bhasmābhyaktastripuṇṭrāṃkaścaturbāhurudāradhīḥ
22
त्रिणेत्रो नीलकण्ठश्च बालसूर्यायुतप्रभः । तत्पूरुषं महालिङ्गं संपूज्य वरिवस्यया
triṇetro nīlakaṇṭhaśca bālasūryāyutaprabhaḥ | tatpūruṣaṃ mahāliṅgaṃ saṃpūjya varivasyayā
23
समर्चयति विप्रेन्द्र बिल्वपत्रैश्शिवार्चकः । स्तुवते सावधानेन तल्लिङ्गं रत्नधामगम्
samarcayati viprendra bilvapatraiśśivārcakaḥ | stuvate sāvadhānena talliṅgaṃ ratnadhāmagam
24
पृ0 69) तत्पुरुषः– स्वच्छछत्राभिरामं छविजितरजतं छन्दसाङ्गीततुष्टम् स्वच्छन्दायां निरिच्छोदधिनिजमहिगोच्छन्नमच्छाच्छदेहम् । छद्मेभारिछदाच्छछदमजमजरं पिञ्छतापिञ्छगुच्छ- छायासछायवामाङ्गममदधिषणे सद्विपच्छेदनेच्छम्
pṛ0 69) tatpuruṣaḥ– svacchachatrābhirāmaṃ chavijitarajataṃ chandasāṅgītatuṣṭam svacchandāyāṃ niricchodadhinijamahigocchannamacchācchadeham | chadmebhārichadācchachadamajamajaraṃ piñchatāpiñchaguccha- chāyāsachāyavāmāṅgamamadadhiṣaṇe sadvipacchedaneccham
25
आशीविषाङ्गद सदैव महेश काशीवासीकृतानन्दवन प्रसीद । संसारवाराशितरे पुरारे कीनाशनाश भयमाशु विनाशयाद्य
āśīviṣāṅgada sadaiva maheśa kāśīvāsīkṛtānandavana prasīda | saṃsāravārāśitare purāre kīnāśanāśa bhayamāśu vināśayādya
26
स्कन्दः– इत्थं स्तौति सदाकालं पुरुषः पुरुषेश्वरम् । तत्रास्ते गणपाधीशः प्राचीन्तांपालयन्दिशम्
skandaḥ– itthaṃ stauti sadākālaṃ puruṣaḥ puruṣeśvaram | tatrāste gaṇapādhīśaḥ prācīntāṃpālayandiśam
27
क्षारोदधिपरीवृतः कालायसविनिर्मितः । प्राकारो राजते विप्र दक्षिणे गोपुरैर्वृतः
kṣārodadhiparīvṛtaḥ kālāyasavinirmitaḥ | prākāro rājate vipra dakṣiṇe gopurairvṛtaḥ
28
लवणाम्भोधिकल्लोलघर्घरानिलघोषितः । तत्र नाना महाभोगफणारत्नालयो महान्
lavaṇāmbhodhikallolaghargharānilaghoṣitaḥ | tatra nānā mahābhogaphaṇāratnālayo mahān
29
सौधान्तरस्थपीठस्थोभ्रुकुटी कुटिलाननः । उच्चण्डतरकोदण्डखण्डितारातिमण्डलः
saudhāntarasthapīṭhasthobhrukuṭī kuṭilānanaḥ | uccaṇḍatarakodaṇḍakhaṇḍitārātimaṇḍalaḥ
30
जटामण्डलगोद्भासिसुधामण्डलशेखरः । विद्युल्लतेव घनवद्दंष्ट्राशोभितवक्त्रकः
jaṭāmaṇḍalagodbhāsisudhāmaṇḍalaśekharaḥ | vidyullateva ghanavaddaṃṣṭrāśobhitavaktrakaḥ
31
नीलामलतनूभास्वद्भासितालेपसुन्दरः । सजलोद्दामघनगगर्भान्तरसुविद्युता
nīlāmalatanūbhāsvadbhāsitālepasundaraḥ | sajaloddāmaghanagagarbhāntarasuvidyutā
32
सदृशामलपुण्ट्रांकस्तिलकाकल्पभूषितः । धनुर्हेतिधरस्तादृग्गणपैरभितो वृतः
sadṛśāmalapuṇṭrāṃkastilakākalpabhūṣitaḥ | dhanurhetidharastādṛggaṇapairabhito vṛtaḥ
33
प्रसन्नकरसंकाशदोर्दण्डवरचण्डकैः । ब्रह्माण्डस्फोटनारावैः कोदण्डवरमण्डितैः
prasannakarasaṃkāśadordaṇḍavaracaṇḍakaiḥ | brahmāṇḍasphoṭanārāvaiḥ kodaṇḍavaramaṇḍitaiḥ
34
अघोरो घोरवदनः पातितान्दक्षिणान्दिशम् । चण्डाज्ञानतमोच्चण्डखण्डने मण्डितालकः
aghoro ghoravadanaḥ pātitāndakṣiṇāndiśam | caṇḍājñānatamoccaṇḍakhaṇḍane maṇḍitālakaḥ
35
अघोरेशं महालिंगं संपूज्य स्तौति भक्तितः
aghoreśaṃ mahāliṃgaṃ saṃpūjya stauti bhaktitaḥ
35
अघोरः– सज्जन्निर्जरराजराजमकुटीनीराजनभ्राजिप- द्राजीवं जगदार्तिभञ्जनरतञ्जेतारमाजौ पुराम् । आसाम्राज्यमिहैव जीवितनये सायुज्यमेवेज्यया दातारं भज धूर्जटिं स्वहृदय मे जह्नुकन्याभुजंगम्
aghoraḥ– sajjannirjararājarājamakuṭīnīrājanabhrājipa- drājīvaṃ jagadārtibhañjanaratañjetāramājau purām | āsāmrājyamihaiva jīvitanaye sāyujyamevejyayā dātāraṃ bhaja dhūrjaṭiṃ svahṛdaya me jahnukanyābhujaṃgam
36
अनिकटगमकपटगिरामहिकटकं नटनलम्पटं खपटम् । पृ0 70) अघपटलपाटनपटुं हाटक गोधारिधारिणं वन्दे
anikaṭagamakapaṭagirāmahikaṭakaṃ naṭanalampaṭaṃ khapaṭam | pṛ0 70) aghapaṭalapāṭanapaṭuṃ hāṭaka godhāridhāriṇaṃ vande
38
स्कन्दः– प्रतीच्यामपितत्रास्ति प्राकारः पुष्परागजः । पुष्परागमणिज्योतिर्विभासितदिगन्तरः
skandaḥ– pratīcyāmapitatrāsti prākāraḥ puṣparāgajaḥ | puṣparāgamaṇijyotirvibhāsitadigantaraḥ
38
तन्मणीन्द्रकृतानेकरुद्रक्रीडादिविग्रहैः । वृषभैस्तादृशैरेव गोपुराग्रप्रकल्पितैः
tanmaṇīndrakṛtānekarudrakrīḍādivigrahaiḥ | vṛṣabhaistādṛśaireva gopurāgraprakalpitaiḥ
40
गोपुरैर्भूधराकारै राजत्कलशसुन्दरैः । तत्रास्ति भवनं पुण्यं नानामणिविराजितम्
gopurairbhūdharākārai rājatkalaśasundaraiḥ | tatrāsti bhavanaṃ puṇyaṃ nānāmaṇivirājitam
41
वेदिकापट्टिकोपेतं सिह्मासनबरैर्वृतम् । सद्योजातं सुखासीनं क्षारसारविभूषितम्
vedikāpaṭṭikopetaṃ sihmāsanabarairvṛtam | sadyojātaṃ sukhāsīnaṃ kṣārasāravibhūṣitam
41
पूर्वजातनिशानाथभासुरांगमनोहरम् । राजत्पिंगामलजटाकृतापीडनिशाकरम्
pūrvajātaniśānāthabhāsurāṃgamanoharam | rājatpiṃgāmalajaṭākṛtāpīḍaniśākaram
42
उडुनायकसंशोभिफालानलविलोचनम् । प्रचण्डतरमार्ताण्डमण्डलोत्तमभूषितम्
uḍunāyakasaṃśobhiphālānalavilocanam | pracaṇḍataramārtāṇḍamaṇḍalottamabhūṣitam
43
नीलेन्दीवरसङ्काशग्रीवावलयसुन्दरम् । पुष्परागकृतानेकमालाकलितकन्धरम्
nīlendīvarasaṅkāśagrīvāvalayasundaram | puṣparāgakṛtānekamālākalitakandharam
44
वैयाघ्रचर्मविलसत्कटिरत्नसुकाञ्चिकम् । अहिमन्युवरानेक तादृशैर्गणपैर्युतम्
vaiyāghracarmavilasatkaṭiratnasukāñcikam | ahimanyuvarāneka tādṛśairgaṇapairyutam
46
पाशांकुशाभयकरं पाशिना परिसेवितम् । दधिमण्डमहांभोधिमध्यसौधवराश्रयम्
pāśāṃkuśābhayakaraṃ pāśinā parisevitam | dadhimaṇḍamahāṃbhodhimadhyasaudhavarāśrayam
47
गणैश्चापि महोद्दण्डडिम्भारावविभीषणैः । सेवितं पाशिभिस्तत्र पश्चिमां पातितान्दिशम्
gaṇaiścāpi mahoddaṇḍaḍimbhārāvavibhīṣaṇaiḥ | sevitaṃ pāśibhistatra paścimāṃ pātitāndiśam
47
सद्योजातेश्वरं लिंगं स्तौति भक्स्या प्रपूजयन्
sadyojāteśvaraṃ liṃgaṃ stauti bhaksyā prapūjayan
48
सद्योजातः– पाटीरद्रुमकीटकेतनजटाकोटीरभागेरट- त्स्पाटोच्चैस्तटिनीस्यदार्भटतटज्जूटीकृताहिछट । घोटाकृत्रिमगोकटीतटपटीभूतेभचर्माम्बर क्षोणीरुण्णिकटाटखाटविटपिन्मच्चित्ततट्यामट
sadyojātaḥ– pāṭīradrumakīṭaketanajaṭākoṭīrabhāgeraṭa- tspāṭoccaistaṭinīsyadārbhaṭataṭajjūṭīkṛtāhichaṭa | ghoṭākṛtrimagokaṭītaṭapaṭībhūtebhacarmāmbara kṣoṇīruṇṇikaṭāṭakhāṭaviṭapinmaccittataṭyāmaṭa
49
वतंसितसुधाकरं वरगुणौघरत्नाकरं स्फुरन्निटिललोचनज्वलनदग्धमीनध्वजम् । कुलाचलकुमारिकाकुचतटीपटीरांकितं भजामि भजतां सदाभयदमीश्वरं शंकरम्
vataṃsitasudhākaraṃ varaguṇaugharatnākaraṃ sphuranniṭilalocanajvalanadagdhamīnadhvajam | kulācalakumārikākucataṭīpaṭīrāṃkitaṃ bhajāmi bhajatāṃ sadābhayadamīśvaraṃ śaṃkaram
51
स्कन्दः– इति स्तौति सदा लिंगं सद्योजातो महेश्वरम् । तदुत्तरेऽपि प्राकारो गोमेधमणिकल्पितः
skandaḥ– iti stauti sadā liṃgaṃ sadyojāto maheśvaram | taduttare'pi prākāro gomedhamaṇikalpitaḥ
52
घृतोदेनावृतस्तत्र तत्कल्लोलोत्थवायुभिः । परीवीतो गोपुरैश्च तन्मणीन्द्रकृतैश्शुभैः
ghṛtodenāvṛtastatra tatkallolotthavāyubhiḥ | parīvīto gopuraiśca tanmaṇīndrakṛtaiśśubhaiḥ
53
पृ0 71) वररुद्रावतारोद्यद्विग्रहैर्वृषभैर्युतम् । शोभितं तत्प्रभाभिश्च तत्रास्थानं च तस्य हि
pṛ0 71) vararudrāvatārodyadvigrahairvṛṣabhairyutam | śobhitaṃ tatprabhābhiśca tatrāsthānaṃ ca tasya hi
54
सौधैरपारशिखरैर्बहुस्तम्भविराजितैः । तत्र संस्थं महाबाहुं वामदेवं त्रिलोचनम्
saudhairapāraśikharairbahustambhavirājitaiḥ | tatra saṃsthaṃ mahābāhuṃ vāmadevaṃ trilocanam
55
सिह्मासने सुखासीनं भस्मोद्धूलनपाण्डरम् । हरिन्मणिनिभाकारं विद्युन्निभजटाधरम्
sihmāsane sukhāsīnaṃ bhasmoddhūlanapāṇḍaram | harinmaṇinibhākāraṃ vidyunnibhajaṭādharam
56
त्रिपुण्ड्राङ्कितसत्फालं खङ्गखेटधरं शुभम् । प्रसन्नास्यन्नीलकण्ठं राजदिन्दुकलाधरम्
tripuṇḍrāṅkitasatphālaṃ khaṅgakheṭadharaṃ śubham | prasannāsyannīlakaṇṭhaṃ rājadindukalādharam
56
हरितैर्गणपैश्चैव वायुभिः परिसेवितम् । उद्यन्मरतकीगर्भसुन्दरैर्वायुवेगितैः
haritairgaṇapaiścaiva vāyubhiḥ parisevitam | udyanmaratakīgarbhasundarairvāyuvegitaiḥ
57
त्रिपुण्ट्रचन्द्रार्धधरैर्जटामण्डलमस्तकैः । बाणबाणासनधरैर्हल्लकाभूषभूषितैः
tripuṇṭracandrārdhadharairjaṭāmaṇḍalamastakaiḥ | bāṇabāṇāsanadharairhallakābhūṣabhūṣitaiḥ
58
वल्लकीमुरजोत्तुङ्गमृदङ्गवरवादकैः । सेवितं परितो वीरैश्शूलामललसत्करैः
vallakīmurajottuṅgamṛdaṅgavaravādakaiḥ | sevitaṃ parito vīraiśśūlāmalalasatkaraiḥ
60
वामदेवं सामजाताजिनबद्धकटीतटम् । कण्ठे भुजङ्गसंयुक्तं मृगेन्द्रामललोचनम्
vāmadevaṃ sāmajātājinabaddhakaṭītaṭam | kaṇṭhe bhujaṅgasaṃyuktaṃ mṛgendrāmalalocanam
61
कुबेरेणोत्तरां पाति दिशं यक्षेश्वरावृताम् । वामदेवेश्वरं लिङ्गं सम्पूज्यास्तुवदीश्वरम्
kubereṇottarāṃ pāti diśaṃ yakṣeśvarāvṛtām | vāmadeveśvaraṃ liṅgaṃ sampūjyāstuvadīśvaram
61
वामदेवः– तिष्ठन्ते स्तुतिपाठने तव विभो निष्ठ्यूतनिष्ठीवव- च्छाठ्यं निष्ठुरतां विधूय मनसा ब्रह्मैकनिष्ठाः कति । वैकुण्ठार्चित रत्नपीठनिलय श्रीकण्ठ कण्ठोल्लस- न्नील ज्येष्ठ कनिष्ठ कुष्ठहनन श्रेष्ठान्तरातिष्ठ मे
vāmadevaḥ– tiṣṭhante stutipāṭhane tava vibho niṣṭhyūtaniṣṭhīvava- cchāṭhyaṃ niṣṭhuratāṃ vidhūya manasā brahmaikaniṣṭhāḥ kati | vaikuṇṭhārcita ratnapīṭhanilaya śrīkaṇṭha kaṇṭhollasa- nnīla jyeṣṭha kaniṣṭha kuṣṭhahanana śreṣṭhāntarātiṣṭha me
63
सुरकुवलयसोमं वामदेवाख्यसामस्तुतमखिलगुणानां सीमधामानमीशम् । जगदवनविनाशं शाम्भवोद्यत्सुकामं निजनयनकटाक्षैर्दग्धकामं भजेऽहम्
surakuvalayasomaṃ vāmadevākhyasāmastutamakhilaguṇānāṃ sīmadhāmānamīśam | jagadavanavināśaṃ śāmbhavodyatsukāmaṃ nijanayanakaṭākṣairdagdhakāmaṃ bhaje'ham
64
स्कन्दः– एवं स्तौति महादेवं वामदेवः प्रसन्नधीः । तदन्तरा गिरेर्मूर्ध्नि संस्थो हीरकसौधकः
skandaḥ– evaṃ stauti mahādevaṃ vāmadevaḥ prasannadhīḥ | tadantarā girermūrdhni saṃstho hīrakasaudhakaḥ
64
रुद्रावतारप्रभवैर्विग्रहैर्वृषभैरपि । उरगेन्द्रमहाहारो मद्ध्यन्दिनरविप्रभः
rudrāvatāraprabhavairvigrahairvṛṣabhairapi | uragendramahāhāro maddhyandinaraviprabhaḥ
65
शर्वरीशानमकुटीभूतिभूषितविग्रहः । गजेन्द्रचर्मवसनो हीरमालाकृताङ्गकः
śarvarīśānamakuṭībhūtibhūṣitavigrahaḥ | gajendracarmavasano hīramālākṛtāṅgakaḥ
67
अन्तरिक्षै रुद्रगणैः पाति व्योम मनोहरम् । निषङ्गिभिः कवचिभिश्छुरिकाहेतिधारिभिः
antarikṣai rudragaṇaiḥ pāti vyoma manoharam | niṣaṅgibhiḥ kavacibhiśchurikāhetidhāribhiḥ
68
व्योमकेशप्रसादेन चेशानश्चोशिता सताम् । ईशानेशं महालिङ्गं सम्पूज्य स्तौति भक्तितः
vyomakeśaprasādena ceśānaścośitā satām | īśāneśaṃ mahāliṅgaṃ sampūjya stauti bhaktitaḥ
68
ईशानः– रथन्तररवप्रियं रथरथाङ्गपाणीशरं मनोरथपथातिगं सुरथनाथसत्कङ्कणम् । पृ0 72) भगीरथपथानुगाविहितजह्नुकन्याजटं भजामि सुरगो रथप्रियमपारपापापहम्
īśānaḥ– rathantararavapriyaṃ ratharathāṅgapāṇīśaraṃ manorathapathātigaṃ surathanāthasatkaṅkaṇam | pṛ0 72) bhagīrathapathānugāvihitajahnukanyājaṭaṃ bhajāmi surago rathapriyamapārapāpāpaham
69
चषके निजवाजिहेषितैश्चरणे वायुसुभोजिशिञ्जितैः । कटिसीम्नि सुभूरिबृह्मितैर्मुखरं दैवतमाविरस्तु चित्ते
caṣake nijavājiheṣitaiścaraṇe vāyusubhojiśiñjitaiḥ | kaṭisīmni subhūribṛhmitairmukharaṃ daivatamāvirastu citte
70
अश्वीकृतस्वीकृतवेदराशिनाङ्गीकृतांगीकृतशम्बरारिः । अस्त्रीकृतस्त्रीकृतदानवारिर्देवस्सदा मे हृदये चकास्तु
aśvīkṛtasvīkṛtavedarāśināṅgīkṛtāṃgīkṛtaśambarāriḥ | astrīkṛtastrīkṛtadānavārirdevassadā me hṛdaye cakāstu
72
स्कन्दः– एवं स्तौति सदाकालमीशानो गणपावृतः । आन्तराः परिघाश्चैव प्राकारवरगोपुरम्
skandaḥ– evaṃ stauti sadākālamīśāno gaṇapāvṛtaḥ | āntarāḥ parighāścaiva prākāravaragopuram
72
महाकैलासभवने मणिकल्पितमुत्तमम् । रत्नप्राकारमेतद्धिपञ्चब्रह्मप्रकल्पितम्
mahākailāsabhavane maṇikalpitamuttamam | ratnaprākārametaddhipañcabrahmaprakalpitam
73
महेशेन तदा विप्र श्रवणादघनाशनम्
maheśena tadā vipra śravaṇādaghanāśanam
75
विचित्रं शिवनिर्माणं विचित्रं शिवचेष्टितम् । विचित्रा शिवमाया सा महामायस्य शूलिनः
vicitraṃ śivanirmāṇaṃ vicitraṃ śivaceṣṭitam | vicitrā śivamāyā sā mahāmāyasya śūlinaḥ
75
यस्यांशलेशलवलेशशतांशलेशलेशैर्जगज्जननकर्मगतिप्रणाशम् । कुर्वन्ति वामभुजभूर्मधुकैटभारिर्दक्षांगनेत्रजननौ भवतां हराजौ
yasyāṃśaleśalavaleśaśatāṃśaleśaleśairjagajjananakarmagatipraṇāśam | kurvanti vāmabhujabhūrmadhukaiṭabhārirdakṣāṃganetrajananau bhavatāṃ harājau
76
क्वचित्कल्पे स्रष्टा हरविधिमुकुन्दाः प्रतिभुवः क्वचिद्ब्रह्मा विष्णुः क्वचिदपि च रुद्रोऽपि करणम् । जगत्संस्थानाशप्रकृतिजगुणैः नैव करणा भजन्तश्चान्योन्यं जनकजननाश्शम्भुकृपया
kvacitkalpe sraṣṭā haravidhimukundāḥ pratibhuvaḥ kvacidbrahmā viṣṇuḥ kvacidapi ca rudro'pi karaṇam | jagatsaṃsthānāśaprakṛtijaguṇaiḥ naiva karaṇā bhajantaścānyonyaṃ janakajananāśśambhukṛpayā
77
मनोवाचां चक्षुर्विषयमपि नोतस्य चरितं शिवस्यैता लीलाः प्रथितवितता जागतगताः । स्वतन्त्रोऽयं शम्भुर्गुणगणविहीनोऽपि सगुण- स्स्वया शक्त्या चित्रं विदधति गिरीशोऽद्य जगति
manovācāṃ cakṣurviṣayamapi notasya caritaṃ śivasyaitā līlāḥ prathitavitatā jāgatagatāḥ | svatantro'yaṃ śambhurguṇagaṇavihīno'pi saguṇa- ssvayā śaktyā citraṃ vidadhati girīśo'dya jagati
śrīśivarahasye prathamāṃśe kailāsaprāsādavarṇanannāma saptadaśo'dhyāyaḥ 17
1
पृ0 73) कैलासप्रासादवर्णनं नाम सप्तदशोऽध्यायः स्कन्दः– तदन्तरेऽपि प्राकारश्चन्द्रकान्तशिलामयः । कलधौतमहासानुशिखरोपरिसंस्थितः
pṛ0 73) kailāsaprāsādavarṇanaṃ nāma saptadaśo'dhyāyaḥ skandaḥ– tadantare'pi prākāraścandrakāntaśilāmayaḥ | kaladhautamahāsānuśikharoparisaṃsthitaḥ
2
पञ्चलक्षप्रमाणेन चायामेनोच्छ्रयेणच । परिणाहेऽपि विप्रेन्द्र परिवर्तोज्वलप्रभः
pañcalakṣapramāṇena cāyāmenocchrayeṇaca | pariṇāhe'pi viprendra parivartojvalaprabhaḥ
3
कनकामलकुम्भाग्रो रत्नभ्राजन्मणिप्रभः । सुधाब्धिजलकल्लोलविलसत्पादपीठकः
kanakāmalakumbhāgro ratnabhrājanmaṇiprabhaḥ | sudhābdhijalakallolavilasatpādapīṭhakaḥ
4
चतुर्दिक्षु महाद्वारगोपुरोत्तमशेखरः । सोमधामायुतोद्भासि चाकचक्यजितान्तरः
caturdikṣu mahādvāragopurottamaśekharaḥ | somadhāmāyutodbhāsi cākacakyajitāntaraḥ
5
जगच्चक्रमहाबिम्बबिम्बितान्तरसुन्दरः । तत्कान्तिकान्तधाराभिर्दिशोऽपि धवलीकृताः
jagaccakramahābimbabimbitāntarasundaraḥ | tatkāntikāntadhārābhirdiśo'pi dhavalīkṛtāḥ
6
उद्यत्सुधांशुकिरणनिसृष्टोत्सृष्टनीरकः । सुधातरङ्गनृत्योर्ध्वहासफेनोपमोऽमलः
udyatsudhāṃśukiraṇanisṛṣṭotsṛṣṭanīrakaḥ | sudhātaraṅganṛtyordhvahāsaphenopamo'malaḥ
7
कैलासाचलसर्वस्वसारभूतोऽयमुत्तमः । धवलिम्ना तु ये लोके पादपास्सन्ति वर्णने
kailāsācalasarvasvasārabhūto'yamuttamaḥ | dhavalimnā tu ye loke pādapāssanti varṇane
8
तेषामप्यतिधावल्यानुपमस्स द्विजोत्तम । तत्प्राकारमहामौलौ स्फटिकोपलनिर्मिताः
teṣāmapyatidhāvalyānupamassa dvijottama | tatprākāramahāmaulau sphaṭikopalanirmitāḥ
9
वृषभा नीलनयनाः पुच्छे शृङ्गे विभूषिताः । कुरुविन्दोल्लसज्जिह्वाः ककुदाभोगभासुराः
vṛṣabhā nīlanayanāḥ pucche śṛṅge vibhūṣitāḥ | kuruvindollasajjihvāḥ kakudābhogabhāsurāḥ
10
कर्णाग्रलम्बितात्युच्चस्फुरच्चामरपंक्तयः । केचिदानन्दभरिताः पश्यन्त्यन्योऽन्यमीक्षणैः
karṇāgralambitātyuccasphuraccāmarapaṃktayaḥ | kecidānandabharitāḥ paśyantyanyo'nyamīkṣaṇaiḥ
11
केचित्सुरभिपाश्चात्यभागभोगैकसम्भ्रमाः । विवृतोद्यद्धीरकान्तिदन्तावलिविभूषिताः
kecitsurabhipāścātyabhāgabhogaikasambhramāḥ | vivṛtodyaddhīrakāntidantāvalivibhūṣitāḥ
12
केचिदाताम्रनेत्रान्तास्सुरघट्टमहोपलाः । प्रवालमणिकॢप्तेन लम्बिना वृषणेन च
kecidātāmranetrāntāssuraghaṭṭamahopalāḥ | pravālamaṇikḷptena lambinā vṛṣaṇena ca
13
नन्दन्ति घनसन्नाहध्वनिभिर्जितदिङ्मुखाः । एवं तत्र महासौधप्राकारवरसंस्थिताः
nandanti ghanasannāhadhvanibhirjitadiṅmukhāḥ | evaṃ tatra mahāsaudhaprākāravarasaṃsthitāḥ
14
कल्पकानां वनं तत्र छदपुष्पफलावृतम् । नानापलाशकलिकाकुसुमैः फुल्लशेखरम्
kalpakānāṃ vanaṃ tatra chadapuṣpaphalāvṛtam | nānāpalāśakalikākusumaiḥ phullaśekharam
15
रत्नालवालकलितं राजद्रामण्यवेदिकम् । तत्र तत्सुमगन्धोद्यद्बन्धुरामलमारुतम्
ratnālavālakalitaṃ rājadrāmaṇyavedikam | tatra tatsumagandhodyadbandhurāmalamārutam
16
घ्राणतर्पणमत्यन्तं शीतासारविसारिणम् । वसन्तप्रमुखानेकैऋतुभिः परिवारितम्
ghrāṇatarpaṇamatyantaṃ śītāsāravisāriṇam | vasantapramukhānekaiṛtubhiḥ parivāritam
17
कामाधिकप्रदं तत्र तत्कल्पककुलं महत् । मन्दारपारिजातैश्च सन्तानैश्चन्दनैर्वृतम्
kāmādhikapradaṃ tatra tatkalpakakulaṃ mahat | mandārapārijātaiśca santānaiścandanairvṛtam
18
नयनानन्दजननं तापत्रयनिवारकम् । तत्कैलासमहापारसारभूतं मनोहरम्
nayanānandajananaṃ tāpatrayanivārakam | tatkailāsamahāpārasārabhūtaṃ manoharam
19
हरिन्मणिनिभं स्वच्छछत्रछायासमप्रभम् । तत्सुमप्रभवामोदघुमुघ्घुमितमारुतम्
harinmaṇinibhaṃ svacchachatrachāyāsamaprabham | tatsumaprabhavāmodaghumughghumitamārutam
20
विष्णुब्रह्मामरेन्द्राद्या मुनयश्च गणास्सुराः । तृप्तान्तराः प्रमुदिता नेच्छन्त्येवहि नन्दनम्
viṣṇubrahmāmarendrādyā munayaśca gaṇāssurāḥ | tṛptāntarāḥ pramuditā necchantyevahi nandanam
21
तत्सुखांशशतांशांशशतकं तत्र नास्ति हि । इत्यन्योन्यं संवदन्ति कथं तत्प्राप्यते वनम्
tatsukhāṃśaśatāṃśāṃśaśatakaṃ tatra nāsti hi | ityanyonyaṃ saṃvadanti kathaṃ tatprāpyate vanam
22
केवलं श्रीमहेशस्य प्रसादेन विना द्विज । नास्माकं प्रसरस्तत्र चेति विस्मायितान्तराः
kevalaṃ śrīmaheśasya prasādena vinā dvija | nāsmākaṃ prasarastatra ceti vismāyitāntarāḥ
23
पृ0 74) तत्रोत्फुल्लमहारत्नसोपानावलिभासुराः । स्वच्छाच्छस्फटिकाकारपानीयोत्तमसंवृताः
pṛ0 74) tatrotphullamahāratnasopānāvalibhāsurāḥ | svacchācchasphaṭikākārapānīyottamasaṃvṛtāḥ
24
सुवर्णमृदुलालोलमृणालोछ्रितकुण्डलैः । रत्नकल्हारकञ्जैश्च कुमुदैश्चैव शोभिताः
suvarṇamṛdulālolamṛṇālochritakuṇḍalaiḥ | ratnakalhārakañjaiśca kumudaiścaiva śobhitāḥ
25
उत्फुल्लरत्नकमलसहस्रदलसंवृताः । हरिन्मणीन्द्रविततहरिच्छदवरैर्युताः
utphullaratnakamalasahasradalasaṃvṛtāḥ | harinmaṇīndravitataharicchadavarairyutāḥ
26
तत्पत्रविलसन्नीलवेलमुक्ताफलोपमाः । तत्पङ्कजरजः पुञ्जरञ्जिता मन्दमारुताः
tatpatravilasannīlavelamuktāphalopamāḥ | tatpaṅkajarajaḥ puñjarañjitā mandamārutāḥ
27
तद्बृन्दमधुरामोदविसर्पितदिगन्तराः । नीरनीरजवल्योऽपि विततास्तत्र शाङ्कर
tadbṛndamadhurāmodavisarpitadigantarāḥ | nīranīrajavalyo'pi vitatāstatra śāṅkara
28
इन्द्रनीलकृतानेककलिकोद्दामकेसरैः । वेल्लिताकीलितापारनीलेन्दीवरभासुराः
indranīlakṛtānekakalikoddāmakesaraiḥ | vellitākīlitāpāranīlendīvarabhāsurāḥ
29
विकचत्कुमुदासारकेसरच्छदसंवृताः । कासारसारसरलचलनाचलपत्रकाः
vikacatkumudāsārakesaracchadasaṃvṛtāḥ | kāsārasārasaralacalanācalapatrakāḥ
30
उद्यत्सुपुण्डरीकाच्छतुच्छीकृतसुधावलिः । सन्त्यत्रनीरजदलस्वच्छशारदवत्स्थितः
udyatsupuṇḍarīkācchatucchīkṛtasudhāvaliḥ | santyatranīrajadalasvacchaśāradavatsthitaḥ
31
तस्यान्ते रत्नविलसत्पद्मरागमणिद्युतिः । प्रासादश्शृङ्गसाहस्रैः परितस्सरसस्तदा
tasyānte ratnavilasatpadmarāgamaṇidyutiḥ | prāsādaśśṛṅgasāhasraiḥ paritassarasastadā
32
विचित्रापारसद्रत्नस्तम्भपंक्तिविराजितः । तद्विद्रुमलताजालस्तम्भविद्रुमपुत्रिकः
vicitrāpārasadratnastambhapaṃktivirājitaḥ | tadvidrumalatājālastambhavidrumaputrikaḥ
33
गोपानसीगतापारगवाक्षोज्वलकुम्भकः । राजत्सुरत्नकलशप्रभाकीलितदिङ्मुखः
gopānasīgatāpāragavākṣojvalakumbhakaḥ | rājatsuratnakalaśaprabhākīlitadiṅmukhaḥ
34
उद्यद्भानुसहस्राभः किञ्जल्काकृतिभासुरः । क्वचित्सिह्मासनं तत्र नवरत्नविचित्रितम्
udyadbhānusahasrābhaḥ kiñjalkākṛtibhāsuraḥ | kvacitsihmāsanaṃ tatra navaratnavicitritam
35
क्वचिन्मञ्चा रत्नपादा मूलके विद्रुमान्विताः । स्फटिकोपलसङ्कॢप्ततलादिवितताश्शुभाः
kvacinmañcā ratnapādā mūlake vidrumānvitāḥ | sphaṭikopalasaṅkḷptatalādivitatāśśubhāḥ
36
हरिन्मणितलाश्चापि कुरुविन्दतलामलाः । इन्द्रनीलमणिकॢप्तमहापीठमनोहराः
harinmaṇitalāścāpi kuruvindatalāmalāḥ | indranīlamaṇikḷptamahāpīṭhamanoharāḥ
37
मुक्तावितानकलिता मणिलम्बितशृङ्खलाः । मञ्चा मनोज्ञा रुचिरास्सोपधानोपशोभिताः
muktāvitānakalitā maṇilambitaśṛṅkhalāḥ | mañcā manojñā rucirāssopadhānopaśobhitāḥ
38
पुष्परागकगोमेदवैडूर्यतलकान्तिभिः । भान्ति तत्र महापीठा विद्युदुद्यत्प्रभायुताः
puṣparāgakagomedavaiḍūryatalakāntibhiḥ | bhānti tatra mahāpīṭhā vidyududyatprabhāyutāḥ
39
क्वचिन्निम्नभ्रमास्तत्र पतन्ति प्रसभं गणाः । उन्नतेषु प्रदेशेषु निम्नभ्रान्तिकरास्सदा
kvacinnimnabhramāstatra patanti prasabhaṃ gaṇāḥ | unnateṣu pradeśeṣu nimnabhrāntikarāssadā
40
स्थले जलभ्रमश्चापि जले तत्र स्थलभ्रमः । नानारत्नपतत्पत्रशुकशारिकरावितः
sthale jalabhramaścāpi jale tatra sthalabhramaḥ | nānāratnapatatpatraśukaśārikarāvitaḥ
41
रत्नपञ्जरमध्यस्थशुकशारिकपंक्तिभिः । क्रीडामयूरैर्वलभीलम्बिपिञ्छैकभासुरः
ratnapañjaramadhyasthaśukaśārikapaṃktibhiḥ | krīḍāmayūrairvalabhīlambipiñchaikabhāsuraḥ
42
तत्र पक्षिगणास्सर्वे शिव शङ्कर पाहि नः । धूपधूममहागन्धबन्धुरामलमारुतः
tatra pakṣigaṇāssarve śiva śaṅkara pāhi naḥ | dhūpadhūmamahāgandhabandhurāmalamārutaḥ
43
मणिप्रभाभिस्सततं सोमसूर्यौ तिरस्कृतौ । सरसीमध्यसंकॢप्तसौधोद्यद्वरकुम्भकः
maṇiprabhābhissatataṃ somasūryau tiraskṛtau | sarasīmadhyasaṃkḷptasaudhodyadvarakumbhakaḥ
44
मणिस्तम्भकृतासारभाभासितदिगन्तरः । सुवर्णाम्बरसंकॢप्तविततामलमौक्तिकैः
maṇistambhakṛtāsārabhābhāsitadigantaraḥ | suvarṇāmbarasaṃkḷptavitatāmalamauktikaiḥ
45
जालिकापालिकापारवितानावलिभासुरः । तन्मध्यहीरकोत्तुङ्गसिह्मासनवराश्रितः
jālikāpālikāpāravitānāvalibhāsuraḥ | tanmadhyahīrakottuṅgasihmāsanavarāśritaḥ
46
तत्रदेव्या महादेवो विहारशयनासनैः । सरःप्रान्तोरुकलशधारासारोर्ध्वशीकरैः
tatradevyā mahādevo vihāraśayanāsanaiḥ | saraḥprāntorukalaśadhārāsārordhvaśīkaraiḥ
47
पृ0 75) यन्नीरतीरगन्धोद्यद्धारासारौघशीकरैः । कदाचित्तत्र मध्यस्थो देव्या व्यजनहस्तया
pṛ0 75) yannīratīragandhodyaddhārāsāraughaśīkaraiḥ | kadācittatra madhyastho devyā vyajanahastayā
48
सेवितश्श्रीमहेशानः क्वचित्पीठस्थितश्शिवः । तत्र नानाविधाः क्रीडा देव्या चक्रे महेश्वरः
sevitaśśrīmaheśānaḥ kvacitpīṭhasthitaśśivaḥ | tatra nānāvidhāḥ krīḍā devyā cakre maheśvaraḥ
49
विचित्राणां चरित्राणां त्रिणेत्रप्रियकाम्यया । देव्या प्रमुदितो देवस्तत्र सौधवरेषु च
vicitrāṇāṃ caritrāṇāṃ triṇetrapriyakāmyayā | devyā pramudito devastatra saudhavareṣu ca
50
काश्चित्तत्र वदाम्यद्य शृणु भूसुर शाम्भव । विपिने सरसस्तीरे प्रासादाग्रेषु गोपुरे
kāścittatra vadāmyadya śṛṇu bhūsura śāmbhava | vipine sarasastīre prāsādāgreṣu gopure
51
विजहार महादेवो भवान्या शंकरस्तदा । शैलमालोकयद्देवो देव्या देवी सखीगणैः
vijahāra mahādevo bhavānyā śaṃkarastadā | śailamālokayaddevo devyā devī sakhīgaṇaiḥ
52
अदर्शयद्विचित्राणि तस्मिन्कैलासपर्वते
adarśayadvicitrāṇi tasminkailāsaparvate
53
सालतालकृतमालतमालैरामलक्यवकुलार्जुनपाटलैः । फानसैर्लिकुचबाह्लिकनीपैर्दाडिमैश्च सुरसालरसालैः
sālatālakṛtamālatamālairāmalakyavakulārjunapāṭalaiḥ | phānasairlikucabāhlikanīpairdāḍimaiśca surasālarasālaiḥ
54
जम्बूनिम्बकदम्बजैः फलभरैस्तक्कोलहिन्तालकै- रंकोलैस्सरलैरशोकतिलकैस्तिन्दूकमालूरकैः । पुन्नागैर्नगनागसर्जरसिकैः चाम्पेयमाधूककैः प्लक्षाश्वत्थकपित्थतिन्त्रिणिभवैर्भूनिम्बजालैर्धवैः
jambūnimbakadambajaiḥ phalabharaistakkolahintālakai- raṃkolaissaralairaśokatilakaistindūkamālūrakaiḥ | punnāgairnaganāgasarjarasikaiḥ cāmpeyamādhūkakaiḥ plakṣāśvatthakapitthatintriṇibhavairbhūnimbajālairdhavaiḥ
55
वटकुटजकुरण्टैः कर्णिकाराश्वमारैः खरबदरपलाशैर्लोद्ध्रसच्चन्दनैश्च । कुरवकशुकतुण्डैश्शिंशुपाचेङ्गुदीभिर्लिकुचविकचभण्डैः केतकैस्सिन्दुवारैः
vaṭakuṭajakuraṇṭaiḥ karṇikārāśvamāraiḥ kharabadarapalāśairloddhrasaccandanaiśca | kuravakaśukatuṇḍaiśśiṃśupāceṅgudībhirlikucavikacabhaṇḍaiḥ ketakaissinduvāraiḥ
56
केदारकोविदारैश्च देवदारुकपित्थकैः । तगरागरुकृष्णाभ्रैस्तुंगनीपककम्रकैः
kedārakovidāraiśca devadārukapitthakaiḥ | tagarāgarukṛṣṇābhraistuṃganīpakakamrakaiḥ
57
मन्दारद्वयपारिजातवकजैरर्कैश्च सप्तछदैः पूगीनारलखर्जुरैश्च कुटजैर्नारंगजातिद्रुमैः । प्लक्षोदुम्बरकन्दलैर्मुनिभवै राजादनैर्बर्बरै- श्शल्मल्यैर्वरशिग्रुकैर्मधुभवैस्सन्मातुलिंगैरपि
mandāradvayapārijātavakajairarkaiśca saptachadaiḥ pūgīnāralakharjuraiśca kuṭajairnāraṃgajātidrumaiḥ | plakṣodumbarakandalairmunibhavai rājādanairbarbarai- śśalmalyairvaraśigrukairmadhubhavaissanmātuliṃgairapi
58
भूतावासहरीतकीत्रिकटुकैश्शम्युद्भवैः किन्दरैः प्राचीनामलकैः करञ्जककुभैर्गन्धात्तजम्बूफलैः । बन्धूकैश्चिरिबिल्वजैश्च तरगैः कृष्णागरूत्थैर्द्रुमै- र्मालिंगैश्च शिरीषकैः कुसुमितैरन्यैश्च शाखाशतैः
bhūtāvāsaharītakītrikaṭukaiśśamyudbhavaiḥ kindaraiḥ prācīnāmalakaiḥ karañjakakubhairgandhāttajambūphalaiḥ | bandhūkaiściribilvajaiśca taragaiḥ kṛṣṇāgarūtthairdrumai- rmāliṃgaiśca śirīṣakaiḥ kusumitairanyaiśca śākhāśataiḥ
59
पृ0 76) मल्लीमालतिजातिकासुरभितैस्सायन्तनोन्निद्रितै- श्चन्द्रासारविकासितैरतिसितैस्सच्चन्द्रिकावल्लिभिः । वल्लीनान्निवहैः कदम्बजरजस्सन्दोहगन्धानिलै- रुत्फुल्लैस्तिलकैस्तमालजसुमैः फुल्लैर्लसत्केसरैः
pṛ0 76) mallīmālatijātikāsurabhitaissāyantanonnidritai- ścandrāsāravikāsitairatisitaissaccandrikāvallibhiḥ | vallīnānnivahaiḥ kadambajarajassandohagandhānilai- rutphullaistilakaistamālajasumaiḥ phullairlasatkesaraiḥ
60
कुन्दैरिन्दुकरप्रसारितमुखैरालोलसप्तछदैः कौसुम्भैररुणप्रभासुमधुरैः प्रोद्भूतसत्केसरैः । द्राक्षागुच्छसुवल्लिकासितसिताः पुण्ट्रेक्षुसाराकराः पूगद्रुंगबलीकृतांगमधुरास्सन्नागवल्लीलताः
kundairindukaraprasāritamukhairālolasaptachadaiḥ kausumbhairaruṇaprabhāsumadhuraiḥ prodbhūtasatkesaraiḥ | drākṣāgucchasuvallikāsitasitāḥ puṇṭrekṣusārākarāḥ pūgadruṃgabalīkṛtāṃgamadhurāssannāgavallīlatāḥ
61
मन्दारसुन्दरतरुप्रकरैः प्रफुल्लैरुत्फुल्लदाडिमसुमैर्बककर्णिकारैः । पीतायमानसुषमायुतचम्पकैस्तैरुत्फुल्लपाटलकदम्बजराजवृक्षैः
mandārasundarataruprakaraiḥ praphullairutphulladāḍimasumairbakakarṇikāraiḥ | pītāyamānasuṣamāyutacampakaistairutphullapāṭalakadambajarājavṛkṣaiḥ
62
सत्किंशुकैश्शुकमुखैर्वरशल्मलीभिः पुन्नागनागनवनीपसुमैः प्रफुल्लैः । भारातिभारशिखरैः कलधौतशैलः पश्याम्बिकेऽद्य सुमनोहरवृक्षसङ्घैः
satkiṃśukaiśśukamukhairvaraśalmalībhiḥ punnāganāganavanīpasumaiḥ praphullaiḥ | bhārātibhāraśikharaiḥ kaladhautaśailaḥ paśyāmbike'dya sumanoharavṛkṣasaṅghaiḥ
63
वल्लीविकासिततनुः प्रसभं भवानि प्रोद्यत्सुधांशुचयकोटिनिभो विभाति
vallīvikāsitatanuḥ prasabhaṃ bhavāni prodyatsudhāṃśucayakoṭinibho vibhāti
63
उत्फुल्लामलपुण्डरीककुमुदैर्नीलोत्पलैस्सुन्दरै- रारक्ताम्बुजकञ्जनीभिरभितस्सद्रत्नसोपानकैः । तत्प्रान्तामलबिल्वमूलजमहालिङ्गाकृतिश्शङ्कर- स्तुष्यत्येव सरस्सुरुद्रगणपैर्देव्यागिरीन्द्रेऽधिकम्
utphullāmalapuṇḍarīkakumudairnīlotpalaissundarai- rāraktāmbujakañjanībhirabhitassadratnasopānakaiḥ | tatprāntāmalabilvamūlajamahāliṅgākṛtiśśaṅkara- stuṣyatyeva sarassurudragaṇapairdevyāgirīndre'dhikam
64
तद्ध्यानधारामृतपानपीनास्स्वात्मैकताना इव चक्रवाकाः । सरस्सु कल्लोलचलाक्तपक्षा हंसा वकास्सारसपंक्तयश्च
taddhyānadhārāmṛtapānapīnāssvātmaikatānā iva cakravākāḥ | sarassu kallolacalāktapakṣā haṃsā vakāssārasapaṃktayaśca
65
नार्द्रीकृताङ्गाः खलु सञ्चरन्ति भावा भवाब्धाविव मे प्रभावात्
nārdrīkṛtāṅgāḥ khalu sañcaranti bhāvā bhavābdhāviva me prabhāvāt
66
कपिवरकुलमाद्यच्चालनालोकनाद्यैः फलपतनजवर्षैः पुष्परेणुप्रकीर्णैः । शिखरिशिखरसारा भूमयश्शोशुभन्ते करिकटमदधाराप्रस्रवैः पङ्किलाश्च
kapivarakulamādyaccālanālokanādyaiḥ phalapatanajavarṣaiḥ puṣpareṇuprakīrṇaiḥ | śikhariśikharasārā bhūmayaśśośubhante karikaṭamadadhārāprasravaiḥ paṅkilāśca
67
शुकबकपिककाककोकधूकैर्निभृतविनादितचक्रवाकपाकैः । गहनविपिनशाखिमस्तसंस्थामधुरारावविनादिचक्रवाकैः
śukabakapikakākakokadhūkairnibhṛtavināditacakravākapākaiḥ | gahanavipinaśākhimastasaṃsthāmadhurārāvavinādicakravākaiḥ
69
गिरिवरशिखराग्रे नृत्तसाटोपबर्हा हरिकुलकृतघोपैर्बृह्मितैर्वारणानाम् । पृ0 77) गिरिशिरसि निनादैस्सारसानां शुकानां पिकरवकलकण्ठैर्नादितस्तद्गृहान्तः
girivaraśikharāgre nṛttasāṭopabarhā harikulakṛtaghopairbṛhmitairvāraṇānām | pṛ0 77) giriśirasi ninādaissārasānāṃ śukānāṃ pikaravakalakaṇṭhairnāditastadgṛhāntaḥ
69
महिषचमरकुञ्जदन्तशृङ्गैः खरखुरघट्टनशैलसानुनिम्नः । सुमनजगतवायुबन्धुरानुमोदद्रुमरजसंकृतिद्रोणिलम्बिक्षौद्रः
mahiṣacamarakuñjadantaśṛṅgaiḥ kharakhuraghaṭṭanaśailasānunimnaḥ | sumanajagatavāyubandhurānumodadrumarajasaṃkṛtidroṇilambikṣaudraḥ
70
फलकुलसुमभारैर्दीर्घितानम्रशाखाव्रजदलिकुलमालानीलनीलाब्जतुल्याः । मधुररससुपेशीलम्बहस्ताग्रशाखा हरगिरिवरभागा भान्ति सौवर्णवृक्षाः
phalakulasumabhārairdīrghitānamraśākhāvrajadalikulamālānīlanīlābjatulyāḥ | madhurarasasupeśīlambahastāgraśākhā haragirivarabhāgā bhānti sauvarṇavṛkṣāḥ
71
कलधौतनगप्रशस्तमुस्तापुलकाम्रेडितकोलजालमेतत् । सितदंष्ट्रोत्थितघोणघर्घरोरुरावं पश्यमुदागिरीन्द्रजाते
kaladhautanagapraśastamustāpulakāmreḍitakolajālametat | sitadaṃṣṭrotthitaghoṇaghargharorurāvaṃ paśyamudāgirīndrajāte
72
हरिखरनखरैर्विदारितोद्यत्करिकुम्भोद्यतरक्तयुक्तमुक्ता- मणिजालावृतभूमिभागमेतत् । द्विपकुलमिदमत्युदारघोषं हरिणो धावति सिह्मनादभीतः
harikharanakharairvidāritodyatkarikumbhodyataraktayuktamuktā- maṇijālāvṛtabhūmibhāgametat | dvipakulamidamatyudāraghoṣaṃ hariṇo dhāvati sihmanādabhītaḥ
73
वल्मीकोर्ध्वफणंफणीश्वरकुलं वातोत्थदिक्चक्रक- ञ्चार्तत्रस्तविलोचनं हरिरवैर्भीत्या प्रसूतं शिशुम् । त्यक्त्वा धावति पश्य पश्य गिरिजे प्रोड्डीनमेणीकुलम्
valmīkordhvaphaṇaṃphaṇīśvarakulaṃ vātotthadikcakraka- ñcārtatrastavilocanaṃ hariravairbhītyā prasūtaṃ śiśum | tyaktvā dhāvati paśya paśya girije proḍḍīnameṇīkulam
74
कैलासाचलरत्नसौधगमहासिह्मासनाद्ध्यासितो देव्युत्फुल्लमुखारविन्दविगलन्माध्वीकसारं मधु । पीत्वा लोचनषट्पदैर्वदति तां पश्येति लिङ्गान्युमे बिल्वीकोमलपल्लवैरनुदिनंकैलासशृङ्गेऽर्चितम्
kailāsācalaratnasaudhagamahāsihmāsanāddhyāsito devyutphullamukhāravindavigalanmādhvīkasāraṃ madhu | pītvā locanaṣaṭpadairvadati tāṃ paśyeti liṅgānyume bilvīkomalapallavairanudinaṃkailāsaśṛṅge'rcitam
75
पश्याम्बिके मदनमत्तमयूरपिञ्छैस्सञ्छादितानि चमरीगणपुच्छभारैः । संवीजितानि करिविस्तृतकर्णतालैस्सिक्तानि तद्वनगवां पयसैव नित्यम्
paśyāmbike madanamattamayūrapiñchaissañchāditāni camarīgaṇapucchabhāraiḥ | saṃvījitāni karivistṛtakarṇatālaissiktāni tadvanagavāṃ payasaiva nityam
76
सङ्घर्षणान्मृगकरीन्द्रसुदेहभारैर्बिल्वछदैः पतनतः परिपूजितानि
saṅgharṣaṇānmṛgakarīndrasudehabhārairbilvachadaiḥ patanataḥ paripūjitāni
77
स्कन्दः– गौरीयल्लकभल्लशौरिरुरगोऽसच्छिञ्जिनी ते नगो- लीलाकार्मुकतान्दधाति भगवान्भिल्लाकृते तेऽधुना । वेदास्तेतुरगा विधिर्नियतिकृद्विश्वेश विश्वाधिक त्वल्लीलाधिगमेन सर्वजगतां नाशप्रभावस्थितिः
skandaḥ– gaurīyallakabhallaśaurirurago'sacchiñjinī te nago- līlākārmukatāndadhāti bhagavānbhillākṛte te'dhunā | vedāsteturagā vidhirniyatikṛdviśveśa viśvādhika tvallīlādhigamena sarvajagatāṃ nāśaprabhāvasthitiḥ
78
पृ0 78) वीक्षाशिक्षितमन्मथत्रिपुरक दक्षादिदीक्षापह त्र्यक्षाक्षादिविदूर भिक्षितमहामौनीन्द्रविज्ञानद । ईक्षा भोजनपक्षपात दयया कक्षाधिवासावमाम्
pṛ0 78) vīkṣāśikṣitamanmathatripuraka dakṣādidīkṣāpaha tryakṣākṣādividūra bhikṣitamahāmaunīndravijñānada | īkṣā bhojanapakṣapāta dayayā kakṣādhivāsāvamām
śrīśivarahasye prathamāṃśe kailāsamaulivarṇanannāma aṣṭādaśo'dhyāyaḥ 18
1
कैलासमौलिवर्णनं नाम अष्टादशोऽध्यायः स्कन्दः– हीराकारमहासौधे घर्मतप्तो हि शंकरः । देव्या सरस्तटे रत्नसिह्मासनवरे स्थितः
kailāsamaulivarṇanaṃ nāma aṣṭādaśo'dhyāyaḥ skandaḥ– hīrākāramahāsaudhe gharmatapto hi śaṃkaraḥ | devyā sarastaṭe ratnasihmāsanavare sthitaḥ
2
सुचन्द्रचन्दनद्रावविलेपितमहाङ्गकः । महागरुमहाधूमविधूपितशिखस्तदा
sucandracandanadrāvavilepitamahāṅgakaḥ | mahāgarumahādhūmavidhūpitaśikhastadā
3
रत्नपात्रस्थितापारमहामोदान्नभोजनः । ततोऽपि कल्पकफलं देव्या भुक्तं महेश्वरः
ratnapātrasthitāpāramahāmodānnabhojanaḥ | tato'pi kalpakaphalaṃ devyā bhuktaṃ maheśvaraḥ
4
सुरत्नखचितानेकरत्नपात्रस्थितान्फलान् । दृष्ट्वा तुष्यति देवेशः कदाचिदमृताशनः
suratnakhacitānekaratnapātrasthitānphalān | dṛṣṭvā tuṣyati deveśaḥ kadācidamṛtāśanaḥ
5
रत्नादर्शविलोकाच्छप्रतिबिम्बैकदर्शनः । देव्या ललाटफलके तिलकं रत्ननिर्मितम्
ratnādarśavilokācchapratibimbaikadarśanaḥ | devyā lalāṭaphalake tilakaṃ ratnanirmitam
6
कल्पयत्यतिहृष्टात्मा सदानन्दघनश्शिवः । पाटीरचन्द्रकस्तूरीलिप्तं मलयपंकजम्
kalpayatyatihṛṣṭātmā sadānandaghanaśśivaḥ | pāṭīracandrakastūrīliptaṃ malayapaṃkajam
7
देवीं विलेप्य संहृष्टस्स्वाङ्गमीशोऽतिहर्षतः । देव्या धम्मिल्लमल्लीनां घ्राणानन्दकुतूहलः
devīṃ vilepya saṃhṛṣṭassvāṅgamīśo'tiharṣataḥ | devyā dhammillamallīnāṃ ghrāṇānandakutūhalaḥ
8
कल्पकामोदबहुलपुष्पस्रग्भिश्च भूषणैः । त्यक्त्वा कपर्दं मकुटं रत्नकल्पितमुत्तमम्
kalpakāmodabahulapuṣpasragbhiśca bhūṣaṇaiḥ | tyaktvā kapardaṃ makuṭaṃ ratnakalpitamuttamam
9
धारयत्यतिसंहृष्टश्चन्द्रद्वन्द्वं महेश्वरः । हारकेयूरवलयैर्भूषां स्वांकलयत्युमाम्
dhārayatyatisaṃhṛṣṭaścandradvandvaṃ maheśvaraḥ | hārakeyūravalayairbhūṣāṃ svāṃkalayatyumām
10
काकोदरमहारत्नं त्यक्त्वा रत्नप्रभाधिकम् । नवरत्नमहाहारावलीलम्बितमौक्तिकैः
kākodaramahāratnaṃ tyaktvā ratnaprabhādhikam | navaratnamahāhārāvalīlambitamauktikaiḥ
11
स्वकण्ठं कीलयत्येव देव्याः कण्ठेऽपि शंकरः । शितिकण्ठो विरूपाक्षो देव्या क्रीडति तत्र हि
svakaṇṭhaṃ kīlayatyeva devyāḥ kaṇṭhe'pi śaṃkaraḥ | śitikaṇṭho virūpākṣo devyā krīḍati tatra hi
12
एवं विहरतोस्तत्र ब्रह्मकल्पशतङ्गतम् । भूतं भावि भवत्तत्र कालकल्पं द्विजोत्तमाः
evaṃ viharatostatra brahmakalpaśataṅgatam | bhūtaṃ bhāvi bhavattatra kālakalpaṃ dvijottamāḥ
13
कालातीतस्य देवस्य सदा मृत्युञ्जयस्य च । तस्य क्षणार्धं ताः क्रीडाः केन वक्तुं हि पार्यते
kālātītasya devasya sadā mṛtyuñjayasya ca | tasya kṣaṇārdhaṃ tāḥ krīḍāḥ kena vaktuṃ hi pāryate
14
धारासारगृहेषु शङ्खमुरजोद्धृष्टेषु तुष्टश्शिव- श्चन्द्रोशीरसुगन्धबन्धुरजलैस्सत्पाटलामोदितैः । पृ0 79) लालाटोत्थहुताशसूर्यकिरणैस्सन्तप्तगात्रोऽम्बया लीलालालितरत्नकीरकरयाध्यास्ते च सिह्मासने
dhārāsāragṛheṣu śaṅkhamurajoddhṛṣṭeṣu tuṣṭaśśiva- ścandrośīrasugandhabandhurajalaissatpāṭalāmoditaiḥ | pṛ0 79) lālāṭotthahutāśasūryakiraṇaissantaptagātro'mbayā līlālālitaratnakīrakarayādhyāste ca sihmāsane
15
हीरागारनिबद्धरत्नजमहाडोलासनाडोलनै- रत्नश्वेतजकान्तिबृन्दनिवहैस्तत्स्फीतवातोत्थितैः । सूक्ष्मैरम्बरकान्तिभिर्विकसितैस्सच्छैलसानुप्रभै- रम्बामीक्षति लोकयेति ससुधाकल्लोलवारान्निधिः
hīrāgāranibaddharatnajamahāḍolāsanāḍolanai- ratnaśvetajakāntibṛndanivahaistatsphītavātotthitaiḥ | sūkṣmairambarakāntibhirvikasitaissacchailasānuprabhai- rambāmīkṣati lokayeti sasudhākallolavārānnidhiḥ
16
ईश्वरः– मणिद्वीपनीपान्प्रपश्याम्बिके त्वं तवापारमोदप्रदा सा च भूमिः । सुधासिन्धुकल्लोलशीतातिवातो महानन्दकन्दं विधत्ते महेशि
īśvaraḥ– maṇidvīpanīpānprapaśyāmbike tvaṃ tavāpāramodapradā sā ca bhūmiḥ | sudhāsindhukallolaśītātivāto mahānandakandaṃ vidhatte maheśi
17
हरिन्मणिनिभेऽद्रिजे तव शरीरकान्त्याधिकं समस्तकलधौतजोऽप्यगवरोऽयमप्युन्नतः । विभाति हरितप्रभस्समृगपक्षिवल्लीद्रुमः प्रपश्य मुकुरेऽम्बिके तव सरूपभाग्याधिकः
harinmaṇinibhe'drije tava śarīrakāntyādhikaṃ samastakaladhautajo'pyagavaro'yamapyunnataḥ | vibhāti haritaprabhassamṛgapakṣivallīdrumaḥ prapaśya mukure'mbike tava sarūpabhāgyādhikaḥ
18
मन्मौलिस्थितचन्द्रकान्तिनिकरैः कान्त्या स्वया शैलराट् स्वाम्यापारशिखाभिनृत्तशिखिभिः पुंस्कोकिलानां रवैः । सारंगै रुरुकैर्बकैश्चमरिभिः प्रोद्भूतपुच्छैस्सदा खड्गानां निवहैर्लुलायजकुलैः प्रोड्डीनदेणीकुलैः
manmaulisthitacandrakāntinikaraiḥ kāntyā svayā śailarāṭ svāmyāpāraśikhābhinṛttaśikhibhiḥ puṃskokilānāṃ ravaiḥ | sāraṃgai rurukairbakaiścamaribhiḥ prodbhūtapucchaissadā khaḍgānāṃ nivahairlulāyajakulaiḥ proḍḍīnadeṇīkulaiḥ
19
हरितमणितृणाग्रं सञ्चरन्तश्चरन्ति कनकमयमृगास्ते मुक्तबिन्दूचिताङ्गाः । रजतनिभकपोता रत्नपादाः कणाशास्स्वकगलरणितैस्ते स्वप्रियापृष्ठलग्नाः
haritamaṇitṛṇāgraṃ sañcarantaścaranti kanakamayamṛgāste muktabindūcitāṅgāḥ | rajatanibhakapotā ratnapādāḥ kaṇāśāssvakagalaraṇitaiste svapriyāpṛṣṭhalagnāḥ
20
हंसानांच कुलं स्ववक्त्रजमहामुक्ताफलैः पक्षति- व्याधूनात्तदिगन्तकान्तिबहुलास्ते स्वच्छदेहामलाः । क्रीडन्ति प्रसभं प्रभूतपयसि प्रोत्फुल्लरक्ताब्जिनी- मध्यस्था इव चक्रवाकजकुलं मौनं विधत्ते शिवे
haṃsānāṃca kulaṃ svavaktrajamahāmuktāphalaiḥ pakṣati- vyādhūnāttadigantakāntibahulāste svacchadehāmalāḥ | krīḍanti prasabhaṃ prabhūtapayasi protphullaraktābjinī- madhyasthā iva cakravākajakulaṃ maunaṃ vidhatte śive
21
सुखयति मृदुवातोऽप्यत्र भीत्या ममाद्य मृगमदसुमसंस्थैर्गन्धमाद्यत्परागैः
sukhayati mṛduvāto'pyatra bhītyā mamādya mṛgamadasumasaṃsthairgandhamādyatparāgaiḥ
22
पृ0 80) कस्तूरीमृगका अपि द्रुततरं धावन्ति गन्धाशया- स्स्वस्याङ्गस्थितमप्युमे नहि तरां जानन्ति मूढा इव । देहेषु स्थितमप्युमे मुनिसुरा जानन्ति नो मां यथा तद्वत्तेऽपि मृगा विमूढमतयः कैलासशैले मम
pṛ0 80) kastūrīmṛgakā api drutataraṃ dhāvanti gandhāśayā- ssvasyāṅgasthitamapyume nahi tarāṃ jānanti mūḍhā iva | deheṣu sthitamapyume munisurā jānanti no māṃ yathā tadvatte'pi mṛgā vimūḍhamatayaḥ kailāsaśaile mama
23
मृदुतरकेतकधूलीपालीपिञ्जरितशैलवरसानुः । कोनुसुस्वन्न भजेताप्यत्रस्था दिविषदो हसंत्येव
mṛdutaraketakadhūlīpālīpiñjaritaśailavarasānuḥ | konususvanna bhajetāpyatrasthā diviṣado hasaṃtyeva
24
हरिन्मणिनिभाश्शुका वदनरत्नगोमेदका- स्सुरत्नमणिकल्पिताः कनकहीरनीलप्रभाः । वदन्ति नगमौलिगाश्शिव शिव प्रभो पाहिनः प्रकृष्टदयया दृशा प्रमथनाथ कष्टं हर
harinmaṇinibhāśśukā vadanaratnagomedakā- ssuratnamaṇikalpitāḥ kanakahīranīlaprabhāḥ | vadanti nagamauligāśśiva śiva prabho pāhinaḥ prakṛṣṭadayayā dṛśā pramathanātha kaṣṭaṃ hara
25
सुशारिकसुकोकिला हर हरेश विश्वेश्वरा- प्यनाथजनवत्सल पुरहर प्रपश्याद्यनः । इति ध्वनिकृतस्सदा शिखरिशीर्षजह्नूद्गता- स्सुरत्नमणिसन्निभास्तरलकान्तरक्ताक्षकाः
suśārikasukokilā hara hareśa viśveśvarā- pyanāthajanavatsala purahara prapaśyādyanaḥ | iti dhvanikṛtassadā śikhariśīrṣajahnūdgatā- ssuratnamaṇisannibhāstaralakāntaraktākṣakāḥ
26
पश्याद्रिजे किसलयं सुरसालजातं पुंस्कोकिलापलपनेन तुदन्ति भुक्तौ । कीरानने परिपतन्त्यलयः प्रकामं जम्बूफलभ्रमजितश्शुक एष मूढः
paśyādrije kisalayaṃ surasālajātaṃ puṃskokilāpalapanena tudanti bhuktau | kīrānane paripatantyalayaḥ prakāmaṃ jambūphalabhramajitaśśuka eṣa mūḍhaḥ
27
पलाशकलिकाभ्रमन्मधुपरागसौख्यादसौ यथाविषयिणोऽम्बिके सुकृततर्षदुःखाकुलाः
palāśakalikābhramanmadhuparāgasaukhyādasau yathāviṣayiṇo'mbike sukṛtatarṣaduḥkhākulāḥ
28
वृक्षालम्बितशृङ्खलासुचलिते वैडूर्यमञ्चे शिव- स्तद्वत्पुष्पककान्तिरागविलसन्मञ्चस्थिता साम्बिका । डोलाडोलनकैर्वने विहरतस्स्वैरं शिवौ सुन्दरौ देवीभिः कलितैस्सुचामरगणैस्सेव्यौ च वृत्तौ तदा
vṛkṣālambitaśṛṅkhalāsucalite vaiḍūryamañce śiva- stadvatpuṣpakakāntirāgavilasanmañcasthitā sāmbikā | ḍolāḍolanakairvane viharatassvairaṃ śivau sundarau devībhiḥ kalitaissucāmaragaṇaissevyau ca vṛttau tadā
29
श्रीचन्दनप्रभवसारविलिप्तगात्रौ चिक्रीडतुर्नगसुमोद्धृतवायुगन्धैः । नखमुखविघटितदाडिमीफलोद्यन्मणिनिभबीजवरं ददाति देवी
śrīcandanaprabhavasāraviliptagātrau cikrīḍaturnagasumoddhṛtavāyugandhaiḥ | nakhamukhavighaṭitadāḍimīphalodyanmaṇinibhabījavaraṃ dadāti devī
30
स्वकराम्बुजसंस्थकीरवक्त्रच्छदनं वीक्ष्य महेशितुस्सहासम् । पृ0 81) कीरोऽपि शंकरमुखाब्जमवेक्ष्य देवीं नत्वा गिरा समभियाचत बालवाचा
svakarāmbujasaṃsthakīravaktracchadanaṃ vīkṣya maheśitussahāsam | pṛ0 81) kīro'pi śaṃkaramukhābjamavekṣya devīṃ natvā girā samabhiyācata bālavācā
31
देहीश शंकर विभो शशिखण्डचूड माद्यद्रसालकदलीफलसारभंगम् । आज्ञापयेति तव नाम वदामि शम्भो विश्वेश चात्तुमिति तस्य गिरा सहासः
dehīśa śaṃkara vibho śaśikhaṇḍacūḍa mādyadrasālakadalīphalasārabhaṃgam | ājñāpayeti tava nāma vadāmi śambho viśveśa cāttumiti tasya girā sahāsaḥ
32
इन्द्रनीलमणिकल्पितसौधे मञ्चसंस्रुतशशिद्युतिकान्ते । तल्पकेऽधिशयितस्य पुरारेः पादपंकजयुगं स्वकराब्जैः
indranīlamaṇikalpitasaudhe mañcasaṃsrutaśaśidyutikānte | talpake'dhiśayitasya purāreḥ pādapaṃkajayugaṃ svakarābjaiḥ
33
रङ्गमण्डलगता मुहुरम्बा वीणया वदति शंकरनाम
raṅgamaṇḍalagatā muhurambā vīṇayā vadati śaṃkaranāma
33
रत्नोत्थामलसौधभूमिषु पुरो देवस्य देव्याः पुरो रुद्राण्यो नवयौवनावृतकुचाः क्रीडन्ति हल्लीसकैः । मल्लीगुच्छकचानताननकराः प्रोद्यज्झणन्नूपुराः कैलासाचलमौलिगास्सुमधुरं गायन्ति नृत्यन्ति च
ratnotthāmalasaudhabhūmiṣu puro devasya devyāḥ puro rudrāṇyo navayauvanāvṛtakucāḥ krīḍanti hallīsakaiḥ | mallīgucchakacānatānanakarāḥ prodyajjhaṇannūpurāḥ kailāsācalamauligāssumadhuraṃ gāyanti nṛtyanti ca
34
विश्वेश विश्वाधिक दीनबन्धो पाहीश शम्भोदययार्द्रदृष्ट्या । पाहि प्रसीद मदमत्तमरालराजमातंगजैत्रगमने जगतां जनित्रि
viśveśa viśvādhika dīnabandho pāhīśa śambhodayayārdradṛṣṭyā | pāhi prasīda madamattamarālarājamātaṃgajaitragamane jagatāṃ janitri
35
आसप्तलोकावधि शैलमौलौ स्वशेखरापारत्विषा तिरस्कृतौ । तत्रस्थ एव प्रणमन्ति देवास्तौ चन्द्रसूर्यौ गतिवर्जितौ भयात्
āsaptalokāvadhi śailamaulau svaśekharāpāratviṣā tiraskṛtau | tatrastha eva praṇamanti devāstau candrasūryau gativarjitau bhayāt
36
महेश्वरापारदयाविधानं सुधाब्धिकल्लोलितपादपीठम् । समुल्लिखन्तं शिखरैरपारैर्लोकास्त्वहो तं कलधौतशैलम्
maheśvarāpāradayāvidhānaṃ sudhābdhikallolitapādapīṭham | samullikhantaṃ śikharairapārairlokāstvaho taṃ kaladhautaśailam
37
शोशुभ्येत सदैव तत्र नदिवा रात्रिर्महेशाश्रया- न्नोगन्धर्वमरुद्गणा मुनिगणा नो ब्रह्मविष्णू सुराः
śośubhyeta sadaiva tatra nadivā rātrirmaheśāśrayā- nnogandharvamarudgaṇā munigaṇā no brahmaviṣṇū surāḥ
38
नो वाति वायुः प्रसभं हि तत्र तिग्मांशुशीतांशुरुभौ हि विभ्यतः । अग्निर्नदृष्टस्स्वशिखावलीढं कक्षेषु तत्कीचकवेणुसङ्घे
no vāti vāyuḥ prasabhaṃ hi tatra tigmāṃśuśītāṃśurubhau hi vibhyataḥ | agnirnadṛṣṭassvaśikhāvalīḍhaṃ kakṣeṣu tatkīcakaveṇusaṅghe
39
एको रुद्र इति श्रुतिस्तदितरो नास्त्येव तत्रागमे देव्या दत्तकरस्सदैव पशुपस्तत्रैव सञ्चार्यसौ । पश्यन्लिङ्गकदम्बकं गिरिवरं फुल्लद्रुमाणां गणं तत्रापारसुगोपुराङ्कणगतस्स्वैरं सदा शङ्करः
eko rudra iti śrutistaditaro nāstyeva tatrāgame devyā dattakarassadaiva paśupastatraiva sañcāryasau | paśyanliṅgakadambakaṃ girivaraṃ phulladrumāṇāṃ gaṇaṃ tatrāpārasugopurāṅkaṇagatassvairaṃ sadā śaṅkaraḥ
40
पृ0 82) तत्प्राकारवरैकरक्षणचणास्सन्त्येव कोट्यो गणा रुद्राण्यश्च चरन्ति तस्य सविधं नान्ये गणा वा सुराः । वातोऽपि न प्रचलति द्युमणेः करा वा सोमस्य सुन्दरकराः प्रभवन्ति नैव
pṛ0 82) tatprākāravaraikarakṣaṇacaṇāssantyeva koṭyo gaṇā rudrāṇyaśca caranti tasya savidhaṃ nānye gaṇā vā surāḥ | vāto'pi na pracalati dyumaṇeḥ karā vā somasya sundarakarāḥ prabhavanti naiva
śrīśivarahasye prathamāṃśe śivagaurīsaṃvāde kṣetravarṇanaṃ nāma viṃśo'dhyāyaḥ 20
1
पृ0 85) शिवगौरीसंवादे क्षेत्रवर्णनन्नाम विंशोऽध्यायः स्कन्दः– तत्रान्तरेऽपि प्राकारो लक्षयोजनविस्तरः । हीरसारमहाधारातिरस्कृतशशिद्युतिः
pṛ0 85) śivagaurīsaṃvāde kṣetravarṇanannāma viṃśo'dhyāyaḥ skandaḥ– tatrāntare'pi prākāro lakṣayojanavistaraḥ | hīrasāramahādhārātiraskṛtaśaśidyutiḥ
2
कैलासाचलकान्त्या च तद्धीरप्रभयापि च । सुधाम्बुधिमहावीचीबिम्बितेन्दुकरैरपि
kailāsācalakāntyā ca taddhīraprabhayāpi ca | sudhāmbudhimahāvīcībimbitendukarairapi
3
महेशमुकुटोद्दामचन्द्रास्फारकलादिभिः । भाभासितदिशास्तोमस्तत्प्राकाराग्रशृंगकैः
maheśamukuṭoddāmacandrāsphārakalādibhiḥ | bhābhāsitadiśāstomastatprākārāgraśṛṃgakaiḥ
4
चन्द्रसूर्यग्रहास्ताराविद्युतोऽप्यनलो द्विजाः । तिरस्कृतास्तत्प्रभाभिस्तद्गोपुरवराग्रगाः
candrasūryagrahāstārāvidyuto'pyanalo dvijāḥ | tiraskṛtāstatprabhābhistadgopuravarāgragāḥ
5
महीहीरकसंकॢप्ता नीलनेत्रा विषाणिनः । तदग्रगोपुरं शुभ्रं पञ्चलक्षप्रमाणकम्
mahīhīrakasaṃkḷptā nīlanetrā viṣāṇinaḥ | tadagragopuraṃ śubhraṃ pañcalakṣapramāṇakam
6
आसप्तपातालतलादुत्थितं हीरकल्पितम् । कपोतव्यालिपालीभिर्देवसङ्घविराजितम्
āsaptapātālatalādutthitaṃ hīrakalpitam | kapotavyālipālībhirdevasaṅghavirājitam
7
रुद्रावतारक्रीडाभिः कलशैर्वृषभैरपि । तस्मिन्नूर्द्ध्वतले देव्या दिव्यसिह्मासनाश्रयः
rudrāvatārakrīḍābhiḥ kalaśairvṛṣabhairapi | tasminnūrddhvatale devyā divyasihmāsanāśrayaḥ
8
कैलासशैलवरगोपुरहीरसौधे दिव्यैरनेकमणिकल्पितविष्टरस्थः । देव्यैवदत्पशुपतिस्सुमहच्चकालं देवादिलोकमखिलं कथयत्युमायै
kailāsaśailavaragopurahīrasaudhe divyairanekamaṇikalpitaviṣṭarasthaḥ | devyaivadatpaśupatissumahaccakālaṃ devādilokamakhilaṃ kathayatyumāyai
9
ईश्वरः– कैलासशैलशिखरस्थितदिव्यलिंगसङ्ख्या हरीन्द्रविधिभिस्त्वहिनायकेन । पृ0 86) गण्यन्तेव दिवि तारकपांसुजालं धारापि वर्षजनिताश्शृणु शैलकन्ये
īśvaraḥ– kailāsaśailaśikharasthitadivyaliṃgasaṅkhyā harīndravidhibhistvahināyakena | pṛ0 86) gaṇyanteva divi tārakapāṃsujālaṃ dhārāpi varṣajanitāśśṛṇu śailakanye
10
लिंगानां कुलमेतदेव गिरिजे मन्दारमालार्चितं विल्वीकोमलपल्लवैरभिनवैर्दूर्वाङ्कुरैश्शंकरि । काले पुण्यतमे प्रदोषसमये वीताघसङ्घे शिवे कार्यं सर्वसुरासुरैरपिमया रत्नप्रभादीपितम्
liṃgānāṃ kulametadeva girije mandāramālārcitaṃ vilvīkomalapallavairabhinavairdūrvāṅkuraiśśaṃkari | kāle puṇyatame pradoṣasamaye vītāghasaṅghe śive kāryaṃ sarvasurāsurairapimayā ratnaprabhādīpitam
11
कैलासाचलललिङ्गमण्डलमिदं भास्वज्जटामण्डलं गंगातुंगतरंगशंकितमहाकाकोदराकल्पकम् । मन्दारद्रुमपुष्पसञ्चयमहाबिल्वादिमल्लीसुमै- रत्नागारसुकुम्भमध्यविलसन्मध्ये स्थितं पश्य वै
kailāsācalalaliṅgamaṇḍalamidaṃ bhāsvajjaṭāmaṇḍalaṃ gaṃgātuṃgataraṃgaśaṃkitamahākākodarākalpakam | mandāradrumapuṣpasañcayamahābilvādimallīsumai- ratnāgārasukumbhamadhyavilasanmadhye sthitaṃ paśya vai
12
बिल्वानां मूलभागे विलसति मणिभिश्चन्दनैश्शीतशीतैः कर्पूरैश्च सुगन्धिते हरिगणैरामोदजिघ्रासुभिः । नित्यं वेष्टितमौलिभागममलैस्तच्छीतवाताशनै- स्सेव्योऽहं करुणापयोनिधिरुमे लोके स्वलिंगोच्चयम्
bilvānāṃ mūlabhāge vilasati maṇibhiścandanaiśśītaśītaiḥ karpūraiśca sugandhite harigaṇairāmodajighrāsubhiḥ | nityaṃ veṣṭitamaulibhāgamamalaistacchītavātāśanai- ssevyo'haṃ karuṇāpayonidhirume loke svaliṃgoccayam
13
स्वीयैर्मौलिशशांकदीधितिचयैर्गांगैरिवाम्भोभरैः कूजत्कोकिलसद्विजैरिव महारुद्रादिसन्मन्त्रितैः । सर्वांगेष्वभिषिक्तमैश्वरमहालिंगञ्चतत्पत्रकै- र्वातैरेव विलूनवृत्तपतितैस्संपूजितं पश्य मे
svīyairmauliśaśāṃkadīdhiticayairgāṃgairivāmbhobharaiḥ kūjatkokilasadvijairiva mahārudrādisanmantritaiḥ | sarvāṃgeṣvabhiṣiktamaiśvaramahāliṃgañcatatpatrakai- rvātaireva vilūnavṛttapatitaissaṃpūjitaṃ paśya me
14
एषामग्रभुवि प्रचण्डजरया प्रोच्चण्डपिञ्छोत्थितै- र्वातैरेव शिखण्डिमण्डलमिदं प्रोच्चण्डसत्ताण्डवम् । केकालापमनोहरञ्च विपिने सन्नर्तकीनां दशां प्राप्यैवोद्गायतीव प्रथितबहुरसं पुण्यसङ्घैः किलेदम्
eṣāmagrabhuvi pracaṇḍajarayā proccaṇḍapiñchotthitai- rvātaireva śikhaṇḍimaṇḍalamidaṃ proccaṇḍasattāṇḍavam | kekālāpamanoharañca vipine sannartakīnāṃ daśāṃ prāpyaivodgāyatīva prathitabahurasaṃ puṇyasaṅghaiḥ kiledam
15
अस्मिन्विल्ववने नवारुणदलाक्रान्तोरुशाखान्विते प्रच्छाये चमरीगणाः पतनतोभीत्यैव मूलं गताः । तत्रत्येषु पतत्पतत्रनिचयोत्संगाकुलत्पत्रकैः पुछैश्चामरपंक्तिवच्छकलितैर्वीजन्ति लिंगान्युमे
asminvilvavane navāruṇadalākrāntoruśākhānvite pracchāye camarīgaṇāḥ patanatobhītyaiva mūlaṃ gatāḥ | tatratyeṣu patatpatatranicayotsaṃgākulatpatrakaiḥ puchaiścāmarapaṃktivacchakalitairvījanti liṃgānyume
16
पृ0 87) सन्तुष्टा भव शैलनन्दिनि शिवे नातः परं विद्यते मल्लिंगार्चनमेवसाधनपरं मुक्तिप्रदं शाश्वतम् । किं यज्ञैरखिलव्रतादिचरणैः किं दानसङ्घैर्जपै- रेतत्किं वितनोति मुक्तिरिति या साधीर्हि दुःखात्मनाम्
pṛ0 87) santuṣṭā bhava śailanandini śive nātaḥ paraṃ vidyate malliṃgārcanamevasādhanaparaṃ muktipradaṃ śāśvatam | kiṃ yajñairakhilavratādicaraṇaiḥ kiṃ dānasaṅghairjapai- retatkiṃ vitanoti muktiriti yā sādhīrhi duḥkhātmanām
17
उद्यद्बालदिवाकरेन्दुसदृशैः कैलासशृंगाग्रगै- र्माणिक्यामलहीरकैश्च कलितैस्सौधाग्रशृंगैश्शिवे । तत्तल्लोकनिवासिभिस्सुरगणैस्सञ्जातविस्मापकै- र्नानासूर्यशशांकसम्भवमहाकान्त्याधिकं शोभते
udyadbāladivākarendusadṛśaiḥ kailāsaśṛṃgāgragai- rmāṇikyāmalahīrakaiśca kalitaissaudhāgraśṛṃgaiśśive | tattallokanivāsibhissuragaṇaissañjātavismāpakai- rnānāsūryaśaśāṃkasambhavamahākāntyādhikaṃ śobhate
18
कैलासाचलसानुपादशिखरे सत्याधिके मेरुगा लोकालोकिन एव तत्र विहिता दिक्पालसङ्घाश्शिवे । ब्रह्माविष्णुमहेश्वरामरवरास्सप्तर्षयोऽमीग्रहा- श्चौत्तानात्मज एष भान्ति नितरां तारागणा राशयः
kailāsācalasānupādaśikhare satyādhike merugā lokālokina eva tatra vihitā dikpālasaṅghāśśive | brahmāviṣṇumaheśvarāmaravarāssaptarṣayo'mīgrahā- ścauttānātmaja eṣa bhānti nitarāṃ tārāgaṇā rāśayaḥ
19
ते मेरुं परितो भ्रमन्ति गिरिजे पश्याधुना सन्ततं तत्तद्गोपुरमध्यभागविलसत्तौर्यत्रिकाणां स्वनैः । तत्तत्कालशिवार्चनेषु कलितैर्भेरीजशङ्खारवैः कैलासोऽप्ययमीश्वरेश्वरि महासन्नादनादान्तरः
te meruṃ parito bhramanti girije paśyādhunā santataṃ tattadgopuramadhyabhāgavilasattauryatrikāṇāṃ svanaiḥ | tattatkālaśivārcaneṣu kalitairbherījaśaṅkhāravaiḥ kailāso'pyayamīśvareśvari mahāsannādanādāntaraḥ
20
मेघानां शतकैरपि प्रमुदितो घोषैकभूषामुखः
meghānāṃ śatakairapi pramudito ghoṣaikabhūṣāmukhaḥ
20
वसुधाधरकन्दरान्तरस्था रदखण्डद्विरदाः किशोरसिह्माः । स्वककाधरकेसरैर्नगेन्द्रैः परिनिन्दन्ति विदीप्तमित्युमेऽद्य
vasudhādharakandarāntarasthā radakhaṇḍadviradāḥ kiśorasihmāḥ | svakakādharakesarairnagendraiḥ parinindanti vidīptamityume'dya
21
रविरथ तुरगोत्थह्रेषघोषं परिशृण्वन्ति इमे हयारिसङ्घाः । विनताननकर्णशृंगनेत्रास्तटिदुत्थाखिलघस्मरैकरावाः
raviratha turagotthahreṣaghoṣaṃ pariśṛṇvanti ime hayārisaṅghāḥ | vinatānanakarṇaśṛṃganetrāstaṭidutthākhilaghasmaraikarāvāḥ
22
खरखुरपरिघट्टनोत्थधूल्याजलदनिभं रविमम्बिकेऽद्यपश्य । रविरपि स्वतनूजमुख्यवाहैर्गिरिसंस्थैरभिजातलज्जयेव
kharakhuraparighaṭṭanotthadhūlyājaladanibhaṃ ravimambike'dyapaśya | ravirapi svatanūjamukhyavāhairgirisaṃsthairabhijātalajjayeva
23
प्रसभं मेघगणं विशीर्य हस्तैर्विजितोऽस्मीति दिशं प्रयाति यामीम् । मदालयोऽयं कलधौतशैलस्तदग्रतो भाति सुवर्णशैलः
prasabhaṃ meghagaṇaṃ viśīrya hastairvijito'smīti diśaṃ prayāti yāmīm | madālayo'yaṃ kaladhautaśailastadagrato bhāti suvarṇaśailaḥ
24
पृ0 88) तदूर्ध्वमौलिस्थितलोकजालं विलोकयाधो विहितन्नगस्य मे
pṛ0 88) tadūrdhvamaulisthitalokajālaṃ vilokayādho vihitannagasya me
25
ब्रह्माप्येष सृजत्यजस्रमखिलं लोकं हरिः पात्ययं रुद्रस्संहरतेऽनिशं सुरवरैर्दिक्पालसङ्घैश्शिवे । सत्यस्थोविधिरेष विष्णुभवनं वैकुण्ठमालोकया- पीशानस्य पुरीयमद्रिवरजे चेन्द्रस्य चैषा पुरी
brahmāpyeṣa sṛjatyajasramakhilaṃ lokaṃ hariḥ pātyayaṃ rudrassaṃharate'niśaṃ suravarairdikpālasaṅghaiśśive | satyasthovidhireṣa viṣṇubhavanaṃ vaikuṇṭhamālokayā- pīśānasya purīyamadrivaraje cendrasya caiṣā purī
26
एषा संयमिनी पुरी सुविहिता क्षीरोदधेः पारतो गंगैषा सरितां वरा त्रिजगतां पापापहा मे पुरी । लिंगालङ्कृतकोटिकार्बुदनिभा वाराणसीज्या शिवे विश्वेशाख्यमहेशलिंगवरगं देव्यन्नपूर्ण्या त्वया
eṣā saṃyaminī purī suvihitā kṣīrodadheḥ pārato gaṃgaiṣā saritāṃ varā trijagatāṃ pāpāpahā me purī | liṃgālaṅkṛtakoṭikārbudanibhā vārāṇasījyā śive viśveśākhyamaheśaliṃgavaragaṃ devyannapūrṇyā tvayā
27
सुरासुरा यत्र वसन्ति मुक्तये वसन्त्यनिष्टं परिहाय मत्सरम् । यतो न मुक्तं हि मयाविमुक्तं वदन्ति वेदा अपि तत्प्रभावम्
surāsurā yatra vasanti muktaye vasantyaniṣṭaṃ parihāya matsaram | yato na muktaṃ hi mayāvimuktaṃ vadanti vedā api tatprabhāvam
28
गंगाद्वारमिदं पितुस्तव महामौलौ च केदारकं चैषा सा बतपाटलीनगरगायस्यास्सुता मानसाः । गंगासूर्यतनूजयोश्च विहितस्संगोऽत्र मुक्त्यै नृणां स्नातानांञ्च सदा सरित्पतिवरेणालिंगिता जाह्नवी
gaṃgādvāramidaṃ pitustava mahāmaulau ca kedārakaṃ caiṣā sā batapāṭalīnagaragāyasyāssutā mānasāḥ | gaṃgāsūryatanūjayośca vihitassaṃgo'tra muktyai nṛṇāṃ snātānāṃñca sadā saritpativareṇāliṃgitā jāhnavī
29
गंगासागरसंगमोऽत्र गिरिजे सोमेश्वरोऽयं सदा सेव्यानां सफलं करोति च मनस्सन्तापपापापहम्
gaṃgāsāgarasaṃgamo'tra girije someśvaro'yaṃ sadā sevyānāṃ saphalaṃ karoti ca manassantāpapāpāpaham
30
एषप्रयागस्सकलापगाश्रयो गंगापि यत्राम्बुजमित्रजायुता । तत्राप्लुतानां दिवि देवि वासो विसर्जितांगा यदि तेषु मुक्तिः
eṣaprayāgassakalāpagāśrayo gaṃgāpi yatrāmbujamitrajāyutā | tatrāplutānāṃ divi devi vāso visarjitāṃgā yadi teṣu muktiḥ
31
सा ब्रह्मणो वेदिरनन्तपुण्यदा गया पितॄणां प्रमुदे भवानि । पश्याद्य तत्रैव पदं मदीयं सुरद्विजानान्तु तथैव वैष्णवम्
sā brahmaṇo vediranantapuṇyadā gayā pitṝṇāṃ pramude bhavāni | paśyādya tatraiva padaṃ madīyaṃ suradvijānāntu tathaiva vaiṣṇavam
32
तन्नैमिषं पुण्यतमं महर्षिभिस्समाकुलां तां बदरीं विलोकय । सचित्रकूटस्सुरसङ्घसम्वृतस्सप्तैव पुर्योऽत्र विमुक्तिहेतवः
tannaimiṣaṃ puṇyatamaṃ maharṣibhissamākulāṃ tāṃ badarīṃ vilokaya | sacitrakūṭassurasaṅghasamvṛtassaptaiva puryo'tra vimuktihetavaḥ
33
एतद्वादशलिंगसङ्घमगजे तत्तत्पुरीषु स्थितं चोङ्कारो घुसृणेश्वरोऽयमगजे श्रीकामनाथोऽम्बिके । पृ0 89) असौ महाकालवरो महेशो नागेश्वरो वेणुवनैकसंश्रयः
etadvādaśaliṃgasaṅghamagaje tattatpurīṣu sthitaṃ coṅkāro ghusṛṇeśvaro'yamagaje śrīkāmanātho'mbike | pṛ0 89) asau mahākālavaro maheśo nāgeśvaro veṇuvanaikasaṃśrayaḥ
34
एषा शर्मदनर्मदात्रकलिता लिंगैकसङ्घावृता शोणोऽयं सरितां पतिं प्रवहते लिंगैकसङ्घाश्रयः । पुण्या बाहुनदी सुपुष्करमिदं पुण्यं प्रभासं त्विदं मल्लिंगामलपातकं गिरिवराज्जातेऽमरं कण्टकम्
eṣā śarmadanarmadātrakalitā liṃgaikasaṅghāvṛtā śoṇo'yaṃ saritāṃ patiṃ pravahate liṃgaikasaṅghāśrayaḥ | puṇyā bāhunadī supuṣkaramidaṃ puṇyaṃ prabhāsaṃ tvidaṃ malliṃgāmalapātakaṃ girivarājjāte'maraṃ kaṇṭakam
35
श्रीरुद्रोऽमरकोटिरेष विहितः पिण्डारकं मत्प्रिय- ञ्चैतत्क्षेत्रवरं कुरुप्रभवजं विन्ध्यो ह्ययं शैलजे । एष श्रीशैलमौलिर्भवजनितमहापापसङ्घैकहन्ता- चैषात्र्यम्बकशैलजा सुविहिता गोदावरी निम्नगा
śrīrudro'marakoṭireṣa vihitaḥ piṇḍārakaṃ matpriya- ñcaitatkṣetravaraṃ kuruprabhavajaṃ vindhyo hyayaṃ śailaje | eṣa śrīśailamaulirbhavajanitamahāpāpasaṅghaikahantā- caiṣātryambakaśailajā suvihitā godāvarī nimnagā
36
कृष्णा चापि सरिद्वराब्धिनिरता लिंगावृता पुण्यदा
kṛṣṇā cāpi saridvarābdhiniratā liṃgāvṛtā puṇyadā
37
तत्प्रान्तसंस्थो घटजो मुनीशो मया पुरा प्रेषित एव विन्ध्यहृत् । पश्चादथाम्भोनिधितीरसंगतं गोकर्णमेतन्मम लिंगमम्बिके
tatprāntasaṃstho ghaṭajo munīśo mayā purā preṣita eva vindhyahṛt | paścādathāmbhonidhitīrasaṃgataṃ gokarṇametanmama liṃgamambike
38
अरुन्धदेषोऽमरमार्गमम्बिके प्रजातरोषः कनकाचलेन । विन्ध्योऽप्ययं शैलवरस्त्वदाश्रयात्पुण्यं प्रतिष्ठानपुरं सुपुण्यदम्
arundhadeṣo'maramārgamambike prajātaroṣaḥ kanakācalena | vindhyo'pyayaṃ śailavarastvadāśrayātpuṇyaṃ pratiṣṭhānapuraṃ supuṇyadam
39
कोलासुरेणात्र समीहिता पुरी तपस्यता तस्य वधात्त्वया जिता । एषोऽरुणाद्रिः प्रथितप्रभावो वृद्धाद्रिरप्येव ममेष्टवासः
kolāsureṇātra samīhitā purī tapasyatā tasya vadhāttvayā jitā | eṣo'ruṇādriḥ prathitaprabhāvo vṛddhādrirapyeva mameṣṭavāsaḥ
40
गोपर्वतश्चात्र विभाति शैलः काञ्ची जगत्काञ्चितलिंगसंयुता । त्वदाश्रयात्कान्ततमा च सैव त्वदर्चनार्थं हरिणा च सेविता
goparvataścātra vibhāti śailaḥ kāñcī jagatkāñcitaliṃgasaṃyutā | tvadāśrayātkāntatamā ca saiva tvadarcanārthaṃ hariṇā ca sevitā
41
शेषाचलस्त्वेष सुताश्रयो मम तदुत्तरे भाति महेशि पश्य । कैलास एषोऽभिमतो हि दक्षिणस्सह्याचलो ह्येष यतो मरुद्वृधा
śeṣācalastveṣa sutāśrayo mama taduttare bhāti maheśi paśya | kailāsa eṣo'bhimato hi dakṣiṇassahyācalo hyeṣa yato marudvṛdhā
42
सह्यापगातीरगलिंगमण्डलं महाप्रभावं किल शैलकन्ये । कवेरकन्यातटलिंगसङ्घं श्रीकण्ठरत्नाद्रिकमातृभूतम्
sahyāpagātīragaliṃgamaṇḍalaṃ mahāprabhāvaṃ kila śailakanye | kaverakanyātaṭaliṃgasaṅghaṃ śrīkaṇṭharatnādrikamātṛbhūtam
43
तज्जम्बुलिंगञ्च हरिस्ततोऽपि पञ्चापगेशाख्यमहो भवानि । कुम्भेश्वरं लिंगमिदं मनोज्ञं तदर्जुनञ्चापि मयूरलिंगम्
tajjambuliṃgañca haristato'pi pañcāpageśākhyamaho bhavāni | kumbheśvaraṃ liṃgamidaṃ manojñaṃ tadarjunañcāpi mayūraliṃgam
44
पृ0 90) श्वेतेश्वरं तत्प्रथितं विमुक्तिदं तदुत्तरे यद्विरजं विशोकम् । हृत्पुण्डरीकं विमलं ममाश्रयं यत्रैव मे नर्तनमम्बिके त्वया
pṛ0 90) śveteśvaraṃ tatprathitaṃ vimuktidaṃ taduttare yadvirajaṃ viśokam | hṛtpuṇḍarīkaṃ vimalaṃ mamāśrayaṃ yatraiva me nartanamambike tvayā
45
सदैव दृष्टं प्रथिते क्षाराम्बुधेस्तीरगतं सुपुण्यदम् । वेदाख्यसत्काननमब्जसंज्ञं लिंगावृतं तत्कमलालयाख्यम्
sadaiva dṛṣṭaṃ prathite kṣārāmbudhestīragataṃ supuṇyadam | vedākhyasatkānanamabjasaṃjñaṃ liṃgāvṛtaṃ tatkamalālayākhyam
46
श्रीसुन्दरं विष्णुपुरञ्च देवि ततोऽपि तद्वीपगगन्धमादने । नगोत्तमे लिंगवरं ममाम्बिके
śrīsundaraṃ viṣṇupurañca devi tato'pi tadvīpagagandhamādane | nagottame liṃgavaraṃ mamāmbike
47
हरिः पुरा भार्गवजेन शप्तो भार्यावियुक्तोऽप्यहनत्सरावणम् । तेनैव तत्पूजितमम्बिकेऽद्य पश्याधुना सेतुवरं सुपुण्यम्
hariḥ purā bhārgavajena śapto bhāryāviyukto'pyahanatsarāvaṇam | tenaiva tatpūjitamambike'dya paśyādhunā setuvaraṃ supuṇyam
48
तत्पश्चिमे पुण्यतमं ममाम्बिके हालास्यसंज्ञं वरवेणुसंज्ञम् । तत्रैव ताम्राचलसंगतोऽब्धिस्तत्तीरसंस्थान्यपि देवि पश्य
tatpaścime puṇyatamaṃ mamāmbike hālāsyasaṃjñaṃ varaveṇusaṃjñam | tatraiva tāmrācalasaṃgato'bdhistattīrasaṃsthānyapi devi paśya
49
लिंगानि तुंगानि मनोहराणि महेन्द्रशैलो मलयश्च शैलः । एतानि ते क्षेत्रवराणि देवि दृष्टानि च श्रोत्रवरैश्श्रुतानि
liṃgāni tuṃgāni manoharāṇi mahendraśailo malayaśca śailaḥ | etāni te kṣetravarāṇi devi dṛṣṭāni ca śrotravaraiśśrutāni
50
पापाद्रिमौलेर्भिदुराणि पश्य क्षेत्रेक्षणेनापि विमुक्तपापाः
pāpādrimaulerbhidurāṇi paśya kṣetrekṣaṇenāpi vimuktapāpāḥ
51
क्षेत्राणाञ्च पतिस्सदैव कथितो वेदेषु पश्यादरा- दारात्सर्वजगद्गतोऽपि विदुषां दुष्टात्मनां शैजले । कष्टान्यप्यसमीक्ष्य योऽत्र विहितः क्षेत्रेषु वा सादर- स्तस्मै तां वितरामि मुक्तिमगजे रुद्राक्षभस्मादरे
kṣetrāṇāñca patissadaiva kathito vedeṣu paśyādarā- dārātsarvajagadgato'pi viduṣāṃ duṣṭātmanāṃ śaijale | kaṣṭānyapyasamīkṣya yo'tra vihitaḥ kṣetreṣu vā sādara- stasmai tāṃ vitarāmi muktimagaje rudrākṣabhasmādare
śrīśivarahasye prathamāṃśe śivagaurīsaṃvāde prāṇigatinirūpaṇaṃ nāma ekaviṃśo'dhyāyaḥ 21
1
शिवगौरीसंवादे प्राणिगतिनिरूपणे एकविंशोऽध्यायः देव्युवाच– के गच्छन्ति महादेव ह्ये ते देवगणाश्शिव । भित्वैव मण्डलं भानोः क एते पुरुषोत्तमाः
śivagaurīsaṃvāde prāṇigatinirūpaṇe ekaviṃśo'dhyāyaḥ devyuvāca– ke gacchanti mahādeva hye te devagaṇāśśiva | bhitvaiva maṇḍalaṃ bhānoḥ ka ete puruṣottamāḥ
2
सोमधाम प्रविष्टाः के निवृत्ताश्च ततः पुनः । धूमलेखानिभास्ते के कास्त्रियस्ता वराननाः
somadhāma praviṣṭāḥ ke nivṛttāśca tataḥ punaḥ | dhūmalekhānibhāste ke kāstriyastā varānanāḥ
3
के ते गच्छन्ति मुदिता विमानैरर्कसन्निभैः । ताड्यमानाः कशाघातैर्मुद्गरैरायसैर्नराः
ke te gacchanti muditā vimānairarkasannibhaiḥ | tāḍyamānāḥ kaśāghātairmudgarairāyasairnarāḥ
4
पृ0 91) स्त्रियो बालाश्च पुरुषैर्विकृतांगैः प्रहारिणः । पाशबद्धा विकर्षद्भिर्यान्ति के दक्षिणां दिशम्
pṛ0 91) striyo bālāśca puruṣairvikṛtāṃgaiḥ prahāriṇaḥ | pāśabaddhā vikarṣadbhiryānti ke dakṣiṇāṃ diśam
5
तद्वदाद्य महादेव जगच्चक्रप्रवर्तक । सृष्टिस्थित्यन्तकार्याणां प्रवर्तक निवर्तक
tadvadādya mahādeva jagaccakrapravartaka | sṛṣṭisthityantakāryāṇāṃ pravartaka nivartaka
6
स्कन्दः– इत्थं देव्या तदा पृष्टो महादेवो महेश्वरः । जगाद गिरिजां तत्र तस्मिन्कैलाससौधके
skandaḥ– itthaṃ devyā tadā pṛṣṭo mahādevo maheśvaraḥ | jagāda girijāṃ tatra tasminkailāsasaudhake
7
सम्पश्यन्देवयानानि पितृयानानि शङ्करः
sampaśyandevayānāni pitṛyānāni śaṅkaraḥ
8
ईश्वरः– पश्योन्निद्रसुरक्तपंकजलसद्वक्त्रे सुनीलोत्पल- भ्राजत्फुल्लविलोचने हि यतयश्चोद्यद्रवेर्मण्डलम् । भित्वा यान्ति समुल्लसत्सरसिजप्रोद्भूतलोकं शिवे वेदान्तार्थविचारसारहृदयाश्श्रुत्वा गुरोर्वक्त्रतः
īśvaraḥ– paśyonnidrasuraktapaṃkajalasadvaktre sunīlotpala- bhrājatphullavilocane hi yatayaścodyadravermaṇḍalam | bhitvā yānti samullasatsarasijaprodbhūtalokaṃ śive vedāntārthavicārasārahṛdayāśśrutvā gurorvaktrataḥ
9
तत्वंशब्दमसीत्यपीहच महावाक्यार्थतात्पर्यत- श्शब्दब्रह्मपराश्च ये यदिवरा गच्छन्ति ते ब्रह्मणा । मुक्ता नैव निवर्तका हि गिरिजे तन्ब्रह्मलोकादुमे ये वै त्वन्तिमकालशब्दत इति मन्त्रेण कर्मन्दिनः
tatvaṃśabdamasītyapīhaca mahāvākyārthatātparyata- śśabdabrahmaparāśca ye yadivarā gacchanti te brahmaṇā | muktā naiva nivartakā hi girije tanbrahmalokādume ye vai tvantimakālaśabdata iti mantreṇa karmandinaḥ
10
ते वै सूर्यगतिं गता अपि शिवे तेनातुराः क्षीणतो विद्युत्पुञ्जसमाः पतन्ति च ततो ब्राह्मण्यमासाद्य ते । कृत्वा चाश्रममन्तिमं पुनरुमे वेदान्तनिष्ठा गुरो- र्वक्त्राब्जच्युतवाक्यतो द्विजावरा नालीकजातासनो लोकंप्राप्य विमुक्तये च सततं ते चाप्युपासन्त्यपि
te vai sūryagatiṃ gatā api śive tenāturāḥ kṣīṇato vidyutpuñjasamāḥ patanti ca tato brāhmaṇyamāsādya te | kṛtvā cāśramamantimaṃ punarume vedāntaniṣṭhā guro- rvaktrābjacyutavākyato dvijāvarā nālīkajātāsano lokaṃprāpya vimuktaye ca satataṃ te cāpyupāsantyapi
11
एते चागमसंगताश्च हि सदा यज्वानमित्याहुतिं वैतानेषु हुताहुतीभिरधुना नीताश्च ते पूजिताः । विद्युत्पुञ्जसमप्रभाभिरभितो ह्येहीति च प्रार्थिता- श्चन्द्रासारकरैस्सदैव नितरां यान्त्येव तद्धामतः
ete cāgamasaṃgatāśca hi sadā yajvānamityāhutiṃ vaitāneṣu hutāhutībhiradhunā nītāśca te pūjitāḥ | vidyutpuñjasamaprabhābhirabhito hyehīti ca prārthitā- ścandrāsārakaraissadaiva nitarāṃ yāntyeva taddhāmataḥ
12
नित्याग्निहोत्रविधिपूर्णमसादिदर्शचान्द्रायणैश्च पशुभिस्सुचतुर्मसेज्यैः । सौत्रामणीभिरथ चेष्टिसमूहजातैस्सोमैस्तथैव कठकाग्निचितो द्विजाग्र्याः
nityāgnihotravidhipūrṇamasādidarśacāndrāyaṇaiśca paśubhissucaturmasejyaiḥ | sautrāmaṇībhiratha ceṣṭisamūhajātaissomaistathaiva kaṭhakāgnicito dvijāgryāḥ
13
पृ0 92) एकाहाहीनसत्रैर्यजति च सततं चाग्निचेता द्विजोयो यज्वा चारुणकेतुतोऽपि नगजे यात्येव चन्द्रांशु तत्
pṛ0 92) ekāhāhīnasatrairyajati ca satataṃ cāgnicetā dvijoyo yajvā cāruṇaketuto'pi nagaje yātyeva candrāṃśu tat
14
किंपाकयज्ञगतिभिस्स्मृतिजातधर्मैः पाको भवत्यतितरां सुकृतैश्च पाकैः । किंपाकसेवितजलेन किमत्र सारः किंपाक एव फलतो भवतीति मन्ये
kiṃpākayajñagatibhissmṛtijātadharmaiḥ pāko bhavatyatitarāṃ sukṛtaiśca pākaiḥ | kiṃpākasevitajalena kimatra sāraḥ kiṃpāka eva phalato bhavatīti manye
15
ये राजसूयनरसर्वगवाश्वमेधैर्मेधाधिपञ्च सकलाधिपमाद्रियानाः । ये सप्तहोतृविधियाजनतो भवानि सूर्यातिवाहिकगतिं सुकृतैः प्रयान्ति
ye rājasūyanarasarvagavāśvamedhairmedhādhipañca sakalādhipamādriyānāḥ | ye saptahotṛvidhiyājanato bhavāni sūryātivāhikagatiṃ sukṛtaiḥ prayānti
16
इष्टापूर्तं धर्मित्येव यो वै मत्पादाब्जध्यानपूजाविहीनः । अभ्रं धूमो रात्रिमासार्धमासैर्यान्त्येवान्ते धाम सोमस्य गौरि
iṣṭāpūrtaṃ dharmityeva yo vai matpādābjadhyānapūjāvihīnaḥ | abhraṃ dhūmo rātrimāsārdhamāsairyāntyevānte dhāma somasya gauri
17
तपश्श्रद्धायोगैर्विविधभववर्णाश्रमरता- स्ततो नैष्कर्म्येण प्रथितगुरुवेदान्तनिरताः । तथैवाह्नोमासाः पुरुषमथवामानवमुमे गतिं यान्तस्सौरीं मम विविधपूजैव हि नराः
tapaśśraddhāyogairvividhabhavavarṇāśramaratā- stato naiṣkarmyeṇa prathitaguruvedāntaniratāḥ | tathaivāhnomāsāḥ puruṣamathavāmānavamume gatiṃ yāntassaurīṃ mama vividhapūjaiva hi narāḥ
18
चन्द्रादभ्रं धूमजालञ्च वायुं विद्युद्वर्षं चोषधीनां गणेषु । जाताश्चान्नं पूरुषो योऽद्यते यद्रेतो भूत्वा स्त्रैणगर्भे पतन्ति
candrādabhraṃ dhūmajālañca vāyuṃ vidyudvarṣaṃ coṣadhīnāṃ gaṇeṣu | jātāścānnaṃ pūruṣo yo'dyate yadreto bhūtvā straiṇagarbhe patanti
19
ये वै पापाश्श्वाथ चण्डालसर्पा भूदाराणां यान्ति योनौ तिरश्चाम् । ये वै पुण्या विप्रबाहूरुजाताश्शूद्राः पुण्यापुण्यगर्भेषु देवि
ye vai pāpāśśvātha caṇḍālasarpā bhūdārāṇāṃ yānti yonau tiraścām | ye vai puṇyā viprabāhūrujātāśśūdrāḥ puṇyāpuṇyagarbheṣu devi
20
इष्टापूर्तविमोहिता बहुतरा अन्यार्चनध्यानिनो नान्यच्छ्रेय इतीव मानसरसा बालाः पुनर्मन्यते । प्लवाश्चैते अदृढास्सर्वधर्मा यज्ञाश्चैते तर्तुमम्बे भवाब्धिम्
iṣṭāpūrtavimohitā bahutarā anyārcanadhyānino nānyacchreya itīva mānasarasā bālāḥ punarmanyate | plavāścaite adṛḍhāssarvadharmā yajñāścaite tartumambe bhavābdhim
21
दीक्षाभिस्तपसा व्रतैश्च नियमैः कृछ्रैश्च दानैस्तथा योगैर्वा श्रुतिपाठनैश्च पठनैरिष्टैश्च पूर्तैश्शिवे । वेदान्तार्थविचारनन्दितमहाकर्मंदिवर्यश्शिवे वर्णी चापि गृही वनी च सततं तत्प्रोक्तधर्मादरः
dīkṣābhistapasā vrataiśca niyamaiḥ kṛchraiśca dānaistathā yogairvā śrutipāṭhanaiśca paṭhanairiṣṭaiśca pūrtaiśśive | vedāntārthavicārananditamahākarmaṃdivaryaśśive varṇī cāpi gṛhī vanī ca satataṃ tatproktadharmādaraḥ
22
यत्प्राप्नोति फलं च लोकमखिलं भूयस्ततोऽप्युत्तमं कैलासं समवाप्य मत्पदमहाध्यायेन सम्प्राप्यते
yatprāpnoti phalaṃ ca lokamakhilaṃ bhūyastato'pyuttamaṃ kailāsaṃ samavāpya matpadamahādhyāyena samprāpyate
23
पृ0 93) मखमुखसुखसोमजातधारां शिखिशिखविततां तथाज्यधाराम् । लखलखितमुखास्तथेन्द्रलेखाखगपतिवाहयुताखुवाहयुक्ताः
pṛ0 93) makhamukhasukhasomajātadhārāṃ śikhiśikhavitatāṃ tathājyadhārām | lakhalakhitamukhāstathendralekhākhagapativāhayutākhuvāhayuktāḥ
24
शिखिवाहाग्रसरा विमानयुक्ताः परिपीत्वा हरिभिर्विमानवर्यैः । अभियान्त्यद्य विलोकयाम्बनाकं परिपश्यामलपङ्कजास्यनेत्रे
śikhivāhāgrasarā vimānayuktāḥ paripītvā haribhirvimānavaryaiḥ | abhiyāntyadya vilokayāmbanākaṃ paripaśyāmalapaṅkajāsyanetre
25
सुरसङ्घैर्मुदितप्रपीतसोमा विहरन्ति स्वगणैश्च नन्दनोत्थैः । सुमजालैश्च सुचन्दनार्द्रगात्रा विहरन्ति स्म विमानवर्यसंस्थाः
surasaṅghairmuditaprapītasomā viharanti svagaṇaiśca nandanotthaiḥ | sumajālaiśca sucandanārdragātrā viharanti sma vimānavaryasaṃsthāḥ
26
एते यज्वन एव केवलमुमे कर्मैकनिष्ठाश्शिवे सन्त्यक्तान्यविधिप्रदानितमहादानैकनिष्ठाः परे । ते वै चन्द्रमस्रं प्रयान्ति नगजे धूमादिमार्गेण वै यातायातदकर्मजातमखिलं भुक्त्वा पतन्त्यंततः
ete yajvana eva kevalamume karmaikaniṣṭhāśśive santyaktānyavidhipradānitamahādānaikaniṣṭhāḥ pare | te vai candramasraṃ prayānti nagaje dhūmādimārgeṇa vai yātāyātadakarmajātamakhilaṃ bhuktvā patantyaṃtataḥ
27
रम्भारम्भोपमोरुद्वयगतसुभगे भेकपृष्ठाभके ते कुम्भोद्यत्कुम्भिकुम्भोपमघनजघनेनावृता नन्दनेषु । तम्बिम्बोपमसुन्दराधररसं पीत्वातिपीनाङ्गका- स्तद्वक्षोजविहारसारहृदयाः पश्याम्बिके यज्वनः
rambhārambhopamorudvayagatasubhage bhekapṛṣṭhābhake te kumbhodyatkumbhikumbhopamaghanajaghanenāvṛtā nandaneṣu | tambimbopamasundarādhararasaṃ pītvātipīnāṅgakā- stadvakṣojavihārasārahṛdayāḥ paśyāmbike yajvanaḥ
28
एतद्यौवतमण्डलं कचभरासंससक्तसत्केतकं भर्त्रालिङ्गनपानपीनमनसं दिव्याङ्गरागांशुकम् । नानारत्नविकासिताखिलदिशां स्तोमप्रभाभासुरं यानैर्याति सदा मुदा पितृवने भर्त्राग्निदग्धं हि तत्
etadyauvatamaṇḍalaṃ kacabharāsaṃsasaktasatketakaṃ bhartrāliṅganapānapīnamanasaṃ divyāṅgarāgāṃśukam | nānāratnavikāsitākhiladiśāṃ stomaprabhābhāsuraṃ yānairyāti sadā mudā pitṛvane bhartrāgnidagdhaṃ hi tat
29
गच्छन्ति पश्य मुदितास्सुरचामरौघै- स्संवीजितास्सुरसशक्रसदो विमानैः । गोभूमिवस्त्रान्नसुवर्णकुप्यरौप्यप्रदा धान्यमहीसुरत्नदाः
gacchanti paśya muditāssuracāmaraughai- ssaṃvījitāssurasaśakrasado vimānaiḥ | gobhūmivastrānnasuvarṇakupyaraupyapradā dhānyamahīsuratnadāḥ
30
विप्राग्रहारवनरोपणवापिकाभिः पान्थान् खरोग्रकिरणैश्श्रमभारखिन्नान् । खिन्नाननाङ्गान् सुखशीतवातैः कन्यान्नपानादिसुपादसेवनैः
viprāgrahāravanaropaṇavāpikābhiḥ pānthān kharograkiraṇaiśśramabhārakhinnān | khinnānanāṅgān sukhaśītavātaiḥ kanyānnapānādisupādasevanaiḥ
31
विश्रामयन्ति क्षणमम्बिके ये शालासु ते यान्ति शिवेऽद्य पश्य
viśrāmayanti kṣaṇamambike ye śālāsu te yānti śive'dya paśya
32
पृ0 94) एते वीरभटास्सुशस्त्रनिवहैर्बाणैरभिद्योदितै- र्धारासारशरेषु ये सुमुखतः प्राणांस्त्यजन्ति प्रियान् । तेऽमी मण्डलमाशु सप्रभमुमे तेजोमणेरन्तरा यान्त्येवाद्भुतविक्रमार्जितयशस्स्फीताखिलाशातटाः
pṛ0 94) ete vīrabhaṭāssuśastranivahairbāṇairabhidyoditai- rdhārāsāraśareṣu ye sumukhataḥ prāṇāṃstyajanti priyān | te'mī maṇḍalamāśu saprabhamume tejomaṇerantarā yāntyevādbhutavikramārjitayaśassphītākhilāśātaṭāḥ
33
हीराकारसुतारकाकृतिसुखं भुक्त्वेन्द्रलोकं गता भ्रश्यन्ति क्रमशोऽमरेश्वरि पुनर्नीरे तटे चोषधौ । पश्यैतान्त्सुदति प्रकृष्टविभवोपान्ते पुनर्गर्भगा- नेवं शीघ्रतरं तरन्ति सुकृतैरिष्टैश्च पूर्तैरपि
hīrākārasutārakākṛtisukhaṃ bhuktvendralokaṃ gatā bhraśyanti kramaśo'mareśvari punarnīre taṭe coṣadhau | paśyaitāntsudati prakṛṣṭavibhavopānte punargarbhagā- nevaṃ śīghrataraṃ taranti sukṛtairiṣṭaiśca pūrtairapi
34
यमभटकृतपाशबद्धहस्ता मुसलविदारितरक्तगन्धमस्ताः । सरभसमुपयान्ति चार्तरावैर्यमभवनं परिपश्य पापिजालम्
yamabhaṭakṛtapāśabaddhahastā musalavidāritaraktagandhamastāḥ | sarabhasamupayānti cārtarāvairyamabhavanaṃ paripaśya pāpijālam
35
ते वै कालमुखे दयारसहते सन्तप्तभ्राष्ट्रस्थिताः कुम्भीपाकमुखे शिवे कृमियुतापारे मलानां ह्रदे । क्षारापारसुकर्दमे व्रणकिणैर्गात्रैस्तु सन्मक्षिभिः काकैर्वृश्चिकदन्तशूकनिवहैः खिद्यन्ति पश्याम्बिके
te vai kālamukhe dayārasahate santaptabhrāṣṭrasthitāḥ kumbhīpākamukhe śive kṛmiyutāpāre malānāṃ hrade | kṣārāpārasukardame vraṇakiṇairgātraistu sanmakṣibhiḥ kākairvṛścikadantaśūkanivahaiḥ khidyanti paśyāmbike
36
एते नारकिणस्सदोदररता दारैः परैर्मैथुना नानापातकसंयुता गुरुजने शैवे च सन्दूषकाः । स्तेनाः पान्थहराः परान्ननिरता दुर्द्यूतदुष्टालयाः पाषण्डा भुजयोर्महायसवरैस्तप्तैश्च चक्रैर्युताः
ete nārakiṇassadodararatā dāraiḥ parairmaithunā nānāpātakasaṃyutā gurujane śaive ca sandūṣakāḥ | stenāḥ pānthaharāḥ parānnaniratā durdyūtaduṣṭālayāḥ pāṣaṇḍā bhujayormahāyasavaraistaptaiśca cakrairyutāḥ
37
येषां फालतलं त्रिपुण्ट्ररहितं ये रुद्रजाप्योज्झिता ये लिङ्गार्चनसाधनादिविमुखा ये शम्भुनाम्नोज्झिताः । ये रुद्राक्षविधारणे च विमुखाः पञ्चाक्षरेणोज्झिता ये मत्क्षेत्रनिवासहीनमनसो भक्तेषु सन्दूषकाः
yeṣāṃ phālatalaṃ tripuṇṭrarahitaṃ ye rudrajāpyojjhitā ye liṅgārcanasādhanādivimukhā ye śambhunāmnojjhitāḥ | ye rudrākṣavidhāraṇe ca vimukhāḥ pañcākṣareṇojjhitā ye matkṣetranivāsahīnamanaso bhakteṣu sandūṣakāḥ
38
मां विश्वाधिकमीश्वरं त्रिजगतामाधारभूतं शिवं विष्णुब्रह्ममरुद्गणैस्सममुमे पश्यन्ति तान्पश्य वै । ये वै प्रदोषपरिपूजनतो विहीना ये वा नरा मम निवेदितभुक्तिवर्ज्याः
māṃ viśvādhikamīśvaraṃ trijagatāmādhārabhūtaṃ śivaṃ viṣṇubrahmamarudgaṇaissamamume paśyanti tānpaśya vai | ye vai pradoṣaparipūjanato vihīnā ye vā narā mama niveditabhuktivarjyāḥ
39
पृ0 95) तेऽमीकालभयं प्रयान्ति नरके दुःखाकुलाः पातका- कल्पेनापि विमुक्तिरेव सततं नास्तीति मन्ये शिवे । शिवालयविभङ्गकाश्शिववनादिपुष्पाहरा- श्शिवद्रुहजनार्चका मयि सदा विनिन्दारताः
pṛ0 95) te'mīkālabhayaṃ prayānti narake duḥkhākulāḥ pātakā- kalpenāpi vimuktireva satataṃ nāstīti manye śive | śivālayavibhaṅgakāśśivavanādipuṣpāharā- śśivadruhajanārcakā mayi sadā vinindāratāḥ
40
तेव यममन्दिरान्तरनिवासलालाभुजो भवन्ति कृमिवक्त्रका नरकचित्रवैचित्रके । ये रुद्राक्षविभूषणास्सितलसद्भस्मत्रिपुण्ट्राक्षका मन्नैवेद्यसुधाशनाश्शिवमहादेवेति नामादराः
teva yamamandirāntaranivāsalālābhujo bhavanti kṛmivaktrakā narakacitravaicitrake | ye rudrākṣavibhūṣaṇāssitalasadbhasmatripuṇṭrākṣakā mannaivedyasudhāśanāśśivamahādeveti nāmādarāḥ
41
मल्लिङ्गार्चनतत्पराश्च सततं रुद्रार्थपारीणका ये रुद्रामलसत्कथासुरसिकास्ते मद्गणाश्शङ्करि । भस्मत्रिपुण्ट्रशिवजाक्षधरास्तेव हारा भवाम्बुनिधितारककर्णधाराः
malliṅgārcanatatparāśca satataṃ rudrārthapārīṇakā ye rudrāmalasatkathāsurasikāste madgaṇāśśaṅkari | bhasmatripuṇṭraśivajākṣadharāsteva hārā bhavāmbunidhitārakakarṇadhārāḥ
42
रुद्राध्यायविचिन्तनैकमतयः पञ्चाक्षरे सादरा- स्तन्मन्त्रैश्च शिवाभिषेकनिरता लिंगार्चने तत्पराः । ते हारा मम सम्मताश्च गिरिजे तेषामियं वासभूः
rudrādhyāyavicintanaikamatayaḥ pañcākṣare sādarā- stanmantraiśca śivābhiṣekaniratā liṃgārcane tatparāḥ | te hārā mama sammatāśca girije teṣāmiyaṃ vāsabhūḥ
43
श्रुत्युक्ताचारधाराचरणपरिकराश्चान्तरायैर्विहीना हीनाचारविचारवर्जितमनस्स्वान्तादराश्शाङ्कराः । पारावारभवोग्रसारविरसे त्यक्तादराश्शैलजे ते यान्ति प्रसभं ममालयमिदं नान्येऽद्य सत्यं ब्रुवे
śrutyuktācāradhārācaraṇaparikarāścāntarāyairvihīnā hīnācāravicāravarjitamanassvāntādarāśśāṅkarāḥ | pārāvārabhavograsāravirase tyaktādarāśśailaje te yānti prasabhaṃ mamālayamidaṃ nānye'dya satyaṃ bruve
44
कैलासाचलरुद्रमूर्तय इमे चन्द्रार्धचूडाश्शिवे नीलेन्दीवरलोचनत्रययुतास्ते नीलकण्ठास्सदा । मत्पार्श्वैकगणा भवन्ति गिरिजे ते शाङ्करास्सर्वदा
kailāsācalarudramūrtaya ime candrārdhacūḍāśśive nīlendīvaralocanatrayayutāste nīlakaṇṭhāssadā | matpārśvaikagaṇā bhavanti girije te śāṅkarāssarvadā
45
स्कन्दः– इति सर्वगतीश्श्रुत्वा शंकरात्परमेश्वरी । प्रणम्याह महादेवी कैलासवरगोपुरे
skandaḥ– iti sarvagatīśśrutvā śaṃkarātparameśvarī | praṇamyāha mahādevī kailāsavaragopure
46
देव्युवाच– असारसारं प्रवदन्ति वेदास्स्त्रियः प्रजानां पशवो हिरण्यम् । पृ0 96) गुणत्रयीमध्यगता प्ररोचना गुणानि गत्वा न भजन्ति केऽपि
devyuvāca– asārasāraṃ pravadanti vedāsstriyaḥ prajānāṃ paśavo hiraṇyam | pṛ0 96) guṇatrayīmadhyagatā prarocanā guṇāni gatvā na bhajanti ke'pi
47
प्रवृत्युन्मुखा बालकाः कामयन्ते सुखापारबुद्ध्या महादुःखजालम् । यथा भक्ष्यबुद्ध्या महापाशजालैर्गृहीतास्तु मत्स्या जले धीवरैश्च
pravṛtyunmukhā bālakāḥ kāmayante sukhāpārabuddhyā mahāduḥkhajālam | yathā bhakṣyabuddhyā mahāpāśajālairgṛhītāstu matsyā jale dhīvaraiśca
48
कथं त्वत्पदाब्जं खनिं वै विमुक्तेस्समायान्ति दुःखाकुलादुर्मुखास्ते । यथा त्वां चिदानन्दरूपञ्च सत्यमसत्यैकलीला भवन्त्येव बालाः
kathaṃ tvatpadābjaṃ khaniṃ vai vimuktessamāyānti duḥkhākulādurmukhāste | yathā tvāṃ cidānandarūpañca satyamasatyaikalīlā bhavantyeva bālāḥ
49
शशेशृंगवार्ता यथा स्याद्यथा वा तथा कूर्मदुग्धं मरौ वा यथापः । तथा विश्वगाः प्रार्थयन्तीह कामान्मनोमूलमेतन्मनो नास्ति यत्र
śaśeśṛṃgavārtā yathā syādyathā vā tathā kūrmadugdhaṃ marau vā yathāpaḥ | tathā viśvagāḥ prārthayantīha kāmānmanomūlametanmano nāsti yatra
50
भूमा त्वं गिरिजापतिश्शिवतरस्सोमार्धधारी हरो वामार्धाकृतिरप्रमेयविभवस्त्वं सोमधामाननः । कामांगारिरकामसक्तहृदयस्त्वं सामचर्माम्बर- स्त्वामप्राप्य महेश सामरवतस्तोषप्रदं शंकरम्
bhūmā tvaṃ girijāpatiśśivatarassomārdhadhārī haro vāmārdhākṛtiraprameyavibhavastvaṃ somadhāmānanaḥ | kāmāṃgārirakāmasaktahṛdayastvaṃ sāmacarmāmbara- stvāmaprāpya maheśa sāmaravatastoṣapradaṃ śaṃkaram
51
कामान्प्रार्थयते विमूढहृदयास्तेषां श्रमः केवलं सामागोमनतो रमापतिलसन्नेत्रांघ्रिरीशस्सदा । धूमाकारघनस्थितोऽसि भगवंस्त्वं व्योमकेशस्सदा धौम्याग्न्यार्चितपादपद्मयुगलश्चोमापतिश्शंकरः
kāmānprārthayate vimūḍhahṛdayāsteṣāṃ śramaḥ kevalaṃ sāmāgomanato ramāpatilasannetrāṃghrirīśassadā | dhūmākāraghanasthito'si bhagavaṃstvaṃ vyomakeśassadā dhaumyāgnyārcitapādapadmayugalaścomāpatiśśaṃkaraḥ
52
कामान्मे दिश गौतमादिमुनिभिर्वेदैस्स्तुतोऽसि प्रभो
kāmānme diśa gautamādimunibhirvedaisstuto'si prabho
śrīśivarahasye prathamāṃśe śivagaurīsaṃvāde kailāsaliṃgavarṇanannāma dvāviṃśo'dhyāyaḥ 22
1
कैलासलिंगवर्णनं नाम द्वाविंशोऽध्यायः स्कन्दः– कैलासात्पूर्वतो भाति निष्टप्तकनकप्रभः । लक्षत्रयान्तरं तस्माद्भाति मेरुस्सुरालयः
kailāsaliṃgavarṇanaṃ nāma dvāviṃśo'dhyāyaḥ skandaḥ– kailāsātpūrvato bhāti niṣṭaptakanakaprabhaḥ | lakṣatrayāntaraṃ tasmādbhāti merussurālayaḥ
2
तदग्रवृषभस्तम्भे ध्रुवाद्यास्तत्प्रदक्षिणे । कालचक्रान्तरा सर्वे भ्रमन्ति च दिवानिशम्
tadagravṛṣabhastambhe dhruvādyāstatpradakṣiṇe | kālacakrāntarā sarve bhramanti ca divāniśam
3
ध्रुवस्सप्तर्षिभिश्चैव राज्ञाचाथ त्रिशंकुना । तदूर्ध्वशैलमौलिस्थास्स्मरशासनशासनात्
dhruvassaptarṣibhiścaiva rājñācātha triśaṃkunā | tadūrdhvaśailamaulisthāssmaraśāsanaśāsanāt
4
नानाद्रुमलतोपेतं रम्यपक्षिमृगैर्युतम् । सरस्तत्रास्ति विपुलं मानसाख्यं मनोहरम्
nānādrumalatopetaṃ ramyapakṣimṛgairyutam | sarastatrāsti vipulaṃ mānasākhyaṃ manoharam
5
पृ0 97) उत्फुल्लहेमकह्लारहेमपङ्कजभासुरम् । तदग्रमौलौ देवानां ब्रह्मविष्णुहरात्मनाम्
pṛ0 97) utphullahemakahlārahemapaṅkajabhāsuram | tadagramaulau devānāṃ brahmaviṣṇuharātmanām
6
दिक्पालानाञ्च सर्वेषां गन्धर्वावसथाः कृताः । सत्यलोको ब्रह्मणश्च वैकुण्ठो वैष्णवं पुरम्
dikpālānāñca sarveṣāṃ gandharvāvasathāḥ kṛtāḥ | satyaloko brahmaṇaśca vaikuṇṭho vaiṣṇavaṃ puram
7
अंशोनत्रीणि रुद्रस्य पुराणि क्रमशो मुने । तादृशः कनकाकारः पर्यन्ते वर्षभूषितः
aṃśonatrīṇi rudrasya purāṇi kramaśo mune | tādṛśaḥ kanakākāraḥ paryante varṣabhūṣitaḥ
8
कुमुदाकारवद्भाति भूमेः पर्यन्तसागरैः । रत्नसालवनं तस्य मेरोर्मूर्ध्नि सुविस्तरम्
kumudākāravadbhāti bhūmeḥ paryantasāgaraiḥ | ratnasālavanaṃ tasya merormūrdhni suvistaram
9
तत्रास्ति गोपुरं शम्भोर्मणिमाणिक्यभूषितम् । कदाचिच्छ्रीमहादेवो देव्या विहरति स्वयम्
tatrāsti gopuraṃ śambhormaṇimāṇikyabhūṣitam | kadācicchrīmahādevo devyā viharati svayam
10
शप्तोऽस्ति देवदेवेन तत्प्रान्तो भूधरस्य हि । यो वात्र कश्चित्प्रविशेत्सभवेत् स्त्रीवराकृतिः
śapto'sti devadevena tatprānto bhūdharasya hi | yo vātra kaścitpraviśetsabhavet strīvarākṛtiḥ
11
वृषस्तम्भनिभो मेरुः कैलासस्यास्य सत्तम । तस्मिन्देव्या वसञ्छम्भुः पार्वत्या रुद्रकैर्वृतः
vṛṣastambhanibho meruḥ kailāsasyāsya sattama | tasmindevyā vasañchambhuḥ pārvatyā rudrakairvṛtaḥ
12
देव्यास्सखीभिरभितो दिव्यसिह्मासने स्थितः । कदाचिद्देवसङ्घानां पुराणिक्रमशश्शिवः
devyāssakhībhirabhito divyasihmāsane sthitaḥ | kadāciddevasaṅghānāṃ purāṇikramaśaśśivaḥ
13
मेरुमौलौ महालिङ्गमौर्वीशाख्यं मनोहरम् । तद्गोपुरमहासौध राजत्कनकवेदिकम्
merumaulau mahāliṅgamaurvīśākhyaṃ manoharam | tadgopuramahāsaudha rājatkanakavedikam
14
तत्र सम्पूजयन्त्येव ब्रह्मविष्णुमहेश्वराः । तल्लिङ्गं बिल्वपत्रैश्च हेमपङ्कजकैरपि
tatra sampūjayantyeva brahmaviṣṇumaheśvarāḥ | talliṅgaṃ bilvapatraiśca hemapaṅkajakairapi
15
धूपैर्दीपैश्च ते देवा नैवेद्यैश्च मनोहरैः । प्रदक्षिणप्रणामाद्यैस्स्तुवन्ति च सुरासुराः
dhūpairdīpaiśca te devā naivedyaiśca manoharaiḥ | pradakṣiṇapraṇāmādyaisstuvanti ca surāsurāḥ
16
देवाः– कुन्दामन्दमरन्दसौभगमहामन्दारसन्मालिका- लोलोत्तुङ्गतरङ्गरङ्गितमहागङ्गाम्बुजोत्कैरवम् । पर्वानन्दितशर्वरीरमणतोत्तुङ्गाङ्गमौलिं शिवं ध्यायामोऽद्य महाघसंसृतिभवं दुःखं विहायादरात्
devāḥ– kundāmandamarandasaubhagamahāmandārasanmālikā- lolottuṅgataraṅgaraṅgitamahāgaṅgāmbujotkairavam | parvānanditaśarvarīramaṇatottuṅgāṅgamauliṃ śivaṃ dhyāyāmo'dya mahāghasaṃsṛtibhavaṃ duḥkhaṃ vihāyādarāt
17
आरक्तसुन्दरतरैः कुरुविन्दबृन्दरक्तारविन्दमकरन्दपरागमौलिम् । बृन्दारवन्दितपदाम्बुरुहं महेशं सुन्दोपसुन्दवरदं जगदादिकन्दम्
āraktasundarataraiḥ kuruvindabṛndaraktāravindamakarandaparāgamaulim | bṛndāravanditapadāmburuhaṃ maheśaṃ sundopasundavaradaṃ jagadādikandam
18
मूर्धोर्द्धं मधुपालिझङ्कृतियुतं चञ्चज्जटानिर्झरं शैलान्निर्झरसारिणीव भवतो दृष्टिर्भवाम्भोझरी । उद्यद्रागमलीमसाञ्झटिति नो नोज्झन्ति पादौ हृदि ते धन्यास्सजलञ्झलौ स भगवान्भूयाच्छ्रियै सर्वशः
mūrdhorddhaṃ madhupālijhaṅkṛtiyutaṃ cañcajjaṭānirjharaṃ śailānnirjharasāriṇīva bhavato dṛṣṭirbhavāmbhojharī | udyadrāgamalīmasāñjhaṭiti no nojjhanti pādau hṛdi te dhanyāssajalañjhalau sa bhagavānbhūyācchriyai sarvaśaḥ
19
सूतः– एवं स्तुवन्ति ते देवा मेरुमौलिस्थितं शिवम् । गन्धर्वाप्सरसस्सिद्धा मुनयो वीतकल्मषाः
sūtaḥ– evaṃ stuvanti te devā merumaulisthitaṃ śivam | gandharvāpsarasassiddhā munayo vītakalmaṣāḥ
20
पृ0 98) कैलासेऽत्र महादेवस्सन्निधत्ते सदैव हि । देव्या मणिमये सौधे विहरत्येष शङ्करः
pṛ0 98) kailāse'tra mahādevassannidhatte sadaiva hi | devyā maṇimaye saudhe viharatyeṣa śaṅkaraḥ
21
तद्विहारं शृणुष्वाद्य सर्वपापविनाशनम् । नानाचित्रविचित्राश्च क्रीडास्ताः परमेशितुः
tadvihāraṃ śṛṇuṣvādya sarvapāpavināśanam | nānācitravicitrāśca krīḍāstāḥ parameśituḥ
22
देव्या सह सुरश्रेष्ठाः केन वा वर्ण्यते हि ताः
devyā saha suraśreṣṭhāḥ kena vā varṇyate hi tāḥ
23
रुद्राण्यो नवयौवनोच्चलकुचास्तास्सोमधाम्ना निभा रत्नोत्थामलकान्तिभूषिततनूवल्यः प्रभाभासुराः । सम्बद्धस्तनचेलकेशवलयास्सेवाधिकारादरा राजन्ते कलधौतसानुशिखहे लीलाझणन्नूपुराः
rudrāṇyo navayauvanoccalakucāstāssomadhāmnā nibhā ratnotthāmalakāntibhūṣitatanūvalyaḥ prabhābhāsurāḥ | sambaddhastanacelakeśavalayāssevādhikārādarā rājante kaladhautasānuśikhahe līlājhaṇannūpurāḥ
24
उद्यत्काव्यनिभाच्छचम्पकमहानासालसन्मौक्तिका- स्ताराकारसुहीरहारवलयैस्तास्तत्र विद्युल्लताः । रुद्राश्चापि महेश्वरं त्रिजगतामाधारभूतं हरं तत्तत्कालसुसेवनैरनुपमैश्श्रान्तिं विहायादरात्
udyatkāvyanibhācchacampakamahānāsālasanmauktikā- stārākārasuhīrahāravalayaistāstatra vidyullatāḥ | rudrāścāpi maheśvaraṃ trijagatāmādhārabhūtaṃ haraṃ tattatkālasusevanairanupamaiśśrāntiṃ vihāyādarāt
25
स्नानोद्यन्मणिसुन्दरैश्च कलशैस्स्रग्गन्धधूपार्पणै- र्दीपैः केशसुधूपनैः परिकरैः पर्यङ्कविश्राणनैः । छत्रैश्चामरवीजनैः प्रपदकैरादर्शताम्बूलकै- र्वीणाभिः पटवासखङ्गसुकरैस्सेवन्ति शर्वं शिवाम्
snānodyanmaṇisundaraiśca kalaśaissraggandhadhūpārpaṇai- rdīpaiḥ keśasudhūpanaiḥ parikaraiḥ paryaṅkaviśrāṇanaiḥ | chatraiścāmaravījanaiḥ prapadakairādarśatāmbūlakai- rvīṇābhiḥ paṭavāsakhaṅgasukaraissevanti śarvaṃ śivām
26
रुद्राण्यो नवकोटयश्च तरुणा रुद्राश्च कोट्यो दश भैरव्योऽथ दिगम्बराश्च सततं कोटीभिरन्वासते । योगिन्योऽथ त्रिकोटयश्च परितस्ते डाकिनीकोटयो रोहिण्या सहितेन्दुधामवदनास्सेवन्ति शम्भुं शिवाम्
rudrāṇyo navakoṭayaśca taruṇā rudrāśca koṭyo daśa bhairavyo'tha digambarāśca satataṃ koṭībhiranvāsate | yoginyo'tha trikoṭayaśca paritaste ḍākinīkoṭayo rohiṇyā sahitendudhāmavadanāssevanti śambhuṃ śivām
27
कैलासे नवशक्तिरत्नविलसत्पीठे महातत्ववा- ग्जातेनैकककोटिविस्तरयुते श्रीचक्रमध्यङ्गते । बिन्दौ चन्द्रदिनेशकोटियुगले मञ्चे चतुष्पीठके पञ्चब्रह्ममये वयं गिरिजया सार्धं हृदादध्महे
kailāse navaśaktiratnavilasatpīṭhe mahātatvavā- gjātenaikakakoṭivistarayute śrīcakramadhyaṅgate | bindau candradineśakoṭiyugale mañce catuṣpīṭhake pañcabrahmamaye vayaṃ girijayā sārdhaṃ hṛdādadhmahe
28
शशिप्रसृमरैः करैस्सितसितायमानो गिरिः प्रभाततसुधाम्बुधेश्चलतरङ्गहस्तोत्थया । पृ0 99) समुच्चलितनौकया सकलरत्नसंकॢप्तया सुधांशुशकलालको विहरति स्फुटं सोऽम्बया
śaśiprasṛmaraiḥ karaissitasitāyamāno giriḥ prabhātatasudhāmbudheścalataraṅgahastotthayā | pṛ0 99) samuccalitanaukayā sakalaratnasaṃkḷptayā sudhāṃśuśakalālako viharati sphuṭaṃ so'mbayā
29
स्वच्छाद्रिपारदमहाकलधौतशैलसानुप्रभासमधिकोन्नतपाण्डराङ्गम् । चञ्चद्विषाणमुकुटीतटलम्बमानसच्चामरौघपरिवीजितकर्णतालम्
svacchādripāradamahākaladhautaśailasānuprabhāsamadhikonnatapāṇḍarāṅgam | cañcadviṣāṇamukuṭītaṭalambamānasaccāmaraughaparivījitakarṇatālam
30
कान्त्या स्वया परिमुषन्तमिवोद्यतांशुमुक्षाणमद्रितनयापतिरक्षिफालः । आरुह्य याति नगराजसुतासहायः
kāntyā svayā parimuṣantamivodyatāṃśumukṣāṇamadritanayāpatirakṣiphālaḥ | āruhya yāti nagarājasutāsahāyaḥ
31
उक्षाधस्तलपक्षति प्रचलितो देवस्य पादाम्बुजे स्वस्कन्धे मणिपादुकोत्तमलसत्सानन्दनामा गणः । पाहीशेति वदञ्छिव महादेव प्रभो मां सदा तारानाथकलाधर श्रुतिशिरःकोटीरपालीगत
ukṣādhastalapakṣati pracalito devasya pādāmbuje svaskandhe maṇipādukottamalasatsānandanāmā gaṇaḥ | pāhīśeti vadañchiva mahādeva prabho māṃ sadā tārānāthakalādhara śrutiśiraḥkoṭīrapālīgata
32
कैलासमौलिधवलोत्तमशृङ्गसंस्थलिङ्गावलिं समभिवीक्ष्य महोरुहर्षः । पश्येति तामगसुतां प्रवदत्यभीक्ष्णं त्र्यक्षोऽक्षताक्षमनसा परिचिन्तनीयः
kailāsamaulidhavalottamaśṛṅgasaṃsthaliṅgāvaliṃ samabhivīkṣya mahoruharṣaḥ | paśyeti tāmagasutāṃ pravadatyabhīkṣṇaṃ tryakṣo'kṣatākṣamanasā paricintanīyaḥ
33
सौवर्णरत्नखचितैर्मणिजालकॢप्तैश्चक्रे महोन्नततले शशिधामकुम्भम् । देव्या रथं रथपतिः प्रथितो हि देवैरारुह्य याति नगमौलिमहो द्विजेन्द्राः
sauvarṇaratnakhacitairmaṇijālakḷptaiścakre mahonnatatale śaśidhāmakumbham | devyā rathaṃ rathapatiḥ prathito hi devairāruhya yāti nagamaulimaho dvijendrāḥ
34
नानारत्नयुतप्रभाततिततं मुक्ताच्छगुच्छान्वितं पालीपालिमरालराजनिकरैर्मुक्तावितानैर्युतम् । भ्राजद्दिव्यपताकचामरयुतं छत्रैरपारैर्युत- ञ्चारुह्याखिलशैलराजसुतया दिव्यं विमानं हरः
nānāratnayutaprabhātatitataṃ muktācchagucchānvitaṃ pālīpālimarālarājanikarairmuktāvitānairyutam | bhrājaddivyapatākacāmarayutaṃ chatrairapārairyuta- ñcāruhyākhilaśailarājasutayā divyaṃ vimānaṃ haraḥ
35
कैलासे नवमौलिपालिषु सदा पश्यन्प्रयातीश्वरो देवादीनखिलान्विलोकयति वै तल्लोकलोकानपि । ब्रह्माण्डान्तिकतस्स्फुरत्सुरतटिन्याटोपमौलिश्शिवो विश्वं चित्रमपारचित्रकयुतं युक्तोऽन्बया केवलम्
kailāse navamaulipāliṣu sadā paśyanprayātīśvaro devādīnakhilānvilokayati vai tallokalokānapi | brahmāṇḍāntikatassphuratsurataṭinyāṭopamauliśśivo viśvaṃ citramapāracitrakayutaṃ yukto'nbayā kevalam
36
ईश्वरः– सुरतरुचितभोगजालतर्षास्सुरतरुचितदेवपुण्यवार्भिः । सरभसमपयान्ति कर्मदेवा गिरिजे पश्य महाविमानवर्याः
īśvaraḥ– suratarucitabhogajālatarṣāssuratarucitadevapuṇyavārbhiḥ | sarabhasamapayānti karmadevā girije paśya mahāvimānavaryāḥ
37
पृ0 100) देवस्त्रीकरकङ्कणोल्लसमणिस्फारप्रभाभासुरा देवोद्याननिकुञ्जसीमसुभगैस्स्रग्गन्धवातैरपि । तत्रत्याच्छसुधासुधाधररसास्वादोदनाः केवलं ते देवास्सह भोगभाग्यनिकरैः पुष्णन्ति पश्याम्बिके
pṛ0 100) devastrīkarakaṅkaṇollasamaṇisphāraprabhābhāsurā devodyānanikuñjasīmasubhagaissraggandhavātairapi | tatratyācchasudhāsudhādhararasāsvādodanāḥ kevalaṃ te devāssaha bhogabhāgyanikaraiḥ puṣṇanti paśyāmbike
38
विष्णुब्रह्ममरुद्गणैस्सममुमे मां पश्यते योऽधमो लालाजालमुखेषु पूयकृमिजापारे मलाब्धौ स्थितः । शस्त्रोद्यद्विपिनाग्रगात्रकवचेष्वाकल्पविष्टाशना- स्तिष्ठन्त्येव कनिष्ठनिष्ठुरवचोदुष्टः कशाताडितः
viṣṇubrahmamarudgaṇaissamamume māṃ paśyate yo'dhamo lālājālamukheṣu pūyakṛmijāpāre malābdhau sthitaḥ | śastrodyadvipināgragātrakavaceṣvākalpaviṣṭāśanā- stiṣṭhantyeva kaniṣṭhaniṣṭhuravacoduṣṭaḥ kaśātāḍitaḥ
39
दृष्टः कष्टजभोगभाग्यफलभाङ्मन्निन्दनादद्रिजे
dṛṣṭaḥ kaṣṭajabhogabhāgyaphalabhāṅmannindanādadrije
39
पश्य नारकगणं बहुदुःखितं लिङ्गमङ्गलददर्शनोज्झितम् । कुम्भतैलपचनेन सुपक्वं भक्ष्यवन्निगिरते यम एनम्
paśya nārakagaṇaṃ bahuduḥkhitaṃ liṅgamaṅgaladadarśanojjhitam | kumbhatailapacanena supakvaṃ bhakṣyavannigirate yama enam
40
रुद्राक्षकण्ठवरकर्णमहोरुहाराः कोटीरकङ्कणकशोभितबाहुदण्डाः
rudrākṣakaṇṭhavarakarṇamahoruhārāḥ koṭīrakaṅkaṇakaśobhitabāhudaṇḍāḥ
41
प्रदोषलिङ्गार्चनलिङ्गधामसन्दर्शनानन्दितवृत्तयो ये । यान्त्येव कैलासवरं ममालयं तेव हारा मम सम्मताश्शिवे
pradoṣaliṅgārcanaliṅgadhāmasandarśanānanditavṛttayo ye | yāntyeva kailāsavaraṃ mamālayaṃ teva hārā mama sammatāśśive
42
कैलासाचलमौलिसंस्थितमहालिङ्गालयेषूद्यता भ्रान्तिं ते जनयन्ति रत्नकलशा नानार्कसोमाइव । अत्रत्यामललिङ्गमौलिजजटाचूडेन्दुगङ्गादयो द्योतच्छैलशिखाविराजितशिखाकारोऽद्य शैलो मम
kailāsācalamaulisaṃsthitamahāliṅgālayeṣūdyatā bhrāntiṃ te janayanti ratnakalaśā nānārkasomāiva | atratyāmalaliṅgamaulijajaṭācūḍendugaṅgādayo dyotacchailaśikhāvirājitaśikhākāro'dya śailo mama
43
पश्याद्रिजे गिरिवरोद्यतलिङ्गसङ्घं सम्पूजितञ्च विलसन्नवबिल्वपत्रैः । तत्रैव गाङ्गजपयोजवरत्नमीलन्मौलिस्थचन्द्रजकरैर्विकचोत्पलाभम्
paśyādrije girivarodyataliṅgasaṅghaṃ sampūjitañca vilasannavabilvapatraiḥ | tatraiva gāṅgajapayojavaratnamīlanmaulisthacandrajakarairvikacotpalābham
44
गणकरसम्पुटोत्थशङ्खनादैर्मधुरैर्मद्दलडिण्डिमोत्थनादैः । शिवलिङ्गाग्रगता गणा विरेजुर्मम शैलोऽपि सदैव घोषयुक्तः
gaṇakarasampuṭotthaśaṅkhanādairmadhurairmaddalaḍiṇḍimotthanādaiḥ | śivaliṅgāgragatā gaṇā virejurmama śailo'pi sadaiva ghoṣayuktaḥ
45
कैलासोऽप्ययमद्रिराजतनये मल्लिङ्गमौलिस्सदा जातो मन्दरदानतश्च सुमहत्तेनापि तप्तन्तपः । पृ0 101) तत्तादृङ्नसुरादिसङ्घनिकरैस्तप्तं मुनीनां गणै- श्शैवेन्द्रैर्मम सद्गणैरपि शिवे तस्मिन्दया मे परा
kailāso'pyayamadrirājatanaye malliṅgamaulissadā jāto mandaradānataśca sumahattenāpi taptantapaḥ | pṛ0 101) tattādṛṅnasurādisaṅghanikaraistaptaṃ munīnāṃ gaṇai- śśaivendrairmama sadgaṇairapi śive tasmindayā me parā
46
इत्यम्बावदनं निरीक्ष्य भगवानाह प्रमोदास्पदं कैलासस्य गुणौघवर्णनमहो देव्याः पुरश्शङ्करः । रम्यं तत्र ममालयं करिवरास्यस्यापि वक्ष्ये मुदा तस्याप्यद्भुतमीश्वरस्य समुखे संस्थाप्य धर्म्यस्य हि
ityambāvadanaṃ nirīkṣya bhagavānāha pramodāspadaṃ kailāsasya guṇaughavarṇanamaho devyāḥ puraśśaṅkaraḥ | ramyaṃ tatra mamālayaṃ karivarāsyasyāpi vakṣye mudā tasyāpyadbhutamīśvarasya samukhe saṃsthāpya dharmyasya hi
śrīśivarahasye prathamāṃśe kailāsavarṇane skandakṛtastutirnāma trayoviṃśo'dhyāyaḥ 23
1
कैलासवर्णने स्कन्दकृतस्तुतिर्नाम त्रयोविंशोऽध्यायः स्कन्दः– शृणुध्वं ब्रह्मविष्ण्वाद्या जैगीषव्य गणोत्तमाः । तत्रान्तरेऽस्ति प्राकारो गोमेदमणिकल्पितः
kailāsavarṇane skandakṛtastutirnāma trayoviṃśo'dhyāyaḥ skandaḥ– śṛṇudhvaṃ brahmaviṣṇvādyā jaigīṣavya gaṇottamāḥ | tatrāntare'sti prākāro gomedamaṇikalpitaḥ
2
गोमेदगोपुरश्चैव चतुर्दिक्षु विराजितः । चतुर्दिक्षु गोपुराणि लक्षमानेन सत्तमाः
gomedagopuraścaiva caturdikṣu virājitaḥ | caturdikṣu gopurāṇi lakṣamānena sattamāḥ
3
वेदिकापट्टिकाभिश्च तोरणालङ्कृतानि हि । राजत्कुम्भपताकाग्रैर्वृषभैस्तन्मणिप्रभैः
vedikāpaṭṭikābhiśca toraṇālaṅkṛtāni hi | rājatkumbhapatākāgrairvṛṣabhaistanmaṇiprabhaiḥ
4
रुद्रावताररचितैर्गवाक्षैस्स्फाटिकैरपि । कुमुदैर्व्यालिपीठैश्च दैवगोष्ठ युतान्यपि
rudrāvatāraracitairgavākṣaissphāṭikairapi | kumudairvyālipīṭhaiśca daivagoṣṭha yutānyapi
5
मण्टपावलिसंकॢप्तैस्सहस्रायुतशो गणैः । मणिकाञ्चनचित्रैश्च मुक्तावितततोरणैः
maṇṭapāvalisaṃkḷptaissahasrāyutaśo gaṇaiḥ | maṇikāñcanacitraiśca muktāvitatatoraṇaiḥ
6
सरोभिस्सागराकारै रत्नसोपानमण्डितैः । तत्प्रान्तमण्टपवरैस्सहस्रस्तम्भशोभितैः
sarobhissāgarākārai ratnasopānamaṇḍitaiḥ | tatprāntamaṇṭapavaraissahasrastambhaśobhitaiḥ
7
सरोमध्यमणिभ्राजन्मण्टपैरुच्छितैरपि । तत्रान्तरे तु प्राकारे गोपुरान्तरदक्षिणे
saromadhyamaṇibhrājanmaṇṭapairucchitairapi | tatrāntare tu prākāre gopurāntaradakṣiṇe
8
तत्र मत्सदनं दिव्यं नानारत्नचितं शुभम् । लक्षस्तम्भयुतं सौधं नवरत्नाग्रशृङ्गकम्
tatra matsadanaṃ divyaṃ nānāratnacitaṃ śubham | lakṣastambhayutaṃ saudhaṃ navaratnāgraśṛṅgakam
9
तत्सालभञ्जिकानिर्यद्रत्नकान्तिविभासितम् । ततः पश्चादंशुमद्भिर्मणिभिः कृतशेखरम्
tatsālabhañjikāniryadratnakāntivibhāsitam | tataḥ paścādaṃśumadbhirmaṇibhiḥ kṛtaśekharam
10
गवाक्षितं विचित्रैश्च नवरत्नप्रभाधिकम् । हरिन्मणिकृतैश्चैव मयूरवरकुक्कुटैः
gavākṣitaṃ vicitraiśca navaratnaprabhādhikam | harinmaṇikṛtaiścaiva mayūravarakukkuṭaiḥ
11
शोभितैर्मण्टपाग्रैश्च वरप्रासादतोरणैः । प्राकारैस्सुन्दरतरैर्गोपुरावलिभासुरैः
śobhitairmaṇṭapāgraiśca varaprāsādatoraṇaiḥ | prākāraissundaratarairgopurāvalibhāsuraiḥ
12
मणिद्वारकवाटैश्च शातकुम्भशलाककैः । धूपामोदयुतापाररम्योद्दामसुगन्धितम्
maṇidvārakavāṭaiśca śātakumbhaśalākakaiḥ | dhūpāmodayutāpāraramyoddāmasugandhitam
13
पृ0 102) मणिदीपप्रभाभासिरञ्जिताखिलदिक्तटम् । तत्र दिव्यसुमामोदि वनं चैत्ररथाधिकम्
pṛ0 102) maṇidīpaprabhābhāsirañjitākhiladiktaṭam | tatra divyasumāmodi vanaṃ caitrarathādhikam
14
मण्यालवालकलितरत्नवेदित्विषाततम् । नानादेवद्रुमापारवल्लीगुच्छविराजितम्
maṇyālavālakalitaratnaveditviṣātatam | nānādevadrumāpāravallīgucchavirājitam
15
कौमारन्नाम तत्रास्ति सरश्चोत्फुल्लपङ्कजम् । मणिसोपानपालीभिस्तत्प्रान्तमणिमण्टपैः
kaumārannāma tatrāsti saraścotphullapaṅkajam | maṇisopānapālībhistatprāntamaṇimaṇṭapaiḥ
16
क्रीडामृगैश्शुकैश्चापि मणिपञ्जरशारिकैः । तत्र तत्सौधमध्यस्थं मम सौधवराश्रयम्
krīḍāmṛgaiśśukaiścāpi maṇipañjaraśārikaiḥ | tatra tatsaudhamadhyasthaṃ mama saudhavarāśrayam
17
सिह्मासनं रत्नकॢप्तं पञ्चयोजनविस्तृतम् । तत्राहं सेवितो वीरैर्नवलक्षैरुदायुधैः
sihmāsanaṃ ratnakḷptaṃ pañcayojanavistṛtam | tatrāhaṃ sevito vīrairnavalakṣairudāyudhaiḥ
18
सिह्मसंहननैर्वीरैः कौमारैरुद्यदायुधैः । मत्तद्विपकराकारबाहुभिश्शक्तिसंयुतैः
sihmasaṃhananairvīraiḥ kaumārairudyadāyudhaiḥ | mattadvipakarākārabāhubhiśśaktisaṃyutaiḥ
19
वीरबाहुप्रभृतिभिः पुष्पवस्त्राङ्गलेपनैः । छत्रचामरहस्तैश्चाप्यासेऽहं सेवितस्तदा
vīrabāhuprabhṛtibhiḥ puṣpavastrāṅgalepanaiḥ | chatracāmarahastaiścāpyāse'haṃ sevitastadā
20
महार्हवसनोपेतो नवरत्नविभूषणः । षड्वक्त्रमुकुटोद्भासि रत्नकुण्डलकाङ्गदः
mahārhavasanopeto navaratnavibhūṣaṇaḥ | ṣaḍvaktramukuṭodbhāsi ratnakuṇḍalakāṅgadaḥ
21
रत्नाङ्गुलीयविलसत्तलाङ्गुलिपदाम्बुजः । मणिमाणिक्यमञ्जीररणन्नूपुरमेखलः
ratnāṅgulīyavilasattalāṅgulipadāmbujaḥ | maṇimāṇikyamañjīraraṇannūpuramekhalaḥ
22
देववल्या सेनया चापीन्द्राद्यैरपि सेवितः । षड्भिश्च वदनैर्देवं स्तुवन्द्वादशलोचनैः
devavalyā senayā cāpīndrādyairapi sevitaḥ | ṣaḍbhiśca vadanairdevaṃ stuvandvādaśalocanaiḥ
23
पश्यन्लिङ्गं हि कैलासे कौमारेश्वरमीश्वरम् । हीरसारमहाधाराप्राकारे दक्षिणे स्थितः
paśyanliṅgaṃ hi kailāse kaumāreśvaramīśvaram | hīrasāramahādhārāprākāre dakṣiṇe sthitaḥ
24
तन्नीलगोपुरोत्तुङ्गनीलधारातता दिशः । रुद्रावतारक्रीडादितलशोभैकभासुरम्
tannīlagopurottuṅganīladhārātatā diśaḥ | rudrāvatārakrīḍāditalaśobhaikabhāsuram
25
राजल्ललामवृषभं शम्भोः कैलासगोपुरम् । पञ्चलक्षप्रमाणेन कल्पितं विस्तरायतम्
rājallalāmavṛṣabhaṃ śambhoḥ kailāsagopuram | pañcalakṣapramāṇena kalpitaṃ vistarāyatam
26
दक्षिणे गोपुरप्रान्ते शम्भोः प्राकारमध्यमे । तत्कौमारपुरंमेऽद्य नानासौधविराजितम्
dakṣiṇe gopuraprānte śambhoḥ prākāramadhyame | tatkaumārapuraṃme'dya nānāsaudhavirājitam
27
कौमारैर्मद्गणश्रेष्ठैर्मया च परिपालितम् । तत्र मत्पुरमध्यस्थं कौमारेशस्य गोपुरम्
kaumārairmadgaṇaśreṣṭhairmayā ca paripālitam | tatra matpuramadhyasthaṃ kaumāreśasya gopuram
28
नवरत्नप्रभाभास्वत्प्राकाराट्टालसुन्दरम् । गर्भागारमहाकान्तिधगद्धगितदिङ्मुखम्
navaratnaprabhābhāsvatprākārāṭṭālasundaram | garbhāgāramahākāntidhagaddhagitadiṅmukham
29
मणिकुम्भोद्यतशिखावलीढगगनाङ्कणम् । ममेष्टलिङ्गन्तत्रैव देवदेवस्य शूलिनः
maṇikumbhodyataśikhāvalīḍhagaganāṅkaṇam | mameṣṭaliṅgantatraiva devadevasya śūlinaḥ
30
त्रिकालं तत्र तल्लिङ्गं पूजयामि गणैर्वृतः । धूपैर्दीपैश्च नैवेद्यैः पञ्चामृतनिषेचनैः
trikālaṃ tatra talliṅgaṃ pūjayāmi gaṇairvṛtaḥ | dhūpairdīpaiśca naivedyaiḥ pañcāmṛtaniṣecanaiḥ
31
वीणावेणुमृदङ्गादिशङ्खकाहलनिस्वनैः । मधुरोद्दामगीतैश्च कौमारीणाञ्च नर्तनैः
vīṇāveṇumṛdaṅgādiśaṅkhakāhalanisvanaiḥ | madhuroddāmagītaiśca kaumārīṇāñca nartanaiḥ
32
हावभावमनोहारितौर्यत्रिकमनोहरैः । षड्वक्त्रफालकलितत्रिपुण्ट्रतिलकोज्वलः
hāvabhāvamanohāritauryatrikamanoharaiḥ | ṣaḍvaktraphālakalitatripuṇṭratilakojvalaḥ
33
भस्मरुद्राक्षवलयसरावलिविभूषितः । षड्वक्त्रपङ्कजस्यन्दिसुधासममहारसैः
bhasmarudrākṣavalayasarāvalivibhūṣitaḥ | ṣaḍvaktrapaṅkajasyandisudhāsamamahārasaiḥ
34
स्तौमि स्तोत्रवरैश्शम्भुं तत्स्तुतिं णुशृ सत्तम
staumi stotravaraiśśambhuṃ tatstutiṃ ṇuśṛ sattama
35
छद्मस्वर्गविनुतागमवर्य कर्कार्यागमदूर्वयार्चित । मेरुमौर्विकृतदर्विहस्तक पाहि मां भव महेश सर्वग
chadmasvargavinutāgamavarya karkāryāgamadūrvayārcita | merumaurvikṛtadarvihastaka pāhi māṃ bhava maheśa sarvaga
36
विक्रमाक्रमितलोकचङ्क्रम पादमूलमपि नो त्रिविक्रम । पृ0 103) प्राप्तकूपसदनः किमु भेकस्सागरोत्तरणहेतवे हर
vikramākramitalokacaṅkrama pādamūlamapi no trivikrama | pṛ0 103) prāptakūpasadanaḥ kimu bhekassāgarottaraṇahetave hara
37
स्वर्णवर्णकृतलोचन कर्णापारहारक महार्णवसंस्थ । वर्णितागम अपर्णयार्चित पर्णपत्ररथपूज्यपदाब्ज
svarṇavarṇakṛtalocana karṇāpārahāraka mahārṇavasaṃstha | varṇitāgama aparṇayārcita parṇapatrarathapūjyapadābja
38
कर्णकुण्डलकृताहिवरेश पारयार्णवभवं सुकर्णधारक । गन्धबन्धुमधुपावलिभास्वद्राजराजशकलामलमौले
karṇakuṇḍalakṛtāhivareśa pārayārṇavabhavaṃ sukarṇadhāraka | gandhabandhumadhupāvalibhāsvadrājarājaśakalāmalamaule
39
देवलोकतटिनीगतपुल्लैर्नीलकैरवकुलैकसुपूज्य । वाहाजिह्वातिसङ्ख्याकृतनयनयुगं तल्पसङ्ख्यापि तादृ- ग्दशयुगलललामं देवमन्दारसालम्
devalokataṭinīgatapullairnīlakairavakulaikasupūjya | vāhājihvātisaṅkhyākṛtanayanayugaṃ talpasaṅkhyāpi tādṛ- gdaśayugalalalāmaṃ devamandārasālam
40
कौमार शङ्करगिरां मनसोऽतिदूर कर्पूरगौर सुशरीरधृतोरगेन्द्र । मारापहार पुरवर्गहराव्ययेश विश्वेश्वराव दयया तव बालमिष्टम्
kaumāra śaṅkaragirāṃ manaso'tidūra karpūragaura suśarīradhṛtoragendra | mārāpahāra puravargaharāvyayeśa viśveśvarāva dayayā tava bālamiṣṭam
41
इत्थं षड्वदनैस्स्तौमि कौमारेशं महेश्वरम् । मद्गणैर्नवलक्षैश्च तत्कौमारपुरस्थितः
itthaṃ ṣaḍvadanaisstaumi kaumāreśaṃ maheśvaram | madgaṇairnavalakṣaiśca tatkaumārapurasthitaḥ
42
गोपुरं नीलमणिभिः प्राकारं तच्च कल्पितम् । तत्कैलासं महेशस्य शक्तिहस्तैरुदायुधैः
gopuraṃ nīlamaṇibhiḥ prākāraṃ tacca kalpitam | tatkailāsaṃ maheśasya śaktihastairudāyudhaiḥ
43
रक्षामि सर्वदा विप्र शासनाच्चन्द्रमौलिनः
rakṣāmi sarvadā vipra śāsanāccandramaulinaḥ
44
तन्नीलसारपरिकल्पितगोपुरोद्यत्कुम्भावलीविततहेमपताकजालम् । शक्रोपलाकलितगोवृषभालिराजत्प्राकारसौधविहितोरुमणीन्द्रलिङ्गम्
tannīlasāraparikalpitagopurodyatkumbhāvalīvitatahemapatākajālam | śakropalākalitagovṛṣabhālirājatprākārasaudhavihitorumaṇīndraliṅgam
45
सम्पूजयन् गणवरैर्भगणेशमौलिं कैलासपर्वतवरे निवसामि विप्र
sampūjayan gaṇavarairbhagaṇeśamauliṃ kailāsaparvatavare nivasāmi vipra
śrīśivarahasye prathamāṃśe kailāsavarṇane gaṇeśakṛtastutirnāma caturviṃśo'dhyāyaḥ 24
1
कैलासवर्णने गणेशकृतस्तुतिर्नाम चतुर्विंशोऽध्यायः स्कन्दः– पश्चाद्भागे हरिज्योतिहरिन्मणिविराजितम् । पञ्चलक्षप्रमाणेन प्राकारं मणिगोपुरम्
kailāsavarṇane gaṇeśakṛtastutirnāma caturviṃśo'dhyāyaḥ skandaḥ– paścādbhāge harijyotiharinmaṇivirājitam | pañcalakṣapramāṇena prākāraṃ maṇigopuram
2
महामरकतैः कॢप्तगवाक्षावलिभिर्युतम् । अष्टाशीति सहस्राणि योजनैः परिकल्पितम्
mahāmarakataiḥ kḷptagavākṣāvalibhiryutam | aṣṭāśīti sahasrāṇi yojanaiḥ parikalpitam
3
पश्चाद्भागे तु तद्योति हरिन्मणिनिभा दिशः । तत्र गारुत्मतमणीकॢप्तमण्टपशोभितम्
paścādbhāge tu tadyoti harinmaṇinibhā diśaḥ | tatra gārutmatamaṇīkḷptamaṇṭapaśobhitam
4
पृ0 104) उद्यदिन्दुकरस्वच्छनिर्यज्झरिभिरावृतम् । तत्राच्छस्फटिकोद्दामसिह्मासनशतैर्वृतम्
pṛ0 104) udyadindukarasvacchaniryajjharibhirāvṛtam | tatrācchasphaṭikoddāmasihmāsanaśatairvṛtam
5
धूपदीपादिबहुलं नानासुमवनावृतम् । मणिमाणिक्यखचितमण्टपे स्वास्तृतासने
dhūpadīpādibahulaṃ nānāsumavanāvṛtam | maṇimāṇikyakhacitamaṇṭape svāstṛtāsane
6
तस्मिंस्तिष्ठति विश्वेशस्स्वगणैरर्चिताङ्घ्रिकः । सप्तलक्षगणेन्द्रैश्च विघ्नाद्रिकुलिशो महान्
tasmiṃstiṣṭhati viśveśassvagaṇairarcitāṅghrikaḥ | saptalakṣagaṇendraiśca vighnādrikuliśo mahān
7
नानारत्नचितानेकभूषणैः परिशोभितः । सिन्धूरविलसत्फालो महासिन्धूरवक्त्रकः
nānāratnacitānekabhūṣaṇaiḥ pariśobhitaḥ | sindhūravilasatphālo mahāsindhūravaktrakaḥ
8
माणिक्यमुकुटोद्भासिफालचन्द्रविराजितः । शुण्डादण्डमहोच्चण्डबृह्मितानन्दिताम्बरः
māṇikyamukuṭodbhāsiphālacandravirājitaḥ | śuṇḍādaṇḍamahoccaṇḍabṛhmitānanditāmbaraḥ
9
कुम्भान्तरललन्मुक्तागुच्छसच्छायितास्यकः । कर्णपत्रमणिभ्राजच्चलत्कर्णयुगछविः
kumbhāntaralalanmuktāgucchasacchāyitāsyakaḥ | karṇapatramaṇibhrājaccalatkarṇayugachaviḥ
10
दन्तावलिमहारत्नदन्तवेष्टनसुन्दरः । तदधस्ताल्ललन्मुक्तामणिपत्रविराजितः
dantāvalimahāratnadantaveṣṭanasundaraḥ | tadadhastāllalanmuktāmaṇipatravirājitaḥ
11
सितभस्मत्रिपुण्ट्राङ्ककुम्भमध्यविराजितः । सिन्धूरतिलकोत्फुल्लवदनानन्दशोभितः
sitabhasmatripuṇṭrāṅkakumbhamadhyavirājitaḥ | sindhūratilakotphullavadanānandaśobhitaḥ
12
मुक्तागुम्फितकर्णाग्रवीजितोड्डीनषट्पदः । स्रवत्कटतटोद्भासि मदगन्धितदिक्तटः
muktāgumphitakarṇāgravījitoḍḍīnaṣaṭpadaḥ | sravatkaṭataṭodbhāsi madagandhitadiktaṭaḥ
13
शिवपादाम्बुजध्यानानन्दोन्मीलितलोचनः । गणसन्दर्शनानन्दसदोन्मीलितलोचनः
śivapādāmbujadhyānānandonmīlitalocanaḥ | gaṇasandarśanānandasadonmīlitalocanaḥ
14
महानागनिबद्धोरुपिठरोदरसंयुतः । फुल्लपद्मामलपदस्सुरासुरगणानतः
mahānāganibaddhorupiṭharodarasaṃyutaḥ | phullapadmāmalapadassurāsuragaṇānataḥ
15
पाशाङ्कुशरदद्योतिमोदकासक्तसत्करः । रत्नाङ्गदैश्च केयूरैर्भ्राजत्करिकरप्रभः
pāśāṅkuśaradadyotimodakāsaktasatkaraḥ | ratnāṅgadaiśca keyūrairbhrājatkarikaraprabhaḥ
16
पादकॢप्तरणत्सिञ्जद्रत्नमञ्जीरशोभितः । दिव्याङ्गरागसुभगो मणिहाराम्बरावृतः
pādakḷptaraṇatsiñjadratnamañjīraśobhitaḥ | divyāṅgarāgasubhago maṇihārāmbarāvṛtaḥ
17
पार्श्वद्वयविराजच्छ्रीसिद्धिबुद्धिविराजितः । सर्वाभरणभूषाभ्यां सेवितः पार्श्वयोर्द्वयोः
pārśvadvayavirājacchrīsiddhibuddhivirājitaḥ | sarvābharaṇabhūṣābhyāṃ sevitaḥ pārśvayordvayoḥ
18
गणेन्द्रैश्छत्रदण्डोद्यन्मणिचामरसत्करैः । सेवितश्श्रीगणेशानस्तस्मिन्कैलासमण्टपे
gaṇendraiśchatradaṇḍodyanmaṇicāmarasatkaraiḥ | sevitaśśrīgaṇeśānastasminkailāsamaṇṭape
19
चलच्चामरवातैश्च चलत्कर्णाग्रचामराः । तादृशा गणपास्तत्र पाशाङ्कुशधरास्तथा
calaccāmaravātaiśca calatkarṇāgracāmarāḥ | tādṛśā gaṇapāstatra pāśāṅkuśadharāstathā
20
महाबला महोत्साहाः कुठारवरपाणयः । सिन्धूरारुणफालाग्रास्त्रिपुण्ट्रपरिशोभिताः
mahābalā mahotsāhāḥ kuṭhāravarapāṇayaḥ | sindhūrāruṇaphālāgrāstripuṇṭrapariśobhitāḥ
21
रक्षन्ति ते गणास्तत्र प्राकारं तच्च गोपुरम् । सप्तलक्षामितबला गणेशा गणपास्तथा
rakṣanti te gaṇāstatra prākāraṃ tacca gopuram | saptalakṣāmitabalā gaṇeśā gaṇapāstathā
22
तत्रैव देवदेवस्य शासनाच्चन्द्रमौलिनः । गणेशोऽपि सदा ध्यायन् गणेशेश्वरपूजकः
tatraiva devadevasya śāsanāccandramaulinaḥ | gaṇeśo'pi sadā dhyāyan gaṇeśeśvarapūjakaḥ
23
तत्रेष्टलिङ्गं तस्यैव वरप्राकारगोपुरम् । नवरत्नचितन्दिव्यं मणिस्तम्भचितान्तरम्
tatreṣṭaliṅgaṃ tasyaiva varaprākāragopuram | navaratnacitandivyaṃ maṇistambhacitāntaram
24
गणेश्वराख्यं तल्लिङ्गं मणिधामगतं तथा । प्रोद्यत्कुम्भपताकाग्रपवनाधूतसाञ्चलम्
gaṇeśvarākhyaṃ talliṅgaṃ maṇidhāmagataṃ tathā | prodyatkumbhapatākāgrapavanādhūtasāñcalam
25
स्वपुष्करधृतोत्तुङ्गकुम्भपञ्चामृतैरपि । सुधाधाराभिरासिच्य चन्दनालेपिसुन्दरम्
svapuṣkaradhṛtottuṅgakumbhapañcāmṛtairapi | sudhādhārābhirāsicya candanālepisundaram
26
फणामणिमहामौलिरत्नाभरणशोभितम् । सोऽद्यसम्पूजयत्येव बिल्वमन्दारचम्पकैः
phaṇāmaṇimahāmauliratnābharaṇaśobhitam | so'dyasampūjayatyeva bilvamandāracampakaiḥ
27
दूर्वाभिः कमलैरीशं धूपैर्दीपैर्मनोहरैः । नैवेद्यैर्विविधैश्चैव ताम्बूलैश्छत्रचामरैः
dūrvābhiḥ kamalairīśaṃ dhūpairdīpairmanoharaiḥ | naivedyairvividhaiścaiva tāmbūlaiśchatracāmaraiḥ
28
गानैर्नृत्यैर्मृदङ्गाब्जकाहलानाञ्च निस्वनैः । भस्मरुद्राक्षसम्पन्नस्स्तौति देवं महेश्वरम्
gānairnṛtyairmṛdaṅgābjakāhalānāñca nisvanaiḥ | bhasmarudrākṣasampannasstauti devaṃ maheśvaram
29
पृ0 105) गणेशः– गणेश त्रिगुणातीत भगणाधीशमस्तक । गर्जन्मेघगणोद्भूततटिद्गणजटामल
pṛ0 105) gaṇeśaḥ– gaṇeśa triguṇātīta bhagaṇādhīśamastaka | garjanmeghagaṇodbhūtataṭidgaṇajaṭāmala
30
व्योमकेश भगवन् श्रुतिमौलिस्तोमसामविनिताखिलसोम । भूमभौममहिमागमकाम धूमधामबहलद्युतिकण्ठ
vyomakeśa bhagavan śrutimaulistomasāmavinitākhilasoma | bhūmabhaumamahimāgamakāma dhūmadhāmabahaladyutikaṇṭha
31
क्षयद्वीरमारापहाराद्य शम्भो वीर धीर सुरशेखरपाद । घोरान्धकासुरनिबर्हण कालकाल क्रूरान्तर त्रिपुरगर्वहराव्ययेश
kṣayadvīramārāpahārādya śambho vīra dhīra suraśekharapāda | ghorāndhakāsuranibarhaṇa kālakāla krūrāntara tripuragarvaharāvyayeśa
32
दहरगहनशेखरोऽसि शम्भो निरवद्याखिललोकसौख्य भूमन् । त्रिगुणगतिविदूर दर्शिताद्य प्रकटितवेदवचोभिरीड्यपाद
daharagahanaśekharo'si śambho niravadyākhilalokasaukhya bhūman | triguṇagatividūra darśitādya prakaṭitavedavacobhirīḍyapāda
33
करे कुरङ्गं स्वकपर्दगङ्गं हारे भुजङ्गं यमिहृत्सुसङ्गम् । बालाकृताङ्गं सितभस्मसङ्गमनङ्गमातङ्गहरं भजामि
kare kuraṅgaṃ svakapardagaṅgaṃ hāre bhujaṅgaṃ yamihṛtsusaṅgam | bālākṛtāṅgaṃ sitabhasmasaṅgamanaṅgamātaṅgaharaṃ bhajāmi
34
स्कन्दः– इति स्तौति सदा शम्भुं कैलासेशगणेश्वरः । गणनाथो गणवृतस्सदाशिवगणाग्रणीः
skandaḥ– iti stauti sadā śambhuṃ kailāseśagaṇeśvaraḥ | gaṇanātho gaṇavṛtassadāśivagaṇāgraṇīḥ
35
तत्पाति गोपुरं शम्भोर्मणिप्राकारमप्यसौ । स्वकीयैर्गणपैस्सार्धं चन्द्रचूडस्यशासनात्
tatpāti gopuraṃ śambhormaṇiprākāramapyasau | svakīyairgaṇapaissārdhaṃ candracūḍasyaśāsanāt
36
हरिन्मणिकृतं वरं हरितगोपुरं पश्चिमे विराजिततलाङ्कणैर्वृषललामशृङ्गप्रभैः । गरुन्मणिवरप्रभं विततरत्नसौधोत्तमं वरप्रवरसुन्दरप्रकटवप्रप्राकारकम्
harinmaṇikṛtaṃ varaṃ haritagopuraṃ paścime virājitatalāṅkaṇairvṛṣalalāmaśṛṅgaprabhaiḥ | garunmaṇivaraprabhaṃ vitataratnasaudhottamaṃ varapravarasundaraprakaṭavapraprākārakam
37
स्वबाहुबलमाश्रितो द्विरदवक्त्रजैस्सद्गणैः प्रपाति गणनायकश्शिवपदाब्जसंसेवकः
svabāhubalamāśrito dviradavaktrajaissadgaṇaiḥ prapāti gaṇanāyakaśśivapadābjasaṃsevakaḥ
śrīśivarahasye prathamāṃśe kailāsavarṇane vṛṣastutirnāma pañcaviṃśo'dhyāyaḥ 25
1
पृ0 106) कैलासवर्णने वृषस्तुतिर्नाम पञ्चविंशोऽध्यायः स्कन्दः– कैलासान्तरतः प्राच्यां पुष्परागविनिर्मितम् । पञ्चलक्षप्रमाणेन प्राकारवरगोपुरम्
pṛ0 106) kailāsavarṇane vṛṣastutirnāma pañcaviṃśo'dhyāyaḥ skandaḥ– kailāsāntarataḥ prācyāṃ puṣparāgavinirmitam | pañcalakṣapramāṇena prākāravaragopuram
2
उद्यद्भानुशताधिक्यचाकचक्यमनोहरम् । पुष्परागमणिप्रोद्यद्वृषभैस्समधिष्ठितम्
udyadbhānuśatādhikyacākacakyamanoharam | puṣparāgamaṇiprodyadvṛṣabhaissamadhiṣṭhitam
3
प्राकारं लक्षमानेन मनसा शूलिना कृतम् । रुद्रावतारचरितैर्वेदिकापट्टिकान्वितम्
prākāraṃ lakṣamānena manasā śūlinā kṛtam | rudrāvatāracaritairvedikāpaṭṭikānvitam
4
राजद्वृषभकुम्भाग्रदोधूयितपताककम् । पुष्परागमणिज्योतितिरस्कृतशशिद्युति
rājadvṛṣabhakumbhāgradodhūyitapatākakam | puṣparāgamaṇijyotitiraskṛtaśaśidyuti
5
तत्रैवान्तर्महारत्नगर्भमण्टपमुत्तमम् । स्तम्भैश्च दशसाहस्रैस्समुन्नतिमनोहरम्
tatraivāntarmahāratnagarbhamaṇṭapamuttamam | stambhaiśca daśasāhasraissamunnatimanoharam
6
शिखाभिर्मणिकॢप्ताभिर्वलिभिश्चुम्बिताम्बरम् । नानारत्नमहावेदिपीठविद्रुमपुत्रिकैः
śikhābhirmaṇikḷptābhirvalibhiścumbitāmbaram | nānāratnamahāvedipīṭhavidrumaputrikaiḥ
7
शोभितं रत्नगुच्छाच्छ मालालम्बितपीठकम् । तत्र सिह्मासने दिव्ये नवरत्नगणैश्चिते
śobhitaṃ ratnagucchāccha mālālambitapīṭhakam | tatra sihmāsane divye navaratnagaṇaiścite
8
धूपदीपादिबहुले मुक्तामालापरिष्कृते । वितानद्योतिदिक्चक्रे नानारुद्रगणैर्युते
dhūpadīpādibahule muktāmālāpariṣkṛte | vitānadyotidikcakre nānārudragaṇairyute
9
षष्टिसाहस्रसङ्ख्याकैरहिमन्युभिरुद्धते । त्रिपुण्ट्रविलसत्फालै रुद्राक्षवरभूषणैः
ṣaṣṭisāhasrasaṅkhyākairahimanyubhiruddhate | tripuṇṭravilasatphālai rudrākṣavarabhūṣaṇaiḥ
10
त्रिशूलोद्यत्करैश्शुभ्रैर्हेतिचापशरावृतैः । जटातटनिबद्धेन्दुशेखरैरिन्दुसप्रभैः
triśūlodyatkaraiśśubhrairheticāpaśarāvṛtaiḥ | jaṭātaṭanibaddhenduśekharairindusaprabhaiḥ
11
समन्तात्सेवितो नित्यं वृषो धर्माकृतिर्महान् । धर्माधारमहापादो युगनाभोरुपादकः
samantātsevito nityaṃ vṛṣo dharmākṛtirmahān | dharmādhāramahāpādo yuganābhorupādakaḥ
12
सन्ध्यांशसुखुरोद्दामवर्णाश्रमकृताङ्घ्रिकः । मणिमञ्जीरनिनदनानाधर्मैकशब्दवान्
sandhyāṃśasukhuroddāmavarṇāśramakṛtāṅghrikaḥ | maṇimañjīraninadanānādharmaikaśabdavān
13
चतुर्वेदोपवेदोद्यद्वेदान्तिमतदन्तकः । पुराणन्यायमीमांसाद्वयतन्त्रोरुघण्टकः
caturvedopavedodyadvedāntimatadantakaḥ | purāṇanyāyamīmāṃsādvayatantrorughaṇṭakaḥ
14
पूर्वसिद्धान्तराद्धान्ततत्वशब्दघणाघणः । ग्रैवेयशोभितोदारघण्टाकलितकन्धरः
pūrvasiddhāntarāddhāntatatvaśabdaghaṇāghaṇaḥ | graiveyaśobhitodāraghaṇṭākalitakandharaḥ
15
कैलासो जङ्गम इव शृङ्गद्वयविभूषितः । सुधामण्डलजोत्तुङ्गसुपाण्डरमहाछविः
kailāso jaṅgama iva śṛṅgadvayavibhūṣitaḥ | sudhāmaṇḍalajottuṅgasupāṇḍaramahāchaviḥ
16
संस्थितो देवदेवस्य सन्निधौ नन्दिकेश्वरः । पञ्चलक्षप्रमाणेन गणैः कर्पूरसन्निभैः
saṃsthito devadevasya sannidhau nandikeśvaraḥ | pañcalakṣapramāṇena gaṇaiḥ karpūrasannibhaiḥ
17
उद्यत्सुधांशुपूर्णाङ्गो लक्षयोजनपृष्टभूः । ककुदा दशसाहस्रयोजनोन्नतवृत्तया
udyatsudhāṃśupūrṇāṅgo lakṣayojanapṛṣṭabhūḥ | kakudā daśasāhasrayojanonnatavṛttayā
18
मुखेन त्रिंशत्साहस्रं नेत्रयोर्द्विसहस्रकम् । कर्णयोः पञ्चसाहस्रं विषाणे च सहस्रकम्
mukhena triṃśatsāhasraṃ netrayordvisahasrakam | karṇayoḥ pañcasāhasraṃ viṣāṇe ca sahasrakam
19
नासाविवरमुक्ताच्छनासापञ्चसहस्रकम् । सहस्रयोजनायामलेलिहानाग्रजिह्वकम्
nāsāvivaramuktācchanāsāpañcasahasrakam | sahasrayojanāyāmalelihānāgrajihvakam
20
पश्यन्ननिमिषेणैव लोचनाभ्यां महेश्वरम् । स्वपृष्टास्तृतरत्नाच्छपल्यङ्कालम्बिमौक्तिकम्
paśyannanimiṣeṇaiva locanābhyāṃ maheśvaram | svapṛṣṭāstṛtaratnācchapalyaṅkālambimauktikam
21
स्वनासाविवरोत्थानवातोद्धूत महागिरिम् । तद्वातोद्धूतवेलाश्च चोद्यतोद्यत्तरङ्गकाः
svanāsāvivarotthānavātoddhūta mahāgirim | tadvātoddhūtavelāśca codyatodyattaraṅgakāḥ
22
पृ0 107) समुद्रास्सरितश्चैव तच्चलत्खुरदारिता । भूर्भाति कम्पिता शैलैस्सागरैश्च विलोलिता
pṛ0 107) samudrāssaritaścaiva taccalatkhuradāritā | bhūrbhāti kampitā śailaissāgaraiśca vilolitā
23
शृङ्गकोटिमणिभ्राजिमुकुटेन विराजितम् । कर्णालम्बिशशिज्योतिधवलालम्बिचामरम्
śṛṅgakoṭimaṇibhrājimukuṭena virājitam | karṇālambiśaśijyotidhavalālambicāmaram
24
पञ्चाशल्लक्षमानेन पदैः खुरवरैर्युतम् । दशसाहस्रविस्तारैरिन्द्रनीलमणिप्रभैः
pañcāśallakṣamānena padaiḥ khuravarairyutam | daśasāhasravistārairindranīlamaṇiprabhaiḥ
25
खुराघृष्टगिरिव्रातं नादमोदितकन्दरम् । सास्नया लम्बितास्वच्छपञ्चसाहस्रयोजनम्
khurāghṛṣṭagirivrātaṃ nādamoditakandaram | sāsnayā lambitāsvacchapañcasāhasrayojanam
26
हुम्फारवमहाभीत त्रैलोक्यतलवासिनम् । कामधेनुगणैश्चैव कोटिभिः परितोवृतम्
humphāravamahābhīta trailokyatalavāsinam | kāmadhenugaṇaiścaiva koṭibhiḥ paritovṛtam
27
शरच्चन्द्रप्रभाभास्वद्गिरिमौलिविदारणम् । लम्बिना वृषणेनापि शतयोजनकेन च
śaraccandraprabhābhāsvadgirimaulividāraṇam | lambinā vṛṣaṇenāpi śatayojanakena ca
28
वालेन त्रिंशत्साहस्रयोजनेन विलम्बिना । चामराग्रमहाकेशपुच्छभारेण शोभितः
vālena triṃśatsāhasrayojanena vilambinā | cāmarāgramahākeśapucchabhāreṇa śobhitaḥ
29
मुक्तामाणिक्यजालैश्च प्रोत्थितेन मणिप्रभः । तत्रास्ति गोपुरं शम्भोर्धामतत्र वृषेशितुः
muktāmāṇikyajālaiśca protthitena maṇiprabhaḥ | tatrāsti gopuraṃ śambhordhāmatatra vṛṣeśituḥ
30
प्राकारराजद्वृषभं तस्येष्टं लिङ्गमैश्वरम् । कामधेनूधसोद्भूतैः पयोभिरभिषिच्य च
prākārarājadvṛṣabhaṃ tasyeṣṭaṃ liṅgamaiśvaram | kāmadhenūdhasodbhūtaiḥ payobhirabhiṣicya ca
31
गन्धैर्बिल्वैश्च मन्दारैः पङ्कजैर्धूपदीपकैः । नैवेद्यैः पायसापूपताम्बूलछत्रचामरैः
gandhairbilvaiśca mandāraiḥ paṅkajairdhūpadīpakaiḥ | naivedyaiḥ pāyasāpūpatāmbūlachatracāmaraiḥ
32
सम्पूज्यस्तौतिधर्मेशं भस्मरुद्राक्षभूषितैः । मुक्तात्रिपुण्ट्रफालाङ्को शशिधृक्छृङ्गयोर्द्वयोः
sampūjyastautidharmeśaṃ bhasmarudrākṣabhūṣitaiḥ | muktātripuṇṭraphālāṅko śaśidhṛkchṛṅgayordvayoḥ
33
पश्यन्त्संस्तौति हृष्टात्मा नादकीलितदिक्तटः
paśyantsaṃstauti hṛṣṭātmā nādakīlitadiktaṭaḥ
34
धर्मः– दक्षपक्षकृतशिक्ष महोक्षोद्वाहिताक्षितिलकासुरवीक्ष । कुक्षिगाखिलजगद्गतधाक्षिः पक्षिवाहसुतकायविलक्षम्
dharmaḥ– dakṣapakṣakṛtaśikṣa mahokṣodvāhitākṣitilakāsuravīkṣa | kukṣigākhilajagadgatadhākṣiḥ pakṣivāhasutakāyavilakṣam
35
भूमिमण्डलतलातिगमूलं कोलरूपहरिणा न विलोकि । अब्जजाण्डजगती विवदेते पादमौलिकलने तव शम्भो
bhūmimaṇḍalatalātigamūlaṃ kolarūpahariṇā na viloki | abjajāṇḍajagatī vivadete pādamaulikalane tava śambho
36
सिन्धूनिषङ्गं वृषभं तुरङ्गं महाङ्गचर्माम्बरमुद्यताङ्गम् । इन्दूत्तमाङ्गं हरये रथाङ्गं भूते महोक्षाङ्गगतं हृदक्षगम्
sindhūniṣaṅgaṃ vṛṣabhaṃ turaṅgaṃ mahāṅgacarmāmbaramudyatāṅgam | indūttamāṅgaṃ haraye rathāṅgaṃ bhūte mahokṣāṅgagataṃ hṛdakṣagam
37
स्कन्दः– इत्थं स्तौति महादेवं धर्मो वृषवपुर्धरः । स एव धर्मो देवेशं वहत्यत्यन्तभासुरः
skandaḥ– itthaṃ stauti mahādevaṃ dharmo vṛṣavapurdharaḥ | sa eva dharmo deveśaṃ vahatyatyantabhāsuraḥ
38
प्राच्यां तद्गोपुरवरं प्राकारगणपैर्वृतः । पाति तद्देवदेवस्य स्मरहन्तुश्च शासनात्
prācyāṃ tadgopuravaraṃ prākāragaṇapairvṛtaḥ | pāti taddevadevasya smarahantuśca śāsanāt
39
श्रीमत्कैलासशृङ्गे शिववरगणपैस्सिन्धुरास्यानुगैश्च कौमारैर्गणपैर्वृषेन्द्रगणपै रुद्रैस्समन्ताद्वृतम् । पृ0 108) निखिलजगदधीन्द्रैर्विष्णुना देवसङ्घैश्श्रुतिगणमुनिवर्यैश्चिन्तितुं चाक्षमन्तत्
śrīmatkailāsaśṛṅge śivavaragaṇapaissindhurāsyānugaiśca kaumārairgaṇapairvṛṣendragaṇapai rudraissamantādvṛtam | pṛ0 108) nikhilajagadadhīndrairviṣṇunā devasaṅghaiśśrutigaṇamunivaryaiścintituṃ cākṣamantat
śrīśivarahasye prathamāṃśe kailāsavarṇane devīprastāvavarṇanannāma ṣaḍviṃśo'dhyāyaḥ 26
1
कैलासवर्णने देवीप्रस्ताववर्णनं नाम षड्विंशोऽध्यायः स्कन्दः– तदुत्तरेऽस्ति प्राकारो वैडूर्यमणिरञ्जितः । वैडूर्यानन्तसूत्रैश्च पीतास्तत्रस्थदिक्तटाः
kailāsavarṇane devīprastāvavarṇanaṃ nāma ṣaḍviṃśo'dhyāyaḥ skandaḥ– taduttare'sti prākāro vaiḍūryamaṇirañjitaḥ | vaiḍūryānantasūtraiśca pītāstatrasthadiktaṭāḥ
2
तत्र गोपुरमुत्तुङ्गं वैडूर्यमणिशोभितम् । आपीठशिखरप्रोतरुद्रचारित्रशोभितम्
tatra gopuramuttuṅgaṃ vaiḍūryamaṇiśobhitam | āpīṭhaśikharaprotarudracāritraśobhitam
3
पञ्चलक्षप्रमाणेन महावैडूर्यसद्वृषम् । पट्टिकादेवकोष्ठैश्च कापोतैः पालिपालिकैः
pañcalakṣapramāṇena mahāvaiḍūryasadvṛṣam | paṭṭikādevakoṣṭhaiśca kāpotaiḥ pālipālikaiḥ
4
मणिकुम्भोल्लसच्छुभ्रं तत्तु पञ्चशताञ्चितम् । नवलक्षं रुद्रगणाश्शम्भोरुद्यतरास्त्रकाः
maṇikumbhollasacchubhraṃ tattu pañcaśatāñcitam | navalakṣaṃ rudragaṇāśśambhorudyatarāstrakāḥ
5
त्रिपुण्ट्रविलसत्फालाः कपर्दधृतचन्द्रकाः । मत्तमातङ्गसङ्काशा युवानो मृष्टकुण्डलाः
tripuṇṭravilasatphālāḥ kapardadhṛtacandrakāḥ | mattamātaṅgasaṅkāśā yuvāno mṛṣṭakuṇḍalāḥ
6
रक्षन्ति परितस्तच्च प्राकारं वरगोपुरम् । तस्यान्तरे हि सुमहन्नानामणिगणाञ्चितम्
rakṣanti paritastacca prākāraṃ varagopuram | tasyāntare hi sumahannānāmaṇigaṇāñcitam
7
देव्यास्तु भवनं श्रीमत्सौधपंक्तिविभूषितम् । रम्यमाणिक्यखचितस्तम्भापारसहस्रकैः
devyāstu bhavanaṃ śrīmatsaudhapaṃktivibhūṣitam | ramyamāṇikyakhacitastambhāpārasahasrakaiḥ
8
हीरसारमहाधारैः पुष्यरागाङ्गनीलकैः । वैडूर्यकैश्च गोमेदैर्मुक्ताविद्रुमकल्पितैः
hīrasāramahādhāraiḥ puṣyarāgāṅganīlakaiḥ | vaiḍūryakaiśca gomedairmuktāvidrumakalpitaiḥ
9
पुष्परागमणीकॢप्तैर्गोमेदवलभीयुतैः । हरिन्मणिवरोद्भूतैर्मुक्तामणिसरोज्वलैः
puṣparāgamaṇīkḷptairgomedavalabhīyutaiḥ | harinmaṇivarodbhūtairmuktāmaṇisarojvalaiḥ
10
सुप्रवाललतास्तम्भैः कुरुविन्दोरुवेदिकैः । तत्र प्राकारमस्त्येकं चन्द्रकान्तशिलान्वितम्
supravālalatāstambhaiḥ kuruvindoruvedikaiḥ | tatra prākāramastyekaṃ candrakāntaśilānvitam
11
विंशत्सहस्रमानेन योजनेन प्रकल्पितम् । चतुर्द्वारपरीकॢप्तमहागोपुरवेदिकैः
viṃśatsahasramānena yojanena prakalpitam | caturdvāraparīkḷptamahāgopuravedikaiḥ
12
रत्नहीरकगोमेदपुष्परागविनिर्मितैः । बालप्रभाकराकारैर्मणिशृङ्गविराजितैः
ratnahīrakagomedapuṣparāgavinirmitaiḥ | bālaprabhākarākārairmaṇiśṛṅgavirājitaiḥ
13
देवीक्रीडारसैस्सिह्मैः पर्यन्तावलिशोभितैः । शरच्चन्द्रसमाकारैस्स्फटिकोत्तमरञ्जितैः
devīkrīḍārasaissihmaiḥ paryantāvaliśobhitaiḥ | śaraccandrasamākāraissphaṭikottamarañjitaiḥ
14
विकृतास्यललज्जिह्वैस्सटाशोभितकन्धरैः । तत्रान्तर्भवनं देव्या दशसाहस्रकल्पितम्
vikṛtāsyalalajjihvaissaṭāśobhitakandharaiḥ | tatrāntarbhavanaṃ devyā daśasāhasrakalpitam
15
योजनानाञ्च परितो नवरत्नविचित्रितम् । उद्यदिन्दुकरप्रख्यं नानाशिल्पैकसुन्दरम्
yojanānāñca parito navaratnavicitritam | udyadindukaraprakhyaṃ nānāśilpaikasundaram
16
तत्र देव्या महापीठं कोटिभास्करसन्निभम् । हीरतारागणाकारप्रभावलिविराजितम्
tatra devyā mahāpīṭhaṃ koṭibhāskarasannibham | hīratārāgaṇākāraprabhāvalivirājitam
17
नवरत्नमहासौधमध्यगा श्रीमहेश्वरी । कमलामोदबहुलपर्यन्तसरसोज्वला
navaratnamahāsaudhamadhyagā śrīmaheśvarī | kamalāmodabahulaparyantasarasojvalā
18
पृ0 109) सौधमध्यमणीकॢप्तसिह्मासनवराश्रया । हरिन्मणिमहामञ्चदरान्दोलितविग्रहा
pṛ0 109) saudhamadhyamaṇīkḷptasihmāsanavarāśrayā | harinmaṇimahāmañcadarāndolitavigrahā
19
हल्लीसल्लास्यललितयोगिनीगणसेविता । कदाचित्सा महादेवी प्रवालवरपीठगा
hallīsallāsyalalitayoginīgaṇasevitā | kadācitsā mahādevī pravālavarapīṭhagā
20
प्रवालवरपीठस्थरत्नपीठवराश्रया । माणिक्यसौधमध्यस्था भूषिता चारुभूषणैः
pravālavarapīṭhastharatnapīṭhavarāśrayā | māṇikyasaudhamadhyasthā bhūṣitā cārubhūṣaṇaiḥ
21
कदाचित्पुष्परागोत्थ सौधमध्यैकवासिनी । नीलकन्तुकभूताच्छरविसोमजकन्तुका
kadācitpuṣparāgottha saudhamadhyaikavāsinī | nīlakantukabhūtāccharavisomajakantukā
22
हननाच्च तयोरूर्ध्वाधोगतैस्सततं द्विज । उदेति सूर्यश्चन्द्रश्चाप्यस्तमेत्यप्युदेत्यपि
hananācca tayorūrdhvādhogataissatataṃ dvija | udeti sūryaścandraścāpyastametyapyudetyapi
23
करतालेन देव्यास्तु तस्मिन्त्सौधवराग्रतः । रत्नसौधतलोद्दामजालकान्तरसञ्चरा
karatālena devyāstu tasmintsaudhavarāgrataḥ | ratnasaudhataloddāmajālakāntarasañcarā
24
सुधाकरकरास्फारप्रासादवरकौतुका । पुष्पवाटीपरिवृतरत्नसौधवराश्रया
sudhākarakarāsphāraprāsādavarakautukā | puṣpavāṭīparivṛtaratnasaudhavarāśrayā
25
कुमारागारमध्यस्था कदाचिद्वरदा शिवा । पुष्पमञ्चकमध्यस्था पुष्परागगृहान्तरे
kumārāgāramadhyasthā kadācidvaradā śivā | puṣpamañcakamadhyasthā puṣparāgagṛhāntare
26
रत्नवीटीकरा भास्वद्रत्नकङ्कणभूषिता । कदम्बवनमध्यस्थहीरसौधवराश्रया
ratnavīṭīkarā bhāsvadratnakaṅkaṇabhūṣitā | kadambavanamadhyasthahīrasaudhavarāśrayā
27
लीलालालितरत्नाच्छकीरवीरकरा शिवा । शारिकाव्यक्तकगिरा तुष्टा नीलजसौधगा
līlālālitaratnācchakīravīrakarā śivā | śārikāvyaktakagirā tuṣṭā nīlajasaudhagā
28
सुदीपितमहानीलकबरभ्रान्तिमस्तका । वरभूषणभूषाढ्या रणच्छिञ्जानपादुका
sudīpitamahānīlakabarabhrāntimastakā | varabhūṣaṇabhūṣāḍhyā raṇacchiñjānapādukā
29
रत्नपात्रस्थितानेकफलालोकनतत्परा । पुष्पगुच्छमहाहाराप्यापीडामोदहस्तका
ratnapātrasthitānekaphalālokanatatparā | puṣpagucchamahāhārāpyāpīḍāmodahastakā
30
सुधामुखरितामोद रत्नपात्रकरा क्वचित् । मुकुटोद्दामचन्द्रांशुरश्मिसारालका शिवा
sudhāmukharitāmoda ratnapātrakarā kvacit | mukuṭoddāmacandrāṃśuraśmisārālakā śivā
31
सुरत्नकन्तुकास्राविकेशपाशा मनोहरा । योगिनीदर्शितानेकरत्नादर्शविलोकिनी
suratnakantukāsrāvikeśapāśā manoharā | yoginīdarśitānekaratnādarśavilokinī
32
चन्द्रकान्तशिलाजालसौधमध्यनिवासिनी । नयनाञ्जनकाकॢप्तरत्नभ्राजच्छलाकिका
candrakāntaśilājālasaudhamadhyanivāsinī | nayanāñjanakākḷptaratnabhrājacchalākikā
33
करमुद्राविनिर्यच्छ्रीर्नखकाञ्चितमुद्रिका । हीरभ्राजितला रक्तछविका पदभासुरा
karamudrāviniryacchrīrnakhakāñcitamudrikā | hīrabhrājitalā raktachavikā padabhāsurā
34
नीलवेणीचितानेकरत्नसेवन्तिकाततिः । महार्हहेमखचितवसनाञ्चलमौक्तिका
nīlaveṇīcitānekaratnasevantikātatiḥ | mahārhahemakhacitavasanāñcalamauktikā
35
परिधत्तेऽम्शुकं देवी मणिभ्राजिगृहान्तरम् । धूपधूमपरिष्कारगन्धबन्धैकसुन्दरम्
paridhatte'mśukaṃ devī maṇibhrājigṛhāntaram | dhūpadhūmapariṣkāragandhabandhaikasundaram
36
मणिहर्म्यान्तरे पीठे सुमनोगुच्छभासुरे । रत्नांशुदीपकोद्दामप्रभाभासितदिक्तटे
maṇiharmyāntare pīṭhe sumanogucchabhāsure | ratnāṃśudīpakoddāmaprabhābhāsitadiktaṭe
37
संस्थिता दर्शितानेकरुद्राणीवदनाम्बुजे । सुचन्दनद्रवासारवराङ्किततनुछविः
saṃsthitā darśitānekarudrāṇīvadanāmbuje | sucandanadravāsāravarāṅkitatanuchaviḥ
38
सुरमन्दारपुन्नागकेतकोद्भासिशेखरा । चम्पकाशोकदमनोशीरकण्टसुपाटलैः
suramandārapunnāgaketakodbhāsiśekharā | campakāśokadamanośīrakaṇṭasupāṭalaiḥ
39
मल्लिकामालतीजातिधम्मिल्लभरशोभिता । कस्तूरीचन्द्रगन्धाक्तपटवासैकसुन्दरा
mallikāmālatījātidhammillabharaśobhitā | kastūrīcandragandhāktapaṭavāsaikasundarā
40
मृगनाभिसुगन्धोद्यत्कुचान्तरितभासुरा । निचोलग्रन्थितोद्दामभुजावलिविराजिता
mṛganābhisugandhodyatkucāntaritabhāsurā | nicolagranthitoddāmabhujāvalivirājitā
41
रुद्राणीकरसिन्धूरकृतसीमन्तरेखिका । सुरत्नतिलकभ्राजिसोमधामसमानना
rudrāṇīkarasindhūrakṛtasīmantarekhikā | suratnatilakabhrājisomadhāmasamānanā
42
पृ0 110) हस्ताङ्गुलीयविलसत्प्रभाभूषिततिक्ततिः । वैडूर्यसौधमध्यस्था रुद्राणीनृत्तदर्शिनी
pṛ0 110) hastāṅgulīyavilasatprabhābhūṣitatiktatiḥ | vaiḍūryasaudhamadhyasthā rudrāṇīnṛttadarśinī
43
नीलरत्नकृतालाबुमणिसारिजहीरकैः । ऊर्ध्वबद्धमहातन्त्री वीणावाद्यादरा क्वचित्
nīlaratnakṛtālābumaṇisārijahīrakaiḥ | ūrdhvabaddhamahātantrī vīṇāvādyādarā kvacit
44
गायन्ती मधुरोदारं शिवनामैव सुन्दरम् । शरच्चन्द्राच्छनिकरचामरैर्वीजिता क्वचित्
gāyantī madhurodāraṃ śivanāmaiva sundaram | śaraccandrācchanikaracāmarairvījitā kvacit
45
मायूरैर्मणिदण्डैश्च व्यजनैर्वीजिता शिवा । पर्वोत्थशर्वरीनाथ तिरस्कारिमणीसरैः
māyūrairmaṇidaṇḍaiśca vyajanairvījitā śivā | parvotthaśarvarīnātha tiraskārimaṇīsaraiḥ
46
भ्राजच्छत्रावृतमुखा ताम्बूलरसमोदिता । वीटिकालग्नसुकरा पश्यंश्चित्रपटं स्थिता
bhrājacchatrāvṛtamukhā tāmbūlarasamoditā | vīṭikālagnasukarā paśyaṃścitrapaṭaṃ sthitā
47
सदाशिवस्य तद्रूपं लिखितं लेखकेशितुः । विद्रुमाभरदछादिबिम्बाकारसुशोभिता
sadāśivasya tadrūpaṃ likhitaṃ lekhakeśituḥ | vidrumābharadachādibimbākārasuśobhitā
48
रत्नग्रैवेयचिन्ताकलोलमुक्तांशुसप्रभा । क्वणत्किङ्कणिकाभास्वद्रत्नहस्तसरैर्युता
ratnagraiveyacintākalolamuktāṃśusaprabhā | kvaṇatkiṅkaṇikābhāsvadratnahastasarairyutā
49
तपनोडुपविभ्राजिताटङ्कयुगलाधृतिः । उद्यत्कविनिभात्यच्छमुक्तानासावृतास्यका
tapanoḍupavibhrājitāṭaṅkayugalādhṛtiḥ | udyatkavinibhātyacchamuktānāsāvṛtāsyakā
50
रत्नगङ्गामहासारधारागृहवराश्रया । कटीतटनिबद्धाच्छरत्नकाञ्चीविराजिता
ratnagaṅgāmahāsāradhārāgṛhavarāśrayā | kaṭītaṭanibaddhāccharatnakāñcīvirājitā
51
प्रभापतङ्कजोद्दाममणिमञ्जीरभासुरा । रणच्छिञ्जानमधुरहंसारावैकसुन्दरा
prabhāpataṅkajoddāmamaṇimañjīrabhāsurā | raṇacchiñjānamadhurahaṃsārāvaikasundarā
52
मरालराजगमना दिव्यहारावृताङ्गका । बङ्किकानागबन्धोद्यद्बाहुवल्लीविराजिता
marālarājagamanā divyahārāvṛtāṅgakā | baṅkikānāgabandhodyadbāhuvallīvirājitā
53
कूर्पराग्रललन्मुक्तागुच्छसञ्छादितछविः । फाललम्बितरत्नालिललामावलिशोभिता
kūrparāgralalanmuktāgucchasañchāditachaviḥ | phālalambitaratnālilalāmāvaliśobhitā
54
सूर्यचन्द्राङ्कितोदारशिरोभूषणभूषिता । योगिनीकोटिभिस्तत्र सेविता परमेश्वरी
sūryacandrāṅkitodāraśirobhūṣaṇabhūṣitā | yoginīkoṭibhistatra sevitā parameśvarī
55
हरिन्मणिमहासौधे मुदिता संस्थिता शिवा । दिव्योपधानसंकॢप्तमणिमञ्चे कृतास्तृते
harinmaṇimahāsaudhe muditā saṃsthitā śivā | divyopadhānasaṃkḷptamaṇimañce kṛtāstṛte
56
धूपामोदितदिक्चक्रे मणिदीपमनोहरे । वितानालम्बिमुक्तोद्यद्गुच्छसञ्छादिताम्बरे
dhūpāmoditadikcakre maṇidīpamanohare | vitānālambimuktodyadgucchasañchāditāmbare
57
पादबाहूपधानेषु स्वास्तृतेऽविहरच्छिवा । रुद्राणीगानधाराभिर्वीणानादानुगा शिवा
pādabāhūpadhāneṣu svāstṛte'viharacchivā | rudrāṇīgānadhārābhirvīṇānādānugā śivā
58
शृण्वन्ती शिवनामानि संस्थिता वैद्रुमे गृहे । सुवर्णकदलीगुच्छहरिन्मणिनिभैर्द्रुमैः
śṛṇvantī śivanāmāni saṃsthitā vaidrume gṛhe | suvarṇakadalīgucchaharinmaṇinibhairdrumaiḥ
59
तन्मध्ये स्फाटिकमणीकृतसौधवराश्रया । तमालसालनीपादिवृतसौधे गरुत्मतः
tanmadhye sphāṭikamaṇīkṛtasaudhavarāśrayā | tamālasālanīpādivṛtasaudhe garutmataḥ
60
मणिकॢप्ते महापीठे संस्थिता मुग्धदर्शना । लावकानां मयूराणां कुक्कुटानां मनोहरम्
maṇikḷpte mahāpīṭhe saṃsthitā mugdhadarśanā | lāvakānāṃ mayūrāṇāṃ kukkuṭānāṃ manoharam
61
मेषसारङ्गशृङ्गोद्यत्स्फारनाराविदिक्तटम् । रम्यं रत्नाब्जिनीतीरं बद्धैर्दिक्षु मणीन्द्रकैः
meṣasāraṅgaśṛṅgodyatsphāranārāvidiktaṭam | ramyaṃ ratnābjinītīraṃ baddhairdikṣu maṇīndrakaiḥ
62
सोपानतीरसंकॢप्तमणिसुन्दरमण्टपे । रत्नपञ्जरमध्यस्थान्रत्नशारीशुकाञ्छिवा
sopānatīrasaṃkḷptamaṇisundaramaṇṭape | ratnapañjaramadhyasthānratnaśārīśukāñchivā
63
पश्यन्ती दाडिमीबीजं ददाति शुकवक्त्रके । पूगद्रुवेष्टितापारद्राक्षावल्लीसुगुच्छके
paśyantī dāḍimībījaṃ dadāti śukavaktrake | pūgadruveṣṭitāpāradrākṣāvallīsugucchake
64
सन्ध्यावल्लीसुमारक्तचन्द्रिकापुष्पशोभिते । पर्यन्तकुल्यातीराच्छमणिबन्धसुधापयः
sandhyāvallīsumāraktacandrikāpuṣpaśobhite | paryantakulyātīrācchamaṇibandhasudhāpayaḥ
65
पयोजविकसत्फुल्लहल्लकामोदमोदिते । धारासारमहायन्त्रशोभिते गन्धमोदिते
payojavikasatphullahallakāmodamodite | dhārāsāramahāyantraśobhite gandhamodite
66
पूगद्रुमौलिसञ्छादिमणिहर्म्योरुमञ्चगा । क्रीडाशिखण्डिविहितताण्डवं पश्यती शिवा
pūgadrumaulisañchādimaṇiharmyorumañcagā | krīḍāśikhaṇḍivihitatāṇḍavaṃ paśyatī śivā
67
पृ0 111) महामणीन्द्रसंकॢप्तसौधैरुपरिकल्पिते । नानाचित्रपटीकॢप्तपटाम्बरगृहादरा
pṛ0 111) mahāmaṇīndrasaṃkḷptasaudhairuparikalpite | nānācitrapaṭīkḷptapaṭāmbaragṛhādarā
68
तिरस्करणिकाकॢप्तचतुर्दिक्षु मनोहरे । मणिकुम्भोद्यते देवी मणिस्तम्भविभूषिते
tiraskaraṇikākḷptacaturdikṣu manohare | maṇikumbhodyate devī maṇistambhavibhūṣite
69
सखीभिस्सह सल्लापं कुर्वन्ती संस्थिता क्वचित् । रथाकारमहासौधैर्मणिचक्रैर्हयैस्तथा
sakhībhissaha sallāpaṃ kurvantī saṃsthitā kvacit | rathākāramahāsaudhairmaṇicakrairhayaistathā
70
पर्यन्तिव तत्सौधे सिह्महंसविराजिते । तत्रैवान्तर्गृहे देव्याः क्रीडाभवनमीशितुः
paryantiva tatsaudhe sihmahaṃsavirājite | tatraivāntargṛhe devyāḥ krīḍābhavanamīśituḥ
71
श्रीचक्राकारमतुलं तन्मणीन्द्रमनोहरम् । सहस्रयोजनायामं मणिचित्रगवाक्षकैः
śrīcakrākāramatulaṃ tanmaṇīndramanoharam | sahasrayojanāyāmaṃ maṇicitragavākṣakaiḥ
72
हंसपद्ममहाव्यालिपालीचित्रैर्विचित्रिते । मणिस्तम्भमहासारधारारञ्जितभूतलैः
haṃsapadmamahāvyālipālīcitrairvicitrite | maṇistambhamahāsāradhārārañjitabhūtalaiḥ
73
वितानमालाकलितैर्मुक्तागुच्छालिलम्बितैः । मणिमञ्चैर्महापादैर्लम्बिताधस्थितैरपि
vitānamālākalitairmuktāgucchālilambitaiḥ | maṇimañcairmahāpādairlambitādhasthitairapi
74
तेषूद्यता महाशय्यास्सोपधानमनोहराः । चन्द्रमण्डलसङ्काशाः फेनगोक्षीरसप्रभाः
teṣūdyatā mahāśayyāssopadhānamanoharāḥ | candramaṇḍalasaṅkāśāḥ phenagokṣīrasaprabhāḥ
75
सुमामोदितगन्धाढ्या मल्लिकापुष्पसंस्तृताः । भ्रमद्दीपगृहभ्राजन्मणिचित्रविभूषिताः
sumāmoditagandhāḍhyā mallikāpuṣpasaṃstṛtāḥ | bhramaddīpagṛhabhrājanmaṇicitravibhūṣitāḥ
76
देवस्य देव्याः क्रीडादिरसचित्रोरुकुट्टिमाः । धूपवृक्षैर्दीपवृक्षैर्मणिकॢप्तैस्सहस्रशः
devasya devyāḥ krīḍādirasacitrorukuṭṭimāḥ | dhūpavṛkṣairdīpavṛkṣairmaṇikḷptaissahasraśaḥ
77
ताम्बूलकल्पपात्रैश्च मणिभृङ्गारकैश्शुभैः । धूपपात्रैर्दीपपात्रैः पुष्पताम्बूलपात्रकैः
tāmbūlakalpapātraiśca maṇibhṛṅgārakaiśśubhaiḥ | dhūpapātrairdīpapātraiḥ puṣpatāmbūlapātrakaiḥ
78
फलपूर्णै रत्नपात्रैर्मणिकुम्भैस्सुधायुतैः । धूपामोदमणिद्योतिविराजितमनुत्तमम्
phalapūrṇai ratnapātrairmaṇikumbhaissudhāyutaiḥ | dhūpāmodamaṇidyotivirājitamanuttamam
79
मणिपुत्तलिकाकॢप्तचारुचामरवीजनैः । व्यजनादर्शताम्बूलधृतपुत्तलिकायुतैः
maṇiputtalikākḷptacārucāmaravījanaiḥ | vyajanādarśatāmbūladhṛtaputtalikāyutaiḥ
80
गणैश्च रहितो देवस्सखीविरहिता शिवा । तस्मिञ्छ्रीचक्रसौधे तु क्रीडतस्तौ शिवौ मुने
gaṇaiśca rahito devassakhīvirahitā śivā | tasmiñchrīcakrasaudhe tu krīḍatastau śivau mune
81
स्कन्दः- कैलासे नवशक्तिरत्नविलसत्पीठे महातत्ववा- ग्जाते नैकगकोटिविस्तरयुते श्रीचक्रमध्यङ्गते । बिन्दौ चन्द्रदिनेशकोटियुगले मञ्चे च तत्पीठके पञ्चब्रह्ममये वयं गिरिजया सार्धं हृदादध्महे
skandaḥ- kailāse navaśaktiratnavilasatpīṭhe mahātatvavā- gjāte naikagakoṭivistarayute śrīcakramadhyaṅgate | bindau candradineśakoṭiyugale mañce ca tatpīṭhake pañcabrahmamaye vayaṃ girijayā sārdhaṃ hṛdādadhmahe
82
कैलासे नवरत्नहर्म्यविलसन्मञ्चे सुधापान्निधौ काञ्चद्रत्नकवाटिकापरिवृते चिन्तामणीभायुते । सार्द्धं यो जगदम्बया रविमयं चैकं सुधावर्ष्मणो रूपं कन्तुकमुत्क्षिपत्यनुदिनं तेनैव रात्रिन्दिवम्
kailāse navaratnaharmyavilasanmañce sudhāpānnidhau kāñcadratnakavāṭikāparivṛte cintāmaṇībhāyute | sārddhaṃ yo jagadambayā ravimayaṃ caikaṃ sudhāvarṣmaṇo rūpaṃ kantukamutkṣipatyanudinaṃ tenaiva rātrindivam
83
पृ0 112) मूर्तीर्यो विधिविष्णुरुद्रसुरराडष्टौ पुमर्थानपि चत्वार्येव युगानि वेदनिवहं दिव्यं फलानां गणम् । कुर्वन्नेव चतुर्दिशात्मकमठावैचित्र्यपीठे सदा दीव्यन्त्सार्धमशेषभाग्यनिवहैः कृत्वा गृहं सम्मतम्
pṛ0 112) mūrtīryo vidhiviṣṇurudrasurarāḍaṣṭau pumarthānapi catvāryeva yugāni vedanivahaṃ divyaṃ phalānāṃ gaṇam | kurvanneva caturdiśātmakamaṭhāvaicitryapīṭhe sadā dīvyantsārdhamaśeṣabhāgyanivahaiḥ kṛtvā gṛhaṃ sammatam
84
कृत्स्नप्राणिकलापरम्य फलकस्तोमं विधायात्र वै कालं कर्म च पाशकं सहि शिवो दीव्यन्त्सहास्तेऽम्बया
kṛtsnaprāṇikalāparamya phalakastomaṃ vidhāyātra vai kālaṃ karma ca pāśakaṃ sahi śivo dīvyantsahāste'mbayā
śrīśivarahasye prathamāṃśe kailāsavarṇane devīpūjāstutikathanaṃ nāma saptaviṃśo'dhyāyaḥ 27
1
कैलासवर्णने देवीपूजास्तुतिकथनन्नाम सप्तविंशोऽध्यायः स्कन्दः– तत्रैव देव्यास्सदनं पुनरन्यन्मनोहरम् । गारुत्मतमणीभास्वच्छतयोजनविस्तृतम्
kailāsavarṇane devīpūjāstutikathanannāma saptaviṃśo'dhyāyaḥ skandaḥ– tatraiva devyāssadanaṃ punaranyanmanoharam | gārutmatamaṇībhāsvacchatayojanavistṛtam
2
वलभीरोचितानेकगवाक्षोद्यतकुम्भकम् । मणिपीठोज्वलस्तम्भकॢप्तविद्रुमपुत्रिकम्
valabhīrocitānekagavākṣodyatakumbhakam | maṇipīṭhojvalastambhakḷptavidrumaputrikam
3
सुरत्नफनसैश्चैव सुरत्नकदलीफलैः । सुरत्ननारिकेलाच्छपूगसङ्घमनोहरम्
suratnaphanasaiścaiva suratnakadalīphalaiḥ | suratnanārikelācchapūgasaṅghamanoharam
4
सुरत्नकेतकफलालम्बितछन्नभूतलम् । पुष्पमालारसास्वादभ्रमद्भ्रमरसङ्कुलम्
suratnaketakaphalālambitachannabhūtalam | puṣpamālārasāsvādabhramadbhramarasaṅkulam
5
तस्मिन्दिव्ये महामञ्चे पुष्पशय्याविराजिते । दमनोशीरकायुक्तवितानछादिताम्बरे
tasmindivye mahāmañce puṣpaśayyāvirājite | damanośīrakāyuktavitānachāditāmbare
6
सुरत्नपङ्कजलसन्मालिकासमलङ्कृते । अम्लाने सर्वदा तस्मिन्मुकुरोत्तुङ्गकुट्टिमे
suratnapaṅkajalasanmālikāsamalaṅkṛte | amlāne sarvadā tasminmukurottuṅgakuṭṭime
7
रुद्राणीभिः परिवृता नित्यमास्ते महेश्वरी । सुपुष्पामलधम्मिल्लास्ताराधिपसमाननाः
rudrāṇībhiḥ parivṛtā nityamāste maheśvarī | supuṣpāmaladhammillāstārādhipasamānanāḥ
8
तरुण्यो रूपसम्पन्नाः कुम्भीकुम्भाभसत्कुचाः । मणिग्रैवेयहाराढ्या मुक्तारत्नाङ्गदैर्युताः
taruṇyo rūpasampannāḥ kumbhīkumbhābhasatkucāḥ | maṇigraiveyahārāḍhyā muktāratnāṅgadairyutāḥ
9
मुक्तानासावृतास्सर्वाश्चन्द्रिकाकॢप्तशेखराः । दिव्याङ्गरागसुभगा रणन्मञ्जीरकाङ्घ्रयः
muktānāsāvṛtāssarvāścandrikākḷptaśekharāḥ | divyāṅgarāgasubhagā raṇanmañjīrakāṅghrayaḥ
10
तास्तत्र सौधवर्येषु देव्यो विद्युल्लता इव । सञ्चरन्ति सदा देवीं सेवन्ते जघनोन्नताः
tāstatra saudhavaryeṣu devyo vidyullatā iva | sañcaranti sadā devīṃ sevante jaghanonnatāḥ
11
महार्हवसनोपेतास्तिलकालङ्कृताननाः । ताम्बूलरागरक्ताच्छबिम्बाधरमनोहराः
mahārhavasanopetāstilakālaṅkṛtānanāḥ | tāmbūlarāgaraktācchabimbādharamanoharāḥ
12
चामराग्रकराः काश्चित्काश्चिच्चन्दनधारिण्यः । काश्चित्कालाञ्जिकापाण्यः काश्चिच्छत्रधरास्तथा
cāmarāgrakarāḥ kāścitkāściccandanadhāriṇyaḥ | kāścitkālāñjikāpāṇyaḥ kāścicchatradharāstathā
13
ताम्बूलरत्नपेटीं च धृत्वाञ्जनकरास्तथा । काश्चित्कङ्कतिकाहस्ता भूषापेटीधरास्तथा
tāmbūlaratnapeṭīṃ ca dhṛtvāñjanakarāstathā | kāścitkaṅkatikāhastā bhūṣāpeṭīdharāstathā
14
पृ0 113) हरिद्राकुङ्कुमाहस्ता चालक्तरसधारिणी । सिन्धूरधारिणी काचित्पादुकासक्तसत्करा
pṛ0 113) haridrākuṅkumāhastā cālaktarasadhāriṇī | sindhūradhāriṇī kācitpādukāsaktasatkarā
15
रत्नहेमाम्बरादीनि मणिप्रोद्यन्निचोलकम् । रत्नवीणाकराः काश्चिल्लीलाशुककरास्तथा
ratnahemāmbarādīni maṇiprodyannicolakam | ratnavīṇākarāḥ kāścillīlāśukakarāstathā
16
हरिन्मणिमहापिञ्छमयूरवरधारिणी । रत्नादर्शकरा काचित्प्रफुल्लसुमधारिणी
harinmaṇimahāpiñchamayūravaradhāriṇī | ratnādarśakarā kācitpraphullasumadhāriṇī
17
चम्पकादिमहाहस्ता रत्नभृङ्गारसत्कराः । खड्गखेटकनिस्त्रिंशशरकार्मुकपाणयः
campakādimahāhastā ratnabhṛṅgārasatkarāḥ | khaḍgakheṭakanistriṃśaśarakārmukapāṇayaḥ
18
निषङ्गसङ्गितकरा लीलाकन्तुकधारिणी । हल्लीसल्लास्यरत्नाच्छदण्डमण्डितसत्करा
niṣaṅgasaṅgitakarā līlākantukadhāriṇī | hallīsallāsyaratnācchadaṇḍamaṇḍitasatkarā
19
अक्षपेटीधराः काश्चित्कस्तूरीगन्धसत्कराः । रत्नपात्रस्थितापार गन्धगन्धितदिक्तटाः
akṣapeṭīdharāḥ kāścitkastūrīgandhasatkarāḥ | ratnapātrasthitāpāra gandhagandhitadiktaṭāḥ
20
पटवाससुवासेन हारगुच्छकशेखरैः । पात्रैः प्रोद्यत्कराः काश्चिद्रत्नशूलधरास्तथा
paṭavāsasuvāsena hāragucchakaśekharaiḥ | pātraiḥ prodyatkarāḥ kāścidratnaśūladharāstathā
21
शारिकाबोधनोद्युक्ता देवीनामानि सादरम् । सुधूपवृक्षधारिण्यो दीपिकाधारिणी परा
śārikābodhanodyuktā devīnāmāni sādaram | sudhūpavṛkṣadhāriṇyo dīpikādhāriṇī parā
22
गन्धतैलावसिक्तोद्यद्रत्नकुम्भीकरास्तथा । ताम्बूलपात्रविततकराः फलकरास्तथा
gandhatailāvasiktodyadratnakumbhīkarāstathā | tāmbūlapātravitatakarāḥ phalakarāstathā
23
पद्मोत्पलकराः काश्चिदङ्गरागकरास्तथा । फलरत्नयुतापारस्वर्णपात्रलसत्कराः
padmotpalakarāḥ kāścidaṅgarāgakarāstathā | phalaratnayutāpārasvarṇapātralasatkarāḥ
24
मणिकुम्भसुधापारकराः काश्चिन्मनोहराः । एवं सेवन्ति तान्देवीं रुद्राण्यः परितोऽम्बिकाम्
maṇikumbhasudhāpārakarāḥ kāścinmanoharāḥ | evaṃ sevanti tāndevīṃ rudrāṇyaḥ parito'mbikām
25
तत्तत्सेवारसाभिज्ञा देव्याश्चित्तानुवर्तकाः । प्रासादेषु च मञ्चेषु मणिसिह्मासनेषु च
tattatsevārasābhijñā devyāścittānuvartakāḥ | prāsādeṣu ca mañceṣu maṇisihmāsaneṣu ca
26
पुष्पशय्यां तथा काश्चित्कुर्वन्ति सुकुथावृताम् । भक्ष्यभोज्यान्नकुशलाः पेये रसवरे तथा
puṣpaśayyāṃ tathā kāścitkurvanti sukuthāvṛtām | bhakṣyabhojyānnakuśalāḥ peye rasavare tathā
27
देवीं सेवन्ति तास्तत्र रुद्राण्यो नवयौवनाः । तत्र देव्या महासौधे नवरत्नविचित्रितम्
devīṃ sevanti tāstatra rudrāṇyo navayauvanāḥ | tatra devyā mahāsaudhe navaratnavicitritam
28
गर्भागारं महेशस्य रम्यन्देवीश्वरस्य च । प्राकारगोपुरोपेतं रत्नतोरणमण्डितम्
garbhāgāraṃ maheśasya ramyandevīśvarasya ca | prākāragopuropetaṃ ratnatoraṇamaṇḍitam
29
माणिक्यमुकुरोद्दामरुद्रक्रीडावृषैर्युतम् । सुरम्यरत्नकलशपताकाभ्राजिशेखरम्
māṇikyamukuroddāmarudrakrīḍāvṛṣairyutam | suramyaratnakalaśapatākābhrājiśekharam
30
तत्र लिङ्गं सुधापूरधवलीकृतदिङ्मुखम् । काकोदरफणाभ्राजिबिल्वालङ्कृतमस्तकम्
tatra liṅgaṃ sudhāpūradhavalīkṛtadiṅmukham | kākodaraphaṇābhrājibilvālaṅkṛtamastakam
31
सुधाधामकखण्डोप्तरत्नगोलकभूषितम् । तद्वै देवीश्वरं लिङ्गं पूजयत्यम्बिका सदा
sudhādhāmakakhaṇḍoptaratnagolakabhūṣitam | tadvai devīśvaraṃ liṅgaṃ pūjayatyambikā sadā
32
सुधासागरनीरोप्तकलशैर्नवरत्नजैः । पञ्चामृतमहाधारागन्धमोदैश्च नीरकैः
sudhāsāgaranīroptakalaśairnavaratnajaiḥ | pañcāmṛtamahādhārāgandhamodaiśca nīrakaiḥ
33
यक्षकर्दमजालेपवेष्टनाम्बरसुन्दरम् । बिल्वचम्पकधुत्तूररत्नपङ्कजमालिनी
yakṣakardamajālepaveṣṭanāmbarasundaram | bilvacampakadhuttūraratnapaṅkajamālinī
34
जातीसरावलीशोभिलिङ्गमौलिमनोहरम् । तक्कोलागरुजोद्भूतधूपधूमैश्शिवा तदा
jātīsarāvalīśobhiliṅgamaulimanoharam | takkolāgarujodbhūtadhūpadhūmaiśśivā tadā
35
कुरुविन्दमणिज्योतिदीपैरुद्योतितान्तरम् । सुपुण्डरीकमालाभिर्नवनीलोत्पलस्रजा
kuruvindamaṇijyotidīpairudyotitāntaram | supuṇḍarīkamālābhirnavanīlotpalasrajā
36
हरिन्मणिनिभैर्बिल्वैस्सहस्रैः पूजयेच्छिवा । भक्ष्यभोज्यवरान्नानां राशिभिश्शैलकन्यका
harinmaṇinibhairbilvaissahasraiḥ pūjayecchivā | bhakṣyabhojyavarānnānāṃ rāśibhiśśailakanyakā
37
ताम्बूलैः खदिरासारस्वर्णकर्पूरखण्डजैः । नीराजनैर्मुखरितशङ्खकाहलमद्दलैः
tāmbūlaiḥ khadirāsārasvarṇakarpūrakhaṇḍajaiḥ | nīrājanairmukharitaśaṅkhakāhalamaddalaiḥ
38
पृ0 114) वीणावेणुजमड्डूत्थदुन्दुभ्यादिसुनिस्वनैः । रुद्राणीनर्तनैश्चैव योगिनीगणवादनैः
pṛ0 114) vīṇāveṇujamaḍḍūtthadundubhyādisunisvanaiḥ | rudrāṇīnartanaiścaiva yoginīgaṇavādanaiḥ
39
त्रिकालं पूजयत्येवं त्रिपुण्ट्रललितालका । रुद्राक्षकीलितापारमुक्तामणिसरोज्वला
trikālaṃ pūjayatyevaṃ tripuṇṭralalitālakā | rudrākṣakīlitāpāramuktāmaṇisarojvalā
40
सोमशौचे वाससी साप्यरजे धारिणी शिवा । संस्तुवन्ती महालिङ्गं देवीश्वरमतन्द्रिता
somaśauce vāsasī sāpyaraje dhāriṇī śivā | saṃstuvantī mahāliṅgaṃ devīśvaramatandritā
41
कृताञ्जलिपुटा देवी प्रकृष्टञ्चाष्टविग्रहम्
kṛtāñjalipuṭā devī prakṛṣṭañcāṣṭavigraham
42
देवी– हर हर परिपाहि दीनबन्धो पुरहर देव दयानिधान धीर । मुरहरपरिपूजिताङ्घ्रिपद्म प्रकटसुधाकरशेखरोरुवीर
devī– hara hara paripāhi dīnabandho purahara deva dayānidhāna dhīra | muraharaparipūjitāṅghripadma prakaṭasudhākaraśekharoruvīra
43
करिवरखरचर्मवस्त्र शम्भो ह्युरगवरोत्तमहार मारमार । परिपाहि दयानिधान भर्ग त्रिनयन कालकलाविहीनदेह
karivarakharacarmavastra śambho hyuragavarottamahāra māramāra | paripāhi dayānidhāna bharga trinayana kālakalāvihīnadeha
44
श्रुतिवरतुरगोत्तमाद्य शम्भो गरगलनील तमालपुष्पमौले । भवभयहर कारणातिगान्तकारे हरिगिरिशरकार्मुकाक्तपाणे
śrutivaraturagottamādya śambho garagalanīla tamālapuṣpamaule | bhavabhayahara kāraṇātigāntakāre harigiriśarakārmukāktapāṇe
45
परिपाहि विभो त्रिशूलपाणे नरहरिकृत्तिवसान बालपाल । विधिकन्धरहंसशोभिहस्तपद्मानलनयनाग्निविदग्धकामदेह
paripāhi vibho triśūlapāṇe naraharikṛttivasāna bālapāla | vidhikandharahaṃsaśobhihastapadmānalanayanāgnividagdhakāmadeha
46
इमं दवरसामजप्रकटस्तोत्रकुम्भादरं सनन्दनसनातनैः कलितवन्दनं शङ्करम् । अनिन्दितगुणोत्तमं सुमुनिबृन्दबृन्दारकैः पिचण्डिलसुतुन्दिलैर्गणवरौघनृत्तादरम्
imaṃ davarasāmajaprakaṭastotrakumbhādaraṃ sanandanasanātanaiḥ kalitavandanaṃ śaṅkaram | aninditaguṇottamaṃ sumunibṛndabṛndārakaiḥ picaṇḍilasutundilairgaṇavaraughanṛttādaram
47
स्कन्दः– इति संस्तुवते देवी देवीशं परमेश्वरम् । रुद्राणीगणसंवीता योगिनीगणसेविता
skandaḥ– iti saṃstuvate devī devīśaṃ parameśvaram | rudrāṇīgaṇasaṃvītā yoginīgaṇasevitā
48
महाकैलासमध्यस्था दिव्यदेवाङ्कसंश्रया । सापि देवं जगन्माता पूजयत्यनिशं शिवा
mahākailāsamadhyasthā divyadevāṅkasaṃśrayā | sāpi devaṃ jaganmātā pūjayatyaniśaṃ śivā
49
देवदेवं महादेवं गोवृषोत्तमगामिनम् । वतंसितसुधाधामशेखरं श्रुतिसंस्तुतम्
devadevaṃ mahādevaṃ govṛṣottamagāminam | vataṃsitasudhādhāmaśekharaṃ śrutisaṃstutam
50
जटाकलापनिटिलानलनेत्रं महेश्वरम् । नीलकण्ठं विरूपाक्षं सोमसूर्यानलाक्षिकम्
jaṭākalāpaniṭilānalanetraṃ maheśvaram | nīlakaṇṭhaṃ virūpākṣaṃ somasūryānalākṣikam
51
कुरङ्गरञ्जितकरं कालकालं कृपानिधिम् । भस्माभ्यक्तं त्रिपुण्ट्राङ्कं रुद्राक्षवरहारकम्
kuraṅgarañjitakaraṃ kālakālaṃ kṛpānidhim | bhasmābhyaktaṃ tripuṇṭrāṅkaṃ rudrākṣavarahārakam
52
महोरगफणारत्नमालाकीलितकन्धरम् । उद्यदिन्दुकरप्रख्यकर्पूराभकलेवरम्
mahoragaphaṇāratnamālākīlitakandharam | udyadindukaraprakhyakarpūrābhakalevaram
53
पृ0 115) दिव्यसिह्मासनासीनं महाकैलाससौधगम् । गणस्कन्दमहानन्दिभृङ्गिचण्डीशसेवितम्
pṛ0 115) divyasihmāsanāsīnaṃ mahākailāsasaudhagam | gaṇaskandamahānandibhṛṅgicaṇḍīśasevitam
54
मुकुटोद्दामगङ्गोत्थरयशोभितमस्तकम् । अब्जमित्राग्निनयनं सोमखण्डोज्वलालकम्
mukuṭoddāmagaṅgottharayaśobhitamastakam | abjamitrāgninayanaṃ somakhaṇḍojvalālakam
55
उत्फुल्लपुण्डरीकाच्छमालाललितकन्धरम् । देवं नन्दनमन्दारवरमालाविभूषितम्
utphullapuṇḍarīkācchamālālalitakandharam | devaṃ nandanamandāravaramālāvibhūṣitam
56
खपटं परितो दग्धत्रिपुरासुरगोपुरम् । अन्धकान्तकमाशास्यं स्वभक्तजनवत्सलम्
khapaṭaṃ parito dagdhatripurāsuragopuram | andhakāntakamāśāsyaṃ svabhaktajanavatsalam
57
नमिताशेषदेवादिमुकुटोज्वलपादुकम् । वामदेवं महासामस्तोमस्तुतमतीन्द्रियम्
namitāśeṣadevādimukuṭojvalapādukam | vāmadevaṃ mahāsāmastomastutamatīndriyam
58
रथन्तररवप्रीतं राजद्राजनतोषितम् । महावैराजराजश्रीराजराजकलाधरम्
rathantararavaprītaṃ rājadrājanatoṣitam | mahāvairājarājaśrīrājarājakalādharam
59
सर्वोपनिषदां सारमेकीभूतमिवेश्वरम् । ध्यायन्ती सा महादेवी स्वमनःपद्मसद्मगम्
sarvopaniṣadāṃ sāramekībhūtamiveśvaram | dhyāyantī sā mahādevī svamanaḥpadmasadmagam
60
तध्यानसारधाराभिः प्लाविताननपङ्कजा । नान्यत्साचिन्तयद्देवी जगज्जन्मादिसंस्थितिम्
tadhyānasāradhārābhiḥ plāvitānanapaṅkajā | nānyatsācintayaddevī jagajjanmādisaṃsthitim
61
इत्थं ध्यायन्ती चन्द्रशेखरपदं चोत्फुल्लहृत्पद्मगं देवी नन्दननन्दनेऽपि गिरिजा सापारवश्यान्तरा । नान्यत्किञ्चन विद्यते त्रिभुवने निस्सारमेतज्जग- त्तुच्छीकृत्य महाच्छमानसपरा स्वात्मानमीशं हृदि
itthaṃ dhyāyantī candraśekharapadaṃ cotphullahṛtpadmagaṃ devī nandananandane'pi girijā sāpāravaśyāntarā | nānyatkiñcana vidyate tribhuvane nissārametajjaga- ttucchīkṛtya mahācchamānasaparā svātmānamīśaṃ hṛdi
śrīśivarahasye prathamāṃśe kailāsaprāsādavarṇanaṃ nāma aṣṭāviṃśo'dhyāyaḥ 28
1
कैलासप्रासादवर्णनं नाम अष्टाविंशोऽध्यायः स्कन्दः– तस्यान्तरे च प्राकारो नवरत्नविचित्रितः । अष्टाशीतिसहस्राणां योजनोच्छ्रयकल्पितः
kailāsaprāsādavarṇanaṃ nāma aṣṭāviṃśo'dhyāyaḥ skandaḥ– tasyāntare ca prākāro navaratnavicitritaḥ | aṣṭāśītisahasrāṇāṃ yojanocchrayakalpitaḥ
2
चतुर्दशमहेशेन मनसैव प्रकल्पितः । ब्रह्माण्डोर्ध्वगमौली स प्रोद्यद्भानुसहस्रभाः
caturdaśamaheśena manasaiva prakalpitaḥ | brahmāṇḍordhvagamaulī sa prodyadbhānusahasrabhāḥ
3
न देवा न च गन्धर्वा न यक्षोरगराक्षसाः । गणेन्द्रैरपि दुष्प्रेक्ष्यःप्राकारो रत्नकल्पितः
na devā na ca gandharvā na yakṣoragarākṣasāḥ | gaṇendrairapi duṣprekṣyaḥprākāro ratnakalpitaḥ
4
तत्र शैलाश्शिवेनैव चाष्टदिक्षु प्रतिष्ठिताः । निषदो हेमकूटश्च विन्ध्यो मलयदर्दुरौ
tatra śailāśśivenaiva cāṣṭadikṣu pratiṣṭhitāḥ | niṣado hemakūṭaśca vindhyo malayadardurau
5
मन्दरो हिमवांश्चैव नीलोऽत्रैव प्रकाशितः । तेषां तपस्यया शम्भुस्सन्तुष्टो नितरां तदा
mandaro himavāṃścaiva nīlo'traiva prakāśitaḥ | teṣāṃ tapasyayā śambhussantuṣṭo nitarāṃ tadā
6
स्वावासेऽपि महाशैले महाकैलासपर्वते । तेषां नित्यं निवसतिं ददौ कारुण्यतश्शिवः
svāvāse'pi mahāśaile mahākailāsaparvate | teṣāṃ nityaṃ nivasatiṃ dadau kāruṇyataśśivaḥ
7
अन्यत्र ते शिलाशैलाः कैलासे रत्नसन्निभाः । तत्प्राकाराष्टकोणेषु विहिताश्शूलपाणिना
anyatra te śilāśailāḥ kailāse ratnasannibhāḥ | tatprākārāṣṭakoṇeṣu vihitāśśūlapāṇinā
8
पृ0 116) पूर्वतो निषधो भाति चाग्नेय्यां हेमकूटकः । विन्ध्योऽसौ दक्षिणे भाति मलयो नैऋते स्थितः
pṛ0 116) pūrvato niṣadho bhāti cāgneyyāṃ hemakūṭakaḥ | vindhyo'sau dakṣiṇe bhāti malayo naiṛte sthitaḥ
9
वारुण्यां दर्दुरो भाति वायव्यां भाति मन्दरः । हिमवानुत्तरे भाति चैशान्यां नीलपर्वतः
vāruṇyāṃ darduro bhāti vāyavyāṃ bhāti mandaraḥ | himavānuttare bhāti caiśānyāṃ nīlaparvataḥ
10
अष्टदिक्षु स्थिता एते महाकैलासपर्वते । स्वमौलिभिर्भासयन्ति दिशां स्तोमं नगोत्तमाः
aṣṭadikṣu sthitā ete mahākailāsaparvate | svamaulibhirbhāsayanti diśāṃ stomaṃ nagottamāḥ
11
तन्मौलिसौधशिखरैस्सूर्यचन्द्रातिकान्तिकैः । माणिक्यकान्तिर्नितषधश्चैन्द्र्यामिन्द्रधनुः प्रभः
tanmaulisaudhaśikharaissūryacandrātikāntikaiḥ | māṇikyakāntirnitaṣadhaścaindryāmindradhanuḥ prabhaḥ
12
इन्द्रगोपनिभो भाति भाभासितदिगन्तरः । अभ्रङ्कषैस्स्वशृङ्गाग्रैर्लेलिहान इवाम्बरम्
indragopanibho bhāti bhābhāsitadigantaraḥ | abhraṅkaṣaissvaśṛṅgāgrairlelihāna ivāmbaram
13
तन्मौलिषु स्थितापाररत्नगोपुरभासुरः । नानारुद्रावतारैश्च वृषभैश्चैव शोभितः
tanmauliṣu sthitāpāraratnagopurabhāsuraḥ | nānārudrāvatāraiśca vṛṣabhaiścaiva śobhitaḥ
14
भाति भासितदिक्चक्रो मुष्णंश्चक्षूंषि कान्तिभिः । तच्छैलमौलिजोत्तुङ्गगजरत्नोरुकुम्भकः
bhāti bhāsitadikcakro muṣṇaṃścakṣūṃṣi kāntibhiḥ | tacchailamaulijottuṅgagajaratnorukumbhakaḥ
15
सहस्रसिन्धुरोत्तुङ्गधरपीठोऽमितप्रभः । महातलो महासौधस्सहस्रस्तम्भमण्डितः
sahasrasindhurottuṅgadharapīṭho'mitaprabhaḥ | mahātalo mahāsaudhassahasrastambhamaṇḍitaḥ
16
दाडिमीबीजसङ्काशस्स्वच्छकान्तिततोरुभाः । सोपानवेदिकोपेतसहस्रतलमण्डितः
dāḍimībījasaṅkāśassvacchakāntitatorubhāḥ | sopānavedikopetasahasratalamaṇḍitaḥ
17
पद्मरागमणिस्तम्भकलशैश्चैव शोभितः । नानारत्नमहामालापरिष्कृततदन्तरः
padmarāgamaṇistambhakalaśaiścaiva śobhitaḥ | nānāratnamahāmālāpariṣkṛtatadantaraḥ
18
तद्रत्नरत्नकान्त्या च सैन्द्रीदिग्रत्नवर्णका । विभाति मण्डलं भानोस्तत्सौधारुणकान्तिभिः
tadratnaratnakāntyā ca saindrīdigratnavarṇakā | vibhāti maṇḍalaṃ bhānostatsaudhāruṇakāntibhiḥ
19
आरक्तं हि नभो विप्रा भाति तच्छैलकान्तिभिः । तत्रागरुमहाधूमैर्बहुलैर्गन्धवत्तरैः
āraktaṃ hi nabho viprā bhāti tacchailakāntibhiḥ | tatrāgarumahādhūmairbahulairgandhavattaraiḥ
20
प्रफुल्लवनजापारगन्धबन्धितमारुतैः । तत्र सिह्मासनासीनो देव्या साकं महेश्वरः
praphullavanajāpāragandhabandhitamārutaiḥ | tatra sihmāsanāsīno devyā sākaṃ maheśvaraḥ
21
क्रीडत्यत्यन्तमुदितो गणबृन्दनिषेवितः । तदखण्डमहास्तम्भान्पद्मरागप्रकल्पितान्
krīḍatyatyantamudito gaṇabṛndaniṣevitaḥ | tadakhaṇḍamahāstambhānpadmarāgaprakalpitān
22
स एव द्योतयत्यन्तः कोटिभास्करसप्रभः । पश्यन्नैन्द्रीन्दिशं शम्भुस्तत्रैवाप्यमरावतीम्
sa eva dyotayatyantaḥ koṭibhāskarasaprabhaḥ | paśyannaindrīndiśaṃ śambhustatraivāpyamarāvatīm
23
तत्रेन्द्रसदनन्देवानिन्द्रादीनमरानपि । देवानां नन्दनोत्फुल्लकुसुमामोदिमारुतम्
tatrendrasadanandevānindrādīnamarānapi | devānāṃ nandanotphullakusumāmodimārutam
24
जिघ्रन्त्स्वाङ्गमहाहारकाकोदरसुपारणम् । सप्ताब्धिचलनास्फालतरङ्गावलिमीश्वरः
jighrantsvāṅgamahāhārakākodarasupāraṇam | saptābdhicalanāsphālataraṅgāvalimīśvaraḥ
25
फेनबुद्बुदजालैश्च शिवनन्दननन्दितः । तरङ्गहस्तैश्च सदा नमन्त इव सागरान्
phenabudbudajālaiśca śivanandanananditaḥ | taraṅgahastaiśca sadā namanta iva sāgarān
26
तत्तदब्धिमहाद्वीपमण्डलं सरितो नगाः । वनानि देवयानञ्च स्वर्गिणाञ्च गतीस्तथा
tattadabdhimahādvīpamaṇḍalaṃ sarito nagāḥ | vanāni devayānañca svargiṇāñca gatīstathā
27
भोगं पातङ्कर्मिणाञ्च पश्यन्हृष्यति चाम्बया । निषधेशालयं तत्र मणिकुम्भमनोहरम्
bhogaṃ pātaṅkarmiṇāñca paśyanhṛṣyati cāmbayā | niṣadheśālayaṃ tatra maṇikumbhamanoharam
28
निषधो मूर्तिमांस्तत्र तल्लिङ्गं पूजयंस्तदा । भस्मरुद्राक्षसम्पन्नो दिव्यैः पञ्चामृतैस्तदा
niṣadho mūrtimāṃstatra talliṅgaṃ pūjayaṃstadā | bhasmarudrākṣasampanno divyaiḥ pañcāmṛtaistadā
29
गन्धैश्चैव च वासोभिर्बिल्वमन्दारचम्पकैः । धूपैर्दीपैश्च नैवेद्यैस्ताम्बूलैश्च नमंस्तदा
gandhaiścaiva ca vāsobhirbilvamandāracampakaiḥ | dhūpairdīpaiśca naivedyaistāmbūlaiśca namaṃstadā
30
पृ0 117) प्रदक्षिणाभिस्सततं निषधेशं स्तुवंस्थितः
pṛ0 117) pradakṣiṇābhissatataṃ niṣadheśaṃ stuvaṃsthitaḥ
31
निषधः– निषधेशं भवरोगभेषजं सुनिषण्णं सकलेऽपि भूतवर्गे । विषमाक्षं कलुषैर्विहीनदेहं प्रणमामीश्वरमेवमेव नित्यम्
niṣadhaḥ– niṣadheśaṃ bhavarogabheṣajaṃ suniṣaṇṇaṃ sakale'pi bhūtavarge | viṣamākṣaṃ kaluṣairvihīnadehaṃ praṇamāmīśvaramevameva nityam
32
स्कन्दः– एवं स्तौति महादेवं निषधः प्राग्दिशि स्थितः । हेमकूटस्तथाग्नेय्यां दिशि मौलौ महाप्रभः
skandaḥ– evaṃ stauti mahādevaṃ niṣadhaḥ prāgdiśi sthitaḥ | hemakūṭastathāgneyyāṃ diśi maulau mahāprabhaḥ
33
गोमेदकमहारत्नभासुरोन्नतमस्तकः । स्वकान्तिभिस्तथाग्नेयीं दिशं सम्राडयं स्थितः
gomedakamahāratnabhāsuronnatamastakaḥ | svakāntibhistathāgneyīṃ diśaṃ samrāḍayaṃ sthitaḥ
34
गोपुरापारशिखरैः खमौलितटसंस्थितैः । महर्लोकातिगैश्शृङ्गैर्महामणिवराङ्कितैः
gopurāpāraśikharaiḥ khamaulitaṭasaṃsthitaiḥ | maharlokātigaiśśṛṅgairmahāmaṇivarāṅkitaiḥ
35
रुद्रावतारचरितैर्गोवृषोत्तममस्तकैः । मणिकुम्भैश्च विततै रत्नमालावलम्बितैः
rudrāvatāracaritairgovṛṣottamamastakaiḥ | maṇikumbhaiśca vitatai ratnamālāvalambitaiḥ
36
तत्र सौधो महानुच्चैर्गोमेदमणिसुन्दरः । गोमेदमणिजोत्तुङ्ग महापालीसहस्रकः
tatra saudho mahānuccairgomedamaṇisundaraḥ | gomedamaṇijottuṅga mahāpālīsahasrakaḥ
37
सहस्रपालीपीठस्थस्तम्भविद्रुमपुत्रिकः । सहस्रं पालयंस्तत्र वैडूर्यवरपीठकम्
sahasrapālīpīṭhasthastambhavidrumaputrikaḥ | sahasraṃ pālayaṃstatra vaiḍūryavarapīṭhakam
38
सहस्रतलसंयुक्तो मणिधाराच्छपालिकः । तदाग्नेयमहाकोण गोपुरेष्वन्तरा स्थितः
sahasratalasaṃyukto maṇidhārācchapālikaḥ | tadāgneyamahākoṇa gopureṣvantarā sthitaḥ
39
वेदिकापट्टिकोपेतो देवगोष्ठैश्च मण्डितः । ललामराजद्वृषभो वलभीपरिवेष्टितः
vedikāpaṭṭikopeto devagoṣṭhaiśca maṇḍitaḥ | lalāmarājadvṛṣabho valabhīpariveṣṭitaḥ
40
बालार्कविततछायस्स्वच्छान्तस्स्तम्भकान्तिकृत् । तस्मिन्मणिमये मञ्चे लम्बमाने च संस्थितः
bālārkavitatachāyassvacchāntasstambhakāntikṛt | tasminmaṇimaye mañce lambamāne ca saṃsthitaḥ
41
मणिशृङ्खलसंराजद्वितानपरिवेष्टिते । कुथोपधानैस्स्वास्तीर्णे तिष्ठतीशस्सहाम्बया
maṇiśṛṅkhalasaṃrājadvitānapariveṣṭite | kuthopadhānaissvāstīrṇe tiṣṭhatīśassahāmbayā
42
आग्नेयबहुलामोदवनगन्धैश्च सुन्दरम् । मारुतो वाति धूपानां प्रमोदामोदसुन्दरः
āgneyabahulāmodavanagandhaiśca sundaram | māruto vāti dhūpānāṃ pramodāmodasundaraḥ
43
तमालसुन्दरवनमग्निलोकविभूषणम् । अग्निदिक्सौधगं तत्र सेवितं सुमनोहरम्
tamālasundaravanamagnilokavibhūṣaṇam | agnidiksaudhagaṃ tatra sevitaṃ sumanoharam
44
अग्नीश्वराभिधं लिङ्गं पूजयन्तो हि वह्नयः । आग्नेयगणपैश्चैव तत्र तल्लोकवासिभिः
agnīśvarābhidhaṃ liṅgaṃ pūjayanto hi vahnayaḥ | āgneyagaṇapaiścaiva tatra tallokavāsibhiḥ
45
पुरा समर्च्य तल्लिङ्गं सर्वभक्षकृता दधत् । विमुक्तस्स तदा वह्निस्तं पश्यन् शङ्करोऽम्बया
purā samarcya talliṅgaṃ sarvabhakṣakṛtā dadhat | vimuktassa tadā vahnistaṃ paśyan śaṅkaro'mbayā
46
तत्रत्यलोकनिचयं सप्ताब्धिपरिवेष्टितम् । द्वीपान्वनानि सरितः पश्यत्यम्बासमन्वितः
tatratyalokanicayaṃ saptābdhipariveṣṭitam | dvīpānvanāni saritaḥ paśyatyambāsamanvitaḥ
47
हेमकूटो महाशैलो मूर्तिमान्लिङ्गमैश्वरम् । हेमकूटेश्वरं नाम्ना प्रतिष्ठाप्यात्र भावनैः
hemakūṭo mahāśailo mūrtimānliṅgamaiśvaram | hemakūṭeśvaraṃ nāmnā pratiṣṭhāpyātra bhāvanaiḥ
48
स्तौति देवं महादेवं हेमकूटश्शुभव्रतः
stauti devaṃ mahādevaṃ hemakūṭaśśubhavrataḥ
49
पृ0 118) हेमकूटः– पापाद्रिकूटकुलिशोत्तम हेमकूट वीटीकृताखिल सुमेरुज हेमकूट । प्रोद्यत्सुधांशुचयमौलितटोरुभास्वत्कोटीर घोटककृतागमकूट पाहि
pṛ0 118) hemakūṭaḥ– pāpādrikūṭakuliśottama hemakūṭa vīṭīkṛtākhila sumeruja hemakūṭa | prodyatsudhāṃśucayamaulitaṭorubhāsvatkoṭīra ghoṭakakṛtāgamakūṭa pāhi
50
इत्थं सदा हेमकूटस्तत्र स्तौति महेश्वरम्
itthaṃ sadā hemakūṭastatra stauti maheśvaram
51
शैलसौधकपरे परमेश्या चारुचन्द्रशकलाङ्कितमौलिः । नन्दिभृङ्गिगणपैश्च सर्वतः क्रीडति श्रुतिशिखामलवाक्यैः
śailasaudhakapare parameśyā cārucandraśakalāṅkitamauliḥ | nandibhṛṅgigaṇapaiśca sarvataḥ krīḍati śrutiśikhāmalavākyaiḥ
śrīśivarahasye prathamāṃśe kailāsasaudhavarṇanaṃ nāma ekonatriṃśo'dhyāyaḥ 29
1
कैलाससौधवर्णनं नाम एकोनत्रिंशोऽध्यायः स्कन्दः– यः पस्पर्ध पुरा मेरुं विन्ध्योऽसौ चारुकन्दरः । यन्मौलिनिलया देवी सोऽयंपर्वतशेखरः
kailāsasaudhavarṇanaṃ nāma ekonatriṃśo'dhyāyaḥ skandaḥ– yaḥ paspardha purā meruṃ vindhyo'sau cārukandaraḥ | yanmaulinilayā devī so'yaṃparvataśekharaḥ
2
इन्द्रनीलमयस्तत्र दक्षिणे भाति भूधरः । लिहन्त्सजिह्वया लोकानास्ते सोऽत्यन्तसुन्दरः
indranīlamayastatra dakṣiṇe bhāti bhūdharaḥ | lihantsajihvayā lokānāste so'tyantasundaraḥ
3
त्यक्त्वा स्वानतिजात्यन्तदुःखं तत्र घटोद्भवात् । सूर्यातिगगतीभिश्च शृङ्गैरङ्कितदिक्तटः
tyaktvā svānatijātyantaduḥkhaṃ tatra ghaṭodbhavāt | sūryātigagatībhiśca śṛṅgairaṅkitadiktaṭaḥ
4
महेशाश्रयजोन्मादमुदितो विन्ध्यभूधरः । तन्मौलिगोपुरोत्तुङ्गशिखरैर्वृषभैरपि
maheśāśrayajonmādamudito vindhyabhūdharaḥ | tanmauligopurottuṅgaśikharairvṛṣabhairapi
5
महानीलगणोद्यद्भानीलीकृतदिगन्तरः । तन्मौलितिलकोद्दामपुण्डरीकसहस्रकैः
mahānīlagaṇodyadbhānīlīkṛtadigantaraḥ | tanmaulitilakoddāmapuṇḍarīkasahasrakaiḥ
6
दंष्ट्राकरालैर्विकृतैर्धारितस्सौधसत्तमः । वेदिकापट्टिकोपेतसहस्रस्तम्भमण्डितः
daṃṣṭrākarālairvikṛtairdhāritassaudhasattamaḥ | vedikāpaṭṭikopetasahasrastambhamaṇḍitaḥ
7
तत्रागरुमहाधूपैर्ज्वालोज्वलितदीपकैः । सहस्रतलसंयुक्तो नीलकुम्भोज्वलच्छिखः
tatrāgarumahādhūpairjvālojvalitadīpakaiḥ | sahasratalasaṃyukto nīlakumbhojvalacchikhaḥ
8
नीलसारैश्च वृषभैर्मणिनेत्रैश्च शोभितः । स्फटिकेन्द्रमहानीलजालकाङ्कितकुट्टिमः
nīlasāraiśca vṛṣabhairmaṇinetraiśca śobhitaḥ | sphaṭikendramahānīlajālakāṅkitakuṭṭimaḥ
9
नीरनीलोत्पलकृतचारुमालाविभूषितः । गवाक्षित इवाभाति चाम्बरं तत्र सुन्दरम्
nīranīlotpalakṛtacārumālāvibhūṣitaḥ | gavākṣita ivābhāti cāmbaraṃ tatra sundaram
10
तस्मिन्त्सौधोत्तमे मञ्चे चेन्द्रनीलोरुपादके । तस्मिन्मञ्चोपरिलसन्नीललोहित ईश्वरः
tasmintsaudhottame mañce cendranīlorupādake | tasminmañcoparilasannīlalohita īśvaraḥ
11
देव्या सदास्ते नितरां गणबृन्दनिषेवितः । पश्यन् यामीन्दिशं शम्भुर्यमं संयमिनीश्वरम्
devyā sadāste nitarāṃ gaṇabṛndaniṣevitaḥ | paśyan yāmīndiśaṃ śambhuryamaṃ saṃyaminīśvaram
12
नरकाणां विचित्राश्च गतयस्तत्र शङ्करः । क्लिश्यमानान्दह्यमानान्पच्यमानान्महेनसः
narakāṇāṃ vicitrāśca gatayastatra śaṅkaraḥ | kliśyamānāndahyamānānpacyamānānmahenasaḥ
13
अशैवानथ पापिष्ठान्भस्मरुद्राक्षवर्जितान् । लिङ्गार्चनविहीनांश्च शिवनामोज्झितांस्तथा
aśaivānatha pāpiṣṭhānbhasmarudrākṣavarjitān | liṅgārcanavihīnāṃśca śivanāmojjhitāṃstathā
14
रुद्राध्यायजपैर्हीनान्पञ्चाक्षरविवर्जितान् । शिवनैवेद्यरहितान्मलाशींस्तत्र शङ्करः
rudrādhyāyajapairhīnānpañcākṣaravivarjitān | śivanaivedyarahitānmalāśīṃstatra śaṅkaraḥ
15
पृ0 119) सप्ताब्धिवेष्टितापारभूमिभागान्महेश्वरः । नगांश्च सरितः पुण्या वनान्युपवनानि च
pṛ0 119) saptābdhiveṣṭitāpārabhūmibhāgānmaheśvaraḥ | nagāṃśca saritaḥ puṇyā vanānyupavanāni ca
16
क्रीडत्यत्यन्तमुदितो देवो देव्या महेश्वरः । विन्ध्यमौलिमहासौधे नीलेन्द्रमणिकल्पिते
krīḍatyatyantamudito devo devyā maheśvaraḥ | vindhyamaulimahāsaudhe nīlendramaṇikalpite
17
विन्ध्यो विन्ध्येश्वरं लिङ्गं तत्र सम्पूज्य भक्तितः । पञ्चामृतैःफलरसैश्चन्दनैर्धूपदीपकैः
vindhyo vindhyeśvaraṃ liṅgaṃ tatra sampūjya bhaktitaḥ | pañcāmṛtaiḥphalarasaiścandanairdhūpadīpakaiḥ
18
बिल्वचम्पकमन्दारकरवीरसुपङ्कजैः । प्रदक्षिणानतीभिश्च मणिनीराजनैरपि
bilvacampakamandārakaravīrasupaṅkajaiḥ | pradakṣiṇānatībhiśca maṇinīrājanairapi
19
सम्पूज्य विन्ध्यस्संस्तौति भक्त्या विन्ध्येश्वरं शिवम्
sampūjya vindhyassaṃstauti bhaktyā vindhyeśvaraṃ śivam
20
विन्ध्यः– विन्ध्येश वन्ध्यदिवसो न भवेत्कदाचित्त्वत्पादपूजननतिस्तुतिभिर्ममाद्य । वन्ध्योऽपि त्वत्पदनिवेदितभोज्यभुक्स्याद्विन्ध्योपमं दृढतरं हि सुतं लभेत
vindhyaḥ– vindhyeśa vandhyadivaso na bhavetkadācittvatpādapūjananatistutibhirmamādya | vandhyo'pi tvatpadaniveditabhojyabhuksyādvindhyopamaṃ dṛḍhataraṃ hi sutaṃ labheta
21
स्कन्दः– इत्थं स्तौति सदा विन्ध्यो विन्ध्येशं तत्र शैलराट् । मलयो नैऋते भाति राजत्सुन्दरशेखरः
skandaḥ– itthaṃ stauti sadā vindhyo vindhyeśaṃ tatra śailarāṭ | malayo naiṛte bhāti rājatsundaraśekharaḥ
22
पुष्परागमणिप्रख्यो नानानिर्झरकन्दरः । रम्यशृङ्गाग्रविलसद्गोपुरावलिभासुरः
puṣparāgamaṇiprakhyo nānānirjharakandaraḥ | ramyaśṛṅgāgravilasadgopurāvalibhāsuraḥ
23
रुद्रक्रीडादिसहितो ललामवृषभाञ्चितः । स्वप्रभाभासितोल्लासिसर्वलोकातिगो नगः
rudrakrīḍādisahito lalāmavṛṣabhāñcitaḥ | svaprabhābhāsitollāsisarvalokātigo nagaḥ
24
भाति भूमिधरस्तत्र सौधोत्तमविभूषितः । सहस्रसारसोत्तुङ्गशिरोभिर्धारितो महान्
bhāti bhūmidharastatra saudhottamavibhūṣitaḥ | sahasrasārasottuṅgaśirobhirdhārito mahān
25
पुष्परागमणीकॢप्तसहस्रस्तम्भमण्डितः । सुरत्नकलशोपेतस्सहस्रतलमण्डितः
puṣparāgamaṇīkḷptasahasrastambhamaṇḍitaḥ | suratnakalaśopetassahasratalamaṇḍitaḥ
26
परार्ध्यरत्नखचितसिह्मासनवराश्रयः । रत्नगुच्छमहापुष्पसरालम्बितपीठभूः
parārdhyaratnakhacitasihmāsanavarāśrayaḥ | ratnagucchamahāpuṣpasarālambitapīṭhabhūḥ
27
तत्रस्थभूषणोपेतो देव्या क्रीडति शङ्करः । महामलयजोद्भूतचन्दनामोदिमारुतैः
tatrasthabhūṣaṇopeto devyā krīḍati śaṅkaraḥ | mahāmalayajodbhūtacandanāmodimārutaiḥ
28
चन्द्रचन्दनलिप्ताङ्गो महाकल्पकपुष्पधृक् । गुग्गुलूद्दामसुभगधूमामोदितदिक्तटः
candracandanaliptāṅgo mahākalpakapuṣpadhṛk | guggulūddāmasubhagadhūmāmoditadiktaṭaḥ
29
तान्नैऋतीं दिशं शम्भुः पश्यन्निऋतिजान्गणान् । कृष्णान्करालान्विकटान्निस्त्रिंशवरधारिणः
tānnaiṛtīṃ diśaṃ śambhuḥ paśyanniṛtijāngaṇān | kṛṣṇānkarālānvikaṭānnistriṃśavaradhāriṇaḥ
30
सप्ताम्बुधीनां कोणानि तदन्तर्गतभूमपि । द्वीपांश्च सरितश्शैलान्वनानि च महेश्वरः
saptāmbudhīnāṃ koṇāni tadantargatabhūmapi | dvīpāṃśca saritaśśailānvanāni ca maheśvaraḥ
31
मलयेन स्वनाम्ना वै लिङ्गन्तन्मलयेश्वरम् । मणिधाममयं तत्र पूजितं सर्वकामदम्
malayena svanāmnā vai liṅgantanmalayeśvaram | maṇidhāmamayaṃ tatra pūjitaṃ sarvakāmadam
32
पञ्चामृतैश्चन्दनैश्च बिल्वमन्दारचम्पकैः । धूपैर्दीपैश्च नैवेद्यैः प्रणामप्रक्रमादिभिः
pañcāmṛtaiścandanaiśca bilvamandāracampakaiḥ | dhūpairdīpaiśca naivedyaiḥ praṇāmaprakramādibhiḥ
33
संस्तुवन्परया भक्त्या गिरिणा मलयेन च
saṃstuvanparayā bhaktyā giriṇā malayena ca
34
पृ0 120) मलयः– मलयेश महेश शङ्कर प्रमथाधीश्वर चारुचन्द्रमौले । त्वयि जातमिदं जगत्किलापि शम्भो प्रलयं याति लये त्वदीयकुक्षौ
pṛ0 120) malayaḥ– malayeśa maheśa śaṅkara pramathādhīśvara cārucandramaule | tvayi jātamidaṃ jagatkilāpi śambho pralayaṃ yāti laye tvadīyakukṣau
35
स्कन्दः– इत्थं स्तौति सदा देवं मलयश्शैलसत्तमः । दर्दुरः पश्चिमे भाति नानाशृङ्गवराश्रयः
skandaḥ– itthaṃ stauti sadā devaṃ malayaśśailasattamaḥ | darduraḥ paścime bhāti nānāśṛṅgavarāśrayaḥ
36
वैडूर्यसारसुभगतत्सूत्रछविना ततः । तन्मौलिगोपुरापारशिखरैरतिभासुरः
vaiḍūryasārasubhagatatsūtrachavinā tataḥ | tanmauligopurāpāraśikharairatibhāsuraḥ
37
रुद्रावतारचरितैर्महोक्षगणसङ्कुलः । दोधूयमानशृङ्गाग्रपताकावलिशोभितः
rudrāvatāracaritairmahokṣagaṇasaṅkulaḥ | dodhūyamānaśṛṅgāgrapatākāvaliśobhitaḥ
38
महाशार्दूलसाहस्रधारितस्तन्मणिप्रभैः । सहस्रस्तम्भसंयुक्तो वेदिकापट्टिकान्वितः
mahāśārdūlasāhasradhāritastanmaṇiprabhaiḥ | sahasrastambhasaṃyukto vedikāpaṭṭikānvitaḥ
39
मुक्ताच्छगुच्छसञ्छादिवितानविततान्तरः । धूपामोदातिबहुलगन्धनन्दितदिक्तटः
muktācchagucchasañchādivitānavitatāntaraḥ | dhūpāmodātibahulagandhananditadiktaṭaḥ
40
वैडूर्यसारगर्भाच्छसुन्दरान्तरकाञ्चितः । तत्र सिह्मासनं दिव्यं पञ्चयोजनकल्पितम्
vaiḍūryasāragarbhācchasundarāntarakāñcitaḥ | tatra sihmāsanaṃ divyaṃ pañcayojanakalpitam
41
परार्ध्यास्तरणोपेतं तस्मिन्देव्या महेश्वरः । विहरत्यन्तरगणैर्वरुणो वारुणीं श्रितः
parārdhyāstaraṇopetaṃ tasmindevyā maheśvaraḥ | viharatyantaragaṇairvaruṇo vāruṇīṃ śritaḥ
42
दिशं पयोधिनाथेन पालितां यादसां तदा । वैडूर्यरत्नमकुटतटबद्धेन्दुशेखरः
diśaṃ payodhināthena pālitāṃ yādasāṃ tadā | vaiḍūryaratnamakuṭataṭabaddhenduśekharaḥ
43
मणिकुण्डलगण्डोद्यत्प्रभाधवलिताङ्गकः । वलयाहीश्वरोद्भासिफणाफणितहस्तकः
maṇikuṇḍalagaṇḍodyatprabhādhavalitāṅgakaḥ | valayāhīśvarodbhāsiphaṇāphaṇitahastakaḥ
44
कृष्णागरुसुधूपोत्थधूमधारानुरञ्जितः । महार्हवसनोपेतश्चलच्चामरवीजितः
kṛṣṇāgarusudhūpotthadhūmadhārānurañjitaḥ | mahārhavasanopetaścalaccāmaravījitaḥ
45
तद्वैडूर्यमहासूत्रधाराविद्योदितान्तरः । पश्यन्पश्चिमदिङ्नाथं वरुणं तद्गणानपि
tadvaiḍūryamahāsūtradhārāvidyoditāntaraḥ | paśyanpaścimadiṅnāthaṃ varuṇaṃ tadgaṇānapi
46
पाशहस्तान्हरिद्वर्णान्करालारुणदंष्ट्रकान् । तत्र सप्ताब्धिवलयं नदीनदवनानि च
pāśahastānharidvarṇānkarālāruṇadaṃṣṭrakān | tatra saptābdhivalayaṃ nadīnadavanāni ca
47
देवभागांश्च तत्रत्यान् क्षेत्राणि च महेश्वरः । विहरत्यम्बया सार्धं सौधे तस्मिन्पिनाकधृक्
devabhāgāṃśca tatratyān kṣetrāṇi ca maheśvaraḥ | viharatyambayā sārdhaṃ saudhe tasminpinākadhṛk
48
दर्दुरेशाभिधं तेन पूजीतं दिव्यधामगम् । पञ्चामृतासेचनैश्च गन्धैर्बिल्वैश्च चम्पकैः
dardureśābhidhaṃ tena pūjītaṃ divyadhāmagam | pañcāmṛtāsecanaiśca gandhairbilvaiśca campakaiḥ
49
धूपैर्दीपैश्च नैवेद्यैर्नमनप्रक्रमस्तवैः । तुष्टाव दर्दुरो देवं दर्दुरेशं महेश्वरम्
dhūpairdīpaiśca naivedyairnamanaprakramastavaiḥ | tuṣṭāva darduro devaṃ dardureśaṃ maheśvaram
50
दर्दुरः– पापापारमतङ्गकुम्भहरणे त्वं शङ्करो दर्दुरो भीमोऽहीश्वरकङ्कणोत्तमलसत्पाणीनखोद्यत्प्रभः । पृ0 121) सिह्मस्सर्वसुरेश्वरो हि भगवानिन्दूकपर्दोज्वल- स्सर्वेषां जनिता गराञ्चितगलः काशे गुणैर्वाचकः
darduraḥ– pāpāpāramataṅgakumbhaharaṇe tvaṃ śaṅkaro darduro bhīmo'hīśvarakaṅkaṇottamalasatpāṇīnakhodyatprabhaḥ | pṛ0 121) sihmassarvasureśvaro hi bhagavānindūkapardojvala- ssarveṣāṃ janitā garāñcitagalaḥ kāśe guṇairvācakaḥ
śrīśivarahasye prathamāṃśe śailakṛtastutirnāma triṃśo'dhyāyaḥ 30
1
शैलकृतस्तुतिर्नाम त्रिंशोऽध्यायः स्कन्दः– वायव्यां मन्दरस्तत्र मणिसुन्दरकन्दरः । महेशस्य प्रियो नित्यं सर्वमन्दारनन्दितः
śailakṛtastutirnāma triṃśo'dhyāyaḥ skandaḥ– vāyavyāṃ mandarastatra maṇisundarakandaraḥ | maheśasya priyo nityaṃ sarvamandārananditaḥ
2
मन्दारतरुभिस्तस्य मौलिस्थैर्द्योतिता दिशः । हरिन्मणिप्रभाजालपरिष्कृतदिगन्तरः
mandāratarubhistasya maulisthairdyotitā diśaḥ | harinmaṇiprabhājālapariṣkṛtadigantaraḥ
3
सोऽयुतं योजनायामैर्विस्तारोच्छ्रायविस्तरः । अतुलस्सर्वशिखरिशिखाव्रातैकसुन्दरः
so'yutaṃ yojanāyāmairvistārocchrāyavistaraḥ | atulassarvaśikhariśikhāvrātaikasundaraḥ
4
चन्दनानन्दितमुखस्सुमगन्धोज्वलच्छिखः । रत्नसालतमालालिमौलिपालिविराजितः
candanānanditamukhassumagandhojvalacchikhaḥ | ratnasālatamālālimaulipālivirājitaḥ
5
तत्रैव मन्दरोद्दाम शेखरैरमितप्रभैः । विभान्ति तद्धरिमणिहरिताश्शाड्वलोपमाः
tatraiva mandaroddāma śekharairamitaprabhaiḥ | vibhānti taddharimaṇiharitāśśāḍvalopamāḥ
6
चकास्ति तद्दिशां वक्त्रं नानापक्षिमृगैर्युतम् । तन्मौलिगोपुरापारकलशद्योतिताम्बरः
cakāsti taddiśāṃ vaktraṃ nānāpakṣimṛgairyutam | tanmauligopurāpārakalaśadyotitāmbaraḥ
7
रुद्रावतारचरितैर्धेनुपोतगणैश्शुभैः । सहस्रहंसमौलिस्थसौधराजिविराजितः
rudrāvatāracaritairdhenupotagaṇaiśśubhaiḥ | sahasrahaṃsamaulisthasaudharājivirājitaḥ
8
वेदिसोपानकोपेतस्सहस्रस्तम्भमण्डितः । तलैर्वल्लितपालीभिर्वलभीभिर्विचित्रितैः
vedisopānakopetassahasrastambhamaṇḍitaḥ | talairvallitapālībhirvalabhībhirvicitritaiḥ
9
तस्यान्तर्मणिपादाच्छस्वच्छसिह्मासनं वरम् । साम्राणिधूपबहलगन्धगन्धवहाश्रयः
tasyāntarmaṇipādācchasvacchasihmāsanaṃ varam | sāmrāṇidhūpabahalagandhagandhavahāśrayaḥ
10
रत्नजालमहासालजालकावलिकीलितः । मन्दरोत्थमहानन्द सुमसुन्दरमारुतः
ratnajālamahāsālajālakāvalikīlitaḥ | mandarotthamahānanda sumasundaramārutaḥ
11
दिव्यमन्दारजामोदफुल्लमालावृतोदरः । हरिन्मणिमहादीप सारधारावृतान्तरः
divyamandārajāmodaphullamālāvṛtodaraḥ | harinmaṇimahādīpa sāradhārāvṛtāntaraḥ
12
तत्र देव्या हरित्कान्त्या वामभागस्थया शिवः । सेवितो हरितोद्दामपादमञ्चेऽधिसंस्थितः
tatra devyā haritkāntyā vāmabhāgasthayā śivaḥ | sevito haritoddāmapādamañce'dhisaṃsthitaḥ
13
वायुं सत्यवदालोकांस्तत्रत्यान्गणपानपि । सागरान्तरजान्द्वीपान्वनानि सरितो नगान्
vāyuṃ satyavadālokāṃstatratyāngaṇapānapi | sāgarāntarajāndvīpānvanāni sarito nagān
14
देवलोकांस्तथादेवो देव्या लोकान्प्रतीक्षयन् । मन्दरेणार्चितं तत्र लिङ्गं सुन्दरमन्दिरे
devalokāṃstathādevo devyā lokānpratīkṣayan | mandareṇārcitaṃ tatra liṅgaṃ sundaramandire
15
नाम्नैव मन्दरेशानमिन्दुकुन्दसमप्रभम् । पञ्चामृतैस्तथा नीरैश्चन्दनैर्बिल्वपल्लवैः
nāmnaiva mandareśānamindukundasamaprabham | pañcāmṛtaistathā nīraiścandanairbilvapallavaiḥ
16
अरविन्दमरन्दैश्च मन्दारतरुजैस्सुमैः । धूपैर्दीपैश्च नैवेद्यैर्नमनप्रक्रमैस्तथा
aravindamarandaiśca mandāratarujaissumaiḥ | dhūpairdīpaiśca naivedyairnamanaprakramaistathā
17
आनन्दसुन्दरोदारस्तवैस्संस्तौति भक्तितः
ānandasundarodārastavaissaṃstauti bhaktitaḥ
18
पृ0 122) मन्दरः– श्रीमन्दरेश विविधागममौलिबृन्दसन्दोहनन्दितपदाम्बुजभृङ्गभावम् । सम्प्रार्थयामि तरुणेन्दुकलाललाम बृन्दारवन्दितपदाम्बुजसेवयाहम्
pṛ0 122) mandaraḥ– śrīmandareśa vividhāgamamaulibṛndasandohananditapadāmbujabhṛṅgabhāvam | samprārthayāmi taruṇendukalālalāma bṛndāravanditapadāmbujasevayāham
19
स्कन्दः– इत्थं स्तौति सदा देवं मन्दरश्चारुकन्दरः । मम मातामहोद्दामशेखरैरर्दिता दिशः
skandaḥ– itthaṃ stauti sadā devaṃ mandaraścārukandaraḥ | mama mātāmahoddāmaśekharairarditā diśaḥ
20
हीरसारमयो भाति हिमवान् गगनातिगः । हिमसारमहाधाराशशिकान्तशिलामयः
hīrasāramayo bhāti himavān gaganātigaḥ | himasāramahādhārāśaśikāntaśilāmayaḥ
21
तत्कान्तिकान्तिता लोका महागोपुरभासुरः । रुद्रावतारचरितैर्वृषस्तोमविराजितः
tatkāntikāntitā lokā mahāgopurabhāsuraḥ | rudrāvatāracaritairvṛṣastomavirājitaḥ
22
नियुतं योजनायामः कैलासोत्तरभागगः । सहस्रकेसरिसटातटभ्राजिसुपाण्डरः
niyutaṃ yojanāyāmaḥ kailāsottarabhāgagaḥ | sahasrakesarisaṭātaṭabhrājisupāṇḍaraḥ
23
तद्धारितमहाहीरप्रासादोद्यच्छिखाश्रयः । सहस्रस्तम्भसंयुक्तो रम्यसोपानवेदिकः
taddhāritamahāhīraprāsādodyacchikhāśrayaḥ | sahasrastambhasaṃyukto ramyasopānavedikaḥ
24
महाहिमघनीभूतचन्द्रस्फटिकपीठकः । सम्फुल्लमोदिविपिनसुमगन्धितमारुतः
mahāhimaghanībhūtacandrasphaṭikapīṭhakaḥ | samphullamodivipinasumagandhitamārutaḥ
25
शिलारसमहारीतिगन्धमाद्यत्सुमद्रुमः । तक्कोलागरुकस्तूरीमोदिचन्दनमस्तकः
śilārasamahārītigandhamādyatsumadrumaḥ | takkolāgarukastūrīmodicandanamastakaḥ
26
कुरवाशोकवकुलचम्पकोद्दामगन्धकः । कर्णिकारमहावक्त्रस्तिलकाङ्कितमस्तकः
kuravāśokavakulacampakoddāmagandhakaḥ | karṇikāramahāvaktrastilakāṅkitamastakaḥ
27
कुटजोद्दाममकुटो वटासटजटाधरः । त्रिपुण्ट्रककृताकारतक्कोलाङ्कोलसुन्दरः
kuṭajoddāmamakuṭo vaṭāsaṭajaṭādharaḥ | tripuṇṭrakakṛtākāratakkolāṅkolasundaraḥ
28
महाहिमकराकार महाहिवरधृङ्नगः । हरमौलिजटोल्लासि हिमधामोज्वलप्रभः
mahāhimakarākāra mahāhivaradhṛṅnagaḥ | haramaulijaṭollāsi himadhāmojvalaprabhaḥ
29
दिव्यगङ्गापयःपूरनिर्झरावृतकन्धरः । स्वकीयमौलिसौधस्थ पङ्कजाकारसप्रभः
divyagaṅgāpayaḥpūranirjharāvṛtakandharaḥ | svakīyamaulisaudhastha paṅkajākārasaprabhaḥ
30
गौरीशङ्करपादाब्ज ध्याननिर्धूतहृत्तमः । जामातृकन्यकानन्दं प्रीत्या शैलेश्वरस्तदा
gaurīśaṅkarapādābja dhyānanirdhūtahṛttamaḥ | jāmātṛkanyakānandaṃ prītyā śaileśvarastadā
31
नितरां हर्षवर्षाश्रुकणान्मुञ्चन्निव स्थितः । नीलपीतारुणापाररीतिभासुरकन्दरः
nitarāṃ harṣavarṣāśrukaṇānmuñcanniva sthitaḥ | nīlapītāruṇāpārarītibhāsurakandaraḥ
32
तत्र तच्छैलशिखरे महाहीरोपलैः कृते । हीरजालकसञ्छन्ने हीरमञ्चाच्छपादके
tatra tacchailaśikhare mahāhīropalaiḥ kṛte | hīrajālakasañchanne hīramañcācchapādake
33
परार्ध्यास्तरणास्तीर्णे तगरोद्दामधूपिते । हीरकान्तिमणिज्योत्स्नानिवारिततमोगणे
parārdhyāstaraṇāstīrṇe tagaroddāmadhūpite | hīrakāntimaṇijyotsnānivāritatamogaṇe
34
महाहीन्द्रमणिव्राताकल्पभूषितविग्रहः । देव्या हरिन्मणिततशरीरवरकान्तया
mahāhīndramaṇivrātākalpabhūṣitavigrahaḥ | devyā harinmaṇitataśarīravarakāntayā
35
नितरां मञ्चमध्यस्थो भाति भाभिर्महेश्वरः । स्वपितुश्शिखरे देवी नितरां तोषवेषभूः
nitarāṃ mañcamadhyastho bhāti bhābhirmaheśvaraḥ | svapituśśikhare devī nitarāṃ toṣaveṣabhūḥ
36
रमयत्येव देवेशं यथा कन्या पितृक्षये । भर्त्रा नित्यं प्रमोदेत न तथा श्वशुरालये
ramayatyeva deveśaṃ yathā kanyā pitṛkṣaye | bhartrā nityaṃ pramodeta na tathā śvaśurālaye
37
देव्या विहरतीशानः पश्यन्धनपतेर्दिशम् । यक्षोगणोषितां तत्र तथैवैलबिलेः पुरीम्
devyā viharatīśānaḥ paśyandhanapaterdiśam | yakṣogaṇoṣitāṃ tatra tathaivailabileḥ purīm
38
शातकुम्भमहाभूमिमुत्तरांश्च कुरूंस्तथा । देवोद्यानानि पुण्यानि सप्ताब्धिपरिवेष्टनम्
śātakumbhamahābhūmimuttarāṃśca kurūṃstathā | devodyānāni puṇyāni saptābdhipariveṣṭanam
39
स्वर्णतालफलं तत्र तत्फलामोदिगन्धभूः । ताम्रपृष्टां तथा भूमिं सहस्रं योजनायताम्
svarṇatālaphalaṃ tatra tatphalāmodigandhabhūḥ | tāmrapṛṣṭāṃ tathā bhūmiṃ sahasraṃ yojanāyatām
40
पृ0 123) सुधासागरमध्यस्थमणिद्वीपं शिवप्रियम् । नीपापारवनं तच्च रत्ननीपैस्समावृतम्
pṛ0 123) sudhāsāgaramadhyasthamaṇidvīpaṃ śivapriyam | nīpāpāravanaṃ tacca ratnanīpaissamāvṛtam
41
हिमशैलामलाकारधारासौधे महेश्वरः । देव्या विहरति स्वैरं चलच्चामरवीजनैः
himaśailāmalākāradhārāsaudhe maheśvaraḥ | devyā viharati svairaṃ calaccāmaravījanaiḥ
42
रत्नचाम्पेयमालाभिर्भूषितस्तत्र शङ्करः । गणेन्द्रैरुद्यतलसत्त्रिशूलकरभासुरैः
ratnacāmpeyamālābhirbhūṣitastatra śaṅkaraḥ | gaṇendrairudyatalasattriśūlakarabhāsuraiḥ
43
हिमाचलेश्वरं लिङ्गं चन्द्रस्पटिकधामगम् । अपारवरिवस्याभिर्हिमशैलेन चार्चितम्
himācaleśvaraṃ liṅgaṃ candraspaṭikadhāmagam | apāravarivasyābhirhimaśailena cārcitam
44
पञ्चामृतैः फलरसैस्सुगन्धैर्यक्षकर्दमैः । बिल्वारविन्दकह्लारैश्चम्पकैर्बकसम्भवैः
pañcāmṛtaiḥ phalarasaissugandhairyakṣakardamaiḥ | bilvāravindakahlāraiścampakairbakasambhavaiḥ
45
धूपदीपोपहारैश्च प्रणामप्रक्रमादिभिः । अस्तौषीद्धिमशैलेशं हिमवांश्च कृताञ्जलिः
dhūpadīpopahāraiśca praṇāmaprakramādibhiḥ | astauṣīddhimaśaileśaṃ himavāṃśca kṛtāñjaliḥ
46
हिमवान्– परिणतहिमधामकान्तिराजज्जटयालङ्कृतगङ्गयोरुभासम् । भवदाननपङ्कजोत्पलाभै रविसोमानललोचनैर्विलोकयाशु
himavān– pariṇatahimadhāmakāntirājajjaṭayālaṅkṛtagaṅgayorubhāsam | bhavadānanapaṅkajotpalābhai ravisomānalalocanairvilokayāśu
47
स्कन्दः– इत्थं हिमाचलस्स्तौति हिममौलिमहेश्वरम् । नीलो विभाति चैशान्यां कैलासामलपर्वते
skandaḥ– itthaṃ himācalasstauti himamaulimaheśvaram | nīlo vibhāti caiśānyāṃ kailāsāmalaparvate
48
रम्यसानुशतोपेतस्सहस्रशिखरैर्वृतः । नीलोऽपि वामतश्शैलः प्रवालमणिभासुरः
ramyasānuśatopetassahasraśikharairvṛtaḥ | nīlo'pi vāmataśśailaḥ pravālamaṇibhāsuraḥ
49
उदारतरगम्भीरशेखरालेडिताम्बरः । ऐशान्यां गोपुरैर्भाति रुद्रक्रीडापरीवृतः
udārataragambhīraśekharāleḍitāmbaraḥ | aiśānyāṃ gopurairbhāti rudrakrīḍāparīvṛtaḥ
50
उद्यद्द्युमणिसङ्काशकलशैरतिभासुरः । भूसुराणाञ्च शरणैस्सुभासुरनगावृतः
udyaddyumaṇisaṅkāśakalaśairatibhāsuraḥ | bhūsurāṇāñca śaraṇaissubhāsuranagāvṛtaḥ
51
महागोपतिभिर्युक्तो विद्रुमाभोऽरुणोरुभाः । तन्मौलिमणिगात्युच्च प्रवालपरिकल्पितैः
mahāgopatibhiryukto vidrumābho'ruṇorubhāḥ | tanmaulimaṇigātyucca pravālaparikalpitaiḥ
52
महाशरभसाहस्रैर्धारितस्सौधसत्तमः । हृत्तमोनाशकस्तत्र रम्यो भूसुरभासुरः
mahāśarabhasāhasrairdhāritassaudhasattamaḥ | hṛttamonāśakastatra ramyo bhūsurabhāsuraḥ
53
तत्र राजन्ति विविधवेदिसोपानपट्टिकः । सहस्रस्तम्भसंयुक्तः प्रवालमणिकल्पितः
tatra rājanti vividhavedisopānapaṭṭikaḥ | sahasrastambhasaṃyuktaḥ pravālamaṇikalpitaḥ
54
सौधराडगमौलिस्थो भात्युद्यत्तरणिप्रभः । सहस्रतलमौलिस्थप्रवालमणिकुम्भवान्
saudharāḍagamaulistho bhātyudyattaraṇiprabhaḥ | sahasratalamaulisthapravālamaṇikumbhavān
55
प्रवालवर्तुलात्यच्छमालागुच्छैकशोभितः । तत्रैव सुमनामोदमाद्यद्युङ्कृतषट्पदः
pravālavartulātyacchamālāgucchaikaśobhitaḥ | tatraiva sumanāmodamādyadyuṅkṛtaṣaṭpadaḥ
56
तत्प्रवालमणिज्योत्स्नानिवारिततमस्त्रुटिः । तस्मिन्प्रवालपादाच्छमञ्चके स्तरणास्तृते
tatpravālamaṇijyotsnānivāritatamastruṭiḥ | tasminpravālapādācchamañcake staraṇāstṛte
57
देव्या विहरति प्रीत्या चन्द्रचूडो महेश्वरः । सप्ताब्धिवेष्टितापारभूमयोद्वीपकानपि
devyā viharati prītyā candracūḍo maheśvaraḥ | saptābdhiveṣṭitāpārabhūmayodvīpakānapi
58
वनानि सरितश्शैलान्क्षेत्राण्यपि महेश्वरः । ईशानलोकं तत्रैव नानारुद्रगणैर्वृतम्
vanāni saritaśśailānkṣetrāṇyapi maheśvaraḥ | īśānalokaṃ tatraiva nānārudragaṇairvṛtam
59
दिव्यन्तरिक्षभूमिस्थैर्हेतिपाशधरैर्युतम् । वृक्षौषधीष्वथान्ने च पथि शैलेषु ये चराः
divyantarikṣabhūmisthairhetipāśadharairyutam | vṛkṣauṣadhīṣvathānne ca pathi śaileṣu ye carāḥ
60
ललामराजच्चन्द्रार्कैर्जटामकुटधारिभिः । गणेन्द्रैरुरगेन्द्रैश्च क्रोधारुणितलोचनैः
lalāmarājaccandrārkairjaṭāmakuṭadhāribhiḥ | gaṇendrairuragendraiśca krodhāruṇitalocanaiḥ
61
पृ0 124) ब्रह्माण्डदलनैश्चैव चापीतार्णवघोषकैः । युतमीशानमाशास्यः पश्यत्यम्बासमन्वितः
pṛ0 124) brahmāṇḍadalanaiścaiva cāpītārṇavaghoṣakaiḥ | yutamīśānamāśāsyaḥ paśyatyambāsamanvitaḥ
62
स्कन्दः- तत्तन्नगवरोद्दामशिखरेषु शिवालयाः । परितस्सन्ति तेषान्तु नाम्ना लिङ्गोत्तमा अपि
skandaḥ- tattannagavaroddāmaśikhareṣu śivālayāḥ | paritassanti teṣāntu nāmnā liṅgottamā api
63
शृणुष्व जैगीषव्यत्वं पापभङ्गाय केवलम् । निषधेशो हेमकेशो विन्ध्येशो मलयेश्वरः
śṛṇuṣva jaigīṣavyatvaṃ pāpabhaṅgāya kevalam | niṣadheśo hemakeśo vindhyeśo malayeśvaraḥ
64
दर्दुरेशो मन्दरेशो हिमशैलेश्वरो हरः । नीलेश्वरोऽहि परितो महासौधवराश्रयाः
dardureśo mandareśo himaśaileśvaro haraḥ | nīleśvaro'hi parito mahāsaudhavarāśrayāḥ
65
रम्यगोपुरकोपेता नगास्तत्र वपुर्धराः । पूजयन्त्यत्र लिङ्गानि बिल्वपत्रैर्मनोहरैः
ramyagopurakopetā nagāstatra vapurdharāḥ | pūjayantyatra liṅgāni bilvapatrairmanoharaiḥ
66
नीलोऽपि तत्र नीलेशं पूज्यानेकैस्सुमैरपि । धूपैर्दीपैश्च नैवेद्यैस्स्तौति नीलेश्वरं शिवम्
nīlo'pi tatra nīleśaṃ pūjyānekaissumairapi | dhūpairdīpaiśca naivedyaisstauti nīleśvaraṃ śivam
67
स्वमौलिमणिजापारधामगं प्राञ्जलिस्तदा
svamaulimaṇijāpāradhāmagaṃ prāñjalistadā
67
नीलः– नीललोहित महागरकन्धरामलकपालभुजङ्गविभूषण । कालकालभगवन्कृपाम्बुधे तारयाशु भवसंसृतिजालम्
nīlaḥ– nīlalohita mahāgarakandharāmalakapālabhujaṅgavibhūṣaṇa | kālakālabhagavankṛpāmbudhe tārayāśu bhavasaṃsṛtijālam
68
इत्थं स्तुवन्ति ते शैला गिरीशां गिरिशं तदा
itthaṃ stuvanti te śailā girīśāṃ giriśaṃ tadā
69
गिरयः– हर हर परमेश देवदेव त्रिपुरयमान्धकजातभीतिनाश । अगपतितनयाधव प्रभो नः परिपाहीश्वर देवसार्वभौम
girayaḥ– hara hara parameśa devadeva tripurayamāndhakajātabhītināśa | agapatitanayādhava prabho naḥ paripāhīśvara devasārvabhauma
70
भवता भवतापहारिणा वसता नाकशिरोत्थसौधमौलौ । वयमप्यमला नगाश्शिलाभिर्नगवल्लीतृणपक्षिवीरुधैः
bhavatā bhavatāpahāriṇā vasatā nākaśirotthasaudhamaulau | vayamapyamalā nagāśśilābhirnagavallītṛṇapakṣivīrudhaiḥ
71
सुमृगैरपि चन्द्रचूड शम्भो गतिभाजस्सुतरां च धन्यधन्याः । वेदेषु प्रथितोऽसि रुद्र भगवन् मीढुष्टमश्शङ्करो बभ्रुश्शम्भुरखण्डघोषकरणश्चोग्रोऽसि भीमोऽसि च । अस्माकन्त्वधिपोऽसि पाहि दयया ख्यातो निरीशोऽपि च
sumṛgairapi candracūḍa śambho gatibhājassutarāṃ ca dhanyadhanyāḥ | vedeṣu prathito'si rudra bhagavan mīḍhuṣṭamaśśaṅkaro babhruśśambhurakhaṇḍaghoṣakaraṇaścogro'si bhīmo'si ca | asmākantvadhipo'si pāhi dayayā khyāto nirīśo'pi ca
śrīśivarahasye prathamāṃśe prākāravarṇane rudragaṇārcanannāma ekatriṃśo'dhyāyaḥ 31
1
पृ0 125) प्राकारवर्णने रुद्रगणार्चनं नाम एकत्रिंशोऽध्यायः स्कन्दः– तस्मादत्युत्तमे विप्रा गणा विष्ण्वादयस्सुराः । कैलासमौलौ तच्छम्भोर्नवरत्नपरिष्कृतः
pṛ0 125) prākāravarṇane rudragaṇārcanaṃ nāma ekatriṃśo'dhyāyaḥ skandaḥ– tasmādatyuttame viprā gaṇā viṣṇvādayassurāḥ | kailāsamaulau tacchambhornavaratnapariṣkṛtaḥ
2
प्राकारो लक्षमानेन चायामोच्छ्रायसम्मतः । इन्द्रगोपकसङ्काशसुधामणिमहोपलः
prākāro lakṣamānena cāyāmocchrāyasammataḥ | indragopakasaṅkāśasudhāmaṇimahopalaḥ
3
कल्पितोऽस्ति महेशेन मनसैव द्विजोत्तमाः । नमयो विश्वकर्मापि तत्कैलासवरालयम्
kalpito'sti maheśena manasaiva dvijottamāḥ | namayo viśvakarmāpi tatkailāsavarālayam
4
मनसा कल्पितुं शक्यं किं शिल्पैरखिलैरपि । नानारत्नमणिव्रातभासुरश्चन्द्रसुन्दरः
manasā kalpituṃ śakyaṃ kiṃ śilpairakhilairapi | nānāratnamaṇivrātabhāsuraścandrasundaraḥ
5
शाणोल्लीढामलमणिकान्तिसारोऽयमुत्तमः । रम्यो गन्धर्वनगराकाराकारोऽयमुन्नतः
śāṇollīḍhāmalamaṇikāntisāro'yamuttamaḥ | ramyo gandharvanagarākārākāro'yamunnataḥ
6
तत्प्राकारवरोत्तुङ्गमणीन्द्रवृषभाञ्चितः । अन्तरिक्षे रुद्रगणास्तच्छ्रीप्राकाररक्षकाः
tatprākāravarottuṅgamaṇīndravṛṣabhāñcitaḥ | antarikṣe rudragaṇāstacchrīprākārarakṣakāḥ
7
एकादशसहस्रं वै बाणकार्मुकपाणयः । महानिषङ्गप्रष्ठास्ते कपर्दधृतचन्द्रकाः
ekādaśasahasraṃ vai bāṇakārmukapāṇayaḥ | mahāniṣaṅgapraṣṭhāste kapardadhṛtacandrakāḥ
8
सिह्मसंहननास्सर्वे युवानो मृष्टकुण्डलाः । करिशृङ्गाभवृत्तोरुभुजदण्डवरायुधाः
sihmasaṃhananāssarve yuvāno mṛṣṭakuṇḍalāḥ | kariśṛṅgābhavṛttorubhujadaṇḍavarāyudhāḥ
9
चिन्तामणिगणासारगोपुरं कुम्भरञ्जितम् । रुद्रावतारचरितैश्शोभितं सुमनोहरम्
cintāmaṇigaṇāsāragopuraṃ kumbharañjitam | rudrāvatāracaritaiśśobhitaṃ sumanoharam
10
मौलिसंस्थमहानन्दिनन्दिताखिलदिक्तटम् । प्राच्यां तद्गोपुरंशम्भो रक्षन्तिगणपास्सदा
maulisaṃsthamahānandinanditākhiladiktaṭam | prācyāṃ tadgopuraṃśambho rakṣantigaṇapāssadā
11
प्राकारञ्चापि ते सर्वे त्रिशूलोद्यतपाणयः । तत्र शम्भोर्गणैर्ल्लिङ्गं पूजितं सर्वकामदम्
prākārañcāpi te sarve triśūlodyatapāṇayaḥ | tatra śambhorgaṇairlliṅgaṃ pūjitaṃ sarvakāmadam
12
मणिरुद्रेश्वरं नाम्ना चिन्तामणिगणक्षये । प्रोद्यत्कुम्भैकवसता पूजितं तं गणेश्वरैः
maṇirudreśvaraṃ nāmnā cintāmaṇigaṇakṣaye | prodyatkumbhaikavasatā pūjitaṃ taṃ gaṇeśvaraiḥ
13
संस्तुतं परया भक्त्या चान्तिरिक्षे गणैस्तदा
saṃstutaṃ parayā bhaktyā cāntirikṣe gaṇaistadā
14
रुद्राः– संसारतापजमहारुजमाशु चेश सद्यो विनाशय महेश्वर चारुदृष्ट्या । रुद्रो भवान् श्रुतिशिखामलगीतकीर्ते पाहीश वेदवचनैर्भिषजां त्वमीशः
rudrāḥ– saṃsāratāpajamahārujamāśu ceśa sadyo vināśaya maheśvara cārudṛṣṭyā | rudro bhavān śrutiśikhāmalagītakīrte pāhīśa vedavacanairbhiṣajāṃ tvamīśaḥ
15
स्कन्दः– एवं स्तुवन्ति तं देवं मणिभद्रेश्वरं गणाः । तद्दक्षिणेऽपि प्राकारं मुक्तारत्नविनिर्मितम्
skandaḥ– evaṃ stuvanti taṃ devaṃ maṇibhadreśvaraṃ gaṇāḥ | taddakṣiṇe'pi prākāraṃ muktāratnavinirmitam
16
तन्मध्यगोपुरवरं मणिमाणिक्यनिर्मितम् । महामणिशिखाकीलकलितं शेखरान्वितम्
tanmadhyagopuravaraṃ maṇimāṇikyanirmitam | mahāmaṇiśikhākīlakalitaṃ śekharānvitam
17
रुद्रावतारचरितैर्वृषभैश्च समन्वितम् । एकादशसहस्रं वै तोमरासिवरायुधाः
rudrāvatāracaritairvṛṣabhaiśca samanvitam | ekādaśasahasraṃ vai tomarāsivarāyudhāḥ
18
महाबलामहोत्साहा दिव्यास्तत्र गणाश्शुभाः । जटामुकुटशोभाढ्यास्तारानाथकलाधराः
mahābalāmahotsāhā divyāstatra gaṇāśśubhāḥ | jaṭāmukuṭaśobhāḍhyāstārānāthakalādharāḥ
19
शिवाज्ञाकारिणस्सर्वे यौवनोन्मत्तविग्रहाः । तत्र सम्पूजयन्त्येव दिव्यरुद्रेश्वरं हि ते
śivājñākāriṇassarve yauvanonmattavigrahāḥ | tatra sampūjayantyeva divyarudreśvaraṃ hi te
20
मणिधाम्नि महालिङ्गं सम्पूज्य स्तुवंतीश्वरम्
maṇidhāmni mahāliṅgaṃ sampūjya stuvaṃtīśvaram
21
पृ0 126) रुद्रगणाः– दिव्येश्वर त्रिदशवर्गजजातदुःखसन्तापबृन्दपुरनाशन ते विनीतम् । देवेश ते वरदयारसपात्रमीश त्वस्मान्त्सदाशिव सदैव सुरक्षतान्नः
pṛ0 126) rudragaṇāḥ– divyeśvara tridaśavargajajātaduḥkhasantāpabṛndapuranāśana te vinītam | deveśa te varadayārasapātramīśa tvasmāntsadāśiva sadaiva surakṣatānnaḥ
22
एवं स्तुवन्ति ते रुद्रा दिव्यरुद्रेश्वरं तदा । गोपुरं तच्च प्राकारं रक्षन्ति सततं गणाः
evaṃ stuvanti te rudrā divyarudreśvaraṃ tadā | gopuraṃ tacca prākāraṃ rakṣanti satataṃ gaṇāḥ
23
तत्पश्चान्मणिसङ्कॢप्तप्राकारं मणिगोपुरम् । रुद्रावतारचरितैर्ललामवृषशेखरैः
tatpaścānmaṇisaṅkḷptaprākāraṃ maṇigopuram | rudrāvatāracaritairlalāmavṛṣaśekharaiḥ
24
प्रोल्लसत्ककुदैश्चैव मणीन्द्रमुकुटैरपि । तत्र रक्षन्ति गणपा हेतिशूलवरायुधाः
prollasatkakudaiścaiva maṇīndramukuṭairapi | tatra rakṣanti gaṇapā hetiśūlavarāyudhāḥ
25
त्रिपुण्ट्रावलिफालोरुकपर्दवरमौलयः । बालारुणप्रतिप्रख्यचञ्चच्चन्द्रकलाधराः
tripuṇṭrāvaliphālorukapardavaramaulayaḥ | bālāruṇapratiprakhyacañcaccandrakalādharāḥ
26
एकादशसहस्रं वै रक्षन्ति गणपास्सदा । दक्षाध्वरविनाशाय महेशाङ्गाद्विनिर्गताः
ekādaśasahasraṃ vai rakṣanti gaṇapāssadā | dakṣādhvaravināśāya maheśāṅgādvinirgatāḥ
27
रौम्या नाम गणश्रेष्ठा मत्तमातङ्गविक्रमाः । तत्र ते पूजयन्त्येव रौम्येशं मणिधामगम्
raumyā nāma gaṇaśreṣṭhā mattamātaṅgavikramāḥ | tatra te pūjayantyeva raumyeśaṃ maṇidhāmagam
28
पूजयन्ति स्तुवन्त्येव रौम्यानाम गणाश्शिवम्
pūjayanti stuvantyeva raumyānāma gaṇāśśivam
29
रौम्याः– त्वद्रोमजातविधयो हरविष्णुसङ्घा रक्षन्ति देव जगतां स्थितिनाशकेऽपि । त्वत्पादपङ्कजरजश्शिरसा वहन्तः पाहीश नोऽद्य कृपया सरसार्द्रदृष्ट्या
raumyāḥ– tvadromajātavidhayo haraviṣṇusaṅghā rakṣanti deva jagatāṃ sthitināśake'pi | tvatpādapaṅkajarajaśśirasā vahantaḥ pāhīśa no'dya kṛpayā sarasārdradṛṣṭyā
30
इत्थं स्तुवन्तिते रौम्या महेशं भक्तिभाविताः । उत्तरे भौमकानाम गणाश्शम्भोर्महात्मनः
itthaṃ stuvantite raumyā maheśaṃ bhaktibhāvitāḥ | uttare bhaumakānāma gaṇāśśambhormahātmanaḥ
31
एकादशसहस्रन्तु विकोशीकृतहेतयः । दंष्ट्राकरालवदना जटाबद्धेन्दुखण्डकाः
ekādaśasahasrantu vikośīkṛtahetayaḥ | daṃṣṭrākarālavadanā jaṭābaddhendukhaṇḍakāḥ
32
सजलोद्दामघनभास्सदेहास्तेऽतुलप्रभाः । भस्मदिग्धास्त्रिपुण्ट्राङ्का रुद्राक्षावलिभासुराः
sajaloddāmaghanabhāssadehāste'tulaprabhāḥ | bhasmadigdhāstripuṇṭrāṅkā rudrākṣāvalibhāsurāḥ
33
खेटटक्काध्वनिभृतस्तटित्कूटसमारवाः । उरगेन्द्राधिकक्रोधा उरगेन्द्राधिका जवे
kheṭaṭakkādhvanibhṛtastaṭitkūṭasamāravāḥ | uragendrādhikakrodhā uragendrādhikā jave
34
शिवाज्ञाकारिणो भौमा बलवीर्यपराक्रमाः । ततोत्तरे च प्राकारे मणिसालोज्वलप्रभे
śivājñākāriṇo bhaumā balavīryaparākramāḥ | tatottare ca prākāre maṇisālojvalaprabhe
35
तन्मध्यगोपुरे चापि रुद्रक्रीडावृषैर्युते । मणिराजन्महाकुम्भे रञ्जिते भानुसप्रभे
tanmadhyagopure cāpi rudrakrīḍāvṛṣairyute | maṇirājanmahākumbhe rañjite bhānusaprabhe
36
तिष्ठन्ति ते च रक्षन्ति प्राकारं तच्च गोपुरम् । तैश्च भौमेश्वरो नाम्ना मणिधामगतोऽर्चितः
tiṣṭhanti te ca rakṣanti prākāraṃ tacca gopuram | taiśca bhaumeśvaro nāmnā maṇidhāmagato'rcitaḥ
37
संस्तुतः परयाभक्त्यालिङ्गसंस्थो महेश्वरः
saṃstutaḥ parayābhaktyāliṅgasaṃstho maheśvaraḥ
38
भौमाः– भौमेश भीमरथतुङ्गरथाङ्गदाने सम्मोदितो हरिहराम्बुजलोचनेन । भूमातिगाखिलगते परिपाहि सोमधामोत्तमाङ्ग ललनाञ्चितचारुदेह
bhaumāḥ– bhaumeśa bhīmarathatuṅgarathāṅgadāne sammodito hariharāmbujalocanena | bhūmātigākhilagate paripāhi somadhāmottamāṅga lalanāñcitacārudeha
39
पृ0 127) स्कन्दः– इति स्तुवन्ति ते भौमा महादेवं घृणानिधिम् । विंशत्सहस्रं परितः प्राकारमणिगोपुरैः
pṛ0 127) skandaḥ– iti stuvanti te bhaumā mahādevaṃ ghṛṇānidhim | viṃśatsahasraṃ paritaḥ prākāramaṇigopuraiḥ
40
शोभितं वृषभैश्चित्रैर्नानाशिल्पैकसुन्दरैः । मनसाप्यनुमानेन नोपमेयं मनोहरैः
śobhitaṃ vṛṣabhaiścitrairnānāśilpaikasundaraiḥ | manasāpyanumānena nopameyaṃ manoharaiḥ
41
चतुर्दिक्ष्वपि ते रुद्रा ब्रह्मविष्ण्विन्द्रहन्तृकाः । हेतिशूलकरास्सर्वे भस्मपाण्डरविग्रहाः
caturdikṣvapi te rudrā brahmaviṣṇvindrahantṛkāḥ | hetiśūlakarāssarve bhasmapāṇḍaravigrahāḥ
42
रम्भोपमानवृत्तोरुऊरुद्वयविराजिताः । वक्षःकवाटपट्टाभहिरण्यकवचावृताः
rambhopamānavṛttoruūrudvayavirājitāḥ | vakṣaḥkavāṭapaṭṭābhahiraṇyakavacāvṛtāḥ
43
उष्णीषिणोमुकुटिनश्चोरगेन्द्रोरुमौलयः । धावन्तस्संस्थिताः केचिन्निषण्णास्स्वापकाःपरे
uṣṇīṣiṇomukuṭinaścoragendrorumaulayaḥ | dhāvantassaṃsthitāḥ kecinniṣaṇṇāssvāpakāḥpare
44
निषङ्गिणः कवचिनश्शरकार्मुकपाणयः । वर्षन्तश्शरवर्षैश्चाप्यशैवान्नुन्नसायकैः
niṣaṅgiṇaḥ kavacinaśśarakārmukapāṇayaḥ | varṣantaśśaravarṣaiścāpyaśaivānnunnasāyakaiḥ
45
पथि वृक्षे जले चैव सागरै भुविसंस्थिताः । विपिने च तथा ग्रामे पुरे खर्वे वृके तथा
pathi vṛkṣe jale caiva sāgarai bhuvisaṃsthitāḥ | vipine ca tathā grāme pure kharve vṛke tathā
46
शिवाज्ञाकारिणस्सर्वे चाग्निदीप्ता महौजसः
śivājñākāriṇassarve cāgnidīptā mahaujasaḥ
47
सूतः– एवन्ते वरगोपुरैश्च सहिता रुद्राश्चतुर्दिक्ष्वपि प्राकारं मणिसारसुन्तरतमं राजद्वृषाधिष्ठितम्
sūtaḥ– evante varagopuraiśca sahitā rudrāścaturdikṣvapi prākāraṃ maṇisārasuntaratamaṃ rājadvṛṣādhiṣṭhitam
śrīśivarahasye prathamāṃśe sabhāvarṇanaṃ nāma dvātriṃśo'dhyāyaḥ 32
32
सभावर्णनं नाम द्वात्रिंशोऽध्यायः
sabhāvarṇanaṃ nāma dvātriṃśo'dhyāyaḥ
2
स्कन्दः– तस्यान्तरे शिवेनैव मनसा परिनिर्मिताः । विंशत्सहस्रमानेन आयामोछ्रायतस्तदा
skandaḥ– tasyāntare śivenaiva manasā parinirmitāḥ | viṃśatsahasramānena āyāmochrāyatastadā
3
प्राग्दक्षिणे प्रतीच्यां वै चोत्तरे शूलपाणिना । मणिप्रभाधिकज्योतिकैलासनगमौलिगाः
prāgdakṣiṇe pratīcyāṃ vai cottare śūlapāṇinā | maṇiprabhādhikajyotikailāsanagamauligāḥ
3
कलधौतनगोद्दामशिखरे तिलकायिताः । पुमर्था इव राजन्त्यश्चतुर्वेदशिखोपमाः
kaladhautanagoddāmaśikhare tilakāyitāḥ | pumarthā iva rājantyaścaturvedaśikhopamāḥ
5
रङ्गस्थानं महेशस्य शम्भोस्सन्ध्यानटस्य च । शातकुम्भमहाकुम्भसहस्रेणोपशोभिताः
raṅgasthānaṃ maheśasya śambhossandhyānaṭasya ca | śātakumbhamahākumbhasahasreṇopaśobhitāḥ
5
निष्टप्तहेमकॢप्तास्ते महामेरुगुहोपमाः । तत्तत्कुम्भमहास्तम्भसहस्रपरिशोभिताः
niṣṭaptahemakḷptāste mahāmeruguhopamāḥ | tattatkumbhamahāstambhasahasrapariśobhitāḥ
7
सुबद्धमणिसोपाना वेदिकापट्टिकोज्वलाः । मरालराजवल्युत्थमुक्ताभक्षितचञ्चुकाः
subaddhamaṇisopānā vedikāpaṭṭikojvalāḥ | marālarājavalyutthamuktābhakṣitacañcukāḥ
8
उत्कोचनीलपीताच्छरत्नजालकचित्रिताः । मुक्तागुच्छावृतापारमालाजालकितान्तराः
utkocanīlapītāccharatnajālakacitritāḥ | muktāgucchāvṛtāpāramālājālakitāntarāḥ
8
पृ0 128) प्रवाललतिकाकॢप्तस्तम्भविद्रुमपुत्रिकाः । हरिन्मणिकृतापारपालिबन्धोरुहस्तकाः
pṛ0 128) pravālalatikākḷptastambhavidrumaputrikāḥ | harinmaṇikṛtāpārapālibandhoruhastakāḥ
10
पुष्परागमहासिह्मसटामण्डलकीलिताः । गजशुण्डोरुधाराच्छनीलकुम्भोरुमौलिकाः
puṣparāgamahāsihmasaṭāmaṇḍalakīlitāḥ | gajaśuṇḍorudhārācchanīlakumbhorumaulikāḥ
11
वैडूर्यधारासूत्रोद्यन्नागबन्धविराजिताः । मोलिपालिजहंसालिकपोतकुलसुन्दराः
vaiḍūryadhārāsūtrodyannāgabandhavirājitāḥ | molipālijahaṃsālikapotakulasundarāḥ
12
रत्नोत्कीर्णाच्छवलभीवृतोरुमणिमौलयः । कुरुविन्दमहोत्फुल्लमालाजालावृतान्तराः
ratnotkīrṇācchavalabhīvṛtorumaṇimaulayaḥ | kuruvindamahotphullamālājālāvṛtāntarāḥ
13
स्फटिकोत्तमगर्भाच्छधारासोपानकीलिताः । विचित्रजालिकापालिचितनीलमहोपलाः
sphaṭikottamagarbhācchadhārāsopānakīlitāḥ | vicitrajālikāpālicitanīlamahopalāḥ
14
बिम्बाभपद्मरागोत्थकेलिपालिविराजिताः । सुवर्णपरिसंकॢप्तरम्भापूगैकभासुराः
bimbābhapadmarāgotthakelipālivirājitāḥ | suvarṇaparisaṃkḷptarambhāpūgaikabhāsurāḥ
14
हरिन्मरतकोद्दामगर्भसप्तच्छदावृताः । दन्तिदन्तावलीलग्नहंसालीवृषकीलिताः
harinmaratakoddāmagarbhasaptacchadāvṛtāḥ | dantidantāvalīlagnahaṃsālīvṛṣakīlitāḥ
16
कपोतपालीपीठस्थ मणिशार्दूलनासिकाः । सुवर्णकेतकीगुच्छतत्फलावलिभासुराः
kapotapālīpīṭhastha maṇiśārdūlanāsikāḥ | suvarṇaketakīgucchatatphalāvalibhāsurāḥ
17
मणिपानसजाम्रादिफलालिपरिलम्बिताः । मातुलिङ्गैश्च लिकुचैः प्रोतमालावृतान्तराः
maṇipānasajāmrādiphalāliparilambitāḥ | mātuliṅgaiśca likucaiḥ protamālāvṛtāntarāḥ
18
मणिधारावृषैः कुम्भैस्सुपल्लवसुमैर्युताः । दमनोरुवितानाच्छसञ्छादिततलाम्बराः
maṇidhārāvṛṣaiḥ kumbhaissupallavasumairyutāḥ | damanoruvitānācchasañchāditatalāmbarāḥ
19
उशीरपटगुच्छैश्च लम्बलोलितभासुराः । गन्धबन्धानुबन्धोद्यन्मन्दमारुतसुन्दराः
uśīrapaṭagucchaiśca lambalolitabhāsurāḥ | gandhabandhānubandhodyanmandamārutasundarāḥ
19
महागरुमहोद्दामधूपधूमशिखावृताः । मणिदीपावलीवृत्तभ्रमद्गृहवराञ्चिताः
mahāgarumahoddāmadhūpadhūmaśikhāvṛtāḥ | maṇidīpāvalīvṛttabhramadgṛhavarāñcitāḥ
20
सहस्रदीपपात्रैश्च धूपवृक्षैश्च लम्बिताः । मणिसारैश्च विविधवर्णकॢप्तोरुकुट्टिमाः
sahasradīpapātraiśca dhūpavṛkṣaiśca lambitāḥ | maṇisāraiśca vividhavarṇakḷptorukuṭṭimāḥ
22
स्पटिकाक्ततलास्सर्वा रम्यादर्शकलम्बिताः । सुवर्णरेखाविलसन्मणिचित्रविचित्रिताः
spaṭikāktatalāssarvā ramyādarśakalambitāḥ | suvarṇarekhāvilasanmaṇicitravicitritāḥ
22
नानारुद्रावतारादिदेव्याश्च नटनं तदा । शम्भोर्गणेन्द्रतिलकैर्वृतचित्रविचित्रिताः
nānārudrāvatārādidevyāśca naṭanaṃ tadā | śambhorgaṇendratilakairvṛtacitravicitritāḥ
24
सुरम्यमणिवेदीभिस्संयुता धूपमोदिताः । विस्तारायामबहुलास्सहस्रस्तम्भमण्डिताः
suramyamaṇivedībhissaṃyutā dhūpamoditāḥ | vistārāyāmabahulāssahasrastambhamaṇḍitāḥ
25
षण्णवादिमहातत्वजालापारावृतान्तराः । राजल्ललामवृषभा रत्नकुम्भपरिष्कृताः
ṣaṇṇavādimahātatvajālāpārāvṛtāntarāḥ | rājallalāmavṛṣabhā ratnakumbhapariṣkṛtāḥ
25
रत्नदण्डायुतापारछत्रचामरशोभिताः । दोधूयितपताकाग्रा मणिघण्टावृतान्तराः
ratnadaṇḍāyutāpārachatracāmaraśobhitāḥ | dodhūyitapatākāgrā maṇighaṇṭāvṛtāntarāḥ
27
कस्तूरीचन्द्रपाटीरसुगन्धसुमवर्षिताः । मणिदर्पणजोत्तुङ्गबिम्बितामलजालिकाः
kastūrīcandrapāṭīrasugandhasumavarṣitāḥ | maṇidarpaṇajottuṅgabimbitāmalajālikāḥ
28
मन्दरोद्दामगम्भीरनादापूरितदिङ्मुखाः । शङ्खदुन्दुभिनिस्साणपणवानकगोमुखैः
mandaroddāmagambhīranādāpūritadiṅmukhāḥ | śaṅkhadundubhinissāṇapaṇavānakagomukhaiḥ
28
काहलापारनिनदवेणुवीणारवाकुलाः । मणिमन्दारवकुलपाटलाशोकचम्पकैः
kāhalāpāraninadaveṇuvīṇāravākulāḥ | maṇimandāravakulapāṭalāśokacampakaiḥ
29
विलम्बिताच्छमालास्तास्तमालतलसुन्दराः । कृतमालमहामालागुच्छसञ्छादितांबराः
vilambitācchamālāstāstamālatalasundarāḥ | kṛtamālamahāmālāgucchasañchāditāṃbarāḥ
30
कुन्दमल्लीजमुल्लीजजाजीमालावृतान्तराः । गलन्मधुझरीभारगुच्छगुञ्जदलिव्रजाः
kundamallījamullījajājīmālāvṛtāntarāḥ | galanmadhujharībhāragucchaguñjadalivrajāḥ
31
कदम्बदामसुभगा दमनोद्दामगन्धिताः । कुरवामोदितोशीरमरुवामोदमोदिताः
kadambadāmasubhagā damanoddāmagandhitāḥ | kuravāmoditośīramaruvāmodamoditāḥ
32
पृ0 129) उशीरककृतापारमालान्दोलनसुन्दराः । तारोत्तर्कितभूभागमुक्ताजालावृताभुवः
pṛ0 129) uśīrakakṛtāpāramālāndolanasundarāḥ | tārottarkitabhūbhāgamuktājālāvṛtābhuvaḥ
33
गणहस्तमहातालझल्लरीनादहुङ्कृताः । रत्नमड्डुजहुङ्कारगर्भितान्तरसुन्दराः
gaṇahastamahātālajhallarīnādahuṅkṛtāḥ | ratnamaḍḍujahuṅkāragarbhitāntarasundarāḥ
34
काहलापारगम्भीरनादापूरितदिङ्मुखाः । नटज्झणझणारावशिञ्जन्मञ्जीरनिस्वनाः
kāhalāpāragambhīranādāpūritadiṅmukhāḥ | naṭajjhaṇajhaṇārāvaśiñjanmañjīranisvanāḥ
35
गोमुखानकजोद्दामगणवक्त्राब्जकारवाः । शङ्खावलीकृतापारधूत्काररवगर्जिताः
gomukhānakajoddāmagaṇavaktrābjakāravāḥ | śaṅkhāvalīkṛtāpāradhūtkāraravagarjitāḥ
36
चतुर्वेदशिखोद्दामब्रह्मवक्त्रकृतस्तुतिः । वामदेवमहासामरथन्तररवाकुलाः
caturvedaśikhoddāmabrahmavaktrakṛtastutiḥ | vāmadevamahāsāmarathantararavākulāḥ
37
राथन्तरोत्थफूत्कारभाङ्कृताखिलदिक्तटाः । राजद्राजनहिङ्कारवैराजवरभूषिताः
rāthantarotthaphūtkārabhāṅkṛtākhiladiktaṭāḥ | rājadrājanahiṅkāravairājavarabhūṣitāḥ
38
अष्टावक्त्रोदितात्यच्छचाष्टदंष्ट्रारवाकुलाः । महागणेशशुण्डाग्रलग्नकुञ्जोत्थनादिताः
aṣṭāvaktroditātyacchacāṣṭadaṃṣṭrāravākulāḥ | mahāgaṇeśaśuṇḍāgralagnakuñjotthanāditāḥ
39
षडाननकृतोद्दामकाहलारवसुन्दराः । नन्दिभृङ्गिकृतानेकतलघातोरुमद्दलैः
ṣaḍānanakṛtoddāmakāhalāravasundarāḥ | nandibhṛṅgikṛtānekatalaghātorumaddalaiḥ
40
धिक्तान्धिक्तानितिरवैरशेषमतिवारकैः । तण्डुडिण्डिमनादोत्थरवसुन्दरदिङ्मुखाः
dhiktāndhiktānitiravairaśeṣamativārakaiḥ | taṇḍuḍiṇḍimanādottharavasundaradiṅmukhāḥ
41
वाणी पाणि महावीणा शिवनामालिमूर्छनाः । तन्त्रीयन्त्रितगान्धर्वगीतनादैकसुन्दराः
vāṇī pāṇi mahāvīṇā śivanāmālimūrchanāḥ | tantrīyantritagāndharvagītanādaikasundarāḥ
42
नारदादिमुनिश्रेष्ठस्तुवदुद्दामगायनाः । हाहाहूहूकृतानेकमुरक्षरतशिक्षिताः
nāradādimuniśreṣṭhastuvaduddāmagāyanāḥ | hāhāhūhūkṛtānekamurakṣarataśikṣitāḥ
43
यक्षशिक्षाकलालापरङ्गतुङ्गतरङ्गिकाः । रागरागिणिकाकॢप्तरम्यत्रिस्थायिमूर्छनाः
yakṣaśikṣākalālāparaṅgatuṅgataraṅgikāḥ | rāgarāgiṇikākḷptaramyatristhāyimūrchanāḥ
44
तालमद्दलजोद्दामतान्धिगित्युत्तमध्वनिः । बर्हिपिञ्छाभसुभगस्फाटिकोत्तमभित्तिकाः
tālamaddalajoddāmatāndhigityuttamadhvaniḥ | barhipiñchābhasubhagasphāṭikottamabhittikāḥ
46
मणिनिस्साणनारावप्रबुद्धवरकोकिलाः । कोकिलाकाकलीरम्यध्वनिध्वननरञ्जिताः
maṇinissāṇanārāvaprabuddhavarakokilāḥ | kokilākākalīramyadhvanidhvananarañjitāḥ
46
रत्नपञ्जरमध्यस्थ शुकशारिकजारवाः । मृदङ्गघनघोषेण शिखण्डीकृतताण्डवाः
ratnapañjaramadhyastha śukaśārikajāravāḥ | mṛdaṅgaghanaghoṣeṇa śikhaṇḍīkṛtatāṇḍavāḥ
47
गायद्गन्धर्वनिकरमुखवीक्षणकृन्मृगाः । रत्नधारगजासारपुष्करोद्दामबृह्मिताः
gāyadgandharvanikaramukhavīkṣaṇakṛnmṛgāḥ | ratnadhāragajāsārapuṣkaroddāmabṛhmitāḥ
49
पुण्ट्रेक्षुबद्धसुभगस्तम्भरम्भावृतास्सभाः । मणिवल्लीतोरणादिलम्बितान्दोलिताः पुनः
puṇṭrekṣubaddhasubhagastambharambhāvṛtāssabhāḥ | maṇivallītoraṇādilambitāndolitāḥ punaḥ
50
मन्दमारुतसञ्चार वितान चलितालकाः । शातकुम्भमहाकुम्भपूरितामृतधारिकाः
mandamārutasañcāra vitāna calitālakāḥ | śātakumbhamahākumbhapūritāmṛtadhārikāḥ
50
सुपल्लवमुखापारराजद्भृङ्गारसुन्दराः । पूगापारमहासाराश्शम्भोस्तत्र महासभाः
supallavamukhāpārarājadbhṛṅgārasundarāḥ | pūgāpāramahāsārāśśambhostatra mahāsabhāḥ
52
कॢप्तास्तत्र शिवेनैव मनसा मननेन हि । शातकुम्भमयी तत्र सभा प्राच्यां दिशि स्थिता
kḷptāstatra śivenaiva manasā mananena hi | śātakumbhamayī tatra sabhā prācyāṃ diśi sthitā
53
महारत्नसभा शम्भोर्दक्षिणे च प्रकल्पिता । राजती रजताद्रौ तु शम्भोः पश्चात्सभा तदा
mahāratnasabhā śambhordakṣiṇe ca prakalpitā | rājatī rajatādrau tu śambhoḥ paścātsabhā tadā
54
चित्सभा चोत्तरेशंभोः कलधौता चलेस्थिता । एवं चतुर्दिक्ष्वपितास्सन्नाहानन्दितास्सभाः
citsabhā cottareśaṃbhoḥ kaladhautā calesthitā | evaṃ caturdikṣvapitāssannāhānanditāssabhāḥ
55
तत्सभावर्णनं देवैर्ब्रह्मविष्णुमहेश्वरैः । मूर्तिमद्भिस्तथा साङ्गैर्वेदनिश्वास ईश्वरः
tatsabhāvarṇanaṃ devairbrahmaviṣṇumaheśvaraiḥ | mūrtimadbhistathā sāṅgairvedaniśvāsa īśvaraḥ
56
पृ0 130) ऋग्वेदस्तु तथाप्राच्यामेकविंशतिशाखकैः । स्तौति तस्यां सभायान्तु देवदेवं महेश्वरम्
pṛ0 130) ṛgvedastu tathāprācyāmekaviṃśatiśākhakaiḥ | stauti tasyāṃ sabhāyāntu devadevaṃ maheśvaram
57
यजुर्वेदस्तथा रत्नसभायां शतशाखकः । स्तौति देवं विरूपाक्षं बद्धाञ्जलिपुटो मुदा
yajurvedastathā ratnasabhāyāṃ śataśākhakaḥ | stauti devaṃ virūpākṣaṃ baddhāñjalipuṭo mudā
58
कलधौतसभायान्तु सहस्रवरशाखकः । स्तौति तत्र महादेवं सामवेदोऽथ सामभिः
kaladhautasabhāyāntu sahasravaraśākhakaḥ | stauti tatra mahādevaṃ sāmavedo'tha sāmabhiḥ
59
चित्सभायां तथाधर्ववेदोविंशत्स्वशाखकैः । स्तौति देवं शिरोभिस्स्वैरथर्वैरीशतुष्टिदैः
citsabhāyāṃ tathādharvavedoviṃśatsvaśākhakaiḥ | stauti devaṃ śirobhissvairatharvairīśatuṣṭidaiḥ
59
स्कन्दः- सभासु च दिवस्पतिप्रकटभानुशीतांशुषु । स्फुरत्विषि शिखिद्युतिप्रथितरत्नगर्भोद्भव- प्रकाशकलितास्पदे नटति नृत्तपारङ्गतः
skandaḥ- sabhāsu ca divaspatiprakaṭabhānuśītāṃśuṣu | sphuratviṣi śikhidyutiprathitaratnagarbhodbhava- prakāśakalitāspade naṭati nṛttapāraṅgataḥ
60
सभापतिरतीन्द्रियः प्रमथनाथसङ्घैर्वृतो- ऽप्यनन्तमहिमारसश्श्रुतिशिखाच्छपालीगतः । सुरेन्द्रमकुटीतटीविघटिताच्छरत्नछविः प्रसन्ननखसन्ततिर्विधिहरीन्द्रदेवैस्स्तुतः
sabhāpatiratīndriyaḥ pramathanāthasaṅghairvṛto- 'pyanantamahimārasaśśrutiśikhācchapālīgataḥ | surendramakuṭītaṭīvighaṭitāccharatnachaviḥ prasannanakhasantatirvidhiharīndradevaisstutaḥ
śrīśivarahasye prathamāṃśe sabhāsu nṛttavarṇanaṃ nāma trayastriṃśo'dhyāyaḥ 33
1
सभासु नृत्तवर्णनं नाम त्रयस्त्रिंशोऽध्यायः श्रीस्कन्दः– सनातनसनन्देन सानन्देन महेश्वरः । पार्वतीहृदयानन्दो देवो यत्र च तास्सभाः
sabhāsu nṛttavarṇanaṃ nāma trayastriṃśo'dhyāyaḥ śrīskandaḥ– sanātanasanandena sānandena maheśvaraḥ | pārvatīhṛdayānando devo yatra ca tāssabhāḥ
2
सदसस्पतिरीशानो गणबृन्दनिषेवितः । मया द्विरदवक्त्रेण नन्दिभृङ्गिरिटीश्वरैः
sadasaspatirīśāno gaṇabṛndaniṣevitaḥ | mayā dviradavaktreṇa nandibhṛṅgiriṭīśvaraiḥ
3
तण्डुहुण्डतुहुण्डाद्यैर्बाणरावणचण्डिकैः । देव्यास्तदग्रे नटनं साटोपं कर्तुमुद्यतः
taṇḍuhuṇḍatuhuṇḍādyairbāṇarāvaṇacaṇḍikaiḥ | devyāstadagre naṭanaṃ sāṭopaṃ kartumudyataḥ
4
सभासु तासु सर्वासु सभापतिरुमापतिः । सायं सायं प्रदोषेषु महाताण्डवपण्डितः
sabhāsu tāsu sarvāsu sabhāpatirumāpatiḥ | sāyaṃ sāyaṃ pradoṣeṣu mahātāṇḍavapaṇḍitaḥ
5
अपस्मारोपरिलसत्पादपङ्कजभासुरः । गजेन्द्रकृत्तिवसनो जटाचूडतटिद्द्युतिः
apasmāroparilasatpādapaṅkajabhāsuraḥ | gajendrakṛttivasano jaṭācūḍataṭiddyutiḥ
6
जटाकुहरगर्भस्थ गङ्गातुङ्गतरङ्गधृक् । तत्रैवोत्फुल्लकह्लारमित्राच्छादित मस्तकः
jaṭākuharagarbhastha gaṅgātuṅgataraṅgadhṛk | tatraivotphullakahlāramitrācchādita mastakaḥ
7
गरनीलमहाकण्ठः कुण्डलीश्वरकुण्डलः । सोमधामसमानास्यश्चाम्पेयरदनासिकः
garanīlamahākaṇṭhaḥ kuṇḍalīśvarakuṇḍalaḥ | somadhāmasamānāsyaścāmpeyaradanāsikaḥ
8
नयनत्रितयोत्फुल्लपङ्कजोत्फुल्लसुन्दरः । त्रिपुण्ट्ररेखासत्फालो भस्माच्छादितविग्रहः
nayanatritayotphullapaṅkajotphullasundaraḥ | tripuṇṭrarekhāsatphālo bhasmācchāditavigrahaḥ
9
पृ0 131) वामेन पाणिनालम्बिनखरक्ताग्रालक्तकः । धगद्धगितरत्नाच्छपदकालम्बिमालिकः
pṛ0 131) vāmena pāṇinālambinakharaktāgrālaktakaḥ | dhagaddhagitaratnācchapadakālambimālikaḥ
10
महाहीरमणिव्रातमुक्तारुद्राक्षमालिकः । काकोदरफणारत्नमालाकीलितकन्धरः
mahāhīramaṇivrātamuktārudrākṣamālikaḥ | kākodaraphaṇāratnamālākīlitakandharaḥ
11
रत्नग्रैवेयललितः कङ्कणासक्तसत्करः । क्वणत्किङ्किणिकाजालक्षुद्रघण्टालिकाञ्चिकः
ratnagraiveyalalitaḥ kaṅkaṇāsaktasatkaraḥ | kvaṇatkiṅkiṇikājālakṣudraghaṇṭālikāñcikaḥ
12
पाणिनान्येन डमरुं तथान्येनोज्वलप्रभम् । सप्तजिह्वकृतोर्ध्वाङ्गशिखाकाशितसत्करः
pāṇinānyena ḍamaruṃ tathānyenojvalaprabham | saptajihvakṛtordhvāṅgaśikhākāśitasatkaraḥ
13
भक्ताभयकरं साक्षाद्रत्नोर्मिकवराङ्गुलिः । कटीतटपटोद्भासि पुण्डरीकाजिनोज्वलः
bhaktābhayakaraṃ sākṣādratnormikavarāṅguliḥ | kaṭītaṭapaṭodbhāsi puṇḍarīkājinojvalaḥ
14
तत्पुच्छगुच्छसुभगलम्बमानचलद्युतिः । ब्रह्ममुण्डमहाषण्डमालाललितकन्धरः
tatpucchagucchasubhagalambamānacaladyutiḥ | brahmamuṇḍamahāṣaṇḍamālālalitakandharaḥ
15
नृत्यज्झणझणारावमणिमञ्जीररत्नपात् । साकुञ्चितेन नृत्येन पोषयन्तं जगत्त्रयम्
nṛtyajjhaṇajhaṇārāvamaṇimañjīraratnapāt | sākuñcitena nṛtyena poṣayantaṃ jagattrayam
16
महारत्नपरिष्कारिपीठसंस्थां महेश्वरीम् । पश्यन्दरदलाम्भोजसन्निभामललोचनैः
mahāratnapariṣkāripīṭhasaṃsthāṃ maheśvarīm | paśyandaradalāmbhojasannibhāmalalocanaiḥ
17
सुधाधामतिरस्कारि देव्या वदनपङ्कजम् । लीलालकोद्यत्तिलकं रत्नताटङ्कमण्डितम्
sudhādhāmatiraskāri devyā vadanapaṅkajam | līlālakodyattilakaṃ ratnatāṭaṅkamaṇḍitam
18
उद्यत्कविनिभात्यच्छमुक्तानासामनोरमम् । कण्ठत्रिवलिगम्भीररत्नग्रैवेयभासुरम्
udyatkavinibhātyacchamuktānāsāmanoramam | kaṇṭhatrivaligambhīraratnagraiveyabhāsuram
19
ललच्चिन्ताकसुभगं कण्ठमण्डलमीश्वरः । उत्तुङ्गकरिकुम्भाभस्वर्णकुम्भकुचां शुभाम्
lalaccintākasubhagaṃ kaṇṭhamaṇḍalamīśvaraḥ | uttuṅgakarikumbhābhasvarṇakumbhakucāṃ śubhām
20
त्रिवलीललितोदारत्रिजगत्सम्पुटोदराम् । मृगेन्द्रकटिसङ्काशरत्नकाञ्चितकाञ्चिकाम्
trivalīlalitodāratrijagatsampuṭodarām | mṛgendrakaṭisaṅkāśaratnakāñcitakāñcikām
21
कनकाम्बरजापारधारासारजिताम्बराम् । चम्पकाशोकपुन्नागसौगन्धिकलसत्कचाम्
kanakāmbarajāpāradhārāsārajitāmbarām | campakāśokapunnāgasaugandhikalasatkacām
22
वेणीमण्डलमध्यस्थ रत्नसीमन्तसुन्दराम् । अलिकालम्बिलालंहिशोभिसिन्दूररेखिकाम्
veṇīmaṇḍalamadhyastha ratnasīmantasundarām | alikālambilālaṃhiśobhisindūrarekhikām
23
क्वणन्मणिगणापारकङ्कणैर्नागबन्धकैः । रत्नहस्तसरापारचलद्वलयसत्कराम्
kvaṇanmaṇigaṇāpārakaṅkaṇairnāgabandhakaiḥ | ratnahastasarāpāracaladvalayasatkarām
24
रत्नाङ्गुलीयविलसद्वलयाङ्गुष्ठवेष्टिताम् । महाहीरैकफलककल्पिताङ्गुष्ठवेष्टनीम्
ratnāṅgulīyavilasadvalayāṅguṣṭhaveṣṭitām | mahāhīraikaphalakakalpitāṅguṣṭhaveṣṭanīm
25
आरक्तारक्तपादाब्जरङ्गरञ्जितपादुकाम् । पादाङ्गुलीकृतापारझणज्झणमधुव्रताम्
āraktāraktapādābjaraṅgarañjitapādukām | pādāṅgulīkṛtāpārajhaṇajjhaṇamadhuvratām
26
मणिमञ्जीरजारावझणज्झणितभूतलाम् । पाटीरागरुकस्तूरीकर्पूरागन्धमेदुराम्
maṇimañjīrajārāvajhaṇajjhaṇitabhūtalām | pāṭīrāgarukastūrīkarpūrāgandhamedurām
27
पटवासमहागन्धनन्दिताखिलदिक्तटाम् । सौन्दर्यधारासर्वस्वाकारां ताराधिपाननाम्
paṭavāsamahāgandhananditākhiladiktaṭām | saundaryadhārāsarvasvākārāṃ tārādhipānanām
28
हल्लकाक्रान्तसुकरां तथान्येन विलम्बिना । पाशाङ्कुशाभयवरधरां श्रीभुवनेश्वरीम्
hallakākrāntasukarāṃ tathānyena vilambinā | pāśāṅkuśābhayavaradharāṃ śrībhuvaneśvarīm
29
निर्यत्कटाक्षाङ्कुरतः पश्यन्तीमाननं विभोः । पश्यन्त्सभासु तान्देवीं सदानृत्यति शङ्करः
niryatkaṭākṣāṅkurataḥ paśyantīmānanaṃ vibhoḥ | paśyantsabhāsu tāndevīṃ sadānṛtyati śaṅkaraḥ
30
नन्दिभृङ्गिमहाकालस्कन्दहेरम्बसंवृतः । रम्यवाद्यरवैस्सायं वेदघोषैश्च शङ्करः
nandibhṛṅgimahākālaskandaherambasaṃvṛtaḥ | ramyavādyaravaissāyaṃ vedaghoṣaiśca śaṅkaraḥ
31
तत्र तत्र सभास्थाने नृत्यत्यम्बासमन्वितः । तच्छृणुध्वं मुनिश्रेष्ठा गणेन्द्रास्सुरसत्तमाः
tatra tatra sabhāsthāne nṛtyatyambāsamanvitaḥ | tacchṛṇudhvaṃ muniśreṣṭhā gaṇendrāssurasattamāḥ
32
राजद्राजकलाविराजितजटाराजीरजोघ्नं सतां रामालङ्कृतवामभागमनिशं श्रीराजराजार्चितम् । पृ0 132) नृत्यन्तं नृशिरःकपालकलिकामालास्फुरद्वक्षसं नृत्यन्तं रजताद्रिहेमसदसि श्रीधूर्जटिं भावये
rājadrājakalāvirājitajaṭārājīrajoghnaṃ satāṃ rāmālaṅkṛtavāmabhāgamaniśaṃ śrīrājarājārcitam | pṛ0 132) nṛtyantaṃ nṛśiraḥkapālakalikāmālāsphuradvakṣasaṃ nṛtyantaṃ rajatādrihemasadasi śrīdhūrjaṭiṃ bhāvaye
33
नृत्यद्ब्रह्मकपालघट्टनपतद्ब्रह्माण्डकोटिस्रव- द्वर्षाधारसुपूरपूरितजटागङ्गातरङ्गोद्भटम् । सेवार्थागतविष्णुमुख्यसुरताबद्धाञ्जलिप्रार्थनं नृत्यन्तं रजताद्रिहेमसदसि श्रीधूर्जटिं भावये
nṛtyadbrahmakapālaghaṭṭanapatadbrahmāṇḍakoṭisrava- dvarṣādhārasupūrapūritajaṭāgaṅgātaraṅgodbhaṭam | sevārthāgataviṣṇumukhyasuratābaddhāñjaliprārthanaṃ nṛtyantaṃ rajatādrihemasadasi śrīdhūrjaṭiṃ bhāvaye
34
तण्डौ वादिनि डिण्डिमण्डमरुकामाखण्डले वाद्यति ब्रह्मण्यम्बुजलोचने च नमति श्रीचण्डिकेशे करैः । घण्टाडोलनतत्परे सुरनुतं श्रीताण्डवे पण्डितं नृत्यन्तं रजताद्रिहेमसदसि श्रीधूर्जटिं भावये
taṇḍau vādini ḍiṇḍimaṇḍamarukāmākhaṇḍale vādyati brahmaṇyambujalocane ca namati śrīcaṇḍikeśe karaiḥ | ghaṇṭāḍolanatatpare suranutaṃ śrītāṇḍave paṇḍitaṃ nṛtyantaṃ rajatādrihemasadasi śrīdhūrjaṭiṃ bhāvaye
35
शीर्षाबद्धकपालमालममलं नृत्यज्जटामण्डलं भूषावेषविषाग्निमिश्रितसुधाधारेषदुष्णार्चिषम् । नृत्यन्तं रमणीमुदे निगमवाङ्मूर्धाधिरूढं शिवं नृत्यन्तं रजताद्रिहेमसदसि श्रीधूर्जटिं भावये
śīrṣābaddhakapālamālamamalaṃ nṛtyajjaṭāmaṇḍalaṃ bhūṣāveṣaviṣāgnimiśritasudhādhāreṣaduṣṇārciṣam | nṛtyantaṃ ramaṇīmude nigamavāṅmūrdhādhirūḍhaṃ śivaṃ nṛtyantaṃ rajatādrihemasadasi śrīdhūrjaṭiṃ bhāvaye
36
पादाबद्धहरीशकङ्कणरणत्कारौघनिष्पन्दित- ब्रह्माद्याखिलजङ्गमं बहुभुजालङ्कारदेव्याः पुरः । मन्दस्मेरविराजमानवदनाम्भोजं नटन्तं शिवं कैलासाचलशातकुम्भसदसि श्रीशम्भुमालोकये
pādābaddhaharīśakaṅkaṇaraṇatkāraughaniṣpandita- brahmādyākhilajaṅgamaṃ bahubhujālaṅkāradevyāḥ puraḥ | mandasmeravirājamānavadanāmbhojaṃ naṭantaṃ śivaṃ kailāsācalaśātakumbhasadasi śrīśambhumālokaye
37
इत्थं नृत्यति देवेशस्सायं देव्या सदाशिवः । कैलासहेमसदसि प्राच्यां गणवरैर्वृतः
itthaṃ nṛtyati deveśassāyaṃ devyā sadāśivaḥ | kailāsahemasadasi prācyāṃ gaṇavarairvṛtaḥ
38
तद्दक्षिणे रत्नकॢप्तसदोमध्ये महेश्वरः । नृत्यत्यम्बामुदे देवस्तच्छृणुष्व मुनीश्वर
taddakṣiṇe ratnakḷptasadomadhye maheśvaraḥ | nṛtyatyambāmude devastacchṛṇuṣva munīśvara
39
स्कन्दः– गण्डान्दोलितकुण्डलीश्वरमहाश्रीकुण्डलं ताण्डवे पाण्डित्यं घटयन्तमण्डजमुखैश्चण्डेश्वराद्यैर्गणैः । स्तोष्यन्तं निगमान्तसारवचसामोघैरमोघैश्शिवं नृत्यन्तं रजताद्रिरत्नसदसि श्रीनीलकण्ठं भजे
skandaḥ– gaṇḍāndolitakuṇḍalīśvaramahāśrīkuṇḍalaṃ tāṇḍave pāṇḍityaṃ ghaṭayantamaṇḍajamukhaiścaṇḍeśvarādyairgaṇaiḥ | stoṣyantaṃ nigamāntasāravacasāmoghairamoghaiśśivaṃ nṛtyantaṃ rajatādriratnasadasi śrīnīlakaṇṭhaṃ bhaje
40
पृ0 133) तण्डूद्दामगिरो जयन्ति सविधं श्रीकैटभारे त्यज ब्रह्मन्ब्रह्मरवांश्च संहर हरे दूरं परं सारय । इत्थं नर्तकचक्रवर्तिनिकटे नृत्योन्मुखे तादृशं नृत्यन्तं रजताद्रिरत्नसदसि पश्यामि शम्भुं सदा
pṛ0 133) taṇḍūddāmagiro jayanti savidhaṃ śrīkaiṭabhāre tyaja brahmanbrahmaravāṃśca saṃhara hare dūraṃ paraṃ sāraya | itthaṃ nartakacakravartinikaṭe nṛtyonmukhe tādṛśaṃ nṛtyantaṃ rajatādriratnasadasi paśyāmi śambhuṃ sadā
41
नृत्तान्दोलचलच्छिखामृतगलत्खण्डेन्दुसान्द्रोच्चये भ्राजत्पाटलमण्डलारुणलसद्बृन्दारकाणां गणे । मग्नोभुग्नवलग्ननग्ननिभृते चूडाहिबृन्दोछवस- न्नृत्यन्तं रजताद्रिरत्नसदसि पश्यामि शम्भुं सदा
nṛttāndolacalacchikhāmṛtagalatkhaṇḍendusāndroccaye bhrājatpāṭalamaṇḍalāruṇalasadbṛndārakāṇāṃ gaṇe | magnobhugnavalagnanagnanibhṛte cūḍāhibṛndochavasa- nnṛtyantaṃ rajatādriratnasadasi paśyāmi śambhuṃ sadā
42
नर्तार्तस्य पदद्वयोः प्लुतिचलद्धेमाद्रिसोमार्यमा- क्ष्माशेषादिककम्पनं विदधतं नृत्यन्तमीषत्स्मितम् । देवी पश्यति शङ्करं च सुमहत्सानन्दनन्दोन्मुखं नृत्यन्तं रजताद्रिरत्नसदसि पश्यामि शम्भुं सदा
nartārtasya padadvayoḥ pluticaladdhemādrisomāryamā- kṣmāśeṣādikakampanaṃ vidadhataṃ nṛtyantamīṣatsmitam | devī paśyati śaṅkaraṃ ca sumahatsānandanandonmukhaṃ nṛtyantaṃ rajatādriratnasadasi paśyāmi śambhuṃ sadā
43
यस्मिन्नृत्यत्वमीशे विदधति भरितानन्दसन्दोहधाम्नि भूषास्पन्दनहानिशङ्किहृदयो मन्दं विधत्ते पदम् । यो वासश्शिथिलं भवेदिति करानातन्वते निस्यदा- न्केशाकुञ्चनतः करोति भगवान्केन्दूच चक्रोत्तमौ
yasminnṛtyatvamīśe vidadhati bharitānandasandohadhāmni bhūṣāspandanahāniśaṅkihṛdayo mandaṃ vidhatte padam | yo vāsaśśithilaṃ bhavediti karānātanvate nisyadā- nkeśākuñcanataḥ karoti bhagavānkendūca cakrottamau
44
नानर्ति प्रसभं प्रसन्नहृदयो रात्ने सभायां शिवः
nānarti prasabhaṃ prasannahṛdayo rātne sabhāyāṃ śivaḥ
45
इत्थं राजतशैले च देवो रत्नसभान्तरे । नृत्तं वितनुते देव्याः पुरतस्सायमीश्वरः
itthaṃ rājataśaile ca devo ratnasabhāntare | nṛttaṃ vitanute devyāḥ puratassāyamīśvaraḥ
46
पश्चात्सभायां रजतकल्पितायां महेश्वरः । नृत्यत्यम्बा मुखं वीक्ष्य गणबृन्दसमन्वितः
paścātsabhāyāṃ rajatakalpitāyāṃ maheśvaraḥ | nṛtyatyambā mukhaṃ vīkṣya gaṇabṛndasamanvitaḥ
47
श्रीस्कन्दः– नृत्यन्तं हरिभूषणं विधिशिरोबृन्दालिमालालस- द्वामाङ्गाकृतिसत्स्त्रिया युतपदे केयूरशिञ्जत्स्वनम् । कट्यां सामजचर्मवस्त्रकलितं नृत्यन्तमाशावसं बद्धार्द्धाङ्गकलेन बालकलितोत्तंसान्वितांसा वयम्
śrīskandaḥ– nṛtyantaṃ haribhūṣaṇaṃ vidhiśirobṛndālimālālasa- dvāmāṅgākṛtisatstriyā yutapade keyūraśiñjatsvanam | kaṭyāṃ sāmajacarmavastrakalitaṃ nṛtyantamāśāvasaṃ baddhārddhāṅgakalena bālakalitottaṃsānvitāṃsā vayam
47
नृत्यन्तं कलधौतसारसदसि ध्यायामि नृत्तोन्मुखम्
nṛtyantaṃ kaladhautasārasadasi dhyāyāmi nṛttonmukham
48
पृ0 134) वाग्गुम्भान्विविधानकृत्रिममयानम्भोजजाते वद- त्यानन्दाम्बुधिमग्नचेतसि परे गोविन्दपूज्ये हरे । मन्दं मन्दमरन्दपाभिरखिले बृन्दारकाणाङ्गणे नृत्यन्तं कलधौतसारसदसि ध्यायामि नृत्तोन्मुखम्
pṛ0 134) vāggumbhānvividhānakṛtrimamayānambhojajāte vada- tyānandāmbudhimagnacetasi pare govindapūjye hare | mandaṃ mandamarandapābhirakhile bṛndārakāṇāṅgaṇe nṛtyantaṃ kaladhautasārasadasi dhyāyāmi nṛttonmukham
49
यस्मिन् नृत्यति जङ्गमाचरमिदं विश्वं नरीनृत्यति यस्माद्भिन्नतया नकिञ्चिदपि वै वक्तुं नशक्यं बुधैः । तादृक्षं नटनार्भटीकृतरुचिं भूषाहिशेषोज्वलं नृत्यन्तं कलधौतसारसदसि ध्यायामि शम्भोः पदम्
yasmin nṛtyati jaṅgamācaramidaṃ viśvaṃ narīnṛtyati yasmādbhinnatayā nakiñcidapi vai vaktuṃ naśakyaṃ budhaiḥ | tādṛkṣaṃ naṭanārbhaṭīkṛtaruciṃ bhūṣāhiśeṣojvalaṃ nṛtyantaṃ kaladhautasārasadasi dhyāyāmi śambhoḥ padam
50
चेतस्त्वं भज यद्गतो न पुनरावृत्तिं भजेन्मानवो यस्माच्चित्रतरं न किञ्चिदधिकं तत्तादृशन्ताण्डवम् । कुर्वन्तं करुणाम्बुधिं त्रिणयनं श्रीकालकूटोज्वलं नृत्यन्तं कलधौतसारसदसि ध्यायामि शम्भोः पदम्
cetastvaṃ bhaja yadgato na punarāvṛttiṃ bhajenmānavo yasmāccitrataraṃ na kiñcidadhikaṃ tattādṛśantāṇḍavam | kurvantaṃ karuṇāmbudhiṃ triṇayanaṃ śrīkālakūṭojvalaṃ nṛtyantaṃ kaladhautasārasadasi dhyāyāmi śambhoḥ padam
51
यस्मिन्भ्राम्यति बम्भ्रमीति सकलं विश्वञ्चराद्यात्मकं यस्मिन्नुत्प्लुतिमाचरत्यविकलं ब्रह्माण्डमुद्भिद्यते । यद्भासा प्रविभान्ति भास्करनिशानाथादयस्सन्ततं नृत्यन्तं कलधौतसारसदसि ध्यायामि शम्भोः पदम्
yasminbhrāmyati bambhramīti sakalaṃ viśvañcarādyātmakaṃ yasminnutplutimācaratyavikalaṃ brahmāṇḍamudbhidyate | yadbhāsā pravibhānti bhāskaraniśānāthādayassantataṃ nṛtyantaṃ kaladhautasārasadasi dhyāyāmi śambhoḥ padam
52
यस्मिन्नापतिते न शर्म लभते कूर्मोऽपि भग्नास्थिको नृत्तायासविनिर्गतोरुनयनश्रोत्रोत्थफूत्कारकः । साङ्गा सा श्रुतिरित्युपेन्द्रसदृशास्तस्याश्रयाज्जीविनः
yasminnāpatite na śarma labhate kūrmo'pi bhagnāsthiko nṛttāyāsavinirgatorunayanaśrotrotthaphūtkārakaḥ | sāṅgā sā śrutirityupendrasadṛśāstasyāśrayājjīvinaḥ
53
यस्य स्वेदजलं महोदधिरपि प्रोद्यन्मणीनां गणो रौप्याद्रौ कलधौतसारसदसि श्रीनीलकण्ठं भजे
yasya svedajalaṃ mahodadhirapi prodyanmaṇīnāṃ gaṇo raupyādrau kaladhautasārasadasi śrīnīlakaṇṭhaṃ bhaje
55
एवं स नृत्यतीशानः कैलासकलधौतजे । सदसि स्वैरमम्बायाः पुरतश्शशिशेखरः
evaṃ sa nṛtyatīśānaḥ kailāsakaladhautaje | sadasi svairamambāyāḥ purataśśaśiśekharaḥ
56
उत्तरे चित्सभायान्तु नृत्यत्यम्बां विलोकयन् । गणेन्द्रैस्सेवितपदो महादेवो महेश्वरः
uttare citsabhāyāntu nṛtyatyambāṃ vilokayan | gaṇendraissevitapado mahādevo maheśvaraḥ
56
पृ0 135) श्रीस्कन्दः– ह्रीर्मूर्त्या शिवया विराण्मयमयं हृत्पङ्कजस्थं सदा ह्रीणानां शिवकीर्तने हितकरं हेलह्रदां मानिनाम् । ह्रीबेरादिसुगन्धवस्त्ररुचिरं हेमाद्रिबाणासनं ह्रीङ्कारादिकपादपीठममलं हृद्यं नटेशं भजे
pṛ0 135) śrīskandaḥ– hrīrmūrtyā śivayā virāṇmayamayaṃ hṛtpaṅkajasthaṃ sadā hrīṇānāṃ śivakīrtane hitakaraṃ helahradāṃ māninām | hrīberādisugandhavastraruciraṃ hemādribāṇāsanaṃ hrīṅkārādikapādapīṭhamamalaṃ hṛdyaṃ naṭeśaṃ bhaje
57
श्रीमद्ज्ञानसभान्तरे प्रविलसच्छ्रीपञ्चवर्णाकृतिं श्रीवाणीविनुताङ्घ्रिपङ्कजयुगं श्रीवल्लभेनार्चितम् । श्रीविद्यामनुमोदनं शृतजनश्रीदायकं श्रीधरं श्रीचक्रान्तरवासिनं शिवमहं श्रीमन्नटेशं भजे
śrīmadjñānasabhāntare pravilasacchrīpañcavarṇākṛtiṃ śrīvāṇīvinutāṅghripaṅkajayugaṃ śrīvallabhenārcitam | śrīvidyāmanumodanaṃ śṛtajanaśrīdāyakaṃ śrīdharaṃ śrīcakrāntaravāsinaṃ śivamahaṃ śrīmannaṭeśaṃ bhaje
58
नव्याम्भोजमुखं नमज्जनविधिं नारायणेनार्चितं नागौकोनगरीनदीविलसितं नागाजिनालङ्कृतम् । नानारूपकनर्तनादिचतुरं नालीकजान्वेष्टितं नादात्मानमहं नगेन्द्रतनयानाथं नटेशं भजे
navyāmbhojamukhaṃ namajjanavidhiṃ nārāyaṇenārcitaṃ nāgaukonagarīnadīvilasitaṃ nāgājinālaṅkṛtam | nānārūpakanartanādicaturaṃ nālīkajānveṣṭitaṃ nādātmānamahaṃ nagendratanayānāthaṃ naṭeśaṃ bhaje
59
मध्यस्थं मधुवैरिमार्गितपदं मद्वंशनाथं प्रभुं मारारातिमतीव मञ्जुवपुषं मन्दारगौरप्रभम् । मायातीतमशेषमङ्गलनिधिं मद्भावनाभावितं मध्येव्योमसभागुहास्थमखिलं मान्यं नटेशं भजे
madhyasthaṃ madhuvairimārgitapadaṃ madvaṃśanāthaṃ prabhuṃ mārārātimatīva mañjuvapuṣaṃ mandāragauraprabham | māyātītamaśeṣamaṅgalanidhiṃ madbhāvanābhāvitaṃ madhyevyomasabhāguhāsthamakhilaṃ mānyaṃ naṭeśaṃ bhaje
60
शिष्टैः पूजितपादुकं शिवकरं शीतांशुरेखाधरं शिल्पं भक्तजनावने शिथिलिताघौघं शिवायाः प्रियम् । शिक्षारक्षणमम्बुजासनशिरोसंहारशीलं प्रभुं शीतापाङ्गविलोचनं शिवमहं श्रीमन्नटेशं भजे
śiṣṭaiḥ pūjitapādukaṃ śivakaraṃ śītāṃśurekhādharaṃ śilpaṃ bhaktajanāvane śithilitāghaughaṃ śivāyāḥ priyam | śikṣārakṣaṇamambujāsanaśirosaṃhāraśīlaṃ prabhuṃ śītāpāṅgavilocanaṃ śivamahaṃ śrīmannaṭeśaṃ bhaje
61
वाणीवल्लभवन्द्यवैभवयुतं वन्दारुचिन्तामणिं वाताशाधिपभूषणं वरकृपावारान्निधिं योगिनाम् । वाञ्छापूर्तिकरं वलारिविनुतं वाहीकृताम्नायकं वामाङ्गात्तवराङ्गनं मम हृदावासं नटेशं भजे
vāṇīvallabhavandyavaibhavayutaṃ vandārucintāmaṇiṃ vātāśādhipabhūṣaṇaṃ varakṛpāvārānnidhiṃ yoginām | vāñchāpūrtikaraṃ valārivinutaṃ vāhīkṛtāmnāyakaṃ vāmāṅgāttavarāṅganaṃ mama hṛdāvāsaṃ naṭeśaṃ bhaje
62
पृ0 136) यक्षाधीशसखं यमप्रमथनं यामिन्यधीशाननं यज्ञध्वंसकरं यतीन्द्रविनुतं यज्ञक्रियाधीश्वरम् । याज्यं याजकरूपिणं यमधनैर्यत्नोपलभ्याङ्घ्रिकं यानीभूतवृषं यतीन्द्रविनुतं याज्यं नटेशं भजे
pṛ0 136) yakṣādhīśasakhaṃ yamapramathanaṃ yāminyadhīśānanaṃ yajñadhvaṃsakaraṃ yatīndravinutaṃ yajñakriyādhīśvaram | yājyaṃ yājakarūpiṇaṃ yamadhanairyatnopalabhyāṅghrikaṃ yānībhūtavṛṣaṃ yatīndravinutaṃ yājyaṃ naṭeśaṃ bhaje
63
मायाश्रीविलसच्चिदम्बरमहापञ्चाक्षरैरङ्कितान् श्लोकान्त्सप्त पठन्ति येऽनुदिवसं चिन्तामणीनामकान् । तेषां भाग्यमनेकमायुरधिकं विद्यावरान् सत्सुतान् सर्वाभीष्टमसौ ददाति सहसा श्रीचित्सभाधीश्वरः
māyāśrīvilasaccidambaramahāpañcākṣarairaṅkitān ślokāntsapta paṭhanti ye'nudivasaṃ cintāmaṇīnāmakān | teṣāṃ bhāgyamanekamāyuradhikaṃ vidyāvarān satsutān sarvābhīṣṭamasau dadāti sahasā śrīcitsabhādhīśvaraḥ
64
श्रीसूतः- तटिन्निभजटार्भटीपटुरिटीड्यवागर्भटी- निटालककृपीडकं भज भजामहे धूर्जटिम् । शिवं कटतटारटद्यमकठोरतुण्डार्भटी- चपेटिवरशूलकं करटिचर्मशोभत्पटम्
śrīsūtaḥ- taṭinnibhajaṭārbhaṭīpaṭuriṭīḍyavāgarbhaṭī- niṭālakakṛpīḍakaṃ bhaja bhajāmahe dhūrjaṭim | śivaṃ kaṭataṭāraṭadyamakaṭhoratuṇḍārbhaṭī- capeṭivaraśūlakaṃ karaṭicarmaśobhatpaṭam
65
हटात्कृतशठासुरमसुखभेदकृत्तीरट- द्विपाठशरधारिणं कमठपृष्टपादं शिवम् । भजामि जठरीधृतत्रिजगन्मूलपीठोत्थित- जनार्दनपटुस्तवं हृदि सुनिष्ठितं योगिनाम्
haṭātkṛtaśaṭhāsuramasukhabhedakṛttīraṭa- dvipāṭhaśaradhāriṇaṃ kamaṭhapṛṣṭapādaṃ śivam | bhajāmi jaṭharīdhṛtatrijaganmūlapīṭhotthita- janārdanapaṭustavaṃ hṛdi suniṣṭhitaṃ yoginām
66
कुठारवरधारिणं कुमुदनाथचूडामणिं कुरङ्गवरभूषणं भजत नीलकण्ठं सदा
kuṭhāravaradhāriṇaṃ kumudanāthacūḍāmaṇiṃ kuraṅgavarabhūṣaṇaṃ bhajata nīlakaṇṭhaṃ sadā
67
उत्कोशकाशितमहाशिवरातखेटनीलोऽच्छताच्छसुकरोरुशिरोधरांसम् । रक्षस्मृतिप्रजनितापगतादिसंज्ञापस्मारमौलिपदपङ्कजनिं भजामि
utkośakāśitamahāśivarātakheṭanīlo'cchatācchasukaroruśirodharāṃsam | rakṣasmṛtiprajanitāpagatādisaṃjñāpasmāramaulipadapaṅkajaniṃ bhajāmi
68
नादोत्थडम्बरमहाडमरुप्रकाण्डमुत्फुल्लपङ्कजवरानलमीशितारम् । आरात् प्रणेमुरमरा रजताचलस्थं केक्याखुवाहगणपैः परमेशमेवम्
nādotthaḍambaramahāḍamaruprakāṇḍamutphullapaṅkajavarānalamīśitāram | ārāt praṇemuramarā rajatācalasthaṃ kekyākhuvāhagaṇapaiḥ parameśamevam
69
नन्दीशभृङ्गिरिटयस्सुरनन्दिकसोमनन्दिचण्डीशतुण्डवरहुण्डतुहुण्डभद्राः । श्रीबाणरावणगणाननकोटिचण्डा ब्रह्मा हरीश्वरमुखा अमरेन्द्रसङ्घाः
nandīśabhṛṅgiriṭayassuranandikasomanandicaṇḍīśatuṇḍavarahuṇḍatuhuṇḍabhadrāḥ | śrībāṇarāvaṇagaṇānanakoṭicaṇḍā brahmā harīśvaramukhā amarendrasaṅghāḥ
70
पृ0 137) स्तम्भैर्विद्रुमपुत्रिकौघघटितैर्हैमैर्महामातृकै- र्भास्वत्स्वावरणैश्च शक्तिभिरपि प्रोद्दण्डमायामये । रङ्गे सर्वजगत्करण्डमखिलं यस्येक्षणाज्जृम्भते यस्यैवेक्षणतश्च रक्षितमिदं तत्रैव लीनं क्षणात्
pṛ0 137) stambhairvidrumaputrikaughaghaṭitairhaimairmahāmātṛkai- rbhāsvatsvāvaraṇaiśca śaktibhirapi proddaṇḍamāyāmaye | raṅge sarvajagatkaraṇḍamakhilaṃ yasyekṣaṇājjṛmbhate yasyaivekṣaṇataśca rakṣitamidaṃ tatraiva līnaṃ kṣaṇāt
71
सोऽप्येतादृशरङ्गमण्टपगतस्सर्वैश्च भूतैर्वृतो रुद्राणीसहितो गणेशगुहयुक्पार्श्वे सुरेन्द्रैरपि । पाथोजास्नभवेन श्रीधरभवैरन्वास्यमानश्शिवो- रुद्राणीगणपैश्च सेवितपदो मोदान्वितो रङ्गगः
so'pyetādṛśaraṅgamaṇṭapagatassarvaiśca bhūtairvṛto rudrāṇīsahito gaṇeśaguhayukpārśve surendrairapi | pāthojāsnabhavena śrīdharabhavairanvāsyamānaśśivo- rudrāṇīgaṇapaiśca sevitapado modānvito raṅgagaḥ
72
ईषत्पादतलाहतित्रुटितभूभागासहिष्णुत्रुट- त्स्फूर्जत्कर्पटशर्मदुर्विधमहाकूर्मस्तवाम्रेडितम् । अङ्गुल्यग्रपतत्तदीयपवनोत्क्षिप्तस्वधामस्थिर- ब्रह्माण्डं परमेशितुर्विजयते नृत्तं समस्ताद्भुतम्
īṣatpādatalāhatitruṭitabhūbhāgāsahiṣṇutruṭa- tsphūrjatkarpaṭaśarmadurvidhamahākūrmastavāmreḍitam | aṅgulyagrapatattadīyapavanotkṣiptasvadhāmasthira- brahmāṇḍaṃ parameśiturvijayate nṛttaṃ samastādbhutam
73
नम्रान्पाणिगणान्दिशावधिकृते स्वीयान्कपर्दानपि व्योमान्ते नतिकुञ्चितामपि पुनः पातालमुख्यानधः । लोकाख्यान् समतीत्य स्वीयचरणान्कुर्वन्निरालम्बनो नृत्तं केवलमीश्वरो वितनुते देव्यग्रतः केवलम्
namrānpāṇigaṇāndiśāvadhikṛte svīyānkapardānapi vyomānte natikuñcitāmapi punaḥ pātālamukhyānadhaḥ | lokākhyān samatītya svīyacaraṇānkurvannirālambano nṛttaṃ kevalamīśvaro vitanute devyagrataḥ kevalam
74
सूतः– सभासु च सभापतिर्हरिहिरण्यगर्भादिभि- स्सनन्दनसनातनैर्हरसुनन्दिनन्द्यादिभिः । कराहतिमहामणिप्रवरमद्दलादुत्थितै- स्सुतालवरकल्पनैर्नटति नृत्तरङ्गस्थितः
sūtaḥ– sabhāsu ca sabhāpatirharihiraṇyagarbhādibhi- ssanandanasanātanairharasunandinandyādibhiḥ | karāhatimahāmaṇipravaramaddalādutthitai- ssutālavarakalpanairnaṭati nṛttaraṅgasthitaḥ
75
वेदाधीश्वर वेद एव भगवन्भक्त्या त्वदीयास्सभा नौति स्तौति भवन्तमेव हि ततो देवं सभाधीश्वरम् । वेदो वेद न वेदरूपमपि ते नीरूपरूपः कथं तस्मादेवमहो महेश्वर सदा वाचानिवृत्तस्त्वयि
vedādhīśvara veda eva bhagavanbhaktyā tvadīyāssabhā nauti stauti bhavantameva hi tato devaṃ sabhādhīśvaram | vedo veda na vedarūpamapi te nīrūparūpaḥ kathaṃ tasmādevamaho maheśvara sadā vācānivṛttastvayi
76
पृ0 138) प्रोवाचावचनेन रूपमपि ते ज्ञातुं न शक्यं परैः
pṛ0 138) provācāvacanena rūpamapi te jñātuṃ na śakyaṃ paraiḥ
śrīśivarahasye prathamāṃśe caturvidhapuruṣārtha maṇṭapavarṇanaṃ nāma catustriṃśo'dhyāyaḥ 34
1
चतुर्विधपुरुषार्थ मण्टपवर्णनं नाम चतुस्त्रिंशोऽध्यायः स्कन्दः– तच्छैलमौलिप्राकारो नानासौधान्तरे स्थितः । चन्द्रोपलशिलासारैः कल्पितोऽस्ति शिवेन हि
caturvidhapuruṣārtha maṇṭapavarṇanaṃ nāma catustriṃśo'dhyāyaḥ skandaḥ– tacchailamauliprākāro nānāsaudhāntare sthitaḥ | candropalaśilāsāraiḥ kalpito'sti śivena hi
2
खण्डस्फुटितसन्धानरहितोऽखण्ड एव हि । पर्वोद्यच्छर्वरीनाथकलानिष्यन्दसारकः
khaṇḍasphuṭitasandhānarahito'khaṇḍa eva hi | parvodyaccharvarīnāthakalāniṣyandasārakaḥ
3
त्रिंशत्सहस्रमानेन चायामोर्ध्वविराजितः । शुद्धस्फटिकसङ्कॢप्तवृषभैः परिशोभितः
triṃśatsahasramānena cāyāmordhvavirājitaḥ | śuddhasphaṭikasaṅkḷptavṛṣabhaiḥ pariśobhitaḥ
4
इन्द्रनीलामलाक्षैश्च विषाणैश्चैव शोभितैः । तत्प्राकाराखण्डभित्तौ संस्थिता गोपुरेषु च
indranīlāmalākṣaiśca viṣāṇaiścaiva śobhitaiḥ | tatprākārākhaṇḍabhittau saṃsthitā gopureṣu ca
5
प्राकारगोपुरं तत्र दशसाहस्रमुछ्रितम् । रुद्रावतारचरितं मणिकुम्भवराञ्चितम्
prākāragopuraṃ tatra daśasāhasramuchritam | rudrāvatāracaritaṃ maṇikumbhavarāñcitam
6
शोभितं पूर्वभागस्थं तत्प्राकारवरस्य च । दक्षिणे चापि तादृक्षं महास्फटिककल्पितम्
śobhitaṃ pūrvabhāgasthaṃ tatprākāravarasya ca | dakṣiṇe cāpi tādṛkṣaṃ mahāsphaṭikakalpitam
7
रुद्रावतारक्रीडाभिरञ्चितं वृषभैरपि । पश्चिमे चापि तेजिष्टं स्फटिकोपलगोपुरम्
rudrāvatārakrīḍābhirañcitaṃ vṛṣabhairapi | paścime cāpi tejiṣṭaṃ sphaṭikopalagopuram
8
रुद्रावतारक्रीडाभिर्वृषभैः कलशैरपि । शोभितं तत्र तद्भाति दशसाहस्रमानतः
rudrāvatārakrīḍābhirvṛṣabhaiḥ kalaśairapi | śobhitaṃ tatra tadbhāti daśasāhasramānataḥ
9
तदुत्तरेऽपि स्फटिकधवलं गोपुरोत्तमम् । रुद्रावतारैः कलशैश्शोभितं वृषभैरपि
taduttare'pi sphaṭikadhavalaṃ gopurottamam | rudrāvatāraiḥ kalaśaiśśobhitaṃ vṛṣabhairapi
10
सहस्रतलभागैश्च शिखरोद्यत्पताककैः । मुक्तागुच्छैः प्रवालालिमालाजालिकशोभितैः
sahasratalabhāgaiśca śikharodyatpatākakaiḥ | muktāgucchaiḥ pravālālimālājālikaśobhitaiḥ
11
देवकोष्टैः कोणकोष्टैः कपोतैः पालिपालिभिः । महावलभिकोद्दामस्तम्भविद्रुमपुत्रिकैः
devakoṣṭaiḥ koṇakoṣṭaiḥ kapotaiḥ pālipālibhiḥ | mahāvalabhikoddāmastambhavidrumaputrikaiḥ
12
प्राक् संस्थो मण्टपस्तत्र व्यायामोच्छ्रायसुन्दरः । सिह्मशार्दूलशरभमातङ्गतुरगाकृतिः
prāk saṃstho maṇṭapastatra vyāyāmocchrāyasundaraḥ | sihmaśārdūlaśarabhamātaṅgaturagākṛtiḥ
13
शुकभेरुडहंसाभैस्स्तम्भैर्मणिकृतैर्युतः । सिह्ममौलिमहापालिकन्यकालिविराजितैः
śukabheruḍahaṃsābhaisstambhairmaṇikṛtairyutaḥ | sihmamaulimahāpālikanyakālivirājitaiḥ
14
रत्नयुक्तस्तम्भयुतश्चागर्भगृहगोपुरम् । विस्तृतो वेदिकाभिश्च रक्तपद्मछविर्महान्
ratnayuktastambhayutaścāgarbhagṛhagopuram | vistṛto vedikābhiśca raktapadmachavirmahān
15
स्वच्छादर्शतलाकारमणिसुन्दरभित्तिकः । धूपैस्तन्मणिदीपैश्च विद्योदितदिगन्तरः
svacchādarśatalākāramaṇisundarabhittikaḥ | dhūpaistanmaṇidīpaiśca vidyoditadigantaraḥ
16
पाटीरसारकर्पूरगन्धसारादिसिक्तभूः । सुमनामोदिमन्दाररत्नमालापरिष्कृतः
pāṭīrasārakarpūragandhasārādisiktabhūḥ | sumanāmodimandāraratnamālāpariṣkṛtaḥ
17
तत्राच्छहरिदुद्दाममणिसप्तच्छदावृतः । तत्राच्छविद्रुमापारमुक्तासरविलम्बितः
tatrācchahariduddāmamaṇisaptacchadāvṛtaḥ | tatrācchavidrumāpāramuktāsaravilambitaḥ
18
पृ0 139) अम्लानकुसुमोद्रिक्तरदन्तरकृतान्तरः । तत्र तद्भित्तिगानेकनवरत्नविचित्रितः
pṛ0 139) amlānakusumodriktaradantarakṛtāntaraḥ | tatra tadbhittigānekanavaratnavicitritaḥ
19
रुद्रावतारक्रीडादितत्तन्मणिसुविग्रहः । मोक्षलक्ष्मीविलासाख्यो मण्टपो भाति पूर्वतः
rudrāvatārakrīḍāditattanmaṇisuvigrahaḥ | mokṣalakṣmīvilāsākhyo maṇṭapo bhāti pūrvataḥ
20
दक्षिणेऽप्ययुतस्तम्भनानामणिगणैश्चितः । आगर्भगृहमुत्सेधविस्तृतो गोपुरावधि
dakṣiṇe'pyayutastambhanānāmaṇigaṇaiścitaḥ | āgarbhagṛhamutsedhavistṛto gopurāvadhi
21
सारूप्यमोक्षदानाख्यो भाति रत्नपरिष्कृतः । गोमेदकान्तिविलसद्वीरधीरावृतान्तरः
sārūpyamokṣadānākhyo bhāti ratnapariṣkṛtaḥ | gomedakāntivilasadvīradhīrāvṛtāntaraḥ
22
सुरत्नमुकुराकारभित्तिरङ्गैकसुन्दरः । तत्रत्यमणिमाणिक्यगणकान्तिततान्तरः
suratnamukurākārabhittiraṅgaikasundaraḥ | tatratyamaṇimāṇikyagaṇakāntitatāntaraḥ
23
कस्तूरीतगरामोदगन्धवारिसुपङ्किलः । नन्दनापारकुसुममालाजालवृतान्तरः
kastūrītagarāmodagandhavārisupaṅkilaḥ | nandanāpārakusumamālājālavṛtāntaraḥ
24
रम्भापूगीफलालम्बिगुच्छपालीविराजितः । रत्नोद्गीर्णागरुस्तम्भैर्मरालावलिशोभितः
rambhāpūgīphalālambigucchapālīvirājitaḥ | ratnodgīrṇāgarustambhairmarālāvaliśobhitaḥ
25
तद्भित्तिनिचितापाररुद्रक्रीडादिविग्रहैः । तत्तद्भूषाविशेषेषु यो यो रागस्तथा तथा
tadbhittinicitāpārarudrakrīḍādivigrahaiḥ | tattadbhūṣāviśeṣeṣu yo yo rāgastathā tathā
26
तत्तन्मणिकृतानेकसुन्दरैश्शिवविग्रहैः । गुग्गुलूद्दामसुभगगन्धधूपविधूपितः
tattanmaṇikṛtānekasundaraiśśivavigrahaiḥ | guggulūddāmasubhagagandhadhūpavidhūpitaḥ
27
पश्चिमेगर्भगृहतोगोपुरावधिविस्तृतः । सुभगोभातिनियुतस्तम्भमण्डितभूतलः
paścimegarbhagṛhatogopurāvadhivistṛtaḥ | subhagobhātiniyutastambhamaṇḍitabhūtalaḥ
28
सालोक्यमोक्षदानाख्यो मण्टपोऽयुतपादभाक् । तत्र वैडूर्यरचितस्स्तम्भाखण्डैकसारभूः
sālokyamokṣadānākhyo maṇṭapo'yutapādabhāk | tatra vaiḍūryaracitasstambhākhaṇḍaikasārabhūḥ
29
तत्सूत्रापारधाराभिर्विस्मयाकरकान्तिभूः । सिह्ममौलिमहापीठ कपोतावलिसुन्दरः
tatsūtrāpāradhārābhirvismayākarakāntibhūḥ | sihmamaulimahāpīṭha kapotāvalisundaraḥ
30
मणिरत्नचितानेक पालिपाली वराश्रयः । केसराम्बुयुतासारमृगमोदयुतैर्घटैः
maṇiratnacitāneka pālipālī varāśrayaḥ | kesarāmbuyutāsāramṛgamodayutairghaṭaiḥ
31
गन्धाम्बुसिक्ततलको मणिमालाविभूषितः । हीरसारमहामुक्तामणिहारावलम्बितः
gandhāmbusiktatalako maṇimālāvibhūṣitaḥ | hīrasāramahāmuktāmaṇihārāvalambitaḥ
32
तत्र वैडूर्यफलकचितोर्ध्वतलकान्तिकः । निर्यत्कान्त्याकान्ततरो विचिताखिलचित्रकः
tatra vaiḍūryaphalakacitordhvatalakāntikaḥ | niryatkāntyākāntataro vicitākhilacitrakaḥ
33
कृष्णागरुमहारम्यधूमधूपसमाकुलः । मणिकॢप्ताच्छभित्तिश्च रुद्रक्रीडादिशोभितः
kṛṣṇāgarumahāramyadhūmadhūpasamākulaḥ | maṇikḷptācchabhittiśca rudrakrīḍādiśobhitaḥ
34
शोभनो नितरां भाति मणिरत्नालिसुन्दरः । सुरत्नकेतकीतालीफलालम्बितपद्मकैः
śobhano nitarāṃ bhāti maṇiratnālisundaraḥ | suratnaketakītālīphalālambitapadmakaiḥ
35
महासिह्मासनैः पीठैः पालीपालिविराजितः । प्रवालमुक्तापादैश्च सुरौप्यमणिपादुकैः
mahāsihmāsanaiḥ pīṭhaiḥ pālīpālivirājitaḥ | pravālamuktāpādaiśca suraupyamaṇipādukaiḥ
36
मञ्चोर्ध्वमण्टपालम्बिमुक्ताजालवितानकैः । पुष्पशय्यापरिकरैरुपधानैर्मनोहरैः
mañcordhvamaṇṭapālambimuktājālavitānakaiḥ | puṣpaśayyāparikarairupadhānairmanoharaiḥ
37
वासितैर्गन्धबहलशुभास्तीर्णपटावृतैः । सुरुद्रवीणानादैश्च नादितैर्दुन्दुभीरवैः
vāsitairgandhabahalaśubhāstīrṇapaṭāvṛtaiḥ | surudravīṇānādaiśca nāditairdundubhīravaiḥ
38
तत्र मण्टपवर्येषु चैकाकारतयास्थितम् । पश्चादागोपुरतलमागर्भगृहसन्निधि
tatra maṇṭapavaryeṣu caikākāratayāsthitam | paścādāgopuratalamāgarbhagṛhasannidhi
39
तदुत्तरे चकास्तीशमण्टपो रत्नसुन्दरः । आगोपुरगृहं शम्भोरयुतोच्छ्रितपादुकः
taduttare cakāstīśamaṇṭapo ratnasundaraḥ | āgopuragṛhaṃ śambhorayutocchritapādukaḥ
40
पुष्परागमणीकॢप्तश्चोर्ध्वाधस्तलमण्डितः । तत्कान्तिकाञ्चितोद्दामविद्रुमामलपुत्रिकः
puṣparāgamaṇīkḷptaścordhvādhastalamaṇḍitaḥ | tatkāntikāñcitoddāmavidrumāmalaputrikaḥ
41
सारङ्गशुकमातङ्गकुरङ्गविहगाकृतिः । स्तम्भैश्शोभितभूभागमणिसारालिकीलितः
sāraṅgaśukamātaṅgakuraṅgavihagākṛtiḥ | stambhaiśśobhitabhūbhāgamaṇisārālikīlitaḥ
42
पृ0 140) रत्नजालकनिर्यद्भातलरञ्जितदिङ्मुखः । सुरत्नवलभीकीर्ण स्वच्छभित्तिवराञ्चितः
pṛ0 140) ratnajālakaniryadbhātalarañjitadiṅmukhaḥ | suratnavalabhīkīrṇa svacchabhittivarāñcitaḥ
43
तत्र रुद्रावतारादिमणिकल्पितविग्रहः । शरच्चन्द्रप्रभाजालतिरस्कारितलोच्छ्रयः
tatra rudrāvatārādimaṇikalpitavigrahaḥ | śaraccandraprabhājālatiraskāritalocchrayaḥ
44
सुरत्नकेतकोद्दामललन्नारेलगुच्छकः । गन्धकर्पूरपाटीरद्रवभारैकगन्धभूः
suratnaketakoddāmalalannārelagucchakaḥ | gandhakarpūrapāṭīradravabhāraikagandhabhūḥ
45
वितानोत्तानिततलो रत्नरम्भापरिष्कृतः । साम्राण्यगरुधूपैश्च नित्यं घुमुघुमायितः
vitānottānitatalo ratnarambhāpariṣkṛtaḥ | sāmrāṇyagarudhūpaiśca nityaṃ ghumughumāyitaḥ
46
प्रफुल्लरत्नचाम्पेयरत्नराजिविराजितः । नीलनीलोत्पलोत्फुल्लपीठालंबिसरैर्वृतः
praphullaratnacāmpeyaratnarājivirājitaḥ | nīlanīlotpalotphullapīṭhālaṃbisarairvṛtaḥ
47
तत्रत्यस्तम्भविततपुष्परागमणिप्रभः । तत्रान्तर्मण्टपवरं रञ्जितं मणिकान्तिभिः
tatratyastambhavitatapuṣparāgamaṇiprabhaḥ | tatrāntarmaṇṭapavaraṃ rañjitaṃ maṇikāntibhiḥ
48
सुगन्धगन्धजामोदपटवासानुमोदितः । वातपोतसमानीतै रम्यशीततरावृतैः
sugandhagandhajāmodapaṭavāsānumoditaḥ | vātapotasamānītai ramyaśītatarāvṛtaiḥ
49
तन्मण्टपवरे देव्या दिव्यसिह्मासनाश्रयः । आस्ते गणैः परिवृतोऽपश्यंस्तद्दृष्टिकौतुकम्
tanmaṇṭapavare devyā divyasihmāsanāśrayaḥ | āste gaṇaiḥ parivṛto'paśyaṃstaddṛṣṭikautukam
50
तत्रत्यमण्टपस्याख्या श्रीमहेशेन कल्पिता । सायुज्यलक्ष्मीदानाख्यो रत्नसुन्दरकल्पितः
tatratyamaṇṭapasyākhyā śrīmaheśena kalpitā | sāyujyalakṣmīdānākhyo ratnasundarakalpitaḥ
51
स्कन्दः- तत्रत्यामलमण्टपेषु भगवानास्ते सहाम्बो मुदा भक्तानां निवहेषु तत्र सुकृतापारैश्च भूषादिभिः । स्वस्वापाररसैर्वरैस्सुमधुरोदारैर्गणेन्द्रैर्वृत- स्तत्तत्स्थानवरार्हभूषणवरं भक्तेषु धत्ते शिवः
skandaḥ- tatratyāmalamaṇṭapeṣu bhagavānāste sahāmbo mudā bhaktānāṃ nivaheṣu tatra sukṛtāpāraiśca bhūṣādibhiḥ | svasvāpārarasairvaraissumadhurodārairgaṇendrairvṛta- stattatsthānavarārhabhūṣaṇavaraṃ bhakteṣu dhatte śivaḥ
śrīśivarahasye prathamāṃśe kailāsaliṃgavarṇanaṃ nāma pañcatriṃśo'dhyāyaḥ 35
1
कैलासलिंगवर्णनं नाम पञ्चत्रिंशोऽध्यायः स्कन्दः– तत्राच्छमण्टपान्तस्थं गोपुरान्तरसुन्दरम् । इन्द्रचापनिभं दिव्यं नानामणिविराजितम्
kailāsaliṃgavarṇanaṃ nāma pañcatriṃśo'dhyāyaḥ skandaḥ– tatrācchamaṇṭapāntasthaṃ gopurāntarasundaram | indracāpanibhaṃ divyaṃ nānāmaṇivirājitam
2
प्राकारं दशसाहस्रयोजनायामविस्तरम् । क्वचित्पूर्वेषु हरितं क्वचित्कज्जलसन्निभम्
prākāraṃ daśasāhasrayojanāyāmavistaram | kvacitpūrveṣu haritaṃ kvacitkajjalasannibham
3
कुरुविन्दामलमणिभास्वत्कान्ततराकृति । तटित्कूटनिभञ्चापि नीलाम्बुदनिभं क्वचित्
kuruvindāmalamaṇibhāsvatkāntatarākṛti | taṭitkūṭanibhañcāpi nīlāmbudanibhaṃ kvacit
4
बालसूर्यकराभासञ्चोद्यदिन्दुनिभं क्वचित् । पलाशशल्मलीपुष्पसङ्काशं क्वचिदेव हि
bālasūryakarābhāsañcodyadindunibhaṃ kvacit | palāśaśalmalīpuṣpasaṅkāśaṃ kvacideva hi
5
पृ0 141) इन्द्रनीलामलमणिप्रभासन्निभकाण्डकम् । इन्द्रगोपकसङ्काशं मयूरगलसन्निभम्
pṛ0 141) indranīlāmalamaṇiprabhāsannibhakāṇḍakam | indragopakasaṅkāśaṃ mayūragalasannibham
6
पारावतगलाभासं कर्णिकारछवीयुतम् । चन्द्रभास्वत्कराकारकनद्धीरनिभं क्वचित्
pārāvatagalābhāsaṃ karṇikārachavīyutam | candrabhāsvatkarākārakanaddhīranibhaṃ kvacit
7
गोमेदपुष्यरागोद्यद्वैडूर्यरसरञ्जितम् । प्रवालमणिमुक्ताच्छधाराछविनिभं क्वचित्
gomedapuṣyarāgodyadvaiḍūryarasarañjitam | pravālamaṇimuktācchadhārāchavinibhaṃ kvacit
8
तत्प्राकारप्रभाजालैर्नभो विविधभायुतम् । मणिमाणिक्यखचितगोपुरालिविराजितम्
tatprākāraprabhājālairnabho vividhabhāyutam | maṇimāṇikyakhacitagopurālivirājitam
9
रुद्रावतारचरितैर्मणिराजद्वृषैर्युतम् । ललामशोभिकलशैश्चतुर्दिक्षु विराजितम्
rudrāvatāracaritairmaṇirājadvṛṣairyutam | lalāmaśobhikalaśaiścaturdikṣu virājitam
10
तत्रान्तर्गृहमीशस्य गर्भागारं मनोहरम् । नवरत्नाखण्डकॢप्तस्तम्भपीठविराजितम्
tatrāntargṛhamīśasya garbhāgāraṃ manoharam | navaratnākhaṇḍakḷptastambhapīṭhavirājitam
11
तच्चिन्तामणिभाजालभासितं गर्भधाम तत् । तदग्रतो भाति शम्भोस्सहस्रस्तम्भमण्डितः
taccintāmaṇibhājālabhāsitaṃ garbhadhāma tat | tadagrato bhāti śambhossahasrastambhamaṇḍitaḥ
12
सुमुक्तिमन्टपो नाम सर्ववेदशिखास्तुतः । तत्प्रभाभासिता लोका ब्रह्मविष्ण्वादयस्सुराः
sumuktimanṭapo nāma sarvavedaśikhāstutaḥ | tatprabhābhāsitā lokā brahmaviṣṇvādayassurāḥ
13
दिक्पालयक्षरक्षौघनागाप्सरसकिन्नराः । उरगास्तुरगाश्चैव सारङ्गाश्चामरास्सृमाः
dikpālayakṣarakṣaughanāgāpsarasakinnarāḥ | uragāsturagāścaiva sāraṅgāścāmarāssṛmāḥ
14
मयवस्सामजालावा हरयश्शरभास्तथा । भल्लूकभेकखङ्गैश्च हरिणैर्महिषैस्तथा
mayavassāmajālāvā harayaśśarabhāstathā | bhallūkabhekakhaṅgaiśca hariṇairmahiṣaistathā
15
कल्पिता मणिजोत्तुङ्गस्तम्भधारासु कोटिशः । मणिजालकसञ्छन्नो रत्नसोपानवेदिकः
kalpitā maṇijottuṅgastambhadhārāsu koṭiśaḥ | maṇijālakasañchanno ratnasopānavedikaḥ
16
पट्टिकातोरणोपेतः पीठगोपानसीयुतः । तदग्ररत्नकलशैरत्नजालकशोभितः
paṭṭikātoraṇopetaḥ pīṭhagopānasīyutaḥ | tadagraratnakalaśairatnajālakaśobhitaḥ
17
रत्नगुच्छमहामालाजालाकीलितसुन्दरः । प्रभाकरसहस्राभश्चेन्दुकोटिसमप्रभः
ratnagucchamahāmālājālākīlitasundaraḥ | prabhākarasahasrābhaścendukoṭisamaprabhaḥ
18
धूपामोदैकबहुलो मणिदीपप्रभाततः । वितानतानसुभगो हरिन्मणिनिभस्सदा
dhūpāmodaikabahulo maṇidīpaprabhātataḥ | vitānatānasubhago harinmaṇinibhassadā
19
नन्दनानन्दितसुममालागुच्छकलम्बितः । अम्लानारक्तकमलोत्पलमालालसच्छविः
nandanānanditasumamālāgucchakalambitaḥ | amlānāraktakamalotpalamālālasacchaviḥ
20
प्रत्यग्रकेतकोद्दामगन्धोद्यद्रत्नपिञ्जरः । उत्फुल्लचम्पकोद्दाममालागन्धितदिक्तटः
pratyagraketakoddāmagandhodyadratnapiñjaraḥ | utphullacampakoddāmamālāgandhitadiktaṭaḥ
21
कदम्बबन्धुरामोदसुन्दरो मणिभासुरः । तत्र सिह्मासनैश्चित्रैः कल्पितैर्मणिभिस्ततैः
kadambabandhurāmodasundaro maṇibhāsuraḥ | tatra sihmāsanaiścitraiḥ kalpitairmaṇibhistataiḥ
22
पद्मरागामलमणिकाञ्चितादर्शभित्तिकः । पताकाकुम्भकोटीभिर्मणिकोटिवृषैश्चितः
padmarāgāmalamaṇikāñcitādarśabhittikaḥ | patākākumbhakoṭībhirmaṇikoṭivṛṣaiścitaḥ
23
लिङ्गाग्रे मण्टपो भाति कैलासेश्वरसन्निधौ । ततोऽन्तरे गर्भगृहं कैलासेशस्य सत्तम
liṅgāgre maṇṭapo bhāti kailāseśvarasannidhau | tato'ntare garbhagṛhaṃ kailāseśasya sattama
24
नवरत्नमणीपीठं वेदिकातलसुन्दरम् । गर्भकोष्टैः पट्टिकाभिर्देवकोष्टैर्विराजितम्
navaratnamaṇīpīṭhaṃ vedikātalasundaram | garbhakoṣṭaiḥ paṭṭikābhirdevakoṣṭairvirājitam
25
वलभीतलसञ्चारिमरालकुलसुन्दरम् । कपोतपालीपालिस्थमणिसिह्मवृषैर्युतम्
valabhītalasañcārimarālakulasundaram | kapotapālīpālisthamaṇisihmavṛṣairyutam
26
दिक्पालैर्ब्रह्मविष्ण्वाद्यैर्दक्षिणामूर्तिविस्तृतम् । दक्षिणे पश्चिमे चापि प्रागुत्तरदिशि प्रभाः
dikpālairbrahmaviṣṇvādyairdakṣiṇāmūrtivistṛtam | dakṣiṇe paścime cāpi prāguttaradiśi prabhāḥ
27
लिङ्गोद्भवान्धकारातित्रिपुरासुरसंहृतिः । ब्रह्मविष्णूद्भवश्चापि ताण्डवेशश्च सुन्दरः
liṅgodbhavāndhakārātitripurāsurasaṃhṛtiḥ | brahmaviṣṇūdbhavaścāpi tāṇḍaveśaśca sundaraḥ
28
करिचर्मपरीधानो हेरम्बस्कन्दसंयुतः । भिक्षाटनश्च कङ्कालश्शूलासक्तकरो हरः
karicarmaparīdhāno herambaskandasaṃyutaḥ | bhikṣāṭanaśca kaṅkālaśśūlāsaktakaro haraḥ
29
मेखलावृतकण्ठोद्यत्पादाम्भोजाक्तपादुकः । जटाजालितसन्मौलिरिन्दुकुन्दशताच्छभाः
mekhalāvṛtakaṇṭhodyatpādāmbhojāktapādukaḥ | jaṭājālitasanmaulirindukundaśatācchabhāḥ
30
पृ0 142) सोमावतंसोक्षवाहो गणबृन्दवृतः क्वचित् । उमया संस्थितः पीठे पश्यन् गौरीं मनोहरः
pṛ0 142) somāvataṃsokṣavāho gaṇabṛndavṛtaḥ kvacit | umayā saṃsthitaḥ pīṭhe paśyan gaurīṃ manoharaḥ
31
गौरीप्रसादनपरः पश्यंस्तद्धनुकेकरम् । अर्धेननारीवपुषा शोभितो हरिहीरभाः
gaurīprasādanaparaḥ paśyaṃstaddhanukekaram | ardhenanārīvapuṣā śobhito harihīrabhāḥ
32
रत्नाहिकुण्डलद्योतिसोमधामसमाननः । व्याघ्ररत्नाम्बरधरस्त्रिपुण्ट्रतिलकोज्वलः
ratnāhikuṇḍaladyotisomadhāmasamānanaḥ | vyāghraratnāmbaradharastripuṇṭratilakojvalaḥ
33
मणिरिङ्खत्सुभूषाड्यो नानाभूतिजगन्धधृक् । क्वणन्मञ्जीरपादार्धशेषार्धपदपङ्कजः
maṇiriṅkhatsubhūṣāḍyo nānābhūtijagandhadhṛk | kvaṇanmañjīrapādārdhaśeṣārdhapadapaṅkajaḥ
34
गरकण्ठार्धको दिव्यमणिकण्ठार्धधृक्छिवः । नपचन्द्रोत्तमाङ्गोत्थगङ्गारयवराश्रयः
garakaṇṭhārdhako divyamaṇikaṇṭhārdhadhṛkchivaḥ | napacandrottamāṅgotthagaṅgārayavarāśrayaḥ
35
वामदक्षिणभागस्थ लोकेशहरिसेवितः । चण्डांशुतनयोद्भीतलिङ्गालिङ्गद्विजावनः
vāmadakṣiṇabhāgastha lokeśaharisevitaḥ | caṇḍāṃśutanayodbhītaliṅgāliṅgadvijāvanaḥ
36
गङ्गातरङ्गकलितकपर्देणाङ्कशोभितः । मुरवैरिमहानेत्र पूजिताङ्घ्रिसरोरुहः
gaṅgātaraṅgakalitakapardeṇāṅkaśobhitaḥ | muravairimahānetra pūjitāṅghrisaroruhaḥ
37
ब्रह्ममुण्डललद्गण्डकर्णकुण्डलशोभितः । एवं रुद्रावतारैश्चाप्यखण्डमणिकल्पितैः
brahmamuṇḍalaladgaṇḍakarṇakuṇḍalaśobhitaḥ | evaṃ rudrāvatāraiścāpyakhaṇḍamaṇikalpitaiḥ
38
चन्द्रस्फटिकहारैश्च पुष्पगोमेदनीलजैः । श्रीमहेशमहादिव्यविग्रहैः परितो वृतैः
candrasphaṭikahāraiśca puṣpagomedanīlajaiḥ | śrīmaheśamahādivyavigrahaiḥ parito vṛtaiḥ
39
देव्या हरिन्मणिभवैः पद्मरागभवैस्तथा । इन्द्रविष्णुविधातृणां दिक्पालानाञ्च मूर्तयः
devyā harinmaṇibhavaiḥ padmarāgabhavaistathā | indraviṣṇuvidhātṛṇāṃ dikpālānāñca mūrtayaḥ
40
तत्तद्भागमणीकॢप्ताः कल्पिता मणिगर्भजाः । मधुरस्मितनेत्रास्य तत्तदङ्गैकभासुराः
tattadbhāgamaṇīkḷptāḥ kalpitā maṇigarbhajāḥ | madhurasmitanetrāsya tattadaṅgaikabhāsurāḥ
41
मणिमुक्ताप्रवालादिभूषणावलिभासुराः । तत्तत्कोणगतात्यच्छराजद्वृषभभासुराः
maṇimuktāpravālādibhūṣaṇāvalibhāsurāḥ | tattatkoṇagatātyaccharājadvṛṣabhabhāsurāḥ
42
सहस्रदशमानेन योजनायामकल्पिताः । तत्रत्यमूर्त्यस्सर्वाः पञ्चयोजनमानतः
sahasradaśamānena yojanāyāmakalpitāḥ | tatratyamūrtyassarvāḥ pañcayojanamānataḥ
43
कल्पिताश्श्रीमहेशेन मनसैव मनोरमाः । हीरसारघनोत्तुङ्गपञ्चाशद्योजनोच्छ्रयम्
kalpitāśśrīmaheśena manasaiva manoramāḥ | hīrasāraghanottuṅgapañcāśadyojanocchrayam
44
वृत्तायाममहाश्लक्ष्णकोटिभास्करभाततम् । कदलीपुष्पसङ्काशसमुच्छ्रायोरुमण्डलम्
vṛttāyāmamahāślakṣṇakoṭibhāskarabhātatam | kadalīpuṣpasaṅkāśasamucchrāyorumaṇḍalam
45
ज्वलदिन्दुमहावृत्तब्रह्माण्डोदरदारणम् । गर्भगेहं तत्र शम्भोर्वेदवेदान्तसंस्तुतम्
jvaladindumahāvṛttabrahmāṇḍodaradāraṇam | garbhagehaṃ tatra śambhorvedavedāntasaṃstutam
46
कैलाससारसुभगमणिवेदिविराजितम् । तत्रैवान्तर्महापीठे कोटिद्युमणिसन्निभे
kailāsasārasubhagamaṇivedivirājitam | tatraivāntarmahāpīṭhe koṭidyumaṇisannibhe
47
प्रभाभासिजगज्जालं चन्द्राच्छस्फटिकोज्वलम् । आयामवृत्तगोमुख्याहरिब्रह्मोरुपीठकम्
prabhābhāsijagajjālaṃ candrācchasphaṭikojvalam | āyāmavṛttagomukhyāharibrahmorupīṭhakam
48
महालिङ्गं महाकारमखण्डस्फटिकोज्वलम् । तल्लिङ्गसारधाराभिः कैलासोऽप्यतिपाण्डरः
mahāliṅgaṃ mahākāramakhaṇḍasphaṭikojvalam | talliṅgasāradhārābhiḥ kailāso'pyatipāṇḍaraḥ
49
भाविभासितदिक्चक्रं सौधगोपुरमण्डितम् । अनर्घ्यवरसंवेष्टवेष्टितं गन्धसुन्दरम्
bhāvibhāsitadikcakraṃ saudhagopuramaṇḍitam | anarghyavarasaṃveṣṭaveṣṭitaṃ gandhasundaram
50
रत्नकह्लारकमलमालाजालैर्विराजितम् । सहस्रनीलमणिजनीलोत्पलसराञ्चितम्
ratnakahlārakamalamālājālairvirājitam | sahasranīlamaṇijanīlotpalasarāñcitam
51
अखण्डहरितोद्दाममणिबिल्वोत्तमाङ्गकम् । उत्फुल्लसूत्रवैडूर्यचम्पकाच्छसरैर्युतम्
akhaṇḍaharitoddāmamaṇibilvottamāṅgakam | utphullasūtravaiḍūryacampakācchasarairyutam
52
पुष्परागमणीकॢप्तं सुपाटलसरावृतम् । निष्टप्तहेमजात्यच्छकर्णिकारसरावृतम्
puṣparāgamaṇīkḷptaṃ supāṭalasarāvṛtam | niṣṭaptahemajātyacchakarṇikārasarāvṛtam
53
हीरसारमहाधारामल्लिकाच्छसरावृतम् । गोमेदकमणीकॢप्तकरण्डकसरावृतम्
hīrasāramahādhārāmallikācchasarāvṛtam | gomedakamaṇīkḷptakaraṇḍakasarāvṛtam
54
मन्दारकुन्दबन्धूकबकद्रोणार्करत्नजैः । सरकीलितसन्मौलिस्फटिकोपलकल्पितैः
mandārakundabandhūkabakadroṇārkaratnajaiḥ | sarakīlitasanmaulisphaṭikopalakalpitaiḥ
55
पृ0 143) मणिप्रभाततात्याच्छशोभितोत्तुङ्गमौक्तिकम् । सहस्रास्यमहाशेषफणामणिविराजितम्
pṛ0 143) maṇiprabhātatātyācchaśobhitottuṅgamauktikam | sahasrāsyamahāśeṣaphaṇāmaṇivirājitam
56
पद्मरागमहारागत्रिपुण्ट्रतिलकोज्वलम् । तत्कान्तिकाञ्चितालोकास्तद्धारासारसागराः
padmarāgamahārāgatripuṇṭratilakojvalam | tatkāntikāñcitālokāstaddhārāsārasāgarāḥ
57
तत्कैलासमहासारपिण्डशेखरपूजितम् । कैलासेशाख्यममलं लिङ्गं मङ्गलदायकम्
tatkailāsamahāsārapiṇḍaśekharapūjitam | kailāseśākhyamamalaṃ liṅgaṃ maṅgaladāyakam
58
मङ्गलापतिदृक्पातधारासारविजृम्भितम् । तल्लिङ्गमहिमावेदैरपारशिखराश्रयैः
maṅgalāpatidṛkpātadhārāsāravijṛmbhitam | talliṅgamahimāvedairapāraśikharāśrayaiḥ
59
ब्रह्मविष्ण्वादिभिर्देवै रुद्रैर्वा मुनिभिस्तथा । नशक्यो ज्ञातुमीषद्वा मूकावेदोक्तयो यथा
brahmaviṣṇvādibhirdevai rudrairvā munibhistathā | naśakyo jñātumīṣadvā mūkāvedoktayo yathā
60
कैलासशैलमणिधामनि दिव्यलिङ्गं कैलासनामकमहो त्रिजगद्विचित्रम् । तल्लिङ्गमौलिशकलेन्दुकलासुभाभिराप्लावितोरुशिखरोऽत्र विभाति शैलः
kailāsaśailamaṇidhāmani divyaliṅgaṃ kailāsanāmakamaho trijagadvicitram | talliṅgamauliśakalendukalāsubhābhirāplāvitoruśikharo'tra vibhāti śailaḥ
śrīśivarahasye prathamāṃśe kailāseśvarapūjāvidhānakathanaṃ nāma ṣaṭtriṃśo'dhyāyaḥ 36
1
कैलासेश्वरपूजाविधानकथनं नाम षट्त्रिंशोऽध्यायः स्कन्द उवाच– तल्लिङ्गजातास्सर्वेऽपि भुवनानि चतुर्दश । तल्लिङ्गजाता देवाद्या ब्रह्मविष्णुहरादयः
kailāseśvarapūjāvidhānakathanaṃ nāma ṣaṭtriṃśo'dhyāyaḥ skanda uvāca– talliṅgajātāssarve'pi bhuvanāni caturdaśa | talliṅgajātā devādyā brahmaviṣṇuharādayaḥ
2
तल्लिङ्गे संस्थिता लोकास्सप्तद्वीपवनाकराः । प्रलयेऽपि लयं यान्ति सर्वे लोकास्सुरैस्सह
talliṅge saṃsthitā lokāssaptadvīpavanākarāḥ | pralaye'pi layaṃ yānti sarve lokāssuraissaha
3
लयनाल्लिङ्गमित्युक्तं लीनं यस्मिञ्जगद्रुतम् । तस्माल्लिङ्गं मुने प्रोक्तं तत्कैलासेश्वरसंज्ञितम्
layanālliṅgamityuktaṃ līnaṃ yasmiñjagadrutam | tasmālliṅgaṃ mune proktaṃ tatkailāseśvarasaṃjñitam
4
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । भूमौ तच्च महालिङ्गं प्रतिष्ठापुच्छमेवतु
yato vāco nivartante aprāpya manasā saha | bhūmau tacca mahāliṅgaṃ pratiṣṭhāpucchamevatu
5
एकं ब्रह्मैव तल्लिङ्गमलिङ्गमपि भूसुराः । तदेव ज्योतिषां ज्योतिस्तद्वै चेतनचेतनम्
ekaṃ brahmaiva talliṅgamaliṅgamapi bhūsurāḥ | tadeva jyotiṣāṃ jyotistadvai cetanacetanam
6
तल्लिङ्गं सत्यमानन्दमखण्डैकरसंसदा । तल्लिङ्गदर्शने वाऽपि नवाग्गच्छति नो मनः
talliṅgaṃ satyamānandamakhaṇḍaikarasaṃsadā | talliṅgadarśane vā'pi navāggacchati no manaḥ
7
नेति नेति च वेदान्तैस्तल्लिङ्गं प्रतिपाद्यते । तदेव ब्रह्म त्वं विद्धि नेह नानास्ति किञ्चन
neti neti ca vedāntaistalliṅgaṃ pratipādyate | tadeva brahma tvaṃ viddhi neha nānāsti kiñcana
8
ऋतं सत्यं परं ब्रह्म तदात्मामनसोऽतिगम् । निरिन्द्रियं निष्कलङ्कमसङ्ग मजरं हि तत्
ṛtaṃ satyaṃ paraṃ brahma tadātmāmanaso'tigam | nirindriyaṃ niṣkalaṅkamasaṅga majaraṃ hi tat
9
प्रभुं समस्तभूतोत्थसर्वधर्मविवर्जितम् । आकाशं तदनाकाशं साकारञ्च निराकृति
prabhuṃ samastabhūtotthasarvadharmavivarjitam | ākāśaṃ tadanākāśaṃ sākārañca nirākṛti
10
कारणं कारणानाञ्च ब्रह्म तल्लिङ्गमेव हि । नामरूपातिगं शान्तं गुणातीतं गुणास्पदम्
kāraṇaṃ kāraṇānāñca brahma talliṅgameva hi | nāmarūpātigaṃ śāntaṃ guṇātītaṃ guṇāspadam
11
अपाणिपादमत्यच्छमानन्दघनमद्वयम् । शिवस्य निर्गुणं रूपमदृश्यमकृतात्मभिः
apāṇipādamatyacchamānandaghanamadvayam | śivasya nirguṇaṃ rūpamadṛśyamakṛtātmabhiḥ
12
पृ0 144) तदेव व्यापकं भाति तल्लिङ्गन्तमसः परम् । तन्न वेदैश्च वेदान्तैर्गुरुभिश्श्रुतिभिस्सदा
pṛ0 144) tadeva vyāpakaṃ bhāti talliṅgantamasaḥ param | tanna vedaiśca vedāntairgurubhiśśrutibhissadā
13
नप्राप्यं सर्वदा सर्वैर्द्रष्टुं तच्चाप्यथा श्रितुम् । तदेव देवदेवस्य निर्गुणं रूपमद्भुतम्
naprāpyaṃ sarvadā sarvairdraṣṭuṃ taccāpyathā śritum | tadeva devadevasya nirguṇaṃ rūpamadbhutam
14
निर्गुणञ्चाऽपि लोकानां दृष्टिगोचरवत्स्थितम् । तल्लिङ्गं सर्वदा शम्भुर्देव्या पूजयतिस्वयम्
nirguṇañcā'pi lokānāṃ dṛṣṭigocaravatsthitam | talliṅgaṃ sarvadā śambhurdevyā pūjayatisvayam
15
बाह्यैराभ्यन्तरैश्चाऽपि पूजाभिः परमेश्वरः । त्रिणेत्रो नीलकण्ठश्च चन्द्रार्धकृतशेखरः
bāhyairābhyantaraiścā'pi pūjābhiḥ parameśvaraḥ | triṇetro nīlakaṇṭhaśca candrārdhakṛtaśekharaḥ
16
अहम्भावादिरहितो भावाभावविवर्जितः । अहं ब्रह्मैवेदमिति यं वदन्ति नरामराः
ahambhāvādirahito bhāvābhāvavivarjitaḥ | ahaṃ brahmaivedamiti yaṃ vadanti narāmarāḥ
17
ध्यानध्येयातिगो भूत्वा स्थितस्समहिमातिगः । एवं सम्भावयन्देव्या शिवेव हि केवलः
dhyānadhyeyātigo bhūtvā sthitassamahimātigaḥ | evaṃ sambhāvayandevyā śiveva hi kevalaḥ
18
तमः परो महादेवो देव्या सगुणनिर्गुणः । पूजां बाह्योपचाराद्यैर्मनोवाचामगोचरः
tamaḥ paro mahādevo devyā saguṇanirguṇaḥ | pūjāṃ bāhyopacārādyairmanovācāmagocaraḥ
19
कल्पयत्येव मनसा सर्वकालेषु शङ्करः । प्रदोषेषु विशेषेण कैलासे चन्द्रशेखरः
kalpayatyeva manasā sarvakāleṣu śaṅkaraḥ | pradoṣeṣu viśeṣeṇa kailāse candraśekharaḥ
20
तत्पूजां सावधानेन समाहितमनाश्शृणु । चतुर्देहातिगो भूत्वा सर्वेन्द्रियविवर्जितः
tatpūjāṃ sāvadhānena samāhitamanāśśṛṇu | caturdehātigo bhūtvā sarvendriyavivarjitaḥ
21
अहम्भावं परित्यज्य शिवोऽहं केवलोऽद्वयः । व्याप्येषु व्यापकश्चाहं गुणेषु निहतोस्म्यहम्
ahambhāvaṃ parityajya śivo'haṃ kevalo'dvayaḥ | vyāpyeṣu vyāpakaścāhaṃ guṇeṣu nihatosmyaham
22
नान्तो नचादिस्सकलश्चाहं विश्वं सदैवहि । विश्वातीतोहमजरोऽसङ्गोऽसङ्गविवर्जितः
nānto nacādissakalaścāhaṃ viśvaṃ sadaivahi | viśvātītohamajaro'saṅgo'saṅgavivarjitaḥ
23
व्यापकोऽहं सदा पूर्णो गुणजालविवर्जितः । नीरूपो विश्वभूतात्मा देहधर्मविवर्जितः
vyāpako'haṃ sadā pūrṇo guṇajālavivarjitaḥ | nīrūpo viśvabhūtātmā dehadharmavivarjitaḥ
24
आकाशो व्यापकश्शीर्यश्शीर्णेष्वहमवस्थितः । सत्यं ज्ञानोऽहमानन्दो बोधबोधकवर्जितः
ākāśo vyāpakaśśīryaśśīrṇeṣvahamavasthitaḥ | satyaṃ jñāno'hamānando bodhabodhakavarjitaḥ
25
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् । मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम्
mayyeva sakalaṃ jātaṃ mayi sarvaṃ pratiṣṭhitam | mayi sarvaṃ layaṃ yāti tadbrahmādvayamasmyaham
26
इत्येवं भावयन्धीरो बाह्ये लिङ्गं समर्चयेत् । धृतभस्मत्रिपुण्ट्राङ्को रुद्राक्षवरभूषणः
ityevaṃ bhāvayandhīro bāhye liṅgaṃ samarcayet | dhṛtabhasmatripuṇṭrāṅko rudrākṣavarabhūṣaṇaḥ
27
पञ्चास्यध्याननिरतः पञ्चाक्षरपरायणः । प्राङ्मुखोदङ्मुखोवाऽपि स्थितश्चेलकुशासने
pañcāsyadhyānanirataḥ pañcākṣaraparāyaṇaḥ | prāṅmukhodaṅmukhovā'pi sthitaścelakuśāsane
28
ध्यात्वा स्वहृत्पद्मसंस्थं शुद्धस्फटिकसन्निभम् । प्रसन्नास्यं त्रिणयनं त्रिपुण्ट्रपरिशोभितम्
dhyātvā svahṛtpadmasaṃsthaṃ śuddhasphaṭikasannibham | prasannāsyaṃ triṇayanaṃ tripuṇṭrapariśobhitam
29
चन्द्रार्धमुकुटं देवं नीलग्रीवमुमापतिम् । आवाहयेद्बाह्यलिङ्गे स्फाटिके बाणधातुजे
candrārdhamukuṭaṃ devaṃ nīlagrīvamumāpatim | āvāhayedbāhyaliṅge sphāṭike bāṇadhātuje
30
मृल्लिङ्गे सिकतायाञ्च पूजयेत्स्थावरेऽपि च । पञ्चामृतैःपञ्चगव्यैर्नीरधारादिभिश्शिवम्
mṛlliṅge sikatāyāñca pūjayetsthāvare'pi ca | pañcāmṛtaiḥpañcagavyairnīradhārādibhiśśivam
31
पञ्चब्रह्मैः पावमानै रुद्रैर्वेदसमुद्भवैः । अभिषिच्य प्रयत्नेन सामभिश्च महेश्वरम्
pañcabrahmaiḥ pāvamānai rudrairvedasamudbhavaiḥ | abhiṣicya prayatnena sāmabhiśca maheśvaram
32
वस्त्रैरावेष्ट्य तल्लिङ्गं गन्धलेपेन लेपयेत् । अक्षताभिस्तथा रत्नगोलकैर्भूषयेच्छिवम्
vastrairāveṣṭya talliṅgaṃ gandhalepena lepayet | akṣatābhistathā ratnagolakairbhūṣayecchivam
33
बिल्वपत्रैश्च कह्लारैश्चम्पकैः करवीरकैः । पुष्पैरारण्यकैश्चैव तथान्यैश्च सुगन्धिभिः
bilvapatraiśca kahlāraiścampakaiḥ karavīrakaiḥ | puṣpairāraṇyakaiścaiva tathānyaiśca sugandhibhiḥ
34
धूपैश्च दीपैर्नैवेद्यैस्ताम्बूलैर्मणिदीपकैः । नीराजनैश्छत्रमुख्यैश्चामरैर्व्यजनैरपि
dhūpaiśca dīpairnaivedyaistāmbūlairmaṇidīpakaiḥ | nīrājanaiśchatramukhyaiścāmarairvyajanairapi
35
प्रणामस्तोत्रपठनैः प्रदक्षिणसुनर्तनैः । पुनः प्रदक्षिणैश्चैव पञ्चाक्षरजपैस्तथा
praṇāmastotrapaṭhanaiḥ pradakṣiṇasunartanaiḥ | punaḥ pradakṣiṇaiścaiva pañcākṣarajapaistathā
36
पृ0 145) हृत्पद्मे सन्निवेश्येशं पूजोद्वासनमारभेत् । एवं पूजाविधानेन पूजयेत्परमेश्वरम्
pṛ0 145) hṛtpadme sanniveśyeśaṃ pūjodvāsanamārabhet | evaṃ pūjāvidhānena pūjayetparameśvaram
37
एककालं द्विकालं वा त्रिकालं योऽर्चयेन्नरः । स एव लभते ज्ञानमाभ्यन्तरवरार्चनैः
ekakālaṃ dvikālaṃ vā trikālaṃ yo'rcayennaraḥ | sa eva labhate jñānamābhyantaravarārcanaiḥ
38
कैलासेश्वरलिङ्गमेतदमलं स्वर्गापवर्गप्रदं तन्नैवाखिलवेदजालतिलकैर्ज्ञातुं न तत्पार्यते । ईशेनापि गजाननेन च मया देव्या गणेन्द्रैरपि विष्णुब्रह्महरामरैर्मुनिगणैस्तन्त्रैस्तथैवागमैः
kailāseśvaraliṅgametadamalaṃ svargāpavargapradaṃ tannaivākhilavedajālatilakairjñātuṃ na tatpāryate | īśenāpi gajānanena ca mayā devyā gaṇendrairapi viṣṇubrahmaharāmarairmunigaṇaistantraistathaivāgamaiḥ
39
तल्लेशायुतलेशलेशमहिमा कोट्यंशकोट्यंशकं वक्तुं श्रोतुमथेक्षितुं त्रिभुवने नास्तीति मन्ये द्विज
talleśāyutaleśaleśamahimā koṭyaṃśakoṭyaṃśakaṃ vaktuṃ śrotumathekṣituṃ tribhuvane nāstīti manye dvija
śrīśivarahasye prathamāṃśe kailāsavāsamahimā nāma saptatriṃśo'dhyāyaḥ 37
1
कैलासवासमहिमानाम सप्तत्रिंशोऽध्यायः स्कन्दः– एवं कैलासशैलोऽयं विहितश्शूलपाणिना । मणिप्राकारसौधाश्च गोपुराण्यपि भूसुर
kailāsavāsamahimānāma saptatriṃśo'dhyāyaḥ skandaḥ– evaṃ kailāsaśailo'yaṃ vihitaśśūlapāṇinā | maṇiprākārasaudhāśca gopurāṇyapi bhūsura
2
रत्नानाङ्गिरयस्तत्र गणावसथकल्पनाः । नानारुद्रावताराणां सभामण्टपनिर्मिताः
ratnānāṅgirayastatra gaṇāvasathakalpanāḥ | nānārudrāvatārāṇāṃ sabhāmaṇṭapanirmitāḥ
3
तथानान्यत्ररमते सर्वावासोऽपि शङ्करः । देव्यापि स्कन्दहेरम्बनन्दिकेशादिभिः प्रियः
tathānānyatraramate sarvāvāso'pi śaṅkaraḥ | devyāpi skandaherambanandikeśādibhiḥ priyaḥ
4
महेशस्य निवासोऽयङ्गिरीशो गिरिशस्य हि । नाविमुक्तेऽपि रमते न तथा हिमभूधरे
maheśasya nivāso'yaṅgirīśo giriśasya hi | nāvimukte'pi ramate na tathā himabhūdhare
5
मन्दरे निषधेऽपीशस्तथाद्रौ गन्धमादने । तथान्येषु नगेन्द्रेषु प्रीतिर्नैव पिनाकिनः
mandare niṣadhe'pīśastathādrau gandhamādane | tathānyeṣu nagendreṣu prītirnaiva pinākinaḥ
6
लिङ्गालयोऽयङ्कैलासो रम्यसानुतरूज्वलः । सुरम्यमणिशृङ्गाग्रश्चारुसुन्दरकन्दरः
liṅgālayo'yaṅkailāso ramyasānutarūjvalaḥ | suramyamaṇiśṛṅgāgraścārusundarakandaraḥ
7
कलधौतप्रभाधूतदिक्तमस्स्तोमसन्ततिः । सर्वतीर्थमयश्शैलस्सर्वलिङ्गमयो नगः
kaladhautaprabhādhūtadiktamasstomasantatiḥ | sarvatīrthamayaśśailassarvaliṅgamayo nagaḥ
8
गणेश्वरोऽयङ्कैलासस्सर्वदा शिववासभूः । सर्वक्षेत्रमयश्शैलः क्षेत्रेशाश्रयतस्सदा
gaṇeśvaro'yaṅkailāsassarvadā śivavāsabhūḥ | sarvakṣetramayaśśailaḥ kṣetreśāśrayatassadā
9
सर्वौषधिमयश्चायमोषधीशसमाश्रयात् । वनाश्रयोऽयङ्कैलासो वनाधिपसमाश्रयात्
sarvauṣadhimayaścāyamoṣadhīśasamāśrayāt | vanāśrayo'yaṅkailāso vanādhipasamāśrayāt
10
मृगावासो हि सततं सदा पशुपतिप्रियः । नास्य रूपमहोवेदैर्ज्ञातुमेव न शक्यते
mṛgāvāso hi satataṃ sadā paśupatipriyaḥ | nāsya rūpamahovedairjñātumeva na śakyate
11
कैलासापारशिखरैस्सर्वलोकोऽतिपावनः । तन्मौलितलसंस्पृष्टा वाताः पावनपावनाः
kailāsāpāraśikharaissarvaloko'tipāvanaḥ | tanmaulitalasaṃspṛṣṭā vātāḥ pāvanapāvanāḥ
12
पृ0 146) ब्रह्मादयस्स्वलोकस्थाः प्रार्थयन्त्यनिलन्ततः । विष्णुब्रह्मादयोदेवा मुनयोऽपि मुनीश्वर
pṛ0 146) brahmādayassvalokasthāḥ prārthayantyanilantataḥ | viṣṇubrahmādayodevā munayo'pi munīśvara
13
कदास्मान्पावयेद्वायुः कैलासशिखरागतः । अस्माभिर्नतपस्तप्तङ्कैलासालोकनाय तु
kadāsmānpāvayedvāyuḥ kailāsaśikharāgataḥ | asmābhirnatapastaptaṅkailāsālokanāya tu
14
अण्डजानामपि गतिर्निषिद्धा शशिमौलिना । सूर्यचन्द्रानलानान्तु प्रभाविद्योतनं न हि
aṇḍajānāmapi gatirniṣiddhā śaśimaulinā | sūryacandrānalānāntu prabhāvidyotanaṃ na hi
15
तस्यैव शिखरोद्दामप्रभाभिर्भासिता दिशः । कैलासमौलिसंस्थस्य यत्सुखं क्षणमात्रतः
tasyaiva śikharoddāmaprabhābhirbhāsitā diśaḥ | kailāsamaulisaṃsthasya yatsukhaṃ kṣaṇamātrataḥ
16
न हि तद्वैष्णवे ब्राह्मे कल्पावधि सुखोत्तरम् । न चैन्द्रे मेरुमौलौ वा नन्दने स्वर्गमण्डले
na hi tadvaiṣṇave brāhme kalpāvadhi sukhottaram | na caindre merumaulau vā nandane svargamaṇḍale
17
दिक्पालानां पुरौघे वा सौरे चान्द्रमसेऽपि वा । न चतुर्दश लोकेषु तत्सुखांशांशकोटिकम्
dikpālānāṃ puraughe vā saure cāndramase'pi vā | na caturdaśa lokeṣu tatsukhāṃśāṃśakoṭikam
18
प्रसादेन विना शम्भोर्गमनन्तत्र दुर्लभम् । न कर्मणा न तपसा धर्मैश्च विविधैरपि
prasādena vinā śambhorgamanantatra durlabham | na karmaṇā na tapasā dharmaiśca vividhairapi
19
कैलासाचलवार्तापि न शक्या गमनङ्कथम् । सुरा विष्ण्वादयः पूर्वे ब्रह्मापि भगवद्गणाः
kailāsācalavārtāpi na śakyā gamanaṅkatham | surā viṣṇvādayaḥ pūrve brahmāpi bhagavadgaṇāḥ
20
मुनयस्तपतेऽद्यापि कैलासनगवीक्षणे । कैलासगमने लिप्सान्धृत्वा ते सुरसत्तमाः
munayastapate'dyāpi kailāsanagavīkṣaṇe | kailāsagamane lipsāndhṛtvā te surasattamāḥ
21
शिवप्रसादसिध्यर्थं तप्यन्ते परमन्तपः । केचित्पञ्चाग्निनिरतास्समीरणसुपारणाः
śivaprasādasidhyarthaṃ tapyante paramantapaḥ | kecitpañcāgniniratāssamīraṇasupāraṇāḥ
22
वृन्तश्लथछदाशाश्च केचिद्वारिषु संस्थिताः । कटधूमशिखापानाः केचिच्चैवोर्ध्वबाहवः
vṛntaślathachadāśāśca kecidvāriṣu saṃsthitāḥ | kaṭadhūmaśikhāpānāḥ keciccaivordhvabāhavaḥ
23
भस्मछन्नाभस्मसंस्थाः केचिच्छ्रीरुद्रजापकाः । भस्माङ्काबिल्वमूलेषु केचित्पञ्चाक्षरादराः
bhasmachannābhasmasaṃsthāḥ kecicchrīrudrajāpakāḥ | bhasmāṅkābilvamūleṣu kecitpañcākṣarādarāḥ
24
रुद्राक्षवरकोटीराश्शिवनामपरायणाः । केचिल्लिङ्गार्चनपरास्त्रिकालं बिल्वपल्लवैः
rudrākṣavarakoṭīrāśśivanāmaparāyaṇāḥ | kecilliṅgārcanaparāstrikālaṃ bilvapallavaiḥ
25
एवं तपोभिरत्युग्रैस्तप्यन्ति मुनयस्सुराः । सदाशिवप्रसादो हि तेषाम्भावि मुनीश्वराः
evaṃ tapobhiratyugraistapyanti munayassurāḥ | sadāśivaprasādo hi teṣāmbhāvi munīśvarāḥ
26
सर्वलोकेषु गन्तारस्सर्वधर्मपरायणाः । पुनरावृत्तिनस्सर्वे न कैलासगता मुने
sarvalokeṣu gantārassarvadharmaparāyaṇāḥ | punarāvṛttinassarve na kailāsagatā mune
27
यतयोऽपि निवर्तन्ते ज्ञाननिर्धूतकल्मषाः । शिवप्रसादलभ्योऽयङ्कैलासो ह्यतिदुर्लभः
yatayo'pi nivartante jñānanirdhūtakalmaṣāḥ | śivaprasādalabhyo'yaṅkailāso hyatidurlabhaḥ
28
मेरुशृङ्गगकैलासशिखरे वरशाम्भवाः । पूजया श्रद्धया शम्भोरीशानस्य पदङ्गताः
meruśṛṅgagakailāsaśikhare varaśāmbhavāḥ | pūjayā śraddhayā śambhorīśānasya padaṅgatāḥ
29
सुखिनस्सम्प्रमोदन्ते स्वर्गकोटिगुणाधिके । महाकैलासगमनमस्माकङ्किं पुनर्नृणाम्
sukhinassampramodante svargakoṭiguṇādhike | mahākailāsagamanamasmākaṅkiṃ punarnṛṇām
30
शिवप्रसादहीनानां तत्कथाश्रवणं न हि । अनेककोटिकल्पोत्थतपसा प्राप्य एव सः
śivaprasādahīnānāṃ tatkathāśravaṇaṃ na hi | anekakoṭikalpotthatapasā prāpya eva saḥ
31
मेरुमन्दरसङ्काशरत्नस्वर्णादिदानतः । सत्रातिरात्रकलनैर्वेदाध्ययनकोटिभिः
merumandarasaṅkāśaratnasvarṇādidānataḥ | satrātirātrakalanairvedādhyayanakoṭibhiḥ
32
गवाङ्कोटिप्रदानैर्वा विद्यया तपसापि वा । इष्टापूर्तादिधर्मैर्वा कैलासाप्राप्तिरेव न
gavāṅkoṭipradānairvā vidyayā tapasāpi vā | iṣṭāpūrtādidharmairvā kailāsāprāptireva na
33
शिवप्रसादाल्लभ्योऽयं प्रसादो दुर्लभो नृणाम् । देव्या मया गणेशेन नन्द्याद्यैर्गणपैरपि
śivaprasādāllabhyo'yaṃ prasādo durlabho nṛṇām | devyā mayā gaṇeśena nandyādyairgaṇapairapi
34
कैलासबाह्यप्राकारे तपसा याचिता स्थितिः । अनेकयुगसन्तप्ततपसा तोषितश्शिवः
kailāsabāhyaprākāre tapasā yācitā sthitiḥ | anekayugasantaptatapasā toṣitaśśivaḥ
35
शिवप्रसादेन वयं तद्बाह्यशिखराश्रयाः । गण्यन्ते सिकता भूमौ गण्यन्ते दिवि तारकाः
śivaprasādena vayaṃ tadbāhyaśikharāśrayāḥ | gaṇyante sikatā bhūmau gaṇyante divi tārakāḥ
36
कैलासापारशृङ्गस्थलिङ्गानाङ्गणना न हि । तत्रापि कोटिलिङ्गानामुत्तमानां श्रुता मया
kailāsāpāraśṛṅgasthaliṅgānāṅgaṇanā na hi | tatrāpi koṭiliṅgānāmuttamānāṃ śrutā mayā
37
पृ0 147) ततोऽपि लक्षलिङ्गानां ततोऽयुतसहस्रकम् । उत्तमानाञ्च देव्यै तद्गदता श्रीशिवेन हि
pṛ0 147) tato'pi lakṣaliṅgānāṃ tato'yutasahasrakam | uttamānāñca devyai tadgadatā śrīśivena hi
38
गणना गण्यते केन कल्पकोटिशतैरपि । अनिर्वचनमायस्य मायिनश्श्रीत्रिशूलिनः
gaṇanā gaṇyate kena kalpakoṭiśatairapi | anirvacanamāyasya māyinaśśrītriśūlinaḥ
39
को वेद महिमानं तु तत्र तन्मौलिलिङ्गगम् । स वेद वेदनिश्वासस्सर्वज्ञश्शशिशेखरः
ko veda mahimānaṃ tu tatra tanmauliliṅgagam | sa veda vedaniśvāsassarvajñaśśaśiśekharaḥ
40
शिवसन्निधिरेव सन्निधिस्स्याद्विबुधाधीशपदाब्जरत्नवारिधिः । जनिनाशप्रभवापराधसन्धिः प्लुतिजापारविशेषतोषगाधिः
śivasannidhireva sannidhissyādvibudhādhīśapadābjaratnavāridhiḥ | janināśaprabhavāparādhasandhiḥ plutijāpāraviśeṣatoṣagādhiḥ
41
निधिरेवाखिलसम्पदां युगाधिर्भवभक्तामलचेतदारिताखिलाधिः
nidhirevākhilasampadāṃ yugādhirbhavabhaktāmalacetadāritākhilādhiḥ
41
एवङ्कैलासशैलामलशिखरवरैर्मौलिकुम्भैकजालै- स्तत्रापारशिवालयस्थितमहालिङ्गौघलिङ्गाश्रयैः । ईशापारमनोविलासजनितैर्दृष्ट्वा महेशस्स्वयं बालार्धाकृतिरिन्दुमौलिरनलालङ्कारफालाक्षकः
evaṅkailāsaśailāmalaśikharavarairmaulikumbhaikajālai- statrāpāraśivālayasthitamahāliṅgaughaliṅgāśrayaiḥ | īśāpāramanovilāsajanitairdṛṣṭvā maheśassvayaṃ bālārdhākṛtirindumauliranalālaṅkāraphālākṣakaḥ
42
कालारिः कलधौतशैलशिखरं लिङ्गालिपूर्णङ्करोत्
kālāriḥ kaladhautaśailaśikharaṃ liṅgālipūrṇaṅkarot
śrīśivarahasye prathamāṃśe kailāsaliṃgavarṇanaṃ nāma aṣṭatriṃśo'dhyāyaḥ 38
1
कैलासलिंगवर्णनं नाम अष्टत्रिंशोऽध्यायः जैगीषव्यः– भगवंस्तारकाराते शिवभक्तवरामल । नमामि त्वत्पादाम्भोजं किन्तद्देव्यै शिवोदितम्
kailāsaliṃgavarṇanaṃ nāma aṣṭatriṃśo'dhyāyaḥ jaigīṣavyaḥ– bhagavaṃstārakārāte śivabhaktavarāmala | namāmi tvatpādāmbhojaṃ kintaddevyai śivoditam
2
रहस्यंवा प्राकाशंवा तन्मे व्याख्यातु मर्हसि । तदुक्तं सम्प्रधार्यैव स्कन्दोमन्दस्मिताधरः
rahasyaṃvā prākāśaṃvā tanme vyākhyātu marhasi | taduktaṃ sampradhāryaiva skandomandasmitādharaḥ
3
भवभक्तं महाप्राज्ञं सुराणां शृण्वतां तदा
bhavabhaktaṃ mahāprājñaṃ surāṇāṃ śṛṇvatāṃ tadā
4
सूतः– मुनीनाञ्च सुराणाञ्च गणेशानाञ्च सन्निधौ । प्रोक्तवाञ्छ्रीमहादेवन्ध्यात्वा हृत्पङ्कजेऽमले
sūtaḥ– munīnāñca surāṇāñca gaṇeśānāñca sannidhau | proktavāñchrīmahādevandhyātvā hṛtpaṅkaje'male
5
स्कन्दः– देव्या कैलासजोत्तुङ्गशिखरे वरगोपुरे । एकाकिना सञ्चरता विस्मिताक्षेण पश्यता
skandaḥ– devyā kailāsajottuṅgaśikhare varagopure | ekākinā sañcaratā vismitākṣeṇa paśyatā
6
शिवेन नन्दिता देवी प्राह प्राञ्जलिरीश्वरम्
śivena nanditā devī prāha prāñjalirīśvaram
7
पृ0 148) देव्युवाच– देवदेव महादेव शङ्कर करुणालय । एणाङ्कमौले सर्वज्ञ गङ्गाजलजटाधर
pṛ0 148) devyuvāca– devadeva mahādeva śaṅkara karuṇālaya | eṇāṅkamaule sarvajña gaṅgājalajaṭādhara
8
भव भर्गामरेन्द्रेन्द्र फणामणिविभूषित । वृषध्वजेश कामारे पुरान्तक यमान्तक
bhava bhargāmarendrendra phaṇāmaṇivibhūṣita | vṛṣadhvajeśa kāmāre purāntaka yamāntaka
9
खट्वाङ्गडमरूद्दामघोषघोषितविष्टप । त्रिशूलपाणे भूतेश व्योमकेश दिगम्बर
khaṭvāṅgaḍamarūddāmaghoṣaghoṣitaviṣṭapa | triśūlapāṇe bhūteśa vyomakeśa digambara
10
त्रिजगज्जालनिर्माणस्थितिनाशकर प्रभो । विस्मयस्तव नास्त्येव लीलेयं तव शङ्कर
trijagajjālanirmāṇasthitināśakara prabho | vismayastava nāstyeva līleyaṃ tava śaṅkara
11
लोका लोक्या ब्रह्मविष्णुहरामरवरास्सुराः । तेषामुत्थानसंस्थानविनाशनमपीश्वर
lokā lokyā brahmaviṣṇuharāmaravarāssurāḥ | teṣāmutthānasaṃsthānavināśanamapīśvara
12
त्वदपाङ्गैकसङ्गेन सर्वेषां प्रलयोदयौ । तव को विस्मये हेतुस्तद्ब्रूहि परमेश्वर
tvadapāṅgaikasaṅgena sarveṣāṃ pralayodayau | tava ko vismaye hetustadbrūhi parameśvara
13
ईश्वरः– शृणु देवि प्रवक्ष्यामि गिरीन्द्रवरनन्दिनि । त्वयिगोप्यं न मे किञ्चित्त्रिषु लोकेषु विद्यते
īśvaraḥ– śṛṇu devi pravakṣyāmi girīndravaranandini | tvayigopyaṃ na me kiñcittriṣu lokeṣu vidyate
14
न प्रकाश्यं त्वया देवि रहस्यं मम हृद्गतम् । तथापि त्वयि वक्ष्यामि लिङ्गाध्यायमिमं शिवे
na prakāśyaṃ tvayā devi rahasyaṃ mama hṛdgatam | tathāpi tvayi vakṣyāmi liṅgādhyāyamimaṃ śive
15
कैलासाचलमौलिस्थं लिङ्गमण्डलमम्बिके । तज्ज्ञातुन्नैव शक्यं हि मयैव मनसा ततम्
kailāsācalamaulisthaṃ liṅgamaṇḍalamambike | tajjñātunnaiva śakyaṃ hi mayaiva manasā tatam
16
कोटिलिङ्गाकृतिरहं तत्पूजाकल्पकोऽप्यहम् । न तानि देवमुनिभिर्गन्धर्वैः पूजितान्युमे
koṭiliṅgākṛtirahaṃ tatpūjākalpako'pyaham | na tāni devamunibhirgandharvaiḥ pūjitānyume
17
नामरेन्द्रवरैर्देवि श्रुतानि किमु दर्शनम् । पूजने का कथा देवि चागम्यो मम भूधरः
nāmarendravarairdevi śrutāni kimu darśanam | pūjane kā kathā devi cāgamyo mama bhūdharaḥ
18
तत्पश्यामि प्रसन्नेन मनसा विस्मयेन च । मदीक्षणेन सर्वेषां लिङ्गानां पूजनं भवेत्
tatpaśyāmi prasannena manasā vismayena ca | madīkṣaṇena sarveṣāṃ liṅgānāṃ pūjanaṃ bhavet
19
शिवे पश्य महादेवि यावत्ते दृष्टिसन्ततिः
śive paśya mahādevi yāvatte dṛṣṭisantatiḥ
20
लिङ्गमण्डलमिदन्नगात्मजे चन्द्रखण्डललितोत्तमाङ्गकम् । कुण्डलीशसुफणाविभूषितं पापजालसुगिरीन्द्रखण्डनम्
liṅgamaṇḍalamidannagātmaje candrakhaṇḍalalitottamāṅgakam | kuṇḍalīśasuphaṇāvibhūṣitaṃ pāpajālasugirīndrakhaṇḍanam
21
पुण्ट्रशोभितकपालमालकं बिल्वचन्दनसुपङ्कजार्चितम् । पश्य पश्य गिरिजे नगमौलौ तोषदायकमतीव ममेष्टम्
puṇṭraśobhitakapālamālakaṃ bilvacandanasupaṅkajārcitam | paśya paśya girije nagamaulau toṣadāyakamatīva mameṣṭam
22
कैलासोऽयमतीव सुन्दरमहालिङ्गालयानां शिवे कोटीभिः परितो वृतो मणिगृहैस्तादृक्षलिङ्गैरपि । मालूरोत्तमशाखिशेखरशिखस्तस्याच्छपुष्पैः फलै- रानम्रछदभारपल्लवयुतैस्तद्गन्धबन्धानिलः
kailāso'yamatīva sundaramahāliṅgālayānāṃ śive koṭībhiḥ parito vṛto maṇigṛhaistādṛkṣaliṅgairapi | mālūrottamaśākhiśekharaśikhastasyācchapuṣpaiḥ phalai- rānamrachadabhārapallavayutaistadgandhabandhānilaḥ
23
शिखिशिखकुलाग्रपिञ्छभारैर्मम लिङ्गालयमार्जनं सदैव । पृ0 149) वनवेणूद्भवदावमध्यलग्नैस्सगरामोदसुधूपितं सदैव
śikhiśikhakulāgrapiñchabhārairmama liṅgālayamārjanaṃ sadaiva | pṛ0 149) vanaveṇūdbhavadāvamadhyalagnaissagarāmodasudhūpitaṃ sadaiva
24
मणिगर्भगृहोत्थरत्नदीपैस्सततन्दीपितमेव लिङ्गसङ्घम् । वनबिल्वछदपुष्पगन्धवाहैरभिनीतैश्च सुपूजितानि पश्य
maṇigarbhagṛhottharatnadīpaissatatandīpitameva liṅgasaṅgham | vanabilvachadapuṣpagandhavāhairabhinītaiśca supūjitāni paśya
25
पाटलपटलैश्च कर्णिकारैस्सरसोत्फुल्लसुमुल्लसप्तरागैः । अरविन्दैः कुरुविन्दबृन्दवर्णैर्नवनीलोत्पलहल्लकैस्सुफुल्लैः
pāṭalapaṭalaiśca karṇikāraissarasotphullasumullasaptarāgaiḥ | aravindaiḥ kuruvindabṛndavarṇairnavanīlotpalahallakaissuphullaiḥ
26
सितरक्तामलवर्णशीर्यवृत्तैरतिगन्धैर्मकरन्दबृन्दलीलैः
sitaraktāmalavarṇaśīryavṛttairatigandhairmakarandabṛndalīlaiḥ
27
मन्दारैरतिसुन्दरैर्मम शिवे लिङ्गालिमौलैस्सदा मल्लीफुल्लसुपुण्डरीककुमुदैस्सत्कर्णिकारैश्शिवे । सञ्छन्नानि तरां सदाधनफलैः प्रोद्यत्सुधासारकै- र्नैवेद्येषु शिवे सदा सुरचितं लिङ्गालयेषूद्यतम्
mandārairatisundarairmama śive liṅgālimaulaissadā mallīphullasupuṇḍarīkakumudaissatkarṇikāraiśśive | sañchannāni tarāṃ sadādhanaphalaiḥ prodyatsudhāsārakai- rnaivedyeṣu śive sadā suracitaṃ liṅgālayeṣūdyatam
28
करिकरपुष्करशीकरोत्थसारैरभिषिक्तानि स्वमौलिचन्द्रसारैः । कस्तूरिकामृगमदाङ्गजघर्षणेन गन्धायितानि नगमौलिषु पश्य देवि
karikarapuṣkaraśīkarotthasārairabhiṣiktāni svamaulicandrasāraiḥ | kastūrikāmṛgamadāṅgajagharṣaṇena gandhāyitāni nagamauliṣu paśya devi
29
उत्फुल्लचामरकुलैरभिवीज्यमानं नृत्तं शिखण्डिविहितं पिकहंसरागम् । सम्पूज्य पूजितमिदं मम लिङ्गसङ्घं पापापहारि सुगतिप्रदमुत्तमञ्च
utphullacāmarakulairabhivījyamānaṃ nṛttaṃ śikhaṇḍivihitaṃ pikahaṃsarāgam | sampūjya pūjitamidaṃ mama liṅgasaṅghaṃ pāpāpahāri sugatipradamuttamañca
30
स्कन्दः– इत्थं कैलासशैलेनवरतकथया स्वर्धुनीतुल्ययासौ देवीं पश्यन्नगौघन्दलितशिववरोद्दामलिङ्गानि पश्यन् । कालारिर्नियतीन्दुशेखरवरोत्तंसोद्यमाङ्गो महा- मौलिं स्वं धुनयन्नतीव करुणादृष्ट्या प्रपश्यन्नगम्
skandaḥ– itthaṃ kailāsaśailenavaratakathayā svardhunītulyayāsau devīṃ paśyannagaughandalitaśivavaroddāmaliṅgāni paśyan | kālārirniyatīnduśekharavarottaṃsodyamāṅgo mahā- mauliṃ svaṃ dhunayannatīva karuṇādṛṣṭyā prapaśyannagam
śrīśivarahasye prathamāṃśe kailāsaśailaliṃgamahimānāma ekonacatvāriṃśo'dhyāyaḥ 39
1
पृ0 150) कैलासशैललिंगमहिमानाम एकोनचत्वारिंशोऽध्यायः ईश्वरः– पश्य लिङ्गानि मे देवि मणिधामगतान्युमे । धाममौलिमहाकुम्भधाराव्याप्तानि शङ्करि
pṛ0 150) kailāsaśailaliṃgamahimānāma ekonacatvāriṃśo'dhyāyaḥ īśvaraḥ– paśya liṅgāni me devi maṇidhāmagatānyume | dhāmamaulimahākumbhadhārāvyāptāni śaṅkari
2
चन्द्रचन्दनलिप्तानि त्रिपुण्ट्रोज्वलितानि च । मणिसुन्दरमन्दारपुष्पमौलीनि शङ्करि
candracandanaliptāni tripuṇṭrojvalitāni ca | maṇisundaramandārapuṣpamaulīni śaṅkari
3
बिल्वोत्तमाङ्गसौन्दर्यसारगर्भाणि पार्वति । वरकाकोदरानद्धफणाभूषणकान्यपि
bilvottamāṅgasaundaryasāragarbhāṇi pārvati | varakākodarānaddhaphaṇābhūṣaṇakānyapi
4
नन्दनानन्दमालाभिश्चन्दनालङ्कृतान्यपि । दावदग्धागरुरसैर्धूपितानि सदाम्बिके
nandanānandamālābhiścandanālaṅkṛtānyapi | dāvadagdhāgarurasairdhūpitāni sadāmbike
5
दीपितानि मणिज्वालाजालकान्तीति पश्य मे । यथा मे देवदेवेशि मनो लिङ्गप्रपूजने
dīpitāni maṇijvālājālakāntīti paśya me | yathā me devadeveśi mano liṅgaprapūjane
6
न तथा जगतो जालनिर्माणे मे मनोऽम्बिके । तत्पालने तद्धनने नान्यधर्मेषु मे मनः
na tathā jagato jālanirmāṇe me mano'mbike | tatpālane taddhanane nānyadharmeṣu me manaḥ
7
नगोऽयं मम कैलासस्सर्वानन्दपयोनिधिः । एतस्य तपसा तुष्टः प्रायच्छं वरमुत्तमम्
nago'yaṃ mama kailāsassarvānandapayonidhiḥ | etasya tapasā tuṣṭaḥ prāyacchaṃ varamuttamam
8
तवमौलौ निवत्स्यामि नानालिङ्गसमाश्रयः । प्रलयेनैव नाशोऽस्ति मत्सान्निध्यबलात्तव
tavamaulau nivatsyāmi nānāliṅgasamāśrayaḥ | pralayenaiva nāśo'sti matsānnidhyabalāttava
9
इत्युक्तो गिरिराजोऽयं ममानन्दप्रदस्सदा । प्रलये सागारास्सर्वे कैलासस्य शतोत्तरे
ityukto girirājo'yaṃ mamānandapradassadā | pralaye sāgārāssarve kailāsasya śatottare
10
पादमूले स्थितिं देवि यास्यन्ति च नगा अपि । महर्लोकावधि महावीचीकल्लोलसङ्कुलैः
pādamūle sthitiṃ devi yāsyanti ca nagā api | maharlokāvadhi mahāvīcīkallolasaṅkulaiḥ
11
सप्तभिः पवनैर्वापि चालितास्ते तदाद्रिजे । हिमाचले मन्दरेऽपि केदारेश्वरसंज्ञकः
saptabhiḥ pavanairvāpi cālitāste tadādrije | himācale mandare'pi kedāreśvarasaṃjñakaḥ
12
निवत्स्यामि शुभापाङ्गि सदा लिङ्गाश्रयो हि सः । मेरावयि महादेवि शिखरं मम सुन्दरम्
nivatsyāmi śubhāpāṅgi sadā liṅgāśrayo hi saḥ | merāvayi mahādevi śikharaṃ mama sundaram
13
तदुत्तरेऽपिकैलासे नानालिङ्गैकभासुरम् । शिखरं तत्र देवैश्च पूजितो निवसाम्यहम्
taduttare'pikailāse nānāliṅgaikabhāsuram | śikharaṃ tatra devaiśca pūjito nivasāmyaham
14
एक एवाहमद्वैतो नीरूपोऽहमिहाद्रिजे । त्वया कैलासशिखरे तुष्टो वासमरोचयम्
eka evāhamadvaito nīrūpo'hamihādrije | tvayā kailāsaśikhare tuṣṭo vāsamarocayam
15
सर्वावासोऽप्यहं देवि कैलासे निवसाम्यहम् । अनन्तार्बुदलिङ्गानि मम कैलासपर्वते
sarvāvāso'pyahaṃ devi kailāse nivasāmyaham | anantārbudaliṅgāni mama kailāsaparvate
16
तत्प्रासादमणीरागशिखराद्योदितप्रभाः । तिरस्कृतार्कचन्द्रेन्द्रा न तच्छक्यं हि वर्णितुम्
tatprāsādamaṇīrāgaśikharādyoditaprabhāḥ | tiraskṛtārkacandrendrā na tacchakyaṃ hi varṇitum
17
तत्रापि कोटिलिङ्गानां गणना किल सुन्दरि । उत्तमेषु महादेवि तत्रापारेषु पार्वति
tatrāpi koṭiliṅgānāṃ gaṇanā kila sundari | uttameṣu mahādevi tatrāpāreṣu pārvati
18
तत्रापि लिङ्गसाहस्रं ममैव प्रीतिदायकम् । दर्शनात्संस्पर्शनाच्च पूजनान्मोक्षदायकम्
tatrāpi liṅgasāhasraṃ mamaiva prītidāyakam | darśanātsaṃsparśanācca pūjanānmokṣadāyakam
19
विना ज्ञानेन तपसा कर्मणा श्रद्धया शिवे । नयज्ञैर्न व्रताचारैर्योगैस्साङ्ख्यैर्महेश्वरि
vinā jñānena tapasā karmaṇā śraddhayā śive | nayajñairna vratācārairyogaissāṅkhyairmaheśvari
20
सागतिर्नैव लभ्येत यथा तल्लिङ्गपूजया । कैलासाचलमौलिस्थलिङ्गानां दर्शनं शिवे
sāgatirnaiva labhyeta yathā talliṅgapūjayā | kailāsācalamaulisthaliṅgānāṃ darśanaṃ śive
21
दुर्लभं सर्वदेवानां नृणां किमुत शङ्करि । कैलासेश्वरमुख्यानि लिङ्गान्यत्यद्भुतानि च
durlabhaṃ sarvadevānāṃ nṛṇāṃ kimuta śaṅkari | kailāseśvaramukhyāni liṅgānyatyadbhutāni ca
22
मणिगर्भगृहाधारसंस्थितान्यगजे सदा । प्रोद्यत्कुम्भपताकानि मया सम्पूजितान्यपि
maṇigarbhagṛhādhārasaṃsthitānyagaje sadā | prodyatkumbhapatākāni mayā sampūjitānyapi
23
पृ0 151) प्रातस्सङ्गवसायाह्नप्रदोषेषु महेश्वरि । तेषु लिङ्गावलिं भद्रे शृणु वक्ष्यामि सादरम्
pṛ0 151) prātassaṅgavasāyāhnapradoṣeṣu maheśvari | teṣu liṅgāvaliṃ bhadre śṛṇu vakṣyāmi sādaram
24
कीर्तनश्रवणेनापि पापभेदीनि शङ्करि । स्वर्गापवर्गदान्याशु नृभिस्प्तङ्कीर्तितान्यपि
kīrtanaśravaṇenāpi pāpabhedīni śaṅkari | svargāpavargadānyāśu nṛbhisptaṅkīrtitānyapi
25
पूर्वतो मम कैलासे नानालिङ्गकुलेष्वपि । तद्गिरेर्दक्षिणे चापि पश्चादपि शुभानने
pūrvato mama kailāse nānāliṅgakuleṣvapi | tadgirerdakṣiṇe cāpi paścādapi śubhānane
26
तदुत्तरेऽपि देवेशि नानाज्योतिर्मयानि च । न शक्यं वर्णितुं देवि देवैश्शेषेण भामिनि
taduttare'pi deveśi nānājyotirmayāni ca | na śakyaṃ varṇituṃ devi devaiśśeṣeṇa bhāmini
27
कल्पायुतैरपि शिवे तल्लिङ्गमहिमा नु किम् । न शक्यं विस्तराद्वक्तुं तन्नामानि शृणु प्रिये
kalpāyutairapi śive talliṅgamahimā nu kim | na śakyaṃ vistarādvaktuṃ tannāmāni śṛṇu priye
28
पञ्चाशदुत्तरन्देवि शतद्वयमितं दिशि । प्रथितानि महादेवि ह्यपारेष्वपि सादरम्
pañcāśaduttarandevi śatadvayamitaṃ diśi | prathitāni mahādevi hyapāreṣvapi sādaram
29
कैलासापारशिखरगर्भधामोरुमौलिगम् । कुम्भमण्डलमानाकं लिहन्निव च संस्थितम्
kailāsāpāraśikharagarbhadhāmorumauligam | kumbhamaṇḍalamānākaṃ lihanniva ca saṃsthitam
30
शुद्धाच्छफलकारत्नकल्पितं योजनोन्नतम् । शरच्चन्द्राच्छधवलप्रभामण्डलमण्डितम्
śuddhācchaphalakāratnakalpitaṃ yojanonnatam | śaraccandrācchadhavalaprabhāmaṇḍalamaṇḍitam
31
रत्नगर्भगृहान्तस्थं सुरम्यमणिवेदिकम् । मणिप्रभाततं दिव्यं नीलपीतारुणप्रभम्
ratnagarbhagṛhāntasthaṃ suramyamaṇivedikam | maṇiprabhātataṃ divyaṃ nīlapītāruṇaprabham
32
प्रवालपुष्परागादिगोमेदकविडूरकैः । पीठोज्वलप्रभाकान्तं शुद्धस्फटिकमप्युमे
pravālapuṣparāgādigomedakaviḍūrakaiḥ | pīṭhojvalaprabhākāntaṃ śuddhasphaṭikamapyume
33
चर्चितं चन्दनाद्यैस्तु ह्यर्चितं बिल्वपल्लवैः । मन्दारकुन्दमालाभिरिन्दुखण्डैकभूषणम्
carcitaṃ candanādyaistu hyarcitaṃ bilvapallavaiḥ | mandārakundamālābhirindukhaṇḍaikabhūṣaṇam
34
भुजङ्गमणिसञ्छन्नं मणिदीपप्रभोज्वलम् । दिव्यागरुमहाधूपैर्धूपितं गन्धमोदितम्
bhujaṅgamaṇisañchannaṃ maṇidīpaprabhojvalam | divyāgarumahādhūpairdhūpitaṃ gandhamoditam
35
हीरसारत्रिपुण्ट्राङ्गं कस्तूरीतिलकाञ्चितम् । महाकैलासशृङ्गाग्रसौधशेखरशोभितम्
hīrasāratripuṇṭrāṅgaṃ kastūrītilakāñcitam | mahākailāsaśṛṅgāgrasaudhaśekharaśobhitam
36
मणिकुम्भोद्यतापारलसत्कान्तिचिताम्बरम् । पश्य लिङ्गकुलं भद्रे भद्रदं दर्शनेन च
maṇikumbhodyatāpāralasatkānticitāmbaram | paśya liṅgakulaṃ bhadre bhadradaṃ darśanena ca
37
तत्सौधकुम्भधाराग्रदर्शनेनापि मुक्तयः । प्राप्नुवन्ति सुरा देवि नराश्श्रवणसादराः
tatsaudhakumbhadhārāgradarśanenāpi muktayaḥ | prāpnuvanti surā devi narāśśravaṇasādarāḥ
38
प्रणामं कुरु देवेशि शृणुष्वावहिता भव । लिङ्गानां नामधेयानि वेदान्तोत्थानि शैलजे
praṇāmaṃ kuru deveśi śṛṇuṣvāvahitā bhava | liṅgānāṃ nāmadheyāni vedāntotthāni śailaje
39
भाति लिङ्गकुलं भद्रे मुक्त्यङ्कुरमिवोद्यतम् । पुण्यप्रदं श्रवणतोदर्शनान्मुक्त एव सः
bhāti liṅgakulaṃ bhadre muktyaṅkuramivodyatam | puṇyapradaṃ śravaṇatodarśanānmukta eva saḥ
40
भूलोके चैव पाताले स्वर्गे वै सत्यलोकके । नैतादृशानि लिङ्गानि किं पुनर्भारते भुवि
bhūloke caiva pātāle svarge vai satyalokake | naitādṛśāni liṅgāni kiṃ punarbhārate bhuvi
41
भूलोकलिङ्गादुत्कृष्टं लिङ्गं पाताललोकगम् । पातालात्स्वर्गलोकस्थं ततो विष्णु विधीन्द्रगम्
bhūlokaliṅgādutkṛṣṭaṃ liṅgaṃ pātālalokagam | pātālātsvargalokasthaṃ tato viṣṇu vidhīndragam
42
आद्यं मङ्गलदं देवि कैलासेश्वरसंज्ञितम् । यन्नवेदैरपिज्ञातं वेदान्तैरखिलैरपि
ādyaṃ maṅgaladaṃ devi kailāseśvarasaṃjñitam | yannavedairapijñātaṃ vedāntairakhilairapi
43
अस्मिन्नेव लयं यान्ति ब्रह्मविष्णुमहेश्वराः । लयनात्सर्वजगतां लिङ्गमित्युच्यते बुधैः
asminneva layaṃ yānti brahmaviṣṇumaheśvarāḥ | layanātsarvajagatāṃ liṅgamityucyate budhaiḥ
44
ममैव निर्गुणं साक्षाद्रूपमेतन्महेश्वरि । अस्यैव भासा सर्वेऽपि भान्ति लोकाश्चतुर्दश
mamaiva nirguṇaṃ sākṣādrūpametanmaheśvari | asyaiva bhāsā sarve'pi bhānti lokāścaturdaśa
45
अस्यैव चेतनात्सर्वजगच्चेतयति प्रिये । अस्यैवानन्दलेशेन सर्वानन्दमयं प्रिये
asyaiva cetanātsarvajagaccetayati priye | asyaivānandaleśena sarvānandamayaṃ priye
46
लिङ्गमेतद्भूमधामसोमधामप्रभाधिकम् । एतद्ब्रह्मैव देवेशि ममैव परमं प्रियम्
liṅgametadbhūmadhāmasomadhāmaprabhādhikam | etadbrahmaiva deveśi mamaiva paramaṃ priyam
47
पृ0 152) यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । स्वच्छस्फटिकसंशुद्धमाकाशात्मकमुत्तमम्
pṛ0 152) yato vāco nivartante aprāpya manasā saha | svacchasphaṭikasaṃśuddhamākāśātmakamuttamam
48
यतो भूतानि जातानि यत्र संस्थानि सर्वदा । यत्रैवान्ते लयं यान्ति तल्लिंगमिदमद्रिजे
yato bhūtāni jātāni yatra saṃsthāni sarvadā | yatraivānte layaṃ yānti talliṃgamidamadrije
49
यतो ब्रह्मेशविष्ण्विन्द्रास्सम्प्रजाता नगात्मजे । यत्सत्यं ज्ञानमानन्दं ब्रह्मैवेदं सनातनम्
yato brahmeśaviṣṇvindrāssamprajātā nagātmaje | yatsatyaṃ jñānamānandaṃ brahmaivedaṃ sanātanam
50
सूक्ष्मात्सूक्ष्मतरं साक्षान्नैव स्थूलं न चाणुकम् । सर्वेन्द्रियविनिर्मुक्तं सर्वधर्मविवर्जितम्
sūkṣmātsūkṣmataraṃ sākṣānnaiva sthūlaṃ na cāṇukam | sarvendriyavinirmuktaṃ sarvadharmavivarjitam
51
अगन्धमरसस्पर्शं तन्न गन्धरसाश्रयम् । तदिदञ्चक्षुषाञ्चक्षुस्सर्वप्राणमयं सदा
agandhamarasasparśaṃ tanna gandharasāśrayam | tadidañcakṣuṣāñcakṣussarvaprāṇamayaṃ sadā
52
सर्वेन्द्रियगुणातीतं भूतेषु च ततं सदा । सदा ह्यशीर्णं शीर्णेषु नेह नानास्ति किञ्चन
sarvendriyaguṇātītaṃ bhūteṣu ca tataṃ sadā | sadā hyaśīrṇaṃ śīrṇeṣu neha nānāsti kiñcana
53
यस्मिन्त्सम्पूजिते ज्ञाते ध्याते स्वात्मनिशैलजे । लिंगी लिंगातिगोभाति तदिदं लिंगमुत्तमम्
yasmintsampūjite jñāte dhyāte svātmaniśailaje | liṃgī liṃgātigobhāti tadidaṃ liṃgamuttamam
54
नामरूपातिगं भाति कैलासेश्वरसंज्ञितम् । तन्नामानि शृणुष्वार्ये सादरं कमलानने
nāmarūpātigaṃ bhāti kailāseśvarasaṃjñitam | tannāmāni śṛṇuṣvārye sādaraṃ kamalānane
55
बिल्वोरुसुन्दरवनच्छदिताच्छशाखासञ्छन्नभूतलमुमे मम शैलपालिः । सम्फुल्लपुष्पजपचेलिमगन्धबन्धसन्दोहगन्धवहजातफलो ममेष्टः
bilvorusundaravanacchaditācchaśākhāsañchannabhūtalamume mama śailapāliḥ | samphullapuṣpajapacelimagandhabandhasandohagandhavahajātaphalo mameṣṭaḥ
56
उत्फुल्लपङ्कजपरागजधूलिपालिरुद्दामकेलिरभियासितशीतवातः । पुष्णाति गात्रवरमम्बिकया समेतं कैलासशैलसरसीरुहपालिलग्नः
utphullapaṅkajaparāgajadhūlipāliruddāmakelirabhiyāsitaśītavātaḥ | puṣṇāti gātravaramambikayā sametaṃ kailāsaśailasarasīruhapālilagnaḥ
57
रत्नसालकुलमूलगसौधपूगजालपरिसर्पिसुधाब्धौ । अण्डजाविव शिवौ रमणीयौ क्रीडतुर्दिवसनाथजतापैः
ratnasālakulamūlagasaudhapūgajālaparisarpisudhābdhau | aṇḍajāviva śivau ramaṇīyau krīḍaturdivasanāthajatāpaiḥ
58
त्वमेकाकिनी सौधजालेऽस्मदीये विशिष्टासि कान्त्या तवाद्याननेन्दुः । न चैवोपमीते मनाक्छैलकन्ये स दोषाकरो नैव ते सोमधाम
tvamekākinī saudhajāle'smadīye viśiṣṭāsi kāntyā tavādyānanenduḥ | na caivopamīte manākchailakanye sa doṣākaro naiva te somadhāma
59
कैलासाचलमौलिपालिविलसल्लिंगानि तुंगानि मे व्यालीमौलिजपालिकालिविलसत्पुच्छोत्थधूलीभरैः । केलीभिर्नगकुञ्जरोत्थमदजैर्धारालिपालीभरै- श्श्राम्यद्गन्धफलीकदम्बजरजः पुञ्जालिकीलानि च
kailāsācalamaulipālivilasalliṃgāni tuṃgāni me vyālīmaulijapālikālivilasatpucchotthadhūlībharaiḥ | kelībhirnagakuñjarotthamadajairdhārālipālībharai- śśrāmyadgandhaphalīkadambajarajaḥ puñjālikīlāni ca